Books / Rasa Adi Alankara Avalokana Raghavendra Bhatta

1. Rasa Adi Alankara Avalokana Raghavendra Bhatta

Page 1

वाक्यार्थभारती 2013-14 रसवदाद्यलङ्करावलोकनम्

डा. राघवेन्द्रभट्टः

आ नाट्यशास्त्राद् आधुनिककाव्यशास्त्रपर्यन्तं काव्यालड्कारशास्त्रस्य विकासपरम्परा सुदीर्घा विलोक्यते। सा च साहित्यशास्त्रे सिद्धान्तप्रस्थानादिनाम्ना प्रवर्तते। तत्र काव्यात्मतत्त्वविवेचनफलतया षट् सिद्धान्ताः सन्ति । ते च रससिद्धान्तः अलङ्कारसिद्धान्तः रीतिसिद्धान्तः ध्वनिसिद्धान्तः वक्रोक्तिसिद्धान्तः औचित्यसिद्धान्तश्चेति । अलङ्कारप्रस्थानानुगुणमलङ्काराणां प्राधान्यम् । एतत्सिद्धान्तानुयायिन: 1) भामहः काव्यालङ्कारकर्ता, 2) दण्डी काव्यादर्शकर्ता, 3) उद्भटः काव्यालङ्कारसारसङ्ग्रहकर्ता, 4) रुद्रटः काव्यालङ्कारकर्ता च मुख्याः । तत्र दण्डिना प्रोक्तम् 'काव्यशोभाकरान् धर्मानलङ्कारान्प्रचक्षते' आचार्यस्य दण्डिनो मतानुसारेण न केवलमलङ्कार: किन्तु काव्यस्य इतराण्यपि प्रमेयजातानि अलङ्कारशब्देनैव गृहीतानि। तदुक्तम्-

यच्च सन्ध्यङ्गनृत्यङ्गलक्षणान्यागमान्तरे।

व्यावर्णितमिदं चेष्टमलङ्कारतयैव नः ॥2

आचार्यो दण्डी अलङ्कारशब्दं व्यापकार्थे प्रायुङ्क्त यत्र रसोऽपि अन्तर्भूतो वर्तते। अर्थात् अलङ्कारवादिन आचार्या अङ्गीकुर्वन्ति यत् यैःकाव्यशास्त्रीयतत्त्वैः काव्ये सौन्दर्यमायाति ते सर्वे अलङ्कारपदवाच्या भवन्ति। अत एव तत् रसतत्त्वमपि रसवदलङ्कारे एव अन्तर्भवति इति।

भामहदण्ड्युद्भटैः रसभावरसाभासभावाभासाश्च क्रमेण रसवतरेय उर्जस्विनाम्ना अलङ्कारत्वेनाभिहिताः । तथा च उद्भटः समाहितालङ्कारं भावशान्तेः पर्यायमड्गीकरोति। दण्डिभामहावपि समाहितालङ्कारं निरूपयतः । परन्तु तस्य सम्बन्धं रसेन सह कथञ्चित् स्थापयितुं शक्यत इति विषयं निरूपयितुं दण्डी भामहात् प्रेरितः उद्भटश्च दण्डिभामहाभ्यां प्रेरित इति तयोर्ग्रन्थपरिशीलनेन ज्ञायते। तत्र उत्तरोत्तरं चिन्तनपरिष्कारश्च विज्ञायते।

ध्वनिवादिपूर्ववर्तिनामाचार्याणां मतानुसारं काव्येष्वलङ्काराणां जीवातुभूतत्वमिति भामहेन 'न कान्तमपि निर्भूषं विभाति वनितामुखम्' इति वचनेन द्रढीक्रियते। वामनाचार्यः काव्यालङ्कारसूत्रवृत्तौ 'काव्यं ग्राह्यमलङ्कारात्, सौन्दर्यमलङ्कारः, स च दोषगुणालङ्कारहानादानाभ्याम्' ।4 इत्यसूत्रयत्। तत्रमते पूर्वस्मिन् सूत्रे अलङ्कारशब्दस्य प्रयोग: सौन्दर्यसाधनरूपे विद्यते। यथा उपमारूपकादयः । अपरस्मिन् अलङ्कृतिरलङ्कार इति भावार्थे अलङ्कारशब्दः सौन्दर्यपदवाच्यः । तेन रसादीनां रसवदाद्यलङ्कारेषु अन्तर्भावः कृतः सड्गच्छते।

प्राचीनानां मतानुसारं रसवदाद्यलङ्कारविचार:

अलङ्कारवादिभि: प्राचीनैः प्रतिपादितरसवदाद्यलङ्काराः निरूप्यन्ते। तत्र

(1)

Page 2

वाक्यार्थभारती 2013-14 रसवदलङ्कार: - दण्डी रसवदलङ्कारं लक्षययति 'रसवद् रसपेशलम्'5 उद्भटः भामहोक्तं शब्दमङ्गीकृत्य तस्मिन् अवयवभूतपञ्चसाधनान्यपि निर्दिशति। यथा-

रसवद्दर्शितस्पष्टशृङ्गारादिरसोदयम्।

स्वशब्दस्थायिसञ्चारिविभावाभिनयास्पदम् ।।6

एतेभ्यः पञ्चभ्यः साधनेभ्यः स्थायिसञ्चारिविभावाः रससम्प्रदाप्रमेयाः सङ्गृहीताः । अभिनयश्च भरतसम्मत आङ्गीकादिचतुर्भेदात्मकः । एतेषां साधनानां परिगणनया प्रतीयते यत् उद्भटः रूपकमेव रसस्य विषयं मन्यते स्म। पञ्चमं साधनं स्वशब्दः । प्रतिहारेन्दुराजव्याख्यनुसारम् अस्यार्थः वर्तते शृङ्गारादिरसानाम् रत्यादिस्थायिभावानां सञ्चारिभावानाञ्च 'स्वशब्दवाच्यता' तत्काले न दोषायाकल्पत। उद्भटः रसवदलङ्कारस्य उदाहरणे स्थायिभाववाचकं शब्दं रतिं सञ्चारिभाववाचकम् औत्सुक्यं चिन्तां प्रमोदञ्च प्रायुङ्क्त।8 उद्भटसमये रसवतोदाहरणे 'स्वशब्दवाच्यता' अपेक्षितोंऽश आसीदिति भाति। परवर्तिनि काले यश्च दोषत्वेन परिगणिता।

प्रेयः (प्रेयस्वत्) अलङ्कार: - भामहेन प्रेयोऽलङ्कारो नालक्षि। दण्डिना तु 'प्रेयः प्रियतराख्यानम्'10 इति लक्षितम्। रसध्वनिवादिनामालङ्कारिकाणामपि सम्मतभावो लक्षणेनानेन कथञ्चिदुन्नेतुं शक्यते। तत्र उद्भटोक्तं लक्षणं ततोऽप्यधिकं स्पष्टमिति वक्तुं शक्यते। अनुभावादिभि: रत्यादिस्थायिभावानां काव्यस्य बन्धनं प्रेयस्वदिति तेनाभिप्रेतं वर्तते। तथा चोक्तं तल्लक्षणम्-

रत्यादिकानां भावानामनुभावदिसूचनैः ।

यत्काव्यं बध्यते सद्भिरिस्ततप्रेयस्वदुदाहृतम्॥

रसध्वनिवादिनां मते अत्र भावस्याङ्गतया विद्यमानत्वमभीष्टं वर्तते।

उर्जस्व्यलङ्कार:

उर्जिस्वि कर्णेन यथा पर्यायः पुनरागतः ।

द्वि: सन्दधाति किं कर्णः शल्येत्यहिरपाकृतः12।।

दण्डिना प्रोक्तमूर्जस्विलक्षणम् रसभावाभासत्वं स्पष्टतया शब्दतो न प्रकाशयति। 'उर्जस्विरूढाहङ्कारम्'13 परन्तु उद्भटेन उ र्जस्विलक्षणनिरूपणेन तदुदाहरणेन च स्पष्टता आपाद्यते। कामक्रोधादिकारणैः रसभावानम् अनौचित्येन प्रवर्तनम् उर्जस्व्यलङ्कारस्य विषयो वर्तते। तदुक्तम्-

अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात्।

भावानां च रसानां च बन्ध उर्जस्वि कथ्यते॥14

(2)

Page 3

वाक्यार्थभारती 2013-14 तदुदाहरण यथा -

तथा कामोऽस्य ववृधे यथा हिमगिरे: सुताम्।

सङ्गृहीतुं प्रववृते हठेनापास्य सत्पथम्15 ॥ इति।

अत्र भगवतः शिवस्य कामवेगस्तथा वृद्धो यस्मात् स सन्मार्गं परित्यज्य पार्वतीं बलात् ग्रहीतुमुद्यतः इति वर्ण्यते। उद्भटोक्तलक्षणानां रसवादिभिरुक्तलक्षणानाञ्च साम्यं वर्तते। परमियांस्तु भेदः। रसध्वनिवादिमते रसाभासभावाभासयोरङ्गत्वे उर्जस्व्यलङ्कारः, उद्भटमते तु तयोः प्राधान्ये इति। एवं प्रतीयते दण्डिभामहाभ्यां प्रतिपादित उर्जस्व्यलङ्कारः एव परवर्तिनामालङ्कारिकाणां रसध्वनिनिरूपणे मूलस्रोत इति।

समाहितालङ्कार: - रसभावतदाभासानां शान्तेश्चमत्कृतित्वे तच्छान्तेरेव वैशिष्ट्यात् समाध्यवस्थासाम्याच्च असौ समाहितालङ्कारः । अनुभावान्तरप्रतीते राहित्यात् अस्यालङ्कारविषयत्वम्। तदुक्तमुद्भटेन -

रसाभावतदाभासवृत्तैः प्रशमबन्धनम्।

अन्यानुभावनिश्शून्यरूपं यत्तत् समाहितम्6 ॥ इति।

रसध्वनिवादिनामाचार्याणामुद्भटस्य चाभिप्रायः भिना एवेति प्रेयस्वदूर्जस्व्यलङ्कारनिरूपणावसरे विचारः कृतः । अत्र समाहितस्यार्थ: एकस्य भावस्य परिहारः शान्तिर्वा वर्तते। 'समाधिसमाहितयोः समानार्थकत्वम्। पूर्वत्र क्तिन् उत्तरत्र च क्तप्रत्ययः ।

आनन्दवर्धनादिध्वनिवादिनां मतानुसारं रसवदाद्यलङ्कारविचारः अलङ्कारैरेव काव्यस्योपादेयतामङ्गीकुर्वद्भि: प्राचीनैर्दण्डिप्रभृतिभिः रसवदूर्जस्विप्रेयःसमाहिताख्याः रसादिकरम्बकाश्चत्वार अलङ्काराः अङ्गीकृताः । रसवदाद्यलङ्कारविषये तदुत्तरवर्तिनां ध्वनिवादिनामानन्दवर्धनप्रभृतीनां मतं प्राचीनानां मताद्भिन्नमेव वर्तते। तदत्र परिवर्तिनामालङ्कारिणां मतं विचार्यते।

ध्वन्यालोके रसवदाद्यलङ्काराः - आचार्य आनन्दवर्धनः ध्वन्यालोकस्य द्वितीयोद्योते असंलक्ष्यक्रमध्वनिनिरूपणावसरे रसवदलङ्कारं निर्वक्ति। तत्रादौ रसवदलङ्कारात् रसध्वनेः भेदं निगदति 'इदानीं रसवदलङ्कारात् अलक्ष्यक्रमद्योतनात्मनो ध्वनेर्विभक्तो विषय इति प्रदर्श्यते'17 इत्युपक्रम्य रसध्वनिमाह-

(3)

Page 4

वाक्यार्थभारती 2013-14 वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम्।

रसादिपरता यत्र स ध्वनेर्विषयो मतः18॥

काव्ये वाच्यवाचकसम्बन्धसौन्दर्यहेतुभूता अलङ्कारा गुणा रसभावादिषु प्राधान्यं गतेष्वन्यतमपरा भवन्ति। रसतत्परा भवन्तीत्यर्थः । तत्र रसस्यैव प्राधान्यात् रसध्वनित्वम्। ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः इति तत्कथनमेतद्द्रढीकरोति। रसवदाद्यलङ्काराणां स्वरूपमिदमुच्यते-

प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गन्तु रसादयः ।

काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः19॥

यत्र वङ्ग्यरूपो वाच्यरूपो वार्थः प्रधानो भवति, रसादिश्च पुनरप्रधानो भवति तत्र स रसादि: रसवदाद्यलङ्कार इत्युच्यते ।प्राधान्यङ्गतस्य वाच्यस्य व्यङ्ग्यस्य वा पोषकतया समावेशितो रसादि: रसवदाद्यलङ्कार इति तदर्थः । रसस्य अङ्गभूतत्वे रसवदलङ्कारः, भावस्य तथात्वे प्रेयोऽलङ्कारः, रसाभासभावाभासयोस्तथात्वे उर्जस्व्यलङ्कारः भावोदयानां पुनः समाहितालङ्कारः इति रसवदादीनां चतुर्णामलङ्काराणां सम्बन्धी स्वीयः पक्षः उपस्थापितः रसस्य प्राधान्ये ध्वनित्वमड्गीकुर्वता ध्वनिकारेण। प्राधान्याप्राधान्यभावस्तु अर्थस्य चारुत्वमवलम्ब्य निर्णीयते । अतः 'चारुत्वोत्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययो: प्राधान्यविवक्षा'20 इति तेनैव प्रतिपादितम्। आचार्यो रसादेरङ्गत्वं प्रतिपादयति 'तद्यथा चाटुषु प्रेयोऽलङ्कारस्य वाक्यार्थत्वेऽपि रसादयोऽङ्गभूता दृश्यन्ते21 इति वाक्येन राजादिप्रशंसापरककाव्ये वाक्यार्थस्य प्राधान्ये सति तत्र रसादयः तत्पोषकाः भवन्ति। ते रसवदादयः अलङ्कारपदवाच्या भवन्ति।

रसवदाद्यलङ्कार: शुद्धसङ्कीर्णभेदेन द्विविध:। अलङ्काररूप: रसाद्यन्तरेण अमिश्रितश्चेत् शुद्ध:, रसाद्यन्तरेण मिश्रितश्चेत् सङ्कीर्णो भवति। तत्र आनन्दवर्धनेन चतुर्षु रसवदादिषु रसवदलङ्कारस्य भेदद्वयं सोदाहरणं निरूपितम्। शुद्धः रसवदलङ्कार: उदाहृतः यथा-

किं हास्येन न प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं

केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः ।

स्वप्नान्तेष्विति ते वदन् प्रियतमव्यासक्तकण्ठग्रहो

बुद्धवा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ॥22

राजानं प्रति कस्यचिदुक्तिरियम् । राज्ञः प्रभावातिशयस्य अत्र प्रधानवाक्यार्थत्वे तदङ्गतया करुणस्य रसाद्यन्तरामिश्रितस्य अभिव्यञ्जनात् रसवदलङ्कारत्वमत्र शुद्धताङ्गच्छति। तदुक्तं लोचनकारेण 'अत्र शोकस्थायिभावेन स्वप्नदर्शनोद्दीपितेन करुणरसेन चर्व्यमाणेन सुन्दरीभूतो नरपतिप्रभावो भातीति करुपः शुद्ध एवालङ्कार: '23 इति।

(4)

Page 5

वाक्यार्थभारती 2013-14 सङ्कीर्णो रसवदलङ्कार: उदाहृत यथा -

क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं

गृह्लन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण।

आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभि:

कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः॥24

त्रिपुरारे: भगवतः शिवस्य महिमोत्कर्षः अत्र प्रधानो वाक्यार्थः । श्लिष्टोपमानुगृहीतः ईर्ष्याविप्रलम्भशृङ्गारस्तु तस्य प्रधानवाक्यार्थस्य अङ्गभूत इत्यतोऽसौ सङ्कीर्णो रसवदलङ्कारः।

आनन्दवर्धनः प्रसड्गेऽस्मिन् उद्भटमतमुपस्थापयति। यच्च स्वमतद्भिन्नं वर्तते । उद्भटस्तु चेतनानां वाक्यार्थत्वे रसवदलङ्कारः इत्याह। विभावादिभि: चेतनात्मको रत्यादिभावः प्रधानवाक्यार्थो भवति चेत् रसवदलङ्कारः इति तदर्थः। ध्वनिकारः 'चेतनानाम्' 'वक्यार्थत्वे' इत्यंशद्वयस्याप्यसम्मतिं प्रकटयति। यदि चेतनानां वाक्यार्थभाव: अड्गीक्रियते तर्हि काव्यगताः सर्वेऽप्यर्थाः यथाकथञ्चित् चेतनसम्बद्धा एव भवन्ति । अतः उपमादीनामपि अलङ्काराणां चेतनसम्बन्धित्वात् प्रविरलविषयता निर्विषयता वा स्यात् । तस्मात् 'चेतनानाम्' इति न सम्भवति। किञ्च वाक्यार्थत्वमपि ध्वनिरसवदलङ्कारयो: भिन्नत्वात् न सम्भवति। रसवदलङ्कारस्य कदापि प्रधानवाक्यार्थत्वं न भवति। रसस्यैव प्रधानवाक्यार्थत्वात्। तत्र लोचनकारोऽपि 'यत्र हि रसस्तत्रावश्यं रसवदलङ्कार इति परमतम्। ततो न रसवदलङ्कारश्चेन्नूनं तत्र रसो नास्तीति परमताभिप्रायनीरसत्वमुक्तम् । न त्वस्माकं रसवदलङ्काराभावे नीरसत्वम् अपि तु ध्वन्यात्मभूतरसाभावे तादृक् च रसोऽत्रास्त्येव'25 इति रसस्य अप्राधान्येन स्थितिं स्पष्टयते।

काव्यप्रकाशे रसवदाद्यलङ्काराः

आचार्यो मम्मटः काव्यप्रकाशस्य चतुर्थे उल्लासे रसनिरूपणप्रसङ्गे रसवदलङ्काराणामुल्लेखं करोति।

रसभावतदाभासभावशान्त्यादिरक्रमः ।

भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः॥26

रसादि: रसवदाद्यलङ्कारात् भिन्न: अलङ्कार्यतया स्थितो भवतीति तदर्थः । अत्रैव वृत्तौ तेन 'अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादि: तत्र गुणीभूतव्यङ्ग्ये रसवत्प्रेयउ र्जस्विसमाहितादयोऽलङ्काराः

(5)

Page 6

वाक्यार्थभारती 2013-14 ते च गुणीभूतव्यङ्ग्योदाहरणे उदाहरिष्यन्ते'27 इति रसवदाद्यलङ्काराणां गुणीभूतव्यङ्ग्याभिन्नतया प्रस्ताव: कृतः। पञ्चमे उल्लासे च गुणीभूतव्यङ्ग्यप्रभेदान् निरूपयति -

अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम्।

सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम्।।

व्यङ्ग्यमेव गुणीभूतव्यङ्ग्यस्याष्टौ भिदा स्मृताः ॥28

आचार्य: उक्तेषु अष्टसु प्रकारेषु गुणीभूतव्यङ्ग्येषु द्वितीयेSपराङ्गव्यङ्ग्ये भेदे रसवदादीन् अलङ्काराक् अन्तर्भावयति। अपराङ्गं हि वाक्यार्थभूतस्य रसादे: वाच्यस्य वा अन्यरसादेरङ्गत्वे भवति। प्रसङ्गेऽस्मिन् रसादीनामङ्गताम् अष्टभिरुदाहरणैः निरूपयति। तथैकमुदाहरणं यथा

अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।

नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ।29

कुरुक्षेत्राहवे भूरिश्रवसः मृतस्य देहाच्छिन्नं करं दृष्ट्वा विलपन्त्याः तत्स्रियः उक्तिः। अत्र शोकस्थायिकस्य करुणस्य पोषकतया शृङ्गारोपनिबद्धः । अतः शृङ्गारस्य रसवदलङ्कारत्वम् । अपराङ्गव्यऽदाहरणनिरूपणानन्तरं 'एते रसवदाद्यलङ्काराः' 30 इत्युक्तवा तेषां गुणीभूतत्वं समर्थयति। किञ्च पूर्ववर्तिभिरङ्गीकृतानां रसवदाद्यलङ्काराणां पृथग्गणना न कृता किन्तु गुणीभूतव्यङ्ग्यस्य अपराङ्गाख्यस्य रसवदादेश्च साम्यात् तत्प्रभेद एव रसवदादिः परिगणित इति स्पष्ट भवति।

साहित्यदर्पणे रसवदाद्यलङ्काराः - आचार्यः विश्वनाथः रसवदाद्यलङ्कारविषये ध्वन्यालोककरस्य मतमेवानुसरति। साहित्यदर्पणस्य दशमे परिच्छेदे तान् रसवदादीन् अलङ्कारान् प्रतिपादयति -

रसभावौ तदाभासौ भावस्य प्रशमस्तथा।

गुणीभूतत्वमायान्ति यदालङ्कृतयस्तदा ॥

रसवत्प्रेय उर्जस्वि समाहितमितिक्रमात्॥31

रसभावादीनाम् इतरस्य वाक्यार्थस्याङ्गत्वे गुणीभूतत्वं प्रतिपादितं तेन तच्च 'गुणीभूतत्वमायान्ति' इति वचनेन तेन स्पष्टीकृतम्। 'रसवदलङ्कारः' इति शब्दोऽप्यस्मिन्मते व्युत्पादितं तत्र लक्ष्मीव्याख्याने रसः अस्यास्तीति रसवान्, रसवांश्चासावलङ्कारश्च इति मतुबर्थकः रसेन तुल्यमिति सादृश्ये वति प्रत्ययेन सदृशार्थकश्च अर्थः संलक्षितः। एवञ्च विश्वनाथोऽपि मम्मट इव रसवदादीनामितराङ्गत्वमङ्गीकरोति। साहित्यदर्पणे चतुर्थे परिच्छेदे अयं स रशनोत्कर्षीत्याद्युदाहरणैः गुणीभूतव्यङ्ग्यत्वम्32 आचार्येण प्रतिपादितम्।

(6)

Page 7

वाक्यार्थभारती 2013-14 इत्थञ्च भामहादारभ्य विश्वनाथपर्यन्तं कालानुरोधेन सञ्जातः रसवदाद्यलङ्काराणां चिन्तने क्रमिको विकास: तत्तद्ग्रन्थपरामर्शपुरस्सरमत्र विवेचितः । अनेन विवेचनेनेदं सिद्धं भवति यत् आनन्दवर्धनात्प्राग्वर्तिनां भामहादीनां मतानुसारं काव्ये अलङ्कारस्यैवात्मत्वात् रसस्यापि अलङ्कारत्वमिति आनन्दर्धनस्य तत्परवर्तिनाञ्च मतानुसारं रसस्यैवात्मत्वम् अङ्गतया स्थितस्यैव रसस्य रसवदलङ्कारता इति च स्पष्ट भवति।

सन्दर्भा:

  1. काव्यादर्शः 2.1 17. ध्वन्यालोक. वृत्ति 2.4 2. काव्यादर्शः 2.2 18. ध्वन्यालोक: 2.4

  2. कव्यालङ्कार: 1.9 19. तत्रैव 2.3

  3. काव्यालङ्कारसूत्रवृत्ति: 1.1.123 20. ध्वन्यालोक.वृत्ति 2.14 5. काव्यादर्शः 2.375 21. तत्रैव 2.4

  4. काव्यालङ्कारसारसड्ग्रह: 4.3 22. तत्रैव 2.5

  5. तत्र. टीकाभाग: पृ. 53 23. तत्रैव 2.5 लोचनम्

  6. तत्र. टीकाभागः पृ. 53 24. तत्रैव 2.5

  7. काव्यप्रकाश: 7.60 25. ध्वन्या.लोचन 2.5 10. काव्यादर्श: 2.275 26. काव्यप्रकाश: 4.27

  8. काव्यालङ्कारसारसड्ग्रह: 4.2 27. काव्यप्रकाश.वृत्ति 4.27

  9. काव्यालङ्कार: 3.7 28. तत्रैव 5.45

  10. काव्यादर्श: 2.275 29. तत्रैव

  11. काव्यालङ्कारसारसड्ग्रह: 4.5 30. तत्रैव

  12. काव्यालङ्कारसारसड्ग्रह: 4.5 31. साहित्यदर्पणम् 10.95-96

  13. काव्यालङ्कारसारसङ्ग्रह: 4.7 32. तत्रैव 4.14

(7)

Page 8

वाक्यार्थभारती 2013-14 काव्यलक्षणेऽदोषत्वनिवेशस्यौचित्यम्

डा. चन्द्रकला आर्. कोण्डी

लोके दोषो नामात्यन्तं हेयं, तिरस्कार्यं, दूरीकार्यञ्चेति सर्वेडपि जानन्त्येव। यद्यपि शतांशेन दोषाणां दूरीकरणं त्रिगुणपरतन्त्रेऽस्मिन् मर्त्यलोकेऽसाध्यमेव तथापि तदर्थं निरन्तरं प्रवर्तते मानवप्रयतः । मानवेषु दोषा न सन्ति चेत् देवानां तेषाञ्च अन्तरमेव न स्यात्। तेन स्वर्गमर्त्ययोः समानतैवोक्ता स्यात्। एतत्सर्वमप्यसाध्यमिति सर्वे जानन्ति। सर्वे मानवा दोषयुक्ता एव। तथापि मम पत्नी दोषरहिता भवेदिति पतिः, मे पतिरपि तथैव भवेदिति पत्नी, तावुभावपि अस्मत्पुत्रो दोषरहितो भवेदिति, मन्मित्रं निर्दुष्टं भवेदिति सर्वे कामयन्त इत्यत्र प्रायः केषामपि विमतिर्न स्यात्। तथैव लोकप्रतिबिम्बभूते काव्येऽपि रसास्वादरूपपरमप्रयोजननिर्वर्तनार्थं शब्दार्थयोर्निर्दुष्टत्वमपेक्षत एव। सदोषयोः शब्दार्थयोः काव्यत्वाङ्गीकारे यश:, अर्थः, चतुर्विधपुरुषार्था इत्यादीनि काव्यप्रयोजनानि न लभ्यन्त एव, किं वक्तव्यं रसास्वादविषये ? अत एव दोषाः काव्ये न भवेयुरित्येव सर्वेऽयभिप्रयन्ति। अत एवैवमुक्तम्-

दोष: सर्वात्मना त्याज्यो रसहानिकरो हि सः।

अन्यो गुणोऽस्तु वा मास्तु महान्निर्दोषता गुणः ।

तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथञ्चन।

स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम्।

इति। काव्यात्मानं रसमुद्दिश्यैव गुणालङ्कारादयः सर्वेऽपि तत्त्वं लभन्ते। अर्थात् रसानुगुणत्वाद्गुणानां गुणत्वम्, रसोपकारकत्वादलङ्काराणामलङ्कारत्वं यथा तथैव रसविघातकत्वेनैव दोषाणां दोषत्वम्। अतः रसविघातकत्वमेव दोषसामान्यलक्षणम्। एतदेव मम्मटाचार्यैः काव्यप्रकाशस्य सप्तमोल्लासे दोषलक्षणनिरूपणावसरे मुख्यार्थहतिर्दोषः, रसश्च मुख्य इत्युक्तम्। तेन सत्स्वपि दोषेषु, समन्वितेष्वपि तेषां विशेषलक्षणेषु, मुख्यार्थहतित्वरूपदोषसामान्यलक्षणस्यासमन्वये तेषां दोषत्वमेव नास्ति। अतः, अत्र दोषो वर्तते वा नवेति आलोचनात् पूर्वम्, अत्र रसभड्गो वर्तते न वेति समालोचयितव्यम्। तदाधारेणैव तत्र दोषाणामस्तित्वं अड्गीक्रियते अथवा निराक्रियते। अतोऽन्वयव्यतिरेकाभ्यामुभाभ्यामपि रसभङ्गस्य दोषत्वस्य च कार्यकारणभावः सिद्ध्यति।

एतादृशनिर्दोषत्वमेव मनसि निधाय केचनालङ्कारिकाः सदोषयोः शब्दार्थयोः काव्यत्ववारणाय काव्यलक्षण एव अदोषत्वं निवेशयामासुः । तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापीति मम्मटाचार्य:, गुणालङ्कारसहितौ शब्दार्थौ दोषवर्जितौ इति विद्यानाथः, सगुणालङ्कृती काव्यं पदार्थौ दोषवर्जितौ इति धर्मसूरिश्चादोषत्वनिवेशनपूर्वकं काव्यं लक्षयामासुः ।

किन्तु कैश्चिदालङ्कारिकाणां मते काव्यलक्षणेऽदोषत्वनिवेशने अव्याप्तिर्दर्शिता। तत्र विश्वनाथजगन्नाथपण्डितराजौ प्रमुखौ। तत्र विश्वनाथस्य मतमत्यन्तं बालिशम्, जगन्नाथस्य त्वसूयाग्रस्तम्। (8)

Page 9

वाक्यार्थभारती 2013-14 तत्र मम्मटाचार्यं निन्दितुमुद्यम्य तत्सिद्धान्तं द्विगुणतया पुष्टीकृत्योपहसनीयतां गतो विश्वनाथकविराजः । परिशीलयामस्तावत्तयोर्मतम्।

विश्वनाथस्याभिप्राये अदोषौ इति पदयोजनेन, यत्र दोषाः सन्ति चेदपि काव्यत्वं वर्तते तादृशस्थलेष्वव्याप्ति: तदर्थं तेनैकमुदाहरणमपि दत्तं वर्तते-

न्यक्कारो ह्ययमेव मे यदरयः तत्राप्यसौ तापसः

सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।

इति। अत्र प्रतिपदं ध्वन्यमानरसभावादीनां चमत्कारः कं वा सहृदयमानन्दोदधौ न निमज्जयेत्। अत एव उत्तमकाव्यत्वमस्याङ्गीकृतं सर्वैः। किन्तु एतस्मिन् पद्येऽविमृष्टविशेयांशदोषोत्थापनपूर्वकं विश्वनाथेन दोषेषु सत्स्वपि काव्यं भवतीति साधयितुमुद्यम्य, अदोषपदनिवेशेन अस्य पद्यस्य काव्यत्वं न सड्गच्छते इत्यव्याप्तिर्दर्शिता। उद्देश्यवचनं पूर्वं विधेयं तदनन्तरमिति न्यायात् विधेयपदप्रयोगात् प्रागुद्देश्यपदप्रयोग करणीयः । किन्तु न्यक्कारो ह्ययमित्यत्र न्यक्कार इति विधेयपदं प्राक् प्रयुज्य अयमित्युद्देश्यपदमनन्तरं प्रयुक्तम्। अतः स दोषः । तथैव विधेयपदस्य समासे योजनेन तस्याप्रधान्यं भवतीत्यनेनापि स दोषः सम्भवति। पद्यस्यान्तिमे चरणे भुजानुद्दिश्य वृथात्वं यद्विहितं, तत्र वृथेतिविधेयपदं समासान्तर्गतम्निति तत्रापि स दोषो वर्तते। एवं दोषसत्त्वेऽपि काव्यत्वं भवतीति सिद्धमतः अदोषत्वघटितकाव्यलक्षणस्याव्याप्तिरिति विश्वनाथस्य तात्पर्यम्।

किन्तु पूर्वोक्तरीत्या अत्र अविमृष्टविधेयांशस्य विशेषलक्षणमेवात्र समन्वेति, न तु रसविघातकत्वरूपसामान्यलक्षणम् । प्रतिपदं वर्तमाने ध्वनिप्रवाहेऽभिभूतोऽयं दोषः रसास्वादभड्गविषयेऽकिञ्चित्करस्तिष्ठति । अतोऽस्मिन् पद्ये दोषो वर्तत इत्येतदेव न सङ्गच्छते, किं पुनः दोषे सत्यपि काव्यत्वमित्येतत् सङ्गच्छेत ? स्वसिद्धान्तसमर्थनाय विश्वनाथेनैव स्वयमुक्तं यत् काव्यात्मभूतस्य रसस्यानपकर्षकत्वे तेषां दोषत्वमपि नाड्गीक्रियते इति । अनेन मम्मटाचार्यस्यैव मतं विश्वनाथेन समर्थितमस्ति, किन्त्वज्ञात्वा । अतः मम्मटाचार्याणां दूषणार्थमुदाहृतमिदं पद्यं तैरुक्तस्य अदोषत्वस्यैव परमरमणीयमुदाहरणं भवतीति उपहासतां गतः कविराजविश्वनाथः ।

दोषावित्यस्य ईशद्दोष इत्यर्थकरणं तु नितान्तमनुचितम्। यतो हि काव्यलक्षण एव अदोषत्वं निवेशयता मम्मटेन ईशद्दोषत्वस्याभिप्रेतत्वं कथञ्चिदपि न सङ्गच्छते। पूर्वोक्तरीत्या सर्वथा निर्दुष्टत्वमेवाभिप्रेत त।

यदि कदाचित् रसान्विते पद्ये रसभङ्गकारक एव कश्चन दोषो विद्यते इति चिन्तयन्तु। पद्यं तु रसपूर्णम्, किन्तु तत्र रसविघातकत्वरूपदोषलक्षणमप्यन्वेति, तदा किं वक्तव्यमिति सन्देह उत्पद्येत। तादृशसन्दर्भे तत्र सहृदयस्यानुभव एव प्रमाणं भवति तस्य काव्याकाव्यत्वनिर्णये। यतो हि- (9)

Page 10

वाक्यार्थभारती 2013-14 1. प्रथमतया तादृशरसपूर्णकाव्यरचनानिपुणः कविः प्रतिभावानेव भवति । अतः रसभङ्गकारकदोषेष्वनवधानं सामान्यतः अस्य न भवति। यदि भवति तर्हि निश्चयेन स दोषो अव्युत्पत्तिकृत एव भवति, न त्वशक्तिकृतः । तदा स दोषः शक्ते: प्रभावेण संव्रियते। यदुक्तमानन्दवर्धनेन। अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवे: । यस्त्वशक्तिकृते दोषः स झटित्येवावभासते ॥ इति। यदि शक्तिकृत एव दोषस्तर्हि निश्चयेन तत्राकाव्यत्वव्यवहार एव समीचीनः ।

  1. द्वितीयं तु यदि स दोषो नितान्तं रसभङ्गं तु नोत्पादयति किन्तु किञ्चिदेव क्लेशं जनयति सहृदयस्य मनसि, परन्तु रसप्रवाहनिमग्नः सहृदयस्तं दोषमुपेक्ष्य रसास्वादं कर्तुं शक्तस्तर्हि पुनस्तस्यादुष्टत्वमेव वक्तव्यं भवति अकिञ्चित्करत्वात्। दोषस्य तस्य रसप्रवाहाभिभूतत्वात् न परिगणनीयत्वम् । एतदेव काव्यमयवचसा प्रस्तुतं महाकविना कालिदासेन कुमारसम्भवमहाकाव्ये- 'एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः' इति। महाकवेः काव्येष्वपि दोषाः सत। अविमृष्टविशेयांशस्य उदाहरणत्वेन मम्मटाचार्यैरेव कुमारसम्भवस्य वपुर्विरूपाक्षमलक्ष्यजन्मतेत्यादौ पद्ये अलक्ष्यजन्मतेत्यत्राविमृष्टविशेयांशदोषमुद्धाट्य अलक्षिता जनिरिति वक्तव्यमित्युक्तम्। किन्त्वेतत्तु 'एष दोष एवं सम्भवती'ति दर्शमात्रोद्देशेन । किन्तु तस्य काव्येषु कुत्रापि रसभड्गो न जायते। सर्वोऽपि दोषस्तस्य प्रतिभातिशयेन तिरोभवति। इदमेव रहस्यं तस्य काव्यानामुत्तमत्वस्य, तस्य च कविकुलगुरुत्वस्य। एतादृशादुष्टत्वमेव अदोषौ शब्दार्थावित्यनेन विवक्षितं मम्मटाचार्यैः । इदानीं पश्यामस्तावत् पण्डितराजजगन्नाथस्याभिप्रायम्। अदोषदलनिवेशे दुष्टकाव्यमिति व्यवहारो न सङ्गच्छते इति सोऽभिप्रैति। इदानीमस्माभि: पृच्छ्यते यत् दुष्टकाव्यमिति कुत्र वर्तते काव्यप्रकार इति। अन्यैः सर्वैरप्यालङ्कारिकै: उत्तम-मध्यम-अधमभेदेन प्रकारत्रयमेवाङ्गीकृतम् । उत्तमोत्तमकाव्यमतिरिक्ततयाऽङ्गीकृत्य स्ववैशिष्ट्यं यत् प्रदर्शितं तेन जगन्नाथेनापि दुष्टकाव्यमिति काव्यप्रकारो नाङ्गीकृतः। व्यवहारे तावत् केवलगुणालङ्काराणां किञ्चिदस्तित्वं कारणं स्यात्। अतः काव्यस्य छायामात्रं तत्, न तु काव्यम्। तादृशेन काव्यप्रयोजनेषु यश:, अर्थ:, पुरुषार्थचतुष्टयप्राप्तिरिस्रादिषु एकमपि प्रयोजनं नासाद्यते, किं पुनर्वक्तव्यं परमप्रयोजनं रसास्यादरूपं नैव प्राप्यत इति। किं साधितं भवति तादृशकाव्येन ? तादृशरचनया कवेरपि कालो व्यर्थः पठनेन सहृदयस्यापि। अत एवोक्तं भामहाचार्यण - नाकवित्वमधर्माय व्याधये दण्डनाय वा। कुकवित्वं पुनः साक्षात्मृतिमाहुर्मनीषिणः ॥ इति। सर्वथा उपेक्षणीयस्य तादृशस्य व्यवहारसिद्ध्यर्थं येन परमप्रयोजनके काव्ये अदुष्टत्वं निराक्रियते तर्हि स तु तादृशव्यवहरानभिज्ञ एव भवति, योऽल्पार्थे भूमं त्यजति। एतावत्पर्यन्तं अदोषदलनिवेशेन किं भवतीत्ययं विचार प्रपञ्चितः । यदि न निवेश्यते तर्हि किं भवतीति वाक्यत्रये अत्यन्तं सङ्क्षेपेण निरूप्यते। यदि तन्न निवेश्यते तर्हि- 1. दोषे सत्यपि काव्यं भवतीत्येव सर्वेषां मनसि रूढं भवेत्। (10)

Page 11

वाक्यार्थभारती 2013-14 2. काव्यरचनावसरे काव्यकर्तारः दोषविषयेऽ्नवधानिनो भवेयुः । 3. कविजनानामनवधाने उत्तमकाव्यरचना असाध्यैव। 4. दोषयुक्तकाव्यानां बाहुल्येन आत्यन्तिकरूपेण काव्यजगतोऽत्यन्तमेव हानिः स्यात्। 5. काव्यपठनादिषु सहृदयानामनादरः भवेत्। 6. तेन विश्वनाथेन यदुक्तं काव्यप्रयोजनत्वेन परमपुरुषार्थसिद्धिरिति तदपि न प्राप्येत। 7. दोषसहितयो: शब्दार्थयोरपि काव्यत्वाङ्गीकारे लोके साज्जन्य-दौर्जन्ययोः समानता एवाङ्गीकृता स्यात्। तेन महन्नैरर्थक्यं धर्मादिप्रतिपादकानां वेदादीनाम्। एवमेव इतोऽपि वक्तुं शक्यम्। एतत्सर्वं मनसि निधाय सदोषयोः शब्दार्थयोः काव्यत्ववारणाय अदोषावित्युक्तम्। अनेन स्पष्टं भवति यत् काव्यस्य परमप्रयोजनेन रसास्वादेन सह साक्षात्सम्बद्धत्वात् अदोषत्वमपि काव्यलक्षण एवान्तर्भवितुमर्हतीति। तेन मम्मटाचार्य-विद्यानाथादिभिः काव्यलक्षणे निविष्टमदोषत्वं समीचीनमेव इति शम्।

(11)

Page 12

वाक्यार्थभारती 2013-14 रूपकम् अलङ्कार:

डा. रामचन्द्रः जोयिस:

अथ अभेदप्रधानेषु रूपकालंकारः कुवलयानन्दानुसारं यथा प्रतिपाद्यते। चद्रालोकमाधृत्योक्तमत्र यथा-

विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत्।

रूपकं तत्तरिधाधिक्यन्यूनत्वानुभयोक्तिभिः इति।

तथा चैते भेदाः सम्भवन्ति - 1. अनुभयाभेदः, न्यूनाभेदः, अधिकाभेद इति अभेदरूपकभेदाः, 2. अनुभयताद्रूप्यम्, न्यूनताद्रूप्यम् अधिकताद्रूप्यमिति ताद्रूप्यभेदाः। एतेषां सर्वेषां षड्भेदानामेतान्युदाहरणर्म क्रमशः सम्भवन्तीति तत्रोक्तानि। तत्र अनुभयाभेदोदाहरणं यथा -

अयं हि धूर्जटि: साक्षात् येन दग्धाः पुरः क्षणात्। न्यूनाभेदो यथा -

अयमास्ते विना शम्भु: तार्तीयीकं विलोचनम्।

अधिकाभेदो यथा -

शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम्।

अनुभयताद्रूप्य यथा -

अस्या: मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना।

न्यूनताद्रूप्यं यथा -

साध्वीयमपरा लक्ष्मीरसुधा सागरोदिता।

अधिकताद्रप्यं यथा -

अयं कलड्कनश्चन्द्रात् मुखचन्द्रोतिरिच्यते। इति।

यत्र विषये उपमेये, विषयिणः उपमानस्य अभेदत्वं ताद्रूप्यं वा वर्णितं भवति तत्र रूपकालंकारो भवति। रूप्यते इतरव्यावृत्ततया ज्ञायते धर्मी अनेनेति रूपं, तद्रूपमस्यासौ तद्रूपः, तस्य भाव: ताद्रूप्यं, चन्द्रकार्यकारित्वादि विषयिणः उपमानस्य अभेदताद्रूप्याभ्यां विषयस्योपमेयस्य यद्रञ्जनमिव रज्जनम् स्वोपरक्तबुद्धिविषयीकरणं यत् तत् रूपकम् इत्यर्थः । तेन -

(12)

Page 13

वाक्यार्थभारती 2013-14 उपात्तबिम्बाविशिष्टविषयधर्मिकाहार्यारोपनिश्चयविषयीभूतमुपमानाभेदताद्रप्यान्यतरत् रूपकं इति निष्कर्ष:मुखं चन्द्रः' इत्यादौ नामार्थयोः अभेदान्वयव्युत्पत्तिवशात् आहार्यचन्द्रभेदनिश्चयात् लक्षणसमन्वयः । 'मुखमपरश्चन्द्रः' इत्यत्र न चन्द्राभेदो विषयः । अपर इति भेदस्य विवक्षितत्वात्। 'कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम्' इत्यादौ अतिशयोक्तिवारणाय 'उपात्ते' ति विषयविशेषणम्। आरोपश्च निषेधानङ्गकत्वेन विशेषणीयः । तेन अपह्रुतौ नातिव्याप्तिः । भ्रान्तिवारणाय आहार्येति विशेषणम्। 'त्वत्पादनखरतनानां यदलक्तकमार्जनम्' - इति निदर्शनवारणाय बिम्बाविशिष्टेति दलनिवेशः। संशयोत्प्रेक्षयोः निरासाय निश्चयेत्युक्तम् ।

तथा च विवरणम् अनुभयाभेदरूपकस्य यथा -

अयं वर्ण्यमानो राजा साक्षात् धूर्जटिः, येन पुरः क्षणात् दग्धाः। येन दग्धाः पुरः क्षणात् इति विशेषणेन वर्णनीये राज्ञि प्रसिद्धशिवाभेदानुरञ्जनात् शिवस्य पूर्वावस्थातो वर्णनीयराजभावावस्थायां न्यूनत्वाधिक्ययो: अवर्णनात् अनुभयाभेदरूपकम् आद्यम्।

अयं तार्तीयीकं लोचनं विना शम्भु: आस्ते।

तृतीयलोचनप्रहाणोक्त्या पूर्वावस्थातो न्यूनताप्रदर्शनात् नूनाभेदरूपकं द्वितीयम्।

शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम्।

अयं शम्भुरिति अनुषञ्जनीयम्। अन्यथातिशयोक्तिप्रसड्गः । रूपकोदाहरणासंगतिरपि।

एवमेवाधिकताद्रूप्यरूपकं, न्यूनताद्रूप्यरूपकम् अनुभयताद्रूप्यरूपकम् इति ताद्रूप्यमपि त्रिविधम्।

एतेषामुदाहरणान्तराणि यथा -

चन्द्रज्योत्साविशदपुलिने सैकतेस्मिन् शरव्याः

वादद्यूतं चिरतरमभूत् सिद्धयूनो: कयोश्चित्।

एको वक्ति प्रथमनिहतं कैटभं कंसमन्यः

स त्वं तत्त्वं कथय भगवन् को हतस्तत्रपूर्वम् ।। इति।

अत्र 'स त्वम्' इति पदद्वयेन कंसकैटभयो: हन्तुः भगवतः विष्णोः वर्णनीयेन राज्ञा तादात्म्यं विज्ञाप्य अत्र उदेति प्रश्न: यत् कंसकैटभयोः मध्ये प्राक् कः हतः ?तं तादात्म्यं दृढीकरोति, अस्यामुक्तौ पूर्वावस्थया नृपत्यवस्थाया: उत्कृष्टोपकृष्टो वा विज्ञापनेन अयमनुभयकोटिकं अभेदरूपकम्।

वेधा द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च।

तासु तेष्वप्यनासक्त: सक्षात् भर्गो नराकृतिः ॥ (13)

Page 14

वाक्यार्थभारती 2013-14 पद्येऽस्मिन् 'साक्षात्' इति पदप्रयोगेण विरक्तस्य मुनेः शिवस्य च तादात्म्यं प्रदर्शितमस्ति। नराकृतिः इति पदेन अयं दिव्यमूर्तिधरो नास्ति। अनेन प्रकारेण दिव्यमूर्ते: साहित्यं प्रकाश्य न्यूनता द्योतिता। अतः न्यूनत्वोक्तिकथनात् न्यूनाभेदं रूपकम्।

त्वय्यागते किमिति वेपत एष सिन्धुः

त्वं सेतुमन्थकृदतः किमसौ बिभेति।

द्वीपान्तरेपि नहि तेस्त्यवशंवदोद्य

त्वां राजपुंगव निषेवत एव लक्ष्मीः ।।

अत्र त्वं सेतुमंन्थकृदिति सेतोः अमृतमंथनस्य च कर्त्रा पुरुषोत्तमेन सह राज्ञः तादाम्त्यमुक्तम् । अनुभयताद्रूप्यरूपकोदाहरणं यथा - किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं?

वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ?

वक्रोन्दौ तव सत्ययं यदपर: शीतांशुरुज्जृम्भते

दर्प: स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे॥

अत्र अपरः शीतांशुः इत्यनेन वक्रेन्दोः प्रसिद्धात् चन्द्रात् भेदमाविष्कृत्य तस्य (वक्रेन्दोः) प्रसिद्धचन्द्रकार्यकारित्वमात्रप्रतिपादनेन उत्कर्षापकर्षयोः अप्रदर्शनात् अनुभयताद्रूप्यरूपकम्।

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः।

अफाललोचनःशम्भु: भगवान् बादरायण: ॥

चतुर्वदनत्वादिवैकल्यं चात्रोक्तमिति न्यूनताद्रूप्यरूपकम्।

किमसुभिर्ग्लपितैर्जड मन्यसे मयि निमज्जतु भीमसुतामनः ।

मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ॥

नैषधचरितस्य पद्ममिदम्। अत्राधिकताद्रूप्यरूपकम्। दमयन्तीकर्तृकः चन्द्रोपालम्भः प्रतिपाद्यो विषयः । तस्मिन् प्रसिद्धे चन्द्रे निर्याणकालिकमनःप्रवेशश्रुतेः विषयो नास्ति । अपि तु नलमुखचन्द्रे एवेति कथनेन आधिक्यप्रतिपादनात् अधिकताद्रूप्यरूपकम्।

(14)

Page 15

क्रिया एव प्रवृत्तिनिमित्तम् वाक्यार्थभारती 2013-14

डा. कोम्पेल्लि विनयकुमार:

अर्थप्रतीतिरेव शब्दप्रयोगप्रयोजनम्। अर्थः साध्यः, शब्दः साधनरूपः इति विवेकः । शाब्दः व्यवहार: लोके अर्थप्रतीतिसिद्ध्यर्थं साधनरूपः। तत्र शब्दः द्विविधः। पदं वाक्यं च। तत्र पदं पञ्चधा भवति। नामाख्यातोपसर्गनिपातकर्मप्रवचनीयभेदात्। तत्र सत्त्वप्रधानानि नामानि। भावप्रधानमाख्यातम्। असत्त्वभूतार्था उपसर्गादयः । भावसत्त्वयोरात्मभेदप्रत्यायननिमित्तमवधृतरूपार्थविशेषाः स्वरादयो निपाताः । क्रियाविशेषोपजनितसम्बन्धावच्छेदहेतवः कर्मप्रवचनीया इति। (नाम, आख्यातम्, उपसर्गः, निपातः, कर्मप्रवचनीय:)

नामपदान्यत्र बहुप्रकाराणि, जातिगुणक्रियाद्रव्याणां तत्तत्प्रवृत्तिनिमित्तानां बहुत्वात्। जाति: यथा घटत्वं पटत्वं वा। तथा च जातिविशिष्टो नाम घटः पट इत्यादयः । तेन च सङ्केतग्रहः जातिविशिष्टव्यक्तौ। यथा घट इत्यनेन घटत्वविशिष्टा घटव्यक्ति: ग्ृह्यते, एवं पट इत्यादावपि। ननु कथं न जातावेव सङ्केतग्रह: इति चेत् ? न आनन्त्यात् व्यभिचाराच्च। अनन्तानां घटव्यक्तीनां घट इत्यनेन शब्देनैव सङ्केतः तथापि प्रवृत्तिनिमित्तं व्यक्तिरेव कल्प्यते।

गुणाः शुक्लनीलादयः । गुणशब्दस्तु वस्त्वर्थानुगामी। आरोपितः प्राकृतिकश्च । यथा - शङ्खदुग्धादिषु शुक्लत्वं प्राकृतिकम्, घटादिषु रक्तत्वं कृष्णत्वं वा आरोपितम् । तेन शुक्लकृष्णादीन्यपि नामपदानि। क्रियापदानि पचति पठतीत्यादीनि। क्रियाशब्दाधीनानि - नामपदानि पाचकः पाठक: इत्यादीनि। द्रव्याधीनानि नामपदानि दण्डी विषाणी इत्यादीनि।

केचित्तु क्रियाधीनान्येव नामपदानीति स्वीकुर्वन्ति। यथा घटतीति घटः पततीति पत्रं वा। न हि घटनक्रियाविरहित: घटशब्दार्थः सम्भवति, स तु चिन्त्य एव। महिमभट्टः व्यक्तिविवेके नामपदानां क्रियाधीनत्वं सम्यक् विचारयति। तन्मतानुसारेण घटादयः शब्दाः क्रियापेक्षा एव अन्वयव्यतिरेकाभ्यां कल्प्यन्ते। अतः क्रियैव नामपदानां सार्थकत्वं प्रयच्छतीति, क्रियैव नामपदानां प्रवृत्तिनिमित्तत्वं सिद्धतीति महिम्न: आशयः ।

केचन पुनः जातिगुणक्रियायदृच्छावाचीति भेदं स्वीकुर्वन्ति। तत्र यदृच्छाशब्दाः डित्थ- डवित्थादयः । मीमांसका अत्र जातिरेव नामपदानां प्राणप्रद इति स्वीकुर्वन्ति। तेषां मतानुसारेण हिम- पय :- शङ्खाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्लादिषु यद्वशेन शुक्ल: शुक्ल इत्यभिन्नाभिधानप्रत्ययोत्पत्तिस्तत् शुक्लत्वादिसामान्यम्। गुडतण्डुलादिपाकादिष्वेवमेव पाकत्वादि।

महिमभट्टः स्वव्यक्तिविवेके अन्यदेव मतं प्राकाशयति - 'के चित्पुनरेषां क्रियैवैका प्रवृत्तिनिमित्तमिति क्रियाशब्दत्वमेव सर्वेषां नामपदानामभ्युपगच्छन्तीति'।

(15)

Page 16

वाक्यार्थभारती 2013-14 प्रवृत्तिनिमित्तस्वरूपम् -

प्रवृत्तिनिमित्तशब्दस्य विग्रहो द्विधा कर्तुं शक्यते। प्रवृत्तेः निमित्तम् = प्रवृत्तिनिमित्तमिति षष्ठीतत्पुरुषः। प्रवृत्तौ निमित्तम् = प्रवृत्तिनिमित्तमिति सप्तमीतत्पुरुषश्च। द्वितीय एव विग्रह: महिमभट्टेन स्वीकृतः । सः घटशब्दस्य प्रवृत्तौ निमित्तम्' इति वदति। द्वयोरपि विग्रहयोः अर्थभेदो न भवति। अर्थ एक एव फलति। प्रवृत्तिशब्दस्य अर्थः प्रवर्तनमिति, निमित्तशब्दस्य अर्थः कारणमिति। अतः प्रवृत्तेः प्रवर्तनस्य निमित्तं कारणमिति प्रवृत्तिनिमित्तशब्दस्य शाब्दिकोऽर्थो भवति।

यथा - घटशब्द: घटरूपस्यैवार्थस्य बोधने प्रवर्तते, न तु पटरूपार्थस्य बोधने। यो विशेष: घटशब्दस्य घटरूपार्थबोधने प्रवृत्तौ निमित्तं विद्यते स प्रवृत्तिनिमित्तं कथ्यते। स विशेषो जातिरस्ति । घटरूपार्थे घटत्वजातिरस्ति। तामेव निमित्तीकृत्य घटशब्दः घटरूपार्थस्य बोधने प्रवृत्तो भवति। पटे पटत्वजातिरस्ति, न तु घटत्वम्, अतो घटशब्दः पटरूपार्थबोधने न प्रवर्तते। एवं शुक्लशब्दः तमेवार्थं बोधयति यत्र शुक्लगुणो भवति, न तु तमपि बोधयति यत्र शुक्लगुणो नास्ति। अतः शुक्लघटरूपे अर्थे विद्यमान: शुक्ल: गुणः शुक्लशब्दस्य प्रवृत्तिनिमित्तं भवति। पाचके विद्यमाना क्रिया पाचकशब्दस्य प्रवृत्तौ निमित्तं भवति। य: दण्डं धारयति तस्मिन्पुरुषे वर्तमानं दण्डरूपं द्रव्यं 'दण्डी' इति शब्दस्य प्रवृत्तौ निमित्तं भवति।

एवं सः अर्थगतो विशेषः शब्दस्य प्रवृत्तिनिमित्तं कथ्यते। एवं घटत्वादिः जात्यादिरूपः अर्थगतः धर्म: घटादिशब्दस्य प्रवृत्तिनिमित्तं कथ्यते। अत एव कैश्चित् प्रवृत्तिनिमित्तस्य स्वरूपमेकं कथ्यते-

'वाच्यत्वे सति वाच्यवृत्तित्वे सति, वाच्योपस्थितीयप्रकारताश्रयत्वं प्रवृत्तिनिमित्तत्वम्' इति।

यद् वाच्यं भवति, वाच्ये तिष्ठति, वाच्योपस्थितौ विशेषणं च भवति तत् प्रवृत्तिनिमित्तं कथ्यते।

प्रवृत्तिनिमित्तचतुष्टयम् -

वैयाकरणानां मते शब्दस्य चत्वारि प्रवृत्तिनिमित्तानि सन्ति। जाति:, गुण: क्रिया, यदृच्छा च। एतत् महाभाष्ये प्रथमाह्निके स्पष्टम् - 'चतुष्टयी शब्दानां प्रवृत्तिः' इति। मम्मटादीनां काव्यप्रकाशादौ एवमेव प्रवृत्तिनिमित्तं वर्तते। महिमभट्टोऽपि चत्वारि प्रवृत्तिनिमित्तानि प्रतिपादयति, किन्तु अस्य मते यदृच्छा स्वेच्छया कल्पितोऽपि धर्मः जातिरेव विद्यते। स शब्दे भवतु अर्थे वा। महिमभट्टस्य चतुर्थं प्रवृत्तिनिमित्तं द्रव्यम्।

(16)

Page 17

वाक्यार्थभारती 2013-14

क्रिया एव प्रवृत्तिनिमित्तम्

महिमभट्टः भणति यत् वस्तुतः जातिः, गुणः, क्रिया, द्रव्यं चेति चत्वारि नामपदानां प्रवृत्तिनिमित्तानि सन्ति। सर्वेषां नामपदानां प्रवृत्तिनिमित्तं मन्यते सा घटना वर्तते। एषा घटनक्रिया साध्यैव विद्यते। एषैव साध्या घटनक्रिया सर्वेषां नामपदानां प्रवृत्तिनिमित्तमस्ति।

एतर्हि घटनक्रिया का वर्तते ? अस्याः बोधकाः शब्दाः के सन्ति, घटनक्रिया प्रवृत्तिनिमित्तं कथं भवति, क्विबादय: प्रात्ययाः एनामेव क्रियां कथं बोधयन्ति च इत्यादि।

घटनक्रियाया: स्वरूपम्

घटनं घटत्वादिजाते: शुक्लादिगुणस्य, पाकादिरूपक्रियायाः दण्डादिस्वरूपद्रव्यस्य च प्राप्तिरूपा क्रिया कथ्यते। एषा प्राप्तिरूपा क्रिया शुद्धा नास्ति। अस्यां घटत्वादिसामान्यादेरपि योगो भवति। एवं घटनं घटत्वादिजातेः, शुक्लादिगुणस्य, पाकादिरूपक्रियायाः, दण्डादिरूपस्य द्रव्यस्य च प्राप्तिरस्ति। एवं घटशब्दस्य प्रवृत्तिनिमित्तं घटत्वप्राप्तिरस्ति । एवं शुक्लादिगुणानां च प्राति: शुक्लादिशब्दस्य प्रवृत्तिनिमित्तं वर्तते। एवं क्रियाद्रव्यशब्दानां प्रवृत्तिनिमित्तं भवति। एवं घटत्वादिप्राप्तिरूपा क्रियाघटनं विद्यते। एषा घटनक्रिया येषु पदार्थेषु भवति ते एव शब्देन व्यवहार्या भवन्ति। यदा घटपदार्थो घटति- घटत्वं प्राप्नोति तदैव स घटः उच्यते। अत्र शङ्का उदेति यत् जडो घटः घटनक्रियायाः कर्ता कथं भवितुमर्हन्ति। यतो हि कर्ता स्वतन्त्रो भवति। स्वातन्त्र्यं च स्वेच्छया क्रियायां प्रवृत्तिरस्ति । ईदृशं स्वातन्त्र्यं जडे घटे न सम्भवति। अस्योतरम् - शैवागमाधारेण दीयते। शैवागमशास्त्रानुसारेण सर्वे पदार्थाः शिवस्य आभासाः सन्ति। सर्वे शिवरूपब्रह्मण एव स्वरूपं सन्ति।

'अयं जड:, अयं चेतनः' इति भेद: अज्ञानेन क्रियते। घटादयो जडा अपि शिवस्वरूपत्वेन चेतना: सन्ति। अतो घटेऽपि घटत्वापत्तिरूपक्रियायाः स्वातन्त्र्यरूपं कर्तृत्वं सम्भवति। 'अहं घटत्वं प्राप्नोमि' इति ज्ञानं परामर्शः कथ्यते। स एव स्वातन्त्र्यरूपं कर्तृत्वमस्ति। एतदुक्तरीत्या घटेऽपि सम्भवति। अत एव रुय्यक: व्यक्तिविवेकव्याख्याने कथयति -

तदिहैकैकोऽपि पदार्थ: प्रकाशात्मतया लब्धस्वातन्त्र्यस्वभावः परमेश्वरः कर्तृत्वमनुभवत्येव। यदुक्तं तत्र भवता 'प्रदेशोऽपि ब्रह्मणः सारूप्यमनतिक्रान्तश्च अविकल्प्यश्च'।

एवं व्यावहारिकदृष््या जडे चेतने वा सर्वत्र विद्यमाना या घटत्वादिप्राप्तिरूपा क्रिया सा घटनक्रिया कथ्यते।

(17)

Page 18

वाक्यार्थभारती 2013-14

घटनक्रियाया: पर्याया: -

घटनक्रियाया: घटनम्, घटात्मतापत्तिः, सत्तासादनम्, घटत्वम्, घटात्मतघटना, घटनक्रियाकर्तृत्वम् इति पर्यायाः सन्ति । अत्र घटत्वं जातिविशेषं न बोधयति, अपि तु साध्यत्वेन प्रतीयमानां घटनक्रियां बोधयति इति रूय्यको वदति - 'स्वरूपभूतं च घटत्वं साध्यत्वेन प्रतीते: घटात्मतापत्तिलक्षणा क्रिया उच्यते' इति। 'घटात्मतापत्तिः' इति शब्देन बोध्यते यत् घटनक्रिया घटात्मतायाः = स्वरूपस्य प्राप्तिः विद्यते। 'सत्तासादनम्' इत्यनेन सूच्यते यत् सत्तायाः प्राप्तिः घटनं विद्यते। 'घटात्मता' 'घटना' चापि शब्दौ जात्यादिप्राप्तिद्वारा सत्तया एव प्राप्तिं प्रतिपादयतः ।

घटनक्रियायाः प्रवृत्तिनिमित्तत्वम्

प्रवृत्तिनिमित्तं तदेव भवति यत् पदार्थस्य स्वरूपं भवति, पदर्थे तिष्ठति। घटो यावत् घटत्वं न प्राप्नोति तावत् घटो घटशब्देन न व्यवहियते। यदा घटो घटत्वं प्राप्नोति तदा स घटः कथ्यते। एतेन प्रतीयते यत् घटत्वस्य प्राप्तिरेव घटपदस्य प्रवृत्तिनिमित्तम् अन्वयव्यतिरेकाभ्यां सिद्ध्यति। घटो भिन्न: पदार्थो विद्यते, घटत्वं च भिन्न: पदार्थो वर्तते, घटः अनित्यः, घटत्वं च नित्यम्। यदा घटो नश्यति तदानीमपि घटत्वं तिष्ठति। यदा घटत्वप्राप्तिरूपायाः क्रियायाः अभावस्यापि काले परभूतेन घटत्वेन घटो घटव्यवहारस्य विषयः स्यात् तदा पटोऽपि घटत्वसामान्येन 'घटः' इति व्यवहारस्य विषयो भवेत्। यतो हि यथा घटे घटत्वप्राप्तिक्रियायाः कर्तृत्वं नास्ति, तथा पटेऽपि तन्न भवति। अत एवं स्वीकर्तव्यं भवति यत् घटपदार्थो यावत् स्वस्मिन् घटप्राप्तिरूपां क्रियां धारयति घटत्वं प्राप्नोति तावदेव स घटशब्देन व्यवहारस्य विषयो भवति । अत एव खण्डशो भग्ने पक्वमृत्समूहे घट इति व्यवहारो नास्ति। एवं मृत्पिण्डेऽपि तावन्न घटव्यवहारो भवति यावत् तत्र घटः स्वरूपं न प्राप्नोति। एवं घटः यदा सत्तां प्राप्य आत्मानं ज्ञातुर्बुद्धौ प्रकाशयति तदैव स घटशब्देन व्यवहृतो भवति। घटस्य बोद्धुः बुद्धौ सिद्धिरेव प्रकाश: कथ्यते। शैवागममते प्रकाश: परामर्शं = स्वातन्त्र्यरूपं कर्तृत्वं विना न भवति। घटः बोद्धुः बुद्धौ प्रकाशते, तेन सिद्ध्यति यत् स सत्ताप्राप्तिरूपायां क्रियायां कर्तृत्वमनुभवति - अहं घटत्वं प्राप्नोमि, अहं श्रोतु: बुद्धौ आत्मानं प्रकाशयामि इति। एषा घटत्वप्राप्तिः सत्ताप्राप्तिर्वा क्रिया घटशब्दस्य प्रवृत्तिमिमित्तं विद्यते। केवलं घटत्वजातिः प्रवृत्तिनिमित्तं नास्ति।

एवं शुक्लो घटादिपदार्थो यावत् शुक्लगुणं न प्राप्नोति तावत् स शुक्लशब्देन न व्यवहियते। अतः शुक्लगुणप्राप्तिरेव शुक्लशब्दस्य प्रवृत्तिनिमित्तम्। यावत् शुक्लगुणः शुक्लपदार्थे तिष्ठति तावदेव स शुक्ल इति शब्देन कथ्यते। एवं कश्चित् पुरुषो यावन्न पाकक्रियां प्राप्नोति तावत् स पाचक इति नोच्यते। एवं कश्चित् दण्डं धारयति तावदेव स दण्डी इति कथ्यते । एवं शुक्ल-पाचक- दण्डिप्रभृतिशब्दानां प्रवृत्तिनिमित्तं शुक्लगुण- पाकक्रिया दण्डादिद्रव्यप्राप्तिरस्ति। एवं घटत्वादिप्राप्त्यैव घटादिषु घटादिशब्दैः व्यवहारा भवन्ति। अतः केवलं घटत्वादि प्रवृत्तिनिमित्तं नास्ति, अपि तु घटनक्रियाकर्तृत्वं - घटनक्रिया प्रवृत्तिनिमित्तं वर्तते।

(18)

Page 19

वाक्यार्थभारती 2013-14 चेष्टादिक्रियाणां प्रवृत्तिनिमित्तत्वखण्डनम्

घटनक्रिया सर्वेषां नामशब्दानां प्रवृत्तिनिमित्तं वर्तते। अत्र शङ्का उदेति यत् सर्वेषां शब्दानां प्रवृत्तिनिमित्तं क्रिया विद्यते इति नवीनं मतं कथं वर्तते ? यतो हि निरुक्तशास्त्रे शाकटायननामकवैयावणमते च सर्वे शब्दा धातुत एव निष्पन्ना मताः । तत्र सर्वेषां शब्दानां प्रवृत्तिनिमित्तं क्रियैव भवति। यथा - 'घट' शब्दस्य प्रवृत्तिनिमित्तं चेष्टा क्रिया वर्तते। 'घट चेष्टायाम्' इति धातोः अच्प्रत्यये निष्पन्नो घटशब्दो घटे चेष्टां बोधयति। एवं 'गमेर्डोस्' इति उणादिसूत्रेण 'गम्' धातोर्डोस् प्रत्ययो यदा भवति तदा गेशब्दो निष्पद्यते। अयं गोशब्दो गोषु गमनक्रियां बोधयति। अतो गोशब्दस्य गमनक्रिया प्रवृत्तिनिमित्तमस्ति। एवं सर्वेषां शब्दानां प्रवृत्तिनिमित्तं क्रिया एव भवति । महिमभट्टेन 'क्रिया एव प्रवृत्तिनिमित्तम्' इति वदता किमपि नवीनं नोच्यते।

एतत्कथनं समीचीनमेव भाति। महिमभट्ट एवमुत्तरं ददाति-चेष्टादय: क्रियाः शब्दस्य प्रवृत्तिनिमित्तानि न सन्ति । अपि तु व्युत्पत्तेर्निमित्तानि सन्ति । घटादिशब्दानां व्युत्पत्तये (प्रकृतिप्रत्ययविभागद्वारा बोधनाय) प्रकृतेः प्रत्ययस्य च अर्थाः कल्प्यन्ते। व्युत्पत्तेः निमित्तं प्रवृत्तेश्च निमित्तं भिन्नं भवति। या क्रिया पदर्थे सदा न तिष्ठति, कदाचिदेव भवति सा व्युत्पत्तेर्निमित्तं कथ्यते। यथा घटशब्दस्य व्युत्पत्तेर्निमित्तं चेष्टा क्रिया घटपदार्थे सदा न तिष्ठति। यदा घटेन जलानयनरूपं कार्यं भवति तदा घटे चेष्टा भवति। यदा तु घटः क्वचित् स्थापितो भवति, तदा तत्र चेष्टा न भवति। एवं चेष्टारूपायाः क्रियायाः घटे कदाचित् अभावोऽपि भवति। अतः चेष्टायाः अभावकालेऽपि घटपदार्थो घटशब्देन व्यवहियते। किन्तु स्वरूपप्राप्तिरूपा घटनक्रिया घटपदार्थे सदा भवति। घटपदर्थो यावत् घटत्वं न धारयति तावत् स घटशब्देन वक्तुं न शक्यते। अत एव घटत्वापत्तिरूपायाः क्रियायाः अभावेन विनष्टे घटे घट इति व्यवहारो न भवति। एवं घटनक्रिया घटे सदा तिष्ठति। अतः सा प्रवृत्तेः निमित्तं भवति। एवं गमनक्रिया गोशब्दस्य व्युत्पत्तेः निमित्तं विद्यते। सा गवि सदा न तिष्ठति। यदा गौः शेते तदा तत्र गमनं न भवति। अतः गमनं गोशब्दस्य गोपदार्थे प्रवृत्तेर्निमित्तं न भवितुमर्हति। गोशब्दस्य प्रव्त्तिनिमित्तं तु गोत्वप्राप्तिरूपा घटनक्रिया एव विद्यते। गौः यावत् जीवति तावत् सा गोत्वप्राप्तिरूपां क्रियां करेत्येव। गोत्वापत्तिरूपाया: क्रियायाः अभावे गौः नष्टा भवति।

एवं स्पष्टं ज्ञायते यत् यन्निरुक्ते शाकटायनव्याकरणे वा या श्चेष्टादयः क्रियाः कल्पिताः सन्ति, ता घटादिशब्दानां व्युत्पत्तिनिमित्तानि सन्ति । केवला घटत्वापत्तिरूपा सत्ताप्राप्तिरूपा वा या क्रिया विद्यते सैव प्रवृत्तिनिमित्तं वर्तते। अयमेव महिमभट्टस्य निरुक्ताद्यपेक्षया नवीनो विचारो विद्यते। इत्थं चेष्टागमनादिक्रियाणां प्रवृत्तिनिमित्तत्वं नास्ति। प्रवृत्तिनिमित्तं तु सा घटनक्रिया विद्यते, यां विना पदार्थस्य सत्तैव न भवति। चेष्टादिक्रियां विनापि घटादिपदार्थस्य सत्ता भवत्येव।

(19)

Page 20

वाक्यार्थभारती 2013-14 क्विबादिप्रत्ययानां घटनक्रियावाचकत्वम्

व्याकरणे मुख्यतः क्यच्, क्यङ्, क्विप् एते प्रत्यया उपमानवाचकात् आचरे विधीयन्ते। यथा 'गुरु: शिष्यं पुत्रीयति' अत्र वाक्ये 'पुत्रीयति' इति शब्दे कर्मभूतात् उपमानवाचकात् पुत्रशब्दात् क्यच् प्रत्यय: आचाररूपे अर्थे विहितः । अस्य विधायकं सूत्रं उपमानादाचारे (3,1,10) इति वर्तते। अत उक्तवाक्यस्य अर्थो भवति 'गुरु: शिष्यं पुत्रमिव आचरति' इति । अर्थात् गुरुः शिष्येण सह तथैव व्यवहारं करोति यथा स्वपुत्रेण सह करोति। एवं 'काक: श्येनायते' इत्यत्र 'श्येनायते' इति पदे क्यङ् प्रत्ययः आचारे वर्तते। अस्य विधायकं सूत्रं 'कर्तु: क्यङ् सलोपश्च' इति वर्तते। क्यङ् उपमानात् कर्तृवाचकात् पदात् भवति। अत्र श्येन उपमानमस्ति। तस्मादेव क्यङ् विहितः । 'काक: श्येनायते' इति वाक्यस्य अर्थो भवति काक: श्येन: (वाजपक्षी) इव आचरति। अर्थात् काकस्तथा पक्षिमारणादौ पराक्रमं दर्शयति यथा श्येनो दर्शयति। एवं सर्वेभ्यः प्रातिपदिकेभ्यः आचारार्थे क्विप् प्रत्ययो भवति। यथा'बालेयः अश्वति' इत्यत्र 'अश्वति' शब्दे अश्वशब्दात् क्विप्प्रत्ययो विद्यते। अस्य विधायकं सूत्रं 'सर्वप्रातिपदिकेभ्यः क्विप् वा वक्तव्यः' इति वार्तिकं विद्यते। 'बालेयः अश्वति' इति वाक्यस्य अयमर्थो भवति- बालेयः =गर्दभः । 'चक्रीवन्तस्तु बालेया रासभा गर्दभा खरा' इत्यमरः । अश्व इव आचरति। अर्थात् अश्वो यथा बलादि प्रदर्शयति तथा गर्दभोऽपि बलादि प्रदर्शयति। गर्दभस्य आचारः अश्वस्य आचारेण तुल्य इति भावार्थः ।

एवं क्विप, क्यच्, क्यङ्, इति प्रत्यया व्याकरणे आचाररूपार्थे विधीयन्ते। किन्तु महिमभट्टः कथयति यत् उक्तायां घटनक्रियायामेव क्विप्प्रभृतयः प्रत्ययाः कर्तव्याः । यतो हि सर्वेभ्यः शब्देभ्यो घटनक्रियैव प्रतीयते। लक्षणं लक्ष्यानुसारेण रच्यते। लक्ष्ये क्विबादिप्रत्ययान्तेभ्यो घटनक्रियाया एव प्रतीति: भवति। यथा 'गर्दभ: अश्वति' इत्यत्र गर्दभः अश्वत्वं प्राप्नोति इत्यर्थ: प्रतीयते। एवं 'काक: श्येनायते' इत्यत्र काक: श्येनत्वं प्राप्नोति इत्यर्थो ज्ञायते। 'गुरु: शिष्यं पुत्रीयति' इत्यत्र गुरुणा शिष्ये पुत्रत्वस्य प्रापणं बोध्यते। शिष्ये पुत्रत्वस्य प्राप्तिः फलिता भवति। अन्यः पदार्थ: अन्यस्य धर्मं तदैव प्राप्तुं शक्नोति यदा अन्यः अन्य इव क्रियाम् आचारं वा करोति। गर्दभः अश्वत्वं तदैव प्राप्तुं शक्नोति यदा स अश्वस्य क्रियामिव क्रियां करोति। अतः गर्दभस्य अश्वसदृशाचरणम् अर्थतः प्रतीयते, न तु शब्दतः । अतः गर्दभः अश्वतुल्याचारो विद्यते इति फलितार्थो भवति। एवं 'काकः श्येनायते' इत्यादावपि। क्विबादिप्रत्ययरूपशब्देन तु घटनक्रियैव बोध्यते, न त्वाचारः । अतः क्विबादीनां प्रत्ययानां घटनक्रियावाचकत्वं स्वीकरणीयम्।

प्रयोगस्थानां सर्वेषां शब्दानां साधनं क्विबादिप्रत्ययान्तेभ्यः एव कर्तव्यम्। यथा यो घटति- घटत्वं प्राप्नोति स घट उच्यते इति। घटपदार्थो घटति-घटत्वं घटनक्रियां प्राप्नोति, अतो घटः कथ्यते। एवं घटशब्दात् क्विपि पुनरच् प्रत्यये प्रयोगयोग्यो घटः साधनीयः । अर्थात् 'घट चेष्टायाम्' इति घटधातोः 'अच्' इति प्रत्ययः कर्तव्यः । ततो घट इति सिद्धे तस्मात् क्विप् कर्तव्यः । ततः पुनरच् कर्तव्यः । ततश्च प्रयोगस्थघटशब्दस्य सिद्धिरेवं कर्तव्या-

(20)

Page 21

वाक्यार्थभारती 2013-14 घट्+अच् +क्विप् (ततः पूर्वस्याचो लोपः) + अच् = प्रयोगस्थः 'घटः' इति। एवं प्रयोगस्थघटशब्दस्य प्रवृत्तिनिमित्तं घटत्वस्य प्राप्तिरस्ति। सा क्विपा अभिधीयते। 'घटत्वप्राप्तिः' इत्यत्र 'घटत्वं प्राप्नोति' इत्यत्र च प्रवृत्तिनिमित्तस्य एकदेशो घटत्वं 'घट चेष्टायाम्' इति धातोरचि निष्पन्नस्य घटशब्दस्य अर्थो विद्यते। क्विबादिप्रत्ययरहितः केवल: अच्प्रत्ययान्तः घटशब्दः प्रयोगयोग्यो नास्ति। स तु प्रयोगयोग्यस्य घटशब्दस्य साधने कारणत्वेन कल्प्यते । अर्थात् केवलाच्प्रत्ययान्तः घटशब्दः प्रयोगस्थघटशब्दस्य निमित्तं भवति । तस्य स्वतन्त्ररूपेण प्रयोगो नास्ति । स केवलम् 'घटति' इत्यत्र क्विबन्ते एव प्रयुज्यते। यथा निभशब्दः सदृशार्थको वर्तते। किन्तु स 'चन्द्रनिभं मुखम्' इत्यत्र समासे एव प्रयुज्यते। एवं स घटशब्दः, यत्र क्विप् नास्ति, केवल: अजेव प्रत्ययो वर्तते, तत्रैव 'घटति' इत्यत्र प्रकृतिरूपेण प्रयुज्यते। एतत् रुप्यकव्याख्याने स्पष्टं विद्यते-

'प्रायोगिकघटशब्दसिद्ध्यर्थं घटिरच्प्रत्ययान्तः प्रवृत्तिनिमित्तैकदेशाभिधायी उपायमात्रत्वेन गृह्यते म तु तस्य स्वतन्त्रत्वेन प्रयोग:। स्वरूपीभूतघटत्वापत्तिलक्षणं हि घटशब्दस्य प्रवृत्तिनिमित्तम्। तदेकदेशश्च घटत्वमुपायभूतस्य घटशब्दस्यार्थः । स च घटशब्दः अत्र प्रकृतित्वेनैव प्रयुज्यते, यथा 'मृगाङ्कनिभमाननम् इत्यत्र समासविषयत्वेन निभशब्दः ।

एवं सर्वेषां प्रयोगस्थानां शब्दानां व्युत्पत्तिरेवमेव कर्तव्या- घटति इति घटः, काकति इति काक:, गच्छतीति गौः इत्यादि। यो घटत्वं प्राप्नोति स घटः, यः काकत्वं प्राप्नोति स काक:, यो गोत्वं प्राप्नोति स गौः इत्यर्थो भवति। एवं प्रयोगस्थघटकाकादिशब्दानां साधनाय तेषां प्रकृतिरूपेण घट- काकादय: केवलाजादिप्रत्ययान्ता: स्वीकार्या भवन्ति। इत्थं सर्वेभ्यः प्रातिपदिकेभ्यः क्विबादयः प्रत्यया विधेया भवन्ति, प्रयोगयोग्याः शब्दाः साधनीयाश्च भवन्ति।

एवं ज्ञातं यत् क्विबादयः प्रत्ययाः महिमभट्टमते घटनक्रियाया एव वाचकाः सन्ति। उक्तघटनक्रियाया बोधनं सर्वेषां नामशब्दानां स्वभावो विद्यते । अत एव सैव क्रिया नामपदानां प्रवृत्तिनिमित्तमस्ति । अत्र पाणिनिप्रभृतिभि: प्रणीतो धातुपाठोऽपि क्वचित् प्रमाणं भवति । यथा पणिनेर्धातुपाठे अण, रण, वण, भण, कण, क्वण, व्रण, भ्रण, ध्वणशब्दार्थाः लभ्यन्ते। अत्र अण- रणादीनामर्थः शब्दो विद्यते, अणादयः शब्दार्थकाः सन्ति। 'शब्दार्थाः' इत्यत्र प्रयुक्तः 'शब्दः' इति शब्दो नाम विद्यते। शब्दशब्देन अत्र शब्दत्वापत्तिरूपा क्रियैव ग्रहीतुं शक्यते। 'शब्द'शब्देन यदा शब्दरूपस्यैव अर्थस्य ग्रहणं स्यात् तदा अणादीनां क्रियावाचकत्वाभावेन धातुत्वं न स्यात्। यतो हि शब्द: क्रिया नास्ति। एतेन इदमेव कल्पनीयं भवति यत् 'शब्दार्थाः' इत्यत्र प्रयुक्तस्य शब्द इति नामपदस्यार्थ शब्दत्वापत्तिरूपा क्रियैव अणादीनामर्थो भवितुमर्हति, न तु केवलं शब्दरूपो गुणः ।

एवं धातुपाठे 'गडि वदनैकदेशे' इति लभ्यते। अस्यार्थो भवति यत् गडिधातुर्वदनैकदेशस्य बोधकोऽस्ति। 'वदनैकदेशः' इति नामपदं विद्यते। तेन मुखस्य एकभागरूपः कपोलो बोध्यते। कपोलो द्रव्यं वर्तते। अयमेव 'वदनैकदेशः' इति नामशब्देन प्रधानरूपेण बोध्यते। कपोलरूपं द्रव्यं क्रिया नमती। यदा गडि: कपोलरूपस्य द्रव्यस्यैव बोधकः स्यात् तदा क्रियावाचकत्वाभावेन स धातुरेव न स्यात्। यतो

(21)

Page 22

वाक्यार्थभारती 2013-14 हि क्रियाया एव बोधकः शब्दो धातुः कथ्यते। अतः वदनैकदेशेन मुखैकदेशत्वापत्तिरूपायाः क्रियायाः एव बोधः कर्तुं शक्यते। एवं मुखैकदेशत्वं यः प्राप्नोति = मुखस्य एकदेश: (अवयवः) भवति स एव गण्ड: (कपोल:) कथ्यते। एवं यावत् कपोलो मुखस्य एकदेशो न भवति तावत् स गडिधातुना बोधयितुं न शक्यते। एवं गण्डति = मुखस्य एकदेशो भवति इति क्रियैव 'गडि' धातुना बोध्यते।

एवं भगवता पाणिनिना शब्दरूपनामपदस्य शब्दत्वापत्तिरूपा या क्रियाऽर्थोऽस्ति स एव अणादिधातोरर्थ उक्तः। एवं 'वदनैकदेशः' इति नामपदस्य मुखैकदेशापत्तिरूपो योऽर्थो विद्यते स एव गडिधातोरर्थ: उक्तः। एवं शब्दस्य वदनैकदेशशब्दस्य च क्रमशः शब्दत्वापत्तिरूपा मुखैकदेशत्वापत्तिरूपा च क्रियैवारऽर्थो वर्तते इति धातुपाठकारेण सूच्यते।

घटतीति घटो ज्ञेयो नाघटन् घटतामियात्।

अघटत्वाविशेषेन पटोऽपि स्यात् घटोऽन्यथा ॥

घटनं च तदात्मत्वापत्तिरूपा क्रिया मता।

मूलं च तस्याश्चित्रार्थाभासाविष्कृतिरीशितुः ॥

यः कश्चिदर्थः शब्दानां व्युत्पत्तौ स्यान्निबन्धनम्।

प्रवृत्तौ तु क्रियैवैका सत्तासाधनलक्षणा॥

तस्यामेव क्विबाद्याश्च विधेयाः कर्तृमात्रतः ।

न तूपमानादाचारे तयोरर्थात् प्रतीतितः ।

यथा ह्यश्वति बालेय इत्यतोऽर्थः प्रतीयते।

अश्वत्वमासादयति खर इत्यर्थतः पुनः ॥

अश्वतुल्यसामाचार: खर इत्यवसीयते।

न तत्त्वसादनं युक्तं तदतुल्यक्रियस्य हि।।

सत्तायां व्यापृतिश्चैषा चित्रत्वपरिनिष्ठितेः ।

सङ्गच्छते जडस्यापि घटादेर्घटनादिवत्।।

नाम्न: सत्त्वप्रधानस्य धातुकारोऽत एव हि।

शब्दवक्रैकदेशादेर्धात्वर्थत्वमवोचत॥

(22)

Page 23

वाक्यार्थभारती 2013-14 तस्मान्नामपदेभ्यो यः कश्चिदर्थः प्रतीयते।

न स सत्तामनासाद्य शब्दवाच्यत्वमर्हति ॥ व्यक्तिविवेके 1.8-15,18

इत्येताभि: कारिकाभि: महिमभट्टेन स्वव्यक्तिविवेके अलङ्कारशास्त्रग्रन्थे घटनक्रियैवा सर्वेषामर्थानां स्वरूपं विद्यते इति प्रतिपादितम् । तां विना कस्यापि पदार्थस्य सत्तैव न भवति। अतः सैव सर्वेषां प्रवृत्तिनिमित्तं वर्तते । अस्या एव घटनक्रियायाः पर्यायाः सत्तासादन-स्वरूपापत्ति-घटत्वापत्तिप्रभृतय: सन्ति। इत्थं महिमभट्टः अलङ्कारशास्त्रे सर्वेषां शब्दानां प्रवृत्तिनिमित्तं घटनक्रियामेव साधितवान्।

इति शम्

परिशीलितग्रन्था:

  1. व्यक्तिविवेक: - विवेकसुदर्पणव्याख्या - डा. ई. आर्. नारायणन् 2. व्यक्तिविवेक: - आन्ध्रव्याख्याता श्री भागवतुल कुटुम्बराव् 3. शाब्दतरड्गिणी - आचार्य के. टि. पाण्डुरडिग 4. व्यक्तिविवेकानुशीलनम् - डा. के.पि. केशवन् 5. काव्यप्रकाश :- बालबोधिनीव्याब्या-श्री भट्ट वामनाचार्य: 6. अमरकोश: - अमरसिंह: 7. वैयाकरणसिद्धान्तकौमुदी - भट्टोजिदीक्षितः

(23)

Page 24

वाक्यार्थभारती 2013-14 लांगिनस् महाशयस्य काव्योदात्तताविचार:

डा. श्रीनिवासमूर्ति:

प्राथमिकमहत्त्वपूर्णनियतकालानन्तरं प्रतीचीतारस्वतविमर्शक्षेत्रे क्रीस्तोः परं प्रथमशताब्द्याः चतुर्थशताब्दिपर्यन्तं द्वे विस्तृते बौद्धिकधारे दृश्येते। तत्र प्रथमा धाराSecond sophistic (27 BC - 410 AD) नाम्ना प्रसिद्धिं गता। द्वितीया धारा Neo- Platonism नाम्ना प्रसिद्धा वर्तते। तत्र Perinopsus or on the subliwe इति नाम्ना ग्रीक्भाषायां कृता वर्तते। तत्र Longinus महाशयः विशिष्टो वर्तते।

काव्ये उदात्तता एव प्राणभूता सर्वोत्कृष्टा च वर्तते इति Longinus महाशयस्य सिद्धान्तः । यद्यपि काव्य इतरेऽप्यंशाः प्रधानाः तथापि उदात्तता अथवा औचित्यमेव प्राणभूतमस्तीति अस्य सिद्धान्तः । अयं विमर्शकाग्रेसर: औचित्यस्य विषये एवं वदति -

'The sublime, he says, appears like a bolt of lightning, scattering everything before it and revealing the power of the speaker 'at a single stroke'

तटिदिव पुरतः विद्यमानानि वस्तूनि सर्वाण्यपि विकीर्णानि कृत्वा हठात् कवे: शक्ति उदात्तता प्रकटीकरोति।

अपि च कथयति - स्वभावसिद्धतया उदात्तं सुन्दरं च काव्यं सर्वानपि सर्वेषु समयेषु आनन्दयतीति -

'Truly beautiful and sublime .... plasea all people at all times'

एतदुदात्तता पञ्चधा भवतीति सूचयति अयंमहाशयः, यथा -

  1. भावोदात्तता

  2. उद्रेकोदात्तता

  3. अलङ्कारोदात्तता

  4. शय्योदात्तता

  5. पदक्रमोदात्तता

Longinus cites five genuine sources of syblime

  1. The command of full blooded or robust ideas

(24)

Page 25

वाक्यार्थभारती 2013-14 2. The inspiration of vehement emotioms.

  1. The proper construction of figures both figures of thought and figures of speech.

  2. Nobility of phrase, which includes diction and the use of metaphor.

  3. the arrangement of the words themselves in a cretain order.

पठितृणां मनस्सु तत्तदुदात्तविषयाः तत्तल्लोकोक्तयः, यथा मुद्रिताः भवितुमर्हन्ति तथा तत्तद्भावाः प्रकटीकरणीयास्सन्ति। उदात्तहृदयादेव उदातभावाः आविर्भवन्तीति अस्याभिप्रायः ।

सहकारीणि महोदात्तभावचित्राणि पाठकानां मनोविकासाय कविभि: निर्मातव्यानीति अस्य प्रबोधः। तथैव पाठका: यथा उत्कण्ठिता: भवन्ति तथा रूपकाद्यलङ्कारान् कवि: प्रयोजयेत्। काव्यं नितरां संक्षिप्तं वा अतीव विस्तृतं वा न भवेदित्यस्य निर्देशः । भावोदात्तानुकूलतया रचनोदात्तता तथा द्वयोरनुकूलतया छन्दोदात्तता च भवेदित्यस्याभिप्रायः।

यान्त्रिकतया पदानां ओतप्रोतत्वमेव वाङ्मयं भवितुं नार्हति । तात्विकं, भावनात्मकम्, उद्रिक्तञ्च रसोज्जक्लरमणीयरचनमेव वाङ्मयमिति अस्याभिप्रायः । एवमयं प्रतीचीसारस्वतक्षेत्रे रसवादिनां मार्गदर्शको भवति।

काव्यस्य उदात्ततासंपादने भावादयः सर्वेडपि समप्राधान्यं वहन्ति। यथा मानवशरीरे सर्वेऽपि भागा: व्यस्ततया निमूल्याः भवन्ति, सर्वेषां समाहारेणैव व्यवस्थितं निर्दिष्टञ्च शरीरं निर्मीयते तथैव सर्वेषामपि भावादीनां अस्तित्वेनैव काव्ये उदात्तता सम्पाद्यते इति अस्य सिद्धान्तस्य निष्कर्षः ।

'Just as with the members of human body, so, it is with the syblimity'. One of the members has any value by itself apart from the others, yet one with another they all constitute a perfect organism.

(25)

Page 26

वाक्यार्थभारती 2013-14 ब्रह्मसूत्रशाङ्करभाष्य -तद्व्याख्यानरीत्या ब्रह्मजिज्ञासा पदनिष्पत्तिविचारः

प्रो. एस्. एल्. पि. आञ्जनेयशर्मा

ब्रह्मजिज्ञासापदनिष्पत्तिविचारभूमिका

भगवता बादरायणेन प्रणीतायां शारीरकमीमांसायाम् आदिमे अथातो ब्रह्मजिज्ञासा इति सूत्रे अथ-अतश्शब्दयोः अर्थनिरूपणानन्तरं क्रमप्राप्तं ब्रह्मजिज्ञासापदं विगरृह्य व्याख्यातं शङ्करभगवत्पादैः ब्रह्मसूत्रभाष्ये - ब्रह्मणो जिज्ञासा = ब्रह्मजिज्ञासा, ब्रह्मण इति कर्मणि षष्ठी न शेषे ....... इत्यादिना।

तेषाम् अयमाशयः - जिज्ञासा नाम ज्ञातुमिच्छा । सा च सविषयकपदार्थः । स्वविषयेणैव निरूपयितुं शक्यते न अन्यथा, विषयश्च कर्म। जिज्ञासान्तर्गतज्ञाने किं कर्म ? (=क: विषयः?) इति जिज्ञासायां सन्निहितं ब्रह्म कर्मताया अन्वेति। तथा च ब्रह्मविषयिणी जिज्ञासा इति फलति। तथाच जिज्ञासाशब्दे कृदन्ते प्रयुज्यमाने सति तत्र कर्मतया अन्वीयमानस्य अर्थस्य वाचकात् ब्रह्मन् शब्दात् कर्त्तृकर्मणोः कृति 2.3.64 इति सूत्रेण षष्ठी भवति। तस्य षष््यन्तस्य जिज्ञासापदेन समासः भवति। तत्र जिज्ञासासाध्यविचारविषयः ब्रह्म, तज्ज्ञानं फलम्, तज्जिज्ञासुः अत्र शास्त्रे अधिकारी इत्यादिकम् अनुबन्धचतुष्टयं सर्वमत्र सूचितं भवति इति।

अत्र काचित् शङ्का जायते - ब्रह्ममात्रस्य विचारविषयत्वे प्रतिज्ञाविषयत्वे च सिद्धेऽपि ब्रह्मप्राप्तिसाधनं किम् ?तस्य फलं किम् ? इत्यादिविचारः शास्त्रे क्रियमाण: प्रतिज्ञया असंगृहीतः स्यात् ? इति। अतः ब्रह्मणः इत्यत्र शेषषष्ठीपरिग्रहे ब्रह्मसंबन्धिनां सर्वेषां विचार्यमाणानां विषयाणां प्रतिज्ञाविषयत्वं सिध्यति। अतः ब्रह्मणः इति शेषषष््यन्ततया स्वीकार्यम्, न तु कर्मषष्ठ्यन्ततया इति।

अत्र ज्ञानेन आप्तुम् इष्यमाणत्वात् ब्रह्म प्राधानभूतम्, तस्य प्रतिज्ञाविषयत्वे सूचिते यद्यत् विना ब्रह्मविचारः समाप्तो न भवति तस्य सर्वस्यापि प्रतिज्ञाविषयत्वम् अर्थात् सिध्यत्येव इति, साधनादिविचारस्य प्रतिज्ञाऽविषयत्वं स्यादिति यो दोषः सः अदोष एव । किंच जिज्ञासायाः कर्मांशे उत्थिताकाङ्क्षत्वात् तत्परित्यज्य सम्बन्ध्यंशे आकाङ्क्षामुत्थाप्य ब्रह्मणः इत्यत्र षष्ठ्याः सम्बन्धसामान्यपरत्वकल्पनम् अनुचितम्। सामान्यस्य विशेषपर्यवसानेन परम्परया विशेषाकाङ्क्षापूरणं च नोचितम, कर्मविशेषसंबन्धेन साक्षादेव तदाकाड्क्षायाः पूरणौचित्यात्। अतः ब्रह्मणः इति कर्मषष््यन्तं स्वीकृत्य कर्मषष््यन्तस्य जिज्ञासापदेन षष्ठीसमासस्वीकारः एव उचितः इति भगवत्पादानाम् आशयः । भगवत्पादभाष्यपङत्तिम्रदर्शने कृते अयमाशयः स्फुटो भवतीति ताः पङ्क्तयः अत्र उद्धियन्ते-

ब्रह्मणो जिज्ञासा=ब्रह्मजिज्ञासा ब्रह्मण इति कर्मणि षष्ठी न शेषे, जिज्ञास्यापेक्षत्वात् जिज्ञासायाः, जिज्ञास्यान्तरानिर्देशाच्च।

ननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं न विरुध्यते, संबन्ध-सामान्यस्य विशेषनिष्ठत्वात्। एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वम् उत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थ: प्रयासः स्यात्। न व्यर्थ:, ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वात् इति चेन्न, प्रधानपरिग्रहे तदपेक्षितानाम् अर्थाक्षिप्तत्वात्। (26)

Page 27

वाक्यार्थभारती 2013-14 ब्रह्म हि ज्ञानेन आप्तुम् इष्टतमत्वात् प्रधानम्। तस्मिन् प्रधाने जिज्ञासाकर्मणि परिगृहीते, यै: जिज्ञासितैर्विना ब्रह्म जिज्ञासितं न भवति तानि अर्थाक्षिप्तान्येवेति न पृथक् सूत्रयितव्यानि। यथा राजासौ गच्छति इत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति तद्वत्। श्रुत्यनुगमाच्च । यतो वा इमानि भूतानि जायन्ते इत्याद्याः श्रुतयः तद्विजिज्ञासस्व तद्ब्रह्म इति (च श्रुतयः) प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति। तच्च, कर्मणि षष्ठीपरिग्रहे सूत्रेण अनुगतं भवति। तस्मात् ब्रह्मण इति कर्मणि षष्ठी। ज्ञातुमिच्छा जिज्ञासा इति भाष्यम्।

एतद्भाष्यव्याख्यावसरे भामतीकारैः वाचस्पतिमिश्रैः उक्तम् - ब्रह्मणो जिज्ञासा इति षष्ठीसमासप्रदर्शनेन प्राचां वृत्तिकृतां, ब्रह्मणे जिज्ञासा = ब्रह्मजिज्ञासा, इति चतुर्थीसमासः परास्तो वेदितव्यः इति।

प्राचां वृत्तिकृतामाशयः भामती - कल्पतरु-परिमलादिव्याख्याकारैः एवमुन्नीतः-

ब्रह्मजिज्ञासा इत्यत्र चतुर्थीगर्भसमासः इति वृत्तिकारमतप्रदर्शनम्

ब्रह्मणे जिज्ञासा (=ब्रह्मजिज्ञासा) इति चतुर्थीगर्भितः समासः अत्र आश्रयणीयः । ब्रह्मणे इत्यत्र तादर्थ्यचतुर्थ्या ब्रह्मणः फलत्वम् बोध्यते। तथाच यूपाय दारु = यूपदारु इत्यादौ यूपफलकं- यूपजनकं दारु इति यथा प्रतीयते तथा ब्रह्मफलिका (ब्रह्मजनिका) जिज्ञासा (=विचारः) इत्यर्थ: फलति। न च दरुणा यूप इव, जिज्ञासया =विचारेण, ब्रह्म जन्यते, ब्रह्मणः नित्यत्वात् इति न च वाच्यम्, ब्रह्मणः स्वरूपेण नित्यत्वेऽपि, अविद्यावशात् अस्माभिः न ज्ञातम्, किन्तु विचारे कृते ज्ञायते इति ज्ञातत्वेन रूपेण ब्रह्मणः जन्यत्वं कथंचित् स्वीक्रियते। तथा च - एतद्विचारस्य ब्रह्मज्ञानं फलम्, अज्ञातं ब्रह्म विषयः, तज्जिज्ञासुः अधिकारी इत्येवम् अनुबन्धचतुष्टयं च सूचितं भवति।

अत्र काचित् शङ्का जायते - अत्र, 'चतुर्थी तदर्थार्थ-बलि-हित-सुख-रक्षितैः (पा.सू.2.1.36) इति सूत्रेण खलु चतुर्थीसमासो वक्तव्यः । तस्य चायमर्थः - चतुर्थ्यन्तं पदं चतुर्थीप्रकृतिप्रतिपाद्यसाधनवाचिना अर्थादिभिश्च शब्दैः समस्यते इति। 'यूपदारु, द्विजार्थः सूपः, कुबेरबलि:' इत्यादीनि चतुर्थीगर्भविग्रहाणि उदाहरणानि। तदर्थेत्यंशस्य च इदं ब्रह्मजिज्ञासा इत्युदाहरणं वक्तव्यम्। तन्न सम्भवति। तथाहि- चतुर्थी तदर्थत्यंशे यथाश्रुतसूत्रार्थे अनुपपत्तिप्रदर्शकमेकं वार्तिकम् अस्ति-चतुर्थी तदर्थमात्रेणेति चेत्, सर्वप्रसङ्गोऽविशेषात्(2-1-36 वार्तिक.1) इति। सर्वप्रसङ्गः सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण समासप्रसङ्गः, रन्धनाय स्थाली, अवहननाय उलूखलम्, ब्राह्मणाय सूपः इत्यादावपि समास: प्रसज्यते इति तस्यार्थः । ततः अन्यत् वार्तिकमस्ति-विकृतिः प्रकृत्येति चेद् अश्वघासादीनामुपसंख्यानम् (2-1-36 वार्तिक.3) इति। यदि विकृतिवाची चतुर्थ्यन्तशब्दः प्रकृतिवाचिना समस्यते इति विशिष्य उच्यते, तदा सर्वप्रसङ्गः परिहृतो भवति, किन्तु अश्वाय घास: = अश्वघास:, इत्यादौ चतुर्थीसमासो न प्राप्नोति, प्रकृति विकारभावाभावात्। अतः तत्संग्रहार्थम् उपसंख्यानं = यत्नान्तरं, अश्वघासादयश्चतुर्थीसमासाः इत्यादिवचनान्तरकरणरूपं यत्नान्तरं कर्तव्यमिति

(27)

Page 28

वाक्यार्थभारती 2013-14 एतद्वार्तिकार्थः । एवं अश्वघासादिषु चतुर्थीसमासः इति वार्तिककारमतम् । अश्वघासादेश्च आकृतिगणत्वात् ब्रह्मजिज्ञासाशब्दमपि तत्र पठित्वा चतुर्थीसमासः समाश्रयितुं शक्यते।

अत एव अथातो धर्मजिज्ञासा इति मीमांसासूत्रभाष्यकारैः शबरस्वामिभिः धर्माय जिज्ञासा = धर्मजिज्ञासा इति चतुर्थीसमास: दर्शितः।

एवं व्याकरणशास्त्रे - सिद्धे शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियम: इति वार्तिके धर्मनियम: इति पदं धर्माय नियमः इति विगृहीतं भगवता पतञ्जलिना।

एवमेव आत्मनेपदम् परस्मैपदम् इत्यादिसमासेषु प्रकृति-विकृति भावाभावेऽपि चतुर्थीसमास: दृश्यते।

अतः ब्रह्मजिज्ञासा इत्यत्र चतुर्थीसमासाश्रयणं युक्तियुक्तम् इति वृत्तिकाराणामाशयः ।

वृत्तिकारमतनिरास :-

पूर्वोक्तवार्तिककारमतं महाभाष्यकारेण दूषितम्। तथाहि, चतुर्थीतदर्थ ...... इत्यंशेन समासः प्रकृति-विकृतिभावे सत्येव भवति नान्यथा। एतदर्थं वार्तिकमपूर्वं न कर्तव्यम्। चतुर्थी तदर्थति सूत्रे बलि-हित-सुख-रक्षितग्रहणं ज्ञापयति चतुर्थीतदर्थ .. इत्यत्र प्रकृति-विकृतिभावः आश्रयणीयः इति, अन्यथा, भूतेभ्यः बलि:, भूतार्थबलिरेव, गोभ्यः हितं गोरऽर्थहितमेव, गोभ्यः सुखम्, गोऽर्थसुखमेव, गोऽ्भ्यः रक्षितम्, गोरऽर्थरक्षितमेव भवति इति कृत्वा सर्वत्र चतुर्थी तदर्थ .... इत्यनेनैव सिद्धे पुनःतदतिरिक्ततया बलि-हित-सुख-रक्षितग्रहणं व्यर्थीभूय तादर्थ्यसमासः प्रकृति-विकृतिभावे सत्येव भवति इति ज्ञापयति । अतः रन्धनाय स्थाली इत्यादौ नातिप्रसङ्गः ।

अश्वघासादिषु षष्ठीतत्पुरुषे वा चतुर्थीतत्पुरुषे वा स्वरादिकृतः भेदः कोऽपि नास्ति । अतः अश्वघासादिषु यत्र प्रकृति-विकृतिभावो नास्ति, तत्र षष्ठीसमास एव अश्रयितुं शक्यते इति तदर्थमपि वार्तिकमपूर्वं न कर्तव्यम् इति भाष्यकारैः निर्धारितम्। यथोत्तरं मुनीनां प्रामाण्यम् इति वैयाकरणसम्प्र्रायात् भाष्यकारमतमेव सिद्धान्ततया स्वीक्रियते । किं च अत्र भाष्यकारः सूत्रकारमतानुयायी। अतोऽपि वार्तिककारमतापेक्षया भाष्यकारमतं प्रबलम्। तथाच ब्रह्मजिज्ञासा इत्यादौ चतुर्थीसमासः शास्त्रविरुद्धः प्रकृति-विकृतिभावाभावात्। अश्वघासादिषु षष्ठीसमास एव, न चतुर्थीसमास: इत्युक्तत्वाच्च। किन्तु षष्ठीसमास एव स्वीकार्यः ।

धर्मजिज्ञासा इत्यत्र धर्माय जिज्ञासा सा हि तस्य ज्ञातुमिच्छा इति शबरस्वाम्युक्तौ धर्माय जिज्ञासा इति न विग्रहप्रदर्शनपरा, धर्मस्य जिज्ञासा इति विग्रहे षष्ठीबोध्यसंबन्धविशेषसूचनपरैव। स एवांशः सा हि तस्य ज्ञातुमिच्छा इति उत्तरवाक्येन सूचितः । अत एव तत्र कुमारिलभट्टपादैः श्लोकवर्तिके उक्तम्-

प्रकृत्या विकृतिर्यस्माच्चतुर्थ्यन्ता समस्यते।

तादर्थ्ये यूपदार्वादौ तेनास्मिन्नसमासता ।।118।।

(28)

Page 29

वाक्यार्थभारती 2013-14 सा हि तस्येत्यनेनोक्तो धर्मस्येत्येष विग्रहः ।

धर्मायेति तु तादर्थ्ये षष्ठी वृत्तेति कथ्यते ॥119॥

प्राप्नोत्यत्र चतुर्थ्येव विशेषश्चेद्विवक्षितः ।

सामान्यस्य विवक्षायां तादर्थ्यं कथ्यते कथम्॥120॥

सम्बन्धमात्र एवैषा षष््युत्पन्ना तथापि तु।

विशेषनिष्ठता तस्य भाष्यकारेण वर्ण्यते ॥ 121 ॥ इति।

अतः ब्रह्मजिज्ञासा इत्यत्र वृत्तिकृतां चतुर्थीसमासाश्रयणम् अयुक्तमेव।

सिद्धे शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः इति वार्तिके धर्मनियमः इति पदस्य भाष्यकृता, धर्माय नियम: = धर्मनियमः, इति यद्यपि विश्लेषणं दत्तम्, तथापि तत् न विग्रहप्रदर्शनपरम्, अत एव तत्र धर्माय नियमः इति प्रतीकमादाय भाष्यव्याख्याने कैयटेन उक्तम् - चतुर्थ्या तादर्थ्यं प्रतिपाद्यते। संबन्धसामान्ये तु षष्ठीं विधाय समासः कर्तव्यः । चतुर्थीसमासस्य प्रकृति- विकृतिभावे एव विधानात् इति।

भाष्यप्रदीपव्याख्याने उद्द्योते प्रदीपात् विधानादिति प्रतीकमादाय नागेशभट्टैरुक्तम्-

तादर्थ्यस्य षष््यर्थत्वबोधनाय तु एवं प्रयोगः इति भावः । चतुर्थी इति योगविभागः न भाष्यारूढः । सुप्ससुपा इति समसः इत्यपि अगतिकगतिः2 इति एवं व्याख्यातम् इति।

भाष्यव्याख्याने रत्नप्रकाशाख्ये च भाष्यात् - धर्माय नियमः इति प्रतीकमादाय तद्व्याख्यात्रा

इति। शिवरामेन्द्रसरस्वतीमाहाभागेनापि उक्तम्-फलितार्थकथनपरम् इदम्। समासस्तु षष्ठ्यन्तस्यैव धर्मशब्दस्य

आत्मनेपदम् परस्मैपदम् इत्यादिसमासेषु प्रकृति-विकृतिभावाभावेऽपि चतुर्थीसमास: वैयाकरणाख्यायां चतुर्थ्या 6-3-74 इति अलुग्विधानसामर्थ्यात् भवति। न च तस्मादेव ज्ञापकात् सर्वत्रापि तादर्थ्यसमासः शङ्कनीयः, तथा सति बलि-रक्षितग्रहणवैयर्थ्यापत्तेः ।

तथा च ब्रह्मजिज्ञासा इत्यादौ षष्ठीसमास एव स्वीकार्यः इति सिद्धम्।

शेषषष्ठीसमासनिरासः

मास्तु चतुर्थीसमासः । अस्तु षष्ठीसमसः एव, तथापि शेषषष्ठीसमासस्वीकारे अधिकं प्रयोजनमस्ति। तथा हि - कर्मषष्ठीस्वीकारे ब्रह्मकर्मक एव विचारः प्रतिज्ञातः स्यात् । तथा च समन्वयादिविचारस्य अप्रतिज्ञाततया शास्त्रे तद्ग्रथनमसङ्गतं स्यात्। शेषषष्ठीपक्षे तु ब्रह्मसम्बन्धिनः प्रमाण-साधन-फलादेः

(29)

Page 30

वाक्यार्थभारती 2013-14 विचारस्य प्रतिज्ञालाभात् समन्वयादिविचारस्यापि परम्परया ब्रह्मसम्बन्धित्वात् न तद्ग्रथनमसड्गतं भविष्यति इति केचित् वदन्ति,

तन्न युक्तम्। शेषषष्ठीगर्भसमासस्वीकारेऽपि न साक्षात्प्रमाणादिविचारो ब्रह्मजिज्ञासा इति प्रतिज्ञया संगृहीतो भवति । अपि तु सम्बन्धसामान्यस्य विशेषपर्यवसानावश्यंभावनियमेन वक्ष्यमाणसूत्रपर्यालोचनया च ब्रह्मस्वरूप - तत्प्रमाणादिपर्यवसानं वक्तव्यमिति क्लेश एव। तथा पर्यालोचनायां कर्मषष्ठीगर्भसमासपक्षेऽपि ब्रह्मकर्मकविचारप्रतिज्ञया प्रमाणादिविचारोऽपि प्रतिज्ञातो भवत्येव, प्रमाणादिविचारं विना ब्रह्मविचारस्य फलपर्यवसायित्वासम्भवात्, फलपर्यवसायिब्रह्मविचारस्यैव प्रतिज्ञाविषयत्वात्। अपि च 'इदं ब्रह्मणि प्रमाणम्, इदं ब्रह्मप्राप्तिसाधनम्, इदं ब्रह्मज्ञानफलम्' इत्येवंरूपेण क्रियमाणः प्रमाणादिविचारोऽपि ब्रह्मविषयो भवत्येवेति न तेषामसङ्गतत्वम्। परं तु सविषयाया जिज्ञासायाः कर्मांशे उत्थिताकाङ्क्षत्वात् तत्परित्यज्य सम्बन्धांशे आकाङ्क्षामुत्थाप्य ब्रह्मजिज्ञासापदस्य सम्बन्धसामान्यपरत्वकल्पनम् अनुचितम् । अतः शेषषष्ठीसमासस्वीकारः नोचितः ।

अत्र एवमाभाति -

अथातो धर्मजिज्ञासा इति सूत्रे धर्माय जिज्ञासा - धर्मजिज्ञासा इति शबरस्वामिवचनं व्याचक्षाणानाम् सम्बन्धमात्र एवैषा षष््युत्पन्ना तथापि तु।

विशेषनिष्ठता तस्य भाष्यकारेण वर्ण्यते ॥ 121 ।। इति वदतां भट्टपादानाम् ...... सूत्रकारेण हि सम्बन्धसामान्यविवक्षया धर्मजिज्ञासा इति षष्ठीसमासः प्रयुक्तः । निर्विशेषसामान्यानुपपत्तेस्तु विशेषाकाङ्क्षायां भाष्यकारेणैव तस्य सामान्यस्य तादर्थ्यरूपविशेषनिष्ठता वर्ण्यते, तेन अयमपि न दोष इति वदतः भट्टपादव्याख्यातृजनस्य च गूढं निराकरणमस्ति वा इति।

कर्मषष्ठीसमाससमर्थनम्

ब्रह्मजिज्ञासा इत्यत्र चतुर्थीसमासो वा शेषषष्ठीसमासो वा न युक्तः, किन्तु कर्मषष्ठीगर्भसमास एव इत्युक्तम्।

अत्र काचित् शङ्का

अत्र काचित् शङ्का जायते - कथं कर्मषष्ठीगर्भसमासः संभवति इति ? प्रथमतः, ब्रह्मण इत्यत्र 'कर्तृ-कर्मणोः कृति' (पा.सू.2.3.65) इति सूत्रेण कर्मणि षष्ठी वक्तव्या। अस्ति ह्यत्र कृद्योगः, जिज्ञासापदस्य 'अ प्रत्ययात्5' इति सन्प्रत्ययान्तधातोरुपरि विहिताकारप्रत्ययान्तत्वात्, अकारप्रत्ययस्य च 'कृदतिङ् (पा.सू. 3.1.93)' इति सूत्रेण कृत्संज्ञकत्वात्। तस्याश्च समासो निषिद्धः 'प्रतिपदविधाना च षष्ठी न समस्यते' (पा.सू. 2.2.10 वा. 1)इति। या हि पदविशेषं निमित्तीकृत्य षष्ठी विधीयते, सा प्रतिपदविधाना षष्ठी, यथा -'ज्ञोऽविदर्थस्य करणे' (पा.सू.2.3.51) इत्यनेन, अविदर्थस्य =

(30)

Page 31

वाक्यार्थभारती 2013-14

ज्ञानभिन्नप्रवृ्त्याद्यर्थकस्य, जानातेः करणे विहिता षष्ठी। 'सर्पिषो ज्ञानम् इद्यादीनि उदाहरणानि। 'सर्पिषो ज्ञानम्' इत्यस्य सर्पिषा करणेन प्रवृत्ति: 'इत्यर्थः । अत्र करणार्थे जानातिरूपशब्दविशेषयोगं निमित्तीकृत्य षष्ठी विहिता, एतादृशी प्रतिपदविधाना षष्ठी इत्युच्यते। ततश्च कृद्योगं निमित्तीकृत्य कर्तृकर्मणोः विधीयमाना षष्ठी अपि प्रतिपदविधानैव इति कथं षष्ठीसमासः ? इति।

अस्या: शङ्कायाः समाधानम्

'प्रतिपदविधाना च षष्ठी न समस्यते' (पा.सू.वा 2.2.10 वा. 1) इति वार्तिकप्रतिप्रसवभूतं 'कृद्योगा च षष्ठी समस्यते' (पा.सू. 2.2.9 वा.1)8 इति वार्तिकान्तरमस्ति। जिज्ञासापदस्य च कृत्संज्ञकाकारप्रत्ययान्तत्वेन तन्निमित्तिका षष्ठी ब्रह्मणः इत्यत्र इति कृत्वा 'कृद्योगा च षष्ठी समस्यते' इति वार्तिकेन समास: संभवत्येव इति।

अत्र अन्या शङ्का

कृद्योगनिमित्तकषष्ठीष्वपि कर्मणि या षष्ठी तस्याः समासः 'कर्मणि च 2-2-149' इति सूत्रेण प्रतिषिद्धः । कर्मणि या षष्ठी सा उत्तरपदेन सह न समस्यते इति शङ्कितुरभिप्रायः ।

अस्या: शङ्कायाः समाधानम्

'कर्मणि च 2-2-14' इति सूत्रेन कर्मषष्ठीमात्रस्य समासप्रतिषेधो न भवति, तथा सति 'कर्तरि च 2-2-1410' इति सूत्रवैयर्थ्यप्रसङ्गात्। तेन हि सूत्रेण अपां स्रष्टा ओदनस्य भोजकः इत्यादौ - कर्तरि यौ तृजकौ ताभ्यां सह कर्मणि षष्याः समासो निषिध्यते। न च कर्मषष्ठीमात्रस्य समासनिषेधे तत् सफलं भवेत्। अतः 'कर्मणि च 2-2-14' इति सूत्रस्य व्याख्या एवम् -अत्र सूत्रे चकारः इतिशब्दसमानार्थकः । कर्मणि इति शब्दमुच्चार्य नियमिता विहिता वा या षष्ठी सा न समस्यते इति। एतादृशी षष्ठी 'उभयप्राप्तौ कर्मणि' (पा.सू.2.3.66) इति सूत्रविहितैव, न तु 'कर्तृकर्मणोः कृति 2- 3-65' इति सूत्रविहिता कर्मणि षष्ठी। ब्रह्मणः जिज्ञासा इत्यत्र षष्ठी वस्तुतः कर्मार्थिकापि 'कर्तृकर्मणोः कृति 2-3-65' इत्यनेन विहिता, नतु 'उभयप्राप्तौ कर्मणि' (पा.सू.2-3-66) इत्यनेन, तत्रत्यकृतः कर्तृकर्मणोः उभयोः षष्ठीप्राप्तिनिमित्तत्वाभावात्, कर्मणः प्रयोगाभावात्। अतः अत्र 'कर्मणि च 2- 2-14' इति समासनिषेधो न इति।

अत्र अन्या काचित् शङ्का

अत्र अन्या काचित् शङ्का जायते-ब्रह्मणः जिज्ञासा इत्यत्रापि 'उभयप्राप्तौ कर्मणि' (पा.सू.2.3.66) इत्यनेन विहिता एव कर्मणि षष्ठी। तथाहि - तस्य सूत्रस्य एवमर्थः - कर्तृकर्मणोरुभयोः षष्ठीप्राप्तिः यत्र एकस्मिन् कृत्प्रत्यये निमित्ते भवति, तस्मिन् कृति कर्मण्येव षष्ठी, न कर्तरि इति। तथा च अथातो ब्रह्मजिज्ञासा इति सूत्रे साधनचतुष्टयसम्पन्नः कर्ता यदि श्रूयेत, तदा तस्मिन्नपि कर्मणीव 'कर्तृकर्मणोः

(31)

Page 32

वाक्यार्थभारती 2013-14 कृति 2-3-65 इति सूत्रेण षष्याः प्राप्तौ निमित्तं भवति 'जिज्ञासा' इत्यत्र कृत्प्रत्ययः । अतोऽत्र 'कर्मणि च' इति समासप्रतिषेधः स्यादेव इति।

अस्या: शङ्कायाः समाधानम्

'उभयप्राप्तौ कर्मणि' (पा.सू.2.3.66) इति सूत्रे' कृत्वोर्थप्रयोगे कालेऽधिकरणे1 इति व्यवहितपूर्वसूत्रात् प्रयोगे इत्यनुवर्तते। तच्च कर्तृगतकिंचिदतिशयविवक्षासामर्थ्यात् कर्तृकर्मोभयप्रयोगावश्यंभावपरम्। एवं च आश्चर्यो गवां दोहः अगोपेन इत्यदिरेव उभयप्राप्तिसूत्रविषयः । तत्र हि आश्चर्य- शब्दसूचितकर्तृगतातिशयोपपादनोपयोगितया दुर्दोहत्वरूप-अजादिवैलक्षण्यसूचनाय गोत्वेन गोः कर्मणः, तद्दोहासामर्थ्यसंभावनासूचनाय अशिक्षितत्वदिना अगोपस्य दोहनकर्तुश्च उपादानमपेक्षितं कृतम्, नेह तथा किंचित् अतिशयविवक्षया साधनचतुष्टयसम्पन्नस्य कर्तुरुपादानं कृतमस्तीति नात्र उभयप्राप्तिसूत्रेण कर्मणि षष्ठीनियमनम्। किंतु 'कर्तृकर्मणोः कृति 2-3-65 इति सूत्रेणैव षष्ठी। अतः अत्र 'कर्मणि च 2-2-14 इति समासनिषेधो न इति।

कर्तृ-कर्मणोः उभयोः प्रयोगे एव उभयप्राप्तौ .... इति षष्ठी इत्यत्र प्रमाणान्तरमप्यस्ति -

किंच, आत्ममाने खश्च (3-2-83) इति सूत्रभाष्यादपि ज्ञायते - उभयोः कर्तृकर्मणोः प्रयोगे एव 'उभयप्राप्तौ कर्मणि (पा.सू.2.3.66)' इति सूत्रं (कर्तृषष्ठीनिषेधः कर्मषष्ठीविधानं वा) प्रवर्तते, कर्तृकर्मणोः अन्यतरस्य प्रयोगे तु कर्तृषष्ठीनिषेधः न, किन्तु 'कर्तृ-कर्मणोः कृति' (पसू. 2.3.65) इत्यनेनैव षष्ठी इति । तथाहि आत्ममाने खश्च (3-2-83) इति सूत्रभाष्ये आत्ममाने इति पदं कर्तृषष्ठ्यन्तस्य आत्मन् शब्दस्य भावप्रत्ययान्तेन मानशब्देन समास: इत्यभिप्रायेण - आत्मग्रहणं किमर्थम् ?। परमाने मा भूदिति। क्रियमाणेऽपि वै आत्मग्रहणे परमाने प्राप्नोति ॥ किं कारणम् ? आत्मन इतीयं कर्तरि षष्ठी। मान इत्यकारो भावे। स यद्येव आत्मानं मन्यते अथापि परम्। आत्मन एवासौ मानो भवति । नैष दोष: । आत्मन इतीयं कर्मणि षष्ठी। कथम् ?कर्तृ-कर्मणोः कृति इति -इत्युक्तम्। चैत्र: आत्मानं पण्डितं मन्यते = पण्डितम्मन्यः चैत्र:, इत्यादीनि आत्ममाने खश्च (3-2-83) इति सूत्रस्य उदाहरणानि इति, सूत्रे आत्ममाने इति कर्मषष्यन्तस्य आत्मन् शब्दस्य मान इति भावकृदन्तेन समास: इति च बुद्धौ स्थापनीयम्। यदि कर्तृकर्मणोः मध्ये एकस्य प्रयोगाभावेऽपि उभयप्राप्तिनिमित्तकृदन्तयोगमात्रमादाय' उभयप्राप्तौ कर्मणि' (पा.सू.2.3.66) इति सूत्रं प्रवर्तेत, तदा 'कर्मणि च' (पा.सू.2.2.14) इत्यनेन सूत्रेण समासनिषेधात् आत्ममाने इति कर्मषष््यन्तस्य मान इति कृदन्तेन समसकरणम् पाणिनेरसंगतं स्यात्। अतः उभयप्राप्तिनिमित्तकृदन्तयोगमात्रेण 'उभयप्राप्तौ कर्मणि' इति न प्रवर्तते, उभयोः कर्तृ- कर्मणोः प्रयोगे एव । कर्तृ-कर्मणोः अन्यतरस्य प्रयोगे तु 'कर्तृ-कर्मणोः कृति' (पा.सू.2.3.65) इत्यनेनैव षष्ठी। तत्र 'कर्मणि च' (पा.सू. 2.2.14) इति सूत्रेण समासनिषेधो न भवति।

(32)

Page 33

वाक्यार्थभारती 2013-14 अत्र अपरा काचित् शङ्का

यत्र कर्तृ-कर्मोभयप्रयोगो नास्ति, तत्र गम्यमानेऽपि कर्मणि, 'उभयप्राप्तौ कर्मणि' (पा.सू. 2.3.66) इति सूत्रेण कर्मण्येव षष्ठी न कर्तरि इति नियमनं (अर्थात्, कर्तरि षष्ठ्याः अभावः तृतीयाप्रयोगश्च) दृश्यते । तादृशः प्रयोगः सूत्रकारेणैव कृतो दृश्यते 'अन्तर्धौ येनादर्शनमिच्छति (पा.सू.1.4.28)12' इति सूत्रे। तथाहि- सूत्रे अदर्शनम् इति भावकृत्प्रत्ययान्तः शब्दः । तत्र कर्ता येन इति शब्देन उपात्तः। यत्कर्तृकदर्शनाभावम् इच्छति इति खण्डवाक्यार्थे कस्य दशनाभावमिच्छति ? इति कर्मविशेषाकाङ्क्षायाम् अन्यस्य अनिर्दिष्टत्वात् तत्प्रयोगे कर्तृतया यः निर्दिष्टः स एव अन्तरङ्गत्वात् शीघ्रम् उपतिष्ठते। तथाच कर्ता आत्मनः यत्कर्तृकदर्शनाभावम् इच्छति सः अपादानसंज्ञो भवति इति तत्सूत्रार्थः फलति।

देवदत्तः उपाध्यायात् अन्तर्धत्ते इत्यत्र देवदत्तः उपाध्यायकर्तृकदर्शनाभावम् आत्मनः इच्छति, अतः उपाध्यायस्य अपादानसंज्ञा। एवं मातुः निलीयते कृष्णः इत्यत्र कृष्णः मातृकर्तृकदर्शनाभावम् आत्मनः इच्छति, अतः मातुः अपादानसंज्ञा इति लक्ष्ये सूत्रार्थसमन्वयः इति स्थितिः । प्रकृते सूत्रस्थकृदन्तदर्शनपदवाच्यक्रियायां 'येन' शब्देन कर्ता निर्दिष्टः, आत्मरूपं कर्म न निर्दिष्टम् । अतः उभयप्राप्तिनिमित्तभूते कृदन्ते सत्यपि उभयो: प्रयोगाभावेन उभयप्राप्तौ कर्मणि (2-3-66) इति कर्तरि षष्ठीनिषेध: न भवेत्, अपितु षष्ठी एव स्यात्। तथापि सूत्रकारेण षष्ठीनिषेधं कृत्वा येन इति कर्तरि तृतिया प्रयुक्ता । अतः उभयो: कर्तृ-कर्मणोः प्रयोगाभावेऽपि उभयप्राप्तौ इति कर्मण्येव नियमिता षष्ठी भवति। ततश्च ब्रह्मणः जिज्ञासा इत्यत्र नियमिता षष्ठी भवति। कर्मणि च 2-2-14 इति समासनिषेधश्च भवत्येव इति।

एतच्छङ्काया: उपरि अन्या काचित् शङ्का

न च 'अन्तर्धौ येनादर्शनमिच्छति (पा.सू. 1.4.28) इति सूत्रे कर्म गम्यमानम् अस्ति, नतु कर्ता। अतः कर्मणि गम्यमाने इव उभयप्राप्तिसूत्रप्रवृत्तिः, न कर्तरि गम्यमाने इति ज्ञायते, प्रकृते अथातो ब्रह्मजिज्ञासा इत्यत्र साधनचतुष्टयसम्पन्नस्य कर्तुरेव गम्यमानता, नतु ब्रह्मणः कर्मणः, तस्य स्वशब्देन उपादानात् अतः नायम् उभयप्राप्तिविषयः इति।

एतच्छङ्कायाः समाधानम्

'अन्तर्धौ येनादर्शनमिच्छति (पा.सू. 1.4.28) इति सूत्रप्रयोगेण कर्तृ-कर्मोभयप्रयोगे एव उभयप्राप्तिसूत्रप्रवृत्तिः इति नियमभङ्गे सति, कर्मणि गम्यमाने एव उभयप्राप्तिसूत्रप्रवृत्तिः न तु कर्तरि गम्यमाने इत्यस्य विशेषस्य अकिंचित्करत्वात्।

किंच, आत्ममाने खश्च (3-2-83) इति सूत्रभाष्यादपि ज्ञायते - कर्तुः गम्यमानत्वेऽपि कर्ममात्रस्य प्रयोगेऽपि उभयप्राप्तिसूत्रं न प्रवर्तते। किन्तु 'कर्तृ-कर्मणोः कृति' (पा.सू. 2.3.65) इत्यनेनैव षष्ठी भवति, कर्मणि च 2-2-14 इति समासनिषेधश्च न भवति इति। तथा हि-आत्मन (33)

Page 34

वाक्यार्थभारती 2013-14 इतीयं कर्मणि षष्ठी। कथम् ? कर्तृ-कर्मणोः कृति (पा.सू. 2.3.65) इत्युक्तम्। यदि कर्तुः गम्यमानत्वे कर्तृकर्मणोः कृति इति षष्ठी न स्यात्, तदा आत्ममाने इत्यस्य कर्मषष्ठीगर्भसमासत्वेन भाष्यकारसमर्थनम् असङ्गतं स्यात् । एवम् अथ 'शब्दानुशासनम्' इति भाष्यप्रयोग: अनुशासनकर्तु: पाणिन्याचार्यस्य अप्रयोगेऽपि शब्दानुशासनमिति प्रयोग: असड्गतः स्यात् ।13 अतः कर्मणः गम्यमानत्वे इव कर्तु: गम्यमानत्वेऽपि कर्तृकर्मणोः कृति (पा.सू. 2.3.65) इति षष्ठी भवति, उभयप्राप्ताविति न प्रवर्तते इति स्वीकार्यमेव। 'अन्तर्धौ येनादर्शनमिच्छति (पा.सू. 1.4.28) इत्यत्र षष््यभावस्तु सौत्रत्वात् समाधेयः ।

परमं समाधानम्

'अन्तर्धौ येनादर्शनमिच्छति (पा.सू. 1.4.28) इति सौत्रप्रयोगेण कर्तृ-कर्मोभयप्रयोगे एव उभयप्राप्तिसूत्रप्रवृत्ति: इति नियमभङ्गेऽपि, कर्मणि गम्यमाने एव उभयप्राप्तिसूत्रप्रवृत्तिः न तु कर्तरि गम्यमाने इत्येव स्वीक्रियते, ज्ञापकबलात्, न तु कर्तरि गम्यमानेऽपि उभयप्राप्तिसूत्राप्रवृत्तिः इति आग्रहेण ब्रह्मजिज्ञासा इत्यत्र उभयप्राप्तिसूत्रप्रवृत्ति:, ततः समासनिषेधश्च यदि शङ्क्येत तदा व्याख्यातृभिः दीयते इदं परमं समाधानम्-उभयप्राप्तौ कर्मणि 2-3-66 इति सूत्रे भष्यपरिशीलने स्पष्टं ज्ञायते-ब्रह्मजिज्ञासा इत्यत्र उभयप्राप्तौ कर्मणि इति षष्ठी न भवति इति। तथाहि-तत्र सूत्रे भष्यमेवमस्ति-तत्र प्रथमं वार्तिकं तत्रत्यभाष्यं च - 1. उभयप्राप्तौ कर्मणि षष्याः प्रतिषेधेऽकादिप्रयोगेऽप्रतिषेधः -उभयप्राप्तौ कर्मणि षठ्या: प्रतिषेधेऽकादिप्रयोगे प्रतिषेधो न भवतीति वक्तव्यम्। भेदिका देवदत्तस्य काष्ठानाम्, चिकीर्षा विष्णुमित्रस्य कटस्य । द्वितीयं वार्तिकम् - अपर आह .... 2. अकाकारयोः प्रयोगे प्रतिषेधो नेति वक्तव्यम्। तृतीयं वार्तिकम् - 3 शेषे विभाषा - शोभना खलु पाणिनेः सूत्रस्य कृतिः, शोभना खलु पाणिनिना सूत्रस्य कृतिः । शोभना खलु दाक्षायणस्य संग्रहस्य कृतिः, शोभना खलु दाक्षायणेन संग्रहस्य कृतिः इति।

धात्वर्थनिर्देशे ण्वुल् वक्तव्यः14 इति वार्तिकविहितस्य ण्वुलः यः अकादेशः, अ प्रत्ययात् 3.3.102 इति सूत्रविहित: यः अकारप्रत्ययः, तादृशकृदन्तेन योगे उभयप्राप्तौ कर्मणि 2-3-66 इति षष्ठीनियमनं न भवति, किं तु कर्तृकर्मणोः कृति इति षष्ठी एव भवति इति प्रकृतोपयोगी तद्भाष्यार्थः । अके अकारे च उभयप्राप्तौ कर्मणि 2-3-66 इत्यस्य नित्यमप्रवृत्तिः, स्त्रीप्रत्ययरूपे कृति तद्व्यतिरिक्तमात्रे वा विकल्पेन अप्रवृत्तिश्च उक्ता इति सारांशः । ब्रह्मणः जिज्ञासा इत्यत्र अकाररूपकृत्प्रत्ययान्तेन योग: अस्तीति कृत्वा अत्र उभयप्राप्तौ कर्मणि 2-3-66 इति षष्ठीनियमनं न भवति, किं तु कर्तृकर्मणोः कृति इति षष्ठी एव भवति। तत्र 'कर्मणि च 2-2-14' इति समसनिषेधो न भवति इति कृत्वा ब्रह्मजिज्ञासापदनिष्पत्तिः निराबाधैव।

उपसहार:

अतःअथातो ब्रह्मजिज्ञासा इति सूत्रे शङ्करभगवत्पादैः ब्रह्मसूत्रभाष्ये -ब्रह्मणो जिज्ञासा = ब्रह्मजिज्ञासा, ब्रह्मण इति कर्मणि षष्ठी न शेषे ..... इत्यादिना इति यत् व्याख्यानं कृतं तत् सर्वथा समीचीनमेव इति शम्। (34)

Page 35

वाक्यार्थभारती 2013-14 1. चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः 2।1।35 इति सूत्रे चतुर्थी इति एकः पृथक् योगः परिकल्प्यते। तेन प्रकृति- विकृतिभावरहितस्थले अपि चतुर्थीसमास: भवति इति केचित् मन्यन्ते (वैयाकरणाख्यायां चतुर्थ्या: 6-3-7 ... आत्मनेपदम् आत्मनेभाषा। तादर्थ्ये चतुर्थ्येषा। चतुर्थीति योगविभागात् समासः इति सिद्धान्तकौमुद्यामुक्तम्।), तत्तु भाष्यानारूढत्वात् अप्रमाणम् इति नागेशादीनामाशयः । 2. सह सुपा, 2।1।4 इति सूत्रे सहग्रहणम् एको योगः, सुपा इति अपरो योगः, अत्र पर्वसूत्रात् सुप् इत्यनुवर्तते। अयमेव सुप् सुपा इति व्याख्यातृभिः व्यवह्नियते । यत्र विधायकं सूत्रान्तरं न लभ्यते तत्र प्रामाणिकप्रयोगे साधुत्वसंपादनार्थमेव सुप् सुपा इति योग: आश्रीयते। प्रकृते षष्ठीसमासविधायकं सूत्रम् अस्तीति कृत्वा सुप् सुपा इत्याश्रयणम् अगतिकगतिः इत्युक्तम्। 3. महाभाष्यप्रदीप व्याख्यानानि अध्याय 1 पाद 1 आह्निक 1-4 फ्रेन्च् इन्स्टिट्यूट् पाण्डिच्चेरी 1973 पृ. 86 4. वैयाकरणाख्यायां चतुर्थ्याः 6-3-7 आत्मन् शब्दात् परस्याः चतुर्थ्याः अलुक् भवति उत्तरपदे परे। आत्मनेपदम्, आत्मनेभाषा। तादर्थ्ये चतुर्थेषा। चतुर्थीति योगविभागात् समासः। परस्य च 6-3-8 परशब्दात् परस्याः चतुर्थ्याः अलुक् भवति उत्तरपदे परे परस्मैपदम्। परस्मैभाषा। 5. अ प्रत्ययात् 3-3-102 प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात्। चिकीर्षा, पुत्रकाम्या। 6. न निर्धारणे (पा.सू.वा. 2.2.10 वा. 1) इति सूत्रस्थं प्रथमं वार्तिकम् तत्रत्यं भाष्यं च - प्रतिपदविधाना च। प्रतिपदविधाना च षष्ठी न समस्यत इति वक्तव्यम्। इह मा भूत् - सर्पिषो ज्ञानम्, मधुनो ज्ञानम्। 7. यैः सूत्रैः पदविशेषं निमित्तीकृत्य षष्ठी विहिता तेषु बहूनि सूत्राणि तद्टत्ति-उदाहरणपुरस्सरमत्र प्रदर्श्यन्ते कस्मैचित् उपकाराय-ज्ञोऽविदर्थस्य करणे 2-3-51 (जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात्। सर्पिषे ज्ञानाम्।) अधीगर्थदयेशां कर्मणि 2-3-52 (एषां कर्मणि शेषे षष्ठी स्यात्। मातुः स्मरणम्। सर्पिषो दयनम् ईशनं वा) कृञः प्रतियत्ने 2-3-53 (कृञः कर्मणि शेषे षष्ठी स्यात् गुणाधाने एधो दकस्य उपस्करणम्।) रुजार्थानां भाववचनानामज्वरे: 2-3-54 (भावाकर्तृकाणां ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात्। चौरस्य रोगस्य रुजा।) अशिषि नाथ: 2-3-55 (आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात्। सर्पिषो नाथनम्।) जासिनिप्रहणनाटक्राथपिषां हिंसायाम् 2-3-56 (हिंसार्थनामेषां शेषे कर्मणि षष्ठी स्यात्। चौरस्य उज्जासनम्। चौरस्य निप्रहणनम्। प्रणिहननम्। निहननम्। प्रहणनं वा। चौरस्य उन्नाटनम्। चौरस्य क्राथनम। वृषलस्य पेषणम्।) व्यवहृपणो: समर्थयोः 2-3-57 (शेषे कर्मणि षष्ठी स्यात्। द्यूते क्रय-विक्रयव्यवहारे च अनयोस्तुल्यार्थता। शतस्य व्यवहरणं पणनं वा।) दिवस्तदर्थस्य 2-3-58 (द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात्। शतस्य दीव्यति।) विभाषोपसर्गे 2-3-59 (पूर्वयोगापवादः शतस्य शतं वा प्रतिदीव्यति ।) प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने 2-3-61 (देवतासंप्रदानेऽर्थे वर्तमानयोः प्रेष्यब्रुवोः कर्मणो हविर्विशेषस्य वाचकाच्छब्दात्षष्ठी स्यात्। अग्नये छागस्य हविषो वपाया मेदस: प्रेष्य अनुब्रूहि वा।) कृत्वोर्थप्रयोगे कालेऽधिकरणे 2-3-64 (कृत्वोर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात्। पञ्चकृत्वोऽह्नो भोजनम्। द्विरह्नो भोजनम्।) कर्तृकर्मणोः कृतिः 2-3-65 (कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात्। कृष्णस्य कृतिः । जगतः कर्ता कृष्णः ।) 8. षष्ठी 2-2-8 इति सूत्रे प्रथमं वार्तिकं तत्रत्यभाष्यं च -कृद्योगा च, कृद्योगा च षष्ठी समस्यत इति वक्तव्यम्। इध्मप्रव्रश्चनः । पलाशशातनः ।

(35)

Page 36

वाक्यार्थभारती 2013-14 9. कर्मणि च 2-2-14 उभयप्राप्तौ कर्मणि (सू. 324) इति या षष्ठी सा न समस्यते। आश्चर्यो गवां दोहो अगोपेन। 10. अत्र कर्तरि च 2-2-16 इत्यस्य परिमले दत्तः अर्थः काशिकावृत्त्यनुसारेण - कौमुद्यां तु - कर्तरि षष्ठ्या अकेन न समासः । भवतः शायिका। नेह तृजनुवर्तते । इत्येवम् अर्थादिकं दत्तम्। कर्तरि च 2-2-16 इत्यस्य काशिकावृत्तौ यः अर्थः दत्तः सः कौमुद्यां तृजकाभ्यां कर्तरि 2-2-15 इत्यस्य दत्तः- क्त्रर्थतृजकाभ्यां षष्ठ्या न समास: । अपां स्रष्टा। वज्रस्य भर्ता। ओदनस्य पाचकः इति। 11. कृत्वोर्थप्रयोगे कालेऽधिकरणे 2-3-64. 622 कृत्वोर्थानां प्रयोगे कालवचिन्यधिकरणे शेषे षष्ठी स्यात्। पञ्ज्चकृत्वोऽह्नो भोजनम् द्विरह्नो भोजनम्। शेषे किम् ? द्विरहन्यध्ययनम्। 12. अन्तर्धौ येनादर्शनमिच्छति 1-4-28.591; व्यवधाने सति यत्कर्तृकस्य आत्मनो दर्शनस्य अभावमिच्छति, तत् अपादान स्यात्। मातुर्निलीयते कृष्णः । अन्तर्धौ किम् ? चौरान्न दिदृक्षते। इच्छतिग्रहणं किम् ? अदर्शनेच्छायां सत्यां, सत्यपि दर्शने यथा स्यात्। 13. अत एव 'अथ शब्दानुशासनम्' इति भाष्यवाक्यात् शब्दानुशासनम् इति प्रतीकमादाय .. प्रदीपे कैयटेन उक्तम् -व्याकरणस्य च इदम् अन्वर्थं नाम-शब्दानुशासनम् इति। अत्र च आचार्यस्य कर्तुः प्रयोजनाभावात् अनुपादानात् उभयप्राप्त्यभावात् न 'उभयप्राप्तौ कर्मणि' इत्यनेन षष्ठी, अपि तु 'कर्तृकर्मणोः कृति' इत्यनेन इति 'कर्मणि च' इति समासप्रतिषेधाप्रसङ्गात् इध्मप्रव्रश्चनादिवत् समासः इति। 14. रोगाडख्यायां ण्वुल् बहुलम् 313।108 इति सूत्रे बहुलग्रहणात् धात्वर्थनिर्देशे ण्वुल् वक्तव्यः । आशिका। शायिका वर्तते, इति काशिकाकारादयः ।

अत्र परामृष्टाः ग्रन्था :-

  1. भामती - कल्पतरु-परिमलसहितं ब्रह्मसूत्रशाङ्करभाष्यम् 2. ब्रह्मविद्याभरणम् 3. वेदान्तरकल्पतरुव्याख्या आभोगः 4. श्लोकवार्तिकम्, काशिकादिव्याख्यासहितम् 5. प्रदीपोद्द्योतसहितं पातञ्जलं महाभाष्यम् 6. महाभाष्यप्रदीपव्याख्यानानि 7. काशिकावृत्ति: न्यास- पदमञ्जरीव्याख्यासहिता 8. सिद्धान्तकौमुदी-बालमनोरमा-तत्वबोधिनीव्याख्यासहिता

(36)

Page 37

इको गुणवृद्धी (1-1-3) इत्यत्र गुणवृद्धीत्यनुवृत्तिविषये भाष्यकाराशयः वाक्यार्थभारती 2013-14

डा. सि. एस्. एस्. नरसिंहमूर्ति:

सूत्रमिदमष्टके प्रथमाध्यायस्य प्रथमे पादे तृतीयं सूत्रम्। पदोपस्थापकं परिभाषासूत्रमिदम् - गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्र इकः इति षष््यन्तं पदमुपतिष्ठते इत्यस्यार्थो वर्णितः सिद्धान्तकौमुद्याम्। उदा - मिदेर्गुणः इति - सूत्रे गुणशब्दोच्चारणपूर्वकगुणविधानमस्ति, अतोऽनेन सूत्रेण इक: इति षष्यन्तस्योपस्थानात् मिदेरिकः गुणो भवतीत्यर्थो लभ्यते। तथैव मृजेर्वृद्धिः इत्यत्रापि वृद्धिशब्दोच्चारणपूर्वकवृद्धिविधानमस्ति, अतोडनेन सूत्रेण इकः इति षष््यन्तस्योपस्थानात् मृजेरिक: वृद्धिर्भवतीत्यर्थः सिद्ध्यति। एवञ्च एताभ्यां सूत्राभ्यां बोधिते गुणवृद्धी इग्भिन्नेभ्यः न भवतः ।

सूत्रेSत्र गुणवृद्धीति एकमेव पदमस्ति। सूत्रार्थस्तु एवं वर्णयन्ति गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्र इकः इति षष्यन्तं पदमुपतिष्ठते इति। गुणवृद्धीतिपदमेकमेवास्ति, द्विः अर्थबोधं कथं जनयति। एकं पदं शक्तया एकमेवार्थं जनयति खलु। कथमत्र अर्थद्वयप्रतीतिरित्याशङ्क्य 'गुणवृद्धिग्रहणसामर्थ्यात्' इति समाधाय भाष्यकृत् कथं पुनरन्तरेण गुणवृद्धिग्रहणमिको गुणवृद्धी स्वाम् ? इति संशय्य प्रकृतं गुणवृद्धिग्रहणमनुवर्तते। क्व प्रकृतम् ? वृद्धिरादैच् - अदेड्गुणः इति च समाध्यन्तबम्च।

तत्रेत्थं शङ्काकारि भाष्यकारेण-यदि वृद्धिरादैच् (1-1-1) इति सूत्रात् वृद्धिरिति पदस्य, अदेङ्गुणः (1-1-2) इति सूत्राद् गुणः इति पदस्य चानुवृत्तिं स्वीकृत्य साधयेत् तदा प्रथमसूत्राद् वृद्धिरिति पदस्य द्वितीयसूत्रेऽनुवृत्तिं विना कथं तृतीयसूत्रेऽनुवर्तयन्ति। अतो द्वितीयसूत्रेऽपि वृद्धिरिति पदस्यानुवृत्ति: वक्तव्या। तथा सति अदेडां वृद्धिसंज्ञाऽपि प्राप्नोति इति दोषमुद्भाव्य षट् समाधानानि भाष्यकृदवोचत-

  1. सम्बन्धमनुवर्तिष्यते - वृद्धिरादैच्-अदेङ्गुणः । वृद्धिरादैच् ततः इको गुणवृद्धी इति । गुणवृद्धिग्रहणमनुवर्तते, आदैजदेङ्ग्रहणं निवृत्तम्। 2. अथवा मण्डूकगतयोऽधिकारः । यथा मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः । 3. अथवैकयोगः करिष्यते - वृद्धिरादैजदेङ्गुणः ततः इको गुणवृद्धी इति। न चैकयोगेऽनुवृत्तिर्भवति। 4. अथवा - अन्यवचनाच्चकाराकरणाच्च प्रकृतापवादो विज्ञायते, यथोत्सर्गेण प्रसक्तस्यापवादो भवति। अन्यस्या: वचनाच्चकारस्य चानुकर्षणार्थस्याकरणात्प्रकृताया: वृद्धिसंज्ञायाः गुणसंज्ञा बाधिका भविष्यति। यथोत्सर्गेण प्रसक्तस्यापवादो बाधको भवति। 5. अथवा वक्ष्यत्येतत् - अनुवर्तन्ते च नाम विधयः, न चानुवर्तनादेव भवन्ति। किं तर्हि ? यत्नाद्भवन्ति। 6. अथवा - उभयं निवृत्तम्। तदपेक्षिष्यामहे। इति। प्रथमसमाधानस्यायमाशयः - आदैज्ग्रहणसम्बन्धं वृद्धिग्रहणम् अदेड्गुणः इति सूत्रेऽनुवर्तते। अत अदेडां वृद्धिसंज्ञा न भवति। इको गुणवृद्धीति सूत्रेऽनुवृत्तं तु आदैचो जहाति । एकं दृष्टान्तमपि प्रादर्शयत् कैयटोपाध्याय: कान्तारोत्तारणाय सार्थस्येव त्यागोपादाने इति। यथा कश्चिद् वणिक् वाणिज्यार्थं देशान्तरं गच्छति, तदा विपिनमार्गेण गन्तव्यश्चेत् सः सार्थस्य साहाय्यं स्वीकृत्य विपिनमवतीर्य ततः परं तं त्यजति। (37)

Page 38

वाक्यार्थभारती 2013-14 तथैव वृद्धिपदम् इको गुणवृद्धीत्यत्र सम्बन्धं प्राप्तुम् मध्ये वर्तत इति अदेड्गुणः इत्यत्रानुवर्तते, नतु तेन साकं सम्बन्धाय। अतोऽत्र पक्षे अदेडां न वृद्धिसंज्ञाप्रसक्तिः ।

द्वितीयसमाधानस्यायमाशयः - यथा मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तथा वृद्धिरिति पदम् अदेङ्गुणः इति सूत्रमुत्प्लुत्य इको गुणवृद्धीति सूत्रं प्रत्येवानुवर्तत इति । अतोऽदेडां न वृद्धिसंज्ञाप्रसक्ति: । अत्रेयं शङ्का - ननु मण्डूकस्य चेतनत्वेन तथा सम्भवेऽपि सूत्रस्याचेतनत्वेन कथमत्रोत्प्लुत्य गमनं सम्भवतीति। तत्रेदं समाधानम् - स्वरितत्वसङ्गादनुवर्तमानस्यापि वृद्धिशब्दस्यात्राकाङ्क्षाभावादनुपस्थानम्, यतः गुणसंज्ञासम्बन्धेनादेडां निराकाङ्क्षत्वात् । अत आकाङ्क्षाऽनाकाङ्क्षे एवानुवृत्तिनिवृत्त्योः कागे भवतः ।

तृतीयसमाधानस्यायमाशयः - वृद्धिरादैजदेङ्गुणः इत्येकमेव सूत्रं क्रियते। भवतीत्यध्यहियते। अतो वृद्धिरादैजदेङ्गुणो भवतीत्यर्थो लभ्यते, ततः इको गुणवृद्धी इति। यदैवादैचां वृद्धिसंज्ञा प्रतीयते तदैवादेडां गुणसंज्ञेति समूहालम्बनवत्प्रतीतिक्रमः, संज्ञिविशेषसंबद्धसंज्ञाद्वयस्याध्याहृतभवतिक्रियया युगपत्तन्त्रेणान्वयः । णेरणावित्यादाविव अवान्तरवाक्यार्थबोधान्न द्वयोः संज्ञयोः साङ्कर्यदोषः । तदधीते तद्वेद (4-2-59) इत्यत्र द्विस्तद्ग्रहणाद् एकयोगेऽनुवृत्त्यभावः इति आचार्याणामाशय इति मन्तव्यमिति।

अयञ्च पक्षः न सिद्धान्तिनः, किन्तु एकदेशिनः । कारणमिदमस्ति एकयोगेऽपि तदस्यास्त्यस्मिन्निति मतुप् (5-2-94) इति सूत्रे तदित्यस्य अस्यास्ति, अस्मिन्नस्ति इत्युभयत्रापि अनुवृत्ति: स्वीकृतैव भाष्यकृद्धिः। तदधीत इति सूत्रे तु बालानां सुखबोधाय द्विस्तद्ग्रहणमित्युक्तं तत्रैव। अतोSत्र भाष्ये इदमुत्तरमेकदेशिन: इति नात्र नैर्भर्यम्।

चतुर्थसमाधानस्यायमाशयः - गुणवृद्धिसंज्ञयोः सामान्यविशेषाभावात् कथमुत्सर्गापवाद इति संशयो भवति, तस्येदं समाधानम् - आतोऽनुपसर्गे कः (3-2-3) इति कप्रत्ययेन कर्मण्यण् (3-2-1) इत्यण् बाध्यते, आदन्तेभ्यः इति कथनाद् असंदिग्धत्वं कप्रत्ययस्य, आदन्तेऽपि अण् प्रवर्तते चेन्निरवकाशत्वम्, आदन्तोद्देशेन प्रवृत्तिरूपं तात्पर्यञ्च कप्रत्ययस्य अस्ति। सावकाशत्वमादन्तभिन्नेषु अण्प्रत्ययस्य, सन्दिग्धत्वमादन्तेषु, इति विपर्ययान्न अणा कप्रत्ययबाधकत्वमिति वक्तव्यम्। एवमत्र अदेङ्गुणः इत्यत्र वृद्धिग्रहणमनुवृत्तं सदपि सन्दिह्यते - किमुत्तरार्था वेहानुवृत्तिरथेहार्थापीति। वृद्धिसंज्ञ आदेक्षु सावकाशा, अदेङ्मात्रोद्देशेन वृद्धिपदस्याप्रवृत्तत्वात्तात्पर्यमपि नास्ति। अतोऽदेडां वृद्धिसंज्ञा न भवति।

पञ्चमसमाधानस्यायमाशयः - अनुवर्तन्ते च नाम विधयः, न चानुवर्तनादेव भवन्ति। किं तर्हि ? यत्नाद्भवन्ति। मण्डूकगतयोऽधिकार: इत्यस्यैव स्वरितलिङ्गेनानुवर्तमानं यत्राकाङ्क्षा तत्रैव सम्बध्यते इति विशेषोऽत्र बोध्यते। धान्यानां भवने क्षेत्रे खञ् (5-2-1), व्रीहिशाल्योर्दक् (5-2-2), यवयवकषष्टिकाद्यत् (5-2-3) इति सूत्रक्रमः । तत्र धान्यानामिति सूत्राद् खञ्ग्रहणं विभाषा तिलमाषोमाभङ्गाणुभ्यः(5-2-4) इत्यत्रानुवर्तते । द्वितीय-तृतीयसूत्रे विना कथं चतुर्थेऽनुवर्तते, अतस्त्राप्यनुवर्तत एव । परं यत्नाभावादनुवर्तमानमपि न सम्बध्यते । चतुर्थसूत्रे विद्यमानयोः उमाभङ्गयोरधान्यत्वान्न तत्र खञ् प्राप्नोति । अत्र सूत्रे विभाषा इति यत्नात्तिलादिभिरेव सम्बध्यते। (38)

Page 39

वाक्यार्थभारती 2013-14 विभाषा इति कथनेन एकस्मिन् पक्षे तदभावबोधनात्। तथेहापि वृद्धिग्रहणमदेड्गुणः इत्यत्रानुवर्तमानमपि यत्नाभावाददेङ््भः न सम्बध्यते। इको गुणवृद्धीति सूत्रे पुनः गुणवृद्धिग्रहणरूपयत्नादत्र सम्बध्यते।

षष्ठसमाधानस्यायमाशयः - उभयं निवृत्तम् । तदपेक्षिष्यामहे । उभयम् = आदैजदेड्ग्रहणं निवृत्तम्। तत् = गुणवृद्धिग्रहणमपेक्षिष्यामहे = अनुवर्तते। गुणवृद्धिग्रहणे स्वरितत्वादनुवर्तते, आदैजदेड्ग्रहणे अस्वरितत्वान्नानुवर्तते। अपेक्षालक्षणं लौकिकमधिकारमाश्रयति अत्र विषये भाष्यकृत्।

अत्रेदं तत्त्वम् - अत्र सूत्रे एव भाष्ये भगवता 'गुणवृद्धिग्रहणसामर्थ्यात्' इत्यलिख्यत। तत्र प्रदीपे कैयटोपाध्यायः एवं व्याख्यत्-गुणवृद्धिमात्रग्रहणे गुणवृद्ध्यधिकारादेव सिद्धे पुनर्गुणवृद्धिहणं गुणवृद्धिव्यापाराश्रयणार्थं विज्ञायत इति । उद्द्योतव्याख्याने नागेशभट्ट एवमलेखीत् - पुनरुपादानसामर्थ्यादिहस्थं गुणवृद्धिग्रहणं गुणवृद्धिशब्दविहितगुणवृद्धिलाक्षणिकमिति भावः इति। अनेन ज्ञायते एते सर्वे विचारा: शिष्यबुद्धिविकासाय भगवताडक्रियत।

(39)

Page 40

वाक्यार्थभारती 2013-14 उपपदमतिङ्

डा. चन्द्रशेखरभट्टः

येनाक्षरसमाम्नायमधिगम्य महेश्वरात्।

कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥

तत्पुरुषप्रकारेषु उपपदसमासोऽन्यतमः । तद्विधायकं च 'उपपदमतिङ्' इति सूत्रम्। उपपदं समर्थेन नित्यं समस्यते अतिडन्तश्च समासः। कुम्भं करोतीति कुम्भकारः। कुम्भ अस् कार इत्यवस्थायां समास: । इह सूत्रे भाष्ये अतिड्ग्रहणप्रयोजनं विचारितम् अतिडिति प्रतिषेधो व्यर्थः । न च कारको व्रजति, हारको व्रजति इत्यादौ समासप्रसङ्गः, सुप् सुपा इत्यधिकारात् तिङन्तस्य समासप्राप्त्यभावात्। परं तिडर्थस्य प्रतिषेधार्थं अतिड्ग्रहणम्। तिडर्थश्च किया कालसाधनसंरव्यापुरुषक्रियोपग्रहरूपार्थत्वेऽपि साध्यत्वेन क्रियायाः प्राधान्यात् । अथवा प्रतिपत्तिलाघवाय उपपदमक्रिया इत्येव न्यास: कार्यः । ननु सुबन्तस्य क्रियावाचित्वाभावात् अक्रियेति वचनमनर्थकमेवेति चेत् न, तस्य कारको गतः, कारको यात इत्यादौ समासवारणार्थत्वात्।

तुमुन्ण्वुलौ कियायां क्रियार्थायाम् इति सूत्रेणात्र ण्वुल्। क्रियार्था किया गमनक्रिया तद्वाचकं गत्युझ्पदम्। अक्रिया अतिडिति वा निषेधात् समासाभावः । अन्यथा गतकारक इत्यनिष्टापत्तिः । न चात्र क्रियावाचकपदाभावात् निषेधो दुर्लभः, गत इत्यस्य सत्वप्रधानत्वादिति वाच्यम्, कारको गत इति प्रामाणिकप्रयोगसत्वेन निषेधप्रवृत्तेः। कारको गत इत्यत्र वाक्ये गत इत्यस्य द्रव्यवाचित्वे प्रत्ययानुपपत्तिः, दृश्यते पुनर्ण्वुल्। स च क्रियार्थायां विधीयते। एवञ्च गत इत्यस्य क्रियावाचित्वानुमानात् युक्तः प्रतिषेध।

एवमपि गत इत्यस्य क्रियावाचित्वं दुर्लभम्। तथा हि इह सूत्रे अनुवर्तमानस्य सुबित्यस्य अतिङ्ग्रहणं विशेषणम्। प्रकृते यत्सुबन्तं गत इति न तक्क्रियावाचि। क्तप्रत्ययप्रकृतेर्यद्यप्यस्ति क्रियावाचित्वं तथापि प्रत्ययार्थे सागुणीभूता प्रत्ययार्थकर्तु: प्राधान्यात्। प्रधानेन व्यपदेशो भवतीति द्रव्यवाचित्वमायाति गतशब्दस्य। एतञ्च धात्वर्थस्य प्रत्ययार्थेन संसृष्टत्वात् पदान्तरेणैकार्थीभावो न सम्भवतीति समासाभावः । अत्र उद्योतकृतः - 'नैतत्किर्यावाची' इति भाष्यात् अत्र ण्वुलेव नोत्पद्यते । क्रियार्थायामिति स्त्रीलिङ्गनिर्देशेन क्रियाया एव लाभे पुनः क्रियाग्रहणेन प्राधान्येन साध्यमात्रावस्थक्रियाप्रतिपादकस्यैव ग्रहणादित्याहुः । इत्थं च कारको गत इति प्रत्युदाहरणं न युक्तम्।

अथ कारकस्य गतिः, कारकस्य व्रज्या इति प्रत्युदाहियेत गमनं गतिरिति भावे क्तिनो विधानात् क्रियावाचित्वात् ?तदपि न, द्रव्यवाचित्वात्तस्यापि, कृदभिहितो भावो द्रव्यवत् प्रकाशत इत्युक्ते: । धातुश्च साध्यभूतक्रियां प्रत्याययति। प्रत्ययस्तु तस्या एव उपसंहृतक्रमरूपं सत्वरूपमाह । प्रत्ययार्थेन लिङ्गाद्यन्वयरूपप्रकृत्यर्थकार्यस्याभिभवात् प्रत्ययार्थः प्रधानम् । यथा - घटादेः द्रव्यस्य लिङ्गसंख्यासाधनसम्बन्धस्तथा कृदभिहितभावस्य। एवञ्च सुबित्यनुवृत्तेः यत्सुबन्तं न तत्क्रियावाचि, यच्च क्रियावाचि न तत्सुबन्तमिति समासाभावः सिद्ध एवेति नैषः प्रतिषेधविषयः । (40)

Page 41

वाक्यार्थभारती 2013-14 अतोऽत्र अतिङ्ग्रहणं व्यर्थं सत् कुगतिप्रादयः, उपपदमतिङ् इति सूत्रयोः सुपेति तृतीयान्तस्यासम्बन्धं ज्ञापयति। अतिडिति सूत्रद्वयशेषः । सूत्रद्वयविहितः समास: अतिङ्ग्रहणेन विशेष्यते। योगद्वयविहित: अतिडन्तः समास इति यावत् । तेन गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति सिद्ध्यति। अत्रेदं ज्ञेयम् - योगद्वये सुपेतिनिवृत्त्या गतीनाम् उपपदानाञ्च उत्तरपदे सुबुत्पत्तेः पूर्वमेव समास इति लभ्यते। 'कर्तृकरणे कृता बहुलम्' इति सूत्रे कृद्गृहणेन कारकस्य उत्तपदे सुबुत्पत्तेः पूर्वमेव समासः इति ज्ञाप्यते। अन्यथा सुपा इत्यनुवृत्तेः तृतीयान्तस्य तिडन्तेन समासाप्रसङ्गात् कृतेतिग्रहणं व्यर्थं स्यात्। न च काष्ठैः पचतितराम् इत्यत्र समासवारणाय तदिति वाच्यम्, परशुना छिन्नवान् इत्यादिवत् बहुलग्रहणादेव समासवारणोपपत्तेः । तत्र गतिसमासोदाहरणं व्याघ्रीति। व्याजिघ्रतीत्यर्थे व्याङ्पूर्वात् घ्राधातोः आतश्चोपसर्गे इति कप्रत्यये आकारलोपेन आडो घ्रशब्देन गति समासे, पुनश्च वेराघ्रशब्देन गतिसमासः । तत्र यदि घ्रशब्दः सुबन्तत्वमपेक्ष्येत तर्हि स्त्रीप्रत्यये उत्पन्ने सुबुत्पत्तिः स्यात्, स्वार्थद्रव्यलिङ्गसंरव्याकारकप्रयुक्तकार्याणां क्रमिकत्वस्वीकारात्। सुबुत्पत्तये लिङ्गसंख्याकारकाणि क्रमेण अपेक्ष्याणीति प्रथमं लिङ्गसंयोगे अदन्तत्वाट्टापि घ्राशब्देन समासे अदन्तत्वाभावात् जातिलक्षणो डीष् न स्यात्। न च समासात्पूर्वं घ्रशब्दात् जातिलक्षणो डीष् शङ्क्य: घ्रशब्दमात्रस्य जातिवाचित्वाभावात्। कारकस्योदाहरणं अश्वक्रीती इति। अश्वेन क्रीतेति विग्रहे 'कर्तृकशे कृता बहुलम्' इति समासः । ततः क्रीतात् करणपूर्वादिति डीष्। सुबन्तेन समासे तु पूर्वं टापि अदन्तत्वाभावात् डीष् न स्यात्।

स्यादेतत्। दधि सिञ्चति इत्यर्थे सिचेर्विचि सुबुत्पत्तेः पूर्वमुपपदसमासे उत्तरखण्डस्य पदत्वाभावे सात्पदाद्योरिति षत्वनिषेधो न स्यात्। निरुपपदात् सेचयतेर्ण्यन्तात् क्विपि दध्नः सेचौ दधिसेचाविति षष्ठीसमासो बोध्यः । अथवा बहुलग्रहणात् क्वचिदुत्पन्ने सुपि समासो भवतीति न दोषः । तेन सा हि तस्य धनक्रीता इत्यादि प्रयोगा उपपन्नाः ।

ननु सुपेत्यस्य निवृत्त्या सुबुत्पत्तेः पूर्वं समासाङ्गीकारे शब्देन उत्तरपदस्यानुपादानात् केन वा समास: स्यात् ? यद्युच्यते समर्थपरिभाषोपस्थानात् समर्थेनेति तर्हि धातूपसर्गयोरपि समासप्रसङ्ग: । पूर्वं धातुरुपसर्गेण युज्यत इति दर्शने उपसर्गार्थविशिष्टायाः क्रियायाः साधनयोग इति अस्ति तयोः सामर्थ्यम्। ततश्चैकस्वर्यमैकपद्यञ्च स्यात्। किञ्च समासे सति प्रातिपदिकसंज्ञायां तिङः परत्वात् सुप एवोत्पद्येरन्। अत्रोच्यते पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणेति न्याय्यः पक्षः । साधनं हि क्रियां निर्वर्तयति, तामुपसर्गो विशिनष्टि । अभिनिर्वृत्तस्य चार्थस्य उपसर्गेण विशेषः शक्यो वक्तुम्। एवञ्च पूर्वं साधनाभिधायिप्रत्ययोत्पत्तिः, पश्चात् साधनसंसृष्ट एव धातुरुपसर्गेण युज्यते न केवलः इति धातूपसर्गयोः सामर्थ्याभावात् न समासप्रसङ्ग: ।

उपपदसमासषष्ठीसमासयोर्विरोधपरिहार :-

कुम्भकारः, नगरकारः इत्यादौ पूर्वोक्तयोरुभयोः समासयोः प्रसक्तिरस्ति। तथा उपपदसमासप्राप्तिस्थले राज्ञः पुरुषो राजपुरुष इत्यादौ षष्ठीसमासः चरितार्थः । षष्ठीसमासाप्राप्तियोग्ये

(41)

Page 42

वाक्यार्थभारती 2013-14 स्तम्बेरम: कर्णेजयः इत्यादौ उपपदसमासः लब्धावकाशः । ननु कर्मव्युपपदे अणो विधानात्, कर्मत्वस्य च विभक्तया गम्यत्वात् अणुत्पत्तेः पूर्वं कृदन्तत्वाभावेन कृद्योगषष्या अप्राप्तेः द्वितीययैव भांयम्, अणुत्पत्त्यनन्तरं षष््याः प्राप्तावपि पूर्वं प्रवृत्ताया द्वितीयायाः निवृत्यभावात् षष्ठीसमासस्य कथं प्राप्तिः ? अत्रोक्तं कैयटेन - पञ्चकं प्रातिपदिकार्थः इति पक्षे प्रातिपदिकेनैव कर्मणः उक्तत्वात् तत्रैवोपपदे अप् भवति। अथवा अपवादविषयत्वेन द्वितीयानुत्पत्तेः कृते चाणि कर्तृकर्मणोरिति षष्ठी भविष्यतीति उभयो: प्रसङ्ग: इति । अत्र परत्वात् उपपदसमासो भवतीति समाधाय न वा षष्ठीसमासाभावात् उपपदसमास: इति समाधानान्तरञ्चाभ्यधायि। अयं भाव: - षष्ठीसमास - उपपदसमासयो: विप्रतिषेधो न कल्पनीयः । कुम्भकार इत्यादौ षष्ठीसमासस्य प्राप्तिरेव न। षष्ठीति सूत्रे 'सुपा' इति तृतीयान्तस्यानुवृत्तेः षष्ठीसमासः सुबन्तयोः इति बहिरङ्गता तस्य। परं गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः' इति स्वीकारात् उत्तरपदे सुबुत्पत्तेः पूर्वमेव उपपदसमासः प्रवर्तमानोऽन्तरड्गो भवति। अतोऽत्र उपपदसमासो न्याय्यः ।

भाष्यकृता तु वार्तिककारीयं वचनद्वयमपि प्रत्याख्यातम् । तथा हि षष्ठीसमासे महाविभाषासम्बन्धात् षष्ठीसमासाभावपक्षे उपपदसमासस्य चारितार्थ्यं वक्तुं शक्यम्। विप्रतिषेधे परमिति सूत्रस्य तु नात्रप्रवृत्ति: युगपदुभयसूत्रविहितयोः तत्पुरुषसंज्ञयोः प्रवृत्तिसम्भवेन असम्भवरूपविप्रतिषेधाभावात् । ननु षष्ठीसमासो वैकल्पिकः उपपदसमासस्तु नित्य इति कार्ये क्वचिद्दोषप्रसड्गः । तथा च सिन्नित्यसमासयोः शाकलप्रतिषेधः इति वार्तिके नित्यसमासग्रहणेनास्य ग्रहणं न स्यात्, अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे इत्यत्र अनित्यसमासे इत्यनेनास्य ग्रहणञ्च स्यात्। तस्मात् उपपदसमास एव वाच्यः, तदर्थं विप्रतिषेध एवाश्रयणीयः नित्यानित्यरूपविरोधमाश्रित्य।

अत्रोच्यते - नित्यसमासस्य नेदं लक्षणं नित्याधिकारे पठितो नित्यसमास इति। किं तर्हि ? नित्यं यः समासो नित्यसमास: यस्य विग्रहो नास्ति । प्रकृते षष्ठीसमासः महाविभाषया सम्बद्धोऽपि तदभावे उपपदसमासप्राप्त्या वाक्यस्य (विग्रहस्य) अभावात् नित्यसमास एव। यद्यपि षष्ठीति सूत्रेण विध्यंशेन सह अभावांशोऽपि विधीयते इति वाक्यं प्राप्नोति तथापि अभावांशः एतद्विषये परित्यज्यते विरोधात्। एवञ्च उभयोः समासयो: विप्रतिषेधाश्रयणे प्रयोजनाभावात् वार्तिकं नारब्धव्यमिति स्थितम्।

(42)

Page 43

ङमोह्स्वादचि ड्मुण्णित्यम् वाक्यार्थभारती 2013-14

डा. चिर्रावूरि कृष्णानन्तपद्मनाभम्

डमो हस्वादचि डमुण्णित्यम् इतीदं सूत्रं डमुडागमविधायकम् अष्टाध्याय्याम् अष्टमस्य अध्यायस्य तृतीयपादे द्वात्रिंशत्तमं वर्तते। डमः, हस्वाद्, अचि, डमुट्, नित्यम् इति पदच्छेदेन पञ्चपदात्मकमिदं सूत्रम्। पदस्य इत्यधिकारः । हरस्वाद् इति पञ्चमी । अचीति औपश्लेषिकाधिकरणसप्तमी। ङमः इति षष्ठी। तेन तस्मादित्युत्तरस्य तस्मिन्नितिनिर्दष्टे पूर्वस्य षष्ठी स्थाने योगा इति सूत्राणां प्रवृत्या अजव्यवर्हतपूर्वस्य हस्वाव्यवहितपरस्य पदावयवस्य डमः डमुडागमो भवतीति सूत्रार्थः फलति। एतत्सूत्रार्थविचारोऽत्र प्रस्तूयते। डम् इति प्रत्याहारः । आदिरन्त्येन सहेता इत्येकवाक्यतापन्नत्वेन डम् इति सज्ज्ञा भवति। इतरत्र हि आगमस्य स्थानरूपदेशप्रयोजकधर्मस्य टित्त्वादेः संज्ञिनि दर्शनाद् अत्र च तदभावेनासङ्गतमिदमिति चेन्न, संज्ञायां कृतस्य टित्त्वस्य संज्ञिभि: प्रत्येकम् अभिसंबन्धात्। संज्ञा हि संज्ञिनं प्रत्याय्य स्वयं निवर्तते। एवं च तादृशधर्मिण्याः संज्ञायाः कार्यभाक्तवस्य वक्तुमशक्यत्वेन तस्याः टि्त्वादिना आद्यवयवत्वम् उत अन्तावयवत्वं वा निर्वक्तुमशक्यम् इति हेतोः प्रयोजनाभावात् तट्टित्वं संज्ञोपस्थाप्यसंज्ञिभिः प्रत्येकम् अभिसंबध्यते । अवयवेऽचरितार्थो विधिः समुदायोपकारको भवतीति संज्ञा प्रत्येकं वर्णवृत्तिर्भवति चेदपि प्रकृते संज्ञायां कृतस्य टित्त्वस्य न किञ्चित् प्रयोजनम्। प्रयोजमभावाच्च संज्ञिनि संबद्ध्यत इति भाव:। तदुक्तं भट्टोजिदीक्षितैः मनोरमायां 'डम् प्रत्याहारः, संज्ञायां च कृतं टित्वं सामर्थात् संज्ञिभिः संबध्यते' इति। निमित्तविधेययोर्यथासंख्यसत्त्वेन तत्सूत्रप्रवृत्त्ै ङुट्-णुट्-नुटः प्रवर्तन्ते। नित्यग्रहणं विस्पष्टार्थम् इत्युक्तम्। द्वयोर्हि विकल्पविध्योर्मध्ये पाठादेव नित्यत्वे लब्धे नित्यग्रहणस्य अनपेक्षणात्। 'हे मपरे वा' इति 'मय उजो वो वा' इति विकल्पविध्योर्मध्ये पाठात्। विभाषामध्ये ये विधयस्ते नित्याः इति पूडः क्तवा च इति सूत्रे भाष्यात्तथावगतेः ।

सुगण् ईशः इति स्थिते अनेन सूत्रेण णुटि सुगण्णीशः इति रूपं सिध्यति। गण संख्याने इति धातुष्चौरादिकः । अतस्तस्मात् स्वार्थे णिचि क्विपि च कृते णिचं निमित्तीकृत्य गणधात्ववयवद्वितीय- अकारस्य अतो लोपः इति सूत्रेण लोपे क्विपं निमित्तीकृत्य 'णेरनिटि' इति सूत्रेण णेर्लोंपे क्विप्यनुब्धलोपे, वकारस्य वेरपृक्तस्य इति सूत्रेण साक्षाल्लोपे, तस्य क्विपः कृत्त्वेन प्रातिपदिकसंज्ञायां सौ हल्डयादिलोपे सुगण् इति प्रातिपदिकसिद्धिः । तस्य ईशे परे सुगण्णीश इति रूपम् । नन्वत्र डमुडागमरूपे कार्ये कर्तव्येऽल्लोपस्य णिलोपस्य वा स्थानिवद्भावेन अच्परकत्वाभावः। तथा च डमुडागमो न स्यादिति चेन्न पूर्वत्रासिद्धे न स्थानिवत् इति त्रैपादिके कार्ये कर्तव्ये स्थानिवद्भावस्य निषेधात्। न च परो णिस्तन्निमित्तोऽजादेशोऽतो लोपः सः स्थानिवदिति, परः क्विप् तन्निमित्तोऽजादेशो णेरनिटीति णिलेपस्स स्थानिवदिति, परः क्विप् तन्निमित्तोऽजादेशो णेरनिटीति णिलोपः वा स्थानिवदिति वक्तुं न शक्यम्, डमुडागमस्य स्थानिभूतादच: पूर्वत्वेन दृष्टस्य कार्यत्वाभावादिति वाच्यम्। प्रत्यैषिषन्नित्यादिरूपसाधनार्थम् अवश्यमाश्रयणीयेन पञ्चमीसमासेन स्थानिवद्भावप्राप्तेः। एवं च पञ्चमीसमासप्राप्तस्थानिवद्भावस्यापि पूर्वत्रासिद्धे न स्थानिवदित्यनेन निषेध इति भाव: । ननु पूर्वत्रासिद्धे न स्थानिवदित्यस्य तस्य दोषस्संयोगादिलोपलत्वणत्वेषु इति वचनेन प्रतिप्रसवेन स्थानिवद्भावस्य निष्प्रत्यूहतया प्रवृत्तौ सुगण्णीश (43)

Page 44

वाक्यार्थभारती 2013-14 इत्यसिद्धिरूपाव्याप्तिरूपदोषस्तदवस्थ एवेति चेन्न, तस्य दोषस्संयोगादिलोपलत्वणत्वेष्वित्यत्र लत्वसाहचर्येण णत्वस्याप्यादेशरूपस्यैव ग्रहणात् । प्रकृते ङमुडागमस्यागमरूपत्वनिश्चय आदेशरूपत्वाभावनिश्चयश्च व्याख्यानात् स्थानषष्ठ्यभावादेवावगन्तव्यः। तथाचात्र णत्वस्य आदेशरूपत्वं नास्तीति प्रतिपसवाप्रवृत्तौ स्थानिवद्भावनिषेधस्यैव प्रवृत्त्या अजव्यवहितपूर्वत्ववैशिष्ट्यं डमो वर्तत इति डमुडागमसिद्धिः। एवमेव प्रत्यङ् आत्मा इति, सन्नच्युतः इति च रूपे प्रक्रिया समानैव। अत्र जगन्नाथः - प्रकृते स्थानिवद्भावोऽसंभवी । अत्र डमुटः स्थानिभूतादचः पूर्वत्वेन दृष्टस्य कार्यत्वाभावेन परत्वेन दृष्टस्य ईश इत्यत्र ईकारस्य कार्यत्वेन स्थानिवद्भावस्यैवोत्थितिर्नास्ति। अतोऽत्र शङ्कायाः समाधानस्य चावसर एव नास्ति, किञ्च लत्वसाहचर्येण णत्वस्यापि आदेशरूपस्यैव ग्रहणम् इत्युक्तम्। तच्च न संभवति। साहचर्यस्य सर्वत्रानियामकत्वस्य द्विस्त्रिश्चतुरिति कृत्वोर्थे इत्यत्र कृत्वोर्थग्रहणेन बोधितत्वात् । अथ पञ्चमीसमासेन स्थानिवद्भावस्य प्रसक्तिरितीति चेत् तस्य असार्वत्रिकत्वात्। अत एव विगणय्य इत्यादौ अयादेशसिद्धिः। अन्यथा णेरनिटीति सूत्रेण णिलोपानन्तरं ल्यपि लघुपूर्वात् इति सूत्रेण णेरयादेशे कर्तव्ये पञ्चमीसमासस्य नित्यत्वे तस्यानाश्रयणस्य वक्तुमशक्यत्वेन पञ्चमीसमासाश्रयणेन स्थानिवद्भावप्रसक्तेर्दुर्वारतया रूपासिद्धिर्दोषः स्यात्। अतोऽनित्यभूतपञ्चमीसमासाश्रयणे न किञ्चित् प्रमाणमस्ति । अतोऽयुक्तोऽयं ग्रन्थ इति चेत्, सत्यम् । पञ्चमीसमासस्य अनित्यत्वबोधनेऽपि इष्टस्थलेऽप्यप्रवृत्तौ वैयर्थ्यापत्तेः। अतः पञ्चमीसमासस्यानित्यत्वाश्रयणमवश्यं कर्तव्यम्। तता च प्रकृते तथाप्राप्तस्य स्थानिवद्भावस्य तस्य दोषस्संयोगादिलोप लत्वणत्वेषु इत्यनेन निषेधे न मनोरमाग्रन्थासङ्गतिरिति हेतो: जगन्नाथोक्तिः प्रत्युक्ता भवति। डमुटः परादित्वं तु कुर्वन् आस्ते इत्यादौ णत्वप्रतिषेधार्थम्। डमुटः परादित्वेन पूर्वस्य नकारस्य पदान्तस्य इति णत्वनिषेध: सिद्धः । पूर्वान्तत्वे तु द्वितीयस्य नकारस्य निषेधे सिद्धेऽपि प्रथमस्य अपादन्तत्वेन निषेधो न स्याद् इत्याशयः । णत्व प्रतिषेधो भवत्वित्याशयेनैव डमो हरस्वादचि द्वे इति नासूत्रि। परं णत्वं प्रति पूर्वस्य सिद्धतया णत्वापत्तेः इति। केचित्तु बहिरङ्गपरिभाषया गतार्थत्वादुभयमप्यसङ्गतमित्याहुः । तत्तु पाक्षिकमिति दीक्षिताः । त्रैपादिकेऽन्तरड्गेऽन्तरड्गपरिभाषा न प्रवर्तते इति प्रकृते बहिरङ्गपरिभाषया वारणासंभवात्।

ननु परमदण्डिनौ इत्यादौ अन्तर्वर्तिविभक्तया पदत्वान्नुट स्यादिति चेन्न, उत्तरपदत्वे चापदादिविधौ प्रत्ययलक्षणप्रतिषेधात् । अत एव परमवाचौ परमगोदुहौ परमलिहौ इत्यादौ कुत्व घत्वढत्वादीनि न। इदं च मनोरमाकारमतम् शब्दरत्नकृता तु उत्तरपदस्य यत्र कार्यित्वं तत्रैव उत्तरपदत्वे इति प्रतिषेध:, अत एव माषकुम्भवापेन इत्यादौ पदव्यवायेऽपि इति सूत्रेण णत्वनिषेधसिद्धिः इत्युच्यते तर्हि प्राचीनोक्तम् अजादेः पदस्य इति व्याख्यानमेव शरणम् इत्युक्तम्। अर्थाद् उजि च पदे इत्यनुवर्त्य अजादौ पदे परे तदवयवस्य अच एव नुट् इति प्राचीनोक्तिरेव परमदण्डिनौ इत्यादौ नुडादीन् वारयतीति भावः ।

(44)

Page 45

बाधकान्येव निपातनानि वाक्यार्थभारती 2013-14

डा. विनायकरजतभट्टः

भगवान् पाणिनि: अष्टाध्याय्याः प्रथमाध्यायस्य प्रथमपादे सर्वादीनि सर्वनामानि इति सूत्रम् षडिंवशतितमसूत्ररूपेणापाठीत्। द्विपदात्मकमिदं सूत्रं सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत्, त्व, नेम, सम, सिम, पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायमसंज्ञायाम् (ग), स्वमज्ञातिधख्यायाम् (ग), अन्तरं बहिर्योगोपसंव्यानयोः (ग), त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम् इत्येतेषां पञ्चत्रिंशतः सर्वनामसंज्ञां ब्रवीति। सर्वः आदि: येषां तानि इमानि सर्वादीनि इति तद्गुणसंविज्ञानो बहुव्रीहिः। तथा च सूत्रार्थः -सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि स्युः ।

अत्र सन्देहः-

अष्टाध्याय्यां णत्वप्रकरणे पूर्वपदात्संज्ञायामगः इति सूत्रं पठ्यते । सूत्रार्थश्चेत्थम् - पूर्वपदस्थान्न्निमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने। अत्र रेफषकारौ निमित्ते भवतः । तौ रषाभ्यां नो णः समानपदे इति सूत्रादनुवर्तनाल्लभ्येते। सूत्रस्यास्योदाहरणम्-द्रुरिव नासिका यस्यसः द्रुणसः । अत्र द्रु इति पूर्वपदे विद्यामानात् निमित्तात् रेफात् परस्य नस इत्यस्य नकारस्य णत्वे द्रुणसः इति रूपम्। सर्वनाम इति पदे सर्व इति पूर्वपदे विद्यमानात् निमित्तात् परस्य नाम इति पदस्य नकारस्य णत्वं स्यात् इति प्रश्नः । अतस्तत्प्रतिषेधोऽत्र वक्तव्यः ।

समाधानम्-

सर्वनाम इत्यत्र पूर्वपदात् संज्ञायामगः इति सूत्रेण णत्वे प्राप्ते निपातनाण्णत्वाभावः । अत्र यद्यपि सौत्रत्वाण्णत्वाभावः इति वक्तुं शक्यं तथापि लोकेऽपि णत्वरहित एव शब्दस्साधु: इत्यस्मान्निपातनाण्णत्वाभाव इत्युक्तम्।

एवं तर्हि किमेतन्निपातनन्नाम इति जिज्ञासायामाह -निपातनं हि प्रतिषेधजातीयकम्। प्रतिषेधो हि अविशेषेण किञ्चिदुक्तवा विशेषेण न इत्युच्यते, तत्र व्यक्तमाचर्यस्याभिप्रयो भवति इदं न भवति इति। तथैव निपातनं नाम अविशेषेण णत्वमुक्तवा विशेषेण निपातनं क्रियते, तत्र व्यक्तमाचार्यस्याभिप्रायो गम्यते 'इदं न भवति' इति।

अत्र आक्षेप :-

प्रतिषेधस्य तु निवृत्तावेव तात्पर्यम्, न तथा निपातनस्य। निपातनस्य हि उक्तरूपसाधुत्वप्रतिपादने तात्पर्यं न तु रूपान्तरस्य निवृत्तौ। निपातनात् सर्वनाम इत्यत्र अणत्वं स्यात् यथा प्राप्तं णत्वमपि स्यात्। तथा च विध्यन्तरं प्रदर्शयति रामाय इत्यत्र यादेशे कृते सुपि च इति दीर्घे कर्तव्ये स्थानिवद्भावात् सुप्त्वम्, आदेशे स्वतः स्थितं यञादित्वञ्च तिष्ठति। (45)

Page 46

वाक्यार्थभारती 2013-14 अत्र आक्षेपः-

यथाप्राप्तमपि कार्यं भवति, विशेषवचनेन प्राप्तमपि इति नियमाङ्गीकारे सुद्ध्युपास्यः इत्यादौ दोषप्रसङ्गः । तथाहि सुधी उपास्यः इति स्थिते इको यणचि इति सूत्रेण यणादेशे सुध्युपास्यः इति रूपं भवति। इदञ्च रूपं विशेषवचनात्सिद्धम्। नियमाङ्गीकारे यथाप्राप्तं सुधी उपास्यः इति रूपमपि साधु स्यात्।

समाधानम् -

सुधी उपास्यः इत्यादौ इको यणचि इति सूत्रेण यणादेशो विधीयते। इकः इति षष्ठीनिर्देशो विद्यते। षष्ठी च स्थानिनं निर्वर्तयति। षष्ठीस्थाने योगा इति सूत्रस्य अनिर्धारितसम्बन्धविशेषा षष्ठी स्थाने योगा बोध्या इत्यर्थः । स्थाने योगेत्यर्थकरणात् षष्ठ्या निर्दिष्टः स्थानिनं निर्वर्तयति । अतो न दोषः ।

एवं तर्हि दिवादिभ्यः धातुभ्यः उत्सर्गसूत्रेण कर्तरि शप् इत्यनेन शप् प्राप्नोति; विशेषरूपेण दिवादिभ्यः श्यन् इति श्यन्। इह दिवादिभ्यः विशेषवचनेन श्यन्नपि प्राप्नोति यथाप्राप्तं शबपि।

नैष दोष: । दिवादिभ्यः श्यन्नित्येतद्धि शपः स्थाने श्यनं विधत्ते।

प्रश्न: - दिवादिभ्यः श्यन् इति सूत्रस्य शपः स्थाने श्यन् इति अर्थस्वीकारार्थं सूत्रे शपः इति निर्देश: कर्तव्यः ।

उत्तरम् -न कर्तव्यः । कर्तरि शप् इत्यतः शप् इति अनुवर्त्य व्याख्यास्यते।

प्रश्न :- शप् इति प्रथमया निर्दिष्टः। षष््या निर्देशे सत्येव श्यन् इत्येतत् शपः निवर्तको स्यान्नान्यथा।

उत्तरम् - नावश्यं षष््यानिर्देश: कर्तव्यः । तथाहि - दिवादिभ्यः इति पञ्चमी । अतः तस्मादित्युत्तरस्य इति सूत्रेण अनुवृत्तं शप् इति पदं षष्या विपरिणमयिष्यते।

प्रश्न: - दिवादिभ्यः श्यन् इति सूत्रेण श्यन् विधीयते अतोऽयं प्रत्ययविधिः । प्रत्ययविधौ पञ्चम्यः षष्ठीप्रकल्पिका: न भवन्ति।

उत्तरम् - दिवादिभ्यः श्यन् इति नायं प्रत्ययविधि: अपि तु आदेशविधि: । अनेन हि सूत्रेण शपः स्थाने श्यन् विधीयते।

पुनरत्र आक्षेपान्तरम् -

(46)

Page 47

वाक्यार्थभारती 2013-14 अज्ञाते इत्यादिसूत्रैः अज्ञातार्थे स्वार्थे कप्रत्ययोऽपि विधीयते अव्ययसर्वनाम्नामकच्प्राक्टे: इति सूत्रेण अकच्प्रत्ययोऽपि। एवं हि अव्ययसंज्ञकेभ्यः सर्वनामसंज्ञकेभ्यश्च विशेषरूपेण विहित: अकच्प्रत्ययः श्रूयते, यथाप्राप्तश्च कप्रत्ययोऽपि ?

समधानम्-

नैष दोष: । उपर्युक्तो दोष: अकज्विषये न भवति। यतो हि अवश्यप्राप्ते कप्रत्यये अकज्विधीयते। अतः येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति इति परिभाषया अकच्प्रत्ययः अपवादो भूत्वा कप्रत्ययस्य बाधको भवति।

निपातनमपि एवञ्जातीयकमेव इत्याह महाभाष्यकारः । नाऽप्राप्ते णत्वे निपातनमारभ्यते, तद्बाधकं भविष्यति।1

निपातनस्य अपवादस्वरूपे दोषमाह - केचन आचार्याः सततम्, सन्ततम् इति रूपद्वयसिद्ध्यर्थं 'समो वा हितततयोः' इति वचनं पठन्ति। तेन संततम् सततम्, संहितम्, सहितम् इत्येवं मकारसहितं मकाररहितं च रूपं दृश्यते। पाणिनीयव्याकारणे तु तदर्थं न किञ्चित्सूत्रं विद्यते। अत्र व्याकरणे अपरस्पराः क्रियासातत्ये इति सूत्रे सातत्यशब्दनिपातनात् मकाररहितरूपमेव साधु स्यात्।

अत्र समाधानमाह वस्तुतस्तु बाधकान्येवा निपातनानि। पूर्वोक्तदोषवारणाय तु अवश्यं कश्चन यत्न: विधेयः । तदर्थं समो वा हितततयोः इति कारिका पाणिनीयव्याकरणे निवेशनीया। इति शम्।

  1. अष्टाध्यायी 2. म.भा. 6/1 3. सिद्धान्तकौमुदी 4. प्रौढमनोरमा 5. लघुशब्देन्दुशेखर:

(47)

Page 48

वाक्यार्थभारती 2013-14 ।। मुखनासिकावचनोऽनुनासिकः (01-01-08)।।

डा. प्रमोद भट्टः

मुखसहिता नासिका = मुखनासिका शाकपार्थिवादित्वादुत्तरपदलोपी समासः। उच्यतेऽनेनेति वचनम्। करणे ल्युट् सामान्ये नपुंसकम्। शक्यञ्च क्षुदपहन्तुं शक्यमञ्जलिभिः पातुं वाता इत्यादिवत् पदसंस्कारपक्षे हि विशेष्यरूपमुखनासिकासंबन्धस्य बहिरङ्गत्वात् तत्प्रयुक्तं स्त्रीत्वं प्राक् प्रवृत्तां क्लीबतां न बाधते। अत एव "तेन तुल्यं क्रिया चेद्वतिः' (5-1-115) "संस्कृतं भक्षाः" (4-2-16)इत्यादिसौत्रनिर्देशः । मुखनासिकावचनमस्येति बहुव्रीहिः । ततश्च मुखसहितनासिकयोच्चार्यमाणो वर्णः अनुनासिकसंज्ञस्स्यादिति फलितसूत्रार्थः 1 "अणोSप्रगृह्यस्यानुनासिकः" (8-4- 57),आडोऽनुनासिकश्छन्दसि(6-1-126)

संज्ञाप्रदेशाः । दधि, मधु, अभ्र आं अपः इत्यादिकं तदुदाहरणम्। उच्यते इति वचनम्। "कृत्यल्युटो बहुलम्"(3-3-113)इति कर्मणि ल्युट्। राजभोजनाश्शालय इतिवदिति वृत्त्यनुसारिणः ।

भाष्ये तु मुखञ्च नासिका च मुखनासिकम्। प्राण्यङ्गत्वात् समाहारद्वन्द्व एकवद्भावः । ततो बहुव्रीहि:। निपातनाद्दीर्घ इत्युक्तम्। सौत्रत्वादिति तु नोक्तम्। यतः प्रसङ्गेनास्य लौकिकशब्दस्य साधुत्वं क्रियते। निपातनानाञ्च साधुत्वे मुखनासिकावचन इति न भाव्यम्। अबाधकत्वपक्षे तु भाव्यमेवेति कैयटः। सर्वादिसूत्रे "बाधकान्येव निपातनानि" इति भाष्ये वक्ष्यमाणतया तद्विरुद्धमुपेक्ष्यमिति केचित्।

अन्ये तु "सिद्धशुष्कपक्वबन्धैश्च" (2-1-41)इति शुष्कपक्वयोस्सिद्धत्वात् "शुषः कः"(8- 2-51)" पचो वः" (8-2-52)इति सूत्रद्वयम् अबाधकान्यपि निपातनानि इति ज्ञापनार्थम्। तेनातिशायने तमबिति निपातनस्य अबाधकत्वात् अतिशयनमित्यपि भवति।

"हरदत्तोक्तरीत्या कैयटोक्तं समर्थयन्ते"

ननु मुखनासिकवचन इत्यत्र पदसंस्कारपक्षे सामान्ये नपुंसकमिति यदुक्तं तन्न संभवति। पदसंस्कारपक्षेऽपि वाचनिकमेतत् । पदे हि पदान्तरनिरपेक्षे संस्क्रियमाणे नपुंसकलिङ्गसर्वनामप्राप्तमेकत्वञ्च वस्त्वन्तरनिरपेक्षत्वात् सन्निहितमिति शुक्लापा इति प्राप्ते भाविनो बहिरङ्गस्याश्रयस्य सम्बन्धिन्यौ लिङ्गसङ्ख्ये अनेन प्रतिपाद्येते इति। यदा तु वाक्यसंस्कारपक्ष: तदायमनुवाद एव। आश्रयविशेषस्य प्रागेव प्रक्रमे विशेषणानामपि तन्निष्ठत्वात् तद्गतयोर्लिङ्गसङ्ख्ययोस्सिद्धत्वादिति च । ततश्च वचनशब्दस्य स्त्रीत्वात् डीपि बहुव्रीहौ "नद्यृतश्च" (5-4-153)इति कपि मुखनासिकावचनीय इति स्यात्। न चैवं सति लिङ्गसर्वनामनपुंसकस्य निर्विषयतापत्तिः । विस्पष्टं पटुः, प्रातः कमनीयम्, पचतिकल्पमित्यादावाश्रयस्यालिङ्गतायां विषयलाभात्। तस्मात् सामान्ये नपुंसकमित्यस्य गुणवचनानामिति चानेन बाधात् मुखनासिकावचन इति सिध्यतीति चेत्- (48)

Page 49

वाक्यार्थभारती 2013-14 अत्राहु :- तेन तुल्यं क्रिया चेद्वतिः, संस्कृतं भक्षाः इत्यादिनिर्देशलिङ्गेन गुणवचनानामित्यस्यानित्यत्वज्ञापनात् सामान्ये नपुंसकप्रवृत्तौ मुखनासिकावचन इति सिद्धिः । अत एव दृढं भक्तिर्यस्य सः दृढभक्तिरिति सिध्यति। दृढा भक्तिरिति विग्रहे तु पुंवत्वनिषेधात् दृढाभत्तिरिति स्यात् ।न च भक्तिशब्दः कर्मसाधनक्तिन्नन्तः, एवं प्रियादिः, न तु भावसाधनक्तिन्नन्त इति वाच्यम्। तत्र प्रमाणाभावात्। भूयसीभक्तिरिति बहुव्रीह्यसिद्धिप्रसङ्गाद्वेति। इह त्रीणि दर्शनानि - सर्व एव वर्णः मुखेन नासिकया च उच्चार्यत इत्येकम्। अनुनासिक: पूर्वः परो वा भागो मुखेनोच्चार्यते अन्यस्तु नासिकयेति द्वितीयम्। तत्रानुनासिकभागानुरागवशात् मुखवचनविभागो नासिकावचन इव लक्ष्यते, यथा संयन्तेत्यत्र अनुनासिकयकारानुनासिकाकारानुरागवशादू उत्तरयकाराकारावपि अनुनासिकवत् प्रतिभातः । मुखस्य नासिकायाश्च अन्तरालस्थानान्तरालमेवानुनासिकस्येति तृतीयम्।

तत्र प्रथमदर्शनाश्रयणेन मुखनासिकं वचनमस्येति भाष्ये विग्रहः प्रदर्शितः। अत्रैव विग्रहान्तरमुक्तम्। मुखद्वितीया वा नासिका वचनमस्येति । अत्र द्वितीयशब्दस्सहायवृत्तिः । असदि्दितीयोऽनुस्वारपाण्डवमित्यादिवत् मुखसहायेत्यर्थः । तत्र मुखसाहचर्यात् मुखशब्दस्य तत्सहायवृत्तित्वमाश्रित्य मुखञ्च नासिका चेति कर्मधारयः । उत्तरपदलोपिसमासो वा बोध्यः । द्वितीयदर्शनाश्रयणेन तु मुखनासिकमावचनमस्येति विग्रह उक्तः। "आडी ईषदर्थे"2 ईषदर्थश्च वचनक्रियाविशेषणम्। अन्यस्य तद्विशेष्यस्याभावात्। क्रियेषत्वञ्च फलनिष्पत्तिपर्यन्तमननुष्ठानम्। क्रियाफलञ्च वर्णनिष्पत्तिः। सा च मुखमात्रकरणिकया तया। नापि नासिकामात्रकरणीयकेति युज्यते तस्या ईषत्वम्। एतदेव ह्यभिप्रेत्य भाष्ये उक्तम् ईषद्वचनमावचनं किञ्चिन्मुखवचनं किञ्चित् नासिकावचनमिति। कैयटेनाप्युक्तं भागस्य मुखेनोच्चारणात् भागस्य नासिकयेति। अनेन भाष्ये किञ्चिदिति भागपरमिति व्याख्यातम्। यद्यपि वर्णस्फोटपक्षे वर्णानां निर्भागत्वात् भागासंभवः। तथापि जातिस्फोटपक्षे वर्णानां सभागत्वम्। व्यक्तिस्फोटपक्षेऽ्रभिव्यञ्जकध्वनेर्भागवत्त्वाच्च वर्णानामपि कल्पितभागवत्त्वं संभवतीति बोध्यम्। अत्र चावयवार्थगतस्यावचनस्य द्वन्द्वस्य उपचारो बोध्यः। अस्मिन् दर्शने मुखनासिकावचन इत्यपि भवति। यो हीषदुच्यत स उच्यत एव। यथा ईषच्छुक्लोडपि शुक्ल एवेति कैयटः ।

तृतीयदर्शनाश्रयणेन तु मुखोपसंहिता वा नासिकावचनमस्येति विग्रह उक्तः।

तत्र कैयट: - मुखस्य नासिकायाश्च अन्तरालस्थानान्तरमेवानुनासिकस्येति दर्शयति। तत्र सामीप्यात् मुखञ्च तन्नासिका चेति उभाभ्यामन्तरालं व्यपदिश्यत इति मुखद्वितीयेति पक्षात् मुखोपसंहितेति पक्षस्यार्थभेदं दर्शयितुं मुखस्येत्यादि। तदन्तराले तच्छब्दप्रवृत्तिः कथमित्याकाड्क्षायां लक्षणेत्याशयेन तत्रेत्यादि। अत्र भाष्ये समनन्तरपक्षादस्य पक्षस्य भेदान्यथानुपपत्तिरेवान्तरालस्थानताद्योतकं लिङ्गमिति केचित् । उपशब्दप्रयोग इत्यपरे । उपशब्दो हि सामीप्ये। ततश्चानुनासिकोच्चारणे मुखे नासिकायास्सामीपिकं स्थानमुक्तं भवति। यथा कुतोऽयमागतः शकुनिरिति प्रश्नस्य यावेतौ सन्निकृष्टौ वनस्पती इत्युत्तरे वनस्पतिशब्देन लक्षणया तदन्तरालमागमनावधित्वेन प्रतीयते तद्वदिति भावः ।

(49)

Page 50

वाक्यार्थभारती 2013-14 अत्र कर्मधारयगर्भबहुव्रीहिपक्षे पक्षभेदेन मुखनासिकावचन इति मुखनासिकावचनिक इति च यथा भवति तथा प्रागेवोक्तम्। केवलनासिकानां यमानुस्वाराणामेव संज्ञा मा भूदित्येवमर्थमिति मुखग्रहां यदि स्यात् तदा "आडोऽनुनासिकश्छन्दसि" (6-1-126) इत्यादिविधिप्रदेशेषु यमानुस्वारादेशास्स्युः। "विड्वनोरनुनासिकस्यात्"(6-4-41)इत्याद्यनुवादप्रदेशेषु तु यमानुस्वाराणामसंभवादप्रतिपत्तिस्स्यात्। तत्र यमो नाम वर्गेष्वादितश्चतुर्णां पञ्चमे परे तन्मध्ये यमो नाम पूर्वसदृशो वर्णः केवलनासिक्यः प्रातिशाख्ये विहित: यमवद्यमः । यमौ हि लोके प्रायेण समानाकारौ भवत इति। यथा - पलिक्कनी:, चख्ख्नतुः, अग्गिनिः, घ्जन्तीत्यत्र कखगघेभ्यः परे तत्सदृशा यमाः । यत्तु वर्गपञ्चमयुक्ता: प्रथमादयो यमा इति विवरण उक्तम्। तदयोगवाहत्वप्रतिपादकेन "हयवरट्"3 सूत्रस्थभाष्येण केवलनासिक्यपरेण यमानुस्वाराणामेव प्राप्नोतीति इहत्यभाष्येण च आगमत्वप्रतिपादनपरप्रातिशाख्येन च विरुद्धमिति ज्ञेयम्। केवलमुखवचनानां कचटतपादीनामपि संज्ञा मा भूदिति नासिकाग्रहणम्। यदि तन्म्मामेव स्यात्, तप्तं, पक्वमित्यादिषु अनुदात्तोपदेशे सति पकारचकारलोपस्स्यात् । ओदनपक् इत्यत्र अनुनिकस्य क्विझलोरिति दीर्घस्स्यात्।

भाष्ये तु प्रासादवासिन्यायेन उभयवचनानामपि नासिकावचनत्वसंभवात् मुखग्रहणं न कर्तव्यमिति प्रत्याख्यातम्। लोके हि प्रासादवासिन: आनीयन्तामित्युक्ते के वलप्रासादिवासिन: भूमिप्रासादोभयवासिनश्च आनीयन्ते इत्ययं प्रासादवासिन्यायः ।

इदञ्च प्रत्याख्यानं वर्णस्य कृत्स्नो भागः मुखेन नासिकया चोच्चार्यत इति प्रथमपक्षाश्रयणेनेति ज्ञेयम्। कश्चिदेव भागः मुखेनोच्चार्यते, कश्चित्तु नासिकयेति द्वितीयपक्षे उभयोरन्तरालं स्थानान्तरमेवानुनासिकस्येति तृतीयपक्षे च नास्ति प्रासादवासिन्यायः । भागयोरेव मुखनासिकावचनत्वेन कृत्स्नवर्णस्योभाभ्यामनुच्चारणात् तदन्तरालस्यैव स्थानत्वाच्च क्रियाशब्देष्वेवायं न्यायो न रुढिशब्देर्ष्ित कैयटः। तत्र क्रियाशब्दाः केवलयौगिका विवक्षिताः, रुढिशब्दास्तु योगरूढा विवक्षिताः। ते हि योनिमित्ता अपि नियतविषयाः भवन्ति। तेन दिवौकस आनीयन्तामित्यादौ नैतन्न्यायप्रवृत्तिः । यमानुस्वाराणां तु सत्यामपि संज्ञायां न किञ्चित् बाधकम्। "अणोऽप्रगृह्यस्यानुनासिक: (8-4-57) इत्यादिषु हि विधिप्रदेशेषु आन्तरतम्यात् मुखवचनानां स्थाने उभयवचनानुनासिकस्यैव प्रवृत्तिः। अनुस्वारस्थले तु यमानुस्वाराणान संभव इति ज्ञेयम्।

हरदत्तादयस्तु महासंज्ञाकरणं अन्वर्थसंज्ञाविज्ञानार्थम्। अनुपश्चात् मुखस्य नासिकाव्याप्रीय तस्मिन्नासिकाया अनु पश्चात् मुखं व्याप्रियते अस्मिन्निति वा तेन भागविषयो नासिकाव्यापार इति सूचनात प्रासादवासिन्यायस्यायमविषय इत्याहुः। एवञ्च सूत्रमेव प्रत्याख्यातुं शक्यम्। प्रदेशवाक्येषु हरदत्तोक्तरीत्या वा नासिकामनुगतोऽनुनासिक इति योगाश्रयणात् सर्वेष्टसिद्धेरित्याहुः ।

  1. परि. 119 2. अ. 1440 3. मा. सू. 05 (50)

Page 51

। वेदान्तवैशाल्यवैशारद्यम्।। वाक्यार्थभारती 2013-14

प्रो. रामचन्द्र जी. भट्टः

वेदान्त: योग: यज्ञः इत्यादीनि पदानि लोके प्राचुर्येण प्रयुज्यन्ते। आधुनिकेऽस्मिन् यन्त्रयुगे यन्त्रचमत्कारतः आकृष्टा जना मन्त्रतः सुदूरं गताः। किन्तु 21 तमे शताब्दे पुनः बाहुल्येन जनाः आर्षपस्परां बहु मन्यमाना: क्रमेण स्वमूलमन्विषन्तः सनातनसम्प्रदाये श्रद्धालव इव दृश्यन्ते।

योग इति नाम्ना यद्यपि महान् व्यापार एव जगति विजृम्भते। यज्ञपूजादिनाम्ना नगरेषु नारकं कृत्यमेव बहवो पण्डितम्मन्याः ब्रह्मबन्धवः आचरन्ति। वेदान्ती इति पदमपि लोके कान्दिशीक (कान्दिशीको भयद्रुते .... ) इत्यर्थे विकृतमुपयुज्यते। वेदान्तिनो नाम क्रियानुष्ठानरहिता उपदेशैकपरायणा जना इति बुद्धिजीविनः आमनन्ति। लोकसामान्या जना रामायण-महाभारत-वेदान्तादिशब्दान् व्यवहारे विकृतार्थे प्रयुञ्जाना दृश्यन्ते।

दिगन्तीयसुवर्णरेखा

इतिहासस्य गतिः चक्रारपङि्क्तरिव पुरतो धावति। स्वामिनः विवेकानन्दस्य सार्धशताब्दकालखण्डे विवेकानन्दचरितप्रचारसन्दर्भे 'अनुष्ठानवेदान्तपदं' प्रख्यातिं प्रपेदे। वेदान्तो नाम अनुष्ठानसंलग्न इति विचारकाः मेनिरे। यत् किमपि स्वीकार्यं चेतPractical इति मन्त्रं जपन्ति आधुनिकाः । Practical Vedanta इति पदं वैज्ञानिकदृष्टिमतां जनानामित्थमावर्जकं जातम्।

स्वामिविवेकानन्दः यद्यपि Best of east + Best of the west इति उद्घोषणं दत्वा विज्ञानवेदान्तयोः सामञ्जस्यं सयुक्ति प्रतिपादयामास। किन्तु रामकृष्णपरमहंसप्रभावात् जीवात्मपरमात्मनो: अद्वैतमपि सविवेकं आद्यशङ्करीयविचारप्रभावात् विविनक्ति। तस्य भाषा, पदावलि: विचारशैली च आधुनिकान् आवर्जयतीति शास्त्रविद्भिः अस्माभि: ज्ञातव्यम्।

वेदान्ततः जीवनयोग:

वेदान्तस्य कालोचितः अनुष्ठानपक्षः कः इति वयं वेदान्तसम्प्रदायविदोऽपि ईषच्चिन्तयामः । अनेकतायाम् ऐकात्म्यमेव भावाद्वैतम्। विशालमानवतायामैकात्म्यं विश्वस्मिन् विकाससूत्रमिति परिगण्यते। School of Philosophy इति नाम्ना संहता: केचन अद्वैतमेव विश्वधर्म इति मान्वाना जना विविधदेशेषु विद्यन्ते। उत्तराञ्चलीयाम्नायपीठस्थानां श्रीशान्तानन्दसरस्वतीस्वामिनां पदतले निषण्णाः केचन आर्थिकसमृद्धित एव विश्वकल्याणं भावयन्तः यतिवराणामुपदेशप्रभावात् शाङ्करमद्वैतं परिगृह्य जीवनयात्रां निर्वहन्ति । यस्मिन् दिने अद्वैतमेव विश्वधर्म इति अधिकजनैः स्वीक्रियते तत उध्वं

(51)

Page 52

वाक्यार्थभारती 2013-14 धर्मजातिमतभेदाः विश्वं न पीडयन्ति इति तेषां दृढीयान् विश्वसः। एतेषां समुदायः अनेकेषु पाश्चात्य- पौर्वात्यदेशेषु कार्यरत अस्ति। सश्रद्धमेते उपनिषदमधीयते। 'अहमस्मि परं ब्रह्म' इति भावमावाह्य ध्यायन्त एते मानसं पावयन्ति, बुद्धिं शोधयन्ति च।

तथैव स्वामिविवेकानन्दं परमहंसयोगानन्दं स्वामिशिवानन्दं बहुमन्यमानाः लक्षशः श्रद्धालवः जगति शाङ्करमद्वैतं स्वजीवनपाथेयत्वेन विश्वस्य उदात्तजीवनं यापयन्ति। तेषु लघुचेतस्कता न भवति। तिरस्कारस्थाने पुरस्कारः वरीवर्ति। वित्तशुद्धि ते पालयन्ति। ज्ञानं विज्ञानम् अस्तिक्यं च ते पालयन्ति। आहार-विहार-व्यवहार योगमेते आचरन्ति। आधिक्येन दैवीं सम्पदमात्मसात्कृत्य जीवनयात्रां प्रवर्तयन्ति। एतादृशजीवनशैली एव वेदान्तस्य अनुष्ठानपक्ष इति परिगण्यते। शिष्टजीवनं योगजीवनं प्रकृतिप्रेमिव्यवहार इत्यादि वेदान्तपक्षीयजीवनविधानस्यैव नामान्तराणि लोके जनैराद्रियन्ते। राष्ट्रनिष्ठाः समाजस्य धारकाः, परमार्थयोगिन:, कामिनीकाञ्चनक्षेत्रे शौचाचारपालका भगवत्कैङ्कर्यपरवशाः यद्यपि समाजे सन्ति। ते वेदान्तानुष्ठानपरायणा इति वन्द्यवेदान्तिनो भवन्ति।

वेदान्तिनो वन्द्या भवन्तु

वन्द्यवेदान्तिनाम् अन्तःकरणमुदारं भवति। न ते द्वैताद्वैतवादरता भवन्ति। अद्वैतभावपुरस्सरं द्वैतलोके व्यवहरन्ति । कर्मानुष्ठानकाले द्वैतभावभाविता अपि फलवितरणकाले अद्वैतमनुतिष्ठन्ति। नारकीयानपि नित्यं निरये न पातयन्ति। मञ्जरीकुञ्जरायमाणाः न वेदान्तदन्तिनो भवन्ति। नर-नारायणीयं पशु-पशुपतीयं वा द्वैतभावं न द्वैराश्येन विभजन्ते। वादकथायां मण्डनमेव मण्डनं मन्वाना खण्डनप्रवृत्तितः दूरे भवन्ति। रागद्वेषकरवैदुष्यप्रदूषण परिपन्थिनो भवन्ति।

निन्द्वेदान्तिनाम् अपरः पक्षः विशेषेण सद्यः बहु विजृम्भते। सम्प्रदायत एव द्वैतिनः विशिष्टाद्वैतिन:, शक्तिविशिष्टाद्वैतिन अद्वैतिन इति विभागस्तु विद्यत एव। तेषु कदाचित् अन्तर्युद्धं बहिर्युद्धं प्रवर्तत इति विदितम् । तार्किकवासनया खण्डनपरं मनः शास्त्रविदमपि निन्द्यवेदान्तिनमेव, कुरुते। ब्रह्मवादमेव औपनिषदं स्वप्राधान्येन निरूपयन् जगत्तत्त्वस्य सुखबोधाय मायायाः विचारम् अनुषङ्गिकरूपेण भाष्ये तत्र तत्र प्रस्तौति आद्यः शङ्करः । अध्येतृणां सुलभावगमनाय भामतीविवरणकारादयः मायायाः शक्तिविशेषादिकमुपवर्णयन्ति। अध्यात्मसिद्धौ परं सन्नह्यद्भिः अपि व्यावहारिकविषयेषु अनादरात् नानाविधाः वादसरणयः प्रदर्शिताः । तदिङ्गितमजानन्तः केचन वादवेदान्तिनः भूत्वा जनेषु भ्रान्तिमेव जनयन्ति । रूढिवादिन एते व्यक्तिपूजकाः वेदवेदान्तात् दूरे वैज्ञानिकवेदान्तनाम्ना आज्ञानिकवेदान्तं लोके प्रचारयन्ति।

सर्वशास्त्रार्थविदपि असम्प्रदायवित् शिष्टसम्प्रदाये निन्द्य एव। तद्विद्यानां गुरूणां सविधे प्रस्थानत्रय भाष्यमनधीत्य प्रवचनपराः आर्षज्ञानधारां दूषयन्ति इति न पुनर्वक्तव्यम् । बाह्यमुखा एते वेदान्तमार्गे मतपन्थपरिधिभित्तिमारचय्य तत्र कूपं खनित्वा मण्डूकगानगोष्ठीमायोजयन्तीति अगत्या वक्तव्यम्।

(52)

Page 53

वाक्यार्थभारती 2013-14 विश्ववेदान्त एव वरीयान्

कालोऽयं नूल: समायातः । यथा यथा कश्चन कञ्चन वादं साभिनिवेशं गर्जति तथा तथा ततः दूरं याति नागरिकः जनः। औदार्यं सौजन्यं सौहार्दं सामरस्यं सौमनस्यं निरीक्षन्ते जनाः वेदान्तिनां सकाशात्। वेदान्तः संस्कृतसंस्कृतेः परिवाहकः। औपनिषदः विश्वजनीनो भवेत्। सः वेदजडोऽपि न भवेत् वादवितण्डाशण्डोऽपि न स्यात्। एकात्मचिन्तनस्य शुद्धशास्त्रीयपक्ष एव वेदान्तः। शास्त्राभिनिवेशतः एते वैयाकरणाः इमे तार्किकाः, एते नैयायिकाः ते अलङ्कारिका इत्यादि अवान्तरभेदं संस्कृतक्षेत्रे कुर्वन्ति संस्कृतज्ञाः । आर्षवैश्विक दृष्टेरपरमभिधानं संस्कृतम । तादृशसंस्कृतस्य संस्कृतत्वं सुस्पष्टं प्रतिफलितं प्रस्थानत्रये। दशोपनिषदं भगवद्गीतां ब्रह्मसूत्रं च द्वारीकृत्य विश्ववेदान्तं प्रचारयेयुः आचरेयुः सर्वे संस्कृतविदः योगविदः कर्मकाण्डिनश्च। योगस्य तात्त्विकः पक्ष एव वेदान्तः। वेदान्तस्य अनुष्ठापक्ष एव योग: । आस्तिक्यं सर्वत्र अनुस्यूतो धर्मः । आशावान् भृंगः सूर्यास्तमये बद्धोऽपि विवेकवशात् सूर्योदये मुक्तो भवितुमीष्टे। स भृङ्गः मदोन्मत्तगजाहत एव भवेदिति श्राद्धनियमो नास्ति। संस्कृतं संस्कृतेः मूलं भवतु। भृड्गीयम् आशाभङ्गगनं संस्कृतलोकात् सुदूरमपगच्छतु।

रात्रिर्गमिष्यति भविष्यति सुप्रभातं

भास्वान् उदेष्यति हसिष्यति पङ्कजश्रीः ।

बद्धोऽपि कोशकमले शममेति भृङ्गः

मित्रस्य मित्रकिरणैः स्मितमाविरासीत्।

(53)

Page 54

वाक्यार्थभारती 2013-14 प्रकृत्यधिकरणम्

डा. आर्. प्रतिभा

ब्रह्मसूत्रेषु प्रथमाऽध्याये चतुर्थपादे सप्तमं अधिकरणं भवति प्रकृत्यधिकरणम्। अधिकरणेऽस्मिन् पञ्चसूत्राणि सन्ति। तानि च -

  1. प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्। 2. अभिध्योपदेशाच्च । 3. साक्षाच्चोभयाम्नानात्। 4. आत्मकृतेः परिणामात्। 5. योनिश्च हि गीयत। इति। 'स ईक्षांचक्रे', 'स प्राणमसृजत', इत्यादि सृष्टिश्रुतय एव अधिकरणेऽस्मिन् विचारवाक्यानि। ब्रह्मण: जगत्कारणत्वे उपादानकारणत्वं निमित्तकारणत्वं च ब्रह्मण्येव वा केवलं निमित्तकारणत्वं वा इति अधिकरणेऽस्मिन् विचारविषयः ।

पूर्वपक्ष :- जगत्समानगुणकं अचेतनत्वाशुद्ध्यादिगुणकं यत्किंचित् ब्रह्मभिन्नमेव जगदुपादानकारणं भवितुमर्हति। ब्रह्मणस्तु केवलं निमित्तकारणत्वमात्रम् इति पूर्वपक्षः ।

सिद्धान्तपक्षः-

ब्रह्मभिन्नस्य जगदुपादानकारणस्याभावात् ब्रह्मैव जगदुपादानकारणं निमित्तकारणञ्चेति सिद्धान्तपक्षः ।

  1. प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्। प्रतिज्ञादृष्टान्तयोः अनुपरोधात् बाधाभावात्ब्रह्मैवप्रकृतिः- जगदुपादानकारणं तथा निमित्तकारणञ्चेति सूत्रार्थः । परमपुरुषार्थहेतुभूतं ब्रह्म जिज्ञास्यम्। 'सत्यं ज्ञानमनन्तं ब्रह्म' इति ब्रह्मणः स्वरूपलक्षणम्। 'जन्माद्यस्य यत' इति सूत्रे ब्रह्मणः तटस्थलक्षणं प्रतिपादितम्। 'यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति तत् विजिज्ञासस्व, तद्ब्रह्मेति' जगदुत्पत्तिस्थितिलयहेतुत्वं ब्रह्मणः तटस्थलक्षणम्। मृत् घटस्योपादानकारणं, कुलालः निमित्तकारणं च । जगतः उपादानकारणं निमित्तकारणञ्च ब्रह्मैव। ब्रह्मणः जगत्कारणत्वे उपादानकारणत्वं वा निमित्तकारणत्वं वा ? अथवा उभयविधकारणत्वमपि ब्रह्मण्येव वा इति अधिकरणेऽस्मिन् विचारविषयः । 'स ईक्षांचक्रे', 'स प्राणमसृजत' इत्यादि श्रुतिषु ईक्षणपूर्वककर्तृत्वश्रवणात् परमात्मनः जगत् निमित्तकारणत्वमेव इति पूर्वपक्ष: निमित्तकारणत्वं कुलालादिवत् चेतनस्यैव धर्मः । उपादानकारणत्वं अचेतनेषु मृदादिषु भवितुमर्हति । ईश्वराणां राजवैवस्वतानां यथा निमित्तकारणत्वं, तथा परमात्मनोऽपि निमित्तकारणत्वमेव। (54)

Page 55

वाक्यार्थभारती 2013-14 कार्यमिदं जगत् सावयवं, अचेतनं, अशुद्धं च वर्तते। लोके कार्यकारणयोः सारूप्यदर्शनात् जगदुपादानकारणमपि सावयवमचेतनम् अशुद्धं च भवितुमर्हति । 'निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्, 'अशब्दमस्पर्शमरूपमव्ययम्' इत्यादि श्रुतिवाक्यानि ब्रह्मणः सर्वोपाधिराहित्यं प्रतिपादयन्ति। अतः ब्रह्मणः केवलं जगन्निमित्तकारणत्वमेवेति पूर्वपक्षः । जगदुपादानकारणत्वेन सांख्यस्मृतिप्रसिद्धं अचेतनं प्रधानं स्वीकर्तव्यम्।

सिद्धान्तपक्ष :-

जगतः प्रकृतिः उपादानकारणं, निमित्तकारणं च ब्रह्मैव। प्रतिज्ञादृष्टान्तयोः अनुपरोधात् बाधाभावात्-ब्रह्म जगतः प्रकृतिः उपादानकारणं निमित्तकारणं च।

श्रुत्युक्तौ प्रतिज्ञादृष्टान्तौ नोपरुध्येते। उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतं अविज्ञातं विज्ञातम् इति प्रतिज्ञा। अनेन प्रतिज्ञावाक्येन एकेन विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं प्रतीयते। कार्यस्य उपादानकारणाभेदात् उपादानकारणविज्ञानेन सर्वविज्ञानप्रतिज्ञा सफला भवति। निमित्तकारणकार्ययोरभेदः नास्ति। यथा - कुलालघटयोर्भेददर्शनात्। यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्, 'एकेन लोहमणिना विज्ञातेन सर्वमिदं लोहमयं विज्ञातं स्यात्' 'यथा पृथिव्यां ओषधयः सम्भवन्ति' इत्यादि श्रुतयः उपादानकारणकार्ययोरभेदं प्रतिपादयन्ति। इति उपनिषत्सु प्रतिज्ञावाक्यानि दृष्टान्तवाक्यानि च कार्यकारणयोरभेदं प्रतिपादयन्ति। यथा लोके मृत्सुवर्णादिकं उपादानकारणं कुलालसुवर्णकारादीनधिष्ठातृनपेक्ष्य प्रवर्तते। किन्तु जगदुपादानकारणभूतस्य ब्रह्मणः अन्य अधिष्ठाता नास्ति। 'सदेव सोम्येदमग्र आसीत्', 'एकमेवाद्वितीयं ब्रह्म' इति सृष्टेः प्राक् एकमेवाद्वितीयं ब्रह्म आसीत्।

प्रलयानन्तरमपि तदेकमेव ब्रह्म अवशिष्यते। उपादानादन्यस्मिन् जगदधिष्ठातुः अंगीकारे प्रतिज्ञा श्रुतीनां, दृष्टान्तश्रुतीनां बाधा भवति। एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः दृष्टान्तस्य च बाधाभावात् ब्रह्मभिन्नस्य अधिष्ठातुरभावात्, उपादानकारणाभावाच्च प्रकृतिः ब्रह्म । जगत उभयविधकारणत्वमपि ब्रह्मण्येव उपादानकारणकार्ययोः सर्वेष्वंशेषु साम्यमपेक्षितम् इति नास्ति । यथा लोके चेतनात् पुरुषात् अचेतनानां केशनखादीनां उत्पत्ति:।

  1. अभिध्योपदेशाच्च अभिध्योपदेशात् जगदुपादानं निमित्तं च कारणं ब्रह्मैव। अभिध्यानं ध्यानमेव । 'सोऽकामयत बहुस्यां प्रजायेय', 'तदैक्षत बहुस्यां प्रजायेय' इति अभिध्यानपूर्विकायाः सृष्टेः श्रवणात् जगदुपादानत्वं निमित्तत्वं च ब्रह्मण्येव। 'सोऽकामयत' इति कर्तृत्वं, 'बहु स्यां प्रजायेय' इति उपादानत्वं च ब्रह्मण्येव। 3. साक्षाच्चोभयाम्नानात् सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति' इति ब्रह्मैव जगत उत्पत्तिप्रलयकारणमित्युक्तत्वात् जगदुपादानकारणं ब्रह्मैव। आकाशशब्देन साक्षात् ब्रह्मगृहीत्वा (55)

Page 56

वाक्यार्थभारती 2013-14 'उभयाम्नानात्' इति उभयो: जगदुत्पत्तिप्रलययो: आम्नानात् ब्रह्म प्रकृतिः । अत आकाशं ब्रह्मैव जगदुपादानम्।

  1. आत्मकृतेः परिणामात् 'तदात्मानं स्वयमकुरुत' इति श्रुतौ 'आत्मानम्' इति द्वितीयया कर्मत्वं, 'स्वयमकुरुत' इति कर्तृत्वं च ब्रह्मणि सिद्धम्। एकस्मिन्नेव ब्रह्मणि कर्तृत्वं कर्मत्वं च कथं युज्यत इति चेत् 'परिणामादिति समाधीयते। आत्मसंबन्धिनी कृतिः आत्मकृतिः, ततो हेतोः। 'परिणामादिति सूत्रभागेन एकस्मिन्नेव आत्मनि कारणवं कार्यत्वं च युज्यत इति। कर्तृत्वं यस्मिन्नात्मनि स एव विकारात्मना (कार्यरूपेण) आत्मानं परिणामयामास कारणस्य कार्यरूपेण परिणाम उपादानकारणेषु युज्यते, न निमित्तकारणे। 'तदात्मानं स्वयमकुरुत' इति निमित्तकारणस्य अन्यस्याभावात्। कारणं ब्रह्मैव कार्यरूपेण परिणमत इति जगदुपादानकारणं ब्रह्मैव। 'परिणामात्' इति पृथग्वा सूत्रम्। ब्रह्मैव जगतः प्रकृतिः । प्रकृतिर्नाम माया। जगदुपादानकारणभूता माया प्रकृतिशब्दवाच्या। मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् इति श्वेताश्वतरोपनिषदि माया एव प्रकृतिशब्देन प्रतिपादिता ।

  2. योनिश्च हि गीयते 'कर्तारमीशं पुरुषं ब्रह्मयोनिम्', 'यद्भूतयोनिं परिपश्यन्ति धीराः' इत्यादि श्रुतयः ब्रह्म जगद्योनिरिति वदन्ति। योनिशब्द उपादानकारणे युज्यते। 'पृथिवी योनिरोषधिवनस्पतीनां' इति श्रुतिरपि योनिशब्दस्य उपादानकारणत्वं सूचयति। ईक्षापूर्वकं कर्तृत्वं निमित्तकारणेषु एव कुलालादिषु दृश्यते, नोपादानकारणेषु इति पूर्वपक्षः । ब्रह्मण: लोकवत् ग्रहणं न समीचीनम्। ब्रह्मणः अनुमानप्रमाणगम्यत्वं नास्ति। ब्रह्मविषये श्रुतिरेकमेव प्रमाणम् । श्रुतिः ईक्षितु: ब्रह्मणः जगदुपादानकारणत्वं निमित्तकारणत्वं च प्रतिपादयति। एवं जगदुपादानकारणं निमित्तकारणं च परं ब्रह्मैव इति शम्।

(56)

Page 57

वाक्यार्थभारती 2013-14 प्रत्यक्षप्रमा

डा. गणेश ईश्वर भट्टः

प्रमेयज्ञानस्य प्रमाणाधीनत्वात् प्रमाणानां च मध्ये ज्येष्ठत्वात् सर्वसम्प्रतिपन्नत्वाच्च प्रत्यक्षप्रमाणं सर्वादौ निरूपणीयतामर्हति। प्रत्यक्षप्रमाजनकत्वेन प्रत्यक्षप्रमाणं सफलम्। सम्प्रति वेदान्तशास्त्रारीत्या सा प्रत्यक्षप्रमा निरूप्यते। तत्र इन्द्रियजन्यम् इन्द्रियार्थसन्निकर्षजन्यं वा ज्ञानं प्रत्यक्षं, तदेव तद्वति तत्प्रकारकं प्रत्यक्षप्रमा इति नैयायिका: वदन्ति। इदं वेदान्ते अङ्गीकर्तुं न शक्यते। यतः ईश्वरीयप्रत्यक्षज्ञानस्य इन्द्रियजन्यत्वाभावात् तत्रेदं लक्षणमव्याप्तम्। अनश्नन्नन्योऽभिचाकशीति 'दृष्टेर्द्रष्टा2 इत्यादिश्रुतिभिः अवगतं साक्षिप्रत्यक्षं च न इन्द्रियजन्यम् । किञ्च स एव साक्षी अहमज्ञः इत्यज्ञानम्, अहं जानामि अहमिच्छामि इत्येवम् ज्ञानेच्छादीन् अन्तःकरणधर्मांश्च अपरोक्षतया विषयीकरोति। इदमपि ज्ञानं न इन्द्रियजन्यम्। ज्ञानेच्छादय: आत्मधर्माः, ते च मनआख्येन इन्द्रियेण गृह्यन्त इति ज्ञानेच्छादीनां ज्ञानस्य प्रत्यक्षत्वमुपपन्नमिति शङ्का स्यात् । तत्रोच्यते- मनसस्तावन्न इन्द्रियत्वमुपगम्यते, एतस्माज्जायते प्राणोमन: सर्वेन्द्रियाणि च इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः4 इत्यादिश्रुतौ इन्द्रियेभ्यो भेदेन मनसो व्यपदेशात्। ज्ञानेच्छादयोऽपि न आत्मधर्माः, किन्तु मनसः । तथा च श्रुतिः कामः सङ्कल्पः श्रद्धाऽश्रद्धा .. मन एव इति । अत्र कामः इच्छा, धी: अन्तःकरणवृत्तिरूपं ज्ञानम्। कामादयश्च मन एव इति श्रुतौ सामानाधिकरण्यम् उपादानोपादेयभावे । कामादीनां मनउपादानकत्वात् ते मनोधर्माः। कामा येऽस्य हृदि श्रिता इति च श्रुत्यन्तरम्। अहमिच्छामि जानामि इति प्रत्यक्षं कामादीनामात्मधर्मत्वम् अवगाहत इति शङ्का स्यात्। तत्रोच्यते- इच्छाद्याश्रयस्य अन्तःकरणस्य आत्मन्यध्यासात् अन्तःकरणधर्मा आत्मधर्मा इव आभान्ति। यथा अयःपिण्डस्य दग्धृत्वाभावेऽपि दग्धृत्वाश्रयवह्नेः तत्र तादात्म्येन अध्यासात् अयो दहति इति दग्धृत्वं अयोधर्मतया व्यपदिश्यते, तद्वत्। तथा च कामादीनां मनोधर्माणां साक्षिप्रत्यक्षत्वात्, तस्य च इन्द्रियाजन्यत्वात् इन्द्रियजन्यत्वं न प्रत्यक्षप्रमायाः लक्षणम्। तर्हि का नाम प्रत्यक्षप्रमा ? तदुच्यते- चैतन्यमेव प्रत्यक्षप्रमा। किमत्र प्रमाणम्? श्रुतिरेवयत्साक्षादपरोक्षाद्ब्रह्म इति। ब्रह्म साक्षात् प्रमाणव्यापाररूपं व्यवधानं विना अपरोक्षात् अपरोक्षम् इत्यर्थः। अत्रायमर्थः-प्रज्ञानघन एव8 सत्यं ज्ञानमनन्तं ब्रह्म9 इत्यादिश्रुतेः चैतन्यस्वरूपं ब्रह्म । तस्मिन् प्रमणान्तरनैरपेक्ष्येण वर्तमानम् अपरोक्षत्वं चैतन्यस्य स्वभाव एव। ब्रह्माभिन्नत्वात् जीवोऽपि चैतन्यस्वरूपः, अत एव स्वप्रकाशश्च। अयमर्थः आत्मनैवायंज्योतिषाऽस्ते10 इत्यादिश्रुतौ प्रपञ्चितः । सूत्रकारोऽपि ज्ञोऽत1 एव इति सूत्रयन्निममर्थं विशदीचकार। चैतन्यं स्वयं प्रकाशमानं स्वसंसृष्टम् अस्वप्रकाशं जडमपि अवभासयति। तथा च श्रुतिः तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति12 इति। स्मृतिरपि

यथा प्रकाशयत्येक: कृत्स्नं लोकमिमं रविः।

क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत13॥

इति क्षेत्रज्ञस्य चैतन्यस्वरूपस्य जीवस्य क्षेत्रशब्दितशरीरादिजडप्रकाशकत्वमाह। एवमपि जीवस्य किञ्चिज्ज्ञत्वमेव सर्वानुभवसिद्धम्। अतः जीवस्य स्वरूपभूतं चैतन्यं न विषयप्रकाशकमिति ज्ञायते। (57)

Page 58

वाक्यार्थभारती 2013-14 किन्तु जीवस्य विज्ञानमय इति श्रुतिषु बहुत्र व्यपदेशात् विज्ञानशब्दितान्तःकरणमेव जीवस्य सर्वव्यवहारनिर्वर्तकम्। तदनुसारं विषयप्रकाशकमपि चैतन्यम् अन्तःकरणवृत्त्यभिव्यक्तं, न तु केवलम्। व्यवहारदशायां जीवब्रह्मणोः भेदस्य प्रतीतत्वात् विषयप्रकाशकं च जीवचैतन्यं विषयदेशे अस्ति न वेति विचार्यमाणे अन्तःकरणोपाधिको जीवः अविद्योपाधिको जीव इत्यस्ति पक्षद्वयम् । तत्र अन्तःकरणोपाधिकत्वपक्षे विषयदेशे विद्यमानं ब्रह्मचैतन्यमेव न तु जीवचैतन्यम्। विषयावभासकेन ब्रह्मचैतन्येन सह अस्य जीवचैतन्यस्य यदा अभेदः अभिव्यज्यते, तद जीवस्यापि विषयप्रकाशकशकत्वं सिद्ध्यति। यद्यपि चैतन्यस्य अन्तःकरणं विषय इति भेदकमुपाधिद्वयमस्ति तथापि अन्तःकरणवृत्तेः बहिर्निर्गमनेन चैतन्याभेदः सम्पद्यते। तद्यथा- सर्वगतं चिदात्मानमावृत्य स्थिता भावरूपा अविद्या पूर्वपूर्वसंस्कारजीवकर्मप्रयुक्ता सती निखिलजगदाकारेण परिणमते। तत्र शरीरमध्ये स्थितः कार्यविशेषः अन्तःकरणम् । तस्य जडत्वेऽपि तदितरकार्येभ्यो विलक्षणम्। पञ्चभूतानां सत्त्वांशसमष्ट्या अन्तःकरणमुत्पन्नम्। सत्त्वं लघु प्रकाशकमिष्टम्14 इत्युक्तं साङ्ख्यकारिकायाम्। अतः अन्तःकरणं तैजसं सावयवं, मध्यमपरिमाणम्, स्वच्छत्वात् चैतन्यप्रतिबिम्बग्रहणसमर्थं च। अन्तःकरणसम्पर्कादेव इतरेषामिन्द्रियादीनामपि विषयग्रहणसामर्थ्यमायाति । अत एव मनसा ह्येव पश्यति मनसा शृणोति15 इत्यादिश्रुतौ मनस एव विषयग्रहणे प्राधान्यम् इतरेषामिन्द्रियाणां द्वारमात्रत्वं चोक्तम् । तदिदं चैतन्यच्छायापत्या विषयप्रकाशनसमर्थम् अन्तःकरणम् अदृष्टेन्द्रियादिसहकृतं विषयदेशपर्यन्तं गच्छति। अयं विषयाकारः परिणामः वृत्तिरिति ज्ञानक्रिया इति चोच्यते। एतद्विषयाकारवृत्त्यवच्छिन्नं चैतन्यमेव ज्ञानम्। ह्रीर्धीभीरित्येतत्सर्वं मन एव6 इति श्रुतौ धीशब्देन अयं ज्ञानाख्यः परिणाम उक्तः। यथा लोके पूर्णतटाकस्थं जलं सेतुच्छिद्रान्निर्गत्य कुल्याप्रवाहरूपेण केदारान् प्रविश्य चतुष्कोणत्वेन त्रिकोणत्वेन वर्तुलत्वेन वा तत्तत्केदारानुसारि भवति, तथैव चक्षुरादिद्वारा निर्गतमन्तःकरणं विषयं व्याप्य तत्तदाकारमाप्नोति। किन्तु जलवत् अन्तःकरणं न स्यन्दते, येन अतिदूरवर्तिचन्द्रनक्षत्रादिप्राप्तिः झटिति न सिद्ध्येत् । किन्तु सूर्यरश्मिवत् तैजसत्वात् दीर्घप्रभाकारेण परिणमते। अन्तःकरणस्य बहिर्गमनेऽपि देहस्य निर्जीवत्वं तु नापद्यते, चक्षुरादिवत् अन्तःकरणस्यापि दूरदेशगमनेऽपि देहसम्बन्धाविरोधात्। एवं परिणतम् अन्तःकरणं देहाभ्यन्तरे विषये च सम्यग्व्याप्य दण्डायमानम् अविच्छिन्नं तिष्ठति। तत्र देहावच्छिन्नम् अन्तःकरणभागः कर्ता इत्युच्यते। देहविषयमध्यवर्ती दण्डायमानो भागः वृत्तिज्ञानाभिधा क्रिया इत्युच्यते। विषयस्यापि चैतन्यविवर्तत्वेन चैतन्याभिव्यञ्जकत्वसामर्थ्याधानमात्रं तस्य अपेक्षितम्। अत एव विषयदेशे विद्यमानं तच्चैतन्यं विषयावच्छिन्नं चैतन्यमित्युच्यते। विषयस्य ज्ञानकर्मत्वसम्पादकं चैतन्याभिव्यञ्जकत्वयोग्यत्वम् अन्तःकरणस्य अयं तृतीयो भाग अभिव्यक्तियोग्यत्वमित्युच्यते। एवं त्रिभागस्य अन्तःकरणस्य अतिस्वच्छत्वात् चैतन्यं तत्र अभिव्यज्यते। अभिव्यक्तस्य चैतन्यस्य एकत्वेऽपि अभिव्यञ्जकस्य अन्तःकरणस्य भागभेदात् कर्तृभागावच्छिन्नचैतन्यांशः प्रमाता, क्रियाभागावच्छिन्नचैतन्यांशः प्रमाणं विषयगतयोग्यत्वभागावच्छिन्नचैतन्यांशः प्रमितिरिति त्रिधा व्यपदिश्यते। एवं च अन्तःकरणवृत्तेः बहिर्निर्गमनेन अन्तःकरणतद्वत्तिविषयाख्यानाम् उपाधीनां एकदेशस्थत्वेन उपधेयस्य चैतन्यस्य अभेदः सम्पद्यते। उपाधीनामेकदेशस्थत्वम् उपधेयाभेदप्रयोजकमिति नियम: । यथा मठान्तर्वर्तिघटावच्छिन्नाकाशः न मठाकाशाद्भिद्यते । एवं चैतन्यस्य ऐक्ये प्राप्ते

(58)

Page 59

वाक्यार्थभारती 2013-14 विषयावच्छिन्नचैतन्याभिन्नम् अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं घटादिविषयिणी प्रत्यक्षप्रमा इत्युच्यते। अत्र संयोगादिसन्निकर्षाणां चैतन्याभिव्यञ्जकवृत्तिजनकतया सार्थक्यम्। अत एव अनुमित्यादिस्थले अन्तःकरणस्य वह्न्यादिविषयेण सह सन्निकर्षाभावात् वृत्तिनिर्गमनस्याप्यभावेन न तत्र चैतन्याभेदः सम्भवति। चैतन्याभेदश्चायं इन्द्रियेण विना कदाचित् शब्दादिप्रमाणान्तरेणापि भवितुमर्हति। अत एव सोऽयं देवदत्त इत्यादौ वाक्यादेव अपरोक्षज्ञानमुत्पद्यत इति सिद्धान्तः । तस्य ज्ञानस्य वाक्यजन्यत्वेऽपि तद्विषयस्य देवदत्तादेः सन्निकृष्टत्वेन अन्तःकरणवृत्तिद्वारा चैतन्यैक्यं सम्पद्यते। एवंतत्त्वमसि17 इत्यत्रापि। तत्र प्रमातुरेव विषयत्वेन तदुभयावच्छिनचैतन्यस्य ऐक्यं सम्भवत्येव । पर्वतो वह्निमान् इत्यादावपि वह्न्यंशे ज्ञानस्य परोक्षत्वेऽपि पर्वतेन सह सन्निकर्षस्य सद्भावात् चैतन्यैक्यस्य च सम्पद्यमानत्वात् पर्वतांशे तु ज्ञानमपरोक्षमेव । अनुभवोऽपि पर्वतं पश्यामि वह्निमनुमिनोमि इति द्विविध एव जायते। यथा अवच्छेदकभेदेन वृक्षे कपिसंयोगतदभावयोः सत्त्वं, तथैव पर्वताकारवह्न्याकारवृत्तिरूपावच्छेदकभेदात् चैतन्ये परोक्षत्वापरोक्षत्वयोःसत्त्वे न कोऽपि विरोधः । न के वलमेतावत्, अनुमेयवह्न्याद्याकारवृत्युपहितचैतन्यमपि स्वात्मांशे प्रत्यक्षमेव । यस्यां तु अनुमितौ पक्षः सन्निकृष्टः, तत्रैव अनुमितेः सर्वांशेऽपि परोक्षत्वम्। सुरभि चन्दनमिति ज्ञाने सौरभांशे प्रत्यक्षत्वमस्ति न वेति चेस्तयेव। चक्षुरि्द्रियसन्निकर्षसत्त्वेऽपि सौरभस्य चक्षुरिन्द्रियायोग्यत्वात् सौरभग्राहकघ्राणेन्द्रियेण च सन्निकर्षाभावाम अतस्तत्र चन्दनखण्डांश एव प्रत्यक्षत्वम्। तस्मिन् चन्दनखण्डे यदि पूर्वं सौरभमनुभूतं, तर्हि सौरभज्ञानं स्मृतिः। यदि च नानुभूतं, तर्हि तज्ज्ञानं चन्दनखण्डत्वादिलिडगकानुमितिः इति विवेकः। एवं बाह्यविषयेषु अन्तःकरणवृत्तेः बहिनर्गमनेन चैतन्याभेद उपपदितः । सुखाद्यान्तरविषयाणां तु अन्तःकरण एव उत्पद्यमानत्वेन सुखादिविषयाणां तदाकारान्तःकरणवृत्तीनां च स्वत एव एकदेशस्थत्वं सम्भवति। यद्यपि धर्मादयोऽपि अन्तःकरणधर्माः, तथापि तेषां ज्ञानं न प्रत्यक्षम्, तेषां प्रत्यक्षायोग्यत्वात्। अन्तःकरणधर्मत्वाविशेषेऽपि फलबलकल्प्यस्वभावेनैव योग्यत्वमयोग्यत्वं वा निर्णीयते। एवं जीवस्य अन्तःकरणोपधित्वपक्षे वृत्तेरुपयोगो दर्शितः।

जीवस्य अविद्योपाधिकत्वेन सर्वगतत्वपक्षे तु विषयदेशे जीवचैतन्यं सन्न्निहितमेव। तथापि तस्यैव विषयावभासकत्वे सर्वदा सर्वेषां विषयाणां भानप्रसडगः । अतः जीवस्य विषयेण सह अन्तःकरणवृत्तिप्रयुक्त: कादाचित्कः सम्बन्धो वक्तव्यः । स एव प्रत्यक्षप्रमायाः प्रयोजकः । स च व्यडग्यव्यञ्जकभावलक्षणः । तथा हि तैजसम् अन्तःकरणं स्वत एव चैतन्याभिव्यंजनसमर्थम्। न तथा घटादिविषयाः, तेषामस्वच्छद्रव्यत्वात्। तथापि यथा कुड्यादेः जलादिसंयोगदशायां मुखादिप्रतिबिम्बग्राहित्वं तथा विषयाणां स्वाकारवृत्तिदशायां चैतन्यप्रतिबिम्बग्राहकत्वं सम्भवति। वृत्त्या विषयगतजाड्यस्य अभिभवात् चैतन्याभिव्यञ्जकत्वसामार्थ्याधानाच्च वृत्तौ चैतन्यमभिव्यज्यते। एतेन स्वप्रतिबिम्बाश्रयवृत्तिसंश्लेषः जीवस्य विषयेण सह सम्बन्ध इत्युक्तं भवति । स्वं जीवचैतन्यं, तत्प्रतिबिम्बाश्रयभूता या वृत्तिः तस्याः संश्लेषः विषये वर्तते । चैतन्याभिव्यञ्जकत्वं चैतन्यप्रतिबिम्बग्राहित्वमिति अनर्थान्तरम्। तथा च विषयाकारवृत्तौ प्रतिबिम्बितं चैतन्यं प्रत्यक्षप्रमा।

(59)

Page 60

वाक्यार्थभारती 2013-14 आवरणाभिभवार्था वृत्तिरित्यपरं मतम् । तद्यथा- अविद्योपाधिकत्वेन सर्वगतस्य जीवचैतन्यस्य विषयदेशेऽपि विद्यमानत्वेन सर्वदा विषयभानप्रसक्तौ तद्वारणाय विषयावच्छिन्नचैतन्यावरकमावरणं किञ्चिदस्तीति कल्प्यते। तच्च आवरणम् अवस्थाऽज्ञानपदवाच्यं मूलाविद्यापरतन्त्रम्। तेन आवृतत्वादेव चैतन्याधिष्ठितः विषयः न प्रकाशते । यतः अनावृतचैतन्यमेव विषयभानप्रयोजकम्। बहिर्निर्ग्तान्तःकरणवृत्त्या यदा तदावरणं निवर्तते, तदा जीवचैतन्यं विषयं प्रकाशयति। तथा च अन्तःकरणवृत्तिप्रयुक्तं भग्नावरणं चैतन्यं प्रत्यक्षप्रमा।

वस्तुतः आवरणाभिभवः सर्वस्मिन्नपि पक्षे समानः । तथा हि वृत्तेः सम्बन्धार्थत्वपक्षेऽपि विषयसम्बद्धचैतन्यम् अनावृतमिति वाच्यम्, आवृतचैतन्यस्य विषयावभासकत्वासम्भवात् । एवमावरणाभिभवपक्षेऽपि अनावृतविषयचैतन्यस्य विषयस्य च सम्बन्धो वक्तव्यः, चैतन्येनापि असम्बद्धविषयप्रकाशकत्वायोगात् । अतः आवरणाभिभवपक्षे आवरणाभिभवमात्रं वृत्तेः प्रयोजनम्। सम्बन्धार्थत्वपक्षे तु सम्बन्ध आवरणाभिभवश्चेति वृत्तेः कार्यद्वयम् इति विवेकः।

अयं चावरणाभिभवः कीदृश इत्यपि ग्रन्थेषु विचारः कृतः । अज्ञानमेकमेव मूलाज्ञानाभिधानं शुद्धं वा तत्तद्विषयावच्छिन्नं वा चैतन्यमावृणोति इति पक्षे अज्ञानस्य तत्तदाकारवृत्तिसंसृष्टावस्थविषयावच्छिन्नचैतन्यानावरकत्वस्वाभाव्यम् अभिभवः इति। अज्ञानं वृत्तिसंसृष्टविषयावच्छिन्नचैतन्यं नावृणोति, तदेव तस्य स्वभाव इति तदर्थः । तत्र दृष्टान्तो यथा अहमज्ञ इति प्रतीतेः सत्त्वात् अज्ञानं जीवचैतन्यमाश्रयत इति वक्तव्यम्। तथापि साक्षिरूपं जीवचैतन्यम् अज्ञानेन न आव्रियते, अज्ञानविषयकानुभवस्य सत्त्वादेव। अतः प्रागुक्तः अनावरकत्वस्वभावः अज्ञानस्योपपन्नः । यथा उत्तेजकाभावविशिष्टमण्यभावस्य दाहं प्रति कारणत्वात्, उत्तेजकसमवधाने उत्तेजकेन मणिगतं दाहप्रतिबन्धकत्वम् अभिभूयते, तथैव प्रमाणजन्यान्तःकरणवृत्त्यभावसहकृतमज्ञानं नास्ति न भातीति प्रतीतिजननसमर्थम् आवरणमित्युच्यते। अत्र अन्तःकरणवृत्त्यभावविशिष्टत्वं तादृशप्रतीतिजनकतावच्छेदकम् । वृत्तौ जातायां तु अवच्छेदकाभावात् अज्ञानं विद्यमानमपि अविद्यमानसममेवेति न स्वकार्यं करोति। अतः वृत्या तदभिभूतमित्युच्यते। अन्यः पक्षः अज्ञानस्य नाश एव आवरणाभिभव इति। तथा हि मूलाज्ञानापेक्षया अन्यदेव विषयावच्छिन्नचैतन्यावरकं मूलाज्ञानपरतन्त्रं मूलाज्ञानस्यैव अवस्थारूपम्। मूलाज्ञानं तु शुद्धचैतन्यविषयं शुद्धचैतन्यज्ञाननिवर्त्यं च। अतः न तद्विषयावच्छिन्नचैतन्यम् आवृणोति, न वा तज्ज्ञानेन निवर्तते। अतः घटं न जानामि इति घटज्ञानविरोधित्वेन, घटज्ञाने सति घटाज्ञानं निवृत्तमिति ज्ञाननिवर्त्यत्वेन च प्रतीयमानम् अवस्थाऽज्ञानमेव। एकेन ज्ञानेन एकस्याज्ञानस्य नाशेऽपि तत्समानाकारम् अज्ञानान्तरं तद्विषयमावृणोति, ज्ञानान्तरेण नश्यति च । एवं च यावन्ति ज्ञानानि तावन्ति अज्ञानानीति अस्मिन् पक्षे अभ्युपगतम्। अस्यावस्थाऽज्ञानस्य नाश एव आवरणाभिभवः ।

इदमावरणं द्विविधम्। तत्र असत्त्वापादकम् आवरणम् अन्तःकरणावच्छिन्नसाक्षिचैतन्यनिष्ठम् । अभानापादकमावरणं विषयावच्छिन्नब्रह्मचैतन्यनिष्ठम् । अत एव घटमहं न जानामि इति विषयान्तःकरणोभयावच्छेदेन अज्ञानमनुभूयते । विषयेन्द्रियसन्निकर्षाभावेन परोक्षज्ञानम्

(60)

Page 61

वाक्यार्थभारती 2013-14 अन्तःकरणमात्राश्रयात् असत्त्वावरणमात्रं निवर्तयति। विषयेन्द्रियसन्निकर्षजन्यत्वेन अपरोक्षज्ञानं द्विविधमप्यावरणं निवर्तयति। यथोक्तम्-

परोक्षज्ञानतो नश्येदसत्वावृतिहेतुता।

अपरोक्षधिया नश्येदभानावृतिहेतुता18 ।। इति।

यत्प्रमातृसम्बन्धिन्या विषयपर्यन्तं निस्सृतया अन्तःकरणवृत्या यद्विषयाधिष्ठानभूतं चैतन्यं यत्प्रमातृचैतन्याभेदेन अभिव्यज्यते, स एव प्रमाता तमेव विषयं जानाति, नान्यः प्रमाता नान्यं विषयम्। एकया प्रमाणाख्यया वृत्या प्रमातृप्रमाणप्रमेयचैतन्यानि संसृष्टानि भवन्ति। अतस्त्रीणि चैतन्यानि एकलोलीभावापन्नानि इत्य्च्यन्ते। ततः विषयावच्छेदेन चैतन्ये अभानावरकाज्ञाननिवृत्या भासमानं चैतन्यम् अपरोक्षं फलमित्युच्यते। तत्स्वयं भासमानं सत् स्वाध्यस्तघटादिकमपि भासयतीति घटादिकं फलव्याप्यमित्युच्यते। प्रमातृप्रमेयोभयव्यापिनी अन्तःकरणवृत्तिः स्वावच्छेदेन आवरणम् अपसारयति, प्रकाशस्य स्वावच्छेदेन आवरणापसारकत्वदर्शनात् । अतः प्रमात्रवच्छिन्नस्य असत्त्वावरणस्य प्रमेयावच्छिन्नस्य अभानावरणस्य च निवृत्तौ घटोऽयं मे स्फुरतीति अपरोक्षव्यवहारः । परोक्षस्थले तु वृत्तेः बहिर्निर्गमनाभावेन प्रमेयचैतन्यगतावरणनिवृत्तेः अभावात्, तत्र प्रमाणप्रमातृचैतन्ययोरेव एकलोलीभावापत्त्या प्रमात्रवच्छिन्नम् असत्त्वावरणमात्रं निवर्तते।

अद्वैतसिद्धौ वृत्तेः विषयाकारत्वं नाम किमिति विचारितम्। तद्यथा विषयाकारत्वं विषये चैतन्योपरागसम्पादकत्वं विषयगताज्ञानाभिभावकत्वं वा भवितुं नार्हति, तयो: विषयाकारत्वप्रयोज्यत्वात्.। घटवृत्ति: घटाकारत्वात् घटाज्ञानमेव निवर्तयति न पटाज्ञानम्, घट एव चैतयसम्बन्धं घटयति न घट इति तयो: वृत्तेः विषयाकारत्वप्रयाज्यत्वम् । नापि वृत्तेः विषयाकारत्वं घटादिवत् पृथुबुध्नोदराद्याकारत्वं, विज्ञानमेव अर्थाकारेण भासत इति बौद्धवादप्रसक्ते:, आकारहीनजातिगुणादिवृत्तेः निराकारत्वप्रसङ्गाच्च। अतः वृत्तेः विषयाकारत्वं नाम अस्तीत्यादितद्विषयव्यवहारप्रतिबन्धकाज्ञाननिवर्तनयोग्यत्वम्। अर्थात् या वृत्तिर्येन विषयेण सम्बद्ध्यमाना तस्मिन् विषये अस्ति सन्नित्यादिव्यवहारप्रतिबन्धकाज्ञान- निवर्तनस्वरूपयोग्या भवति, सा वृत्तिस्तदाकारा इत्युच्यते । तदेवं विषयेन्द्रियसम्बन्धे सति विषयाकारान्तःकरणवृत्त्यवच्छिन्नं चैतन्यं विषयं प्रकाशयति। तदेव प्रत्यक्षप्रमा इत्युच्यत इति शम्।

आधारग्रन्थसूची-

  1. मुण्डकोपनिषत् 3-1-1 10. बृहदारण्यकोपनिषत् 4-3-6 2. बृहदारण्यकोपनिषत् 3-4-2 11. ब्रह्मसूत्रम् 2-3-8 3. मुण्डकोपनिषत् 2-1-3 12. कठोपनिषत् 2-5-15 4. कठोपनिषत् 3-10 13. भगवद्गीता 13-33 5. बृहदारण्यकोपनिषत् 14. सांख्यकारिका 13 6. कठोपनिषत् 2-3-14 15. बृहदारण्यकोपनिषत् 1-5-6 7. बृहदारण्यकोपनिषत् 3-4-1 16. बृहदारण्यकोपनिषत् 1-5-3 8. बृहदारण्यकोपनिषत् 4-5-13 17. छान्दोगयोपनिषत् 6-8-7 9. तैत्तिरीयोपनिषत् 2-1-1 18. सिद्धान्तबिन्दुः पृष्ठम् 66 (61)

Page 62

वाक्यार्थभारती 2013-14 मिथ्यात्वलक्षणम्

डा. श्रीकर जी. एन्.

'नेह नानास्ति किञ्चन' (क.उ.4/11) इति श्रुत्यर्थमादाय विवरणाचार्यैः इदं मिथ्यात्वलक्षणं प्रत्यपादि - 'प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं मिथ्यात्व' मिति । अत्र प्रतिपन्नत्वम् उपाधेर्विशेषणम्। उप समीपे आधीयतेऽस्मिन्निति उपाधि इति व्युत्पत्या अधिकरणार्थकमुपाधिपदम्। प्रतिपन्नत्वं चात्र स्वप्रकारकज्ञानविशेष्यत्वम् । स्वपदं मिथ्यात्वेनाभिमतपरम् । यथा मिथ्यात्वेनाभिमतरजतादिप्रकारकज्ञानविशेष्यत्वं शुक्तौ उपाधिभूतायामस्ति । तथा च प्रतिपन्नः स्वप्रकारकज्ञानविशेष्यः यः उपाधि: अधिकरणं तन्निष्ठः प्रतिपन्नोपधौ यः त्रैकालिकनिषेधः नासीत् नास्ति न भविष्यतीति सर्वदा विद्यमानः यः निषेध अर्थात् अत्यन्ताभावः तस्य प्रतियोगित्वं मिथ्यात्वम्। यथा रजतप्रकारकज्ञानविशेष्यतावद् शुक्तिनिष्ठः यः त्रैकालिकनिषेधः रजतं नासीत् नास्ति न भविष्यतीति अत्यन्ताभावात्मकः तस्य प्रतियोगित्वं रजते अस्तीति रजतस्य मिथ्यात्वम्।

अत्र पूर्वपक्षी शङ्कते - मिथ्यात्वलक्षणघटकतया यः त्रैकालिकनिषेधः उक्तः सः तात्त्विको वा प्रातिभासिको वा व्यावहारिको वा। विकल्पत्रयेऽपि पूर्वोक्तनिषेधः न सङ्गच्छते। यतः ब्रह्मणि प्रपञ्चनिषेधस्य तात्त्विकत्वाङ्गीकारे अद्वैतहानिः स्यात्। ब्रह्मप्रपञ्चनिषेधयोः उभयोरपि तात्त्विकत्वेन पारमार्थिकवस्तुद्वयसद्भावात् एकमेवाद्वितीयं ब्रह्म इति अद्वैतसिद्धान्तः भज्येत । नापि द्वितीय: - त्रैकालिकनिषेधस्य प्रातिभासिकत्वे सिद्धसाधनं दोषः । निषेधस्य प्रातिभासिकत्वे तत्प्रतियोगिनः प्रातिभासिकत्वासम्भवात् ब्रह्मणि प्रपञ्चस्य प्रातिभासिकत्रैकालिकनिषेधप्रतियोगित्वे प्रतियोगिनः प्रपञ्चस्य सत्यत्वाविरोधेन तादृशप्रतियोगित्वसाधने पूर्वपक्षाभिमतप्रपञ्चसत्यत्वस्यैव साधनं स्यादिति सिद्धसाधनापत्तिः । नापि तृतीयः - उक्तनिषेधस्य व्यावहारिकत्वे अर्थान्तरं स्यात् । प्रकृतादर्थात् अन्यार्थसाधनमर्थान्तरम् । तद्यथा - ब्रह्मज्ञानबाध्यत्वेन तत्प्रतियोगिनः प्रपञ्चस्य त्रैकालिकाबाध्यत्वरूपपारमार्थिकत्वात् सत्यत्वापत्तिः। तथा च प्रपञ्चस्य मिथ्यात्वं साधयितुं प्रवृत्तमनुमानं मिथ्यात्वविरोधिसद्रूपं साधयतीति अर्थान्तरं दोषः। अपि च उक्तनिषेधस्य व्यावहारिकत्वपक्षे अद्वैतश्रुतेः अतत्त्वावेदकत्वेन अप्रामाण्यप्रसड्गः । अत्र 'नेह नानास्ति किञ्चन' इत्यादिश्रुत्या प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपं मिथ्यात्वमुक्तम् । किन्तु त्रैकालिकनिषेधस्य व्यावहारिकत्वपक्षे ब्रह्मज्ञानबाध्यत्वेन मिथ्यात्वात् मिथ्याभूतस्य त्रैकालिकनिषेधस्य प्रतिपादकत्वेन 'नेह नानास्ति किञ्चन' इत्यादि अद्वैतश्रुतेः अबाधितार्थप्रतिपादकत्वाभावेन अप्रामाण्यप्रसङ्ग इति। अत्रोच्यते-पूर्वपक्षिणा त्रैकालिकनिषेधस्य तात्त्विकत्वे अद्वैतहानिरिति यदुक्तं तन्न यतः अभावस्य अधिकरणस्वरूपत्वात् ब्रह्मणि विद्यमानः यः प्रपञ्चात्यन्ताभावः सः ब्रह्मस्वरूप एव, तथा च त्रैकालिकनिषेधस्य ब्रह्माभिन्नत्वात् ब्रह्मातिरिक्ततात्विकवस्तुनः असत्वेन न अद्वैतहानिः। अत्र पुनः प्रकारान्तरेण अद्वैतहानिं शङ्कते पूर्ववाव - प्रपञ्चः तात्त्विकः तात्त्विकाभावनिरूपितत्वात्, यत् यन्निरूप्यं तत् तत्समानसत्त्वाकम्, यथा शुक्तिरजतसादृश्यं शुक्तिरजतसमानसत्त्वाकमिति तात्त्विकनिषेधनिरूप्यस्य तात्त्विकाभावप्रतियोगिन: प्रपञ्चस्य तात्त्विकापत्या पुनः अद्वैतहानिप्रसङ्ग इति चेत्, उच्यते शुक्तौ कल्पितस्य प्रातिभासिकरजतस्य (62)

Page 63

वाक्यार्थभारती 2013-14 अधिष्ठानतत्त्वसाक्षात्कारेण यः त्रैकालिकनिषेधः निरूप्यते सः यदि व्यावहारिकः यदि वा पारमार्थिकः उभयथापि तन्निषेधनिरूप्यस्य प्रातिभासिकरजतस्य व्यावहारिकपारमार्थिकत्वयोरभावेन 'यत्यन्निरूप्यं तत् तत्समानसत्त्वाकमिति' पूर्वपक्षिप्रदर्शितव्याप्तेः व्यभिचारात् प्रकृते निषेधस्य तात्त्विकत्वेऽपि तात्त्विकाभावप्रतियोगिन: प्रपञ्चस्य न तात्त्विकत्वापत्तिः । तथा च न अद्वैतहानिप्रसड्गः ।

एवं निषेधस्य तात्त्विकत्वे अद्वैतहानिशङ्कां परिहार्य पक्षान्तरमपि समर्थयति ग्रन्थकारः - 'अतात्त्विक एव वा निषेधोऽयम्, अतात्त्विकत्वेऽपि न प्रातिभासिकः, किन्तु व्यावहारिकः' इति। त्रैकालिकनिषेधस्य व्यावहारिकत्वेऽपि निषेधस्य ब्रह्मप्रमाबाध्यत्वेन निषेधप्रतियोगिनः प्रपञ्चस्य तात्त्विकसत्त्वाविरोधित्वात् अर्थान्तरत्वमिति नाशङ्कनीयम्। यतः यत्र यत्र निषेधस्य बाध्यत्वं तत्र तत्र निषेधप्रतियोगिन: पारिमार्थिकसत्त्वाविरोधित्वमिति पूर्वपक्ष्यभिमतव्याप्तेः स्वाप्नपदार्थस्य स्वाप्ननिषेधे व्यभिचारात् । तद्यथा - स्वप्ने आरोपितानां गजादीनां स्वप्ननिषेधे सति मिथ्यात्वव्यवहारदर्शनात् निषेधख व्यावहारिकत्वेऽपि न गजादीनां तात्त्विकत्वाविरोधित्वम् । तथा च निषेधस्य बाध्यत्वं तात्त्विकसत्त्वाविरोधित्वे न प्रयोजकम् । किन्तु निषेध्यपेक्षाया निषेधस्य न्यूनसत्त्वाकत्वम्। अर्थात् निषेधप्रतियोग्यपेक्षया निषेधस्य न्यूनसत्त्वाकत्वं निषेधप्रतियोगिनः पारमार्थिकत्वाविरोधित्वव्याप्यम् । प्रकृते त्रैकालिकनिषेध: निषेधप्रतियोगिनः प्रपञ्चस्य समानसत्ताक: व्यावहारिकः इत्यङ्गीकारात् निषेधनिषेध्ययोः तुल्यसत्त्वाकत्वात् न पारमार्थिकसत्त्वाविरोधित्वेन अर्थान्तरत्वम्। त्रैकालिकनिषेधस्य व्यावहारिकत्वपक्षे पुनः शङ्कते पूर्ववादी - निषेधस्य निषेधे प्रतियोगिसत्त्वापत्तिरिति । अर्थात् व्यावहारिकस्य मिथ्यात्वघटकनिषेधस्य मिथ्यात्वानुमानेन निषेधे सति 'यत् यद्धर्मिकस्वाभावाभावबोधकप्रमाणकं तत् स्वाभावाधिकसत्ताकमिति' व्याप्त्या यदि प्रपञ्चः ब्रह्मधर्मिकस्वाभावभावाबोधकप्रमाणकः तर्हि ब्रह्मधर्मिकस्वाभावसत्ताधिकसत्ताकः इति सिध्यति। अत्र च एतत् मिथ्यात्वानुमानं व्यावहारिकस्य ब्रह्मधर्मिकप्रपञ्चाभावस्य अभावबोधकं प्रमाणम्। अनेनैव अनुमानेन व्यावहारिके प्रपञ्चाभावे त्रैकालिकनिषेधप्रतियोगित्वस्य साधनात् प्रपञ्चस्य ब्रह्मधर्मिकस्वाभावाभावबोधकप्रमाणकत्वसिद्धिः । तथा च व्यावहारिकत्रैकालिक निषेधस्य मिथ्यात्वानुमानेन निषेधे तत् प्रतियोगिनः प्रपञ्चस्य निषेधापेक्षया अधिकसत्त्वापत्या पारमार्थिकत्वसिद्धि इति। अत्रोच्यते -व्यावहारिकत्रैलोकनिषेधस्य मिथ्यात्वानुमानेन निषेधेऽपि तत्प्रतियोगिनः प्रपञ्चस्य सत्त्वापत्तिर्नास्ति । यत: यत्र निषेधस्य निषेधबुद्ध्या प्रतियोगिन: स्वनिषेधापेक्षया अधिकसत्ताकत्वं व्यवस्थाप्यते, प्रतियोगिनमनन्तर्भाव्य निषेधमात्रं निषिध्यते तत्रैव निषेधस्य निषेधे प्रतियोगिसत्त्वमायाति। यथा व्यावहारिके रजते 'नेदं रजतमिति' भ्रमज्ञानानन्तरं 'इदं न अरजतमिति' ज्ञानेन प्रतियोगिनं रजतं व्यवस्थाप्यते। यत्र तु प्रतियोगिनिषेधयोरुभयोरपि निषेधः तत्र न प्रतियोगिसत्त्वापत्तिः । यथा कपाले घटध्वंससमये घटप्रागभावस्य घटस्य च बाधेऽपि घटप्रागभावप्रतियोगिनः घटस्य न सत्त्वमायाति । न प्रागभावापेक्षया प्रतियोगिनः घटस्य अधिकसत्ताकत्वम् । एवं प्रकृतेऽपि दृश्यत्वादिहेतुघटितमिथ्यात्वानुमानेन प्रपञ्चनिषेधस्य तत्प्रतियोगिनः प्रपञ्चस्य च बाधनात् निषेधस्य निषेधेऽपि न प्रतियोगिनः प्रपञ्चस्य तात्त्विकत्वम्। यतः प्रतियोगिनिषेधयोरुभयोरपि निषेध्यतावच्छेदकं दृश्यत्वादिकं समानम् । तस्मात् त्रैकालिकनिषेधस्य व्यावहारिकत्वपक्षे न प्रपञ्चस्य सत्यत्वापत्तिः । (63)

Page 64

वाक्यार्थभारती 2013-14 बाधितार्थप्रतिपादकत्वेन अद्वैतश्रुतीनाम् अप्रमाण्यप्रसङ्गं यत् पूर्वपक्षिणा आशङि्कतं तत्रोच्यते - तद्वति तत्प्रकारकबोधजनकत्वं प्रामाण्यम्। तच्च अद्वैतश्रुतीनामस्तीति न अप्रामाण्यशङ्का। यतः प्रपञ्चतनिनिषेधयो: ब्रह्मभिन्नत्वेन मिथ्यात्वम्। तच्च तथैव मिथ्यात्वेनैव बोधयन्त्या श्रुतेः न अप्रामाण्यत्वम्।

अत्र पुनः आक्षिप्यते - पूर्वोक्तमिथ्यात्वलक्षणस्य निर्धर्मके ब्रह्मणि अतिव्याप्तिरिति। यतः 'स एवाधस्तात्' इत्यादिश्रुत्या प्रतिपन्ने देशकालद्युपाधौ परमार्थतः ब्रह्मणः अभावात् पारमार्थिकत्वेनात्यन्ताभावप्रतियोगित्वस्य ब्रह्मणि सत्त्वात् पूर्वोक्तमिथ्यात्वलक्षणस्य अतिव्याप्ति इति। अत्रोच्यते ब्रह्मणः निर्धर्मकत्वात् तस्मिन् यथा पारमार्थिकधर्मः नास्ति तथा मिथ्यात्वलक्षणघटिताभावप्रतियोगित्वरूपधर्मोऽपि नास्तीति नातिव्याप्तिः। तर्हि ब्रह्मणः निर्धर्मकत्वादेव तस्मिन् सत्यत्वमपि न स्यात्, तथा च 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै.उ.2/1) इत्यादिश्रुतिविरोधः न इति। यतः अत्र मिथ्यात्वाभावरूपं सत्यत्वं विवक्षितम् । तथा च अभाव अधिकरणात्मक इति न्यायेन मिथ्यात्वाभावरूपसत्यत्वस्य ब्रह्मस्वरूपानतिरिक्तत्वात् न श्रुतिविरोध इति।

(64)

Page 65

तत्त्वमसिमहावाक्ये लक्षणा वाक्यार्थभारती 2013-14

श्री गणपति वि हेगडे

वक्तारमासाद्य यमेव नित्या सरस्वती स्वार्थसमन्विताभूत्।

निरस्तदुस्तर्ककलङ्कपङ्का नमामि तं शंकरमर्चिताझ्घ्रिम्।।

सर्वेऽपि प्राणभृद्वर्गो निसर्गत एव ईष्टमभीप्सुः अनिष्टपरिजिहीर्षुश्च भवति। भगवानान्मायः तदुपायं तात्पर्येण प्रतिपादयन्, अखिलं प्राणिजातमनुगृह्णाति । स च ऋग्यजुःसामाथर्वभेदैः मन्त्रब्राह्मणारण्यकोपनिषद्भेदैः विभक्तः पुनः तात्पर्यनिरूपणसौकर्याय - कर्मकाण्डोपासनाकाण्डज्ञानकाण्डभेदेन त्रिधा व्यभाजि पूर्वाचार्यैः । तत्र मन्त्रभागस्य अध्वरप्रयोगसमवेतद्रव्यदेवताद्यर्थस्मारकतया कर्मकाण्डत्वम्। ब्राह्मणभागस्य च मन्त्रोदितार्थेतिकर्तव्यताबोधनपरस्य तच्छेषताम्, उपनिषद्भागस्य च यथायथम् उपासनाज्ञाननिरूपणपरस्य उपासनाकाण्डत्वं च ज्ञानकाण्डत्वं पूर्वाचार्या: आचक्षते।

सर्वेषामपि वेदानां सारत्वेन अध्यात्मतत्त्वप्रधानत्वेन च प्रथिता: उपनिषदः संसारकान्तारे परिभ्रमतां भवबन्धनात् निर्मोक्तुं मार्गमन्विषतां मोक्षमार्गप्रदर्शनद्वारा समुत्तारिका: भवन्ति। वेदान्तशब्दे व्यपदिश्यमाना उपनिषदः, आचार्यशंकरभगवत्पादैः कठोपनिषत् भाष्यभूमिकायां 'सदेर्धातोर्विशरणगत्यवसादनार्थस्योपनिपूर्वस्य किप्प्रत्ययान्तस्य रूपमुपनिषदिति' इत्येवं रूपेण वर्णिता। ये मुमुक्षव: दृष्टानुश्रविकविषयवितृष्णाः सन्तः, उपनिषच्छब्दवाच्यां ब्रह्मविद्याम् उपसद्योपगम्य, तन्निष्ठतया निश्चयेन शीलयन्ति, तेषाम् अविद्यादेः संसारबीजस्य विशरणात्, हिंसनात्, विनाशनात् वा इत्यनेन अर्थयोगेन विद्या उपनिषत् इत्युच्यते। पूर्वोक्तविशेषणान् मुमुक्षून्वा परं ब्रह्म गमयतीति ब्रह्मगमयितृत्वेन च योगात् ब्रह्मविद्या उपनिषत्।

तत्र उपनिषत्सु श्रूयमाणतदर्थप्रतिपादकवाक्यानि त्वमर्थप्रतिपादकनाक्यानि च अवान्तरवाक्याभिधया प्रसिद्धानि। तत्त्वमस्यादिवाक्यानि 'महावाक्यम्' इत्याख्यया प्रसिद्धानि। तेषु ऋग्यजु:सामाथर्वशाखाभ्यः चतसृभ्यः उद्धृतानि चत्वारि वाक्यानि, चतुःशाखावाक्यानीति, महावाक्यानीति च प्रथितानि। तानि च यथा 'प्रज्ञानं ब्रह्म' 'अहं ब्रह्माऽस्मि' 'तत्त्वमसि' 'अयमात्मा ब्रह्म' इति। तानि महावाकयानि क्रमशः लक्षणात्मक -अनुभवात्मक-उपदेशात्मक-मध्यस्थवाक्यानि इति उच्यन्ते।

एतन्महावाक्यजन्यं ज्ञानं मोक्षसाधनम् इति अद्वैतिनः मन्यन्ते। तथाहि-

तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः ।

तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम्। इति

(65)

Page 66

वाक्यार्थभारती 2013-14 आत्मदर्शनाय श्रवणमनननिदिध्यासनानि साक्षात् कारणानि 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिद्ध्यासितव्यः' इति श्रुतेः। वेदान्तश्रवणं तत्त्वमर्थस्वरूपविवेचनात्मकम्। तस्यैव मननं निदिध्यासनं च कार्यम्। तत्त्वमर्थप्रतिपादकवाक्यानां परिशीलनेन यत्स्वरूपमधिगम्यते, तत्स्वरूपैक्यमेव, महावाक्ये प्रतिपाद्यत इति अद्वैतिनः ।

ननु किं नाम महावाक्यम् इति विचार्यमाणे 'जीवब्रह्मणोः साक्षात् ऐक्यबोधकं वाक्यं' महावाक्यम् इत्युच्यते। वाक्यगतमहत्वं च वेदान्तशास्त्रप्रतिपाद्यार्थप्रतिपादकत्वमेव। महातात्पर्यविषयत्वम् अथवा मुक्त्यर्थप्रतिपादकत्वं वा महत्वम्। तथा च अद्वैतवेदान्ते महावाक्यानाम् अखण्डार्थबोधकत्वं विशिष्टाद्वैते चिदचिद्विशिष्टैक्यबोधकत्वं, माध्वाभिमत द्वैतवेदान्ते जीवब्रह्मणोर्भेदबोधकत्वमिति तत्तन्मतानुसारेण वाक्यगतमहत्वं पर्यवस्यति।

वेदान्ते तावत् दृग्रूपयो: जीवब्रह्मणोरैक्ये तत्त्वमस्यादिवाक्यमेव प्रमाणम्। इदं च वाक्यं गुरुकुलात् प्रतिनिवृत्तम् अनूचानमानिनं पुत्रम् 'उत तमोदशमप्राक्ष्यः, येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञतं विज्ञातमिति' प्रश्नस्य समाधानं दातुमसमर्थं श्वेतुकेतुम् उद्दिश्य पित्रा उद्दालकेन यस्यैकस्य ज्ञानेन सर्वस्यापि ज्ञानं भवति तत् 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्यादिना 'तत्त्वमसि' इत्यन्तं यावत् उपदिष्टमिति श्रूयते छान्दोग्ये तन्महावाक्यजन्यं ज्ञानं मुक्तिसाधनम् इत्युच्यते। वाक्यार्थज्ञानं च पदार्थज्ञानाधनं पदार्थज्ञानद्वारा ज्ञापकत्वात् वाक्यस्य । तस्मात् 'तत्त्वमसि' इति वाक्यार्थज्ञानाय तद्वाक्यगतस्य तत्त्वंपदार्थज्ञानमावश्यकम् इत्यतः पदार्थविवेचनं क्रियते।

'तत्त्वमसि' इत्यत्र तत्त्वंपदयोरर्थः पत्येकं द्विधा भवति वाच्यलक्ष्यभेदेन। तथाहि परोक्षत्वसर्वज्ञत्वादिविशिष्टं चैतन्यम् अथवा मायाशबलितं ब्रह्म तत्पदस्य वाच्यार्थः। तच्च मायाशबलितं ब्रह्म 'यतो वा इमानि भूतानि जायन्ते' येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व, तद्ब्रह्मेति' इत्यादिश्रुत्यक्तजगत्कर्तृत्वादिप्रकाशनद्वारा तटस्थलक्षणेन अभिहितं ब्रह्मैव तत्पदस्य वाच्यार्थ: भवति। न पुनः स्वरूपलक्षणेन अभिहितं ब्रह्म, कार्यकारणत्वादिप्रतिषेधरूपत्वात्, सच्चिदानन्दस्वरूपत्वाच्च।

एवं त्वंपदस्यापि वाच्यलक्ष्यभेदेन अर्थः द्विधा भवति। अन्तःकरणावच्छिन्नं किञ्चिज्ञात्वविशिष्टं चैतन्यं जाग्रदाद्यवस्थावान् संसारी जीवः त्वं पदस्य वाच्यार्थः भवति।

तत्पदस्य लक्ष्यार्थस्तु अनुपहितं तुरीयं मायानिर्मुक्तं शुद्धचैतन्यं ब्रह्म। 'ब्रह्मविदाप्नोति परम्' इति ब्रह्मविदः श्रावयित्वा, ततः ब्रह्मस्वरूपविषयकजिज्ञासायां 'सत्यज्ञानमनन्तं ब्रह्म' इत्यादिश्रुतयः स्वरूपलक्षणेनैव ब्रह्म बोधयन्ति। एवमेव अनृतजडदुःखात्मकेभ्यो विलक्षणः, परित्यक्तषड्भावविक्रियः स एव त्वंपदस्य लक्ष्यार्थः । जाग्रदाद्यवस्थात्रयरहितं शुद्धं यत् भासकचैतन्यं सच्चिदानन्दरूपं तत्पदस्य लक्ष्यार्थः । 'योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः' 'न दृष्टर्द्रष्टारं पश्येः न श्रुतेः श्रोतारं' इत्यादि श्रुतेः ।

(66)

Page 67

वाक्यार्थभारती 2013-14 तत्त्वंपदयो: पदार्थविज्ञानाय मार्गद्वयं मनसि कृत्वैव वाच्यलक्ष्यभेदेन अर्थो अभिहितः। मायिकं ब्रह्म यद्वाच्यार्थतया उक्तं, तस्य परोक्षत्वादिपरित्यागेन अर्थात् अतद्वावृत्तिमुखेन श्रुतिः सत्यज्ञानादिस्वरूपं बोधयति। यद्यपि सत्यानन्दस्वप्रकाशस्वरूपत्वंपदलक्ष्यार्थप्रतिपत्यैव परमपुरुषार्थसिद्धिः तथापि उभयपदार्थज्ञानस्य परमपुरुषार्थसाधनवाक्यार्थज्ञानहेतुत्वात् द्वयोरपि तत्त्वमोः वाच्यलक्ष्यभेदेन अर्थः प्रदर्शितः । तथा च 'तरति शोकमात्मवित्' इत्यादिश्रुत्यु क्तस्य शोकतारणरूपमोक्षस्य तत्त्वमसिवाक्यगततत्वंपदयोः लक्ष्यार्थज्ञानमेव हेतुरिति, लक्षणा निरूपणं क्रियते।

'तत्त्वमसि' इत्यत्र अखण्डार्थबोधसिद्ध्यर्थं वाच्यार्थान्वयानुपप्त्या लक्षणासमाश्रयणीया भवति। सा च लक्षणा त्रिविधा, जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेति। तदुदाहरणं च क्रमशः 'गड्गायां घोषः' 'शोणो धावति' तथा सोऽयं देवदत्त इति। अद्वैताभिमताखण्डार्थबोधः एतासु तिसृषु लक्षणासु कया लक्षणया भवतीति विचार्यते।

शक्यसम्बन्धमात्रविषयवृत्तित्वं जहल्लक्षणायाः लक्षणम् । वाच्यार्थपरित्यागपूर्वकं तत्सम्बद्धार्थान्तरबोधनं जहल्लक्षणा इति यावत् । यथा गङ्गायां घोषः । अत्र अशक्यतीरस्य वाच्यार्थसंबद्धस्य बोधार्थं वाच्यार्थप्रवाहस्य परित्यागः इति जहल्लक्षणा। तत्त्वमसिवाक्ये च जहल्लक्षणा वक्तव्या चेत् तत्त्वंपदद्वयान्यतरवाच्यार्थेन सम्बद्धं वाच्यार्थद्वयापेक्षया तृतीयं किमपि वक्तव्यम्। परं तु तादृशं किमपि तात्पर्यनिर्णायकलिड्गावगतम् अखण्डार्थनिर्वाहकं न प्रसिद्धम्।

अपि च अखण्डार्थबोधे न वाच्यार्थस्य सर्वस्यापि परित्यागेनार्थान्तरस्वीकारः येन जहत्स्वार्था स्यात्। किन्तु उभयानुगतस्य अविरुद्धचैतन्यांशस्य परिग्रहात्, मुक्यार्थैकदेशग्रहणेन, न वाच्यार्थस्य सर्वथा परित्यागः । वाच्यार्थपरित्यागं विना तत्सम्बन्धिमात्रविषयवृत्तित्वं न स्यात्। तस्मात् लक्षणानिर्वाहकस्य शक्यसम्बन्धविशेषस्य कस्यापि अप्रसिध्या नात्र महावाक्ये जहल्लक्षणाश्रयणेन अभीप्सिताखण्डार्थसिद्धिः । तस्मात् न युक्ता इयं जहल्लक्षणात्र महावाक्ये।

स्वार्थपरित्यागं विना यत्रार्थान्तरबोधः तत्र अजहल्लक्षणा। लक्षणं तु शक्यार्थविशिष्टविषयत्वम् इति। यथ शोणो धावति इति। शोणपदं वर्णविशेषवाचकम्। परं तु तस्य धावनं न सम्भवतीति तद्विशिष्टे लक्षणा। तथा च शोणवर्णविशिष्टोऽश्वो धावति इति शक्यार्थविशिष्टार्थान्तरबोधकत्वात् अजहल्लक्षणा। नात्र शोणपदशक्यार्थपरित्यागः संभवति।

अजहल्लक्षणया पराक्षत्वापरोक्षत्वादिविशिष्ट्यैतन्ययो: ऐक्यमेव वाक्यार्थः । स च अनुपपन्नः। इमं वक्यार्थं अपरित्यज्य यदि एतत्संबन्धिनः यः कश्चन अन्यः अर्थः लक्ष्यते चेदपि विरुद्धविशेषणविशिष्टयोः ऐक्यरूपे अर्थे विरोधः परिहृतो न भवति। एवं सति अजहृल्लक्षणया अखण्डार्थबोधः न भवति।

तृतीयालक्षणा भवति जहदजहल्लक्षणा इति। स्वार्थैकदेशपरित्यागपूर्वक स्वार्थैकदेशबोधनं जहदजहल्लक्षणा इति। शक्यैकदेश मात्रविषयवृत्तित्वमिति यावत्। तद्यथा 'सोडयं देवदत्त इति वाक्ये

(67)

Page 68

वाक्यार्थभारती 2013-14 तद्देशतत्कालविशिष्टो यः सः एतद्देशैतत्कालवृत्तित्वविशिष्टः देवदत्त एवेति। यद्यप्यत्र सोऽयमित्यस्यार्थे तत्कालैताकालतद्देशैतद्देशेति विशेषणांशेन भेद:, तथापि विशेष्यांशेन देवदत्तांशेन न भेदः, नापिविरोधो वा। स्वार्थैकदेशे विरोधः, स्वार्थैकदेशे अविरोधः इति यावत्।

तस्मादत्र भागत्यागलक्षणया विरुद्धांशस्य स्वार्थैकदेशस्य तत्कालैतत्कालतद्देशैतद्देशांशस्य परित्यागेन उभयानुगतस्य देवदत्तरूपाविरुद्धांशस्य ग्रहणेन देवदत्तैक्यं ज्ञायते।

एवमेव तत्त्वमसीत्यत्र तत्पदवाच्यार्थः सर्वज्ञात्वविशिष्टं चैतन्यं, परोक्षत्वविशिष्टं चैतन्यमिति वा। त्वंपदस्यापि किञ्चिज्ञत्वविशिष्टं चैतन्यम्, अपरोक्षत्वविशिष्टं चैतन्यमिति वा उच्यते। यद्यप्यत्र विशेषणांशेन सर्वज्ञत्वकिञ्चिज्ञत्वांशेन तत्त्वमोर्भेदः, तथापि विशेष्यांशेन चैतन्येन न भेदः । अतः विरुद्धविशेषणांशपरित्यागेन अविरुद्धविशेष्यस्य चैतन्यमात्रस्य स्वीकारेण अद्वैताभिमताखण्डार्थबोध: सिध्यति इति जहदजहल्लक्षणा एव आश्रयणीया।

ननु तत्वमस्यादिवाक्यानाम् अखण्डार्थबोधकत्वसिध्यर्थं भागत्यागलक्षणासमाश्रयणीया एव इति चेत् तत्त्वमोरन्यतरस्य लक्षणाश्रयणम् उचितं भवति। न तु पदद्वयस्यापि लक्षणा इति चेत् न। उपक्रमोपसंहारादितात्पर्यनिर्णायकलिङ्गानां निर्विशेषैकनिष्टत्वस्य सुविदत्वात् । तात्पर्यनिर्णायकलिङ्गसत्वात् अन्यतरपदे लक्षणा नोपपद्यते।

तथाहि यदि तत्पदस्य लक्षणा स्वीक्रियेत तत्र यदि चैतन्यांशस्य त्यागः, तदा चैतन्यांशावलम्बिनां सर्वज्ञात्वादिधर्माणामवलम्बनाभावेन जगत्कारणं मृदादिवदचेतनं स्यात्। एवमेव त्वंपदमात्रलक्षणया वा न अखण्डार्थबोध:। यदि तत्पदमात्रलक्षणया अखण्डार्थबोध: स्यात्, तर्हि 'वाचारम्भणं विकारोनामधेयं मृत्तिके त्येव सत्यम्' इति कार्यमात्रस्य वाचारम्भणत्वपुरःसर कारणसत्यत्वप्रतिपादकश्रुतिवाक्यार्थबोधायोगात् तद्वारा कृतस्य तत्पदार्थशोधस्यापि व्यर्थता स्यात् । इत्थं तत्त्वमसिमहावाक्यगततत्त्वंपदान्यतरलक्षणया न अखण्डार्थबोधः इति फलितम्।

ननु मोक्षावस्थायां जीवः ब्रह्मसदृशं रूपान्तरं प्राप्नोतीति सादृश्यार्थपर्यवसायी तत्त्वमस्यादिमहावाक्यार्थः । तत्र तत्पदस्य गौणार्थता परिकल्प्यत इति चेत् न, भेदनिन्दाप्रतिपादकश्रुति विरोधात्। तथाहि 'नान्योऽतोऽस्ति द्रष्टा नान्योतोऽस्ति श्रोता नान्योतोऽस्ति मन्ता नान्योतोऽस्ति विज्ञाता' 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' 'नात्रकाचन भिदाऽस्ति' इत्यादिभिः बहुभिः श्रुतिवाक्यैः जीवस्य जगत्कारणेऽश्वरसादृश्यं ब्रह्मणश्च रूपान्तरं निःशङ्कं निरूणद्धि। तस्मात् अन्यतरपदलक्षणया सर्वथा न अखण्डार्थबोधः इति सिध्यति।

ननु तत्वंपदाभ्याम् एकमेव वस्तु तात्पर्येण लक्षितं भवति, तदेव च तात्पर्येण महावाक्यार्थ: तेन च अखण्डार्थबोधः इति चेत् तर्हि पदद्वयान्यतरवैर्थ्यापत्तिः इति चेत् उच्यते। महावाक्येषु प्रवृत्तिस्तु ब्रह्माधिगमाय। तदधिगमश्च 'तरतिशोकमात्मवित्' 'न स पुनरावर्तते' 'ब्रह्मविदाप्नोति परं' इत्यादिश्रुतिवाक्येभ्यः मुमुक्षोः सर्वानर्थहेतुभूताज्ञाननिवृत्या स्वप्रकाशानन्दात्मकाद्वितीयत्वानुभवेनैव भति। ततः

(68)

Page 69

वाक्यार्थभारती 2013-14 शुद्धबुद्धमुक्तस्वभावात्मकः 'अहं ब्रह्माऽस्मि' इत्यखण्डैकत्वसिद्धिः भवति। तादृशज्ञानजनकानि तत्त्वमस्यादिमहावाक्यानि। तत्त्वंपदार्थयोः भेदभ्रमसत्वात् तन्निरासाय तत्वमर्थयोरैक्यं वक्तव्यम्।

सति चैवं 'तत्त्वमसि' इत्यत्र तत्त्वंपदयोः अन्यतरस्य त्वंपदस्याभावे 'असि' इति मध्यमपुरुषासम्भवेन तदस्तीति वाक्यं स्यात्। तथा सति 'सदेवसोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्यादिना यदुपक्रान्तमद्वितीयं ब्रह्म, तस्य सदेवेत्यादिना सद्रूपेण ज्ञानस्यैव पुनः तदस्तीति सद्भावमात्र बोधनं भवति। ब्रह्म सद्भावमात्रं तु 'सदेवसोम्येदं' 'सत्यज्ञानमनन्तं ब्रह्म' 'तत्सत्यं स आत्मा' इत्यादिना ज्ञायते इति तदर्थं प्रवृत्तानां महावाक्यानां वैर्थ्यापत्तिश्च । तस्मात् त्वंपदम् आवश्यकमेव।

अस्तु तर्हि 'त्वमसि' इत्येवास्तु, किं तत्पदेन ? इति चेत् तदापि न अभिलषितार्थसिद्धिः । तथाहि केवलं 'त्वमसि श्वेतकेतो' इति श्वेतकेतुसद्भावमात्रविषयकोपदेशेन तस्य स्वस्वरूपविषयकबोधो न स्यात् । तस्य असज्जडदुःखव्यतिरिक्तस्य - सच्चिदानन्दात्मकस्य अद्वितीयापरिच्छिन्नस्य शुद्धबुद्धमुक्तस्वभावस्य ब्रह्मभावानवगमे संसारित्वदुःखित्वादिभ्रमनिवृत्या न पुरुषार्थसिद्धिः । पुरुषार्थसिध्यभावे पुनः महावाक्यवैर्थ्यदोषः तदवस्थ एव तथात्वे शस्रानर्थक्यं च । तस्मात् सर्वज्ञत्वकिञ्चिज्ञत्वाद्युपलक्षिताखण्डब्रह्माधिगमाय उपाधिभेदेन भिन्नतां प्राप्तयोः तत्त्वमर्थयोरेकत्वबोधनाय अस्ति तत्त्वंपदद्वयावश्यकता। तद्वारा तत्वमस्यादिवाक्यानां भागत्यागलक्षणयाम् अखण्डर्थबोधकत्वं, लक्ष्यार्थैक्येऽपि महावाक्यादिवैर्थ्यदोषनिवारणाय तथा सामानाधिकरण्यनिर्वहणाय च पदद्वयावश्यकता वर्तते। तेन अद्वितीयाखण्डैकरसबोधः भवति। एवं तत्त्वमसीति वाक्यं भागत्यागलक्षणया अद्वितीयं ब्रह्म लक्षयति।

(69)

Page 70

वाक्यार्थभारती 2013-14 आत्मवादः

डा. हित्लळिळ सूर्यनारायण नागेन्द्र भट्टः

श्रीमता जैमिनिना महामुनिना धर्माधर्मविवेकाय द्वादशलक्षण्याख्यं मीमांसाशास्त्रं सूत्रितम्। तच्च श्रीमता शबरस्वामिना भाष्याख्येन व्याख्यानेन विवृतम्। तच्च भाष्यं भट्टपादाख्येन श्रीकुमारिलेन गुरुनामधेयेन च प्रभाकरेण द्वेधा विवृतं प्रसिद्धम्। तत्र यद्यपि जैमिनीयसूत्रग्रन्थे न्यायसूत्रादिवत् नात्मनो निरूपणाय पृथक् सूत्रमस्ति, यद्यपि च श्रीबादरायणेन ब्रह्मजिज्ञासा पृथगेव सूत्रितेति आत्मवादोडयं प्राधान्येन मीमांसायां विचारविषयो भवितुं नार्हति, तथापि नित्यस्यात्मनः सद्भावे नास्तिकाः संशेरते, आस्तिकाश्च तस्य नित्यत्वमङ्गीकृत्यापि परस्परं विवदन्त इति मीमांसकानामपि स वादः स्यादेव। वेदवाक्यार्थनिर्णयाय प्रवृत्तानां मीमांसकानां स एष यज्ञायुधी यजमान इत्यादिवाक्ये आत्मस्वरूपनिरूपणं विना सम्यग् वाक्यार्थो निरूपयितुं न शक्यत इति अवश्यमात्मवाद आरब्धव्यः ।

स एष यज्ञायुधी यजमानोऽज्जसा स्वर्गं लोकं यातीति श्रूयते। अत्र एतच्छब्दः प्रत्यक्षं शरीरं यज्ञायुधसंयुक्तं स्वर्गगमनं उपदिशति। तच्च शरीरमत्रैव भस्मीभवतीति सार्वजनीनम्। एवं सति अञ्जसा स्वर्गं लोकं यातीति वक्तुं न शक्यम्। यश्चात्मा स्वर्गं लोकं याति, स यज्ञायुधी नेति प्रत्यक्षविरुद्धं इदं वचनम्।

अत्राभिधीयते-वाक्यमिदं अर्थवादः। अर्थवादस्य प्रायः स्वार्थे तात्पर्यं नास्तीतिआम्नायस्य क्रियार्थत्वादित्यादौ साधयिष्यते। अतो वाक्यस्यास्य यज्ञायुधचयनस्य प्रशंसापरत्वाद् अन्यपरत्वेन स्वार्थे प्रमाणान्तरविरोधो न दोषाय। वस्तुतस्तु नात्र विरोधो विद्यते। न हि अनेन वाक्येन शरीरस्य स्वर्गगम्मुच्यते। किन्तु आत्मनः एव। यस्य आत्मनः एतच्छरीरम्, सोऽपि यज्ञायुधीति उच्यते। औपचारिकोऽयं व्यवहारः। शरीरशरीरिणो : अभेदं स्वीकृत्य वाक्यमिदं प्रवृत्तम्। नास्ति तयोः अभेदः । शरीरस्य भस्मीभावात्। आत्मनश्च शरीरिणो नित्यत्वात्। अथवा आत्मनःस्वर्गगमनं शरीरे उपचर्यते।

अत्र यजमानशब्द आत्मनो वाचकः, आत्मनो यागस्वामित्वात्। सांख्यमते-

कैवल्यं माध्यस्थ्यं द्रष्टत्वमकर्तृभावश्च

इति यथा आत्मनः अकर्तृत्वमुच्यते, न तथा मीमांसकमते। आत्मनः अकर्तृत्वस्वीकारे श्रुतिविरोधः । स्वर्गकामो यजेत इति हि श्रुतिः । अनया श्रुत्या यो यजते स स्वर्गं विन्दतीति गम्यते। यज्ञायुधवाक्येऽप्येवम्। उपनिषद्यपि सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्तीति सङ्कल्पयितृत्वमुक्तम्। अत आत्मनः कर्तृत्वं स्वीकर्तव्यम्।

किन्तु वैशेषिकदर्शने स्पन्दस्यैव क्रियात्वमुक्तम्। तदुक्तमुपस्कारे-

कर्मत्वं चलतीति प्रत्ययासाधारणकारणतावच्छेदकजातिमत्त्वं वा।

स चायं चलतीति प्रत्ययसाक्षिकः पदार्थः इति। (70)

Page 71

वाक्यार्थभारती 2013-14 तन्निरवयवस्यात्मनो न साक्षात् सम्भवति। मीमांसकैस्तु न स्पन्दस्य क्रियात्वमुच्यते, किन्तु धात्वर्थस्य। अतः स्वर्गगतस्यापि आत्मनः सङ्कल्पयितृत्वादिकं भवितुमर्हति। स्पन्दस्यैव क्रियात्वेऽपि आत्मन: प्रयोजककर्तृत्वं वक्तुं शक्यम्। अतः उपनिषत्सु आत्मनः अकर्तृत्वोक्तिः स्पन्दरूपक्रियायां तस्य साक्षात् कर्तृत्वं न सम्भवतीत्यभिप्रायेण। न तु वस्तुतः कर्तृत्वं नास्तीत्यभिप्रायेण।

शरीरातिरिक्तात्मसद्भावः तार्किकैः प्राणनादिलिड्गेन सुखादिभिश्च साध्यते। प्राणनादिहेतुः प्रयत्न:, सुखादिश्च न शरीरधर्मः । अयावच्छरीरभावित्वात् । यावत्कालं शरीरं भवति, तावत्कालं सुखादिकं भवत्येवेति नास्ति नियमः। मृतावस्थायां शरीरं भवति। प्राणनादयः तदानीं शरीरे न भवन्ति। यदि शरीरगुणाः स्युः मृतावस्थायामपि स्युः । शरीरधर्मः परैरपि ज्ञातुं शक्यः । सुखादिकं तु न परप्रत्यक्राह्ह्यम्। शरीरकारणे पृथिव्यादौ चैतन्याभावात्, चैतन्यं न शरीरधर्मः। मृतशरीरे चैतन्याभावादपि तज् ज्ञायते।

अत्र सौगता :-

सिद्धे ज्ञानसुखादीनां गुणत्वे गुणिकल्पना। न तु तत्सिद्धमस्माकं तावन्मात्रोपपत्तितः ॥ इति वदन्ति। तन्मते क्षणिकं आलयविज्ञानमेव आत्मस्थानीयम्। विज्ञानादन्यस्य अनुपलम्भादेव तस्य स्वीकारो न क्रियते। विज्ञानं तूपलभ्यत इति स्वीकार्यमेव। तदेव भ्रान्त्या ज्ञातृत्वेन भासते। क्षणिकस्यापि तस्य प्रत्यभिज्ञा सन्तानस्वीकारेण समर्थ्यते। यस्यां सन्ततौ पूर्वज्ञानं तत्रैव स्मरणादि नान्यत्रेति।

मीमांसकै: मतमिदं निराक्रियते -

प्रत्यभिज्ञायते कर्ता यः पूर्वापरकालयोः। तस्य स्थास्नो: स्फुटो भेदः विज्ञानात् क्षणभड्गुरात्। इमि योऽहं पूर्वमद्राक्षं स एवाहं स्मरामि इति पूर्वापरकालवर्तिनः स्थिरस्य एकस्य अबाधितप्रत्यभिज्ञा भवति। यदि प्रत्यभिज्ञा मिथ्या स्यात् तर्हि उत्तरत्र बाध्येत। न च सा पामराणामेव अनुभवः, येन निराक्रियेत।

सन्तानैक्यस्वीकारेण प्रत्यभिज्ञा समर्थयितुं न शक्यते। यदि स एवायं घट इति विषयप्रत्यभिज्ञोपपादनार्थं ज्ञातुरेकत्वकल्पना स्यात् तदा सा सन्तानैकत्वेनाप्युपपद्यते। या तु ज्ञातुरेव प्रत्यभिज्ञा, सा सन्तानैकत्वेन नोपपद्यते । प्रत्यभिज्ञाविषयस्य पूर्वापरकालसम्बन्धावश्यकत्वात्। पूर्वापरकालसम्बन्धश्च स्थिरस्यैवेति ज्ञातुः तद्विषयप्रत्यभिज्ञया एकत्वं सिद्धम्। विज्ञानस्य क्षणिकत्वेन न प्रत्यभिज्ञाविषयत्वम्।

एवं प्रत्यभिज्ञया अहंप्रत्ययगोचरस्य ज्ञातृत्वमुक्तम् । एवं स्वीकारे कृशोऽहमित्यादौ अहम्प्रत्ययगोचरः शरीरमेवेति शरीरस्यैव ज्ञातृत्वं स्यात् । कार्श्यादिज्ञानसामानाधिकरण्यात् । मीमांसकाभिमतस्यात्मनः व्यापकत्वात् कार्श्यादिकं न सम्भवति। तथा च शरीरस्यैव ज्ञातृत्वमुक्तं भवतीति शरीरात्मवादप्रसङ्ग: ।

(71)

Page 72

वाक्यार्थभारती 2013-14 अत्रोच्यते - अहम्प्रत्ययगोचरो ज्ञाता इत्यत्र नास्ति संशयः । आत्मनः अहमिति परामर्शविषयत्वाद् अहम्प्रत्ययविषयता। शरीरस्य तु नाहम्प्रत्ययविषयता, इदम्प्रत्ययविषयत्वात्। शरीरस्य ज्ञातृत्वं पूर्वमेव निराकृतम्, ज्ञानमपि अयावच्छरीरभावित्वाद न शरीरधर्मः इति। कृशोऽहम् इत्यादिप्रर्ततिस्तु भ्रान्तिः । यथा - जलं दहति इति प्रतीतिः, तथा कृशोऽहमिति प्रतीतिः । जलस्य वह्निसम्बन्धाद् दाहकत्वमिव, प्रकृते शरीरसम्बन्धाद् आत्मनः कृशतेति ज्ञेयम्।

शरीरात्मनो: अभेद एव किं न स्यादिति शङ्का व्यतिरेकज्ञानाद् अपोद्यते। मम शरीरम् इत्यत्र ममेति षष््या आत्मनः शरीरव्यतिरेको ज्ञायते। अभेदे मम शरीरमिति प्रतीति: न स्यात्। किन्तु अहं शरीरम् इत्येव अबाधितप्रतीति: स्यात् । तस्मात् शरीरात्मनो: नाभेदः ।

शरीरात्मभेदे प्रत्यक्षमूला अर्थापत्तिरपि प्रमाणम्। जातिस्मराः केचिद् देहान्तररोवृत्तं सम्बोधयन्तः उपलभ्यन्ते। देहान्तरवृत्तान्तबोधनेन शरीरव्यतिरिक्त एव आत्मा इति ज्ञायते। अस्य शरीरस्य पूर्वजन्मनि अभावात् किंविषयको वृत्तान्तः स्यात्।

अत्र पुनः संशयः - शरीरत्मनोः भेदे यथा प्रमाणमस्ति, तथा अभेदेऽपि प्रमाणमस्ति। तथा सति भेदे एव कुत आग्रह इति वक्तव्यम्। अभेदे लाघवम्, भेदे तु गौरवम्। अत्र मीमांसकैः श्रुतार्थापत्त्या साक्षात् श्रुत्या वा समाधीयते । स्वर्गकामो यजेत इति श्रुतिः शरीरात्मनोः भेदे एवोपपद्यते। यदि शरीरातिरिक्तः स्वर्गभोक्ता कश्चिद् आत्मा न स्यात्, तदा श्रुतिः व्यर्था स्यात्। अतो वैयर्थ्यापत्तेः शरीरभिन आत्मा आक्षिप्यते।

साक्षाच्छ्ुतिरपि - अविनाशी वा अरे अयमात्मा इत्यादिः शरीरभिन्नमात्मानं अर्थाक्षिप्तं समर्थयति। स मानसीन आत्मा इति श्रुतिः आत्मनः मानासप्रत्यक्षविषयत्वे प्रमाणम्।

अत्र प्राभाकराः - मानसप्रत्यक्षरूपाहम्प्रत्ययगम्यः आत्मा इति न युक्तम्। स्वस्यैव स्वज्ञातृत्वं न सम्भवति, कर्मकर्तृभावविरोधात् । ज्ञात्रन्तरस्वीकारे अनवस्था । तस्माद् अहंवित्तिरेव घटादिज्ञानव्यातिरिक्ता नास्ति। किन्तु घटादिज्ञानेष्वेव विषयवद् आत्माप्यवभासते। तदुक्तम्-

बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः । नानाभूतः प्रतिक्षेत्रमर्थवित्तिषु भासते ॥ इति।

तस्मात् नाहम्प्रत्ययो नाम घटादिज्ञानव्यतिरेकेण कश्चिदस्ति। घटादिज्ञान एव विषयवद् आत्मा भासते। अत्र कौमारिला: - यस्यां क्रियायां यः कर्ता, न सा तस्मिन्नेव स्वफलं जनयति। यदि जनयति, तर्हि स्वात्मनि क्रियाविरोधो भवेत्। प्रकृते वेदनक्रियायाः फलं भासनम्। तत् कर्तरि न भवति इति क्थनं न युज्यते। पूर्वोक्तकारिकायां भासते इति खलूक्तम्। तस्मात् प्राभाकरमतेऽपि स्वात्मनि क्रियाविरोधः समान: ।

आत्मा सदा ज्ञातैव, न प्रत्येकज्ञानविषयः । अतः आत्मानं अहं जानामि इति प्रयोगो न युज्यते इति वक्तुं न शक्यते। वैदिकलौकिकप्रयोगो न शास्त्रेन नियन्तुं शक्यते। आत्मा ज्ञातव्य इति वैदिक्योगोऽस्ति।

(72)

Page 73

वाक्यार्थभारती 2013-14 आत्मानं मानुषं मन्ये इति रामायणे प्रयोगः। अहं आत्मानं जानामि इति लोके प्रयुज्यते। अतः प्रयोगमुसारेण आत्मनः कर्तृत्वं कर्मत्वञ्चेति द्वयमपि स्वीकर्तव्यम्।

श्रुतावपि-स मानसीन आत्मा जनानाम् इति मानसप्रत्यक्षगोचरता कथिता। न चस्य भ्रान्तिता, उत्तरत्र बाधकप्रत्ययाभावात्। साधारणानां बाधकप्रत्ययाभावेऽपि योगिनां बाधकप्रत्ययोऽस्तीति कथनं अज्ञानविजृम्भितम्। भगवद्गीतायां योगेश्वरेण श्रीकृष्णेनैव स्वात्मनि अहंशब्द: प्रयुक्त: - अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति।

वेदेऽपि - अहं मनुरभवं सूर्यश्च इत्यस्ति । तस्माद् आत्मनः अहम्प्रत्ययगम्यत्वं अनिच्छताप्यच्छमतिना एष्टव्यम्।

अयमात्मा यथा शरीरभिन्न:, तथा इन्द्रियभिन्नोऽपि । तत्रापि प्रत्यभिज्ञामुदाहरन्ति - योऽहं रूपमद्राक्षं सोऽहं स्पृशामि इति।

मनोऽपि नात्मा, करणत्वेन मनसः सिद्धेः । कर्ता आत्मा, मनः करणम् इति सङ्गच्छते।

एवं आत्मनः स्वप्रकाशत्वाभावः, व्यापकता, निरवयवत्वम्, अनेकत्वमित्यादि सांख्यादिशास्त्रवदेव निपुणं निरूप्यते वार्तिकादाविति शम्।

(73)

Page 74

वाक्यार्थभारती 2013-14 क्रमनिरूपणम्

डा. सूर्यनारायणभट्टः

प्रयोगप्राशुभावबोधको विधि: प्रयोगविधि: । प्राशुशब्दः शीघ्रवाची। प्रयोग: अनुष्ठानम् । अयं प्रयोगविधि: प्रधानम, अनुष्ठापयन् विलम्बे प्रमाणाभावात् अविलम्बापरपर्यायं प्रयोगप्राशुभावं विधत्ते। विलम्बेन क्रियमाणे अनुष्ठाने अङ्गविध्येकवाक्यतावगतसाहित्यस्यानुपपत्तिः प्रसज्यते। विलम्बेन क्रियमाणयो: पदार्थयोः न सहकृतमिति साहित्यं व्यवहरन्ति।

अतः साहित्यसम्पादनार्थं प्रयोगरूपे अनुष्ठाने क्रमः अवश्यमाश्रयणीयो भवति। स च क्रमः वेदबोधितपदर्थाश्रितो भवतीति वैध एव।

इत्थं क्रमस्य श्रौतत्वे सिद्धे तदारम्भस्तु विधिप्रयुक्त एवेति सिध्यति। क्रमविचाराः क्रमभेदाश्च भगवज्जैमिनिमहर्षिणा पञ्चमाध्याये निरूपिताः ।

पूर्वेषु अध्यायेषु कर्मस्वरूपं, कर्मभेदं, कर्मसु गुणप्रधानम् अङ्गप्रधानसाधारण्येन प्रजोज्यवर्ग निरूप्य ततः प्रयोगाश्रितः क्रमविचारः उपस्थापितः । अत्र प्रयोगाश्रितो नाम प्रयोगज्ञानाश्रित इत्यर्थः । प्रयोग: अनुष्ठानम् । अत्र केन प्रकारेण अनुष्ठानं कर्तव्यमिति पूर्वमेव तादृशज्ञानं यदि स्यात् तर्हि अनुष्ठानशैध्य्रंजायते। यदि तन्निश्चयो नास्ति तर्हि विलम्बोऽपि भविष्यति अतः क्रमः अनुष्ठाने नियमेन शैध्यं बोधयति।

अत्र क्रमो नाम विततिविशेष:, पौर्यापर्यरूपः अव्यवहितोत्तत्वरूपमानन्तर्यमिति वा। अत्र खण्डदेवाचार्यस्तु, 'प्रयोगविधि: नियतमेव क्रमं पदार्थविशेषणतया विधत्ते। तत्र नियामकानि षट् प्रमाणानि, तत्र क्रमस्वरूपज्ञाने तत्प्रमाणनिरूपणमशक्यमिति प्रयोगविधि: प्राशुभावाय आनन्तर्यरूपं क्रममपेक्षते इति तदपेक्षितानन्तर्यरूपस्य क्रमस्य अव्यहितोत्तरत्वरूपलक्षणं कर्तुं युक्त' मित्याह।

अतः एतादृशस्य क्रमस्य नियामकानि षट्प्रमाणानि श्रुत्यर्थपाठस्थानमुख्यप्रवृत्याख्यानि। श्रुतिनिरूपणम्

श्रुतिर्नाम क्रमपरवचनम्। 'क्रमपरवचनं श्रुतिः'2 । अर्थात् क्रमबोधक वाचकः शब्दः । क्रमबोधकशब्दः येन शब्देन श्रुतेन क्रमो बोध्यते स च शब्दः श्रुतिः । तच्च श्रुतिप्रमाणं द्विविधम्। 'के वलक्र मपरम्, तद्विशिष्टपदार्थपरं चेति।'3 क्वचित् श्रुतिः क्रममात्रं विधत्ते, क्वचित् क्रमविशिष्टपदार्थमपि विधत्ते। यत्र क्रममात्रं विधत्ते तत्र क्रममात्रे तात्पर्यम्, कुत्रचित्, क्रमविशिष्टपदार्थपि तात्पर्यम्। वेदं कृत्वा वेदिं करोतीत्यत्र वेदकरणं वेदिकरणं च वचनान्तरेण विहितमिति पुनर्विधानं न सम्भवति। परं तयोर्मध्ये यः क्रमः पूर्वोत्तरभावरूपो विद्यते सःक्तवा प्रत्ययेन कृत्वा इत्यत्रोच्यते। समानकर्तृकयो: पूर्वकाले (पा.सू. 3.4.21) इति सूत्रेण पूर्वं वेदकरणं पश्चाच्च वेदिकरणमिति पौर्वापर्यं ज्ञायते। एवं च अत्र या क्तवा श्रुतिः (वाचकः, शब्दः) वर्तते सा क्रमं बोधयतीति क्रमवाचकशब्दः (74)

Page 75

वाक्यार्थभारती 2013-14 इत्युच्यते । इयं श्रुतिः क्रममात्रं विधत्ते। एषा क्रमविशिष्टपदार्थबोधिका न भवति, अतः केवलक्रमपरवाचकः शब्दः ।

'वषट्कर्तु: प्रथमभक्ष' इति तु क्रमविशिष्टपदार्थपरम्। वौषट् इति यः उच्चारयति सः वषट्कर्ता होता भवति। प्रथमश्चासौ भक्षश्च इति प्रथमभक्षो भवति। यदा सोमपानं करणीयं भवति, अभिषुत्य आवहनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति इति सर्वेषां कृते सोमपानं विहितं वर्तते। अर्थात् अभिषवं कृत्वा आहवनीये हुत्वा सदो मण्डपे स्थित्वा सोमरसस्य भक्षणं करणीयमिति तस्यार्थः । तत्र सर्वै: भक्षणमित्युक्ते होत्रापि कर्तव्यमन्यैरपि कर्तव्यम्। इदानीं प्रथमं होत्रा भक्षणीयं, तदनन्तरमन्येनापीति होतुः प्रथमभक्षणं अनेन विधीयते इति भाति। परमेवमुच्यमाने भक्षो न विधीयते। भक्षोद्देशेन प्राथम्यं विधीयते। भक्षः अत्र प्राप्तः तमुद्दिश्य प्राथम्यं विधीयते होतृभक्षमनूद्य प्राथम्यं विधीयत इति स्यात्। परन्तु प्रथमो भक्षः प्रथमभक्ष इति समासः तदनुकूले नास्ति। सर्वत्र वृत्तौ एकार्थीभावरूपसामार्थ्यं तु अपोक्षितम्। ('समर्थ: पदविधिः' (पा.सू.2.1.1)) एकार्थीभावरूपसामर्थ्यं वर्तते चेदेव तत्र वृत्तिर्भवतिनो चेत् भङ्गः स्यादिति। एकस्यां वृत्तौ प्रसरः प्रवेशः ययो: अर्थयोः तौ एकप्रसरौ। तयोर्भावः एकप्रसरता तस्याः भङ्गः स्यादिति । समासघटकपदानि हि सम्भूय विशिष्टमेकार्थमेकया वृत्या प्रतिपादयन्तीति तस्यैकार्थस्य विवक्षावशात् उद्देश्यत्वं विधेयत्वं वा ग्राह्यं भवति। न तु तदेकदेशमात्रस्य कस्यचिदुद्देश्यत्वं कस्यचिद्विधेयत्वं व स्वीकर्तुं शक्यते, न युज्यते च। अन्तर्भूतपदार्थानां पार्थक्येनोपस्थित्यभावात्। तथा च यद्यत्र प्रथम भक्ष इति वृत्त्यन्तर्गतभक्षपदार्थमात्रमुद्दिश्य विधेयं स्यात्तर्हि तद्वाचकयोर्द्योः एकस्यां वृत्तौ प्रवेश एव न स्यात्। 'वषट् कर्तु: प्रथमभक्षः' इति वाक्ये तु समासः कृत इति तदनुरोधेन विशिष्टार्थस्यैवात्र शाब्दमर्यादया विधेयत्वमिति विवक्षा गम्यते। तत्र विशेषणविशिष्टार्थस्यान्यतोऽप्राप्तत्वे विशिष्टविधावेव पर्यवसानं भवति। तदेकदेशस्य कस्यचिदन्यतः सिद्धत्वे तु प्राप्ताप्राप्तविवेकन्यायेन अप्राप्तांशे विशिष्टविधि: स्यादिति अन्योविषयः । अतः शाब्दमर्यदया तु विशिष्टविधिरेव तादृशस्थले स्वीकर्तव्यो भवति । अतः प्राथम्यविशिष्टभक्षणस्यैव विधेयत्वम्। इदं भक्षान्तरमेव विधीयते। वषट्कर्तृनिमित्तं भक्षान्तरमिति विहिते न दोषः। अतः सर्वत्र अयं होता प्रथमतः सोमं पिबति। अनन्तरम् अन्येभ्यो ददाति । अत्र प्रथमशब्दः न केवलं क्रमबोधकः अपि तु प्राथम्यविशिष्टभक्षबोधकः इति क्रमविशिष्टपदार्थपरिमिति श्रुतिः प्रमाणम्।

अत्रापि पूर्वपूर्वप्रमाणापेक्षया उत्तरोत्तरं प्रमाणं दुर्बलम्, पूर्वं प्रबलम्। उत्तरेषु प्रमाणेषु तादृशः बोधकः शब्दो न वर्तते इति हेतोः सः कल्पनीयो भवति। श्रुतिप्रमाणं यत्र तत्र तु सः कृल्प्तः । कल्पनां विनैव कार्यं करोतीति प्राबल्यं तस्य। उत्तरेषां प्रमाणानां एतत्कल्पनां विनैव कार्यजनकत्वं न सम्भावयितुं शक्यते। यथा- 'आश्विनो दृशमो गृह्यते' इति श्रुतिसिद्धक्रमवशात् पाठक्रमस्य आश्विनस्य तृतीयस्थाने विद्यमानस्य दशमो गृह्यते इति वचनात् दशमस्थाने ग्रहणम्।

अर्थक्रमः

प्रयोजनवशेन यत्र क्रम: निर्णीयते सः आर्थक्रमः इत्युच्यते। अर्थः प्रयोजनम्, तद्वशेन क्रमनिर्णयः । प्रयोजनस्य अन्यथानुपपत्या कश्चित् क्रमः कल्पनीयो भवति। क्रमान्तरे स्वीकारे प्रयोजनं न सिध्यतीति (75)

Page 76

वाक्यार्थभारती 2013-14 तत्प्रयोजनं यथा सिध्यति तथा क्रमः स्वीकर्तव्यो भवति। यथा - अग्निहोत्रं जुहोति, यवागूं पचतीति पाठक्रमः । आभ्यामेव वाक्याभ्याम् आदौ अग्निहोत्रहोमो विधीयते, पश्चात् यवागूपाकः । एवमेव श्रुतपाठानुक्रमेण अनुष्ठानं कियते तदा अग्निहोत्रे द्रव्याश्रवणात् किमपि द्रव्यं कल्पनीयं भवति। पश्चात् कृतस्य यवागूपाकस्य दृष्टविधया किमपि प्रयोजनं नास्तीति अदृष्टं कल्पनीयं भवति। पाकस्य प्रयोजनं यवाग्वाः सिद्धिः । सिद्धेन यवागूपाकेन अग्निहोत्रहोमः इति पाठक्रमस्वीकारे यवाग्वा अग्निहोत्रहोमः न सिध्यति। अतः यवाग्वाः अग्निहोत्रसाधनत्वनिर्वाहार्थं क्रमपरिवर्तनमत्र क्रियते। आदौ यवागूपाकः, पश्चादग्निहोत्रहोमः । प्रयोजनवशेन क्रमोऽत्र परिवर्तितः । अनेन पाठक्रमापेक्षया अर्थक्रमः प्रबल इति सिद्धो भवति। पाठक्रमं बाधित्वा अर्थक्रमः प्रकल्पितः । एवं न क्रियते चेत् दृष्टहानि:, अदृष्टकल्पनमिति दोषप्रसङ्गः । अतः दृष्टोपकारलाभाय क्रमोऽयं समाश्रीयते।

पाठक्रम:

पदार्थबोधकावयावानां यः क्रमः सः पाठक्रमः । तादृशक्रममादायानुष्ठानं क्रियते चेत् शैध्यं जायते। न तु अत्र वाक्यानां क्रमः अभिलषितः। वाक्यानां क्रमः न प्रयोगविधिना विधेयो भवति, स अनादिस्थ एव। प्रयोगविधिविषयस्तु पथार्थबोधकवाक्यानां क्रमं स्वीकृत्य अनुष्ठेयपदार्थेषु यः क्रमो विधीयते स पाठक्रमः। येन क्रमेण वाक्यानि पठितानि तेनैव क्रमेण तान्यधीतानि भवन्ति, येन क्रमेपधितानि तेनैव क्रमेण अर्थान् बोधयन्ति। येन क्रमेण अर्थान् बोधयन्ति तेनैव क्रमेण कर्माण्यनुष्ठितानि भर्वन्ति। इति या परम्परा दृश्यते सा एव पाठक्रमादवगम्यते। पाठादारभ्यानुष्ठानपर्यन्तमागच्छति।

अय पाठक्रम: ब्राह्मणपाठ: मन्त्रपाठश्चेति द्विधा विभक्तः । परं पदार्थबोधकत्वमुभयत्र समानम्। यथा पाठस्य द्वैविध्यं तथैव पाठक्रमस्यपि द्वैविध्यमेव। ब्राह्मणपाठक्रमः मन्त्रपाठक्रमश्चेति।

दर्शपूर्णमासयोः पौर्णमास्यां प्रथममाग्नेययागः उपांशुयाजः मध्ये, अग्नीषोमीयः पश्चादिति वर्तते। परं तु विधिवाक्यं तथा न पठ्यते। अग्नीषोमीययागविधायकं वाक्यं प्रथमं पठ्यते। तदनन्तरमेव आग्नेययागविधायकं वाक्यं पठ्यते ब्राह्मणपाठक्रमानुसारेण अग्नीषोमीयः आदौ पश्चात् आग्नेय इति। परन्तु मन्त्रपाठक्रमस्तु विपरीत एव। तत्र याज्यानुवाक्यामन्त्रयुगलमाग्नेयस्य, पश्चात् अग्नीषोमीयस्य याज्यापुरोनुवाक्यायुगलं पठ्यते ।अतोऽत्र मन्त्रपाठानुक्रमेण यागक्रम आश्रीयते। पूर्वमाग्नेयानुष्ठानं पश्चादग्नीषोमीयस्य अनुष्ठानमिति। अयं यः क्रमः स मन्त्रपाठानुसारी वर्तते। अयं मन्त्रपाठ ब्राह्मणपाठात् बलीयान्। यतो हि प्रयोगकाले मन्त्रपाठस्य उच्चारणम्। तत्र ब्राह्मणपाठस्य प्रवेशो नास्ति। अतः ब्राह्मणपाठस्य न उच्चारणं सः ब्राह्मणपाठः प्रयोगात् बहिःस्थित्वा किं किं कर्तव्यामिति बोधयित्वा विरमति। मन्त्रपाठानां तु प्रयोगे प्रविश्य अर्थस्मरणं कार्यं भवति। अतः अनुष्ठाने सन्निहितो भवति मन्त्रपाठ इति तस्यान्तरङ्गत्वम् । बहिर्भूतत्वात् विप्रकृष्टमिति हेतोः विधेः बहिरङ्गत्वम् । अन्तरङ्गबहिरङ्गयो: अन्तरङ्गस्य प्राबल्यम्। तस्मात् मन्त्रपाठस्य प्राबल्यात् मन्त्रपाठक्रम: ब्राह्मणपाठक्रम बाधते।

(76)

Page 77

वाक्यार्थभारती 2013-14 ब्राह्मणपाठक्रमस्योदाहरणं प्रयाजाः । तत्र समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर्यजति, स्वाहाकारं यजतीति। पञ्च प्रयाजवाक्यानि क्रमेण पठितानि। इमानि न मन्त्रपाठवाक्यानि।परं विधिवाक्यानि। अत्र ब्राह्मणवाक्यानां यः क्रमः वर्तते तेनैव क्रमेण तेषामनुष्ठानं सम्भवति। अत्र क्रमनियामकस्तु ब्राह्मणपाठक्रम एव। प्रयाजानामत्र स्मारकान्तरस्य मन्त्रस्य अभावात् ब्राह्मणपाठक्रम एव स्मारकत्वेन स्वीकर्तव्यः ।

ननु आग्नेयाग्नीषोमीययो: यथा याज्यामन्त्राः सन्ति तद्वदेव प्रयाजेष्वपि मन्त्रपाठाः सन्तीति चेत् कृत्वा चिन्ता अत्र। परं मन्त्रं विना क्रियमाणानि बहूनि कर्माणि भवति। तूष्णीं विहितेषु कर्मसु, कश्चन क्रम: अपेक्षत एव । तत्र यः क्रमः स्वीक्रियते सः ब्राह्मणपाठादेव तस्मात् समन्त्रककर्मणां मन्त्रपाठक्रमात् क्रमः। अमन्त्रककर्मणां क्रमस्तु ब्राह्मणपाठक्रमादेव।

स्थानक्रमः

स्थानं नाम उपस्थिति:। प्रकृतौ नानादेशे उपदिष्टानां पदार्थानां विकृतौ वचनात् एकस्मिन् देशे अनुष्ठाने कर्तव्ये यस्यदेशे अनुष्ठानं तस्य प्रथमम् अनुष्ठानम्, इतरेषां तु पश्चात् इति योऽयं क्रमः सः स्थानक्रमः । यस्य प्रथममुपस्थितिः सः प्रथममनुष्ठीयते । यथा ज्योतिष्टोमे सोमयागे अङ्गभूताः त्रयः पशुयागाः सन्ति । अग्नीषोमीयः, सवनीयः आनुबन्ध्यश्चेति । तेषां प्रकृतौ क्रमेऽपि एवमेव वर्तते। साद्यस्क्रनामकः एकदिनसाध्यः कश्चन विकृतियागो वर्तते। प्रकृतितः अतिदेशात् अपेक्षितो विध्यन्तः प्राप्यते। अत्र विकृतौ 'सहपशूनालभते' इति पशुयागत्रयमपि सह कुर्यादिति विधानम्। ते च त्रयः अव्यवधानेन अनुष्ठेयाः । परं कस्य स्थाने अनुष्ठानमिति प्रश्ने - सवनीययस्य स्थाने यदि क्रियतेऽनुष्ठानं तर्हि स्थानातिक्रमसाम्यं तुल्यं भवति। अग्नीषोमीयः स्वस्थानमतिक्रम्य सवनीयस्थानमागतः, एवमानुबन्ध्यः स्वकीयमन्तिमं स्थानं परित्यज्य सवनीयस्थानेऽनुष्ठीयते। एवमुभयोः स्थानातिक्रममात्रम्। यद्यादावन्तिमे वाऽनुष्ठीयेत तर्हि स्थानातिक्रमतुल्यता न जायते। अतः समत्वसम्पादनाय मध्यमे साहित्यं सम्पादनीयम्।

तथा च सवनीये देशे सर्वेषामनुष्ठाने कर्तव्ये सवनीयस्य प्रथममनुष्ठानम्। आश्विनग्रहणानन्तरं हि सवनीयदेश: । प्रकृतौ आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीय आग्नेयं पशुमुपाकरोतीति आश्विनग्रहणानन्तरं सः विहितः । तथा च विकृतौ साद्यस्क्रेऽपि आश्विनग्रहणे कृते सवनीय एव उपस्थितो भवतीति युक्तं तस्य स्थानक्रमरूपप्रमाणात् प्रथममनुष्ठानम्। इतरयोश्च अनन्तरम्। सवनीयः अग्नीषोमीय: आनुबन्ध्यश्चेति।

मुख्यक्रम:

प्रधानक्रमेण यः अङ्गानां क्रम: आश्रीयते सः मुख्यक्रमः। येन हि क्रमेण प्रधानानि अनुष्ठीयन्ते तेनैव क्रमेण तेषामङ्गानामनुष्ठानं, तदा सर्वेषामङ्गानामनुष्ठानं स्वैः स्वैः प्रधानैः सह तुल्यं व्यवधानं भवति। व्युत्क्रमानुष्ठाने तु केषञ्चित् स्वप्रधानैः सह अत्यन्तमव्यवधानम्, केषाञ्चित् अत्यन्तं व्यवधानं भवेत्। तन्न योग्यम्।

(77)

Page 78

वाक्यार्थभारती 2013-14 यथा - दर्शपूर्णमासप्रकरणे प्रयाजहोमानन्तरं प्रयाजशेषेण हवींषि अभिघारयतिति श्रूयते। तेन प्रयाजान् इष्ट्वा तच्छेषेण वेद्यामासादितानां प्रधानहविषामभिघारणं कर्तव्यतया प्राप्तम्। तत्र दर्शे तावत् त्रीणि हवींषि आग्नेयः, एन्द्रं दधि, एन्द्रं पयश्चेति। तत्र त्रयाणां मध्ये प्रथमं कस्य हविषः अभिघारणं, पश्चात् कस्येत्याकाङ्क्षायाम् आग्नेयस्यैव प्रथममनुष्ठेयत्वेन तदङ्गहविराभिघारणस्यैव प्रथममनुष्ठानम्। अनन्तरमेव दघ्न: दधियागस्य अनन्तरमनुष्ठीयमानत्वात्। एवं चेत् प्रयोगविध्यवगतस्य साहित्यस्य अनुग्रहो भवति।

यद्येवमकृत्वा व्युत्क्रमेण क्रियेत तर्हि प्रधानक्रमे न कोडपि क्लेशः । यतो हि प्रधानस्य क्रमस्तु निश्चितः अपरिवर्तनीयश्च । अत्र विकृतौ क्रमः अनिश्चितः । तत्र मुख्यक्रममनाधृत्य वैपरीत्येन हविरभिघारणं क्रियेत तदा व्यवधानमव्यधानं समं न भवेताम्। यथा - आग्नेयहविराभिघारणम् आग्नेययागस्याङ्गम्। ऐन्द्रिहविराभिघारणम् ऐन्द्रयागस्याङ्गम् । तदा आग्नेयहविराभिघारणम्। आग्नेयप्रधानयाग:, ऐन्द्रप्रधानयागः इति क्रमः स्यात्। अत्र आग्नेयहविरभिघारणस्य आग्नेययागस्य च सम्बन्ध: इष्टः । परं तयोर्मध्ये ऐन्द्रहविराभिघारणं वर्तते। एवमेव ऐन्द्रहविरभिघारणस्य ऐन्द्रयागस्य च मध्ये वर्तते आग्नेययागः । उभयत्रपि एकेन एकेन पदार्थेन व्यवधानम् । यदा व्युत्क्रमः क्रियते, ऐन्द्रहविरभिघारणं तथा अग्नेयहविराभिघारणम् । आग्नेययागः पश्चात् ऐन्द्रस्यागः । तदा आग्नेयहविरभिघारणस्य यागस्य च व्यवधानमेव नास्ति। ऐन्द्रहविराभिघारणस्य ऐन्द्रयागस्य च मध्ये महद्व्यवधानं भविष्यति। तुल्यता नास्ति। तदर्थं प्रधानस्य यः क्रमः स एव अड्गानामपि आश्रयणीयो भवति। अत एव प्रयाजशेषेण प्रधानक्रमः एव आदौ आग्नेयहविषः अभिघारणं, पश्चात् ऐन्द्रस्य दध्नः अभिघारणम्। एवं तयो: पौर्वापर्यं मुख्यक्रमानुसारेण इति।

प्रवृत्तिक्रम:

अनेकेषां प्रधानानां यदा सहप्रयोगो जायते तदा सन्निपत्योपकारकाणाम् अङ्गानामनुष्ठानं भवति तदानीमेकमड्गमेकेन क्रमेण नानुष्ठीयते तथैव द्वितीयमङ्गमपि पूर्वाङ्गं येन क्रमेनानुष्ठितं तेनैव क्रमेण इति यद्वर्तते सःप्रवृत्तिक्रमः इति कथ्यते । अर्थात् पूर्वाङ्गस्य येन क्रमेण प्रवृत्तिः तेनैव क्रमेण उत्तराङ्गस्य प्रवृत्तिश्चेत् सः प्रवृत्तिक्रमः। यथावाजपेये सप्तदशप्राजापत्यान् पशूनालभते इति श्रूयते। वाजपेयस्य अङ्गभूता: एते यागाः । अत्र सप्तदशयागाः विधीयन्ते। ते सर्वेऽपि सहकर्तव्याः । न केवलं यागा: युगपत् कर्तव्याः अङ्गैः सह युगपदनुष्ठेयाः । पशवस्तु सप्तदश, तानि द्रव्याणि, यागस्तु एककाले भवति। युगपदेकस्यै देवतायै सर्वाणि हवींषि प्रक्षिप्यन्ते, दीयन्ते वा। एवं यागाः यौगपद्येन अनुष्ठीयन्ते न तत्र क्लेश:। परन्तु सप्तदशसु पशुषु ये संस्काराः समनुष्ठीयन्ते उपाकरणनियोजनादयः संस्काराः प्रत्येकं पशौ पृथक् पृथक् करणीया भवन्ति। तेषाम् अव्यवधानं कथं सम्पादनीयमिति चेत् समानव्यवधानेन अव्यवधानेन च। इत्युक्ते अधिकव्यवधानाव्यवधान परिहारेण साहित्यं सम्पादनीयम्। एव सति एकस्मिन् पशौ उपाकरणनियोजनादिकं सर्वं संस्कारं कृत्वा अग्रिमपशौ संस्काराः विधेया इति एकः क्रमप्रकारः। अपरस्तु क्रमप्रकार:, प्रथमःसंस्कारः सर्वेषु पशुषु अनुष्ठितः, तेनैव क्रमेण द्वितीयः संस्कारः सर्वेऽषु पशुषु विधेयः इत्यपि भवितुमर्हति। स्वस्थानविवृद्धिः दण्डकलितवदावृत्तिः इति प्रकारद्वयम्। कीदृशः (78)

Page 79

वाक्यार्थभारती 2013-14 क्रम: कुत्राश्रयणीयः इति नियमो वर्तते । प्रकृते न स्वस्थानविवृद्धिः किन्तु दण्डकलितवदावृत्तिः समाश्रयणीया भवति, इत्युक्ते एकस्मिन्नेव पशौ सर्वन् संस्कारान् समाप्य पश्चात् द्वितीयपशौ न संस्कारा आस्म्भणीया: किन्तु प्राजापत्यैश्चरन्ति इति वाक्येन प्राजापत्यानां यथा साहित्यं विहितं तद्वदेव तदड्गानामपि परस्परं विहितं वर्तते। अतः सप्तदशसु उपाकरणं प्रथमं कर्तव्यम् अनन्तरं यतः उपाकरणं कृतं ततः एव इतरे संस्काराः अनुष्ठेयाः । तदा समानं व्यवधानं संरक्षितं भवति।

अतः प्रयोगविधि सहकृतप्रमाणेषु - आश्रीयमाणेषु अविलम्बापरपर्यायप्रयोगाप्राशुभावः सिध्यतीति सर्वं सुमङ्गलम्।

अधारग्रन्था:

  1. मीमांसान्यायप्रकाश: 2. भादटदीपिका (प्रभावलीसहिता) 3. श्लोकवर्त्तिकम्। 4. मीमांसाकौस्तुभः ।

(79)

Page 80

वाक्यार्थभारती 2013-14 अपूर्वसिद्धि:

डॉ. एस्. वेङ्कटेशताताचार्य:

विहितनिषिद्धकर्मजन्यं स्वर्गनरकादिफलजनकमपूर्वमिति किज्चिद् वस्तु स्वीक्रियते शास्त्रकारैः। तच्च यागादिकर्मणः स्वर्गादिफलजनकत्वान्यथानुपपत्त्या साधितं पूर्वमीमांसाया द्वितीयाध्यायस्य प्रथमपादस्य तृतीयेऽधिकरणे। अत्र अपूर्वं विनापि यागादेः स्वर्गादिसाधनत्वं निर्वहतीति न तदन्यथानुपपत्तिरपूर्वे प्रमाणं, प्रमाणाभावाच्च नास्त्यपूर्वमिति पूर्वः पक्षः

अपूर्वाधिकरणस्य सङ्गति :- इतः पूर्वस्मिन्नधिकरणे (भावार्थाधिकरणे) 'सोमेन यजेते' त्यादौ यागादेर्धात्वर्थस्यैव भावनाकरणत्वं न तु सोमादेरुपपदार्थस्येति सिद्धान्तितम् । तथा च यागादिधात्वर्थस्यैव अपूर्वजनकत्वमित्यपि फलितम् । यतो हि प्रतिपदाधिकरणे सोमादेर्यागादेर्द्वयोरपि फलभावनाकरणत्वस्वीकारे तयोरुभयोरपि अदृष्टा (अपूर्वा)र्थत्वकल्पनापत्तेर्न द्वयोरपि करणत्वं किन्त्वन्यतरस्यैव, तथा सत्येकस्यैवादृष्टार्थत्वम्, इतरस्य तु दृष्टद्वारा तदर्थत्वमेवेति सिद्धान्तिते कतरस्य फलभावनाकरणत्वमिति जिज्ञासायां भावार्थाधिकरणमवतरति। प्रतिपदाधिकरणसिद्धान्ते एकस्य फलभावनाकरणत्वे तस्यैकस्यैव अपूर्वार्थत्वमित्युक्तत्वात् भावार्थाधिकरणे च धात्वर्थस्य करणत्वोक्तया तस्यैव अपूर्वार्थत्वमिति लभ्यते।

अपूर्वाधिकरणे च अपूर्वमेव नास्तीति पूर्वपक्षिणः कथनेन 'अपूर्वस्यैव अभावे कथं धात्वर्थस्य तज्जनकत्वं स्यादि'त्येवं पूर्वाधिकरणसिद्धान्तलभ्यस्य धात्वर्थस्यैव अपूर्वजनकत्वमित्यर्थस्य आक्षिप्यमाणत्वात् आक्षेपिकी अनन्तरसङ्गतिः। अपूर्वभेदोपयोगिचिन्तनस्य पादार्थत्वात् अपूर्वसाधनस्य च अपूर्वभेदोपयोगित्वात् पादसङ्गतिर्लभ्यते। भावनाभेदस्यैव प्राधान्येन द्वितीये प्रतिपाद्यत्वात् तस्यैव अध्यायार्थत्वेऽपि तत्फलत्वेन अपूर्वभेदस्यापि निरूपणात् अपूर्वभेदौपयिकापूर्वसाधनपरेऽस्मिन्नधिकरणे अध्यायसङ्गतिरपि लभ्यते।

पूर्वपक्ष:

अपूर्वं नास्त्यस्ति वेति संशये अयं पूर्वः पक्षः- यद्यपि स्वर्गादिफलस्य कालान्तरभावित्वात् यागादिक्रियायाश्च क्षणिकत्वात् कञ्चन व्यापारमन्तरा न तयोः साध्यसाधनभावः संभवति, कार्योत्पत्तिपूर्वक्षणे कार्याधिकरणे कारणसत्त्वस्य आवश्यकत्वात् स्वर्गोत्पत्तिपूर्वक्षणे च सुखविशेषात्मकस्वर्गरूपफलाधिकरणे यागकर्तरि यागस्य (इन्द्रायेदं न मम इत्याद्याकारकस्य इच्छारूपस्य ज्ञानरूपस्य वा देवतोद्देश्यकद्रव्यत्यागस्य) अभावात्। व्यापाराङ्गीकारे तु स्वर्गोत्पत्तिपूर्वक्षणे समवायेन (तादात्म्येन)1 यागस्य तत्कर्तरि असत्त्वेऽपि स्वजन्यतादृशव्यापारवत्त्वसंबन्धेन विद्यमानत्वात् यागस्य कारणत्वमुपपद्यते।

(80)

Page 81

वाक्यार्थभारती 2013-14 तथापि न व्यापारत्वेन अपूर्वं कल्पनीयम्। क्लृप्तयागध्वंसस्यैव व्यापारत्वसंभवे अपूर्वकल्पनायां गौरवापत्तेः। ध्वंसं प्रति प्रतियोगिनः कारणत्वेन यागध्वंसस्यापि यागजन्यत्वात् यागस्य स्वजन्यध्वंसाश्रयवेन स्वर्गोत्पत्तिपूर्वक्षणे स्वर्गाधिकरणे यागकर्तरि विद्यमानत्वेन यागध्वंसस्य व्यापारता उपपद्यते।

नन्वेवं सति

'कर्मनाशाजलस्पर्शात् करतोयाविलङ्घनात्।

गण्डकीबाहुतरणाद्धर्मः क्षरति कीर्तनात् ॥'

इत्यत्र यत् धर्मस्य कर्मनाशाजलस्पर्शादिनाश्यत्वमुक्तं, यच्च 'प्रायश्चित्तेन नश्यन्ति पापानि सुमहान्त्यपि' इत्यत्र पापानां प्रायश्चित्तनाश्यत्वमुक्तं, तदुभयमनुपपन्नम्।तथा हि - कर्मनाशाख्यनद्याः जलस्य स्पर्शेन, करतोयेतिनद्याः लङ्घनेन गण्डकीनद्या बाहुभ्यां तरणेन 'मया यागः कृत' इत्यादिरूपेण कृतस्य धर्मस्य कीर्तनेन च धर्मो नश्यतीति कर्मनाशेत्यादिवाक्येनोच्यते अ्त्र धर्मपदेन न तावद्यागादिर्बोध्यते। तस्य क्षणिकत्वेन कर्मनाशाजलस्पर्शादिकं विनापि स्वत एव नाशित्वात्। न हि कदाचित् कृतो याग: कर्मनाशाजलस्पर्शादिकालं यावत्तिष्ठति येन तन्नाश्यः स्यात्। अतो धर्मपदेन लक्षणया यागादिधर्मजन्यः स्वर्गादिजनकः अवान्तरव्यापार एव बोध्यः । यदि च ध्वंस एवावान्तरव्यापारः, तर्हि तस्य अविनाशित्वात् तस्य कीर्तनादिनाश्यत्वकथनमनुपपन्नं भवति।

यथैव यागेन कालान्तरभाविस्वर्गादिफले जननीये कश्चिदवान्तरव्यापारोऽपेक्ष्यते, तथैव ब्रह्महत्याद्यधर्मेण नरकादिफले जननीयेऽपि। यदि कल्पनालाघवात् धर्मस्य तद्धवंस एवावान्तरव्यापारः, न तु अपूर्वमित्युच्येत, तर्हि तुल्यन्यायेन अधर्मस्यापि अधर्मध्वंस एव व्यापारो भवेत्। 'प्रायश्चित्तेन नश्यन्ति पापानि सुमहान्त्यपि' इत्यत्र च ब्रह्महत्यादिनिषिद्धक्रियावाचिनः पापशब्दस्य लक्षणया तादृशक्रि याजन्यव्यापारबोधकत्वं स्वीकार्यम्। क्षणिकायाः क्रियायाः स्वतो नाशित्वेन प्रायश्चित्तनाश्यत्वानुपपत्तेः। ध्वंसस्य व्यापारत्वे तु तस्य अविनाशित्वात् प्रायश्चित्तनाश्यत्वकथनं नोपपद्यत इति

अत्रोच्यते - प्रायश्चित्त - कर्मनाशाजलस्पर्शादेः न धर्माधर्मजन्यव्यापारनाशकत्वं स्वीक्रियते किन्तु स्वर्गनरकादिकालान्तरभाविफलप्रतिबन्धकत्वमेव। तदेव च पूर्वोदाहृतवाक्यद्वयाभिप्रेतम्। यदि च कर्मनाशाजलस्पर्शादीनां प्रतिबन्धकत्वकल्पने तदभावस्यापि यागादिवत् स्वर्गादिकारणता क्ल्पनीयेति गौरवमि2ति विभाव्यते, तर्हि कीर्तनाद्यत्यन्ताभावविशिष्टज्योतिष्टोमादेः स्वर्गादिकारणता अस्तु, विशिष्टगताया एकस्या एव

कारणतायाः कल्पनेन लाघवात्। एवञ्च अपूर्वं विनापि ध्वंसरूपावान्तरव्यापारेणैव यागस्वर्गादिसाध्यसाधनभावोपपत्तेः अन्यथानुपपत्त्यभावात् नार्थापत्तिप्रमाणेन अपूर्वं सिद्ध्यतीति।

(81)

Page 82

वाक्यार्थभारती 2013-14 सिद्धान्त:

अत्र सिद्धान्त उच्यते - ध्वंसस्यैव अवान्तरव्यापारत्वे तस्याविनाशित्वात् पूर्वोद्धृतवाक्ययोः तस्य कीर्तनप्रायश्चित्तादिनाश्यत्वकथनासंभवात् तयोः वाक्ययोः कीर्तनप्रायश्चित्तादेः फलोत्पत्तिप्रतिबन्धकत्वकथने एव तत्पर्यं वक्तव्यम्। तथा सति 'धर्मः क्षरति कीर्तनादि' त्यत्र 'प्रायश्चित्तेन नश्यन्ती' त्यत्र च क्षरतिनश्यत्योर्नाशवाचिनोः फलाजनकत्वे (फलं न जनयन्तीत्यर्थे) लक्षणा आपद्यते। न च तस्यां किञ्चित् प्रमाणम्। न च यागध्वंसरूपव्यापारस्य नित्यत्वेन नाश्यत्वानुपपत्तिरेव लक्षणायां बीजमिति वाच्यम् । ध्वंसस्यैव व्यापारत्वमित्यस्यैव असिद्धेः । न च लाघवमेव ध्वंसस्य व्यापारत्वं साधयति, अन्यथा अपूर्वकल्पनायां गौरवादिति वाच्यम् । क्षरतिनश्यतिशक्यार्थविरोधे लाघवमात्रेण ध्वंसस्य व्यापारत्वासिद्धेः। एवञ्च क्षरतिनश्यत्योर्लक्षणायां प्रमाणाभावात् शक्यार्थ एव स्वीकार्यः । स च ध्वंसस्य व्यापारत्वे नोपपद्यत इति नाशयोग्य एव कश्चिद्व्यापारः स्वीकर्तव्यः। तदेवापूर्वम्। तदित्थं यागस्वर्गसाध्यसाधनभावान्यथानुपपत्त्या सिद्धे अवान्तरव्यापारे, तस्य च धर्मः क्षरति कीर्तनादित्यादिना कीर्तनादिनाश्यत्वकथनेन नाशयोग्यत्वे लब्धे ध्वंसस्य च अतादृशत्वेन अन्यस्य च क्लृप्तस्य पदार्थस्य यागाद्यवान्तरव्यापारत्वानुपपत्तेः अतिरिक्तमपूर्वं सिद्ध्यति। अपूर्वाख्यातिरिक्तपदर्थकल्पनाप्रयुक्तम् गौरवन्तु अस्या: कल्पनायाः क्षरतिनश्यतिशक्यार्थबोधकत्व (लक्षणाभाव) रूपफलद्वारा आपद्यमानत्वात् 'फलमुखगौरवं न दोषाये'ति न्यायेन न दोषावहम्। अपूर्वभेदा:

प्रधानयागेन फले जननीये अपूर्वमवान्तरव्यापार इत्युक्तमेव। अङ्गेन प्रधानोपकारे जननीयेऽपि अपूर्वमवान्तरव्यापारत्वेन अपेक्ष्यते। इदं च अङ्गापूर्वमित्युच्यते। प्रधानयागानुष्ठानमात्रेण जायमानमपूर्व तु उत्पत्त्यपूर्वमित्युच्यते । सर्वाङ्गान्ते सर्वाङ्गापूर्वसहितोत्पत्त्यपूर्वेण परमापूर्वोत्पत्तिः, ततश्च फलोत्पत्तिर्भवति। एवञ्च यत्र कर्मणि एकं प्रधानं तत्र प्रधानजन्ये द्वे अपूर्वे - उत्पत्त्यपूर्वं परमापूर्वञ्चेति। यत्र तु प्रधानानामनेकत्वं यथा राजसूये, तत्र उत्पत्त्यपूर्वाणामप्यनेकत्वं, परमापूर्वं त्वेकमेव। दर्शपूर्णम्सयोस्तु षट् प्रधानयागाः । अतः षडुत्पत्त्यपूर्वाणि। तत्र त्रयो यागाः पौर्णमास्यां त्रयोऽमावास्यायाम्। 'पौर्णमास्यां पौर्णमास्या यजेत', 'अमावास्यायाममावास्यया यजेत' इति त्रयाणां त्रयाणां पौर्णमास्यमावास्यापदबोध्यानां कालविशिष्टप्रयोगविधानात्। यद्यपि तेषु तेषु यागेषु उत्पत्तिवाक्यादेव कालोऽपि प्राप्तः, तथापि त्रयाणां त्रयाणामेकप्रयोगतासिद्ध्यर्थमत्र कालो विधीयते। अत्र च 'पौर्णमास्या अमवास्यस्या' इति पदद्ये यागत्रयनिष्ठकरणतानामेकया तृतीयया उपादानात् तिसृणां करणतानां साहित्यं प्रतीयते। तच्च एकार्थनिरूपितत्वे एव संगच्छते। अत्र: त्रिभिस्त्रिभिर्यागैरेकैकं समुदायापूर्वरूपकार्यमुत्पाद्यते उत्पत्त्यपूर्बद्व। द्वाभ्यां समुदायापूर्वाभ्यां च परमापूर्वमुत्पद्यते। आहत्य दर्शपूर्णमासयो: षडि्भः प्रधानैर्नव अपूर्वाणि उत्पाद्यन्ते।

व्रीहिप्रोक्षणादिरूपसन्निपत्योपकारकाङ्गजन्यं व्रीह्यादिनिष्ठ मपूर्वं तु प्रधाननिष्ठोत्पत्त्यपूर्वजननानुकूलयोग्यतां जनयति। अर्थात् प्रोक्षितैरेव व्रीहिभि: कृतो यागः उत्पत्यपूर्वं

(82)

Page 83

वाक्यार्थभारती 2013-14 जनयितुं योग्य:, प्रोक्षणाभावे तु कृतोडपि यागः नैवोत्पत्त्यपूर्वं जनयतीति लभ्यते। अनेकप्रधानानां सत्त्वे अन्तिमप्रधानगतयोग्यतया सन्निपत्योपकारकाङ्गजन्यमपूर्वं नश्यति। यथा आग्नेयाग्नीषोमीययोरङ्गभूताना व्रीहीणां प्रोक्षणेन जातमपूर्वमग्नीषोमीयस्य उत्पत्त्यपूर्वजननानुकूलयोग्यतया नश्यति।

आरादुपकारकाङ्गजन्यमपूर्वं च प्रधानजन्योत्पत्त्यपूर्वगतस्वाव्यवहितोत्तरकार्यजननानुकूलयोग्यतां जनयति। यदि तु समुदायापूर्वसत्त्वे एकपदोपादानलभ्ययागत्रयकरणतासाहित्यानुपपत्तिरूपप्रमाणसत्त्वेऽपि परमापूर्वसत्त्वे न किञ्चित् प्रमाणम्, तदभावेऽपि अङ्गापूर्वसहितोत्पत्त्यपूर्वेण फलोत्पत्तिसंभवेन अनुपपत्यभावादिति विभाव्यते तर्हि आरादुपकारकाङ्गापूर्वाणामुत्पत्त्यपूर्वनिष्ठफलजननानुकूलयोग्यताजतवोव अस्तु। अनेकप्रधानसत्त्वे 'अन्तिम प्रधानजन्योत्पत्त्यपूर्वनिष्ठयोग्यतया चेदमङ्गापूर्वं नश्यति।

यागादिजन्यमपूर्वं च आत्मनिष्ठम् । स्वर्गादिफले अवान्तरव्यापारत्वेन कल्प्यमानस्य तत्सामानाधिकरण्यस्यैव उचितत्वात्।

ननु एवमपूर्वे कल्पिते तस्यैव फलं प्रति कारणत्वोपपत्त्या यागस्य च अपूर्वजनकत्वात् फलं प्रति अन्यथासिद्धत्वापत्तिरिति चेन्न। श्रुतिप्रमितयागस्वर्गसाध्यसाधनभावान्यथानुपपत्तिकल्पितस्य अपूर्वस्य स्वोपजीव्यभूतयागस्वर्गसाध्यसाधनभावविघातकत्वानुपपत्तेः । अत एवोच्यते - 'द्वारेण (व्यापारेण) द्वारिणो नान्यथासिद्धिरि'ति।

  1. समवायस्थाने तादात्म्यं व्यवहरन्ति भाट्टाः । 2. यद्यपि विशिष्टस्य कारणत्वपक्षे एव गौरवमिति शक्तेरतिरिक्तत्वखण्डनावसरे न्यायसिद्धान्तमुक्तावलीव्याख्यानेषु निरूपितम्, तथापि कीर्तनादेः प्रतिबन्धकत्वपक्षे गौरवम् कथयतो मीमांसाकौस्तुभकारस्याशयोऽत्र वर्णितः । 3. अस्मिन्नर्थे भादटदीपिकापङ्त्तरस्ति - 'प्रधानेन स्वर्गादिफले अङ्गेन च प्रधानादौ जननीये अपूर्वं तदवान्तरव्यापार' इति। अत्र अतद्गुणसंविज्ञानबहुव्रीहिणा प्रधानादिपदेन प्रधानोपकारो विवक्षितः च

  2. इदञ्च यथाश्रुतभाद्टदीपिका पङिक्तिमनुसृत्योक्तम् । वस्तुतस्तु सहितैः पूर्वोत्तराङ्गजन्यापूर्वैः युगपदेव आग्नेयादिभिस्त्रिभिर्यागैर्जन्येषु उत्पत्त्यपूर्वेषु समुदायापूर्वजननानुकूलयोग्यताजननसंभवात् न तत्र कश्चित् क्रमः । अतः सर्वप्रधानजोत्पत्त्यपूर्वनिष्ठयोग्यताभि: अङ्गापूर्वनाश इत्येव ग्रन्थाभिप्रायो वर्णनीयः ।

(83)

Page 84

वाक्यार्थभारती 2013-14 आरम्भशब्दार्थः

डा. गुरुराजकल्कूर

दर्शपूर्णमासप्रकरणे 'दर्शपूर्णमासौ आरप्स्यमान: अन्वारम्भणीयां इष्टिं निर्वपेत् इति वाक्यं श्रुतम्। अनेन वाक्येन प्रकरणप्रमाणानुसारेण क्रतूद्देशेन अन्वारभ्यणीयेष्टि: न विधीयते। यतो हि र्दपूर्णमासौ आरप्स्यमान: इति पदद्वयं व्यर्थं भवति. अतः क्रियार्थायां क्रियायां उपपदे विहितः य लृट्प्रत्ययः सः आरप्स्यमान: इत्यत्र श्रूयते। तथा च आरम्भरूपपदार्थोद्देशेन अन्वारम्भणीयोष्टि: विधीयते। उद्देश्य कोटिप्रविष्टः आरम्भशब्दार्थ: कः ? इति अत्र विचार्यते।

अत्र पूर्वपक्षिणः याज्ञिकप्रसिद्ध्यनुसृत्य अग्न्यन्वाधानमेव तत्वेन रूपेण आरम्भशब्दार्थः इति कथयन्ति। यदि अन्वारम्भणीया प्रथमपदार्थत्वेन रूपेण प्रथमपदार्थस्य अङ्गम् स्यात् तर्हि अग्न्यन्वाधानरहितायां विकृतौ आरम्भाङ्गतया ऊह्येत।

यदि अन्वाधानस्य अप्रवृत्तप्रवर्तनाविषयत्वेन रूपेण आरम्भपदवाच्यत्वं स्यात् तर्हि अन्वाधानस्य आरम्भपदवाच्यत्वं एव न स्यात् यतो हि दर्शपूर्णमासविषयकाप्रवृत्तप्रवर्तनाविषयत्वं दर्शपूर्णमासयो: एव वर्तते न तु अन्वाधाने । अतः अन्वाधाने तस्य बाधात् याज्ञिकप्रसिद्ध्या रूढिः एव आरम्भपदस्य वाच्या। ततश्च अन्वाधानार्था आरम्भणीया अन्वाधानरहितायां विकृतौन उहितव्या। अतः अन्वाधानस्य प्रतिदर्शपूर्णमासप्रयोगं आवृत्तेः आवर्तनीया अन्वारम्भणीया इति पूर्वः पक्षः ।

वृत्तिकार: उपवर्ष: एवं सिद्धान्तयति अग्न्यन्वाधानं आरम्भपदार्थः भवितुं न अर्हति । अन्वाधानाभावेऽपि देवताश्च यज्ञम् आरभन्ते इति ज्योतिष्टोमेऽपि आरम्भशब्दप्रयोगः दृश्यते। तस्मात् 'इदं मया कर्तव्यम्' इति सङ्कल्पापरपर्याय अध्यवसायविशेषः । तथा च अन्वाधानरहितायां विकृतौ सङ्कल्पस्य सत्वात् अन्वारम्भणीया कर्तव्या। प्रकृतौ तु आधानोत्तरं सर्वयावज्जीविकप्रयोगाणां सकृदेव सङ्कल्पकरणात् सकृदेव अन्वारम्भणीया इति वृत्तिकाराणां अभिप्रायः ।

अत्र भाष्यकाराः वृत्तिकारमते दूषणं उक्त्वा स्वसिद्धान्तं वर्णयन्ति। सर्वसाधारण्येण अध्यवसायाङ्गीकारे प्रमाणं नास्ति। यतो हि निमित्ते प्राप्ते नौमित्तिकं उपस्थितं भवति। तत्तत्कालावस्थित तत्तज्जीवनाख्ये निमित्ते प्राप्ते तत्तन्नैमित्तिकप्रयोग: उपस्थितो भवति। अतः सर्वयावज्जीविकप्रयोगाणां युगपत् उपस्थितिः न भवितुं अर्हति। तस्मात् अध्यवसायैक्यं वक्तुं न शक्यते।

तस्मात् भाष्यकारैः एवं सिद्धान्तितम् ।आरम्भशब्दवाच्यः अध्यवसायविशेषः न । किन्तु अप्रवृत्तप्रवर्तनं आरम्भशब्दवाच्यम्। अध्यवसायेऽपि अप्रवृत्तप्रवर्तनाविषयत्वेन रूपेण आरम्भशब्दप्रयोग: । पदार्थषु आरम्भशब्दप्रयोगस्तु अप्रवृत्तप्रवर्तनाविषयत्वात् उपपद्यते। अतः तदर्था अन्वारम्भणीया।

दर्शपूर्णामासौ इत्यत्र द्वितीयायाः उद्देश्यत्वं अर्थः । तथा च दर्शपूर्णमासोद्देश्यकाप्रवृत्तप्रवर्तनाविषयत्वं तत्प्रथमप्रयोगीयाद्यपदार्थ एव इति तदङ्गम् आरम्भणीया।

(84)

Page 85

उक्तविधप्रर्वर्तनाविषयत्वं च दर्शपूर्णमासोद्देश्यकप्रवृत्तिध्वंसासमानकालीनदर्शपूर्णमासोद्देश्यक- वाक्यार्थभारती 2013-14

प्रवृत्तिविषयत्वं। तच्च न दर्शपूर्णमासीयप्रथमप्रयोगाद्यपदार्थभिन्ने सम्भवति। तदितरस्य सर्वस्य तदुद्देश्यकस्य तादृशध्वससमानकालीनत्वात्।

अत्र दर्शपूर्णमासयोः न तत्तद्व्यक्तित्वेन प्रवृत्तिं प्रति उद्देश्यता। येन तद्व्यक्तित्वावच्छिन्नो द्देश्यक प्रवृत्तिध्वंसासमानकालीनतद्व्यक्तयुद्देश्यक प्रवृत्तिविषयत्वात् द्वितीयप्रयोगीयाद्यपदर्थाङ्गत्वेनापि सा स्यात्। दर्शपूर्णमासौ इति श्रवणात् दर्शपूर्णमासत्वमेव उद्देश्यतावच्छेदकं। उभयत्रापि प्रवृत्तिनिरूपितोद्देश्यतावच्छेदकविवक्षा। अन्यथा सामान्यतः 'विहितक्रिया मे जायताम्' इत्याकारकोद्देश्यतायाः गङ्गास्नानप्रवृत्तावपि दर्शपूर्णमासोद्देश्यकप्रवृत्तित्वात् तत्रापि आरम्भणीयापत्तेः । अतः दर्शपूर्णमासत्वावच्छिन्नो द्देश्यताकप्रवृत्तिध्वंसासमानकालीन- तदवच्छिन्नोद्देश्यताकप्रवृत्तिविषयत्वेनैव प्रथमपदार्थस्य उद्देश्यता।

(85)

Page 86

वाक्यार्थभारती 2013-14 पदार्थ: पदार्थेनान्वेतीति व्युत्पत्तिविमर्शप्रकारः

डा. एन. आर्. कण्णन्

पदार्थ: पदार्थेनान्वेति न तु पदार्थैकदेशेन इति नियमानड्गीकारे किं बाधकम् ? अड्गीकारे च चैत्रस्य गुरुकुलं 'सम्पन्नो व्रीहिरित्यादौ कथं निर्वाह :? एतादृशस्थलेषु एकदेशान्वयानङ्गीकारे शाब्दबोधानुपपत्तेरित्याक्षेपद्वयस्य समाधानम् पदार्थः पदार्थनैवान्वेतीति व्युत्पत्तेरावश्यकत्वं च अस्मिन् निबन्धे सविमर्श प्रस्तूयते।

पदार्थः पदार्थेनान्वेतीति वाक्येन पदानुपस्थाप्यसम्बन्धावच्छिन्न किञ्चिन्निष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति मुख्यविशेष्यता सम्बन्धेन वृत्तिज्ञानजन्योपस्थितिः कारणमिति सामान्यतः कार्यकारणभावो लभ्यते। ईदृशरीत्या कार्यकारणभावानङ्गीकारे घटपदार्थैकदेशभूतघटत्वे नित्यत्वस्याबाधिततया घटत्वे नित्यपदार्थान्वयतात्पर्येण घटो नित्य इति प्रयोगापतिस्स्यात्। एतादृशापत्तिवारणाय शाब्दबोधे अन्वयितावच्छेदकरूपेणोपस्थितस्यैव पदार्थस्य अन्वय इति नियमो यदिस्वीक्रियेत तदा घटत्वस्य जातित्वेन स्वरूपत एव भानादन्वयितावच्छेदकरूपेणानुपस्थितेश्च न तत्र नित्यपदार्थान्वयस्सम्भवतीति तादृशतात्पर्येण घटो नित्य इति प्रयोगापत्तिर्न सम्भवति, किं तु चित्रव्रज इत्यत्र व्रजपदर्थैकदेशभूतस्य गोः जात्यतिरिक्ततया तस्य गोत्वरूपान्वयितावच्छेदकरूपेणोपस्थितेस्सत्वात् पदार्थैकदेशान्वयाङ्गीकारे तत्राभेदसम्भन्धेन चित्रपदार्थान्वयापत्तिः। ततश्च चित्रव्रज इत्यत्र चित्राभिन्ना गैरिति शाब्दबोधापत्तिः। तत्र तु चित्राभिन्नं गोस्थानमित्येव शाब्दबोधोऽनुभूयते। अतोऽत्र निरुक्तरीत्या मुख्यविशेष्यतासम्बन्धेन वृत्तिज्ञानजन्योपस्थिे: कारणत्वमङ्गीकृत्य व्रजपदार्थैकदेशभूतस्य गोश्च प्रकारतासम्बन्धेनैव उपस्थिततया मुख्यविशेष्यता सम्बन्धेन वृत्तिज्ञानजन्योपस्थितेरसत्वेन न चित्राभिन्नागौरिति शाब्दबोधापत्तिरिति तदर्थं पदार्थ: पदार्थेनैवान्वेतीति व्युत्पत्तिरवश्यमभ्युपगन्तव्येति गदाधरभट्टाचार्याणामाशयः ।

अत्रेदं विचार्यते -

पदार्थः पदार्थेनान्वेति न तु तदेकदेशेनेति नियमाङ्गीकारे चैत्रस्य गुरुकुलमित्यत्र षष््यर्थनिरूपितत्वस्य गुरुकुलमित्यत्र गुरुपदार्थैकदेशभूत गुरुत्वेऽन्वयानुपपत्त्या शाब्दबोधानुपपत्तिस्स्यात् अतः किञ्चिन्निष्ठप्रकारतानिरूपितविशेष्यता सम्बन्धेनेत्यत्र विशेष्यतायां ससंबन्धिकावृत्तित्वरूपविशेषणं देयं, तथा सति चैत्रस्य गुरुकुलमिति वाक्यजन्यचैत्रनिरूपितगुरुत्वाश्रय गुरुत्पाद्यकुलमिति शाब्दबोधे भासमानायाः गुरुत्वनिष्ठविशेष्यतायास्ससम्बन्धिकपदार्थवृत्तित्वेन तदवृत्तित्वाभावेन कार्यतावच्छेदकानाक्रान्ततया तत्र गुरुत्वस्य मुख्यविशेष्यतासम्बन्धेन वृत्तिज्ञानजन्योपस्थितेरभावेऽपि नैकदेशान्वयप्रयुक्तशाब्दबोधानुपपत्तिः इत्येकं समाधानम्।

अत्रैव शब्देन्दुशेखरकारेण षष््याः न निरूपितत्वमर्थः किं तु गुरुत्पाद्यत्वमेव, तत्र च चैत्रपदार्थस्य स्वप्रतियोगिकत्वसम्बन्धेनान्वयः । गुरुत्पाद्यत्वघटकीभूतगुरुत्वस्य वस्तुतश्चैत्रप्रतियोगिकत्वेन

(86)

Page 87

वाक्यार्थभारती 2013-14 गुरुत्पाद्यत्वस्यापि तादृशगुरुत्वघटितत्वात् चैत्रप्रतियोगिकत्वमव्याहृतम्। षष््यर्थस्य च कुलपदार्थ एवान्वयः इति नात्र पदार्थैकदेशान्वयप्रयुक्तव्युत्पत्तिविरोधः शक्य शंक इति प्रकारान्तरेण समाहितमिति विशेषः । परं तु एवं रीत्या समाधानकरणे गुरुकुलपदलभ्यांशस्य षष्ठीत एव लाभेन विशेष्यविशेषणभावभेदमात्रपर्यवसायिनो गुरुकुलपदस्य निष्फलत्वापत्तेः ।

प्रकृत्यर्थतावच्छेदकवत्वसंसर्गविषयताशालि-शाब्दबुद्धित्वस्यैव कार्यतावच्छेदकताया वाच्यतया तात्पर्यज्ञाने शाब्दबोधप्रतिबन्धकीभूतायोग्यताज्ञाने च निरुक्तसंसर्गघटकानेकपदार्थविषयतायाः प्रवेशेन तात्पर्यज्ञानायोग्यताज्ञानाभावकारणतावच्छेदकयोः तादृशसंसर्गघटितयोर्वाच्यत्वेन च महद्गौरवं भवति।

अपि च निरुक्तपरम्परासम्बन्धेन व्रीहावेव एकत्वान्वयाङ्गीकारे व्रीहित्वं नैकमिति बाधज्ञानदशायामपि तद्वाक्यात् एकत्वबोधापत्तिः विभिन्नधर्मिकत्वात्। अतोऽत्र व्रीहित्वजातावेवैकत्वान्वयः श्रेयाना।

अथ अन्वयितावच्छेदकरूपेणोपस्थितस्यैव पदार्थस्य पदार्थान्तरान्वयित्वमिति नियमानड्गीकारे को दोष इति प्रथमतः विचारणीयम्। तत्र च स्वरूपेणोपस्थिते व्रीहित्वे पदार्थान्तरान्वये तच्छाब्दबुद्धे: निर्धार्मितावच्छेदकतया व्रीहित्वं नैकमिति बाधज्ञानप्रतिबद्धयत्वानुपपत्तिः समानधर्मितावच्छेदककज्ञानस्यैव प्रतिबद्ध्यप्रतिबन्धकभावकल्पनात्। बाधज्ञानप्रतिबद्धयत्वाभावे का क्षतिरिति चेत् व्रीहित्वं नैकमिति बाधन्द्यानसमयेऽपि ब्रीहित्वे एकत्वविषयकस्य सर्वानुभवैरुद्धशाब्दबोधापत्तिरिति अन्वयितावच्छेदकरूपेणोपस्थितेरावश्यकतेति प्रकृत्यर्थव्रीहावेव एकत्वान्वयवादिनोऽभिप्रयन्ति।

अयं पक्षो न स्वरसः (गदाधरभट्टाचार्याननुमतश्च) यतो हि भट्टाचार्येण यदि स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्वसम्बन्धेन प्रकृत्यर्थ एवैकत्वान्वयः, व्रीहित्वजातेः स्वरूपत एव व्रीह्यादिपदशक्यतावच्छेदकतयाऽन्वयितावच्छेदकरूपेणानुपस्थितेस्तत्र पदार्थान्तरान्वयस्यानुपपत्तेः इति विकल्पकथनात्पूर्वं तादृश व्युत्पत्तिसङ्कोचस्यावश्यकत्वादिति ग्रन्थेन प्रकत्यर्थतावच्छेदके व्रीहित्व एव एकत्वान्वयपक्षः प्रदर्शितः ।

तथा हि धर्मितावच्छेदकतत्तद्धर्मभेदेन प्रतिबद्धयप्रतिबन्धकभावभेदस्यावश्यकत्वेन प्रकृते व्रीहित्वं नैकमिति ज्ञानेन स्वरूपतो व्रीहित्वे एकत्वज्ञानप्रतिबन्धरूपफलानुभवानुरोधेन व्रीहित्वनिष्ठनिरवच्छिन्नविशेष्यतानिरूपितैकत्वप्रकारताशालिशाब्दबुद्धित्वेन व्रीहित्वत्वावच्छिन्नविशेष्यता निरूपितैकत्वाभावत्वावच्छिन्नप्रकारताशालिनिश्चयत्वेन च प्रतिबध्यताप्रतिबन्धकाभावकल्पनाया स्समुचिततयानायोग्यताज्ञानप्रतिबध्यत्वानुपपत्तिः। सर्वत्रानुभवस्यैव मुख्यप्रमाणत्वात् क्वचिन्निर्धर्मिता

वच्छेदकज्ञानस्यापि प्रतिबध्यत्वसम्भवान्न तदर्थं सर्वत्रान्वयितावच्छेदकरूपेणोपस्थितस्यैव पदार्थस्य शाब्दबोधविषयत्वमिति नियमोऽनुसरणीय इत्याशयः । तद्धर्मावच्छिन्नविशेष्यताकतद्वत्ताबुद्धिसत्वे तद्धर्मावच्छिन्नविशेष्यकतदभावप्रकारकज्ञानस्यानुत्पत्या तत्र तद्धर्मावच्छिन्नविशेष्यकतद्वत्ताबुद्धेः,

Page 88

वाक्यार्थभारती 2013-14 तदभावप्रकारकज्ञानप्रतिबन्धकत्वं वक्तव्यम् । न परमेतावत् किं तु तद्धर्मान्यानवच्छिन्न- विशेष्यकतद्वत्ताबुद्धेरपि प्रतिबन्धकता वक्तव्या अन्यथा नीलभूतलं घटवदिति ज्ञानात् भूतलत्वसामानाधिकरण्येन घटाभावावगाहिनो भूतलं घटाभाववदिति ज्ञानस्यापि प्रतिबन्धापत्तिः। उभयत्र भूतलत्वावच्छिन्नस्यैव विशेष्यत्वात्। एतद्दोषपरिहारार्थं भूतलत्वमात्रवृत्तिपर्याप्तिकावच्छेदकताकत्वं विशेष्यतायां निवेश्य नीलभूतलं घटवदिति ज्ञानीयविशेष्यताया उभयत्वपर्याप्तिकावच्चेदकताकत्वमेव न तु भूतलत्वमात्र (वृति पर्याप्तिकावच्छेदकताकत्वमिति रीत्या दोषो वार्यते चेत्तदा लाघवात् तद्धर्मान्यावृत्तित्वस्यैव विशेष्यतावच्छेदकातायां निवेशस्समुचितः । ततश्च तद्धर्मावच्छिन्नविशेष्यकतदभावबुद्धौ तद्धर्मान्यानवच्छिन्न विशेष्यताकतद्वत्ताबुद्धित्वेन प्रतिबन्धकता फलिता। नीलभूतलं घटवदितिज्ञानीयविशेष्यतायाश्च भूतलत्वान्यनीलत्वावच्छिन्नतया तदनवच्छिन्नत्वाभावेन नानुपपत्तिः । प्रकृते व्रीहित्वनिष्ठानवच्छिन्न विशेष्यताकैकत्वज्ञानस्य व्रीहित्वत्वावच्छिन्नविशेष्यताकैकत्वज्ञानाभावविरोधित्वं सुष्ठु निर्वहत्येवेति न काचिदनुपपत्तिरिति भाव।

एवं स्वाश्रयेत्यादिघटितपरंपरासम्बन्धेन प्रकृत्यर्थव्रीहावेवान्वयाङ्गीकारे प्रत्ययानां साक्षात्स्संबन्धेन प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेरपि भङ्गस्स्यात्। अतोऽत्र व्रीहित्वे एकत्वान्वयपक्षे अधिकगौरवाभावेन लाघवसत्वात् कस्य अप्यनुपपत्तेरभावाच्च स एव पक्षः स्वरसः ।

एतावता प्रबन्धेन पदार्थः पदार्थेनान्वेतीति व्युत्पत्तेरावश्यकत्वं तदड्गीकारे बाधकाभावश्च न्यरूपि।

(88)

Page 89

"आप्तोपदेशः शब्द" इति सूत्रार्थविचारः वाक्यार्थभारती 2013-14

प्रो. एन्. आर्. शठकोपताताचार्य:

न्यायदर्शने प्रथमाध्याये प्रथमाह्निके सप्तमं सूत्रम् 'आप्तोपदेश: शब्दः' इति। दुःखपङ्कनिमग्नं जगदुद्दिधीर्षुः परमकारुणिको मुनिः शास्त्रेऽस्मिन् लोकानां प्रवृत्त्युत्पादनायाभिधेयप्रयोजनादिसूचनाय च

तत्त्वज्ञानान्निःश्रेयसाधिगम' इत्यादिमं सूत्रं प्रणिनाय। इयमत्र समासफक्किका-प्रमाणानि च प्रमेयं च संशयश्च प्रयोजनं च दृष्टान्तश्च सिद्धान्तश्च अवयवाश्च तर्कश्च निर्णयश्च वादश्च जल्पश्च वितण्डा च हेत्वाभासाश्च छलं च जातिश्च निग्रहस्थानानि च प्रमाणप्रमेय निग्रहस्थानानि, तेषां; तत्त्वस्य ज्ञानं तत्त्वज्ञानं, तस्मात्, निःश्रेयसस्याधिगमः निःश्रेयसाधिगम इति। अत्र प्रमाण निग्रहस्थानानामिति सम्बन्धसामान्ये षष्ठी। तत्त्वस्य ज्ञानं निःश्रेयसस्याधिगम इति कर्मणि षष््यौ, तत्त्वस्य विषयत्वेन निःश्रयसस्याधिगम्यमानत्वेन च तयोः प्राप्यत्वात्। तथा च प्रमाणादिषोडशपदार्थसम्बन्धितत्त्वविषयकज्ञानप्रयोज्या निःश्रेयसप्राप्तिरिति सूत्रार्थः। तत्त्वस्य तु स्वरूपमुक्तं भाष्यकारेणैव 'किं पुनः तत्त्वं सतश्च सद्भावोऽसतश्चासद्भावः। सत् सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति। असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति' इति। अस्यायं भाव :- तस्य भाव: तत्त्वम्। तच्छब्देन सदसती गृह्येते। शास्त्रेऽस्मिन् सदसतोरेव प्रमाणविषयत्वेनाधिकरात्। अस्य हि शास्त्रस्य परमप्रयोजनं मोक्षः । स च सदसद्रपपदार्थज्ञानेन भवतीति तद्विषयक प्रमाणान्येव प्राधान्येनात्र निरूप्यन्ते। अत एव शास्त्रेऽस्मिन् प्रमाणस्य प्रथमं निर्देशः सूत्रकृता कृतः, मेयसिद्धेः मानाधीनत्वात्। उक्तं चैतत्प्रामाण्यवादे चिन्तामणिकारेण- 'अथ जगदेव दुःखपङ्कनिमग्नमुद्दिधीर्षुरष्टा- दशविद्यास्थानेष्वभ्यर्हिततमामान्वीक्षिकीं परमकारुणिको मुनिः प्रणिनाय। तत्र प्रेक्षावत्प्रवृत्त्यर्थं प्रमाणादीनां तत्त्वज्ञानान्निःश्रेयसाधिगम इत्यादावसूत्रयत्। तेष्वपि प्रमाणाधीना सर्वेषां व्यवस्थितिरिति प्रमाणतत्त्वमत्र विविच्यत' इति। तथा च शास्त्रे ऽस्मिन् प्रमाणविषयस्यैवाधिकृतत्वात् प्रमाणविषयीभूतसदसतोरेव तच्छब्देन परामर्शः। उक्तं चैतद्वार्तिककारेण 'तस्य भावस्तत्त्वमित्यत्र तद्वाच्यं यस्य भाव इति । सदसती तत्, प्रमाणविषयत्वेनाधिकारात् । सदसती प्रमाणविषयावित्यधिकृतं, तस्मात् सदसती तदिति । तद्भाव: सदसत्त्वं सदसतोः प्रमाणविषयता तत्प्रतिषेधश्च। तयोः खलु सदसतोर्भावो द्विरूपः । विधीयमानः प्रतिषिद्ध्यमानश्च। यदेकत्र विधीयते तदन्यत्र प्रतिषिध्यते। तद्यथा 'गन्धवती पृथिवी, अगन्धा आप' इति। तथा च प्रमाणादिपदार्थनिष्ठतत्त्वविषयकज्ञानप्रयोज्या निःश्रेयसप्राप्तिरिति फलितार्थः ।

तदिदं प्रमाणं चतुर्विधमिति सूत्रकारेणैव निगदितं 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इति।

अनन्तरं यथाक्रमं प्रत्यक्षादिप्रमाणानि निरूप्य शब्दप्रमाणं लक्षयति 'आप्तोपदेशः शब्द' इति। अत्र शब्दलक्षणविषये न्यायशास्त्रप्रवर्तकानामाचार्याणां मतानि कानि ?तेषां सामञ्जस्यं कथमित्यादयो विषयाः प्रस्तूयन्ते।

(89)

Page 90

वाक्यार्थभारती 2013-14 प्रथमं तावत्सङ्गतिरुच्यते - इतः पूर्वं 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इति सूत्रे उद्दिष्टं क्रममनुसृत्य उपमाननिरूपणानन्तरं प्रसङ्गसङ्गत्या अथवा शाब्दप्रमाया वाच्यवाचक भावाख्यसके तग्रहणमूलकतया उपमानस्य संज्ञासंज्ञिसम्बन्धज्ञानफलकतया उपजीव्योपजीवकभावसङ्गत्या शब्दनिरूपणे प्रवृत्तिः ।

शब्दविषये त्रिविधा विप्रतिपत्ति :- 1. शब्दः प्रमाणं भवति न वा, 2. शब्दस्यावान्तरभेदास्सन्ति न वा, 3. शब्दस्य लक्षणं सम्भवति न वेति। तत्र शब्दः प्रमाणं न वेति प्रथमा विप्रतिपत्तिःशब्दस्य प्रामाण्यानभ्युपगमे विवक्षितार्थस्य शब्दः प्रमाणमितिरूपस्य अप्रमाणमितिरूपस्य वा प्रतिपादयितुमशक्यत्वात् स्ववचनविरोधादेव निरस्ता । शब्दः प्रमाणमप्रमाणमिति वा प्रतिपादनस्य शब्दैककर्तव्यत्वात् । अयमत्र भाव: विवक्षितार्थप्रतिपादनं शब्देनैव कर्तव्यम्। तद्यदि अप्रमाणं तदा विवक्षितार्थप्रतिपादनमेव कर्तुमशक्यं, यदि प्रतिपाद्यते तदा शब्दस्य प्रामाण्यं तेनैव सिद्ध्यति इति।

द्वितीया च विप्रतिपत्तिः शब्दः भेदवान्नवेति। सा चान्यत्र परीक्षासमये भेदवत्त्वसाधनेन निरस्यत इति नेह प्रतन्यते।

तृतीया च विप्रतिपत्तिः शब्दस्य लक्षणं सम्भवति न वेति। तत्रेदमुच्यते 'आप्तोपदेश: शब्द' इति। शब्द इति लक्ष्यवाचकं पदम्। आप्तोपदेश इति लक्षणवाचकं पदम् । उपदिश्यतेऽनेनेति उपदेशः । आप्तस्योपदेश आप्तोपदेशः । आप्तश्च प्रकृतवाक्यार्थयथार्थज्ञानवान् । तथा च प्रकृतवाक्यार्थयथार्थज्ञानवत्प्रयुक्त: शब्दः प्रमाणम्। अर्थं बुद्धवा शब्दरचना इति न्यायेन शब्दप्रयोगस्य अर्थज्ञानपूर्वकत्वे अर्थज्ञानस्य शब्दप्रयोगकारणतया आप्तेन यः शब्द: प्रयुज्यते स प्रकृतवाक्यार्थयथार्थज्ञानजन्य इति "प्रकृतवाक्यार्थयथार्थज्ञानप्रयुक्तः शब्दः शब्दप्रमाणम्" इति शब्दलक्षणकथनपरसूत्रार्थ इति सिद्ध्यति। अयमर्थः वृत्तिकारेण प्रदर्शितः ।

न्यायभाष्यरीत्या सूत्रार्थवर्णनम्

भाष्ये च 'आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा, साक्षात्करणमर्थस्याप्तिः तया प्रवर्तत इत्याप्तः । ऋष्यार्यम्लेच्छानां समानं लक्षणम्। तथा च सर्वेषां व्यवहारा: प्रवर्तन्त' इति कथयन्तः आप्तव्यवहारस्य शब्दप्रमाणत्वमाहुः भाष्यकाराः । अत्र च साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा इत्यन्तमाप्तलक्षणप्रतिपादनपरम्। साक्षात्कृतधर्मा इत्यत्र साक्षात्करणं सुदृढप्रमाणेनावधारणम्। धर्मशब्देन हिताहितप्राप्तिपरिहारार्थाः पदार्था उच्यन्ते। तथा च साक्षात्कृताः सुदृढेन प्रमाणेनावधारिता धर्माः पदार्थाः येन स साक्षात्कृतधर्मा इत्यर्थः । तेनानवधृतपदार्थकेन प्रयुक्तस्य प्रमाणत्वं निरस्तम्।

एवं सम्यक् ज्ञातापि विद्वान् विप्रलम्भार्थं यदि विपरीतमुपदिशति तत्रातिव्याप्तिः। तद्वारणार्थमुक्तं 'यथादृष्टस्यार्थस्य चिख्यापयिषया' इति। ज्ञात्वा विपरीतोपदेशे यथादृष्टार्थचिख्यापयिषा नास्तीति नातिव्याप्तिः ।

(90)

Page 91

वाक्यार्थभारती 2013-14 एवमपि इच्छायास्सद्भावेऽपि आलस्यवशात् यदि कश्चिन्नोपदिशति तत्रातिव्याप्तिः । तद्वारणायोक्तं प्रयुक्त इति। प्रयुक्त = उत्पादितप्रयत्न: -आलस्यरहित इत्यर्थः ।

तथाऽपि स्थानकरणपाटवाभावेन वर्णनिष्पादने असमर्थस्याप्तत्ववारणायोक्तम् उपदेष्टा इति। तथा च हिताहितप्राप्तिपरिहारार्थपदार्थनिश्चयवन्तः कारुणिका अनलसास्स्थानकरणपाटववन्तः आप्ता इति सिद्ध्यति। तादृशानां व्यवहारः शब्दाख्यं प्रमाणमिति भावः। एतत्प्रामाण्यप्रकारश्च विस्तरेणाभिहितो वेदप्रामाण्यनिरूपणावसरे शब्दपरीक्षायाम्। तत्र 'मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्' इति सूत्रेण यथाऽडयुर्वेदोक्तानुष्ठानेन तदुक्तफलस्य इष्टानिष्टप्राप्तिपरिहारस्य प्राप्त्या प्रवृत्तिसामर्थ्यादायर्ेदस्य प्रामाण्यं ग्ृह्यते, यथा वा मन्त्रस्य प्रामाण्यं प्रयोगेण प्रवृत्तिसामर्थ्यात् (इष्टानिष्टफलप्राप्तिपरिहारेण)शिचिीयते तथैव वेदस्यापि प्रामाण्यमवश्यं स्वीकर्तव्यम् इति प्रतिपादितम्। तत्र आयुर्वेदादिषु च प्रामाण्यं, तदुपदेष्टणां साक्षात्कृतधर्मता भूतदया, यथार्थचिख्यापयिषेति त्रिविधविशेषणाधीनमिति भाष्यकाराः प्राहुः। तथा च ग्रन्थसन्दर्भ :- 'किं पुनराप्तानां प्रामाण्यम् ? साक्षात्कृतधर्मता भूतदया यथार्थचिख्यापयिषेति। आप्ता: खलु साक्षात्कृतधर्माणः इदं हातव्यमिदमस्य हानिहेतुरिदमस्य अधिगन्तव्यमिदमस्याधिगमहेतुरिति भूतान्यनुकम्पन्ते। तेषां खलु वै प्राणभृतां स्वयमनवबुध्यमानानां नान्यदुपदेशादवबोधकारणमस्ति, न चानवबोधे समीहा वर्जनं वा, न वाऽकृत्वा स्वस्तिभावः, नाप्यस्यान्य उपकारकोऽप्यस्ति। हन्त वयमेभ्यो यथादर्शनं यथाभूतमुपदिशामः त इमे श्रुत्वा प्रतिपद्यमाना हेयं हास्यन्ति, अधिगन्तव्यमेवाधिगमिष्यन्ति इति। एवमाप्तोपदेश: एतेन त्रिविधेनाप्तप्रामाण्येन परिगृहीतोऽनुष्ठीयमानोऽर्थस्य साधको भवति। एवमाप्रोपदेश: प्रमाणम्' इति।

नन्वेतत्सर्वं वेदस्य प्रामाण्यसाधने कामं भवतु लौकिकस्य तु शब्दस्य कथं प्रामाण्यमिति जिज्ञासायां भाष्यकारैरेवाभिहितं 'लौकिकस्याप्युपदेष्टु रुपदेष्टव्यार्थज्ञानेन परानुजिघृक्षया यथाभूतार्थचिख्यापयिषया च प्रामाण्यम्, तत्परिग्रहादाप्तोपदेशः प्रामाणमिति'। अत्र भूतदयेत्यादिकमुपलक्षणम्। तेन स्थानकरणादिपाटवमपि ग्राह्यमिति टीकाकाराः ।

उपदेशशब्देन च ज्ञायमानमाकाड्क्षायोग्यतासत्तिमत्पदकदम्बकं वाक्यमुच्यते। इदञ्च प्राचीनानां मतमनुसृत्य नवीनमते च वाक्यज्ञानं प्रमाजनकमिति तदेव प्रमाणत्वेन ग्राह्यम्।

ननु विधिरुपदेशः प्रवर्तनमिति पर्यायाः शब्दाः। एवं च सदेव सौम्येदमग्र आसीदित्यादिवचनानां प्रवर्तकत्वाभावेनोपदेशताभावेन आप्तोपदेशः शब्द इत्युक्तं लक्षणं कथं घटते। तानि च पुरुषं क्वचिन्न प्रवर्तयन्ति कुतश्चिद्वा न निवर्तयन्ति इति चेदुच्यते-तत्त्वज्ञानान्निःश्रेयसाधिगम इति हि सौत्रं वचनम्। 'सदेव सौम्ये' त्यादीन्यपि वचनानि आत्मयाथात्म्यज्ञापकतया पुरुषश्रेयोऽभिधत्त इति तादृशान्यपि ग्राह्यण्येव। आत्मयाथात्म्यभावनायाश्च निःश्रेयसहेतुत्वमुक्तं तात्पर्यटीकायां वाचस्पतिमिश्रैः प्रमाणस्य प्रवृत्त्याख्यप्रमेयपदार्थापेक्षया प्राधान्याभिधानावसरे 'न च न्यायतः प्रमाणात् प्रमेयतत्त्वनिश्चयमात्रान्निःश्रेयसाधिगमः । अपि तु आद्यन्तवर्तिनां दशानां प्रमेयाणां दुःखसंज्ञाभावनम् आत्मनश्च याथात्म्यभावनमित्यादिभिः प्रवृत्तिभिरात्मसाक्षात्कारवैराग्यपरिपाकक्रमेणापूर्वयोः

(91)

Page 92

वाक्यार्थभारती 2013-14 धर्माधर्मयोरनुत्पादेन, उत्पन्नयोश्चोपभोगात् प्रक्षयेणेति' इति। निःश्रेयसस्य पुनः पुरुषश्रेयोरुपत्वं 'तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयिभिरभ्युपेयात्' (न्यायसूत्रम् 4-2-48) इति सूत्रेणैव सूचितम्। सूत्रमिदमपवर्गाख्यफलाय तत्त्वज्ञानग्रहणोपदेशप्रकरणपठितमिति श्रेयश्शब्देन तदेव ग्राह्यम् । उक्तञ्चैतद्वार्तिकेऽपि 'प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणमिति भाष्यव्याख्यानावसरे 'शास्त्रस्य पुरुषश्रेयोऽभिधायकत्वात्' इति। तच्छेयो भिद्यमानं द्वेधा व्यवतिष्ठते दृष्टादृष्टभेदेन। दृष्टं सुखमदृष्टमहितनिवृत्तिः । अहितनिवृत्तिरप्यात्यन्तिकी अनात्यन्तिकी च । अनात्यन्तिकी कण्टकादेर्दुःखसाधनस्य परिहारेण । आत्यन्तिकी पुनरेकविंशतिप्रभेदभिन्नदुःखहान्या' इति। यद्यप्युपदेशशब्दः विधिपर्यायस्तत्र तत्रोक्तः तथाऽप्यत्र पुरुषश्रेयोभिधानमात्रेण उपनिषदादिसाधारण: व्यापकार्थकः ग्राह्यः । अत एव सर्वेषामपि वेदवाक्यानां प्रामाण्यं फलवत्वेन साधितं सूत्रभाष्यकारै: शब्दप्रामाण्यपरीक्षायाम्। विस्तरभयात्तत्सर्वमत्र न प्रतिपादितम्। तदवसर एव लौकिकशब्दान् अपि विधिरर्थवादोऽनुवाद इति त्रिधा विभज्य यथा लैकिकानां वाक्यानां विभागेनार्थग्रहणात् प्रमाणत्वं तथैव वेदवाक्यानामपि विभागेनार्थग्रहणात् प्रमाणत्वमिति भाष्यकाराः साधयामासुः । तथा चात्र सूत्रोक्तोपदेशशब्दः लौकिकवैदिकसाधारणः परप्रयोजनवद्वचनमात्रपर इति भाष्यकाराणामाशयः ।

भासर्वज्ञमतेन सूत्रार्थवर्णनम्

भासर्वज्ञाश्च 'समयबलेन सम्यक् परोक्षानुभवसाधनम् आगम इति वदन्तोऽस्यैव सूत्रोक्तत्वमपि निरूपयन्ति। समयो नाम अभिधानाभिधेयनियमनियोग: - अभिधानाभिधेययोः यः नियमः गोशब्दस्य सास्नादिमानेवार्थ इत्यादिरूपः तत्र नियमे सर्गादौ यः परमेश्वरस्य नियोग: - अभिप्रायः स इत्यर्थः । तद्बलात् यः संशयविपर्ययभिन्नः परोक्षानुभवः तस्य साधनं - कारणं आगम := शब्दप्रमाणमिति लक्षणार्थः । आप्तोपदेश: शब्द इति सौत्रं वचनमप्येतादृशार्थबोधकमेव। तथा हि - उपदिश्यते अनेनार्थ इति करणार्थकघञ्प्रत्यये उपदेशशब्देन लोकप्रसिद्धिबलात् समयापेक्षार्थप्रतीतिसाधनमुच्यते। नहि लोके प्रत्यक्षाद्यधिगतोऽर्थः उपदिष्ट इत्युच्यते।

नन्वेवं सति संशायकस्य विपर्ययजनकस्यापि शब्दस्य प्रमाणत्वं स्यादिति चेन्न। सन्दिग्धस्य विपर्यस्तस्य वार्ऽर्थस्य लोके उपदिष्ट इति व्यवहाराभावात्।

अथवा इन्द्रियार्थसन्निकर्षोत्पन्नमिति सूत्रात् अव्यभिचारिव्यवसायात्मकपदयोरनुवृत्तिः क्रियते। तेन संशायकस्य विपर्ययजनकस्य च निरासः । तर्हि उपदेश: शब्द इत्येवोच्यतां किमर्थमाप्तोपदेश इति चेत्। उच्यते अत्राप्तग्रहणं न लक्षणार्थम्। अपि तु शब्दस्य प्रामाण्यसिद्धौ हेतुसूचनार्थम्। 'आप्तोपदेशसामर्थ्याच्छब्दादर्थसम्प्रत्यय' इति हि सूत्रं शब्दपरीक्षायाम्।

नन्वाप्तः अज्ञानरागादिदोषरहितः । आर्यम्लेच्छानाम् असर्वज्ञत्वात् कथमाप्तत्वमित्यव्याप्तिः (तेषामप्याप्तशब्देन ग्रहणं भाष्यकारैः कृतम्) इति चेन्न दोषरहितत्वमपि परापरभेदेन द्विविधम्। पराप्तस्य ईश्वरादेः सर्वज्ञत्वादज्ञानाभावः । अपराप्तस्यार्यम्लेच्छादेः प्रतिनियतविषय अज्ञानाभावान्न दोषः ।

(92)

Page 93

वाक्यार्थभारती 2013-14 अपरश्च निर्वाहप्रकारः। उपदेशशब्दार्थः पूर्ववदेव ग्राह्यः। आप्तोपदेश इत्यत्र आप्तश्चासावुपदेशश्चेति समास: । उपदेशे आप्तत्वं चाविपरीतार्थनिश्चायकत्वमेव । तथाचाविपरीतार्थस्य समयबलेन परोक्षानुभवस्य साधनं शब्दः प्रमाणमिति सूत्रार्थः ।

नन्वेवं सति आप्तवाक् शब्द इति लघुलक्षणं कुतो न कृतमिति चेदुच्यते समयबलेनार्थप्रतीतिजनकचेष्टादेरग्रहणप्रसङ्गान्नोक्तमिति। ननु चेष्टा क्रियारूपा कथं शब्देन्तर्भवतीति चेन्न। नात्र शब्दप्रमाणं शब्दरूपमात्रं विवक्षितमपि तु यच्छब्दरूपमशब्दरूपं वा करणं समयबलेनानुभवं साधयति तदेव ग्राह्यम्। एतादृशानुभवसाधकत्वञ्च चेष्टायामपि विद्यत इति तद्ग्रहणायोपदेश इत्युक्तम्।

जयन्तभट्टमतेन सूत्रार्थवर्णनम्

जयन्तभट्टास्तु न्यायमञ्जर्यां पक्षत्रयमुपपाद्य अन्ते स्वकीयमपि पक्षं साधितवन्तः। ते हि उपदेशशब्दस्य द्विधा अर्थं निरूप्य शब्दलक्षणपरत्वं निरवाहयन्। तत्रैकोऽर्थः शब्दमात्ररूपः। अपरश्च ज्ञानजनकशब्दरूपः । प्रथमपक्षे अकारकेऽपि शाब्दबोधाजनकशब्देऽपि उपदेशरूपत्वस्य सद्भावात् अतिव्याप्तिः । तद्वारणाय 'प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम्' इति पूर्वसूत्रात् साध्यसाधनपदमाकृष्यते। अत्र साध्यं शाब्दबोध: अकारकशब्दस्य शाब्दबोधाजनकत्वान्नातिव्याप्तिः। तथाऽपि वीचीतरड्गन्यायेन शब्दान्तरजनकेऽतिव्याप्तिरव्याप्तिर्वा। अतिव्याप्तिप्रकारश्च आद्यः शब्दः बहिर्दशदिगवच्छिन्नं तद्व्यापकमन्यंशब्दमुत्पादयति, स चान्यमिति क्रमेण श्रोत्रोत्पन्नः शब्दः ज्ञानजनको भवति। तथा चान्तिम: शब्दः प्रमाणं भवति। मध्ये उत्पन्नेष्वपि शब्देषु उपदेशरूपत्वस्य सद्भावादतिव्याप्तिः । न चात्र साध्यसाधनत्वमिति नाशङ्कनीयम्। तत्रापि स्वरूपयोग्यतायास्सत्वात्।

अव्याप्तिप्रकारश्च 'न ह्येष स्थाणोरपराधः यदेनमन्धो न पश्यति' इति न्यायेन सर्वे शब्दा: आप्तोच्चरिता वर्णात्मकाः प्रमाणभूता एव। श्रोत्रेणागृहीतः शब्दः शब्दान्तरजनकः (कारकः) साध्यसाधनं न भवतीत्यव्याप्तिः । (अत्र फलोपधायकत्वमेव साधनत्वं विवक्षणीयम्) अतः इन्द्रियार्थति प्रत्यक्षसूत्रात् ज्ञानपदस्य, तस्मादेव स्मृतिजनकस्य वारणायार्थग्रहणस्य, संशयनिराकरणार्थं व्यवसायात्मकपदस्य विपर्ययनिराकरणार्थमव्यभिचारिपदस्य चानुवृत्तिरिष्यते एवं च - अव्यभिचारिव्यवसायात्मकार्थप्रतीतिजनकः य उपदेशः स शब्द इति शब्दलक्षणसूत्रार्थः । तर्हि सूत्रं उपदेश: शब्दः इत्येव भवत्विति शङ्कायां पूर्वोक्तप्रकारः शब्दो ग्राह्य इत्यस्य निश्चायकमाप्तपदमिति प्रथम: पक्षः ।

अन्ये तु ब्रुवते इत्यादिना द्वितीयश्च पक्षः तत्रोपपादितः । तत्र अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धिं विदधती बोधाबोधस्वभावा सामाग्री प्रमाणमिति प्रमाणसामान्यलक्षणेनैव संशयविपर्ययादिपूर्वोक्तदोषाणां वारणं सम्भवतीति न पूर्वसूत्रात् कस्याप्यनुवृष्ि। एतादृशार्थपरिचायकमेवाप्तपदम् इति प्रत्यपादयन् । अयमत्र भाव: - प्रमाणविशेषः शब्दः । सामान्यलक्षणानाक्रान्तस्य विभागो न सम्भवति। विशेषे च सामान्यलक्षणसमानाधिकरणतया किञ्चन विशेषलक्षणं (धर्मः) वक्तव्यम् । स च (धर्मः) क इत्याकाङ्क्षायां उपदेश एव स इति कथनात् (93)

Page 94

वाक्यार्थभारती 2013-14 सामान्यलक्षणसमानाधिकरणविशेषलक्षणस्य प्रतीतेराकाङ्क्षानिवृत्तिः जायत इति उपदेशपदमेव लक्षणबोधकमिति।

यद्वा आप्तोपदेशः एव शब्दस्य लक्षणम् । उपदिश्यतेऽनेनेत्युपदेशः । उपदेशशब्देनैव स्मृतिजनकानां संशयाधायिनां शब्दान्तरजनकानां शब्दानां व्युदासः । लोके तावत् संशयादिजनकैश्शब्दैः किञ्चिदुपदिश्यत इति व्यवहारः न वर्तते। अतः उपदेशशब्दनिर्वचनबलात् संशयादिजनकानां शब्दानां व्युदास: । एवं सत्यपि रथ्यापुरुषादि वचसि विपरीतप्रतीतिकारिणि उपदेशत्वप्रसङ्गो भवितुमर्हतीति तद्वारणाय आप्तपदमुपात्तम्। तेषामनाप्तत्वान्न तद्वचसः ग्रहणमिति आप्तोपदेशस्य शब्दलक्षणत्वमिति तृतीयः पक्षः ।

अन्ते च 'श्रोत्रग्राह्यवस्तुकरणिका तदर्थप्रतीतिरभिधानक्रिया, इत्थं लोके व्यवहारात्। उक्त: अभिहितश्च स एवार्थोलोके व्यपदिश्यते, यस्तु तथाविधप्रतीतिविषयतां प्रतिपन्नः । श्रोत्रग्राह्यस्य वर्णराशेरेवार्थप्रतीतिकरणत्वात्; न तु श्रोत्रप्रत्ययाविषयः स्फोटात्मा शब्दः । श्रोत्रग्रहणे ह्यर्थे शब्दशब्दः प्रसिद्धः । वर्णा एव च श्रोत्रग्रहणाः । यतोऽर्थप्रतीतिः स शब्द इति तूच्यमाने धूमादिरपि शब्दः स्यात्, अगृहीतसम्बन्धश्च शब्दः शब्दत्वं जह्यात्, अर्थप्रतिपत्तेरकरणात्' इति 'श्रोत्रग्राह्यकरणिका (संवित्) शब्दफलम्। न हि दृश्यते, अनुमीयते, अभिधीयत इति पर्यायशब्दाः । तत्प्रतीतिविशेषजनने च शब्दस्योपदेशत्वमुच्यत' इति च कथयन्तःअर्थप्रतीतिजनकं श्रोत्रग्राह्यं वस्तु शब्दप्रमाणमिति न्यरूपयन्। उक्त्तं च वर्णानां वाचकत्वं स्फोटनिराकरणावसरे। एतावता प्राचीनानां मतमनुसृत्यार्थो वर्णितः। इदानीं नवीनमतमनुसृत्य अत्यन्तं संक्षेपेण किञ्चित्प्रस्तूयते।

'प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणम्' इति शब्दलक्षणं प्राहुः मणिकाराः । अस्यायमर्थ: प्रयोगहेतुभूतं यदर्थविषयकं तत्त्वज्ञानं तज्जन्यः शब्दः प्रमाणमिति। अर्थं बुद्धवा शब्दरचनेति न्यायेन शब्दप्रयोग: अर्थतत्त्वज्ञानजन्यो भवति। तादृशज्ञानवता पुरुषेणोच्चरितः परस्य शाब्दबोधाय भवतीति तदेव प्रमाणं भवति। अत्र अर्थतत्त्वज्ञानवज्जन्यत्वरूपविशिष्टजन्यत्वं विशेष्यस्याव्यावर्तकतया विशेषणजन्यत्वे पर्यवसन्नम्। यथा च धनवान् सुखीत्यादौ धनस्य सुखप्रयोजकत्वं तथैव अत्र ज्ञानस्योच्चारणप्रयोजकत्वमिति भावः ।

इयमत्र प्रणाली मथुरानाथप्रदर्शिता - 'प्रथमतो येन केनापि प्रमाणेन वत्तुर्वाक्यार्थज्ञानं, ततो वाक्यार्थज्ञानज्ञानं, ततः परस्य वाक्यार्थज्ञानं भवत्विति वाक्यार्थज्ञानेच्छा ततो वाक्यार्थज्ञानरूपेष्टसाधनताज्ञानात् वाक्ये इच्छा, ततो वाक्यरूपेष्टसाधनताज्ञानात् कृतिसाध्यतासहकारात् कण्ठाभिघातादौ चिकीर्षा, ततः कण्ठाभिधातादिसाधिका कण्ठाद्युपादानकप्रवृत्तिः ततः कण्ठादिचेष्टाविभागादिक्रमेण कण्ठाभिघाताद्युत्पत्तिः ततो वाक्योत्पत्तिरिति प्रणाल्या, प्राचां नये परम्परय वक्तृवाक्यार्थबुबोधयिषापूर्वकवाक्यत्वावच्छिन्नं प्रति वक्तृवाक्यार्थज्ञानस्य हेतुतया च सर्वत्र लक्षणं सङ्गमनीयम्' इति। एतस्या: प्रणाल्याः परिशीलने भाष्यकाराणां मतमप्यत्रैव अन्तर्भावयितुं शक्यते। तथा हि प्रथमतो येन केनापि प्रमाणेन वक्तुर्वाक्यार्थज्ञानं, ततो वाक्यार्थज्ञानज्ञानं, ततः परस्य वाक्यार्थज्ञानं

(94)

Page 95

वाक्यार्थभारती 2013-14 भवत्विति वाक्यार्थज्ञानेच्छेति कथनात् साक्षात्कृतधर्मेत्याद्याप्त स्वरूपं सूचितंभवति। अनन्तरमन्तिमवाक्यै: प्रयोगोऽपि सूचित इति अन्तर्भावितलघुलक्षणं मणिकारैरभिहितम्। इमामेव प्रणालीमनुसृत्य तर्कसंग्रहादौ प्रकरणग्रन्थे आप्तवाक्यं शब्द इत्यादि लघु लक्षणमभिहितम्।

महादेवपण्डितास्तु न्यायकौस्तुभे 'आप्तोपदेशः शब्दः' इति सूत्रस्य द्विधाऽर्थं निरूप्य मणिकृद्वचनमपि तत्रैव सङ्गमयन्ति । प्रथम: पूर्वोक्त एव - प्रयोगहेतुभूतं यदर्थतत्वज्ञानं - अर्थज्ञानं प्रमात्मकं तज्जन्यः यः शब्दःतत्त्वमिति । अत्र वक्तृबुबोधयिषापूर्वकवाक्यत्वावच्छिन्ने वक्तृवाक्यार्थयथार्थज्ञानस्य हेतुत्वमिति प्राचां मतमनुसृत्य वक्तृबुबोधयिषापूर्वकवाक्यत्वावच्छिन्न- रूपप्रयोगोऽर्थतथात्वज्ञानजन्य इति तात्पर्यम्।

द्वितीयश्च 'आप्तोपदेश: शब्दः' इत्यस्य शाब्दप्रमाकरणं शब्द इत्येवार्थः । एतादृशार्थ: कथं लभ्यत इत्यत्र तेषामियं वाचोयुक्ति: -'आप्नोति स्वप्रकारं विशेष्यतया व्याप्नोतीति आश्रयोऽर्थः (आप्तपदस्य)। उपदेश: शाब्दबोधः । तथा च सः यस्मादिति विग्रहेण तादृशबोधकरणत्वं शाब्दप्रमाकरणत्वपर्यवसन्नं लक्षणम् ' इति।

मणिकृ ल्लक्षणस्याप्येतादृशार्थतात्पर्यकत्वमपि वदन्ति - 'प्रयोगो हेतुभूतो यस्य अर्थतत्वज्ञानस्येति समासात् ज्ञानान्तं शाब्दप्रमापरम्। तदेव जन्यं यस्येति बहुव्रीह्यन्तराश्रयणेन शाब्दप्रमाकरणत्वं समुदितलक्षणवाक्यार्थ' इति।

शब्दस्य लक्षणं सूत्रे, भाष्ये मण्यादिकेऽपि च।

यत्तस्य विस्तृतिः प्रोक्ता शठकोपेनसन्मुदे ।

(95)

Page 96

वाक्यार्थभारती 2013-14 प्रमालक्षणविचारः

श्री. आर नवीनः

तद्वति तत्प्रकारकोऽनुभवः यथार्थः । स एव प्रमा इत्युच्यते। अत्र सप्तम्याः विशेष्यकत्वमर्थः । तथा च तद्वत्विशेष्यकत्वे सति तत्प्रकारकत्वे सति अनुभवत्वं प्रमायाः लक्षणमिति फलितम्। रजते 'इदं रजतमिति प्रमायां समन्वयः । तत्पदेन प्रकारीभूतरजतत्वं गृह्यते। तथा च निरुक्तप्रमायां रजतत्ववद्विशेष्यकत्वरजतत्वप्रकारकत्वानुभवत्वानां सत्त्वात् लक्षणसमन्वयः । समूहालम्बनभ्रमेऽतिव्याप्ति वारणाय तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्ववदनुभवत्वमिति प्रमायाः लक्षणमिति वाच्यम्।

अथ पृथिवीजलोभ्यं ग्रन्धवदिति भ्रमेऽतिव्याप्तिः2। तत्राऽपि भ्रमे गन्धवद्विशेष्यकत्वावच्छिन्न गन्धप्रकारकत्वस्य सत्वात् । यदि तद्वन्निष्ठ विशेष्यतायां व्यासज्यवृत्तिधर्मानवच्छिन्नत्वं निवेश्य पृथिवीभलोभयं गन्धवदिति ज्ञानीयायाः पृथिवीजलोभयनिष्ठविशेष्यतायाः व्यासज्यवृत्तिधर्मावच्छिन्नत्वात् नातिव्याप्तिरित्युच्यते तदा पृथिवीजलोभयं द्रव्यमिति प्रमायां अव्याप्तिः । यतः तज्ज्ञानीयायाः पृथिवीजलोभयनिष्ठ विशेष्यतायाः व्यासज्यवृत्तिधर्मावच्छिन्नत्वात् । अतः तद्वन्निष्ठविशेष्यतायां व्यासज्यवृत्तिधर्मावच्छिन्नत्वनिवेशो न सम्भवति। तथा च पृथिवीजलोभयं गन्धवदितिभ्रमे अतिव्याप्तिः तदवस्था एव।

तद्वन्निष्ठविशेष्यतायां प्रकाराधिकरणतावच्छेदकधर्मावच्छिन्नत्वं निवेश्य प्रकृते पृथिवीजलोभयं गन्धवदितिज्ञानीयविशेष्यता च न गन्धाधिकरणतावच्छेदकीभूतपृथिवीत्वावच्छिन्नाऽपि तु गन्धाधिकरणतानवच्छेदकोभयत्वावच्छिन्नेति अतिव्याप्तिः वार्यते।

न च पृथिवीजलोभयत्वस्य गन्धाधिकरणसम्बन्धित्वात्, तस्यापि गन्धाधिकरणतावच्छेदकत्वात् यस्य यत्सम्बिन्धत्वं, तस्य तदवच्छेदकत्वमिति न्यायात् अतिव्याप्तितादवस्थ्यं इति वाच्यम् । प्रकाराधिकरणतावच्छेदकधर्मावच्छिन्नत्वमित्यत्र प्रकाराधिकरणतानिरूपितावच्छेदकतायां विशेष्यतावच्छेदकतासम्बन्धावच्छिन्नत्वं निवेशनीयम् । अन्यथा रङ्गे 'इदं रजतत्ववद्' इति ज्ञानीयविशेष्यतानिरूपितसमवायसम्बन्धावच्छिन्नावच्छे दकतावतः रङ्गत्वस्य रजतत्वरूपप्रकाराधिकरणतानिरूपितकालिकसम्बन्धावच्छिन्नावच्छेदकत्वात् रड्गे 'इदं रजतत्ववदिति' ज्ञानस्य प्रमात्वापत्त्या अतिव्याप्तिः ।

तद्वारणाय प्रकाराधिकरणतानिरूपितावच्छेदकतायां विशेष्यतावच्छेदकसम्बन्धा- वच्छिन्नत्वनिवेशनमावश्यकम् । तथा चोक्तस्थले रङ्गे 'इदं रजतत्ववदि'ति ज्ञानीयविशेष्यतावच्छेदकतावतः रङ्गत्वस्य प्रकाराधिकरणतानिरूपितविशेष्यतावच्छेदकीभूत समवायसम्बन्धावच्छिन्नावच्छेदकताविरहात् नातिव्याप्तिः । एवं पृथिवीजलोभयं गन्धवदिति ज्ञानीयविशेष्यतानिरूपितपर्याप्तसम्बन्धावच्छिन्नावच्छेदक तावति उभयत्वे गन्धरूपप्रकाराधिकरणतावच्छेदकतायाः अभावात् नातिव्याप्तिः । पुनः अशङ्कते यत् उभयत्वञ्च

(96)

Page 97

वाक्यार्थभारती 2013-14 प्रत्येकानतिरिक्तं इत्यतः पृथिवीजलेभयं गन्धवदित्यत्र पर्याप्तिसम्बन्धेन गन्धाधिकरणसम्बन्धित्वस्य उभयत्वसत्त्वात् तादृशविशेष्यतावच्छेदकीभूतोभयत्वे प्रकाराधिकरणतानिरूपितविशेष्यता- वच्छेदकीभूतपर्याप्तिसम्बन्धावच्छिन्नावच्छेदकतायाः सत्त्वात् अतिव्याप्तिः तदवस्थैव इति।

समाधीयते इत्थं पृथिवीजलोभयं गन्धवदिति इति प्रतीत्याभावेन3 गन्धाधिकरणतानिरूपित पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकतायाः उभयत्वे अनङ्गीकारात् नातिव्याप्तिः ।

एवं सति घटवदिति निधर्मिताऽवच्छेदककप्रत्यक्षप्रमायामव्याप्तिः । यतो हि तत्प्रमायां विशेष्यतावच्छेदकस्य अभानात् । तथा च उक्तपरिष्कारासम्भवेन पृथिवीजलोभयं गन्धवदिति भ्रमेऽतिव्याप्तिः तदवस्थैव।

निरुक्त्तभ्रमेऽतिव्याप्तिवारणाय लक्षणघटकविशेष्यतायां तदधिकरणतावच्छेदकधर्मावच्छिन्नत्वमेव निवेश्यते। तश्च तदधिकरण्तावच्छेदकधर्मव्यापकत्वरूपं। तथा च पृथिवीजलोभयं गन्धवदिति भ्रमीयविशेष्यतायाः पृथिवीजलोभयनिष्ठायाः गन्धाधिकरणतावच्छेदकपृथिवीत्वरूपधर्मव्यापकत्वविरहात् न तत्र अतिव्याप्तिः ।

एवं पृथिवीजलोभयं द्रव्यं इति प्रमीयविशेष्यतायाः पृथिवीजलोभयनिष्ठायाः तदधिकरणतावच्छेदकधर्मद्रव्यत्वव्यापकत्वसत्वात् नाव्याप्तिश्च ।तथा च तद्विन्नष्ठतदधिकरणतावच्छेदकधर्मव्यापकविशेष्यतानिरूपित तन्निष्ठप्रकरताशाल्यनुभवत्वं प्रमायाः लक्षणम् इति।

इति शम्

  1. त. सः पृ 30 2. ग.रा.ज.क्रोडपत्रम् 3. सि.मु.पृ. 433

(97)

Page 98

वाक्यार्थभारती 2013-14 प्रतियोगिविशेषिताभावज्ञानं विशिष्टवैशिष्ट्यावगाहिबोधमर्यादां नातिशेते इति व्युत्पत्तिविचार:

श्री. श्यामसुन्दरः ए

लोके स्वाभिप्रायबुबोधयिषापूर्वकशब्दप्रयोगात्मक आहारविहारादिरूपव्यापारात्मकसकल- विधव्यवहारं प्रति मूलकारणं ज्ञानमेव । विना ज्ञानेन लोकव्यवहारस्यैवासिद्धेः । अत एवोच्यते 'अर्थ बुद्धवा शब्दरचना', 'सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम्' इत्यादि । तच्च ज्ञानं सर्वानुभवसिद्धज्ञानत्वात्मकजातिविशिष्टं, 'इदमहं जानामि' इत्याद्यनुव्यवसायगोचरो वा मनोमात्रग्राह्योऽव्याप्यवृत्तिः क्षणिकविशेषगुणः । तस्य स्वसमानाधिकरणात्यन्ताभाव- प्रातियोगित्वादव्याप्यवृत्तित्वं, तृतीयक्षणवृत्तिध्वंसप्रतियोगत्वाच्च क्षणिकत्वम् । अत एवोक्तं साधर्म्यनिरूपणावसरे- 'अव्याप्यवृत्ति: क्षणिको विशेषगुण इष्यते'2 इति। इदं च विशेषणज्ञानं, विशिष्टज्ञानं, विशिष्टवैशिष्ट्यावगाहिज्ञानं, विशेष्ये विशेषणं तत्रापि विशेषणान्तरमितिरीत्या (उपलक्षितवैशिष्ट्यावगाहि) ज्ञानमित्यादिभेदेन नानाविधं सर्वानुभवसिद्धमेव।

प्रकृते 'प्रतियोगिविशेषिताभावज्ञानं विशिष्टवैशिष्ट्यावगाहिबोधमर्यादां नातिशेते'3 इति व्युत्पत्तिरियं श्रीमद्गदाधरभट्टाचार्यैः व्युत्पत्तिवादे अभेदान्वयविषयप्रतिपादनावसरे विशेषण- वाचकपदोत्तर-विभक्ते रभेदार्थत्वकत्वमिति मतखण्डनवेलायां निबद्धास्ति - विशेषणविभक्तेरभेदार्थकत्वमते 'नीलो घटः' इत्यादौ नीलपदोत्तरविभक्त: भेदोऽभावश्चार्थः । तत्र भेदे नीलपदोपस्थापितस्य नीलत्वविशिष्टस्य तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन, भेदस्य तद्व्यक्तित्वावच्छिन्नप्रतियोगितया अभावांशे चान्वयः इत्यभ्युपेत्य घटविशेष्यकनीलभेदा- भावप्रकारकबोध: उपपाद्यते। तन्मतनिराकरणावसरे नियमोऽयं प्रदर्शितः। किञ्चित्प्रतियोगिकाभावज्ञानं विशिष्टवैशिष्ट्यावगाहिबोधात्मकमेव भवति नत्वन्यादृशः इति तदर्थः । 'घटो नास्ति' इत्याद्याकारकं ज्ञानं अभावांशे घटत्वविशिष्टघटवैशिष्ट्यावगाहीति विशिष्टवैशिष्ट्यावगाहि न तु उपलक्षितवैशिष्ट्यावगाहीति स्पष्टमेव।

विशिष्टवैशिष्ट्यावगाहिबोधः

ज्ञानं च विशिष्टवैशिष्ट्यावगाहि, उपलक्षितवैशिष्ट्यावगाहीति द्विविधम् । यज्ज्ञानीयविशेषणान्वयिनि विशेष्ये, विशेषणांशे प्रकारीभूयभासमानस्यापि धर्मस्य भानंऽ तज्ज्ञानं विशिष्टवैशिष्ट्यावगाह्यात्मकम् । विशेष्यांशे विशेषणविशेषणतावच्छेदकोभयप्रतियोगिकवैशिष्ट्य- द्वयावगाहिज्ञानमिति यावत्। यथा - 'रक्तदण्डवान् पुरुषः' इति ज्ञाने स्वप्रतियोगिकसंयोगेन दण्डान्वयिनि पुरुषे, विशेषणतावच्छेदकीभूतस्य रक्तत्वस्यापि स्वावच्छिन्नदण्डनिष्ठप्रतियोगिताकसंयोगेन भानम्। विशेषणे यद्विशेषणं तद्विशेषणतावच्छेदकमित्युच्यते। तत्र च दण्डांशे समवायसम्बन्धेन विशेषणतापन्नं सदेव रक्तत्वं स्वावच्छिन्नेत्यादिपरम्परया पुरुषांशेऽपि प्राकारीभूय भासते इति ज्ञानमिदं विशेष्यांशे विश्केण- विशेषणतावच्छेदकोभयप्रतियोगिकसम्बन्धद्वयावगाहित्वाद् विशिष्टवैशिष्ट्यावगाहीति सिद्ध्यति। (98)

Page 99

वाक्यार्थभारती 2013-14 'गुणकर्मान्यत्वविशिष्टसत्तावद् द्रव्यम्' इति द्रव्यविशेष्यकतादृशसत्ताप्रकारकज्ञानस्य विशष्यीभूतद्रव्यांशे

गुणविशेष्यकतादृशज्ञानस्य विशिष्टवैशिष्ट्यावगाहि-बोधात्मकत्वे भ्रमत्वमेव। तत्र विशेष्यीभूतगुणे सत्तावैशिष्ट्यसत्वेऽपि विशेषणतावच्छेदकीभूतस्य गुणकर्मान्यत्ववैशिष्ट्यविरहात्।

तद्रूपावच्छिन्नप्रकारतानिरू पितविशेष्यत्वावच्छिन्नप्रकारतानिरुपिता या तद्रूपावच्छिन्नप्रतियोगिताकत्त्वावच्छिन्ना संसर्गता, तन्निरूपकबोधत्वमेव विशिष्टवैशिष्ट्यबोधत्वं। रक्तत्वप्रकारकज्ञानपूर्वके 'रक्तदण्डवानयं पुरुषः' इति ज्ञाने संयोगनिष्ठदण्डसंसर्गतायां रक्तत्वावच्छिन्नदण्डनिष्ठप्रतियोगिताकत्वावच्छिन्नत्वस्य रक्तत्वनिष्ठप्रकारतानिरूपितदण्डनिष्ठ- विशेष्यत्वावच्छिन्नप्रकारतानिरूपितत्वस्य च सत्वाद् भवति तज्ज्ञानस्य विशिष्टवैशिष्ट्यावगाहित्वम्। 'घटो नास्ति' इत्यादि प्रतियोगिविशेषिताभावप्रतीतिस्थलेऽभावांशे घटः, तत्र च घटत्वं विशेषणम्। अभावांशे घटस्य स्वनिष्ठप्रतयोगिताकत्वसम्बन्धेन, घटत्वस्य च स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन भानमिति तज्ज्ञानस्य विशिष्टवैशिष्ट्यावगाहित्वमुपपद्यते। अत्र विशेषणतावच्छेदकीभूतधर्मस्याभावांशे स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धनैव भानमङ्गीकार्यम्। अन्यथा तद्धर्मस्य तत्र भानानङ्गीकारे अथवा स्वसमानाधिकरणप्रतियोगिताकत्वसम्बन्धेन भानाड्गीकारे घटवत्यपि भूतलादौ घटाभावप्रतीतिप्रसङ्गः । यतस्तत्र घटपटोभयत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन घटविशिष्टाभावस्य सत्वेन स्वसमानाधिकरणप्रतियोगितया घटत्वविशिष्टाभावस्याप्यक्षतत्वात् । अतः अभावप्रतीतिस्थले स्वावच्छिन्नप्रतयोगिताकत्वमेव अभवांशे विशेषणतावच्छेदकस्य सम्बन्धो वाच्यः । तथा च 'नीलो घटः' इत्यादावपि विशेषणविभक्तचर्थे भेदे स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनैव नीलत्वं भासते, न तु तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनेति बोध्यम् । तथा च प्रतियोगिविशेषिताभावबुद्धे: विशिष्टवैशिष्ट्यावगाहित्वमक्षतमेव।

उपलक्षितवैशिष्ट्यावगाहिबोध :-

विशेष्ये विशेषणं तत्रापि विशेषणान्तरमिति रीत्या जायमानो बोधः उपलक्षितवैशिष्ट्यावगाहीत्युच्यते। तत्र विशषणान्वयिनि पदार्थे न विशेषणतावच्छेदकस्य भानं, किन्तु विशेषणांशे एव। यथा 'गुणकर्मान्यत्वविशिष्टसत्तावान् गुणः' इति ज्ञानम्। तत्र सत्तायां विशेषणतया भासमानस्य गुणकर्मान्यत्वस्य गुणांशे न भानम्। किन्तु गुणे समवायेन सत्तायाः, तस्यां च सामानाधिकरण्येन गुणकर्मान्यत्वस्य भानमिति तज्ज्ञानं उपलक्षितवैशिष्ट्यावगाहीत्युच्यते। तथात्वे एव तस्य प्रमात्वं, न तु विशिष्टवैशिष्ट्यावगाहिस्वरूपत्वे। तत्र गुणे गुणकर्मान्यत्ववैशिष्ट्यविरहात्। प्रतियोगिविशेषिताभावज्ञानं च नैत्रादृशं। तत्राभावांशे प्रतियोगि (विशेषण)-प्रतियोगितावच्छेदक (विशेषणतावच्छेदक) उभयवैशिष्ट्यावगाहित्वनियमात्। उपलक्षितवैशिष्ट्यावगाहिबोधं प्रति विशेषणतावच्छेदकधर्मप्रकारकं ज्ञानं न कारणं, तद्विनापि तस्योत्पत्तेः । यथा पुरुषे रक्तेतरदण्डस्य बाधनिश्चयसत्वे रक्तत्वप्रकारकदण्डविशेष्यकनिश्चयं विनापि 'दण्डव्याप्यवान् पुरुषः' इति परामर्शात् 'रक्तदण्डवान् पुरुषः' इत्याकारकं ज्ञानं जायते। विशेष्ये विशेषणमित्यादिरीत्या जायमानानुमित्यात्मकतादृशज्ञानं प्रति रक्तत्व- (99)

Page 100

वाक्यार्थभारती 2013-14 दण्डत्वादितत्तद्धर्माणां विशृंखलोपस्थितिमात्रं कारणम्। ज्ञानेऽस्मिन् पुरुषांशे संयोगेन दण्डस्यैव भमं, न तु स्वावच्छिन्नदण्डनिष्ठप्रतियोगिताकसंयोगेन रक्तत्वस्यापि। विशिष्टवैशिष्ट्यावगाहितादृशज्ञानवत् उपलक्षितवैशिष्ट्यावगाहि रक्तदण्डवान् पुरुषः इति ज्ञानं, पुरुषे रक्तत्त्वप्रकरकसंशयं, रक्तत्त्वविशिष्टदण्डप्रकारकसंशयं वा न प्रतिबध्नातीति ततो वैलक्षण्यमस्य।

कार्यकाराणभावविचारः

दण्डो रक्तः इति ज्ञानसत्वे एव रक्तदण्डवान् पुरुषः इति ज्ञानोत्पत्तिः, तदभावे च तदनुत्पत्ति: इति अन्वयव्यतिरेकसहचाराभ्यां पुरुषे रक्तत्वविशिष्टदण्डवैशिष्ट्यावगाहिबोधं प्रति रक्तत्त्वप्रकारकदण्डविशेष्यकज्ञानं कारणमिति निश्चीयते। एवम् वह्निव्याप्यधूमवान् पर्वतः इति बोधः धूमो वह्निव्याप्यः इति ज्ञानमूलकः। एवं च विशिष्टवैशिष्ट्यावगाहिबोधं प्रति विशेषणतावच्छेदकप्रकारकं ज्ञानं कारणमिति कार्यकारणभावः सिद्ध्यति। तत्रापि 'रक्तदण्डवान् पुरुषः' इत्यादिबोधस्य दण्डो रक्तो न वा इति संशयोत्तरं अनुत्पादात्, दण्डो रक्तः इति निश्चयोत्तरमेवोत्पादात्, विशिष्टवैशिष्ट्यबोधः विशेषणतावच्छेदकप्रकारकनिश्चयमूलकः इत्यनुमीयते।

ननु विशिष्टवैशिष्ट्यावागाहिबुद्धिं प्रति विशेषणतावच्छेदकप्रकारकज्ञानस्य निश्चयत्वेन हेतुत्वाभ्युपगमे यत्र प्रथमं 'दण्डो रक्तो न वा' इति विशेषणसंशयात्मकं विशेषणतावच्छेदकप्रकारकज्ञानं जातं, तत्र तदनन्तरं 'पुरुषो रक्तदण्डवान् न वा' इति विशिष्टवैशिष्ट्यावगाह्यात्मको विशिष्टसंशयो न स्यात्। अतस्तस्य ज्ञानत्वेनैव कारणत्वं वाच्यं, न तु निश्चयत्वेन इति चेन्न-

केषुचिद्दण्डेषु रक्तत्वनिश्चये सत्येव, चैत्रीय(पुरुषीय)दण्डत्वावच्छेदेन रक्तत्वाभावप्रकारक: संशयो जायते चैत्रीय दण्डो रक्तो न वेति। ततश्चैत्रः (पुरुषः) दण्डवान् न वेति विशिष्टसंशयः । अत्र दण्डत्वसामानाधिकरण्येन रक्तत्वावगाहिनिश्चयः चैत्रीय(पुरुषीय)दण्डत्वावच्छेदेन रक्तत्वाभावावगाहिसंशयं प्रति न प्रतिबन्धकः । समानधर्मितावच्छेदककयोः ज्ञानयोः प्रतिबध्यप्रतिबन्धकाभावे तदन्यतरस्य विधेयांशे तत्प्रतियोगिकसंसर्गांशे वा धर्मितावच्छेदकतापर्याप्त्यधिकरणधर्मव्यापकतावगाहित्वं तन्त्रम् । अत्र तु निरुक्ज्ञानयोः समान- धर्मितावच्छेदककत्त्वं नास्त्येव। अत्र चैत्रीय (पुरुषीय)दण्डो रक्तो न वेति संशयस्य धर्मितावच्छेदककोटौ चैत्रीयत्वांशस्याधिकस्य भानेऽपि शुद्धदण्डत्वव्यापकत्वमपि रक्तत्वप्रतियोगिकसंसर्गांशे भासत इति, भवति प्रतिबध्यप्रतिबन्धकभावस्तयोरिति तु नाशंकनीयम् । यतो हि धर्मितावच्छेदकावच्छेदेन विशिष्टबुद्धौ धर्मितावच्छेदकतापर्याप्त्यधिकरणधर्मव्यापकत्वमेव विधेयप्रतियोगिकसंसर्गंशे भासते, न तु तदेकदेशव्यापकत्वमपि तद्धर्मावच्छिन्नविशेष्यतानिरू पित- तदेकदेशधर्मव्यापकत्वावच्छिन्नसंसर्गतायाः अप्रामाणकत्वात्4। नातः चैत्रीयदण्डो रक्तो न वेति बुद्धेः दण्डत्वमात्राव्यापकसंसर्गावगाहित्वम्। तथा च पूर्वोक्तस्थले दण्डे रक्तत्वप्रकारकनिश्चयस्यापि सत्वेन नानुपपत्तिः विशिष्टवैशिष्ट्यावगाहिसंशयस्य।

ननु विशिष्टवैशिष्ट्यावगाहिबुद्धिं प्रति विशेषणतावच्छेदकप्रकारकनिश्चयस्य हेतुत्वस्वीकारे व्यभिचार: प्रसङ्ग:। तादृशनिश्चयं विनापि तादृशबुद्धेरुदयात्। यतो हि यत्र प्रथमं विशिष्टफलविषयकं (100)

Page 101

इष्टसाधनताज्ञानं ततः फलेच्छा ततः उपायेच्छा ततः इच्छात्वप्रकारकनिर्विकल्पकप्रत्यक्षं ततः वाक्यार्थभारती 2013-14

विशष्टानुव्यवसायश्च क्रमेण भवन्ति, तत्र उपायेच्छाक्षणे एव विशिष्टफलज्ञानस्य नाशात्, तत्रोत्पन्नेच्छाय: एव कारणत्वमङ्गीकार्यं इति चेत्, सत्यम् -

तादृशनिश्चयं विनापि विशेषणतावच्छेदकप्रकारके च्छाकृ तिसंस्कारेभ्योऽपि विशिष्टवैशिष्ट्यबोधजननात् तत्र कारणतावच्छेदकशरीरे ज्ञानत्वं न निवेश्यते उक्तदोषसम्भवात्। किन्तु तादृशबुद्धिं प्रति विशेषणतावच्छेदकप्रकारकसंशयान्यत्वेनैव कारणत्वमड्गीक्रियते, अतो नोक्तदोषः । अत्र कार्यतावच्छेदककोटौ तत्तत्कारणानन्तर्यं निवेश्य व्यतिरेकव्यभिचारोऽपि वारणीयः । तथा च

तद्रूपावच्छिन्नप्रतियोगिताकत्वावच्छिन्नसंसर्गताशालिबु द्धित्वावच्छिन्नं प्रति

कारणमिति कार्यकारणभावः फलितः । अत्र अनुद्बुद्धसंस्कारात् तादृशबोधाजननात्, अन्वयव्यभिचारवारणाय तादृशसंस्कारान्यत्वमपि कारणतावच्छेदककुक्षौ निवेशनीयम्।

घटो नास्ति इत्याद्यभावप्रतीतिस्थले नाञर्थाभावे घटत्त्वविशिष्टस्य, नीलो घटः इत्यादौ विशेषणविभक्तयर्थे भेदे नीलत्वविशिष्टस्य च वैशिष्ट्यावगाहनात् प्रतियोगिविशेषिताभावबुद्धेः विशिष्टवैशिष्ट्यावगाहिबोधमर्यादानुल्लङ्घनेन तत्राप्येवमेव कार्यकारणभावोऽसेयः ।

  1. तर्कसड्ग्रह: 2.न्या.सि.मु. कारिका - 27

  2. व्युत्पत्तिवादः 4. सामान्यनिरुक्तिगादाधरी

आकरग्रन्थः

  1. व्युत्पत्तिवादः 2. गूढार्थतत्वालोक: 3. अनुमानगादाधरी

(101)

Page 102

वाक्यार्थभारती 2013-14 कालमानम् - भारतीया दृष्टि:

प्रो. रामचन्द्रपाण्डेय:

काल: सृजति भूतानि काल: संहरते प्रजाः।' अपि च 'कालाधीनं जगत्सर्वं' आभ्यां सूक्तिभ्यां स्वयमेव कालस्य महत्वं सिद्ध्यति । अतः कालस्य महत्वप्रतिपादनं विहायात्र के वलं कालगणनापद्धतिमधिकृत्य किञ्चिद्विवेचयामि।

सर्वविदितमिदं यत् समग्रेपि भूमण्डले वेदातिरिक्तं किमप्यपरं प्राचीनं प्रामाणिकञ्च साहित्यं नास्ति । यद्यपि वेदा अपौरुषेयाः तथाप्याधुनिका एषां कालं निर्धारितवन्तः । यदि तेषां निर्णीतकालमप्यड्गीक्रियते तदा वेदानां काल: 5000 बी. सी. (ईसापूर्वं पञ्चसहस्राणि वर्षाणियावत्) तिष्ठत्यासन्नमानेन। तस्मिन् काले कस्मिन्नपि देशे कालस्य सम्यग्ज्ञानं नासीत्। तदानीं केवलं भारतीया एव वेदानामाधारेण कालज्ञा आसन्। नैतावदेव ते तु सौर-चान्द्र-सावनकालभेदानां ज्ञानपुरस्सरं कालगणनायामपि दक्षा आसन्। वेदेषु वर्षर्तुमासतिथ्यादीनां चोल्लेखो बहुत्र दृश्यते। ऋग्वेदस्य प्रसंगो वर्तते यत् सूर्यस्य द्वादशारं चक्रं द्युलोकं परितः सततं भ्रमति। तत्र विंशत्यधिकसप्तशतसंख्याकाः पुत्रयुग्मा आरूढा: सन्ति।

(द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परिद्यामृतस्य। आपुत्रा अग्ने मिथुनासो अत्र सप्तशतानि विंशतिश्च तस्थु: ऋ. सं. 1.164.11) पृ. 40

अत्र स्पष्टरूपेण रविचक्रे द्वादशमासानां विंशत्यधिकसप्तशतदिवसरात्र्योः युग्मानां षष्ट्यधिकशतत्रय अहोरात्राणामुल्लेखो वर्तते। परमत्रापि केचन कथयन्ति यत् वर्षप्रमाणं तु वर्तते परमिदं सौरं चान्द्रं वा इत्यस्य संकेतो नास्ति। हास्यास्पदमिदम् वक्तव्यम्। यतो हि सौरमानेनैव दिवसानां षष्ट्यधिकशतत्रय संख्या एकस्मिन् वर्षे भवितुमर्हति । अपरश्च मधुश्चमाधवश्चेत्यादि मासानां प्रसंगे बहुषु स्थलेषु संसर्पस्य, अंहस्पतेः, मलिम्लुचस्य चोल्लेखो वर्तते। संसर्पानां मलिम्लुचानामुत्पत्तिरेव सौरचान्द्रमानयोः सकाशाद् भवति। एकस्मिन् सौरवर्षे द्वादशचान्द्रमासाद् किञ्चिदधिकः कालो भवति स एव काल: वृद्धिं गत्वा तृतीयवर्षे अधिमासरूपेणापतति। स एव संसर्पः । मलिम्लुचो वा (रविणा लङ् घितो मासश्चाद्रः ख्यातो मलिम्लुचः । व्यास:)। मासानां विषये न कुत्रापि विवादः। अमान्तो मासः पूर्णान्तो मासश्च उभयो: प्रयोगो वेदेषूपलभ्यते (अमावास्यया मान्सम्पाद्याहरुत्सृजन्ति ..... । पौर्णमास्या मासान्सम्पाद्याहरुत्सृजन्ति ..... । तै. सं. 7.5.6.1) एवमेव तिथीनामपि वर्णनं स्थाने स्थाने दृश्यते यज्ञयागादि विषये तु विशेषेण। तिथीनां क्रमेण चन्द्रविम्बस्य हरासवृद्ध्योः क्रमोऽपि परिज्ञात आसीत्। स्पष्टरूपेण लिखितं वर्तते यत् - चन्द्रमा पञ्चदश्यां (अमायां) प्रतिमासं क्षीणतां याति तथा च पुनः पञ्चदश्यां पूर्णिमायां वा पुनः पूर्णतामेति। (चन्दमा वै पञ्चदशः। एष हि पञ्चदश्यामपक्षीयते। पञ्चदश्यामापूर्यते ।) (तै. 1.5.10)। अत्रोक्तं देवाः प्रत्यहं चन्द्रकलायाः पानं कुर्वन्ति। अमान्ते चन्द्रस्य पञ्चशी कला देवैर्निपीता भवति। तदानीं चन्द्रस्यावशिष्टा षोडशी कला पुनः क्रमशः वृद्धिं गच्छति। (102)

Page 103

वाक्यार्थभारती 2013-14 (यत्वा देव प्रपिबन्ति तत आप्यायसे पुनः। वायुः सोमस्य रक्षिता समानां मास आकृतिः । (ऋ. सं. 10.85.5) |

अत इदं सुस्पष्टं यत् वर्षमानं सौरमानेन, मधुमाधवादयो मासाश्चन्द्रमानेन तथा च दिवसाः सावनमानेन वेदेषु व्यवहृता आसन् । एवं त्रिविधानां कालमानानां व्यवहारः भारते ख्रीष्टाब्दात् प्राग् पञ्चसहस्रवर्षाधिककालादेव प्रचलितो वर्तते। सौरमानेनैव कृतत्रेताद्वापरकलियुगानां तथा च संवत्सर - परिवत्सर-इदावत्सर- इद्वत्सर-अनुवत्सराख्यानां पञ्चसंवत्सरात्मकानां युगानाञ्च गणना कृता आसीदिति स्पष्टम् परं तत्र युगानां दैर्घ्यविषये किमपि प्रमाणं नोपलभ्यते। एतत्तु प्रसङ्गादूहनीयम्।

कालस्य सूक्ष्मविभागाः - अहोरात्रयोरुत्पादकः सूर्यः दिवसस्य प्रातः, संगवः, मध्याह्नः, अपराह्नः, सायञ्चेति पञ्चविभागं करोति। (ऋ.सं. 5.78.3) अनन्तरं दिवसस्य पञ्चदशविभागाः मुहूर्तसंज्ञकाः सञ्जाता एवमेव रात्रेरपि पञ्चदशविभागाः सम्भूयाहोरात्रस्य त्रिंशद्विभागाः कल्पिताः । ते चैवम्-

शुक्लपक्षस्य दिवसे पञ्चदशमुहूर्ता :-

  1. चित्र:, 2. केतु:, 3. प्रभान्, 4. आभान्, 5. संभान्, 6. ज्योतिषमान्, 7. तेजस्वान्, 8. आतपन्, 9. तपन्, 10. अभितपन्, 11.रोचनो, 12. रोचमान:, 13. शोभनः, 14. शोभमानः, 15. कल्याण: (तै.ब्रा.3.10.1) रात्रौ पञ्चदशमुहूर्ता :-

  2. दाता, 2.प्रदाता, 3. आनन्दः, 4.मोद:, 5.प्रमोदः, 6.आवेशयन्, 7.निवेशयन्, 8.संवेशनः, 9.सशान्तः, 10. शान्तः, 11.आभवन्, 12. प्रभवन्, 13. सम्भवन्, 14. सम्भूतः, 15. भूतः (तै.ब्रा. 3.10.1-2) कृष्णपक्षे दिवसे पञ्चदशमुहूर्ता :-

1.सविता, 2. प्रसविता, 3. दीप्तो, 4. दीपयन्, 5. दीप्यमान:, 6. ज्वलन्, 7. ज्वलिता, 8. तपन्, 9.वितपन्, 10.सन्तपन्, 11.रोचनो, 12.रोचमान:, 13.शुम्भू:, 14.शुम्भमानो, 15. वाम:

रात्रौ पञ्चदशमुहूर्ता :-

1.अभिशास्ता, 2. अनुमन्ता, 3. नन्दः, 4.मोदः, 5.प्रमोद:, 6.आसादयन्, 7.निषादयन्, 8.संसादनः, 9.संसन्नः, 10.सन्नः, 11.आभू:, 12. विभू:, 13.प्रभू:, 14.शभू:, 15. भुवः (तै.ब्रा.3.10.1.2,3)

कालगणनमधिकृत्य पुराणेष्वपि महती चर्चा दृश्यते। तत्र कालस्य सूक्ष्मातिसूक्ष्मविभागाः प्रदर्शिताः । तत्रोक्तम् भगवता व्यासेन -

चरमः सद्विशेषाणामनेकोऽसंयतः सदा। परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यथा॥ भाग.पु.3.11.1

(103)

Page 104

वाक्यार्थभारती 2013-14 परमाणुं परिभाष्य अन्येषां कालखण्डानां अणुरद्वौ परमाणू इत्यादिना अन्येषामपि कालखण्डानां वर्णनं कृतम्। तच्चैवम् -

1 परमाणु = 1.37967 सेकेण्ड 15 लघु = 1 घटी (=24 मिनट)

2 परमाणु = 1 अणु 2 घटी = 1 मुहूर्त

3 अणु = 1 त्र्यसरेणु 3.75 मुहूर्त = 1 = प्रहर*

3 त्र्यसरेणु = 1 त्रुटि 8 प्रहर = 1 अहोरात्र (दिन+रात्रि)

100 त्रुटि = 1 वेध 15 अहोरात्र = 1 पक्ष

3 वेध = 1 लव 2 पक्ष = 1 मास

3 लव = 1 निमिष 2 मास - ऋतु

3 निमिष=1 क्षण 3 ऋतु = 1 अयन

5 क्षण - 1 कष्ट 2 अयन = 1 वर्ष

15 कष्ट = 1 लघु *7 घटी 30 पल = 1प्रहर = 3 घण्टे

(भाग. पु. 3.115-12)

अपरोऽप्येकोऽतीव रमणीयः प्रसङ्गो वर्तते यत्र ध्रुवस्य परिवारप्रसंगेन कालगणना कृता वर्तते। ध्रुवः उत्तानपादस्य सुतो वर्तते। ध्रुवः प्रजापतेर्दुहितरं भ्रमीमुपयेमे।

(प्रजापतेर्दुहितरं शिंशुमारस्य वै ध्रुवः। उपयेमे भ्रमीं नाम तत्सुतौ कल्प वत्सरौ। भाग. पु. 4.10.1)

भ्रमी अर्थात् पृथ्वी ध्रुवस्य पत्नी कल्पवत्सराख्यौ द्वौ सुतौ अजनयत्। ज्येष्ठपुत्रः कल्पः जडः आसीत्। अतः कनिष्ठः वत्सरः राजसिंहासने स्थितः। वत्सरस्य भार्या स्वरवीथी षडात्मजानसूत। तेषां नामानि - 1. पुष्पार्ण:, 2.तिग्मकेतु:, 3.इष:, 4.उर्ज:, 5.वसु:, 6.जयः । एते स्वरवीथ्यां षड् ऋतूनामारम्भ बिन्दव: .

पुष्पार्णस्य द्वे भार्ये। एका प्रभा (दिवसः), अपरा च दोषा (रात्रिः)। पुष्पार्णस्य प्रभा नाम्नी भार्यया प्रातः, मध्याह्नः, सायम् इति त्रयः पुत्राः आसन्। एवमेव दोषा नाम्नी भार्यया प्रदोषः, निशीथः व्युष्टश्च त्रयः पुत्राः ।

(भा.पु.4.13.11-14)

(104)

Page 105

वाक्यार्थभारती 2013-14 एवमत्र परिवारप्रसङ्गेन भूमेश्चलत्वं तथा च दिवसस्य विभागाः कथा माध्यमेन प्रदर्शिताः । अनन्तरं ज्योतिषशास्त्रीया सैद्धान्तिकी कालगणनापाद्धतिः संक्षेपेण विवच्यते।

भगवता सूर्येण कालस्य द्विधा स्वरूपमुपस्थापितम्। तत्रैकः लोकानामन्तकारकोऽपरश्च कलनात्मकः । कालगणनप्रसंगे कलनात्मकस्य कालस्यैवोपयोगो भवति नान्यस्य । सोऽपि द्विधा। मूर्तोडमूर्तश्च। मूर्त:स्थूलकाल: व्यवहारोपयुक्तश्च। अमूर्तोऽतीवसूक्ष्मोऽव्यावहारिकश्च। अमूर्तस्य लघुतमं प्रमाणम् शास्त्राधारेण परमाणुरिति। परमाणुं परिभाषयन् केनचिदुक्तम् यत् गवाक्षात् प्रकोष्ठे प्रविष्टेषु रश्मिपुञ्जेषु दृश्यमाना: सूक्ष्मा: रजःकणाः परमाणुसंज्ञकाः भवन्ति। यावता कालेन रविरश्मिः एकस्य परमाणोः एकपार्श्वादपरपार्श्वं गच्छति तावान् काल: परमाणुसंज्ञकः कालः । गणनया अस्य परमाणो: प्रमाणम् एक सेकेण्डमितस्य कालस्य सार्धलक्षत्रयतमो भागो भवति। अत एव ज्योतिषे सूक्ष्मकालस्य गणनारम्भः त्रुटिसंज्ञककालात् कृतः। एवमेव स्थूलकालस्य लघुतमः कालखण्डः प्राणसंज्ञको भवति। तस्य प्रमाणं षष्टिलीक्षकानां तुल्यं वर्तते । अपरप्रमाणेन 10 विपलात्मकः काल: प्राणतुल्यो भवति। प्राणादारभ्य घटिकापर्यन्तं लघुकालखण्डा: स्थूला व्यावहारिकाश्च। अपरश्च ज्योतिषे नवविधकालमानानां वर्णनं वर्तते। ते चैवम्-

ब्रह्मं दिव्यं तथा पैत्र्यं प्राजापत्यञ्च गौरवं। सौरञ्च सावनं चान्द्रमार्क्षं मानानि वै नव। सू.सि.14.1

  1. ब्राह्ममानम् - 1 कल्पः = 4320000000 सौरवर्षाणि - 1 ब्राह्मदिनम् 1 कल्पः = 4320000000 सौरवर्षाणि = 1 रात्रि: 2. दिव्यमानम् - 1 सौरवर्षम् = 365.25 (365,15,31,30) सावनदिनानि = 1 दिव्यदिनम् 3. पैत्र्यमानम् - 15 सावनदिनानि = 1 पितृदिनम् = चन्द्रमण्डलस्यैकदिनम्। 4. प्राजापत्यमानम् - 1 मनुः = 306720000 सौरवर्षाणि 5. गौरवम् - गुरो: राश्यैकस्य मध्यमभोगकालः = 11-13 मासाः - 1 दिनम् 6. सौरमानम्- 1 अंशात्मको गतिकाल: = 1 सौरदिनम्, 1 राशेर्भोगकाल: = 1 सौरमास: 7. सावनम् - सूर्योदययोर्मध्यवर्तिकाल: = 1 सावनदिनम् 8. चान्द्रमानम् - एकतिथेर्मानम् = 1 चान्द्रदिनम् 30 तिथयः= 1 चान्द्रो मास: (105)

Page 106

वाक्यार्थभारती 2013-14 चन्द्रभोगांशः - सूर्यभोगांशः तिथि: = = 1 तिथि:

12

  1. नाक्षत्रमानम् - नक्षत्रोदययोः मध्यवर्तिकाल := 1 नाक्षत्रदिनम् = 60 घटी एवं भारतीयं कालमानं विविच्य पाश्चात्यकालमानस्य सिंहावलोकं क्रियते। त्रिसप्त्यधिकषट् शतवर्षेभ्यः ख्रीष्टाब्दात् प्राक् रोमदेशीयाः केवलं चतुरधिकशतत्रयदिवसानामेव वर्षप्रमाणं स्वीकुर्वन्तिस्म तदानीं केवलं दशमासानामेव गणना आसीत् । रोमनशासकः नूमा पोम्पिलियस ख्ीष्टाब्दात् प्राक् त्रिसप्त्यधिकषट् शततमे वर्षे एकपञ्चाशत् दिनानां वृद्धिं कृतवान्। एतेनैकस्मिन् वर्षे दिवसानां संख्या 355 पञ्च पञ्चाशदधिकशतत्रयदिवसानां जाता। द्वि-त्रि वर्षानन्तरं अधिमासरूपेण द्वात्रिंशद् दिवसान् संयोज्य त्रुटेः वारणं भवतिस्म। ख्रिष्टाब्दात् पञ्च चत्वारिशत् वर्षेभ्यः प्राक् जुलियससीजरमहोदयेन मिश्रदेशीयस्य सोसिजेन्स नाम्न: दैवज्ञस्य निर्देशानुसारं वर्षप्रमाणं संशोध्य 365.25 सपादपञ्चषष्ट्यधिकशतत्रयदिनानां निर्धारितम् । तथापि त्रुटेः मार्जनं न जातम् । जुलियससीजरस्य सम्मानार्थम् क्विन्टलिसमासस्य नाम परिवर्त्य जुलाई इति कृतम् अनन्तरम् आगस्टस राज्ञः सम्मानार्थं सेक्टिलिस मासस्य स्थाने अगस्त इति नाम उद्घोषितम्। फरवरी मासस्य दिनद्वयमाहृत्य उभयोः मासयोः दिनसंख्या एकत्रिंशत् निर्धारिता।

कालान्तरे ईस्टर दिवसस्य निर्धारणे पुनः त्रुटिमवलोक्य द्व्यशीत्यधिकपञ्चदशशततमे (1582) ख्रीष्टाब्दे पोप ग्रीगोरी महोदयस्य आदेशेन अक्टूबर मासस्य पञ्चम तारिकायाः शुक्रवासरस्य स्थाने पञ्चदशतारिका शुक्रवासरश्चोद्घोषितः। शतद्वयवर्षानन्तरं पुनस्तत्र कालगणनायां किञ्चित् त्रुटिमवल्स्य तस्य स्पष्ट ज्ञानाय प्रयास: कृतः। द्विपञ्चाशदधिकसप्तशततमे (1752) ख्ीष्टाब्दे एकादश दिवसानां त्रुटिमवलोक्य तस्य वरणाय सितम्बर मासस्य तृतीय तारिकायाः स्थाने चतुर्दशतारिका उद्घोषिता। अर्थात् तेषां पाश्चात्यानां कालगणना शतत्रयवर्षात् प्रागेव सुस्थिरा जाता।

यत्र एतादृशी दुरवस्था कालगणनाया आसीत् तत्रत्या दैवज्ञा गणितज्ञा वा आक्षिपन्ति यत् भारतीया साप्ताहिकदिवसेभ्यः अपरिचिताः आसन्।

अतिप्राचीनकालादेव भारतीया दैवज्ञाः ग्रहाणां भूकेन्द्रिकीं कक्षां स्वीकृतवन्तः। ग्रहकक्षाया आधारेणैव मन्दादधः क्रमेण स्युश्चतुर्थाः दिवसाधिपाः, इत्यादिना वारक्रमो निर्धारितः। वाराणां नामान्यपि ग्रहाणां नामानुसारमेव कल्पितम्। अत इदमसंशयं वक्तुं प्रभवामि यत् वारगणना कालगणना च भारतीया एव समीचीना प्रामाणिकी च।

इति शम्

(106)

Page 107

ज्याभिर्विना भुजकोटिज्ययो: साधनम् वाक्यार्थभारती 2013-14

श्री रामकृष्णपेजत्ताय

मध्यमग्रहस्य स्फुटीकरणप्रक्रियायां भुजज्याकोटिज्ययोः साधनमिष्टम् । तत्प्रसङ्गे प्रायः सर्वेऽप्याचार्या: चतुर्विंशतिं ज्यार्धखण्डानि पठित्वा ततोऽनुपातेन अभीष्टचापस्य ज्यासाधनं प्रोचुः । श्रीपतिस्तावत् तं प्रकारमुक्तवा ज्याखण्डैर्विनापि भुजकोटिज्यज्ययोः साधनं शक्यमिति दर्शयामास, येनासौ गणकमण्डले परमादरमापन्नः । अत्रादौ तद्गणितविधिं द्रक्ष्यामः । तदाह श्रीपतिः-

दो:कोटिभागरहिताभिहताः खनाग-

चन्द्रा 180 स्तदीयचरणोनशरार्कदिग्भिः ।

ते व्यासखण्डगुणिता विहृताः फले तु

ज्याभिर्विनैव भवतो भुजकोटिजीवे ॥1 इति।

अयमर्थः । मध्यमग्रहात् स्वोच्चं विशोध्य शिष्टस्य भुजः कोटिः वा साध्या। ततः भुजस्य कोट्या वा भागैः वर्जिताः खनागचन्द्राः (180) पुनस्तैरेव गुणिताः द्विष्ठाः कार्याः । तत एकस्य चतुर्थांशं साधयित्वा, तेन चतुर्थांशेन शरार्कदिशः (10125) उनाः कृत्वा भागहारत्वेन रक्षणीयाः । ततः अपरत्र स्थापितः दो:कोटिभागरहिताभिहतखनागचन्द्ररूपो राशिः त्रिज्यया संगुण्य, तेन हारेण भाज्यते चेत् लब्धा भुजज्या कोटिज्या वा। इत्थं ज्याखण्डै: विनैव भुजकोटिज्ये प्राप्येते इति।

अत्रोपपत्ति: - यदि व्यासार्धे भुजज्या तदा द्विगुणव्यासार्धे का ? इति त्रैराशिके लब्धा द्विगुणव्यासार्धे भुजन्या। अतः कस्मिन्नपि व्यासार्धे द्विगुणभुजांशानां या पूर्णज्या सैव द्विगुणतद्व्यासार्धे भुजज्या भवतीति षष्टिव्यासार्धे द्विगुणभुजांशानां पूर्णज्यासाधनार्थं स्वल्पान्तरात् त्रिगुणं व्यासार्धम् = परिधि: 360 अंशाः । चक्रांशैः चक्रसमचापीयमानं लभ्यते चेत् द्विगुणभुजांशैः किम् इति लब्धं तच्चापमानम् =2 भुज: । ततः 'चापोननिघ्नपरिधि: प्रथमाह्वयः स्यात्'2 इत्यादिना विधिना खार्कव्यासे द्विगुणभुजांशपूर्णज्या जाता खार्कमितत्रिज्यायां भुजज्या। एवं जातं स्वरूपम्-

(180-भु)भु16120

(3603605) (180-भु)भु*4

(4)

(107)

Page 108

वाक्यार्थभारती 2013-14 180-भु)भु 120

903605 (180-भु)भु

416 4

(180-भु)भु*120

45455-(180-भु)भु

4

(180-भु)भु*120

10125-(180- भु)भु

4

यदि खार्कमितत्रिज्यायामियं भुजज्या तदेष्टत्रिज्यायां का इति जाता इष्टत्रिज्यायां भुजज्या।

(180-भु)भुत्रिज्या

10125-(180-भु)भु

4

इत्युपपन्नं सर्वम्।

य एतद्गणितं वेत्ति स विशिष्यते इत्येतद् ध्वन्यतेऽनेन प्रश्नाध्यायोक्तश्लोकेन। यथा -

ज्याभिर्विनैव भुजकोटिगुणौ प्रवक्ति

स्पष्टं च यो दिनगणात्तिथिमिष्टखेटात्।

तिग्मांशुना तुहिनदीधितिना विना वा

सिद्धान्तविन्नगदितः स महीतलेऽस्मिन् ॥

अत्र अवधेयांशाः सन्ति केचन।

(108)

Page 109

वाक्यार्थभारती 2013-14 अयमेव श्लोक: तुरीयचरणे 'ज्याभिर्विनापि' इति पाठान्तरं प्राप्तः श्रीसुधाकरद्विवेदिन: ग्रहलाघववासनाविभूषणे गणकतरड्गिण्यां चास्ति । गणकतरडगण्यां तु 'ज्याखण्डैर्विना चापादेव ज्यानयनं श्रीपतिकृतमवलम्ब्यैव गणेशदैवज्ञेन ग्रहलाघवे सर्वे प्रकारा विलिखिताः । 'इति कृतं लघुकार्मुकशिञ्जिनी ग्रहणकर्म विना द्युतिसाधनम्' इति भास्करीयकरणकुतूहलस्थच्छायासाधनाभिमानमूलहेतुश्चात्र श्रीपतिप्रकार एव' इति श्रीपतिं भृशम् आद्रियमाणा: श्रीसुधाकरद्विवेदिन: बहवो हि ग्रहलाघवीयविधयः अमुं श्रीपत्युक्तमवलम्ब्यैव कृता इति स्वकृते ग्रहलाघववासनाविभूषणे उपपादयन्ति।

केतकीग्रहगणितस्य केतकरतनयेन श्रीदत्तराजाख्येन कृते केतकीपरिमले वासनाभाष्ये 'एवम् आचार्यैः साधितं शतसमत्रिज्यानुगुणं सुलभज्यासाधनं ज्यातश्चापसाधनं च प्रदर्शितमस्माभिः । सिद्धान्तशेखरेऽपि साक्षात् इमे एव प्रकारौ पठ्यन्ते। तद्वाक्यं च यथा इत्युक्तवा श्रीपतेरिदं पद्यद्वयं पठित्वा तत्समीकरणं च प्रदर्श्य 'एवममुपपन्नं श्रीपतिगदितं ज्याचापानयनम, । यत्र यत्र सूक्ष्मतापेक्षा तत्रेदं सूत्रं स्वीकार्य'मिति सगौरवं गदितम्। तत्रैवान्ते 'एतन्निरीक्ष्यैव भास्करगणेशाभ्यां श्रीपतिनामनिर्देशेन विनैव तद्रीतिः प्रतिपादिता।' इति भास्करगणेशौ आक्षिपति श्रीदत्तराजः। अनेनैतत् स्पष्टं यत् तेनोक्तोऽसौ विधि: बहुत्र गणकमण्डले प्रसिद्ध आसीदिति।

किञ्चैदपपीह स्मार्यं यत् श्रीपतिमेवं श्लाघमाना बहवो गणका अपि न विदन्ति यदसौ विधि: श्रीपतिना ब्रह्मगुप्तमनुसृत्यैव लिखित इति। यतो ब्राह्मस्फुटसिद्धान्ते अयमेव विधिरुपलभ्यते। तद्यथा-

भुजकोट्ययंशोनगुना भार्धांशास्तच्चतुर्थभागोनैः ।

पञ्चद्वीन्दुखचन्द्रैर्विभाजिता व्यासदलगुणिता॥

तज्ज्ये परमफलज्यासंगुणिता तत्फले विना ज्याभिः ।

इष्टोच्चनीचवृत्तव्यासार्धं परमफलजीवा ॥ इति।

अस्यार्थ: - येषां भुजांशानां कोट्यंशानां वा ज्या अपेक्षिता तैः भार्धांशाः (180 अंशाः) उनिता: गुणिताश्च कार्याः । ततस्ते तेषामेव चतुर्थांशेन उ नितैः पञ्चद्वीन्दुखचन्द्रैः (10125) भाजिताः त्रिज्यया गुणिताश्च कार्याः । लब्धिः भुजज्या कोटिज्या वा भवति। इति।

एवमेव अग्रेऽपि श्रीपतिना ज्याखण्डैर्विनैव इष्टज्यातः चापानयनं यत्कृतं तदपि ब्रह्मगुप्तमनुसृत्यैव। तथा चात्र श्रीपतिश्लोक :-

इष्टज्यया विनिहता: शरभास्कराशा (10125)

ज्यापादयुकत्रि भगुणेन हता: फलं तत्।

त्यक्त्वा खनन्द (90) कृतितः पदमभ्रनन्द-

भागाच्च्युतं भवति धन्व विना ज्यकाभिः ॥ इति। (109)

Page 110

वाक्यार्थभारती 2013-14 अस्यार्थ: - शरभास्कराशाः (10125) इष्टज्यया गुणिता: इष्टज्याचतुर्थांशयुक्तत्रिज्यया भाजिताश्च कार्याः । तत्फलं नवतिकृतेः (8100) शोधयित्वा शिष्टस्य मूलं नवतेः अंशेभ्यः शोधयेत् । शिष्टम् इष्टज्यायाः चापमानं भवति। इति।

उपपत्तिः पूर्वोक्तन्यायवैपरीत्येन ज्ञेया।

ब्रह्मगुप्तोक्तं ज्यातः चापानयनं यथा।

इष्टज्यासंगुणिता: पञ्चकयमलैकशून्यचन्द्रमसः ।

इष्टज्यापादयुतव्यासार्धविभाजिता लब्धम् ।

नवतिकृतेः प्रोह्य पदं नवतेः संशोध्य शेषभागकलाः ।

एवं धनुरिष्टाया भवति ज्याया विना ज्याभिः ॥ इति।

अनेनैतत्स्पष्टं यद् ब्रह्मगुप्तोपज्ञोऽसौ विधि: श्रीपतिनानूदितः इति। परन्तु गणकवलये अधुनापि विधिरसौ श्रीपतिप्रोक्त इत्येव प्रथितोऽस्ति। ब्रह्मगुप्तोऽमुं विधिं स्पष्टाध्याये अनुक्तवा स्पष्टगत्युत्तराध्याये उवाद इत्येषोऽपि स्यादस्याज्ञानस्य हेतुः इति मन्मतिः। उपज्ञातं वाऽनूदितं वा किमपि भवतु नाम। एतद्विशिष्टं गणितमुपदिष्टवता श्रीपतिना भृशमुपकृता वयमित्येतन्निश्चप्रचमिति विरम्यते।

(110)

Page 111

वास्तुशास्त्रोक्तानि मानानि वाक्यार्थभारती 2013-14

डा. मुरळीकृष्ण टी वसन्ति प्राणिनो यत्र तद्वास्तु। निवसार्थकस्य वस् धातोः वसेस्तुन्'इति तुन्प्रत्यये, अगारे णिच्च2इत्यनेन णिद्वद्भावे उपधावृद्धौ वास्तु इति । 'वेश्मभूर्वास्तुरस्त्रियाम्'3 इत्यमरः । 'वास्तुर्वसतेर्निवासकर्मणः' इति निरुक्तकारो यास्कः । 'वास्तु स्याद्गृहभूपुर्योर्गृहे सीमसुरङ्गयोः' इति कोशान्तराभिधानात् पुरी-प्रासाद-गृह-सीम-सुरङ्गेष्वर्थेषु वास्तु इत्येतत्पदं युज्यते। कौटिलीयार्थशास्त्रे 'गृहं क्षेत्रम् आरामस्सेतुबन्धस्तटाकानामाधारो वा वास्तु' इत्युच्यते। किन्तु वास्तुशास्त्रग्रन्थेष्वन्यतमायां वास्तुविद्यायाञ्च - पूर्वं भूमिं परीक्षेत पश्चाद्वास्तु समारभेत्।4 इति।

वाक्यमिदं भूपरीक्षानन्तरं गृहं तथा तदवयवांश्च कारयेदित्युपदशति। इह हि वास्तुपदं गृहनिर्माणभुवः अपेक्षया गृहं गृहावयवांश्च निर्दिशति। मयस्तु गृहनिर्माणक्षमां भूमिं वस्तुशब्देन गृहं वास्तुशब्देन च शब्दाययति। तद्यथा-

भूरेव मुख्यं वस्तु स्यात्तत्र जातानि यानि हि।।

प्रासादादीनि वास्तूनि वस्तुत्वाद्वस्तुसंश्रयात्।5 इति।

अत्र मानसारस्तु यथा -

तैतिलाश्च नराश्चैव यस्मिन्यस्मिन्परिस्थिताः ।

तद्वस्तु सूरिभि: प्रोक्तं तथा वै वक्ष्यतेऽधुना ।

धराहर्म्यादियानञ्च पर्यङ्कादिचतुर्विधम्।

धरा प्रधानवास्तु स्यात्तत्तज्जातिषु सर्वशः॥ विमानादीनि वास्तूनि वस्तुतो वस्तुसंश्रयात्। तान्येव वस्तुरेवेति कथितं वास्तुविद्बुधैः ॥6 इति।

अनेनेदं स्फुटं यन्मयमानसारौ भूमिं वस्तुशब्देन, गृहादिकं वास्तुशब्देन च व्यवहियत इति।

एतैस्सर्वैः प्रमाणैः न केवलं गृहादिरचनावच्छिन्नभूविशेषे अथवा प्राणिनां वासयोग्यभूखण्डे एव अपि तु गृहादीनामपि वास्तुर्वा वास्तु इतीमे पदे युज्येते। किञ्च वेश्मभूर्वास्तुरस्त्रियाम्इत्यमरकोशवाक्यानुसारेण वास्तुशब्दस्य प्रयोगः नपुंसके पुंसि च वर्तत इति।

(111)

Page 112

वाक्यार्थभारती 2013-14 सन्दर्भेडस्मिन् हलायुधः ब्रवीति यथा - वास्तु इति पुंलिङ्गे प्रयुक्तश्चेत् वासयोग्या भूरिति, नपुंसके प्रयुक्तश्चेत् वासयोग्यगृहञ्चेति कल्पयेत्।7 गृहनिर्माणविधिबोधकं शास्त्रं वास्तुशास्त्रम्।

मानानि-

मीयते परिच्छिद्यते वस्त्वनेनेति मानम् । परिमाणमित्यर्थः । माङ् माने धातोः करणे ल्युटि मानमिति। न केवलं भूगृहादिषु वास्तुषु मानानि आधारभूतानि भवन्ति अपि च विशालेषु राजप्रासादेषु यज्ञकुण्डेषु आलेख्यकर्मणि प्रतिमास्वपि कश्चन मेयः भवत्येव। उक्तमपि यथा -

सर्वेषामपि वास्तूनां मानेनैव विनिश्चयः।8

अथवा

मानेनैवाखिलं लोके वस्तु संसाध्यते यतः ।9इति।

अतः तत्तदुचितमानयुक्तेन निर्मितं वास्तु सुन्दरं शुभलक्षणान्वितञ्च भवति। यस्मिन् कस्मिन् वा कर्मणि मानाभावे किमित्याह विश्वकर्मा -

मानाभावे क्रियादीनां न शोभा न बलादिकम्।

द्रव्यनाशश्चापयशो भवत्येव न संशयः ॥10 इति।

अतः मानानि भारतीयास्थापत्यकलायाः प्राणभूतानीत्यमन्यन्त वास्तुशास्त्रविदः।

माननिरूपणम्-

वास्तुशास्त्रीयग्रन्थेषु माननिरूपणाध्यायः, मानसाधनाध्यायः इत्यादिभिर्नामभिः अध्यायाः ग्रथिता:। एतेषां परमं लक्ष्यं विविधानां मानानां निरूपणम्। तत्रादौ यं कमप्येकं मानमाधारत्वेन परिगण्य तस्योत्तरोत्तरवृद्धिं परिकल्पयन्ति। अथ चात्र सामान्यतः मानेषु आधारभूतः सूक्ष्मतमः भागः परमाण्वाख्यः कथ्यते। एनं परमाणुं सामान्यजना: द्रष्टुं न पारयन्ति। योगिनामेव दृष्टिगोचरमिदं मानमिति वास्तुविक्कार :-

परमाणुः क्रमाद्वद्धो मानाङ्गुलमिति स्मृतः ।11 इति।

अत्र बृहत्संहिताकार :-

जालान्तरगे भानौ यदणुतरं दर्शनं रजो याति।

तद्विन्द्यात्परमाणुं प्रथमं तद्धि प्रमाणानाम्।12 इति।

(112)

Page 113

वाक्यार्थभारती 2013-14

अर्थात् गवाक्षमार्गेण गृहान्तःप्रविश्यमाणेषु रविकरेषु अवलोक्यमानः सूक्ष्मतरः धूलि: परमाणुसंज्ञकः स्याद्यच्च सामान्यजनैर्द्रष्टुमयोग्यमिति पूर्वोक्तेन सह संवादी। अथापि वास्तुशास्त्रे मानसाधनप्रथमसोपानतया परमाणुमेव स्वीकुर्वन्ति। ततश्च उत्तरोत्तरवृद्धिक्रममनुसरन्ति। तद्यथा मयमते-

परमाणुभिरष्टाभि: रथरेणुरुदाहृतः ।

रथरेणुश्च बालाग्रं लिक्षा यूका यवास्तथा ॥

क्रमशोऽष्टगुणैः प्रोक्तो यवाष्टगुणितोऽड्गुलम्।13इति।

अतः अष्टभिः परमाणुभिः एक: रथरेणुः । रथरेण्वोः रजः14, रजोकण:15, त्रसरेणुः16, पद्मरजः17, रथधूलिः18 इत्येतानि नामान्तराणि च ग्रन्थान्तरेषु समुपलभ्यन्ते। अष्टभिः रथरेणुभिः बालाग्रम्। बालाग्रस्य रोमाग्रम्, केशाग्रम्१, कचाग्रम20इति नामान्तराणि। अष्टभिर्बालाग्रैर्लीक्षा। अष्टभिर्लीक्षाभिर्यूका। अष्टभिर्यूकाभि: एको यव: । यवोदरैरष्टभिरेकमङ्गुलम्, मानाङ्गुलम्, मात्राङ्गुलमिति वा।

शिम्बिस्थाष्टतिलैर्यावोदरमिति प्राहुस्तदष्टोन्मितैः21 इत्यनेन शिम्बिस्थाष्टतिलैरेकं यवोदरमिति मनुष्यालयचन्द्रिका। शिम्बि: धान्यत्वगिति। अत्रोदरपदेन धान्यमध्यभागः ज्ञेयः। पूर्वोक्ता यूका तिलसमाना एव।

पूर्वोक्तेषु परमाणु-रथरेणु-बालाग्रानामत्यन्तसूक्ष्मत्वात् सामान्यैर्गणयितुमशक्यम्। अतः एतेषां व्यवहारानर्हत्वञ्च सिद्धम्। कारणेनानेन केषुचिद्ग्रन्थेषु माननिरूपणावसरे बह्वपेक्षितानां व्यवहारयोग्यानां यवाङ्गुलादीनामेव गणनाक्रमं प्रदर्शयामासुराचार्याः ।

अथ च गृहनिर्माणकाले अङ्गुलं (यच्च यवोदरैरष्टभिः सम्भवः) तथा तद्वद्धिप्राप्तं करमानञ्च अधिकतयोपयुञ्जन्ते। एतयोरतिरिच्य वितस्तिदण्डाख्ययोः मानयोः गणना अपि क्वचिद्दृश्यत इत्यतः तन्मानस्वरूपमुक्तं मनुष्यालयचन्द्रिकायां यथा -

मात्राख्याङ्गुलमङ्गुलैरिनमितैः प्रोक्ता वितस्तिस्तथा।

तद्द्वन्द्वं करकिष्क्वरतिभुजदोर्मुष्ट्यादिसंज्ञं ततः22

इत्येतैः वचनैः द्वादशमात्राङ्गुलैः वितस्तिः । वितस्तिद्वयेन अथवा चतुर्विशत्यङ्गुलैः एक: करः । अस्य करस्य किष्कु:, अरलि:, भुजः, दोः इत्येतानि प्रसिद्धानि नामान्तराणि। अस्यैव केरलेषु कोल् इति कर्नाटकस्य दक्षिणदेशेषु कोलु इति व्यवहार:। ... चतुर्हस्तको दण्डो यष्टिरिति स्मृतोऽष्टगुणिता दण्डोऽत्र रज्जुर्भवेत्23 इत्यतः करचतुष्टयेन वितस्त्यष्टकेन षण्णवत्यड्गुलैर्वा एकः दण्डः यष्टिर्वा जायते। अष्टगुणितः दण्ड: रज्जुः स्यात्।

(113)

Page 114

वाक्यार्थभारती 2013-14 प्राजापत्यादिसंज्ञकानि करमानानि -

चतुर्विशत्यङ्गुलेन एक: करः इति पूर्वं निरूपितम्। 'एकैकाङ्गुलवृद्धितोऽड्गुलविशेषादप्यथो भिद्यते'24 इत्यनेन करप्रमाणस्य एकैकाड्गुलवृद्ध्या प्राजापत्यादिनाम्ना अभिधीयमानानि अष्टौ भवन्ति। तद्यथा-पञ्चविंशत्यङ्गुलैः प्राजापत्यसंज्ञकः स्यात्। षडिंवशत्यङ्गुलैः धनुर्मुष्टिः, सप्तविंशत्या धनु्हः, अष्टाविंशत्या प्राच्यः, नवविंशत्या वैदेहः, त्रिंशद्भिः वैपुल्यम्, एकत्रिंशद्भिः प्रकीर्ण: ।25 यद्यपि प्राजापत्यसंज्ञकानि अष्टौ विधानि करमानानि निरूपितानि अथाप्यत्र सर्वसम्मतं गृहनिर्माणोपयोगी करमानमादिमं किष्क्वाख्यं यच्च चतुर्विंशत्यङ्गुलात्मकम्। उक्तमपि मनुष्यालयचन्द्रिकायाम्-

आदौ चतुर्विशति सम्मितैर्यो मात्राङ्गुलैरेव कर: प्रदिष्टः । सर्वत्र पूज्यो मतभेदतोन्ये सर्वेडपि च क्वापि यथार्हमिष्टाः॥26

तथैव -

. किष्कुः सर्वत्र सम्मतः। 27

उत्तममध्यमाधमानि अङ्गुलमानानि -

अङ्गुलमानेऽपि कश्चन विशेषो यथा - यवोदरैरष्टभिः एक: अङ्गुलः इत्येतदुत्तमं मानम्। यवोदरैस्सप्तभिः यवोदरैष्षडि्भश्च लोके अङ्गुलमानस्योपयोगो दृश्यते। किञ्च एते उभे माने क्रमशः मध्यमाधमौ ज्ञेयौ। उक्त्तं हि मनुष्यालयचन्द्रिकायाम्-

यवोदरैरष्टभिरुन्मितं यन्मात्राङ्गुलं तत्कथितं वरिष्ठम्।

क्रमेण सप्ताङ्गयवोदरैर्यत्तन्मध्यमं चाधमसंज्ञितञ्च ।।28 इति।

यवस्य स्थाने षाष्ठिकशालि: अपि स्वीक्रियते क्वचित्। तदा अपि अष्टौ सप्तभि: षड्भर्वा शाल्युदरै: मीयमानं मानम् उत्तममध्यमाधमभेदेन त्रिधा कल्प्यते। यदि शाल्युदरं विहाय शालिदैर्घ्यानुरोधेन अड्गुलं गण्यते तदा शालिचतुष्टयस्य उत्तमम् अङ्गुलम्, सार्धत्रयप्रमाणस्य मध्यमम्, त्रयाणाम् अवरश्चेति निश्चितः । तद्यथा-

षाष्टिकशाल्युदरैरप्यष्टाद्यङ्गैर्वराङ्गुलं त्रिविधम्।

तच्छाल्यायतजलनिधिसार्धत्रितयत्रिसम्मितैर्वापि ।।29 इति।

एवं यवोदराधारेण त्रीणि, शाल्युदराधारेण त्रीणि, शालिदीर्घाधारेण त्रीणि च भेदानि जायन्ते। इतीत्थमङ्गुलभेदा: नवधा भवन्ति।

(114)

Page 115

वाक्यार्थभारती 2013-14 उपसंहार: -

आधारप्रमाणस्य भेदे तद्वृद्धिप्राप्तानि मानानि भिद्यन्ते यच्च सामान्यतः देशभेदेन सम्भवति। तत्तत्प्रदेशं परितः व्यवहारपथे विद्यमानानां मानानां ज्ञानं शिल्पिषु भवति। मानभेदे सत्यायादिष्वपि वैषम्यं सम्भवति। वास्तुषु आद्यन्तं मानभेदराहित्यमपेक्षितमेव। मानवैषम्यवारणाय मानसूत्रं मानदण्डं वा निर्माप्य ततः वास्तूनां मापनं कुर्यात्। ततश्च निर्मितं मानवैषम्यरहितं वास्तु शुभफलदं भवति।

सन्दर्भसूची

  1. उ. सू. -1,78 2. उ. सू. - 1, 79 3. अ. को. - 2अ. 3व. 631प. 4. वा. वि. - 2अ.1 श्लो. 5. म. म .- 2अ. 2-3श्लो. 6. मा. सा. - 3अ. 2-4श्लो. 7. ह. को. - 270 प. 8. म. म .- 5अ. 1श्लो. 9. वा. वि. - 1अ. 3श्लो. 10. वि. वा. - 7अ. 71श्लो. 11. वा. वि. - 1अ. 6श्लो. 12. बृ. सं. - 5अ. 1श्लो. 13. म. म. - 5अ. 3-4श्लो. 14. द्र. बृ. सं. - 57अ. 2श्लो., द्र. म. पु. -258अ. 17श्लो. 15. द्र. स.सू. - 9अ. 4श्लो. 16. द्र. म.पु. - 258अ. 17श्लो. 17. द्र. वा. पु. - 101अ. 118श्लो. 18. द्र. मा. सा .- 2अ. 20श्लो. 19. द्र. वा. वि. व्या. -1अ. 5श्लो. 20. द्र. बृ. सं. उ. व्या. -57अ. 2श्लो. 21. म. च. -3अ. 1 श्लो. 22. तत्रैव 23. म. च. - 3अ. 13श्लो. 24. म. च. - 3अ. 1श्लो. 25. म. च. - 3अ. 2-4श्लो. (115)

Page 116

वाक्यार्थभारती 2013-14 26. म. च. - 3अ. 12 श्लो. 27. म. च. - 3अ. 6श्लो. 28. म. च. - 3अ. 9श्लो. 29. म. च. - 3अ. 10श्लो.

परिशीलितग्रन्था: सङ्केताश्च

  1. अमरकोश: अ. को. I

  2. उणादिसूत्रम् उ. सू 3. बृहत्संहिता बृ. सं. 4. मत्स्यपुराणम् म.पु. 5. मनुष्यालयचन्द्रिका म. च.

  3. मयमतम् म.म.

  4. मानसार: मा. सा.

  5. वायुपुराणम् वा.पु. 9. वास्तुविद्या वा.वि. 10. विश्वकर्मवास्तुशास्त्रम् वि. वा. 11. हलायुधकोश: ह. को.

(116)

Page 117

संस्कृत-शिक्षण-अधिगमन-प्रक्रिया-पुनश्चिन्तनम् वाक्यार्थभारती 2013-14

प्रो. चान्दकिरणसलूजा (सारांश:)

अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्।

विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ (वाक्यपदीयम्)

न सोडस्ति प्रत्ययो लोके यः शब्दानुगमादृते। अनुविद्धमिदं ज्ञानम् सर्वं शब्देन भासते ॥ (वाक्यपदीयम्)

इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयम्।

यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥ (काव्यादर्शः)

अभिव्यक्ति: एव अस्ति भाषायाः प्रयोजनम्।

अस्माकं व्यावहारिकी लोकयात्रा मूलतः भाषया एव प्रवर्तते। भाषा एव अस्ति लोकानां भावानाम् अभिव्यक्ते: महत्त्वपूर्णं मूलभूतं कारणम्।

मन्यते एव -

इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा।

वाचामेव प्रसादेन लोकयात्रा प्रवर्तते ॥ (काव्यादर्शः)

भाषा इति शब्द: व्यक्तायां वाचि इत्यर्थे उक्त-भाष् -धातोः निष्पन्नः ।

अधिगतस्य विषयस्य फलं मूलतः अस्य प्रयोगे व्यवहारे वा दृश्यते इति मन्यते महाभाष्यकारेण -

आगम-स्वाध्याय-प्रवचन-व्यवहारकालेन

महाकवि: हर्षः अपि लिखति -

अधीति-बोध-आचरण-प्रचारणैः

अतः सम्भाषाण-क्षमता-विकासः एव अस्ति भाषा-शिक्षणस्य उद्देशः । कामपि भाषाम् अधीत्य अपि कोऽपि तया भाषया सम्भाषणं कर्तुम् असमर्थः तदा कोऽभिप्रायः तस्याः भाषायाः अध्ययनेन। अतः संस्कृतं अधीत्य अपि यदि कोऽपि संस्कृतेन वक्तुम् असमर्थः तर्हि 'किं कारणम्' इति चिन्तनीयः प्रश्नः । कारणं स्पष्टम् एव अस्ति यत् केवलं नियमज्ञानमात्रेण एव सम्भाषणं न सम्भवति अपितु पुनः-पुनः सम्भाषणाभ्यासेन एव । सम्भाषणं किंचन मौखिकः अभ्यासः । अभ्यासाधीना एव (117)

Page 118

वाक्यार्थभारती 2013-14 भाषा। पुनः-पुनः अभ्यासेन नियमाः स्वयमेव निरूपिताः भवन्ति। अतः अभ्यासाः अनिवार्याः । कथ्यते अपि ...

अनभ्यासे विषं विद्या वस्तुतः अभ्याससारिणी विद्या

अद्य शिक्षासंस्थासु सम्भाषणस्य अभ्यासस्य अभावकारणेन प्रायः अनुभूयते यत् बहूनि वर्षाणि संस्कृतम् अधीत्य अपि संस्कृतच्छात्राः संस्कृतेन स्वविचारान् प्रकटयितुम् असमर्थाः । विद्वद्भिः अनुभूयते यत् -

संस्कृतपाठनं नाम रूपरटनम् इति भाव: जनमानसे दृढः जातः। किञ्च, 10-12 वर्षाणि संस्कृतशिक्षणं प्राप्य अपि बहवः संस्कृतभाषया स्वीयं परिचयं दातुं कष्टम् अनुभवन्ति। एवं स्थिते का कथा सस्कृतेन भाषण-पाठन-व्याख्यादीनाम् ? तैः नियमज्ञानं प्राप्तं, परन्तु प्रयोगसामर्थ्यं न प्राप्तम्। संस्कृतविषयकं शिक्षणम् अभवत्, संस्कृतशिक्षणं न। (सङ्क्रमणात्)

वयं जानीमः एव यत् भाषायाः चत्वारि प्रमुखानि कौशलानि-श्रवणम्, भाषणं, पठनं लेखनञ्च। तत्र श्रवणं पठनं च कौशलद्वयम् अवगमनात्माकम् एवं भाषणं लेखनं च अभिव्यक्तात्मकम्। शिक्षणं तदैव परिपूर्णं मन्यते यदा सर्वेषां कौशलानां प्राधान्यं भवेत्। परन्तु प्रायः सामान्यविद्यालयेषु कस्य अपि कौशलस्य प्राधान्यं न दृश्यते। प्रयोगसापेक्ष-भाषाज्ञानम् एव अनिवार्यम्।

कथ्यते एव यथा जलतरणकौशलार्थं जलतरणम् एव उपायः न अन्यः कोऽपि तथैव सम्भाषणे नैपुण्यं प्राप्तुं भूयो भूयो श्रवणं भाषणं च। भूयो भूयो श्रवणम् एव भाषाज्ञानस्य 'सरलतमो विधिः' इति विचार: वर्णेकरमहोदयानाम्।

भाषायाः प्राथमिकं प्रयोजनम् एव 'निवेदनं, प्रश्नकरणं, कथनं, वर्णनम्, आह्वानं, स्वागतीकरणम्, आपृच्छनम् इत्यादिकार्यसम्पादनम्। अतः भाषायाः शिक्षणं नाम तया भाषया तत्तत्कार्यकरणस्य शिक्षणम्। अर्थात् विविधप्रसङ्गेषु भाषाव्यवहारः कथं कर्तव्यः इति पाठनम्। (ज्ञाने धर्मः उत प्रयोगे)

एतदर्थम् आवश्यकम् मौखिककार्यं प्रति अधिकाधिकम् अवधानम्। 'व्याकरणमित्यस्य व्याख्या 'प्रयुक्तानाम्' इति शब्दः अवध्यातव्यः । लोके भाषया ये व्यवहाराः क्रियन्ते स्म तान् अधीत्य नियमा: रचिताः तथा व्याकरणं संवर्धितम्। अतः प्रथमं व्यवहारः आसीत् पश्चात् व्याकरणम् आगतम्'। (ज्ञाने धर्मः उत प्रयोगे)

शिशु: भाषाया: अधिग्रहणं कथं करोति ? कानि तत्त्वानि निहितानि तस्याम् भाषा-अधिग्रहण- प्रक्रियायाम् ? तानि सन्ति, यथा -

(118)

Page 119

वाक्यार्थभारती 2013-14 श्रवणस्य-प्राधान्यम्, सहज परिवेश: अनेके च शिक्षकाः, अनेकानि पाठ्योपकरणानि, निःसङ्कोचव्यवहार:, प्रयोगे दृष्टिः, कुतूहलम्, वात्सल्यम्, निरन्तरं परिष्कारः, स्तरानुगुणं व्यवहारः, तन्मयता इत्यादीनि।

एषा एव अस्ति भाषाधिग्रहणस्य सहजप्रक्रिया। अतः एषा भाषा-अर्जन-प्रक्रिया एव भाषाशिक्षणार्थम् अनुपालनीया। अस्यामेव निहितं 'व्यक्तायां वाचि' इत्यर्थे 'भाष्' धातोः निष्पन्नस्य 'भाषा' इति शब्दस्य सार्थक्यम्।

अतः आवश्यकता अस्ति प्रमुखतया -

·संस्कृतेन एव चिन्तनस्य।

•निरन्तरं संस्कृतेन एव सम्भाषणस्य।

•निरन्तरं संस्कृतेन एव लेखनस्य।

• प्राचीन-आधुनिक-संस्कृत-साहित्यस्य पठनस्य ।

·संस्कृतेन एव पठित-पाठ्य-पाठानां टिप्पणीनां सज्जीकरणस्य।

·संस्कृत-पत्रिकाणां पठनस्य।

•संस्कृतेन प्रसारित-कार्याणां श्रवणस्य अवलोकनस्य च।

·संस्कृतेन एव पाठनस्य।

·पाठ्यक्रम-सम्बद्ध-शिक्षण-सामग्याः संस्कृतेन एव निर्माणस्य।

• अभ्यासानाम् अभ्यास: संस्कृतेन इत्यादीनाम् उपायानाम्।

संस्कृत-शिक्षण-अधिगमन-प्रक्रियायाः आधारभूत-तत्त्वानि सन्ति-

छात्रकेन्द्रिता कक्ष्या, व्यावहरिकानि उद्देश्यानि, कक्ष्यायां सरल-संस्कृतस्य प्रयोगः, भाषा- कौशलानां स्वाभाविक- क्रमानुपालनस्य श्रवणं-भाषणं-पठनं-लेखनम्, भाषिकतत्त्वानां पुनः पुनः अभ्यास:, गतिविधीनां द्वारा शिक्षणम्, संस्कृतस्य श्रवण-भाषण-प्रयोगावसराः, उदाहरणेभ्यः नियमान् प्रति (आगमनपद्धतिः), अध्यापकस्य भूमिका निर्देशकरूपेण शब्दकोशानाम् उपयोगः, परस्परं विचारविमर्श: कक्ष्या-कार्यं, चित्राधारित-कार्यं, प्रायोजनात्मक-कार्यं, उद्देश्यनिष्ठ-मूल्याङ्कनं, मूल्याङ्कनपत्रम् अपि संस्कृतेन, पाठ्यचर्यायाः श्रेणीकरणम्, श्रव्य-दृश्य-उपकरणानाम् उपयोगः, परस्परं संस्कृतेन एव व्यवहारः' इत्यादीनि।

(119)

Page 120

वाक्यार्थभारती 2013-14 ध्यातव्यं यत् 'भारतीय-संविधान-शिक्षानीति-शिक्षायोग' इत्यादिभिः संस्कृतशिक्षणसन्दर्भे विभिन्नस्तरेषु अनेकानि प्रयोजनानि निर्दिष्टानि। तदनुगुणं शिक्षणविधिषु उपागमेषु वा वैभिन्न्यम् इष्टम्।

इदम् अपि स्मरणीयं यत् अस्माकं सन्दर्भे संस्कृतं विदेशी भाषा न ...

The Commission would like to reiterate this that, to Indian child Sanskrit is not a different language ...... it is flesh of the flesh and bone of the bone of child's mother tongue and even as the child learns his or her mother tongue, he or she is learning some Sanskrit. (Sanskrit Commission, 1956- 57)

प्रायः सर्वे भारतीयाः स्वमातृभाषा-द्वारा अनया भाषया सम्यक्-रूपेण परिचिताः । अतः भारतीयानां कृते संस्कृतस्य शिक्षणम् अपरिचित-तृतीयभाषा इव न अपितु प्रथम-भाषा इव एव भवेत्। राष्ट्रिय-पाठचर्या-रूपरेखा (2005) द्वारा अपि इदं तथ्यं स्पष्टरूपेण स्वीकृतम् -

Sanskrit may also be studied as a modern Indian language (MIL) in addition to

उच्चतम-न्यायालयेन अपि एकस्मिन् विवादे (1994) एतादृशः निर्देशः दत्तः ।

माध्यमिक-शिक्षा-आयोग (1952) द्वारा अपि निर्दिष्टम् आसीत् ....

In the modern setup of education, there is urgent need to revise and employ techniques in the study of languages .....

अतः अस्मिन् सम्पूर्णसन्दर्भे संस्कृतशिक्षण-अधिगमन-प्रक्रियाम् अधिकृत्य नूतनरूपेण चिन्तनस्य आवश्यकता अस्ति।

(120)

Page 121

शिक्षायां मूल्याङ्कनम् वाक्यार्थभारती 2013-14

(Evaluation in Education)

डा. चन्द्रकान्तः

इह खल्वनवद्यविद्याविधोतिनि प्रपञ्चे ज्ञानमेव परमपुरुषार्थः भवितुमर्हति। यतो हि दर्शनेषु प्रतिपादितं परमपुरुषार्थं मोक्षं न वयं द्रष्टुं शक्नुमः । न हि कश्चिद्दिवं गतः प्रत्यागत्य अहं मोक्षमपश्यमित्यब्रवीत् । अतः मोक्षसाधनीभूतं ज्ञानमेव साम्प्रतिके काले परमपुरुषार्थ इति कथनेन नास्त्यतिशयोक्तिरिति मे मतिः। ज्ञानं तावदर्जनीयं भवति। ज्ञानस्यार्जनप्रक्रियामेव शिक्षेति कथयन्ति। शिक्षया ज्ञानं प्राप्यत इत्यर्थः । प्राप्तस्य ज्ञानस्य मूल्याङ्कनं प्राचीनकालेऽपि क्रियतेस्म आचार्यैः । ते तावदाचार्याः शिष्येणार्जितं ज्ञानं मौखिकरूपेणैव परीक्षणं कृत्वा उत्तमाधममध्यमा इति मूल्याङ्कनं कुर्वन्ति स्म, तदानीं शिक्षणमपि मौखिकमेवासीत्। अनेन ज्ञायते यत् परीक्षणेन मूल्याङ्कनं सिध्यतीति। साम्प्रतिके वैज्ञानिके काले सर्वमपि लिपिबद्धं कार्यं सम्पादनीयं वर्तते। अतः मौखिकं परीक्षणं यदासीत्तदिदानीं लेखनरूपं प्राप्य विराजते। तस्मात् परीक्षणं मौखिकं लेखनात्मकमिति द्विविधं सञ्जातम्। विद्यालयस्तरे तु केवलं लेखनात्मकमेवाधुना परिदृश्यते। अस्मिन् विषये माध्यमिकशिक्षायोगः वदति यत् मूल्याङ्कनमेका क्रमिकप्रक्रिया वर्तते या सम्पूर्णशिक्षाप्रणाल्याः महत्त्वपूर्णमङ्गं वर्तते। मूल्याङ्कनं शैक्षिकोद्देश्यैः सह निकटं सम्बन्धं स्थापयति। मूल्याङ्कनं बालकानामध्ययनप्रवृत्तेः, शिक्षणविधीनामुपरि च प्रभावं जनयति। शैक्षिकोपलब्धिमापने एव सीमितं न भवति किन्तु तत्र पुरोगतिम् अपि सम्पादयतीति।

एवञ्चेत् किमस्य वैशिष्ट्यमिति चिन्तयामश्चेत् मूल्याङ्कनमेका निरन्तरप्रक्रिया वर्तते। परीक्षणस्यापेक्षया व्यापकं तथैव वर्णनात्मकं, संख्यात्मकञ्च भूत्वा छात्रस्य सम्पूर्णव्यक्तित्वेन सम्बद्धं, शिक्षायाः महत्त्वपूर्णमङ्गं च वर्तते। पुनः किमनेन सिध्यतीति प्रश्नः समुदेति। तथा च उच्यते यदावश्यकतानुसारं छात्राणां व्यवहारे परिवर्तनं, पुरोगतिं प्राप्तुं छात्रेभ्यः निर्देशनं, प्रोत्साहनं, छात्राणां स्तरानुगुणं वर्गीकरणं च साधयति।

एवं सति मूल्याङ्कनार्थं काचित् प्रक्रिया अनुसर्तव्या भवति। किमर्थमिति चेत् कः छात्र: उत्तमः, कः मध्यमः, कः साधारणः इति निर्णयः स्वीकर्तव्यः वर्तते। अपि च एतदर्थमेव मूल्याङ्कनस्यापेक्षापि वर्तते। अतः मूल्याङ्कनस्य कार्यप्रणाली अथवा सोपानानि क्रमशः अनुसर्तव्यानि मूल्याङ्कनार्थमादौ कस्यचन मानदण्डस्य निर्धारणं परमावश्यकम् वर्तते। मानदण्डस्याभावे मूल्याङ्कनमेवासम्भवं भवति। तदनन्तरं शैक्षिकोद्देश्यस्य चयनं कर्तव्यम्। शिक्षायाः सामान्योद्देश्यानि भिन्नानि भवन्ति। पाठ्यवस्तु सम्बद्धानि विशिष्टोद्देश्यानि अन्यानि भवन्ति । वस्तुतः अत्र पाठ्यवस्तुसम्बद्धान्येव उद्देश्यानि मूल्याङ्कनार्थं स्वीकर्तव्यानि स्पष्टीकरणीयानि च वर्तन्ते। स्वीकृतानाम् उद्देश्यानां विस्तृतं व्याख्यानं कर्तव्यम्। व्याख्यानमपि विशेषतः छात्रस्य व्यावहारिकपरिवर्तनसम्बद्धमेव कुर्यात्। तेन साकं निर्धारितपरिवर्तनस्य पाठ्यवस्तुना सह सम्बन्धः प्रकल्पनीयः । उदाहरणेन अयमंश: स्पष्टीक्रियते। यथा - उद्देश्यं भवति - बालके नागरिकस्योत्तरदायित्वभावनायाः विकसनमिति । (121)

Page 122

वाक्यार्थभारती 2013-14 एतादृशमुद्देश्यं स्वीकृत्य पाठिते बालके अवश्यमेव कानिचन परिवर्तनानि भवेयुः यथा- सः समाजे विद्यमानामसमनतामवगच्छति। सः समाजस्य कुरीतिं दूरिकर्तुं प्रयतते। अन्यैः सह मिलित्वा कार्यं कर्तु शक्ष्यति। सः स्वकर्तव्यं निर्वहति, न्यायस्य पालनं करोति। स्वदेशस्य विषये गर्वं प्रकटयति। राष्ट्रसम्पदः रक्षणं करोतीत्येवं विंध परिवर्तनं व्यख्यातव्यं वर्तते एवमेव ज्ञानात्मककौशलात्मकाभिवृत्यात्मकाभिरुच्यात्मकानामुद्देश्यानामनुगुणं परिवर्तनं भवेत्।

अग्रिमं सोपानं परिस्थिते: परिचयसम्पादनम्। छात्राः तादृशपरिस्थितौ स्युः यथा ते स्वातन्त्र्येण, मुक्तरूपेण च स्वज्ञानस्य, स्वप्रतिभायाः अभिव्यक्तिं कर्तुं शक्नुयुः । अनन्तरं परीक्षणस्य प्रविधीनां चयनं कुर्यात्। वाञ्छितव्यवहारपरिवर्तनस्य परीक्षणार्थं प्रत्यक्षेण वा अप्रत्यक्षेण प्रमाणयितुं योग्यं परीक्षणप्रविधिं चिनुयात्। यदि उद्देश्यानुगुणं परीक्षणप्रविधि: न मिलति तर्हि तादृशप्रविधे: निर्माणं कर्तव्यं येन उद्देयाधारितं परिवर्तनं मूल्याङ्कयितुं शक्येत।

अतः अग्रिमं सोपानं मूल्याङ्कनप्रविधेः निर्माणम् भवति। बालके समुत्पन्नस्य व्यावहारिकपरिवर्तनस्य ज्ञानार्थं समुचितमूल्याङ्कनप्रविधेः निर्माणं कर्तव्यं भवति। तदा रच्यमानप्रविधिद्वारा शैक्षिकोद्देश्यानां परणे कस्य व्यवहारस्य मूल्याङ्कनं कर्तुं वाञ्छति, किं सः प्रविधि: वाञ्छितव्यवहारविषये प्रमाणमुपस्थापयति, बहूनां छात्राणां परीक्षणेनापि निष्कर्षे एकरूपतां प्रयच्छति किम्, अस्य प्रयोगे सरलता अनुभूयते किमिति स्वयं शिक्षकः आत्मानं पृच्छेत्।

तदनन्तरमेव प्रविधे: प्रयोगः कर्तव्यः । अतः अग्रिमसोपानं विद्यते प्रविधेः अनुप्रयोगः । कस्यापि मूल्याङ्कनं प्रविधे: कस्मिंश्चित् परीक्षणे प्रयुज्यते चेत् तस्य छात्रस्य परिवर्तितव्यवहारस्य अभिलेख: निर्मातव्य: । लिखितपरीक्षणे तु छात्र: स्वयं उत्तरं विलिख्य अभिलेखरूपेण मूल्याङ्कनं प्रस्तौति। परन्तु निरीक्षणे, साक्षात्कारे शिक्षकः स्वयं सर्वासां छात्रप्रतिक्रियाणां अभिलेखं लिखेदेव। अनन्तरं लिखतानां प्रमाणानां व्यख्यानं वा विश्लेषणं कुर्यात्। विश्लेषणेन निर्णयः स्वीकर्तव्यः, बालकस्य व्यवहारे कियत् पर्यन्तमुत्तमपरिवर्तनं समजायत इति। अत्रापि उद्देश्यानि मनसिनिधायैव, विश्लेषणं, निर्णयं च कुर्यात्। तस्मात् मूल्याङ्कनं सर्वदा उद्देश्याधिष्ठितं भवति इत्यत्र नास्ति विप्रतिपत्तिः । केचन मूल्याङ्कनप्रविधयः अत्र उल्लेखनीयाः वर्तन्ते। येन साधनेन मूल्याङ्कनं सम्पाद्यते तत् साधनमेव प्रविधिनाम्ना व्यवह्नियते। बेञ्जमिन् एस् ब्लूम् महोदयः उद्देश्याधिष्ठितं शिक्षणं प्रतिपादितवान् । सः मूल्याङ्कनप्रविधिविषयेऽपि किञ्चित् प्रस्तौति यत् - एक: उत्तमः प्रविधि: व्यवहारस्य वाञ्छितपरिवर्तनस्य वैधं प्रमाणं उपस्थापयेत् इति। तद्दष्या केचन प्रविधयः प्रस्तोतुं शक्यन्ते। निरीक्षणमेकः उत्तमप्रविधि: मूल्याङ्कनस्य वर्तते। निरीक्षणेन बालकस्य कलापानां व्यवहाराणां, सांवेगिकबौद्धिकयोः परिपक्वतानां च सामाजिकसामञ्जस्यं प्रमाणीक्रियते। प्रविधिरयं प्रवृत्तीनां कुशलतानाञ्च विकासं परीक्षितुं उपयोगाय कल्पते। तर्कपूर्णं क्रमबद्धं च कृतं निरीक्षणं परस्परं छात्राणां विषये निर्णयस्वीकरणे महत्त्वपूर्णं भवति।

अनन्तरं साक्षात्कारस्य स्थानं भवति। विद्यालये छात्राणां मूल्याङ्कनार्थं साक्षात्कारः महत्त्वपूर्णं साधनं भवति। केवलं सूचनासंकलनार्थमेवास्योपयोगः न भवेत् परन्तु अनेन छात्राणां व्यवहारस्य

(122)

Page 123

वाक्यार्थभारती 2013-14 कारणमन्वेष्टुमपि उपयोक्तुं शक्यते। साक्षात्कारद्वारा छात्राणां रुचौदृष्टिकोणे च जातस्य विकासस्य एवं परिवर्तनस्य च विषये पर्याप्तं विवरणं प्राप्यते। प्रश्नावली - प्रश्नावली छात्राणां रुचे: अभिवृत्तेश्च विकाससम्बन्धिविवरणं प्राप्तुमुपयुज्यते। एवमेव चेकलिसृ, रेटिङ्गस्केल्, छात्रद्वारा निर्मितवस्तूनि, अभिलेखाः, छात्रदैनन्दिनी, सञ्चित अभिलेखादिभिरपि मूल्याङ्कनं कर्तुं शक्यते। 4 परीक्षणप्रविधि: - लिखितपरीक्षा:, मौखिकपरीक्षाः, प्रायोगिकपरीक्षाः अत्रान्तर्भवन्ति।

परिशीलितग्रन्थसूची-

  1. शिक्षामनोविज्ञान -पी. डी. पाठक-विनोदपुस्तकमन्दिर आगरा। 2. शिक्षामनोविज्ञान - डा. एस्. एस्. माथुर अगरवाल पब्लिकेशन् आगरा - 2007 3. शैक्षणिक मनोविज्ञान - एन्. वि. कोङ्गवाड विद्यानिधि प्रकाशन, गदग - 2009 4. शिक्षामनोविज्ञान- एस्.के. मङ्गल PHT-Learning Private Llmited-New Delhi-2011 5. सफल शिक्षण कला-पी. डि. पाठक, विनोदपुस्तकमन्दिर, आगर - 2, 2009 6. उच्चतरशिक्षामनोविज्ञान - डा. एस.पि.गुप्ता, शारदा भवन, इलहाबाद - 2, 2010

(123)

Page 124

वाक्यार्थभारती 2013-14 स्वप्नविचारः

डा. रामचन्द्रुलबालाजी

स्वप्नस्य सम्प्रत्ययः अत्यन्तविशालः, आसक्तिकरश्च भवति। स्वप्नविषये आधुनिक- प्राचीनमनोविज्ञानक्षेत्रेषु नैकानि अध्ययनानि दृशन्ते। प्रायः सर्वोऽपि जनः स्वप्नानामर्थं, विश्लेषणञ्च ज्ञानाय प्रयतते। स्वप्नानां विश्लेषणसामर्थ्यसम्पादनम् एकं विशिष्टकर्म भवति। कदाचित् स्वप्नानां विश्लेषणेन अस्माकम् अन्तः गोप्यरूपेणविद्यमानभावानां, रहस्यानां च ज्ञानं भवितुमर्हति। एवं भाविजीवन सम्बद्धसूचनानामपि ज्ञानं भवति । परन्तु एकं ज्ञातव्यमस्ति यत् न कोऽपि सम्पूर्णतया विश्लेषणसमर्थः भवति, आत्मनः अपेक्षया । केचन, स्वप्नाः निरर्थकाः इति चिन्तयन्ति। केचन दैनन्दिनजीवने जातानामनुभवानां स्मृतिरूपाः भवन्तीति वदन्ति। केचन दैविकप्रेरणया एव स्वप्नाः भवन्तीति विश्वसन्ति। भारतीयदार्शनिकाः स्वप्नविषये बहुविचारं कृतवन्तः । प्रायः सर्वैः दार्शनिकैः स्वप्ननिर्वचनानि दत्तानि वर्तन्ते । विशिष्य जोतिर्विदः स्वप्नानां विषये स्वप्नद्वारा भाविजीवनसूचनकथनविषये वा अधिकविवरणमदुः । अस्मिन् सन्दर्भे स्वप्नविषये प्राचीनार्वाचीनमनोवैज्ञानिकानां विचरान् अवलोकयामः ।

प्रायः अत्यधिकस्वप्नाः निजजीवनसम्बद्धाः भवन्ति। कदाचित् अनेकाद्भुतविषयाः अपि दृग्गोचराः भवन्ति। एतेषां विश्लेषणं न तावत् सुकरं भवति। नैकानि अध्ययनानि स्वप्नविश्लेषणे कृताः वर्तन्ते। परन्तु स्वप्नानां सम्पूर्णार्थविवरणं कर्तु न शक्तानि एव । यद्यपि शरीरं स्वप्नावस्थायां क्रियाशून्यं भवति, व्यक्ति: पर्वतारोहणं करोति, नद्यां तरति, धावनं करोति, क्रूरजन्तुभिस्साकं युद्धं करोति, धावति च। स्वप्नानांविश्लेषणार्थं प्रत्येकोऽपि अंशोऽपि प्राधान्यं भवति। स्वप्नानाम् अध्ययनात् प्राक् कानिचन अधुनिकमनोवैज्ञानिकानां निर्वचनानि विचारयामः ।

  1. J. F. Brown thinks that, Dreams are hallucinations we all experience every night when we awake their hallucinatory nature is quite obvious to us'. रात्रौ अस्माभि: अनुभूयमानाः स्वप्नाः भ्रान्त्यात्मकाः भवन्ति। यदा जागृयामः स्वप्नानां भ्रान्त्यात्मकः स्वभावः स्पष्टो भवति।

  2. Singmund Freud "Dream is a process through which unconscious wishes make entrance into the consciousncess in a disguished form' सिग्मण्ड्प्रायिड्महोदयस्य कथनानुसारं स्वप्नः एकाप्रक्रिया भवति, यस्याम् अचेतनावस्थायां विद्यमानमनोरथाः चैतन्यावस्थां प्रति छद्मरूपेण (dignished) प्रविशन्ति।

  3. Eysneck define dream as "a dream is an experience during sleep and forms part of a fantasy life' ऐस्नेक्महोदय: अभिप्रैति यत् - निद्रायां जायमान: कश्चानानुभवः कल्पनालोकस्य जीवनस्य वा एक - भागरूपेण भवति। उपर्युक्तानां निर्वचनानां विश्लेषणेन एवं वक्तुं शक्यते। (124)

Page 125

वाक्यार्थभारती 2013-14 · स्वप्न: निद्रासम्बद्धा काचन प्रक्रिया, यस्यां मानवानां भग्नमनोरथाः अन्यस्मिन् रूपे अभिव्यक्ताः भवन्ति। · स्वप्ना: कदाचित् निजजीवनसम्बद्धाः अपि भवन्ति। · एतेषां विश्लेषणेन मानसिकस्थिति:, चिन्तनम्, व्यवहारः, व्यक्तित्वादीनां प्रत्यक्षीकरणं भवति। • अपूरितमनोरथानां पूरणं स्वप्नद्वारा भवतीति स्वप्नानां प्रयोजनम्। सम्प्रतिभारतीयदार्शनिकै: दत्तानि निर्वचनानि अवलोकयामः ।

कणादमहर्षिः स्मृतिलक्षणम् एवं वक्ति -

अत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः इति निर्वच्य अनन्तरसूत्रे 'तथा स्वप्नः' इति सूत्रं वदति। नम यथात्ममनसो: संयोगविशेषात् संस्काराच्च स्मृतिः तथा स्वप्नज्ञानमपीति।

उपस्कारकारः वदति -

उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्य इन्द्रियद्वारेणैव यदनुभवनं मानसं तत् स्वप्नज्ञानम्।

एवमेवोदयनाचार्योडपि वदति-स्वप्नावस्थायां यद्यपि बहिरिन्द्रियाणि कार्योपरतानि भवन्ति, वयं भिन्नतया अनुभवामः यत्, वस्तूनि नेत्राभ्यां पश्यामः । अस्माकं कर्णाभ्यां शब्दान् शृणुमः। स्वप्ननां स्वरूपविषये केचन मतभेदाः वर्तन्ते । गौतमादयः केचन स्वप्नाः स्मृतिरूपाः नैव भवन्ति, किन्तु प्रत्यक्षस्वभावाः अनुभूयमानारोपाः भवन्तीति वदन्ति । केचन नैयायिकाः भासर्वज्ञादायः स्वप्नाः स्मर्यमानारोपात्मकाः (False recollection) इति वदन्ति।

स्वप्नानां विशेषता - (Characteristics of dreams)

  1. स्वप्ना: सार्थकाः भवन्ति (Dreams are meaning ful) - स्वप्नाः अर्थयुक्ता: भवन्ति। व्यक्ते: दैनन्दिन जीवने अनुभूयमानानुभवैः, समस्याभिश्च सम्बद्धाः भवन्ति। स्वप्नविश्लेषणाध्ययनैः ज्ञायते यत् सामाजिकनीतिनियमकारणात् पूरितुमशक्ता: अपेक्षा: स्वप्नद्वारपूरिताः भवन्ति। अतः अर्थयुक्ताः भवन्ति। स्वप्नेन साकं निजजीवनसम्बन्धोऽपि भवति। 2. स्वप्ना: विभ्रान्त्यात्मकाः (Dreams are hallucinatory) - भौतिकप्रेरणां विनापि स्वाप्नाः सम्भवन्ति। 3. स्वप्ना: प्रतीकात्मकाः - (Dreams are symbolical) - स्वप्नाः कदाचित् निजजीवनसम्बद्धाः भवन्ति। कदाचित् अवरुद्धाकाड्क्षानां सम्बद्धाः भवन्ति। उभयविधस्वप्नाः अपि प्रतीकात्मका: एव। 4. स्वप्ना: अचेतनमनस्सम्बद्धाः भवन्ति । (Dreams are related to Unconsciouness) - बाल्यादारभ्य अपूरितमनोरथाः, अचेतनमनसिसन्तः स्वप्नकारकाः भवन्ति। 5. स्वप्ना: निद्रावस्थायामेव भवन्ति। 6. स्वप्नाः संभ्रमोत्पादकाः भवन्ति। 7. स्वप्ना: वर्णयुक्ता:, कृष्णश्वेतवर्णयुक्ताश्च भवन्ति।

(125)

Page 126

वाक्यार्थभारती 2013-14 स्वप्नाना प्रकारा: (Classification of dreams)

  1. वाञ्छपूरित स्वप्नाः (Wishfulfillment dreams) 2. व्यग्रताकुल स्वप्ना: (Anxiety dreams) 3. प्रतिरोध स्वप्नाः (Protest dreams) 4. दण्डनात्मक स्वप्नाः (Punishment dreams) 5. भावि स्वप्नाः (Future dreams) 6. गत्यत्मक स्वप्ना: (Kinesthetic dreams) 7. पक्षवातपीडित स्वप्ना: (Paralytic dreams) 8. दूरसंवित्स्वप्ना: (Telepathic dreams)

भारतीय मनोवैज्ञानिकेषु नैयायिका: चतुरः प्रकारान् स्वप्नान् प्रत्यपादयन्।

  1. धातुदोषजा: (due to intro organic pathological disorders) 2. संस्कारपाटवोत्पन्ना: (Intensity of subconscious impressions) 3. अदृष्टोत्पन्ना: (Due to the Unseen agency) 4. स्वप्नान्तिक स्वप्नाः (Dreams with in dreams) एतैस्साकं चरकमहर्षिः वाञ्छापूरितस्वप्नानपि प्रतिपादयति। चरकसुश्रुतयो: कथनानुसारं मृत्योः व्याधीनाञ्च आसन्नतानुमानप्रतिपादकबहुप्रकारकस्वप्नाः भवन्ति । चरकमहर्षिः मरणसूचकाहितकरस्वप्नानां विषये भौतिकं विवरणमपि सूचयति । एते प्रमादकरस्वाप्नाः बलवतां वातपित्तकफार्णां दोषणां मनोवाहकनाडी प्रवेशेन सम्भवन्तीति।

कणादरहस्यकारः शङ्करमिश्रः वदति, यत् यदा स्वप्नवात्कनाडीमध्यवर्ति मनः भवति, तदा त्वगिन्द्रियं त्यक्तवा अन्य बहिन्द्रियसम्बन्धविरहात् स्वप्नज्ञानान्येव भवन्ति। यदा त्वगिन्द्रियस्यापि सम्बन्धः न भवति, मनः पुरीतत् नाडीं प्रविशति, तदा स्वप्नरहितनिद्रा भवति।

चरकमतानुसारं मनोवाहकनाडी स्वप्नानां स्थानं भवति। शङ्करमिश्रमतानुसारं स्वप्नावाहकना डी स्वप्नानां स्थानं भवति।

स्वप्नानां करणानि

  1. भौतिकोद्धीपयति (Physical stimulus) - केषुचित् भड्गमेषु दीर्घकालशयनेन स्वप्नाः भवन्तीति अध्ययनैः निरूपितं वर्तते। 2. चिन्तनानि भावाश्च। (Thought and feelings) निद्रातः प्राक्जायमानचिन्तनानि, भावाश्च स्वप्नकारका: भवन्ति। 3. आन्तरिकोद्दीपनानि (Internal stimulus) - निद्रातः प्राक् विचार्यमानावश्यकताः, आकाड्क्षाश्च स्वप्नकारका भवन्ति। उदा - निद्रातः प्राक्दशायां दाहः (जलावश्यकता) निद्रायां नदी, समुद्रादीनां स्वप्नानां कारक: भवति। (126)

Page 127

वाक्यार्थभारती 2013-14 4. स्वभावः चारित्य्रञ्च (Temperement & character) - यद भावं तद्भवतीति। स्वाप्निकस्य स्वभावः चरित्रञ्च स्वप्नविशेषकारणं भवति। प्रशस्तपादः तेषामनुयाश्चन त्रीणि कारणानि वदन्ति।

  1. अर्धचेतनस्य प्रभाव: (Intensity of sub conscious impressions) 2. आन्तरिन्द्रियदोष: (Intra - Organic disorders) 3. पुण्यपापविशेषः (Merit and demerit of the dreemer) बोद्धा:

आध्यात्मिकगुरूणा प्रभाव: (influence of spiritualstic agents) अपि दूरसंवेदी स्वप्नानां कारणं (Telepathic dreams) भवतीति वदन्ति।

स्वप्नानां निवारणोपायाः-

स्वप्नानां वारणं नैव सुलभं भवति। यतोहि स्वप्नावस्थायां चैतन्यं निष्क्रियं भवति। अतः चिन्तनेन प्रयत्नेन वा स्वप्नानां निवारणं नैव संभवति।

उपरि प्रतिपादित कारणानां निरोधनेन अधिकाधिकं स्वप्नानां निवारणं कर्तुं शक्यते। निद्रातः प्राक् सन्तोषप्रदायकचिन्तनानि, प्रशान्तगृहवातावरणञ्च मधुरस्वप्नानां कारणानि भवन्ति इत्यतः निद्रापूर्वावस्थायां उद्रेकपूर्णवातावरणयत उद्वेगकारकवातावरणात् दूरे भवन्ति चेत् भयोत्पादकस्वप्नानां निवारणं कर्तुं शक्यते।

निद्रातः प्राक् अस्माकं भौतिकापेक्षाणां (आहारादीनां) पूरणम्, शारीरिकशुचित्वम्, दैवचिन्तनम्, इत्यादयः उत्तमनिद्राकारणानि भवन्ति, तेन दुः स्वप्नानां निवारणं कर्तुं शक्यते।

  1. Dr. D. N. Srivatsa 1994 - General Psychology. 2. J. N. Sinha 1985 - Indian Psychology 3. कणादमहर्षिः- वैशेषिकदर्शनम् 4. प्रशस्तपादाः - प्रशस्तपादभाष्यम् 5. उदयनाचार्यः - किरणावलिः 6. शङ्करमिश्रः - वैशेषिकसूत्रोपस्कार: 7. श्रीधराचाप :- न्यायकन्दलिः 8. जयन्तभट्टः -न्यायमञ्जरी 9. केशवमिश्रः - तर्कभाषा 10. विश्वनाथः - सिद्धान्तमुक्तावलि: 11. चरकमहर्षिः - चरकसंहिता।

(127)

Page 128

वाक्यार्थभारती 2013-14 सम्प्रेषणम्

डा. हरिप्रसाद के.

'आचार्य: पूर्वरूपम् । अन्तेवास्युत्तररूपम्। विद्या सन्धि: । प्रवचनं सन्धानम् ।' इति श्रुति: शिक्षाप्रक्रियायाः घटकानि स्पष्टतया अभिधत्ते। शिक्षाप्रक्रियायां कस्य वा प्राधान्यं इत्यत्र अनेके शिक्षादर्शनिका: बहुधा विवदन्ते। आचार्यस्य एव प्राधान्यं भवेदिदिति आदर्शवादिनोऽभिदधते। स एव समग्रशिक्षणप्रक्रियायाः अभिज्ञः तन्नियन्त्रकः सम्प्रेषणस्रोतश्चास्ति इति ते ब्रुवन्ति।

माणवकस्य एव प्राधान्यं स्यादिति प्रकृतिवादिदार्शनिका अभिप्रयन्ति । स्वाभिलषितव्यक्तित्वसम्पादनार्थं सः स्वतन्त्रः । प्रकृत्या प्राप्तं व्यक्तित्वमेव शक्तिमद्भवतीति तत्पक्षधराः प्रतिपादयन्ति । अन्ये च केचन स्वस्वसिद्धान्तानुगुणं अन्यान्यरीत्या अभिप्रयन्ति । किन्तु आचार्यमाणवकयोर्मध्ये आदानप्रदानात्मिका काचित् गतिशीला प्रक्रिया भवेदित्यत्र कस्यापि वैमत्यं नास्ति। इयमेव आदानप्रदानात्मिका प्रक्रिया 'सम्प्रेषणम्' इत्युच्यते।

सम्प्रेषणम् इत्युक्ते अनुभवानां विचाराणां, भावानां, संवेदनानां वा विनिमयप्रक्रिया भवति। शिक्षणमपि अनया दृष्ट्या एकविधं सम्प्रेषणं भवति। पूर्वं रामायणादीनां धारावाहिन्यः यदा दूर्दर्शनि प्रासर्यन्ते स्म तदा प्रेक्षकाः रामादीनां दूरदर्शने दृश्यमानानां निराजनादिभि: पूजां कुर्वन्ति स्म। जनास्तु दूरदर्शने दृश्यमानं रामादिं दृष्टवा साक्षात् रामादयः एव भुवि पुनरवतीर्णाः इति मन्यन्ते स्म। तत्र रामादिपात्रधारिणा अड्गिकाद्यभिनयं कृत्वा रामपात्रस्य सम्प्रेषणं यथा कृतं तथैव यथावत् ततोधिकं वा कल्पयित्वा प्रेक्षका: आस्वादयन्ति स्म इत्यतः सम्प्रेषणं परिपूर्णं सफलञ्च भवति स्म।

एवमेव स्वातन्त्र्यसङ्ग्रामकाले केचन देशभक्तताः विविधानां क्रान्तिगीतानां माध्यमेन आङ्ग्लेयान् विरुध्य जनानां जागरणं कारयन्ति स्म। अत्र गीतरचयितृणां गीतप्रस्तोतृणां गीतश्रोतृणाञ्च सामर्थ्योत्कण्ठ्यादीनां कारणतः परिणामः समुचितः समुत्पद्यते स्म। अत्र गीतमाध्यमेन कृतं जनजागरणम् सम्प्रेषणम् एव भवति।

एवमेव तस्म्मिन्नेव काले बहवो हि देशभक्ताः राष्ट्रस्य स्वातन्त्र्यनिमित्तं यत् बलिदानं (आत्मार्पणम्) कुर्वन्ति स्म तस्मादपि बहवो हि जनाः स्वातन्त्र्यसड्ग्रामार्थं प्रेरिता भवन्ति स्म। बलिदानं कुर्वतामपि सः विश्वासः आसीत् यदस्माभिः कृतं बलिदानं व्यर्थं न भविष्यति इति। कक्ष्याशिक्षणे इव यद्यपि बलिदानं कुर्वतां तस्मात् प्रेरितानाञ्च मध्ये साक्षात् आदानप्रदानं न भवति तथापि बलिदानस्य अत्यन्तं व्यापकरूपेण प्रतिक्रिया भवति इत्यतः तत्रापि सम्प्रेषणं अस्तीति वदामः ।

इत्थं सम्प्रेषणं कक्ष्याशिक्षणात् बहिः जायमानम् अवलोक्य तत्परिणामस्य च महत्त्वमवगत्य कक्ष्याशिक्षणे जायमानं तादृशं सम्प्रेषणवैविध्यं सङ्घटयितुं तत्स्वरूपं निश्चेतुं च प्रयासोऽत्र विधीयते।

सम्प्रेषणस्य चत्वारि अङ्गानि वर्तन्ते - प्रेषकः, ग्राहकः, विषयः माध्यमश्चेति विचारयामः ।

(128)

Page 129

वाक्यार्थभारती 2013-14 प्रेषक:

सम्प्रेषणप्रक्रिया एतस्मात् प्रेषकादेव आरभ्यते। यः बोधनीयान् विषयान् सङ्क्रामयति सः प्रेषकः इत्युच्यते। अयं प्रेषकः कश्चन पुरुषः एव भवेदिति नास्ति नियमः। पुरुषस्य स्थाने किमपि वस्तु, साधनं, जन्तुः, वृक्ष:, पुस्तकं इत्यादि भवितुमर्हति। पुरुषश्चेत् भावनानां सम्प्रेषणं ग्राहकप्रतिक्रियासम्बद्धं कर्तुम् अर्हति। शिक्षणाधिगमप्रक्रियायां कक्ष्याशिक्षणे शिक्षकः प्रेषको भवति। अन्यत्र तु प्रेषकः सम्प्रेषणस्रेतः इत्यच्यते।

ग्राहक:

यः व्यक्तिविशेष: प्रेषकेण सम्प्रेषितान् विषयान् गृह्णाति सः ग्राहक इत्युच्यते। अत्र प्रेषकस्य स्थाने यद्यपि कोऽपि निर्जीवादिपदार्थो भवितुमर्हति तथापि ग्राहकस्थाने सजीवः कश्चन मानवः जन्तुर्वा अवश्यं भवेत्। यतो हि निर्जीववस्तुषु सम्प्रेषणप्राप्तीच्छा न भवति। इच्छाशक्ति: निर्जीवेषु वस्तुषु न भवति। प्रेषकत्वेन निर्जीववस्तूनि मानव एव सज्जीकर्तुमर्हति । यतो हि तस्य लक्ष्यं तु ग्राहके व्यावहारिकपरिवर्तनस्य आनयनं भवति । अतः तदर्थं पुरुष एव प्रेषकत्वेन साधनानि सज्जीकरोति। ग्राहकत्वेन तु निर्जीवानां साधनानां सज्जीकरणं निष्प्रयोजकमस्ति।

विषयः

ग्राहकाय प्रेषकेण सम्प्रेषयितुम् अभिलषितः विचारः भावः अभिप्रायः ज्ञानराशिर्वा विसय इत्युच्यते। सम्प्रेषणस्वरूपानुसारं विषयोऽयं सङ्घटितो वा असङ्घटितो वा सुनिबद्धो वा आकस्मिको वा भवितुमर्हति।

सम्प्रेषणमाध्यमः

विसयाणां सम्प्रेषणार्थं माध्यमानाम् आवश्यकता अस्ति। भाषा तत्र प्राथम्यम् भजते। प्रेषकेण प्रयुक्ता भाषा ग्राहकावगमयोग्या स्यात्। तदा सम्प्रेष्यविषयः ग्राहकेण अवगन्तुं शक्यते। एतदतिरिच्य दृश्यमाध्यमः, श्रव्यमाध्यमः, दृश्यश्रव्यमाध्यमः, समूहमाध्यमश्चेति अनेके माध्यमाः सन्ति येषां माध्यमेन सुदूरस्थैः सह अपि सम्प्रेषणकार्यं कर्तुं शक्यते आधुनिके काले छात्रसंख्याधिक्यात् कक्ष्यायां ध्वनिवर्धकादीनां साहाय्येन सम्प्रेषणकार्यं सम्पाद्यते। सुदूरे विद्यमानानां सौविध्यार्थं अन्तर्जालमाध्यमेनापि सम्प्रेषणकार्यं सम्पाद्यमानं दरीदृश्यते।

सम्प्रेषणस्य द्वैविध्यम्

पूर्वोक्तं सम्प्रेषणम् शाब्द्दिकसम्प्रेषणम् अशाब्दिकसम्प्रेषणम् चेति द्विविधम् अस्ति। क्रमशः एकैकमपि विधं विचारयामः ।

(129)

Page 130

वाक्यार्थभारती 2013-14 शाब्दिकसम्प्रेषणम्

भाषामवलम्ब्य क्रियमाणं सम्प्रेषणम् शाब्दिकसम्प्रेषणम् इत्युच्यते। शाब्दिकसम्प्रेषणस्य साफल्यं तु अधोलिखितान् अंशान् आश्रित्य भवति।

सरला शुद्धा भाषा सम्प्रेषणसमये प्रयुज्यमाना भाषा यावच्छक्यं सरला शुद्धा च भवेत् । तत् सारल्यं तु ग्राहकसामर्थ्यानुसारेण भवेत्। अतिसारल्यमपि कदाचित् ग्राहकस्य उपेक्षायाः कारणं स्यात्। निस्सन्दिग्धवाक्यानि प्रेषकेण प्रयुक्तानि वाक्यानि सरलानि शुद्धानि भवन्ति चेदपि यदि सन्दिग्धानि भवन्ति तर्हि छात्रावबोध: न भवति। अतः असन्दिग्धानि वाक्यानि सम्प्रेषणस्य साफल्यं प्रयोक्तव्यानि यानि सम्प्रेषणस्य साफल्यं जनयन्ति। सम्बद्धानि वक्यानि प्रेषकः योजनाबद्धरूपेण पौर्वापर्यर्यक्रमेण प्रयोक्तव्यानि वक्यानि प्रयुङ्क्ते चेत् बोधः सुष्ठः जायते। प्रेषकस्य विस्मृत्यादिकारणतः वाक्यानि परस्परं सम्बद्धानि न भवन्ति चेत् इत्युक्ते क्रमहीनता भवति चेत् ग्राहकस्य बोधो न जायते। उचिता: विधयः 4 शाब्दिकसम्प्रेषण सफलं कर्तुं छात्रावगमयोग्याः विधयः उपयोक्तव्याः । विधयः यद्यपि बोध्यविषयस्य प्रकृत्याधारेण चीयन्ते तथापि छात्राणां अधिगममेव लक्ष्यीकृत्य विषयाणां प्रकृतिमप्यनुसृत्य विधयः चेतव्याः । उचिता शैली 4 साहित्यशास्त्रे रीतिरिति तत्वमेकमस्ति । 'पदसङ्घटना रीतिः' इति लक्षणं वदति विश्वनाथकविराजः। वैदर्भी, गौडी, पाञ्चाली चेति तस्याः त्रैविध्यं उक्तम्। सैव रीतिः शैलीति पदेनात्र उच्यते। तद्यपि शैली इत्यस्य इतोऽपि व्यापकार्थः भवति तथापि रीतेः तात्पर्यं प्राधान्येन गृह्यते। इत्थं सम्प्रेषणसमये अनुस्त्रियमाणा उचिता शैली ग्राहके समुचितपरिणामं जनयति। इत्युक्ते पदानां सङ्घटनमपि छात्राणां सुखावबोधं मनसि निधाय कर्तव्यम्, येन अपेक्षितमात्रया छात्राणां (ग्राहकाणाम्) शब्दसम्पत्ते: वर्धनेन सह ते छात्राः शब्दार्थज्ञानं, विषयज्ञानं, तत्परिणामतः सन्तुष्टिं प्रेरणां च प्राप्नुवन्ति। एवं शाब्दिकसम्प्रेषणे एतेषु पूर्वोक्तेषु विषयेषु अवधानं दीयते चेत साफल्यं प्राप्यते। अशाब्दिकसम्प्रेषणम्

यद्यपि सम्प्रेषणसमये वयं माध्यमरूपेण प्राधान्येन सार्थकशब्दजालयुक्तां भाषाम् उपयुञ्ज्महे तथापि सम्प्रेषणस्य महान् कश्चन भाग: निरर्थकशब्दानाम् इत्युक्ते सार्थकध्वनीनां हावभावादीनाञ्च माध्यमेन तत्सार्थक्यं जनयति। सम्प्रेषणसमये वयं महान्तं कालं एतदर्थम् उपयुञ्ज्महे, यच्च निष्प्रयोजकं न भवति। यथा-हां, आ, ओ, हूं, उहूं, ए, ओहो, अय्, अम्हा इत्यादिध्वनीनाम् उपयोगः सान्दर्भिक: भवति चेत् भावस्य सम्प्रेषणे सौविध्यं भवति। (130)

Page 131

वाक्यार्थभारती 2013-14 एवमेव मुखाभिव्यक्ति: कटाक्षविक्षेपः, अङ्गविन्यासः, हस्तमुद्राः, युद्धे यथा गुप्तचरभाषा भवति तथा सङ्केताक्षराणि (Abrivations इति वा), दृश्यश्रव्योपकरणानि, बधिराणां भाषा, अशाब्दिकसम्प्रेषणस्य प्रकाराः भवन्ति।

सम्प्रेषणसिद्धान्ता:

  1. सन्नद्धतायाः अभिप्रेरणायाः सिद्धान्तः समग्रसम्प्रेषणप्रक्रियायां द्वावपि प्रेषकग्राहकौ सदासिद्धौ सदासिद्धौ सदाप्रेरितौ भवेताम। इच्छाया: उत्साहस्य श्रद्धायाश्च अभाव: ग्राहके वा भवतु, प्रेषके वा भवतु, अवश्यं सम्प्रेषणप्रक्रियायाः, तत्परिणामस्य वा उपरि विपरीतं प्रभावं जनयति। अतः सम्प्रेषणस्य एतत्सिद्धान्तानुसारं प्रेषकस्य ग्राहकस्य च सन्नद्धता अत्यन्तम् अपेक्ष्यते। द्वावपि परस्परं प्रेरितौ भवतः चेदेव सम्प्रेषणप्रक्रिया सुष्टु प्रवर्तते। 2. आदानप्रदानस्य सिद्धान्तः सम्प्रेषणं द्विमुखीप्रक्रिया अस्ति इत्यतः एतस्य साफल्यार्थं प्रेषकग्राहकयोर्मध्ये आदानप्रदानप्रक्रिया भवेत्। इत्युक्ते विषयाणां विनिमयः भवेत्। केवलं प्रेषकः (शिक्षकः) श्रावयति, ग्राहकश्च (छात्र:) शृणोति इति न भवेत्। केवलं अतः प्रेषकग्राहकयोर्मध्ये यावदधिका अन्तःक्रिया जायते तावदधिका सहभागिता सम्प्रेषणप्रक्रियायां भवति। 3. सम्प्रेष्यविषयस्य सम्प्रेषणार्हता सर्वेऽपि विषयाः सम्प्रेषणार्हा एव भवन्ति। कोऽपि विषयः सम्प्रेषणानर्हः इति तु न भवति एव। तर्हि अस्य सिद्धान्तस्य किं तात्पर्यम् ? इति चेत् - छात्रक्षमतानुगुणं स्तरानुगुणम् औचित्यानुगुणञ्च केचन विषयाः क्वचित् सम्प्रेषणानर्हाः क्वचित् अर्हाश्च भवन्ति। किञ्च शिक्षासेत्रीयं सम्प्रेषणम् इति स्वीकुर्म: चेत् पाठ्यक्रम: सम्प्रेष्यो विषयो भवति । तदा पाठ्यक्रमस्थ: विषयः सम्यक् न निबद्धोऽस्ति चेत्, स च विषयः उद्देश्यानि साधयितुं समर्थ: नास्ति चेत् तस्य सम्प्रेषणार्हता नास्ति इत्युच्यते। 4. उचितमाध्यमस्य सिद्धान्त: (Principle of Appropriete Media) विषयस्य सम्प्रेषणार्थं उपयुज्यमानः माध्यमः समुचितः स्यात्। इत्युक्ते योग्यः माध्यमः सम्प्रेषणस्य भवति चेत् उद्देश्यसिद्धिः भवति। एतस्य विपरीतपरिणामं वयं मात्रुभाषामाध्यमेन कञ्चन स्तरं यावत् अधीत्य उत्तरवर्तिस्तरे आङ्ग्लमाध्यमेन अध्येतृषु द्रष्टुं शक्नुमः । इत्युक्ते अध्यापनमाध्यमः छात्रेण/ ग्राहकेण अवगन्तुम् अशक्या भाषा भवति चेत् महत् कष्टम् अनुभूयते । अतः सम्प्रेषणसमये उचितमाध्यमस्य उपयोग: कर्तव्यः इत्युच्यते। 5. उचितप्रतिक्रियायाः सिद्धान्त: (Principle of Appropriete Feedback) कक्ष्यागतसम्प्रेषणे छात्राः शिक्षकस्य सम्प्रेषणानुगुणं प्रतिक्रियां प्रयच्छन्ति चेत् शिक्षकोऽपि अवगच्छति यत् 'मया सम्प्रेषितः विषयः कियत्या मात्रया छात्रेण अवगतः ?वैकल्यं कुत्र वर्तते ? प्राबल्यं कुत्र वर्तते? अग्रे कथं पाठनीयम् ? बोधनपद्धतौ कीदृशं परिवर्तनं कर्तव्यम् ? इत्यादि। युक्तायुक्तविवेचनेन छात्रण् प्रतिपुष्टिं प्रयच्छति चेत् सम्प्रेषणस्य गुणवत्ता इतोऽपि वर्धते। (131)

Page 132

वाक्यार्थभारती 2013-14 सम्प्रेषणस्य पोषकतत्त्वानि बाधकतत्त्वानि च

सम्प्रेषणस्य प्रभाववर्धने प्रेषकग्राहकयोर्मध्ये विद्यमानानि कानिचन तत्वानि सहकुर्वन्ति कानिचन अपकुर्वन्ति च। यानि तत्त्वानि सहकुर्वन्ति तानि सम्प्रेषणस्य पोषकतत्त्वानि इति उच्यन्ते। यानि सम्प्रेषणस्य प्रभावापकर्षणं कुर्वन्ति तानि बाधकतत्त्वानीति अभिधीयन्ते। पोषकतत्त्वानि यथा समुचितप्रकाशः, शुद्धवायुः, सुखासनम्, अध्यापकेनोपयुज्यमानानि दृश्यश्रव्योपकरणानि, अध्यापकस्य स्पष्टमधुरध्वनिः, प्रजातान्त्रिकव्यूह:, शारीरिकमानसिकस्वास्थ्यम्, लक्ष्यज्ञानम्, प्रयोजनज्ञानम्, सम्प्रेषणकर्तरि विश्वासः इत्यादीनि। बाधकतत्वानि यथा - कर्कशध्वनिः, प्रकाशवायादीनामभावः, अशुद्धवातावरणम्, ग्राहकस्य इच्छाभाव:, लक्ष्यज्ञानाभावः, प्रयोजनज्ञानाभावः, सम्प्रेषके विश्वासाभावः, प्रेषकस्य सिद्धतायाः अभावः इत्यादीनि।

उपसंहार:

इत्थं शैक्षिकप्रविधौ सम्प्रेषणमिति तत्वं शिक्षणाधिगमप्रक्रियायाः सम्पूर्णसाफल्यावाप्तये अपेक्षितानां परिकराणां चिन्तनं विधाय स्वरूपं व्याख्याति। निश्चयेन यः स्वाभिप्रायं पुरतो विद्यमानाय पूर्णरूपेण ज्ञापयितुं इच्छति सः अवश्यं सम्प्रेषणप्रक्रियायाः ज्ञानेन लाभान्वितो भवति। शिक्षको भवितुं तुयः इच्छति स तु अवश्यमेव सम्प्रेषणकौशलं जानीयात्।

सन्दर्भग्रन्थसूची

Educational Technology S. K. Mangal & Sudha Mangal

शैक्षिक तकनीकी के मूलाधार आर्. ए. शर्मा

शैक्षिक तकनीकी अनिल कुमार वार्ष्णेय व शैलेन्द्रभूषण

शैक्षिकप्रविधि: डा. रमाकान्त मिश्र

(132)

Page 133

प्राच्यपाश्चात्त्यदिशा स्मृतिस्वरूपविश्लेषणम् वाक्यार्थभारती 2013-14

डा. सोमनाथसाहु:

स्मृतिर्मनोव्यापाररूपा । स्मृतिमन्तरा चैतन्यस्य किमपि स्वरूपमवधारयितुं न सम्भाव्यते । मानवजीवने स्मृतेमहत्त्वं सुविदितमेव । प्राणिनामयं निसर्गादेव सिद्धो वर्तते। न कापि क्रिया, शिक्षा कोऽप्यभ्यासो वा स्मृति विना साफल्यम्। शिक्षाक्षेत्रे तत्रापि अधिगमप्रक्रियायाम् उच्चस्तरीयबौद्धिककार्येषु च स्मृतेर्महत्त्वं वर्तते। आङ्ग्लभाषायामस्य स्त्रितधबस इति व्यपदेशः। स्मरणं तु Remembering इति पदेन व्यवह्रीयते। संस्कृतभाषायामुभयोः पर्यायत्वं स्वीकृतम्। उक्तञ्च - 'स्मृतिस्मरणधीच्छासु शास्त्रे' - इति

  1. योगसूत्रकारैर्महर्षिप्रवरैः स्मृतिलक्षणमेवं व्याकृतम् - 'अनुभूतविषयासम्प्रमोषः स्मृतिः" इति। 2. वर्तमानकाले प्राक्तनानुभवसंस्कारोद्वोधनं स्मरणमिति स्मृतिलक्षणम्। तदुक्तम् अन्नम्भट्टपादैः तर्कसरंग्हे- 'संस्कारमात्रजन्यं ज्ञानं स्मृति:'2 इति

इति। 3. वार्तिककारोद्योतकराचार्योऽपि स्मृतिलक्षणमेवं व्याचष्टे-प्रत्यक्षबुद्धिनिरोधे तद्नुसन्धानविषयः स्मृतिः

  1. विद्याधरचक्रवर्तिनः संप्रदायकाशिकायाम् - स्मृतिर्व्यतीतविषया मतिरागामिगोचरा। बुद्धि: तात्कालिकी ज्ञेया प्रज्ञा त्रैकाल्यगोचरा4 I इति 5. स्मृतिहेतुविवेचनावसरे महर्षिगौतममतोपन्यासोऽप्यत्रोपपद्यते। तथाहि- 'प्रणिधाननिबन्धाभ्यास-

भयार्थित्वक्रियारागधर्मा धर्मनिमित्तेभ्यः1 इति। उपरिलिखिते सूत्रे महर्षिः पञ्चविंशते: स्मृतिहेतूनामुल्लेखं कृतवान्। भाष्यकारोक्तरीत्या अत्र पूर्वप्रतिपादितांशान् विमृश्यते। तथाहि प्रणिधानम् - सुस्मूर्षया मनसो धारणं प्रणिधानम् । तच्च सुस्मृर्षितलिङ्गानुचिन्तनरूपत्वेन स्मृतिकारणम् । निबन्धः - अर्थानामेकग्रन्थोपयमो निबन्धः । एकग्रन्थोपयताः खल्वर्था अन्योऽन्यस्मृतिहेतव आनुपूर्व्येणेतरथा वा भवन्तीति। एकग्रन्थोपयता अनुभवरूपैकग्रन्थिबद्धाः, एकानुभवारूढा इति यावत्। अभ्यासः-समाने विषये ज्ञानानामभ्यावृत्तिः । अभ्यासजनितः संस्कार आत्मगुणोऽभ्यासशब्देनोच्यते। लिङ्गम् -तच्च चतुर्धा भवति - संयोगि, समवायि, एकार्थसमवायि, विरोधि चेति । उदाहरणतः धूमोऽग्नेर्लिङ्गम्। लिङ्गत्वात् स्मृतिहेतुश्च भवति। गोर्विषाणम्। पाणि: पादस्य। रूपं स्पर्शस्य। अभूतं भूतस्य चेति । लक्षणम्- पश्ववयवस्थं गोत्रस्य स्मृतिहेतुः। यथा विदानामिदम्, गर्गाणामिदमिति। 'यथा' इत्यनन्तरं 'वा' इति देयम्, अस्य वक्यस्य पूर्ववाक्येनासम्बद्धत्वात् । सादृश्यम् - चित्रगंत प्रतिरूपकं देवदत्तस्येत्येवमादि: । परिग्रहात् - स्वेन वा स्वामी स्वामिना वा स्वयं स्मर्यते। आश्रयात् -ग्रामण्या तदधीनं संस्मरति। आश्रितात् -तदधीनेन ग्रामण्यमिति । तदधीनेन ग्रामेणेत्यूह्यम्। सम्बन्धात् - अन्तेवासिना गुरुं स्मरति, ऋत्विजा याज्यमिति। आनन्तर्यात् - करणीयेष्वर्थेषु । पूर्वस्मिन् कार्ये

(133)

Page 134

वाक्यार्थभारती 2013-14 कृतेऽनन्तरस्य कार्यस्य स्मृतिरिति। वियोगात् - येन विप्रयुज्यते, तद्वियोगप्रतिसंवेदो भृशं स्मरति। एककार्यात् - कर्त्रनन्तरदर्शनात् कर्तन्तरे स्मृतिः । विरोधात् - विजिगीषमाणयोरन्यतरदर्शनादन्यतरः स्मर्यते। अतिशयात्-येनातिशय उत्कर्ष उत्पादितः स स्मर्यते। प्राप्तः- यतो चेन किञ्चित्प्राप्रमाप्तव्यं वा भवति तमभीक्षणं स्मरति। व्यवधानात् - कोशादिभिरसिप्रभृतीनि स्मर्यन्ते । सुखदुःखाभ्याम् - तद्धेतुः स्मर्यते। इच्छाद्वेषाभ्याम् - यमिच्छति यं च द्वेष्टि तं स्मरति। भयात् यतो बिभेति। आर्थित्वात् - येनार्थो भेजनेनाच्छादनेन वा। क्रियायाः - रथेन रथकारं स्मरति। रागात् - यस्यां स्त्रियां रक्तो भवति, तामभीक्ष्णं स्मरति। धर्मात् - जात्यन्तरस्मरणमिहचाधीतश्रुतावधारणमिति। जातिस्मरणं जन्मान्तरस्मरणं धर्माप्रकर्षाद् भवति। इह जन्मनि अधितस्य श्रुतस्य च निःसन्दिधं ज्ञानं जायते। अधर्मात् - प्रागनुभूतदुःखाधनं स्मरति। 6. प्राध्यापकपिल्सबरीमहोदयानुसारं 'प्राक्तनानुभवप्रत्ययानां पुनराधानां स्मरणमिति'। 5 7. श्रीबुडवर्थमहोदयानां मतानुसारं 'पूर्वशिक्षितज्ञानस्यापरोक्षोपयोगरूपं स्मरणमिति'। अर्थात् पूर्वाभूतस्य स्मरणं स्मृतिः इति। उक्तञ्च - Memory consists in remembering what has previously been learned.6 8. श्रीरायबर्नमहोदयानुसारम् 'अनुभवानां सञ्चयः, तथा अनुभवप्राप्तेः किञ्चित् समयानन्तरं पूर्वानुभवान् चैतन्यावस्थायां पुनरानयनमेव स्मृतिः इति।The power of store our experiences, and to bring them in the field of consciousness sometime after the experiences occured is termed memory - Ryburn)

स्मृतिभेदा :-

वयं कांश्चन विषयान् बहुदीर्घकालं यावत् स्मरामः, कांश्चन विषयान् अल्पकालं स्मरामः । अतः स्मृतेः स्वभावाध्ययनं कृत्वा मनोविज्ञानिनः तस्य भेदान् प्रत्यपादयन्। स्मृतयोऽनेकप्रकारा भवन्ति। तासु-

  1. व्यक्तिगता स्मृतिः(Personal Memory) - व्यक्तिगता स्मृतौ अतीते घटित व्यक्तिगतानुभवाः स्मर्यन्ते। एषा वैयक्तिकजीवनेन सह सम्पृक्तं भवति। यथा -तं व्यक्तिविशेषं वयं सततं स्मराम: यश्च अस्माकं सङ्कटापन्नकाले अस्मान् सहकृतवानासीत्। 2. तात्कालिकस्मृतिः(Temporary Memory) - किञ्चिद्वस्तु स्वल्पकालायैव स्मर्यते, न तु कालन्तरे। स्मृतिरियं क्षणिका भवति। अर्थात् प्रप्तसूचना मस्तिष्के एकं क्षणम् अथवा ततोऽपि न्यूनसमयं तिष्ठति। यथा दूरभाषस्य क्रमाङ्का दूरस्थजनसम्भाषणकाल एव स्मर्यन्ते, पश्चाच्च विस्मर्यन्ते। यदा वयं रेलयानेन कुत्रचित् गच्छामः तदा आसन्दसंख्याम् उपवेशनपर्यन्तं स्मरामः, ततः परं विस्मरामः । एवञ्च अत्र संवेदनात्मकानुभूत्या व्यक्ते: मस्तिष्के अङि्कितं स्मृतिचिह्नं क्षणाभ्यन्तरे विनश्यति। 3. अल्पकालिकस्मृतिः (Short- Term Memory) - तात्कालिकस्मृतेः :: अपेक्षया अल्पकालिकस्मृतेः धारणासमयः किञ्चित् अधिकः भवति। यथा - कस्यचित् नूतनस्थलविशेषस्य (134)

Page 135

वाक्यार्थभारती 2013-14 नाम शृण्म: चेत् किञ्चित् कालं यावत् बुद्धौ भवति। अत्र सज्चितविषयाणामभ्यासः अथवा पुनरावृत्तिः न भवति। अतः स्मृतिचिह्नानि शीघ्रं नश्यन्ति। 4. दीर्घकालिकस्मृतिः(Long-Term Memory) - दीर्घकालिकस्मृतौ सञ्चितविषयाः दीर्घकालं यावत् बुद्धौ तिष्ठन्ति। अत्र सञ्चितविषयाणां समुचिताभ्यासः पुनरावृत्तिश्च स्वाभाविकतया भवति। अस्या: स्थायीस्मृतिः (Parmanent Memory) इत्यपि व्यवहियते। यथा - व्यक्ते: स्वस्य नाम स्वग्रामस्य नाम, मातापित्रोः नाम इत्यादीन् सर्वदा स्मरति। 5. यान्त्रिकस्मृतिः(Rote Memory)- कमपि विषयम् अविचिन्त्य अज्ञात्वा यन्त्रवत् रटनम्। कदाचित् कश्चित् पाठ्याश: केनचिद्विशिष्टेनाभिप्रायेण निश्चितकालाय स्मर्यते, कार्ये निष्पन्ने च विस्मर्यते। यथा - अभिनेता नाट्यगतं सम्भाषणम्। साम्प्रतिकै: परीक्षार्थिभिर्वा पाठ्यपुस्तकांशाः । 6. शारीरकस्मृतिः(Physiological Memory) - अत्र शरीराङ्गद्वारा कृतकार्यस्य स्मरणं भवति। उदाहरणम् - अङ्गुलीमाध्यमेन टङ्कणात्मकज्ञानम्, हारमोनियम् वादनादि ज्ञानम् वा। 7. इन्द्रियानुभवस्मृतिः(Sense Impression Memory)- इन्द्रियानुभवेन पुर्वप्राप्तानुभवानां पुनः स्मरणम्। यथा - अक्षिनिमिल्य स्पर्शद्वारा, जिह्वेन्द्रियया, घ्राणेन्द्रियया प्राप्तं ज्ञानम्। स्वस्थस्मृतिलक्षणम्

  1. शीघ्रं स्मरणमिति स्वस्थस्मृतेः प्रथमो विशेषः । 2. अभीष्टकाले पूर्वानुभवस्य प्रत्यभिज्ञानमिति स्वस्थस्मृते द्वितीयो विशेषः । 3. स्मरणं स्थायि भवेदिति स्वस्थस्मृते स्तृतीयो विशेषः । 4. अनभीष्टपदार्थविस्मरणं स्वस्थस्मृतेः चतुर्थो विशेषः । स्मृत्युपकारका गुणविशेषा:

कथं शोभना स्वस्था स्मृतिरवाप्तुं शक्यते ? काँस्कान् वा गुणविशेषानधिकृत्य स्मृतिसौष्ठवमभिसम्पद्यते ?चेत् -

  1. पूर्वानुभवस्य सान्निध्यम् मूलानुभवस्य सन्निकृष्टं स्मरणं सुकरं भवति। अनुभूतपदार्थानां कालविप्रकर्षे विस्मरणं जायते। वयं प्रातः कालेऽधीतपाठविषयं सायङ्काले स्मर्तुं शक्नुमः, किन्त्वेकवर्षानन्तरं तत्पाठस्मरणं तादृशं सौकर्य्यं नाधत्ते। यदि पूर्वानुभवस्य सन्निध्यता भवति तर्हि तत् सम्भवम्। 2. पूर्वानुभवस्य पुनरावृत्ति: पूर्वानुभवस्य पूर्वाधीतपाठस्य वा पुनरावृत्तिः पौनःपुन्येन पठनं स्मृतेः परमोपकारकं भवति। वारं वारं पठनेन तदनुभवसंस्काराः सुदृढ़ा भवन्ति। 3. शिक्षितसामग्रीक्रमव्यवस्था अनेन पूर्वापरविषयज्ञानं सुष्टु भवति। कदाचित् किञ्चित् विस्मरणं जायते इति आभास: भवति चेदपि 'क्रमव्यवस्था' मनसि संस्थाप्य विस्मृतस्य विषयस्य स्मरणं मानस पटले भवति। (135)

Page 136

वाक्यार्थभारती 2013-14 उदाहरण यथा -परीक्षा समये छात्रः प्रति पृष्ठस्याऽपि स्मरणं करोति। एवमेव पूर्वापरविषये चिन्तयति। स्मृतिविस्तारः

  1. प्रपाठ: Recitation (पाठः-प्रपाठः) दीर्घतरकालव्यापिन्यै स्मृतये प्रपाठपद्धतिराश्रयणीया। पुस्तकाश्रयेण द्वौ वारौ त्रीन् वारान् वा पाठं पठित्वा ततो विनैव पुस्तकाश्रयं मनसि पुनः पुनः पाठः 'प्रपाठः' कथ्यते।

प्रपाठः मौनरूपप्रपाठः सस्वर प्रपाठः

फलप्रदः अधिकफलप्रदः

  1. समग्रविधि: (पूर्णाधिगमप्रणाली) दीर्घमपि पाठं प्रतिवारं सम्पूर्णं पठित्वा वारं वारं प्रपाठेनान्यविधिना वा सदैव सम्पूर्णस्य पाठस्य कण्ठस्थीकरणविधि: 'समग्रविधिः' कथ्यते। वयस्का: समग्रविधौ फलं प्राप्नुवन्ति। 3. सान्तरं कण्ठस्थीकरणम् (Spaced repetition) प्रायशश्छात्राः पाठानां पौनःपुनैन निरवकाशाः आवृत्तिं कुर्वन्ति। विनाविरामं पाठं मुहुर्मुहुः पठन्ति। तावच्चावृत्तीः कुर्वन्ति, यावत् पाठः कण्ठस्थो न जायते। यथा - इकोऽयणणि - इकः स्थाने यण् स्यात् अचि संहितायां विषये। इति। = परं परीक्षणेनैतत्सिद्धं यन्निरवकाशावृत्त्यपेक्षया सावकाशा आवृत्तयोऽधिकतरं फलमुत्पादयन्ति इति। 4. सार्थबोधं कण्ठस्थीकरणम् (Meaningfull repitition) यस्य पाठस्यार्थो न स्पष्टो भवति स स्मृतौ शीघ्रं नावतिष्ठते। स्मृतो वापि त्वरितं विस्मर्यते। अतो यथाशक्यमर्थमवबुद्धयैव पाठः कण्ठस्थीकर्तव्यः। एवम् (अर्थेनसह) कण्ठस्थीकृतः पाठो दीर्घकालं स्मृतोऽवतिष्ठते। 5. क्रमशः भागावर्तनप्रणाली Progressive Part Method 1. अस्यां प्रणाल्यां प्रथमं कृत्स्नो भागः सम्पूर्णार्थावगमाय पाठ्यते। 2.

(136)

Page 137

वाक्यार्थभारती 2013-14

तदनन्तरं कृत्स्न: चतुर्धा विभज्यते।

प्रथमो भाग: कण्ठस्थीक्रियते प्रथमद्वितीयभागौ प्रथमद्वितीयतृतीयभागाः ततः कृत्स्नः धनानि भूमौ पशवश्चगोष्ठे धनानि भूमौ पशवश्चगोष्ठे धनानि भूमौ पशवश्चगोष्ठे धनानि भूमौ पशवश्चगोष्ठे नारीगृहद्वारे जना: स्मशाने नारीगृहद्वारे जनाः स्मशाने नारीगृहद्वारे जनाः स्मशाने देहश्चितायां परलोकमार्गे देहश्चितायां परलोकमार्गे धर्मोनुवोगच्छति जीव एक: ।

स्मृतिविकारा:

  1. स्मृतिभ्रंशः (नाशः)

साधारणस्मृतिभ्रंश: आंशिकस्मृतिभ्रंश:

निखिलविचाराणामभ्यस्तक्रियाणाञ्चापि संख्याविशेषस्य, नामविशेषस्य, घटनाविशेषस्य विस्मरणं जायते। इन्द्रियविशेषजन्यानुभवस्य वा विस्मरणं जायते।

  1. स्मृतिव्यतिरेक: स्मृतिव्यतिरेको नाम स्मृत्याधिक्यम् । प्राध्यापक जेम्समहोदयेन एकस्या बालिकाया: स्मृतिव्यतिरेकोदाहरणमद्धृतम्। अशिक्षितैका बालिका अकस्मात् हिब्रूभाषाद्वारा वार्तालापम् आरब्धवती। तया कदापि हिब्रूभाषा नैवाधीता आसीत् जनाः दैवशक्तिसम्पन्ना मन्यन्ते । अनुसन्धानेन तद्बालिकापूर्ववृत्तान्तस्याविष्कृतं- तदा ज्ञातं यत् सा बालिका पूर्वम् एकदा हिब्रूभाषापण्डितस्य भृत्या आसीदिति।

  2. स्मृतिविपर्यासः (स्मृतिभ्रमः) स्मृतिविपर्यासो नाम अननभूतविषयाणां स्मरणम् । पूर्वानुभवान् स्मरति - परं देशकालप्रत्ययसम्बद्धाः नैव भवन्ति। उदाहरणं यथा - अघटितानामपि घटनानां स्मरणं स्मर्ता करोति। इति शम्।

अनुशीलितग्रन्थसूची

  1. श्री प्रभुदयाल अग्निहोत्री (1965), अभिनवमनोविज्ञानम्, वाराणसेयसंस्कृतविश्वविद्यालयः, वाराणसी-2 2. राजदत्तकपिल:, (2002), अर्वाचीनं मनोविज्ञानम्, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी-2

(137)

Page 138

वाक्यार्थभारती 2013-14 3. डा. बि. पद्ममित्रश्रीनिवासः (2012), शिक्षायाः मनोवैज्ञानिकाधाराः, जगदीशसंस्कृत पुस्तकालयः, जयपुरम् -01 4. वे. श्री. वेड्कटराघवाचर्यः, (1982) शिक्षामनोविज्ञानम्, केन्द्रियसंस्कृतविद्यापीठम्, तिरुपतिः । 5. डा. फतेहसिंह (2005), शिक्षामनोविज्ञानम्, आदित्यप्रकाशनम्, जयपुरम्-15 6. पी.डी. पाठक (1982), शिक्षामनोविज्ञान, विनोद पुस्तक मन्दिर, आगरा - 2

सन्दर्भसूची-

  1. योगसूत्रम् 1/11 2. तर्कसड्ग्रह: 3. न्यायसूत्रभाष्यवार्तिकम् 4. सम्प्रदायप्रकाशिका 5. राजदत्तकपिल:, अर्वचीनं मनोविज्ञानम्, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी-02, 1957 6. न्यायसूत्रभाष्यम् 3/2/41, पृ. 220 (पूनासंस्करणम्) 7. W.B. Pillsbury, Psychology 8. R.S. Woodworth, Psychology, A study of mental life page 324

(138)

Page 139

वाक्यार्थभारती 2013-14 असामान्यव्यवहारः

डा. गणेशपण्डितः

असामान्यव्यवहार: अनियमितलक्षणोपेतः व्यवहारविशेषः वर्तते। सामान्यव्यवहारः प्रकृतिः चेत्तर्हि असामान्यव्यवहार: विकृतिरिति वक्तुं शक्नुमः। परन्तु असामान्यव्यवहार: सुखाय कल्पते अहोस्वित् दुःखाय इतीदं चिन्त्यमेव । कुतश्चेत् सामान्यस्तरात् उर्ध्वस्थस्यापि व्यवहारः असामान्य एव दृश्यते। परन्तु अयं प्रतिभाशालीति लोकेन सम्बोध्यते। सामान्यस्तरात् अधस्थस्यापि व्यवहार: असामान्य एव। परं नायं सामान्यः न वा प्रतिभाशाली। एषस्तु उन्मत्तः मानसिकरोगी अस्वस्थः मूर्खः इत्येव प्रसङ्गानुगुपं लोकेन निन्दितो भवति।

अङ्गलभाषायाम् असामान्यव्यवहारस्य कृते Abnormal Behaviour इत्ययं शब्दः प्रयुज्यते। अत्र Abnormal इतीदं पदमपि अनियमितत्वं (Not Regular) सामन्यस्तरच्युतत्व (Away from Normal) च सङ्केतयति। सामान्यतः क्षुद्रं हृदयं दौर्बल्यं त्यक्तवा यः समुत्तिष्ठति स सामान्यः इति लोकव्यवहारः । सामान्य मानसिकक्लेशो वा दुर्घटनाः वा नाधिकं बाधन्ते। आत्मसंयमी आत्ममूल्याङ्कनक्षमी च सामान्यः वास्तविकप्रपञ्चे निवसति। असामान्यस्तु कल्पनालोके विहरतितराम्। असामान्यव्यवहार: अपसामान्यव्यवहारनाम्नापि प्रसिद्धोऽस्ति। सर्वस्मिन् अपि अपसामान्यव्यवहारे विचलनं दुश्चिन्ता दुक्क्रिया अपायश्चेति तत्त्वचतुष्टयं विलीनं वर्तते। अपसामान्यव्यवहारः विचलितः आहोस्वित् सर्वसाधारणव्यवहारात् भिन्नः भासते इत्यतः विचलनमस्य प्रथमलक्षणं वर्तते। किञ्च एतादृशः व्यवहारः दुश्चिन्ताभिः पूर्णः भवति। व्यक्तिविशेषाय दुःखदायकः दुश्चिन्तामूलश्चापि वर्तते। अतः दुश्चिन्ता अस्य द्वितीयलक्षणं वर्तते। असामान्यव्यवहारः विचित्र: दैनन्दिना क्रियाकलापेषु बाधकश्च अपि सिध्यति। अतः अयं दुष्क्रियामूलमिति वक्तुं शक्यते। किञ्च एतादृशव्यवहारोपेतः लोकेन सह सामञ्जस्यं स्थापयितुं काठिन्यमनुभवति। अमूहक्ष: व्यवहार: व्यक्तयै अन्येभ्यश्च अपायमपि जनयति। अतः अत एव तत्त्वचतुष्टयम् असामान्यव्यवहारद्योतकम् इति वक्तुं शक्नुमः। उदाहरणार्थम् एका षोडशी प्रकोष्ठे गृहगोधिकां पश्यति चेत्तर्हि अतिशयेन भीता भवति स्म। यदि प्रकोष्ठस्य भित्तौ गृहगोधिका आयाति चेत्तर्हि तत्प्रकोष्ठे प्रवेशमेव न करोति। किञ्च पार्श्वस्थप्रकोष्ठ प्रवेशसन्दर्भेऽपि संशयं प्रकटयति स्म। पार्श्वप्रकोष्ठे विद्यमाना गृहगोधिका यदा कदापि अस्मिन् प्रकोष्ठे प्रत्यक्षीभवेत् इत्येवं विचिन्त्य कोणे कोणे संशोधनं कुर्वती आच्छादकानि समीकुर्वती कथञ्चित् रात्रिं यापयति स्म। यदि रात्रौ कश्चन लघुशब्दः श्रूयते गृहगोधिकया एव उत्पादित इति विलपति स्म। इयं गृहगोधिका निद्रायां मां दशेत् इति विचिन्त्य दण्डं स्वीकृत्य आरात्रि उपविशति स्म। अत्र बालिका दुर्भीत्या (Phobia) एवं करोति स्म इति मनोवैज्ञानिकाः निगदन्ति। गृहगोधिकायाः अभावेऽपि परिदृष्टः, व्यवहारः असाधारणः असामान्यश्चापि वर्तते।

असामान्यव्यवहारस्य कारणानि (Causes of Abnormal Behaviour)

जैविककारकाणि (Biological Causes) (139)

Page 140

वाक्यार्थभारती 2013-14 आनुवशिकदोष: (Genetic Defects)

प्रत्येकस्मिन् अपि मानवे मातृमूलानि पितृमूलानि च त्रयोविंशतिसंख्याकानि गुणसूत्राणि वर्तन्ते। अत्र यदि व्यत्ययः संभवति चेत्तर्हि मानसिकमन्दता (Mental Defficiency) जायते।

शारीरिकविकलाङ्गता (Physical Handicaps)

मातृगर्भस्थस्थशिशौ परिदृश्यमानाः विकाराः जन्मप्राप्तेः परं क्लेशाय कल्पन्ते। गर्भस्थशिशोः विकास अपि प्रधान एव।

जैवरसायनिककारकाणि (Bio- Chemical Causes)

अस्माकं तन्त्रिकतन्त्रं प्रभावयन्तः रासायनिकयदार्याः शरीरे अनुस्यूततया प्रवहन्तः भवन्ति। तत्र कोटोकोलोमाद्ून् (Catecholamine) इन्दोलोमाइन् (Indoleamine) इत्याख्यौ पदार्थो प्रमुखो। एतेषां न्यूनाधिक्यं असामान्यव्यवहाराय कल्पते।

मनोसामाजिककारकाणि (Psycho-Social Factors)

  1. आघातः (Taruma) - बालानां विकासावस्थायाः आरम्भे जायमाना: आघाताः अनर्थाय कल्पन्ते। पालकानां कठोख्यवहारः तिरस्कृतिः, परिवारे अपमृत्युः इत्यादयः भविनि काले विपरिणामं दर्शयिष्यन्ति। 2. पालनपोषणाभावः अव्यवस्थितपालनं वा (Inadequate Parenting) - बालानां विषये अत्यधिका प्रीतिः अत्यधिका अवहेलना वा नैव कर्तव्या। उभयमपि क्लेशाय कल्पते। 3. रोगात्मकपरिवारः (Pathological Family)-पारिवारिकसमस्याः, कलहाः, बालानामुपरि दुष्परिणामं जनयन्ति। विवादपूर्ण परिवारे (Discordant Family) विक्षुब्धपरिवारे Disturbed Family विघरितपरिवारे (Disrupted Family) च निवसन्तः बालाः कुसमायोजिताः भविष्यन्ति। 4. दुर्जनसर्ग: (Maladaptive Pear relationship) - बाला: सहवासदोषेण दुर्गुणान् अधिगच्छन्ति।

सामाजिकसांस्कृतिककारकाणि (Socio-Cultural Causes)

सामाजिकसमर्थनाभावः कुलबहिष्कारादयः अपि अत्र उदाहरणानि भवन्ति। एवम् असामान्यव्यवहारस्थ अनन्तानि कारणानि वर्तन्ते।

(140)

Page 141

सामाजिकपरिवर्तने शिक्षायाः भूमिका। वाक्यार्थभारती 2013-14

डा. वेङ्कटरमणभट्टः

विना समाजं मानवस्यास्तित्वं नास्ति। मानवमन्तरा अपि नास्ति समाजः । अतः वर्तते अनयो: घनिष्टः सम्बन्धः। सर्वे वयं समाजे वर्तामहे। समाजः समजः इत्यनयोः विद्यते किञ्चन वैलक्ष्यण्यम्मानवानां समूह: समाज: पशूनां समूहः समज इति भेदः । समाजोऽय विस्तृतः । व्यापक इति शक्यं वदितुम्। संघसमुदायादयः व्याप्या इति व्यपदिश्यन्ते। समाजे इमानि घटकानि भवन्ति। समाजे एते सर्वेप्यंशाः अन्तर्भवन्ति इति कृत्वा अनयो: व्याप्यव्यापकभावोऽपि शक्यते गदितुम्। अतः संघः, समूहः, विद्यालयः, समुदायः, परिवारः, स्पर्धा, सङ्घर्षः, वर्गः, जातिः, सामाजिकगतिशीलता (Social Mobility) सामाजिकनियन्त्रणम् (Social control) सामाजिकस्तरविन्यास: (Social stratification) इत्यादय: अंशा: समाजे अन्तर्भवन्तीति हेतोः अमीषां व्याप्यत्वम् प्रकल्पितम्।

अत्र सामाजिकपरिवर्तनमपि अन्तर्भवति। तर्हि किं नाम सामाजिकपरिवर्तनमिति जायेत आकाङ्क्षा। प्रसिद्धः समाजशास्त्रज्ञ: (Spencer) महोदय: वक्ति यत् सामाजिकविकास एव सामाजिकपरिवर्तनम् । (Social change is the social evolution) अन्वयव्यतिरेकसदृचाराभ्यां अनयोः कार्यकारणभावः निश्चीयते। तत् सत्त्वे तत्सत्त्वम् तदभावे तदभाव इति। यथा परिवर्तनसत्त्वे विकाससत्त्वम् परिवर्तनाभावे विकासाभाव इति।

परिवर्तनमभिलक्ष्य समाजः द्वेधा विभक्तः स्थायी गत्यात्मकश्चेति। यत्र परिवर्तनं विलम्बेन जायते सः स्थायीसमाजः । प्राचीनसमाजः स्थायीति परिगण्यते। यत्र अविलम्बं परिवर्तनं जायते सः गत्यात्मकश्चेति उच्यते। आधुनिकसमाजः गत्यात्मक इति कीर्त्यते। अद्यत्वे प्रतिक्षणं परिवर्तनं दृश्यते। नगरेषु प्रत्यहं सर्वविधक्षेत्रेषु परिवर्तनं सन्दृश्यते।

सर्वस्यापि परिवर्तनस्य हेतुर्भवति शिक्षा। शिक्षा परिवर्तनस्य प्रबलम् उपकरणमिति मन्यते। (Education is the powerful tool to bring the changes in the society) सकारात्मकं शिक्षणम् अभीष्टम्। सकारात्मकशिक्षणेन परिवर्तनमपि प्रयोजनकरं जायते शिक्षणं नकारात्मकं तेनैव नकारात्मकचिन्तनं विचारः कार्यकरणञ्च जायते। सच्छिक्षणेन संरचनायां अन्तः क्रियासु सम्बन्धेषु संस्कृतौ विचारे च परिवर्तनम् उपजायते। आवश्यकता अविष्कारस्य जननीति मन्यते (Necessity is the mother of Invention) आवश्यकता इच्छा इति शक्यते वक्तुम्। कल्पनया इच्छा जायते। सत्याम् आवश्यकतायाम् मानवः अन्विष्यति चिन्तयति विचारयति उ हते अपोहति च विषयम्। विचारं कारं करं अभीष्टं प्राप्नोति। सैव शिक्षा। ज्ञानाधीनेच्छा शिक्षेति कथ्यते। देश सर्वतोमुखविकासाय शिक्षणस्य योगदानं नितान्तमुपकरोति तद्देशीयशिक्षणस्तरानुगुणं देशस्य आर्थिकविकासोऽपि निश्चीमो। मानवशक्ति: आ ....... त् मानवसम्पत्तिः यत्र शिक्षणयुक्ता राराजते तत्र अवश्यं विकास: सकारत्मकस्तिष्ठति । तद्देशे आर्थिकविकासोऽपि जायते । अधिकप्रतिशतं जनाः उद्योगिनस्तिष्ठन्ति

(141)

Page 142

वाक्यार्थभारती 2013-14 दारिद्र्यलेशोऽपि न भवति। कृषिक्षेत्रेऽपि अभिवृद्धिः सञ्जायते। जेनेषु शिक्षणस्तरं मनसि निधाय विकसितः अविकसितः अर्धविकसितः विकासशीलश्चेति देशा: विभज्यन्ते अर्थशास्त्रज्ञैः।

सामाजिकपरिवर्तनस्य कानिचित् कारकाणि इत्थं निरूप्यन्ते।

तानि यथा -

  1. प्राकृतिकं कारकम् 2. जनसंख्या विस्फोट: 3. युद्धम् 4. प्रौद्योगिकं कारकम् 5. पारिवारिकं विघटनम्। प्राकृतिककारकेषु झंझावातः, भूकम्पनम्, अतिवृष्टि: अनावृष्टिः, अकालवृष्टिः, प्रवाहश्च अन्तर्भवन्ति। यदा एतानि दुर्घटनानि देशे सम्पत्स्यन्ते त्दा सर्वविधनाशः जायते। तदा सर्वकारस्य सहकारेण देशस्य पुनर्निर्माणमेव कार्यं भविष्यति।

जनसंख्याया अपि परिवर्तनं जायते। जनसख्यायाः आधिक्येन निर्धनता भवति। यदि जनाः निर्धना भवन्ति अन्यथा कर्मसु (चैर्यादिषु) आत्मानं व्यापारयन्ति। समाजः अवनतिं गच्छन्ति। युद्धेन बहवः म्रियन्ते। तदधीने विद्यमानाः जनाः क्लेशमनुभवन्ति। एतैः कारकैः समाजे परिवर्तनमायाति। यत्र समाजे शिक्षा उत्तमा भवति तत्र अवश्यं विकासः जायते इति निस्संशयः ।

सन्दर्भग्रन्थसूची

  1. शिक्षायाः सामाजिकाधारः, प्रो. ए.पि.सच्चिदानन्दः 2. शिक्षाया: दार्शनिकः, स्प, आधारः । डा. सोमनाथसाहु 3. शिक्षायाः समाजशास्त्रम्, डा. रामशुक्लपाण्डे।

(142)

Page 143

शिक्षणे मार्गदर्शनस्योपादेयता वाक्यार्थभारती 2013-14

(Contribution of Guidance in Education)

डा. कुमार:

एकविंशतितमेऽस्मिन् शतके सर्वोऽपि मानवः बहुविधकार्येषु व्यापृतो वर्तते। कार्यबाहुल्यात् तस्मिन् क्षोभ: (Tension) उत्पद्यते। अस्य क्षोभस्य कारणमद्यतनस्पर्धाऽपि भवति। सम्पूर्णमिदं जगत् स्पर्धात्मकं सञ्जातम्। यन्त्रतन्त्रादिशास्त्राणां विकास: बहुत्र क्षेत्रेषु दरीदृश्यते। अतः सर्वैः सह मिलित्वा समायोजितजीवनं सुखमयं च जीवनं निर्वोढुं मार्गदर्शनस्योपदेशनस्य चावश्यकता वर्तत एव। तत्र ये च ज्येष्ठाः श्रेष्ठाः तत्तत्क्षेत्रेषु नदीष्णाः सन्ति, तेषां मार्गदर्शनं प्राप्तव्यम्। शिक्षैका निरन्तरप्रक्रिय इति कारणतः पदे पदे परिवर्तनं बहुधा जायते। अतोऽस्मिन् शिक्षाक्षेत्रे मार्गदर्शनस्यापेक्षा नरीनृत्यते।

तर्हि शङ्केयमुत्पन्ना स्यात् किं नाम मार्गदर्शनम् ? किं तत्स्वरूपम् ? कास्योपादेयता ? इत्यादि।

तत्र समाधानं ददातीदं शास्त्रं मनोविज्ञानं, यत् जीवानां सर्वविधव्यवहाराणां मानसिकस्थितीनाञ्चाध्ययनं कृत्वा बहुविधसमायोजनोपायान् प्रतिपादयति। तच्छास्त्रानुसारं ये विषयाः मार्गदर्शनसम्बद्धाः प्रत्यपादिषत तेऽत्र संक्षेपेण प्रस्तूयन्ते।

मार्गदर्शनं नाम पथप्रदर्शनमिति सामान्यः शाब्दिकार्थः । निर्देशनम्, निदेशनम्, अध्वदर्शनम् पथप्रदर्शनम् इत्यादीनि पर्यायपदान्यापि तस्य सन्ति। आङ्ग्लभाषायां तावत् (Guidance) गैडेन्स इति पदप्रयोगो दृश्यतेऽस्मिन्नेवार्थे, यस्यार्थो भवति Help or Advice towards doing some thing. इति। डैरेक्षन् (Direction) इत्यपि पदस्य प्रयोग: क्वचित् क्रियते। अस्यापि स एवार्थ: (Showing the path or Direct towards doing some thing इति। अस्यावलोकनेन ज्ञायते मार्गदर्शनं नाम कार्यकरणाय सहायताप्रदानमिति। अतः पूर्वमेव सुभाषितमारचितं पञ्चतन्त्रकर्त्रा यथा-

असहायः पुमानेकः कार्यान्तं नाधिगच्छति।

तुषेणापि विनिर्मुक्त: तण्डुलो न प्ररोहति॥ इति। अर्थात् कस्याश्चिद् व्यक्ते: विकास: भवेच्चेत् साहाय्यमन्येषामावश्यकम्। तदैव प्रारब्धं वा प्रारम्भणीयं कार्यं सम्पूर्णतया समापयितुं शक्नोति। यथा तण्डुलः तुषरहितः न रोहति इति। एवं प्रत्येकं जनस्य मार्गदर्शनं जीवने आवश्यकं भवति। मार्गदर्शनं नाम व्यक्ति: स्वीकृतमुद्देश्यं केन प्रकारेण साधयितुं शक्नोति, तादृशनिश्चयात्मकज्ञानस्य सम्पादनाय सहायताप्रदानमिति मनोवैज्ञानिकाः अपि प्रत्यपादयन्। मार्गदर्शनमेकं व्यक्तिगतसहायता भवति यन्निपुणव्यक्तया प्रदीयते । अनेन व्यक्ते: अन्तर्दृष्टिः जागृतोन्मीलिताश्च भविष्यति । तदनु व्यक्तिः स्वयं समस्यानां समाधानान्वेषणे समर्था भविष्यति । महाज्ञानिनां निपुणानां च सहायतया व्यक्ति: स्वयमात्मदर्शनस्यात्मशक्तेश्च समुचितमुपयोगं परीक्षणञ्च (143)

Page 144

वाक्यार्थभारती 2013-14 कर्तुं प्रभवति। मार्गदर्शनद्वारा व्यक्ति: स्वीयबुद्धिम्, योग्यताम्, क्षमताम् अभिरुचिम्, व्यक्तित्वसम्बद्धविशेषताश्च ज्ञातुं शक्नोति। तेन स्वीयं जीवनं सुव्यवस्थितम्, सामञ्जस्यपूर्णम्, सुखमयञ्च कारयति। एवं रीत्या मार्गदर्शनं व्यक्ते: जीवनलक्ष्यनिर्धारणे, समायोजने, समस्यासमाधानान्वेषणे सहायतां यच्छति। अनेके मनोवैज्ञानिकाः मार्गदर्शनस्य परिभाषां स्वाभिप्रायपुरस्सरं प्रादर्शयन् । तत्र प्रसिद्धाः काश्चन परिभाषाः अत्र प्रस्तूयन्ते।

मार्गदर्शनस्य परिभाषाः (Deffination of Guidance)-

  1. क्रो. तथा क्रो. महोदयौ - मार्गदर्शनं नाम तद्भवति, यन्निपुणपरामर्शदात्रा कस्मिन्नपि वयसि विद्यमानव्यक्ते: कृते स्वयं जीवनकार्यं सुव्यवस्थितं कर्तुम्, दृष्टिकोणस्य विकासार्थम्, स्वयं निर्णयं स्वीर्कुम्, उत्तरदायित्वपूर्णजीवनसम्पादनाय च सहायताप्रदानमिति प्रावदताम्। (Crow & Crow - Guidance is the assistance made by competent counsellors to an individual of any age to help him, to direct his own life, develop his point of view, make his own decisions and carry his own budens.) 2. भारतसर्वकारस्य केन्द्रीयशिक्षामन्त्रालयद्वारा प्राकाशितायां शैक्षिकव्यावसायिकपत्रिकायां (Manual of Educaiton and Vocational Guidance) व्यलेखि यत्- निर्देशनं नाम व्यक्ते: शिक्षा, जीविका, मनोरञ्जनम्, समाजसेवासम्बद्धकार्यचयनम्, तत्सिद्धता, प्रवेशः, तदुन्नतिकरणमित्यादिषु सहायताप्रदानप्रक्रिया इति। एवं रीत्या मार्गदर्शनस्य परिभाषाः प्रदर्शिताः । तर्हि तस्यावश्यकता केति किञ्चिदवलोकयामः ।

मार्गदर्शनस्यावश्यकता-(Needs of Guidance)

आधुनिकवैज्ञानिकताप्रभावेण व्यक्ते: जीवने बहुपरिवर्तनं जायते। अधुना तु जटिलसमस्याः अनेका व्यक्ते: पुरतः नरीनृत्यन्ते। तत्र वैयक्तिक-सामाजिक-शैक्षिक-व्यावसायिकादिक्षेत्रेषु बह्व्यः समस्या: प्रधानभूताः भवन्ति। आधुनिकताकारणेन निर्देशनस्यावश्यकता सर्वत्रापेक्षितैव । अत एव प्रधाना: काश्चनावश्यकता: अत्र बिन्दुरूपेण प्रदर्श्यन्ते।

  1. परिवारस्य स्थिते: परिवर्तनाय निर्देशनस्यावश्यकता। 2. कार्येषु सेवासु च विशिष्टप्रवृत्तिसम्पादनाय आवश्यकम्। 3. सामाजिकजीवनस्य जटिलतानिवारणाय निर्देशनमावश्यकम्। 4. अवकाशकालस्य सदुपयोगाय निर्देशनमावश्यकम्। 5. व्यक्तित्वविकासाय आवश्यकता वर्ततेऽस्य। 6. वैयक्तिकभिन्नतामहत्त्वस्य ज्ञानाय आवश्यकता। 7. शिक्षाया: जटिलप्रक्रियाज्ञानस्य आवश्यकमेतत्। 8. व्यवसायचयने तु निर्देशनस्यावश्यकता वर्तत एव। (144)

Page 145

वाक्यार्थभारती 2013-14

लोकेऽस्मिन् सर्वत्र मार्गदर्शनस्यावश्यकता वर्तते। तर्हि मार्गदर्शनं किमर्थमावश्यकम् ? तस्योद्देश्यानि कानीति पश्यामः । तत्र तस्योद्दाश्यानि बहूनि सन्त्येव । उद्देश्यं विना किमपि कार्यं न भवति । अतः अधोलिखितानि उद्देश्यानि मार्गदर्शनस्य भवन्तीति सामान्यतः वदामः ।

मार्गदर्शनस्योद्देश्यानि (Aims of Guidance)

  1. व्यक्तिविषयकसम्पूर्णज्ञानप्राप्तिः । व्यक्ते: योग्यता, शक्तिसामर्थ्यादिविषयकज्ञानप्राप्तिः । 2. समस्यानां समाधानाय सहायताप्रदानम् । 3. व्यक्त: सर्वाङ्गीणविकासात्मकमुद्देश्यम्। 4. वातावरणेन साकं सामञ्जस्यस्थापने सहायता। 5. विद्यालय - समाज- परिवारादिषु कार्यसमन्वयसंस्थापनम्। एवं रीत्या मार्गदर्शनस्य विभिन्नोद्देश्यानि सन्ति। उद्देश्यानामनुसारं विभिन्नप्रकारकनिर्देशनानि भवेयुः । अतः सामान्यतः निर्देशनस्य प्रकाराः क इति चर्चयामः ।

मार्गदर्शनस्य प्रकारा: (Types of Guidance)

तत्र इलहाबाद मनोविज्ञानकेन्द्रद्वारा साध्ययनं केचन प्रकाराः मार्गदर्शनस्य प्रादर्शिषत। ते यथा -

  1. शैक्षिकनिर्देशनम् (Educational Guidance) 2. व्यावसायिक निर्देशनम् (Vocational Guidance) 3. व्यक्तिगत निर्देशनम् (Individual Guidance) W.M. Proctor महाशयस्तावत् स्वकीयाध्ययनानुसारं षट्प्रकारकनिर्देशनं प्रादर्शयत्। तद्यथा -

  2. शैक्षिकनिर्देशनम्। 2. व्यावसायिकनिर्देशनम्। 3. सामाजिक नागरिकक्रियानिर्देशनम्। 4. स्वास्थ्यं तथा शारीरकक्रियानिर्देशनम्। 5. अवकाशकालसदुपयोगनिर्देशनम्। 6. चरित्रनिर्माणात्मकं निर्देशनम्। इति। एवं सत्सु बहुषु प्रकारेषु वयमत्र शैक्षिकनिर्देशनस्योपरि किञ्चित् दृष्टिं पातयामः। शैक्षिनिर्देशनं किं भवति ?तत्स्वरूपं किम् ? शिक्षणे उपादेयता इत्यादिविषयेषु चर्चां करिष्यामः ।

शैक्षिकनिर्देशनं छात्रणां तथा शिक्षासम्बद्धसमस्यानां विषयं प्रतिपादयति। अनेन छात्राणां शैक्षिककाठिन्यं दूरीक्रियते तथा समायोजनयोग्यतासम्पादनं क्रियते। अस्यार्थं स्पष्टीकुर्वन्तः महान्तः शिक्षाशास्त्रज्ञा: एवं पर्यभाषन्त। तत्र काश्चन प्रदीयन्ते परिभाषाः ।

(145)

Page 146

वाक्यार्थभारती 2013-14 शैक्षिकनिर्देशनपरिभाषाः (Deffinition of Educational Guidance)-

  1. जोन्स महोदयोऽवदत् - शैक्षिकनिर्देशनं नाम छात्रेभ्यः प्रदीयमाना सहायता भवति यथा तेभ्यः छात्रेभ्यः विद्यालय - पाठ्यक्रम-पाठ्यविषय-विद्यालयजीवनसम्बद्धक्रि याचयन- समायोजनकरणादिज्ञानं प्रदीयते इति। Jones - Educational Guidance is conserened with assistance given to pupils in their choices and adjustment with relation to school, curriculum, sourses and school life.

  2. मायर्स (Myers) मार्गदर्शनमेका तादृशी प्रक्रिया वर्तते यथा व्यक्तिः तथा तद्विशिष्टगुणानाम्, एवं विकासार्थं विद्यमानविभिन्नावसराणां मध्ये शिक्षणप्राप्तये अनुकूलपृष्ठभूमिसज्जीकरणं क्रियते इत्यवादीत्। रूथ स्ट्रेंग - (Ruth Strang) - शैक्षिकनिर्देशस्योद्देश्यं व्यक्ते: कृते उचितकार्यक्रमाणां चयनमेवं, तेषां प्रगतिकरणे सहायताप्रदानम् इत्यवोचत्। एवं रीत्या प्रदर्शिताः परिभाषाः विलोक्य वक्तुं शक्नुमः यत् व्यक्ते: सर्वाङ्गीणविकासाय या सहायता प्रदीयते सैव निर्देशनमिति। शैक्षिकनिर्देशनं विना व्यक्त: विकासो न जायेत इत्यतः तस्यावश्यक्ता शिक्षाक्षेत्रे राराजते। तत्र केचन बिन्दवः सन्ति। ते यथा- शैक्षिकनिर्देशनस्यावश्यकता (Need of Educational Guidance)-

  3. विद्यार्थिनां कृते शैक्षिकनिर्देशनस्यावश्यकता - विद्यार्थिनः शिलैव संस्काररहिताश्च कदाचित् भवन्ति। तेषां जीवने किञ्चिदपि लक्ष्यं न स्यात्। तादृश सन्दर्भेषु विद्यार्थिनां कृते सर्वोत्तमलक्ष्यसम्पादनाय, संस्कारसंस्कृतीनां ज्ञानप्राप्तये चास्यावश्यकता वरीवर्तते। 2. शैक्षिककार्यक्रमाणां चयनार्थमावश्यकता - आवर्षं शिक्षासंस्थासु अनेके कार्यक्रमाः आयोज्यन्ते। तत्र के के कार्यक्रमाः भवेयुः ? कथं भवेयुः ? उद्देश्यानि कानि ? इत्यादीनां निर्धारणाय ज्येष्ठानां शिक्षाविदां मार्गदर्शनमपेक्षितम्। तदैव शैक्षिककार्यक्रमाः सुव्यवस्थितरूपेण प्रचाल्यन्ते। 3. शैक्षिकसमायोजने आवश्यकता - शिक्षणसंस्थासु समायोजनमित्यंशः बहुप्रधानः भवति। पारस्परिकसम्बन्धमुत्तमतया स्थापयितुं ज्येष्ठानां मार्गदर्शनमपेक्षितम्। अध्यापकाः तथा छात्राः परस्परं समायोजिता: संस्थया सह समीचीनतया कार्यं निर्वहेयुः। तत्र कदाचित् अव्यवस्था स्यादिति कारणतः शैक्षिकनिर्देशनस्यावश्यकता भोभवीति। एवं रीत्या शैक्षिकनिर्देशनस्य बहवः आवश्यकताः सन्ति। एवञ्चास्य महत्वं शिक्षणप्रक्रियायां वर्तत एव। अतोऽत्र शैक्षिक निर्देशनस्य महत्ववर्णनबिन्दवः केचन प्रदीयन्ते।

शैक्षिकनिर्देशनस्य महत्त्वम् (Importance of Educational Guidance)-

  1. पाठ्यविषयचयने सहायतां करोति। 2. व्यक्तित्वनिर्माणेऽस्य महत्त्वम्। 3. विद्यालये समायोजनं कर्तुं सहायतां करोति। (146)

Page 147

वाक्यार्थभारती 2013-14

  1. अध्ययनेषु अभिप्रेरणं प्रोत्साहनञ्च दातुं सहकरोति। 5. उच्चशिक्षणं प्राप्तुं तथा तत्सम्बद्धनिर्णयस्वीकारेऽस्य महत्वम् वर्तते। 6. अनुशासनस्थापने परिपालने च सहायतां ददाति। 7. विशिष्टबालकानां समस्यासमाधाने शैक्षिकनिर्देशनस्य महत्त्वं बहु वर्तते। 8. शिक्षणप्रक्रियायां जायमानमपव्ययं तथा अवरोधान् दूरीकर्तुं साहाय्यं करोति। 9. अनिरीक्षितसमस्यानां समाधाने सहायता। 10. पाठ्यक्रमे शिक्षणविधिषु, विद्यालयव्यवस्थायां तथा शैक्षणिकक्षेत्रेषु जायमानं परिवर्तनं ज्ञातुं, परिवर्तनानुगुणं कार्यं कर्तुं च सहायकं भवति। एवं रीत्या शैक्षिकनिर्देशनं सर्वदा शिक्षणप्रक्रियायां सहायतां करोति। यदि समुचितं मार्गदर्शनं न भवति तर्हि शिक्षणं सुव्यवस्थितं नैव भवितुं शक्नोति। अतः एव ज्येष्ठाः शिक्षाविदः मार्गदर्शनं र्कुुय। शैक्षिकमार्गदर्शकानां निर्देशानुसारं कार्यक्रमाः प्रचाल्यन्ते चेदेव शिक्षणे उत्तरोत्तरप्रगतिः भविष्यति । विद्यालयव्यवस्था, प्राठ्यक्रमः, शिक्षणोद्देश्यानि इत्यादिषु निर्देशनस्यबहुमहत्त्वपूर्णं स्थानं वर्तते। अत एव वक्तुं शक्नुमः तेन विना किमपि न प्रचलतीति। एतादृशस्य महत्वपूर्ण शैक्षिकमार्गदर्शनस्य केचन विधयोऽपि प्रदर्शिताः ।

शैक्षिकमार्गदर्शनस्य विधयः (Methods of Educational Guidance)-

छात्राणां विद्वता, स्वास्थ्य, शारीरकविकास, बौद्धिकविकास मानसिकयोग्यता, रुचि, अभिरुचि व्यक्तित्वादिसम्बद्धविशेषविषयान् मनसि निधाय अधोलिखितविधीनां सहायता स्वीक्रियते।

  1. अनुस्थापनवार्ताः (Orientation Talks) 2. साक्षात्कारा: (Interviews) 3. वैद्यकीयपरीक्षा (Medical Examination) 4. पारिवारिकजीवनाध्ययनम् (Study of Family life) 5. विद्यालयीयजीवनाध्ययनम् (Study of School life) 6. मनोवैज्ञानिकपरीक्षणम् (Psychological Test) 7. वृत्तलेखनम् (Report Writing) 8. अनुवर्तनकार्यम् (Follow up Work) एवं रीत्या विभिन्नविधीनां प्रयोगेण शिक्षणे मार्गदर्शनस्यानुवर्तनं भवति। मार्गदर्शनस्यापेक्षा तु शिक्षणे वर्तत एव। छात्राणां सर्वाङ्गीणविकास एव शिक्षायाः लक्ष्यम्। विद्यार्थिनां जीवनमार्गदर्शनमस्य निर्देशनस्य परममुद्देश्यम्। निपुणपुरुषैः निर्दिष्टाः छात्राः स्वीयजीवनस्य रुपरेखां निर्मान्ति । ज्ञानप्राप्ते: मार्गञ्चावगच्छन्ति। समाजे उत्तमव्यक्तित्ववन्तो भूत्वा सुसमायोजितजीवनं कर्तुं च प्रभवन्ति । अतः शिक्षणे मार्गदर्शनस्योपादेयता महत्त्वञ्च वर्तत एव इति विस्तरात् उपसंहियते।

(147)

Page 148

वाक्यार्थभारती 2013-14 आधारग्रन्था :-

  1. शिक्षा मनोविज्ञानम् - पि. नागमुनिरेड्डि, रा.सं.विद्यापीठम्, तिरुपतिः । 2. शैक्षणिकमनोविज्ञान-प्रो.आर्. जि. प्रभु. विद्यानिधिप्रकाशन, गदग। 3. उच्चतरशिक्षामनोविज्ञान-गुप्ता तथा गुप्ता, स्टर्लिङ्ग पब्लिकेशन। 4. शिक्षायाः मनोवैज्ञानिकाधारः - डा. बि. पद्ममित्र श्रीनिवासः जगदीशसंस्कृतपुस्तकालयः, जयपुरम्। 5. शैक्षणिक मनोविज्ञान -डा. आर्. ओबलेश घट्टि विद्यानिधिप्रकाशन, गदग।

(148)

Page 149

वाक्यार्थभारती 2013-14 निबन्धारः

डा. एन. आर्. कण्णन् - प्राचार्य:, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी, कर्णाटकम्

प्रो. एस्. एल्. पि. आञ्जनेयशर्मा- वरिष्ठः अनुसन्धानाधिकारी -E.F.E.O., पुदुच्चेरी।

प्रो. रामचन्द्र जी. भट्टः - कुलपतिः, SVYASA योगविश्वविद्यालयः, गुरुकुलाचार्यः, वेदविज्ञानगुरुकुलं

चेन्नेनहल्लि, मागडिरोड, बेड्गलूरु

डा. हित्लळिळ सूर्यनारायण नागेन्द्र भट्ट :- 38/39 ब्लूम्फील्ड् गार्डन्, विद्यारण्यपुर, बेङ्गळूरु -97

प्रो. एन्. आर्. शठकोपताताचार्य: -आचार्य:, न्यायविभागः, श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, श्रीविहार, पुरी।

प्रो. रामचन्द्रपाण्डेय :- अध्यक्षचरः, संस्कृतविद्याधर्मविज्ञानसङ्कायः, काशीहिन्दूविश्वविद्यालयः, वारणसी।

प्रो. चान्दकिरणसलूजा - निदेशकः (शैक्षिकविभाग:), संस्कृतसंवर्धनप्रतिष्ठानम्, नवदेहली

डा. राघवेन्द्रभट्टः - सहायकाचार्यः, साहित्यविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. चन्द्रकला आर्. कोण्डी-सहायकाचार्यः, साहित्यविभाग:, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. रामचन्द्रः जोयिसः - सहायकाचार्यः, साहित्यविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. कोम्पेल्लि विनयकुमार :- प्राध्यापकः, साहित्यविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. श्रीनिवासमूर्ति: - प्राध्यापकः, साहित्यविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. सि. एस्. एस्. नरसिंहमूर्ति-सहाचार्य:, व्याकरणविभाग:, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. चन्द्रशेखरभट्टः- सहायकाचार्यः, व्याकरणविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. चिर्रावूरि कृष्णानन्तपद्मनाभम् - सहायकाचार्यः, व्याकरणविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसर:, शृङ्गेरी

डा. विनायकरजतभट्टः- प्राध्यापकः, व्याकरणविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. प्रमोदभट्टः - प्राध्यापकः, व्याकरणविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. आर्. प्रतिभा-सहाचार्य:, अद्वैतवेदान्तविभाग:, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

(149)

Page 150

वाक्यार्थभारती 2013-14 डा. गणेश ईश्वर भट्टः- सहायकाचार्य:, अद्वैतवेदान्तविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. श्रीकर जी. एन्. - प्राध्यापकः, अद्वैतवेदान्तविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

श्री गणपति वि हेगडे-प्राध्यापकः, अद्वैतवेदान्तविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. सूर्यनारायणभट्टः-सहायकाचार्यः, मीमांसाविभाग:, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसर:, शृङ्गेरी

डा. एस्. वेङ्कटेशताताचार्यः - सहायकाचार्यः, मीमांसाविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. गुरुराजकल्कूर - प्राध्यापकः, मीमांसाविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. वि. नवीनहोळळ: - सहायकाचार्यः, नव्यन्यायविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

श्री. आर. नवीनः- प्राध्यापकः, नव्यन्यायविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

श्री. श्यामसुन्दरः ए. - प्राध्यापकः, नव्यन्यायविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

श्री. रामकृष्णपेजत्ताय-प्राध्यापकः,ज्यौतिषविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. मुरळीकृष्ण टी. - प्राध्यापक:,ज्यौतिषविभाग:, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. चन्द्रकान्तः- सहायकाचार्यः, शिक्षाशास्त्रिविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसर:, शृङ्गेरी

डा. रामचन्द्रुलबालाजी-सहायकाचार्यः, शिक्षाशास्त्रिविभाग:, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. हरिप्रसाद: के. - सहायकाचार्यः, शिक्षाशास्त्रिविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. सोमनाथसाहु: - सहायकाचार्यः, शिक्षाशास्त्रिविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. गणेशपण्डितः - सहायकाचार्यः, शिक्षाशास्त्रिविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. वेङ्कटरमणभट्टः - सहायकाचार्यः, शिक्षाशास्त्रिविभाग:, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

डा. कुमार: - प्राध्यापकः, शिक्षाशास्त्रिविभागः, राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धीपरिसरः, शृङ्गेरी

(150)