Books / Prodgīta Āgama: Vivāha Vidhi — Sanskrit Text

1. Prodgīta Āgama

prodgīte vivāhavidhirnāma pañcaviṃśati paṭalaḥ 25

1

॥ शिवाभ्यां नमः

|| śivābhyāṃ namaḥ


2

॥ प्रोद्गीते विवाहविधिः

|| prodgīte vivāhavidhiḥ


1

श्रीकण्ठरुद्रमीशानं पञ्चकृत्वपरायणम् । पप्रच्छ परया भक्त्या विष्णुरत्यन्तहर्षितः

śrīkaṇṭharudramīśānaṃ pañcakṛtvaparāyaṇam | papraccha parayā bhaktyā viṣṇuratyantaharṣitaḥ


2

भगवन् सर्वलोकेश लोकरक्षाधुरंधर । सतीवियोगजे काले लोकानां वर्द्धिरादितः

bhagavan sarvalokeśa lokarakṣādhuraṃdhara | satīviyogaje kāle lokānāṃ varddhirāditaḥ


3

नाभवत्किल विश्वात्मन् तदा लोकाः कथं स्थिताः । उत्पत्तिः कथमेतेषामविच्छिन्ना वभूव च

nābhavatkila viśvātman tadā lokāḥ kathaṃ sthitāḥ | utpattiḥ kathameteṣāmavicchinnā vabhūva ca


4

तद्रहस्यन्न जानामि वद मे करुणानिधे । इति पृष्टो महादेवो विष्णुना प्रभविष्णुना

tadrahasyanna jānāmi vada me karuṇānidhe | iti pṛṣṭo mahādevo viṣṇunā prabhaviṣṇunā


5

उवाच पार्वतीनाथस्तं वृत्तमवतारयत् । दक्षं निरीश्वरं यागं प्रावर्तत पुरा किल

uvāca pārvatīnāthastaṃ vṛttamavatārayat | dakṣaṃ nirīśvaraṃ yāgaṃ prāvartata purā kila


6

तत्त्वया विदितं सर्वमथापि त्वद्विक्षया । वक्ष्यामि सर्वमेतत् कथां विस्तरतश्शृणु

tattvayā viditaṃ sarvamathāpi tvadvikṣayā | vakṣyāmi sarvametat kathāṃ vistarataśśṛṇu


7

सती यदा स्वकं देहं प्रमुमोच समाधिना । तदा निरुत्सवो लोकः प्रजावृद्धिविवर्जितः

satī yadā svakaṃ dehaṃ pramumoca samādhinā | tadā nirutsavo lokaḥ prajāvṛddhivivarjitaḥ


8

अनावृष्टि परिप्लुष्टः क्षयमाप दिने दिने । तदा ब्रह्मादयो देवास्समेत्य मम सन्निधौ

anāvṛṣṭi paripluṣṭaḥ kṣayamāpa dine dine | tadā brahmādayo devāssametya mama sannidhau


9

प्रणिपत्य परिप्लोषं जगतस्ते व्यजिज्ञिपत् । तदा लोकहितार्थाय संबोधयदच्युत

praṇipatya pariploṣaṃ jagataste vyajijñipat | tadā lokahitārthāya saṃbodhayadacyuta


10

इन्द्रादीनां दिक्पतीनां सन्ततिः प्रभविष्यति । सा तत्राप्यगजा गौरी भविष्यति धरापते

indrādīnāṃ dikpatīnāṃ santatiḥ prabhaviṣyati | sā tatrāpyagajā gaurī bhaviṣyati dharāpate


11

ताङ्कन्यां वामदेवाय शिवाय ददतस्स्वयम् । तदा प्रभृति लोकोऽयं वर्द्धते पूर्ववत्किल

tāṅkanyāṃ vāmadevāya śivāya dadatassvayam | tadā prabhṛti loko'yaṃ varddhate pūrvavatkila


12

इत्याज्ञप्ताश्च ते देवास्तयोर्वैवाहिकीङ्क्रियाम् । अकुर्वन् तत्प्रवक्ष्यामि शृणुष्वादरपूर्वकम्

ityājñaptāśca te devāstayorvaivāhikīṅkriyām | akurvan tatpravakṣyāmi śṛṇuṣvādarapūrvakam


13

तदा चतुर्मुखो ब्रह्मा वसिष्ठाद्या मुनीश्वराः । प्रादुरासीत्सपत्नीकाः महेशप्रियकाम्यया

tadā caturmukho brahmā vasiṣṭhādyā munīśvarāḥ | prādurāsītsapatnīkāḥ maheśapriyakāmyayā


14

लोकसङ्ग्रहणार्थाय लौकिकीं वृत्तिमाश्रिताः । सप्तर्षीन् प्रेषयामासुः कन्यानिश्चय हेतवे

lokasaṅgrahaṇārthāya laukikīṃ vṛttimāśritāḥ | saptarṣīn preṣayāmāsuḥ kanyāniścaya hetave


15

सपत्नीकास्समाजग्मुर्नगेन्द्र गृहमुत्तमम् । सनारिकेलकदलीपूगीफल समन्वितम्

sapatnīkāssamājagmurnagendra gṛhamuttamam | sanārikelakadalīpūgīphala samanvitam


16

वस्त्रयुग्मं समादाय कञ्चुकं कनकाञ्चितम् । नगेन्द्राङ्के सन्निषण्णां वव्रिरे कन्यकां मुदा

vastrayugmaṃ samādāya kañcukaṃ kanakāñcitam | nagendrāṅke sanniṣaṇṇāṃ vavrire kanyakāṃ mudā


17

पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्धजाम् । सुस्मितापाङ्ग संरूदमकरध्वज शालिनीम्

pūrṇacandrābhavadanāṃ nīlakuñcitamūrdhajām | susmitāpāṅga saṃrūdamakaradhvaja śālinīm


18

उदुत्तरेति मन्त्रेण ब्रह्मघोषपुरस्सरम् । अरूंधती तदा कन्यां गन्धपुष्पोपहारकैः

uduttareti mantreṇa brahmaghoṣapurassaram | arūṃdhatī tadā kanyāṃ gandhapuṣpopahārakaiḥ


19

अलञ्चकार सुप्रीतामुमां तां समलङ्कृताम् । तदा हिमाद्रिमेनाकीमुखमैक्षत विस्मितः

alañcakāra suprītāmumāṃ tāṃ samalaṅkṛtām | tadā himādrimenākīmukhamaikṣata vismitaḥ


20

साऽनुमेने तदा गीरीं प्रदातुं शम्भुरूपिणे । महेशाय तदा देवी सहितस्तु महीपतिः

sā'numene tadā gīrīṃ pradātuṃ śambhurūpiṇe | maheśāya tadā devī sahitastu mahīpatiḥ


21

दास्यामीति तदा वाचमुवाच स नगाधिपः । अथोषधीनामधिपे वृद्धिं प्राप्ते सुपुष्कले

dāsyāmīti tadā vācamuvāca sa nagādhipaḥ | athoṣadhīnāmadhipe vṛddhiṃ prāpte supuṣkale


22

जामित्रे च तिथौ मैत्रे मुहूर्तेश्शशलाञ्च्छने । उत्तराफल्गुनीयुक्ते मुहूर्तं समयोजयन्

jāmitre ca tithau maitre muhūrteśśaśalāñcchane | uttarāphalgunīyukte muhūrtaṃ samayojayan


23

एवं शास्त्रोक्तमार्गेणं विवाहङ्कारयेति च । ब्रह्माणं प्रेषयामास स पिनाकी महेश्वरः

evaṃ śāstroktamārgeṇaṃ vivāhaṅkārayeti ca | brahmāṇaṃ preṣayāmāsa sa pinākī maheśvaraḥ


24

तथैव कारयामास ब्रह्मा लोकपितामहः । अनेनैव विधानेन पार्वतीञ्च ददौ गिरिः

tathaiva kārayāmāsa brahmā lokapitāmahaḥ | anenaiva vidhānena pārvatīñca dadau giriḥ


25

एतेन कारणे नैव देवानां सन्ततिर्बभौ । इन्द्रस्यापि जयन्तोऽभून्नलकूवर एव च

etena kāraṇe naiva devānāṃ santatirbabhau | indrasyāpi jayanto'bhūnnalakūvara eva ca


26

कुबेरस्य स देवानां सन्ततिश्चाभवत्किल । अनङ्गोऽपि तदा साङ्गः रतिप्रीतिकरः प्रभुः

kuberasya sa devānāṃ santatiścābhavatkila | anaṅgo'pi tadā sāṅgaḥ ratiprītikaraḥ prabhuḥ

prodgīte vivāhavidhirnāma ṣaḍviṃśati paṭalaḥ 26

1

अथ विष्णुर्महादेवं पप्रच्छ परया मुदा । प्रलयो मानुषे लोके प्रजानाशः पदे पदे

atha viṣṇurmahādevaṃ papraccha parayā mudā | pralayo mānuṣe loke prajānāśaḥ pade pade


2

दारिद्र्यं प्राणिविद्वेषः कथन्नस्यात् प्रभो वद । अथोवाच महादेवः गौरीवैवाहिकं विधिम्

dāridryaṃ prāṇividveṣaḥ kathannasyāt prabho vada | athovāca mahādevaḥ gaurīvaivāhikaṃ vidhim


3

आलये च प्रतिष्ठायामुत्सवादौ विशेषतः । कर्तव्यं विधिपूर्वन्तु वेदागमविधानतः

ālaye ca pratiṣṭhāyāmutsavādau viśeṣataḥ | kartavyaṃ vidhipūrvantu vedāgamavidhānataḥ


4

तद्वक्ष्ये शृणु विष्णो त्वं सङ्ग्रहेण जनार्दन । एतदा युष्यमारोग्यं पुत्रपौत्रविवर्द्धनम्

tadvakṣye śṛṇu viṣṇo tvaṃ saṅgraheṇa janārdana | etadā yuṣyamārogyaṃ putrapautravivarddhanam


5

धान्यं यशस्करञ्चैवापमृत्यु निवारकम् । सौमङ्ग्ल्यं सदा सौख्यं वर्धनञ्च विशेषतः

dhānyaṃ yaśaskarañcaivāpamṛtyu nivārakam | saumaṅglyaṃ sadā saukhyaṃ vardhanañca viśeṣataḥ


6

फाल्गुने चैत्रवैशाखे तिष्ये वापि विशेषतः । ऋक्षे चोत्तरफल्गुन्यां मैत्रेऽन्यच्छुभ-ऋक्षके

phālgune caitravaiśākhe tiṣye vāpi viśeṣataḥ | ṛkṣe cottaraphalgunyāṃ maitre'nyacchubha-ṛkṣake


7

सुमुहूर्ते * * * * * * * * भृगोर्दिने । वैवाहिकविधिं कुर्यात् साधकस्सर्वतन्त्रवित्

sumuhūrte * * * * * * * * bhṛgordine | vaivāhikavidhiṃ kuryāt sādhakassarvatantravit


8

शिवद्विज * * * * * * * * भिषेचनः । शिवशास्त्रविचारज्ञः शिवागमविशारदः

śivadvija * * * * * * * * bhiṣecanaḥ | śivaśāstravicārajñaḥ śivāgamaviśāradaḥ


9

दुकूलवसनो * * * * * * त्तरीयकः । भस्मरुद्राक्षमालाभिरलङ्कृत कलेवरः

dukūlavasano * * * * * * ttarīyakaḥ | bhasmarudrākṣamālābhiralaṅkṛta kalevaraḥ


10

हेमयज्ञोप * * * * * * * * * ण्डितः । शुक्लचन्दनलिप्ताङ्गश्शुक्लमालैरलङ्कृतः

hemayajñopa * * * * * * * * * ṇḍitaḥ | śuklacandanaliptāṅgaśśuklamālairalaṅkṛtaḥ


11

एवं लक्षणयु * * * * * * * व्रतम् । प्रार्थयेद्देवदेवस्य कल्याणं कुरु भो गुरौ

evaṃ lakṣaṇayu * * * * * * * vratam | prārthayeddevadevasya kalyāṇaṃ kuru bho gurau


12

इति प्रार्थ्य नमस्कृत्य * * * * * * * * । इति संप्रार्थ्य शार्गिन्यजमानेन देशिकः

iti prārthya namaskṛtya * * * * * * * * | iti saṃprārthya śārginyajamānena deśikaḥ


13

आस्थानमण्टपे रम्ये शतस्तम्भ समन्विते । * * * * * * * * रङ्गवल्यादिशोभिते

āsthānamaṇṭape ramye śatastambha samanvite | * * * * * * * * raṅgavalyādiśobhite


14

कदलीस्तम्भखर्जूरी वितानद्ध्वजतोरणैः । पता * * * * * * * * धूपैश्च शोभिते

kadalīstambhakharjūrī vitānaddhvajatoraṇaiḥ | patā * * * * * * * * dhūpaiśca śobhite


15

पणवैर्मद्दलैश्चैव नानावादित्रनिस्वने । * * * * * * क्तैश्च गौरीकल्याण वैभवैः

paṇavairmaddalaiścaiva nānāvāditranisvane | * * * * * * ktaiśca gaurīkalyāṇa vaibhavaiḥ


16

भूषिते मण्टपे शुभ्रे ब्राह्म * * * * * * । * * * * विधिज्ञैश्च वेदवेदाङ्गनिष्ठितैः

bhūṣite maṇṭape śubhre brāhma * * * * * * | * * * * vidhijñaiśca vedavedāṅganiṣṭhitaiḥ


17

राजभिस्सचिवैश्चैव भटैर्योधै * * * * * । * * * * * नैरन्यैर्नरनारी सहस्रकैः

rājabhissacivaiścaiva bhaṭairyodhai * * * * * | * * * * * nairanyairnaranārī sahasrakaiḥ


18

शोभिते सदने मध्ये * * मण्टपमादरात् । तन्मध्ये पद्मवेदीञ्च तत्पूर्वे पद्मकुण्डकम्

śobhite sadane madhye * * maṇṭapamādarāt | tanmadhye padmavedīñca tatpūrve padmakuṇḍakam


19

स्वस्तिकं मण्डलं कुर्यात् आगमोक्तविधानतः । पश्चिमे भद्रपीठे च स्वस्तिकाख्ये महेश्वरम्

svastikaṃ maṇḍalaṃ kuryāt āgamoktavidhānataḥ | paścime bhadrapīṭhe ca svastikākhye maheśvaram


20

संस्थाप्य दक्षिणे भागे गौरीं कल्याणरूपिणीम् । देव्या दक्षिणदिग्भागे हिमवन्तं समेनकम्

saṃsthāpya dakṣiṇe bhāge gaurīṃ kalyāṇarūpiṇīm | devyā dakṣiṇadigbhāge himavantaṃ samenakam


21

विष्णुं श्रीभूमिसहितं कलशेषु समर्चयेत् । अग्नेर्दक्षिणदिग्भागे वाग्देवीञ्चतुराननम्

viṣṇuṃ śrībhūmisahitaṃ kalaśeṣu samarcayet | agnerdakṣiṇadigbhāge vāgdevīñcaturānanam


22

सनकादींश्च योगीन्द्रान् ब्रह्मणः पुरतो यजेत् । देवस्य वामभागे तु यजेद्दुर्गादि योगिनीम्

sanakādīṃśca yogīndrān brahmaṇaḥ purato yajet | devasya vāmabhāge tu yajeddurgādi yoginīm


23

देवस्येशानदिग्भागे रूद्रान् प्रमथनायकान् । सप्तर्षींश्च पत्त्नींश्च सर्वदेवर्षिमण्डलम्

devasyeśānadigbhāge rūdrān pramathanāyakān | saptarṣīṃśca pattnīṃśca sarvadevarṣimaṇḍalam


24

यजेत्तु पुरतो भागे शचीमिन्द्रं वसूंस्तथा । पश्चिमे मेनकादींश्च यजेदप्सरसां गणान्

yajettu purato bhāge śacīmindraṃ vasūṃstathā | paścime menakādīṃśca yajedapsarasāṃ gaṇān


25

विष्ण्वादि देवबृन्दांश्च कलशेषु यथाक्रमम् । मिश्रतन्त्रविधानेन प्रतिमासु प्रपूजयेत्

viṣṇvādi devabṛndāṃśca kalaśeṣu yathākramam | miśratantravidhānena pratimāsu prapūjayet


26

आचार्यो मूर्तिपैस्सार्धं देवदेवस्य सन्निधौ । अनुज्ञां विधिवत्कुर्यात् ब्राह्मणानां समाजगे

ācāryo mūrtipaissārdhaṃ devadevasya sannidhau | anujñāṃ vidhivatkuryāt brāhmaṇānāṃ samājage


27

देव देव जगन्नाथ जगदानन्दकारण । कल्याणार्थं प्रवर्तोऽहं लोकसङ्ग्रहणाय च

deva deva jagannātha jagadānandakāraṇa | kalyāṇārthaṃ pravarto'haṃ lokasaṅgrahaṇāya ca


28

लोकानामिष्टकाम्यार्थं तवाज्ञां कुरु मे प्रभो । ततो देव्यालयं गत्वा प्रार्थयेदिष्टसिद्धये

lokānāmiṣṭakāmyārthaṃ tavājñāṃ kuru me prabho | tato devyālayaṃ gatvā prārthayediṣṭasiddhaye


29

अम्बिके देवि कल्याणि कारुण्याकरचन्द्रिके । जगदार्तिविनाशाय शम्भुपत्नी भविष्यसि

ambike devi kalyāṇi kāruṇyākaracandrike | jagadārtivināśāya śambhupatnī bhaviṣyasi


30

इत्युक्त्वा तां महादेवीं प्रणिपत्य गुरूत्तमः । वैवाह्य मूर्तिं संप्राप्य प्रार्थयेदिष्टसिद्धये

ityuktvā tāṃ mahādevīṃ praṇipatya gurūttamaḥ | vaivāhya mūrtiṃ saṃprāpya prārthayediṣṭasiddhaye


31

सोमास्कन्दादिदेवेषु पञ्चविंशतिकेषु च । ये ये शक्तियुता देवास्तेष्वेकस्य विधानतः

somāskandādideveṣu pañcaviṃśatikeṣu ca | ye ye śaktiyutā devāsteṣvekasya vidhānataḥ


32

वर्षे वर्षे प्रकुर्वीत वैवाहिकमनुत्तमम् । उद्वाहभावनार्थाय देवदेवौ प्रपूजयेत्

varṣe varṣe prakurvīta vaivāhikamanuttamam | udvāhabhāvanārthāya devadevau prapūjayet


33

शक्तिविघ्नेशमभ्यर्च्य ग्रहप्रीतिपुरस्सरम् । सङ्कल्पञ्च ततः कुर्यान् मृत्सङ्ग्रहणमङ्कुरम्

śaktivighneśamabhyarcya grahaprītipurassaram | saṅkalpañca tataḥ kuryān mṛtsaṅgrahaṇamaṅkuram


34

कृत्वा प्रतिसरं बद्धा देव्या देवस्य चैव हि । परेद्युः प्रातरुत्थाय संभारान् संभ्रियात्ततः

kṛtvā pratisaraṃ baddhā devyā devasya caiva hi | paredyuḥ prātarutthāya saṃbhārān saṃbhriyāttataḥ


35

ततो देव्यालयं गत्वा वाङ्निश्चयविधिञ्चरेत् । ततो ब्रह्मादयो देवा वसिष्ठाद्या मुनीश्वराः

tato devyālayaṃ gatvā vāṅniścayavidhiñcaret | tato brahmādayo devā vasiṣṭhādyā munīśvarāḥ


36

प्रादुरासन् स पत्नीकाः महेशप्रियकाम्यया । लोकसङ्ग्रहणार्थाय लौकिकीं वृत्तिमाश्रिताः

prādurāsan sa patnīkāḥ maheśapriyakāmyayā | lokasaṅgrahaṇārthāya laukikīṃ vṛttimāśritāḥ


37

सतानभ्यर्च्य देवादीन् गन्धपुष्पाक्षतादिभिः । सनालिकेरकदली पूगीफलसमन्वितम्

satānabhyarcya devādīn gandhapuṣpākṣatādibhiḥ | sanālikerakadalī pūgīphalasamanvitam


38

वस्त्रयुग्मं समादाय कञ्चुकं कनकाञ्चितम् । उदुत्तरेति मन्त्रेण ब्रह्मघोषपुरस्सरम्

vastrayugmaṃ samādāya kañcukaṃ kanakāñcitam | uduttareti mantreṇa brahmaghoṣapurassaram


39

सम्प्रार्थ्य देवीमभ्यर्च्य वस्त्रपुष्पोपहारकैः । उद्वाहार्थं पराशक्तिं प्रपूज्याऽथ विशेषतः

samprārthya devīmabhyarcya vastrapuṣpopahārakaiḥ | udvāhārthaṃ parāśaktiṃ prapūjyā'tha viśeṣataḥ


40

उक्तद्रव्ययुतैस्तोयैः पाद्यमाचमनार्घ्यकम् । पर्यूषितार्चनं कृत्वा स्नानशालाप्रवेशनम्

uktadravyayutaistoyaiḥ pādyamācamanārghyakam | paryūṣitārcanaṃ kṛtvā snānaśālāpraveśanam


41

सिह्मासने तु संस्थाप्य नृत्तगीतपुरस्सरम् । सुगन्धतैलाभ्यङ्गं स्नानीयोद्वर्तनं तथा

sihmāsane tu saṃsthāpya nṛttagītapurassaram | sugandhatailābhyaṅgaṃ snānīyodvartanaṃ tathā


42

उष्णोदकस्नापनञ्च सर्वद्रव्याभिषेचनम् । ततः कुर्याद्विशेषेण धौतवस्त्रप्रमार्जनम्

uṣṇodakasnāpanañca sarvadravyābhiṣecanam | tataḥ kuryādviśeṣeṇa dhautavastrapramārjanam


43

दुकूलपरिधानञ्च उत्तरीयसमन्वितम् । चन्दनागरुकस्तूरी कुङ्कुमादि विलेपनम्

dukūlaparidhānañca uttarīyasamanvitam | candanāgarukastūrī kuṅkumādi vilepanam


44

केशानामगरो धूपं यथा विधि विधाय च । मल्लिकामालती जाति चम्पकाद्यर्पणं तथा

keśānāmagaro dhūpaṃ yathā vidhi vidhāya ca | mallikāmālatī jāti campakādyarpaṇaṃ tathā


45

नवरत्नकिरीटञ्च चन्द्ररेखावतंसकम् । सीमन्तदेशे सिन्दूरं ललाटे तिलकं तथा

navaratnakirīṭañca candrarekhāvataṃsakam | sīmantadeśe sindūraṃ lalāṭe tilakaṃ tathā


46

कालाञ्जनमधो कृत्वा पालीयुगलमेव च । मणिकुण्डलयुग्मञ्च नासाभरणमप्यथ

kālāñjanamadho kṛtvā pālīyugalameva ca | maṇikuṇḍalayugmañca nāsābharaṇamapyatha


47

अधरे यावकञ्चैव ततः प्रथमभूषणम् । चिन्ताकं पतकञ्चैव महापतकमेव च

adhare yāvakañcaiva tataḥ prathamabhūṣaṇam | cintākaṃ patakañcaiva mahāpatakameva ca


48

मुक्तावलीमेक मुक्तावलीमपि विनिर्दिशेत् । वैकक्ष्यहारं केयूरचतुष्टयमथापि वा

muktāvalīmeka muktāvalīmapi vinirdiśet | vaikakṣyahāraṃ keyūracatuṣṭayamathāpi vā


49

वलयानामावलीश्च ऊर्मिकावलिमेव च । काञ्चीदाम समारोप्य कटिसूत्रमथोपरि

valayānāmāvalīśca ūrmikāvalimeva ca | kāñcīdāma samāropya kaṭisūtramathopari


50

सौभाग्याभरणञ्चैव सर्वरत्नविभूषितम् । पादयोः कटकञ्चैव रत्ननूपुरमेव च

saubhāgyābharaṇañcaiva sarvaratnavibhūṣitam | pādayoḥ kaṭakañcaiva ratnanūpurameva ca


51

पादाङ्गुलीयकञ्चैव समारोप्य विशेषतः । आयुधानि करे कृत्वा तत्तत्कालविशेषतः

pādāṅgulīyakañcaiva samāropya viśeṣataḥ | āyudhāni kare kṛtvā tattatkālaviśeṣataḥ


52

पादुकारोहणं कार्यं महामङ्गलसंयुतम् । धूपदीपं तथा कृत्वा पञ्चान्नादीन्निवेदयेत्

pādukārohaṇaṃ kāryaṃ mahāmaṅgalasaṃyutam | dhūpadīpaṃ tathā kṛtvā pañcānnādīnnivedayet


53

षोडशैरूपचारैश्च ताम्बूलं मन्त्रपुष्पकम् । तत्तन्मन्त्रैश्च सम्पूज्य गौरीं कल्याण रूपिणीम्

ṣoḍaśairūpacāraiśca tāmbūlaṃ mantrapuṣpakam | tattanmantraiśca sampūjya gaurīṃ kalyāṇa rūpiṇīm


54

अथारोप्य गजे देवीं सिह्मे वा समलङ्कृताम् । आदिशक्तिसपर्यार्थं नदीतीरे प्रपादिषु

athāropya gaje devīṃ sihme vā samalaṅkṛtām | ādiśaktisaparyārthaṃ nadītīre prapādiṣu


55

समावेश्य तदा देवीं नानावादित्र निस्वनैः । कुम्भं संस्थाप्य विधिवत् पूजयित्वोपचारकैः

samāveśya tadā devīṃ nānāvāditra nisvanaiḥ | kumbhaṃ saṃsthāpya vidhivat pūjayitvopacārakaiḥ


56

कस्तूरिकुङ्कुमालेप कज्जलादिभिरादरात् । कबोराक्षिदर्पणादि सम्भारैरतिशोभनैः

kastūrikuṅkumālepa kajjalādibhirādarāt | kaborākṣidarpaṇādi sambhārairatiśobhanaiḥ


57

बीजमुद्गानि नैवेद्य पूर्णकर्म समाचरेत् । स्तुवीत ब्राह्मणैस्सार्धं प्राङ्मुखैर्ब्रह्मवादिभिः

bījamudgāni naivedya pūrṇakarma samācaret | stuvīta brāhmaṇaissārdhaṃ prāṅmukhairbrahmavādibhiḥ


58

आदिमध्यान्तरहितां अम्बाममितविग्रहाम् । प्रणमामि महादेवीं महात्त्रिपुर भैरवीम्

ādimadhyāntarahitāṃ ambāmamitavigrahām | praṇamāmi mahādevīṃ mahāttripura bhairavīm


59

मदिष्टदेवते देवि मम प्रीतिविवर्धनम् । भर्तारं वरये देवि शिवमत्यन्तसुन्दरम्

madiṣṭadevate devi mama prītivivardhanam | bhartāraṃ varaye devi śivamatyantasundaram


60

घटयस्व जगन्मातर्दीर्घमाङ्गल्य वृद्धये । इति प्रार्थ्य परां देवीं पूजयित्वा ततः परम्

ghaṭayasva jaganmātardīrghamāṅgalya vṛddhaye | iti prārthya parāṃ devīṃ pūjayitvā tataḥ param


61

आदिशक्तिममेयां तां ध्यात्वा निश्चलतां ययौ । तत्रैव जातकर्मादि कुर्याद्देव्याः प्रयत्नतः

ādiśaktimameyāṃ tāṃ dhyātvā niścalatāṃ yayau | tatraiva jātakarmādi kuryāddevyāḥ prayatnataḥ


62

आचार्यस्सर्व सम्भारान् वाद्यघोषपुरस्सरम् । गृहीत्वा देवदेवस्य कल्याणादिषु मूर्तिषु

ācāryassarva sambhārān vādyaghoṣapurassaram | gṛhītvā devadevasya kalyāṇādiṣu mūrtiṣu


63

यस्य कस्यापि पुरतः गत्वा प्रार्थ्य पुर स्थितः । देव देव जगन्नाथ जगदार्तिहर प्रभो

yasya kasyāpi purataḥ gatvā prārthya pura sthitaḥ | deva deva jagannātha jagadārtihara prabho


64

अनुज्ञां देहि मे स्वामिन् कल्याणार्थन्तु वाऽधुना । इति सम्प्रार्थ्य देवेशं धूपदीपौ निवेद्य च

anujñāṃ dehi me svāmin kalyāṇārthantu vā'dhunā | iti samprārthya deveśaṃ dhūpadīpau nivedya ca


65

अभिषेकं ततः कृत्वा स्नानीयैस्स्नपनोदकैः । रुद्राध्यायमनुं जप्त्वा सर्ववाद्यपुरस्सरम्

abhiṣekaṃ tataḥ kṛtvā snānīyaissnapanodakaiḥ | rudrādhyāyamanuṃ japtvā sarvavādyapurassaram


66

                • नियोज्या भरणानि च । मकुटाङ्गदकेयूरहारनूपुरकङ्कणीम् । कटिसूत्रं यज्ञसूत्र * * * * * * बलिः

** * * * * * * * niyojyā bharaṇāni ca | makuṭāṅgadakeyūrahāranūpurakaṅkaṇīm | kaṭisūtraṃ yajñasūtra * * * * * * baliḥ*


67

एवमादिभिरन्यैश्च पादुकादिभिरेव च । जाजीचम्पक पुन्नाग कह्लारकम * * * *

*evamādibhiranyaiśca pādukādibhireva ca | jājīcampaka punnāga kahlārakama * * * **


68

          • द्यैश्च पूजयित्वा महेश्वरम् । कारयेद्देवदेवस्य शिवस्य परमात्मनः

** * * * * dyaiśca pūjayitvā maheśvaram | kārayeddevadevasya śivasya paramātmanaḥ*


69

व्रतादिकमथो * * * * * * * मङ्गलम् । सर्वोपचारैस्संपूज्य वृषमारोहयेच्छिवम्

vratādikamatho * * * * * * * maṅgalam | sarvopacāraissaṃpūjya vṛṣamārohayecchivam


70

सर्ववाद्यसमायुक्तं नानाबि * * * * * * । * * * * * * तो गच्छेत् स्वस्तिमङ्गलपूर्वकम्

sarvavādyasamāyuktaṃ nānābi * * * * * * | * * * * * * to gacchet svastimaṅgalapūrvakam


71

तत्र गत्वा तया सार्द्धं पाद्यार्घ्याचमनादिभिः । उपचार्य ततः * * * * * चतुर्विधम्

tatra gatvā tayā sārddhaṃ pādyārghyācamanādibhiḥ | upacārya tataḥ * * * * * caturvidham


72

निवेदद्धूपदीपैश्च्छत्रैश्चामर वीजनैः । उपचार्य यथा शास्त्रं नीराजनमथ * *

*nivedaddhūpadīpaiścchatraiścāmara vījanaiḥ | upacārya yathā śāstraṃ nīrājanamatha * **


73

        • म्य तौ देवौ वृषसिह्मासनस्थितौ । उत्थाप्य मण्टपाग्रे तु स्थापयेत् पूर्वपश्चिमम्

** * * * mya tau devau vṛṣasihmāsanasthitau | utthāpya maṇṭapāgre tu sthāpayet pūrvapaścimam*


74

मालाविनिमय * * * * * * णमेव च । वाद्यैः प्रदक्षिणी कृत्य दासीदीपसमन्वितैः

mālāvinimaya * * * * * * ṇameva ca | vādyaiḥ pradakṣiṇī kṛtya dāsīdīpasamanvitaiḥ


75

कल्याणमण्टपे रम्ये स्वस्तिमण्टप * * * । समावेश्य पूर्वाभिमुखमास्थितौ

kalyāṇamaṇṭape ramye svastimaṇṭapa * * * | samāveśya pūrvābhimukhamāsthitau


76

ततो यक्षबलिङ्कुर्यात् आचार्यस्साधकैस्सह । पुण्या * * * * * * * * * कदलीफलम्

tato yakṣabaliṅkuryāt ācāryassādhakaissaha | puṇyā * * * * * * * * * kadalīphalam


77

रक्तपुष्पसमोपेतं बलिं दद्याद्विचक्षणः । कृत्वा विवाहसङ्कल्पं वरप्रेषण * * *

*raktapuṣpasamopetaṃ baliṃ dadyādvicakṣaṇaḥ | kṛtvā vivāhasaṅkalpaṃ varapreṣaṇa * * **


78

    • के मण्डले सम्यगादि कर्तारमर्चयेत् । हरिब्रह्मादि देवनामर्चनङ्कलशेषु च

** * ke maṇḍale samyagādi kartāramarcayet | haribrahmādi devanāmarcanaṅkalaśeṣu ca*


79

सम्पूज्य विधिव * * * * * * * धिना यजेत् । प्रसुग्मन्तेति मन्त्रेण वरप्रेषणमाचरेत्

sampūjya vidhiva * * * * * * * dhinā yajet | prasugmanteti mantreṇa varapreṣaṇamācaret


80

आप * * * * ति मन्त्रेण पा * * * * * । यन्मधुनो मधव्येति मधुपर्कं समर्चयेत्

āpa * * * * ti mantreṇa pā * * * * * | yanmadhuno madhavyeti madhuparkaṃ samarcayet


81

कन्यकादान सङ्कल्पं कृत्वा तत्र विधानतः । गृहीत्वा * * * * * * * माप्य शिवस्य हि

kanyakādāna saṅkalpaṃ kṛtvā tatra vidhānataḥ | gṛhītvā * * * * * * * māpya śivasya hi


82

गृभ्णामीति च मन्त्रेण पाणिग्रहणमाचरेत् । अथ प्रच्छन्नवस्त्रेण प्रा * * * * * * *

*gṛbhṇāmīti ca mantreṇa pāṇigrahaṇamācaret | atha pracchannavastreṇa prā * * * * * * **


83

      • ष्टकमारभ्य वाचयेत्सस्वरं क्रमात् । वस्त्रयुग्मं तदादाय तस्योपरि यथा विधि

** * * ṣṭakamārabhya vācayetsasvaraṃ kramāt | vastrayugmaṃ tadādāya tasyopari yathā vidhi*


84

मं * * * * * * * * प्रानुग्रहमाचरेत् । बद्ध्वा माङ्गल्यसूत्रञ्च गौरीबीजेन देशिकः

maṃ * * * * * * * * prānugrahamācaret | baddhvā māṅgalyasūtrañca gaurībījena deśikaḥ


85

पादुकां पार्वतीं * * * * * * * कोत्तमः । एकमिषेति मन्त्रेण सप्तवारं व्रजेत्क्रमात्

pādukāṃ pārvatīṃ * * * * * * * kottamaḥ | ekamiṣeti mantreṇa saptavāraṃ vrajetkramāt


86

शिवाग्निं स्थापयित्वा तु परिस्तरणपूर्वकम् । * * * प्रोक्षणीञ्चैव लाजानाज्यञ्च साधयेत्

śivāgniṃ sthāpayitvā tu paristaraṇapūrvakam | * * * prokṣaṇīñcaiva lājānājyañca sādhayet


87

मूलेनाष्टोत्तरं हुत्वा सोमायेति च मन्त्रतः । लाजहोम * * * * प्रदक्षिणपुरस्सरम्

mūlenāṣṭottaraṃ hutvā somāyeti ca mantrataḥ | lājahoma * * * * pradakṣiṇapurassaram


88

त्रिः कृत्वा च समिद्धेऽग्नौ शेषा आज्याहुतीर्हुनेत् । चित्तञ्चेत्यादि मन्त्रैश्च जयाद * * * * *

*triḥ kṛtvā ca samiddhe'gnau śeṣā ājyāhutīrhunet | cittañcetyādi mantraiśca jayāda * * * * **


89

नालिकेरकपित्थादि फलवर्गैस्समन्विताम् । द्राक्षा खर्जूरनारङ्ग खण्डशर्करयान्विताम्

nālikerakapitthādi phalavargaissamanvitām | drākṣā kharjūranāraṅga khaṇḍaśarkarayānvitām


90

इक्षुखण्ड * * * * * * * * पशोभिताम् । पूर्णाहुतिमथो हुत्वा सप्तेति च मन्त्रतः

ikṣukhaṇḍa * * * * * * * * paśobhitām | pūrṇāhutimatho hutvā sapteti ca mantrataḥ


91

उपस्थानमथो कृत्वा प्रणमे * * * * * । * * * प्राङ्मुखो भूत्वा प्रार्थयेद्ब्राह्मणानथ

upasthānamatho kṛtvā praṇame * * * * * | * * * prāṅmukho bhūtvā prārthayedbrāhmaṇānatha


92

आर्द्राक्षतान् समारोप्य स्वस्तिवाचन । * * * * * रञ्चैव पूजयेद्विधिपूर्वकम्

ārdrākṣatān samāropya svastivācana | * * * * * rañcaiva pūjayedvidhipūrvakam


93

धूपदीपादिनैवेद्यताम्बुलाद्युपचारकैः । पूर्व * * * * * * निवेद्यापूपमोदकान्

dhūpadīpādinaivedyatāmbulādyupacārakaiḥ | pūrva * * * * * * nivedyāpūpamodakān


94

ताम्बूलादीन् ततो दत्वा गन्धपुष्पादि * * * । * * * * * * * * भक्ष्य भोज्यफलादिकैः

tāmbūlādīn tato datvā gandhapuṣpādi * * * | * * * * * * * * bhakṣya bhojyaphalādikaiḥ


95

वीथी प्रदक्षिणं कुर्यात् सर्वानुग्रह वे * * । * * * * * * * * स विधोद्वाहमेव च

vīthī pradakṣiṇaṃ kuryāt sarvānugraha ve * * | * * * * * * * * sa vidhodvāhameva ca


96

स दीर्घायुरवाप्नोति पुत्रान् पौत्रांश्च विन्दति । * * * * * * * * * * * * ह मोदते

sa dīrghāyuravāpnoti putrān pautrāṃśca vindati | * * * * * * * * * * * * ha modate

Prodgīta Āgama

1

########### END OF FILE #######

########### END OF FILE #######