Books / Prataparudriya Vidyanatha Ratnapana Vyakhya of Kumara Swami Sankara Rama Sastry C. Bala Manorama Press 1950

1. Prataparudriya Vidyanatha Ratnapana Vyakhya of Kumara Swami Sankara Rama Sastry C. Bala Manorama Press 1950

Page 1

GOVERNMENT OF INDIA DEPARTMENT OF ARCHAEOLOGY CENTRAL ARCHAEOLOGICAL LIBRARY

CLASS

CALL NO. SQ4A Vid-San

D.G.A. 79.

Page 2

Chand Munti Booksellers) 2 & Mehar Publishers ,3 Nal Sarak.DELHI

Page 3

S

.

Page 4

Sri Balamanorama Series No. 8.

PRATĀPARUDRĪYA

। प्रतापरुद्रीयम् ॥

विद्यानाथप्रणीतम् अलंकारशास्त्रम्

कुमारस्वामिसोमपीथिना विरचितया

रत्नापणाख्यया व्याख्यया समन्वितम्।

Third Edition 675.

Edited by

C. Sankara Rama Sastri, M.A., B.L., Advocate, Mylapore, Madras. ARCHA OLOGICAL Sa 4A Vid/Sam New Octhl. CENTRAL

LGRARY PRINTED AND PUBLISHED BY THE SRI BALAMANORAMA PRESS, MYLAPORE, MADRAS.

All Rights Reserved.

Price ] 1950 [Rs. 4

Page 5

1st Edition 1914

2nd Edition 1931

UENTNA: LIBRA AL

Aoa: No. 675 Date ... 31- 12-33 Sa.4.A/vialsaw.

Page 6

PREFACE

PRATĀPARUDRAYASOBHUSHAŅA or PRA- STAPARUDRIYA, as it is shortly called, is a brief, but exhaustive, standard work in Poetics, which is held in high esteem and enjoys an unrivalled popularity in South India among works of poetics, It covers a very wide range in the field of poetics, and proceeds on the lines of Mammata's Kavya- prakāśa in general, and in particular follows the scheme of the Dhvanyaloka so far as the Dhvani is concerned, of the Dasarūpaka in matters Tof dramaturgy, and of the Alamkarasarvasva in the treatment of Alamkaras. All the verses in this book cited by way of example relate to King Prata- parudra of the Kakatiya dynasty who ruled over the Trilinga country with Ekasila, the modern Warangal, as his capital, towards the end of the 13th and begin- ning of the 14th century A.D. From the Pratapa- rudrakalyāņanātaka which is a model drama com- posed by the author and incorporated in the Nataka- prakarana of this work to illustrate the. several Natakangas and also from several other passages cited by way of illustration in this book it is known that Prataparudra was the son of Mahadeva and Mummadāmbā, that Mummadamba was the daugh- ter of Rudramba who seems to have been an influen- tial and powerful queen, whose parents were Gaņa- pati and Soma. On the death of king Ganapati without male issue the kingdom seems to have been Linherited by his daughter Rudramba, who is through- out treated as the king in the drama. Queen Rudramba, being sonless, adopted her grandson Pra- taparudra whose coronation is described in the drama.

Page 7

4

That Vidyanatha was a contemporary of King Prataparudra goes without saying, so that the date of the work can be easily assigned to the last few decades of the 13th or the first few decades of the 14th century. As regards the author of the commentary Ratnapana, it is clear from the colophon that his name is Kumarasvami Somapīthin, son of Mallinatha and younger brother of Peddayarya. Mallinatha, the famous author of the commentaries on the Panca Maha Kavyas has been assigned by research scholars to the middle of the 14th century so that Kumara- svami can be placed in the last few decades of the 14th and the first few decades of the 15th century. Another commentary on Prataparudriya called Ratnaśāņa, available only up to Kāvya Prakaraņa, has been printed in the Bombay Sanskrit Series edition of Pratāparudrīya in addition to Ratnāpaņa. C. SANKARA RAMA SASTRI, Mylapore, Madras. General Editor, 24th February, 1950. Sri Balamanorama Series.

Page 8

।। प्रतापरुद्रीयस्य विषयानुक्रमणिका ॥

विषय: पार्श्वम् विषयः पार्श्बम्

नायकप्रकरणे- सात्त्विकभावाः १७१ नायकगुणा: व्यमिचारिभावाः १७३ v नायकस्रूपम् १३ शृकरचेष्टाः १८७ उदाप्तादिनायकविशेषा: १५ मन्मथावस्थाः १९४ शृह्गारनायका: १८ रसविशेषा: १९९ शरभारनायिका: २१ दोषप्रकरणे- काव्यप्रकरण- पद्दोषा: २१३ काव्यखरूपम् ३१ वाक्यदोषाः २१७ कैशिक्यादिवृत्तम: ४३ अर्थदोषा: २२६ रीतय: ४६ गुणप्रकरणे- शख्या द्राक्षादिपाकाक्ष ४९ गुणनिरूपणम् २३३ काव्यविशेषा: ५१ शब्दालंकारप्रकरणे ध्व निविशेषा: ५३ अलंकार खरूपनिरूपणम् .२४४ महाकाव्यादिप्रबन्धाः ६९ अलंकारविभाग: २४५

क्षुद्र प्रबन्धा: ७० छेकानुप्रासः २४७ नाटकप्रकरणे- वृत्त्यनुप्रासो यमकं च २४८ नाव्यखरूपम् ७२ पुमरुक्तवदाभास: २४९ दश रूपकाणि ७३ लाटानुप्रास: २५० रूपकसामग्री ७४ चित्रालंकार: २५१ नाटकोदाहरणप्रारम्भ: ९३ अर्थालंकारप्रकरणे- प्रथमोऽक्क: १०५ उपमा २५४ १११ अनन्वयः, उपमेयोपमा च २६७ तृतीयोऽङ्कः १२३ स्मरणं, रूपकं च २६८ चतुर्थोडक्ु: १३५ परिणाम: २७३ पब्मोऽ्ङ्क: १४१ संदेहः २७४ रसप्रकरणे- भ्रान्तिमान् २७५ रसखरूपम् १५५ अपह्भतिः २७६ रत्यादिस्थायिभावा: १६३ उल्लेख: २७७

Page 9

U3

विषय: पार्श्वम् विषयः पार्श्वम्

उत्प्रेक्षा २७८ आक्षेप: ३१७

अतिशयोक्ति: २८७ व्याजस्तुतिः, अप्रस्तुतप्रशंसा च ३१९ सहोकि: २८९ पर्यायोक्त्तम् ३२१

विनोकि: २९० प्रतीपं, अनुमानं च ३२२

समासोफि: २९१ काव्यलित्गम् ३२३

वक्रोक्ति: २९६ अर्थान्तरन्यास: ३२४ सवभावोकि:, व्याजोकिश २९७ यथासंख्यं, अर्थापत्तिक्ष ३२५

मीलनम् २९८ परिसंख्या ३२६

सामान्यम्, तद्रुणश्च २९९ उत्तरम् ३२७

अतद्गुणः, विरोधक्ष ३०० विकल्पः ३२८

विशेष: ३०३ समुष्मः ३२९

अधिक: ३०४ समाधिः, भाविकं च ३३१ विभावना, विशेषोक्तिर संगतिश्व ३०५ प्रत्यनीकम् ३३३ विचित्रम्, अन्योन्यं च ३०६ व्याघातः, पर्यायक्च ३३४

विषमम् ३०७ सूक्ष्म: ३३५ सर्म, तुल्ययोगिता च ३०८ उदात्त: ३३६ दीपकम् ३०९ परित्ृृत्तिः ३३७ प्रतिबस्तूपमा ३१० कारणमाला, एकावली, माला- रष्ठान्त: ३११ दीपकं च ३३८ निदर्शना ३१२ सार: ३३९ ग्यतिरेक: ३१३ मिश्रालंकारप्रकरणे- श्रेष: ३१४ संसृष्टिः ३४० परिकर: ३१६ संकर: ३४१

Page 10

॥ श्रीः ।I

श्रीगुरुचरणारविन्दाभ्यां नमः श्रीमद्विद्यानाथप्रणीतम्

प्रतापरुद्रीयम।

श्रीमत्कुमारस्वामिकृतरत्नापणसहितम्।

अथ नायकप्रकरणम्।

विद्याकैरवकौमुदीं श्रतिशिरःसीमन्तमुक्तामणि दारान् पद्मभुवसत्रिलोकजननीं वन्दे गिरां देवताम्। कल्याणानि तनोतु कक्षन पुमानर्धान्नदन्तावलो गण्डाभोगविलोल्ुपानलिगणान् कर्णाब्लैश्वालयन्। यत्पादाम्बुरुहावलम्बशरणा: पूर्वे पुमांसत्त्रय- स्त्नैलोक्यस्थितिसर्गसंहृतिविधौ निर्विन्नसिद्धोद्यमाः ॥ १॥ अस्तु कल्याणद दिव्यं वस्तु नारीनरात्मकम्। स्वोपज्ञ वाडयं यस्य विहारगृहवेदिका ॥२॥ वाणी काणभुजीमजीगणदवासासीच वैयासिकी- मन्तस्तन्त्रमरंस्त पन्नगगवीगुम्फेषु चाजागरीत्। चाचामाचकलद्रहस्यमखिलं य्ाक्षपादस्फुरां लोकेऽभूददुपज्ञमेव विदुषां सौजन्यजन्यं यशः ॥३॥ त्रिस्कन्धशास्त्रजलधिं चुल्ुकीकुरुते स्म यः । तस्य श्रीमल्िनाथस्य तनयोऽजनि तादृशः ॥४॥ कोलचलपेद्दयार्यः प्रमाणपदवाक्यपारदृश्वा यः । व्याख्यातनिखिलशास्र: प्रबन्धकर्ता च सर्वविद्यासु ॥५॥ तस्यानुजन्मा तद्नुग्रहात्तविद्योऽनवद्यो विनयावनम्रः । स्वामी विपश्चिद्वितनोति टीकां प्रतापरुद्रीयरहस्यभेत्त्रीम्॥ ६ ॥

Page 11

२ प्रतापरुद्रीये रत्नापणसहिते

यत्पादाब्जनमस्क्रिया: सुकृतिनां सारस्तप्रक्रिकिया- बीजन्यासभ्ुवो भवन्ति कवितानाव्यैकजीवातवः ॥१।।

पुण्यशलोकगुणोक्तिशाणकषणादुत्तेजनाँ लम्भितं संजग्राह रसादिरत्ननिचयं विद्याधिनाथः पुरा। सोऽहं तथ्यवहारहेतुमधुना कंचित् करोम्यापणं तत्रानुग्रह्मूल्यतोऽभिलषितं क्रीणन्तु धन्या जनाः ॥। ७ ॥ यद्यन्निगूंढमखिलं शक्त्या तत्तत् प्रकाश्यते। नामूलं लिख्यते किंचिज्नानपेक्षितमुच्यते ॥८॥ अथ तन्रभवान् विद्यानाथनामा महाकविरलंकारशात्रमारभमाणस्तस्या- विघ्रपरिसमाप्तये प्रचयगमनाय च 'महलादीनि मज्लमध्यानि मनलान्तानि शास्त्राणि प्रथन्ते' इत्यादि भगवद्धाष्यकारवचनम् 'आशीर्नमस्किरिया वस्तु- निर्देशो वापि तन्मुखम्' इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणत्वप्रतिपादक- माचार्यदण्डिवाक्यं च प्रमाणयन् वृद्धाचारपरिप्राप्तं विशिष्टेष्टदेवतानमस्कार- लक्षणं मञ्गलमन्तेवास्यनुग्रहायादौ ग्रन्थतो निबभ्राति-विद्येति ॥ विद्या वेद- वेदाशादयः । 'अज्ञानि वेदाश्चत्वारो भीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या होताश्चतुर्दश ।।' इति स्मरणात्। ता एव कैरावाणि कुमुदानि तषां कौमुदीं चन्द्रिकां निखिलविद्योल्लासकारणभूतामित्यर्थः । श्रुतीनां शिरांसि उपनिषद एव शिरांसि मूर्धानः । तत्र सीमन्तमुक्तामणि केशमार्गाभरणायमानां वेदान्तवेद्या- मित्यर्थः । अथास्या लौकिकस्वरूपमाह-दारांनिति ॥ 'दाराः पुंसि च भूम्न्येव' इत्यमिधानाद्वहुत्वं पुंस्तवं च। त्र्यवयवो लोकस्त्रिलोकः ।. शाकपार्थिवादित्वान्म- ध्यमपदलोपी समासः । लोकत्रयसमुदायोऽत्र त्रिलोकशब्देन विवक्षितः । तस्य जननीमिति षष्ठीसमासः । अन्यथा 'तद्धितार्थ' इत्यादिना समाहारसमासे अकारान्तोत्तरपदत्वेन स्त्रीत्वात् 'द्विगोः' इतीकारे त्रिलोकीति स्यात्। अत एव 'द्विगोर्लुगनपत्ये' इत्यत्र "त्र्यवयवा विद्या त्रिविद्या। तामधीते वेत्ति वा त्रैविद्यः । न तु तिस्रो विद्या अधीत इत्यण्प्रत्ययनिमित्तः 'तद्धितार्थ' इत्यादिना समासः । अत एवाण्प्रत्ययस्य लुगभावः" इत्याह भगवान् भाष्यकारः । इत्थं नम- स्कर्तव्यदेवताया वैशिष्टथमुक्त्वा स्वग्रन्थारम्भोपयोगित्वेन इष्टत्वं च सूचयति- यत्पादेति ॥ पादावब्जे इवेत्युपमितसमासः । न तु पादावेवाब्जे इति रूपक- समासः । तथा सत्यब्जयोः प्राधान्येन तत्र नमस्कारायोगात्। सारस्वतप्रक्रियाः काव्यनाटकादिवाक्कयविशेषाः तासां बीजं कारणभूतः शक्तिप्रतिभाद्यपरपर्यायः संस्कारविशेषः । तदेव बीजमङ्करकारणं तस्य न्यासभुवः आवापभूमयः । कविताना्यस्यैकजीवातवो मुख्यजीवनौषधानि अविच्छेदहेतव इत्यर्थः । अत्र नमस्कारातू कविताकारणभूतः संस्कारो जायते संप्रदायाविच्छेदश्व भवतीति

Page 12

नायकप्रकरणम् । ३

पूर्वेभ्यो भामहादिभ्यः सादरं विहिताञ्जलिः। चक्ष्ये सम्यगलंकारशास्त्रसर्वस्वसंग्रहम् ॥ २।। चिरेण चरितार्थोऽभूत् काव्यालंकारसंग्रहः। अ्रतापरुद्रदेवस्य कीर्तिर्येन प्रकाश्यते ॥ ३ ॥ रसप्रधाना: शब्दार्था गुणालंकारवृत्तयः। रीतयश्चेयती शास्त्रप्रमेयं काव्यपद्धतिः ।।४।। यद्यप्यसौ प्रबन्धेषु प्राचां साधु निरूपिता। तथाप्यस्याः समं नेतुर्नोदाहरणमाहतम् ॥ ५॥ पुण्य श्रोकस्य चरितमुदाहरणमर्हति। न कश्चित्ताहशः पूर्वैः प्रबन्धाभरणीकृतः ॥ ६ ॥ प्रबन्धानां प्रबन्धृणामपि कीर्तिप्रतिष्ठयोः । भावः। नमस्किया इति बहुवचन तासां भक्तिश्रद्धातिशयपूर्वकतवं द्योतयति। तथाविधानामेव श्रेयस्करत्वात्। तथा च श्रुतिः -'भूयिष्ठां ते नमउक्तिं विधेम' इति। अलोपमारूपकविशेषाणां तिलतण्डुलवत् परस्परनैरपेक्ष्यात् संसृष्टिः। तदुन्नयनप्रकारस्त्वलंकार प्रकरणे व्यक्तीभविष्यतीत्युपरम्यते। ग्रन्थादौ वायु- बीजस्य वकारस्य क्षेमंकरस्य भूदेवताकस्य मगणस्य चोपादानाद्वर्णगणादिशुद्धि- रस्त्येवेति सर्वमवदातम् ॥ १॥ अथालंकारशास्त्रप्रणेतृप्रणामपूर्वकं वक्ष्यमाणमर्थ प्रतिजानीते-पूर्वेभ्य इति॥ यद्यपि रसालंकाराद्यनेकविषयमिदं शास्त्रं तथापि छत्रिन्यायेनालंकारशास्त्रमुच्यते। तत्र सर्वस्वं रसादिप्रमेयं संगृह्यते संक्षिप्यते ये- नासावलंकारशारूसर्वस्वसंग्रहः प्रारिप्सितो ग्रन्थस्तं सम्यक्् विशदं वक्ष्य इति योजना। संक्षेपवैशद्याभ्यां रसादिस र्व प्रमेयप्रतिपादनात् सर्वोत्कृष्टः स्वग्रन्थ इति सूचित भवति ॥ २ । संप्रत्यलंकारशास्त्रस्य लोकोत्तरवर्ण्यलाभेनोत्कर्षमाह- चिरेणेति॥ ३॥ शास्त्रसर्वस्वसंग्रहमित्युक्त्त तद्विभजते-रसेति॥ रसप्रधाना रस- जीविता इत्यर्थः । यद्यपि वस्त्वलंकाररसात्मना त्रिविधस्यापि व्यज्यस्य जीवितत्व- मुत्तरत्र वक्ष्यति, तथापि स्वात्ममात्रविश्रान्तत्वेन प्राधान्याद्रसस्यैव मुख्यं जीवित- त्वम्। वस्त्वलंकारव्यञ्ञययोस्तु सर्वथा रसपर्यवसानेनाप्राधान्यात्तद्भावेऽपि वा- च्यादुत्कृष्टत्वसाम्यात् औपचारिको जीवितत्वव्यवहार इति न कश्िद्विरोध इति ध्व- निलोचनरहस्यम्। गुणादयो वक्ष्यमाणलक्षणाः । अनुक्तसमुच्चयार्थश्वशब्दः.शय्या- पाकावाकर्षति ॥४ ॥ काव्यस्वरूपनिरूपणे सत्यप्युदाहरणार्हनायकनिरूपणाभावात् प्राचां प्रबन्धेष्वपकर्ष इत्याह-यद्यपीति ॥ असौ काव्यपद्धतिः ॥५॥ अत एव प्रबन्धुणामप्यपकर्ष इत्याह-पुण्येति॥ चरितोदाहरणे कर्तृकर्मणी॥६॥

Page 13

४ प्रतापरुद्रीये रत्नापणसहिते

मूलं विषयभूतस्य नेतुर्गुणनिरूपणम्॥७॥ यथा रामगुणवर्णनं रामायणवल्मीकजन्मनोर्महाप्रतिष्ठाकारणं, तथा महापुरुषवर्णनेन हि श्रेयस्करी प्रबन्धस्थितिः । यथा वेदशास्त्र- पुराणादेर्हितप्राप्तिरहितनिवृत्तिश्च, तथा सदाश्रयात् काव्यादपि । इयान् विशेष :- काव्यात् कर्तव्यताधीः सरसा, अन्यत्र न तथा। तथा हि। यद्वेदात्प्रभुसंमितादधिगतं शब्दप्रधानाचचिरं यच्चार्थप्रवणात्पुराणवचनादिष्टं सुहृत्संमितात्। कान्तासंमितया यया सरसतामापाद्य काव्यश्रिया कर्तव्ये कुतुकी बुधो विरचितस्तस्यै स्पृहां कुर्महे ॥८॥ तननिरूपणे तु महानुभयेषामुत्कर्ष इत्याह-प्रबन्धानामिति । प्रबन्धृणां प्रबन्धकर्तणाम् ॥७॥ तत्र दृष्टान्तमाह-यथा रामेति॥ उत्तमगुणवर्णनेनैव प्रबन्धनिर्माणम नेकश्रेयोहेतुरित्याह-तथा महापुरुषेति॥ अत एवोत्तमगुण- वर्णनमवश्यं कर्तव्यमिति भावः । अथ स्वग्रन्थप्रतिपाद्यस्य काव्यस्य वेदादिवत् पुरुषार्थपर्यवसायितामाह-यथा वेदेति॥ सन् उत्तमनायक आश्रयो वर्ण्यत्वेन यस्य तस्मात्। अभ्युच्चयमाह-इयानिति ॥ उक्तमर्थमुपपादयति-तथाही- त्यादिना ।। प्रत्यक्षाद्यविषयमिष्टप्राप्त्युपार्यं ज्योतिष्टोमादिकमनिष्टपरिहारोपायं कलज्जभक्षणवर्जनादिकं च येन विदन्ति स वेद: । तदुक्तम्-'प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते । एन विदन्ति वेदेन तस्माद्वेदस्य वेदता ॥' इति। तस्मात् प्रभुसंमिताद्राजतुल्यात्। कुतः १ शब्दप्रधानात्। वाकयात्रेण प्रभुरिव वेदोऽपि विधिनिषेधबलेन पुंसां प्रवर्तको निवर्तकश्च। प्रभुर्विपक्ष दण्डयति, वेद- स्तु प्रत्यवायं जनयतीति शब्दप्रधानत्वमिति भावः । प्रत्यवायजनकत्वं च वेद- स्य स्वरवर्णयोरन्यथोच्चारणेऽपि दुरितश्रवणादन्यथाऽनुष्टानेऽननुष्ठाने वा कैमु- तिकन्यायसिद्धम् । अध्ययनविधे: फलवरदर्थावबोधपर्यन्तत्वादिति वेदितव्यम् । चिरं मीमांसापेक्षया कृच्छ्रेणेत्यर्थः । यत् कर्तव्याकर्तव्यरूपमधिगतं प्रमितम् । अर्थप्रवणादर्थवादबहुलत्वेनार्थप्रधानात्। पुराणादिकं न वेदवदेवं कुर्याजैवं कुर्यादिति प्रवर्तकं निवर्तकं वा विधिनिषधबलेन, किंतु तन्न्यकारेण पूर्वपुरुष- चरितस्तुतिनिन्दामुखेन रागद्वेषावुत्पाद्य मित्रवत् प्रवृत्तिनिवृत्तिहेतुभूतम् । अतो- डस्यार्थप्रधानत्वमित्यवगन्तव्यम् । अतः सुहृत्संमितात् पुराणवचनाच्च यदिष्टम- मिरुचित तस्मिन्नित्यध्याहियते। यत्तदोर्नित्यसंबन्धात्। कान्तासंमितया यया। कवयते वर्णयतीति कविः । तस्य कर्म काव्यम् । ब्राह्मणादित्वात् ष्यञ्प्रत्ययः ।

Page 14

नायकप्रकरणम् । ५

ततः काव्यं दष्टादृष्टफलजनकतया बहूपयुक्तम्। तथोक्तं काव्य- प्रकाशे-

'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये। सद: परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥' इति। प्रसिद्धं चैतन्महाप्रबन्धेषु- 'पेरिवडइ विण्णाणं संभाविज्जइ जसो विडप्पंदि गुणा। सुव्वइ सुपुरुसचरिअं किं तज्जेण ण हरंति कव्वाळावा ।

१. परिवर्धते विज्ञान संभाव्यते यशोऽर्ज्यन्ते गुणाः। श्रूयते सुपुरुषचरितं किं तद्येन न हरन्ति काव्यालापाः ॥ तच्च पङ्चजादिवद्रूढत्वाद्रसोलसितशब्दार्थसंघटनात्मकमेव न कर्ममात्रम्। तस्य श्रिया विलासेन । सरसतामापाद्य उत्कण्ठाजननेनाभिमुखीकृत्येत्यर्थः । कर्तव्ये गुर्वाज्ञाकरणादौ। बुधो विद्वान् न तु पामरः । कुतुकी रागवान् विरचितः। उभयत्ाप्यकार प्रश्लषादकर्तव्ये परदारहरणादावफुतुकी द्वेषवांश्चेति लभ्यते। यथा कामिनी कटाक्षवीक्षणादिविलासैरेव कामिनमावर्जयन्ती ममेदममिलषितं कुरु अनमिलषितं मा कुर्वित्यनुक्त्वैव सर्व संपादयति, तथा काव्यश्रीरपि व्यजनव्या- पारमात्रपरत्वेनोपसर्जनीभूतशब्दार्थतया शब्दार्थप्रधानाभ्यां प्रभुसुहृत्संमिताभ्यां वेदपुराणाभ्यां विलक्षणा सती सहृदयहृदयाह्लादकारिणा व्यञ्जनाव्यापारेणैव रामा- दिवद्वर्तितव्यं न तु रावणादिवदिति पुंसः कर्तव्ये प्रवर्तयति, निवर्तयति चाकर्त- व्यादित्यस्याः कान्तासमितत्वमवगन्तव्यम्। एतेनास्याः सरसतापादनेन प्रवर्त- कत्वाद् भयानुनयपुरस्सरं प्रवर्तकाभ्यां वेदपुराणाभ्यां विशेषो विवक्षित इति बोद्धव्यम्। अतस्तल्लक्षणाय प्रयतामह इत्याह-तस्यै स्पृहां कुर्मह इति ।। 'स्पृहेरीप्सितः' इति संप्रदानत्वाच्चतुर्थी। एतेन पुरुषार्थोपदेशः काव्यस्य प्रयोजनं तद्युक्त का्व्यं विषयः, तज्ज्ञानं प्रयोजनम्, उभयोः साध्यसाधन- भाव: संबन्धः, जिज्ञासुरधिकारीत्यनुबन्धचतुष्टयं सूचितम् ॥८ ॥ न ह्ुक्तोपदेश- विशेष एवात्र प्रयोजन, किंतु कीर्त्यादिकमपि संभवतीत्याह-तत इति॥ ततः सप्रयोजनत्वात् बहुप्रयोजनसाधनत्वादुपादेयमिति भावः । अत्र वृद्धसंवाद- माह-तच्चोक्तमित्यादिना॥ कृद्विद्युज्शब्दाः भावे संपदादित्वात् क्विबन्ताः। अत्र यशोऽर्थानर्थप्रतीकाराः द्वयोरपि। व्यवहारोपदेशौ तु सहृदयस्यैव। निर्ष- तिकाले कविरपि सहृदय एवेति निर्धृतिर्द्वयोरपि। परिवड्ढईति॥ न हरन्तीत्यत्र मन इति शेषः । विडप्पन्दि गुणा। 'अर्जेर्विडप्पः' इति कर्मणि विडप्पादेश इति त्रिविक्रमभोजराजौ। किं बहुना। चतुर्वर्गव्युत्पत्तिरप्यत्रैव भवतीति भाव:।

Page 15

६ प्रतापरुद्रीये रत्नापणसहिते

यत्र पुनरुत्तमपुरुषचरितं न निबध्यते, तत् काव्यं परित्याज्यमेव। तन्मूला चेयं स्मृति :- 'काव्यालापांश्र वर्जयेत्' इति। न केवलं काव्यस्यायं पन्थाः । किन्तु शास्त्रजातस्यापि सदाश्रयत्वेन महान् लोकादरः । तथा वैशेषिकादेरीश्वरप्रतिष्ठापकतया जगत्पूज्यता। तथा महाभारतादीनामपि महापुरुषवर्णनपरतयैव विश्वातिशायि- त्वम्। किं बहुना। वेदान्ता अपि ब्रह्मप्रतिपादकतया परमुत्कृष्यन्ते। 'अथातो धर्मजिज्ञासा' इत्युपक्रममाणेन सूत्रकृता महर्षिणापि तथापि परनिर्षृतिरेवेह मुख्यं फलमिति रहस्यम्। अन्यथा काव्यस्य कान्ता- संमितत्वविशेषो न स्यात्। तदुक्तं लोचने-चतुर्वर्गव्युत्पत्तेरपि चानन्द एव पार्यन्तिकं मुख्यं पलमिति। ननु 'काव्यालापांश्च वर्जयेत्' इति निषेधाद्वि- फलोऽयं प्रयास इत्याशक्कय स्मृतेरन्यविषयत्वमाह-यत्र पुनरिति। अन्यथा रामायणादेरपि हेयत्वप्रसंगादिति भावः । काव्ये कैमुतिकन्यायेनोत्तमपुरुषगुणव- र्णनस्यावश्यकत्वं प्रतिपादयितुं शास्त्रजातस्यापि तत्परत्वमाह-न केवलमित्या- दिना।। ईश्वरप्रतिष्ठापकतयेति॥ अङ्करादिकं सकर्तृकम् कार्यत्वात् घटवत् इत्यादिप्रमाणैरिति भावः । अत्र 'कर्तरि च' इति निषेधात् 'याजकादिमिश्र' इति षष्ठीसमासो द्रष्टव्यः। तस्याकृतिगणत्वात्। यद्वा शेषषष्ठीसमासः । तस्यैतन्निषेधाभावात् । एवमन्यलापि द्रष्टव्यम् । भारतादीनामपि श्ास- कत्वाच्छास्नत्वेन निर्देशः । ननु चिदेकरसतया निर्धर्मकस्य ब्रह्मणः प्रति- पादकेषु वेदान्तेषु गुणवत्पुरुषवर्णनं नास्तीति चेन्नैप दोपः, ब्रह्मण्यानन्दादी नामौपाधिकानां विद्यमानत्वात्। तदुक्तं पथ्चपादिकायाम्-'आनन्दो विष- यानुभवो नित्यत्वं चेति सन्ति तद्धर्माः' इति । अथवा सच्चिदानन्दस्य ब्रह्मणे निर्गुणस्यापि निर्दोषत्वमेव गुणः । यथाह माघ :- 'अपदोषतैव विगुणस्य गुणः' इति। तदेतदभिप्रेत्याह-किं बहुनेति॥ न चदं माघवचनमब्रह्मप- रमिति वचनीयम्। तथा हि 'अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः 1 अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ।I' इति। अत्र प्राकरणिकसन्ध्यानभःप्रतिपादनात् प्रतीयमानस्याप्राकरणिकस्य 'न तत्र सूर्यों भाति न चन्द्रतारकम्' 'को मोहः कः शोकः' इत्यादुपनिषदर्थसनाथस्याकाश- पर्यायनभःशब्दार्थस्य ब्रह्मणोऽर्थान्तरन्यासेन निर्गुणस्य निर्दोषत्वमेव गुण इति विवक्षितत्वात्। पदार्थविवेचनप्रपथः पुनरस्मन्महोपाध्यायविरचितमाघव्या- ख्याने सर्वकषाख्याने द्रष्टव्यः । निरीश्वरवादिनामपि मीमांसकानां गुणधौरेय- धर्मप्रतिपादनादेव गुणवत्पुरुषवर्णनपर्यवसायित्वमित्याह-अथात इति।। अथ

Page 16

नायकप्रकरणम् । ७

पुरुषाश्रितस्य गुणश्रेष्ठस्य धर्मस्यं जिज्ञासाद्वारेण महापुरुषगुणवर्ण- नमेव शास्त्रस्य प्राणा इत्युररीकृतम् । तत्तन्न्यायनिरूपणपरस्यापि प्रबन्धराश्महापुरुषगुणवर्णनं हेत्र्रः परमामोदः । अतश्च प्रतापरुद्रदेवस्य गुणानाश्रित्य निर्मित: । अलंकारप्रबन्धोडयं सन्तः कर्णोत्सवोऽस्तु वः॥ ९॥ काकतीयनरेन्द्रस्य यशो भूषयितुं कृता। विद्यानाथकृतिश्चेयं स्यं तेन विभूष्यते ॥१० ॥ तदुक्तं दण्डिना- 'आदिराजयशाबिम्बमादर्श प्राप्य वालायम्। तेषामसंनिधानेSपि न स्वयं पश्य नश्यति ॥।'. इति। सूक्तैव प्रतिपाद्यमहिस्रा प्रबन्धमहत्ता। तदुक्तं प्राचा भामहेन- वैदाध्ययनानन्तरम् अतो वेदस्य विवक्षितार्थत्वाद् धर्मस्य जिज्ञासा कर्तव्येति संक्षपतः सूलार्थः । महर्षिणा जैमिनिनति शेषः । धर्मों नाम श्रेयःसाधनभूतो यागादिरेव नापूर्वमात्मनिष्ठम्। तदुक्तम्-'श्रेयस्साधनता यत द्रव्यादौ विधितो भवेत्। तस्यैव धर्मता ज्ञेया धर्मस्तत्साधनं यतः ॥' इति। 'अपूर्व च यागा- दरवान्तरव्यापार: शक्तिर्वा' इति भाट्टः। तन्मताश्रयणे धर्मस्यापूर्वद्वारा पुरुषा- श्रितत्वं गुणत्वं चौपचारिकम् । प्राभाकरास्तु यागादिव्यतिरिक स्धिरकार्य लिगा- दिवाच्यमपूर्वमेव धर्म इति प्रतिपेदिरे । तन्मते पुनस्तस्यात्मनिष्ठत्वं गुणत्वं च संप्रतिपन्नमवेति सुष्टूत्त-पुरुषाश्रितस्य गुणश्रेष्ठस्येति । उररीकृतमत्री- कृतम्। नन्वेतच्छास्त्रं न्यायनिरूपणपरं न पुरुषगुणवर्णनपरमित्याशङ्कष तस्यापि पुरुषगुणधर्मनिरूपणार्थत्वान् तत्रैव पर्यवसानमन्यथा वैफल्यमित्याशयेनाह- तत्तन्न्यायेति ।। उत्त्तमर्थमुपसंहरन् स्वग्रन्थस्य विद्वत्परिग्रहमाशास्ते-अत- श्च्ेति॥९।। वर्ण्य प्रबन्धयोरुभयोरुत्कृष्टत्वादन्योन्यमुपस्कार्योपस्कारकभाव इत्याह- काकतीयेति। काकतिर्नाम दुर्गाशक्तिरेकशिलानगरेश्वराणां कुलदेवता, सा भक्तिभंजनीयास्येति काकतीयः । 'ब्रृद्धाच्छः' इति शैषिकश्छप्रत्ययः ॥१०॥ अत्र प्रबन्धमहित्रा वर्ण्योपस्कारे वृद्धसंवादमाह-तदुक्तं दण्डिनेति। अत्र बिम्ब- शब्द: कर्तृवाची। वाश्यायादर्श: कर्म। अत्र नलनहुषाद्यसंनिधानेऽपि तद्यशो- बिम्बप्रतिष्ठाया वाकायादर्शाधीनत्वोक्त: प्रबन्धमहित्रा प्रतिपाद्योत्कर्ष इति भाव: । केष्रुचित् कोशेष्वेतत् पद्ं प्रतिपाद्यमहित्रा प्रबन्धोत्कर्षपरग्रन्थमध्ये लेखकदोषालिखितम्। तनु 'गौगों: कामदुघा सद्धिः' इत्याद्येतत्पद्यपूर्वोत्तरश्लोक- पर्यालोचनयास्मदुक्तार्थावधारणादुपेक्षणीयम् । अथ वर्ण्यमहित्रा प्रबन्धोपस्कारे

Page 17

प्रतापरुद्रीये रत्नापणसहिते

'उपश्ोक्यस्य माहात्म्यादुज्ज्वलाः काव्यसंपदः ।' इति । प्रतिपादितं चोद्धटेन - 'गुणालंकारचारुत्वयु क्तमप्यधिकोज्ज्वलम्। काव्यमाश्रयसंपत्त्या मेरुणेवामरद्रुमः ॥' इति। रुद्रभट्टेनापि कथितम्-'उदारचरितनिबन्धना प्रबन्धप्रतिष्ठा' इति। प्रपश्च्वितं च साहित्यमीमांसायाम्-'नायकगुणग्रथिताः सूक्तिस्रज: सुकृतिनामाकल्पमाकल्पन्ति' इति। निरूपितं च भोजराजेन -- 'कवेरल्पाडपि वाग्वृत्तिर्विद्वत्कर्णावतंसति। नायको यदि वर्ण्येत लोकोत्तरगुणोत्तरः ॥' इति। । महाकुलीनत्वादिनायकगुणा:।। अत्रैते नायकगुणाः । महाकुलीनतौज्ज्वल्यं महाभाग्यमुदारता। तेजखिता विदग्धत्वं धार्मिकत्वादयो गुणाः ।। ११।। पूर्वशास्त्रानुसारेण कतिचित् कथिता इमे। प्रतापरुद्रदेवस्य गुणा वाचामगोचराः ॥ १२ ।। अथैतेषां स्वरूपमुदाहरणं च। तत्र महाकुलीनता नाम कुले महति संभवः ।

क्षाण्यां क्रीडितुमिच्छुभिश्चिरतरं संप्रार्थितः पद्मभूः। भामहादिसंवादमाह-सूक्तैवेत्यादिना॥ नायकेति॥नायको रामादिस्तरलश्च। गुणाः शौर्यादयस्तन्तवश्च। आकल्पवदाचरन्ति आकल्पन्ति। 'सर्वप्रातिपदि- केभ्यः क्विव्वा वक्तव्यः इति क्विप् । अनेन कर्णावतंसतिर्व्याख्यातः । एवम- वश्यं लोकोत्तरगुणो नायकः काव्ये वर्ण्य इत्युक्तम्। ते गुणाः क इत्याकाल्लायां पूर्वशास्त्रानुसारेण कतिचन गुणान् गणयति-तत्रेत्यादिना॥ अथैतेषां यथोद्देश- कर्म लक्षणोदाहरणे प्रदर्शयति-महाकुलीनतेत्यादिना॥ 'महाकुलादञ्खजौ' इत्यत्रान्यतरस्यांग्रहणानुवृत्त्या खप्रत्ययः ॥ ११॥ १२ ॥ उदाहरति-ताह- गिति।। अत्र भूलोकस्य स्वर्गातिशायि वैभवं काकतीयनरेन्द्राणामिन्द्रादिसादृश्य

Page 18

नायकप्रकरणम्।

अत्यर्केन्दुकुलप्रशस्तिमसृजदं काकतीयान्वयं

अथौज्ज्वल्यम्- तस्मिन् संप्रति वीररुद्रवपुषा जागति लक्ष्मीपतिः॥१३।।

रूपसंपन्नदेहत्वमौज्ज्वल्यं परिकीर्त्यते। यथा- मुरारेर्य: पूर्व जलनिधिसुतायामुदभव- न्महादेवाज्जातः स पुनरवनीभृद्दुहितारि। वपुष्मान् कामोऽयं जयति जगतीभाग्यविभवैः प्रतापश्रीरुद्रः स्वयमिति मनीषा मृगदेशाम् ॥१४॥ अथ महाभाग्यम्- विश्वंभराधिपत्यं यत्तन्महाभाग्यमुच्यते।। यथा- सेवानम्रनरेन्द्रमौलिविलसद्रत्नांशुनीराजितं राज्यश्रीप्रथमावतारपद्वीमारुह्य सिंहासनम्। क्षोणीं रक्षति विक्रमैरनुपमैः प्रत्यर्थिपृथ्वीपति-

अथौदार्यम्- श्ाघालङ्नजाङ्गिकैर्गुणनिधिः श्रीवीररुद्रो नृपः ॥१५॥।

यद्विश्राणनताच्छील्यमौदार्यं तन्निगद्यते। च व्यज्यते॥ १३ ॥ औज्ज्वल्यमाह-रूपेति ॥ कुण्डलमुक्ताहारनू पुराजदादि- चतुर्विधभूषणाभावेऽपि भूषितवदवभासमान आकारविशेषो रूपम्। तदुक्तः भावप्रकाशे-'आवेध्यारोप्यविक्षप्यबन्धनीयैरभृषितम्। यद् भूषितमिवाभाति. तद्रूपमिति कथ्यते ॥' इति। उदाहरति-मुरारेरिति॥ महादेवान्महादेवनामका- न्महाराजात्। अवनीभृद्ुहितरि राजपुत्र्याम्। ईश्वरात् पार्वत्यामिति च ध्वन्यते। अत्र मदनत्वोत्प्रेक्षया रूपसंपत्तिरुक्ता ॥ १४ ॥ महाभाग्यमाह-विश्वंभरेति ॥ विश्व बिभर्तीति विश्वंभरा। 'संज्ञायां भृतृत्रजि' इत्यादिना खश्प्रत्यये मुमा- गमः । तस्या आधिपत्यं सार्वभौमत्वमित्यर्थः । उदाहरति-सवेति ॥ प्रथमो- Sवतारोऽवतरणम् । 'अवे तृस्त्रोर्घश्' इत्यत्र प्रायेणग्रहणानुवृत्तेरसंज्ञायामपि घन्प्रत्ययः । तस्य पदवीं सिंहासनस्य राज्यलक्ष्मीप्रथमचिहत्वादिति भावः । प्रत्यर्थिपृथ्वीपतीनां श्लाघाया उत्कर्षस्य लङ्गने जङ्या चरन्तीति जाद्िकाः शीघ्र- गामिनः । 'चरति' इति ठक्। दुष्टनिग्रहशिष्टपरिपालनाभ्यामखिलक्षोणीसंरक्षणा- दस्य महाभाग्यम् ॥ १५॥ औदार्यमाह-यदिति॥ तच्छीलस्य भावस्ताच्छी-

Page 19

. १० प्रतापरुद्रीये रत्नापणसहिते

यथा- वदान्यो नान्योऽस्ति त्रिजगति समो रुद्रनृपते- र्गुणश्रेणीश्ाघापिहितहरिदीशानयशसः।

क्रियन्ते यद्विद्वज्जनमणिगृहप्राङ्गणसुवः ॥१६॥ अथ तेजस्विता- जगत्प्रकाशकत्वं यत्तेजस्वित्वं तदुच्यते। यथा- सदा तेजोभानौ स्फुरति जयिनः काकतिविभो- ररिक्ष्माभृत्कान्ताचिकुरतिमिराहंकृतिमुषि । प्रकाशव्युत्पत्तिर्भवति जरदुद्दामतमसा- मसूर्यंपश्यानामवधिगिरिपाश्चात्यदषदाम्॥ १७।। ल्यम्। विश्राणने ताच्छील्यमिति शिवभागवतवत् समासः। उदाहरति-वदान्य इति॥ त्रयाणां जगता समाहारस्त्रिजगदिति 'तद्धितार्थ' इत्यादिना द्विगुः ।गुण- श्रेणीश्लाघया गुणगणोत्कर्षेण पिहितं तिरस्कृतं हरिदीशानानां दिक्पतीनां यशो येन तस्य। अन्र समृद्धवस्तुवर्णनादुदात्तालंकारः ॥ १६॥ तेजस्वित्वमाह- जगदिति ॥ उदाहरति-सदेति ॥ जयिनो जयशीलस्य। काकतिदेवतोपा- सको विभु: काकतिविभुः । मध्यमपदलोपी समासः । अरिक्ष्माभृत्कान्ताचिकुराः शत्रुराजत्त्रीकुन्तला एव तिमिरं तस्याहंकृतिमुषि गर्वनिर्वापके, प्रियवियोजनेन तन्निवर्तकत्वादिति भावः । तेजोभानौ सदा न दिवैव स्फुरति सतीति भाव- लक्षणा सप्तमी। जरन्ति जीर्णानि सर्वदा प्रकाशविरहात् घनीभूतानीत्यर्थः । 'जीर्यतेरतृन्' इति भूते अतृन्प्रत्ययः । तान्युद्दामानि बहुलानि तमांसि यासां तासां तथोक्तानाम्। न सूर्य पश्यन्तीत्यसूर्यपश्याः । 'असूर्यललाटयोईशितपो:' इति खशप्रत्ययः । 'अरुर्द्विषत्-' इत्यादिना सुमागमः । 'उपपद्मतिङ्' इति समासः। अत्र नजः सूर्यकर्मिकया दृशिक्कियया संबन्धो न तु सूर्यस्थया सत्तया। अतोऽसूर्यमित्यसमर्थसमासः । तथापि साधुरेव। यदाह भगवान् भाष्यकार :- 'अवश्यं कस्यचिन्नञ्समासस्यासमर्थस्य गमकस्य साधुत्वं वक्तव्यम्। असूर्यपश्यानि मुखानीति'। तास।मवधिगिरे: लोकालोकपर्वतस्य पाश्चात्यद्टप- दाम प्रकाशप्रदेशवर्त्युपलानां प्रकाशव्युत्पत्तिः प्रकाशज्ञानम्। यद्वा-अयं प्रकाश- शब्दवाच्य इति शृङ्गग्राहिकया संगतिग्रहः । अत्र सूर्यप्रकाशरहितयोरपि देशका- लयोरतिवेलप्रकाशजननाल्ोकोत्तरमस्य तेजस्वित्वमिति भावः ॥ १७॥ वैदग्ध्य-

Page 20

नायकप्रकरणम् । ११

अथ वैदग्ध्यम्- कृत्यवस्तुषु चातुर्य वैदग्ध्यं परिकीर्त्यते। यथा- चातुर्य किमु वर्ण्यते गुणनिधेः श्रीवीररुद्रप्रभो- यत्रान्योन्यविरुद्धयोरपि महद्वाणीश्रियोरार्जवम्। किं चाभ्यां सद्दशोपचारललितां तत्तादशैरुत्सवै- र्निःसापत्न्यमिमां भुवं स नृपतिर्धत्ते दिशां जित्वरः ॥ अथ धार्मिकत्वम्- धर्मैकायत्तचित्तत्वं धार्मिकत्वमुदीर्यते। यथा- माह-कृत्येति॥ कृत्यवस्तुषु कर्तव्यार्थेषु चातुर्य प्रयोगकौशलम्। उदाहरति- चातुर्यमिति॥ 'यत्र विद्या न तत्र श्रीयत्र श्रीर्न सरस्वती' इति न्यायेना- न्योन्यविरुद्धयोरपि वाणीश्रियोयत्र वीररुद्रे महदार्जवं सौहार्दमेकत्रावस्थानमिति यावत्। अस्तीति गम्यते, 'अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्ति' इति महाभाष्य- कारवचनात्। उक्तन्यायस्तु वीररुद्रव्यतिरिक्त्तनिर्गुणभूपालविषय इत्यर्थः । आ- भ्यां श्रीवाणीभ्याम् । सहेति शेषः । अत्र सहादिशब्दाप्रयोगेऽपि तदर्थगम्य- तायां 'वृद्धो यून।' इति ज्ञापकात् तृतीया। सदृशैः स्वखशीलोचितैरुपचारैः प्रियाचरितसत्कारविशेषैर्ललितां हृष्टामित्यर्थः। तदुक्त भावप्रकाशे-'उपचारो यथासत्त्व स्त्रीणामल्पोऽपि हर्षदः। महानप्यन्यथायुक्तो नैव तुष्टिकरो भवेत् ॥" इति । उपचारलक्षणमपि तत्रैव-'वासोऽअरागाभरणमाल्यशय्यासनादिषु । यत्र यत्र स्पृहा तत्तह्देशकालानुकूल्यतः ॥ अत्यादरेण सत्कार उपचार इतीरितः ।" इति। आभ्यामित्यत्राप्रधाने तृतीयाविधानेऽपि श्रीवाण्योः शाब्द एवोपसर्जन- भावो न त्वार्थः, सह शास्त्रया प्रस्तरं प्रहरतीत्यत्र प्रहरणे साखाप्रस्तरयोरिव तयोर्भुवश्च समप्रधानभावोपपत्तेः, अन्यथानौचित्यादिति रहस्यम् । अतर्ति- स्नोडपि सदशोपचारसंतुष्टा इति भावः । तां भुवम्। स नृपतिः । तत्तादृशशब्दयोः स्वरूपप्रकारस्मारकयोः खजकुब्जादिवद्विशेषणसमासः । वक्तुमशक्यैरित्यर्थः । उत्स वै: हर्षोत्पादकव्यापारैः । 'उत्सूते हर्षमित्येष उत्सवः परिकीर्त्यते' इति तत्रैवोक्तेः । मिथो विरुद्वानामेतासामन्योन्यानुरागजननेन वशीकरणाद्वैदग्ध्य- मुक्तम्। वितरणविद्वद्गोष्ठी प्रजारञ्ञनादिमिः श्रीवाणीधरणीनिर्विरोधं तोषयतीति भावः ॥ १८ ॥ धार्मिकत्वमाह-धर्मेति ॥ धर्म चरत्यासेवत इति धार्मिकः । 'सकृत्कृतधर्मों न धार्मिकः' इति वृत्तिकारः । तस्य भावस्तत्त्वम्। उदाहरति-

Page 21

१२ प्रतापरुद्रीये रत्नापणसहिते

शत्रावष्यगुणारोपं काकतीन्द्रो न मृष्यति ॥ १९॥ आदिग्रहणान्महामहिमत्वपाण्डित्यप्रभृतयः । तन्महामहिमत्वं स्याद्या पुनर्देवतात्मता। यथा- कौसल्याSSसीत् प्रथमजननी देवकी च द्वितीया विष्णोर्माता तदनु महिता मुम्मडाम्बा तृतीया। यस्त्रेतायां रघुपतिरभूद् द्वापरे शौरिरासीत् त्रातुं क्षोणीं स जयति कलौ वीररुद्रावतारः ॥ २० ॥ अत्र गरुडध्वजात्मकतया महामहिमतोक्ता । अथ पाण्डित्यम्। सर्वविद्याधिकत्वं यत् पाण्डित्यं तदुदाहृतम् ! यथा- गोष्ठीभि: परितोषयन् बुधगणान् षड्दर्शनीसीमभिः सत्सारस्वतमार्गदर्शनचणैः सूक्तैः कवीन् प्रीणयन्। संगीतोपनिषद्रहस्यपिशुनैरातोद्ययोग्यक्रमै- र्धिन्वन् संसदि वैणिकान् विहरते श्रीकाकतीन्द्रो नृपः ॥ परिहास इति ॥ अनौचित्यमन्यद्रव्यामिलाषानृतभाषणादिहेतुकमित्यर्थः । परिहासादावप्यनौचित्यादिकमसहमानस्य धार्मिकत्वं किमु वक्तव्यमिति भावः ॥ १९ ॥ आदिग्रहणसंग्ृहीतेषु महामहिमत्वमाह-तदिति ॥ उदाहरति- कौसल्येति। कोसलस्यापत्यं स्त्री कौसल्या। 'व्रद्धेत्कोसलाजादाञ््यड' इति व्यळप्रत्यये टाप्। तह्ेवकीत्वमनु पश्राद् देवकीत्वानन्तरमित्यर्थः । 'अनुर्लक्षणे' इति कर्मप्रवचनीयत्वात् तद्योगे द्वितीया। महिता पूज्यमाना। 'मतिबुद्धि' इत्यादिना वर्तमाने कः। अन्न विष्ण्ववतारत्वेन देवतात्मकत्वान्महामहिमत्वम्॥२०॥ पाण्डित्यमाह-सर्वेति ॥ उदाहरति-गोष्ठीभिरिति ॥ षण्णां दर्शनानां पाणिन्यादिप्रस्थानानां समाहारः षड्दर्शनी। 'पाणिनेर्जैमिनेश्वैव व्यासस्य कपिलस्य च। कणादस्याक्षपादस्य दर्शनानि षडेव हि ॥' इत्याहुः । द्विगुत्वात् हीप्। सा सीमा गोचरो यासां तामिस्तथोक्तामिर्गोष्ठीमिः शास्त्रप्रसहैः। सत्सा- रस्वतमार्गस्य सत्कवितामार्गस्य दर्शनं प्रकाशनम्। दृशेर्ण्यन्ताल्चुट्। तेन वित्तैः तच्चणैः । 'तेन वित्तकुञ्चुष्चणपौ' इति चणप्प्रत्ययः । संगीतोपनिषद्रहस्यपिशुनैः

Page 22

नायकप्रकरणम् । १३

अथ नायकगुणनिरूपणानन्तरं नायकस्वरूपं निरूप्यते। यशःप्रतापसुभगो धर्मकामार्थतत्परः। धुरंधरो गुणाढ्यश्च नायकः परिकीर्तितः ।२२।। चशःप्रतापाभ्यां सुभगत्वं यथा- धर्मालम्बसमुच्छितां त्रिभुवनस्यैकातपत्रश्रियं धत्ते काकतिवीररुद्रनृपतेः स्फारं यशोमण्डलम्। छायेवास्य नभःस्थली कुवलयश्यामेयमालोक्यते तन्मन्ये नियतं प्रतापतपनस्तस्योपरि द्योतते ॥ २३ ॥ धर्मकामार्थतत्परत्वं यथा- नाट्यवेदमर्मोंद्धाटकैः । आनोद्योग्यक्रमैः ततादिचतुर्विधवाद्योचितपरिपाटीभिः । वीणा शिल्पमेषां वैणिकाः तान्। धिन्वन् प्रीणयन्। अत्र विभोः सर्वविद्यावि- शारदत्वादखण्डं पाण्डित्यमिति भावः । प्रभृतिग्रहणाद्विनीतत्वादयो ये दशरूप- कोक्तास्ते तत्रैव द्रष्टव्याः। यथासंभवमेते स्त्रीपुंससाधारणा गुणाः । पुरुषमात्रनिय- तास्त्वन्येऽपि शोभादयः । तदुक्तम्-'शोभा विलासो माधुर्य गाम्मीर्य स्थैर्य- तेजसी। ललितौदार्यमित्यष्टौ सार्विकाः पौरुषा गुणाः ॥' इति ॥२१ ॥ तेऽपि तत्रैव द्रष्टव्या इत्युपेक्ष्य नायकलक्षण प्रतिजानीते-अथेति ॥ लक्षयति- यश इति॥ गुणै: पूर्वोक्तैः साधारणैर्महाकुलीनतादिमिरसाधारणैः शोभादिमि- श्राद्य इत्येतावदेव सामान्यलक्षणम्। नयति प्राप्नोति वृत्तं फलं चेति नायक इति व्युत्पत्त्या प्रबन्धव्यापी फलवानित्यपि विशेषो द्रष्टव्यः। चशब्दोऽनुक्तस- मुचयार्थ: सन् उत्तममध्यमाधमभेदेन त्रिविधो नायक इतीमं विभागमाकर्पति। तेनोक्तसकलगुणसंपन्नः प्रबन्धव्यापिफलशिरस्कव्यापार उत्तमः । कतिपयगुण- हीनो मध्यमः । बहुगुणहीनोऽधम इति विवेकः । अत्र धार्मिकत्वादय इत्यादि- ग्रहणसंग्रहीतानां यशःप्रतापादीनां गुणाव्यपदेनैवोपात्तानामपि पुनरुपादानमे- तेषां सर्वेष्वपि नायकेष्वावश्यकत्वमभिव्यञ्जयितुमिति रहस्यम्। सत्समाख्या यशः । कोशदण्डजं तेजः प्रतापः । धर्मादयः प्रसिद्धाः । धूरेव धुरा। 'टाबन्त- त्वं हलन्तानाम्' इति वचनाट्टाप्। तां धारयनीति धुरन्धरः । 'संज्ञायां भृत- वृजि' इत्यादिना खच्प्रत्ययः । 'खित्यनव्ययस्य' इति हस्वः। 'अरुर्द्विषद्' इत्यादिना मुमागमः॥२२॥ तत्र यथायोगमुदाहरति-धर्मेति॥धर्म एवालम्बो दण्डस्तस्मिन् समुच्छ्रितां विस्तारिताम्। त्रिभुवनस्येति समाहारद्विगुः । पात्रादित्वान्न स्त्रीत्वम्। स्फारं प्रभूतम्। अत्र त्रिभुवनोल्लद्विनः कीर्तिमण्डलातपत्रस्योपरि प्रतापतपनः प्रकाशत इत्युत्प्रेक्षणादर्वाचीनसूर्यादिमहसां छत्राधःखचितमणिगणवदबभास- प्र 2

Page 23

१४ प्रतापरुद्रीये रत्नापणसहिते

धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः । कामस्ताविव तौ काम इव रुद्रनरेश्वरे ॥ २४॥। धुरीणता यथा- गायन्तीरनुमोदते निजवधूः शेषः शिरःकम्पनै- रलक्ष्मीं प्रीणयतेऽद्य कच्छपपतिर्वक्षःस्थलीदर्शनात्। दिङ्नागाश्च करेणुकाशुचमपाकुर्वन्त्यनुव्रज्यया दोष्णा काकतिवीररुद्रनृपतौ विश्वंभरां बिभ्रति ॥२५॥ गुणाढ्यत्वं यथा- मुखैः सहस्त्रेण फणी वदेच्चेत् करैः सहस्रेण लिखेद्विवस्वान्। नेत्रैः सहस्रेण हरिश्र पश्येत् स्थाने गुणान् काकतिवीरभर्तुः ॥ २६॥ मानत्वं कीर्तिप्रतापयोश्रन्द्रसूर्याधिकतवं च व्यज्यते ॥ २३ ॥ धर्म इति ॥ अत्र धर्मार्थयोः पर्यायेणोपमानोपमेयभावादुपमेयोपमालंकार इति वक्ष्यति। एतेना- नयोरन्योन्यमेव सादृश्यं न त्वेतत्सदृशोऽन्यः कोऽपीति व्यज्यते। एवमुत्तरार्धे डपि योज्यम् ॥ २४ ॥ घुरीणतेति ॥ 'खः सर्वधुरात्' इत्यत्र 'खः' इति योगविभागात् खप्रत्ययः । गायन्तीरिति ॥ समर्तृभारावतरणसंतोषभराद्वीर- रुद्रकीर्तिमेवेति भावः । कच्छपपतिरादिकूर्मावतारो हरिरपोढभारत्वादालिज्गनार्थ वक्षस्स्थलीदर्शनात्। दशेर्ण्यन्ताल्ल्युद्। लक्ष्मीं प्रीणयते। प्रीज् तर्पणे इत्यस्मा- द्वातोश्रौरादिकाण्गिचि 'धूञ्प्रीओोर्नुग्वक्तव्यः' इति नुक्। अनु्रज्यया रन्तुमनुधाव- नेन। 'ब्रजयजोर्भावे क्यप्' इति क्यप्। करेणुकाशुचं विप्रलम्भजनिताम्। अद्येति सर्वत्र संबध्यते। शेषादयो भुवं बिभ्रति शेषादींस्तु कूर्मरज इत्यागमः । शेषादि- भरणीयां विश्वंभरां वीररुद्रो भुजेनैकेन बिभर्तीति विश्वातिशायि धुरन्धरत्वम- स्योक्तम्॥ २५॥ मुखैरिति ॥ करैरित्यत्रांशुहस्तयोरभेदाध्यवसायाल्लेखनसा- धनत्वं विज्ञेयम् । वदेदित्यादौ 'अर्हे कृत्यतृचश्र' इत्यर्हर्थि लिछ्प्रत्ययः । शेषा- दय एवास्य गुणानामभिवदनादीन्यर्हन्ति । तथा चैद्युक्तमिति वाक्यार्थः । असंख्येया गुणा इति भावः । सहस्त्रेणेत्यत्र संख्येयबाहुल्येऽपि 'विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः' इत्यमरवचनादेकत्वमवगन्तव्यम् ॥ २६॥ अथ धीरोदात्तादयश्चत्वारो नायकाः सर्वरससाधारणास्तेषामेव शृज्जाराश्रयतयानुकूला- दिभेदन प्रत्येकं चतुर्विधानामुत्तममध्यमाधमभेदेन पुनः प्रत्येकं त्रैविध्ये अष्टा- चत्वारिंशद्धेदाः । धीरोदात्तादिशब्दाश्च महावीरचरितादिमहाप्रबन्धेष्वेकस्यानेक-

Page 24

नायकप्रकरणम् । १५

अथ नायकविशेषा निरूप्यन्ते। उदात्त उद्धतश्वैव ललितः शान्त इत्यपि। धीरपूर्वा इमे पूर्वैश्चत्वारो नायकाः स्मृताः ॥२७॥ तत्र सर्वरससाधारणाश्चत्वारो नायकाः धीरोदात्तधीरोद्धतधीर- ललितधीरशान्ताः । एतेषां स्वरूपमुदाहरणं च। महासच्चोऽतिगम्भीरः कृपावानविकत्थनः । प्रतापरुद्रवद्धीरो धीरोदात्तः स संमतः ॥२८॥। रूपामिधानेन वत्सवृपभमहोक्षादिशब्दवद्वस्थावाचिनो न जातिवाचिन इति प्रतिपादितं दशरूपके। तत्र कतिचिल्क्षणोदाहरणाभ्यां प्रदर्श्यन्ते-अथेत्या- दिना॥ उदात्त इति। धीरपूर्वा उदात्तादय इत्युक्तेधीरशब्दपूर्वा उदात्तादि- शब्दा इत्युक्तं स्यात्। अतोऽन्र शब्दपरेणार्थलक्षणा कर्थचित् कल्प्या ।।२७॥ अत्र धीरोदात्तादीनां सर्वरससाधारण्येऽपि यथाकम वीररौद्रशृङ्गारशान्तप्रधानत्वं वक्ष्यमाणविशेषलक्षणपर्यालोचनया विज्ञेयमिति । रहस्यम्। तत्र धीरोदात्तमाह- महासत्त्व इति ॥ क्रोधाद्यनभिभूतान्तःकरणो महासत्त्वः । अयमेव धीर इत्याहुः। अन्रत्यधीरशब्देन तु उद्योगादेरचलितत्वलक्षणः स्थिरः शास्रचक्षुर्वा- मिधीयत इति न पौनरुक्त्यम्। सत्यपि विकारे सावहित्थो गम्भीरः । परदुःखा- पहरणे्छुः कृपावान्। आत्मश्ाघाविहीनोऽविकत्थनः । 'अनुदात्तेतश्च हलादेः' *"धीरललितादिशब्दाश्च यथोक्तगुणसमारोपितावस्थामिधायिनो वत्सव्ृषभ- महोक्षादिवत्। न जात्या कश्िदवस्थितरूपो ललितादिरस्ति। तदा हि महाकवि- प्रबन्धेषु विरुद्धानेकरूपाभिधानमसंगतमेव स्यात्, जातेरनपायित्वात्। तथा च भवभूतिनैक एव जामदग्न्यः 'ब्राह्मगातिकमत्यागो भवतामेव भूतये। जाम- दग्न्यक्ष वो मित्रमन्यथा दुर्मनायते ॥' इत्यादिना रावणं प्रति धीरोदात्तत्वेन 'कैलासोद्धारसार' इत्यादिमिश्च रामादीन्प्रति प्रथमं धीरोद्धतत्वेन पुनः 'पुण्या ब्राह्मणजातिः' इत्यादिमिश्च धीरशान्तत्वेनोपवर्णितः । न चावस्थान्तरासिधान- मनुचितमङ्गभूतनायकानां नायकान्तरापेक्षया महासत्त्वादेरव्यवस्थितत्वादभ्विनस्तु

य्यम्। यथोदात्तत्वाभिमतस्य रामस्य छद्मना वालिवधादमहासत्त्वतया स्वाव- स्थापरित्याग इति। वक्ष्यमाणानां च दक्षिणाद्यवस्थानां पूर्वा प्रत्यन्यया हृत इति

एतद्रहस्यविज्ञानार्थ नायकप्रकरणस्य अन्ते विद्यमाना: ७१, ७२, ७३ श्ोका: द्रष्टव्याः ।

Page 25

१६ प्रतापरुद्रीये रत्नापणसहिते

यथा- संदिग्धे कृपया मृदुः क्षणमरीन् हन्तुं धृतासिः पुरः शौर्यश्रीप्रणयप्रशंसिषु नमद्धर्लज्जते वन्दिषु। आकारान्सुखरोषहर्षपिशुनान् वक्त्रे न धत्ते मनाक् त्रैलोक्यातिशयालुकीर्तिसुभगः श्रीवीररुद्रो नृपः ॥२९॥ दर्पमात्सर्यभूयिष्ठश्चण्डवृत्तिर्विकत्थनः । मायावी सुलभक्रोधः स धीरोद्धत उच्यते ॥ ३०॥ यथा- रेरे घूर्जर जर्झरोऽसि समरे लम्पाक किं कम्पसे वङ्ग त्वङ्गसि किं मुधा बलरजःकाणोऽसि किं कोक्कण । हूण प्राणपरायणो भव महाराष्ट्रापराष्ट्रोऽस्यमी

इति युच्। एवंगुणको यः प्रतापरुद्रवद्वर्तते स धीरोदात्त इति योजना। एवं च सर्वोत्कर्षेण वृत्तिरौदात्त्यमिति फलितम्। अत्र स्थैर्यादिसामान्यगुणानां विशष- लक्षणेषूपादानं तत्रावश्यकत्वसूचनार्थम्। उदाहरति-संदिग्ध इति॥ कृपया मृदुर्न तु कातर्येणेत्यनेन महासत्त्वतोच्यते। क्षणमल्पकालमेव। पश्चात्तु हन्त्ये- वेति स्थैर्यम्। पुरः स्थितानरीन् न तु पलायितानिति धार्मिकत्वम्। शौर्येति॥ वन्दिविहित प्रशंसाकर्णनेनैव लजमानस्यात्मशलाघा तु दूरत एवेत्यविकत्थनत्वम्। नमृत्वं लज्जानुभावः । इष्टानुभवजन्य आनन्दः सुखम्। सापराधविषयोSमषा रोषः । इष्टलाभजन्यो मनःप्रसादो हर्षः । तेषां पिशुनान सूचकानाकारानक्षिनि- मीलनभ्रुकुटिमुखरागादीन वक्त्रे मनागीषदपि न धत्त इत्यवहित्थया गाम्भीर्यम्। त्रयो लोकास्त्रैलोक्यं तदतिशयालुरिति मधुपिपासुप्रभृतित्वात् द्वितीयासमासो द्रष्टव्यः । शीको वक्तव्यादालुच्प्रत्ययः । अत्र स्थैर्यधार्मिकत्वकीर्नयः साधारणा गुणाः कृपादयस्तु विशेषा इति विवेकः ॥ २८॥ २९ ॥ धीरोद्धतमाह-दर्पेति॥ दर्पः शौर्यादिमदः । मात्सर्यमसहनमंसूयेति यावत्। ताभ्यां भूयिष्ठश्चण्डवृत्तिः रौद्रः । विकत्थन आत्मश्लाघापरः। मन्त्रादिबलेनाविद्यमानवस्तुप्रकाशकः केवल- वधको वा मायावी। उदाहरति-रेरे इति ॥ 'हीनसंबोधने तु रे' इत्यमरः । तस्य प्रतिवाक्यमावर्त्यमानस्य 'वाक्यदेरामन्त्रितस्यासूयासंमतिकोपकुत्सन- भर्त्सनेषु' इति यथायोगमसूयाद्यर्थवु द्विर्भावः । अत्र 'स्वरितमाम्रेडिते' इत्या- दिना प्राप्तस्य प्लुतस्य 'सर्वप्लुतः साहसमनिच्छता विभाषा वत्तव्यः' इति पाक्षिकः प्रतिषेधः । शात्र्रत्यागः साहसमिति हरदत्तः । अत्र घूर्जरादिवाक्येषु यथायोग-

Page 26

नायकप्रकरणम्। १७

अत्र भटानां धीरोद्धतत्वम्। निश्चिन्तो धीरललितः कलासक्तः *सुखी मृदुः । यथा- शौर्योष्मा निरवग्रहः प्रतिनृपाः सर्वेऽपि नम्रीकृताः पातिव्रत्यमुपैति भूरियमयं नाथः स्वयंभू: शिवः । धीरोडयं युवराज एव वहति श्रीवीररुद्रो धुरं सर्वामित्यनुमोदते प्रतिकलं श्रीकाकतीन्द्रो नृपः ॥ ३२॥ धीरः शान्तः प्रसन्नात्मा धीरशान्तो द्विजादिक: । यथा- वीरं रुद्रनृपालरत्नमभितः प्राप्तोदयं मोदते संख्यावद्गण एष पूषणमिव प्रत्यग्रमब्जाकरः । उन्मीलत्कमलाविहारवसतिर्भूत्वा विकासैर्निजै- र्विश्वामोदमुदख्यन्नविरतं दोषावसानोत्सुकः ।३३॥ मुद्धावितैर्दर्पमात्सर्यादिभिर्योद्धारो वयमित्यात्मशलांघया चान्ध्रक्षमामृद्भटानां धीरो- द्धतत्वम् ॥ ३०॥ ३१ ॥ धीरललितमाह-निश्चिन्त इति ॥ सुतसचिवादि- विनिहितयोगक्षेमतया चिन्ताविरहितो निश्चिन्तः । अत एव कलासु गीतादि- घ्वासक्तः । सुखी भोगप्रवणः । शृज्ञारप्रधानत्वात् सुकुमाराकारो मृदुः । उदा- हरति-शौर्येति। अन्रानर्गलशौर्यादिमिदैवानुकूल्येन युवराजस्य धुरन्धरत्वेन च निश्चिन्तः सकलकलासुखमनुभवतीति वीररुद्रकुलज्येष्ठस्य धीरललितत्वम्॥३२॥ धीरशान्तमाह-धीर इति॥ विवेचकः क्केशसहिष्णुर्वा धीरः । शमप्रधानः शान्त: । हृष्टान्तःकरणः प्रसन्नात्मा। द्विजादिक इत्यादिग्रहणाद्वणिक्सचिवौ विवक्षितौ। 'सामान्यगुणयुक्तस्तु धीरशान्तो द्विजादिकः' इति केचित् । उदाहरति-वीरमिति । संख्या ज्ञान तद्वतां विदुषां गणः संख्यावद्रणः । प्राप्त उदयोऽभित्रद्धिरन्यत्रोदयाचलो येन तं तथोक्तम्। प्रत्यग्रमुभयत्राभिनवम् । उन्मीलन्त्या उह्सन्त्याः कमलायाः संपत्तेरन्यत्र लक्ष्म्या विहारवसतिः। विका- सैरुत्सवादिमिरन्यत्र दलविश्लेषैः विश्वस्यामोदं हर्षमन्यत्र गन्धविशेषमुदख्चयन् उद्ोधयन्। दोषावसानं पापोपशमः अन्यत्र दोषाया रात्रेरवसानं प्रभातम्। 'दोषा रात्रिमुखे रात्रावत्रानव्ययमप्यसौ' इति विश्वः । तत्रोत्सुक इति। अत्र *सुखैकभू: इति पाठान्तरम्। कचिच्छव्देन दशरूपकसाहित्यदर्पगकारादयो विवक्षिताः ।

Page 27

१८ प्रतापरुद्रीये र्नापणसहिते

अत्र विप्राणां धीरशान्तत्वम्। ॥ शृङ्गारनायका निरुष्यन्ते॥ अथ शृङ्गारविषयाश्चत्वारो नायका इमे। अनुकूलो दक्षिणश्च धृष्टः शठ इति स्मृताः ॥ ३४॥ एषां स्वरूपमुदाहरणं च। एकायत्तोऽनुकूल: स्यात् एकस्यां नायिकायां विशेषानुरक्तोऽनुकूलो नायकः । यथा- किं नामाचरितं तपः सखि भुवा यस्याः पतिर्गीयते वीरो रुद्रनृपः.क तत् सुचरितं तस्य प्रिया स्यां यतः जाने मानिनि मा विषीद पुरतः प्रख्याप्य नाम स्थिरां त्वां र्नाकरमेखलां त्वयि सदा सक्तं विधास्ये नृपम्।। अत्र प्रतापरुद्रस्य क्षोण्यां विशेषानुरागो व्यज्यते, येन वध्वा स्थिरा रत्नाकरमेखलेति तन्नामत्रहणेन स्नेहप्रख्यापनं क्रियते। तुल्योऽनेकत्र दक्षिणः । अनेकासु नायिकासु अवैषम्येण स्नेहानुवर्ती दक्षिणो नायकः । यथा- दोषावसानेत्यादों धैर्यशान्त्योर्विश्वामोदमित्यादौ प्रसादादेश्ष प्रतिपादनात् वि- प्राणां धीरशान्तत्वम्॥ ३३॥अथ शुज्गारनायकानां यथाक्रममुद्देश लक्षणोदाहरणानि दर्शयति-अथेत्यादिना ॥ ३४ ॥ तत्रानुकूलमाह-एकेति ॥ सत्स्वपि नायिकान्तरेष्विति शेषः । तदेवाह-एकस्यामिति ॥ एकजानिरेवानुकूलो यथा रामादिरित्यन्ये*। उदाहरति-किमिति ॥ नायिकावाक्यमेतत्। भुवा कया- चिन्नायिकया। नामेति संभावनायाम् । यतः सुचरितात् । अथ सखी नायिका माह-जान इति ॥ नायकघटनोपायमिति शेषः । 'अनुपसर्गात् ज्ञः' इत्या- त्मनेपदम्। नामेति कुत्सायाम्। अनुरागोत्पादनार्थ सपल्नीनामसाम्येन नायि- काप्रकाशनस्य कुत्सितत्वात्। 'नाम प्रकाश्यसंभाव्यकुत्साभ्युपगमेषु च' इति विश्वः । अत्र राज्ञो भूमौ विशेषानुरागोऽन्यत्र न तथेत्यानुकूल्यम् ॥ ३५॥ दक्षिणमाह- "अन्ये दशरूपकसाहित्यदर्पणकारादय इत्यवगन्तव्यम्।

Page 28

नायकप्रकरणम्। १९

नर्मोक्तैव निमन्त्रिता स्मरकलाकेलीषु काचिन्मया साकूतेन बिलोकनेन हृदयं कस्यैचिदाविष्कृतम्। कस्याश्चित् प्रहितः प्रसाधनविधिर्दूतीकरेण क वा गन्तास्मीत्यनुचिन्तयैव नृपतेरासीत् प्रभाता निशा ॥३ ६।। तथा च वाणीं मुखेन नेत्राभ्यां श्रियं दोष्णा च मेदिनीम्। मानयंस्तुल्यतां धत्ते तासु रुद्रनरेश्वरः ।। ३७॥। व्यक्तागा गतभीर्धृष्टः यथा राज्यश्रीपरिभोगशंसि भवतः सर्वाङ्गमालोक्यते कस्तत्राविनयोऽस्ति साहसमिदं तन्नाम मय्यर्पितम्। जाने त्वां बहुवल्लभं किमपरं वक्तव्यमल्पा वयं तस्यां प्रेम तवाधिकं वसुमती या नाम किं जल्पितैः ॥३८॥ तुल्य इति॥स्रेहेनानुवर्तते ताच्छील्येन स्नेहानुवर्ती। उदाहरति-नर्मेति॥अग्राम्य इष्टजनावर्जनरूपः परिहासो नर्म। केलीष्विति विषयसप्तमी। स्वामिमतभाव- प्रकाशको दग्विकार आकूतम् । तदुक्तम्-'आकूरत तद्यत्र भावः सोऽप्यभीष्टो विभाव्यत' इति। प्रसाधनविधिः स्रक्चन्दनाभरणादिः। प्रभातेति॥ प्रभात- प्रायेत्यर्थः। अत्र वाक्यत्रये यथाक्रममुक्तिविशेषेण कलाविनोदस्य विलोकन- विशेषेण वक्षरस्थलाविष्करणस्य क्ररेण वशीकरणस्य च सूचनाद्वाणीलक्ष्मीवसुन्धराः प्रतीयन्ते। अत्र आप्रभातमनिश्चितगन्तव्यतया चिन्ताकुलत्वेनास्य समानुरागत्व- प्रतीतर्दक्षिणोऽयं नायकः ॥ ३६ ॥ उदाहरणान्तरमाह-वाणीमिति ॥ अत्र वाण्यादीनां वाच्यत्वान्मुखादिशब्दैर्नर्मोक्त्यादीनां प्रतीयमानत्वाच्च पूर्वोदाहरणात् भेद: । स्त्रीलिग्नमहित्रा प्रतीयमानलौकिकनायिकाभेदाध्यवसायेन वाण्याद्यनुरागेS- पि न शृक्गारनायकत्वभज्गप्रसङ्गः ॥ ३७॥ धृष्टमाह-व्यक्तति ॥ उदाहरति- राज्येति॥ राज्यश्रीस्तन्नात्री काचिन्नायिका राज्यलक्ष्मीश्च। तत्पक्षे सर्वार्ञ सप्ताज्गानि। अल्पा दरिद्राः । नामेति प्रसिद्धौ । जल्पितैः कि जल्पितसाध्यं नास्तीत्यर्थः । गम्यमानसाधनक्रियापेक्षया करणत्वात् तृतीया । 'न केवलं 4* श्रूयमाणैव क्रिया निमित्तं कारकभावस्य अपि तु गम्यमानापि' इति न्यासो- द्योतवचनात्। बहुशश्रैतदुक्त तातपादैः संजीविन्यादौ। धनपरा राजानो न वाह्भ्यपरा इति नायिकाभिप्रायः । अतः स्त्रयन्तरसंभोगप्रकाशनात् गोत्रस्खल.

Page 29

२० प्रतापरुद्रीये रत्नापणसहिते

गूढ विप्रियकृच्छठः॥ नायिकामांत्रविदितविप्रियकारी शठः । यथा- दृष्टथा पश्यसि केवलं न मनसा वाचा प्रियं भाषसे ना भावेन भुजान्तरं प्रकटयस्यग्रे न चाभ्यन्तरम्। ज्ञातं काकतिनाथ भूस्तव परं प्राणेश्वरी ध्यायतो मादृक्षेषु विडम्बनैव तदलं व्यथैर्बहिस्संभ्रमैः ॥३९॥ अत्र तत्तन्नायकविषयतया काकतीश्वराणामुदाहरणेन वीर- रुद्रस्यैव वर्णनम्। एषां नायिकानुकूलने पीठमर्दविटचेटविदूषकनामानः सहायाः । तेषां स्वरूपं निरूप्यते। किंचिदूनः पीठमर्द एकविद्यो विटः स्मृतः । संधानकुशलश्रेटो हास्यप्रायो विदूषकः ॥ ४० ॥ स्पष्टमेषामुदाहरणम्। नाच्चापराधाभिव्यक्तिर्निर्भीकत्वं चेत्यस्य धृष्टत्वम्। अन्यासंभोगचिह्ैः कुपितत्वा- दियं खण्डिता। 'अधीरा परुषैर्वक्यैः खेदयेद्वल्वभ रुषा' इति लक्षणादधीरा च॥ ३८ ॥ शठमाह-गूढेति ॥ उदाहरति-दृष्ट्येति।। अत्र दर्शनप्रिय- भाषणयोश्रक्षुर्वागिन्द्रियकरणत्वाव्यमिचारादेव सिद्धेर्द्ष्टथा वाचेति च पुनरुपादा- नस्य तात्पर्यनिषेधार्थकत्वान्न पौनरुक्त्यम्। भूः परं भूरेव। ध्यायतश्चिन्तयतो- ऽन्यासक्तस्येत्यर्थः । मादृक्षषु जनेष्विति शेषः । दृशेः क्सप्रत्ययो वक्तव्यः । अत्र नायिकामात्रविदितभावशन्यदर्शनादिविधानादस्य शठत्वम्। नायिका त्वधीरमध्या॥ ३९ ॥ वीररुद्रगुणवर्णनप्रतिज्ञाभ परिहरति-अत्रेति॥ अथ शृक्गारनायकस्य नायिकासंबन्धनियमात् तदनुकूलने सहायानाह-एषामिति ॥ क्रमेणैषां लक्षणमाह-किंचिदित्यादि॥ प्रधानेतिवृत्तनायकादीषन्न्यूनगुणः प्रासतिकेतिघृत्तनायक: किंचिदूनशब्देन विवक्षितः। तदुक्तम्-'पताकानायक- स्तवन्यः पीठमर्दों विचक्षणः । तस्यैवानुचरो भक्तः किंचिदूनस्तु तद्रुणैः ॥' (द० रू० प्र. २ श्रो. ८) इति। स च सुग्रीवमकरन्दादिः। नायको- पयोगिगीतादिविद्यानामेकविद्याभिज्ञो विटः कलहंसादिः। वाक्याञचेष- विकारादिना हास्यकारी विदूषकः ॥ ४० ॥ अथ संभावितनायक- सामान्यगुणयोगिनी नायिकेति सामान्यलक्षणं सिद्धवत्कृत्य तद्विशेषाः कति-

Page 30

नायकप्रकरणम् । २१

अथाष्टविधाः शृङ्गारनायिकाः । स्वाधीनपतिका चैव तथा वासकसज्जिका। विरहोत्कण्ठिता चैव विप्रलब्धा च खण्डिता ॥ ४१॥ कलहान्तरिता चैव तथा प्रोषितभर्तृका । तथाभिसारिका चेति क्रमाल्लक्षणमुच्यते॥ ४२ ॥ प्रियोपलालिता नित्यं स्वाधीनपतिका मता। यथा- 1 प्रियां सर्वसहां तैस्तैर्विशेषैरुपलालयन्। प्रतापरुद्रनृपतिः प्रतिक्षणमवेक्षते ॥ ४३॥ प्रियागमनवेलायां मण्डयन्ती मुहुमुहुः। केलीगृहं तथात्मानं सा स्याद्वासकसज्जिका ॥ ४४॥ यथा- स्वतेजसा परिष्कृत्य प्रधानागारमुत्कया। श्रियाभिषेकबेलायां वीररुद्रः प्रतीक्षितः ॥ ४५ ॥ चिल्क्षणोदाहरणाभ्यां निरूप्यन्ते-अथेत्यादिना ॥ ४१ ॥ ४२ ॥ तत्र स्वाधीनपतिकामाह-प्रियेति ॥ अध्युपरि इनः सामी यस्यासावधीनः आयत्तः । 'अधीनो निन्न आयत्तः' इत्यमरः । स्वस्मिन्नधीन: स्वाधीनः । यद्वा खस्मिन्नधिकृतमधीति वा विगृह्य 'सप्तमी शौण्डैः' इति समासः । 'अषडक्ष' इत्यादिना अध्युत्तरपदानित्यः खप्रत्ययः । सुरतमुखास्वादलोभेनासन्नत्वात् खा- धीन आयत्तः पतिर्यस्याः सा तथोक्ता। उदाहरति-प्रियामिति ॥ सर्व सहृत इति सर्वसहा नाम काचिन्नायिका। 'संज्ञायाम्' इत्यादिना खच्प्रत्यये मुमा-

तेरियं स्वाधीनपतिका । नायकस्त्वनुकूलः । भूपरिपालने नित्यजागरूकोऽयमि- त्यपि गम्यते॥ ४३ ॥ वासकसज्जिकामाह-प्रियेति॥ वासके वासवेश्मनि भोगोपकरणैः सज्जा सन्नद्धा सैव वासकसज्जिका । 'स्त्रीणां वारस्तु वासकः' इति पक्षे वासके वारदिवसे सज्जयति सज्जीकरोति हर्षेण केलीगृहादिकमिति वासक- सज्जिका। अयमेव पक्षो विद्यानाथस्य विवक्षितः । उदाहरति-स्वेति ॥ परिष्कृत्यालंकृत्य उत्कयोन्मनसा उत्कण्ठितयेत्यर्थः । 'उत्क उन्मनाः' इति निपातनात् साधुः। अत्र क्रीडागारपरिष्कारादिमिरियं वासकसज्जिका। अत एवोदात्तापि। तदुक्तम्-'उदात्ता केशवासोऽअमाल्यभूषासु सादरा। शय्या-

Page 31

२२ प्रतापरुद्रीये रत्नापणसहिते

चिरयत्यधिकं कान्ते विरहोत्कण्ठितोन्मनाः। यथा- न शङ्काऽन्या तादग्गुणपरिमले रुद्रनृपतौ कया वा गोष्ठासौ चिरयति सखीभिर्न सुलभः । समानेतुं कान्तं व्रज मदन बद्धोऽञ्जलिरयं यतो विष्वद्रीचः किरति किरणांस्त्वत्प्रियसखः ॥४६॥ क्वचित् संकेतमावेद् दयितेनाथ वश्चिता। स्मरार्ता विप्रलब्धेति कलाविद्धि: प्रकीर्त्यते॥ ४७॥ यथा- गच्छाय्रे सखि का प्रियागमकथा प्राप्तो निशीथः परं संकेतालय मोक्ष्यसे मम वृथा जातोऽश्रुभिः पङ्किलः । यद्वा रुद्रनरेश्ववरे प्रियतमे राज्यश्रियो वल्लमे भारत्या दयिते भुवः कृतपदाः प्रायो वयं वश्चिताः ॥ भवनसंस्कारपरिबर्हसमेधिनी ॥' (द० रू० प्र. २ श्लो. २५) इति ॥४४॥ ४५ ॥ विरहोत्कण्ठितामाह-चिरयतीति ॥। अव्यलीक इति शेषः । अत एव 'चिरयत्यव्यलीके तु' इति धनिकेनोक्तम्। अनपराधप्रियवि- लम्बेनोन्मना विरहोत्कण्ठितेत्यर्थः । उदाहरति-नेति ॥ अन्या शङ्का नायिकान्तरासक्तिरूपेत्यर्थः । अत एवानपराध इति भावः । तादगिति॥ 'त्यदादिषु' इत्यादिना क्विन् प्रत्ययः । 'आ सर्वनाम्नः' इति तदः आ- त्वम्। अत्र दृश्यर्थाभावेनासत्यप्यवयवार्थे तैलपायिकादिवत् व्युत्पत्तिर्द्रष्टव्या। अत एवाह वृत्तिकार :- 'तादशादयो रूढिशब्दाः' इति। भाष्ये तु कर्मकतरि व्युत्पत्तिर्दर्शिता-'तमिव पश्यन्ति जनाः सोडयं स इव दृश्यमानस्तमिवात्मानं पश्यति' इति। गोष्ठया संगीतादिप्रसश्वन। अत एवासौ धीरललितो नायकः । त्वत्प्रियसखश्चन्द्रः । विष्वद्रीचः सर्वतोदिक्कान्। 'ऋत्विक्' इत्यादिना क्विन्- प्रत्यये 'विष्वग्देवयोः' इति टेरवयादेशः ॥४६ ॥ विप्रलब्धामाह-क्कचि- दिति। उदाहरति-गच्छेति॥ आगमनसमय इवाधुना पुरो गन्तुमशक्ताह- अग्रे गच्छ इति। निशीथः परमर्धरात्र एव प्राप्तः । न तु प्रियः । हे संकेता- लय त्वं मोक्ष्यसे । नाद्यापि संकेतस्थानं मोक्तुं शक्कोमीति भावः । अश्रुमिर्न तु सुरतश्रमजलादिना। पक्किल इत्यनेन द्वारदेश प्रति यातायाते सूच्येते, अन्यथा पक्किलत्वाभावात्। अथ प्रियमुद्दिश्य न चायं तवापराधः किंतु बहुवल्लभे त्व- य्यासकाया ममैवेल्याह-यद्वेति॥ नाहमेकैव त्वया वश्चिता कि त्वनुमन्तारः

Page 32

नायकप्रकरणम् । २३

नीत्वाऽन्यत्र निशा प्रातरागते प्राणवल्लमे। अन्यासंभोगचिह्वैस्तु कुपिता खण्डिता मता ॥ ४९ ॥ यथा- रात्रिर्यामत्रयपरिमिता वल्लभासते सहसरं मार्गासक्त्या मम गृहमपि प्रातरेवागतोऽसि। किं कर्तव्यं वद नृपतिभिर्वीक्षणीया हि सर्वा: को वा दोषस्तव पुनरहं काममायासयित्री ॥ ५०॥ कोपात् प्रियं पराणुद्य पश्चात्तापसमन्विता। कलहान्तरिता नाम सूरिभिः परिकीर्तिता ॥ ५१॥ यथा- *तह तह अणुणअन्तो पिओ तुए हिअअ रोसकलुसेण। अवहीरिदो ण मुणिअं राएत्ति विओअवेअणं सहसु ॥५२॥ *तथा तथा अनुनयन् प्रियस्त्वया हृदय रोषकल्ुषेण। अवधीरितो न ज्ञातो राजेति वियोगवेदनां सहखव ॥ सख्यादयः सर्वेऽपि मदीया इत्याह-वयमिति ॥ अत एव न ममेत्येक- वचनप्रक्रमभङ्गः । अत्र भारत्या दयिते भुव इति पाठ: साधीयान्, क्षितिनायक इति समासपाठे व्यासप्रक्रमभङ्गप्रसज्ञात्। अत्र संकेतमावेद्य दयितेन वश्चिता सती कामातुरेयं विप्रलब्धा॥ ४७ ॥। ४८ ।। खण्डितामाह-नीत्वेति॥ उदा- हरति-रात्रिरिति ।। आद्यन्तयामार्धयोरकुण्ठितसंचारत्वेनारात्रित्वामिमानात् त्रियामेति व्यवहारः । सहस्रमिति ॥ 'विंशत्याद्याः सदैकत्वे सर्वाः संख्येय- संख्ययोः ।' इत्येकत्वम्। तथापि मार्गासक्त्या न तु मदुद्देशेन। प्रातरेव विहारा- नर्हसमय एवेति भावः । अत एवागमनप्रयोजनं पृच्छति-किमिति ॥ यद्वा नैवान्यत् प्रयोजनं प्रजापालनपराणां नृपाणामित्याह-नृपतिभिरिति ॥ किं तु तवैवं प्रयासजननात् कियद्वा पाप ममैबं जीवन्त्या इति चिन्तयामीत्याह- को वेति ।। अत्र प्रातरागतस्य प्रेयसोऽन्यासज्गविकारदर्शनात् कुपितेयं खण्डिता। 'वक्ति सोत्प्रासवक्रोक्त्या धीरमध्या कृतागसम्' इति लक्षणात् धीरमध्या च। नायकस्तु शृष्टः ॥४९ ॥ ५० ॥ कलहान्तरितामाह-कोपा- दिति॥ प्रियं प्रणामादिना प्रसादनपरमित्यर्थः । तदुक्त्म्-'सत्यवागार्जवरति- रुपकुर्वन् प्रियं वदन्। भजते यः सवयं प्रीतः प्रियः स भवति स्त्रियाः ॥' इति । कलहे सति सुखेनान्तरिता कलहान्तरिता । उदाहरति-तहेति।। मुणिअमिति। 'जाणमुणौ ज्ञः' इति जानातेर्मुणादेशः । विसूरणं सहसु

Page 33

२४ प्रतापरुद्रीये रत्नापणसहिते

देशान्तरगते कान्ते खिन्ना प्रोषितभर्तका। यथा- त्रैलोक्यप्रथमानकीर्तिमहतः श्रीवीररुद्रप्रभो: सवार्थ चिरयत्सु काकतिपुरे भूपेषु तद्योषितः । द्वारासक्तदशो नयन्ति दिवसान् व्युष्टाशया च क्षपा- स्तद्धयानप्रतिबद्धसान्द्रपुलकव्याकीर्णकामेषवः ॥ ५३॥। कान्ताभिसरणोद्युक्ता समरार्ता साडभिसारिका ॥ यथा- संभ्रमैरलमल्पज्ञे प्रेयानस्तु महीपतिः । करेणुस्थां न पश्यामि न शृणोम्यभिसारिकाम् ॥५४॥ इति कोशान्तरे। तदा 'खिदेर्विसूरः' इति विसूरादेशः। तथा तथेत्यनेन पुनः पुनः प्रणामादिर्दोत्यते। अत्र तादृशं राजानं प्रियमनादृत्य किमर्थमधुना दूयस इति हृदयोपालम्भादियं कलहान्तरिता। नायकस्तूत्तमः । 'कामतन्त्रेषु निपुणः कुद्धानुनयकोविदः' इत्यादिलक्षणात् ॥५१॥५२॥ प्रोषितभर्तृकामाह-देशेति॥ कान्त इति॥ 'कथाभिः कमनीयामि: काम्यैर्भोगैश्च सर्वदा। उपचारैश्व रमयेद्यः स कान्त इतीरितः ॥' इत्युक्तलक्षण इत्यर्थः । उदाहरति-त्रैलोक्येति॥ व्युष्टं प्रभातम्। तद्धयानप्रतिबद्धाः प्रियचिन्ताप्ररूढाः सान्द्रपुलका एव व्याकीर्ण- कामेषवः कीलितकामबाणा यासां तास्तथोक्ताः। अत्र चिन्ताजागरादिप्रतिपाद- नात् खिन्नत्वेनेयं प्रोषितभर्तृका॥ ५३ ॥ अभिसारिकामाह-कान्तेति ॥ कान्तस्य कर्मणः कर्तुर्वाभिसरणे उद्युक्ा । अत एवोक्तम्-'स्मरार्ताभिसरेत् कान्तं सारयेद्वाभिसारिका ।' (द० रू० प्र. २ शो. २७) इति। सारयेदिति दूत्यादिमुखेनेति शेषः । उदाहरति-संभ्रमैरिति॥ कान्ताभिसरणाय करेणु- मानयेति कयाचिदुक्कते सख्या वचनमेतत्। अथवा नैव करेणुस्थामिसरणं दृष्टचरं श्रुतचरं वेत्याभाणकमुखेन सखी नायिकायाः प्रकटाभिसरणं वारयति। अल्पं जानातीत्यल्पज्ञे मुग्धे। अत्र 'आतोऽनुपसर्गे कः' इति कप्रल्यो न तु 'इगुपधज्ञाप्रीकिर: कः' इत्यादिना। अत एवाह भगवान् कात्या- यन :- 'आकारादनुपपदात् कर्मोपपदो विप्रतिषेधेन' इति। एतच् संजीविनीसर्वङ्कषादावसकृदुक्तं तातपादैः । अत्र कान्तकर्मकामिसरणमुक्तम् । एवं कान्तकर्तृकाभिसरणेऽप्युदाहार्यम्। एतासां च 'चिन्तानिश्वासखे- दाश्रुवैवर्ण्यग्लान्यभूषणैः । युक्ताः षडन्त्या द्वे चादे करीडौज्ज्वल्यप्रहर्षितैः ॥' (द० रू० प्र. २ श्लो. २८) इत्युक्तदशविकारा द्रष्टव्याः ॥ ५४ ॥

Page 34

नायकप्रकरणम् । २५

। आसां नायकानुकूलने सहायाः ।। दूत्यो दासी सखी कारुर्धात्रेयी प्रातिवेशिनी। लिङ्गिनी शिल्पिनी सवाच सहायाः परिकीर्तिताः ॥५५॥ एतासां स्वरूपमुदाहरणं च स्पष्टम्। कामशास्त्रप्रसिद्धाः पद्मिनीचित्रिणीप्रभृतयो जातिविशेषा ज्ञातव्याः । संक्षेपेण नायिका त्रिविधा-मुग्धा मध्या प्रौढा चेति। उदयदयौवना सुग्धा लज्जाविजितमन्मथा। लज्जामन्मथमध्यस्था मध्यमोदितयौवना।। स्मरमन्दीकृतव्रीडा प्रौढा संपूर्णयौवना ॥५६॥ यथाक्रममुदाहरणानि। मुग्धा यथा- मुग्धे यन्मनसोऽपि गोष्यमखिलं तन्मह्यमावेद्यते किं या काचिदहं तव प्रियसखी प्रच्छाद्य किं ताम्यसि। आसक्तिस्तव रुद्रदेवनृपतावाशास्यते कि भवे- दित्याल्यां प्रणयैकवाचि सुतनुर्दत्तोत्तरा ब्रीडया ।।५७। अथासां दूतीरह-दूत्य इति॥ दासी कर्मकरी। सखी स्न्नेहनिबन्धना। कारु: रजक्यादिः । धात्रेयी उपमातृमुता । प्रातिवेशिनी समीपगृहवर्तिनी। लिद्विनी परिव्राजिका। शिल्पिनी चित्रकारादिस्री। सवा स्वयं चेति दूत्यः सहायाः, नायका- नुकूलने इति शेष: । खा चेति स्त्रीलिसे मूलं मृग्यम्, 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्ियां धने' इति नपुंसकत्वेनाभिधानात्। अथवा खा स्वकी- या वान्धवस्त्रीति यावत्। तदुक्क सर्वज्ञसोमेश्वरेण-'भगिनी स्यालिका वापि मानुलस्याथवा सुता। एता भवन्ति दूत्यस्तु बान्धवस्त्रीति संज्ञिताः ॥'इति ॥५५॥ पद्मिन्यादीनां जातिवाचित्वं, न भुग्धादिवदवस्थावाचित्वमित्य।ह-पद्मिनीति॥ प्रभृतिग्रहणाच्छङ्गिनीहस्तिन्यौ गृद्येते। लक्षणादिकमेतासां कामशास्त्र एव द्रष्ट- व्यम्। इत्थं स्वाधीनपतिकाद्यवस्थाष्टकमुक्त्वा तदाश्रयभूतानेकनायिकामध्ये भुग्धादित्रयं लक्षणोदाहरणाभ्यां प्रदशयति-संक्षेपणेत्यादिना । तत्र मुग्धामुदाहरति-मुग्ध इति॥ याकाचिदनाप्ता किम्, नेत्यर्थः ॥ अनुक्तेऽपि तव मनोरर्थ जानामीत्याह-आसक्तिरिति ! अस्तीति शेषः । आशास्यत इत्येकं वाक्यम्। यः सर्वाभिरभिलष्यत इत्यर्थः । यद्वा रुद्रनृपतौ तवासक्तिरा- शास्यत अस्माभिरपेक्ष्यत इत्यर्थः । 'आळः शासु इच्छायाम्' इत्यस्माद्वातोः कर्मणि यक्। किं भवेदिति संप्रश्ने लिङ्। अत्राऽमिरूप्यादिगुणयोगसूचकेन प्र 3

Page 35

२६ प्रतापरुद्रीये रत्नापणसहिते

मध्या यथा- लीलाविभ्रमपूर्वरङ्गमुदितं तारुण्यमेत्य त्रपा-

सख्यः पश्यत काकतीयनृपतौ भावातुबन्धोज्ज्वलः कोऽप्यस्यास्तरलभ्रुवो विजयते शृङ्गारनाट्यक्रमः ॥५८॥ प्रौढा यथा- सहेलं पश्यन्त्याः प्रकृतिसुभगं रुद्रनृपति तदात्वप्रत्युद्यद्विविधललिताटोपमधुरम्। सुतनुशब्देन प्रथमयौवनस्य 'दत्तोत्तरा ब्रीडया' इत्यनेन लज्जाविजितमन्मथत्वस्य च प्रतीतेरियं मुग्धा । 'आर्भिरूप्यमकाठिन्यमज्ञानां चातिमार्दवम्। एवमादि- गुणावस्था प्रथमे यौवने भवेत् ।I' इत्युक्त्वा 'कृताधराञसंस्कारा सखीकेलीपु लालसा' इत्यादिना तब्बेष्टाश्रोक्ताः। तच्च आल्यां प्रणयैकवाचीत्यनेन सूच्यते ५६॥ ५७ ॥ मध्यामुदाहरति-लीलेति। पूर्वरक्चो नाम नाय्यादौ कर्तव्यो रजप्रसाधनाख्यः कर्मविशेषः । तदुक्तम्-'यन्नाव्यवस्तुनः पूर्व रज्विघ्नोपशान्तये। कुशीलवाः प्रकुर्वन्ति पूर्वरज्नः स कीर्तितः ॥' इति। लीलावित्रमाणामयल्नलब्ध- विलासानां पूर्वरज्नम्। तारुण्यस्य विलासहेतुत्वेन तत्पूर्वभावित्वात् पूर्वरज्जत्वेन रूप- णम्। यद्वा लीलावित्रमा एव पूर्वरभ यस्य तत् तारुण्यमेव रजस्थलमिति गम्यते। त्रपैव नेपथ्यं नीहारावरणसदृदशी यवनिका। अत एव तस्यान्तरे वि- म्बिता स्मरकला कामोद्दीपनं सैव लास्यप्रपश्नश्रीर्यस्यास्तथोक्ताया लजामन्मथ- मध्यस्थाया इत्यर्थः । लास्यलक्षर्ण तु संगीतचूडामणौ-'शृङ्गाररसभूयिष्ठै- र्भूरिभावतरत्ितैः । अप्ैरनज्ञसर्वस्वैः शोभातिशयशालिमिः ॥ अन्वितो नृत्तभेदो यस्तल्ास्यमिति कथ्यते ॥' इति। बिम्बग्रहणोचितनेपथ्यं तदन्तरे नर्तनं च तत्रैवोक्त कुण्डलिनृत्तप्रस्तावे-'नीरन्ध्रा तत्र कर्तव्या स्निग्धा यवनिकादिमा । अपरे द्वे यवनिके नीहारावरणोपमे॥ प्रेक्षकाणां वितन्वाना नयनानन्दकन्दलम्। नेपथ्यान्तरिता भूत्वा नर्तकी नृत्तमाचरेत् ॥।' इति। भावस्य रत्याख्यस्थायिभा- वस्यानुबन्धो विच्छेदाभावः, सजातीयविजातीयैरतिरस्कार इत्यर्थः। अथवा भावानां सात्त्विकसंचारिणाभनुबन्धः कहोलवदसकृदनुवर्तन तनोज्ज्वलो मनो- हरः । नाट्यपक्षे भावो नाम व्यापारविशेषः । तदुक्तम्-'वागङ्गसत्त्वामिनयै- र्मुखरागोपशोमितैः । भावयन्नान्तरं भाव व्यापारो भाव इष्यते ॥' इति। कोऽ- प्यनिर्वचनीयः । शृज्गार एव नाटयं नर्तनं तस्य क्रमः । पश्यतेत्यस्य वाक्यार्थ: कर्म॥ ५८॥ प्रौढामुदाहरति-सहेलमिति॥ प्रकृत्या मधुरं प्रियदर्शनम्। व्यक्तश्रज्वारसूचकोऽन्तःकरणविकारो हेला। तत्सहितं यथा भवति तथा पश्य-

Page 36

नायकप्रकरणम् । २७

मृगाक्ष्यास्तारुण्ये कुसुमशरशिल्पं विजयते ॥ ५९॥ भेदान्तरं यथासंभवमुदाहार्यम्। गुणालंकाराणां रसमहति काव्ये विलसितं स्फुरच्छब्दार्थाम्यां तदपि हृदयानन्दि भवति। तयोरप्युन्मेषः स्रवदमृतमाधुर्यसुभगः परं पुण्यश्लोकं चरितमनुबन्नन् विजयते ॥ ६० ॥ एष संग्रहश्लोक: । न्ल्याः । अत एव तदात्वे तत्काले प्रियदर्शनसमय इत्यर्थः । प्रत्युद्यन्ति उत्पद्यमा- नानि विविधानि च ललितानि कर्णकण्ड्यनकुचविमर्दनादिकोमलान्विन्यासाः । 'सुकुमाराजविन्यासो ललितं परिकीर्त्यत' इति लक्षणात्। तेषामाटोपेन मधुर- मिति स्मरमन्दीकृतव्रीडत्वमुच्यते। रसस्य शक्रारस्य प्रादुर्भावादुदयादनुभावा- दित्यर्थः । 'उत्पन्ना रतिरेकत्र प्रथमं दर्शनादिमिः । हृदारम्भानुभावेन शृज्गारं विशिनष्टि सा ।।' इति वचनात्। कुसुमशरशिल्पं कामकलाकौशलम्। अत्र दयितावलोकनकाले अज्वादौ सातिशयविशेषकथनाद्विलासः । 'तत्कालीनो विशे- पस्तु विलासोऽव्वक्रियादिषु ।' इति लक्षणात् ॥ ५९ ॥ विस्तरभयादस्मामिरुपे- क्षितानां धीराद्वस्थानामुदाहरणानि ख्वयमेव द्रष्टव्यानीत्याह-भेदान्तर- मिति॥ अन्रायं नायिकासंग्रहः -'खान्या साधारणा च खा मुग्धा मध्या प्रग- ्मिका । आधैकधा त्रिधान्ये द्वे धीराधीरोभयात्मना। ज्येष्ठाकनिष्ठाभेदेन ते एव द्विविधे पुनः । अन्या कन्या परोडा च वेश्या त्वेकेति षोडश । खाधीन- पतिकादष्टावस्थाभिस्ताः समन्विताः । प्रत्येकमष्टधा मुख्या मध्या हीनेति ता- स्तिधा॥ इत्येवं नायिकावस्थाः समुद्राष्टाग्नि (३८४) संमिताः ॥ विरहोत्कण्ठिता चैव विप्रलब्धामिसारिका । इत्यवस्थात्रयं प्राहुः केचित कन्यापरोढयोः ॥ चतुः- पञ्चाशद्धिकत्रिशत्यासां तदा भवेत् ।I' इत्थं प्रसक्तमनुप्रसक्त च परिसमाप्य परमप्रकृतं पुण्यशोकगुणवर्णनमुपस्कुर्वन्नुपसंहरति-गुणेति । पुण्यः श्ोको यस्मिस्तत् पुण्यश्लोकम् । 'पधे यशति च श्रोकः' इत्यमरः ॥ ६० ॥ इति पदवाक्य प्रमाणपारावारपारीणश्रीमहोपाध्यायकोलचलमल्िनाथसूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणे: पेह्यार्यस्यानुजेन कुमारखामिसोम- पीथिना विरचिते प्रतापरुद्रीयव्याख्याने रन्नापणाख्याने नायकनिरूपणं नाम प्रथमं प्रकरणम्।

Page 37

२८ प्रतापरुद्रीये रत्नापणसहिते

उपस्कारहेतूनां गुणालंकाराणां सदृशेऽलंकार्ये सति चरिता- र्थत्वम्। यस्यालंकाराश्रयत्वं तदेव लोकन्यायेनालंकार्यम्। तेन गुणालंकाराणां काव्यमेवाश्रयभूतमिति तदेवालंकार्यम्। रसादेरलं- कार्यत्वोक्तिः प्राधान्येनात्मन इव हारनूपुराद्यलंकार्यत्वम्। जीवि- तभूतत्वाद्रसादेः काव्यात्मता। कचिद्रसस्य प्राधान्यम्। कचिदलं- कारस्य प्राधान्यम्। कचिद्वस्तुनः प्राधान्यं च । रसप्राधान्यं यथा- ईषद्क्कुरितविभ्रमचारौ देहपल्लवितकान्तिनि तन्व्याः । यौवने मुकुलितस्तनमात्रे पुष्पितश्च फलितश्च मनोभूः॥६१॥ एतत् कांचिद्वालामालोक्य सस्पृहस्य प्रतापरुद्रस्य वचनम् । अत्र शृङ्गाररसो व्यज्यते ॥ अलंकारप्राधान्यं यथा- कीतौं प्रतापरुद्रस्य विहरन्त्यां दिगन्तरे। लोकालोकतटाः शश्वदूवच्चन्द्रोपलाङ्गिताः ॥ ६२॥ अत्र चन्द्रकान्तकुट्टिमानां लोकालोकाचलतटानां रुद्रदेवकीर्तो चन्द्रिकाबुद्धथा शश्वत् द्रवोऽभूदिति भ्रान्तिमदलंकारो व्यज्यते । व्यङ्क यावस्थायामलंकारस्यापि प्राधान्यमस्त्येव ।। वस्तुप्राधान्यं यथा- अवतरति वीररुद्रे काकतिवंशे त्रिलोकमहनीये। त्यक्त्वा दुग्धपयोधि तल्पफणीशः स्वमन्दिरं प्राप्तः ॥६३॥ अत्र तल्पफणीशः दुग्धानिंधि विहाय स्वगृहं प्राप्त इत्यनेन क्षीरसमुद्रे हरिनास्तीति व्यज्यते। अनेन पुरुषोत्तमः प्रताप रुद्ररूपेण काकतीयकुलेऽवततारेति वस्तु व्यज्यते। इति त्रिविधं व्यङ्गथ- प्राधान्यम् ॥। *उपस्कारहेतूनामित्याद्यतिश्लाघाकारणमित्यन्तो ग्रन्थो बहुपु कोशेषु न दृश्यते, नापि व्याख्यातः कुमारस्वामिसोमपीथिना।

Page 38

नायकप्रकरणम् । २९

काव्यमाश्रित्य गुणालंकाराणां विलासः । तच्च काव्यं शब्दरफु- रणेनार्थस्फुरणेन तदुभयस्फुरणेन च सहृदयहृदयानन्दि भवति॥ शब्दस्य स्फुरणं नाम श्रौढबन्धस्य डम्बरः। यो वन्धाडम्वर आरभट्यां प्रतिपादयिष्यते तच्छब्दस्फुरणम्। यथा- क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः । उद्दामोद्यमनस्य रुद्रनृपतेर्दोर्दण्डयोंश्चण्डयो- रगर्जदुर्जनगर्वपर्वतभिदादम्भोलयः केलयः ॥ ६४॥ अचुम्बितार्थसंपत्तिरर्थस्फुरणमिष्यते।। यथा *खग्गे जुज्झविजिम्भिए रिवुमहीणाहंजलिं बिंबिअं पेक्खंतो जअलच्छिवासकमलं मण्णंति विण्णाणिणो । मण्णे वीरपआवरुद्दविहुणो जण्णेसु घेत्तुं उणो सिठ्ठीए रिपुजीविआइ विहिणो पत्तस्य पीढंबुअम् ॥६५॥ उभयस्फुरणं यथा- उद्यद्वंहितगर्जितैः करिघटाकादम्बिनीडम्बरैः क्षोणीभृत्कटकोपरोधपटुभिः सद्यः स्फुरद्दिक्तटाः ।

कुर्वन्तश्रलमर्तिगण्डनृपतेजैत्रप्रयाणोद्यमाः ॥ ६६ ॥ एवंविधशब्दार्थस्फुरणाभ्यां काव्यस्य चारुत्वम्। शब्दार्थयो- रपि पुण्यश्ोकचरितवर्णनेन सहृदयहृदयानन्दित्वम्। अतो नायक- स्यैव काव्ये प्राधान्यम्। "खके युद्धविजुम्भिते रिपुमहीनाथाञ्जलिं बिम्बितं प्रेक्षमाणा: जयलक्ष्मिवासकमलं मन्यन्ते विज्ञानिनः । मन्ये वीरप्रतापरुद् विभोर्जन्येषु ग्रहीतुं पुनः सृष्टथै रिपुजीवितानि विधेः प्राप्तस्य पीठाम्युजम् ॥

Page 39

३० प्रतापरुद्रीये रत्नापणसहिते

कुलाचारयशःशौर्यश्रुतशीलादिवर्णनम्। क्रियते नेतुरेवं यत्तदेव बहुसंमतम् ॥ ६७ ॥ अथवा प्रतिपक्षस्य वर्णयित्वा गुणान् बहून्। तज्जयानायकोत्कर्षवर्णनं च मतं क्वचित् ॥ ६८ ।। यथाक्रममुदाहरणम्- तत्त्वं यस्य परः पुमानवतरो यस्यान्वये काकति- क्ष्मापानां चरितं च यस्य भुवनक्षेमंकरप्रक्रमम् । श्राघा यस्य लघूकृलामरतरुस्वर्धेनुचिन्तामणिः सोडयं विश्वधुरंधरो विजयते श्रीवीररुद्रो नृपः ॥६९॥ यत्तेजः प्रतिपक्षभूपविहरदर्वान्धकारातपो यद्दोरर्ग लविक्रमस्त्रिजगतीशुद्धान्तदौवारिकः । सोऽप्यासायुधि सेवणक्षितिपतिः सन्नाह्भेरीध्वनिं श्रुत्वा रुद्रनरेश्वरस्य महतो भीतः पलाय्याकुलः ॥७०॥ एवंविधवर्णनमुत्पाद्ये नायके न घटते। तस्य लोकप्रसि- द्ध चर्थ कुलव्यपदेशादयो बहुधा वर्णयितुमेवोचिताः । स्वतःसिद्धे तु नायके द्वैविध्यमपि संभवति। तस्य कुलव्यपदेशादीनां लोकप्रसिद्ध- त्वात् कविभिर्बलवत्प्रतिपक्षविजयवर्णनं युक्तम्। एवं स्वतःसिद्धो- त्पाद्यत्वभेदेन नायकस्य द्वैविध्यम्। तत्र च धीरोद्धते यथा रौद्रो वर्ण्यते बाह्यसंभ्रमः। यथा च धीरललिते शृङ्गारो बहुभावकृत् ॥ ७१ ॥ न धीरोदात्तविषये तथा वर्णनमिष्यते। कार्यातो रससंपूर्तिस्तस्मिन्नप्युचितक्रमा ॥ ७२॥ हास्यादीनां तथान्येषां रसानामपि कीर्तनम्। मन्दोद्यमानुभावं स्याद्गीरोदात्ते तु नेतरि॥ ७३॥ सर्वनायकातिशायित्वाद्धीरोदात्तस्य तद्विषयत्वं प्रबन्धानामति- श्राघाकारणम् ॥ इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेSलंकारशास्त्रे नायकप्रकरणं समाप्तम् ।।

Page 40

1

। अथ काव्यप्रकरणम् ।

। अथ काव्यस्वरूपनिरूपणम् ॥ गुणालंकारसहितौ शब्दार्थौं दोषवर्जितौ। गद्यपद्योभयमयं काव्यं काव्यविदो विदुः ॥ १।। *अदोषौ सगुणौ सालंकारौ शब्दार्थौ काव्यमिति काव्यसामान्य- लक्षणम् । अथ प्रासत्ञिकं नायकस्वरूपं निरूप्य प्रकृतं काव्यस्वरूपनिरूपणं प्रति- जानीते-अथेति॥ काव्यसामान्यलक्षणमाह-गुणेति। अत्र गद्यपद्येत्यादिना काव्यस्य त्रेधा विभागो दर्शितः । शेषं लक्षणम्। अतस्तदेव निष्कृष्याह- अदोषाविति ॥ अन्र सूत्रे प्रथममनुपात्तस्यापि दोषवर्जनस्यादौ व्याख्यान- मल्पोऽपि दोषः प्रमादादिनाप्यनुपेक्ष्य इति द्योतयितुम्। तदुक्तं दण्डिना-'तद- ल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन । स्याद्वपुः सुन्दरभपि श्वित्रेणैकेन दुर्भगम् ।।' इति । 'एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः' इति तु काव्यव्यतिरिक्तविषयमिति द्रष्टव्यम् ॥ १ ॥ अथ वक्ष्यमाणलक्षणशब्दार्थादि- *इदं च काव्यलक्षण मम्मटाचार्यैरकीकृतं, साहित्यदर्पणे रसगज्गाधरे च बहुधा खण्डितम्। न्यक्कारो ह्ययमेवेति पद्ये विधेयाविमर्शदोषस्य सत्त्वेऽपि ध्वनि- त्वेनोत्तमकाव्यत्वाश्ीकरणात् अदोषत्वस्य काव्यलक्षणकोटौ प्रवेशानौचित्यम्, रसधर्मस्य गुणस्य शब्दार्थधर्मत्वासंभवात् औपचारिकशब्दार्थधर्मत्वकल्प- नाया अपि लोकविरुद्धत्वात् सगुणत्वविशेषणस्यापि लक्षणघटकतानौचित्यं, कटककुण्डलादिसंमितस्यालंकारस्य काव्यत्वव्यापकतानियमे मानाभावात् सालं- कारत्वस्य लक्ष्यतावच्छेदकाव्यापकत्वं च सर्वमपि सूपपादितं साहित्य- दर्पगे। रसगज्नाधरस्तु शब्दार्थयुगलघटितार्थपद्प्रयोगमपि नानुमनुते। अर्थ- रूपेऽभिधेये काव्यशब्दस्य शक्ते: निघण्ट्षु अप्रसिद्धत्वात्, काव्यं पठितं काव्यं श्रुतम् अर्थस्तु न ज्ञातः इत्यादिसर्वजनीनप्रयोगान्यथानुपपत्या च काव्यस्य अर्थात्पार्थक्यमज्ीकरणीयमेवेति अर्थपदस्यापि लक्षणे प्रवेशोऽनुपपन्न इत्यतः, अलंकाराणामसत्त्वेऽपि काव्यत्वमव्याहतमित्यतः, रसधर्माणं गुणालंकारदोषाणां शब्दार्थधर्मत्वकल्पनमसंगतमित्यतश्च लक्षणमेतत्सर्वथोपेक्षणीयमित्यमिप्रैति । वाक्यं रसात्मकं काव्यम् इति काव्यसामान्यलक्षणं साहित्यदर्पणे। चमत्कारजनक- भावनाविषयार्थप्रतिपादकशब्दः काव्यमिति रसगज्ञाधरे॥

Page 41

३२ प्रतापरुद्रीये रत्नापणसहिते

शब्दाथौं मूर्तिराख्यातौ जीवितं व्यङ्गयवैभवम्। हारादिवदलंकारास्तत्र स्युरुपमादयः ॥२ ॥ श्लेषादयो गुणास्तत्र शौर्यादय इव स्थिताः । आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः ॥ ३ ॥ शोभामाहार्यिकीं प्राप्ता वृत्तयो वृत्तयो यथा। पदानुगुण्यविश्रान्तिः शय्या शय्येव संमता॥४ ॥ रसास्वादप्रभेदा: स्युः पाकाः पाका इव स्थिताः । प्रख्याता लोकवदियं सामग्री काव्यसंपद्ः ॥५।। वाचकलक्षकव्यञ्ञकत्वेन त्रिविधं शब्दजातम्। वाच्यलक्ष्यव्य- ङधत्वेनार्थजातमपि त्रिविधम्। तात्पर्यार्थोऽपि व्यङ्गधार्थ एव, न पुनः कव्यसामग्रयां शरीरादिलोकसामग्रीमारोपयति-शब्दार्थावित्यादि ॥ ख- भावा जातिप्रयुक्तधमाश्चेष्टादयः । आहार्यिकीं कृत्रिमाम् । वृत्तयो वर्तनानि । पदानामानुगुण्यं पदविनिमयासहिष्णुत्वम् रसः शृङ्गारादिराखाद्यते येन गा- म्भीर्येग तस्य विशेषा: रसास्वादप्रभेदाः ॥ २-५ ॥ अथ यथायोगं विवेचयन् आदौ तावच्छब्दार्थौं. विभजते-वाचकेत्यादिना ॥ क्रमेणामिधालक्षणाव्य- अनाव्यापारैरर्थावबोधकाः शब्दा वाचकलाक्षणिकव्यञ्जकाः । तैरेव बोध्या अर्था वाच्यलक्ष्यव्य्नया इति विवेकः । ननु चतुर्थे तात्पर्यार्थे जाग्रति कथमर्थत्रैवि- ध्योक्तिरित्याशङ्कय तस्य तृतीयेऽन्तर्भाव इत्याह-तात्पर्यार्थ इति । अन्र वक्तवुद्धिसंनिधापितो वाक्यावगम्यो वाक्यार्थो रसादिरूपस्तच्छव्दनोच्यते । तस्मिन् परास्तत्परास्तदासक्तास्तद्विषया इत्यर्थः । तेषां भावस्तात्पर्यम्। नन्व- मिहितानां पदार्थानामर्थानिधायिनां वा पदानां विशिष्टार्थ प्रत्यायनशक्तिस्तात्पर्य- मिति मतभेंदन मीमांसका वर्णयन्ति। अतस्तन्मते देवदत्त दण्डेन गामानयेत्यादौ देवदत्तकर्तृकदण्डकरणकगोकर्मकानयनरूपो विशिष्टार्थ एव व्यज्ञयत्वविधुरस्ता- त्पर्यादवगतत्वात् तात्पर्यार्थ इत्युच्यते, कथमस्य व्यञ्नयेऽन्तर्भाव इति चेत् सत्यम्। न हि तावन्मात्रे कविसरम्भविश्रान्तिः । काव्यशब्दानामन्वयव्यतिरे- काभ्यां प्रवृत्तिनिवृत्तिविषयभूतस्य प्रधानस्य प्रयोजनान्तरत्यासंभबात्। किं तु तदर्थन्यक्वारेण प्रतीयमाने सामाजिकानन्दाखादफले रसादावर्थान्तरे। अतः स एव तात्पर्यार्थः । तत्प्रत्यायकपदार्थशक्तिरेव तात्पर्य कविसमये। तञ्च ना- भिधा, सवार्थे संकेताभावात्। नापि लक्षणा, मुख्यार्थबाधाद्यभावात्। अतो वक्ष्यमाणलक्षणस्य व्यजनस्यैवेदं नामान्तरकरणमिति तदर्थस्यव्यप्गयार्थत्वमे- वेति भावः । तर्ह्त्र संसर्गरूपो वाक्यार्थः क्थ प्रतीयत इति चेत्, तार्किकाणा- मिव वाक्यमहित्रा, न पुनस्तात्पर्येग मीमांसकानामिवेति ब्रूमः । अत एव ते

Page 42

काव्यप्रकरणम् । ३३

पृथग्भूतः । अभिधालक्षणाव्यञ्जनाख्यास्तिस्त्रः शब्दवृत्तयः । गाण- वृत्तिरपि लक्षणाप्रभेद एव, संबन्धानुपपत्तिमूलकत्वात्। यथा्नि- वर्णयन्ति-आकाक्कादिमत्त्वे सति पदानां पदार्थानां वा समन्वयशक्तिर्वाक्यं तद्लायातो वाक्यार्थः । तात्पर्यार्थस्तु परिणतिविरसं पनसफलं परिणतिसरस- माम्रफलमित्यादिनिन्दाप्रशंसादिवाक्येषु हानोपादानादिरूप एव, नान्यः । तात्प- र्यमपि भावाभिप्रायाद्यपरपर्यायम् । उद्देशो नाम वक्तुधर्मों न मीमांसकानामिव वाक्यधर्म इति। तदेतदुदयनाचार्यैः कुसुमाजलौ 'उद्देश एव तात्पर्यम्' इत्यं- तच्छलोकव्याख्यानावसरे प्रतिपादितम्। यद्वा वैयासिकदेवताधिकरणे अर्थान्तरा- भावे संसर्ग एव तात्पर्यार्थः तत्सद्धावे तत्रैव प्रतीतिविश्रान्तेः स एव तात्पर्यार्थों न संसर्ग इति प्रतिपादितम् । तद्वदत्रापि द्रष्टव्यम् । काव्ये संसर्गमात्रविश्रान्तिर्न संभवतीत्युक्तम् । तर्हि 'अव्यज्ञयं त्ववरं स्मृतम्' इति काव्यप्रकाशवचनस्य का गतिरिति चेनैष दोषः । अव्यज्ञयमित्यत्रानुदरा कन्येतिवन्नञ ईषदर्थत्वेनास्फुट- व्या्नयत्वस्य विवक्षितत्वात्। तदुक्तमलंकारसुधानिधौ-'अनुल्बणत्वाद्वयङ्या- नामव्यज्ञर्थ चित्रमीरितम् । व्यञ्तयस्यात्यन्तविच्छेदः काव्ये कुत्नापि नेष्यते ।।' इति। एवं च सति प्राचीनालंकारशास्त्रकाराणां संसर्गरूपवाक्यार्थस्य तात्पर्या- धत्वेन प्रतिपादनं मतान्तराभिप्रायेणेति द्रष्टव्यम् । अत एवोक्तं काव्यप्रकाश- 'तात्पर्यार्थोऽपि केषुचित्' इति। उक्त च सुधानिधौ-'अस्मन्मतं तात्पर्य- व्यापारापेक्ष न भवति' इति । विद्याधरेणाप्युक्तम्-'तात्पर्य नाम व्यापारा- न्तरं परैरभ्युपगतम्' इति। तस्माद्वयज्ञनापरपर्यायमेव तात्पर्य कविमिरज्ीकृतं नान्यदिति सिद्धम्। अत एवोक्तं भावप्रकाशे-'अतो ध्वन्याख्यतात्पर्यगम्यमान- त्वतः खतः । काव्ये रसालंक्रियादिर्वाक्यार्थो भवति स्फुटम् ॥' इति। उक्त च ध्वन्याचायैं :- 'यत्त्वभिप्रायविशेषरूपं व्यञ्ञयं शब्दार्थाभ्यां प्रकाश्यत तद्धवति विवक्षित तात्पर्येग प्रकाश्यमानम्' इति।वृत्तयोऽपि त्रिविधा इत्याह- अभिधेति ॥ गौणवृत्तिर्लक्षणातो भिन्नेति प्राभाकरा: । तद्युक्तम्, तस्या लक्ष- णायामन्तर्भावादित्याह-गौणवृत्तिरिति । गुणनिमित्ता वृत्तिगाणवृत्तिरित्यर्थः । अत्र हेतुमाह -- संबन्धेति॥ लक्षणाया अपि तथात्वादिति भावः । मुख्यार्थ- योग: संबन्धः । तद्वाधोऽनुपपत्तिः । अग्निर्माणवक, इत्यत्राम्निलक्षितपै्लल्यादि- गुणसामान्ययोगः संबन्धः । अनभ्नावन्निशब्दप्रयोगोऽनुपपत्तिः । अत्रोभयनिष्ठस्य गुणसामान्यरूपस्य गुणविशेषरूपस्य वा सादृश्यस्य संबन्धरूपत्वं तस्य चोभय- निरपणीयत्वसाधर्म्येणोपचारात्। तद्ुक्कं बरदराजीये-'सादृश्यमात्रं सामान्यं द्विष्ठं कैश्चित् प्रतीयते । गुणभदोऽप्यभेदेन द्विवृत्तिर्वा विवक्षितः ॥' इति। ननु गौण्यां यथा संबन्धस्य लक्ष्यविशेषणत्वेनान्वयो न तथा लक्षणायाम् । अतः कथमनयोः संबन्धमूलकत्वसाम्यमित्याशङ्कय लक्षणायामपि संबन्धस्य विशेष- पत्वं सदष्टान्तमाह-यथाग्निरिति ।। अत्र सादृश्यस्य माणवकनिष्ठत्वात्

Page 43

३४ प्रतापरुद्रीये रत्नापणसहिते

गङ्गायां घोष इत्यत्र गङ्गासंबन्धविशिष्टतीरप्रतिपत्तिर्विवक्षिता। गङ्गा- संवन्धस्योपलक्षणत्वे घोषगतपवित्रत्वाद्यसिद्धेः । अत एव सादृश्य- निबन्धना संबन्धनिबन्धना चेति द्विविधा लक्षणा। संबन्धनिबन्धना जहद्वाच्या अजह्द्वाच्या चेति द्विविधा। सादृश्यनिबन्धना सारोपा साध्यवसाया चति द्विविधा। एवं लक्षणा चतुर्विधा। कैशिक्यारभटी तस्य तद्विशिष्टत्वम् । अन्यत्न गज्ञाशब्दबोध्यत्वहेतुकप्रवाहात्मकत्वप्रतीतिविषय- त्वमेव तीरस्यापि गज्नासंबन्धविशिष्टत्वम्। एवं च स्रोतस्तीरयोरेकशब्दबोध्यत्वेन तादात्म्यप्रतीतः स्रोतोधर्मा अत्यन्तपावनत्वादयस्तीरे प्रतीयन्त इति प्रयोजन- सिद्धिः। एवमनज्गीकारे तदसिद्धिरेव वाधिकेत्याह-गङ्गासंबन्धस्येति ॥ उपलक्षणत्व इति॥ नेदं समुद्रादितीरं किंतु गज्गातीरमिति गज्ञासंबन्धमात्रप्रती- तावित्यर्थः । घोषगतेति ॥ तीरद्वारेति भावः । तथा सति गज्गातीरे घोष इति मुख्यशब्दाभिधानाल्ृक्षणाया भेदो न स्यादिति हृदयम्। न च मा भूद्धेद इति बकु युक्तम्। तथा सति मुख्ये संभवति गौणस्यान्याय्यत्वात् सर्वसंप्रतिपन्ना लक्षणैवोत्सीदेदिति। अनेन संबन्धानुपपत्तिप्रोयोजनानां त्रयाणामपि लक्षणाबी- जत्वमुक्तम्। तस्या विभागमाह-अत एवेति ॥ निमित्तभेदादित्यर्थः । अत्र सादृश्यशब्देनारोपाध्यवसायहेतवोऽपि कार्यकारणभावाद्यः संबन्धा उप- लक्ष्यन्त। संबन्धशव्देन तद्वयतिरिक्ता गोबलीवर्दन्यायेनोच्यन्ते। द्वयोरपि प्रत्येकं द्वैविध्यमाह-संवन्धेत्यादि ॥ अत्र यद्यपि सारोपसाध्यवसाययोः सादृश्यनिमित्तत्वे गौणत्वं गौर्वाहीको गौरयमित्यादौ, कार्यकारणभावादिसंबन्धा- न्तरनिमित्तत्वे तु शुद्धत्वमायुर्धृतमायुरेवेदमित्यादौ, एवं चातुर्विध्ये जहदजहल्क्ष- णाभ्यां सह षोढा लक्षणेति काव्यप्रकाशकार:, तथापि मुख्यार्थस्य हानोपादानारो- पाध्यवसायलक्षणोपाधिवशाच्ातुर्विध्यमेव लक्षणायाः। आयुर्षृतमायुरेवेदमित्या- दावपि गौणत्वस्यैव सुकल्पत्वाच्च। तदुक्तमलंकारचूडामणों-'यत्र वस्त्वन्तरे वस्त्वन्तरमुपचर्यत स गौपोऽर्थः । यत्र न तथा स लक्ष्य इति विवेकः' इति। कुशल प्रवीगादिशब्दानां तु साक्षात् संकेतविषयत्वेन मुख्यत्वान्न रूढिहेतुकतवं लक्षणाया इत्याचार्यहेमचन्द्रः । रूढिपक्षाश्रयणे तु प्रयोजनलक्षणापेक्ष चातुर्विध्य- मिति विज्ञेयम्। ननु कैशिक्यादिवृत्तीनां विद्यमानत्वात् कथं तिस्रः शब्द- वृत्तय इत्याशङ्कय शब्दसंदर्भाश्रितत्वात्तासामशब्दवृत्तित्वमित्यभिप्रायेणाह-कैशि- कीति ॥ रसाद्यनुगुणत्वेनौचित्यवानर्थव्यापारः कैशिक्यादिः। तादृश एव शब्दव्यापारो वैदर्भ्यादिः। तदुक्तं ध्वन्याचायें :- 'रसाद्यनुगुणत्वेन व्यव- हारोऽर्थशब्दयोः । औचित्यवान् यस्ता एव वृत्तयो द्विविधाः स्थिताः ॥'

Page 44

काव्यप्रकरणम् । ३५

सात्वती भारती चति रचनाश्रितत्वेन रसावस्थानसूचकाश्चतस्त्रो चृत्तयः । तथा चोक्तं दशरूपके- 'कैशिक्यारभटो चैव सात्वती भारती तथा। चतस्रो वृत्तयो ज्ञया रसावस्थानसूचकाः ॥' इति। रचनाया अपि रसव्यञ्जकत्वं प्रसिद्धम्। रसाननुगुणवर्णरचनाया दोषत्वमुक्तम्। वैदर्भीप्रभृतयो रीतिविशेषा न वृत्तिष्वन्तर्भूताः । तत्र संकेतितार्थगोचरः शब्दव्यापारोऽभिधा। सा द्विविधा- रूढिपूर्विका योगपूर्विका चेति। रूढिपूर्विका यथा- तपोविशेषैः प्रथितैः प्रजानां शुभैश्च्वरित्रैर्जगतीमहिष्याः । इति। एवं कैशिक्यादीनामर्थप्राधान्येऽपि नान्तरीयकाणां शब्दानां यथायोगं वैदर्भ्यादिसापेक्षत्वस्य धनिकादिभिः प्रतिपादनाद्रचनाश्रितत्वमित्यनुसंधेयम् । कैशिक्यादीनां रसव्यञ्जकत्वस्य रचनाधीनत्वात् तस्यास्तथात्वमन्वयव्यतिरेका- भ्यां दर्शयति-रचनाया अपीति ॥ प्रसिद्धमिति ॥ काव्यलोकादाविति शेषः । तदुक्तम्-'यस्य लक्ष्यक्रमव्य्यो ध्वनिर्वर्णपदादिषु। वाक्ये संघटनायां च स प्रबन्धेऽपि दीप्यते ।।' इति। यर्द्याप विभावादीनामेव रसव्यञ्जकत्वं रचनादीनां तु विभावादिसहकारित्वमेव । अत एवोक्तं लोचने-'सहकारित्वमेवाभिधातुं संघटनायामित्यादौ सप्तमीनिर्देश:' इति। तथाप्यौपचारिकं रसव्यञ्जकत्वमिति बोद्धव्यम्। दोषत्वमिति ॥ 'रसस्य स्याद्विरोधाय वृत्तयनौचित्यमेव च' इति वचनाद्रसभन्हेतुत्वादिति भावः । अथ प्रसंगाद्वैदर्भ्यादीनां वक्ष्यमाण कैशि- क्याद्यनन्तर्भावमधुना प्रतिजानीते-वैदर्भीप्रभृतय इति॥ अथोद्देशक्मानु- सारेणाभिधालक्षणमाह-तत्रति॥ संकेतः शब्दार्थयोः संबन्धावधारणं स कृतो यस्य स संकेतितः। अर्थोऽत्र जातिगुणक्रियाद्रव्यात्मकः, केवलजातिः, जात्यालित्नि- तव्यक्तिः, अन्यापोहो वा मतभेदात्। सर्वपथीनाः खलु कवयो भवन्ति। विशेषण- द्वूयेन व्यज्नचेष्टयोः क्रमेण व्युदासः । लक्षणायास्तु द्वयोरन्यतरेणेति विवेकः । लक्ष्येऽपि संकेतोऽस्तीत्यन्विताभिधानवादिनः। तन्मते शब्दव्यापारपदेनैवेति विशेषः । अशब्दव्यापारो लक्षणेति वक्ष्यते । अभिधां विभजते-सेति ॥ रूढिरश्वकर्णादिवद्वयवार्थाभावेन समुदायप्रसिद्धिः । तदुक्तमाचायः-'असत्खव- वयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते । तत्रानन्यगतित्वेन समुदायः प्रसिध्यति ॥' इति। योग: प्रोक्षण्यादौ प्रकृष्टोक्षणकरणत्वादिवद्वयवप्रसिद्धिः । आद्यामुदा- हरति-तप इति॥ तपोविशेषैः कृच्छूचान्द्रायगादिगिः । जगतीमहिष्या भू- कान्तायाः शुभैश्वरित्रैः पुरन्ध्रीसाध्यैगौंरी पतादिभिः। अस्य भुवनस्य मध्यमलोकस्य

Page 45

३६ प्रतापरुद्रीये रत्नापणसहिते

भाग्यैः प्रभूतैर्भुवनस्य चास्य बिभर्ति राज्यं वरवीररुद्रः ॥६। अत्र सर्वे शब्दा रूढाः । योगपूर्विका यथा- राज्ञि रुद्रनराधीशे रञ्जयत्यखिलाः प्रजाः । भूरन्वर्था वसुमती रत्नगर्भा स्थिरेति च ।। ७ ॥ अत्र वसुमतीरत्नगर्भेत्येवमादयो यौगिकाः । वाच्यार्थानुपपत्या तत्संबन्धिन्यारोपितः शब्दव्यापारो लक्षणा। तत्र जह्ल्लक्षणा यथा- जेतु: काकतिभूभर्तुराकर्ण्य पटह्ध्वनिम्। सामन्तनगराण्युच्चैराक्रोशन्ति समन्ततः ॥l ८ ।। अत्र नगराण्युच्चैराक्र्ोशन्तीति वाच्यस्यानन्वयः । अचेतनानामा- कोशस्यासंभवात् तत्रत्या जना लक्ष्यन्ते । अजहृल्लक्षणा यथा- पत्युः काकतिनाथस्य पादपीठीमनारतम्। स्फुरद्रत्नप्रभाजालैरलंकुर्वन्ति मौलयः ॥ ९ ॥ भाग्यैरदृष्टपरिपाकैः । अत्र तपःप्रभृतिनिमित्तभेदाद्विच्छित्तिविशेष ब्क्तु मध्यम- लोक एव समष्टिव्यष्टिभ्यामाश्रितः, प्रजापृथिवीव्यतिरिक्तमध्यमलोकासंभवादिति द्रष्टव्यम् ॥ अत्र तपःप्रभृतीनामवयवार्थाभावाद्रूढत्वे न कोऽपि विवादः । प्रजा- दिशब्दानामवयवार्थसदभ्ावेन यौगिकत्वेऽपि रूढिर्योगमपहरतीति शब्दशक्तिख्वा-

अत्र सर्व इति। ६॥ द्वितीयामुदाहरति-राजीति ॥ अत् वसुमत्यादि- शब्दानां धनवत्तादवयवार्थसद्धावाद्यौगिकत्वमित्याह-अत्रति॥ ७॥ लक्षणं लक्षयति-वाच्येति॥ वाच्यार्थानुपपत्त्या मुख्यार्थबाधेन हेतुना तत्संबन्धिनि मुख्यार्थसंबद्धे विषये आरोपितः शब्दव्यापारो लक्षणेत्यर्थः । अत्र यद्यपि स्वार्थ प्रत्याय्योपरतव्यापारस्य शब्दस्य पुनर्व्यापारान्तरायोगादर्थ एव लक्षक इत्यर्थव्यापारो लक्षणा, तथापि वाच्यधर्मो वाचक उपचर्यत इति लक्षणायाः शब्दवृत्तित्वव्यवहार इति विज्ञेयम्। अत्र तावत् पूर्वोक्तविभागक्मेण जह्ल्क्ष- णामुदाहरति-जेतुरिति॥ अत्राकोशसिद्धयर्थ नगरशब्दः खार्थ हित्वा तद्वा- सिनः प्राणिनो लक्षयतीत्येषा जहल्क्षणा। तत्रत्यप्राणिमात्रभयप्रतीतिः प्रयो- जनम्। मुख्यार्थबाध व्यनक्ति-अत्रति ॥८॥ अजहल्कक्षणामुदाहरति- पत्युरिति ॥ पादपीठीमिति ॥ अल्पं पीठं पीठी। गौरादित्वात् डीष्। अत

Page 46

काव्यप्रकरणम्।:7 ३७

अत्रालंकारसिद्धथर्थ मौलिभिस्तदाश्रयभूता नृपतयो लक्ष्यन्ते। सारोपलक्षणा यथा- मन्थानाचलमूलमे चकशिला संघट्टनश्यामिका- कारं यत्तुहिनद्ुतौ स्फुरति तत् सारङ्गमाचक्षते। मन्ये नन्विह वीररुद्रनृपतः कीर्तिश्रिया निर्जित- स्तन्मुद्राङ्कवराहमिन्दुरुरसा विभ्रत् समुज्जृम्भते ॥ १० ॥ अत्र चन्द्रकलङ्करूंप कुरङ्गे वराहत्वमारोप्यते। विषयविषयिणोरभिहितयोरभेदप्रतिपत्तिरारोपः । विषयनिगरणेनाभेद प्रतिपततिरध्यवसायः । एवोक्तममरकोशे-'श्र्री स्यात् काचिन्मृणाल्यादिर्विवक्षापचये यदि ।' इति । बाहुल्य प्रतीतिः प्रयोजनम्। लक्ष्ये लक्षणं योजयति-अत्रेति॥ नृपतय इति॥ मौलिसहिता एवेत्यर्थः । एवं चात्ापि स्वार्थ हित्वैव तद्विशिष्टार्थान्तरलक्षणेति सिद्धम्। सवार्थापरित्यागे तु सवार्थाशेऽभिधा अंशान्तरे तु लक्षणा चेत्येकस्य शब्दस्यैकदा वृत्तिद्वयापत्तेः । तर्हि जहृदजहृल्क्षणयोरभेद इति चेत् सत्यम्- किं त्वलाभिधातः प्रच्याव्य स्वार्थस्यापि लक्ष्यत्वेन स्वीकारादजहृत्खार्थेति व्यप- देशः । अन्यत्र तु तदपि नास्तीति जहत्खार्थेति। तदुक्त तातपादैरेकावलीतरले तन्त्रवार्तिकव्याख्याने सिद्धाज्जने च। 'खार्थत्यागे समानेऽपि सह तेनान्यलक्षणा। यल्ेयमजहत्सार्था जहत्खार्था तु तं विना ।' इति। नन्वर्थ एव लक्षक इत्युक्तम्, तथा सत्यजहत्स्वार्थायां स्वार्थाशे वृत्तिविरोध इति चेन्नैष दोषः। केवलस्वार्थस्य लक्षकत्वं तत्सहितस्यान्यस्य लक्ष्यत्वमिति भेदसद्भावादित्येतदपि तत्रैवोक्तम- त्यलमवालसुलमैः प्रसैः ॥ सारोपलक्षणामुदाहरति-मन्थानेति॥ मन्थानो मन्थदण्डसदचलो मन्थानाचलो मन्दराद्विरित्यर्थः । 'मन्थानं मन्दर कृत्वा योक्त्रं कृत्वा च वासुकिम्।' इति विष्णुपुराणात्। तस्य मूलोपलेषु संघट्टनेन संघर्षणेन या श्यामिका कालिमा तदाकारमतिनीलमित्यर्थः । तन्मुद्रेति॥ वराहध्वजत्वात् काकतीश्वरस्येति भावः । लोके केनचिज्जतस्तन्मुद्रामुरसा बिभतीति प्रसिद्धिः । अत्र कुरङ्स्य वराहात्मकत्वं प्रतीयते। अत्र विषयविष- यिणौ विविश्वन्नारोपं दर्शयति-अत्रेति ॥ १० ॥ भेदान्तरसांकर्यशङ्कानिरासा- र्थमारोपलक्षणमाह-विषयेति ॥ विषयः प्रकृतो माणवकादिः। विषयी अप्रकृतो वह्यादिः। तयोरमिहितयोरपङ्ठतभेदतया सामानाधिकरण्येनोक्तयो- रित्यर्थः । एतेनाध्यवसायाद्गेद उक्तः । प्रसज्गात् तस्यापि लक्षणमाह-विष- येति॥ विषयस्य निगरणमत्यन्तापलापस्तेनाभेदप्रतिपत्तिः । विषयिग इति साम प्र 4

Page 47

३८ प्रतापरुद्रीये रत्नापणसहिते

साध्यवसायलक्षणा यथा- काकतीयकुलाम्भोधे: प्रभवत्येष चन्द्रमाः । कृतः कुवलयोल्लासो येनोदयमुपेयुषा ।११॥ अत्र प्रतापरुद्रश्चन्द्रतयाध्यवसीयते। काकतीयकुलाम्भोधेरिंत्यत्रारोपः।B अथ व्यक्ञनावृत्ति: । अन्वितेषु पदार्थेषु वाक्यार्थोपस्कारार्थमर्थान्तरविषयः शब्द- व्यापारो व्यञ्जनावृत्तिः । सा त्रिविधा शब्दार्थोभयशक्तिमूलत्वेन। तत्र शब्दशक्तिमूला यथा- थ्याह्िभ्यते। न चायं जहल्लक्षणाभेदः। अत्र सादृश्यादिनिबन्धनस्य वस्त्वन्तरे वस्त्वन्तरोपचारस्य विद्यमानत्वात्। साध्यवसायलक्षणामुदाहरति-काकती- येति॥ उदयमभ्युदयं पूर्वपर्वतं चोपेयुषा प्राप्तवता । कुवलयोलासो भूमण्ड- लाह्ाद: कैरवविकासश्च। अन्नैष चन्द्रमा इत्येतच्छब्देन चन्द्र एव पुरोवर्त्य- भेदाध्यवसायेनेदन्तया विशिष्यते। न तु राजा विवक्ष्यते । अन्यथा सारोपत्व- प्रसभ्वात्। अतस्तादृशचन्द्र एव निगीर्णविषयतया ऐकरस्येन प्रतीयते। सर्वमेत- न्मनसि निधायाह-अत्रेति॥ लक्षणान्तरयोगे विच्छित्तिविशेषोऽस्तीत्यमिप्राये-

पदैरमिहितेषु। अन्वितेष्वाकाक्कादिवशान्मिथः संबद्धेषु सत्सु। समन्वयशक्ता वाक्यार्थे प्रतीत इत्यर्थः । यद्वा अर्थप्रकरणादिना प्राकरणिकार्थपर्यवसितेष्वि- त्यर्थ: । एतेनामिधान्वयशक्त्योः सति संभवे लक्षणायाश्चानन्तरभावी व्यजना- व्यापार इति सूंचितम् । लक्षणा तु समन्वयशक्तिसमर्पितान्वयविधुरीकरणधुरी- - काव्यशरीरभूतस्योपस्कारार्थ शोभार्थ, व्यज्नयरहितस्य काव्यस्यानात्मकशरीरव- दचारुत्वादिति भावः । वाच्यलक्ष्याभ्यामन्योऽर्थोऽर्थान्तरं व्यञ्यं तद्विषयः शब्द- व्यापारः । अत्र शब्दग्रहणमर्थस्याप्युपलक्षणार्थम्, अज्ञातार्थस्य शब्दस्य विशि- ष्टस्य शब्दानमिधेयस्य चार्थस्य व्यजकत्वायोगादुभयव्यापारत्वाभ्युपगमात्। किं तु शब्दार्थ शक्तिमूलयोर्यथायोगमेकस्य प्राधान्यमितरस्य सहकारित्वम् उभयशक्ति- मूलेऽपि तत्तदंशयोरेवमेव विभागो द्रष्टव्यः । व्यज्नावृत्तिं विभजते-सा त्रि- विधेति । अत्रानेकार्थस्य शब्दस्यार्थप्रकरणादिभिरप्रकृतार्थवाचकत्वे निवारिते- ऽपि तत्प्रतीतिर्यत्प्रसादलब्ध्रा सा शब्दशक्तिमूला। वक्तृबोद्धव्यादिवशात् सह- दयानामर्थान्तर प्रतीातिहेतुर्वाच्याद्यर्थव्यापारोऽर्थशक्तिमूला। उभयसंबन्धे तूभय-

Page 48

काव्यप्रकरणम् । ३९

वाहिन्यः काकतीन्द्रस्य सर्वतोमुखसंभ्रमाः । कुर्वन्त्युद्यत्कबन्धाढ्यं प्रतिपक्षबलार्णवम् ॥ १२॥ अत्र वाहिनीसर्वतोमुखक बन्धशब्दानामर्थप्रकरणादिना सैन्यसर्व- व्यापित्वलूनमस्तकदेहपराणां वाचकत्वे नियन्त्रितेSपि शब्दशक्तिमूला नदीजलप्रतिपत्तिर्यतो जायते सा व्यञ्जनावृत्तिः । प्राकरणिकार्थपर्य- चसिताभिधा न शक्कोत्यप्राकरणिकार्थप्रतिपत्ति कर्तुम्। अप्राकरणिका- र्थस्यापि वाक्यार्थशोभार्थ वक्तुर्विवक्षितत्वात् अन्यतस्तद प्रतीतेर्व्य- अजनाख्यं शब्दस्यैव व्यापारान्तरं कल्प्यते। नात्र लक्षणावृत्तिः संभवति वाच्यानुपपत्त्यभावात्। नात्र व्यापारद्वयेनार्थप्रतिपादन वाक्यभेदः। प्रयोक्तुर्विवक्षापरतन्त्रत्वाह्लौकिकवाक्यानाम् ।।

शक्तिमूलेति विवेकः । तत्र शब्दशक्तिमूलामुदाहरति-वाहिन्य इति ॥ नदीपक्षे सर्वतोमुखस्योदकस्य संत्रमो यासां ता इति व्यधिकरणो बहुग्रीहिः । अर्शआदित्वाद्वा मत्वर्थीयोऽच्प्रत्ययः। सर्वमन्यत् स्वयमेव व्याचक्षाणो व्यञ्ञ- नावृत्ते: शब्दशक्तिमूलत्वं विविनक्ति-अत्रेत्यादिना॥ वाहिनीसर्वतोमुख- कबन्धशब्दानामिति॥ अनेकार्थानामिति शेषः । अर्थः प्रयोजनम्। प्रकरणं प्रस्तावः । आदिग्रहणादर्थनिर्णायकाः संयोगादयो गृह्न्ते। तदुक्क वाक्यपदीये- 'संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्न शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानव- च्छेदे विशेषस्मृतिहेतवः ॥' इति। एतेषामुदाहरणप्रपथ्चः काव्यप्रकाशिकादौ द्रष्टव्यः । वाचकत्वेऽप्रकृतनदीजलवाचकत्वे इत्यर्थः। नियन्त्रिते निवारिते सत्यपि। यतस्तत्प्रतिपत्तिर्जायते सा शब्दशक्तिमूला व्यज्ञनावृत्तिरिति योजना, अन्यथो- दृश्यविधेयभाववैपरीत्यापत्तेः । नन्वमिधा लक्षणा वा प्रसिद्वैवाप्रकृतेऽर्थान्तरेऽपि प्रवर्ततां किमप्रसिद्धेन व्यज्नाव्यापारेणेत्याशङ्कय क्रमेण दूषयति-प्राकर- णिकेत्यादिना॥ ननु मा भूदप्रकृतार्थप्रतीतिर्यदर्थ व्यापारान्तरकल्पनेत्यत आह-अप्राकरणिकेति ॥ व्यङ्यरहितस्य काव्यत्वस्यैवाभावादिति भावः । शब्दान्वयव्यतिरेकानुविधायित्वात् शब्दस्यैवायं व्यापार इत्याह-अन्यत इति॥ अन्यतः शब्दव्यतिरिक्तादित्यर्थः । अथ लक्षणां प्रतिक्षिपति-नात्रेति॥ तत्र मुख्यार्थबाधाभाव एव हेतुरित्याह-वाच्येति॥ नन्वेकस्मिन् वाक्ये व्या- पारभेदेनानेकार्थप्रतिपादने वाक्यभेददोषः स्यादित्यत आह-नात्रेति॥ अत्र हेतुमाह-प्रयोक्तुरिति। पौरुषेयवाक्यानां प्रयोक्तृपरतन्त्रत्वाच्छवेतो धाव- तीत्यादिवदनेकार्थतवं न दोषायेति भावः। ननु शब्दशक्तिमूले ध्वनौ प्रकृता-

Page 49

४० प्रतापरुद्रीये रत्नापणसहिते

प्रकृतौ द्वावप्यर्थौं वाच्यौ। तत्राप्रकृतार्थाभिधाने वाक्यस्यासंबद्धार्थाभिधायित्वं मां प्रसाक्कीदिति प्रकृतस्याप्रकृतेन सहोपमारूपणादिकं व्यज्ञयतया कल्प्यते । तच्ब व्यञ्यमन्यथासिद्धं चेच्छलेष एव। यथा 'भ्रमिमरतिमलसहृदयतां ग्रलयं मूर्च्छा तमः शरीरसादम्। मरण च जलद्भुजगज प्रसत्व कुरुते विष वियोगि- नीनाम् ।।' इत्यत्र जलवाचिना विषशब्देनाप्रकृतगरलर्थामिधाने यदसंबद्धार्था- भिधायकत्वं तज्जलद्भुजगेति वाच्येन रूपकेणैव निराकृतमिति व्यज्यस्यावका- शाभावाच्छलेष एवायमित्युक्तं ध्यन्याचायैः । तद्वदत्रापि वाहिन्यादिशब्दाना- मर्थान्तरामिधाननिबन्धनस्य प्रतिपक्षबलार्णवमिति रूपकेणेव निराकरणाच्छलेप एव युज्थते। किं चालंकारसर्वस्वकारोऽपि विद्वन्मानसहंसो वीर इत्यत्र राज्ञो हंसत्वेन रूपण मानसमेव मानसं सर इत्यर्थद्वयप्रतिपादकस्य श्लेषस्य निमित्तम् । अतोऽत्र रूपकमेव। भ्रमिमरतिमित्यादौ तु विषशब्दस्य गरलार्थाभिधानं भ्रम्या- दिकार्याष्टकनिबन्धनं न पुनर्जलद्भुजगेति रूपकहेतुकम्। अतः श्रलेष एवायं न रूपकमित्यवोचत्। अत एवोक्तं तद्वयाख्याने चक्रवर्तिना -- 'रूपक पूर्वसंसिर्द्ध श्लेषमुत्थापयेद्यदि । तदा रूपकमेव स्यादन्यथा श्लेष इष्यते ॥' इति । तन्मता- वलम्बने तु वाहिन्यादिशब्दानामर्थान्तराभिधाने निमित्तान्तराभावाद्रूपकहेतुत्वाच् रूपकालंकारतैवोचिता। अतः पक्षद्वयेऽपि न ध्वनित्वशङ्कावकाश इति चेत् सत्यमस्तु अप्रकृतार्थस्य तेन सहोपमादेरलंकारस्य च व्यज्ञयत्वमिति केचित्। तदुक्त काव्यप्रकाशे-'शब्दशक्तिमूले तु अभिधाया नियन्त्रणेनानमिधेयस्यार्थान्तरस्य तेन सहोपमादेरलंकारस्य च निर्विवादं व्यज्यत्वम्' इति। अत एवासाविदमे- वोदाहृत्य व्यज्ञयभाविनोरर्थान्तरालंकारयोर्मध्येऽलंकारस्य जलद्भुजगेति रूपके- णामिहितत्वाद प्रकृतगरलार्थेडमिधायाः कुण्ठीभावाद् व्यञ्जनाव्यापारविषयत्वेनार्था- न्तरमेव व्यज्ञयम्। तच्च वाच्यस्य जलद्मुजगेति रूपकस्य साधकत्वाद्वाच्यसि- द्धयन्व नाम गुणीभूतव्यक्नयमित्यवोचत्। तद्वदत्रापि वाहिन्यादिशब्दगम्यस्य नद्यादर्थान्तरस्य प्रतिपक्षबलार्णवमिति रूपकसाधकत्वात् पूर्वोक्तमेव गुणीभूत- व्यङ्गथं भविष्यतीति न दोषः । नन्वेवमपि ध्वन्युदाहरणप्रस्तावे मध्यमकाव्यो- दाहरणं किमर्थ क्रियत इति चेदस्तु तद्वा तादृग्वा को ह्यत्र विशेषः, व्यज्नय- सामग्रीमात्रप्रदर्शनपराणामस्माकमुभयत्र प्रयोजनसिद्धः। उत्तममध्यमविवेकः पुनरुत्तरत्र भविष्यति। नन्वेवमपि शान्तिकर्मणि भेताळोदयः, यदत्र द्वयोरप्य- र्थयो: प्राकरणिकत्वेनाप्राकरणिकत्वेनोभयविधत्वेन च त्रिविधः श्लेषः । तत्र तृतीयं भेदमनभ्ीकुर्वतः काव्यप्रकाशकारस्य मतेऽर्ान्तरमस्तु व्यन्नयम्। अभिमतो- भयश्लेषस्य भवतः पूर्वापरविरोधः स्यात्। यदुत्तरत्र भवानेव व्रवीति। नीराज- यन्त्यन्ध्रपुरीरमण्यः प्रदीपजालैर्वरवीररुद्रम्। चन्द्रानना गोत्रपति रजन्यस्तारा- गणैर्मेरुमिव स्फुरद्धिः॥ इत्यत्रोभयश्लेष इति। न च शब्दशक्तिमूलध्वनेरनव- काशत्वम्, यत्र विशेष्यस्यापि श्िष्टत्वं तत्र तस्यावकाशसंभवात्। यथा राजमौ-

Page 50

काव्यप्रकरणम् । ४१

अर्थशक्तिमूला व्यञ्जनावृत्तिर्यथा- na m श्रुत्वा काकतिभूभर्तुः क्षोणीपाणित्रहोत्सवम्। अङ्गुष्ठेनालिखन्भूपाः पादपीठीं नताननाः ॥ १३ ॥ अत्र भूपा विषण्णा इत्यर्थशक्त्या व्यज्यते। न चार्थशक्तिमूले व्यञ्जनेऽनुमानशङ्का। व्यङ्गथव्यश्जकयोरविनाभावाभावात्। नम्रान- नत्वादिकार्यस्यानेककारणकत्वात्। नियतकारणप्रतीतिर्विवक्षानुगृही- ताच्छब्दादेव। किंचैकस्मादेव व्यञ्जकात् तत्तव्यङ्थार्थप्रतीतिर्वक्तृविव- लिरसौ भाति रुद्रदेवो जगत्पतिः । इति । एवं च सतीहान्यथोदाहरणं परीक्षक-

अत्र नताननत्वादेरनुभावस्यानेककारणकत्वसंभावनया झटिति कारणविशेषा- प्रतीतौ वीररुद्रविभोर्धरणीपरिणयश्रवणानुसारेण विषाद एव विश्रान्तेस्तस्य संलक्ष्यक्रमव्यजञयत्वम्, शब्दनियमानपेक्षणादर्थशक्तिमूलत्वं चेत्यभिग्रायेणाह- अत्रेति॥ तर्संलक्ष्यक्रमव्यन्गथो रसादिध्वनिरित्यस्य का गतिः१ यत्र स्थायि- भावव्यभिचारिभावविभावानुभाववशादाशुभाविनी रसाभिव्यक्ति: सैव गतिरिति रहस्यम्। तदुक्त्तमभिनवगुप्ताचाय :- 'यद्यपि रसभावादिरर्थो ध्वन्यमान एव भवति, न वाच्यः कथचिदपि, तथापि न सर्वोऽसंलक्ष्यक्मस्य विषयः' इत्या- दिना । अत एव ध्वनिकारोऽपि-'एवंवादिनि देवषौं पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ।I' इत्यत्रोदाहरणे लज्जाख्यं व्यमिचारि-

महिमभट्टस्तन्मतं दूषयति-न चेति॥ अर्थशक्तिमूल इति ॥ अर्थोडमि- धेयः स च वस्त्वलंकारध्वन्योर्वस्त्वलंकाररूपो रसादिध्वनौ तु विभावादिरूपक्चेति विवेकः । तन्मूले तत्सामर्थ्याक्षिप्त इत्यर्थः। अत एवोक्तं लोचने-'वाच्यसामर्थ्या- क्षिप्त इति भेदत्रयव्यापकं सामान्यलक्षणम्' इति। अनुमानत्वाभावे व्याप्त्यभावो हेतुरित्याह-व्यङ्गधेति॥ तत्रापि हेतुमाह-नम्रेति॥नम्राननत्वादिहेतोर्गुरुन- मस्कारादाव नैकान्तिकत्वात् व्याप्त्यभाव इति भावः । तर्ह्त्र विषादैकविषयत्वप्रती- तिः कुत इत्यत आह-नियतेति॥ शब्दस्वरूपप्रकाशनेच्छा शब्देनार्थप्रकाशने- च्छा चेति द्विविधा विवक्षा। वाच्यो व्यज्ञयश्चेति द्विविधः प्रतिपादः । चतुष्टयं चेर्द शब्दानां विषयः । तत्र विवक्षांद्वयमनुमेयम्। प्रतिपाद्यद्वयं शाब्दमिति विवेकः । तदेतत् सर्व ध्वन्याचायैः प्रपञ्चेन प्रतिपादितम्-'द्विविधो हि विषयः शब्दा- नामनुमेय: प्रतिपाद्यश्च' इत्यादिना। तत्र शब्देनार्थप्रकाशनेच्छालक्षणया विव- क्षयानुग्हीतात् तत्सहायादित्यर्थः । शब्दादिति ॥ व्यज्कादित्यर्थः । दूषणा- न्तरमाह-किं चेति॥ यथा 'अस्तमेति गभस्तिमान्' इत्युक्ते सन्ध्यावन्दनवि-

Page 51

४२ प्रतापरुद्रीये रक्नापणसहिते

क्षानुसारेण भवति, इयमनेकव्यङ्गयार्थप्रतीतिरनुमानपरिपाटीविरुद्धा। न चाभिधावृत्तिः। संकेतितार्थ एव तस्याः परिचय इतीयती गमनिक्रा। उभयशक्तिमूला यथा- विजितारिपुरो मूर्तौ विलसत्सर्वमङ्गलः । राजभौलिरसौ भाति रुद्रदेवो जगत्पतिः ॥ १४।। अत्र विजितारिपुर इत्यर्थशक्तिमूलत्वं, विलसत्सर्वमङ्गलो राज- केयवस्तूपसंहरणाभिसरणाद्यनकार्थप्रतीतिर्यथाक्रमं विप्रवणिक्कामुकादीनामुत्पद्यंते । तथा वह्िमानयं प्रदशो धूमवत्त्वादित्युक्त्ते न कस्याप्यर्थान्तरप्रतीतिरिति व्य- अथानुमेययोर्विलक्षणत्वादनुमानत्वं व्यञ्नस्य विरुद्धमिति भाव ॥ मीमांसकाः पुनरमिधैव प्रतीयमानेऽपि प्रवर्तत इत्याहुः। तन्मतं दूषयति-न चेति॥ कुत इत्यन आह-संकेतितेति।I आनन्त्यव्यमिचाराभ्यां प्रतिव्यक्ति संकेतानुप- पत्तेः सामान्यरूपाणों केवलपदार्थानां संकेतगोचरत्वम्। ततस्तेषामाकाक्ादि- वशात् मिथोऽन्वये तत्संसर्गरूपो वाक्यार्थों लक्ष्यमाणः समुह्सतीति भाट्टाः । तदुक्तम्-'तस्मात् पदैरमिहितैः पदार्यैर्लक्षणया वाक्यार्थः प्रतिपाद्यते' इति। अतस्तन्मतेऽपि सवार्थसंसर्गरूपतया संनिकृष्टवाक्यार्थामिधानेऽप्यसमर्थानां पदा- नामर्थान्तरत्वेन विप्रकृष्टस्य व्यज्ञयस्याभिधानं दूरापास्तमिति व्यजनोपादानमेव समज्जसमिति भावः । तदुक्तम्-'विशेषरूपं वाक्यार्थमपदार्थमपीच्छता। व्य- किरिष्टामिधातोऽन्याभिहितान्वयवादिना ॥' इति। प्राभाकराः पुनरन्वयव्यति- रेकाभ्यां प्रवृत्तिनिवृत्तिनिमित्तस्य वाक्यस्यैव प्रयोगयोग्यत्वात् तदन्तर्वर्तिनामेव पदानां पदार्थविशेषान्वितसवार्थसंकेतपक्ष प्रतिवाक्यं स्वार्थस्य विशेषरूपत्वाद्वाक्या- न्तरेप्वस्यार्थस्यैतद्वाचकमिति प्रत्यमिज्ञानुपपत्तेः पदार्थान्तरसामान्यान्वित खाथें संकेतः, विशेषव्युत्पत्तिस्तु संबद्धानां पदार्थानां विशेषरूपत्वात् भदिष्यतीत्याहुः। तन्मतऽपि विशिष्टार्थामिधायिनो वाक्यस्य स्वार्थसंनिकृष्टपदार्थामिधानेऽप्यसम- र्थस्य कुतो विप्रकृष्टार्थान्तरामिधानशङ्का। अतस्तेषामपि व्यञ्ञनमवश्यमेष्टव्य- मिति भावः । तदुक्तं काव्यप्रकाशे-'अनन्वितोऽर्थोऽमिहितान्वये, पदार्थान्त- रमात्रणान्वितस्त्वन्वितामिधाने। अन्वितविशेषस्त्ववाच्य एवेत्युभयनयेऽप्यपदार्थ एव वाक्यार्थः, इत्यादि सर्व मनसि निधायाह-इयतीति ॥ गमनिका गम्यते ज्ञायतेSनयति गमनी गतिः । अल्पा गमनी गमनिका। करणे ल्युटि टित्वात् डीपि 'अल्पे' इति कनि च 'केऽणः' इति हृस्वः ॥ उभयशक्तिमूलामुदाहरति- विजितेति॥ अत्र प्रकृते निर्जितारिनगरोऽन्यत्र त्रिपुरान्तकः। मूतौं विलसत्सरव- मङ्ल: कल्याणमूर्तिरित्यर्थः । अन्यत्र पार्वतीपरिच्छिन्नार्धदेह इत्यर्थः । राज- मौलि: राजोत्तमः । अन्यत्र चन्द्रशेखरः। अर्थशक्तिमूलत्वमिति॥ शब्द- परिवृत्तिसहिष्णुत्वादिति भावः । अत्र प्रतीयमानेनाप्रकृतेन शङ्करेण प्रकृतस्य राज्ञ

Page 52

काव्यप्रकरणम्। ४३

मौलिरिति शब्दशक्तिमूलत्वमित्युभयशक्तिमूलत्वम्। अत्र प्रतापरुद्र- शङ्करयोरुपमालंकारध्वनिः ॥ अथ कैशिक्यादीनां स्वरूपं निरुष्यत। अत्यर्थसुक्कुमारार्थसंदर्भा कैशिकी मता। अत्युद्धतार्थसंदर्भा वृत्तिरारभटी स्मृता ॥१५ ॥ ईषन्मृद्वर्थसंदर्भा भारती वृत्तिरिष्यते। ईषत्प्रौढार्थसंदर्भा सात्वती वृत्तिरिष्यते ॥ १६ ॥ तत्र अत्यन्तसुकुमारौ द्वौ शृङ्गारकरुणी मतौ। अत्युद्धतरसौ रौद्रवीभत्सौ परिकीर्तितौ ॥ १७ ॥ हास्यशान्ताज्भुताः किंचित्सुकुमाराः प्रकीर्तिताः । ईषत्प्रौढौ समाख्यातौ रसौ वीरभयानकौ॥१८॥ यत्र शृङ्गारकरुणावतिकोमलेन संदर्भेण वर्ण्येते तत्र कैशिकी । यत्र रौद्रबीभत्सावतिप्रौढेन संदर्भेण प्रतिपाद्येते तत्रारभटी। यत्र नातिसुकुमारा हास्यशान्ताद्धुता नातिसुकुमारेण संदर्भेण संग्रध्यन्ते तत्र भारती। यत्र नातिप्रौढौ वीरभयानकौ नातिप्रौढेन संदर्भेण निर्वाह्यत तत्र सात्वती। कैशिकी चथा- जितमदनविलासं काकतीयान्वयेन्दुं नरपतिमनिमेषं द्रष्टुमाशंसिनीनाम्। सपदि विरचितासीदङ्गनानामपाङ्गै- दिवि कुवलयदामश्यामला तोरणश्रीः॥१९॥ उपमानोपमेयभावो यथेवादिवाचकाप्रयोगात गम्यत इत्याशयेनाह-प्रता- पेति॥ १४ ॥ अथ संग्रहकारिकोद्देशक्रमप्राप्ती गुणालंकारौ बहुवक्तव्यत्वेनो- पेक्ष्य सूचीकटाहन्यायेनादौ तावत् वृत्तिशब्दवांच्यत्वसाम्यात् शब्दवृत्तिनिरूपणा- नन्तरं कैशिक्यादिस्वरूपनिरूपणं प्रतिजानीते-अथेत्यादिना ।। गतार्थमे- तत्॥। १५-१८ ॥ कैशिकीमुदाहरति-जितेति॥ जितमदनविलासमित्यनेन सूचितैलीको त्तररूपयौवनायुद्दीपनविभावैः, नरपतिमञ्वनानामति चालम्बनविभा वै

Page 53

४४ प्रतापरुद्रीये रत्नापणसहिते

आरभटी यथा-

स्त्यानासृक्पिशितास्थिखण्डविक टस्थूलोज्ज्वलाङ्गारकै- रुचचण्डञ्चलमर्तिगण्डनृपतेः क्रोधाभ्निरायोधने ॥ २० ॥ भारती यथा- औन्नत्यं महदन्यदेव महितः कोडप्येष गम्भीरिमा काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्नो: प्रथा। सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ सामग्री चतुराननेन कियती कीदक्क वा कल्पिता ॥२१।। सात्वती यथा- दूरादाकर्ण्य विश्वप्रसृमरमहसो वीररुद्रस्य जैत्र- प्रस्थानारम्भभेरीनिनदमरिनृपाः पूर्णकर्णज्वरार्ताः । अनिमेषं द्रष्टुमाशंसिनीनां कामिनीनामित्यौत्सुक्यादिव्यभिचारिभावैः, दिवि कुव- लयेत्युपमाभूषितैरपान्वैरित्यनुभावैश्व असंयुक्तकोमलवर्णसंदर्भसहकृतैः प्रतीयमा- नो रससार्वभौमः शरृज्ञारः काकतीयान्वयेन्दुं नरपति चेति विशेषणद्वय- सूचितमहाकुलीनतादिगुणगरिमगम्भीरविदग्धनायकविषयतया परिपोषातिभूमि- मनुभवतीत्यत्रेयं कैशिकी ।। १९ ।। आरभटीमुदाहरति-खङ्गेति। अत्र लालादिनिरसनवाचिना निष्ठशूतशब्देनोपचारान्निर्गमनमात्रमुच्यत इति चारुत्वातिशयः। तदुक्त दण्डिना-'निष्ठधूतोद्रीर्णवान्तादि गौणवृ- त्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्ष्यां विगाहते ।।' इति । स्त्यानं घनीभूतमसृक येषां पिशितास्थिखण्डानामिति बहुव्रीहिः। चलमर्ति- गण्डेति शौर्यातिशयसूचकं बिरुदनाम। अत्र खज्गादिशस्त्रोलास।दिसूचितो रौद्रो रक्तमांसादिसूचितो बीभत्सथ्च परस्परं प्रधानोपसजनभावापन्नौ परुषवर्णविकट- बन्धेन प्रतिपाद्येते ॥ २०॥ भारतीमुदाहरति-औन्नत्यमिति ॥ अत्र सर्वत्र यथाक्रमं किमन्यशब्दावनिर्वचनीयत्वलोकोत्तरत्वप्रतिपादकौ। अत एव रुद्रनृपतेः संबन्धि सर्वमौन्नत्यादिकं नूतनमेव । सामग्रीति व्राह्मणादिष्यजन्तात् सामग्रय- शब्दात् स्त्रियां कीष्प्रत्ययो वैकल्पिकः षित्करणसामर्थ्याल्लभ्यते। तदुक्त वामनेन- 'ध्यञः षित्करणादीकारो बहुलम्' इति। जाने इति ॥ 'अनुपसर्गात् ज्ञः' इत्यात्मनेपदम्। अत्र संयुक्तमृदुवर्णबन्धेनाद्धुतरसप्रतिपादनात् भारती।। २१ ॥ सात्वतीमुदाहरति-दूरादिति॥ विश्वप्रसमरमहसो विश्वव्यापितेजसः । 'सृघ-

Page 54

काव्यप्रकरणम् । ४५

आरुह्याद्रीन् विशन्तो गहनमतिमहत्कण्टकाकृष्टकेशा- स्त्रायध्वं मुञ्जतेति प्रतिनृपतिधिया पादपान् प्रार्थयन्ते ॥ मध्यमारभटी त्वन्या तथा मध्यमकैशिकी। वृत्ती इमे उभे सर्वरससाधारणे मते ॥ २३ ॥ मृद्वर्थेऽप्यनतिप्रौढबन्धा मध्यमकैशिकी। शृङ्गारक्रुणयोरतिसुककुमारयोरल्पप्रौढत्वं न दुष्यति। किं त्वति- प्रौढसंदर्भो नेष्यत, प्रतिकूलवर्णरूपदोषापत्तः ।। मध्यमारभटी प्रोढेऽप्यर्थे नातिमृदुक्रमा ॥ २४॥ अतिप्रौढयोरपि रौद्रबीभत्सयोरीषन्मृदुबन्धो न दुष्यति। अति- मृदुसंदर्भस्तु विरुद्धः । मध्यमकैशिकी यथा- आसन्नेऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं ब्रजे- र्धिकू धिक साहसमावयोर्विघटनं को वा विधिः काह्कति। इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो बुद्धा मूच्छति काकतीयनृपते त्वद्वैरिनारीजनः ॥२५॥ मध्यमारभटी यथा- स्यद: क्मरच्'। जैत्रयात्रारम्भभेरीभांकाराकर्णनेनैव कान्दिशीकानामरिभूपतीनां दूरत एव समरकथेति भावः । अत्र अविकटबन्धपरुषवर्णसंदर्भेण भयानकप्रति- पादनात् सात्वती ।। २२ ।। अथ मतान्तरानुसारेण सर्वरससाधारणं वृत्तिद्वय- माह-मध्यमेति॥ अनयोः कमेणेषत्कोम लेषतप्रौढयोरति प्रौढातिकोमलरसानु- प्रवेशो न विरोधायेति व्युत्कमेण प्रतिपादयति-मृद्वर्थ इत्यादिना ॥ न दुष्यति इत्येतद्ध्याहृत्य व्याचष्टे-शृङ्गारेति ॥ किं तर्हि दुष्टमित्याकाह्लाया- माह-किं त्विति॥ विपक्षे दण्डमाह-प्रतिकूलेति॥ रसाननुगुणत्वं प्राति- कूल्यम् । एतद्वैपरीत्यं मध्यमारभव्यामित्याह-मध्यमेति ॥२३॥२४॥ मध्यमकैशिकीमुदाहरति-आसन्न इति ॥ त्यक्त्वा, महोत्सवमिति शेषः । · इतः सर्वसौभाग्यनिधेर्निवासादित्यर्थः । कर्थ प्रवासं व्रजेः । गर्हितमेतदिति भावः । 'विभाषा कथमि लिङ् च' इति गर्हायां लिह्। धिग्धिगिति ॥ 'नित्यवी- प्सयो:' इत्यामीक्ष्ण्ये द्विरुक्तिः। को वा विधिरिति॥ न त्वमेवं साहसिक इति भावः । त्वद्वैरिनारीजनस्त्वया वियोजितभर्तृक इति शेषः । अत्रेषतप्रौढ़- संदर्ण शृग्गारसंकीर्णः करुणो रसः प्रतिपाद्यते ॥ २५ ॥ मध्यमारभटीमुदा-

Page 55

४६ प्रतापरुद्रीये रत्नापणसहिते

मांसकीकससंकीर्णाः प्रसरदुधिरापगाः। वसाकर्दमिता युद्धे भुवोऽन्ध्रसुभटैः कृताः ॥२६॥ एवं रसान्तरेष्वप्युदाहरणं द्रष्टव्यम् । वैदर्भ्यादिरीतीनां शब्दगुणाश्रितानामर्थविशेषनिरपेक्षतया केवल- संदर्भसौकुमार्यप्रौढत्वमात्रविषयत्वात् कैशिक्यादिभ्यो भेढः। संदर्भ- स्यातिमृदुत्वमसंयुक्तकोमलवर्णबन्धत्वम्। अतिप्रौढत्वं परुषवर्णविक- टबन्धत्वम् । संयुक्तमृदुवर्णेष्वीषन्मृदुत्वम्। अविकटबन्धपरुषवर्णे-

अथ रीतीनां स्वरूपमुदाहरणं च। रीतिर्नाम गुणाश्िष्टपदसंघटना मता। हरति-मांसेति। अत्रेषन्मृदुसंदर्मेण बीभत्सः प्रतिपाद्यंत ॥ २६॥ अथ वैदर्भ्यादीनां मतभेदेन वृत्तिशब्दवाच्यत्वसाम्यात् कैशिक्याद्यनन्तरं तन्निरूपणं चिकीर्षुः प्रथमं तावत्तदन्तर्भाव वारयति-वैदर्भ्यादीति ॥ तत्स्रूपमाह- शब्दगुणाश्रितानामिति ॥ माधुर्यादिपरतन्त्राणामित्यर्थः । यद्यपि सहृदय- हृदयानामाहादकः श्रृज्नारादिधर्मो माधुर्य, चिर्त्तांवेस्ताररूपदीप्तिजनको रौद्रादि- धर्म ओजः, शुष्केन्धनानलवद्मलजलवद्वा यथायोगं सहसा सहृदयहृदयव्यापी सर्वरसधर्म: प्रसादः, तथापि तेषां शब्द्गुणत्वमात्मधर्मस्य शौयादेराकारधर्मत्व- मिवौपचारिकम्। तदुक्त ध्वन्याचायैः-'शब्दधर्मत्वं चैषामन्याश्रितत्वेऽपि शरीराश्रितत्वमिव शौर्यादीनाम्' इति। तदाश्रितत्वं चासां काव्यप्रकाश 'माधुर्य- व्यञ्जकैर्वर्णैरुपनागरिकेष्यते। ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः । केषां- चिदेता वैदर्भीप्रमुखा रीतयो मताः ॥I' इति। फलितमाह-अर्थविशेषेति ॥ माधुर्यादिपर्यवसितत्वेन शृज्जारादिनिरपेक्षत्वादित्यर्थः । वैदर्भ्यादीनां रसाश्रित- माधुर्यादिशब्दधर्मपरत्वं कैशिक्यादीनां तु साक्षादेव रसव्यज्ञकत्वमिति महान् भेद इति भावः । तदुक्त ध्वन्याचायैः-'शब्दतत्त्वाश्रयाः काश्चिदर्थतत्त्वाश्रयाः पराः' इति। 'टवर्गवर्जिताः स्पर्शाः खखवर्गान्त्यशेखराः। लघुरेफलकारौ च कोमला: परिकीर्तिताः ॥ रेफेण यस्य कस्यापि योग आद्यतृतीययोः । स्वोत्त- राभ्यां तुल्ययोर्वा परुषाष्टगण: शषौ ॥' इति कोमलवर्णपरुषवर्णसंग्रहः । यद्वा . शब्द: पदरचनात्मकः । तद्रुणा ओजःप्रसादादयः । यदाह वामनः-'ओज :- प्रभृतयो बन्धगुणाः' इति ॥ अथ रीतिसामान्यलक्षणमाह-रीतिरिति ॥ गुणाश्िष्टपदसंघटना माधुर्यादिपरतन्त्रशब्दसंदर्भ इत्यर्थः। यद्वा ओजःप्रसा- दादिविशिष्टपदरच नेत्यर्थः ॥ विदर्भादिदेशीयविदग्धजनपरिग्रहेण वैदर्भ्यादिसंज्ञि-

Page 56

काव्यप्रकरणम् । ४७

सा त्रिधा-वैदर्भी गौडी पाञ्चाली चेति। बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता। नातिदीर्घसमासा च वैदर्भीरीतिरिष्यते ॥२७॥ यथा- काकतीयनरेन्द्रस्य कीर्तिचन्दनचर्चनम्। दिगङ्गना वितन्वन्ति वतंसीकृततद्गुणाः ॥ २८।। यथा वा- वितरणगुणलीलातोपिता शेपलो के विभवति नरनाथे काकतीयान्वयेन्दौ। सुरतरुगणनायां कामधेनुप्रसंगे क्षितिसुरजनतेयं वीतकौतूहलासीत् ॥२९।। ओजःकान्तिगुणोपेता गौडीया रीतिरिष्यते। यथा- प्रचण्डतरदोर्दण्डखण्डितारातिमण्डलः । विभर्त्युर्वीधुरां गुर्वी प्रभवन्नन्ध्रभूपतिः ॥ ३० ॥ कानामेतासां विशेषलक्षणानि विषयव्याप्त्यर्थ प्रत्येकमुदाहरणद्वयं च क्रमेणाह- बन्धेति॥ बन्धपारुष्यं दुःसन्धिकृतम्। शब्दकाठिन्यं परुषवर्णारब्धम्। नवर्थस्य नशब्दस्यातिदीर्घसमासेत्यनेन 'सुप्सुपा' इति समासः। एतेनात्रासमासा मध्यमसमासा च विवक्षितेति बोद्धव्यम्। तदुक्तम्-'अव्ृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा।' इति ॥ २७ ॥ उदाहरति-काकतीयेत्यादि ॥ वतंसी- कृतेत्यत्र 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इति वचनादकारलोपः ॥ २८॥ वितरणेति। विभवति प्रभौ सति। क्षितिसुरजना ब्राह्मणजनास्तेषां समूह इति जनशव्दान्तात् 'ग्रामजन' इत्यादिना तल्प्रत्ययः, 'खण्डिकादिभ्यक्ष' इत्यत्र सामृहिकेपु तदन्तविधिरस्तीति ज्ञापनात्। अत्रोदाहरणद्वयेऽपि कोमल-

त्वलक्षणमाधुर्यप्रतिपादनात् वैदर्भी रीतिः । अंत्र यद्यपि कीर्तिचन्दनचर्चन- मित्यादौ रेफसंयोग: तोषिताशेषेत्यादौ शकारषकारौ चेत्येवमल्पशः परुषवर्णा: सन्ति तथापि न माधुर्यभङ्गः । अत एवानन्दवर्धनाचार्य :- 'शषौ च रेफसंयोग- ष्टवर्गश्चापि भूयसा । विरोधिनः स्युः शृज्वारे तेन वर्णा रसच्युताः ॥' इत्यन्न' भूयसेत्युक्तम्। एवसुत्तरत्राप्यूहृनीयम् ॥ २९ ॥ गौडीयामाह-ओज इति॥ अत्र ओजःशब्देन समासभूयस्त्वमुच्यते। कान्तिशब्देन चोद्धटपदत्वम् । उदाहरति-प्रचण्डेति ॥ उर्वीधुरां भूभारम्। "ऋक्पूरब्धूः" इत्यादिना

Page 57

४८ प्रतापरुद्रीये रत्नापणसहिते

यथा वा- उद्यद्दो: सतम्भखङ्गच्रुटद रिमुकुटाटोपसंजातराडु- भ्रान्तिभ्रश्यत्पतङ्गाभयकरणचणस्फारनासीररेणुः । अन्ध्रक्ष्माभर्तुरासीदधिकरणधरा भिन्नमत्तेभकुम्भ- प्रोद्यन्मुक्तौघतारानिकरपरिवृता स्वर्वधूवक्त्रचन्द्रा ।।३ १।। पाश्चालरीतिर्वैदर्भीगौडीरीत्युभयात्मिका ॥ चथा- जेतुः काकतिवीर रुद्रनृपतेजैत्र प्रयाणोत्थिते क्षोणीरेणुभरे नभस्यतिभृशं भूविभ्रमं बिभ्रति। जाता मर्त्यनदी विशङ्कटतटीदीर्घा वियद्दीर्धिका गाढं गूढतमा च गौतमनदी पातालगङ्गायते ॥ ३२॥ यथा वा- स्थाने तच्चलमर्तिगण्डनृपते त्वत्खङ्गभोगी द्विषत्- प्राणैर्यत् परितोषमेति सततं किं त्वेतदत्यद्ुतम् । पीतेन प्रतिपक्षपार्थिवयशःक्षीरेण गौरत्विषं यत् संवर्धयति त्रिलोकभरितां त्वत्कीर्तिलक्ष्मीसुधाम्॥ समासान्तोऽप्रत्ययः ॥ ३० ॥ उद्यदिति ॥ अन्न खन्ञोत्कृत्तप्रतिभटमुकुदेषु स्र्भानुभ्रान्त्या कान्दिशीकस्य भानोरभयकरणचणत्वं नासीररेणोरुत्प्रेक्ष्यत । तेनास्य सूर्यास्तमयप्रतीतिजनकं तन्मण्डलावरणं गम्यते। ततथ् वीरवरणोत्मु- कतया समागताप्सरोमुखानां चन्द्रत्वेन दलितभकुम्भयुगलोद्रलितमौक्तिकानां तारात्वेन च रूपणाद्रणधराया रजनीत्वं गम्यते। न चानेकनिशानाथकथनं दो- षाय, वीररुद्रविक्रमविह्वलीकृतचेतसां तद्वैरिवीराणां तथात्वेन प्रतीतेः । अन्न परुष- वर्णसंदर्भेण समासभूयस्त्वेन च रौद्ररसगतदीपकत्वलक्षणेजःप्रतिपादनाद्रौडीया ॥ ३१ । पावालीमाह-पाञ्चालीति ॥ उदाहरति-जतुरिति॥ नभस्य- न्तरिक्षे भूवित्रमं भूभावं बित्रति सति। वियद्दीर्घिका मन्दाकिनी विशङ्कटाभ्यां विशालाभ्यां तटीभ्यां दीर्घा सती मर्त्यनदी भागीरथी जाता। तथा गूढतमा रजोमयभूमेरधो वर्तमाना गौतमनदी पातालगज्गायते भोगवती भवतीत्यहो महदद्भुतमिति भावः ॥ ३२ ॥ स्थान इति ॥ सर्पाणां वाताहारत्वात् खभ्नो- रगस्य द्विषत्प्राणपरिपुष्टत्वं नाद्भुतमिति भावः । तर्हि किमद्भुतमित्याकाल्लाया- मेतदित्याह-पीतेनेति ॥ 'पयःपानं भुजज्ञानां केवलं विषवृद्धये' इति लोक- प्रसिद्धम्। अत्र पुनरधिकतरसुधावृद्धय इति महदद्भुतमिति भावः । त्रिलोक-

Page 58

काव्यप्रकरणम् । ४९

अथ शय्या। या पदानां परान्योन्यमैत्री शय्येति कथ्यते। यथा- दातुः काकतिवंशमण्डनमणेर्निस्सीमविश्राणन- श्राघालद्गितकल्पपाद पगुणप्रौढेरगाधौजसः । बिभ्रच्छारदकौमुद्दीपरिमलं सामन्तसीमन्तिनी- गण्डाभोगनिरूढपाण्डिमधुरां धत्ते यशः प्रायशः॥ ३४॥ अत्र पदविनिमयासहिष्णुत्वाद्वन्धस्य पदानुगुण्यरूपा शय्या । अथ द्राक्षादिपाकाः। अर्थगम्भीरिमा पाक: स द्विधा हृदयंगमः । द्राक्षापाको नारिकेलपाकश्र प्रस्फुटान्तरौ ।। ३५॥ यथाक्रमं स्वरूपमुदाहरणं च। द्राक्षापाकः स कथितो बहिरन्तःस्फुरद्रसः । यथा- स्मरस्मेरान् मन्दस्मितमधुरसौरभ्यसुभगान् मनाग्ीडाजाड्यान् प्रणयरसकल्लोलभरितान्। भरितामिति। त्र्यवयवो लोकस्त्रिलोकः । शाकपार्थिवादित्वान्मध्यमपदलोपी समासो न द्विगुरिति प्रतिपादितं त्रिलोकजननीमित्यत्र प्रथमश्लोके। अत्रो- दाहरणद्वयेऽपि पूर्वोक्तरीतिसाङ्र्येगाद्भुतरसप्रतिपादनात् पाश्ाली।। ३३ ।। अथ रीतयश्रेयतीत्यत्र चशब्दसमुचितयोः शय्यापाकयोर्मध्ये शब्दधर्मत्वसाम्याद रीत्यनन्तरं शय्यामाह-या पदानामिति॥ परा उत्कृष्टा अन्योन्यस्य मैत्नी विनिमयासहिष्णुत्वमित्यर्थः । अत एवास्या रीतिभ्यो भेद इति भावः । उदाह- रति-दातुरिति॥ गतार्थमेतत्॥३४॥ लक्ष्ये लक्षणं योजयति-अत्रेति॥ परिशेषात् पाकमाह-अर्थेति । अर्थस्य श्रृक्जारादेर्गम्भीरिमा आस्वाद्यमान- ताविशेष इति षष्ठीसमासः । 'पूरणगुण-' इत्यादिना निषेधस्तु 'तद- शिष्यं संज्ञाप्रमाणत्वात्' 'तद्यल्नगौरवं प्रसज्येत' इत्यादिपाणिनिशबरस्वामि- प्रमुखमहापुरुषप्रयोगदर्शनादनित्य इति पदमज्जरीकारः ॥ ३५ ॥ द्राक्षापाक- सुदाहरति-स्मरेति॥ विषयमात्रविश्रान्तिविरहिगो विश्वृङ्कलवृत्तित्वमदमन्थ- रत्वादिगुणशीला: स्मेराः। तदुक्कं भावप्रकाशे-'अपरिच्छिलविषयं मदमन्थर- मीलितम् । स्फुरद्दरपक्ष्मतारं यत् तत् स्मेरमिति कथ्यते ॥' इति। ते च स्मर- प्र 5

Page 59

५० प्रतापरुद्रीये र्नापणसहिते

कृतानेकस्कन्धान् मनसिजसहस्राणि सृजतः कटाक्षान् वामाक्षी किरति परितो रुद्रनृपतिम् ॥ ३६ ॥ स नारिकेलपाकः स्यादन्तर्गूढरसोदयः। यथा- लीलाविभ्रमपूर्वरङ्गमुदितं तारुण्यमेत्य त्रपा-

सख्यः पश्यत काकतीयनृपतौ भावानुबन्धोज्ज्वलः कोऽप्यस्यास्तरलभ्रुवो विजयते शृङ्गारनाट्यक्मः ॥३७॥ अत्र न द्रागर्थप्रतीतिः। एवं वस्त्वलंकारप्रतीतावपि द्रष्टव्यम् । पाकान्तराणि मधुक्षीरादीनि यथासंभवमूह्यानि॥ प्रधाना: स्मरस्मेराः । मन्दस्मिताः हासगर्भा: संभोगौत्मुक्यसूचकाः। मधुराः संताप- हरा: । सौरभ्येण पद्मिनीजातेरस्याः स्मितनिमित्तेन सुभगाश् ये तथोकाः । 'कटाक्षैर्हासिगभैस्तु संभोगौत्सुक्यभावना । शीतलीक्रियते तापो येन तन्मधुरं स्मृतम् ॥' इति चोक्तेः । नायिकायाः प्रौढत्वान्मनागल्पं व्रीडाजाड्यं येषां ते तथोक्ताः, अत एव खानुकूल्यप्रकाशकाः । तदुक्त 'सव्नीडालोकनेनैव खानुकूल्य- प्रकाशनम्' इति । 'विस्नम्भे परमां काष्ठामारूढे दर्शनादिमिः। येनान्तरञ द्रवति स ल्ेह इति कथ्यते ॥' इत्युक्तलक्षणः स्नेहः प्रणयशब्देन विवक्षितः । स एव रसो द्रवद्रव्यं तस्यान्तरङ्गवारिधिवास्तव्यस्य कल्लोलैर्महोर्मिमिर्भरिता: प्रेम- दायिन इत्यर्थः, 'द्रवीभूतं मनो यत्र दर्शने प्रेमदायि तत्' इति लक्षणात्। कृतानेकस्कन्धाः प्रियदृष्टिप्रतिघातेनौत्सुक्यभरेण च यथाक्रममासारप्रसाराभ्या- मज्जीकृततरज्नभज्ञिका इत्यर्थः । अत एवैंते सोत्सुकास्तरज्विताश्च। तदुक्तम् 'सोत्मुकं तद्यदालोक्य भूयो भूयोऽवलोकन्। कलोल इव यः कान्तिविच्छे- दस्तत् तरङ्वितम् II' इति ॥ मनसिजसहस्राणि सृजतः विरक्तस्यापीति भावः । 'यद्दर्शने विरक्त्ोऽपि क्षुभ्यत्येतत् समन्मथम्' इति लक्षणादेते समन्मथा उच्यन्ते। एवंविधान् कटाक्षान् वामाक्षी मनोहरनयना रुद्रनृप्ति परितः सर्वतः किरति । 'अमितःपरितः-' इत्यादिना द्वितीया। कटाक्षलक्षणं तु संगीत- रत्नाकरे-'यद्गतागतविश्रान्तिवैचित्रयेण विवर्तनम् । तारकायाः कलामिज्ञास्तं कटाक्ष प्रचक्षते ॥I' इति। अलैवं संमर्दसहिष्णोः शभ्रारस्य पाठसमयेऽप्याखाद्य- मानत्वादन्तर्बहिश्व स्फुरणं द्रष्टव्यम्॥ ३६॥ नारिकेलपाकमुदाहरति-लीलेति॥ विस्तरेण व्याख्यातमेतन्नायिकाप्रकरणे मध्यमोदाहरणप्रस्तावे॥ ३७ ॥ लक्ष्ये लक्षणं योजयति-अत्रेति ॥ एवं व्याख्यानसापेक्षत्वान्न द्रुतमर्थप्रतीतिरित्यर्थः ।

Page 60

काव्यप्रकरणम् । 6752 ५१

अथ काव्यविशेषाः । व्यङ्ग धस्य प्राधान्याप्राधान्याभ्यामस्फुटत्वेन च त्रिविधं काव्यम्। व्यङ्गचस्य प्राधान्ये उत्तमं काव्यं ध्वनिरिति व्यपदिश्यते। अप्रा- धान्ये मध्यमं गुणीभूतव्यङ्गचमिति गीयते। व्यङ्गथस्यास्फुटत्वेऽधमं काव्यं चित्रमिति गीयते। ध्वनिर्यथा- स्वामिन् गोत्रमहीधरान् किमधुना नीचैर्विधत्से कुतो गाधानम्बुनिधीन् करोषि कुरुषे कि दिक्पतीनल्पकान्। इत्थं पार्श्वचरानुलापमखिलं न्यक्कृत्य धर्मैषिणा सृष्टः पद्मभुवा गुणैकवसतिः श्रीवरिरुद्रो नृपः ॥३८॥ अत्र प्रतापरुद्रस्य कुलशैलातिशायि समुन्नतत्वमतिसमुद्रं गाम्भीय लोकपालाधिकमैश्वर्य च ध्वन्यते। तथा कुलशैलपयोनिधिलोकपाल- निर्माणसंरम्भातिशायि सर्वविलक्षणं काकतीयनिर्माणवैभवम् इति च च्यज्यते।। द्राक्षापाकनारिकेलपाकावर्थस्य द्रुतविलम्बितप्रतीत्योः परां कोटिमारूढौ। अत- स्तदन्तरालवर्तिन्या मध्यमप्रतीतेरनेकविधत्वात् तदनुसारेण कदलीरसालादि- पाकाः ख्वयमूद्या इत्याह-एवमिति॥ इत्थं काव्यसामत्रीं निरूप्य तङ्गेदा निरूप्यन्ते-अथेत्यादिना ॥ तेषां सामान्यतः स्वरूपनिरूपणपूर्वकं विभाग- माह-व्यङ्गस्येति । प्राधान्यादिनिमित्तवशादुत्तमादिकाव्यानां ध्वन्यादि- संज्ञाप्रवृत्तिरित्याह-व्यङ्गचस्य प्राधान्य इत्यादिना॥ यथा लोके कस्यचि- द्वस्तुनः संज्ञानार्थ प्रदीपादाविव व्यज्थार्थमेव वाच्यवाचकवैचित्र्यादौ महाकवि- प्रवृत्तिरव्यज्ञयस्य मध्ये विश्रान्तिविरहेण स्वपर्यन्तं सहृदयहृदयाकर्षणाच्च तस्य प्राधान्यमित्यनुसन्घेयम्। तद्विरुद्धमप्राधान्यम् । तच्च व्यप्रथस्य चारुत्वापकर्षो- पाधिकृतं न खाभाविकमिति गुणीभूतव्यङ्नयमित्यत्र च्विप्रत्ययेन सूच्यते । अधमकाव्यस्यास्फुटव्यज्गयत्वेन नीरसत्वात् केवलवाच्यवाचकवैचित्र्याश्रय त्वेनाले ख्य प्रख्यत्वाच्चित्रशब्दवाच्यत्वम्। तच्च शब्दार्थालंकारयोर्व्यससमासाभ्यां नि- बन्धने शब्दचित्रमर्थचित्रमुभयचित्रं चेति त्रेधा विमिद्यते ॥ त्र ध्वनिमुदाहरति- स्वामिन्निति । अल्पकानत्यल्पान्। अनुलापं मुहुर्भाषणमसकृत्कथनमिति य्यावत्। धर्मैषिणा न तु कुलाचलादपरागिणा। गुणैकवसतिर्न पुनरचलादिवदे- कैकगुणाधारः। अत्रौन्नत्यादिव्यज्ञयस्यागूढत्वाद्यपकर्षनिमित्ताभावात् प्राधान्ये- नोत्तमकाव्यत्वमेवेत्यमिप्रायेणाह-अत्रेति ॥ ३८ ॥ गुणीभूतव्यङ्नयमुदाहरति-

Page 61

५२ प्रतापरुद्रीये रत्नापणसहिते

गुणीभूतव्यङ्गयं यथा- प्रत्यग्रप्रसरत्प्रताप विभवव्याप्ताखिलाशान्तरे विश्वन्नातरि वीररुद्रनृपतौ सिंहासनाध्यासिनि। आस्थानीं समुपागतैर्नृपवरैस्तास्तास्तथा दर्शिता- श्रेष्टा याभिरमुष्य काकतिविभोर्द्टष्टिः कृपार्द्रीकृता।३९॥ अत्र प्राप्ताभिषेकमहोत्सवस्य प्रतापरुद्रदेवमहाराजस्यात्रे शरणार्थि- नां पार्थिवानां तथाविधकार्पण्योक्तिपुनःपुनःप्रणामादिकं व्यङ्गथं ता- स्ताश्च्ेष्टा दर्शिता इति वाच्यादनतिशायि इति गुणीभूतव्यङ्गयता। चित्रं त्रिविधम्-शब्दचित्रमर्थचित्रमुभयचित्रं चति। तत्र शब्दचित्रं यथा- क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्ष्रमाः क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः । उद्दामोद्यमनस्य रुद्रनृपतेर्दोर्दण्डयोश्चण्डयो- ्गर्जदुर्जनगर्वपर्वतभिदादम्भोलयः केलयः ॥ ४० ॥ अर्थचित्रं यथा- *खग्गे जुज्झविजिम्भिए रिवुमहीणाहंजलिं बिंबिअं पेक्खन्तो जअळच्छिवासकमलं मण्णंति विण्णाणिणो। *खजे युद्धविजृम्भिते रिपुमहीनाथाजलि बिम्बितं पश्यन्तो जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः । मन्ये वीर प्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः सृष्टयै रिपुजीवितानि विधेर्यातस्य पीठाम्बुजम्॥ प्रत्यग्रेति ।। अत्र कार्पण्यवचनादिचेष्टाविशेषरूपव्यज्नयस्य यामिरमुष्येत्यादि- वाक्येनोक्तप्रायत्वादगूढत्वेन न च्ारुत्वातिशय इत्याह-वाच्यादनति- शायीति॥ ३९ ॥ शब्दचित्रमुदाहरति-क्षोणीति॥ दुरीक्षकमाः अभ्यास- जनितलाघवातिशयेन दुरवबोधायुधप्रयोगपरिपाटीकाः । क्षुद्रक्षत्रियपक्षो राज- पार्श्ववलम्। कौक्षेयकः खज्गः । 'कुलकुक्षि-' इत्यादिना शैषिको ढकन्प्रत्ययः । यदैतत्सूत्रं भाष्यकारो न ममृषे तदा 'दतिकुक्षि-' इत्यादिना ढज्। स्वार्थिक: कप्रत्ययः । अत्र दोर्दण्डक्रीडानामशनित्वरूपणं गर्वाणां पर्वतत्वरूपणे हेतुः । अतः परम्परितं रूपकम् । तस्मिन् सत्यपि कवेर्व्ृत्त्यनुप्रास एवामिनिवेशाच्छब्दचित्र- स्यैव प्राधान्यमर्थचित्रस्य तु गुणभाव एवेति नोभयचित्रत्वमस्येति भावः ॥४० ॥ अर्थचित्रमुदाहरति-खग्ग इति। जन्येषु युद्धेषु यातस्य गच्छतः। पत्तस्सेति पाठे

Page 62

काव्यप्रकरणम् । ५३

मण्णे वीरपआवरुद्दविहुणो जण्णेसु घेत्तुं उणो सिठ्ठीए रिवुजीविआइ विहिणो जत्तर्स पीढंबुअं ।।४ १।। उभयचित्रं यथा- विद्यासमुद्रे भुवनैकभद्रे प्रतापरुद्रे जितवैरिभद्रे। रक्षाविनिद्रे धृतशौर्यमुद्रे कान्तेव पृथ्वी रमते गुणारद्रे ।।४२।। अत्रानुप्रासोपमाभ्यां चित्रता। ॥ अथ ध्वनिविशेषाः ॥ अथ ध्वनिविशेषा निरुप्यन्ते। अत्र ध्वनेर्लेक्षणाभिधामूलत्वेना- विवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ प्रथमं द्वौ भेदौ। अविव- प्राप्तस्येति छाया। लच्छिवासेत्यत्र लक्ष्मीशब्दस्य 'दिहौ मिथः सः' इति- पाक्षिको हखः । घेत्तुं उणो इत्यत्र 'तुमुन्तव्यक्त्वासु ग्रहेः' इति तुमुन्प्रत्यये अ्रहेर्घआदेशे घेत्तुमिति सिद्धम्। तस्योत्तरपदेन सन्ध्यभावः, 'पद्यो: सन्धि- र्वा इति विकल्पितत्वात् । वीरपआवेत्यत्र 'वा समासे' इति समासे विकल्पात् द्वित्वाभावः । जत्तस्सेति वर्तमानापदेशेन परासुवैरिप्राणसंग्रहणलम्पटस्य कमल- भुवः कमलोपवेशनावकाशाभावः प्रतीयते। अत्र प्रतापरुद्रखज्जप्रतिबिम्बिते रिपुनृपाजलौ जयलक्ष्मीवासकमलत्वमारोप्य तदपह्वेनार्थसिद्धेन ब्रह्मासनकमल- त्वप्रतिपादनादपहवालंकारः । अत्रैव कवेरमिनिवेशादस्यार्थचित्रत्वम्। वृत्त्यनु- प्रास तु गुणभाव एवेति नात्राप्युभयचित्रत्वमिति भावः ॥४१ ॥ उभयचित्र- मुदाहरति-विद्येति। अत्रोभयत्र कवेरमिनिवेशादुभयचित्रत्वमित्यभिप्रायेणाह अत्रेति ॥ यद्यप्येतत् प्राचीनालंकारकारैनोंदाहृतं तथाप्यन्यतरप्राधान्येनेतरभेद- द्वयवदुभयप्राधान्येनास्यापि सुवचत्वादविरोधः । किं च 'पादाम्बुज भवतु वो विजयाय मञ्जुमजजीरशिक्चितमनोहरमम्बिकायाः ॥' इत्यत्रोपमानुप्रासयोरन्योन्य- निरपेक्षत्वेन समप्रधानभावयो: संसृष्टिमन्ञीकुर्वाणैः पूवैरेवोभयचित्रमप्यज्वीकृतमिति विज्ञेयम्। नन्वेषूदाहरणेषु यथायोगं विभावानुभावविशेषकथनेन वीरश्रृज्ञारयोः पर्यवसानात् कथमधमत्वम्। सत्यम्। शब्दार्थालंकारयोरेव कविविवक्षाविषय- त्वाद् विद्यमानोऽपि रसो दिवा चन्द्रप्रकाशवन्न प्रतीयते। तदुक्तं काव्यालोके- 'रसभावादिविषयविवक्षाविरहे सति । अलंकारनिबन्धो यः स चित्रविषयो मतः ॥' इति। एवं त्रिविधमपि काव्यं सामान्यतो निरूप्य तत्रोत्तमकाव्यं प्रपथयितुं प्रतिजानीते-अथति॥ विभजते-अत्रेति॥ अविवक्षितं व्यज्गथेन न्यग्भा- वितं वाच्यं यत्र सोऽविवक्षितवाच्यः। अन्यपर्द व्यङ्गयपरम्। राजतात्पर्येण राजपुरुष- सेवनवद् व्यज्ञथपरत्वेनैव विवक्षितं विवक्षितान्यपरं तथाभूतं वाच्यं यत्र स विवक्षितान्यपरवाच्यः । तत्र लक्षणामूलं चतुर्धा विभजते-अविवक्षितेति॥

Page 63

५४ प्रतापरुद्रीये रक्नापणसहिते

क्षितवाच्यस्यार्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्यतया द्विविधस्य वा- क्यपद्गतत्वेन द्वैविध्ये चातुर्विध्यम्। विवक्षितान्यपरवाच्यस्य संल-

शब्दशक्तिमूले वस्त्वलंकाररूपतया द्वैविध्ये वाक्यपद्गतत्वेन चातुर्वि- ध्यम। अर्थशक्तिमूले संलक्ष्यक्रमव्यङ्ग ेऽर्थस्य स्वतःसंभवित्वेन कवि- प्रौढोक्तिसिद्धत्वेन कविनिबद्धोक्तिसिद्धल्वेन च त्रैविध्यम्। त्रिविधस्य वस्त्वलंकाररूपतया द्वैविध्ये षडधत्वम्। षड्िधस्यापि व्यङ्गधव्यञ्ञ- कतया द्वैविध्ये द्वादशविधत्वम्। द्वादशविधस्यापि प्रबन्धगतत्वेन वा- क्यगतत्वेन पदगतत्वेन च त्रैविध्ये षट्त्रिंशत्प्रकारोऽर्थशक्तिमूलोऽनुर-

तत्नार्थान्तरसंक्रमितवाच्ये वाच्यस्योपपद्यमानत्वेऽपि तावतानुपयोगादजहल्लक्ष- णामूलत्वम् । अत्यन्ततिरस्कृतवाच्ये वाच्यस्यानुपपन्नत्वात् जहल्क्षणामूलत्व- मिति विवेकः । संक्रमितेति णिचा व्यञ्जनसहकारिवर्गस्यायं प्रभाव इति सूच्यते। अमिधामूलं विभजते-विवक्षितेति। संलक्ष्यः स्फुटसंवेद्यः कमो व्यज्यव्य- अकयोरयत्र स संलक्ष्यकमव्यज्ञयः । यत्र व्यख्जकस्य विभावादेर्व्यज्ञयस्य च रसादेः सन्नपि कमो निशितसूच्या शतपत्रपत्रशतवेधवदाशुभावित्वान्न लक्ष्यते सोऽसंलक्ष्यक्रमव्यन्नयः । तत्रास्य शब्दार्थोभयशक्तिमूलत्वेन त्रैविध्यं सिद्धव- त्कृत्यादं चतुर्धा विभजते-संलक्ष्येति ।। जातिगुणादिरूपोऽर्थों वस्तु । तदेव विच्छित्तिविशेषयुक्तमलंकारः । द्वितीयः षट्त्रिशत्प्रकार इत्याह-अर्थशक्ति- मूल इत्यादिना॥ अर्थस्य मूलभूतस्य व्यजकस्येत्यर्थः । यो न केवलं साहि- त्यमान्नसिद्धः किं तु लोकेऽप्यौचित्येन संभाव्यते स सवतःसंभवी। यः पुनरस- नपि लोके कविना प्रतिभामात्रेण संभाव्य संपाद्यते स कविप्रौढोक्तिसिद्धः । कविनिवद्धवक्तृप्रौढोक्तिसिद्धस्तु कविनिबद्धोत्तिसिद्ध इति त्रयाणां विवेकः । षड्विधस्येति॥ व्यञ्जकस्येति भावः । व्यङ्गय्व्यअ्जकतयेति॥ व्यजययो- र्वस्त्वलंकाररूपयोर्व्यज्ञकतयेत्यर्थः । तथा चोक्तं काव्य प्रकाशे-'अर्थशक्त्युद्ध बोड प्यर्थो व्यञ्जकः संभवी स्वतः। प्रौढोक्तिमात्ात् सिद्धो वा कवेस्तेनोम्भितस्य वा ॥ वस्तु वालंकृतिर्वेति षड्भेदोऽसौ व्यनक्ति यत्। वस्त्वलंकारमथवा तेनायं द्वाद- शात्मकः ॥' इति। हेमचन्द्रस्तु प्रौढोक्तिमन्तरेण खतःसिद्धस्याप्यकिंचित्करत्वात् तत्सिद्धत्वमेव सर्वत्रेति खतःसंभवित्वादिभेदत्रयं नाज्वीचकार । अनुरणनेति ॥ घण्टादेः प्रथमखनानन्तरभावी ल्निग्धः खनोऽनुरणनम् । तत्सादृश्यात् संलक्ष्य- कमव्यश्ञयस्त्रिविधोऽप्यनुरणनध्वनिरुच्यते । तत्र 'विच्छित्तिशोभिनैकेन भूषणे- नेव भामिनी। पदद्योत्येन सुकवेर्ध्वनिना भाति भारती ॥।' इति ध्वन्याचार्यवचनात्

Page 64

काव्यप्रकरणम् । ५५

णनध्वनिः । उभयशक्तिमूलो वाक्यगतत्वेनैकविध एव। एवं संल-

दिध्वनिः प्रबन्धवाक्यपद पदैकदेशरचनावर्णगतत्वेन षड्विधः। एवं विवक्षितान्यपरवाच्यध्वनेः सप्तचत्वारिंशद्भेदाः। अविवक्षितंवाच्य- भैदैञ्चतुर्भिः सह ध्वने: प्रथमं शुद्धा एकपश्वाशद् भेदाः । तेषां प्रत्येकमेकैकस्यैकैकेन संबन्धे प्रथमभेदस्यैकपञ्च्ाशद भेदाः । द्विती- यस्य पश्चाशद् भेदा: । तृतीयस्यैकोनपञ्चाशद् भेदाः । अनेन क्रमेणोत्तरोत्तरस्थैकैकभेदपरित्यागे षड्विंशत्युत्तरशतत्रयाधिक सह स्र - संख्याका (१३२६) मिश्रभेदाः। अविवक्षितवाच्यस्य विवक्षितान्य- परवाच्यसंबन्धे यो भेदस्तस्मिन्नेवान्तर्भूतो विवक्षितान्यपरवाच्य- स्याविवक्षितवाच्यसंबन्धे भेदो न पृथग्भूतः । अननैव क्रमेण वस्तु-

पद्गतेष्वपि रम्यत्वमस्तीति वेदितव्यम् । तृतीयमाह -- उभयशक्तीति ॥ एकविध एवेति। प्रकार वैचित्र्यकल्पनस्य दुःशकत्वादिति भावः । अनुरणन- ध्वनिभेदान् क्रोडीकृत्याह-एवमिति ॥ एकश्र चत्वारिंशच्च एकचत्वारिंश- दिति द्वन्द्वः । 'सर्वो द्वन्द्वो विभाषयैकवद्धवति' इत्येकवद्धावः । 'लिज्गमशिष्यं लोकाश्रयत्वाल्िक्स्य' इति भाष्यकारवचनाजनपदादिशब्दवन्नपुंसकत्वाभावः । नापि भेद्यलिन्नत्वम्। विंशत्यादीनां नवत्यन्तानाममरकोशे 'तासु चानवतेः स्त्रियः' इति नियमेन स्त्रीलिततामिधानात्। यद्वा एकोत्तरा चत्वारिशदिति मध्यमपदलोपी समासः । एवमन्यत्रापि द्रष्टव्यम् । द्वितीयममिधामूलध्वनिं विभजते-असंलक्ष्येति ॥ रसादीनामानन्त्येन तद्गेदकल्पनस्याशक्यत्वात् तद्द्योतकप्रबन्धादिकृतो रसादे: षोढा विभाग इत्याह-प्रबन्धेति ॥ सर्वानपि ध्वनिभदान् संकलव्याह-एवमिति॥ शुद्धा ध्वन्यन्तरासंबद्धा इत्यर्थः । मिश्र- भेदानाह-तेषामिति। तेषां शुद्धानामित्यर्थः। ननु लक्षणामूलध्वनेरमिधामूल- ध्वनिसंबन्धे यथको मिश्रमेदस्तथैवामिधामूलध्वनेर्लक्षणामूलध्वनिसंबन्धे भेदान्तरं भविष्यति। एवमेकप्चाशतोऽपि भेदानां विचार्यमाणे एकोत्तरशतषट्काधिक- सहस्द्वयसंख्याक (२६०१) मिश्रभेदसंभवादेकैकन्यूनताश्रयणेन षड्विंशत्युत्तर- शतत्रयाधिकसहस्त्र (१३२६) संख्यावलम्बनमयुक्तमिति चेत् सत्यम्। भेद- द्वयेऽपि तस्यामुना संबन्धोऽमुष्य वा तेनेति संबन्धि प्रतिसंबन्धिनोरुच्चारणव्य- त्यासमात्रं न पुनश्मत्कारविशेषः । अतस्तेषां यथायोगं मिथोऽन्तर्भाव एवेति युक्तमेवोक्तम्। तदेतदाह-अविवक्षितवाच्यस्येति॥ विषयव्याप्त्र्थ · ध्वन्यन्तरेऽप्यन्तर्भावं दर्शयति-अनेनैवेति ॥ भूयो विभागमाह-तस्या-

Page 65

५६ प्रतापरुद्रीये र्नापणसहिते

ग्भूत इति पूर्वपूर्वस्योत्तरोत्तरसंबन्धे एकैकभेदन्यूनता ज्ञेया। तस्या- पि मिश्रणस्य त्रिरूपेण संकरेणैकरूपया संसृष्टथा च पुनश्चतुर्धायो- जने चतुरुत्तरशतत्रयाधिकपश्चसहस्राणि (५३०४) भेदाः । शुद्धाश्चन्द्रशरा मिश्रा ऋतुनेत्रानलेन्दवः ।

तत्न शुद्धानामेकपख्चाशद्धेदानां नामधेयानि कथ्यन्ते। पदगता- र्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः ॥१॥ वाक्यगतार्थान्तरसंक्र- मिताविवक्षितवाच्यध्वनिः ॥२॥पदगतात्यन्ततिरस्कृताविवक्षितवा- च्यध्वनिः ॥३।। वाक्यगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः।।४।। पद्गतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः ॥ ५॥ पदगतशब्दश- क्तिमूलसंलक्ष्यक्रमालंकारध्वनिः ॥ ६ ॥ वाक्यगतशब्दशक्तिमूलसं- लक्ष्यक्रमवस्तुध्वनिः॥७ ॥ वाक्यगतशब्दशक्तिमूलसंलक्ष्यक्रमालं- कारध्वनिः ॥ ८। पदगतस्वतःसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्व- निः ॥९।। पदगतस्वतःसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः॥१०॥ पद्गतस्वतःसिद्धार्थशक्तिमूलोSलंकारेणालंकारध्वनिः ॥ ११ ॥ पद- गतस्वतःसिद्धार्थशक्तिमूलोSलंकारेण वस्तुध्वनिः ॥ १२॥ वाक्य- गतस्वतःसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ १३ ॥ वाक्यग- पीति ॥ ध्वन्योः संदेहास्पदत्वेनानुग्राह्यानुग्राहकभावेनैकव्यज्ञकानुप्रवेशेन च त्रिरूपेणेत्यर्थः। संकरवत् सापेक्षत्वाभावात् संसृष्टेरेकरूपत्वं द्रष्टव्यम्। फलितां संख्यामाह-चतुरुत्तरेति । न्यूनाधिकसंख्याव्यवच्छेदार्थमुक्तामेव संख्यां संकेतभाषया क्रोडीकृत्याह-शुद्धा इति॥ अन्राङ्कप्रस्तारो व्युत्कमेण द्रष्टव्यः । चन्द्र एकः । शराः पथ्च (५१)। ऋतवः षट्। नेत्र द्वे। अनलास्रयः। इन्दुरेकः (१३२६)। अब्धयश्चत्वारः । खं शून्यं बिन्दुरित्यर्थः । अग्नयस्त्रयः । शराः पञ्च (५३०४) । तर्हि किंनिमित्तं काव्य प्रकाशकारोऽन्तर्भावयातयामानपि कतिचन मेदान् संगृह्य चतुरुत्तरचतुःशतीयुतायुत (१०४०४) संख्याकान् संसृष्टिसंकरा- यत्तभेदानजीगणत्। को वेद किं वा तत्र निमित्तं तत् पुनस्त एव तत्रभवन्तो विदांकुर्वन्तु। अस्माभिस्तु 'युक्तियुक्तं बचो ग्र्र्राह्यं न तु पूरुषगौरवात्' इति न्यायसरणिरनुसरणीयेति विद्यानाथहृदयम् । अथ प्रतिपत्तिसौकर्यार्थ शुद्धभेदा- नां प्रतिज्ञापूर्वकं नामानि कथयति-तत्रेति ॥ गतार्थमेतत्। अन्न कतिपयो-

Page 66

काव्यप्रकरणम् । ५७

तस्वतःसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ १४ ॥ वाक्यगत- स्वतःसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥१५॥ वाक्यगत- स्वतःसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥१६॥ प्रबन्धगतस्व- तःसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥१७॥ प्रबन्धगतस्वतः- सिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ १८ ॥ प्रवन्धगतस्वत .- सिद्धार्थशक्तिमूल।Sलंकारेणालंकारध्वनिः ॥ १९। प्रबन्धगतस्वतः- सिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ २० ॥ पद्गतकविप्र।- ढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २१॥ पद्गतक- विप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २२॥ पद्गत-

गतकवि प्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ २४॥ वाक्यगतक विप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥२५॥ वाक्यगतक विप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥२६।। वाक्यगतकवि प्रौढोक्तिसिद्धार्थशक्तिमूलोSलंकारेण वस्तुध्वनिः॥।२७॥ वाक्यगतकवि प्रौढोक्तिसिद्धार्थशक्तिमूलो Sलंकारेणालंकारध्वनिः ॥२८ प्रबन्धगतकवि प्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥२९॥ प्रबन्धगतकवि प्रौढोक्तिसिद्धार्थशक्तिमूलो व स्तुनालंकारध्वनिः॥३०॥

प्रबन्धगतकविश्रौ ढोक्तिसिद्धार्थशक्तिमूलोSलंकारेण वस्तुध्वनिः॥।३२॥ पद्गतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥३३।। पद्गतक विनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः॥ ३४॥

पढगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः॥३६॥ वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः॥३७॥ वाक्यगतक विनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः॥३८॥

Page 67

५८ प्रतापरुद्रीये रन्नापणसहिते

प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः॥।४१।। प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः॥४२

प्रबन्धगतकविनिव द्वोक्तिसिद्धार्थशक्तिमूलोSलंकारेण वस्तुध्वनिः ४४ प्रबन्धगतासंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः ॥४५॥ वाक्यगता- संलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः ॥ ४६ ॥ पद्गतासंलक्ष्यक्रम- व्यङ्गथो रसादिध्वनिः ॥ ४७। पदैकदेशगतासंलक्ष्यक्रमव्यङ्गया रसादिध्वनिः ॥४८ ।। रचनागतासंलक्ष्यक्रमव्यङ्गथो रसादिध्वनिः ।। ४९॥ वर्णगतासंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः ॥५०॥ वाक्य- गतोभयशक्तिमूलो रसादिध्वनिः ॥ ५१॥ तत्र दिआ्यात्रमुदाहियते। अर्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिर्यथा- मूर्धानो यूयमास्माकाः किमित्यौन्नत्यमिच्छथ। इति प्रतापरुद्रस्य प्रणताः प्रतिपार्थिवाः ॥४३॥ अत्र आस्माका इति सर्वदैन्यभूमयो वयमीद्शानामस्माकं संबन्धिनो यूयमित्यर्थान्तरसंक्रमिताविवक्षितवाच्यता। अत्यन्ततिरस्कृतवाच्यो ध्वनिर्यथा- विशदिमविलिप्तवियतो धवलिमपरिपूरिताखिलाशान्ताः । विहरन्ति यशःपूरा गौराः श्रीकाकतीन्द्रस्य ।। ४४।। दाहरण प्रदर्शने नोहकुशलानां भेदान्तराणि सुबोधानीत्यमिप्रायेणाह-तत्र दिख्ात्रमिति। उदाहरति-मूर्धान इति॥ आस्माका अस्मदीयाः । 'युष्मदस्मदोरन्यतरस्यां खन्च' इत्यणप्रत्यये 'तस्मिन्नणि च' इत्यास्माका- देशः । अत्रास्माकप्रकृत्यास्मच्छ्देनास्मदर्थमहित्वैव तावतानुपयोगाद् दैन्य- विशिष्टोऽस्मदर्थः सामान्यविशेषभावसंबन्धेन लक्ष्यत इत्याह-सर्वदैन्येति॥ व्यज्नथं पुनर्वीररुद्रवैरिणां वैनतेयसंनिधाने वाताशिनामिव विक्रमविमुखत्वमित्ये- तदमिसंधायाह-अत्रेति॥४३॥ विशदिमेति॥ अत्र विशदिमधवलिस्नो- र्विषयभेदान्मिथो न पौनरुक्त्यम्। अनयोवियद्विलेपन दिगन्तपरिपूर णविधानार्थ- त्वेनानुवाद्यत्वाद्विधेयेन गौरा इत्यनेनापि न पौनरुक्तमिति विज्ञेयम्। अत्र चिलिप्पदं मूर्तोचितस्य विलेपनस्यामूर्ते वियत्यनुपपद्यमानत्वात् खार्थपरित्यागेन

Page 68

काव्यप्रकरणम् । ५९

अत्र विशदिमविलिप्तवियत इत्यत्यन्ततिरस्कृतवाच्यत्वम्। अनेनैव क्रमेण वाक्यगतत्वेनाप्युदाहार्यम्। अथार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा- अब्दानृतून् विना मासान् शुक्कपक्षान् बिना तिथीन्। रात्रीर्विनापि काङ्कन्ति काकतीयरिपुस्तिरियः ॥ ४५॥ अत्र ऋतुप्रभृतीनां कामोद्दीपकत्वात् तदभावो रिपुस्त्राभिराका- ड्क्ष्यत इति प्रतीयते। तेन तासां प्रियवियोगरूपं वस्तु व्यज्यते। अनेन प्रतापरुद्रस्य सर्वे शत्रवो निहता इति वाच्यादतिशयः । तथा प्रियविरहविधुराः शत्रुस्तियः कतिपयवत्सरान् जीविताशया प्रथम- मृतूनामभावं वाञ्छन्ति। अनन्तरं तानपि गमयितुमशक्ताः कति- पयमासेषु प्राणान् धारयितुमुद्युक्ता ज्योत्सनावतां पक्षाणां विनाशं वाञ्छन्ति। अनन्तरं मासानप्यपनेतुमपारयन्त्यः कतिपयतिथिषु. जीविताशया रात्रीणामसृष्टिमभिलषन्तीति बहुवस्तु वस्तुना व्यज्यते।। वस्तुनालंकारध्वनिर्यथा- दृष्टा काकतिवीररुद्रनृपतेः कीर्ति जगव्यापिनीं वस्तुं वाञ्छति शंभुरत्र शयितुं लक्ष्मीपतिः काहकति। उपरञ्जनातिशयं कार्यकारणभावसंबन्धेन लक्षयदाकाशे प्रकाशाधिक्यं व्यनकी- त्यमिप्रायेणाह-अत्रेति॥ अनेनैवेति॥ वाक्यगतत्वमेवात्र भेदकमिति भावः। अत्र जहदजहल्लक्षणयोर्वस्तुमात्रं व्यज्यम्। तच्च शब्दैकव्यापारात् व्यजनादेव अन्यथा लक्षणाया एवानुपादेयत्वप्रसज्गादिति द्रष्टव्यम्। तदुक्तं काव्यप्रकाशे- 'यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते। फले शब्दैकगम्येSत्र व्यजनान्नापरा क्रिया ॥' इति॥ ४४ ॥ शब्दशक्तिमूलापेक्षया भेदबाहुल्येन बहुवक्तव्यत्वादर्थ- शक्तिमूलान् आदावुदाहर्तुमाह-अथेति॥ अद्दानिति॥ अत्र ऋत्वाद्यभावा- काछ्लाया वाच्यत्वेऽपि तस्याः कामोद्दीपकत्वहेतुकत्वं व्यः्यमेवेत्यभिप्रायेणाह- अत्रेति ॥ तस्य व्यज्यमाह-तेनेति ॥ तेनानन्तरोक्तव्यज्ञयेनेत्यर्थः । तस्यापि व्यङ्नयमाह-अनेनेति ॥ प्रियवियोगेनेत्यर्थः । व्यज्यत इत्यनुषज्यते। एव- मुत्तरोत्तरव्यज्ञय एव कविसंरम्भविश्रान्तेस्तस्य वाच्यादुत्कर्षः, येनास्य ध्वनि- व्यपदेश इत्याह-इति वाच्यादिति ॥ किं च प्रथमकक्ष्यायां प्रतीयमानस्य ऋत्वाद्यभावाकाङ्कालक्षणस्य वस्तुनो व्यक्जकवस्तुत्रविध्यात् त्रैविध्यमित्याह- तथेत्यादिना॥ ४५॥ दृष्ट्रति ॥ अत्र कीतीं शंभुप्रभृतीनां निवासाकाङ्गादि-

Page 69

६० प्रतापरुद्रीये रत्नापणसहिते

स्नातुं धावति दिव्यतापसगणः संवर्धितुं वार्धय श्चेष्ठन्ते सविलासमभ्रमुरपि स्प्रष्टुं शनैरीहते ॥ ४६ ॥ अत्र हरस्य कैलासभ्रान्तिः हरे: क्षीरार्णवभ्रान्तिरिति भ्रान्तिमदलंकारो व्यज्यते ॥ अलंकारेण वस्तुध्वनिर्यथा- प्रतापरुद्रस्य रणे कृपाणः सद्यः समुद्यद्रुधिरारुणश्रीः । आलम्बते रोषकषायितस्य कालीकटाक्षस्य विजृम्भितानि ॥ अत्रालम्बत इति निदर्शनालंकारेण सकलरिपुक्षयः क्षणात् कृत इति वस्तु व्यज्यते।। अलंकारेणालंकारध्वनिर्यथा- काकतीयविभो: कीर्तिपुण्डरीके विजुम्भिते। धत्ते मधुकरक्रीडां तमालश्यामलं नभः ॥ ४८ ॥ अत्र कीर्तिपुण्डरीके नभो भ्रमरक्रीडां धत्त इति निदर्शनालंकारेणा- श्रयाश्रयिणोरनानुगुण्यरूपोऽधिकालंकारो व्यज्यते। आश्रयस्य कीर्ति- पुण्डरीकस्य वैपुल्यं भ्रमरसादृश्यप्रतिपादनेनाल्पत्वं नभसः प्रतीयते। एषु स्वतःसिद्धार्थशक्तिमूलत्वम्। अथ कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा- श्रावं श्रावं खुरलिविहरत्कार्तिकेयेषुजात- च्छिद्रच्छद्मश्रवणपद्वीचारिणीं चारणौघैः । लक्षणेन वस्तुना तेषां यथाक्रमं कैलासक्षीरोदमन्दाकिनीचन्द्राभ्रमातङ्गभ्रान्तिरूपो भ्रान्तिमदलंकारो व्यज्यते। तदेतदाह-अत्र हरस्येति॥ अत्र व्यज्गयस्य प्राधान्येनालंकार्यत्वेऽपि ब्राह्मणश्रमणन्यायेन प्रत्यमिज्ञानबलादलंकारव्यपदेशो न विरुध्यते। एवमन्यत्राप्यलंकारध्वनौ वेदितव्यम् । ४६ ॥ प्रतापेति ॥ कषा- यितस्यारुणीकृतस्य। अत्र कृपाणस्य चण्डिकाकटाक्षविज्ञम्भितालम्बनासंभवा- द्विजुम्भितानीव विजृम्भितानीति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धरूपो निदर्शनालं- कारः॥४७ ॥ काकतीयेति ॥ पूर्ववन्निदर्शनालंकारः ॥४८ ॥अनानुगुण्य रूप इति॥ आधारस्य नभसोऽल्पत्वादाधेयस्य यशसोऽधिकत्वाश्चेति भावः । तब्ब व्यज्यत इत्याह-आश्रयस्येति॥ एषु स्वतःसिद्धेति॥ व्यजकस्य लोकसिद्धार्थत्वादिति भावः । अथ कवि प्रौढोक्तिसिद्धार्थशक्तिमूलेषु वस्तुना वस्तु- ध्वनिमुदाहरति-आ्ावं श्रावमिति ॥ श्रावं श्रावं पुनः पुनः श्रुत्वेत्यर्थः ।

Page 70

काव्यप्रकरणम् । ६१

शश्वद्गीतां भुवनमहितां काकतीन्द्रस्य कीर्ति क्रौख्क्ष्माभृद्धवि महतो विस्मयान्निश्चलाङ्गः । ४९ ।। अत्र प्रतापरुद्रस्य कीर्तिः स्थावराणामपि विस्मयकारिणीति वस्तु च्यज्यते ।। वस्तुनालंकारध्वनिर्यथा- वीररुद्रभटान् दृष्ट्रा जयलक्ष्मीवृतान् रणे। कर्षन्त्यरिवधूकेशान् कानने कण्टाकिद्रुमाः ॥५०॥ अत्र जयलक्ष्मीसमालिङ्चितान् वीररुद्रभटान् दृष्ट्रा समदना, इव कण्टकिट्ुमाः शत्रुवधूकेशान् कर्षन्तीवेत्युत्प्रेक्षा व्यज्यते। अलंकारेण वस्तुध्वनिर्यथा- *ओसरइ सहीहि समं लज्जा बहुआए सिढिलमाणाए। अप्पग्गहणभयेणव सविहगए मणोहरे दइए ॥ ५१॥ अत्रोत्प्रेक्षयालिअनरूपं वस्तु व्यज्यते। अलंकारेणालंकारध्वनिर्यथा- *अपसरति सखीमिः समं लज्ा वध्वाः शिथिलमानायाः। आत्मग्रहणभयेनेव सविधगते मनोहरे दयिते॥ आमीक्ष्ण्ये णमुलि 'नित्यवीप्सयोः' इति द्विर्भावः । खुरलिर्मल्ादिसाधनशाला । तत्र विहरतः क्रीडतः कार्तिकेयस्य कृत्तिकापत्यस्य स्कन्दस्येषुणा शरेण जातं यच्छिदरं तस्य छद्मना व्याजेन या श्रवणपद्वी। बहिर्निर्गतं बाणरन्ध्रमेव श्रवण- सरणिर्बभूवेति भावः । तत्र चरति ताच्छील्येन तां तथोक्ताम् । पुरा किल का- र्तिकेयः खुरलीविहरणवेलायां परशुरामस्पर्धया क्रौबगिरिं ददारेति प्रसिद्धिः । भुवनानां महितां पूज्यमानामिति शेषषष्ठया निष्ठान्तेन समासः। अत एव 'केन च पूजायाम्' इत्यादिषु कारकषष्ठया एव समासनिषेध इति हरदत्तः । अत्र करौखाद्रेर्निश्चलानत्वे विस्मयादिवेति हेतोरुत्प्रेक्षणादुत्प्रेक्षालंकारो व्यज्ञका- प्रयोगात् गम्यः । एवमलंकारे सत्यपि क्रौश्वक्ष्मामृदिति वस्त्वेव स्थावराणामपि विस्मयकारिणी कीर्तिरिति वस्तु व्यनक्ति न पुनरलंकारभागः । अतो वस्तुना वस्तुध्वनेरेवेदमुदाहरणम् ॥४९ ॥ वीररुद्रेति ॥ निगदव्याख्यातमेतत् ॥५०॥ ओसरईति॥ त्वोदवापोता इत्यपशब्दस्यौकारः। भयेणवेत्यत्र 'इवस्य पिव- मिवतिवद्वा' इति इवशब्दस्य केवलो वकारो हेतुत्प्रेक्षाव्यजकः॥५१॥ प्र 6

Page 71

६२ प्रतापरुद्रीये रत्नापणसहिते

अभयं याचमानानां काकतीयेन्द्रविद्विषाम्। रक्षां नाङ्गीकरोतीव वनं शाखाग्रकम्पनैः ॥५२॥ अत्र नाङ्गीकरोतीवेत्युत्प्रेक्षया प्रतापरुद्रशत्रुभ्यो रक्षणं कर्तु वन- मपि बिभेतीवेत्युत्प्रेक्षा व्यज्यते। कविनिबद्धव क्तप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा- *जह तह व होदु अज्जा णरणाह. करेहि रक्खणं ससिणो । जं ताए कडखुक्का आणत्ता तं मसीकादुं।। ५३।। अत्र विरहातुरा आर्या चन्द्रिकामसहमाना रोषोज्ज्वलितया कटा- क्षोल्कया चन्द्रं मषीकरोति स रक्षणीय इत्यनेन वस्तुना इतः परं

व्यज्यते।। सा जीवितं धारयितुमशक्ता, अधुनैव त्वया समागन्तव्यमिति वस्तु

वस्तुनालंकारध्वनिर्यथा- कस्त्वं शुभ्राखिलाङ्गश्चरसि ननु यशो वीररुद्रस्य वर्ते कोडयं ते दिव्यदेहः स्फुरति परिसरे मत्सुहृत्तत्प्रतापः । प्रच्छादयालं स्फुरद्भिः कुमुदसरसिजैः ख्यापितं वः+ स्वरूपं सोमार्कौ स्वागतं वामवधिगिरिरहं कल्पितो निस्तमस्कः ॥

*यथा तथा वा भवत्वार्या नरनाथ कुरु रक्षणं शशिनः । यत्तया कटाक्षोल्का आज्ञप्ता तं मषीकर्तुम्। अभयमिति॥ अत्र क्रियोत्प्रेक्षयोर्व्यज्यव्यज्ञकभाव इत्याह-अत्रेति ॥५२॥ अथ कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थेषु वस्तुना वस्तुध्वनिमुदाहरति-जह तह वेति॥ 'नवाच्ययो दातादौ' इति हखः । विलम्बितागमनं प्रियं प्रति विद- बधदूतीवचनमेतत् ॥ ५३॥ कस्त्वमिति॥ अत्र प्रथमार्धे लोकालोकवीररुद्र- यशसोः प्रश्नोत्तरवाक्यानि चत्वारि। द्वितीयार्धमेकं लोकालोकवाक्यम्। मत्सुह- दिति॥ उभयोरेकजन्यत्वादिति भावः । मे सुहृदिति क्वचिदपपाठो लेखकदो- षात्। युष्मदस्मदादेशानां पदात् परत्वनियमात्। अत्र तु वाक्यादित्वेन तद- भावादिति । अत एवोक्तम्-'समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' इति। प्रच्छाद्यालमिति। न प्रच्छादनीयमित्यर्थः । 'अलंखल्वो :- ' इति क्त्वाप्रत्यये ल्यवादेशः । ख्यापितं व इत्यत्र द्वित्वेऽभिधेये व इति पाक्षिक वामिति पाठान्तरम्।

Page 72

काव्यप्रकरणम् । ६३

अत्र प्रतापरुद्रयशःप्रतापयोः सोमार्केसादृश्यप्रतीतेरुपमा व्यज्यते। अलंकारेणालंकारध्वनिर्यथा- *उवह हळा बहुआए तह आरूढो वि णिभ्भरो माणो। णिव इसमाअमसंभमसंजाअभओव्व ओसरइ ॥ ५५॥ अत्रोत्प्रेक्षया प्रियप्रार्थनां विनैव मानिनीमनः प्रसन्नमिति वि- भावनालंकारो व्यज्यते । अलंकारेण वस्तुध्वनिर्यथा- अप्राष्य सेवावसरं नाथ कान्तावृतस्य ते। त्वत्कीर्ति सेवमानेव श्यामा सर्वाङ्गपाण्डुरा ॥ ५६॥ अत्र सेवमानेवेत्युत्प्रेक्षया सर्वथा स्वीकार्यत्वादिरूपं वस्तु व्यज्यते।। एवं प्रबन्धादिगतत्वेन यथासंभवमुदाहरणानि द्रष्टव्यानि विस्तर- भयादिह नोक्तानि ॥ अथ शब्दशक्तिमूलध्वनिः। स च वस्त्वलंकारगतत्वेन द्विविधः। तथा चोक्तम्- 'अलंकारोऽथ वस्त्वेव शब्दाद्यत्रावभासते। *पश्यत हला वध्वास्तथारूढोऽपि निर्भरो मानः । नृपतिसमागमसंत्रमसंजातभय इवापसरति ॥ बहुवचनम् । 'युष्मदि गुरावेकेषाम्' इति जयादित्यवचनात्। निस्तमस्को बाह्यभागेऽपीति भावः ॥ ५४ ॥ उवहेति ॥ उवहेति पश्यतत्यर्थेऽव्ययम् । हलेति च सख्याह्वाने। 'वा सख्यामामि हळाहळ' इति। ओव्वेत्यत्र 'मिवतिवविअवव्व इवार्थे' इतीवार्थे द्वित्वं प्राप्तो वकारः ॥ ५५ ॥ विभावनालंकार इति ॥। अकारणकार्योत्पत्तेस्तह्वक्षणत्वादिति भावः । अप्राप्येति ॥ श्यामा यौवनवती। अ्र विरहपाण्डिन्नः कीर्तिसेवाहेतुकत्व- मुतप्रेक्ष्यते ।। ५६ ।। अवशिष्टा अर्थशक्तिमूला अन्यत एव द्रष्टव्या इत्याह- एवमिति॥ अत्रानुक्तौ हेतुमाह-विस्तरेति ॥ उक्तोदाहरणावहित चेतसामु- दाहरणान्तरावगमस्य सुलभत्वात् पुनस्तदुपादानं ग्रन्थगौरवमेवावहेदिति शब्द- IS प्रपख्चपरं विस्तरशब्दं प्रयुज्ञानस्य हृदयम् । 'प्रथने वावशब्दे' इति घञ्प्रतिषे- धादप्प्रत्ययः । 'स तु शब्दस्य विस्तरः' इत्यमरः ॥ शब्दशक्तिमूलध्वने्द्वैविध्ये वृद्धसंवादमाह-तथा चोक्तमिति॥ यद्यप्यलंकारोऽपि वस्त्वेव तथाप्यलंकारो

Page 73

६४ प्रतापरुद्रीये रत्नापणसहिते

प्रधानत्वेन स ज्ञयः शब्दशक्त्युद्धवो द्विधा ॥' इति। तत्रालंकारध्वनिर्यथा- *एसो सच्चं राओ सामा खु तुमं समाअमो दोण्णं। किं उण ण पदोसकहा दीसइ एदं खु अच्चरिअं ॥ ५७॥ अत्र प्रकरणेन कान्तानृपवाचकाभ्यां श्यामाराजशब्दाभ्यां निशाचन्द्रप्रतीतेरुपमा व्यज्यते ॥ वस्तुध्वनिर्यथा- कान्तारवाससंतप्ताः संश्रृणुध्वं हितादितः । कुरुध्वमधुना राजपादसेवां नरेश्वराः ॥। ५८ ॥ अत्र राजपादसेवामिति शब्दशक्त्या प्रकृतस्य प्रतापरुद्रस्य प्रतीति: प्रकरणाज्जायते। अनेन प्रतापरुद्रस्य सेवा कर्तव्या किम- रण्यवासेन संतप्ता इति वस्तु व्यज्यते।। उभयशक्तिमूलध्वनिर्यथा- जिष्णुरेष भुजस्तम्भजम्भमाणाद्गुतायुधः । *एष सत्य राजा श्यामा खलु त्वं समागमो द्वयोः । किं पुनर्न प्रदोषकथा दृश्यते एतत्खल्वाश्चर्यम्॥ विचित्रं वस्तु इतरन्तु शुद्धमिति प्रतिपादयितुं वस्त्वेवेत्येवकारः ॥ एसो इति ॥ नायिकां प्रति सखीवाक्यमेतत्। समागम इति ॥ युज्यते इति शेषः । प्रदोष: प्रकृष्टो दोषः कालविशेषश्च। अत्र श्यामाराजशब्दवाच्ययोः कान्तानृपयोः प्रकृतयोरप्रकृतनिशाचन्द्राभेदाध्यवसायेन प्राप्तस्य प्रदोषस्य कालविशेषलक्षणस्य प्रतिषेधेन विरोधः प्रतीयते। तद्द्योतकमाश्चर्यपदम्। परिहारस्तु दोषनिषेधा- दिति विरोधाभासोऽलंकारः॥ ५७॥ व्यङ्गयं विविनक्ति-अत्रेति ॥ अनेकार्थ- पद्गुम्फनमहित्रा कवेरर्थान्तरं विवक्षितमेव प्रतीयते। तस्यासंबद्धत्वपरिहाराय प्रकृतनौपम्यं कल्पनीयम्। तेन व्यज्ञयस्योपमालंकारस्य श्लिष्टशब्दान्वयव्यतिरेका- नुविधायित्वाच्छन्दशक्तिमूलत्वमिति भावः ॥ कान्तारेति॥ हितादाप्तादितोऽ- स्मात् मत्त इत्यर्थः । संश्रृणुध्वमित्यत्र कर्मणो हितोपदेशस्याविवक्षितत्वादकर्मक- त्वम् । तदुक्तम्-'धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात्। प्रसिद्धेरविवक्षातः कर्म- णोऽकर्मिका क्रिया ॥' इति । अत एव 'समो गम्यृच्छि-' इत्यादिनात्म नेपदम्। अत्र प्रकरणानुग्हीतस्य राजपदस्य महित्रा प्रतापरुद्रसेवा कर्तव्या नैवं दुःखमनु- भवितव्यमिति वस्तु व्यज्यत इत्याह-अत्रेति ॥ ५८ ॥ जिष्णुरिति॥

Page 74

काव्यप्रकरणम् । ६५

मुख्न्तु क्ष्माभृतः सर्वे निजपक्षविजृम्भितम् ॥५९॥ अत्र क्ष्माभृतो निजपक्षविजुम्भितं मुञ्न्तु, जिष्णुरेष इत्यत्र शब्दशक्तिमूलता। भुजस्तम्भजुम्भमाणाद्भुतायुध इत्यत्रार्थशक्ति- मूलता। असंलक्ष्यक्रमव्यङ्गो रसादिध्वनिः । तथा चोक्तं शृङ्गारतिलके- 'रसभावतदाभासभावशान्त्यादिरक्रमः । भिन्नो रसादयलंकारादलंकार्यतया स्थितः ॥' इति। रसभावोदाहरणं तत्स्वरूपनिरूपणप्रपञ्चे रसप्रकरणे भविष्यति ॥ गुणीभूतव्यङ्गधम् अष्टविधं निरूप्यते। गुणीभूतव्यङ्गयं मध्यमं काव्यमष्टविधम्। तथा चोक्तं काव्यप्रकाशे- 'अगूढम परस्याङ्गं वाच्यसिद्धयङ्गमस्फुटम्। संदिग्धतुल्यप्राधान्ये काकाक्षिप्तमसुन्दरम् ॥' इति। कामिनीकुचकलशवद्गूढ स्थैव चमत्कारकारित्वाद्गूढव्यङ्गथं मध्यमं काव्यम्। यथा-

जिष्णुः जयशील इन्द्रश्च। अद्भुतायुध खज्गादिकं वज्रायुर्ध च। क्ष्माभृतो राजानः पर्वताश्। पक्षा बलानि गरुतश्च ॥। ५९।। शब्दशक्तिमूलतेति॥ शब्दपरि- वृत्तिसहिष्णुत्वाभावादिति भावः । अर्थशक्तिमूलतति ॥ तत्सहिष्णुत्वादिति भावः । अय तु वाक्यगत एव ।I असंलक्ष्यक्रमव्यङ्गथस्य रसादिध्वनित्वे संमति- माह-रसभावेति ॥ तदाभासा रसभावाभासाः । आदिग्रहणेन भावोदय- भावसंधिभावशबलत्वानि गरृह्यन्ते । अक्रमः असंलक्ष्यक्रम इत्यर्थः । न चात्र रसवदादयलंकारशङ्का कार्येत्याह-भिन्न इति॥ तत्र हेतुमाह-अलंकार्यतयेति। प्रधानतयेत्यर्थः । रसादीनामङ्गभाव एवालंकारत्वात्। तदुक्तम्-'प्रधानेऽन्यत्र वाक्यार्थे यत्राञं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥' इति। उदाहरणमुत्तरत्र भविष्यतीत्याह-रसेति । अथ मध्यमकाव्यस्योक्त लक्षणत्वाद्विभागमाह-गुणीभूतेति। संवादव्याजनोद्दिशति -- अगूढमित्या- दिना॥ गूढस्यैवेति॥ 'सर्वमभ्यर्हित द्रव्यं प्रच्छादनमपेक्षते' इति न्याया- दिति भावः । व्यक््स्य द्रुतप्रतीतावगूढत्वं, मध्यमप्रतीतौ गूढत्वं, विलम्बितप्रती- तावस्फुटत्वम्। तत्राद्यन्तयोर्मध्यमत्वं मध्यमस्योत्तमत्वं चेति विवेक: ।। अगूढ-

Page 75

६६ प्रतापरुद्रीये रत्नापणसहिते

औन्नत्यं यदि वर्ण्यते शिखरिणः क्रुध्यन्ति नीचैः कृता गाम्भीर्यं यदि कीत्यैते जलधयः क्षुभ्यन्ति गाधीकृताः । तत्वां वर्णयितुं बिभेमि यदि वा जातोऽस्म्यगस्त्यः स्थित- स्त्वत्पार्य्चे गुणरत्नरोहणगिरे श्रीवीररुद्रप्रभों॥ ६० ॥ अत्र यदि वा जातोऽस्म्यगस्त्यः स्थितः इत्यनेन जलनिधिपर्व- तेभ्यो न विभेमीति व्यङ्ग थमत्रागूढम् ॥ अपरस्याङ्गं, यत्र रसादे रसादिरङ्ं तदपि गुणीभूत- व्यङ्गयमेव। यथा-

त्स्वेदं निर्भरगात्रवेपथु मिलन्मूच्छं गलद्वाष्पकम्। संजातप्रलयं च काकतिमहीनाथ स्मरोद्वेजिता भूपा: शैलगुहासु यान्ति विजनं भीत्या समालिङ्गिताः॥ अत्र शृङ्गारस्य भयरसाङ्गत्वम् । वाच्यसिद्धयङ्गं यथा- मुदाहरति-औन्नत्यमिति। वामनीकृतविन्ध्याचलक्षुलुकीकृतसिन्धुसलिलक्ष कुम्भसंभव इति महती प्रथा। अनोऽगस्त्योऽस्मीत्यनेन शैलसमुद्रेभ्यो न बिमे- मीति व्यज्यस्य वाच्यायमानत्वादगूडमित्याह-अत्रेति॥ ६० ॥ अपरस्याङ्ग- मिति। अनयोर्विवक्षितावर्थौ क्रमेणाह-यत्रेति । अत्र प्रथमादिशब्दन भावादयो वाक्यार्थीभूतो वाच्यश्च गृह्यन्ते। द्वितीयादिशब्देन च भावादयोऽ नुरणनं च गृह्यन्ते। तेन यत्राज्विनो रसभावादेर्वाच्यस्य वा रसभावादिरनुरणनं वाअत्वेन निवध्यते तदपराङ्मित्यर्थः । उदाहरति-वीतव्रीडमिति॥ एकत्रो- त्क्रोशनादन्यत्रालापाच्च मौनत्यागः । वैस्वर्य गद्गदभाषित्वम् । मूर्च्छा शून्येन्द्रि- यत्वम्। प्रलयो नष्टचेष्टता। शैलगुहास्वित्यत्रापिशब्दोऽनुक्तोऽपि सामर्थ्याह्वभ्यते। अतस्तत्रापि विजनं कशन कोणप्रान्तं प्रविशन्तीति भावः । अत्र प्रस्तुतविशे- षणसाम्यादप्रस्तुतनायकधर्मप्रतीतेः समासोकिः। अन्रान्यपोषकत्वेनाअस्यापि शृक्गारस्य व्ण्यमानत्वेनाप्राधान्यात् तद्वशेन गुणीभूतव्यङ्गयमित्येव व्यपदेशो न पुनरजीभूतभयानकरसापेक्षया ध्वनिरिति। अत एवोक्तं काव्यप्रकाशे- 'क्रचित् केनचिद् व्यवहारः' इति। एवमपराज्ञान्तरमुदाहार्यम् ॥ ६१ ॥ तृतीयं भेदमाह-वाच्येति ॥ वाच्यस्य सिद्धरुत्पत्तेरञ्ञमिति व्युत्पत्त्यैव खतः-

Page 76

काव्यप्रकरणम् । ६७

कराल: काकतीन्द्रस्य करवालनवाम्बुदः । धारया शमयत्युग्रं प्रतापज्वलनं द्विपाम् ॥ ६२ ॥ अत्र जलधारा व्यङ्गथा। सा च करवालनवाम्बुद इत्यस्यवाच्य- भूतस्य रूपकस्य सिद्धिकृदिति गुणीभूतव्यङ्गधम् ।। अस्फुटं यथा- वीररुद्रकृपाणस्य महिमा कोऽप्यनङ्कुशः । प्रसूते कीर्तिगङ्गां यः पीत्वा द्विषदस्ङनदीम् ॥ ६३ ॥ अत्र कृपाणस्य जह्नोराधिक्यप्रतिपांदनात् व्यतिरकः परमस्फुटः प्रतीयते।। संदिग्धप्राधान्यं यथा- काकतिक्ष्मापतेर्दष्टिरनुरागतरङ्गिता। लग्ना कल्हारमालेव वध्वास्तुङ्गे कुचद्वये ॥ ६४ ॥ अत्रालिङ्गनेच्छायां वाक्यविश्रान्तिरथवा स्तनमण्डलालोक एवेति संदेहः ॥ तुल्यप्राधान्यं यथा- नृपा: प्रतापरुद्रस्य निषेवध्वं पदाम्बुजे। अन्यथास्य मनस्तादक्प्रसादं कलुषायते ॥ ६५ ॥ सिद्धस्य वाच्यस्योपोद्वलकादपराज्ञादस्य भेदो दर्शित इति वैदितव्यम्। उदा- हरति-कराल इति॥ अत्र जलधारा व्यङ्गच्ेति॥ अभिधायाः प्रकरणात् खन्नधारायामेव नियन्त्रणादिति भावः । अत एव न श्रेष इत्युक्तं वाहिन्यः काकतीन्द्रस्येत्येतद्वयाख्यानावसरे ॥ ६२ ॥ रूपकस्य सिद्धिकृदिति ॥ यतो रूपकं ख्वनिर्वाहाय प्रतीयमानजलधारामपेक्षते। अन्यथा करवाल एव नवाम्बुदः, करवालो नवाम्बुद इवेति वा रूपकोपमितसमासयोः संदेहः स्यात्। न चात्र प्रयुज्यमानस्य करालत्वस्योपमितसमासबाधकत्वम्। केवलकरवालविशेषणत्वाज्गी- कारेण समानधर्मत्वाभावात्। न चास्तु नाम संदेह इति वाच्यम्। साधक- बाधकाभाव एव तस्यालंकारत्वादिति ॥। अस्फुटमुदाहरति-चीररुद्रेति॥ जहुः पीतामेव नदीं पुनरजीजनदयं पुनरन्यथेत्युपमानादुपमेयस्याधिक्य- लक्षणस्य व्यतिरेकस्य विलम्बेन प्रतीतेरस्फुटमित्याह-अत्रेति ॥ ६३ ॥ संदिग्धप्राधान्यमुदाहरति-काकतीति । अत्रालिक्कनेच्छारूपव्यज्ञयस्य चम- त्कारकारित्वात् प्राधान्यमुत वाच्यस्येति संदेहात् संदिग्धप्राधान्यमत्रेत्याशये- नाह-अत्रालिङ्गनेति ॥ ६४ ।। तुल्यप्राधान्यमुदाहरति-नृपा इति ॥

Page 77

६८ प्रतापरुद्रीये रत्नापणसहिते

अत्र प्रतापरुद्रस्य पादसेवा यदि त्यज्यते तदानीं नगरेषु वासो दुर्लभ इति व्यङ्गयार्थस्य वाच्यस्य च समं प्राधान्यम् ।। असुन्दरं यथा- *एअसिलामहिलाणं सोऊण णरेंददंसणामोअं। गुरुअणणिअंतिआए बहुआए सामलं वअणं ॥ ६६ ।। अत्र नरेन्द्रदर्शननिमित्तं हर्षमुत्पश्यन्त्या वध्वा मुखं श्यामल- मिति वाच्यस्यैव चारुत्वम् ! गुरुजननियन्त्रिताहं नरेन्द्रं द्रष्ुं न गतवत्यस्मि इति व्यङ्गथार्थस्याचारुत्वम् ।। यत्र काक्कार्थान्तरमाक्षिप्यते तदपि गुणीभूतव्यङ्गमेव। यथा- पिअसहि कहेहि अहिआ खोणी लच्छी सरस्सई मज्झा। जां बहु मण्णइ सोअं णरणाहो गुणविसेसण्णो ॥ ६७ ॥ *एकशिलामहिलानां श्रुत्वा नरेन्द्रदर्शनामोदम्। गुरुजननियन्त्रिताया वध्वाः श्यामलं वदनम् ॥ +प्रियसखि कथयाधिका क्षोणी लक्ष्मीः सरखती मत्तः । यां बहु मन्यते सोऽयं नरनाथो गुणविशेषज्ञः ॥ अकलुषं कल्ुर्ष भवति कलुषायते। लोहितादित्वात् क्यष्प्रत्ययः । 'वा क्यषः' इत्यात्मनेपदम् । सर्वत्र कविना व्यज्ञनैकप्रवणेन भाव्यम् । अत्र तु वाच्यस्य व्यज्गयेन सह समप्राधान्यसंपादनात् गुणीभाव इति भावः । प्राधान्यस्य संदेह- सादृश्ययोः सहृदय एव प्रमाणम् । उद्धतैरन्यथापि वक्तुं शक्यत्वादित्युक्तं भट्ट- गोपालेन ॥ ६५ ॥ सप्तममुल्ङ्मय बुद्धिस्थत्वादष्टमं भेदमुदाहरति-असुन्दर- मिति॥ एतेनैतेषामुद्देशक्र्मो न विवक्षित इति सूच्यते। एअसिलेति॥ अत्र गुरुजनपराधीना काचिदेकशिलामहिलानां नरेन्द्रसंदर्शनसंतोषमहालाभ श्रुत्वा मलिनमुखाभूदिति वाच्यस्यातिचारुत्वादात्मनस्तदलाभरूपस्य व्यज्गयस्यासुन्दर- त्वमित्याह-अत्र नरेन्द्रेति॥ ६६॥ अवशिष्टं भेदमाचष्टे-यत्र काक्केति। काकुर्नाम शब्दधर्मः। तत्प्रयोगे सर्वत्र शब्दस्पृष्टत्वेन व्यज्यस्य गुणीभाव एव । तदुक्त लोचने-'काकुयोजनायां सर्वत्र गुणीभूतव्यज्ञयतैव' इति। काव्य- प्रकाशकारस्तु 'गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु' इत्यादौ क्वचित् काको: प्रश्नमात्रपर्यवसानात् व्यज्ञयस्य मयि न योग्यः खेद: कुरुषु योग्य इत्येवंरूपस्य गुणीभावानौचित्येन प्राधान्यात् ध्वनित्वमप्यज्ञीचकार। उदाहरति-पिअस- हीति ।। 'मइमममहमज्झ उसौ' इति पश्वम्येकवचनेऽस्मदो मज्झादेशः ।

Page 78

काव्यप्रकरणम्। ६९:

अत्र क्षोणी मदधिकेति काकुकल्पनयाधिका न भवतीति वस्तु व्यज्यते । चिंत्रं तु काव्यं शब्दार्थालंकारचित्रतया बहुविधम्। तत्प्रपख्चोऽ- प्यलंकारप्रकरणे व्यक्तीभविष्यति। ।। महाकाव्योपकाव्यादिप्रबन्धनिरूपणम् ॥ अथ महाकाव्याद्यः प्रबन्धा निरूप्यन्ते। नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनम्। उद्यानसलिलक्रीडामधुपानरतोत्सवाः ॥ ६८ ॥ विप्रलम्भो विवाहश्च कुमारोदयवर्णनम्। मन्त्रद्यूतप्रयाणाजिनायकाभ्युदया अपि ॥ ६९ ॥ एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमुच्यते। एषामष्टादशानां यैः कैश्रिदूनमपीष्यते॥ ७० ॥ तत्त्रिविधम्। गद्यमयं पद्यमयमुभयमयं चेति। अपादः पदसंघातो गद्यं पद्यं चतुष्पदम्। गद्यकाव्यं कादम्बर्यादि। पद्यकाव्यं रघुवंशादि। असर्गबन्धमपि यदुपकाव्यमुदीर्यते ॥ ७१॥ असर्गबन्धं सूर्यशतकादि। गद्यपद्यमयं काव्यं चम्पूरित्यमिधीयते। वक्त्रं चापरवक्त्रं च सोच्छासत्वं च भेदकम् । ७२।।' 'डसेरलुक्' इति वैकल्पिको लुक्। शित्वात् पूर्वस्य दीर्घ: । अत्राधिक्यनिषेधस्य वाचकाभावात् केवलवाच्यसामर्थ्यलभ्यत्वेन व्यङ्गयत्वम्। तस्य च काकुसंस्प- शाद् गूढत्वकृतच्ारुत्वातिशयभज्ञेन गुणीभूतत्वमेव। तदेतत् सर्व मनसि निधा- याह-अन्नेति॥। ६७ ॥ अधमकाव्यप्रपश्चोऽलंकारप्रकरणे भविष्यतीत्याह- चित्रं त्विति। पूर्व प्रबन्धानां ध्वन्याश्रयत्वमुक्तम्। तत्स्वरूपस्य लक्षणमन्तरेण दुर्ज्ञेयत्वात् तन्निरूपणं प्रतिजानीते-अथेति । तत्र महाकाव्यलक्षणमाह- नगरेत्यादिना ॥ एतच्च सर्गनिबन्धचतुर्वर्गफलचतुरोदात्तनायकत्वादीनामुप -- लक्षणम्। तत्प्रपश्चस्तु काव्यादर्शे द्रष्टव्यः ॥ ६८-७१ ॥ चम्पूकाव्यं दम- यन्त्यादि। आख्यायिका नाम गद्यकाव्यविशेषः । तल्वक्षणमाह-वक्त्रमिति । .

Page 79

७० प्रतापरुद्रीये रत्नापणसहिते

वर्ण्यते यत्र काव्यज्ञैरसावाख्यायिका मता। *यत्र वक्त्रापरवक्त्रनामानौ वृत्तविशेषौ व्ण्येते सोच्छासपरि- च्छिन्नाख्यायिका हर्षचरितादि । । क्षुद्रप्रबन्धनिरूपणम् ॥ अथ क्षुद्राः प्रबन्धा निरूप्यन्ते । येन केनापि तालेन गद्यपद्यसमन्वितम्। ७३॥ जयत्युपक्रमं मालिन्यादिप्रासविचित्रितम्। तदुदाहरणं नाम विभक्त्यष्टकसंयुतम्॥७४॥ यत्रादौ जयत्युपक्रमं मालिन्यादिवृत्तं रम्यं पद्यं निबध्यते, अन- न्तरम् 'अपि च' इत्युपक्रमाण्यष्टवाक्यानि सप्रासानि सताळानि प्रति- विभक्ति निबध्यन्ते, अनन्तरं विभक्त्याभासाः, तत् उदाहरणम्। संबोधनविभक्त्या यत् प्रचुर पद्यपूर्वकम्। उच्छवासः सर्गादिरिव परिच्छेदभेदः । भेदकमिति ॥ कथाया इति शेषः । तदुक्तममिनवगुप्ताचार्यैः । 'आख्यायिकोच्छवासादिना वक्त्रापरवक्त्रादिना युक्ता । कथा तु तद्विरहिता' इति। दण्डिना पुनरुभयोरनामिमात्रभेदो न जाति- भेद इत्युपपादितम् । 'तत्कथाख्यायिकेत्येका जातिः संज्ञाद्वयाङ्किता' इत्यादिना । वक्त्रं नामाष्टाक्षरपादो मात्रावृत्तविशेषः । अपरवक्तूमर्धसमवृत्तभेदः। उभयो- र्लक्षणं तु वृत्तरत्नाकरे 'वक्त्रं नाद्याजसौ स्यातामब्धे्योऽनुष्टुमि ख्यातम्' 'अयु- जि ननरला गुरुः समे तदपरवक्त्रमिदं नजौ जरौ ॥' इति। अथ क्षुद्र प्रबन्धेषू- दाहरणस्य लक्षणमाह-येन केनेति॥ तालेन चश्चत्पुटादिना, गद्यैः क्रमेण कलिको- त्कलिकापरपर्यायैर्विभक्तिविभक्तयाभासाङ्कितैर्वाक्यैः, पद्ैः प्रतिवाक्यमादौ तत्तद्वा- क्यसमानविभक्तिकनायकनामाङ्कितैः शरोकैश् समन्वितम् । मालिनी नाम वृत्त- विशेषः । 'ननमयययुतेयं मालिनी भोगिलोकैः' इति लक्षणात्॥ ७२-७४॥ अत्र लक्षणस्य न्यूनत्वाद्वर्तमानपदानां च संकीर्णत्वादुभयं वारयन् व्याचष्टे- यत्रेत्यादिना ।। अत्र संबोधनविभक्तिरष्टमी। प्रबन्धान्ते सर्वविभक्तक्कितो नवमश्लोकश्वेत्यादिविशेषाणां साक्षिश्ोकाः साहित्यचिन्तामणौ द्रष्टव्याः । अन्ते कविप्रबन्धनामाङितं पद्यविशेषं कुर्यात् । तदुक्तम् 'अन्तेऽनुष्टुभमार्या वा कवि- कृत्याख्ययान्विताम्। कुर्याच्चाटुप्रबन्धानामयं साधारणो विधिः ॥' इति। चक्र- वाललक्षणमाह-संबोधनेति ॥ पद्यपूर्वकमित्यनेन गद्यानां कलिकात्वेनानु- *कोशान्तरे वाक्यमिद नोपलभ्यते।

Page 80

काव्यप्रकरणम् । ७१

विमुक्तपुनराकृष्टशब्दं स्याच्चकवालक्म् ॥ ७५॥ आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका । अष्टभिर्वा चतुर्मिर्वा वाक्यैः स्कन्धसमन्विता ॥ ७६ ॥ प्रतिस्कन्धं भिन्नवाक्यरीतिर्देवनृपोचिता। सर्वतो देवशब्दादिरेषा भोगावली मता ॥ ७७॥ वर्ण्यमानाङ्कविरुदवर्णनप्रचुरोज्ज्वला। वाक्याडम्बरसंयुक्ता सा मता बिरुदावली॥। ७८ ।। ताराणां संख्यया पद्ैर्युक्ता तारावली मता। एवं कविप्रौढोक्तिसिद्धाः क्षुद्राः प्रबन्धा यथासंभवमूद्याः । अथै- तेषामुदाहरणानि विस्तरभयादिह नोक्तानि ।। इति श्रीविद्यानाथविरचिते प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे काव्यप्रकरणं समाप्तम् ॥ प्रवेश उक्तः । विमुक्तः सन् पुनराकृष्टो विमुक्तपुनराकृष्टः । स्रातानुलिप्तादिवत् पूर्वकालसमासः । तथाभूतः शब्दो द्वित्राक्षरपद यस्य तत् तथोक्तम्। शृङ्गलि- तदलाद्यन्तपदमित्यर्थः । अत्र गद्यपद्ययोरावृत्त्यादिकमन्यतो द्रष्टव्यम्। तदुक्तम्- 'ओजस्विपद्भूयिष्ठमाद्यन्ताशीःसमन्वितम्। चतुर्धा वाष्टधा वृत्तं चक्रवालं प्रच- क्षते ॥' इति॥७५॥ भोगावलीमाह-आद्यन्तेति ॥ स्कन्धः परिच्छेदभेदः। अत्र भोगोपकरणोद्यानवसन्तनायकगुणादिवर्णनं प्रायेण कर्तव्यम्॥ ७६-७७॥ बिरुदावलीमाह-वर्ण्यमानेति ।। अत्र खवविक्रमकुलक्रमागंतबिरुदवर्णनाति- रिक्तं भोगावलीवत् द्रष्टव्यम्॥७८॥ तारावलीमाह-ताराणामिति॥ संख्यया सप्तविशत्येत्यर्थः ॥ नन्वन्येऽपि चतुरुत्तरचतुर्भद्रादिचाटुप्रबन्धाः किमिति न लक्ष्यन्ते इत्यत्राह-एवमिति॥ उदाहरणानुक्तौ हेतुमाह-अथेति ॥ इति पदवाक्यप्रमाणपारावारपारीणश्रीमहोपाध्यायकोलचलमहिनाथ- सूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणेः पेद्दयार्यस्यानुजेन कुमारखामिसोमपीथिना विरचित प्रतापरुद्रीयव्याख्याने रत्नापणाख्याने काव्यस्रूपनिरूपण नाम द्वितीयं प्रकरणम् ।

Page 81

॥ अथ नाटकप्रकरणम् ।

॥ अथ नाट्यप्रधानाः प्रबन्धा निरूप्यन्ते ॥ तत्र नाट्यस्वरूपं निरुप्यते। चतुर्विधैरभिनयैः साच्विकाङ्गिकपूर्वकैः। धीरोदात्ताद्यवस्थानुकृतिर्नाट्यं रसाश्रयम् ।। १ ॥ भावाश्रयं तु नृत्यं स्यानत्तं ताललयान्वितम्। एषा दशरूपकोक्ता प्रक्रिया। नृत्तनृत्ययोर्नाटकाद्यक्गत्वादिह स्व- अथ श्राव्यप्रबन्धनिरूपणानन्तरं नाटकादिदृश्यप्रबन्धनिरूपणं प्रतिजानी- ते-अथेति ॥ अमिनयत्यमिव्यनक्ति पदार्थानित्यमिनयः । पचाद्यजन्तः । 'अभिपूर्वस्तु नीव्धातुराभिमुख्यार्थनिर्णये । यस्मात्, पदार्थान् नयति तस्माद- 'मिनय: स्मृतः ॥' इति । तैश्रतुर्विधैः । तत्र परगतसुखदुःखभावनया भावि- तान्तःकरणत्वं सत्त्वम् । ततो भवा भावाः सात्त्विकाः स्तम्भादयः । तद्मि- नयोऽनिमेषनयनत्वादिः । अ्ञ्ञं हस्तादि। तद्यापारः पताकादिराज्विकामि- नयः । पूर्वशब्देन वाचिकाहार्यामिनयौ गृह्ेते। अत्र पाठ्यापरपर्यायं काव्य- नाटकरूपं वाचिकम्। तदमिनयो रसोचितरागानुषज्ञादिः । 'आहार्याभिनयो नाय्योचितालंकारधारणम् ।' अमिनयादिलक्षणं तु संगीतचूडामणौ-अमिव्य- जन् विभावानुभावादीन् नाटकाश्रयान्। उत्पादयन् सहृदये रसज्ञानं निरन्तरम् ॥ अनुकर्तृस्थितो योऽर्थोडमिनयः सोऽमिधीयते । आज्विको वाचिकश्चैव सात्त्वि- काहार्यकाविति ॥ स चतुर्धा कृतस्तज्ज्ञैराज्जिकोऽअक्रियोच्यते। रागानुषज्नि यद्वा- क्यं नाट्ये तद्वाचिकं स्मृतम् । सत्त्वक्रिया सात्विकं स्यादाहार्यो भूषणादिकम् ॥' इति। धीरोदात्तादिनायकानामवस्था धीरोदात्तादयः। अनियतत्वादवस्थात्वमेव तेषां न. जातित्वमित्युक्तं नायकप्रकरणे। तासामनुकृतिरनुकरणं चतुर्विधामि- नयेनामिनेयतादात्म्यापत्तिरित्यर्थः । रसाश्रयमिति ॥ वक्ष्यमाणक्रमेण वा- क्यार्थीभूतरसविषयमित्यर्थः । अतोऽत्र वाक्यार्थामिनय इति वेदितव्यम्। नट अवस्पन्दन इत्यस्माद्धातोरीषच्चलनार्थाण्ण्यत्प्रयये नाट्यमिति व्युत्पत्त्या सात्वि- कामिनयबाहुल्यं सूच्यते ॥ १ ॥ प्रसञ्ान्नृत्यनृत्तयोर्लक्षणमाह-भावेति ॥ भावाः पदार्थीभूता विभावाद्या आश्रया विषयत्वेन यस्य तत् भावाश्रयम्। अत एवात्र पदार्थामिनयो द्रष्टव्यः । नृतेर्गा्रविक्षेपवाचिनो निष्ठान्तादर्हाथ यति नृत्यमिति व्युत्पत्त्या आद्विकामिनयबाहुल्यं सूच्यते। अत एव नाय्याद्गेदद्योत- कस्तुशब्दः। रसविषयं सातत्विकबहुलं नाट्यम्। भावविषयमात्ञिकबहुलं मार्गा- परपर्याय नृत्यमिति विवेकः । नृत्तमिति ॥ गीतादिपरिमाणावच्छेदः कालवि-

Page 82

नाटकप्रकरणम् । ७३

रूपनिरूपणं कृतम्। तथोक्तं दशरूपके- मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः । लास्यताण्डवरूपेण नाटकादयुपकारकम् ।' इति। तेन नाट्येन दश रूपकाणि भवन्ति । नाटकं सप्रकरणं भाण: प्रहसनं डिमः । व्यायोगसमवाकारौ वीध्यङ्केहामृगा दश ॥ २ ॥ नाट्याश्रयत्वेनाभेद इति शङ्का न युज्यते। वस्तुनेतृरसास्तेषां रूपकाणां हि भेदकाः ॥ ३ ॥ वस्तु त्रिविधम्-प्रख्यातमुत्पाद्यं मिश्रं चेति। तथोक्तं दशरूपके 'प्रख्यातोत्पाद्यमिश्रत्वभेदात् तत्त्रिविधं मतम्' इति । इतिहासनिबन्धनं प्रख्यातम्, कविकल्पितमुत्पाद्यम्, संकरायत्तं शेषस्तालश्षञ्चत्पुटादिः । तदुक्तम्-'कालो लघ्वादिमितया क्रियया संमितो मितिम्। गीतादेर्विदधत्ताल: स च द्वेधा वुघैः स्मृतः ॥' इति। लयोऽपि 'ताला- न्तरालवर्ती यः कालोऽसौ लयनाल्लयः' इत्युक्तलक्षणः कालविशेषः । एतदुभ- याश्रयं देश्यापरपर्यायं नृत्तमित्यर्थः । अस्य सवकपोलकल्पितत्वं परिहरति- एषेति॥ नृत्येति॥ क्वचिदवान्तरपदार्थामिनयेन शोभाहेतुत्वेन च नाटकादावु- पयोगात्तदज्त्वमिति विज्ञेयम्। तदेतत्संवादव्याजेनानयोः पुन्द्वैविध्यमाह-मधुरे- ति। मधुरं लास्यमुद्धतं ताण्डवमित्यर्थः । तेनेति ॥ नृत्यनृत्तोपकृतेनेत्यर्थः । दश रूपकाणीति॥ नाटिकासट्टकादीनामत्रैवान्तर्भावादिति भावः । तत्प्रका- रस्तु दशरूपके द्रष्टव्यः । नाव्यामेदेऽपि वस्त्वादिभेदाद्रूपकभेद इत्याह- नाट्याश्रयत्वेनेति ॥ वस्तु कथाशरीरम् । तस्येतिवृत्तमिति नामान्तरम् । तदुर्क भावप्रकाशे-'वस्तु यत् स्यात् प्रबन्धस्य शरीरं कविकल्पितम्। इतिवृत्तं तदेवाहुर्नाव्यामिनयकोविदाः ॥।' इति। तत् द्विविधम्-आधिकारिकं प्रासत्निकं चेति। तत्राधिकार: फलस्वाम्यं, तद्वानधिकारी। अधिकारेणधिकारिणा वा निर्वृ- त्तमाधिकारिकं प्रधानम्। यथा रामायणे सीतारामवृत्तान्तः । प्रसञ्ञेन निर्वृत्तं प्रासत्निकमज्ञभूतम्। तत्तु द्विविधम्-पताका प्रकरी चेति। तत्र दूरानुवर्तिनी कथा पताका । यथा सुग्रीवादिवृत्तान्तः । अल्पानुवर्तिनी प्रकरी। यथा जटायु- इश्रमणादिवृत्तान्तः ॥ ३ ॥ एवमेकमाधिकारिकं द्विविधं प्रासत्िकमिति त्रैविध्यं सिद्धवत्कृत्य पुनस्त्रैविध्यमाह-वस्तु त्रिविधमित्यादि॥ प्रख्यातं महावीर- चरितादि। उत्पादयं मालतीमाधवीयादि। मिश्रमुत्तररामचरितादि । एवमाधि- कारिकपताकाप्रकरीणां प्रत्येक प्रख्यातादिभेदमिनत्वेन त्रैविध्ये वस्तुनो नववि- प्र 7

Page 83

७४ प्रतापरुद्रीये रत्नापणसहिते

मिश्रं चेति एवमादिवस्तुभेदान्नायकभेदाद्रूपकाणां परस्परं भेद: । तथा हि-नाटके प्रख्यातमितिवृत्तम्, धीरोदात्तो नायकः, शरृङ्गार- वीररसयोरन्यतरस्य धान्यम्, अन्येषां रसानामङ्गत्वेनानुप्र- वेशः। प्रकरणे उत्पाद्यमितिवृत्तम्, धीरशान्तो नायकः, शृङ्गाररस- स्यैव प्राधान्यम्। भाणे उत्पाद्यमितिवृत्तम्, धूर्तविटो नायक:, शृङ्गारवीरयोः सूचनामात्रसारता। प्रहसने कल्प्यमितिवृत्तम्, पा- षण्डप्रभृतयो नायकाः, हास्यरसः प्रधानम्। डिमे प्रख्यातमिति- वृत्तम, देवगन्धर्वपिशाचादयो धीरोद्धता नायकासते षोडश, रौद्ररस: प्रधानम्, वीरशृङ्गारयोरनुप्रवेशः । व्यायोगे प्रख्यात- मितिवृत्तम्, धीरोद्धतो नायकः, वीररसः प्रधानम्। समवाकारे देवासुरादयो द्वादश नायकाः, वीररसः प्रधानम्, कल्पितमिति- वृत्तं प्रसिद्धं वा। वीध्यां कल्पितमितिवृत्तम्, धीरोद्धता नायक:, शृङ्गाररसस्य सूचनामात्रसारता। अङ्के प्रख्यातमितिवृत्तम्, प्राकृत- जनो नायकः, करुणरसः प्रधानम्। ईहामृगे मिश्रमितिवृत्तम्, धीरोद्धतो नायकः, शृङ्गाररसस्याभासत्वम्। अथ तेषां सामग्री निरूप्यते। तत्र पञ्च सन्धयः । तथा चोक्तं दशरूपके- 'मुखं प्रतिमुखं गर्भः सावमर्शोपसंहृतिः' इति। संधिर्नामैकेन प्रयोजनेनान्वितानां कथानामवान्तरप्रयोजनसंबन्धः । धत्वं विज्ञेयम्। एतदेवाभिप्रेत्याह-एवमादिवस्तुभेदादिति ॥ दिव्य- मर्त्योभयात्मना वस्तुनः पुनरपि त्रैविध्याश्ीकारे तद्वदन्येऽपि वहवो भेदाः कल्प- यितुं शक्यन्त एव। लक्ष्येषु ते खयमेवोहनीया इति विस्तरमिया नेह पृथगव्यु- त्पाद्यन्ते। वस्त्वादयो रूपकभेदका इत्युक्म् । तद्विविनक्ति-तथा हीत्या- दिना॥ स्पष्टोऽर्थः । वस्त्वादिभेदादरूपकभेदो निरूपितः । अधुना वस्त्वेकदेश- विशेषभूतसंध्यादिस्वरूपं निरूपयति-अथेत्यादिना ॥ तत्र संमतिव्याजेन संधीनां विभागमाह-मुखमिति॥ सावमर्शा अवमर्शसहिता उपसंहृतिर्वि- मर्शों निर्वहणं चेत्यर्थः । एतेषां सामान्यलक्षणमाह-सन्धिरिति॥ प्रयोजन- मत्र त्रिवर्गरूपं फलम्। तच्च धर्मार्थकामेष्वेकैकस्य सवंव्यतिरिक्ताभ्यां द्वाभ्यामुप- सर्जनाभ्यां व्यासेन समासेन च संबन्धे कैवल्ये च द्वादशविधम्। तदुक्तम्-

Page 84

नाटकप्रकरणम् । ७५

तत्रारम्भबीजसंबन्धो मुखसंधिः । प्रयत्नबिन्दुसंबन्धः प्रतिमुखसंधिः। प्राप्त्याशापताकयोः संबन्धो गर्भसंधिः। नियताप्तिप्रकर्योः संबन्धो विमर्शसंधि:। फलागमकार्ययोः संबन्धो निर्वहणसंधिः। तथा चोक्तं दशरूपके- 'बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणाः ।

अर्थप्रकृतयः पख् पञ्चावस्थासमन्विताः । यथासंख्येन जायन्ते मुखाद्याः पञ्च संधयः ॥' इति। अथारम्भादीनां लक्षणं निरूप्यते -- औत्सुक्यमात्रमारम्भः फललाभाय भूयसे। प्रयत्नस्तु फलाप्राप्तौ व्यापारोऽतित्वरान्वितः ॥।४ ।।

'फलं त्रिवर्गस्तच्छुद्धमेकानेकानुबन्धि च' इति। तेनैकेन मुख्येनान्वितानामिति- वृत्तखण्डानामवान्तरैकप्रयोजनसंबन्धः संधिरित्यर्थः । तदुक्तम्-'एककार्यान्वि- तष्वत्र कथांशेषु प्रयोगतः । अवान्तरैककार्यस्य संबन्धः संधिरिष्यते ॥' इति। अथावस्थार्थप्रकृतिसंबन्धे मुखादिसंधयो जायन्त इत्याह-तत्रेति ।। अत्र संमतिमाह-बीजेति ॥ अर्थप्रकृतयः प्रयोजनसिद्धिहेतव इति केचित्। कथा- शरीरकारणानीति भोजराजादयः । तद्विशेषाः पूर्वोक्ता बीजादयः पञ्च। फल- सिद्धये स्वीक्रियमाणस्य नायकव्यापाररूपस्योपायस्य पूर्वोक्का आरम्भादयः पश्चावस्था भवन्ति। तदुक्तम्-'अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिमिः' इति। तदेतदुभयसंबन्धे पञ्च संधयो जायन्त इत्यर्थः । तत्र साधनत्वात् बीज- स्यादावुपक्षेपः । साध्यत्वात् कार्यस्यान्ते। अविच्छेदार्थ बिन्दोस्तयोर्मध्ये। पताकाप्रकर्योस्तु बीजकार्ययोर्मध्ये यथायोगं निवेश इति विज्ञेयम्। तत्र पताका- या विकल्पमाह कोहलः । तन्मते पताकास्थाने 'अपताके निवेशः स्याद्विन्दो- र्बीजस्य वा क्वचित्' इति भावप्रकाशोको विशेषो द्रष्टव्यः । अवस्थानामुद्देश- क्रमः सामर्थ्यलब्धः स्पष्ट एव। अवस्थापथ्चकं क्रमेण लक्षयति-औत्सु- क्येति॥ कालाक्षमत्वलक्षणोऽमिलाषप्रकर्ष औत्सुक्यम्। मात्रशब्दो वक्ष्यमाण- प्रयन्नादिव्यवच्छेदकः । फलस्य त्रिवर्गरूपस्य लाभाय न पुनः क्षुद्रस्य। अत्र फलगतं भूयस्त्वं लाभे उपचर्यते। नायकव्यापारस्य स्रूपार्त्किंचिडुच्छूनत्वमा- रम्भ इत्यर्थ: ॥ ४ ॥ आरम्भादीनां सर्वेषां नाटक एवोदाहरणं भविष्यतीति लक्षणमात्रमन्न परीक्ष्यते। प्रयत्नस्त्विति ॥ फलाप्राप्ताविति सतिसप्तमी।

Page 85

७६ प्रतापरुद्रीये रत्नापणसहिते

उपायापायशङ्काभ्यां प्राप्त्याशा कार्यसंभवः । अपायाभावतः कार्यनिश्चयो नियताप्तिका ॥५॥ समग्रफलसंपत्ति: फलागम उदाहृतः । अथ बीजादिपञ्कं निरुप्यते- स्तोकोदिष्टः कार्यहेतुर्बीजं विस्तार्यनेकधा ॥ ६ ॥ अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्। प्रतिपाद्यकथाङ्गं स्यात् पताका व्यापिनी कथा ।। ७ ॥ फलप्राप्ताविति पाठे विषयसप्तमी । कार्यसंपादनयोग्यता प्रयत्न इत्यर्थः । उपायेति॥ उपायेनापायशङ्कया च कार्यस्य संभवः संभावना प्रतिबन्धकोपनिपा- तेन शङ्कयमानत्वं प्राप्त्याशेत्यर्थः । नियताप्तिं लक्षयति-अपायेति ॥ प्रति- पक्षनिवृत्त्या कार्यनिथयो नियताप्तिरित्यर्थः । समग्रेति ॥ बाधकबाधनेन फलपर्यन्तत्वैकान्त्यं फलागम इत्यर्थः ॥ ५ ॥ अथार्थप्रकृतिपञ्चकं क्र्मेण लक्षयति-स्तोकेति ॥ स्तोकोहिष्टः खल्पोपक्षिप्ः अनन्तरमनेकधा मूलस्कन्ध- शाखापलाशादिवन्नायकोपनायकप्रतिनायकमेदेन बहुधा विस्तारी कार्यस्य त्रिवर्ग- रूपस्य फलस्य यो हेतुस्तद्वीजमिव बीजम्। तथ्ब कचिदात्माधीनसिद्धेर्नाय- कस्यात्मोत्साहात्मकं, क्वचिदमात्याधीनसिद्धेस्तदुत्साहात्मकं, क्वचिदुभयाधीन- सिद्धेरुभयोत्साहात्मकं चेति द्रष्टव्यम् । अत्रामात्यगतोऽप्युत्साहो याजकव्यापारो यजमानस्येव नायकस्यैव फलं जनयतीति बोद्धव्यम्। अवान्तरेति ॥। अवान्तरारथैरवान्तरप्रयोजनैर्विच्छेदे सामर्थ्यात् परमप्रयोजनस्येति भावः । तद- विच्छेदकारणं बिन्दुः। तदुक्तं भावप्रकाशे-'फले प्रधाने विच्छिन्ने बीजस्या- वान्तरैः फलैः । तस्याविच्छेदको हेतुर्बिन्दुरित्याह कोहलः ॥' इति ॥६ ॥ प्रतिपाद्यति । प्रतिपाद्यकथायाः फलोद्देशप्रवृत्तत्वेन प्रधानभूताया रामा- दिनायकव्यापाररूपाया अञञं तत्संबन्धित्वादिति भावः । तदुक्तमाचायैंः-'प्रधानं फलसंबन्धि तत्संबन्ध्यङ्गमिष्यते' इति। तथाभूता कथा सुग्रीवाद्युप- नायकव्यापाररूपा। पताका व्यापिनीत्यनेन प्रकरीव्यवच्छेदः । ननु' पताकाया- मपि पृथक्फलमिच्छन्ति शारदातनयादयः, सुग्रीवादीनां तथा दर्शनात्। नैतन्न्यायसहम्, अज्ञानां प्रधानफलेनैव फलवत्त्वनियमादिति चेन्नैष दोष :- दध्नेन्द्रियकामस्येत्यादावङ्गभूतानामपि दध्यादीनां फलसंबन्धान्वीकारात्। नन्वज्ग- प्रधानफलयोरेकाश्रयत्वं दृष्टान्ते, दार्ष्टान्तिके तु न तथेति वैषम्यमिति चेन्मैवम्- फलसंतुष्टस्यैवानुचरस्यार्थकरियाकारित्वेन तत्फलस्यापि ख्ामिफलत्वाभिमानात्।

Page 86

नाटकप्रकरणम्।

अव्यापिनी प्रकरिका कार्य निर्वाहकृत् फले। अथ मुखं निरूप्यते- मुखं बीजसमुत्पत्तिर्नानार्थरससंभवा ॥ ८ ॥ अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात्। बीजारम्भानुगुण्येन मुखसंधेरङ्गानि प्रयोक्तव्यानि। उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥ ९॥ युक्ति: प्राप्तिः समाधानं विधानं परिभावना ! उद्भेदभेदकरणान्यन्वर्थानि यथाऋ्रमम् ॥ १०॥ यथाक्रममेषां स्वरूपं निरूप्यते- अव्यापिनीति ॥ लघुः प्रकरः प्रकरी। गौरादित्वान्डीष्। तदुक्तम्-'त्री स्यात् काचिन्मृणाल्यादिर्विवक्षापचये यदि' इति। यथा पुष्पादिप्रकरः परेषा- मेव वेदिकादीनां शोभायै भवति एवमृतुवर्णनजटायुशश्रमणादिवृत्तान्तरूपा प्रकर्य- पि प्रधानस्यैव फलं जनयति न पुनः स्वस्येति ग्रन्थान्तरोक्तो विशेषो द्रष्टव्यः । अव्यापिनीति विशेषनिषेधस्तु पताकोक्तप्रतिपाद्यकथाअत्वमालाभ्यनुज्ञापर इति द्रष्टव्यम्। कार्यमिति । प्रधानफलनिर्वाहकोऽन्तिमः कथावयवः कार्यमि- त्यर्थः ॥ ७॥ इत्थमवस्था अर्थप्रकृतयश्च निरूपिताः । तदुभययुगलप्चकसमन्व- यसंभूतसंधिपथ्चकलक्षणं क्रमेणाह-मुखमित्यादिना ॥ एतदेव लक्षणं दश- रूपकादावप्युक्तम्। तत्र नानाभूतानामर्थानां प्रयोजनानां रसानां च हेतुर्बीजस- मुत्पत्तिर्मुखसंधरिति कश्चिद्याचष्टे। नानार्थशब्दस्य रसविशेषणत्वमशीकृत्या- नेकप्रकार प्रयोजनरसहेतुरित्यन्यः। मतद्वयेऽपि सर्वेष्वपि रूपकेषु लक्षणानुगति- लाभायार्थशब्दस्य त्रिवर्गव्यतिरिक्त प्रयोजनजातं विवक्षितम्। अत एवोक- मुभाभ्यां तेनात्रिवर्गफले प्रहसनादौ रसोत्पत्तिहेतोरेव बीजत्वमिति। भावप्रकाश- कारस्तु 'यथा कामोपयोग्यत्र शृज्जारो दृश्यते रसः । अर्थोपयोगी वीरः स्याद्रौद्रोऽ- पि स्यात् क्चित् क्वचित्॥ रक्षारूपेण धर्मार्थोपयोगी करुणो भवेत्। अ्भुतो- ऽपि मनःप्रीतिप्रदत्वात् कामसात्यकृत्।। ते भयानकबीभत्सहास्याः काव्येषु योजिताः । तत्तन्नेतृमनोवृत्तिवशात् प्रायस्त्रिवर्गगाः ॥' इत्यनेन शृज्गारादीनां न्यथायोगं त्रिवर्गोपयोगित्वमञ्ञीचकार। तन्मतेऽनेकविधत्रिवर्गलक्षणप्रयोजनक- रसहेतुत्वं विवक्षितम्। लक्षणानुगतिरपि सुलभैव। यदत्र युक्तं तद् ग्राह्यम्। अज्ञानामुत्पत्तिमाह-अङ्गानीति ॥८॥ उद्दिशति-उपक्षेप इति॥ अन्वर्था- नीति॥ न पृथक् लक्षणापेक्षेति भावः ॥९-१०। तथापि मन्द्बुद्धयनुग्रहार्थमुपक्षे- यादीनां क्रमेण लक्षणं प्रतिजानीते-यथाक्रममेषामिति। कण्टकशोधनमङ्ग- लक्षणानां यथायोगमुदाहरणप्रदेश एव करिष्यामः । मिथः प्रयोगक्रमो न विव-

Page 87

७८ प्रतापरुद्रीये रक्रापणसहिते

बीजन्यास उपक्षेपः । बीजस्य बहूकरणं परिकरः। बीजनि- ष्पत्तिः परिन्यासः। बीजगुणवर्णनं विलोभनम्। बीजानुकूलसंघट- नप्रयोजनविचारो युक्तिः । बीजसुखागमः प्राप्तिः । बीजसंनिधानं समाधानम्। बीजसुखदुःखहेतुर्विधानम्। बीजविषयाश्चर्यावेशः प- रिभावना। गूढबीजप्रकाशनमुद्गेदः। बीजानुगुणप्रोत्साहनं भेदः । बीजानुगुणप्रस्तुतकार्यारम्भ: करणम्। एतानि द्वादश मुखसंघे- रङ्गानि। एतेषां मध्ये उपक्षेपपरिकरपरिन्यासयुक्त्युद्गेदसमाधाना- नामावश्यकत्वम्। अथ प्रतिमुखसंधि :- लक्ष्यालक्ष्यस्य बीजस्य व्यक्ति: प्रतिमुखं मतम् । बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥ ११ ॥ बिन्दुप्रयत्नानुगुण्येन प्रतिमुखसंधेरङ्गानि प्रयोक्तव्यानि । विलास: परिसर्पश्र विधूतं शमनर्मणी। नर्मद्युतिः प्रगमनं विरोधः पर्युपासनम् ॥ १२ ॥ वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि। एषां स्वरूपं निरूप्यते- संभोगविषयमनोरथो विलासः। दृष्टनष्टपदार्थानुसरणं परिसर्पः। अनिष्टवस्तुविक्षेपो विधूतम्। अरत्युपशमनं शमः । परिहासवचनं नर्म। अनुरागोद्धाटनोत्था प्रीतिर्नर्मद्युतिः । उत्तरोत्तरवाक्यैरनुराग- बीजप्रकाशनं प्रगमनम्। छद्मना हितागमननिरोधनं विरोधः । इष्टज- नानुनयः पर्युपासनम्। प्रमुखनिध्ठुरवचनं वत्रम्। अनुरागप्रकाश- नविशिष्टवचनं पुष्पम् । अनुरागहेतुवाक्यरचनोपन्यासः । चतुर्वर्ण- निर्वर्णनं वर्णसंहारः । एतेषां मध्ये परिसर्पप्रगमनवज्रोपन्यास- पुष्पाणां प्राधान्यम् । क्षित इति वक्ष्यामः । अथ साञं प्रतिमुखसंधिमाह-लक्ष्येति॥ केनचिदंशेन लक्ष्यत्वमपरेणांशेनालक्ष्यत्वं चेत्यर्थः । प्रत्यङ्कनिबद्धकार्यानुकूलानेकप्रयोजनमध्ये कतिपयनिष्पत्तिर्लक्ष्यत्वं कतिपयानिष्पत्तिरलक्ष्यत्वं चेति मतान्तरम्। तादृशस्य बीजस्य व्यक्तिः प्रकाशनं प्रतिमुखमिति ॥ ११-१२ ॥ अथ सा्ज्ग गर्भसन्धि-

Page 88

नाटकप्रकरणम् । ७९.

अथ गर्भसंधि :- गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुह्ुः ॥१३॥ अस्याप्त्याशापाताकानुगुण्येनाङ्गोपकल्पनम्। पताकाप्रात्याशानुगुण्येन गर्भसंधेरङ्गानि प्रयोक्तव्यानि। अभूताहरणं मार्गो रूपोदाहरणक्रमाः ॥ १४ ॥ संग्रहश्चानुमानं च तोटकाधिबले तथा। उद्वेगसंभ्रमाक्षेपा द्वादशाङ्गान्यनुक्रमात् ॥१५॥ एषां स्वरूपं निरूप्यते- प्रस्तुतोपयोगिच्छझ्माचरणमभूताहरणम्। तत्त्वार्थानुकीर्तनं मार्गः । वितर्कप्रतिपादनवाक्यं रूपम्। प्रस्तुतोत्कर्षाभिधानमुदाहृतिः। संचि- न्तितार्थप्राप्तिः क्रमः। *प्रस्तुतोपयोगिसामदानवचनं संग्रहः। लिङ्गा- दभ्यूहनमनुमानम्। रोषसंभ्रमवचनं तोटकम्। इष्टजनातिसंधानम- धिबलम्। अपकारिजनात् भयमुद्वेगः । शङ्कात्रासौ च संभ्रमः । इष्टार्थोपायानुसरणमाक्षेपः । एतेषां मध्येऽभूताहरणमार्गतोटकाधि- बलाक्षेपाणां प्राधान्यम्। अथ विमर्शसंधि :- गर्भसंधौं प्रसिद्धस्य बीजार्थस्यावमर्शनम्। हेतुना येन केनापि विमर्शः संधिरिष्यते ॥ १६ ॥ नियताप्तिप्रकर्युक्तेरङ्गान्यत्र त्रयोदश। नियताप्तिप्रकर्यानुगुण्येन विमर्शसंधेरङ्गानि प्रयोक्तव्यानि। माह-गर्भ इति । प्रतिमुखसन्धौ लक्ष्यालक्ष्यतया दृष्टनष्टस्य बीजस्यापाय- शङ्कानुवृत्त्या विच्छेदानुवृत्तर्मुहुः पौनःपुन्येनान्वेषणं गर्भसंधिरिति। अत्र पता- काया वैकल्पिकत्वात् तदभावपक्षेऽपि प्राप्त्याशा नियतैव। पताकास्थाने तु बीज- बिन्द्वोरन्यतरस्य निवेश इत्यनुपदमेवोक्तम्॥ १३-१५॥ अथ साञं विमर्श- संधिमाह-गर्भसंधाविति । येन केनापि हेतुना क्रोधव्यसनादिनार्थस्यावम- शनं पर्यालोचनम्। क्रोधव्यसनादिजन्यो गर्भनिर्भिन्नबीजार्थसंबन्धः फलप्राप्त्यवसा- यात्मको विचारनिर्णयो विमर्श इत्यर्थः। तदुक्त्तम्-'गर्भनिर्मिन्नबीजार्थसंबन्धो *प्रस्तुतोपयोगिसमाधानवाक्यमिति पाठान्तरम् ॥

Page 89

.८० प्रतापरुद्रीये रत्नापणसहिते

तत्रापवाद: संफेटो विद्रवद्रवशक्तयः ॥१७॥ द्युतिः प्रसङ्गश्वलनं व्यवसायो निरोधनम्। प्ररोचनं विचलनमादानं तु त्रयोदश ॥ १८ ॥ एतेषां स्वरूपं निरुप्यत- दोषप्रख्यापनमपवादः । रोषसंभाषणं संफेटः। वधबन्धादिकं विद्रवः । गुरुतिरस्कृतिर्द्रवः । विरोधशमनं शक्तिः। तर्जनोद्वेजने दुतिः। गुरुकीर्तनं प्रसङ्ग: । उपमानं चलनम्। स्वशक्तिप्रशंसनं व्यवसायः । क्रोधसंरब्धानामन्योन्यविक्षेपो निरोधनम् । सिद्धव- द्वाविश्रेयःकथनं प्ररोचनम्। स्वगुणाविष्करणं विचलनम्। कार्य- संग्रह आदानम् । अथ निर्वह्णसंधि :- बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम्। ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥। १९ । फलाप्तिकार्यानुगुण्यादङ्गान्यस्य चतुर्दश। फलाप्तिकार्यानुगुण्येन निर्वहणसंधेरङ्गानि चतुर्दश प्रतिपादनी- यानि। संधिर्विरोधो ग्रथनं निर्णयः परिभाषणम् ॥ २०॥ प्रसादानन्दसमयाः कृत्याभाषोपगूहनम्। पूर्वभावोपसंहारौ प्रशस्तिश्व चतुर्दश ॥ २१ ॥ व्यसनादिजः । विचारनिर्णयो यस्तु स विमर्श इति स्मृतः ॥' इति ॥१६-१८॥ अथ साञं निर्वहणसंधिमाह-बीजवन्त इति ॥ संसर्गे मतुप्। बीज- युक्ता इत्यर्थः । यथायर्थ यथास्वं विप्रकीर्गा निजस्थानेषूपन्यस्ता इत्यर्थः । एको मुख्योऽर्थः प्रयोजनं येषां तेषां भावस्तत्वम्। यत्र बीजयुक्ता मुख- संध्याद्यर्थाः परमप्रयोजनसंबन्धं लभन्ते स निर्वहणसंधिरित्यर्थः। अत्रोपक्षेपा- दिषु यत्र क्वचन कार्यकारणभावसंद्भावस्तत्रैव क्रमोSश्ीकर्तव्यो न त्वन्यत्र। वस्तु- स्वरूपविचारे क्रमाज्ीकारे कारणाभावाल्क्ष्येषु व्युत्क्मदर्शनाच्च। तदुक्तम्- 'वस्तुनेतृरसादीनामानुगुण्येन योजयेत्। विवक्षितोऽत्र नान्नानां क्रम इत्येव निर्णयः ॥' इति। न च तेषां प्रधानवस्तुसंबन्ध एव निबन्धनीय इति वाच्यम्। अन्यथापि दोषाभावात्। तदुक्तं नाटकप्रकाशे-'उपक्षेपादयः प्रबन्धेष्वाधिका-

Page 90

नाटकप्रकरणम् । ८१

तेषां स्वरूपं निरूप्यते- बीजोपशमनं संधिः। कार्यमार्गणं विरोधः । कार्योपक्षेपणं ग्रथ- नम्। बीजानुगुणकार्यप्रख्यापनं निर्णयः । मिथोजल्पनं परिभाषा। पर्युपासनं प्रसादः। वाञ्छितार्थप्राप्तिरानन्दः । दुःखप्रशमनं सम- यः । लब्धस्थिरीकरणं कृतिः । प्राप्तकार्यानुमोदनमाभाषणम् । अद्भुतार्थप्राप्तिरुपगृहनम्। इष्टकार्यदर्शनं पूर्वभावः । कार्यार्थोपसं- हृति: संहारः । शुभशंसनं प्रशस्तिः । एवं चतुःषष्टयङ्गसमन्विताः पञ्च सन्धयः प्रतिपादिताः । एते- पां षट् प्रयोजनानि संभवन्ति-विवक्षितार्थप्रतिपादनं, गोप्यार्थ- गोपनं, प्रकाश्यार्थप्रकाशनं, अभिनयरागसमृद्धिः, चमत्कारित्वम्, इतिवृत्तविस्तरश्चेति । तत्रेतिवृत्तं सूच्यमसूच्यं चेति द्विविधम्। असूच्यमपि द्विविधं-दृश्यं श्राव्यं च। तत्र सूच्यस्य सूचनाक्रमः पञ्चविधः । तथोक्तं दशरूपके- रिका वा प्रासक्िका वा प्रयोक्तव्याः, यथा संदर्भस्य शोभायै भवन्ति" इति। १९-२१ ॥ विभज्य लक्षितानि संध्यक्ञानि संख्यया संकलय्योपसं- हरति-एवं चतुःषष्टीति । तत्राज्ञानां प्रयोजनमाह-एतेषामिति ॥ अभिनयरागसमृद्धिरिति ।I अमिनयदर्शनेन सामाजिकम नोरजनसमृद्धि - रित्यर्थः। नन्वेतेषां प्रयोजनकथनमनुपपत्नम्। अज्ञानां प्रधानफलेनैव फलवत्त्व- नियमादिति न वाच्यम्। तस्यादृष्टफलवत्त्वे नियतत्वात्। एतन्तु दृष्टं फलम् । तटुक्तं शृज्गारप्रकाशे-'अज्ञानां षड्विधं ह्ेतत् दृष्ट शास्त्रे प्रयोजनम्' इति।- प्रयोजनानामेतेषां लक्ष्येपूदाहरणमूहनीयमित्युपेक्ष्य पुनरपि वस्तुनो द्वेधा बिभा- गमाहं-तत्रेतिवृत्तमिति॥ द्वितीयं द्वेधा विभजति-असूच्यमिति॥ तत्र 'नीरसोऽनुचितस्तन्र संसूच्यो वस्तुविस्तरः। दृश्यस्तु मधुरोदात्तरसभावनि- रन्तरः॥' इयाद्यनयोर््यवस्था द्रष्टव्या। श्राव्यं चेत्यत्र चशब्दः श्राव्यगतावान्तर- भेदाननुक्तमश्राव्यभेद च समुच्चिनोति। श्राव्यं च सर्वश्राव्यं नियतश्राव्यं चेति द्विधा। द्वितीयं च जनान्तिकमपवारितं चेति द्विधा। एतेषां लक्षणं तु 'सर्व. श्राव्यं प्रकाशं स्यादश्राव्यं खवगतं मतम् ।।' 'त्रिपताककरेणान्यानपवार्यान्तरा" कथाम्। अन्योन्यामन्त्रणं यत् स्यात्तजनान्ते जनान्तिकम् ॥ रहस्य कथ्यते- ऽन्यस्य परावृत्त्यापवारितम् ।' इति । त्रिपताकग्रहणं पताकस्याप्युपलक्षणम्। तदुक तद्वेदिमि :- 'त्रिपताकः पताकश्च गण्डश्रोत्रं गतः करः। जनान्तिके रहस्ये च दोषे श्रवसि कीर्तितः ॥' इति। लक्षणं त्वनयोः संगीतरत्नाकरे-

Page 91

-८२ प्रतापरुद्रीये रत्नापणसहिते

'विष्कम्भ चूलिकाङ्कास्य प्रवेशा ङ्कावतारणैः' इति। एतेषां स्वरूपं निरूप्यते- वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥ २२॥ स द्विविधः । शुद्धः संकीर्णश्च्ेति। केवलसंस्कृतप्रायः शुद्धः । संस्कृतप्राकृतमिश्रितः संकीर्णः । अथ चूलिका-

यत्र नेपथ्यगतैः पात्रैरर्थः सूच्यते सा चूलिका। अथाङ्कास्यम्- अङ्कान्तपात्रैर ङ्कास्यमुत्तराङ्कार्थसूचना ॥ २३ ॥ यत्र पूर्वाङ्कान्तपात्रैरुत्तराङ्कार्थः सूच्यते तदङ्कास्यम्। अथ प्रवेशक :- वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । 'तर्जनीमूलसंलग्नकुश्चिताशुष्टको भवेत्। पताकः संहताकारः प्रसारिततलाङ्ुलिः ॥ स एव त्रिपताक: स्याद्वक्रितानामिकाङ्गुलिः ॥' इति। विष्कम्भेत्यादिश्लोकशेषः पुनः 'अर्थोपक्षेपकैः सूच्यं पञ्चमिः प्रतिपादयेत्' इति। प्रथमाङ्के प्रस्ावना- नन्तरं विष्कम्भं कुर्यादिति भोजराजः । अन्यत्राङ्कद्यमध्ये इत्यन्ये। मतद्वयमप्य- जीकृत्य तल्लक्षणमाह-वृत्तेति । वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः भूतभाविकथासूचक इत्यर्थः । संक्षेपार्थः संक्षेपैकप्रयोजनकः । मध्यपात्रणैकेना- नेकेन वा प्रयोजितः। तत्रैकमध्यपात्रोSनेकमध्यपात्रश्चेति शुद्धो द्विविधः। नीचमिश्रस्तु संकीर्ण एकविधः । तदुक्तम्-'एकानेककृतः शुद्धः संकीर्णो नीच- मध्यमैः' इति। तत्र संकीर्णेऽपि मध्यपात्रसंभवात् तत्प्रयोजितत्वं न विहन्यते। अत एव नात्र नायकपात्रप्रवेश इति वेदितव्यम् ॥ २२ ॥ चूलिकां लक्षयति- अन्तरिति॥ अन्तःप्रधाना यवनिका अन्तर्यवनिका तत्र संस्था येषां तैर्यवनि- कान्तर्वर्तिमिर प्रविष्टरज्वैरित्यर्थः । विशेष्यमध्याहृत्य व्याचष्टे-यत्रेति॥ अङ्कास्यं लक्षयति-अङ्कान्तेति॥ यत्र कुलाप्यङ्कान्तपात्रैरिति शङ्काककरमुत्पाटयन् व्याचष्टे-यत्र पूर्वेति॥ २३॥ प्रवेशकं लक्षयति-वृत्तेति॥ नीचपात्रैश्वेटी- प्रमुखैरेकेन द्वाभ्यां बहुमिर्वा मध्यमासंकी र्वृत्तवर्तिष्यमाणानां पूर्वोत्तराङ्शेषाणा-

Page 92

नाटकप्रकरणम् । ८३.

प्रवेशकस्तु नादेडक्के नीचपात्रप्रयोजितः ॥ २४ ॥ नीचपात्रप्रयुक्त: प्रवेशकः आद्येडङ्के न प्रयोक्तव्यः । अथाङ्कावतार :- यत्र स्यादुत्तराङ्कार्थ: पूर्वाङ्कार्थानुसंगतः। असूचिताङ्कपात्रं तदङ्गावतरणं मतम् ॥। एभिः सूच्यं सूचयित्वा दृश्यमङ्कैः प्रदर्शयेत् ॥ २५॥ तत्राङ्कस्वरूपं निरूष्यते- प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः । अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ २६ ॥ मेवेत्यर्थ:। अत एवास्य विष्कम्भवत् प्रथमेऽक्के न प्रवेश इत्याह-नाद्येSक्के इति॥ २४॥ अङ्भावतारं लक्षयति-यत्र स्यादिति॥ पूर्वोत्तराङ्कार्थयोर्वि- ष्कम्भादिविच्छेदेन न भाव्यमिति भाव: । असूचितेति ॥ पूर्वाङ्कवर्तिनामेव पात्राणामत्रानुप्रवेशान्न तत्सूचनमिति भावः । अङ्काभ्यन्तरभावित्वमङ्कास्याड्काव- तारयोः । भवेदङ्कवहिर्भावो विष्कम्भे च प्रवेशके॥ उभयं चूलिकायां तु यथा- योगमिति स्थितिः ॥ २५ ॥। दृश्यमङैः प्रदर्शयेदित्युक्तम् । तत्र कीदृशोऽङ्क इत्याका्कायामाह-तत्राङ्केति॥ प्रत्यक्षं रह्नप्रवेशेन साक्षानिर्दिश्य- मान नेतृधरितं नायकव्यापारो यत्र स तथोक्तः। बिन्दुव्यक्तिपुरस्कृतः बिन्दु- सूचनार्थ परिच्छिन्न इत्यर्थः । नानाप्रकारार्थानामनेकावान्तरप्रयोजनानां संवि- धानानां कथासंनिवेशवविशेषादीनां रसानामन्गभूतानामद्विनो वा रसस्य च 'न चातिरसतो दूरं वस्तु विच्छिन्नतां नयेत्। रसं वा न तिरोदध्यात् वस्त्वलं- कारलक्षणैः ॥' इत्युक्तरीत्या परस्परानुपमर्दिनामाश्रयः । अत्राङ्के 'दूराध्वानं वर्ध युद्धं राज्यदेशादिविप्लवम्। संरोर्ध भोजन स्नानं सुरतं चानुलेपनम् ॥ अम्बर- ग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत्। नाधिकारिवधः क्वापि त्याज्यमावश्यकं न च ॥ अधिकारिवधस्यापि क्वचित् स्यात् कल्पनार्हता। अर्वाक् प्रकारात् स पुनः प्रत्युज्जीविष्यते यदि॥ नायकस्य यदेकाह्चरितप्रतिपादकः । एकप्रयोजनाश्िष्ट- स्तन्रैवासन्ननायकः ॥ विदूषकादिमिः पात्रैर्योज्यस्तिचतुरैरपि। समस्तपात्रनिष्का- मावसानोऽक्कोमिधीयते II' इत्यादि प्रतिपादिता प्राचीनालक्कारिकपद्धतिरनुसर- णीया ॥ २६ ॥ एवं सूच्यासूच्यवस्तुखण्ड प्रतिपादकमङ्कविष्कम्भादिक स्वरूपतो: निरूपितम्। अथ सर्वस्यापि काव्यार्थस्य सूचिका भारती वृत्तिर्निरूपणीया । तस्याश्चत्वार्यज्ञानि-आमुख प्ररोचना वीथिः प्रहसनं चेति। तत्र वीथिप्रह्स- नयो: प्रायेग प्रबन्धादावनुदाहरणेन कृताकृतत्वाद्दशरूपकमध्ये प्राधान्येनापि

Page 93

-८४ प्रतापरुद्रीये रत्नापणसहित

अथामुखं निरूप्यते- सूत्रधारो नटीं बरूते मारिषं वा विदूषकम् । स्वकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम्॥२७॥ प्रस्तावना वा तत्र स्यात् कथोद्धातः प्रवर्तकम्। प्रयोगातिशयश्रेति त्रीण्यङ्गान्यामुखस्य तु ॥२८॥ एषामङ्गानां स्वरूपं निरूप्यते- स्ेतिवृत्तसमं वाक्यमर्थ वा यत्र सूत्रिणः । पठितत्वाच तल्क्षणं प्राचीनालंकारमार्गेण तत्रैव भविष्यतीत्युपेक्ष्याल्पवक्तव्यां प्ररोचनामुदाहरणसमय एव दर्शयिष्यन् संप्रति साज्स्यामुखस्य स्वरूपनिरूपणं प्रतिजानीते-अथेति॥ तत्र पुरुषविशेषप्रयोज्यः संस्कृतप्रधानो वाग्व्यापारो भारती। प्रस्तुतार्थप्रशंसनेन श्रोतृणां प्रवृत्त्युन्मुखीकरणं प्ररोचना । तदुक्तम्- 'भारती संस्कृतप्रायो वाग्व्यापारो नराश्रयः । उन्मुखीकरणं तत्र प्रशंसातः प्ररो- चना ॥' इति। आमुखविशेषः प्रस्तावनेति केचित् । प्रस्तावनाविशेष आमुख- मित्यपरे। अस्यैव पर्यायः प्रस्तावनेति दशरूपककारः। तन्मतानुसारेण लक्ष- णमाह-सूत्रधार इति। द्वावत्र सूत्रधारौ। एक: पूर्वरज्गविधायकः। इतरस्तु नटस्थापकाद्यपरपर्यायः पूर्वसूत्रधारसदृशगुणाकृतिः प्रस्तावनाप्रवर्तकः । अत्र तु नटीमारिषादिसंभाषणादयमेव विवक्षितः । अस्य गृहिणी नटी । मारिषः पारि- पार्श्विकः । नर्मसचिवो विदूषकः । एतेषां लक्षणानि भावप्रकाशे-'आसूत्रयन् गुणान् नेतुः कवेरपि च वस्तुनः । रजप्रसाधनप्रौढ़ः सूत्रधार इहोदितः ॥ चतु- राताद्यभेदज्ञा तत्कलासु विशारदा। करणाभिनयज्ञा च सर्वभाषाविचक्षण । नटानुयोक्त्री कृत्येषु नटस्य गृहिणी नटी। भरतेनामिनीतं यो भावं नाना- रसाश्रयम् । परिष्करोति पार्श्वस्थः स भवेत् पारिपार्श्विकः ॥ तदात्वप्रतिभो नर्मचतुर्भेदप्रयोगवित् । वेदविन्नर्मवादी यो नेतुः स स्याद्विदूषकः ॥' इति। स्वकार्यममिमतरूपकप्रयोगेण परिषदाराधनात्मकं प्रस्तुतं काव्यार्थरूपं वस्त्वादिचतुष्टयं, तदाक्षेपिण्या उभयप्रतिपादिकयेत्यर्थः । अत एव चित्रोक्त्या ना्यादिकं यद् ब्रूते तदामुखमित्यर्थः । तदुक्त्म्-'पूर्वरञं विधायादौ सूत्र- धारे विनिर्गते। प्रविश्य तद्वदपरः काव्यार्थ स्थापयेन्नटः ॥ दिव्यमार्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः । सूचयेद्वस्तु बीर्ज वा मुख पात्रमथापि वा ।।' इति। स्था- पको दिव्यं वस्तु दिव्यो भूत्वा, मार्त्य वस्तु मत्यों भूत्वा, मिश्रं वस्तूभयोरन्यतरो भूत्वा सूचयेदित्यर्थः ॥ २७-२८ ॥ अथामुखान्नत्रये कथोद्वातं लक्षयति- स्वेति॥ पात्रं कर्तृ। सूत्रिणः सूत्रधारस्य वाक्यमर्थ वाक्यार्थ वा। प्रवर्तक लक्ष-

Page 94

नाटकप्रकरणम् । ८५

गृहीत्वा प्रविशेत पात्रं कथोद्धातो द्विघैव सः ॥ २९ ॥ प्रस्तूयमानकालस्य गुणवर्णनया स्वतः। प्रविशेत्सूचितं पात्रं यत्र तत्स्यात्प्रवर्तकम् ॥ ३०।। एषोऽयमित्युपक्षेपात् सूत्रधारप्रयोगतः । पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः॥ ३१॥

उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम् ॥ ३२॥। वाक्केल्यधिबले गण्डमवस्यन्दितनालिके। असत्प्रलापव्याहारमृदवानि त्रयोदश ॥ ३३।। एषां स्वरूपं निरूप्यते- गूढार्थपदपर्यायमालारूपेण प्रश्नोत्तरमालारूपेण चोद्धात्यकं द्वि- विधम्। अवलगितमपि द्विविधम् । यत्रैकत्र समावेशात् कार्यमन्यत्र सिद्धयति। वस्तुनोऽन्यत्र वा यत्स्यात् द्विधावलगितं मतम् ॥३४॥ अन्यकार्यच्छद्मना अन्यकार्यकरणम्, अन्यकार्यप्रसङ्गात् प्रकृत- यति-प्रस्तूयमानेति। कालस्य ऋतुं कंचिदुपादायेति वचनप्राप्तस्य शरद्व- सन्तादेर्गुणवर्णनया आसन्नप्रवेशपात्रसाम्येनेति भावः । 'प्रकटितरामाम्भोज: कौशिकवाग्लक्ष्मणानन्दी । सुरचापनमनहेतोरयमवतीर्णः शरत्समयः ॥' इत्यत्र रामलक्ष्मणविश्वामित्राणां शरद्वूर्णनसाम्येन प्रवेशकथनात् प्रवर्तकम्। प्रयोगा- तिशयं लक्षयति-एष इति । एतदिदमोरन्यतरशब्दप्रयोगेणोपक्षेपादि- त्यर्थः ॥ ३०-३१ ॥ नन्वनन्तरमुद्धात्यकादीनि वीध्यक्ञान्युच्यन्ते, कर्थ तेषा- मामुखे संगतिरित्याशङ्योभयेषामज्ञानामभेदादविरोध इति संगमयन्नाह- वीथ्यङ्गानीति ॥ न चैव वीध्यामुखयोरत्िनोर्नाममात्रभेद इति शङ्कनीयम्। वीध्यां कथोद्धातादिविशेषाङ्गविकलत्वं सूत्रधारादिसंबन्ध वैधुर्यमुद्धात्यकादिसर्वा- आावश्यकत्वं पाक्षिकप्राधान्यं च। आमुखे पुनरेतद्वैरूप्यमित्यनयोरत्यन्तविलक्ष- गत्वात्। अथ साधारणाज्ञान्युद्देशपूर्वकं लक्षयति-उद्धात्यकेत्यादिना । ३२ ॥ ३३ ॥ अन्योन्यालापे गूढार्थपदं ततः पर्यायश्चेत्येवमेका माला। प्रश्नोत्तरं चेति द्वितीया। द्वेधावलगितमित्याह-अन्यकार्येति ॥ पूर्वत्र प्रकृतकार्यसिद्धेः प्रयत्नपूर्वकत्वमुत्तरत्र प्रासश्ञिकत्वं चेत्यर्थः । असद्भतं पारदार्यादिप्रसंगेन दुष्टम् । पूर्वाचार्यास्तु स्तोत्रं हास्येन विरशिर्षान्ति-'असद्धते मिथः स्तोत्रं प्रपथ्चो हास्य- प्र 8

Page 95

८६ प्रतापरुद्रीये रत्नापणसहिते

कार्यसिद्धिश्च। असद्भतं मिथः स्तोत्रं प्रपञ्चः । त्रिगतं द्वि- विधं-पूर्वरङ्गाङ्गं प्रस्तावनाङ्गं चेति। पूर्वरङ्गे नटादिसंलापः, अत्र तु साम्यादनेकार्थयोजनं त्रिगतम्। प्रियसदृशैर्वाक्यैरप्रियैर्वि- लोभनं छलम्। साकाङ्कस्यापि वाक्यस्य निवर्तनमुक्तिप्रत्युक्ति: वाक्केलिर्द्विविधा। स्पर्धयान्योन्यवाक्याधिक्यमधिबलम्। सहसो- दितं प्रस्तुतविरोधि गण्डम्। रसवशादुक्क्कान्यथाव्याख्यानमवस्य- न्दितम्। सोपहा सनिगूढार्थप्रहेलिका नालिका। असंबन्धकथाप्रायः प्रलापोSसत्प्रलापः। अन्यार्थ हास्यलोभकरं वचनं व्याहारः। दोषाणां गुणत्वप्रतिपादनं मृदवम्। एतेषां मध्ये यथासंभवं कानिचित् प्रस्तावनायां प्रयोक्तव्यानि । कृन्मतः' इति। त्रिगतं द्विविधम्। तत्रैकं पूर्वर्ञान्कमपरमामुखाअ्गमिति विविश्चन्ुभयोः क्रमेण लक्षणमाह-पूर्वरङ्ग इति॥ नटादिसंलाप इत्यत्रादि- अ्रहणान्मारिषसूत्रधारौ ग्रृह्येते। तदुक्त भावप्रकाशे पूर्वरङ्गप्रस्तावे-'सूत्रधारो नटश्चैव तथा वे पारिपार्श्विकः। संलापं यत्र कुर्वन्ति तदेव त्रिगतं स्मृतम् ॥' इति। अत्रत्विति॥ प्रस्तावनायाम्। साम्यादिति॥ शब्दसाम्यादित्यर्थः । तदुर्कत दशरूपके-'श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं तिविह। नटादित्रितयालापः पूर्व- रजे तदिष्यते ॥' इति। छलं व्यक्तम्। साकाङ्मस्येति ॥ निवर्तनम् "उपरि प्रस्तुतमोन्नमः शिवाय' इतिवदिति भावः । उक्तेः प्रत्युक्तिरुत्तिप्रत्युक्तिः । अन्न द्विस्त्रिरिति शेषं प्राथ्चः पूरयन्ति। अन्योन्यवाक्येति॥ परस्परसामर्थ्यप्रकाश- कवाक्याधिक्यमित्यर्थः । सहसोदितमविमृश्योकतं प्रस्तुतविरोधि गण्डम्। अर्थ- भेदेन प्रस्तुतोपयोगि गण्डमिति केचित्। तदुक्तम्-'गण्डं प्रस्तुतसंबन्धि मिनार्थ सहसोदितम्' इति। रसवशादित्युक्तेन संबध्यते न तु व्याख्यानेन। सोपहासे- ति। निगूढो गोपितो बाह्य आभ्यन्तरो वा मुख्याथों यत्र सा तथोक्ता। अत एव अन्त- र्लापा बहिर्लापा चेति द्विविधा प्रहेलिका। तदुक्तं विदग्धमुखमण्डने-'व्यक्तीकृत्य कमप्यर्थ स्वरूपार्थस्य गोपनात्। यत्र बाह्यान्तरावर्थौ कथ्येते सा प्रहेलिका ॥" इति। प्रलाप इति॥ रसखप्रोन्मादशैशवादिप्रयुक्त इति शेषः । अत एव नायम- संगतिर्नाम वाक्यदोषः। अन्यार्थमिति॥ अर्थान्तरोद्देशेन हास्यप्रलोभकारीत्यर्थः। दोषाणामिति॥ वैपरीत्यस्याप्युपलक्षणमेतत्। तदुक्तम् 'दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत्' इति। एतेषामज्ञानां कात्स्न्येन प्रयोगनिर्बन्धो नास्ती- त्याह-एतेषामिति। रूपकोपोद्धातरूपां प्रस्तावनां निरूप्य संप्रति रूपकखव- * 'कुलशोकहरं कुमारमेकं कुहनामैरवपारणोन्मुखाभ्याम्। उपड्ूय कृतादरं पितृभ्यामुपरि प्रस्तुतमोंनमः शिवाय'॥इति महेश्वरानन्दे।

Page 96

नाटकप्रकरणम्। ८७

अथ दशरूपकाणां स्वरूपं निरूष्यते। तत्र साङ्गैर्मुखप्रतिमुखगर्भमर्शोपसंहतैः । पूर्व प्रकृतिरन्येषामाधिकारिकवृत्तवत् ॥ ३५॥ वीरशृङ्गारयोरेकः प्रधानं यत्र वर्ण्यते। प्रख्यातनायकोपेतं नाटकं तदुदाहृतम् ॥ ३६ ॥ तत्र नान्दीस्वरूपं निरुप्यते- अर्थतः शब्दतो वापि मनाक काव्यार्थसूचनम्। यत्राष्टभिर्द्वादशमिरष्टादशभिरेव वा ॥ द्वाविंशत्या पदैर्वापि सा नान्दी परिकीर्तिता॥ ३७। नाटकादिरूपकाणामादौ विहितं पद्यं नान्दीत्युच्यते। वेणीसंहा- रूपनिरूपण प्रतिजानीत-अथेति ॥ तत्र सर्वप्रकृतित्वेन प्रधानस्य नाटकस्य स्वरूपमाह-साड्ैरिति। यत्रेत्थमिदं कर्तव्यमिति कृत्स्नाज्गसमेतप्रधा नोपदेशः सा प्रकृतिः । यथा दर्शपूर्णमासादिः । कृत्लाओ्गोपदेशाभावेऽन्यतः सिद्धाजञाकाक्षा यां तद्वदिद कर्तव्यमिति अतिदेशेन यत्रानुपदिष्टाज्परिपूरणं सा विकृतिः। यथै- न्द्रापादि:। तद्वदत्रापि संधिप्वकाज्ञादिकृत्लोपदेशेन परिपूर्णत्वादातिदेशिकाज्न- योगेन विकृतिभूतानां प्रकरणादीनां नाटकं प्रकृतिः । तदेतदाह-प्रकृतिरन्ये- षामिति ॥ फलखाम्यमधिकारः । तद्वानधिकारी। अधिकारेणाधिकारिणा वा निर्वृत्तमाधिकारिकं प्रधानम्। वृत्तशब्देनात्र प्रख्यातमुचित्तं चेतिवृत्तं विवक्षितं तद्युक्मित्यर्थः । प्रधानमित्यनेन रसान्तराणामज्गत्वेनानुप्रवेश: सूच्यते। प्रख्या- तो रामायणादिप्रसिद्ध: नायको धीरोदात्तो राज्षिर्दिव्यो वा। तदुपेतं नाटकम्। एवमेवोक्तं दशरूपके-'अभिगम्यगुणैर्युक्तो धीरोदात्तः प्रतापवान्। कीर्तिकामो महोत्साहस्त्रय्यासाता महीपतिः ॥ प्रख्यातवंशो राजषिर्दिव्यो वा यत्र नायकः । तत् प्रख्यातं विधातव्यं वृत्तमत्राधिकारिकम् ॥ यत्तत्रानुचित किंचिन्नायकस्य रसस्य वा । विरुद्धं तत् परित्याज्यमन्यथा वा प्रकल्पयेत् ।' इति। पूर्वरओो नाम नाटकादौ कर्तव्यः प्रत्यूहपरिपन्थी कर्मविशेषः । तदुक्तम्-'यन्नाव्यवस्तुनः पूर्व रह्विघ्नोपशान्तये। कुशीलवाः प्रकुर्वन्ति पूर्वरज्गः स कीर्तितः ॥' इति । तस्य प्रत्याहारादीनि द्वाविशतिरज्ञानि। तन्मध्येऽवश्यं कर्तव्या नान्दी। तदुकं बादरायणेन-'यद्यप्यज्ञानि भूयांसि पूर्वरज्नस्य नाटके। तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये ।I' इति। अतस्तत्स्वरूपं निरूप्यत इत्याह-तत्र नान्दीति। 'चन्द्रनामाङ्किता प्रायो मझलार्थपदोज्ज्वला। आशीर्नमस्क्रिया वस्तुनिर्देशो वा प्रकल्प्यते ।।' इत्यादिविशेषोऽप्यत्र द्रष्टव्यः। असाधारणत्व- मस्या निवारयन् व्याचष्टे-नाटकादीति ॥ स्पष्टमन्यत् ॥ ३४-३७॥

Page 97

८८ प्रतापरुद्रीये रत्नापणसहिते

रेऽष्टपदा नान्दी। अनर्घराघवे द्वादशपदा। बालरामायणे द्वाविं- शतिपदा। कैश्िन्नान्दां पदनियमो नाभ्युपगतः । नान्दनन्तरं प्रविष्टेन सूत्रधारेण रङ्गप्रसाधनपुरःसरं भारती- वृत्त्याश्रयणेन श्रोकैः काव्यार्थः सूचनीयः । तथोक्तं दशरूपके- 'रङं प्रसाध्य मधुरैः श्ोकैः काव्यार्थसूचकैः। ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् ॥।' इति । एषा प्रक्रिया नाटकस्यैव मुख्या।

अथ प्रकरणम्- उत्पाद्येनेतिवृत्तेन धीरशान्तप्रधानकम्। शेषं नाटकतुल्याङ्गं भवेत् प्रकरणं हि तत् ॥ ३८ ।। अथ भाण :-

अनन्तरकर्तव्यमाह-नान्द्यनन्तरमिति॥ सूत्रधारेण द्वितीयेन। रजप्रसाधनं नाम सभापतावुपविष्टे रञप्रविष्टसाम्प्रदायिकसंपादितो यवनिकापगमाविर्भूतपात्र- विशेषप्रकीर्णपुष्पाज्जलिपरिष्कृतो नृत्तगीतवाद्यविशेषप्रयोगो केवलगीतवाद्यवि- शेषप्रयोगो गीतादेरेकैकशः प्रयोगो वा । एतच्च 'संगीतज्ञैवुघैः सार्ध नायके प्रेक्षके स्थिते । प्रविश्य रज्रभूमि ते तिष्ठन्तः सांप्रदायिकाः ॥' इत्यादिना सजीतरत्नाकरे प्रपश्चितम् । तदपेक्षायां तत्रैव द्रष्टव्यम् । अत्रार्थे संवादमाह-रङ्गमिति ॥ भारत्या लक्षणमुक्तम्। अत्र स्वोक्ति- संवादवाक्यगतयोः काव्यार्थसूचनभारतीवृत्त्याश्रयणयोरुद्देश्यविधेयभाववैरूप्यं फ- लभेदाभावाज दोषायेति द्रष्टव्यम्। 'नाटकेऽङ्का न कर्तव्याः पञ्चन्यूना दशा- घिकाः' इति विशेषोऽपि द्रष्टव्यः । अस्याः सामग्रया असाधारणत्वमाह-एषेति॥ मुख्या नियतेत्यर्थः । प्रकरणं लक्षयति-उत्पाद्येनेति ॥ इतिवृत्तेनोपलक्षितम्। शेषं वस्तु। नाटकतुल्यान्यज्ञान्यामुखादीनि यत्र तत् तथोक्तम्। अयमतिदेशो यथायोगमुत्तरत्राप्यनुषज्ञनीयः । धीरशान्तप्रधानकमित्यत्र प्रधानग्रहणमुद्देष्टव्य- धर्मान्तरसूचकम्। तानि च दशरूपके-'अथ प्रकरणे वृत्तमुत्पादयं लोकसंश्रयम्। अमात्यविप्रवणिजामेकं कुर्याच्च नायकम् ॥ धीरप्रशान्तं सापायं धर्मकामार्थ- तत्परम् । शेषं नाटकवत् संधिप्रवेशकरसादिकम् II' विपदन्तरितार्थसिद्धिः सा- पायः । किंच 'त्रेधात्र नायिका ज्ञेया कुलस्त्री गणिकोभयम्। तद्वशाद्ूपकं त्रेधा तृतीयं धूर्तसंकुलम् ।। गणिका प्राकृतं ब्रूते कुलस्री संस्कृतं तथा ।' इति विकृत्यन्तरापेक्षया संध्यादीनां प्रकर्षेण करणात् प्रकरणम्॥३८॥ भाण लक्ष-

Page 98

नाटकप्रकरणम्। ८९

भारतीवृत्तिभूयिष्ठं शौर्यसौभाग्यसंस्तवैः। सूच्येते वीरभृङ्गारौ विटेन निपुणोक्तिना ॥३९॥ कल्पितेनेतिवृत्तेन धूर्तचारित्रवर्णनम्। एकोडङ्को मुखनिर्वाही यत्र भाण: स संमतः ॥४० ॥ अथ प्रहसनम्- यत्र सन्ध्यङ्गवृत्त्यङ्गवर्णनं भाणवन्मतम्। हास्यो रसः प्रधानं स्यान्भवेत्प्रहसनं हि तत् ।। ४१ ॥ तच्च त्रिविधम्। शुद्धं वैकृतं संकीर्ण चेति। तत्र शुद्धम- पाषण्डविप्रप्रभृतिचेटीचेट समाकुलम्। वेषभाषादिसहितं शुद्धं हास्यवचोऽन्वितम् ॥ ४२॥ अथ वैकृतम्- कामुकादिवचोवेषैः षण्डकञ्चुकितापसैः । प्रहासाभिनयग्रायं वैकृतं तत्प्रकीर्त्यते ॥ ४३॥ अथ संकीर्णम्- यद्ीथ्यङ्गैः समाकीर्ण संकीर्ण धूर्तसंकुलम् । ४४ ॥ यति-भारतीति ॥ शौर्यसौभाग्ययोः संस्तवैः । धूर्ता द्ूतकरादयस्तेषां चारित्रं स्वेनान्येन वानुभूतमिति भावः । स्पष्टमन्यत्। एकपात्रप्रयोज्येऽस्मिन्कुर्यादा- काशभाषितम्। अन्येनानुक्तमप्यन्यो वचः श्रुत्वेव यद्वदेत् ॥ इति किं भणसी- त्येतद् भवेदाकाशभाषितम्। लास्यान्नदशकं चात्र योज्यं गेयपदादिकम् ॥ भाव- प्रकाशिकाद्येषु तत्प्रपथ्चः परीक्ष्यताम्। अत्रोपरम्यतेऽस्मामिरतिविस्तरमीरुमिः ॥ यत्रैक एव विटः स्वकृतं परकृतं वा भारतीवृत्तिभूयिष्ठं भणति स भाणः ॥३९-४०॥ प्रहसनं लक्षयति-यत्रति ॥ हास्यवचःप्रचुरत्वादिदं प्रहसनमुच्यते। तत्र शाक्यश्रोत्रियादिवेषभाषाविशिष्टं शुद्धम्। विटकामुकवृद्धकञचुकि प्रमुखवचोवेषा- नुकारि वैकृतम्। वीध्यज्ञविशिष्टं धूर्तचेष्टितसंकुलं संकीर्णम्। तदेतत् त्रिविधं विभज्य क्रमेण लक्षयति-तच्चेत्यादिना॥ तत् शुद्धमाह-पाषण्डेति ॥ पाषण्डाः शाक्यादयः । विप्रा जातिमात्रोपजीविनोऽत्यन्तमृजवो वा। प्रमृति- पदेन तादृशा एव वैश्यादयो गृह्यन्ते। चेट्यादयो लक्षितचराः। प्रधानभूतहास्यरस- विभावभूतैरेतैः समाकुलम् । वेषभाषादिसहितमिति ॥ अर्थादेतेषामेवेति गम्यते । विकृतमाह-अथेति ॥ कामुकादयो भुजज्ञाद्याः। तेषां वचोवेषौ येषां तैस्तथोकतैः । तथा षण्डकञ्चुकितापसैस्तद्वेषभाषायुक्तैरेवान्वितमिति शेषः । संकीर्णमाह-यदिति॥ वीध्यतैरुद्धात्यकादिमिः। धूर्ताश्चोरयूतकरादय: ४१-४४

Page 99

९० प्रतापरुद्रीये रत्नापणसहिते

अथ डिम :- यत्र वस्तु प्रसिद्धं स्यावृत्तयः कैशिकीं विना। नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः ॥ ४५।। भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः। हास्यशृङ्गाररहिता रसा रौद्रप्रधानकाः ॥४६ ॥ चत्वारोऽङ्का: संधयश्च चत्वारो मर्शवर्जिताः । मायेन्द्रजाल संग्रामसूर्यचन्द्रग्रहादयः॥ शेषं नाटकवत् सर्वं स डिमः परिकीर्त्यते॥४७॥ अथ व्यायोग :- यत्र ख्यातेतिवृत्तं स्यादुद्धतो नायको मतः। गर्भावमर्शराहित्यं डिमवद्रसपोषणम् ॥ एकवासरकार्य च स व्यायोगो महारणः ।। ४८ ।। अथ समवकार :- यत्रामुखं नाटकवत् संधयो मर्शवर्जिताः । डिमं लक्षयति-यत्रेति॥ प्रसिद्वं वस्तु त्रिपुरदाहादयः । वृत्तयः कैशिकीवर्जा- स्तिस्त्रः । रसा दीप्ता एव। अत एवोक्तम्-'शृङ्गारहास्यविधुरैः रसैर्दीपैर्निरन्तरः' इति। अतः शान्तरसस्य प्रसक्तिरेव नास्तीति भावः । रौद्रः स्थायित्वेन प्रधान येषां ते रौद्रप्रधानकाः । मर्शो विमर्शः । मायादयोऽनुभावाः । तत्र मायेन्द्रजा- लयोर्लक्षणं भावप्रकाशे-'सद्ूपोद्धावना माया खत एवासतः पुरा। अथवान्य- पदार्थानामन्यथा कृतिरेव वा ॥ अदेशकालपारोक्ष्यं परोक्षस्यैव वस्तुनः। मन्त्रौ- षधादिमिः सोऽयमिन्द्रजाल इतीरितः ॥I' इति। चन्द्रग्रहादय इत्यत्रादिशब्द- नोल्कानिर्धातादयो गृह्यन्ते। गतमन्यत्। डिम सङ्दात इति धातोः नायकसं- घातव्यापारात्मकत्वात् डिम इति धनिकः ॥४५-४७॥ व्यायोगं लक्षयति- यत्रेति।। शान्तश्वज्ञारहास्यरहिता रौद्रप्रधानकाः षड्रसा: कैशिकीवर्जमितरवृत्त- यश्चेत्येतङ्विमवद्रसपोषणमित्यतिदेशेन लभ्यते। अस्त्रीनिमित्तोऽत्र महारणः । तटुक्म्-'अस्त्रीनिमित्तसंग्रामो जामदग्न्यजयो यथा।' इति। व्यायुज्यन्ते- डस्मिन् बहवः पुरुषा इति व्यायोगः॥ ४८ ॥ समवकारं लक्षयति-

डप्यत्रामुखं नाटकवदित्यतिदेशो रूपक्राणामिदमावश्यकमिति सूचनायेति द्रष्टव्यम्। एककार्याणामपि नायकानां पयोधिमथने सुधालक्ष्मीप्रमुखफल-

Page 100

नाटकप्रकरणम् । ९१:

नेतारो द्वादश पृथक्फला देवासुरादयः ।। ४९ ।। वीरप्रधानाथ् रसास्त्रयोऽङ्कास्तेषु च क्रमात्। वस्तुखभावदैवारिकृता: स्यु: कपटास्रयः ॥ ५० ॥ पुररोधरणाग्न्यादिनिमित्ता विद्रवास्त्रयः । धर्मार्थकामानुगुणास्तिस्त्रः शृङ्गाररीतयः ॥५१॥ प्रथमेडङ्के निबद्धव्या कथा यामत्रयावधिः।

असौ समवकारः स्याद्वीथ्यङ्गैः कैश्रिदन्वितः ॥ ५२॥ अथ वीथी- यत्र भाणवदङ्गानां कृप्तिर्वृत्तिस्तु कैशिकी ॥ ५३ ॥ शृङ्गारः परिपूर्णत्वात् सूचनीयोऽतिभूयसा। उद्धात्यकादीन्यङ्गानि सा वीथी वीथिवन्मता ॥ ५४ ॥ भेदं दृष्टाह-नेतार इति। वीरप्रधाना इत्यनेन श्रृज्गारादीनामजत्वे- नानुप्रवेशः । अत एवात्र मन्दकैशिक्यो वृत्तयश्चेति गम्यते। त्रयोS- क्का इति। प्रथमेऽक्के मुखप्रतिमुखयोर्द्वितीये गर्भस्य तृतीये निर्वहृणस्य च निवन्धो द्रष्टव्यः । अङ्कन्रये कपटविद्रवशृग्गारत्रिकाणां त्रयाणां क्रमेण निबन्ध इत्याह-तेषु च क्रमादिति॥ कपटो नाम मोहः। तदुर्क्त भावप्रकाशे- 'कपटस्य स्वरूपं तु भ्रमो मोहात्मकः स्मृतः' इति । स च निमित्तानुरोधेन त्रिविध इत्याह-वस्तुस्वभावेति ॥ वस्तुखभावकपटः क्रूरसत्त्वादिसंभवः । दैविक: कपटो वहिवर्षवातादिसंभवः ॥ शत्रुजः कपटस्तत्र संग्राभादिसमुद्धवः ॥ कपटजन्यं पलायनं विद्रवः । सोऽपि कपटवत् त्रिविध इत्याह-पुररोधेति॥ पुररोधरणादिनिमित्तोऽरिकृतो विद्रवः । अग्न्यादिनिमित्तो दैविको विद्रवः। व्याल- व्याघ्रादिनिमित्तो वस्तुखभावकृतो विद्रवः । व्रतादिजनितः कामो धर्मश्ृज्गारः । महाराज्याद्यर्थप्राप्तिहेतुरर्थश्रज्वारः । परदारसुरापानादिसुखललितः कामश्ज्वारः । अङ्कत्रयवर्तिनो वस्तुनः कालनियममाह-प्रथमेSक्के इत्यादि॥ यथालाभमुद्धा- त्यकादीनामनुप्रवेश इत्याह-वीथ्यङ्गैरिति ॥ समन्तादवकीर्यन्तेऽस्मिन्नर्था इति समवकारः । शेषं स्पष्टम् ॥ ४९-५२ ॥ वीथीं लक्षयति-यत्रेति ॥ एकोऽक्को मुखनिर्वाहावित्यादिको भाणवदित्यतिदेशलभ्यः । विशेषमाह-वृत्ति- रित्यादिना ॥ श्रृहारोऽतिभूयसा सूचनीय इत्यनेन रसान्तराणामत्यल्पशः सूचनं गम्यते। उद्धात्यकादीनि प्रस्तावनायामुक्तानि। यत्रैवं सामग्री सा वीथी। वीथीवदक्वानां मार्गवत् पङ्किवद्वा मता। एकपात्रेण पात्रद्वयेन वा योगोऽ-

Page 101

९२ प्रतापरुद्रीये रत्नापणसहिते

अथाङ्क :- यत्रेतिवृत्तं प्रख्यातं प्रधानं करुणो रसः । स्त्रीणां विलासो वाग्युद्धं नेतारः प्राकृता नराः । भाणवत् संधिवृत्यादि स उत्सष्टोऽङ्कसंज्ञकः ॥५५॥ अथेहामृगः- मिश्रमीहामृगे वृत्तं चतुरक्कं त्रिसन्धिकम्। मर्त्यदिव्यौ च नियमान्नायकप्रतिनायकौ ॥ ५६ ॥ धीरोद्धतौ स्त्रियं दिव्यां हर्तुकामौ च कामुकौ। अवधं युद्धमन्योन्यमाभासरसयोस्तयोः ॥५७॥ एषा प्रक्रिया दशरूपकोक्तरीत्यनुसारेण।

न्रान्यतोऽवगन्तव्यः । इदमप्यत्रानुसंघेयम्। 'अस्यां प्रायेण लास्याज्गदशकं योजयेन्न वा। सामान्या परकीया वा नायिकात्रानुरागिणी॥ वीथ्यञ्वप्रायवस्तु- त्वान्नोचिता कुलपालिका। लक्ष्यमस्यास्तु विज्ञेयं माधवीवीथिकादिकम् ॥' इति ॥५४ ॥ अर्ङ्कं लक्षयति-यत्रेति॥ इतिवृत्तं प्रख्यातमुत्पादं वेति केचित्। प्राकृता दिव्यव्यतिरिक्ताः । अत एव शारदातनयेनोक्तम्-'दिव्यैरयुक्तः पुरुषैः शेषै- रन्यैः समन्वितः' इति। सुगममन्यत्। य एवंविधः सोऽयं पुत्रादीनामिव प्रा- कृतनायकादीनामाश्रयत्वादङ्क इति संज्ञितः । अयमङ्को नानाप्रकारेति लक्षण- मुहद्कय सष्टत्वादुत्सष्ट इत्युच्यते। अत एवोत्सष्टिकाङ्क इति नाटकान्तर्गताङ्कव्य- वच्छेदार्थमिति धनिको व्याचष्ट ॥। ५५ ॥ ईहामृगं लक्षयति-मिश्रमिति ॥ गर्भावमर्शरहितास्त्रयः संधयो यस्मिस्तत् त्रिसन्धिकम्। आभासरसयोः अनुराग- शून्यनायिकानुरक्तत्वादिति भावः । अत एवोकं दशरूपके-'दिव्यस्त्रियमनि- च्छन्तीमपहारादिनेच्छतः' इति ॥ अवर्ध युद्धम् अजायुद्धकल्पमित्यर्थः । गतमन्यत् । मृगवदलभ्यां नायिकां नायकोऽस्मिन् ईहते ईहामृगः । अस्या रूपकसामग्रयाः स्वोन्मेषमूलत्वं वारयति-एषति ॥५६-५७॥

Page 102

नाटकप्रकरणम्। ९३:

नाटकोदाहरणप्रारम्भ: ! तत्र साऊं नाटकमुदाहियते। भद्रां कौतुकवेदिमागतवतोरन्योन्यमासेदुषोः शैलैर्मेरुहिमा चलप्रभृतिभिर्देवैर्हरीन्द्रादिभिः । व्याप्तां पार्श्वयुगे पुरोऽम्बुजभुवा पश्चाच्च मेनादिभि: साध्वीभि: शिवयोरपाङ्गसरणिवैवाहिकी पातु वः ॥१।। एषा द्वाविशतिपदा नान्दी। अस्यां विवाहप्रवृत्तयोः शि- वयोः वर्णनया सकलनरेन्द्रपरिकरस्य प्रतापरुद्रस्य काकतीय- राज्यलक्ष्मीप्राप्तिर्नाटकप्रयोजनरूपा किंचिदर्थशक्त्या सूच्यते। देयात् सिद्धिं महालक्ष्मीर्जगद्रक्षाघुरंधरा। विष्णुवक्ष:स्फुरन्मालाविहितालयतोरणा ॥ २ ॥ एषा च नान्दी प्रतापरुद्रराज्यलक्ष्मीमङ्गलविधिलक्षणा। नान्धन्ते सूत्रधार: । (समन्तादवलोक्य सहर्षम्) केवलोद्देशलक्षणाभ्यां रूपकसामग्रथा दुर्गहत्वाद्रूपकान्तराणामेतदुदाहरणे- नोदाहृतकल्पत्वं हृदि निधाय जिज्ञासुजनानुग्रहार्थ नाटकमातमलोदाहियत इति प्रतिजानीते-तत्रेति॥ अथ सा्ञं नाटकमुदाहर्तुमारभमाणो विद्यानाथस्तत्प्रत्यू- हपरिपन्थिनः पूर्वरअस्य प्रधानाज्गभूतामाशीरूपमलान्वितां नान्दीमादाबुदा- हरति-भद्रामिति ॥ भद्रों विचित्रवितानमणितोरणादिपरिष्कारेण मझलाम्।

केन ब्रह्मणा। तदुक्त श्रीकण्ठलीलायां कल्याणकाण्डे-'दाता महीभृतां नाथो होता देवश्चतुर्मुखः । वरः पशुपतिः साक्षात् कन्या विश्वारणिस्तथा ॥' इति। मेना हिमाचलमहिषी। तदादिि: साध्वीमिः पुरन्ध्रीमिः पश्चाद्धागे व्याप्तां कौतुकवेदिं विवाहोत्सववितर्दिकामागतवतोः प्राप्तयोः अन्योन्यमासेदुषोरयथा मिथः संस्पर्शस्तथासीनयोरित्यर्थः। यथास्थानमुपविश्यान्वारब्धायामित्यापस्तम्बस्मर- णात् । शिवयोः पार्वतीपरमेश्वरयोः । 'पुमान् स्त्रिया' इत्येकशेषः । बिवाहे भवा वैवाहिकी। अपाज्ञसरणिरन्योन्यदर्शनमित्यर्थः । इद्मपि तत्रैवोक्तम्। 'देवोऽपि देवीमालोक्य सलज्जां हिमशैलजाम्। न तृप्यति नतापात्री सा च देवं वृषध्वजम् ।I' इति। स वः पात्विति संबन्धः । लक्ष्येण लक्षणं योजयति- एषेति॥ नान्दन्त इति॥ नान्दी प्रयुज्य पूर्वसूत्रधारे विनिर्गत इत्यर्थः । सूत्रधार इति॥ द्वितीयो नटाख्य इत्यर्थः । रञ प्रविष्ट इति शेषः । इदमनुपदमेव रअं प्रसाध्येत्यादिना तत्कृत्यमुक्तत, तदाह-समन्तादिति ॥ सहर्ष सूचन-

Page 103

९४ प्रतापरुद्रीये रत्नापणसहिते

कथमासूत्रित एव समन्ततो रङ्गमङ्गलविधिः । तथाहि- आविष्कुर्वन्ति मुरजाः सर्वतः शब्दमाधुरीम्। सङ्गीतोपनिषद्विद्यां वीणाः प्रस्तावयन्त्यमूः ॥३॥ एतद्रङ्गप्रसाधनम् । (सप्रहर्षम्)- भूभृत्सुतामहादेवौ पितरौ यस्य विश्रुतौ। नरनागाकृतिः श्रीमान् स देवः श्रेयसेऽस्तु वः ॥ ४ ॥

मात्रादेव सांप्रदायिकैः सन्नद्धमानद्धादिकमिति सप्रसादमित्यर्थः। त्रिविरधं रअप्रसाधनमुक्तम्। तत्र द्वितीयमुदाहरति-आविरिति। शब्दानां वाद्य- विशेषाणां माधुरीं श्रोत्रप्रियत्वम्। माधुर्यशब्दात् ष्यञन्तात् कीष्प्रत्यये 'हलस्तद्वितस्य' इति यलोपे माधुरीति सिद्धम्। अत एवाह वामनः-'ष्यञः षित्करणादीकारो बहुलम्' इति। सज्गीतोपनिषत् संगीतरहस्यम्। तामेव विद्याम्। उभयत्र मौरजिका वैणिकाश्च लक्ष्यन्ते। अथ शोकैः काव्यार्थसूचकै- रित्यादिना भारतीवृत्त्याश्रयणमुक्तम्। तदुदाहरति-भूभृदिति ।। यस्य देवस्य भूमृत्सुतामहादेवौ पार्वतीपरमेश्वरौ पितरौ मातापितराविति विश्रुतौ । 'पिता मात्रा' इत्येकशेषः । कदाचिल्लीलया गौरीगिरीशौ गजाकारेण विहर- माणौ गजाननमजीजनताम्। तटुककं स्कान्दपुराणे-'प्रशस्तमत्तमातञ्ञवपु- र्भूत्वाथ भूतपः । भ्रममाणो वने तस्मिन् क्रीडां स्वीकृतवान् विभुः ॥ तमालो- क्य महादेवी महेशेच्छानुवर्तिनी। करिणीरूपमास्थाय तेन सा विचचार ह॥' इत्यादिना। एकस्मिन्नर्धे नरस्येतरस्मिन् करिणश्चाकृतिर्यस्य सोऽयं नरनागा- कृतिः। तथापि श्रीमान् रमणीयः । स देवो गणेशो वः सामाजिकानां श्रेयसेऽ- स्त्विति वाच्यार्थः । सूच्यार्थस्तु यस्य कथानायकस्य भूभृत्सुता राजपुत्री मुम्म- डम्बा महादेवस्तन्नामको महाराजः पितराविति विश्रुतौ। नरनागा नरश्रेष्ठाः । 'सिंहशार्दूलनागाय्याः पुंसि श्रेषठार्थगोचराः इत्यमिधानात्। उपमितसमासः । तदाकृतिः नलनहुषदिलीपादिसदृश इत्यर्थः । स देवो राजा । 'देवः सुरे घने 'राजि' इति विश्वः । अत्र द्वयोरप्यर्थयेर्वाच्यत्वाभावाज श्लेषः । नापि शब्द- शक्तिमूल उपमालंकारध्वनिः। संबन्धान्तरे संभत्रति सादृश्यमूलकत्वकल्पनान- पेक्षणात्। किं तु सूचकत्वसंबन्धाच्छ्दशक्तिमूलो वस्तुध्वनिः । अत एवो- क्तमलंकारसर्वस्वे श्लेषालंकार प्रस्तावे-'यत्र सूचनव्यापारोऽस्ति तत्र शब्द- ·शक्तिमूलो वस्तुध्वनिर्बोद्धव्यः' इति । ऋतुं कंचिदुपादायेतीममंशमुदाहरति-

Page 104

नाटकप्रकरणम् । ९५.

(ऊर्ध्वमवलोक्य)-चिरादनुकूलेन कालेनापगतदुर्दिनानि दिङ् -- मुखानि। यत :- विहरद्राजहंसश्रीर्विलसन्मित्रमण्डलः । प्रसाधयति सन्मार्ग प्रसन्नः शरदागमः ॥५॥ काव्यार्थसूचकाभ्यां श्रोकाभ्यामृतुसमाश्रयणेन संस्कृत- प्रायनराश्रितवाग्व्यवहाररूपा भारती वृत्ति: कथिता। (सविनयमुपसत्य सभामिमुखमञ्जलिं बढ्ढा) भो भो मध्यमभुवनभागधेयविवर्तस्यैकशिलानगरपुण्यराशेः का- कतीयकुलदेवतायाः स्वयंभूदेवस्य सततमहोत्सवमासेदिवांसो विद्वां- सः, कलार्णवनाट्यवेदाचार्यस्य पुत्रमभिनयदर्पणं मामभिमतरूपक- प्रयोगानुज्ञया परमनुगृहीत। (आकाशे कर्ण दत्वा) किं ब्रृथ। 'यस्मिञ्जगन्मङ्गलमस्ति वस्तु यस्मै स्वयंभूः स्पृह्यत्यजस्रम्। तच्छोत्रयोर्लोचनयोः पथां नः शृङ्गाटकं नाटकमाविरस्तु ॥६॥" इति।

ऊर्ध्वमित्यादिना। विहरन्ती राज्ञ्न्द्रस्य हंसानां च श्रीर्यत्र स तथोक्तः अन्यत्र राजहंसा राजश्रेष्ठास्तल्क्ष्मीविहारभूमिरित्यर्थः । विलसत् प्रकाशमानं मित्रमण्डलं सूर्यमण्डलमन्यत्र सुहृत्समूह्दो यत्र स तथोक्तः। प्रसन्नः एकत्र मेघापगमादन्यत्र खभा- वाच्चेति भावः। सन्मार्ग नक्षत्रमार्गमन्यत्र साधुमार्गम्। प्रसाध्यत भूषयति। अत्र प्रस्तुतशरद्विशेषणसाम्येनाप्रस्तुतराजसूचनात् समासोक्तिः। अत एवेदं गुणीभूतव्य. ज्ञथं न पुनः पूर्ववत् ध्वनिरिति बोद्धव्यम्। लक्ष्ये लक्षणं योजयति काव्यार्थेति॥ अथ सामाजिकानुग्रह्माशास्ते-सविनयमित्यादिना ॥ भागधेयविवर्तस्य भाग्यपरिपाकस्य। कलार्णवो नाम नाव्यवेदाचार्यः । आकाशभाषितेन तदीय- मुत्तरमाह-आकाश इति ॥ तल्लक्षणं तु 'किं व्रवीष्येवमित्यादि बिना पात्रं अ्रवीति. यत् । श्रुत्वेवानुक्तमप्येकस्तत्, स्यादाकाशभाषितम् ।।' इति । यस्मि- न्निति ॥ सयंभूरीश्वरो यस्मै वस्तुने अजस्रं स्पृहयति। 'स्पृहेरीप्सितः' इति संप्रदानत्वाच्चतुर्थी। जगन्मङ्गलं तद्वस्तु यस्मिन्नाटकेऽस्तीति योजना। वाचिका- मिनयेन श्राव्यत्वादितरामिनयेन दृश्यत्वाच्ाह-श्रोत्रयोरित्यादि॥ शृङ्गाटकं: चतुष्पथम् तन्नाटकमाविरस्तु। इतिशब्द उत्तरसमाप्तौ। संवादेन संतुष्यभ्ुत्तरार्थ-

Page 105

-९६ प्रतापरुद्रीये रक्ापणसहिते

(सहर्षम्) अस्मन्मनोरथसंवाद्येव परिषदादेशः । यत् प्रतापरुद्र- चरितानुबन्धः प्रबन्धः सामाजिकानां मनसि वर्तते। अहो सर्वं सुघटितमनुविधात्रा विधात्रा। यतः सभा स्वयंभूपरमेश्वरस्य प्रतापरुद्रस्य गुणा महार्घाः । अहूं च नाट्यश्रुतिपारदृश्वा सुधामुचस्तस्य कवेश्च वाचः ॥७॥ एषा प्रशंसयाभिमुखीकरणरूपा भारतीवृत्तेरङ्गं प्ररोचना। (सविमर्शम्) कथमस्मत्प्रेयसी संगीतशारिका चिरयति। (प्रविश्य) नटी-(पुरोऽवलोक्य) (सस्पृहम्)- *कि भारईए सुव्बइ मंजीररवो सहाए विहर्रतीए। अह संगोअसुइ व्वा विण्णादं णट्टप्पमुहतूरणिणाओ। ८॥ एतत्साम्यादनेकार्थयोजनरूपं त्रिगतं प्रस्तावनाङ्गम्। (उपसृत्य)-अज्ज इअम्हि आणेवदु को णिओओ अणुचिट्ठीअदुत्ति। सूत्रधार :- आर्ये यद्गेहे कलकण्ठनाद्मधुरं गास्यामि गीति ध्रुवां लास्यं चारुभिरङ्गहारललितैराविष्करिष्यामि यत्। *किं भारत्याः ध्रूयते मीररवः सभायां बिहरन्त्ाः । अथ संगीतश्रुतिर्वा विज्ञातं नाठ्यप्रमुखतूर्यनिनादः ॥ आर्य इयमस्मि। आज्ञापयतु को नियोगोऽनुष्ठीयतामिति। मुद्धाट्यति-सहर्षमित्यादि ॥ अघटमानघटकं दैवानुकूल्यं जातमिल्याह- अहो इति॥ सभा गुणग्राहिणीति भावः। महार्घा महामूल्याः । नटानामान्ना- यो नाट्यम् । 'छन्दोगौक्थिक' इति व्यप्रत्ययः । तस्य श्रुतिशब्देन चूतवृक्षा- दिवत् समानाधिकरणसमासः । तस्याः पारं दृष्टवान् नाव्यथ्रुतिपारदृश्वा। दृशे: कनिप् । सुधामुचोऽमृतवर्षिण्यः । प्ररोचनामुदाहरणे योजयति-प्रशंसयेति॥ प्रस्तुतार्थस्येति शेषः । अभिमुखीकरणरूपेति ॥ सामाजिकानामिति शेषः । 'प्रेक्षकाद्युन्मुखीकारः प्रस्तुतार्थप्रशंसया प्ररोचना' इति लक्षणात् । किमिति॥ भारईए इत्यत्र एकारस्य 'एदोतोः क्वचित् स्वरूपेण ह्रखः' इति ह्रस्वः । एव- मन्यत्रापि वृत्तानुसारेण द्रष्टव्यम्। लक्ष्ये लक्षणं योजयति-एतदिति॥ प्रस्ता- वनान्नमित्यनेन पूर्वरभाञत्रिगतव्यवच्छेदः । सूत्रधारो विलम्बवतीं नटीमुपाल- -भते-यदिति॥ ध्रुवालक्षणं वक्ष्यामः। माधुयं गायनीविशेषगुणः । तदुकं

Page 106

isaMm.UrNat नाटकप्रकरणम् । ९७

रम्यं यत् किल रङ्गमङ्गलविधिं संपादयिष्याम्यहं प्रागित्युक्तवती तद्द निपुणे निर्व्यूढमेवं त्वया ।। ९ ॥ एतत् प्रियसदशैरप्रियैर्वाक्यैरुपालम्भनाच्छलम्। नटी-(सभयं) *णट्टसामगिंग सज्जीकादुं विलंबिअं। सज्जी- किआ क्खु एसा। केण उण रुव्वएण पओओ उअक्कमीअदु। मूत्रधार :- नन्विद्मव रूपयतु। (इति पत्रिकां दद्दाति।) नटी-(गृहीत्वा संस्कृतमाश्रित्य वाचयति।) तेज:पर्यायहरयोः किं किं संबोधनं मतम्। किमाशीर्वादविषयो विद्यानाथकृतिश्च का ॥ १० ॥ (समन्दस्मितं) +णिगूढत्थं खु एदं छेआणं वअणं पडिभादि। कीरिसं उत्तरं णिरूवेदु अज्जो। *नाट्यसामग्रीं सज्जीकर्तु विलम्धितम् । सज्जीकृता खल्वेषा। केन पुना रूपकेण प्रयोग उपक्रम्यताम्। +निगूढार्थ खल्वेतच्छेकानां वचनं प्रतिभाति। कीदृशमुत्तरं निरूपयत्वार्यः । शार्मदेवेन-'रूपयौवनशालिन्यो गायन्यो गातृवन्मताः। माधुर्यधुर्यध्वनयश्चतुरा- श्वतुरं्रियाः ॥' इति। चारुभिः प्रियदर्शनैः अञ्हारेषु ललितैः ललितादिसुकुमाराज- हारैरित्यर्थः । 'सप्तमी शौण्डैः' इति बहुवचनेनादर्थलाभः । लांस्यं मृदुनर्तनम् । 'लास्यं तु सुकुमाराजं मकरध्वजवर्धकम्' इति लक्षणात्। गास्यामीत्यादीनां स्था- निनोऽस्मदोऽहमिति विशेषणं ध्रुवागानादीनामविलम्बसूचनार्थम्। अत्र ध्रुवागाना- दिकं सर्व निर्वहामीति प्रागुक्तवत्या भवत्या सर्वमेवं निर्व्यूढमिति विपरीतलक्ष- णया न निर्व्यूढमिति लभ्यते। अत्र नर्तनोपयोगिकरपादादिकर्मविशेषः करणं तल- पुष्पपुरादि। तटुकं संगीतरत्नाकरे -- 'स्यात् करिया करपादादेर्विलासेनात्रुटद्रसा । करणं नृत्तकरणं भीमवद्धीमसेनवत् ।I' इति। तत्समुदायसाध्यो नर्तनप्रयोग- विशेषः । अज्ञानामुचितदेशप्रापणेन हरप्रियाञप्रयोगन्वेन वाज्हार: इत्युच्यते । तदुक्तम्-'अज्ञानामुचित देशे हरणं सविलासकम्। अनेककरणेत्पाद्यमज्गहारोऽ मिधीयते । यद्वा हारो हरस्यायं प्रयोगोऽऔैरिति स्मृतः ।' इति। ललितादि. लक्षणं बहपेक्षमिह विस्तरभयान लिख्यत इत्यन्यतो द्रष्टव्यम्। संस्कृतमाश्रि- त्येति ॥ पत्रिकागतस्य खभाषितत्वाभावात्। वाचयति पठति। वचिरयं चौरा. दिकः । नालिकाख्यमञनं वत्तुं बहिर्लापां प्रहेलिकामाह-तेज इति॥ नालिका लक्षणे सोपहासविशेषणं कृताकृतमिति हृदयम् । अत एवोक्तम्-एषा निगू- ढार्था नालिकेति ॥ णिगूढत्थमिति॥ छेका विदग्धाः। कथं कथानायक- प्र 9

Page 107

९८ प्रतापरुद्रीये रत्नापणसहिते

सूत्रधार :- अयि सुव्यक्तमेतत्। प्रंतापरुद्रकल्यॉणमिति प्रतीयत एव। एषा निगूढार्था नालिका। नटी-'कहं कहाणाअअणामहेआणुबंधमणोहरं क्खु नाडअम्। पआवोववदंकिअं तस्स रण्णो णाम कहं जाअंति पुच्छीअदि। सूत्रधार :- प्रिये श्रूयताम्। तं सुजातं समुद्वीक्ष्य क्षोण्यां रविमिवोदितम्। प्रतापरुद्र इत्याख्यामकरोत् काकतीश्व्वरः ॥ ११ ॥ अन्यथ- विष्णोर्विश्व्वैकवीरस्थ काकतीयकुले स्थितम्। अवतारममुं ज्ञात्वा वीररुद्रं प्रचक्षते ।। १२ ।। नटी-1लोआणं कण्णजुअलस्स भाअहेएण एदं णामजुअलं सुणीअदि। चिरस्स णट्टविज्जाणुवट्टणं फलिअं, जेण लोअमंगलं काकइणरिंदचरिअं अभिणिज्जइ। एतन्ना्यप्रसङ्गेन प्रकृतकार्यावलगनादवलगितं द्वितीयम्। सूत्रधार :- अहो प्रज्ञासंवादोऽयमायुष्मत्याः, यदियं कवीनां प्रश्नोत्तरमालिका। यथा किल- किं लोकश्रवसोर्भाग्यं मङ्गलश्रवणं मुहुः । किं मङ्गलं प्रतापाङ्करुद्रस्य चरितान्ुतम् ।। १३ ।। *कर्थ कथानायकनामधेयानुबन्धमनोहरं खलु नाटकम्। प्रतापोपपदा- क्वितं तस्य राज्ः कर्थ नामधेयं जातमिति पृच्छ्यते। +लोकानां कर्णयुगलस्य भागधेयेन एतन्नामयुगलं श्रयते। चिरस्य नाव्यविद्यानुवर्तनं फलितं येन लोकमज्गलं काकतिनरेन्द्रचरितममिनीयते॥ नामधेयानुबन्धमनोहरं खलु नाटकम्। अत्र कथमित्याश्चयें। प्रतापोपपदाङ्कितं तस्य राज्ञो नाम कर्थ जातमिति पृच्छ्यते। अत्र कर्थशब्दः कारणवाची । 'कारणेऽपि कर्थ तर्के विस्मये संपदुद्धवे' इति भावप्रकाशवचनात्। सूर्यसद- शत्वात् प्रतापरुद्र इति संज्ञा संजातेत्युत्तरमाह-तमिति॥ वीरावतारत्वात् वीर- रुद्रसंज्ञापि समभूदित्याह-विष्णोरिति॥ लोकानां कर्णयुगलस्य भागधेयेनै- तन्नामयुगलं श्रूयते। अभावलगितस्य द्वितीयं भेदमुदाहरति-चिरस्सेति॥

Page 108

नाटकप्रकरणम् । ९९

एतत्प्रश्नोत्तरमालारूपमुद्धात्यकम् । नटी -* अय्यपरिअणेण सव्वं संपद्दीअदि। सूत्रधार :- आर्ये, त्वया दारैरुदारश्रीर्नाट्यसंपदियं मम। प्रबन्धलक्ष्मी रीत्येव विदर्भफणितिस्पृशा ।। १४।। एष मिथःस्तोत्ररूपः प्रपञ्चः । नटी-1एआरिसगुणमह्ग्घपआवरुद्दचरिअं अहिकरिअंतस्स कइणो संपुण्णो सरस्सईपसादो। सूत्रधार :- आर्ये, एवमेव। नन्वेषा कविभारत्योर्वाककिलिः। यथा किल- मातर्भारति वत्स किं तव कृपां याचेऽ्द्य कि प्रस्तुतं जिह्वां काकतिवाररुद्रनृपतेः स्तोत्राय संनह्यति। ज्ञातं ते विहरन्तु वाग्लहरयः संध्यानटद्वूर्जटि- त्वङ्गन्मौलितरङ्विणीकलकलारम्भप्रियंभावुकाः ॥१५॥ एषान्योन्यसंलापरूपा वाक्केलिः। *आर्यपरिजनेन सर्व संपाद्यते। एतादृशगुणमहार्ष प्रतापरुद्रचरितमधिकुर्वतः कवेः संपूर्णः सरखती- प्रसाद: । प्रकृतकार्य नाटकप्रयोगरूपम्। अहो इति ॥ प्रतापोऽङ्कश्रिह्नं यस्य रुद्रस्य तथो- क्स्य। द्वितीय उद्धात्यकमेदोऽयमित्याह-एतदिति ॥ मिथः स्तोत्रमात्रमपि प्रपश्चलक्षणं मत्वाह-अय्येत्यादिना ॥ त्वयेति॥ दारैः कलश्रेण। 'भार्या जायाथ पुंभूम्रि दाराः' इत्यमरः । विदर्भकविप्रिया फणितिर्वि- दर्भफणितिः तत्स्पृशा रीत्या वैदर्भ्या। कविभारत्योरुक्तिप्रत्युक्त्योस्तिरावृत्ति- रूपां वाक्केलिमाह-मातरिति ॥ अत्र मातृशब्देन कवेर्भारत्यां भक्तिविशेषः, वत्सशब्देन तस्यास्तस्मिन् वात्सल्यातिशयश्च सूच्यते। कविराह-तवेति। भारती प्रयोजन पृच्छति-अद्येति ॥ कविस्तदाह-जिद्वेति ॥ भारती स्मरण- ममिनीयैवाह-ज्ञातं ते इति । प्रार्थनानिमित्तमिति शेषः । संध्यानटदूर्जटि-

जूटविजुम्भमाणजाइ्वीकलोलकोलाहलस्य प्रिया भवन्तीति प्रियंभावुकाः । तत्कल्पा इत्यर्थः । 'कर्तरि भुबः' इति खुक्प्रत्यये मुमागमः । वाग्लहरयो

Page 109

१०० प्रतापरुद्रीये रत्नापणसहिते

नटी -* अम्हाणं ईरिसणरिंदचरिआणुऊलो णट्टाढंवरो होइ ण वे त्ति सज्झसेण बेवइ मे हिअअम्। सूत्रधार :- (किंचित सासूयं) आः किमुच्यते। निरवद्या ननु मन्नास्यविद्यासामग्री। कौदृश्या पुनस्तव गीतयोग्यतया भविष्यते। नटी-संगीदसारस्स महण्णवो उब्बेहिज्जदि। अवहाणजाण- पत्तं आरूहदु अज्जो। एतदन्योन्यवाक्याधिक्यादधिवलम्। सूत्रधार :- चिरमवहित एवास्मि। नन्वियमुपकम्यते ध्रुवा-। नटकृतध्रुवागानप्रतिज्ञावचनं संभ्रमोदितमिति गण्डम्। नटी-(सस्मितं)कहं अज्जो धुवं गाअइ। सूत्रधार :- अयि कथमर्धोक्त एव, त्वरा 'नाट्यविद्या' इति शेषं न जिघ्रति। एतदुक्तस्यान्यथायोजनरूपमवस्यन्दितम्। आर्ये, नूनं ध्रुवागानोत्सुकं तव चेतस्तदारभ्यतां गीतिः ।

सेन वेपते मे हृदयम्। *अस्माकमीदृशनरेन्द्रचरितानुकूलो नाव्याडम्बरो भवति न वेति साध्व-

  • संगीतसारस्य महार्णव उद्देल्यते। अवधानयानपात्रमारोहत्वायः । + कथमार्यो ध्रुवां गायति। वाग्वैखर्यः । विहरन्तु प्रवर्तन्ताम्। यदि ज्ञातमित्येकं वाक्यं तदा 'समान- वाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' इति नियमात् वाक्यान्तरवर्तिपदस्य निमित्तत्वायोगात् पदात् परस्य युष्मदो विधीयमानः 'तेमयावेकवचनस्य' इति तयादेशो स्यात्। सूत्रधारः खवसामर्थ्यमाविष्कुर्वन्राह- किंचिदित्यादि॥ आः कोपे। ननुरवधारणे। योग्यतया सामर्थ्येन कर्त्र्या। नटी स्वसामर्थ्याधिक्यमाविष्करोति-संगीतेति ॥ संगीतसारस्य महाणव उद्वेल्यते प्रवर्ध्यते । अवधानयानपात्रमारोहत्वार्य :- अवहितो भवेत्यर्थः । अत एवाधिबलमिदमित्याह-एतदिति ॥ चिरमित्यादि॥ गण्डान्त स्पष्टम्। सूत्रधारवाक्यं विडम्बयति-सस्मितमिति॥ कथमार्यो ध्रुवां गायति। ध्रुवा ना्यविद्येति मे विवक्षितम्। तदर्धोक्त एव त्वमन्यथा मन्यस इत्याह-अयी- ति। त्वरा कर्त्री। ध्रुवागानोत्सुकमिति ।। अन्यथा तन्मयि नारो-

Page 110

नाटकप्रकरणम् । १०१

नटी-(तथा करोति।) *लच्छी सरई अ इमा धवलिअभुवणंतरा विराअंती। विलसंतकुवलअसिरी राअस्स पसाहणं कुणइ ॥ १६ ॥ सूत्रधार :- (आकर्ण्य सरसावेशं) गाढालिङ्गनसंमर्द प्रत्यक्षरगलत्सुधाम्। ध्रुवां करोमि सर्वाङ्गे श्रोत्रैकामृतवर्षिणीम् ॥ १७॥ एष रसवशादसंगतार्थव्याहाररूपोऽसत्प्रलापः । नटी-(सोपहारस) सुउमारा क्खु एसा अय्यस्स णिद्दआ- लिंगणवेल्लणं ण सहइ। एष हास्यलोभकरो व्याहार:। सूत्रधार :- (सत्रीड) *लक्ष्मीः सरसी चेयं धवलितभुवनान्तरा विराजन्ती। विलसत्कुवलयश्री राज्ः प्रसाधनं कुरुते॥ *सुकुमारा खल्वेषार्यस्य निर्दयालिग्ञनक्षेपण न सहते। पयेरिति भावः। नटी राज्यलक्ष्मीं शरत्कालसरसीं च प्रस्तुत्य प्रवृत्तां ध्रुवां गायति-लच्छीति॥ इमा इय लक्ष्मीः राज्यलक्ष्मीः शौर्यनिमित्तत्वनिबन्ध- नेन यशसा धवलितानि भुवनान्तराणि लोकान्तराणि यस्याः सा तथोक्ता। विलसत्कुवलयश्रीः उछ्सदुर्वीमण्डलशोभा च राज्ञो नृपस्य प्रसाधनं करोति। अन्यत्र इयं सरसी धवलितं कालुष्यापगमेन निर्मलीकृतं भुवनान्तरमुदकमध्यं यस्याः सा तथोक्ता। विलसत्कुवलयश्रीरुहसत्नी लोत्प लसंपत्तिश। राज्श्न्द्रस्य प्रसाधनं करोति। रूपकेषु तावन्मार्गाभिनयेन प्रावेशिकीप्रभृतयः पञ्च ध्रुवाः प्रयोक्तव्याः । तदुक्तम्-'ध्रुवाः पञ्व प्रयोक्तव्या रसामिनयसिद्धये' इति । तत्रेयमन्तरा नाम धुवा। तल्क्षणं तु भावप्रकाशे-'सर्वासामन्तरा वस्तुरसादि- वशकल्पिता। अन्तरा सा ध्रुवा ज्ञेया नाट्यामिनयरजिनी ॥' इति। विशेषान्त- रागि तत्रैव द्रष्टव्यानि। विस्तरभयादिह न लिख्यन्ते। रसप्रयुक्तं प्रलापमुदा- हरति-गाढेति॥ पूर्व श्रोत्रयोरेकं मुख्यममृतं वर्षति ताच्छील्येन तां तथो- काम्। संप्रति गाढालिज्ञनसंमर्देन प्रत्यक्षर द्राक्षासदक्षादशेषादपि वर्णात् गल- त्मुधां सतीं ध्रुवां सवाक्कि करोमि। सूत्रिगोऽसत्प्रलापमुद्धाटयितुमाह-सोपहास- मिति॥ सुकुमारा खल्वेषार्यस्य कर्तुरनिर्दयालिक्वनस्य क्षेपर्ण प्रेरर्ण प्रयोग- मिति यावत्। न सहते। 'क्षिप प्रेरणे' इत्यस्य धातोः 'क्षिपेर्वेछ्ः 'इत्यादिना

Page 111

१०२ प्रतापरुद्रीये रन्नापणसहिते

रसास्वादेन तरला ये माद्यन्ति विपश्चितः । त एव भावुका लोके भवन्ति हृदयालवः ॥ १८ ।। एतद्दोषस्य गुणत्वारोपान्मृदवम् । नटी -* अय्यो अणंतरकरणिज्जं णिरूवेदु। सूत्रधार :- नन्वयमिदानीं सभापतिर्देवः स्वयंभूरुपश्लोक्यते। सर्वाङ्गविलसत्सर्वमङ्गलालंकृताकृतेः । रुद्रस्य महिमा भाति विश्वानुग्रहकारिणः ॥। १९। (नेपथ्ये)। भोः सत्यं सत्यम्। सर्वाङ्गविलसत्सर्वमङ्गलालं- कृताकृतिरेवायं रुद्र इति। सूत्रधार :- (सहर्ष) कथमुपक्रान्तमेवास्मद्वाक्यानुगुण्येन प्रस्तुत- स्यानुगुणं कुशलैः कुशीलवैः, यतः काकतीश्वरगुणवर्णनायोद्यतयो- वैंतालिकयोर्वचनमिवोपक्षिप्यते। अयं कथोद्धातः । इदमेव गुणवर्णनात् प्रवर्तकं च। (पुरोऽवलोक्य) कथमेतौ वैतालिकावित एवाभिवर्तेते। *आर्य: अनन्तरकरणीयं निरूपयतु। बेलादेशः । दोषं गुणीकरोति-रसेति ॥ तरला रसलोला ये विपश्चितो विदग्धा रसाख्वादेन माद्यन्ति परवशा भवन्ति, त एव लोके भावुकाश्चर्वणनिपुणाः सन्तो हृदयालवः सहृदया भवन्ति । 'हृदयादालुजन्यतरस्याम्' इत्यालुच्प्रत्ययः । येषां काव्यानुशीलनाभ्यासवशात् विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवन- य्योग्यता अत एव हृदयसंवादभाजः सहृदया इत्यभिनवगुप्ताचार्याः। आर्योड नन्तरकणीयं निरूपयतु। सूत्रधारोऽनन्तरकर्तव्यं प्रतिज्ञापूर्वकमाचरति- नन्वित्यादिना ॥ सर्वाज्े विलसन्त्या सर्वमज्ञलया पार्वत्या अलंकृताकतेरर्धा- ऋजानेरित्यर्थः । अत्र सर्वाङ्गव्यापिसमस्तमञ्ञलालंकृतत्वलक्षणस्य वीररुद्रविषया- र्थान्तरस्यानुगुण सूत्रधारवाक्यमवलम्ब्य वचनमुपक्षिप्यते-नेपथ्य इति ॥ उक्तमर्थमुद्धाटयति-कथमिति । कुशीलवा नटविशेषाः, 'भूमिकाभिर नेका- भिः कर्मवागज्ञचेष्टितैः। यथाप्रकृतिसंधानकुशलास्ते कुशीलवाः ।' इति लक्ष- णात्। अत एवायं कथोद्धातभेद इत्याह-अयमिति ॥ एतच्छ्दोपक्षेपेण प्रयोगातिशयमुदाहरति-कथमेताविति ॥ वैतालिकलक्षर्णं तु भावप्रकाशे 'तत्तत्प्रहरकयोग्यै रागैस्तत्कालवाचिमिः श्ोकैः । सरभसमेव वितालं गायन् चैतालिको भवति ॥' इति। इति प्रस्तावना। अथादौ विष्कम्भं कुर्यादिति

Page 112

नाटकप्रकरणम्। १०३

एषोऽयमित्युपक्षेपात् प्रयोगातिशयः प्रस्तावनाङ्गम्। तदेहि। आवामप्यनन्तरकरणीयाय सज्जीभवावः । (इति निष्कान्तौ।) इति समग्राङ्गा प्रस्तावना। (ततः प्रविशतः काम्पिल्यकलूतकौ वैतालिकौ।) प्रथम :- (सहर्ष) योऽयं जातस्त्रिलोकी प्रथितसुचरिते काकतीयान्ववाये यस्मै श्रेयांस्यजस्त्रं वितरति भगवान् देवदेवः स्वयंभूः । यस्याज्ञा सर्वपृथ्वीपतिमणिमुकुट श्रेणिकेलीवयस्या सोडयं भूपालमौलिर्जयति गुणमहान् रुद्रदेवो नरेन्द्रः॥२०।।

द्वितीय :- सखे, किमुच्यते। यो रुद्रो रजताचले स्थितिमगादर्धाङ्गनारि: पुरा सोडयं संप्रति काकतीश्वरकुले सर्वाङ्गनारी स्थितः ।

मतमवलम्व्य प्रस्तावनानन्तरं वृत्तस्य वर्तिष्यमाणस्य च वीररुद्रचरितस्य निदशकं मध्यपात्रद्वयप्रयोजितं शुद्धविष्कम्भमुदाहरति-ततः प्रविशत इत्यादिना॥ इतः परं खप्नोपदेशपर्यन्तो वृत्तकथाभागः । तत्रोपक्षेपमुदाहरति-योS- यमिति॥ मणिमुकुटश्रेण्या: केलीवयस्या कीडासखी। सवैरपि भूपालैरस्याज्ञा शिरसा धार्यत इति भावः। योऽयमित्यत्रेदंशब्दः प्रसिद्धिमात्रपरो न तु यच्छ- व्दापेक्षितार्थबोधकः, अन्यथोत्तरवाक्ये तच्छब्दप्रयोगानुपपत्तेः । यतोऽनुवाद- वाक्यगतयच्छब्दसंनिहितानां तदेतदिदमदसां प्रसिद्धिपरत्वम्। एवं विधेयवा- क्यगततच्छव्दसन्निहितानामेतदिदमदसामपि। तथैव लोकवेदयोः प्रयोगदर्श- नादित्यादि बहुधा प्रपश्चितमस्मन्महोपाध्यायमह्िनाथसूरिणैकावलीतरले। अतः सोSयमित्यत्राप्येवमेव द्रष्टव्यम्। पुरा किल काकतिकुलसंभूते गणपत्िनाम्नि महाराजे दुहितृमात्रसंताने कदाचित् दैवयोगेन कालपरिपाकमुपेयुषि तन्महिषी रुद्रदेवी नाम राज्ञी बहूनि वर्षाणि तद्राज्यमकण्टकं परिपाल्य परिणता सती दौहित्रे प्रतापरुद्रे राज्यधुरां निद्धे। तामिमां कथां मनसि निधायाह-यो रुद्र इति॥ अर्धाअ नारी यस्यासावर्धात्ननारिः। समासान्तविधेरनित्यत्वज्ञाप- नात् 'नदृतश्च' इति कबभावपक्षे 'गोस्त्रियोरुपसर्जनस्य' इति हखः। सर्वा्िण नारी सर्वाजनारी रुद्रदेवीरूपेण स्थित इत्यर्थः । तत्पुरुषत्वात् परवल्लिक्ता। अथ- वालापि बहुत्रीहिः। प्रत्रियापि पूर्ववदेव। अवतारमेदादाकारभेदेऽपि तस्मिन्

Page 113

१०४ प्रतापरुद्रीये रत्नापणसहिते

स्थाने यद्विषमावलोकनकलामात्रेण भस्मीकृता- न्यासन्वैरिपुराणि चित्रमधुना खड्गे विषं धार्यते ॥ २१ ॥ प्रथम :- सखे साधु समर्थितम्। अन्यथा कथमस्मै महाराजाय रवप्रे कुलगुरुसदृशःस्वयंभूदेवस्ताद्ृशीं श्रेयःसंग्रहकारिकामुपदिष्टवान्। स्वयंभूदेवप्रसादरूपस्य बीजस्य बहूकरणात् परिकरः । द्वितीय :- (सविमर्शाश्रर्य) कथमवगतं राजरहस्यं वयस्येन । प्रथम :- सखे, कस्य वा न विदितमिदम्। यत् सर्वस्मिन्नपि निजनगरे महोत्सवमादिशता रुद्रनरेश्वरेण कुलदेवतायाः स्वप्नोप- दिष्टाः प्रसादविशेषाः प्रख्याप्यन्त एव। कुलदेवताप्रसादरूपस्य बीजस्य प्रख्यापनेन परिनिष्पत्ते: परिन्यासः । द्वितीय :- अहो निरन्तरप्रसादोन्मुखता देवस्य। यथा काकती- यप्रसवेषु श्रेयांस्युत्तरोत्तरमनुबध्यन्ते। एतत् बीजस्य श्रेयोऽनुबन्धरूपगुणख्यापनाद्विलोभनम् । तदस्मिन्नेव महीयसि महे महीमण्डलाखण्डलं चलमर्तिगण्डमुप- श्ोकितुमावयोरयमेवावसरः । तदेहि राजकुलं प्रविशावः । प्रथम :- वयस्य, सांप्रतं पुरोधःप्रमुखानमात्यवृद्धानपि पुरस्कृत्य कल्याणस्वप्नक्रमं मीमांसमानो नृपतिरभ्यन्तरास्थानीमधितिष्ठति । रुद्रे पौरुषभदाभावो नाश्चर्याह इत्याह-स्थान इति॥ यत् यतः विषमावलोकन तृतीयद्ष्टिः अन्यत्र कोधदृष्टिः। तस्य कलामाश्रेणांशमात्रेण वैरिपुराण्यसुरनग- राणि 'स तिस्नः पुरो मित्वैभ्यो लोकेभ्योऽमुरान् प्राणुदत' इति ्रुतरिति भावः। अन्यत्र शश्रुनगराणि। स्थाने युक्तमित्यर्थेऽव्ययम्। कैलासवासिनो रुद्रस्य कण्ठे विषं, काकतिकुलवासिनस्तु स्रीरूपस्य खन्ने विषमिति महदेतदङ्भुत- मित्याह-चित्रमिति ॥ 'गुणाः पूजास्थानं गुणिषु न च लिव न च वयः' इनि भावः। अथ वर्तिष्यमाणकथाभागे परिकरमुदाहरति-सख इत्यादिना॥संग्रह- कारिकां संग्रहशोकम्। रुद्रनरेश्वरेण रुद्रदेव्या। स्त्रीव्यक्तावपि पुंस्त्वेन निर्देशे खय- मेवोपपत्ति वक्ष्यति। काकतीय प्रसवेषु काकतीयसंतानेषु। अनुध्यन्ते अवि- च्छेदेन संवध्यन्ते। महीयति महे महोत्सवे। उद्दण्डपुरुषखण्डको वीरप्रकाण्डक- श्रलमर्तिगण्ड इति विरुदशब्देनोच्यते। वयस्येति ॥ मीमांसमानो विचारयन्।

Page 114

नाटकप्रकरणम् । १०५

तदावामपि तावदितों गत्वा यथावसरं प्रतीक्षावहे। (इति परिक्रम्य निष्कान्तौ।) अयं शुद्धविष्कम्भः । अङ्कारम्भ: ॥ (ततः प्रविशति यथानिर्दिष्टवेषो राजा चामरग्राहिणी च।) राजा-(सहर्षातिशयं) अहो प्रसादातिशयः परमेश्वरस्य । सोमार्काभिजनं तमद्य जयति श्रीकाकतीयान्वयः पातिव्रत्यमुपैति सांप्रतममीष्वस्मासु विश्व्वंभरा। अस्माभिर्निजदोःप्रसूतिमधुना धन्यामजो मन्यते यत्कर्तव्यमुपादिशत् कुलपतिर्देवः स्वयंभू: स्यम्॥२२॥ पुरोधस :- महाराज, भवादृशा एव परमर्हन्ति तादृशमहित्रो देवस्य हितोपदेशान्। अथवा किमत्राभिनवम्। पुत्राणां हितोप- देशाधिकार: पितुरेव। यदित्थं कथयन्ति तद्विदः । सैवोमा चेति निर्दिष्टा सोमा चेति प्रथामगात्। तव माता शिवा साक्षाद्देवो गणपतिः पिता ॥ २३ ॥ मन्त्रिण :- एवमेवैतत्। अन्यथा कथमीश्वरप्रसादाद्टते निरक्कुशं स्त्रीव्यक्तिविशेषस्य लोकाधिपत्यम्। एवं मानुषशंभुना गणपतिमहा- राजनाभ्यन्तरस्यानुभवमहित्रः सदृशमत्र पुत्र इति व्यवहारः कृतः । तदनुगुणा च रुद्र इत्याख्या। इति शुद्धविष्कम्भः । अङ्कमारभते-तत इति॥ हर्षानुभावं प्रियभाषणमाह- सोमेति॥ अभिजनो वंशः । तं प्रसिद्धम् । अमीष्वेवमनुग्रहपात्रेष्विति भावः । अजो ब्रह्मा। निजदोःप्रसूर्ति क्षत्रजातिम्, राजन्यो मनुष्याणामिति तस्या बाहुजत्वश्रवणात्। कुत इत्यत आह-यदिति ॥ रुद्राम्बायाः पितरौ सोमा- म्बागणपतिदेवौ तयोरुमामहेश्वरात्मकत्वं लोकविदितम् । ततः स्वयंभूमहाराजयोः पितापुत्रभावोऽस्ति। अतो हितोपदेशो युज्यत एवेलाह-अथवेत्यादिना ॥ सैवेति॥ सैव तव माता उमा चेति निर्दिष्टा सती लोकैरिति शेषः । सोमा चेति प्रथां प्रसिद्धिमगात्। परस्परसमुच्चयार्थाँ चकारौ। पिता गणपतिस्तु साक्षात् प्रमथाधिपः शिवो देव इति तत्पित्रोः शिवयोश्च तादात्म्यमिति भावः । अथामुष्या भविष्यति निरक्कुशः प्रभाव इति विभाव्य महाराजो दुहितर पुत्र इति व्यवहृतवानित्याह-एवमिति ॥ आभ्यन्तरस्यानुभवमहित्रः दुहितृभावि-

Page 115

१०६ प्रतापरुद्रीये रत्नापणसहिते

पुरोधस :- (सकौतुकं) कीदृशी देवस्य स्वप्नोपदेशपरिपाटी । राजा-(सादर) इदं निवेद्यते । कदाचित् कल्याणे रजनिसमये स्मेरवदनं पुरः प्रादुर्भूतं सयुवतिवपुः साक्षनिटिलम्। स्त्रवन्तीचन्द्राभ्यां महितमुकुटं प्रेक्ष्य किमपि स्वयंभूदेवोऽसावयमिति हठोत्थानमभजम् ॥२४॥ अनन्तरं स्वप्र एव वपुषा तं नमस्कृत्य स्तुवन् सूनृतया गिरा। स्वामिने काकतीयानां रत्नासनमुपाहरम् ॥ २५॥ चामरग्राहिणी -* अहो देवस्स अणुसंधाणं जं सिविणे वि कुलसामिणो समाराहणम्। * अहो देवस्यानुसंधानं यत् खवप्नेऽपि कुलस्वामिनः समाराधनम्। माहात्म्यगोचराया अन्तःकरणवृत्तेरित्यर्थः । अत एवाह तत्रभवान् कविकुल- शिरोमणिः कालिदास :- 'सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रत्ृु -. त्तय: ।' इति। अत्र दुहितरि। तदनुगुणा व्यवहारानुगुणा, रुद्र इति पुंस्त्वेन समाख्येलर्थः । प्राचामियं शैली यदयं लिङ्व्यत्यासेन निर्देश इति। यथा स्त्री- व्यक्तौ शिखण्डीति पुंस््वेन व्यवहारः । यथा चेन्द्रं पुमांसमपि श्रुतिरेव सुब्रह्म- ण्येति स्त्रीत्वेन निर्दिशति। तथा च षड्विशब्राह्मणम्-सुब्रह्मण्यों सुब्रह्मण्यों सुब्रह्मण्योमिति स्त्रियमिव त्रिराह इति। एवमुत्तरत्रापि द्रष्टव्यम्। खवप्नोपदेश- क्ममादरवशात् प्रतिज्ञापूर्वकं निवेदयति-इदमिति॥कदाचिदिति॥ कल्याणे शुभग्रहयोगादिना मजले, रजनिसमये गोविसर्गादौ स्मेरवदनं प्रसादोन्मुखत्वात्। सयुवतिवपुरर्धात्ञजानीत्यर्थः। साक्षनिटिलं फाललोचन सहित मित्यर्थथ: । उभय बहु- ब्रीहिगर्भो बहुब्रीहिः। 'बहुत्रीहौ सक्थ्यक्ष्णोः' इति षजन्तः साक्षशब्दः । स्रवन्ती मन्दाकिनी। किमपि वक्तुमशक्यं वस्तु प्रेक्ष्य। हठशब्देन चिरन्तनतटाकोदका- च्छादितहरित द्रव्यमुच्य ते। तदुत्सार्यमाणमपि स्वच्छन्दतो मुहुरुदकमाच्छा- दयतीति स्वच्छन्दव्यवहारो लक्ष्यत इत्युक्तमाचायरुद्विदधिकरणे। एवमत्र संत्रमेणाप्याच्छादनसंभवात् संत्रमो लक्ष्यत इति वदामः । तेन हठोत्थान संत्रमोत्थानमिति वेदितव्यम्। खप्रे देवतादिदर्शने फलं दैवज्ञवल्लमे-

सितद्विजादर्शसुवासिनीनाम् । सुवर्णधान्याब्जफलेग्रहीणां भक्ष्यान्रत्नाम्बरवाह- नानाम्। संदर्शनं श्रेष्ठमुशन्ति सन्तः खप्रे भृतानां च सुचेष्टितानाम् ॥' इति ।

Page 116

नाटकप्रकरणम् । १०७

पुरोधसः-किमुच्यते। आविष्टभक्तयः खलु स्वयंभूदेवे काक- तीिनरदेवाः। ततः । राजा- शय्याशिगःस्थानकृतस्य पूर्णकुम्भस्य तोयैः परिकल्प्य पाद्यम् । अतीन्दुसारैर्मणिभि: किलाहमपूजयं दैवतमस्मदीयम्।२६॥ अथ च विभु: स्वयंभूरवदच्छुचिस्मितां गिरं स्ववामार्धवधूपलालिताम्। स्पृशन् करेणाभयदानशालिना कृताञ्जालें मां विनयानताननम्।। यत् किल उन्मस्तकैर्मध्यमलोकभाग्यैस्तपोविशेषैरनघैः पृथिव्याः । अभजमित्यनद्यतने लह्। तेन चतुर्थयामादर्वाचीनः खप्न इति सूच्यते। तत्फलस्य राज्यलक्ष्मीप्राप्तिरूपस्य विजययात्रया द्वित्रमासविलम्बसंभवात्। तदुक्त बृहस्प- तिमते खप्नाध्याये-'खप्नस्तु प्रथमे यामे वत्सरेण विपच्यते। द्वितीये चाष्ट मिर्मासैस्तिमिमासैस्तृतीयके ॥ अरुणोदयवेलायां दशाहेन फलं भवेत्। गोविसर्ज- नवेलायां सद्यः खप्नफलं भवेत् II' इति। वपुषा नमस्कृत्य साष्टाजं प्रणम्येत्यर्थः । 'सत्यं प्रियं च वचनं यत्तत् सूनृतमुच्यते ।' नृतेर्मृलविभुजादित्वात् कप्रत्ययः । 'अन्येषाभपि' इति सोर्दीर्घः । आविष्टं भक्तिर्येषामिति लिन्गसामान्ये नपुंसक- पूर्वपदो बहुव्रीहिः, स्रीपूर्वपदत्वे भक्तिशब्दस्य प्रियादिपाठात् 'अप्रियादिषु' इति निषेधेन 'स्त्रियाः पुंवद्-' इत्यादिना पुंवद्धावप्रतिषेधप्रसभ्वात्। अत एवाह वृत्तिकार :- 'दृढभक्तिरित्येवमादिषु स्त्रीपूर्वपदत्वस्याविवक्षितत्वात् समाधेयम्' इति। भोजराजस्तु 'कर्मसाधनस्यैव भक्तिशब्दस्य प्रियादिपाठो न भावसाधनस्य । दृढभक्तिरित्यादौ तु भावसाधनत्वान्न कश्चिद्विरोधः' इत्याह । प्रपश्चितं चैतत्तातपादैः संजीविन्यादौ तत्र तत्रेत्यस्मामिरुपरम्यत। तस्मादत्रापि स्त्रीपूर्वपदो वा बहुत्रीहिरनुसंधेयः । शय्याशिरःस्थाने पूर्णकुम्भस्थापन मज्जलार्थम्। तदुकं स्मृतिरन्नावल्याम्-'माङ्गल्यं पूर्णकुम्भं तु शिरःस्थाने विधाय च । वैदिकैर्गारुडैर्मन्त्रै रक्षां कृत्वा खपेन्निशि ॥' इति। अतीन्दुसारैरत्युज्ज्वलैः । खप्ने देवतार्चने 'सुरपूजोतसवसेवा नैवेदं नृत्तगीतवाद च' इत्यादिना दैवज्ञ- वल्भोक्तं महाफलं द्रष्टव्यम् । मणिपूजाफलं च पुष्पसारसुधानिधौ-'सुवर्ण- कुसुमैर्दिव्यैर्मणिविद्रुमविस्तृतैः । राजतै रत्नसंभूतैरथवा चित्रवस्त्रकैः ॥ येऽर्चय- न्ति हरं भक्त्ा नरास्ते स्युर्महेश्वराः ।' इति। पूजानन्तरं वृत्तमाह-विभुरि- ति। खवामार्धवधूपलालितां पार्वत्यानुमोदिताम्। अभयदानशालिना प्रसाद- सूचकेनेत्यर्थः । उन्मस्तकैः उद्द्गितशिरस्कैः अतिप्रभूतैरित्यर्थः । मध्यमलोकस्य

Page 117

१०८ प्रतापरुद्रीये रन्नापणसहिते

सम्यकूफलैः सच्चरितैः प्रजानां प्रतापरुद्रोऽयमिहावतीर्णः ॥२८। वत्स काकतीयकुलप्रदीप, स्वीकृते पुत्रभावेन दौहित्रे प्राडमाज्ञया। अस्मिन्निधेहि धौरेये गुर्वीमुर्वीधुरामिति ॥ २९॥ पुरोधस :- (सप्रमोदं) महाराज, काकतीयकुलयोगक्षेमविधान- दक्षिणेन दाक्षायणीपतिना साक्षादेवमादिष्टम्। तवाप्ययमेव मनो- रथः । प्रियंकरञ्रायं महोत्सवः प्रजानाम्। तदारोहतु प्रागतिसृष्ट- यौवराज्यस्य प्रतापरुद्रस्य भुजशिखरं सागरमेखला। ततस्ततः । इयं प्रयोजननिर्धारणरूपा युक्ति: । राजा-तद्वचनमाकर्णयन्ती निर्भरहर्षविकस्वरलोचना मेदि- न्यपि देवस्य पार्च्े हष्टा। चामरग्राहिणी -* महाराअस्स हिअअं अणुवट्टमाणाए वसुंधराए उइदो खखु हरिसाविभ्भावो। एषा स्वयंभूदेवस्य वचनाकर्णनेन मेदिन्या: सुखागमेन प्राप्तिः। राजा-काकतीयकुलश्रेयसां देव एव प्रमाणमिति तस्याज्ञा मया शिरसि धृता। देवोऽपि सप्रसादातिशयमवलोक्यान्तर्हिंतोS- भूत्। *महाराजस्य हृदयमनुवर्तमानाया वसुंधराया उचितः खलु हर्षाविर्भावः । भाग्यैरदृष्टपरिपाकैः । तपोविशेषैः कृच्छरचान्द्रायणादिमिः । सच्चरितैः स्वखवर्णा- श्रमोचितव्यापारैः । अत्र भाग्यादिनिमित्तभेदात् विच्छित्तिविशेषं वस्तुं मध्यम- लोक एव समष्टिव्यष्टिभ्यामाश्रितः । प्रजापृथिवीव्यतिरिक्तमध्यमलोकासंभवा- दिति द्रष्टव्यम्। एवं चास्मिन् राज्यं शासति सस्याकरादिसंपत्तिः प्रजासमृद्धिश्च प्रभवतीति फलितम् । वत्सेति ॥ रुद्राम्बायाः पुंस्त्वेन संबोधनम्। प्राक् जन्मकाले। धुरं वहतीति धौरेयो धुरन्धरः । 'धुरो यड्ढकौ' इति ढक्। उर्वीधुरामित्यत्र 'ऋक्पू-'इत्यादिना समासान्तोSप्रत्ययस्ततष्टाप्। सप्रमोदमि- ति॥ अस्मिन्नर्थे विप्रतिपत्तेरभावादिति भाव । तदुक्तं बृहस्पतिमत-देवताश्च द्विजा गावः पितरो लिक्विनिस्तथा। यद्वदन्ति नरं खप्ने तत्तथैव विनिर्दिशेत् ॥ इति। प्रिय करोतीति प्रियंकर: । 'क्षेमप्रियमद्रेऽण च' इति खशप्रत्ययः। अतिसृष्टं दत्तमू। खप्रशेषमाह-तद्वचनमिति ॥ खम्निवेदनं निगमयति-काकती-

Page 118

नाटकप्रकरणम् । १०९

इदं मेदिनीप्राप्तिहेतोर्बींजस्य स्वयंभूदेवोपदेशस्याङ्गीकरणात् समाधानम् । मन्त्रिण :- विश्वप्रियंकरः खप्नप्रत्ययः । किंतु काकतीयनरेन्द्र- वृद्धोचितमाचारमनुवर्तमानस्य देवस्य नगरनिवासवैमुख्यं तथा कुल- धुरंधरस्य वीररुद्रस्य विश्वरक्षाक्षमे बाहुपरिघे राज्यधुराविश्रान्ति- रिति च विषाद्हर्षयोः सीमानं स्पृशत्यस्माकं मनः । एतत्सुखदुःखहेतुभूतं विधानम्। चामरग्राहिणी -* अच्चरिअं अच्चरिअं। कुलामच्चमुह्देणेव्व पव्वईवल्लहेण एव्वमुवदिट्ठम्। इयं बीजविषयाश्चर्यरूपा परिभावना। राजा-(सहर्षातिशर्य, अमात्यान् प्रति) अयं काकतीयकुलश्रेयःक- ल्पलताप्ररोहः स्वयंभूदेवानुग्रहः सर्वेषामपि श्रवणमहोत्सवः क्रियताम्। एष बीजप्रकाशनादुद्गेदः। मन्त्रिण :- यदाज्ञापयति काकतीयपरमेश्वरः । राजा-किमिदानीं कर्तव्यम्। पुरोधस :- महाराज, किमन्यत्। सज्जीक्रियतां प्रतापरुद्रदेवस्य राज्याभिषेकसंभार: । एष बीजानुगुणप्रोत्साहनरूपो भेद: । मन्त्रिणः-दिग्विजययात्रावशीकृतानां सर्वपार्थिवानां वर्गेणा- नीतैः सकलतीर्थसलिलैः प्रकाशितं स्वयंभूदेवप्रसादं महाभिषेकमनु- भवतु राजपुत्रः । पुरोधसः-उचितमनुमन्त्रितं मन्त्रिभिः । राजा-तर्हिं जैत्रयात्रासाधनानि सज्जीक्रियन्तां षड्विधानि बलानि । अह्मपि सज्जो भवामि। *आश्चर्यमाथ्चर्यम्। कुलामात्यमुखेनैव पार्वतीवल्लभेनैवसुपदिष्टम्। येति॥ विश्वेति॥ प्रियंकरादिशब्दा अनुपदमेवोक्ताः । घुरंधरशब्दस्तु नायक- प्रकरणे। अयं काकतीयेत्यादि ॥ स्पष्टम्। षड्विधानि मौलादिरूपाणि प्र 10

Page 119

११० प्रतापरुद्रीये रत्नापणसहिते

एष आरम्भ:। इदं बीजानुगुणारम्भरूपं करणम् । एव- मारम्भवीजसंबन्धरूपः साङ्गो मुखसंधिः। (नेपथ्ये) वैतालिकौ-सुखाय माध्यन्दिनी संध्या भवतु देव- स्य। यदिदानीं- लोकालोकगिरीन्द्रकन्दरतमःसंदोहदर्पापहं त्वत्तेज:पटलं कियन्ति भुवनान्याक्रम्य संक्रीडते! इत्यालोकनकौतुकीव शिथिलस्वीयाधिकारश्रमो भासानेष समग्रदीप्तिरधुना व्योमाग्रमारोहति॥ ३० ॥ अपि च -. उद्रायन्ति शरन्निशाकरकरस्तोमत्विषस्त्वद्गुणान् क्रीडन्त्यो मलयाद्रिचन्दनलताकु्जे भुजङ्गाङ्गनाः। पीत्वा तत्तदुदीर्णवर्णगलितां प्रत्यग्रधारां सुधां वाताहारतया प्रभूतमयशः प्रक्षालयन्त्यो निजम् ॥३१॥ इदानीं खलु-

बलानि। 'मौलं भृतं सुहृच्छेणी द्विषदाटविकं बलम्' इत्यमरकोशामिधानान्। अत्र विष्कम्भादौ वैतालिकवाक्योपक्षिप्तस्यान्ञवशादनुवर्तमानस्य बीजस्य नायक- व्यापारस्य स्वरूपात् किंचिदुच्छूनत्वलक्षणारम्भसंबन्धान्मुखसंधिरित्याह-एव- मिति ॥ मध्याह्वर्णनमारभते-सुखायेति। लोके यर्त्किंचन विप्रकृष्टं वस्तु दिद्दक्ष वो वृक्षाग्रमद्रिश्रृअं वारोहन्ति। तत्समाधिमावर्तनविकर्तनस्याह-लोकालो केति॥ संक्रीडते-'कीडोऽनुसंपरिभ्यश्ष' इत्यात्मनेपदम् । स्वीयाधिकारस्त- मोSपहत्वलक्षणस्तननिमित्तः श्रमः शिथिलो यस्य स तथोक्तः । एतथ्च राजतेजस एव तद्धारोद्वहनादिति वेदितव्यम् । अत एवालोकनकौतुकीवेत्युत्प्रेक्ष्यते। तत्र निमित्तमुपादत्ते-अधुनेति ॥ उद्गायन्तीति ॥ मलयाद्रिचन्दनलताकुजे दिवा बिहारदेशे इत्यर्थः । तदुक्क भावप्रकाशे-'सरितः पुलिनं वेला कान्तारारामभूध- राः । लताग्ृहाणि चित्राणि शय्या किसलयाश्चिता ॥ दिवा विहारदेशाः स्युः ।' इति। कीडन्त्यः, निजरमणैरिति शेषः । तत्तदिति वीप्सायां द्विर्भावः। उदीर्ण- वर्णादुचारिताक्षरात्। गलितां गलन्तीमित्यर्थः । 'मतिबद्धिपूजार्थेभ्यश्ष' इत्यत्र चर्शब्दस्यानुक्तसमुच्चयार्थत्वात्। अत एवाह वृत्तिकार :- 'सुप्तशयितेत्येवमादयो वर्तमाने द्रष्टव्याः' इति। इदमेव कवेर्विवक्षितम्। यदन्यत्र प्रत्यक्षरगलत्सुधा-

Page 120

नाटकप्रकरणम् । १११

आघ्राय किरणान् भानोर्यजुरामोदमेदुरान्। यतन्ते कृतिनः सर्वे क्तुं माध्याह्निकीं क्रियाम् ॥ ३२॥ राजा-(आकर्ण्य सर्वान् प्रति) साधयत यूयमभिमताचरणाय। अह्मपि तावदभ्यन्तरं प्रविशामि । (इति यथोचितमुत्थाय परिक्रम्य निष्कान्ताः सर्वे।) इति नाटकप्रकरणे कल्याणस्वप्नो नाम प्रथमोडक्कः ॥ (नेपथ्ये) -* इदो इदो अज्जो। (ततः प्रविशति वृद्धकञ्चुकी ।) कञ्चुकी-(सहर्ष) चिराय यौवनमतिशयानया चरितार्थया जरयानया संचरे। यया दीर्घायुषा प्रतापरुद्रमहाभिषेकमहो- त्सवमनुभवितास्मि। एष मध्याह्ववर्णनया विच्छिन्नस्य प्रकृतार्थस्य पुनरवमर्शा- द्विन्दुः। अपि च- पदे पदे रखलन्तं मां वाचा गत्याथ चेष्टया। अवलोक्य हसन्नास्ते स्वामी रुद्रनरेश्वरः ॥ १ ॥

*इत इत आर्यः । मित्य वोचत् । अत एव प्रत्यग्रधारामतिरसामित्यर्थः । आघ्रायेति॥ यजुरे- वामोदः परिमलविशेषः तेन मेदुरांस्तन्मयानित्यर्थः । 'यजुर्वेदे तिष्ठति मध्येऽ- हः' इति श्रुतेः । 'भज्जभासमिदो घुरच्'। एतेन भानुकिरणानां पुष्पसमाधिसिद्धे: ज्ञात्वेत्यस्मिन्नर्थे आघ्राय इति पदं बोद्धव्यम्। मध्याह्े कर्तव्या माध्याडिकी.। 'कालाठ्ठक' इति शैषिकष्ठक्त्ययः । इति नाटकप्रकरणे प्रथमोऽक्कः । चूलिकामुदाहरति-नेपथ्य इत्यादिना ॥ ततः प्रविशतीति॥ नेपध्यमेव न रज्ञमन्यथा चूलिकालक्षणभङ्गप्रसन्वात्। यौवनमतिशयानयेति॥ अत्रैव पुरुषार्थलाभादिति भावः। जरया संचर इति ॥ 'समस्तृतीयायुक्तात' इत्यात्मनेपदम् । पुरुषार्थमाह-ययेति । अनुभवितास्मि। अनद्यतने लुट्। बिन्दुं योजयति-एष इति ॥ इतोऽपि जरायाः शलाध्यत्वमेवेत्याह-पदे पद

Page 121

११२ प्रतापरुद्रीये रत्नापणसहिते

(सविमर्शाश्रर्य) काकतीयनरेन्द्रस्य राज्यश्रीर्मूलवेश्मनः । युवराजगृहानद्य गवाक्षैः स्वैरमीक्षते ॥ २ ॥ एष राज्यलक्ष्म्याः प्रतापरुद्रगतामिलाषाद्विलासः। (पुरोऽवलोक्य) कथमयं राजपुत्रपरिचारको दारकः ससंभ्रमं मामभिवर्तते। (प्रविश्य) दारक :-* अय्य पणमामि । कञ्चुकी-भद्र कल्याणास्पदं भूयाः। किमनुमतं राजपुत्रस्य दिग्विजयप्रस्थानं रुद्रनरेश्वरेण । दारक :- कहं कहं वि अणुमदम्। कञ्चुकी-सवनामानुगुणमिदं राजपुत्रस्य यत् सज्जीकृतसाधनं महाराजं सपादोपग्रहं निवार्य स्वयमेव जैत्रयात्रायामुत्तिष्ठते । दारक :- अय्य अणणुहूदजुझझपरिस्समो जुवराओ। दुक्खरो खु दिअंतजओ कहं भविस्सइ। कञ्चुकी-भद्र, निरङ्कुशाः स्वयंभूदेवप्रसत्तयः। विष्णोरवतारः खल्वयं वीररुद्रोऽप्यचिन्त्यमहिमा। एष दृष्टनष्टवीजानुसरणरूप: परिसर्पः । अत्र स्म्वृत्तान्तख्यापनाल्लक्ष्यस्य दिग्विजययात्रोद्यमेना- लक्ष्यस्य बीजस्योद्भेद इति प्रतिमुखसंधिरयम्। *आर्य प्रणमामि। +कर्थ कथमपि अनुमतम्। आर्य, अननुभूतयुद्धपरिश्रमो युवराजः । दुष्करः खलु दिगन्तजयः कथ भविष्यति। इति॥ सपादोपग्रहमिति ॥ सव्यदक्षिणपाणिभ्यां सव्यदक्षिणपादोपस्पर्श- रूपो गुरुनमस्कार: पादोपग्रहः । तदुक्क मनुना-'व्यत्यस्तपाणिना कार्यमुप- संग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥' इति। उत्तिष्ठते उद्ुङ्के। 'उदोऽनूर्र्वकर्मणि' इत्यात्मनेपदम् ॥ भद्रेति॥ अत्र पूर्वाङ्के खवम्र- दृष्टस्य मध्याह्वर्णनया नष्टस्य च बीजस्य स्वयंभूदेवप्रसादरूपस्य 'भद्र निरककुशाः' इत्यनेनानुसर्पणात् परिसर्प इत्यर्थः । अत एवायं प्रतिमुखसंधिरित्याह-अत्रेति ॥

Page 122

नाटकप्रकरणम् । ११३

दारक :-* एव्वं एदम्। अमाणुसो खु सो पहावो। कञ्चुकी-कुत्रेदानीं राजपुत्रः । दारक :- 1काअईअकुलदुग्गादेवीसमाराहणेण विअअपत्थाण- मंगलं काऊण तत्थ हणुमदअलपेरंतवहिरुज्जाणे णिवेसिअखंधावारो अमच्चपरिवुदो जुवराओ चिट्ठइ। ता अणुजाणीहि मम तत्थ पत्थाणं। कञ्चुकी-भद्र साधय। अह्मपि राजकुलं प्रविशामि। (इति यथोचितं परिक्रम्य निष्कान्तौ।) इयं चूलिका। (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणः परिजनश्।) प्रतापरुद्र :- किं राज्येन शमोन्मुखं रचयता तातं कुलालम्बनं किं चास्मिन् समुदाहरन्ति महतो दोषान् बहून् सूरयः। धर्माध्वा च खिलीकृतोऽयमधुना कः संचरेदस्खलं- स्तन्नेष्टं किल यौवराज्यमपि मे बाल्योत्सवे क्रीडतः ॥।३॥ एवमेतत्। अमानुषः खलु स प्रभावः । + काकतीयकुलदुर्गादेवीसमाराधनेन विजय प्रस्थानमज्नळं कृत्वा तत्र हनु- मदचलपर्यन्तबहिर्द्याने निवेशितस्कन्धावारः अमात्यपरितृतो युवराजस्तिष्ठति। तदनुजानीहि मम तत्र प्रस्थानम्। उद्धेद: प्रकाशनम्, भद्रेत्यादिवाक्येनेति भावः। एवमेतदित्यादि॥ स्पष्टम्। इयं चूलिका। किमिति॥ तातं शमोन्मुखं विरक्तं रचयता राज्येन, मय्यर्पितेन सतेति शेषः । किं, न मे किंचित् साध्यमस्तीति भावः । न केवलमस्मिन् राज्ये पितृवियोगादिष्टहानिर नेकमहादोषसंभवादनर्थप्राप्तिश्चेत्याह-किं चेति॥ अत एवोकं महाभारते शान्तिपर्वणि भीमं प्रति युधिष्ठिरेण- 'असंतोषोऽप्रमोदश्व मदो रागोSप्रशान्तता। बलमोजोऽमिमानश्च समुद्वेगक्र सर्वतः ॥ एमिः पाप्ममिराविष्टं राज्यं त्वमिकाङ्कसि ॥' इति। नन्वेवं सति 'यद्ह्वा कुरुते कर्म प्रजा धर्मेण पालयन्। दशवर्षसहस्राणि तस्य भुङ्कं महत् फलम् ॥' इत्यादिना राज्ये महाफलप्रतिपादकमन्वादिवचनविरोधः स्यादित्या- शङ्कय तस्य युगान्तरविषयत्वाभ्न विरोध इत्याशयेनाह-धर्माध्वेति ॥ अयं य्यज्ञदानतपोज्ञानलक्षणः । खिलीकृतः संप्रति पादमात्रावशिष्टत्वादिति भावः। अत

Page 123

११४ प्रतापरुद्रीये रत्नापणसहिते

तद्वयं महाराजभुजपरिघमसृणितेषु दिगन्तेषु विजययात्राविनो- देन बिहरामहे। एतद्राज्येSनिच्छाभिधानाद्विधूतम्। मन्त्रिण :- राजपुत्र, सर्वपथीनया काकतीयान्वयभाग्यसंपदा त्वां धुरंधुरं लब्ध्वा नरेन्द्रश्चिरमासक्तां धुरं शिथिलायेतुमध्यवस्य- ति। आचारश्चायं काकताश्वराणां यद्धौरेये पुत्रे शमोन्मुखत्वम्। कुलस्वामिना स्वयंभुवाप्येवमेवानुशिष्टम्। अनतिक्रमणीया राजपुत्रेण गुर्वोर्गरीयसी खल्वाज्ञा। कलिकालदोषशिथिलधर्मप्रतिष्ठां निर्वोदुं वोढुं च महतीं महीधुरामवतीर्णस्य काकतीयविष्णोस्तव न सांप्रतं प्रत्याख्यातुम् : प्रतापरुद्र :- (सानुरोधं) स्वयंभूस्तात इत्येतावीश्वरौ दिव्यमानुषौ। तयोरन्यतरो राजा युवराजोऽस्मि सर्वथा ॥४॥ मन्त्रिण :- राजपुत्र, साधारणोडयं नियमः (विनयः) काकती- श्वराणां स्वयंभुवि महाराजे। एष ग्रकृतविषयारत्युपशमाच्छमः । एवोक्तं सूर्यसिद्धान्ते-'कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया' इति । आदित्यपुराणेऽप्युत्तम्-'न विद्वत्ता न शुद्धोऽर्यों न शुद्धिर्मनसः कलौ' इति ! अधुना कलिकाले अस्खलन्नप्रमत्तः कः संचरेत् । न कोऽपि संचरितुं शक्तुया- दित्यर्थः । 'शकि लिङ्ड् च' इति लिड्। तृतीयाभावाभ्नात्मनेपदम्। तद्यौव- राज्यमपि नष्टं किल, किमुत दुषट राज्यमिति भावः । मसृणितेषु निष्कण्टकी- कृतेषु। अत एव स्वस्य न प्रयास इति विनयोक्तिः। राजपुत्रति ॥ सर्वान् पथो व्याप्नुवत्या सर्वपथीनया । 'तत्सर्वादेः' इति खप्रत्ययः । आचारश्वेति ॥ 'धम्ये वर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मवित्। पुत्रसंक्रामितश्रीश्च बने वन्येन वर्त- येत् ।।' इति व्यासस्मरणात्। गुर्वोर्दिव्यमानुषयोरगरीयसी गुरुतरा पूज्यतमेति या- वत्। 'प्रियस्थिर-' इत्यादिना गुरोर्गरादेशः । किंच धर्मसंस्थापनार्थमेवावतीर्ण- स्य विष्णुमूर्तेस्तवेदं दुष्परिहरमित्याह-कलिकालेति ॥ प्रत्याख्यातुं परिहर्तुम् । तर्हि तावत् स्वयंभूदेव एव महाराजोऽस्तु, पूर्ववदेवाहं युवराज एवेति वचन- भज्नया राज्यमशीकरोति-स्वयंभूरिति ॥ अरत्युपशमात् द्वेषनिवृत्तेः ।

Page 124

नाटकप्रकरणम् । ११५.

परिजन :-* काअईअकुलट्ठविरो तत्तभवंतो सअंभूदेवो धुरं धारेदु। राअउत्तो उण रज्जसिरिअं अंके आरोवेदु। (प्रतापरुद्रः समन्दस्मितं परिजनमवलोकयति।) एतत् परिहासवचोरूपं नर्म। परिजन :- चिरेण चरिअत्था मेइणी संवुत्ता । गोत्तगिरिसिहरणिठ्ठरबिअडसिलावसइबब्बरंगीए। खोणीए होदु वासो बाहुम्मि पआवरुद्दस्स ॥ ५ ॥ जह हरिचंदस्स भुए जह रहुणाह्स्स बाहुफलअम्मि। काअइलच्छीपइणो बाहुम्मि तहा मही रमदु ॥ ६ ॥ (प्रतापरुद्र: सबाहुस्फुरणमधोमुखस्तिष्ठति ।) एषा परिजनवचनोत्था श्रीतिर्नर्मद्युतिः । मन्त्रिण :- राजपुत्र, काकतीयपुरुषोत्तमस्य तव पाणिग्रहणाय स्पृह्यन्ती राज्यलक्ष्मीर्विलम्बं न सहते । परिजन :- *विज्जावहूणं अहिअं दठ्ठण पइम्मि पणअविस्संभं। खोणी लच्छी अ कहं विलंबिअं सहउ जुवराए।। ७। मन्त्रिण :- इत्थमेव । *काकतीयकुलस्थविरस्तत्रभवान् स्वयंभूदेवो धुरं धारयतु। राजपुत्रः पुना राज्यश्रियमक्के आरोपयतु। + चिरेण चरितार्था मेदिनी संवृत्ता। गोत्रगिरिशिखर निष्ठुरविकटशिल वसतिबर्बराज्याः। क्षोण्या भवतु वासो बाहौ प्रतापरुद्रस्य ॥ यथा हरिश्चन्द्रस्य भुजे यथा रघुनाथस्य बाहुफलके। काकतिलक्ष्मीपतेर्बाहौ तथा मही रमताम्॥ * विद्यावधूनामधिकं दृष्ट्ा पत्यौ प्रणयविस्त्रम्भम्। क्षोणी लक्ष्मीक्ष कथ विलम्बित सहतां युवराजे॥ सवाहुस्फुरणमिति ॥ पुंसो दक्षिणबाहुस्फुरणं शुभनिमित्तमिति वक्ष्यते। नर्मवचनमनुरागयीजोद्धाटनम्। विज्जेति ॥ वधूनां भर्तृवाल्भ्यमवलोक्य सपत्न्यः समुत्सुका भवन्तीति भावः । राज्यश्रियो वासकसज्जिकासमाधिमाह-

Page 125

११६ प्रतापरुद्रीये रत्नापणसहिते

स्वतेजसा परिष्कृत्य प्रधानागारमुत्सुका। प्रतीक्षतेऽद्य राज्यश्रीर्युवराजसमागमम् ॥ ८॥ एष मन्त्रिणां परिजनस्य च वाक्यैर्बीजानुरागप्रकाशनाव् प्रगम: । परि० -* कहं अंदरिओ खु एसो महूसओ दिसाविजअजत्ताए। एतद्दिगन्तयात्रया प्रकृतकार्यविलम्बनान्निरोधः । मन्त्रिण :- (सावजं) कथ चिरयन्त्यन्ध्रचमूपतयः । अथवा किं तै। वयमपि न केवलं मन्त्रशस्त्राः, किंतु बहुशः समरापदाना- राधितस्वामिन एव। एतन्निष्ठुरवचनरूपं वज्रम्। (प्रविश्य) दौवारिक :- जिदु जेदु जुअराओ। एदे खु चमू- पइणो पडिहारभूमिभाअम्मि सज्जीकिअचउरंगबला वट्टन्ति। मन्त्रिण :- अचिरं भोः प्रवेशय। दौवारिक :- तथा। (इति निष्कम्य सेनाधिपतिमिः सह पुनः प्रविष्टः ।) सेनापतयः-(यथोचितं प्रणम्य) स्वामिन् काकतीयकुलतिलक, सर्वतोमुखाटोपा वाहिन्यः शौर्योदन्वन्तं भवन्तमनुप्राप्ता एव। तद- नुगृह्यालुना कटाक्षेण निरीक्ष्यन्ताम्। *कथमन्तरितः खल्वेष महोत्सवो दिग्विजययात्नया। +जयतु जयतु युवराजः । एते खलु चमूपतयः प्रतीहारभूमिभागे सज्जी- कृतचतुरजचला वर्तन्ते। स्वतेजसेति ॥ गतार्थमेतत्। कहमिति॥ निरोधनलक्षणे छद्मनेत्युक्तम्। तत् कारणमात्रोपलक्षणमिति द्रष्टव्यम्। सावज्ञमिति॥ समरमेवापदानमद्भुतकर्म तेनाराधितस्वामिन: प्रसादितेश्वराः । वज्रलक्षणे प्रत्यक्षग्रहण केवलस्याप्युप- लक्षणमित्याशयेनाह-एतन्निष्ठुरेति ॥ द्वारे नियुक्तो दौवारिको वेत्रधरः । 'तत्र नियुक्तः' इति ठक्। 'द्वारादीनां च' इत्यैजागमः । स्वामिन्निति ॥ सर्वतोमुखाटोपा: सर्वतोदिक्संत्रमाः । वाहिन्यः सेनाः । शौर्योदन्वन्तमिति रूपकबलादुदकसंत्रमवत्यो नद्यश्चेति लभ्यते। अनुगृहयालुनानुग्रहीत्रा कटाक्षेण अनुग्रहद्दष्टथेत्यर्थः । गृह ग्रहणे इत्यस्माद्धातोरदन्ताच्चुरादिणिचि 'स्पृहिग्रहि-'

Page 126

नाटकप्रकरणम् । ११७

एतदनुनयवचनरूपं पर्युपासनम्। मन्त्रिण :- राजपुत्र, तर्हिं समारुह्यतां प्रतिपक्षनिवारणो वारणः । आलोक्यन्तां निरन्तरपरिपन्थिप्रमाथिन्यो वरूथिन्यः। प्रस्तूयतां सेनापुरःसराक्रान्तसकलसामन्तविजयस्थानं प्रस्थानम्। प्रतापरुद्र :- यथाभिरुचितममात्येभ्यः। (इति गन्धगजाधिरोहणं नाटयति।) मन्त्रिण :- करोदग्रेण महसा विष्यगाक्र्कमितुं दिशः । आरोहति गजं वीररुद्रो भास्वानिवोदयम् ॥९॥ एतत् प्रकृतानुगुण्येन विशेषबन्धवचनं पुष्पम्। (सर्वे युवराजहस्तिन पुरस्कृत्य ससंबाध किंचित् परिक्रामन्ति।) सेनांपतय :- (सोत्साहप्रणामं) स्वामिन्नितो दीयतां दृष्टिः । धावत्पादातपादाहतिदलितमहीरन्ध्रनीरन्ध्रनिर्यद्-

उद्यन्निस्साणराणस्तनितपटपटद्दिक्तटाः प्रारभन्ते प्रावृट्लक्ष्मीं ध्वजिन्यः करिकरटतटस्यन्दिदानाम्बुधाराः ॥ इत्यादिनाल्ुच् प्रत्ययः । अतो लोपस्य स्थानिवत्त्वान्न लघूपधगुणः । राजपुत्नेति॥ परिपन्थिप्रमाथिन्यः शत्रुघातिन्यः वरूथिन्यः सेनाः। प्रस्तूयतामिति॥ प्रस्थाना- रम्भ एव नासीरैः सामन्तनगराण्याक्म्यन्त इति सेनाबाहुल्यं सूच्यते। यथे- ति। गन्धोपलक्षितो गजो गन्धगजः । यद्यपि गजशास्त्रे त्रैवर्णिकजातिगजेषु गन्ध उक्तस्तथाप्यौचित्यादन्न क्षत्रियजातिरुच्यते। तदु्क्त-'भद्रश्रीहरिताल गुग्गुलशिलागन्धोऽतिशूरो रणे नानाशस्त्रनिपातवेगसहनः स्तम्बेरमः क्षत्रियः ॥' इति। अत् शुभाशुभगन्धविभागस्तदभिव्यक्तिस्थानं च तत्रैवोक्तम्-'स्वेदे द्वारमले शुभाशुभकरं गन्ध सुधीलक्षयेत् सेव्यो भूरुहलाजपाटलघृतप्रख्यः प्रश- स्तस्तथा। एतस्मादपरोऽशुभोऽयमुदितः सत्त्वेन रूपेण यो युक्तः सोऽपि मतज्ञजः समुचितः कल्याण इत्युच्यते ॥' इति। करेति ॥ करेणोदग्रेणोद्धतेन महसा तेजसा भुजबलेनेत्यर्थः। अन्यत्र करैः किरणैः । उदयं पूर्वपर्वतम् । अत्र मन्त्रिणां वीररुद्रं प्रति रागप्रकाशविशिष्टवचनात् पुष्पं नामान्मित्याह-एत- दिति। प्रकृतानुगुण्येन बीजानुकूल्येनेत्यर्थः । विशेषबन्धो रागविशेषबन्ध इत्यर्थः । धावदिति॥ पदातीनां समूहः पादातम्। मिक्षादित्वादण्प्रत्ययः। निस्साण- राणो निस्साणध्वनिः । राण इति ॥ यद्यपि 'वशिरण्योरुपसंख्यानम्' इति

Page 127

११८ प्रतापरुद्रीये रत्नापणसहिते

(अन्यतो निरूप्य) बले चलति संभ्रमप्रतिभये विजेतुं दिशः पुरन्दरहरिज्जयव्यवसिताः सहायोद्धताः । चलन्ति चिरमत्सराः शिखरिणो यथा दन्तिनो

परिजन :- ( विलोक्य साश्चर्य)*महंतो खु एसो तिलिंगसुभडाणं उस्साहो। (संस्कृतमाश्रित्य) उद्यत्तोमरडामरा: प्रतिपदप्रोतक्षिप्तकौक्षेयकाः

भ्राम्यद्गीमगदाः समग्रविहरत्प्रासाः स्फुरत्पट्टसाः खेलन्त्यन्ध्रचमूभटाः सवपुषो रौद्रप्रकारा इव ॥ १२॥ मन्त्रिण :- अहो तुरङ्गतरङ्गास्त्रिलिङ्गाधिपतेः । *महान् खल्वेष त्रिलिज़सुभटानामुत्साहः। कवभावे घब् बाघितः । अत एवोक्तममरकोशे 'रणः क्वणः' इति। तथापि स्नावा- दिवत् बाहुलको घञ् द्रष्टव्यः । पटशब्दादव्यक्तानुकरणात् 'नित्यवीप्सयोः' इति द्विर्भावे 'सर्वप्रातिपदिकेभ्यः-' इत्याचारे क्विप् कर्थचित् कल्पनीयः । ततो लटः शत्रादेशः । पटदित्यस्यैवानुकरणत्वे पूर्वावयवस्य तकाराभावश्चिन्त्यः । करटतर्ट गण्डस्थलम्। सेनाञेषु मतन्जजसन्नाहमाह-बल इति॥ चिरमत्सराः पक्षच्छेदात् प्रभृति प्ररूढवैराः । अत एव पुरन्दरहरिज्यव्यवसिताः प्राचीवि- जयोद्युक्ता इत्यर्थः । इयन्तं कालं तूष्णी स्थित्वेदानीं वैरनिर्यातने हेतुमाह- सहायोद्वता इति॥ यथा कस्यच्विद्वस्तुनो भाराक्रान्तः कक्षन भागो नमति भागान्तरं तून्नमति तद्वद्दन्तिभाराक्रान्तभूतलद्वारा भुजगराजस्य केषांचित् फणा- नामवनमनमितरेषामुन्नमनं द्रष्टव्यम्। फकनमत्र संकोचः। फक्क नीचैर्गतावि- त्यस्माद्वातोर्लट: शत्रादेशः । अन्न यथाशब्दमाहात्म्याद्यद्यप्युपमा प्रतीयते तथाप्युपमानभूतानां विशिष्टशिखरिणामुपमेयदन्तिरूपतयाभ्यूहनादुत्प्रेक्षायां पर्य- वस्यतीत्युपमोपक्रमोत्प्रेक्षेयम् । पत्तिसंपत्तिमाह-उद्यदिति॥ तोमरा दण्ड- विशेषास्तैर्डामरा भयंकराः । कौक्षेयकाः खज्ञा: । 'कुलकुक्षि-' इत्यादिना ढक्क- उप्रत्ययः । स्वैरोद्रीर्णमुसुण्डयः स्वेच्छोद्यतदारुमयायुधविशेषाः । कर्मणे प्रभ- वतीति कार्मुकं धनुस्तद्विशेषो वा। गदाः प्रसिद्धाः । प्रासाः कुन्तापरपर्यायाः क्षेपणीया आयुधविशेषाः। तदुक्तं वृत्तिकारेण-अकर्तरि च कारके संज्ञायामि-

Page 128

नाटकप्रकरणम्। ११९.

उति्क्षिप्योद्क्षिप्य पादौ रवितुरगशिरस्ताडनायेव पूर्वो पाश्चात्त्याभ्यां पदाभ्यामपि धरणिमवष्टभ्य संरब्धनुन्नाम्। वालैर्व्याधूयमानैः प्रतिनृपतिह्योत्साहमुन्मार्जयन्तः क्ामन्त्यश्वाः सहेलक्रमणपरिणमत्पञ्चधाराप्रपख्ाः॥१३॥ (बिलोक्य) अहो विदलितपरवलमनोरथानां रथानां संभ्रमः । तथा हि- रथाः सरभसं भ्रमन्निबिडह्देमनेमिक्षत- क्षमातलसमुचचलद्धहुलधूलिजालाम्बुदैः । तिरोहितमसूयया सपदि भानवीयं रथं विधाय मुखरीभवन्त्यनिभृताक्षधूनिखवनाः ॥ १४॥ त्यत्र प्रास्यत इति प्रासः इति। रौद्रप्रकारा रौद्रभेदाः । तोमरादीनाममिधानं वैजयन्त्याम्-'तोमरोऽस्त्री लोहहुलदण्डः कासूक्ष सर्वला ।' 'हुलं द्विफलपत्रा- ग्रम् ।' 'मुसुण्ढी स्यात् दारुमयी वृत्तायःकीलसंचिता ।' 'कार्मुकं तु चतु- हस्तम्।' 'पट्टसो लोहदण्डो यस्तीक्ष्णधारः क्षुरोपमः' इति। तुरज्सामग्री- माह-उत्क्षिप्येति ॥ पश्चिमपादाभ्यां भुवि स्थित्वा मुहुरत्रपादोत्क्षेपणम- श्वानां पुरुषाख्यस्थानभेदः । तदुक्कम्-'मुहुः पश्चिमपादाभ्यां भुवि स्थित्वा- ग्रपादयोः । ऊर्ध्व प्रेरणया स्थानमश्चानां पुरुषः स्मृतः ॥' इति। अत्न पूर्वपादो- त्क्षेपणस्य सूर्याश्वशिरस्ताडनफलकत्त्रमुत्प्रेक्ष्यते । उत्क्षिप्येति 'नित्यवी प्सयोः' इति द्विर्भावः । पश्चाद्धवौ पाश्चात्त्यौ। 'दक्षिणापक्चात्पुरसस्त्यक्'। संरब्धा संरम्भविषयीभूता सती नुन्नेत्यसंबन्धे संवन्धरूपातिशयोक्तिः । तां धरणिमवष्टभ्यालम्ब्य तत्र स्थित्वेत्यर्थः । सहेलक्रमणेन विनोदगत्या परिणमन्तः प्रयल्षं विना प्रवर्तमाना इत्यर्थः । धारा नामास्कन्दितादयो गतिभेदाः पञ्च । तदुक्तं वैजयन्त्ाम्-'अश्वानां तु गतिर्धारा विभिन्ना सा च पब्चधा' इति। 'आस्कन्दितं धौरितकं रेचितं वल्गितं प्छुतम्। गतयोऽमू: पञ्च धाराः ॥' इत्य- मरश्व। एतासामेवाश्वशास्त्रे संज्ञान्तरेणोक्तानां प्रत्येकं त्रैविध्ये पश्चदशविधत्वम्। तदुक्तम्-'गतिः पुला चतुष्का च तद्वन्मध्यजवा परा। पूर्णवेगा तथा चान्या पञ्च धारा: प्रकीर्तिताः ॥ एकैका त्रिविधा धारा ह्यशिक्षाविधौ मता। लघ्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत् क्रमात् ॥' इति 1 तदेतन्मनसि निधायाह- पञ्चधाराप्रपञ्चा इति ॥ लोके कश्िद्वीरभटः प्रतिभटममिभूय गर्जति तत्समाधिमत्र भानुरथामिभाविनां वीररुद्ररथानामाह-रथा इति॥ असूयया स्पर्धयेवेत्यर्थः । अक्षाणां चक्राधारकाष्ठानां धुरोऽग्राणि अक्षधुरः । 'अक्षं रथाज्न आधारे' इति वैजयन्ती। अनक्ष इति निषेधात् 'ऋक्पूर-' इत्यादिना न

Page 129

१२० प्रतापरुद्रीये रत्नापणसहिते

प्रतापरुद्र :- (सर्वतोऽवलोक्य सप्रमोदं) कथं समग्रसाधनानि सैन्यानि। बृंहमाणगजाकीर्णा द्वेषमाणह्याकुलाः । संक्रीडत्स्यन्दनाः क्वेडसुभटाः सैन्यसंपदः ॥ १५॥ मन्त्रिण :- युवराजालोकनादुद्वेलः सैन्यसागरो वर्तते। अभ्यापतन्तीरभितो महीभृद्वाहिनीर्बहूः । काकतीयबलाम्भोधिरेष स्वैर अ्रसिष्यते ॥ १६ ॥ सेनापतयः-यदादिशन्त्यमात्याः । (इति सप्रगाम) विजय- यात्राकुतूहलिन्यो ध्वजिन्यः सांप्रतं युवराजस्याज्ञां प्रतिपालयन्ति । (प्रतापरुद्रः सप्रसादममात्यानालोकयति।) मन्त्रिण :- (सोत्साहं) प्रतिष्ठन्तां प्राचीं प्रति सैन्यानि। सेनापतयः-यथादिशन्त्यमात्याः। (इति प्रस्थाननाटितकेन समन्तादवलोक्य सहर्षातिशयम्) पवनेनानुकूलेन प्रसारितपटाख़्लाः । उद्युञ्जन्त इवाऋष्ठुं ध्वजाः सौत्रामणीं दिशम् ॥ १७॥ (सर्चे शककुनममिनन्दन्ति।) समासान्तः। निभृतो निश्चलो न भवतीत्यनिमृतो नित्यप्रवृत्त इत्यर्थः। तथाभूतो Sक्षधूर्निखनो येषां ते तथोक्ताः । बृंहमाणेति॥ बृंहमाणा बृंहणशीलाः । ताच्छी- ल्ये चानश् प्रत्ययः न तु शानच्, बृहि शब्द इत्यस्य धातोः परस्मैपदित्वात्। अत एव भट्टमल :- 'हेषते हेषते्श्वानां हस्तिनां बृंहतीति च' इति। संक्री- डत्स्यन्दना: कूजद्रथाः । 'क्रीडोऽनुसंपरिभ्यक्ष' इत्यत्र 'समोऽकूजने' इति नियमात् परस्मैपदम्। अत एवोक्तं तेनैव-'उत्सर्जति संक्रीडत्येनौ शकट- कूजने' इति। क्वेडन्ते सिंहनादं कुर्वन्तीति क््वेडाः । जिक्ष्विदा स्नेहनमोचनयो- रित्यस्माद्धातोः पचाद्यच्। पृषोदरादित्वाद्दकारस्य डकारः। कविकल्पद्रुमकारस्तु डान्त एवायं धातुरित्याह। धातूनामनेकार्थत्वादुक्तार्थलाभः । अत एव 'क्ष्वेडा तु सिंहनाद: स्यात्' इत्यमरः । क्ष्वेडदिति क्वाचित्कः शत्रन्तपाठोऽस्य धातो- रनुदात्तेत््वादुपेक्षणीयः। अभ्यापतन्तीरिति॥ महीमृद्वाहिनीः शत्रुभूपाल- सेना: अन्यत्र पर्वतप्रभवा नदीः। तदुकं मानसोल्ासे-'व्रजेदब्धिरिवाक्षोभ्यो निगिरन्नरिवाहिनीः। शूराणां सिंहनादैश् हेषारावैश्च वाजिनाम्। महारथमह्ा- ध्वानैर्मातज्घनगजितैः ॥' इति। सुत्राम्ण इन्द्रस्येमां सौत्रामणीं दिशं

Page 130

नाटकप्रकरणम् । १२१

एष प्रस्थानानुगुणशकुनगुणकथनादुपन्यासः । प्रतापरुद्र :- (पुरोऽवलोक्य) कथं कराभ्यामुत्क्षिप्तसाक्षतकनक- पात्रः समागत एव विप्रवरः । (प्रविश्य) विप्र :- (सविनयमग्रतः स्थित्वा प्राध्वं दक्षिणभुजमुद्यम्य) विजयतां विजयतां वीररुद्रः। राजपुत्र, स्वयंभूदेवमहोत्सवाद्यनन्तरं मही- सुरवराशीर्वादवासिताः काकतीयमहाराजेन प्रेषिताः खल्विमे मङ्गलाक्षताः । प्रताप०-(सप्रणामादर गरहीत्वा तान् निजोत्तमाओे गजमूर्धनि च निधाय) आमूलात् फलिता प्रसत्तिलतिका पत्युः स्वयंभूप्रभो- राज्ञा क्षत्रियमौलिमण्डनमणेस्तातस्य सानुग्रहा। प्राचीम्। शकुनं शुभनिमित्तम्। 'शकुनं तु शुभाशंसिनिमित्ते शकुन: खगः' इति विश्वः । अनुकूलवायोः शुभनिमित्तत्वं च तत्रैव-'दक्षिणाक्ष्णः परिस्पन्दात् दक्षिणस्य भुजस्य च। मनसश् प्रसादेन खानुकूलानिलेन च । एवं निमित्तै- निश्चित्य विजयं भूपतिर्व्रजेत् II' इति। उपन्यासाख्यमञं लक्ष्ये योजयति- एष इति॥ उपन्यासलक्षणेऽपि प्रकृतानुगुण्येनेत्येतदनुषज्यत इत्याशयेनाह- प्रस्थानानुगुणेति ॥ बीजोपयोगित्वात् प्रस्थानस्य प्रकृतत्वम्। तदनुगुणस्य शकुनस्यानुरागहेतुभूतस्य कथनादुपन्यास इत्यर्थः । विप्रविशेषप्रवेशं सूचयति- कथमिति॥ सविनयमिति॥ प्राध्वमाशीर्वादानुकूल्येनोद्यम्य। 'आनुकूल्यार्थकं प्राध्वम्' इत्यमरः । मकारान्तमव्ययं चैतत्। ननु यात्रायां कनकपात्रादिमज्ञल - द्रव्यदर्शनं कार्यसिद्धिकरमस्तु । किं त्वेकस्मिन ब्राह्मणे दृष्टे कार्यहानिरिति किं- वदन्त्या: का गतिरिति चेन्नैष दोष :- तस्याः कृपणब्राह्मणविषयत्वात्, विशिष्ट- ब्राह्मणदर्शने महाफलस्मरणात्। इदमपि तत्रैवोक्तम्-'पूर्णकुम्भे तथादर्शे दध्नि मद्ये तथामिषे। मीने शङ्गे ध्वजे छत्रे चामरे चारुयोषिति ॥ चाषे नृगे भरद्वाजे फलपुष्पाक्षतेषु च । वृषभे समदे नागे सितवाहे द्विजोत्तमे ॥ सुवर्णे दिव्यरत्ने च वीणायां पटहेऽपि च । बद्धे चैकपशौ दृष्टे यात्रा भवति सिद्धिदा ॥' इति। वसन्तराजीयेऽप्युक्तम्-'धृतातपत्रः शुभशुकवासाः पुष्पार्चितश्चन्दन- चर्चिताञ्ः । विप्र: शिखावान् कृतभोजनश्र ददाति दृष्टः पथि सर्वसिद्धिम् ।I' इति। महोत्सवादीत्यत्रादिशब्देन धेन्वादिदानं गृह्यते। तदुक्तत मानसोल्ासे- 'तंतः कृत्वा महापूजामुद्दिश्य कुलदेवताम्। धेनुं भूमि हिरण्यं च विप्रेभ्यो विधिनार्पयेत् । तदाशिषः समादाय नीराजितहयद्विपः ॥' इति। आमूला- प्र 11

Page 131

१२२ प्रतापरुद्रीये रत्नापंणसहिते

विप्राशीर्वचनानि मन्त्रसुरभीण्याकाङ्कितान्यन्वहं पौराणां च जयोत्तराणि तदमूरीषज्जयाः स्युर्दिशः ॥१८॥ एष ब्राह्मणक्षत्रियादिवर्णकीर्तनादवर्णसंहारः । मन्त्रिण :- राजपुत्र, स्वभावनिरर्गलस्य तव भुजार्गलयोरोजा- यितस्य कियती भूतलविजयविडम्बना । परिजन :-* विअअलच्छीपाणिग्गहणसमअदिण्णा विअ मङ्गल- रखदा जुवराअस्स सीसे दीसंदि। विप्र :- राजपुत्र, तत्तद्दिग्विजययात्रावार्ताहारिणः पुरुषा नाति- चिरादेव प्रेषणीया इति महाराजस्याज्ञा। प्रतापरुद्र :- शिरसि कृतस्तातस्य नियोगः । (अमात्यान् प्रति) कतिचन यूय काकतीश्वरसेवार्थ निवर्तध्वम्। कतिपये विजययात्रा- परा: प्रवर्तध्वम् । अमात्या :- (सप्रणामं) यदाज्ञापयति युवराजः । विप्रः-स्वस्ति विजयाय शिवाः पन्थानः संन्तु राजपुत्राय। प्रतापरुद्र :- (सप्रश्रय) भगवन्ननुजानीहि। वयमितः प्रतिष्ठामहे। (इति यथोचितं परिक्रम्य निष्कान्ताः सर्वे।) इति विजययात्राविलासो नाम द्वितीयोडङ्कः ॥ *विजयलक्ष्मीपाणिग्रहणसमयदत्ता इव मजलाक्षता युवराजस्य शीषें दृश्यन्ते। दिति ॥ संपूर्ण: स्वयंभूप्रसाद इत्यर्थः । पौराणामाकाक्कितानि मनोरथाः । नपुं- सके भावे क्तः। जयोत्तराणि जयप्रधानानि। तत्तस्मादमूश्चतस्त्र एव दिशः । ईषज्जयाः सुलभजया इत्यर्थः । 'ईषह्ुस्-' इत्यादिना खल्प्रत्ययः ॥ दिग्विजये देवताप्रसादादिकं बृहतीफलभज्जने महोपलप्रयोगमनुकरोतीति भावः । अर्ज्ञं योजयति-एष इति ॥ राजपुत्रेति॥ ओजःशब्दो वृत्तिविषये तद्वति वर्तते इति पदमज्जरीकारः। अतस्तद्वतः सिंहशार्दूलादेरिवाचरितमोजायितं बलमित्यर्थः । 'कर्तुः क्यड् सलोपश्च' इति क्यडन्तात् भावे कः। 'ओजसोऽ- प्सरसो नित्यम्' इति नित्यः सलोपः । स्वस्तीति ॥ विजयायेति॥ क्रियाग्रह- णंाच्चतुर्थी। राजपुत्रायेति खस्तियोगे। प्रतिष्ठामह इति॥ 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् ॥ ॥। इति नाटके द्वितीयोऽङ्गः ॥

Page 132

नाटकप्रकरणम् । १२३

(ततः प्रविशतो लेखहस्तौ जाद्विकौ।) एतत्पूर्वाङ्कान्तपात्रेण विप्रेण निर्दिष्ट्योः पात्रयोरुत्तराङ्के प्रवेशादङ्कास्यम्। प्रथम :- (सानुसंधानाश्चर्य) अहो प्रतापरुद्रस्य महिमानु- भावः, यस्य विजययात्रासंभ्रमेणैव व्याकुलीकृतानि द्वयेषामपि भूभृतां कटकानि। द्वितीय :- वयस्य, किमुच्यते- काकतीयप्रदीपोऽयमंशश्चातुर्भुजः स्वयम्। यद्वज्नकवचायन्ते प्रसादाश्च स्वयंभुवः ॥१॥ एष स्वयंभूदेवप्रसादरूपस्य बीजस्यान्वेषणाद् गर्भसंधि:। प्रथम :-- (अध्वक्मममिनीय पुरोऽवलोक्य) प्राप्तेयमन्ध्रनगरी । (किचितप्रवेशनाटितकेन समन्ततो निरूप्य ) अहो निरतिशयमौदार्यं रुद्र- नरेश्वरस्य। यदेते वैतालिकाः सर्वतो भोगावलीप्रमुखांश्चादुप्रबन्धा- नुचैः पठन्ति। स्वभावरमणीयाः प्रतिरवेण पाठयन्ति च ककुभः । द्वितीय :- (सम्यडूनिर्वर्ण्य सप्रत्यमिज्ञा श्रर्यमपवार्य) सखे, पश्य पशय । सम्यङूमागधवेषधारणतिरोभूता अपि क्ष्माभुज: सूच्यन्ते प्रभुतारहस्यपिश्युनैराविष्कृतैर्लक्षणैः ।

राकारैरमनुष्यमात्रसुलभैर्वृत्तैरनीचैरपि । २ ॥ तत इति॥ जङ्गया चरत इति जाद्िकौ वार्ताहरौ। अङ्कास्यं योजयति- पतदिति॥ महिमानुभावो महिमातिशयः । द्वयेषां पर्वतानां राज्ञां च। कट- कानि पर्वतनितम्बप्रदेशा राजधान्यश्च । 'कटकं वलये सानौ राजधानीनित- म्बयोः इति विश्वः। काकतीयेति॥ चातुर्भुजो वैष्णवः । वज्रकवचायन्ते वज्रकवचवदाचरन्ति। 'कर्तुः क्यड् सलोपक्च' इति क्यब्प्रत्ययः । डित्वादात्मने- पदम्। गर्भसंधि योजयति-एष इति॥ बीजस्येति ॥ प्रतिमुखसंधौ लक्ष्या- लक्ष्यतया दृष्टनष्टस्येति शेषः । एतच्चान्वेषणादित्यनेन लभ्यते। वैतालिकभोगा- वलीप्रमुखा उक्त्लक्षणाः । पाठयन्तीति ॥ प्रतिदिशं. प्रतिध्वनिरुत्पद्यत इत्यर्थः। अपवार्येति ॥ रहस्यकथनार्थमिति भावः । सम्यगिति ॥ मागधलक्षणमुक्तम्-'राज्ः पुरजनस्यापि मज्गलाचारशंसिनः। मान्यैर्माग-

Page 133

१२४ प्रतापरुद्रीये रत्नापणसहिते

प्रथम :- नूनमेते प्रतापरुद्रसमरपराङ्मुखा वक्षःस्थलविरचित- वराह्लक्ष्माणः प्राणत्राणार्थमनया रीत्या काकतीयमहाराजं प्रसाद- यितुमध्यवस्यन्तीति तर्कयामि। एतत् प्रस्तुतोपयोगिप्रतिराजच्छद्ाचरणादभूताहरणम् । जाङ्विकेन पुनस्तैस्तैर्लक्षणर्नरेश्वराभ्यूहनादनुमानं च। द्वितीय :- अहो विजययात्राश्रवणकुतूहलिता पौराणाम, यदा- वामनुसरन्ति पुनः पुनः प्रश्नमालया। तत् सखे प्रकाश्यतां प्रताप- रुद्रस्य भुजयोर्विजयोदाहरणम्। प्रथम :- (किंचिटुबै:) भो भो:, श्रूयतां काकतीयकुलश्लाघा- कामधेनुः प्रियोदन्तः । जेत्रा काकतिवीररुद्रविभुना सर्वा दिशो निर्जिता: क्ष्मापालाः करदीकृताः कृतमिदं निर्वीरमुर्वीतलम्। यस्योद्यद्भुजवैभवं सरभसारोहद्द्विषत्कामिनी - मञ्जीरध्वनिपूर्णकन्दरमुखैर्व्याकुर्वते पर्वताः । ३ ॥ धिकागीतैर्मागधा इत्युदीरिताः ॥' इति। प्रभुतैव रहस्यं गूढ वस्तु, मागधवेष- तिरोहितत्वात् तेषामिति भावः । ध्वजचक्रग्रहणं राज्यसूचकरेखोपलक्षणम् ।

कुर्वन्ति चमूनाथं मकरध्वजसंनिभा महीपालम् ।I' इति। वक्षोविस्तारफल- मपि तत्रैव-'उरो ललाटं वदनं च पुंसां विस्तीर्णमेव त्रितयं प्रशस्तम्' इति। वृत्तैः जङ्गादाविति शेषः । 'वृत्तजङ्गो भवेद् भूपो वृत्तलिक्ञो भवेद्धनी' इति वच- नात्। अनीचैरुनतैः वक्षःप्रृतिषु, दीर्घैवा हनुप्रमृतिषु। तदपि तत्रैवोक्तम्- 'वक्षोऽथ कक्षौ नखनासिकास्यं कृकाटिका चेति षडजतानि॥ हनुलोचनबा- हुनासिकं स्तनयोरन्तरमत्र पथ्चमम्। अतिदीर्घमिदं तु पञ्चकं न भवत्येव नृणा- मभूभृर्ताम् ।।' इति। अत एवामनुष्यमात्रसुलभैः भूपतिव्यतिरिक्तदुर्ल मैरित्यर्थः ॥ सूचितमर्थ द्रठयति-नूनमिति॥ अस्या अपि रीतेर्दा्यावान्तरभेदत्वादिति भाव: । यदाहु :- 'पद्ममन्गुलिविच्छेद उरोविन्यस्तमक्षरम्। तन्नामकरणं चेति दास्यमेतच्चतुष्टयम् ।I' इति। शिष्ट स्पष्टम्। प्रियोदन्तः प्रियवार्ता। जेत्रेति॥ करदीकृता: बलिप्रदाः कृताः । अभूततद्धावे च्विप्रत्ययेनेयन्तं कालमजय्या अपि जिता इति लभ्यते। निर्वीर प्रतिवीररहितम्। ये करं न प्रयच्छन्ति ते प्राणैरेव वियोजिता इत्यर्थः । ततः किं जातमत आह-यस्येति॥ व्याकुर्वते व्या-

Page 134

नाट कप्रकरणम् । १५

एष तच्वानुकीर्तनरूपो मार्ग: । द्वितीय :- सखे-नूनमेषु दिवसेषु काकतीयमहाराजो निरन्तरं पुरस्कृतपुरोधःप्रवरामात्यवृद्धो युवराजविजयमाशंसमानो गमयति वासराणि। प्रथम :- उचितमनुचिन्तितं वयस्येन। द्वितीय :- (पुरोऽवलोक्य सहर्ष) कथमस्मदीयं वचनमाकर्ण्य नूनं महाराजाय निवेदयितुममात्यपुत्रः सहर्पसंभ्रमं राजकुलाभ्यन्सरं प्रविशति। तदावामपि प्रतीहारभूमिमध्यास्य काकतीश्व्वरावसरं प्रतिपालयिष्यावः । (इति परिक्रामतः ।) एतद् वितर्कप्रतिपादनाद्रूपम्। (ततः प्रविशत्यमात्यपुत्रः ।) अमात्यपुत्र :- (सप्रमोदं) अहो मम धन्यता, यदीद्दशानां महोत्सवानां निवेदयितास्मि संवृत्तः । यन्मया विज्ञापितैः श्रवण- प्रियंकरणैर्वार्तामृतैः स्वप्नसाक्षात्कृतादपि स्वयंभूदेवप्रसादात् प्रमोद- यिष्यते काकतीयवृषा। एषोत्कर्षवचनरूपोदाहृतिः । (पुरोऽबलोक्य) कथमयं महाराजः पुरोहितैरमात्यैरन्येन परिजनेन च परिवृतो महास्थानमण्टपमधितिष्ठति। तद्ह्मुपसर्पामि ।

(ततः प्रविशति यथानिर्दिष्टो राजा मन्त्रिणक्र पुरोधसक्ष।) [इति परिक्रामति।

राजा-(सविमर्शाश्रर्यं) (अमात्यान् प्रति)-अहो शैशवे - डप्युचितकारित्वं वत्सस्य वीररुद्रस्य। यदस्मदनुरोधार्थमिमानमा- त्यान् निवर्त्य स्वयमेव जिगीषुः प्रस्थितः । मन्त्रिण :- (सबहुमानं) महाराज, भवता खलु पितृमान् कुमारः । चक्षते.। अप्रियाणि प्रियाणि क्रियन्त एमिरि्ति प्रियंकरणानि। 'आढ्य- सुभग-' इत्यादिना ख्युन्प्रत्यये मुमागमः । काकतीयतृषा काकतीन्द्रः । भवता खलु पितृमानिति॥ कारणगुणानां कार्ये संक्रान्तिरुचितैवेति भावः ।

Page 135

१२६ प्रतापरुद्रीये रन्नापणसहिते

पुरोधसः-विजयप्रस्थानात्प्रभृति नक्तंदिवमुन्मिषन्ति कल्या- णानि। तद्विजिता एव दिशो राजपुत्रेण । राजा-भवतामाशिष एव काकतीयकुलश्रेयांसि स्वयं प्रदुह्ते। परिजन :-* काअईअकुलस्स किं णुण संपुण्णं पुण्णेण जस्सि अवइण्णो भुवणेक्कभद्दो पआवरुद्दो। राजा-(सौत्सुक्य) कथं चिरयति वत्सस्य विजययात्राश्रवण- महोत्सवः। अमात्यपुत्र :- (सविनयसंत्रममुपसृत्य सप्रणाम) देव मध्यमलोक- पाल, युवराजप्रेषितौ विजयवार्ताहारिणौ प्रघाणप्राङ्गणमधिवसतः। एष संचिन्त्यमानार्थप्राप्तिरूपः क्र्कमः । (सर्वे सहर्षातिशयं निरूपयन्ति । ) मन्त्रिण :- भद्र, शीघ्रं प्रवेशय। अमात्यपुत्रः-यदादिशन्ति महामन्त्रिणः । (इति निष्कम्य सह ताभ्यां पुनः प्रविष्टः ।) पुरुषौ-(प्रणमन्तावुपसृत्य) देव, विश्वैकविजयिना पुत्रेण वर्धसे। बाढमप्रमेयमहिमा प्रतापरुद्रभुजस्थेमा, यच्छैशवेऽप्यतिशयिततरुण- काकतीयपराक्रमस्तस्य विक्रमः । राजा-(सहर्षातिशयममात्यानवलोक्य) मनोरथाभ्यामिव चिन्ति- तोपगताभ्यां महार्घ पारितोषिकं प्रतिपाद्यताम्। द्विगुणीकृतहर्षयो- रनयोर्मुखाद्वत्सस्य विजयलक्ष्मीपरिग्रहवृत्तान्तश्रवणमहोत्सवेन चरि- तार्थयामः श्रोत्रवृत्तिम्। * काकतीयकुलस्य किं नु न संपूर्ण पुण्येन, यस्मिन्नवतीर्णों भुवनैकभद्रः प्रतापरुद्रः । नक्तं च दिवा च नक्तंदिवम् । 'अचतुर-' इत्यादिना सप्तम्यर्थवृत्त्योरव्यययोर्द्व- न्दसमासो निपात्यते । कल्याप्ानि शुभनिमित्तानि उन्मिषन्त्युद्धबन्ति । प्रदु- हते। दुह्धातोः कर्मकर्तरि तड्। 'न दुह्-' इति यक्प्रतिषेधः । प्रधानो बहि- द्वरिप्रकोष्ठकः। अगारैकदेशे प्रघणः प्रघाणश्च निपातितः। तत्प्राङ्गणमघिवसतः ।

Page 136

नाटकप्रकरणम् । १२७

मन्त्रिण :- यदाज्ञापयति देव: । (इति भौरिकमुखात् तथा कुर्वन्ति) एष सामदानाचरणरूप: संग्रहः। (पुरुषौ सप्रणामं गृहीत्वा मूर्त्नि निधाय महाराजप्रसादममिनन्दतः।) मन्त्रिण :- भद्रावित एत्य युवराजविजयविहृतयः परात्रमपल्ल- विता महाराजसदस: कर्णपूरीक्रियन्ताम्। पुरुषौ-सावधानमवधारयतु महाराजः । प्रथम :- देव, देवस्य प्रसादेन वाजिनीराजनासमिध्यमानस्य वीतिहोत्रस्य विजयप्रदानेन द्विगुणितोदग्रप्रतापे प्रतापरुद्रे प्रतिष्ठमाने,

क्षुण्णक्षोणितलोत्थितेऽतिबहुले पांसौ वियव्यापिनि। जेतव्याः सकला दिशः स्वविभुतामन्तः पिधायाधिक- त्रासात् क्ापि पलायिता इव दृशां नैवाभवन् गोचराः॥४॥ अनन्तरं च- उद्वेल्लच्तुरर्णवीकलकलो नायं चमूडम्बरो नेदं दुन्दुभिगर्जितं त्रिपुरजित्कल्पान्तढक्कारवः । इत्याटोपपटीयसीषु परितो घाटीषु भारानम- च्छेषाशेषफणासु विस्मितमथ त्रस्तं दिगीशैरपि ॥ ५ ॥ 'उपान्वध्याङ्वसः' इति कर्मत्यम्। भूरि सुवर्ण तत्न नियुक्तो भौरिकः कन- काध्यक्षः । नीराजना नाम राष्ट्रसमृद्धये शरत्कालकर्तव्यः शान्तिकर्मविशेषः । स च गजप्राधान्येनाश्वप्राधान्येन च द्विविधः । तटुक्तं शौनकेन-'नवम्यामाश्व- युक्कासे कार्तिकायामथापि वा। हस्तिनीराजनं कुर्याद्राजा जनसमृद्धये॥I अश्व- नीराजनं कुर्यादश्ानां हितकाम्यया । तद्वचैवाश्वयुआसे पूर्वपक्षे नृपोत्तमः ॥' इति। तत्र द्वितीयं प्रत्वाह-वाजिनीराजनेति ॥ वीतिहोत्रस्य हुतभुजः । यात्रेति ॥ महेषूत्सवेषु। अहं प्रथमोऽहं प्रथम इति यस्यां क्रियायामसावहं- प्रथमिका। मयूरव्यंसकादित्वात् समासः । खवार्थे कप्रत्ययः । खविभुतां निज- व्यापकत्वम्। अत्रानुपहितदिग्गतं विभुत्वं चोपहितास्वपि प्राच्यादिषूपचर्यते। अत्र सेनारजोव्याप्तिनिमित्तस्य दिशामदर्शनस्य भयनिमित्तपलायनहेतुकतवोत्प्रे- क्षणादुत्प्रेक्षालंकारः। उद्वेल्लदिति । घाटीषु 'शत्रुदेशावमर्दाय सद्यः

Page 137

१२८ प्रतापरुद्रीये रत्नापणसहिते

पुरोधसः-अहो निरङ्ुशमोजायितमन्ध्रचमूपतीनाम्। द्वितीय :- अथ युवराजाज्ञया प्रथमं माघवनीं दिशं प्रचलि- तानि सैन्यानि। रथेनाभिमुखायातं वीररुद्रो विलोक्य माम्। मृष्यने नायमित्यर्कः सैन्यरेणौ तिरोहितः ॥ ६ ॥ मन्त्रिण :- ततस्ततः । द्वितीय :- अनन्तर सेनाग्रगैरेव पौरस्त्यान् क्षुद्रक्षत्रियान्निर्जित्य सर्वपथीनेनाटोपेन पटीयसि तस्मिन् महति बले प्रचलति, युद्धाय समनह्यन्त कलिङ्गा: स्फुटपौरुषाः । माद्यद्द्विपघटोद्दामसंभ्रमाडम्बरोद्ताः ॥। ७ ॥ तैः सार्धमन्ध्रचमूपतीनां पराक्रमधने महत्यायोधने, पीत्वा मांसोपदंशं द्विरदगलगलद्रक्तमैरेयधारां मत्तो मस्तिष्कलमनैर्दलितनृपवपुःकीकसैः सृष्टदंष्र्रः । बिभ्रद्रौद्रान्त्रमालां जनितजनभयो भैरवाकारघोर: संग्रामोर्व्याः कलिङ्गैर्बलिविधिमकरोद्वीररुद्रस्य खङ्ग: ।। सुभटघोटकैः । विजिगीषोः प्रवृत्तिर्या सा धाटीति निगद्यते ॥' इत्युक्तलक्षणासु। आटोपपटीयसीषु संरम्भपद्ठुतरासु सर्वतोमुखसंत्रमास्वित्यर्थः । इति विस्मित-

गर्जितयोरभूतपूर्वयोरनुभवादद्भुतमभूदित्यर्थः। अथ सैनिकामिनिवेशदर्शनान- न्तरं दिगीशैरिन्द्रादिमिरपि त्रस्तं किमुतान्यैरन्तरालवर्तिमिरिति भावः। उभ- यत्र भावे कः । मघोनः इन्द्रस्येमां माघवनीं दिशं प्राचीम्। सैन्यरजसा सूर्ये तिरोहिते सत्युत्प्रेक्ष्यते-रथनेति॥ मामर्कमयं वीररुद्रो न मृष्यते न सहते परिपन्थिबुद्धयेति भावः । पौरस्त्यान् प्राच्यान्। सर्वान् पथो व्याप्नुवता सर्वपथी- नेन। युद्धायेति॥ माद्यद्द्विपानां घटाः संग्रामादौ सजनानि। 'करिणां घटना घटा' इत्यमरः। तासामुद्दामसंत्रमेणाधिकाटोपेन आडम्बरेण संग्रामपटहप्रणादे- नोद्धताः । युद्धे वीररुद्रखन्नस्य कालमैरवसमाधिमाह-पीत्वेति । मांसेनो- पदश्य मांसोपदंशं, मांसमुपदंशं कृत्वेत्यर्थः । 'उपदंशस्तृतीयायाम्' इति णमुल्प्रत्ययः । मांसस्य दंशनक्रियाकर्मत्वेऽपि पानक्रियाकरणत्वात् तृतीयोपपद- त्वम्। 'तृतीया प्रमृतीन्यन्यतरस्याम्' इति विकल्पादुपपदसमासः । मस्तिष्कं नाम मस्तकस्थितो गोर्दापरपर्यायो मेदोविशेषः । तह्नमनैः कीकसैरस्थिमि: सृष्टदंष्टरः ।

Page 138

नाटकप्रकरणम्। १२९

पुरोधस :- मानुषवेषतिरोहितेनापि काकतीयविष्णुना किंचिदा- विष्कृतो निजप्रभावः । मन्त्रिण :- (सहर्षातिशयाद्भुतं) अहो पराक्रमातिभूमि: प्रताप- रुद्रस्य । परिजन :- 'सरिसं खु एदं जं महाराअरुद्दणरे सरणंदणेण कादव्वं, जं काअइकुलप्पसवाणं खमं, जं कुलदेवदाए सअंभूदेवस्स प्पसत्ति- विसेसाणं जुत्तं, तं खु किअं जुवराएण। राजा-(सप्रमोदगद्ग्द) ततस्ततः । प्रथम :- अनन्तरम् छिन्नोद्यद्वैरिवीर प्रतिभयमुकुटाटोपसंजातराहु- भ्रान्तिभ्रश्यत्पतङ्गाभयकर पृतनारेणुबद्धान्धकारा। आसीत्' संग्रामवेला विहरदसिलतोद्विन्नमत्तेभकुम्भ- प्रोद्यन्मुक्तौघताराप्रकरपरिवृतस्वर्वधूवक्त्रचन्द्रा ।। ९ ।। अनन्तरं युवराजाज्ञया वृत्रारातिदिगन्तरालविजय प्रख्यातविक्रान्तयः पारेपूर्वपयोधि कल्पितजयस्तम्भाः स्फुरत्तेजसः । वेलाकाननवासिगीतविभवं देवस्य दोर्विक्रमं शृण्वन्तो मुहुरन्ध्रसैन्यपतयः प्राप्ता दिशं दक्षिणाम्॥१०॥ तत्र च

  • सदृश खल्वेतत्-यन्महाराजरुद्रनरेश्वरनन्दनेन कर्तव्यं, यत् काकति- कुलप्रसवानां क्षमं, यत् कुलदेवतायाः खयंभूदेवस्य प्रसत्तिविशेषाणां युक्तं, तत खलु कृतं युवराजेन। छिन्नेति ।I प्रतिभयेन भयंकरेण मुकुटाटोपेन संजातया राहुभ्रान्त्या भ्रश्यतः क्विश्यमानस्य पतज्ञस्य सूर्यस्याभयकरणेनाभयसाधनेन। मुकुटाच्छादकतया राहुत्रान्तिनिवर्तकत्वेनेति भावः। चमूरेणुना बद्धान्धकारा। अत एव संग्रामवेलायां रात्रित्वं प्रतीयते। तत्र इभकुम्भनिर्गताः मुक्ता एव ताराः । अप्सरोमुखमेव चन्द्रोऽभूदित्याह-विहरदिति॥ वृत्रेति॥ वृत्रारातिरिन्द्रः । तस्य दिक् प्राची। पारं पूर्वपयोधेः पारेपूर्वपयोधि। 'पारे मध्ये षष्ठया वा'

Page 139

.१३० प्रतापरुद्रीये रत्नापणसहिते

मुनौ लोपामुद्रासुहृदि निकटस्थेऽपि महता भवन्त्येता नद्यः कलुषपयसः सैन्यरजसा। इतीव व्योमाग्रे मलयपवनान्दोलितशिखा: पताकाः सोत्प्रासाः प्रतिपद्मनृत्यन्नतितराम् ॥ ११॥ अनन्तरं पाण्ड्यप्रमुखान् दाक्षिणात्यान् क्षितीश्वरान् शरणमुप- गतान् काकतीयवीररुद्रः स्वचमूपतिनिर्विशेषं संभाव्य तैः सह प्रतीचीं दिशं प्रचलितः । मन्त्रिण :- साधु साधु समाचरितमात्मनीनं पाण्डचैर्यत् पूर्वमेव देवस्य चरणमूलं प्राप्ताः । ततस्ततः । द्वितीय :- तत्र च पाश्चात्त्यानां ध्वजेषु स्थितमधिकभरस्त्रस्तदण्डेषु गृध्र- व्रातैर्यच्चण्डतुण्डाहतिविहतपटेष्वाहतक्षिप्तपक्षैः । असतरं गारुत्मतं तत् समजनि विजयप्रार्थिनामन्ध्रसैन्य- प्रष्ठानां जन्यमन्यन्निजनिबिडभुजादण्डकण्डूविडम्बः।। अनन्तरं- जित्वा प्रतीचीमथ वीररुद्रः प्रत्यर्थिनारीनयनाम्बुपूर्णाम्। इत्यव्ययीभावः । मुनाविति॥ लोपामुद्रासुद्ृदि मुनावगस्त्ये निकटस्थे समी- पस्थेऽपि। अगस्त्योदये नद्यो निर्मला भवन्ति। तदुक्त बराहसंहितायाम्-'उदये च मुनेरगस्त्यनाम्रः कुसुमायोगमलप्रदूषितानि। हृदयानि सतामिव खभावात् पुनरम्वूनि भवन्ति निर्मलानि ॥' इति। तथापि कालुष्यमिति विरोधद्योतकोऽ- पिशब्दः । सोत्प्रासाः सोपहासाः । लोके कश्चित् प्रबलं कंचन विजित्य सोप- हासमुन्नतस्थले चलच्छिखो नरीनर्ति तद्वदिति भावः । साध्विति॥ आत्मने हितमात्मनीनम्। 'आत्मन्विश्वजन-' इत्यादिना खप्रत्ययः। पाश्चात्त्याना- मिति॥ पश्चाङ्धवाः पाक्चात्याः । 'दक्षिणापश्रात्पुरसस्त्यक्'। तेषां ध्वजेषु गृध्र- ब्रातैः स्थितमिति यत्तदेव गारुत्मतमस्त्नं समजनि। युद्धात् पूर्व गधैरेव तत्फलं कृतमिति भावः। तदुक्तं वराहसंहितायाम्-'कव्यादकौशिककपोतक- काककक्कैः केतुस्थितैर्महदुशन्ति भयं नृपस्य।' इति। अत्र क्रव्यादा गृधादय इति तव्याख्यातोत्पलपरिमलकारः । तर्हि पुनर्युद्धस्य किं फलमत आह- विजयेति॥ प्रष्ठानामग्रगामिनाम्। 'प्रष्ठोऽग्रगामिनि' इति निपात्यते। जन्यं युद्धम्। कण्डूविडम्बः कण्डूयापनयनम्। जित्वेति॥ क्त्वाप्रत्ययेनैवानन्तर्ये

Page 140

नाटकप्रकरणम्। १३१

रेवां समुत्तीर्य गजानुबद्धसेतुं विजेतुं गतवानुदीचीम्।।१३॥ तत्राङ्गवङ्गकलिङ्गमालवप्रभृतयः सर्वे भूपाला मिलित्वा युद्धाय चद्धादराः पुरतः प्रादुरभवन्। मन्त्रिण :- अहो परमनात्मवेदितोदीच्यानां यत्प्रतापरुद्रस्यापि परिपन्थिनो भवन्ति । राजा-ततस्ततः । प्रथम :- अनन्तरं सममनीकिनीभिरापतन्तीभिः राजकानि विलोक्य सगर्वमेवमुक्तं सेना/पतिभि :- रे रे घूर्जर जर्जरोऽसि समरे लम्पाक किं कम्पसे वङ्ग त्वङ्गसि किं मुधा बलरजःकाणोऽसि किं कोक्कण। प्राणत्राणपरायणो भव महाराष्ट्रपराष्ट्रेऽस्यमी

एतद्रोषसंर्धवचनरूपं तोटकम्। परिजन :- साहु साहु चमूवईणं वअणं। एव्वं फणिअ उण कीरिसं उवकंदं तेहिं। प्रथम :- कि कथ्यते सैनिकानां निरुपमः पराक्रमः । यस्तत्राभवदाहवस्तमखिलं जानाति भागीरथी या त्याक्षीत्सुरभूयकारणनिजाहंकारमुच्छृ ङ्गलम्। आराद्वीक्ष्य समग्रमन्ध्रसुभट प्रोद्वूर्णखङ्गावली- धारातीर्थमुपेत्य दिव्यनगरीमारोहतो भूपतीन् ॥ १५। +साधु साधु चमूपतीनां वचनम्। एतत् भणित्वा पुनः कीदृशमुपकान्तं तैः। सिद्धे अथशब्दो विलम्बाभावसूचनार्थः । नयनाम्बुपूर्णा दुस्तरामित्यर्थः । तरणो- पायमाह-गजानुबद्धसेतुमिति । रेवां नर्मदाम् । सममनीकिनीमि: से- नामि: सह । राजकानि राजसमूहान् । 'गोत्रोक्ष-' इत्यादिना वुष्प्रत्ययः । रे रे इति॥ व्याख्यातं नायकप्रकरणे। रोषसंरब्धवचनरूपमिति॥ रोष- संबन्धसंत्रमवचनरूपमित्यर्थः। खात्मनि तनुत्यंजामन्ते खयमेव दिव्यर्त्वं संपादयामीति खवर्गज्ञाया योऽयं महानहंकारस्तन्निवारकोऽयं महाह्वस्तदतिशायि- महिमेत्यनुपमः सैनिकपराक्रम इत्याह-यस्तत्रेति ॥ सुराणां भावः सुर- *'वयमन्ध्रनाथसुभटाः प्रत्यर्थिदावानलाः' इति पाठान्तरम् ॥

Page 141

१३२ प्रतापरुद्रीये रत्नापणसहिते

अनन्तरं तत्र तत्र प्रलीनात्मनः प्रतिपक्षभूपालानन्वेष्टुकामास्त्रिलिङ्ग- सैनिकास्तत्तद्देशवेषभाषादिकमाविष्कुर्वाणाः सर्वतः पर्यटन्ति स्म । जीवग्राहं गृहीत्वा समानयन्ति स्म युवराजान्तिकम्। मन्त्रिण :- साधीयान् खलु सैनिकानामुद्यमः । एतत् प्रकृतोपयोगित्वेन वश्चनादधिवलम् । राजा-ततस्ततः । द्वितीय :- अनन्तरं नरपतयो निजपरिजनेष्वप्यकृतविश्वासाः प्रतापरुद्रस्य पादमूलमेव शरणमुपगताः । परिजन :-* अहो णरवईणं सज्झसकाअरत्तणं। । एष भयप्रतिपादनादुद्वेगः । प्रथम :- किमुच्यते कातर्यमिति। अङ्गा: संगरभीरवः समभवंश्रोलाः पलायाकुला: काश्मीरा: स्मरणीयविक्रमकथा हूणा निरीणश्रियः । लम्पाका भयकम्पमानतनवो वङ्गा निरक्रीकृता नेपालाः परिपालनव्यसनिनः सुह्ाश्र नीरंह्सः ॥१६॥ *अहो नरपतीनां साध्वसकातरत्वम्। भूयम्। 'भुवो भावे' इति क्यप्। अत्याक्षीत् त्यक्तवती। आरात् समीपे। भयेन प्रच्छन्नवृत्तीन् पार्थिवान् प्रच्छन्नमार्गेणैवासाधयनित्याह-अनन्तर- मिति॥ जीवग्राहं गृहीत्वेति॥ जीवतीति जीवः। इगुपधलक्षणः कप्रत्ययः। जीवन्तं गृहीत्वेत्यर्थः । 'न च हन्यात् स्थलारूढं न क्लीबं न कृताञ्जलिम्। न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥' इति मीतवधे मनुना निषेधस्मरणादिति भावः । 'समूला-' इत्यादिना णमुल्प्रत्ययः । कषादित्वादनुप्रयोग: । इष्टजनाति- सन्धानमधिबललक्षणम्। तत्रेष्टं प्रकृतोपयोगि जनातिसंधानं व्चनमित्येवमर्थ मत्वा योजयति-पतदिति ॥ प्रकृतोपयोगि छद्माचरणमात्रमभूताहरणम् । तेन परवश्वनमधिबलमित्यनयोर्भेद इति द्रष्टव्यम्। एष इति ॥ भयप्रतिपाद- नादिति। अपकारिकृतभयप्रतिपादनादित्यर्थः । कातर्यमेव राज्ञां श्रोकत्रयेणाह- अङ्गा इत्यादिना ॥ पलायं: पलायनम्। तत्राकुलाः । 'उपसर्गस्यायतौ' इति लत्वम्। निरीणश्रियो गतसंपदः । रीणातेर्ल्वादित्वान्निष्ठानत्वम्। निरज्ञीकृताः निर- + 'जुझ्झकाअरत्तणम्' इति पाठन्तरम् ॥ +'प्रलापाकुलाः' इति पाठान्तरम् ॥

Page 142

नाटकप्रकरणम्। १३३

अपि च काम्भोजा: क्षतकुम्भिनीपरिचयाः प्राप्तव्रणाः सेवणा गौडाः पीडितविग्रहाः श्रितगिरिग्रावाङ्कणाः कोक्कणाः । लाटा: पाटितमूर्तयः परिलसद्धीविह्वलाः सिंहला: कर्णाटाः परिपूर्णवेपथुभृतस्तन्द्वालवो मालवाः ॥१७॥ किं च भोजा व्यर्थभुजायुधा: क्षतनिजस्त्रीकेलयः केरलाः पाण्ड्याः खण्डितविक्रमाः प्रफटितहीजर्जरा घूर्जराः । पाञ्ालाः प्रणतिप्रपञ्चितभियश्चादूत्कटाः कीकटा: काम्पिल्लाः श्रितपल्लयः कृतयशोभङ्गाः कलिङ्गा अपि ॥१८॥ (सर्वे हर्षातिशयं नाट्यन्ति ।) परिजन :- (साक्षर्य) *अहो वीररुइ्दस्स अइसइदतिहुवणाइ जुझझावदाणाइ। राजा-(सहर्ष) महतीं प्रतिष्ठामारोपितं खलु काकतीयकुलं विश्ववैकविजयिना वत्सेन। पुरोधसः-आमूलचूडं फलिताः प्रसत्तयः काकतीयान्वयदेव- तानाम्। राजा-ततस्ततः । प्रथम :- अनन्तरं सकलदिग्विजयसमुत्तेजितते जोविलास: सर्व- नरेश्ववराणां तानि तान्युपायनानि स्वीकृत्य समग्रसैन्यैः सपक्षैर्मही- भृंद्रणैराश्रितेन महता वलाणवेन न्यवर्तत विश्वैकवीरो वीररुद्रः । मन्त्रिण :- (सहर्ष) कुत्रेदानीं राजपुत्रः । द्वितीय :- साम्प्रतं किकुर्वाणराजलोकः सर्वानपि सेनापतीन *अहो वीररुद्रस्यातिशयितत्रिभुवनानि युद्धापदानानि। चयवीकृताः। नीरंहसो निर्वेगाः। काम्भोजा इति॥ कुम्भिनी भूमिः। तन्द्रालवो- उलसा निरुद्योगा इत्यर्थः । 'स्पृहिग्ृहि' इत्यादिना आलुच्प्रत्ययः । भोजा इति ॥ चाहूनि त्रायस्वेत्यादीनि प्रियवाक्यानि तैरुत्कटाः । श्रितपल्लयः प्राप्ताल्पग्रामाः । आमूलचूडमामूलाग्रम्। किंकुर्वाणराजलोक: किङ्करीभवद्राजवर्गः । मौलं मूल- प्र 12

Page 143

१३४ प्रतापरुद्रीये र्नापणसहिते

नगरं प्रस्थाप्य कतिपयमौलपरिवृतः काकतीयवीर: स्वैरं गोदावरी- परिसरारण्येषु मृगयाकुतूहली विहरते। मन्त्रिण :- (सविमर्श) महाराज, नूनं त्वय्येव शासति वसु- मतीं यौवराज्यमेव बहुमन्यते राजपुत्रः । एषा प्राप्त्याशा । दिग्विजयाकृष्टनरेश्वरवृत्तान्तस्य व्यापि- त्वात् पताका निरूपिता। राजा-तदचिरमेव युष्माभिरानेतव्यो वत्सः, अनुनेतव्यश्च राज्याभिषेकाय। मन्त्रिण :- यदाज्ञापयति देवः । (इति निष्कान्ताः।) नपथ्ये-(ससंत्रमं) भो भो नागरिकाः, सत्वरमपसरत दूरम्। यदिदानीम् आलानं तरसा निपाट्य निगलान्युच्छिद्य धूताङ्कुशो वेगोत्पातितधूर्गतः कटतटीनिर्यन्मदाम्बुस्तुतिः । भ्रश्यत्पण्यपर्थं चलद्रजहयं बिभ्यज्जनौघं पुरं विष्वगव्याकुलयत्यमन्दरभसः स्वैरं करिग्रामणीः ॥१९॥ एष शङ्कात्रासरूपः संभ्रम: । राजा-(आकर्ण्य सस्मितं) कथं व्याकुलयति कटकं करीन्द्रः । पुरुष :- महाराज, नूनमिदानीं नगरं प्रविशतां नरेश्वरोपायनानां द्विपानां गन्धानिलाय संक्रुध्यन् निरर्गलो जातः प्रधानहस्ती। पुरोधस :- पित्रा स्वयंभूपतिनोपदिष्टं प्रतापरुद्रस्य महाभिषेकम्। निर्विन्नमापादयितुं गजास्यः करेणुराजाकृतिरभ्युपैति॥२०॥ बलम्। एषा प्राप्त्याशेति ॥ राज्याभिषेकस्य मृगयालक्षणप्रतिबन्धकोपनि- पातेन शङ्कयमानत्वादिति भावः । पताकां योजयति-दिग्विजयेति ॥ आलानमिति॥ आलानं बन्धस्तम्भः । निगलानि शृङ्गलानि। पातितधूर्गतः पातिताधोरणः । करिग्रामणीः राजप्रियो गणपतिर्नाम गजश्रेष्ठः। त्रश्यत्पण्यपथ- मित्यादौ शङ्कालासयोर्निरूपणात् संत्रम इत्याह-एष इति ॥ कटक नगरम्। पित्रेति॥ गजास्यो गणेशः । अत्रेष्टार्थस्य महामिषेकस्थ निर्विन्नमित्यनेन गणे-

Page 144

नाटकप्रकरणम् । १३५

राजा-(सहर्ष) तर्हि वयमपि प्रमद्वनद्वारप्रासादमारुह्य गजेन्द्रमवलोकयिष्यामः । (इत्युत्थाय परिक्रम्य निष्कान्ताः सर्वे।) इति वीररुद्रविजयो नाम तृतीयोडङ्कः ॥ (ततः प्रविशति धात्री चेटी च ।) घात्री-(सरोषं) *हंजे एआरिससहस्सकज्जपज्जाउले राअउले महूसवे वि सअला वि रअणी केण समं तुए णीदा। ईरिसमहग्घाइ भूसणाइ कुदो चोरिआइ। कहं ण विण्णादं तुए दासीएउत्तीए- सअला दिसो जेऊण चउरंतसामंतपरिवारो पआवरुद्दो णअरं पविठ्ठो। कुलदेवदाए पसत्तीए महाराअस्स अण्णाए पुरोहिदाणं अणुरोहेण अमच्चाणं अणुवटृणेण पआणं भाअहेएण खोणीए तवोविसेसेण अंहा- रिसस्स परिअणस्स सुकअपरिपाएण अब्भुपगअमहारज्जाहिसेओ जुवराओ संजाओ। एव्वं वि एआइणिं मं महूसवाउलिअं मोततूण कहिं ठिदा। *हजे एतादृशसहस्त्रकार्यपर्याकुले राजकुले महोत्सवेऽपि सकलापि रजनी केन समं त्वया नीता। ईदृशमहार्घाणि भूषणानि कुतश्चोरितानि। कर्थ न विज्ञातं त्वया दास्याःपुत्र्या-सकला दिशो जित्वा चतुरन्तसामन्तपरिवारः प्रतापरुद्रो नगरं प्रविष्टः। कुलदेवतायाः प्रसत्त्या महाराजस्याज्ञया पुरोहितानामनुरोधेनामा- ्यानामनुवर्तनेन प्रजानां भागधेयेन क्षोण्यास्तपोविशेषेणास्मादृशस्य परिजनस्य सुकृतपरिपाकेणाभ्युपगतमहाराज्याभिषेको युवराजः संजातः । एवमप्येकाकिनी मां महोत्सवाकुलितां मुक्त्वा कुत्र स्थिता। शप्रसादरूपोपायानुसरणादाक्षेपः । इष्टार्थोंपायानुसरणमाक्षेप इति लक्षणात्। अत एवात्र गर्भवीजोद्वेदनादित्याह। तस्य प्राप्त्याशासंबन्धित्वेनैवंविधत्वात्। अन्तःपुरोचितं राज्ो वनं प्रमदवनम्। 'ड्यापोः-' इति हस्वः ॥ ।। इति तृतीयोऽङ्कः ॥ नीचपात्रद्ययुक्तं प्रवेशकं प्रारभते-तत इति ॥ तत्र प्रतीहार प्रवेशात् पूर्वः कथाभाग: पूर्वाङ्कशेषतया वृत्तः । उत्तरस्तूत्तराङशेषतया वर्तिष्यमाण इति द्रष्ट- व्यम्। हजे चेटि। 'हण्डे हजे हलाह्ाने नीचां चेटीं सखीं प्रति' इत्यमरः । ईरिसेति ॥ महार्धागि महामूल्यानि। दास्याःपुत्र्या। 'पुत्रेऽन्यतरस्याम्'

Page 145

१३६ प्रतापरुद्रीये रत्नापणसहिते

अनेन रोषवशान्नियताप्तिप्रदर्शनमुखेन बीजस्यावमर्शाद्वि- मर्शसंधिः । चेटीगतदोषप्रख्यापनादपवादोडङ्गम् । चेटी -* सामिणि, अवराहं सहस्स । (इति पादयो: पतति।) धात्री-(सत्रूभअं). दासीएउत्ति, पटंचलेण सप्पदंसणं पडि- मज्जेसि जं पणामेण ईरिसापराहं सिढिलेसि। एष रोषसंभाषणरूप: संफेटः । चेटी-1ईरिससहावा एव्व तुमं। ता णिक्कारणकोविणिं होदिं अणुवट्टिष्ठं अहं ण पज्जत्ता। धात्री-(सरोषशिर:कम्पं) वक्कसीलदुल्ललिए, लूणकण्णणासिअं तुमं बन्धिऊण काराघरभाअणं करेमि। (इति बाहुबन्धनं नाटयति।) एष बन्धनरूपो विद्रवः । चेटी-(समयकम्पं) I। सामिणि, रक्खेहि रक्खेहि असरणँ णिरवराहं इमं जणं। तुह अत्तिआए हिडिंबस्समं. गच्छंतीए अहं बलकारेण णीढ़ा। तद्ध पडिऊलं देव्वं पसादअंतीए बिलंबिदं। किं करेमि।

*सामिनि, अपराधं सहख। +दास्याःपुत्रि, पटाश्वलेन सर्पदशनं परिमार्जयसि यत् प्रणामेनदशा- परार्ध शिथिलयसि। +ईदृशखभावैव त्वम्। तत् निष्कारणकोपिनीं भवतीमनुवर्तितुमहं न पर्याप्ता। 5 वकशीलदुर्ललिते, लूनकर्णनासिकां त्वां बद्धा कारागृहभाजनं करोमि। ॥स्ामिनि, रक्ष रक्ष अशरणं निरपराधमिमं जनम्। तवात्तिकया हिडि- म्ाश्रमं गच्छन्त्याहं बलात्कारेण नीता। तत्र प्रतिकूलं दैवं प्रसादयन्त्या बिल- म्बितम्। किं करोमि।

इति विकल्पादलुक्। विमर्शसंधि योजयति-अनेनेति । अनेन ग्रन्थ- संदर्भेणेत्यर्थः । प्रतिपक्षनिवृत्त्या कार्यनिश्चयो नियताप्तिः । तस्याः प्रदर्श- नमुखेन बीजस्य गर्भसंधौ प्रसिद्धस्यावमर्शात् पर्यालोचनात्। तक अत्तिकया- ज्येष्ठभगिन्या । 'अत्तिका भगिनी ज्येष्ठा' इत्यमरः । प्रतीहार-

Page 146

नाटकप्रकरणम्। १३७

धात्री-(सरोषहुङ्कारं) *एआरिसं राअउलमहूसवं उझझिअ हिडिंबालअगंडसेलेसु कित्ति मत्तअं ताडिस्सइ मंदभाइणी। एष गुरुतिरस्कृतिरूपो द्रवः । चेटी-1सामिणि, सहेहि विलंबिअं। तुए कादव्वं मंगलोव- आरं सिग्घं णिव्वट्टेमि। (इति वपुषा प्रणमति ।) धात्री-(सप्रसाद) हंजे, उट्ठेहि उठ्ठेहदि। एषा विरोधशमनरूपा शक्तिः । चेटी-(सहर्षमुत्थाय हस्तावलम्बं दत्त्वा ) ईइदो इदो तत्तहोदी। धात्री -- (किंचित् परिक्रम्य पुरोऽवलोक्य च) ॥कहं एसो पडि- हारप्पवरो ससंभमं णिगओ। ता पच्चासण्णो विअ महाहिसेअ- समओ। तेण राअवुत्तस्स मंगलणीराअणदीवरिछ्छोलिं णिव्बट्टेदुं अब्भंतरं पविसह्य । (इति निष्कान्ते ।) प्रवेशकः । (ततः प्रविशति प्रतीहारः ।) प्रतीहार :- (साटोपं परिक्रम्य द्वारि नरपतिकुलकलकलमसहमानः सावमानं कनकवेत्रलतामुद्यम्य) रे रे नरेश्वराः, *एतादृशं राजकुलमहोत्सवमुज्झित्वा हिडिम्बालयगण्डशैलेषु किमिति स्तकं ताडयिष्यति मन्दभागिनी। + स्वामिनि, सहख विलम्बितम्। त्वया कर्तव्यं मङ्लोपचारं शीघ्रं निर्वतयामि। +सखि, उत्तिष्ठ उत्तिष्ठ ।. Sइत इतस्तत्रभवती। ॥कथमेष प्रतीहारप्रवरः ससंत्रम निर्गतः । तत् प्रत्यासन्न इव महाभिषेक- समयः । तेन राजपुत्रस्य मजलनीराजनदीपरिञ्छोलिं निर्वर्तयितुमभ्यन्तर प्रवि- शावः। प्रवरो ब्रृद्धप्रतीहारः । दीपरिञ्छोलिं दीपपङ्िम्॥ प्रवेशकः ॥ तत इति॥

Page 147

१३८ प्रतापरुद्रीये रत्नापणसहिते

दन्तिव्यूहमुपायनीकृतममुं कुर्वन्तु पुर्या बहि- र्यस्योद्यद्वनबृंहितैर्न घटिकाघण्टाध्वनि: श्रूयते। दूरे चास्तु रथाश्वमेतदखिलं यस्यातिसंमर्दतो निष्क्रामत्प्रविशच्च नागरकुलं न स्वैरमाचेष्टते ॥ १ ॥ एषा तर्जनोद्वेजनरूपा द्युतिः । (किंचिदुब्ैः) भो भो कुलामात्यवृद्धाः प्रधानाधिकारिणः परि- जना: पौराश्र संश्ृणुध्वम्। एषा रुद्रदेवस्याज्ञा। यथा किल- पूर्वैः काकतिवंशजैरनृपतिभिः सम्यग्धृता या चिरं यस्या मानुषशम्भुना गणपतिक्षोणीभुजाऽभूत् प्रथा। येयं मद्भुजया कुलाद्रिवसति विस्मारिता मेदिनी सेयं संप्रति वीररुद्रभुजयोर्यातु प्रतिष्ठां स्थिराम । २ ॥ एषा स्ववंशजानां कीर्तनाङ्गुरुकीर्तनरूपः प्रसङ्ग: । (पुनः साटोपं परिक्रम्य) अधिकृताः किमिदानीमारभध्वे। किमुपक्रान्तः स्वयंभूदेवसमाराधनविधिः। कञ्चिद्दत्ताः पुरदेवताभ्यो बलयः । किमभ्यर्चिताः सर्वे वर्णवृद्धाः । कच्चित् प्रसाधिता महा- भिषेकवेदिः । किं सज्जीकृतानि कनककलशषु पुण्यतीर्थसलिलानि। कच्चिदभ्यर्णमुपनीतान्युत्तमोपकरणानि। किं मक्रलमुहूर्ते कृताव- धाना ज्योतिर्विदः। कच्चिदलंकृतास्त्रिलिङ्गनगरीमृगीद्टशश्च। यदि- दानीं वसुमतीपाणित्रह्णोचितमङ्गलाचारवेषः प्रतापरुद्रः काकतीय- महाराज्यलक्ष्मीमहान्तःपुरे वर्तते। तत्त्वरध्वम् । (अन्यतो गत्वा सम्रूक्षेपमवलोक्य) कथं राजानो न विरमन्ति । (किंचिदुपसृत्य) भो भा भूपाला यथावकाशमाध्वम्। सज्जीकुरुध्वमुपायनजातम्। न वृथा संमर्दं सहते मम वेत्रयष्टिः । दन्तीति ॥ रथाश्वमिति ॥ सेनाअत्वादेकवद्धावः । नागरकुलं पौर- समूहः। स्वैरम् असंबाधेन। संशृणुध्वमिति ॥ संपूर्वाच्छृणोते रविव- क्षितकर्मकात् 'समो गम्यृच्छि-' इत्यादिनात्मनेपदम्। काकतिभूपतीनां भूपरिपालनमुदितोदितं भवतीत्याह-पूर्वैरिति ॥ विस्मारितेत्यत्र 'गतिबुद्धि-' इत्यादिनाऽणिकर्तु: कर्मत्वम् । तस्मिन्नमिधेये कर्मणि क्ः । 'ण्यन्ते कर्तुश्र

Page 148

नाटकप्रकरणम्। १३९

एतद्वमानरूपं छलनम्। (समन्तादवलोक्य सगर्वातिशयं) अहो तृणीकृतजगतां क्षिति- भृतामुद्वेलं संमर्द निवारयतो मम प्रभावः । अथवा काकतीयदौवा- रिकाणां लिखितपठितमेव राजनिवारणम्। एष स्वशक्त्याविष्करणरूपो व्यवसायः । (प्रविश्य पटाक्षेपेण दौवारिकः ।) दौवारिक :- (साक्षेपं) रे केन खल्वसमयविदा भूपतयो निवारिताः । महोत्सवदिद्ृक्षवः सर्वे प्रविशन्तु। प्रथम :- (सरोषं) रे काकतीयकुलवृद्धप्रतीहारं मामसमय- वेदिनमुदाहरसि। द्वितीय :- भवतु यो वा को वा भवान्। प्रवेष्टव्या नरपतय इति महाराजस्याज्ञा। एतत् प्रतीहारयोरन्योन्यरोषसंर्धवचनरूपं विरोधनम्। प्रथम :- किमनेन समं शुष्ककलहेन। यावत् प्रधानागारद्वार- वेदिकामध्यमध्यासीनं पुरोहितपुरस्कृतं युवराजमेवोपसर्पामि। (इति परिक्रामति।) द्वितीय :- अह्मपि यथानिर्दिष्टमनुतिष्ठामि । (इति परिक्रामति ।) (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रः पुरोधसो मन्त्रिणश्च।) पुरोधस :- काकतीयकुलतिलक, युवराजेन भवता लीलयैव दिशो दश विजिता इत्यमी सम्यगद्य सत्याशिषो वयम्। किं च- अद्यान्वयः काकतिभूपतीनां प्राप्तस्त्रिलोकीप्रथितां प्रतिष्ठाम्। राजन्वती भूरियमद्य जाता वीतोपसर्गाः सकलाः प्रजाश्च ॥३॥ कर्मणः' इति वचनात्। उत्तमोपकरणानि छत्रचामरादीनि। अभ्यर्णमन्तिकम्। उपनीतानि समर्पितानि। लिखितपठितमाबाल्यादभ्यस्तं, न नूतनं भवती- त्यर्थः । स्रातानुलिप्तादिवत् 'पूर्वकाल-' इति समासः । पटाक्षेपेण नेपथ्याप- सरणेन। सूचनं विनैव प्रविश्येत्यर्थः । अमिषेकानन्तरकार्य सिद्धवत्कृत्याह- अद्येति॥ राजन्वती सुराज्ञी। 'राजन्वान् सौराज्ये' इति निपातनात् साधुः ।.

Page 149

१४० प्रतापरुद्रीये रन्नापणसहिते

एषा सिद्धवद्भाविश्रेयःकथनात् प्ररोचना। मन्त्रिण :- सूर्यसोमान्वयामात्यमहत्ताद्याधरीकृता। अस्माभिरधिकुर्वाणैः काकतीयकुलस्थितिम् ॥४ ॥ एतत् प्रकृतानुगुणप्रशंसनाद्विचलनम् । पुरोधस :- राजपुत्र, सज्जीकृतेयं महाभिषेकसामग्री। काकतीय- नरेश्वरक्माधिष्ठितं भद्रासनं भवदधिरोहणं प्रतीक्षते। तत् परिपालय स्वयंभूदेवानुगृहीतां महाराजस्याज्ञाम्। एतत् कार्यसंग्रहरूपमादानम् ।

बोदुमिच्छामि। प्रतापरुद्र :- तर्हि कुलदेवतां स्वयंभूदेवं नमस्कृत्य, गुर्वाज्ञां

पुरोधसः-सद्ृशोऽयमाचार: काकतीयकुलप्रदीपस्य भवतः । किं तु प्रत्यासीदति महाभिषेकसमयः । तदचिरणैव विहितकर्त- व्येन राजपुत्रेणागन्तव्यम्। वयमितः करणीयशेषं प्रतिपालयामः । प्रतापरुद्र :- यदादिशन्ति काकतीयान्वयप्रत्याययितारः । (इत्युत्थाय यथोचितं परिक्रम्य निष्कान्ताः सर्वे।) इति स्वरितमहोत्सवो नाम चतुर्थोडङ्: ॥

वीतोपसर्गा निरुपद्रवाः । विचलनं नाम खगुणाविष्करणम्। तत् प्रकृतानुगुण्येन विशिषन् योजयति-एतदिति॥ राजपुत्नेति॥ भद्रासनममिषेकोपयोगी पीठविशेषः । तदुक्तं वास्तुशास्त्रज्ञैः-'शक्ष्णं षडज्गुलोत्सेधं षोडशाङ्कुलविस्तृतम्। *द्वात्रिंशदजुलायामं क्षीरदारुसमुद्धवम्। पद्माङ्कितं भवेद्धद्रपीठं स्त्रपनकर्मणि ।।' इति। एतत् सिंहासनमिति वसिष्ठादयो व्यवहरन्ति। प्रत्याययितारो विश्वास- यितारः खाधीनत्वसंपादका वा। पक्षद्वयेऽपि ग्राह्यवाच इत्यर्थः । प्रतिपूर्वा -- दिणो ण्यन्तात् तृच्प्रत्ययः । 'प्रत्ययोऽधीनशपथज्ञानावेश्वासहेतुषु' उत्यमरः । सर्वमन्यत् सुगमम् ॥ ॥। इति चतुर्थोऽक्कः ॥

  • द्विद्वादशाङ्ुलायामम्' इति पाठान्तरम्।

Page 150

नाटक प्रकरणम् । १४१

(ततः प्रविशन्ति ज्योतिर्विदः ।) ज्योतिर्विद :- (ससंत्रमं परिकम्य) भो भोः, त्वरध्वम्। कुत्र पुरोधसः, कुत्र वा मन्त्रिणः। समानीयतां स्वयंभूदेवसमाराधना- सक्तचित्ततया विलम्बमानो राजपुत्रः । येन प्रत्यासन्नतरो वर्तते महाभिषेकमुहूर्तः । एतदुत्तराङ्कसय पूर्वाङ्कार्थानुसंगतत्वादङ्गावतरणम्। (सविमर्शाश्चयं) अहो विश्वातिशायिनी काकतीयकुलप्रतिष्ठा। यतः आदेष्ठा कुलदेवता स भगवान् यस्य स्वयंभू: शिवो यं सज्जीकुरुते पराक्रमजितः क्षोणीपतीनां गणः । यस्मै च स्पृह्यत्यशेषजगती तं वीररुद्राकृते- र्विष्णोर्वीक्ष्य महाभिषेचनविधिं नन्दन्ति सर्वे जनाः ॥ एष स्वयंभूदेवोपदेशनरेश्वरविजयप्रमुखमुखसंध्यादिबीजनाना- र्थानां महाप्रयोजनीभृतमहाभिषेकार्थतया योजनाननिर्वहणसंधिः। (सोलासं) नूनमिदानीं स्वप्नेऽप्यासूत्रितामाज्ञां पालयन्तं कुलोद्वह्म्। न मान्त्यन्तर्मुदः शंभोर्विभोर्यभिनन्दतः ॥२॥ एष मुखसंधौ प्रसिद्धस्य स्वमनोपदेशरूपस्य बीजस्योप -- गमात् संधिः। (किंचिदुच्दैः) कल्याणी सकलापि भूतसरणिः क्षेमप्रदा देवताः श्रेयःप्रस्त्नवनिर्भरा द्विजनुषामाशीर्गिरो जाग्रति। तत इति॥ ज्योतिर्विंदो मौहूर्तिकाः । अत्र पूर्वाङ्कवर्तिभिमौंहूर्तिकैरसू -- चितैरेवात्रानुप्रविष्टैरभिहितस्याङ्कार्थस्य पूर्वाङ्कार्थानुगतत्वादक्कावतरणमित्याह- पतदुत्तरेति । आदेष्टेति।। अत्र बीजयुक्तानां मुखसंध्याद्यर्थानां परमप्रयो -- जनसंबन्धलाभात् निर्वहणसंधिरित्याह-एष इति ॥ स्वप्न इति ॥ आसू -- त्रितां सूचितामप्याज्ञां पालयन्तमभिनन्दतोऽनुमोदमानस्य शंभोर्विभोर्व्यापक- स्याप्यन्तमुदो न मान्ति। अप्रमेथी विचित्रो हर्षोडभूदित्यर्थः । संध्याख्यमञ्ञं योजयति-एष इति ॥ उपगमात् पुनरुपगमनादित्यर्थः । कल्याणीति ॥

Page 151

१४२ प्रतापरुद्रीये रत्नापणसहिते

आरूढाः पदमुन्नतं ग्रहगणाः श्रेयान् मुहूर्तः शुभै: नक्षत्राणि शिवंकराणि शुभदाञ्ान्ये निमित्तोदयाः ॥ ३॥। तद्वयमेव राजपुत्रानयनाय प्रयतिष्यामहे। एष प्रकृतकार्यमार्गणाद्विरोधः । (सत्वरं परिक्रम्य पुरोऽवलोक्य च सहर्षसंत्रमम्) नन्वागत एव प्रतापरुद्रः ।

भूपालैः करसंभृतोपकरणैरापैरमात्यात्मजैः ।

स्त्रीवर्गैश्च यथोचितं परिवृतो नीराजनोद्योगिभिः ॥४॥ तद्वयं चास्थानीमेव गत्वा समुचितमाचरिष्यामः । (इति परिक्रामन्ति।) (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणक्ष।) मन्त्रिण :- (सविनयमग्रतो भूत्वा) काकतीयकुलतिलक, इत भूतसरणिः पृथिव्यादिभूतसमूहः । कल्याणी अप्राप्तविकारतया शुभशंसिनीत्यर्थः । श्रेयःप्रस्रवेण श्रेयःसंपादनेन निर्भराः द्विजनुषां द्विजानामाशीर्गिरो जाग्रति नित्यं प्रवर्तन्त इत्यर्थः । ग्रहगणाः सूर्यादयः। उन्नतं पद्मुचसंज्ञं स्थानम्। तदुक्तं

इति। आरूढाः प्राप्ताः। एतत्फलमुक्तं वृद्धवसिष्ठसंहितायाम्-'उत्पातदोषादि- विवर्जितडहि नराधिपानाममिषेक इष्टः। मूलत्निकोणसवगृहोच्चमित्रगहस्थितैर्वाथ तदंशसंस्थैः ॥ शुमे बिलन्ने सततं ग्रहेन्द्रा दिशन्ति लक्ष्मीं विपुलां च कीर्तिम् ।' इति। मुहूर्तशब्देनात्र षडर्गरूपः कालविशेषो विवक्षितः । स च कररसौम्य- ग्रहसंबन्धवशात् द्विविधः । तदुक्म्-'लग्नमर्ध तृतीयांशो नवांशो द्वादशां- शक: । त्रिशांशश्वेति षडर्गः क्रूरसौम्यवशात् द्विधा ॥' इति। तत्रायं सौम्य इत्याह-श्रेयानिति ॥ शुभैः सौम्यग्रहैः श्रयानतिप्रशस्त इत्यर्थः । तदपि तत्रैवोक्तम्-'षड्वर्गो भवति सदा शुभखचरसमुद्धवः शुभदः । पापसमुत्थ- स्त्वशुभस्तस्माद्राह्यस्तु सौम्यषड्वर्गः ॥' इति। नक्षत्राणि रोहिण्यादीनि गेहिण्या- द्यन्यतमनक्षत्रमित्यर्थः । एकदा बहूनामसंभवात् । शिवंकराणि क्षेमंकराणि । यद्यपि 'मेघर्तिमयेषु कृषः' इत्यत्र शिवंकरशब्दश्छन्दस्येव न भाषायामित्याह पदमअ्जरीकार: तथापि 'क्षेमंकरोऽरिष्टतातिः शिवतातिः शिवंकरः' इत्यमरकोश- मूलोऽयं प्रयोग इत्यनुसंघेयम्। निमित्तोदयाः दिक्प्रसादादयः । विग्रैरिति ॥

Page 152

नाटकप्रकरणम्। १४३

इतः । इदं राज्यलक्ष्मीशुद्धान्तप्रधानागारं प्रविशतु स्वामी । न विलम्बार्हाः कुलदेवताया मनोरथाः ।

ज्योतिर्विद :- (किंचिदुकैः) भो भो: कुलामात्याः, संनह्यध्वमुपाहरध्वमुचित द्रव्याण्युपाध्वं सुरान् संप्राप्तः सुमुहूर्त एष विजयी कल्याणसंपत्खनिः । यस्मिन् प्राप्य महाभिषेकविभवं क्षोणी प्रलीनाखिल- क्ष्मापालां चिरमन्वशाद्णपतिर्भूभृत्कुलग्रामणीः ॥ ५ ॥

परिजन :- (श्रुत्वा) *पच्चासण्णे वि मुहूत्ते किं विलंबिअदि महामच्चहिं। मन्त्रिण :- (उपसृत्य) नाथ, किं विस्मृता गुर्वाज्ञा। नायमव- सरो नरेश्वरविज्ञापनाकर्णनस्य। महास्थान्यामेवानुगृह्यन्ताममी। प्रतापरुद्र :- शिरसि धृतैव खलु तातस्याज्ञा। किं तु नोपदि- श्यते पुनरनन्तरकरणीयम् । एतत् प्रकृतानुगुण्येनान्योन्यपरिभाषणात् परिभाषणम्। * प्रत्यासन्नेऽपि मुहूर्ते कि विलम्ब्यते महामात्यैः । मज्गलसूक्त्तानि 'कनिऋदज्जनुषं ममानने वर्चों विहृवेष्वस्तु' इत्येवमादीनि । आलोकशब्दा जयजयेत्येवमादयः । 'आलोको वन्दिभाषणे' इति विश्वः । भूपा अपि वन्दित्रमभूमयो वभूवुरिति भावः। उपकरणानि छत्रचामरादीनि । वन्दिजनाः 'वन्धभूमृद्गुणोत्कर्षश्रावका वन्दिनः स्मृताः' इत्युक्तलक्षणाः । शुद्धान्तप्रधानागारमन्तःपुरप्रधानगृहम् । पुरा खलु गणपतिमहाराजो यस्मिन् मुहूर्तेऽभिषेकमनुभूय समस्तां भुवमेकातपत्रां बुभुजे एतादृशोऽयं मुहूर्तः संप्राप्तः । अतोऽवधानेन देवताराधनादिकं कर्तव्यमित्याह-संनह्ध्वमिति॥ संनह्यध्वं मुहूर्ते सावधाना भवतेत्यर्थः । उचितद्रव्याणि तीर्थकलशादीनि। सुरानुपाध्व- ·मर्चयध्वम्। अन्रेदं पित्रादीनामप्युपलक्षणम्। यथाह वृद्धवसिष्ठः-'आशिषो वाचनं कृत्वा पूजयेच्च सुरान् पिनन्। आयुधानि च पट्ट च विप्रान् गन्धादि- नार्चयेत् ॥।' इति। अन्वशात् शास्तेर्लड्। अनुभूतार्थख्यापनादिति ॥ अनुभूतस्य बीजानुगुणस्यार्थस्य ख्यापनादित्यर्थः । त्रयीसमभिमन्त्रणसुरभी --

Page 153

१४४ प्रतापरुद्रीय रक्नापणसहिते

पुरोधसः-(सविनयसंभ्रममुपसृत्य) स्वीकृतमहाभिषेकोचितवेष: कनकवेदिकामारोहतु प्रतापरुद्रः । नृपा :- देव, महाराजपर्यायेण भव्ुजशिखरमारोहतु मेढिनी। प्रतापरुद्र :- तथा भवतु। (इति वेदिकामारोहति।) नृपा :- (सप्रणामं मझ्लवेदिकां परिवार्य) विजयतां बिजयतां काकतीयकुलस्वामी। एष नरेश्वरपर्युपासनात् प्रसाद: । परिजन :- (विलोक्य सामोदकौतुकम्)*पुव्वपव्वअकगअसाणुं सहस्सरस्सी विअ सुमेरुकणअतडं महेन्दो विअ परिव चक्वट्टिणं चक्कधरो विअ कणअवेदिं आरूढो पआवरुद्दो। मन्त्रिण :- काकतीश्वर, समारुह्यतामिदं भद्रासनम्। अमी पुरोधसो महाभिषेकाय तीर्थसलिलपूर्णान् कनककलशान् धारयन्ति। प्रतापरुद्र :- तथा भवतु। (इति स्वयंभूदेवं काकतीयकुलवृद्धांक्ष प्रणम्य सिंहासने समुपविशन ।) पुरोधस :- (त्रयीसमभिमन्त्रणसुरभीकृतसलिलान् कनककलशानमात्य- हस्तेषु निधाय सादरं) प्रतापरुद्रनृपते काकतीयकुलोचितैः । प्रजानुरञ्जनैः क्षोणी पालयाचन्द्रतारकम् ॥ ६ ॥

तानुमोदिनं स्वयंभूदेव प्रमोदादृटहासोपबृंहितं काकतीयकुलश्रेयःप्रस्तावनाडिण्डिमं चि- रावलम्बितधरणीभारखिन्नानां फणिपतिप्रभृतीनां प्रहर्षक्ष्वेडाविडम्बिनं धर्मप्रति- ष्टामङ्गलकाहलीकोलाहलम नोहरं महामिषेकमुद्ूर्तप्रशंसिनं कनकजयघष्टिकानिनाद- मनुसंदधानाः सत्वरं प्रतापरुद्रममिषिख्वन्ति ।) * पूर्वपर्वतकनकसानुं सहस्ररश्मिरिव सुमेरुकनकतर्टं महेन्द्र इब पक्षिचक- वर्तिनं चकधर इव कनकवेदिभारूढः प्रतापरुद्रः । कृतसलिलान् वेदत्रयाभिमन्त्रितोदकानित्यर्थः । अमिषेकमुहूर्तसूचकं जयघण्टि- काध्वनिमाशीर्वादसाधुवादादिरूपतया संभावयति-प्रतापेत्यादि ।। अथ विश्वातिशायिमहित्रो वीररुदरस्य राज्यामिषेकमहोत्सवो विश्वप्रियंकर इत्याह-

Page 154

नाटकप्रकरणम्। १४५

ऐषं वाञ्छितार्थप्राप्तिरानन्दः । एकतो वैतालिका :- (सहर्षातिशयमुच्चैः) हे लोकाः पिबत श्रवःप्रसृतिभिः कल्याणवार्तामृतं जातः काकतिवीररुद्रनृपते राज्याभिषेकोत्सवः । अद्यारभ्य कलि: कृतः कृतयुगं राजन्वती मेदिनी देवाः पूर्णह्विर्भुजस्तदधुना यूयं कृतार्थीकृताः ।। ७॥ अन्यतो वैतालिका :- आरूढे वरवीररुद्रनृपतौ सिंहासनं शासितुं तस्याज्ञा क्षितिपालमौलिवलभीः स्वच्छन्दमारोहति। लोकांस्त्रीनधिरोहतो निरवधी कीर्तिप्रतापौ हठा- दारोहन्ति च विन्ध्यभूधरतटान् प्रत्यर्थिन: पार्थिवाः॥।८।। दक्षिणतो वैतालिका :- गायन्तीरनुमोदते निजवधूः शेषः शिरःकम्पनैः लक्ष्मीं प्रीणयंतऽद्य कच्छपपतिर्वक्षस्थलीदर्शनात्। दिङ्नागाश्च करेणुकाशुचमपाकुर्वन्त्यनुव्रज्यया दोष्णा काकतिवीररुद्रनृपतौ विश्वंभरां बिभ्रति ॥ ९।। एकत इति॥ एकतः पुरत इत्यर्थः । श्रवःप्रसृतिमिः श्रवणचुलकैः। कलिः कृतयुगं कृतः परिपूर्णधर्मत्वादिति भावः । कुतः । राजन्वती सुराज्ञी। 'राज- न्वान सौराज्ये' इति निपातनात् साधुः । मेदिनीति ॥ 'राजा कालस्य कारणम्' इति भावः । पूर्णह्विर्भुज इति॥ 'यजेत राजा ऋतुमिर्विविधैराप्तदक्षिणैः' इति विहितानुष्ठानादिति भावः। अन्यत इति ॥ पश्चादित्यर्थः । आरूढ इति॥ सच्छन्दमनर्गलम्। आरोहति न कश्िदप्यविधेयो भूपतिरस्तीति भावः । अने- नास्य राज्ः प्रभुशक्तिरक्ता। तदुर्क मानसोलासे-'आज्ञारूपेण या शक्तिः सर्वेषां नूर्धनि स्थिता । प्रभुशक्किर्हि सा ज्ञेया प्रभावमहितोदया I' इति । निरवधीति॥ सूर्याचन्द्रमसोः सीमाचल इव कीर्तिप्रतापयोरवधिभूतः कोऽपि नास्तीत्यर्थः । हठशब्दो व्याख्यातः। वीररुद्रे सिंहासनमेकमारूढे सति तदाज्ञा- यास्तत्कीर्तिप्रतापयोस्तत्परिपन्थिनां च ततोऽप्युन्नतानि बहून्यारोहणस्थानानि बभूचुरिति महदेतदद्भुतमिति भावः । गायन्तीरिति ॥ व्याख्यातमेतत्। प्र 13

Page 155

१४६ प्रतापरुद्रीये रत्नापणसहिते

उत्तरतो वैतालिका :- प्रस्थेभ्यः कुलभूभृतामपि हरिद्दन्तावलानां महा- कुम्भेभ्योऽपि फणाभृतामधिपतेर्मूव्रां सहस्रादृपि। कूर्मेन्द्रस्य च कर्परादपि जगद्विख्यातसारोन्नतौ बाहौ संप्रति वीररुद्रनृपतेः प्राप्तप्रतिष्ठा मही ॥ १० ॥ एष सर्वदुःखशमनात् समयः । मन्त्रिण :- अहो प्रभावः काकतीयान्वयस्य। यदिदानी प्रतापरुद्रस्य महाभिषेकपयःकणा ये मिपतन्ति राज्ञाम्। प्रणामनम्रेषु शिरस्सु तेषां तैः कल्पितः स्वस्वपदाभिषेकः ॥ पुरोघस :- काकतीयकुलोत्तंस, राज्यलक्ष्मीसंवरणस्रगियमुत्तं- सीक्रियताम्। (इति पट्टबन्धमाचरन्ति ।) सर्वे-(सप्रमोदातिशयं) प्रियं नः प्रियं नः । एषा प्रकृतकार्यस्थिरीकरणात् कृतिः। मन्त्रिण :- (सर्वतोऽवलोक्य) कस्कोऽत्र भोः। आनीयतां छर्त्र चामरयुगलं च। (प्रविश्य प्रधानप्रतीहार:) प्रतीहार :- यदाज्ञापयन्ति महामात्याः । (इति परिक्रम्य तान्युपानयति ।) (प्रान्तवर्तिनो नरपतयोऽभ्युपेत्य तानि सादरं गरहीत्वा यथोचितमाचरन्ति ।) पुरोधस :- (सहर्षातिशयं) प्रस्थेभ्य इति॥ प्रस्थेभ्यः सानुभ्यः। कर्परात् पृष्ठास्थिकपालात्। प्रतापेति॥ शरणागता महीपतयः महाभिषेकसमये स्वखपदेषु स्थापिता इति भावः । उत्तं- सीक्रियतां शिरोभूषणं क्रियुताम् । 'शुक्कमाल्याम्बरभृतः प्राड्मुखस्य महीपतेः । पट्टँ शिरसि बध्रीयात् सिंहासनगतस्य च I' इति वसिष्ठस्मरणात्। पट्टस्तु 'राज्ञां नवाज्ुलायामो मध्येऽष्टाझुलविस्तृतः । चतुरगुलविस्तारपार्श्वः खवर्णमयः शुभः ॥ पट्टः पञ्चशिखो राज्यप्रजासौख्यसमृद्धये।' इत्याद्युक्तलक्षणो द्रष्टव्यः । कस्क इति ॥ खन्तस्य किमो वीप्सायां द्विर्वचनम् । कस्कादित्वात् सत्वम् ।

Page 156

नाटकप्रकरणम् । १४७

श्रयन्ते बहवो महानृपतयः किं तैरनीहकक्रमै- रीदृग्विश्वजनीनशौर्यगरिमा जागर्ति क: क्ष्मातले।

किंकुर्वाणसमस्तभूपतिगणः श्रीवीररुद्रो यथा ॥ १२ ॥ एतदखिलातिशायित्वक्रथनमुखेन प्रकृतकार्यानुमोदनादा- भाषणम्। तदिदानीं खलु यत् काकतीयनृपराज्यविलासचिह्नं यच्छायया वसुमती विजहाति तापम्। छत्रेण तेन कृतलक्ष्मणि वीररुद्रे मुक्तातपत्रविभवाः सुहृदो द्विषञ्च ॥ १३ ॥ एष राज्यप्राप्तिहेतुभूतच्छत्रारोपणरूपकार्यदर्शनात् पूर्वभावः। मन्त्रिण :- (सविनयमुपसृत्य) नाथ काकतीयलक्ष्मीपते , स - नाथाः सर्वाः प्रकृतयः सुराजानं त्वां दिद्दक्षन्ते। तत् सांप्रतं महा- स्थानी प्रसाधयतु देवः । पुरोधस :- आचारोऽयं काकतीश्वराणां यन्महाभिषेकानन्तरं ध्रूयन्त इति॥ महानृपतयो नलनहुषादयः । ईटक्क्रमो वीररुद्रसदशपरिपाटी तद्रहितैरनीदृक्कमैः । तत् कथमित्याशङ्कय वीररुद्रे विशेषमाह-ईदृगिति॥ विश्वस्मै जनाय हितो विश्वजनीनः शौर्यगरिमा यस्य स तथोक्तः नीतिपुरस्कृत- पराक्रम इत्यर्थः । शोर्यगरिमाणमाह-वाल्येति ॥ त्रिभुवनक्षेमंकरप्रकियः सम्यक्परिपालनेन प्रजाहितस्वभाव इत्यर्थः । यदाह मनुः-'संग्रामेष्व- निवर्तित्वं प्रजानां चैव पालनम्। शुभ्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ।!' इति। न केवलं पराक्रमेण, किन्तु सामादिमिरपि त्रिमिरुपायैः सर्वोऽपि राजलोको वशीकृत इत्याह-किंकुर्वाणति ॥ तदुक्तम्-'एवं विजयमानस्य यस्य स्यु: परिपन्थिनः। तानानयेद्वशे सर्वान् सामादिभि- रुपकमैः ॥' इति। छत्रधारणं विशिनष्टि-यदिति ॥ यत् काकतीय- कुलक्रमागतमित्यर्थः। यच्छाययेति॥ इदं दुष्टनिग्रहशिष्टप्रतिष्ठापनयोरुपलक्ष- गम्। तेन सुहृदो मुक्तातपत्रविभवाः मौक्तिकमयच्छत्रवैभवाः, द्विषस्तु त्यक्ता- तपत्राश्वेत्युभयोपपादनम्। सुराजानमिति ॥ 'न पूजनात्' इति न समासान्तः । आचार इति॥ अलब्धलाभो योगः । लब्धपरिपालन क्षेमः।

Page 157

१४८ प्रतापरुद्रीये रन्नापणसहिते

प्रजानां योगक्षेमपरीक्षणम्। राजा-यदाज्ञापयन्ति धर्मविदः । (इत्युत्तिष्ठति।) (काकतीयकुलवृद्धाः ससंभ्रममुच्चैः प्रक्रान्तमुर्वीश्वरमौलिरत्नैः कुर्वन्ति नीराजनमम्बुजाक्ष्यः । प्रतापरुद्रस्य लसत्प्रतापप्रदीपनीराजितदिङ्मुखस्य ॥१४॥) नृपतय :- (शिरस्खजलिं बढ्ढा) अहो चरितार्था सांप्रतमा- स्माकी चक्षुष्मत्ता, यया खल्वीद्दगनुभूयते। यतः नीराजयन्त्यन्ध्रपुरीरमण्यः प्रदीपजालैर्वरवीररुद्रम् । चन्द्रानना गोत्रपति रजन्यस्तारागणैर्मेरुमिव स्फुरद्भिः ॥१५॥ (सर्वे जयशब्दं कुर्वन्ति।) मन्त्रिण :- महाराज काकतीश्वर, सज्जीकृतसिंहासनं सर्वतः परिष्कृतमिदं महास्थानमण्टपं सनाथीक्रियताम्। प्रतीहार :- (ससंत्रमं पुरो भूत्वा) देव, इत इतः । (राजा सगौरवं परिक्रम्य महास्थान्यां सिंहासनमारोहति।) (सर्वे प्रणम्य यथार्ह्मुपविशन्ति ।) प्रतीहार :- (समयोचितं परिक्रम्य वन्दमानान् मूर्धामिषिक्तान् सामिमानं कनकवेत्रलतया निर्दिशन्) कालिङ्गात्र निषीद कोङ्कणपते दूरे भवाङ्गेश्वर प्रान्तं संश्रय मालवेन्द्र शनकैः खवोपायनं प्रापय। पाण्ड्याग्रे भव सेवणक्षितिपते पश्चाद्धवाद्यैव वः स्वामी काकतिवीररुद्रनृपतिः सर्वान् क्रमादीक्षते ॥ १६॥ तयोः परीक्षणं विचारः। अमिषेकानन्तरकर्तव्यं नीराजनमाह-काकतीय- कुलवृद्धा इति । अम्बुजाक्षीविशेषणमेतत्। उच्चैरुन्नतम्। 'अधः प्रवर्तयेद्धूपं दीपमूर्ध्व प्रवर्तयेत्' इति वचनादिति भावः। उर्वीश्वरमौलिरतैः प्रक्रान्त- मिति॥ राज्ां प्रणामानन्तरमित्यर्थः। ग्रताप एव प्रदीपः तेन नीराजितानि दिड्मुखानि येन तथोक्स्य, अत एव तत्फलं नीराजनमिहैवानुभूयते इति भावः । अस्माकमियमास्माकी । 'युष्मदस्मदोः' इत्यण्प्रत्यये 'तस्मिन्नणि च' इत्यस्मा- कादेशः। चन्द्राननाः चन्द्रसदृशाननाः अन्यत्र चन्द्र एवाननं यासां तास्तथो- काः । गोत्रस्य कुलस्य पतिमू। अन्यत्र गोत्राणां पर्वतानां पतिम्। परिष्कृतं

Page 158

नाटकप्रकरणम्। १४९

(नृपतयः प्रणम्य यथार्ईमुपविशन्ति।) पुरोधस :- स्वस्ति काकतीयकुलावतीर्णाय सुपर्णकेतनाय महा- महिम्रे। अद्य सुप्रजसा काकतीयान्वयेन सनाथानि त्रीण्यपि जगन्ति। शासितर्यविनीतानां नरेन्द्र त्वयि शासति। मध्यस्थतास्य लोकस्य चिरेणान्वर्थतां गता ॥ १७॥ राजा-(सविनयं) स्वयंभूदेववरानुकूलानां भवदाशीर्वा- दानां फलमिदं यत्काकतीयक्षत्रियकुलं वर्धते। मन्त्रिण :- राजन् प्रतापरुद्र, सर्वेषां काकतीयानां भागघेयविभूतयः । एवंरूपा विवर्तन्ते यत्कुलप्रभवो भवान् ॥ १८ ॥ पुरोधस :- न केवलं काकतीयानामेष पुण्यपरिपाकः, अपि तु सर्वासामपि प्रजानाम्। (प्रविश्य प्रतीहार:) प्रतीहार :- देव, सर्वाः प्रकृतयो वर्णवृद्धान् पुरस्कृत्य प्रतीहारम- ध्यासते। मन्त्रिण :- शीघ्रं प्रवेश्यन्ताम् । प्रतीहार :- यदाज्ञापयन्त्यमात्याः । (इति निष्कम्य ताभि: सह पुनः प्रविशति।) (ततः प्रविशन्ति वर्णव्रृद्धाः ।) वर्णवृद्धा :- (सहर्ष राजानमवलोक्य) विचित्रवितानसुवर्णकलशादिना भूषितम्। सिंहासनलक्षणं मानसोल्ासे-'रुचि- रेण सुवर्णेन निर्मित रत्नरजितम्। अष्टमि: स्फाटिकैः सिंहैर्मूर्भि तत् सुविराजि- तम्। अधः काश्वनविन्यस्तरत्नवेदित्रयान्वितम्। आस्थानमण्डपे राज्ञां सिंहा- सनमिदं परम् ॥' इति। सुपर्णकेतनाय महामहित्रे गरुडध्वजावतारायेत्यर्थः । सुप्रजसा शोभनसंतानेन । 'नित्यमसिचू प्रजामेधयोः' इत्यसिच्प्रत्ययः । शासितरीति ॥ अविनीतानां दुष्टानां मित्राणाममित्राणां चेति भावः । अत एवेयन्तं कालं स्वर्गपातालमध्यवर्तित्वेन मध्यस्थस्य मध्यमलोकस्य संप्रति पक्षपातराहित्येन माध्यस्थ्यमित्यन्वर्थतामित्यर्यः । सर्वेषामिति ॥ * 'यत्कुलालम्बनं भवान्' इति पाठान्तरम्।

Page 159

१५० प्रतापरुद्रीये रत्नापणसहिते

वरः प्रतापरुद्रोऽयं वधूरेषा वसुंधरा। तयोर्घटयिता देव: स्वयंभू: सदृशः क्रमः ॥१९॥ एतत् स्वयंभूदेवस्य स्वयंसंधातृत्वाद ज्भुतप्राप्तेरुपगूहनम्। (सविनयमुपसृत्य) स्वामिन् विश्वंभरावल्लभ प्रतापरुद्र, सर्वाशी:फलविश्रमैकवसतेः कि वा तवाशास्महे यद्वा विश्वविभौ स्वयंभुवि शिवे नस्तन्वतामाशिषः । किं चित्रं स विभुर्भवानपि समो गौरीश्रियोर्वल्लभा- वाचन्द्रार्कमिमां क्षमां कृतयशोरक्षौ युवां रक्षतम् ॥ २० ॥ मन्त्रिण :- स्वामिन्नेते स्वायंभुवाः सुधियः । (राजा सादरं प्रणमति।) अन्ये-(सहर्षातिशयमग्रतः स्थित्वा) महाराज काकतीश्वर, यस्त्वद्गोत्रमहत्तरस्य जगतां त्रातुः स्वयंभूविभो-

देवोऽसौ गणपेश्वरः प्रतिकलं स्फारप्रसादोन्मुखो नमुस्ते कुलमण्डनस्य महतीं पुष्णातु राज्यश्रियम्॥ २१॥ पुरोधस :- राजन्नेते गाणपेश्वराः सूरयः । भागधेयविभूतयो भाग्यसंपदः । एवंरूपाः वीररुद्ररूपाः । विवर्तन्ते परि- णमन्ति । वर इति । अत्र वसुन्धरावीररुद्रयोर्वधूवरयोः स्वयंभूदेवः खय- मेव संधातेति अनुरूपघटनादद्भतमिति भावः । अथ स्वयंभूदेवे विदुषा- माशीर्वादमाह-स्वामिन्निति ।। सर्वाशी:फलानामैश्वर्यादीनां विश्रमेणा- संकोचेनैकवसतेर्मुख्याधारस्य सर्वाणि श्रेयांसि प्राप्तवतस्तवाशास्यं नास्ती- त्यर्थ:। तथाप्यवाप्तसमस्तकामे ख्वयंभुवि शिवेऽपि देवस्यानन्तभोगोड स्त्वित्येवमाशिष: प्रयुआ्ानानामस्माकं तादृशे त्वय्यपि नैतदाश्चर्यमित्याह- यद्वेति॥ आशीर्वादप्रकारमाह-स विभुरिति॥ पुरा खल काकतीयानां पूर्वेण गणपतिमहाराजेन खनामाङ्कितं गणपेश्वरं नाम महेश्वरं प्रतिष्ठाप्य तस्य सकुलदेवतया स्वयंभूदेवेन समं नानाविधवैभवं विधाय तत्र विद्वांसो बहवः स्थापिताः । तेषामाशीर्वादमाह-महाराजेति॥ यो गणपेश्वरस्तत्तादृक्चरितै- रमिलषितप्रदानादिभिरद्जतैः स्वीयैर्महिममिः सामथ्यैंस्त्वद्रोत्रमहत्तरस्य त्वत्कुल- देवतायाः स्वयंभूदेवस्य द्वितीयोऽभवत्। द्वावपि देवौ काकतिकुलयोगक्षेमधुरी- णावित्यर्थः । असौ देवः । प्रतिकलं प्रतिक्षणम्। स्फारस्य प्रभूतस्य प्रसादस्य

Page 160

नाटकप्रकरणम् । १५१

(राजा सादरं नमस्करोति।) अपरे-(सप्रश्रयप्रमोदं) स्वामिंस्त्रिलिङ्गदेशपरमेश्वर, यैर्देशस्त्रिभिरेष याति महतीं ख्यातिं त्रिलिङ्गाख्यया येषां काकतिराजकीर्तिविभवैः कैलासशैला: कृताः । ते देवाः प्रसरत्प्रसादमधुराः श्रीशैलकालेश्वर- द्राक्षारामनिवासिन: प्रतिदिनं त्वच्छेयसे जाग्रतु ।२२॥' पुरोधस :- (सोल्लासं) राजन्नेकशिलानगरवासिनो महाद्विजास्त एत। (राजा यथोचितं बन्दते।) मन्त्रिण :- साधीयान् आशीर्वादक्मः । (इति यथोचितं सर्वानुपवेशयन्ति ।) पुरोधस :- (सोलासं) राजन्नेकशिलानगरीवल्लभ, साहस्रांशवमैन्दवं च महती ये द्वे कुले निर्मिते ते जाते लघुनी गुणैर्विजयिनि श्रीकाकतीयान्वये। भूपालेषु भवत्प्रतापयशसोः पूर्णार्कचन्द्रश्रियोः प्राप्यानुग्रह्मूर्जितेषु पुनरप्येते लभेते स्थितिम् ॥२३ ॥ (राजा सर्वान् पश्यति।) (पुरोधसो यथार्ह सर्वानुपवेशयन्ति ।) प्रकृतय :- विजयतां विजयतां प्रतापरुद्रमहाराजः ।

उन्मुखः सन्। राज्ञो देवस्य चाभेदोपचाराद्वीररुद्रस्य नप्तृत्वव्यवहारः । तस्य ते राज्यश्रियं पुष्णात्विति संबन्धः। अथ नगरवासिनां विदुषामाशीर्वादमाह- यैरिति॥ त्रयो लिगरूपाः श्रीशैलनाथादयो देवा यस्मिन् देशे स त्रिलिश्ञोऽ- न्ध्रदेश इत्यर्थः । द्राक्षारामेति॥ तत्रत्यानामारामाणां तद्भयिष्ठत्वादिति प्रौढो- कतिः। वस्तुतस्तु दक्षसंबन्धित्वात् दाक्षाराम इति तन्नाम। तदुक्कं स्कान्दपुराणे भीमेश्वरखण्डे 'दक्षस्यारामभूमित्वात् दाक्षारामोऽभिधीयते' इति। साहस्त्रेति॥ निर्मिते ब्रह्मणेति शेषः । लघुनी जाते निःसारे अभूताम् । अधुना भवत्प्रताप- यशसोः पूर्णार्कचन्द्रश्रियोः सतो: भूपालेष्वनुग्रहं प्राप्य प्रबलविरोधे जीवनस्य दुर्लभत्वं मत्वेति भावः । ऊर्जितेषु समृद्धेषु सत्सु। तत्समभिव्याहारादेते सोम- सूर्यकुले पुनरपि स्थिरति प्रतिष्ठां लमेते। महदनुग्रहस्य किमसाध्यमिति भावः । भूपा इति । सन्तु नाम भूपाः किं तैरसर्वगुणाढघैरिति वाक्यशेषः । न चात्र

Page 161

१५२ प्रतापरुद्रीये रत्नापणसहिते

भूपा: सन्तु चिराय संशृणुमहे भास्वत्कुलालंकृती रामोऽयं न जगाम लोचनपथ तेनैव खिन्ना वयम्। अद्य त्वां वरवीररुद्रनृपते तस्यावतारान्तरं वीक्ष्यैवं चरितार्थतां सुमहतीमह्ाय गाहामहे ॥ २४॥ मन्त्रिण :- स्वांमिन् सांप्रतं यथार्ईमर्हणया माननीयाः पौराणां श्रेणयः। राजा-(सानन्दौदार्य) जागर्तु राजशब्दोऽयं ममैवाज्ञाफलैकभूः । राज्योपभोगविभवः सर्वसाधारणो हि नः ॥ २५॥ सर्वे-(सप्रमोदं) सदशोऽयं प्रसाद: काकतीयकुलतिलकस्य भवतः । राजा-प्रसीदतु भगवान् स्वयंभूदेवः । (इति पुरोहितावर्जितकनककलशसलिलधारापुरःसरं सकलभोगसमग्रान् आ्रमान् सप्रश्रयादरं विप्रसात् करोति । अन्येषामपि नगरवासिनां यथाप्रधानं संभावनामाचरति ।) विप्रतिपत्तिरित्याह-चिराय संशणुमहे इति ।। 'समो गम्यृच्ठि-' इत्यादिनात्मनेपदम्। सर्वगुणाढयोऽपि रामो न लोचनगोचर गत इति खेदो रामावतारस्य तव दर्शनाननिवृत्त इति धन्यतामनुभवाम इत्याह-भास्वदिति॥ अर्हणया पूजया। जागत्विति॥ आज्ञा प्रभुशक्तिः निग्रहानुग्रहादिसामर्थ्य- मित्यर्थः । तत्फलस्यानुग्रहादेरेकभूर्मुख्यनिवास:, राज् एवाज्ञाश्रयत्वादिति भावः । तदुक्कं मानसोल्लासे-'अनुग्रहे निग्रहे च दाने चादानकर्मणि । प्रघृत्तौ च निबृत्तौ च ग्रहणे मोक्षणे तथा ॥ सयं समर्थो यः सोऽयं राजा साज्ञा निरगला ।' इति। एवशब्दो मिन्नकमः। ममायं राजशब्द एव जागत्वति संबन्धः । राज्ञः कर्म राज्यम्। पुरोहितादित्वाद्यकप्रत्ययः। आज्ञामात्रमेव मे भूयादनुभवः पुनरस्मार्क सर्वेषामिति वाक्यार्थः । अथ पृथिव्यादिदानमाह-राजेति ॥ प्रसीद्तु भगवा- निति परमेश्वरप्रीणनार्थत्वाद्विमलं नाम चतुर्थमिदं दानमिति द्रष्टव्यम् । बथाह व्यास :- 'ईश्वरप्रीणनार्थ यत् ब्रह्मवित्सु प्रदीयते। चेतसा भक्तियुक्तेन दानं तद्विमलं शिवम् ।' इति। सलिलधारापुरःसरमिति॥ अत्रापस्तम्बः 'सर्वाण्युदक- पूर्वाणि दानानि' इति। सकलभोगेति॥ भोगोपकरणसमग्रानित्यर्थः । प्रश्रयो विनयः। आदरः सत्कारः। तत्सहितं सातत्विकमित्यर्थः । तदुक्तं व्यासेन-'दा- तव्यमिति यद्दानं दीयतेऽनुपकारिणे। देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् I' इति । आ्रामान् विप्रसात् ब्राह्मणाधीनान् करोति। 'देये त्रा च' इति सा-

Page 162

नाटकप्रकरणम्। १५३

नृपतय :- सामात्यानुरो ध मुत् ाय्याता म महार्घ्या्णि गजतुरगरथा ्भ र णविशेष रूपाण्युपायनानि यथावकाशमुपनीय विरचिताज्लय:) स्वामिन् काकतीयमहाराज, त्रायस्वेत्यनुवाद एव भुवनत्राणैकबद्धव्रते त्वद्धत्या इति सिद्धसाधनमिदं विश्वैकनाथे त्वयि। त्वद्गभें वसति गताः स्म इति च स्पष्टार्थमंशे हरे: कुक्षिस्थाखिलविष्टपस्य सदृशं किं वात्र विज्ञाप्यते॥। २६। (राजा सप्रसादममात्यानवलोकयति।) मन्त्रिण :- स्वामिन्नेते सोमार्कवंश्या नरपतयो महतीमर्हणाम- हन्ति। तेन स्वेषु स्वेषु पदेषु प्रतिष्ठापनीयाः प्रस्थापनीयाश्च। राजा-तथा। (इति नरपतीन् यथोचितं संभाव्य प्रस्थानमादिशति।) (राजानः सहर्षातिशयं प्रणम्य काकतीश्वरकृपावलोकननिर्वर्तितप्रयाणमड्गला दिगन्तविहरणोद्यतया तदाज्ञया कृतसाहाय्या निष्कान्ताः ।) प्रकृतय :- चिरमनुवर्तितव्या काकतीयनरेश्वरपरिपालनपरि- पाटी महाराजेन । (इति निष्कान्ताः ।) पुरोधस :- (साक्षर्यप्रत्यमिज्ञानं) चिह्नान्यस्य पदाब्जयोः पिशुनयन्त्युर्वीश्वरोपास्यतां पाणी सूचयतः सचापकुलिशावुद्वाहलीलां भुवः । नेत्रे शारदपुण्डरीकरुचिनी लीलावतारं हरे- राख्यातस्तदितीह सिद्धवचनं प्रत्यक्षमीक्षामहे॥ २७॥ तिप्रत्ययः। त्रायस्वेति॥ भुवनत्राणपरायणे त्वयि भुवनान्तःपातिनामस्माकं परि- त्राणप्रार्थनं पुनरुक्त्मेवेत्यर्थः। त्वद्भृत्या इति॥ विश्वैकनाथे त्वयि विश्वान्तवर्ति- नामस्माकं भृत्या इति वचनं चर्वितचर्वणमेवेत्यर्थः। त्वद्वर्भ इति ॥ स्पष्टार्थ व्युत्पन्नं प्रति स्फीतालोकमध्यवर्तिनः कलशस्य कलशोऽयमिति कथनवदिति भावः। सदृशमुचितम्। तदाज्षया कृतसाहाय्या इति॥ तदाज्ञाकरा इत्यर्थः। चिह्नानीति॥ पदाब्जयोश्िह्ानि मांसलत्वादीनि। उर्वीश्वरोपास्यतां पिशुन- यन्ति सूचयन्ति। तदुक्कं सोमेश्वरेण-'मांसलौ गूढगुल्फौ च कूर्मपृष्ठसमावपि। भवेतां चरणौ यस्य स भवेत् पृथिवीपतिः ॥' इति। पाणी सचापकु- लिशौ धनुर्वज्ररेखासहितावित्यर्थः। तदप्युक्तम्-'चक्रासिचापवज्नाभा

Page 163

१५४ प्रतापरुद्रीये रत्नापणसहिते

राजा-(सविनयब्रीड) किमसाध्यं भूदेवतानां भवतामनुग्रह्स्य। स्वयंभू देव मूर्त्यन्तराणां

पुरोधस :- (सादर) महाराज काकतीश्वरकुलवासना वा सितया भवदुपासनया परं प्रसेदिवान् परःसहस्त्रप्रसादोन्मुखः स्वयंभूनाथः किं ते भूय: प्रियमुपकरोतु। एषा वाक्यार्थसमाप्तिरूपा संहृतिः । राजा-(सप्रणामादरं) काकतीयराज्यघुरायामवहितमेव स्वयं- भूदेवेन। तथापीदमस्तु। भूरस्तु संपन्नसमस्तसस्या भूदेवताः पूर्णमनोरथाश्च। भूपाश्च धर्मप्रवणैकचित्ताः सर्वे जनाः सन्तु निरामयाश्च ॥ एषा शुभशंसनरूपा प्रशस्तिः। (इति निष्कान्ताः सर्वे।) इति प्रतापरुद्राज्याभिषेको नाम पज्ञमोडक्कः ॥ एवं साङ्गं नाटकमुदाहृतम्। इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेSलंकारशास्त्रे नाटकप्रकरणं समाप्तम्। रेखा: कुर्वन्ति भूपतिम्' इति। शारद्पुण्डरीकरुचिनी नेत्रे पुण्डरी- काक्षावतारमाख्यातः कथयतः इति यत् पूर्वोक्तं सिद्धस्य कस्यचिदनागतविदः पुरुषस्य वचनमधुना प्रत्यक्षमीक्षामहे। काकतीश्वरकुलवासनया वासितया कुल- धर्मत्वेन प्राप्तयेत्यर्थः । भवदुपासनया परं प्रसेदिवानतिप्रसन्नः । अत एव परे सहस्त्रात् परःसहस्राः । 'पश्चमी-' इति योगविभागात् समासः । राजदन्तादि- त्वात् सहस्रशब्दस्य परनिपाते पारस्करादित्वात् सुडागमः । तस्याविभक्तित्वात् विसर्जनीयाभावात् सत्वमेवेति दशटीकासर्वस्कारः । 'परश्शताद्यास्त येषां परा संख्या शतादिकात्' इत्यमरः । तावतां प्रसादानामुन्मुखः स्वयंभूनाथः । प्रशस्तिसंज्ञकं मञ्जलमाह-भूरस्त्विति॥ सर्वमन्यत् सुगमम् ॥ ॥ इति पथ्चमोऽङ्कः ॥ इति पदवाक्यप्रमाणपाराबारपारीणश्रीमहोपाध्यायकोलचलमहिनाथ- सूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणेः पेद्दयार्यस्यानुजेन कुमारखामिसोमपीथिना विरचिते प्रतापरुद्रीयव्याख्याने रत्नापणाख्याने नाटकनिरूपर्ण नाम तृतीयं प्रकरणम् ॥

Page 164

अथ रसप्रकरणम्। -00p00e-

अथ सर्वेषां प्रबन्धानां जीवभूतस्य रसस्य स्वरूपं निरुप्यते।

स्थायी भावो रसः । दृश्यश्राव्यभेदेन द्विविधा अपि प्रबन्धा निरूपिताः। तेषामात्मभूतस्य रसस्य स्वरूपनिरूपणं प्रतिजानीते-अथेति ॥ रससामान्यलक्षणमाह- विभावेति॥ वक्ष्यमाणलक्षणा विभावादय एव सामग्री तया सरसकाव्यसं- *'विभावानुभावव्यमिचारिसयोगाद्रसनिष्पत्तिः' इति भरतसूत्रम्। स्था- यिनां विभावैः ललनादिरूपैरालम्बनकारणैः उद्यानादिरूपैरुद्दीपनकारणैः, अनुभावैः कटाक्षभुजोत्क्षेपप्रभृतिभिः कार्यैः, व्यभिचारिमिर्निरवेदादिरूपैः सहकारिमिश्च संयो- गात् क्रमेणोत्पाद्योत्पादकभावरूपात् गम्यगमकभावरूपात् पोष्यपोषकभावरूपाच्च संबन्धात् रसस्य निष्पत्तिः क्रमेणोत्पत्तिरभिव्यक्तिः पुष्टिश्च भवतीत्यर्थः । तथाहि विभावैरालम्बनोद्दीपनकारणैः रत्यादिको भावो जनितः, अनुभावैः कार्यैः प्रती- तियोग्यः कृतः, व्यमिचारिमिः सहकारिमिरुपचितो मुख्यया वृत्त्या रामादा- वनुकार्ये, तद्रूपतानुसंधानान्नर्तकेऽपि प्रतीयमानो रसः। यथा असत्यपि सर्पे सर्पतयावलोकिताद्दान्नोऽपि भीतिरुदेति तथा सीताविषयिणी अनुरागरूपा राम- रतिरविद्यमानापि नर्तके नाव्यनैपुण्येन तस्मिन् स्थितेव प्रतीयत इति रतेर्व्यज्ञ- नयामिव्यक्तिरेव रसनिष्पत्तिरिति भट्टलोलटादयः । राम एवारयं अयमेव राम इति, न रामोऽयमित्यौत्तरकालिके बाधे रामोS यमिति, रामः स्याद्वा न वायमिति, रामसदृशोऽयमिति च सम्यब्िथ्यासंशय- सादृश्यप्रतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायेन रामोऽयमिति प्रतिपत्त्या ग्राह्मे नटे "सेयं ममानेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः । मनो- रथश्रीमनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता॥ दैवादहमत्र तया चपला- यतनेत्रया वियुक्तश्। अविरलविलोलजलद: काल: समुपागतश्वायम् ॥" इत्या- दिकाव्यानुसंधानबलात् शिक्षाभ्यासनिर्वर्तितखवकार्यप्रकटनेन च नटेनैव प्रका- शितैः कारणकार्यसहकारिभिः कृत्रिमैरपि तथानमिमन्यमानैः विभावादिशब्द- व्यपदेश्यैः 'संयोगात्' गम्यगमकभावरूपात् अनुभीयमानोऽपि वस्तुसौन्दर्य- बलाद्रसनीयत्वेन अन्यानुमीयमानविलक्षणः स्थायित्वेन संभाव्यमानो रत्यादिर्भा- वस्तन्रासन्नपि सामाजिकानां वासनया चर्व्यमाणो रसः। यथा कुज्झटिकाकुलिते देशेऽसतोऽपि धूमस्याभिमानात् धूमनियतस्य वहेरनुमानम् तथा नटेनैव ममैवैते विभावादयः इति प्रकाशितैः तत्रासद्धिरपि विभावादिमिः तन्नियता रतिरनुभी-

Page 165

१५६ प्रतापरुद्रीये रत्नापणसहिते

गृहीतया निपुणनटप्रदर्शितया वा सामाजिकभाव्यमानया समुल्ासित आखा- द्यमानो निर्भरानन्दसंविद्रपतां नीयमान: सननित्यर्थः। तदुक भावप्रकाशे- 'प्रकाशानन्दचिद्रपां रसतां प्रतिपद्यते। प्रकृष्यमाणो यो भावः स स्थायीति निगद्यते ।।' इति। एवंविधः सामाजिकनिष्ठो रत्यादिः स्थायिभावो रस्यते लाद्यत इति व्युत्पत्त्या रस इत्युच्यते। तदुक्तम्-'रसतेः खादनार्थत्वाद्रस्यन्त उंति ते यते। अनुमानाकारस्तु-रामोऽयं सीताविषयकरतिमान् सीताद्यात्मकविभावा- दिसंबन्धित्वात्, यन्नैवं तज्नैवं यथाहम्-इति। न च रतिसाक्षात्कार एव च- मत्कारकारी न त्वनुमितिरपीति वाच्यम्, अनुमीयमानाया अपि रतेः निजसौ- न्दर्यबलाद्रसनीयत्वेनानुमेयान्तरविलक्षणत्वात.। न चानुमितेः क्षणिकत्वाद्रसस्य क्षणिकत्वापत्तिरिति वाच्यम् अनुमित्सयानुमितौ साध्यसिंद्वरप्रतिबन्धकन्बात्। तादृशानुमित्साधारा च सामाजिकसमवेतवासनवेति कल्प्यते-इति श्रीशङ्क- कादयः ॥ भट्टनायकास्तु-काव्यस्यामिधाव्यापारवत् काव्यनाट्ययोस्तद्विलक्षगं भावु- कत्वभोजकत्वव्यापारद्वयमस्ति। काव्यार्थबोधोत्तरमेव तत्राद्येन भावुकत्वव्या- पारेण विभावादिरूपसीतादयो रामसंबन्धिनी रतिश्च सीतात्वरामत्वसंबन्धांशम- पहाय सामान्यतः कामिनीत्वरतित्वादिनैवोपस्थाप्यते। साधारणीकृतविभावा- दिसहकृतेन च भोजकत्वव्यापारेण रतिराखाद्यत इति रसास्वाद एव रसनिष्प- त्तिरित्याहुः ॥ अमिनवगुप्तपादास्तु-लोके प्रमदादिमिः स्थाय्यनुमानेऽ्भ्यासपाटववतां काव्ये नाट्ये च तैरेव कारणत्वादिपरिहारेण विभावनादिव्यापारवत्त्वात् अलौ- किकविभावादिशब्दव्यवहायैः ममैवैते शत्रोरेवैते तटस्थस्यैवैते न ममैवैते न शत्रोरेवैते न तटस्थस्यैवैते इति संबन्धविशेषस्वीकारपरिहारनियमानध्यवसायात् साधारण्येन प्रतीतैः अमिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात्तत्कालविगलित- परिमित प्रमातृभाववशोन्मिषितवेद्यान्तरसंपर्कशून्यापरिमितभावेन प्रमात्रा सकल- सहृदयसंवादभाजा साधारण्येन स्वाकार इवामिन्नोऽपि गोचरीकृतश्चर्व्यमाणतै- कप्राणः पुर इच परिस्फुरन्, हृदयमिव प्रविशन्, सर्वाश्रीणमिवालिज्न, अन्य- त्सर्वमिव तिरोदधत्, ब्रह्मास्वादमिवानुभावयन् अलौकिकचमत्कारकारी श्रृज्ञा- रादिको रसः-इति॥ नव्यास्तु-काव्ये नाटये च कविना नटेन च प्रकाशितेषु विभावादिषु व्यज्जनव्यापारेण दुष्यन्तादौ शकुन्तलादिरतौ गृहीतायामनन्तरं च सहृदयतोल- सितस्य भावनाविशेषरूपस्य दोषस्य महित्रा कल्पितदुष्यन्तत्वावच्छादित सा- त्मन्यज्ञानावच्छिन शुक्तिकाशकल इव रजतखण्डः समुत्पद्यमानोऽनिर्वचनीयः साक्षिभास्यशकुन्तलादिविषयकरत्यादिरेव रसः इति॥

Page 166

रसप्रकरणम् । १५७

तथा चोक्तं दशरूपके-

आनीयमान: स्वादुत्वं स्थायी भावो रसः स्मृतः ॥' इति। भावस्य स्थायित्वं नाम सजातीयविजातीयानभिभूततया रसा: ।' इति। उक्तार्ये व्रृद्धसंमतिमाह-विभावैरिति ॥ व्यज्नादिसंबन्धा- दन्नस्येव विभावादिसमाश्रयणेन स्थायिभावस्यापि खादुत्वमित्यर्थः । तदुक्तम्- 'व्यञ्जनौषधिसंयोगो यथान्नं खवादुतां नयेत्। एवं नयन्ति रसतामितरे स्थायिनं थिताः ।' इति। अयं च रसोऽनुकार्ये रामादावुत्पन्नो रामाद्यमेदभावनया नटे प्रतीयत इत्युत्पत्तिवादिनो भट्टलोलटादयः । तादृशे नटे विभावादिभिरनुमितः सामाजिकैश्रव्यत इत्यनुमितिवादी श्रीशङ्कुकः । नटादिगतत्वपरिहारेण साधा- रणतयानुसंधीयमान: प्रकाशानन्दसंविदूपेण भोगापरनाम्रा भावुकव्यापारेण भुज्यत इति भुक्तिवादी भट्टनायकः । वक्ष्यमाणप्रकारेण सामाजिकाश्रयोऽमि- व्यज्यत इत्यभिनवगुप्तादयः । अयमेव पक्षो यथायोगं पक्षान्तरनिराकरणपूर्व- मुत्तरत्र सिद्धान्तीकरिष्यते। अथ स्थायिभावस्य लक्षणमाह-भावस्येति॥ इदमत्रानुसंघेयम्। काव्येनामिनयेन वा निवेद्यमानरामादिसुखदुःखाद्यनुभवज- नितवासनारूपः संस्कारापरपर्यायः सामाजिकमनोविकारो भावः। तदुक्म्- 'सुखदुःखादिमिर्भावैर्भावस्तद्भावभावनम्' इति।तस्य भावुकस्य भावश्चित्तं तस्य भावनं वासितत्वं तङ्धावभावनम्। स तावत् द्विविधः-सननिहितो व्यव- हितश्वेति। तत्राद्यः पटं प्रति तन्तुवद्रसं प्रति आकारमात्रव्यवहितः स्थायिभाव इत्युच्यते। तस्य साक्षाद्रसभावप्रतिपादनात्। तदुक्तम्-'प्रकृष्यमाणो यो भावो रसतां प्रतिपद्यते। स एव भावः स्थायीति भरतादिमिरुच्यते ।I' इति। द्विती- यस्तु कुविन्दादिवद्धावान्तरव्यवहितो विभावादिः । तस्य स्थायिद्वारा रसो- ल्वासकत्वसमर्थनात्। एतेन सामाजिकमनोविकारविशेषोपाधिको ब्रह्मानन्दस- ब्रह्मचारिणो रसस्य सन्निहितपूर्वावस्थाविशेषः स्थायिभाव इति फलितम्। अत एवोक्तममियुक्त :- 'शृश्वाराद्यनुभवयोग्यतया यदात्मनः सत्त्वं स भावः' इति। न च वस्तुतो भेदमात्रशङ्काकलक्करहितस्य निरुपाधिकस्य सन्मात्रस्यावस्थासं- बन्धः कथमिति शङ्कनीयम्। गगनमध्यमध्यासीनस्य सुधानिधेरुदकाद्युपाधिसं- बन्धनिबन्धनचाच्वल्यादिवदुपपत्तेः । एवंविधस्य भावस्येत्यर्थः । कस्यांचिन्नायि- कायामनुरागस्य नायिकान्तरविषयानुरागः सजातीयः । तत्र बीभत्सादिर्विजातीयः। तैरनमिभूततयातिरस्कृतत्वेनाविरुद्धत्वेनेति यावत्। एतच्च बृहत्कथामालतीमाधवा- दौ द्रष्टव्यम् । यथा लवणीदः खानुप्रविष्टं मधुरमपि नादेयमुदकं लवणयत्येवम- न्यानप्यात्मनैक्यं नयतः स्थायिभावस्य कुतस्तैः सह विरोधवार्तेति भावः । तदुक्तम् 'विरुद्वैरविरुद्वैर्वा भावैर्विच्छियते न यः। आत्मभाव नयत्यन्यान् स्थायीव लवणा- प्र 14

Page 167

१५८ प्रतापरुद्रीये रत्नापणसहिते

यावदनुभवमवस्थानम्। तथा चोक्तं दशरूपके- 'सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान्। यावद्रसं वर्तमान: स्थायी भाव उदाहृतः ।।' अथ रसविशेषाः । शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्सान्दुतशान्ताश्च रसा: पूर्वैरुदाहताः ॥ एषां स्थायिभावाः । रतिर्हासश्च शोकश्र क्रोधोत्साहौ भयं तथा। जुगुप्साविस्मयशमाः स्थायिभावा नव क्रमात् । अथ विभावः । विभावः कथ्यते तत्र रसोत्पादनकारणम् । आलम्बनोद्दीपनात्मा स द्विधा परिकीर्त्यते॥ करः ॥' इति। यावदनुभचमिति॥ संस्कारात्मनोऽस्य भावस्य संततचिन्तादिवशे- न प्रबोधादुत्पद्यमानो विजातीय प्रत्ययासंवलितः प्रियतमादिस्मृतिसंतानो विभा- वादिमहित्रा यावत्तन्मयमिव करोति तावदवस्थानमित्यर्थः । तदुक्त्तम्-'अव- स्थिताश्चिरं चित्ते संबन्धाच्चानुबन्धिमिः। वर्धिता ये रसात्मानस्ते स्मृताः स्थायिनो बुधैः ॥' इति। 'शृज्गार एक एव रसः' इति शृज्ञारप्रकाशकारः । 'शान्तवर्जमष्टौ रसाः' इति धनिकादयः । 'शान्तवत्सलसहिता दश' इत्यन्ये। एवमादिवि- प्रतिपत्तिलब्धन्यूनाधिकसंख्यानिवारणाय रसविभागमाह-शृङ्गारेति॥ पूर्वै- रमिनवगुप्ताचार्यादिमिः । अत्र चतुर्वर्गमध्ये सर्वप्राणिसुलभस्य कामस्य सर्वहृदयं- गमत्वात् प्रथमं श्रृज्ञारः । ततस्तज्जन्यत्वेन हास्यः । ततः तद्विरोधित्वात् करुणः । ततस्तन्निमित्तभूतोऽर्थप्रधानो रौद्रः। ततोऽर्थकामयोर्धर्ममूलत्वात् धर्मप्रधानो वीरः। तस्य भीताभयप्रदानसारत्वात्तदनन्तर भयानकः । ततस्तत्कारणभूतो बीभत्सः । वीराक्षिप्तभयानकाद्यनन्तरं वीररसफलभूतोऽद्भतः । त्रिवर्गफलकरसानन्तरं मोक्ष- फलकः शान्तरस इत्येवमुद्देशक्रमोपपत्तिः । अथ रससाम्र्यां विभावस्य विभागं दर्शयन् लक्षणमाह-विभाव इति॥ तत्र विभावादिचतुष्टयमध्य इत्यर्थः । रसशब्देनाल लौकिको रत्यादिभावः ओदनं पचतीत्यादिवद् भाविनीं वृत्ति- माश्रित्य व्यवहियते। मुख्यरसस्योत्पत्त्यभावांत्। एवमुत्तरत्रापि द्रष्टव्यम्। लोके नायकादि आलम्बनकारणं विशिष्टदेशकालादि उद्दीपनकारणं च काव्यनाटकादिमुखेन सामाजिकान्तःकरणप्रतिबिम्बिततया सामाजिकनिष्ठं सत् आलम्बनविभाव उद्दी-

Page 168

रसप्रकरणम् । १५९

रससमवायिकारणमालम्बनविभावः। इतरत्कारणजातमुद्दीपन- विभाव: । स चतुर्विधः । तथा चोक्तं शृङ्गारतिलके- 'आलम्बनगुणञ्चैव तश्चेष्टा तदलंकृतिः। तटस्थश्चेति विज्ञेयञ्चतुर्धोद्दीपनक्रमः ॥ आलम्बनगुणो रूपयौवनादिरुदाहृतः । तच्चेष्टा यौवनोद्धू तहावभावादिका मताः ॥ नूपुराङ्गदहारादि तदलंकरणं मतम् । मलयानिलचन्द्राद्यास्तटस्था: परिकीर्तिताः ॥' अथानुभावः । कार्यभूतोऽनुभावः स्यात् कटाक्षादि: शरीरजः । अथ सातत्विकभावाः । परगतसुखादिभावनाभावितांन्तःकरणत्वं सत्त्वम् । ततो भवाः सातत्विकाः । पनविभावश्चेति कथ्यत इत्यर्थः । एतच्च विशेषेण काव्यनाटकव्यापारजनितेन भा- व्यते ज्ञायत इति विभाव इति व्युत्पत्या लभ्यते। तदुक्तम्-'ज्ञायमानतया यत्र विभावो भावपोषकृत्' इति। शिष्टमुदाहरणसमये स्पष्ट भविष्यति। अनुभावं लक्षयति-कार्येति॥ ननु कार्यत्वं नाम नियतोत्तरकालभावित्वम्। तच्चा- नुभावस्य किं रसापेक्षया उत स्थाय्यपेक्षया। नाथः। विभावैरनुभावैश्वेति करणतृ- तीयया तस्य पूर्वभावित्वप्रतीतेः। नियतपूर्ववर्तित्वलक्षणकारणविशेषत्वात् कर- णस्य। न चात्र तृतीयायाः कत्रर्थान्तरं संभाव्यते। एवं चानुभावे सति रसो रसे सत्यनुभाव इत्यन्योन्याश्रयप्रसङ्गः स्यादिति। अत एव न द्वितीयः । न हि भावुकमनोऽवस्थायिन: स्थायिन: पूर्वभाविनां *कामिनीकटाक्षत्रुविक्षे- पादीनां तत्कार्यत्वमिति। अतः स्थायित्वयोग्यस्य लौकिकस्य रत्यादेः कार्यभूतो योऽयं कटाक्षादिरमिनयादिद्वारा भावुकमनःप्रतिबिम्बितः सहृदयहृदयस्थितं रत्यादिभावमनुभावयति सोऽनुभाव इत्युच्यत इत्यर्थः । तदुक्तम्-'भ्रूविक्षेप- कटाक्षादिविकारो हृदयस्थितम्। भाव व्यनक्ति यः सोऽयमनुभाव इतीरितः ।' इति। अथ सात्त्विकानामपि कार्यभूतानां कटाक्षादिवत् भावसंसूचनात्मकत्वे- नानुभावत्वे सिद्धेऽपि तेषां ब्राह्मणपरिव्राजकन्यायेन पृथगुपादानेऽसाधारणकारण- माह-परगतेति ॥ अभिनयादिमुखेनान्यगतसुखदुःखादिभावनायामन्तःकर- णस्यात्यन्तानुकूलत्वं सत्त्वमित्यर्थः । प्रत्ययार्थमाह-तत इति ॥ सत्त्वेन नि- * कामिनीकटाक्षभुजाक्षेपादीनामिति पाठान्तरम्।

Page 169

१६० प्रतापरुद्रीये रत्नापणसहिते

स्तम्भः प्रलयरोमाश्चौ स्वेदो वैवर्ण्यवेपथू। अश्रु वैस्वर्यमित्यष्टौ साच्विकाः परिकीर्तिताः ॥

र्वृत्ता भावाः सात्विका इत्यर्थः । अनेवंविधेनैवान्तःकरणेन कटाक्षादयो भाव्य- न्त इति तेषामनुभावतैव न सातत्विकत्वमिति भावः । तदुक्त भावप्रकाशे-'पर- स्य सुखदुःखादेरनुभावेन चेतसः । अत्यन्तेनानुकूल्येन येन तद्भावभावनम् ॥ तत् सत्त्वं तेन निर्वत्ताः सातत्विका इत्युदीरिताः । अनुभावत्वसामान्ये सत्य- प्येषां पृथक्तया ॥ लक्षण सत्त्वजत्वाद्धि ते च स्तम्भादयः स्मृताः ॥' इति । अल तद्भावभावनं नाम तन्मयत्वेनावस्थानम्। तदुक्तम्-'रामाद्याश्रितदुःखा- देरनुभूतेस्तदात्मना। सामाजिकस्य मनसो भावस्तद्धावभावनम् ॥' इति । एवं च विभावादिदर्शनजन्या अनुरागनिर्वेदादिमनोवृत्तयो विभावादितन्मयीभवनरूपेण सत्वशब्दामिधेयेन सामाजिकमनसोऽत्यन्तानुकूल्य जन्येनासाधारणकारणेनाव- स्थान्तरमापन्नाः स्तम्भादयो भावाः सातत्विकभावा भवन्ति। ते च सवकार्यभूतैः अत एव सात्त्विकपदप्रतिपाधैर्बाैर्जडैमौतिकैः शारीरैः स्तम्भादिमिरनुभावैः सूच्यन्ते। तथा च रतिनिर्वेदादिभावा एव सूचिता भवन्तीति फलितम्। तदु- क्तमाचार्यहेमचन्द्रेण-'बाह्यास्तु स्तम्भादयः शरीरधर्मा अनुभावास्ते चान्तरालि- कान भावान् गमयन्तः परमार्थतो रतिनिर्वदादिगमका इति स्थितम्' इति। एवं च स्थायिसंचारिसङ्क एव जीवस्य मनोमयावस्थां प्राप्य कार्यकारणरूपेण द्वि- विध बाह्यमान्तरं च सार्विकगुणं संपाद्यतीति रहस्यम्। केच्िदयं मनोमय- वर्ती रत्यादिगणः, पश्चभूतात्मकान्नमयक्षोभकतया मनोमयतादात्म्यापन्नं सीदत्य- स्मिन् मनोमय इति व्युत्पत्त्या सत्त्वगुणोत्कर्षात् साधुत्वाच् सत्त्वशब्दामिधेयं प्राणमयं. प्रविष्टः सात्त्विकत्वमनुभवति। तच्ब प्राणस्य भूभागानुग्रहे स्तम्भः । जल- भागानुग्रहे बाष्पः। तीव्रतेजोऽनुग्रहे स्वेदः। वैपरीत्ये वैवर्ण्यम्। आकाशानुग्रहे प्रलयः। अनिलानुग्रहस्य मन्दमध्यमोत्कृष्टतया त्रैविध्ये क्रमेण रोमाश्चवेपथुवैस्वर्याणीति वदन्ति। केचित् भावान्तरनैरपेक्ष्येण रसापरोक्षीकरणलक्षणे बलविशेषः सत्वं तज्जन्याः सात्विका इत्याहुः । अन्ये पुनरत्नमयप्राधान्येनामिव्यक्तत्वलक्ष- णसत्त्वजन्यत्वोपाधेः कटाक्षादिसाधारण्येऽपि पङ्कजादिवद्योगरूढत्वेन स्तम्भादय एव सात्विका इत्याहुः। केचितु कणादशात्रप्रसिद्धया द्रव्यादित्रयवाचकार्थशब्द- वदलंकारशास्त्रप्रसिद्धया स्तम्भादिष्वेव सातत्विकव्यवहार इति वर्णयन्ति । एवं प्राचामालंकारिकाणामनेकधा पारिप्लवं वर्तते। तद्यथा तथा वास्तु। न तत्रास्माकमाग्रहः। किं तु स्तम्भादीनामनुभावान्तर्भावेऽपि केनचि- द्विशेषेण पार्थक्यमित्येतदेवास्माभिरपेक्ष्यत इति। विशेषान्तराणि नरहरि- सूरिविरचिते रसनिरूपणे द्रष्टव्यानि। विस्तरभीरुमिरस्मामिरुपरम्यते। 'विशेषादामिमुख्येन चरन्तो व्यमिचारिण' इत्युक्तदिशा व्यमिचारिशब्दव्यु-

Page 170

रसप्रकरणम् । १६१

अथ व्यभिचारिभावा: । निर्वेद ग्लानिशङ्काख्यास्तथाऽसूयामदश्रमाः। आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः । व्रीडा चपलता हर्ष आवेगो जडता तथा। गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च।।

मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च।। त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावा रसस्य सहकारिणः ॥ तथा चोक्तं काव्यप्रकाशे- 'कारणान्यथ कार्याणि सहकारीणि यानि च। रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥ विभावाश्चानुभावाश्च कथ्यन्ते व्यभिचारिणः ॥' इति। त्पत्त्यैव निर्वेदादीनां समान्यलक्षणं सिद्धमिति मत्वा तेषां केवलं सामान्यतो विशेषतश्वोद्देशमाह-अथेति ॥ रसस्य सदकारिण इति॥ कलोला: सागर- स्येव रत्यादेलौंकिकस्य परिपोषकतया सहकारिणः सन्तो नाट्यादौ व्यमिचारिण इत्युच्यन्त इत्यर्थः । तदुक्म्-'मजन्तश्च निमज्जन्तः कलोलास्ते यथार्णवे। तस्योत्कर्ष वितन्वन्ति यान्ति तद्रूपतामपि ॥ तथा स्थायिनि निर्मन्ा ह्युन्ममा व्यमिचारिणः । पुष्णन्ति स्थायिनं स्वांश्च तत्र यान्ति रसात्मताम् ।' इति। उक्केऽर्थेऽमियुक्तसंवादमाह-कारणानीति॥ स्थायिनः स्थायित्वयोग्यस्येत्यर्थः। अनुभावा उभयेऽपि गृह्यन्ते। ननु चेष्टालक्षणोद्दीपनविभावानां भावहावादीनां शृक्गारकार्यतयानुभावत्वं प्रतीयते। कटाक्षत्रविक्षेपादीनामनुभावानामनुरागजन- कत्वेन संभवत्येव विभावत्वम्, उक्तानामुभयेषां कहोलायमानतया रसपरिपो- षणात् संचारितापि, समस्तसंचारिणामपि चिन्तादीनामनुरागकार्यतयानुभाव- त्वं, तद्दर्शनश्रवणाभ्यामनुरागातिशयजननाद्विभावत्वं चानुभूयते। तदुक्त भाव- प्रकाशे-'विभावोऽप्यनुभावः स्यादनुभावो विभाववत्। तौ पुनश्चारिणौ स्यातां ते च तौ स्युः परस्परम् ॥' इति। अत्र परस्परशब्देन संचारिणामेव मिथोऽनुभावत्वं चेत्यादि द्रष्टव्यम्। अतः क्थ पूर्वोक्ता विभावादिव्यवस्थेति चेत् सत्यम्। कस्याश्विदनुरागव्यक्त्तेर्यानि कार्यकारणसहकारीणि तानि तां प्रति तथैव न किंचिदपि साङ्कर्यमस्ति। व्यक्त्न्तरापेक्षया तस्या एवाकारमेदापेक्षया चान्यथाभावे को विरोधः । यथैकस्य पुत्रापेक्षया पितृत्वं पित्रपेक्षया पुत्रत्वं च

Page 171

१६२ प्रतापरुद्रीये रन्नापणसहिते

लोके कार्यकारणसहकारिशब्दवाच्या नायिकानायककटाक्षभ्रवि- क्षेपनिर्वेदादयः। काव्यनाट्ययोस्तु विभावानुभावव्यभिचारिशच्द- व्यपदेश्या भवन्ति। शृङ्गारवीररौद्राद्भुतानां लोकोत्तरनायकाश्रयत्वेन परिपोषातिशयः । अत एव शृङ्गारस्य म्लेच्छादिविषयत्वे त्वाभास- त्वम्। तथा चोक्तम्-

व्यवतिष्ठते। अतो विभावादीनामपि प्रतियोगिमेदादिमिः कल्पिताकारान्तराणां साड्र्यशङ्कानवकाशाद्विभावादिरूपता नियतैवेति सिद्धम्। एवं च विभावादि सामग्रीसंकोचे सति रसाभासत्वमित्यनुसंघेयम्। ननून्मर्यादं प्रवृत्तेनाज्ञरसेन बाधितः प्रधानरसो रसाभासः । तदुक्तं रसाणवे-'अग्वेनाज्गी रसः स्वेच्छावृत्ति- वर्धितसंपदा। अमात्येनाविनीतन सवामीवाभासतां ब्रजेत् II' इति। अज्ञरसस्य तृतीयांशानुप्रवेशो मर्यादोल्ङ्नम्। तदुक्त भावप्रकाशे-'भागद्वयं प्रविष्टस्य प्रधानस्यैकभागता। रसानां दृश्यते यत्र तत्स्यादाभासलक्षणम् ।।' इति। तत्र हास्यादिभूयिष्ठाः शरृभ्गारादय आभासीभवन्ति। अत्रैतौ संग्रहश्लोकौ- 'हास्यो जुगुप्सा श्रृज्गारहास्यौ शोकभयानकौ। भयानको रौद्रवीरौ तथा शृद्गार- विस्मयों॥ बीभत्सकरुणौ रौद्रशग्गारौ च यथाक्रमम्। श्रृज्गारादीन संप्रविश्य रसा- भासान् वितन्वते ॥I' इति। यद्यप्येवं नवानामपि रसानामाभासत्वं संभवति तथापि क्वचिद्विशेषममिव्यंक्तमारभते-शृङ्गारेति॥ शान्तस्याप्युपलक्षणमेतत्। लोकोत्तरनायकाश्रयत्वेनेति ॥। धीरोदात्तादिनायकोत्तमविषयत्वेनेत्यर्थः । अत एवोक्तं लोचने-'धर्मयुद्धवीरप्रधानो धीरोदात्तः। वीररौद्रप्रधानो धीरो- द्धतः । वीरशृङ्गारप्रधानो धीरललितः। दानधर्मवीर शान्तप्रधानो धीरशान्त इति चत्वारो नायकाः' इति। अत्र वीररससमानयोगक्षेमत्वादद्भुतोपादानम्। यदाह मुनि :-- 'वीरस्य चैव यत् कर्म सोऽद्भुतः परिकीर्तितः' इति। विद्ग्धजनैक विषयो रसपरिपोषविशेष इति भावः। विपक्षे विरोधमाह-अत एवेति॥ इदमत्रानुसंघेयम्। यत्र विभावादिपरिपूर्तिस्तत्र मुख्यो रसः । तदुक लोचने- 'रसस्तु स एव, यत्र मुख्यतया विभावानुभावव्यमिचारिसंयोजनोदितस्था- यिप्रतिपत्तिकस्य प्रतिपत्तः स्थाय्यंशे चर्वणप्रयुक्त एवास्ादप्रकर्षः इति। उदाहृतं च तत्रैव-'कृच्छरादूरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवली- तरङ्नविषमे निस्पन्दतामागता। मदृष्टिस्तृषितेव संप्रति शनैरारुह्य तुशनौ स्तनौ साकाहं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने II अत्र हि नायिकाकारानु- वर्त्यमानस्वात्मप्रतिकृतिपवित्रितचित्रफलकावलोकनात् वत्सराजस्य परस्परा- स्थाबन्धरूपो रतिस्थायिभावो विभावानुभावसंचारिसंयोजनावशेन चर्वणारूढः ।' इति। एवं च यत्र विभावादिपरिपूर्त्यभावस्तत्रारोपितो रसः। म्लेच्छादौ तथा-

Page 172

रसप्रकरणम् । १६३

योषितो बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः ॥' इति। व्यभिचारिभावानामुदयेन, प्रशाम्यद्वस्थया, परस्परविरुद्ध- रसाश्रितयोर्भावयोः स्पर्धया संबन्धेन, अन्योन्योपमर्दकतया बहूनां समावेशेन च चातुर्विध्यम्। तथा चोक्तं दशरूपके- 'भावस्य शान्तिरुदयः संधिः शबलता तथा' इति। रत्यादिस्थायिभावलक्षणोदाहरणानि। अथ यथाक्रमं स्थायिभावानां स्वरूपमुदाहरणं च । तत्र संभोगविषय इच्छाविशेषो रतिः । भूतत्वाद्रसाभासत्वमिति भावः । उक्तार्थे संमतिमाह-एकत्रेति॥ अत्र एवेल्य- वधारणेनान्यत्रानुरागात्यन्ताभावः सूच्यते। यथा रावणे सीतायाः । तन स्त्रीपुंसयोरेकत्रानुरागे जातेऽन्यत्रानुरागप्रागभावे च विभावादिसंपू- र्तिसभावनया नैव रसाभासत्वमिति भावः । अन्यथा प्रथममजातानुरागे वत्सराजे जातानुरागाया रत्नावल्याः पूर्वानुरागस्याभासत्वप्रसन्नात्। म्लेच्छास्ति- रश्वामनाघ्रात वैदग्ध्यगन्धानामननुभूतविभावादिभावानाममिवदनव्यापारमात्रविल- क्षणाः सहोदराः । अतस्तेषां द्वयानामपि समानयोगक्षेमत्वात् सहोपादानम् । अत एव श्रृज्वाराभासस्य त्रैविध्योक्तिरपि। बहुसफ्तिरनेकत्रानुरागः । अत्रापि मुखान्तरेण समानुरागफलाभावात् विभावाद्यपरिपूर्तिरिति भावः । पुंसोऽप्यनेक- नायिकानुरागे रसाभासत्वमिति केचित्। तर्हि तन्मते दक्षिणनायकानुरागस्य सर्वसंप्रतिपन्नरसभावस्याभासत्वप्रसन्न इति चेन्मैवम्। तस्याप्येकस्यामेव गाढा -- नुरागत्वात्। अन्यत्न तु क्वचिन्मध्यत्वं क्वचिन्मन्दत्वमिति निश्चितम् । 'तुल्योऽ- नेकल दक्षिणः' इति लक्षणं पुनरनेकासु नायिकाखनुवृत्तिमात्रपरत्वेन तुल्य- त्वपरमिति द्रष्टव्यम्। अत् पक्षद्वयेऽपि क्रमेण समानुरागाभावादविवेकादनेका- नुरागाथ रतेरारोपितत्वेन हास्यास्पदत्वात्तननिबन्धनस्त्रिविधोऽयमाभास इति वि -- वेक्रः। नन्वारोपितरसाभावात् तिर्यगादिषु कर्थ चमत्कार इति चेत् शुक्ति- कारजतं गृहीत्वा प्रमोदमानं पृच्छ। पश्चात्कालीनबाधस्तु प्रपश्चसत्वत्वामिमान- समयसांसारिकव्यवहारस्येव तादात्विकचमत्कारस्य न विरोधीति रसाभासोऽ- प्युपादेय एवेत्यलं प्रपश्चेन। विभावादिमध्ये व्यमिचारिभावानामुद्याद्युपाधि चतुष्टयजन्यचमत्कारविशेषनिवन्धनं चातुर्विध्यमाह-व्यभिचारीति ॥ अन्योन्योपमर्दकतयेति ॥ खवखबाध्यानां बाधकत्वेनेत्यर्थो वक्ष्यमाणे- दाहरणानुसारेण कल्पनीयः । रसाभासादीनामुदाहरणमुत्तरत्र भविष्यति । अथ स्थायिभावेषूद्देशकरमानुसारेण र्ति लक्षयति-तत्रेति । यूनो-

Page 173

१६४ प्रतापरुद्रीये रत्नापणसहिते

यथा- शृङ्गारैकरसः स्मरोऽस्तु जगदानन्दैकनिष्यन्दभू- रिन्दुस्तिश्ठतु विभ्रमैकवसतिर्जागर्तु पुष्पाकरः । सन्त्वन्येSपि गुणप्रसादितदृशः कि तैरशेषोन्नतो जातः काकतिवल्लभो मम पतिः कामस्य कामोत्सवः ।। विकृतिदर्शनादिजन्यो मनोविकारो हासः। रन्योन्यानन्दजनकं दर्शनालिज्गनादिकं कर्म संभोगः। तदुक्कं भावप्रकाशे- 'कामोपचारः संभोगः कामः स्त्रीपुंसयोः सुखम्। सुखमानन्दसंभेद: परस्परविमर्दतः ॥ उपचारस्तदानन्दकारकं कर्म कथ्यते ॥' इति । तद्विषय इच्छाविशेष: स्पृहादपरपर्यायः प्रमोदात्मा मनोवृत्तिविशेषो रतिरित्यर्थः । तदुक्तम्-'संपन्नैश्वर्यसुखयोरशेषगुणयुक्तयोः। नवयौवनयोः श्लाष्यप्रकृत्योः श्रेष्ठरूपयोः ॥ नारीपुरुषयोस्तुल्या परस्परविभाविका। स्पृहाह्या चित्तवृत्ती रति- रित्यमिधीयते ॥I' इति। स्पृहालक्षणमपि तत्रैवोक्तम्-'आत्मोपभोगकरणं स्पृ- शन्ती प्रियवर्त्मना। या जहातीतरान् भोगान् सा स्पृहेत्यमिधीयते ॥I' इति। उदाहरति-शृङ्गारेति॥ जगतामानन्दस्यानन्दहेतोरेकस्याद्वितीयस्य निष्यन्दस्य मृष्टांशस्य भू: स्थानम्। गुणैराभिरूप्यादिमि: प्रसादिताः प्रसन्नीकृताः दृशो लोक- दृष्टयो यैस्ते तथोक्ताः। गुणप्रसाधितदिश इति पाठे गुणालंकृतदिशो दिगन्त- विश्रान्तगुणा इत्यर्थः । अन्ये गन्धर्वगीर्वाणादयः । तैरेकैकगुणाश्रयैः । किं, न किमपि साध्यमित्यर्थः । अशेषोनतः सर्वाधिकः । अत् कामस्यापि कामोत्सवः काकतिवल्लभो मम प्रेयानभूदिति वागारम्मेण खानुरक्तप्रियलाभजनितहर्षानु- भावेन कस्याश्चिजायिकाया आलम्बनविभावभूतायाः प्रमोदात्मा रतिरमिव्यज्यते। इयं च निसर्गादिनिमित्तमेदात् सप्तविधा। तत्र मदनेन्दुवसन्तादिवैराग्येण प्रियविषयप्रेम्णा चेयममिमानमूलेति वेदितव्यम्। इदमेव मम प्रियं नान्यदिति प्रत्यय एवाभिमान इत्याहुः । भेदान्तरोदाहरणप्रपश्वस्तु रसार्णवे द्रष्टव्यः। हास लक्षयति-विकृतीति। आत्मनः परस्य वा ये वेषभाषाकारविकारा विरुद्धालं- कारास्पष्टभाषणकुब्जत्वादयः तद्दर्शनश्रवणजन्यो मनोविकारो हासः । 'स्वत्- हसोर्वा' इति विकल्पात् घन् प्रत्ययः । अयमेव बाष्पाद्यनुभावो निद्रालस्यादिसह- कृतश्चर्व्यमाणो हासे साधुरिति व्युत्पत्त्या हास्यो भवति। स चोत्तमादिषु त्रि्वे- कैकयुगलक्रमेण षड्विधः। तदुक्तम्-'विकृताकृतिवाग्वेषैरात्मनो वा परस्य वा। हास: स्यात् परिपोषेऽस्य हास्यस्त्रिप्रकृतिः स्मृतः ॥' इति। 'स्मितमिह विक- • सन्नयनं किंचिलक्ष्यद्विज हसितम्। मधुरखनं विहसितं साज्शिरःकम्पमुद्धसितम् ॥ अपहसितं सास्राक्षं विक्षिप्तानं भवत्यतिहसितम्। द्वे द्वे हसिते चैषां ज्येष्टे मध्ये- 5धमे क्रमशः ॥' इति। उत्तमस्य स्वकीयपरकीयविकारदर्शनात् क्रमेण स्मित-

Page 174

रसप्रकरणम् । १६५.

यथा- बिभ्राणान् कबरीर्धृताञ्जनदृशः कृत्वा कुचौ कृत्रिमौ स्त्रीवेषान्निशि काकतीन्द्रनगरे प्रच्छन्नरूपान् नृपान्। दृष्टा क्षौममपास्य वक्षसि कुचावाकृष्य नीवीस्पृशो ही ही कष्टमिति त्यजन्ति विपणिश्रेणीषु धूर्ता विटाः । इष्टजनवियोगादिनात्मनि दुःखातिभूमिः शोकः । यथा- धातर्निष्क रुणोऽसि शिक्षयसि कि वन्यां शरीरसस्थितिं तत्तादग्विभवा गृहा: क नुगताः स्थानं मरुः कल्पितम्। हा नाथाः पतिताः प्रतापनृपतेः क्रोधार्चिषीति द्विष- द्योषाणां तदनूपमश्रुभिरहो जातं स्थलं मारवम् ॥ शत्रु कृतापचारेण मनःप्रज्वलनं क्रोधः । यथा- हसिते। मध्यमस्य विहसितोद्धसिते। अधमस्यापहसितातिहसिते इति। तत्रा- धमाश्रयमन्यदीयवेषविकारजन्यं हासमुदाहरति-विभ्राणानिति॥ कबरीः स्त्रीजनोचितान् केशपाशान्। 'जानपद-' इत्यादिना डीष्। अन्न बन्दिग्राहं गरृहीतानत एव पलायनपरतया स्त्रीवेषधारिणो वैरिभूपतीन् नीवी प्रदेशादिस्पर्शनेन पुमांस इति जानतां धूर्तविटानामालम्बनविभावानां परुषस्वनस्य हासस्य हीहीत्यनु- करणम्। शोक लक्षयति-इष्टेति ॥ आदिग्रहणादनिष्ट प्राप्तिर्गृद्यते। दुःखातिभूमिः दुःखप्रकर्षः । आद्ं शोकमुदाहरति-धातरिति॥ निष्करुणो नृशंसः। वन्यां फलमूलादिरूपाम्। तत्तादृग्विभवा नानाविधभोगोपकरणपरिपूर्णा इत्यर्थः । स्थानं मरुरिति। पिपासायां यत्रोदकमपि दुर्लभमिति भावः । महारण्येऽपि वा भर्तृभिः सह मृगमिथुनादिवद्यथाकथंचिद्वर्तामह इति विचारितेऽपि कर्थ वा कियान् वा नो दैवदुर्विपाकः, ते भर्तारोऽपि तत्क्ोधवहौ शलभतामलभन्तेति परिदेवितं हेतिशब्देन सूचयन आह-हा नाथा इति ॥। अनूप जलप्रायम् । अत्र शश्रुस्त्रीणामालम्बनविभावानां भर्तृवियोगराज्यभ्रंशादिजनिता दुःखाति- भूमिः दैवोपालम्भसहितेन रोदनेन सूच्यते। अत्रोर्वीविद्ण्ठनोरस्ताडनादयो- ऽनुभावाः । दैन्यमोहचिन्ताविषादादयो व्यमिचारिणश्च विशेषेणोपात्ताः करुण- तामापादयन्ति। क्रोर्ध लक्षयति-शत्रुकृतेति॥ शत्रुग्रहणं भृत्यादेरुपलक्ष- णार्थम्। तत्कृतेनापचारेण वधावज्ञादिना प्रज्वलिता मनोवृत्तिः क्रोध इत्यर्थः । स च त्रिविधः क्रोधः कोपो रोषश्चेति। तटुकं भावप्रकाशे-'कोधः कोपक्ष

Page 175

१६६ प्रतापरुद्रीये रत्नापणसहिते

रेरे सेवण कस्तवायमनिदंपूर्वोऽद्य गर्वो महा- नुत्तीर्णां किल येन गौतमनदी प्राप्तोऽसि मृत्योमुखम्। एषा काकतिवीररुद्र इति किं नाश्रावि सप्ताक्षरी प्रक्षुभ्यत्प्रतिपक्षपार्थिव महाभूतग्रहोच्चाटनी॥ लोकोत्तरेषु कार्येषु स्थेयान् प्रयत्न उत्साहः। यथा- क्षुब्धेष्वब्धिषु संभ्रमात् त्रिभुवनत्रासेच्छया सर्वतः संनद्धेष्वपि पर्वतेषु परितो गण्डोपलान् वर्षितुम्। शक्ता एव वयं निवारणविधौ क्षुद्रक्षमाभृज्जये श्ाघा नः कियतीति काकतिविभोर्गर्जैन्ति सैन्ये भटाः॥

रोषश्चेत्येष मेदस्त्रिधा मतः ।' इति । तत्र वधादिपर्यन्तः क्ूरजनाश्रयः क्रोधः । अभ्यर्थनावधिर्वीरजनाश्रयः कोपः । स्त्रीपुंसयोरन्योन्यविषयः प्रत्यायन- पर्यन्तो रोषः । तत्रावज्ञामूलं कूरालम्बनं क्रोधमुदाहरति-रे रे इति ॥ 'वा- क्यादे :- ' इत्यादिना कोपे द्विरुक्तिः । अयं पूर्वो यस्यासाविदंपूर्वः । स न भवतीत्यनिदंपूर्वः नूतन इत्यर्थः । अन्यधिक्कारेणात्मोत्कर्षों गर्वः। कुतोऽयं ते महानिदानीमभूतपूर्वों गर्वः प्रादुरभूदित्यर्थः । येन गर्वेण गौतमनद्युत्तीर्णेत्यव- ज्ञाकथनम्। किलेत्यलीके। तेन वार्तामात्रमेतदिति भावः । तथापि तस्येदं कर्मणः फलमित्याह-प्राप्त इति॥ अवज्ञानिमित्तमाशङकते-एपेति॥ अन्यथा भूतग्रहादिकल्पानां- वैरिभूपतीनां कल्पान्तकालरुद्रस्यास्मत्खामिनः काकतिवीर- रुद्रस्य नाममात्रमहामन्त्रं निशम्यैव कान्दिशीकचरः कथमद्यैवमुद्युङ्क भवा- निति भावः । क्रोधोऽयं विपक्षदर्शनादिविभावः कण्ठगर्जनदन्तघट्टनाद्नुभावो गर्वामर्षादिव्यमिचारी चर्व्यमाणः सन् रौद्रो भवति। उत्साहं लक्षयति- लोकेति ॥ स्थेयानतिस्थिरः । विवक्षितकार्यविषयमौत्सुक्यमेवात्र स्थैर्यमिति भावः । 'अहमेवंविध इत्येवंप्राणत्वेनामिमानात्मक उत्साहः' इति लो- चनकारः । शारदातनयस्तु कार्यमाल्मज्गीचकार। तदुक्तम्-'उत्साहः सर्वकृत्येषु सत्वरा मानसी क्रिया। सहजाहार्यमेदेन स द्विधा परिकीर्तितः ।।' इति। उदाहरति-क्षुञ्धेष्विति॥ त्रिभुवनत्रासेच्छ्या कल्पान्तवदिति भावः । क्षुब्धेषु क्षुमितेष्वित्यर्थः । अत्र यद्यपि 'क्षुब्धसान्त-' इत्यादिना निपातना- न्मन्थमात्रवाची क्षुब्धशब्दः । तथापि क्षमितार्थत्वं कर्थचित्सादृश्यात् कल्पनी- यम्। समुद्राणां मन्थयोगवत् कालवैषम्ये क्षोभसंभवात्। अत एवाह वृत्ति- कार :- 'कर्थ क्षुब्धः समुद्रः क्षुब्धा नदीति। एवमादावुपमानाद्धविष्यति' इति।

Page 176

रसप्रकरणम् । १६७.

रौद्र संदर्शनादिभिरनर्थाशङ्कनं भयम्। यथा- दूरादाकर्ण्य विश्वप्रसृमरमहसो वीररुद्रस्य जैत्र- प्रस्थानारम्भभेरीनिनदमरिनृपाः पूर्णकर्णज्वरार्ताः । आरुह्याद्रीन् विशन्तो गहनमतिमहत् कण्टकाकृष्टकेशा- स्त्रायध्वं मुञ्तेति प्रतिनृपतिधिया पादपान् प्रार्थयन्ते।। अर्थानां दोष संदर्शनादिभिर्गर्हणा जुगुप्सा। गण्डोपलान् गण्डशैलान् स्थूलोपलानित्यर्थः । अन्र वैरिभूपालविजयविषयः सह- जोत्साहः समुद्रसंक्षोभपर्वतसंनाहनिवारणे वयमेव शक्ता इति वागारम्मेण व्य- ज्यते। अत्रात्मश्लाघान्यधिक्कारादिसंभवाद्धीरोद्वतोऽयं नायकः । तस्य वीररसेऽपि प्राधान्येनानुप्रवेशसंभवात्। तदुक्तं लोचने-'वीररौद्रप्रधानो धीरोद्धतः' इति। अयमेव प्रतापविनयादिभिर्विभावितः करुणायुद्धादिमिरनुभावितो गर्वहर्षादिमि- र्भावितो वीररसो भवति। स च त्रिविधः। यथाह मुनिः-'दानवीरं युद्धवीरं धर्मवीरं तथैव च। रसं वीरमपि प्राह ब्रह्मा त्रिविधसंमतम् II' इति। धर्मवीरस्थाने दयावी- रमुक्त्वा त्रैविध्यमाह धनिकः। तत्र दानवीरो बलिजामदग्न्यादिः। युद्धवीरो रा- मादिः । धर्मवीरो युधिष्ठिरादिः । दयावीरो जीमूतवाहनादिः । तत्र प्रस्वेदरक्ताक्षत्वा- द्यनुभावराहित्ये युद्धवीरः तत्साहित्ये रौद्र इति विवेकः । भय लक्षयति-रौद्रेति॥ आदिग्रहणाद्रौद्रशब्दश्रवणादयो गृह्यन्ते। तजन्यमनर्थाशङ्कनं मनश्चाश्चल्यरूपं भय- मित्यर्थः । एतच्च स्त्रीनीचप्रभृतीनां खाभाविकमुत्तमानां कृतकमित्याहुर्हेमचन्द्र- शारदातनयादयः । सिंहभूपालस्तु सर्वत्र कृतकमेवेति प्रत्यवदत्। अनेकविध- मित्यन्ये। तत्र रौद्रश्रवणजन्यं भयमुदाहरति-दूरादिति॥ विश्वप्रसमरमहसो विश्वव्यापिप्रतापस्य । सरतेः 'सृघस्यदः' इत्यादिना क्मरच्प्रत्ययः । कर्णज्वरा- र्ता: कर्णव्याधिपीडिताः । बधिरीकृतकर्णा इत्यर्थः । तत्राप्यतिमहत् दुष्प्रवेश गहनमरण्यं विशन्तः खदिरादिकण्टकाकृष्टकेशा: सन्तः व्याकुलान्तःकरणाः प्रति- पक्षवुद्धया पादपान् त्रायध्वमित्यादिमिर्दीनोक्तिमिः प्रार्थयन्ते। अत्र वैरिभू- पालसमवेतो भयस्थायिभावो व्यज्यते। अयं च स्वोचितसामग्रीको भयानको भर्वत। तदुक्तम्-'विकृतख्वरसत्त्वादेर्भयभावो भयानकः। सवाज्वेपथुस्वेद- शोषवैवर्ण्यलक्षणः । दैन्यसंत्रमसंमोहत्रासादिस्तत्सहोदरः ॥' इति। जुगुप्सां लक्षयति-अर्थानामिति । रुधिरोद्वान्तादहृद्यपदार्थश्रवणदर्शनादिजन्यो मनःसंकोचो जुगुप्सेत्यर्थः । अयमेव नासापिधाननिष्ठीवनाद्यनुभावो भया- पस्मारादिसहकारी बीभत्सो भवति। स च विभावादिमेदात् क्षोभ उद्देगश्चेति द्विधा। तदुक्तं भावप्रकाशे-'क्षोभात्मा रुधिरान्त्रादि-

Page 177

१६८ प्रतापरुद्रीये रत्नापणसहिते

यथा- विष्वञास्तिष्कपङ्के महति निपतितोच्छूनमातङ्गदेह- श्रेणीलब्धप्रचारा: प्रवहदुरुवसामज्जरक्तप्रवाहाः । राशीभूतास्थिकूटस्थपुटितनिकटा निस्सरद्विस्रगन्धाः कुर्वन्त्यायोधनोव्यो भयमवनिभृतां वीररुद्रेण सृष्टाः। अपूर्वार्थसंदर्शनाच्चित्तविस्तारो विस्मयः । यथा- औन्नत्यं महदन्यदेव महितः कोऽप्येष गम्भीरिमा काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्ो: प्रथा। सर्व नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ सामग्री चतुराननेन कियती कीदृक्क्मा कल्पिता।। शमो वैराग्यादिना निर्विकारचित्तत्वम्। यथा-

दर्शनस्पर्शनादिजः । उद्वेगात्मा कृमिच्छर्दिपूतिविष्ठादिजो भवेत् II' इति । वैराग्याद्युवतिगर्हासिद्धस्तृतीयो बीभत्स इत्याह धनिकः। तत्र कोभर्ण बीभत्समुदाहरति-विष्वगिति॥ महति विष्वद्धास्तिष्कपक्के सार्वत्रिकमेदः- कर्दमे पतिता: गन्तुमशक्त्या प्रहारैश्रेति भावः । तथा मृतत्वादुच्छूना विव्ृद्धाश्च तेषां मातज्ञानां देहश्रेणीषु लब्धः प्रचारो गोमायुप्रभृतीनां यासु तास्तथोकाः । प्रवहन्तः प्रकर्षेण स्नवन्तः उरवोऽधिकाः वसादीनां प्रवाहाः त्तोतांसि यासु तास्तथोक्ताः। राशीभूतैरस्थिकूटैः कीकससमूहैः स्थपुटिता विकटीकृताः निकटा: प्रान्तदेशा यासु तास्तथोक्ताः । निःसरद्विस्रगन्धाः उद्धवदामगन्धाः। वीररुद्रेण सृष्टा आयोधनोव्यों युद्धभूमयः सर्वेषां भयं कुर्वन्ति। विस्मयं लक्षयति- अपूर्वेति। लोकसीमातिवृत्तः पदार्थोऽपूर्वार्थः। तद्दर्शनादिजन्यो मनोविस्तारो वि- स्मय इत्यर्थः । अयमेवाकस्मिकम नोरथलाभालौकिकवस्तुदर्शनादिविभावो नयन- विस्तारसाधुवादाद्यनुभावो हर्षावेगादिसहकृतोऽद्धुतः । उदाहरति-औन्नत्यमि- ति।। व्याख्यातचरमेतत् काव्यप्रकरणे। अत्र किमन्यशब्दाभ्यामलौकि- कत्वैन प्रतीयमा नौन्नत्यादिविलोकनविभावो विस्मयः प्रतीयते। शम लक्षयति- शम इति॥ अत्रादिशब्देनेश्वरानुग्रहसत्सक्गमादिकं गृह्यते। विकारा विषयाभि- लाषादयः । तद्रहितचित्तत्वं वैराग्यादिजन्यस्तृष्णाक्षयाद्यपरपर्यायो निर्वेदाख्यो मनोविकार: शम इत्यर्थः । अयमेव यमनियमाद्यनुभावो धृतिनिर्वेदादिव्यमि-

Page 178

रसप्रकरणम् । १६९

किं लब्धं चतुराननेन महतीमायुष्प्रथां गच्छता लब्ध्वा संपदमप्यनन्यसुगमामिन्द्रेण किं वा कृतम्। इत्यस्तान्तरुपप्नवाः सुकृतिनो नो जानते बाह्यम- प्यद्योपप्नुवमन्ध्रनाथतिलके विश्वंभरां विभ्रति ।।

चारी चर्व्यमाणः शान्तो भवति। उदाहरति-किमिति ॥ महतीमायुष्प्रथां चतुर्युगसहत्त्रमेकं दिनमित्यादिक्रमेण संवत्सरय्तरूपाम्। अनन्यसुगमामसाधारणी- मित्यर्थः। अस्तान्तरुपप्रवा निरस्तकामक्रोधादयः। बाह्यं वातातपादिजन्य- मपीत्यर्थः । उपप्नवं पीडाम्। अतिदीरधमायुरत्युच्छ्ितमैश्वर्य चेत्युभ यरारमा श ास्यं सर्वेधाम्। तत्संपादकेषु परमावधितया प्रसिद्धौ पितामहपुरुहूतावपि तृणाय मन्यमानानां वैराग्यातिभूमिलक्षणः शमः प्रतीयते। ननु 'अष्टौ नाट्ये रसाः स्मृना:' इति नियमानवमः शान्तरसो न संभवतीति चेत् तर्हि त एवं प्रष्टव्या :- किं नुनिना शान्तस्थायिन एवानिरूपणात् तदभावः, उत तत्सामग्रीवैधुर्यात्, आहो- स्त्रिदृश्लाध्यत्वात्, अथवान्तर्भावात, यद्वा पुरुषार्थाभावात् ? नादः, निर्वेद एव शान्तस्य स्थायिभाव इति मुनिनान्ीकृतत्वात्, तच्चानेकरससाधारणस्थ व्यमिचारिण: सतोऽप्यमञ्लप्रायत्वेऽपि सजातीयाग्रगण्यत्वं प्राधान्येन कंचिद्रसविशेषं प्रत्य- साधारणं स्थायित्वं बोधयितुमिति प्रतिपादनात्। तदुक्तं काव्य प्रकाशे-'निर्वे- दस्यामञ्ञलप्रायस्य प्रथममनुपादेयत्वेऽपि उपादानं व्यमिचारित्वेऽपि स्थायित्वा- मिधानार्थम्। तेन निर्वेदस्थायिभाव: शान्तोऽपि नवमोऽस्ति रंसः' इति। उक्त च ध्वन्याचार्य :- 'तृष्णाक्षयसुखस्य यः परिपोषस्तल्क्षणो रसः प्रतीयत एव' इति। एतव्याख्यानव्याजेन लोचनेऽप्युक्तम्-'तृष्णानां विषयामिलाषाणां सिद्धो यः क्षयः सर्वतोनिवृत्तिरपो निर्वेद: स एव सुखं, तस्य स्था- यिभृतस्य यः परिपोषस्तस्य चर्व्यमाणताकृतः स एव लक्ष्ण यस्य स शान्ती रसः प्रतीयत एव' इति। न च निर्वेदस्तृष्णाक्षयात्मा शम- पर्यायो न सुखरूप इति शङ्कनीयम्। वैयासिकानामविद्यानिवृत्तिवदस्यापि सुख- रूपत्वसंभवात्। तदुक्तम्-'यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् । तृष्णाक्षयसुखस्यैते नाईतः षोडशी कलाम् ॥' इति। न द्वितीयः, वैराग्यादि सामग्रया: सुलभत्वात्। तथाहि -वैराग्यपरमेश्वरानुग्रहप्राचीनकुशलपरिपाकसत्पु- रुषसेवावेदान्तविचारादयो विभावाः । यमनियमादयोऽनुभावाः । राज्यधुरो- द्वहनादयोऽपि शान्तस्य जनकादेरनुभावा इत्युक्त लोचने। मतिस्मृतिचिन्ताधृति- वितर्कदयो व्यमिचारिण इति। न तृतीयः, रागद्वेषकल्ुषितान्तःकरणानाम चर्वणीयत्वेना श्लाध्यत्वेऽपि वीतरागाणां तदभावात्। यदि कतिपयाश्ाध्यत्वमात्रेण रसत्वात् प्रच्यवेत, तर्हि वीतरागाणामश्लाध्य इति शृज्गारोऽपि प्रच्यवताम्। प्र 15

Page 179

१७० प्रतापरुद्रीये रत्नापणसहिते

अथ शृङ्गारस्वालम्बनविभावो यथा- लावण्यैकखनिर्विधातृरच नाशिल्पप्रतिज्ञावधि: शृङ्गारप्रतिभूर्विलासविपणिः कन्दर्पघण्टापथः । नारीणामधिदेवता च तरुणी सेयं किमन्यैर्गुणै- रस्या मन्मथमन्मथः प्रियतमः श्रीवीररुद्रो नृपः ॥। उद्दीपनविभावो यथा- न चतुर्थः, न तावच्छृद्कारादावन्तर्भावः संभवति। अप्रसक्तत्वात्। ननु दाना- दुपाधिना त्रिविधो वीरः । तदुक्त मुनिना-'दानवीरं युद्धवीरं धर्मवीरं तथैव च। रसं वीरमपि ग्राह ब्रह्मा त्रिविधसंमतम् ॥' इति। अयं च धर्मप्रधानो वीर एवेति तत्रैवान्तर्भावः शान्तस्य संभावित इति चेन्न। उत्साहस्याहमेवंविध इत्ये- चंप्राणत्वेनाभिमानमयो वीरः, सर्वाहंकार प्रशमैकरूपः शान्तः, एवमनयंरत्यन्त- वैजात्यात्। तर्हि दयावीरेऽन्तर्भाव इति चेन्न। तस्याप्येवंविधत्वे शान्तस्यैव नामान्तरकरणमनेवंविधत्वे वीरप्रमेद एवेति। एवमप्यन्तर्भावाज्गीकारे सर्वत्रैक- रस्यप्रसङ्ग: । नापि पश्चमः। चतुर्थपुरुषार्थस्य मुक्तेरेतदेकसाध्य त्वात् । तदुक्त्तं भावप्रकाशे-'सर्वप्रकारैः संपूर्णकामः संतुष्टमानसः । प्राप्नोति मुक्तिं चरमे शान्तेनैव रसेन सः ॥' इति। लोचने चोक्तम्-'मोक्षफलत्वेन चायं परमपुरु- षार्थनिन्नत्वात् सर्वरसेभ्यः प्रधानतमः स चायं शान्तरसः' इति । तस्मानवैव रसा इति सिद्धम्। वत्सलादिरसान्तराणामन्तर्भावादिकमन्यतो द्रष्टव्यम्। विभा- वानुभावादीनां प्रतिरसमसाधारणतया यथारससुदाहर्तुमुचितत्वादादौ श्रज्ञार- मुदाहरिष्यमाणस्तदालम्बनमुदाहरति-लावण्येति ॥ 'मुक्ताफलेषु छायायात्तर- लत्वमिवान्तरा। प्रतिभाति यदप्ेषु तल्लावण्यमिहोच्यते ।।' इत्युक्तलक्षणः कान्तिविशेषो लावण्यम् । तस्यैकखनिः, कदाचिदपि तन्न क्षीयत इति भावः । रचनाशिल्पमओ्गोपाज्सौष्ठवनिर्माणं तद्विषयप्रतिज्ञाया अवधिः, इतः परं विधाता प्रतिज्ञातुमपि न शक्कोति किमुत विधातुमिति भावः। श्रृज्गारप्रतिभू :- 'स्वामिभृत्याधमर्णानां व्यवस्थापरिकल्पने। अन्यो यः क्रियते शिष्टः प्रतिभू: स निगद्यते ।I' इति सोमेश्वरोक्तलक्षणः, यथा प्रतिभूरधमर्णाद्धनमुद्धरति तथेयम- पि वैराग्याच्छृज्वारमिति भावः । विलासानां विपणिः पण्यवीथिका, विलासापेक्षा- यामत्रैव संपाद्या इति भावः । कन्दर्पस्य घण्टापथो विस्रम्भविहारभूमिरित्यर्थः । सेयं प्रसिद्धा। तरुणी युवतिः । नारीगामधिदेवता च, सर्वगुणाश्रयत्वेनोपास्य- त्वादिति भावः । यदाहु :- 'गुणाः पूजास्थानम्' इति। गुणसामग्रीफलस्य प्रेय- सो लाभात् किं गुणान्तरकथनेनेत्याह-किमन्यैरिति। अत्र लावण्यादी-

Page 180

रसप्रकरणम्। १७१

उरोमात्रोत्सेधं भवदपि विलासैरभिनवै- रमृगाक्ष्यास्तारुण्यं त्रिभुवनमिदं व्याकुलयति। स्तनाभोगस्फीतं यदि किल भवेत् का खलु कथा भवित्री किं वान्यद्विजितमखिलं पुष्पधनुषा । अनुभावा यथा- स्मरस्मेरान् मन्दस्मितमधुरसौरभ्यसुभगान् मनाग्रीडाजाड्यान् प्रणयरसकल्लोलभरितान्। कृतानेकस्कन्धान्मनसिजसहस्त्रांणि सृजतः कटाक्षान् वामाक्षी किरति परितो रुद्रनृपतिम् ।। ।। साच्विकानां स्वरूपोदाहरणानि ॥ अथ सातत्विकानां स्वरूपमुदाहरणं च। स्तम्भ: स्यान्निष्क्रियाङ्गत्वं रागभीत्यादिसंभवम् । यथा- काअइपुरेत्थिआओ पेरुखंतीओ णरेंदकंदप्पं। मअणसरुक्किण्णाओ विअ ट्टिआ णिच्चळंगीओ ।। प्रलय: सुखदुःखाद्यैर्गाढमिन्द्रियमूर्च्छनम्। * काकतिपुरस्ियः पश्यन्त्यो नरेन्द्रकन्दर्पम्। मदनशरोत्कीर्णा इव स्थिता निश्चलाअयः ॥ न्यमू। उद्दीपनविभावमुदाहरति-उर इति॥ उरोमात्रे उत्सेध उच्छूनता य- स्मिन् वयसि स्तनालवालस्थले किंचिदुन्नतमुर इति प्रतीतिर्जायते तदित्यर्थः । स्तनयोराभोगो विस्तारः। स्फीतं समृद्धम् । 'स्फायः स्फी निष्ठायाम्' इति स्फी- भावः । उद्यदेव यौवनं जगन्मोहनं जायते, उदितं परिपूर्ण वा किमु वक्तव्य- मिति भावः । अनुभावमुदाहरति-स्मरेति ॥ व्याख्यातमेतत् प्रसञ्वेन काव्य- प्रकरणे। एवं रसान्तरसंबन्धिनो विभावानुभावा यथायोगं खवस्वरसप्रकरणे द्रष्टव्याः । सात्त्विकानां सामान्यलक्षणप्रस्तावे बाह्याभ्यन्तरमेदेन द्वैविध्यमुक्तम्। तत्र बाह्यानां स्तम्भादीनां स्वरूपोदाहरणे वक्तुं प्रतिजानीते-अथेति। वक्ति-स्तम्भ इति। विषादविस्मयादिजन्यो जाड्यनिष्कम्पत्वाद्यनुभावो विष्ठब्धचेतनतया चेष्टाविघातः स्तम्भ इत्यर्थः । रागसंभवं स्तम्भमुदाहरति- काअईति॥ अत्र पश्यन्त्यो निश्चलाश्नय इत्यनेन सत्यपि चैतन्ये निश्रेष्टत्वकथ- नात् स्तम्भ इति भावः । प्रलय लक्षयति-प्रलय इति ॥ सुखमदनिद्राप्रहारा-

Page 181

१७२ प्रतापरुद्रीये रत्नापणसहिते

यथा- *जिअमअणरूवसारो सहि एसो वीररुद्दणिवचंदो। जं दट्ठण णिमज्जइ मुच्छाए इंदिअग्गामो।। सुखाद्यतिशयाज्जाता रोमाश्चो रोमविक्रिया। रागरोषभयादिभ्यो वेपथुर्गात्रकम्पनम् । द्वयोरुदाहरणं यथा- दइआलिंगणणिभ्भर कंपा अ वहू विओअजिण्णंगी। उग्गिरइ अंतरट्विदमअणसरे पुलअचम्मेण। वपुर्जलोद्रमः खेदो रतिघर्मश्रमादिभिः । यथा- शृण्वती प्रियसंदेशं प्रेयस: काकतीशितुः । स्मरराज्याभिषिक्तेव स्विन्नाङ्गी वामलोचना।। विषादमदरोषादेर्वर्णान्यत्वं विवर्णता। * जितमदनरूपसारः सखि एष वीररुद्रनृपचन्द्रः । यं दृष्ट्रा निमज्जति मूर्च्छायामिन्द्रियग्रामः ॥ + उद्विरत्यन्तरस्थितमदनशरान् पुलकच्छद्यना ॥ दिजन्यं दुःखाभिषज्ञाद्नुभावं निश्चेतनतया नष्टचेष्टत्वं प्रलय इत्यर्थः । तदुक्तम्- 'वाक्कायमनसां प्रायः प्रलयो नष्टचेष्टता' इति । सुखमूलं प्रलयमुदाहरति- जिएति॥ सर्वाणीन्द्रियाणि स्वखव्यापारेभ्य उपरतानीत्यर्थः । अत एव निक्चे- तनतया नष्टचेष्टत्वमिति भावः । रोमाश्वकम्पयोरुदाहरणलाघवार्थ युगपह्क्षण- माह-सुखेत्यादि ॥ सुखोत्साहभयविस्मयादिजन्यो गात्रसंस्पर्श नोलसनाद्यनु- भावो रोमोद्रमो रोमाश् इत्यर्थः । भयज्वरजरादिजन्यः स्फुरणाद्यनुभावो गात्र- कम्पो वैपथुरित्यर्थः । सुखजन्ययो रोमाश्वकम्पयोरुदाहरणमाह-दइएति ॥ दयितालिक्ननिर्भरकम्पा च वधूर्वियोगजीर्णान्ी। अत एव। उद्विरत्यन्तरस्थित- मदनशरान् पुलकच्छद्मना॥ सरे इत्यत्र 'शस्येत्' इत्येत्वम्। स्वेदं लक्षयति-वपु- रिति॥ निदाघश्रमहर्षव्यायामलज्ाभयक्रोधादिजन्यो वातेच्छाव्यजनग्रहणाद्यनु- भावो वपुर्जलोद्रम: स्वेद इत्यर्थः। हर्षजन्यं स्वेदमुदाहरति-शण्वतीति॥ प्रि- यसंदेशं खकुशल प्रेषणम्। वैवर्ण्य लक्षयति-विषादेति॥ कोपातपशीतभयादिज- न्यं कार्श्यसौन्दर्यविप्ठवाद्यनुभावं मिन्नवर्णत्वं वैवर्ण्यमित्यर्थः। विरहृजन्यविषादमूल

Page 182

रसप्रकरणम् । १७३

यथा- *णरणाह चंदधवले तुज्झ गुणे साहु सहरंतीए। अंगाइ पांडुराईं एहिं जाआइ सामाए।। अश्रु नेत्रोद्ध्वं वारि दुःखरोषप्रहर्षजम्। यथा- वीररुद्रनृपाद्गीतं पाण्ड्यं मम्नं पयोनिधौ। अन्वेष्ठुमिव तद्योषिदश्ुधारापगायते ।। मत गद्गदभाषित्वं वैस्वर्यं ग्रमदादिजम्। यथा- विअणम्मि पिएण समं खामक्खामक्खर भणंतीए। एकको मुणइ अणंगो अत्थं बहुआए भणिआणं।। । व्यभिचारिभावानां स्वरूपोदाहरणे।। अथ व्यभिचारिणां निर्वेदादीनां स्वरूपमुदाहरणं च। दुःखेर्ष्यातच्वबोधादेनिर्वेदो निष्फलत्वधीः। * नरनाथ चन्द्रधवलान् तव गुणान् साधु संस्मरन्ताः। अज्गानि पाण्डराणि इदानीं जातानि श्यामायाः ॥ + बिजने प्रियेण समं क्षामक्षामाक्षरं भणन्त्याः । एको जानात्यनज्ञोऽर्थ वध्वा भणितानाम्॥ वैवर्ण्यनुदहरति-णरणाहेति ॥ एहिं इदानीम्। श्यामाया युवतेः श्यामवर्णा- याथ। अश्रु लक्षयति-अश्र्विति॥ कोधहर्षभयजम्भादिजन्यं नेत्रमार्जनाद्यनु- भावं नेत्रजलमश्वित्यर्थः। दुःखमूलमश्रूदाहरति-वीरेति॥ वैस्वर्य लक्षयति- मतमिति॥ हर्षशोकभयज्वरादिजन्य स्वरवर्णस्खालित्याद्यनुभावं गद्गदभाषित्वं वैस्वयमित्यर्थः । हर्षमूलं वैस्वयमुदाहरति-विअ्णम्मीति॥ विजने सुरतसमये इत्यर्थः । प्रियेण समं क्षामक्षामाक्षर भणन्ताः सुखपारवश्यादिति भावः । एको जानात्यनभेरऽर्थ वध्वा भणितानाम्। त्रायख, त्वं मे प्राणाः, अलमलं, मा मेतयादी- नां दैन्यप्रेमालमर्थादिसमर्थानां वचनानामित्यर्थः । मुणइ इत्यत्र जानातेर्मुणा- देशः । अत्र गद्गदवाक्यानां कामोद्दीपकत्वमतिमात्रमभूदिति परमो भावः ॥ संचारिणां स्वरूपोदाहरणे क्रमेणाह-अथेत्यादिना॥ निर्वेद लक्षयति- दुःखेति ॥ दुःखादिजनिता निष्फलत्ववुद्धिनिर्वेद इत्यर्थः । अयं च विभावानु-

Page 183

१७४ प्रतापरुद्रीय रत्नापणसहिते

तत्र चिन्ताश्रुनिश्वासदीनताः संभवन्ति च ।। यथा- *सहि कप्पूरेण किअं किं कत्थूरीए मलअजो ठाउ। गुणसिसिरं जससुरहिं आणेहि पपिआवरुइं अ ॥ ग्लानिर्वलस्यापचयो वैवर्ण्यारतिकारणम्। यथा- 1 तेळळोकं वहइ मही तं धरइ भुओ पआवरुद्दस्स । तं हिअएण धरंती साहसिई दुब्बलंगिम्हि।। अथ शङ्का। अनिष्टाभ्यागमोत्प्रेक्षा शङ्का रोषादिकारणम् ॥ यथा- * सखि कर्पूरेण कृतं किं कस्तूर्या मलयजस्तिष्ठतु। गुणशिशिरं यशःसुरमिमानय प्रतापरुद्रं च ।। * त्रैलोक्यं वहति मही तां धरति भुजः प्रतापरुद्रस्य । तं हृदयेन धरन्ती साहसिकी दुर्बलाज्थस्मि ॥ भावरसान्नत्वेन स्वातन्त्र्येण बहुधा संभवति। अतः तत्संग्रहार्थमादिशब्दः । अस्यानुभावानाह-तत्रेति॥ चशब्दाद्वैवर्ण्यादयो गृह्यन्ते। संचारिणामपि क्कचिदनुभावत्वं संभवतीत्युक्तम्। तत्र प्रियवियोगजन्यदुःखमूलं निर्वेदमुदाह- रति-सह्दीति॥ प्रतापरुद्रं चेति॥ चशब्दोऽवधारणे ॥ कर्पूराद्यतिरिच्य- मानशैत्यसौरभ्ययोस्तत्रैव सुलभत्वादिति भावः। उदाहरणान्तराण्यन्यतो द्रष्ट- व्यानीत्युपेक्ष्य ग्लानि लक्षयति-ग्लानिरिति॥ श्षुत्पिपासानिधुवनादिप्रयास- जनितो बलापचयो ग्लानिरित्यर्थः। वैवर्ण्यारतिग्रहणं क्षामान्वचनक्रियाद्युपलक्ष- णम्। सुरतश्रान्तायाः प्रियगौर वोद्वहन प्रयासापादनमुत्कर्षन्त्याः कस्याश्रिददोर्बल्य- मुदाहरति-तेळळोक्कमिति॥ त्रयो लोकास्त्रैलोक्यं विश्वमित्यथः। चातुर्वर्ण्यादि- त्वात् ष्यण्प्रत्ययः। हृदयेन वक्षःस्थलेन। साहसिकी स्वयं तन्वग्ीति विदित्वापि प्रवृत्तत्वादिति भावः । सहसा बलेनाविमृश्य वर्तत इत्यस्मिन्र्थे 'ओजःसहोऽम्भ- सा वर्तते' इति ठगन्तात् साहसिकशब्दात् कलोपे स्त्रियां नित्य ईकार प्रत्यये प्राप्ते साहसिकीति रूपं, गौरादौ तथाविधानात्। 'पुंसो जातेर्जव' इति विकल्पस्तु अप्राप्तनीलादिशब्दविषय इति साहसिकेत्याकारान्तपाठ उपेक्षणीयः। शङ्कां लक्षयति-अनिष्टेति। परकरौर्यादात्मदुर्नयाद्वानर्थ प्राप्तरभ्यूहनं शङ्केत्यथः । आ- + 'पआवरुद्दणिवचंद'-प्रतापरुद्रनृपचन्द्रम् इति पाठान्तरम्।

Page 184

रसप्रकरणम् । १७५

*ण मुणदु अण्णोत्ति मए हिअए परिचओ पिअर्स किदो। कि पअडम्हि जणाणं सव्वंगीणेहिं पुलएहिं।। अथासूया। परोत्कर्षासहहिष्णुत्वमसूया परिकीर्तिता। यथा- अहिआईए गुणेहिं रूपेण अ मज्झ किं मही अहिआ। जं तं पआवरुद्दो बहुमण्णइ भाअहेअं तं ।। अथ मद:। मदिरादिकृतो मोहहर्षव्यतिकरो मदः । यथा- भणइ अ असंगअत्थ हसइ अमंदं अ राअभरिअच्छी। पिअचिंतामइराए परवसा उवह सामंगी। * न जानात्वन्य इति मया हृदये परिचयः प्रियस्य कृतः । किं प्रकटास्मि जनानां सर्वाज्गीणैः पुलकैः ॥ + अभिजात्या गुणै रूपेण च मत्तः किं मही अधिका। यत्तां प्रतापरुद्रो बहुमन्यते भागधेयं तत् ।। भणति चासंगतार्थ हसत्यमन्दं च रागभरिताक्षी। प्रियचिन्तामदिरया परवशा पश्यत श्यामाजी॥ दिग्रहणाद्वैवर्ण्य वैस्वर्यदिगव लोकनादयो ग्रृह्यन्ते। उदाहरति-ण मुणद्विति॥ मुग्धानां गूढानुरागस्य प्राकव्यमेवानर्थ इति भावः । असूयां लक्षयति-परेति ॥ गर्वदौजन्यमन्युजन्यं परोत्कर्षासहिष्णुत्वमसूयेत्यर्थः। निन्दावज्ञात्रुकुठ्यादयो- उनुभावाः । उदाहरति-अहीति ॥ अभिजातिः कुलम् । गुणाः दा- क्षिष्यादयः । यत्र चतुर्विधाभरणराहित्येऽपि तत्साहित्येनेवाभासनं तद्रूपम् । 'आवेध्यारोप्यविक्षेप्यबन्धनीयैरभूषितम्। यद्धषितमिवाभाति तद्रूपमिति कथ्यते ।I' इति लक्षणात् । अधिका किं, न भवतीत्यर्थः । तथापि बहुमाने भागघेयमेव निमित्तमित्याह-यदिति ॥ मदं लक्षयति-मदिरेति । मोहो वैचित्त्यम् । हर्ष: प्रसाद: । मदिरादिजन्यो हर्षमोहसंकरो मद इत्यर्थः । अन्र वागऋस्खालित्यहसितरुदितादयो यथायोगमुत्तमादिष्वनुभावाः । 'संमो- हानन्दसंमेदो मदो मद्योपयोगजः । अमुना चोत्तमः शेते मध्यो हसूति गायति॥ अधमप्रकृतिश्वापि परुषं वक्ति रोदिति' इति साहित्यदर्पणे। उदाहरति-भणईति॥

Page 185

१७६ प्रतापरुद्रीये रत्नापणसहित

अथ श्रमः । श्रमः खेदोऽध्वरत्यादेर्जातः खेदातिभूमिकृत्। यथा- *आअच्छइ एव्व पिए कीस करेंती गआगआआसं। तम्मसि सेदजलेहिं सुंदरि लुलिअंगराआसि। अथालस्यम्। मन्दोद्यमत्वमालस्यं कर्तव्येषु प्रकीर्त्यते। यथा- आस्तां मृगाक्ष्या गृहकृत्यवार्ता स्वाङ्गोपचारेष्वपि यत्रमान्दम्। कर्तव्यमत्रे दयितस्य यत् स्यान्नूनं बलात्कारयति स्मरस्तत् ॥ अथ दैन्यम्। सच्वत्यागादनौद्धत्यं दैन्यं कार्पण्यसंभवम्। यथा- * आगच्छत्येव प्रिये कस्मात्कुर्वती गतागतायासम्। ताम्यसि स्वेदजलै: सुन्दरि लुलिताजरागासि॥ श्रमं लक्षयति-्रम इति । अध्वसुरतादिजन्यः खेदः श्रम इत्यर्थः । स्वेद उपमर्दनादेरुपलक्षकः। उदाहरति-आअच्छईति॥ आलस्यं लक्षयति- मन्देति॥ गर्वश्रमादिना प्रयत्नमान्दमालस्यमित्यर्थः । अल् जृम्भोपवेशनादयोS- नुभावाः। उदाहरति-आस्तामिति॥ गरहकृत्यवार्ता धूपवासनावितानसंविधाना- दिप्रसङ्गः। स्वाओ्ोपचारेषु मृगमदानुलेपन माल्यधारणमकरिकार चनादु। यत्रमान्यं प्रयत्नशैथिल्यम्, उपचारकरणं पुनरतिदूरमिति भावः। अग्रे प्रियागमनसमये यत् क- रतव्यं प्रत्युद्गमनरभसाश्टेषप्रियभाषणादिकं तत् स्मरो बलात् बलमाश्रित्य कारयति। ल्यब्लोपे पश्चमी। अत्र मन्दयत्न इति पाठे विधेयस्य मान्दस्य समासे गुणभू- तत्वादविभृष्टविधेयांशं नाम दोष: स्यात्। नन्वेक संधित्सतोऽपरं प्रच्यवत इति न्यायेनाविमृष्टविधेयांशं परिहरतोऽनुशासनविरोधः स्यात्। 'पूरणगुण-' इत्या- दिना गुणेन षष्ठीसमासप्रतिषेधात् इति चेन्मैवं मंस्थाः । संज्ञाप्रमाणत्वात् तद्यन- गौरवं प्रसज्येत चन्दनगन्ध इत्यादिसूत्रभाष्यकारादिमहापुरुषप्रयोगदर्शनात् त- त्स्थगुणेषु प्रतिषेधाभावात् पूरणगुणेति प्रतिषेधस्य पटस्य शुक इत्याद्यतत्स्थगुणविष- यत्वादिति। प्रपश्चितं चैतदस्मदुपाध्यायैर्घण्टापथे 'न च न स्वीकृतमर्थगौरवम्' इत्येतद्वयाख्यानावसरे। दैन्यं लक्षयति-सत््वेति ॥ सत्त्वत्यागो दौर्गत्यादे. रुपलक्षकः। तेन सत्वत्यागदौर्गत्यादिजन्यं मनसोऽनौद्धत्यं दैन्यमित्यर्थः ।

Page 186

रसप्रकरणम् । १७७

*आणेदुं णरणाहं गदो क्खु सहिआजणो विलंबेइ। मम्मह णमामि चंदं सिक्खअ चिरएहि ईसित्ति।। अथ चिन्ता। इष्टानभिगमात् ध्यानं चिन्ता शून्यत्वतापकृत्। यथा- सण्णिहिअं वि गुरुअणं ण अ पेरुखइ पुच्छिआ वि णाळवइ। एसा विमग्गइ गईं हिअअस्स पिआणुबंधस्स । अथ मोहः । मोहस्तु मूर्च्छनं भीतिदुःखावेशानुचिन्तनैः। यथा- कथमपि गमयित्वा वासरं दीर्घदीर्घ विरचितनववेषा प्रेषयित्वाथ दूतीः । चिरयति हृदयेशे प्रांशुभिश्चन्द्रपादै- रभिहतसकलाङ्गी म्च्छिता कोमलाङ्गी ।।

  • आनेतुं नरनाथ गतः खलु सखीजनो विलम्बते। मन्मथ नमामि चन्द्रं शिक्षय चिरय ईषदिति॥ + संनिहितमपि गुरुजन न च प्रेक्षते पृष्ठापि नालपति। एषा विमार्गते गर्ति हृदयस्य प्रियानुबन्धस्य ॥ कार्पण्यवचनं देहवचनमालिन्याद्यनुभावानामुपलक्षणम् । उदाहरति-आणेदु- मिति ॥ चिन्तां लक्षयति-इष्टति ॥ अपेक्षितानवाप्तिमूलं ध्यानं चिन्तेत्यर्थः । शून्यतानिःश्वासतापादयोऽनुभावाः । उदाहरति-सण्णिहिअमिति ॥ अन्र प्रथमार्वेन शून्यत्वं द्वितीयार्धेन प्रियानवाप्तिमूल ध्यानं चोच्यते। मोहं लक्षयति-मोह इति ॥ भीत्यादिमिवचित्त्यं मोह इत्यर्थः । 'मोहो विचित्तता भीतिदुःखावेगानुचिन्तनैः । घूर्णनागान्रपतनभ्रमणादर्शनादिकृत् ॥' इति साहित्य- दर्पणे। तत्राज्ञानभ्रमोत्पातघूर्णनादर्शनादयोऽनुभावाः। उदाहरति-कथमिति॥ दीर्घदीर्घ प्रियागमनार्थ कदा वा गभस्तिमानस्तमीयादिति प्रतीक्षणेनातिदीर्घमित्य- र्थः। 'प्रकारे गुणवचनस्य' इति द्विर्भावः। वासरं, कथमपि क्षणगणनया कर्थचित् प्रयत्नगौरवेणेत्यर्थः । 'ज्ञातहेतुविवक्षायामप्यादि कथमव्ययम्। कथमादि तथाप्यन्तं ययत्नगौरवबाढयोः ॥' इत्यमिधानात्। गमयित्वा यापयित्वा। विरचितनववेषा

Page 187

१७८ प्रतापरुद्रीये रत्नापणसहिते

अथ स्मृतिः । पूर्वानुभूतविषयं ज्ञानं स्मृतिरुदाहता। यथा- प्रतापरुद्रस्य भुजे वसन्त्या क्षोण्या तपः कीदृशमार्जितं स्यात्। स्पृष्टं सकृद्येन मदीयमङ्गं प्राप्नोति विष्वक् सुखवञ्रलेपम् । अथ धृतिः । धृतिश्चित्तस्य नैस्स्पृह्यं ज्ञानाभीष्टागमादिभिः । यथा- वीररुद्रनृपतौ हृदय त्वद्वल्लमे त्रिभुवनैकघुरीणे। साधु साधु कृतकृत्यमसि त्वं मन्यसे जगदशेषमसारम् ॥ अथ व्रीडा। चेतःसंकोचनं व्रीडानङ्गरागस्तवादिभिः । यथा- विहितप्रियागमनसमयोचितशक्गारा सती। अथशब्दो विलम्बाभावसूचनार्थः । दूतीः पुङ्धानुपुङ्गतया प्रेषयित्वा हृदयेशे प्राणनाथे चिरयति विलम्बमाने सति कोमलाजी अत एव प्रांशुमिरायतैश्न्द्रपादैरिन्दुकिरणैः कशाकल्पैरमिहत- सकलाओी मूर्च्छिता। अनाथाः पादैरमिहन्यमाना मूर्च्छन्तीति ध्वन्यत । स्मृति लक्षयति-पूर्वेति॥ सदृशादृष्टचिन्ताथैः संस्कारोद्वोधे सति पूर्वा- नुभूतार्थविषयज्ञानं स्मतिरित्यर्थः । अत्र भ्रूज्नमनशिरःकम्पादयोऽनुभावाः । स्पर्श- सुखस्मरणमुदाहरति-प्रतापेति॥ निबिडसुधालेपो वज्रलेपः । अत्र कस्यचि- न्मदअस्य कादाचित्कः प्रियकरस्पर्श: सर्वाज्नीणमविच्छिनं च सुखं जनयति। वीररुद्रभुजे नित्यनिवासाया भूमे: किमु वक्तव्यमिति भावः। धृर्ति लक्षयति- धृतिरिति ।। आदिग्रहणात् शक्त्यादयो ग्रह्यन्ते। ज्ञानादिमिर्निःस्पृहत्वं धृति- रित्यर्थः । ज्ञानाभीष्टागमाय्यैस्तु संपूर्णस्पृहता धृतिः। सौहित्यवच नोलाससहास- प्रतिभादिकृत् ॥। एतैरेव संतोषो धृतिरित्यन्ये । अव्यग्रभावादयोऽनुभावाः । उदाहरति-वीरेति ॥ हे हृदय त्रयाणां भुवनानां समाहारस्त्रिभुवनम्। पात्रा- दित्वान् स्त्रीत्वम्। धुरं वहतीति धुरीणः । 'खः सर्वधुरात्' इत्यत्र योगविभा- गात् खप्रत्ययः । साधु साध्वित्यामीक्ष्ण्ये द्विर्भावः । अत्राभीष्टागमात् धृति: । व्रीडां लक्षयति-चेत इति ॥ अनङ्गनिमित्तो रागोऽनअ्रागः । स्तवः स्तोत्रम्। आदिग्रहणादाचारभ्रंशादयः। चेतःसंकोचनं धाष्टर्याभावः। मदनामिलाषादिमि- र्मनःसंकोचो वीडेत्यर्थः । अत्रान्तर्धानवैवर्ण्याधोमुखत्वादयोऽनुभावाः । उदा-

Page 188

रसप्रकरणम् । १७९

तथा समालोकनकौतुकानां मनोरथैरन्ध्रपुराङ्गनानाम् । विलोकिते रुद्रनृपे भवन्ति पर्यस्तपक्ष्माणि विलोचनानि॥ अथ चपलता। चापलं त्वनवस्थानं रागद्वेषादिसंभवम्। यथा- दष्टा रुद्रनरेन्द्रं तरलतराक्षी विलासमृदुहासा। कलयति मौक्तिकहारं स्प्रशति च कर्णोत्पलं बाला ।। अथ हर्षः । प्रसत्तिरुत्सवादिभ्यो हर्षः खेदाश्रुकम्पकृत्। यथा- यत् पूर्व सरसीषु पद्ममुकुलव्याजात् तपः संचितं वक्षोजौ युवयोस्तदद् फलितं जातौ कृतार्थौ युवाम्। दत्ता काकतिवल्लमेन भवतोरेषा स्ववक्ष:स्थली- कस्तूरीद्विगुणीभवत्परिमला कल्हारमाला यतः । अथावेगः । इष्टानिष्टागमाञ्जात आवेगश्चित्तसंभ्रमः । हरति-तथेति । अव्यासक्ेनानिमिषेण च तृष्णानुगुणं दृष्ट्ा जन्मनो जीवि- तस्य नयनानां च साफल्यं संपादयाम इत्यादयोऽमिलाषा मनोरथाः। तैर्हेतु- भिस्तथाभूतं गाढमालोकनकौतुकं दर्शनोत्कण्ठा यासां तासामन्ध्रपुराज्ननानां विलोचनानि रुद्रनृपे विलोकिते सति पर्यस्तपक्ष्माणि सनिमेषाणि भवन्ति दृष्टि- मपसारयन्तीत्यर्थः । अत्र नृपावलोकनानन्तरमेवानुरागोदयाल्लज्जाभूदिति भावः । चापलं लक्षयति-चापलमिति ॥ रागद्वेषमात्सर्यादिमूलमनवस्थानं चापल- मित्यर्थः । अत्रानुभावाः भर्त्सनपारुष्यसच्छन्दाचरणादयः । अत रागमूलं चाप- लमुदाहरति-दष्ट्रेति॥ वाला रुद्रनरेन्द्रं दृष्ट्रा तरलतराक्षी अतिलोलदृष्टिरित्यर्थः । विलासमृदुहासा विलासप्रधानमन्दस्मिता च। भवतीति शेषः। अत्र तरल- दर्शनादिचेष्टाचतुष्टयमध्ये क्षणमप्येकत्र मनसोऽनवस्थानाच्चापलम् । हर्ष लक्ष- यति-प्रसत्तिरिति॥ प्रियागमनपुत्रजननाद्युत्सवादिजनितो मनःप्रसादो हर्ष इत्यर्थः । स्वेदादयोऽनुभावाः । उदाहरति-यदिति ॥ अत्र काचित् कामिनी कुचौ संबोध्य तयो: प्रियदत्तस्वयंधृतकल्हारमालालाभजन्यधन्यत्वकथनव्याजेन स्वकीयं हर्षमाविष्करोति। आवेग लक्षयति-इष्टेति । प्रियादेरिष्टस्य राजवि-

Page 189

१८० प्रतापरुद्रीये रत्नापणसहिते

यथा- निस्साणध्वनिमाकलय्य सहसा हेलाविहारोद्यतं द्रष्टुं काकतिवीररुद्रनृपति प्रत्यग्रकौतूहलाः । अर्धालम्बितमण्डनाः प्रतिपदं व्यत्यस्तभूषा जवा- दारोहन्ति सुवर्णसौधवलभीश्रृङ्गाणि पौरस्नियः ॥ अथ जडता। जाड्यमप्रतिपत्तिः स्यादिष्टानिष्टागमोन्डवा ॥ यथा- समायाते नाथे प्रमहसि गृहान् रुद्रनृपतौ वपुःसौन्दर्यश्रीविजितमदनोदारयशसि। वधूरन्तस्तोषव्यतिकरवशान्नोपचरितुं पुरस्तादालीनां न चलति तथा नो विरमति॥ अथ गर्वः । अन्यधिकरणादात्मोत्कर्षो गर्वो बलादिजः । यथा- द्रववातवर्षादेरनिष्टस्य चागमात् जातश्चित्तसंत्रम आवेग इत्यर्थः । अत्र हर्पशोक- त्वरासम्भादयोऽनुभावाः । उदाहरति-निस्साणेति ॥ अर्धालम्बितमण्ड- ना: एकस्मिननेव लोचनेऽअनमेकस्मिन्नेव चरणे लाक्षाविलेपनमित्यादिक्रमेणेति भावः । प्रतिपदं प्रतिस्थानम्। व्यत्यस्तभूषा वैपरीत्येनामुक्ताभरणाः कण्ठादौ काश्चयादिकं कटितटादौ हारादिकं च धारयन्त्य इत्यर्थः। जाड्यं लक्षयति- जाड्यमिति ॥ इष्टानिष्टागमोद्धतमितिकर्तव्यतामूढत्वं जाध्यमित्यर्थः। अत्रा- निमेषनयननिरीक्षणतूष्णीभावादयोऽनुभावाः । उदाहरति-समायात इति ॥ सखीसमक्षनिमित्तलजाभरेणाच्छादितानुभावो हर्षोऽन्तस्तोषः तस्य व्यतिकरः संबन्धः । अन्र नोपचरितुमित्यत्र नयो न चलति नो विरमतीत्युभयत्राप्यनुषङ्गः । तेनोभयत्र नष्दयेन लजजासंभावितस्य चलननिषेधस्योत्कण्ठासंभावितस्य विरमण- निषेधस्य च निवृत्तिः सूच्यते। यथाह वामन :- 'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति। अन्नोत्कण्ठाप्रतापाभ्यां प्रियोपचारं प्रति प्रवृत्तिनिवृत्त्योरुभयत आकर्षणाननायिकायाः सर्वव्यापारप्रतिबन्धिनी सेयमुभयतःपाशा रज्जुरभूदिति भावः। गर्व लक्षयति-अन्येति॥ वलैश्वर्यामिजनलावण्यादिजन्योऽन्यघिक्का- रावज्ञानसविलासाञ्वीक्षणाद्यनुभाव आत्मोत्कर्षाभिमानो गर्व इत्यर्थः । बलमूल-

Page 190

रसप्रकरणम् । १८१

को वा शस्त्रग्रहणसमयो मादशामीदशानां कीटग्वैरं प्रतिधरणिभृत्खेटकीटेष्वमीषु। इत्यावेशप्रतिभयभुजाटोपदुर्वारगर्वाः संक्रीडन्ते रणभुवि भटाः काकतीन्द्रस्य जेतुः ॥ अथ विषादः । विषादश्चेतसो भङ्ग उपायापायचिन्तनैः । यथा- * पेसेमि मणंति मुहा तं मं मोक्खूण वल्लहे लग्गं ॥ मं उज्झिअ णो गच्छइ मअणो सहि कि णु कादव्वं ।। अथौत्सुक्यम्। कालाक्षमत्वमौत्सुक्यं मनस्तापत्वरादिकृत् । यथा- अंधवुरभामिणिजणो अंगाइ पसाहिऊण तुवरंतो। रुद्दणरेंदागमणे विलंबिअं सहइ किच्छेण।। * प्रेषयामि मन इति मुधा तन्मां मुक्त्वा वल्लमे लग्नम्। मामुज्झित्वा नो गच्छति मदन: सखि किं नु कर्तव्यम्। * अन्ध्रपुरभामिनीजनोऽज्ञानि प्रसाध्य त्वरमाण: । रुद्रनरेन्द्रागमने विलम्बितं सहते कृच्छेण। गर्वमुदाहरति-क इति । मादृशामतिसूर्यप्रतापानामिति भावः । शत्र्रग्रहण- समय: को वा, लक्ष्याभावादायुधग्रहणावसरो नास्तीति भावः। ये पुनः पुरो वर्त- न्ते प्रतिभटमानिनस्तेषु खद्योतकल्पेषु वैरवर्णनमपि लज्जावहमेवेत्याह-कीट- गिति॥ आवेश आग्रहः । संक्रीडन्ते, नैव प्रयासमनुभवन्तीति भावः । क्रीडोS- नुसंपरिभ्यक्ष' इति तड्। विषाद लक्षयति-विषाद इति ॥ प्रारब्धकार्यभज्ञा- पराधपरिज्ञानविन्नविपदादिभवः सत्त्वसंक्षयो विषाद इत्यर्थः । अयं चोपाया- न्वेषणवैमनस्यमुखशोषाद्यनुभावतारतम्यादुत्तमाद्याश्रयत्वेन त्रिविध इत्याहुः । तक्षोत्तमाश्रयं विषादमुदाहरति-पेसेमीति॥ मन इति। नपुंसकत्वेनेदमन्यत्र रिरंसारहितमिति मत्वेति भावः । अत एवोकं पूर्वैः-'नपुंसकमिति ज्ञात्वा तां प्रति प्रेषितं मनः । तततु तत्रैव रमते हताः पाणिनिना वयम् ॥' इति। अत्र किं कर्तव्यमित्युपायगवेषणगोचरवागारम्भसूचितया चिन्तया विषादो व्यज्यते। औत्मुक्यं लक्षयति-कालेति ॥ इष्टविरहरम्यवस्तुदिद्ृक्षादिजन्यं मनस्तापत्वरा- निःश्वासनिद्रादनुभावं कालाक्षमत्वमौत्सुक्यमित्यर्थः । उदाहरति-अंधेति ॥ प्र 16

Page 191

१८२ प्रतापरुद्रीये रव्नापणसहिते

अथ निद्रा। निद्रा चित्तनिमीलनम्। यथा- * सिविणे दिट्ठं दइअं बहुआ आलिंगिदुं किदोज्जोआ। उवह दरमीलिअच्छी गअणम्मि करे पसारेइ। अथापस्मारः । आवेशो मोहदुःखादैरपसारोऽङ्गतापकृत्। यथा- दष्टा सवप्रे कुपितवदनं काकतीयक्षितीन्द्रं हा हा रक्षेत्यसकलगिरः संभ्रमोत्थानभाजः । धावन्त्यन्तर्वणभुवि लुठन्त्याह्वयन्त्यात्मबन्धू- नाराद्दूतानपि रिपुगणा व्यस्तनामग्रहेण । अथ सुप्िः । सुप्तिर्निद्रासमुद्रेकः । * सप्ने दृष्ट दयितं वधूरालितितुं कृतोद्योगा। पश्यत दरमीलिताक्षी गगने करौ प्रसारयति ॥ भामयत्यवश्यं कुप्यतीति भामिनी। भाम क्रोध इत्यस्माद्धातोश्चौरादिकादा- वश्यको णिनिः । यद्वा स्त्रीणां ललितकोपो भाम इति भोजराजः, तद्वती भा-

प्रियदिद्दक्षाविषयमौत्सुक्यं व्यज्यते। निद्रां लक्षयति-निद्रेति ॥ चित्तस्य निमीलनं बाह्येन्द्रियसंबन्धविरहः। चिन्तानैश्चिन्त्यव्यायामादिजन्यं जुम्भान्ग- भज्गनेत्रनिमीलनाद्यनुभावं चित्तनिमीलनं निद्रंत्यर्थः । उदाहरति-सिविण इति॥ अत्रालीकप्रियालितनोद्योगादनवरतचिन्ताप्रतीतेस्तन्मूलेयं निद्रेति भावः । अत एवाहुः प्रशस्तपादा :- 'यमर्थमादृतश्चिन्तयन् स्वपिति सैव चिन्ता- सन्ततिः प्रत्यक्षाकारा संजायते' इति। अपस्मारं लक्षयति-आवेश इति॥ अशुचित्वधातुवैषम्यभूतावेशादिजन्यो भूपातभ्रमणभुजास्फोटविकटोक्तिलालाफेना- दनुभाव आवेशोऽपस्मार इत्यर्थः । उदाहरति-दृष्ट्रति॥ कुपितवद नं झूकुट्या- दिना भयंकरमुखमित्यर्थः । अन्तर्वणभुवि वनमध्य इत्यर्थः । 'प्रनिरन्त :- ' इत्यादिना णत्वम्। आराद्धतान् समीपस्थानपि। अत्र शत्रणां भयकार्यमोहमू- लोऽपस्मारो दैन्यधावनप्रभृतिमिरनुभावैर्व्यज्यते। सुप्तिं लक्षयति-सुप्तिरिति॥

Page 192

रसप्रकरणम्। १८३

यथा- विश्वैकरक्षाजुषि काकतीन्द्रे निश्चिन्ततां प्राप्तवतो मुरारेः। तत्कीर्तिचन्द्रातपवर्धितोऽपि दुग्धाम्बुधिनैंव भिनत्ति निद्राम्।। अथ विबोधः ।

यथा- प्रतापरुद्रे नृपमौलिरत्ने विश्वंभरां रक्षति शिक्षितारौ। विजुम्भमाणा: परितः प्रजानां भाग्यश्रियस्तत्क्षणमुन्मिषन्ति॥ अथामर्षः । अमर्षः सापराधेषु चेतःप्रज्वलनं मतम् । यथा- अरे भूपाश्चापान् नमयत शिरांस्युन्नमयत प्रवृत्ता: स्वस्स्रीणामह्महमिका वीरवरणे। त्वरन्ते नः खङ्गाः प्रविद्लनकेल्यामिति भटा रणात्रे गर्जन्ति प्रकटितरुषो रुद्रनृपतेः ॥ अथावहित्था। निश्वासोच्छृासनिश्चलत्वनेत्रनिमीलनाद्यनुभावो निद्रासमुद्रेकः सुप्तिरित्यर्थः । उदाहरति-विश्वेति ॥ काकतीन्द्रे विश्वैकरक्षाजुषि त्रिभुवनैकत्ाणपरायणे सति। जुषेः क्विप्। निश्चिन्ततां प्राप्तवतः अवतीर्णभारत्वादिति भावः । अत एव मुरारे: पयोधिवृद्धावपि निद्राभज्गाभावात् सुषुप्तिरित्याह-तदिति ॥ विबोधं लक्ष- यति-विबोध इति॥ शब्दस्पर्शाहारपरिणामादिजन्या भुजोत्क्षेपाभुलिस्फोट-' जृम्भणाक्षिविमर्दनाद्यनुभावा चेतनावाप्तिर्विनिद्रत्वं विबोध इत्यर्थः । उदाहरति- प्रतापेति॥ विजृम्भमाणाः विवर्धमाना: जुम्भां कुर्वाणाश्च उन्मिषन्ति उद्धव- न्ति नेत्राण्युन्मीलयन्ति च। अत्रेत्थमर्थद्वयस्यामेदाध्यवसायादारोपितचेतनधर्मा- णां भाग्यसंपदामुन्निद्रत्वप्रतीतेर्विबोध इति भावः । अमर्ष लक्षयति-अमर्ष इति॥ अधिक्षेपावमानादिना सापराधेषु मनःप्रज्यलनममिनिविष्टत्वं प्रतिचिकीर्षे- ति यावत्। एवंविधेऽमर्षे स्वेदशिरःकम्पचिन्तोपायान्वेषणोत्साहतर्जनादयोऽनु- भावा द्रष्टव्याः । उदाहरति-अरे इति ॥ स्स्त्रीणामप्सरसामन्योन्यं श्रेष्ठाहमि- त्यमिमानोऽहमहमिका। 'अह्महमिका तु सा स्यात् परस्परं यो भवत्यहंकारः।' इत्यमरः । अहमिति विभक्तिप्रतिरूपकमव्ययं निपातितम्। तस्य वीप्सायां द्विरुक्तिः । संज्ञायां कन् प्रत्ययः । प्रविदलनकेल्यां खण्डनक्रीडायाम् ।

Page 193

१८४ प्रतापरुद्रीये रक्नापणसहिते

हर्षाद्याकारसंगुप्तिरवहित्थेति कथ्यते। यथा- * गोठ्ठीए महिलाणं सोऊण पआवरुद्दचरिआइ। आलिहइ ओणअमुही मुद्धा चलणेण महिपट्ठं ।। अथोग्रता। दृष्टेऽपराधे चण्डत्वमुग्रता तर्जनादिकृत्। यथा- प्रियमानीय मानिन्या विरहार्तिर्निवार्यताम्। यदेतस्वाः कटाक्षोल्कापातैरिन्दुर्मषीकृतः ॥ अथ मतिः ।

यथा- को संसओ महिअले चंदो एव्व वीररुद्दणरणाहो। जस्स खु करप्पससादो अंगाइ मिअंकरअणंति।। * गोष्ठयां महिलानां श्रुत्वा प्रतापरुद्रचरितानि। आलिखत्यवनतमुखी मुग्धा चरणेन महीपृष्ठम् ॥ + कः संशयो महीतले चन्द्र एव वीररुद्रनरनाथः । यस्य खळ करस्पर्शादज्गानि मृगाह्वरत्नन्ति ॥ अवहित्थां लक्षयति-हर्षेति । भयव्रीडाकौटिल्यादिमिर्हर्षादिकार्याकारगोपन-

'वा ऊद्याः । उदाहरति -- गोठ्ठीए इति ॥ अत्र काचन सुन्दरी प्रसन्नादात्मानु- रागप्रधानानि प्रियचरितानि श्रुत्वा प्रहर्षन्ती लज्जया मुखविकासादिसंगोपनार्थ- मधोमुखी महीमालिखतीत्यवहित्थेति भावः । महिपट्ठमिति ॥ 'पृष्ठेऽनुत्तर- पदे' इति नियमेनेत्वाभावात् 'ऋतोऽत्' इत्यत्वम्। 'दिहौ मिथस्स' इति महीकारस्य हखवः । उग्रतां लक्षयति-दृष्ट इति ॥ अपराधे पुत्रमित्रकलन्नादि- द्रोहरूपे दृष्टे सति तर्जनोद्वेजनताडनबन्धनाद्यनुभावं चण्डत्वं कौर्यमुग्रतेत्यर्थः । कस्याश्िद्विरहिण्याः सखी प्रियं प्रति दूतिकां प्रेषयति-प्रियमिति ॥ अत्र संतापजननेन सापराधस्येन्दोः कटाक्षज्वालामिर्मषीकरणोद्योगादुग्रतेति भावः । मर्ति लक्षयति-तत्वेति॥ नानाविधशास्त्रचिन्तोहापोहादिभ्योऽर्थनिश्चयो मति- रित्यर्थः । अत्र शिष्योपदेशसंशयच्छेदविदग्धव्यवहारमनःसंतोषादयोऽनुभावा द्रष्टव्याः । उदाहरति-को संसअ इति॥ अत्र प्रियकरसंस्पर्शेSज्ञानामिन्दु-

Page 194

रसप्रकरणम् । १८५

अथ व्याधिः ।

यथा- प्रतापरुद्रस्य दिशां जिगीषोः प्रत्यर्थिनारीजनदेहजन्मा। स्मरज्वरोष्मा हिमवत्प्रदेशान् स्मर्तव्यनीहारकथान् करोति। अथोन्मादः । उन्मादस्तुल्यवर्तित्वं चेतनाचेतनेष्वपि। यथा- प्रतापरुद्रस्य जयप्रयाणभेरीध्वनौ मूर्च्छति दिङ्मुखेषु। त्रासाकुला भ्रान्तिमुपेत्य वृक्षान् पृच्छन्ति मार्ग रिपुभूमिपालाः॥ अथ मरणम्। मरणं मरणार्थस्तु प्रयत्नः परिकीर्तितः । यथा- *पिअविरहं असहंती बहुआ णिअजीविअं उवेक्खंती। सेव्वइ जोहं दख्खिणपवणस्स तणुं समप्पेइ।। * प्रियविरहमसहमाना वधूर्निजजीवितमुपेक्षमाणा। सेवते ज्योत्स्नां दक्षिणपवनस्य तनुं समर्पयति॥ किरणसंस्पर्शे चन्द्रकान्तानामिव द्रवीभावादयं चन्द्र एवेत्यध्यवसायान्मतिः । व्याधिं लक्षयति-मन इति॥ मनस्तापदोषवैषम्याद्यमिभवजन्मा शीतोष्ण- ज्वरादिः शीतालुतोष्णालुताद्यनुभावो व्याधिरित्यर्थः । विरह्जन्यं तापज्वरमु- दाहरति-प्रतापेति। दिशामिति शेषे षष्ठी। 'न लोक-' इत्यादिना कारक- षष्ठयाः प्रतिषेधात्। अत्रोष्णालुतया हिमवत्प्रदेशवासिनोऽपि शत्रुस्त्रीजनस्य हिमापेक्षेति महीयानयं तापज्वर इति भावः । उन्मादं लक्षयति-उन्माद इति॥ भयसंनिपातेष्टवियोगधननाशादिमिश्चित्तविभ्रान्तिरुन्माद इत्यर्थः । अत्रा- निमित्तस्मितासंबन्ध प्रलापनिर्हेतुकधावनोपवेशनोत्थानरोदनादयोऽनुभावा भव- न्ति। भयमूलमुन्मादमुदाहरति-प्रतापेति॥ स्पष्टमेतत्। मरणं लक्षयति- मरणमिति ॥ व्याध्यभिघाताभ्यां देहान्मनसोऽपायो हिकाश्वासादयनुभावो मरणमित्यर्थः । धनिकहेमचन्द्राद्यनुसारेण साक्षात्तदुदाहरणस्यामज्ञलत्वात् तदु- द्योगोऽत्र विवक्षित इत्याह-मरणार्थ इति॥ शारदातनयस्तु 'मरणेऽमिनयो ना- स्तीत्येतत् काव्ये न कथ्यते' इत्याह। उदाहरति-पिपति॥ भस्मीकरणबुद्धयेति

Page 195

१८६ प्रतापरुद्रीये रत्नापणसहिते

साक्षान्मरणस्यामङ्गलत्वान्नोदाहरणत्वमुचितम्। अथ त्रासः । आकस्मिकभयाच्चित्तक्षोभस्त्रासः प्रकीर्त्यते। यथा- *पणअकुविआ चिरेण वि बहुआ सोऊण घणघणत्थणिअं। दइअं सरहसवलिआ आलिंगइ वेवमाणंगी।I अथ वितर्कः । संदेहात् कल्पनानन्त्यं वितर्कः परिकीर्तितः । यथा- गुणैस्तत्रासक्तं मम हृदयमन्यन्न गणितं सखीभिर्नालोचि क्षितिपतिरसौ दुर्लभ इति। उपायः को वा स्यात्तदभिगमने मुह्यति मनः कियान् कोऽयं कीटक् कियदवधिरन्तर्व्यतिकरः ॥

  • प्रणयकुपिता चिरेणापि वधूः श्रुत्वा घनधनस्तनितम्। दयितं सरभसवलिता आलिग्ति वेपमानाभ्ी ।। भाव:। त्रासं लक्षयति-आकस्मिक इति ॥ अकस्मादेवाकस्मिकम्। विन- यादित्वात् खार्थे ठक्प्रत्ययः । तकारान्तत्वात् 'इसुसुक्तान्तात् कः' इति कादे- शः । अव्ययत्वाट्टिलोपः । तस्मात् भयात् भयहेतोरित्यर्थः । विद्युद्गर्जितभूक- म्पादिजन्यः कम्पगात्संकोचरोमाश्चमोहाद्यनुभावश्चेतश्वमत्कारस्त्रास इत्यर्थः । गर्जितमूलं त्रासमुदाहरति-पणपति ॥ वितर्क लक्षयति-संदेहादिति॥ उपलक्षणं चैतत्। तेन संदेहविमर्शादिजन्योऽनेकधासंभावनात्मा भ्रूक्षेपशिरः- कम्पाद्यनुभावो वितर्क इत्यर्थः । उदाहरति-गुणैरिति॥ गुणैर्महाकुलीनता- दिमिः । तत्र क्षितिपतौं। अन्यद्दौर्लभ्यादिकं न गणितं मदीयहृदयस्य कामा- न्धत्वादिति भावः । सखीभिरिति॥ विवेकवतीभिरपीति भावः। ननु किं गतो- दकसेतुबन्धेन इतः परं वा प्रियप्राप्तावुपार्यं चिन्तयाम इत्युक्ते, सोऽपि न प्रती- यत इत्याह-उपाय इति । तत्र हेतुमाह-मुह्यति मन इति ॥ मोहापगमानन्तरमुपायश्चिन्त्यतामित्याशङ्कय इयत्तयेदृक्तयेदन्तया वा दुर- वगमत्वेन दुश्चिकित्सस्य मोहमहाव्याधेरानन्तर्यमपि दुर्लभमेवेत्याशयेनाह- कियानिति॥ गच्छता कालैन खयमेव मोहशान्तेः किं तया चिन्तयेत्याशड्डय कालावधिरपि दुरवबोध एवेल्याह-कियदवधिरिति॥ व्य-

Page 196

रसप्रकरणम् । १८७

तत्र सातत्विकानां व्यभिचारिणां चानेकरससाधारणत्वान्न विशेष- मपेक्ष्योदाहारणं कृतम्। तथा हि शङ्गारे सर्वेषामनुप्रवेशः संभवति। हास्ये ग्लानिश्रमचपलत्वहर्षावहित्थानां संभवः। करुणे मदधृतिश्री- डाहर्षगवोत्सुक्योत्रताभिर्विनाऽन्ये संभवन्ति। रौद्रे ग्लानिशङ्कालस्य-

दृशमत्रासाः न संभवन्ति। बीरे रौद्रान्निर्वेदोधिकः। भयानकेऽसूया-

वन्ति। बीभत्सेऽद्धते च चिन्तात्रासादयो यथासंभवमूद्याः। शान्ते निर्वेदधृती संभवतः । अथ शृङ्गारचेष्टा निरूष्यन्ते। भावो हावश्र हेला च माधुर्य धैर्यमित्यपि। लीला विलासो विच्छित्तिर्विंभ्रम: किलिकिश्च्चितम् । मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा। कुतूहलं च चकितं विहृतं हास इत्यपि । एवं शृङ्गारचेष्टाः स्पुरष्टादशविधा मताः ॥ त्रासां स्वरूपमुदाहरणं च। भावः । रसाभिज्ञानयोग्यत्वं भाव इत्यभिधीयते। तिकरो व्यसनं विपत्तिर्मोह इति यावत्। एवमत्र संदेहेन कल्पनानन्त्याद्वितर्क इति भावः । ननु विभावादिवत् सार्विकसंचारिणाभपि तत्तद्रसप्रस्ताव एव कि- मिति नोदाहरणं कृतमत आह-तत्रेति ॥ व्यमिचारिणामनेकरससाधारणत्व- सुपपादयति-तथाहीत्यादिना॥ भावादयश्चित्तारम्भाः । लीलादयो गात्रा- रम्भाः। उभयेऽप्यनुभावाः । तदुक्त्तम्-'अनुभावश्रतुर्धा स्यान्मनो- वाक्कायवुद्धिमिः ।' इति। एतेषां योषिदालम्बनचेष्टारूपाणां यौवन- जन्यानामुद्दीपनविभावत्वमपि प्राचामाचार्याणां संमतम्। अतः संकीर्णख- रूपाणामेतेषां प्रकरणनियमाभावेनायमेव स्वरूपनिरूपणावसर इत्यभिप्रायेणाह- अथेति ॥ परिगणनादेवाष्टादशविधत्वे जातेऽपि कण्ठोकिकिर्मतान्तरेष्वेतेषामुच्चा- चचत्वमस्तीति सूचयितुम्। तत्प्रप्चस्तु भोजराजीयादिग्रन्थेषु द्रष्टव्यः। तत्र भावं लक्षयति-रसेति ॥ बाल्ययौवनसंधावुत्पन्नः शृद्गारविषयः प्रथमोऽन्तः-

Page 197

१८८ प्रतापरुद्रीये रन्नापणसहिते

यथा- *रुद्दणरेंदस्स गुणे गाअइ बालत्तणम्मि विस्सद्ं। लख्जइ दरपुलइओ जुवइजणो जोव्वणे गाउं।। अथ हावः । ईषदटष्टविकार: स्याद्धावो हाव: प्रकीर्त्यते। यथा- अत्रैवेषत्पुलकित इति। अथ हेला। सुव्यक्तविक्रियो भावो हेलेति प्रतिपाद्यते। यथा- मा होदु कस्स वि फ्फुडं इदि मुध्धे कुणसि वल्लहं हिअए। घोसिज्जइ तुह भाओ सव्वंगीणेहि पुलएहिं॥ अथ माधुर्यम् । अभूषणेऽपि रम्यत्वं माधुर्यमिति कथ्यते। यथा- जितत्रैलोक्यलावण्या प्रकृत्या हरिणेक्षणा। किं तु भूषयितुं धत्ते भूषणानीति मे मतिः ॥ * रुद्रनरेन्द्रस्य गुणान् गायति बालत्वे विस्रब्धम्। लज्जते दरपुलकितो युवतिजनो यौवने गातुम्। + मा भवतु कस्यापि स्फुटमिति मुग्धे करोषि वल्भं हृदये। घोष्यते तव भाव: सर्वाज्ञीणैः पुलकैः ॥ करणविकारो भाव इत्यर्थः । तटुक्तम्-'चित्तस्य विकृतिः सत्त्वं विकृतेः कारणे सति। ततोऽल्पा विकृतिर्भावो बीजस्यादिविकारवत् II' इति। उदाहरति- रुद्देति।। अत्र यद्यपि ईषदर्थे दरशब्दोऽव्ययमिति त्रिविक्रमः, तथा- पीषत्तमत्वमत्र विवक्षितम्। तेन दरपुलकितो दुर्लक्षपुलक इत्यर्थः । हाव लक्षयति-ईषदिति॥ दरशब्दस्य मुख्यार्थविवक्षायामिदमेवात्रोदाहरण- मित्याह-अत्रैवेषदिति ॥ हेलां लक्षयति-सुव्यक्तेति ॥ उदाहरति- मेति॥ माधुर्य लक्षयति-अभूषण इति॥ अत एवोक्तं दशरूपके-'सर्वास्व- प्यवस्थाखनुल्बणत्वं माधुर्यम्' इति। उदाहरति-जितति॥ प्रकृत्या स्वभावेनैव

Page 198

रसप्रकरणम् । १८९

अथ धैर्यम्। शीलाद्यलङ्गनं नाम धैर्यमित्यभिधीयते। यथा- * कुलवहुआए ण जुज्जइ मज्जाआलंघणं खु विसमे वि। रुद्दणरिंदगुणा उण हिअअहरा किं णु कादव्वं ।। अथ लीला। प्रियानुकरणं लीला वाग्भिर्गत्याथ चेष्टितैः । यथा- + पेछ्छह सहिओ एसा लच्छी रण्णो पआवरुद्दस्स । चरिआइ अणुकुणंती रण्णीसु पइव्वआ जाआ ॥ अथ विलासः । तात्कालिको विकार: स्याद्विलासो दयितेक्षणे। यथा- सहेलं पश्यन्त्याः प्रकृतिसुभगं रुद्रनृपति तदात्वप्रत्युद्यद्विविधललिताटोपमधुरम् । * कुलवध्वा न युज्यते मर्यादालङ्गनं खलु विषमेऽपि। रुद्रनरेन्द्रगुणाः पुनर्हृदयहराः किं नु कर्तव्यम्॥ + प्रेक्षध्वं सख्य एषा लक्ष्मी राज्ञः प्रतापरुद्रस्य । चरितान्यनुकुर्वती राज़ीषु पतिव्रता जाता॥ न तु प्रयत्नेनेति भावः। जितं त्रैलोक्यं येन तत् तथाभूतं लावण्यं पूर्वोक्तः का- न्तिविशेषो यस्याः सा तथोकता। अत् साभाविकसौन्दर्यस्य प्रसाधनविधिनि :- स्पृहत्वान्माधुर्यमिति भावः । धैर्ये लक्षयति-शीलेति॥ उहाहरति-कुलेति॥ विषमे विपद्यपि। लीलां लक्षयति-प्रियेति ॥ उदाहरति-पेच्छद्देति॥ अत्र लक्ष्मीर्नाम काचिन्नायिका प्रिय चरितानुकरणाह्ीलावती जातेत्यर्थः। तस्याः पा- तिव्रत्ये हेतुत्वमुक्तं सर्वज्ञसोमेश्वरेण-'भुक्ते तु भुङके या पत्यौ दुःखिते दुःखिता यदि। मुदिते मुदितात्यर्थ प्रोषिते मलिनाम्बरा ॥ सुप्ते पश्चान्त या शेते पूर्वमेव प्रबुध्यते। नान्यं कामयते चित्ते सा विज्ञेया पतिव्रता ॥' इति। राज्यलक्ष्मी- रपि दानभोगादावत्यन्तमनुकूला राजि निश्चलाभूदिति व्यज्यते। विलास लक्ष- यति-तात्कालिक इति॥ विकारो नेत्रभ्रूवक्त्रकर्मणां विशेष इत्यर्थः। उदाहर- ति-सहेलमिति॥ व्याख्यातमेतन्नायकप्रकरणे प्रौढोदाहरणप्रस्तावे। विच्छि-

Page 199

१९० प्रतापरुद्रीये रत्नापणसहिते

रसप्रादुर्भावादयुग पदुदयत्सात्त्विकमहो मृगाक्ष्यास्तारुण्ये कुसुमशरशिल्पं विजयते ।। अथ विच्छित्तिः । विच्छित्तिरतिरम्यत्वं खवल्पैरपि विभूषणैः । यथा- *कस्स किए केण किअं काअइपुरइत्थिआण सुंदेरं। साहारणभूसाए जं सहि तेळळोक्करमणिज्जं ।। अथ विभ्रमः । विभ्रमस्त्वरया काले भूषास्थानविपर्ययः । यथा- सोऊण सहिमुहादो दिअहो विरतोत्ति संभमेण वहू। हत्थेसु णेउराइं चरणेसु अ कुणइ वलआइं।। अथ किलिकिश्वितम्। रोषाश्रुहर्षभीत्यादेः संकरः किलिकिञ्चितम्। यथा-

  • कस्य कृते केन कृतं काकतिपुरस्त्रीणां सौन्दर्यम्। साधारणभूषया यत्सखि त्रैलोक्यरमणीयम्॥ + श्रुत्वा सखीमुखाद्दिवसो विरत इति संत्रमेण वधूः। हस्तयोर्नू पुरे चरणयोश्ष करोति वलयानि॥

त्ति लक्षयति-विच्छित्तिरिति ॥ उदाहरति-कस्सेति॥ साधारणभूषया स्नक्चन्दनताम्यूलादिनापि। केन कृतमित्यनेन सौन्दर्यस्य विधातृशिल्पवैलक्षण्यं प्रतीयते। कस्य कृत इत्यनेन भोक्ता तदनुरूपो नोपलभ्यत इति। विभ्रमं लक्ष- यति-चिभ्रम इति॥ काले प्रियसमागमादिसमये। त्वरया मदनावेशादि- संभ्रमेणेत्यर्थः । भूषाणां हाराज्दादीनां स्थानविपर्ययः स्थानव्यत्यास इत्यर्थः । उदाहरति-सोऊणेति ॥ श्रुत्वा सखीमुखादिवसो विरत इति। प्रियासक्तचित्त- तया स्वयं दिवसावसानमपि न जानातीति भावः। ततः संत्रमेण वधूर्हस्तयोर्नू- पुरे चरणयोर्वलये च करोति। किलिकिश्िनं लक्षयति-रोषेति॥ उदाहरति-

Page 200

रसप्रकरणम् । १९१

*गेहइ काअइणाहे विअणंमि पडंचलं मिअछ्छीए। वेवइ तणू वि णच्चइ भूउडी अवि गग्गआ बाआ ।। अथ मोट्टायितम् । मोट्टायितं स्यादिष्टस्य कथादौ भावसूचनम्। यथा- महुराइ रुद्दणरवइचरिआइ बहूए णं सुणंतीए। तणुगोवणेण पअडो जह भाओ ण तह पुलएहिं।। अथ कुट्टमितम् । संमर्देऽपि सुखाधिक्यं रतौ कुट्टमितं मतम् । यथा-

रङ्गैर्विस्मितमानसां प्रियसखीमालोक्य जातत्रपा। वैयात्यं निजमात्मवल्लभकृतां रागान्धतां जानती सदो नम्रमुखेन्दुरिन्दुवदना क्षोणीं लिखन्ती स्थिना। * गृहति काकतिनाथे बिजने पटाश्वलं मृगाक्ष्याः । वेपते तनुरपि नृत्यति भ्रूकुट्यपि गद्गदा वाच: ॥ ६ मधुराणि रुद्रनरपतिचरितानि बध्वा ननु शृण्वत्याः । तनुगोपनेन प्रकटो यथा भावो न तथा पुलकैः॥ गेहईति ॥| अत भयादिविकाराणं कम्पादीनां मेलनात् किलिकिश्चितम् । मोट्टायितं लक्षयति-मोट्टायितमिति ॥ प्रियगुणकथनादौ खामिलाषप्रकटनं मोट्टायितमित्यर्थः । उदाहरति-महुराईति॥ पुलकानां प्रियगुणस्तुतिजनित- मान्मथभावसूचकत्वं भावप्रकाशे-'गुणान् गणयति स्वैर वीक्षते भावमन्थरम्। रोमाश्चो गद्गदपदा वाक् स्वेदश् कपोलयोः। वित्रम्भकथनं दूत्या तत्समागम- चिन्तनम्। एवंगुणस्तुतिभवा भावा मन्मथसूचका ॥' इति। कुट्टमितं लक्ष- यति-संमर्द इति॥ केशाधरादिग्रहे सत्यपि बहिःकोपजनकेऽन्तःसान्द्रानन्दत्वं कुट्टमितमित्यर्थः । उदाहरति-निर्मर्यादेति॥ निर्मयादो निर्दयप्रवृत्तो मनो- भवोत्सवः केशाधरग्रहादिकामक्रीडैव कथा वादस्तस्य विस्त्रम्भकर्णेज पैरुच्छृङ्गलत्व- सूचकैर्नखदन्तपदादिद्वारेति भावः । 'स्तम्बकर्णयो रमिजपोः' इत्यच्प्रत्यये 'तत्पुरुषे कृति बहुलम्' इति सप्तम्या अलुक्। वैयात्यं धाष्टर्यम्। आत्म- चह्लभकृतां तत्संबन्धिनीमित्यर्थः । करोत्यर्थस्य धात्वर्थसामान्यत्वात् विशेषपर्य-

Page 201

१९२ प्रतापरुद्रीये रत्नापणसहिते

अथ बिब्बोकः । मनाक् प्रियकथालापे बिब्बोकोऽनादरक्रिया। चथा- लक्ष्मीः सद्नि निर्भरं विहरतां क्षोणी भुजालम्बन- क्रीडां नैव जहातु कि च सततं वाणी मुखे तिष्ठतु। ज्ञातं रुद्रनरेश्वरस्य बहुभिर्विज्ञातपूर्वैः प्रिय- व्याहारैः कृतमेव दूति मदनश्चापाय संनह्यतु । अथ ललितम्। सुकुमारोडङ्गविन्यासो ललितं परिकीर्त्यते। यथा-

सहेलं व्यावल्गत्करवलयनिक्काणसुभगम्। स्मितज्योत्स्नावीचीतरलवचनं रुद्रनृपतेः पुरन्ध्रीणामासीदनुरहससेवाविलसितम्।। अथ कुतूहलम्।

सानम्। रागान्धतां विशृङ्गलविहारहेहतुभूतामिति भावः । अत्र लिखन्तीति वर्तमानापदेशेन तत्कारणभूताया लज्जाया अविरामः सूच्यते। अलाभूतपूर्वसंभो- गचिहसाक्षात्कारेण विस्मयमानां प्रियसखीं प्रेक्ष्याधुना मन्दाक्षमन्थरत्वेनाज्ञात- चरकेशाधरादिग्रहदुःखतया तादात्म्यसुखातिभूमिसूचनात् कुट्टमितमिति भावः । बिब्बोकं लक्षयति-मनागिति॥ उपलक्षणमेतत्। तेन गर्वाभिमानादिना दयितेऽप्यनादरकरणं बिब्बोक इत्यर्थः । उदाहरति-लक्ष्मीरिति ॥ अयि सखिरि, त्वय्यविरतकोपायां लक्ष्म्यादिनायिकामु नानाविधविहारैः प्रेयसीपदं लभ- मानासु तव पुनर्नावकाशो लभ्यते। प्रियो हि प्रियाणि कथयतीत्येवं प्रियप्रेषितया दूत्या कथिते मानग्रन्थिग्रथितहृदयतया मरणेऽपि कृतसंकल्पाया अनादृतप्रियकथा- या नायिकाया वचनमेतत्। अत एवायं बिब्बोक इति भावः। ललितं लक्षयति- सुकुमारेति॥ उदाहरति-पदेति ॥ अनुगतं रहोऽनुरहसमिति प्रादिसमासः । अनुगतं रहोऽस्मिन्निति बहुत्रीहिर्वति पदमज्जरीकारः । 'अन्ववतप्ताद्रह्सः' इति समासान्तोऽच् प्रत्ययः । अत्रान्ध्रनायकपुरन्ध्रीणामेकान्तसेवायां मणिमज्जीरादि- शिजञितमञ्जुलस्य करचरणविन्यासस्य क्रीडासहेलपदाभ्याम्, आलापानां मन्दहास- मधुरत्वकथनेन च सौकुमार्यप्रतिपादनाह्ललितमिति भावः । कुतूहलं लक्षयति-

Page 202

रसप्रकरणम् । १९३

कुतूहलं रम्यदृष्टौ चापलं परिकीर्त्यते। यथा- वीररुद्रमधिरूढसिन्धुरं द्रष्टुमन्ध्रनगरीपुरन्ध्रयः । कुर्वते रचितसंक्रमत्वरासतुङ्गसझ्मशिखराधिरोहणम् ।। अथ चकितम् । चकितं भयसंभ्रम: । यथा- अविज्ञातायातं स्वमकथितमाल्यापि हसिंतुं

विलासानुद्वेलानुदितमदनान् वीक्ष्य सुतनो- स्तथैव प्रत्येतुं पुनरवनिषालः स्पृह्यति ॥ अथ विहृतम्। विहृतं प्राप्तकालस्य वाक्यस्याकथनं हिया। यथा- प्रतापरुद्रस्य भुजान्तरस्थां कल्हारमालाममुना स्पृशेति। स्तनद्वये पत्रलिपिं लिखन्तीं सखीं वधूः पश्यति साभिमानम्॥ कुतूहलमिति॥ उदाहरति-वीरेति॥ अधिरूढसिन्धुरमारूढगजम्। रचित- संक्रमत्वराः कृतगतिवेगाः । उत्सष्टलीलागतय इत्यर्थः । तुज्सझ्मशिखत्रराधिरोहणं हर्म्याग्रारोहणं कुतूहलात् कुर्वते। चकितं लक्षयति-चकितमिति॥ उदाहरति- अविज्ञातेति। पश्राङ्भागे पादन्यासमान्देन अविज्ञातं प्रियानवगतमायातं स्वस्यागमनं यस्य तं तथोक्तम् । हसितुं परिहसितुं परिहासार्थमित्यर्थः । आल्या सख्याप्यकथितं खमात्मानं हठादयदच्या उत्पश्यन्त्याः। आसीनैस्तिष्ठन्त ऊर्ध्व- मवलोक्यन्त इति भावः। अत एव चकितचकिताश्चकितप्रकारा लजोत्कण्ठाभ्याम- सकृदावृत्तनिमील नोन्मीलना इत्यर्थः । तथा उदश्चिता ऊर्ध्वप्रसारितापाज्ञाक् दशो यस्यास्तथोक्तायाः । तल्क्षण भावप्रकाशे-'मीलनोन्मीलनावृत्तियत्र तच्बकितं विदुः। अपाज्गयोरूर्घ्वभागावलोकनमुदश्चितम् ॥' इति। विलासान् 'तात्कालिको विकार: स्याद्विलासो दयितेक्षणे' इत्युक्तलक्षणान्। वीक्ष्य तथैवालिप्नादिसत्कार- मननुभूयैवेत्यर्थः । पुनः प्रत्येतुं गत्वा पुनरागन्तुमित्यर्थः । सर्वोऽपि मदनमहोत्स- वश्चकितसुखस्य षोडशीमपि कलां नार्हतीति भावः । विहृतं लक्षयति-विहृत- मिति ॥ प्राप्तकालस्यावसरोचितस्येत्यर्थः । उदाहरति-प्रतापेति॥ भुजान्तर- प्र 17

Page 203

१९४ प्रतापरुद्रीये रव्नापणसहिते

अथ हसितम्। आकस्मिकं तु हसितं यौवनादिविकारजम्। यथा- *जह जह हसइ मिअच्छी जोव्वणलच्छीए सिख्खआ महुरं! तह तह कुसुमेसुसरा विअसंति पिअस्स आसा अ ।। ॥ अथ मन्मथावस्था द्वादश निरूप्यन्ते ॥ अथ शृङ्गारस्याङ्करितत्वपल्लवितत्वकुसुमितत्वफलितत्वहेतवो द्वा- दशावस्था निरूष्यन्ते। चक्षु:प्रीतिर्मनःसङ्ग: संकल्पोऽथ प्रलापिता। जागरः काश्यमरतिर्लज्जात्यागोऽथ संज्वरः।। उन्मादो मूर्च्छनं चैव मरणं चरमं विदुः। अवस्था द्वादश मताः कामशास्त्रानुसारतः॥ केचित्तु दशावस्था इति कथयन्ति । आसां स्वरूपमुदाहरणं च । * यथा यथा हसति मृगाक्षी यौवनलक्ष्म्या शिक्षिता मधुरम्। तथा तथा कुसुमेषुशरा विकसन्ति प्रियस्य आशा च ॥ स्थितां वक्षःस्थिताम्। अमुना स्तनद्वयेन। स्पृश आलित्नेत्यर्थः । इतीत्थमाशिष- मुक्त्वेति शेषः । सामिमानं सखीवचनस्येष्टत्वात् सकृत्रिमकोपभित्यर्थः । पश्यति न पुनः किमपि ब्रूते लजयेति भावः । हसितं लक्षयति-आकस्मिकमिति॥ यौवनादिविकारजं न तु हास्यवद् वेषभाषादिविकारजमित्यर्थः । अत एवाक- स्मिकमहेतुकम्। व्याख्यातमेतत्। उदाहरति-जद्देति॥ अन्न यौवनजन्येन मदनोद्दीपकेन भृगाक्षीहसितेन प्रियमनोरथः पृथुलीभवतीति भावः । इत्थं रस- सामग्री निरूप्य शृज्गारास्पदक्रमनिमित्तभूता द्वादशावस्था निरूपयति-अथे- त्यादिना॥ शृङ्गारस्येति ॥ सामर्थ्यादयोगाख्यविप्रलम्भश्वज्गारस्येत्यर्थः । कामशास्त्रानुसारत इत्यनेन अलंकारशास्त्रे संख्यासंशादौ विशेषोऽस्तीति सूच्यते । अंत एवोक्त भावप्रकाशे-'दशधा मन्मथावस्था भवेद् द्वादशधापि वा। इच्छो- त्कण्ठामिलाषाश्च चिन्ता स्मृतिगुणस्तुती।। उद्वेगोऽथ प्रलापः स्यादुन्मादो व्याधि- रेव च। जाड्यं मरणमित्याद्ये द्वे कैक्षिद्वर्जिते बुधैः ॥' इति। अन्ये तु-'दडानः- सज्संकल्पा जागरः कृशतारतिः । हीत्यागोन्मादमूर्च्छान्ता इत्यनअ्दशा दश ॥' इत्याहुः। तदेतदाह-केचिदिति॥ आसां क्रमेण लक्षणोदाहरणे दर्शयति-

Page 204

रसप्रकरणम् । १९५

आदरादर्शनं चक्षुःप्रीतिरित्यभिधीयते। यथा- *सहि एसो रुद्दणिओ णअणाण अताक्किओर्सओ जाओ। मअणो व मुत्तिमंतो चंदो विअ मुक्कलंछणो पुण्णो।। अथ मनःसङ्गः । मनःसङ्ग: प्रियतमे नित्यं चित्तस्य विश्रमः । यथा- सइ मह मणो विलग्गइ रुद्दणरेन्दम्मि कीस कुविआओ। तेणाहं वि विमुक्का सहिओ तुझेसु का बत्ता।। अथ संकल्पः । संकल्पो नाथविषयो मनोरथ उदाहृतः । यथा- ददरहसिअगम्भिणाइं सिणेहसिणिध्धाइ राअभरिआइ। रुद्दणिवविलोइआइं काहे णु महम्मि णिवदृंति॥

  • सखि एष रुद्रनृपो नयनयोरतर्कितोत्सवो जातः। मदन इव मूर्तिमान् चन्द्र इव मुक्तला्छन: पूर्णः ।। + सदा मम मनो विलगति रुद्रनरेन्द्रे कस्मात् कुपिताः । तेनाह्मपि विमुक्ता सख्यो युष्मासु का वार्ता।। ई दरहसितगर्भितानि स्नेहस्निग्धानि रागभरितानि । रुद्रनृपविलोकितानि कदा नु मयि निपतन्ति ॥ आदरादित्यादिना॥ तत्र प्रत्यक्षचित्रखप्नादौ सादरं प्रियदर्शनं चक्षुःप्रीति- रित्यर्थः। उदाहरति-सहीति ॥ अत्र राज्ञो नेत्रोत्सवत्वादिप्रतिपादनेन तद्दर्श- नेडत्यादर: प्रतीयते। मनःस्ज्नं लक्षयति-मन इति ॥ सर्वदा प्रियविश्रान्त- चित्तत्वं मनःसज्ज इत्यर्थः। उदाहरति-सईति ॥ सइ सदा। 'इस्स- दादिषु' इति सूत्रेणात्राकारस्येकारादेशः । कस्मात् कुपिताः, यूयमिति शेषः । तेनाहमपि विमुक्ता संनिहितापीति भावः । सख्यो युष्मासु का वार्ता व्यवहितास्विति भावः । तस्मान्न मे युष्मदुपालम्भभाजनत्वमिति भावः । संफल्पं लक्षयति-संकल्प इति। उदाहरति-दरेति । दरहसित मन्द- स्मितं तद्रभितानि संभोगौतसुक्यसूचकानीत्यर्थः । 'कटाक्षैहसिग भैंस्तु संभो- गौत्सुक्यभावना' इति वचनात्। ल्नेहस्निग्धानि रागभरितानि। स्नेहो नामा-

Page 205

१९६ प्रतापरुद्रीये रत्नापणसहिते

अथ प्रलाप: । प्रलाप: प्रियसंश्िष्टगुणालाप उदाहृतः ! यथा- *तह णिषणो तह महुरो तह सुहओ तह अ सोम्मसब्भाओ। एको रुद्दणिवो विअ इदि गोट्टी पोढमहिलाणं।। अथ जागरः । जागरस्तु विनिद्रत्वम्। यथा- गगिमिअं कह कह वि दिणं चंदादवदूसहा णिसा दीहा। मअणो वि पुंखिअसरो णिद्दा वि णिवो वि णोवेइ। अथ कार्श्यम्। * तथा निपुणस्तथा मधुरस्तथा सुभगस्तथा च सौम्यखभावः । एको रुद्रनृप एवेति गोष्ठी प्रौठमहिलानाम्॥ + गमितं कथं कथमपि दिनं चन्द्रातपदुःसहा निशा दीर्घा। मदनोऽपि पुङ्ितशरो निद्रापि नृपोऽपि नोपैति। र्द्रान्त:करणत्वम्। तदुक्तम्-'मनसो यद्दवीभावो विषयेषु ममत्वतः। भयशङ्का- वसानात्मा स एव स्नेह उच्यते ॥I' इति। तत्प्रकर्षो रागः। तदुक्तम्-'दु :- खमप्यधिकं चित्ते सुखत्वेनैव रज्यते। येन स्नेहप्रकर्षेण स राग इति कथ्यते॥' इति। रुद्रनृपविलोकितानि कदा मयि निपतन्ति। प्रलापं लक्षयति-प्रलाप इति॥ प्रियगुणस्तुतिः प्रलाप इत्यर्थः । उदाहरति-तहेति॥ तथा निपुणो विद्ग्धः कृत्यवस्तुषु चतुर इत्यर्थः । तथा मधुरः प्रियदर्शनः प्रियंवदो वा। तथा सुभगो गम्भीरगुणो नायकविशेषः। तल्लक्षणं वक्ष्यामः । तथा सौम्यस्त्र- भाव: सुशीलः । एको रुद्रनृप एवेति गोष्ठी प्रौढमहिलानाम्। सर्वत्र तथाशब्दः पूर्वानुभवपरः । अत्र निपुणत्वादिगुणयोगात्. प्रतापरुद्र एवास्माकममिगम्य इति प्रौढाशना: प्रसवं कुर्वन्तीति भावः । अत एवोकं भावप्रकाशे-'महोदयो महाभाग्यः कृतज्ञो रूपवान् युवा। मानी सुशीलः सुभगो विदग्धो वंशसंभवः ॥ अहर्निद्रो मधुरवागमिगम्यो भवेत् स्त्रिया ॥' इति। रुद्दणिवो विअ, रद्रनृप एव। 'विअवेअ अवधारणे' इत्यवधारणार्थे विअ वेअ इत्येतौ शब्दौ निपातितौ। जागरं लक्षयति-जागर इति ॥ उदाहरति-गमिअमिति॥ गमितं कथंकथमपि दिनं, प्रियागमनप्रतीक्षणादिमिरिति भावः। चन्द्रातपदुःसहा निशा अत एव दीर्घा। निद्रापि नोपैति। खप्नसमागमस्यापि परिपन्थी जागरहतको जागर्तीति

Page 206

रसप्रकरणम् । १९७

कार्श्यमङ्गस्य तानवम्। यथा- चन्द्रास्ये कथमङ्कुलीयकमिदं केयूरितं ते सखि प्रेम्णां प्रेयसि वैभवैः स खलु को भूमे: सपन्नी यतः । ज्ञातं मानिनि काकतीयनृपतौ सक्तालि सत्यं शुभे श्यामाङ्गीं स खलु स्थिरां रमयते त्वां तां च शैलस्तनीम्। अथारतिः । अन्यत्राप्रीतिररतिः । यथा- *दूसेइ चंदसिट्टिं णिंदइ मलआणिलस्स माहप्पं। ऊसवपरंमुही सा सुहुअ तुमं किं णु मंतेसि ।। अथ लज्जात्यागः ।

  • दूषयति चन्द्रसृ्टिं निन्दति मलयानिलस्य माहात्म्यम्। उत्सवपराङ्मुखी सा सुभग त्वं किं नु मन्त्रयसे ॥ भावः। कार्श्यमाह-काश्यमिति॥ उदाहरति-चन्द्रास्य इति॥ अङ्ग- लीयकमिति ॥ 'जिह्रामूलानुलेश्छः' इति छप्रत्यये स्वार्थिक: कन्प्रत्ययः । केयू- रितमन्गदीकृतमित्यर्थः । नायिकाह-सखीति प्रेम्णां प्रेमादीनां प्रियविषय- रत्यवस्थाविशेषाणामित्यर्थः । तदुक्तम्-'प्रेमा मानः प्रणयः त्नेहो रागोऽनु- रागश्च। अङ्करपल्लवकलिकाकोरकफलभोगभागयं क्रमशः ॥' इति। 'सप्तमी शौण्डैः इतिवदादयर्थलाभः। सखी प्रेमविषयं पृच्छति-स खलु क इति ।। नायिकोत्तरमाह-भूमेरिति ॥ यत इति ॥ सार्वविभ- क्िकस्तसिः । येनाहं भूमे: सपत्नी भवैयं स इत्यर्थः। सखी नायिकामि- प्रायमुद्धाटयति-ज्ञातमिति॥ नायिकानीकरोति-आलीति॥ भूकल्पाया- स्तवापि सर्वथा तद्वदेवोपभोगो भविष्यति किमेतेन कार्श्येनेति सखी नायि- कामुपलालयति-शुभ इति॥ श्यामानीं यौवनयुक्तातीमन्यत्र कृष्णाज्ञीम्। शैलस्तनीं शैलसदृशस्तनीमन्यत्र स्तनायमानशैलामित्यर्थः। अरति लक्षयति- अन्यत्रेति। प्रियव्यतिरिक्तविषय वैराग्यमरतिरित्यर्थः। उदाहरति-दूसेईति॥ सुभग त्वमिति॥ सुभगो नाम नायकविशेषः । तदुक्तम्-'सपत्नीनखदन्ता- दिचिह्नं यत्र न दृश्यते। विस्मार्यमाणमानेर्ष्यः सुभगः सोऽभिधीयते ॥' इति। • अत एवात्र -विषयान्तराद्वैराग्यलिज्वाभावेन प्रेमास्पदत्वं द्रष्टव्यम्। लजात्याग-

Page 207

१९८ प्रतापरुद्रीये रत्नापणसहिते

चथा- *लंधिअमहिलासमअं तह भणिअं मअणदुव्विणीदाए। जह सोऊण गुरुअणो ओसरइ विलज्जिओ दूरं॥ अथ ज्वर:। तापाधिक्यं ज्वरो मतः। यथा- मोहसिसिरोवआरा बहुआ विरहव्जरेण गुरुएण। दाणिं रुद्दणरेसर कांखइ तुह दंसणामिअअं।। उन्माद्मरणयोः प्रागेवोदाहरणं दर्शितम्। अथ. मूरच्छा।

यथा- चिंततीए णरेन्दं दठ्ठं हिअअद्विदं मिअच्छीए। करणाइ बाहिआइं विसंति अभ्भंतरं वि सुण्णाए। * लद्वितमहिलासमयं तथा भणितं मदनदुर्विनीतया। यथा श्रुत्वा गुरुजनोऽपसरति विलज्जितो दूरम्॥ + मोघशिशिरोपचारा वधूर्विरहज्वरेण गुरुणा । इदानीं रुद्रनरेश्वर काृति तव दर्शनामृतम्॥ + चिन्तयन्त्या नरेन्द्रं द्रध्ुं हृदयस्थितं मृगाक्ष्याः । करणानि बाह्यानि विशन्ति अभ्यन्तरमपि शून्यायाः ॥ मुदाहरति-लद्विपति । लङ्गितमहिलासमयं सुरतव्यतिरिक्तकाले लज्जा स्त्रीसमयः। किं विलम्ब्यते चुम्बनादिकमिहेदानीमेव कर्तव्यमित्यादिकं तथाशब्दार्थः । ज्वरं लक्षयति-तापेति ॥ उदाहरति-मोहेति ॥ अवस्थाद्वयं व्यभिचारिप्रस्ताव एवोदाहृतमित्याह-उन्मादेति ॥ स्थायिभाव- सहकारित्वेनोपाधिना संचारित्वम्। रसास्वादनिमित्तत्वेनोपाघिना अवस्थात्वं चेति विवेकः । मूरच्छां लक्षयति-मूच्छेति॥ बाह्ेन्द्रियाणां चक्षुरादीनां निमी- लनं स्वस्वविषयग्रहणाभावः । अत एवाभ्यन्तरे अवृत्तिः शून्यान्तःकरणत्वमित्यर्थः। उदाहरति-चिन्तन्तीए इति॥ शून्यायाश्िन्तया शून्यान्तःकरणाया इत्यर्थः ।

त्वेऽपि पृथगुदाहरणं चमत्कारविशेषद्योतनायेति द्रष्टव्यम्। अथ. रसविशेषान.

Page 208

रसप्रकरणम् । १९९.

अथ शृङ्गारः । स द्विविधः । संभोगो विप्रलम्भश्च्ेति । 'संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्तयोः' इति शृङ्गारतिलके। संभोगस्य परस्परावलोकनसंभाषणालिङ्गनचुम्बनाद्यनेकव्यापारमय- त्वेनानन्त्यादेकविधत्वेन गणना कृता। यथा- रहः प्रत्यासन्ने हृदयदयिते रुद्रनृपतौ निवृत्ता मानाज्ञा विरलमपि लज्जाविलसितम। किमन्यत्ते गोप्यं बहिरबहिरानन्दमसृणः स्मरावेशः कोऽपि प्रियसखि नृपेणैकयति माम् ॥ विप्रलम्भ: पुनरभिलाषेर्ष्याविरहप्रवासहेतुकत्वेन चतुर्विधः । अभिलाषो नाम संभोगात् आ्रागनुरागः । यथा- अन्योन्यभाषणमनङ्गविलासगोष्ठी शय्या च सार्धमपदानि मनोरथानाम्। उदिनोद्देशकमानुसारेण विभागपूर्वकं लक्षणोदाहरणाभ्यां दर्शयति-अथेत्यादि- ना ।। तत्र सभोगस्यावान्तरविभागाभावे हेतुमाह-संभोगस्येति॥ उदाहर- ति-रह इति॥ रहःप्रत्यासनने विजनमुपगते। हृदयदयिते प्राणवल्लमे। मानः कोपविशेष:, 'स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासज्ञिनि प्रिये' इति लक्षणात्। तस्वाज्ञा तत्परवशत्वमित्यर्थः । लज्जाविलसितमपि विरलं निवृत्तमित्यर्थः । सुरत- समये स्त्रीणां प्रागल्म्यभूषणत्वादिति भावः । अत्र विस्रम्भविहारविरोधिनोर्लज्जा- मानयोर्निवृत्तिकथनादुन्मर्यादो विमर्द: संवृत्त इति सूच्यते। तत्फलमाह-कि- मिति ॥ अवक्तव्यं ते नास्तीत्यर्थः। बहिरबहिरानन्दमसृणः विगलितवेद्यान्तरत्वे- नापरिच्छिन्नानन्दमय इत्यर्थः । अत एवालौकिकोडयं स्मरावेशो दुर्निश्रयख्वरूप इत्याह-कोऽपीति ॥ किं बहुना। तदानीमावयोः सामरस्यं समजनीत्याह- नृपेणेति ॥ एकां करोति एकयति। एकशब्दात् 'तत्करोति-' इति ण्यन्तात् 'वर्तमानसामीप्ये वर्तमानवद्वा' इति वर्तमानप्रत्ययः । अत्र हृदयदयितपदोदिते- नालम्बनविभावेन चारिमिरनुचिसिद्धैः स्तम्भादिमिरनुभावैश् परिपोषं प्राप्तः रत्याख्यः स्थायि- भाव: शभ्गारतामभ्ञीचकारेति वेदितव्यम्। विप्रलम्भं विभजते-विप्रलम्भ इति। तत्रादं लक्षयति-अभिलाष इति । अयोगपूर्वानुरागाद्यपरपर्यायो विप्रलम्भविशेषोऽभिलाष इत्यर्थः । उदाहरति-अन्योन्येति ॥ अन्योन्यभाष- णमिष्टालापंरूपं ततोSनञ्ञविलासगोष्ठी नर्मकथाप्रसञ्ञ इत्यर्थः। सार्ध शय्या सह

Page 209

२०० प्रतापरुद्रीये रत्नापणसहिते

प्रेमानुविद्ध मुदय द्वहडुलानुरागं लभ्येत रुद्रनृपतेरवलोकितं वा ॥ ईर्ष्या नाम नायकस्यान्यासक्तमावात् चित्तविक्रिया। तया विप्रलम्भो यथा- लक्ष्मीरस्य विलोचनाब्जवसतिः सेर्ष्या त्वदालोकने वक्त्रस्था च सरस्वती न सहते साकं त्वया भाषणम् । लीलाकर्षणविन्नकृत् त्वयि मही बाहुस्थिता काकति- क्षाणीन्द्रे न हि कैतवानि सुभगे मानेन किं ताम्यसि॥ विरहो नाम लब्धसंयोगयोर्नायकयो: केनचित् कारणेन पुनः समागमकालातिक्षेपः । शयनं चेत्यर्थः । 'संज्ञायां समजनि-' इत्यादिना क्यप् प्रत्ययः। अत्र यद्यपि शेर- तेऽत्रेति अधिकरणव्युत्पत्त्या शय्याशब्दः खट्वापरो न शयनपरस्तथापि भृत्या- दिशब्दवदत्रापि भावानुवृत्या भावार्थत्वममिमेने कविरित्यनुसंघेयम्। मनोर- थानामपदान्यस्थानानि अविषया इत्यर्थः। मनोरथविषयमाह-प्रेमेति॥ 'स प्रेमा यन्मिथो यूनोर्निरूढं भावबन्धनम्' इत्युक्तलक्षणेन प्रेम्णानुविद्धं युक्तम् तथा उदयन्रुद्दीप्यमानो बहुलानुरागो यत्र तत् तथोक्तम्। 'रागोऽनुधृत्तोऽवि- च्छिन्रमनुराग उदाहृतः' इति। रतेरेवावस्थाविशेषाः प्रेमादय इत्युक्तं रसाणवे 'अङ्कुरपल्लवकलिकाप्रसूनफलभोगभागयं क्रमशः । प्रेमा मानः स्नेहः प्रणयो रागोऽनुरागक्च।' इत्युक्तेः । एतादृशमवलोकितं वा लभ्येत। प्रार्थनायां लिह्। ईर्ष्याविप्रलम्भं लक्षयति-नायकस्येति ॥ खप्रियस्यान्यासक्तभावान्नायिका- न्तरासक्त्वाद्र्शनश्रवणानुमानैरुपलब्धादिति शेषः। अन्यथेर्ष्यानुदयादिति भावः । चित्तविक्रिया ईर्ष्या मानरूपेत्यर्थः । अत एवोक्तं दशरूपके-'स्त्रीणामी- ष्याकृतः कोपो मानोऽन्यासज्विनि प्रिये। श्रुते वानुमिते दृष्टे ईर्ष्याकोपः स उच्यते ।I' इति। अत एवायमीर्ष्याविप्रलम्भः स्त्रीणामेव न पुरुषाणामिति द्रष्टव्यम्। तदुक्तं हेमचन्द्रेण-'ईर्ष्या मानः स्त्रीणामेव' इति। उदाहरति- लक्ष्मीरिति।। अत्र नेत्राननबाहुवासिन्यः श्रीवाणीधरण्यो यथाक्रमं त्वदालो- कनसंभाषणलीलाकर्षणानि प्रतिबध्रन्ति। काकतिनाथोऽयं पुनर्न तथा कितव- स्तस्मानन तत्र मान: कार्य इत्यर्थः। कैतवाभावोऽत्र नायकविशेषवाचिना सुभग- शब्देन सूच्यते। तल्लक्षणमुक्त भावप्रकाशे-'सपत्नीनखदन्तादिचिहं यस्य न दृश्यते। विस्मार्यमाणमानेर्ष्यः सुभगः सोऽमिधीयते ॥' इति। अत एव भार- विणाप्युक्तम्-'कः प्रिये सुभगमानिनि मानः' इति। विरह्विप्रलम्भं लक्ष- -्येति-विरह इति॥ नायकयोः स्त्रीपुंसयोः। केनचित् कारणेनेति॥

Page 210

रसप्रकरणम्। २०१

यथा- अङ्गेषु जीर्णेषु विभूषणानां व्यत्यासमार्गोऽपि मुहूर्तशोभी। सख्यस्तदास्तां परिकर्मरीतिरानीयतां रुद्रनृपः किमन्यत् ॥ यूनोर्देशान्तरवृत्तित्वं प्रवास: । तेन विप्रलम्भो यथा- सेव्योऽस्तु रुद्रनृपतिर्निखिलैर्नृपालै- रभ्युत्सवेषु सुलभा न हि वल्लभा नः । इत्थं कलिङ्रसुदृशां विरहार्तितापा- दङ्गानि यान्ति तनुतां दिवसा युगन्ति ।। रसाभासो यथा- प्रासादगर्भवलभीषु कपोतपाल्यां पारावतीं रमणचुम्बितचञ्चुकोटिम्। आविर्भवत्सुरतकूजितरक्तकण्ठी- मालोक्य काकतिविभुः स्मितमातनोति।। अविद्यमान एवान्यासज्न इति भावः । नायकयोनिर्निमित्तो विप्रयोग: प्रणयमा- नापरपर्यायो विरह्विप्रलम्भ इत्यर्थः। तदुक्त रसमअर्याम्-'परस्परमाज्ञोलङ्वनं प्रणयमानः' इति। अयं पुनर्द्वयोरपि भवति। तत्र स्त्रीविरहमुदाहरति-अक्के- ष्विति॥ व्यत्यासमार्ग: अभ्ुलीयकादीनां कटकादिस्थानेषु धारणादिति भावः । मुहूर्तशोभी अनन्तरमतिकार्श्यसंभवेन तन्रापि तेषामनवस्थानादिति भावः । परिकर्मरीतिः प्रसाधनप्रकारः। किमन्यदिति॥ कार्यान्तरस्य घृथा विलम्बनहेतु- त्वादिति भावः । एवं पुंविरहेऽप्युदाहार्यम्। प्रवासविप्रलम्भं लक्षयति- यूनोरिति॥ उदाहरति-सेव्य इति । निखिलेतरभूपालवत् वीररुद्रं खप्रिया अपि सेवन्तां नाम। अकिंचनैरप्यादरणीयेपूत्सदिवसेष्वपि ते नो दुर्लभा अभूवनिति दूयामहे इत्यर्थः । इत्थमनुलपन्तीनामिति शेषः । दिवसा. युगन्ति युगकल्पा भवन्तीत्यर्थः । युगप्रातिपदिकादाचारक्विबन्ताद्वर्तमाने लट्। रात्रयस्तु दुरतिवाहा एवेति भाव:। त्रिधा रसाभास इत्युक्तम्। तत्र तिर्यग्गतमुदाहरति- प्रासादेति॥ वलमीषु गोपानसीषु। कपोतपाल्यां विटङ्के च। रमणचुम्बितचञचु- कोटिमत एवाविर्भवत्सुरतकूजितामयत्नोद्यन्मणितां रक्तकण्ठीं मधुरखनाम् । अत्र तिरक्षोः पारावतयोः कलाकौशलाभावेन तदीयशृज्गारस्य विभावादिपरिपू- र्त्यभावादाभासत्वं द्रष्टव्यम्। रस एवायं नाभास इति केचित्। तदुक्त विद्या- धरेण-'विभावादिसंभवो हि रसं प्रति प्रयोजको न विभावादिज्ञानम्। ततथ

Page 211

२०२ प्रतापरुद्रीये र्नापणसहिते

भावोद्यो यथा- मुग्धे कस्तव वर्तते हृदि मनोजन्मैव नान्यः शपे सख्यै तस्य किमत्र कार्यमपरं किं जन्मसझादरात्। कोऽन्यस्तत्प्रतिबिम्ब एव निपुणे जानामि कामाधिक: प्रेयान् रुद्रनृपस्तवेति कथिता नम्राननाभूद्वधूः ॥ अत्र लज्जाया उद्यः । भावशमो यथा- लक्ष्मीरत्वं पुरुषोत्तमस्तव पतिः श्रीवीररुद्रो नृपः सृष्टथामम्बुजविष्टरस्य सद्ृशोर्योगश्चिरात् संभृतः । तस्मात् कृत्रिममप्यसाम्प्रतमिदं वां वैमनस्यं मना- गित्यालिं प्रणतां विलोक्य विकसद्वक्त्राम्बुजा मानिनी॥ अत्र कोपस्य प्रशमः । भावसन्धिर्यथा- प्रतापरुद्रस्य दिगन्तजैत्रयात्राप्रभूतैः पटहप्रणादैः। प्रियानुलापैश्र तथा भटानां रोमाञ्वर्मावृतमङ्गमासीत् ॥ तिरश्चामप्यस्त्येव रसः' इति। भेदान्तराणामुदाहरणमन्यतोऽवगन्तव्यम् । भावोदयमुदाहरति-मुग्ध इति॥ मुग्घे सुन्दरीति संबोध्य सखी पृच्छति । अथ नायिकोत्तरमाह-मनोजन्मेति। शपथविशेषेण सखीमत्र प्रत्याययति- शप इति ।। 'शप उपालम्मे' इत्यात्मनेपदम्। 'वाचा शरीरस्पर्शनमुपालम्भः' इति वृत्तिकारः । 'श्लाघह्ुट्स्था-' इत्यादिना सख्यै इति संप्रदानत्वाचतुर्थी। पुनः सख्याह-तस्येति॥ अत्र मनसि। तस्य मनोभुवः। नायिका प्रतिवक्ति- अपरमिति। जन्मभूमिस्नेहादन्यत् किमपि नास्तीत्यर्थः। कामत्तावदास्तां, द्वितीयः क इति सखी पृच्छति-कोऽन्य इति॥ तत्प्रतिबिम्बादन्यः कोऽपि नास्तीत्युत्तरमाह-तदिति॥ पुनः सख्याह-निपुण इति॥ जानामि प्रतारण- प्रकारमिति शेषः । नम्रानना लज्जयेति भावः । भावशान्तिमुदाहरति-लक्ष्मी- रिति॥ अम्बुजविष्टरस्य कमलासनस्य। सदृशोः समानयोः। तस्माद्वां युवयो- चैमनस्यं मनागल्पं कृत्रिमं बाह्यमपीत्यर्थः । असाम्प्रतमयुक्तम्। यतो 'न पुन- रेति गतें चतुरं वयः' इति भावः। इत्युक्वेति शेषः । प्रणतामालिं सखीं विलोक्य विकसद्वक्त्राम्बुजा भ्रुकुटिवैवर्ण्यादिकोपानुभावापगमादित्यर्थः। कोपः शान्त इति भावः । भावसन्धिमुदाहरति-प्रतापेति ॥ प्रियाणां प्रेयसीनामनु-

Page 212

रसप्रकरणम् । २०३

अत्र वीरशृङ्गारकृतयोर्हर्षयोः संधिः । भावशबलता यथा- निन्दन्त्वद्य कुलस्त्रियः प्रियतमो लभ्यः सुखं केन वा भाग्येनानुमतं न किं गुरुजनैः का वा ससत्री प्रेष्यते। कि लोकस्य भवेत् प्रसिद्धमचिरात् स्वच्छन्दमक्कं कढा- रोक्ष्यामि स्धिरता कदा हृदि भवेद्यातव्य एव प्रियः ॥ अत्रौत्सुक्यादीनां शबलता। लापैरनुरागतरितैस्तत्कालोचितवचनाम्रैडितैश्। अत्र परस्परविरुद्धवीरशज्गारा- श्रितयोर्हृषयोः स्पर्धया संबन्धकथनात् भावसंधिरेव चर्वणास्पदमित्यर्थः । तदेतदाह-अत्रेति॥ भावशबलतामुदाहरति-निन्दन्त्विति॥ प्राप्तकाले लोट्। अद्य आत्मोपसरणावसर इत्यर्थः । अनेनाकार्यकरणमूला लज्जा व्यज्यते। प्रियतम इति ॥ अन्र प्रियसौलम्ये कि वा भाग्यं निमित्तमित्यूहकथनात् विमर्शमूलो वितर्कः । अनुमतमिति ॥ अत्र किमर्थ वा गुरुजनानुमतिर्नाभूदिति कार्पण्योक्त्या दैन्यं ध्वन्यते। प्रियानयनार्थ का वा सखी प्रेष्यत इति॥ सहायान्वेषणेनानुभावेन प्रारब्धकार्यानिर्वहणमूलो विषादो व्यज्यते। किमिति॥ प्रसिद्धमिति॥ खदुर्विनीतत्ववैभवमिति शेषः। अतस्तन्मूलानर्थोत्प्रेक्षालक्षणा दङ्कियमिति भावः । अचिरादिति ॥ खः सकीयश्छन्दोऽमिप्रायो यस्मिन् कर्मणि तत् स्वच्छन्दं स्वेच्छयेत्यर्थः । अङ्कं प्रियस्येति शेषः । अत्र कालाक्षम- स्वलक्षणमौत्मुक्यं प्रतीयते। स्थिरतेति॥ अत्र हृदयस्थैर्याकाक्कया नैस्स्पृत्य- लक्षणा धृतिरवधार्यते। यातव्योऽभिसरणीय एव प्रिय इत्यनेन तत्त्वनिर्धारण- त्मिका सतिरिति। अत्र लज्जादीनामष्टानामपि भावानामन्योन्योपमर्दकतया समावेशात् भावशबलतेत्यर्थः । अत्र लज्जा वितर्केण बाध्यते, दैन्यं विषादेन, शङ्का औत्सुक्येन, धृतिर्मत्येत्येवमन्योन्यवाध्यबाधकभावेन द्वन्द्वशो भवन्ती भाव- शबलता अन्ततो गत्वा मतेरेव प्राधान्यमादधाना परमाख्वादस्थानमित्यर्थः । तदेतदभिसंधायाह-अत्रेति ॥ अत्रानादेरप्यौत्सुक्यस्यादित्वेनोपादानमन्येषा- मौत्सुक्यजीवितत्वसूचनार्थमित्यनुसंघेयम्। अत्र लज्ादीनामभिसरणविरोधि न्वाद्वाध्यत्वम् । वितर्कादीनां तु तदभावात् बाधकत्वमिति विवेकः । ननु 'प्रक्षा- लनाद्धि पङ्कस्य दूरादस्पर्शन वरम्' इति न्यायेन लज्जादीनां बाध्यानामनु- पादानमेव श्रेय इति न शङ्कनीयम् । विरोधिनामपि रसादीनामाधिकारिकरस- दार्व्यार्थमन्नत्वेनोपनिबन्धनवदत्रापि तदुपादानस्य न्याय्यत्वात्। तदुकं ध्वन्या- चार्यै :- 'विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम्। बाध्यानामनभावं वा प्राप्तानामुक्तिरच्छला ॥I' इति । अत्रोक्तभावोदयादीनां राजानुगतविवाह प्रवृत्त --

Page 213

२०४ प्रतापरुद्रीये रन्नापणसहिते

अथ रससंकरस्योदाहरणम्। तत्र शृङ्गारकरुणयोः संकरो यथा- आसन्नेऽपि महोत्सवे कथमितस्त्त्यक्त्वा प्रवासं ब्रजे- र्धिंग् धिक साहसमावयोर्विघटनं को वा विधि: काहकति। इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो बुद्धा मूर्च्छति काकतीयनृपते त्वद्वैरिनारीजनः ॥ अथ रौद्रबीभत्सयोः संकरो यथा- पीत्वा मांसोपदंशं द्विरदगलगलद्रक्त्तमैरेयधारां मत्तो मस्तिष्कलम्रैर्दलितनृपवपुःकीकसैः स्पष्टदंष्ट्रः । बिभ्रद्रौद्रान्त्रमालां जनितजनभयो भैरवाकारघोर: संग्रामोर्व्याः कलिङ्गैर्बलिविधिमकरोद्वीररुद्रस्य खङ्गः ।। एवमन्यदपि यथासंभवमुदाहार्यम्। मृत्यवत् कदाचिदज्वित्वमप्यन्ञीक्रियते। तदु्क्त काव्यप्रकाशे-'मुख्ये रसेऽपि 'तेऽ्जित्वं प्राप्नुवन्ति कदाचन' इति। भावमेलन प्रसन्नाद्रसमेलनमप्युदाहर्तुं प्रति- जानीते-अथेति॥ तत्र शृग्नारसंकीर्ण करुणमुदाहरति-आसन्न इति॥ व्याख्यातमेतत् काव्यप्रकरणे (पृ० ४५) मध्यमकैशिक्युदाहरणे। वीभत्स- संकीर्ण रौद्रमुदाहरति-पीत्वेति। व्याख्यातमिदमपि नाटके तृतीयेडक्के (पृ० १२८)। अत्रोदाहरणद्वये द्वयोः करुणरौद्रयोर्विश्रान्तिधामत्वेन चर्वणायां प्रथमभावित्वात् प्राधान्येनातित्वम्। शृज्जारबीभत्सयोस्तदुपस्कारकत्वेनाजत्वमिति विवेकः । अत एवोकं भावप्रकाशे-'रसाः कार्यवशात् सर्वे मिलन्त्येव परस्प- रम्। प्रथमं यो रसः ख्यातः स प्रधानो भविष्यति ॥' इति। नन्वयमन्जभूतो रसः परिपोषमप्राप्तः प्राप्तो वा। नादः, रसत्वव्याघातात्। न द्वितीयः, उप- स्कार्यत्वेनात्वभज्गात्। तस्माद्युक्त्ता रससंकरवाचोयुक्तिरिति चेन्मैवम्। परिपोषलामेऽपि कस्यचित् कदाचिदुपस्कारकत्वेनानत्वाज्गीकारात्। तदुक्तममि- नवगुप्ताचार्यै :- 'संभूतान्यपि रसान्तराणि खविभावादिसामत्रयां खावस्धायां यद्यपि लब्धपरिपोषाणि चमत्कारगोचरतां प्रतिपद्यन्ते तथापि स चमत्कारस्ा वत्येव परितुष्यन् न विश्राम्यति किं तु चमत्कारान्तरमनुधावति' इति। अज्ञा- सिभावे सर्वत्रेयमेव भग्गयज्गीकरणीया। तदुक्तमाचा्यैः-'गुणः कृतात्मसंस्कारः प्रधानमनुषज्यते। प्रधानस्योपकारे हि. तथा भूयसि वर्तते ॥' इति। तच्चान्न- त्वं स्वाभाविकं रूपकादिबलादारोपितं चेत्यादिविशेषास्त्वन्यतो द्रष्टव्या इत्याशये- नाह-एवमिति॥ अयं च रसो लौकिकालौकिकमेदेन द्विविधः। तत्राद्यः

Page 214

रसप्रकरणम् । २०५

अत्र रसो नायकाश्रय एव। यदि परं निपुणनटचेष्टया तथाविध- काव्यश्रवणबलेन च सामाजिकैः साक्षात् भाव्यते, तदा परगतस्यापि रसस्य सम्यग्भावनया परत्र निरतिशयानन्दजननमविरुद्धम्। अत एव मालत्यादिशब्देभ्यो योषिन्मात्रप्रतीतौ (रावणादिशब्देभ्यः शत्रुमात्र- प्रतीतौ च) स्मृत्यारूढेन तत्तदोषिद्विशेषेण सामाजिकाश्रयत्व- कदलीरसालादिफलास्वादजन्यानन्दसदशः कार्यश्च। इतरो ब्रह्मानन्दसब्रह्मचारी नित्यश्च। तत्राद्यस्याश्रयमाह-अत्रेति॥ रसो लौकिकः। नायकोऽनुकार्यों रामा- दिराश्रयो यस्य स तथोकः । एवकारः आश्रयान्तरव्यवच्छेदार्थः । यद्येवं सा- माजिकानां पौनःपुन्येनामिनयावेक्षणकाव्यश्रवणकौतुकमुन्मत्तचेष्टितं स्यात्। अत आह-यदि परमिति ॥ 'शिल्पविन्नायकादीनां तादात्म्यापत्तिभावुकः । चतुर्धामिनयामिज्ञो नटो भावादिमेदवित् ।I' इत्युक्तलक्षणस्य निपुणस्य नटस्य चेष्टयामिनयेन । तथाविधस्य गुणालंकारपरिष्कृतरसोहसितशब्दार्थसंघटनात्मकस्य काव्यस्य श्रवणबलेन। समाजः सभा तत्र समवेताः सामाजिका रामादितन्म- यीभवनयोग्यमनस्काः, भावुकप्रेक्षकाद्यपरपर्यायाः सहृदया इत्यर्थः । संपूर्वादजे: समूहवाचिनो धजन्तात् 'समवायान् समवैति' इति ठक्प्रत्ययः । तैर्यदि पर साक्षाद् भाव्यते केवलं खसंबन्धित्वेनानुसंधीयते चेदित्यर्थः । तर्हि पुत्राद्यानन्द- दर्शने पित्रादिवदलाप्यानन्द उदेतीति भावः। अत एवोकं भावप्रकाशे-'यस्तुष्टौ तुष्टिमाप्नोति शोके शोकमुपैति च। कोधे क्ुद्धो भये भीरुः स श्रेष्ठः प्रेक्षकः स्मृतः ॥' इति। न केवलं तत्र तावन्मात्रं किंतु विशेषोऽप्यस्तीत्याह-परगतस्येति ॥ भावनाविशेषादानन्दविशेषो युक्त एवेति भावः । अथालौकिकरसस्याश्रयमाह- अतएवेति॥ मालत्यादिशब्देभ्य इति॥ अभिनयवेलायां नटादिस मुच्चारिते- भ्यो विशिष्टकाव्यगतेभ्य इत्यर्थः । योषिन्मात्रप्रतीतौ न तु मालत्यादिविशेषोल्लेखे- नेत्यर्थः। एवमन्यत्रापि द्रष्टव्यम्। स्मृत्यारूढेनेति॥ सामान्यप्रतीतौ विशेष- स्मरणमनयोरविनाभावमूलमित्यनुसंधेयम्। ननु सामाजिकानां श्रूयमाणमालत्या- दिविशेषपरिहारेण स्वामिलषितनायिकास्मरणे किं प्रमाणमिति न शङ्कनीयम् । काव्यादौ विशेषाणामविवक्षितत्वात्। न हि महाकविमिर्वाल्मीकिप्रमुखैरिव ध्यानदृष्टया रामादीनामवस्थाः प्रातिस्विका निरूप्यन्ते किंतु रामादिकमाश्रय- तया परिकल्प्य स्वप्रतिभाप्रभावलब्धाः सर्वसाधारणा इति। तदु्क्त षट्सहस्त्री- कारेण-'एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते' इति। तर्हिं तैरपि विशे- षमात्र विहाय सामान्यमेव किमिति नोपादीयत इति न वाच्यम् । विशेषोपा- दानेनैव श्रोतृणामास्वादसंभवात् । तदुक्तम्-'कीडतां मृण्मयैर्यद्वत् बालानां द्विरदादिमि: । स्वेच्छा हि खदते तद्वच्छ्ोतृणामर्जुनादिमिः ॥' इति। योषि- द्विशेषेणेति । नायकनयनान्तावलोकननिर्वेदादी नामप्युपलक्षणम्, योषिन्मात्रेण प्र 18

Page 215

२०६ प्रतापरुद्रीये रक्ापणसहिते

मपि न विरुद्धम्। नटस्यानुकरणमात्रपरतया नैव रसाश्रययोग्यता। तस्य भावुकत्वाभ्युपगमेऽपि सामाजिकत्वमेव। अनुभावादीनां प्रका- शनं तु शिक्षाभ्यासपाटवेनैव घटते। रसादीनां परस्परविरोधेंडपि कविप्रौढोक्तिसमाश्रयणेनैकत्र समावेशो न विरुद्धः । विरोधक्रमः शृङ्गारतिलके कथित :- रसनिष्पत्तेरभावात्। ननु भवन्तु नाम स्मृताः स्त्रीपुंसादयः । क्थ तै रस- निष्पत्तिः । कर्थं वा रसस्य सामाजिकाश्रयत्वमिति चेदिदमतानुसंधेयम्। सामाजि- कास्तावत् पूर्व लौकिकनायकानुरागाद्यनुमानेन संस्कृतहृदयाः काव्यादिशब्द- महिस्रा रामादीन्सामान्यात्मना खसंबन्धित्वेन भावयन्ति। ते च भाविता भावु- कमनोऽङणे वर्तमानवदवभासन्ते। तदुक्त भर्तृहरिणा-'शब्दोपहितरूपांस्तान् बु- द्वेर्विषयतां गतान्। प्रत्यक्षानिव कंसादीन् साधनत्वेन मन्यते ॥I' इति। कंसादीनां प्रत्यक्षरूपमिव शब्दोपहितरूपमप्यर्थक्रियाकारीत्यर्थः । न च सीतारामादीनां स्वस्त्रीपुंसतया भावनादनौचित्यम्। तेषां जनकदशरथतनयत्वादिविशेषपरित्यागेन स्त्रीपुंसमात्रानुवादित्वादित्युक्तत्वात्। ते च स्त्रीपुंसादयो लौकिका एव काव्या- मिनयमुखेन विभावादिपदामिधानराज्याभिषिक्ता भावुकैर्भाव्यमानाः सन्तो मुद्रा- मुद्रितन्यायेन तदन्तःकरणप्रतिबिम्बिताः सामाजिकनिष्ठा भवन्ति। रत्यादयोऽ- पि लौकिका एवैवंविधा: सन्तः स्थायिभावसाम्राज्यमूर्धामिषिक्ता भवन्ति । तेऽमी विभावादयः सर्वेऽपि चित्रतुरगन्यायेन सम्यब्िथ्यासंशयसादृश्यप्रतीति- - ष्पाद्यत्वेनालौकिकस्य रसस्य सामाजिकान्तःकरणप्रतिबिम्बितस्थायिपरिणाम- त्वात् सामाजिकाश्रयत्वम्। अस्मिन्नर्थे बृद्धसंवाद: प्रकरणान्ते वक्ष्यते। तदे- तदमिसंधायाह-सामाजिकाश्रयत्वमपि न विरुद्धमिति॥ अपिशब्दः पूर्वोक्तलौंकिकपक्ष समुन्चिनोति। न. पुनरलौकिकस्यैवाश्रयान्तरम्, असंभावि- तत्वात्। आश्रयान्तरमाशक्कमानस्तावदेवं प्रष्टव्यः । आश्रयः किमनुकार्योऽनु- कर्ता वा। नादः, अतीतत्वात्। न द्वितीय इ्याह-नटस्येति॥ अनुंकरण- मात्रपरतयामिनयामिनिविष्टचित्तत्वेन। ननु कदाचिद्रामादितादात्म्यानुसंधानाद सामाजिकत्वमनुभवतो नटस्यानन्दपराधीनस्य कथमभिनयप्रकाशनमत आह- अनुभावादीनामिति॥ ननु तत्र तत्र रसान्तरसमावेशो न कथ प्रकृतरसभन्न- हेतुरत आह-रसानामिति॥ अपिशब्दादविरोधे किमु वक्तव्यमिति भावः । प्रोढोक्तिसमाश्रयणेनेति।। रसानां मिथो विरोधोऽस्तु मा वा, कस्यचिदत्ञि- त्वान्नीकारेणेतरेषां परिपोषाभावानास्ति विरोध इति कविसमयाश्रयणादित्यर्थः। तदु- क ध्वन्याचार्यै :- 'अविरोधी विरोधी वा रसोऽपनिनि रसान्तरे। परिपोषं न नेतव्य- संदा स्यादविरोघिता ॥!' इति। न केवलमविरोधः प्रत्युत तथाविधे विषये

Page 216

रसप्रकरणम् । २०७

शृङ्गारबीभत्सरसौ तथा वीरभयानकौ। रौद्राद्धुतौ तथा हास्यकरुणौ वैरिणौ मिथः ॥' इति । रसाद्रसोत्पत्तिरपि मता। तथा चोक्तं शृङ्गारतिलके- 'हास्यो भवति शृङ्गारात् करुणो रौद्रकर्मणः । अद्भुतञ्च तथा वीराद्वीभत्साच्च भयानकः ॥।' व्यभिचारिभावानां तत्तद्रसानुगुण्यमेवं प्रतिपादितं शृङ्गारतिलके। तथा हि- 'शङ्कासूया भयं ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः । औत्सुक्यविस्मयावेगा ब्रीडोन्मादौ मदस्तथा॥ विषादो जडता निद्रावहित्थं चापलं मृतिः । इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः । श्रमञ्चपलता निद्रा खवप्नो ग्लानिस्तथैव च। शङ्कासूयावहित्थं च हास्ये भावा भवन्त्यमी ॥ संत्रासो मरणं दैन्यं ग्लानिश्चैव भयानके।। अपस्मारो विषादश् भयं रोगो मृतिर्मदः । उन्मादश्च्ेति विज्ञेया भावा बीभत्ससंभवाः । आवेगो जडता मोहो हर्षणं विस्मयः स्मृतिः । इति भावा निबोद्धव्या रसज्ञैरद्दुते रसे ।। दैन्यं चिन्ता तथा ग्लानिर्निर्वेदो जडता स्मृतिः । व्याधिश्च करुणे वाच्या भावा भावविशारदैः ॥ हर्षोडसूया तथा गर्व उत्साहो मद एव च। चापल्यमुग्रता चैव रौद्रे भावा: प्रकीर्तिताः । सहृदयानां प्रह्मादातिशय एवेत्यपि तत्रैवोक्तम्। एकत्र प्रबन्धे वा वाक्ये वा रसविरोधक्रमं संमतिव्याजेनाह-शृङ्गारेति। प्रसश्ञाच्छृमरादिभ्यो हास्यादी- नामुत्पत्तिमाह-रसादिति। अन्र बाह्यार्थसंबद्धस्य यथायोगं सत्त्वरजस्तमोS- हंकारसहितस्य मनसो विकारविशेषा: शृज्गारादयः । एतेभ्य एव सत्त्वरजस्तमो- उहंकारेषु यथायोगमावापोद्धारसहितेभ्यो हास्यादय उत्पद्यन्त इति नारदादयः । वासुकिनोक्तो विशेषो भावप्रकाशे द्रष्टव्यः । अथ व्यमिचारिभावानां व्यवस्था- माह-व्यभिचारिभावानामित्यादिना। अथ रसवदाद्यलंकारविचारमार-

Page 217

२०८ प्रतापरुद्रीये रत्नापणसहिते

अमर्ष: प्रतिबोधञ्च वितर्कोऽथ मतिर्धृतिः । क्रोधोसूयाथ संमोह आवेगश्चोपहर्षणम्। गर्वो मदस्तथोग्रत्वं भावा वीरे भवन्त्यमी ॥I' इति। 'रसः सर्वोऽपि संपूर्णस्तिरोधत्ते रसान्तरम् ।।' इति भारती- योक्तप्रक्रियया यद्यप्येक एव रसः, तथापि महाकविप्रसिद्ध था रससंकर: स्वीक्रियते। तत्र रसादेरप्राधान्ये रसवदाद्यलंकारा भवन्ति। अन्या- कत्वेन रसनिबन्धने रसवदलंकारः । भावनिबन्धने प्रेयोऽलं- कारः। रसाभासभावाभासनिबन्धने ऊर्जस्विदलंकारः । भाव- शान्तिनिबन्धने समाहितालंकारः । तथा भावोदयादयोऽपि। एतदलंकारसर्वस्वे प्रपञ्चनोक्तम्-'रसभावतदाभासतत्प्रशमन- निबन्धने रसवत्प्रेयऊर्ज्विसमाहितानि। भावोद्यभावसंधि- भावशबलताश्च पृथगलंकाराः' इति। एतेषामुदाहरणमलंकार- प्रकरणे भविष्यति। गुणालंकारश्रीकृतपरिकरो भावविभव: स्फुरत्प्रादुर्भावः क्मगलितवेद्यान्तरमतिः । भते-रस इति॥ वाक्यार्थत्वैन प्रधानभूत इत्यर्थः । संपूर्णः खस्विभावादि- सामग्रीपरिपुष्टः। रसान्तरमज्ञभूतम्। महाकविप्रसिद्धथेति॥ अन्ञभूतस्य विश्रान्तिविषयत्वाभावेन रसत्वाभावेऽपि महाकविभी रसत्वेन व्यवहारादित्यर्थः । वस्तुतस्तु तदानीमलंकारत्वमेव रसादीनामपीति भावः । तदेव विविनक्ति- तत्नेत्यादिना॥ अत्र रसवदलंकारस्योदाहरणं यथा-'अर्यं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्न्रंसनः करः ॥' रणभुवि पतितं भूरिश्रवसो भुजं दृष्ट्रा तत्प्रेयसीनामयं विलापः। अत्राधिकारि- कस्य करुणस्यान्नभूतः शृज्तारोऽलंकारतामापद्यते। एवमन्यदप्युदाहार्यम्। अथ प्रतिपत्तिसौकर्यार्थ रसस्वरूपं श्रोकत्रयेण संग्रहांति-गुणेति ॥ गुणा- लंकारग्रहण वृत्तिरीत्यादीनामप्युपलक्षणार्थम्। तेषां श्रिया संपत्त्या कृतपरिकरो विशिष्टकाव्यप्रतिपादितविभावाद्यमिव्यक्त इत्यर्थः । अत एव स्फुरन्रुत्पद्यमान: प्रादुर्भावो रसोन्मुखत्व यस्य स तथोक्तः। भावविभवो रत्यादिस्थायिभाववर्गः । प्रथमं तावत् काव्यामिनयामिनिविष्टस्य सामाजिकस्य रसप्रादुर्भावसमये नटे रामादिप्रतीतिदार्व्यमुत्पद्यते । ततः सामाजिकानुकार्यहृदययोरमेदप्रतीतिः ।

Page 218

रसप्रकरणम् । २०९

सुखं वा दुःखं वा निबिडयतु यूनो: सहृदये त्वमन्दानन्दात्मा परिणमति पूर्णो रसभरः ॥

ततः सामाजिकहृदयं नृत्तगीतादिनानाविधनाव्यधर्मेषु निमजति। ततो वेद्यान्तर- मतिर्विगलति। तदानीमलौकिको रसो योगिवेद्यब्रह्मानन्दसदृशः स्वयमेव चर्व- णास्पद भवति । यदाहु :- 'पा्यादथ ध्रुवागानात् ततः संपूरिते रसे। तदा- सादभरैकाप्रो हृष्यत्यन्तर्मुखः क्षणम् ॥ ततो निर्विषयस्यास्य स्वरूपावस्थितो निजः। व्यज्यते ह्ादनिष्यन्दो येन तुष्यन्ति योगिनः ॥' इति। तदेतत् सर्व मनसि निधायाह-क्रमगलितवेद्यान्तरमतिरिति॥ इयांस्तु विशेषः । ब्रह्मानन्दानुभवे वेद्यान्तरं किमपि न स्फुरति। रसास्वादे तु विभावादिव्यति- रिक्तवेद्यान्तरनिरास इति। तर्हि विभावादिप्रतीतावखण्डानन्दानुभवः कथमिति चेत् सत्यम्। 'द्राक्षामधूकखर्जूरकाश्मयैः सह रूषकैः। तुल्यांशैः कल्पितं पूर्त शीत कर्पूरवासितम्। पानकं पश्चसाराख्यं दाहतृष्णानिवर्तकम् ॥' इत्युक्त- लक्षणनानारसकदम्बस्वरूपपानकरसन्यायेनेति ब्रूमः । नन्वानन्दमूले शृज्ञारादा- वस्तु नाम सुखासादः। शोकमूले पुनः करुणे कथमेतदित्याशङ्कयानुकार्यविषये- यमासवादवैचित्री न सामाजिकविषयेत्याह-सुखं वेति। अत्रास्य सूत्रस्य शाटकं वयेति न्यायेन भाविनीं वृत्तिमाश्रित्य लौकिको रत्यादिभावः श्लेषभग्नया भावविभवशब्देनोच्यते। अयं यूनो: स्त्रीपुंसयोः सुखं लौकिकं शृज्गारादौ, दुःखं करुणे निबिडयतु दृढ करोतु। 'येषां काव्यानुशीलनाभ्यासवशात् विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवनयोग्यता त एव हृदयसंवादभाजः सहृदयाः' इत्युक्तलक्षणे सहृदये तु पूर्णः पूर्वोक्तरीत्या विभावादिसमुल्लासितः सन्नित्यर्थः । रसभरः पूर्णस्य भारत्वं युक्तमेवेति भावः। अमन्दानन्दात्मा ब्रह्मानन्द इव निर- तिशयसुखस्वरूपः परिणमति। ननु यद्ययमानन्दात्मकः कथं तर्हि भावुकानां करुणात्मककाव्यश्रवणे तथाविधाश्रुधाराविर्भाव इति चेन्नैष दोषः। संभोगसमये स्त्रीणामधरदंशनादौ कृत्रिमदुःखानुभावसीत्कारवदत्राप्युपपत्तेः । सुखेपि दुःखवदु- पचारः कुट्टमितमिति तल्लक्षणात्। यद्यस्यापि सहजदुःखात्मकत्वं स्यान्न कोऽपि सामाजिकस्तत्र प्रवर्तेत। ततश्च करुणैकरसानां रामायणादीनामुच्छेद- प्रसङ्गः स्यात्। तस्माद्रसान्तरवत् करुणस्यापि आनन्दात्मकत्वमेवेति निरवद्यम्। ननु रसाख्वादे विशेषाभावात् कर्थ नवधा विभाग इति चेत् सत्यम्। यथैकस्य ब्रह्मानन्दस्य चन्द्रकान्तसोपानपङ्चि प्रतिबिम्बित चन्द्रबिम्बवदुपाधिमेदादनेकघा कल्पनं तद्वदत्रापि व्यज्कविभावादिभेदाद्वस्तुत एकस्यापि नानात्वमिति वेदि- तव्यम्। अथैवंविधो रसः काव्यादौ केन कारणेन प्रतीयत इत्याकाक्कायामाह-

Page 219

२१० प्रतापरुद्रीये रक्नापणसहिते

रसो वाक्यार्थः सन् विलसति पदार्थाः पुनरमी विभावाद्या यस्मिन् किल दधति विश्रान्तिमुचिताम्। अतो भावा एव क्रमसमुदितान्योन्यविभवा रसीभावं बिभ्रत्यथ च पटतां तन्तव इव ।

रस इति॥ वाक्यार्थ इति ॥ कविसंरम्भविश्रान्ते रसस्यैव प्रधान- त्वादिति भाव: । तदुक्तम्-'कवेविवक्षया यत्र प्राधान्यं परिकल्प्यते। भवेत् स एव वाक्यार्थ इति निर्णीयते बुधैः ॥' इति। न चास्य प- दार्थसंसर्गादिरूपवाक्यार्थवन्मतभेदेन वाच्यत्वं लक्ष्यत्वं वा संभवति। अिधा लक्षणयोरत्रानवकाशात्। तात्पर्यविशेषस्तु व्यञ्जनान्तर्भूत एवेति प्रति पादितं काव्यप्रकरणे। अतोऽयं वाक्यार्थों व्यज्य एवेति वेदितव्यम् । अभी रसव्यञ्जका विभावाद्याः पुनः पदार्थाः। यदपि विभावादीनां स्वख- वाक्यापेक्षया वाक्यार्थत्वम्। तदुक्तम् -- 'स्थायी वा सात्त्विको वापि संचारी वा क्कचित् क्चित्। भावो वाक्यार्थतामेति तत्तद्भावविशेषतः ॥' इत्यादिना। तथा- पि रसं प्रत्यवान्तरव्यापारत्वात् पदार्थव्यवहारः। एवं च पदार्थस्थानीयभावादि- प्रतीत्युत्तरकालीनस्फुरणतया रसो वाक्यार्थस्थानीय इति निष्कर्षः। रसं प्रति विभावादीनामवान्तरव्यापारत्वं निर्वहृति-यस्मिन्निति ॥ उचितां विश्रान्ति दवति कारकज्ञापकभाववैलक्षण्येन व्यज्जनध्वननचर्वणचमत्कारादिशब्दवाच्यरस- गोचरज्ानविशेषोपयोगित्वं भजन्त इत्यर्थः । अत एवोक्तं लोचने-'विभावा- दिरत्र न ज्ञापको नापि कारकः । अपि तु चर्वणोपयोगी' इति। अत एवालौ- किकत्वमस्येति भावः । एतच्चाघटितघटनसूचकेन किलशब्देन द्योलते। अत इति॥ विभावादिविश्रान्तेरित्यर्थः । भावाः स्थायिभावा एव क्रमेणाक्करि- तकन्दलितपछवितत्वादिरूपेण समुदितोऽन्योन्यविभवः सवखपरिपोषो येषां ते क्मसमुदितान्योन्यविभवाः । यद्यप्यन्योन्यशब्दः कर्मव्यतीहारे द्विर्भावितखत- थाप्यौचित्यादुक्तार्ये योजनीयः । अथ च विभावादिसंनिधानानन्तरमेवेत्यर्थः । चोऽवधारणे । अनेन व्यज्नयव्यजकयो रसविभावाद्योरस्त्येव क्रमः । किंतु शत- पत्रपत्शतव्यतिभेदवदाशुभावित्वान्न संलक्ष्यत इति सूचितं भवति। रसीभावं बित्रति पूर्व वासनामात्रावस्थायिन: स्थायिनो विभावादिमहित्रा रसात्मना परिणमन्ति रसादिशब्दप्रतिपाद्यत्वं च भजन्त इत्यर्थः । तत्र दृष्टान्तमाह- पटतां तन्तव इति॥ तदुक्तम्-'यथा हि तन्तवो वेमतुर्यादिक्रिययान्विताः। पटात्मना परिणताः पटवाच्या भवन्ति ते ॥ तथैव स्थायिनो भावा विभावादि- मिरन्विताः । रसात्मना परिणता रसवाच्या भवन्ति ते ।' इति। अथ निर्वेदादीनां रसपोषकाणामवस्थानक्रमममिदधानः प्रतिपत्तिदार्व्यार्थ पूर्वोक्तमेव

Page 220

रसप्रकरणम् । २११

भावे स्थायिनि वर्धमानविभवे रत्यादिके सिन्धुंवत् कल्लोला इव संभवन्ति विलयं चायान्ति भावा मुहुः। निर्वेदाद्युपभोगभावितनिजास्वादातिरेको रसो लोके स्यादनुकार्य एव कथितो नाट्ये तु सामाजिके।। इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेSलंकारशास्त्रे रसप्रकरणं समाप्तम् ।

रसस्याश्रयं स्मारयति-भाव इति॥ वर्धमानविभवे विभावादिमिरिति भावः । यथार्णवे कहोला उत्पद्यन्ते विलीयन्ते च तद्वद्त्यादिस्थायिभावे निर्वेदादयो निमज्जन्त्युन्मज्जन्ति चेति भावः । तदुकतम्-'मजजन्तश्च निमजन्तः कल्लोलास्ते यथार्णवे। तस्योत्कर्ष वितन्वन्ति यान्ति तदूपतामपि॥ तथा स्थायिनि निर्म्ा झुन्मन्रा व्यमिचारिणः । पुष्णन्ति स्थायिन: स्वांश्च तान्नयन्ति रसात्मताम् ॥' इति। ततः किमत आह-निर्वेदेति॥ निर्वेदादीनामुपभोगेन चर्वणया भावित उत्पादितः निजः खगोचर इत्यर्थः । खवस्मादमिन्नस्यापि स्रूपस्य स्वेनैव विष- यीकरणसंभवात् । यदाहु :- 'आत्मानमात्मन्यवलोकयन्तम्' इति। तथाभूतः सादातिरेकोSलौकिकचमत्कारात्मा यस्य स तथोक्तः सन्। रसोऽखण्डानन्दात्मको भवति। अयं च लोके स्यात् लौकिकश्चेदित्यर्थः। अनुकार्ये रामादावेव नान्यत। नाट्ये तु अलौकिकश्वेदित्यर्थः। सामाजिके कथित इति॥ अत्र रसो नायका- श्रय एवेत्यत्रेति शेषः । अत एवोक्तं लोचने-'स च न व्यतिरिक्तमाधारमपेक्षते। किं त्वनुकार्याभिन्नामिमते नर्तके आस्वादयिता सामाजिकः। तेन नाट्य एव रसा नानुकार्यादिषु' इति। उक्तं च शारदातनयेन-'व्यापारेण च काव्यस्य तदी- यामिनयेन च। रसात्मत्वं नीयमान: स्थायी स्वाद्यत्वमेष्यति ॥ सामाजिकादिरे- वास्य रसस्याश्रय उच्यते। रसस्य वर्तमानत्वात् नानुकार्यस्य संभवः ॥ अनुकार्यस्य रामादेः कालातिक्रमदर्शनात्। नातिकान्तानुकार्यस्य रसो- द्भावनया कविः ॥ ब्राति काव्यं यत् तस्माद्रसः सामाजिकाश्रयः ॥' इति। केचिदेतत् सामाजिकाश्रयत्वमारोपितं न तु मुख्यमित्याहुः। तदुक्तं महो- पाध्यायनरहरिसूरिणा-'एवं सामाजिकसमवेततां रसस्याज्ञीकृत्यालौकिकता वर्णिता। परमार्थतः पुनः परिपूर्णाखण्डैकरसानन्दरूपपरमेश्वरपर्यायस्यास्य रस- स्याधिकरणचिन्ता कुतो वा न सत्यानन्तानन्दात्मके ब्रह्मण्यपि पदमासाद- येदिति विचारचतुरैरनादिकविमिरनाधारो रसः सामाजिकैः परं चर्व्यते विभा- वादिभिः परं व्यज्यते। योगिगम्यत्वमात्रेणेश्वरस्य योगिमनोनिवाससंवादवत सामाजिकाधिकरणत्वारोपोऽपि सह्यते' इत्यादिमिर्युक्तिमि: प्रतिपादितम्। अन-

Page 221

२१२ प्रतापरुद्रीये रन्नापणसहिते

धिकरणत्वमेव सिद्धान्तः । अत एवायं ब्रह्मानन्द एव। इयांस्तु विशेषः । ब्रह्मा- नन्दो योगगम्यः । अयं तु विभावाद्यनुसंधानगम्य इति । इदमपि तेनैवोक्त्तम्- 'सर्वत्रैकैवानन्दव्यक्तिलौंकिकं सुखमिति व्यवध्ियते। अलौकिकविभावाद्यमि- व्यक्त्या कविसमयमात्नप्रसिद्धयनुसारादलौकिको रस इति कथ्यते। नानाविधवि- मलकर्मनिर्मलान्तःकरणेषु शमदमादिसाधनसंपन्नेषु श्रवणमनननिदिध्यासनपरेषु परमयोगिषु निर्विकल्पकसमाध्यमिव्यक्त्या ब्रह्मेति परमात्मेतीश्वर इति शब्दते' इति। उक्त च स्वात्मयोगप्रदीपे- 'या स्थायिभावरतिरेव निमित्तमेदा-

सामाजिकान् सहृदयाज्टनायकादी- नानन्द्येत् सहजपूर्णरसोऽस्मि सोऽहम् ॥'

  • इति संक्षेप: ।। इति पदवाक्य प्रमाणपारावारपारीणश्रीमहोपाध्यायकोल चलमहिनाथ- सूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणे: पेद्दयार्यस्यानुजेन कुमारस्वामिसोमपीथिना विरचिते प्रतापरुद्रीयव्याख्याने र्नापणाख्याने रसनिरूपण नाम चतुर्थ प्रकरणम् ॥

Page 222

अथ दोषप्रकरणम्।

अथ काव्यजीवितभूतरसनिरूपणानन्तरं तदुपस्कारहेतूनां गुणानां सम्यग्विवेकाय दोषा निरूप्यन्ते। तत्र दोषसामान्यलक्षणम्- दोषः काव्यापकर्षस्य हेतु शब्दार्थगोचरः। शब्दार्थमयत्वात् काव्यस्य तदपकर्षहेतूनामपि दोषाणां शब्द- गतत्वेनार्थगतत्वेन च द्वैविध्यम्। शब्दगतानामपि पदवाक्यगत- त्वेन च द्वैविध्यम्। तत्र पदगतदोषाः कथ्यन्ते। अप्रयुक्तमपुष्टार्थमसमर्थ निरर्थकम्। नेयार्थ च्युतसंस्कारं संदिग्धं चाप्रयोजकम् ॥ क्िष्टं गूढार्थकं ग्राम्यमन्यार्थ चाप्रतीतिकम्। अविमृष्टविधेयांशं विरुद्धमतिकृत तथा। अश्लीलं परुषं चेति दोषाः सप्तदश स्मृताः ॥ एषां स्वरूपं निरुप्यते। यदप्रयुक्तं कविभिरप्रयुक्तं तदुच्यते । प्रकृतानुपयुक्तार्थमपुष्टार्थ तदुच्यते ॥ योगमात्रप्रसिद्धं यदसमर्थ तदुच्यते। पादपूरणमात्रं यत्तन्निरर्थकमुच्यते॥ रसनिरूपणानन्तरं तदुपस्कारहेभूतगुणालंकारनिरूपणे प्रसक्तेऽपि तदुल्- इय मध्ये दोषनिरूपण संगमयन् प्रतिजानीते-अथेति ॥ गुणानामित्यलंका- राणामप्युपलक्षणम्। सम्यगिति॥ अन्यथा विवेकमात्रस्य प्ररूढत्वाभावादिति भावः। तत्र दोषसामान्यलक्षणमाह-दोष इति॥ रसापकर्षद्वारा काव्यापक- र्षहेतुरदोष इत्यर्थ: । अत एवोकं काव्यप्रकाशे-'मुख्यार्थनिहतिर्दोष :- ' इत्या- दिना। शब्दार्थगोचर इत्येतद्विभागपरम्। अत्र रसादि प्रतीतेर्विभावाद्यर्थमूल- त्वात् विभावादेक् वाक्याधीनत्वात् वाक्यानां च पदारब्धत्वात् प्रथमभावि- तया तेषां तद्दोषनिरूपण प्रतिजानीते-तत्र पद्गतदोषा इति॥ यथोद्देश- मेतेषां लक्षणमाह-यद्प्रयुक्तमित्यादिना । अमिधानादावान्नातमपि कविमिरनादृतम प्रयुक्तमित्यर्थः। योगमान्रप्रसिद्धं शास्त्रमात्र प्रसिद्धमित्यर्थः ।

Page 223

२१४ प्रतापरुद्रीये रत्नापणसहिते

ससंकेतप्रसिद्धार्थ नेयार्थ परिकीर्त्यते। शब्दशास्त्रविरुद्धूं यच्चयुतसंस्कारमुच्यते। संदिग्धं तन्मतं यत्स्यात् संदिग्धार्थप्रतीतिकृत्। तदप्रयोजकं यत् स्यादविशेषविधायकम् ॥ क्विष्टं तदर्थावगतिर्दूरदूरा यतो भवेद्। प्रयुक्तमप्रसिद्धार्थे गूढार्थ परिकीर्त्यते॥ पामरव्यवहारैकप्रसिद्धं ग्राम्यमुच्यते। यद्रूढिप्रच्युतं नाम तदन्यार्थमुदाहृतम्। शास्त्रमात्रप्रसिद्धं यदप्रतीतिकमुच्यते। अविमृष्टविधेयांशं गुणीभूतविधेयकम्॥ विपरीतार्थधीर्यस्माद्विरुद्धमतिकृन्मतम्। अश्लीलं यदमाङ्गल्यजुगुप्साव्रीडधीकरम्॥ परुषं नाम तद्यत् स्याद्विहितं परुषाक्षरैः॥ अत्र वनवृत्तीनां शत्रुस्त्रीणां वचनेषु दोषा उदाहियन्ते। अप्रयुक्तं यथा- विमुखा दैवताः सर्वे ते नो दुश्च्यवनादयः । अरण्यगृहमेधिन्यो यैर्वयं हन्त कल्पिताः ॥ मात्रशब्देन वाचकशक्तिविरहः प्रतिपाधते। स्वसंकेतप्रसिद्धार्थमिति॥ संकेतमात्राधीनार्थमित्यर्थः । च्युतः संस्कारो व्याकरणकृतो यस्मात् तत च्युत- संस्कारम्। विशेषविधायकं न भवतीत्यविशेषविधायकम्। दूरदूरा अतिदूरा व्यवहितेत्यर्थः। प्रयुक्तमिति॥ यदुभयार्थ सदप्रसिद्धार्थे प्रयुक्त तद्गूढार्थ- मित्यर्थः । एतदेव निहतार्थमिति केचित्। रूढेः प्रसिद्धेः प्रच्युतं रूढिप्रच्युतम्। अन्यार्थमवाचकमित्यपरे। अविभृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तदवि- मृष्टविधेयांशम्। तदेवाह-गुणीभूतविधेयकमिति॥शिष्ट स्पष्टम्। सथायोग- मुदाहरति-विमुखा इति॥ दैवता इति॥ 'वृन्दारका दैवतानि पुंसि वा देवता' इत्यमरः । दुःसहः च्यवनो मुनिरस्येति दुश्च्यवनः इन्द्रः । गृहेण पत्या गृहैर्वा मेधन्ते संगच्छन्त इति गृहमेधिनः गृहस्थाः, तत्पल्यो गृहमेधिन्यः। 'गृहं पत्न्यां गृहेऽपि च''दारेष्वपि गृहाः" 'जाया च गृहिणी गृहाः' इति विश्वामरह्ला- युधाः। मेश संगमे चेत्यस्माद्धातोर्णिनिप्रत्ययः। अत्र दैवतदुश्च्यवनशब्दयोर्य- थाकमं लिक्नुशासनशब्दानुशासनाम्रातयोरपि कवीनामनादरात् दुष्ठत्वमित्याह-

Page 224

दोषप्रकरणम् २१५.

अत्र दैवता इति पुंलिङ्गप्रयोग: दुश्च्यवन इति चेन्द्रपरत्वेन कविभिन प्रयुक्तः। अपुष्टार्थ यथा- व्यर्थाष्टार्धार्धबाहूनाममीषामीदशां दशाम्। कथं सहामह्दे धिग्धिक् कठिनं हन्त जीवितम्। अत्र त्र्यर्थबाहुद्वयानामिति विवक्षितेऽष्टार्धार्धबाहूनामित्यनुपयुक्तम्। एतदेवाविमृष्टविधेयांशस्योदाहरणम्। बाहुद्वयस्य वैयर्ध्ये विधेये तस्योपसर्जनत्वं प्रतीयते। असमर्थ यथा- विहाय वसुधामेनां चतुरम्बुधरावृताम्। क नु गन्तव्यमस्माकमरण्येऽप्यसुखा स्थितिः । अत्र जलधिपरत्वेनाम्बुधरपद्मसमर्थम्। अनर्थकनेयार्थच्युत- संस्कारसंदिग्धानि यथा- विहाय च गृहांस्तान् वै व्यत्यस्तनववृत्तयः । कदा भविष्यते वासः कटकेषु महीभृताम् । अत्र वै इति निरर्थकम्। व्यत्यस्तनवशब्देन वनप्रतीति: स्व- अत्रेति । एकैकोदाहरणविवक्षायां पद्दोषद्वयमेतत्। समुदायविवक्षायां तु वाक्यदोषोऽयम्। विरोधिनो दुश्च्यवनादिदैवता इत्युक्ते समासदोषः। अप्रयु- कादीनां त्रैविध्यस्यापि काव्यप्रकाशकारादिमिरज्ञीकृतत्वादिति द्रष्टव्यम्। एव- मुत्तरत्रापि यथासंभवमूहनीयम्। व्यर्थेति।। अष्टार्धार्ध द्वयं तद्विशिष्टा बाहवस्तथोक्ता इति मध्यमपदलोपी समासः। जीवितमिति धिक्शब्दयोगे द्वितीया। तस्य 'नित्यवीप्सयोः' इत्याभीक्ष्ण्ये द्विर्भावः। प्रकृतानुपयु- कतां दर्शयति-अत्रेति । उदाहरणलाघवादाह-एतदेवेति ॥ व्यर्थ- बाहुद्वयानामितीदमेवेत्यर्थः । अत् दुर्दशाप्रस्तावे बाहूद्देशेन विधेयस्य वैयर्थ्यस्यान्यपदार्थप्रधानबहुव्रीहिवर्तिपदार्थत्वेन गुणीभावादविभृष्टविधेयांशाख्यो दोष इत्यर्थः । विहायेति ॥ अत्राम्बुधरशब्दस्य समुद्रे शास्त्रप्रसिद्धिरेव न तु वाचकशक्तिः। अतोऽसमर्थत्वमित्याह-अत्रेति ॥ लाघवार्थ- मनर्थकादिचतुष्टयमेकेन श्रोकेनोदाहरति-विहाय चेति॥ अत्र वैशब्दद्यो- त्यस्य कस्यच्विदप्यर्थस्यान्वयाभावात् पादपूरणमात्रप्रयोजनकत्वेन निरर्थको वैशन्द इत्याह-अत्र वै इतीति ॥l अन्र वाक्यसन्धेवैंकल्पिकत्वादायादेशाभावः । यमकेषु निरर्थक न दोष इत्युक्तं हेमचन्द्रेण। व्यत्यस्तनवेत्यत्र वर्णव्यत्यासेन वनप्रतीतिर्लक्षणयेति वक्तव्यम्। तस्यां च कुशलादिवन्न रूढिर्निमित्तम्। नापि

Page 225

२१६ प्रतापरुद्रीये रत्नापणसहिते

संकेतमात्रायन्तेति नेयार्थकम् । भविष्यते इति भवतेरात्मनेपैदित्वं शब्दशास्त्रविरुद्धमिति च्युतसंस्कारम् । महीभृतां कटकेषु वास इत्यनेन राज्ञां नगरेषु वास उत पर्वतानां नितम्बेष्विति संदेहात् संदिग्धम्। अप्रयोजकक्विष्टे यथा- हन्त वर्तामहे वज्रघट्टनात् प्राक् चलात्मसु। नभस्वदशनारातिध्वजाग्रजविरोधिषु ॥ अत्र नभस्वदशनाः सर्पास्तेषामरातिर्गरुडः स एव ध्वजो यस्ये- ति विष्णुस्तस्यात्रज इन्द्रस्तस्य विरोधिषु पर्वतेष्वित्यर्थप्रतीतेरति- दूरत्वात् क्विष्टम्। पर्वतेषु वर्तनं दुःखावहमिति प्रकृते वञ्रघट्टनात् प्राकू चलात्मस्विति पर्वतविशेषणस्यानुपयुक्तत्वादप्रयोजकम् । गूढार्थग्राम्यार्थान्यार्थानि यथा- शोणिताब्जद्दशः कामं श्यामगल्लकटिस्थलाः । विद्ग्धहृदयाः शोकवह्िना राजकन्यकाः ॥ अत्र शोणितशब्दस्य रुधिरे प्रसिद्धस्य पाटलवर्णपरत्वेन प्रयोगा- द्रढार्थम्। गल्लकटिशब्दौ कपोलजघनपरत्वेन ग्राम्यप्रयुक्तौ। विदग्ध- हृदया इति विशेषणं दग्धहृद्यस्यावाचकत्वादन्यार्थम्। अप्रतीतिकं यथा- मनूपदेशाः क गता: कुलाचायैरुदीरिताः । गज्चायां घोष इत्यादिवत् प्रयोजनम्। किंतु स्वसंकेतमात्रम्। अतस्त्रत्राशककरियं लक्षणोपेक्षणीया। 'निरूढा लक्षणा: काश्चित् सामर्थ्यादमिधानवत्। क्रियन्ते सांप्रतं काश्चित् काश्विज्नैव त्वशकितः ॥' इत्याचार्यस्तस्या निषिद्धत्वात्। अतो नेयार्थमेतदित्याशयेनाह-व्यत्यस्तनवशब्देन वनप्रतीतिः खसं- केतमात्रायन्तेति ।। प्राप्त्यर्थस्यैव भवतेरात्मनेपदित्वं न सत्तार्थस्येति वैयाकरणाः । अतोऽस्य च्युतसंस्कारत्वमित्याह-भविष्यत इति ॥ संदिग्धममिनीय दर्शयति-महीभृतामिति॥ अत्र भृवः पालनधारणार्थत्वानु- शासनम्, 'कटकं वलये सानौ राजधानीनितम्बयोः' इत्यमिधानं च संदेह- बीजमिति भावः । हन्तेति॥ व्युत्क्रमेण लक्षणं योजयति-अत्रेत्यादिना॥ शोणितेति ।I ग्राम्य प्रयुक्तौ पामरव्यवहारमात्रप्रसिद्धावित्यर्थः। विपूर्वस्य दग्ध- शब्दस्य निपुणार्थत्वाद्दाहं प्रत्यवाचकत्वादन्यार्थमित्याह-विद्ग्धेति।। अप्रतीतिकमुदाहरति-मनूपदेशा इति। यथा लोकमात्प्रसिद्ध आ्राम्यं तथा

Page 226

दोषप्रकरणम् ।. २१७

अत्र मनुशब्दो मन्त्रपरत्वेन मन्त्रशास्त्रमात्रप्रसिद्ध इत्यप्रतीतिकम्। विरुद्धमतिकृद्यथा- अम्बिकारमणस्याङ्गिसेवा व्यर्था कथं भवेत्। राज्ञामकार्यमित्राणां विनाशं समुपेयुषाम्। अत्राम्बिकारमणशब्दान्मातृसंभोगकारिणः प्रतीतिः । अकार्य- मित्रशब्दादकार्येषु मित्राणीति प्रतीतिः। वियोगदुःखपरतया प्रयुक्ता- द्विनाशशब्दान्नाशप्रतीतिरिति विरुद्धमतिकृत् । अमङ्गव्यव्रीडाजुगुप्साप्रतीतिकरं त्रिविधमश्ीलं यथा- अभिप्रेतपदावासः कदा नः संभविष्यति। नीचं साधनमेतेषां परोत्सगैंकजीविनाम् ।। अत्राभिप्रेतपढावासशब्दात् प्रेतलोकपदावासप्रतीतेरमङ्गळत्वम्। नीचं साधनित्यनेन तुच्छमेहनप्रतीतेत्रीडाकरत्वम्। परोत्सर्गैक- जीविनामित्यत्रोत्सर्गशब्दादधोवायु प्रतीतेर्जुगुप्साकरत्वम्। परुषं यथा कुतः कान्तारवृत्तीनां कार्तार्थ्यार्थित्वमस्ति नः । अत्र कार्तार्थ्यार्थित्वमिति परुषवर्णारब्धत्वम्। । अथ वाक्यदोषाः ।। शब्दहीनं क्रमभ्रष्टं विसंधि पुनरुक्तिमत्। व्याकीर्ण वाक्यसंकीर्णमपूर्ण वाक्यगर्मितम् ।। द्वे भिन्नलिङ्गचचने द्वे च न्यूनाधिकोपमे। भग्नच्छन्दो यतिभ्रष्टमशरीरमरीतिकम्॥ शास्त्रमात्र प्रसिद्धम प्रतीतिकमित्यर्थः । कुलाचायैरित्यनेन संप्रदायशुद्धि: सूच्यते। अम्बिकारमणस्येति॥ विनाशं वियोगदुःखमित्यर्थः। लक्ष्ये लक्षणं योजय- ति-अत्रेत्यादिना ॥ कार्य प्रयोजनं विना मित्राणि निरुपाधिकबन्धव इति विवक्षितेSकार्येष्वनुचितकर्मसु मिताणीति विरुद्धबुद्धधुत्पादनात् विरुद्धमतिकृदि- त्याह-अकार्येति॥ अभिप्रेतेति॥ अभिप्रेतपदमिष्टस्थानम्। एतेषां स्भर्त- णाम्। नीचं साधनमल्पं सैन्यम् । सहायसंपत्तिर्नास्तीत्यर्थः । 'साधनं निर्षृतौ मेड्रे सैन्ये सिद्धौषधे गतौ' इति विश्वः । परोत्सर्गः परकर्तृकत्यागः । 'उत्सर्गों वर्जने त्यागे' इति विश्वः। त्रिविधमश्लीलं योजयति-अभिप्रेतेत्यादिना॥ कुत इति। कार्तार्थ्यार्थित्वं धन्यतामिलाषित्वम्। परुषैः करुणरसाननुगुणत्वेन प्र 19

Page 227

२१८ प्रतापरुद्रीये रक्नापणसहिते

विसर्गलुप्तमस्थानसमासं वाच्यवर्जितम्। समाप्तपुनरातं च तथा संबन्धवर्जितम् । पतत्प्रकर्षमधिकपदं प्रक्रमभङ्गवत्। चतुर्विशतिरुच्यन्ते दोषा वाक्यसमाश्रिताः॥ एषां स्वरूपमुदाहरणं च। शब्दशास्त्रहतं वाक्यं शब्दहीनं प्रकीर्त्यते। यथा शत्रुवाक्येषु- न संश्ृणुमहे हन्त हितमाप्तैर्निमन्त्रितम्। येन काकतिभूभर्तुः सेवां हित्वा हता वयम् ॥ अत्र हितं न संश्ृणुमहे इति पदद्वयप्रयोगे दोषाविष्काराद्वाक्य- मेव दुष्टमिति न पददोषशङ्का। संपूर्वस्य शृणोतेरात्मनेपदित्वे कर्म- ोऽनुपादाननियमात्। अथ क्रमभ्रष्टम्। क्रमभ्रष्टं भवेदार्थः शाब्दो वा यत्र न क्रमः। श्रुतिकटमिवरणैः सरेफद्वितीयसंयोगादिमिरारब्धमित्यर्थः। पददोषानन्तरं वाक्य- दोषानुद्देशपूर्वकं लक्षणोदाहरणाभ्यां दर्शयति-अथेत्यादिना॥ नेति॥आ- मैनिमन्त्रितमुपदिष्टं हितं न संश्ृणुमहे न समश्रौष्मेति वर्तमानसामीप्ये वर्त- मानप्रत्ययेन हिताश्रवणराज्यभ्रंशयोरविरामः सूच्यते। ननु च्युतसंस्कारस्यैव शब्दहीनमिति संज्ञान्तरं न पुनः पृथग्दोषः । वाक्यगतत्वेन पार्थक्यस्य काव्य- प्रकाशकारेण पदद्वये युगपदसाधुत्वासंभवेन परिहृतत्वादिति चेत् सत्यम्। यद्य- प्येकपदमेवासाधु तथापि तदसाधुत्वं पदान्तरसमन्वयसापेक्षमिति वाक्यदोष एवायं न पददोषः। तर्हि कदा भविष्यते वास इत्यत्रापि पदान्तरसंनिधानादेव दोषत्वावगमाद्वक्यदोषत्वमेव। केवलं भविष्यतेशब्दस्य लृटः शत्रादेशे चतुर्थ्येक- वचने सत्यसाधुत्वासंभवादिति चेत् सत्यम्। वाक्यस्यैवात्र प्रयोगयोग्यत्वा- दावश्यकपदान्तरसननिधाने यत्र वाक्यमात्रनिर्वाहस्तत्र पददोषः। यत्र पदान्तर- विशेषसहकृतस्यैवासाधुत्वं यथा प्रकृते तत्र वाक्यदोषः । अन्यथा पददोषस्यै- बाभावप्रसक्गादिति। तदेतत् सर्व मनसि निधायाह-अत्र हितमित्यादि ॥ आत्मनेपदित्व इति ॥ 'समो गम्यृच्छि-' इत्यादिनेति शेषः । कर्मणोS- नुपादाननियमादिति ॥ अकर्मकाधिकारादिति शेषः । न च कर्माकाल्लस्य शृणोतेः कथमकर्मकत्वमिति वाच्यम्। अविवक्षितकर्मकस्यैवात्राकर्मकत्वात्। तदुक्म्-'धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात्। प्रसिद्धेरविवक्षातः कर्मणोS- कर्मिका क्रिया ।।' इति। क्रमभ्रष्टमिति ॥ तत्रार्थक्मत्रष्टमुदाहरति-

Page 228

दोषप्रकरणम्। २१९

यथा-प्रभवे काकतीन्द्राय तुरगान् करिणोऽथवा। उपायनमकुर्वाणा वयं दैवेन वश्चिताः ॥ अत्र करिणो यद्वा तुरगानिति वक्तव्ये व्युत्क्रमेणोक्तम्, तुरगापे- क्षया करिणामुत्कृष्टत्वात्। अथवा करिण इत्यर्थक्रमभङ्गः । शब्द- क्मभङ्गो यथा- का नाम गणनास्मासु काकतीयस्य भूपतेः । यशःप्रतापयोर्मग्रौ सूर्याचन्द्रमसावपि ।। अत्र यशःप्रतापयोश्चन्द्रसूर्यौ मग्नाविति शब्दक्रमे उचिते तथा नोक्तम्। यशःप्रतापयो: सूर्याचन्द्रमसौ मग्राविति समुदायद्वयान्वये यथायोग्यमर्थान्वये नार्थक्रमविरोधः । अपि तु शब्दप्रयोग एव क्रमभङ्गः । अथ विसन्धि।

प्रभव इति॥ लक्ष्ये लक्षणं योजयति-अत्रेति॥ दुर्लभत्वात् करिणां सुलभत्वाच तुरगाणामिति। ननु यवाग्वामिहोत्रं जुहोति यवागूं पचतीत्यत्र पाठक्रमानुप- पत्तावर्यक्रमो यथा स्वीकृतस्तद्वदत्रापि यथायोगमन्वयोऽग्ीक्कियतामिति चेत सत्यम्। अपौरुषेये वेदवाक्ये यथा तथा वास्तु। पुंवाक्ये तु श्रवणानन्तरमेव प्रयोक्तुस्तारतम्यानभिज्ञत्वप्रतीतेरन्वयविलम्बासहिष्णुत्वात् दुष्टत्वमेवेत्यनवद्यम् । शाब्दं क्रमभज्मुदाहरति-का नामेति॥ सूर्याचन्द्रमसाविति॥ 'देवता- द्वन्द्वे च' इत्यानगादेशः। तत्र लोकवेदयोरिति प्रतिद्धसाहचर्याणामेव देवता- वाचिनां द्वन्द्वस्य विवक्षितत्वान्न चन्द्रसूर्यावित्यत्रानआ्ादेशः । व्युत्कमममिव्यक्तु- सुचितक्रमानुक्तिममिनीय दर्शयति-अत्रेति ॥ आद्यमेदसाङ्कर्य परिहरति- यश इति॥ यशःप्रतापयोरित्येकः समुदायः । सूर्याचन्द्रमसावित्यपरः। तदेतत् समुदायद्वयसमुद्धतावयवभेदम्। अन्यथा द्विवचनानुपपत्तेः। तस्यान्वये, सतीति शेषः। यथायोग्यमर्थान्वये नार्थक्रमविरोध इति॥ अभिधानक्रमेणामिधेयक्रमौ- चित्येऽपि कविसमयसिद्धोपमानोपमेयभावानुसारेण वर्तिपदार्थानां कीर्तिप्रभृतीनां व्युत्कमेणापि संबन्धेऽनन्तरोदाहरणवत् वाधकाभावात् नार्थक्रमभज्ज इत्यर्थः । कुत्र तर्हि क्रमभङ् इत्याकाक्कायामाह-अपि तु शब्दप्रयोग एवेति॥ यथासंख्यन्यायोछइ्नादिति भावः । ननु द्वन्द्वसमासे वर्तिपदानि प्रत्येक स्वसह- चरितपदार्थान्तराण्यपि युगपदमिदधतीति वार्तिककारमतम्। तदुक्तम्- 'युगपदधिकरणवचने द्वन्द्वः' इति। तन्मते यशःशब्देनापि युगपद्यशःप्रतापा- वभिधीयेते प्रतापशब्देनापि। एवं सूर्याचन्द्रमसावित्यत्रापि द्रष्टव्यम्। तथा च मिथोऽन्वये शाब्दोऽपि क्रमभक्े न संभवतीति चेनैष दोषः। सर्वदा केवल-

Page 229

२२० प्रतापरुद्रीये रत्नापणसहिते

विसंहितो विरूपो वा यस्य संधिर्विसंधि तत्।। यथा- शौर्याणि ईदृशान्यासन् पृथ्वैश्वर्य क वा गतम् । अत्र शौर्याणि ईदृशानीति विसन्धि। पृथ्वैश्वर्यमिति संधि- वैरूप्यम्। अथ पुनरुक्तिमत्। शब्दार्थपौनरुक्त्ये तु तद्वाक्यं पुनरुक्तिमत्। यथा- @ जीर्णकाननसंकीर्णे विन्ध्ये काननवृत्तयः । अत्र काननसंकीर्णे काननवृत्तय इति पुनरुक्तिमत्। अथ व्याकीर्णम्। व्याकीर्ण तद्विभक्तीनां व्याकीर्णे च मिथोऽन्वये। यथा- सुखार्थिनो महीपाला वर्तध्वं काकतीशितुः । आज्ञामुरसि बिभ्राणाः शिरसि क्रोडमुद्रिकाम् ॥ अत्र क्रोडमुद्रिकामुरसि शिरस्याज्ञां बिभ्राणा इति संबन्धः । अथ वाक्यसंकीर्णम्। वाक्यान्तरपदैः कीणे वाक्यसंकीर्णमुच्यते। पदानामेकैकार्थवाचकत्वाद्वर्तिपदानामपि मतमेदेन तथाभावात् प्रायेण सर्वेषा- मप्येवमेव व्युत्पत्तिः। अत्राप्यलौकिकानेकार्थवाचकत्वनिबन्धनमक्रमं बाधित्वा क्रमस्यैव जागरूकत्वात्। यदाह पदमज्जरीकार :- 'पाघ्राध्मेत्यादौ युगपदधि- करणवचनतया द्वन्द्वेऽपि क्मस्य प्रतीतेः स एव नियामकः' इति । विसंहित इति। विगता संहिता वर्णानां परस्परसंनिकर्षो यत्र सः विसंहितः विश्िष्ट इत्यर्थः । विरूप :- कर्णकठोर इत्यर्थः । शौर्याणि ईदृशानि इत्यत्र सवर्ण- दीर्घाभावात् विश्लेषः । न चात्र व्याकरणविरोधः, वाक्यसंधेवैवक्षिकत्वात्। तदुक्तम्-'संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥I' इति । पुनरुक्तमाह-शब्दार्थपौनरुक्त्ये इति ॥ शब्दमात्रपौनरुक्स्ये त्वलंकारत्वमर्थमात्रपौनरुक्त्ये दोषत्वं वक्ष्यति। व्याकी- र्णमिति ॥ विभक्तीनां विभक्तयन्तानां पदानामित्यर्थः । संकीर्णपदमेकं वाक्यं व्याकीर्णमित्यर्थः । सुखार्थिन इति॥ क्रोडमुद्रिकां काकतीयध्व जवराहमुद्राम्। दास्यरूपत्वात् तद्धारणस्येति भावः । तदुक्तम्-'पद्यमन्गुलिविच्छेद उरोविन्य-

Page 230

दोषप्रकरणम्। २२१

यथा- मानेन महतास्माभिर्वने वक्त्रे न तिष्ठताम्। विन्ध्यस्य जीवितं तन्नो जातमद्य तृणं कृतम् ।। अत्र महता मानेन अस्माभिर्यत्तणं वक्त्रे न कृतं तदद् विन्ध्यस्य वने तिष्ठतां नो जीवितं जातमिति वाक्यद्वयपदानामन्योन्यसंकीर्णता। अथापूर्णम्। अपूर्ण तद्भवेद्यत्र न संपूर्ण: क्रियान्वयः । यथा- शैलेष्वस्माकमावासो वन्यैः सोच्छवसिता वयम्। मृगैर्बन्धुमतश्चास्मान पश्यन धाता प्रमोदताम्।। अत्र शैलवासान् वन्यवृत्तीन् मृगबान्धवान् पश्यन्निति विवक्षित- संबन्धो न संपूर्णः । अथ वाक्यगर्मितम्। तद्वाक्यगर्मितं यस्य मध्ये वाक्यान्तरं भवेत्। यथा-ज्ञात्वाप्यन्ध्रपुरीन्द्रस्य क्रोधाग्निमतिदुःसहम्। यद्वा न लह्गथते दैवं तस्मिन्निपतिता वयम्॥ अत्रातिदुःसहं क्रोधामिं ज्ञात्वापि तस्मिन्निपतिता वयमिति वाक्यमध्ये यद्वा न लङ्चते दैवमिति वाक्यान्तरमनुप्रविष्टमिति वाक्यगर्भितत्वम्। अथ भिन्नलिङ्गवचने। यत्रोपमा भवेद्धिन्नवचना भिन्नलिङ्गका । स्तमक्षरम्। तन्नामकरणं चेति दास्यमेतच्चतुष्टयम् ॥' इति। मानेनेति ॥ अत्र वाक्यद्वयपदानां मिथः संकीर्णत्वाद्वाक्यसंकीर्णमित्याह-अत्रेति ॥ शैले- ष्विति॥ वन्यैः कन्दमूलफलादिमिः। सोच्छवसिताः सप्राणाः। अत्र बन्धुम- तश्चेति चशब्देनास्मदर्थविशेषणतया शैलवासवन्यवृत्ती समुच्चीयेते। तत्र दर्शन- क्रियाया अस्मदर्थद्वारा बन्धुमत इत्यनेनैव संबन्धो न शैलवासवन्यवृत्तिभ्यामिति क्रियान्वयापरिपूरणादपूर्णमित्याशयेनाह-अत्रेति। तदिति॥ वाक्येन वा क्यान्तरेण गर्मित संजातगर्भ वाक्यं वाक्यगर्भितमित्यर्थः । उदाहरणं स्पष्टम्। अन्न वाक्यार्थस्यापि वाक्यान्तरगर्भितत्वेनोभयदोषत्वसंभवेऽपि वाक्यार्थप्रती- तावन्तरपत्वेन प्राधान्याद्वाक्यदोषप्रायपाठ इत्यनुसंघेयम्। एवमन्यत्रापि यथा- संभवमूह्यम्। मिन्नलित्मित्रवचनयोर्लक्षणोदाहरणे दर्शयति-यत्रेत्यादिना॥

Page 231

२२ प्रतापरुद्रीये रत्नापणसहिते

तद्धिन्नवचनं भिन्नलिङ्गं चाहुर्मनीषिणः । द्वयोरुदाहरणं यथा- समुद्रा इव गम्भीरं मनो यादवभूसुजः । गिरिणेवान्ध्रनृपतिध्वजिन्या कलुषीकृतम् ॥ अत्र समुद्रा इव गम्भीरमिति भिन्नवचनम्। गिरिणेव ध्वजिन्ये- ति भिन्नलिङ्गम्। अथाधिकन्यूनोपमे। यत्रोपमानमधिकं न्यूनं वा स्याद्विशेषणैः । तत्राधिकोपमं पूर्व न्यूनोपममतः परम्॥ द्वयोः यथाक्र्कममुदाहरणम् । क्षामक्षाममुखाः कान्ताः कानने मालवेशितुः । ग्रीष्मे नद्य इव म्लानपझ्मोत्पलबिसाविलाः । अत्र क्षामक्षाममुखानां कान्तानामुपमानभूतासु नदीषु म्लान- पद्मत्वमात्रं वक्तव्यम्। म्लानोत्पलबिसाविला इत्यधिकम । न्यूनोपमं यथा- हाराङ्गरागसुभगा नगरेषु यथा वयम् । तथैव निर्झराकीर्णा विभान्ति धरणीभृतः ॥ अत्र हारस्थाने निर्झरा उक्ताः । अङ्गरागस्थाने किमपि नोक्त- मिति न्यूनोपमत्वम्। अथ भग्रच्छन्दोयतिभ्रष्टे। छन्दोभग्रं वचो यत्र तद्भग्रच्छन्द उच्यते। यत्र स्थाने यतिभ्रंशस्तद्यतिभ्रष्टमुच्यते। समुद्रा इव गम्भीरं मन इत्यत्रोपमानोपमेययोर्भिन्नलिन्त्वेऽपि मुखं चन्द्र इवेति- वत् सहृदयानामुद्वेगाभावात् मिन्नवचनस्यैवेदमुदाहरणम्। अत एवोक्तं दण्ड्या- चार्येण-'न मिननलित्वचने न च न्यूनाधिके तथा। उपमादूषणायालं यत्रो- द्वेगो न धीमताम् ।I' इति। तदेतन्मनसि निधायाह-अत्र समुद्रा इव गम्भीरमिति भिन्नवचनमिति। यत्रेति॥ अत्रोपमाशब्दः करणव्युत्प- त्योपमानवाची। तेनाधिकविशेषणोपमानमधिकोपमं न्यूनविशेषणोपमानं न्यूनो- पमम्। तेन साधारणधर्माधिक्येऽधिकोपमं तन्न्यूनत्वे न्यूनोपममिति फलितम्। उभयोदाहरणं सुगमम्। छन्दोभग्नमिति। भ्मं छन्दो वृत्तं यत्र तच्छन्दोभ- पम्। यतिः विच्छेद इति च्छान्दसाः। भ्रष्टा यतिर्यत्र तद्यति्रष्टम्। उभयत्र 'वाहिता

Page 232

दोषप्रकरणम्। २२३

यथा- विन्ध्यारण्यकृतकुटुम्बरक्षणस्य किं भद्रं भवति जनस्य मादशस्य ॥ अत्र विन्ध्यारण्येति तृतीयवर्णे यतिभङ्गः । पादान्तवर्णस्य गुरु- त्वाभावाच्छन्दोभङ्गः । अथाशरीरम् । क्रियापदेन रहितमशरीरं प्रकीर्त्यते। यथा-हन्त निष्करुणो धाता क्रीडतो मणिकुट्टिमे। कानने कण्टकाकीर्णे स्थितान् पाण्ड्यशिशूनिमान्। अत्र क्रियापदं न विहितम्। एतदेवानन्वयाख्यं दूषणम् । अथारातिकम्। रसाननुगुणा रीतिर्यत्रारीति तदुच्यते। यथा-अखर्वगर्वदुर्वारदोरर्गलनिरर्गलाः। हा बन्धुवर्गाः सर्वेऽपि कृतान्तातिथयः कृताः ॥ अन्न करुणेऽनुचितो वर्णाडम्बरः । अथ विसर्गलुप्तम्। ओत्वं लोपो विसर्गस्यासकृल्लप्तविसर्गकम्। यत्र विसर्गो बहुधौत्वं लोपं वा प्राप्नोति तद्विसर्गलुप्तम्। व्न्यादिषु' इति परनिपातः । विन्ध्यारण्येति ॥तृतीयवर्णे यतिभङ्ग इति॥ प्रहर्षिणीवृत्ते तृतीयदशमवर्णयोर्विच्छेदो विहितः । तदुक्तं वृत्तरल्ाकरे-'म्रौ जौ गस्त्रिदशयति: प्रहर्षिणीयम्' इति। तत्र तृतीयवर्णे तदभावाद्यतित्रष्टं, पादान्त- चर्णस्य गुरुत्वाभावाच्छन्दोभज्गक्ष। ननु क्वचिदवसानेऽपि लध्वन्त्यमिति वचनेन पा- दान्त्यलघोर्विकल्पेन गुरुत्वविधानादत्रापि गुरुत्वाह्गीकारे न च्छन्दोभङ् इति चेत् सत्यम्। यत्रेन्द्रवज्रोपेन्द्रवज्रादौ पादान्तवर्णस्य लाक्षणिकगुरुत्वैऽपि श्राव्यत्व- भज्ञाभावस्तत्र मा भूच्छन्दोभङ्गः । प्रहर्षिणीवैतालीयवसन्ततिलकादौ तु वैपरी- त्यादस्त्येव दोष इति प्राचीनाः । क्रियापदेनेति ॥ हन्तेत्यनुकम्पायाम् । पाण्ड्यशिशनिति दर्शनक्रियापेक्षया कर्मणि द्वितीया। अत्र दर्शनक्रियानुण- दानात् 'आख्यातं साव्ययकारकविशेषणं वाक्यम्' इति वाक्यलक्षणाभावेन वाक्य- त्वस्यैवाभावादशरीरं नाम दोष इत्याशयेनाह-अन्नेति ॥ क्रियापदराहित्येना- न्वयाभावाच्चानन्वय इत्यस्यैव नामान्तरं मतान्तरेणेत्याह-पतदेवेति। अरीतिकमिति। विरुद्धरीतिकमित्यर्थः । अखर्वेति॥ अत्र वर्णपारुष्यदीर्घ- समासादिनिबन्धनाया गौडरीते: करुणानुचिताया निबन्धनादरीतिकं नाम दोष इत्याशयेनाह-अत्रेति। विसर्गलुप्तमिति॥ लुप्तविसर्गमित्यर्थः । ओत्व-

Page 233

२२४ प्रतापरुद्रीये रत्नापणसहिते

यथा- व्यर्थो मनोरथो यातो जातो वासो ध्रुवो मरौ। म्लाना दीना हता जीर्णा वनान्तेष्वीद्ृशा वयम्॥ अथास्थानसमासम् । अपदस्थसमासं तत् समासो यत्र नोचितः। यथा- कुतो वैमुख्यमस्मासु ब्रह्मणः परुषात्मनः ।

अत्र वेधसे क्रुध्यतां नृपाणामुक्तौ न समासः। किं तु कविवचने समास इत्यपदस्थसमासः । अथ वाच्यवर्जितम्। नोक्तं स्याद्यत्र वक्तव्यं तदाहुर्वाच्यवर्जितम्। यथा- दुर्दशां प्रतिपन्नानामस्माकं जीवितं मतम् ।। अत्र दुर्दशां प्रतिपन्नानामपीत्यपिशब्दो वक्तव्यो नोक्त। अथ समाप्तपुनरात्तकं पतत्प्रकर्ष च। समाप्य पुनरादाने समाप्तपुनरात्तकम्। पतत्प्रकर्ष तत्प्राहुः प्रकर्षो यत्र विश्लथः ॥ द्वयोरुदाहरणं यथा- मिति ॥ म्लाना इत्यादौ परम्परया विसर्जनीयस्थानिकस्य यकारस्य 'हलि सर्वेषाम्' इति लोपविधानात् लुप्तविसर्गत्वम्। व्य्थों मनोरथ इत्यादौ यद्यपि विसर्जनीयस्य सत्वादिसंधिकार्यवशात् गुणे सत्योत्वमेव न लोपः । तथापि विसर्गादर्शनाल्लप्तविसर्गव्यवहार इति द्रष्टव्यम्। यदाहुराचार्या :- 'अदर्शनं लोप:' इति। अपदस्थसमासमिति॥ अस्थानस्थसमासमित्यर्थः। कुत इति॥ परुषात्मनः कठिनहृदयस्य। वैधसे कुध्यतामिति 'क्रुधद्रुह-' इत्यादिना संप्रदानत्वाष्चतुर्थी। समास इति॥ क्रोधव्यज्नक इति शेषः । किंत्विति ॥ कवेः समासव्यञ्ञयस्य क्रोधस्याभावादिति भावः। दुर्दशामिति॥ अत्र जी- वितस्य हेयत्वं विवक्षितम्। तच् दुर्दशां प्रतिपन्नानामपीत्यपिशब्दप्रयोग एव लभ्यते, नान्यथा। अतस्तदभावाद्वाच्यवर्जिताख्योऽयं दोष इत्याह-अन्रेति। समाप्येति॥ समाप्तस्य वाक्यस्य विशेषणद्वारा पुनरुपादाने समाप्तपुनरात्तम्।

Page 234

दोषप्रकरणम्। २२५

धावन्मृगेषु संभ्राम्यत्करिषूद्यत्तरक्षुषु। विन्ध्यारण्येषु तिष्ठामः क्षुभ्यद्धल्लूकपङ्किषु॥ अत्र विन्ध्यारण्येषु तिष्ठामः इति समाप्य क्षुभ्यद्धल्लूकपक्किष्विति पुनरादानात् समाप्तपुनरात्तकम् । अथ भ्राम्यत्करिषूद्यत्तरक्षुषु धावन्मृगेष्विति वक्तव्ये न तथोक्तमिति पतत्प्रकर्षता। अथ संबन्धवर्जितम्। संबन्धवर्जितं तत् स्याद्यत्रेष्टेनान्वयो हतः। यथा- भद्रासनानि दृषदः छत्राणि च महीरुहः। दुर्दशाराज्यमूर्धाभिषिक्ताः पुनरहो वयम् ॥ अत्र राज्ये भद्रासनानि दषद इत्यादिसंबन्धो नोक्तः । अथाधिकपदम्। यत्राधिकपदोक्ति: स्यात् तत्राधिकपदं मतम् । यथा- विमुक्ता वल्लभैरेता वनान्ते घूर्जर्त्रियः । सुधांशुमण्डलाकाररूपक्रमविपाण्डुराः । अत्र सुधांशुपाण्डुरा इत्येतावता परिपूर्णे मण्डलाकाररूपक्रम इत्यधिकम् । अथ भग्नप्रक्रमम्। प्रक्रान्तनियमत्यागे भग्नक्रममिहोच्यते। यथा-

तदत्र योजयति-अत्रेति॥ पतत्प्रकर्षमपि योजयति-अथेति॥ तरक्षवो मृगादनाः । तदपेक्षया करिणां प्रकृष्टत्वात् पूर्वमुपादानं भृगाणां पुनरपकृ- ष्टत्वात् पश्चादेवोचितं तथापि मृगाणामादावुपादाने प्रकर्षभ्रंशात् पतत्प्रकर्षमिति भावः । संबन्धेति॥ संबन्धेनेष्टयोगेन वर्जितं संबन्धवर्जितम्। एतदेव केचि- दभवन्मतयोगमाहुः। भद्रासनानीति॥ अत्र दुर्दशाराज्यशब्दः समासे गुणी- भूत इति न तदर्थो भद्रासनादिभिः संबध्यत इत्याह-अत्र राज्य इति॥ विमुक्ता इति। अन्राधिकमंशं विविनकि-अत्रेति ॥ 'व्याधैः सहोषितं विन्ध्ये हन्त वल्कलधारिमिः' इत्यत्रास्माभिरिति पदस्य न्यूनत्वान्न्यूनपदं नाम

Page 235

२२६ प्रतापरुद्रीये रक्नापणसहिते

गुहा गृहाणि शवरा बान्धवा विन्ध्यभू: पुरी। सरितो दीर्घिका: कष्टमाक्रीडाः काननानि नः ॥ अत्र बहुवचनतया प्रथमं प्रक्रम्य विन्ध्यभू: पुरीत्येकवचनोक्त: क्रमभ्रष्टम । अथार्थदोपाः। अपार्थ व्यर्थमेकार्थ ससंशयमपक्रमम्। भिन्नं चैवातिमात्रं च परुषं विरसं तथा। हीनाधिकोपमे स्यातामसदृक्षोपमं तथा। अप्रसिद्धोपमं हेतुशून्यं च निरलंकृति॥ अश्लीलं च विरुद्धं च तथा सहचरच्युतम्। एवमष्टादश प्रोक्ता दोषा अर्थसमाश्रयाः॥ एषां स्वरूपमुदाहरणं च। समुदायार्थशून्यं यदपार्थ तत् प्रकीर्त्यते। यथा-कुतः शुष्यदपा नद्यः का वार्ता चोलमण्डले। फणाः सहस्त्रं शेषस्य भारः कति कुलाचलाः ॥ अत्र न कश्चिद्वाक्यार्थः प्रतीयते। अथ व्यर्थम्। यत् प्रयोजनशून्यं स्यात्तद् व्यर्थ परिकीर्त्यते। यथा-निर्मलं कुलमुद्वेलं शौर्य वः प्रथितं यशः । किमित्यन्ध्रपतेः पादपीठं पाण्डयैर्न सेव्यते। अत्र निर्मलं कुलमित्यादिप्रशंसा सेवा कर्तव्येत्युपदेशे नोपयुज्यते। अथैकार्थम। उक्ताभिन्नार्थकं यत् स्यादेकार्थ तन्निगद्यते। दोषो द्रष्टव्यः । बहुवचनप्रक्रमभन्मुदाहरति-गुहा इति ॥ अथार्थदोषाणा- सुद्देशपूर्वक लक्षणोदाहरणे दर्शयति-अथेत्यादिना॥ समुदायार्थशून्यं वाक्या- र्थशून्यम्। कुत इति॥ शुष्यदपाः शुष्यजलाः । 'ऋक्पूर-' इत्यादिना समा- सान्तोऽप्रत्ययः । अत्र दशदाडिमादिवाक्यवदर्थशून्यत्वादपार्थत्वम्। निर्मल- मिति॥ अत्र राजसेवाविधावैश्वर्यादिलोभवत् कुलादिप्रशंसाया निष्प्रयोजनत्वादू व्यर्थमेतदित्याह-अत्रेति ॥ उक्ताभिन्नार्थकमिति॥ पुनरुकार्यः । करि-

Page 236

दोषप्रकरणम् २२७

यथा- विशीण शतधा चेतो मूर्च्छितान् वीक्ष्य वालकान्। शिशून् निश्चेतनान् दृष्टा खण्डितं शतशो मनः ॥ अत्र पूर्वोत्तरार्धयोरभिन्नार्थत्वम्। अथ ससंशयम्। वाक्यार्थसंशयो यत्र तत् ससशयमिष्यते। यथा- करिकुम्भौ स्तनावद्य जयतां क्षामतां गतौ। लता वपुःश्रियः स्त्रीणां हसन्तु म्लानतां गताः । अत्र करिकुम्भयो: स्तनयोश्च लतानां वपुःश्रियां च कर्तृकर्मत्व- संशयः । अथापक्रमम् । यत्र पूर्वापरीभावविहतिस्तदपक्रमम्। यथा- हन्त व्यादाय वक्त्राणि निद्रान्त्यन्तर्वर्ण स्त्रियः । तृणैस्तत्पतितैरस्मान् शिक्षयन्त्यस्तथाक्रमम्। अत्र निद्रोत्तरकालीनमुखव्यादानस्य पूर्वकालत्वमुक्तमित्यपक्र- मत्वम्। अथ भिन्नम्। संबन्धवर्जितं यत् स्यात् तद्भिन्नं परिकीर्त्यते। यथा- नूनं फालेषु लाटानां न घात्रा लिखिता लिपिः । यदस्माकं कुटुम्बानि विषीदन्ति मरुस्थले ।। कुम्भाविति ॥ अनर्धराघवे 'विजयेतां रामलक्ष्मणौ कुम्भकर्णमेघनादौ' इत्यत्र वैरिवाक्ये कर्तृकर्मसंदेहेऽपि न दोषः। नायकाभ्युदयसूचकतया तत्रैव कविसंरम्भ- विश्रान्तेः। हन्तेति विषादे। व्यादाय विवृत्य। वनेष्वन्तर्वणम्। विभक्त्यर्थेऽव्ययी- भावः । 'प्रनिरन्तर-' इत्यादिना णत्वम् । तत्पतितैर्वक्त्रपतितैः । शिक्ष- यन्त्यस्तथाक्रममिति ॥ तृर्ण अ्रसित्वा भवन्तोऽपि जीवन्त्वित्यस्मानुपदि- शन्त्य इवेत्यर्थः। अन्र निद्रावक्त्रव्य।दानयोलोंके प्रसिद्धं पौर्वापर्यं विहतमितीदम- पक्रममित्याह-अत्रेति। पूर्वकालत्वमुक्तमिति ॥ 'समानकर्तृकयोः पूर्वकाले' इति विहितेन क्त्वाप्रत्ययेनेति शेषः। ननु वक्त्रं व्यादाय स्वपितीत्यत्र व्यादानस्य पूर्वकालत्वाभावात् क्त्वाप्रत्ययानुपपत्तिरिति चोदयित्वा अनन्तरभाविस्वप्नापे-

Page 237

२२८ प्रतापरुद्रीये रत्नापणसहिते

अत्र मरुस्थलनिवासविषादस्य फालस्थलगतलिप्यभावस्य च न संबन्धः । अथातिमात्रम् । यत् सर्वलोकातीतं तदतिमात्रं प्रकीर्त्यंते। यथा- मा भूदेकार्णवं विश्वमिति संकोचिताश्रुभिः । अरण्ये लाटनारीभिरसंख्या निम्नगाः कृताः ॥ अत्राश्रुभिर्जगदेकार्णवमित्यत्युक्तिः । अथ परुषम् । अतिकूरार्थसहितं परुषं परिकीर्त्यते। यथा- दावानलेन्धनं सदयः क्रियन्तामर्भका इमे। अत्र फलानि याचमानान् शिशुनुद्दिश्यातिपरुषोक्तिः । अथ विरसम् । अप्रस्तुतरसं यत् तद्विरसं परिकीर्त्यते। यथा- चन्द्राननाः कटाक्षैनः पश्यतामृतवर्षिभिः ॥ शोचित्वालमिति क्विष्टाः किरातैश्चोलसुभ्रुवः । अत्र पुरुषवियोगखिन्नानां स्त्रीणां वनचरैः संभोगप्रार्थनं विरसम्। क्षया पूर्वकालत्वसंभवात् नानुपपत्तिरिति परिहृतं महाभाष्ये। तथैव व्याख्यातं कैयटेन-'यद्यपि खप्रक्षणानां व्यादानात् पूर्वकालता तथापि, तव्यादानानन्तर- भाविखप्रक्रियापेक्ष व्यादानस्य पूर्वकालत्वमस्ति' इति। अतः कथमत्र पौर्वापर्य- विहतिरिति चेत् सत्यम्। व्यादानात् पूर्वकालीनख्वप्रक्रियापेक्षया पौर्वापर्यविधा- तादस्त्येवापक्रमदोषोऽन्रेति हृदयम्। मिन्नलक्षणं संबन्धवर्जनं दर्शयति-अत्र मरुस्थलेति।। प्रतीयमानस्तु हेतुहेतुमद्धावो न वास्तव इति भावः । मा भू- दिति॥ एकार्णवमियाऽश्रुसंकोचेऽपि असंख्या नद्यः प्रवृत्ता इत्यतिमात्ालौकि- कार्थप्रतिपादनादत्युक्तिरेवायं दोषो नातिशयोक्तिरलंकार इति भावः । परुषमुदा- हरति-दावानलेति॥ इमे फलानि याचमाना इत्यर्थः । चन्द्रानना इति। शोचित्वालं न शोचितव्यमित्यर्थः । 'अलंखल्वो :- ' इत्यादिना क्त्वाप्रत्ययः । इत्युक्त्वा क्रिष्टाः केशिताः । क्विश्नातेः 'ऊदितो वा' इति इटो विकल्पात् 'यस्य विभाषा' इति निषेधः । क्विश्यतेः 'क्विशः क्त्वानिष्ठयोः' इति विकल्पात् इडभावः। संभोगप्रार्थनं विरसमिति॥ अनौचित्यप्रवृत्तत्वादिति भावः ।

Page 238

दोषप्रकरणम् । २२९

अथ हीनोपमम्। हीनं यत्रोपमानं स्यात् तद्ि हीनोपमं मतम्। यधा- शुनकैरिव सारक्गा भवद्गिर्निहता द्विषः । क गतं पौरुषं तद्वः काननैकनिवासिनाम् ॥ अत्र शुनकैरिव भवद्धिरिति हीनोपमम् । अथाधिकोपमम्। यत्रोपमानमधिकं तद् भवेदधिकोपमम् । यथा- अमी पारेसरस्तीरं बका निश्चलमूर्तयः । महर्षय इवास्माभिरद्य सोपद्रवाः कृताः ॥ अत्र बका महर्षय इवेत्यधिकोपमम्। अथासदृक्षोपमम् । यदतुल्योपमानं तद् भवेदसदृशोपमम्। यथा- एष विन्ध्याचलः सान्द्रकुञ्जोच्चलितनिर्झरः। फालेक्षणस्फुरद्वह्निशिखाटोप इवेश्वरः ।। अत्र कुञ्जोच्चलितनिर्झरस्य विन्ध्याचलस्य फालेक्षणस्फुरद्वह्वेरीश्व- रस्व च मिथो न सादृश्यम्। अथाप्रसिद्धोपमम् । तदुककं ध्वन्याचायै :- 'अनौचित्यादृते नान्यद्रसभज्नस्य कारणम्' इति । हीनमिति॥ जात्या प्रमाणेन वेति शेषः । एवमधिकमित्यत्रापि द्रष्टव्यम्। अत एव पूर्वोक्ताभ्यां न्यूनाधिकोपमाभ्यामनयोर्भेदः। जातिहीनमुदाहरति- शुनकैरिति॥ प्रमाणहीनोदाहरणं तु स्फुलिन्न इव भानुमानित्यादौ द्रष्टव्यम्। जात्यधिकमुदाहरति-अमी इति॥ पारे सरस्तीरस्य पारेसरस्तीरम् । 'पारे मध्ये षष्ठया वा' इत्यव्ययीभावः । प्रमाणाधिकोदाहरणं तु पातालमिव नामिस्ते इत्यादौ द्रष्टव्यम्। अत्र सर्वत्र साधर्म्येण चमत्काराय विवक्षितार्थस्य शुनका- दिभि: प्रतिपत्तिपरिक्षोभणैन कदर्थीकरणादनौचित्येन दोषत्वमिति भावः । अत एवोंक काव्यप्रकाशे-'उपमानस्य जातिप्रमाणकृतं न्यूनत्वमधिकता वा ताद- श्यनुचितार्थत्वं दोषः' इति। यदिति॥ न ह्वत्र विन्ध्यविरूपाक्षयोस्तवर्मयोश्ष वहिनिशरयोः सादृश्यप्रसिद्धिरस्ति। न च धर्मिणोर्धर्मद्वारा सादृश्यं धर्मयोश् धर्निद्वारेति वाच्यम्। इतरेतराश्रयत्वप्रसज्ञात्। यथाह-'बभ्नामि काव्यशशिनं विनतार्थरश्मिम्' इत्यत्र वामन :- 'तदेवमित रेतराश्रयदोषो दुरुत्तरः' प्र 20

Page 239

२३० प्रतापरुद्रीये रक्नापणसहिते

अप्रसिद्धोपमानं यदप्रसिद्धोपमं मतम्। यथा- बाष्पाम्बुक्विन्ननेत्राणि मुखान्यङ्ग मृगीदृशाम्। हिमदूषितपत्राणि कुमुदानीव निर्मुदाम्। अत्र मुखानां कुमुदान्युपमानतया कविलोके न प्रसिद्धानि । अथ हेतुशून्यम्। हेतोर्विनार्थकथनं हेतुशून्यं प्रचक्षते। यथा- मुधानुधावनं जातं मार्गेडस्मिन् मौक्तिकाक्किते। अन्वेष्ठुमन्यतो यामि पदवीयं न सुभ्रुवः ॥ अत्र सुभ्रुवः पदवीयं न भवतीति हेतुर्नोंक्तः । अथ निरलंकृति । अलंकारेण रहितं निरलंकारमुच्यते। यथा- आघ्राय सुरभेर्योनिमुन्मुखैर्दीर्घमेहनैः।

अत्र न कश्चिदलंकारः । श्राध्यविशेषणाभावात् न स्वभावोक्तिः । अथाश्लीलम्। अश्लीलार्थस्य कथनमश्लीलं परिकीर्त्यते। इति। तदेतत् सर्व मनसि निधायाह-अत्र कुञ्ज इति। द्देतोर्विनेति॥ हेतुना विनेत्यर्थः । 'पृथग्विना' इत्यादिना पञ्चमी। मौक्तिकाङ्कित इति ॥ कण्ठीरवाकृष्टकरिकुम्भादिगलि तमौक्तिकाङ्कित इत्यर्थः । मुधानुधावन मिति ॥ प्रियालंकारमौक्तिकाङित इति भ्रान्त्येति भावः । पदवीयं न भवतीति॥ अत्रेति शेषः । हेतुर्नोक्त इति ॥ 'अभ्युन्रता पुरस्तादवगाढा जघनगौरवात् पश्चात्' इत्याद्युक्तलक्षणपदपङ्कयभावादिरूपो हेतुर्नोक्त इत्यर्थः । आध्रायेति ॥ महोक्षैः पुश्वैः। 'अचतुर' इत्यादिना निपातनात् साधुः। विचिछ्त्तिविशेषा- भावादिति भावः। वर्ण्यमानवस्तुखभावस्तु ग्राम्यधर्मतया सहृदयश्लाघानधिरो- हा्र स्वभावोक्तिवीजम्। तदुक्त चक्रवर्तिना-'खभावोक्तिर्वुधोन्नेय वस्तुखा भाव्यवर्णनम्' इति। तदेतदाह-व्ाध्यविशेषणाभावान्न सवभावो-

Page 240

दोषप्रकरणम्। २३१

अस्यापि पूर्वमेवोदाहरणम् । अथ विरुद्धम् । विरुद्धूं देशकालादिविरुद्धूं बहुधोच्यते। यथा- दिश्युत्तरस्यां नेदीयानुद्वेलो लवणार्णवः । मरुदेशेऽपि गङ्गा नः पिपासां शामयिष्यति ॥ अत्र दिश्युत्तरस्यां लवणार्णव इति दिग्विरोधः । मरौ गङ्गेति देशविरोधः । अरण्यमहिषोद ग्रविषाणोदर जन्मनाम्। महत्यर्घेऽपि मुक्तानां स्त्रियो मुक्ताविभूषणाः । अत्र महिषविषाणभ्यो मुक्तानां जन्मेति लोकविरोधः । एवं विरुद्धान्तरमप्युदाहार्यम्। अथ सहचरभ्रष्टम्। मतं सहचरभ्रष्टमतुल्यानां निबन्धने। यथा- शान्त्या श्रुतं हिया नारी मन्मथेन रतोत्सवः । श्रुतेन धिषणा वन्यवृत्त्या जीवन्ति शालवाः ॥ स्यत्यर्थः । तत्र ्रीडबुद्धिजनकस्य अश्लीलस्य पूर्वमेवोदाहरणमित्याह-अस्या- पीति ॥ अत्र पर्यायैरप्यस्यार्थस्य सुवचत्वात् पदविनिमयासहिष्णोः पददोषा- दश्लीलादमुष्य मेदः । इतरमेदद्वयस्योदाहरणं ख्वयमूहनीयम्। विरुद्धमिति ॥ देशकालादीत्यादिशब्देन विद्याखभावादयो ग्रह्यन्ते। नेदीयानन्तिकतमः । अन्यथोत्तरदेशेऽपि लक्षयोजनव्यवहिते लवणोदस्य संभवेन विरोधाभावादिति भाव: । शामयिष्यतीति ॥ चुरादिणिच्युपधावृद्धिः। शमयिष्यतीति पाठे चन्द्रमते मितां हखः । मरुदेश इति देशविरोधः । अरण्येति ॥ अर्घे मूल्ये महत्यपि मुक्तामयानि विभूषणानि यासां ता मुक्ताविभूषणाः । गुजाविभूषणा इति पाठान्तरम्। अत्र 'करीक्षुजीमूत वराहशङ्गमत्स्याहि शुत्तयुङ्धववेणुजानि। मुक्ताफलानि प्रथितानि लोके तेषां तु शुत्तयुद्धवमेव भूरि ।' इति वचनात् गजादीनामेव मुक्ताकरत्वं प्रसिद्धं, नान्येषाम्। तस्मान्महिषविषाणानां मुक्ताकर- त्वं लोकविरुद्धमिल्याह-अत्रेति॥ विरुद्धान्तरं विद्याविरुद्धादिकम्। यथा- 'सदा सनात्वा निशीथिन्यां सकलं वासरं बुधः। नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च II' अन्र रात्रौ स्नानं धर्मशास्त्रविरुद्धम्। एवमन्यदप्युदाहार्यम्। शान्त्येति । श्रुतघिषणाभ्यां शान्तिश्रुतालंकृतत्वेन सर्वेषामत्यन्तोपादेयतया

Page 241

२३२ प्रतापरुद्रीये रत्नापणसहिते

अत्र शुतधिषणाभ्यां नारीरतोत्सवयोरपकृष्ठत्वात् सहचरभ्रष्टम्। एवं दोषान्तराणि यथासंभवमूद्यानि। रसभावादीनां स्वशब्दवाच्यता दुष्टैव ।। इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेSलंकारशास्त्रे दोषप्रकरणं समाप्तमू।

सर्वोत्कृष्टाभ्यामित्यर्थः। नारीरतोत्सवयोर्लज्ामन्मथसमवेतयोः कतिपयोपादेग्त- यापकृष्टत्वादित्यर्थः । वन्यवृत्त्या जीवन्ति शात्रवा इत्येतन्तु सर्वापकृष्ठत्वात् सर्वेभ्यः सहचरेभ्यो भ्रष्टमिति द्रष्टव्यम्। रसेति॥ भावाः संचारिभावाः । आदिग्रहणात् स्थायिभावा गृह्यन्ते। तेषां खवशब्दवाच्यता रसश्ग्गारादिसामा- न्यशब्दामिधेयता। दुष्टैवेति ॥ रसप्रतीते विभावादिप्रयोगान्वयव्यतिरेकानु- विधानाद्रसादिशब्दप्रयोगेऽपि तदप्रतीतेश्र नित्यव्यन्ञथस्य रसादेर्वाच्यत्वं दुष्टमे- वेति भाव:। तदुक्तं काव्यप्रकाशे रसदोषप्रकरणे-'व्यमिचारिरसस्थायिभा- वानां शब्दवाच्यता' इति। अत्रावाछ्ानसगोचरस्यापि ब्रह्मानन्दस्योपाधिव- शात् यथा तदादिपदवाच्यत्वं न दोषः । एवं ब्रह्मानन्दसब्रह्मचारिणो रसस्यापि विभावाद्यनुसंधानानन्तरभाविनश्चर्व्यमाणस्य वाच्यत्वानुपपत्तावपि सहकारिवै- कल्येऽपि परोक्षतया प्रतीयमानस्य रसस्य शरृज्गारादिशब्दवाच्यत्वे न कोऽपि दोष इति द्रष्टव्यम्।।

सूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणे: पेद्दयार्यस्यानुजेन कुमारखामिसोमपीथिना विरचिते प्रतापरुद्रीयव्याख्याने रत्नापणाख्याने दोषनिरूपणं नाम पथ्चमं प्रकरणम्।

Page 242

। अथ गुणप्रकरणम्॥

अथ गुणा निरूप्यन्ते। श्लेषः प्रसादः समता माधुर्य सुकुमारता। अर्थव्यक्तिरुदारत्वं तथा कान्तिरुदात्तता ।। ओज: सुशब्दता प्रेयानौर्जित्यमथ विस्तरः। समाधि: सौक्ष्म्यगाम्भीर्ये संक्षेपो भाविकं तथा ॥ संमितत्वं तथा प्रौढी रीतिरुक्तिर्गतिस्तथा। चतुर्विशतिरेते स्युर्गुणाः काव्यप्रकाशकाः॥ एपां मध्ये केषांचिद् दोषपरिहारकत्वेन गुणत्वम्। केषांचित् स्वत एवोत्कर्षहेतुत्वाद् गुणत्वम्। तत्र ये स्वत एव चारुत्वातिशय- हेतवस्ते परमुत्कृष्टाः । दुष्टत्वपरिहारहेतूनां गुणत्वं न सर्वसंमतम्। ये तु दोपाभावतया गुणत्वमिच्छन्ति तेषामेव सौकुमार्यादयो गुण- त्वेन संमताः । श्रुतिकटुरूपदोषनिराकरणाय सौकुमायं संमतम्। आ्राम्यदोषनिराकरणाय कान्तिः स्वीकृता। अपुष्टार्थनिराकरणायार्थ- व्यक्तिर्मता। न्यूनाधिक पदनिराकरणाय संमितत्वं मतम्। अनुचि- तार्थनिराकरणार्थमुदात्तता स्वीकृता। विसंधिनिराकरणाय और्जित्यं मतम्। पतत्प्रकर्षनिराकरणाय रीतिरिष्टा। क्विष्टपरिहाराय प्रसादो मतः। अश्कीलपरिहारार्थमुक्तिः स्वीकृता। च्युतसंस्कारपरिहारार्थ सौशव्दयमिष्टम्। प्रक्रमभङ्गनिराकरणाय समता मता। परुषदोष- निवृत्त्यर्थ प्रेयान् मतः। एवं यथासंभवं केषांचिद्दोषपरिहारकत्वेन गुणत्वम्। एषां गुणानां स्वरूपमुदाहरणं च। इत्थं यथासंभरव दोषान् निरूप्य तत्प्रतिभटभूतगुणनिरूपणं प्रतिजा- नीते-अथेति ॥ तत्र गुणास्रय इति भामहादयः । दशेति वामनादयः । चतुविशतिरिति भोजराजः । तत्र भोजराजमतेनोद्देशमाह-श्लेष इत्यादि ॥ एषां मध्ये केषांचिद्दोषपरिहारकत्वेन गुणत्वमिति। तथापि केषांचि- न्मते काव्योत्कर्षहेतुत्वादिति भावः । को दोषः केन गुणेन परिहियते इत्वाकाङ्कायामाह-श्रुतिकटुरूपेत्यादिना। एषां गुणानामिति॥संघट- नाश्रयत्वे सति चारुताहेतवो गुणा इति वक्ष्यमाणसामान्यलक्षणानामिति भावः ।

Page 243

२३४ प्रतापरुद्रीये रन्नापणसहिते

मिथः संश्िष्टपदता क्षेष इत्यभिधीयते। बहूनां पदानामेकपदवद्वभासमानत्वं श्िष्टत्वम्। यथा- श्रीमत्काकतिवीररुद्रमिलक्ष्मापालमौलिस्फुर-

विश्वन्नाणविनिद्रमक्षयगुणज्योत्स्नावितानावृत- व्योमागारमनल्पवैभवममुं स्तोतुं वयं नेश्महे।। अत्र पाठसमये पदानामेकवद्वभासमानत्वात् श्लेषः । अथ प्रसाद: । प्रसिद्धार्थपदत्वं यत् स प्रसादो निगद्यते। यथा- प्रतापरुद्रदेवोऽयं भाति लक्ष्मीपतिः स्वयम् । येनास्य लोचने फुल्लपुण्डरीकमनोहरे॥ अत्र झटित्यर्थसमर्पकपदत्वात् प्रसादः । अथ समता। अवैषम्येण भणनं समता सा निगद्यते। यथा- वदान्यतरुमञ्जरीसुरभयः श्रवःपारणं गुणा विद्धते सतां जगति वीररुद्रप्रभोः । सुधामधुरिमाधरीकरणचातुरीचुञ्वो

अत्र पाद्चतुष्टयेऽपि तुल्यवद्धणनात् समत्वम् । अथ माधुर्यम्। मिथ इति॥ संश्लिष्टानि मसृणानि पदानि यस्य तस्य भावस्तत्ता। निष्कर्षमाह- बहूनामिति। तदुक्तं वामनेन-'यत्रैकपद्वत् भान्ति पदानि सुबहून्यपि। अनालक्षितसन्धीनि स श्लेषः परमो गुणः ॥' इति। उदाहरति-श्रीमदिति॥ अक्षयगुणज्योत्स्नेति लौकिक चन्द्रिकाव्यतिरेकः । वितानमुह्ोचः। प्रसाद- मुदाहरति-प्रतापेति। झटित्यर्थसमर्पकपदत्वादिति॥ व्यवहितार्थ- प्रत्यायकक्किष्टविपर्ययोकिः। वदान्येति॥ वदान्यतरवः कल्पवृक्षाः, तन्मजर्य इव सुरभयो मनोहराः। श्रवःपारणं श्रोत्रसंतर्पणम्। सुधामधुरिमाधरीकरणचातुरीचुश्चवः अमृतमाधुर्यन्यक्करणचातुर्यवित्ताः। वियच्चरतरक्षिणीविहरदूर्मिमर्मस्पृशः मन्दाकि- नीकह्ोलकल्पा इत्यर्थः । पादचतुष्टयेऽ़पि तुल्यवद्भणनादिति॥ अनेन प्र-

Page 244

गुणप्रकरणम् । २३५

या पृथक्पदता वाक्ये तन्माधुर्य प्रकीर्त्यते। यथा- यशःश्रियः काकतिभूपतेर्दिशां नितम्बबिम्बेषु दुकूलरीतयः । उरोजयोमौक्तिकहारविभ्रमाः शिरस्सु जातीकुसुमस्त्रगुज्ज्वलाः ।। अत्र वाक्ये पाठसमयेSपि पृथक्पदत्वप्रतीतर्माघुर्यम्। अथ सुकुमारत्वम् । सुकुमाराक्षरप्रायं सौकुमार्य तदुच्यते। सुकुमारत्वं नाम सानुस्वारकोमलवर्णत्वम्। यथा- अमन्दानन्दनिष्यन्दसुन्दरीवदनेन्दुभिः। नगरे काकतीन्द्रस्य दिवाप्याभाति चन्द्रिका । अथार्थव्यक्तिः । यनु संपूर्णवाक्यत्वमर्थव्यक्ति वदन्ति ताम्। यथा- भाग्यं मध्यमलोकनिप्नमधुना येनास्य संरक्षिता जातः खेलति वीररुद्रनृपतिर्निःसीमशौर्योदयः । यद्वा त्रीण्यपि विष्टपानि दधते धन्यत्वमंशो हरे- यत् साक्षादवतीर्य काकतिकुले स्वैरं समुज्जुम्भते।। अत्रार्थप्रतिपादने वाक्यस्य निराकाङ्कतया परिपूर्णत्वादर्थव्यक्तिः। अथ कान्तिः । क्रमभङ्ग: परिहृतः। यशःश्रिय इति॥ दिशामित्यनेन स्त्रीप्रतीतेस्तासामधोमध्यो- ध्वंदेशे नितम्बस्तनशिरोऽव्यवसायो युज्यते। उरोजयोरिति ॥ 'सतनादीनां द्वित्वाविष्टा जातिः प्रायेण' इति वामनवचनात, द्विवचनोपपत्तिः। अत्र माधुर्ये पृथकपदत्वं दीर्घसमासाभाव इति वामनः । सुकुमारेति॥ सौकुमार्य- मपरुषत्वमित्यर्थः । अर्थव्यक्तिरिति॥ तद्वेतौ तत्वोपचारः। तदुक्तम्- 'यत्रार्थव्यक्तिहेतुत्वं सोऽर्थव्यक्तिः स्मृतो गुणः ।' इति। भाग्यमिति ॥ मध्यमलोकनिन्नं मध्यमलोकाधीनम्। यद्वा त्रिविक्रमावतारस्य काकतिविभोः किमनेन संकोचेनेत्याह-यद्वेति॥ निराकाक्कतया परिपूर्णत्वादित्यनेन क्रििया- पदराहित्यात् साकाक्कत्वेनापरिपूर्णानामशरीरादीनां दोषाणां प्रत्युदाहरणत्वं दर्शितम्। न चापुष्टार्थनिराकरणायार्थव्यक्तिरिति पूर्वोक्तविरोधः, परिपोषाभाव- लक्षणयोगेन तेषामप्यपुष्टार्थत्वात्। प्रकृतानुपयुक्तार्थत्वलक्षणापुष्टार्थस्य तु निरा-

Page 245

२३६ प्रतापरुद्रीये रन्नापणसहिते

अत्युज्ज्वलत्वं बन्धस्य काव्ये कान्तिरितीष्यते। यथा- जेतुः काकतिवीररुद्रनृपतेजैत्र प्रयाणोत्थिते क्षोणीरेणुभरे नभस्यतिभृशं भूविभ्रमं बिभ्रति। जाता मर्तयनदी विशङ्कटतटीदीर्घा वियद्दीर्धिका गाढं गूढतमा च गौतमनदी पातालगङ्गायते।। अथौदार्यम्। विकटाक्षरबन्धत्वमार्यरौदार्यमिष्यते। यथा- जग्ध्वा भूयांसि मांसान्यहमहमिकया बद्धगार्ध्यान् सपीत्या-

संबिभ्राणा: क्षपाटान् द्विपगलितवसानिर्झरान्तर्नदीष्णान् कुर्वन्त्यायोधनोर्व्यों भयमवनिभृतामन्ध्रसैन्येन सृष्टाः ।। काहृत्वेन परिपूर्णस्य प्रकृतवैपरीत्याभावान्नास्ति प्रत्युदाहरणत्वमिति द्रष्टव्यम्। अत्युज्ज्वलत्वमिति॥ यदभावे चिरन्तनचित्रच्छायेव प्रबन्धच्छाया भवति तदौज्ज्वल्यं सैव कान्तिरित्यर्थः । तदुक्तम्-'औज्ज्वल्यं कान्तिरित्याहुर्गुणं गुणविपश्चितः । पुराणचित्रस्थानीयं तेन वन्ध्यं कर्वेर्वचः ॥' इति। जेतुरिति ॥ काव्यप्रकरणे (पृ.४८) व्याख्यातम्। औदार्य नाम विकटाक्षरबन्धत्वं, तथ् नर्तनदु- द्युत्पादकपदविन्यासः । तदुक्तम्-'विकटत्वं च बन्धस्य कथयन्ति द्युदारताम्। वैचित्र्यं न प्रपद्यन्ते यया शून्याः पदक्रमाः ॥ पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुनः ॥' इति। जग्ध्वेति ॥ अन्योन्यं प्रति श्रेष्ठोऽहमित्यमिमानोऽहमहमिका। अहमिति विभक्तिप्रतिरूपकमव्ययं निपातितम्। तस्य वीप्सायां द्विरुक्ति: । संज्ञायां कन्प्रत्ययः। पृषोदरादिरिति सुभूतिचन्द्रः । गर्ध एव गार्ध्यम्। चातुर्व- पर्यादित्वादौपम्यादिवत् खार्थे व्यन्प्रत्ययः। तद्वद्वं यैस्तान् बद्धगार्ध्यान् । समाना पीतिः सपीतिः सहपानम् । 'सपीतिः स्त्री तुल्यपानम्' इत्यमरः । 'समानस्यच्छन्दसि' इत्यादिना समानशब्दस्य सभावः । छान्दसत्वेऽपि बाणादिप्रयोगमहित्रा लोकेऽपि न विरोध इत्याह दशटीकासर्वस्वकारः । 'समा- नस्यच्छन्दसि' इत्यत्र समानस्येति योगविभागसामर्थ्यात् भाषायामपि सप- क्षादिप्रयोगसिद्धिरित्याह वृत्तिकारः । पदमञ्जरीकारस्तु 'योगविभागाज्गीकारे तस्य नित्यत्वात् समानजातीयशब्दप्रयोगो न स्यात्। अस्ति च प्रयोगः । तस्मात् सपक्षादिशव्देषु सदशार्थस्य सहशब्दस्य पक्षादिमिरखपद्विग्रहे बहु-

Page 246

गुणप्रकरणम्। २३७

अथोदात्तता। श्लाध्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता। यथा- बृंहमाणगजाकीर्णा ह्ेपमाणह्याकुला। संक्रीडत्स्यन्दना क्ष्वेडभटा रुद्रविभोश्चमूः ॥ अथौजः । ओज: समासभूयस्त्वम् । यथा- उद्दामद्विरदौघदानलहरीसौरभ्यलोभभ्रमद्- भृङ्गश्रेणिनिवद्धझंकृतिकलावाचालितप्राङ्गणाः । निःसीमप्रथमानभूमविभवारम्भप्रियंभावुका मोदन्ते भुवि वीररुद्रनृपतर्विद्ठद्वह्श्रेणयः ॥ अथ सुशब्दता। सुपां तिडां च व्युत्पत्तिः सौशब्द्ं परिकीर्त्यते। यथा- आशामण्डलकूलमुद्दहकथैर भ्रङ्कपैवैभवै रक्षन् सुप्रजसः प्रजास्त्रिभुवनक्षेमङ्करप्रक्रियः । ब्रीहौ सहशब्दस्य 'वोपसर्जनस्य' इति सभावः । भाष्यवार्तिकयोक्ष योगवि- भागो नोपन्यस्तः' इत्यवोचत्। यदत्र युक्तं तढ् ग्राह्यम्। अस्ध्युत्कषणमस्थि- संघर्षः । कटत्कारोऽनुकरणशब्दः । क्षपास्टन्तीति क्षपाटाः नक्तंचराः भूतमे- तालादयः । नर्थां स्नान्तीति नदीष्णाः कुशलाः । 'सुपि' इति योगविभागात् कप्रत्ययः । 'निनदीभ्यां स्नातेः कौशले' इति षत्वम्। न्ाध्यैरिति॥शा- ध्यैरुचितैः बृंहणादीनां गजादीनामेवोचितत्वादिति भावः । वैपरीत्येऽनौचित्यमनेन परिहृतमित्यनुसंघेयम्। बृंहमाणेति॥ चानशन्तोऽयं न शानजन्तः, बृंहेः पर- स्मैपदित्वात्। क्वेडभटेति पचाद्यजन्तपाठः, न क्ष्वेडद्टेति शत्रन्तपाठः, तस्या- त्मनेपदित्वादित्यादि प्रपश्चेन व्याख्यातं नाटकप्रकरणे द्वितीयेडक्के (पृ १२०)। अनु- चितार्थपरिहारकोऽयं गुणः। उद्दामेति॥ वाचालानि कृतानि वाचालितानि शब्दा- यमानानीत्यर्थः । भूमविभवो महिमातिशयः । प्रिया भवन्तीति प्रियंभावुकाः । 'कर्तरि भुवः खिष्णुच्खुकनौ' इति खुकम्प्रत्ययः । अत्र वीररुद्रविदुषां गजा- न्तलक्ष्मीर्माहात्म्यं च प्रतिपाधते। सुपां तिङां चेति ॥ सुबन्ततिङन्तविशे-

Page 247

२३८ प्रतापरुद्रीये रत्नापण सहिते

दुष्टानां भुवि निप्रहन्तुमतुलैराढ्यंभविष्णुर्गुणै- र्भूम्रा संचरतेऽद्य काकतिकुले रुद्रावतारो हरि: ॥ अथ प्रेयः । प्रेयः प्रियतराख्यानं चाटूक्तौ यद्विधीयते। यथा- दाक्षिण्यं त्वयि दक्षता त्वयि दया त्वय्युन्नतत्वं त्वयि प्रागल्भ्यं त्वयि पौरुषं त्वयि कलासंपत्त्वयि श्रीस्त्वयि। औदार्य त्वयि धीरता त्वयि जगद्धौरेयता च त्वयि श्रीमत्काकतिनाथ पालय भुवं वैरिञ्कल्पान् शतम् ॥। अथौर्जित्यम्। और्जित्यं गाढवन्धत्वम् । यथा- क्षोणीरक्षणदक्षिणाः श्वतजगत्क्षोभा दुरीक्षक्रमाः क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः । उद्दामोद्यमनस्य रुद्रनृपतेर्दोर्दण्डयोश्चण्डयो- र्गर्जद्गुर्जरगर्वपर्वतभिदादम्भोलयः केलयः ॥ षाणामित्यर्थः । कूलमुद्हन्तीति कूलमुद्वहा: कथा यैस्तैर्दिगन्त प्रसिद्धैरित्यर्थः । 'उदि कूले रुजिवहोः' इति खशप्रत्ययः। अभ्रं कषन्तीत्यभ्रंकषाः। तैरुत्कृष्टैरि- त्यर्थः । 'सर्वकूलाभ्रकरीरेषु कषः' इति खशप्रत्ययः । वैभवैरैश्वयैः । शोभना प्रजा यासां ताः सुप्रजसः । 'नित्यमसिच् प्रजामेधयोः' इत्यसिच्प्रत्ययः। प्रजा रक्षन्निति हेतौ शतृप्रत्ययः । रक्षणेन हेतुनेत्यर्थः । अत एव त्रिभुवनक्षेमंकर- प्रक्रियो विश्वजनीनव्यापार इत्यर्थः । 'क्षेमप्रियमद्रेऽण् च' इति खशप्रत्ययः । गुणै: शौर्यादिभिः । आढ्यो भवतीत्याद्वंभविष्णुः । 'कर्तरि भुवः' इति खिष्णु- चप्रत्ययः । दुष्टानां निप्रहन्तुम्। 'जासिनिप्रहण-' इत्यादिना कर्मणिं षष्ठी। भूम्रा महिन्रा संचरते । 'समस्तृतीयायुक्तात्' इत्यात्मनेपदम् । इत्थमत्र सौ- शब्दं नाम गुणः । तस्य च्युतसंस्कारपरिहारार्थत्ववचनमयुक्तम्, अनमिहित- गुणभावेनापशब्दाभावमात्रेण तत्परिहारसंभवात्। अत्र तु सकलसचेतश्रेतश्च- मत्कारकारिविशिष्टपदप्रयोगेण चारुताहेतुत्वसंभवादस्त्येव खतन्त्रं गुणत्वमिति। प्रेय इति॥ चाटूक्तौ प्रियोक्तौ। दाक्षिण्यं सरलत्वम्। दक्षता क्षिप्रकारिता । धौरेयता धुरन्धरत्वम्। 'धुरो यढ्ठकौ' इति ढकप्रत्ययः। निष्ठरोक्तिलक्षणपरुष- प्रातिपक्ष्यं प्रेयस इत्युक्तम्। और्जित्यमिति॥ गाढबन्धत्वमिति॥ विसन्धि-

Page 248

गुणप्रकरणम् २३९

अथ समाधिः । समाधिरन्यधर्माणां यदन्यत्राधिरोपणम्। यथा- पृच्छन्ती दुग्धसिन्धुं कुशलमनुसरन्त्यादराच्छक्कराद्विं चादूक्त्या मानयन्ती मुहुरमरनदीं चन्द्रमग्रे हसन्ती। वैधांत्रीं यानहंसावलिमनुकृपया स्वागतं व्याहरन्ती लोकेषु त्रिष्वमीषु प्रभवति महती वीररुद्रस्य कीर्ति: ॥ अथ विस्तरः । समर्थनप्रपञ्चोक्तिरुक्तस्यार्थस्य विस्तरः । यथा- लोकेषु त्रिषु काकतीश्वरगुणान् स्तोतुं मुहुर्वीक्षितुं श्रोतुं बह्नभिनन्दितुं च फणिनामेकः क्षमो नायकः । यद्वक्त्राणि सहस्रमस्य कृतिनो यदू द्वे सहस्रे दृश- स्ता एव श्रुतयः फणा दशशतान्यत्यद्धुतान्दोलने ॥ अथ संमितत्वम्। यावदर्थपदत्वं तु संमितत्वमुदाहृतम्। यथा- काकतीयनरेन्द्रस्य कीर्तिचन्दनचर्चनम्। दिगङ्गना वितन्वन्ति वतंसीकृतत द्रुणाः ।। वैलक्ष्येणेति भावः । क्षोणीरक्षणेत्यादिश्लोको व्याख्यातः काव्यप्रकरणे (पृ-५२) शब्दचित्रे। पृच्छन्तीति।। अन्र कुशलप्रश्नादेश्वेतनधर्मस्याचेतनायां कीर्ताव- धिरोपणात् समाधिः । समर्थनेति ॥ विस्तर इति समर्थनप्रपश्चनस्य शब्दात्म-' कत्वेन 'प्रथने वावशब्दे' इति घमः प्रतिषेधे 'ऋदोरप्' इत्यप् प्रत्ययः। 'स तु शब्दस्य विस्तरः' इत्यमरः। लोकेष्विति॥ अभिनन्दितुमनुमोदितुम्। स्तोत्रादिषु फणिपतिसामर्थ्य समर्थयते-यदिंति। यस्मात् कारणादित्यर्थः । अत एवेदं न काव्यलित्नम्, हेतुवाचकविभक्तयादेरश्रवण एव तस्योत्थानादिति। यावदिति॥ यावन्तोऽर्ा यावदर्थमिति तद्धितान्तेन विग्रहः। तदुक्त हरदत्तेन- 'यावदित्यव्ययं चास्ति तद्धितान्तक्र विद्यतें। अतो नित्यसमासेऽपि तद्ितान्तेन विग्रहः ॥' इति। 'यावदवधारणे' इत्यव्ययीभावः। यावदर्थ पदानि यस्य तस्य भावस्तत्त्वम्। अमिधेयापेक्षया यत्रैकमपि पदं न न्यूनं नाप्यधिकं तत्सं-

Page 249

२४० प्रतापरुद्रीये रत्नापणसहिते

अथ गाम्भीर्यम्। ध्वनिमत्ता तु गाम्भीर्यम्। यथा- विषं कौक्षेयके गङ्गा कीतौं दिग्वसनं रिपौ। इन्दुर्मुखे च रुद्रस्य काकतीयस्य दृश्यते। अत्र शङ्करस्य कण्ठे विषं मौलौ गङ्गा कटिस्थले दिग्वस्त्रं शिरसि चन्द्र इति ध्वन्यते। अथ संक्षेपः । संक्षिप्तार्थाभिधानं यत् तत् संक्षेपः प्रकीर्त्यते। यथा- वंशोऽस्ति काकतीयानां तत्रासन् बहवो नृपाः । तेषां भाग्यविवर्तोडयं वीररुद्रो नरेश्वरः ॥ अत्रातिविस्तरकथनयोग्यार्थस्य संक्षेपोक्ते: संक्षेपः । अथ सौक्ष्म्यम्। अन्तःसंजल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते। यथा- अध्यध:परिसंश्िष्टाः श्ठकञ्भूधातवः सदा। वर्तन्ते काकतीयेन्द्रे कर्तर्यन्यत्र कर्मणि। अत्राधितिष्ठत्यधःकरोति परिभवतीत्यन्तःसंजल्परूपत्वात् सौक्ष्म्यं मितमित्यर्थः । काकतीयेति॥ गतमेतत्। ध्वनिमत्त्वमुदाहरणे योजयति- अत्र शङ्करस्येति। वंश इति॥ भाग्यविवर्तों भाग्यपरिपाकः । अन्तरिति॥ समीचीनो जल्पः संजल्पः विवक्षितार्थः सोऽन्तःकृतो गर्मितो यत्र तद्रूपत्वमन्तः- संजल्परूपत्वं सौक्ष्म्यमित्यर्थः। अध्यधःपरिशब्दैः संश्लिष्टाः संबद्धाः प्राक्- प्रयुक्ताध्यादिशब्दा इत्यर्थः । छा गतिनिवृत्तौ। डुकृञ् करणे। भू सत्ता- यामित्येते धातवो 'भूवादयो धातवः' इत्युक्तलक्षणाः शब्दविशेषाः ष्ठाकृन्- भूधातवः काकतीयेन्द्रे सदा कर्तरि वर्तन्ते। कर्तृवाचिन एव तिळादि- प्रत्ययान् दधतीत्यर्थः । अन्यत्र कर्मणि कर्मवाचिनो यगादिप्रत्ययान् दधतीत्यर्थः । एतञ्च न केवला प्रकृतिः प्रयोक्तव्येति नियमेन केवलधातोः प्रयोगाभावात् 'ल: कर्मणि च भावे चाकर्मकेभ्यः इति प्रत्ययानामेव कर्तृकर्माभिमर्शनदर्शनाच्चेति द्रष्टव्यम्। फलितमाह-अत्राधितिष्ठतीत्यादि॥

Page 250

गुणप्रकरणम् । २४१

भवति। अथ प्रौढिः । प्रौढिरुक्तेः परीपाक इति काव्यविदो विदुः। यथा- वीप्सा पद्मभवस्य चन्द्रमुकुटस्यावृत्तिराम्रेडितं दैत्यारे: प्रतिबिम्बनं सुरगिरेरिन्दोः समुत्तेजनम्। कर्णादेः पुनरुद्धवः सुरतरो: सर्वस्वमाविष्क्रिया स्वर्धेनोरिति तर्कयन्ति कवयः श्रीवीररुद्रप्रभुम् ॥ अथोक्तिः । विदग्धभणितिर्या स्यादुक्ति तां कवयो विदुः। यथा- *दिट्ठा कमलासत्ती रण्णो तुह सुह्अ चित्तचरिअस्स। भासन्तो वि तुमं तं कुवलअलच्छि पसाहेसि॥ अथ रीतिः । यथोपक्रमनिर्वाहो रीतिरित्यभिधीयते। यथा- षडू गुणान् सेवते राजा षड् रिपूनवमन्यते। षड् दर्शनान्युपादत्ते षड् बलानि च वीक्षते।। * टृष्टा कमलासकी राज्स्तव सुभग चित्रचरितस्य। भाखानपि त्वं तां कुवलयल्क्ष्मी प्रसाधयसि ॥ प्रौढिरिति॥ परीपाको वैचित्रीविशेषः । वीप्सेति ॥ वीप्सा द्विर्भावः । निमित्तनैमित्तकयोर मेदोपचारात्। आम्रेडितं द्विस्त्रिरुक्तम्। प्रतिबिम्बनं प्रतिबिम्बः। समुत्तेजनं शाणोल्ीढत्वम् । सर्वत्र द्वितीयब्रह्मादिरूपत्व- मित्यर्थः । अत्र वीररुद्रे विरिश्चिवीप्साधारोपलक्षणवैचित्रीवशात् प्रौढिः । दिद्ठेति ॥ कमलासक्तिरेकत्र कमलायामन्यत्र कमलेष्वासक्तिः। कुवलय- लक्ष्मी भूमण्डललक्ष्मीमन्यत्रोत्पलसंपदम्। अत्र राज्ञश्चन्द्रस्यापि कमलासक्तिः, भाखतः सूर्यस्यापि कुवलयप्रसाधनमित्येवंरूपायां विदग्धभणितावश्लीलं परिहियते। षड् गुणान् सन्ध्यादीन् । 'सन्धिर्ना विग्रहो यानमासनं द्वैध- माश्रयः । षञ्जुणाः' इत्यमरः । षड् रिपून् कामक्रोधादीन्। षड् दर्शनानि पाणिनीयप्रभृतीन्युक्ानि। षड् बलानि मौलादीनि। तदुकं मौलेश्वरेण-'मौलं भृत्यं तथा मैत्रं स्रैगमाटविकं बलम् । आमित्रमपरं षष्ठं सप्तमं नोपलभ्यते ।' प्र 21

Page 251

२४२ प्रतापरुद्रीये रन्नापणसहिते

अथ भाविकम् । भावतो वाक्यवृत्तिर्या भाविकं तदुदाहृतम्। यथा- स्वामिस्तात कुलोत्तंस वीररुद्र जगत्प्रभो । पुत्रिणां धुरमषोऽहं पुत्रेणारोपितस्त्वया । अत्र प्रेमरूपभाववशात् स्वार्मिस्तातेति वाक्यवृत्तिः । अथ गतिः। गतिर्नाम सुरम्यत्वं खरारोहावरोहयोः । यथा- प्रकाश्ये त्रैलोक्ये सततमतुलैः काकतिविभो- र्महोमिर्निःसीमैर्दिनकरकराटोपपटुभिः । तमः कृत्सं शोकज्वलदनलरोचिःपरिचयं द्धत्स्वप्युद्वेलत्यरिनृपमनस्स्वेव सततम् ।। अत्र पूर्वार्धे दीर्घाक्षरप्रायत्वात् स्वरस्यारोहः। उत्तरार्घेऽवरोहः। एतेषां गुणानामर्थगतत्वमपि केचिदिच्छन्ति। प्राचामाचार्याणां मतेन संघटनाश्रयत्वमेव गुणानाम्। तदुक्तमलंकारसर्वस्वे-'संघ- टनाधर्मत्वेन शब्दार्थधर्मत्वेन च गुणालंकाराणां व्यवस्थानम्' इति। अनयैव भङ्गया गुणालंकाराणां निरूपितः स्वरूपभेदः। अन्यथा स्व- इति। अत्र पादचतुष्टयेऽप्यादौ षट्पदोपादानाद्यथोपक्रमनिर्वाेण पतत्प्रकर्षपरिहा- रिणी रीतिर्द्रष्टव्या। भावत इति ॥ भावः प्रेमात्रास्तीति भाविकम्। स्वामि- न्निति॥ पुत्रं प्रति जनकस्योकिः। भाविकं योजयति-अत्र प्रेमेति॥ गति- रिति॥ खराणामारोहो दीर्घाक्षरप्रायत्वम्। अवरोहो वैपरीत्यम्। प्रकाश्य इति॥ निःसीमैरिति सूर्यादितेजोव्यतिरेकोक्तिः । वीररुद्रतेजसि विश्वव्यापिनि तमसो वैरिहृदयान्येवावकाश इत्याह-तम इति ॥ तत्रामिसनिधानेऽपि तमसो न बाध इत्याह-शोकेति॥ दधत्खपीत्यपिशब्दो विरोधसूचकः। दुःखिता मुद्न्तीति परिहारः। उद्वेलति विजृम्भते। अत्र पूर्वार्ध इत्यनेनोत्तरार्धे हसवा- क्षरप्रायत्वादवरोह इति द्रष्टव्यम् । एतेषां गुणानां मतमेदेनार्थगतत्वलक्षणं विशेषमाह-एतेषामिति॥ तदुक्तं वामनेन-'एत एवौजःप्रसादप्रभृतयोऽर्य- गुणाः' इति। खमतमाह-प्राचामिति। संघटनाश्रयत्वमेवेति॥ बहूनां पदानामेकपद्वद्वभासमानत्वादिलक्षणे श्लेषादावर्थगतत्वस्य दुर्घटत्वादिति भा- वः। अलङ्कारसर्वस्व इति ॥ उद्धटादिमतानुवादत्वेनेति भावः। अनयैव

Page 252

गुणप्रकरणम्। २४३

रूपभेदस्य दुर्निरूपत्वात्। काव्यशोभाकरत्वमेव गुणालंकारस्वरूप- त्वम्। तदुक्त रुद्रभट्टेन- 'यो हेतुः काव्यशोभायाः सोऽलंकारः प्रकीर्त्यते। गुणोऽपि तादृशो ज्ञेयो दोष: स्यात्तद्विपर्ययः ॥' इति। अतो गुणानां संघटनाश्रयत्वमेव युक्त्तम् । इति श्रीविद्यानाथकृतौ प्रतापरुदयशोभूंषणेSलंकारशास्त्रे गुणप्रकरणं समाप्तम्।

भङ्गधेति ॥ संघटनाशब्दार्थरूपाश्रयमेदेनैवेत्यर्थः । अन्यथति॥ आश्रयमेदा- भाव इत्यर्थः । ननु कथमेतदुपपद्यते 'काव्यशोभायाः कर्तारो धर्मा गुणाः । तदतिशयहेतवस्त्वलंकाराः' इति वामनेन स्वरूपमेदस्योक्तत्वादिति चेत् नैतत् साधीय :- विकल्पासहत्वात्। इद हि तद्दर्शनरहस्यम्। रीतिरात्मा काव्यस्य । रीतिश्व गुणविशिष्टपदरचना। सा वैदर्भ्यादिमेदेन त्रिविधा। तत्र सर्वगुण- विशिष्टा वैदर्भी। कतिपयगुणविशिष्टे गौडीयापाश्ाल्याविति। तत्र सर्वगुणानां मिलित्वा काव्यशोभाहेतुत्वे गौडपायालरीत्योरव्याप्तिः। कतिपयानां काव्य- शोभाहेतुत्वे 'अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यनुल्लसत्येष धूमः' इत्यादौ

तिव्याप्तिः स्यात्। तस्मान्नास्ति गुणानां तन्मते काव्यशोभाकरत्वम्, न च तन्मूलमलक्काराणां तदतिशयहेतुत्वमिति। खमतेऽमिमतसंमति च दर्शयति- यो हेतुरिति॥ उपसंहरति-अत इति॥ खरूपमेदाभावादित्यर्थः। संघट- नाश्रयत्वमेव युक्तमिति॥ मेदकत्वैनेति भावः । एतच्चोद्धटादिमतमवलम्ब्य ऋ््केषादीनां माधुर्यादावनन्तर्भावमज्जीकृत्योक्तम्। वस्तुतस्तु भामहादिमतेनान्त- रभावे श्लेषादिगुणानां रसधर्मत्वम्। अलङ्धाराणां तु शब्दार्थधर्मत्वमिति विद्यत एव स्वरूपमेद इति रहस्यम्। अत एव खयमेवोक्त्तवान् काव्यप्रकरणे- 'हारादिवदर्लंकारास्तेऽनुप्रासोपमादयः। श्लेषादयो गुणास्तत्र शौर्यादय इव स्थिताः ॥ आत्मोत्कर्षावहाः' इति ॥ इति पदवाक्यप्रमाणपारावारपारीणश्रीमहोपाध्यायकोल चलमहिनाथ- सूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणेः पेद्दयार्यस्यानुजेन कुमारस्वामिसोमपीथिना विरचिते प्रतापरुद्रीयव्याख्याने रत्नापणाख्याने गुणनिरूपणं नाम षछ्ठं प्रकरणम् ।। -9080

Page 253

अथ शब्दालंकारप्रकरणम् ।

अलंकारस्वरूपनिरूपणम् । अथ गुणनिरूपणानन्तरमलंकारा निरूप्यन्ते। अलंक्रियतेSनेनेति चारुत्वहेतुरलंकारः। तथा चोक्तं काव्यप्रकाशे- 'उपस्कुर्वन्ति तं सन्तं येडङ्गद्वारेण संश्रिताः । हारादिवद लंकारास्ते Sनुप्रासोपमादयः ॥' इति। यथा करचरणाद्यवयवगतैर्वलयनू पुरादिभिस्तत्तदलंकारतया प्र- सिद्धैरवयव्येवालंकियते तथा शब्दार्थावयवगतैरनुप्रासोपमादिभिस्त- त्तदलंकारतया प्रसिद्वैरवयवीभूतं काव्यमुपस्क्रियते। आश्रयाश्रयि- परिशेषादलंकारनिरूपण प्रतिजानीते-अथेति ॥ अत्रैतेऽलंकाराश्छेकानु- प्रासवृत्त्यनुप्रासौ। यमकं पुनरुक्वदाभासो लाटोपलालितः प्रासः ॥ चित्रमथो उपमानन्वयोपमेयोपमा स्मरणम्। रूपकपरिणामौ द्वौ संदेहध्रान्त्यपह्न वोलेखाः । उत्प्रेक्षातिशयोकी तथा सहोकतिर्विनोक्तिश्। उक्तीः समासवक्रखभावकव्याज- पूर्विका विद्यात्।I भीलनसमानतदतद्गुणा विरोधो विशेषश्च। अधिको विभाव- नाथो विशेषपूर्वोक्त्यसंगती स्याताम्॥ विचित्रान्योन्यविषमाः समोऽथो तुल्य- योगिता। दीपकं प्रतिवस्तूपमा दृष्टान्तो निदर्शना ॥ व्यतिरेकः श्रलेषपरिकरा- क्षेपा मृषास्तुतिः । अप्रस्तुतप्रशंसा च पर्यायोकतं प्रतीपकम्। अनुमानं काव्य- लिन न्यासोऽर्थान्तरपूर्वकः। यथासंख्यार्थापतने परिसंख्योत्तरं तथा ॥ वार्थ- चार्थो दौ समाधिर्भाविकं प्रत्यनीककम्। व्याघातपर्यायसूक्ष्मा उदात्तः परि- वृत्तिका ॥ हेतुमालैकावली च मालादीपकसारकौ । संसृष्टिसंकरौ चेति पञ्च- सप्ततिरीरिताः ॥ रसवत् प्रेय ऊर्जस्वी समाहितमथोदयः । भावस्य संधिः शाबल्यं व्यशीतिरिति मे मताः ॥ एतेषामलंकारशब्दव्युत्पत्त्या तत्सामान्य- लक्षणलाभं मत्वाह-अलंक्रियतेSनेनेति॥ अनियमेन रस इति शेषः । 'अकर्तरि च कारके संज्ञायाम्' इति करणे धञ्प्रत्ययः । एतेनैतेषां गुणाना- मिव रसोपस्कारासंभवात् तेभ्यो वैलक्षण्यं सूच्यते। अस्मिन्नेवार्थे बृद्धसंवादमाह- उपस्कुर्वन्तीति॥ येSअ़द्वारेण शब्दार्थयोरु्त्कर्षाधानद्वारेण तमक्विनं रसं सन्तं विद्यमानमुपस्कुर्वन्तीत्यनेन रसाभावे चित्रकाव्ये शब्दार्थवैचित्रीमात्रपर्यवसायि- त्वमलंकाराणामिति सूच्यते। तेऽलक्काराः कण्ठादीनामुत्कर्षाधानद्वारेण हारादय इव संयोगवृत्त्या वर्तन्त इत्यर्थः। न केवलमेव सति रसेऽनुप्रासोपमादिमिः खाश्रय- भूताः शब्दार्था एवोपस्कियन्ते। किंतु तद्द्वारा तदवयवीभूतं काव्यमपीत्ये- तल्लौकिकदृष्टान्तेनाह-यथेति। आश्रयाश्रयिभावेनेति॥ संयोगमूलेनेति

Page 254

शब्दालंकार प्रकरणम्। २४५

भावेनालंकार्यालंकारभावो लोकवस् काव्येऽपि संमतः । चारुत्व- हेतुत्वेऽपि गुणानामलंकाराणां चाश्रयभेदाद्भेदव्यपदेशः । संघटना- श्रया गुणाः, शब्दार्थाश्रयास्त्वलंकाराः । । अलंकारविभागः ।। तत्र प्रथमं शब्दार्थोभयगतत्वेन त्रैविध्यमलंकारवर्गस्य। अर्थालं- काराणां चातुर्विध्यम्। केचित् प्रतीयमानवस्तवः । केचित् प्रतीय- मानौपम्याः। केचित् प्रतीयमानरसभावादयः । केचिदस्फुटप्रतीय- माना इति। समासोक्तिपर्यायोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वया- तिशयोक्तिपरिकराप्रस्तुतप्रशंसानुक्तनिमित्तविशेषोक्तिषु प्रतीयमानं वस्तु काव्योपस्कारतामुपयाति। रूपकपरिणामसंदेह्भ्रान्तिमदुहलेखा- पह्लवोत्प्रेक्षास्मरणतुल्ययोगितादी पकप्रतिवस्तूपमा दृष्टान्तसहोक्तिव्य- तिरेकनिदर्शनाश्लेषेष्वौपम्यं गम्यते। रसवत्प्रेयऊर्जस्विसमाहितभावो- दयभावसंधिभावशबलतासु रसभावादिर्व्यज्यते। उपमाविनोक्त्यर्था-

सारयथासंख्यार्थापत्तिपर्याय परिवृत्तिपरिसंख्याविकल्पसमुच्चयसमा - धिप्रत्यनीकप्रतीपविशेषनिमीलनसामान्यासङ्गतित द्रुणातद्गुणव्याजो - क्तिवक्रोक्तिस्वभावोक्तिभाविकोदात्तेषु सहृदयहृदयाह्लादि सफुट प्रती- यमानं नास्ति। शेपः । लोके मूलभूतः संयोगो मुख्यः । अत्र त्वनित्यत्वसाधर्म्यादौपचारिक इति भेद:। अथालंकारविभाग करिष्यमाणस्तदुपयोगितयोद्धटादिमतेनोक्तमेव गुणा- लंकारमेदमनुवदति-चारुत्वह्वेतुत्वेऽपीति । इत्थमलंकारस्वरूपं निरूप्य तद्विभागमाह-तत्र प्रथममिति॥ शब्दालंकारा अनुप्रासादयः। अर्थालंकारा उपमादयः । उभयालंकारा लाटानुप्रासोभयसंसष्टघादयः । एतेषां तुल्येऽपि काव्यशोभाहेतुत्वे शब्दार्थोभयालंकारव्यवस्थायामाश्रयाश्रयिभाव एव प्रमाण- मित्यलंकारसर्वस्वकारः । अन्वयव्यतिरेकाविति काव्यप्रकाशकारः। रसभावा- दिर्व्यज्यत इति ॥ गुणीभूतव्यङ्ञयत्वेन प्रतीयत इत्यर्थः । चतुर्धा विभत्तेष्व- लंकारेष्ववान्तरविभागं प्रतिज्ञापूर्वकमाह-अत्रेति॥ इत्थं वक्ष्यमाणप्रकारेण। कक्ष्याविभागः साधर्म्यविरोधादिमूलत्वेनालंकाराणां वर्गशो विभाग इत्यर्थः ।

Page 255

२४६ प्रतापरुद्रीये रक्नापणसहिते

॥ अत्रेत्थमलंकारकक्ष्याविभागः ।। साधम्य त्रिविधम्-भेदप्रधानमभेदप्रधानं भेदाभेदप्रधानं चेति। उपमानोपमेययोः स्वतो भिन्नत्वाच्छाब्दमेतन्न वास्तवम्। रूपकपरिणामसंदेह भ्रान्तिमदु ल्लवेखापह्नवानामभेद प्रधानसाधर्म्यनिब - न्धनत्वम्। दीपकतुल्ययोगितानिदर्शना दृष्टान्तप्रतिवस्तूपमासहो- क्तिप्रतीपव्यतिरेकाः भेदप्रधानसाधर्म्यनिबन्धनाः। उपमानन्वयो- पमेयोपमास्मरणानां भेदाभेदसाधारणसाधर्म्यमूलता। उत्प्रेक्षा- तिशयोक्ती अध्यवसायमूले। विभावनाविशेषोक्तिविषमचित्रा- सङ्कत्यन्योन्यव्याघातातद्गु णभाविकविशेषाणां विरोधमूलता। यथा संख्यपरिसंख्यार्थापत्तिविकल्पसमुच्चयानां वाक्यन्यायमूलता। परि- वृत्तिप्रत्यनीकतद्गु णसमाधिसमस्वभावोक्त्युदात्तविनोक्तयो लोकव्यव- हारमूलाः । काव्यलिङ्गानुमानार्थान्तरन्यासानां तर्कन्यायमूलता । कारणमालैकावलीमालादीपकसाराः शृङ्धलावैचित्रयमूलाः। व्याजो- क्तिवक्रोक्तिमीलनान्यपह्नवमूलानि। समासोक्तिपरिकरौ विशेषणवै- चित्रयमूलौ। ।। अथालंकाराणां परस्परवैलक्षण्यं निरूष्यते॥ आरोपगर्भत्वेSप्यारोप्यमाणस्य प्रकृतोपयोगानुपयोगाभ्यां परिणा- मरूपकयोर्भेदः। आरोपविषय स्यारोप्यमाणरूपसंभवासंभवाभ्यामुल्ले- खरूपकयोर्भेदः । आरोपविषयस्य संदेहभ्रान्त्यपह्ववैः सन्देह्भ्रान्ति- मदपह्नवानां परस्परं भेदः। साधर्म्यमूलत्वेपि तुल्ययोगितादीपकनि- दर्शनाव्यतिरेकदृष्टान्तेभ्यः साधर्म्यस्य वाच्यत्वादुपमानन्वयोपमेयो- पमा भिद्यन्ते। साधर्म्यस्य वाच्यत्वगम्यत्वाभ्यामुपमेयोपमाप्रति- वस्तूपमयोर्भेदः ।* वस्तुप्रतिवस्तुबिम्बप्रतिबिम्बभावाभ्यां प्रतिवस्तूप- मादृष्टान्तयोर्भेदः। प्रस्तुताप्रस्तुतानां व्यस्तसमस्तत्वाभ्यां तुल्ययोगि- एतत् अमेद प्रधानत्वं शाब्दमारोपितं न वास्तवं न स्वाभाविकम्। अथालंकाराणा- मत्यन्तविवेकार्थ मिथो वैधर्म्यमाह-अथालंकाराणां परस्परवैलक्षण्यं निरूप्यत इत्यादिना॥ शिष्टमन्यदुदाहरणप्रस्ताव एव स्पष्टीभविष्यतीति नेह

Page 256

शब्दालंकारप्रकरणम्। २४७

तादीपकयोर्भेंदः । उपमानस्य प्रसिद्धत्वाप्रसिद्धत्वाभ्यामुपमोत्प्रेक्षयो- र्भेदः। अर्थसाम्यशब्दसाम्याभ्यामुपमाश्लेषयोर्भेदः । उपमानोपमे- ययोर्भेदाभेदाभ्यामुपमानन्वययोर्भेदः। उपमानोपमेयभावस्य पर्याय- यौगपद्याभ्यामुपमेयोपमानन्वययोर्भेदः । अप्रस्तुतस्य वाच्यत्वगम्य- त्वाभ्यामप्रस्तुत प्रशंसासमासोक्त्योर्भेदः। वाच्यव्यङ्गययोः प्रस्तुतत्वे पर्यायोक्तिः। वाच्यस्याप्रस्तुतत्वेऽप्रस्तुतप्रशंसा। व्याप्तिपक्षधर्म- ताद्यभावात् काव्यलिङ्गस्यानुमानाद्वेदः। साधारणगुणयोगादू भेदा- नुपलब्धौ सामान्यम्। उत्कृष्टगुणयोगान्न्यूनगुणतिरोधाने मीलनम्। अन्यव्यवच्छेदे तात्पर्याभावादुत्तरालंकारस्य परिसंख्यातो भेदः । काकतालीयतया कार्यसाधने कारणान्तरोपनिपाते समाधिः। अह- महमिकया कार्यसाधने बहूनां कारणानामुदमे द्वितीयः समुच्चयः । निह्नवस्य वाच्यत्वगम्यत्वाभ्यामपह्नवव्याजस्तुत्योर्भेदः। अन्येषां भेद: स्पष्ट एव। यद्यपि व्याजोक्तिमीलनसामान्येषु कथचित् सादृश्यम- स्ति तथाप्यविवक्षितत्वान्न सादृश्यमूलेषु गणना। शब्दालंकारा निरूप्यन्ते। अथालंकारस्वरूपविभागानन्तरं शब्दार्थयोर्मध्ये शब्दस्यार्थप्रती- त्यन्तरङ्गत्वात् प्रथमं शब्दालंकारा निरूप्यन्ते। ।। छेकानुप्रासः ॥ मवेदव्यवधानेन द्वयोर्व्यक्षनयुग्मयोः । आवृत्तिर्यत्र स वुधैश्छेकातुप्रास इष्यते ।। विविच्यते। इत्थमलंकाराणां पीठिकां विधाय शब्दालंकारनिरूपण प्रस्तौति- अथेति ॥I तत्प्राथम्ये हेतुमाह-शब्दस्येति॥ अत्र शब्दप्रतीतिपूर्वकत्वादर्थ- प्रतीतेः शब्दस्य प्रतीतावन्तरऋत्वं, तेन तस्य प्राधान्यात् प्राथम्यमिति भावः । प्रथमं तावच्छब्दार्थोभयगतत्वेन त्रिविधं पौनरुक्त्यम्। तत्रादे केवलखरपौन- रुक्त्यस्य चारुताहेतुत्वाभावात् व्यज्ञनमात्रपौनरुक्त्यं खरव्यज्ञनसमुदायपौन- रुक्त्यं च चारुताहेतुः । तत्राद्यमपि संख्यानियमे छेकानुप्रासः, वैपरीत्ये वृत्त्यनु- प्रास इति सर्वख्कारः । तदनुसारेण छेकानुप्रासं लक्षयति-भवेदिति॥ रसाद्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः । तदुक्तम्-'प्रकृष्टो वर्णविन्यासो रसा- दयनुगतो हि यः । सोऽनुप्रासः स च च्छेकवृत्त्युपाधिगतो द्विधा ।' इति। गृह-

Page 257

२४८ प्रतापरुद्रीये रत्नापणसहिते

यत्राव्यवहितयोर्व्यक्जनयुग्मयोद्वयोः पौनरुक्त्यं तत्र छेकानु- प्रासः। यथा- महीमहीनविभवे धत्ते क्षेमंकरे करे। राजन्यजन्यविजयी राजा राजद्रुणोदयः ॥ वृत्त्यनुप्रासः। एकद्विप्रभृतीनां तु व्यञ्जनानां यथा भवेत्। पुनरुक्तिरसौ नाम वृत्त्यनुप्रास इष्यते।। यथा- रे रे क्षुद्रमहीक्षितः क्षणमितः श्रीकाकतिक्ष्मापते- र्वीक्षध्वं ध्वजिनीं दुरीक्षसुभटां प्रोत्क्षिप्तकौक्षेयकैः । योत्स्यध्वे यदि लभ्यमक्षयपदं कान्तारपक्षो वृथा क्ष्माभृत्कुक्षिचरत्तरक्षुनिकरात्तत्रात्मरक्षा कुतः ॥ चराः पक्षिमृगादयश्छेका इति केचित्। विदग्धा इति सर्वस्वकारादयः । तदुप- लालितोऽनुप्रासः छेकानुप्रासः । द्वयोरित्यत्र वीप्सा द्रष्टव्या। तेन यत्र द्वयोई्योर्व्य- अनयुग्मयोरव्यवधानेनावृत्तिः स छेकानुप्रास इत्यर्थः । उदाहरति-महीमिति॥ अहीनविभवे फणीन्द्रसदृश इत्यर्थः । करे बाहौ। राजन्याः क्षत्रियाः । 'राजश्व- शुरादयत्' इति यत्प्रत्ययः । जन्यं युद्धम्। अत्र पादचतुष्टयेऽपि व्यज्नयुग्माना- मव्यवधानेनावृत्तेश्छेकानुप्रास इति द्रष्टव्यम्। संख्यानियमेन छेकानुप्रासमुक्त्वा- न्यथा वृत्तयनुप्रासमाह-एकेति॥ प्रभृतिग्रहणात् त्रिचतुरादिसंग्रहः। अत्रै- कस्य व्यज्ञनस्य सकृदावृत्तौ वैचित्र्याभावात् सामर्थ्यादसकृदावृत्तिर्लभ्यते । द्वयोस्तु सकृदेव। अन्यथा छेकानुप्रासः स्यात्। व्यवधाने त्वसकृदावृत्तावपि न विरोधः । त्र्यादीनां तु सकृदसकृद्दा व्यवधानेनाव्यवधानेन वावृत्तिर्द्रष्टव्या। वृत्तिशब्देन वैदर्भ्यादयो विवक्षिताः । तदुपलक्षितानुप्रासो वृत्त्यनुप्रासः । उदाह- रति-रे रे इति॥ योत्स्यध्वे हनिष्यध्वे यदि। युध संप्रहारे इत्यस्माद्धातोः कर्मणि लट्। लभ्यमक्षयपदमिति ॥ 'द्वाविमौ पुरुषौ लोके सूर्यमण्डलमे- दिनौ। परिव्राड् योगयुक्तथ् रणे चाभिमुखो हतः ॥' इति स्मरणादिति भावः । कान्तारपक्षोऽरण्यनिवासपक्षः । तरक्षुनिकरात् भृगादनयूथात्। दुर्मरणकारणादर- व्यनिवासाच्छुमोदर्क युद्धमरणमेव श्रेय इति भावः। अत्रासकृतक्षकारावृत्त्या वृत्त्यनुप्रासः । एवमन्येऽपि मेदाः सूर्यशतकादौ द्रष्टव्याः। व्यज्ञनमात्रपौनरुक्त्या- श्रयमलंकारद्यमुक्त्वा खरव्यज्ञनसमुदायपौनरुक्त्याश्रयम लंकारमाह-यमक- मिति। ननु महीमहीनविभव इत्यादौ छेकानुप्रासे 'युथिष्ठिरं द्वैतवने वनेचरः'

Page 258

शब्दालंकारप्रकरणम्। २४९

यमकम् । यमकं पौनरुक्त्ये तु स्रव्यञ्जनयुग्मयोः । छेकानुप्रासे वृत्त्यनुप्रासे च स्वरपौनरुत्तयमानुषङ्गिकम् । यमके तु स्वरयो: व्यञ्जनयुग्मयोः आवृत्तिः। तस्यादिमध्यान्तगतत्वेन चहवो भेदाः। अत्र दिख्यात्रमुदाह्नियते। प्रताप: काकतीन्द्रस्य महामहिमतेजसः । श्रियं द्धाति पद्मेष्टमहामहिमतेजसः ॥ पुनरुक्तवदाभास: । यत्रार्थः प्रमुखे किंचित् भासते पुनरुक्तवत् । पुनरुक्तवदाभासोऽलंकारः स सतां मतः ॥ यत्रार्थः पुनरुक्तवदाभासते, अन्वयवेलायामन्यथा भवति, स पुन- रुक्तवदाभासोऽलंकार:। अर्थालंकारत्वेऽ्यस्य शब्दपौनरुक्त्याश्रि- इत्यादावेकदा सादृश्यलक्षणे वृत्त्यनुप्रासे च खरपौनरुक्त्यसंभवात् कर्थ तत्र व्यज्जनमात्रपौनरुक्त्यमित्याशङ्कय परिहरति-छेकानुप्रास इति॥ अनुषत्ञा- दागतमानुषत्निकम् । अन्वाचयविशिष्टमभ्युच्चय इत्यर्थः । सवरव्यज्नयुग्मयोरि- त्यत्र खरसहितव्यञ्ञनेति मध्यमपदलोपी समासो विवक्षित इति व्याचष्टे- यमके त्विति ॥ तथ्थ यम्यमानानां पादैकदेशानामादिमध्यान्तगतत्वेनानेक- विधमित्याह-तस्येति ॥ एतच्च श्लोकार्धपादयमकानामप्युपलक्षणम्। सर्वेऽ- प्येते मेदाश्चिरन्तनैरेव बहुधा प्रपश्विताः। गुरुत्वमीतत्वान्नेह प्रपञ्च्यन्ते*। तत्रैक- मुदाहरति-प्रताप इति॥ महान् महिमा आधिक्यं यस्य तेजसो महामहि- म, तादशं तेजो यस्य महामहिमतेजसः काकतीन्द्रस्य प्रतापः। पद्मेष्टमहां पद्मप्रियो त्सवाम्। अहिमतेजसः उण्णांशो: श्रियं दधाति। अत्र द्वितीयपादस्य चतुर्थे यम- नातू संदष्टयमक नाम यमकभेदः । तदुक्तमन्यत्र। अत्र यम्यमानयोरुभयोः सार्थ- कत्वम्। 'विहगाः कदम्बसुरभाविह गाः' इत्यत्रैकस्य सार्थकत्वमितरस्यानर्थकत्वम्। 'कलयन्त्यनुक्षणमनेकलयम्' इत्यत्रोभयोर नर्थकत्वम्। एवं सर्वेष्वपि यमकेषु प्रका- रत्रयं यथासंभवं द्रष्टव्यम्। शब्दपौनरुक्त्याश्रितान लंकारानमिधायार्थपौनरुक्तय- मूलमलंकारमाह-यत्रेति। यत्रालंकारेऽर्थः प्रमुखे प्रथम पुनरुक्तवत् पुनरुत्त्ेन तुल्यमत एव किंचित् किमप्यनन्वितो भासते परमार्यतस्तु अन्यथा पर्यवस्यतीत्यर्थः। अर्थपौनरुक्त्यस्य प्ररूढ दोषत्वात् तदेतन्निष्कृष्य व्याचष्टे-यत्रार्थ इत्यादिना॥ नन्वस्य शब्दालंकार प्रस्तावे का संगतिरत आह-अर्थेति ॥ अर्थपौनरुक्त्यादे- * काव्यगडभूतत्वान्नेह वितन्यन्ते इति पाठान्तरम्।

Page 259

२५० प्रतापरुद्रीये रत्नापणसहिते

तत्वाच्छब्दालंकारप्रस्तावे लक्षणं कृतम्। यथा- जिष्णुरिन्द्रः क्षितिभुजां श्रीपतिः पुरुषोत्तमः । भास्वान् सूर्यस्फुरत्तेजा: काकतीन्द्रो विराजते।। अथोभयपौनरुक्त्यालंकार: कथ्यते। लाटानुप्रासः । शब्दार्थयो: पौनरुक्त्यं यत्र तात्पर्यभेदवत्। स काव्यतात्पर्यविदां लाटानुप्रास इष्यते।। यत्र शब्दार्थयोस्तात्पर्यभेदमात्रं न स्वरूपभेदस्तत्र लाटानुप्रासः। यथा- गुणा गुणास्ते गण्यन्ते ये रुद्रनृपमाश्रिताः । नीतिर्नीतिरसौ तस्य लक्ष्मीर्लक्ष्मीश्र कथ्यते॥ वार्थाश्रितत्वादर्थालंकारत्वे सत्यपीत्यर्थः । शब्दपौनरुक्त्याथ्रितत्वादिति॥ पर्यायशब्दाश्रितत्वादित्यर्थः । आम्रेडितशब्दवत् पर्यायशब्देष्वप्यर्थकत्वसादृश्या- दौपचारिकं शब्दपौनरुक्त्यं द्रष्टव्यम्। उदाहरति-जिष्णुरिति॥ जयशीलो जिष्णुः क्षितिभुजामिन्द्रो राजाग्रणीः । श्रीपतिः समृद्धः। पुरुषोत्तमः पुरुषश्रेष्ठः । भाखान् दीप्षिमान्। सूर्य इव स्फुरत्तेजा: स्फुरत्प्रतापः । अत्र जिष्ण्वादीनामि- न्द्रादिपर्यायप्रयोगेण ग्रमुखे भासमानस्य पौनरुक्त्यस्योक्तप्रकारेणान्वयवेलाया- मन्यथा पर्यवसानात पुनरुक्तवदाभास इति भावः । केचित् पुनरेवमाहु :- 'भाति सदानत्याग: स्थिरतायाम्' इत्यत्र सत्पुरुषप्रणामेन प्रकाशते, स्थैर्ये पर्वतभूत इत्यस्यार्थस्य. दानत्यागशब्दपरिवृत्तावसंभवाच्छब्दालंकारोऽप्ययम्। 'तनु- वपुः' इत्यत्र कृशाज्न इत्यस्मिननर्थे तनुशब्दविपरिवृत्तौ नायमलंकार इति शब्दा- श्रयत्वम्। वपुःशब्दविपरिवृत्तौ नालंकारत्वहानिरित्यर्थाश्रयत्वम्। अत-उभयालंकारो उप्ययमिति। तदुक्कं काव्यप्रकाशे-'पुनरुक्तवदाभासो विभिन्नाकारशब्दभाक् । एकार्थतैव शब्दस्य तथा शब्दार्थयोरयम् ।' इति। शब्दार्थयोरेकैकपौनरुक्त- मूलान लंकारानभिधायोभयपौनरुक्त्यमूलम लंकारं प्रतिज्ञापूर्वकमाह-अथेत्या- दिना ॥ शब्दार्थयोः पौनरुक्त्यं प्ररूढदोषः। तव्वच्छेदार्थ तात्पर्यमेदव- दिति॥ अनेन यमकव्यावर्तकः शव्दार्थयोः सरूपमेदाभावः फलित इति व्या- चष्टे-यत्रेति॥ लाटजनोपलालितोऽनुप्रासो लाटानुप्रासः। न तु लाटदेशजन्यः कश्चनोपकारः काव्यस्य इति गोपालः । उदाहरति-गुणा इति ॥ असौ वीर- रुद्रसंबन्धिनी। अत्र द्वितीयगुणादिशब्दानामुत्कर्षलक्षणस्तात्पर्यमेदः। 'अत्रा- बजपत्रनयने नयने निमील्य' इत्यादौ विभक्त्यादेरपौनरुक्त्येऽपि शब्दार्थपौन-

Page 260

शब्दालंकारप्रकरणम्। २५१

चित्रालंकार: पद्मबन्धादि: । पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते। आदिग्रहणाच्चक्बन्धादयः । तत्राष्टदलपद्मबन्धो यथा- याता यस्यासमग्रानतिमिह् कनकास्थानसक्तासनाया यानासक्तासनस्था सुखयतु कमलाभ्याससुज्ञानमाया। या मानज्ञा सुसभ्या क्षितिपतितिलकं ज्ञातिरक्ता सगेया यागे सक्ता रतिज्ञा सुकृतिषु फलितग्रामसस्यायताया ॥ रुक्त्याहाटानुप्रासत्वम्। अत एवायं पदाश्रयः प्रातिपदिकाश्रयश्चेति द्वेधा लाटा- नुप्रास इति सर्वख्कारः। उद्धटेनाप्युक्तम्-'सवरूपार्थाविशेषेऽपि पुनरुक्ति: फलान्तरात्। शब्दानां प्रकृतीनां वा लाटानुप्रास इष्यते ।।' इति। ननु युद्धेऽर्जुनोऽर्जुन इवेत्यत्रैकस्यैवोपमानोपमेयत्वलक्षणे अनन्वयालंकारेऽपि शब्दार्थपौनरुक्त्य- सभवालाटानुप्रासत्वमेव किं नेष्यते। सत्यम्। यद्यप्यनन्वयेऽर्थपौनरुक्त्यमात्रं लक्षणं तथापि निर्देश प्रतिनिर्देशयोरकरूप्याभावे प्रक्रमदोषप्रसज्जादानुषत्रिक शब्दपौनरुक्त्यम्। अत्र तूभयपौनरक्त्यमप्यावश्यकमेवेति विषयमेदान्न कोऽपि विरोधः । तदुक्तम्-'अनन्वये च शब्दैक्यमौचित्यादानुषत्जिकम् । अस्मिस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥' इति । चित्रं लक्षयति-पद्मेति॥ न च श्रावणानां वर्णानां पद्माद्याकारहेतुत्वं न घटत इति वाच्यम्। वर्णशब्देन तत्स्मारकाणां लिप्यक्षराणामाक्षेपात्। तेषां मुख्यवर्णामेदेन लोकव्यवहारादस्य शब्दालंकारत्वम्। पद्मादिबन्धेषु कर्णिकादिस्थानविशेषेषु वर्णानां पौनरुक्त्यात् पौनरुक्त्यमूलालंकारानन्तर्य च द्रष्टव्यम् । यातेति । कनकास्थाने सुवर्णमय- सभामण्टपे सकं स्थितमासनं सिंहासनमयति प्राप्नोतीति कनकास्थानसक्ता- सनाया। अयतेः कर्मण्यच्प्रत्ययः । यानेषु तुरगादिष्वासक्तान्यासनानि पल्य- यनादीनि तत्र तिष्ठतीति यानासक्तासनस्था। राज्योपकरणेषु लक्ष्मीरस्तीत्यागमः । अभ्यासेन परिचयेनोपासनयेत्यर्थः । सुखेन शञायते इति सुज्ञाना । 'कृत्यल्युटो बहुलम्' इति कर्मणि ल्युट्। माया स्वरूपवैचित्री यस्याः सा अभ्याससुज्ञान- माया। अनुपासकानां दुरवबोधस्वरूपेत्यर्थः । मान पूजां जानातीति मानज्ञा। सभायां साधवः सभ्याः । 'सभाया यः' इति यप्रत्ययः। ते शोभना यस्याः सा सुसभ्या। संपन्नस्यैव सभाश्रयत्वादिति भावः । जानन्तीति ज्ञाः विवे- किनः । 'इगुपध-' इत्यादिना कप्रत्ययः । तत्रातिरक्ता । गीयते इति गेयं गानं, तेन सह वर्तत इति सगेया खनामाक्कानेकगीतेत्यर्थः । यागे सका संबद्धा । समृद्धस्यैव तत्राधिकारादिति भावः । रर्ति स्वविषयामिरतिं भर्कति

Page 261

२५२ प्रतापरुद्रीये रत्नापणसहित

चक्रबन्धो यथा- लक्ष्मीवीक्षितवैभवस्य जगतां नाथस्य भद्रश्रियो दिक्ष्वारब्धनिजप्रतापजनितां भाकृद्ुरां यच्छतः । नित्यं रुद्रजनाधिपस्य जयिनो भाति प्रकाशस्थिरा राजत्पालनमोदितात्मनि भुजे योग्याश्रितत्वाद्धरा ॥ अत्र चक्रबन्धे वैजनाथकृतिवीररुद्रयश इति प्रतीयते। नागबन्धो यथा- ओजस्ये रुद्रदेवे विभवति महिमत्याजितान्यप्रतापे विद्यावर्येडभिनेतर्युरुहरिचरितं विश्वविस्तारभाजि । जानातीति रतिज्ञा। अत एव सुकृतिषु विषये फलितैर्ग्रामसस्यैः कार्यैरायतो महान् अयः शुभावहो विधिर्यस्याः सा तथोक्ता। खभक्तानां आ्रमादिसंपाद- नेन प्रकटितस्वानुग्रहेत्यर्थः । एवंविधा या लक्ष्मीर्यस्य विभोरासमग्रामतिसंपू- णामानति वश्यत्वं याता सा कमला लक्ष्मीस्तं क्षितिपतितिलकं वीररुद्रमिहैव लोके जन्मनि वा सुखयतु सुखवन्तं करोतु। अयमष्टद्लपअ्मबन्धः । उद्धारस्तु-'कर्णिकादि लिखेदूर्णान् क्रमाद्दिक्षु विदिक्षु च। सकर्णिकान् सप्त- दिक्षु विदिक्षु तु विकर्णिकान् ।। प्रवेशनिर्गमाभ्यां तु दिक्षु ते स्युश्चतुर्दश । व्यवधानेन तानादे दलेऽन्यत्र त्वनन्तरान् ।I' इति। चक्रबन्धमुदाहरति- लक्ष्मीति ॥ कोशागारनियुक्तयेव लक्ष्म्या वीक्षितवैभवस्य विचारितैश्वर्यस्य । भद्रश्रियः कल्याणमूर्तेरित्यर्थः। आरब्धः संवर्धितः । भाकृद्गुरां भास्करभारव निजप्रतापेन दिक्षु सूर्यकृत्यं कुर्वत इत्यर्थः। राजत्पालनेन सम्यक्सरक्षणेन मोदितात्मनि सर्वैरनुमोदितस्वरूपे भुजे। अत एव योग्याश्रितत्वात् प्रकाशं व्यक्तं स्थिरा निश्चितस्थैर्येत्यर्थः । धरा भूमिर्नित्यं भाति। उद्धारस्तु-'बध्यते षडरं चक्रं प्रत्यरं तन्नवाक्षरम्। त्रयाणामपि पादानां दशमं कर्णिकाक्षरम्। आदितः सवस्तुर्यारैररयः पादाश्चतुर्थगाः। वर्णाः षष्टान्त्यमारभ्य संपद्यन्तेऽन्ति माक्षरैः ॥ मध्ये द्वौ द्व विसंवादौ षडरेषु कमाद् भवेत्। चतुर्थै: सप्तमैर्वगैरवणनं कविवर्णयोः ॥' इति। नागबन्धमुदाहरति-ओजस्य इति॥ ओजों बलं तत्र साधुरोजस्यः प्रबलः । यद्वाहर्वाचिनौजस्यशब्देनाहस्करो लक्ष्यते। तेन ओ- जस्ये सूर्यसदृशे इत्यर्थः । 'ओजसोऽहनि यत्खौ' इति यत्प्रत्ययस्य छान्द- सत्वेऽपि दूत्यशिवतात्यादिवदस्य भाषायां प्रयोगो द्रष्टव्यः । महिमत्याजितो- जन्येषां प्रतापो येन तस्मिन् तथोक्े। विद्यामिर्वेदवेदान्ञादिमिवर्ये श्रेष्ठे। उर्वधिकं हरिचरितममिनेतर्यनुकुर्वति विष्णुसदृश इत्यर्थः । 'न लोक-' इत्यादिना षष्ठी-

Page 262

शब्दालंकार प्रकरणम्। २५३

वैरिव्राता भजन्ते वनमतिमलिनरूयातयो देहविद्धा वन्यैरष्वन्यवारि क्षतिमति विविधे जन्तुभिः स्थानभाजः॥ इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे शब्दालंकार प्रकरणं समाप्तम् ।

प्रतिषेध:। विश्वविस्तारं भरणीयत्वेन भजतीति विश्वविस्तारभाक्। तस्मिन् विभवति विभौ सति। अतिमलिनख्यातयो वैरिव्राताः शत्रुसंघा देहविद्वा रणे विद्धदेहा: सन्तो वन्यैर्जन्तुमिर्व्यालमृगैः सह । क्षतिः क्षयः तद्वति । विविधे नानाविधदुःखभाजन इत्यर्थः ! अवारि अनुदके अध्वनि मरुदेशे इत्यर्थः । 'आपः स्त्री भूम्रि वार्वारि' इत्यमरः । स्थानभाजः स्थिति प्राप्ताः सन्तो वन भजन्ते सेवन्ते। उद्धारस्तु-'रेखाभ्यां चतुरश्राणि चतुष्कोष्ठानि कल्पयेत्। रेखाद्वया- न्तराले स्याद्यथाकोष्ठे गृहाष्टकम् ॥ विदिक्षु कुण्डलीकुर्यात् तद्रेखाप्रैर्यथाक्रमम् । दिग्रेखाप्राणि बाह्यानि योजयेत् दिक्त्रये मिथः ॥ एकत्र तु फणापुच्छमेलन कल्पयेत् तथा। अन्तराण्यक्ष्णया * कुर्यात् संदंशाः स्युरयथा मिथः ॥ वर्णावृत्तिस्थ- लान्यत्र कोष्ठकोणानि षोडश । सन्दशानां चतुष्कं च कण्ठश्चेत्येकर्विशतिः ॥ आवृत्तिर्युग्म वर्णानां नेतरेषामिह क्वचित्। अर्केशानदशब्रह्मवर्णाः पादचतुष्कगाः॥ आवर्तेर र्शव तादिकुण्ड लेष्व प्रदक्षिणम्। यथवं स्यात् तथा वर्णान् फणातो विन्य- सेत् कमात्॥ त्रिशदष्टाविंशतिश्व षड्िंशतिरनुक्रमात्। वेष्टनत्रितये वर्णाः समा- प्रिस्तु गलाक्षरे ॥ सर्वमेतन्निधायान्तः संग्रहीतं महात्ममिः ॥ विदिकस्थले कुम्ड- लितं खमर्अ स्वेन त्रिरावेष्टय विभत्निभुम्रम्। क्षिप्त्वा गले पुच्छमहे: स्थितस पाठ्य: फणातः फणिबन्ध एषः ॥

सूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणेः पेद्दयार्यस्यानुजेन कुमारखामिसोमपीथिना विरचिते प्रतापरुद्रीयव्याख्याने रन्नापणाख्याने शब्दालंकारनिरूपण नाम सप्तमं प्रकरणम् ।। * अक्ष्णया वकरीत्या यथा पशवो गमनकाले सवकीयाज्गानि वक्ररीत्या पुरोवर्तिनं दक्षिण पाद पुरतः प्रक्षिप्य पाश्चात्यं वामपादं पुरतः प्रवर्तयन्ति।. 'अ क्ष्णया व्याघारयति तस्मादक्ष्णया पशवोऽञ्वानि प्रहरन्ति प्रतिष्ठित्यै' इति शु- तिः । प्रतीच्याम् उपक्रम्य प्राच्याम् अवसाने सति आर्जवं भवति। नैर्शत्याम् उपक्रम्य ऐशान्यां समापनं वक्रत्वम्। एवमितरत्रापि तदिदमक्ष्णयेत्यनेन उच्यते-इति सायणभाष्ये।। प्र 22

Page 263

अथ अर्थालंकारा:।

तत्र प्रथममनेकालंकारवीजभूतत्वादुपमा निरूप्यते। स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा। यत्र स्वतःसिद्धन स्वतो मिन्नेन सहृदयसंमतेनाप्रकृतन सह प्रकृतस्य धर्मतः सादृश्यमेकदा वाच्यं चदू भवति तत्रोपमा। स्वतः- सिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्तिः। उत्प्रेक्षायाम प्रसिद्धस्याप्युपमानत्वसंभ- वात् । यथा- कीर्तिः काकतिवीररुद्रनृपतेः सिंहासनाध्यासिनः प्राचां भूमिभुजां यशः पिद्धती कोटीन्दुतुल्यद्रुतिः । रक्षादक्षिणराजलाभजनितामन्दप्रमोदोत्थिता त्रैलोक्याट्टृहसप्रभेव ककुभां प्रान्तेषु विद्योतते।। अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याटटृहासप्रभायाः कवि- प्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः। स्वतो भिन्नेनेत्यनेनानन्वयव्या- वृत्तिः। अनन्वय एकस्यैवोपमानोपमेयत्वसंभवात्। तथा हि- सन्तु लोके सुवर्णाद्रिरव्नाकरसुधाकराः । तथापि वीररुद्रोऽयं वीररुद्र इव स्वयम् ॥ संमतेनेत्यनेन न्यूनोपमादिव्यावृत्तिः । यथा- शब्दालंकारनिरूपणानन्तरमवसर प्राप्तत्वादर्थालंकारनिरूपणं प्रतिजानीते- अथेति॥। प्रथममुपमानिरूपणे निमित्तमाह-तत्रेति॥ तत्रार्थालंकारेष्वित्यर्थः। अनेकालंकारबीजभूतत्वादिति॥ वाच्यौपम्यानामनन्वयादी ना गम्यौपम्या- ना च रूपकादीनामन्येषां च सादश्यमूलानां मीलनादीनां निदानभूतत्वादित्यर्थः । लक्षयति-स्वत इति ॥ धर्मतो गुणक्िययोरन्यतरेणेत्यर्थः। साम्यमित्यनेन •कार्यकारणादिकयोरसंभवात् साधर्म्यादिन्यवर्ण्यशब्दयोरुपमानोपमेयार्थतवं द्रष्ट- व्यम्। अत्रानुषज्ञाध्याहारादिमि: शिष्टमंशं पूरयन् व्याचष्टे-यत्रेति॥ व्या- वृत्यादिकं तु खयमेव व्यक्तीकरिष्यति-न्यूनोपमादाति॥ न्यूनविशेषणोप- मान न्यूनोपमम्। आदिग्रहणादधिकोपमादिसंग्रहः। सहृदयसंमति दर्शयति-

Page 264

अर्थालंकारप्रकरणम् । २५५

उदन्वानिव गम्भीर: सुवर्णाद्रिरिवोन्नतः । दिख्हेभ इव क्षोणीधौरेयः काकतीश्वरः ॥ अत्र समुद्रसुवर्णाद्रिदिम्गजानामुपमानत्वं योग्यमित्युपमैवेयम्। धर्मत इत्यनेन श्रेषालंकारवैलक्षण्यम्। श्रेषे शब्दसाम्यमात्रमभ्युप- गतं न गुणक्रियासाम्यम्। तथाहि- नीराजयन्त्यन्ध्रपुरीरमण्यः प्रदीपजालैर्वरवीररुद्रम्। चन्द्रानना गोत्रपति रजन्यस्तारागणैर्मेरुमिव स्फुरद्गिः ।। अत्र प्रतापरुद्रं पुरस्त्रियो नीराजयन्ति मेरुं रजन्य इवेति नोप- मा। गोत्रपतिमिति विशेषणार्थस्य साम्याभावात्। गोत्रशब्देन राज- पक्षे कुलप्रतीतिः मेरुपक्षे पर्वतप्रतीतिः । तथा चन्द्रानना इति स्रीपक्षे चन्द्र इव आननं यासामिति समासः । रात्रिपक्षे चन्द्र एवा- ननं यासामिति शब्दमात्रसाम्येन नोपमाप्राप्तिः । किं तु श्ल्लेष एव। अन्येन वर्ण्यस्य साम्यमित्यनेन प्रतीपालंकारो व्यावर्त्यते। तथा हि लोकोऽयमविशेषज्ञः किं कुर्मः कस्य कथ्यते। यत् काकतिनरेन्द्रेण सुमेरुरूपमीयते।। अन्नाप्रकृतस्य मेरोः प्रकृतेन राज्ञा सादृश्यमिति प्रतीपालंकारो नोपमा। एकदा साम्यमित्यनेन उपमेयोपमाव्यावृत्तिः । उपमेयोप- मायामुपमानोपमेययोरनेकदा साम्यप्रतिपादनम्। उदन्वानिति ॥ 'उदन्वानुदधौ च' इति निपातनात् साधुः । धुरं वहतीति धौरेयो धुरन्धरः। 'धुरो यड्ढकौ' इति ढकप्रत्ययः । क्षोण्या धौरेय इति शिव- भागवतवत् समासः। धर्मत इत्यनन श्लेषालंकारवैलक्षण्यमिति॥ शब्द- साम्यमूलत्वात् तस्येति भावः। व्यावर्त्य श्लेषमूलमुदाहरति-नीराजय- न्तीति॥ एवंविधस्थले शब्दसाम्येऽप्युपमैवेति काव्यप्रकाशकारः । तदुक्तम्- 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव' इत्यादिशब्दमात्रसाम्येऽपि सा युक्ैवेति। अलंकारसर्वस्वकार: पुनरस्मिन्नेवोदाहरणे गुणक्रियासाम्यवच्छ्द- साम्यं नोपमाप्रयोजकम् अपितूपमाप्रतिभोत्पत्तिहेतुः श्रेष एवावसेय इत्यवोचत्। विद्यानाथस्तु सर्वस्वकारसिद्धान्तश्रद्धालुतया श्ेष एवायं नोपमेत्याह-अत्रेत्या, दिना। अन्येन वर्ण्यस्येति ॥ उपमानेनोपमेयस्येत्यर्थः । लोकोऽयमिति। अत्रोपमानोपमेयभावस्य वैपरीत्यात् प्रतीपालंकार इत्याह-अत्रेति ।।

Page 265

२५६ प्रतापरुद्रीये रन्नापणसहिते

धर्मोडर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः । कामस्ताविव तौ काम इव रुद्रनरेश्वरे।। अत्र धर्मोडर्य इव अर्थो धर्म इवेत्यनेकदा इवशब्द्द्वयेन धर्मार्थ- कामानां सादृश्यं प्रतिपाद्यत इत्युपमेयोपमा। वाच्यमित्यनेन प्रती-

प्रतिवस्तूपमादृष्टान्त सहोक्तिव्यतिरेकनिदर्शनानां वैलक्षण्यम्। तथा हि

अखण्डविक्रमोद्दामो असते राजमण्डलम् । अत्र मण्डलाग्रविधुंतुदयोः सामानाधिकरण्यान्यथानुपपत्त्या सरादृश्यं लक्ष्यत इति नोपमा किं तु रूपकालंकारः । किमेष नवमो हरित्पतिरमन्दसंपत्पदं किमेष दशमः प्रजापतिरपूर्वसर्गक्रमः । किमेष हरिरर्वरोद्धरणचुञ्चुरेकादश- श्विरादिति वितर्क्यते जगति काकतीन्द्रो जनैः ॥ अत्र काकतीश्वरस्य हरित्पतिप्रभृतीनां च परस्पराभेदप्रतीते: संदेह- निबन्धनान्यथानुपपच्या सादृश्यमाक्षिप्यते। ततः संदेहालंकार: । काकतीयविभो: कीर्तिविभवे व्याप्तरोदसि। दिवापि चन्द्रिकाबुद्धया चकोरा यान्ति निर्वृतिम् । अत्र कीर्तिविभवे चन्द्रिकाबुद्धि: चन्द्रिकासादश्यं विना न संभव- तीति सादृश्याक्षेपात् भ्रान्तिमदलंकार: । लक्ष्मीनिवासगृहमित्यखिला नरेन्द्राः शौर्यातिभूमिखनिरित्यरिवीरवर्गाः । विद्याविहारपद्वीति च लब्धवर्णा: श्रीकाकतीन्द्रनगरीमनिशं सतुतन्ति ॥ धर्म इति॥ अत्रैकदा साम्यस्य प्रथमार्धमेव प्रत्युदाहरणम्। तावतैवोपमेयोपमा- याकरितार्थत्वात। द्वितीयं पुनरभ्युच्चयः । तदेवामिरेत्योकं-धर्मार्थ कामा- नामिति॥ वाच्यव्यवच्छेयतया साधर्म्यस्य गम्यत्वं केषुचिद्लंकारेषु दर्शयति- तथाहीत्यादिना॥ उदाहरणश्रोका यथायोगं ख्वखप्रकरण एव व्याख्यास-

Page 266

अर्थालंकार प्रकरणम्। २५७

अत्र नगयां तत्तत्पदार्थतारोपः सादृश्यादते न संभवतीति साड- श्यकल्पनादुल्लेखालंकारः । वीररुद्रस्य भूपालजयहोमं वितन्वतः । धूमराजिरियं भाति न चमूरेणुरुत्थिता।। अत्रोत्थितां चमूरेणुमवलोक्य धूमपङ्गिरित्यपह्नवेनारोपः साह- श्यमूल एवेति सादृश्याक्षेपादपह्नवः । एवं तुल्ययोगितादिष्वपि सादृश्यस्य गम्यत्वान्नोपमाशङ्का । अतः सर्वेभ्यः साधर्म्यमूलेभ्यो विलक्षणेयमुपमा। सा प्रथमं द्विधा। पूर्णा लुप्ता चेति। उपमानोपमेयसाधारण- धर्मसादृश्यप्रतिपादकानां चतुर्णा प्रयोगे पूर्णा। एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता। पूर्णा द्विविधा। श्रौती आर्थी चेति। साक्षात्साह- श्यप्रतिपादकयथवादिशब्दानां प्रयोगे श्रीती। धर्मिव्यवधानेन सा- दृश्यप्रतिपादकानां सदशसंकाशनीकाशप्रतीकाशादिशब्दानां प्रयोगे

न्ते। उपमायाः स्वरूपमुक्त्वा विभागमाह-सा प्रथममिति॥ पूर्णामाह- उपमानेति ॥ उपमीयते सदशीक्रियते येनोत्कृष्टगुणेन तदुपमानं चन्द्रादि । उपमीयते यद पकृष्टगुण तदुपमेयं मुखादि। साधारणो धर्मो गुणः करिया वा। सादृश्य प्रतिपादका यथेवादयः। चतुर्णामेतेषां कण्ठोक्तौ पूर्णेत्यर्थः । कतिपयलोपे छुप्ेत्याह-एकस्येति॥ लोपे शास्त्रीये खवारसिके च। तत्राद्यां विभजते- पूर्णेति।। श्रुत्या सादृश्यप्रतिपादनात् श्रौती। अर्थतस्त्वार्थीत्यर्थः । श्रौतीं लक्ष- यति-साक्षादिति॥ आर्थी लक्षयति-धर्मिव्यवधानेनेति ॥ सदृशामि- धानद्वारेत्यर्थः । ननु यथेवादिशब्दानां सदशादिशब्दवत् सादृश्यविशिष्टार्थपरत्वा- भावात् केवलसादृश्यपरत्वं वक्तव्यम्। तथा सति मुर्खं चन्द्र इवेत्यत्र मुर्खं चन्द्रसादृश्यमित्यर्थ: स्यात्। एवं च दशदाडिमादिवाक्यवदसम्बद्धमिद भवि- व्यतीति चेत् सत्यम्। यथा राज्ञः पुरुष इत्यत्र गुणभूतराजविशेषणभूता षष्ठी अनुशासनबलादुभयनिष्ठसंबन्धमात्रममिदधानापि तद्द्वारा प्रधानभूतं पुरुषम- प्याक्षिपति । तदुकं हरिणा-'द्विष्ठोऽप्यसौ परार्थत्वात् गुणेषु व्यतिरिच्यते । तत्रामिधीयमान: सन् प्रधानेऽप्युपयुज्यते ।I' इति। एवमुपमानविशेषणभूता यथेवादयः शब्दाः श्रुत्या सादृश्यं बोधयन्तोऽपि शक्तिखवाभाव्यात् तात्प- र्येंण सादृश्यवति वर्तन्ते। एवं च यथेवादिशब्दानां श्रुत्या सादृश्यपरत्वात् तत्प्रयोगे श्रौती। सदृशादिशब्दानामर्थात् सादृश्यपरत्वात् तत्प्रयोगे त्वार्थीति

Page 267

२५८ प्रतापरुद्रीये रत्नापणसहिते

आर्थी। द्वे अपि वाक्यसमासतद्धितगतत्वेन त्रिविधे। एवं पूर्णो- पमा षट्प्रकारा। लुप्नोपमा एकोनविंशतिभेदा। 'तेन तुल्यं क्रिया चेद्वतिः' इति सदशार्थे विहितस्य वतेरुपादाने आर्थी। 'तत्र त- स्येव' इतीवार्थे विहितस्य वतेरुपादाने श्रौती। अत एव सादृश्यार्थे विहितस्य वतेः प्रयोगे धर्मोपादान एवान्वयसौकर्यादनुक्तधर्मा तद्धितगा श्रौती लुप्ता नास्ति। कल्पबादिप्रयोगे त्वार्थ्येव। अथो- दाहरणानि। वाक्यगा पूर्णा श्रौती यथा- उद्दामोद्यतविक्रमे कृतयुगे बाहौ ययातेर्यथा त्रेतायां रघुनायकस्य महितख्यातौ भुजायां यथा। दोर्दण्डे च युधिष्ठिरस्य विलसच्छौर्ये यथा द्वापरे विस्रव्धाद्य कलौ तथैव रमते क्षोण्यन्ध्रभर्तुर्भुजे॥ समासगा पूर्णा श्रौती यथा- भास्वानिवोद्यन्नुदयाद्रिलम्बी भद्रासनस्थो वरवीररुद्रः । उत्पश्यतामन्ध्रपुरीजनानां नेत्राब्जजाड्यं शमयत्यशेषम् ।। अत्र भासानिवेति इवेन सह नित्यसमासः। तद्धितगा पूर्णा श्रौती यथा

भुजे प्रतापरुद्रस्य धुरीणे भाति मेदिनी ॥ विवेकः । तयोः पुनः प्रत्येकं त्रैविध्यमाह-द्वे इति। एकोनविशतिमे- देति ॥ वक्ष्यमाणप्रकारेणेति शेषः । वतिप्रत्ययमेदादुपमामेद इत्याह- तेन तुल्यमित्यादिना॥ तत्र श्रौत्या विशेषमाह-अत एवेति ॥ अतोऽ स्मादेवान्वयसौकर्यादिति संबन्धः। कूर्मवदित्यादिवक्ष्यमाणोदाहरणे मेदिनी- मानरूपस्य समानधर्मस्योपादान एवान्वयसौकर्यादन्यथा तदभावाच्च तद्धितग- तायां श्रौत्यां धर्मोंपादानमावश्यकमिति भावः। कल्पबादिप्रयोगे त्विति॥ 'ईषदसमाप्तौ' इति विहितानां कल्प्देश्यदेशीयरप्रत्ययानां 'विभाषा सुपः' इति विहितस्य बहुच्प्रत्ययस्य च प्रयोग इत्यर्थः । आर्थ्येवेति ॥ धर्मिव्यवधा- नेनैव सादृश्यप्रतिपादनादित्यर्थः । उद्दामेति ॥ अत्र यथाशब्दप्रयोगादियं वाक्यगा श्रौती च। भास्वानिवेति। कथमियं समासगेत्याकाक्कायामाह- इवेन सह नित्यसमासः इति । 'इवेन समासो विभक्त्लोपश्ष पूरवपदप्रकृतिस्वरत्वं च' इति वार्तिकादिति शेषः । कूर्मवदिति ॥ 'तत्र तस्येव' इति सप्तमीसमर्थादिवार्थे वतिप्रत्ययः । अत एवेयं तद्वितगा श्रौती।

Page 268

अर्थालंकारप्रकरणम्। २५९

वाक्यगा पूर्णार्थी यथा- तैस्तैर्महीपालनसंविधानैस्तैस्तैः प्रजारञ्जनवैभवैश्च। विराजते संप्रति काकतीयलक्ष्मीपतिर्दाशरथेः समानः ॥ समासगा पूर्णार्थी यथा- तादक्पालनसामर्थ्यसंपदा काकतीश्वरः । हरिदीश्वरसंकाशः शास्ति मध्यमविष्टपम् ।। तद्धितगा पूर्णार्थी यथा- हेमाचलवदौन्नत्ये गाम्भीर्ये क्षीरसिन्धुवत्। प्रतापे भानुवद् भाति वीररुद्रनरेश्वरः ॥ एषूदाहरणेषूपमेयोपमानसाधार णधर्मसादृश्यप्रतिपादकानि चत्वारि निबद्धानीति पूर्णत्वम्। अथ लुपोपमाया उदाहरणानि। अनुक्तधर्मा वाक्यगा श्रौती लुप्ता यथा- यथा रुचां स्वामिनि चक्रवाक्यो यथा च नीहाररुचौ चकोर्यः। यथा प्रसूनस्तबके भ्रमर्यस्तथा प्रजाः काकतिवीररुद्रे॥ अनुक्तधर्मा समासगा श्रौती लुप्ता यथा-

धुरं बहतीति धुरीणे धुरन्धरे। 'खः सर्वधुरात्' इत्यन्न खः इति योगविभा- गात्खप्रत्ययः । 'गाम्भीर्यगरिमा तस्य सत्यं गजाभुजन्ञवत्' इति तस्येवेति वते- रुदाहरणम्। तैस्तैरिति ॥ महीपालनसंविधानैर्वापीकूपतटाकादिनिर्माणैरि- त्यर्थः। प्रजारज्जनवैभवैथ्वोरादिनिवारणपूर्वकैः पालनविशेषैरित्यर्थः। अत्र दाश- रथे: समान इति व्यासेन समानशब्दोपादानादार्थीयमुपमा वाक्यगता च । तादगिति ॥ हरिदीश्वरेण दिक्पतिना सदशो हरिदीश्वरसंकाश इति नित्य- समासः । 'स्युरुत्तरपदे त्वमी । निभसंकाशनीकाशप्रतीकाशोपमादयः ॥' 6 इत्यमरकोशे निभादिशब्दानामुत्तरपदनियमात्। अत एव समासगतेयमार्थी। हेमाचलवदिति । औनत्यादौ मेर्वादितुल्यं भातीत्यर्थः । अत्र 'तेन तुल्यम्' इति विहितस्य वतेः प्रयोगादार्थीयं तद्धितगा। एघूदाहरणेधूपमानादि- चतुरजननिबन्धनात् पूर्णत्वमित्याह-एष्विति॥ अथ लुप्तोदाहरणेषु प्रथमं धर्मा- नुपादाने पश्चोदाहरणानि क्रमेणाह-यथेत्यादि॥ रुचां खामिनि सूयें। वीर- रुद्रे वर्तन्ते इति शेषः । अत्न प्रतापाह्ादसारस्यानां धर्माणामनुपादानम् ।

Page 269

२६० प्रतापरुद्रीये रन्नापणसहिते

प्रतापरुद्रदेवस्य पादपीठीमनारतम् । आराधयन्ति भूपालाः प्रणता देवतामिव ॥ अनुक्तधर्मा वाक्यगा आर्थी लुप्ता यथा- काकतिक्ष्मापते जैत्र प्रस्थानपटह्ध्वनिम्। तुल्यं दम्भोलिनिर्घोषैः शृण्वन्त्यरिमह्दीभृतः ॥ अनुक्तधर्मा संमासगा आर्थी लुप्ता यथा- शश्वत्पुरीमेकशिलाभिधानां वस्वोकसारासद्शीमवेक्ष्य। नमन्ति भूपा भुवि काकतीयराज्यप्रतिष्ठं बहुमन्यमानाः ॥ अनुक्तधर्मा तद्धितगा आर्थी लुप्ता यथा- प्रतापरुद्रनृपतेर्जगन्महिततेजसः । कन्दर्पकल्पमाकारं पश्यन्त्यन्ध्रपुरन्ध्रयः ॥ एषूदाहरणेषु धर्मस्यानुपादानम्। अनुक्तधर्मेवादि: कर्मक्यचा लुप्ता यथा- दुग्धार्णवीयत्यम्भोधीन् कैलासीयति भूधरान्। प्रतापरुद्रदेवस्य यशोवैशद्यवैभवम् ।। अनुक्तधर्मेवादिराधारक्यचा लुप्ता यथा- प्रतापेति। अत्र पादपीठीदेवतयोः समानो धर्मः सम्पत्प्रदत्वमनुक्तम्। अनु- कधर्मा तद्धितगा श्रौती लुप्ता नास्तीत्युक्तम्। काकतीति॥ दम्भोलिनिर्घोषैरश- निध्वनिमिस्तुल्यं तद्वत् भीषणमिति गम्यते। शश्वदिति ॥ वस्वोकसारासटक्षी- मलकासमानाम्। वैभव इति नोक्तम्। प्रतापरुद्रेति॥ कन्दर्पकल्पं कन्दर्प- सदशम्। रूपसंपदेति शेषः । ईषदसमाप्तौ कल्पप्प्रत्ययः । इयमेकलोपे लुप्ता पख्विधा। अथ द्विलोपे लुप्तां क्रमेणोदाहरति-दुग्धार्णवीयतीत्यादिना॥। अत्र 'उपमानादाचारे' इति क्यच्प्रत्ययः । 'क्यचचि च' इतीकारः । धावल्य- मत्र साधर्म्य गम्यते। अम्भोधीन् दुग्धाणवानिवाचरतीत्यत्र वाक्ये प्रक्रान्त कर्मद्वयम् । तत्रोपमानकर्मणोऽन्तर्भूतत्वात् तदपेक्षयासावकर्मको धातुः । तदु- कमू-'धातोरर्थान्तरे धृत्तेर्धात्वर्थेनोपसंग्रहात्। प्रसिद्धेरविवक्षातः कर्मणोऽकर्मि- का किया ।।' इति। कर्मान्तरापेक्षया तु सकर्मक एव। यथाह भगवान् भाष्य- कार :- 'दे. क्यत्र कर्मणी उपमानकर्मोंपमेयकर्म चेति। उपमानकर्मान्तर्भूत-

Page 270

अर्थालंकारप्रकरणम् । २६१

क्रीडाद्रीयति गोत्रशैलशिखरेष्वास्थानसद्मीयति द्वीपेष्वब्धिषु दीर्षिकीयति हरित्स्वेकान्तगेहीयति। उद्यानीयति सीमपर्वततटारण्ये सुपर्वाचले प्रासादीयति वीररुद्रनृपतेः स्फारः प्रतापोदयः ॥ अनुक्तधर्मेवादि: कर्मणमुला लुप्ता यथा- पश्यन्त्यात्मजदर्शमिन्दुममरस्रोतस्विनीं सत्सखी- दर्श क्षीरपयोनिधिं प्रियसुहृद्दश गिरिं राजतम्। लीलादर्पणदर्शमन्यदमलं तारादि हारावली- दश खेलति वीररुद्रनृपतेः कीतिर्जंगव्यापिनी॥ अनुक्तधर्मेवादि: कर्तृणमुला लुप्ता यथा- नृपेषु शिक्षाविधिदण्डचारं कान्तासु पुष्पायुधधन्वचारम्। प्रजासु चालम्बनयष्टिचारं चरत्ययं रुद्रनरेन्द्रखङ्ग: ।। अनुक्तधर्मेवादिः किपा लुप्ता यथा- सुधाप्रवाहति सतामसतां कालकूटति। वीररुद्रनरेन्द्रस्य गुणज्योत्स्नाविजम्भितम् ॥ सुपमेयेन कर्मणा सकर्मकी भवति' इति। एवमन्यत्रापि द्रष्टव्यम्। क्रीडाद्री- यतीति॥ आस्थानसद्य सभामण्टपः । दीर्घिकाः क्ीडासरांसि। सीमपर्वतो लोकालोकः। सुपर्वाचलो मेरुः। क्रीडापर्वतादिष्विव कुलपर्वतशिखरादिष्वाचर- तीत्यत्र सुखसाधनत्वं साधर्म्य गम्यते। 'अधिकरणाच्च' इति वचनात् क्यच्प्रत्ययः। कौडाद्रीयतीत्यत्र 'अकृत्सार्वधातुकयोः' इति दीर्घः । सदीयतीत्यत्र नलोपे 'क्यचि च' इतीकारः। पश्यन्तीति॥ आत्म्ज पुत्रमिव दृष्ट्रा आत्मजदर्शम्। एवमुत्तरत्रापि द्रष्टव्यम् । 'उपमाने कर्मणि च' इति णमुलूप्रत्यये कषादित्वात् सर्वत्र पश्यन्तीत्यनुप्रयोगः । अन्रात्मजसख्यादीनामिन्दुमन्दाकिनीमुख्यानां चो- पमानोपमेयभावे नैर्मल्यमेव साधर्म्यमूलमिति गम्यते। नृपष्चिति॥ शिक्षा- विधेर्दण्ड: शिक्षाविधिदण्डः इति तादर्थ्ये अश्वघासादिवत् षष्ठीसमासः। स इव चरित्वा तच्चारमिति 'उपमाने कर्मणि च' इति चकारात् क्तरि णमुल्। कषा- दित्वाचरतेरनुप्रयोगः । अत्र भीषणोद्दीपनविश्रामभूमित्वानां क्रमेण समानधर्म- त्वमुन्नेयम्। सुधेति ॥ गुणज्योत्स्ाविजृम्भितं कर्तृ। सुधाप्रवाह इवाचरति सुधाप्रवाहति तद्वच्छलाध्यमित्यर्थः। कालकूटमिवाचरति कालकूटति तद्वदसव्- मित्यर्थः । 'सर्वप्रातिपदिकेभ्यः क्विव्वाचारे' इत्याचारे क्विप्प्रलयः *

Page 271

२६२ प्रतापरुद्रीये रन्नापणसहिते

एषूदाहरणेषु द्वयोरनुपादानम्। अम्भोधीन् दुग्धार्णवीयतीत्यत्र कर्मक्यचि दुग्धार्णवानिव करोतीति, गोत्रशिखरेषु क्रीडाद्रीयतीत्या- धारक्यचि क्रीडाद्रिष्विव वर्तत इति, चन्द्रमात्मजदर्श पश्यन्तीति कर्मणमुलि आत्मजमिव पश्यन्तीति, शिक्षाविधिद्ण्डचारं चरतीति कर्तृणमुलि शिक्षाविधिदण्ड इव चरतीति इवशब्दोऽन्तर्गत इति तस्य लुप्तत्वम्। अनुक्तधर्मीवादि: कर्तृक्यचा लुप्ता यथा- ज्योत्स्नीयन्ति सुधीयन्ति चन्दनीयन्ति सर्वतः । प्रतापरुद्रनृपतेः शुभा: कीर्तेर्महोर्मयः ॥ अत्र कीर्तीनां स्वरूपमुपमेयम्। अनुक्तधर्मेवादि: कर्तृक्यडा लुप्ता यथा- अत्राचारस्य समानधर्मत्वं मन्यमान: काव्यप्रकाशकारसतद्वाचकस्य क्विपः सर्व- लोपादिवादिलोपाच द्विलोप:, क्यजादौ तु प्रत्ययश्रवणादेकलोप एवेत्याह। विद्यानाथस्तु कर्तरि क्यजादावस्तु नाम धर्मान्तरोद्गावनाशक्तौ कर्थचिदाचार: साधर्म्यम्, कर्मणि क्यजादौ तूपमानोपमेयगतो धावल्यादिरेव समानधर्मो नाचारमात्रं तस्यान्यधर्मत्वादिति मन्यमान: क्यजादावपि द्विलोप इत्याह- एषूदाहरणेषु द्योरनुपादानमिति॥ एतदेव विविनकि-अम्भोधीनि- त्यादि। इवशब्दोऽन्तर्गत इति। गम्यमानार्थ इत्यर्थः । एतय्थोदाहरणमस्म- दुद्धाटितधावल्यादिसाधारणधर्मस्याप्युपलक्षणम्। तस्य लुप्तत्वमिति॥ अप्र- युक्तत्वमित्यर्थः । यदाह कैयट :- 'गम्यमानार्थरयाप्रयोग एव लोपः' इति। क्विबन्तोदाहरणं तु सर्वसंप्रतिपन्नत्वान्न विव्ृतमिति द्रष्टव्यम्। कचित् त्रिलोपे लुप्तामाह-अनुक्तेति॥ धर्मः समानधर्मोऽस्यास्तीति धर्मि उपमेयं, तब्चेवादि- ख्वानुक्तौ यत्रासावलुप्तधर्मीवादिः। अनुक्ोपमेयेवादिरित्यर्थः । धर्मलोपस्तु प्रसिद्धः । कर्तृक्यचेति ॥ यत्र क्यच्प्रत्यये प्रकृतिभूतस्योपमानस्य कर्मणः कर्तैं वोपमेयं तेनेत्यर्थों द्रष्टव्यः । केवलकर्तृक्यच्प्रत्ययस्यैवाभावात्। तेन लुप्तामुदा- हरति-ज्योत्स्नीयन्तीति॥ ज्योत्स्नामिवात्मानमाचरन्तीत्यतात्मन उपमेय- स्येवादेः साधर्म्यस्य नैर्मल्यादेश्ानुपादानात् त्रिलोपे लुप्तेयमिति भावः । आचारसाधर्म्यवादिनां तु. द्विलोप एव। तदुक्क काव्यप्रकाशे-'क्यचीवाद्युप- मेयौ' इति। न च कीर्तिमहोर्मय इत्युपमेयोपादानम्। उपमानापेक्षया मिनन- विभक्तिकत्वाद्। न चैतदनुसारेण ज्योत्त्ीयन्तीत्यत्र ज्योत्सा इवाचरन्तीति समा- नविभकिकत्वकल्पनमुपपद्यते। कर्तृक्यच्प्रत्ययस्यानुशासनविरुद्धत्वात्। न च शुभा इति समानधर्मोंपादानम्। तस्य कर्तृभूतकीर्तिविशेषणत्वेन तत्रैवोपक्षी-

Page 272

"अर्थालंकारप्रकरणम्। २६३

शषायते महीं वोदुं कल्पशाखायतेऽर्थिनाम्। प्रतापरुद्रदोर्दण्डः कालदण्डायते द्विषाम्।। अनुक्तोपमाना वाक्यगा लुप्ता यथा- वदान्यो नान्योऽस्ति त्रिजगति समो रुद्रनृपते-

क्रियन्ते यद्विद्वज्जनमणिगृहप्राङ्गणभुवः ॥ अनुक्तोपमाना समासगा लुप्ता यथा- वीररुद्रसमो राजा नास्ति नास्तेव भूतले। यस्य धर्मानुबन्धेन कलि: कृतयुगीकृतः । अनुक्तधर्मोपमाना वाक्यगा लुप्ता यथा- लोके काकतिवीररुद्रनृपतेरुद्दामभूमश्रियः कीर्त्या कार्तिककौमुदीधवलया तुल्यं न किंचित् क्चित्। णत्वादित्यलमतिप्रसज्वेन । पुनरपि धर्मेवादिलोपे लप्तामाह-शेषायत इति । शेष इवाचरति इति शेषायते। 'कर्तुः क्यड् सलोपश्च' इति क्यड्प्रत्यये छित्वादात्मनेपदम्। अत्रोपमानकर्तुरन्तर्भूतत्वादुपमेयकर्त्रा सकर्तृकत्वमिति भाष्यकारः। अत् महीवहनलक्षणस्य साधर्म्यस्योपादानांत् कल्पशाखायत इत्यादिकमेवोदाहरणम्। शेषायत इत्येतदेकलोपस्येति विवेकः। अत एव अस्य प्रकरणात् उत्कर्ष: । अत एवं कर्तृणमुलि क्विपि च समान- धर्मस्योपादानानुपादानाभ्यां द्वैविध्यं द्रष्टव्यम्। पुरुषव्याघ्र इत्यल सा- मान्याप्रयोग एव सामानाधिकरण्यात् समासः संभवति। तदुक्त हरि- णा-'व्याघ्रशब्दो यदा शौर्यात् पुरुषार्थेऽवतिष्ठते। तदाधिकरणामेदात समासस्यास्ति संभवः ॥ शूरशब्दप्रयोगे तु व्याघ्रशब्दो मृगे स्थितः । मिन्नेऽधि- करणे वृत्तेस्तत नैवास्ति संभवः ॥' इति। अतोऽत धर्मलोपादिवादेरभावाच्चानु- कधर्मेवादि: समासगा लुप्तेत्येष भेदोSत्रत्यपुस्तकेष्वंभावादुन्नेयः। उपमानानुकौ वाक्यसमासगतत्वेनोदाहरणद्वयं क्रमेणाह-वदान्य इति ॥ गतमेतत्। रुद्रनृ- पतेः समो वदान्य इत्युपमेयवाचकसमानधर्माणां प्रयोगः । उपमान तु नोक्तम्। वीररुद्रसम इति समासेनोपमेयवाचकयोः प्रयोगः। रजनाद्राजेति साधर्म्यकथ- नमू। पूर्ववद्धर्मोपमानानुक्तावुदाहरणद्वयमाह-लोक इति॥ कीर्त्या तुल्यं मधुरं वस्तु किमपि नास्तीत्यर्थः । अत एव साधर्म्योपमानयोरनुपादानम् । यन्माधुर्यविजम्भितैः यस्याः कीर्तेः माधुर्यातिशयैरित्यनेन साधर्म्योंपादानमिति

Page 273

२६४ प्रतापरुद्रीये रल्नापणसहिते

यन्माधुर्यविजुम्भितक्षतविषां श्रीवां विलोक्याधुना कण्ठालिङ्गनमीशितुर्वितनुते नीरन्ध्रमद्रे: सुता ॥ अनुक्तधर्मोपमाना समासगा लुप्ता यथा- प्रतापश्रीतुल्यं कचिदपि न भूतं न च भवत् न भावि त्रैलोक्ये किमपि जयिनः काकतिविभोः । यथा लोकालोकक्षितिधरतटेष्वर्कदषद्: प्रकाशन्ते नक्तंदिवमुदितरोचिःपरिचयाः ॥ पूर्वोदाहरणद्वये वदान्यो नान्योऽस्तीति राजेति शब्दाभ्यां वित- रणशीलत्वं प्रजारञ्जकत्वं च साध्म्यमुक्तम्। अनन्तरोदाहरणद्वये धर्मस्याप्यनुपादानमिति भेदः। एषु चतुर्षूदाहरणेषु न प्रतीपालं- कारशङ्का । उपमानस्याक्षेपाभावात् उपमेयस्याधिक्याविवक्षणाच्च। यत्रोपमेयस्याधिक्यविवक्षयोपमानत्वमुच्यते तत्रैव प्रतीपालंकार: । अनुक्तेवादि: समासगा लुप्ता यथा- असतामुष्णभानूष्णं सतां शीतांशुशीतलम् । प्रतापरुद्रदेवस्य चरितं विश्वमङ्गळम् ॥ अनुक्तधर्मेवागुपमाना समसागा लुप्ता यथा- काकतीन्द्रो रणे भाति भीमसेनपराक्रमः । न शङ्कनीयम्। तस्य वाक्यान्तरगतत्वात्। किं तु माधुर्यमेव साधर्म्य विवक्षित, न कौमुदीधवलत्वादिकमित्यनेन सूच्यते। प्रतापेति ॥ लोकालोकक्षितिधरतटेषु पाश्चात्येष्वपीति भावः । अर्कदृषदः सूर्यकान्ताः । देशतः कालतश्च परिच्छेदा- सीतत्वात् प्रतापश्रीतुल्यं नास्तीत्यत्रोपमेयवाचकयोरेवोपादानम् । एषूदाहरणे- ष्वाद्ययोरेकलोपमन्त्ययोश्च द्विलोपं विविनकि-पूर्वेति। अतोदाहरणचतुष्टये प्रती- पालंकारसाड्कर्य वारयति-एष्विति॥ 'आक्षेप उपमानस्य कैमर्थक्येन कथ्यते। यद्वोपमेयभाव: स्यात् तत् प्रतीपमुदाहृतम् ।' इति लक्षणानुसारेण द्विविधस्या- पि प्रतीपस्येहानुप्रवेशाभावान्न तत्साङ्कर्यशङ्काकलङ्कावकाश इति भावः । असता- मिति ॥ उष्णभानुरिवोष्णमुष्णभानूष्णमित्यत्र वाचकमाललोपादेकलोपे लुप्ता समासगा। सर्वस्यापि शब्दस्य शब्दान्तरसंबन्धेन विशेषवाचित्वादुष्णादि- शब्दानां तथात्वेन सामान्यवचनत्वाभावेपि भाष्योक्तरीत्या समासात् पूर्व सामान्यवचनत्वेन 'उपमानानि सामान्यवचनैः' इति समासः। समासे त्रि- कोपमुदाहरति-काकतीन्द्र इति॥ भीमसेनपराक्रम इव दुःसहः पराक्रमो

Page 274

अर्थालंकारप्रकरणम्। २६५

किंत्वदुःशासनाः सर्वे यस्य प्रत्यर्थिपार्थिवाः ॥ अत्र भीमसेनस्य पराक्रम इव पराक्रमो यस्य सः भीमसेनपराक्रम इति धर्मेवाद्युपमानलुप्ता । इति लुप्तोपमा दर्शिताः । अथ साधारणधर्मोपादाने द्वैविध्यम्। धर्मस्य सकृदुपमानोपमे- यगतत्वेन निर्देशः, उभयगतत्वेन पृथगुपादानं च। पृथगुपादानं च वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावेन च द्विविधम्। एक- स्यार्थस्य शब्दद्वयेनाभिधानं वस्तुप्रतिवस्तुभावः । द्वयोरर्थयोरद्विरुपा- दानं बिम्बप्रतिबिम्बभावः । सकृन्निर्देशो यथा- यस्यासौ भीमसेन पराक्रमः। अत्र विशेषमाह-कि त्विति॥ दुःशासनो दुयों- धनानुजः तत्सहिता भीमसेनप्रत्यर्थिनः, वीररुद्रवैरिणस्तु तद्रहिता इति प्रातीति- कोऽर्थः। दुष्करं शासनं खवविषयं येषां ते दुःशासना दुःसाधाः। ते न भव- न्वीत्यदुःशासनाः । सर्वेऽपि सुसाधा इत्यर्थः । त्रिलोपं दर्शयति-अत्रेति ॥ धर्मेवादुपमानलुप्तेति ॥ धर्मेवाद्योर्गम्यमानार्थत्वाल्लुप्तत्वम्। उपमानस्य तु वार्तिकादिति भावः । तथा हि-'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्ाच्य उत्तर- पदलोपक्ष' इति वार्तिकम्। अस्यार्थः । सप्तम्यन्नं तावदास्ताम्। उपमान पूर्व- पद यस्य समासस्य तस्य शब्दान्तरेण बहुग्रीहि: पूर्वसमास।वयवस्योत्तरपदस्य च लोप इति। एतेनेदर फलितम्। अत्रोपमानशब्देन मुख्योपमानभूतस्य भीम- सेनपराकमस्याश्रयो भीमसेनो लक्ष्यते। तत्पूर्वपदस्य भीमसेनपराक्रम इत्यस्य समासस्योपमेयवाचिनां पराक्रमशब्देन बहुव्रीहि -भीमसेनपराक्रम इब दुःसहः पराक्रमो यस्येति। ततः पूर्वसमासावयवस्थोत्तरपदस्य मुग््यापमानपराक्रम- शब्दस्य लोप इति। तेन धर्मेवाद्युरमानानां लोपात् त्रिलोपवती समासगा। अन्रायं संग्रह :- समासगेवादिलोंप स्यादेका वृत्तिवाक्यगे। द्वे लोप उपमानस्य वाक्यतद्धितवृत्तिगाः ॥ धर्मानुक्तो पञ्च चैकलोंपेऽष्टौ मिलिता मिदाः । कर्माधार क्यचा कर्मकर्त्रोश्च णमुला किपा ॥ क्यबा कर्तयुपमितवृ्त्या चेवादिधर्मयोः । अनुकौ सप्त. धर्मोपमानलोपे समासगा: ॥ वाक्यगा च द्विधे येवं द्विलोपे नव कीर्तिताः। क्यचोपमानान्यलोपे स्यादेकान्या समासगा॥ उपमेयान्यलोपे दे स्यातामेवं त्रिलोपगे। लुप्तामेदा मिलिन्वा स्युरेवमेकोनविंततिः ॥ पूर्गाभिः सह षड्मिस्तु मेदा: स्यु: पञ्चविशतिः। द्वे श्रौत्यौ ध्मलोपेऽन्या आर्थ्य सप्रदश समृनाः॥ कुत्रचित् कर्तृणमुलि तथाचारक्किपि क्यक्ि। एकलोप विद्ुप्ता स्याद्धर्मोंपाद्ान- संभवात् । इति। समानधर्मोपादाने सर्वमेदसाधारणं विशेषमाह-अर्थाति ॥ द्वितीयं द्वेधा विभजते-पृथगिति॥ तत्रादं लक्षयति- एकस्येनि॥ द्वितीय लक्षयति-द्योरिति॥दयो. सदशयोरिति शेषः । तेन धर्मापक्षा वस्तु प्रतिवस्तुभा- प्र 23

Page 275

२६६ प्रतापरुद्रीये रत्नापणसहिते

नृपाः प्रणतमूर्धानः सेवन्ते काकतीश्वरम्। असाधूनां विनेतारं गुरुं शिष्या इवाभित: ॥ अत्र नरेश्वराणां शिष्याणां च प्रणतमूर्धान इति सकृदेव साधर्म्यमुक्तम्। तथा असाधूनां विनेतारमिति राज्ञो गुरोश्च तुल्य- धर्मत्वं सकृदेवोक्तम्। वस्तुप्रतिवस्तुभावेन द्विधा निर्देशो यथा- वंशोऽयं काकतीयानां वीररुद्रेण भूषित: । अन्ववायः ककुत्स्थानां रामेणेव परिष्कृतः ।। अत्र भूषितपरिष्कृतशब्दाभ्यामेकार्थप्रतीतेर्वस्तुप्रतिवस्तुभावः । बिम्बप्रतिबिम्बभावो यथा- स्फुरच्छवेतातपत्रश्रीः काकतीयनरेश्वरः । हाटकाद्रिरिवाभाति शृङ्गसङ्गीन्दुमण्डलः ।। अत्र श्वेतातपत्रचन्द्रमण्डलयोः सादृश्येन काकतीन्द्रसुवर्णाच- लयोः सादृश्यमिति बिम्बप्रतिबिम्बभावः । अपरमपि द्वैविध्यमस्यालंकारस्य-समस्तवस्तुविषया एकदेश- वर्तिनी चेति। यथाक्रमं द्वयोरुदाहरणम्- विभाति भूर्धौरिव काकतीन्द्रपुरी विराजत्यमरावतीव। पौरा: प्रथन्ते त्रिदशा इवा्धि धत्ते मरुत्वानिव बीररुद्र: ।। एषा समस्तवस्तुविषया। एकदेशवर्तिनी यथा- वः । धर्म्यपेक्षस्तु बिम्बप्रतिबिम्बभाव इति फलितम्। नृपा इति॥ अत्र समा- नधर्मस्य सकृन्निर्देशं योजयति-अत्रेति॥ द्विधा निर्देश इति॥ उपमानग- सत्वेनोपमेयगतत्वेन चेति भावः। वंश इति॥ परिष्कृत इत्यत्र 'संपरिभ्यों करो- तौ भूषणे' इति सुडागमे षत्वम्। अत्र संबन्धिमेदन भूषितपरिष्कृतशब्दाभ्यां समानधर्मकथ नाद्वस्तुप्रतिवस्तुभावः । स्फुरदिति॥ अत्र श्वेतातपत्रस्येन्दुमण्डळ प्रतिबिम्बतया निर्दिश्यते। काकतीन्द्रसुवर्णाचलयोः स्वरूपतः सादृश्याभावाद्वि- श्षेषणसादृश्यनिबन्धनं विशेष्यसादृश्यमिति वक्तव्यम्। स एव बिम्बप्रतिबिम्ब- भाव इत्याह-अत्रेति॥ प्रकारान्तरेग विभागमाह-अपरमिति॥ समस्तानि वस्तून्यवयव्यवयवाश्च विषया यस्याः समस्तवस्तुविषया। अवयवावयविनोरेक- देशे वर्तत इत्येकदेशवर्तिनी। आद्यामुदाहरति-विभातीति ॥ मरुत्वानिन्द्रः। 'तसौ मत्वर्थे' इति भसंज्ञायां पदकार्य न भवति। 'झय' इति मतोर्वत्वमू । इयमनेकैवोपमेति केचित्। इवशब्दान्तरप्रयोगे पौनरुक्त्यापत्तेरेकेनैवालमिति

Page 276

अर्थालंकारप्रकरणम्। २६७

द्विपैश्चरद्विर्धरणी धरैर्वा तुरङ्गमश्रेणिभिरूर्मिभिर्वा। नानायु वैर्व्यालजलग्रहैर्वा बलं त्रिलिङ्गाधिपतेर्दुरापम् । अत्र त्रिलिङ्गाधिपतेर्बलं समुद्र इवेत्यर्थात्प्रतीतेरेकदेशवर्तित्वम् । मालारूपेणाप्ययमलंकारो दृश्यते। यथा- कुन्दति कुमुदति हंसति हारति हरति क्षपाकरति। कैलासति च यशःश्रीवैशदं वीररुद्रस्य ।। अत्रैकस्योपमेयस्यानेकोपमानदर्शनात् मालात्वम। उपमार्या भेदाभेदसाधारणस्य साधर्म्यस्य प्रयोजकत्वम। एवं भेदान्तरं यथासंभवमुदाहार्यम् ॥ अनन्वयालंकारः । एकस्यैवोपमानोपमेयत्वेऽनन्वयो मतः । यत्र द्वितीय सत्रझचारिनिवृत्त्यर्थमेकस्यैवोपमानोपमेयभावो निय- भ्यते असावनन्वयालंकारः। यथा- सन्तु लोके सुवर्णाद्रिरन्नाकरसुधाकराः। तथापि वीररुद्रोऽयं वीररुद्र इव स्वयम् ॥ उपमेयोपमालंकारः। पर्यायेण द्वयोस्तस्मिन्नुपमेयोपमा मता। विद्याधरः । द्वितीयामुदाहरति-द्विपैरिति॥ धरणीधरैमैंनाकादिमि: । सर्वत्र वाशब्द इवार्थे। 'वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये' इति विश्वः । त्रिळि- आधिपतेरन्ध्रदेशाधीश्वरस्य। नाटके व्युत्पत्तिरुक्ता । एकस्यैवोपमेयस्य बहूपमा- नोपादाने मालोपमा। तामुदाहरति-कुन्दतीति॥ सर्वत्राचारे क्विप्प्रत्ययः । साधर्म्य त्रिविधम्-मेदप्रधानममेदप्रधान मेदामेदप्रधानं चेति। तत्राद्यं व्यति- रेकादौ। द्वितीयं रूपकादौ। तृतीयमत्रेत्याह-उपमायामिति॥ यदाह भग- वान् भाष्यकार :- 'यत्र किंचित् सामान्यं कश्चिच्च विशेषस्तत्रोपमानोपमेये भवतः' इति। 'फणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्ति :- ' इत्यादिरशनोपमादिक- मन्यतो द्रष्टव्यमित्याह-एवमिति॥ मेदाभेदसाधारणसाधर्म्मूलेघूपमानन्तर प्रतीयमानवस्तुकयोरेकवाक्याश्रयमनन्वयं लक्षयति-एकस्येति ॥ एकस्यैवोप- मानोपमेयभावानन्वयादन्वर्थेयं संज्ञा। वाच्यामिप्रायेणोपमेयस्यैव द्वितीयसदश- निवृत्तिलक्षणव्यज्ञयामि प्रायेणोपमानत्वमन्वेतीत्यमिप्रायेण व्याचष्टे-यत्र द्विती- येति॥ उदाहरति-सन्त्विति॥ उपमानभावानहैंः किं तैरिति भावः। अनन्वय- वैलक्षण्येन वाक्यमेदाश्रयमुपमेयोपमालंकारं लक्षयति-पर्यायेणति ॥पर्यायो

Page 277

२६८ प्रतापरुद्रीये रन्नापणसहिते

त स्मिन्नित्युपमानोपमेयत्वपरामर्शः। यथा- धर्मोऽर्य इव पूर्णश्रीरर्थो धर्म इव स्थितः । कामस्ताविव तौ काम इव रुद्रनरेश्वरे।। स्मरणालंकार:। सदृशानुभवादन्यस्मृति: स्मरणमुच्यते। यत्र सद्ृशस्य पदार्थस्यानुभवेन सदशवस्त्वन्तरपरामर्शो जायने तंत्र स्मरणालंकारः । यथा- राज्ञा प्रतापरुद्रेण पालितेयं वसुंधरा। हरिश्रन्द्रनलादीनां प्राचां स्मरति भूभुजाम् ॥ अत्र नलनहुषादितुल्यपालनप्रवीणतया प्रतापरुद्रं रक्षितारं प्राप्त- वत्या मेदिन्याः पूर्वराजस्मरणम्। भेदाभेदसाधारणसाधर्म्यनिबन्ध- नालंकारा: प्रदर्शिताः । संप्रत्यारोपगर्भालंकार प्रस्तावः । तत्रापि प्राधान्यात् प्रथमं रूपकं निरूप्यते। रूपकालंकार: । आरोपविषयस्य स्यादतिरोहितरूपिणः । यौगपद्याभावः । द्वयोरुपमानोपमेययोः। तच्छब्दस्य प्रकृतानन्वयपरामर्श वार- यति-तस्मिन्निति ॥ द्वयोरुपमानोपमेयभावविनिमये सत्युपमेयोपमालंकार इत्यर्थः । उपमेयेनोपमा उपमेयोपमेत्यन्वर्थत्वम् । धर्म इति ॥ अत्र वाक्य- मेदेन द्वयोरेवोपमानोपमेयभावात् तृतीयसब्रह्मचारिनिवृत्तिलक्षणं वस्तु प्रतीयते। अल पूर्णश्रीरिति धर्मस्य साधारण्यम्। स च वस्तुप्रतिवस्तुनिर्देशेनापि दृश्यते। सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजाः। वाप्योऽड्ना इवाभान्ति यत्र वाप्य इवाजनाः ॥ इति। मेदामेद प्रधानेषु परिशेषात् स्मरण लक्षयति-सदशेति। व्याचष्टे-यत्रेति॥ अन्यशब्दार्थमाह-सहशवस्त्वन्तरेति॥ 'सदशादष्ट- चिन्तादाः स्मृतिवीजस्य बोधकाः इति न्यायेन सदृशानुभवात् पूर्वानुभव- जनित संस्कारोद्वोधे सति सदृशवस्त्वन्तरस्मृतिः स्मरणालंकार इत्यर्थः । सादृश्य- व्यतिरिक्तनिमित्तत्वेन 'अन्रानुगोदं मृगयानिवृत्तः-' इत्यादौ नायमलंकारः । न चेदमतुमानम्। अविनाभावाभावात्। उदाहरति-राज्षेति। भूभुजामित्यत्र 'अधीगर्थ- इत्यादिना कर्मणि षष्ठी। अथ वृत्तानुकथनपुरःसरं प्रघट्टकसगति- माह-भेदाभेदेति॥ आरोपगर्भा अमेदप्रधाना इत्यर्थः। तेषु रूपकस्य संगति- माह-तत्रापीति॥ अमेदप्रधानेध्वित्यर्थः। प्राधान्यादिति॥ आरोपमूलार्ल- कारबीजभूतत्वेनेति भावः । तस्य लक्षणमाह-आरोपेति । अन्यत्रान्यज्ञानम्

Page 278

अर्थालंकारप्रकरणम्। २६९

उपरञ्जकमारोप्यमाणं तद्रूपकं मतम् ॥। अत्रारोपविषयस्येत्यनेन अध्यवसायगर्भस्य उत्प्रेक्षादेः अनारोप- मूलानां चोपमादीनां व्यावृत्तिः । अतिरोहितरूपिण इत्यनेन संदेहभ्रान्तिमदपह्ुतिप्रमुखाणां व्यावृत्तिः । संदेहालंकारे विषयस्य संदिह्यमानतया तिरोधानम्। भ्रान्तिमदलंकारे भ्रान्त्या विषयतिरो- धानम्। अपहुत्यलंकारेSपह्ववेनारोपविषयतिरोधानम। उपरक्षक- मित्यनेन परिणामालंकारव्यावृत्तिः । परिणामे आरोप्यमाणस्य प्रकृतोपयोगित्वेनान्वयो न प्रकृतोपरञ्जकत्वेन। अतः सादृश्य- मूलेभ्यः सर्वेभ्यो विलक्षणं रूपकम् । तस्य प्रथमं त्रैविध्यम्-सावयवं निरवयवं परम्परितं चेति। सावयवं द्विविधम्-समस्तवस्तुविषयमेकदेशविवर्ति चेति। निरवयवं द्विविधम्-केवलं मालारूपं चेति। परम्परितस्यापि श्िष्टनिबन्ध- नत्वेनाश्िष्टनिबन्धनत्वेन च द्वैविध्यम्। तयोरपि प्रत्येकं केवल- मालारूपतया चातुर्विध्यम्। एवमष्टविधो रूपकालंकारः। अथोदाह- रणानि। यत्रावयवानामवयविनश्च सामस्त्येन रूपणं निवध्यते तद् समस्तवस्तुविषयं रूपकम् । यथा- यात्राप्रावृषि वीररुद्रनृपतेर्निस्साणधाराधरे वैरिक्ष्मापतिगर्वपर्वतभिदाभीमं मुहुर्गर्जति। आरोपः । तद्विषयस्य मुखादेः। अतिरोहितरूपिण: अतिरस्कृतस्वरूपस्य। सर्व- धनादित्वादिन्प्रत्ययः । आरोप्यमाणं चन्द्रादि। उपरज्जकं ताद्रूप्य प्रतीतिमात्र- जनकम्। अत्र आरोपस्य तावतैव चरितार्थत्वान्न पुनः परिणामवत् प्रकृतोपयो- गान्तमारोपविवक्षेति भावः । यदेवंविधं तद्रूपकम्। प्रकृतमप्रकृतेन रूपवत् क्रियत इति लक्ष्यनिरुक्तिः । तदुक्तम्-'ततो विषयिरूपेण रूपवान् विषयो यतः । आरोपणेन क्रियते तेनैतदरूपकं मतम् ॥' इति। विशेषणकृत्यमाह-अतरारो पविषयस्येत्यादिना ॥ तस्य विभागमाह-तस्य प्रथममित्यादिना ॥ समस्तवस्तुविषयं लक्षयति-यत्रेति ॥ आरोपविषयवदारोप्यमाणानामपि यत्र शब्देनोपादानं तत् समस्तवस्तुविषयमित्यर्थः । उदाहरति-यात्रेति।

Page 279

२७० प्रतापरुद्रीये रव्ापणसहिते

वर्धन्ते हरिदन्तरेषु जगदानन्दा यशःकन्दलाः ॥ यत्रावयवरूपणादवयविनो रूपणं गम्यते तदेकदेशवि- वर्ति रूपकम् । यथा- प्रसाधिताशावलयान्तराल: शौर्याकर: काकतिवीररुद्रः । विकस्वरैर्वासनया त्रिलाकीं गुणप्रसूनैः सुरभीकरोति। अत्रावयवानां गुणानां प्रसूनत्वरूपणेन नृपतेः कल्पशाखित्वं रूप्यते। तस्मादेकदेशविवर्तित्वम्। यथा वा- मथिताद्वैरिवाराशेर्भु जामन्दरभूभृता। जाता प्रतापरुद्रस्य कीर्तिर्लोंकान धिनोत्यमून् ।। अत्र वैग्जिनस्य वाराशित्वरूपणेन भुजस्य मन्दराद्रित्वरूपणेन च जातायाः कीर्तेः सुधात्वमर्थादापतति लोकानाममरत्वं चेत्येक- देशविवर्ति रूपकम्। अन्न यात्राप्रावृषीत्यादाववयवरूपणम्। यशःकन्दला इत्यवयविरूपणम् । 保 后 营 品 ननु यशांसि कन्दला इवेत्युपमितसमासः प्राप्नोति, यशांस्येव कन्दला इति रूपकसमासोऽपि। उभयोः साधकयाधकाभावात् संदेहसंकर एवायम्। तेन रूपकमेवेति कर्थ निश्चीयते इति चेत् सत्यम्। जगदानन्दा इति सामान्यप्रयो- गसंभवाओोपमितसमासः । किं तु मयूरव्यंसकादित्वाद्वूपकसमास एव। तेन रूपकमेवेदं नोपमा। एवमुत्तरत्नापि साधकबाधकयोरुद्भावनं द्रष्टव्यम् । एकदेशविवर्ति रूपकं लक्षयति-यत्रेति । उपलक्षणमेतत्। तेन यथा- योगमवयवावयविनोरेकदेशस्य शाब्दत्वार्थत्वाभ्यामेकदेशविवर्ति रूपकमिति लक्षणं यथोदाहरणं द्रष्टव्यम्। अत एव .आह काव्यप्रकाशकार :- 'श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्ति तत्' इति। एकदेशे विशेषेण वर्तनादेकदेशविवर्तीत्यर्थः । उदाहरति-प्रसाधितेति॥ प्रसाधिताशावलया- न्तरालो वशीकृतदिख्धाण्डलः। विकखवरैर्विकासिमि: । 'स्थेशभास-' इत्यादिना वरच्प्रत्ययः । अवयवरूपणादवयविरूपण गम्यत इत्याह-अत्रेति ॥ उदाहर- णान्तरमाह-मथितादिति॥ पूर्वोदाहरणे अवयवरूपणादवयविरूपणस्य गम्य- स्वमत्र त्ववयवस्यापीति मेदः । 'निरकासयद्रविमपेतवसुं वियदालयादपरदि- गगणिका' इत्यत्र रविशब्देन विटप्रतीतेरवय वैकदेशमात्रगम्यत्वेऽप्येकदेशविव-

Page 280

अर्थालंकारप्रकरणम् । २७१

यत्रावयविरूपणमात्रे कविसंरम्भविश्रान्तिस्तत्निरवयवं रू- पकम्। अवयवरूपणमात्रेऽपि तदेव। बत्र केवलं यथा-

रनिस्साणध्वनिभि: स्फुटं प्रविदलद्रोदःकटाहान्तरैः । क्षुब्धेष्वब्धिषु कम्पितेषु गिरिषु श्रुत्यैव मुख्न्त्यसून भीता: काकतिवीररुद्रनृपतेः प्रत्यर्थिनः पार्थिवाः ॥ अत्र रोदसः कटाहत्वं रूप्यते। मालानिरवयवं यथा- राज्ञां मौलिविभूषणस्त्रगमला दिक्कुश्जरश्रोत्रयोः स्फारं चामरभूषणं धरणिभृच्छङ्गेषु गक्ञासरित । व्योम्न: क्षौमवितानमुज्ज्वलतरं मुक्ताकलापो भुवः स्फार: काकतिवीररुत्रयशसां जागर्ति विस्फूर्जितम् ॥ रूपकहेतुरूपकं परम्परितरूपकम् । रूपकद्वयमात्रव्यवस्थितत्वादस्य न समस्तवस्तुविषयेऽन्तर्भावः ।

प्रतापरुद्रदेवस्य मण्डलात्रविधुन्तुदः । अखण्डविक्रमोद्दामो असते राजमण्डलम् ॥ र्तिरूपकतवं द्रष्टव्यम्। निरवयवं लक्षयति-यत्रेति॥ पूर्वत्रावयवमात्रेऽन्यत्रा- वयवान्तरे च रूपणाभावान्निरवयवमिति भावः। अत्रैकस्यारोपविषयस्यैकमे- वारोप्यमाण चेत् केवलम्। अनेकं चेत् मालेति द्वेधा। तत्राद्यमुदाहरति- यात्रारम्मेति ॥ प्रक्ष्वेडिताम्रेडितैः सिंहनादाधृ्तिमिः । रोदो ब्रह्माण्डमेव कटाहः पात्रविशेषः । क्षुब्धेषु क्षुमितेप्वित्यर्थः । व्याख्यातमेतद्रसप्रकरणे । द्वितीयमुदाहरति-राज्षामिति॥ गज्ञा भागीरथी। विस्फूर्जित विजृम्भणम्। अत्रैकस्य यशसो माल्याद्यारोप्यमाणानेकतवान्मालानिरवयवम्। परम्परित लक्षयति-रूपकेति । रूपकं हेतुर्यस्य तत् तथोक्तम्। अत एव परम्प- रास्य संजाता परम्परितमित्यन्वर्थम्। एकरूपकसापेक्ष रूपक परम्परितमि- त्यर्थ: । तेनानेकरूपकसापेक्षे समस्तवस्तुविषये नान्तर्भावोऽस्येत्याह-रूपक- द्वयेति। प्रतापेति॥ मण्डलाग्रः खन्न एव विधुन्तुदो राहुः। राजमण्डलंक्षत्रि- यसमूह एव राजमण्डलं चन्द्रबिम्बम्। अत्र मण्डलाग्रविधुन्तुद इति रूपरणं राज- मण्डलमेव राजमण्डलमिति श्लिष्टरूपके निमित्तमेकमेवेति श्लिष्टकेव लपरम्परितम् ।

Page 281

२७२ प्रतापरुद्रीये रन्नापणसहिते

न्लिष्टमालापरम्परितं यथा- पझ्मोल्लाससह स्रभानुरसकृत्सन्मार्गचर्याबुधः क्ष्माभृत्पक्षभिदाशनिः कुवलया लंकारराकाशशी। नित्योद्यत्सुमनोविकाससुरभि: कल्याणसंपत्सुर- क्षोणीभृङ्कवनाश्रयाम्बुधिरयं श्रीवीररुद्रो नृपः ।। अश्लिष्टकेवलपरम्परितं यथा- काकतीयस्य दुग्धाब्घेर्यशोलीलामहोर्मयः । दिक्कूलमुदुजाटोपाः खेलन्त्यभ्रंकषोच्छ्याः । अस्िष्टमालापरम्परितं यथा- दोराशीविषजिह्रया रिपुवनश्रेणीमहावात्यया शौर्योग्रानलधूम्यया जयरमायोषाविलासभ्नवा। संहृष्यद्धरणीविलासशिखिनी संवासयष्टया जग- त्प्रासादार्गलया कृपाणलतया रुद्रो नृपः क्रीडति॥ पद्मेति। पद्माया लक्ष्म्या उल्ास एव पद्मानामुल्लासः । तत्र सहस्रभानु: सूर्यः। सन्मार्ग: साधुमार्ग एव सन्मार्गों नक्षत्रमार्ग: तत्र चर्यायां बुधः सौम्यः। क्ष्माभृत्पक्षो राजबलमेव क्ष्मामृत्पक्षाः पर्वतपत्राणि तद्धिदायामशनिः कुलि- शम् । कुवलयस्य भूमण्डलस्यैव कुवलयानामुत्पलानामलंकारे राकाशशी पूर्णि- माचन्द्रः । सुमनोविकासो विद्वदाहाद एव सुमनोविकासः पुष्पविकासः तस्य सुरभिर्वसन्तः । कल्याणसंपत् मन्नलसंपत्तिरेव कल्याणसंपदक्षयस्वर्णसमृद्धिः। 'कल्याणमक्षयखर्णे कल्याण मजलेऽपि च' इति विश्वः । तस्याः सुरक्षोणीभृत् सुवर्णाचलः । भुवनं लोक एव भुवनमुदकं तदाश्रयस्याम्बुधिः । अत्र वीररुद्र एव सहस्रभानुरित्याद्यारोपपूर्वकस्य पझ्मोलास एव पद्मोल्लास इत्याद्यारोपस्य श्लेष- निबन्धनस्यानेक्धा निबन्धनात् -िष्टमालापरम्परितम् । काकतीयस्येति । दिशां कूलमुद्दुजतीति दिक्कूलमुद्दुजः आटोपो यासां तास्तथोक्ताः दिगन्तवि श्रान्तसंत्रमा इत्यर्थः । अभ्रं कषतीत्यभङ्कष उच्छूयो यासां तास्तथोक्ाः । 'उदि कूले रुजिवहोः' 'सर्वकूलाभ्र-' इत्यादिनोभयत्र खशप्रत्ययः। अत्र यशोलीलानां महोर्मित्वरूपण काकतीयस्य दुग्धार्णवत्वरूपगाधीनमित्यश्लिष्टके चलपरम्परितम्। दोराशीविषेति। वातानां समूहो वात्या। धूमानां समूहो धूम्या । उभयत्र 'पाशादिभ्यो यः' इति यप्रत्ययः । विलासशिखिनी कीडा: मयूरी। अर्गलो विष्कम्भः । अत्र कृपाणलतायां जिह्वादयनेकारोपस्य भुजादिष्वा-

Page 282

अर्थालंकारप्रकरणम्। २७३

अश्िष्टमालापरम्परितं वैधर्म्येणापि संभवति। यथा- त्रासान्धकारमध्याह्नाः कैतवातपरात्रयः । जयन्ति वीररुद्रस्य रणप्राङ्गणकेलयः । एवमष्टविधस्यापि रूपकस्य वाक्यसमासगतत्वेन षोडश रूपक- मेदा: संभवन्ति ॥ परिणामालंकारः । आरोष्यमाणमारोपविषयात्मतया स्थितम् । प्रकृतस्योपयोगित्वे परिणाम उदाहृतः ।। आरोष्यमाणं प्रकृतोपयोगीत्यनेन सर्वालंकारव्यावृत्तिः । तस्य श्रीविषाद्यारोपं प्रति निमित्तत्वादश्लिष्टमालापरम्परितम्। सर्वत्र चात्र हेतुहेतुमद्दा- वोऽयमलंकारसर्वखकारमतेनोकः। काव्य प्रकाशकारस्तु विपरीतमवोचत्। यदत्र युक्त तद्ग्राह्यम्। व्यतिरेकेणाप्येतत् संभवतील्याह-अञ्िष्टेति॥ त्रास एव अन्धकारस्तस्य मध्याह्ाः, शकतस्य तस्य त्रासासंभवादिति भावः । कैतर्व कपटमेवातपस्तस्य रात्रयः, धर्मयोधित्वात् तस्येति भावः । एतच्च मुखचन्द्र- इत्यादौ समासगतम्। मुखमेव चन्द्र इत्यादौ वाक्यगतम्। अतः षोडशैते मेदाः । तत्रावशिष्टा मेदा अन्यतो द्रष्टव्या इत्याशयेनाह-एवमिति ॥ अत्र आरोप्यमाणस्य धर्मित्वाह्नितसंख्ययोनैयत्येऽपि 'जटावल्कलालम्बिनः कपि- ला दावामयः' इत्यत्रैकस्य कपिलमुनेरनेकत्वमनेकविषयारोपात्। तदुक्तमलंकार- सर्वस्वे-'अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिपसंख्याकत्वेऽपि क्वचित् विषयसंख्यत्वं प्रत्येकमारोपात्' इति । रूपकालंकारात प्रकृतोपयोगित्ववैधर्म्येण परिणाम लक्षयति-आरोप्यमाण- मिति॥ प्रकृतस्योपयोगित्व इति विषयसप्नभी। प्रकृतोपयोगार्थमित्यर्थः । आरोप्यमाण चन्द्रादिकम्। आरोपविषयात्मतया मुखादितादात्म्येन स्थितं, मुखचन्द्रेण तापः शाम्यतीत्यन्न प्रकृतोपयोगान्तमारोपस्य विवक्षितत्वात्। वस्तुतो मुखस्यैव तापशान्तिनिमित्तत्वेन तादात्म्याभावे चन्द्रस्य प्रकृतोपयोगा- भावादिति भावः । अतः प्रकृतमनपह्नुतस्वरूपमेवारोप्यमाणात्मना परिणमतीति परिणामालंकार इत्यर्थः । एवं च यत्ारोपस्य ताद्रूप्य प्रतीतिमात्रपर्यवसायि- तया प्रकृतमनपह्भुतस्वरूपमप्रकृतरूपापन्नं भवति तस्माद्रूपकात् परिणामस्य वै- लक्षण्यं दर्शितम्। तदुककं चक्रवर्तिना-'विषय्याकारमारोप्य विषयस्थगनं यदा। रूपकत्वं तदा तत्र रञ्नेन समन्वयः ॥ यदा तु विषयो रूपात् खस्माद- प्रच्युतो भवेत्। उपयुङ्ध पराकारं परिणामस्तदा मतः ॥' इति। अस्य द्वैवि-

Page 283

२७४ प्रतापरुद्रीये रक्नापणसहिते

सामानाधिकरण्यवैयधिकरण्याभ्यां द्वैविध्यम्। सामानाधिकरण्येन परिणामो यथा- शश्वत् प्रसाधनविधानकृतामिलाषा नम्रैभजन्ति मकुटैरवनीपवर्गाः । श्रीवीररुद्रनृपतेः ककुभां विजेतु- राज्ञाम्यी स्रजममन्दविलासलक्ष्मीम् ।। वैयधिकरण्येन परिणामो यथा- किरीटमाणिक्यमयूखजालैविधाय पुष्पाञ्जलिमर्चयन्ते। फलार्थिनौ रुद्रनरेन्द्रपादपीठान्तसीमानमरिक्षितीन्द्राः ॥ समासोक्तावारोष्यमाणस्य प्रकृतोपयोगित्वेऽप्यवाच्यत्वान्न परि- णामेऽन्तर्भावः। संदेहालंकार:। विषयो विषयी यत्र सादृश्यात् कविसंमताद्। संदेहगोचरौ स्यातां संदेहालंकृतिश्च सा ॥ सा त्रिविधा। शुद्धा निश्चयगर्भा निश्चयान्ता चेति। संदेह मात्रपर्यवसायिनी शुद्धा यथा- किमेष नवमो हरित्पतिरमन्दसंपत्पदं किमेष दशमः प्रजापतिरपूर्वसर्गक्रमः । व्यमाह-तस्येति। आद्यमुदाहरति-शश्वदिति॥ प्रसाधनविधानमलंका- रविधिः । अत्रारोपेण प्रकृताज्ञातादात्म्यमापन्नाया अप्रकृतायाः स्रजो मुकुट- धारणात्मकप्रकृतोपयोगात् परिणामालंकारः । अत्र विषयविषयिणोः समानवि- भचिकत्वात् सामानाधिकरण्यम्। किरीटेति॥ अत्र च पूर्ववत् परिणाम

वैयधिकरण्यमिति विशेषः । ननु प्रकृतोपयोगाविशेषात् परिणामसमासोक्त्योः को मेद इत्याशड्डयारोप्यमाणस्योपादानानुपादानाभ्यां मेद इत्याह-समासो- क्ाविति । आरोपगर्भेष्वनवधारणात्मक संदेहालंकारं लक्षयति-विषय इति ॥ कविसंमतादित्यनेन स्थाणुर्वा पुरुषो वेति संदेहस्यालंकारता व्यावर्त्यते । वर्ण्योत्कर्षार्थ कविप्रतिभोत्थापितः प्रकृताप्रकृतगोचरः संदेहः संदेहालंकार इत्यर्थः । तस्य त्रेधा विभागमाह-सेति ॥ आद्यमुदाहरति-किमिति ॥ हरित्पतिर्लोंकपाल: । प्रजापतिर्व्रम्मा। उर्वरोद्धरणचुञ्चुः क्षोणीरक्षणदक्षः । अत्र

Page 284

अर्थालंकारप्रकरणम्। २७५

किमेष हरिरुर्वरोद्धरणचुन्चुरेकादश- श्विरादिति विलोक्यते जगति वीररुद्रो जनैः ॥ निश्चयगर्भो यथा- कालाहि: किमयं मृणालमृदुलं भोगं स धत्ते पुनः कालभ्रूकुटिरेष किं नु मुख एवोज्जुम्भते सा पुनः । कालोगरानलधूमपद्धतिरसौ कि सा पुनर्धूयते वातेनेति विकल्प्यते प्रतिभटै रुद्रस्य कौक्षेयकः ॥ निश्चयपर्यवसाना यथा- किं कल्पद्रुममञ्जरीस्रज इमे किं वा पयोराशयः स्वर्धेनोरथवा किमुज्ज्वलतराश्चिन्तामणे: स्फूर्तयः । किं वा सिद्धरसोर्मयश्चिरमिति व्यामृश्य निश्चिन्वते सन्तः काकतिवीररुद्रनृपतेः स्मेरा: कटाक्षा इति ॥ भ्रान्तिमदलंकारः । कविसंमतसादृश्याद्विषये पिहितात्मनि। आरोष्यमाणानुभवो यत्र स भ्रान्तिमान् मतः ॥ संपदादिसादृश्याद्वीररुद्रलोकपालादिकोटिद्वयगोचरस्य संदेहस्य तावन्मात्रपर्य- वसायित्वाच्छुद्धोऽयं संदेहमेदः । ननु नवमादिपद्विरहे केवललोकपालादी- नामारोप्यमाणत्वसंभवादस्तु संदेहः। नवमादिपदप्रयोगे तु लोकपालादीनां बीररुद्रत्वेन संभावनादुत्प्रेक्षेय न संदेह इति चेत् सत्यम्। अस्तु संभावनमारोपो वा। यत्र कोटिद्वयावलम्बित्वं तत्र संदेह एवेति खमतम्। एवंविधस्थले केचि- दुत्प्रेक्षाश्रयः संदेह इत्याहुः। उत्प्रेक्षैवेत्यन्ये इत्यादि सर्वमलंकारसर्वस्वे स्पष्टम्। द्वितीयमुदाहरति-कालाहिरिति॥ भोगं सर्पशरीरम्। कालभ्रूकुटि- रन्तकभ्रूभज्गः । कालोग्रानलः प्रलयकालामनिः। तस्य धूमः पद्धतिर्धूमरेखा। धूयते कम्प्यते। अत्र कौक्षेयकं कृष्णसर्पादिरूपतया संदिह् सुकुमारशरीरादि- विशेषादर्शनेन सर्पादिनिषेधनिश्चयेऽपि कौक्षेयकनिश्चयाभावाननिश्चयगर्भोऽयं सं- देहः ! तृतीयमुदाहरति-किमिति ॥ सिद्धरसोमयः सुधारसकह्ोलाः। व्या मृश्य कल्पद्रुममअ्रीमाल्यादिरूपेण संदिह। स्मेराः स्मितप्रधानाः सानुप्रहा इत्यर्थः । कटाक्षा इति निश्चिन्वते। अत एव निश्चयान्तोऽयं संदेहः। वीररुद्र- करुणावलोकनविषयाः सर्वे समृद्धा जीवन्तीति भावः । अयथार्थज्ञानत्वसाधर्म्यात् सदेहानन्तरं भ्रान्तिमन्तं लक्षयति-कवीति॥ पिहितात्मनि आच्छादितखवरूपे।

Page 285

२७६ प्रतापरुद्रीये रत्नापणसहिते

यथा- काकतीयविभोः कीर्तिविभवे व्याप्तरोदसि । दिवापि चन्द्रिकाबुद्धथा चकोरा यान्ति निर्वृतिम् ॥ अपह्ववालंकारः । निषिध्य विषयं साम्यादन्यारोपे ह्यपहुतिः । तस्यास्त्रैविध्यम्-अपहुत्यारोपः आरोप्यापह्ववः छलादिशब्दै- रसत्यत्व प्रतिपादनं च । आद्यद्वयस्योदाहरणम्- उद्वेल्लच्चतुरर्णवीकलकलो नायं चमूडम्बरो नेदं दुन्दुभिगर्जितं त्रिपुरजित्कल्पान्तढक्कारवः । इत्थं रुद्रनरेन्द्रधाटिषु महीभारावनत्रीभव- च्छेषांशषशिरस्सु विस्मितमथ भ्रष्टं दिगीशैरपि॥ छलादिशब्दैरसत्यत्व प्रतिपादनं यथा- सर्वा काकतिवीररुद्रधरणीनाथच्छलेन क्षिति पातुँ मध्यमलोकपालपदवीं प्राप्तः स्वयंभू: शिवः । नैवं चेद्विषमावलोकनकलामात्रेण भस्मीकृतै- र्जातं वैरिपुरैः कथ कथमवाग्भूतं च भूभृद्रणैः ॥ भ्रान्तिश्चित्तधर्मोऽस्यास्तीति ध्रान्तिमान् । कविप्रतिभोत्थापितः प्राकरणिकं प्रत्यप्राक्करणिकत्वेनोपलम्भो भ्रान्तिमानित्यर्थः । एतेन सादृश्यमात्रनिबन्धनायाः शुक्तिर जतादिश्रान्तेर्नालंका रत्वमिति दर्शितम् । दोषमूलायास्तु किमुतेति भावः । उदाहरति-काकतीयेति॥ व्याप्तरोदसि व्याप्तव्रह्माण्डे। अत्र कीर्त्या चन्द्रि- कानुभवात् भ्रान्तिः । सादृश्याद्वस्त्वन्तर प्रतीतिसाम्याद् भ्रान्तिमदनन्तरमपह्क्ति लक्षयति-निषिध्येति । अन्यारोपे आरोप्यमाणप्रतीतावित्यर्थः । तस्यास्त्रै- विध्यं विविनक्ि-अपहुत्यारोप इत्यादि ॥ उद्वेलदित्यारोप्यापड्वः । नेदं दुन्दुमिगर्जितमित्यपह्ल-ययारोपः । नरेन्द्रधाटिष्विति ॥ कृदिकारः । तल्लक्षण तु 'शत्रुदेशावमर्दाय सद्यः सुभटघोटकैः । विजिगीषोः प्रवृत्तिर्या सा घाटीति निग- दते I।' इत्याहुः। सर्वामिति॥ धरणीनाथच्छलैनेत्यत्र छलशब्देन नायं धरणीनाथः किंतु स्यंभू: शिव इति राज्ञोऽसत्यत्वं प्रतिपाद्ते । तदेव समर्थ- यते-नैवमिति ॥ विषमावलोकनं निग्रहद्दष्टिः । अन्यत्र तृतीयनयनदृष्टिः । बैरिपुरैरसंख्यैः त्रिमिश्च कर्तृमिर्भस्मीभूतैः कर्थ जातं जज्े। भूमृद्रणैः राजसमूह्ैः । अन्यत्र भूमृता कैलासेन गणैः प्रमयैश्च कथमवाग्भूतं न्यग्भूतमित्युभयत्र भावे

Page 286

अर्थालंकारप्रकरणम् । २७७

उल्लेखालंकार:। अर्थयोगरुचिश्लेषैरुल्लेखनमनेकधा। ग्रहीतृभेदादेकस्य स उल्लेखः सतां मतः ॥ रुच्यर्थयोगाभ्यां यथा- लक्ष्मीनिवासगृहमित्यखिला नरेन्द्राः शौर्यातिभूमिखनिरित्यरिवीरवर्गाः । विद्याविहारपद्वीति च लब्धवर्णाः श्रीकाकतीन्द्रनगरीमनिशं स्तुवन्ति ॥ श्रेषण यथा- उग्र: सपत्नेषु गुणेषु भास्वान् रामः प्रतीकेषु रणेषु भीमः । लीलासु लंक्ष्म्याः पुरुषोत्तमश्च्ेत्याचक्षते रुद्रनृपं कबीन्द्राः। अथाध्यवसायगर्भालंकारद्वयं निरूप्यते । विषयविषयिणोरन्य- तरनिगरणेनाभेद प्रतिपत्तिरध्यवसायः। स द्विविधः-विषयिनिगर- णेन विषयनिगरणेन च। कः । ईश्वरस्य गिरीशत्वात् प्रमथाधिपत्वाच्चेति भावः । आरोपगर्भेषु परिशे- षादुदेखं लक्षयति-अर्थेति ॥ अर्थेन प्रयोजनेन योगोऽर्थित्व लिप्सेति यावत्। रुचिरमिरतिः। श्लेषः प्रसिद्धः । एतैः समस्तैर्व्यस्तैर्वा यथायोगं श्रहीतृगतैरे- कस्य वस्तुनो नानाधर्मयोगादनेकधोल्ेखनं निर्धारणमुल्लेखालंकार इत्यर्थः । सर्वालकारव्यावर्तकेन प्रहीतृमेदादित्यनेन विषयमेदोऽप्युपलक्ष्यते। लक्ष्मीति॥ शौर्यातिभूमे: पराक्रमातिशयस्य। खनिराकरः । लब्धवर्णा विद्वांसः । अत्रैकस्याः काकतीन्द्रनगर्याः समृद्धयादिधर्मयोगान्नरेन्द्रादिग्रहीतृमेदेन रुच्यर्थयोगाभ्यां लक्ष्मीनिवासगृहादिरूपतयानेकधोलेखनादुल्ेखः । उग्र इति॥ सपनेषु शत्रुषु उग्र: कपर्दी क्रूरश्ष। गुणेषु भाखान् सूर्यस्तेजस्वी च । प्रतीकेष्वशेषु रामो दाशरथिरमिरामक्च। लक्ष्म्या लीलासु पुरुषोत्तमो विष्णुः पुरुषश्रेष्ठक्ष। अत्र अ्हीतृमेदाभावेऽपि सपन्नादिविषय मेदाच्छलेषेणोग्रत्वाद्यनेकधर्मोल्लेखना दुल्लेखः ।

मूलालंकारप्रस्ताव इत्याशयेनाह-अथेति ॥ मूलभूतमध्यवसायं निरूपयति- विषयेति॥ एकतरपरिशेषो मा भूदित्यन्यथा व्याचष्टे-स द्विविध इति॥ निगरणमसत्यत्वमित्यर्थः। अन्यथा विषयनिगरणेनामेदप्रतिपत्तिरध्यवसाय इति सर्वसंप्रतिपन्नेन स्वयमपि पूर्वोक्तेनाध्यवसायलक्षणेन विरोधात्। यदा विषयिणोऽसत्यत्वं तदाध्यवसायः साध्यः। यदा विषयस्यासत्यत्वं तदाध्यवसायः प्र 24

Page 287

२७८ प्रतापरुद्रीये रत्नापणसहिते

उत्प्रेक्षालंकारः। यत्रान्यधर्मसंबन्धादन्यत्वेनोपतर्कितम्। प्रकृतं हि भवेत प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ।। यत्राप्रकृतगुणक्रियासंबन्धाद प्रकृतत्वेन प्रकृतस्य संभावनं सोतरे- क्षा। सा द्विविधा-वाच्या प्रतीयमाना च। संभावनाप्रतिपादका- नां नूनंध्रुवंप्रायइत्येवमादीनां प्रयोगे वाच्या। अप्रयोगे तु प्रतीय- माना। जातिक्रियागुणद्रव्याणां चतुर्णामध्यवसायविषयत्वेन सा द्विविधा प्रत्येकं चतुर्विधा। तेषां भावाभावरूपतया द्वैविध्येऽष्टविधा। अध्यवसायस्य गुणनिमित्तत्वेन क्रियानिमित्तत्वेन च द्वैविध्ये प्रत्येकं षोडशप्रकारा। निमित्तस्य वाच्यत्वगम्यत्वाभ्यां द्वैविध्यं वाच्यो- त्प्रेक्षायामेव। प्रतीयमानोत्प्रेक्षायामिवाद्यनुपादाने निमित्तस्य चाप्र- सिद्ध इति विवेकः। तथा हि-यदा चन्द्रादिविषयिगतं माधुर्यादिकं विषयभूते मुखादावुपनिबन्धुं मुखं मुखत्वेन जानन्नेव नूनमिदं चन्द्र इति प्रयुङ्के, तदा विषयी चन्द्रो मुखत्वेनासत्यो निगीर्ण: प्रतिभाति, विषयस्तु परमार्थतः सत्य एव। एवं सत्यासत्ययोरमेदप्रतिपत्तेर संभवान्नूनमादिशब्दैर्विषयिणोऽपि सत्यत्वसमर्थना- दध्यवसायः साध्य इत्यत्राध्यवसायप्राधान्यम्। यदा तु मुखपदमनुक्त्वा चन्द्रोड- यमिति प्रयुङ्क तदा वस्तुतोऽसत्यस्यापि विषयिणः सत्यता प्रतीयते। असत्यत्व- निमित्तस्य मुखपदप्रयोगस्याभावात्। विषयस्य वस्तुतः सत्यस्यापि अत्यन्तापला- पादसत्यामिमतस्य निगीर्णत्वादध्यवसायः सिद्ध इत्यत्राध्यवसितप्राधान्यमित्यादि सर्वमलंकारसर्वस्वे तद्वयाख्यायां च संजीविन्यां प्रपश्चितम्। तत् सर्वमनेनैव गतार्थमिति नेह विस्तरः क्रियते। तत्र साध्याध्यवसायमूलामुत्प्रेक्षां लक्षयति- यत्नेति॥ अन्यदप्रकृतं तस्य धर्मों गुणक्रियारूपः, तत्संबन्धात् प्रकृतमन्यत्वे- नाप्रकृतत्वेनोपतर्कित संभावितं यत्र भवेत् तामुत्प्रेक्षां प्रचक्षत इत्यर्थः । तदेतद् व्याचष्टे-यत्रेति॥ तस्या विभागमाह-सेति॥ वाच्यां लक्षयति-संभाव- नेति॥ अत्रादिशब्देन मन्ये शङ्के ध्रुवमित्यादीनां ग्रहणम्। जातिक्रियागुणद्रव्याणां गौक्लति शुक्को डित्थ इत्येवमादीनाम् । अध्यवसायविषय त्वेनोत्प्रेक्षाविषत्यवेन। द्विविधा वाच्या प्रतीयमाना च प्रत्येकं चतुर्विघेत्यष्टविधा जातेत्यर्थः। तेषा जात्यादीनाम्। अष्टविधेति॥ प्रत्येकमिति शेषः । निमित्तद्वैविध्येनास्या द्वार्ति- शद् मेदा भवन्तीत्याह-अध्यवसायस्येति॥ वाच्योत्प्रेक्षायां विशेषमाह- निमित्तस्येति। अन्यलैंतदभावे हेतुमाह-प्रतीयमानति ॥ 'महिलासह- रसभरिए तुह हिअअे सुहअ सा अमाअंती। अणुदिण अणण्णकंमा अंगं तणुअ

Page 288

अर्थालंकारप्रकरणम् । २७९

योगे उत्प्रेक्षाया निरवलम्बनत्वात्। तथा जात्यादीनां स्वरूपेण हेतु- रूपेण फलरूपेण चाध्यवसायविषयत्वे बहुविधत्वम्। वाच्योत्प्रेक्षा- यामपि हेतुफलयोरुत्प्रेक्षाविषयत्वे निमित्तस्योपादानमेव। तथा हि। यथा साध्येऽनुपात्ते साधनत्वेन निर्देशो नान्वयं पुष्णाति, तथा साधने- नुपात्ते साध्यत्वेन निर्देशोऽपि। तयोरन्योन्यापेक्षित्वात्। हेतूत्प्रे- क्षायां फलं निमित्तम्। तस्यानुपादाने कं प्रति हेतुत्वं संगच्छेत। फलोत्प्रेक्षायां साधनं निमित्तम्। तस्यानुपादाने कं प्रति फलत्वं संघटेत। तथाहि- प्रतापरुद्रनृपतेरपारे कीर्तिसागरे। मग्ना दुरीशदुष्कीर्तिसङ्गादिव जगत्रयी ॥ अत्रोत्प्रेक्षानिमित्तस्य मज्जनस्यानुपादाने सङ्गादिति हेतूत्प्रेक्षा न शोआमावहति। यथा वा- जयश्रीवासपद्मस्य विकासायेव भानुमान्। प्रतिबिम्वमिषात् खङ्गं प्रविशत्यन्ध्रभूसुजः ॥ वि तणुए हि ।' छाया-महिलासहस्रभरिते तव हृदये मुभगा सा अमान्ती। अनुदिनमनन्यकर्मा अ्ञ तन्वपि तनयति॥ इत्यत्र महिलासहस्त्रभरिते तव हृदये अमान्तीत्युत्प्रेक्षा प्रतीयमाना इवादिप्रयोगाभावात्। तस्यामन्ञतनूकरण निमित्त यदि नोपादीयेत तदा तस्या निष्प्रमाणकतवं स्यादित्यर्थः । प्रकारान्त- रेण त्रैविध्यमाह-तथा जात्यादीनामिति॥ यदा जातिस्रूपमुत्प्रेक्ष्यते तदा तस्य भावाभावरूपतया द्विविधस्योपात्तगुणक्रियानिमित्तमेदाच्चातुर्विध्यम्। निमित्तानुपादाने तु तत्कृतमेदाभावात् द्वैविध्यमेव । इत्थं षोढा जातिस्रूपोत्प्रे- क्षा। एवं क्रियागुणद्रव्याणां भेदकल्पने मिलित्वा चतुर्विशतिः स्वरूपोत्प्रेक्षामेदाः । हेतुफलोत्प्रेक्षयोर्निमित्तोपादाननियमात् प्रत्येकं चातुर्विध्यमेवेति द्ात्रिंशत्। प्रतीयमानोत्प्रेक्षायां सर्वत्र निमित्तोपादाननियमात् निमित्तानुपादाननिबन्धन- मेदाष्टकन्यूनत्वेऽष्टाचत्वारिंशद्धेदाः । एवं षण्णवतिमेदा इत्याशयेनोक्तम्- बहुविधमिति॥ वाच्योत्प्रेक्षायामपि हेतुफलोत्प्रेक्षयोर्निमित्तोपादाननियम- मुदाहरणेन हृदयन्मीकर्तुमारभते-तथाह्दीत्यादिना ॥ हेतूत्प्रेक्षायां फल निमित्तम् फलोत्प्रेक्षायां हेतुर्निमित्तम्। एवं च निमित्तनैमित्तिकयोरन्यतरो- पादानेऽन्वयपोषाभावादुभयोपादाननियमे निमित्तोपादानं नियतमेवेति भावः । प्तापेति॥ अस्पृश्यस्पर्शने स्नानस्य विहितत्वादिति भावः। जयश्रीत्यादि ॥

Page 289

२८० प्रतापरुद्रीये रन्नापणसहिते

अत्रोत्प्रेक्षानिमित्तस्य भानुमत्प्रवेशस्यानुपादाने जयश्रीवासकमल- विकासायवेति फलोत्प्रेक्षणमसमीचीनम्। अतः स्वरूपोत्प्रेक्षायामेव निमित्तस्योपादानानुपादानाभ्यां द्वैविध्यम। अतश्चेत्थं वाच्योत्प्रेक्षाया भेद्गणना। उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा । १। उपात्त- गुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा। २। उपात्तक्रियानिमित्तजाति-

अनुपात्तनिमित्तजातिभावस्वरूपोत्प्रेक्षा। ५। अनुपात्तनिमित्तजात्य- भावस्वरूपोत्प्रेक्षा। ६ । उपात्तगुणनिमित्तजातिभावहेतूत्प्रेक्षा।७। उपात्तगुणनिमित्तजात्यभावहेतूत्प्रेक्षा। ८। उपान्तक्रियानिमित्तजा- तिभावहेतूत्प्रेक्षा। ९। उपात्तक्रियानिमित्तजात्यभावहेतूत्प्रेक्षा । १०। उपात्तगुणनिमित्तजातिभावफलोत्प्रेक्षा। ११। उपा्तगुणनिमित्त- जात्यभावफलोत्प्रक्षा। १२ । उपात्तक्रियानिमित्तजातिभावफलो- त्प्रेक्षा। १३ । उपात्तक्रियानिमित्तजात्यभावफलोत्प्रेक्षा। १४ । एवं चतुर्दशभेदा जात्युत्प्रेक्षा। अनेनैव क्रमेण गुणक्रियाद्रव्योत्मे- क्षाफि परिगणनीया। एवं च वाच्योत्प्रेक्षायाः षट्पश्चाशद् भेदाः । प्रतीयमानोत्प्रेक्षायास्त्वष्टाचत्वारिंशद् भेदाः । अत्र स्वरूपोत्प्रेक्षाया- मपि निमित्तोपादाननियमात् निमित्तस्य गम्यत्वे गुणरूपत्वेन क्रि- यारूपत्वेन च चारुत्वविशेषाभावादेक एव भेदो गण्यते। गुण- क्रिय योरुत्प्रेक्षाविषयत्व मुत्प्रेक्षानिमित्तत्वं चाभ्युपगतम्। प्राचामलं- कारप्रबन्धेषु षण्णवतिभेदोत्प्रेक्षेति गणनामात्रम्। चारुत्वातिशय- स्तु षट्पञ्चाशत एव भेदानाम्। तत्र यथासंभवमुदाहरणानि। उपात्तगुणनिमि त्तजातिभावस्वरूपोत्प्रेक्षा यथा- स्पष्टम्। बुद्धिसौकर्यार्थ मेदगणनामाह-अतश्चेत्यादिना॥ निगदव्याख्यात मेतत्। प्रतीयमानोत्प्रेक्षाया मेदाष्टकन्यूनत्वे निमित्तमाह-अत्रेति ॥ यथा निमित्तस्योपादाने निमित्तमेदाद्वेदस्तथानुपादाने नास्तीत्याह-निमित्तस्येति॥ गम्यत्वेनानुपादानादिति भावः। अत एव तत्र गुणक्रियारूपनिमित्तमेदनि- बन्धनस्य विच्छित्तिविशेषस्यानुत्पन्नपुत्रनामकरणकल्पत्वात् एक एव भेदों गण्यत इत्याह-गुणरूपत्वेनेत्यादि॥ गुणक्रिययोरिति॥ न तु जाति-

Page 290

अर्थालंकारप्रकरणम् । २८१

कीर्ति: काकतिवीररुद्रनृपतेः सिंहासनाध्यासिन: प्राचां भूमिभुजां यशः पिद्धती कोटीन्दुतुल्यद्युतिः । रक्षादक्षिणराजलाभजनितामन्दप्रमोदोत्थिता त्रैलोक्याट्टृह्सप्रभेव ककुभां प्रान्तेषु विद्योतते ।। अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याटटृह्सप्रभायाः कवि- प्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः । उपात्तक्रियानिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा- वीरस्य रुद्रनृपते: प्रियवल्लभस्य राज्याभिषेकसलिलैः सरसीकृतायाः । सदः समुच्छवसितसान्द्रपरागरेखा क्षोण्याः प्रमोदपुलकाङ्कुरमख्जरीव । अत्र पुलकाङ्करमञ्जरीवेत्युत्प्रेक्षायां सरसीकरणं क्रियारूपं नि- मित्तम्। अनुपात्तनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा- प्रतापरुद्रस्य नखेन्दुकान्तिः प्रणामभाजां पदयोर्नृपाणाम्। ललाटलग्रा विधिनिर्मिताया वर्णावलेर्वाचनदीपिकेव ।। अत्र दीपिकेवेति जातिवचनाज्जातिरुत्प्रेक्ष्यते। उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा- प्रतापरुद्रस्य गुणामृतोर्मिधौता विराजन्त्यमलीकृताङ्गाः । प्रक्षालितात्युद्धतभूमिपाला: खङ्गाम्वुभिः स्वच्छतरा भवन्ति॥ द्रव्ययोरिव केवलोत्प्रेक्षाविषयत्वमिति भावः । यथायोगमुदाहरति-कीर्ति- रित्यादि॥ पिदधती आच्छादयन्ती। 'वष्टि भागुरिरल्ोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । अट्टहसोऽटृहासः । 'ख्वनहसोर्वा' इति पाक्षिकोऽप्रत्ययः । एषा प्रमोदगुणनिमित्ता जातिभावस्वरूपोत्प्रेक्षा। अत्राट्टहासप्रभायाः खतः- सिद्धत्वेऽपि त्रैलोक्यसंबन्धित्वेन कविकल्पितत्वात् नोपमावकाश इत्याह- त्रैलोक्येति ॥। अत एवात्रेवशब्दोऽपि संभावनावाचको नोपमावाचकः । तदुक चक्रवर्तिना-'यदायमुपमानांशो लोकतः सिद्धिमृच्छति। तदोपमैव येनेवशब्दः साधर्म्यसूचकः ॥ यदा पुनरयं लोकादसिद्धे: कविकल्पितः । तदो- त्प्रेक्षैव येनेवशब्दः संभावनापरः ॥' इति। वीरस्येति॥ प्रिया वल्लभा प्रेयसी यस्य प्रियवल्भस्य। पुलकमञ्जरीवेत्युत्प्रेक्षायामिति॥ जातिभावखवरूपोत्प्रे- क्षाया मित्यर्थः । क्रियारूपमिति ॥ निमित्तमिति शेषः । प्रतापरुद्रस्येति।

Page 291

२८२ प्रतापरुद्रीये रव्नापणसहिते

अनुपात्तनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा- दिशां जेतुर्विश्वप्रसृतमहसो रुद्रनृपते- र्जय प्रस्थानोद्यत्करितुरग संमर्दजनितम्। रज: कृत्वा अस्तप्रतिबलमसूर्यामिव दिवं प्रतापाख्यानन्यान् दिशि दिशि विधत्ते दिनकरान्। अत्रासूर्यामिति जात्यभावः । जातिहेतूत्प्रेक्षा यथा- उदाररीत्या भुजया प्रतापरुद्रस्य विश्वैकधुरन्घरस्य। विश्वंभरा कोमलशय्ययेव विस्मारिता गोत्रमहीध्रवासम् ॥। अत्र शय्ययेवेति जातिहेतुत्वम्। जात्यभावहेतूत्प्रेक्षा यथा- भूमेरकल्पवृक्षत्वादिति धाता विचिन्तयन्। सृष्टवान् काकतीशानं निर्व्याजत्यागवैभवम्॥। अत्राकल्पवृक्षत्वादिति जात्यभावस्य हेतुत्वम्। जातिफलोत्प्रेक्षा यथा- नूनं विश्वंभराधारस्तम्भीभवितुमायतौ। वीररुद्रनरेन्द्रस्य भुजावाजानुलम्बिनौ।। अत्र स्तम्भीभवितुमिति जाते: फलत्वम्। जात्यभावफलोत्प्रेक्षा यथा- पशूनवध्यानालोक्य शत्रवः काकतीशितुः । प्रायेणामानुषत्वाय तृणवृत्तिं समाश्रिताः ।। अत्र वाचनदीपिकेवेति जातिभावस्वरूपोत्प्रेक्षायां निमित्तं नोपात्तम्। दिशा- मिति॥ रजः कर्तृ । दिवमसूर्यामिव कृत्वेत्यत्र जात्यभावस्वरूपोत्प्रेक्षा अनुपा- त्निमित्ता। उदारेति॥ उदाररीत्या उदारखभावया। गोत्रमहीध्रवासं कुल- पर्वतनिवासम् । विस्मारितेति ॥ 'गतिबुद्धि-' इत्यादिना अण्यन्तकर्त्या विश्वंभरायाः कर्मत्वं, तस्मिन्नमिधेये कर्मणि कः । '्यन्ते कर्तुश्च कर्मणः' इति वचनात् । अत्र शय्ययेवेति जातिभावहेतृत्प्रेक्षायाः पर्वतनिवासविस्मारणं फलं निमित्तम्। भूमेरिति ॥ निर्व्यार्ज निरुपाधिकं त्यागवैभवमौदार्यातिशयो यस्य तं तथोक्तम्। काकतीशानं सृष्टवानिति फलं प्रत्यकल्पवृक्षत्वादिवेति जात्य- भावहेतत्प्रेक्षा।I नूनमिति॥ भुजयोराजानुलम्बित्वं पुरुषस्य भाग्यलक्षणम्। तदुक्तं नाटके तृतीयेडक्के। अत्राधारस्तम्भीभवितुमिति जातिभावफलोत्प्रेक्षाया- मायतत्वगुणो निमित्तम्। पशुनिति । अत्रामानुषत्वायेति जात्यभावफलोत्प्रे.

Page 292

अर्थालंकारप्रकरणम् । २८३

अत्रामानुषत्वायेति जात्यभावस्य फलत्वम्। क्रियास्वरूपोत्प्रेक्षा यथा- श्रीकाकतीयनृपतेर्द्विषदङ्गनानां श्वासोर्मिभि: सपदि मर्मरितान्तरालाः । तासां निवासविषये कृतयाचनानां प्रत्युत्तराणि ददतीव मरौ वनान्ताः । क्रियास्वरूपाभावोत्प्रेक्षा यथा- विमुखे सति काकतिक्षितीन्द्रे वनसीमापि कठोरकण्टकाआरा। चिकुरेषु विकर्षति प्रतीशानददानेव निजान्तरप्रवेशम्॥ अत्राददानेति क्रियास्वरूपाभावः । क्रियाहेतूत्प्रेक्षा यथा- राज्ञां गर्वाङ्कुरोद्वेदाः परिम्लाना दिने दिने। काकतीन्द्रप्रतापार्कतीव्रोष्माभिभवादिव ।। अन्राभिभवादिवेति क्रियाहेतुत्वम्। (क्रियाहेत्वभावोत्प्रेक्षा यथा- कपोलफलकावस्या: कथं भूत्वा तथाविधौ। अपश्यन्ताविवान्योन्यमीदशीं क्षामतां गतौ ।I) क्रियाफलोत्प्रेक्षा यथा- दम्भोलिसंरम्भमहाजिगोपः प्रस्थानभेरीनिनदोऽन्ध्रभर्तुः । क्षायां तृणवृत्तिसमाश्रयणक्रिया निमित्तम् । एवमुत्तरत्रापि तादर्थ्यप्रतिपादक- चतुर्थ्यादिश्रवणे फलत्वम्, तृतीयादिविभक्त्या सामर्थ्येन वा हेतुत्वं चेत्यादिक- मूहनीयम्। श्रीकाकतीयेति ॥ मर्मरः पर्णध्वनिः । 'अथ मर्मरः । सवनिते वस्त्रपर्णानाम्' इत्यमरः । तद्वन्ति कृतान्यन्तरालानि येषां ते तथोक्ता इति गुणनिमित्तकथनं दानोत्प्रेक्षायाम्। विमुख इति ॥ प्रतीशान् प्रत्यर्थिभूपतीन्। चिकुरेषु केशेषु। निमित्तात् कर्मसंयोगे सप्तमी। विकर्षतीति क्रिया दानाभावोत्प्रेक्षायां निमित्तम्। एवं निमित्तानुपादानेऽप्युदाहार्यम् । राज्ञामिति॥ परिम्लानत्वमुत्प्रेक्षाफलम्। क्रियाहेत्वभावोत्प्रेक्षायाः प्रतिज्ञा- मात्रमेव नोदाहरणमत्र दृश्यत इत्यन्यतो लिख्यते। 'कपोलफलकावस्याः कर्थ भूत्वा तथाविधौ। अपश्यन्ताविवान्योन्यमीदृशीं क्षामतां गतौ ॥' इति। अत्र दर्शनक्रियाहेत्वभावोतप्रेक्षा क्षामतागमननिमित्ता। दम्भोलीति ॥ महाजिर्महा- युद्धमन्याभिभव इति यावत्। दम्भोलिसंरम्भमेव महाजि गोपयत्याच्छादय-

Page 293

२८४ प्रतापरुद्रीये रत्नापणसहिते

लीनानिवान्वेष्टुमरातिवर्गान् विगाहते शैलगुहदान्तराणि। क्रियाभावफलोत्प्रेक्षा यथा- सीमाद्रिकुञ्जेषु विहारभाजः सिद्धाङ्गनाः कल्पितचन्द्रिकार्धान्। श्रीवीररुद्रस्य यशोविलासान् गायन्त्यसंस्प्रध्टुमिवान्धकारम् । अत्रासंस्प्रष्टुमिवेति क्रियाभावस्य फलत्वम्। गुणस्वरूपोत्प्रेक्षा यथा- चकास्ति काकतीन्द्रस्य कृपालोकनविभ्रमः । प्रकृतिष्वपि सर्वासु प्रसाद इव मूर्तिमान् ॥ गुणाभावस्वरूपोत्प्रेक्षा यथा- प्रतापरुद्रस्य महाभिषेकपयःकणैः शीतलिताखिलाङ्गा । प्रशान्तभारार्तफणीन्द्रगाढश्वासानिलोष्मेव विभाति पृथ्वी। अत्र प्रशान्तोष्मेति गुणाभावः । गुणहेतूत्प्रेक्षा यथा- जयश्रियामाश्रयतामुपेतः श्रीवीररुद्रस्य रणे कृपाणः । जयश्रियं वैरिमहीपतीनां समुत्सुको हर्तुमसूययेव।। अत्रासूययेवेति गुणस्य हेतुत्वम्। गुणाभावहेतूत्प्रेक्षा यथा- जाता वयं संप्रति वीररुद्रनरेन्द्रगम्भीरिमगुल्फदन्ना:। इत्यप्रमोदादिव जीवनेषु मालिन्यमम्भोनिधयो भजन्ति ।। तीति तथोकः । तिरस्कृताशनिध्वनिरित्यर्थः । अन्वेष्टुमिवेति ॥ अन्वेषणक्रिया- फलोत्प्रेक्षा गुहान्तरगाहनक्रियानिमित्ता। सीमाद्रीति॥ सीमाद्रिलोंकालोकः । कल्पितश्वन्द्रिकाया इवार्घ: पूजाविधिर्येषां तान् तथोक्तान् चन्द्रिकासदृशानित्यर्थः । यशोगानस्यान्धकारासंस्पर्श: फलम् । चकास्तीति । प्रकृतिषु प्रजासु प्रसाद- गुणस्य मूर्तिमद्विशेषणादुत्प्रेक्षालाभः । निमित्तमत्र नोक्तम्। प्रतापेति॥ अन्यत्र धर्मिणि धर्म्यन्तरोत्प्रेक्षा। अत्र तु भूरूपे धर्मिण्यूष्मप्रशान्तिलक्षणो धर्म उत्पेक्ष्यते। तत्र शीतलावत्वं निमित्तमुपात्तम्। जयेति ॥ विशिष्टवस्तुसंग्रही लेशतोऽपि तस्यान्यत्रावस्थानं न सहत इति भावः । अत एवोपात्तनिमित्तेयं गुणहेतूत्प्रेक्षा । जाता इति ॥ पार्श्वनिस्सतौ पादग्रन्थी गुल्फौ तद्दन्नास्तत्प्रमाणाः । 'प्रमाणे द्वयसच्-' इत्यादिना दन्नच्प्रत्ययः । नरेन्द्रगम्भीरिम्णो गुल्फदम्नाः तदपेक्षया- तिस्ल्पगाम्भीर्या इत्यर्थः। जीवनेषूदकेषु वृत्तिषु च । मालिन्यं कार्ष्ण्य क्विष्टत्वं च भजन्ते। अत्राप्रमोदादिवेति गुणहेत्वभावोत्प्रेक्षाया न श्रलेषो बाधकः किं त्वश्मेव । तदुक रुचकेन-'एषा चार्थाश्रयापि धर्मविषये श्लिष्टशब्दहेतुका क्वचित्

Page 294

अर्थालंकारप्रकरणम् । २८५.

अत्राप्रमोदादिवेति गुणाभावस्य हेतुत्वम्। गुणफलोत्प्रेक्षा यथा- आशिषां विषधूम्राणां नैर्मल्यार्थमिवोत्सुकाः । भुजङ्गथः काकतीन्द्रस्य गुणान् गातुं सुधामुचः । अत्र नैर्मल्यार्थमिति गुणस्य फलत्वम्। गुणाभावफलोत्प्रेक्षा यथा- अरण्यवासार्जितबान्धवासु मृगीष्ववैरार्थमिवाशरण्याः । त्रिलिङ्गदेशेश्वरवैरिनार्यः पराङ्मुखा लोचनविभ्रमेषु ॥ अत्रावैरार्थमिति गुणाभावस्य फलत्वम्। द्रव्यस्वरूपोत्प्रेक्षा यथा- न नित्यमस्मिन् परिपूर्णतेति त्यक्त्वा नभः क्षोणितलावतीर्णः । आनन्दयन्निन्दुरिव स्वधान्ना विभाति लोके नवकाकतीन्द्रः । द्रव्यस्वरूपाभावोत्प्रेक्षा यथा- अनन्यसाधारणदानशौण्डे सद्य:कृतार्थीभवदर्थिसार्ये। श्रीकाकतीन्द्रे भुवि राजमाने यौः पारिजातेन विनाकृतेव ।। अत्र दिव: पारिजाताभाव उत्प्रेक्ष्यते। द्रव्यहेतूत्प्रेक्षा यथा- प्रतापरुद्रदेवेन क्ष्माभृत्पक्षविजुम्भितम् । समुन्मूलितमामूलादपरेणेव वज्रिणा॥ दृश्यते' इति। चक्रवर्तिनाप्युक्तम्-'कचिच्छलेषेण धर्माशगतेनैषा न बाध्यते' इति। आशिषामिति ॥ विषधूम्राणं विषमलिनानामाशिषां दंष्ट्राणाम्। 'आशीरुरगदष्ट्रायाम्' इति विश्वः। गुगगाननिमित्तां गुणभावफलोत्प्रेक्षां योज- यति-अत्रेति॥ अरण्येति॥ शरणे रक्षणे साधुः शरण्यः, तद्रहिता अश- रण्या: अनाथा इत्यर्थः । अवैरार्थमिवेति॥ विलासविमुखा मृगाज्गना विला- सिनीर्विलोक्य वैरायन्ते तन्निषेधार्थमिवेत्यर्थः । विभ्रमविमुखत्वमत्र निमित्तम् । नेति॥ अस्मिन् नभसि। नवो गुणैरपूर्वः काकतीन्द्रः । अत्रेन्दोः क्षोणितलावती- र्णस्य कविकल्पितत्वादुत्प्रेक्षाविषयत्वमेकत्वाद् द्रव्यत्वं च। अनन्येति ॥ दानशौण्डो बहुप्रदः। 'स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे' इत्यमरः ॥ अस्यानन्यसाधारणत्वमर्थाद् दान इति लभ्यते। उभयोः खजकुब्जा- दिवद्विशेषणसमासः। यद्वा तादृशदाने शौण्डो मत्तः निःसीमवितरणे निर्विचार इत्यर्थः। पारिजातस्तावदेक एव। तस्य राजरूपतया भूलोके वर्तमानत्वात् कुतो दिवः पारिजात इति भावः। प्रतापेति ॥ क्ष्माभृत्पक्षविजृम्भितं वैरिभूपालबलविजृम्भणमन्यत्र पर्वतपक्षविजृम्भणम् । अत एवापरेणेव वज्िणेति श्लेषाज्ञा द्रव्यहेतृत्प्रेक्षा। अत्रापरशब्दाप्रयोगे

Page 295

२८६ प्रतापरुद्रीये रन्नापणसहिते

द्रव्यहेत्वभावोत्प्रेक्षा यथा- काकतीयप्रतापोष्मविलीनाङ्गेन मेरुणा। असुवर्णाचलेनेव विरिश्िर्व्याकुलीकृतः ॥ अत्रासुवर्णाचलेनेति हेत्वभावः। द्रव्यफलोत्प्रेक्षा यथा- दुग्धार्णवशतायेव कैलासाचलकोटये। नूनं प्रतापरुद्रेण यशो दिक्षु प्रसारितम् ।। अत्र दुग्धार्णवशतायेति द्रव्यस्य फलत्वम्। द्रव्याभावफलोत्प्रेक्षा यथा- वीररुद्रनरेन्द्रस्य जयप्रस्थानसंभवम्। रजः पिहितदिग्गोलं निराकाशमिव स्थितम् ॥ अत्र निराकाशमित्याकाशाभावाय इत्यर्थः। एवं भेदान्तरं यथा- संभवमुदाहार्यम् । इत्यौपम्यगर्भालंकारविवेचनम् । शब्दमात्रसाधर्म्याच्छलेष एव स्यात्। अर्थसाध्म्यें त्विन्द्रस्य सिद्धतया प्रतीतेरुपमैव। तत्प्रयोगे तु प्रकृतो राजैवापरवज्ित्वेनाध्यवसीयते। तस्येवशब्देन साध्यत्वात् उत्प्रेक्षैव। इवशब्दाप्रयोगे तु सिद्धत्वाद्ध्यवसायस्याति- शयोक्तिः। इवापरशब्दयोरुभयोरप्यप्रयोगे रूपकमित्यादिविशेषा यथासंभव- मूहनीयाः। काकतीयेति॥ विलीनाज्नेन द्रवीभूतावयवेन। असुवर्णाचलेन सुवर्णा- चलाभावेनेत्यर्थः। अत्राभाववाचिनो नयः क्रियासापेक्षत्वेनासमर्थस्यापि 'सुडन- पुंसकस्य' इति ज्ञापकात् क्वचित् समास इष्यते। यदाह कैयट :- 'असमर्थ- नञ्समासस्य कचित् साधुत्वज्ञापनायानपुंसकस्येति प्रसज्यप्रतिषेध आश्रीयते' इति। दुग्धार्णवेति॥ नूनमित्येतत् द्वितीयोत्प्रेक्षासाधकम्। वीररुद्रेति॥ आकाशस्याभावो निराकाशम्। अर्थाभावेऽव्ययीभावः । ततश्रतुर्थ्या 'नाव्ययी- भावादतोऽम् त्वपश्चम्याः इत्यम्भावः । 'कस्तूरीतिलकन्ति फालफलके देव्या मुखाम्भोरुहे' इत्यादावुपमोपक्रमोत्प्रेक्षा। 'यत्रोलसत्फेनततिच्छलेन मुक्ताटृहा- सेव विभाति शिप्रा' इत्यादौ सापह्ववोत्प्रेक्षेत्यादिकं तु खवयमूहनीयमित्याह- एवमिति। इत्थ साध्याध्यवसायमूलामुत्प्रेक्षां निर्णीय सिद्धाध्यवसायमूलामति- शयोकि लक्षयति-विषयस्येति॥ यत्र विषय्यप्रकृतश्चन्द्रादिरुपनिबध्यते प्राधान्येनेति शेषः । कुतः । विषयस्य प्रकृतस्य मुखादेरनुपादानात् विषयिणा निगीर्णत्वादित्यर्थः । इदमन्रानुसंघेयम्। अध्यवसाये त्रयं संभवति-विषयो विषयी अध्यवसानव्यापारात्मक स्वरूपं च । तत्र विषयस्य निगीर्णत्वेन स्वरूप-

Page 296

अर्थालंकारप्रकरणम्। २८७

अतिशयोक्त्यलंकारः । विषयस्यानुपादानाद्विषय्युपनिबध्यते। यत्र सातिशयोक्ति: स्यात् कविप्रौढोक्तिजीविता । यत्र कविप्रौढोक्त्या विषयतिरोधानेन विषयी निबध्यते साति- शयोक्तिः । तस्याश्र्ातुर्विध्यम्-भेदेऽभेदः, अभेदे भेदः, संबन्धे- Sसंबन्धः, असंबन्धे संबन्धश्चेति। कार्यकारणयोः पौर्वापर्यविपर्य- यरूपा त्वनध्यवसायमूलत्वाव्य्तिरिक्तैव। किं तु प्रौढोक्तिमूलत्वाद- तिशयोक्तिरिति कथ्यते। तत्र भदेडमैदो यथा- स्थाने कल्पतरुर्जातः काकतीयकुलोदघेः । लक्ष्मीपतिरसौ चित्रं मर्त्यलोकमहोत्सवः ।। अन्न प्रतापरुद्रकल्पवृक्षयोरभेदाध्यवसायः। अभेदे भेदो यथा- औन्नत्यं महदन्यदेव महितः कोऽप्येष गम्भीरिमा काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्नोः प्रथा। सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ सामग्री चतुराननेन कियती कीदक्क्रमा कल्पिता॥ अन्रौन्नत्यादेर्वास्तवाभेदेऽपि भेदः कल्पितः । ततः स्वतः सिद्ध- कवि प्रौढोक्तिसिद्धयोरौन्नत्ययोर्भेदेऽपि अभेदाध्यवसायः । प्रतिपत्तेरेवाभावादध्यवसाये न कुत्रापि प्राधान्यशङ्कावकाशः । नूनमादिशब्दै- रध्यवसायेन व्यापारप्राधान्ये तूतप्रेक्षा दर्शिता। नूनमादिशब्दाप्रयोगे विषयिण एव प्राधान्येऽध्यवसायस्य सिद्धत्वादतिशयोकतिरिति। अत एवोकतं रुचकेन- 'अध्यवसितप्राधान्ये त्वतिशयोकिः' इति। इदं रजतमित्यस्यातिशयोकिता मा भूदित्युक्तम्-कविप्रौढोक्तिजीवितेति॥ विभागमाह-तस्या इति॥ ननु पञ्चमस्याप्यतिशयोक्तिमेदस्य संभवात् कथ चातुर्विध्यमित्याशङ्कयाह-कार्यका- रणयोरिति। काव्यप्रकाशकारोक्तवैषम्यं त्वस्मदुपाध्यायैरेकावलीतरले समा- हितमिति नेह प्रपञ्च्यते। क्रमेणोदाहरति-स्थान इति ॥ कल्पतरोरुदघेरु- त्पत्तिरुचिता कि तु लक्ष्मीसोदरस्यामर्त्योपयोगिनस्तस्येदमद्भतमिति भावः । औन्नत्यमिति॥ व्याख्यातमेतत्। अत्र राजमेर्वादिसंबन्धिनोरौन्नत्याद्योर्षा- स्तवाभेदेऽप्यन्थदेवेत्यादिना काल्पनिको मेदः प्रतिपाद्यत इत्याह-अत्रेति ॥ तर्ह्यस्मिन् मेदे नाध्यवसायलक्षणानुगतिरत आह-स्वत इति॥खतः सिर्द्ध यदौन्नत्यं तदेवान्यदेवेति कविप्रौढोक्त्या सातिशयम्। अतः खतःसिद्धप्रौढो-

Page 297

२८८ प्रतापरुद्रीये रन्नापणसहिते

संबन्धेSसंबन्धो यथा- शिला चिन्तारत्नं तरुरमरशाखी पशुरसौ वियद्धेनुः सर्व जगदपि तथा दोषविधुरम्। न सृष्टिवैधात्री तदिह चतुरश्रीः कथमियं स्पृशेद्देवं रुद्रं सकलगुणसाम्राज्यनिलयम् ।। अत्र विधातृसृष्टिसंबन्धेऽप्यसंबन्ध उक्तः । अतीतब्रह्मसृष्टिने- श्रेणात्राभेदाध्यवसायः । असंबन्धे संबन्धो यथा- ब्रह्मन् मेरुगिरौ कृतेऽपि किमिदं नैवंविधास्ते मुदः स्वामिन् सत्यमधिक्रियाद्य फलिता यद्वीररुद्रः कृतः । मिथ्या कि नु विकत्थसे त्रिजगतस्त्राणाय मत्परार्थितः शंभु: क्ष्मामवतीर्णवानिति कथा जाता हरिव्रह्मणोः ॥ अत्र हरिब्रह्मणोरेवंविधगोष्ठथसंबन्धेऽपि संबन्ध उक्तः। शंभुना सह काकतीन्द्र स्याभेदाध्यवसायः। कार्यकारणयोः पौर्वापर्यविपर्यय-

मातः कथं काकतिनाथदृष्टेरग्रेसरा: कामशराः पतन्ति। फिसिद्धयोरौनत्ययो: फलरूपयोर्भेदेऽप्यमेदाध्यवसायः, न पुनः फलिनोस्तयोर्वा- स्वमेदे सत्यमेदाध्यवसायकल्पनायोगात्। तदुक्तं चक्रवर्तिना-'अमेदाध्यव सायो हि फलेऽतिशयनादिह। न पुनः फलिनोस्तत्र मेदेऽमेदो न सिध्यति ।।' इति। किं च प्रथमोदाहरणेऽपि खवतःसिद्धप्रौठौक्तिसिद्धवदान्यत्वयोरेवामेदाघ्य- वसायो न राजकल्पवृक्षयोः। अन्यथैकत्र फलयोरध्यवसायोऽन्यत्र फलिनोरिति वैरूप्यप्रसज्ञात्। एवं च प्रतापरुद्रकल्पवृक्षयोरमेदाध्यवसाय इति यत् पूर्वमुक्तं तत् फलगतामेदाध्यवसायविषयमिति द्रष्टव्यम्। शिलेति।। यथा चिन्तारत्नादिकं शिलात्वादिदोषदुष्टं, तथा सर्वमपि जगदिति दुष्टेयं ब्रह्मसृष्टिः कथमनवद्याशेषगुणमेनं संस्पृशेदिति रुद्रदेवस्य ब्रह्मसृष्टिसंबन्धे- उप्यसंबन्धकथनम्। अत्राप्यध्यवसायं संपाद्यति-अतीतब्रह्मसृष्टि- नेति।। अयं च खतःसिद्ध प्रौढोक्तिसिद्धगुणातिशयाध्यवसायमूल इति द्रष्टव्यम्। ब्रह्मन्निति॥ हरिवाक्यमेतत्। विरिश्चिरुत्तरमाह-स्वामिन्निति॥ अधि- किया जगत्सर्जनाधिकारः । विष्णुर्विरिञ्चिकथनमन्यथा करोति-मिथ्येति॥ अत्रालौकिकौन्नत्यादिगुणयुक्तमेनं ब्रह्मापि निर्मातुं न शक्रोतीति भावः। असं- बन्धे संबन्ध योजयति-अन्नेति॥ पूर्ववदमेदाध्यवसाय इत्याह-शम्भुनेति॥ पश्चमं मेदमुदाहरति-मातरिति॥ कामशरपीडामसहमानायाः कस्याश्षि-

Page 298

अर्थालंकारप्रकरणम् । २८९

तद्रूपलावण्यजितः स्मरोऽपि नूनं गतः किंकरताममुष्य । अत्र कार्यभूतस्य स्मरशरपातस्य कारणभूतात् प्रियदृष्टिपातात् पूर्वकालत्वमुक्तम्। अथोक्तिसाम्यालंकारनिरूपणेSतिशयोक्तिहेतुका सहोक्तिर्निरूप्यते। सहोक्त्यलंकारः। सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः । कल्पितौपम्यपर्यन्ता सा सहोक्तिरितीष्यते॥ यत्र भेदेऽभेदरूपया कार्यकारणपौर्वापर्यविपर्ययरूपया वातिश- योक्त्या एकस्य प्राधान्येनान्वयेSपरस्य सहार्थेन संबन्धे उपमानोपमे- यभावः कल्प्यते तत्र सहोक्तिः । प्राकरणिकाप्राकरणिकविषयत्वा- दुपमानोपमेयभावस्य सहार्थसंबन्धेन द्वयोरपि प्रकृतत्वान्न तदात्मता। कार्यकारणपौर्वापर्यविपर्ययरूपातिशयोक्तिमूला सहोक्तिर्यथा- न्मात्रा सह वचनम्। तस्य काकतीन्द्रस्य। अभूषणेऽपि ·भूषितवङ्धासमान आकारो रूपम्, लावण्यं कान्तिविशेषः । अनयोर्लक्षणमुक्तम्। अमुष्य काकती- न्द्रस्य। कारणं पूर्वमपरं कार्यमिति सर्वत्र नियमः । कविप्रौढोक्त्या तद्विपर्ययो- डलंकार इत्याशयेनाह-अत्रेति॥ 'अविरलविलोलजलद: कुटजार्जुननीपसुर- मिवनवातः । अयमागच्छति कालो हन्त हताः पथिकगेहिन्यः ॥' इत्यादि कार्यकारणयौगपद्यमपि पौर्वापर्यविपर्यय एवेति द्रष्टव्यम्। सहोक्तेः संगति- माह-अथेति॥ लक्षणमाह-सहार्थेनति॥ सहशब्दस्यार्थों यस्य तेन सहार्थेन। तत्पर्यायेण चेत्यर्थः । 'अनेन सार्ध विहराम्बुराशेः' इत्यादौ सहोक्ति- मात्रस्यालंकारता मा भूदित्युक्त्तम्-अतिशयोक्तित इति।। अत्राकाक्कितमंश- मध्याहारादिभि: पूरयन् व्याचष्टे-यत्रेति। एकस्य प्राधान्येनान्वय इति। यथा पुत्रेण सहागतः पितेत्यादौ पितुरागमनादिना शाब्द: संबन्धस्तद्वदिति भावः। अपरस्य सहार्थेन संबन्ध इति॥ तत्रैव पुत्रादिवदिति भावः । उपमानोपमेयभावः कल्प्यत इति। 'सहयुक्तेऽप्रधाने' इत्यप्रधाने तृतीयाविधानात् तदन्तस्य गुणभावादुपमानत्वम्। अर्थादितरस्य प्राधान्यादुपमे- यत्वं च कल्प्यत इत्यर्थः । अत एवात्र भेदप्रधानं साधर्म्यमिति द्रष्टव्यम्। सह शाखया प्रस्तरं प्रहरतीत्यत्र प्रहरणे शाखाप्रस्तरयोरिव शाब्द एवायं गुणप्रधान- भावो न वास्तवः, पित्रा सहागतः पुत्र इत्यपि सुवचत्वात्। उपमानोपमेयभाव- क्षात्र काल्पनिको न वास्तव इत्यत्र निमित्तमाह-प्राकरणिकेति॥ तदात्म- त्र 25

Page 299

२९० प्रतापरुद्रीये रत्नापणसहिते

अन्ध्रक्षमाभृत्सुभटासिधारा रणेषु नी लोत्पलपत्रभासः । पतन्ति कण्ठेष्वरिभूपतीनां साकं सुरस्त्रीजनमुक्तमाल्यैः ॥ अत्र कृपाणपतनोत्तरकालभाविनो दिव्यमाल्यपतनस्य सहका- लत्वमुक्तमिति पौर्वापर्यविपर्ययः । भेदेडमेदरूपातिशयोक्ति: श्रेष- गर्भाभेदाध्यवसायरूपा चारुत्वातिशयहेतुः । तन्मूला यथा- दिने दिने रुद्रनराधिपस्य प्रतापलक्ष्मीरुदयं प्रयाति। प्रकाशिताशेषदिगन्तराला विवस्वता सार्धमनिन्द्यभासा ॥ अत्रोदयं प्रयातीति श्ेषेणोदयपर्वताभ्युदययोरभेदाध्यवसायः। अथ सहोक्तिप्रतिपक्षरूपा विनोक्तिरनिरुप्यते। विनोक्त्यलंकारः । विना संबन्धि यर्त्किचिद्यत्रान्यस्य पराभवेत्। अरम्यता रम्यता वा सा विनोक्तिरिति स्मृता॥ यत्र कस्यचिदसंनिधानाद्वस्तु रम्यमरम्यं वा भवेत् सा विनो० क्तिः। सा द्विविधा अरम्यता रम्यता चेति। अरम्थता यथा- ता अप्रकृतरूपता। उदाहरति-अन्ध्रेति॥। अत्र दिव्यमाल्यानीव खज्नधाराः कण्ठेषु पतन्तीत्येवं प्रतीयमानस्योपमानोपमेयभावस्य द्वयोः प्राकरणिकत्वात् वैवक्षिक- त्वम्। कण्ठपतनसाधर्म्यस्य मेदप्रधानकत्वं चोपमानोपमेययोः सहार्थप्रयुक्तगुण- प्रधानभावनिबन्धनमित्याद्युनेयम्। अत्र कार्यकारणपौर्वापर्यविपर्ययरूपातिश- योक्तिमूलत्वमुपपादयति-अत्रेति ॥ दिने दिन इति॥ श्लेषमित्तिकामेदाध्य- वसायोऽत्र सहोक्तिमूलमित्याह-अत्रोद्यमिति ॥ 'कुमुददलैः सह संप्रति विघटन्ते चक्रवाकमिथुनानि' इत्यत्र श्रेषमित्तिकामेदाध्यवसायो मूलम्। अत्र विघटनं संबन्धिमेदात् मिन्नम्, न तु श्िष्टमित्याह सर्वस्वकारः। 'उत्क्षिप्तं सह कौशिकस्य पुलकैः इत्यादौ इयं मालयापि दृश्यते। अत्र कर्मसाहित्यात् सहोक्ि: पूर्वत्र कर्तृसाहित्यादिति भेदः । विनोकेः संगतिमाह-अथेति ॥ लक्षणमाह-विनेति॥ यत्र संबन्धि यत् किंचिद्वस्तु बिना अन्यस् प्रतिसंब- न्धिनो रम्यता शोभनत्वमरम्यता अशोभनत्वं वा पराभवेशिवर्तेत सा विनोकि- रित्यर्थः । फलितं व्याचष्टे-यत्रेति। रम्यमरम्यतारहितमरम्यं रम्यतारहितं वेत्यर्थः। व्याख्यानोकं व्युत्कमं परिहरन् विभजति-सेति॥ रम्यत्वाभावः अरम्यत्वाभावश्वेत्यर्थः। कस्मिंश्रित् सति कस्यच्िद्रम्यत्वमरम्यत्वं वैति विधि- मुखेनापि विच्छित्तिविशेषो नास्तीत्येवममिधानमिति द्रष्टव्यम्। तदुक्तम्- 'सदसत्त्वनिर्वृत्तिक्रेजनिवृत्त्यान्यस्य वर्ण्यते। तदा द्विधा विनोकि: स्याद्विघिरत्र

Page 300

अर्थालंकारप्रकरणम् । २९१

प्रतापरुद्रदेवस्य गुणवर्णनया विना। कीदृशी काव्यरचना संश्ृणुध्वं कवीश्वराः ॥ अत्र प्रतापरुद्रगुणवर्णनेन विना काव्यश्रियोऽशोभनत्वमुक्तम्। अनेन काव्यशोभामिच्छद्धिः कविभिः प्रतापरुद्रगुणा वर्णयितव्या इति विधिरेव प्रकाश्यते। रम्यता यथा- कलापूर्णे नित्यं जयति जगतीन्दौ त्रिजगतो वपुष्मत्यानन्दे विमलविभवे रुद्रनृपतौ। बिना लक्ष्म प्राप्य प्रतिदिवसपूर्णा निजतनुं प्रकाश: स्यादिन्दुर्यदि दिवि भवेत् सोऽपि सुभगः ॥ अत्र प्रतापरुद्रे प्रकाशमाने चन्द्रमसः कलङ्गेन विना शोभनत्व- मुक्तम्। सकलगुणशालिन: प्रतिपक्षस्य पुरस्तात् तादृशगुणवत्तयैव रम्यता नान्यथेति। समासोक्त्यलंकारः । विशेषणानां तौल्येन यत्र प्रस्तुतवर्तिनाम्। अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते। यत्र प्रकृतविशेषणसाम्यादप्रस्तुतं गम्यते सा समासोक्तिः। तत त्रिविधम्-श्िष्टविशेषणसाम्यं साधारणमौपम्यगर्भ चेति। श्िष्टविशेषणसाम्यं यथा- फल भवेत् II' इति। आद्यमुदाहरति-प्रतापेति ॥ कीदशी, रम्या न भवती- त्यर्थ: । संश्रृणुध्वं व्याख्यातम् । अलंकारफलं विधिमाह-अनेनेति ।। द्वितीयमुदाहरति-कलेति॥ जगतीन्दौ भूलोकचन्द्रे रुद्रनृपतौ कलापूर्णत्वादि- विशेषणैः प्रतीयमानेन चन्द्रादुत्कर्षेण जयति सति इन्दुः कलङ्कराहित्येन नित्यं पूर्ण: प्रकाशत इति प्रकाशः प्रकाशमानो दिवि यदि स्याद्धलोके त्वेतत्संनिधानेन तथाविधोऽपि न शोभत इति भावः । स चन्द्रोऽपि सुभगो भवेदित्यशोभनत्वा- भावकथनम्। तदेवाह-अन्रेति॥ सहोक्तिविनोक्योः सहार्थविनार्थयोरभावेऽपिं तदर्थविवक्षायामुदाहरणमलंकारसर्वखवादौ द्रष्टव्यम्। उक्तिसाम्यात् समासोकि लक्षयति-विशेषणानामिति ॥ स्पष्टम्। समासेन संक्षेपेणार्थद्वयकथनात् समासोकिः । विशेषणसाम्यं विभजते-तदिति । यत्र सकृदुचचारितशब्दे- नार्थद्वय प्रतीयते तच्छिलष्टम्। यत्रोभयप्रवृत्तिनिमित्तैक्यं तत् साधारणम् । य त्रौपम्यगर्भसमासविशेषाश्रयण तदौपम्यगर्भमू। तेन समासोफिरपि त्रिविधा।

Page 301

२९२ प्रतापरुद्रीये रत्नापणसहिते

सदो विश्रथमेखलां पुलकितामृज्वीं तनुं बिभ्रती रागादन्ध्रपतेः कृपाणलतिका गृह्याति कण्ठेष्वरीन्। तद्योगादनुरक्तभावविवशाः संमीलिताक्षाश्चिरं शून्यान्तःकरणा भजन्ति खलु ते भावस्थितिं कामपि। अत्र विश्रथमेखलां पुलकितामिति छ्िलिष्टविशेषणमहित्रा कृपा- णलतिकाया नायिकात्वप्रतीतिः। अनुरक्तभावविवशा इत्यादिविशेष- णद्वारा रिपूणां नायकत्वप्रतीतिः । साधारणविशेषणेन यथा- वीतव्रीडमपास्तमानमुद्यद्वैस्वर्यमाविर्भवत्- स्वेदं निर्भरगात्रवेपथु मिलन्मूर्च्छ गलद्वाष्पकम्। संजातप्रलयं च काकतिमहीनाथ स्मरोद्वेजिता भूपा: शैलगुहासु यान्ति विजनं भीत्या समालिङ्गिताः ॥। अत्र शृङ्गारभयानकसाधारणविशेषणबलाद् भीत्या समालिद्गिता इति नृपाणां नायकत्वप्रतीतिः । औपम्यगर्भविशेषणेन यथा- भृतात्मा गुणरत्नौघैः पूर्णः सौजन्यवारिणा। तत्रादं भेदमुदाहरति-सद इति। विश्लथा प्रयोगानुकूला मेखला कण्ठ- रज्जुर्यस्यास्तां तथोक्तां शिथिलकाश्चीगुणां च । पुलकाश्छाया अस्या: सं- जाताः पुलकिता रोमाश्चिता च ताम्। ऋज्वीमकुटिलां रताववामां च। तद्यो- गात् कृपाणलतिकासंबन्धात्। अनुरक्तोऽनुवृत्तरक्तो भावः स्रूपं येषां ते तथो- काः अत एव विवशाः परवशाः। अन्यत्र तद्योगानायिकासंबन्धादनुरक्तमावे- नानुरक्तत्वेन विवशाः। मीलिताक्षा: मूर्च्छया सुखपारवश्याच्। तथा शून्यान्तःकर- णा गतमनसो विगलितवैद्यान्तःकरणाक्ष। कामपि वक्तुमयोग्यां साक्षादुक्तावमञ्- ळत्वेनाश्लीलत्वादिति भावः। भावस्थितिं षष्ठभावविकारं विनाशमित्यर्थः । अन्यत्र कामपि वक्तुमशक्यां भावस्थिति प्रेमानुबन्ध भजन्ति। अत्र शिष्टविशे- षणसाम्यात् खज्ललतायामरिषु नायिकानायकव्यवहारसमारोप इत्याह-अत्रेति॥ द्वितीयमुदाहरति-वीतेति॥ व्याख्यातमेतत्। अत्र वीतब्रीडादिविशेषणाना- मुभय त्रैकार्थत्वं साम्यं, तद्वलाद्धीरूणां श्रृज्वारनायकव्यवहारसमारोप इत्याह- अत्रेति। व्रीडव्ययादिधर्मसमारोपोऽत्र निमित्तम् । 'द्ामालिलिङ्न मुखमाशु दिशां चुचुम्ब' इत्यत्रेक्षणामौ युवनायकव्यवहारारोपे आलिक्कनादिकार्यसमारोपः कारणम्। साधारणविशेषणसाम्ये धर्मकार्ययोरन्यतरारोपं विना व्यज्ञनव्या- पारोद्ेदनेनाप्रकृतप्रतीतेरसंभवात्। एवं च द्वितीयो मेदो द्विविधो जातः । तृतीयमुदाहरति-भृतात्मेति ॥ गुणा रक्नानीवेत्युपमितसमासस्य गुणा एक

Page 302

अर्थालंकारप्रकरणम् । २९३

प्रतापरुद्रनृपतिर्धत्ते विश्वंभराश्रियम्॥ अत्र समासोक्तौ सर्वत्र व्यवहारसमारोप एव जीवितम्। स चतुर्विध:। लौकिके वस्तुनि लौकिकव्यवहारसमारोपः, शास्त्रीयवस्तु- व्यवहारसमारोपश्चेति द्विविधः । तथा शास्त्रीयवस्तुनि शास्त्रीयवस्तु- व्यवहारसमारोपः लौकिकवस्तुव्यवहारसमारोपश्च्ेति। एवं चतुर्विध:। यथाक्रममुदाहरणानि।

प्रतापरुद्रो भद्रात्मा तनुते सार्वभौमताम् । रन्नानीति रूपकसमासस्य च साधकबाधकाभावात् सन्देहसंकरः ततो गुण- सदृशै रत्नैरिति मध्यमपदलोपी समासः। एवमुत्तरत्रापि। इत्थमौपम्यगर्भ- विशेषणसाम्येन प्रतापरुद्रे समुद्रव्यवहारप्रतीतेः समासोकिः । यत्रोपमासमासे साधकमस्ति, यथा 'दन्तप्रभापुष्पचिता लोलाक्षी चारुहासिनी। केशपाशालि- वृन्देन सुवेषा हरिणेक्षणा II' इत्यत्र सुवेषत्वं तत्रोपमासमासानन्तर मध्यमपद- लोपिसमासो द्रष्टव्यः । तथा च तृतीयमेदस्यापि द्वैविध्यं सिध्यतीत्येवं पञ्व- प्रकारा समासोक्तिः । तदुक्तमलंकारसर्वस्वे-'तदेवं श्लिष्टविशेषणसमुत्थापि- तैका। साधारणविशेषणसमुत्थापिता धर्मकार्यसमारोपाभ्यां द्विधा। औपम्य- गर्भविशेषणसमुत्थापिता तूपमासंकरसमासाभ्यां द्विभेदा' इति। यत्र 'निरीक्ष्य विद्युन्नयनै: पयोद' इत्यादौ निरीक्षणादिकं रूपके साधकमस्ति तत्रैकदेशविव- र्ति रूपकमेव न समासोक्तिरित्यादिविशेषा अपि तत्रैव द्रष्टव्याः । विशेषान्तर- माह-अत्रेति॥। व्यवहारसमारोप एवेत्येवकारो रूपसमारोपव्यवच्छेदार्थः । तथा हि-यदा विशेषणसाम्यादप्रस्तुतं प्रस्तुतविशेष्यत्वेन प्रतीयते न तु प्रयुज्यते तदा निष्प्रतियोगिकत्वेनापरित्यक्तस्वरूपस्य प्रस्तुतस्य राजादेर्विशे- यणसाम्यावगमितेनाप्रस्तुतसमुद्रत्वादिधर्मेण विशिष्टतया प्रतीतेः व्यवहारस- मारोपः । यदा त्वप्रस्तुतमपि विशेष्यं प्रयुज्यते तदा तत् प्रस्तुतमर्थ स्वेन रूपेण रूपवन्तं कृत्वा न्यग्भवति। प्रस्तुतमपि स्वरूपं परित्यज्याप्रस्तुतताद्रप्य- मुपगृह्नाति। अतस्तत्र रूपसमारोप एव । तदुक्तम्-'अप्रस्तुतं प्रतीतं चेत् मेदकांशैकसाम्यतः । व्यवहारं समारोप्य प्रस्तुते न्यग्भवत्यथ ॥ तेनाप्रस्तुत- वृत्तान्तारोपेण प्रस्तुतं स्वयम्। संक्षेपेणोच्यते यस्मात् समासोकतिरियं तदा ।। स्याद्विशेष्यांशसाम्यं चेत् प्रस्तुताकाररूपितम्। भवेदप्रस्तुतं वेदं रूपकालं- कृतिस्तदा ॥' इति। अत्राप्रस्तुतस्य प्रतीयमानत्वात् व्यवहारसमारोप एवेति भावः । तं चतुर्धा विभजति-स इति॥ वस्तुनि जात्यादौ। क्रमेणोदाहरति- सप्ाङ्गेति। साम्थमात्यसुहत्कोशराष्ट्रदुर्गवलानि सप्ताज्ञानि तद्रोचरया दान-

Page 303

२९४ प्रतापरुद्रीये रव्नापणसहिते

अत्र लौकिके प्रकृतवस्तुनि लौकिकस्य सार्वभौमनामधेयस्य दिग्गजस्य व्यवहारप्रतीतिः । तथा- गुरुप्रमाणेन निजेन सदयस्तिरस्कृतोद्यत्प्रतिपक्षहे तौ। प्रतापरुद्रस्य समित्युदग्रे खङ्गे महत्खण्डनपण्डितत्वम् ।। अत्र लौकिके खङ्गे तर्कशास्त्रप्रसिद्धवस्तुव्यवहारसमारोपः । तथा-

श्रुतिग्राह्यं तत्त्वं किमपि कलयन्ती प्रतिपदम्। प्रबन्धश्रीर्वीरक्षितिभुजि कवीनां विजयते बुधश्रेणी यस्यां निपुणमधिकर्तुं प्रभवति।। लक्ष्म्या त्यागवैभवेन विराजितः । अदेयमस्य किमपि नास्तीति भावः । अन्यत्र सप्ताज्ञानि करादीनि तत्र स्फुरन्त्या स्नवन्त्या दानलक्ष्म्या मद- वैभवेन विराजितः । तदुक्म्-'करात् कटाभ्यां मेढ्राच्च नेत्राभ्यां च मदस्तुतिः' इति पालकाव्ये। करात् नासारन्ध्राभ्यामित्यर्थः । भद्रात्मा मज्लमूर्तिः । अन्यत्र भद्रजातिः । तल्लक्षणं मतङ्गज इति प्रतीयते। सर्व- भूमेरीश्वरः सार्वभौमः। 'तस्येश्वरः' इत्यण्प्रत्ययः । अनुशतिकादित्वात् उभय- पदवृद्धिः। तत्तां चक्रवर्तित्वम्। अन्यत्र सार्वभौमतां दिग्गजविशेषत्वं तनुते। अत्र प्रकृतप्रतापरुद्रेऽप्रकृतभद्रगजव्यवहारसमारोपः। लौकिके वस्तु- नि शास्त्रीयवस्तुव्यवहारसमारोपमुदाहरति-गुर्विति॥ गुरुणा श्रेष्ठेन प्रमा- पेन ्वजादिशुभायविशिष्टप्रमाणेनेत्यर्थः। आयुधानां ध्वजाद्याया जयावहा इति तद्विदः । अन्यत्र प्रमाणेनानुमानेन तस्यैव कथासाधनत्वात्। गौरवं चास्य व्याप्तिपक्षधर्मतावैदिष्टधनिबन्धनं द्रष्टव्यम्। प्रतिपक्षस्य शत्रोः प्रतिवा- दिनश्च । हेतिरायुध हेतुरनुमानं चेति। इकारोकारयोः श्लेषः ।- उद्यदिति शत्रा प्रयोगप्रारम्भ एवानयोः पराभव इति लभ्यते। समिति युद्धे सभायां च। खण्डनपण्डितत्वं विदारणकौशलम्। अन्यत्र दूषणनैपुष्यम्। अत्र विशेषणसा- म्याद्वैतण्डिकः प्रतीयते। शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपमुदा- हरति-अपूर्वेति ।। अपूर्वस्याचुम्बितस्यार्थस्य श्लाघया कथनेन गुरूणां श्रा- ध्यानां भणितानां वाक्यानां यत् सारस्यममिमुखीकरणयोग्यत्वं तस्य पदवी स्थानमित्यर्थः । पदे पदे प्रतिपदम्। श्रुतित्राह्यं श्रोत्रेन्द्रियप्राह्यम्। किमप्यनि- वचनीयम्। तत्वं माधुर्यरूपम्। कलयन्ती धारयन्ती। श्रुतिकट्वादिदोषरा- हित्येन श्लेषादिगुणसाहित्येन च स्रवत्सुधामधुरशब्दार्थशरीरेत्यर्थः । प्रबन्धश्रीः काव्यनाटकादिप्रबन्धलक्ष्मीः विजयते। यस्यां वुधश्रेणी विदग्धपरिषत् निपुण-

Page 304

अर्थालंकारप्रकरणम् । २९५

अत्रालंकारशास्त्रीये वस्तुनि तन्त्रशास्त्रप्रसिद्धवस्तुव्यवहारसमा- रोपः। तथा- सालंकारा लसद्वर्णा सगुणा रसनिर्भरा। भावानुबन्धिनी भाति भारती काकतीश्वरे॥ मधिकर्तु रसमाखवादयितुं प्रभवति। अधिकारस्य फलस्वाम्यलक्षणत्वात् सहृदय एवात्राधिकारी नान्य इत्यर्थः । अपूर्वाणामर्थानां चोदनैकसमधिगम्यत्वेन प्रमा- णान्तरागोचराणाममिहोत्रादीनां श्लाघया कथनेन गुरुणां श्रेष्ठानां भणितानां विधिवाक्यानां यत् सारस्यमर्थवादप्रयुक्त प्रवर्तनौन्मुख्यं तस्य पदवी स्थानं विध्यादिविचार सध्रीचीनेत्यर्थः । श्रुतिशब्देन श्रुत्येकदेशो गृह्यते। तेन श्रुतिग्राह्य्यं लिकादिप्रत्ययवेद्यमत एव किमप्यलौकिकं तत्त्वं श्रेयःसाधनतारूपं धर्मम्। अस एवोक्तमाचार्यै :- 'श्रेयःसाधनता श्ेषां नित्यं वेदात् प्रतीयते। ताद्रूप्येण च धर्मत्व तस्मान्नेन्द्रियगोचर: ॥' इति। पद्यते गम्यते प्रामाण्यादिकमेमिरिति पदानि न्यायाः । प्रतिपदं सहस्रेणापि न्यायैरित्यर्थः । कलयन्ती इतिकर्तव्यतारूपेण प्रतिपादयन्तीत्यर्थः । मीमांसेति गम्यते । तदुक्तमाचायैः-'धर्मे प्रमीयमाणे हि वेदेन करणात्मना। इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥' इति। यस्यां मीमांसायां बुधश्रेणिः निगमनिरुक्तादिविद्यानिष्णातविद्धत्सङ्ग एवा- धिकर्तुँ प्रभवति, तस्यैवात्राधिकारादिति भावः। तदुककं जिज्ञासाप्रस्तावे- 'जिज्ञासैकोपनीतस्य द्वितीया पठितश्रुतेः। ज्ञातविद्यान्तरस्यान्या मीमांसा तत्पुर- स्सरी ।।' इति। अथवा मतान्तरेणार्थान्तरं तु-क्वियादिव्यतिरिकं स्थायिकार्य प्रमाणान्तरागोचरमपूर्वम्। तदुकं शारिकनाथेन-'क्रियादिमिन्नं यत् कार्य वैद्यं मानान्तरैर्न तत्। अतो मानान्तरापूर्वमपूर्वमिति गीयते ॥' इति। तदेवार्थो वाक्यार्थः, प्रधानत्वात्। तदुक्तम्-'कार्यस्यैव प्रधानत्वाद्वाक्यार्थत्वं च युज्यते' इति। एवमादेः शलाघा कत्थनम्। तत्प्रधानानां गुरुभणितानां नि- बन्धनविवरणादिप्रभाकरत्रन्थानां यत् सारस्यं प्रसन्नगम्भीरत्वं तस्य पदवी स्थान तथाविधग्रन्थयुक्तेत्यर्थः । श्रुतिग्राह्यं'लिकादिवाच्यम् । 'एवं कार्यात्मके हार्थे व्युत्पद्यन्ते लिडादयः' इति शारिकोक्तः । किमप्यलौकिकं तत्त्वम्। 'कार्यतवेन नियोज्यं च स्वात्मनि प्रेरयन्नसौ। नियोग इति मीमांसानिष्णातैरमिधीयते ॥' इत्युक्त्तंलक्षणनियोगापरपर्यायं धर्म प्रतिपदं कलयन्तीत्यादि पूवर्वत्। लक्ष्ये लक्षणं योजयति-अत्रालंकारेति॥ तन्त्रशात्रमत्र भाटटं प्राभाकरं चेत्युभयं विवक्षितम्। शास्त्रीये वस्तुनि लौकिकव्यवहारसमारोपमुदाहरति-सालंका- रेति।। अलंकारैरुपमादिमिः कटकादिमिश्र सहिता सालंकारा। लसदूर्णा मधुराक्षरा. मनोज्ञकान्तिश्च। सगुणा श्रलेषादिगुणयुक्ता गाम्भीर्यादिगुणसहिता च । रसेन शृज्गारादिनानुरागेण च। निर्भरा पूर्णा। काकतीश्वरे विषये।

Page 305

२९६ प्रतापरुद्रीये रक्नापणसहिते

अत्रालंकारशास्त्रीये वस्तुनि भारत्याख्ये लौकिकनायिकाव्यव- हारसमारोपः। समासोक्तौ विशेषणविशेष्ययोई्वयोरुपादानाभावा- च्छलेषाद्विशेषः। अन्येषामप्यलंकाराणामुक्तिसाम्येऽपि श्लेषगर्भत्व- विशेषात् वक्रोक्तिरुच्यते- वक्रोक्त्यलंकारः। अन्यथोक्तस्य वाक्यस्य काक्का श्रेषेण वा भवेद्। अन्यथा योजनं यत्र सा वक्रोक्तिर्निगद्यते॥ यत्र कयाचिद्विवक्षया केनचित्प्रयुक्तस्य वाक्यस्यान्येन अन्यथा विवक्षया योजना क्रियते सा वक्रोक्तिः। उक्तिवक्रत्वे कथंचित् संभ- वत्यप्येवंविधलक्षणाभावात् सर्वालंकारेभ्यो भिद्यते। काका यथा- *बहुवळळहो खु राआ सहि तस्स सिरिंमि णिभ्भरासत्ती। णूणा सिरिए वि तुम अप्पाणं किं णु ळहुवेसि। अन्र त्वमपि श्रियो न्यूनगुणा न भवसि। अतस्त्वय्यपि नृपति- रासक्त एव, किमित्यात्मानं लघूकरोषीति काका प्रतीयते। श्लेषेण यथा- * बहुवल्लभः खलु राजा सखि तस्य श्रियां निर्भरासकिः । न्यूना श्रियोऽपि त्वमात्मानं कि नु लघयसि॥ भावोऽमिप्रायः प्रेमा च, तस्यानुबन्धो विच्छेदाभावः, तद्वती। भारती वाणी। नायिका तु गम्यते। ननु यत्र श्लिष्टविशेषणसाम्यं तत्र श्लेष एवालंकार: कस्मान्न भवतीत्यताह-समासोक्ताविति ।। अप्रकृत- विशेष्यस्यापि पृथगुपादाने श्रलेषः । तंदभावादत्र न श्लेषत्वमिति भावः । वक्रो- के: संगतिपूर्वकं लक्षणमाह-उक्तिसाम्य इत्यादिना ॥ अन्यथोक्तस्येति॥ केनचिदिति शेषः । अन्यथा योजनमिति ॥ अपरेणेति शेषः । तदेतद् व्याचष्टे-यत्रेति॥सर्वेभ्यो मेदमाह-उक्त्ीति॥ वकरत्वं वैचित्यम्। संभव- त्यपीति॥ सर्वालंकारेष्विति शेषः । विच्छित्तिमात्रवाचिनो वक्रशब्दस्योक्तवि शेषे पर्यवसानात् सर्वविलक्षणत्वमिति भावः । काकुमूलां वक्रोक्तिमुदाहरति- बह्विति ॥I (अप्पाणमित्यत्र 'आत्मनि पः' इति सूत्रेणात्मशब्दे युक्तवर्णस्य पकारादेशः ।) अत्र प्रथमार्धे नायिकया संभावितस्यात्मन्यूनत्वस्य द्वितीयार्षे सख्या धियो न्यूनेत्यत्र काक्का निषेधयोजनात् वक्रोकतिः। श्लेषमूलामुदाहरति-

Page 306

अर्थालंकारप्रकरणम्। २९७

कस्ते सुन्दरि वर्तते हृदि सदा राजा किमिन्दुर्न हि क्षोणीभृत्तिलक: सुमेरुरयि किं नो रुद्रदेवो विभुः । ईशः किं सखि सत्यमात्थ सुभगे त्वं गोत्रसारोद्धवे- त्याल्यां खल्वपहासवाचि विरहं किंचिद्वधूर्व्यस्मरत् ।। अथ खभावोक्ति: । स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्। यत्र चारुतया वस्तुनो यथावद्वर्णनं निबध्यते सा स्वभावोक्ति:। यथा- मदश्च्युता नर्तितकर्णतालमुद्धूतमूर्ता त्रिपदस्थितेन। लोलाग्रहस्तेन गजेन जातो नित्योत्सवः काकतिवीररुद्रः ॥ व्याजोक्त्यलंकारः । अथोक्तिसाम्याद् व्याजोक्तिरुच्यते। व्याजोक्ति: सा समुद्जूतं वस्तु यत्र निगूद्यते। यत्र प्रकाशं वस्तु साम्यगर्भत्वेन निगूहूनार्ईत्वात् केनचित् व्या- जन प्रच्छाद्यत सा व्याजोक्तिः । यथा- क इति।। अत्र सखीनायिकयोरुक्तिप्रत्युक्तितया नव वाक्यानि योजनीयानि। राजा नृपश्चन्द्रक्ष। क्षोणीमृत्तिलको राजश्रेष्ठः पर्वतोत्तमश्च। रुद्रदेवः प्रतापरुद्रो रुद्रक्ष। सत्यमात्थ ब्रूषे। गोत्रसारोद्धवा सत्कुलप्रसूता पर्वतराजपुत्री, च । अपहासप्रधाना वाचो यस्यास्तस्यामपहासवाचि। विरहं वियोगदुःखं किंचित् व्यस्मरत्। वक्रोक्तिविपर्ययेण सभावोकति लक्षयति-स्वभावेति॥ यत्र चारु सम्यगग्राम्यम् यथावदन्यूनातिरेकेण वस्तुनो वर्णक्रियासंस्थानरूपस्य वस्तु- स्भावस्य कविप्रतिभैकगोचरस्य वर्णनमसौ खवभावोक्तिः । अत एवेद आ्रम्यं नालंकार इत्युक्तं दोषप्रकरणे। उदाहरति-मदेति॥ मदश्चधुता मदस्ाविणा। नर्तितकर्णतालं यथा भवति तथा उद्धूतमूर्धा कम्पितकुम्भस्थलेन। त्रिमिः पदैः स्थितं स्थितिर्यस्य तेन त्रिपदस्थितेन। अग्रं चासौ हस्तश्चेत्यवयवावयविनोरभेदवि- वक्षायां विशेषणसमासः । यदाह वामन :- 'हस्ताप्राग्रहस्तादयो गुणगुणिनोमें- दामेदात्' इति। अत्र क्रियाखभाववर्णनम्। एवं वर्णसंस्थानयोरुदाहार्यम्। व्याजोक्े: संगतिमाह-उक्कीति॥ लक्षणमाह-व्याजोकितिरिति॥ व्याचष्टे- यत्रेति॥ प्रकाशं निगूढचरं कुतश्चिन्निमित्तात् प्रकटमित्यर्थः । अत्र वस्त्वन्तर-

Page 307

२९८ प्रतापरुद्रीये रत्नापणसहिते

क्षोणीपाणिग्रहणसमये संमदाद्रोमहर्षे सर्वाङ्गीणे नृपतितिलकः काकतीयान्वयेन्दुः । धीरोदात्त: शिशिरसलिलैः किं तु राज्याभिषेक: कर्तव्यः स्यादिति मृदु हसन् वीक्षते मन्त्रिवृद्धान् । अत्र क्षोणीपाणित्रह्णजनितं रोमहर्षणं धीरोदात्ततया प्रताप- रुद्रदेवेन महाभिषेकसलिलशैत्यव्याजेन प्रच्छादयता मन्त्रिणो वी- क्ष्यन्ते। मीलनालंकारः । व्याजोक्त्युत्तरं किंचित्साम्यान्मीलनमुच्यते। मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम्॥ यत्र वस्तुना वस्त्वन्तरं प्रच्छादितं भवति स मीलनालंकारः । स द्विविधः। सहजेनागन्तुकतिरोधानमागन्तुकेन सहजतिरोधानं चेति। यथाक्रममुदाहरणे- उग्रैः काकतिवीररुद्रनृपतेर्दोर्दण्डविस्फूर्जितै- र्युद्धप्राङ्गणवर्जितेषु पतिषु क्कापि प्रलीनात्मसु। विष्वक्तीव्रतरस्मरज्वरजुषामङ्गे द्विषद्योषितां संक्रान्तोऽपि न लक्ष्यते पथि महानूष्मा चिरं मारवः॥ अत्र सहजेन रिपुकामिनीगतेन स्मरानलोष्मणा मार्गवशादा- गन्तुको मरुष्मा तिरोधीयते। तथा-

प्रक्षेपरूपस्य व्याजस्य वचनाद् व्याजोक्तिरित्यर्थः । उदाहरति-क्षोणीति॥ सर्वाण्यज्ञानि व्याप्रोतीति सर्वाज्नीणः । 'तत्सर्वािः' इति खप्रत्ययः । अत्र निगूढः क्षोणीपाणिग्रहणजन्यो हर्षो रोमहर्षेण प्रकाशितः सलिलशैत्यव्याजे- नाच्छाद्यत इत्याह-अत्नेति ॥ धीरोदात्ततया गाम्भीर्येणाच्छादितस्यापि हर्ष- स्य मृदुहासेन पुनः प्रकाशन लक्षणान्तःपातीति रहस्यम् । मीलनं संगमयति- व्याजोक्तीति॥ लक्षयति-मीलनमिति ॥ उत्कृष्टवस्तुनापकृष्टवस्तुनिगूहनं मीलनमित्यर्थः । अत एव गुणसामान्यनिबन्धनात् सामान्यादस्य भेद इति द्रष्टव्यम्। सहजेनागन्तुकतिरोधानमुदाहरति-उग्रैरिति ॥ दोर्दण्डविस्फूर्जितैः भुजविजृम्भितैः । युद्ध प्रान्नणवर्जितेषु वर्जितयुद्ध प्राङ्गणेष्वित्यर्थः। 'वाहिताग्न्यादिषु' इति परनिपातः। लक्षण योजयति-अत्रति॥ आगन्तुना सहजतिरोधानमुदाह-

Page 308

अर्थालंकारप्रकरणम् । २९९

प्रतापरुद्रस्य भुजप्रभावादन्तर्भयाङ्गमिभुजामजस्रम् । स्वेदाश्ुकम्पादुदयेऽप्यनङ्गगोध्ठ्यां स्तियः प्रेम्णि न विश्वसन्ति ॥ अत्र भयजनितेन कम्पादिनागन्तुकेन सहजस्य प्रेमजनितस्य कम्पादेस्तिरोधानम्। सामान्यालंकार: । सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता। यत्र एकस्य वस्तुनो गुणसाम्येन वस्त्वन्तरैकात्म्यं भवति, स सामान्यालंकारः । यथा-

त्रयः पुमांसः प्रथमे स्मयन्ते स्वसेवकान् संभ्रमतो विलोक्य । अत्र प्रतापरुद्रकीत्यां जगत्सु विजृम्भितायां कैलासप्रभृतीनां विमलवस्तूनां तदैकात्म्यम्। तद्रुणालंकारः। इतरगुणसंनिधानातिशयसाम्यात् तद्गुण उच्यते। तङ्रुण: खवगुणत्यागादन्योत्कृष्टगुणाहृतिः । यत्र न्यूनं स्वगुण विहाय संनिहितवस्तुनः सकाशादुत्कृष्टगुणः स्वीक्रियते स तद्रणालंकारः। यथा-

नमन्नृपतिमाणिक्यमौलयः शुचयः कृताः ॥ अत्र प्रणमतां भूपतीनां पद्मरागमुकुटा: स्वां शोणप्रभां मुक्त्वा काकतिवीररुद्रपदनखज्योत्सागतं धवलिमानमुद्वहन्ति स्म । रति-प्रतापेति॥ भुजप्रभावात् पराक्रमात् भयहेतोः। अन्तर्गतं भयमन्तर्भय- माकारगोपनेनानमिव्यक्तमित्यर्थः, तस्माद्वेतोः । भूमिभुजः संबन्धिनि प्रेम्णि विषये न विश्वसन्ति। प्रेममूलानामपि स्वेदादीनां भयानुभावत्वशङ्कयेति भावः । मीलनसाधर्म्यात् तदनन्तरं सामान्यं लक्षयति-सामान्यमिति॥ यत्र गुणसाम्यात् प्रस्तुतस्य वस्तुनोऽप्रस्तुतवस्त्वन्तरैकात्म्यं निबध्यते तत् समान- गुणसंबन्धात् सामान्यमित्यर्थः । कैलासेति॥ प्रथमे पुमांस: शिवकेशववि- रिश्चाः । संत्रमतः संभ्राम्यतः क्वचिदप्यनवतिष्ठमानान्। स्मयन्ते मन्दं हसन्ति। लक्षणं योजयति-अन्रेति ॥ तद्गुर्णं संगमयन् लक्षयति-तह्रुण इति॥

Page 309

३०० प्रतापरुद्रीये रत्नापणसहिते

अतङ्ुणालंकार:। तत्प्रातिपक्ष्यादतद्गुणो निरूप्यते। सति हेतावन्यगुणास्वीकारः स्यादतद्रुणः । यत्र संनिधानरूपे हेतौ सत्यप्यन्यगुणस्वीकारो नास्ति असाव- तद्रुणालंकारः। यथा- ईशानं समया जगत्यटति तल्लीलादृहासोज्जवले दैत्यारिं परितस्तद्ङ्गविलसन्नीलद्युतिद्योतिते। ब्रह्माणं निकषा च तत्तनुमिलत्स्वर्णप्रभाभास्वरे पुष्णन् रुद्रनरेन्द्रकीर्तिविभवः स्वामेव शुभ्रां छविम्।। अत्र हरहरिविरिख्ीनां समीपवर्तिषु जगत्सु तत्तन्नानाप्रभासमग्रे- ष्वपि निरन्तरं विहरमाणस्य प्रतापरुद्रयशसो निरङ्कशः स्वकीय एव धवलिमा विजुम्भते। विरोधालंकारः । अतद्रूणे किंचित्प्रक्रान्तत्वात् विरोधस्य विरोधालंकारो निरूप्यते। आभासत्वे विरोधस्य विरोधालंकृतिर्मता। यत्र प्रथममाभासतया प्रतीतो विरोधः पर्यवसाने परिह्ियते स विरोधालंकारः । तत्र जातेर्जात्यादिना सह विरोधे चत्वारो भेदाः । क्रियायाः क्रियागुणद्रव्यैः सह विरोधे त्रयो भेदाः । गुणस्य गुणद्र- मीलने वस्त्वन्तरनिगूहनम्। इह पुनरनिगूहितस्यान्यगुणेनोपराग इत्यनयोर्भेंद इति सर्वस्वकारहृदयम्। तस्याप्रकृतस्य गुणोSत्रास्तीति तद्रुणः । उदाहरणं स्पष्टम्। अतद्गुणमाह-तत्प्रातिपक्ष्यादित्यादिना॥ ईशानमिति॥अत्रे- शानादिसमीपवर्तिनि तत्तदवूर्णविशिष्टे जगति कीर्तिविभवः स्ववर्णमजहदेवाटती त्यर्थः । अत एवातद्रुण इत्याह-अत्रेति॥ ईशानमित्यादौ 'अमितः परितः-' इत्यादिना द्वितीया । विरोधं संगमयति-अतद्रण इति ॥ विरोधस्य सत्यपि संनिधानेऽन्यगुणस्वीकाराभावलक्षणस्येत्यर्थः । लक्षयति-आभासत्व इति॥ व्याचष्टे-यत्रेति॥ अत्र विशेषतो विभागमाह-तत्र जातेरिति॥ क्रिया- यास्त्रयो भेदा इति। जात्या सहैतस्या विरोधस्य जातेरेतया विरोधेन गता- र्थत्वादिति भावः । एवं यथोत्तरमेकैकन्यूनता द्रष्टव्या। अत्रायं संग्रहः- कमाजातिगुणद्रव्यक्रियाणां तत्तदादिमिः। विरोधे दश मेदाः स्युश्तुस्तिद्वयेक-

Page 310

अर्थालंकारप्रकरणम्। ३०१

व्याभ्यां विरोधे द्वौ भेदौ। द्रव्यस्य द्रव्येण सह विरोधे एको भेदः। एवं दश विरोधे भेदाः। जातेर्जात्या क्रियया च विरोधो यथा- पद्माकरोSपि विलसति नितरामजडाशयोऽयमुर्वीशः । विमलतरवारिधाराप्यासीद्वैरिक्षितीशतापकरी ॥ अत्र पूर्वार्धे जात्योर्विरोध:, कमलाकरोऽप्यजडाशय इति वि- रोधात्। उत्तरार्धे जातिक्रिययोर्विरोधः, विमलतरवारिधारायाः संतापकरणविरोधात्। अत्र श्लेषमूलो विरोधः । जातेर्गुणद्रव्याभ्यां विरोधो यथा- अमदः सार्वभौमोऽपि भाखवानपि कलानिधिः । वीररुद्रनरेन्द्रोऽयमद्दुतांनां विहारभूः ॥ अत्र सार्वभौमोऽप्यमद इति जातिगुणयोर्विरोधः । भास्वानपि कलानिधिरिति जातिद्रव्ययोर्विरोधः। कलानिधेरेकत्वात् द्रव्यत्वम्। अत्रापि श्लेषमूलता। क्रिकियायाः क्रियया विरोधो यथा- धर्मद्विषामर्थमुषां च भङ्गमुत्पादयन् काकतिवीररुद्रः । त्रिवर्गसाधारणगोचरोऽपि करोति कामद्विषि भावमार्द्रम्।। अत्र त्रिवर्गसाधारणवृत्तेर्धर्मार्थविरोधिषु भङ्गकरणं कामारौ स्नेह- मेदतः ॥' इति। पझ्माकर इति ॥ पद्माकरः सरोऽप्यजडाशय इति लडयोरमेदाजडाशयो जलस्थानं न भवतीति विरोधस्य लक्ष्मीनिवासोऽयम- मन्द्बुद्धिरिति परिहारः । विमलतरा अतिनिर्मला वारिधारापि तापकरीति जातिक्रिययोर्विरोधस्य तरवारिरायुधविशेषस्तस्य धारा कोटिरिति परिहारः । सर्वत्रापिशब्दो विरोधद्योतकः । नायमौद्धटानामिव विरोधबाधकः श्लेषः किंतु श्लेषविरोधयोरज्ञाज्निभावेन संकर इत्याशयेनाह-अत्र ऋ्ेषमूलो विरोध इति॥ उत्तरत्राप्येवंविधोदाहरणेष्वेवमेव विरोध इति द्रष्टव्यम्। अमद इति॥ सार्वभौमो दिग्गजोऽप्यमदो मदरहित इति जातिगुणयोर्विरोधः । सर्वभूमीश्वरोऽपि निरहंकार इति परिहियते। भाखान् सूर्योऽपि कलानिधिश्चन्द्र इति जाति- द्रव्ययोर्विरोध: तेजस्वी चतुःषष्टिकलाकुशल इति परिहियते। धर्मद्विषामिति। त्रयाणां धर्मार्थकामानां वर्गस्त्रिवर्गः । 'त्रिवर्गों धर्मकामार्थैः' इत्यमरः । त्रिवर्गः साधारणो वैषम्यरहित: गोचरः सेव्यत्वेन विषयो यस्य स तथोक्तः । 'न बाधतेऽस्य त्रिगुणः परस्परम्' इति भावः । कामद्विषि कामपुरुषार्थद्वेषिणि स्मरहरे च। अत एव क्रिययोर्विरोधः समाधीयत इत्याह-अत्र त्रिव- प्र 26

Page 311

३०२ प्रतापरुद्रीये रत्नापणसहिते

करणं च विरुद्धम्। क्रियाया गुणद्रव्याभ्यां विरोधो यथा- एष जिष्णुविहारोऽपि गोत्रवात्सल्यलालसः । करोति कमलोल्लासं राजाष्यन्ध्रनरेश्वरः ॥ अन्न जिष्णुविहारस्य गोत्रवात्सल्यमिति क्रियागुणयोर्विरोधः । कमलाल्लासं कुर्वन्नपि राजेति क्रियाद्रव्ययोर्विरोधः । अत्रापि श्रष- मूलतैव। गुणस्य गुणेन विरोधो यथा- *रज्जंतो भुवणमिदं राएत्ति जए सलाहणिज्जो सि। रुद्दणरिंद कहं सा रत्ता वि अ पंडुरा जाआ।। अत्र रक्तत्वपाण्डुरत्वयोर्विरोधः । गुणस्य द्रव्येण विरोधो यथा ज्वलत्प्रतापरौद्रोऽपि काकतीयनरेश्वरः । भूत्वा जैवातृको भाति शश्चद्विश्वप्रियंकरः ॥ अत्र प्रतापरौद्रोऽपि जैवातृक इति गुणद्रव्ययोर्विरोधः । द्रव्यस्य द्रव्येण विरोधो यथा- विभाति काकतीन्द्रोऽयं रुद्रोऽपि चतुराननः । तथा च जिष्णुरित्येष कथ्यते पुरुषोत्तमः ॥ एवं दश भेदा दर्शिताः । अयमश्लेषेणापि भवति। यथा- स्वभावशिशिरा दृष्टिरपि काकतिभूसुजः । *रजयन् भुवनमिदं राजेति यया श्लाघनीयोऽसि। रुद्रनरेन्द्र क्थ सा रक्तापि च पाण्डरा जाता । गैति । पूर्वत्र द्वयोरपि विरोधिनो: श्लिष्टत्वमत्र पुनरेकस्यैवेति विशेषः । एष इति ॥ जिष्णोरिन्द्रस्य विहार इव विहारो व्यापारो यस्य स तथोक्त। तथापि गोत्रवात्सल्यलालसः पर्वतानुरक्त इति क्रियागुणौ विरुद्धौ। जय- शीलव्यापार: कुलानुकूलश्चेति समाहितौ । राजा चन्द्रोऽपि कमलोलार्स करोतीति विरोधस्य क्रियाद्रव्यगतस्य नृपतिर्लक्ष्मीविलासमिति परिहारः । रज्जन्त इति। ('न्तमाणौ शतृशानचोः' इति शतरि न्तादेशः । 'सलाहणिजजो- सि' इत्यत्र 'अः क्ष्माश्लाघयोः' इति श्लाघाशब्दे युक्तवर्णस्य विप्रकर्षः । पूर्वस्याकारयुक्तता चेति वेदितव्यम्।) ज्वलदिति ॥ प्रतापरौद्रोऽपि जैवातृक- श्रन्द्र इति गुणद्रव्ययोर्विरोधः । जैवातृक आयुष्मानिति परिहारः । विभातीति ॥ रुद्रोऽपि चतुराननो ब्रह्मेति जिष्णुरिन्द्रोऽपि पुरुषोत्तमो विष्णुरिति च द्रव्ययोर्वि- रोघ: रुद्र इति नामादिमिः प्रसिद्वैरर्थान्तरैः परिह्ियते। स्वभावेति ॥ शैत्य-

Page 312

अर्थालंकारप्रकरणम् । ३०३

सर्वाङ्गतापिनी जाता प्रतिपक्षमहीभृताम् । अत्र स्वभावशिशिरापि अङ्गतापिनीति विरोधः । विशेषालंकारः । अथ विरोधगर्भालंकारा निरूप्यन्ते। आधाररहिताधेयमेकं चानेकगोचरम्। अशक्यवस्तुकरणं विशेषालंकृतिस्त्रिधा ॥ यत्राधारमन्तरेणाधेयो निबध्यते स एको विशेषः । एकस्या- नेकगोचरत्वे द्वितीयो विशेषः । प्रकृतादशक्यवस्त्वन्तरकरणे तृती- यः । यथाक्रममुदाहरणानि। नलनहुषदिलीपधर्मपुत्रप्रभृतिनरेश्वरसंश्रिता यशःश्रीः । अनुदिनमधुनाभ्युपेत्य मैत्रीं विलसति काकतिवीररुद्रकीर्त्या।। अत्र प्राचां भूपतीनामाधारभूतानां तिरोधानेऽप्याश्रितायाः कीर्तेरवस्थानम्। तथा च पश्यन्तो भयविह्वलाः प्रतिनृपाः पञ्चात् पुरः पार्श्वयो- र्यन्तर्बहिरन्ध्रपार्थिवपति प्रोत्क्षिप्तकौक्षेयकम्। निःसीमोल्वणधावनव्यतिकरप्रभ्रष्टदोरायुधाः शैलाच्छैलमटन्ति कम्पविगलद्राम्भीर्यशौर्यश्रियः ॥ अत्र भयभ्रान्तानां शत्रुनृपतीनां प्रतापरुद्रनृपतिरेकोऽप्यनेकत्र प्रतीयते। तथा च अपारकरुणानिधेः सदसि वीररुद्रप्रभो: प्रसादमधुरक्रमा लगति यत्र दष्टिर्जने। संतापयोर्गुणयोरश्लिष्टयोर्विरोधो विषयमेदेन परिह्ियते। विरोधमूलेष्वनेक- मेदं विशेषमाह-आधारेति ॥ प्रसिद्धाधाररहितमाधेयम् एकं परिमित वस्तु युमपदेवानेकगोचरं तथा किंचिद् वस्त्वारभमाणस्तेनैव यत्नेनाशक्यवस्त्वन्तरमार- भत इति त्रयो विशेषमेदा इत्यर्थः । क्रमेणोदाहरति-नलेति॥ अधुनापि नलादीनामभावसमयेऽपीत्यर्थः। नलादिसदृशकीर्तिरयं राजेति भावः। योजय- ति-अत्रेति। पश्यन्त इति॥ धावनव्यतिकरः पलायनसंबन्धः। कम्पेति॥ कम्पेन विगलन्त्यौ मूर्तद्रव्यवत् पतन्त्यौ गाम्मीर्यशौर्यश्रियौ येषां ते तथोक्ता इत्यतिशयोक्िः । योजयति-अत्रेति। अपारेति ॥ सदस्यास्थाने यत्र जने

Page 313

३०४ प्रतापरुद्रीये रत्नापणसहिते

न किं किमधितिष्ठति त्रिभुवने स सर्वाधिकः ॥ अत्र साधारणो जनः प्रतापरुद्वद्दष्टिप्रसादपात्रीकृतः कि कि न लभत इत्यशक्यवस्त्वन्तरकरणम् । अधिकालंकार:। आधाराधेयवैचित्रयादधिकालंकारो निरूप्यते। आधाराधेययोरानुरूप्याभावोऽघिको मतः । यत्राश्रयाश्रयिणोरानुरूप्यं नास्ति सोऽधिकालंकारः । स द्विवि- धः-आश्रयस्याल्पत्वमहत्त्वाभ्याम् । स्तोके ब्रह्माण्डरन्ध्रे विपुलतरतया स्वैरसंचारहेला- संकोचादेकराशीभवदतुलरुचौ काकतीन्द्रस्य कीतौं। एतैः प्रालेयपृथ्वीधररजतगिरिस्वर्णदीशीतभानु- क्षीराम्भोराशिमुख्यैः प्रकटितमधुना तद्ूनीभावरूपम् ॥ अत्राश्रयस्य रोदःकुहरस्याल्पत्वमाश्रितस्य प्रतापरुद्रयशसो वैपुल्यम्। द्वितीयो यथा- कापि कापि कलिङ्गमालवमहाराष्ट्राङ्गवङ्गादयो भूपास्तादृशसैन्यवैभवसमाक्रान्ताखिलाशान्तराः ।

निःसीमे बलवारिधौ विद्धते पूर्ति न कोणेऽप्यहो। साधारणे। प्रसादमधुरक्रमा प्रसन्नेत्यर्थः। दृष्टिर्लगति स जनः सर्वाधिको लोकोत्तरः सन्नलौकिकं वैभवमनुभवतीत्यर्थः । अत्र पृथग्जनेऽपि प्रसादमारभमाणा दृष्टिरट्टै- श्वर्यविविष्टतामारभते किल, किमुत विशिष्टे जन इत्यर्थापत्तिर्व्यज्यते। संगति- पूर्वकमधिकं लक्षयति-आधारेत्यादिना॥ तस्य द्वेधा विभागमाह-स इति।। आद्यमुदाहरति-स्तोक इति॥ स्वैरसंचारस्य स्वेच्छाविहारस्य हेला- या विस्रम्भस्य संकोचात्। प्रालेयपृथ्वीधरादिभिस्तद्वनीभावरूपं प्रकटितम् । अत्राधारे ब्रम्माण्डेऽल्पतमे आधेयायाः कीर्तेराधिक्येन संचारसंकोचात् तत्र तत्र पिण्डीभूता: कीर्तिखण्डा एवामी न तु हिमाचलप्रभृतय इत्यनयोरानुरूप्याभावः । द्वितीयमुदाहरति-कापीति॥ व्यूहानां मकरादिसंज्ञितानां सेनासंनिवेशविशे- वाणां प्रपखस्य श्रिया समृद्धया निःसीमे उद्वेले बलवारिधौ कलिन्मालवादि

Page 314

अर्थालंकार प्रकरणम् । ३०५

अत्राश्रयस्य प्रतापरुद्रसैन्याम्बुधेवैपुल्यम्। आश्रितानामङ्वङ्ग- कलिङ्गप्रभृतिराजकानीकिनीनामल्पत्वम्। अथ विभावना विशेषोक्तिश्। कारणेन विना कार्यस्योत्पत्ति: स्याद्विभावना।

यत्र प्रसिद्धका रणपरित्यागेन कार्यस्योत्पत्तिर्निगद्यते सा विभाव- ना। यत्र कारणसाकल्ये सत्यपि कार्यस्यानुत्पत्तिः सा विशेषोक्तिः । यथा- प्रतापरुद्रेण पराजितानां प्रत्यर्थिनां विन्ध्यगुहागतानाम्। तमांस्यरात्रीणि समुद्धवन्ति तेजांसि घस्त्रेष्वपि नोद्धवन्ति ॥ अत्र तमःप्रादुर्भावस्य प्रसिद्धकारणं रात्रिः । तया विनापि तस्योत्पत्तिर्निबद्धा। अप्रसिद्धं कारणं शोकाद्यस्त्येव। तथाह्स्सु रविकिरणेषु सत्स्वपि तेजसोऽनुत्पत्तिरिति। अत्र निष्प्रतापत्वादि नि- मित्तमस्त्येव। असंगत्यलंकारः । कार्यकारणविरोधप्रस्तावादसंगतिरुच्यते। सेना: सेवार्थमागताः सरित इव समुद्रे यत्र कुत्रापि कोणे विलीयन्त इत्यर्थः । अन्राधारस्याधिक्यमाघेयस्याल्पत्वं च न प्रमाणविरुद्धम् । किं तु महौदनमध्ये मिक्षाकबल इव नानुरूपम्। अत एवोक्तम्-आधाराधेययोरानुरूप्याभाव इति। अनानुरूप्यसारूप्यादधिकानन्तर विभावनां तद्विपर्ययरूपां विशेषोकि चोदाहरणलाघवार्थ युगपल्लक्षयति-कारणेनेत्यादिना ॥ यदि कारणमात्रेण विना कार्योत्पत्तिरुच्यते तदा विरोधो दुष्परिहरः स्यात्। कारणान्वयव्यतिरेकानुवि- धायित्वात् कार्यस्येत्यतस्तत्परिहारार्थमाह-प्रसिद्धेति॥। अत एव वैशिष्टयेन कार्यस्य भावनाद् विभावना। साकल्य इति॥ कारणानामिति शेषः । अत्रापि विरोधपरिहारार्थ सामग्रीवैगुण्यमुन्नेथम् । विभावनायां कार्योत्पत्तौ विरोधः,

रनयोरभेंदः । उदाहरति-प्रतापेति ॥ अविद्यमाना रात्रिः प्रसिद्धकारणं येषां तान्यरात्रीणि। तमांस्यन्धकारा मोहाक्च । घस्त्रेषु दिनेष्वपि। तेजांसि प्रकाशा विवेकाक्ष । योजयति-अत्रेति ॥ अत्र तमसां द्वैविध्येऽप्यमेदाध्यवसायादेक- त्वमतिशयोक्ता। सा चास्यामव्यमिचारिणीति न तद्वाधेनास्या उत्थानम् ।

Page 315

३०६ प्रतापरुद्रीये रक्नापणसहिते

कार्यकारणयोर्भिन्नदेशत्वे सत्यसंगतिः। यत्रैक देशवर्तिनोरपि कार्यकारणयोर्भिन्नदेशस्थितिर्निबध्यतेSसाव- संगत्यलंकारः। यथा- विभ्रत्युर्वीधुरां गुर्वी वीररुद्रनरेश्वरे। भवन्त्यतितरां शश्चन्नम्राः सामन्तमौलयः ॥ अत्र राज्ि भूभार: शत्रुषु नमनमिति। विचित्रालंकारः । विरोधप्रस्तावाद्विचित्रं निरूष्यते। विचित्र स्वविरुद्धस्य फलस्याप्त्यर्थमुद्यमः । यत्र स्वधिरुद्धफलप्राप्त्यर्थमुद्योगः क्रियते स विचित्रालंकारः । यथा- प्रतापरुद्रनृपतेरग्रे दूरान्नरेश्वराः। अवरोहन्ति हस्तिभ्यस्तानारोढुमनर्गलम् ।। अत्रारोदुमवरोहन्तीति विपरीतफलप्राप्त्यर्थ प्रयत्नः । अन्योन्यालंकारः। अथान्योन्यं निरूप्यते। अस्यापि विरोधमूलता। तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेद्। यत्न परस्परं क्रियाद्वारकमुत्पाद्योत्पादकत्वं तदन्योन्यालंकारः। यथा- आरोहता रुद्रनरेश्वरेण विराजते काकतिराजपीठम्। अपि तु तदनुप्राणितत्वेनेत्यादिविशेषा अवान्तरमेदाश्च सर्वस्वे द्रष्टव्याः । असंगतेः संगतिपूर्वकं लक्षणमाह-कार्येत्यादिना ॥ धूमाग्न्योरिव कार्य- कारणयोः समानदेशत्वं न्यायसिद्धं, तदन्यथाकृतं चेदुचितसंगतिनिवृत्तेर- संगतिर्नामालंकारः । उदाहरति-बिभ्रतीति॥ स्पष्टम्। विचित्रं संग- मयन् लक्षयति-विरोधेत्यादि ॥ स्वस्य हेतोर्विरुद्धस्य विपरीतस्य फलस्याप्त्यर्थमुद्यम उत्साहो विचित्ालंकारः। न चायं विषमाद्यभेदेऽन्तर्भ- वति। इह हि निषेधो वैपरीत्यं गमयति। विषमे तु व्यत्यय इति मेदस्य रुचकेनोक्तत्वात्। उदाहरति-प्रतापेति ॥ योजयति-अन्नेति॥ अन्योन्यं निरूपयति-अथेत्यादिना। विरोधमूलतेति॥ संगतिकथनम्। क्रिया- द्वारकमिति साक्षात् परस्परजन्यजनकभावस्य विरुद्वत्वादिति भावः। आरो-

Page 316

अर्थालंकारप्रकरणम् । ३०७

आरुह्य तेनोज्ज्लरत्नभाजा राजापि लक्ष्मीमधिकां बिभर्ति॥ अत्र प्रतापरुद्रभद्रासनयोरन्योन्यालंकार्यत्वम्। विषमालंकारः । अथ विरोधमूलो विषमालंकार: कथ्यते। विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेद्। विरूपघटना चासौ विषमालंकृतिस्त्रिधा॥ यत्र कारणाद्विरुद्धकार्यस्योत्पत्तिस्तदेकं विषमम्। अकार्यभूत- स्यानर्थस्योत्पन्तिर्द्वितीयम् । विरूपयोर्वस्तुनोः संघटने तृतीयम् । तत्र प्रथमं यथा- राज्ञ: काकतिवीररुद्रनृपतेः खङ्गात् तमालप्रभा- दुद्भतां शरदिन्दुकान्तिधवलां कीर्तिश्रियं पश्यताम्। लोकानां मुरवैरिपादकमलाज्जातां वियन्निन्नगां श्रुत्वा संप्रति विस्मयाद्विरमति प्राप्तानुभावं मनः ॥ अत्र नीलवर्णात् खङ्गादिन्दुधवलस्य यशसः समुत्पत्तिः । द्वितीयं यथा- आस्तां जयाशा रिपुभूपतीनां संग्रामसीमानमुपागतानाम्। प्रतापरुद्रस्य विलोकनेन भ्रश्यन्ति जीवैः सममायुधानि ॥ अत्र समरोद्योगफलस्य न केवलं जयस्यानुत्पत्तिर्यावब्जीवित- भ्रंशरूपानर्थोत्पत्तिरपि। तृतीयं यथा-

क चेयं कान्तारस्थितिरशिववृत्त्येकनिलया। हतेति। अत्रालंकारद्वारा रुद्रभद्रासनयोर्जन्यजनकभाव इत्याह-अत्रेति॥ संगतिपूर्वकं विषमं लक्षयति-विरुद्धेति ॥ कारणविरुद्धकार्यस्येत्यर्थः ॥ अनर्थस्य वेति॥ उत्पत्तिरिति शेषः । आद्यमुदाहरति-राक्ष इति । अनुगतो भावो दार्ध्टान्तिकधर्मो यस्यासावनुभावो दृष्टान्तः । प्राप्तानुभावमनुभूत- दृष्टान्तं लोकानां मनो विस्मयात् विरमति। अद्वितीयमेव वस्तु विस्मयावहं, न पुनः सद्वितीयमिति भावः । 'जुगुप्साविराम-' इत्यादिना विस्मयादिति पश्चमी। योजयति-अत्रेति ॥ द्वितीयोदाहरणं स्पष्टम्। तृतीयमुदाहरति-क्केति॥ अशिववृत्तानाममञ्ञलचरितानामेकनिलयः। प्रेक्षं प्रेक्षं पुनःपुनः प्रेक्ष्य। आमीक्ष्ण्ये

Page 317

३०८ प्रतापरुद्रीये रन्नापणसहिते

इति प्रेक्षं प्रेक्षं वनभुवि रिपून रुद्रनृपतेः प्रतापं श्लाघन्ते शबरपुरवीराः प्रतिदिशम् ॥ अत्र महानगरनिवासयोग्यानां राज्ञामशिवानां वनप्रदेशानां विरूपाणां संघटनम्। एवं विरोधगर्भालंकारा निर्णीताः । समालंकार: । अधुना विषमवैधर्म्यांत् समालंकारो निरूप्यते। सा समालंकृतिर्योंगे वस्तुनोरनुरूपयोः । यत्रान्योन्यानुरूपपदार्थसंघटना क्रियते स समालंकारः। यथा- *विज्जाओ सकलाओ लच्छीए समं पआवरुइंमि। संघटिऊण सुसरिसं होइ कअच्छो सअं बझा। अत्र प्रतापरुद्रे सकलविद्यानां लक्ष्म्याश्र योगः । तुल्ययोगितालंकार:। अथ गम्यमानौपम्यालंकारवर्गप्रस्ताव:। प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥ यत्र केवलप्रस्तुतानां केवलाप्रस्तुतानां वा समानधर्मसंबन्धादौ- पम्यं गम्यते सा तुल्ययोगिता। प्रस्तुतानां यथा- * विद्या: सकला लक्ष्म्या समं प्रतापरुद्रे। संघटय्य सुसदश भवति कृतार्थः स्वयं ब्रह्मा॥ णमुलि द्विर्भावः । दिशि दिशि प्रतिदिशम् । यथार्थेऽव्ययीभावः । 'अव्ययीभावे शरत्प्रमृतिभ्यः' इति समासान्तः । अथ विरोधगर्भालिंकारानिगमयन् समार्ल- कारं संगतिपूर्वकं लक्षयति-एवमित्यादिना । विषमवैधर्म्यादिति। विषमतृतीयमेदवैधर्म्यादित्यर्थः । अयं चालंकारः संबध्यमानवस्तुनोः श्ाध्य- त्वाश्लाध्यत्वाभ्यां द्विविध इत्यनुसंघेयम्। विज्जाओ इति ॥ 'स्न्रियां शस उदोतौ' इति स्त्रीलिते विद्याशब्दे वर्तमानस्य शस ओदादेशः । अत्र श्ला्ययोः लक्ष्मीसरस्वत्योर्योंगः। अश्लाध्ययोस्तु 'घात्रा निम्बफलाख्वादे काकलोको हि कल्पितः' इत्यादौ द्रष्टव्यः। गम्यौपम्यानलंकारान् प्रस्तौति-अथेति॥ तत्र प्रस्तुताप्रस्तुतव्यासाश्रयां तुल्ययोगितामाह-प्रस्तुतानामिति । केवल- सित्युभयत संयोज्य व्याचष्टे-यत्रेति॥ तुल्यस्य योगोऽस्यां संजात इति तुल्य-

Page 318

अर्थालंकारप्रकरणम् । ३०९

भद्रासनाध्यासिनि रुद्रदेवे तत्कीर्तयस्तद्द्विषद्ब्नाश्च । अनारतं भ्रान्तिविशेषभाजः प्रतिक्षणं पाण्डुरतां भजन्ते ।। अल् कीर्तीनां द्विषद्ङ्गनानां च प्राकरणिकत्वम्। पाण्डुरतां भजन्त इति समानधर्मः । अप्राकरणिकानां यथा- कूर्मेन्द्रपन्नगाधीशहरित्करिकुलाद्रयः । मिथो निःसारतां प्राप्ताः काकतीन्द्रे महीभृति॥ अत्र कूर्मेन्द्रप्रभृतीनामप्राकरणिकत्वम्। निःसारतां प्राप्ता इति समानधर्मः । अत्र गम्यमानौपम्यं न वास्तवम् किं तु वैवक्षिकम्। दीपकालंकारः। प्रस्तुताप्रस्तुतानां तु सामस्त्ये तुल्यधर्मतः ॥ औपम्यं गम्यते यत्र दीपकं तन्निगद्यते।। यल् प्रस्तुताप्रस्तुतानां समस्तानामेव समानधर्मसंबन्धेनौपम्यं गम्यते तद्दीपकम्। तस्य धर्मस्यादिमध्यान्तगतत्वेन त्रैविध्यम् । आदिदीपकं यथा- *भाइ णलेण किअजुअं रहुउलदीवेण सोरिणा तेता। दावारो तवजणिणा कलिजुअअं वीररुद्देण ।। * भाति नलेन कृतयुगं रघुकुलदीपेन शौरिणा त्रेता। द्वापरस्तपोजनिना कलियुगं वीररुद्रेण ।। योगितेत्यर्थः । सा च प्रस्तुतानाम प्रस्तुतानां च प्रतिस्वं गुणेन क्रियया च संब- न्धे चतुर्विधा। तत्र केवलप्रस्तुतविषयां गुणाश्रयामुदाहरति-भद्रासनेति॥ अन्योदाहरणमाह-कूर्मेन्द्रेति॥ हरित्करिणो दिग्गजाः । एवमुभयत्र क्रिया- श्रयत्वेनाप्युदाहार्यम्। ननु प्रस्तुताप्रस्तुतविषयस्यौपम्यस्य कथमत्ोपपत्तिस्त- त्राह्-अत्रेति ।। केवलप्रस्तुतेषु कस्यचिदुपमानत्वस्य केवलाप्रस्तुतेषु कस्यचिदुपमेयत्वस्य कल्प्यमानत्वादिति भावः। अथ प्रस्तुताप्रस्तुतसमासाश्रयं दीपकमाह-प्रस्तुतेति। अत्र प्रस्तुताप्रस्तुतानां सामस्त्यमत एवौपम्यं वास्तवमिति तुल्ययोगितातो विशेषः । गम्यत्वं पुनरस्य पूर्ववदत्रापि इवाद्य- भावात्। प्राकरणिकाप्राकरणिकमध्ये कुत्रचिन्निविष्टः समानो धर्मः पश्चर्थानुष्ठितः प्रयाजादिः पुरोडाशस्येवेतरांशस्योपकरोति। अत एव दीपसादृश्यात् दीपकमित्युच्यते । 'संज्ञायां च' इतीवार्ये कन्प्रत्ययः। तत्र विशेषमाह-तस्येति ॥ आदिमध्यान्तगतत्वेन आदिमध्यान्तवाक्यगतत्वेने- त्यर्थ: । भाईति ॥ रघुकुलदीपेन शौरिणा रामेण। तपसो जनिरुत्पत्तिर्यस्य

Page 319

३१० प्रतापरुद्रीये र्नापणसहिते

अत्र यथा नलरामधर्मपुत्रैः कृतत्रेताद्वापराः शोभन्ते तथा वीर- रुद्रेण कलियुगं शोभत इत्यौपम्यं गम्यते। मध्यदीपकं यथा- * भाईरहिए जलणिही राअइ जोण्हाए पुण्णिमाचंदो। सुत्तीए कमलहवो कित्तीए पआवरुद्दो वि।। अत्र भागीरथ्यादिभि: समुद्रादयो यथा राजन्ते तथा कीर्त्या प्रतापरुद्रो राजत इत्यौपम्यं गम्यते। अन्तदीपकं यथा- सुरलोअं सुरणाहो णरलोअं वीररुद्दणरणाहो। फणिलोअं फणिणाहो रक्खइ णिरुपद्दवोज्जेअं।I अत्र यथा सुरलोकफणिलोकौ सुरनाथफणिनाथाभ्यां रक्षितौ तथा वीररुद्रेण नरलोको रक्षित इत्यौपम्यं गम्यते। अथ पदार्थगतालंकारद्वयानन्तरं वाक्यार्थगतमलंकारद्वयं निरूप्यते। प्रतिवस्तूपमालंकारः । यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि। गम्यौपम्याश्रिता सा स्यात् प्रतिवस्तूपमा मता ॥ यत्र वस्तुप्रतिवस्तुभावेन सामान्यं वाक्यद्वये निर्दिश्यते तेन गम्यौ- * भागीरथ्या जलनिधी राजते ज्योत्स्नया पूर्णिमाचन्द्रः ॥ श्रुत्या कमलभवः कीर्त्या प्रतापरुद्रोऽपि। + सुरलोकं सुरनाथो नरलोक वीररुद्रनरनाथः॥ फणिलोकं फणिनाथो रक्षति निरुपद्रवोद्वेगम्। तेन तपोजनिना धर्मपुत्रेण। अत्र भातीति समानधर्मस्यादिवाक्यगतत्वादादि- दीपकम्। भाईरहिए इति॥ अत्र राजत इत्यस्य द्वितीयवाक्यगतत्वान्मध्यदीप- कम्। सुरेति॥। अत्र रक्षणस्यान्तवाक्यगतत्वादन्तदीपकम्। एूदाहरणेष्वनेकका- रकगतत्वेनैकक्रियादीपकम्। एवमनेकक्रियागतत्वेनैककारकमपि दीपकमस्ति। यथा-'साधूनामुपकर्तु लक्ष्मी द्रष्ठुं विहायसा गन्तुम्। न कुतूहलि कस्य मन- श्वरितं च महात्मनां श्रोतुम् ।' इति। अनन्तरालंकारयोः संगतिमाह-अथेति॥ समानधर्मस्य पदार्थगतत्वात् दीपकतुल्ययोगिते पदार्थगते। तन्निरूपणा- नन्तर पदारब्धवाक्यार्थमूलालंकारद्वयमुच्यत इत्यर्थः । तत्रापि पूर्वोक्तरीत्यान्त- रजवस्तुप्रतिवस्तुभावमूलां प्रतिवस्तूपमामाह-यत्रेति । फलतो व्याचष्टे- यत्र वस्त्विति॥ गम्यौपम्येति॥ इवाद्यप्रयोगादिति भावः। अन्यथेयमुपमैव स्यादिति हृदयम्। तेन प्रतिवस्तु प्रतिवाक्यार्थमुपमा सामान्यं यस्यां सा

Page 320

अर्थालंकारप्रकरणम्। ३११

पम्या प्रतिवस्तूपमा। सा साधर्म्यवैधर्म्याभ्यां द्विविधा। प्रथमा यथा- मन्थानाचल एवैकः क्षमः सिन्धुविलोडने। प्रतापरुद्र एवैकः शक्त: शत्रुविलोडने ॥ अत्र यथा समुद्रविलोडने मन्थानाचलः क्षमस्तथा शत्रुविलोडने प्रतापरुद्रः शक्त इत्यौपम्यं गम्यते। द्वितीया यथा- प्रतापरुद्र एवैकः पटीयान् जनरञ्जने। चन्द्राहते क्षमो नान्यश्चकोरपरितोषणे॥ अत्र चन्द्रेण यथा चकोरपरितोषणं क्रियते तथा वीररुद्रेण जनरञ्जनं क्रियत इति वैधर्म्येणौपम्यं गम्यते। अथ दृष्टान्तः । दृष्टान्तालंकारः । यत्र वाक्यद्वये बिम्बप्रतिबिम्बतयोच्यते। सामान्यधर्मो वाक्यज्ञैः स दृष्टान्तो निगद्यते॥ यत्र बिम्बप्रतिबिम्बभावेन सामान्यं वाक्यद्वये निर्दिश्यते स दृष्टान्तालंकारः। सोऽपि साधर्म्यवैधर्म्याभ्यां द्विविधः। आद्यो यथा- क्षोणीं बिभ्रतु भूभृतः कतिपये कापि प्रतिष्ठा पुनः स्वर्णाद्रेर्दिगधीशवासनगरीसंदिग्धकुञ्जश्रियः । राजानो जनरञ्जनं विद्धतां श्रीवीररुद्रप्रभो: कोऽप्यन्यो महिमा जगत्त्रयधुराधौरेयदोःशालिनः ॥ प्रतिवस्तूपमा इत्यन्वर्थेयमजनि। तस्या दवैविध्यमाह-साधर्म्येति॥ साधर्म्ये- णोदाहरति-मन्थानेति । अत्र संबन्धिमेदेन क्षमशक्तशब्दाभ्यां समान- धर्मस्य कथनाद्वस्तुप्रतिवस्तुभावः । वैधर्म्येणोदाहरति-प्रतापेति ॥ पटीया- नतिपटुः । दृष्टान्तं लक्षयति-यत्रेति ॥ द्वयोः सदृशयोरर्थयोरुपादानं बिम्ब- प्रतिबिम्बभाव इत्युक्म् । अलापीवाद्युपादाने पूर्ववदुपमैव स्यादिति द्रष्टव्यम् । दृष्टोऽन्तो निक्चयो यत्र स दृष्टान्त इत्यर्थः । साधर्म्येणोदाहरति-क्षोणीमिति ॥ भूमृतः पर्वताः। दिगधीशानामिन्द्रादीनां वासनगरीत्वेन संदिग्धाः संदेह- विषयीकृता: कुअश्रियो यस्य तस्य तथोक्तस्य। तत कुञ्जेष्वेव नगरबुद्धिरुदेतीति भावः । संपूर्वको दिहिः सकर्मकोऽपि दृश्यते। यथा 'नानुपलब्धे न निर्णीतेऽर्थे

Page 321

३१२ प्रतापरुद्रीये रन्नापणसहिते

अत्र प्रतापरुद्रस्य मेरोञ्च बिम्बप्रतिबिम्बभावादौपम्यं गम्यते। वैधर्म्येण यथा- काकतीन्द्रकृपादृष्टिमात्राज्जाग्रति संपदः । तावदब्जानि निद्रान्ति यावन्नोदेति भानुमान्।। अत्र यथा भाखदुदयमात्रेण पद्मानि समुन्मीलन्ति तथा प्रताप- रुद्रदयाविलोकनमात्रेण संपदः संभवन्तीति वैधर्म्येण बिम्बप्रति- बिम्बनम्। निदर्शनालंकारः । अथ गम्यमानौपम्यप्रस्तावान्निदर्शनालंकारो निरूप्यते। असंभवद्वर्मयोगादुपमानोपमेययोः । प्रतिबिम्बक्रिया गम्या यत्र सा स्यानिनिदर्शना। य्नोपमानधर्मस्योपमेयगतत्वेन निबद्धस्यान्वयासंभवात् तत्सवं- न्धार्थ बिम्बप्रतिबिम्बकरणमाक्षिप्यते सैका निदर्शना। तद्विपर्यये द्वितीया निदर्शना। प्रथमा यथा- रिपुतिमिरमुदस्यन् रत्नसिंहासनस्थ- स्त्रिभुवनमहनीयः काकतीयक्षितीशः । वहति महितविश्वोल्लासलीलामभिख्या- मुदयशिखरिचूडाचुम्बिनस्तीव्रभानोः ॥ अत्र तीव्रभानोरभिख्यायाः प्रकृतेऽसंभवादभिख्यासद्ृशीमभि- ख्यां वहतीति बिम्बप्रतिबिम्बकरणाक्षेपः । उपमेयधर्मस्योपमानेऽ- संभवाद्यथा- न्याय: प्रवर्तते अपि तु संदिग्धे' इति। जगत्त्रयधुरायां धौरेयाभ्यां धुरन्ध- राभ्यां दोर्भ्यां शालते ताच्छील्येन तथोक्तस्य। धौरेयशब्दो व्याख्यातः। वैध- म्येणोदाहरति-काकतीन्द्रेति ।। निदर्शनायाः संगतिमाह-अथेति ॥ अन्र. बिम्बप्रतिबिम्बभावोऽभ्युचयः। लक्षणमाह-असंभवदिति ॥ उपमानधर्मस्योपमेयगतत्वेनोपमेयधर्मस्योपमानगतत्वेन वा संबन्धासंभवा- द्वाक्यार्थसंबन्धा निदर्शना द्विविधेत्यर्थः। व्याचष्टे-यत्रेति । तद्वि- पर्यय इति।। उपमेयधर्मस्योपमानगतत्वेनेत्यर्थः । रिपुतिमिर- मिति ॥ उदयशिखरिचूडाचुम्बिनः प्राचीनपर्वताप्रवर्तिनस्तीव्रभा नोर्विश्वोह्ा- सिलीळां लोकानन्दिस्वरूपाममिख्यां शोभां वहति। योजयति-अत्रेति॥

Page 322

अर्थालंकारप्रकरणम् । ३१३

वीररुद्रनरेन्द्रस्य यशोवैशद्यसंपदः । लक्ष्यन्ते क्षीरवाराशिलीलादर्पणमण्डले॥ अत्र यशोवैशद्यस्य दुग्धार्णवादावसंभवात् सादृश्योपगमेन बिम्ब- प्रतिबिम्बनं गम्यते। कचिन्निषेधवशादाक्षिप्तया प्राप्त्या बिम्बप्रति बिम्बकरणाक्षेपो यथा- काकतीन्द्रद्विषत्कान्ता धावन्त्यः प्रतिकाननम् । पन्ध्ां मुश्चन्त्यलाक्षाभ्यां स्थले रक्तोत्पलश्रियम् ॥ अत्र मुञ्न्तीति निषेधात् पूर्व रक्तोत्पलश्रीप्राप्तिराक्षिप्ता । व्यतिरेकालंकार:। अथ व्यतिरेकः । भेदप्रघानसाधर्म्यमुपमानोपमेययोः । आधिक्याल्पत्वकथनाद् व्यतिरेकः स उच्यते। यत्रोपमानादुपमेयस्याधिक्येन न्यूनत्वेन वा प्रतिपादनेन भेद- प्रधानं साधर्म्यमुपगम्यते स व्यतिरेकालंकारः । दिनकृति कुमुदैधृतो न रागः शशिनि पराश्वि परं सरोरुहाणि। वीररुद्रेति॥ अत्रोपमेयधर्मस्योपमानेऽसंभवात् प्रतिबिम्बक्रियाक्षेप इत्याह- अत्र यश इति॥ अत्र च विशेषान्तरमाह-क्वचिदिति। काकतीन्द्रेति॥ अलांक्षाभ्यामलक्तकरहिताभ्याम् । पूर्व राज्यसमय इत्यर्थः । संभवद्वाक्यार्थ- संबन्धापीयमन्यैरज्ञीकृता। तदुक्तम्-'अभवन् वस्तुसंबन्धो भवन् वा यत्र कल्पयेत्। उपमानोपमेयत्वं कथ्यते सा निदर्शना ॥' इति। उदाहरणं तु- 'चूडामणिपदे धत्ते यो देवं रविमागतम्। सतां कार्यातिथेयीति बोधयन् गृहमेधिनः ॥' इति। अत्र चक्रवर्ती व्याचक्रे-'बोधयन्निति कारीषोऽ- मिरध्यापयतीतिवद् गिरिर्गहमेथिनो बोधनक्रियासमर्थान् करोतीति तत्स- मर्थाचरणे णिचः प्रयोगात् संभवति वस्तुसंबन्धः' इति। ततस्तत्सदृश- बोधनाक्षेपः । सैषा सर्वापि पदार्थवृत्तिः। वाक्यार्थवृत्तिर्यथा-तत्पाद- नखर्नानां यदलक्तकमार्जनम्। इदं श्रीखण्डलेपेन पाण्डरीकरणं विधोः ॥ इति। न चार्यं दृष्टान्तः । अत्र वाक्ययोः सापेक्षत्वात्। यत्र निरपेक्षवाक्यद्वये बिम्बप्रतिबिम्बभावः स दृष्टान्तः । यत्र सापेक्षवाक्यद्वये सोऽसौ निदर्शनेति महाननयोर्भेदः । अत्र मालावैचित्र्यमपि द्रष्टव्यम्। अथ गम्यौपम्यप्रस्तावाद् व्यतिरेकं लक्षयति-भेदेति॥ मेदो वैलक्षण्यं तत्प्रधानं साधर्म्य गम्यत इत्य- ध्याहृत्य व्याचष्टे-यत्रेति। उदाहरति-दिनकृतीति॥ रागोऽनुरागः । प्र 27

Page 323

३१४ प्रतापरुद्रीये रत्नापणसहिते

कुवलयकमलाद्दतप्रकाशः प्रभवति विश्वसुहृत् प्रतापरुद्रः ॥ अत्र रविशशिनोरसंभवेन सर्वप्रियंकरत्वेनोपमेयभूतस्य प्रताप- रुद्रस्याधिक्यं कुवलयकमलाद्ृतप्रकाश इत्युक्तमिति श्लेषसमुत्थापितो व्यतिरेकः । अथ श्लेषालंकारो निरूप्यते। श्लेषालंकारः । प्रकृताप्रकृतोभयगतमुक्तं चेच्छब्दमात्रसाधर्म्यम्। श्रेषोडयं श्िष्टत्वं सर्वत्रादद्वये नान्त्ये ।। यत्र केवलप्रकृतयोः केवलाप्रकृतयोञ्च श्ेष: कथ्यते तत्र प्रकार- द्वये विशेषणविशेष्यश्िष्टता। प्रकृताप्रकृतविषयेऽन्त्यभेदे विशेषण- मात्रश्लिष्टता। विशेष्ययोरपि श्विष्टत्वे शब्दशक्तिमूलध्वनिप्रसक्गात्। केवलप्रकृतयो: केवलाप्रकृतयोञ्र्वैकशब्दगोचरत्वे तु न ध्वनिशङ्का। अत्रार्थद्वयप्रतिपादनेSप्रस्तुतत्वेन प्रस्तुतत्वेन वा वैषम्याभावादभि- धैव समर्था। प्रस्तुताप्रस्तुतविषये तु अभिधायाः प्रस्तुतैकपरतन्त्र- पराश्चि प्रतिकूलानि। अयं तु कुवलयेन भूमण्डलेन कमलया लक्ष्म्या च अमे- दाध्यवसितैः कुवलयकमलैरादतप्रकाश इत्युपमानादुपमेयस्याधिक्यकथनं श्र्ेष- मूलम्। उपमानादुपमेयस्याल्पत्वपक्षे सहृदयहृदयानधिरोहादुदाहरणं नोक्तम्। मेदद्वयलक्षणं तु सर्वस्वकारानुसारादिति रहस्यम् । तदीयोदाहरणं तु काव्य- प्रकाशकारः समदूषयत् । तत्प्रकारो व्यतिरेकप्रपश्चश्च तत्ैव द्रष्टव्यः। 'उप- मानाददन्यस्य व्यतिरेक: स एव सः' इति तल्लक्षणमेव साधीयः। व्यतिरेकस्य श्लेषगर्भत्वात् तत्प्रसज्ञानन्तरं श्लेषं प्रतिज्ञापूर्वक लक्षयति-अथेति॥ यत्र केवलप्रकृतयोः केवलाप्रकृतयोः प्रकृताप्रकृतयोक् शब्दमात्रसाधर्म्यमुक्त चेच्छिल- ष्टपदोपनिबन्धः कृतश्वेदित्यनेनोपमाव्यवच्छेदः । अयं श्लेषालंकारः। अत्रा- दद्ये केवलप्रकृतश्लेषे केवलाप्रकृतश्लेषे चेत्यर्थः । सर्वत्र श्लिष्टत्वं विशेषणेषु विशेष्येषु च श्लेष इत्यर्थः । अन्त्ये उभयश्लेषे। न सर्वत्र श्लिष्टत्वं किं तु विशेषणेष्वेवेत्यर्थः । विशेष्ययोरपि श्िष्टत्वे शब्दशक्तिमूलध्वनिप्रसङ्गः । तदेतदाह-यत्रति। ननूभयश्लेष एव विशेष्यश्लिष्टत्वे ध्वनिशङ्का नेतर- मेदद्वय इत्यत्र किं नियामकमत आह-केवलप्रकृतयोरिति। आद्य- मेदद्वये विशेष्ययोरपि श्लिष्टत्वे अर्थद्वयस्य प्रस्तुतत्वाविशेषाद प्रस्तुतत्वा- विशेषाद्वा अभिधाया अकुण्ठितसंचारत्वात् प्रस्तुताप्रस्तुतौ द्वावाप्यर्थौ वाच्या- वेव। अतो नादयमेदद्वये ध्वनिशङ्केति भावः । उभयश्लेष कर्थ ध्वने- रवकाश इत्याकाक्लायामाह-प्रस्तुताप्रस्तुतविषये त्विति। प्रकरण-

Page 324

अर्थालंकारप्रकरणम्। ३१५

त्वादप्रस्तुतार्थ प्रतिपत्तिर्व्यञ्जनव्यापारायत्तैव। तथा चोक्तं काव्य- प्रकाशे- 'अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते।

तदेवं त्रिधा श्ेषः । तत्र केवलप्राकरणिकयोर्यथा- राज्: पूजाविधिं धत्ते सकलोमाधवे तिथिः । नीलकण्ठकलापाड्के स्फुरदब्जमणित्विषि। अत्र पूजाविषयतया हरिहरयोः प्राकरणिकत्वम् । अप्राकरणि- कयोर्यथा- सदृश: काकतीन्द्रोऽयं महाकुलमहीभृताम्। शिरोगृहीतसन्मार्गस्फुरत्कटक संपदाम् ।। दिकं प्रस्तुतार्थ एवामिधां नियच्छति नाप्रस्तुतार्थे। अतस्तस्य न वाच्य- त्वमिति भावः। ननु मा भूद् वाच्यत्वं, व्यज्गयत्वं तु कुतो लभ्यते इत्यत आह -- अप्रस्तुतेति ।I अर्थान्तरस्य व्यज्ञनव्यापारैकविषयत्वे वृद्धसंमतिमाह- अनेक इति॥ अनेकार्थस्याक्षादिशब्दस्य। संयोगायैः 'संयोगो विप्रयोगश्च-' इत्यादिमि: वाक्यपदीयोक्तैरर्थनिश्चायकैर्वाचकत्वे नियन्त्रिते प्रस्तुतपरत्वेन निय- मिते सति अवाच्यार्थधीकृत् अर्थान्तरप्रतीतिकृत् व्यापृतिः अज्जनं व्यज्ञनव्यापार इत्यर्थः। तदेवमिति॥ प्रकृताप्रकृतोभयगतत्वेनेत्यर्थः। अयं च श्लेषः प्रकारान्तरेणापि त्रिविध :- तथा हि। जतुकाष्ठन्यायेन सभज्पदः शब्दश्लेषः । एकनालावलम्बि- फलद्वयन्यायेनाभङ्गपदोरऽर्थश्लेषः । उभयनिबन्धे तूभयश्लेष इति। काव्यप्रकाश- . कार: पुनरिममर्थश्लेषं शब्दश्लेषमेवोक्तवान्यथार्थश्लेषमवोचत्। तद्विवेकस्तु तत्रैव द्रष्टव्यः । केवलप्रकृतश्लेषमुदाहरति-राज्ष इति॥ नीलकण्ठकलापाक्के मयूर- पिञ्छचिह्े स्फुरन्ती अब्जमणेः कौस्तुभस्य त्विड् यस्य तस्मिन् माधवे सकल- स्तिथिः प्रतिपदादिः राज्ञः पूजाविधिं धत्ते। नीलः कण्ठो यस्यासौ नीलकण्ठः । कला: षोडश पातीति कलापश्चन्द्रोऽङ्कः शेखरो यस्य स तथोक्तः। उभयोर्वि- शेषणसमासः । तस्मिन्। स्फुरन्ती अब्जमणेश्षन्द्रकान्तस्य त्विडिव त्विड् यस्य तस्मिन्नुमाधवे सकला तिथिः पूजाविधिं धत्ते। 'तदादयास्तिथयो द्वयोः' इत्यमरः । सर्वेष्वपि तिथिषु हरिहरौ पूजनीयावित्यर्थः । सकलोमाधवे तिथिरित्यत्र सभग्र- पदत्वाच्छन्दश्लेषत्वम्। अन्यत्राभन्नपदत्वादर्थश्लेषत्वं च यथासंभवं द्रष्टव्यम्। केवलाप्रकृतश्लेषमुदाहरति-सदृश इति॥ शिरसा गृहीतो गौरवेण स्वीकृतः सन्मार्ग: साधुमार्गो येषां ते तथोक्ताः । स्फुरन्त्यः कटकानामलंकाराणां संपदे

Page 325

३१६ प्रतापरुद्रीये रत्नापणसहिते

अत्र महाकुलानां हरिश्रन्द्रप्रभृतीनां कुलपर्वतानां चोपमानत्वे- नाप्राकरणिकत्वम्। प्राकरणिकाप्राकरणिकयोर्यथा- विजितारिपुरो मूर्तौ विलसत्सर्वमङ्गळः । राजमौलि: प्रतापाङ्करुद्रो रुद्र इव स्थितः । अत्र प्रतापरुद्ररुद्रयोः प्राकरणिकाप्राकरणिकत्वम्। परिकरालंकारः । विशेषणवैचित्र्यमूलत्वात् परिकर उच्यते। यत्राभिप्रायगर्भा स्याद्विशेषणपरम्परा। तत्राभिप्रायविदुषामसौ परिकरो मतः ॥ यत्र विशेषणानि साभिप्रायाणि निबध्यन्ते स परिकरालंकारः । यथा- राजो यादववंशपार्थिवमणेः प्रख्यातशौर्यश्रिय- स्त्वङ्गततुङ्गतुरङ्गसैन्यमहतो मानैकवित्तस्य च। सदो रुद्रनरेन्द्रनायकचमूनाथेन केनाप्यधि- क्षिप्तस्याचरितानि सेवणपतेर्जानाति सा गौतमी॥ अत्र राज इत्येवमादिविशेषणान्युत्प्रासगर्भाणि। येषां ते तथोक्ताः। उभयोर्विशेषणसमासः। महत् कुलं येषां ते महाकुलाः । ते च ते महीमृतो राजानो हरिश्रन्द्रादयः पर्वताश्च। शिरोमिः शिखरैर्गहीतः सन्मार्गो नक्षत्रमारगों येषां ते तथोकाः । स्फुरन्त्यः सानुसंपदो येषां महतां कुलमहीमृतां कुलपर्वतानां च सदृशः ॥ उभयश्लेषमुदाहरति-विजितेति॥ विजितारिपुरो निर्जितशत्रुनगरस्त्रिपुरान्तकक्च। मूर्तौ विलसन्ति सर्वाणि मज्लानि विलसन्ती सर्वमञ्चला पार्वती च यस्य सः। राजमौली राजश्रेष्ठशन्द्र शेखरक्ष। अत्र रुद्रप्रतापरुद्रयोर्विशेष्ययोः पृथगुपादानमत उभयश्लेष: । संगतिपूर्वकं परिकरं लक्षयति-विशेषणेति॥ अभिप्रायगर्भा व्यक्नयगर्भा। व्यज्ञयस्य वाच्योन्मुखत्वेन वाच्यातिशायित्वाभावात् परिकर इत्यन्वर्थोऽलंकारः। उदाहरति- राज् इति॥ राज्ञो न तु यस्य कस्यचित्। यादव वंशपार्थिवमणेर्महाकुलीनस्य न म्लेच्छस्य। प्रख्यातशौर्यश्रियोऽनेकधा विहितपराक्रमस्य न त्वनाघ्रातरणगन्ध- स्य। त्वञ्ञत्तुन्नतुरज्नसैन्यमहतो नैकाकिनः। मानैकवित्तस्य न तु यथा कर्थचित् प्राणपरायणस्य। सेवणपतेः केनाप्यन्ध्रचमूपतिना अधिक्षिप्तस्य सतः। आचरि- तान्यायुधसंन्यासादीनि। सा कबलितसेवणपतिसर्वस्वा गौतमी जानातीत्येव

Page 326

अर्थालंकारप्रकरणम् । ३१७

आक्षेपालंकारः । अथाक्षेपालंकारः । विशेषबोधायोक्तस्य वक्ष्यमाणस्य वा भवेत्। निषेधाभासकथनमाक्षेपः स उदाहृतः ॥ यत्र विशेषप्रतिपत्त्यर्थमुक्तवक्ष्यमाणयोः प्राकरणिकयोर्निषेधा- भास: कथ्यते स आक्षेपालंकारः। उक्तविषये वस्तु वा कथनं वा निषिध्यते। वक्ष्यमाणविषये कथनमेव निषिध्यते । तत्रापि सामा- न्यरूपेण प्रतिज्ञाय विशेषरूपेण निषेधः । अंशोक्तावंशान्तरस्य वा निषेधः। एवं चतुर्विधोऽयमाक्षेपः । कमेणैषामुदाहरणानि। नरेन्द्रमौले न वयं तव संदेशहारिणः । जगत्कुटुम्बिनः कश्चिन्न शत्रुरिति कथ्यते । अन्न राजसन्धिविग्रहकारिणामुक्तौ न वयं संदेशहारिण इति वस्तुनिषेधः । स चानुपपद्यमानः संधिविग्रहकालोचितकैतववचन- परिहारेण तत्त्ववादित्वे पर्यवसितः, सर्वजगत्पालकस्य तव शत्रुभा- वेन नालोकनीया राजानः किं तु भृत्यरूपेण संरक्षणीया इत्येवमा- दिविशेषमाक्षिपति। कथननिषेधो यथा- वयमशरणा इत्येषोक्ति: कथं घटते जग- त्रितयशरणे लायस्वास्मानिति स्फुटमज्ञता। सकलजनतारक्षादक्षे त्वयि प्रणता इति त्रिभुवननमस्कार्ये सिद्धं प्रतापमहीपते। साभिप्रायविशेषणत्वम् । उत्प्रासगर्भाण्यमिप्रायगर्भाणीत्यर्थः। गम्यत्वप्रस्तावात् परिकरानन्तरं विशेषगम्यत्वाश्रयमाक्षेपं लक्षयति-विशेषेति । यत्रोक्तस्य वक्ष्यमाणस्य वा प्राकरणिकत्वेन विधातुमिष्टस्य अत एव निषेधानर्हस्य यो निषेधो विशेषबोधार्थममिधीयमानः सन्नाभासीभवति स आक्षेप इत्यर्थः । तस्य चतुर्धा विभागमाह-उक्तविषय इत्यादिना ॥ तत्रोक्तवस्तुविषयनिषे- धमुदाहरति-नरेन्द्रेति॥ अजातशत्रोः किमर्थ संधिविग्रहकारिण इति भावः। वस्तुनिषेधं योजयति-अत्रेति॥ तत्फलं विशेषमाह-स चेति॥ संदेशहा- रिषु तत्त्वनिषेधोऽनुपपद्यमान: सन्नस्मदीया राजानो मृत्यरूपेण भरणीया इत्या- दिविशेषं बोधयतीत्यर्थः । कथननिषेधमुदाहरति-वयमिति ॥ सर्वेषां नाथे

Page 327

३१८ प्रतापरुद्रीये रत्नापणसहिते

अत्र वयमशरणा इत्येवमादुक्तिकथननिषेधादाभासरूपादवश्य परिपालनीयत्वादिविशेषः प्रतीयते । वक्ष्यमाणविषये सामान्यं प्रतिज्ञाय कथननिषेधो यथा- विज्ञापयामस्ते किंचित् काकतीयकुलोद्वह। विज्ञाप्यते किमथवा सर्वज्ञे रक्षके त्वयि॥ अत्र विज्ञापयाम इति सामान्यं प्रतिज्ञाय कथननिषेधाभासात् सर्वथा वयं रक्षणीया इति विशेष आक्षिप्यते। अंशोक्तावंशान्तरस्य निषेधो यथा- प्रतापरुद्रः स्वयमिद्धतेजा दैवं च तद्विक्रमदत्तहस्तम् । यूयं च तूलोपमसारभाजस्तगुक्तमेवं यदि वा किमुक्तैः॥ अत्र प्रतापरुद्रो महीयान् यूयमल्पा इत्यंशोक्त्या यदि वा किमु- कैरित्यंशान्तरनिषेधाभासेन सर्वथा प्रणामैः प्रसादनीयोऽयं न तु प्रातिपक्ष्यमवलम्बनीयं युष्माभिरिति शत्रुस्त्रीवचनभङ्गथा विशेष आक्षिप्यते। समानार्थतयाऽनिष्टविध्याभासोऽप्याक्षेप इत्यम्युपगम्यते । यथा चेष्टनिषेधस्यानुपपद्यमानतयाभासत्वं तथानिष्टविधेरप्यनु- पपद्यमानतयाभासत्वम्। यथा- नाथ प्रतापरुद्रस्य सेवां त्यजसि चेत्त्यज। रक्षके नमस्कार्ये च त्वयि दीप्यमाने सर्वान्तर्भूतानामस्माकमशरणास्त्रायख प्रणता इत्यादीनि वचनानि व्यर्थानीत्यर्थः । योजयति-अत्रेति ॥ वयमशरणा इत्येवमाद्युक्तिभिः यः कथननिषेधस्तस्मादाभासरूपादविषयप्रवृत्त्या निषेधस्य प्ररोहाभावादाभासत्वमिति भावः । वक्ष्यमाणविषये सामान्यं प्रतिज्ञाय विशेष- निषेधमुदाहरति-विज्ञापयाम इति ॥ अत्र प्रथमार्धे सामान्येन प्रतिज्ञाय द्वितीयार्घे वयं रक्षणीया इति विशेषबोधार्थ विशेषकथननिषेधादाक्षेपः । अंशो- का वंशान्तरनिषेधमुदाहरति-प्रतापेति॥ इद्धतेजाः समृद्धप्रतापः। दत्तहस्त- मनुकूलम्। तूलोपमसारभाजो निःसारा इत्यर्थः । तदेवं युक्तमित्यंशोत्त्यां किमुफ्तैरित्यंशान्तरनिषेधः । तस्य व्यञ्ञयं विशेषमाह-सर्वथेति ॥ आक्षेपान्त- रमुपक्षिपति-समानेति॥ समानाथतया समानन्यायतयेत्यर्थः । तदेवाह-

मिति भावः। उदाहरति-नाथेति ॥ अनिष्टविध्याभासं योजयति-

Page 328

अर्थालंकारप्रकरणम् । ३१९

अरण्यगृहमेधिन्या रीतिरभ्यस्यते मया॥ अत्रानिष्टभूतं प्रतापरुद्रपादसेवात्यजनं तद्रिपुकामिन्या विधीयते। स विधिरनुपपद्यमान आभासे पर्यवस्यति। अरण्यगृहमेधिन्या रीतिरभ्यस्यत इत्यनेन विध्याभास एव उपबृंहित: । व्याजस्तुत्यलंकारः । अथ गम्यप्रस्तावात् व्याजस्तुतिरुच्यते। निन्दया वाच्यया यत्र स्तुतिरेवावगम्यते।- स्तुत्या वा गम्यते निन्दा व्याजस्तुतिरसौ मता॥ यत्र निन्दाकथनमुखेन स्तुतिर्गम्यते एका सा। यत्र स्तुतिमुखेन निन्दा गम्यते सा द्वितीया व्याजस्तुतिः । क्रमेण यथा- काकतीयविभो: कीर्त्या किं वाद्य धवलीकृतम्।। यत्तदीयारिवक्त्रेषु दृश्यते कालिमा महान् । सुत्या निन्दा यथा- प्रतापरुद्रनृपतेरहो साहसिका द्विषः । यद्विशन्त्युदधीन् शैलानारोहन्ति समन्ततः ॥ अप्रस्तुतप्रशंसालंकारः । अथ गम्यत्वप्रस्तावाद प्रस्तुतप्रशंसोच्यते। अप्रस्तुतस्य कथनात् प्रस्तुतं यत्र गम्यते। अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥ अत्रेति। अथ गम्यत्व प्रस्तावाद्वाच्याभासत्व प्रसभ्वेनाक्षेपानन्तरं व्याजस्तुति लक्ष- यति-निन्द्येति। यत्र निन्दया स्तुत्या वा वाच्यया प्रमाणान्तरबाघितस्वरूपया यथाकम स्तुतिर्निन्दा वा गम्यते सा व्याजेन व्याजरूपा वा स्तुतिरिति द्विवि- धाप्यन्वर्था व्याजस्तुतिरित्यर्थः । काकतीयेति॥ विशेषनिषेधे शेषाभ्यनुज्ञान- मिति न्यायेनारिवक्त्रव्यतिरिक्तं विश्वं कीर्त्या धवलीकृतमिति निन्दया स्तुति- र्गम्यते। प्रतापेति । अत्र शत्रूणां साहस प्रशंसया भीरुत्वं व्यज्यते। स्तुति- प्रसज्वाद्याजस्तुत्यनन्तरमप्रस्तुतप्रशंसामाह-अथेति ॥ यद्यप्यप्रस्तुतमप्रस्तु- तत्वादेव न कथनीयं तथापि प्रस्तुतार्थप्रतीत्यर्थत्वादविरोधः । अत्र गम्यगम- कयोः प्रस्तुताप्रस्तुतयोनियामकं संबन्धमाह-सारूप्येति ॥ आदिग्रहणात् सामान्यविशेषभावः कार्यकारणभावश्च गृह्यते, तेषामेवार्थान्तरप्रतीतिहेतुत्वात्।

Page 329

३२० प्रतापरुद्रीये रव्नापणसहिते

यत्र सारूप्येण सामान्यविशेषभावेन कार्यकारणभावेन चाप्रस्तुत- कथनात् प्रस्तुतप्रतीतिस्तत्राप्रस्तुतप्रशंसा । अप्रस्तुतात् प्रस्तुतप्रतीति- रित्यनेन समासोक्तेर्व्यावृत्तिः। न च कार्यात् कारणप्रतीतावनुमाना- विर्भावशङ्का। अनुमानालंकारे प्रत्याय्यप्रत्यायकयोद्वयोरपि प्राकरणि- कत्वाभ्युपगमात्। अनेन पर्यायोक्तस्य व्यावृत्तिरपि। न चायं ध्व- निः। प्रतीयमानस्य वाच्यसिद्ध यङ्गत्वात्। तत्र सारूप्येण यथा- आशासु.प्रशमितवासनोदयेभ्यः किं लब्धं भ्रमरगणैर्जरत्तरुभ्यः। पुन्नागो नवनवसौरभप्रसूनैरामोदं दिशति विवासमारभध्वम् ॥ अत्र भ्रमरवृत्तान्तेनाप्रस्तुतेन सर्वानसंपूर्णविभवानुर्वीश्वरान् वि- हाय सकलगुणपरिपूर्ण: सर्वजनानन्दी प्रतापरुद्र एक एव सर्वेषां विदुषां सेव्य इति प्रस्तुतं प्रतीयते। सामान्याद्विशेषप्रतीतिर्यथा- यशस्विनी पद्मभवस्य सृष्टिरुत्पादयित्री नृपशेखराणाम् । तत्पालनाल्लालनभाग्ययोग्यो जातश्चिरान्मध्यमलोक एषः । अ्र प्रतापरुद्रस्य गुणमहत्त्वे प्रस्तुते सामान्यमभिहितम्। विशे- षात् सामान्यप्रतिपत्तिर्यथा- *दद्ठुमणा वि ण पेक्खइ ण भणइ वत्तु सकोदुहलआ वि। *द्रष्टुमना अपि न पश्यति न भणति वक्तुं सकौतूहलापि। तेन सामान्यं विशेष: कार्य कारणं सरूपं च प्रस्तुतं खखप्रतियोगिनोSप्रस्तुतस्य कथनात् प्रतीयत इति पश्चाप्रस्तुतप्रशंसामेदाः । न चेयं समासोक्तिः । तद्वि- पर्ययेण प्रवृत्तेरित्याह-अप्रस्तुतादिति ॥ कार्यात् कारणप्रतीतिभेदस्यानुमा- नेऽन्तर्भावं वारयति-न चेति॥ अत एव पर्यायोक्तव्यावृत्तिरपीत्याह-अनेने. ति।। तत्राप्युभयो: प्रकृतत्वादिति भावः । ननु व्यज्ञयमत्रालंकार्यमत आह-न चेति।। तत्र हेतुमाह-प्रतीयमानस्येति ॥ वाच्यसिद्धयङ्वत्वादप्रस्तुतस्य वाच्यत्वमेवायुक्तमिति कृत्वा प्रस्तुतं प्रतीयमानं तत्साधनत्वैनोपकरोतीति वाच्य- सिंद्धयञ नाम गुणीभूतव्यञ्नयं न प्रधानमतो न ध्वनिरिति भावः । तत्न सारूप्येणो- दाहरति-आशास्विति । प्रशमितवासनोदयेभ्यो निवर्तितपरिमलप्रचारेभ्यो जरत्तरुभ्यो जीर्णवृक्षेभ्यः । अत्राप्रस्तुतभ्रमरव्ृत्तान्तेन प्रस्तुतप्रतापरुद्रवृत्तान्तः सा- रूप्येण प्रतीयते। साधर्म्येणेदमुदाहरणम्। वैधर्म्यादिनिबन्धनास्त्वन्यतो द्रष्टव्याः। यशस्विनीति।। अत्राप्रस्तुतराजसामान्यवृत्तान्तवर्णनया प्रस्तुतराजविशेषप्रताप- रुद्रगुणमहिमप्रतीतिः। दद्ठमणावीति ॥ अत्र दर्शनाद्युत्कण्ठायामप्यदर्शनादी-

Page 330

अर्थालंकारप्रकरणम् । ३२१

*परिसासआ वि ण पसइ वणिआए कीरिसी सिट्टी ।। अत्र सुग्धानां नवसंगमे महती लज्जति सामान्ये प्रस्तुते विशे- षोऽभिहितः । कार्यात् कारणप्रतीतिर्यथा- गाधा इवार्णवा जाता नीचा इव महाद्रयः । महीमवतरत्यस्मिन् काकतीयकुलेश्व्वरे । अत्रार्णवादीनां गाधत्वादिभिः कार्यभूतैरप्रस्तुतैः कारणभूतं प्रतापरुद्रगाम्भीर्यादि प्रतीयते। कारणात् कार्यप्रतीतिर्यथा- प्रतापरुद्रनृपतेधरित्रीकल्पशाखिनः । जाता मयि कृपादृष्टिः किं वा विस्मयसे सखे॥ अत्र कथमीद्टशमहाविभवभाजनमधुना भवसीति कार्य पृच्छते सविस्मयाय सुहृदे कारणभूता प्रतापरुद्रकृपादृष्टिरभिहिता । वाच्यसंभवासंभवोभयरूपतया यथासंभवं भेदाः स्वयं द्रष्टव्याः । पर्यायोक्तालंकारः। गम्यत्वप्रस्तावात् पर्यायोक्तमुच्यते। कारणं गम्यते यत्र प्रस्तुतात् कार्यवर्णनात्। प्रस्तुतत्वेन संबद्धं तत् पर्यायोक्तमुच्यते।। यत्र प्रस्तुतस्यैव कार्यस्य वर्णनात् प्रस्तुतमेव कारणं गम्यते तत् पर्यायोक्तम्। यथा-

  • स्पर्शाशयापि न स्पृशति वनितायाः कीदृशी सृष्टिः ॥

नामप्रस्तुतानां लज्जाविशेषाणामुत्त्या प्रस्तुतलज्जासामान्यप्रतीतिः । लज्जाकार्याणां लज्जात्वमौपचारिकम। गाधा इति। अत्रा प्रस्तुतार्णवगाधत्वादिकार्यवर्णनया प्रस्तुतप्रतापरुद्रगाम्भीर्यप्रतीतिः । प्रतापेति ॥ अत्राप्रस्तुतकारणवर्णनात् प्रस्तु- तकार्यप्रतीति योजयति-अत्रेति ॥ अत्र वाच्यस्य संभवाद्युपाधिवशात् भेदा- न्तराणि खयमूहनीयानीत्याह-वाच्येति॥ वाच्यस्य संभवे प्राचीनान्येवोदा- हरणानि। असंभवे तु 'कस्तवं भोः कथवामि दैवहृतकं मां विद्धि शाखोटकम्' इत्यादावचेतनेन सह प्रश्नोत्तरिकानुपपन्नेति वाच्यस्यासंभवः। एवमन्यदप्युदा- हार्यम्। कारणगम्यत्वप्रस्तावाद् पर्यायोकं लक्षयति-कारणमिति॥ प्रस्तु- तादित्येतदप्रस्तुतप्रशंसाव्यवच्छेदार्थम्। पर्यायेण कार्यादिद्वारा प्रतीयमानस्य

Page 331

३२२ प्रतापरुद्रीये रत्नापणसहिते

प्रतिभूपालशुद्धान्तदीर्घिकास्वाजिधूसराः। प्रक्षालयन्ति गात्राणि काकतीयचमूचराः ।। अत्र रिपुनगरीदीर्घिकावारिविहारेण प्रतापरुद्रचमूचरकर्तृकेण कार्यभूतेन समरप्रारम्भ एव खवपुराणि विहाय पलायिताः प्रतिनृपा इति कारणं प्रतीयते। अथ प्रतीपम् । प्रतीपालंकारः । आक्षेप उपमानस्य कैमर्थक्येन कथ्यते। यद्वोपमेयभावः स्यात् तत्प्रतीपमुदाहृतम्।। यत्रोपमेयस्य लोकोत्तरत्वादुपमानाक्षेपः क्रियते तदेकं प्रतीपम्। यत्रोपमानस्योपमेयत्वं कल्प्यते तत् द्वितीयम्। आद्यं यथा- की्तौ प्रतापरुद्रस्य विलसन्त्यां दिगन्तरे। किमर्थमुद्यत्येष निर्लज्जः शशलाव्छनः ॥ द्वितीयं यथा- काकतीयकुले लक्ष्मीपतिरेष न संशयः । अनेन कथमल्पज्ञैः सुमेरुरुपमीयते। अनुमानालंकार:। अथ तर्कन्यायमूलालंकारा निरूप्यन्ते। साध्यसाधननिर्देशे त्वनुमानमुदीर्यते। कारणस्य वर्णनं पर्यायोक्तमित्यर्थः । उदाहरति-प्रतिभूपालेति॥ शुद्धान्त- दीर्घिका खवन्त:पुरक्रीडापुष्करिणीषु। अत्र प्रस्तुतकार्यकथनात् प्रस्तुतस्यैव कारणस्य प्रतीति योजयति-अत्रेति ॥ स्फुटप्रतीयमानानन्तरमस्फुटप्रतीयमानं प्रती- पालंकारं लक्षयति-आक्षेप इति॥ उपमेयेनैवोपमानकार्ये सिद्धे किमर्थमुप- मानमित्याक्षेपः एकं प्रतीपम्। यत्र प्रसिद्धोपमानस्य निकर्षार्थमुपमेयत्वक्लप्तिस्तत् द्वितीयम्। उभयत्राप्युपमेयस्योपमानप्रातिकूल्यात् प्रतीपव्यपदेशः । कीर्ता- विति॥ अत्र कीर्तेरेव चन्द्रभारोद्वहनात् व्यर्थश्रन्द्र इत्यर्थः । काकतीयेति॥ अत्रोपमानत्वेन प्रसिद्धस्य सुमेरोनिकर्षार्थमुपमेयत्वं कल्पितम् । काकतीन्द्रस्यो- पमानत्वे विवक्षा प्रयोजिका। अथानुमानाद्यलंकारवर्गमधिकरोति-अथेति ॥ तत्रापि प्राधान्यादनुमानमादौ लक्षयति-साध्येति॥ व्यापकस्य धर्मिण्ययो- गव्यवच्छेदः साध्यम्। पक्षधर्मत्वं सपक्षे सत्वं विपक्षात् व्यावृत्तिरित्येतद्रूपत्रय-

Page 332

अर्थालंकारप्रकरणम्। ३२३

रूपकहेतुकत्वेन तर्कांनुमानवैलक्षण्यम्। यथा- रजोधूमः सेनाव्यतिकरभवो यत् प्रसरति स्फुलिङ्गा दृश्यन्ते भटघटितकौक्षेयकभुवः । ततो मन्ये यात्राशुचिसमयजो रुद्रनृपतेः प्रभूत: कोपाभिर्दहृति रिपुभूपालनगरीः । काव्यलिङ्गालंकारः । अथ काव्यलिङ्गम्। हेतोर्वांक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्। यत्र हेतुर्वाक्यगतत्वेन पद्गतत्वेन वा प्रतिपाद्यते तत् काव्य- लिङ्गम्। यथा- प्रतापरुद्र इत्येषा कापि पञ्चाक्षरी शुभा । हृदि यां बिभ्रतो भूपा वशीकुर्वन्ति संपद्ः ॥ अन्र वाक्यार्थगतो हेतुः। पदार्थगतो यथा- म्लानापि भूभृतां फाललिपिरुच्छवसिता पुनः।

अत्र पूर्व परिम्लानाया भूपालफाललिपे: पुनरुच्छ्वासे प्रतापरुद्र- नरेन्द्रचरणनखचन्द्रिकासेचनं हेतुः । तस्य विशेषणगतत्वात् पदार्थ- सहितो हेतुः साधनम्। यत्र साध्यप्रतीतये साधनं निर्दिश्यते सोऽनुमानालंकार इत्यर्थः । तर्कानुमानवैलक्षण्यं दर्शयति-रूपकहेतुकत्वेनेति॥ उदाहरति- रजोधूम इति ।। यात्रैव शुचिसमय आषाढमासो त्रीष्म इत्यर्थः । अत्र क्रोधामौ साध्ये रजोधूमः खप्गभुवः स्फुलित्ान्त लिग्नम्। सर्वसंप्रतिपन्नरूपल्नय- संपन्नयोर्धूमाग्न्योः रूपकगर्भत्वादनुमानालंकारत्वम्। अनुमानप्रसज्ञात्तदनन्तरं काव्यलितमाह-हेतोरिति । वाक्यार्थहेतुकं विशेषणगत्या पदार्थहेतुक काव्यलिए द्विविधमित्यर्थः । काव्यग्रहण तर्कवैलक्षण्यार्थम्। तेन व्याप्तिपक्षधर्म- तादयो न क्रियन्त इति रुचकः । अत एवानुमानादस्य वैषम्यमिति लभ्यते । प्रतापेति ।। अत्र संपद्वशीकरणे वाक्यार्थे प्रतापरुद्रपश्चाक्षरीप्राशस्त्यलक्षणो वाक्यार्थो हेतुः । म्लानेति। अत्र शत्रुभूपालफाललिपेः पुनरुच्छवासे नरेन्द्र- नखज्योत्स्नामृतोक्षितत्वपदार्थो हेतुः । अत्र नखज्योत्स्नामृतोक्षितत्वादिति त्वतला- दिशिरस्कतया पदार्थस्य हेतुत्वेनोपादाने वाक्यार्थहेतुके हेतुत्वप्रतिपादकयच्छब्दा- दिप्रयोगे च नालंकारः । तदा हेतुहेतुमद्भावस्य लौकिकत्वेन विच्छित्तिविशेषाभा- बात्। यंत्र तूपात्तस्य हेतुत्वं यथोदाहते विषये तत्र न कश्विद्विरोध इति सर्वस्वरहस्यम्

Page 333

३२४ प्रतापरुद्रीये रत्नापणसहिते

गतत्वोक्तिः । अथार्थान्तरन्यासः । अर्थान्तरन्यासालंकारः । कार्यकारणसामान्यविशेषाणां परस्परम् । समर्थनं यत्र सोडर्थान्तरन्यास उदाहृतः ।। यत्र कार्यकारणभावेन सामान्यविशेषभावेन वा प्रकृतसमर्थनं क्रियते सोऽर्थान्तरन्यासः। कार्यकारणभावेन यथा- भूपा: प्रतापरुद्रस्य नता भवत नोन्नताः । उन्नतान् नमयत्येष नतानुन्नमयत्यपि ।। अत्र फलरूपेणौन्नत्येन नम्रत्वकारणं समर्थितम्। सामान्याद्विशे- षसमर्थनं यथा- उद्वेजिता रुद्रनरेश्वरस्य रणापदानैः प्रतिपक्षभूपाः । बिभ्यत्यमी चित्रमचेतनेभ्यो भीतस्य सर्व भयकारि नूनम्॥ अत्र भीतस्य सर्वं भयकारीति सामान्यमचेतनेभ्यो रिपुभूपा बि- भ्यतीति विशेषं समर्थयति। विशेषात् सामान्यसमर्थनं यथा- दुष्टोऽपि महतां संगाङ्गवत्येव हि सज्जनः । प्रतापरुद्रमभ्येत्य कलि: कृतयुगायते॥ तदेतन्मनसि निधायाह तस्य विशेषणगतत्वात् पदार्थगतत्वोक्तिरिति॥ ककचित्काव्यलित्नसाम्थात् तदनन्तरमर्थान्तरन्यासं लक्षयति-कार्येति॥ व्या- चष्टे-यत्रेति। प्रकृतसमर्थनमिति ॥ समर्थनाईत्वेनामिहितस्य प्रकृतस्य यत् समर्थनमुपपादनं न त्वपूर्वत्वेन प्रतीतिरित्यनुमानव्यवच्छेदः । समर्थ्यसम- र्थकभावे समानेऽपि ताटस्थ्येन हेतुत्वात् काव्यलिज्ञात् मेदः। ननु ताटस्थ्येन हेतुत्वं सामान्यविशेषभाव एव न तु कार्यकारणभावे। अतस्तत्न का गतिरिति चेत् लक्षणान्तरमस्तु यथायोगमन्यत्न वान्तर्भवत्विति समाधेयम्। तदुक्त चक्र- वर्तिना-'अप्रतीतप्रतीतौ स्यादनुमानव्यवस्थितिः। पदार्थाद्वाथ वाक्यार्था- न्निर्देशे सति हेतुतः ॥ समर्थनं प्रतीतस्य काव्यलिग्नद्वयं मतम्। भवेदर्थान्तर- न्यासस्ताटस्थ्ये हेतुभावतः । कार्यकारणभावे तु तस्योक्तं लक्षणान्तरम् ॥' इति। उदाहरति-भूपा इति॥ कार्येण कारणसमर्थनं योजयति-अत्रेति ॥ उद्वेजिता इति॥ रणैरेवापदानैरद्भुतकर्ममिः । सामान्येन विशेषः समर्थ्यत इत्याह-अत्र भीतस्येति। दुष्टोऽपीति॥ अत्र विशेषेण सामान्यंसमर्थनं

Page 334

अर्थालंकारप्रकरणम् । ३२५

अत्र प्रतापरुद्रसंगतिमहित्रा कलि: कृतयुगसदश इति विशेषेण सामान्यसमर्थनम्। कार्यकारणभावेऽपि कारणात् कार्यसमर्थनं काव्यलिङ्गेSन्तर्भूतमिति तन्नोक्तम्। अतः प्रकारत्रयमर्थान्तरन्यासस्य। तर्कन्यायमूलालंकारानन्तरं वाक्यन्यायमूलालंकारा निरूष्यन्ते। यथासंख्यालंकारः । उद्दिष्टानां पदार्थानां पूर्व पश्चाद्यथाक्रमम् । अनूद्देशो भवेद्यत्र तद्यथासंख्यमिष्यते।। यत्र येन क्रमेणोद्िष्टाः पदार्थास्तेनैव क्रमेणानूद्दिश्यन्ते तत्र यथा- संख्यालंकारः । यथा- गाम्भीर्यमौन्नत्यमनर्गलत्वं प्रतापरुद्रे समवेक्ष्य धाता। अम्भोनिधिष्वद्रिषु दिग्गजेषु सृष्टिं प्रयासैकफलामवैति ॥ अर्थापच्यलंकारः । एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यदापतेत्। कैमुत्यन्यायतः सा स्यादर्थापत्तिरलंक्रिया ॥ यत्र कस्यचिदर्थस्य निष्पत्तौ तत्समानन्यायात् कैमुत्येनार्थान्तर- योजयति-अत्र प्रतापेति ॥ कारणेन कार्यसमर्थनं काव्यलिहेऽन्तर्भूतत्वाननो- दाहतमित्याह-कार्येति॥ वैधर्म्याश्रयणे षड् मेदा द्रष्टव्याः । तर्कपरिशुद्धबुद्धे- रेव मीमांसायामधिकारात् तन्मूलानन्तरमेतन्मूलानां प्रस्ताव इत्याह-तर्केति। यथासंख्यं लक्षयति-उद्दिष्टानामिति ॥ पूर्व निर्दिष्टा उद्दिष्टाः। पश्चान्नि- देशोऽनूद्देशः । तेनात पूर्वपश्चात्पदे स्फुष्टार्थे। व्याचष्टे-यत्रेति॥ आमेयादी- नामझ्ेरहं देवयज्ययेत्याद्यनुमन्त्रणमन्त्रवद्यत्रोद्दिष्टक्रमेणानूद्देशः स यथासंख्या- लंकार इत्यर्थः । गाम्भीर्यमिति ॥ समुद्रादिभ्योऽधिकमस्य गाम्भीर्यादिक- मिति भाव:। गाम्भीर्याद्युद्िट्क्रमेण समुद्रादीनामनूद्देशाद्यथासंख्यालंकारः । कमालंकारोऽयमिति केचित्। वाक्यविदामर्थापत्तिश्व न्याय इति कृत्वा संप्रत्य- र्थापत्ति लक्षयति-एकस्येति । यत्रैकस्य वस्तुनः कस्यचिदर्थस्य भावाननि- ष्पत्तेः । किमुतैव कैमुत्यम्। चातुर्वर्ण्यादित्वात् खार्थे ध्यञप्रत्ययः। तन्न्यायतोऽ न्यद्वस्तु वस्त्वन्तरमापतेत् सार्थापत्तिः स्यादित्यर्थः । व्याचष्टे-यत्रेति ।। गथा दण्डभक्षणादपूपभक्षणमर्थादापतितं तद्वत् कस्यच्विदर्थस्य निष्पत्तौ तत्सा- मर्थ्यरूपात् समानन्यायादर्थान्तरमापतति सोऽर्थापत्यलंकार इत्यर्थः ।"अत एव सर्वखसूत्रं-'दण्डापूपिकयार्थान्तरापतनमर्थापत्तिः' इति। अनुमानान्तर्भाव प्र 28

Page 335

३२६ प्रतापरुद्रीये रत्नापणसहिते

मापतति सोऽर्थापत्तिरलंकारः । न चात्रानुमानशङ्का, कैमुत्यन्याय- स्यासंबन्धरूपत्वात्। यथा- समन्तादुद्वेलैविविधह्यधाटीकलकलै- जगत्यां क्रामन्नप्यजनि विधुरः सेवणपतिः । मनाक् कोधोदख्द्भ्रुकुटिकुटिले रुद्रनृपतौ नृपाणामन्येषां विफलितरुषां कैव गणना ।। अपि च। त्रैलोक्यसारोऽपि सुवर्णशैलः प्रतापरुद्रेण नृपेण तुल्यम्। तुलां समारोदुमपूर्ण एव महीभृतां का गणनेतरेषाम्॥ अत्र प्रतापरुद्रापेक्षया मेरावप्यसारेऽन्येषां महीभृतामर्थादसारत्वं कैमुत्यादापतति। अथ परिसंख्या। परिसंख्यालंकार:। एकस्य वस्तुनः प्राप्तावनेकत्रैकदा यदि। एकत्र नियमः सा हि परिसंख्या निगद्यते॥ यत्रैकं वस्तु युगपदनेकत्र संभाव्यमानमेकत्रैव नियम्यते सा परि- संख्या। सा प्रथमं द्विविधा प्रश्नपूर्विका तदन्यथा चेति। तयो- द्वयोर्वर्जनीयस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्ये चातुर्विध्यम्। तत्र शाब्दवर्जनीया प्रश्नपूर्विका यथा- किं मण्डनं त्रिलोक्याः काकतितिलको न हाटकक्षितिभृत्। वारयति-न चेति॥ उदाहरति-समन्तादिति ॥ अत्र प्राकरणिकः सेवण- पतिवृत्तान्तो नृपान्तरवृत्तान्तमप्राकरणिकमाक्षिपति। त्रैलोक्येति ॥ तुलां सादृश्यम्। महीभृतां राज्ञामद्रीणां च। अत्राक्षेप्याक्षेपकयोरुभयमहीमृद्दत्तान्तयोर- प्राकरणिकत्वम्। महीभृतामित्यत्र श्रेषो विशेषः । एवमप्राकरणिकस्य प्राकरणि- काक्षेपेऽप्युदाहार्यम्। परिसंख्यां लक्षयति-एकस्येति॥ एकस्य वस्तुनोऽ- नेकत्रैकदा युगपत्प्राप्तावन्यतो निवृत्त्यर्थमेकत्र नियमनं परिसंख्येत्यर्थः । एतेन 'विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति। तत्र चान्यत्र च प्राप्ते परिसंख्येति गीयते ।।' इति मीमांसकोक्तनियमपरिसंख्ययोर्भेदो नालंकारिकैरजीकृत इति द्रष्टव्यम्। परिर्वर्जने । कस्यच्विद्वर्जनेन कुत्रचित् संख्यानं वर्णनीयत्वेन गणनं परिसंख्येत्यन्वर्थेयम्। तस्या विभागमाह-सेति। तयोरिति॥ प्रश्नपूर्विका- प्रश्नपूर्विकयोरित्यर्थः । क्रमेणोदाहरति-किमिति॥ अत्र मण्डनत्वेन प्राप्तयोः

Page 336

अर्थालंकारप्रकरणम् । ३२७

स्तोतव्यः कः सुधियां रुद्रनरेन्द्रो न मन्दर: क्षितिभृत् । आर्थवर्जनीया प्रश्नपूर्विका यथा- किं वा क्षौमवितानं लोकानां काकतीयकुलकीर्तिः । किं सौख्यं वसुमत्या रुद्रनरेन्द्रस्य भुजवासः ।। अप्रश्नपूर्विका शाब्दवर्जनीया यथा- रागो धर्मे न विषयसुखे संगतिः सत्सभायां न स्त्रीगोष्ठयां व्यसनमनिशं नीतिशास्ते न चाक्षे। कीत्यां नित्यार्जनचतुरता नार्थजाते विनोदो विद्याभ्यासे न च परिजने रुद्रदेवस्य राजः ॥ आर्थवर्जनीया अप्रश्नपूर्विका यथा- भूरेव भुवनं देव: स्वयंभूरेव पार्थिवः । प्रतापरुद्र एवैकशिलैव नगरी शुभा ।। क्षोणीं रुद्रनराधीशे रक्षति क्षतविद्विषि। बलिसद्मन्यह्भयं त्रिदिवे गोत्रभित्कथा ॥ अलंकारस्यास्य श्रेषेण चारुत्वातिशयः । उत्तरालंकार: । उत्तरात् प्रश्न उन्नेयो यत्र प्रश्नोत्तरे तथा। बहुधा च निबध्येते तदुत्तरमुदीर्यते॥ काकतीन्द्रकनकाचलयोः कनकाचलं कण्ठोत्त्या वर्जयित्वा काकतीन्द्रे नियमनात् शाब्दवर्जनीया प्रश्नपूर्विका परिसंख्येत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम्। किं वेति ॥ अत्र वर्जनीयस्य चन्द्रिकादेरार्थत्वम्। राग इति ॥ अक्षे द्ूते। अत्र विषयसुखादि वर्जनीयं शाब्दम्। प्रश्नस्तु नास्ति। भूरेवेति॥ न खर्गा- दिरित्यार्थवर्जनीया प्रश्नरहिता परिसंख्या। क्षोणीमिति । बलिसद्मनि पाताले। अहिमयं सर्पभयं, सवपक्षप्रभवं भयं च । 'महीभुजामहिभयं खपक्षप्रभवं भयम्' इत्यमरः। त्रिदिवे गोत्रमित्कथा इन्द्रप्रसज्गः कुलघातुक- प्रसङ्गश्च। अत्राभ्युच्चयमाह-अलंकारस्येति।। परिसंख्यायां प्रश्न- प्रसभ्वात् तदनन्तरमुत्तरं लक्षयति-उत्तरादिति । यत्रोत्तरादुपनि वध्यमानात् प्रश्न उन्नीयते तदेकमुत्तरम् । न चेदमनुमानम्। पक्षधर्म- स्वादिनिर्देशाभावाद्। तथा प्रश्नपूर्वकं लोकोत्तरमुत्तरं बहुधा निबध्यते तदप- रम्। सकृव्यारुत्वं नास्तीति बहुधाग्रहणम्। नेयं परिसंख्या। तद्वदत्र व्यव-

Page 337

३२८ प्रतापरुद्रीये रन्नापणसहिते

यत्रोत्तरान्निबध्यमानात् प्रश्न उन्नीयते तदेकमुत्तरम्। चारुत्वार्थ- मसकृह्लोकोत्तरं प्रश्नप्रतिपादनपूर्वमुत्तरं द्वितीयमुत्तरम्। क्रमेण यथा किमद्य व्युत्पत्तिस्तव सुजनलोकव्यवहतौ यद्द ज्ञातव्यं प्रभवति यदा रुद्रनृपतिः । तदारभ्योन्मूर्धा जयति विशदो धर्मविभवो महीदेवाश्चोद्यद्विविधविभवारम्भमुदिताः ॥ अत्र प्रतापरुद्रो यदा प्रभवति तदारभ्य पूर्णधर्मप्रतिष्ठ मही। महीदेवा अपि तथाविधसंतोषभाजः। किमधुना पृच्छसीत्युत्तरात् किं प्रतापरुद्रराज्ये धर्मप्रतिपालनमस्ति किं सुखिनो भूसुरा इत्युन्नीयते प्रश्नः । द्वितीयं यथा- *किं णु धणं कुलविज्जा को लाहो सज्जणेण सहवासो। का णअरी एअसिला को राआ वीररुद्दणरणाहो।। विकल्पालंकारः । वाक्यन्यायमूलालंकारप्रस्तावाद्विकल्प उच्यते। विरोधे तुल्यबलयोर्विकल्पालंकृतिर्मता। यत्र तुल्यप्रमाणानुशिष्टयोर्विरुद्धयोर्वयोर्युगपत्प्राप्तौ एकस्यासं- भवस्तत्र विकल्पः। औपम्यगर्भत्वाच्चारुत्वम्। यथा- भूपाला: क्रियतां मूधां धनुषां वा विनम्रता। *किं नु धनं कुलविद्या को लाभः सज्जनेन सहवासः । का नगरी एकशिला को राजा वीररुद्रनरनाथः ॥ च्छेद्व्यवच्छेदकभावस्याविवक्षितत्वात्। क्रमेणोदाहरति-किमद्येति॥ सुजन- लोकव्यवहतौ साधुजनव्यवस्थायां व्युत्पत्तिर्धार्मिकत्वादिज्ञानं तवाद्य किं यदद्य तव च ज्ञातव्यं भवतीति शेषः। किं तदित्याकाक्कायामाह-प्रभवतीति॥ प्रभुर्भ- वतीत्यर्थः । उन्मूर्धा परिपूर्ण इत्यर्थः । विशदो निर्मलो निरुपाधिक इत्यर्थः । महीदेवा ब्राह्मणाश्च उद्यद्भिर्विविधैर्विभवारम्भैरैश्वर्यविजृम्भणैर्मुदिताः । अत्ो- त्तरात् प्रश्नोभयनं योजयति-अत्रेति॥ द्वितीयमुदाहरति-किं ण्विति ॥ अत् व्यवच्छेद्यव्यवच्छेदकभावमविवक्षित्वा बहुधा प्रश्नोत्तरनिबन्ध नादुत्तरालं- कारः। विकल्पं संगतिपूर्वकं लक्षयति-वाक्यन्यायेत्यादिना॥ तुल्यप्रमाण- विविष्टत्वात्तुल्यबलयोरेकन्न युगपत्प्राप्तौ विरुद्धत्वाद्यौगपद्यासंभवे विकल्प इत्य- र्यः1 लौकिकविकल्पाद्वैलक्षण्यं दर्शयति-औपम्याच्चारुत्वमिति॥ भूपाला

Page 338

अर्थालंकारप्रकरणम् । ३२९

पादच्छायान्ध्रनाथस्य विन्ध्याद्रेर्वा निषेव्यताम्॥ अत्र प्रतापरुद्रे प्रभरवति राज्ञां संधिविग्रहाभ्यां तुल्यबलप्रमा- णाभ्यां शिरोनमनधनुर्नमने-युगपदेव प्राप्ते तयोर्विरुद्धत्वाद्यौगपद्या- संभवे विकल्पः । विकल्पप्रतिपक्षभूतः समुच्चयो निरूप्यते । समुच्चयालंकार:। गुणक्रियायौगपद्यं समुच्चय उदाहृतः । यत्र गुणानां वैमल्यादीनां क्रियाणां च दर्शनादीनां युगपद्व- स्थानं तत्र समुच्चयालंकारः । यथा- प्रतापरुद्रनृपतौ भद्रासनमुपेयुषि। सतां प्रसन्नं हृदयमसतां कलुष मनः ॥ क्रियासमुच्चयो यथा- * पेच्छइ इमं णरिन्दो पविसइ मअणो अ गलइ माणो अ। घुण्णइ मणो अ सुण्णं किं एदं उवह सहिआओ। एते भिन्नविषयत्वे उदाहरणे। एकविषयत्वे यथा- त्रैलोक्यप्रथमानकीर्तिमहितश्रीवीररुद्रप्रभो: सेवार्थ चिरयत्सु काकतिपुरे भूपेषु तद्योषितः । द्वारं यान्ति विलोकयन्ति पुरतो निश्वासमातन्वते शुष्यन्ति प्रलपन्ति यान्ति तनुतां मुह्यन्ति मूर्च्छन्ति च॥ * प्रेक्षते इमां नरेन्द्रः प्रविशति मदनश्च गलति मानक्र। घूर्णते मनश्च शून्यं किमेतत् पश्यत सख्यः ॥ इति॥ पादच्छाया चरणच्छाया, अन्यत्र प्रत्यन्तपर्वतच्छाया। अत्र श्लेषो विशेषः । लक्षणं योजयति-अत्रेति ॥ समुच्चयस्य संगतिमाह-विकल्पेति॥ लक्षणमाह-गुणेति॥ व्याचष्टे-यत्रेति ॥ यत्र गुणानां क्रियाणां च व्यस्ता- ना समस्तानां वा युगपदवस्थानं स समुच्चयालंकार इत्यर्थः । विषयमेदेन गुण- समुचय मुदाहरति-प्रतापेति ॥ तथैव क्रियासमुच्चयमुदाहरति-पेच्छईति॥ विषयभेदाभावेन क्रियासमुच्चयमुदाहरति-त्रैलोक्येति। तद्योषितः प्रोषि- तभर्तृकाः, उत्कण्ठया द्वारं यान्ति । पुरतो विलोकयन्ति यावदृष्टिः प्रसरतीति भावः । निश्वासमातन्वते प्रियमदृष्ट्रा चिन्तयेति भावः । ज्वरेण शुष्यन्ति । मुह्यन्ति जडीभवन्ति इतिकर्तव्यतामूढमनसो भवन्तीत्यर्थः । यद्वा मोहमूर्च्छयोः संचार्यवस्थामेदेन मेदः । अत्रावस्थानामविवक्षितः क्रमः । गुणक्रिययोः साम-

Page 339

३३० प्रतापरुद्रीये रक्नापणसहिते

गुणक्रियासामस्त्ेन यथा- देवे काकतिवीररुद्रनृपतौ जैत्र प्रयाणोन्मुखे माद्यद्दन्ति चलत्पदाति विचलद्वाजि प्रधावद्रथम्। विच्छायाननमाकुलाक्षमुदयत्कार्पण्यमाविर्भव- त्कम्पं भ्राम्यति सर्वतः प्रतिवनं प्रत्यर्थिभूभृद्रणः ।। द्वितीयः समुच्चयः । खलेकपोतन्यायेन बहूनां कार्यसाधने। कारणानां समुदोगः स द्वितीयः समुच्चयः ॥ यत्रैकं कार्यं साधयितुमहमहमिकया बहूनां कारणानामुद्यम: सोडपि समुच्चय एव, युगपदनेकेषामवस्थानात्। यथा- शुभ्रं यशः शौर्यमहच्च वृत्तं विद्यानवद्या विमलं कुलं घ। प्रतापरुद्रस्य नरेश्वरस्य लोकोत्तरां रीतिमुदश्वयन्ति ।। स्त्येन समुचयमाह-देव इति ॥ माद्यइन्तीत्यादीनि चत्वारि प्रयाणक्रिया- विशेषणानि । अत्र कम्पः क्रिया। अन्ये गुणाः । समुच्चयत्वसाम्यात् द्वितीय- समुच्चयं लक्षयति-खलेकपोतेति। पुरा किल कुत्रचित्खले लुब्धकेन प्रसारिते जाले चित्रग्रीवो नाम कश्चित् कपोतराजः सपरिवारो धान्यलोभादागत्य बद्ध: परस्परं मन्त्रयित्वा सवैरपि संभूय जालेन सहोड्वीय लुब्धकादृश्यतां गत्वा कुतचित् प्रदेशे हिरण्यकनाम्रो मूषकराजान्मित्रात् पाशच्छेदं लब्ध्ा सपरिवार: खगृहं प्रविष्ट इति पञ्चतन्त्रकथां मनसि निधायाह-खलेकपोतन्यायेनेति॥ यथा पाशच्छेदं प्रति सर्वेषां कपोतानामुद्यमः एवं कस्यचित् कार्यस्य साधने बहूनां कारणानामुदमे सोऽपि समुच्चय एवेति व्याचष्टे-यत्रेति ॥ अहमह- मिका व्याख्याता। समुचयत्वे हेतुमाह-युगपदिति ।। अस्यैव तत्करमिति संज्ञान्तरम् । तदुक्तम्-'तत्सिद्धिहेतावेकस्मिन् यत्रान्यत् तत्करं भवेत्।' इति। उदाहरति-शुभ्रमिति॥ सद्योगे चेदमुदाहरणम्। शुभ्रत्वेन शोभनस्य यशसो लोकोत्तररीतिसंपादने शौर्यमहत्त्वादिना शोभनैर्वृत्तादिमि: समुचयात्। 'दुर्वा- राः स्मरमार्गणाः प्रियतमो दूरे मनोऽप्युत्सुकम्' इत्यादौ स्मरमार्गणानां दुर्वा- रत्वेनाशोभनानां तादृशैरेव प्रियतमादिमिः समुष्य इत्यत्रासद्योगः । प्रियत- मादीनां खतः शोभनत्वेऽपि विरहविषयत्वेनाताशोभनत्वं ज्ञेयम् । 'शशी दिवसधूसरो गलितयौवना कामिनी' इत्यादौ शशिनः शोभनस्यापि दिवसधू- सरत्वादशोभनत्वेन सदसतस्तादशैरेव कामिनीप्रभृतिमिः समुच्चय इति सदसद्यो- गोऽन् द्रष्टव्य इति त्रिविधोऽयं समुच्चयः। तत्करसादृश्यात् तदनन्तरं समाधि

Page 340

अर्थालंकारप्रकरणम्। ३३१

अत्र यशःप्रभृतीनां लोकोत्तररीतिसंपादने प्रत्येकं हेतुत्वेपि युगपत्खलेकपोतन्यायेन संबन्धः । अथ समाधिरुच्यते। समाध्यलंकारः । एकस्मिन् कारणे कार्यसाधनेऽन्यत् परापतेत्। काकतालीयनयतः स समाधिरुदीर्यते ॥ यत्रैकस्मिन् कारणे कार्यसाधनाय प्रवृत्ते काकतालीयतयान्यत कारणमागत्य तत्कार्यं सुकरं करोति स समाध्यलंकारः। यथा- रणाङ्गणे रुद्रनरेन्द्ररोषशमाय राज्ञां विहितस्तुतीनाम् । वक्त्रेषु यद्वायुवशात् पतन्ति तृणानि देवस्य स पक्षपातः ॥ अत्र प्रतापरुद्रनरेन्द्रक्रोधशान्त्यर्थ रणाश्रे प्रक्रान्तस्तुतीनां राज्ञां वक्त्रेषु वायुवशात् काकतालीयतया पतितैस्तृणैः कोपशान्तिलक्षण- कार्यस्य सुकरत्वम्। अथ लोकन्यायमूलालंकारा निरूप्यन्ते। भाविकालंकारः । अतीतानागते यत्र प्रत्यक्षे इव लक्षिते। लक्षयति-एकस्मिन्निति ॥ व्याचष्टे-यत्रेति। केनचिदारब्धस्य कार्यस् काकतालीयन्यायेन कारणान्तरेण समाधानात् समाधिरित्यर्थः। काकतालीयेति॥ वृत्तिविषये काकतालशब्दौ काकतालसमवेतक्रियावाचिनौ। तेन काकागमन- मिव तालपतनमिव काकतालमितीवार्थे 'समासाच तद्विषयात्' इति ज्ञापकात् सुप्सुपेति समासः । उभयत्रोपमेयं क्रमेण देवदत्तागमनं दस्यूपनिपातश्च। तेन देवदत्तदस्युसतमागम: काकतालसमागमसदृश इति लभ्यते। ततः काकतालमिव काकतालीयमिति द्वितीयस्मिन्निवार्थे 'समासाच्च तद्विषयात्' इति छप्रत्ययः । यथा पतता तालफलेन काकवधस्तद्वदुपनिपतितैर्देस्युमिर्देवदत्तस्य वध इत्यर्थः । यदाह भगवान् भाष्यकार :- 'एवं तर्हि द्वाविवार्थौ काकागमनमिव तालपतन- मिव काकतालं काकतालमिव काकतालीयम्' इति। तच्ब व्याख्यातं कैयटेन- 'तत्न काकागमनं देवदत्तागमनस्योपमानं तालपतनं दस्यूपनिपातस्य। तालेन तु यः काकस्य वधः स देवदत्तस्य दस्युना वधस्योपमानमिति वधादि: काक- तालीयादिशब्दवाच्यः संपद्यते' इति। तेन काकतालीयं नामातर्कितोपनतं चित्री- करणमुच्यत इति वृत्तिकारः। एवं चानुषज्जिककारणान्तरस्य समाधेः समप्रधान- सर्वकारणात् समुच्चयात् मेद इति द्रष्टव्यम्। उदाहरति रणाङ्गण इति। अत्र क्रोध- शान्तौ स्तुतिः प्रधानकारणम्। वक्त्रे वायुवशात् तृणपतनं काकतालीयमिति समा- धिः। लोकन्यायमूलेषु चमत्कारातिशायनिदानं भाविकं लक्षयति-अतीतेति॥

Page 341

३३२ प्रतापरुद्रीये रक्नापणसहिते

अत्यद्भुतार्थकथनान्भाविकं तदुदाहृतम्॥ यत्राद्भुतचरितोपवर्णनात् भूतभाविनोर्वस्तुनो: प्रत्यक्षायमाणत्वं भवति स भाविकालंकारः । न च भूतभाविनोः प्रत्यक्षवद्वभासो विरुद्धः । अत्यद्दतवस्तुवर्णनया भावुकानां हृदि भावनोदयात्। तथा च भावनायाः पुनश्चेतसि निदर्शनात् प्रत्यक्षायमाणत्वं घटत एव। यथा पान्थस्य कामिनीभावनया तस्याः प्रत्यक्षायमाणत्वम् । न चेयं स्वभावोक्तिः। तस्यां वस्तुस्वभावस्य यथावद्वर्णनया प्रत्यक्षायमाणता। इह त्वत्यद्भतत्वेन । नापि रसवदाद्यलंकार: । तत्र विभावाद्यनुसंधानेनैव रसादेर्भाव्यत्वम्, न त्वत्यद्भतत्वेन । अत्यद्भतार्थकथनादिति॥ तथाविधशब्दसंदर्भेणेति शेषः। व्याचष्टे यत्रेति। भाव: कवेरमिप्रायः श्रोतरि प्रतिबिम्बितत्वेनास्तीति भाविकम्। ननु संबद्ध वर्तमानं च गृह्यते चक्षुरादिना इति न्यायेन भूतभाविनोः प्रत्यक्षवदवभासो विरुद्ध इत्याशङ्कय परिहरति-न चेति॥ तत्र हेतुमाह-अत्यद्दुतेति॥ भावु- कानां सहृदयानां भावनोदयात् संस्कारोद्वोधात्। न चेदमयुक्तमित्याह-तथा चेति। भावनायाःपुनरिति। भावनाविषयाणामत्यद्भुतवस्तूनामित्यर्थः। चेतसि सहृदयहृदये निदर्शनानितरां दर्शनात् आदरप्रत्ययेन धार्यमाणत्वादित्यर्थः । प्रत्यक्षायमाणत्वं घटत एवेति॥ यथा लौकिकानामिन्द्रियैर्वर्तमानसंबद्धार्थ- साक्षात्कार: यथा वा योगिनामैकाभ्यलक्षणया भावनयातीन्द्रियार्थसाक्षात्कारः तथा काव्यतत्वविदां काव्यतत्त्वगतात्यद्भुतत्वानुसंधानप्रयुक्तया भावनयातीतानागता- र्थसाक्षात्कारो युज्यत एवेत्यर्थः। अत्र दृष्टान्तमाह-यथेति॥ पान्थस्य पथिकस्य विरहिण इत्यर्थः । 'पथो ण नित्यम्' इति णप्रत्ययः। कामिनीभावनया कामि- नीध्यानेन। तस्याः कामिन्याः प्रत्यक्षायमाणत्वम्। तदुक्तम्-'साक्षिगतः साक- लिकोऽयमद्वैतवादः' इति। न चेदं खभावोक्तावन्तर्भवतीत्याह-न चेति।। कुत इत्याकाक्कायामुभयोवैषम्यमाह-तस्यामिति॥ वस्तुखभावस्य लौकिक- वस्तुगतसूक्ष्मधर्मस्येत्यर्थः । यथावदन्यूनातिरिक्तत्वेन वर्णनया प्रत्यक्षायमाणता साधारण्येन हृदयसंवादिप्रतीतिविषयत्वमित्यर्थः। इह भाविके त्वत्द्भुतत्वेन लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन प्रतीतिरिति भेद इत्यर्थः । अत एव रसवदादौ नान्तर्भाव इत्याह-नापीति॥ तत्र हेतुमाह-तत्रेति॥ विभावानु- भावाद्यनुसंधानेन परमाद्वैतज्ञानवन्ममैवैते शत्रोरेवैते तटस्थस्यैवैत इत्यादिविशेष- परिहारात साधारण्येन सहृदयसंवादि प्रत्ययेनेत्यर्थः । रसादेर्भाव्यत्वं खाद्यत्वमि- त्यर्थः। न त्वत्यद्भतत्वेनेति ॥ यथा भाविके भूतभाविनोरत्यद्भुतार्थयोः सर्व- ज्ञवत् ताटस्थ्येन प्रतीतिर्न साधारण्येन तद्वदत्र न भवतीत्यर्थः। नन्वत्र भूतभावि-

Page 342

अर्थालंकारप्रकरणम्। ३३३

न चेयमुत्प्रेक्षा, अतीतानागतयोः प्रत्यक्षत्वेनाध्यवसायाभावात्। न चायं भ्रान्तिमदलंकारः, भावनाया अभ्रान्तिरूपत्वात् । अतः सर्वोत्तीर्ण एवायमलंकारः। यथा- ध्वजाग्रे काकतीन्द्रस्य भाति क्रोडाकृतिर्हरिः । मृद्विन्दुरिव दंष्ट्राग्रे यस्यालक्ष्यत मेदिनी ॥ अत्राष्टादशद्वीपयुक्ताया मेदिन्या दंष्टाग्रे मृद्धिन्दुरूपतेति अत्य- द्ुतवर्णनया तथाविधभावनायां प्रत्यक्षवत् प्रतीतिसंभवः । प्रत्यनीकालंकारः । अथ प्रत्यनीकालंकार: प्रतिपाद्यते। बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे। यस्तदीयतिरस्कारः प्रत्यनीकं तदुच्यते ॥। यत्र प्रबलस्य प्रतिपक्षस्य प्रतीकारासामर्थ्यात् तदीयतिरस्कारो भवति तत् प्रत्यनीकम् । यथा- काकतीयपतिशौर्यमहोष्मन्यक्कृतस्वमहिमा बडबािः । तद्गभीरिमसनाभिमजस्रं बाधते निधिमपां बहिरन्तः ॥ नोरप्रत्यक्षयो: प्रत्यक्षत्वेनाध्यवसायादिवादेरभावाच्च प्रतीयमानोत्प्रेक्षा कुतो न स्यादत आह-न चेयमुत्प्रेक्षेति। तत्र हेतुमाह-अतीतेति॥ न ह्यप्रत्यक्ष प्रत्यक्षत्वेनाध्यवसीयते। किं तर्हि काव्यार्थविद्धिः प्रत्यक्ष दृश्यत इति नोत्प्रेक्षेति भावः । ननु भूतभाविनोः प्रत्यक्षत्वे त्रान्तिमदलंकारः किं न स्यादत आह-न चायमिति।। तत्र हेतुमाह-भावनाया इति॥ काव्यतत्त्वविदां भूतभावि- वस्तुसाक्षात्कारसामग्री भावना तस्या अभ्रान्तिरूपत्वात्। भ्रान्ति रूपयति जन- यतीति भ्रान्तिरूपा तस्या भावस्तत्त्वम्, तदभावात् त्रान्तिजनकत्वाभावादित्य- र्थः । भूतभाविविषयत्वेऽपि भावनामहिम्रा न प्रत्यक्षत्वहानिरिति भावः । कण्टकशो- धनमुपसंहरति-अत इति ॥ यदन्यदवशिष्टं तत्सर्वमलंकारसर्वस्वे द्रष्टव्यम्। उदाहरति-ध्वजाग्र इति॥ क्रोडाकृतिर्वराहाकृतिः । योजयति-अत्रेति ॥ लोकन्यायमूल प्रस्तावात् प्रत्यनीकं लक्षयति-बलिन इति। प्रतीकार इति॥ 'उपसर्गस्य घव्यमनुष्ये बहुलम्' इति दीर्घः । व्याचष्टे-यत्रेति ॥ अनीकस्य सैन्यस्य प्रतिनिधिः प्रत्यनीकं तत्तुल्यत्वादिदमपि प्रत्यनीकमित्यर्थः । प्रतिपक्षप्रा- बल्यप्रख्यापनमत्र प्रयोजनम्। काकतीयेति ॥ तस्य काकतीयस्य गमीरिम्णा गाम्भीर्येण सनाभि सुहृदम्। 'ज्योतिर्जनपद' इत्यादिना समानशब्दस्य सभावः ।

Page 343

३३४ प्रतापरुद्रीये रत्नापणसहिते

अत्र सादृश्यहेतुकं तदीयत्वमित्यलंकारत्वम्। अथ व्याघातः । व्याघातालंकार: । येन यत् साधितं वस्तु तेनैव क्रियतेऽन्यथा। अन्येन तदलंकारो व्याघात इति कथ्यते॥ यद्वस्तु येन केनचित् कर्त्रा येन साधनेन साधितं तद्वस्तु तेनैव साधनेनान्येन कर्त्रा यदन्यथाक्रियते स व्याघातः । यथा- काकतीयाभिजातोऽयं नाभिजाताधिकस्थितिः । दोर्भ्यां लब्धोदयान् भूपांस्ताभ्यामनुदयान् सृजन् । अथ लोकन्यायमूलालंकारनिरूपण प्रस्तावात् पर्यायालंकारो निरू- प्यते। पर्यायालंकारः। क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि। एकस्मिन्नथवानेकं पर्यायालंकृतिर्मता॥ यत्र क्रमादेकमाधेयमनेकस्मिन्नाधारे वर्तते स एक: पर्यायः । न चात्र विशेषालंकार:, तत्रैकस्यानेकत्र युगपद्वर्तनम्, अत्र करमेण। तथै- कस्मिन्नाधारेSनेकमाधेयं वतते स द्वितीयः पर्यायः । न चात्र समु- चयालंकारः, तत्राप्येकत्रानेकेषां युगपद्वर्तनम्, अत्र क्रमेण। यथा- दंष्र्रायां कुहनाकिटेर्भंगवतो देवस्य शौरेः पुरा पश्चान्मस्तकमण्डले फणभृतः पाताललोकेशितुः । अस्यालौकिकत्वादाह-अत्रेति । पूर्वयैव संगत्या व्याघातं लक्षयति- येनेति॥ येनोपायेन यद्वस्तु साधितं केनचित् कर्तेति शेषः। तेनैवोपायेनान्येन कर्त्रा तद्वस्त्वन्यथा क्रियते चेत् स व्याघातोऽलंकार इत्यर्थः । काकतीयेति॥ काकतीयाभिजातः काकतीयकुलोद्वूतो नाभिजातो ब्रह्मा ततोऽधिका स्थितिर्यस्य स तथोकः। दोर्भ्यामीश्वरबाहुभ्यां लब्धोदयान् भूपान् राजन्यान् 'बाहू राजन्यः कृतः' इति श्रुतेः। ताभ्यां दोर्भ्यामनुदयानुदयरहितान् सृजन्निति निष्पादकस्य निष्पादितवस्तुव्याहतिहेतुत्वात् व्याघातः। व्याघाते वस्तुसाधना- न्यथाकरणयोः कमिकत्वात् तत्प्रसभ्वेन पर्यायं लक्षयति-क्रमेणति ॥ एकस्या- नेकत्र वर्तनमनेकस्यैकत्र वर्तनं चेति द्विधा पर्यायालंकारः। उभयस्य क्रमिकत्वा- द्विशेषसमुचययो: क्रमेण व्यवच्छेदः। दंष्ट्रायामिति॥ कुहनाकिटेर्मयावराहस्य

Page 344

अर्थालंकारप्रकरणम्। ३३५

अद्योर्वीपतिशेखरस्य महतः श्रीकाकतीयप्रभो- र्बाहौ सर्वधुरीणसारमहिते बद्धोत्सवा मेदिनी ॥ अत्रैकस्या मेदिन्याः क्रमादनेकत्र वर्तनम्। द्वितीय :- येषां मुखे निजवधूसविधे नृपाणां शौर्योक्तयः समभवन्नभिमानगर्भाः । तेषां प्रतापनृपवीक्षणकातराणां तत्रैव दीनवचनानि समुद्भवन्ति ।। सूक्ष्मालंकारः । अथ सूक्ष्मालंकारो निरूप्यते। असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्म उच्यते। विद्ग्धमात्रज्ञेयस्यार्थस्य यत्राकारेङ्गिताभ्यां प्रकाशनं स सूक्ष्मा- लंकारः। यथा- * गुरुअणसविहम्मि वहू दट्ठूण णरेंदपेसिआं दूइं। सव्वंगेसु सहासं कत्थूरिविलेवणं कुणइ ।। * गुरुजनसविधे वधूर्दृट्टरा नरेन्द्रप्रेषितां दूतीम्। सर्वाज्ञिषु सहासं कस्तूरीविलेपनं करोति।। पाताललोकेशितु: फणभृतः शेषस्य। सर्वंधुरां वहतीति सर्वधुरीणः । 'खः सर्वधुरात्' इति खप्रत्ययः । विश्वधुरीणेति पाठे अत्रैव 'खः' इति योगविभागात् खप्रत्ययः । एकस्यानेकत्र वर्तनं योजयति-अत्रेति ॥ येषामिति ॥। निजवधूसविधे योषिन्मध्ये । अभिमानगर्भा गर्वगुम्फिताः । तत्रैव मुखे दीनवचनानि त्रायस्वेत्यादिवाक्यानि समुद्भवन्ति। अत्रैकस्मिन् मुखे शौर्योकीनां दीनवचनानां च क्रमेण वृत्तिः। एकलानेकवृत्तिप्रस सेनैकस्य संलक्षितत्वासंलक्षितत्वसंबन्धात् पर्यायानन्तरं सूक्ष्मं लक्षयति-असंल- क्षितेति। असंलक्षितस्य स्थूलबुद्धीनामसंवेद्यस्य सूक्ष्म स्ये्निताकाराभ्यां तीक्ष्ण- बुद्धिसंवेद्यस्यार्थस्य प्रकाशो विदग्धं प्रति प्रकाशनं यत्र स सूक्ष्मालंकार इत्यर्थः । व्याचष्टे-विदग्धेति ॥ इक्ञिताकारयोर्लक्षणमाह चक्रवर्ती-'आकृतिव्यजि- ताक्षेष्टा इत्ितं बुद्धिकारिताः । आकारः पुनराम्रातस्ता एवाबुद्धिकारिताः ॥' तथा 'तारापुटभ्रूदृष्टयादेर्विकारानिशितं विदुः। आकारः सत्त्वजा भावा आद्या बुद्धया परेऽन्यथा ॥' इति। उदाहरति-गुर्विति । अत्र दूत्याः संकेतसमय- जिज्ञासायां तदीयेन भ्रूभज्ञादिनेज्वितेनोपलभ्य प्रगल्भवध्वा रात्रिसमयः संके

Page 345

३३६ प्रतापरुद्रीये रत्नापणसहिते

अत्र कस्तूरीविलेपनेन तिमिरसमयः संकेतकाल इति प्रका- शितम्। अथोदात्तालंकार: कथ्यते । तस्यापि लोकन्यायमूलतै- वानन्तर्यकारणम्। उदाच्तालंकारः । तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते। यत्र महासमृद्धिशालिनो वस्तुनो वर्णनं क्रियते तत्रोदात्तालं- कारः। यथा- रम्यामे कशिलाभिधाननगरीमासेदिवांसो बुधा: सौवर्णेषु गृहेषु रत्नरचितद्वास्तोरणेषु स्थिताः । आरुह्याङ्गणमेदिनीषु कलभान् क्रीडोत्सुकानर्भकान् मोदन्ते यद्वेक्ष्य रुद्रनृपतेस्तत्त्यागलीलायितम्।। तकाल इति कस्तूरीविलेपनेन प्रकाश्यते। 'वक्तस्यन्दिस्वेदविन्दुप्रबन्धैर्दष्टा मिननं कुक्कुमं कापि कण्ठे। पुंस्त्वं तन्व्या व्यज्ञयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख ।I' इत्यत्र स्वेदबिन्दुनिमित्तकुङ्कुममेदलक्षणाकारसूचितं पुरुषा- यितं पाणौ कृपाणलेखनेन पुरुषैकयोग्येन प्रकाश्यत इत्याकारनिबन्धनः सूक्ष्मः। उदात्तमाह-अथेति ॥ तस्य संगतिमाह-तस्येति ॥ लक्षणमाह- तदिति॥ व्याचष्टे-यत्रेति ॥ महासमृद्धिशालिनः कविप्रतिभाप्राहैश्वर्यशालिन इत्यलौकिकत्वकथनादलंकारत्वम् । रम्यामिति ॥ आसेदिवांसः प्राप्ताः । कलभान् बालगजान्। मोदन्त इति यत् तत् त्यागलीलायितं ल्यागलीला। लोहितादिक्यषन्तात् भावे कः। अञभूतमहापुरुषचरितं चोदात्तम्। यथा- 'तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी। निवसन् बाहुसहायक्षकार रक्ष:क्षयं रामः ।I' अत्रारण्ये वर्णनीये रामचरितमन्त्वेन वर्णितमिति मतान्त- रानुसारेण सर्वस्कारः । तथा हि-यत्र रसादयो वाक्यार्थीभूतास्तत्र रसवदा- दयोऽलंकारा इत्यलंकारमात्ररसिका भामहादयः । तन्मते यथा वाक्यार्थीभा- वादज्भूतो रसादिः तथाज्भूतमहापुरुषचरितवर्णनात्मको द्वितीयोदात्त उप- पद्मते। ध्वनिदर्शने तु काव्यात्मनो रसादेः प्राधान्यदशायामलंकार्यत्वादलंकार- भावो नोपपद्यते। तदुक्त ध्वन्याचार्यैः-'रसभावतदाभासभावशान्त्यादिरक्रमः । ध्वनेरात्मान्निभावेन भासमानो व्यवस्थितः ॥' इति। यत्र रसस्वरूपे वस्तुमाले- Sलंकारतायोग्ये वाक्यार्थीभावेन प्रधानेऽञ्ञभूता रसादयस्तत्र रसवदाद्यलंकारा एव। तदपि तैरेवोक्तम्-'प्रधानेऽन्यत्र वाक्यार्थे यत्राञ्ं तु रसादयः। काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥' इति। तदा द्वितीयोदात्तस्य विषय एव नास्तीति सर्वसहृदयम्। अत एव ध्वनिदर्शनानुसारी विद्यानाथोऽपि

Page 346

अर्थालंकारप्रकरणम् । ३३७

परिवृत्त्यलंकारः । अथ समानन्यायात् परिवृत्तिर्निरूप्यते। समन्यूनाधिकानां च यदा विनिमयो भवेत्। साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥ समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः । समेन समपरिवृत्तिः, न्यूनेनाधिकपरिवृत्तिः, अधिकेन न्यूनपरिवृत्तिश्च्ेति। समेन समपरिवृत्तिर्यथा- सुधारसमुचो वाचो दत्त्वा काकतिभूसुजे। अतो लभन्ते कवयः सहस्रं गन्धसिन्धुरान्॥ अत्र वचसां गन्धसिन्धुराणां च समत्वम्। न्यूनेनाधिकपरिवृत्तिर्यथा- उपायनं गजाश्वादि कृत्वा सर्वेऽपि भूसुजः । प्रतापरुद्रदेवस्य लभन्ते सुस्थिरां कृपाम् ।। अत्र त्यज्यमानादुपायनादेरादीयमानस्य प्रातपरुद्रकृपाविलसि- तस्यैवाधिक्यम्। अधिकेन न्यूनपरिवृत्तिर्यथा- प्रतापरुद्रेण रणे जिताः प्रत्यार्थिभूमुजः । दत्वा भूषां किरातेभ्यो लभन्ते वल्कलादिकम् ॥ अत्र त्यज्यमानादाभरणजातादादीयमानस्य वल्कलादेर्न्यूनत्वम्। द्वितीयमुदात्तं नान्नीचकारेति रहस्यम्। नन्वैवं तर्हि रसवदादयः किमिति नानीक्रियन्त इति चेन्मैवम्। रसप्रकरण एव तत्सरूपनिरूपणात्। किं तूदा- हरणमलंकार प्रकरणे भविष्यतीति प्रतिज्ञाय केन वामिप्रायेणेह नोदाहृतम् । अस्मामिस्तु तत्रैव दिड्मात्रमुदाहृतमिति नेह पुनः प्रयत्यते। समृद्धिकार्य- त्वात् विनिमयस्य तद्रूपां परिवृत्तिमुदात्तानन्तरं निरूपयति-अथेति ॥ समा- नन्यायात् लोकव्यवहाररूपात् । समेति ॥ किंचित् दत्वा कस्यच्चिदादानं वि- निमयः । समस्य समेन न्यूनस्याधिकेनाधिकस्य न्यूनेन विनिमय इति त्रेधा परिवृत्तिः । समेन समपरिवृत्तिमुदाहरति-सुधेति ॥ अतः काकतीन्द्रात्। गन्धसिन्धुरान् गन्धगजान्। लक्षणमुक्त नाटके। न्यूनेनाधिकपरिवृत्तिमुदाहरति- उपायनमिति। अधिकेन न्यूनपरिवृत्तिमुदाहरति-प्रतापेति। अनन्तराल- प्र 29

Page 347

३३८ प्रतापरुद्रीये रत्नापणसहिते

अथ शृङ्गलान्यायमूलालंकारा निरूप्यन्ते। कारणमालालंकार: । पूर्वपूर्व प्रति यदा हेतु: स्यादुत्तरोत्तरम् । तदा कारणमालाख्यमलंकरणमुच्यते।। यदा पूर्वपूर्व क्रमेणोत्तरोत्तरं प्रति हेतुतां भजते स कारणमाला- ख्योऽलंकारः। यथा- विद्यया विनयोत्कर्षो विनयेन गुणार्जनम् । गुणैः प्रजानुरागञ्च क्रमोऽयं काकतीश्व्वरे ॥ एकावल्यलंकार: । यत्रोत्तरोत्तरेषां स्यात् पूर्व पूर्व प्रति क्रमात् । विशेषणत्वकथनमसावेकावली मता ॥ यत्र.पूर्वपूर्व प्रति क्रमेणोत्तरोत्तरं विशेषणत्वं भजते स एकावल्य- लंकारः। यथा- प्रतापरुद्रनगरी सुजनैरुपशोभिता । सुजना: स्फीतविभवैर्विभवाः स्थैर्यशालिनः ।। एतत्स्थापनेनोदाहरणम्। अपोह्नेनापि भवति। यथा- न तद्राज्यं प्रजा यत्र न भवन्त्यूर्जितश्रियः । न ताः प्रजाः प्रभुर्यासां न स्वयं काकतीश्ववरः ॥ द्वारचतुष्टयस्य संगतिमाह-अथेति ॥ कारणमालां लक्षयति-पूर्वपूर्वमिति॥ प्रतिशब्दो मिन्नक्रमः । तेन पूर्वपूर्वस्योत्तरोत्तरहेतुत्वे कारणमालेत्यर्थः । तथा व्याचष्टे-यदेति । विद्ययेति ।I विद्यादयो विनयादीन् प्रति हेतवः । ईषदेतद्वैपरीत्यादेकावलीं लक्षयति-यत्रेति॥ पूर्वपूर्व प्रत्युत्तरोत्तरस्य विशेष- णत्वं स्थापनेनापोहनेन च द्वैविध्यमनुभवतीत्येकावलीं द्विधा करोति। आद्यमु- दाहरति-प्रतापेति ।। अत्र नगर्यादेः पूर्वपूर्वस्य सुजनाद्युत्तरोत्तर स्थापनेन विशेषणत्व भजते। द्वितीयमुदाहरति-न तद्राज्यमिति॥ अत्र राज्यादेः पूर्व- पूर्वस्य प्रजायुत्तरोत्तरमपोहनेन विशेषणत्वं भजते। पूर्वपूर्व प्रत्युत्तरोत्तरस्योत्कर्षहे- तुत्नेनेकावलीमुक्त्वोत्तरोश्तरं प्रति पूर्वपूर्वस्योत्कर्षहेतुत्वे मालादीपकमाह-यदेति।

Page 348

अर्थालंकार प्रकरणम्। ३३९

मालादीपकालंकारः । यदा तु पूर्वपूर्वस्य संभवेदुचरोत्तरम् । प्रत्युत्कर्षावहत्वं तन्मालादीपकमुच्यते । यत्र पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वं स मालादीपकालंकरः । यथा- भाग्यभूमा महीं प्राप्तः काकतीन्द्रभुजं मही। भुजः प्रतापमतुलं प्रतापश्च जगत्रयम् ॥ सारालंकार:। उत्तरोत्तरमुत्कर्षः सारालंकार उच्यते। यथा- जगत्सु वसुधा भाति तस्यामेकशिलापुरी। काकतीयान्वयस्तत्र तस्मिन् रुद्रनरेश्वरः । सकलभुवनसारभूतं प्रतापरुद्रं विषयीकुर्वतश्च्च्चिरादस्यालंकारस्य सार इत्यन्वर्थाभिधानम्॥

इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकार- शास्त्रेऽर्थालंकारप्रकरणं समा्तम्।

भाग्येति ।। अत्र भाग्यातिशयादिमिर्मद्यादीनामुत्कर्षः क्रमेण विधी- यते। परिशेषात् सारं लक्षयति- उत्तरोत्तरमिति॥ जगत्स्वति॥ अत्र जगदपेक्षया वसुधाया उत्कर्षः । तदपेक्षया एकशिलाया इस्यादिक्रमेणोत्कर्षों रुद्रनरेश्वरे विश्राम्यति॥ इति पदवाक्य प्रमाणपारावारपारीणश्रीमहोपाध्यायकोलचलमल्िनाथ- सूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणेः पेद्यार्यस्यानुजेन कुमारखवामिसोमपीथिना विरचिते प्रतापरुद्रीयव्याख्याने रन्नापणाख्याने अर्थालंकारनिरूपर्ण नाम अष्टमं प्रकरणम् ।

Page 349

। अथ मिश्रालंकारप्रकरणम् ॥।

अथ संसृष्टिसंकरौ निरूप्येते। यथा लौकिकानामलंकाराणां हिरण्मयानां मणिमयानां च पृथक् सौन्दर्यहेतूनामन्योन्यसंबन्धेन चारुत्वातिशयो दृश्यते तथैव काव्यालंकाराणां रूपकादीनां मिथः संबन्धेन सौन्दर्यातिशयः प्रतीयते। स च संबन्धो द्विविध :- संयोगरूपः समवायरूपश्च्ेति। संयोगे तिलतण्डुलन्यायः । समवाये क्षीरनीरन्यायः । तिलतण्डुलन्यायेन संबन्धे संसृष्टिः। क्षीरनीरन्यायेन संबन्धे संकरः। अनयोः पृथक्चारुत्वातिशयहेतु- त्वादलंकारघुरन्धरत्वम्। न तु पूर्वोक्तालंकारशेषता। तत्र प्रथमं संसृष्टिर्निगद्यते। संसृष्टिः। तिलतण्डलसंश्लेषन्यायाद्यत्र परस्परम्। संश्िष्येयुरलंकारा: सा संसष्टिर्निगद्यते॥ यत्र तिलतण्डुलन्यायेन परस्परसंबद्धा रूपकादयो भवन्ति सा संसृष्टिः। सा त्रिविधा-शब्दालंकारगतत्वेनार्थालंकारगतत्वेनोभ- यालंकारगतत्वेन च । शब्दालंकारसंसृष्टिर्यथा- शुम्भत्संभ्रमगन्धसिन्धुरधुरानिर्दारितोर्वीतला- स्त्वङ्गत्तुज्जतुरक्कमप्रतिभया द्राक्स्यन्दनस्यन्दनाः । एकैकालंकारनिरूपणानन्तरं मिश्रालंकारनिरूपणं प्रतिजानीते-अथेति॥ उक्कानामलंकाराणां क्वचित् सहभावे कि पार्थक्येन पर्यवसानमुतालंकारान्तरत्व- मिति विचार्य लौकिकालंकारन्यायेनालंकारान्तरत्वं सिद्धान्तयति-यथति॥ हिर- णमयानां सौवर्णानाम्। दाण्डिनायनादिसूत्रेण निपातनात् साधुः। पृथक मिथः संबन्धाभावेऽपि सौन्दर्यहेतूनां मिथः संबन्धे चारुत्वातिशयस्तथैव रूपका- दीनामित्यर्थः। सौन्दर्यातिशयहेतोः संबन्धस्य द्वैविध्यमाह-स चेति ॥ उत्कट- मेद: संयोगरूपः । अनुत्कटमेदः समवायरूप इत्यर्थः । आद्ये तिलतण्डुलन्यायेन संसृष्टिः । द्वितीये क्षीरनीरन्यायेन संकरः । अनयोः पृथगुपादानं न पूर्वशे- षत्वमित्यर्थः । तत्न प्रथममुत्कटभेदनिबन्धनां संसृष्टि लक्षयति-तिलेति।। तस्यास्रेधा विभागमाह-सेति॥ शब्दालंकारसंसृष्टिमुदाहरति-शुम्भदिति॥

Page 350

मिश्रालंकारप्रकरणम् । ३४१

तीव्रारम्भस मुददुद्भटभटाटोपस्फुरद्दिक्तटा निःसीमाः प्रसरन्ति रुद्रनृपतेजैत्रप्रयाणोद्यमाः ॥ अत्र च्छेकानुप्रासवृत्त्यनुप्रासयो: संसृष्टिः। अर्थालंकारसंसृष्टिर्यथा काकतीन्द्रचमूर्धत्ते महिमानमुदन्वतः । प्रसते या द्विषद्दूपध्वजिनीस्तटिनीरिव॥ अत्र निदर्शनोपमयोः संसृष्टिः। उभयसंसृष्टिर्यथा- प्रतापरुद्रदोर्दण्डो मण्डलाग्रेण मण्डितः । दृश्यते समरे वीरैरुत्फणः फणवानिव ॥ अत्र वृत्त्यनुप्रासोपमयोः संसृष्टिः। अथ संकरो निरूप्यते। संकर:। क्षीरनीरनयाद्यत्र संबन्ध: स्यात् परस्परम्। अलंकृतीनामेतासां संकरः स उदाहृत: ॥ यत्र क्षीरनीरन्यायेनालंकाराणां मिथः संबन्धो भवति से संकरः। तस्याङ्गाङ्गिभावेन संदेहेनैकवाचकानुप्रवेशेन च त्रैविध्यम्। तत्राङ्गा- क्विभावसंकरो यथा- उद् द्वंहित गर्जितैर्द्विप घटाकादम्बिनीसंभ्रमै: क्षोणीभृत्कटकोपरोधपदुभिः प्रावृड्विहारा इव। शत्रुस्त्रीब हुलाश्रुवृष्टिशमितक्ष्माचक्रतापोदया यात्राः काकतिवल्लभस्य जगतामानन्दमातन्वते । शुम्भत्संत्रमा दीप्यमानसरम्भा ये गन्धसिन्धुराः गन्धगजाः तदुरया तद्धारेण निर्दारितं निर्भिन्नमुर्वीतलं येषु तथोक्ताः । त्वज्द्धि: प्रवमानैस्तुअतुरअमैः प्रतिभया भयंकराः । द्राक्स्यन्दनाः शीघ्रधावनाः स्यन्दना रथा येषु ते तथोक्ताः। अत्र धुरधुरा भटभटेत्यत्र च्छेकानुप्रासोऽन्यत्र वृत्यनुप्रासश् संसृज्यते। अर्थालं- कारसंसृष्टिमुदाहरति-काकतीन्द्रेति॥ उदन्वतो महिमानं धत्त इत्यत्रासंभव- द्वर्मयोगेन प्रतिबिम्बकरणाक्षेपाननिदर्शना। तस्यास्तटिनीरिवेत्युपमायाश्ष परस्पर- नैरपेक्ष्यात् संसृष्टिः। उभयसंसृष्टिमुदाहरति-प्रतापेति॥ संकरं लक्षयति- क्षीरेति। यत्रालंकाराणां क्षीरनीरन्यायादनुत्कटमेदः संबन्धः स संकर इत्यर्थः। तस्य त्रेधा विभागमाह-तस्येति ॥ क्रमेणोदाहरति-उद्यदिति ॥क्षोणी- भृत्कटकानां वैरिभूपालराजधानीनामन्यत्र पर्वतनितम्बानामुपरोधपटुमिर्निरो-

Page 351

३४२ प्रतापरुद्रीये रव्नापणसहिते

अत्र यात्राः प्रावृड्विहारा इवेत्युपमालंकारेण द्विपघटाकादम्बि- नीत्यत्रोपमा प्रसाध्यत इति सजातीययोरङ्गाङ्गिभावः। कादम्बि- नीव द्विपघटेति समासाश्रयणात्। क्षोणीभृत्कटकोपरोधेत्यत्र श्रेष- मूलातिशयोक्तिः । विजातीयसंकरो यथा- प्रतापरुद्स्य कृपाणधारा प्रत्यर्थिफालेषु पतन्त्यमन्दम् । प्रक्षालनायेव कृतस्य धात्रा तद्वर्तिनो दुर्लिपिकल्मषस्य । अत्र प्रक्षालनायेवेत्युत्प्रेक्षया दुर्लिपिकल्मषस्येत्यत्र रूपकं प्रसा- ध्यत इति विजातीययोरङ्गाङ्गिभावः। एकवाचकानुप्रविष्टसंकरो यथा विजितारिपुरो मूर्तौ विलसत्सर्वमङ्गलः । भुवि शंभुरिवाभाति काकतीयनरेश्ववरः ॥ अत्र विजितारिपुर इत्यर्थसाम्यादुपमा विलसत्सर्वमङ्गल इति धनसमथैंः । 'कटकं वलये सानौ राजधानीनितम्बयोः' इति विश्वः । शत्रुत्तरी बहुलाश्रुवृष्टधेव शमितः क्ष्माचक्रतापोदयो भूमण्डलसंतापातिशयो यासु तास्त- योक्ताः । दुष्टनिग्रहेण भूभारोऽवतरतीति भावः । सजातीयसंकरं योजयति- अत्रेति । उपमा प्रसाध्यत इति ॥ रूपकत्वे द्विपघटारूपविषयस्थगने कादम्बिनीरूपोपमानस्य सविशेषणत्वं नोपमेयस्य। अतोऽधिकोपमं नाम दोष: स्यात। तस्मादुपमा प्रसाध्यत इति भावः । यात्राः प्राबृड्विहारा इवेल्य- स्या अनुग्राह्यत्वादज्ञित्वम् । द्विपघटाकादम्बिनीत्यस्या अनुग्राहकत्वादअत्वम् । अतोऽनयोरज्ाज्निभावेन संकरः । अत्विनोः अन्योन्यं चमत्कारहेतुत्वान्मिश्रणेऽति रामणीयकं द्रष्टव्यम्। तर्हि द्विपघटाकादम्बिनीत्यत्र केन समासेनोपमालाभ इत्याकाल्लायामाह-कादस्विनीव द्विपघटेति । 'उपमितं व्याघ्रादिमिः' इति समासः । अभ्युच्चयमाह-क्षोणीभृदिति ॥ क्षोणीभृत्कटकशब्देन शत्रु- राजधानीपर्वतनितम्त्रयोरभिध्रानाच्छ्लेषः । उभयोरमेदाध्यवसायात् श्रलेषमूलाति- शयोकतिरित्यर्थः । इयं च द्विपघटाकादम्बिनीत्यत्रोपमाया अज्तम् । तेनातिशयो- स्यनुगृहीतया तया यात्राः प्रावृड्विहारा इवेत्युपमानुगृह्यत इति फलितम् । विजातीयसंकरमुदाहरति-प्रतापेति॥ कृपाणस्य धारा कोटिरुदकधारा च। अमन्दमनल्पम् । तद्वर्तिनः प्रत्यर्थिफालवर्तिनो दुर्लिपिरेव कल्मर्ष पङ्कं तस्य क्षालनायेवेति फलोत्प्रेक्षा। अत्र क्षालनयोग्यस्य कल्मषस्य प्राधान्यं रूपकेणैव लभ्यते नान्यथेत्युत्प्रेक्षया रूपकं प्रसाध्यत इति रूपकोत्प्रेक्षयोर्विजातीययोरन्यो- न्यसापेक्षत्वादज्ञाज्निभावेन संकरः । एकवाचकानुप्रविष्टं संकरमुदाहरति-वि- जितेति ॥ योजयति-अत्रेति ॥ विजितारिपुर इत्यत्र शब्दपरिवृत्तिसहि-

Page 352

मिश्रालंकारप्रकरणम् । ३४३

शब्दसाम्यात् श्लेषश्च शम्भुरिवेत्येकस्मिन्निवशब्देऽनुप्रविष्टौ। संदेह- संकरो यथा- जातः प्रतापरुद्रेन्दुः काकतीयान्वयाम्बुधौ। धत्ते जनचकोराणां प्रसादज्योत्स्नयामृतम् । अत्र काकतीयकुलाम्बुधौ इत्यादौ रूपकोपमयोः संदेहसंकरः । काकतीयान्वय एवाम्बुधि: काकातीयान्वयोऽम्बुधिरिवेति समासद्वय- संभवात्। न चात्र साधकं बाधकं वा प्रमाणमन्यतरस्यास्तीति संदेह एव पर्यवस्यति। साधकबाधकप्रमाणसंभवे तु संदेहनिवृत्तिः। अत्र साधकं यथा- प्रतापरुद्रनृपतेः पारिजातात् समुद्धवाः । वतसयन्ति दिङूनार्यो मधुराः कीर्तिमञ्जरीः ॥ अत्र कीर्तय एव मञ्जर्य इति रूपकालंकारे वतसयन्तीति साधकं प्रमाणम्। अवतंसीकरणेनाभेदप्रतीतिः । बाधकं यथा- काकतीन्द्रस्य निःसाणध्वनौ दिक्षु विजम्भिते । व्याकुलीकृतसत्त्वोऽभूत् प्रतिपक्षबलार्णवः ।। ष्णुत्वादर्थसाम्यम्। विलसत्सर्वमज्ञल इत्यत्र तदभावाच्छब्दसाम्यम्। तावुप- माश्लेषावेकस्मिन्निवशब्देऽनुप्रविष्टौ। तस्योभयोपकारित्वादिति भावः । संदेहसं- करमुदाहरति-जात इति॥ योजयति-अत्र कुलाम्बुधावित्यादौ ... समासद्वयसंभवादिति॥ मयूरव्यंसकादीनां चाकृतिगणत्वाद्रूपकोपमितस- मासद्वयसंभवादित्यर्थः । नन्वत्रामृतदानस्य चन्द्र एव प्रसिद्धत्वात् प्रतापरुद्र एवेन्दुरिति रूपकमेव नोपमेति चेन्मैवम्। औपचारिकस्यामृतदानस्य प्रताप- रुद्रेऽपि संभवात् उपमाया बाधकाभावात्। तेनात्र रूपकोपमयोः संदेह एव पर्यवस्यतीत्याह-न चेति ॥ साधकमनुकूलं बाधकं प्रति- कूलम्। तत्सद्धावे संदेह एव निवर्तत इत्यर्थः । तर्हिं कुत्र साधकं कुत्र वा बाधकमित्याकाक्कायां क्रमेण दर्शयति-प्रतापेति ॥ प्रतापरुद्रनृपति- रूपात् पारिजातात्। वतसयन्तीत्यत्र 'वष्टि भागुरिरह्वोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । अत्र वर्तसीकरणं मजरीष्वेवानुगुणमिति रूपकपरिग्रहे साधक- मित्याह-अत्रेति। तन्रोपोद्वलकमाह-वतंसीकरणेनाभेदप्रतीतिरिति।। न पुनरुपमायामिव मेदाभेदप्रतीतिरिति भावः। बाधकं दर्शयति-काकती- न्द्रस्येति॥ दिक्षु निस्साणध्वनौ विजृम्भिते व्याप्ते सति। प्रतिपक्षबलमेवार्णयो

Page 353

३४४ प्रतापरुद्रीये रन्नापणसहिते

अत्र प्रतिपक्षबलार्णव इत्युपमाया व्याकुलीकृतसत्त्व इति बाधकं प्रमाणम्। 'उपमितं व्याघ्रादिभि: सामान्याप्रयोगे' इत्यनुशासनेन सामान्यप्रयोगस्योपमाबाधकत्वात्। अतः पारिशेष्याद्रूपकालंकारः। एवं यथासंभवमन्येषामलंकाराणां संसृष्टिसंकरौ बोद्धव्यौ तत्र तत्र प्रबन्धेषु ॥।

इति श्रीविद्यानाथमहोपाध्यायकृतौ प्रतापरुद्रयशोभूषणेऽलंकार- शास्त्रे मिश्रालंकारप्रकरणं समाप्तम्। प्रतापरुद्रीयं नामालंकारशास्त्रं समाप्तम् ।।

व्याकुलीकृतानि कलुषीकृतानि सत्त्वान्यन्तःकरणानि प्राणिनश्च यस्य स तथोक्तः। बाधकं योजयति-अत्रेति॥ प्रतिपक्षबलमर्णव इवेत्युपमितसमासस्य व्याकुलीकृतसत्त्व इति सामान्यप्रयोगस्य बाधकत्वात् परिशेषात् रूपकमेवेत्यर्थः । अलंकारान्तरसंकरसंसृष्टिप्रपथ्ः प्रबन्धान्तरेषु द्रष्टव्य इत्याह-एवमिति ॥ विवेकिनामेतावतैवेतरदपि सुबोधमिति विस्तरमीरुमिरस्मामिरुपरम्यत इति सर्वमवदातम् ॥

जगति निखिलविद्यासिन्धुमुष्टिंधयानां परभणितिपरीक्षा युज्यते सज्जनानाम्। तदिह मम निबन्धे दूषणं भूषणं वा भवति यदि विदग्धैस्तद्धयवश्यं विमृश्यम्॥

इति पदवाक्यप्रमाणपारावारपारीणश्रीमहोपाध्यायकोलचलमहिनाथ- सूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणेः पेद्दयार्यस्यानुजेन कुमारखामिसोमपीथिना विरचिते प्रतापरुद्रीयव्याख्याने रत्नापणाख्याने मिश्रालंकारनिरूपणं नाम नवमं प्रकरणम्।।

Page 354

प्रतापरुद्रीयम् ३४५

पद्मबन्धः ।

(पृष्ठं २५१)

न ति मि फ लि त क त्र सु कृ ति v 信 지 시 ) 正 소 버 쇠 스 설 地 上 公 丛 上 止

सुखय क ल

क 22

Page 355

३४६ प्रतापरुद्रीयम्

चक्रबन्धः ।

(पृष्ठं २५२)

2 : 信 新 工 明 食 す 订 市 可 मो दि ता क्ष्वा न त्म

भु जे 과 과 복 과 요 의 석 회 2 외 出 와 山 회 의 객 요 ~

과 当 上 品 や 1 여 월 식 의 리 식 스 소 보 시 회 의 최 고 과 릭 식 시 서 쇠 과 |". ज स्मा

4

ग्या द्ध त्वा श्रि

Page 356

प्रतापरुद्रीयम् ३४७

नागबन्धः ।

(पृष्ठं २५२-३)

ओ ज स्ये ति भा च मलि न ख्या मु रु हरि न स्था ट्र वर्ये भि यो ह वि

द्ा श्र्व द्धा भ स्ता भ वि पेता प्र ध्वर न्यैव व्रान्य ति क्ष रि वा ता जिसया म हि वै

Page 357

। लक्ष्यश्लोकसूची ॥

पार्श्वम् पार्श्वम्

अखर्वगर्वदुर्वार २२३ आणेदुं णरणाहं अप्ञा: सज्जरमीरवः १३२ आदेष्टा कुलदेवता १४१ अज्ञेषु जीर्णेषु विभूष २०१ आमूलात्फलिता १२१ अद्यान्वयः काकति १३९ आरूढ वरवीररुद्र १४५ अध्यधःपरिसंश्लिष्टाः २४० आरोहता रुद्रनरेश्वरेण ३०६ अनन्यसाधारणदानशौण्डे २८५ आलानं तरसा निपाठ्य १३४ अंधवुरभामिणिजणो १८१ आविष्कुर्वन्ति मुरजा: ९४ अन्ध्रक्षमामृत्सुभटासि २९० आशामण्डलकूलमु २३७ अन्योन्यभाषणमनञ् १९९ आशासु प्रशमित ३२० अपारकरुणानिधे: ३०३ आशिषां विषधूम्राणां २८५ २९४ आसन्नेऽपि महोत्सवे ४५ अप्राप्य सेवावसरं ६३ आसन्नेऽपि महोत्सवे २०४ अब्दानृतून्विना ५९ आस्तां जयाशा रिपु ३०७ अभयं याचमानानां ६२ आस्तां मृगाक्ष्या गृह १७६ अभिप्रेतपदावासः २१७ ईशानं समया जगत्यटति ३०० अभ्यापतन्तीरमित: १२० ईषद्ङगुरित विभ्रम २८ अमदः सार्वभौमोऽपि ३०१ उग्र: सपल्नेषु गुणेषु २७७ अमन्दानन्दनिष्यन्द २३५ उग्रैः काकतिवीररुद्र २९८ अमी पारेसरस्तीरं २२९ उत्क्षिप्योत्क्षिप्य पादौ ११९ अम्बिकारमणस्यान्ि २१७ उदन्वानिव गम्मीरः २५५ अरण्यमहिषोदग्र २३१ उदाररीत्या भुजया २८२ अरण्यवासार्जितबान्धवासु २८५ उद्गायन्ति शरन्निशाकर ११० अरे भूपाश्चापान् १८३ उद्दामद्विर दौघदानलहरी २३७ अवतरति वीररुद्रे २८ उद्दामोद्यतविक्रमे २५८ अविज्ञातायातं खम १९३ उद्यत्तोमरडामरा: ११८ असतामुष्णभानूष्णं २६४ उद्यद्दोः स्तम्भखङ्ग ४८ अहिआईए गुणेहिं १७५ उदद्वंहितगर्जितः २९ आअच्छइ एव्व पिए १७६ उद्द्वंहितगर्जितः ३४१ आध्राय किरणान् १११ उद्वेजिता रुद्रनरेश्वरस्य आघ्राय सुरमेर्योनिमू ३२४ २३० उद्देल्च्चतुरर्णवीकल १२७

Page 358

लक्ष्यश्ोकसूची। ३४९

पार्श्वम् पार्श्वमु

२७६ काकतीयकुले लक्ष्मी ३२२ उन्मस्तकैर्मध्यमलोक १०७ काकतीयनेरन्द्रस्य कीर्ति ४७, २३९ उपायन गजाश्वादि ३३७ काकतीयनरेन्द्रस्य यशो उरोमा त्रोत्सेधं भवदपि १७१ काकतीयनरेन्द्रस्य राज्य ११२ उवह हळा बहुआए ६३ काकतीयपतिशौर्य ३३३ एअसिलामहिलाणं ६८ काकतीय प्रतापोष्म २८६ एष जिष्णुविहारोऽपि ३०२ काकतीयप्रदीपोऽयं १२३ एष विन्ध्याचलः २२९ काकतीयविभो: कीर्ति ६० एसो सर्च राओ ६४ काकतीयविभो: कीर्ति २५६, २७६ ओजस्ये रुद्रदेवे २५२ काकतीयविभो: कीर्ला ३१९ ओसरइ सहीहि सम औनत्यं महदन्यदेव ४४, १६८, २८७ ६१ काकतीयस्य दुग्धाब्घे: २७२ काकतीयामिजातोऽयं ३३४ औनत्यं यदि वर्ण्यते ६६ का नाम गणनास्मासु २१९ कथमपि गमयित्वा १७७ कान्तारवास संतप्ताः ६४ कदाचित्कल्याणे १०६ काम्भोजाः क्षतकुम्भिनी १३३ कपोलफलकावस्या: २८३ कालाहिः किमयं २७५ कराल: काकतीन्द्रस्य ६७ कालिजात्र निषीद १४८ करिकुम्भौ स्तनावद्य २२७ किमद् व्युत्पत्तिस्तव ३२८ करोदग्रेण मह्सा ११७ किमेष नवमो हरित्पतिर २५६, २७४ कलापूर्णे नित्यं २९१ किं कल्पद्रुममजजरीत्नज २७५ कल्याणी सकलापि १४१ किं णु धर्ण कुलविज्जा ३२८ कस्ते सुन्दरि वर्तते २९७ किं नामाचरितं तप: १८ कस्तवं शुभ्राखिलान्न ६२ किं भारईए सुव्वइ ९६ कस्स किए केण किअं १९० किं मण्डरनं त्रिलोक्याः ३२६ काअइपुरेत्थिआओ १७१ किं राज्येन शमोन्मुखं काकतिक्ष्मापतेर्जैत्र ११३ २६० किं लब्ध चतुराननेन काकतिक्ष्मापतेर्दृष्टिः १६९ ६७ किं लोकश्रवसोर्भाग्यं ९6 का कतीन्द्रकृपादृष्टि ३१२ किं वा क्षौमवितानं ३२७ काकतीन्द्र चमूर्धत्ते ३४१ किरीटमाणिक्यमयूख २७४ काकतीन्द्रद्विषत्कान्ता ३१३ कीर्तिः काकतिवीररुद्र २५४, २८१ काकतीन्द्रस्य निस्साण ३४३ कीर्तो प्रतापरुदस्य २८ काकतीन्द्रो रणे भाति २६४ कीर्ता प्रतापरुदस्य काकतीयकुलाम्भोधे: ३२२ ३८ कुतः कान्तारवृत्तीनां २१७ प्र 30

Page 359

३५० प्रतापरुद्रीये

पार्श्वम् पार्श्वम्

कुतः शुष्यदपा नद्यः २२६ कुतो वैमुख्यमस्मासु गुहा गृहाणि शबरा २२६ २२४ गेहइ काअइणाहे १९१ कुन्दति कुमुदति हंसति २६७ गोठ्ठीए महिलाणं १८४ कुलवहुआए ण जुज्जइ १८९ गोत्तगिरिसिहर कूर्मवच्छेषवद्ोत्र ११५ २५८ गोष्ठीमिः परितोषयन् १२ कूर्मेन्द्रपन्नगाधीश ३०९ चकास्ति काकतीन्द्रस्य २८४ कैलासदुग्धार्णवयान २९९ चन्द्रानना: कटाक्षैर्न: २२८ को वा शस्त्रग्रहण १८१ को संसओ महिअले चन्द्रास्ये कथम १९७ १८४ ११ कौसल्यासीत्प्रथम चातुर्य किमु वर्ण्यते १२ क्रीडाद्रीयति गोत्रशैल चिंततीए णरेंद १९८ २६१ चिह्ान्यस्य पदाब्जयो: १५३ क्व भूपालास्तादृग्विभव ३०७ छिनोदद्वैरिवीर १२९ क्वापि कापि कलिज़मालव ३०४ जगत्सु वसुधा भाति ३३९ क्षामक्षाममुखाः कान्ताः २२२ जग्ध्वा भूयांसि २३६ क्षु्घेष्वब्धिषु संभ्रमात् क्षोणीपाणिग्रहणसमये १६६ जयश्रियामाश्रयतामुपेतः २८४ २९८ क्षोणी विभ्रतु भूमृत: जयश्रीवासपद्मस्य २७९

क्षोणी रुद्रनराधीशे ३११ जह जह हसइ १९४ ३२७ क्षोणीरक्षणदक्षिणाः जह तह व होदु ६२ २९, ५२, २३८ खग्गे जुज्झविर्जिमिए जह हरिचंदस्स भुए ११५ २९, ५२ जागर्तु राजशब्दोऽयं १५२ खग्गाघातनिकृत्त ४४ जातः प्रतापरुद्रेन्दुः ३४३ गच्छाग्रे सखि का २२ जाता वय सप्रति गमिअं कह कह वि २८४ १९६ गाढालिक़नसंमर्द जिअमअणरूवसारो १७२ १०१ जितत्रैलोक्यलावण्या १८८ गाधा इवार्णवा जाता गाम्भीर्यमौन्नत्यमनर्गलत्वं ३२१ जितमदनविलासं ४३ ३२५ जित्वा प्रतीचीमथ गायन्तीरनुमोदते १३० १४, १४५ जिष्णुरिन्द्र: क्षितिभुजां २५० गुणा गुणास्ते गण्यन्ते २५० जिष्णुरेष भुजस्तम्भ ६४ गुणा लंकार श्रीकृत २०८ जीर्णकाननसंकीर्णे जेतुः काकतिभूभर्तुः २२० गुणा लंकाराणां रस २७ गुणैस्तत्रासक्क मम ३६ १८६ जेतुः काकतिवीररुद्रनृपतेः ४८, २३६ गुरुअणसविहम्मि ३३५ जेत्रा काकतिवीररुद्र गुरुप्रमाणेण निजेन १२४ २९४ ज्ञात्वाप्यन्ध्रपुरीन्द्रस्य २२१

Page 360

लक्ष्यश्लोकसूची । ३५१

पार्श्रम पार्श्वम्

ज्योत्तीयन्ति सुधीयन्ति २६२ दिशां जेतुर्विश्वप्रसृत २८२ ज्वलत्प्रतापरौद्रोऽपि ३०२ दिश्युत्तरस्यां नेदीयान् २३१ ण मुणदु अण्णोत्ति १७५ दुग्धार्णवशतायेव २८६ णरणाह चंदधवले १७३ दुग्धार्णवीयत्यम्भोधीन् २६० तत्वं यस्य परः पुमान् ३० दुर्दशां प्रतिपन्नाना २२४ तथा समालोकनकौतु १७९ ३२४ तपोविशेषैः प्रथितैः दुष्टोऽपि महतां संगात् ३५ दूरादाकर्ण्य विश्वप्रस ४४, १६७ तं सुजातं समुद्वीक्ष्य ९८ दूसेइ चंदसिठ्ठिं १९७ तह णिउणो तह १९६ दृष्टया पश्यसि केवलं २० तह तह अणुणअंतो २३ टृष्ट्रा काकतिवीर ५९ तादृक्पालनसामर्थ्य २५९ दृष्ट्रा रुद्रनरेन्द्रं १७९ तादड्मध्यमलोक ८ दृष्ट्रा खप्ने कुपित १८२ तेज:पर्यायहरयोः ९७ देयात्सिद्धि महालक्ष्मी: ९३ तेलोकं वहइ मही १७४ देवे काकतिवीररुद्र नृपतौ ३३० तैस्तैमहीपालनसंविधानै २५९ दोराशीविषजिह्रया २७२ त्रायस्वेत्यनुवाद एव १५३ २६७ त्रासान्धकारमध्याह्ाः २७३ धर्मद्विषामर्थमुषां च ३०१ त्रैलोक्यप्रथमान २४ १३ त्रैलोक्यप्रथमान ३२९ धर्मोडर्थ इव पूर्णश्रीः १४ त्रैलोक्यसारोऽपि ३२६ धर्मोडर्थ इव पूर्णश्रीः २५६, २६८ त्वया दारैरुदारश्रीः ९९ धातर्निष्करुणोऽसि १६५ दइआलिंगणणिन्भर १७२ धावत्पादातपादा ११७ दट्ठुमणा वि ण पेक्खइ ३२० धावन्मृगेषु संत्राम्यत् २२५ दन्तिव्यूहमुपायनी १३८ ध्वजाग्रे काकतीन्द्रस्य ३३३ दम्भोलिसंरम्भमहाजि २८३ न तद्राज्यं प्रजा ३३८ -दरह सिअगम्भिणाइं १९५ न नित्यमस्मिन्परि २८५ दंष्टरायां कुहना ३३४ नरेन्द्रमौले न वयं दाक्षिण्यं त्वयि दक्षता नर्मोक्त्यैव निमन्त्रिता ३१७ २३८ १९ दातु: काकतिवंशमण्डन ४९ नलनहुषदिलीपधर्मपुत्र ३०३ दावानलेन्धनं सद्यः २२८ न शङ्कान्या ताहरगुण २२ दिठ्ठा कमलासत्ती २४१ न सशृणुमहे हन्त २१८ दिनकृति कुमुदैर्पतो ३१३ नाथ प्रतापरुद्रस्य ३१८ दिने दिने रुद्रनराधिपस्य २९० निन्दन्त्वद्य कुल्त्रियः २०३

Page 361

३५२ प्रतापरड्रीये

पार्श्वम् पार्श्वम् निर्मर्यादमनोभवो, निर्मलं कुलमुद्देलं १९१ प्रताप: काकतीन्द्र स्य २४९ २२६ निस्साणध्वनिमाकलय्य प्रतापरुद्र इत्येषा ३२३

नीराजयन्त्यन्ध्रपुरी १८० प्रतापरुद्र एवैक: ३११ १४८, २५५ नूनं फालेषु लाटानां प्रतापरुद्रदेवस्य गुण २९१

नूनं विश्वंभराधार २२७ प्रतापरुद्रदेवस्य गुणा २८२ नृपाः प्रणतमूर्धानः प्रतापरुद्रदेवस्य पाद २६० २६६ प्रतापरुद्रदेवस्य मण्डला नृपा: प्रतापरुदस्य २७१.

नृपेषु शिक्षाविधिदण्डचारं ६७ २९९.

पणअकुविआ चिरेण २६१ प्रतापरुद्रदेवेन २८५ १८६ पत्युः काकतिनाथस्य प्रतापरुद्रदेवोऽयं २३४ ३६ पृद्न्यासक्रीडारणित प्रतापरुद्र दोर्दण्डो ३४१

पदे पदे स्खलन्तं १९२ प्रतापरुद्रनगरी ३३८

पझ्माकरोऽपि विलसति १११ प्रतापरुद्रनृपते काक १४४ ३०१ प्रतापरदनृपतेः पारि ३४३ २७२ ३०६

पवनेनानुकूलेन १२ प्रतापरुद्रनृपतेरपारे २७९ १२० प्रतापरुद्रनृपतेरहो पशूनवध्यानालोक्य ३१९

पश्यन्तो भयविह्ला: २८२ प्रतापर्द्रनृपतेजग २६०

पश्यन्त्यात्मजदर्श ३०३ प्रतापरुद्रनृपतेर्धरित्री ३२१ प्रतापरुद्रनृपतेमेण्डलाग्र पाश्ात्त्यानां ध्वजेषु २६१ २५६

पिअविरहं असहंती १३० प्रतापरुद्रनृपतौ ३२९

पिअसहि कहेहि १८५ प्रतापरुद्रस्य कृपाणधारा ३४२

पित्रा सयंभूपति ६८ प्रतापरुद्रस्य गुणाभृतोर्मि २८१

पीत्वा मांसोपदंशं १३४ प्रतापरुदस्य जय १८५

पूर्वै: काकति वंशजैः १२८, २०४ प्रतापरुदस्य दिगन्त २०२

पृच्छन्ती दुग्धसिन्धुं १३८ प्रतापरुद्रस्य दिशां १८५ २३९ पेच्छड़ इमं णरिन्दो प्रतापरुद्रस्य नखेन्दुकान्तिः २८१ ३२९ पेच्छह सहिओ एसा प्रतापरुदरस्य भुज २९९ १८९ पेसेमि मणेत्ति मुहा प्रतापरुद्रस्य भुजान्त १९३ १८१ प्रकाश्ये त्रलोक्ये प्रतापरुदस्य भुजे १७6 २४२ प्रतापरुदस्य महाभिषेक १४६ प्रक्रान्तमुर्वीश्वर १४८ प्रतापरुद्रस्य महाभिषेक २८४ प्रचण्डतरदोर्दण्ड ४७ प्रतापरुदरस्य रणे ६०

Page 362

लक्ष्यश्लोकसूची। ३५३

पार्श्वम् पार्वम् प्रतापरुद्र: स्वंयमिद्ध प्रतापरुद्रेण पराजिताना ३१८ भूपा: सन्तु चिराय १५२

प्रतापरुद्रेण रणे ३०५ भूमृत्सुतामहादेवौ ९४

प्रतापरुद्रे नृपमौलि ३३७ भूमेरकल्पयृक्षत्वात् २८२

प्रतापश्रीतुल्यं क्वचिदपि १८३ भूरस्तु संपन्न १५४

प्रतिभूपालशुद्धान्त २६४ भूरेव भुवनं देव: ३२७. ३२२ भृतात्मा गुणरत्नौघै: प्रत्यग्न प्रसरत्प्रताप २९२

प्रभवे काकतीन्द्राय ५२ भोजा व्यर्थभुजायुधा: १३३

प्रसाधिताशावलयान्तराल: २१९ मथिताद्वैरिवाराशे: २७०.

प्रस्थेभ्यः कुलभूमृतामपि २७० मदश्च्युता नर्तितकर्णताल २९७

प्रासादगर्भवलभीषु १४६ मनूपदेशा: क्व गता: २१६

प्रियमानीय मानिन्या २०१ मन्थानाचल एवैक: ३११

प्रियां सर्वसहां १८४ मन्थानाचलमूल ३७. २१ बले चलति संभ्रम महीमहीनविभवे १४८ ११८ बहुवलहो खु राआ महुराइ रुददणरवइ १९१ २९६ मातः कर्थ काकति २८८

बिभ्रत्युर्वीधुरां गुर्वी २३० मातर्भरति वत्स ९९

विभ्राणान् कबरीर्धृता ३०६ मानेन महतास्मामि २२१

बृंह माणगजाकीर्णा: १६५ मा भूदेकार्णवं विश्वं २२८

बृंहमाणगजाकीर्णा १२० मांसकीकससंकीर्णा: ४६.

ब्रह्मन् मेरुगिरौ २३७ मा होदु कस्स वि १८८ २८८ मुखैः सहस्रेण फणी १४ भणइ अ असंगअरत्थ भद्रां कौतुकवेदि १७५ मुग्धे कस्तव वर्तते २०२ ९३ मुग्घे यन्मनसोऽपि भद्रासनाध्यासिनि २५ ३०९ मुधानुधावनं जातं २३० भद्रासनानि दषदः २२५ मुनौ लोपामुद्रासुहृदि भाइ णलेग किअजुअं १३० ३०९ मुरारैर्य: पूर्व ९ भाईरहिए जलणिही ३१० मूर्धानो यूयमास्माका: ५८ भाग्यभूमा महीं ३३९ मोहसिसिरोवआरा भाग्यं मध्यमलोक १९८

भावे स्थायिनि वर्ध २३५ म्लानापि भूभृतां ३२३ २११ यत्काकतीयनृप १४७ २५८ यत्तेजःप्रतिपक्षभूप ३० भूपा: प्रतापरुद्रस्य ३२४ यत्पूर्व सरसीषु पद्म १७९ भूपाला: क्रियतां मूर्धा ३२८ यथा रुचां स्ामिनि २५९.

Page 363

३५४ प्रतापरुद्रीये

पार्श्वम् पार्श्वम्

यद्रेहे कलकण्ठनादमधुरं १६ राज्ञो यादववंश ३१६ यद्वेदात्प्रभुसंमिताव ४ २३ २३५ रात्रिर्यामत्रयपरिमिता यशःश्रियः काकतिभूपते रिपुतिमिर मुदस्यन् ३१२ यशस्विनी पद्मभवस्य ३२० रुद्दणरेंदस्स गुणे १८८ यस्तताभवदाहव १३१ रेरे छुद्रमहीक्षितः क्षणमितः २४८ यस्त्वद्रोलमहत्तरस्य १५० रेरे घूर्जर जझरोऽसि १६, १३१ ९५ रेरे सेवण कस्तवाय १६६ याता यस्यासमग्रा २५१ लक्ष्मीनिवासगृहमि २५६, २७७ यात्राप्रावृषि वीररूद्र २६९ लक्ष्मीरस्य विलोचनाब्ज २०० यात्रारम्भम हेष्वहं प्रथमिका १२७ लक्ष्मीवीक्षितवैभवस्य २५२ यात्रारम्भविजुम्भमाण २७१ लक्ष्मीस्तवं पुरुषोत्तम २०२ युद्धाय समनह्यन्त १२८ लक्ष्मीः सद्यनि निर्भरं १९२ येषां मुखे निजवधू ३३५ लंधिअमहिलासमअं १९८ यैर्देशस्त्रिमिरेष याति १५१ लच्छी सरई अ १०१ योरऽ्र्य जातस्त्रिलोकी १०३ लावण्यैकखनिर्विधातृ १७० यो रुद्रो रजताचले १०३ लीलाविभ्रमपूर्वरञ्ञ २६, ५० रजोधूमः सेनाव्यतिकर ३२३ लोकालोकगिरीन्द्र कन्दर ११० रज्जंतो भुवणमिद ३०२ लोके काकतिवीररुद्र २६३ रणाङ्गणे रुद्रनरेन्द्र ३३१ लोकेषु त्रिषु काक २३९ रथा: सरभसं ११९ लोकोSयमविशेषज्ञः २५५ रथेनामिमुखायातं १२८ वदान्यतरुमअरीसुरभयः २३४ रम्यामेकशिलामिधान ३३६ वदान्यो नान्योऽस्ति १०, २६३ रसाख्वादेन तरला १०२ वपुषा तं नमस्कृत्य १०६ रसो वाक्यार्थ: सन् २१० वयमशरणा ३१७ रहः प्रत्यासन्ने हृदय १९९ वरः प्रतापरुद्रोऽयं १५० रागो धर्मे न विषयसुखे ३२७ वंशोऽयं काकतीयानां २६६ राज्यश्रीपरिभोगशंसि १९ वंशोऽस्ति काकतीयानां २४० राज्ञ: काकतिवीररुद्रनृपतेः ३०७ वा्णी मुखेन नेलाभ्यां १९ राज्ञः पूजाविधि धत्ते ३१५ वाहिन्यः काकतीन्द्रस्य ३९ राज्ा प्रतापरुद्रेण २६८ विअणमि पिएण १७३ राज्ञां गर्वाङ्करोद्भेदा: २८३ ४२ राज्ञां मौलिविभूषणस्त्रगमला विजितारिपुरो मूर्तौ २७१ विजितारिपुरो मूर्तों ३१६ राजि रुद्रनराधीशे ३६ विजितारिपुरो मूर्तौ ३४२

Page 364

लक्ष्यश्लोकसूची। ३५५.

पार्श्वम् पार्श्वम्

विज्जाओ सकलाओ ३०८ वीररुद्रमधिरूढ १९३ विज्जावहूर्ण अहिअं ११५ वीररुदरसमो राजा २६३ विज्ञापयामस्ते किंचित् ३१८ वीररुदस्य भूपाल २५७ वितरणगुणलीला ४७ वीरस्य रुद्रनृपते: २८१ विद्यया विनयोत्कर्षो ३३८ वृत्रारातिदिगन्तराल १२९ विद्याकैर वकौमुदीं '१ व्यर्थाष्टार्घार्ध २१५. विद्यासमुद्रे भुवनैक ५३ व्यर्थों मनोरथो यातो २२४ विन्ध्यारण्यकृतकुटुम्ब २२३ शाय्याशिरस्थानकृतस्य १०७ १४२ शश्वत्पुरीमेकशिलामिधानां २६० विभाति काकतीन्द्रोऽयं ३०२ शश्वत्प्रसाधनविधान २७४ विभाति भूर्ययौरिव २६६ शान्त्या श्रुतं हिया २३१ विभु: स्वयंभूरवदच्छुचि १०७ शासितर्यविनीतानां १४९ विमुक्ता वह्भैरेता २२५ शिला चिन्तारलं २८८ विमुखा दैवताः सर्वे २१४ शुनकैरिव सारज्ञा २२९ विमुखे सति काकति २८३ शुभ्रं यशः शौर्य ३३० विशदिमविलिप्त ५० शुम्भत्संत्रमगन्ध ३४० विशीर्ण शतधा चेतो २२७ शृज्गारैकरसः स्मरोऽस्तु १६४ विश्वैकरक्षाजुषि १८३ शृण्वती प्रियसंदेशं १७२ विषं कौक्षेयके गज्ञा २४० शेषायते महीं वोढुं २६३ विष्णोर्विश्वैकवीरस्य ९८ शैलेष्वस्माकमावासो २२१ विष्व ख्स्तिष्कपङ्के १६८ शोणिताब्जदृशः २१६ विहरद्राजहंसश्रीः ९५ शौर्याणि ईदृशान्यासन् २२० विहाय च गृहांस्तान्वै २१५ शौर्योष्मा निरवग्रहः १७ विहाय वसुधामेनां २१५ श्रावं श्रावं खुरलि ६० वीतव्रीडमपास्तमौन(मान) ६६, २९२ श्रीकाकतीयनृपतेर्द्विष २८३

वीप्सा पद्मभवस्य २४१ श्रीमत्काकतिवीररुद्र २३४ वीरं रुद्रनृपालरत्नं १७ श्रुत्वा काकतिभूभर्तु: ४१

वीररुद्रकृपाणस्य ६७ श्रूयन्ते बहवो महा १४७ वीररुद्रनरेन्द्रस्य जय २८६ षड् गुणान् सेवते २४१ वीररुद्रनरेन्द्रस्य यशो ३१३ सइ मह मणो बिल १९५ वीररुद्रनृपतौ हृदय १७८ सण्णिहिअं वि गुरु १७७ वीररुद्रनृपाद्धीतं १७३ सदा तेजोभानौ स्फुरति १०

वीररुद्रभटान्टष्ट्ा ६१ सदृश: काकतीन्द्रोऽयं ३१५

Page 365

३५६ प्रतापरुद्रीयम्

पार्श्वम् पार्श्वम्·

सदयोविश्लथमेखलां २९२ सुरलोअं सुरणाहो ३१०

सन्तु लोके सुवर्णाद्रि २५४, २६७ सूर्यसोमान्वयामात्य १४०

संदिग्घे कृपया मृदु: १६ सेवानम्रनरेन्द्र ९

संनह्यध्वमुपाहरध्व १४३ सेव्योऽस्तु रुद्रनृपति २०१

२९३ सैवोमा चेति १०५

सभा ख्यंभूपरमेश्वरस्य ९६ सोऊण सहिमुहादो १९०

समन्तादुद्वेलैरविविध ३२६ सोमार्कामिजनं १०५

समायाते नाथे प्रमहसि १८० स्तोके ब्रह्माण्डरन्ध्रे ३०४

समुंद्रा इव गम्भीरं २२२ स्थाने कल्पतरुर्जातः २८७

संभ्रमैरलमल्पज्ञे २४ स्थाने तब्बलमर्तिगण्ड ४८

सम्यआमागधवेष १२३ स्फुरच्छवेतातपत्रश्रीः २६६

सर्वा काकतिवीररुद्र २७६ स्मरस्मेरान्मन्दस्मित ४९, १७१ १०२ स्वतेजसा परिष्कृत्य २१

सर्वाशी: फलविश्रमैक १५० स्वतेजसा परिष्कृत्य ११६

सर्वेषां काकतीयानां १४९ १४१

सहि एसो रुद्दणिओ १९५ स्वभावशिशिरा दृष्टिः ३०२

破 碗 馆 सहि कप्पूरेण किअं १७४ स्वयंभूस्तात इत्येतौ ११४

सहेलं पश्यन्त्या: २६ स्वामिन् गोत्रमहीधरान्· ५१

सहेलं पश्यन्त्या: १८९ स्ामिस्तात कुलोत्तंस २४२

सालंकारा लसद्वर्णा २९५ स्वीकृते पुत्रभावेन -साहस्रांशवमैन्द वं १५१ हन्त निष्करुणो २२३

सिविणे दिठ्ुं दइअं १८२ हन्त वर्तामहे वज्र २१६

सीमाद्रिकुल्लेषु विहार २८४ हन्त व्यादाय वक्त्राणि २२७

सुखार्थिनो महीपाला २२० हाराजरागसुभगा २२२

सुधाप्रवाहति सताम् २६१ हेमाचलवदौन्नत्ये २५९

-सुधारसमुचो वाचो ३३७ हे लोकाः पिबत १४५

श्रीबालमनोरमा प्रेस्, मैलापूर, मद्रास्

Page 367

CENTRAL ARCHAEOLOGICAL LIBRARY, NEW DELHI Borrower's Record.

Catalogue No. Sa4A/Vid/San .- 675.

Vidyanātha.