Books / Ramatapini Upanishad

1. Ramatapini Upanishad

Page 1

श्रीरामतापनीयं भक्तध्येयकलेवरम् ।

विकलैर्वैकल्यं श्रीरामब्रह्म मे गतिः ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिरव्ययशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्ताक्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

1

1

ॐ चिन्मयेऽस्मिन्नह्महविष्यौ जाते दयारथे हरौ ।

1

1

रघोः कुलेऽखिलं राति राजते यो महीस्थितः ॥ १॥

1

2

स राम इति लोकेषु विख्यातः प्रकटीकृतः ।

1

2

राक्षसा येन मरणं यान्ति स्वोद्रेकतोऽथवा ॥ २॥

1

3

रामनाम भुवि श्यातमभिरामेण वा पुनः ।

1

3

राक्षसान्त्यरूपेण राहुनेनसिर्ंज यथा ॥ ३॥

1

4

प्रभाहीनांस्थथा कृत्वा राज्याहांनां महीभृताम् ।

1

4

धर्ममार्गं चरित्रेण ज्ञानमागं च नामतः ॥ ४॥

1

5

तथा ध्यानेन वैराग्यमेश्र्यं स्वस्य पूजनात् ।

1

5

तथा रात्यस्य रामाख्यां भुवि स्पादथ तत्स्वतत् ॥ ५॥

1

6

रमन्ते योगिनोऽनन्ते नित्यानान्ते चिदात्मनि ।

1

6

इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ ६॥

1

7

चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।

1

7

उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥

1

8

रूपस्थानां देवनानं पुंस्त्वाद्यास्त्रादिकल्पना ।

1

8

द्वितत्त्वारिष्टडष्टानां दश द्वादश षोडश ॥ ८॥

1

9

अष्टादशासामी कथिता हसता श्राद्धादिभिर्युता ।

1

9

सहस्रान्तस्थथा तासां वर्णवाहनकल्पना ॥ ९॥

1

10

शक्तिसेनाकल्पना च ब्रह्माणयेयं हि पञ्चधा ।

1

10

कल्पतस्य शरीर्स्य तस्य सेनादिकलपना ॥ १०॥

1

11

ब्रह्मादीनां वाचकोऽयं मन्त्रोऽन्वर्थादिसंजकः ।

1

11

जप्तव्यो मन्त्रिणा नैवं विने देवं प्रसादति ॥ ११॥

1

12

क्रियाकर्मेज्यकर्तुंनामं मन्त्रो वदत्यथ ।

1

12

मननान्त्राणानमन्त्रः सर्ववाच्यस्य वाचकः ॥ १२॥

1

12

सोडभयस्यास्य देवस्य विग्रहो यन्त्रकल्पना ।

Page 2

इति रामपूर्वतापिन्युपनिषदि प्रथमोपनिषत् ॥ १ ॥ स्वभूर्ज्योऽतिमंयोडनन्तरूपी स्वेनैव भासते । जीवत्वेन समो यस्य सृष्टिस्थितिलयस्य च ॥ १॥

कारणत्वेन चिच्छक्त्या रजःसत्त्वतमोगुणैः । यथैव वटबीजस्थः प्रकृतस्थो महान्तम् ॥ २ ॥

तथैव रामबीजस्थं जगदेतच्चराचरम् । रेफारूढं मृतं स्युः शक्तयस्तिस्र एव चेति ॥ ३ ॥

इति रामतापिन्योऽपनिषद् द्वितीयोपनिषत् ॥ २ ॥ सीतारामौ तन्मयावतत् पूज्यौ जातान्यान्यां भुवनानि द्विसप्त । स्थितानि च प्रहितान्येव तेषु ततो रामो मानवो माययाधात् ॥ १ ॥

जगत्प्राणायात्मनेDsमै नमः स्या- ऋमस्तवैर्यं प्रवदेत्प्राग्गुणैरन्विति ॥ २ ॥

इति रामतापिन्युपनिषद् तृतीयोपनिषत् ॥ ३ ॥ जीववाची नमो नाम चार्तमारमेति गीयते । तदात्मिका या चतुर्थी तथा मायेति गीयते ॥ १ ॥

मन्त्रोयं वाचको रामो रामो वाच्यः स्याद्योगऐतयः । फलतश्वैव सर्वेषां साधकानां न संशयः ॥ २ ॥

यथा नामी वाचकन नाम्ना योडभिमुखो भवेत् । तथा बीजात्को मन्त्रो मन्त्रणोडभिमुखो भवेत् ॥ ३ ॥

बीजशक्तिं न्यसेधक्षवामयोः स्तनयोरपि । कीलो मध्ये विना भाव्यः स्वाङ्गैरविनियोगवान् ॥ ४ ॥

सर्वेषामेव मन्त्राणामेष साधारणः क्रमः । अत्र रामोडनन्तरूपस्तेजसा वह्निना समः ॥ ५ ॥

सत्यव्रतायुगविश्ववेदगनीषोमात्मकं जगत् । उत्पन्नः सीतया भाति चन्द्रशोभान्त्रिकया यथा ॥ ६ ॥

प्रकृत्या सहितः श्यामः पीतवासा जटाधरः । द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः ॥ ७ ॥

प्रसन्नवदनो जेता घृष्यषटकविभूषितः । प्रकृत्या परमेश्वऽऽयं जगदोन्याऽऽडिताऽऽडभृत् ॥ ८ ॥

हेमाभया द्विमुजया सर्वालंकृतया चिता । शिलष्टः कमलधारिण्या पुष्टः कोसलजातमजः ॥ ९ ॥

१०

दक्षिणे लक्ष्मनेनाथ सघनुष्पाणिना पुनः । हेमाभेनानुजेनैव तथा कोणत्रयं भवेत् ॥ १० ॥

Page 3

११

तथैव तस्य मन्त्रस्य यस्याणुष्ठ स्वडेन्न्तया । एवं त्रिकोणरूपं स्यातं देवा ये समाययुः ॥

१२

स्तुतिं चक्रुः जगतः पतिं कल्पतरौ स्थितम् । कामरूपाय रामाय नमो मायामयाय च ॥

१३

नमो वेदादिरूप ओङ्काराय नमो नमः । रमाधराय रामाय श्रीरामायात्ममूर्तये ॥

१४

जानकीदेहभूषाय रक्षोघ्नाय शुभाऽऽदिने । भद्राय रघुवीराय दशास्यान्तकरूपिणे ॥

१५

रामभद्र महेश्वास रघुवीर नृपोत्तम । भो दशास्यान्तकास्माकं रक्षां देहि श्रियम च ते ॥

१६

त्वमैश्वर्यं दापयाथ संप्रत्याश्विरिमारणम् । कुर्वन्ति स्तुत्य देवास्ते साधु सुःखं स्विताः ॥

१७

स्तुवन्त्येवं हि ऋषयस्तदा रावण आसुरः । रामपत्नीं वनस्थां यः सवनिवृत्यर्थमाददे ॥

१८

स रावण इति ख्यातो यद्वा रावाच्च रावणः । तद्राजेनेऽक्षितुं सीतां रामो लक्ष्मण एव च ॥

१९

विचेरतुस्सदा भूमौ देवीं संदृश्य चासुरम् । हत्वा कबन्धं शबरिं गत्वा तस्याज्जया तया ॥

२०

पूजितो वायुपुत्रेण भक्तेन च कपिेश्वरम् । आहूय शंसतां सर्वमाद्यात् रामलक्ष्मणौ ॥

२१

स तु रामे श्रद्धितः सन्नतत्ययार्थ च दुनुद्भेः । विग्रहं दर्शयामास यो रामस्तमचिक्शिपत् ॥

२२

सप्त सालान्वभिद्यायु मोदते राघवस्तदा । तेन दृष्टः कपिनेक्षौ स रामस्तस्य पत्ननम् ॥

२३

जगामागर्जदनुजो वालिनो वेगतो गृहत् । तदा वाली निजंगाम तं वालिनमथाहवं ॥

२४

निहत्य राघवो राज्ये सुप्रीवं स्थापयत्ततः । हरिणाहूय सुप्रीवस्थाह चाशाविदोडधुना ॥

२५

आदाय मैथिलीमद्य ददताश्राय च गच्छत । तत्सततार हनुमानबिंं लङ्कां समाययौ ॥

२६

सीतां दृष्ट्वाडसुरान्हत्वा पुरं दग्धवा तथा स्वयम् । आगत्य रामेण सह न्यवेदयत तत्स्वत् ॥

२७

तदा रामः क्रोधरूपी तानाहूयाथ वानरान् । तैः सार्धमादायास्त्राणि पुरीं लङ्कां समाययौ ॥

२८

तां दृष्टवा उदधीशेन सार्धं युद्धमकारयत् । घटश्रोत्रसहस्राक्षजिडीयां युक्तं तमाहवे ॥

Page 4

२९

हत्या विभीषणं तत् स्थाप्याथ जनकात्मजाम् । आदायाऽऽस्थितां कृत्वा स्वपुरं तैर्जगाम सः ॥ २९ ॥

३०

ततः सिंहासनस्थः सन् दिभुजो रघुनन्दनः । धनुर्धरः प्रसन्नात्मा सर्वभरणभूषितः ॥ ३० ॥

३१

मुक्त्रां ज्ञानमयीं याम्ये वामे तेजःप्रकाशिनीम् । धृत्वा व्याख्याननिरतश्शिवमयः परमेश्वरः ॥ ३१ ॥

३२

उदग्दक्षिणयोः स्वस्य ग्रावृध्नभरतौ ततः । हनूमन्तं च श्रोतारमग्रतः स्यात्त्रिकोणगम् ॥ ३२ ॥

३३

भरताग्रस्तु सुप्रीवं शत्रुघ्नादो विभीषणम् । पक्षिमे लक्ष्मणं तस्य धृतचापं सचामरम् ॥ ३३ ॥

३४

तदधस्तौ तालवन्तकरौ च्यस्यां पुनर्भवेत् । एवं शङ्कोणमादौ स्वदीशाैरेश संयुतः ॥ ३४ ॥

३५

द्वितीयं वासुदेवादैैराग्नेयादिशु संयुतः । तृतीयं वायुसूनुं च सुप्रीवं भरतं तथा ॥ ३५ ॥

३६

विभीषणं लक्ष्मणं च अङ्गदं चारिमर्दनम् । जाम्बवन्तं च तैर्युक्तस्ततो दृष्टिर्यजन्तकः ॥ ३६ ॥

३७

विजयश्र्च सुराष्ट्रश्र्च राष्ट्रवर्धन एव च । अशोको धर्मपालश्र्च सुमित्रैभिरावृतः ॥ ३७ ॥

३८

ततः सहस्रदृग्वहिर्धर्मजो वरुणोडनिलः । इन्द्रेशाधात्रननास्त्रैर्दशभिरैभिरावृतः ॥ ३८ ॥

३९

बहिस्तदायुधे पूज्यो नीलादिभिरलंकृतः । वसिष्ठवामदेवादिमुनिभिः समुपासितः ॥ ३९ ॥

४०

एवमुदेशतः प्रोक्तं निर्देशस्तस्य चाधुना । त्रिरेखापुटमालिख्य मध्ये तारद्वयं लिखेत् ॥ ४० ॥

४१

तन्मध्ये बीजमालिख्य तदभः साध्यमालिखेत् । द्वितीयान्तं च तस्योध्ये षष्यान्तं साधकं तथा ॥ ४१ ॥

४२

कुरुद्वयं च तत्पार्श्वे लिखिद्वीजान्तरे रमाम् । तत्सवं प्रणवाभ्यां च वेष्टयेच्छुद्धबुद्धिमान् ॥ ४२ ॥

४३

दीर्घभाजि षडङ्ग्रे तु लिखिद्वीजं हृदादिभिः । कोणपार्श्वे रमामाये तदगेड़नङ्गमालिखेत् ॥ ४३ ॥

४४

क्रोधं कोणाग्रान्तरेषु लिख्य मन्त्र्यभितो गिराम् । वृत्तत्रयं साष्टपत्रं सरोजे विलिखेत्स्वरान् ॥ ४४ ॥

४५

केसरे चाष्टपत्रे च वर्गाष्टकमथालिखेत् । तेषु मालामनोवर्णान्न्विलिखेदूर्मिंसंख्यया ॥ ४५ ॥

४६

अन्ते पञ्चाक्षराण्येवं पुनरष्टदलं लिखेत् । तेषु नारायणाष्टारणांलिख्य तत्केसरे रमाम् ॥ ४६ ॥

Page 5

४७

तद्वहिद्रादशलं विलिखेद्वादशाक्षरम् । अथों नमो भगवते वासुदेवाय इत्ययम् ॥

४८

आदिक्षान्तंकसरेषु वृत्ताकारेण स मिलिखेत् । तद्वहिः षोडशदलं लिख्य तत्केसरे हयम् ॥

४९

वर्णाष्टनतिसंयुक्तं दलेषु द्वादशाक्षरम् । तत्वसन्धिष्वरजादीनाॅं मन्त्रान्मन्त्री समालिखेत् ॥

५०

हूं मं भ्रं व्रं लूं शं रं चं लिखेत्समयक्ततो बहिः । द्वात्रिशारं महापद्मं नादबिन्दुसमायुतम् ॥

५१

विलिखेनमन्त्रराजाणोऽस्तेऽुु पत्रेषु यत्नतः । ध्यायेदष्टसुनेकोदशरुद्रांस्तत्र वै ॥

५२

द्वादशान्तं धातारं वषड्कारं च तद्वहिः । भृगुहूं वज्रशूलादिं रेखाष्टयसमन्वितम् ॥

५३

द्वारोपतं च राष्टादिभूतिं फणिसंयुतम् । अनन्तो वासुकिश्चैव तक्षकः ककोटपयकः ॥

५४

महापद्मश्च शङ्खश्च गुलिकोडष्टौ प्रकीर्तिताः । एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च ॥

५५

नारसिंहं च वाराहं लिखेनमन्त्रद्वयं तथा । कूटो रेफानुग्रहेऽदुनादशक्त्यादिभियुतः ॥

५६

यो नृसिंहः समाश्र्यतो प्रह्मारणकरंमणि । अन्त्यादिग्रेशवियद्नुनादैर्बीजं च सौकरम् ॥

५७

हुंकारं चात्र रामस्य मालमन्रोङधुनेरितः । तारो नतिष्ठ निद्राया: स्मृतिम्भेदश कामिका ॥

५८

रुद्रेण संयुता वन्हिमेभामरविभूषिता । दीर्घा कूrayuta ह्लादिन्यो दीर्घसमायुता ॥

५९

क्षुधा क्रोधिन्यमोघा च विश्वमप्यथ मेधया । युक्ता दीर्घंज्वालिनी च सुसूक्ष्मा मृत्युरूपिणी ॥

६०

सप्रतिष्ठा ह्लादिनीतृक्षैलप्रीतितष्ठ समरा । ज्योतिस्तीक्ष्णाग्निसंयुक्ता क्षेतानुस्वारसंयुता ॥

६१

कामिकापञ्चमूलान्तस्तान्तो थान्त इत्यथ । स सानन्तो दीर्घयुतो वायु: सूक्ष्मयुतो विष: ॥

६२

कामिका कामका रुद्रयुक्ताथोडथ स्थिरातपा । तपनी दीर्घयुकता भूरनलोडनन्तगोडनिल: ॥

६३

नारायणात्मक: काल: प्राणाभो विदयया युत: । पीतारातिस्था लान्तो योऽन्या युक्तस्ततो नति: ॥

६४

सप्तचत्वारिशद्द्वर्णगुणान्त:स्पृशन्नु: स्वयम् । राज्याभिषिक्तस्य तस्य रामस्योक्तक्रमाल्लिलेखत् ॥

Page 6

६५

इदं सर्वात्मकं यन्त्रं प्रागुक्तमृषिसेवितम् । सेवकानां मोक्षक्रमायुरारोग्यवर्धनम् ॥ ६५ ॥

६६

अपुत्राणां पुत्रदं बहुनाऽकिमनेन वै । प्राप्तुवन्ति क्षणात्सम्यग् धर्मांधिकानपि ॥ ६६ ॥

६७

इदं रहस्यं परममीश्वरेणाऽपि दुर्गमम् । इदं यन्त्रं समाश्रित्य न दीयं प्रकृते जने ॥ ६७ ॥ इति ॥

ॐ भूतादिकं शोध्येयेद्वारपूजां कृत्वा पद्माद्यासनस्थः प्रसन्नः । अर्चांविधास्य पीठाधरोर्ध्व- पाश्वार्चनं मध्यपसार्चनं च ॥ १ ॥

कृत्वा मृदुशलक्षणसूतुलिकायां रत्नासने देशिकमर्त्वयित्वा । शक्तिं चाधाराश्यकां कूर्मनागौ पृथिव्यजञ् स्वासनाधः प्रकल्प्य ॥ २ ॥

विध्नेशं दुर्गां क्षेत्रपालं च वाणीं वीजादिकांश्वागिनदेशादिकांश्व । पीठस्याऽऽड्यृपुष्वेव धर्मादिकांश्व नत्वा पूर्वाद्यासु दीक्ष्वर्चयेच्छ ॥ ३ ॥

मध्ये क्रमादकेविधग्नितेजो- स्तुपयोःपयोरुदमेरर्चीतानि । रजः सत्त्वं तम एतान् त्रि- त्रयं बीजाद्यं क्रमाद्यावयेच्छ ॥ ४ ॥

आशाव्याशास्वप्यथात्मानमन्त- रात्मानं वा परमात्मानमन्तः । ज्ञानात्मानं चाञ्जयेतस्म्य दिक्षु मायाविद्रो ये कलापारतत्त्वे ॥ ५ ॥

संपूजयेद्विमलादेश शक्ती- रप्यर्चयेद्वहमवाहयेच्च । अङ्गव्यूहानिलजादेश पूर्व्य घृष्यादिकैलौंकपालैस्तद्वैः ॥ ६ ॥

वसिष्ठादिमुनिभिर्नीलमुख्यै- राराध्येद्राघवं चन्दनादैः । मुख्योपहारैर्विविधैश् पूजयै- स्तस्मै जपादिंश्व सम्यक्प्रकल्प्य ॥ ७ ॥

एवंभूतं जगदाधारभूतं

Page 7

रामं वन्दे सच्चिदानन्दरूपम् । गदारिशाङ्काञ्जधरं भवानीस स यो ध्यायेन्मोक्षमाप्नोति सर्वं: ॥ ५॥ विश्चव्यापी राघवो यस्तदानी- मन्तर्धे शड्खचक्रे गदाञ्जे । धृत्वा रामसहित: सानुजष्ष सप्तत्न: सानुग: सर्वलोकी ॥ ९॥ तड्क्ता ये लक्ष्मीकांश भुक्त्वा तथा पदं परमं यान्ति ते च । इमा ऋच: सर्वकामार्थदाघ ये ते पठन्त्यमला यान्ति मोक्षं ॥१०॥ इति पञ्चमोडपनिषत् ॥

चिन्मयेऽस्मिन्स्त्रयोधश । स्वभूज्योऽतिस्स्त्र: । सीतारामावेका । जीववाची षट्सृष्टि: । पञ्चाक्षण्डेषु त्रिनवति: । इति श्रीरामपूर्ववंतापिन्युपनिषत्समाप्ता ॥ रामोत्तरतापिन्युपनिषत् ॐ वृहस्पतिरुवाच याजवल्क्यम् । यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । तस्मादत्र क्वचन गच्छति तदेव मन्येतेऽतिदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तो: प्राणेषूत्कममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतोभूत्वा मोक्षीभवति । तस्मादविमुक्तमेव निषेवते । अविमुक्तं न विमुञ्चेत् । एवमेवैतद्याजवल्क्य ॥१॥

अथ हैनं भारद्वाज: पप्रच्छु याजवल्क्यं किं तारकं किं तारयतीति । स होवाच याजवल्क्यस्तारकं दीर्घानलं विन्दुपूर्वकं दीर्घानलं पुनर्मायां नमश्शन्द्राय नमो भद्राय नम इत्येतदब्रह्मात्मिका: सच्चिदानन्दाख्या इत्युपासितव्यम् । आकार: प्रथमाक्षरो भवति । मकारस्तृतीयाक्षरो भवति । अर्थमात्रस्तुर्थाक्षरो भवति । बिन्दु: पञ्चमाक्षरो भवति । नाद: षष्ठाक्षरो भवति । तारकत्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विन्दु । तदेवोपासितव्यमिति जेयम् । गर्भजन्मजरामरणसंसारमहद्धृयात्संतारयतीति ।

Page 8

अकाराक्षरसंभूतः सौमित्रिर्विश्वभावनः ।

उकाराक्षरसंभूतः शत्रुघ्नस्तैजसात्मकः ।

प्राज्ञात्मकस्तु भरतो मकाराक्षरसंभवः ।

अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः ।

श्रीरामस्सानिध्यवशाज्जगदाधारकारिणी ।

उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ।

सा सीता भवति ज्जेया मूलप्रकृतिसंज्ञिता ।

प्रणवत्वात्कृत्रिरिति वदन्ति ब्रह्मवादिनः ।

ॐमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं

भूतं भव्यं भविष्यदिति सर्वमोङ्कार एव ।

यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ।

सर्वं ह्येतद् ब्रह्म । अयमात्मा ब्रह्म ।

सोऽयमात्मा चतुष्पाज्जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग

एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः

प्रथमः पादः । स्वप्नस्थानोऽन्तःप्रज्ञः

सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो

द्वितीयः पादः । यत्र सुप्तो न कञ्चन कामं

कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तं ।

सुषुप्तस्थान एकीभूतः प्रज्ञानघनएवानन्दमयो

ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ।

एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष

योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ।

नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं

न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ।

अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्य-

मेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं

शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः ।

सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मवन्धरः सर्वदा

द्वैतरहित आनन्दरूपः सर्वाधिष्ठानसन्मात्रो

निरस्ताविद्यातमोमोहोऽहंमेवेति संबाव्याहमोंत-

Page 9

त्सद्यत्परंब्रह्म रामचन्द्राद्विदात्मकः ।

सोऽहंमोऽनतद्रामभद्रपरंज्योतिरसोऽहमोमित्या-

त्मानमादाय मनसा ब्रह्मैकोकुर्यांत् ॥

सदा रामोऽहमस्मीति तत्वतः प्रवदन्ति ये ।

न ते संसारिणो नूनं राम एव न संशयः ॥ इत्युपनिषत् ॥

य एवं वेद स मुक्तो भवतीति याजवल्क्यः ॥

अथ हैनमत्रिः पप्रच्छ याजवल्क्यं य

एषोनन्तोव्यक्तपरिपूर्णानन्दैकचिदात्मा

तं कथमहं विजानीयामिति । स होवाच याजवल्क्यः ।

सोऽविमुक्त उपास्योऽयं एषोनन्तोव्यक्त आत्मा

सोऽविमुक्त प्रतिष्ठित इति । सोऽविमुक्तः कामस्मिन्प्रतिष्ठित इति ।

वर्णायां नास्यां च मध्ये प्रतिष्ठित इति ॥

का वै वरना का च नासीति । जन्मान्तरकृतान्सर्वा-

न्धोषन्वारयतीति तेन वरना भवतीति ।

सर्वान्निद्रियकृतानापात्राश्रयतीति तेन नासी भवतीति ।

कतमच्चास्य स्थानं भवतीति । भ्रुवोग्राणस्य च

यः सन्धिः स एष दौलौंकस्म्य परस्य च सन्धीर्भवतीति ।

एतदै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति ॥

सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे यो

वा एतदेव वेद ॥ अथ तं प्रत्युवाच ।

श्रीरामास्य मनः काष्यां जजाप वृषभद्वजः ।

मन्वन्तरसहस्रेस్తు जपहोमार्चनादिभिः । १९॥

ततः प्रसन्नो भगवान्वासुद्वीरामः प्राह शंकरम् ।

वृणीष्व यदभीष्टं तदास्यामि परमेश्वर ॥ २॥इति ॥

अथ सच्चिदानन्दात्मानं श्रीराममीश्वरः पप्रच्छ ।

मणिकर्णीं मम क्षेत्रे गड्लायां वा तटे पुनः ।

त्रियेत देही तज्जनोर्मुक्तिनाडतो वरान्तरम् ॥ ३॥ इति ॥

अथ स होवाच श्रीरामः ॥

क्षेत्रेऽस्मिन्स्तव देवेश यत्र कुत्रापि वा मृताः ।

कृमिकोटिटायोःप्याशु मुक्ताः सन्तु न चान्यथा ॥ ४ ॥

अविमुक्ते तव क्षेत्रे सर्वेषां मुक्तिसिद्धये ।

अहं सन्निहितस्तत्र पाषाणप्रतिमादिशु ॥ ५ ॥

क्षेत्रेऽस्मिन्मन्योःचैयैकत्या मन्त्रेणानेन मां शिव ।

ब्रह्महत्यादिपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६ ॥

त्वत्तो वा ब्रह्मणो वापि ये लभन्ते षडक्षरम् ।

जीवन्तो मन्त्रसिद्धाः स्युर्यमुक्ता मां प्राप्नुवन्ति ते ॥ ७॥

Page 10

मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् । उपदेक्ष्यसि मन्त्रं स मुक्तो भविता शिव ॥ ५॥

इति श्रीरामचन्द्रेणोक्तम् ॥ अथ हैनं भारद्वाजो याजवल्क्यमुवाचाथ कैर्नेः स्तुतः श्रीरामचन्द्रः प्रीतो भवति । स्वात्मानं दर्शयति तस्मै दृंहि भगवान्व्रति । स होवाच याजवल्क्यः॥ पूर्वं सत्यलोके श्रीरामचन्द्रेणैवं शिक्षितो ब्रह्मा पुनरेतया गाथया नमस्करोति ॥

विश्वरूपधरं विष्णुं नारायणमनामयम् । पूर्णानन्दैकविज्ञानं परं ब्रह्मास्वरूपिणम् ॥

मनसा संस्मरन्ब्रह्म तुष्टाव परमेश्वरम् । ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वितपरमानन्द आत्मा यत्परं ब्रह्म भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १॥

यथा प्रथममन्त्रोक्तवाद्यन्तौ तथा सर्वमन्त्रेषु ज्ञातव्यौ ॥ यस्याखण्डैकरसत्मा ॥ २॥

यच्च ब्रह्मानन्दामृतम् ॥ ३॥

यत्तारकं ब्रह्म ॥ ४॥

यो ब्रह्मा विष्णुमहेश्वरो यः सर्वदेवात्मा ॥ ५॥

ये सर्वे वेदाः साङ्गाः सशाखाः सेतिहासपुराणाः ॥ ६॥

यो जीवान्तरात्मा ॥ ७॥

यः सर्वभूतान्तरात्मा ॥ ८॥

ये देवासुरमनुष्यादिभावाः ॥ ९॥

१०

ये मत्स्यकूर्माद्यवताराः ॥ १०॥

११

योऽन्तःकरणचतुष्टयात्मा ॥ ११॥

१२

यष प्राणः ॥ १२॥

१३

यष यमः ॥ १३॥

१४

यषान्तकः ॥ १४॥

१५

यष मृत्युः ॥ १५॥

१६

यच्चामृतम् ॥ १६॥

१७

यानि च पञ्चमहाभूतानि ॥ १७॥

१८

यः स्थावरजङ्गमात्मा ॥ १८॥

१९

ये पञ्चाग्नयः ॥ १९॥

२०

या: सप्त महाव्याहृतय: ॥ २०॥

२१

या विद्या ॥ २१॥

२२

या सरस्वती ॥ २२॥

२३

या लक्ष्मीः ॥ २३॥

२४

या गौरी ॥ २४॥

२५

या जानकी ॥ २५॥

२६

यच्च त्रैलोक्यम् ॥ २६॥

२७

यः सूर्यः ॥ २७॥

२८

यः सोमः ॥ २८॥

२९

यानि च नक्षत्राणि ॥ २९॥

३०

ये च नव ग्रहाः ॥ ३०॥

३१

ये चाष्टौ लोकपालाः ॥ ३१॥

३२

ये चाष्टौ वसवः ॥ ३२॥

३३

ये चैकादश रुद्राः ॥ ३३॥

३४

ये च द्वादशादित्याः ॥ ३४॥

३५

यच्च भूतं भव्यं भविष्यत् ॥ ३५॥

३६

यद्ब्रह्माण्डस्य बहिर्याप्तम् ॥ ३६॥

३७

यो हिरण्यगर्भः ॥ ३७॥

३८

या प्रकृतिः ॥ ३८॥

३९

यषोद्कारः ॥ ३९॥

४०

याषट्कतस्रोऽधमात्राः ॥ ४०॥

४१

यः परमपुरुषः ॥ ४१॥

४२

यष महेश्वरः ॥ ४२॥

४३

यष महादेवः ॥ ४३॥

४४

य ॐ नमो भगवते वासुदेवाय ॥ ४४॥

४५

यो महाविष्णुः ॥ ४५॥

४६

यः परमात्मा ॥ ४६॥

४७

यो विज्ञानात्मा ॥ ४७॥

ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वितपरमानन्द आत्मा ।

Page 11

यः सच्चिदानन्दवैतैकचिदात्मा भूरुभूः सुवस्स्मै वै नमो नमः ॥ इति तान् ब्रह्मात्रवीत् । सप्तचत्वारिंशन्रशन्मन्वैनिंत्यं देवं स्तुवध्वम् । ततो देवः प्रीतो भवति । स्वात्मानं दर्शयति । तस्माद् एतैर्मन्वैनिंत्यं देवं स्तौती स देवं पश्यति । सोऽमृतत्वं गच्छतीति महोपनिषत् ॥५॥

अथ हैनं भारद्वाजो याजवल्क्यमुपसमेत्योवाच श्रीराममन्त्रवराजस्य माहात्म्यमनुब्रूहीति । स होवाच याजवल्क्यः स्वप्रकाशः परंज्योति: स्वानुभूत्येकचिन्मयः । तदेव रामचन्द्रस्य मन्त्रार्थक्षरः स्मृतः ॥ १॥

अशण्डेकरसानन्ददातारकब्रह्मावाचकः । रामायैति सुविज्ञेयः सत्यानन्दचिदात्मकः ॥ २ ॥

नमःपदं सुविज्ञेयं पूर्णानन्दैककारणम् । सदा नमन्ति हृदये सर्वे देवाः सुमुख्शुवः ॥३॥इति ॥

य एवं मन्त्रराजं श्रीरामचन्द्रशदक्षरं नित्यमधीते । सोऽग्निपूतो भवति । स वायुपूतो भवति । स आदित्यपुतो भवति । स सोमपुतो भवति । स ब्रह्मपुतो भवति । स विष्णुपुतो भवति । स रुद्रपुतो भवति । सर्वदेवैर्जातो भवति । सर्वक्रतुभिरिष्टवान्भवति । तेनैतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति । श्रीरामचन्द्रमनुस्मरेण गायत्रीः शतसहस्राणि जप्तानि फलानि भवन्ति । प्रणवानामयुतकोटिजपा भवन्ति । दश पूर्वान्दशोत्तराणि भवन्ति । स पङ्क्तिपावनो भवति । स महान्भवति । सोऽमृतत्वं च गच्छति ॥

अत्रैते श्लोका भवन्ति । गाणपत्येषु शैवेषु शाक्तसौरेष्वभीष्टदः । वैष्णवेष्वपि सर्वेषु राममन्त्रः फलाधिकः ॥ ४ ॥

गाणपत्यादि मन्त्रेषु कोटिकोटिगुणाधिकः । मन्त्रस्तेष्वप्यनायासफलदोऽयं षडक्षरः ॥ ५ ॥

षडक्षरोऽयं मन्त्रः स्यात्सर्वाङ्गौधनिवारणः । मन्त्रराज इति प्रोक्तः सर्वेषाममृतमोत्तमः ॥ ६ ॥

कृतं दिने यदुरितं पक्षमासतुंवर्षजम् । सर्वं दहति निःशेषं तूलराशिमिवानलः ॥ ७ ॥

ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च । स्वर्णस्तेयसुरापानगुरुतल्पायुतानि च ॥५॥

कोटिकोटिसहस्राणि उपातकजान्यपि । सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् ॥ ९ ॥

भूतप्रेतपिशाचाद्या: कूष्माण्डब्रह्मराक्षसाः ।

१०

दूरादेव प्रधावन्ति राममन्त्रप्रभावतः ॥ १० ॥

Page 12

1

11

ऐहलौकिकमैषयः स्वर्गादिं पारलौकिकम् । कैवल्यं भगवत्त्वं च मन्त्रोडयं साधयिष्यति ॥ ११ ॥

1

12

ग्राम्यारण्यपशुध्नत्वं सङ्कृतं दुरुतं च यत् । मद्यपानं यत्पापं तदप्याशु विनाशयेत् ॥ १२ ॥

1

13

अक्ष्यभष्कक्षणोक्तप्तं मिथ्याज्ञानसमुद्धवम् । सर्वं विलीयते राममन्त्रस्यैव कीर्तनात् ॥ १३ ॥

1

14

श्रोत्रियस्वर्णहरणादच्यः आपमुपस्थिर्तम् । रत्नादेशापहारेण तदप्याशु विनाशयेत् ॥ १४ ॥

1

15

ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वा च किल्विषम् । संधिनोति नरो मोहाद्यदतदपि नाशयेत् ॥ १५ ॥

1

16

गत्वापि मातरं मोहादगम्याश्चैव योषितः । उपास्यानेन मन्त्रेण रामस्तदपि नाशयेत् ॥ १६ ॥

1

17

महापातकपापिष्ठसङ्कृत्या संचितं च यत् । नाशयेत्सत्कथालापथ्यनासनभोजनैः ॥ १७ ॥

1

18

पितृमातृवधोत्पन्नं वृद्धिपूर्वमर्घं च यत् । तदनुष्ठानमात्रेण सर्वमेतद्विलीयते ॥ १८ ॥

1

19

यत्प्रयागादितीर्थोक्तप्रायश्चित्तत्रैरपि । नैवापनुद्यते पापं तदप्याशु विनाशयेत् ॥ १९ ॥

1

20

पुण्यक्षेत्रेषु सर्वेषु कुरुक्षेत्रादिषु स्वयम् । वृद्धिपूर्वमर्घं कृतं तदप्याशु विनाशयेत् ॥ २० ॥

1

21

कृच्छ्रे चान्द्रायणादीनांचान्त्रायणैरपि । पापं च नापनो यत्‌तदप्याशु विनाशयेत् ॥ २१ ॥

1

22

आत्मतुल्यसुवर्णादानैर्नैवहविभैरपि । किंचिदप्यपरिक्षीणं तदप्याशु विनाशयेत् ॥ २२ ॥

1

23

अवस्थात्रितयेप्येष वृद्धिपूर्वमर्घं च यत् । तन्मन्त्रस्मरणेनैव नःशेषं प्रविलीयते ॥ २३ ॥

1

24

अवस्थात्रितयेप्येष मूलबन्धनमन्त्रं च यत् । तत्तन्मन्त्रोपदेशेन सर्वमेतत्प्रणश्यति ॥ २४ ॥

1

25

आब्रह्मद्वीजदोषाश्च नित्यमात्रिकमोऽपि वा । स्त्रीणां च पुरुषाणां च मन्त्रेणानेन नाशिता ॥ २५ ॥

1

26

येषु येष्वपि देशेषु रामभद्र उपास्यते । दुर्भिक्षक्षादिभयं येषु न भवेतु कदाचन ॥ २६ ॥

1

27

शान्तः प्रसन्नवदनो हृद्योधो भक्तवत्सलः । अननेन सदृशो मन्त्रो जगत्स्वपि न विद्यते ॥ २७ ॥

1

28

सम्यगाराधितो रामः प्रसीदत्येव सत्स्वरम् । ददात्यायुयमैश्वर्यमन्ते विष्णुपदं च यत् ॥ २८ ॥

Page 13

तदेतदृचाभ्युक्तम् । ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते । तद्विष्णोः परमं पदं सदापश्यन्ति सूरयः । दिवीव चक्षुराततम् ।तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् । ॐ सत्यमित्युपनिषत् ॥ ६ ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति रामोत्तरतापिन्युपनिषत्समाप्ता ॥ इति रामतापिन्युपनिषत्समाप्ता ॥