Books / Rama-Tapaniya Upanishad

1. Rama-Tapaniya Upanishad

Rama-Tapaniya Upanishad

[ Sutra शान्ति मन्त्र ]

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

shanthi mantra

· · ·

[ Sutra 1 ]

ॐ चिन्मयेऽस्मिन्महाविष्णौ जाते दशरथे हरौ । रघोः कुलेऽखिलं राति राजते यो महीस्थितः ॥ १॥

· · ·

[ Sutra 2 ]

स राम इति लोकेषु विद्वद्भिः प्रकटीकृतः । राक्षसा येन मरणं यान्ति स्वोद्रेकतोऽथवा ॥ २॥

· · ·

[ Sutra 3 ]

रामनाम भुवि ख्यातमभिरामेण वा पुनः । राक्षसान्मर्त्यरूपेण राहुर्मनसिजं यथा ॥ ३॥

· · ·

[ Sutra 4 ]

प्रभाहीनांस्तथा कृत्वा राज्यार्हाणां महीभृताम् । धर्ममार्गं चरित्रेण ज्ञानमार्गं च नामतः ॥ ४॥

· · ·

[ Sutra 5 ]

तथा ध्यानेन वैराग्यमैश्वर्यं स्वस्य पूजनात् । तथा रात्यस्य रामाख्या भुवि स्यादथ तत्त्वतः ॥ ५॥

· · ·

[ Sutra 6 ]

रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ ६॥

· · ·

[ Sutra 7 ]

चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः । उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥

· · ·

[ Sutra 8 ]

रूपस्थानां देवतानां पुंस्त्र्यङ्गास्त्रादिकल्पना । द्वित्तत्वारिषडष्टानां दश द्वादश षोडश ॥ ८॥

· · ·

[ Sutra 9 ]

अष्टादशामी कथिता हस्ताः शङ्खादिभिर्युताः । सहस्रान्तास्तथा तासां वर्णवाहनकल्पना ॥ ९॥

· · ·

[ Sutra 10 ]

शक्तिसेनाकल्पना च ब्रह्मण्येवं हि पञ्चधा । कल्पितस्य शरीरस्य तस्य सेनादिकल्पना ॥ १०॥

· · ·

[ Sutra 11 ]

ब्रह्मादीनां वाचकोऽयं मन्त्रोऽन्वर्थादिसंज्ञकः । जप्तव्यो मन्त्रिणा नैवं विना देवः प्रसीदति ॥ ११॥

· · ·

[ Sutra 12 ]

क्रियाकर्मेज्यकर्तॄणामर्थं मन्त्रो वदत्यथ । मननान्त्राणनान्मन्त्रः सर्ववाच्यस्य वाचकः ॥ १२॥

· · ·

[ Sutra 13 ]

सोऽभयस्यास्य देवस्य विग्रहो यन्त्रकल्पना । विना यन्त्रेण चेत्पूजा देवता न प्रसीदति ॥ १३॥

· · ·

इति रामपूर्वतापिन्युपनिषदि प्रथमोपनिषत् ॥ १॥

· · ·

[ Sutra 1 ]

स्वर्भूर्ज्योतिर्मयोऽनन्तरूपी स्वेनैव भासते । जीवत्वेन समो यस्य सृष्टिस्थितिलयस्य च ॥ १॥

· · ·

[ Sutra 2 ]

कारणत्वेन चिच्छक्त्या रजःसत्त्वतमोगुणैः । यथैव वटबीजस्थः प्राकृतश्च महान्द्रुमः ॥ २॥

· · ·

[ Sutra 3 ]

तथैव रामबीजस्थं जगदेतच्चराचरम् । रेफारूढा मूर्तयः स्युः शक्तयस्तिस्र एव चेति ॥ ३॥

· · ·

इति रामतापिन्युओअनिषदि द्वितीयोपनिषत् ॥ २॥

· · ·

[ Sutra 1 ]

सीतारामौ तन्मयावत्र पूज्यौ जातान्याभ्यां भुवनानि द्विसप्त । स्थितानि च प्रहितान्येव तेषु ततो रामो मानवो माययाधात् ॥ १॥

· · ·

[ Sutra 2 ]

जगत्प्राणायात्मनेऽस्मै नमः स्या- न्नमस्त्वैक्यं प्रवदेत्प्राग्गुणेनेति ॥ २॥

· · ·

इति रामतापिन्युपनिषदि तृतीयोपनिषत् ॥ ३॥

· · ·

[ Sutra 1 ]

जीववाची नमो नाम चात्मारामेति गीयते । तदात्मिका या चतुर्थी तथा मायेति गीयते ॥ १॥

· · ·

[ Sutra 2 ]

मन्त्रोयं वाचको रामो रामो वाच्यः स्याद्योगएतयोः । फलतश्चैव सर्वेषां साधकानां न संशयः ॥ २॥

· · ·

[ Sutra 3 ]

यथा नामी वाचकेन नाम्ना योऽभिमुखो भवेत् । तथा बीजात्मको मन्त्रो मन्त्रिणोऽभिमुखो भवेत् ॥ ३॥

· · ·

[ Sutra 4 ]

बीजशक्तिं न्यसेद्दक्षवामयोः स्तनयोरपि । कीलो मध्ये विना भाव्यः स्ववाञ्छाविनियोगवान् ॥ ४॥

· · ·

[ Sutra 5 ]

सर्वेषामेव मन्त्राणामेष साधारणः क्रमः । अत्र रामोऽनन्तरूपस्तेजसा वह्निना समः ॥ ५॥

· · ·

[ Sutra 6 ]

सत्त्वनुष्णगुविश्वश्चेदग्नीषोमात्मकं जगत् । उत्पन्नः सीतया भाति चन्द्रश्चन्द्रिकया यथा ॥ ६॥

· · ·

[ Sutra 7 ]

प्रकृत्या सहितः श्यामः पीतवासा जटाधरः । द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः ॥ ७॥

· · ·

[ Sutra 8 ]

प्रसन्नवदनो जेता घृष्ट्यष्टकविभूषितः । प्रकृत्या परमेश्वर्या जगद्योन्याङ्किताङ्कभृत् ॥ ८॥

· · ·

[ Sutra 9 ]

हेमाभया द्विभुजया सर्वालङ्कृतया चिता । श्लिष्टः कमलधारिण्या पुष्टः कोसलजात्मजः ॥ ९॥

· · ·

[ Sutra 10 ]

दक्षिणे लक्ष्मणेनाथ सधनुष्पाणिना पुनः । हेमाभेनानुजेनैव तथा कोणत्रयं भवेत् ॥ १०॥

· · ·

[ Sutra 11 ]

तथैव तस्य मन्त्रस्य यस्याणुश्च स्वङेन्तया । एवं त्रिकोणरूपं स्यात्तं देवा ये समाययुः ॥ ११॥

· · ·

[ Sutra 12 ]

स्तुतिं चक्रुश्च जगतः पतिं कल्पतरौ स्थितम् । कामरूपाय रामाय नमो मायामयाय च ॥ १२॥

· · ·

[ Sutra 13 ]

नमो वेदादिरूपाय ओङ्काराय नमो नमः । रमाधराय रामाय श्रीरामायात्ममूर्तये ॥ १३॥

· · ·

[ Sutra 14 ]

जानकीदेहभूषाय रक्षोघ्नाय शुभाङ्गिने । भद्राय रघुवीराय दशास्यान्तकरूपिणे ॥ १४॥

· · ·

[ Sutra 15 ]

रामभद्र महेश्वास रघुवीर नृपोत्तम । भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च ते ॥ १५॥

· · ·

[ Sutra 16 ]

त्वमैश्वर्यं दापयाथ सम्प्रत्याश्वरिमारणम् । कुर्विति स्तुत्य देवाद्यास्तेन सार्धं सुखं स्थिताः ॥ १६॥

· · ·

[ Sutra 17 ]

स्तुवन्त्येवं हि ऋषयस्तदा रावण आसुरः । रामपत्नीं वनस्थां यः स्वनिवृत्त्यर्थमाददे ॥ १७॥

· · ·

[ Sutra 18 ]

स रावण इति ख्यातो यद्वा रावाच्च रावणः । तद्व्याजेनेक्षितुं सीतां रामो लक्ष्मण एव च ॥ १८॥

· · ·

[ Sutra 19 ]

विचेरतुस्तदा भूमौ देवीं संदृश्य चासुरम् । हत्वा कबन्धं शबरीं गत्वा तस्याज्ञया तया ॥ १९॥

· · ·

[ Sutra 20 ]

पूजितो वायुपुत्रेण भक्तेन च कपीश्वरम् । आहूय शंसतां सर्वमाद्यन्तं रामलक्ष्मणौ ॥ २०॥

· · ·

[ Sutra 21 ]

स तु रामे शङ्कितः सन्प्रत्ययार्थं च दुन्दुभेः । विग्रहं दर्शयामास यो रामस्तमचिक्षिपत् ॥ २१॥

· · ·

[ Sutra 22 ]

सप्त सालान्विभिद्याशु मोदते राघवस्तदा । तेन हृष्टः कपीन्द्रोऽसौ स रामस्तस्य पत्तनम् ॥ २२॥

· · ·

[ Sutra 23 ]

जगामागर्जदनुजो वालिनो वेगतो गृहात् । तदा वाली निर्जगाम तं वालिनमथाहवे ॥ २३॥

· · ·

[ Sutra 24 ]

निहत्य राघवो राज्ये सुग्रीवं स्थापयत्ततः । हरीनाहूय सुग्रीवस्त्वाह चाशाविदोऽधुना ॥ २४॥

· · ·

[ Sutra 25 ]

आदाय मैथिलीमद्य ददताश्वाशु गच्छत । ततस्ततार हनुमानब्धिं लङ्कां समाययौ ॥ २५॥

· · ·

[ Sutra 26 ]

सीतां दृष्ट्वाऽसुरान्हत्वा पुरं दग्ध्वा तथा स्वयम् । आगत्य रामेण सह न्यवेदयत तत्त्वतः ॥ २६॥

· · ·

[ Sutra 27 ]

तदा रामः क्रोधरूपी तानाहूयाथ वानरान् । तैः सार्धमादायास्त्राणि पुरीं लङ्कां समाययौ ॥ २७॥

· · ·

[ Sutra 28 ]

तां दृष्ट्वा उदधीशेन सार्धं युद्धमकारयत् । घटश्रोत्रसहस्राक्षजिद्भ्यां युक्तं तमाहवे॥ २८॥

· · ·

[ Sutra 29 ]

हत्वा बिभीषणं तत्र स्थाप्याथ जनकात्मजाम् । आदायाङ्कस्थितां कृत्वा स्वपुरं तैर्जगाम सः ॥ २९॥

· · ·

[ Sutra 30 ]

ततः सिंहासनस्थः सन् द्विभुजो रघुनन्दनः । धनुर्धरः प्रसन्नात्मा सर्वाभरणभूषितः ॥ ३०॥

· · ·

[ Sutra 31 ]

मुद्रां ज्ञानमयीं याम्ये वामे तेजप्रकाशिनीम् । धृत्वा व्याख्याननिरतश्चिन्मयः परमेश्वरः ॥ ३१॥

· · ·

[ Sutra 32 ]

उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौ ततः । हनूमन्तं च श्रोतारमग्रतः स्यात्त्रिकोणगम् ॥ ३२॥

· · ·

[ Sutra 33 ]

भरताधस्तु सुग्रीवं शत्रुघ्नाधो बिभीषणम् । पश्चिमे लक्ष्मणं तस्य धृतच्छ्रत्रं सचामरम् ॥ ३३॥

· · ·

[ Sutra 34 ]

तदधस्तौ तालवृन्तकरौ त्र्यस्रं पुनर्भवेत् । एवं षट्कोणमादौ स्वदीर्घाङ्गैरेष संयुतः ॥ ३४॥

· · ·

[ Sutra 35 ]

द्वितीयं वासुदेवाद्यैराग्नेयादिषु संयुतः । तृतीयं वायुसूनुं च सुग्रीवं भरतं तथा ॥ ३५॥

· · ·

[ Sutra 36 ]

बिभीषणं लक्ष्मणं च अङ्गदं चारिमर्दनम् । जाम्बवन्तं च तैर्युक्तस्ततो धृष्टिर्जयन्तकः ॥ ३६॥

· · ·

[ Sutra 37 ]

विजयश्च सुराष्ट्रश्च राष्ट्रवर्धन एव च । अशोको धर्मपालश्च सुमन्त्रश्चैभिरावृतः ॥ ३७॥

· · ·

[ Sutra 38 ]

ततः सहस्रदृग्वह्निर्धर्मज्ञो वरुणोऽनिलः । इन्द्वीशधात्रनन्ताश्च दशभिश्चैभिरावृतः ॥ ३८॥

· · ·

[ Sutra 39 ]

बहिस्तदायुधैः पूज्यो नीलादिभिरलङ्कृतः । वसिष्ठवामदेवादिमुनिभिः समुपासितः ॥ ३९॥

· · ·

[ Sutra 40 ]

एवमुद्देशतः प्रोक्तं निर्देशस्तस्य चाधुना । त्रिरेखापुटमालिख्य मध्ये तारद्वयं लिखेत् ॥ ४०॥

· · ·

[ Sutra 41 ]

तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् । द्वितीयान्तं च तस्योर्ध्वं षष्ठ्यन्तं साधकं तथा ॥ ४१॥

· · ·

[ Sutra 42 ]

कुरु द्वयं च तत्पार्श्वे लिखेद्बीजान्तरे रमाम् । तत्सर्वं प्रणवाभ्यां च वेष्टयेच्छुद्धबुद्धिमान् ॥ ४२॥

· · ·

[ Sutra 43 ]

दीर्घभाजि षडस्रे तु लिखेद्बीजं हृदादिभिः । कोणपार्श्वे रमामाये तदग्रेऽनङ्गमालिखेत् ॥ ४३॥

· · ·

[ Sutra 44 ]

क्रोधं कोणाग्रान्तरेषु लिख्य मन्त्र्यभितो गिरम् । वृत्तत्रयं साष्टपत्रं सरोजे विलिखेत्स्वरान् ॥ ४४॥

· · ·

[ Sutra 45 ]

केसरे चाष्टपत्रे च वर्गाष्टकमथालिखेत् । तेषु मालामनोर्वर्णान्विलिखेदूर्मिसंख्यया ॥ ४५॥

· · ·

[ Sutra 46 ]

अन्ते पञ्चाक्षराण्येवं पुनरष्टदलं लिखेत् । तेषु नारायणाष्टार्णांलिख्य तत्केसरे रमाम् ॥ ४६॥

· · ·

[ Sutra 47 ]

तद्बहिर्द्वादशदलं विलिखेद्द्वादशाक्षरम् । अथों नमो भगवते वासुदेवाय इत्ययम् ॥ ४७॥

· · ·

[ Sutra 48 ]

आदिक्षान्तान्केसरेषु वृत्ताकारेण संलिखेत् । तद्बहिः षोडशदलं लिख्य तत्केसरे हृयम् ॥ ४८॥

· · ·

[ Sutra 49 ]

वर्मास्त्रनतिसंयुक्तं दलेषु द्वादशाक्षरम् । तत्सन्धिष्विरजादीनां मन्त्रान्मन्त्री समालिखेत् ॥ ४९॥

· · ·

[ Sutra 50 ]

ह्रं स्रं भ्रं व्रं लूॅं श्रं ज्रं च लिखेत्सम्यक्ततो बहिः । द्वात्रिंशारं महापद्मं नादबिन्दुसमायुतम् ॥ ५०॥

· · ·

[ Sutra 51 ]

विलिखेन्मन्त्रराजार्णांस्तेषु पत्रेषु यत्नतः । ध्यायेदष्टवसूनेकादशरुद्रांश्च तत्र वै ॥ ५१॥

· · ·

[ Sutra 52 ]

द्वादशेनांश्च धातारं वषट्कारं च तद्बहिः । भूगृहं वज्रशूलाढ्यं रेखात्रयसमन्वितम् ॥ ५२॥

· · ·

[ Sutra 53 ]

द्वारोपतं च राश्यादिभूषितं फणिसंयुतम् । अनन्तो वासुकिश्चैव तक्षः कर्कोटपद्मकः ॥ ५३॥

· · ·

[ Sutra 54 ]

महापद्मश्च शङ्खश्च गुलिकोऽष्टौ प्रकीर्तिताः । एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च ॥ ५४॥

· · ·

[ Sutra 55 ]

नारसिंहं च वाराहं लिखेन्मन्त्रद्वयं तथा । कूटो रेफानुग्रहेन्दुनादशक्त्यादिभिर्युतः ॥ ५५॥

· · ·

[ Sutra 56 ]

यो नृसिंहः समाख्यातो ग्रहमारणकर्मणि । अन्त्याङ्घ्रीशवियद्बिन्दुनादैर्बीजं च सौकरम् ॥ ५६॥

· · ·

[ Sutra 57 ]

हुंकारं चात्र रामस्य मालमन्त्रोऽधुनेरितः । तारो नतिश्च निद्रायाः स्मृतिर्भेदश्च कामिका ॥ ५७॥

· · ·

[ Sutra 58 ]

रुद्रेण संयुता वह्निमेधामरविभूषिता । दीर्घा क्रूरयुता ह्लादिन्यथो दीर्घसमायुता ॥ ५८॥

· · ·

[ Sutra 59 ]

क्षुधा क्रोधिन्यमोघा च विश्वमप्यथ मेधया । युक्ता दीर्घज्वालिनी च सुसूक्ष्मा मृत्युरूपिणी ॥ ५९॥

· · ·

[ Sutra 60 ]

सप्रतिष्ठा ह्लादिनी त्वक्क्ष्वेलप्रीतिश्च सामरा । ज्योतिस्तीक्ष्णाग्निसंयुक्ता श्वेतानुस्वारसंयुता ॥ ६०॥

· · ·

[ Sutra 61 ]

कामिकापञ्चमूलान्तस्तान्तान्तो थान्त इत्यथ । स सानन्तो दीर्घयुतो वायुः सूक्ष्मयुतो विषः ॥ ६१॥

· · ·

[ Sutra 62 ]

कामिका कामका रुद्रयुक्ताथोऽथ स्थिरातपा । तापनी दीर्घयुक्ता भूरनलोऽनन्तगोऽनिलः ॥ ६२॥

· · ·

[ Sutra 63 ]

नारायणात्मकः कालः प्राणाभो विद्यया युतः । पीतारातिस्तथा लान्तो योन्या युक्तस्ततो नतिः ॥ ६३॥

· · ·

[ Sutra 64 ]

सप्तचत्वारिंशद्वर्णगुणान्तःस्पृङ्मनुः स्वयम् । राज्याभिषिक्तस्य तस्य रामस्योक्तक्रमाल्लिखेत् ॥ ६४॥

· · ·

[ Sutra 65 ]

इदं सर्वात्मकं यन्त्रं प्रागुक्तमृषिसेवितम् । सेवकानां मोक्षकरमायुरारोग्यवर्धनम् ॥ ६५॥

· · ·

[ Sutra 66 ]

अपुत्राणां पुत्रदं च बहुना किमनेन वै । प्राप्नुवन्ति क्षणात्सम्यगत्र धर्मादिकानपि ॥ ६६॥

· · ·

[ Sutra 67 ]

इदं रहस्यं परममीश्वरेणापि दुर्गमम् । इदं यन्त्रं समाख्यातं न देयं प्राकृते जने ॥ ६७॥ इति॥

· · ·

इति तुरीयोपनिषत् ॥

· · ·

[ Sutra 1 ]

ॐ भूतादिकं शोधयेद्द्वारपूजां कृत्वा पद्माद्यासनस्थः प्रसन्नः । अर्चाविधावस्य पीठाधरोर्ध्व- पार्श्वार्चनं मध्यपद्मार्चनं च ॥ १॥

· · ·

[ Sutra 2 ]

कृत्वा मृदुश्लक्ष्णसुतूलिकायां रत्नासने देशिकमर्चयित्वा । शक्तिं चाधाराख्यकां कूर्मनागौ पृथिव्यब्ज स्वासनाधः प्रकल्प्य ॥ २॥

· · ·

[ Sutra 3 ]

विघ्नेशं दुर्गां क्षेत्रपालं च वाणीं बीजादिकांश्चाग्निदेशादिकांश्च । पीठस्याङ्घ्रिष्वेव धर्मादिकांश्च नत्वा पूर्वाद्यासु दीक्ष्वर्चयेच्च ॥ ३॥

· · ·

[ Sutra 4 ]

मध्ये क्रमादर्कविध्वग्नितेजां- स्युपर्युपर्यादिमैरर्चितानि । रजः सत्वं तम एतान् वृत्त- त्रयं बीजाढ्यं क्रमाद्भावयेच्च ॥ ४॥

· · ·

[ Sutra 5 ]

आशाव्याशास्वप्यथात्मानमन्त- रात्मानं वा परमात्मानमन्तः । ज्ञानात्मानं चार्चयेत्तस्य दिक्षु मायाविद्ये ये कलापारतत्त्वे ॥ ५॥

· · ·

[ Sutra 6 ]

सम्पूजयेद्विमलादीश्च शक्ती- रभ्यर्चयेद्देवमवाहयेच्च । अङ्गव्यूहानिलजाद्यैश्च पूज्य घृष्ट्यादिकैर्लोकपालैस्तदस्त्रैः ॥ ६॥

· · ·

[ Sutra 7 ]

वसिष्ठाद्यैर्मुनिभिर्नीलमुख्यै- राराधयेद्राघवं चन्दनाद्यैः । मुख्योपहारैर्विविधैश्च पूज्यै- स्तस्मै जपादींश्च सम्यक्प्रकल्प्य ॥ ७॥

· · ·

[ Sutra 8 ]

एवंभूतं जगदाधारभूतं रामं वन्दे सच्चिदानन्दरूपम् । गदारिशङ्खाब्जधरं भवारिं स यो ध्यायेन्मोक्षमाप्नोति सर्वः ॥ ८॥

· · ·

[ Sutra 9 ]

विश्वव्यापी राघवो यस्तदानी- मन्तर्दधे श्ङ्खचक्रे गदाब्जे । धृत्वा रमासहितः सानुजश्च सपत्तनः सानुगः सर्वलोकी ॥ ९॥

· · ·

[ Sutra 10 ]

तद्भक्ता ये लब्धकामांश्च भुक्त्वा तथा पदं परमं यान्ति ते च । इमा ऋचः सर्वकामार्थदाश्च ये ते पठन्त्यमला यान्ति मोक्षम् ॥ १०॥

· · ·

इति पञ्चमोऽपनिषत् ॥

· · ·

चिन्मयेऽस्मिंस्त्रयोदश । स्वभूर्ज्योतिस्तिस्रः । सीतारामावेका । जीववाची षट्षष्टिः । भूतादिकमेकादश । पञ्चखण्डेषु त्रिनवतिः । इति श्रीरामपूर्वतापिन्युपनिषत्समाप्ता ॥

· · ·

रामोत्तरतापिन्युपनिषत् ॐ बृहस्पतिरुवाच याज्ञवल्क्यम् । यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । तस्माद्यत्र क्वचन गच्छति तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति । तस्मादविमुक्तमेव निषेवेत । अविमुक्तं न विमुञ्चेत् । एवमेवैतद्याज्ञवल्क्य ॥ १॥

· · ·

अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकं किं तारयतीति । स होवाच याज्ञवल्क्यस्तारकं दीर्घानलं बिन्दुपूर्वकं दीर्घानलं पुनर्मायां नमश्चन्द्राय नमो भद्राय नम इत्येतद्ब्रह्मात्मिकाः सच्चिदानन्दाख्या इत्युपासितव्यम् । अकारः प्रथमाक्षरो भवति । उकारोद्वितीयाक्षरो भवति । मकारस्तृतीयाक्षरो भवति । अर्धमात्रश्चतुर्थाक्षरो भवति । बिन्दुः पञ्चमाक्षरो भवति । नादः षष्ठाक्षरो भवति । तारकत्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विद्धि । तदेवोपासितव्यमिति ज्ञेयम् । गर्भजन्मजरामरणसंसारमहद्भयात्संतारयतीति । तस्मादुच्यते षडक्षरं तारकमिति ॥ य एतत्तारकं ब्रह्म ब्राह्मणो नित्यमधीते । स पाप्मानं तरति । स मृत्युं तरति । स ब्रह्महत्यां तरति । स भ्रूणहत्यां तरति। स संसारं तरति । स सर्वं तरति । सोऽविमुक्तमाश्रितो भवति । स महान्भवति । सोऽमृतत्वं च गच्छति ॥ २॥

· · ·

[ Sutra 1 ]

अत्रैते श्लोका भवन्ति । अकारक्षरसंभूतः सौमित्रिर्विश्वभावनः । उकाराक्षरसंभूतः शत्रुघ्नस्तैजसात्मकः ॥ १॥

· · ·

[ Sutra 2 ]

प्राज्ञात्मकस्तु भरतो मकाराक्षरसंभवः । अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः ॥ २॥

· · ·

[ Sutra 3 ]

श्रीरामसांनिध्यवशाज्जगदाधारकारिणी । उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥ ३॥

· · ·

सा सीता भवति ज्ञेया मूलप्रकृतिसंज्ञिता । प्रणवत्वात्प्रकृतिरिति वदन्ति ब्रह्मवादिनः ॥ ४॥ इति॥

· · ·

ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भव्यं भविष्यदिति सर्वमोङ्कार एव । यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव । सर्वं ह्येतद्ब्रह्म । अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पाज्जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघनएवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः । एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् । नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृश्य- मव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्य- मेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानसन्मात्रो निरस्ताविद्यातमोमोहोऽहमेवेति संभाव्याहमोंत- त्सद्यत्परंब्रह्म रामचन्द्रश्चिदात्मकः । सोऽहमोन्तद्रामभद्रपरंज्योतीरसोऽहमोमित्या- त्मानमादाय मनसा ब्रह्मणैकीकुर्यात् ॥

· · ·

सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये । न ते संसारिणो नूनं राम एव न संशयः ॥ इत्युपनिषत् ॥

· · ·

य एवं वेद स मुक्तो भवतीति याज्ञवल्क्यः ॥

· · ·

अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्तपरिपूर्णानन्दैकचिदात्मा तं कथमहं विजानीयामिति । स होवाच याज्ञवल्क्यः । सोऽविमुक्त उपास्योऽयम् । एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति । वरणायां नास्यां च मध्ये प्रतिष्ठित इति ॥

· · ·

का वै वरणा का च नासीति । जन्मान्तरकृतान्सर्वा- न्दोषन्वारयतीति तेन वरणा भवतीति । सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नासी भवतीति । कतमच्चास्य स्थानं भवतीति । भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति । एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति ॥

· · ·

सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे योवा एतदेवं वेद ॥ अथ तं प्रत्युवाच । श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः । मन्वन्तरसहस्रैस्तु जपहोमार्चनादिभिः ॥१॥ ततः प्रसन्नो भगवाञ्छ्रीरामः प्राह शंकरम् । वृणीश्व यदभीष्टं तद्दास्यामि परमेश्वर ॥ २॥ इति ॥ अथ सच्चिदानन्दात्मानं श्रीराममीश्वरः पप्रच्छ । मणिकर्ण्यां मम क्षेत्रे गङ्गायां वा तटे पुनः । म्रियेत देही तज्जन्तोर्मुक्तिर्नाऽतो वरान्तरम् ॥ ३॥ इति ॥

· · ·

अथ स होवाच श्रीरामः ॥

· · ·

[ Sutra 4 ]

क्षेत्रेऽस्मिंस्तव देवेश यत्र कुत्रापि वा मृताः । कृमिकीटादयोऽप्याशु मुक्ताः सन्तु न चान्यथा ॥ ४॥

· · ·

[ Sutra 5 ]

अविमुक्ते तव क्षेत्रे सर्वेषां मुक्तिसिद्धये । अहं संनिहितस्तत्र पाषाणप्रतिमादिषु ॥ ५॥

· · ·

[ Sutra 6 ]

क्षेत्रेऽस्मिन्योऽर्चयेद्भक्त्या मन्त्रेणानेन मां शिव । ब्रह्महत्यादिपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६॥

· · ·

[ Sutra 7 ]

त्वत्तो वा ब्रह्मणो वापि ये लभन्ते षडक्षरम् । जीवन्तो मन्त्रसिद्धाः स्युर्मुक्ता मां प्राप्नुवन्ति ते ॥ ७॥

· · ·

[ Sutra 8 ]

मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् । उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिव ॥ ८॥

· · ·

इति श्रीरामचन्द्रेणोक्तम् ॥ अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः स्तुतः श्रीरामचन्द्रः प्रीतो भवति । स्वात्मानं दर्शयति तान्नो ब्रूहि भगवन्निति । स होवाच याज्ञवल्क्यः ॥ पूर्वं सत्यलोके श्रीरामचन्द्रेणैवं शिक्षितो ब्रह्मा पुनरेतया गाथया नमस्करोति ॥

· · ·

[ Sutra 1 ]

विश्वरूपधरं विष्णुं नारायणमनामयम् । पूर्णानन्दैकविज्ञानं परं ब्रह्मस्वरूपिणम् ॥

· · ·

[ Sutra 2 ]

मनसा संस्मरन्ब्रह्म तुष्टाव परमेश्वरम् । ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्दआत्मा यत्परं ब्रह्म भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १॥

· · ·

[ Sutra 3 ]

यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु ज्ञातव्यौ ॥यश्चाखण्डैकरसात्मा ॥ २॥ यच्च ब्रह्मानन्दामृतम् ॥ ३॥

· · ·

[ Sutra 5 ]

यत्तारकं ब्रह्म ॥ ४॥ यो ब्रह्मा विष्णुर्महेश्वरो यः सर्वदेवात्मा ॥ ५॥

· · ·

[ Sutra 6 ]

ये सर्वे वेदाः साङ्गाः सशाखाः सेतिहासपुराणाः ॥ ६॥

· · ·

[ Sutra 8 ]

यो जीवान्तरात्मा ॥ ७॥ यः सर्वभूतान्तरात्मा ॥ ८॥

· · ·

[ Sutra 9 ]

ये देवासुरमनुष्यादिभावाः ॥ ९॥

· · ·

[ Sutra 10 ]

ये मत्स्यकूर्माद्यवताराः ॥ १०॥

· · ·

[ Sutra 11 ]

योऽन्तःकरणचतुष्टयात्मा ॥ ११॥

· · ·

[ Sutra 12 ]

यश्च प्राणः ॥ १२॥

· · ·

[ Sutra 13 ]

यश्च यमः ॥ १३॥

· · ·

[ Sutra 14 ]

यश्चान्तकः ॥ १४॥

· · ·

[ Sutra 15 ]

यश्च मृत्युः ॥ १५॥

· · ·

[ Sutra 16 ]

यच्चामृतम् ॥ १६॥

· · ·

[ Sutra 17 ]

यानि च पञ्चमहाभूतानि ॥ १७॥

· · ·

[ Sutra 18 ]

यः स्थावरजङ्गमात्मा ॥ १८॥

· · ·

[ Sutra 19 ]

ये पञ्चाग्नयः ॥ १९॥

· · ·

[ Sutra 20 ]

याः सप्त महाव्याहृतयः ॥ २०॥

· · ·

[ Sutra 21 ]

या विद्या ॥ २१॥

· · ·

[ Sutra 22 ]

या सरस्वती ॥ २२॥

· · ·

[ Sutra 23 ]

या लक्ष्मीः ॥ २३॥

· · ·

[ Sutra 24 ]

या गौरी ॥ २४॥

· · ·

[ Sutra 25 ]

या जानकी ॥ २५॥

· · ·

[ Sutra 26 ]

यच्च त्रैलोक्यम् ॥ २६॥

· · ·

[ Sutra 27 ]

यः सूर्यः ॥ २७॥

· · ·

[ Sutra 28 ]

यः सोमः ॥ २८॥

· · ·

[ Sutra 29 ]

यानि च नक्षत्राणि ॥ २९॥

· · ·

[ Sutra 30 ]

ये च नव ग्रहाः ॥ ३०॥

· · ·

[ Sutra 31 ]

ये चाष्टौ लोकपालाः ॥ ३१॥

· · ·

[ Sutra 32 ]

ये चाष्टौ वसवः ॥ ३२॥

· · ·

[ Sutra 33 ]

ये चैकादश रुद्राः ॥ ३३॥

· · ·

[ Sutra 34 ]

ये च द्वदिशादित्याः ॥ ३४॥

· · ·

[ Sutra 35 ]

यच्च भूतं भव्यं भविष्यत् ॥ ३५॥

· · ·

[ Sutra 36 ]

यद्ब्रह्माण्डस्य बहिर्व्याप्तम् ॥ ३६॥

· · ·

[ Sutra 37 ]

यो हिरण्यगर्भः ॥ ३७॥

· · ·

[ Sutra 38 ]

या प्रकृतिः ॥ ३८॥

· · ·

[ Sutra 39 ]

यश्चोङ्कारः ॥ ३९॥

· · ·

[ Sutra 40 ]

याश्चतस्रोऽर्धमात्राः ॥ ४०॥

· · ·

[ Sutra 41 ]

यः परमपुरुषः ॥ ४१॥

· · ·

[ Sutra 42 ]

यश्च महेश्वरः ॥ ४२॥

· · ·

[ Sutra 43 ]

यश्च महादेवः ॥ ४३॥

· · ·

[ Sutra 44 ]

य ॐ नमो भगवते वासुदेवाय ॥ ४४॥

· · ·

[ Sutra 45 ]

यो महाविष्णुः ॥ ४५॥

· · ·

[ Sutra 46 ]

यः परमात्मा ॥ ४६॥

· · ·

[ Sutra 47 ]

यो विज्ञानात्मा ॥ ४७॥

· · ·

ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्द आत्मा । यः सच्चिदानन्दाद्वैतैकचिदात्मा भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ इति तान्ब्रह्माब्रवीत् । सप्तचत्वारिंशन्मन्त्रैर्नित्यं देवं स्तुवध्वम् । ततो देवः प्रीतो भवति । स्वात्मानं दर्शयति । तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति । सोऽमृतत्वं गच्छतीति महोपनिषत् ॥ ५॥

· · ·

[ Sutra 1 ]

अथ हैनं भारद्वाजो याज्ञवल्क्यमुपसमेत्योवाच श्रीराममन्त्रराजस्य माहात्म्यमनुब्रूहीति । स होवाच याज्ञवल्क्यः । स्वप्रकाशः परंज्योतिः स्वानुभूत्यैकचिन्मयः । तदेव रामचन्द्रस्य मनोराद्यक्षरः स्मृतः ॥ १॥

· · ·

[ Sutra 2 ]

अखण्डैकरसानन्दस्तारकब्रह्मवाचकः । रामायेति सुविज्ञेयः सत्यानन्दचिदात्मकः ॥ २॥

· · ·

[ Sutra 3 ]

नमःपदं सुविज्ञेयं पूर्णानन्दैककारणम् । सदा नमन्ति हृदये सर्वे देवा मुमुक्षवः ॥ ३॥ इति ॥

· · ·

य एवं मन्त्रराजं श्रीरामचन्द्रषडक्षरं नित्यमधीते । सोऽग्निपूतो भवति । स वायुपूतो भवति । स आदित्यपूतो भवति । स सोमपूतो भवति । स ब्रह्मपूतो भवति । स विष्णुपूतो भवति । स रुद्रपूतो भवति । सर्वैर्देवैर्ज्ञातो भवति । सर्वक्रतुभिरिष्टवान्भवति । तेनेतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति । श्रीरामचन्द्रमनुस्मरणेन गायत्र्यः शतसहस्राणि जप्तानि फलानि भवन्ति । प्रणवानामयुतकोटिजपा भवन्ति । दश पूर्वान्दशोत्तरान्पुनाति । स पङ्क्तिपावनो भवति । स महान्भवति । सोऽमृतत्वं च गच्छति ॥

· · ·

[ Sutra 4 ]

अत्रैते श्लोका भवन्ति । गाणपत्येषु शैवेषु शाक्तसौरेष्वभीष्टदः । वैष्णवेष्वपि सर्वेषु राममन्त्रः फलाधिकः ॥ ४॥

· · ·

[ Sutra 5 ]

गाणपत्यादि मन्त्रेषु कोटिकोटिगुणाधिकः । मन्त्रस्तेष्वप्यनायासफलदोऽयं षडक्षरः ॥ ५॥

· · ·

[ Sutra 6 ]

षडक्षरोऽयं मन्त्रः स्यात्सर्वाघौघनिवारणः । मन्त्रराज इति प्रोक्तः सर्वेषामुत्तमोत्तमः ॥ ६॥

· · ·

[ Sutra 7 ]

कृतं दिने यद्दुरितं पक्षमासर्तुवर्षजम् । सर्वं दहति निःशेषं तूलराशिमिवानलः ॥ ७॥

· · ·

[ Sutra 8 ]

ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च । स्वर्णस्तेयसुरापानगुरुतल्पायुतानि च ॥ ८॥

· · ·

[ Sutra 9 ]

कोटिकोटिसहस्राणि उपपातकजान्यपि । सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् ॥ ९॥

· · ·

[ Sutra 10 ]

भूतप्रेतपिशाचाद्याः कूष्माण्डब्रह्मराक्षसाः । दूरादेव प्रधावन्ति राममन्त्रप्रभावतः ॥ १०॥

· · ·

[ Sutra 11 ]

ऐहलौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम् । कैवल्यं भगवत्त्वं च मन्त्रोऽयं साधयिष्यति ॥ ११॥

· · ·

[ Sutra 12 ]

ग्राम्यारण्यपशुघ्नत्वं संचितं दुरुतं च यत् । मद्यपानेन यत्पापं तदप्याशु विनाशयेत् ॥ १२॥

· · ·

[ Sutra 13 ]

अभक्ष्यभखक्षणोत्पन्नं मिथ्याज्ञानसमुद्भवम् । सर्वं विलीयते राममन्त्रस्यास्यैव कीर्तनात् ॥ १३॥

· · ·

[ Sutra 14 ]

श्रोत्रियस्वर्णहरणाद्यच्च पापमुपस्थितम् । रत्नादेश्चापहारेण तदप्याशु विनाशयेत् ॥ १४॥

· · ·

[ Sutra 15 ]

ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वा च किल्बिषम् । संचिनोति नरो मोहाद्यद्यत्तदपि नाशयेत् ॥ १५॥

· · ·

[ Sutra 16 ]

गत्वापि मातरं मोहादगम्याश्चैव योषितः । उपास्यानेन मन्त्रेण रामस्तदपि नाशयेत् ॥ १६॥

· · ·

[ Sutra 17 ]

महापातकपापिष्ठसङ्गत्या संचितं च यत् । नाशयेत्तत्कथालापशयनासनभोजनैः ॥ १७॥

· · ·

[ Sutra 18 ]

पितृमातृवधोत्पन्नं बुद्धिपूर्वमघं च यत् । तदनुष्ठानमात्रेणसर्वमेतद्विलीयते ॥ १८॥

· · ·

[ Sutra 19 ]

यत्प्रयागादितीर्थोक्तप्रायश्चित्तशतैरपि । नैवापनोद्यते पापं तदप्याशु विनाशयेत् ॥ १९॥

· · ·

[ Sutra 20 ]

पुण्यक्षेत्रेषु सर्वेषु कुरुक्षेत्रादिषु स्वयम् । बुद्धिपूर्वमघं कृत्वा तदप्याशुविनाशयेत् ॥ २०॥

· · ·

[ Sutra 21 ]

कृच्छ्रैस्तप्तपराकाद्यैर्नानाचान्द्रायणैरपि । पापं च नापनोद्यं यत्तदप्याशु विनाशयेत् ॥ २१॥

· · ·

[ Sutra 22 ]

आत्मतुल्यसुवर्णादिदानैर्बहुविधैरपि । किंचिदप्यपरिक्षीणं तदप्याशु विनाशयेत् ॥ २२॥

· · ·

[ Sutra 23 ]

अवस्थात्रितयेष्वेवबुद्धिपूर्वमघं च यत् । तन्मन्त्रस्मरणेनैव निःशेषं प्रविलीयते ॥ २३॥

· · ·

[ Sutra 24 ]

अवस्थात्रितयेष्वेवं मूलबन्धमन्त्रं च यत् । तत्तन्मन्त्रोपदेशेन सर्वमेतत्प्रणश्यति ॥ २४॥

· · ·

[ Sutra 25 ]

आब्रह्मबीजदोषाश्च नियमातिक्रमोद्भ्वाः । स्त्रीणां च पुरुषाणां च मन्त्रेणानेन नाशिताः ॥ २५॥

· · ·

[ Sutra 26 ]

येषु येष्वपि देशेषु रामभद्र उपास्यते । दुर्भिक्षादिभयं तेषु न भवेत्तु कदाचन ॥ २६॥

· · ·

[ Sutra 27 ]

शान्तः प्रसन्नवदनो ह्यक्रोधो भक्तवत्सलः । अनेन सदृशो मन्त्रो जगत्स्वपि न विद्यते ॥ २७॥

· · ·

[ Sutra 28 ]

सम्यगाराधितो रामः प्रसीदत्येव सत्वरम् । ददात्यायुष्यमैश्वर्यमन्ते विष्णुपदं च यत् ॥ २८॥

· · ·

तदेतदृचाभ्युक्तम् । ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् । ॐ सत्यमित्युपनिषत् ॥ ६॥

· · ·

[ Sutra शान्ति मन्त्र ]

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥