Books / Raamakrishna Paramahamsa Upanishad

1. Raamakrishna Paramahamsa Upanishad

Page 1

॥ श्रीरामकृष्ण परमहंसोपनिषदं॥

सह नाववतु ।

सह नौ भुनक्तु ।

सह वीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ अथ श्रीरामकृष्ण परमहंसोपनिषदं व्याख्यास्यामः । सेषाडपरोक्षानुभवरूढा साधनप्रधाना च ॥१॥

निर्गुणं निराकारं च परं ब्रह्म । तदेव भक्तजनानां शीतल भक्ते: प्रभावात् सगुण: साकार: परमेश्वरो भवति हिममिव जलात् शैत्यात् । स एव परमेश्वरो निखिलजगदंतयांमी च ॥ २ ॥

राम-कृष्ण-शिव-विष्णु-गॉडलल्त्यादि विभिन्नामभिरनिर्दिष्टं परंतत्वमपि स एव । स एव लक्ष्मी-दुर्गा-काली-सारस्वतीत्यादि देवीनामभिरपि निर्दिश्यते ॥ ३ ॥

व्यवहारदशायां यत्र पुरुषोऽजो द्वैतमिव पश्यति तदा काल्यादि देव्य: परस्यैव ब्रह्मण: शक्तय इति मत्वव्यम् । दाहिकशक्तिर्यथाग्नौ । वस्तुतस्तु तयोरत्यंतमेद: एव ॥४ ॥

परमेश्वरदर्शनमेव मानव जीवनस्य चरमोद्देश्तः । तथैव मुक्ते: साध्यत्वात् । परमेश्वरस्तु दृष्टुं स्रष्टुं स्रष्टुं च शक्त्य: । तेन सहालापोडपि साध्य: ।

Page 2

सर्वे धर्मा: समानास्तमेव गमयन्ति च ॥५॥

अपि तु मायाजवनिकाच्छन्न: स सुखेन द्रष्टुं न लभ्य: । कामकांचन कामनैव माया । तदपरमे स: स्वयमेवाविर्भवति मेघापायेऽशुमानिव । ज्ञानमिश्रित भक्तितश्व मायानाशोपाय: । स एव सर्वमित्यतो दीनदरिद्ररोग्यजादीनां नारायणदृश्य सेवाडप्यद्यतनकालेऽनुत्तमोपायश्विततशुद्धिद्वारा तं साक्षात्कर्तुं ॥ ६ ॥

कथंचित्तं ज्ञात्वा दृष्ट्वा स्पृष्टवा भवबन्धनाद्विमुक्ता भवत । विमुक्ता भवतेत्युपनिषत् ॥ ७ ॥

ॐ शान्त: शान्त: शान्ति: ॥ इति स्वामी हर्षानन्द कृत उपनिशत्समाप्ता ॥