Books / Prashna Upanishad With Prakasa Bhashya Datia Swami UNKNOWN Pitambara Pitha

1. Prashna Upanishad With Prakasa Bhashya Datia Swami UNKNOWN Pitambara Pitha

Page 1

प्रश्नोपनिषत्

सुखयाड़ी-श्री पीताम्बरापीठस्थस्वामिमिः कृतेन

प्रकाशभाष्येण सहित

Rs 0 5

प्रकाशक :-

श्री पीताम्बरापीठ-संस्कृत-परिषद्

(दतिया म० प्र०)

Page 2

प्रश्नोपनिषत्

वनखण्डी-श्री पीताम्बरापीठस्थस्वामिभिः कृतेन

प्रकाशभाष्येण सहित

प्रकाशक :-

श्री द्वारिकागीरि-संस्कृत-परिषद

(दतिया म० प्र०)

Page 3

प्रकाशक

पीतम्बरापीठ-संस्कृत-परिषद्

दतिया (म० प्र०)

अधिकार

सर्वाधिकार प्रकाशकाधीन

संस्करण

प्रथम

सन् १६६९ संवत् २०२५ चैत्र शुक्ल प्रतिपदा

मूल्य

१.००

मुद्रक

शिवशक्ति प्रेस, प्राइवेट लि०

सदर बाजार, माँसी

Page 4

शुद्धिपत्रम्

पृष्ठ

पंक्ति

R

२०

कवन्थी

भुवनऽडलो

दारिद्र्यमनुभवन्

कुत्रैन्ति

ददिशायनम्

मृगाशिरो

पुष्या

प्रतिष्ठितम्

वै

ऊध्वँ

एषा

स्वधा

हिमात्रस्तु

शक्यपोत्

भूमिका

Page 5

शुद्धिपत्रम्

पृष्ठ

पंक्ति

अशुद्ध

शुद्ध

R ८ ४

१-४

कवनन्धी

कवनन्धी

ऋषि

ऋषि

सुवर्णडलो

सुवर्णडलो

भयुक्रम

भयुक्रम

१९

दारिद्रचमनुभवन

दारिद्रयमनुभवन

१२

बुद्रचया

बुद्धया

१३

कुत्रन्ति

कुत्रैन्ति

१५

पितृयानःः

पितृयानःः

१६

दक्षिणायैणम

दक्षिणायानम्

F ११ ५

२२

मृगाशिरो

मृगाशिरो

F १०

२३

पुरेया

पुष्या

१०

प्रतिष्ठतम्

प्रतिष्ठितम्

वै

वै

१३

ऊष्व

ऊर्ध्व

१३

२४

एषःः

एषा

१४

२२

बधा

स्वधा

२६

२०

ह्यामात्रस्तु

ह्यामात्रस्तु

मूमिका

राक्षपादू

राक्षपादू

Page 6

प्रकाशकोषम्

जगज्ज्जनन्या: श्रीपीताम्बरामातु: परमानुग्रहेणानन्तश्रीविभू-

पितै: स्वामिपादै विरचितं प्रश्नोपनिषद: प्रकाशभाष्यं प्रकाशयितु

मुद्यतेषा परिपत् परमप्रेमोदमनुभवति विद्यते पूर्वप्रकाशितानां

'ईश-कठ-कैन-मुण्डक-माण्डूकय पंचोपनिषदामग्रे इयं षट् प्रश्नात्मिका

प्रश्नोपनिषदागमशास्त्र जिज्ञासूनां मुमुक्षूणां कृते षष्ठं सोपानम् ।

पंचोपनिषदां भाष्यप्रकाशनानन्तरं बहुभि: विदुपामभिमत

मासीद् यत्प्रसिद्धानां दशवैदिकोपनिषदामागमीयं भाष्यमाचार्य

पादा: सुसम्पादयेयुरिति । तत्त्वीकृत्य सत्सु जपचिन्तनस्वाध्याय

ग्रन्थलेखना-दिकार्यबाहुल्येऽपि शाक्तसिद्धान्तानां सम्यक् प्रकाशाय

विरचितमेतत् प्रकाशभाष्यम् ।

ग्राशासे यदिदं प्रकाशनं मार्गप्रदर्शन पूर्वकंसाधकानुपकुर्वत्

शाक्ते जगति नूतनां जागृतीं प्रदास्यतीति ।

ग्रसस्य प्रकाशनस्य सम्पूर्ण व्यय-भारोद्धरणं श्री बैजनाथ ग्रायुवेंद

भवनसंचालकै: वैद्य श्री रमनारायणशर्मभि: सहर्षं स्वींकृतमतस्तेषां

कृते भगवत्या:- पीताम्बराया: सानुकूलतवं कामये ।

व्रजनन्दन शास्त्री

मन्त्री

पीताम्बरापीठ संस्कृत परिषद्

द्वारा तथा

Page 7

मूथिका

उपनिषदो हि भारतीयतत्त्वविचारकारणां तपः पूत निर्मल हृदयानां स्वानुभवैकघनानामतितेजस्विनामृषीणां वेदसार सर्वस्वाः चिन्तनस्य परांकोटिमधिरुढाः अध्यात्मपथयुजां सततप्रज्वलितज्ञानदीपशिखा इव मार्गदर्शकाः ग्रन्थाः सन्ति । मानसरोरवरूपेक्ष्मन् ग्रन्थसमुदयेऽद्वैतगगहनपरैरनेकाचार्यैस्ततः समुद्भूतः ज्ञानरत्नैः जगति प्रकाशयामासितम् । तथा च स्वानुभव वैचित्र्येण विविध प्रकाराणि रहस्यानि समदधातितानि ।

ये उपनिषत्मु ज्ञानस्यैव प्राधान्यात् कर्मेऽपगंतः श्रौदासीनस्य दोषारोपणं कुर्वन्ति तेषां कथनं तु न रमणीयं यतः ईशोपनिषदि “कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः” इति स्पष्ट कथनात् उपनिषत्मु कर्ममार्गस्य परिष्करण मेवा भिप्रेतमृषिभिः न तु पूर्णतः कर्मत्यागोऽभिमतः । पूज्यवर्यैः राष्ट्रगुरुभिः स्वामिपादैः ईश ‘केन’ कठ, मुण्डक माण्डूक्योपनिषत्मु विरोचतमागमं परकं प्रकाश भाष्यं पूर्वमेव प्रकाशितं जातमिति न तिरोहितं विदुपाम् । सम्प्रतीदं प्रश्नोपनिषद्: प्रकाशभाष्यं पूर्व प्रकाशितेभाष्येषु सोपानरूपं यद्यपि ‘सर्वे सर्वार्थवाचकाः’ इति मतमवलम्ब्योपनिषदां बहुभिः ग्रन्थैः सम्भवन्ति तथापि स्वाभाविक रीत्या यदथा पारस्करण जायते तदव विद्विभिः स्वीक्रियते । प्रस्तुत ग्रन्थे यदागमपरकं भाष्यं कृतं तस्य स्वाभावि कं वैशिष्ट्यञ्च रुचि-न्येषामाचार्याणां भाष्यैः सह पठनेन प्रकटीभवति । यथा प्रथमप्रश्ने श्रौतत्मस्य ब्राह्मणवाक्यस्य भाष्यावसरे पट्टचक्रनिरूपणेन तथा च ग्रन्येऽपि बहुभु स्थलेष्वागम परकेरणार्थेन ज्ञायते । प्रथम प्रश्नस्य आरम्भ एव भाष्योदयेऽस्य कथनं जातम् । “यथेयं प्रश्नोपनिषत् परापरयोगविद्ययोर्मूलभूतान् सिद्धान्तान् प्रकटयितुं सारल्येन झडुभिः प्रश्नैः ब्रह्मविषयं व्याख्यातुमारब्धा इति । प्रकृतोपनिषदः भावार्थ शक्तिद्वैते परिणामवाद एवाभिप्रेतम् । यतः परितो दृश्यमानस्य जगतः कारणं जिज्ञासवः ऋषयः ब्रह्मनिष्ठं पिप्पलादमुपेयिवन्तः “कार्य दृष्ट्वाकारणस्य प्रश्नः ब्रत कार्यकारणयोस्तादात्म्यं मन्तव्यं सत्कार्यवाद सिद्धान्तात्”

Page 8

शांकराद्वैत मतेऽतु जगन्मिथ्यात्वं स्वीकरुत परं शाक्तसिद्धान्ते भेदमात्रस्यैव मिथ्यात्वं न जगत् । यथा हि द्वितीयप्रश्नस्य भाष्ये "प्राणस्थानुगमात्" इति स्तवनं प्रवृत्तमिन् प्राणतत्त्वापरपर्यायं परमात्मानं लक्ष्यीकृत्य स एवं स्तूयते । जगति दृश्यमानं सर्वं वास्तविक रीत्या ब्रह्मस्वरूपमेव, केवलं मेदमात्रमेव मायाशक्तिप्रोद्भूतं तच्च मिथ्या भूतमिति वेदान्त प्रसिद्धस्य ब्रह्मावाचकस्य "ग्रहिमिति" पदस्या रमशास्त्रेऽपि ब्रह्मण्येव वान्तभावः । तथाहि प्रकृत ग्रंथकारः शिव रूपः हकारोऽनुत्य कलारूपो विमर्शाख्यः प्रकृतितः "हकारः सर्व वर्णाग्रय इकारोऽनुत्य शिवादि क्षित्यन्तानां पञ्च त्रिशत् तत्त्वानां वाच्य वाचक सम्बन्धमभिलक्ष्य वर्णानां विशादीकरणं "एवं सर्वेषां वर्णानां लयक्रमेण "ग्रहम्" इति ग्रहकार ब्रह्मतत्त्वेन श्रद्धातेऽपि शब्द ब्रह्मणा च ग्रहणेदोपदेशो भवति "ग्रहं ब्रह्मास्मि" इति महा वाक्येन चैक्यं गच्छति इति निर्णयः

(षष्ठ प्रश्नस्य भाष्यतः) इत्यं मुस्पष्टमेव यदिदं शास्त्रस्य रहस्यमुपनिषदां च प्रकटोकरोति । वेदागमयोस्तु न पार्थक्यं "ग्रहमशास्त्रे शिवशक्ति विष्णवादि ज्ञायते" । वस्तुतः तत्त्वस्य विवरणं कृतमस्ति भगवत् शिव शिरः पल्लवादिमत्नः साधं सर्वत्र प्रणवस्यैव व्याख्यानं तत्त्रेषु श्रकृत इत्यनेन वेदागमयोरभेद एव सिद्धचति । (पञ्चम प्रश्नस्य भाष्ये)

संक्षेपतः ग्रासिमन् भाष्ये शाक्तादि त सिद्धान्त निरुपणं, ग्रागम शास्तानुसारि मृष्टि निरुपणं, श्रागम्नायिकदर्शनं, षट्चक्र निरुपणं, ईश्वरपदस्य पञ्चवश तत्त्वानां सुबोधगिरा स्पष्टं दर्शनं वर्णनं, वोडकलारुपाया ब्रह्मविद्यायाश्च वर्णनं मुचकर्म ।

प्रथम प्रश्नस्य भाष्ये शास्त्रप्रसिद्धयोः उत्तरारयण दक्षिणायनयोः ग्रति सूक्ष्म विस्तृतं वर्णनमपि उपलभ्यते । इत्यं ग्रन्थार्थ प्रकाशकं प्रकाश भाष्यमिदं शाक्त मतावलम्ब साधकानामा-गमपरस्यार्थस्य जिज्ञासूनां च विहितमुपकृतिं विधास्यति इत्यांशास्ये ।

(तिथौ वैशाख शुक्ले) पञ्चम्यां संवत् २०२४ दिनांक १४-५-६७ } पं. लल्लिताप्रसाद शास्त्री श्री पीतांबरा पीठ दतिया म० प्र० ।

Page 9

॥ प्रश्नोपनिषत्काशभाष्यम् ॥

ॐ भद्रं कर्‌योभिः शृणुयाम देवाः । भद्रं पश्येमाक्षिभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्‌व्यशेमहि देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्ताक्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्‌धातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

प्रश्नोपनिषदो भाष्यमद्वैतार्थप्रकाशकम् । सम्मतं पिप्पलादस्य विदुपां च सुखावहम् ॥ १॥ यत्कृपापात्रेए परब्रह्म संश्रुते । स्वात्मज्ञानप्रबोधाय जायन्ति गुरवः सदा ॥२॥

अथर्ववैकानां ब्राह्मणोपनिषद्रूपेण प्रसिद्धा इयं प्रश्नोपनिषत् परापरयोर्विद्ययोर्मूलभूतान् सिद्धान्तान् प्रकटयति । सारल्येन पद्भिः प्रश्नैः ब्रह्मविषयं व्याख्यातुमारुढा । सर्वस्य कार्यजातस्य कारणमूलं ब्रह्मतत्वं तस्मादेवादिमिथुनं शिवशक्त्यपरपर्यायं प्राणरचिपदवाच्यं सूर्याचन्द्रमद्वाच्यं वाच्यविमंवति, “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्” इति मन्त्रवर्योऽचि सिद्ध्यति । ‘ब्रह्म’ पदवाच्ये ब्रह्मणि एव अपराविद्या प्रतिपाद्यविषयस्य परम्परया तात्पर्यम् श्रत एव पूर्वं त्रिमिः प्रश्नोत्तरैः प्रतिपादनं कृतम् । श्रनते ब्रह्मविद्यायाः सिद्धान्तः ‘श्रम’ रूपं ब्रह्म प्रदर्शितम् । ‘तान् होवाचैतद्‌

Page 10

देवाहमेतत्परं ब्रह्म वेद नातः परमस्ति’ इति ( प्र० ६-७ ) अथामाकारेण भगवान् सनत्कुमारोऽब्रवीत्, ‘अथादङ्कारादेश एवाहमेवाधस्तादहं परिष्टादहं पश्चादहं पुरस्तादिति’ ( छा० ७-२४-१ ) ‘अहम्’-पदेन आत्मन एव प्रहङ्ङमिति सर्वं तत्रैव निरूपितम् । ‘अहं रुद्रेभ्यः सुमिश्रश्चराऽस्यहमादिस्यैर्हत विश्वदेवैःऽऋतिभि मन्त्रवर्यैरपि समस्तैःऽऋतैः । जगतांऽपि परमार्थतः ब्रह्मरूपताजीवतत्त्वस्यापि बोधकत्वम् । वास्तविकरूपेण जीवोऽपि ब्रह्मसत्तातिरिक्त-सत्ताविरहितः, ऋत एवं विज्ञानात्मपदेनात्र निर्दिष्टः ‘परमेवाव्रजं संप्रतिष्ठते’ (प्र० ४-१०) ‘स सर्वज्ञः सर्वो भवति’ (प्र० ४-१०) नदीदृष्टान्तेन स्पष्ट-करणाच् । एतद् ऋऋग्य उपनिषदः श्रद्धैव एवं तात्पर्यमवसीयते । विशेषतः ग्रन्थनिरूपणावसरे स्फुटमविश्रुतमिति । सिद्धान्ततस्तु उक्तं च पराप्रक्नाशिकायां, “अहमप्रलयं कुर्वन्निदमः प्रतियोगिनः” इत्यननेन जगतोऽपि ब्रह्मस्वरूपतां प्रत्यपादयत् । ‘अहमेकोऽस्तमितप्रकाशरूपोऽस्मि तेजसा तमसा च । अथाहमिति एक उत्कृष्टान्तस्थितितिरीटश्री तस्मै’ इत्यादि प्रमाण्यते ऽथ श्लोकयुक्तार्नस्यैक्यमधिगच्छति । एवं थर्वंशाखाप्रवर्तकमुपसन्नाः । ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’ इति नियमानुसारं विद्यामहत्त्वज्ञापनार्थम् आत्म्याधिक्या उपक्रम्यते ।

ॐ सुकेशा च भारद्वाजः, शैव्यश्व सत्यकामः, सौर्यायणी च गार्ग्यः, कौशल्यश्वाश्वलायनः, भार्गवो वैदर्भिः, कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मावेवेऽमाशाः वद्यत इति ते ह समीक्ष्यायो भगवान्तं पिप्पलादमुपसन्नाः ॥१॥

भा०-भारद्वाजगोत्रोत्पन्नः सुकेशानामकः प्रथमः, शैवेरपत्यं शैव्यः सत्य-कामः द्वितीयः, सौर्यायणि गार्ग्यगोत्रोत्पन्नः तृतीयः, कौशल्यः ऋऋश्वल-गोत्रोत्पन्नः चतुर्थः, पांचमः भार्गवः वैदर्भिः चिदर्भपत्यं विदर्भदेशोद्भवो वा, पष्टः काल्यायनः कवन्धी । एते पद् ऋऋषयः ब्रह्मपराः सकलब्रह्मोपासका ब्रह्मनिष्ठाः सन्तः परं ब्रह्म ज्ञानवेषयापराः परं ब्रह्म निष्कलं ब्रह्म जिज्ञासवः भगवन्तं पिप्पलादमुपसन्नाः समित्पाणयो धृतकाष्ठभारा सन्त उपहारपाणयो वा, ‘ऋऋषिपत्नीन् सेवते राजानं देवतां गुरुमति’ श्रिष्टाचारात् । उपगतास्ते एवमाचार्य दृष्ट्वा निश्चयं कृतवन्तः यदेवायमस्माकं समीहितविषयं वक्तुं समर्थ इति ॥१॥

Page 11

तान् ह स ऋषिरुवाच-भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान् पृच्छथ यदि विज्ञास्यामः सर्वं ह वो वद्याम इति ॥२॥

मा०-स ऋषिभिरंवान् पिप्पलादस्तान् समागतांस्तं ऋषीन् उवाच उक्तवान्-भूय एव तपसा ब्रह्मचर्येण श्रद्धया च संवत्सरं संवत्स्यथ । यथापि यूयं ब्रह्मचार्यादितपोभिः सम्पन्नास्तथापि श्रद्धया श्रास्तिक्यबुद्धया एक-वर्षपर्यन्तमत्र निवासं कृत्वा समीपवासेनैव श्राधिकारीणां सम्यक् परिचयो भवति । यथाकामं स्वेच्छानुसारं प्रश्नान् पृच्छथ । यदि विज्ञास्यामः सर्वं ह वो वद्यामः । श्राधिकारित्वेन युक्तान् भवतो ज्ञान्यास्मस्तदा सर्वं रहस्यं वो युष्मभ्यं वद्यामः प्रकट्याम इति ॥२॥

आचार्याज्ञानुसारेगा संवत्सरपर्यन्तं निवासं कृत्वा षड्भिः प्रश्नकृद्भिः यां यथाक्रमं विहाय प्रतिपादनसौकर्यार्थं प्रथमेऽन्तिमनिर्दिष्टः कबन्धी कात्यायनः स्रात्य ऋषिं पृष्टवान् स्रथेति—

अथ कबन्धी कात्यायन उपेत्य पप्रच्छ । भगवान् कुतो ह वा इमा: प्रजा: प्रजायन्ते इति ॥३॥

मा०—ग्राचार्यसमीपमुपेत्य समागम्य कबन्धी कात्यायनः पप्रच्छ पृष्टवान् । हे भगवान् कुतः कारणविशेषात् इमा: हश्यमाना सर्वाः प्रजा: चराचरात्मिका: प्रजायन्ते उत्पद्यन्ते । कायं हेतु कारणस्य प्रश्नः । स्रत: कार्यकरणयोस्वादात्म्ये मन्तव्यं सत्कार्यवादसिद्धान्तात् ॥३॥

कबन्धीकात्यायनस्य जिज्ञासां परिज्ञाय भगवान् पिप्पलादस्तस्य समाधानमाह तस्मै इति—

तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्वा स मिथुनमुत्पादयते रयिं च प्राणां चैत्येतौ मे बहुधा प्रजा: करिष्यत इति ॥४॥

मा०—तस्मै प्रश्नवतेsधिकारीये स भगवान् पिप्पलादो होवाच उक्तवान् । प्रजापतिजंगदीश्वर: सर्वासां चराचरात्मकानां प्रजानां कारणभूतस्तस्यां कारणावस्थायां विद्यमानानां सर्वेषां पदार्थानाम् श्रावि-मानकर्मेशा, तपस्तप्वा स मिथुनमुत्पादयते । 'यस्य ज्ञानमयं तप:' इति वचनानुसारेण पूर्वं तपोऽतप्यत निश्चितं कृतवान् । तत्फलमाह मिथुनमिति । रयिश्च प्राणश्चेति तयोर्मैथुन्येन बहुधा प्रजा: करिष्यत इति

Page 12

शिवशक्तिरूपम् । "एकोऽहं बहुस्यां प्रजायेय" इति वचनान्तरम् । 'शिवशक्तिरिति ह्यो कं तत्स्वमाहुमन्त्रपिया:' 'स देव सोम्येदमग्र आसीत्', 'एकमेवाद्वितीयम्' । श्रागमशास्त्रेऽपि-शिवशक्तिमिथुनपिण्डः कवलीकृतभुवनऐडलो जयति' (का० वि० ४) इत्यादि सर्वं रहस्यं श्रुता मिथुनपदेन प्रकटीकृतम् । तदेव तत्त्वं रयिश्च प्राणां च । रयि सोमं भोग्यं शक्तितत्त्वं, प्राणापदेन मोक्त्तत्त्वं शिवात्मकमुपहितत्वात् । एताभ्यां बहुधा प्रजाभ्यां घटत्रिशक्त्वरुपा: (तत्त्वानां विस्तारनिरुप्यं कथमाष्ये तथा सांख्यक्ष्यमाष्ये कृतमस्ति ।) प्रजा: सृज्यन्त इति भावनया जगत्सिसृक्षोः स भगवान् परमेश्वरः सकामयत् । 'सोऽकामयत' इति श्रुते: । बहुधा प्रजा: करिष्यद इत्यनेन मार्गवती कामना गम्यते ॥ ४ ॥

उक्तमेव स्पष्टयति आदित्य इति— ग्रादित्यो ह वै प्राणो रयिरेव चन्द्रमाः । रयिर्‌वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥५॥

मा०—सदिदानन्दरूपेण यत्तत्त्वं वेदान्तशास्त्रे प्रसिद्धं तदेव स्थूलसूक्ष्मभेदेन परिगतं । तस्यैव परिणामभूतं प्राणात्मकं रयितरङ्ग च । चिदंशतः समुद्भूतं, सत्तारूपं च ब्रह्मारभ्य पृथिवीपर्यन्तं प्रसृतमेतत्सर्वं प्राणापदेन रथिपदेन चात्र समुपदिष्टं, सत्तातत्त्वं प्राणारहिततत्त्वयोः अनन्तर्गतं कृत्वा भेदद्वैविध्यमेवात्राभिप्रेतम् । परमात्मनः आत्मभूता परा शक्ति: सर्वं स्थूलं सूक्ष्मकार्यजातमाविर्भावयति, अन्र्ते च विलापयतीति निश्चितं मवति । 'परास्य शक्ति: विविधैव श्रूयते' इति श्रुते: । श्रागमशास्त्रेऽपि चितिः स्वतन्त्रा विश्वसिद्धिहेतुः । उक्तभेदद्वैविध्य प्रकाशकत्वमाश्रित्याखण्ड स्वीकृतम् । प्रकाशश्चिन्ताम्पदार्थ:, विमर्शो रयिपदार्थ इति निर्णयः । प्रकाशपदार्थ: प्राण इत्यादित्याख्यया श्रुता व्यबहृतः शिवपदार्थस्य परिणामभूतः । रदिश्चन्द्रो विमर्शपदार्थस्य कायं स्थूलसूक्ष्मभेदभिन्नमित्याह रयिरेवति—रयिपदार्थ एव स्थूलसूक्ष्मरूपेण परिणतः । श्रत एव मूर्त्तिममूर्त स्थूलसूक्ष्मुभयं रदिस्वरूपमेव निश्चितम् । तस्मादेतोः मूर्त्तिः रयिः शक्तितच्‍वस्य परिणाभूता ॥५॥

प्रथादित्य उदयं यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्‌ प्राणान्‌ रश्मिभिः सन्निधत्ते । यददिशां यत्प्रतीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान्‌ प्राणान्‌ रश्मिभिः सन्निधत्ते ॥६॥

Page 13

स एव वैश्वानरो विश्वरूपः प्राणोदयिनिरूदयते । तदेतहचाम्नायुक्रम ॥७॥

भा०—व्यदितेः पराशकिस्तस्याऽऽत्मपत्यमादित्यः स्थूलसूक्ष्मभेदेन द्विविधः प्रकाशात्मा सगुणनिर्गुणाकार्यः सङ्कोचात्मा सगुणो, गौरादिनिर्मुक्तो निर्गुण इति प्रसिद्धः। ‘या प्राणेन सम्मवति व्यदितिद्देवतामथी’ इति श्रुते: एवमेव रयितरथवमिनततथ्यं द्विविधं भवति । पराशक्ते: इमान्येव नेत्रभूतानि । व्यादित्यः यत् यदा स्थूलरूपेण प्राचीं पूर्वां दिशं प्रविशति तेन प्रवेशेन प्राच्यान् प्राणान् स्वप्राच्यरशिमपु सन्निधत्ते धारयति । तेन प्रातःकालिकस्वसवक्तत्वबोधकेन जागरंण प्राणिषु जायते । व्यागमेषु पूर्वास्नायप्रोक्कस्नात्राणां चावबोधो जायते । एवमेव दिग्न्यां प्रतीचीसूत्रामूर्ध्वं यदधः ऋन्तरा दिशः सर्वम् प्रकाशयति । लौकिकलौकिकविषयान् सर्वान् दर्शयति । व्यागमग्रन्थेषु रश्मिप्रतिपादकयणनाम्ना प्रसिद्धोऽयं विषयः । यडाम्नायश्व एव सक्तिः ॥६॥

स एव व्यादित्यः वैश्वानरः व्यष्मिः प्राणिनां देहेषु पाचनक्रियाकारकः प्रकृष्टचेष्टायुक्तः विश्वरूप उदयते उष्ण्यरूपेण प्रादुर्भवति । एषोडथः ऋचा मन्त्रेण चाध्युक्तः ॥३॥

स एव व्यादित्यो वैश्वानरो नाम । स च प्राणिनां देहेषु पाचनक्रियाकरणद्वारा प्रकृष्टचेष्टारूप उदयते, उष्ण्यरूपेण प्रादुर्भवति । ऋग्वेदे चाध्यात्ममतेन सूचितम् । एतेन प्राणिनां समस्तचराचराणां प्राणः प्रकृष्टचेष्टाप्रवर्तकः सूर्यः स्थूलसूक्ष्मरूपेण उदयति प्रकाशयति । तस्मिन् विश्वानि रूपाणि हरित्पीतादीनि वन्ति । एतेन पृथिवीतरक्च सूचितम् । यतः पृथिव्यां सर्वाणि रूपाणि भवन्ति ‘पृथिव्यां सप्तविधमिति’ स्वीकारात् । हरिः जलतत्त्वात्मकम् उदकं हर उच्यते इति निरुक्तम् । जातवेदसं तेजस्तत्त्वात्मकं, ‘जातानि वेद’ इति ज्ञानस्वरूपत्वात् । व्यष्मितत्त्वमेतन सूचितम् । परायणं सर्वेषां तत्त्वानाम् आश्रयस्थानम्, वायुतत्त्वं च प्रकाशात्मकं च सर्वेषां तत्त्वानामुपरि एकमद्वैतात्मकं तपन्तं प्रकाशयुकं, शतधा वर्तमानः गुरुवरुडले गुरुस्थानीयः शतपात्रात्मके प्रकाशिनः सहस्रार सहस्ररश्मिरूपेण चास्ति । व्यष्मिन् मन्त्रे योगशास्त्रप्रसिद्धः षट्चक्राणां कमो निर्देशितो वेदितव्यः । त्रिविधानां नाडीनामिदापिङ्गलासुषुम्णानामिकानां प्रसिद्धानाम् मध्ये चन्द्र-

विश्वरूपं हरिं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥८॥

Page 14

सूर्यादिरुपायां प्रसिद्धि:, षट्चक्रेषु पश्चाद्‌त्तरात्रिशत्कलानां दिनानां च सत्रिवेश: । एतत्सर्वं भगवत्पादेन श्राचायैण सौन्दर्यलहरीस्तोत्रे चतुदंशे पद्यदशे श्लोके उपदिष्टम् । उत्कब्राह्मणवाक्यानां मन्त्रे षटनेन प्रकारेण समन्वयो मवति । अस्य मन्त्रस्य स्थूलरूपमेव सूर्यं परकं व्याख्यानं व्याख्यातं प्राय: सर्वे: व्याख्यालटभि: ॥११॥

संवत्सरात्मककलतत्त्वस्य जगत्रियामकत्वात् तान् नियम्य विषयं निरूपियतुमाह संवत्सर इति— संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च । तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते त एव पुनरावर्तन्ते तस्मादते ऋषय: प्रजाकामा दक्षिणां प्रतिपद्यन्ते एप ह वै रयिर्य: पितृयाण: ॥६॥

मा०— ऋषिश्र्चन्द्र: सूर्य: प्राण: । इमाविवागमशास्त्रे शिवशक्ति-वाच्याविति गतेन ग्रन्थनिरुपणेन व्याख्यातं तच्चाहं पदवाच्यमिति च प्रतिपादितम्, तस्माच किंचितुच्छूनतां प्राप्तं कारयं सदाख्यातत्त्वमन्त-र्हितमिदन्ताख्यं च प्रादुर्भूतमहन्तेदन्ता-सामानाधिकरण्येयरूपं स्फुटोमीश्वर-तत्त्वम् । ईश्वरो दुर्घटकारिकारिय्या मायाशक्क्या उत्पत्तिस्थितिसंहाराख्यं कार्यं संपादयति । सर्वमहमिति विद्यातस्वरूपाया: शाङ्कार्यं प्राप्य, माया नामरूपात्मकं स्थूलं सूक्ष्मं भेदरूपं जगत् प्रकटयति । स्वशक्तिसंकोचात् शक्तिदारिद्रचमानुभवननगरुरुपेण पुरुषो जीवसंज्ञो भवति, चिदाभाससंज्ञया च कचित्प्रच्युते । स शक्तिक्रुध्यामित्रादिदेहवृत्त्यनुरूपकयान्त्रनु प्रेमें जन्ममरणादिजन्यं सुखदु:खादि अनुवमति । ब्रह्मविद्यामदृतेरुपां लब्धवा मुख्यते बन्धात् । ईश्वरस्यानेका: शक्तय: सन्ति । तासु सर्वकर्तृता, सर्वज्ञता, तृप्ति: नित्यता स्वातन्त्र्यमिति पञ्चभेदमिन्ना: स्वभाविक्य: विद्यन्ते । यासां विषया यदा ईश्वरस्तदा शुद्धा:, यदा जीवं विषय कुर्वाणास्तदा अशुद्धा भवन्ति । स्रत: शुद्धाशुद्धभेदेन द्विविधम् ज्ञानलयम् । सर्वकर्तृता शक्तिः संकोचमापघुमाना कलापदवाच्या भवति । सङ्कीचज्ञता अल्पदेवरुपापविद्या (ग्रविद्या) भवति । नित्यतत्र्र: भोगेपु जीवं रञ्जयन्ती रागाख्यां लमते । जन्ममरणप्रदा जीवलोकनियमिका कालाख्या भवति । कृत्याकृत्येपु परङ्गं जीयं नियभजन्ती नियमाख्या नयति । एतत्सर्व तत्त्वत्रयां भगवत् । इच्छाशक्ति: (एकौडं वहु स्याम्) प्रयोजयति । ज्ञानशक्ति: प्रकाशायति । क्रियाशक्ति:

Page 15

कमंसु जीवांन् प्रेरयति । इदं त्रित्वं सर्वस्य कार्यजातस्य मूलमवगन्तव्यम् । नियतितत्त्वं कुचीकृत्य कालतत्त्वं व्याख्यातुमाह संबत्सर इति । द्वादशमासात्मकः सर्वजगत्क्रियात्मको भगवतः शिवस्य स्वरूपः कालः, प्रजापतिः प्रजानां चराचराणां पतिः स्वामी वै निश्चयेन । उत्तङ्गकेश्वरगीतायाम्

कालः सृजति भूतानि कालः संहरते प्रजा: । सर्वे कालस्य वशगा न कालः कस्यचिद्दृशो ।। सोऽन्तरा सर्वमेवेदं निश्चेष्टति सनातनः । प्रोच्यते भगवान् प्राणः सर्वज्ञः पुरुषोत्तमः ।।

(ई० मी० प्र० ३-१६, १७)

तस्य कालस्यायने द्वे गतिरूपात्मके दचि॒षा्मुत्‍तरत्‍त्‍व् । श्याश्लेषासारमभ्य सूर्यगमनं दक्षिणायनम् । शविष्ठारम्भस्योत्तरायणमिति वैदिकी रीति: । तदे कर्मिणा: ह वै निश्चयेन तत्त्वसिद्धिमिष्ठापूर्वं श्रौतस्मातङ्कमंणै: कृतमहंकारो-

मीति बुद्ध्या कृत्वाभिमानवन्तः उपासते श्रानुतिष्ठन्ति ते चान्द्रमसमेव लोकमभिजयन्ते श्रधीनीकुर्वन्ति भोगबुद्धचा: प्रधानत्वात् भोगं परिसमाप्य त एवं पुनरावर्तन्ते ‘गतागतं कामकामा लभन्ते’ ‘ची‍‍षो पु‍ष्‍ये मत्‍‍यंलोकं विशान्ति’ इति गीतोकते: । तस्मादेत ऋषय: प्रजाकामाः संसारं कामयमानाः दक्षिणां कृष्णागतिं यातायातफलवतीं प्रतिपद्यन्ते ज्ञानानभिष्ठितत्वात् । तेषां दचि॒णां कृष्णागति यातायातफलवतीं प्रतिपद्यन्ते ज्ञानानभिष्ठितत्वात् ।

तेषां संसारातिकरषयासम्भवान् । एष ह वै रथिः गितयारो:, केवलां क्रियाशक्ति-मार्श्रित्य ये कर्माणि कुर्वन्ति तेषां कृते पितॄयामार्ग: प्रकाशतश्चाश्वररहित-त्वेन पुनरावर्तन्न भवत्येव इति ह वै निपाताभ्या: प्रदर्शितम् । तदेव शात्रो‌पनिषदि रथिपदेन निर्दिष्टम् ।।९।।

सामान्यरूपेण दचि॒णायनं निरुच्य उत्तरायणं वक्तुमाह —

अथोतरेष तपसा ब्रह्मचर्येण श्रद्धया विद्यया श्रात्मानमन्विध्य ग्रादित्यमभिजयन्ते एतद् वै प्राणानामायतनमेतदमृतमभयमेतत् पराय॑मेतस्मात् पुरावर्तन्ते इदं निरोधस्तदेष श्लोकः ।।१०।।

पक्षपातं पितरं द्वादशाकृतिं दिव ग्राहुः परे ऽर्थे पुरीषिणाम् । अथेमे अन्य उपरे विचच्रयं समचक्रे पदर ग्राहुरपिंतरमिति ।।११।।

Page 16

माथः सथ दचिराणयनकथनानन्तरमुच्तरेगोत्तरायामार्गेया शनैः-

वृत्तिफलकेन गतिमन्तो महास्मानः ऋतसत्स्वाध्यायशालिना तपसा ब्रह्मचर्येण श्रष्टविधमैहुनत्यागेन श्रद्धया उपासनारूपया स्वाथवा ‘सर्वं खल्विदं ब्रह्म ति’ रूपया स्वात्मानं परं तत्व-

मन्विष्य साकात्कृत्य स्वादित्यमभिजयन्ते । प्रकाशात्मकेनाभुपयान्ति ।

नामायतनमारूपं स्वस्मृतं विनाशरहितम् अभयं भवति’ इति श्रुते:1 एतन् परायणं सर्वेषां तत्वानां तिरोभावरूपं नावर्तन्ते नागच्छन्ति इत्येष विरोधः गत्यागतिनाम् ॥१०॥

एतस्मिन् विषये श्लोकोऽपि मन्त्रोऽप्याह-पञ्च ऋतवः पादा भागा यस्य

तं हेमन्तशिशिरावेकीकृत्य पञ्च चेते यत: ऋतूनां पड्संख्यातमकत्वात्, पितरं पितृवत् रक्तकत्वात्, द्वादशाकृतिं द्वादशमासात्मकं मेषादिसंवत्सरान्

वा, दिवः पुरे यद् ऋषभ मध्य पुरीषियं वृष्टिकरकमाहुः कथयन्ति

कालविदः । यथेति पचान्तरमिदृश्ये परे कालविदो योगिनः प्राणासंचार-विदः समचक्रे मूलाधारादारष्य सहस्रपर्यन्तं तस्मिन् पडरेपि स्थितं

विच्चया विविधल चरगयुक्माहुः कथयन्ति स्वशास्त्रानुसारम् ॥११॥

मानोंमकरसंक्रान्ते पस्मासा उत्तरायणम् ।

कर्कादेष्टु तथैव स्यात् पस्मासा दचिएायणम् ॥

( सू० सि० भा० १४-५ )

गति प्रतिपादकपुराणवचनान्यष्यक् संगृह्णामि सर्वान्त-

‘श्रश्विनी ऋत्तिका याम्या नागवीथीति शच्दिता ।

रोहि एयाद्रं मृगाशिरो गजवीथ्यभिधीयते ॥

पुरय्याश्लेषा तथादित्या वीथी चैरावती स्मृता ।

एतास्तु वीथयस्थितः उत्तरो मार्ग उच्यते ॥

तथा द्वे चापि फल्गुन्यौ मघा चैवापन्ति मता ।

हस्तशिचत्रा तथा स्वाती गोवीथीत्यभिधीयते ॥

ज्येष्ठा विशाखानुराधा वीथी जारदवी मता ।

एतास्तु वीथ्यस्थितो मध्यमो मार्ग उच्यते ॥

मूलापूर्वाषाढा श्रवणं च धनिष्ठा च मार्गी शतमिध्द्सथा ॥

Page 17

वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता। एतासु वीथ्यस्तिछो दचिणो मार्ग उच्यते॥

एभिर्नक्तत्रैरैव निर्गच्छते नागवीथीगजवीथैररावतवीथ्यात्मको उत्तर मार्गः । श्रवणवीथीश्रविष्ठीश्वानसवीथ्यात्मको दचिणो मार्गः। वृत्रांतवीथीगोवध्वीजारद्वीवध्वात्मको मध्यमो मार्गः। दचिणेन पथा गतस्य पुनरावर्तनमुत्तरेगा ग्रपुनरावर्तनं सृष्टचन्ते परमब्रह्मप्राप्तिफलम्। कर्मपासनारहितस्य शतवीजडस्य पुनः पुनः सृष्टावर्तनम्। 'जयस्व श्रियस्व एतत्ततीयं स्थानम् । (छा० ५-१०-६) शतं हृदयस्य नाडीचस्स्तासां मूर्धानमभिनिःसृतैका। 'तसोध्वमायन्नमृतत्वमेति' । (क० ६-१६)।

"उर्ध्वोत्तरमृषभस्तु ध्रुवो यत्र तदवस्थितः । एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भाकुरम् ॥ निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् । स्थानं तत्परमं विप्रैः पापपुण्यैः परित्यज्ये ॥ यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥ इति ।

नासिकान्तमध्यसंयमान् किमत्र सत्यापसङहसोऽपुम्प्रेु (शि० सू० ३) नासिकान्तर्वर्तिन्या: प्राणशक्तेश्चान्द्रनसौर्यसुषुम्णात्मिकाया: संयमात् परायां संविदि विमर्शं सततरतया ध्यातरं मध्यं प्रधानभित्यादि "सत्यापसत्यमार्गस्था" इति ललितासहस्रनामसु । मध्यविकासाच्चिदानन्दलाभः ॥१७॥ इति शाक्तसूत्रम् । 'मध्ये वामनमौलौ च शिवशक्ती उपासते' इति श्रुतेस्त्र । योगिनां मध्यमो मार्गः सौषुम्न इति ख्यातः । श्वात्र स्पष्टतया दृश्यमेव प्रदर्शितम् । इति ।

संवत्सरस्य प्रजापतिस्वरूपो द्वादशमासात्मक्रो मासोऽपि प्राणस्वरूप एवेति प्रतिपादयन्नाह मासोति—

मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणः तस्मादेत ऋषयः शुक्ल इष्टिं कुर्वन्तीतरेतरस्मिन् ॥१२॥

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणां वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद् यदू रात्रौ रत्या संयुज्यन्ते ॥१३॥

Page 18

ऋतन्नं वै प्रजापतिस्ततो ह वै तद् रेतस्तस्मादिमा: प्रजा: प्रजायन्त इति ॥१४॥

भा—मासो वै प्रजापति: ऋतमान्तः पूर्षिमान्तो वा चान्द्रमसः संक्रान्तनन्तो, वा सौरो मासो सौर्य्यात्मकोऽस्त्यग्रिमत्कः । श्रावण शुक्लकृष्णहरितत्वात् चान्द्रमस एव ग्राह्यः । प्रजापतिस्वरूपः तस्य कृष्णपक्ष एव निश्चयेन रधिः, शुक्लः पक्षः प्राणः प्रकाशात्मकः इति । कर्म्ममार्गरतः ऋषयः शुक्ल इष्टिं कुर्वन्ति । इतरे कर्मिणः इतरस्मिन् कृष्णे स्वानुष्टानं कुर्वन्ति सकामेन भोगासक्तत्वात्, एषामेव पुनरावर्त्तनं भवति ॥१२॥

ऋहरेरात्रात्मकः कालोऽपि प्रजापतिस्वरूपः तस्य ऋहरेव दिवस एव प्राणः प्रकाशात्मकत्वात्, रात्रिः रयिस्वरूपा । ऋत एवं दिवा दिवसे ये प्रजापतिप्रितमन्नुष्टातारो धर्म्माधर्म्मानियतयो रत्या संयुज्यन्ते, ते प्राणं प्रसृजन्ति निगमयन्ति विनाशयन्ति । यद् रात्रौ रत्या संयुज्यन्ते तद् ब्रह्म रयमेव प्राणविनाशाभावत्वेन विधानात् ॥ १३ ॥

ऋतन्नं वै प्रजापतिः ऋत्नगता: प्राणाः इति ऋत्नमपि प्रजापतिस्वरूपमेव, तस्मादिमा: प्रजा: प्रजायन्ते ऋत्नमाश्रित्यैव सर्वजन्तूनां जीवनं भवति-त्याशयः । ऋत्नादेव रेतो वीर्य्यं, तस्मादेव प्रजानमुत्पत्तिः भवति ॥१४॥

प्रजापतिव्रतफलमाह तदिति—

तद् ये ह वै प्रजापतिव्रतं चरन्ति ते मिथुनसृष्ट्यादयन्ते तेषामेध ब्रह्मलोको येषां तपो ब्रह्मचर्य येषु सत्यं प्रतिष्ठितम् ॥१५॥

भा—तत् प्रसिद्धं ये प्रवृत्तिमार्गात्यागिनः प्रजापतिव्रतम्—'ऋतौ भार्यामुपैति' इति ह वै चरन्ति कुर्वन्ति, ते सिध्दिनं कन्यकां पुत्रं वा उत्पादयन्ते जनयन्ति, तेषामेव एष ब्रह्मलोकः वृद्धि-करणात्मको लोकः सन्ततिद्वारकवृद्धिकरणात्मको लोक इत्यर्थः । येषां तपः ऋतत्स्वाध्यायात्मकं

तेषामसौ विरजो ब्रह्मलोको न येषु जिघ्मनृतं न माया चेति ॥१६॥

Page 19

रात्रौ रत्या संयोजनं ब्रह्मचर्यं सत्यम् अनृतत्यागात्मकं सत्यभाषणमेतत्सर्वं येषु प्रतिष्ठितं प्रतिष्ठां प्राप्तं, तेषामेवति पूर्वोक्तः सम्बन्धः ॥१५॥

ये देवयानमार्गानुगायिनः, तेषां कृते विरजः मालिन्यरहितः ब्रह्मलोकः ऋपुनरावृत्तिलक्ष्यः । न येषु ज्ञानकर्मोपासकेषु जिह्वं कौटिल्यम् अनृतम् व्रतस्य माया मिथ्याचारेण चिति प्रश्नसमाप्तिसूचकः ।

'शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्यया वर्तते पुनः' ।

इति गीतावचनात् पूर्वोक्तं समन्वितं भवति ॥१६॥

इति प्रथमः प्रश्नः

अथ द्वितीयः प्रश्नः

निजांशजातेषु निखिलजीवेषु विभेदबुद्धिमां येतिं मायया: भेदजनकत्वात् जीवानां भोगार्थत्वाच्च प्रकृति: सत्वरजस्तमसां साम्यावस्थातो वैष्ण्यम् ईश्वरप्रेरणया प्राप्य जगदाकारेण परिणमते । प्रथमः परिणामो महान् बुद्धितत्वं तस्मादहङ्कारः, ग्रहदशारान्मनस्तत्वं, मनसो पञ्चज्ञानेंद्रियाणि सत्वपरिणामाज्जायन्ते । परमात्मनो ज्ञानशक्तितरेतत् सर्वसृपचते 'सत्वात्सञ्जायते ज्ञानमिति' स्मृतेः । रजसः पञ्चप्राणाः, ग्रहणप्राणादि: कर्मेन्द्रियाणि च क्रियाशक्तिपरिणाममाश्रित्य भवन्ति । तमसः पञ्चतन्मात्राणि पञ्चस्थूलानि भूतानि च जायन्ते इति तत्त्वप्रकास्य परिणामक्रमः एतदर्शयितुं द्वितीयः प्रश्नः प्रवर्तते ।

निजांशजातेषु निखिलजीवेषु विभेदबुद्धिमां येतिं मायया: भेदजनकत्वात् जीवानां भोगार्थत्वाच्च प्रकृति: सत्वरजस्तमसां साम्यावस्थातो वैष्ण्यम् ईश्वरप्रेरणया प्राप्य जगदाकारेण परिणमते । प्रथमः परिणामो महान् बुद्धितत्वं तस्मादहङ्कारः, ग्रहदशारान्मनस्तत्वं, मनसो पञ्चज्ञानेंद्रियाणि सत्वपरिणामाज्जायन्ते । परमात्मनो ज्ञानशक्तितरेतत् सर्वसृपचते 'सत्वात्सञ्जायते ज्ञानमिति' स्मृतेः । रजसः पञ्चप्राणाः, ग्रहणप्राणादि: कर्मेन्द्रियाणि च क्रियाशक्तिपरिणाममाश्रित्य भवन्ति । तमसः पञ्चतन्मात्राणि पञ्चस्थूलानि भूतानि च जायन्ते इति तत्त्वप्रकास्य परिणामक्रमः एतदर्शयितुं द्वितीयः प्रश्नः प्रवर्तते । प्राणस्य श्रेष्ठ्यमालोक्यायिकया आह

अथ हैनं भार्गवो वैदभिः पप्रच्छ । भगवान् ! कतयेक देवा प्रजां विधारयन्ते कतर एतत् प्रकाशयन्ते क पुनरेषां वरिष्ठः इति ॥१॥

तस्मै स होवाच आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ् मनश्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति वयमेतद् गायमवष्टभ्य विधारयामः ॥२॥

Page 20

अथ प्रथमप्रश्नसमाधानानन्तरं ह एनं भगवान् पिप्पलादं भार्गवो वैदर्भिः पप्रच्छ पृष्टवान् हे सगवन् कति संख्याका देवाः प्रजां विधारयन्ति ? एवेति निश्चयार्थ । स्वस्वव्यापारे नियुक्ताः सन्ति । कतर एतत् सृजं प्रकाशयन्ते कार्यरूपेरणाविमोचयन्ति ? कः पुनरेपां वरिष्ठः श्रेष्ठ इति ॥१॥

तस्मै भार्गवाय वैदर्भये स भगवान् पिप्पलाद उवाच उक्तवान् । आकाशो ह वेऽदेवः वायुः रमिः आपः पृथिवी चापि मनश्चचुः श्रोत्रं चेतश्चनैन पंचतच्वानि एकादशेन्द्रियाणि च । त एते सर्वे प्रकाश्य स्थूलरूपेण सङ्घीभूय वदन्ति वयम्,तदु वायामवशेषभ्य शरीरं निर्माय विधारयामः एतस्य स्थूलशरीरस्य कारणाभूता वयमित्यर्थः॥

पूर्वोक्ते सङ्घेन्द्रादिषु प्राणस्य श्रेष्ठत्वं प्रतिपादयन्नाह तानिति—

तानू वरिष्ठः प्राणः उवाच मा मोहं गमध्यध । ग्रहं व तत् पक्षवमूचुः ॥३॥

सोडभिमानादूर्ध्वमुक्क्रम इव, तस्मिन्नुक्कामयथेथरे सर्व एवोक्कामन्ते । तद् यथा मधुकराजानमुक्त्रकामन्तं सर्वा एव उत्कामन्ते तस्मिंश्र प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते । तदू यथा मधुकरराजानमुक्त्रकामन्तं सर्वा एव उत्कामन्ते तस्मिंश्र प्रतिष्ठिते सर्व एव प्रतिष्ठिताः एवं वाड् मनश्चचुः श्रोत्रं च । ते श्रिता: प्राणं स्तुवन्ति ॥४॥

तान् चतुरादीन् वरिष्ठः सर्वश्रेष्ठः प्राणः उवाच उक्तवान् । हे चतुराद्यः मा मोहमपयुथ मोहसंज्ञां मा आपयथ प्राप्तुम् युष्माकमिदं कथनमयुक्तमित्यर्थः । यत् श्रुयस्मिति शिवशक्तिस्वरस्फुातादात्म्यमापन्नोध्ध प्राणापानादिस्वरूपसमानं प्रविमज्य विभागं कृत्वा एतद् वायां शरीरं श्रुत्वा ते चतुरादयोऽश्रद्दधाना अभूवुः । तत्कथनेनवज्ञान स्थिता इत्यर्थः॥२॥

Page 21

सोदसिमानात् मिथ्याहंवुद्धचा शरीरात् उद्धव बहिः उत्क्रमति सति, व्यथ इतर इ प्राणाश्चतुरादयः सर्वे उत्कामन्ते । प्राणैः विनाऽऽशरीरे स्वस्थितिमलभमानाः सन्तः प्राणस्य मुख्यत्वमभ्युपागमन् इति । तस्मिन् प्राणे शरीरेऽप्रतिष्ठमाने प्रतिष्ठां प्राप्ते सति सर्वे एव चतुरादयः प्रतिष्ठन्ते स्वस्वकार्यकरगासामर्थ्यलभन्ते इत्यर्थः ।

एतन्मधुकरराजहृष्टान्तेन स्पष्टयति । तथथा—मधुकरराजानं मधुकराणां राजानं प्रधानमूलकामन्तसूत्रडीममानाश्रयात् । अन्याः सर्वा मध्धिका उत्कामन्ते तस्मिश्च प्रतिष्ठमाने स्थिते सति प्रातिष्ठन्त । एतमेव प्राणोन्द्र-यायां ठपवस्थासर्वति । एवंमिन्द्रियायां स्वस्वप्राधान्याभिमानं प्राणोन निरस्तम् । ते सर्वे चतुरादयः प्रीताः वास्तविकं तत्त्वं विज्ञाय हृष्टाः सन्तः स्तुव्नित तुष्टुवुरित्यर्थः ।

तदित्थं तैः प्रशंसितम् । तथा—

एपोडग्निरतपात् एप सूर्यः पर्जन्या मघवान् एप । वायुरेप पृथ्वी रसिदेवः सदसच्च अमृतं च यत् ॥५॥

रथाः इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । ऋचो यजूंषि सामानि यज्ञः तत्र च ब्रह्म च ॥६॥

प्रजापतिशचरसि गर्भे त्वमेव प्रतिजायसे । तुम्हं प्राण प्रजासिवमा बलीं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥७॥

भा.—“प्राणास्थानुगतान्” इति सूत्रानुसारं प्राणात्स्वापरपर्यायं परमात्मानं लक्ष्यीकृत्य वागादीनामिन्द्रियैःपामिदं स्ववानं प्रवृत्तमुत्थग्निसूर्यादिभिरिन्द्रान्तैः स एवं स्तुत्यते, जगति हश्यमानं सर्वं वास्तविकर्या ब्रह्मस्वरूपमेव, केवलं भेदमात्रमेव मायाशक्ल्योद्भूतं’ तच्च मिथ्याभूतमिति “भूयश्चान्ते विश्वमायावृत्तिरिति” श्रुतेः । एप प्रसिद्धः यग्रिः

अग्नीतवाहवानां तपति ज्वलति, एप सूर्यः प्रकाशात्मा एप पर्जन्या मेघः एप मघवान् इन्द्रः एप वायुः एपः पृथ्वी एप देवः रथिः चन्द्रः सत् सर्व दृश्यमानमच्यसत् यत्सततमच्यह्य्समानं यत् व पररूपेण निर्विकारात्‌सनना स्थितममृततत्त्वं तदसि प्राणस्वरूपमेव कार्यकरणा ओत्क्ष्तान् ॥८॥

मा.—रथनाभौ रथमध्ये्स्थूलकाष्ठेऽर्पितमरा इव प्राणो इदं सर्वमपिंतं स्वरं इ्याभूष्णादिरिक कूर्मोडज्ञानौ सर्वशः इति वदधिम्रावतिरोमावौ

Page 22

भवत:, शाब्दब्रह्मतत्त्वमपि तदेव तत्त्वं यत: ऋच ऋग्वेदोक्ता मन्त्रा:, यजूंषि यजनबोधकानि याजुषाणी वाक्यानि, सामानि गीतिप्रतिपादकानि वेदवाक्यानि, यज्ञ: अश्वमेधादि:, शस्त्रं क्रियाशक्ति:, ब्रह्म ज्ञानशक्तिश्च सर्वमेतद् ब्रह्मस्वरूपमेवेति स्पष्टार्थ: ॥१६॥

भा०—प्रजोत्पादकेन रूपेण प्रजापति: सन् हे प्राणे त्वं चरति व्यापारयसि, त्वं च पञ्चरूपेण पञ्चभूतो‌त्पद्यसे । यस्त्वं प्राणौ: सह इन्द्रियै: सह त्वमिन्‌ शरीरे प्रतितिष्ठसि प्रतिष्ठां प्राप्नोषि सर्वश्रेष्ठत्वेन हे प्राण ! इमाः सर्वाः प्रजाः सर्वे लोकाः तुभ्यं बलिं पूजोपहारान् हरन्ति ददति, सर्वं पूजनादिकं त्वामेव प्राप्तुमिति "नृपामेको गम्यस्त्वमसि पयसामेव", 'सर्वदेवनमस्कार: केशवं प्रति गच्छति', इतिवत् ॥१७॥

'एकं सद् विप्रा बहुधा वदन्ति' इति श्रौतप्रमा‌णेनानेकविभूतिरूप- मास्थाय सर्वं कार्यजातम् ईश्वर एव सम्पादयति । श्रुतान्तशक्तिसम्पन्नश्च स: । देवतारूपमपि तस्यैव शक्तिविशेषात्मकेति प्रतिपादयन्नाह देवान- मिति—

देवानामसि वहितम: पितृणां प्रथमा स्वधा । ऋषीणां चरितं सत्यमथर्वाङ्गिरसामपि ॥८॥

भा०—देवानामिन्द्रवरुणादीनां मध्ये वहितम: हवि:प्राप्ता: प्रथमा ग्रहस्थानां देवकार्यात् प्रथमा स्वान्तं धाति पुण्याति‌ति स्वधा सत्यं चरितं सदाचारस्यमपि त्वमसि ॥८॥

इन्द्रस्त्वं प्राणते जसा इन्द्रोधसि परिरक्षित: । त्वमन्तरिच्चे चरति ज्योतिषां पतिः ॥९॥

भा०—हे प्राणे त्वं इन्द्र: परमात्मा त्वं तेऽसा सर्वश्रेष्ठतेर्जोरूपेण परिरक्षित: रक्षको‌ह‌न्तरिक्षलोके ज्योतिषां ज्योतिमध्ये ज्योतीषां पतिः स्वार्चि सूर्यं चरति गत्वा रविभान्ति‌ति ।

यदा त्वमभिवर्षस्यथेमाः प्राणते प्रजाः । ज्ञानन्दूपतिष्ठन्ति कामायान्न भवष्यति‌ति ॥१०॥

भा०—देवानामिन्द्रवरुणादीनां मध्ये वहितम: हवि:प्राप्ता: प्रथमा ग्रहस्थानां देवकार्यात् प्रथमा स्वान्तं धाति पुण्याति‌ति स्वधा सत्यं चरितं सदाचारस्यमपि त्वमसि ॥१०॥

Page 23

मा०—हे प्राणे यदा त्वं पर्जन्यरूपेणाभिवर्षसि वृष्टिं करोति स्रथेमा लोकस्था: प्रजा: कामायाभिलाषितान्नं भविष्यतीति मत्या सानन्दरूपा- स्तिष्ठन्ति ॥१०॥

ब्रात्यस्त्वं प्राणैक ऋषिरित्ता विशवस्य सत्पतिः । वयमाद्यस्य दातारः पिता त्वं मातरिश्वनः ॥११॥

या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि । या च मनसि सन्तता शिवां तां कुरु मोत्कमीः ॥१२॥

प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् । मातेव पुत्रान् रक्षस्व श्रीश्र प्रज्ञां च विधेहि न इति ॥१३॥

मा०—हे प्राणे त्वं ब्रात्योऽसि व्रतमहर्तीतित ब्रात्यः व्रात्य एव व्रात्यः प्रजापतिततब्रह्माचर्यादिव्रतेपु प्राधान्यं सर्वत्र प्राणस्यैवास्ति इति हेतोरसौ- त्येति संज्ञा । स्रथवा प्रथमजत्वात् संस्कर्तरन्यस्याभावात् ब्रात्यः शुद्धत्वात् एक ऋषिः सद्वितीयो गतिमान् सुप्रसिद्ध इन्द्र- यारणां तदा विलयनं जायते । सत्पतिः सजनानां पतिः योगेन रक्षकः विश्वस्य चराचरस्य स्रष्टा भत्ककः; वयं सर्वे चक्षुरादयो गौएप्राणा इन्द्रियाएीति यावत् । स्राद्यस्य स्रदनीयपदार्थस्य दातारः । इन्द्रियाएि सृष्टिविषयाएि गृहीत्वा प्रज्ञापयैव सम्पन्नकर्तीतित प्रसिद्धम् । त्वं मात- रिश्वनः कार्यवायोः पिता जनक कारणात्वात् ॥११॥

या ते तनूर्विस्तृतिः वाचि वागिन्द्रिये प्रतिष्ठिता वाग्यापारकर्त्री, या श्रोत्रे, या च चक्षुपि या च मनसि सन्तता विस्तारमात्रा, तामस्मिन् शरीरे शिवां कल्याणप्रदां कुरु, येन स्थिरीकरोषन वयं स्वस्वकार्यं कर्तुं समर्था भवेम । मा ऋम्तान् शरीरात् उत्कमीः उत्क्रमणरूपं प्रयाणं कुरु । प्राणो सत्येव सर्वनिद्रियांां ह्यापारसमर्थ इति भावः ॥१२॥

मा०—इदं हविष्यामं यत्, दिवि लोकत्रये प्रतिष्ठितं तत्व सर्व- वशे स्राधीनमस्ति । स्रात्य एव हे प्राणे मातेव स्रस्मान् पुत्रसहशान् रक्षस्व श्रीः ऐश्वर्यं प्रज्ञां सदसद्विवेकवर्त्तीं बुद्धिं नः स्रस्मान् विवेहि देहि यया त्वदनुकूलमाचरेम, यतो व्यर्थाभिमानं मा भवेत् ॥१३॥

Page 24

सन्देहे चेत् च्छन्दयाथार्धिकया प्राणस्य शिष्टत्वमन्येषां मनइन्द्रियाणां गौणत्वं च प्रदर्शितमिति ।

इति द्वितीयः प्रश्नः ।

अथ तृतीयः प्रश्नः ।

पूर्वस्मिन् प्रश्ने प्राणातत्त्वस्य प्राधान्येनोपदिश्येदानीं विशेषप्रकारकं तदरहस्यं प्रकटयन् तृतीयप्रश्नमवतारयति अथेति—

अथ हैनं कौसल्यश्शाश्वलायनः पप्रच्छ ह कुत एष प्राणो जायते ? कथमायाति अस्मिन् शरीरे ? आत्मानं वा प्रविश्य कथं प्रातिष्ठते ? केरोपक्रमते ? कथं बाह्यामिधत्ते ? कथमध्यात्ममिति ? ॥१॥

भा.—अथ तृतीयप्रश्नोपदेशानन्तरं कौसल्य शाश्वलायनः एनं भगवान्तं पिप्पलादं पप्रच्छ पृष्टवान् । हे भगवन् कुतः कारणविशेषात् एष प्राणो जायते ? कथमायाति ? अस्मिन् शरीरे कथमध्याति संस्थापारं कर्त्तम् ? आत्मानं स्वस्वरूपं प्रविश्य प्राणापानसमनोदनादिरूपेण विभागं कृत्वा प्रातिष्ठते शरीरेधारादिच्छापारं करोति केन रूपेणोत्क्रमरणं लोकान्तरं गमनं तथा वाड्‌ग्यमेवमध्यात्मं च विविधात्मकं रूपमस्येति भवान् मासुपदिशातु इति प्रश्नाशयः ॥१॥

तस्मै स होवाच ऋतिम्रश्नान् पुच्छसि ब्रह्मिष्ठोऽसि तस्मादेवं ब्रवीमि ॥२॥

भा.—इति श्रुत्वा तस्मै पृष्टवते कौसल्याश्वलायनाय उवाच उक्तवान् । हे शिष्य त्वं ब्रह्मिष्ठोऽसि ब्रह्मनिष्ठोऽसि, ऋतिम्रश्नान् ऋतिसूक्ष्मान् प्रश्नान् पृच्छसि । तस्मात्ते तुम्हस्महुपदिशामि ॥२॥

आत्मनः एष प्राणो जायते । यथैषा पुरुषे छायैतास्मिन्नेतदाततं मनोकृतेनायात्यस्मिन् शरीरे ॥३॥

Page 25

एष प्रसिद्धः प्राणः शिवरूपोऽस्यात्मनोऽस्मात् जायते प्राणिभिर्वति क्रियाशक्तिमधिकृत्य यथा पुरुषे ह्यात्मपुरुषाकृतिविशिष्टा तद्वत् ब्रह्मणा: साक्ष्यमनुकुर्वाणो मनोकृतान् मनस्तत्त्वद्वारा अस्मिन् शरीरे व्याप्यति व्याप्यते च एतत्प्राणातत्कं सर्वशरीरे प्राणतं व्याप्तं च भवति एशा तस्याधिकारमोहि यथाति-

भा.—एष प्रसिद्धः प्राणः शिवरूपोऽस्यात्मनोऽस्मात् जायते प्राणिभिर्वति क्रियाशक्तिमधिकृत्य यथा पुरुषे ह्यात्मपुरुषाकृतिविशिष्टा तद्वत् ब्रह्मणा: साक्ष्यमनुकुर्वाणो मनोकृतान् मनस्तत्त्वद्वारा अस्मिन् शरीरे व्याप्यति व्याप्यते च एतत्प्राणातत्कं सर्वशरीरे प्राणतं व्याप्तं च भवति एशा तस्याधिकारमोहि यथाति-

यथा सम्राडेवाधिकृतान् विनियुङ्क्ते एतान् ग्रामानेतान् ग्रामान्धिपतिष्ठस्वेत्येमेप्राणा इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते ॥४॥

भा.—यथा सम्राट् राजा स्वधिकृतान् स्वधिकारीवर्गान् विनियुङ्क्ते राज्यसंचालनाय एतान् प्रामान् एतान् ग्रामान् त्वसधितिष्ठस्व स्वाधिकारो कृता राज्यव्यवस्थां कुरु एतदेव प्राणः इतान् प्राणान् पृथक् पृथगेव सन्निधत्ते स्वस्वव्यापारान् कर्तु नियोजयति शरीरलयवहारायति ॥४॥

पायूपस्थेडपानं चक्षुः श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः । एष ह्यते तदुतमनन्नं समंनयति तस्माद्देता: सप्तार्चिषो भवन्ति ॥५॥

भा.—पायूपस्थं च पायूपस्थं प्राप्यङ्गत्वात् एकत्वं तस्मिन् अपानं रूपं चक्षुः श्रोंत्र च तस्मिन् मुखनासिकाभ्यां च स्वयं प्राणः प्रातिष्ठते मध्ये नाभिभागे समानः एष हि तदुतमनन्नं समं यथास्थानं नयति प्रापयति तस्माद्दितपीतेंन्धनात् व्यग्नेः श्रौदर्याणं एता: सप्तसंख्याका: दीप्तय: दर्शने दृश्ये श्रवणादृश्यं प्राणादृश्यं मुखमिति सप्तार्चिष: भवन्ति ॥५॥

हृदि ह्यते तदात्मा । श्रातैतदेकशतं नाडीनां तासां शतं शतैकैकस्यां द्वासप्ततिः द्वासप्ततिः प्रतिशाखा नाडीसहस्राणि भवन्त्यासु व्यानश्वरते ॥६॥

भा.—हृदि हृदये हि निश्चयेन एष आत्मा श्रातहृदय एतदेकशतं नाडीनां समुदाय: एकं शतं तासां नाडीनां प्रत्येकं शतैकैकस्यां नाड्यां शतं तासां प्रत्येकं द्वासप्ततिः द्वासप्ततिः प्रतिशाखा नाडीसहस्राणि भवन्त्यासु व्यानश्वरते ॥६॥

Page 26

नाडीसहस्राणि भवन्ति (७२०००) श्रादित्यु सर्वासु नाडीषु व्यान- श्चरति ॥६॥

अथ एकयोर्य उदानः पुरयेन पुरयलोकं । नयति पापेन पाप्मुभाम्यामेव मनुष्यलोकम् ॥७॥

मा०—अथ एकया सुपुम्नाख्यया नाड्या ऊध्र्वं उद्ध्वंगतिमान् उदानश्चरति पुण्येन कर्मणा पुरयलोकं पुरययोर्नि पापेन कर्मणा श्रधोलो- कसुभाम्यां पुण्यपापाभ्यां मिश्राभ्यां मनुष्यलोकं नयति प्रापयतीत्यर्थः ॥३॥

ग्रादित्यो ह वै बाह्यः प्राण उदयति एप ह्येनं चाक्षुपं प्राणं मनुगृह्णाति । पृथिव्यां या देवता सैपापुरुषस्यापानमवष्टभ्यान्तरा यदाकाशं तं समानो वायव्यग्नः ॥८॥

भा०—प्रतिदिनं प्रकाशाख्यतर्चेन पुण्णीभीूत श्रादित्यो बाह्यः प्राणे उदयति प्रत्येकं सर्वंजगत् चाक्षुषं प्राणेऽनुग्रहं श्रानो दर्शनसामध्ये ददाति सन् प्रकाशयति । पृथिव्यां या देवता पृथिव्याभिमानिनी सा एषा पुरुषस्य श्रपानं श्रपानाख्यं प्राणेभेदमवष्टभ्य वशींकृत्य श्रधोनयननेनानुग्रहं कुर्वन्ती वर्तते श्रन्तराऽऽकाशे यदाकाशः समानः यथाकाशः साम्यधर्मवान् तथा समानस्तुल्यः वायु: व्यानोऽनुगृह्णाति ज्ञाने वर्तते व्यानमित्यभिप्रायः वायुर्यज्ञा- योऽपि त्वात् तुल्यत्वम् ॥८॥

तेजो ह वा उदानस्तस्मादुपशान्ततेजाः । पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥९॥

यचित्तस्तेनैष प्राणमायाति प्राणस्तेजसा । युक्तः सहात्मना यथा संकल्पितं लोकं नयति ॥१०॥

भा०—तेजो ह वा उदानः तेजस्तत्त्वस्वरूपो-निश्चयेन उदानः प्राणेभेदः तस्मादुपशान्ततेजा यदा मरणकाले प्राणाः शक्तित्ययुक्तो भवति इन्द्रैयर्मनसि सम्पद्यमानैः पुनर्भवं देहान्तरं प्राप्तुकामस्तदा जायते, श्रात्मना सह जीवात्मना साधं यचित्तः यदूभावना-भावितस्तेन प्राण- मायाति प्राणेनयुक्तो भवति । प्राणास्तेजसा उदानेन युक्तो यथा संकल्पितं लोकं नयति ॥१०॥

Page 27

य एवं विद्वान् प्राणं वेदन हस्य प्रजा हीयतेऽमृतो भवति तदेप श्लोकः ॥११॥

भाष्य - य एवं विद्वान्पूर्वोक्तं प्राणतत्त्वं वेद जानाति न हस्य प्रजा हीयते । तस्य सन्ततिनं विनश्यति । स मृतो भवति मरणाजन्यैःक्लेशादिरहितो भवति । अस्मिन् विषये एष श्लोको मन्त्रो भवति ॥११॥

उत्पत्तिमायर्तिं स्थानं विभुत्वं चैव पञ्चधा ।

प्राणस्य शरीर उत्पत्तिमाविर्भावम् स्वायत्तिमार्गनम् स्थानं स्थितिं पञ्चधाप्राणादिपञ्चकात्मस्वरूपत्वं च

अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुते इति ॥१२॥

पञ्चधात्मप्राणादिपानादि संज्ञा च विशिष्टं व्यापकत्वमध्ये यात्मस्वरूपत्वं च विज्ञाय साक्षात्कृत्य अमृतमश्नुते मोक्षसुखं प्राप्नोति इत्यभिप्रायः प्रश्नसमाप्त्यर्थः ॥१२॥

इति तृतीयः प्रश्नः ।

इतितृतीयप्रश्नस्य प्रकाशभाष्यम् ।

॥ अथ चतुर्थः प्रश्नः ॥

अपराविद्याविषयकं तत्त्वं संक्षेपेण त्रिभिः प्रश्नैरुपदिश्य आत्मनं प्राणमयं च कोशं विचार्य श्रवशिष्टं कोशत्रयं जीवतत्त्वमज्झारतत्त्वं च विवनुश्चतुर्थप्रश्नमवतारयति अथेति—

हैनं सौभ्रवायणि गार्ग्यः पप्रच्छ भगवन्तं तस्मिन्पुरुषे कानि स्वपान्ति कानि स्मिज्ञाग्रति, कतर एष देवः स्वमानं परयति, कस्यैतत्सुखं भवति कस्मिन्नु सर्वे संग्रतिष्ठिता भवन्ति इति ॥१॥

Page 28

तस्मै स होवाच यथा गार्ग्य मरीचयोर्‌कस्यास्तं गच्छतः सर्वा एतस्मस्तेजोमएडले एकीभवन्ति, ताः पुनः पुनरुदयतः प्रचरन्ति । एवं ह वै तत् सर्वं परे देवे मनस्येकी भवति तेन तद्बोष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते तेयायतेः स्वपितीत्याचक्षते ॥१॥

भा०-तथैव ततीयप्रश्नोपदेशानन्तरं ह एनं भगवन्तं पिप्पलादं सौर्यायणि गार्ग्यः पप्रच्छ पृष्टवान् हे भगवन् एतस्मिन् पुरुषे पुरुषविशिष्टशरीरे कानि स्वपन्ति शेरते, कानि जाग्रति जागरां लभन्ते कतर एष देवः स्वप्नान् स्वप्नगतान् पदार्थान् पश्यति कुसयेतसुखं विपयैन्द्रियसंयोगात् भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता सन्ति प्रतिष्ठारूपमाश्रयं प्राप्तुवन्तीति॥१॥

स भगवान् पिप्पलादस्तस्मै पृष्टवते गार्ग्याय होवाच हे गार्ग्य यथा सायंकाले सर्वा मरीचयः किरणाः एतद्‌ऽर्कस्यास्तंस्यास्तं गच्छतः सायंकाले सर्वा एतस्मिन्नएडले तेजोमएडले एकीभवन्ति ध्यनेका एकं सम्पद्यन्ते इत्येकीभवन्ति ताः मरीचयः पुनः पुनरुदयतः प्रचरन्ति प्रसारं गच्छन्ति एवं ह वै तत्सर्वं परे देवे मनसीन्द्रियसमुदायो लयं गच्छति तेन तदा एष पुरुषो न शृणोति, न पश्यति, न जिघ्रति न रसयते न स्पृशते ज्ञानेन्द्रियाश्रयाणि कर्मेन्द्रियाण्यव्यापाराभावाच तदा भवति तस्मिन् काले स्वपितीत्याचक्षते सूदृमे शरीरे मनोमयविज्ञानमयौ ? कोशावेतौ उपदिष्टौ ॥२॥

प्राणाग्नय एवैतस्मिन् पुरे जाग्रति । गार्हपत्य ह वा एषो ऽग्रापानो व्यानोड्‌वाहार्यपचनो यद् गाहपत्यात् प्रक्षीयते प्रश्नन-दाहनीयः प्राणः ॥३॥

की भा०-प्राणाग्नयो यथाग्नयो गुह्हरक्षकास्तद्वत् प्राणा रक्षकत्वात् एतस्मिन् पुरे शरीरे जाग्रति सर्वदा गतिमत्त्वात् रक्षक इव तेषां प्राणानां यदुच्छूवासनिःश्वासावेताहुती सं नयति स समाने मनो ह वा व यजमानः इष्टफलमेवोदनः स एनं यजमानमहात्र ह्व गमयति॥३॥

यदुच्छूवासनिःश्वासावेताहुती सं नयति स समानो मनो ह वा व यजमानः इष्टफलमेवोदनः स एनं यजमानमहात्र ह्व गमयति॥३॥

की भा०-प्राणाग्नयो यथाग्नयो गुह्हरक्षकास्तद्वत् प्राणा रक्षकत्वात् एतस्मिन् पुरे शरीरे जाग्रति सर्वदा गतिमत्त्वात् रक्षक इव तेषां प्राणानां

Page 29

मध्ये ह्यपानो ह वै गर्हपत्य एतन्नामकः प्रधानोङ्गिनः ड्यालः ह्यन्वाहार्यपचनः दध्र्णाग्निः हृदयाद् दध्र्णाग्निचिद्निर्गमनेन साम्यमुभयोः । गाहृपत्यात् प्रणयनात् प्राणोऽन्वाहनीयः ॥३॥

यदुच्छवासनः श्वासौ भवतः एतावाहुती ते समनंयति तेन समानः । मनो ह वा व एवं यजमानः यज्ञनुष्टात इष्टफलमुदानः स एनं यजमानं स्वाहरहः प्रतिदिनं ब्रह्म गमयति प्रापयति सुपुप्रावस्थायाम् ॥४॥

अत्रैव देवः स्वप्ने महिमानमनुभवति यदृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरेऽपि प्रत्यभूतं पुनः पुनः प्रत्यनुभवति । दृष्टं चादृष्टं च श्रुतं चाश्रुतं च चानुभूतं चाननुभूतं च सर्वं परयति सर्वः पश्यति ॥५॥

भा०—अत्रैव स्वप्नन शरीरे एष मनोविशिष्टो देवः स्वप्ने स्वप्नावस्थायां महिमानं मनसैव संकल्प सर्व कार्यजातमनुभवति यद् दृष्टं दृष्टं प्रत्यक्षप्रत्यक्षमनुपश्यति सन्निकर्षरोति श्रुतमश्रुतं ऋष्योतीश्वरेऽपि विषयं करोति । देशदिगन्तरेऽपि प्रत्यनुभूतं पुनः पुनः वारं वारं प्रत्यनुभवति जानाति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सर्वं सर्वः पश्यति स्वप्नं परिमितमपरिमितं चेति विशेषः ॥५॥

स यदा तेजसाभिभूतो भवति श्वेतैष देवः स्वनाद प्रतिपत्तव्य तदैतस्मिन् शरीरे एतत् सुखं भवति ॥६॥

स यदा यस्मिन् काले तेजसा अभिभूतोमतिविज्ञानशक्तिः व्याप्त्रियते यदा तमच्रावरणखोन्, तदा स्वप्नान् स्वप्नगतान् पदार्थान् न पश्यति मनोमयं विज्ञानमयं च कोशम्तिक्रम्य आनन्दमय एतत् सुषुप्रानन्दम् भवति ॥६॥

'स्वप्यारोपवादाभ्यां निष्प्रपञ्च' प्रपञ्च्यते' इति नियमातुसारेगा ब्रह्मैकशान्तं सृष्टिविस्तार प्रदर्श्य इदानीं पृथिव्यादिमहां प्राणिपदार्थपयन्ते लयसुपादिशान् सर्वेषां कार्यपदार्थानां परस्मिन् ब्रह्मण्येव स्थितिं कथयति स यथेति—

Page 30

स यथा सौम्य वयांसि वासो वृक्षं सम्प्रतिष्ठन्ते, एवं ह वै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते ॥७॥

पृथिवी च पृथिवी मात्रा चाप्स्वापोमात्रा च तेजस्तेजोमात्रा च वायुर्वायुमात्रा चाकाशश्वाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक् च स्पर्शयितव्यं च वाक् च वक्तव्यं च हस्तौ चादत्तव्यं चोपस्थ- श्रानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्कारश्वाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥८॥

मा०— हे सौम्य प्रिय ! तथावयांसि पचिष्यो दिवसे इतस्ततः परित्य सायंकाले वासोवृक्षं रात्रिनिवासवृक्षं सम्प्रतिष्ठन्ति विश्रामार्थं गत्वा शान्तभावमुपगच्छन्ति एवंहि सर्व कार्यभूतं जगत् परे आत्मनि सम्प्रतिष्ठते- एकीभावं प्राप्तनोति । तथ्यथा पंचभूतानि तेषां सूक्ष्मभूता: पंचमात्राश्र पञ्चज्ञानेंद्रियैः पंचविषया: इन्द्रियैः च पञ्च कर्मेन्द्रियविषया: पंच इन्द्रियैः च येषां नियामकं मनस्तत्कारएभूतमहङ्कारं तत्कारएभूता बुद्धि: तत्कारएभूतं चित्तं सङ्कुचितशक्तिप्रदर्श: उक्तं च चितिरेव चेतनपदार्थ- वरुडा चेत्यसङ्किचिनी चित्तम् । ( शाङ्‌. मो. ४ ) तदुप्ति तेज: प्रकृतिश्रात्मकं प्राणात्मकं शिवं जीवतत्त्वं प्राणाधारकम् परे ब्रह्मणि सम्प्रतिष्ठते इत्यग्रेऽस्य सम्बन्धः ॥

एष हि द्रष्टा स्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परेऽक्षरे आत्मनि सम्प्रतिष्ठते ॥९॥

परमेवादरं प्रतिपद्यते स यो ह वै तत्परमं ब्रह्म वेदयते यस्तु सोम्य स सर्वतः सर्वों भवति तदेष श्लोकः ॥१०॥

Page 31

विज्ञानात्मा सह देवैश्च सर्वैः प्राणाभूतानि संप्रतिष्ठन्ति यत्र ।

मा०--एषहि प्रसिद्धो जीवात्मा द्रष्टा नेत्रेन्द्रिय-प्रयोक्ता, स्प्रष्टा स्पर्शेन्द्रिय-प्रयोक्ता, श्रोता श्रवणकर्ता घ्राता प्राणेन्द्रियप्रयोक्ता रसचिता रसनेन्द्रिय-प्रयोक्ता, बोद्धा निश्चयकर्ता कर्ता विधिनिषेधयोः शक्तोऽकर्ता शास्त्रार्थवत्त्वात् इति न्यायेन विज्ञानात्मा । पुरुषः पुरी शरीरेऽशनात्, स परे श्रात्मरेऽविनाशिनि श्रात्मनि परब्रह्मणि शिवे तृप्तिसंप्रतिष्ठते ऐक्यं गच्छति ।

तदच्तरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥११॥

परमाचार्य प्रतिपाद्यते प्रतिपत्तॄणां भवति स यः श्रात्मा वै उपनिषत्सु प्रतिपाद्यत्वेनाभिमतो महात्मनां । तदू श्रच्युतायं ज्योति: स्वरूपकमशरीरं स्थूलसूक्ष्मकारणैररीररहितमलोहितं रजोदोषरहितं शुद्धं स्वच्छमच्तरमविनाशिनं वेदयते स्वात्माभेदेन साक्षात्करोति यः स हे सोम्य सर्वज्ञः सर्वज्ञ भवति "सर्वं सम्पन्नोसि ततोऽसि सर्वः" इति गीतोक्तेः । सस्मिन् विषये श्लोकौडपि भवति स एषः ॥१०॥

इति चतुर्थः प्रश्नः ।

यत्तत् पूर्वं विस्तारेण प्रोक्तं तदेव मन्त्रः ग्राह विज्ञानात्मा जीवः सह देवैः इन्द्रैः सह प्राणैः पञ्च प्राणाः भूतानि स्थूलसूक्ष्माभ्यां यत्र संप्रतिष्ठन्ति ऐक्यं गच्छन्ति कार्यकरणयोरभेदात् । हे सोम्य प्रिय ! यः कश्चिदधिकारी वेद जानाति स सर्वज्ञस्तथा सर्व ब्रह्मौव श्राविवेशेति श्राविशति कालत्रयेऽप्यश्लान्दसः ॥११॥

इति चतुर्थप्रश्नस्य प्रकाशानाम्

अथ पञ्चमः प्रश्नः ।

पूर्वस्मिन् चतुर्थे प्रशने श्रद्धतत्त्वस्य स्वरूपं प्रदर्शितम् । तच्चाद्वैतरूपं तस्य विज्ञानेन जीवोऽपि ब्रह्मभावं प्राप्नोति, तथापि साधनेन बिना तस्य प्राप्तिनं सम्मवति इति हेतोः पञ्चमस्य प्रश्नस्यारम्भः पूर्वप्रकृत्यो श्रद्धरतत्त्वन्यत्रिदृष्टं तस्य वाचकमपि श्रद्धरब्रह्मतत्त्वं वाच्यवाचकयोरभेदं

Page 32

अथ हैनं शैव्यः सत्य कामः पप्रच्छ स यो ह वै तद्गगवन्मनुष्येषु प्रायणान्तमोडारमभिध्यायीत । कतमं वा व तेन लोकं जयतीति तस्मै स होवाच ॥१॥

भा०- अथ वाच्यरूपमस्मृततत्त्वोपदेशानन्तरं वाचकतत्त्वं ज्ञातुं ह एनं भगवन्तं पिप्पलादं शैव्यः सत्य कामः पप्रच्छ हे भगवन्मनुष्येषु साधकेषु ह वै यः प्रायणान्तं मरणकाले ओंकारमभिध्यायीत ध्यायेत् स कतमं वा व लोकं जयति प्राप्नोति ।

एतद् वै सत्यकाम परं चापरं च ब्रह्म यदोडकारः । तस्माद्विद्धानैतेनैवायतनेन एकतरमन्वेति ॥२॥

है सत्यकाम एतद् ओङ्कारः परम्परं च ब्रह्म परं शिवतत्त्वमपरं शक्तितत्त्वं सगुणब्रह्म ति क्याते तयोर्वाचकतत्त्वम् । तस्मात्कारणाद्विद्वान् साधक एतेनैवायतनेन एकतरं शिवाख्यं ब्रह्मतत्त्वं शक्तितत्त्वं वा अन्वेति अनुगच्छति

तस्मै पृष्टवते शैव्याय सत्यकामाय स भगवान्पिप्पलाद उवाच उक्तवान् ॥१॥

Page 33

श्राश्रयतेऽतीर्थः । पुराणवचनानि चेत्यं भवन्ति “श्रोमित्येकाच्चरं ब्रह्म गुदायां निहितं पदम् । श्रोमित्येतत्त्रयो वेदास्त्रयो लोकास्त्रयोध्नयः । विष्णु-क्रमात्रयस्त्रेते ऋक्सामानि यजूंषि च ॥” फलं चाह “ये ब्राझणा: प्रणवंवेदयन्ति न ते पुनः संस्रन्तीत भूयः” (वा० २० श्र०) इत्यादि विस्तरेऽपदिष्टम् ॥२॥

श्रोंकारस्य मात्राणां विवरणं मारडूक्ये प्रदर्शितम् । तदेवात्र संक्षिप्योपदिश्यते सेतित । स यधैकमात्रामभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसंपद्यते । तमृचो मनुष्यलोकमुपनयन्ते । तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥३॥

अथ यदि द्विमात्रेण मनसि सम्पद्यते सोज्न्तरिचं यजुभिरु-नीयते सोमलोकं स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥४॥

यः पुनरेतं त्रिमात्रेश्रोमित्येतेनावाच्चरेश परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः । यथापादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विर्निमुक्तः स सामभिरुच्चीयते ब्रह्मलोकं स एतस्माज्जीवलोकात् परात्परं पुरीशयं पुरुषमीक्षते । तदेतौ श्लोकौ-भवतः ॥५॥

भा०—स साधकः यदि एकमात्रमोड़कारमभिध्यायीत चिन्तयते स तेन संवेदितो ज्ञानवान् सन् तूर्णमेव्वरितमेव जगत्यामभिसंपद्यते श्रागच्छति । तं पुरुषमृ ऋग्वेदमन्त्रा भूरितलोकं मनुष्यलोकमुपनयन्ते प्रापयन्ति । तत्र मनुष्य लोके तपसा सत्यादिरुपेण ब्रह्मचर्येण उपस्थेन्द्रियसंयमेन श्रद्धया व्यास्तिक्यबुद्धचा सम्पन्नः सन् महित्वं प्राप्नोति ॥३॥

अथ द्विमात्रेण मनसि सम्पद्यते मनोभावेनोपास्ते स साधकः यजुर्भिमन्रैरन्तरिचं सुवरिति प्रसिद्धं सोमलोकं ततउत् ऊर्ध्वनीयते प्राप्यते स सोमलोके विभूतिमनुभूय तत्रस्थान भोगान् भुक्त्वापत्रस्मिन् लोके श्रावर्तते द्वीये पुण्ये मर्त्यलोकं विशान्तीति गीतोकः ॥४॥

यः पुनः एतं त्रिमात्रेण ‘श्र उ म्’ एतेनावाच्चरेश परं पुरुषमभिध्यायीत ईश्वरतत्त्वं चिन्तयते स तेजसि तेजोरुपात्मके सूर्ये सम्पन्नः यथापादोदर-

Page 34

स्वचा विनिर्मुच्यते सर्पः प्राचीं कञ्चुकंन मुचो भवति एवं ह वै स साधकः पाप्मना दुरितेन विनिर्मुक्तः सन् सामस्थिः सामऋद्धया स्वरिति प्रसिद्ध ब्रह्मलोकं प्रजापतिलोकसुत्रीयते प्राप्नोति । स तत्र गत्वा एतस्मात् जीवघनात् जीवराशिरूपात् परमेश्वरतत्त्वं तस्मादपि परं पुरिशयं सर्वत्रव्याप्तं पुरुषं परमात्मानम् ईहते स्वाभेदेन साक्षात्करोति । एतस्मिन् विषये द्वौ श्लोको मंत्रौ च भवतः ॥४॥

तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता ज्ञानयोर्न्यसकृत् । क्रियासु वाह्याभ्यन्तरमध्ये मासु सम्प्रयुज्यमानासु न कम्पते न ॥६॥ ऋग्भिरेतां यजुर्भिरन्तरिच्छां सामाभिर्यत्तत् कवयो वेदयन्ते । तमोऽद्धारैःवावायतेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं चेति ॥७॥

॥ इति पञ्चमः प्रश्नः ॥

भा०--श्रोकारस्य तिस्रः मात्रा मृत्युमत्यः मरणधर्मवत्यः प्रयुक्ताः भेदविषयत्वात् ज्ञानयोर्न्यसकृत् परस्परमिलिता ध्यानविप्रयुक्ता निश्चयेन सर्व भेद सजनशीला बाह्याभ्यन्तरमध्ये मासु जाग्रत्स्वप्नसुपुपिमपि अवस्थासु सम्प्रयुज्यमानासु क्रियासु ज्ञः एतन्मात्रातत्चयज्ञो ब्रह्मादृष्टिमान् ज्ञः एतदनुभवन् न कम्पते स्वरूपतो न विचलति । उक्तं च-‘अकारस्वस्थ भूलेनक उकारो उच्चच्यते । स उकारो मकारस्थ स्वलोकस्थ विधीयते ॥ श्रोकारस्त्रयोलोकः शिरस्तस्यत्रिविष्टपम् । भुवनान्तं च तत्सर्व ब्रह्मा तत्पदमुच्यते ॥ मातापदैरुद्रलोको ह्योमात्रस्तु शिवं पदम् ॥ (वायु प्र० ऋ० २७-६, ६, १०) उक्तमात्रात्रयविभागं प्रदर्शय ओंमात्रपदेन परमतत्त्वच प्रदर्शितम् । तस्य फलं द्वितीयश्लोकेन च प्रदर्शितवान् ॥६॥

ऋग्भिः ऋग्वेदमन्त्रैः एतं मनुष्यलोकं यजुर्भिरन्तरिच्छं परलोकं सामभिरेइचालोकं साधकः प्राप्रोति । मात्राविभागानुसर्जनशीलस्य साधकस्य प्रज्ञावं परित्यज्य ज्ञानस्य कस्यचित् मन्त्रभागस्यावश्यकतैव नास्ति तस्यै-वान्तर्गतत्वात् सर्वशब्दजालस्य । विद्वान् यत्तच्छान्तं निष्क्रियमजरं जरादिशरीरिधर्मरहितममृतं मृत्युपाशरहितं तुर्यीमात्रापदेन लक्षितमृतैवाऽ-भयंद्वैतवर्जितं (द्वितीयाद्दे भयंसवति) परं च शिवशक्तिसामरस्यभावयुक्तमेकं निराकारं स्वरूपेण साक्षात्करोतीति शेषः ॥७॥

Page 35

॥ इति पंचम प्रश्नस्य प्रकाशाभाष्यम् ॥

॥ अथ षष्ठः प्रश्नः ॥

पूर्वोक्तस्य सर्वस्य रहस्यप्रजापतस्योपसंहाररूपेण संचेपेण पोहशकलात्मकं पुरुषं श्रवण पट्टं प्रश्नत्वारुत्पत्ति श्रथेति—

स्रथ हैनं सुकेशा भारद्वाजः पप्रच्छ ''भगवन् हिरण्यनाभः कौसल्योराजपुत्रो मासुपेत्य प्रश्नमपृच्छत् पोहशकलं भारद्वाज पुरुषं वेत्थ । तमहं कुमारमत्वं नाहमिमं वेद यद्यहमिममवेदिपं कथं ते नावचक्ष्यमिति । समूलो वा एष परिशुष्यति योडनृतमभिवदति । तस्मान्नाहाम्यनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥१॥

भा०—अ्रथ पंचमप्रश्नानन्तरं ह प्रसिद्धमेनं भगवन्तं पिप्पलादं सुकेशा भारद्वाजः पप्रच्छ पृष्टवान् 'भगवन् हिरण्यनाभ कौसल्यो राजपुत्रो मासुपेत्य श्रागत्य प्रश्नमपृच्छत् पृष्टवान् 'हे भारद्वाज ! त्वं पोहशकलं पुरुषं वेत्थजानासि किम् ?' तम् कुमारमहंस्तुवम् उक्तवान् 'हे कुमार ! नाहं पोहशकलं पुरुषं वेद जानामि यदि ग्रहसवेदिपम् कथं ते नावचक्ष्यम् श्रवश्यमेव त्वामवच्यम् । समूलो यः परिशुष्यति विनइत्यति योडनृतम्- सत्यं वदति तस्मान्नाहीनि श्रनृतंवक्तुम् ।' स कुमारः तूष्णीं रथमारुह्य प्रवव्राज गतवान् । तं त्वां त्वां पृच्छामि क्वासौ पोहशकलः पुरुष इति ॥१॥

तस्मै स होवाच इहैवान्तः शरीरेऽस्मिन् पुरुषो यस्मिन्नेताः पोहशकलाः प्रभवन्ति इति ॥२॥ स ईशान्क्रके कस्मिन्नु ब्रहम- स्कान्त उत्क्रान्तो भविष्यामि कस्मिन्नवा प्रतिष्ठते प्रतिष्ठामि इति

भा.—तस्मै पृच्छकाय स भगवानुवाच हे सोम्य इहैवान्तः शरीरेऽस्मिन् श्रात्मायस्मिन् श्रात्मनि एताः कलाः प्रभवन्ति

॥३॥ स प्राणमसृजत प्राणाच्छद्रां खं वायुद्योतिरापः पृथिवी- न्द्रियं मनः श्रन्नमन्नाद् वीर्यं तपोमन्त्राः कर्म लोकाः लोकेषु च नाम च ॥४॥

भा.—तस्मै पृच्छकाय स भगवानुवाच हे सोम्य इहैवान्तः शरीरे सः पोहशकलावान पुरुषः श्रात्मायस्मिन् श्रात्मनि एताः कलाः प्रभवन्ति

Page 36

ग्राविर्भवन्ति स परतः परमात्मा इच्छानुकारे संकल्पतवान् विचारितवान् कस्मिन् उत्क्रान्ते शरीरादूर्ध्वंगते 'ग्रहं' पदवाच्य उत्क्रान्तो भविष्यामि कस्मिन् प्रतिष्ठते स प्रतिष्ठास्यामि सर्वव्यवहार प्रवर्तकत्वेन प्रत्यक्ष-तामेति इति ॥३॥

स प्राणं शिवालयं श्रयुजत् उत्पादितवान् ग्राविर्भावित इत्यर्थः । प्राप्तान् श्रद्धां कामायनीति वेद प्रसिद्धां सर्वकार्यप्रवर्तिकां शक्तिं तस्याः सकाशात् खं वायुः ज्योतिः रापः पृथिवी इमानि पंचभूतानि इन्द्रियं मनः ग्रह्नं ग्रन्नादू वीर्यं तपः कर्म इद्रिन्द्रियारि दश, मनः एपां प्रवर्तयेथितृ एकादशं तम्मादनं भोग्यं तस्मादू वीर्यं वलं वीर्यत्तपः ज्ञानं तस्मान्मन्त्रा मन्त्रेभ्यः कर्मे लौकिकालौकिकं तस्माल्लोकाः स्वर्गादयः तेपुनामदेव-द्वादि । इमाः पोङशकलावेदोकाः ग्रात्मनः संभवन्ति । द्वादशोग्य पोङशकला इथ्थुपदिष्टाः सन्ति:— (१) प्राची दिक्कला (२) उदची दिक्कला (३) दचिया दिक्कला (४) प्रतीची दिक्कला (५) पृथिवी (६) ग्रन्तरिद्य् (७) वायुः (८) समुद्रः (९) ग्रग्निः (१०) सूर्यः: (११) चन्द्रः (१२) विद्युत् (१३) प्राणः (१४) चतुः (१५) श्रोत्रम् (१६) मनः, एता उक्तकलासु ग्रन्थभवन्ति । 'प्रजापतिः' प्रजया संरायाम्बरीय् ज्योर्तींषि सचते स पोङशीक' (य० ३४-५) इति मन्त्रेऽ पोङशकलानिदर्शनं श्रूयते पराशकस्य ग्रात्मनश्शाभेदं स्वीचृत्य ग्रागमशास्त्रे पोङशकलानां कामेश्वऽदिचित्रान्तानां पंचदशानां परिगणनं तथा पोङशीकला ललितारूपा 'नित्या पोङशिकारूपा' इति ललितासहचचनामसु । एतेन पराशक्तिरपि पोङशीरुपेण ग्राश्रीयते महात्मभिः ॥४॥

ग्रात्मविषयकोपदेशे कलाश्चाष्टौ प्रदेशे तिरोभावं समुपदिशन्नाह सेति—

स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति, सिध्येते तासां नामरुपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिदृष्टदुरिमा: पोङशकला पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरुपे पुरुष इत्येव प्रोच्यते स एपोडकलोडमृतो भवति तदेष श्लोकः ॥५॥

ग्रारा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः । तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥६॥

Page 37

भा.—स भगवानुवाच यथा स्रन्दमानाः प्रवहान्त्यः समुद्रायणाः समुद्रं प्रति गच्छन्त्यो नद्यो गंगाद्याः समुद्रं प्राप्यास्तं गच्छन्ति एकीभवन्ति । तासां नदीनां नामरूपे म्रियेते निवर्त्तते समुद्र इत्येव प्रोच्यते केवलः समुद्र एव तस्मिन् काले तिष्ठति । एवमेव स्रस्य परिदृश्र्टदुरात्मनः इमाः षोडशपूर्वोक्ताः कलाः पुरुषायरणा आत्मनिलयं प्राप्यास्तं गच्छन्ति । तासां नामरूपे म्रियेते निवर्त्तते । पुरुष इत्येवाद्वैतरूपः प्रोच्यते ब्रह्माविद्विद्भिः । तस्मिन् काले सकलः श्रमुतो भवति तदेषः श्लोको मन्त्रोऽपि भवति ॥४॥

रथनाभौ इव तस्मिन् स्यात्मनि कलाः षोडशसंख्या आत्मिकाः प्रतिष्ठिताः सन्ति । स्रान्ते तस्मिन्नेव लयं प्राप्नुवन्ति कूर्मोङि्जानि इव सर्वश इति गीतोक्तेः ब्रह्मणएव कलानामाविर्भावितिरोभावौ भवतः । तं वेच वेदनीयं पुरुषं वेद यूयम् जानीथ वचनाच्चरत्यच्चरान्दसः । मृत्युः वः युष्मान् मा परिच्यथाः पीडयतु इत्यर्थः । निष्कलं निर्गुऽणं ब्रह्मज्ञानातैव मृत्युतररां भवतीति भावः ॥४॥

सम्पूर्णां ब्रह्मविद्यां पादप्रश्नकर्तृ ण्स्य ऋषिभिः्य उपदिश्य भगवान् पिप्पलाद उपसंहरति तामिति—

तान् होवाचैतावदेवाहमेतत् परं ब्रह्मवेद । नातः परमस्ति इति ॥७॥

भा.—तान् विनेयान् पडऽऋषीन् ह भगवान् उवाच उक्तवान् एतावदेव एतदहं पदवाच्यं परं ब्रह्मवेद जानामि । यत् परमस्तत्त्वं नास्ति “वेदाहमेतं पुरुषं महान्तमादित्यवर्ण्णं तमसः परस्तात्” (यजु० ३१-६) इति मन्त्रवाक्योऽपि । स्रकार पदेन शिवः हकारपदेन शक्तितत्त्वमुषयोरैक्यं यत्र तदेवाहं पदवाच्यं परं ब्रह्म ति तदेव स्रच्चर ब्रह्म ति नाम्ना पूर्वमुक्तं चतुर्थप्रहने । स्रच्चरब्रह्मशब्दब्रह्मौश एऽयमपि तन्त्रे— शात्रोपदिष्टम् । षट्त्रिशत्तत्त्वानां छात्र समावेशः स्रकारः सर्ववर्गोप्रच्यः प्रकाशः परमः शिवः । हकारोऽन्त्यः कला रूपो विमर्शरुपः प्रकीर्तितः ॥” इति प्रमाणेन स्रकारमारष्य हकार पर्यन्तं मातृकामेलकं तत्त्वेषु, परात्प्रिशकाभाष्य एवं योजितम् । स्रकारादि विसर्गान्तं शिवतत्त्वं, कादि डान्तं धरादि नमन्तं भूतपंचकं, चादि ञान्तं गन्धादि शब्दान्तं तन्मात्रपंचकं, टादि णान्तं पादादि वागन्तं कर्माऽपंचकं, तादि नान्तं प्राणादि श्रोत्रान्तपंचकं, पादि मान्तं मनोडहङ्कारबुद्धि प्रकृति पुरुषार्क्यं पंचकं, वाङ्वादिशब्दवाच्या यादयो वकारान्ता रागादिव्याकलामाः

Page 38

याख्यानि, शादि ज्ञातं महामायाविद्येश्वरसदाशिवशक्त्याख्यं तत्वपंचकं तत्रैव मन्त्रमन्त्रेश्वरमहामन्त्रेश्वराख्यं क्रमेणै स्थितिः, महामायाख्यां विज्ञानकेवलाः पुरुषाः मायापदे प्रलयकेवला मायामारभ्य पृथिवी पर्यन्ताः सकला इमे एव परमात्मना अनुगृहीता मन्त्रेश्वरादिपदं लभन्ते । वेदान्तेषु श्राधिकारीक्तिः संज्ञा व्यवहियन्ते च । तत्रैव संग्रहच चतुः प्रकारकं भवति ।

मायान्तमात्मतत्त्वं विद्यातत्त्वं शिवान्तं स्यात्। शक्तिशिवौ शिवतत्त्वं तुरीयतत्त्वं समस्तिरेतेषामिति । सच्चिदानन्दानन्ता च निर्दिष्ट सप्ततत्त्वं, चित्ततत्त्वं ज्ञानानन्दतत्त्वं चैतित्रयाख्यां स्वरूपम् । सच्चिदानन्दाद् ब्रह्माख्यो जातेपु शिवादि चित्यन्तेषु शिवशक्त्योरानन्दांशो द्वात्रः, सदाशिवेश्वरशुद्धविद्यानां चिदंशो द्वात्रः मायादि चित्यन्तानां तु सदंशमात्रंनात्रलं सचिदानन्दानमुचरोत्तरावरेण्याभावश्यक पूर्वपूर्वावरेण्याभावच्यप्यत्चनियमाच्छिवतत्त्वे त्रयमप्यनात्रृतम् । विद्यातत्त्वे सच्चिदंशावनात्रृतौ ज्ञानान्दांशो त्वल्पमावरेण्यं, आत्मतत्त्वे तु चिदानन्दांशौ सम्यगावृतौ तिष्ठत्। आत्मशब्दो ज्ञानरूपचित्परः । शिवशब्दो मोच्वरूपानन्दे प्रसिद्ध इति तेन शब्दत्रयेपैव सच्चिदानन्दांशवत्त्वलाभ इति तत्त्वत्रयरहस्यम् ।

(ललितासहस्रनामभाष्यम्) एवं सर्वेषां वर्णानां लक्षणेऽपि “अहं” इति व्यध्दृतब्रह्मत्वेन अहदेतदुरुपेया शब्दद्वयाख्या च श्रुतेऽपदेशो भवति, अहं ब्रह्मास्मि इति महावाक्येन चैक्यं संगच्छते इति निश्चयः ।३।

ते तुर्मर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि इति । नमः परमत्र्यषिभ्यो नमः परमत्र्यषिभ्यः ।४।

मा०-ते सुदेशादयः पिप्पलादमर्च गुरुम् । पूजयन्ति ब्राहुः यदू हे भगवान् ! त्वं हि च्यास्माकं पिता रक्षकः ब्रह्मतत्त्वज्ञानप्रदानेभ्यः श्रविद्यायाः परं पारं तारयसि दर्शयसि श्रविद्यायाः परं पारं ब्रह्मत्त्वं तदू दर्शितवान् । परमत्र्यषिभ्यो नमोडस्तु स्वादरार्थे बहुवचनम् । श्रभ्यासः प्रश्नोऽपि ब्रह्मविद्या समाप्यर्थः ।५। इति ।

भद्रं कर्णेभिरिति शान्तिः । इति प्रश्नो उपनिषत्प्रकरणाश्यम् ।

Page 40

शिवशक्ति प्रेस प्रा० लि०, झाँसी ।