1. Rasa Gangadhara Jagannatha (mula)
Page 1
1 पण्डितराजजगन्नाथविरचितः रसगङ्गाधरः (प्रथममाननम्) स्मृतापि तरुणातपं करुणया हरन्ती नृणा- मभङ्गरतनुत्विषां वलयिता शतैर्विद्युताम्। कलिन्दगिरि-नन्दिनीतट-सुरदुमालम्बिनी, मदीयमतिचुम्बिनी भवतु काऽपि कादम्बिनी ।।१।। अथ स्वोक्तेरुपादेयतमत्वं द्योतयितुं गुरुवन्दनापदेशेन विद्याजन्मवंशयोः परिशुद्धिं पद्यद्वयेन प्रतिपादयति- श्रीमज्ज्ञानेन्द्रभिक्षोरधिगतसकल-ब्रह्म-विद्याप्रपञ्चः काणादीराक्षपादीरपि गहनागिरो यो महेन्द्रादवेदीत्। देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं, शेषाङ्कप्राप्तशेषामलभणितिरभूत्सर्वविद्याधरो यः॥२॥ पाषाणादपि पीयूषं स्यन्दते यस्य लीलया। तं वन्दे पेरुभट्टाख्यं लक्ष्मीकान्तं महागुरुम् ।३॥ स्वप्रबन्धस्य सुविचार्यविहितत्वेन श्रेयस्त्वं सूचयति- निमग्नेन क्लेशैर्मननजलधेरन्तरुदरं, मयोन्नीतो लोके ललितरसगङ्गाधरमणिः। हरन्नन्तर्ध्वान्तं हृदयमधिरूढो गुणवतामलङ्कारान्सर्वानपि गलितगर्वान् रचयतु॥४॥ इत्थं स्वग्रन्थस्य प्राचीनैरगतार्थत्वं प्रतिपाद्य नवीनैरपि स्वसजातीयग्रन्थान्तरैरगतार्थत्वं प्रतिपादयति- परिष्कुर्वन्त्वर्थान्सहृदयधुरीणा: कतिपये, तथापि क्लेशो मे कथमपि गतार्थो न भविता। तिमीन्द्रा: संक्षोभं विदधतु पयोधेःपुनरिमे किमेतेनायासो भवति विफलो मन्दरगिरेः॥५॥ स्वपाण्डित्यप्रकर्षं प्रकाशयन्नेतत्प्रबन्धस्य सजातीयव्यतिरेकं प्रदर्शयति- निर्माय नूतनमुदाहरणानुरूपं, काव्यं मयात्र निहितं न परस्य किंचित्। किं सेव्यते सुमनसां मनसापि गन्धः, कस्तूरिकाजननशक्तिभृता मृगेण ॥६॥ 'सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः
Page 2
2 सप्रयोजन:॥' इत्यभियुक्तोक्त्तेरभिधेयस्य प्रकाशाय प्रतिजानीते- मननतरितीर्णविद्याऽर्णवो जगन्नाथपण्डितनरेन्द्रः। रसगङ्गाधरनाम्नीं करोति कुतुकेन काव्यमीमांसाम् ।।७॥। स्वप्रबन्धस्य प्रचारमाशंसति- रसगङ्गाधरनामा संदर्भोडयं चिरं जयतु। किं च कुलानि कवीनां निसर्गसम्यञ्चि रञ्जयतु ॥८॥। तत्र तावत् काव्यलक्षणसूत्रमवतारयति- तन्न कीर्ति-परमाह्लाद-गुरुराजदेवताप्रसादाद्यनेकप्रयोजनकस्य काव्यस्य व्युत्पत्तेः कविसहृ दययोरावश्यकतया गुणालङ्कारादिभिर्निरूपणीये तस्मिन्-विशेष्यताऽवच्छेदकं तदितरभेदबुद्धौ साधनं च तल्लक्षणं तावन्निरूप्यते- काव्यं लक्षयति- रमणीयार्थप्रतिपादकः शब्दः काव्यम् ॥१॥ लोकरुचिवैचित्र्येणार्थनिष्ठाया रमणीयताया अव्यवस्थानाद् व्यवस्थितिमाचष्टे- रमणीयता च लोकोत्तराह्लादजनकज्ञानगोचरता। नन्वाह्नादनिष्ठं लोकोत्तरत्वं सातिशयं निरतिशयं वा?, आद्ये तन्निविशेऽपि बहुविधानामानन्दानां पूर्ववत् सङ्ग्रहेणाननुगमः, द्वितीये तु ब्रह्मानन्दस्यैव तेन ग्रहणादनुपपत्तिरित्यतो लोकोत्तरत्वं निर्वक्ति- लोकोत्तरत्वं चाह्लादगतश्चमत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेषः। नन्वीदृशं लोकोत्तरञ्चमत्कारं को जनयतीत्याकाङ्क्षायामाह- कारणं च तदवच्छिन्ने भावनाविशेषः पुनः पुनरनुसन्धानात्मा। आह्लादे लोकोत्तरत्वनिवेशस्य फलं दर्शयति- 'पुत्रस्ते जातः,' 'धनं ते दास्यामि' इति वाक्यार्थधीजन्याह्लादस्य न लोकोत्तरत्वम्, अतो न तस्मिन्वाक्ये काव्यत्वप्रसक्तिः। अथ काव्यलक्षणनिष्कर्षं क्रमेण प्रपञ्चयति- इत्थं चमत्कारजनकभावनाविषयार्थप्रतिपादकशब्दत्वम्। यत्प्रतिपादितार्थविषयकभावनात्वं चमत्कारजनकताऽवच्छेदकं तत्त्वम्। स्वविशिष्टजनकताऽवच्छेदकार्थप्रतिपादकतासंसर्गेण चमत्कारत्ववत्त्वमेव वा काव्यत्वमिति फलितम्।
Page 3
3 इत्थं स्वकीयं काव्यलक्षणं प्रतिपाद्य काव्यप्रकाशकृतः तत् खण्डयितुमुपक्रम्य तन्र प्रथमं विशेष्यदलेऽर्थस्य निक्षेपमाक्षिपति - यत्तु प्राञ्च :- 'अदोषौ सगुणौ सालङ्कारौ शब्दार्थौ काव्यम्' इत्याहुः। तत्र विचार्यते-शब्दार्थयुगलं न काव्यशब्दवाच्यम्, मानाभावात्, 'काव्यमुच्चैः पद्यते', 'काव्यादर्थोऽवगम्यते', 'काव्यं श्रुतमर्थो न ज्ञातः', इत्यादिविश्वजनीनव्यवहारतः प्रत्युत शब्दविशेषस्यैव काव्य-पदार्थत्वप्रतिपत्तेश्च। प्रतिपक्षिपक्षमुपक्षिप्याक्षिपति- व्यवहारः शब्दमात्रे लक्षणयोपपादनीय इति चेत्, स्यादप्येवम्, यदि काव्यपदार्थतया पराभिमते शब्दार्थयुगले काव्यशब्दशक्ते: प्रमापकं दृढतरं किमपि प्रमाणं स्यात्। तदेव तु न पश्यामः । ननु तत्र कथं प्रमाणाभावः , प्रमाणान्तरविरहेऽपि काव्यप्रकाशकारादिप्राचीनोक्तेरेव प्रमाणत्वादित्यत आह- विमतवाक्यं त्वश्रद्धेयमेव। उपसंहरति- इत्थं चासति काव्यशब्दस्य शब्दार्थयुगलशक्तिग्राहके प्रमाणे प्रागुक्ताद् व्यवहारतः शब्दविशेषे सिद्ध्यन्तीं शक्तिं को नाम निवारयितुमीष्टे? एकतरपक्षे विनिगमनाविरहादुभयत्र शब्दार्थयोः काव्यशब्दशक्तिं स्वीकुर्वतां मतं निराकरोति- एतेन विनिगमनाऽभावादुभयत्र शत्तिरिति प्रत्युक्तम्। पर्यवसितमाचष्टे- तदेवं शब्दविशेषस्यैव काव्यपदार्थत्वे सिद्धे, तस्यैव लक्षणं वक्तुं युक्तम्, न तु स्वकल्पितस्य काव्यपदार्थस्य। स्वमतं द्रढयितुं प्रसङ्गादाह- एषैव च वेदपुराणादिलक्षणेष्वपि गतिः। अन्यथा तत्रापीयं दुरवस्था स्यात्। प्राचीनमतं पुनरापाद्य दूषयति यत्त्वास्वादोद्वोधकत्वेमेव काव्यत्वप्रयोजकं, तच्च शब्दे चार्थे चाविशिष्टमित्याहुः, तन्न, रागस्यापि रसव्यञ्जकताया ध्वनिकारादि-सकलालङ्कारिकसम्मतत्वेन प्रकृते लक्षणीयत्वापत्तेः।
Page 4
4 किं बहुना, नाट्याङ्गानां सर्वेषामपि प्रायशस्तथात्वेन तत्त्वापत्तिदुर्वारैव। आंशिकं मतान्तरं निरस्यति- एतेन रसोद्वोधसमर्थस्यैवात्र लक्ष्यत्वमित्यपि परास्तम्। उक्तमतानि पुनर्विकल्पोपन्यासेन दूषयति- अपि च काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयोर्व्यासक्तम्? प्रत्येकपर्याप्तं वा? नाद्यः, 'एको न द्वौ' इति व्यवहारस्येव 'श्लोकवाक्यं न काव्यम्' इति व्यवहारस्यापत्तेः। न द्वितीयः, एकस्मिन् काव्ये काव्यद्वयव्यवहारापत्तेः। पर्यवसितं निगमयति- तस्माद्वेदशास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता। इत्थं मम्मटभट्टोक्तकाव्यलक्षणघटकं विशेष्यदलं निरस्य विशेषणदलमपि निरसितु- मुपक्रमते- लक्षणे गुणालङ्कारादिनिवेशोऽपि न युक्तः, 'उदितं मण्डलं विधोः' इति काव्ये
इत्यादौ चाव्याप्त्यापत्तेः। पुनराशङ्क्य समादधाति- न चेदमकाव्यमिति शक्यं वदितुम्, काव्यतया पराभिमतस्यापि तथा वक्तुं शक्यत्वात्। काव्यजीवितं चमत्कारित्वं चाविशिष्टमेव। गुणत्वालङ्कारत्वादे-रननुगमाच्च। दुष्टं काव्यं इति व्यवहारस्य बाधकं विना लाक्षणिकत्वायोगाच्च। प्राचीनमतेन पुनराशङ्क्य निराकरोति- न च संयोगाभाववान्वृक्षः संयोगीतिवदंशभेदेन दोषरहितं दुष्टिमिति व्यवहारे बाधकं नास्तीति वाच्यम्। 'मूले महीरुहो विहंगमसंयोगी, न शाखायाम्' इति प्रतीतेरिवेदं पद्यं पूर्वार्धे काव्यमुत्तरार्धे तु न काव्यमिति स्वरसवाहिनो विश्वजनीनानुभवस्य विरहादव्याप्यवृत्तिताया अपि तस्यायोगात्। शौर्यादिवदात्मधर्माणां गुणानां, हारादिवदुपस्कारकाणामलङ्काराणां च शरीरघटकत्वानुपपत्तेश्च। पर्यन्ते विश्वनाथकृतं काव्यलक्षणमाक्षिपति- यत्तु 'रसवदेव काव्यम्' इति साहित्यदर्पणे निर्णीतम्, तन्न। वस्त्वलङ्कारप्रधानानां काव्यानामकाव्यत्वापत्तेः। न चेष्टापत्तिः। महाकविसम्प्रदायस्याकुलीभावप्रसङ्गात्। तथा च
Page 5
5 जलप्रवाहवेगनिपतनोत्पतनभ्रमणानि कविभिर्वर्णितानि, कपिबालादिविलसितानि च। न च तत्रापि कथञ्चित्परम्परया रसस्पर्शोऽस्त्येवेति वाच्यम्। ईदृशरसस्पर्शस्य 'गौश्चलति', 'मृगो धावति' इत्यादावतिप्रसक्तत्वेनाप्रयोजकत्वात्। अर्थमात्रस्य विभावानुभावव्यभिचार्यन्यतमत्वादिति दिक्। इत्थं काव्यस्य लक्षणं निरूप्य कारणं निरूपयति- तस्य च कारणं कविगता केवला प्रतिभा। सा च काव्यघटनानुकूलशब्दार्थोपस्थितिः। तद्गतं च प्रतिभात्वं काव्यकारणतावच्छेदकतया सिद्धो जातिविशेष उपाधिरूपं वा खण्डम्। काव्यकारणीभूतायाः प्रतिभायाः कारणमाह- तस्याश्च हेतु: क्वचिद्देवतामहापुरुषप्रसादादिजन्यमदृष्टम्। क्वचिच्च विलक्षणव्युत्पत्तिकाव्यकरणाभ्यासौ। अद्ष्टादीनां स्वातन्त्र्येण प्रतिभां प्रति कारणत्वं व्यवस्थापयति- न तु त्रयमेव। बालादेस्तौ विनापि केवलान्महापुरुषप्रसादादपि प्रतिभोत्पत्तेः। दर्शितस्य व्यभिचारस्य वारणमाशङ्क्य निरस्यति- न च तन्न तयोर्जन्मान्तरीययोः कल्पनं वाच्यम्। गौरवान्मानाभावात्कार्यस्यान्यथाप्युपपत्तेश्च। उत्तरपक्षस्याशयं विवृणोति- लोके हि बलवता प्रमाणेनागमादिना सति कारणतानिर्णये पश्चादुपस्थितस्य व्यभिचारस्य वारणाय जन्मान्तरीयमन्यथाऽनुपपत्त्या कारणं धर्माधर्मादि कल्प्यते। अन्यथा तु व्यभिचारोपस्थित्या पूर्ववृत्तकारणतानिर्णये भ्रमत्वप्रतिपत्तिरेव जायते। तत्र मतान्तरं निराकरोति- नापि केवलमदृष्टमेव कारणमित्यपि शक्यं वदितुम्। कियन्तञ्चित् कालं काव्यं कर्तुमशक्नुवतः कथमपि सञ्जातयोर्व्युत्पत्त्यभ्यासयोः प्रतिभायाः प्रादुर्भावस्य दर्शनात्। तत्राप्याशङ्गां खण्डयति- तन्राप्यदृष्टस्याङ्गीकारे प्रागपि ताभ्यां तस्याः प्रसक्तेः। भूयोऽत्राभिनिवेशिनो मतमुपन्यस्य निरस्यति- न च तत्र प्रतिभायाः प्रतिबन्धकमदृष्टान्तरं कल्प्यमिति वाच्यम्। तादृशानेकस्थलगतादृष्टद्वयकल्पनापेक्षया क्लृप्तव्युत्पत्त्यभ्यासयोरेव प्रतिभाहेतुत्वकल्पने
Page 6
6 लाघवात्। अतः प्रागुक्तसरणिरेव ज्यायसी। नन्वेवमप्यदृष्टमात्रोत्पन्नप्रतिभास्थले व्युत्पत्त्यभ्यासरूपतत्कारणाभावेऽपि प्रतिभा- लक्षणकार्योत्पत्तिदर्शनाद् व्यतिरेकव्यभिचारः स्यादेवेत्यत आह- तादृशादृष्टस्य तादृशव्युत्पत्त्यभ्यासयोश्च प्रतिभागतं वैलक्षण्यं कार्यतावच्छेदकम्, अतो न व्यभिचारः । नन्वथापि भिन्नयोर्द्वयोः प्रतिभयोर्द्वे काव्ये प्रति पृथक्कारणत्वे मिथो व्यभिचार आपतेदेवेत्याचष्टे- प्रतिभात्वं च कवितायाः कारणताऽवच्छेदकम्, प्रतिभागतवैलक्षण्यमेव वा विलक्षणकाव्यं प्रतीति नात्रापि सः। अथ पूर्वकार्यकारणभावे व्यभिचारमापाद्यापनुदति- न च सतोरपि व्युत्पत्त्यभ्यासयोर्यत्र न प्रतिभोत्पत्तिः, तत्रान्वयव्यभिचार इति वाच्यम्, तत्र तयोस्तादृशवैलक्षण्ये मानाभावेन कारणताऽवच्छेदकानव-च्छिन्नत्वात्। ननु व्युत्पत्त्यभ्यासनिष्ठं वैलक्षण्यमदृष्टासहकृतमेव वक्तव्यम्, तच्चात्र तयोरस्त्येवेति कुतो व्यभिचार इत्यरुचे: पक्षान्तरमुपादत्ते। पापविशेषस्य तत्र प्रतिबन्धकत्वकल्पनाद्वा न दोषः। ननु तर्हि प्रतिबन्धकादृष्टाभावस्य कारणताकल्पनादेव गौरवमित्यत आह- प्रतिबन्धकाभावस्य च कारणता समुदितशक्त्यादित्रयहेतुतावादिनः शक्तिमात्रहेतुतावादिनश्चाविशिष्टा। हेतुप्रदर्शनेनोक्तमर्थं द्रढयति- प्रतिवादिना मन्त्रादिभि: कृते कतिपयदिवसव्यापिनि वाक्स्तम्भे विहिता- नेकप्रबन्धस्यापि कवेः काव्यानुदयस्य दर्शनात्। इत्थं काव्यस्य कारणं निरूप्य प्रकारान् व्याहरति- तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा। तत्र प्रथमं प्रकारं सूत्रेण लक्षयति- शब्दार्थौ यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यङ्क्तस्तदाद्यम् ।।२।। लक्षणघटकपदकृत्यमभिदधाति- कमपीति-चमत्कृतिभूमिम्, तेनातिगूढस्फुटव्यङ््ययोर्निरासः। अपराङ्ग- वाच्यसिद्ध्यङ्गव्यङ्ग्यस्यापि चमत्कारितया तद्वारणाय-गुणीभावितात्मानाविति स्वापेक्षया
Page 7
7 व्यङ्ग्यप्राधान्याभिप्रायकम्। प्रतिज्ञाऽनुरूपं स्वीयपद्यमुदाहरति- उदाहरणम्- कश्चिन्नववधूवृत्तान्तं वर्णयति- 'शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान्। दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते॥ अन्र व्यङ्ग्यं निर्दिशति- अत्रालम्बनस्य नायकस्य, सविधशयनाक्षिप्तस्य रहःस्थानादेरुद्दीपनस्य च विभावस्य, तादृशनिरीक्षणादेरनुभावस्य, त्रपौत्सुक्यादेश्च, व्यभिचारिणः संयोगाद् रतिरभिव्यज्यते। नन्वालम्बनादीनि तत्र किंस्वरूपाणीत्याकाङक्षायामाह - आलम्बनादीनां स्वरूपं वक्ष्यते। अत्र नायिकेच्छाविशेषस्यैव प्रधानव्यङ्ग्यतामाशङ्क्य परिहरति- न च 'यद्यय' शयितः स्यात्, तदाऽस्याननं चुम्बेयम् इति नायिकेच्छाया एव व्यङ्ग्यत्वमत्रेति वाच्यम्, मनोरथान् सफलीकर्तुमसमर्था' इत्यनेन मनोरथाः सर्वेऽस्या हृदि तिष्ठन्तीति प्रतीतेः, स्वशब्देन मनोरथपदेन मनोरथत्वाकारेण तादृशेच्छाया अपि निवेदनात्। पुनराशङ्क्य समाधत्ते- न च मनोरथपदेन मनोरथत्वाकारेण सामन्येच्छाया अभिधानेऽपि, 'चुम्बेयम्' इति विषयविशेषविशिष्टेच्छात्वेन व्यङ्ग्यत्वं किं बाधकमिति वाच्यम्, चमत्कारो न स्यादित्यस्यैव बाधकत्वात्। व्यङ्ग्यस्य हि प्रकारान्तरेणापि वाच्यत्वे चमत्कारोत्कर्षाजननेन गुणीभावान्न प्राधान्यमिति भाव: । तदेवाह- नहि विशेषाकारेण व्यङ्ग्योऽपि सामान्याकारेणाभिहिताऽर्थः सहृदयानां चमत्कृतिमुत्पादयितुमीष्टे, कथमपि वाच्यवृत्त्यनालिङ्गितस्यैव व्यङ्ग्यस्य चमत्कारित्वेनालङ्कारिकै: स्वीकारात्। ननु कथमपि वाच्यवृत्त्यनालिङ्गितस्यैव व्यङ्ग्यस्य चमत्कारोत्पादकत्वाभ्युपगमे यदेवोच्यते, तदेव व्यङ्ग्यम्। यथा तु व्यङ्ग्यम्, न तथोच्यते।' इति मम्मटभट्टोक्तेः पर्यायोक्तालङ्कारे
Page 8
8 वाच्यस्यैव व्यङ्ग्यत्वे चमत्कारिताऽनुपपत्तिरित्यरुचे: पूर्वोक्तखण्डनस्य हेत्वन्तरं व्याहरति- चुम्बनेच्छाया रत्यनुभावतयैव सुन्दरत्वेन तदव्यञ्जने 'चुम्बेयम्' इति शब्दबलाच्चुम्बनेच्छावदचमत्कारित्वाच्च। इत्थमिच्छायाः प्रधानव्यङ्ग्यतां निरस्य लज्जाया अपि परेणाशड्क्यमानां तां निराकरोति- एवं त्रपाया अपि न प्राधान्येन व्यङ्ग्यत्वम्, अनुवाद्यताऽवच्छेदकतया प्रतीतायां तस्यां मुख्यवाक्यार्थत्वायोगात्। पुनरपरथाऽशङ्कां समादधति- न च दरमीलन्नयनात्वविशिष्टनिरीक्षणं विधेयमिति नानुवद्यताऽवच्छेदकत्वं तस्या इति वाच्यम्, एवमपि नयनगतदरमीलनस्य तत्कार्यत्वेऽपि दरमीलन्नयनात्वविशिष्टनिरीक्षणस्य रतिमात्रकार्यत्वात्। ननु मीलन्नयनात्वमात्रमत्र विधेयमास्ताम्, तथा च समग्रविधेयदलव्यङ्ग्यतया त्रपायाः प्राधान्यमक्षतमेवेत्याशङ्कां निराकरोति- त्रपाया एव मुख्यत्वेन व्यङ्ग्यत्वे निरीक्षणोक्तेरनतिप्रयोजनकत्वापत्तेः। ननु विधेयकोटौ विशेष्यविशेषणभावं विपर्यस्य निरीक्षणविशिष्टेषन्मीलन्नयनात्वमेव विधेयीकरणीयम्, तथा चेह विधेयविशेष्यांशव्यङ्ग्यत्वेन त्रपायाः प्राधान्यं स्यादेवेत्याशङ्गां निरस्यति- वाच्यवृत्त्या रतेरनुभावे निरीक्षणे त्रपाया अनुभावस्य दरमीलनस्येव, व्यञ्जनया तस्यां तस्या अपि गुणीभावप्रत्ययौचित्यात्। व्युत्पत्तिनिमित्तं किञ्चिद्विलक्षणमुदाहरणान्तरं दर्शयति- यथा वा- उत्तमोत्तमकाव्यस्योदाहरणमिति योजना। नायको वयस्यं व्याहरति, स्वयं वा विमृशति- 'गुरुमध्यगता मया नताङ्गी, निहता नीरजकोरकेण मन्दम्। दरकुण्डलताण्डवं नतभ्रूलतिकं मामवलोक्य घूर्णिताऽडसीत्॥।' तदेवाचष्टे- अन्न 'घूर्णिताऽडसीत्' इत्यनेन 'असमीक्ष्यकारिन्! किमिदमनुचितं कृतवानसि' इत्यर्थसंवलितोऽमर्षश्चर्वणाविश्रान्तिधामत्वात् प्राधान्येन व्यज्यते। तत्र शब्दोऽर्थश्च गुणः।
Page 9
9 पुनः किञ्चिद्विलक्षणमुदाहरणान्तरं दर्शयति- यथा वा- अचिरप्रवत्स्यत्पतिकनवोढवधूवृत्तं कश्चिद् वक्ति- 'तल्पगताऽपि च सुतनुः श्वासासङ्गं न या सेहे। सम्प्रति सा हृदयगतं प्रियपाणिं मन्दमाक्षिपति॥' उदाहरणमिदं विवरीतुमवतरणिकां भणति- इदञ्च पद्यं मन्निर्मितप्रबन्धगतत्वेन पूर्वसाकाङ्क्षमिति दिङ्मात्रेण व्याख्यायते- व्याख्यानमेव निर्दिशति- या नववधू: पल्यङ्कशयिता श्वासस्यासङ्गमात्रेणापि सङ्कचदङ्गलतिकाऽभूत्, सा, सम्प्रति प्रस्थानपूर्वरजन्यां प्रवत्स्यत्पतिका प्रियेण सशङ्केन समर्पितं हृदि पाणिं नववधूजातिस्वाभाव्यादाक्षिपति, परन्तु मन्दम्। उपादानसङ्गतये व्यङ्ग्यं प्रकटयति- अत्र शनैः स्वस्थानप्रापणात्मना मन्दाक्षेपेण रत्याख्यः स्थायी संलक्ष्यक्रमतया व्यज्यते। ननु रत्यादीनां स्थायिनामन्यत्र सर्वैरसंलक्ष्यक्रमव्यङ्गताया एव व्यवस्थापनादिह रतेः संलक्ष्यक्रमतया व्यङ्ग्यत्वमसङ्गतमित्यतोऽभिदधाति- उपपादयिष्यते च स्थाय्यादीनामपि संलक्ष्यक्रमव्यङ्ग्यत्वम्। अस्य काव्यप्रकारस्य स्वकपोलकल्पितत्वं परिहर्तु प्राचीनमतसंवादं दर्शयति- अमुमेव च प्रभेदं ध्वनिमामनन्ति। अथ 'निश्शेषच्युतचन्दनम्' इत्यादिपद्ये ध्वनित्वस्थापनार्थमप्पय्यदीक्षितावलम्बितं व्याख्यानपद्धतिं दूषयितुमुपपादयति- यत्तु 'चित्रमीमांसायामप्पय्यदीक्षितैः'निश्शेषच्युतचन्दनम्' इति पद्यं ध्वन्युदाहरणप्रसङ्गे व्याख्यातम्-'उत्तरीयकर्षणेन चन्दनच्युतिरित्यन्यथा-सिद्धिपरिहाराय निश्शेषग्रहणम्। ततश्चन्दनच्युतेः स्नानसाधारण्यव्यावर्त्तनेन सम्भोगचिह्नोद्घाटनाय तटग्रहणम्। स्नाने हि सर्वत्र चन्दनच्युतिः स्यात्, तव तु स्तनयोस्तट उपरिभाग एव दृश्यते इयमाश्लेषकृतैव। तथा 'निर्मृष्टरागोऽधरः' इत्यत्र ताम्बूलग्रहणविलम्बात् प्राचीनरागस्य किञ्चिन्मृष्टतेत्यन्यथासिद्धिपरिहाराय 'निर्मृष्टरागः' इति रागस्य निश्शेषमृष्टतोक्ता। पुनः स्नानसाधारण्यव्यावर्तनेन सम्भोगचिह्रोद्घाटनाय 'अधरः' इति विशेष्यग्रहणम्। 'उत्तरोष्ठे
Page 10
10 सरागेऽधरोष्ठमात्रस्य निर्मृष्टरागता चुम्बनकृतैव।' इत्यादिना 'इदमपि ध्वनेरुदाहरणम्।' इत्यन्तेन सन्दर्भेण 'तटादिघटिता वाक्यार्थाः स्नानव्यावृत्तिद्वारा सम्भोगाङ्गानामाश्लेषचुम्बनादीनां प्रतिपादनेन प्रधानव्यङ्ग्यव्यञ्जने साहायकमाचरन्ति।' इति। खण्डयति- तदेतदलङ्कारशास्त्रतत्त्वानवबोधनिबन्धनम्, प्राचीनसकलग्रन्थविरुद्ध- त्वादुपपत्तिविरोधाच्च। प्राचीनग्रन्थस्य काव्यप्रकाशस्य सन्दर्भविरोधं दर्शयितुमुपन्यस्यति- तथाहि पञ्चमोल्लासशेषे-'निश्शेषेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि, तानि कारणान्तरतोऽपि भवन्ति, यतश्चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानीत्यनैकान्तिकानि।' इति काव्यप्रकाशकृतोक्तम्। काव्यप्रकाशस्यैव पुनः स्थलान्तरं विरोधप्रकाशनार्थमुपादत्ते- तथा तत्रैव तेन- 'भम धम्मिअ! वीसत्थो सो सुणओ अज्ज मारिओ देण। गोलाणइकच्छनिकुडंगवासिणा दरिअसीहेण॥' इत्यादौ लिङ्गजलिङ्गिज्ञानरूपेणानुमानेन व्यक्तिं गतार्थयतो व्यक्ति-विवेककृतो मतं प्रत्याचक्षाणेन व्यभिचारित्वेनासिद्धत्वेन च सन्दिह्यमानादपि लिङ्गाद्व्यञ्जनमभ्युपगतम्। विरोधे ध्वनिकर्तुरपि मतसंवादं दर्शयति- इत्थमेव च ध्वनिकृताऽपि प्रथमोद्योते। तदेवाचष्टे- एवं च व्यञ्जकानां साधारण्यं प्रतिपादयतां प्रामाणिकानां ग्रन्थैः सहासाधारण्यं प्रतिपादयतस्तव ग्रन्थस्य विरोधः स्फुटः। ननु व्यञ्जकानां साधारण्येऽपि व्यञ्जनमभ्युपगच्छद्भिः प्राचीनग्रन्थकारैरसाधारण्ये तेषां तत् सुतरामभ्युपगतमेवेति व्यञ्जकासाधारण्य एव व्यञ्जनं प्रतिपादयतो मद्ग्रन्थस्य तद्ग्रन्थैः सह नास्ति विरोध इत्यतोऽरुचेरुपपत्तिविरोधलक्षणं दूषणान्तरं ऋ्रमेणोपपादयति- किञ्च यदिदं निश्शेषेत्याद्यवान्तरवाक्यार्थानां वापीस्नानव्यावृत्तिद्वारेण व्यङ्ग्यासाधारण्यं सम्पाद्यते, तत् किमर्थमिति पृच्छामः। व्यङ्ग्यस्य व्यञ्जनार्थमिति
Page 11
11 चेत्, न, व्यञ्जकगतासाधारण्यस्य व्यञ्जनानुपायत्वात्। तदेव व्यभिचारस्थलमुदाहरति- 'औण्णिद्दं दोब्वल्लं चिंता अलसत्तणं सणीससिअम्। मह मंदभाइणीए केरं सहि! तुह वि परिभवझ।।' प्रकृतोपादानमुपपादयति- इत्यादौ साधारणानामेवौन्निद्रयादीनां वक्र्त्रादिवैशिष्ट्यवशादर्थविशेषव्यञ्जकताया अभ्युपगतेः। नन्वसाधारण्यस्य व्यञ्जनानुपयोगित्वेऽपि क्वचित्पुनस्तस्य सति संभवे कथनं कथमसङ्गतमित्यरुचेर्दोषान्तरमाह- प्रत्युतासाधारण्यस्य व्याप्त्यपरपर्यायस्यानुमानानुकूलतया व्यक्तिप्रतिकूलत्वाच्च। व्यञ्जकासाधारण्यं पुनरपरथा निराकरोति- अथ तटादिघटितत्वेपि न निश्शेषेत्यादिवाक्यार्थानामसाधारण्यम्। सलिलार्द्रवसनकरणकप्रोञ्छनादिनाऽपि तत्संभवादिति चेत्तर्हि वापीस्नानव्यावर्तनेन कः पुरुषार्थः? एकत्रानैकान्तिकत्वस्येव बहुष्वनैकान्तिकताया अपि ज्ञाताया अनुमितिप्रतिकूलत्वाद् व्यक्त्यप्रतिकूलत्वाच्च। नन्विहैव श्लोके 'तदन्तिकमेव रन्तुं गताऽसीति प्राधान्येनाधमपदेन व्यज्यते' इत्येवकारघटितवाक्यमुल्लिखद्भिर्मम्मटभट्टैर्यदेव व्यञ्जकानामसाधारण्यं सूचितम्, तदेव मयाऽपि वापीस्नानव्यावर्तनमुखेनोक्तम्, न तु नूतनं किञ्जिदिति मनसि कृत्याभिधत्ते- अपि चात्र हि तदन्तिकमेव रन्तुं गतासीति व्यङ्ग्यशरीरे तदन्तिकगमनं रमणरूपफलांशश्चेति द्वयं घटकम्। तत्र तावत्तदन्तिकं गतांसीत्यंशस्य त्वन्मते व्यङ्ग्यत्वं दुरुपपादम्। त्वदुक्तरीत्या विशेषणवाक्यार्थानां निश्शेषेत्यादि प्रतिपाद्यानां वाच्यार्थे वापीस्नाने बाधितत्वाद्वाच्यकक्षागतप्रधानवाक्यार्थीभूतविधिनिषेधप्रतिपादकाभ्यां गता न गता' इति शब्दाभ्यां विरोधिलक्षणया निषेधस्य विधेश्च प्रतीतेरुपपत्तेः। ननु तदन्तिकगमनांशस्यात्र बाधितत्वेन लक्षणागम्यत्वेऽपि व्यञ्जनावेद्यत्वं कुतो नेत्यत आह- न हि मुख्यार्थबाधेनोन्मीलितेऽर्थे व्यक्तिवेद्यतोचिता। उदाहरणप्रदर्शनोक्तमर्थं द्रढयति- यथा- 'अहो पूर्णं सरो यत्र लुठन्तः स्नान्ति मानवाः' इत्यन्न
Page 12
12 कर्तृविशेषणानुपपत्त्यधीनोल्लासे पूर्णत्वाभावे। नन्वेवमपि कामुकोपभोगरूपस्य द्वितीयांशस्य व्यञ्जनाबोध्यत्वं त्वक्षतमेवेत्याक्षेपं समादधाति- अथ तदन्तिकगमनस्य लक्षणावेद्यत्वेऽपि रमणस्य फलांशस्य लक्ष्यशक्तिमूलध्वननवेद्यत्वमव्याहतमेवेति चेत्, 'अधमत्वमप्रकृष्टत्वं, तच्च जात्या कर्मणा वा भवति। तत्र जात्याऽपकर्षं नोत्तमनायिका नायकस्य, वदति' इत्यादिना सन्दर्भेण भवतैवार्थापत्ति वेद्यताया: स्फुटं वचनात्। ननु दूतीसम्भोगस्यार्थापत्तिवेद्यत्वेऽपि व्यञ्जनावेद्यत्वमपि स्यादिति को दोष इत्यत आचष्टे- अनन्यलभ्यस्य च शब्दार्थताया अस्वीकृतेः। नन्वार्थापत्तेर्व्यतिरेकव्याप्तिधियैव चारितार्थ्यात् प्रमाणान्तरत्वस्य तार्किकादिभिरनभ्युपगमाद् वृत्तित्वाभावच्चात्र सम्भोगस्य तद्वेद्यत्वेऽपि व्यञ्जनावेद्यत्वं निर्बाधमेवेत्याशङ्कामभ्युपगम्य प्रकारन्तरेण निरस्यति- अपि च यथाकथञ्चिदङ्गीकुरु वाऽन्र व्यञ्जनाव्यापारं, तथापि न तवेष्टसिद्धिः। वाच्यानां निश्शेषच्युतचन्दनस्तनतटत्वादीनामधमत्वस्य च त्वदुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूतीसंभोगमात्रनिष्पाद्यत्वेन गुणीभूतव्यङ्यत्वप्रसङ्गात्। उपसंहरति- एवं चोपपत्तिविरोधोऽपि स्फुटतर एव। इत्थमन्राप्पय्यदीक्षितदर्शितदिशा सम्भोगस्य व्यङ्ग्यत्वमपास्य काव्यप्रकाशाद्यनुरोध-परवशः स्वमतेन पुनरपरथा स्थापयितुमुपक्रमते- तस्माद् वाच्यार्थसाधारण्यमेवोचितमतिविदग्धनायिकानिरूपितानां विशेषणवाक्यार्थानाम्। न हि विदग्धा नायिका स्फुटतरं वक्तुं शक्नुयाद्रहस्यमिति वाच्यव्यङ्ग्योभयसाधारण्यमेवोचितं विशेषणवाक्यार्थानामिति सारम् सम्भोगस्य व्यड्ग्यत्वोपपत्तये स्वयं तत्पद्यं विवृणोति- तथा हि- 'अयि बान्धवजनस्याज्ञातपीडागमे ! स्वार्थपरायणे ! स्नानकालातिक्रमभयवशेन नदीमदीयप्रिययोरन्तिकमगत्वैव वापीं स्नातुमितो मदन्तिकात् गताऽसि, न पुनस्तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम्। यतो
Page 13
13 निश्शेषच्युतचन्दनं, स्तनयोस्तटमेव नोरःस्थलम्, वापीगतबहुलयुवजन- त्रपापारवश्यादंसद्वयलग्नाग्र-स्वस्तिकीकृत-भुजलतायुगलेन तटस्यैवोन्नततया मुहुरामर्शात्। एवं त्वरया सम्यगक्षालनेनोत्तरोष्ठो न निर्मृष्टरागः, अधरस्तु तदपेक्षया गण्डूषजल-रदनशोधनाङ्गल्यादीनामधिकसम्मर्दमावहतीति तथा। किं च - सम्यगक्षालनेन नेत्रे जलमात्रसंसर्गात् दूरमुपरिभाग एवानञ्जने। शीतवशात् तानवाच्च तव तनुः पुलकिता, इति। एवं तस्या विदग्धाया गूढतात्पर्यैवोक्तिरुचिता, अन्यथा वैदग्ध्यभङ्गापत्तेः। एवं साधारणेष्वेषु वाक्यार्थे बाधाभावात् तात्पर्यार्थस्य झटित्यनाकलनात् कुतोऽन्र लक्षणाऽवकाशः। अनन्तरं च वाक्यार्थप्रतिपत्तेर्वक्तृबोद्धव्यनायकादीनां वैशिष्ट्यस्य प्रतीतौ सत्यामधमपदेन स्वप्रवृत्तिप्रयोजको दुःखदातृत्वरूपो धर्मः साधारणात्मा वाच्यार्थदशायापराधान्तर-निमित्तक-दुःखदातृत्वरूपेण स्थितो व्यञ्जनाव्यापारेण दूतीसम्भोगनिमित्तक-दुःखदातृत्वाकारेण पर्यवस्यतीत्यालङ्कारिकसिद्धान्तनिष्कर्षः। पूर्वोक्तनीत्यैव पुनरप्पय्यदीक्षितोक्तमधमपदार्थव्याख्यानमपि दूषयति- एतेन-'अधमत्वमप्रकृष्टत्वम्, तच्च जात्या कर्मणा वा भवति। तत्र जात्याऽपकर्षं नोत्तमनायिका नायकस्य वक्ति। नापि स्वापराधपर्यवसायि-दूतीस-म्भोगातिरिक्तेन कर्मणा। तादृशं च दूतीसम्प्रेषणात् प्राचीनं सोढमेवेति नोद्धाटनार्ह मितीतरव्यावृत्त्या सम्भोगरूपमेव पर्यवस्यति।' इति यदुक्तम्, तदपि निरस्तम्, विदग्धोत्तमनायिकायाः सखीसमक्षं तदुपभोगरूपस्य स्वनायकापराधस्य स्फुटं प्रकाशयितुमतितमामनौचित्येन प्राचीनानामेव सोढानामप्यपराधानामसह्यतया दूतीं प्रति प्रतिपिपादयिषितत्वादिति दिक्। एवं प्रथमं प्रकारमुत्तमोत्तमं निरूप्य द्वितीयमुत्तमं लक्षयति- यत्र व्यङ्ग्यमप्रधानमेव सच्चमत्कारकारणं तद् द्वितीयम्। लक्षणवाक्य एवकारनिवेशस्य फलमाह- वाच्यापेक्षया प्रधानीभूतं व्यङ्ग्यान्तरमादाय गुणीभूतं व्यङ्ग्यमादायातिव्याप्तिवारणायावधारणम्। तेन तस्य ध्वनित्वमेव। चमत्कारकारणमिति निवेशस्य प्रयोजनं प्रतिपादयति- लीनव्यङ्ग्य-वाच्यचित्रातिप्रसङ्गवारणाय चमत्कारेत्यादि। गुणीभूतव्यंग्य-प्रसङ्गसङ्गत्या भट्टमम्मटकृततल्लक्षणे व्याख्यातृनिवेशितं चित्रान्यत्वं निराकरोति-
Page 14
14 यत्तु-'अतादृशि गुणीभूतव्यङ्ग्यम्' इत्यादिकाव्यप्रकाशगतलक्षणे चित्रान्यत्वं टीकाकारैर्दत्तम्, तन्न, पर्यायोक्ति-समासोक्त्यादिप्रधानकाव्येष्वव्याप्त्यापत्तेः। तेषां गुणीभूतव्यङ्यतायाश्चित्रतायाश्च सर्वालङ्कारिकसम्मतत्वात्। द्वितीयं काव्यमुदाहरति- उदाहरणम्- वैदेहीविरहसन्तापं वनवासिनो रामचन्द्रस्य कश्चिद् वर्णयति- 'राघवविरह ज्वालासंतापितसह्यशैलशिखरेषु। शिशिरे सुखं शयाना: कपयः कुप्यन्ति पवनतनयाय ॥' इति। तदाह- अत्र जानकीकुशलावेदनेन राघवः शिशिरीकृत इति व्यङ्ग्यमाकस्मिककपिकर्तृकहनुमद्विषयककोपोपपादकतया गुणीभूतमपि, दुर्दैववशतो दास्यमनुभवद्राजकलत्रमिव कामपि कमनीयतामावहति। 'तल्पगताऽपि च सुतनुः' इत्यादिप्रागुक्तप्रथमकाव्योदाहरणे द्वितीयकाव्योदाहरणतामाशङ्क्य समादधाति- नन्वेवं प्रागुक्तमाक्षेपगतं मान्द्मपि नववधूप्रकृतिविरोधादनुपपद्यमानं व्यङ्ग्येनैवोपपद्यत इति कथमुत्तमोत्तमता तस्येति चेत्, न, यतो ह्यनुदिनसख्युपदेशादिभिरनतिचमत्कारिभिरप्युपपद्यमानं मान्दमिदं प्रथमचित्तचुम्बिनीं विप्रलम्भरतिमप्रकाशयन्न प्रभवति स्वातन्त्र्येण परनिर्वृतिचर्वणागोचरतामाधातुम्। तुल्यन्यायादाचष्टे- इत्थं 'निश्शेषच्युतचन्दनम्' इत्यादिपद्येष्वधमत्वादीनि वाच्यानि व्यङ्ग्यातिरिक्तेनार्थेनापाततो निष्पन्नशरीराणि व्यञ्जकानीति न तत्रापि गुणीभावः शङ्कनीयः । अधमत्वस्य वाच्यस्योपपत्तिर्यथा व्यङ्ग्येन दुःखजनकेन दूतीसम्भोगेन विधीयते, तथैव वाच्यार्थप्रत्ययावसरेऽपराधान्तरेणापि विधातुं शक्यत इत्यन्यथाऽनुपपत्तिवैधुर्याद् दूतीसम्भोगरूपप्रधानव्यङ्ग्यस्य न वाच्याङ्गत्वमिति भावः । ननु व्यङ्ग्यस्य चमत्कारितायास्तुल्यतया काव्यप्रथम-द्वितीयप्रकारयोर्भेदः कुतः स्वीक्रियत इत्याशङ्कायां ब्रवीति- अनयोर्भेदयोरनपह्नवनीयचमत्कारयोरपि प्राधान्याप्राधान्याभ्यमस्ति कश्चित् सहृदयवेद्यो
Page 15
15 विशेषः। 'प्रहरविरतौ' इत्यादावप्पय्यदीक्षितप्रतिपादितं गुणीभूतव्यङ्ग्यत्वं निरस्यति- यत्तु चित्रमीमांसाकृतोक्तम्। बालाप्रियस्य प्रवासनिवृत्तिकारणं कश्चिद् व्याहरति- 'प्रहरविरतौ मध्ये वाऽह्स्ततोऽपि परेण वा, किमुत सकले याते वाऽहि प्रिय त्वमिहैष्यसि। इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालाऽडलापैः सबाष्पगलज्जलैः ॥' इति। तदाह- अत्र सकलमहः परमावधिस्ततः परं प्राणान् धारयितुं न शक्नोमीति व्यङ्ग्यं प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गमतो गुणीभूतव्यङ्ग्यमिति, तन्न, सबाष्पगलज्जलानां 'प्रहरविरता' वित्याद्यालापानामेव प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गतया व्यङ्ग्यस्य गुणीभावाभावात्। 'आलापै' रिति तृतीयया प्रकृत्यर्थस्य हरणक्रियाकरणतायाः स्फुट प्रतिपत्तेः। पुनराशङ्क्य समाधत्ते न च व्यङ्ग्यस्यापि वाच्यसिद्ध्यङ्गताऽन्र सम्भवतीति तथोक्तमिति वाच्यम्, 'निश्शेषच्युतचन्दनम्' इत्यादाविवाधमत्वरूपवाच्यसिद्ध्यङ्गताया दूतीसम्भोगादौ सम्भ्वाद् गुणीभावापत्तेः। ननु नायिकायास्तादृशालापा नायकस्य गमनोत्तरं विदेशे चिरस्थितेर्निवारकत्वेनापि कृतकृत्या भवितुं शक्नुवन्तीति पूर्वोक्तवाच्योपपादनसामर्थ्यमिह व्यंग्यस्यैव, न तु वाच्यस्यापीति गुणीभूतव्यंग्यत्वमभ्युपगत्य प्रकारान्तरेण ध्वनित्वं व्यवस्थापयति- अस्तु वा 'ततः परं प्राणान् धारयितुं न शक्नोमि' इति व्यङ्ग्य य वाच्यसिद्ध्यङ्गतया गुणीभावः, तथाऽपि नायकादेर्विभावस्य, बाष्पादेरनुभावस्य, चित्तावेगादेश्च सञ्चारिणः संयोगादभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत्। अथ तृतीयप्रकारं मध्यमकाव्यं लक्षयति- यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो वाच्यचमत्कारस्तत्तृतीयम्। मध्यमं काव्यमुदाहरति- यथा यमुनावर्णने-'तनयमैनाकगवेषणलम्बीकृत-जलधिजठरप्रविष्ट-हिम-
Page 16
16 गिरिभुजायमानाया भगवत्या भागीरथ्याः सखी' इति। तदाह- अत्रोत्प्रेक्षा वाच्यैव चमत्कृतिहेतुः। श्वैत्य-पातालतलचुम्बित्वादीनां चमत्कारो लेशतया सन्नप्युत्प्रेक्षाचमत्कृतिजठरनिलीनो नागरिकेतरनायिकाकल्पितकाश्मीरद्रवाङ्गरागनिगीर्णो निजाङ्गगौरिमेव प्रतीयते। सर्वथा व्यङ्ग्यासद्भावनिवेशाभावावबीजमुपपादयति- न तादृशोऽस्ति कोऽपि वाच्यार्थो यो मनागनामृष्टप्रतीयमान एव स्वतो रमणीयतामाधातुं प्रभवति। नन्वलङ्कारप्रधानानि काव्यान्येतेषु प्रभेदेषु क्वान्तर्भवन्तीत्याकाङक्षायामभिदधाति- अनयोरेव द्वितीयतृतीयभेदयोर्जागरूकाजागरूकगुणीभूतव्यङ्ग्ययोः प्रविष्टं निखिलमलङ्कारप्रधानं काव्यम्। अथ चतुर्थं प्रकारं काव्यस्य लक्षयति - यत्रार्थचमक्तृत्युपस्कृता शब्दचमत्कृतिः प्रधानं, तदधमं चतुर्थम्। चतुर्थकाव्यमुदाहरति- यथा- भक्तः कश्चिद भगवन्तं स्तौति- 'मित्रात्रिपुत्न्ननेत्राय, त्रयीशात्रवशत्रवे। गोत्नारिगोन्नजन्नाय, गोन्नात्रे ते नमो नमः ॥' इति। तदाह- अत्रार्थचमत्कृतिः शब्दचमत्कृतौ लीना। न्यायप्राप्तस्य काव्यपञ्चमप्रकारनिरूपणस्याकरणान्न्यूनतामापादयति- यद्यपि यत्रार्थचमत्कृतिसामान्यशून्या शब्दचमत्कृतिस्तत् पञ्चममधमाधममपि काव्यविधासु गणयितुमुचितम् । यथैकाक्षर-पद्यार्धावृत्तियमक-पद्मबन्धादि। समादधाति- तथाऽपि रमणीयार्थप्रतिपादकशब्दतारूप-काव्यसामान्यलक्षणानाक्रान्ततया वस्तुतः काव्यत्वाभावेन, महाकविभि: प्राचीनपरम्परामनुरुन्धानैस्तन्र तत्र काव्येषु निबद्धमपि नास्माभिर्गणितम्, वस्तुस्थितेरेवानुरोध्यत्वात्। मम्मटादिसम्मतं काव्यस्य त्रिप्रकारत्वमात्रं निराकर्तुमुपक्रमते-
Page 17
17 केचिदिमानपि चतुरो भेदानगणयन्त उत्तममध्यमाधमभावेन त्रिविधमेव काव्यमाचक्षते। निराकरोति- तत्रार्थचित्र-शब्दचित्रयोरविशेषेणाधमत्वमयुक्तं वक्तुम्, तारतम्यस्य स्फुटमुपलब्धेः
पूर्वोक्तामयुक्तिमुपपादयति- को ह्वेवं सहृदयः सन् 'विनिर्गतं मानदमात्ममन्दिरात्', 'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादिभि: काव्यैः 'स्वच्छन्दोच्छलद्-'इत्यादीनां पामरश्लाघ्यानामविशेषं ब्रूयात् । सत्यपि तारतम्ये यद्येकभेदत्वं कस्तर्हि ध्वनिगुणीभूतव्यङ्ग्ययोरीषदन्तरयोर्विभिन्नभेदत्वे दुराग्रहः। ननु यत्र लक्ष्ये शब्दचमत्कृतिरर्थचमत्कृतिश्च सहैव तिष्ठतः, तस्यातिरिक्तप्रकारत्वं स्यादिति चेत्, न तयोश्चमत्कृत्योः सामानाधिकरण्येऽपि सूक्ष्मेक्षिकया क्वचिदेकस्याः प्राधान्यमपरस्या अप्राधान्यं लक्षितं स्यादेव । ततश्च पूर्वोक्तलक्षणानुसारमर्थचमत्कृतेः सूक्ष्मेऽपि प्राधान्ये मध्यमकाव्यत्वम्, शब्दचमत्कृतेः प्राधान्येऽधमकाव्यत्वं व्यपदेश्यमित्याह- यत्र च शब्दार्थचमत्कृत्योरैकाधिकरण्यम्, तत्र तयोर्गुणप्रधानभावं पर्यालोच्य यथालक्षणं व्यवहर्तव्यम्। ननु यत्र सूक्ष्मेक्षिकायामपि द्वयोरर्थ-शब्दचमत्कृत्योस्तुल्यमेव, (न त्वेकस्याः कस्याश्चिन्न्यूनमधिकं वा) प्राधान्यं स्यात्, तत्र का गतिरित्याकाङ्क्षायामाख्याति- समप्राधान्ये तु मध्यमतैव। चमत्कृतिद्वयतुल्यप्राधान्यमुदाहरति- यथा- कविरुदितं भानुमन्तं वर्णयति- 'उल्लास: फुल्लपङ्केरुहपटलपतन्मत्तपुष्पन्धयानां, निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम्। उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः, सङ्गातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥' तदेवाह-
Page 18
18 अन्न वृत्त्यनुप्रासप्राचुर्यादोजोगुणप्रकाशकत्वाच्च, शब्दस्य, प्रसादगुणयोगादनन्तरमेवाधिगतस्य रूपकस्य हेत्वलङ्कारस्य वा वाच्यस्य, चमत्कृत्योस्तुल्यस्कन्धत्वात् सममेव प्राधान्यम्। अथ रसध्वनिलक्षणाय समासेन ध्वनिप्रकारान् निर्देष्टुमवतरणमभिदधाति- तत्र ध्वनेरुत्तमोत्तमस्यासङ्ख्यभेदस्यापि सामान्यतः केऽपि भेदा निरूप्यन्ते- तानेव ध्वनिसामान्यभेदान् निरूपयति- द्विविधो ध्वनिः, अभिधामूलो लक्षणामूलश्च। तत्राद्यस्त्रिविधः-रस- वस्त्वलङ्कारध्वनिभेदात्। रसध्वनिरित्यसंलक्ष्यक्रमोपलक्षणाद् रस-भाव-तदाभास- भावशन्ति-भावोदय-भावसन्धि-भावशबलत्वानां ग्रहणम्। द्वितीयश्च द्विविध :- अर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्च। रसध्वनेः प्राधान्यं शब्देन बोधयन् स्वरूपस्य निरूपणमवतारयति- एवं पञ्चात्मके ध्वनौ परमरमणीयतया रसध्वनेस्तदात्मा रसस्तावदभिधीयते- प्रथममाचार्याभिनवगुप्तादिसम्मतं रसस्वरूपमाह- समुचित-ललित-सन्निवेशचारुणा काव्येन समर्पितैः, सहृदयहृदयं प्रविष्टैः, तदीयसहृदयतासहकृतेन, भावनाविशेषमहिम्ना,
शकुन्तलादिभिरालम्बनकारणैः, चन्द्रिकादिभिरुद्दीपनकारणैः, अश्रुपातादिभिः कार्यैः, चिन्तादिभि: सहकारिभिश्च, सम्भूय प्रादुर्भावितेनालौकिकेन व्यापारेण, तत्काल- निवर्तितानन्दांशावरणाज्ञानेनात एव प्रमुष्टपरिमितप्रमातृत्वादिनिजधर्मेण प्रमात्रा, स्वप्रकाशतया वास्तवेन, निजस्वरूपानन्देन सह गोचरीक्रियमाणः प्राग्विनिविष्टवासनारूपो रत्यादिरेव रसः। उक्तार्थस्य प्रामाणिकत्वं प्रकटयति- तथा चाहु :- 'व्यक्तः स तैर्विभावादयैः स्थायी भावो रसः स्मृतः।' इति। कारिकाघटक 'व्यक्त' पदं विवृणोति- व्यक्तो व्यक्तिविषयीकृतः । व्यक्तिरन्यत्र व्यञ्जनैव प्रसिद्धेति प्रकृतेऽपि तद्भ्रान्तेर्निरासार्थमाह- व्यक्तिश्च भग्नावरणा चित्। निदर्शनप्रदर्शनेनोक्तमर्थं समर्थयति-
Page 19
19 यथा हि शरावादिना पिहितो दीपस्तन्निवृत्तौ सन्निहितान् पदार्थान् प्रकाशयति, स्वयं च प्रकाशते, एवमात्मचैतन्यं विभावादिसंवलितान् रत्यादीन्। ननु 'मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम्' इति परिभाषितस्यान्तःकरणस्य ये धर्मा वासनारूपा रत्यादयः, ते साक्षादात्मना भासिता भवन्तु, ये तु घटपटादय इव विभावादयोऽन्तःकरणघर्मतो भिन्ना बाह्याः पदार्था अन्तःकरणसंयोगेन परम्परयाऽत्मना भासनीयाः, तेषां कथं साक्षादात्मभास्यत्वमित्त्याशङ्कायां व्याहरति- अन्तःकरणधर्माणां साक्षिभास्यत्वाभ्युपगतेः। तदेव दृष्टान्तद्वयदर्शनेन द्रढयति- विभावादीनामपि स्वप्नतुरगादीनामिव, रङ्गरजतादीनामिव, साक्षिभास्यत्वमविरुद्धम्। नन्वेवमात्मचैतन्याभिन्नत्वाङ्गीकारे रसस्य नित्यत्वे, 'उत्पन्नो रसः' 'विनष्टो रसः' इति सर्वानुभवगोचरौ तदुत्पत्तिविनाशौ कथमुपपादनीयाविति शङ्कां समादधाति- व्यञ्जकविभावादिचर्वणाया आवरणभङ्गस्य वोत्पत्तिविनाशाभ्यामुत्पत्तिविनाशौ रस उपचर्येते, वर्णनित्यतायामिव, व्यञ्जकताल्वादिव्यापारस्य गकारादौ। नन्वावरणभङ्गे जाते विभावादिचर्वणोपरतावपि, रत्यादिस्थायिनां कथं न तथाऽवभास इत्याक्षेपं क्षपयति- विभावादिचर्वणाऽवधित्वादावरणभङ्गस्य, निवृत्तायां तस्यां प्रकाशस्याऽऽवृतत्वाद् विद्यमानोऽपि स्थायी न प्रकाशते। मतेऽस्मिन् भावकत्वव्यापारोऽधिकः कल्पनीयो भवतीत्यरुचेर्लाघवाय पक्षान्तरमुपन्यस्यति- यद्वा-विभावादिचर्वणामहिम्ना सहृदयस्य निजसहृदयतावशोन्मिषितेन तत्तत्स्थाय्युपहित-स्वस्वरूपानन्दाकारा समाधाविव योगिनः चित्तवृत्तिरुपजायते, तन्मयीभवनमिति यावत्। नन्वस्यापि चित्तवृत्तिविशेषरूपस्यानन्दस्य लौकिकतया, लौकिक- स्रक्चन्दनाद्युपभोगजन्यसुखेभ्योऽविशेषो विशेषो वा? आद्ये तानि विहाय किमिति परीक्षकः सहृदयोऽस्मै प्रवर्त्तेत। द्वितीये को नाम स इत्याकाङ़क्षां मनसिकृत्याह- आनन्दो ह्ययं न लौकिकसुखान्तरसाधारणः, अनन्तःकरणवृत्तिरूपत्वात्। उपसंहरति-
Page 20
20 इत्थं चाभिनवगुप्त-मम्मटभट्टादिग्रन्थस्वारस्येन भग्नावरणा चिद्विशिष्टा रत्यादि: स्थायी भावो रस इति स्थितम्। नन्वेवं रसस्य रत्यादिस्थायिरूपतया चैतन्यभिन्नत्वे, चैतन्याभेदप्रतिपादिकाः 'रसो वै सः' इत्यादिश्रुतयो विरुध्यन्तीति सिद्धान्तमतमभिदधाति- वस्तुतस्तु वक्ष्यमाणश्रुतिस्वारस्येन रत्याद्यवच्छिन्ना भग्नावरणा चिदेव रसः। मतद्वयेऽपि रसस्य नित्यत्वं स्वप्रकाशत्वं न सिद्धमेवेति दर्शयति- सर्वथैव चास्य विशिष्टात्मनो विशेषणं विशेष्यं वा चिदंशमादाय, नित्यत्वं स्वप्रकाशत्वं च सिद्धम् । ननु यथा 'नित्यो रसः' 'स्वप्रकाशो रसः' इत्यादिव्यवहारा रसविषयका भवन्ति, तथैव 'उत्पन्नो रसः' विनष्टो रसः' 'इतरभास्यो रसः' इत्यादयोऽपि व्यवहारा ये भवन्ति, तेषां कथमुपपत्तिरिति पृच्छायां व्याहरति- रत्याद्यंशमादाय त्वनित्यत्वमितरभास्यत्वं च। 'चर्व्यमाणो रसः' इति प्राचीनव्यवहारोपपत्तये चर्वणां निरूपयति- चर्वणा चास्या चिद्गतावरणभङ्ग एव प्रागुक्ता, तदाकाराऽन्तःकरणवृत्तिर्वा। इदानीं रसचर्वणाया ब्रह्मास्वादाद् वैलक्षण्यं वर्णयति- इयं च परब्रह्मास्वादात् समाधेर्विलक्षणा, विभावादिविषयसंवलितचिदा नन्दालम्बनत्वात्। भाव्या च काव्यव्यापारमात्रात्। अथ रसचर्वणाया आनन्दमयत्वं वाकोवाक्येन व्यवस्थापयति- अथास्यां सुखांशभाने किं मानमिति चेत्, समाधावपि तद्भाने किं मानमिति पर्यनुयोगस्य तुल्यत्वात्। ननु नोभयोस्तुल्यता समाधौ सुखांशभाने शब्दप्रमाणस्य जागरूकत्वादित्याह- 'सुखमात्यन्तिकं यत् तद् बुद्धिग्राह्यमतीन्द्रियम्।' इत्यादिः शब्दोडस्ति तत्र मानमिति चेत्। रसचर्वणायामपि सुखांशभाने प्रमाणद्वयं दर्शयति- अस्त्यत्रापि 'रसो वै सः' 'रसं ह्येवायं लब्ध्वाऽडनन्दीभवति' इत्यादिश्रुतिः, सकलसहृदयप्रत्यक्षं चेति प्रमाणद्वयम्। अथ रसचर्वणायाः प्रसङ्गाच्छाब्दापरोक्षज्ञानात्मकत्वं व्यवस्थापयति- येयं द्वितीयपक्षे तदाकारचित्तवृत्त्यात्मिका रसचर्वणोपन्यस्ता, सा
Page 21
21 शब्दव्यापारभाव्यत्वाच्छाब्दी, अपरोक्षसुखालम्बनत्वाच्चापरोक्षात्मिका। दृष्टान्तोपन्यासेनैकस्या एव प्रतीतेः शाब्दत्वं चोपपादयति- तत्त्वं वाक्यजबुद्धिवत्। आद्यमभिनवगुप्ताचार्यमतमवसितमवगमयति- इत्याहुरभिनवगुप्ताचार्यपादाः। (२) भट्टनायकास्तु-ताटस्थ्येन रसप्रतीतावनास्वाद्यत्वम्। आत्मगतत्वेन तु प्रत्ययो दुर्घटः,। शकुन्तलाऽडदीनां सामाजिकान् प्रत्यविभावत्वात्। ननु विभावादिप्रतीतिं विनैव रसप्रतीतिर्भवत्वित्याशङ्कामपास्यति- विना विभावमनालम्बनस्य रत्यादेरप्रतिपत्तेः। पुनराशड्क्य निराकरोति- न च कान्तात्वं साधारणविभावताऽवच्छेदकमत्नाप्यस्तीति वाच्यम्, अप्रामाण्यनिश्चयानालिङ्गिताऽगम्यात्वप्रकारकज्ञानविरहस्य विशेष्यतासम्बन्धा- वच्छिन्नप्रतियोगिताकस्य विभावताऽवच्छेदककोटाववश्यं निवेश्यत्वात्। उक्तनिवेशाभावे दोषं दर्शयति- अन्यथा स्वस्रादेरपि कान्तात्वादिना तत्त्वापत्तेः। रसान्तरेष्वप्येवं निवेशस्यावश्यकता प्रकटयति- एवमशोच्यत्व-कापुरुषत्वादिज्ञानविरहस्य तथाविधस्य करुणरसादौ। नन्ववच्छेदककोटिप्रवेशितस्तादृशज्ञानाभावः सुलभ इत्यत आह- तादृशज्ञानानुत्पादस्तु तत्प्रतिबन्धकान्तरनिर्वचनमन्तरेण दुरुपपादः। तत्र पुनराशङ्क्य समादधाति- स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरेव तथेति चेत्, न, नायके धराधौरेयत्वधीरत्वादेरात्मनि चाधुनिकत्व-कापुरुषत्वादेवैधर्म्यस्य स्फुटं प्रतिपत्तेरभेदबोधस्यैव दुर्लभत्वात्। ननूक्तवैधर्म्यज्ञाने कथञ्चिदजाते जाते वेच्छामूलकमाहार्यं रूपं दुष्यन्ताभेदज्ञानं भवेदेवेत्यरुचेः, प्रकारान्तरेण खण्डनमुपक्रमते- किं च केयं प्रतीतिः? प्रमाणान्तरानुपस्थानाच्छाब्दीति चेत्, न व्यावहारिकशब्दान्तरजन्यनायकमिथुनवृत्तान्तवित्तीनामिवास्या अप्यहृद्यत्वापत्तेः। ननु सा प्रतीतिर्मानस्येव भवेदित्याशङ्कायामाह- नापि मानसी, चिन्तोपनीतानां तेषामेव पदार्थानां मानस्याः प्रतीतेरस्या
Page 22
22 वैलक्षण्योपलम्भात्। नन्वेवमनुभूतिभिन्ना सा प्रतीतिः स्मृतिरेवाङ्गीक्रियतामित्यत आचष्टे- न च स्मृतिः, तथा प्रागननुभवात्। इत्थं विकल्पान् निरस्य भट्टनायकसम्मतं रसस्वरूपमुपन्यस्यति- तस्मादभिधया निवेदिताः पदार्था भावकत्वव्यापारेणागम्यात्वादिरसवि- रोधिज्ञानप्रतिबन्धद्वारा कान्तात्वादिरसानुकूलधर्मपुरस्कारेणावस्थाप्यन्ते। एवं साधारणीकृतेषु दुष्यन्त-शकुन्तला-देश-काल-वयोऽवस्थाऽडदिषु, पङ्गौ पूर्वव्यापारमहिमनि, तृतीयस्य भोगकृत्त्वव्यापारस्य महिम्ना, निगीर्णयो रजस्तमसोरुद्रिक्तसत्त्वजनितेन निजचित्स्वभावनिर्वृतिविश्रान्तिलक्षणेन साक्षात्कारेण विषयीकृतो भावनोपनीतः साधारणात्मा रत्यादिः स्थायी रसः। श्रुतिस्वारस्यरक्षायै प्राग्वद् विकल्पयति- तत्र भुज्यमानो रत्यादि:, रत्यादिभोगो वेत्युभयमेव रसः। आस्वादात्मनोऽस्य रसभोगस्य, ब्रह्मास्वादाद् वैलक्षण्यं सादृश्यप्रदर्शनकपटेन प्रकटयति- सोऽयं भोगो विषयसंवलनाद् ब्रह्मास्वादसविधवर्तीत्युच्यते। इदानीमुपसंहरति- एवं च त्रयोंऽशाः काव्यस्य-'अभिधा भावना चैव तद्भोगीकृतिरेव च।।' इत्याहुः। अभिनवगुप्तमताद् भट्टनायकमतस्य विशेषमविशेषं च दर्शयति- मतस्यैतस्य पूर्वस्मान्मताद् भावकत्वव्यापारान्तरस्वीकार एव विशेषः। भोगस्तु व्यक्तिः। भोगकृत्त्वं तु व्यञ्जनादविशिष्टम्। अन्या तु सैव सरणिः। अथ तृतीयं नव्यमतमुपपादयितुमुपक्र्मते- (३)नव्यास्तु- 'काव्ये नाट्ये च, कविना नटेन च प्रकाशितेषु विभावादिषु, व्यञ्जनव्यापारेण दुष्यन्तादौ शकुन्तलादिरतौ गृहीतायामनन्तरं च सहृदयतोल्लासितस्य भावनाविशेषरूपस्य दोषस्य महिम्ना, कल्पितदुष्यन्तत्वावच्छादिते स्वात्मन्यज्ञानावच्छिन्ने शुक्तिकाशकल इव रजतखण्डः समुत्पद्यमानोऽनिर्वचनीय: साक्षिभास्य - शकुन्तलादिविषयक-रत्यादिरेवे रसः।' 'उत्पन्नो रस'' विनष्टो रसः' इत्यादिव्यवहारसिद्धये रसोत्पत्तिविनाशयोः कारणे प्रतिपादयति- अयं च कार्यो दोषविशेषस्य, नाश्यश्च तन्नाशस्य।
Page 23
23 प्रसङ्गाद् रसस्यानन्दरूपतां प्रतिपादयति- स्वोत्तरभाविना लोकोत्तराह्नादेन भेदाग्रहाद् सुखपदव्यपदेश्यो भवति। ननु रसस्य लोकोत्तराह्लादेन सह भेदाग्रहाद् व्यञ्जनासाक्षात्सम्पर्कशून्यतया व्यङ्ग्यत्वम्, अनिर्वचनीयतया वर्णनीयत्वं च न सम्भवतीत्याशङ्कायामभिधत्ते- स्वपूर्वोपस्थितेन रत्यादिना तदग्रहात् तद्रतित्वेनैकत्वाध्यवसानाद्वा व्यङ्ग्योऽवर्णनीयश्चोच्यते। सचेतसाऽउत्मनि कल्पितस्यावच्छादकस्य दुष्यन्तत्वस्य तत्त्वमाचष्टे- अवच्छादकं दुष्यन्तत्वमप्यनिर्वचनीयमेव। अवच्छादकत्वं च रत्यादिविशिष्टबोधे विशेष्यताऽवच्छेदकत्वम्। पर्यवसितं प्रतिवादिमतनिरासं प्रकाशयति- एतेन 'दुष्यन्तादिनिष्ठस्य रत्यादेरनास्वाद्यत्वान्न रसत्वम्। स्वनिष्ठस्य तु तस्य शकुन्तलादिभिरतत्सम्बन्धिभिः कथमभिव्यक्तिः। स्वस्मिन् दुष्यन्ताद्यभेदबुद्धिस्तु बाधबुद्धिपराहता।' इत्यादिकमपास्तम्। नन्वेतन्मते दोषविशेषकल्पनैव भारायत इत्याक्षेपं समादधाति- यदपि विभावादीनां साधारण्यं प्राचीनैरुक्म्, तदपि काव्येन शकुन्तलादिशब्दैः शकुन्तलात्वादिप्रकारकबोधजनकैः प्रतिपाद्यमानेषु शकुन्तलादिषु, दोषविशेषकल्पनं विना दुरुपपादम्। अतोऽवश्यकल्प्ये दोषविशेषे, तेनैव स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरपि सूपपादा। अथ प्रसङ्गात् करुणादिरसस्थायिन: शोकादेर्दुःखजनकतामाशङ्कते- नन्वेवमपि रतेरस्तु नाम दुष्यन्त इव सहृदयेऽपि सुखविशेषजनकता, करुणरसादिषु तु स्थायिन: शोकादेर्दुःखजनकताप्रसिद्धस्य कथमिव सहृदयाह्लादहेतुत्वम्? प्रत्युत नायक इव सहृदयेऽपि दुःखजननस्यैवौचित्यात्। न च सत्यस्य शोकादेर्दुःखजनकत्वं क्लृप्तम्, न कल्पितस्येति नायकानामेव दुःखम्, न सहृदयस्येति वाच्यम्, रज्जुसर्पादेर्भयकम्पाद्यनुत्पादकतापत्तेः, सहृदये रतेरपि कल्पितत्वेन सुखजनकतानुपपत्तेश्चेति चेत्- अभ्युपगम्य प्रथमकल्पेन समाधत्ते- सत्यम्, शृङ्गारप्रधानकाव्येभ्य इव, करुणप्रधानकाव्येभ्योऽपि यदि केवलाह्लाद एव सहृदयहृदयप्रमाणकः, तदा कार्यानुरोधेन कारणस्य कल्पनीयत्वाल्लोकोत्तरव्यापारस्यैवाह्लादप्रयोजकत्वमिव, दुःखप्रतिबन्धकत्वमपि
Page 24
24 कल्पनीयम्। प्रतिवादिमतं सर्वथोन्मूलयितुं द्वितीयं कल्पमुपन्यस्यति- अथ यद्याह्लाद इव दुःखमपि प्रमाणसिद्धम्, तदा प्रतिबन्धकत्वं न कल्पनीयम्। स्वस्वकारणवशाच्चोभयमपि भविष्यति। दुःखोत्पत्तिस्वीकारिणि द्वितीयमते पुनराशङ्कते- अथ तत्र कवीनां कर्तुम्, सहृदयानां च श्रोतुं कथं प्रवृत्ति :? ' अनिष्टसाधनत्वेन निवृत्तेरुचितत्वादिति चेत्- द्वितीयमतं उत्तरयति- इष्टस्याधिक्यादनिष्टस्य च न्यूनत्वाच्चन्दनद्रवलेपनादाविव प्रवृत्तेरुपपत्तेः। प्रथममते प्रवृत्त्युपपादनप्रयोजनाभावमाह- केवलाह्लादवादिनां तु प्रवृत्तिरप्रत्यूहैव। ननु प्रथममते तत्र दुःखानङ्गीकारे दुःखकार्याणि कथमश्रुपातादीनि जायन्त इत्याक्षेपं समादधाति- अश्रुपातादयोऽपि तत्तदानन्दानुभवस्वाभाव्यात्, न तु दुःखात्। निदर्शनदर्शनेनोक्तमर्थं समर्थयति- अत एव भगवद्भक्तानां भगवद्वर्णनाऽकर्णनादश्रुपातादय उपपद्यन्ते। न हि तत्र जात्वपि दुःखानुभवोऽस्ति। करुणरसादावाह्नादोत्पत्तेरयोग्यतां पुनराशङ्कते- न च करुणरसादौ स्वात्मनि शोकादिमद्दशरथादितादात्म्यारोपे यद्याह्लादः, तदा स्वप्नादौ सन्निपातादौ वा स्वात्मनि तदारोपेऽपि स स्यात्, आनुभविकं च तत्र केवलं दुःखमितीहापि तदेव युक्तमिति वाच्यम्। उत्तरयति- अयं हि लोकोत्तरस्य काव्यव्यापारस्य महिमा, यत्प्रयोज्या अरमणीया अपि शोकादय: पदार्था आह्लादमलौकिकं जनयन्ति। काव्यव्यापारजप्रतीतेरलौकिकतया वैलक्षण्यमेव व्याहरति- विलक्षणो हि कमनीयकाव्यव्यापारज आस्वादः प्रमाणान्तरजादनुभवात्। नन्वास्वह्लादस्य व्यञ्जनासाक्षाज्जन्यत्वाभावात् कथं काव्यव्यापारजन्यत्वमित्यत आचष्टे- जन्यत्वं च स्वजन्यभावनाजन्यरत्यादिविषयकत्वम्। तदाह-
Page 25
25 तेन रसास्वादस्य काव्यव्यापाराजन्यत्वेऽपि न क्षतिः। अत्रापि प्रागुक्तदोषमुद्धरन् नव्यमतमुपसंहरति- शकुन्तलादावगम्यात्वज्ञानोत्पादस्तु स्वात्मनि दुष्यन्ताद्यभेदबुद्ध्या प्रतिबध्यते। इत्याहुः। अथ चतुर्थं परकीयमतमुपन्यस्यति- (४) परे तु- व्यञ्जनव्यापारस्यानिर्वचनीयख्यातेश्चानभ्युपगमेऽपि, प्रागु- क्तदोषमहिम्ना स्वात्मनि दुष्यन्तादितादात्म्यावगाही शकुन्तलादिविषयकरत्यादिमदभेदबोधो मानस: काव्यार्थभावनाजन्मा विलक्षणविषयताशाली रसः। नन्वेवं स्वप्नकालिकज्ञानस्यापि मानसत्वाद् रसत्वापत्तिरित्यत आह- स्वाप्नादिस्तु तादृशबोधो न काव्यार्थचिन्तनजन्मेति न रसः। तेन न तन्न तादृशाह्लादापत्तिः। सहृदये वास्तविकरतेरभावदनुभवे च विषयसत्त्वस्य कारणतयापेक्षणात् प्रकृते रत्यादिबोधस्यासम्भव इत्याशङ्कते- एवमपि स्वस्मिन्नविद्यमानस्य रत्यादेरनुभवः कथंः नाम स्यात्? समादधाति- मैवम्, नह्ययं लौकिकसाक्षात्कारो रत्यादेः, येनावश्यं विषयसद्भावोऽपेक्षणीयः स्यात्। अपि तु भ्रमः। नन्वेतन्मते भ्रमात्मकस्य रत्यादिज्ञानस्यैव रसत्वात् तद्विषयकज्ञानान्तरानुत्पत्तेरास्वादो रसविषयक इति व्यवहारो नोपपद्यत इत्यतोऽभिधत्ते- आस्वादनस्य रसविषयकत्वव्यवहारस्तु रत्यादिविषयकत्वालम्बन इत्यपि वदन्ति। तुरीयमते विशिष्टवैशिष्ट्यावगाहि-भ्रमात्मकज्ञानरूपरसस्य विनिगमनाविरहात् त्रैविध्यं प्रतिपादयति- एतैश्च स्वात्मनि दुष्यन्तत्वधर्मिताऽवच्छेदक-शकुन्तलादिविषयकरति- वैशिष्ट्यावगाही, स्वात्मत्वविशिष्टे शकुन्तलादिविषयकरतिविशिष्ट-दुष्यन्ततादात्म्यावगाही, स्वात्मत्वविशिष्टे दुष्यन्तत्व-शकुन्तलाविषयकरत्योवैशिष्ट्यावगाही वा त्रिविधोऽपि बोधो रसपदार्थतयाऽ्भ्युपेयः। मतेऽस्मिन् रत्यादिग्राहकस्यानुमानस्यावश्यकतामाचष्टे- तन्र रतेर्विशेषणीभूतायाः शब्दादप्रतीतत्वाद् व्यञ्जनायाश्च तत्प्रत्यायिकाया
Page 26
26 अनभ्युपगमाच्चेष्टादिलिङ्गकमादौ विशेषणज्ञानार्थमनुमानमभ्युपेयम्। पञ्चमं भट्टलोल्लटादीनां मतमुपपादयति- (५) 'मुख्यतया दुष्यन्तादिगत एव रसो रत्यादिः कमनीयविभावाद्य- भिनयप्रदर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नटे समारोप्य, साक्षात्त्रियते' इत्येके। एतन्मतं प्रतिपाद्य-शेषमाचष्टे- मतेऽस्मिन् साक्षात्कारो 'दुष्यन्तोऽयं शकुन्तलादिविषयकरतिमान्' इत्यादि: प्राग्वद्धर्म्यंशे लौकिक आरोप्यांशे त्वलौकिकः। काव्यप्रकाशे द्वितीयमतत्वेनोपात्तं षष्ठं तार्किकश्रीशङ्कुकमतमभिधत्ते- (६)दुष्यन्तादिगतो रत्यादिर्नटे पक्षे दुष्यन्तत्वेन गृहीते विभावादिभिः कृत्रिमैरप्यकृत्त्रिमतया गृहीतैर्भिन्ने विषयेऽनुमितिसामग्र्या बलवत्त्वादनुमीयमानो रसः' इत्यपरे। अथ प्रकीर्णेमतपञ्चके प्रथमं पूर्वक्रमाच्च सप्तमं मतं निर्दिशति- (७) 'विभावादयस्त्रयः समुदिता रसाः' इति कतिपये। द्वितीयं पूर्वक्रमादष्टमं मतमुपन्यस्यति- (८) 'त्रिषु य एव चमत्कारी, स एव रसः । अन्यथा तु त्रयोऽपि न।' इति बहवः। तृतीयं पूर्वक्रमान्नवमं मतं प्रकाशयति- (९) 'भाव्यमानो विभाव एव रसः' इत्यन्ये। चतुर्थं पूर्वक्रमाद दशमं मतमभिदधाति- (१०) 'अनुभावस्तथा' इतीतरे। पञ्चमं पूर्वक्रमादेकादशं मतमाचष्टे- (११) 'व्यभिचार्येव तथा तथा परिणमति' इति केचित्। भावनामहिम्ना प्राधान्यं भजन् व्यभिचार्यपि भावत्वमिव रसत्वं प्रतिपद्यत इति भावः। उक्तमतेष्वष्टानां क्रमेण प्रामाणिकत्वं दर्शयितुमुपक्र्मते- तत्र 'विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः' इति सूत्रं तत्तन्मतपरतया व्याख्यायते- आद्याचार्याभिनवगुप्तमते द्विविधकल्पानुकूलां सूत्रव्याख्यामाह- 'विभावानुभावव्यभिचारिभिः संयोगात् व्यञ्जनाद् रसस्य चिदानन्दविशिष्टस्थाय्यात्मनः, स्थाय्युपहितचिदानन्दात्मनो वा निष्पत्तिः स्वरूपेण
Page 27
प्रकाशनम्।' इत्याद्ये। 27
द्वितीये भट्टनायकमते सूत्रव्याख्यामभिदधाति- 'विभावानुभावव्यभिचारिणां सम्यक् साधारणात्मतया योगाद् भावकत्वव्यापारेण भावनाद्, रसस्य स्थाय्युपहित-सत्त्वोद्रेकप्रकाशित-स्वात्मानन्दरूपस्य, निष्पत्तिर्भोगाख्येन साक्षात्कारेण विषयीकृतिः।' इति द्वितीये। तृतीये नव्यमते सूत्रव्याख्यां ब्रवीति- 'विभावानुभावव्यभिचारिणां संयोगाद् भावनाविशेषरूपाद् दोषाद् रसस्यानिर्वचनीयदुष्यन्तरत्याद्यात्मनो निष्पत्तिरुत्पत्तिः' इति तृतीये। चतुर्थे परकीयमते सूत्रव्याख्यां ब्रूते- 'विभावादीनां संयोगात् ज्ञानाद्, रसस्य ज्ञानविशेषात्मनो निष्पत्ति-रुत्पत्तिः।' इति चतुर्थे। पञ्चमे भट्टलोल्लटमते सूत्रव्याख्यां व्याहरति- 'विभावादीनां सम्बन्धाद् रसस्य रत्यादेर्निष्पत्तिरारोपः' इति पञ्चमे। षष्ठे श्रीशङ़्कुकमते सूत्रव्याख्यां प्रतिपादयति- 'विभावादिभि:कृत्त्रिमैरप्यकृत्रिमतया गृहीतैः संयोगादनुमानद् रसस्य रत्यादेर्निष्पत्तिरनुमितिः, नटादौ पक्ष इति शेषः' इति षष्ठे। सप्तमे कतिपयमते सूत्रव्याख्यामुपन्यस्यति- 'विभावादीनां त्रयाणां संयोगात् समुदायाद् रसनिष्पत्ती रसपदव्यवहारः' इति सप्तमे। अष्टमे बहुमते सूत्रव्याख्यां निगदति- 'विभावादिषु सम्यग् योगाच्चमत्कारात्' इत्यष्टमे। उपसंहरति- तदेवं पर्यवसितस्त्रिषु मतेषु सूत्रविरोधः । ननु भरतसूत्र एव सम्मिलितानां विभावादीनां त्रयाणामुपादानस्य किं बीजम् ?, येनात्र विभावादिष्वेकमात्रावलम्बि चरमं मतत्रयं सूत्रविरोधादुपेक्ष्यत इत्याशङ्कां निरस्यति- विभावानुभावव्यभिचारिणामेकस्य तु रसान्तरसाधारणतया नियतरसव्यञ्जकताऽनुपपत्तेः सूत्रे मिलितानामुपादानम्। तदेवाह-
Page 28
28 एवं च प्रामाणिके मिलितानां व्यञ्जकत्वे, यत्र क्वचिदेकस्मादेवासाधारणाद् रसोद्वोध: तन्नेतरद्वयमाक्षेप्यम्, अतो नानैकान्तिकत्वम्। प्रकृतं रसस्वरूपनिरूपणमुपसंहरति- इत्थं च नानाजातीयाभि: शेमुषीभिर्नानारूपतयाऽवसितोऽपि, मनीषिभिः परमाह्लादाविनाभावितया प्रतीयमानः, प्रपञ्चेऽस्मिन् रसो रमणीयतामावहतीति निर्विवादम्। एवं रसस्य स्वरूपं निरूप्य प्रकारानाचष्टे- स च- श्रृङ्गारः करुणः शान्तो रौद्रो वीरोऽद्भुतस्तथा। हास्यो भयानकश्चैव, बीभत्सश्चेति ते नव।' इत्युक्तेर्नवधा। नन्वेतदुक्तौ किं प्रमाणमित्याकाङ्क्षायामभिदधाति- मुनिवचनं चात्र प्रमाणम्। अथ नाट्ये शान्तरसस्याभावमाशङ्कते- केचित्तु- 'शान्तस्य शमसाध्यत्वान्नटे च तदसम्भवात्। अष्टावेव रसा नाट्ये, न शान्तस्तत्र युज्यते ।।' इत्याहुः। समादधाति- तच्चापरे न क्षमन्ते। तथा हि-नटे शमाभावादिति हेतुरसङ्गतः, नटे रसाभिव्यक्तेरस्वीकारात्। सामाजिकानां शमवत्त्वेन तत्र रसोद्बोधे बाधकाभावात्। नटे शमानङ्गीकारेनुपपत्तिं प्रकाश्य निरस्यति- न च नटस्य शमाभावात् तदभिनयप्रकाशकत्वानुपपत्तिरिति वाच्यम्, तस्य भयक्रोधादेरप्यभावेन तदभिनयप्रकाशकताया अप्यसङ्गत्यापत्तेः। पुनः पूर्वपक्षं विधाय निराकरोति- यदि च नटस्य क्रोधादेरभावेन वास्तवतत्कार्याणां वधबन्धादीनामुत्पत्त्यसम्भवेऽपि, कृत्रिमतत्कार्याणां शिक्षाभ्यासादित उत्पत्तौ नास्ति बाधकमिति निरीक्ष्यते, तदा प्रकृतेऽपि तुल्यम्। पुनः शङ्कते -
Page 29
29 अथ नाट्ये गीतवाद्यादीनां विरोधिनां सत्त्वात्, सामाजिकेष्वपि विषयवैमुख्यात्मनः शान्तस्य कथमुद्रेक इति चेत्। उत्तरयति- नाट्ये शान्तरसमभ्युपगच्छद्भिः फलबलात् तद्गीतवाद्यादेस्तस्मिन् विरोधिताया अकल्पनात्। उत्तरपक्षं समर्थयन्रुक्तव्यवस्थातिऋरमे दोषमाह- विषयचिन्तासामान्यस्य तत्र विरोधित्वस्वीकारे, तदीयालम्बनस्य संसारानित्यत्वस्य, तदुद्दीपनस्य पुराणश्रवण-सत्सङ्ग-पुण्यवन-तीर्थावलोकनादेरपि विषयत्वेन विरोधित्वापत्तेः। उक्तार्थे प्राचीनसम्मतिं दर्शयन् निगमयति- अत एव च चरमाध्याये सङ्गीतरत्नाकरे- 'अष्टावेव रसा नाट्येष्विति केचिदचूचुदन्। तदचारु, यतः कञ्चिन्न रसं स्वदते नटः॥।' इत्यादिना नाट्येऽपि शान्तो रसोऽस्तीति व्यवस्थापितम्। नाट्ये शान्तरसाभावाभ्युपगमेऽप्यन्यत्र तत्सत्त्वस्वीकृतिरावश्यकीत्याह- यैरपि नाट्ये शान्तो रसो नास्तीत्यभ्युपगम्यते, तैरपि बाधकाभावान्महा- भारतादिप्रबन्धानां शान्तरसप्रधानताया अखिललोकानुभवसिद्धत्वाच्च काव्ये सोऽवश्यं स्वीकार्यः। पुनः शान्तरससत्तामेव समर्थयन् सन्दर्भमुपसंहरति- अत एव 'अष्टौ नाट्ये रसाः स्मृताः' इत्युपक्रम्य 'शान्तोऽपि नवमो रसः' इति मम्मटभट्टा अप्युपसमहार्षुः। एवं रसान् परिगणय्य, तेषामास्वादे भेदाभावान्मिथोऽभेदे प्रसक्ते, स्थायिभेदेन भेदं दिदर्शयिषुः स्थायिभावान् क्रमेण परिगणयति- अमीषां च- रतिः शोकश्च निर्वेद-क्रोधोत्साहाश्च विस्मयः। हासो भयं जुगुप्सा च, स्थायिभावाः क्रमादमी॥ अथ प्रागुक्तमतभेदेन रसानां स्थायिभ्यो भेदं दर्शयति- रसेभ्यः स्थायिभावानां घटादेर्घटाद्यवच्छिन्नाकाशादिव प्रथम-द्वितीयमतयोः,
Page 30
30 सत्यरजतस्यानिर्वचनीयरजतादिव तृतीये, विषयस्य (रजतादेः) ज्ञानादिव चतुर्थे भेदो बोध्यः। ननु रत्यादीनां पारमार्थिकस्थिरत्वाभावात् कथं स्थायित्वमित्यत आचष्टे- तत्र आ प्रबन्धं स्थिरत्वादमीषां भावानां स्थायित्वम्। पुनरशङ्कते- न च चित्तवृत्तिविशेषरूपाणामेषामाशुविनाशित्वेन स्थिरत्वं दुर्लभम्, वासनारूपतया स्थिरत्वं तु व्यभिचारिष्वतिप्रसक्तमिति वाच्यम्। समादधाति- वासनारूपाणाममीषां मुहुर्मुहुरभिव्यक्तेरेव स्थिरपदार्थत्वात्, व्यभिचारिणां तु नैव्, तदभिव्यक्तेर्विद्युद्योतप्रायत्वात्। उक्तार्थं प्रमाणयति- यदाहु :- 'विरुद्धैरविरुद्धैर्वा, भावैर्विच्छिद्यते न यः। आत्मभावं नयत्याशु, स स्थायी लवणाकरः॥ चिरं चित्तेज्वतिष्ठन्ते, सम्बध्यन्तेऽनुबन्धिभिः। रसत्वं ये प्रपद्यन्ते, प्रसिद्धाः स्थायिनोऽन्र ते॥ चिरमिति व्यभिचारिवारणाय। अनुबन्धिभिर्विभावाद्यैः। तथा - 'सजातीयविजातीयैरतिरस्कृतमूर्तिमान्। यावद्रसं वर्तमान:, स्थायिभाव उदाहृतः॥।' इति। स्थायिलक्षणे मतान्तरमुपन्यस्य निरस्यति- केचित्तु रत्याद्यन्यतमत्वं स्थायित्वमाहुः, तन्न, रत्यादीनामेकस्मिन् प्ररूढे ऽन्यस्याप्ररूढस्य व्यभिचारित्वोपगमात्। प्रसङ्गाद् भावानां प्ररोहाप्ररोहौ निरूपयति- प्ररूढत्वाप्ररूढत्वे बह्वल्पविभावजत्वे। तत्र दार्ढ्याय प्राचीनसम्मति दर्शयति- तदुक्तं रत्नाकरे- 'रत्यादय: स्थायिभावाः स्युर्भूयिष्ठविभावजाः। स्तोकैर्विभावैरुत्पन्नास्त एव व्यभिचारिणः॥' इति।
Page 31
31 इदानीं कस्य स्थायिन: कुत्र रसे व्यभिचारित्वमविनाभावित्वं च भवतीत्याख्याति- एवं च वीररसे प्रधाने क्रोधः, रौद्रे चोत्साहः, शृङ्गारे हास:, व्यभिचारी भवति नान्तरीयकश्च विशेषमाह- यदा तु प्रधानपरिपोषार्थं सोऽपि बहुविभावजः क्रियते, तदा तु रसालङ्कार इत्यादि बोध्यम्। अन्न स्थायिभावान् क्रमेण लक्षयन्नादौ शृङ्गाररसस्थायिरतिं लक्षयति- तत्र- स्त्रीपुंसयोरन्योन्यालम्बनः प्रेमाख्यश्चित्तवृत्तिविशेषो रतिः स्थायिभावः ॥ गुरु-देवता-पुत्राद्यालम्बनस्तु व्यभिचारी। द्वितीयं करुणरसस्थायिभावं शोकं लक्षयति- पुत्रादिवियोग-मरणादिजन्मा वैक्लव्याख्याश्चित्तवृत्तिविशेषः शोकः। ननु लक्षणघटकपुत्रादिपदेन पत्याश्चापि ग्रहणात् तद्वियोगेऽपि शोकस्याङ्गीकाराद विरहहेतुको विप्रलम्भशृङ्गारो निर्विषयः स्यादित्यत आह- स्त्रीपुंसयोस्तु वियोगे जीवितत्वज्ञानदशायां वैक्लव्यपोषिताया रतेरेव प्राधान्याच्छङ्गारो विप्रलम्भाख्यो रसः, वैक्लव्यं तु सञ्चारिमात्रम्। करुणरसस्य विषयमभिदधाति- मृतत्वज्ञानदशायां तु रतिपोषितस्य वैक्लव्यस्येति करुण एव। तत्रैव विशेषमाह- यदा तु सत्यपि मृतत्वज्ञाने, देवताप्रसादादिना पुनरुज्जीवनज्ञानं कथंचित् स्यात्, तदालम्बनस्यात्यन्तिकनिरासाभावाच्चिरप्रवास इव विप्रलम्भ एव, न स करुणः। तं विप्रलम्भमुदाहरति- यथा- चन्द्रापीडं प्रति महाश्वेतावाक्येषु। इह मतान्तरमुपन्यस्यति- केचित्तु-रसान्तरमेवात्र करुण-विप्रलम्भाख्यमिच्छन्ति। तृतीयं शान्तरसस्थायिभावं निर्वेदं लक्षयति- नित्यानित्यवस्तुविचारजन्मा विषयविरागाख्यो निर्वेदः। क्षणिको निर्वेदस्तु न स्थायी, किन्तु व्यभिचार्येवेत्याह- गृहकलहजादिस्तु व्यभिचारी।
Page 32
32 चतुर्थं रौद्ररसस्थायिभावं क्रोधं लक्षयति- गुरुबन्धुवधादि-परमापराधजन्मा प्रज्वलनाख्यः क्रोधः। रौद्ररसस्थायि्रोध-व्यभिचार्यमर्षयोर्भेदं दर्शयति- अयं च परविनाशादिहेतुः। क्षुद्रापराधजन्मा तु परुषवचनासम्भाषणादिहेतुः। अयमेवामर्षाख्यो व्याभिचारीति विवेकः। पञ्चमं वीररसस्थायिभावमुत्साहं लक्षयति- परपराक्रम-दानादिस्मृतिजन्मा औन्नत्याख्य उत्साहः॥ षष्ठमद्भुतरसस्थायिभावं विस्मयं लक्षयति- अलौकिकवस्तुदर्शनादिजन्मा विकासाख्यो विस्मयः। सप्तमं हास्यरसस्य स्थायिभावं हासं लक्षयति- वागङ्गादिविकारदर्शनजन्मा विकासाख्यो हास:। अष्टमं भयानकरसस्य स्थायिभावं भयं लक्षयति- व्याघ्रदर्शनादिजन्मा परमानर्थविषयको वैक्लव्याख्यः स भयम्। स्थायिनो भयस्य व्यभिचारिणस्त्रासाद् भेदमाह- परमानर्थविषयकत्वाभावे तु स एव त्रासो व्यभिचारी। भयत्रासयोः स्वरूपभेदे मतान्तरमुल्लिखति- अपरे तु औत्पातिकप्रभवस्त्रासः, स्वापराधद्वारोत्थं भयमिति भयत्रासयोर्भेदमाहुः। नवमं बीभत्सरसस्थायिभावं जुगुप्सां लक्षयति- कदर्यवस्तुविलोकनजन्मा विचिकित्साख्यश्चित्तवृत्तिविशेषो जुगुप्सा। इत्थं रसानां स्थायिभावाँल्लक्षयित्वा विभावानुभावव्यभिचारिभावाँल्लिलक्षयिषु: प्रथमं विभावाँल्लक्षयति- एवमेषां स्थायिभावानां लोके तत्तन्नायकगतानां यान्यालम्बनतयोद्दीपनतया वा कारणत्वेन प्रसिद्धानि, तान्येषु काव्यनाट्ययोर्व्यज्यमानेषु विभावशब्देन व्यपदिश्यन्ते। विभावसञ्ज्ञाया व्युत्पत्तिं दर्शयति- विभावयन्तीति व्युत्पत्तेः। अनुभावाँल्लक्षयति- यानि च कार्यतया, तान्यनुभावशब्देन। अनुभावसञ्ज्ञाव्युत्पत्तिं दर्शयति-
Page 33
33 अनु पश्चाद्भाव उत्पत्तिर्येषाम्। अनुभावयन्तीति वा व्युत्पत्तेः। व्यभिचारिभावाँल्लक्षयति- यानि व्यभिचरन्ति तानि व्यभिचारिशब्देन। अथ रसानां विभावानुभावव्यभिचारिभावान् विभज्य दर्शयन्नादौ श्रृङ्गाररसस्य समाहृत्य दर्शयति- तत्र श्रृङ्गारस्य स्त्रीपुंसावालम्बने चन्द्रिका-वसन्त-विविधोपवन-रहः स्थानादय उद्दीपनविभावाः, तन्मुखावलोकन-तद्गुणश्रवणकीर्तनादयोऽन्ये सात्त्विकभावाश्चानुभावाः, स्मृतिचिन्तादयो व्यभिचारिणः। करुणस्यालम्बनादीनि दर्शयति- करुणस्य बन्धुनाशादय आलम्बनानि, तत्सम्बन्धिगृहतुरगाभरण- दर्शनादयस्तत्कथाश्रवणादयश्चोद्दीपकाः, गात्रक्षेपाश्रुपातादयोऽनुभावा, ग्लानि-क्षय-मोह- विषाद-चिन्तौत्सुक्य-दीनता-जडतादयो व्यभिचारिणः। शान्तस्य विभावादीन् दर्शयति- शान्तस्यानित्यत्वेन ज्ञातं जगदालम्बनम्। वेदान्तश्रवण-तपोवन- तापसदर्शनाद्युद्दीपनम्, विषयारुचि-शत्रुमित्रौदासीन्यचेष्टा-हानि-नासाग्र- दृष्ट्यादयोऽनुभावाः, हर्षोन्मादस्मृतिमत्यादयो व्यभिचारिणः। रौद्रस्य विभावादीन् दर्शयति- रौद्रस्यागस्कृत्पुरुषादिरालम्बनम्। तत्कृतोऽपराधादिरुद्दीपकः। वधबन्धादिफलको नेत्रारुण्य-दन्तपीडन-परुषभाषण-शस्त्रग्रहणादिरनुभावः। अमर्षवेगौग्र्य-चापलादयः संचारिणः।
एवं यस्याश्चित्तवृत्तेर्यो विषयः स तस्या आलम्बनम्। निमित्तानि चोद्दीपकानीति बोध्यम्॥ अथ श्रृङ्गाररसस्य प्रकारद्वयं निरूपयति- तत्र श्रृङ्गारो द्विविधः, संयोगो विप्रलम्भश्च। रतेः संयोगकालावच्छिन्नत्वे प्रथमः, वियोगकालावच्छिन्नत्वे द्वितीयः। संयोगस्यैकाधिकरणवृत्तित्वरूपतां, वियोगस्य च विभिन्नाधिकरणवृत्तित्वरूपतां निराकृत्य, प्रागुक्तसँय्युक्तत्व-वियुक्तत्वप्रकारकज्ञानरूपतां व्यवस्थापयति- संयोगो न दम्पत्योः सामानाधिकरण्यम्, एकशयनेऽपीर्ष्यादिसद्भावे विप्रलम्भस्यैव
Page 34
34 वर्णनात्। एवं वियोगोऽपि न वैयधिकरण्यम्, दोषस्योक्तत्वात्। तस्माद् द्वाविमौ संयोगवियोगाख्यावन्तःकरणवृत्तिविशेषौ, यत् संयुक्तो वियुक्तश्चास्मीति धीः। सम्भोगश्रृङ्गारमुदाहरति- तत्राद्यो यथा- तत्र संयोग-विप्रलम्भयोः- 'शायिता सविधेऽप्यनीश्वरा' इत्यत्र निरूपितः। अप्पय्यदीक्षितदर्शितं सम्भोगश्रृङ्गारध्वनेरुदाहरणं दूषयति- यत्तु चित्रमीमांसायाम्- 'वागर्थाविव सम्पृक्तौ' इत्यत्र रसध्वनिः, निरतिशयप्रेमशालिताव्यञ्जनात्' इति तद्ध्वनिमार्गानाकलननिबन्धनम्, पार्वतीपरमेश्वरविषयक - कविरतौ प्रधाने निरतिशयप्रेम्णो गुणीभावात्। उक्तमेवार्थं समर्थयति- नहि गुणीभूतस्य रत्यादे रसध्वनिव्यपदेशहेतुत्वं युक्तम्, 'भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः' इति सिद्धान्तात्। विप्रलम्भाख्यं द्वितीयं श्रृङ्गाररसप्रकारमुदाहरति- द्वितीयो यथा- श्रृङ्गारस्य द्वितीयः प्रकारः। 'वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्पं जने केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा। निशश्वासग्लपिताधरोपरिपतद्वाष्पार्द्रवक्षोरुहा बाला लोलविलोचना शिव! शिव !! प्राणेशमालोकते॥' उक्तपद्यस्योदाहरणत्वमुपपादयति- अत्राप्यालम्बनस्य नायकस्य, निश्श्वासाश्रुपातादेरनुभावस्य, विषादचिन्ताऽडवेगादेश्च व्यभिचारिणः संयोगाद् रतिरभिव्यज्यमाना, वियोगकालावच्छिन्नत्वाद्विप्रलम्भरसपदव्यपदेशं हेतुः। स्थूणाभिखननन्यायेन पुनरुदाहरति- यथा वा- 'आर्विर्भूता यदवधि मधुस्यन्दिनी नन्दसूनोः, कान्तिः काचिन्निखिलनयनाकर्षणे कार्मणज्ञा। श्वासो दीर्घस्तदवधि मुखे, पाण्डिमा गण्डयुग्मे,
Page 35
35 शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत्।' पुनरुदाहरति- यथा वा- 'नयनाञ्चलावमर्शं या न कदाचित् पुरा सेहे। आलिङ्गिताऽपि जोषं, तस्थौ सागन्तुकेन दयितेन॥' अनुभावादिप्रदर्शनेनास्य पद्यस्य विप्रलम्भध्वनित्वं प्रतिपादयति- इहापि सहजचाञ्चल्यनिवृत्तिर्जडता चानुभावव्यभिचारिणौ। मम्मटाद्यभिमतं विप्रलम्भस्य भेदप्रपञ्चकं निरस्यति- इमं च पञ्चविधं प्राञ्चः प्रवासादिभिरुपाधिभिरामनन्ति। ते च प्रवासाभिलाषा - विरहेर्ष्या -शापानां विशेषानुपलम्भान्नास्माभिः प्रपञ्चिताः। करुणरसं निरूपयति- करुणो यथा- सद्योमृतं पुत्रमुद्दिश्य पिता ब्रवीति- 'अपहाय सकलबान्धवचिन्तामुद्वास्य गुरुकुलप्रणयम्। हा तनयन् ! विनयशालिकथमिव परलोकपथिकोऽभूः॥' तत्र विभावादीन् दर्शयति- अत्र प्रमीततनय आलम्बनम्, तत्कालावच्छिन्नबान्धवदर्शनाद्युद्दीपनम्, रोदनमनुभाव:। दैन्यादयः संचारिणः। शान्तरसं निरूपयति- शान्तो यथा- कश्चित् स्थितप्रज्ञः प्ररामृशति- 'मलयानिलकालकूटयो-रमणीकुन्तल-भोगिभोगयोः। श्वपचात्मभुवोनिरन्तरा, मम जाता परमात्मनि स्थितिः॥' उदाहरणे विभावादीन् निर्दिशति- अन्र प्रपञ्चः सर्वोऽप्यालम्बनम्, सर्वत्र साम्यमनुभावः मत्यादयः सञ्चारिणः । उक्तोदाहरणे भग्नप्रऋमत्वमाशड्क्य निराकरोति- यद्यपि प्रथमार्धे उत्तमाधमयोरुपक्रमाद्, द्वितीयार्धेऽधमोत्तमवचनं प्रकरमभङ्गमावहति, तथापि वक्तुर्ब्रह्मात्मकतयोत्तमाधमज्ञानवैकल्यं सम्पन्नमिति द्योतनाय क्रमभङ्गो गुण एव। विशिष्य शिष्यप्रतिपत्तये प्रत्युदाहरणमाह-
Page 36
36 इदं पुनर्नोदाहार्यम्- कश्चिद्भगवद्भक्तस्तदीयसाक्षात्कारमाशंसति- 'सुरस्रोतस्विन्याः पुलिनमधितिष्ठन् नयनयो- र्विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान्। विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा, निमग्न: स्यां कस्यां च न नवनभस्याम्बुदरुचि'।। इह निर्वेदस्य व्यङ्ग्यत्वेऽपि, यथा न शान्तरसध्वनिव्यपदेशस्तथा प्रतिपादयति- अत्रापि यद्यपि विषयगणालम्बनः सुरस्रोतस्विनीतटाद्युद्दीपितो नयननिमीलनादिभिरनुभावितः स्थायी निर्वेदः प्रतीयते, तथापि भगवद्वासुदेवालम्बनायां कविरतौ गुणीभूत इति न शान्तरसव्यपदेशहेतुः। भावध्वनित्वमेवोक्तपद्यस्य समर्थयति- इदं च पद्यं मन्निर्मितायां भगवद्भक्तिप्रधानायां 'करुणालहर्या' मुपनिबद्धमिति तत्प्रधानभावाप्राधान्यमेवार्हति। पुनरन्यथा शान्तरसाप्राधान्यमिह दर्शयति- शान्तरसाननुगुणश्चायमोजस्वी गुम्फ इति चानुदाहार्यमेवैतत्। नन्वेवं मलयेत्यादिपद्येऽपि वक्तृनिष्ठ-परमात्मविषयकरतेः प्रतीतेस्तस्य कथं शान्तरसध्वन्युदाहरणत्वमित्याशङ्कामपास्यति- पूर्वपद्ये तु 'परमात्मनि स्थितिः' इत्यनेन तत्तदूप्यावगमाद् रतेरप्रतिपत्तिः। अथ रौद्ररसं निरूपयति- रौद्रो यथा- शिवशरासनभङ्गध्वनिभग्नसमाधिः समुद्दीपितकोपः परशुरामो ब्रवीति- 'नवोच्छलितयौवन-स्फुरदखर्वगर्वज्वरे, मदीयगुरुकार्मुको गलितसाध्वसं वृश्चति। आयं पततु निर्दयं दलितदृप्तभूभृद्गल- स्खलद्धिरघस्मरो मम परश्वधो भैरव:। प्रकृते रौद्ररसव्यञ्जकसामग्रयां प्रथममालम्बनविभावं दर्शयति- अन्र तदानीं रामत्वेनाज्ञातो गुरुकार्मुकभञ्जक आलम्बनम्। अत्र रामनामानुपादनस्य हेतुं दर्शयन्नुक्तं समर्थयति- अत एव विशेष्यानुपादानम्, गुरुद्हो नामग्रहणानौचित्यात्, क्रोधाविष्काराद्वा।
Page 37
37 उद्दीपनविभावं वक्ति- ध्वनिविशेषानुमितो निरशङ्कधनुर्भङ्ग उद्दीपकः। अनुभावमाह- परुषोक्तिरनुभावः। व्यभिचारिणो व्याहरति- गर्वोग्रत्वादयः सञ्चारिणः। प्रकरणं प्रकाशयति- एषा च धनुर्भङ्गध्वनि-भग्नसमाधेर्भार्गवस्योक्तिः। रौद्ररसानुकूलवृत्तिदर्शनादप्युक्तं समर्थयति- वृत्तिरप्यत्र महोद्धता रौद्रस्य परमौजस्वितां परिपुष्णाति। पुना रौद्ररसव्यञ्जनक्षमतामेव दर्शयति- अन्यत्र गुरुस्मरणे सत्यहम्भावविगमस्यावश्यकतया, प्रकृते चाजहत्स्वार्थलक्षणामूलध्वननेन मदीयेत्यनेन गर्वोत्कर्षस्यैव प्रकाशनात् स्फुटं गम्यमानेन विवेकशून्यत्वेन क्रोधस्याधिक्यं गम्यते। प्रत्युदाहरणं व्याहरति- इदं पुनर्नोदाहार्यम्- क्रुद्धं परशुरामं कश्चिद् वर्णयति- 'धनुर्विदलनध्वनिश्रवण-तत्क्षणाविर्भवन्- महागुरुवधस्मृतिः श्वसनवेगधूताधरः। विलोचनविनिस्सरद्बहलविस्फुलिङ्गव्रजो रघुप्रवरमाक्षिपञ्जयति जामदग्न्यो मुनिः॥' धनुरित्यादिपद्यस्य कुतो न रौद्रध्वन्युदाहरणत्वमित्युपपादयति- अत्राप्यपराधास्पदेन रघुनन्दनेनालम्बितो धनुर्विदलन- ध्वनिश्रवणेनोद्दीपितो निश्श्वास-नेत्रज्वलनादिभिरनुभावितो महागुरुवधस्मृति - गर्वोग्रत्वादिभिश्च संचारितः क्रोधो यद्यपि व्यज्यते, तथाप्यसौ तत्प्रभाववर्णनबीजभूतायां कविरतौ गुणीभूत इति न रौद्ररसध्वनिव्यपदेशहेतुः। काव्यप्रकाशोल्लिखितमुदाहरणं दूषयति- काव्यप्रकाशगतरौद्ररसोदाहरणे तु - 'कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकम्' इति पद्ये रौद्ररसव्यञ्जनक्षमा नास्ति वृत्तिः, अतस्तत्कवेरशक्तिरेव।
Page 38
38 अथ वीररसं विभज्य निरूपयति- वीरश्चतुर्धा, दान-दया-युद्ध-धर्मैस्तदुपाधेरुत्साहस्य चतुर्विधत्वात्। दानवीरमुदाहरति- तत्राद्यो यथा- विप्रवेषेण याचमानायेन्द्रायादेयकवचादिदानाङ्गीकारमाकलय्य चकितान् सभ्यान् कर्णो ब्रवीति- 'कियदिदमधिकं मे यद् द्विजायार्थयित्रे कवचमरमणीयं कुण्डले चार्ययामि। अकरुणमवकृत्त्य द्राक् कृपाणेन निर्यद्- बहलरुधिरधारं मौलिमावेदयामि।।' प्रकरणमुपन्यस्यति- एषा द्विजवेषायेन्द्राय कवचकुण्डलदानोद्यतस्य कर्णस्य तद्दानविस्मितान् सभ्यान् प्रत्युक्ति:। आलम्बनादीन् दर्शयति- अत्र याचमान आलम्बनम्। तदुदीरिता स्तुतिरुद्दीपिका। कवचादिवितरणं तन्न लघुत्वबुद्ध्यादिकं चानुभाव:। 'मे' इत्यर्थान्तरसङ्क्रमितवाच्यध्वन्युत्थापितो गर्वः, स्वकीयलोकोत्तरपितृजन्यत्वादिस्मृतिश्च सञ्चारिणौ। इहत्यवृत्तेरपि रसानुकूलतां प्रकटयति- वृत्तिरप्यत्र तत्तदर्थानुरूपोद्गम-विरामशालितया सहृदयैकचमत्कारिणी। तथाहि- उत्साहपोषकं कवचकुण्डलार्पणयोर्लघुत्वनिरूपणं विधातुं पूर्वार्धे तदनुकूलशिथिलबन्धात्मिका। उत्तरार्धे तु 'मौलि'तः प्राग्वक्तृगत- गर्वोत्साहपरिपोषणायोद्धता। ततः परं ब्राह्मणे सविनयत्वं प्रकाशयितुं तन्मूलीभूतं गर्वराहित्यं ध्वनयितुं पुनः शिथिलैव। अत एवावेदयामीत्युक्तम्, न तु ददामि वितरामीति वा प्रत्युदाहरणं दर्शयति- इदन्तु नोदाहरणीयम्- दानवीरं नरेशं कश्चिद् वर्णयति- 'यस्योद्दामदिवानिशार्थिविलसद्दानप्रवाहप्रथा-
Page 39
39 माकर्ण्यावनिमण्डलागत-वियद्वन्दीन्द्रवृन्दाननात्।
पीयूषप्रकरैः सुरेन्द्रसुरभिः प्रावृट्पयोदायते॥' कुतो नेदमुदाहरणमित्युपपादयति- अन्नेन्द्रसभामध्यगतसकलनिरीक्षकालम्बनः, अवनिमण्डलागत-वियद्वन्दीन्द्रवदनविनिर्गत- राजदानवर्णनोद्दीपितः, ऊधः- प्रस्ुतपीयूषप्रकरैरनुभावितः, असूयादिभिः सञ्चारिभिः परिपोषितोऽपि कामगवीगत उत्साहो राजस्तुतिगुणीभूत इति न रसव्यपदेशहेतुः। वीररसस्याङ्गत्वादन्यत्रापि तद्ध्वनिव्यपदेशाभावं दर्शयति- अत एवेदमपि नोदाहराणम्- बलिवामनवृत्तं कश्चिद् वर्णयति- 'साब्धिद्वीपकुलाचलां वसुमतीमाक्रम्य सप्तान्तरां सर्वां द्यामपि, सस्मितेन हरिणा मन्दं समालोकितः। प्रादुर्भूतपरप्रमोद-विदलद्रोमाञ्चितस्तत्क्षणं व्यानम्रीकृतकन्धरोऽसुरवरो मौलिं पुरो न्यस्तवान्।' अत एवेत्येतदभिप्रेतमर्थं प्रकाशयति- इह च भगवद्वामनालम्बनः, तत्कर्तृकमन्दनिरीक्षणोद्दीपितः, रोमाञ्चादिभिरनुभावितः, हर्षादिभि: पोषितः उत्साहो व्यज्यमानोऽपि गुणः। निदर्शनदर्शनेनोत्साहस्याङ्गत्वमिह समर्थयति- प्रागन्यगतस्येव प्रकृते राजगतस्याऽपि तस्य राजस्तुत्युत्कर्षकत्वात्। सारबोधिन्यां काव्यप्रकाशविवृत्तौ श्रीवत्सलाञ्छनभट्टाचार्येणोल्लिखितं दानवीरोदाहरणं खण्डयति- एतेन 'त्याग: सप्तसमुद्रमुद्रितमही-निर्व्याजदानावधिः' इति श्रीवत्सलाञ्छनोक्तमुदाहरणं परास्तम्, तस्य गुणीभूतव्यङ्ग्यत्वेन
तुल्यन्यायेनाक्षिपति- ननु 'अकरुणमवकृत्य' इत्यत्रापि प्रतीयमानस्य दानवीरस्य कर्णस्तुत्यङ्गत्वात् कथं ध्वनित्वमिति चेत्। उत्तरयति- सत्यम्, अन्र कवेः कर्णवचनानुवादमात्रतात्पर्यकत्वेन कर्णस्तुतौ तात्पर्यविरहात्।
Page 40
40 ननु कवेरिह कर्णस्तुतौ तात्पर्याभावेऽपि, कर्णस्यैव चेदात्मस्तुतौ तात्पर्यम्, तर्हि न कथं स्तुतेः प्राधान्यमित्याशङ्गां निरस्यति- कर्णस्य च महाशयत्वनात्मस्तुतौ तात्पर्यानुपपत्तेः स्तुतिरवाक्यार्थ एव। ननु 'कियदिदम्' इत्यादिपद्ये प्रतीयमाना स्तुतिरपलपितुमशक्या, तात्पर्यविषयत्वविरहाद् यदि न शाब्दधीविषयः, तर्हि का गतिरित्यत आह- परन्तु वीररसप्रत्ययानन्तरं तादृशोत्साहेन लिङ्गेन स्वाधिकरणे साऽनुमीयते राजवर्णनपद्ये तु राजस्तुतौ तात्पर्याद्वाक्यार्थतेव तस्याः। अथ दयावीररसध्वनिमुदाहरति- द्वितीयो यथा। राजा शिबि: शरणापन्नं कपोतरूपं धर्मं वक्ति- 'न कपोत? भवन्तमण्वपि, स्पृशतु श्येनसमुद्भवं भयम्। इदमद्य मया तृणीकृतं, भवदायुःकुशलं कलेवरम्॥' कपोतापेक्षया श्येनं प्रत्युक्त्या भूयो भयनिवृत्तेः सम्भावात् पाठान्तरं कल्पयति- अथवैवं विन्यास :- शिबि: श्येनं ब्रूते- 'न कपोतकपोतकं तव, स्पृशतु श्येन! मनागपि स्पृहा। इदमद्य मया समर्पितं, भवते चारुतरं कलेवरम्।।' प्रकरणमालम्बनादि च प्रकाशयति- एषा शिबे: कपोतं श्येनं प्रति चोक्तिः। अत्र कपोत आलम्बनम्, तद्गतं व्याकुलीभवनमुद्दीपनम्, तस्य कृते स्वकलेवरार्पणमनुभावः। इहोदाहरणे दानवीरध्वनित्वमाशड्क्य निराकरोति- न चात्र शरीरदानप्रत्ययाद् दानवीरध्वनित्वापत्तिरिति वाच्यम्, श्येनकपोतयोर्भक्ष्यभक्षकभावापन्नत्वेन शिबिशरीरस्यार्थिनोऽभावात् तदप्रतिपत्तेः। ननु शिबिकृतं शरीरार्पणमेव दानमिति कुतो न दानप्रतिपत्तिरित्याशङ्कायामभिदधाति- श्येनशरीरनिवेदनस्य कपोतशरीरत्राणोपाधिकतया विनिमयपदवाच्यत्वात्। युद्धवीररसध्वनिमुदाहरति- तृतीयो यथा- समराङ्गणे सन्नद्धं रावणं श्रीरामो ब्रवीति- 'रणे दीनान् देवान् दशवदन! विद्राव्य, वहति,
Page 41
41 प्रभावप्रागल्भ्यं त्वयि तु मम कोऽयं परिकरः। ललाटोद्यज्ज्वाला-कवलितजगज्जालविभवो भवो मे कोदण्डच्युतविशिखवेगं कलयतु॥' प्राग्वत् प्रसङ्गादि दर्शयति- एषा दशवदनं प्रति भगवतो रामस्योक्तिः। इह भव आलम्बनम्, रणदर्शनमुद्दीपनम्, दशवदनावज्ञाऽनुभावः, गर्वः सञ्चारी। वृत्तिरत्र देवानां प्रस्तावे तद्गतकातर्यप्रकाशनद्वारा वीररसानालम्बनत्वावगतयोऽनुद्धतैव, दशवदनप्रस्तावे तु देवदर्पदमनवीरत्वप्रतिपादनायोद्धताऽपि, तस्यावज्ञया रामगतोत्साहानालम्बनत्वेन, तदालम्बनस्य रसस्याप्रत्ययान्न प्रकर्षवती भगवतो भवस्य तु परमोत्तमालम्बनविभावत्वात् तत्प्रस्तावे तदालम्बनस्यौजस्विनो वीररसस्य निष्पत्तेः प्रकृष्टोद्धता। धर्मवीररसध्वनिमुदाहरति- चतुर्थो यथा- अधर्मेणापि शत्रुविजयं विधेहीति वदन्तं युधिष्ठिरो व्याहरति- 'सपदि विलयमेतु राज्यलक्ष्मीरुपरि पतन्त्वथवा कृपाणधाराः। अपहरतुतरां शिरः कृतान्तो मम तु मतिर्न मनागपैति धर्मात्॥' अन्र प्रसङ्गादि प्रतिपादयति- एषाऽधर्मेणापि रिपुर्जेतव्य इति वदन्तं प्रति युधिष्ठिरस्योक्तिः। अन्र धर्म विषय आलम्बनम्, 'न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः।' इत्यादिवाक्यालोचनमुद्दीपनम्, शिरश्छेदाद्यङ्गीकारोऽनुभावः, धृतिः सञ्चारिणी। वीररसस्य प्रकारचतुष्टयवत्त्वेऽरुचिं सूचयन्रुपसंहरति- इत्थं वीररसस्य चातुर्विध्यं प्रपञ्चितं प्राचामनुरोधात्। तमेव स्वविचारं प्रकाशयति- वस्तुतस्तु-बहवो वीररसस्य श्रृङ्गारस्येव प्रकारा निरूपयितुं शक्यन्ते। तथाहि- प्राचीन एव 'सपदि विलयमेतु' इत्यादिपद्ये 'मम तु मतिर्न मनागपैति सत्यात्' इनि चरमपादव्यत्यासेन पद्यान्तरतां प्रापिते सत्यवीरस्यापि संभवात्। प्राचीनपक्षपाती शङ्कते- न च सत्यस्यापि धर्मान्तर्गतया धर्मवीररस एव तद्वीरस्याप्यन्तर्भाव इति वाच्यम्। समादधाति
Page 42
42 दानदययोरपि तदन्तर्गततया तद्वीरयोरपि धर्मवीरात् पृथग्गणनानौचित्यात्। सत्यवीररूपनवीनप्रकाराभ्युपगमेऽपि न निस्तार इत्याचष्टे- एवं पाण्डित्यवीरोऽपि प्रतीयते। उदाहरति- यथा- हयग्रीवोपासनालब्धसिद्धिः कश्चन पण्डितः सदसि ब्रूते- 'अपि वक्ति गिरां पतिः स्वयं, यदि तासामधिदेवताऽपि वा। अयमस्मि पुरो हयानन-स्मरणोल्लङ्वितवाङ्मयाम्बुधिः॥' स्वोक्तं समर्थयितुमालम्बनाद्याह- अन्र बृहस्पत्याद्यालम्बनः सभादिदर्शनोद्दीपितो निखिलविद्वत्तिरस्कारानुभावितो गर्वेण सञ्चारिणा पोषित उत्साहो वक्तुः प्रतीयते। पाण्डित्यवीरं युद्धवीरे प्रागुक्तेऽन्तर्भाव्याक्षेपपरिहारमाशङ्कते- ननु चात्र युद्धवीरत्वम्, युद्धत्वस्य वादसाधारणस्य वाच्यत्वादिति चेत्। समादधाति- क्षमावीरे किं ब्रूयाः? क्षमावीरमुदाहरति- यथा- क्षमावान् व्याहरति- 'अपि बहलदहनजालं, मूर्ध्नि रिपुर्मे निरन्तरं धमतु। पातयतु वाऽसिधारामहमणुमात्रं न किञ्चिदाभाषे॥' प्रसङ्गमाह- क्षमावत उक्तिरियम्। क्षमावीरवद् बलवीररूपप्रकारस्यापि सम्भवात् परिगणनमयुक्तमेवेत्याह- बलवीरे वा किं समादध्याः? बलवीररसध्वनिमुदाहरति- यथा- वैनतेयो वासवं ब्रवीति- 'परिहरतु धरां फणिप्रवीरः, सुखमयतां कमठोऽपि तां विहाय।
Page 43
43 अहमिह पुरुहूत! पक्षकोणे, निखिलमिदं जगदण्डकं वहामि।।' प्रसङ्गमभिधत्ते- पुरुहूतं प्रत्येषा गरुत्मतः उक्तिः। उक्तोदाहरणन्रये वीररसध्वनेरभावमाशङ्कते- ननु 'अपि वक्ति' परिहरतु धराम्, इति पद्यद्वये गर्वं एव नोत्साहः। मध्यस्थपद्ये तु धृतिरेव ध्वन्यत इति भावध्वनय एवैते, न रसध्वनय इति चेत्। समादधाति- तर्हि युद्धवीरादिष्वपि गर्वादिध्वनितामेव किं न ब्रयाः? रसध्वनिसामान्यमेव वा किं न तद्व्यभिचारिध्वननेन गतार्थयेः? ननु रसध्वनिषु व्यभिचारिभावापेक्षया स्थायिभावस्योत्कटा प्रतीतिरिति तद्बलाद्रसध्वनिव्यपदेशः, उक्तोदाहरणेषु तु गर्वादिव्यभिचारिभावस्योत्कटा प्रतीतिरिति भावध्वनित्वमेवोच्यत इति चेत्, न, उभयत्रोत्साहस्यैव स्थायिभावस्योत्कटत्वेन प्रतीयमानत्वात्। किञ्च बलवीराद्युदाहरणेषूत्साहस्य प्रतीतिर्न भवति दानदयायुद्धवीरोदाहरणेषु तु भवतीति कस्यचिदुक्तिरपि राजाज्ञेवोपपत्तिविचारवञ्चितैव, उभयत्र वैषम्याननुभवात्। तस्मात् प्राचीनानां वीररसप्रकारपरिगणनमसङ्गतमित्येवाह- स्थायिप्रतीतिर्दुरपह्नवा चेत्, तुल्यं प्रकृतेऽपि। अनन्तरोक्तपद्ये तु नोत्साहः प्रतीयते, दयावीरादिषु प्रतीयत इति राजाज्ञामात्रम्। अथाद्भुतरसध्वनिमुदाहरति- अद्भुतो यथा- वदनान्तर्गतविश्वदर्शनचकिता यशोदा गोविन्दं वदति- 'चराचरजगज्जाल-सदनं वदनं तव। गलद्गगनगाम्भीर्यं वीक्ष्यास्मि हृतचेतना।।' प्रकरणादि प्रदर्शयति- कदाचिद् भगवतो वासुदेवस्य वदनमालोकितवत्या यशोदाया इयमुक्तिः। अत्र वदनमालम्बनम्, अन्तर्गतचराचरजगज्जालदर्शनमुद्दीपनम्, हृतचेतनत्वम्, तेन गम्यं रोमाञ्चनेत्रस्फारणादि चानुभावः, त्रासादयो व्यभिचारिणः। अन्न रतिभावध्वनित्वमाशङ्कितं खण्डयति- नैवात्र पुत्रगता प्रीतिः प्रतीयते, व्यञ्जकाभावात्।
Page 44
44 ननु पूर्वापरसन्दर्भपर्यालोचनयाऽन्रापि रतिप्रत्ययो भवत्येवेत्यत्राह- प्रतीतायां वा तस्यां विस्मयस्य गुणत्वं न युज्यते। अन्नैव भक्तिरसध्वनित्वं केनाप्याशङ्गितं निराकरोति- एवं 'कश्चिन्महापुरुषोऽयम्' इति भक्तिरपि, तस्याः 'पुत्रो ममायं बालः' इति निश्चयेन प्रतिबन्धादुत्पत्तुमेव नेष्टे। अतस्तस्यामपि विस्मयस्य गुणीभावो न शङ्क्यः। अथ काव्यप्रकाशकृता दत्तमद्भुतरसध्वनेरुदाहरणं दूषयति- यत्तु सहृदयशिरोमणिभि: प्राचीनैरुदाहृतम्- 'चित्रं महानेष नवावतारः, क्व कान्तिरेषाऽभिनवैव भङ्गि:। लोकोत्तरं धैर्यमहो! प्रभाव: काप्याकृतिर्नूतन एष सर्गः॥।' इति। इह विस्मयस्य प्राधान्येन व्यङ्ग्यतयाऽद्दुतरसध्वनिरिति भट्टमम्मटः। तन्मतं खण्डयति- तन्नेदं वक्तव्यम्-प्रतीयतां नामात्र विस्मयः, परन्त्वसौ कथङ्कारं ध्वनि व्यपदेशहेतुः? प्रतिपाद्यमहापुरुषविशेषविषयायाः प्रधानीभूतायाः स्तोतृगतभक्तेतेः प्रकर्षकत्वेनास्य गुणीभूतत्वात्। निदर्शनदर्शनेन स्वमतं द्रढयति- यथा महाभारते गीतासु विश्वरूपं दृष्टवतः पार्थस्य-'पश्यामि देवांस्तव देव! देहे, सर्वांस्तथा भूतविशेषसङ्गान्।।' इत्यादौ वाक्यसन्दर्भे। पर्यवसितमाह- इत्थं चास्य रसालङ्कारत्वमुचितम्। अन्नैव पुनरन्यथाऽडशङ्क्य निरस्यति- भक्तिर्नैवान्र प्रतीयत इति चेत्, दरमुकुलितलोचनं विदाङ्कर्वन्तु सहृदयाः। अथ हास्यरसमुदाहरति- हास्यो यथा- बालिशो नवतार्किकपुत्नो ब्रवीति- 'श्रीतातपादैर्विहिते निबन्धे, निरूपिता नूतनयुक्तिरेषा। अङ्गं गवां पूर्वमहो पवित्रं, कथं न वा रासभधर्मपतन्याः॥' आलम्बनाद्याचष्टे- तार्किकपुत्रो ऽ्न्रालम्बनम्, तदीया निश्शङ्कोक्तिरुद्दीपिका, रदनप्रकाशादिरुद्वेगादयश्चानुभाव- व्यभिचारिणः।
Page 45
45 अथ हास्यस्य भेदं दर्शयितुं प्राचीनोक्तिमनुवदति- अत्राहु :- 'आत्मस्थः परसंस्थश्चेद्यस्य भेदद्वयं मतम्। आत्मस्थो दष्टुरुत्पन्नो विभावेक्षणमात्रतः॥ हसन्तमपरं दृष्ट्वा, विभावश्चोपजायते। योऽसौ हास्यरसस्तज्जैः परस्थः परिकीर्तितः॥ उत्तमानां मध्यमानां नीचानामप्यसौ भवेत्। त्र्यवस्थ: कथितस्तस्य, षड्भेदाः सन्ति चापरे॥ स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः। भवेद् विहसितं चोप-हसितं मध्यमे नरे॥ नीचेऽपहसितं चाति-हसितं परिकीर्तितम्। ईषत्फुल्लकपोलाभ्यां, कटाक्षैरप्यनुल्बण:॥ अदृश्यदर्शनो हासो मधुरः स्मितमुच्यते। वक्त्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः॥ किंचिल्लक्षितदन्तश्च तदा हसितमिष्यते। सशब्दं मधुरं काय-गतं वदनरागवत्।। आकुञ्चिताक्षिमन्द्रं च, विदुर्विहसितं बुधाः। निकुञ्चितांसशीर्षश्च जिह्मदृष्टिविलोकनः॥ उत्फुल्लनासिको हासो नाम्नोपहसितं मतम्। अस्थानजः साश्रुदृष्टिराकम्पस्कन्धमूर्धजः॥ शार्ङ्गदेवेन गदितो-हासोऽपहसिताह्वयः। स्थूलकर्णकटुध्वानो बाष्पपूरप्लुतेक्षणः।। करोपगूढपार्श्वश्च हासोऽतिहसितं मतम्॥। इति। अथ भयानकरसध्वनिमुदाहरति- भयानको यथा- श्येनाद्भीतस्य लावकस्य वृत्तं वर्णयति- 'श्येनमम्बरतलादुपागतं, शुष्यदाननविलो विलोकयन्। कम्पमानतनुराकुलेक्षणः, स्पन्दितुं नहि शशाक लावकः॥'
Page 46
46 आलम्बनादि दर्शयति- अन्र श्येन आलम्बनम्, सवेगापतनमुद्दीपनम्, आननशोषादयोऽनुभावाः दैन्यादयः सञ्चारिणः। अथ बीभत्सरसध्वनिमुदाहरति- बीभत्सो यथा- रमशानं वर्णयति- 'नखैर्विदारितान्त्राणां, शवानां पूयशोणितम्। आननेष्वनुलिम्पन्ति, हृष्टा वेतालयोषितः॥' आलम्बनादि दर्शयति- शवा इहालम्बनम्, अन्रविदारणाद्युद्दीपनम्, आक्षिप्ता रोमाञ्च-ने्ननिमी- लनादयो ऽनुभावाः। आवेगादयः संचारिणः। बीभत्स-हास्यरसयोरालम्बनाश्रययोः पृथगप्रतीते रसान्तरेभ्यो वैषम्यमाशङ्कते- ननु रति-क्रोधोत्साह-भय-शोक-विस्मय-निर्वेदेषु प्रागुदाहृतेषु, यथाऽडलम्बनाश्रययोः सम्प्रत्ययः, न तथा हासे जुगुप्सायां च, तत्रालम्बनस्यैव प्रतीतेः। पुनरावान्तरिकीं शङ्कामुपन्यस्योन्मूलयन् पूर्वपक्षं समापयति- पद्यश्रोतुश्च रसास्वादाधिकरणत्वेन लौकिकहासजुगुप्साश्रयत्वानुपपत्तेरिति चेत्। समाधानमभिदधाति- सत्यम्, तदाश्रयस्य द्रष्टटपुरुषविशेषस्य तत्राक्षेप्यत्वात्। ननु तदाश्रयाक्षेपाभावे का गतिरित्यत आह- तदनापेक्षे तु, श्रोतुः स्वीयकान्तावर्णनपद्यादिव रसोद्वेधे बाधकाभावात्। उपसंहरति- एवं च संक्षेपेण निरूपिता रसाः। अथ रसध्वने रसवदलङ्कारस्य च स्वसम्मतं विषयविभागं निर्दिशति- एषां प्राधान्ये ध्वनिव्यपदेशहेतुत्वम्, गुणीभावे तु रसालङ्कारत्वम्। उभयोर्विभागे परकीयमतं प्रतिपादयति- केचित्तु-'प्राधान्य एवैषां रसत्वम्, अन्यथाऽलङ्कारत्वमेव। रसालङ्कारव्यपदेशस्त्वलंकारध्वनिव्यपदेशवद्, ब्राह्मणश्रमणन्यायात्। एवमसंलक्ष्यक्रमव्यङ्ग्यतायामेव, अन्यथा तु वस्तुमात्रम्।' इत्याहुः।
Page 47
47 रसानामसंलक्ष्यक्रमव्यङ्ग्यत्वं व्यवस्थापयति- एते चासंलक्ष्यक्रमव्यङ्ग्याः सहृदयेन रसव्यक्तौ झगिति जायमानायां विभावानुभावव्यभिचारिविमर्शक्रमस्य सतोऽपि सूचीशतपत्नपत्रशतवेधक्रमस्येवालक्षणात्। ननु मा क्रमः कल्प्यतामित्याशङ्कां निराकरोति- न त्वक्रमव्यङ्ग्याः, व्यक्तेस्तद्धेतूनां च हेतु-हेतुमद्भावासङ्गत्यापत्तेः। अथ भक्तेरतिरिक्तरसत्वमाशङ्कते- अथ कथमेत एव रसाः? भगवदालम्बनस्य, रोमाञ्चाश्रुपातादिभिरनुभावितस्य, हर्षादिभि: परिपोषितस्य, भागवतादिपुराणश्रवणसमये भगवद्भक्तैरनुभूयमानस्य, भक्तिरसस्य-दुरपह्नवत्वात् भगवदनुरागरूपा भक्तिश्चात्र स्थायिभावः। अवान्तरे भक्तिरसस्य शान्तरसेऽन्तर्भावमाशङ्क्य खण्डयति- न चासौ शान्तरसेऽन्तर्भवितुमर्हति, अनुरागस्य वैराग्यविरुद्धत्वात्। समादधाति- उच्यते-भक्तेर्देवादिविषयरतित्वेन भावान्तर्गततया रसत्वानुपपत्तेः। 'रतिर्देवादिविषया व्यभिचारी तथाञ्जितः। भाव: प्रोक्तस्तदाभासा ह्यनौचित्यप्रवर्तिताः। इति हि प्राचां सिद्धान्तात्। तन्नैव पुनरशङ्कते- न च तर्हि कामिनीविषयाया अपि रतेर्भावत्वमस्तु, रतित्वाविशेषात्, अस्तु वा भगवद्भक्तेरेव स्थायित्वम्, कामिन्यादिरतीनां च भावत्वम्, विनिगमकाभावदिति वाच्यम्। द्वयो: पूर्वपक्षयोरेकमेव समाधानमाह- भरतादिमुनिवचनानामेवात्ररसभावादिव्यवस्थापकत्वेन स्वातन्त्र्ययोगात्। उक्तं समर्थयति- अन्यथा पुत्रादिविषयाया अपि रतेः स्थायिभावत्वं कुतो न स्यात्? न स्याद्वा कुतः शुद्धभावत्वं जुगुप्साशोकादीनाम्? इत्यखिलदर्शनव्याकुली स्यात्। भक्ते रसत्वस्य स्वीकारे दोषं दर्शयन् प्रसङ्गमुपसंहरति- रसानां नवत्वगणना च मुनिवचननियन्त्रिता भज्येत, इति यथाशास्त्रमेव ज्यायः। अथ प्रसङ्गाद् रसानां परस्परमविरोधं विरोधं च निर्दिशति- एतेषां परस्परं कैरपि सहाविरोधः,कैरपि विरोधः। तत्र-वीरश्रृङ्गारयोः,
Page 48
48 श्रृङ्गारहास्ययोः, वीराद्भुतयो:, वीररौद्रयो:, श्रृङ्गाराद्भुतयोश्चाविरोधः। श्रृङ्गार-बीभत्सयोः, श्रृङ्गारकरुणयोः, वीरभयानकयोः, शान्तरौद्रयोः, शान्तश्रृङ्गारयोश्च विरोधः। इत्थं रसानामविरोधं च प्रदर्श्य, प्रबन्धे मिथो विरुद्धरससन्निवेशाभावमुपदिशति- तत्र कविना प्रकृतरसं परिपोष्टुकामेन, तदभिव्यञ्जके काव्ये तद्विरुद्धरसाङ्गानां निबन्धनं न कार्यम् तथाहि सति, तदभिव्यक्तौ विरुद्धः प्रकृतं बाधेत सुन्दोपसुन्दन्यायेन वोभयोरुपहतिः स्यात्। प्रयोजनवशाद् विरुद्धरसयोरपि क्वचन समावेशमनुशासत् तस्य प्रकारमुपदिशति- यदि तु विरुद्धयोरपि रसयोरेकत्र समावेश इष्यते, तदा विरोधं परिहृत्य विधेयः। तथाहि- विरोधस्तावद् द्विविधः, स्थितिविरोधो ज्ञानविरोधश्च। आद्यः- तदधिकरणावृत्तितारूपः। द्वितीयः-तज्ज्ानप्रतिबध्यज्ञानकत्वलक्षणः। तन्नाधिकरणान्तरे विरोधिनः स्थापने प्रथमो निवर्तते। यथा-नायकगतत्वेन वीररसे वर्णनीये, प्रतिनायके भयानकस्य। ननु नायकाद्यवृत्तीनां पर्रह्मवदपरिच्छन्नानां रसानामेकस्मिन्नधिकरणे समावेशो विरोधो वा न सम्भवतीत्यत आह- रसपदेनात्र प्रकरणे तदुपाधि: स्थायिभावो गृह्यते, रसस्य सामाजिक-वृत्तित्वेन नायकाद्यवृत्तित्वात्, अद्वितीयानन्दमयत्वेन विरोधासम्भवाच्च। प्रथमविरोधपरिहारेण समावेशमुदाहरति- उदाहरणम्- कश्चन चाटुकारो राजानं स्तौति- 'कुण्डलीकृतकोदण्ड-दोर्दण्डस्य पुरस्तव। मृगारातेरिव मृगाः, परे नैवावतस्थिरे॥' द्वितीयविरोधनिवर्तनादेकन्न समावेशस्योपायमभिधाय तद्दाहरणं दर्शयति- रसान्तरस्याविरोधिनः सन्धिकर्तुरिवान्तरालेऽवस्थापने द्वितीयोऽपि निवर्तते। यथा मन्निर्मितायामाख्यायिकायां कण्वाश्रमगतस्य श्वेतकेतोर्महर्षेः शान्तरसप्रधाने वर्णने प्रस्तुते-'किमिदमनाकलितपूर्वं रूपम्?' कोऽयमनिर्वाच्यो वचनरचनाया मधुरिमा?' इत्यद्भुतस्यान्तरवस्थापनेन 'वरवर्णिनीं प्रत्यनुरागवर्णने। द्वितीयविरोधनिवृत्तेरुदाहरणान्तरं दार्ढ्याय प्रतिपादयति- यथा वा- सद्यःसमरोत्सृष्टशरीर-वीरवृत्तं वर्णयति-
Page 49
49 सुराङ्गनाभिराश्लिष्टा व्योम्नि वीरा विमानगा:। विलोकन्ते निजान् देहान् फेरुनारीभिरावृतान्॥' उपपादयति- अन्र सुराङ्गना-मृतशरीरयोरालम्बनयोः श्रृङ्गारबीभत्सयोरन्तः स्वर्गलाभाक्षिप्तो वीररसो निवेशितः। अन्तर्निवेशश्च तदुभयचर्वणाकालान्तर्वर्तिकालगतचर्वणाकत्वम्। तच्च प्रकृतपद्ये प्रथमार्ध एव श्रृङ्गारचर्वणोत्तरं वीरस्य चर्वणादनन्तरं च द्वितीयार्धे बीभत्सस्येति स्फुटमेव। पूर्वक्रमव्यत्यासेनोदाहरणान्तरं पुनर्दर्शयति- 'भूरेणुदिग्धान्' इत्यादि काव्यप्रकाशगतपद्यकदम्बे तु प्रथमश्रुतबीभत्ससामग्रीवशाद् बीभत्सचर्वणोत्तरं तत्सामग्र्याक्षिप्त- निश्शङ्कप्राणत्यागादिरूपसामग्रीकस्य वीरस्य चर्वणे श्रृङ्गारचर्वणेति विवेकः। उपसंहरति- इत्थं चोदासीनचर्वणेन प्रतिबन्धकज्ञाननिवृत्तौ, निष्प्रत्यूहः प्रतिबध्यचर्वणोदय इति फलितोऽर्थः। विरुद्धरसद्वयस्य प्रकारान्तरेण विरोधनिवृत्तिमाचष्टे- अङ्गाङ्गिनोः, अङ्गिन्यन्यस्मिन्नङ्गयोर्वा न विरोधः, अङ्गत्वानुपपत्तिप्रसङ्गात्। तत्र प्रथमं विरोधनिवृत्तिप्रकारमुदाहरति- यथा- पुरस्तान्निपतितां गतजीवितां प्रेयसीं प्रियो ब्रवीति- 'प्रत्युद्गता सविनयं सहसा सखीभिः, स्मेरैः स्मरस्य सचिवैः सरसावलोकैः। मामद्य मञ्जुरचनैर्वचनैश्च बाले!, हा लेशतोऽपि न कथं वद सत्करोषि।।' प्रसङ्गमभिदधाति- इयं च पुरो निपतितां प्रमीतां नायिकां प्रति नायकस्योक्तिः। उपपादयति- इह नायिकालम्बना, अश्रुपातादिभिरनुभावैरावेगविषादादिभिः सञ्चारिभिश्च व्यज्यमाना, नायकगता रतिस्तुल्यसामग्र्यभिव्यक्ते प्रकृतत्वात् प्रधानीभूते तद्गत एव
Page 50
50 शोके प्रकर्षकत्वादङ्गम्। नन्वालम्बनविच्छदाद् रतेरत्राप्रतीतेः कथं शोकाङ्गत्वमित्याकाङक्षायामाह- यदि तु नायकगता रतिर्नात्र प्रतीयते, किन्तु निरुक्तसामग्रया शोक एव प्रकृतत्वादित्यागृह्यते तदा नायकालम्बना प्रत्युद्गमाद्यनुभाविता हर्षादिभि: पोषिता नायिकाश्रया रतिरेव तदङ्गमस्तु। नायिकागतरतेर्नायकशोकप्रकर्षहेतुतायाः सर्वसंमतत्वात्। ननु नायिकानिष्ठरतिरिदानीमविद्यमाना कथं शोकमुपस्कुर्यादित्यत्राह- न च नायिकाया नाशात् तद्गताया रतेरसन्निधानात् कथमङ्गतेति वाच्यम् सन्निधानस्याङ्गतायामतन्त्रत्वेन स्मर्यमाणायास्तस्या अङ्गत्वोपपत्तेः। अन्यस्मिन्नङ्गिन्यङ्गत्वमाप्तयो रसयोर्विरोधनिवृत्तिमुदाहरति- अङ्गयोर्यथा- राजानं चाटुकार: कश्चिदभिदधाति- 'उत्क्षिप्ता: कबरीभरं, विवलिताः पार्श्वद्वयं, न्यक्कताः, पादाम्भोजयुगं, रुषा परिहृता दूरेण चेलाञ्चलम्। गृह्न्ति त्वरया भवत्प्रतिभट-क्ष्मापालवामभ्रुवां, यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः॥' तदाचष्टे- अत्र समासोक्त्यवयवाभ्यां तरु-कामि-कर्तृक-रिपुकामिनीकबर्यादिग्रहणरूपाभ्यां प्रकृताप्रकृतव्यवहाराभ्यां व्यक्तयोः करुण-श्रृङ्गारयो राजविषयकरतिभावाङ्गत्वम्। पुनःप्रकारान्तरेण विरुद्धरससमावेशं प्रतिपादयति- किञ्च प्रकृतरसपरिपुष्टिमिच्छता विरोधिनोऽपि रसस्य बाध्यत्वेन निबन्धनं कार्यमेव। तथाहि सति, वैरिविजयकृता वर्ण्यस्य काऽपि शोभा सम्पद्यते। रसस्य बाध्यत्वं निर्वक्ति- बाध्यत्वं च रसस्य प्रबलैर्विरोधिनो रसस्याङ्गैर्विद्यमानेष्वपि स्वाङ्गेषु, निष्पत्तेः प्रतिबन्धः। व्यतिरेकं दर्शयन् व्यभिचारिभावस्य बाध्यत्वं निर्वक्ति- व्यभिचारिणो बाध्यत्वं तु तदीयरसनिष्पत्तिप्रतिबन्धमात्रात्, न त्वनभिव्यक्त्या, अभिव्यक्तौ बाधकाभावात्। ननु विरोधिरसाभिव्यक्त्या यथा प्रकृतरसास्वादस्य प्रतिबन्धः, तथैव व्यभिचारिभावस्यापि स्वपोष्यरसविरोधिरसाङ्गभूतव्यभिचारिभावाभिव्यक्त्याऽभिव्यक्ति-
Page 51
51 प्रतिबन्धः कुतो नेत्याशङ्कामपास्यति- न च विरोधिरसाङ्गाभिव्यक्त्या प्रतिबन्धान्नाभिव्यक्तिरिति वाच्यम्, तद्व्यञ्जकशब्दार्थज्ञानसमये विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानस्यासन्निधानात् प्रतिबध्यप्रतिबन्धकभावकल्पने मानाभावात्, भावशबलताया उच्छेदापत्तेश्च। नन्वेवमेव रसेऽपि निष्पत्तिप्रतिबन्धो मा भूदित्याशङ्कां निराकरोति- रसनिष्पत्तेः प्रतिबन्धस्त्वनुभवसिद्ध इति तां प्रत्येव विरोध्यङ्गानां बलवतामभिव्यक्तेः प्रतिबन्धकत्वं न्याय्यम्। पुनः प्रकारान्तरेण रसविरोधनिवृत्तिं प्रतिपादयति- अपि च यत्र साधारणविशेषणमहिम्ना विरुद्धयोरभिव्यक्तिः, तन्नापि विरोधो निवर्तते। उदाहरति- यथा- कश्चिद् राजानं स्तौति- 'नितान्तं यौवनोन्मत्ता गाढरक्ताः सदाहवे। वसुन्धरां समालिङ्ग्य, शेरते वीर! तेऽरयः॥' एवं रसानामविरोधप्रकारानुक्त्वा दोषान् वक्ति- इत्थमविरोधसम्पादनेनापि निबध्यमानो रसो रसशब्देन श्रृङ्गारादिशब्दैर्वा नाभिधातुमुचितः, अनास्वाद्यताऽडपत्तेः। तदास्वादश्च व्यञ्जनामात्रनिष्पाद्य इत्युक्तत्वात्। ननु रसनां व्यञ्जनया गम्यमानानामभिधया बोधने का क्षतिरित्याशङ्कायामाह- यत्र विभावादिभिरभिव्यक्तस्य रसस्य स्वशब्देनाभिधानं, तत्र को दोष इति चेत्, व्यङ्ग्यस्य वाच्यीकरणे सामान्यतो वमनाख्यदोषस्य वक्ष्यमाणत्वात्। अन्नैव सामान्यदोषमुक्त्वा विशेषदोषं वक्ति- आस्वाद्यतावच्छेदकरूपेण प्रत्ययाजनकतया, रसस्थले वाच्यवृत्तेः कापेयकल्पत्वेन विशेषदोषत्वाच्च। रसदोषेष्वेवं प्रथमं निरूप्य, द्वितीयं च निरूपयति- एवं स्थायि-व्यभिचारिणामपि शब्दवाच्यत्वं दोषः, चतुर्थं पञ्चमं च रसदोषं निरूपयति- एवं विभावानुभावयोरसम्यक् प्रत्यये, विलम्बेन प्रत्यये वा, न रसास्वाद इति
Page 52
52 तयोर्दोषत्वम्। षष्ठं रसदोषं निरूपयति- समबल-प्रबल-प्रतिकूलरसाङ्गानां निबन्धनन्तु प्रकृतरसपोषप्रातीपिकमिति दोषः। सप्तमं रसदोषं निरूपयति- प्रबन्धे प्रकृतस्य रसस्य प्रसङ्गान्तरेण विच्छिन्नस्य पुनर्दीपने सामाजिकानां न सामग्रयेण रसास्वाद इति विच्छिन्नदीपनं दोषः। अष्टमं नवमं च रसदोषं निरूपयति- तथा तत्तद्रसप्रस्तावनानर्हे ऽवसरे प्रस्तावः, विच्छेदानर्हे च विच्छेदः। तद्दोषद्वयं क्रमेणोदाहरति- यथा- सन्ध्यावन्दन-देवयजनादिधर्मवर्णने प्रसक्ते, कयाऽपि कामिन्या सह कस्यचित् कामुकस्यानुरागवर्णने। यथा च- समुपस्थितेषु महाहवदुर्मदेषु प्रतिभटेषु, मर्मभिन्दि वचनान्युद्गिरत्सु, नायकस्य सन्ध्यावन्दनादिवर्णने चेत्युभयमनुचितम्। दशमं रसदोषं निरूपयति एवमप्रधानस्य प्रतिनायकादेर्नानाविधानां चरितानामनेकविधायाश्च सम्पदो नायकसम्बन्धिभ्यस्तेभ्यो नातिशयो वर्णनीयः। ननु तथा वर्णने का हानिरित्यत आह- तथा सति वर्णयितुमिष्टो नायकस्योत्कर्षो न सिद्ध्येत्। तावता का क्षतिरित्याशङ्कायामभिदधाति- तत्प्रयुक्तो रसपोषश्च न स्यात्। पुनरशङ्कते- न च प्रतिनायकोत्कर्षस्य तदभिभावक-नायकोत्कर्षाङ्गत्वात् कथमवर्णनीयत्वमिति वाच्यम्। उत्तरयति- यादृशस्य प्रतिनायकोत्कर्षवर्णनस्य तदभिभावकनायकोत्कर्षाङ्गतासम्पादकत्वं तादृशस्येष्टत्वात्। तद्विरोधिन एव निषेध्यत्वात्। ननु प्रतिनायकोत्कर्षस्य सर्वमेव वर्णनं नायकोत्कर्षस्य साधकमेव, विजितोत्कर्षस्य
Page 53
53 सर्वस्य विजेतरि सङक्रमात् को दोष इत्याशङ्कते- न च प्रतिपक्षस्य प्रकृतापेक्षया वर्ण्यमानोऽप्युत्कर्षः स्वाश्रयहन्तृतामात्रादेव प्रकृतगतमुत्कर्षमतिशाययेत्, अतो न दोषावह इति वाच्यम्। निराकरोति- एवं हि सति महाराजं कमपि विषशरक्षेपमात्रेण व्यापादितवतो वराकस्य शबरस्येव, प्रकृतस्य, नायकस्य, न कोऽप्युत्कर्षः स्यादिति। एकादशं रसदोषं निरूपयति- तथा रसालम्बनाश्रययोरनुसन्धानमन्तराऽन्तरा न चेद्, दोषः। अङ्ग्यननुसन्धानस्य दूषकतामुपपादयति- तदनुसन्धानाधीना हि रसप्रतिपत्तिधारा, तदननुसन्धाने विरता स्यात्। द्वादशं रसदोषं निरूपयति- एवं प्रकृतरसानुपकारकस्य वस्तुनोवर्णनमपि, प्रकृतरसविरामहेतुत्वाद्दोष एव। त्रयोदशं रसदोषं निरूपयति- अनौचित्यं तु रसभङ्गहेतुत्वात् परिहरणीयम्। रसस्य मूर्त्तत्वाभावादामर्दनासम्भवाद भङ्गपदार्थमाचष्टे- भङ्गश्च पानकादिरसादौ सिकतादि-निपातजनितेवारुन्तुदता। अनौचित्यं विवृणोति-
तस्य तस्य, यल्लोक शास्त्रसिद्धमुचितद्रव्य-क्रियादि, तद्भेदः। अनौचित्यमुपपादयति- जात्यादेरनुचितं यथा-गवादेस्तेजोबलकार्याणि, पराक्रमादीनि, सिंहादेश्च साधुभावादीनि। स्वर्गे जराव्याध्यादि, भूलोके सुधासेवनादि। शिशिरे जलविहारादीनि, ग्रीष्मे वह्निसेवा। ब्राह्मणस्य मृगया, बाहुजस्य प्रतिग्रहः, शूद्रस्य निगमाध्ययनम्। ब्रह्मचारिणो यतेश्च ताम्बूलचर्वणम्, दारोपसंग्रहः। बालवृद्धयोः स्त्रीसेवनम्, यूनश्च विरागः। दरिद्राणामाढ्याचरणम्, आढ्यानां च दरिद्राचारः। प्रकृत्यनुचितं विवृण्वन् प्रकृतिभेदानाह- प्रकृतयो दिव्याः, अदिव्याः, दिव्यादिव्याश्च। धीरोदात्त-धीरोद्धत-धीर-ललित- धीरशान्त उत्साह-क्रोध-कामिनीरति-निर्वेदप्रधाना उत्तम-मध्यमाधमाश्च। प्रकृत्यनौचित्ये प्रथमं रत्यनौचित्यं प्रतिपादयति-
Page 54
54 तत्र रत्यादीनां भयातिरिक्तस्थायिभावानां सर्वत्र समत्वेऽपि, रतेः संभोगरूपाया मनुष्येष्विवोत्तमदेवतासु स्फुटीकृतसकलानुभावं वर्णनमनुचितम्। रत्यनौचित्यवत् क्रोधानौचित्यं प्रतिपादयति- क्रोधस्य च लोकभस्मीकरणपटो-र्दिनरात्रिव्यत्ययाद्यनेकाश्चर्यकारिणो दिव्येष्विवादिव्येषु। तत्र हेतुमभिधत्ते- आलम्बनगताराध्यत्वस्यानुभावगत-मिथ्यात्वस्य च प्रतीत्या रसानुल्लासापत्तेः। ननु प्राग्भट्टनायकमते भावकत्वव्यापारस्य, नव्यमते सहृदयतोल्लासितस्य भावनाविशेषरूपदोषस्य च महिम्ना यत् साधारणीकरणं प्रतिपादितं, तेन प्रतिबद्धमालम्बनविषयकमाराध्यत्वप्रकारकं ज्ञानमिह नोत्पत्तुमर्हतीति न रसानुल्लासापत्तिरिति शङ्कते- न च साधारणीकरणादाराध्यत्वज्ञानानुत्पत्तिरिति वाच्यम्। समादधाति- यत्र सहृदयानां रसोद्वोधः प्रमाणसिद्धः, तत्रैव साधारणीकरणस्य कल्पनात्। साधारणीकरणकल्पनायाः सार्वत्रिकत्वाभ्युपगमे दोषं दर्शयति- अन्यथा स्वमातृविषयक-स्वपितृरतिवर्णनेऽपि सहृदयस्य रसोद्वोधापत्तेः। क्वाचित्कं विपरीतं दृष्टान्तमुपन्यस्य निरस्यति- जयदेवादिभिस्तु गीतगोविन्दादिप्रबन्धेषु सकलसहृदयसम्मतोऽयं समयो मदोन्मत्त-मतङ्गजैरिव भिन्न इति न तन्निदर्शनेनेदानीन्तनेन तथा वर्णयितुं साम्प्रतम्। चरमं व्यवहारानौचित्यं प्रतिपादयति- तथा विद्या-वयो-वर्णा-श्रम-तपोभिरुत्कृष्टैः स्वतोऽपकृष्टेषु न सबहुमानेन वचसा व्यवहर्तव्यम्। यत्र तद्व्यवहारौचित्यं तदाह- व्यवहर्तव्यं चापकृष्टैरुत्कृष्टेषु। उत्कृष्टेष्वपि विशेषमभिदधाति- तत्रापि 'तत्रभवन्' 'भगवन्' इत्यादिभिः सम्बोधनैर्मुनि-गुरु-देवताप्रभृतय एव, न राजादयः, जात्योत्तमैर्द्विजैरेव, नाधमैः शूद्रादिभिः, 'परमेश्वर' इत्यादि सम्बोधनैश्चऋ्रवर्तिन एव, न मुनिप्रभृतयः, सम्बोध्याः। अनौचित्यस्य रसभङ्गकारणत्वं प्रमाणयति-
Page 55
55 तथा चाहु :- आनन्दवर्धनाचार्या ध्वन्यालोकतृतियोद्योत इति शेषः। 'अनौचित्यादृते नान्यद्, रसभङ्गस्य कारणम्। प्रसिद्धौचित्यबन्धस्तु, रसस्योपनिषत्परा।।' इति॥। तत्र विशेषमाह- यावता त्वनौचित्येन रसस्य पुष्टिस्तावत् तु न वार्यते, रसप्रतिकूलस्यैव तस्य निषेध्यत्वात्। उक्तमर्थमुदाहरणदर्शनेन द्रढयति- अत एव- रसाविरोध्यनौचित्यस्य मर्षणीयत्वादेव। दशाननद्वारि समुपस्थितान् ब्रह्मादीन् दौवारिको वदति- 'ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां, स्वल्पं जल्प बृहस्पते जडमते! नैषा सभा वज्िणः॥ वीणां संहर नारद! स्तुतिकथालापैरलं तुम्बुरो!, सीताऽ्डरल्लक-भल्ल-भिन्नहृदयः स्वस्थो न लङ्केश्वरः॥' उपपादयति- इति कस्यचिन्नाटकस्य पद्ये, विप्रलम्भश्रृङ्गारीभूत- वीररसाक्षेपकपरमैश्वर्यपरिपोषकतया स्थितदौवारिकवचनस्य ब्रह्माद्यधिक्षेपपरस्यानौचित्यं न दोषः। उदाहरणान्तरं दर्शयति- एवमेव-'अले ले सद्दः समुप्पाडिअ-हरिय-कुसग्गंथिमयाच्छमालापइ, वित्ति- विस्संभिअ-वालाविहवंद:कअणा बम्हणा' इत्यादिविदूषकवचनेऽपि रेशब्दादिप्रयोगस्य तत् तथा, हास्यानुगुणत्वात्। उपरि परिगणिता एते त्रयोदशैव न रसदोषाः, किन्तु 'रसे दोषाः स्युरीदृशाः' इति मम्मटोक्तेः, सहृदयानुभवाच्चान्येऽपि सम्भवन्ति, तस्मादनया रीत्याऽन्येऽपीदृशा रसदोषाः स्वयं सुधीभिरूह्या इति प्रतिपादयन् दोषनिरूपणमुपसंहरति- एषा हि दिगुपदर्शिता, अनया सुधीभिरन्यदप्यूह्यम्। अथ प्रसङ्गसङ्गत्या गुणान् निरूपयति-
Page 56
56 रसेषु चैतेषु निगदितेषु माधुर्यौजःप्रसादाख्यांस्त्रीन् गुणानाहुः। तेषु माधुर्ये क्रुत्र रसे कियत् तिष्ठतीति जिज्ञासायां मतत्रयमुपन्यस्यति- तत्र 'श्रृङ्गारे संयोगाख्ये यन्माधुर्यं, ततोऽतिशयितं करुणे, ताभ्यां विप्रलम्भे, तेभ्योऽपि शान्ते, उत्तरोत्तरमतिशयितायाश्चित्तदुतेर्जननात्' इति केचित्। 'संयोगश्रृङ्गारात् करुण-शान्तयोस्ताभ्यामपि विप्रलम्भे' इत्यपरे। 'संयोगश्रृङ्गारात् करुण-विप्रलम्भ-शान्तेष्वतिशयितमेव, न पुनस्तन्रापि तारतम्यम्' इत्यन्ये। मतत्रयं परीक्षते- तत्र प्रथम-चरमयोर्मतयोः 'करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम्' इति प्राचां सूत्रमनुकूलम्, तस्योत्तरसूत्रगतस्य 'क्रमेण' इति पदस्यापकर्षानपकर्षाभ्यां व्याख्याद्वयस्य सम्भवात्। मध्यस्थे तु मते करुण-शान्ताभ्यां विप्रलम्भस्य माधुर्यातिशये, यदि सहृदयानामनुभवोऽस्ति तदा स प्रमाणम्। इत्थं श्रृङ्गारादिरसत्रये माधुर्यस्य स्थितिं प्रतिपाद्य, वीरादिरसन्नय ओजसः स्थितिं प्रतिपादयति- वीर-बीभत्स-रौद्रेष्वोजसो यथोत्तरमतिशयः, उत्तरोत्तरमतिशयितायाश्चित्तदीप्तेर्जननात्। अथावशिष्टाव्धुतादिरसत्रये प्रसादस्य मतभेदाद् गुणान्तरेण सङ्कीर्णामसङ्कीर्णां च स्थितिं प्रतिपादयति- अद्भुत-हास्य-भयानकानां गुणद्वययोगित्वं केचिदिच्छन्ति। अपरे तु प्रसादमात्रम्। गुणद्वयापेक्षया प्रसादस्य वैलक्षण्यमाचष्टे- प्रसादस्तु सर्वेषु रसेषु, सर्वासु रचनासु च साधारण:। दुत्यादिचित्तवृत्तीनां गुणवद्रसास्वादजन्यत्वाद् गुणप्रयोज्यत्वं, नतु गुणजन्यत्वमित्याह- गुणानां चैषां दुति-दीप्ति-विकासाख्यास्तिस्रश्चित्तवृत्तयः क्रमेण प्रयोज्याः, तत्तद्गुणविशिष्टरसचर्वणाजन्य इति यावत्। नन्वेवं गुणानां रसमात्रवृत्तित्वस्याभ्युपगमे गुणविशिष्टरचनाबोधकाः 'मधुरा रचना' इत्यादिव्यवहारा गुणानां रचनावृत्तित्वस्य विरहात् कथमुपपद्येरन्नित्याशङ्कां समादधत्प्राचीनमतमुपसंहरति-
Page 57
57 एवमेतेषु गुणेषु रसमात्रधर्मेषु, व्यवसितेषु 'मधुरा रचना' 'ओजस्वी बन्धः' इत्यादयो व्यवहाराः 'आकारोऽस्य शूरः' इत्यादिव्यवहारवदौपचारिकाः इति मम्मटभट्टादयः । खण्डनाय प्रचीनमते प्रत्यक्षप्रमाणाभावं दर्शयति- 'येजमी माधुर्यौजःप्रसादा रसमात्रधर्मतयोक्ताः, तेषां रसमात्रधर्मत्वे किं मानम्? प्रत्यक्षमेवेति चेत्, न, दाहादेः कार्यादनलगतस्योष्णस्पर्शस्य यथा भिन्नतयाऽनुभवः, तथा दुत्यादिचित्तवृत्तिभ्यो रसकार्येभ्योऽन्येषां रसगतगुणानामननुभवात्। तत्रानुमानं प्रमाणमप्युपन्यस्य निरस्यति- तादृशगुणविशिष्टरसानां दुत्यादि-कारणत्वात् कारणताऽवच्छेदकतया गुणानामनुमानमिति चेत्, (न) प्रातिस्विकरूपेणैव रसानां कारणतोपपत्तौ गुणकल्पने गौरवात्। लाघवमाशडक्य निराकरोति- श्रृङ्गार-करुण-शान्तानां माधुर्यवत्त्वेन द्रुतिकारणत्वं, प्रातिस्विकरूपेण कारणत्वकल्पनापेक्षया लघुभूतमिति तु न वाच्यम्, परेण मधुरतरादिगुणानां पृथग् दुततरत्वादिकार्यतारतम्यप्रयोजकतयाऽभ्युपगमेन माधुर्यवत्त्वेन कारणताया गडुभूतत्वात्। निगमयति- इत्थं च प्रातिस्विकरूपेणैव कारणत्वे लाघवम्। ननु मम्मटादिरीत्या प्रातिस्विकरूपेण कारणतोपगमेऽपि रसधर्मत्वेन गुणाः सिध्यन्त्येवेत्याशङ्कायामाह- किञ्चात्मनो निर्गुणतयाऽऽत्मरूपरसगुणत्वं माधुर्यादीनामनुपपन्नम्। ननु माधुर्यादिगुणानां रसगुणत्वाभावेऽपि रसोपाधिस्वरूपस्थायिभावगुणत्वमेवास्तु, तावताऽपि गुणसिद्धिः स्यादेवेत्याशङ्कायामभिदधाति- एवं तदुपाधिरत्याधिरत्यादिगुणत्वमपि, मानाभावात्, पररीत्या गुणे गुणान्तरस्यानौचित्याच्च। ननु श्रृंगारादिरसेषु माधुर्यादिगुणानङ्गीकारे 'श्रृङ्गारो मधुरः' 'वीर ओजस्वी' इत्यादयो व्यवहारा: कथमुपपद्येरन्नित्याशङ्कायामाह- अथ 'श्रृङ्गारो मधुरः' इत्यादिव्यवहारः कथमिति चेत्, एवं तर्हि दुत्यादिचित्तवृत्तिप्रयोजकत्वम्, प्रयोजकतासम्बन्धेन दुत्यादिकमेव वा माधुर्यादिकमस्तु। व्यवहारस्तु 'वाजिगन्धोष्णा' इति व्यवहारवदक्षतः। ननु दृत्यादिप्रयोजकत्वमेव यदि माधुर्यादि, तदाऽदृष्ट-कालेश्वरेच्छादीनां कार्यमात्रप्रयोजकत्वात् तेष्वपि माधुर्यादिव्यवहारः प्रसज्येतेत्यत आचष्टे-
Page 58
58 प्रयोजकत्वं चादृष्टादिविलक्षणं शब्दार्थ-रस-रचनागतमेव ग्राह्यम्, अतो न व्यवहारातिप्रसक्तिः। तथाऽङ्गीकारे फलं दर्शयन् स्वमतमुपसंहरति- तथा च-शब्दार्थयोरपि माधुर्यादेरीदृशस्य सत्त्वादुपचारो नैव कल्प्यः, इति तु मादृशाः। इत्थं स्वमतेन गुणान् प्रतिपाद्य, निराचिकीर्षया वामनादिमतं प्रतिपादयति- जरत्तरास्तु- 'श्लेषः प्रसादः समता माधुर्यं सुकुमारता। अर्थव्यक्तिरुदारत्वमोज:कान्ति-समाधयः॥' इति दश शब्दगुणान्, दशैव चार्थगुणानामनन्ति। नामानि पुनस्तान्येव, लक्षणं तु भिन्नम्। अथ प्रथमं बुद्धिविषयत्वेन शब्दगुणान् निरूपयन्नाद्यं लक्षयति- तथा हि- शब्दानां भिन्नानामप्येकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्णविन्यासविशेषो गाढत्वापरपर्यायः श्लेषः। तन्न प्राचीनसम्मतिं दर्शयति- यदाहु :- 'श्लिष्टमस्पष्टशैथिल्यम्' इति। श्लेषमुदाहरति- यथा- कश्चिच्चाटुकारो राजानं वर्णयति- 'अनवरतविद्वद्दुमद्रो हिदास्द्यमाद्याद् द्विपोद्दामदर्पौघविद्रावणप्रौढपञ्चान न ः ' इति। द्वितीयं प्रसादं लक्षयति- गाढत्व-शैथिल्याभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसादः। प्रसादमुदाहरति- यथा- राजानं चाटुकारो ब्रवीति- किं ब्रूमस्तव वीरतां वयममी, यस्मिन्, धराखण्डल! क्रीडाकुण्डलितभ्रु शोणनयने दोर्मण्डलं पश्यति। माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्रोत्करै-
Page 59
59 र्विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः॥' उपपादयति- अन्र 'यस्मिन्नि'त्यन्तं शैथिल्यम्, 'भ्रु'शब्दान्तं गाढत्वम्, पुन'र्नयने'त्यन्तं प्रथममित्यादि बोध्यम्। तृतीयां समतां लक्षयति- उपक्रमादासमाप्ते रीत्यभेदः समता। उदाहरति- यथा-वक्ष्यमाण-माधुर्योदाहरणे। उपपादयति- तत्र ह्युपनागरिकयैवोपक्रमोपसंहारौ। चतुर्थं माधुर्यं लक्षयति- संयोगपरह्नस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुर्यम्। उदाहरति- यथा- चाटुकृद्दयितः प्रणयिनीं वदति- 'नितरां परुषा सरोजमाला, न मृणालानि विचारपेशलानि। यदि कोमलता तवाङ्गकानामथ का नाम कथाऽपि पल्लवानाम्॥।' पञ्चमीं सुकुमारतां लक्षयति- अपरुषवर्णघटितत्वं सुकुमारता। उदाहरति- यथा- नायको वदति परामृशति वा-
आनन्दमङ्करयति-स्मरणेन काऽपि, रम्या दशा मनसि मे मदिरेक्षणायाः॥' उपपादयति- अत्र पूर्वार्धे। उत्तरार्धे तु माधुर्यमपि। षष्ठीमर्थव्यक्तिं लक्षयति- झगिति प्रतीयमानार्थान्वयकत्वमर्थव्यक्तिः।
Page 60
60 उदाहरति- यथा-'नितराम्'इत्यादौ। सप्तमीमुदारतां लक्षयति- कठिनवर्णघटनारूपविकटत्वलक्षणोदारता। उदाहरति- यथा- शिवस्य ताण्डवं भक्तो वर्णयति- 'प्रमोदभरतुन्दिलप्रमथदत्ततालावली- विनोदिनि विनायके डमरुडिण्डिमध्वानिनि। ललाटतटविस्फुटन्नवकृपीटयोनिच्छटा- हठोद्धतजटोद्भटो गतपटो नटो नृत्यति॥' अन्र परोक्तिमाक्षिपति- 'पदानां नृत्यत्प्रायत्वं विकटता' इति काव्यप्रकाशटीकाकारा व्याचक्षते। उदाहरन्ति च - 'स्वचरणविनिविष्टैर्नूपुरैनर्तकीनां, झटिति रणितमासीत्' इत्यादि। तत्र तेषामेतादृशीं विकटत्वलक्षणामुदारतामोजस्यन्तर्भावयन् काव्यप्रकाशकारः कथमनुकूल इति त एव जानन्ति। तामेवानभिमतिं प्रकाशयति- न ह्यन्रौजसो वैपुल्येन प्रतिभानमस्ति। 'विनिविष्टैर्नूपुरैर्नर्त-' इत्यत्र सन्नप्योजसो लवो न चमत्कारी। नापि तत्र नृत्यत्प्रायत्वं वर्णानामनुभवन्ति सहृदयाः। अंशान्तरे तु माधुर्यमेव। अष्टममोजो लक्षयति- संयोगपरह्नस्वप्राचुर्यरूपं गाढत्वमोजः। उदाहरति- यथा- चाटुकृत् क्षितिपतिं स्तौति- 'साहङ्कारसुरावलिकराकृष्टभ्रमन्मन्दर- क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वङ्कषाः॥ तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता भूमीभूषण! भूषयन्ति भुवनाभोगं भवत्कीर्त्तयः।।
Page 61
61
उदाहरणान्तरमाह- यथा वा-'अयं पततु निर्दयम्' इत्यादिप्रागुदाहृते। नवमीं कान्तिं लक्षयति- अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभारूपमौज्ज्वल्यं कान्तिः। यथा 'नितराम्' इत्यादिप्रागुदाहते। दशमं शब्दगुणं समाधिं लक्षयति- बन्धगाढत्व-शिथिलत्वयोः क्रमेणावस्थापनं समाधिः। स्वोक्तिं प्राचीनसम्मत्या द्रढयति- अनयोरेव प्राचीनैरारोहावरोहव्यपदेशः कृतः। प्रसादात् समाधेर्व्यतिरेकं दर्शयति- क्रम एव हि तयोः, प्रसादादस्य भेदकः, तत्र हि तयोर्व्युत्त्रमेण वृत्तेः। समाधिमुदाहरति- यथा- कवि: कश्चिद् वर्णयति- 'स्वर्गनिर्गतनिरर्गलगङ्गा-तुङ्गभङ्गरतरङ्गसखानाम्। केवलामृतमुचां वचनानां, यस्य लास्यगृहमास्यसरोजम्।।' उपपादयति- अन्नारोह: प्रथमेऽर्धे, तृतीयचरणे त्ववरोहः। अन्नैव पूर्वार्धे माधुर्यसाङ्कर्यं निराकृत्योत्तरार्धेऽभ्युपगच्छति- गङ्गेत्यादौ माधुर्यस्य व्यञ्जकेषु वर्णेषु सत्स्वपि, दीर्धसमासान्तः पातितया न तस्य प्ररोहः। उत्तर्धे तु सोडपि। शब्दगुणनिरूपणमुपसंहरति- एते दश शब्दगुणाः। अथार्थगुणेषु प्रथमं श्लेषं निरूपयंल्लक्षयति- एवं क्रियापरम्परया विदग्धचेष्टितस्य, तदस्फुटत्वस्य, तदुपपादकयुक्तेश्च सामानाधिकरण्यरूपः संसर्गः श्लेषः। द्वितीयं प्रसादं लक्षयति-
Page 62
62 यावदर्थकपदत्वरूपमर्थवैमल्यं प्रसादः। उदाहरति- यथा- नायको दूती वा वदति- 'कमलानुकारि वदनं किल तस्याः' इत्यादि। स्पष्टप्रतिपत्तये प्रत्युदाहरणमपि दर्शयति- प्रत्युदाहरणन्तु यथा-'कमलकान्त्यनुकारि वक्त्रम्' इत्यादि। तृतीयां समतां लक्षयति- प्रकमाभङ्गेनार्थघटनात्मकमवैषम्यं समता। उदाहरति- यथा- भगवद्भक्तो वक्ति- 'हरिः पिता, हरिर्माता, हरिर्भ्राता, हरिःसुहृत्। हरिं सर्वत्र पश्यामि, हरेरन्यन्न भाति मे॥' उपपादयति- अन्न 'विष्णुर्भ्राता' इत्यादिनिर्माणे प्रकरमभङ्गात्मकं वैषम्यम्। चतुर्थं माधुर्यं लक्षयति- एकस्या एवोक्तेर्भङ्ग्यन्तरेण पुनःकथनात्मकमुक्तिवैचित्र्यं माधुर्यम्। उदाहरति- यथा- भक्तो भागीरथीं भाषते- 'विधत्तां निश्शङ्कं निरवधिसमाधिं विधिरहो, सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः। कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः, सवित्री कामानां यदि जगति जागर्ति भवती।।' उपपादयति- अत्र विध्यादिभिर्नास्ति किमपि प्रयोजनमित्येषोऽर्थः समाधिविधानादिप्रेरणारूपेणोक्तिवैचित्र्येणाभिहितः। अन्यथानवीकृतत्वापत्तेः। पञ्चमीं सुकुमारतां लक्षयति-
Page 63
63 अकण्डे शोकदायित्वाभावरूपमपारुष्यं सुकुमारता। उदाहरति- यथा-'त्वरया याति पान्थोऽयं प्रियाविरहकातरः।' उपपादयति- 'प्रियामरणकातरः' इत्यत्र शोकदायिनो मरणशब्दस्य सत्त्वात् पारुष्यम्। इदञ्चाश्लीलतादोषव्याप्यम्। षष्ठीमर्थव्यक्तिं लक्षयति- वस्तुनो वर्णनीयस्यासाधारण-क्रियारूपयोर्वर्णनमर्थव्यक्तिः। उदाहरति- यथा- नायकः सखायं ब्रवीति- 'गुरुमध्ये कमलाक्षी, कमलाक्षेण प्रहर्तकां माम्। रदयन्त्रितरसनाग्रं, तरलितनयनं निवारयाञ्चक्रे ।।' अर्थव्यक्तेः स्वभावोक्त्यलङ्काररूपतामाचष्टे- अयमेवेदानीन्तनैः स्वभावोक्त्यलङ्कार इति व्यपदिश्यते। सप्तमीमुदारतां लक्षयति- 'चुम्बनं देहि मे भार्ये! कामचाण्डालतृप्तये' इत्यदिग्राम्यार्थपरिहार उदारता। अष्टममोजो लक्षयति- एकस्य पदार्थस्य बहुभिः पदैरभिधानम्, बहूनां चैकेन, तथैकस्य वाक्यार्थस्य बहुभिर्वाक्यैः, बहुवाक्यार्थस्यैकवाक्येनाभिधानम्, विशेषणानां साभिप्रायत्वं चेति पञ्चविधमोजः। तत्र प्राचीनसम्मतिं दर्शयति- यदाहु :- 'पदार्थे वाक्यरचना, वाक्यार्थे च पदाभिधा। प्रौढिर्व्यास-समासौ च, साभिप्रायत्वमस्य च ॥' इति। विवृणोति- पूर्वार्धप्रतिपाद्यं द्वयं, व्यास-समासौ चेति चतुष्प्रकारा प्रौढिः, साभिप्रायत्वं चेति पञ्चप्रकारमोज इत्यर्थः। प्रौढेरतिरिक्तप्रकारत्वभ्रमनिवारणार्थमभिधत्ते-
Page 64
64 प्रौढिः प्रतिपादनवैचित्र्यम्। ओजसः प्रथमं प्रकारं पदार्थे वाक्यरचनारूपमुदाहरति- यथा- प्रभातं वर्णयति- 'सरसिजवनबन्धु-श्रीसमारम्भकाले, रजनिरमणराज्ये नाशमाशु प्रयाति। परमपुरुषवक्त्रादुद्गतानां नराणां, मधुमधुरगिरां च प्रादुरासीद्विनोदः॥' उपपादयति- अत्रोषसीत्येकपदार्थस्याभिधानाय प्रथमचरणः। अग्रेऽप्येवमूहितुमुपदिशति- इत्याद्यग्रेऽपि बोध्यम्। द्वितीयं प्रकारमुदाहरति- 'खण्डितानेत्रकञ्जालि-मञ्जुरञ्जनपण्डिताः। मण्डिताखिलदिक्प्रान्ताश्चण्डांशोर्भान्ति भानवः॥' उपपादयति- अत्र 'यस्याः पराङ्गनागेहात् पतिः प्रातर्गृहेऽञ्चति' इति वाक्यार्थे खण्डितापदाभिधानम्। तृतीयं प्रकारमुदाहरति- 'अयाचितः सुखं दत्ते, याचितश्च न यच्छति। सर्वस्वं चापि हरते, विधिरुच्छृङ्खलो नृणाम्।' उपपादयति- अन्र दैवाधीनं सर्वमित्येकस्मिन् वाक्यार्थे नानावाक्यरचनात्मको व्यासपदवाच्यो विस्तरः। चतुर्थं प्रकारमुदाहरति- 'तपस्यतो मुनेर्वक्त्राद् वेदार्थमधिगत्य सः। वासुदेवनिविष्टात्मा, विवेश परमं पदम्।।' उपपादयति-
Page 65
65 अत्र 'मुनिस्तपस्यति' 'तद्वक्त्रात् स वेदार्थमधिगतवान्' 'तदनन्तरं वासुदेवे परब्रह्मणि मनःप्रावेशयत्' 'ततश्च मुक्तोऽभूत्' इति वाक्यार्थकलापः शतृ-क्त्वा- बहुव्रीहिभिस्तिङन्तेन चानुवाद्यविधेयभावेनैकवाक्यार्थीकृतः। विशेषणस्य साभिप्रायत्वं विवृणोति- साभिप्रायत्वं प्रकृतार्थपोषकता। पञ्चमं प्रकारमुदाहरति- यथा- भक्तो भगवन्तं प्रार्थयते- 'गणिकाऽजामिलमुख्यानवता भवता बताहमपि। सीदन् भवमरुगर्ते, करुणमूर्ते! न सर्वथोपेक्ष्यः॥' उपपादयति- अत्रोपेक्षाभावे करुणामूर्तित्वं पोषकम्। पापिष्ठत्वात् करुणाया अभावे, प्रकृतेस्याः सम्पादनाय गणिकेत्यादि सीदन्निति च। नवमीं कान्तिं लक्षयति- दीप्तरसत्वं कान्तिः। दीप्तरसत्वं विवृणोति तच्च स्फुटप्रतीयमानरसत्वम्। उदाहरणादर्शनान्यूनतां परिहरति- उदाहरणं च वर्णितमेव रसप्रकरणे, वर्णयिष्यते च। दशमं समाधिं लक्षयति- अवर्णितपूर्वोऽयमर्थः पूर्ववर्णितच्छायो वेति कवेरालोचनं समाधिः।
ज्ञानस्य विषयतासम्बन्धेनार्थनिष्ठत्वादर्थगुणता। तयोः प्रथमं प्रकारमुदाहरति- आद्यो यथा- 'तनयमैनाकगवेषण-' इत्यदौ। द्वितीयप्रकारोदाहरणस्य बाहुल्यं दर्शयन् वामनमतमुपसंहरति- द्वितीयस्तु 'प्रायशः सर्वत्रैव' इत्याहुः। अथ परमतमखण्डितमभ्युपगतं भवतीति प्राचीनतरमतं निराकरोति- अपरे त्वेषु गुणेषु कतिपयान् प्रागुक्तैस्त्रिभिर्गुणैर्वक्ष्यमाणदोषाभावालङ्काराश्च
Page 66
66 गतार्थयन्तः, कांश्चिद्वैचित्र्यमात्ररूपतया क्वचिद् दोषतया च मन्यमाना न तावतः स्वीकुर्वन्ति। तत्र प्रथमं 'केचिदन्तर्भवन्त्येषु दोषत्यागात् परे श्रिताः। अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश।। इति समासेन शब्दगुणानां दशत्वखण्डनमुपपादयति- तथाहि-श्लेषोदारता-प्रसाद-समाधीनामोजोव्यञ्जकघटनायामन्तर्भावः। तन्राशङ्क्य समादधाति- न च श्लेषोदारतयोः सर्वांशे गाढबन्धात्मनोरोजोव्यञ्जकघटनाऽन्तर्भावोऽस्तु, प्रसादसमाध्योस्तु गाढशिथिलात्मनोरंशेनौजोव्यञ्जकान्तर्भावेऽप्यंशान्तरेण कुत्रान्तर्भाव इति वाच्यम्, माधुर्याभिव्यञ्जके प्रसादाभिव्यञ्जके वेति सुवचत्वात्। माधुर्यगुणं निराकरोति- माधुर्यं तु परेषामस्मदभ्युपगतमाधुर्यव्यञ्जकमेव। पर्यवसितमाह- एवं च सर्वत्र व्यञ्जके व्यङ्ग्यशब्दप्रयोगो भाक्तः। समताया गुणत्वं निरस्यति- समता तु सर्वत्रानुचितैव, प्रतिपाद्योद्भटत्वाभ्यामेकस्मिन्नेव पद्ये मार्गभेदस्येष्टत्वात्। तदुदाहरणं दर्शयति- यथा- सुकवित्वाभिमानाध्मातहृदयः कश्चित् वरं विपश्चितं ब्रूते- 'निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रव- न्मृद्दीकामधुमाधुरी-मदपरीहारोद्धुराणां गिराम्। काव्यं तर्हि सखे! सुखेन कथय त्वं सम्मुखे मादृशां, नो चेद्दुष्कृतमात्मना कृतमिव स्वान्ताद्वहिर्मा कृथाः॥' उपपादयति- अन्र पूर्वार्धे तृतीयचरणे च लोकोत्तरनिर्माणप्रतिपादके यो मार्गो न स चतुर्थचरणे कदर्यकाव्यप्रतिपादक इति वैषम्यमेव गुणः। कान्तेः सुकुमारतायाश्च दोषाभावरूपत्वाद् गुणत्वं निरस्यति- ग्राम्यत्व-कष्टत्वयोस्त्यागात् कान्ति-सौकुमार्ययोर्गतार्थता। प्रसादेन्तर्भावादर्थव्यक्तिं निराकरोति-
Page 67
67 प्रसादेन चार्थव्यक्तेरिति। अथार्थगुणानामपि दशानां निरसनमारभते- अर्थगुणेष्वपि-श्लेषः, ओजस आद्याश्चत्वारो भेदाश्च, वैचित्र्यमात्ररूपा न गुणान्तर्भावमर्हन्ति। वैचित्र्यमात्रस्य गुणत्वाङ्गीकारे दोषमाह- अन्यथा प्रतिश्लोकमर्थवैलक्षण्याद् गुणभेदापत्तेः। ओज:पञ्चमप्रकारसहितं वामनोक्तार्थगुणसप्तकं दोषाभावरूपतादर्शनेन निरस्यति- अनधिकपदत्वात्मा प्रसादः, उक्तवैचित्र्यवपुर्माधुर्यम्, अपारुष्यशरीरं सौकुमार्यम्, अग्राम्यत्वरूपोदारता, वैषम्याभावलक्षणा समता, साभिप्रायत्वात्मकः पञ्चम ओजसः प्रकारः, स्वभावस्फुटत्वात्मिकाऽर्थव्यक्तिः, स्फुटरसत्वरूपा कान्तिश्च, अधिकपदत्वा- नवीकृतत्वा-मङ्गलरूपाश्लील-ग्राम्य-भग्नप्रकमापुष्टार्थरूपाणां दोषाणां निराकरणेन, स्वभावोक्त्यलङ्कारस्य, रसध्वनि-रसवदलङ्कारयोश्च स्वीकरणेन च गतार्थानि। समाधिं निराकरोति- समाधिस्तु कविगतः काव्यस्य कारणं न गुणः। ननु काव्यकारणत्वेऽपि समाधेः कुतो न गुणत्वमित्यत आह- प्रतिभाया अपि काव्यगुणत्वापत्तेः। निगमयति- अतस्त्रय एव गुणा इति मम्मटभट्टादयः। अथ प्राचीनोक्तगुणानां कियतां रचनास्वन्तर्भावकथनाद्रचनाज्ञानस्यापेक्षायां ताः क्मेण निरूपयन्नादौ माधुर्यव्यञ्जकरचनां निरूपयति- तत्र टवर्गवर्जितानां वर्गाणां प्रथम-तृतीयैः, शर्भिरन्तस्थैश्च घटिता, नैकट्येन प्रयुक्तैरनुस्वार-परसवर्णैः शुद्धानुनासिकैश्च शोभिता, वक्ष्यमाणैः सामान्यतो विशेषतश्च निषिद्धैः संयोगादयैरचुम्बिता, अवृत्तिर्मृदुवृत्तिर्वा रचनाऽनुपूर्व्यात्मिका माधुर्यस्य व्यञ्जिका। तद्वर्गचतुष्टयघटक-व्यवच्छिन्न-द्वितीयचतुर्थवर्णविषये विशेषमाह- द्वितीय-चतुर्थास्तु वर्ग्या गुणस्यास्य नानुकूलाः, नापि प्रतिकूलाः, दूरतया सन्निवेशिताश्चेत्। तन्नापि विशेषमभिधत्ते-
Page 68
68 नैकट्येन तु प्रतिकूला अपि भवन्ति, यदि तदायत्तोऽनुप्रासः। अन्नैव परकीयं मतमाचष्टे- अन्ये तु-वर्गस्थानां पञ्चानामविशेषेण माधुर्यव्यञ्जकतामाहुः। माधुर्यगुणव्यञ्जकरचनामुदाहरति- उदाहरणम्- भगवद्भक्तः स्वान्तं बोधयति- 'तां तमालतरुकान्तिलङ्गिनीं, किङ्करीकृतनवाम्बुदत्विषम्। स्वान्त! मे कलय शान्तये चिरं, नैचिकीनयनचुम्बितां श्रियम्॥।' पुनरुदाहरति- यथा वा- 'स्वेदाम्बुसान्द्कणशालिकपोलपालि- रन्तःस्मितालसविलोकनवन्दनीया। आनन्दमङ्करयति स्मरणेन काऽपि, रम्या दशा मनसि मे मदिरेक्षणायाः॥' पद्यद्वयोदाहरणतामुपपादयति- प्रथमे पद्येऽतिशयोक्त्यलङ्कृतस्य भगवद्ध्यानौत्सुक्यस्य भगवद्विषयकरतेर्वा ध्वन्यमानायाः शान्त एव पर्यवसानात् तद्गतमाधुर्यस्याभिव्यञ्जिका रचनेयम्। द्वितीये तु स्मृत्युपष्टब्धश्रृङ्गाररसस्य। ओजोव्यञ्जकरचनां निरूपयति- नैकट्येन द्वितीय-चतुर्थवर्गवर्ण-टवर्ग-जिह्वामूलीयोपध्मानीय-विसर्ग- सकारबहुलैवर्णैर्घटितो झय्रेफान्यतरघटितसंयोगपरह्नस्वैश्च नैकव्येन प्रयुक्तैरालिङ्गितो दीर्घवृत्त्यात्मा गुम्फ ओजसः। विशेषमाचष्टे- अस्मिन् पतिताः प्रथम-तृतीयवर्ग्या गुणस्यास्य नानुकूला नापि प्रतिकूला संयोगाघटकाश्चेत्। तद्धटकास्त्वनुकूला एव। एवमनुस्वारपरसवर्णा अपि। उदाहरति- यथा-'अयं पततु निर्दयं दलितदृप्त-' इत्यादौ प्रागुदाहृते। प्रसादव्यञ्जकरचनां निरूपयति- श्रुतमात्रा वाक्यार्थं करतलबदरमिव निवेदयन्ती घटना प्रसादस्य।
Page 69
69 अत्र विशेषमाह- अयं च सर्वसाधारणो गुणः। उदाहरणविषये ब्रवीति- उदाहरणान्यत्र प्रायशो मदीयानि सर्वाण्येव पद्यानि। तथापि यथा। मानिनीं मुग्धां सहचरी परिबोधयति- 'चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः प्राणेशः प्रणयाकुल:, पुनरसावास्तां समस्ता कथा। एतत्त्वां विनिवेदयामि मम चेदुक्तिं हितां मन्यसे मुग्धे! मा कुरु मानमाननमिदं राकापतिर्जेष्यति॥' उपपादयति- अत्र सर्वावच्छेदेन प्रसादाभिव्यञ्जकत्वम्, अंशभेदेन तु माधुर्यौजोऽभिव्यञ्जकत्वमपि, मनसिजान्तस्य मा कुर्वादेश्च माधुर्याभिव्यक्तिहेतुत्वात्, सख्य इत्यादेरोजोगमकत्वात्। अन्रौजोव्यञ्जकरचनाया अप्रसक्तिमाशङ्क्य निरस्यति- नन्वत्र श्रृङ्गाराश्रयस्य माधुर्यस्याभिव्यक्तये तदनुकूलाऽस्तु नाम रचना, ओजसस्तु कः प्रसङ्गे यदर्थं तदनुकूलवर्णविन्यास इति चेत्, नायिकामानोपशान्तये कृतानेकयलायास्तदीयं हितमुपदिशन्त्याः, सख्याः सक्रोधत्वस्य व्यञ्जनीयतया तथाविन्यासस्य साफल्यात्। उत्तरपक्षं समर्थयति- किं बहुना-रसस्यौजस्विनो ऽमर्षादेर्भावस्य चाविवक्षायामपि, वक्तरि ऋ्ुद्ध्तया प्रसिद्धे वाच्ये वा क्रूरतरे, आख्यायिकादौ प्रबन्धे वा परुषवर्णघटनेष्यते। पूर्वोदाहरणे माधुर्यसाङ्कर्यादसङ्कीर्णमुदाहरणमाह- यथा वा- भक्तो भगवन्तं भाषते- 'वाचा निर्मलया सुधामधुरया यां नाथ! शिक्षामदा- स्तां स्वप्नेऽपि न संस्पृशाम्यहमहम्भावावृतो निस्त्रपः। इत्यागरशतशालिनं पुनरपि स्वीयेषु मां बिभ्रत- स्त्वत्तो नास्ति दयानिधिर्यदुपते! मत्तो न मत्तः परः॥'
Page 70
70 उपपादयति- अत्र गुणान्तरासमानाधिकरणः प्रसादः। अथोक्तरचनासु सामान्येन विशेषेण च श्रवणोद्वेजकत्वाद्वर्जनीयानां निरूपणमवतारयति- इदानीं तत्तद्गुणव्यञ्जनक्षमाया निर्मितेः परिचयाय, सामान्यो विशेषतश्च वर्जनीयं किञ्चिन्निरूप्यते- वर्णानां स्वानन्तर्यं सकृदप्येकपदगतत्वे किञ्चिदश्रव्यम्। उदाहरति- यथा-'ककुभसुरभिः, विततगात्रः, पललमिवाभाति' इत्यादौ। विशेषमाचष्टे- असकृच्चेदधिकम्। उदाहरति- यथा-'वितततरस्तरुरेष भाति भूमौ'। स्वानन्तर्यस्य पृथक्पदघटकत्वेऽप्यश्रव्यत्वमाह- एवं भिन्नपदगतत्वेऽपि। उदाहरति- यथा-'शुक! करोषि कथं विजने रुचिम्' इत्यादौ। पृथक्पदघटकत्वेऽसकृत् स्वानन्तर्यस्यातिवर्ज्यत्वमभिदधाति- असकृद्भिन्नपदगतत्वे ततोऽप्यधिकम्। उदाहरति- यथा-'पिक! ककुभो मुखरीकुरु प्रकामम्'। इत्थं स्वानन्तर्यस्याश्रव्यत्वं प्रतिपाद्य, स्ववर्ग्यानन्तर्यस्य तत् प्रतिपादयति- एवं स्ववर्ग्यानन्तर्यं सकृदेकपदगतत्वे किञ्चिदश्रव्यम्। उदाहरति- यथा-'वितथस्ते मनोरथः।' विशेषमाह- असकृच्चेदधिकम्। उदाहरति- यथा-'वितथतरं वचनं तव प्रतीमः'।
Page 71
71 भिन्नपदघटकवर्णानां सकृत् स्ववर्ग्यानन्तर्यस्य किञ्चिदश्रव्यत्वमभिधत्ते- एवं भिन्नपदगतत्वे। उदाहरति- यथा-'अथ तस्य वचः श्रुत्वा' इत्यादौ। भिन्नपदघटकस्ववर्ग्यासकृदानन्तर्यस्य नितरामश्रव्यत्वमाह- असकृद् भिन्नपदगतत्वे तु ततोऽप्यधिकम्। उदाहरति- 'अथ तथा कुरु, येन सुखं लभे'। विशेषमाह- एतच्च वर्गाणां प्रथमद्वितीययोस्तृतीयचतुर्थयोरानन्तर्यम्। तदतिरिक्तानामीषदश्रव्यत्वमाचष्टे- प्रथमतृतीययो-र्द्वितीयतृतीयोर्वाsडनन्तर्यं तु तथा नाश्राव्यम्, किन्त्वीषत्, निर्माणमार्मिकैकवेद्यम्। असकृत्तदानन्तर्यस्य नितरामश्रव्यत्वमाह- एतदप्यसकृच्चेत्, ततोऽधिकत्वात् साधारणैरपि वेद्यम्। क्मेणोदाहरति- यथा-'खग! कलानिधिरेष विजृम्भते।' 'इति वदति दिवानिशं स धन्यः।' वर्गपञ्चमवर्णानन्तर्यविषये विशेषमाह- पञ्चमानां मधुरत्वेन स्ववर्ग्यानन्तर्यं न तथा। उदाहरति- यथा-'तनुते तनुतां तनौ।' विशेषमभिदधाति- स्वानन्तर्यं त्वश्रव्यमेव। उदाहरति- यथा-'मम महती मनसि व्यथाऽविरासीत्।' प्रागुक्तानामपवादमाह- एतानि चाश्रव्यत्वानि गुरुव्यवायेनापोद्यन्ते। उदाहरति- 'सञ्जायतां कथङ्कारं काके केका-कलस्वनः।'
Page 72
72 दार्ढ्याय पुनरुदाहरति- यथा वा- नायक: परामृशति- 'यथा यथा तामरसायतेक्षणा, मया सरागं नितरां निषेविता। तथा तथा तत्त्वकथेव सर्वतो, विकृष्य मामेकरसं चकार सा।।' तदाह- इदन्तु दीर्घव्यवाये। येषां पुनर्लघूनामपि संयोगपरकत्वेनातिदेशिकं गुरुत्वं तद्व्यवधानमुदाहरति- संयोगपरव्यवाये तु- 'सदा जयानुषङ्गाणामङ्गानां सङ्गरस्थलम्। रङ्गाङ्गणमिवाभाति, तत्तत्तुरगताण्डवैः॥' उक्तापवादे विशेषमभिधत्ते- इदन्तु बोध्यम्-गुरुर्ययोर्व्यवधायकस्तयोरेव वर्णयोरानन्तर्यकृतमश्रव्यत्वमपवदति, तेनात्र [थकारतकारानन्तर्यकृतदोषापवादेऽपि] तकारथकारान्तर्यकृतमश्रव्यत्व- मनपनोदितमेव। अश्रव्यान्तरं वदति- एवं त्र्यादीनां संयोगोऽपि प्रायेणाश्रव्यः। उदाहरन्नुपसंहरति- 'राष्ट्रे तवोष्ट्रय: परितश्चरन्ति' इत्येवमादयः श्रुतिकाटवभेदा अन्येऽ्प्यनुभवानुसारेण बोध्याः। पुनरश्रव्यान्तरमाचष्टे- अथ दीर्घानन्तर्यं संयोगस्य भिन्नपदगतस्य सकृदप्यश्रव्यम्, असकृत् तु सुतराम्। उदाहरति- हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते। सेवितं सर्वसम्पद्भिरपि तद्भवनं वनम्॥' अभिन्नापदकत्वे दीर्घानन्तर्यं संयोगस्य नाश्रव्यमित्याह- एकपदगतस्य तु तथा नाश्रव्यम्। उदाहरति- यथा-'जाग्रता विचितः पन्थाः, शात्रवाणां वृथोद्यमः।
Page 73
73 संयोगन्तरे विशेषमभिधत्ते- परसवर्णकृतस्य तु संयोगस्य सर्वथा दीर्घाद् भिन्नपदगतत्वाभावान्मधुर-त्वाच्चानन्तर्यं न मनागप्यश्रव्यम्। उदाहरति- यथा-'तान्तमालतरुकान्ति-' इत्यादिपद्ये। इह 'तान्ते ति नोङ्गिमिति संयोगस्य दीर्घानन्तर्य भिन्नपदगतत्वाभावान्नाश्रव्यमित्याह- अन्न 'ता'मित्यत्र 'नी'मित्यत्र च परसवर्णस्य पूर्वपदभक्ततया न संयोगोभिन्नपदगतः। ननु 'हलोऽनन्तराः संयोगः' इति सूत्रभाष्ये प्रत्येकं हल्वर्णानां संयोगसंज्ञया अपि व्यवस्थापनात्तत्पक्षे 'तान्ते त्यादौ संयोगस्य भिन्नपदघटकत्वमस्त्येवेति चेत्, उच्यते तथा सति नकारस्य पूर्वपदावयवत्वाभावात् तेन व्यवहितस्य संयोगस्य न दीर्घाव्यवहितपरत्वमिति न दोष इत्याह- प्रत्येकं संयोगसंज्ञेति पक्षेऽ्रपि भिन्नपदगतः संयोगो न दीर्घाव्यवहितपरः। नन्वेवमपि 'नव-अम्बुद-' इत्यत्र दीर्घैकादेशस्य पूर्वापरपदद्वयावयवत्वे निर्णीते, परपदगतस्य 'म्बु' इति संयोगस्य, पूर्वपदावयवदीर्घाकारादानन्तर्यं भिन्नपदघटकत्वं चास्त्येवेत्यश्रव्यत्वं दुष्परिहरमिति चेत्, न, भिन्नपदगतत्वमित्यस्यैकपदाघटकत्वपरत्वात्, प्रकृते दीर्घैकादेशस्य पूर्वपदस्याप्यवयवत्वेन संयोगघटितपरपदघटकत्वादेकपदा- घटकत्वस्याभावान्न दोष इत्याह- 'नवाम्बुदे-' त्यत्र त्वेकादेशस्य पदद्वयभक्ततया दीर्घाद्भिन्नपदगतत्वे सत्यव्यवहितोत्तरत्वं यद्यपि परसवर्णकृतसंयोगस्य भवति, तथाप्यत्र भिन्नपदगतत्वमेकपदगतभिन्नत्वं विवक्षितमित्यदोषः। इत्थं दीर्घादनन्तरस्य परसवर्णानिष्पन्नस्य भिन्नादघटकस्य संयोगस्य सकृदपि प्रयोगेऽश्रव्यत्वं चेत्, तदा किमुतासकृत्प्रयोग इत्याख्याति- असकृत्तु सुतराम्। उदाहरति- यथा-'एषा प्रिया मे क्व गता त्रपाकुला'। नन्वनेनाश्रव्यत्वेन काव्यस्य का क्षतिरित्याकाङ्क्षायामभिदधाति- इयं चाश्रव्यत्वं काव्यस्य पङ्गुत्वमिव प्रतीयते। अश्रव्यान्तरमाचष्टे-
Page 74
74 अथ स्वेच्छ्या सन्ध्यकरणं सकृदप्यश्रव्यम्। उदाहरति- यथा-'रम्याणि इन्दुमुखि! ते किलकिञ्चितानि। प्रगृह्यसंज्ञया प्रकृतिभावे सकृत् सन्धिकार्याकरणे नाश्रव्यत्वम्, असकृत्त्वश्रव्यत्वमेवेत्याह- प्रगृह्यताप्रयुक्तं त्वसकृदेव। उदाहरति- 'अहो अमी इन्दुमुखीविलासाः'। एवं 'लोपः शाकल्यस्य' इति सूत्रेण य-वयोर्लोपस्यासिद्धताप्रयुक्तमसकृद् विश्लेषरूपं सन्धिकार्याननुष्ठानमप्यश्रव्यमित्युपदिशति- एवमेव च य-व-लोपप्रयुक्तम्। उदाहरति- 'अपर इषव एते कामिनीनां दृगन्ताः'। स्वकीयकाव्य एतद्दोषमाशङ्कय परिहरति- कथं तर्हि- चाटुकारो नृपमाचष्टे- 'भुजगाहितप्रकृतयो गारुडमन्त्रा इवावनीरमण!। तारा इव, तुरगा इव, सुखलीना मन्त्रिणो भवतः॥' इति भवदीयं काव्यमिति चेद्, अकृत्वैव यलोपं पाठान्न दोषाः। अश्रव्यान्तराणि सङ्गृह्य वक्ति- एवं रोरुत्वस्य, हलि लोपस्य, 'यण्-गुणवृद्धि-सवर्णदीर्घं-पूर्वरूपादीनां नैकट्येन बाहुल्यमश्रव्यताहेतुः। उपसंहरति- एवमिमे सर्वेऽ्प्यश्रव्यभेदाः काव्यसामान्ये वर्जनीयः। अथ रसविशेषानुसारं काव्यविशेषे वर्जनीयान् दोषान् वक्तुमुपक्र्मते- अथ विशेषतो वर्जनीयाः। तत्र मधुररसेषु ये विशेषतो वर्जनीया अनुपदं वक्ष्यन्ते त एवौजस्विष्वनुकूलाः, ये चानुकूलतयोक्ताः, ते प्रतिकूला इति सामान्यतो निर्णयः। मधुररसेषु प्रतिकूलतया वर्जनीयान् गणयन्नादावसकृत्प्रयोग एव दूषकान् ब्रवीति- मधुररसेषु दीर्घसमासं झय्घटितसंयोगपरह्नस्वस्य, विसर्जनीयादेशसकारजिह्वामूलीयो-पध्मानीयानां टवर्ग-झयां, रेफ-
Page 75
75 हकारान्यतरघटितसंयोगस्य, हलां ल-म-न-भिन्नानां स्वात्मना संयोगस्य, झय्द्वयघटितसंयोगस्य चासकृत् प्रयोगं नैकव्येन वर्जयेत्। अथ सकृदसकृच्च प्रयोगो ययोर्वर्जनीयौ, तावाह- सवर्णझय्द्वयघटितसंयोगस्य, शर्भिन्नमहाप्राणघटितसंयोगस्य सकृदपीति संक्षेप:। अथ वर्जनीयानुदाहरत्रुद्देशक्रमेण प्रथमं दीर्घसमासमुदहरति- दीर्घसमासा यथा- अभिसारिकां वर्णयति- 'लोलालकावलि-वलन्नयनारविन्द- लीलावशंवदितलोकविलोचनायाः। सायाहनि प्रणयिनो भवनं व्रजन्त्या- श्चेतो न कस्य हरते गतिरङ्गनायाः॥' द्वितीयमुदाहरति- झय्घटितसंयोगपर-ह्रस्वानां प्राचुर्यं नैकव्येन यथा- ललनाजनं विलोकयन् कोऽपि विमृशति- 'हीर-स्फुरद्रदनशुभ्रिमशोभि किञ्च, सान्द्रामृतं वदनमेणविलोचनायाः। वेधा विधाय पुनरुक्तमिवेन्दुबिम्बं, दूरीकरोति न कथं विदुषां वरेण्यः।।' उपपादयति- अन्र भ्रिशब्दपर्यन्तं श्रृङ्गाराननुगुणम्, शिष्टन्तु रमणीयम्। उत्तरार्घे ककार- तकाररूपझय्द्वयसंयोगस्य सत्त्वेऽपि, प्राचुर्याभावान्न दोषः। यदि तु 'दन्तांशुकान्तमरविन्दरमापहारि, सान्द्रामृतम्' इत्यादि क्रियते, तदा सर्वमेव रमणीयम्। तृतीयमुदाहरति- विसर्गप्राचुर्यं यथा- नायको विभावयति- 'सानुरागास्सानुकम्पाश्चतुराश्शीलशीतलाः। हरन्ति हृदयं हन्त! कान्तायास्स्वान्तवृत्तयः॥' उपपादयति- अन्र शकारद्वयसंयोगान्तं पूर्वार्धं माधुर्याननुगुणम्।
Page 76
76 विसर्जनीयादेशजिह्वामूलीयप्राचर्यमुदाहरति- जिह्वामूलीयप्राचुर्यं यथा- वियोगिनी सखीं ब्रूते- 'कलितकुलिशघाताः केऽपि खेलन्ति वाताः कुशलमिह कथं वा जायतां जीविते मे। अयमपि बत! गुञ्जन्नालि! माकन्दमौलौ, चुलुकयति मदीयां चेतनां चञ्चरीकः॥' उपपादयति- अत्र द्वितीयजिह्वामूलीयपर्यन्तमननुगुणं माधुर्यस्य। यदि च-'कथय कथमिवाशा जायतां जीविते मे, मलयभुजगवान्ता वान्ति वाताः कृतान्तः ।' इति विधीयते, तदा नायं दोष:। विसर्गस्थानिकोपध्मानीयप्राचुर्यमुदाहरति- उपध्मानीयप्राचुर्यं यथा- निर्विण्णः परामृशति- 'अलकाः फणिशावतुल्यशीला नयनान्ताः परिपुद्गितेषु लीलाः। चपलोपमिता खलु स्वयं या, बत! लोके सुखसाधनं कथं सा।' उपपादयति- अन्र द्वावुपध्मानीयावेव न शान्तानुगुणौ। टवर्गस्य झयां च प्राचुर्यमुदाहरति- टवर्ग-झयां प्राचुर्यं यथा- न्यक्कतो नायको मानिनीमनुनयन्नभिदधाति- 'वचने तव यत्र माधुरी सा, हृदि पूर्णा करुणा च कोमलेजभूत्। अधुना हरिणाक्षि! हा कथं वा, कटुता तत्र कठोरताऽडविरासीत्।।' अन्नैव पाठान्तरदर्शनेन दोषं परिहरति- 'अधुना सखि! तत्र हा कथं वा, गतिरन्यैव विलोक्यते गुणानाम्।' इति त्वनुगुणम्। रेफघटितसंयोगस्य प्राचुर्यमुदाहरति- रेफघटितसंयोगस्यासकृत्प्रयोगो यथा- अनुपमम्मन्यामन्याऽभिधत्ते-
Page 77
77 'तुलामनालोक्य निजामखर्वं, गौराङगि! गर्वं न कदापि कुर्याः। लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु॥' पाठपरिवर्तनेन दोषं परिहरति- यदि तु 'तुलामनालोक्य महीतलेऽस्मिन्' इति निर्मीयते, तदा साधु। लकार-मकार-नकारभिन्नानां व्यञ्जनवर्णानां स्वेनैव संयोगस्य प्राचुर्यमुदाहरति- हलां ल-म-न-भिन्नानां स्वात्मना संयोगस्यासकृत् प्रयोगो यथा- खण्डिता नायकमुपालभते- 'विगणय्य मे निकाय्यं, तामनुयातोऽसि, नैव तन्न्याय्यम्।' नकारादिवर्णत्रयव्यवच्छेदकारणं भणति- ल-म-नानां त्वात्मना संयोगस्तु न तथा पारुष्यमावहति। उदाहरति- यथा- लक्षितां नायिकामालि: पृछति- 'इयमुल्लसिता मुखस्य शोभा, परिफुल्लं नयनाम्बुजद्वयं ते। जलदालिमयं जगद् वितन्वन्, कलितः क्वापि किमालि! नीलमेघः॥' झयद्वयसंयोगमुदाहरति- झय्घटितसंयोगस्य यथा- नायको मानिनीं ब्रवीति- 'आसायं सलिलभरे, सवितारमुपास्य सादरं तपसा। अधुनाऽब्जेन मनाक् तव, मानिनि! तुलना मुखस्याप्ता।।' उपपादयति- अन्र द्वितीयार्धमरम्यम्। तत्परिहाराय पाठं परिवर्तयति- 'सरसिजकुलेन सम्प्रति, भामिनि! ते मुखतुलाऽधिगता।' इति तु साधु। झयद्वयसंयोगस्त्वसकृद्दुष्टः सवर्णझयद्वयसंयोगस्तु सकृदपि दुष्ट इत्युदाहरन्नाह- सवर्णझय्द्वयघटितसंयोगस्य सकृत्प्रयोगस्य यथा- नायको मानिनीमनुनयन् ब्रूते- 'अयि! मन्दस्मितमधुरं वदनं तन्वङ्गि! यदि मनाक्कुरुषे।
Page 78
78 अधुनैव कलय शमितं, राकारमणस्य हन्त! साम्राज्यम्।।' सवर्णझयुद्वयघटितसंयोगनिषेधस्य निषेधान्तरैर्गतार्थत्वमाशड्क्य निरस्यति- नन्वत्र ककारद्वयसंयोगस्य हल्घटितस्वात्मसंयोगत्वेनैव निषेधात्, क-खसंयोगस्य महाप्राणसंयोगनिषेधविषयत्वात् तृतीयसंयोगस्य चासम्भवात्, सवर्णझय्द्वयसंयोगनिषेधो निरवकाश इति चेत्, न सकृत्प्रयोगविषयत्वेनास्य पार्थक्यात्। अन्यथा 'मनाक्करुषे' इति निर्दोषं स्यात्। महाप्राणप्रयत्नवद्वर्णघटितसंयोगमुदाहरति- महाप्राणघटितसंयोगो यथा- 'अयि मृगमदबिन्दुं चेद्ाले बाले समातनुषे। उत्तरार्धं तु प्राचीनमेव। अथ मधुररसेषु व्यञ्जनीयेषु वर्जनीयान्तराणि प्रतिपादयति- एवं त्वप्रत्ययं, यङन्तानि, यङ्लुगन्तान्यन्यानि च शब्दिकप्रियाण्यपि मधुररसे न प्रयुञ्जीत। अथ ध्वनिकारानुमतानि मधुररसेषु वर्जनीयान्याह- एवं व्यङ्ग्यचर्वणातिरिक्तयोजनाविशेषापेक्षा- नापाततोऽधिकचमत्कारिणोऽनुप्रासप्रबन्धान् यमकादींश्च सम्भवतोऽपि कविर्न निबध्नीयात्। तेषां वर्ज्यताया निमित्तमभिधत्ते- यतो हि ते रसचर्वणायामनन्तर्भवन्तः सहृदयहृदयं स्वाभिमुखं विदधाना रसपराङ्मुखं विदधीरन्। 'विप्रलम्भे विशेषतः' इत्युक्तं विप्रलम्भश्रृङ्गारध्वनौ विशेषेण तन्निषेधमाह- विप्रलम्भे तु सुतराम्। तत्र हेतुं प्रतिपादयति- यतो मधुरतमत्वेनास्य निर्मलसितानिर्मितपानकरसस्येव, तनीयानपि स्वातन्त्र्यमावहन् पदार्थः, सहृदयहृदयारुन्तुदतया न सर्वथैव सामानाधिकरण्यमर्हति। एतत्प्रघट्टकोक्तमर्थं प्रमाणयति- यदाहु :- ध्वनिकारा इति शेष :- 'ध्वन्यात्मभूते श्रृङ्गारे यमकादिनिवेशनम्। शक्तावपि प्रमादित्वं, विप्रलम्भे विशेषतः॥'
Page 79
79 निषेधप्रतिप्रसवमाख्याति- ये तु पुनरक्लिष्टतयाऽनुन्नतस्कन्धतया च न पृथग्भावनामपेक्षन्ते, किन्तु रसचर्वणायामेव सुसुखं गोचरीकर्तुं शक्याः, न तेषामनुप्रासादीनां त्यागो युक्तः। मधुररसानुकूलमनुप्रासमुदाहरति- यथा- सखी नायिकां व्याहरति- कस्तूरिकातिलकमालि! विधाय सायं, स्मेरानना सपदि शीलय सौधमौलिम्। प्रौढिं भजन्तु कुमुदानि मुदामुदारा- मुल्लासयन्तु परितो हरितो मुखानि॥।' माधुर्यगुणाश्रयरसव्यञ्जकरचनादोषप्रदर्शनमुपसंहरति- इत्थमेते प्रसङ्गतो मधुररसाभिव्यञ्जिकायां रचनायां संक्षेपेण निरूपिता दोषाः। प्रसङ्गाद वैदर्भी रीतिं निरूपयति- 'एभिर्विशेषविषयैः, सामान्यैरपि च दूषणै रहिता। माधुर्यभारभङ्गर-सुन्दर-पद-वर्णविन्यासा॥ व्युत्पत्तिमुद्रिरन्ती, निर्मातुर्या प्रसादयुता। तां विबुधा वैदर्भी, वदन्ति वृत्तिं गृहीतपरिपाकाम्।।' अस्याः प्रसिद्धिं दर्शयति- अस्यामुदाहृतान्येव कियन्ति पद्यानि। तथापि सहृदयविनोदायोदाहरति- यथा वा- मानिनीमालि: प्रेयान् वा बोधयति- 'आयातैव निशा, निशापतिकरैः कीर्णं दिशामन्तरं भामिन्यो भवनेषु भूषणगणैरुल्लासयन्ति श्रियम्। वामे! मानमपाकरोषि न मनागद्यापि रोषेण ते हा हा !! बालमृणालतोऽप्यतितमां तन्वी तनुस्ताम्यति।।' एतद्रचनायां स्खलनपरिहाराय कवेरवधानातिशयस्यापेक्षां प्रतिपादयति- अस्याश्च रीतेर्निर्माणे कविना नितरामवहितेन भाव्यम्। अन्यथा तु परिपाकभङ्ग:
Page 80
80 स्यात्। अमरुककवेरनवधानेनोपहितं परिपाकभङ्गमुदाहरति- यथाऽमरुककविपद्ये- मुग्धावृत्तं वर्णयति- 'शून्यं वासगृहं विलोक्य, शयनादुत्थाय किञ्चिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्। विस्रब्धं परिचुम्ब्य, जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता।।' उपपादयति- अन्र 'उत्थाय किञ्चिच्छनैः' इत्यत्र सवर्णझयद्वयसंयोगः, तत्रापि नैकव्येन सुतरामश्रव्यः। एवं झय्घटितसंयोगपरह्नस्वस्यापि। तथा 'शनैर्निद्रा' इत्यत्र 'निर्वर्ण्य पत्युर्मुखम्' इत्यत्र च रेफघटितसंयोगस्य, झय्घटितसंयोगपरह्नस्वस्य च प्राचुर्यम्। 'विस्नब्धम्' इत्यत्र महाप्राणघटितस्य, 'लज्जा' इत्यत्र स्वात्मसवर्णझय्द्वयघटितस्य, 'मुखी प्रियेण' इत्यत्र भिन्नपदगतदीर्घानन्तरस्य संयोगस्य, तथा क्त्वाप्रत्ययस्य पञ्चकृत्वः, लोकतेश्च द्विः प्रयोग: कवेर्निर्माणसामग्रीदारिद्यं प्रकाशयति। 'महीयसां दोषोद्धोषणमात्मन एव दूषणं भवती' त्यभियुक्तोक्तिं स्मरंस्ततो विरमति- इत्यलं परकीयकाव्यविमर्शनेन। प्रकान्तं सविशेषरसनिरूपणमुपसंहरति- इति सङ्क्षेपेण निरूपिता रसाः। रसध्वनिनिरूपणानन्तरं प्राप्तावसरतया भावध्वनिं निरूपयितुमाचष्टे- अथ भावध्वनिर्निरूप्यते- प्रथमं भावस्य ज्ञानाय लक्षणं पृष्टवा परोक्तं तत् खण्डयति- अथ किं भावत्वम्?' विभावानुभावभिन्नत्वे सति, रसव्यञ्जकत्वमिति चेत्, रसकाव्यवाक्येऽतिव्याप्त्यापत्तेः। ननु शब्दस्य व्यञ्जकत्वविरहात् कुतोऽतिव्याप्तिरत आह- अर्थद्वारा शब्दस्यापि व्यञ्जकत्वात्। शब्दस्य साक्षाद्व्यञ्जकत्वमबुद्ध्वा दोषवारणाय लक्षणे निवेशं विधाय निरस्यति- द्वारान्तरनिरपेक्षत्वेन व्यञ्जकत्वे विशेषिते त्वसम्भवः प्रसज्येत, भावस्यापि
Page 81
81 भावनाद्वारैव व्यञ्जकत्वात्, भावनायामतिव्याप्त्यापत्तेश्च। ननु काव्यवाक्येऽतिव्याप्तिं वारयितुं शब्दभिन्नत्वे सतीत्यपि लक्षणे प्रवेश्यतामित्युक्तिं निराकरोति- अत एव च [विभावानुभावभिन्नत्वस्येव] शब्दभिन्नत्वस्यापि तद्विशेषणत्वे न निस्तारः। प्रधानध्वन्यमानभावे रसव्यञ्जकताऽभावादव्याप्त्यापत्तेश्च। भावध्वनावव्याप्तिमात्रवारणमाशङ्क्य खण्डयति- न च तत्रापि प्रान्ते रसोऽभिव्यज्यत एवेति वाच्यम्, भावध्वनिविलोपप्रसङ्गात्। पुनरिहाशङ्क्य समादधाति- भावचमत्कारप्रकर्षाद् भावध्वनित्वम्, रसस्तु तत्र व्यज्यमानोऽप्यचमत्कारित्वान्न ध्वनिव्यपदेशहेतुरित्यपि न शक्यं वदितुम्, चमत्काररहितरसव्यक्तौ मानाभावात्। तदेव समर्थयति- रसे हि धर्मिग्राहकमानेनानन्दांशाविनाभावस्य प्रागेवावेदनात्। इदानीं भावध्वनौ पार्यन्तिकीं रसाभिव्यक्तिमभ्युपगत्यापि तद्भावलक्षणं दूषयति- अस्तु वा प्राधान्येन ध्वन्यमानस्यापि भावस्य प्रान्ते रसाभिव्यञ्जकत्वम्, तथापि देश-काल-वयोऽवस्थादिनानापदार्थघटिते पद्यवाक्यार्थे तथाप्यतिव्याप्तिः, तस्य विभावानुभावभिन्नत्वे सति रसाभिव्यञ्जकत्वात्। पुनर्लक्षणान्तरमुपक्षिप्य निरस्यति- नापि रसाभिव्यञ्जकचर्वणाविषयचित्तवृत्तित्वं तत्त्वम्, भावादिचर्वणायामतिप्रसङ्गवारणाय चर्वणाविषयेति चित्तवृत्तिविशेषणमिति वाच्यम्। 'कालागुरुद्रवं सा, हालाहलवद् विजानती नितराम्। अपि नीलोत्पलमालां, बाला व्यालावलिं किलामनुते॥' इत्यत्र हालाहलसदृशप्रकारकज्ञानेऽतिव्याप्तेः, तस्य विप्रलम्भानुभावत्वेन रसाभिव्यञ्जकचर्वणाविषयत्वात्, चित्तवृत्तित्वाच्च। गत्यन्तरविरहाद् भावत्वमखण्डोपाधिं मन्यमानानां मतमपाकरोति- नाप्यखण्डम्, तत्त्वे मानाभावात्। इत्थं परकीयलक्षणानि प्रतिक्षिप्य, स्वकीयं लक्षणमुपक्षिपति- अत्रोच्यते- विभावादिव्यज्यमान-हर्षाद्यन्यतमत्वं तत्त्वम्।
Page 82
82 स्वलक्षणं प्राचीनोक्त्या द्रढयति- यदाहु :- 'व्यभिचार्यञ्चितो भावः' इति। अधुना हर्षादिभावानामभिव्यक्तिं मतत्रयभेदेन ऋ्मात् त्रिविधां दर्शयन् प्रथमं सिद्धान्तमतेन दर्शयति- हर्षादीनां च सामाजिकगतानामेव स्थायिभावन्यायेनाभिव्यक्तिः। द्वितीयं मतमाचष्टे- साऽपि रसन्यायेनेति केचित्। तृतीयं मतमुपादत्ते- व्यङ्ग्यान्तरन्यायेनेत्यपरे मन्यन्ते। अथैषां भावानामभिव्यक्तौ कारणं परीक्षते- विभावानुभावौ चात्र व्यञ्जकौ, न त्वेकस्मिन् व्यभिचारिणि ध्वन्यमाने, व्यभिचार्यन्तरं व्यञ्जकतयाऽवश्यमपेक्ष्यते, तस्यैव प्राधान्यापत्तेः। प्रकरणादीनां तात्पर्यनियामकत्वेन व्यभिचार्यन्तरस्य व्यञ्जकतयाऽभ्युपगमेऽपि न प्राधान्यापत्तेः सम्भव इति व्यभिचार्यन्तरस्यापि व्यञ्जकत्वमम्युपेयमेवेति सिद्धान्तपक्षमाह- वस्तुतस्तु-प्रकरणादिवशात् प्राधान्यमनुभवति कस्मिंश्चिद्भावे, तदीयसामग्रीव्यङ्ग्यत्वेन नान्तरीयकतया तनिमानमावहतो व्यभिचार्यन्तरस्याङ्गत्वेऽपि न क्षतिः। यथा गर्वादावमर्षस्य, अमर्षादौ वा गर्वस्य। नन्वेकस्मिन् भावेडङ्गिनि परस्य भावस्याङ्गत्वे, गुणीभूतव्यङ्ग्यत्वं, न तु भावध्वनित्वं तत्र स्यादित्याशङ्क्य समादधाति- न चैवं सति गुणीभूतव्यङ्गयत्वापत्तिः पृथग्विभावानुभावाभिव्यक्तस्यैव(भावस्य) गुणीभूतव्यङ्ग्यव्यपदेशहे तुत्वात्। उक्तमर्थं समर्थयति- अत एव नान्तरीयकस्य भावस्य ध्वननं भवति। अन्यथा गर्वादिध्वनेरुच्छेद एव भवेत्। विभावस्य भावे निमित्तकारणतां वक्ति- विभावस्त्वत्र व्यभिचारिणो निमित्तकारणसामान्यम्, न तु रसस्येव
Page 83
83 सर्वथैवालम्बनोद्दीपने अपेक्षिते। विशेषमाह- यदि तु क्वचित् सम्भवः, तदा न वार्येते। भावरूपतां प्राप्तान् हर्षादीन् क्रमेणोद्दिशति- हर्षादयस्तु-
प्रतिपक्षकृतधिक्कारादिजन्मा निर्वेदश्चेति त्रयस्त्रिंशद् व्यभिचारिणः। गुरुदेव-नृप- पुत्रादिविषया रतिश्चेति चतुस्त्रिंशत्। ननु पुत्रादिविषयकरतिस्थायिकं वात्सल्यनामकं रसान्तरमेवान्यत्रोक्तमिति कुतोऽन्रतद्रतेर्भावत्वेन गणनेत्याशङ्कां निराकरोति- एतेन वात्सल्याख्यं पुत्राद्यालम्बनं रसान्तरमिति परास्तम्, उच्छृङ्खलताया मुनिवचनपराहतत्वात्। इदानीमेकैकशो हर्षादीन् निरूपयितुमुद्यत उद्देशक्रमेणादौ हर्षं निरूपयति- तत्र- इष्टप्राप्त्यादिजन्मा सुखविशेषो हर्षः। आदिपदग्राह्यैर्विभावैः सहास्यानुभावान् दर्शयितुमन्यदीयमपि लक्षणं वक्ति। तदुक्तम्- 'देव-भर्तृ-गुरुस्वामिप्रसादः प्रियसङ्गमः। मनोरथाप्तिरप्राप्यमनोहरधनागमः॥ तथोत्पत्तिश्च पुत्रादेर्विभावो यत्र जायते। नेत्र-वक्त्रप्रसादश्च, प्रियोक्तिः पुलकोद्गमः॥ अश्रुस्वेदादयश्चानुभावा हर्षं तमादिशेत्॥' इति। उदाहरति- उदाहरणम्- नायक: सखायं कथयति- 'अवधौ दिवसावसानकाले, भवनद्वारि विलोचने दधाना। अवलोक्य समागतं तदा मामथ रामा विकसन्मुखी बभूव।'
Page 84
84 अन्न हर्षस्य विभावमनुभावं चाह- अत्रावधिकाले प्रियागमनं विभाव:, मुखविकासोऽनुभावः। स्मृतिं निरूपयति- संस्कारजन्यं ज्ञानं स्मृतिः। उदाहरति- यथा- नायको विमृशति 'तन्मञ्जु मन्दहसितं श्वसितानि तानि, सा वै कलङ्कविधुरा मधुराऽडननश्रीः। अद्यापि मे हृदयमुन्मदयन्ति हन्त! सायन्तनाम्बुजसहोदरलोचनायाः॥' विभावादि प्रतिपायति- चिन्ताविशेषोऽत्र विभावः, भ्रून्नति-गात्रनिश्चलत्वादय आक्षेपगम्या अनुभावाः। इहोदाहरणे विप्रलम्भध्वनित्वमाशड्क्य निरस्यति- यद्यप्यत्रास्या एव स्मृतेः सञ्चारिण्याः, नायिकारूपस्य विभावस्य, हन्तपदगम्यस्य हृदयवैकल्यरूपानुभावस्य संयोगाद् विप्रलम्भरसाभिव्यक्ते रसध्वनित्वं शक्यते वक्तुम्, तथापि स्मृतेरेवात्र पुरस्फूर्तिकत्वाच्चमत्कारित्वाच्च तद्ध्वनित्वमुक्तम्। ननु तच्छब्दस्य बुद्धिविषयीभूतार्थवाचकत्वाद् बुद्धिविशेषरूपायाः स्मृतेरपि तद्वाच्यतया कथमिह स्मृतिध्वनित्वमित्याशङ्कां मतद्वयेन समादधाति- तदादेर्बुद्धिस्थप्रकारावच्छिन्ने शक्तिरिति नये बुद्धे: शक्यताऽवच्छेदकानुगमकतया न वाच्यतासंस्पर्शः। बुद्धिस्थत्वं शक्यताऽवच्छेदकमिति नयेऽपि स्मृतित्वेन स्मृतेर्व्यक्तिवेद्यतैव। स्मृतेरिह पदप्रकाश्यत्वं व्यवस्थापयति- तस्याश्चात्र वाक्यवेद्यत्वेऽपि, पदस्यैव कुर्वदूपत्वात् पदध्वनिविषयत्वम्। एतेन भावानां पदव्यङ्ग्यत्वे न वैचित्र्यमिति परास्तम्। प्रसङ्गादत्र पद्ये पदान्तरव्यङ्ग्यं प्रकाशयति- सायन्तनाम्बुजोपमानेन नयनयोरुत्तरोत्तराधिकनिमीलनोन्मुखत्वध्वननद्वारा तस्या आनन्दमग्नताप्रकाशः। प्रत्युदाहरणमाह-
Page 85
85 'दरानमत्कन्धरबन्धमीषन्निमीलितस्निग्धविलोचनाब्जम्। अनल्पनिश्श्वासभरालसाङ्गं स्मरामि सङ्गं चिरमङ्गनायाः॥ समीक्षते- इत्यत्र स्मृतिर्न भाव:, स्वशब्देन निवेदनादव्यङ्ग्यत्वात्। नापि स्मरणालङ्कारः, सादृश्यामूलकत्वात्, सादृश्यमूलकस्यैव स्मरणालङ्कारत्वम्, अन्यस्य तु व्यञ्जितस्य भावत्वमिति सिद्धान्तात्। किन्तु विभाव एव सुन्दरत्वात् कथाञ्चिद्रसपर्यवसायी। व्रीडां निरूपयति- स्त्रीणां पुरुषमुखावलोकनादेः, पुंसां च प्रतिज्ञाभङ्ग-पराभवादेरुत्पन्नो वैवर्ण्याधोमुखत्वादिकारणीभूतश्चित्तवृत्तिविशेषो ब्रीडा। उदाहरति- यथा- नायको मुग्धावृत्तं सखायं व्याहरति- 'कुचकलशयुगान्तर्मामकीनं नखाङ्कं, सपुलकतनु मन्दं मन्दमालोकमाना। विनिहितवदनं मां वीक्ष्य बाला गवाक्षे, चकितनतनताङ्गी सद् सद्यो विवेश॥' उपपादयति- अन्र प्रियस्य दर्शनम्, तेन
विभाव:। सद्यः सदनप्रवेशोऽनुभावः। पुनरुदाहरति- यथा वा- नायक: सखायमाख्याति- 'निरुद्ध्य यान्तीं तरसा कपोतीं, कूजत्कपोतस्य पुरो ददाने। मयि स्मितार्द्रं वदनारविन्दं, सा मन्दमन्दं नमयम्बभूव।।' उपपादयति- पूर्वत्र त्रास इवात्रापि हर्षो लेशतया सन्नपि व्रीडाया अनुगुण एव। प्रियकर्तृकं कपोतस्याग्रे कपोत्याः समर्पणं विभाव:, वदननमनमनुभावः।
Page 86
86 मोहं निरूपयति- भयवियोगादिप्रयोज्या वस्तुतत्त्वानवधारिणी चित्तवृत्तिर्मोहः। नवीनमतमाह- 'अवस्थान्तरशबलिता सा तथा' इति तु नव्याः। उदाहरति- उदाहरणम्- बालाया मोहावस्थाव्यापारं वर्णयति- 'विरहेण विकलहृदया, विलपन्ती दयित! दयितेति। आगतमपि तं सविधे, परिचयहीनेव वीक्षते बाला॥' अत्र विभावानुभावौ दर्शयति- अन्र कान्तवियोगो विभावः, इन्द्रियवैकल्यं लज्जाद्यभावश्चानुभावः। पुनरुदाहरति- 'शुण्डादण्डं कुण्डलीकृत्य कूले, कल्लोलिन्याः किञ्चिदाकुञ्चिताक्षः। नैवाकर्षत्यम्बु, नैवाम्बुजालिं, कान्तापेतः कृत्यशून्यो गजेन्द्रः॥' धृतिं निरूपयति- लोभशोकभयादिजनितोपप्लवनिवारणकारणीभूतश्चित्तवृत्तिविशेषो धृतिः। उदाहरति- उदाहरणम्- धीरः परामृशति- 'सन्तापयामि हृदयं, धावं धावं धरातले किमहम्। अस्ति मम शिरसि सततं, नन्दकुमारः प्रभुः परमः॥' विभावानुभावावाह- अत्र विवेकश्रुतसम्पत्त्यादिर्विभावः, चापलाद्युपशमोऽनुभावः। शङ्कते- ननु चोत्तरार्धे चिन्ता नास्तीति वस्तुनोऽ्रभिव्यक्तेः कथमस्य धृतिभावध्वनित्वमिति चेत्। उत्तरयति- तस्य धृत्युपयोगितयैवाभिव्यक्तेः। शङ्गां निरूपयति-
Page 87
87 किमनिष्टं मम भविष्यतीत्याकारश्चित्तवृत्तिविशेषः शङ्का। उदाहरति- उदाहरणम्- दैवप्रतिबद्धा सङ्केतस्थलं गन्तुमशक्ता स्वानिष्टं शङ्कमाना नायिका सखीं भाषते- 'विधिवञ्चितया मया न यातं, सखि! सङ्केतनिकेतनं प्रियस्य। अधुना बत ! किं विधातुकामो मयि कामो नृपतिः पुनर्न जाने॥' उपपादयति- अत्र राजापराधो विभाव: मुखवैवर्ण्यादय आक्षेप्या अनुभावा। शङ्का चिन्ताया व्यतिरेचयति- इयन्तु भयाद्युत्पादनेन कम्पादिकारिणी, न तु चिन्ता। ग्लानिं निरूपयति- आधिव्याधिजन्य-बलहानिप्रभवो वैवर्ण्य-शिथिलाङ्गत्व- दृग्भ्रमणादिहेतुर्दुःखविशेषो ग्लानिः। उदाहरति- यथा- वियोगिनीदशां वर्णयति- 'शयिता शैवलशयने, सुषमाशेषा नवेन्दुलेखेव। प्रियमागतमपि सविधे, सत्कुरुते मधुरवीक्षणैरेव॥' विभावादि प्रतिपादयति- अन्र प्रियविरहो विभाव:, मधुरवीक्षणैरेवेत्येवकारेण बोध्यमाना प्रत्युद्गमचरणनिपतना-श्लेषादीनां निवृत्तिरनुभावः। अत्रोदाहरणे श्रमध्वनिमाशडक्य निरस्यति- न चात्र श्रमः शङ्क्यः, कारणाभावात्। ग्लाने: परकीयं लक्षणमुपन्यस्य निराकरोति- केचित्तु-व्याध्यादिप्रभव-बलनाशं ग्लानिमाहुः, तेषां मते चित्तवृत्त्यात्मकेषु भावेषु, नाशरूपाया ग्लाने: कथं समावेश इति ध्येयम्। परकीयलक्षणे भरतोक्तलक्षणसंवादात् सङ्गतिमाशङ्क्य खण्डयति- यद्यपि-'बलस्यापचयो ग्लानिराधिव्याधिसमुद्भवः।' इति लक्षणवाक्यादपचयशब्देन
Page 88
88 नाश एव प्रतीयते, तथापि प्रागुक्तानुपपत्त्या बलनाशजन्यं दुःखमेव बलापचयशब्देन विवक्षितम्। दैन्यं निरूपयति- दुःख-दारिद्या-पराधादिजनितः स्वापकर्षभाषणादिहेतुश्चित्तवृत्तिविशेषो दैन्यम्। उदाहरति- उदाहरणम्- वैदेहीं विवास्य रामचन्द्रोऽनुतपति- 'हतकेन मया वनान्तरे, वनजाक्षी सहसा विवासिता। अधुना मम कुत्र सा सती, पतितस्येव परा सरस्वती।' प्रकरणादि दर्शयति- सीतां परित्यक्तवतो भगवतः श्रीरामचन्द्रस्येमुक्तिः। अन्र सीतापरित्यागरूपो ऽपराधस्तज्जन्यं दुःखं वा विभावः, पतितसाम्यरूप- स्वापकर्षभाषणमनुभावः। प्राचीनसम्मत्या स्वोक्तिं द्रढयति- यदाहु :- 'चित्तौत्सुक्यान्मनस्तापाद् दौर्गत्याच्च विभावतः। अनुभावात्तु शिरसोऽभ्यावृत्तेर्गान्नगौरवात्॥ देहोपस्करणत्यागाद् दैन्यभावं विभावयेत्॥' इति॥ 'दौर्गत्यादेरनौजस्यं दैन्यं मलिनताऽडदिकृत्॥' इति च। इहोपमालङ्कारस्य दैन्यभावोपकारकत्वं प्रतिपादयति- अन्र हतकेन मया विवासिता, न तु विधिनेत्यस्यार्थस्य पतितोपमयैव परिपोषः, न तु शूद्राध्युपमया, यतः शूदस्य जात्यैव श्रुतिदौर्लभ्यं विधिना कृतम्, पतितस्य तु ब्राह्मणादेर्विधिना श्रुतिसुलभत्वे स्वभावेन कृतेऽपि, तेनैव, तथाविधं पापमाचरता स्वतः श्रुतिर्दूरिकृतेति तस्य पतितेन साम्यम्, तस्याश्च श्रुत्येत्युपमालङ्कारो दैन्यमेवालङ्करुते। दैन्योपकारकद्वयं दर्शयति- तथा मयेति सेति चोपादानलक्षणामूलध्वनिभ्यां कृतघ्नत्वकृतज्ञात्व-निर्दयत्व- दयावतीत्वाद्यनेकधर्मप्रकाशनद्वारा तदेव परिपोष्यते, सेतिस्मृत्या च लेशतः प्रतीयमानया। चिन्तां निरूपयति-
Page 89
89 इष्टाप्राप्त्यनिष्टप्राप्त्यादिजनितो ध्यानापरपर्यायो वैवर्ण्य-भूलेख- नाधोमुखत्वादिहेतुश्चित्तवृत्तिविशेषश्चिन्ता। प्राचीनसम्मति दर्शयति- यदाहु :- 'विभावा यत्र दारिद्यमैश्वर्यभ्रंशनं तथा। इष्टार्थापहृतिः शश्चच्छ्वासोच्छ्वासावधोमुखम्॥। सन्ताप: स्मरणं चैव कार्श्यं देहानुपस्कृतिः। अधृतिश्चानुभावाः स्युः, सा चिन्ता परिकीर्त्तिता।। इति। वितर्कोऽस्याः क्षणे पूर्वे पाश्चात्वे वोपजायते।' इति। 'ध्यानं चिन्ता हितानाप्तेः सन्तापादिकरी मता।' इति च। उदाहरति- उदाहरणम्- नायिकामवलोक्य नायकः चिन्तयति- 'अधरद्युतिरस्तपल्लवा, मुखशोभा शशिकान्तिलङ्विनी। अकृतप्रतिमा तनुः कृता, विधिना कस्य कृते मृगीदृशः॥' विभावादि प्रतिपादयति- अत्र तदप्राप्तिर्विभावः, अनुतापादय आक्षेप्या अनुभावाः। औत्सुक्यध्वनिमत्राशङ्क्य निराकरोति- न चात्रौत्सुक्यध्वनिरिति वाच्यम्, 'कस्य कृते' इत्यनिर्धारितधर्म्यालम्ब- नायाश्चिन्ताया एव प्रतीयमानतया सतोऽप्यौत्सुक्यस्यैतद्वाक्येन प्राधान्येनाबोधनात्। मदं निरूपयति- मद्याद्युपयोगजन्मा, उल्लासाख्यः, शयनहसितादिहेतुश्चित्तवृत्तिविशेषो मदः। लक्षणे प्राचीनसम्मति दर्शयति- यदाहु :- 'सम्मोहानन्दसन्दोहो मदो मद्योपयोगजः । इति। प्रकृतिभेदेनानुभावभेदं प्रतिपादयति- तत्रोत्तमे पुरुषे स्वापोऽनुभावः। मध्यमे हसितगाने। नीचे तु रोदनपरुषोक्त्यादि। मदं त्रिधा विभज्य तत्तत्स्वरूपं दर्शयति-
Page 90
90 अयं च मदस्त्रिविध :- तरुणमध्यमाधमभेदात्। अव्यक्तासङ्गतवाक्यैः सुकुमारस्खलद्गत्या च योऽभिनीयते स आद्यः। भुजाक्षेप-स्खलित- घूर्णितादिभिर्मध्यमः। गतिभङ्गस्मृतिनाश-हिक्का-च्छर्यादिभिरधमः। मध्यमपुरुषगतं तरुणमदमुदाहरति- उदाहरणम्- मत्तवृत्तं वर्णयति- 'मधुरतरं स्मयमानः, स्वस्मिन्नेवालपञ्शनैः किमपि। कोकनदयंस्त्रिलोकी-मालम्बनशून्यमीक्षते क्षीबः॥' विभावानुभावौ दर्शयति- अन्न मादकद्रव्यसेवनं विभाव:, अव्यक्तालापाद्यनुभावः। इह स्वभावोक्त्यलङ्कार-प्राधान्यमाशङक्य निरस्यति- अन्र मत्तस्वभाववर्णनस्य तन्निष्ठमदव्यञ्जनार्थत्वान्मदभाव एव प्रधानमिति न स्वभावोक्त्यलङ्कारस्य प्राधान्यम्, अपि तु तद्ध्वन्युपस्कारकत्वमेव। ननु तथापि नेह मदध्वनिः सम्भवति, प्राधान्येन व्यज्यमानस्यापि मदस्य मदास्कन्दितमत्यर्थकेन क्षीबपदेनाभिधयाऽपि बोधनात्, कथमपि वाच्यवृत्त्यनालिङ्गितस्यैव व्यङ्ग्यस्य चमत्कारित्वम्' इति प्राक् प्रतिपादनात्, अतः स्वभावोक्त्यलङ्कार एव चमत्कारितया प्रधानं न तु मदभाव इत्यरुचेरुदाहरणान्तरं दर्शयति- इदं वा पुनरुदाहरणम्- मत्तः प्रियां ब्रूते- 'मधुरसान्मधुरं हि तवाधरं, तरुणि! मद्वदने विनिवेशय। मम गृहाण करेण कराम्बुजं, पपपतामि हहा! भभभूतले।' उपपादयति- अन्नापि स एव विभाव:, अधिकवर्णोच्चारणादिरनुभावः। पूर्वार्धगता ग्राम्योक्तिः, उत्तरर्धे च तरुणीकरेऽम्बुजोपमेयतया निरूपणीये, स्वकरस्य तदुपमेयतया निरूपणं च, मदमेव पोषयतः। श्रमं निरूपयति- बहुतरशारीरव्यापारजन्मा निश्श्वासा-ङ्गसम्मर्द-निद्रादिकारणीभूतः खेदविशेषः श्रमः।
Page 91
91 प्राचीनसम्मतिं दर्शयति- यदाहु :- 'अध्व-व्यायाम-सेवाद्यैर्विभावैरनुभावकैः।
निशश्वासैर्जृम्भितैर्मन्दैः पादोत्क्षेपैः श्रमो मतः।' इति। 'श्रमः खेदोऽध्वगत्यादेर्निद्राश्वासादिकृन्मतः ॥'इति च। श्रमग्लान्योर्भेदमाचष्टे- अयं च सत्यपि बले जायते, शारीरव्यापारादेव जायते, न तु ग्लानिः, अतो ग्लाने: श्रमस्य च भेदः। उदाहरति- उदाहरणम्- नायको विपरीतसुरतवृत्तं सखायं कथयति- 'विधाय सा मद्दनानुकूलं, कपोलमूलं हृदये शयाना। चिराय चित्ते लिखितेव तन्वी, न स्पन्दितुं मन्दमपि क्षमाऽडसीत्॥' विभावादिदर्शयति- अत्र विपरीतसुरतरूपः शारीरव्यापारो विभावः, स्पन्दराहित्य-शयनादयोऽनुभावाः। इह निद्राध्वनित्वमाशङ्क्य निराकरोति- न चात्र निदाभावध्वननेन गतार्थतेति शङ्क्यम्, सुषुप्तौ हि ज्ञानराहित्येनैव यत्नराहित्यान्मन्दमपि स्पन्दितुं न क्षमाऽडसीदित्यस्यानति प्रयोजनकत्वापत्तेः, शीडाऽभिहिततया तस्या व्यङ्ग्यत्वानुपपत्तेश्च। श्रमे त्वानुगुण्यमुचितम्। गर्वं निरूपयति- रूप-धन-विद्यादिप्रयुक्तात्मोत्कर्षज्ञानाधीनपरावहेलनं गर्वः। उदाहरति- उदाहरणम्- विद्यागर्वितो ब्रवीति- 'आमूलाद् रत्नसानोर्मलयवलयितादा च कूलात् पयोधे- र्यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु। मृद्वीकामध्य-निर्यन्मसृणरसझरीमाधुरीभाग्यभाजां, वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥'
Page 92
92 विभावानुभावौ दर्शयति- अन्न स्वकीयकविताया अनन्यसाधारणताज्ञानं विभाव: पराधिक्षेपपरैतादृशवाक्यप्रयोगोऽनुभावः। इह प्रतीयमानासूयाया गर्वपोषकत्वमाह- इमं चासूयाऽपि लेशतः पुष्णाति। वीररसध्वनि-गर्वध्वन्योर्भेदं दर्शयति- उत्साहप्रधानो गूढगर्वो हि वीररसध्वनिः, अयन्तु गर्वप्रधान इति तस्मादस्य विशेषः। तदेवोपपादयति- तथाहि- वीररसप्रसङ्गे प्रागुदाहृते 'अपि वक्ति' इत्यादिपद्ये गीःपतिना गिरामधिदेवतयाऽपि साकमहं वदिष्यामीति वचनेनाभिव्यक्तस्योत्साहस्य परिपोषकतया स्थितः सर्वेभ्यः पण्डितेभ्योऽहमधिक इति गर्वः, न तु प्रकृतपद्य इव नास्त्येव महीतले मदन्य इति स्फुटोदितेन सोल्लुण्ठवचनेनानुभावेन प्राधान्येन प्रतीयमानः। निद्रां निरूपयति- श्रमादिप्रयोज्यं चेतस्सम्मीलनं निद्रा। श्रमादिविभावस्योक्तत्वादनुक्ताननुभावानेवाह- नेत्रनिमीलन-गात्रनिष्क्रियत्वादयोऽस्या अनुभावाः। उदाहरति- उदाहरणम्- नायको ब्रवीति- 'सा मदागमनबृंहिततोषा, जागरेण गमिताखिलदोषा। बोधिताऽपि बुबुधे मधुपैर्न, प्रातराननजसौरभलुब्धैः॥' विभावानुभावौ ब्रूते- रात्रिजागरणश्रमोऽत्र विभावः, मधुपैर्बोधाभावोऽनुभावः। मतिं निरूपयति- शास्त्रादिविचारजन्यमर्थनिर्द्धारणं मतिः। विभावस्य लक्षण एवोक्त्वात् केवलाननुभावान् वक्ति-
Page 93
93 अत्र निशशङ्कतदर्थानुष्ठान-संशयोच्छेदादयोऽनुभावाः। उदाहरति- उदाहरणम्- उद्भूतमतिः कश्चिद्विभावयति- 'निखिलं जगदेव नश्वरं, पुनरस्मिन् नितरां कलेवरम्। अथ तस्य कृते कियानयं, क्रियते हन्त ! मया परिश्रमः॥' विभावानुभावौ वक्ति- 'शरीरमेतज्जलबुद्बुदोपमम्' इत्यादिशास्त्रपर्यालोचनमत्र विभाव: हन्तपदगम्या स्वनिन्दा राजसेवादिविरतिर्वितृष्णता चानुभावः। नन्वत्र शान्तरसध्वनिरेव न कथमित्यत आह- झगिति मतेरेव चमत्काराद् ध्वनिव्यपदेशहेतुता, न शान्तस्य, विलम्बेन प्रतीतेः। व्याधिं निरूपयति- रोगविरहादिप्रभवो मनस्तापो व्याधिः। लक्षण एव विभावोक्तेरनुभावान् वक्ति- गात्रशैथिल्य-श्वासादयोऽत्रानुभावाः। प्राचीनसम्मतिं प्रतिपादयति- यदाहु :- 'एकैकशो द्वन्द्वशो वा त्रयाणां वा प्रकोपतः। वातपित्तकफानां स्युर्व्याधयो ये ज्वरादयः॥ इह तत्प्रभवो भावो व्याधिरित्यभिधीयते।' उदाहरति- उदाहरणम्- वियोगव्यथितां नायिकां वर्णयति- 'हृदये कृतशैवलानुषङ्गा, मुहुरङ्गानि यतस्ततः क्षिपन्ती। तदुदन्तपरे मुखे सखीना-मतिदीनामियमादधाति दृष्टिम्॥' अत्र पद्ये व्याधेर्विभावानुभावौ दर्शयति- विरहोऽन्र विभावः, अङ्गक्षेपादिरनुभावः। त्रासं निरूपयति-
Page 94
94 भीरोर्घोरसत्त्वदर्शन-स्फूर्जथुश्रवणादिजन्मा चित्तवृत्तिविशेषस्त्रासः। अनुभावानाह- अनुभावाश्च रोमाञ्च-कम्प-स्तम्भ-भ्रमादयः। प्राचीनसम्मतिं दर्शयति- यदाहु :- 'औत्पातिकैर्मनःक्षेपस्त्रास: कम्पादिकारकः। उदाहरति- उदाहरणम्- नायक: सखायं वक्ति- 'आलीषु केलीरभसेन बाला, मुहुर्ममालापमुपालपन्ती। आरादुपाकर्ण्य गिरं मदीयां सौदामनीयां सुषमामयासीत्॥' विभावानुभावौ दर्शयति- अत्र पत्या स्ववचनाकर्णनं विभावः, पलायनमनुभावः। लज्जाध्वनिमत्राशङ्क्य निरस्यति- न चात्र लज्जाया व्यङ्ग्यत्वमाशङ्कनीयम्, शैशवेनैव तस्या निरासात्। ननु 'प्रथमावतीर्णयौवनमदनविकारा रतौ वामा। कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ॥' इत्यन्यत्र लक्षिता मुग्धैवात्र बालापदबोध्या, न तु शिशुः। तथा च लज्जायास्तस्यामाधिक्याद् व्यङ्ग्यत्वमक्षतमेवेत्यरुचेरुदाहराणान्तरमाह- इदं वा विविक्तमुदाहरणम्- विलम्ब्य गृहमागतः क्रुद्धाया मातुस्ताडनोद्यमं दृष्ट्वा त्रस्तो बालकृष्णो मातरं ब्रवीति- 'मा कुरु कशां कराब्जे, करुणावति! कम्पते मम स्वान्तम्। खेलन् न जातु गोपै-रम्ब! विलम्बं करिष्यामि।। प्रसङ्गं प्रतिपादयति- एषा[भगवतो] लीलागोपकिशोरस्योक्तिः। स्वप्नरूपं सुप्तं निरूपयति- निद्राविभावोत्थाज्ञानं सुप्तम्। निद्राया विभावेभ्यः श्रमादिभ्य उत्थमुत्पन्नं ज्ञानं विषयाभासः, स्वप्न एव सुप्तं भाव
Page 95
95 इत्यर्थः। तदाह- स्वप्न इति यावत्। श्रमादेर्विभावस्य निद्राविभावत्वेनैवोक्तत्वादनुभावमात्रं वक्ति- अस्यानुभावः प्रलापादिः। ननु श्रमादयो विभावा इव, नेत्रनिमीलनादयोऽनुभावा अपि निद्राया एवास्य कथं नोच्यन्त इत्याशङ्कां व्यपोहते- नेन्ननिमीलनादयस्तु निद्राया [एव] अनुभावाः, न त्वस्य, अनिद्रञ्जन्यत्वात्। प्राचीनोक्तिं खण्डयति- यत्तु प्राचीनै :- 'अस्यानुभावा निभृतगात्रनेत्रनिमीलनम्' इत्याद्ुक्तम्, तदन्यथा सिद्धानामपि तेषामेताद्भावव्यापकत्वादिति ध्येयम्। उदाहरति- उदाहरणम्- स्वप्नानुभूतप्रियासमागमो नायको निद्रां वदति- 'अकरुण! मृषाभाषासिन्धो! विमुञ्च ममाञ्चलं, तव परिचितः स्नेहः सम्यङ् मयेत्यनुभाषिणीम्। अविरलगलद्वाष्पां तन्वीं निरस्तविभूषणां, क इह भवतीं भद्रे! निद्रे ! विना विनिवेदयेत्॥' प्रकरणमाह- एषा प्रवासगतस्य स्वप्नेऽपि प्रियामेवंभाषिणीं दृष्टवतो निद्रां प्रति कस्यचिदुक्तिः। ननु वस्तुनो रसस्य चापि व्यङ्ग्यत्वादिह कथं भावध्वनिरेव व्यपदिश्यत इत्यत आह- 'यद्यप्येवम्भूतायाः प्रियतमावस्थाया निवेदनेन निद्रे! मम भवत्या महानुपकारः कृतः' इति वस्तु, विप्रलम्भश्रृङ्गारश्चात्र प्रतीतिपथमवतरति, तथापि पुरःस्फूर्त्तिकतया स्वप्नध्वननमत्रोदाहृतं न प्रान्ते तयोर्ध्वननं निरोद्धुमीष्टे। जागरणलक्षणं विबोधं निरूपयति- निद्रानाशोत्तरं जायमानो बोधो विबोध:। विभावाननुभावांश्च दर्शयति- निद्रानाशश्च-तत्पूर्ति-स्वप्नान्त बलवच्छब्दस्पर्शादिभिर्जायत इति त एवात्र
Page 96
96 विभावा:। अक्षिमर्दन-गात्रमर्दनादयोऽनुभावाः। उदाहरणबाहुल्यसम्भवादाह- तत्र सङ्क्षेपेणोदाहरणम्- स्वप्नोपलभ्यमानप्रेयसीसान्निध्यो मेघगर्जितापगतनिद्रः खिद्यमानः कश्चित् प्रवासी सखायमाख्याति- 'नितरां हितयाऽद्य निद्रया मे, बत यामे चरमे निवेदितायाः। सुदृशो वचनं श्रृणोमि यावन्मयि तावत् प्रचुकोप वारिवाहः॥।' विभावमनुभावं चाह- अत्र गर्जितश्रवणं विभावः, प्रियावचनश्रवणोल्लासनाशोऽनुभावस्तून्नेयः। मतान्तरेण विबोधं निरूपयति- केचिदविद्याध्वंसजन्यमप्यमुमामनन्ति। तेषां मते- 'नष्टो मोहः स्मृतिर्लब्धा, त्वत्प्रसादान्मयाऽच्युत। स्थितोऽस्मि गतसन्देहः, करिष्ये वचनं तव।।' इति गीतापद्यमुदाहर्यम्। सिंहावलोकनन्यायेन पूर्वोदाहरणेऽसूयाध्वनिमाशङ्कय निरस्यति- न तु वारिवाहविषयाया असूयाया एवात्र वाक्यार्थतेति शङ्क्यम्, विबोधप्रतीतौ हि सत्यां तस्मिन्नौचित्यावगमे सत्यनुचितविबोधजनकत्वेन वारिवाहे ऽसूयाया विलम्बेन प्रतीतेः, परमुखनिरीक्षकत्वात्। उक्तार्थं समर्थयितुमसूयाया विषयं विशदीकरोति- स्यादपि तस्या अपि प्राधान्यम्, यदि वारिवाहे निष्करुणत्वादिबोधकं किञ्चिदपि स्यात्। स्वप्नध्वनिशङ्कामपि निराकरोति- नापि स्वप्नध्वनिः, वारिवाहनादेन तन्नाशस्यैव प्रतिपत्तेः। अथ जीवनाहरणकर्तृत्वावगमकस्य वारिवाहपदस्य, कोपनप्रकृतिकत्वावगमकस्य क्रियापदस्य वा सत्त्वादसूयध्वनिं, स्वप्नभावस्य प्रशमेन भावशान्तिध्वनिं च पर्यवेक्ष्य, ताभ्यां सहासूयाध्वनेः साङ्कर्यमभ्युपगच्छति- अस्तु वा स्वप्नभावप्रशमेनासूयया च सहास्य सङ्करः। व्युप्तत्तिदार्ढ्याय प्रत्युदाहरति-
Page 97
97 इदन्तु नोदाहार्यम्- 'गाढमालिङ्ग्य सकलां, यामिनीं सहतस्थुषीम्। निद्रां विहाय स प्रात-रालिलिङ्गाथ चेतनाम्॥' कुतो नेदमुदाहरणीयमित्याह- विबोधस्य चेतनापदवाच्यत्वात्। अपि तु समासोक्त्यलङ्कार एवात्र चमत्कारक इति प्रतिपादयति- यथा कश्चित् सत्यप्रतिज्ञो द्वाभ्यां नायिकाभ्यां द्वौ कालावुपभोगार्थं दत्त्वा, यथोचिते काल एकामुपभुज्य, कालान्तरे प्रवृत्ते तां विहायापरां भुङ्क्ते, तथैवायं रात्रौ निद्रां प्रातश्चेतनामिति समासोक्तेरेवेह प्रकाशनात्। अमर्षं निरूपयति- परकृतावज्ञादि-नानापराधजन्यो मौनवाक्पारुष्यादिकारणीभूतश्चित्तवृत्तिविशेषोऽमर्षः। विभावाननुभावांश्च दर्शयति- प्राग्वत् कारणानां कार्याणां च क्रमेण विभावानुभावत्वम्। उदाहरति- उदाहरणम्- मानिनीवृत्तं वर्णयति- 'वक्षोजाग्रं पाणिनाऽडमृश्य दूरे, यातस्य द्रागाननाब्जं प्रियस्य। शोणाग्राभ्यां भामिनी लोचनाभ्यां, जोषं जोषं जोषमेवावतस्थे॥' विभावादि प्रकाशयति- इह त्वाकस्मिकस्तनाग्रस्पर्शो विभावः, नयनारुण्यनिर्निमेषनिरीक्षणे अनुभावौ। ननु क्रोधामर्षयोः स्थायिव्यभिचारिणोः कार्यकारणैक्ये मिथः कथं भेद इत्यत आह- ननु क्रोधामर्षयोः स्थायि-सञ्चारिणोर्भावयोः किं भेदकमिति चेत्, विषयतावैलक्षण्यमेवेति गृहाण। ननूभयोर्विषयताभेदः कथमवधार्यत इत्यतोऽभिधत्ते- तन्र तु गमकं झटिति परविनाशादौ प्रवृत्तिर्वचनवैमुख्यादिकं चेति कार्यवैलक्षण्यम्। अवहित्थं निरूपयति- व्रीडादिभिर्निमित्तैर्हर्षाद्यनुभावानां गोपनाय जनितो भावविशेषोऽवहित्थम्।
Page 98
98 प्राचीनसम्मति दर्शयति- तदुक्तम्- 'अनुभावपिधानार्थेऽवहित्थं भाव उच्यते। तद्विभाव्यं भय-व्रीडा-धार्ष्ट्य-कौटिल्य-गौरवैः॥' उदाहरति- यथा- कुलाङ्गनावहित्थं वर्णयति- 'प्रसङ्गे गोपानां गुरुषु महिमानं यदुपते- रुपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः। विषज्वालाजालं झगिति वमतः पन्नगपतेः, फणायां साश्चर्यं कथयतितरां ताण्डवविधिम्।।' विभावानुभावावभिधत्ते- अत्र व्रीडा विभाव:, तादृशकालियकथाप्रसङ्गोऽनुभावः। इत्थं व्रीडाप्रयोज्यमवहित्थमुदाहृत्य भयादिप्रयोज्यस्य तस्योदाहरणानामूह्यत्वमाचष्टे- एवं भयादिप्रयोज्यमप्युदाहार्यम्। उग्रतां निरूपयति- अधिक्षेपापमानादिप्रभवा किमस्य करोमीत्याद्याकारा चित्तवृतिरुग्रता। प्राचीनसम्मति दर्शयति- यदाहु :- 'नृपापराधोऽसद्दोषकीर्त्तनं चोरधारणम्। विभावाः स्यु-रथो बन्धो वधस्ताडनभर्त्सने॥ एते यत्रानुभावास्तदौग््यं निर्दयतात्मकम्।' इति। उदाहरति- यथा- गाण्डीवनिन्दयोग्रतामापन्नोऽर्जुनो युधिष्ठिरं तर्जयति- 'अवाप्य भङ्गं खलु सङ्गराङ्गणे, नितान्तमङ्गाधिपतेरमङ्गलम् परप्रभावं मम गाण्डिवं धनु-र्विनिन्दतस्ते हृदयं न कम्पते॥' प्रकरणमाचष्टरे- एषा कर्णेन पराभूतं, गाण्डिवं निन्दन्तं, युधिष्ठिरं प्रति धनञ्जयस्योक्तिः।
Page 99
99 विभावानुभावौ प्रकाशयति- युधिष्ठिरकर्तृका गाण्डिवनिन्दाऽन्र विभाव:, वधेच्छाऽनुभावः। अमर्षादुग्रताया अभेदमाशङ्क्य निरस्यति- न चामर्षोग्रतयोर्नास्ति भेद इति वाच्यम्, प्रागुदाहृतेऽमर्षध्वनावुग्रताया अप्रतीतेः। तर्हि क्ोधोग्रतयोरेवैक्यमास्तामित्याशङ्कायामाह- नाप्यसौ क्रोधः, तस्य स्थायित्वेन, अस्याः सञ्चारिणीत्वेन भेदात्। उन्मादं निरूपयति- विप्रलम्भ - महापत्ति-परमानन्दादिजन्माऽन्यस्मिन्नन्यावभास उन्मादः। उन्मादलक्षणस्य भ्रान्तिमात्रेऽतिव्याप्तिं वारयितुं विशेषणं जन्मान्तमुपात्तम्, सर्वेषां भ्रमाणां साधारणधर्मवद्धर्मिज्ञानादिप्रतिनियतहेतुजन्यत्वेन विप्रलम्भाद्यजन्यत्वादित्याह- शुक्तिरजतादिज्ञानव्यावृत्तये जन्मान्तम्। उदाहरति- उदाहरणम्- विप्रयोगोन्मत्तावृत्तं दूती निवेदयति- 'अकरुणहृदय! प्रियतम! मुञ्चामि त्वामितः परं नाहम्। इत्यालपति कराम्बुज-मादायालीजनस्य विकला सा।' प्रकरण-विभावानुभावान् प्रतिपादयति- एषा प्रवासगतं स्वनायिकावृत्तान्तं पुच्छन्तं [नायकं] प्रति कस्याश्चित् सन्देशहारिण्या उक्तिः। प्रियविरहोऽत्र विभावः, असम्बद्धोक्तिरनुभावः। उन्मादस्य व्याध्यन्तर्भावेऽपि पृथगुपादानस्य प्रयोजनं प्रकाशयति- उन्मादस्य व्याध्यन्तर्भावे सम्भवत्यपि, पृथगुपादानं व्याध्यन्तरापेक्षया वैचित्र्यविशेषस्फोरणाय। मरणं निरूपयति- रोगादिजन्या मूर्च्छारूपा मरणप्रागवस्था मरणम्। ननु प्राणनिष्क्रमणरूपं मरणं कुतो न गृह्यत इत्याशङ्कां निरस्यति- न चात्र प्राणवियोगात्मकं मुख्यं मरणमुचितं ग्रहीतुम्, चित्तवृत्त्यात्मकेषु भावेषु तस्याप्रसक्त:। मुख्यमरणे भावत्वाभावस्य हेतुमाह-
Page 100
100 भावेषु च सर्वेषु कार्यसहवर्तितया शरीरप्राणसंयोगस्य हेतुत्वात्। उदाहरति- उदाहरणम्- मुमूर्षुनायिकावस्थां वर्णयति- 'दयितस्य गुणाननुस्मरन्ती, शयने सम्प्रति या विलोकिताऽडसीत्। अधुना खलु हन्त! सा कृशाङ्गी, गिरमङ्गीकुरुते न भाषिताऽपि।।' विभावानुभावावभिदधाति- प्रियविरहोऽत्र विभावः, वचनविरामोऽनुभावः। इह मरणध्वनेः पदप्रकाश्यतां दर्शयति- हन्तपदस्यात्रात्यन्तमुपकारकत्वाद् वाक्यव्यङ्ग्योऽप्ययं भावः, पदव्यङ्गयतामावहति। परकीयमतं निरस्यति- एतेन भावस्य पदव्यङ्ग्यतायां नात्यन्तं वैचित्र्यमिति परास्तम्। विप्रलम्भध्वनेः करुणध्वनेर्वाऽत्र कुतो न व्यपदेश इत्याशङ्कां निवारयति- 'दयितस्य गुणाननुस्मरन्ती' इत्यनेन व्यज्यमान 'चरमावस्थायामपि तस्या दयितगुणविस्मरणं नाभू'दिति वस्तु, विप्रलम्भस्य शोकस्य वा चरममभिव्यक्तस्य पोषकम्। मरणभावस्य विप्रलम्भ-करुणयोरपि पोषकत्वं विषयभेदेन दर्शयति- अयं च भाव: स्वव्यञ्जकवाक्योत्तरवर्तिना वाक्यान्तरेण सन्दर्भघटकेन नायिकादे: प्रत्युज्जीवनवर्णने विप्रलम्भस्य, अन्यथा तु करुणस्य पोषक इति विवेकः। मुख्यमरणानुदाहरणकारणं भणति- कवयः पुनरमुं प्राधान्येन न वर्णयन्ति, अमङ्गलप्रायत्वात्। वितर्क निरूपयति- सन्देहाद्यनन्तरं जायमान ऊहो वितर्कः। चिन्तादिव्यावृत्तये वदति- सच निश्चयानुकूलः। उदाहरति- 'यदि सा मिथिलेन्द्रनन्दिनी, नितरामेव न विद्यते भुवि। अथ मे कथमस्ति जीवितं, न विनाऽडलम्बनमाश्रितस्थितिः॥'
Page 101
101 प्रसङ्ग-विभावानुभावानाह- स्वात्मनि भगवतो रामस्यैषोक्तिः। भुवि सीताऽस्ति न वेति सन्देहोऽत्र विभावः। भ्रूक्षेप-शिरोऽङ्गलिनर्तनमाक्षिप्तमनुभावः। चिन्तैव कुतो न वितर्क इत्याशङ्कां निरस्यति- न चासौ चिन्तेति शक्यं वदितुम्, चिन्ताया नियमेन निश्चयं प्रत्यप्रयोजकत्वात्। वितर्कलक्षणे नियमेनेत्यस्यानुल्लेखात्तदनिवेशे प्रसक्तं पुनस्तयोरैक्यं निवारयति- 'किं भविष्यति' 'कथं भविष्यति' इत्याद्याकारायाश्चिन्तायाः 'इदमित्थं भवितुमर्हति प्रायशः' इत्याकारस्य वितर्कस्य विषयवैलक्षण्याच्च। नन्वत्र चरमचरणेर्ऽर्थान्तरन्यासालङ्कारप्रतीतौ कथं भावध्वनित्वमित्यत आह-
विषादं निरूपयति- इष्टासिद्धि-राजगुर्वाद्यपराधादिजन्योऽनुतापो विषादः। उदाहरति- उदाहरणम्- कर्णे मृते युद्धविजयान्निराशो दुर्योधनः स्वजीवितं व्याहरति- 'भास्करसूनावस्तं, याते जाते च पाण्डवोत्कर्षे दुर्योधनस्य जीवित! कथमिव नाद्यापि निर्यासि॥' विभावानुभावौ प्रतिपादयति- अत्र स्वापकर्ष-परोत्कर्षयोर्दर्शनं विभावः, जीवितनिर्याणाप्रशंसा, तदाक्षिप्तं वदननमनादि चानुभाव:। विषादध्वनिं प्रकृते द्रढयितुमर्थान्तरध्वनेरङ्गत्वमाचष्टे- अस्मिन्नेव च विषादध्वनौ दुर्योधनस्येत्यर्थान्तरसङक्रमितावाच्यध्वनि-रनुग्राहकः। त्रासध्वनिमाशङ्क्य निरस्यति- न चात्र त्रासभावध्वनित्वं शङ्क्यम्, परवीरस्य दुर्योधनस्य त्रासलेशस्याप्ययोगात्। चिन्ताध्वनित्वमप्याशङ्क्य निरस्यति- नापि चिन्ताध्वनित्वम्, युद्ध्वा मरिष्यामीति तस्य व्यवसायात्। दैन्यध्वनित्वमप्याशङ्क्य निरस्यति- नापि दैन्यध्वनित्वम्, सकलसैन्यक्षयेऽपि विपदस्तेनागणनात्। वीररसध्वनित्वमप्याशड्क्य निरस्यति-
Page 102
102 न वा वीररसध्वनित्वम्, मरणस्य शरणीकरणे परापकर्षजीवितस्योत्साह- स्याभावात्। दार्ढ्याय प्रत्युदाहरति- इदं पुनरत्र नोदाहार्यम्- त्रस्त उत्तरः सारथिमर्जुनं कथयति- 'अयि पवनरयाणां निर्दयानां हयानां शलथय गतिमहं नो सङ्गरं द्रष्टमीहे। श्रुतिविवरममी मे दारयन्ति प्रकुप्यद्- भुजगनिभभुजानां बाहुजानां निनादाः॥' उपपादयति- अत्र त्रासस्यैव प्रतीयमानत्वेन विषादस्याप्रतीतेः। ननूत्तरीययुद्धोद्यमापराधजानुतापरूपस्य विषादस्यापि प्रतीतिरत्र दुरपलपेत्याशङ्कायामाह- लेशतया प्रतीतौ वा त्रास एवानुगुण्यौचित्येन ध्वनिव्यपदेशायोग्यत्वात्। औत्सुक्यं निरूपयति- अधुनैवास्य लाभो ममास्त्वितीच्छा, औत्सुक्यम्। विभावमनुभावांश्चाह- इष्टविरहादिरत्र विभाव:, त्वराचिन्तादयोऽनुभावाः। प्राचीनसम्मतिं दर्शयति- यदाहु :- 'सञ्जातमिष्टविरहादुद्दीप्तं प्रियसंस्मृते:। निद्रया तन्द्रया गात्रगौरवेण च चिन्तया॥ अनुभावितमाख्यातमौत्सुक्यं भावकोविदैः।' इति। उदाहरति- उदाहरणम्- प्रवासान्निवर्तमानो नायकः कामयते- 'निपतद्बाष्पसंरोध-मुक्तचाञ्चल्यतारकम्। कदा नयननीलाब्जमालोकेय मृगीदृशः॥'
Page 103
103 आवेगं निरूपयति- अनर्थातिशयजनिता चित्तस्य सम्भ्रमाख्या वृत्तिरावेगः। उदाहरति- उदाहरणम्- रामे युद्धार्थमागते रावणभार्योद्विग्ना स्वगतं वक्ति- 'लीलया विहितसिन्धुबन्धनः, सोऽयमेति रधुवंशनन्दनः। दर्पदुर्विलसितो दशाननः कुत्र यामि? निकटे कुलक्षयः॥' प्रकरणविभावानुभावानाह- एषा स्वात्मनि मन्दोदर्या उक्तिः, रघुनन्दनागमनमत्र विभावः, कुत्र यामी- त्येतद्व्यङ्ग्यः स्थैर्याभावोऽनुभावः। चिन्ताध्वनित्वमत्नाशङ्क्य निराकरोति- न चात्र चिन्ता प्राधान्येन व्यज्यत इति शक्यते वक्तुम्, कुत्र यामीति स्फुटं प्रतीतेन स्थैर्याभावेनोद्वेगस्येव चिन्ताया अप्रत्यायनात्। परन्त्वावेगचर्व-णायां तत्परिपोषकतया गुणत्वेन चिन्ताऽपि विषयीभवति। जडतां निरूपयति-
र्थप्रतिसन्धान-विकला चित्तवृत्तिर्जडता। जडताया मोहात् प्राक् पश्चाच्चोत्पत्तिमाह- इयं च मोहात् पूर्वतः परतश्च जायते। तत्र प्राचीनसम्मतिं दर्शयति- यदाहु :- 'कार्याविवेका जडता, पश्यतः श्रृण्वतोऽपि वा। तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा।। अनुभावास्त्वमी तूष्णीम्भाव-विस्मरणादयः। स पूर्वं परतो वा स्यान्मोहादिति विदां मतम्॥' उदाहरति उदाहरणम्- विरहिणी सहचरीं व्याहरति- 'यदवधि दयितो वीलोचनाभ्यां, सहचरि! दैववशेन दूरतोऽभूत्।
Page 104
104 तदवधि शिथिलीकृतो मदीयै-रथ करणैः प्रणयो निजक्रियासु॥' विभावानुभावौ प्रतिपादयति- प्रियविरहोऽत्र विभावः, करणैश्चक्षुशश्रवणादिभि: क्रियासु तत्तत्प्रमितिषु प्रणयस्य शिथिलीकरणमनुभावः। मोहाज्जडताया वैलक्षण्यं दर्शयति- मोहे चक्षुरादिभिश्चाक्षुषादेरजननम्, इह तु प्रकारविशेषवैशिष्ट्येन बाहुल्येनाजननमिति तस्मादस्य विशेषः। उक्तं समर्थयति- अत एवोदाहरणे-'शिथिलीकृतः' इत्युक्तं, न तु 'त्यक्तः' इति। आलस्यं निरूपयति- अतितृप्ति-गर्भ-व्याधि-श्रमादिजन्या चेतसः क्रियाऽनुन्मुखताऽडलस्यम्। पुनर्जडता-ग्लानिभ्यामालस्यं व्यतिरेचयति- अत्र च नासामर्थ्यम्, नापि कार्याकार्यविवेकशून्यत्वम्। तेन कार्याकरण- रूपस्यानुभावस्य तुल्यत्वेऽपि, ग्लानेर्जडतायाश्चास्य भेदः। उदाहरति- उदाहरणम्- रजनीवृत्तं मुहुः पृच्छन्तीं सखीमलसा वदति- 'निखिलां रजनीं प्रियेण दूरा-दुपयातेन विबोधिता कथाभिः। अधिकं न हि पारयामि वक्तुं, सखि! मा जल्प तवायसी रसज्ञा।।' प्रसङ्गं प्रतिपादयति- एषा हि पियागमनद्वितीयदिवसे मुहुर्निशावृत्तान्तं पृच्छन्तीं सखीं प्रति रजनिजागरणजनितालस्यायाः कस्याश्चिदुक्तिः। विभावानुभावौ प्रकाशयति- अत्र रजनिजागरणं विभावः, अधिकसम्भाषणाभावोऽनुभावः। जडताया आलस्ये वैलक्षण्यान्तरं दर्शयति- जडतायां मोहात् पूर्ववर्तित्वमुत्तरवर्तित्वं वा नियतम्, न त्वत्रेत्यपरो विशेषः। ननु सुरतलीलानामतिगोप्यत्वात् तत्रैव कथाशब्दस्य जहत्स्वार्थलक्षणायां व्यङ्ग्यः श्रमातिशय एव प्रधानमिह स्यादित्याशङ्कामंशतोऽभ्युपगमेन निरस्यति-
Page 105
105 गोपनीयविषयत्वाद् यदि कथाभिरित्यविवक्षितवाच्यम्, तदा श्रमोऽस्तु परिपोषकः, श्रमजन्ये ह्यालस्ये श्रमस्य पोषकताया अवार्यत्वात्। ननु श्रमालस्ययोः सर्वत्र सङ्कीर्णविषयत्वे विभावभेदोक्तिरफला स्यादित्याशङ्कामपनयति- अतितृप्त्यादिजनिते त्वालस्ये श्रमाद् विविक्तविषयत्वं बोध्यम्। असूयां निरूपयति - परोत्कर्षदर्शनादिजन्यः परनिन्दादिकारणीभूतश्चित्तवृत्तिविशेषोऽसूया। असूयाया: सञ्ज़ान्तरमाह- इमामवासह नादिशब्दैर्व्यवहरन्ति- उदाहरति- यथा- रामोत्कर्षमसहमाना राजानो वदन्ति- 'कुत्र शैवं धनुरिदं, क्व चायं प्राकृतः शिशुः। भङ्गस्तु सर्वसंहर्त्रा, कालेनैव विनिर्मितः॥' प्रकरण-विभावानुभावान् दर्शयति- एषा भग्नहरकार्मुकस्य रामस्य पराक्रममसहमानानां तत्रत्यानां राज्ञामुक्तिः। अत्र च श्रीमद्दाशरथिबलस्य सर्वोत्कृष्टताया दर्शनं विभावः, प्राकृतशिशु-पदगम्या निन्दाऽनुभावः। शुद्धामसूयामुदाहृत्यामर्षसङ्कीर्णामुदाहरति- 'तृष्णालोलविलोचने कलयति प्राचीं चकोरब्रजे, मौनं मुञ्चति किञ्च कैरवकुले कामे धनुर्धुन्वति। माने मानवती जनस्य सपदि प्रस्थातुकामेऽधुना, धातः! किं नु विधौ विधातुमुचितो धाराधराडम्बरः॥' अत्रापि यद्यपि तदीयोच्छ्ङ्गलतादि[दर्शन] जन्या, अनुचितकारित्वरूप निन्दाप्रकाशानुभाविता, कविगता, विधात्रालम्बनाऽसूया व्यज्यत इति शक्यते वक्तुम्, तथापि कार्यकारणयोस्तुल्यत्वादभिव्यक्तेनामर्षेण शबलितैवासौ न विविक्ततया प्रतीयते। ननु 'कुत्र शैवम्' इत्यादावप्यमर्षेण सङ्कीर्णैवासूया प्रतीयत इत्युदाहरणद्वयस्य तुल्यतैवेत्यत आह- नहि विधातुरपराध इव भगवतो रामस्यापराधोऽस्ति, येन कवेरिव
Page 106
106
ननु तत्रापि रामस्य शैवधनुर्भञ्जनमेवापराध इत्यतोऽभिधत्ते- स्वभावो हि महोन्नतक्रियानिष्पादनं वीराणाम्। नन्वत्र वस्तुनो ध्वननान्नासूयाध्वनिरित्याशङ्कां समादधाति- अत्राप्रस्तुतचन्द्रवृत्तान्तेन प्रस्तुतराजकुमारादिवृत्तान्तस्य ध्वननान्नास्त्य- सूयाध्वनित्वमिति तु न वाच्यम्, एकध्वनेर्ध्वन्यन्तराविरोधित्वात्। विरोधाङ्गीकारे दोषं दर्शयति- अन्यथा महावाक्यध्वनेरवान्तरवाक्यध्वनिभिः, तेषां च पदध्वनिभिः सह सामानाधिकरण्यं कुत्रापि न स्यात्। अपस्मारं निरूपयति- वियोग-शोक-भय-जुगुप्सादीनामतिशयाद् ग्रहावेशादेश्वोत्पन्नो व्याधिविशेषोऽपस्मारः। व्याधिसामान्योपादानेनैव गतार्थत्वेऽपस्मारस्य पृथगुपादाने प्रयोजनं प्रतिपादयति- व्याधित्वेनास्य कथनेऽपि, विशेषाकारेण पुनः कथनं बीभत्स-भयानकयोरस्यैव व्याधेरङ्गत्वं नान्यस्येति स्फोरणाय। विप्रलम्भे विशेषमाह- विप्रलम्भे तु व्याध्यन्तरस्यापि च। उदाहरति- उदाहरणम्- श्रीकृष्णागमनश्रवणाक्षिप्तचित्तस्य कंसस्य वृत्तं वर्णयति- 'हरिमागतमाकर्ण्य, मथुरामन्तकान्तकम्। कम्पमान: श्वसन् कंसो निपपात महीतले॥' विभावमनुभावांश्चाह- अ्र भयं विभावः, कम्प-श्वास-पतनादयोऽनुभावाः। चपलतां निरूपयति- अमर्षादिजन्या वाक्पारुष्यादिकारणीभूता चित्तवृत्तिश्चपलता। प्राचीनसम्मति दर्शयति- यदाहु :-
Page 107
107 'अमर्ष-प्रातिकूल्येर्ष्या-राग-द्वेषाश्च मत्सरः। इति यत्र विभावा: स्युरनुभावस्तु भर्त्सनम्॥ वाक्पारुष्यं प्रहारश्च, ताडनं वध-बन्धने। तच्चापलमनालोच्य कार्यकारित्वमुच्यते॥।' इति। उदाहरति- उदाहरणम्- हिरण्यकशिपुः प्रह्लादं वदति- 'अहितव्रत! पापात्मन्! मैवं मे दर्शयाननम्। आत्मानं हन्तुमिच्छामि, येन त्वमसि भावितः॥।' प्रसङ्गविभावानुभावानाह- एषा भगवदनुरक्तिविघटनोपायमपश्यतः, प्रह्लादं प्रति, हिरण्यकशिपो-रुक्तिः। भगवद्द्वेषोत्थापितः पुत्रद्वेषोऽत्र विभावः, आत्मवधेच्छा परुषवचनं चानुभाव:। अमर्षध्वनित्वमाशड्क्य खण्डयति- न चामर्ष एवात्र व्यज्यत इति वाच्यम्, सदैव भगवदनुरागिणि प्रह्लादे हिरण्यकशिपोरमर्षस्य चिरकालसम्भृतत्वेनात्मवधेच्छाया इदम्प्रथमतानुपपत्तेः, इदम्प्रथमकार्यस्य चेदम्प्रथमकारणप्रयोज्यतया प्राचीनचित्तवृत्तिविलक्षणाया एव चपलताख्यचित्तवृत्तेः सिद्धेः। पुनरपरथाSऽशङ्क्य निराकरोति- न चामर्षप्रकर्ष एवात्मवधेच्छादिकारणमभिव्यज्यतामिति वाच्यम्, प्रकर्षस्यापि स्वाभाविकविलक्षणताया आवश्यकतया तस्यैव चपलतापदा-र्थत्वात्। निर्वेदं निरूपयति-
उत्तमेषु त्ववज्ञादिभिर्जनिता विषयविद्वेषाख्या, रोदन-दीर्घश्वास-दीनमुखतादिकारिणी चित्तवृत्तिर्निर्वेद:। उदाहरति- उदाहरणम्- वैदेहीविरही श्रीरामो लक्ष्मणं भणति- 'यदि लक्ष्मण! सा मृगेक्षणा, न मदीक्षासरणिं समेष्यति।
Page 108
108 अमुना जडजीवितेन मे, जगता वा विफलेन किं फलम्।।' निर्वेदसद्भावेन शान्तरसध्वनिरेव न कुत इत्यत आह- नित्यानित्यवस्तुविवेकजन्यत्वाभावान्नासौ रसपदव्यपदेशहेतुः। इत्थमपरानुद्देशक्रमेण भावान् निरूप्य देवादिविषयकरतिभावमुदाहरति- देवादिविषया रतिर्यथा- भक्तो भगवन्तं भाषते- 'भवद्द्वारि क्रुध्यज्जय-विजय-दण्डाहतिदलत्- किरीटास्ते कीटा इव विधिमहेन्द्रप्रभृतयः। वितिष्ठन्ते युष्मन्नयनपरिपातोऽत्कलिकया वराका: के तत्र क्षपितमुर! नाकाधिपतयः॥' इह वस्तुध्वनिशङ्कामभ्युपेत्य भावध्वनिं स्थापयति-
भगवदालम्बना रतिर्नाभिव्यज्यते, अपि तु भगवदैर्श्व्वर्यमवाङ्मनसगोचर इति चेत्, तथापि तादृशभगवदैश्वर्यवर्णनानुभावितया कविगतभगवदालम्बनरत्या ध्वनित्वमक्षतमेव। अत्र रतिप्रतीतेः पश्चाद्भवत्वेनाप्राधान्याद् भावध्वनित्वव्यपदेशो दुर्घट इत्यरुचेरुदाहरणान्तरमाचष्टे- इदं वोदाहरणम्- भक्तो भगवन्तं वदति- 'न धनं न च राज्यसम्पदं, नहि विद्यामिदमेकमर्थये। मयि धेहि मनागपि प्रभो! करुणाभङ्गितरङ्गितां दृशम्॥' तदाह- अत्र धनाद्यपेक्षाशून्यस्य भगवद्दयादृगन्तःपाताभिलाषो हि भगवत्यत्यन्तानुरक्तिं व्यनक्ति। उपसंहरति- एवं सङ्क्षेपेण निरूपिता भावाः। ननूक्तातिरिक्तानामपि मात्सर्यादिभावानां लक्ष्येषु निरीक्षणाद् भावानां चतुस्त्रिंशत्त्वसंख्यानमसङ्गतमित्याशङ्क्य समादधाति- अथ कथमस्य सङ्ख्यानियमः, मात्सर्योद्वेग-दम्भेर्ष्या-विवेक-निर्णय-क्लैब्य-
Page 109
109 क्षमा-कुतुकोत्कण्ठा-विनय-संशय-धार्ष्ट्यादीनामपि तत्र तत्र लक्ष्ये दर्शनादिति चेत्, न उक्तेष्वेवैषामन्तर्भावेण सङ्ख्यान्तरानुपपत्तेः। कुत्र कस्यान्तर्भावः सम्भवतीति प्रतिपादयति- असूयातो मात्सर्यस्य, त्रासादुद्वेगस्य, अवहित्थाख्याद्भावाद् दम्भस्य, अमर्षादीर्ष्यायाः, मतेर्विवेकनिर्णययोः, दैन्यात् क्लैब्यस्य, धृतेः क्षमयाः, औत्सुक्यात् कुतुकोत्कण्ठयोः, लज्जाया विनयस्य, तर्कात् संशयस्य, चापलाद्धार्ष्ट्यस्य च वस्तुतः सूक्ष्मे भेदेऽपि, नान्तरीयकतया तदनतिरिक्तस्यैवाध्यवसायात्। ननु सूक्ष्मभेदे सत्यपि कथमभेदारोप इत्याशङ्कायामाह- मुनिवचनानुपालनस्य सम्भव उच्छृङ्खलताया अनौचित्यात्। व्यभिचारिभावत्वेन प्रसिद्धानामप्येषां कुत्रचिद् भावान्तरे विभावता, क्वचिच्चानुभावता च भवतीत्युक्त्वोपपादयति- एषु च सञ्चारिभावेषु मध्ये केचन केषाञ्चन विभावा अनुभावाश्च भवन्ति। तथाहि-ईर्ष्याया निर्वेदम्प्रति विभावत्वम्, असूयां प्रति चानुभावत्वम्। चिन्ताया निद्रां प्रति विभावत्वम्, औत्सुक्यं प्रति चानुभावतेत्यादि स्वयमूह्यम्। अथ क्मप्राप्त रसाभासं निरूपयति- अथ रसाभासः। तत्र- तत्र रसाभासे निरूपणीये लक्षणमाह- अनुचितविभावालम्बनत्वं रसाभासत्वम्। अनौचित्यनिर्वचन एकदेशिमतमुपन्यस्यति- विभावादावनौचित्यं पुनर्लोकानां व्यवहारतो विज्ञेयम्, यत्र तेषाम् 'अनुचितम्' इति धीरिति केचित्। तन्मतमपास्य मतान्तरमुपन्यस्यति- तदपरे न क्षमन्ते, मुनिपत्यादिविषयकरत्यादेः संग्रहेऽपि, बहुनायकविषयाया अनुभयनिष्ठायाश्च रतेरसंग्रहात्। तत्र विभावगतानौचित्यस्याभावात्। तस्मादनौचित्येन रत्यादिर्विशेषणीयः। इत्थं चानुचितविभावालम्बनाया बहुनायकविषयाया अनुभयनिष्ठायाश्च संग्रह इति। अनौचित्यं च प्राग्वदेव। रसाभासस्य रसत्वेन भावाभासस्य च भावत्वेन विरुद्धत्वमविरुद्धत्वं च मतभेदेनाचष्टे- तत्र 'रसाद्याभासत्वं रसत्वादिना न समानाधिकरणम्, निर्मलस्यैव रसादित्वात्,
Page 110
110 हेत्वाभासत्वमिव हेतुत्वेन' इत्येके। 'नह्यनुचितत्वेनात्महानिः, अपि तु सदोषत्वादाभासव्यवहारः, अश्वाभासादिव्यवहारवत्' इत्यपरे। रतेरनुचितविभावकत्वात् प्रथमः बहुविषयकत्वाद द्वितीयः, अनुभयनिष्ठत्वाच्च तृतीयः प्रकारो रसाभासस्य। तत्र प्रथमं प्रकारमुदाहरति- उदाहरणम्- राजरमणीकामुकवृत्तं वर्णयति- शतेनोपायानां कथमपि गतः सौधशिखरं सुधाफेनस्वच्छे रहसि शयितां पुष्पशयने। विबोध्य क्षामाङ्गीं चकितनयनां स्मेरवदनां, सनिश्श्वासं श्लिष्यत्यहह सुकृती राजरमणीम्।। विभावाद्याह- अत्नालम्बनमनुचितप्रणया राजरमणी। रहो रजन्याद्युद्दीपनम्। साहसेन राजान्तःपुरे गमनम्, प्राणेषूपेक्षा, निश्श्वासाश्लेषादयश्चानुभावाः। शङ्कादयश्च सञ्चारिणः। रसाभासत्वमुपपादयति- निषिद्धालम्बनकत्वाच्चास्या रतेराभासत्वं रसस्य। अत्र तृतीयप्रकारोदाहरणत्वमाशङ्कते- न चात्र 'चकितनयनाम्' इत्यनेन परपुरुषस्पर्शत्रासाभिव्यक्त्या रतेरनुभयनिष्ठतेत्याभासताहेतुर्वाच्यः। उत्तरयति- अस्याश्च चिराय तस्मिन्नासक्तायाः अन्तःपुरे परपुरुषागमनस्यात्यन्तम-सम्भावनया, क एष मां बोधयतीत्युचित एव त्रास;। अनन्तरं च परिचयाभिव्यक्त्या, सोऽयं मत्प्रियो मदर्थं प्राणानपि तृणीकृत्यागत इति ज्ञानादुत्पन्नं हर्षमभिव्यञ्जयत् 'स्मेरवदनाम्' इति विशेषणं रति तदीयामपि व्यनक्ति, परन्तु प्राधान्यं नायकनिष्ठाया एव रतेः सकलवाक्यार्थत्वात्। द्वितीयप्रकारमुदाहरति- यथा वा- पुंश्चली-चरितं वर्णयति- 'भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेषु।
Page 111
111 तरुणेषु विलोचनाब्जमाला-मथ बाला पथि पातयाम्बभूव।।' तदाह- अत्र कुतश्चिदागच्छन्त्याः पथि तदीयरूपयौवनगृहीतमानसैर्यु-वभिरनुगम्यमानायाः कस्याश्चिद् भवनप्रवेशसमये, निजसेवासार्थक्यविज्ञानाय, गमनाज्ञापनरूपलाभलालसेषु, परमपरिश्रमस्मरणसञ्जातकरुणाया गमनाज्ञादाननिवेदकस्य विलोचनाम्बुजमालापरिक्षेपस्यानुभावस्य वर्णनादभिव्यज्यमाना रतिर्बहुवचनेन बहुविषया गम्यत इति भवत्ययमपि रसाभासः। तृतीयप्रकारमुदाहरति- यथा वा- नवोढावृत्तं वर्णयति- 'भुजपञ्जरे गृहीता नवपरिणीता वरेण वधूः। तत्कालजालपतिता, बालकुरङ्गीव वेपते नितराम्।।' उपपादयति- अन्र रतेर्नववध्वा मनागप्यस्पर्शादनुभयनिष्ठत्वेनाभासत्त्वम्। उक्तप्रकारत्रये प्रामाणिकतां दर्शयति- तथा चोक्तम्- 'उपनायकसंस्थायां, मुनिगुरुपत्नीगतायां च। बहुनायकविषयायां, रतौ तथानुभयनिष्ठायाम्।।' इति। उक्ताद्योदाहरणसङ्ग्रहार्थमभिधत्ते- अ्न 'मुनिगुरु' शब्दयोरुपलक्षणपरतया राजादेरपि ग्रहणम्। रस-तदाभासयोरेक्र संशयात् पृच्छति- अथात्र किं व्यङ्ग्यम् ?- 'व्यानम्राश्चलिताश्चैव, स्फारिताः परमाकुलाः। पाण्डुपुन्नेषु पाञ्चाल्याः, पतन्ति प्रथमा दृशाः।' विशेषणव्यङ्ग्यप्रदर्शनपुरस्सरं नवीनमते रसाभासत्वं व्यवस्थापयति- अत्र व्यानम्रतया धर्मात्मताप्रयोज्यं युधिष्ठिरे सभक्तित्वम्, चलिततया स्थूलाकारताप्रयोज्यं भीमसेने सत्रासत्वम्, स्फारिततयाऽलौकिकशौर्यश्रवण- प्रयोज्यमर्जुने सहर्षत्वम्, परमाकुलतया परमसौन्दर्यप्रयोज्यं नकुलसहदेवयोरौत्सुक्यं च
Page 112
112 व्यञ्जयन्तीभिर्दृग्भिः पाञ्चाल्या बहुविषयाया रतेरभिव्यञ्जनाद् रसाभास एवेति नव्याः। प्राचीनमते तत्र रसत्वमेव व्यवस्थापयति- प्राञ्चस्त्वपरिणेतृबहुनायकविषयत्वे, रतेराभासतेत्याहुः। रसाभासं विभजते- तत्र शृङ्गाररस इव शृङ्गाररसाभासोऽपि द्विविध :- संयोगविप्रलम्भभेदात्। तत्र विप्रलम्भाभासोदहरणमात्रस्य वक्ष्यमाणत्वेन न्यूनतां परिहरति- संयोगाभासस्त्वनुपदमेवोदाहृतः। विप्रलम्भाभासमुदाहरति- विप्रलम्भाभासो यथा- वैदेहीविरहव्याकुलस्य दशाननस्य दशां वर्णयति- 'व्यत्यस्तं लपति क्षणं, क्षणमथो मौनं समालम्बते, सर्वस्मिन् विदधाति किं च विषये दृष्टिं निरालम्बनाम्। श्वासं दीर्घमुरीकरोति, न मनागङ्गेषु धत्ते धृतिं, वैदेहीकमनीयताकवलितो हा हन्त! लङ्केश्वरः॥' उपपादयति- अत्र सीतालम्बनेयं लङ्केशगता विप्रलम्भरतिरनुभयनिष्ठतया जगद्गुरुपतीविषयकतया चाभासतां गता, व्यत्यस्तं
प्राधान्येन परिपोष्यमाणा ध्वनिव्यपदेशहेतुः। श्रृङ्गारवद् रसान्तराणामप्यनौचित्यप्रवृत्तत्वे रसाभासतां व्यवस्थापयति- एवं कलहशीलकुपुत्राद्यालम्बनतया वीतरागादिनिष्ठतया च वर्ण्यमानः शोकः, ब्रह्मविद्यानधिकारिचाण्डालादिगतत्वेत च निर्वेदः,कदर्य-कातरादिगत-त्वेन पित्राद्यालम्बनत्वेन वा क्रोधोत्सहौ, ऐन्द्रजालिकाद्यालम्बनत्वेन च विस्मयः, गुर्वाद्यालम्बनतया च हास:, महावीरगतत्वेन भयम्, यज्ञीयपशुवसाऽसृङ्मांसाद्यालम्बनतया वर्ण्यमाना जुगुप्सा च रसाभासाः। तदुदाहरणाप्रदर्शनकारणमाह- विस्तृतिभयाच्चामी नेहोदाहृताः सुधीभिरुन्नेयाः। विशेषवक्तव्यविरहात् समासेनैव भावाभासान् निरूपयति- एवमेवानुचितविषया भावाभासाः।
Page 113
113 समासेनैव भावाभासमुदाहरति- यथा- अनुचितरतिः प्रवासी प्रियां स्मरन् वदति- 'सर्वेऽ्रपि विस्मृतिपथं विषयः प्रयाता- विद्याऽपि खेदकलिता विमुखीबभूव। सा केवलं हरिणशावकलोचना मे, नैवापयाति हृदयादधिदेवतेव॥' प्रकरणं प्रदर्शयति- गुरुकुले विद्याभ्याससमये तदीयकन्यालावण्यगृहीतमानसस्य, अन्यस्य वा कस्यचिद(ति)प्रतिषिद्धगमनां स्मरतो देशान्तरं गतस्येयमुक्तिः। व्यङ्ग्यस्य व्यतिरेकस्य स्मृत्यङ्गत्वं प्रतिपादयति- अत्र च स्वात्मत्यागात्यागाभ्यां स्रक्चन्दनादिषु विषयेषु चिरसेवितायां विद्यायां च कृतघ्नत्वम्, अस्यां च लोकोत्तरत्वमभिव्यज्यमानं व्यतिरेकवपुस्मृतिमेव पुष्णातीति सैव प्रधानम्। वस्तुव्यङ्ग्योपमाया अपि भावाभासाङ्गत्वं दर्शयति- एवं च त्यागाभावगतं सार्वदिकत्वं व्यञ्जयन्त्यधिदेवतोपमाडपि। भावाभासत्वमुपपादयति- एषा चानुचितविषयकत्वादनुभयनिष्ठत्वाच्च भावाभासः। विषयभेदादिहैव भावध्वनित्वमप्याह- यदि पुनरियं तत्परिणेतुरेवोक्तिः, तदा भावध्वनिरेव। भावशान्तिं निरूपयति- अथ भावशान्ति :- निरूप्यत इति शेषः, भवस्य प्रागुक्तस्वरूपस्य शान्तिर्नाशः। विशेषमाचष्टे- सचोत्पत्त्यवच्छिन्न एव ग्राह्यः, तस्यैव सहृदयचमत्कारित्वात्। उदाहरति- उदाहरणम्-
Page 114
114 मानिन्याः सद्योऽमर्षध्वंसं वर्णयति- 'मुञ्चसि नाद्यापि रुषं, भामिनि ! मुदिरालिरुदियाय। इति तन्व्याः पतिवचनैरपायि नयनाब्जकोणशोणरुचिः॥' विभावानुभावौ दर्शयति- इह तादृशप्रियवचनश्रवणं विभावः, नयनकोणगत-शोणरुचेर्नाशः, तदभिव्यक्तः प्रसादो वाऽनुभावः। उपपादयति- उत्पत्तिकालावच्छिन्नो रोषनाशो व्यङ्ग्यः। भावोदयं निरूपयति- तथा- भावोदयो भावस्योत्पत्तिः। उदाहरति- उदाहरणम्- प्रियापराधबोधात् सद्यो मानिन्या वृत्तं वर्णयति- 'वीक्ष्य वक्षसि विपक्षकामिनी-हारलक्ष्म दयितस्य भामिनी। अंसदेशवलयीकृतां क्षणादाचकर्ष निजबाहुवल्लरीम्।' विभावमनुभावं व्यङ्ग्यं च प्रतिपादयति- अन्नापि दयितवक्षोगत-विपक्षकामिनीहारलक्ष्मदर्शनं विभावः, प्रियांसदेशवलयीकृतनिजबाहुलताऽऽकर्षणमनुभावः, रोषोदयो व्यङ्गयः। भावशान्ति-भावोदययोर्विषयैक्यमाशङ्क्य विषयविभागं दर्शयति- यद्यपि भावशान्तौ भावान्तरोदयस्य, भावोदये वा पूर्वं भावशान्तेरावश्यकत्वान्नानयोर्विविक्तो व्यवहारस्य विषयः, तथापि द्वयोरेकत्र चमत्कारविरहात्, चमत्काराधीनत्वाच्च व्यवहारस्य, अस्ति विषयविभागः। भावसन्धिं निरूपयति- एवम्- भावसन्धि-रन्योन्यानभिभूतयो-रन्योन्याभिभवनयोग्ययोः सामानाधिकरण्यम्। उदाहरति- उदाहरणम्- वयस्सन्धिमारूढाया अनूढायाः सीताया रामचन्द्रे प्रथमं दृक्पातं वर्णयति-
Page 115
115 'यौवनोद्गमनितान्तशङ्किताः, शीलशौर्यबलकान्तिलोभिताः। सङ्कुचन्ति विकसन्ति राघवे, जानकीनयननीरजश्रियः॥' विभावाद्याह- अत्र भगवद्दाशरथिगतस्य लोकोत्तरयौवनोद्गमस्य, तादृशस्यैव शीलशौर्यादेश्च दर्शनं विभाव:, नयनगत-सङ्कोचविकासावनुभावः, व्रीडौत्सुक्ययोः सन्धिर्व्यङ्ग्यः। भावशबलत्वं निरूपयति- तथा- भावशबलत्वं भावानां बाध्यबाधकभावमापन्नानामुदासीनानां वा व्यामिश्रणम्। तथा शबलत्वं विवृणोति- एकचमत्कृतिजनकज्ञानगोचरत्वमिति यावत्। उदाहरति- उदाहरणम्- सीतां विवास्यानुशयान: श्रीरामश्चिन्तयति- 'पापं हन्त मया हतेन विहितं, सीताऽपि यद्यापिता, सा मामिन्दुमुखी विना बत वने किं जीवितं धास्यति?। आलोकेय कथं मुखानि कृतिनां, किं ते वदिष्यन्ति मां, राज्यं यातु रसातलं पुनरिदं, न प्राणितुं कामये॥।' उपपादयति- अत्र मत्य-सूया विषाद-स्मृति-वितर्क-व्रीडा-शङ्का-निर्वेदानां प्रागुक्तस्वविभावजन्मनां शबलता। काव्यप्रकाशव्याख्याख्यातृकृतं भावशबलत्वलक्षणमुपन्यस्य निरस्यति- यत्तु काव्यप्रकाशटीकाकारैः- 'उत्तरोत्तरेण भावेन पूर्वपूर्वभावोपमर्द: शबलता' इत्यभ्यधीयत, तन्न, 'पश्येत् कश्चिच्चल चपल रे ! का त्वराऽहं कुमारी, हस्तालम्बं वितर, हहहा! व्युत्क्रमः क्वासि यासि।' इत्यत्र शङ्काऽसूया-धृति-स्मृति-श्रम-दैन्य- मत्यौ-त्सुक्यानामुपमर्दलेशशून्यत्वेऽपि शबलताया राजस्तुतिगुणत्वेन पञ्चमोल्लासे मूलकृतैव निरूपणात्। नन्वात्मविशेषगुणानां स्वोत्तरविशेषगुणनाश्यत्वस्य तार्किकैरङ्गीकरणाच्चित्तवृत्ति- विशेषाणां भावानामिच्छादिवदात्मविशेषगुणत्वादुत्तरोत्तरभावस्य पूर्वपूर्वभावाभिभावकत्वेन
Page 116
116 'पश्ये दित्यादावपि शङ्कादीनां मिथस्ताटस्थ्यस्याभावादेककालिकाभिव्यक्त्यसम्भवाच्च कथं शबलत्वं स्यादिति मूलविरोधस्तुल्य एवेति शङ्गां निराकरोति- स्वोत्तरविशेषगुणेन जायमानस्तु नाशो न व्यङ्ग्यः, नवोपमर्दपदवाच्यः, नापि चमत्कारी। निर्गलितमाह- तस्मात्- 'नारिकेलजल-क्षीर-सिता-कदलमिश्रणे। विलक्षणो यथाऽडस्वादो-भावानां संहतौ तथा॥' भावशान्त्यादिध्वनिचतुष्टयस्य भावध्वनितां व्यवस्थापयति- अन्नेदं बोध्यम्- य एते भावशान्त्युदयसन्धिशबलताध्वनय उदाहृताः, तेऽपि भावध्वनय एव, विद्यमानतया चर्व्यमाणेष्विव, उत्पत्त्यवच्छिन्नत्व-विनश्यदवस्थत्व-सन्धी- यमानत्वपरस्परसामानाधिकरणत्वैः प्रकारैश्चर्व्यमाणेषु भावेष्वेव प्राधान्यस्यौ-चित्यात्, चमत्कृतेस्तन्नैव विश्रान्तेः। यद्यप्युत्पत्ति-विनाश-सन्धि-शबलतानां तत्सम्बन्धिनां भावानां च समानायां चर्वणाविषयतायां, न प्राधान्यं विनिगन्तुं शक्यते, तथापि स्थितौ भावेषु प्रधानतायाः क्लृप्तत्वाद् भावशान्त्यादिष्वपि तेष्वेव शान्तिप्रतियोगित्वादिभिर्व्यज्यमानेषु तस्याः कल्पयितुमौचित्यात्। अन्यथाऽनुपपत्त्यापि तत्र भावप्राधान्यं निर्धारयति- किञ्च यदि भावशान्त्यादौ भावो न प्रधानम्, किन्तु तदुपसर्जनकशान्त्या- दिरेवेत्यभ्युपेयते, तदा व्यज्यमानभावेष्वभिहिततत्प्रशमादिषु काव्येषु भावप्रशमादिध्वनित्वं न स्यात्। तदेवोपपादयन्नादौ तादृशं भावध्वनिमुदाहरति- तथा हि- खण्डितावृत्तं वर्णयति- 'उषसि प्रतिपक्षनायिका-सदनादन्तिकमञ्चति प्रिये। सुदृशो नयनाब्जकोणयोरुदियाय त्वरयाऽरुणद्युतिः॥' अत्र काव्येऽमर्षभावस्योदयो यद्यप्युत्पूर्वकेणेण्धातुनाऽभिहितः, किन्त्वमर्षभावो व्यङ्ग्य एवेति भवत्येवामर्षभावोदयध्वनिव्यपदेशः, भवन्मते तूदयस्यैव प्रधानस्य वाच्यत्वात्
Page 117
117 स न स्यादित्याह- अत्रोत्पूर्वकेणैतिना भावोदयस्य वाच्यतयैव प्रत्यायनात्। अप्रधानप्रयुक्तामेव व्यवहारोपपत्तिमाशङ्क्य निराकरोति- (ननु)- उदयस्य वाच्यत्वेऽपि भावस्यावाच्यत्वाद्ध्वनित्वं सुस्थमिति चेत्, प्रधानस्य व्यपदेशानौपयिकत्वेऽप्रधानकृतव्यपदेशस्यानुपपत्तेः। स्वमतेऽनुपपत्त्यभावं दर्शयति- अस्मन्मते तूत्पत्तेर्वाच्यत्वेप्युत्पत्त्यवच्छिन्नामर्षस्य प्रधानस्यावाच्यत्वाद् युक्त एव भावोदयध्वनिव्यपदेशः। भावप्राधान्यानभ्युपगमे भावशान्तिध्वनित्वानुपपत्तिमपि दर्शयति- एवं व्यज्यमानभावप्रतियोगिकस्य प्रशमस्य वाच्यत्वे भावशान्तिध्वनित्वं न स्यात्। तदुदाहरति- यथा- मानिन्या अमर्षभावशान्तिं वर्णयति- 'क्षमापणैकपदयोः, पदयोः पतति प्रिये। शेमुः सरोजनयना-नयनारुणकान्तयः॥' शान्त्यादिप्राधान्यवादी पुनरशङ्कते- ननु शब्दवाच्यानां प्रशमादीनामरुणकान्त्यैवान्वयादरुणकान्तिप्रशमादेरेव वाच्यत्वं पर्यवसितम्, न तु तादृशप्रशमादिव्यङ्ग्यस्य रोषप्रशमादेः व्यङ्य- व्यञ्जकभेदस्यावश्यकत्वात्। स्वपूर्वपक्षदार्ढ्यार्थमवान्तरशङ्कां विधाय निरस्यति- न चारुण्यव्यङ्गयरोषस्यैव वाच्यीभूतप्रशमाद्यन्वय इति वाच्यम्। वाच्यव्यङ्ग्यप्रतीत्योरानुपूर्व्येण सिद्धतया, वाच्यान्वयबोधवेलायां वाच्यैः सह व्यङ्ग्यान्वयानुपपत्तेः। उक्तं समर्थयति- अन्यथा 'सुदृशो नयनाब्जकोणयोः' इत्यस्यान्वयो न स्यात्। उत्तरयति- मैवम्। भावप्राधान्यसमर्थनायापत्तिप्रकाशकं स्थलान्तरमाचष्टे- एवमपि-
Page 118
118 अननुनयेऽपि मानापगमं वर्णयति- 'निर्वासयन्तीं धृतिमङ्गनानां शोभां हरेरेणदृशो धयन्त्याः। चिरापराधस्मृतिमांसलोऽपि, रोषः क्षणप्राघुणिको बभूव॥' आपत्तिं प्रतिपादयति- इत्यादावपि भावप्रशमध्वनित्वापत्तेः, भावस्य वाच्यत्वेऽपि प्रधानस्य तत्प्रशमस्य व्यङ्गयत्वात्। तन्नैव पुनराशङ्क्य समाधत्ते- उभयोरप्यवाच्यत्वमपेक्षितमिति चेत्, प्रागुक्तपद्यद्वये शमत्वोदयत्वाभ्यां शमोदययोर्वाच्यत्वादनुदाहरणत्वापत्तेः। ननु मा भूत् तदुदाहरणद्वये ध्वनित्वमित्यत आह- इष्टापत्तिस्तु सहृदयानामनुचितैव। निगमयति- तस्माद्भावप्रशमादिष्वपि प्राधान्येन भावानामेव चमत्कारित्वम्, प्रशमादे स्तूपसर्जनत्वम्, अतो न तस्य वाच्यतादोषः। नन्वेवं वैलक्षण्याभावाख्याने भावध्वनेर्भावशान्त्यादिभ्यः पृथगुपादानस्य निष्प्रयोजनकत्वापत्तिरतो वैलक्षण्यं प्रदर्शयति- इदं पुनर्भावध्वनिभ्यो भावशान्त्यादिध्वनीनां चमत्कारवैलक्षण्ये निदानम्- यदेकन्र चर्वणायां भावेषु स्थित्यवच्छिन्नामर्षादित्वम्, अमर्षादित्वमेव वा प्रकारः, अन्यत्र तु प्रशमावस्थात्वादिरपीति। ननु भावशान्त्यादिवद् रसशान्त्यादीनां निरूपणं कुतो न कृतमित्यत आह- रसस्य तु स्थायिमूलकत्वात् प्रशमादेरसम्भवः, सम्भवे वा न चमत्कार इति स न विचार्यते। अथ 'उपपादयिष्यते च स्थाय्यादीनामपि संलक्ष्यक्रमव्यङ्ग्यत्व' इति प्राक् प्रतिज्ञातां रसादीनां संलक्ष्यक्रमव्यड्ग्यतामपि व्यवस्थापयति- सोऽयं निगदितः सर्वोऽपि रसादिलक्षणो व्यङ्ग्यप्रपञ्चः स्फुटप्रकरणे, झगिति प्रतीतेषु विभावानुभावव्यभिचारिषु, सहृदयतमेन प्रमात्रा, सूक्ष्मेणैव समयेन प्रतीयत इति हेतुहेतुमतोः पौर्वापर्यक्रमस्यालक्षणादलक्ष्यक्रमो व्यपदिश्यते। यत्र तु विचारवेद्यं प्रकरणम्, उन्नेया वा विभावादयस्तत्र सामग्रीविलम्बाधीनं चमत्कृतेर्मान्थर्यमिति
Page 119
119 संलक्ष्यक्रमोऽप्येष भवति। तदेव स्थलं दर्शयति- यथा- 'तल्पगताऽपि च सुतनुः' इति प्रागुदाहते पद्ये सम्प्रति' इत्येतदर्थावगतिर्विलम्बेन। ननु रसादीनामसलंक्ष्यक्रमव्यङ्ग्यतायाः सार्वत्रिकी प्रसिद्धिरेतावता विरुध्यतीत्यत आह- न खलु धर्मिग्राहकमानसिद्धं रत्यादिध्वनेरलक्ष्यक्रमव्यङ्यत्वम्। उक्तं समर्थयति- अत एव लक्ष्यक्रमप्रसङ्गे- विवाहवार्ताश्रवणसलज्जपार्वतीवृत्तं वर्णयति- 'एवंवादिनि देवर्षौ, पार्श्वे पितुरधोमुखी। लीलाकमलपत्राणि, गणयामास पावती।।' इति। उपपादयति- 'अत्र कुमारीस्वाभाव्यादप्यधोमुखत्वविशिष्टस्य लीलाकमलपत्रगणनस्योपपत्त्या मनाग्विलम्बेन नारदकृतविवाहादिप्रसङ्गविज्ञानोत्तरं व्रीडायाश्चमत्कारणाल्लक्ष्यक्रमोऽयं ध्वनिः' इति प्राहुरानन्दवर्धनाचार्याः। रसभावादिरर्थो ध्वन्यमान एव, न वाच्यः, तथापि न सर्वोऽलक्ष्यक्रमस्य विषयः।' इति चाभिनवगुप्तपादाचार्याः। रसादीनां संलक्ष्यक्रमत्वाङ्गीकारे दोषमाशङ्कते- स्यादेतत्- यद्ययं रसादि: संलक्ष्यक्रमस्य विषयः स्यात्,-अनुरणनभेदगणनप्रस्तावे 'अर्थशक्तिमूलस्य द्वादश भेदाः' इत्यभिनवगुप्तोक्तिः, 'तेनायं द्वादशात्मकः' इति मम्मटोक्तिश्च न सङ्गच्छेत, वस्त्वलङ्कारात्मना द्विविधेन वाच्येन स्वतस्सम्भवित्व-
षडात्मना वस्त्वलङ्कारयोरिव रसादेरप्यभिव्यञ्जनादष्टादशत्वप्रसङ्गात्। समादधाति- अत्रोच्यते- प्रकटैर्विभावानुभावव्यभिचारिभिरलक्ष्यक्रमतयैव व्यज्यमानो रत्यादिः स्थायिभावो रसीभवति, न संलक्ष्यक्रमतया। रसीभावो हि नाम झगिति जायमानालौकिकचमत्कारविषयस्थायित्वम्। संलक्ष्यक्रमतया व्यज्यमानस्य रत्यादेस्तु
Page 120
120 वस्तुमात्रतैव न रसादित्वमिति तेषामाशयस्य वर्णनेन न तदुक्तीनां विरोधः। सर्वत्रासंलक्ष्यक्रमत्वेन प्रसिद्धस्य रत्यादेरिहोक्तमलक्ष्यक्रमत्वं कथमुपपद्यत इत्याशङ्कायामाह- उपपत्तिस्त्वर्थेऽ्रस्मिन् विचारणीया। ननु रत्यादीनां संलक्ष्यक्रमतायां रसत्वाभावो यद्यभिनवगुप्तादीनामभिमतः स्यात्, तर्हि तेन 'रसभावादिरर्थो ध्वन्यमान एव' इत्यत्र संलक्ष्यक्रमरत्यादितात्पर्येण रसपदस्योपादनं न स्यादित्याशङ्कायामभिधत्ते- 'रसाभावादिरर्थः' इत्यत्र रसादिश्ब्दो रत्यादिपरः। अथ रसादिध्वनेर्व्यञ्जकानुपदिशन्नादौ प्राचीनमतमुपन्यस्यति- तदित्थं निरूपितस्यास्य रसादिध्वनिप्रपञ्चस्य पद-वर्ण-रचना-वाक्य-प्रबन्धैः पदैकदेशैरवर्णात्मकै रागादिभिश्चाभिव्यक्तिमामनन्ति। ननु सर्वत्र वाक्यादेव रसाद्यभिव्यक्तिदर्शनात् कथमेकस्य तद्धटकपदस्य व्यञ्जकतोच्यत-इत्याशङ्कां मनसि निधायाभिदधाति- तन्न वाक्यगतानां पदानां सर्वेषामपि स्वार्थोपस्थितिद्वारा वाक्यार्थज्ञानोपायत्वे समानेऽपि, कुर्वदूपतया चमत्कारायोगव्यवच्छिन्नत्वेन कस्यचिदेव ध्वनिव्यपदेशहेतुत्वम्। पदस्य रसव्यञ्जकतामित्थं व्यवस्थाप्योदाहरति- यथा- 'मन्दमाक्षिपति' इत्यत्र 'मन्द'मित्यस्य। रचनानां वर्णानां च स्वातन्त्र्येणार्थबोधकत्वविरहेऽपि रसादिव्यञ्जकत्वं प्राचीनमतेनाह- रचनावर्णानां पदवाक्यान्तर्गतत्वेन व्यञ्जकताऽवच्छेदककोटिप्रविष्टत्वमेव, न तु व्यञ्जकत्वमिति यद्यपि सुवचम्, तथापि पदवाक्यविशिष्टरचनात्वेन रचनाविशिष्टपदवाक्यत्वेन वा व्यञ्जकत्वमिति विनिगमनाविरहेण घटादौ दण्डचक्ररादेः कारणत्वस्येव प्रत्येकमेव व्यञ्जकतायाः सिद्धिरिति प्राञ्चः। तन्न नवीनमतमभिधत्ते- वर्णरचनाविशेषाणां माधुर्यादिगुणाभिव्यञ्जकत्वमेव, न तु रसाभिव्यञ्जकत्वम्, गौरवान्मानाभावाच्च। ननु यदि वर्णादिषु माधुर्यव्यञ्जकताऽस्ति, तर्हि तदाश्रयरसादिव्यञ्जकताऽप्यस्त्येव,
Page 121
121 यतो गुणिनो व्यञ्जकतां विना गुणानां व्यञ्जकतैव न सम्भवतीत्याशङ्कां निराकरोति- न हि गुण्यभिव्यञ्जनं विना गुणाभिव्यञ्जकत्वं नास्तीत्यस्ति नियम:, इन्द्रियत्रये व्यभिचारात्। गुणादिव्यक्तिव्यवस्थादर्शनेन स्वपक्षे दोषं परिहरन् नवीनमतमुपसंहरति- इत्थं च स्वस्वव्यञ्जकोपनीतानां गुणिनां गुणानामुदासीनानां च यथा परस्परोपश्लेषेणौदासीन्येन वा तत्तत्प्रमितिगोचरता, तथा रसानां तद्गुणानां चाभिव्यक्तिविषयतेति तु नव्याः। रचनायां रसादिव्यञ्जकतामुदाहरति- उदाहरणन्तु- 'तान्तमाल' -इत्यादि प्रागुक्तमेव। वाक्यस्य रसादिव्यञ्जकतामुदाहरति- वाक्यस्य व्यञ्जकतायामपि 'आविर्भूता यदवधि-'इत्यादि च। प्रबन्धस्य रसव्यञ्जकतामुदाहरति- प्रबन्धस्य तु 'योगवासिष्ठरामायणे' शान्त-करुणयोः, रत्नावल्यादीनि च शृङ्गारस्य व्यञ्जकत्वान्निदर्शनानि प्रसिद्धानि। प्रबन्धस्य भावव्यञ्जकतामुदाहरति- मन्निर्मिताश्च पञ्चलहर्यो भावस्य। पदावयवस्य रसव्यञ्जकतामुदाहरति- पदैकदेशस्य च 'निखिलमिदं जगदण्डकं वहामि' इति करूपतद्धितो वीररसस्य प्रागेवोदाहृतः। अवर्णात्मकरागादीनां व्यञ्जकता सहृदयानुभवसिद्धैवेति प्रतिपादयति- एवं रागादिभिरपि व्यङ्ग्यत्वे सहृदयहृदयमेव प्रमाणम्। उपसंहरति- एवमेषां रसादीनां प्राधान्येन निरूपितान्युदाहरणानि। गुणीभूतव्यङ्ग्यत्वे रसादीनामुदाहरणापेक्षायामाह- गुणीभावे तु वक्ष्यन्ते, नामानि च। तन्न विशेषमाचष्टे- तत्र प्राधान्य एवैषां रसादित्वम्, अन्यथा तु रत्यादित्वमेव। ननु गुणीभावे यदि रसादित्वाभावो भवेत्, तर्हि गुणीभूतरसस्य रसवदलङ्कारेति
Page 122
122 नाम्नि रसपदं कथमुपात्तमित्याशङ्कायामाह- नामनि रसपदं तु रत्यादिपरमित्येके। अस्त्येव रसादित्वं, किन्तु न ध्वनि- व्यपदेशहेतुत्वमित्यपरे।
इति तैलङ्गपण्डितराजश्रीजगन्नाथविरचिते रसगङ्गाधरे प्रथममाननं सम्पूर्णम्।
Page 123
123
Page 124
124
रसगङ्गाधरः द्वितीयमाननम्
अथ संलक्ष्यक्रमध्वनिर्निरूप्यते- संलक्ष्यक्रमध्वनिं विभजते- स च तावद् द्विविध: शब्दशक्तिमूलोऽर्थशक्तिमूलश्च। तत्राद्यो द्विविधः, व्यङ्ग्यस्य वस्तुत्वालङ्कारत्वाभ्यां द्वैविध्यात्। द्वितीयोऽपि वस्त्वलङ्कारात्मना लोकसिद्धेन, तथाभूतेनैव प्रतिभा-मात्र-निवर्तितेन च व्यञ्जकेनार्थेन चतुर्विधेन वस्त्वलङ्कारत्मनो द्विविधस्य व्यङ्ग्यस्य प्रत्येकं व्यञ्जनादष्टमूर्तिः। ननु अर्थशक्तिमूलध्वनेरष्टविधत्वोक्तिरसङ्गता, मम्मटादिभि: लोकसिद्धकविप्रतिभामात्रनिर्वर्तिताविव कविकल्पितवक्तृप्रतिभानिर्वर्तिताभिधानमप्येकं व्यञ्जकार्थस्य भेदमङ्गीकृत्य तस्य द्वादशविधत्वप्रतिपादनादित्यत आह-प्तिभानिव र्तितत्वाविशेषाच्च कवितदुम्भितवक्तृप्रौढोक्तिनिष्पन्नयोरर्थयोर्न पृथगभावेन गणनोचिता, उम्भितोम्भितादेरपि भेदान्तरप्रयोजकतापत्तेः। न च तस्यापि कव्युम्भितत्वानपायात्तत्प्रयोज्यभेदान्तर्गतत्वमेवेति वाच्यम्,
उपसंहरति- एवं साकल्येन दशभेदोऽयम्। नानार्थकशब्दस्थले संयोगादिभिरेकस्मिन्नर्थेऽभिधायां नियन्त्रितायां द्वितीयोऽर्थो व्यञ्जनया बोध्यते, स एव शब्दशक्तिमूलध्वनिलक्ष्यस्थल इति प्राचीनाभिमतं सिद्धान्तं मतभेदेन समालोचयितुमुपक्रमते- तन्र केचिदाहु :- नानार्थस्य शब्दस्य सर्वेष्वर्थेषु संकेतग्रहस्य तुल्य-त्वाच्छ्ुतमात्र एव तस्मिन् सकलानामर्थानामुपस्थितौ, शब्दस्यास्य कस्मिन्नर्थे तात्पर्यमिति सन्देहे च सति, प्रकरणादिकं तात्पर्यनिर्णायकं पर्यालोचयतः पुरुषस्य सति तन्निर्णये, तदात्मकपदज्ञानजाया एकार्थमात्रविषयायाः पुनः पदार्थोपस्थितेरनन्तरमन्वयबोध इति नये द्वितीयायाः पदार्थोपस्थितेः प्राथमिक्या इव न कुतो नानार्थगोचरतेति प्रकरणादिज्ञानस्य
Page 125
125 तदधीनतात्पर्यनिर्णयस्य वा पदार्थोपस्थितौ प्रतिबन्धकत्वं वाच्यम्, अन्यथा शाब्दबुद्धेरपि नानार्थविषयत्वापत्तिः। उक्तान्वयबोधऋ्रमानुसारेण 'संयोगो विप्रयोगश्चे' त्यादिकारिकांशं संगमयति- अत एवोक्तम्-'अनवच्छेदे विशेषस्मृतिहेतवः' इति। अनवच्छेदे तात्पर्यसंदेहे। विशेषस्मृतिरेकार्थमात्रविषया स्मृतिः। उक्तविचारसरणेः प्रकृतोपयोगित्वं दर्शयति- इत्थञ्च सुरभिमांसं भक्षयतीत्यादेर्वाक्याज्जायमाना द्वितीया प्रतीतिर्गवाद्युपस्थितेरभावात् कथं स्यादिति तदुपस्थित्यर्थं व्यञ्जनाव्यापारोऽभ्युपेयः। ननु नानार्थकशब्देषु नानार्थनिरूपिता एकैव शक्तिरिति पक्षाङ्गीकारे भवदुक्तरीत्या व्यञ्जनावृत्तेरावश्यकत्वमास्ताम्, अथ यदि नानार्थनिरूपिता नानाशक्तिर्नानार्थकेषु स्वीक्रियेत, तर्हि तु सम्भवत्यभिधयैव निर्वाह इति शंकते समाधत्ते च- अथैकया शक्त्या प्राकरणिकार्थोपस्थितेरनन्तरं द्वितीयया शक्त्या द्वितीया- र्थोपस्थितिस्तथापि स्यादिति चेत्? न स्यादेव, प्रकरणादिज्ञानस्य प्रतिबन्धकस्यानुपरमात्। अन्यथा प्राकरणिकार्थोपस्थितावेवाप्राकरणिक-स्याप्यर्थस्य विषयत्वं स्यात्। ननूक्तप्रतिबध्यप्रतिबन्धकभावाङ्गीकारे वैयञ्जनिकाप्राकरणिकार्थविषयकोपस्थितेरपि कुतो न प्रतिबन्ध इत्याशड्क्य समाधत्ते- न च प्रकरणादिज्ञानस्य तादृशपदजन्यार्थोपस्थितिसामान्य एव प्रतिबन्धकत्वाद् व्यक्त्याऽपि कथमर्थान्तरोपस्थितिरिति वाच्यम्, धर्मिग्राहकमानेनाप्राकरणिकोपस्थापकतयैव तादृशव्यक्तेरुल्लासात्तदजन्योपस्थितिं प्रत्येव प्रकरणादिज्ञानस्य प्रतिबन्धकत्वकल्पनात्। व्यक्तिज्ञानस्योत्तेजकत्वकल्पनाद्वा। मम्मटस्योक्तविचारानुसारित्वं दर्शयति- एतदेव सर्वमभिसन्धायोक्तम्- 'अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते। संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥' यन्त्रणमपरार्थोपस्थापनप्रतिबन्ध इति। उक्तमिति। काव्यप्रकशे मम्मटभट्टेनेति शेषः।
Page 126
126 अपरे त्वाहु :- नानार्थशब्दजशाब्दबुद्धौ तात्पर्यनिर्णयहेतुताया अवश्यकल्प्यत्वात् प्रथमं नानार्थशब्दादनेकार्थोपस्थानेऽपि प्रकरणादिभिस्तात्पर्यनिर्णयहेतुभिरुत्पादिते तस्मिन् यत्र तात्पर्यनिर्णयस्तस्यैवार्थस्यान्वयबुद्धिर्जायते, नान्यस्येति सरणावाश्रीयमाणायां नैकमात्रगोचरस्मृत्यपेक्षा, नाप्यपरार्थो-पस्थानप्रतिबन्धकत्वकल्पनम्। एतद्रीत्या शाब्दबोधोपपादनेऽपि व्यञ्जनावृत्तेरावश्यकत्वं दर्शयति- एवं च प्रागुपदर्शितनानार्थस्थले प्रकरणादिज्ञानाधीनात्तात्पर्यनिर्णयात्प्राकरणिकार्थशाब्दबुद्धौ जातायामतात्पर्यविषयाऽपि शाब्दबुद्धिस्तस्मादेव शब्दाज्जायमाना कस्य व्यापारस्य साध्यतामवलम्बताम्, ऋते व्यञ्जनात्। 'सुरभिमांस' मित्यादौ गोमांसभक्षणरूपार्थविषयकबोधस्य शक्तिसाध्यत्वमर्थान्निरस्तमपि शब्दतो निरस्यति- न च शक्तिसाध्या सेति वाच्यम्, तदधीनबोधं प्रति तात्पर्यनिर्णयस्य हेतुत्वात्। ननु व्यञ्जनयापि कथमतात्पर्यविषयार्थबोधः, वैयञ्जनिकबोधं प्रत्यपि तात्पर्यनिर्णयस्य हेतुताकल्पनादित्यत आह- व्यक्त्यधीनबोधस्तु नावश्यं तात्पर्यज्ञानमपेक्षते। अनुपदोक्तव्याख्याने 'संयोगो विप्रयोगश्चे'ति हरिकारिकायाः, 'अनेकार्थस्ये'ति मम्मटकारिकायाश्चासंगतिमापाद्य निराकरोति- नन्वेकमात्रगोचरस्मृतेस्तच्छाब्दबुद्धावनपेक्षितत्वे 'विशेषस्मृतिहेतवः' इति प्राचां ग्रन्थः कथं संगच्छते? कथं वा प्रकरणादिज्ञानस्यापरार्थोपस्थानप्रतिबन्धकत्वविरहे संयोगाद्यैरनेकार्थस्य शब्दस्य वाचकताया नियन्त्रणोक्तिश्चेति चेत्? इत्थम्-स्मृतिशब्दस्य निश्चयपरतया विशेषस्मृतिशब्देन विशेषविषयस्तात्पर्यनिर्णयो गृह्यते। संयोगाद्यैर्वाचकताया नियन्त्रणं चैकार्थमात्रविषयकतात्पर्यनिर्णयजननद्वारा शाब्दबोधानुकूलत्वम्। अवाच्यार्थोऽतात्पर्यार्थः। एवं च न ग्रन्थासंगतिरित्यपि वदन्ति। ननु वैयञ्जनिकबोधेऽपि पदज्ञानस्य कारणत्वेन शक्तिसाध्यप्राकरणिकार्थबोधानन्तरं तात्पर्यज्ञानात्मकपदज्ञानस्य नष्टत्वात् कथं व्यञ्जनयापि अप्राकरणिकार्थबोध इत्याशंक्य समाधत्ते- अथ प्राकरणिकार्थबोधानन्तरं तादृशपदज्ञानस्योपरमात् कथं व्यक्तिवादिनाप्यर्थान्तरधीः सूपपादेति चेत्? मैवम्, प्रथमार्थप्रतीतेर्व्यापारस्य सत्त्वाददोष इत्येके। अर्थप्रतीतौ
Page 127
127 शक्यतावच्छेदकस्येव पदस्यापि विशेषणतया भानात्प्राथमिकशक्यार्थबोधस्यैव पदज्ञानत्वादित्यपरे। आवृत्त्या पदज्ञानं सुलभमित्यपि कश्चित्। प्राचीनमतमुपसंहरति- तदित्थं नानार्थस्थलेऽनुरणनीयं व्यञ्जनं शब्दशक्तिमूलम्, शब्दस्य परिवृत्त्यसहत्वादिति ध्वनिकारानुयायिनो वर्णयन्ति। अस्मिन् प्रसङ्गे ग्रन्थकारः स्वमतमुपदर्शयितुं पूर्वोक्तं मतद्वयं खण्डयति- अन्ये त्वत्र प्रत्यवतिष्ठन्ते। यत्तावदुक्तमेकार्थमात्रविषया पदार्थोपस्थितिस्तदन्वयबोधेऽपेक्ष्यत इति तदसारम्। नानार्थादर्थद्वयोपस्थितावपि प्रकरणादिज्ञानाधीनतात्पर्यमहिम्नैव विवक्षितार्थशाब्दबोधोपपत्तेः, एकार्थमात्रोपस्थित्यपेक्षायां मानाभावात् अपरार्थोपस्थापकसामग्र्याः पदज्ञानस्य सत्त्वेन तदुपस्थितेरप्यौचित्याच्च। सामग्रीविघटनमाशंक्य समाधत्ते- न च प्रकरणादिज्ञानं तदधीनतात्पर्यज्ञानं वा पदार्थोपस्थाने प्रतिबन्धकमिति शक्यं वक्तुम्। संस्कारतदुद्बोधकयोः सत्त्वे स्मृतेः प्रतिबन्धस्य क्वाप्यदृष्टत्वात्। अन्यत्रादृष्टस्यापि स्मृतिप्रतिबन्धस्यात्रैवाङ्गीकारे का बाधेत्याक्षिप्य निरस्यति- अन्रैव स्मृतावयं प्रतिबध्य-प्रतिबन्धकभावः कल्प्यते, न स्मृत्यन्तरे इत्य-प्यहृदयङ्गमम्, तादृशकल्पनाया निष्फलत्वात्, अनुभवविरुद्धत्वाच्च। अनुभवविरोधं दर्शयति- तथा हि नानार्थशक्तिविषयकदृढसंस्कारशालिनां प्रकरणज्ञानवतामपि पयो रमणीयमित्यादेर्वाक्यात्प्रथममर्थद्वयोपस्थितिरनुभवसिद्धा। अत एव पयो रमणीयमित्यादिवाक्यमकस्मादाकर्णितव्भिः प्रकरणाद्यभिज्ञैरप्रकरणज्ञाः पांसुरपादा वक्तुस्तात्पर्यं बोध्यन्ते, नूनमस्य दुग्धे तात्पर्यं शब्दस्य, न तु जल इति। यदि च प्रकरणादिज्ञानं नानार्थशब्दाज्जायमानामप्राकरणिकार्थोपस्थितिं प्रति बध्नीयात्तत्कथमेते तदानीमनुपस्थितजलाः प्रकरणज्ञा जलतात्पर्यं निषेधेयुरित्यहृदयङ्गम एवायमप्राकरणिकार्थोपस्थापनप्रतिबन्धकभावः प्रकरणादिज्ञानस्य। तात्पर्यनिर्णयशाब्दबोधयोः कार्यकारणभावस्य समर्थकं द्वितीयं मतमनूद्य खण्डयति- यदप्युच्यते प्रकरणादिज्ञानात्प्राकरणिकेऽर्थे तात्पर्यविषयतया निर्णीते तदीयशाब्दबोधानन्तरमतात्पर्यविषयीभूतार्थबोधो जायमानो व्यञ्जनाव्यापारसाध्य इति। तत्र
Page 128
128 किमयं नानार्थस्थले सर्वत्रैव व्यञ्जनोल्लासः, आहोक्त्वचदेवेति सम्मतम्? नाद्यः। प्राकरणिकाप्राकरणिकयोरर्थयोः शाब्दबुद्धौ सर्वत्राभ्युपगम्यमानायां तात्पर्यज्ञानकारणतायाः कल्पनस्य नैरर्थक्यापत्तेः। शाब्दबोधे तात्पर्यनिर्णयकारणतायाः सार्थक्यमाशंक्यते- न च शक्तिजबोधे सा कल्प्यते, व्यक्तिजबोधस्तु तात्पर्यज्ञानं विनापि भवतीति तत्स्थाने शक्तिजबोधवारणाय तत्कल्पनमिति वाच्यम्; समाधत्ते- अतात्पर्यार्थबोधस्य सार्वत्रिकत्वे तस्य शक्तिजतायामपि बाधकाभावात्। पुनः प्रकारान्तरेण तात्पर्यज्ञानकारणताकल्पनायाः साफल्यमाशंक्यते- अथ नानार्थशब्दादर्थद्वयोपस्थितौ सत्यां प्रकरणादिना सत्येकस्मिन्नर्थे तात्पर्यनिर्णये तस्यैवार्थस्य प्रथमं शाब्दबुद्धिर्जायते, नापरार्थस्येति नियम-रक्षणाय शक्तिजतदर्थशाब्दबुद्धौ तदर्थतात्पर्यज्ञानं हेतुरिष्यते। अन्यथा तात्पर्यविषयतयानिर्णीतस्यार्थस्येवातथाभूतस्यापरस्याप्यर्थस्य प्रथमं शाब्दधीः स्यात्। अनन्तरं तु तात्पर्यविषयार्थबोधादतात्पर्यविषयार्थविषयापि शाब्दधीरिष्यत इति तज्जन्यतावच्छेदककोटौ शक्तिजत्वं निवेश्यत इति चेत्? खण्डयति- मैवम्। 'सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः' इत्यादौ श्लेषकाव्य इव प्रकृतेऽपि प्रकृताप्रकृतयोरर्थयोर्बोधस्य स्वीकारे बाधकाभावात्। दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं शङ्कते- न च दृष्टान्तेरऽर्थद्वयेऽ्पि प्रकरणसाम्यात्तात्पर्यज्ञानमस्तीति युगपद्द्वयोर्बोधोपपद्यते। दार्ष्टान्तिके त्वेकत्नैव प्रकरणादिवशात्तदिति न युगपदर्थद्वयबोधोपपत्तिरिति वाच्यम्। समाधत्ते- तात्पर्यज्ञानकारणताया एवासिद्धत्वेन युगपदर्थद्वयबोधानुपपत्तिवाचोयुक्तेररमणीयत्वात्। तादृशज्ञानहेतुतासिद्धौ तु शक्येतापीत्थं वक्तुम्। एवं सति तात्पर्यज्ञानस्यानुपयोगमाशड्क्य निरस्यति- तर्हि तात्पर्यज्ञानस्य कुत्रोपयोग इति चेत्? अस्मिन्नर्थेऽयं शब्द: प्रमाणमयमर्थः प्रमाणवेद्य इत्यादिनिर्णये प्रवृत्त्याद्युपयोगिनीति गृहाण।
Page 129
129 नानार्थस्थले सर्वत्र व्यञ्जनोल्लासः, क्वचिदेवेति कल्पद्वये प्रथमकल्पीयं वक्तव्यमुपसंहरति- इत्थं च नानार्थस्थलेऽपि तात्पर्यधियः कारणतायां शिथिलीभवन्त्यामतात्पर्यार्थविषयशाब्दबुद्धिसम्पादनाय व्यक्तिस्वीकारोऽनुचित एव शक्त्यैव बोधद्वयोपपत्तेः। नानार्थस्थले क्वचिदेव व्यञ्जनोल्लास इति द्वितीयं कल्पमालोचयितुं प्रकरमते- नापि द्वितीय:, हेतोरभावात्। व्यङ्ग्यार्थविषयककवितात्पर्यज्ञानं तथेति चेत्? न, व्यक्तिजबोधे तात्पर्यज्ञानकारणतायास्त्वयानभ्युपगमात्, यत्राश्लीलं दोषस्तन्नाप्राकरणिकेऽर्थे सकलानुभवसिद्धे कवितात्पर्यस्य विरहात् तज्ज्ञानस्य तादृशबुद्धिहेतुताया व्यभिचारदूषितत्वाच्च। व्यञ्जनोल्लासस्य क्वाचित्कत्वनियामकमपरहेतुमाशंक्य खण्डयति- अथ श्रोतुः शक्तिविशेषो व्यक्तेरुल्लासे हेतुः, स च फलबलाच्चमत्कारिण्येवार्थे व्यक्तिमुल्लासयति नाचमत्कारिणीति सिद्धं व्यञ्जनोल्लासस्य क्वाचित्कत्वमिति चेत्? न, हन्तैवं स नियन्त्रितशक्तेरेव वोल्लासकोऽस्त्विति कृतं नानार्थस्थले व्यक्तिकल्पनया। अभ्युपगतेऽपि व्यञ्जनोल्लासस्य क्वाचित्कत्वे नानार्थस्थलेप्राकरणिकार्थबोधो व्यञ्जनयेति पक्षो न युक्तोऽनिष्टापत्तेरित्याह- किंच 'उल्लास्यकालकरवालमहाम्बुवाहम्' इत्यादिनानार्थव्यञ्जकस्थले- डग्रहीतद्वितीयार्थशक्तिकस्य गृहीतविस्मृतद्वितीयार्थशक्तिकस्य वा पुंसः सर्वथैव व्यञ्जनया द्वितीयार्थबोधानुदयात्तत्र तया तदापत्तिस्तव दुर्वारा। एतद्दोषोद्धारायाशङ्कते- न च येन शब्देन योर्ऽर्थो व्यज्यते तस्य शब्दस्य तदर्थगतशक्तिज्ञानं तदर्थव्यक्तेरुल्लासे हेतुरिति वाच्यम्, 'निःशेषच्युत-' इत्यादौ रमणव्यक्त्यनापत्तेः। न ह्यधमपदस्य कस्यचिद्रमणे शक्तिग्रहोऽस्ति। सति वा तस्मिंस्तेनैवोपपत्तौ व्यक्तिकल्पनवैयर्थ्यापत्तेश्च। उक्तकार्यकारणभावस्य सङ्कचितविषयकत्वकल्पनेन 'निःशेष' इत्यादौ दोषनिरासमाशङ्क्य निरस्यति- न च नानार्थव्यञ्जनस्थल एवैवंजातीयकः कार्यकारणभावः कल्प्यते, तत्र च शक्तेर्नियन्त्रितत्वेन तद्ग्रहस्याप्रयोजकतया व्यक्तिकल्पनौचित्यादिति वाच्यम्,
Page 130
130 नवीनकार्यकारणभावकल्पने गौरवप्रसङ्गात्। नियन्त्रणस्य पूर्वमेव दूषितत्वेन तद्धेतोरेवेति न्यायावताराच्च। अथान्यथा शङ्कते- अथास्त्वप्राकरणिकोऽप्यर्थः शक्तिवेद्य एवान्वयधीगोचरः परन्तु यत्र न बाधितः स्यात्। यत्र तु बाधितस्तन्र 'जैमिनीयमलं धत्ते रसनायामयं द्विजः' इत्यादौ जुगुप्सितोऽर्थो वह्निना सिञ्चतीत्यादौ वह्निकरणकसेक इवाबोधोपहत एव स्यात्। बाधनिश्चयस्य तद्वत्ताज्ञानं प्रति प्रतिबन्धकतायाः सर्वजनसिद्धत्वात्। व्यक्तेस्तु बाधितार्थबोधकत्वं धर्मिग्राहकमानसिद्धमिति व्यक्तिवादिनामदोष इति। उक्तशङ्कायाः समाधानमाह- मैवम्, 'गामवतीर्णासत्यं सरस्वतीयं पतञ्जलिव्याजात्,' 'सौधानां नगरस्यास्य मिलन्त्यर्केण मौलयः।' इत्यादौ वाच्यार्थान्वयोपपादनायानु-सरणीयेन यतेन नानार्थस्थलेऽपि बाधितार्थबोधस्योपपत्तिः स्यात्, अन्यथा प्रायशः सर्वेष्वप्यलंकारेषु वाच्यार्थबोधोपपत्तये व्यञ्जनाङ्गीकरणीया स्यात्। तस्मान्नानार्थस्याप्राकरणिकेऽर्थे व्यञ्जनेति प्राचां सिद्धान्तः शिथिल एव। प्राचीनमतस्यांशिकरूपेण युक्तिसङ्गतत्वं कथञ्चित् स्वीकरोति- प्राकरणिकाप्राकरणिकयोरर्थयोरुपमायां तु सा कदाचित्स्यादपीत्यत्रास्माकं प्रतिभाति। स्वाभिमतं शब्दशक्तिमूलव्यञ्जनोदाहरणस्थलं दर्शयितुमुपक्रममातनोति- एवमपि योगरूढिस्थले रूढिज्ञानेन योगापहरणस्य सकलतन्त्रसिद्धतया रूढ्यनधिकरणस्य योगार्थालिङ्गितस्यार्थान्तरस्य व्यक्तिंविना प्रतीति र्दुरुपपादा। उदाहरति- यथा- 'अबलानां श्रियं हृत्वा वारिवाहैः सहानिशम्। तिष्ठन्ति चपला यत्र स काल: समुपस्थितः॥' अत्राशक्तानां द्रव्यमपहृत्य जलवाहकैः पुरुषैः सह पुंश्चल्यो रमन्त इत्यर्थान्तरं न तावदबला-वारिवाह-चपलाशब्दैर्योगरूढ्या शक्यते बोधयितुम्, मेघत्वविध्युत्त्वाद्यघटितस्यैव तस्यार्थस्य प्रतीतेः। अन्यथा चमत्कारो न स्यात्। अत एव न
Page 131
131 योगशक्त्यापि केवलया। रूढ्यर्थासंवलितार्थबोधकत्वस्य तस्या रूढिसमानाधिकरणाया असङ्गतेः। पुंश्चलीत्वादेः सर्वथैव तदविषयत्वात्। योगरूढेरन्यत्राप्येकन्नैषा स्थितिरिति दर्शयति- एवं यौगिकरूढिस्थलेऽपि बोध्यम्। योगरूढिस्थलीयमेवोदाहरणान्तरमाह- यथा वा- 'चाञ्चल्ययोगिनयनं तव जलजानां श्रियं हरतु। विपिनेऽतिचञ्चलानामपि च मृगाणां कथं हरति।।' अन्न नैवाश्चर्यकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणाधिकेन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकृत्तु हरिणानां तद्गुणयुक्तानां तस्याः स इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयोगमर्यादया मूर्खपुत्राणामत एव प्रमत्तानां नेतृभिश्चोरादैः, श्रियो धनस्य हरणं सुशकम्, न तु गवेषकाणामत एवाप्रमत्तानामिति जलजनयनमृगशब्देभ्यः प्रतीयमानोऽर्थः कथं नाम व्यञ्जनाव्यापारं विनोपपादयितुं शक्यते
योगरूढिस्थले केवलयोगशक्त्या नार्थान्तरप्रतीतिरिति स्वाभिमतं सिद्धान्तम् अन्या चार्यमतैः संवादयति- अत एव पङ्कजादिपदेभ्यः पङ्कजनिकर्तृत्वेन कुमुदाद्युपस्थितिर्लक्षणयैवेति नैयायिका मन्यन्ते अत एव च 'ईशानो भूतभव्यस्य स एवाद्य स उश्वः' इति वेदान्तवाक्ये किमैश्वर्यविशिष्टः कश्चिज्जीवोऽत्र प्रतिपाद्यते उतेश्वर इति संशये, जीव एवेति पूर्वपक्षे च 'शब्दादेव प्रमितः' इति सूत्रितमुत्तरमीमांसाकारैर्बादरायणचरणैः(ब्रह्मसूत्रे १।३।२४)। उपसंहरति- तस्मादर्थान्तरमिह न शक्तिवेद्यम् अपि तु व्यक्तिवेद्यमेव। ननु शक्त्यवेद्यत्वेऽपि लक्षणावेद्यत्वमेवास्तु किं व्यञ्जनयेत्यत आह- यथाश्रुतार्थस्यैवोपपत्तेर्बाधाभावेन लक्ष्यमित्यपि न शक्यं वक्तुम्। तात्पर्यार्थबोधस्तु तदर्थबोधोत्तरं बोध्यः। स एव तु कथं स्यादित्युपायोऽयं विचिन्त्यते। नह्यपहर्तृव्यवहारो वक्त्रा विवक्षित इति श्रोतुर्बोधे कश्चिदुपायोऽस्ति ऋते सहृदयहृदयोन्मिषितादस्माद्व्यापारात् -
Page 132
132 पूर्वोक्तरीतिरेवान्यत्रापि तादृशस्थलेषु समाश्रयणीयेत्याह- एवमन्यत्राप्यूह्यम्। योगरूढपदनिबद्धेषु 'अबलानाम्' इत्यादिषु द्वितीयार्थप्रतीत्यपलापं दूरीकरोति- तादृशार्थप्रतिपत्तिरेव नास्तीति तु गाढतरशब्दार्थव्युत्पत्तिमसृणीकृतान्तः- करणैर्न शक्यते वक्तुम्। इदानीम् 'अनेकार्यस्य शब्दस्य इत्यादिमम्मटोक्तशब्दशक्तिमूलव्यञ्जनासङ्ग्राहककारेकास्थाने भिन्नविधैव सङ्ग्रहकारिका कर्तव्येत्याह- तथा चेत्थं संग्रह :- 'योगरूढस्य शब्दस्य योगे रूढ्या नियन्त्रिते। धियं योगस्पृशोऽर्थस्य या सूते व्यञ्जनैव सा॥' मम्मटादिप्राचीनाचार्यणां हृदयं स्फोरयति- एवं स्थिते नानार्थस्थलेऽप्युपमायाः प्राकरणिकाप्राकरणिकार्थगतायाः प्रतिपत्तयेऽवश्यं वाच्यया व्यञ्जनयैवाप्राकरणिकस्याप्यर्थस्य प्रतिपत्तावलं क्लिष्टकल्पनयेत्याशयेन प्राचीनैरुक्तं नानार्थव्यञ्जकत्वमपि न दुष्यति। प्राचीनोक्तनानार्थशक्तिनियामकान् संयोगादीन् निरूपयितुमुपक्रमते- तत्र नानार्थशक्तिनियमनाय तैः संयोगादयो निरूपिता :- 'संयोगो विप्रयोगश्च साहचर्यं विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः॥ सामर्य्थमौचिती देश: कालो व्यक्तिः स्वरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः॥' हरिकारिकोक्तान् संयोगादीनेकैकशो व्याचिख्यासुरादौ प्रथमोक्तं संयोगं व्याचष्टे- तत्र- संयोगो नानार्थशब्दशक्यान्तरवृत्तितया अप्रसिद्धत्वे सति तच्छक्यवृत्तितया प्रसिद्धः संबन्ध:। यथा-'सशङ्गचक्रो हरिः' इत्यत्र शङ्गचक्रयोः संयोगो भगवन्मात्रनिष्ठतया प्रसिद्धो भगवति हरिशब्दस्याभिधाया नियमेनावस्थापकः, न त्वायुधत्वेनायुधसामान्यसंयोगः
Page 133
133 पाशाङ्कशादिसंयोगो वा दलद्वयाभावात्। न चासौ लिङ्गान्तर्गत इति मन्तव्यम्, शक्यान्तरे नियमेनावृत्तेरेव प्रकृते लिङ्गत्वात्। शङ्गचक्रयोस्त्विन्द्रादिनापि कदाचिद्धारणसंभवात्। विप्रयोगं व्याचष्टे- विप्रयोगो विश्लेषः। यथा-'अशङ्गचक्रो हरिः' इत्यत्र तयोरेव विश्लेषस्तथा। अन्न हि विश्लेषनियतपूर्ववर्तिनः संश्लेषस्य प्रागुक्तदलद्वयाक्रान्तत्वमपेक्ष्यते। तेनायुधसामान्यविभागः, पाशाङ्कशादिविभागो वा न तथा। यद्यप्यत्र गुणतया वर्तमान-स्तादृशसंयोग एवाभिधानियमनायालम्, तथापि गुणप्रधानयोः संनिपाते प्रधानानुरोध एव न्याय्य इत्याशयेन विप्रयोगस्य नियामकत्वमुक्तम्। यद्वा संयोगस्यैव केवलत्वेन विश्लेषगुणीभूतत्वेन च द्वैविध्यप्रदर्शनाय तथोक्तम्। साहचर्यं व्याकरोति- साहचर्यमेकस्मिन् कार्ये परस्परापेक्षित्वम्। यथा-'रामलक्ष्मणौ' इत्यत्र लक्ष्मणसाहचर्यं रामशब्दस्य। शङ्कते- अथ किमिदं परस्परापेक्षित्वं यत्किञ्चित्कार्ये, सर्वेषु कार्येषु वा? नाद्यः, घटाद्यव्यावर्तनाद्धटसाहचर्यस्यापि रामपदशक्तिनियामकतापत्तेः। न द्वितीयः, लक्ष्मणसाहचर्यस्यापि निवारणापत्तेः। पक्षद्वयेऽपि रामायोध्ये रघुरामावित्यत्रानियमापत्तेश्च साहचर्यस्य स्वरूपान्तरमाशंक्य निरस्यति- न च नानार्थपदसमभिव्याहृतपदान्तरार्थस्य प्रसिद्धः संबन्धस्तत्। स चैक-जन्यत्व- दांपत्य-जन्यजनकभाव-स्वामिभृत्यभाव-स्वस्वामिभावादिरनेक-विधः, तेन रामलक्ष्मणौ, सीतारामौ, रामदशरथौ, रामहनूमन्तौ, रामायोध्ये इत्यादौ साहचर्यं नियामकमिति वाच्यम्; लक्ष्मणादिसंबन्धापेक्षया चक्रादिसंबन्धस्याविशिष्टतया सशङ्गचक्र इत्यत्रापि साहचर्यस्यैव नियामकतापत्तेः। उक्तसाहचर्यस्वरूपस्वीकारेऽपि साहचर्यसंयोगयोर्विषयविभागः संभवतीत्याशड्क्य निराकुरुते- न च सशङ्गचक्र इत्यादौ यत्र संबन्धः संयोगरूपस्तत्राद्यस्य यत्र च संबन्धान्तरं तत्र तृतीयस्यावकाश इति वाच्यम्, संयोगस्यैव पृथक्कारो बीजाभावात्। संयोगस्यैव पृथक्कारे बीजमुद्भाव्य खण्डयति-
Page 134
134 न च यत्र संयोग: शब्दोपात्तस्तत्र स एव नियामकः, यत्र तु सम्बन्धिमात्रं न तु सम्बन्धस्तत्र साहचर्यम्, अत एव सशङ्गचक्र इति संयोगस्य, रामलक्ष्मणाविति च साहचर्यस्योदाहरणमिति वाच्यम्; सलक्ष्मणो रामो विलक्ष्मणो राम इत्यत्र संयोगविभागयोर्गुणयोरप्रतीत्या साहचर्योदाहरणतायां प्रसक्तायां सशङ्गचक्र इत्यादेरपि तदुदाहरणताया एवौचित्यात्। शङ्कापक्षमुपसंहरति- इति चेत्? सिद्धान्तयति- उच्यते- संयोगशब्दस्य सम्बन्धसामान्यपरतया यत्र शब्दोपात्तं प्रसिद्धं सम्बन्धसामान्यं शक्तिनियामकं तदाद्यस्य, यत्र तु द्वन्द्वादिगतः सम्बन्ध्येव केवलस्तदा तत्साहचर्यस्योदाहरणमिति प्राचामाशयात्। इत्थं च सगाण्डीवोऽर्जुनः इति संयोगस्य, गाण्डीवार्जुनाविति साहचर्यस्योदाहरणम्। विरोधितां निर्वक्ति- विरोधिता प्रसिद्धं वैरम्, सहानवस्थानञ्च। तत्राद्यस्य 'रामार्जुनौ' इत्युदाहरणं प्राञ्चो वदन्ति। अथ दीक्षितोक्तं खण्डयितुं प्रथमं तदनुवदति- यत्त्वप्पय्यदीक्षितो वृत्तिवार्तिके प्राचामुदाहरणं निराकुर्वन्नाह- रामार्जुनपदयोर्वध्यघातकभावविरोधाद्भार्गवकार्तवीर्ययोरभिधा नियम्यत इति तदयुक्तम्। रामपदस्याभिधानियमने सति तद्विरोधप्रतिसंधानेनार्जुनपदस्य कार्तवीर्ये ऽ्रभिधानियमनम्, तस्मिंश्च सति तद्विरोधप्रतिसंधानेन रामपदस्येत्यन्योन्याश्रयापत्तेः, तस्मादन्यतरपदस्य व्यवस्थितार्थत्व एव स्मृततद्विरोधप्रतिसंधानान्नानार्थपदस्याभिधानियमनमिति रामरावणयोरित्युदाहरणं भवितुमर्हति इति। दीक्षितोक्तं निराचष्टे- तत्र तावद्रामरावणयोरिति व्यवस्थितार्थान्यतरपदकमुदाहरणं विरोधिताया नियामकत्वस्य न युक्तम्। रामलक्ष्मणयोरित्यत्रेवात्रापि साहचर्यस्यैव नियामकत्वात्। दृष्तान्ते दार्ष्टान्तिकापेक्षया वैषम्यमाशड्क्य निरस्यति-
Page 135
135 न च लक्ष्मणसाहचर्यं रामस्य प्रसिद्धम्, न तु रावणसाहचर्यमिति वाच्यम्, प्रसिद्धतत्सम्बन्धकत्वस्यैव तत्साहचर्यपदार्थक्त्वात्। पितृ-भ्रातृ-जायापत्य-भृत्य- नगरीणां संबन्धस्येव रिपोः संबन्धस्यापि लोकप्रसिद्धत्वात्। साहचर्यान्तर्भावयोग्याया अपि प्रसिद्धवैरात्मकविरोधितायाः साहचर्यान्तरापेक्षया यत्किञ्चिद् वैलक्षण्यमादाय पृथग्गणने का क्षतिरित्यत आह- एवं स्थितेऽ्पि विरोधितायाः पृथग्गणने मित्रत्वादेरपि तथा गणनापत्तेः। उपसंहरति- तस्मात्प्राचीनोदाहरणमिव त्वदुक्तमुदाहरणमप्यशुद्धमेव। दीक्षितोक्तमुदाहरणं निरस्य सम्प्रति तत्सिद्धान्तमपि खण्डयति- 'अन्यतरपदस्य व्यवस्थितार्थत्व एव' इत्याद्यप्यसङ्गतमेव।
धर्मिवेशेषाविशेषितेनापि युगपद्धर्मिविशेषद्वये ऽभिधाया नियन्तुं शक्यत्वात्। दीक्षितोक्तमेवांशान्तरं दूषयति- यदपि 'रामार्जुनगतिस्तयो'रिति शब्दान्तरसन्निधेरुदाहरणम्, इति स एवाह। तदप्यसत्। त्वया निरूपिते शब्दान्तरसन्निधेरुदाहरणे 'निषधं पश्य भूभृतम्', 'नागो दानेन राजते', इत्यत्र चाभिधाया नियतविषयतां विनान्वयस्यैवानुपपत्त्या प्रकृते च
शब्दान्तरसन्निध्युदाहरणत्वायोगात्। अथापि प्रतीयमानां 'रामार्जुनगतिस्तयो -रितिविरोधितोदाहरणस्यासङ्गतिमुद्भाव्य निरस्यति- एवमपि काव्यप्रकाशगतस्य 'रामार्जुनगतिस्तयो' रिति विरोधितोदाहरणस्यासङ्गतिः स्थितैवेति चेत्? न, तयोः कयोश्चित्प्रसिद्धविरोधयो रामार्जुनगती रामार्जुनसदृशी गतिराचरणमिति तदर्थवर्णने विरोधेन प्रस्ताववशात्प्रतीतेन युगपद्भार्गवकार्तवीर्ययो रामार्जुनशब्दाभिधाया नियमनस्योपपत्तेः। इत्थं व्याख्याने प्रकरणरूपनियामक एवान्तर्भावसम्भवात् पुनः पृथग्विरोधिता प्रथमप्रकरणस्य परिगणनं वृथेत्याशड्क्य समाधत्ते- न च प्रकरणादविशेषः? विरोधस्य प्रकान्तत्वेऽपि भार्गवकार्तवीर्ययोः शक्तिनियमाधिकरणयोरप्रकान्तत्वात्।
Page 136
136 विरोधिताया द्वितीयं प्रकारमुदाहरति- सहानवस्थानलक्षणाविरोधिता तु छायातपावित्यादौ बोध्या। अर्थं निरूपयति- अर्थः प्रयोजनं चतुर्थ्याद्यभिधेयम्। उदाहरति- यथा-'स्थाणुं भज भवच्छिदे' इत्यादौ भवच्छेदनादि स्थाणुपदस्य भवे। शङ्कते- नन्वर्थस्य लिङ्गात्को भेदः? न च लिङ्गमनन्यसाधारणस्तद्धर्मः, अर्थस्तु तद्भजनादेः कार्यम्, न तु तद्गतो धर्म इति स्फुट एव भेद इति वाच्यम्, भवच्छेदजनकभजनकर्मत्वस्य काष्ठावृत्तिभवधर्मत्वादिति चेत्? उत्तरयति- अत्राहु :- उक्तस्य विशिष्टधर्मस्य शाब्दबोधोत्तरभाविमानसबोधविषयत्वेन प्रकृतशाब्दबोधाविषयत्वाल्लिङ्गतो वैलक्षण्योपपत्तिरिति। प्राचीनाभिमतं लिङ्गार्थयोर्वैलक्षण्यं प्रदर्शयति- लिङ्गं त्वेकपदार्थः कोपादिः, अनन्वित एव यः पादार्थान्तरेण प्रकृतशक्य-धर्मतां शक्यान्तरव्यावृत्ततां च भजते, उक्तधर्मस्तु न तथेत्यपि केचित्। प्रकरणं निरूपयति- प्रकरणं वक्तृश्रोतृबुद्धिस्थता। उदाहरति- यथा-राजानं संबोध्य केनचिद्भृत्येनोक्ते 'सर्वं जानाति देवः' इति वाक्ये देवपदस्य युष्मदर्थे। लिङ्गं निरूपयति- लिङ्गं नानार्थपदशक्यान्तरावृत्तिरेकशक्यगतः साक्षाच्छब्दवेद्यो धर्मः। उदाहरति- यथा-'कुपितो मकरध्वजः' इत्यत्र कोपो मकरध्वजपदस्य। अन्यशब्दसन्निधिं निर्वक्ति- शब्दस्यान्यस्य सन्निधिर्नानार्थपदैकार्थमात्रसंसर्ग्यर्थान्तरवाचकपदसमभि-व्याहारः।
Page 137
137 उदाहरति- यथा-'करेण राजते नागः' इत्यत्र करपदस्य नागपदमादाय नागपदस्य च करपदमादाय शुण्डायां गजे च। अत्रापाततो जायमानामन्योन्याश्रयभ्रान्तिं निराकरोति- न चात्रैकशब्दशक्तिनियमनमपरशब्दशक्तिनियमोऽपेक्षते। येनान्योन्याश्रयः स्यात्, किन्तु करनागशब्दयोरर्थान्तरग्रहणेऽन्वयानुपपत्त्या युगपदेव शक्तिर्नियम्यते। प्राचीनोक्तं खण्डयति- देवस्य पुरारातेरिति प्राचामुदाहरणे सुरत्वभूपत्वाभ्यां देवपदान्नगरा-रित्वासुरविशेषारित्वाभ्यां पुरारातिपदाच्चोपस्थितेरुभयोरपि नानार्थत्वादर्थान्तरस्वीकारेऽप्यन्वयोपपत्तेश्च कथं शक्तेर्नियम: स्यात्? तदुदाहरणसङ्गतिसाधकं प्राचामाशयमुपपाद्यावद्यति- न च पुरारातिपदं योगरूढम्, तथा च रूढेर्योगापहारितया शिवत्वेनैव तस्य बोधकत्वाद्देवपदशक्तिनियामकतेति वाच्यम्; पुरारातिपदस्य रूढौ मानाभावात्। पाठान्तरमाश्रित्योदाहरणसङ्गतिं कुर्वतः प्रदीपकारादेर्मतमवतार्य निरस्यति- अथ 'देवस्यन्निपुरारातेः' इति पाठस्तथापि पदान्तरोपस्थापितस्य त्रिपुरासुरवैरित्वस्य लिङ्गतया लिङ्गोदाहरणत्वमेवास्य स्यात्, न तु शब्दान्तरसन्निध्युदाहरणत्वमिति वदन्ति। पूर्वग्रन्थे वदन्तीत्यनेन सूचितामरुचिं स्फोरयति- तन्नैकपदार्थः कोपादिः पदार्थान्तरेणानन्वित एव यः प्रकृतशक्यधर्मतां शक्यान्तरव्यावृत्ततां च भजते स लिङ्गपदेनात्रोक्त इति प्राचामाशये तु नोक्तदोषः। काव्यप्रकाशटीकाकारैर्गोविन्दठक्कुरादिभिरुक्तं शब्दान्तरसन्निधे: स्वरूपमनूद्य दूषयति- यत्तु शब्दस्याव्यभिचरितस्य सन्निधि: सामानाधिकरण्यम् इति काव्यप्रकाशटीकाकारैरुक्तम्, तत्तु 'करेण राजते नागः' इत्यादावव्यापनात्तन्नियामकान्तरस्य गवेषणे गौरवात् 'कुपितो मकरध्वजः'इति तन्मूलोक्ते लिङ्गोदाहरणेऽतिव्यापनाच्चोपेक्ष्यम्। सामर्थ्यं निरूपयति- सामर्थ्यं कारणता। उदाहरति- यथा-'मधुना मत्तः कोकिलः' इत्यत्र कोकिलमदजनकता मधुशब्दस्य वसन्ते।
Page 138
138 खण्डनाय परकीयोक्तिमनुवदति- 'अत्र कोकिलमादने मधोरेव शक्तिर्न तु मधुनः। मादकत्वं मधुन्यपीति न लिङ्गम्' इति वदन्ति। पूर्वसूचितामरुचिमाह- तत्र सामर्थ्यं लिङ्गान्तर्गतमेव कुतो न स्यात्, इति शङ्कायाः कथमेतदुत्तरं सङ्गच्छते? पराभिमतमुत्तरसंगतिप्रकारमुपपाद्य खण्डयति- न च मादनसामर्थ्यस्य सुरावृत्तितया नासाधारणधर्मतारूपं लिङ्गत्वमिति वाच्यम्, मादनसामर्थ्यस्य सुरावृत्तित्वेऽपि कोकिलमादनसामर्थ्यस्य वसन्तासाधारणतया लिङ्गत्वस्य दुर्वारत्वात्। कथञ्चित् कोकिलमादनसामर्थ्यस्य साधारणत्वस्थिरीकरणेऽपि न तवोक्तेः सङ्गतिरित्याह- न च प्राणिमात्रमादनसामर्थ्यस्य मधुनः कोकिलमादनसामर्थ्यमप्यस्तीति वाच्यम्, एवं सति सामर्थ्यस्य वाचकता नियामकत्वमसङ्गतं स्यात्, न तु मधुन इति स्वोक्तिविरोधश्च भवेत्। अथ सामर्थ्यस्य नियामकत्वे प्रसिद्ध्यनुरोध इत्यपि न युक्तमित्याचष्टे- प्रसिद्ध्याश्रये पुनर्लिङ्गत्वमप्रच्युतम्। स्वसम्मतं लिङ्गसामर्थ्ययोर्भेदमाह- शाब्दत्वाशाब्दत्वाभ्यामेकानेकपदार्थत्वाभ्यां वा विशेषस्तु स्यात्। औचितीं निर्वक्ति- औचिती योग्यता। उदाहरति- यथा-'पातु वो दयितामुखम्' इत्यत्र दयितामुखकर्तृकरक्षणकर्मत्वाक्षिप्त-कामार्तानां संबोध्यपुरुषाणां त्राणं हि तस्याः सांमुख्येनैव भवति, न तु मुखमात्रेण, वैमुख्ये तेन त्राणायोगात्। अतस्त्राणार्हत्वं वदन-सांमुख्योभयप्रत्यायकस्य मुखशब्दस्य। देशं निरूपयति- देशो नगरादिः। उदाहरति-
Page 139
139 यथा-'भात्यत्र परमेश्वरः' इत्यादौ परमेश्वरादिशब्दस्य राजादौ। तस्य नगरादिसंबन्धतदभावयोः सम्भवेनाभावव्यावृत्त्यर्थमधिकरणकीर्तनस्य सार्थक्यात्। परमात्मनस्तु सर्वगतस्य व्यावर्त्याभावात्तदुक्तिवैयर्थ्यापत्तेः। उदाहरणान्तरं प्रदर्शयति- एवं 'वैकुण्ठे हरिर्वसति' इत्यत्रापि बोध्यम्। उभयोरुदाहरणयोः प्रदर्शने हेतुभूतं विशेषमाह- एकत्रार्थान्तरोपग्रहेऽधिकरणोक्तिवैयर्थ्यम्, अपरत्र तु तदधिकरणत्वाप्रसिद्धिरिति विशेषः। कालं निरूपयति- कालो दिवसादिः। उदाहरति- 'चित्रभानुर्दिने भाति' इत्यादौ चित्रभान्वादिपदानां सूर्यादिषु, एवं 'चातुर्मास्ये हरिः शेते' इत्यस्य। व्यक्तिं निरूपयति- व्यक्तिः स्त्रीपुंनपुंसकलिङ्गानि। उदाहरति- यथा-'मित्त्रो भाति' -'मित्रं भाति' इत्यत्र मित्रशब्दस्य पुंनपुंसके सुहृत्सूर्ययोः। एवं 'नभो भाति' 'नभा-भाति' इत्यत्रापि। स्वरं विवृणोति- स्वर उदात्तादि :- उदाहरति- यथा-'इन्द्रशत्रुः' इत्यत्र समासान्तोदात्तत्वमिन्द्रशत्रुशब्दस्येन्द्रस्य शत्रौ। पूर्व-पद- प्रकृति-स्वर-प्राप्तमाद्युदात्तत्वं त्विन्द्रशत्रुके। संयोगो विप्रयोगश्चेति कारिकायां 'कालो व्यक्तिः स्वरादयः' इत्यत्रत्यादिपदसंग्राह्यं स्फोरयति- आदिनाभिनयादिपरिग्रहः। उदाहरति- यथा-'एद्दहमेत्तत्थणिआ' इत्यादौ।
Page 140
140 प्रकरणमेनमुपसंहरन् संयोगादीनां नियामकानां परस्परभेदैः पर्यालोचयति- इहार्थसामर्थ्यौचितीनामुदाहरणेषु चतुर्थ्थाद्यैस्तृतीयाद्यैरर्थसामर्थ्येन च बोध्यमानकार्यकारणभाव एव नियामकः, न तु वस्त्वन्तरम्। बोधकवैचित्र्याच्च नियामकस्य वैचित्र्येणोक्ति: प्राचाम्। वस्तुतस्तु संयोगादीनामर्थान्तरसाधारणत्वे नानार्थशब्दस्यार्थविशेषे शक्ते: सङ्कोच एव न संभवति, नियामकानामसङ्कचितत्वात्। अथ प्रसिद्धत्वादिना तेषामसाधारणताबुद्धिर्यथाकथञ्चिदुपपाद्यते, तदा प्रायशो लिङ्गभेदा एवैते, न तु सर्वथैव ततः स्वतन्त्रा इति बोध्यम्। अथ संलक्ष्यक्रमध्वन्युदाहरणप्रदर्शनप्रसङ्गे प्रथमं शब्दशक्तिमूलालङ्कारध्वनिमुदाहरन्ति- तत्र शब्दशक्तिमूलालङ्कारस्य ध्वनिर्यथा- 'करतलनिर्गलदविरलदानजलोल्लासितावनीवलयः। धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम् ॥' उपपादयति- अत्र राजप्रकरणे कर-दान-धनद-सार्वभौमशब्दानां शक्तौ सङ्कोचितायामपि तन्मूलकेन ध्वननेन प्रतीयमानस्यार्थान्तरस्याप्रस्तुतस्याभिधानं मा भूदिति प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कथ्यत इत्युपमालङ्कारध्वनिः। मतान्तरमवतारयति- अथ श्लिष्टविशेषणायां समासोक्तौ व्यङ्ग्यस्याप्रकृतव्यवहारस्य प्रकृतधर्मिण्यारोप्यमाणस्य प्रकृतोपस्कारकतया यथा गुणीभूतव्यङ्गयत्वमेवमिहाऽप्युचितम्। पूर्वग्रन्थप्रतिकूलमाशड्क्य निरस्यति - न चोपमा प्रकृतार्थोपस्कारिका न भवतीति शक्यं वदितुम्, 'उल्लास्य कालकरवालमहाम्बुवाहम्' 'भद्रात्मनो दुरधिरोहतनोः' इत्यादौ प्राचीनानां पद्ये 'करतल'- इत्यादि प्रागुदाहृतपद्ये च व्यङ्ग्योपमया प्रकृतस्य राज्ञः प्रकर्षस्य सकलानुभवसिद्धत्वात्। अनुभवापलापे तु समासोक्तावप्यप्रकृतव्यवहारस्य प्रकृतोपस्कारकत्वं नेति सुवचत्वात्। समासोक्तावप्रकृतस्य प्रकृतोपस्कारकत्वं सम्भवति, व्यड्ग्योपमायां तु नेति मिथो विशेषप्रदर्शनेनाशङ्क्य समाधत्ते- ननु समासोक्तावत्र चास्ति विशेष :- यत्तत्र व्यवहारिणो नानार्थशब्दानुपस्थाप्यत्वम्, इह तु तदुपस्थाप्यत्वमिति चेत्? किं चातो न हि व्यवहारिणो
Page 141
141 नानार्थशब्दोपस्थाप्यतामात्रेणाप्रकृतधर्मिनिरूपिताया उपमायाः प्रकृतधर्म्युपस्कारकत्वं वार्यते, येन गुणीभूतव्यङ्ग्यत्वं न स्यात्। व्यङ्ग्योपमा येन गुणीभूता न भवति, तादृशं युक्त्यन्तरमुद्भाव्य खण्डयति- न चात्रोपमादीनामलङ्कारणां स्वभावतः सुन्दरत्वात्काव्यप्रवृत्त्युद्देश्यतया च वस्तुमात्रे गुणीभावो न संभवति, यथा वस्तुमात्रेणाभिव्यक्तानामलङ्काराणाम्, तुल्यन्यायत्वात्। अप्रकृतव्यवहारस्य तु समासोक्त्यवयवस्य निरलङ्कारतया वस्तुन्युपस्कारकत्वं समासोक्तावविरुद्धमिति वाच्यम्, एवमपि 'बाधेऽदृढे ऽन्यसाम्यात्किं दृढेऽन्यदपि बाध्यताम्' इति न्यायेनोक्तयुक्तेते: शिथिलत्वात्, अपराङ्गताया दुरपह्रवत्वात्। करतलेत्यादौ गुणीभूतव्यङ्ग्यत्वसाधिकाया युक्तेरपराङ्गताया असिद्धिमापाद्य निरस्यति- अथोच्येत-उपमानमुपमेयं साधारणो धर्म इति ह्युपमाशरीरघटकम्, न तु ततः पृथग्भूतम्, तैर्विना तस्या अनिष्पत्तेः। इत्थं चोपमेयस्य सादृश्यांशेनोपस्कारेऽप्युपमाया नापराङ्गत्वम्, उपमेयस्यापरत्वाभावात्। यथा समासोक्तावप्रकृतव्यवहारेण प्रकृतस्योपस्करणेऽपि न समासोक्तेरपराङ्गत्वम्, प्रकृताप्रकृतघटितत्वात्, एवमिहापि स्यादिति। तथापि समासोक्तेरिवास्यापि प्रभेदस्य गुणीभूतव्यङ्ग्यत्वापत्तेः, अस्येव वा समासोक्तेरपि ध्वनिव्यपदेश्यत्वापत्तेः। 'उल्लास्य'-'भद्रात्मनो - 'करतल' इत्येतेषु उपमालङ्कारस्य व्यड्ग्यत्वं न, अपि तु रूपकालङ्कारस्यैवेत्याह- अन्यच्च-श्लेषे हि श्लेषभित्तिकमभेदाध्यवसानं द्वयोरर्थयोरिति सकलालंकारिकनिबद्धम्, अनुभवसिद्धञ्च। तत्र मूलान्वेषणे विधीयमाने एकपदोपात्तत्वान्न शक्यते मूलमन्यन्निर्वक्तुम् । एकपदोपात्तो ह्यनेकोऽप्यर्थोऽभिन्नतयैव भासते। इत्थञ्च-'उल्लास्य कालकरवाल' - इत्यादावप्येकपदोपात्ततया द्वयोरर्थयोरभेदाध्यवसानस्य युक्तत्वेनाभेदस्यैव व्यङ्ग्यत्वमुचितम्, नोपमायाः। 'उल्लास्य' इत्यादिषु अभेदाध्यवसाननिरसनसमीहया श्लेषस्थलाद् वैलक्षण्यं प्राचामभिमतमुपपाद्य तस्याकिञ्चित्करतामाह- श्लेषे द्वयोरर्थयोर्वाच्यत्वम् एककालत्वं च। इह त्वेकस्य वाच्यत्वम्, अपरस्य व्यङ्गयत्वं भिन्नकालत्वं चेति। एतावन्मात्रेणैवैकपदोपात्तत्वप्रयुक्तमभेदाध्यवसानं न शक्यं त्यक्तुम्, व्यङ्ग्यताया भिन्नकालत्वस्य चाभेदप्रतिपत्तावबाधकत्वात्।
Page 142
142 काव्यप्रकाशटीकाकारोक्तं खण्डयति- एतेन -'रूपकस्योपमाज्ञानाधीनज्ञानत्वेन प्रथमोपस्थिततया तस्या एव संबन्धत्वं कल्प्यम्' इति काव्यप्रकाशटीकाकारैरुक्तं नातीव श्रद्धेयमिति। विच्छिन्नप्रायं प्रसङ्गं पुनरवतारयति- प्रकृतमनुसराम:। अलङ्कारान्तरस्यापि शब्दशक्त्युद्भवसंलक्ष्यक्र्रमध्वनित्वं प्रतिजानीते- एवमलङ्कारान्तरमपि शब्दशक्तिमूलानुरणनस्य विषयः। विरोधाभासालङ्कारध्वनिमुदाहरति- यथा यमुनावर्णने-'रविकुलप्रीतिमावहन्ती नरविकुलप्रीतिमावहति। अवारितप्रवाहा सुवारितप्रवाहा।' उपपादयति- इह नराणां वीनां च कुलस्य प्रीतिमावहतीति प्रकृतेऽर्थे सिद्धे रविकुलप्रीति नावहतीति द्वितीयोऽप्रकृतोऽर्थः विरोधश्च। एवमन्यत्रापि। अपिपदाभाव एव विरोधाभासस्य व्यङ्ग्यत्वम्, तत्पदसत्त्वे तु तस्य वाच्यत्वमेवेत्याह- यदि तु रविकुलप्रीतिमावहन्त्यपि न रविकुलप्रीतिमावहति। अवारितप्रवाहापि सुवारितप्रवाहा इत्यपिरन्तर्भाव्यते तदा विरोधांशस्यापिनोक्तत्वाद् द्वितीयार्थस्य च तदाक्षिप्तत्वान्न ध्वनित्वम्। ननु 'निपाता द्योतका न तु वाचका' इति नये समाश्रीयमाणे विरोधस्य अपिपदवाच्यताविरहेण पूर्वोक्तमसङ्गतम्, नेत्याह- निपातानां द्योतकतानयेऽपि स्फुटद्योतितस्य तदाक्षिप्तस्य च वाच्यकल्पत्वान्न तथात्वम्। प्राचीनोदाहरणे शङ्कते- ननु 'मृणालवलयादिदवदहनराशिः' इत्यत्र विरोधाभासस्य कथं वाच्यालङ्कारत्वम्, विरोधांशस्य शब्दवाच्यताविरहेण व्यङ्ग्यताया एवाभ्युपगन्तव्यत्वात्। शङ्कितस्यार्थस्यापातसुभगं समाधानमुक्त्वा खण्डयति- न च विरोधविशिष्टाभेदस्य संसर्गत्वाद्वाच्यार्थबोधविषयतया विरोधस्य वाच्यत्वमिति वाच्यम्, विरोधाभेदयोः परस्परविरुद्धत्वेनैककालावच्छेदेनैकसंसर्गत्वस्यानुपपत्तेः।
Page 143
143 नामार्थयोरभेदस्यैव संसर्गतया विरोधस्यापि संसर्गत्वे मानाभावाच्च, पर्यन्ते दवदहनराशिपदस्य सदृशलाक्षणिकतया विरोधांशस्य तिरोधानाच्च। नन्वित्यादिना कृतामाशङ्कां समाधत्ते- मैवम्। शङ्काया अयुक्तत्वे हेतुमाह- उक्तपद्यस्य विरोधोदाहरणतामात्रे तात्पर्यात्, व्यङ्ग्यत्वेऽपि तथात्वस्यानपायात्। वाच्यविरोधोदाहरणतायां त्वपिरन्तर्भाव्यः। उक्तकाव्यप्रकाशग्रन्थसङ्गातिसाधकं मतान्तरमाह- केचित्तु-'विरोधस्य व्यङ्ग्यत्वेऽपि विरोधिद्वयस्य वाच्यतामत्रेण विरोधाभासस्य वाच्यालङ्कारव्यपदेशोपपत्तिः। इत्थमेव चांशान्तरस्य व्यङ्ग्यत्वेऽप्येकांशमादाय समासोक्त्यादीनामपि वाच्यालङ्कारव्यपदेशः' इत्याहुः। शब्दशक्तिमूलव्यतिरेकालङ्कारध्वनिमुदाहरति- यथा वा- 'कृष्णपक्षाधिकरुचिः सदासम्पूर्णमण्डलः। भूपोऽयं निष्कलङ्कात्मा मोदते वसुधातले॥' उपपादयति- अत्र भगवत्पक्षाधिकप्रीत्यादिलक्षणे प्रकृतभूपोपयोगित्वात्प्रकृतेऽर्थे शक्त्या प्रतीतिपथमवतीर्णे द्वितीयोऽर्थोऽप्रकृतो वैधर्म्यात्मा तत्प्रयुक्तो व्यतिरेकश्च। अन्र व्यज्यमानस्य व्यतिरेकस्य गुणीभूतत्वमाशंक्य निरस्यति- न चात्र व्यतिरेकस्य कविगतराजविषयकरतिभावोत्कर्षकतया गुणीभूतस्य कथं ध्वनिव्यपदेशहेतुत्वं, प्रधानस्यैव ध्वनिव्यपदेशहेतुत्वादिति वाच्यम्, उदासीने वक्तरि तत्त्वार्थकथनपरस्यास्य पद्यस्य वक्तृगतरतिव्यञ्जकत्वासङ्गतेः, गुणीभूतस्याप्यर्थस्य वाच्यार्थापेक्षया प्रधानतया ध्वनिव्यपदेशहेतुतायाः प्राचीनैः स्वीकाराच्च। अन्यथा- 'निरुपादानसंभारमभित्तावेव तन्वते। जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने।' इत्यत्र व्यतिरेकध्वनित्वं तैरुक्तमसङ्गगतं स्यात्। व्यतिरेकस्य भगवद्विषयकरतिभावाङ्गताया अनुभवसिद्धत्वात्।
Page 144
144 शब्दशक्तिमूलवस्तुध्वनिमुदाहरति- शब्दशक्तिमूलवस्तुध्वनिर्यथा- 'राज्ञो मत्प्रतिकूलान्मे महद्भयमुपस्थितम्। बाले! वारय पान्थस्य वासदानविधानतः। उपपादयति- अत्रोपभोगं देहीति वस्तु राजपदशक्तिमूलानुरणनविषयः। राजपदाच्चन्द्रोपस्थितावेव चन्द्रजनितभयवारणकारणत्वेनोपभोगस्याभिव्यक्तेः। अलङ्कारध्वनित्वमस्य पद्यस्याशङ्क्य निराकरोति- न चात्र नृपचन्दरयोरुपमानोपमेयभावः भेदापोहरूपं रूपकं व तथास्त्विति वाच्यम्, इह नृपरूपस्यार्थस्य चन्द्ररूपार्थगोपनमात्रार्थमुपात्तत्वेन युगपदुल्लसितोपमानोपमेयकयोरुपमारूपकयोस्तात्पर्यविषयताया अयोगात्। अथैवं वाक्यभेदापत्तिर्नेत्याह- न चासंसृष्टार्थद्वयबोधने वाक्यभेद इति वाच्यम्, तुल्यकक्षतया द्वयोरसंसृष्टयोरर्थयोः प्रतिपिपादयिषितत्व एव तस्याभ्युपगमात्। इह त्वाच्छादकप्रतीतिसमये आच्छाद्याऽप्रतीतिः, आच्छाद्यप्रतीतौ चाच्छादकन्यग्भाव एवेति नास्ति तुल्यकक्षता। काव्यप्रकाशोक्तं शब्दशक्तिमूलवस्तुध्वनेरुदाहरणं परीक्षते- काव्यप्रकाशे तु-'शनिरशनिश्च तमुच्चैः' इत्यादिकमुदाहृत्य 'अत्र विरुद्धौ द्वावपि त्वदनुवर्तनार्थमेकं कार्यं कुरुत इति ध्वन्यत' इत्युक्तम्। तच्च 'द्वौ शन्यशनी उदारानुदारौ चैकं कार्यं हननं भानं च' इति व्याख्यातृभिर्व्याख्यातम्, तत्र शन्यशन्योर्हननक्रियाकर्तृत्वान्वये ऽप्युदारानुदारयोर्भानकर्तृतत्पदार्थविशेषणयोस्तत्प्रकार- विशेषणयोर्वा साक्षाद्भानकर्तृत्वान्वयाभावात् कथमेककार्यकारित्वं सङ्गतं स्यात्। प्रकाशग्रन्थस्याशयं स्पष्टीकरोति- अतो विरुद्धौ द्वावित्यादि प्रथमार्धविषयम्। द्वितीयार्धे तु विरोधाभास एव। उक्तव्याख्याग्रन्थस्यापि सङ्गति कुर्वन् तैरनुक्तं तत्रत्यं विशेषं प्रदर्शयति- कर्तर्यभेदेनान्वयमात्रेण कृरुत इत्यस्योपपत्तिश्चेत्? अस्तु द्वितीयार्धेऽपि विरुद्धौ द्वावित्यादि वस्तु व्यङ्ग्यम्। परं त्वर्धद्वयेऽपि विरोधाभासालङ्कारशबलितमेव। शत्रुविरुद्धस्य
Page 145
145 शत्रुत्वासंभवादेकस्य शन्यशनिकर्तृकहननकर्मत्वायोगेनाद्यार्धे उदारत्वानुदारत्वयोरेकाधिकरणवृत्तित्वायोगाद् द्वितीयार्धे च विरोधस्य स्फुटत्वात्। अर्थशक्तिमूलध्वन्युदाहरणप्रसङ्गे प्रथमं स्वतःसंभविना वस्तुना वस्तुध्वनिमुदाहरति- अर्थशक्तिमूलानुरणनं यथा- 'गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम्। आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥ उपपादयति- अत्र मधुव्रतकर्तृकमञ्जुगुञ्जनाद्यैर्वस्तुभिः कविकल्पितत्वविरहेण स्वतः संभविभिरासन्नसरसिजोत्पत्तिध्वननद्वारा शरदागमनैकव्यरूपं वस्तु व्यज्यते। काव्यप्रकाशोक्तं स्वतःसम्भविना वस्तुना वस्तुध्वनेरुदाहरणमालोचयति- काव्यप्रकाशे तु-'अलससिरोमणिधुत्ताणं अग्गिम-' इत्याद्युदाहृत्य 'ममैवोपभोगयोग्य इति वस्तु व्यज्यते'इत्युक्तम्। तत्र केन वस्तुनेदं वस्तु व्यज्यते? न तावदलसशिरोमणित्वादिकान्तविशेषणैः, तेषां धात्र्यादिवृद्धस्त्रीनिरूपितत्वेन तवैवोपभोगयोग्य इत्यादिरूपेणैव व्यङ्ग्यस्य वक्तव्यतापत्तेः। विशेषणानां कामिनीनिरूपितत्वे तु ममैवेत्यादिव्यङ्ग्याकारः स्यात्। नापि परिफुल्लविलोचनत्वेन, तस्य हर्षभावानुभावत्वेन हर्षव्यञ्जकताया एव क्लृप्तत्वात्। मदुपभोगयोग्यत्वं हि हर्षभावस्य विभावः। न ह्यनुभावैर्विभावो व्यज्यत इति तद्विभावव्यञ्जनं शक्यं वक्तुम्। केवलस्य परिफुल्लविलोचनत्वस्य ममैवेत्यादिव्यङ्ग्यव्यञ्जने सामर्थ्याभावात्। पुत्रागमनधनप्राप्त्यादिविभावकेऽपि हर्षभावे परिफुल्लविलोचनताया अनैकान्तिकत्वादिति। उक्तशङ्ाया युक्ततामाह- सत्यम्। उक्तशङ्कायाः समुचितत्वेऽपि प्रकाशग्रन्थस्य सुसङ्गतमभिप्रायं प्रकटयति- 'इअ भणिएण'
मदुपभोगयोग्यत्वलक्षणविभावाभिव्यक्तिद्वारा हर्षभावोऽभिव्यज्यते। तन्र द्वारीभूतविभावाभिव्यक्तिमादाय काव्यप्रकाशग्रन्थसंगतिः। पूर्वोक्तरीत्याऽभिव्यक्त्याश्रवणे सम्भवन्तीं भावध्वनेः संलक्ष्य्रमत्वापत्तिमिष्टापत्त्या परिहरति-
Page 146
146 न च भावध्वनेः संलक्ष्यक्रमत्वापत्तिः, द्वारस्य संलक्ष्यक्रमत्वादिति वाच्यम्; इष्टापत्तेः। न चापसिद्धान्तः, तस्य प्रागेवोद्धारात्। स्वतः संभविना वस्तुनाऽलङ्कारध्वनिमुदाहरति- 'मृद्दीका रसिता सिता समशिता स्फीतं निपीतं पयः, स्वर्यातेन सुधाऽप्यधायि कतिधा रम्भाधरः खण्डितः। तत्त्वं ब्रूहि मदीयजीव! भवता भूयो भवे भ्राम्यता कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः॥' उपपादयति-
तात्मकास्मत्पदबोध्यकर्तृकप्रश्नविषयेणार्थेन वस्तुना तथाभूतेन
रूपातिशयोक्तिर्व्यज्यते। शङ्कते- अथ प्रश्नविषयस्यात्र नानाजन्मगतवृत्तान्तरूपतया तज्ज्ञं प्रत्येव प्रष्टुमौचित्येनानभिज्ञं स्वजीवं प्रति प्रष्टुमयोग्यत्वात्प्रश्नान्यथानुपपत्त्या आक्षिप्ता, वाच्यसिद्ध्यङ्गत्वेन गुणीभूतव्यङ्यरूपा वा, प्रागुक्तातिशयोक्तिरिह कथं ध्वनिव्यपदेशहेतुः स्यात्? प्राचीनैरुक्ते स्वतःसंभविना वस्तुनालङ्कारध्वनेरुदाहरणेऽपीयं शङ्का समानैवेति दर्शयति- इत्थमेव च 'तदप्राप्तिमहादुःख'-इत्यत्राप्यतिशयोक्त्तेरर्थापत्तिविषयत्वं गुणीभूतव्यङ्ग्यत्वं वा युक्तम्। अनेकजन्मोपभोग्यदुःखसुखराशिभ्यां
तद्दुःखसुखानां स्वस्वफलोपहितपापपुण्यनाशकताया एवान्यत्र क्लृप्तत्वात्। निगरणे तु तयोस्तन्नाशकताबुद्ध्युपपत्तिः। आशङ्क्य समाप्यते- न च वस्तुमात्राभिव्यक्तस्यालंकारस्य न गुणीभूतव्यङ्गयत्वम्- 'व्यज्यन्ते वस्तुमात्रेण यदालङ्कतयस्तदा। ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात् ।।'
Page 147
147 इति सिद्धान्तादिति वाच्यम्, बाधे दृढे सिद्धान्तमात्रेणात्र ध्वनित्वस्य स्थापयितुमशक्यत्वादिति चेत्? अथ प्रश्नविषयस्येत्यादिना समुत्थापितामाशङ्कामुपसंहरति- सत्यम्, समाधत्ते- यादृशव्यङ्ग्यप्रतिपत्तिं विना यत्र वाच्यस्य सर्वथाप्यनुपपत्तिस्तन्र तद् वाच्यसिद्ध्यङ्गम्। यत्र प्रकारान्तरेणापि तस्योपपत्तिः शक्या कर्तुं न तत्र तथा। पूर्वोक्तसिद्धान्तास्वीकारेऽनुपपत्तिं दर्शयति- अन्यथा हि 'निःशेषच्युतचन्दनं स्तनतटम्' इत्यत्राधमत्वासिद्ध्यङ्गत्वाद् दूतीरमणस्य वाच्यसिद्ध्यङ्गगुणीभूतव्यङ्ग्यत्वापत्तेः। उक्तसिद्धान्तानुसारेण 'मृद्वीके' ति पद्ये व्यज्यमानातिशयोक्तिर्न वाच्यसिद्ध्यङ्गमित्युपपादयति- प्रकृते च भगवन्नाम्नि योगसिद्धितादत्म्याध्यवसायरूपामतिशयोक्तिं विनापि भगवन्नामोच्चारणमाहात्म्यप्राप्तसार्वज्ञ्यबुद्ध्याऽपि प्रश्नोपपत्तेर्न गुणीभूतव्यङ्ग्यत्वम्। भगवन्नामोच्चारणमाहात्म्येत्याद्यनुपदोक्तरीतेरनुसरणेऽपि उक्तापत्तिसजातीयामेवापत्तिमाशड्क्य निरस्यति- एतेनासंबन्धे सम्बन्धरूपातिशयोक्तिर्नामोच्चारणमाहात्म्यप्रभवसार्वज्ञ्याध्यवसायेऽपि स्थितेति स दोषस्तदवस्थ इति परास्तम्। भगवन्नामोच्चारणस्याचिन्त्यमाहात्म्यतायाः पुराणप्रसिद्धत्वात्। मृद्दीकेति पद्यस्य गुणीभूतव्यङ्ग्यत्वमभ्युपेत्योदाहरणान्तरमवतारयति- अथवा मास्तु प्रागुक्तमुदाहरणं वस्तुनोऽलङ्कारव्यञ्जकतायाः, इदं तु भविष्यति- 'न मनागपि राहुरोधशंका न कलङ्काधिगमो न पाण्डुभावः। उपचीयत एव कापि शोभा परितो भामिनि! ते मुखस्य नित्यम् ॥' उपपादयति- अत्र राहुरोधशङ्काभावादिभिर्निरपेक्षैर्वस्तुभिर्व्यतिरेकालङ्कारो व्यज्यते। स्वतःसंभविनाऽडलङ्कारेण वस्तुध्वनिमुदाहरति- 'नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः, पठन्ति बिरुदावलीमहितमन्दिरे वन्दिनः।
Page 148
148 इदं तदवधि प्रभो! यदवधि प्रवृद्धा न ते, युगान्तदहनोपमा नयनकोणशोणद्युतिः।।' उपपादयति- अत्र युगान्तदहनोपमया यदैव तव कोपोदयस्तदैव रिपूणां सम्पदो भस्मसाद्भविष्यन्तीति वस्तु व्यज्यमानं राजविषयकरतिभावेऽङ्गमपि वाच्यापेक्षया सुन्दरत्वाद् ध्वनिव्यपदेशहेतुः। गुणीभूतव्यङ्ग्यत्वमस्याशङ्क्य निरस्यति- न च भस्मीकरणपटुत्वरूपस्य साधारणधर्मस्योपमानिष्पादकत्वाद् व्यङ्ग्यस्य वाच्यसिद्ध्यङ्गत्वं शङ्क्यम्, उपात्तशोणत्वरूपसाधारणधर्मेणापि तन्निष्पत्तेः संभावात्। उपमेयीभूतशोणद्युतिगतस्य भस्मीकरणपटुत्वरूपसाधारणधर्मस्योपमानिष्पादकत्वेऽ-
उदाहरणान्तरमाह- 'निर्भिद्य क्ष्मारुहाणामतिघनमुदरं येषु गोत्रां गतेषु द्राघिष्ठस्वर्णदण्डभ्रमभृतमनसो हन्त धित्सन्ति पादान्। यैः संभिन्ने दलाग्रप्रचलहिमकणे दाडिमीबीजबुद्ध्या चञ्चूचाञ्चल्यमञ्चन्ति च शुकशिशवस्तेंऽशवः पान्तु भानोः॥' उपपादयति- अत्र भ्रान्तिभृतां तिरश्चामप्येवमानन्दं जनयतीति जगदानन्दहेतुर्भगवानिति व्यज्यते। एवंरूपाया भ्रान्तेर्लोकेऽपि संभवात्स्वतःसंभवित्वम्। स्वतःसंभविनाऽलङ्कारेणालङ्कारध्वनिमुदाहरति- 'उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण। मुदितं च सकलललनाचूडामणिशासनेन मदनेन ॥।' उपपादयति- अत्र समुच्चयेन क्रियायौगपद्यात्मना कार्यकारणपौर्वापर्यविपर्ययात्मिकातिशयोक्तिः। एषु स्वतःसंभवी व्यञ्जकः। कविप्रौढोक्तिसिद्धवस्तुना वस्तुध्वनिमुदाहरति- 'तदवधि कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकः। यदवधि न पदं दधाति चित्ते हरिणकिशोरदृशो दृशोर्विलासः॥'
Page 149
149 उपपादयति- अत्र कामिनीदृगविलासे चेतसि पदमर्पितवती विवेकस्य नास्ति कुशलमिति वस्तुना दृग्विलासकर्तृकपदार्पणस्य लोकसिद्धत्वाभावात्कविप्रौढोक्तिनिष्पन्नेन सुनिषण्णे तस्मिन् का कुशलचर्चा विवेकस्येति वस्तु व्यज्यते। शिष्यबुद्धिवैशद्यायोदाहरणाभासमस्य प्रदर्श्य निरस्यति- 'कस्मै हन्त फलाय सज्जन! गुणग्रामार्जने सज्जसि, स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय। ये भावा हृदयं हरन्ति नितरां शोभाभरैः सम्भृता- स्तैरेवास्य कले: कलेवरपुषो दैनंदिनं वर्तनम् ॥' उपपादयति- इह यद्यपि रमणीयाः पदार्थाः कलेर्नित्यमदनीया इति वस्तुना प्रौढोक्तिसिद्धेन मर्तु कामयसे चेद् गुणप्राप्तौ यतस्वेति वस्तु व्यज्यते, तथापि तस्य पर्यायोक्तात्मनो वाच्यापेक्षया सुन्दरताविरहाद् गुणीभूतत्वमेव। अलङ्कारा हि वाच्यसौन्दर्यसाराः प्रायशः स्वान्तर्गतं प्रतीयमानं पृष्ठतः कुर्वन्ति। कविप्रौढोक्तिसिद्धेनालङ्कारेण वस्तुध्वनेरुदाहरणमाह- 'देवा: के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता- देवं जल्पन्ति तावत्प्रतिभटपृतनावर्तिनः क्षत्रवीराः। यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते! मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजङ्ग:।।' उपपादयति- अत्र कविप्रौढोक्तिसिद्धेन रूपकेण त्वय्युद्यतकरवाले सति का परेषां जीवनस्याशेति वस्तु व्यज्यते।
'साहङ्कारसुरासुरावलिकराकृष्टभ्रमन्मन्दर- क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वंकषाः। तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता भूमीभूषण! भूषयन्ति भुवनाभोगं भवत्कीर्तयः॥'
Page 150
150 उपपादयति- अन्न कीर्तेः सानन्दालोकनेन वस्तुना कविकल्पितेन दुग्धभ्रान्तिस्तापसगता व्यज्यते। शङ्कते- न च सानन्दालोकनस्यैव चाक्षुषभ्रान्तिरूपतया व्यङ्ग्यव्यञ्जकयोरविवेको व्यङ्ग्यत्वानुपपत्तिश्चेति वाच्यम्, समाधत्ते- वस्तुन एकत्वेऽपि कीर्तिरूपविशेष्यावृत्तिदुग्धत्वप्रकारकत्वात्मकभ्रान्तित्वेन सानन्दावलोकनत्वेन च व्यङ्ग्यव्यञ्जकविवेकस्य व्यङ्ग्यतावच्छेदकरूपेण वाच्यताया अभावात् व्यङ्ग्यत्वस्य चोपपत्तेः। उक्तार्थे प्राचां सम्मति दर्शयति- तथा चाहु :- 'यदेवोच्यते तदेव व्यङ्ग्यम्, यथा तु व्यङ्ग्यं न तथोच्यते' इति। कविप्रौढोक्तिसिद्धालङ्कारेणालङ्कारध्वनिमुदाहरति- 'दयिते रदनत्विषां मिषादयि, तेऽमी विलसन्ति केसराः। अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽलयः॥' उपपादयति- अन्न पूर्वोत्तरार्धवर्तिनीभ्यामपहुतिभ्यां न त्वं नारी किं तु नलिनीति तृतीयापहुतिर्व्यज्यते। एषु प्रौढोक्तिनिष्पन्नो व्यञ्जकः। स्थलभेदेन ध्वने: शब्दशक्त्यर्थशक्तिमूलकत्वव्यपदेशयोर्बीजमुपन्यस्यति- यद्यपि शब्दशक्तिमूलकत्वमर्थशक्तिमूलकत्वं चेत्युभयमपि सकलव्यङ्ग्यसाधरणम्, शब्दार्थयोरनुसन्धानं विना व्यङ््यस्यैवानुल्लासात्, तथापि परिवृत्त्यसहिष्णूनां शब्दानां प्राचुर्ये तत्प्रयुक्तात्प्राधान्यात्सत्या अप्यर्थशक्तेरप्राधान्याच्च व्यङ्ग्यस्य शब्दशक्तिमूलकत्वेनैव व्यपदेशः। परिवृत्तिसहिष्णूनां तु प्राचुर्येऽ्र्थशक्तेरेव प्राधान्यात्सत्या अपि शब्दशक्तेः प्रधानानुगुण्यार्थतया मल्लग्रामादिवत्प्रधानेनैव व्यपदेशः। ध्वने:शब्दार्थोभयशक्तिमूलकत्वव्यवहारे कारणं प्रदर्शयति- यत्र तु काव्ये परिवृत्तिं सहमानानामसहमानानां च शब्दानां नैकजातीयप्राचुर्यम्, अपि तु साम्यमेव, तत्र शब्दार्थोभयशक्तिमूलकस्य व्यङ्ग्यस्य स्थितिरिति द्व्युत्थो ध्वनिः। द्व्युत्थध्वनेरन्यत्रगतार्थतामाशङ्क्य निरस्यति-
Page 151
151 न चायं शब्दशक्तिमूलकतयैवार्थशक्तिमूलकतयैव वा व्यपदेष्टुं शक्यः, विनिगमकाभावात्। नापि शब्दशक्तिमूलकार्थशक्तिमूलकयोः सङ्करेण गतार्थयितुम्, व्यङ्ग्यभेद एव सङ्करस्येष्टेः। इह तु व्यङ्ग्यस्यैक्येन तस्यानुत्थानात्। उदाहरणम्- कविः परामृशति- 'रम्यहासा रसोल्लासारसिकालिनिषेविता। सर्वाङ्गशोभासंभारा पद्मिनी कस्य न प्रिय॥' द्व्युत्थध्वनिसंबन्धिविशेषमाह- अयं च वाक्यमात्रे। पदसमूहश्च वाक्यम्। तेनास्य नानार्थानानार्थघटितसमासविषयत्वेऽपि न विरोध:। न तु शुद्धैकपदे, तस्मिन्नानार्थानानार्थयोरसमावेशात्। द्व्युत्थध्वनिसंबन्धिमतान्तारमाह- अन्ये तु-'अर्थशक्तिमूलकत्वव्यपदेशे नानार्थप्रकाशकशब्दशक्त्युल्लास्यत्वसामान्यशून्यत्वं तन्त्रम्, विषयप्राचुर्यात्। शब्दशक्तिमूलकत्वव्यपदेशे तु नार्थशक्त्युल्लास्यत्वसामान्यशून्यत्वं तथा, विषयदौर्लभ्यापत्तेः। न हि नानार्थशब्दमात्रघटितं पद्यं प्रचुरविषयम्, अतः शब्दशक्तिमूलकत्वेनैवायं शक्यव्यपदेशो ध्वनिः' इत्यप्याहुः। प्रकृतप्रकरणमुपसंहरति- इत्थमभिधामूलस्त्रिविधोऽपि संक्षेपेण निरूपितो ध्वनिः। निरूपयिष्यते चांशतो यथावसरम्
लक्षणामूलध्वनिनिरूपणं प्रतिजानीते - लक्षणामूलस्तु निरूप्यते- पूर्वोक्तं निरूपणं प्रारभते- तत्र वक्ष्यमाणलक्षणायां लक्षणायां प्रयोजनवत्याः षड्विधायाः सारोपसाध्यवसानाभ्यां गौणीशुद्धाभ्यां च विभक्तानां भेदानां चतुर्णामलङ्कारात्मना परिणतत्वाद् द्वौ भेदौ ध्वन्याश्रयतया स्थितौ, जहत्स्वार्था अजहत्स्वार्था चेति। तन्मूलौ च द्वौ ध्वनेः प्रभेदौ। जहत्स्वार्थामूलं ध्वनिमुदाहर्तुं प्रतिजानीते- तयोर्जहत्स्वार्थामूलो यथा-
Page 152
152 'कृतं त्वयोन्नतं कृत्यमर्जितं चामलं यशः। यावज्जीवं सखे! तुभ्यं दास्यामो विपुलाशिषः॥' उपपादयति- इयं कस्यचिदपकारिणं प्रत्युक्तिः। त्वया कृतेऽप्यपकारे परमखेदहेतौ मधुरमेव यो भाषेत, न परुषं तस्मिन्नेवंजातीयके मयि पापमाचरतस्तव पापिष्ठत्वं कथं शक्यते वक्तुमिति व्यङ्गयम्। अजहत्स्वार्थामूलं ध्वनिमुदाहरति- अपरामूलो यथा- 'बधान द्रागेव द्रढिमरमणीयं परिकरं किरीटे बालेन्दुं नियमय पुनः पन्नगगणैः। न कुर्यास्त्वं हेलामितरजनसाधारणधिया जगन्नाथस्यायं सुरधुनि समुद्धारसमयः॥' उपपादयति- अत्र जगन्नाथस्येत्यनेन शक्य एवानेकपापविशिष्टत्वेन लक्ष्यते। पापानां पदान्तरेणानिर्वाच्यत्वं व्यङ््यम्। प्राचीनोक्तमजहत्स्वार्थोदाहरणं समीक्षते- कुन्ताः प्रविशन्तीत्यादौ तु वाच्यगततैक्ष्ण्यादि लक्ष्यम्। पदध्वनिवाक्यध्वन्योर्विभाजकं विशेषं वर्णयति- तदेवमेते प्रागुक्ता द्व्युत्थातिरिक्ताः सर्वेऽपि ध्वनय एकस्मिन् वाच्ये यद्येकपदमात्रगतास्तदा पदध्वनितया व्यपदिश्यन्ते। नानापदगततायां तु वाक्यध्वनितयेति। अभिधानिरूपणमवतारयति- अथ केयमभिधाशा नाम यन्मूल: प्रथमं निरूपितोऽयं ध्वनिप्रपञ्चः। जिज्ञासाशान्तिं प्रतिजानीते- उच्यते- अभिधां लक्षयति- शक्त्याख्योऽर्थस्य शब्दगतः, शब्दस्यार्थगतो वा संबन्धविशेषोऽभिधा। अभिधाविषयकाणि मतान्तराणि प्रदर्शयति-
Page 153
153 सा च पदार्थान्तरमिति केचित्। 'अस्माच्छब्दादयमर्थोऽवगन्तव्य' इत्याकारेश्वरेच्छैवाभिधा। तस्याश्च विषयतया सर्वत्र सत्त्वात्पटादीनामपि घटादिपदवाच्यता स्यात्। अतो व्यक्तिविशेषोपधानेन घटादिपदाभिधात्वं वाच्यम्' इत्यपरे। एवमपीश्वरज्ञानादिना विनिगमनाविरह: स्यात्, अतः प्रथममतमेव न्यायः' इत्यपि वदन्ति। दीक्षितोक्तं खण्डयति- यत्तु वृत्तिवार्तिके 'शक्त्या प्रतिपादकत्वमभिधा' इत्यप्पय्यदीक्षितैरुक्तम् तत्तुच्छम्, उपपत्तिविरोधात्। तथा हि-इह शब्दाज्जायमानायामर्थोपस्थितौ कारणीभूतं यदीयज्ञानं सा शब्दवृत्तिरभिधाख्या लक्ष्यतया प्रस्तुता। प्रतिपादकत्वस्य च प्रतिपत्तिहेतुत्वरूपस्य शब्दगतस्य न ज्ञानं प्रतिपत्तौ कारणम्। अतः कथं नाम प्रतिपादकत्वमभिधेत्युच्यते? अथ प्रतिपादकत्वं प्रतिपत्त्यनुकूलव्यापाररूपं ज्ञानं सदेवोपयुज्यते प्रतिपत्तावित्युच्यते एवमपि शक्त्येत्यनेन शब्दगतार्थगता वा काचिच्छक्तिः प्रतिपत्तिहेतुतया विवक्षिता, सैवाभिधेति 'अभिधया प्रतिपादकत्वमभिधा इति लक्षणं पर्यवसन्नम्'। तथा च स्फुटैवासङ्गतिरात्माश्रयश्च। न चाभिधातः शक्तिरतिरिक्ता शब्दजन्यप्रतिपत्तिप्रयोजिका काचिदस्तीत्यत्र प्रमाणमस्ति। अभिधां विभजते- सेयमभिधा त्रिविधा-केवलसमुदायशक्तिः, केवलावयवशक्तिः, समुदायावयवशक्तिसङ्करश्चेति। उपपादनपूर्वकमभिधाभेदानुदाहरति- आद्याया डित्थादिकमुदाहरणम्, तत्रावयवशक्तेरभावात्। द्वितीयायास्तु पाचकपाठकादिः,
न्तरस्यानवभासेन समुदायशक्तेरभावात्। तृतीयायाः पङ्कजादिः। इह धातूपपदप्रत्ययरूपावयवशक्तिवेद्यानां पङ्कजाननकर्तृणामाकाङ्क्षादिवशादन्वये प्रकाशमानात् पङ्कजनिकर्तृरूपादर्थादतिरिक्तस्य पद्मत्वविशिष्टस्य प्रत्ययेन तदर्थं समुदायशक्तेरपि कल्पनादुभयोः सङ्करः। अमीषामभिधाप्रभेदानां प्राचीनैः प्रयुक्तानि पर्यायान्तराणि दर्शयति- एता एव विधा रूढि-योग-योगरूढिशब्दैर्व्यपदिश्यन्ते। दीक्षितोक्तौ पूर्वोक्तूषणान्यतिदिशति-
Page 154
154 यत्तु-'अखण्डशक्तिमात्रेणैकार्थप्रतिपादकत्वं रूढिः। अवयवशक्तिमात्रसापेक्षं पदस्यैकार्थप्रतिपादकत्वं योगः। उभयशक्तिसापेक्षमेकार्थप्रतिपादकत्वं योगरूढिः।' इति वृत्तिवार्तिकेऽप्पय्यदीक्षितैरुक्तम्, तन्न। अभिधालक्षणोक्तदूषणानामिहापि दुर्वारत्वात्। अथेदानीमश्वगन्धादिकतिपयविशिष्टशब्दानां शक्तिरुक्तेषु अभिधाभेदेषु कुत्नान्तर्भवतीति विचारयितुमुपक्रमते- अथ अश्वगन्धा-अश्वकर्ण-मण्डप-निशान्त-कुवलयादिशब्देषु का शक्तिरिति। पूर्वजिज्ञासितां शक्तिं मतभेदेन ज्ञापयिष्यन् तावत्प्रथममतमाह- अत्र केचित्- 'अश्वगन्धारसं पिबेत्' इत्यादिषु विषयविशेषे केवलसमुदायशक्तिः। अश्वगन्धा, वाजिशाला, इत्यादिषु तु केवलयोगशक्तिः। समुदायावयवशक्त्योरुभयोरेकशब्दाश्रयत्वे कथं केवलत्वविशेषितयोराद्यद्वितीयभेदयोः प्रसक्तिरिति तु न शङ्क्यम्। समुदायावयवशक्तिवेद्ययोरर्थयोरनन्वयेन तादृशशक्त्योः कैवल्यस्य साम्राज्यात् इदमेव हि केवलत्वमिह विवक्षितम्, यदन्वया-योग्यार्थ- बोधकत्वम्। सङ्करस्त्वन्वययोग्यार्थबोधकयोरेवेति न तस्यात्र प्रसक्तिः' इत्याहुः। तादृशकैवल्यविवक्षायां मानाभावात् मतान्तरमाह अन्ये तु-'अश्वकर्णादिशब्देषु नाभिधायाः प्रथमद्वितीययोर्विधयोः प्रसक्तिः, कैवल्यविरहात्। परन्तु सङ्करस्य द्वौ भेदौ-योगरूढिर्यौगिकरूढिश्चेति। तत्राद्यस्योदाहरणं पङ्कजादिशब्दाः। द्वितीयस्य त्वश्चकर्णादयः' इत्याहुः। सङ्करस्य योगरूढिशब्देनैव प्रसिद्धेर्मतान्तरमाह- 'चतुर्थ एवायमभिधाया भेदः' इत्यप्यन्ये। सिद्धान्तमाह- 'अखण्डा एव हि शब्दाः। तत्र समासेषु पदानां 'कृत्तद्धिततिङन्तेषु च प्रकृतिप्रत्ययानां विभाग: काल्पनिक एवेति कुत्रास्ति योगशक्तिः? विशिष्टस्य विशिष्टार्थे रूढेरेवाभ्युपगमात्' इत्यपि वदन्ति। शङ्कते- अथ- 'गीष्पतिरप्याङ्गिरसो गदितुं ते गुणगणान् सगर्वो न। इन्द्र: सहस्रनयनोऽप्यद्भुतरूपं परिच्छेत्तुम् ।।' इत्यादौ रूढ्यर्थमादाय पुनरुक्त्यापत्तिः।
Page 155
155 उक्तापत्तेः समाधानाभासमुपपाद्य खण्डयति- न चैवंविधपदद्वयसमभिव्याहारस्थले योगरूढपदस्यावयवार्थमात्रबोधकत्वम्, तावन्मात्रस्यैव प्रकृतोपयोग्यातिशयविशेषसमर्पकत्वात्, इति वाच्यम्। एवमपि योगरूढपदस्य रूढिशक्तेरनियन्त्रणेन योगार्थमात्रप्रतिपादकताया अनुपादानादुक्तदोषस्यानुवृत्तेः। एकेनैव पदेन योगार्थरूढ्यर्थयोरुभयोरप्यावश्यकयोरर्थयोरुपस्थितिसंभवेन द्वितीयपदप्रयोगस्य नैरर्थक्यापत्तेश्च, इति चेत्। सिद्धान्तभूतं समाधानमाह- अत्राहु :- एकपदोपात्तत्वादन्तरङ्गाकाङ्क्षावशेन प्रथमं योगार्थरूढ्यर्थयोरन्वये सति समुल्लसितस्य विशिष्टार्थस्यैव पदान्तरार्थेनान्वयः, न तु तयोरेव विशकलितयोरिति यद्यपि न्यायसिद्धोऽर्थः तथापि शक्त्याऽर्थस्य प्रतिपादने स्यादेवम्। लक्षणायां तु योगरूढेन योगार्थमात्रप्रतिपादनेन न किञ्चिद्वाधकमस्ति। नापि द्वितीयपदप्रयोगस्य नैरर्थक्यम्। तथा सति रूढ्यर्थबोधनेन गतार्थेन योगरूढशब्देन प्रतिपाद्यमानस्य योगार्थस्य पङ्कजाक्षीत्यादाविव नान्तरीयकत्वशङ्कया कुर्वदूपताया अपहतौ प्रकृतोपयोग्यातिशयविशेषव्यञ्जनस्य पाक्षिकत्वापत्तेः। द्वितीयपदयोगे तु तेनैव रूढ्यर्थप्रतिपादने सिद्धे योगरूढपदप्रतिपाद्यस्य योगार्थस्य नान्तरीयकत्वशङ्काया अयोगात्कुर्वदूपत्वेन व्यङ्ग्यविशेषव्यञ्जकत्वं नियमेन सिद्ध्यति। उपसंहरति- एषा पदद्वयोपादानस्थले गतिरुक्ता। नन्वेवं यत्र केवलं योगरूढं पदं प्रयुज्य रूढ्यर्थस्य योगार्थप्रतीतिद्वारकविशेषस्य च प्रत्यायनं क्रियते तत्र कुर्वद्रूपताया अपहतिः कुतो नेत्याह- यत्र तु 'पुष्पधन्वा विजयते जगत्त्वत्करुणावशात्' इत्यादावेकेनैव पदेन रूढ्यर्थोपस्थितिर्योगार्थद्वारा निःसारत्वाद्यवगमश्च भवति, तत्र कविकृतमन्मथरूढपदान्तरानुपादानपूर्वकपुष्पधन्वपदोपादानप्रतिसंधानेन तदीययोगार्थे कुर्वदूपताधानं बोध्यम्। उपसंहरति- तदित्थं द्वितीयपदस्योपादानेऽनुपादाने वा न क्षतिः। स्थलान्तरेऽपि पूर्वोक्तां रीतिमतिदिशति-
Page 156
156 एवं जात्यन्तरविशिष्टवाचकपदसमभिव्याहारेऽपि। तादृशं वाक्यमुदाहरति- 'दिशि दिशि जलजानि सन्ति कुमुदानि' इत्यत्रापि जलजादिपदानां लक्षणया योगार्थमात्रबोधकत्वम्, योगशक्त्युल्लासितस्य तु तादृशार्थस्य रूढ्यर्थोपश्लिष्टत्वेन स्वातन्त्र्येण कुमुदादावन्वयायोगात्। उपसंहरति- इत्थमभिधा निरूपिता। वाचकवाच्ययोः परिचयं कारयति- अनया यः शब्दो यमर्थं बोधयति स तस्य वाचकः। इयं च यस्य शब्दस्य यस्मिन्नर्थेऽस्ति तस्य सोऽर्थोऽभिधेयः। इदानीमुपाधीनामेवाभिधेयत्वं न व्यक्तीनामित्युपपादयति- स च जातिगुणत्रियायादृच्छिकात्मकः। तत्र जातिर्गोत्वादिः संस्थानविशेषाभिव्यड्ग्या प्रत्यक्षसिद्धा गवादिपदानामभिधेया। अनुमानसिद्धा च घ्राणरसनत्वादिर्घ्राणरसनादिपदानाम्, आनन्त्यात्, व्यभिचाराच्च व्यक्तीनामभिधेयताया अकल्पनात्। उक्तं व्यभिचारदोषं वारयितुमाशङ्कते- न च ज्ञातगोत्वादिरूपया गोत्वादिज्ञानरूपया वा प्रत्यासत्त्या प्रत्यक्षेण परिकलितासु सकलतदीयव्यक्तिष्वभिधायाः कल्पने नास्ति दोष इति वाच्यम्। समाधत्ते- सामान्यप्रत्यासत्तेर्निराकरणात्। तुष्यतु दुर्जनन्यायेन सामान्यलक्षणास्वीकारेऽप्याह- गौरवदोषस्यानुद्धारात्। प्रकारान्तरेणोक्तव्यभिचारवारणपरं परकीयमतं गौरवदोषानुवृत्तिप्रतिपादनेन दूषयति- एतेन शक्तिग्रहपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकतयैव हेतुहेतुमद्भावादगृहीतसङ्केतानामपि व्यक्तिविशेषाणामन्वयबोधविषयताया उपपादनेऽपि न निस्तारः।
Page 157
157 पूर्वोक्तरीत्या व्यक्तिशक्तिवादपक्षं निरस्य जात्याद्युपाधिशक्तिवादपक्षः स्थापितः, परमस्मिन् पक्षे व्यक्तेरवाच्यतया बोधो न स्यात्, तथात्वे च लौकिकव्यवहारो न सिद्ध्येदिति शङ्कां मनसि कृत्वा उपाधिशक्तिवादपक्षे व्यक्तिबोधोपायमाह- व्यक्तीनां प्रत्ययस्त्वाक्षेपाल्लक्षणया वेत्यन्यदेतत्। जातेर्महत्त्वमुपपादयन् वक्रगत्या जातिशक्तिवादपक्षं पुष्णाति- अयं च जातिरूप: शब्दार्थः प्राणद इत्युच्यते। प्राणं व्यवहारयोग्यतां ददाति सम्पादयतीति व्युत्पत्तेः। जाते: व्यवहारयोग्यतासम्पादकत्वे युक्तियुक्तामाप्तजनसम्मतिं दर्शयति- तदुक्तम्-'गौः स्वरूपेण न गौर्नाप्यगौः, गोत्वाभिसंबन्धाद्वा गौः' इति। उक्तावाक्यस्य व्याख्यां कुरुते- अस्यार्थ :- गौः सास्रादिमान् धर्मी स्वरूपेण अज्ञातगोत्वकेन धर्मिस्वरूपमात्रेण न गौः न गोव्यवहारनिर्वाहकः। नाप्यगौः नापि गोभिन्न इति व्यवहारस्य निर्वाहकः। तथा सति दूरादनभिव्यक्तसंस्थानतया गोत्वाग्रहदशायां गवि गौरिति गोभिन्न इति वा व्यवहारः स्यात्। स्वरूपस्याविशेषाद् घटे गौरिति गवि चागौरिति वा व्यवहारः स्यादिति भावः। गोत्वाभिसंबन्धाद्रोत्ववत्तया ज्ञानात् गौर्गोशब्दव्यवहार्य इति। गुणक्रियादिरूपाभिधेयसंबद्धं विचारमुत्थापयति- गुणः शुक्लादि: शुक्लादिपदानामभिधेयः। क्रिया चलनादिशब्दानाम्। अत्राशड्क्य समाधत्ते- शुक्लादीनां चलनादीनां च प्रतिव्यक्तिभेददर्शनादानन्त्यव्यभिचाराभ्यां व्यक्तिशक्तिवाददोषाभ्यामिहापि कलुषीकरणमिति चेत्, तेषां लाघवात्प्रत्यभिज्ञाबलाच्चैकताया अभ्युपगमात्। अत्रार्थे प्राचीनोक्तिं प्रमाणयति- तदुक्तम्-'गुणक्रियायदृच्छानां वस्तुत एकरूपाणामाश्रयभेदाद्भेद इव लक्ष्यते' इति। मम्मटोक्तिफलितमाह- तथा च भेदप्रतीतिर्भ्रम एवेति भावः। इदमुपलक्षणम्। उत्पत्तिविनाशप्रतीतिरपि तथैव, वर्णनित्यतावादे गकाराद्युत्पत्तिविनाशप्रतीतेर्भ्रमत्वस्य स्वीकारात्। यादृच्छिकात्मकमभिधेयं स्फोटयति-
Page 158
158 यादृच्छिकस्तु वक्ता स्वेच्छया डित्थादिशब्दानां प्रवृत्तिनिमित्तत्वे संनिवेशितो धर्मः। कोऽसौ धर्म इति मतभेदेनाह- स च 'परम्परया व्यक्तिगतश्चरमवर्णाभिव्यङ्ग्योऽखण्डः स्फोटः' इत्येके। 'आनुपूर्व्यवच्छिन्नो वर्णसमुदायेः' इत्यपरे। 'केवला व्यक्तिरेवे' इतीतरे। उक्तमतत्रये वैलक्षण्यं दर्शयति- तत्राद्यमतद्वये विशेषणज्ञानाद् विशिष्टप्रत्ययः। तृतीयमते च निर्विकल्पकात्मकः प्रत्ययः। उपाधिशक्तिवादफलितार्थमाह- तदित्थं चतुष्टयी शब्दानां प्रवृत्तिरिति दर्शनं व्यवस्थितम्। उपाधिशक्तिवादे मतान्तरमाह- सर्वेषां शब्दानां जातिरेवार्थः। गुणक्रियाशब्दानां गुणक्रियागतायाः, यदृच्छाशब्दानां च बालवृद्धशुकाद्युदीरिततत्तच्छब्दवृत्तेस्तत्तत्समयभिन्नार्थवृत्तेर्वा जातेरेवाभिधेयता संभवात्। इति जातिशक्तिदर्शनम्। लक्षणामूलध्वनिनिरूपणानन्तरं लक्षणानिरूपणे सङ्गति दर्शयितुमाह- अथ केयं लक्षणा, यन्मूलश्चरमं निरूपितो ध्वनिः। उक्तजिज्ञासाशमनं प्रतिजानीते- उच्यते- लक्षणाया लक्षणमाह- शक्यसम्बन्धो लक्षणा। लक्षणाबीजं निश्चेतुं रुचिरं विचारं प्रचारयति- तस्याश्चार्थोपस्थापकत्वे मुख्यार्थतावच्छेदके तात्पर्यविषयान्वयितावच्छेदकताया अभावो न तन्त्रम्। शक्यतावच्छेदकरूपेण लक्ष्यमाणस्य स्वीकारात्। किंतु तात्पर्यविषयान्वये मुख्यार्थतावच्छेदकरूपेण मुख्यार्थप्रतियोगिकताया अभावो रूढिप्रयोजनयोरन्यतरच्च तन्त्रम् । मुख्यार्थान्वयानुपपत्तेः तन्त्रत्वे तु 'काकेभ्यो दधि रक्ष्यताम्' इत्यत्र लक्षणोत्थानं न स्यात्
लक्षणापदार्थतयाभिमतस्य शक्यसंबन्धस्य स्थलभेदेन भेदं दर्शयति- 'गङ्गायां घोष:' इत्यत्र सामीप्यम्, 'मुखचन्द्रः' इत्यादौ सादृश्यम्, व्यतिरेकलक्षणायां विरोधः 'आयुर्घृतम्' इत्यादौ कारणत्वादयश्च संबन्धा यथायोगं, लक्षणाशरीराणि।
Page 159
159 लक्षणाया भेदान् दर्शयति- इयं तावद् द्विविधा, निरूढा प्रयोजनवती च। तत्रापि द्वितीया द्विविधा, गौणी शुद्धा च। तत्राद्या सारोपा, साध्यवसाना चेति द्विविधा। अन्त्या चतुर्विधा-जहत्स्वार्था, अजहत्स्वार्था, सारोपा, साध्यवसाना चेति प्रयोजनवती षड्विधा सम्पद्यते। निरूढलक्षणाया उदाहरणानि प्रदर्शयति- तत्र निरूढलक्षणाया अनुकूलप्रतिकूलानुलोमप्रतिलोमलावण्यादय उदाहरणम् नीलादयश्च। उपपादयति- 'धर्मस्यायमनुकूलः' इत्यादौ मुख्यार्थस्य कूलानुगतत्वादेर्बाधात् अनादिप्रयोगप्रवाहवशादेकवस्तुप्रवणत्वात्मना कूलानुगतादिरूपशक्यस्य सादृश्येन संबन्धेनानुकूलादिशब्दैरनुगुणादयो लक्ष्यन्ते। एवं नीलादिपदानां लाघवाद्गुणगतजातेरेव शक्यतावच्छेदकतया गुणद्रव्ययोः 'नीलो घटः' इत्यादौ सामानाधिकरण्येनान्वयस्यानुपपत्तेः समवायात्मना गुणरूपशक्यस्य संबन्धेन नीलादिशब्दैर्गुणिनो लक्ष्यन्ते। उक्तेषु निरूढलक्षणोदाहरणेषु विशेषमाह- तत्राद्यवर्गे सादृश्यसम्बन्धेन द्वितीयवर्गे च तदितरसम्बन्धेन लक्षणायाः प्रवृत्तेर्निरूढायामपि गौणीत्वशुद्धत्वाभ्यां द्वैविध्यमामनन्ति। सारोपसाध्यवसानपदयोरर्थं विवृणोति- विषयविषयिणोः पृथङ्निर्दिष्टयोरभेद आरोपः। अपृथङ्निर्दिष्टे विषये विषय्यभेदोऽध्यवसानम् । तन्नाद्येन सहिता सारोपा। द्वितीयेन तु साध्यवसाना । गौण्योः सारोपसाध्यवसानलक्षणयोरुदाहरणे दर्शयति- उदाहरणानि च 'मुखं चन्द्र:' इत्यादीनि गौण्याः सारोपायाः। 'पुरेऽस्मिन् सौधशिखरे चन्द्रराजी विराजते' इत्यादीनि च तस्याः साध्यवसानायाः। उक्तसारोपास्थलेऽन्वयप्रकारमुपदर्शयति- अत्राद्यायां विषयिप्रतिपादकैश्चन्द्रादिशब्दैर्लक्षणयोपस्थापितानां चन्द्रादिसदृशानामभेदेन संसर्गेण मुखादिशब्दोपस्थापितैर्मुखत्वादिविशिष्टैर्मुखादिभिरन्वयः। ननु सद्शरूपधर्मिलक्षणायां गौरवात् सादृश्यरूपधर्मलक्षणैव कुतो नाङ्गीक्रियत इत्यत आह-
Page 160
160 सादृश्यरूपधर्मलक्षणायां तु तेन सह मुखादीनामन्वयो न स्यात्, नामार्थ- योरभेदातिरिक्तसंसर्गेण विशेष्यविशेषणभावस्यानुपपत्तेः। शङ्कते- नन्वेवं सति बोधावैलक्षण्याच्चन्द्रसदृशं मुखमित्युपमानो मुखं चन्द्र इति रूपकस्य कथं भेदः। न च सदृशविशेषणचन्द्रसंबन्धासंबन्धाभ्यामिति वाच्यम्। बोधस्य वैलक्षण्यमात्रेण पृथगलङ्कारताया असिद्धेः। अन्यथा मुखं चन्द्र इवेत्यत्र चन्द्रसदृशमित्येतद्गतात्पृथगलङ्कारतापत्तिरिति चेत्? उक्ताशङ्कायाः प्राचामभिमतं मतभेदेन समाधानत्रयं प्रतिपादयिष्यन् तावत् प्रथममतमाह- अत्र केचित्-'रूपकस्योपमातः स्वरूपसंवेदनांशमादायावैलक्षण्येऽपि लक्षणाफलीभूततादूप्यसंवेदनमादाय वैलक्षण्यं निर्बाधम्। तादूप्यसंवेदनं च विषये मुखादौ विषयितावच्छेदकस्य चन्द्रत्वादेः संप्रत्ययः। ननु लक्षणाप्रयोज्यादपि तत्सदृशबोधात्कथं नाम तादूप्यप्रत्ययः स्यात्, उपायस्याभावाद् भेदज्ञानेन प्रतिबन्धाच्च। अन्यथा चन्द्रसदृशं मुखमित्यत्रापि तादूप्यप्रत्ययप्रसङ्ग इति चेत्, मैवम्। श्लेषस्थल इवात्राप्येकशब्दोपादानोत्थस्य व्यञ्जनस्योपायत्वाद्वैयञ्जनिकबोधस्य बाधबुद्ध्यप्रतिबध्यत्वाच्च। अथ चन्द्रतत्सदृशयोरेवैकपदोपात्तत्वाच्चन्द्रसदृशे चन्द्रतादूप्यस्य प्रत्ययो यथाकथञ्चिदस्तु, न तु मुखत्वविशिष्टे मुखे। अनुभवसिद्धश्च सर्वेषां 'वक्त्रे चन्द्रमसि स्थिते किमपरः शीतांशुरुज्जृम्भते' इत्यादौ विषये विषयितादूप्यस्य प्रत्यय इति सत्यम्। स्वतादूप्यवदभेदबुद्ध्या स्वतादूप्यस्य सुबोधतया तस्मिन्नपि तस्य सिद्धे:' इत्याहुः। उक्तारुचेर्द्वितीयं मतमुपदर्शयति- अन्ये तु-'चन्द्रादिपदेभ्यो लक्षणया चन्द्रसदृशत्वेनापि रूपेणोपस्थितानां मुखादीनां चन्द्रत्वेन रूपेणैव मुखादिपदोपस्थापितैः सहाभेदान्वयबोधो जायते। तत्तत्पदलक्षणाज्ञानस्य तत्तत्पदशक्यतावच्छेदकप्रकारकलक्ष्यान्वयबोधत्वावच्छिन्नं प्रति हेतुतायाः, पदार्थोपस्थितिशाब्दबोधयोः समानाकारत्वस्यानुभवसाक्षिकवैलक्षण्यकलाक्षणिकबोधातिरिक्तविषयतायाश्च कल्पनात्। अत एव गङ्गायां घोष इत्यत्र तटत्वेनाप्युपस्थितस्य तटस्य गङ्गात्वेनान्वयबोधस्तत्प्रयोज्यः शैत्यपावनत्वादिप्रत्ययश्च सङ्गच्छते। प्रकृते तु विषयिचन्द्रादिनिष्ठासाधारणगुणवत्वप्रत्ययः
Page 161
161 फलम्। न हि चन्द्रत्वप्रतीतिं विना मुखे चन्द्रत्वनियतगुणवत्त्वधीः शक्योपपादयितुम्। तादूप्यपदेन तदसाधारणगुणवत्त्वमेव प्राचीनैरुक्तम्। इत्थं च स्वरूपसंवित्तिकृतः फलीभूतसंवित्तिकृतश्चोपमातो रूपकस्य भेद: स्फुट एव' इति वदन्ति। उक्तसामञ्जस्यसाधकं तृतीयं मतमाह- अपरे तु-'भेदकरम्बितं सादृश्यमुपमाजीवातुभूतम्, भेदाकरम्बितं च गणसारोपलक्षणाया इति स्फुटे भेदे कृतं फलकृतवैलक्षण्यपर्यन्तानुधावनेन। पक्षेऽस्मिन्भेदगर्भसादृश्यप्रतिपत्तेस्तादूप्यप्रतीतेः कथं नाम फलं भवितुमीष्टे इत्यनुपपत्तिं परिहर्तुमायासोपि नापततीत्यपरमनुकूलम्' इत्यप्याहुः। प्राचीनमतवर्णनसमाप्तिं सूचयन्नाह- तदित्थं प्राचामाशयो मतभेदेन वर्णितः। खण्डयितुं नवीनमतं प्रपञ्चयति- नव्यास्तु-'मुखं चन्द्र:, वाहीको गौः' इत्यादौ चन्द्रादीनां मुखादिभिः सह संभवति लक्षणां विनैवाभेदेन संसर्गेणान्वयबोधः। बाधनिश्चयप्रतिबध्यतावच्छेदककोटावनाहार्यत्वस्येव शाब्दान्यत्वस्यापि निवेश्यत्वात्। अत एव 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्द: करोति हि' इति प्राचां प्रवादोऽपि संगच्छते। न च 'वहिना सिञ्चिति' इत्यतो वाक्यादपि शाब्दबोधापत्तिः। योग्यताज्ञानविरहात्। मुखं चन्द्र: गौर्वाहीकः इत्यादौ त्विष्टचमत्कारप्रयोजकताज्ञानाधीनाया इच्छायाः सत्त्वादाहार्ययोग्यताज्ञानसाम्राज्यम्। अत एव शाब्दबोधे योग्यताज्ञानस्य कारणत्वोक्तिः प्राचां संगच्छते। मुखं चन्द्र इत्यादौ लक्षणां विनैवाभेदान्वयबोधोपपादकं प्रकारान्तरमाह- आहार्य एव वाऽभेदान्वयबोधोऽस्तु। मास्तु बाध-बुद्धि-प्रतिबध्यतावच्छेदककोटौ शाब्दान्यत्वम्। मा चास्तु शाब्दबुद्धौ योग्यताज्ञानस्य कारणत्वम्। आहार्यं प्रात्यक्षिकमेवेति नियमश्च। उक्तार्थं द्रढयितुमाह- अवश्यं मुखचन्द्र इत्यादौ पराभिमतसारोपलक्षणोदाहरणे वाच्यार्थयोरेवाभेदान्वयोऽभ्युपगन्तव्यः, न तु वाच्य-लक्ष्ययोः। अन्यथा 'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्' 'पादाम्बुजं भवतु मे विजयाय
Page 162
162 मञ्जुमञ्जीरशिञ्जितमनोहरमम्बिकायाः' इत्यादौ क्रमेणोपमारूपकयोरुपमितविशेषणसमा-
रूपकोपमयोः प्राचीनैस्तन्र तत्र निबद्धा विरुद्धा स्यात्। आद्यपद्ये उपमाया इव रूपकस्यापि स्वीकारे बाधकस्य तुल्यतया तन्निर्णायकताया असङ्गतेः। द्वितीयपद्ये रूपकस्यापि स्वीकारे बाधकाभावेन तन्निवर्तकताया अयोगात्। व्यस्तरूपकस्थले लक्षणाया निर्बाधत्वमाशड्क्य खण्डयति- न च मुखचन्द्रादौ समासे क्वचिदस्तु नाम प्रागुक्तरीत्या लक्षणां विनापि बोधोपपत्तिः, व्यासे तु लक्षणाया नास्ति बाधकमिति वाच्यम्। 'कृपया सुधया सिञ्च हरे मां तापमूर्च्छितम्' इत्यादौ व्यासेऽप्यनुपपत्तेः। व्यासेनुपपत्तिपरिहारमाशड्क्य समाधत्ते- न च सिञ्चतेरपि विषयीकरणे लक्षणया नानुपपत्तिः। उत्प्रेक्षाद्यतिरिक्ताति- शयोक्त्यपह्नवादिष्वाहार्यज्ञानेनैवोपपत्तौ लक्षणायां बीजाभावादनुभवविरोधाच्च। उक्तानुभवविरोधस्य विसंवादग्रस्तत्वाद् रूपकस्थले वाच्यार्थयोराहार्याभेदान्वयबोधसाधकं युक्त्यन्तरमाह- अपि चोपमानवाचकस्य चन्द्रादिपदस्य रूपके उपमानसदृशे लक्षणा इति हि प्राचां समयः। तत्र च लक्ष्यतावच्छेदकं सादृश्यम्। तच्च समानधर्मरूपम्। स च लक्ष्यांशे सुन्दरत्वादिना विशेषरूपेण प्रतीयते, उताहो सामान्यरूपेण? नाद्यः। सुन्दरं मुखं चन्द्र इत्यादौ पौनरुक्त्यापत्तेः। न चैवमादावुपात्तधर्मके रूपके तद्धर्मातिरिक्तो धर्म एव लक्ष्यतावच्छेदकीभूतसादृश्यरूप इति वाच्यम्। अनुभवविरोधात्। 'अङ्कितान्यक्षसंघातैः सरोगाणि सदैव हि। शरीरिणां शरीराणि कमलानि न संशयः॥' इत्यादौ श्लेषभित्तिकाभेदाध्यवसितधर्मं विना धर्मान्तरस्य सर्वथैवास्फूर्तेश्च। उपमानपदलक्ष्यतावच्छेदकस्य समानधर्मात्मकस्य सादृश्यस्य लक्ष्यांशे सामान्यरूपेण प्रतीतिरिति द्वितीयकल्पं दूषयितुमाह- नान्त्यः। सादृश्यस्य शब्दोपात्तत्वेनोपमात्वापत्तेः। न च सादृश्यस्य वाच्यतायामेवोपमाव्यपदेशः। 'नलिनप्रतिपक्षमाननम्' इत्यादौ तदभावापत्तेः।
Page 163
163 'नलिनप्रतिपक्षमाननम्' इत्यादौ उपमात्वाभावस्येष्टत्वेऽपि नवीनमतसमर्थकं युक्त्यन्तरमुपदर्शयति- किं च 'विद्वन्मानसंहस-' इत्यादौ श्लिष्टपरम्परितरूपके श्लेषनिष्पत्तौ श्लेषभित्तिकाभेदाध्यवसानेन मानसवासित्वरूपे भूपहंसयोः सादृश्ये सिद्धे सदृशलक्षणामूलस्य भूपे हंसरूपकस्य सिद्धिः। तस्यां च सत्यां सरोमनोरूपार्थद्वयाभिधानलक्षणस्य श्लेषस्य निष्पत्तिरिति परस्पराश्रयः। न हि रूपकास्फूर्तौ सरोरूपेऽर्थे मानसशब्दस्य तात्पर्यं वेदयितुं किंचित्प्रमाणमवतरति। स्फुरिते तु रूपके तद्घटकसादृश्यान्यथानुपपत्तिरूपेण प्रमाणेनार्थद्वयाभेदबोधफलकस्य तदुभयप्रतिपादनात्मनः श्लेषस्य निष्पत्तिः। उपसंहरति अतो नामार्थयोरभेदान्वयसरणिरेव रूपकस्थले रमणीया। प्राचीनाभिमतमन्यदपि दूषयति- 'सदृशलक्षणायाः फलं रूपके तादूप्यप्रत्यय इत्यपि न हृदयङ्गमम्। तत्सदृश इति शब्दात्सादृश्यप्रत्यये सत्यपि तादूप्यप्रत्ययापत्तेः' इत्याहुः। नवीनमतखण्डनोपक्रमं कुरुते- अन्नेदं विचार्यते-यत्तावदुच्यते नामार्थयोरभेदान्वयबोधेनैवोपपत्तौ रूपके नास्ति लक्षणेति, तन्न चमत्कारिसाधारणधर्मानुपस्थितिदशायामुपमालङ्कारस्येव रूपकालङ्कारस्यापि नास्ति निष्पत्तिश्चमत्कारो वेति सकलहृदयसिद्धम्। कथमन्यथा 'भारतं नाकमण्डलम्', 'नगरं विधुमण्डलम्' इत्यादिवाक्यश्रवणानन्तरमनुन्मिषन्त्या रूपकप्रतिपत्तेः सुपर्वालङ्कृत- सकलकलादिशब्दश्रवणोत्तरमेव समुन्मेषः सर्वेषाम्। इत्थमेव च मुखं चन्द्र इत्यादिप्रसिद्धोदाहरणेऽपि, इयांस्तु विशेषः-यदेकत्र साधारणो धर्मः प्रसिद्धतया नियमतः स्वबोधकश्रुतिं नापेक्षते। इतरत्र त्वप्रसिद्धतया तथा। एवं स्थिते साधारणधर्मवत्त्वरूपं सादृश्यं यदि रूपकमध्यं न प्रविशेत्तदा कथमिव धर्मविशेषानुपस्थितिदशायां रूपकं न पर्यवस्येत्। चमत्कारं वा न जनयेत्। उपमानोपमेययोराहार्याभेदबुद्धेरनन्यापेक्षपर्यवसानायाः साम्राज्यात्। साधारणधर्मानुपस्थितिदशायामाहार्याभेदबुद्धेरप्यभाव इत्येतदुपपादिकां युक्तिमाशंक्य निरस्यति-
Page 164
164 न चाहार्यापदार्थद्वयाभेदबुद्धौ तच्चमत्कारे वा साधारणधर्मविशेषज्ञानं प्रयोजकमिति शक्यं वक्तुम्। 'यद्यनुष्णो भवेद्वहिर्यद्यशीतं भवेज्जलम्। मन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक्॥' इत्यादौ साधारणधर्मस्याप्रत्ययेऽपि वहन्यनुष्णत्वादीनामभेदप्रत्ययोपगतेः। न चोपमानोपमेयस्थल एवायं नवीनो विशेष इति वाच्यम्। ईदृशविशेषकल्पने मानाभावात्। साधारणधर्मानुपस्थितिदशायामपि 'मुखं यदि चन्द्रः स्यात् तदा भूम्यवस्थितं न स्यात्' इत्यादौ तादृशप्रतीत्युपगमाच्च। सदृशलक्षणापक्षेऽसङ्गतिमाशङ्क्य समाधत्ते- ननु रूपकप्रतीतेरुपमानाभेदविषयत्वविरहे 'सिंहेन सदृशो नायं किन्तु सिंहो नराधिपः' इत्यादौ निषेध्यविधेययोरसङ्गतिरिति चेत्, न। अनुपदमेव प्राचीनमतद्वयेऽपि रूपके तादूप्यप्रतिपत्तेः स्वीकारस्य प्रतिपादनात्। प्राचीनमते पुनरपरामसङ्गतिमाशड्क्य निरस्यति- अथ विधेयकोटौ प्राचां मते सादृश्यापि प्रविष्टतया तन्निषेधानुपपत्तिस्तथापि स्थितैवेति चेत्, भेदघटितसादृश्यरूपाया उपमाया एव निषेध्यत्वात् तिरोभूतभेदसादृश्यलक्षणस्य रूपकस्य विधेयत्वाच्च नानुपपत्तिः। प्राचीनमते दर्शितामनुपपत्तिं परिहर्तुमाह- यदप्युक्तं रूपके लक्षणास्वीकारे 'राजनारायणम्' इत्यत्र 'पादाम्बुजम्' इत्यत्र चोपमारूपकयोर्बाधकतया रूपकोपमयोर्निर्णायकतया च लक्ष्मीकर्तृकालिङ्गनमञ्जुमञ्जीरशिञ्जितत्वयोरनुपपत्तिः प्राचीनैरुक्ता विरुद्धा स्यादित्यादि, तदपि न। रूपके उपमानतावच्छेदकरूपेण तत्सदृशप्रत्ययस्योपपादितत्वेन 'राजनारायणम्' इत्यादौ विशेषणसमासायत्तस्य रूपकस्य स्वीकारे प्रधानीभूतोत्तरपदार्थस्य नारायणसदृशस्यापि नारायणत्वेनैव प्रतीतेर्लक्ष्मीकर्तृकालिङ्गनकर्मताया अनुपपत्तेरभावात्। उपमाया उपमितिसमासायत्ताया: स्वीकारे तु प्रधानीभूतपूर्वपदार्थस्य राज्ञो राजत्वेनैव प्रत्ययात्तादृशकर्मताया अनुपपत्तेः। 'पादाम्बुजम्' इत्यादावपि रूपकस्य स्वीकारे प्रधानीभूतोत्तरपदस्यास्याम्बुजसदृशस्याम्बुजत्वेनैव प्रतीतेर्मञ्जुमञ्जीरशिञ्जितमनोहरताया
Page 165
165 अनुपपत्तेः। उपमितिसमासायत्तोपमायां तु प्रधानस्य पादस्य पादत्वेनैव प्रतीतस्य नास्ति तस्या अनुपपत्तिरिति न कोऽपि दोषः। 'पादाम्बुजम्' इत्यत्रोक्तरीतेरसम्भवमाशडक्य समाधत्ते- न चोपमितसमासे पूर्वपदार्थस्योपमेयस्योपमेयतावच्छेदकतयैव प्रतीतिरिति न युक्तम्। 'वक्त्रे चन्द्रमसि' इति प्रागुक्तरूपक इवोपमानतादूप्यवदभेदबुद्ध्या तत्तादूप्यस्यात्रापि प्रतिपत्तुं शक्यत्वाल्लक्षणायास्तुल्यत्वादिति वाच्यम्। उपमितिसमासे भेदघटितसादृश्यस्य लक्ष्यकोटिप्रविष्टतया वैलक्षण्यस्य वक्ष्यमाणत्वात्। प्राचीनमते नवीनैरारोपितमनुपपत्त्यन्तरमनूद्य समाधत्ते- यदप्युक्तं सादृश्यस्य शब्देनोपादानादुपमात्वापत्तिरिति तदपि न। भेदाकरम्बितसादृश्यविशिष्टस्य रूपके लक्ष्यत्वादुपमाव्यपदेशस्याप्रसक्तेः 'सादृश्यमुपमा भेदे' इति तत्सिद्धान्तात्। पुनरन्यथा नवीनाभिमतां शङ्कामुत्थाप्य खण्डयति- ननु यत्र भेदघटितसादृश्यवति वक्त्रा लक्षणया मुखं चन्द्र इति प्रयुक्तम् तत्र तथाप्युपमालङ्कारापत्तिः स्थितैवेति चेत्, भेदघटितसादृश्यप्रतिपिपादयिषाकाले लक्षणया तद्वति शब्दप्रयोगस्य विरुद्धत्वात्। लक्षणायास्तादूप्यप्रतिपिपादयिषाधीनत्वात्। न हि प्रयोजनमनुद्दिश्य रूढिव्यतिरिक्तया लक्षणयाऽर्थं प्रतिपादयन्त्यार्याः। भेदतादूप्ययोर्विप्रतिषिद्धत्वेन युगपत्प्रतिपत्तृबुद्ध्युपारोहासंभवाच्च। प्राचीनमते दोषदानाय पुनरन्यथा शङ्कते- अथोपमितसमासे पुरुषव्याघ्र इत्यादावुत्तरपदस्य स्वार्थसदृशे लक्षणैवोपगन्तव्या। अन्यथा बोधकाभावेन समासे सादृश्यप्रत्ययो न स्यात्। न च व्याघ्र इवेतीवशब्दस्तद्वोधक इति वाच्यम्, तस्य समासे संबन्धाभावात्। सति च संबन्धे तन्निवृत्तेरयोगात्, निवर्तकशास्त्रस्याभावात्। विग्रहवाक्यगतस्त्विवशब्दः स्वघटितवाक्यस्योपमाप्रतिपादकत्वं सम्पादयितुमीष्टे, न वाक्यान्तरस्य। तस्य विवरणत्वानुपपत्तेश्च। न हि विवरणीयवाक्यगतशब्दाप्रतिपाद्यस्यार्थस्य विवरणं युज्यते। इत्थञ्च लक्षणाया एवाभ्युपगम्यतया सत्यां च तत्प्रयोजनीभूततादूप्यप्रतिपत्तौ कथमुपमा द्विलुप्ता तत्र प्राचीनैरुक्तेति चेत्। समाधत्ते-
Page 166
166 अत्रोच्यते-उपमितसमासस्य भेदघटितोपमानसादृश्यविशिष्टोपमेये शक्ते- स्तद्घटकीभूतोपमानशब्दस्य भेदघटितसादृश्यविशिष्टे निरूढलक्षणाया वा स्वीकाराददोषः। स्थलान्तरेऽपि उक्तरीतेः स्वीकरणीयतामतिदिशति- इयमेव निपातानामिवादीनां द्योतकतानये मुखं चन्द्र इवेत्यादौ, वाचकलुप्तायामुपमायां च गतिरनुसरणीया। ननु 'पुरुषव्याघ्र'' 'तडिद्गौरी' त्यादौ कथं वाचकलुप्तता, उपमानवाचकपदानामेव लक्षणया सादृश्यप्रतिपादकत्वादित्यत आह-
प्राचीनमतदूषकं नव्यमतोक्तं युक्त्यन्तरं निराकर्तुमाह- यच्च 'विद्वन्मानस' इत्यत्र दूषणमभिहितं तद्ूपकप्रकरणे परिहरिष्यते। दूषणान्तरमपि परिहरति- यदप्युक्तं रूपके सदृशलक्षणायाः फलं तादूप्यप्रत्ययो न युज्यते। तत्सदृश इति शब्दबोधानन्तरमपि तथा प्रत्ययापत्तेरिति, तन्न। तत्सदृश इत्यत्र लक्षणाया अभावेन तादूप्यप्रत्ययस्यापादनायोगात्। तादूप्यप्रत्ययो लक्षणायाः फलमिति प्राचां समयः। महाभाष्यादिग्रन्थानामस्मिन्नेवानुकूलत्वाच्च। नव्यनये तु तेषामाकुलीभावः स्यादिति दिक्। साध्यवसानलक्षणास्थले बोधं विचारयति- 'साध्यवसानायाञ्च 'चन्द्रराजी विराजते' इत्यादौ चन्द्रादिशब्दैर्लक्षणया मुखत्वेनोपस्थितस्यापि मुखादेः शाब्दबोधश्चन्द्रत्वादिना भवति, लक्षणाज्ञानस्यैव माहात्म्यात्' इत्येके। उपस्थितिशाब्दबोधयोः समानाकारत्वनियमे उक्तसङ्कोचास्वीकर्तृमतेनाह- 'लक्षणया मुखत्वेन मुखादेः शाब्दबोधे वृत्ते व्यञ्जनयैकशब्दोपात्तत्वप्रादुर्भूतया चन्द्रत्वेन बोधः' इत्यपरे। उक्तमतद्वये शाब्दबोधे पदार्थभानरीति मतभेदेन दर्शयति- मतद्वयेऽप्यस्मिन् मुखादौ चन्द्रत्वभानसामग्रया मुखत्वादेः स्वधर्मस्य भानं न निवार्यते। इत्थं चैकस्मिन्धर्मिणि चन्द्रत्वादीनां मुखत्वादीनां च साक्षाद् भानमेव सारोपातोऽस्या विच्छेदकम्। अपरे तु 'निवार्यत एव विरुद्धभानसामग्र्या स्वधर्मस्य भानम्।
Page 167
167 रजतत्वभानसामग्र्या शुक्तित्वस्याभानात्' इति वदन्ति। मतेऽस्मिन् विषयतावच्छेदकास्फूर्तिस्तथा। उक्ताशयमेव विशदयति- वस्तुतस्तु साध्यवसानायां विषयतावच्छेदकधर्मभान यदि सहृदयहृदयप्रमाणकम्, तदा तद्वारणाय कारणकल्पनाऽनुचितैव। शुक्तिरजतभानस्थले तु शुक्तित्वेन भाने पुरोवर्तिनि रजतत्वभानं सर्वथैव विरुद्धत्वाद्रजतत्वभानसमये शुक्तित्वभाननिवारणमावश्यकम्। न चेहापि तथा, अनुभवविरुद्धत्वात्। यदि तु तन्न प्रामाणिकं तदा सोचितैव। लक्षणानिरूपणानन्तरमिदानीमलङ्कारनिरूपणं प्रतिजानीते- अथास्य प्रागभिहितलक्षणस्य काव्यात्मनो व्यङ्ग्यस्य रमणीयताप्रयोजका अलङ्कारा निरूप्यन्ते- अलङ्कारेषु सर्वतः प्रथममुपमालङ्कारविचारः सयुक्तिकमवतार्यते- तन्रापि विपुलालङ्कारान्तर्वर्तिन्युपमा तावद्विचार्यते- उपमालङ्कारस्य लक्षणं लिख्यते- सादृश्यं सुन्दरं वाक्यार्थोपस्कारमुपमालङ्कृतिः। लक्षणघटकं 'सुन्दर' पदं स्वयं व्याचष्टे- सौन्दर्यं च चमत्कृत्याधायकत्वम्। चमत्कृतिरानन्दविशेषः सहृदयहृदयप्रमाणकः। पदकृत्यं दर्शयति- अनन्वये च 'गगनं गगनाकारम्' इत्यादौ सादृश्यस्य द्वितीयसब्रह्म- चारिनिवर्तनमात्रार्थमुपात्तत्वेन स्वयमप्रतिष्ठानादचमत्कारितैव। अत एव तस्यान्वयाभावादनन्वयं तमाहुः। व्यतिरेके 'तवाननस्य तुलनां दधातु जलजं कथम्' इत्यादौ चमत्कारिणो निषेधस्य निरूपणाय प्रतियोगिनः सादृश्यस्य निरूपणमचमत्कारकमेव। एवमभेदप्रधानेष्वपि रूपकापहु तिपरिणामभ्रान्तिमदुल्लेखादिषु, भेदप्रधानेषु दृष्टान्तप्रतिवस्तूपमादीपकतुल्ययोगितादिषु चमत्कारिषु तत्तन्निष्पादकतयावस्थितस्यापि सादृश्यस्य चमत्कारिताविरहेण नास्त्युपमालङ्कृतित्वम्। प्रतीते उपमेयोपमायाञ्चातिव्याप्तिमाशड्क्येष्टापत्त्या परिहरति- मुखमिव चन्द्र इति प्रतीपे, चन्द्र इव मुखं मुखमिव चन्द्र इत्युपमेयोपमायां च सादृश्यस्य चमत्कारित्वान्नातिप्रसङ्ग: शङ्कनीयः तयोः सङ्ग्राह्यत्वात्।
Page 168
168 उक्तोपमालक्षणस्याव्याप्तिमाशड्क्य निरस्यति- ननु 'त्वयि कोपो ममाभाति सुधांशाविव पावकः' इत्यादावुपमानस्या- त्यन्तमसम्भावितत्वात्सादृश्यमेव न तावत्प्रतिपत्तु शक्यम्, चमत्कारस्तु पुनः केन स्यादिति चेत्, कविना हि खण्डशः पदार्थोपस्थितिमतास्वेच्छया सम्भावितत्वेनाकारेण चन्द्राधिकरणकमनलं प्रकल्प्य तेन सह साम्यस्यापि कल्पने बाधकाभावात्। कल्पितमसत्सादृश्यं कथं चमत्कारजनकमिति तु न वाच्यम्, परमसुकुमारीभवत्कनकनिर्मिताङ्ग्या मणिमयदशनकान्तिनिर्वासितध्वान्तायाः कान्ताया भावनया पुरोऽवस्थापिताया आलिङ्गनस्याह्लादजनकत्वदर्शनात्। उपमानोपमेययोः सत्यत्वस्य लक्षणे प्रवेशाभावान्नान्न दोषलेशोऽपि। कल्पितोपमानोपमेयभावविशिष्टं स्थलान्तरमपि दर्शयति- अत एव 'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः। शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः॥' इत्यादावपि नानुपपत्तिः। एतादृशस्थलेऽन्यत्र वर्णितं मतान्तरमुल्लिख्य खण्डयति- परे तु अस्याः कल्पितोपमाया उपमानान्तराभावफलकत्वेनालङ्कारान्तरतामाहुः। तन्न। सादृश्यस्य चमत्कारितयोपमान्तर्भावस्यैवोचितत्वात्, सन्निरूपितत्वस्य लक्षणे प्रवेशाभावात्। उपमानान्तराभावफलकत्वं ह्युपमाविशेषत्वे साधकम्, न तूपमाबहिर्भावे। शङ्कते- अथ 'विलसत्याननं तस्या नासाग्रस्थितमौक्तिकम्। आलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम् ॥' इत्यादौ साधारणधर्मस्याभावात् कथमुपमानिष्पत्तिः? बुधमौक्तिकयोरेकैकमात्रवृत्तित्वात्। उक्ताशङ्काया असत्समाधानद्वयं तावत् प्रतिपाद्य खण्डयति- न चात्र यदि नासाग्रस्थितमौक्तिकं तस्या आननमालक्षितबुधाश्लेषं राकेन्दोर्मण्डलमिव विलसतीति तादृशराकेन्दुमण्डलनिरूपितसादृश्यप्रयोजक-विलासाश्रयस्तादृशमाननमिति तात्पर्यं तदा विपूर्वकलसत्यर्थशोभाविशेष एव समानो धर्मः। यदि च
Page 169
169 तादृशमिन्दुमण्डलमिव यत्तादृशमाननं तद् विलसतीति तादृशसादृश्यतावच्छिन्नमाननमुद्दिश्य विलासाश्रयत्वं विधेयतया विवक्ष्यते तदास्या लुप्तोपमात्वात्पद्ममिव मुखमित्यादाविवाह्लादकत्वादिधर्म उन्नेय इति वाच्यम्। उपमानोपमेयशोभयोरपि वस्तुतोऽसाधारणत्वात्। 'कोमलातपशोणाभ्रसन्ध्याकालसहोदरः। कषायवसनो याति कुङ्कमालेपनो यतिः॥' इत्यादौ धर्मान्तरस्याप्रतिभानादसुन्दरत्वाच्च कोमलातपादीनामसाधारणत्वा-त्कथमुपमेति चेत्, इदानीं सिद्धान्तभूतं समाधानं लिख्यते- अत्राहु :- उपमेयगतानामुपमानगतानां चासाधारणानामपि धर्माणां सादृश्यमूलेनाभेदाध्यवसायेन साधारणत्वकल्पनादुपमासिद्धिः। पुनरुक्तस्थलेषु उपमाया असिद्धिमन्यप्रकारेणाशड्क्य समाधत्ते- न च भ्रमात्मकेनाहार्याभेदबोधेन कथं नाम कुङ्कमालेपकोमलातपादीनां वस्तुतो भिन्नानां साधारणत्वसिद्धयेऽत्यन्तमसन्नभेदः सेद्धुं शक्नुयात्, भ्रमेणार्थसिद्धेरभावादिति वाच्यम्। प्रागुक्तेऽपि 'त्वयि कोपो ममाभाति सुधांशाविव पावकः' इत्यादावुपमानोपमेययोरत्यन्तासत्त्वेऽपि कल्पनामात्रतो यथा निष्पत्तिस्तथैव प्रकृते साधारणधर्मस्यापीति व्यक्तमुपपादयिष्यामः। विशेषमाह- अयमेव बिम्बप्रतिबिम्बभाव इति प्राचिनैरभिधीयते। प्रागुक्तरीत्योदाहरणान्तरेऽप्युपमासिद्धिं दर्शयति- एवम् 'भुजो भगवतो भाति चञ्चच्चाणूरचूर्णने। जगन्मण्डलसंहारे वेगवानिव धूर्जटिः।।' अत्र धूर्जटिभगवद्भुजयोराकारेण सादृश्याभावात्प्रकारनिर्मुक्तस्य केवलभानस्याप्रयोजकतया चाणूरचूर्णननिमित्तकचाञ्चल्यवत्त्वजगन्मण्डलसंहारनिमित्तक- वेगवत्त्वयोरभेदाध्यवसानेनाभिन्नधर्मप्रकारकभानविशेष्यत्वस्य साधारणधर्मस्य सिद्धेरुपमासिद्धिः।
Page 170
170 अत्र विशेषामाह- तत्र चाणूरजगन्मण्डलयोर्वस्तुतो भिन्नयोर्महाकायत्वादिना सादृश्याद्-बिम्बप्रतिबिम्बभावः। चूर्णनसंहारयोश्चाञ्चल्यवेगवत्त्वयोस्त्वाश्रयभेदाद्भिन्नयोरपि वस्तुत एकरूपतैवेति वस्तुप्रतिवस्तुभावः। लक्षणनिरूपणमुपसंहरति- इत्येवं निरूपितमुपमालक्षणम्। उदाहरणनिरूपणं प्रतिजानीते- अथेयमुदाह्नियते- उदाहरणं प्रदर्शयति-
दलदरविन्दसुन्दरं हा हरिणदृशो नयनं न विस्मरामि।।' उपपादयति- अत्र दलदरविन्दशब्दस्योपमानवाचकस्य सुन्दरशब्देन सामान्यवचनेन समासे प्रतीयमानोपमा सकलवाक्यार्थस्य विप्रलम्भशृङ्गारस्य स्मृत्युपस्करणद्वारोपस्कारकतयालङ्कारः। आशड्क्य समाधत्ते- न चात्र स्मृतिः प्रधानतया ध्वन्यत इति वक्तुं शक्यम्, न विस्मरामीति स्मृत्यभावनिषेधमुखेन स्फुटमावेदनात्। नापि पूर्वार्धगतत्रासौत्सुक्ययोः परस्पराभिभवकामयोः सन्धिः प्रधानम, तस्य नायिकागतत्वेनानुवाद्यत्वात्, उत्तरार्धगतस्मृत्यङ्गत्वाच्च। निष्कृष्टार्थमाह- तस्माद् भावसन्ध्युपमालङ्काराभ्यामुपस्कृता स्मृतिर्हापदगम्यः सन्तापोऽनुभावश्च विप्रलम्भमेवोपस्कुरुत इति तस्यैवात्र प्राधान्यम्।
अप्पय्यदीक्षिताः पुनश्चित्रमीमांसायाम्-
Page 171
171 सादृश्यवर्णनं वा तथाभूतं तथा' इति लक्षणद्वयमाहुः। तच्चिन्त्यम्। वर्णनस्य विलक्षणशब्दात्मकस्य विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविरहेणार्थालङ्कारताया बाधात्। तस्य सर्वथैवाव्यङ्ग्यत्वादव्यड्ग्यत्वविशेषणवैयर्थ्याच्च। दीक्षितलक्षणस्य सङ्गतिमाशड्क्य निराचष्टे- अथ यदि वर्णनविषयीभूतं तादृशसादृश्यमुपमेत्युच्यते, तदा यथा गौस्तथा गवय इत्यत्रोपमालङ्कारापत्तेः। एवं 'कालोपसर्जने च तुल्यम्' इत्यादावपि। अशिष्यत्वादिना प्रधानप्रत्ययार्थवचनसादृश्यस्यात्रापि प्रतिपादनात्। द्वितीयदोषवारणमाशड्क्य निराकरोति- न चात्र वचनभेदस्य दोषस्य सत्त्वाददुष्टत्वविशेषणेन वारणं भविष्यतीति वाच्यम्। एतद्वाक्योपप्लुतवाक्यान्तरप्रतिपादितैकोपमेयके सादृश्ये तथाप्यतिप्रसङ्गात्। दीक्षितोक्तलक्षणसङ्गतिसम्पादनाय, प्रोक्तसकलदोषनिरासमुपपाद्य पुनरन्यदोषं दूढीकरोति- न चात्रोपमितिक्रियाया निष्पत्तावपि न सादृश्यवर्णनम्, विषयस्याचमत्कारित्वात्, चमत्कारविषयककविव्यापारस्यैव वर्णनपदार्थत्वादिति वाच्यम्। एवं हि चमत्कारित्वस्य लक्षणेऽवश्यं निवेश्यत्वेनोपमितिक्रियानिष्पत्तिविशेषणस्य वैयर्थ्यात्। न ह्मनिष्पन्नमापाततः प्रतीयमानं सादृश्यं चमत्कृतिमाधत्ते। एवं द्वीतीयलक्षणेऽपि निषेधापर्यवसायित्वं निरर्थकम् । व्यतिरेके कमलादि-सादृश्यनिषेधस्यानन्वये च सर्वथा सादृश्यनिषेधस्य चमत्कारितया तदर्थं सादृश्यस्य निरूपणमिति प्रागेवाभिधानात्। ननु 'उपमितिक्रियानिष्पत्तिमत् 'स्वनिषेधापर्यवसायी' ति विशेषणद्वयं न लक्षणशरीरघटकम् , अपि तु 'अत्रत्यवर्णनपदस्य चमत्कारजनकज्ञानविषयीभूतानुयोगिक सादृश्यं लक्षणप्रविष्ट 'मित्यर्थे तात्पर्यग्राहकम्, तथा च न तद्वैयर्थ्यमापाद्यतामर्हतीत्यतो दोषान्तरमह- किञ्च 'स्तनाभोगे पतन्भाति कपोलात् कुटिलोऽलकः। शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः॥' इत्यादौ मुख्यवाक्यार्थत्वेनानलङ्कारभूतायामुपमायामतिव्याप्तिः। उपमिति- क्रियानिषत्तिमत्सादृश्यवर्णनस्यादुष्टाव्यङ्ग्यत्वस्य चात्रापि सत्त्वात्। न चेयमप्युपमा लक्ष्येति वाच्यम्। ध्वन्यमानोपमानिवारणप्रयासस्य वैयर्थ्यापत्तेः। न ह्यन्नाभेदप्रधानोत्प्रेक्षा शक्या वक्तुम्। कल्पितोपमाया निर्विषयत्वप्रसङ्गात्।
Page 172
172 'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः। क्रियानिष्पत्तिपर्यन्तमुपमालङ्कृतिस्तु सा ।।' इति स्वकृतसूत्रे ऽलङ्कारभूतोपमाया एव लक्ष्यत्वेनाभिधानात्। अलङ्कारभूतोपमालक्षणत्वे तदेवादुष्टाव्यङ्ग्यत्वविशेषितमिति तत्रैव पुनरभिधानाच्च। न ह्यत्रोपमानोपमेयसादृश्यादुपमास्वरूपादस्ति कश्चिदतिरिक्तो वाक्यार्थः, येनोपमा तमलङ्कर्यात्
ननु अलङ्करोतीति योगबोधितोपस्कारकत्वस्यालङ्कारसामान्यस्वरूपत्वेन विशेषलक्षणेषु तदनिविशेऽपि क्षत्यभाव :- अर्थात् अलङ्कारपदयोगार्थशून्ये लक्ष्ये पूर्वोक्तातिव्याप्तिर्न संभवदुक्तिकेत्यत आह- अपि च लक्षणे सादृश्यविशेषणं निरर्थकम्। 'उपमितिक्रियानिष्पत्तिमद् वर्णनमुपमा' इत्येतावतैव स्वाभीष्टार्थलाभात्। विद्यानाथोक्तमुपमालक्षणमालोचयति- एवम्-'स्वतःसिद्धेन भिन्नेन सम्मतेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा॥' इति विद्यानाथोक्तं लक्षणमपास्तम्। व्यतिरेके निषेधप्रतियोगिनि सादृश्येऽतिव्याप्तेः। अन्यदपि प्राचीनोक्तं लक्षणं पर्यालोचयति-
हृद्यं साधर्म्यमुपमेत्युच्यते काव्यवेदिभिः॥' इति प्राचामपि लक्षणं प्रत्युक्तम्। हृद्यतामात्रेण निर्वाहे विशेषणान्तरवैयर्थ्यात्। मम्मटोक्तं लक्षणं परीक्षते- एवं काव्यप्रकाशोक्तमपि 'साधर्म्यमुपमा भेदे' इति लक्षणं नातीव रमणीयम्। व्यतिरेके निषेधप्रतियोगिनि सादृश्येऽतिव्यापनात्। न च पर्यवसितत्वेन साधर्म्यं विशेषणीयमिति वाच्यम्। अनन्वयस्थसादृश्यस्यापर्यवसायित्वेनैव वारणे भेदविशेषणवैयर्थ्यापत्तेः। काव्यालङ्कारप्रस्तावे लौकिकालौकिकप्रधान- वाच्यव्यङ््योपमासामान्यलक्षणकरणानौचित्याच्च। उक्तयुक्त्यैवालङ्कारसर्वस्वोक्तं लक्षणं खण्डयति- अत एव 'भेदाभेदतुल्यत्वे साधर्म्यमुपमा' इत्यलङ्कारसर्वस्वोक्तमपि लक्षणं तथैव।
Page 173
173 अपरमपि लक्षणं पर्यालोचयति एवं 'प्रसिद्धगुणेनोपमानेनाप्रसिद्धगुणस्योपमेयस्य सादृश्यमुपमा' इत्यलङ्काररत्नाकरोक्तमपि न भव्यम्। श्लेषमूलकोपमायां तादृशशब्दात्मकस्य धर्मस्य कविनैव कल्पनात् तेन रूपेणोपमानस्याप्रसिद्धेश्च। परकीयलक्षणपर्यालोचनसमाप्तिं सूचयति- इत्यलं परकीयदूषणगवेषणया। पुनः प्रकृतानुसरणं सूचयति- प्रकृतमनुसरामः। प्राचीनाभिमतोपमाभेदानामुदाहरणप्रदर्शनं प्रतिजानीते- अस्याश्चोपमायाः प्राचामनुसारेण केचिद् भेदा उदाह्ियन्ते। उपमाभेदान् प्राचीनाभिमतान् प्रदर्शयति- तथा हि-उपमा द्विविधा, पूर्णा लुप्ता च। पूर्णा तत्र-श्रौती आर्थी चेति द्विधा भवन्ती वाक्य-समास-तद्धितगामिताया षोढा। लुप्ता च-उपमानलुप्ता, धर्मलुप्ता, वाचकलुप्ता, धर्मोपमानलुप्ता, वाचकधर्मलुप्ता, वाचकोपमेयलुप्ता, धर्मोपमानवाचकलुप्तेति तावत्सप्तविधा, तत्रोपमानलुप्ता-वाक्यगा समासगा चेति द्विविधा। धर्मलुप्ता समासगता- श्रौती, आर्थी। वाक्यगता-श्रौती, आर्थी। तद्धितगता च-आर्थ्येव, न श्रौती। इति पञ्चविधा। वाचकलुप्ता-समासगता, कर्मक्यज्गता, आधारक्यज्गता, क्यङ्गता, कर्मणमुल्गता, कर्तृणमुल्गता चेति षड्विधा। धर्मोपमानलुप्ता-वाक्यगता, समासगता चेति द्विविधा। वाचकधर्मलुप्ता क्विब्गता समासगता चेति द्विविधैव। वाचकोपमेयलुप्ता त्वेकविधा। धर्मोपमानवाचकलुप्ता तु समासगतैकविधा। इति। प्राचीनाभिमतभेदसंख्यासङ्कलनं कुरुते- एवं साकल्येनैकोनविंशतिर्लुप्ताभेदाः पूर्णाभेदैः सह पञ्चविंशतिः क्रमेणोदाह्ियन्ते। वाक्यगतां श्रौतीं पूर्णोपमामुदाहरति- तत्र पूर्णा श्रौती वाक्यगता यथा- 'ग्रीष्मचण्डकरमण्डलभीष्मज्वालसंसरणतापितमूर्तेः। प्रावृषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः॥' उपपादयति-
Page 174
174 अन्र प्रावृषेण्य इत्यनेन वारिधरविशेषणेन नैराकाङ्क्ष्यात्, इवेन समास इत्येव पाठान्नित्यत्वाभावाद् वारिधरेणापि नेवस्य समासः। एषा चोपमानोपमेययोर्वारिधरभगवतोर्वेदनाहरणकर्तृत्वस्य साधारणधर्मस्य सादृश्यबोधकस्येवशब्दस्य चाभिधानात्पूर्णा सादृश्यस्य श्रुत्या बोधनाच्छ्रौती। वाक्यगतामार्थी पूर्णोपमामुदाहर्तुमाह- पूर्णा आर्थी वाक्यगता यथा- उदाहरति- 'प्राणापहरणेनासि तुल्यो हालाहलेन मे। शशाङ्क केन मुग्धेन सुधांशुरिति भाषितः॥।' समासगतां श्रौतीं पूर्णोपमामुदाहर्तुमाह- पूर्णा श्रौती समासगा यथा- उदाहरणं निर्दिशति- 'हरिचरणकमलनखगणकिरणश्रेणीव निर्मला नितराम्। शिशिरयतु लोचनं मे देवव्रतपुत्रिणी देवी॥' उपपादयति- अन्नेवेन समास:। समासगामार्थीं पूर्णोपमामुदाहर्तुमाह- पूर्णा आर्थी समासगा यथा- उदाहरणं निर्दिश्यते- 'आनन्दनेन लोकानामातापहरणेन च। कलाधरतया चापि राजन्निन्दूपमो भवान् ॥' श्रौतीमार्थीञ्च तद्धितगतां पूर्णोपमामुदाहर्तुमाह- पूर्णा श्रौती आर्थी च तद्धितगा यथा- उदाहरणं निर्दिश्यते- 'निखिलजगन्महनीया यस्याभा नवपयोधरवत्। अम्बुजवद्विपुलतरे नयने तद्ब्रह्म संश्रये सगुणम् ॥' उपपादयति-
Page 175
175 अन्र पूर्वार्धे वतेः 'तत्र तस्येव' इति सादृश्ये विधानाच्छ्रौती उत्तरार्धे 'तेन तुल्यम्' इति विधानात्सादृश्यवदर्थकतया आर्थी। पूर्णोपमोदाहरणप्रदर्शनानन्तरमिदानीं लुप्तोपमोदाहरणप्रदर्शनप्रसङ्गे प्रथमं वाक्यगतामुपमानलुप्तोपमामुदाहर्तुमाह- उपमानलुप्ता वाक्यगा यथा- उदाहरणं निर्दिश्यते- 'यस्य तुलामधिरोहसि लोकोत्तरवर्णपरिमलोद्गारैः। कुसुमकुलतिलक चम्पक न वयं तं जातु जानीमः॥।' अल्पव्यत्यासेन इदमेव पद्यं समासगताया अपि तस्या उदाहरणं सम्भवतीति प्रतिपादयति- यत्तुलनामधिरोहसीत्याद्यचरणनिर्माणे इयमेव समासगा। अन्रालङ्कारान्तरत्वमाशङ्क्य निरस्यति- उपमानाभावेन सादृश्याभावस्य पर्यवसानात्सादृश्यपर्यवसानस्य चोपमाजीवितत्वादलङ्कारान्तरमेवात्र नोपमानलुप्तेति नाशङ्कनीयम्। यस्य तुलामारोहसि न तं वयं जानीम इत्युक्त्या अस्माकमसर्वज्ञत्वादस्मदगोचरः कोऽपि तवोपमानं भविष्यतीति सादृश्यपर्यवसानमस्तीत्युपमानलुप्तैवेयमुपमा नालङ्कारान्तरम्। प्राचीनोक्तिं खण्डयति- एतेन 'ढुंढुणंतो हि मरीहसि कंटककलिआइं के अइवणाइं। मालइकुसुमसरिच्छं भमर भमंतो न पावहिसि॥' इत्यत्रासमालङ्कारोऽयमुपमातिरिक्त इति वदन्तोऽलङ्काररत्नाकरादयः परास्ताः। श्रौतीं वाक्यगतां धर्मलुप्तोपमामुदाहर्तुमाह- धर्मलुप्ता श्रौती वाक्यगता यथा- उदाहरणं निर्दिश्यते- 'कलाधरस्येव कलावशिष्टां विलूनमूला लवलीलतेव। अशोकमूलं परिपूर्णशोका सा रामयोषा चिरमध्युवास ॥' धर्मलुप्तामधिकृत्य विचारमेकं प्रस्तौति-
Page 176
176 'ग्रीष्मचण्डकरमण्डल' इति प्रागुदाहृते पूर्णाया उदाहरणे प्रावृषेण्यो वारिधर इव यो वृष्णिवरेण्यः स मे वेदनां हरत्विति वृष्णिवरेण्यमात्रगतत्वेन वेदनाहरणकर्तृत्वं विवक्षितम्, वारिधरसादृश्यं च श्यामत्वादिना यदि, तदा तत्राप्येषा बोध्या। तत्र पूर्णोपमास्वीकारे लुप्तोपमास्वीकारे च यो विशेषस्तं दर्शयति- इयांस्तु विशेष :- यत्पूर्णायां वृष्णिवरेण्यमात्रमुद्दिश्य प्रावृषेण्यवारिधरसादृश्यप्रयोजकं तादृशवारिधरसादृश्याभिन्नं वा वेदनाहरणकर्तृत्वं विधेयमित्युपमाविधेयिका धीः। धर्मलुप्तायां तु वारिधरसादृश्यावच्छिन्नवृष्णिवरेण्यमुद्दिश्य वेदनाहरणकर्तृत्वमात्रं विधेयमित्युपमोद्देश्यतावच्छेदिका। वाक्यगतामार्थी धर्मलुप्तोपमामुदाहर्तुमाह- धर्मलुप्ता आर्थी वाक्यगता यथा- उदाहरणं निर्दिश्यते- 'कोपेऽपि वदनं तन्वि तुल्यं कोकनदेन ते। उत्तमानां विकारेऽपि नापैति रमणीयता ।' एकस्मिन्नेव पद्ये समासगतां श्रौतीम्, आर्थीम्, तद्धितगतामार्थीञ्च धर्मलुप्तोपमामुदाहर्तुमाह- धर्मलुप्ता समासगा श्रौत्यार्थी तद्धितगार्थी च यथा- उदाहरणं निर्दिश्यते- 'सुधेव वाणी वसुधेव मूर्तिः सुधाकरश्रीसदृशी च कीर्तिः। पयोधिकल्पा मतिरासफेन्दोर्महीतलेऽन्यस्य नहीति मन्ये ॥' ननु कल्पप्प्रत्ययस्येषदसमाप्त्यर्थे विधानात् कथं 'पयोधिकल्पे त्यंशे उपमा, सादृश्यस्य तत्स्वरूपत्वादित्यत आह- ईषदसमाप्तिरपि भड्ग्यन्तरेण सादृश्यमेव। समासगतां वाचकलुप्तोपमां दर्शयति- वाचकलुप्ता समासगा-'दलदरविन्दसुन्दरम्' इति प्रागुदाहते पद्ये। वाचकलुप्ताया भेदान्तराण्युदाहर्तुमाह- कर्माधारक्यज्गता क्यङ्गतां च यथा- उदाहरणं निर्दिश्यते-
Page 177
177 'मलयानिलमनलीयति मणिभवने काननीयति क्षणतः। विरहेण विकलहृदया निर्जलमीनायते महिला॥' उपपादयति- अन्नानलमिवाचरतीत्यर्थेऽनलशब्दात् 'उपमानादाचारे' इति सूत्रेण, कानन इवाचरतीत्यर्थे काननशब्दाच्च तत्सूत्रस्थेन 'अधिकरणाच्च' इति वार्तिकेन क्यच्। निर्जलमीनशब्दाच्च 'कर्तुः क्यङ् सलोपश्च' इति क्यङ्। ननु कर्थमिह वाचकलुप्तात्वम्, क्यच्क्यड्प्रत्यययोर्वाचकयोर्वर्तमानत्वादित्यत आह- आचारमात्रार्थकतया क्यच्क्यडोः प्रकृत्यैव लक्षणया स्वस्वार्थसादृश्यप्रतिपत्तिरिति नये सादृश्यवाचकाभावाद् वाचकलुप्ता।
सादृश्यसादृश्यविशिष्टमात्रवाचकाभावाद्वाचकलुप्ता। वाचकलुप्तोपमाया एव भेदान्तरमुदाहर्तुमाह- कर्तृकर्मणमुल्गता यथा- उदाहरणं निर्दिश्यते- 'निरपायं सुधापायं पयस्तव पिबन्ति ये। जहुजे निर्जरावासं वसन्ति भुवि ते नराः॥' उपपादयति- अन्न सुधापायमिति सुधामिव, निर्जरावासमिति निर्जरा इवेति 'उपमानात् कर्मणि च' इति कर्मणि चकारात्कर्तर्युपमाने उपपदे णमुल्। एवमेकलुप्तामुदाहृत्य द्विलुप्तामुदाहर्तुमाह- धर्मोपमानलुप्ता वाक्यगा समासगा च यथा- उदाहरणं निर्दिश्यते- 'गाहितमखिलं विपिनं परितो दृष्टाश्च विटपिनः सर्वे। सहकार न प्रपेदे मधुपेन तथापि समं जगति॥' उक्ताकारके 'गाहितम् ..... ' इत्यादिपद्ये उपमाया वाक्यगतत्वमेव । तथा च अवतरणे 'समासगा चे ति कथनं विरुद्धम, अतः पाठान्तरेण समासगतत्वमुपपादयति-
Page 178
178 'तथापि ते समम्' इति हित्वा 'भवत्समम्' इति यद्यार्या शुद्धैव विधीयते तदेदमेवोदाहरणं समासगायाः। वाचकधर्मलुप्तोपमामुदाहर्तुमाह- वाचकधर्मलुप्ता क्विब्गता यथा- उदाहरणं निर्दिश्यते- 'कुचकलशेष्वबलानामलकायामथ पयोनिधेः पुलिने। क्षितिपाल कीर्तयस्ते हारन्ति हरन्ति हीरन्ति॥' उपपादयति अत्र हारहरहीरशब्दा आचारार्थके क्विपि लुप्ते धातवः। तत्र हारादिशब्दा लक्षणया हारादिसादृश्यं बोधयन्ति। लुप्तोऽपि स्मृतः क्विबाचारमिति पक्षे वाचकधर्मलोपः स्पष्ट एव। हारादिशब्दा एव लक्षणया तादृशसादृश्याभिन्नामाचारमिति पक्षे सादृश्यस्येव धर्मस्यापि तन्मात्रबोधकाभावाल्लोप एव। वाचकधर्मलुप्तोपमाया भेदान्तरमुदाहर्तुमाह- वाचकधर्मलुप्ता समासगा यथा- उदाहरणं निर्दिश्यते- शोणाधरांशुसंभिन्नास्तन्वि ते वदनाम्बुजे। केसरा इव काशन्ते कान्तदन्तालिकान्तयः॥' उपपादयति- अत्र वदनाम्बुजयोरभेदविवक्षया विशेषणसमासे दन्तालिकान्तीनां केसर- सादृश्योक्तिरसङ्गता स्यात्। यतो ह्यम्बुजतादात्म्यसाधकं दन्तालिकान्तीनां केसरतादात्म्यं न तु केसरसादृश्यम्। उपमितसमासे तु वदनाम्बुजयोर्धर्मिणोरौपम्ये केसरदन्तालिकान्तीनामपि तद्दर्माणामौपम्योक्तिरुचितैव। अतोऽधिकरणतावच्छेदकोपमामादाय वाचकधर्मलुप्तोदाहता। विधेयतावच्छेदिका तु पूर्णैव
भेदान्तराण्युदाहर्तुमाह- वाचकोपमेयलुप्ता क्यज्गता धर्मोपमानवाचकलुप्ता समासगा च यथा- उदाहरणं निर्दिश्यते-
Page 179
179 'तया तिलोत्तमीयन्त्या मृगशावकचक्षुषा। ममायं मानुषो लोको नाकलोक इवाभवत् ॥' उपपादयति- तिलोत्तमीयन्त्येति तिलोत्तमामिवात्मानमाचरन्त्येत्याचारार्थके क्यचि तिलोत्तमापदस्य तिलोत्तमासादृश्ये लाक्षणिकतया वाचकस्य, स्फुटत्वेन प्रतीयमानतया आत्मन उपमेयस्य चानुपादानाल्लोपः। स्वयं तु सा नोपमेया। आचारकर्मण उपमानस्य तिलोत्तमारूपस्य तत्क्त्र्यामुपमेयायामुपमानत्वासङ्गतेः। अत आत्मैवात्रोपमेयतयोन्नेयः। मृगशावकचक्षुषेति मृगशावकस्य चक्षुषी इव चक्षुषी अस्या इति 'सप्तम्युपमानपूर्वस्य' इति समासोत्तरपदलोपौ। मृगशावकपदस्य मृगशावकचक्षुःसदृशलाक्षणिकत्वपक्षे वृत्तेर्विशिष्टार्थवाचकतापक्षेऽपि स्वस्वमात्रबोधकपदाभावात्त्रयाणां लोपः। प्राचीनाभिमतोपमाभेदानां सङ्कलनं कुरुते- इति पञ्चविंशतिरुपमाभेदाः। उक्तपञ्चविंशतिभेदेभ्योऽन्यानपि भेदान् अन्यैरुक्तान् प्रदर्शयति- इहान्यानपि भेदानन्ये निगदन्ति-वाचकलुप्ता षड्विधोपवर्णिता। कर्तर्युपमाने' इति णिनौ सप्तम्यपि दृश्यते। कोकिल इवालपति कोकिलालापिनीति। तथाष्टम्यपि-'इवे प्रतिकृतो' इति कनि 'लुम्मनुष्ये' इति लुपि चञ्चेवेत्यर्थे 'चञ्चा पुरुषः सोऽयं यः स्वहितं नैव जानीते' इत्यत्र। नवम्यपि-आचारक्विपि पदान्तरेण प्रतिपादिते समाने धर्मे दृश्यते। 'आह्लादि वदनं तस्याः शरद्राकामृगाङ्कति' इत्यादौ। उपमानलुप्तोपमाया भेदान्तरं दर्शयति- उपमानलुप्ता वाक्यसमासयोर्द्विविधोपवर्णिता, तृतीयापि दृश्यते- 'यच्चोराणामस्य च समागमो यच्च तैर्वधोऽस्य कृतः। उपनतमेतदकस्मादासीत्तत्काकतालीयम् ।।' इत्यत्र काकतालशब्दयोर्लक्षणया काकागमनतालपतनबोधकयोरिवार्थे 'समासाच्च तद्विषयात्' इति ज्ञापकात्समासे काक इव ताल इव काकतालमिति काकतालसमागमसदृशश्चोराणामस्य च समागम इत्यर्थः। ततः काकतालमिवेति द्वितीय इवार्थे पूर्वोक्तेनैव सूत्रेण छप्रत्यये तालपतनजन्यकाकवधसदृशश्चोरकर्तृको देवदत्तवध इत्येवं स्थिते प्रत्ययार्थोपमायामुपमानस्य तालपतनजन्यकाकवधस्यानुपादानादुपमानलुप्ता।
Page 180
180 प्राचीनैरनुक्तमेकं भेदं प्रदर्शयति- वाचकोपमानलुप्ता तु नाम्नैव न निर्दिष्टा। साप्यत्र प्रकृत्यर्थे दृश्यते भेदान्तरं प्रकटयति- धर्मोपमानलुप्ता वाक्यसमासयोर्द्विविधैवोक्ता। सा चात्रापि तृतीयचरणो-क्तधर्मनिरासे प्रत्ययार्थे दृष्टा। भेदान्तरं प्रतिपादयति- वाचकधर्मलुप्ता क्विप्समासयोर्द्वयोरेव कथिता। सापि 'चञ्चा पुरुष सोयं योऽत्यन्तं विषयवासनाधीनः' इत्यत्र स्वहिताकरणरूपस्य धर्मस्यानुपादाने कनो लोपे विलोक्यते। उपसंहरति- एवं च द्वान्निंशद् भेदाः। प्राचीनोक्तभेदानालोचयति- अन्नेदमवधेयम्-कर्माधारक्यचि क्यडि च वाचकलुप्तोदाहरणं प्राचाम-सङ्गतमिव प्रतीयते धर्मलोपस्यापि तत्र संभावात्। न च क्यजाद्यर्थ आचार एव साधारणधर्मोऽस्तीति वक्तव्यम् । धर्ममात्ररूपस्याचारस्योपमा-प्रयोजकत्वाभावात्। 'नारीयते सपत्नसेना' इत्यादौ वृत्त्यन्तरनिवेदितैः कातरत्वादिभिरभिन्नतयाध्यवसितस्याचारस्योपमानिष्पादकत्वात्। यदि च क्यडर्थ आचारमात्रमुपमानिष्पादकं स्यात्तदा 'त्रिविष्टपं तत्खलु भारतायते' इत्यादौ सुप्रसिद्धत्वादिरूपाचारोपस्थितावप्युपमालङ्कृतेरनिष्पत्तेः, तस्यैव च 'सुपर्वभिः शोभितमन्तराश्रितैः' इति चरणान्तरनिर्माणे तस्या निष्पत्तेःक्यडाद्यर्थः साधारणोऽपि नोपमां प्रयोजयति। उपमाप्रयोजकतावच्छेदकरूपेण साधारणधर्मवाचकशून्यत्वस्यैव धर्मलोपशब्देनाभिधानात्। अन्यथा 'मुखरूपमिदं वस्तु प्रफुल्लमिव पङ्कजम्' इत्यादौ पूर्णोपमापत्तेरिति दिक्। दीक्षितोक्तं खण्डयति- यच्चाप्पय्यदीक्षितैरस्मिन्नेव प्रस्तावे 'धर्मलुप्ता वाक्यसमासतद्धितेषु दर्शिता द्विर्भावेऽपि दृश्यते। 'पटुपटुर्देवदत्तः' इत्यत्र 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविधानात्' इति निगदितं तत्तुच्छम्। अन्र च वाचकस्याप्यनुदानाद्वाचकधर्मलुप्तायामेत- दाधिक्यमुद्भावयितुमुचितम्, न धर्मलुप्तायाम्। धर्ममात्रलुप्ताया एव धर्मलुप्ताशब्देन तैर्विवक्षणात्। अन्यथा एकलुप्तास्वेव द्विलुप्तानां त्रिलुप्तायाश्च
Page 181
181 ग्रहणात्पृथगुपादानमसम्बद्धमेव स्यात्। न चात्र वाचकस्य द्विर्भावस्यैव सत्त्वान्नास्ति लोप:, अपि तु धर्ममात्रस्येति वक्तुं शक्यम्। द्विर्भावस्य सादृश्यवाचकत्वोक्तेर्भाष्यकैयटादिविरुद्धत्वात्। तदुक्तं कैयटेन 'प्रकारे गुणवचनस्य' इति सूत्रे सिद्धं त्विति प्रतीकमुपादाय-"द्विर्वचनस्य प्रकृतिः स्थानी इति तदर्थो विशेष्यते न तु प्रकारः। तत्र सर्वस्य गुणवचनत्वाद् व्यभिचाराभावात्। तद्ग्रहणाद् गुणवचनो यः शब्दो निर्ज्ञातस्तस्य सादृश्ये द्योत्ये द्वे भवत इति सूत्रार्थः' इति। दीक्षितोक्तमन्यदपि निरस्यति- इदं चान्यत्तस्मिन्नेव प्रस्तावे चित्रमीमांसाकृद्भिरभ्यधीयत- 'नृणां यं सेवमानानां संसारोऽप्यपवर्गति। तं जगत्यभजन्मर्त्यश्चञ्चा चन्द्रकलाधरम् ॥' अत्र क्विप्कनोर्लोपे प्रत्येकं वाचकधर्मलोप उभयत्रापि तदरमणीयमेव। कनो वाचकस्य लोपेऽ्रपि तं चन्द्रकलाधरमभजन्निति चन्द्रकलाधरभजनराहित्यरूपस्य धर्मस्य चञ्चामर्त्यसाधारणस्योक्तत्वात्कथं तावद्धर्मस्य लोपः। दीक्षितमतसमर्थकमवान्तरपूर्वपक्षं कृत्वा खण्डयति- न चोपमेयमर्थविशेषणतयोपात्तस्य चन्द्रकलाधरभजनराहित्यस्य सादृश्योपसर्जने चञ्चायामनन्वयान्न साधारण्यमिति वाच्यम्। 'यद् भक्तानां सुखमयः संसारोऽप्यपवर्गति। तं शम्भुमभजन् मर्त्यश्चञ्चैवात्महिताकृतेः॥ इति पाठे धर्मश्रवणमप्युभयत्रापि संभवति' इति स्वोक्तेरसङ्गतत्वापत्तेः। इहाप्युपमेयसंसारविशेषणतयोपात्तस्य सुखमयत्वस्य सादृश्योपसर्जनेऽपवर्गेऽन्वयाभावात्कथङ्कारं धर्मस्य साधारण्यम्। पुनः दीक्षितमतसमर्थकं पूर्वपक्षमुल्लिख्य निराकरोति- उपमेयगतत्वेनोपमानगतत्वेन वोपात्तस्य धर्मस्य शाब्द उभयान्वयेऽसत्यपि वस्तुत उभयवृत्तित्वज्ञानमेव साधारणताया नियामकमिति चेत्, चन्द्रकलाधरभजनराहित्येऽपि दीयतामेवमेव दृष्टिः। दीक्षितमतसमर्थिकां युक्तिमेकां कथञ्चिदङ्गीकुरुते-
Page 182
182 यदि चोपमेयतावच्छेदकतयैव चन्द्रकलाधरभजनराहित्यं मम विवक्षितम्, साधारणधर्मश्च स्वात्महिताकरणरूपः स चात्र लुप्त एवेति शपथेन स्वाभिप्रायः प्रकाश्यते तदा निवारितोऽयं दोषः। तुष्यतु भवान्। अन्यदपि दीक्षितोक्तमालोचयन् तत्र व्याकरणाशुद्धिं प्रकाशयति- इदमप्यन्यत्तैरेव वाचकोपमेयलुप्तायामुदाहरणं निरमीयत- 'रूपयौवनलावण्यस्पृहणीयतराकृतिः। पुरतो हरिणाक्षीणामेष पुष्पायुधीयति॥' इदं च पद्यमपशब्ददुष्टमवैयाकरणतां कर्तुः प्रकाशयति। तथा हि पुरत इति नगरवाचिनः पुरशब्दात्तसिलि हरिणाक्षीणां नगरादित्यर्थस्यासङ्गतेः। न हि पूर्ववाचकः पुरशब्दः क्वापि श्रूयते। पूर्वशब्दात्तु 'पूर्वाधरावराणामसिपुरधवश्चैषाम्' इत्यसौ पुरादेशे च पुर इति भाव्यम्, न तु पुरत इति। अत एव 'अमुं पुरः पश्यसि देवदारुम्' इति प्रायुङ्क महाकविः। एवमेव 'मुखस्य पुरतश्चन्द्रो निष्प्रभः-इत्यप्रस्तुतप्रशंसा' इति द्वितीयप्रकरणारम्भेऽप्यपशब्दितं तैः। तथा चाहुर्वैयाकरणाः-"पत्या पुरतः परतः", 'आत्मीयं चरणं दधाति पुरतो निम्नोन्नतायां भुवि', 'पुरतःसुदती समागतं माम्' इत्यादयः सर्वेऽपि व्याकरणाज्ञानमूला अपशब्दाः' इति। पुर्वोक्तभेदाया उपमायाः पुनः प्रकारान्तरेण भेदान् वक्ति- इयं चैव भेदोपमा वस्त्वलङ्काररसरूपाणां प्रधानव्यङ्ग्यानां वस्त्वलङ्कार- योर्वाच्ययोश्चोपस्कारकतया पञ्चधा। एषु पञ्चसु प्रकारेषु प्रथमं प्रकारमुदाहर्तुमाह- तत्र व्यङ्ग्यवस्तूपस्कारिका यथा- उदाहरणं निर्दिश्यते- 'अविरतपरोपकरणव्यग्रीभवदमलचेतसां महताम् । आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥' उपपादयति- अत्र तादृंशि वचनान्यर्थद्वारा सेवमानस्य मनागप्यक्षुभ्यतः परिणामे परमं सुखं भवतीति प्राधान्येन व्यङ्ग्यस्य वस्तुन उपस्कारिका भेषजोपमा। द्वितीयं प्रकारमुदाहर्तुमाह-
Page 183
183 व्यङ््यालङ्कारोपस्कारिका यथा- उदाहरणं निर्दिश्यते- 'अङ्कायमानमलिके मृगनाभिपङ्कम्, पङ्केरुहाक्षिवदनं तव वीक्ष्य बिभ्रत्। उल्लासपल्लवितकोमलपक्षमूला- श्चञ्चूपुटं चपलयन्ति चकोरपोताः॥।' उपपादयति- अत्र प्राधान्येन व्यङ्ग्ये आरोप्यमाणचन्द्रके भ्रान्तिमत्यलङ्कारे उपपादकस्य
तृतीयप्रकारोदाहरणं पूर्वोल्लिखितं स्मारयति- रसोपस्कारिका तु 'दलदरविन्द-' इत्यत्र प्रागेवोदाहृता। भेदपरिगणने न्यूनताभ्रमं निराकुरुते-
'भावाद्युपस्कारिकां' इत्यत्रादिपदग्राह्ययोः रसाभासभावाभासयोरुपस्कारिकाया उपमाया उदाहरणभूतं पूर्वोक्तपद्यद्दयं स्मारयति- यथा-'नैवापयाति हृदयादधिदेवतेव', 'वन्यकुरङ्गीव वेपते नितराम्' इत्यादिषु प्रागुदाहृतेषु। चतुर्थं प्रकारमुदाहर्तुमाह- वाच्यवस्तूपस्कारिका यथा- उदाहरणं निर्दिश्यते- 'अमृतद्रवमाधुरीभृतः सुखयन्ति श्रवसी सखे गिरः। नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव ।।' उपपादयति- अन्र नयनशिशिरीकरणरूपे वस्तुनि वाच्ये मुखस्य शरदिन्दूपमोपस्कारिका। पञ्चमं भेदमुदाहर्तुमाह- वाच्यालङ्कारोपस्कारिका यथा- उदाहरणं निर्दिश्यते- 'शिशिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम्।
Page 184
184 न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम् ॥' उपपादयति- अत्र वाच्यस्य दीपकस्योपमोपस्कारिका। ननु वस्त्वलङ्कारयोरिव रसस्यापि वाच्यत्वेन षोढा वक्तुमुचितेयमत आह- रसादिस्तु न वाच्य इति प्रागेवाभिहितम्। आशड्क्य समाधते- अथ कथमलङ्कारस्यालङ्कारान्तरोपस्कार्यत्वमुच्यते। प्रधानस्यैवालङ्कार्यत्वादिति चेत् मैवम्, अलङ्कारस्योपमादेर्ध्वन्यमानतायां प्राधान्याद्रसादिवदलङ्गारान्तरोपस्कार्यत्वे न कोऽपि तावदस्ति विरोधः। एवमेव मुख्यतया वाच्यतायामपि। यथा ह्यापणादौ विक्रीयमाणतायां कनकताटङ्कस्य रत्नाद्यलङ्कारान्तरोपस्कार्यत्वे तस्यैव च कामिनीकर्णालङ्कारतायां पुनः प्रधानान्तरसान्निध्यात्ताटङ्कस्य तद्गतरत्नानां च साक्षात्परम्परया च कर्णादिशोभोपस्कारकतया यथा तदलङ्कारत्वम्, एवमेव रसादिसान्निध्ये रूपकादेस्तदुपस्कारकस्यालङ्कारान्तरस्य च रसाद्यलङ्कारतेति। भेदा: सङ्कल्यन्ते- एवं च प्राचां मते पञ्चविंशतिभेदायाः पुनः पञ्चविधतायां सपादशतं भेदाः। द्वान्रिंशद्भेदवादिनां तु षष्ट्युत्तरं शतम्। उपमाभेदान्तराणामपि संभावनां सूचयति- इतश्चान्येऽ्रपि प्रभेदाः कुशाग्रीयधिषणैः स्वयमुद्भावनीयाः। स्वयमुद्भावनीयत्वेनोक्तान् उपमायाः प्रभेदान् निर्दिदिक्षुः प्रथमम् समानधर्मवैलक्षण्यमूलान् तान् निर्दिशति- तत्र क्वचिदनुगाम्येव धर्मः। क्वचिच्च केवलं बिम्ब-प्रतिबिम्बभावमापन्नः। क्वचिदुभयम्। क्वचिद्वस्तुप्रतिवस्तुभावेन करम्बितं बिम्ब-प्रतिबिम्बभावम्। क्वचिदसन्नप्युपचरितः। क्वचिच्च केवलशब्दात्मकः। तत्रानुगामिधर्मयुक्तामुपमामुदाहर्तुमाह- तत्राद्यो यथा- उदाहरणं निर्दिश्यते- 'शरदिन्दुरिवाह्लादजनको रघुनन्दनः।
Page 185
185 वनस्रजा विभातिस्म सेन्द्रचाप इवाम्बुदः॥।' उपपादयति- अन्र पूर्वार्धे सकृन्निर्देशाद्धर्मोऽनुगामी। द्वितीयभेदस्योदाहरणभूतं पूर्वोक्तपद्यं स्मारयति- केवलबिम्ब-प्रतिबिम्बभावापन्नः 'कोमलातपशोणाभ्र-'इत्यत्र बोध्यः। उभयविधधर्मयुक्तामुपमां प्रकटयति- द्वितीयार्धे तूभयम्। तृतीयो भेद: पुनस्त्रिधा विभज्यते- तृतीयोऽपि त्रिविध :- विशेषणमात्रयोर्विशेष्यमात्रयोस्तद्युगलयोर्वा वस्तुप्रतिवस्तुभावेन करम्बितः। तेषु विशेषणमात्रगतवस्तुप्रतिवस्तुभावेन करम्बणमुदाहर्तुमाह- तत्राद्यो यथा- उदाहरणं निर्दिश्यते- 'चलद्भृङ्गमिवाम्भोजमधीरनयनं मुखम्। तदीयं यदि दृश्येत कामः क्रुद्धोऽस्तु किं ततः॥' उपपादयति- अन्न चलनाधीरत्वयोर्विशेषणयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनोपादाना-द्वस्तुप्रतिवस्तुभावः। तद्विशेषणकयोश्च भृङ्गनयनयोर्बिम्बप्रतिबिम्बभावः। इति तत्करम्बितोऽयमुच्यते। केवलविशेष्यगतवस्तुप्रतिवस्तुभावकरम्बणमुदाहर्तुमाह- तत्र द्वितीयो यथा- उदाहरणं निर्दिश्यते- 'आलिङ्गितो जलधिकन्यकया सलीलं, लग्नः प्रियङ्गलतयेव तरुस्तमाल:। देहावसानसमये हृदये मदीये, देवश्चकास्तु भगवानरविन्दनाभः॥' उपपादयति-
Page 186
186 अन्नालिङ्गितत्वलग्नत्वयोर्वस्तुप्रतिवस्तुभावः। तद्विशेष्यकयोश्च जलधिकन्या- प्रियङ्गलतयोर्बिम्ब-प्रतिबिम्बभावः। इत्ययमपि तत्करम्बित एव। तृतीयभेदस्य तृतीयमुपभेदमुदाहर्तुमाह- तन्र तृतीयो यथा- उदाहरणं निर्दिश्यते- 'दशाननेन दृप्तेन नीयमाना बभौ सती। द्विरदेन मदान्धेन कृष्यमाणेव पद्मिनी॥' उपपादयति- अन्र विशेषणयोर्दृप्तत्वमदान्धत्वयोर्विशेष्ययोश्च नीयमानत्वकृष्यमाणत्वयोर्वस्तुप्रतिवस्तुभावेनोभयतः सम्पुटितो दशाननद्विरदयोर्बिम्बप्रतिबिम्बभावः। इत्ययमपि तत्करम्बितः। साधारणधर्मवैचित्र्यमूलका उपमायाः पञ्च भेदाः परिगणिताः, इदानीं तस्यास्तन्मूलक एवारुचिग्रस्त: षष्ठो भेद उच्यते- 'विमलं वदनं तस्या निष्कलङ्कमृगाङ्कति' इत्यत्र वैमल्यनिष्कलङ्कत्वयोर्वस्तुत एकरूपयोर्बिम्बप्रतिबिम्बभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्नयोरुपमानिष्पादकत्वं यद्यस्ति तदा शुद्धं वस्तुप्रतिवस्तुभावमापन्नोऽप्येष षष्ठो धर्मः। 'विमलं वदनम्-' इत्यादौ वस्तुप्रतिवस्तुभावाङ्गीकारस्यावश्यकतैव नास्तीत्याशडक्य समाधत्ते- न च 'कोमलातपशोणाभ्रसन्ध्याकालसहोदरः' इत्यादौ यतिसन्ध्याकालयोरुपमायां धर्मान्तरस्यानवगमात् कुङ्कमालेपकषायवसनयोः कोमलातपशोणाभ्रयोश्च बिम्बप्रतिबिम्बभावो यथावश्यमभ्युपेयः, प्रकृते तु न तथा वस्तुप्रतिवस्तुभावः। वदनमृगाङ्कयोः सौन्दर्यरूपसाधारणधर्मस्य प्रतीयमानत्वेन धर्मान्तरानपेक्षणादिति वाच्यम्। एवं तर्हि 'यान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या' इति भवभूतिपद्येऽपि प्रतीयमानेन सौन्दर्येणैव सामान्येन निर्वाहे कन्धरावृन्तयोर्बिम्बप्रतिबिम्बभावस्य वलितत्वावृत्तत्वयोर्वस्तुप्रतिवस्तुभावस्य च सकलैरालङ्कारिकैः स्वीकारो विरुद्धः स्यात्। अतो यथास्थितमेव साधु। चतुर्थं भेदमुदाहर्तुमाह-
Page 187
187 उपचरितो यथा- उदाहरणं निर्दिश्यते- शतकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः। येनाकारिषि मित्रं विकलहृदयो विधिर्वाच्यः॥' प्रकरणं बोध्यते- एषा सीतां विवासितवतः स्वात्मगता रामस्योक्तिः। उपपादयति अत्र काठिन्यं पार्थिवो धर्मश्चित्ते उपचरितः। पञ्चमप्रभेदमुदाहर्तुमाह- केवलशब्दात्मको यथा- उदाहरणं निर्दिश्यते- 'यत्र वसन्ति सुमनसि मनुजपशौ च शीलवन्तः सर्वत्र समाना मन्त्रिणो मुनय इव।' उपपादयति- अन्नोपमानोपमेयगतस्यार्थस्यैकस्याभावाच्छब्द एव धर्मः। धर्मवैचित्र्यमूलकभेदान्तराणामपि सम्भावनां प्रकटयति एवमेतेषां धर्माणां व्यामिश्रणं च सम्भवति। धर्ममिश्रणप्रयुक्तसम्भावितोपमाप्रभेदोदाहरणं प्रतिज्ञापुरस्सरं निर्दिश्यते- यथा- 'श्यामलेनाङ्गितं भाले बाले केनापि लक्ष्मणा। मुखं तवान्तरा सुप्तभृङ्गफुल्लाम्बुजायते ॥।' उपपादयति- अत्र भालगताङ्कप्रसुप्तभृङ्गौ बिम्बप्रतिबिम्बभावमापन्नौ क्यडर्थे आचारेऽनुगामिन्यभेदमापद्य स्थितौ। तथाविधमुदाहरणान्तरमपि दर्शयति- यथा वा- 'सिन्दूरारुणवपुषो देवस्य रदाङ्करो गणाधिपतेः। सन्ध्याशोणाम्बरगतनवेन्दुलेखादितःपातु॥'
Page 188
188 उपपादयति- अत्र सिन्दूरसन्ध्याभ्यां गणाधिपगगनाभ्यां च बिम्बप्रतिबिम्बभावामापन्नाभ्यां [धर्माभ्यां] सम्पादिताभेदेन विशिष्टधर्मेणाभेदेनावस्थितः क्यडर्थोऽनुगामी। धर्ममिश्रणस्य प्रकारान्तरं दर्शयति- क्वचिद्धेतुहेतुमद्भावेन। उदाहरणं निर्देष्टुमाह- यथा- उदाहरणं निर्दिश्यते- 'खल: कापट्यदोषेण दूरेणैव विसृज्यते। अपायशङ्किभिर्लोकैर्विषेणाशीविषो यथा।।' उपपादयति- अत्र कापट्यं विषं च बिम्ब-प्रतीबिम्बतां गतं दूरतो विसर्जनेना-नुगामिनि गेतुः। हेतुहेतुमद्भावेन धर्मयोर्मिश्रणस्योदाहरणान्तरं दर्शयितुमाह- यथा वा- उदाहरणं निर्दिश्यते- 'रूपवत्यपि च क्रूरा कामिनी दुःखदायिनी। अन्तः काटवसम्पूर्णा सुपक्वेवेन्द्रवारुणी ॥।' उपपादयति- अत्र रूपवत्त्वदुःखदायित्वयोर्द्वयोरनुगामिनोर्मध्ये क्रौर्यकाटवे बिम्बप्रतिबिम्बभावापन्ने दुःखदायित्वेन सह हेतुहेतुमद्भावेन मिश्रिते, अपरेण तु शुद्धसामानाधिकरण्येन। उपसंहरति- एवमन्यैरपि व्यामिश्रणं बोध्यम्। उपमाया उक्तेभ्यो भेदेभ्योऽन्येऽपि भेदाः संभवन्तीति सूचयितुमाह- प्रकारान्तरं च लक्ष्यानुसारेण सुधीभि: स्वयमुन्नेतुं शक्यम्। स्वयमुन्नेयत्वेनोक्तं प्रकारान्तरमुपमाया दर्शयितुमाह- यथा- उदाहरणं निर्दिश्यते-
Page 189
189 'यथा लतायाः स्तबकानतायाः स्तनावनम्रे नितरां समाऽसि। तथा लता पल्लविनी सगर्वे शोणाधरायाः सदृशी तवापि॥' उपपादयति- अत्र स्तनावनम्राहं स्तबकानताया लताया उपमानमस्मीति गर्वं मा विदध्याः। यतः शोणाधराया उपमेयायास्तवापि पल्लविनी लतोपमानं भवतीति वाक्यार्थे यथातथापदप्रतिपाद्या कान्तोपमानिका लतोपमेयिकोपमा निष्पादिका। अस्यां चोपमायां निरूपकतासम्बन्धेनोपमानोपमेयगते द्वे उपमे समसदृशशब्दाभ्यां प्रतिपादिते बिम्ब- प्रतिबिम्बभावमापन्ने साधारणधर्मतया स्थिते। तत्र निरूपकतासम्बन्धेन प्रधानीभूतोपमोपमानकान्तागतायामुपमायां प्रतिबिम्बभूतायां
वमापन्नयोः साधारणधर्मत्वम्। एवं तेनैव सम्बन्धेन लतारूपोपमेयगतायां बिम्बभूतायामुपमायामधरपल्लवयोः। आशड्क्य समाधत्ते- न च तेन सदृश इत्यादौ तन्निरूपितसादृश्याश्रयस्योपमेयस्य, तस्य सदृश इत्यादौ च तत्सम्बन्धिसादृश्याश्रयस्योपमानस्य प्रतीतेः सिद्धत्वात्प्रकृते च सदृशीतिशब्दान्निवेद्यमानेऽप्युपमानभावे कथं नाम लताया उपमेयतेति वाच्यम्। सदृशशब्दप्रतिपाद्यधर्मभूतोपमायामुपमानत्वेऽपि यथातथाशब्दवेद्योपमायां लताया उपमेयभावे बाधकाभावात्। पुनः प्रकारान्तरं सूचयति- एवमन्येऽपि प्रकाराः। तत्प्रकारान्तरमेवोदाहरणप्रदर्शनेन स्पष्टयति- 'यथा तवाननं चन्द्रस्तथा हासोऽपि चन्द्रिका। यथा चन्द्रसमश्चन्द्रस्तथा त्वं सदृशी तव ।।' उपसंहरति- एभिर्भेदैः प्रागुक्तानां सधर्माणां भेदानां यथासम्भवं गुणने बहुतरा भेदा भवन्ति। पुनः प्रकारान्तरेण उपमाया भेदं कुरुते-
Page 190
190 तथा धर्माणां वाच्यतायां वाच्यधर्मा बहुधोक्ता। व्यङ्ग्यत्वे व्यङ्ग्यधर्मा धर्मलोपे गदितैव। लक्ष्यतायां यथा- उदाहरणं निर्दिश्यते- 'सर्प इव शान्तमूर्तिः श्वेवायं मानपरिपूर्णः। क्षीब इव सावधानो मर्कट इव निष्क्रियो नितराम् ।' उपपादयति- इत्यत्रोपमानमहिम्ना शान्तमूर्त्यादिशब्दैर्विरुद्धा धर्मा लक्ष्यन्ते। उपमाया उपस्कारकत्वं पर्यालोचयितुमाह- इयं चोपमा मुख्यार्थस्य क्वचित्साक्षादुपस्कारिणी क्वचिच्चोपस्कारकान्तरोपस्करणद्वारा। तन्र साक्षादुपस्कारिणी प्राग् बहुधोदीरिता। परम्परयोपस्कारिकामुपमामुदाहर्तुमाह- परम्परया यथा- उदाहरणं निर्दिश्यते- 'नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः पठन्ति विरुदावलोमहितमन्दिरे बन्दिनः। इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणद्युतिः।।' उपपादयति- अत्र मुख्यार्थस्य राजविषयायाः कविरतेरुपस्कारकस्य यदैव तव कोपोदयस्तदैव रिपूणां सम्पदो भस्मसाद् भविष्यन्तीति वस्तुन उपस्कारिका नयनकोणशोणद्युतेर्युगान्तदहनोपमा। भेदान्तरप्रतिपादनाय स्पष्टीकुरुते- इयं चेवयथावादिशब्दैर्वाचकैः प्रतिपादिता वाच्यालङ्कारः। लक्ष्यापि चालङ्कर्वाणा दृश्यते। वाच्योपमाया उदाहरणानि पूर्वोदाहृतानि सर्वाणि पद्यानि। लक्ष्योपमाया उदाहरण प्रदर्शनायाह- यथा- उदाहरणं निर्दिश्यते- 'नीवीं नियम्य शिथिलामुषसि प्रकाश-
Page 191
191 मालोक्य वारिजदृशः शयनं जिहासोः। नैवावरोहति कदापि च मानसान्मे नाभेर्निभा सरसिजोदरसोदरायाः॥' उपपादयति- अन्नैकोदरप्रभवत्वरूपस्य मुख्यार्थस्य बाधात्तदीयशोभालक्षणसमानांशहरत्वस्य प्रयोजनस्य सत्त्वात्सोदरपदेन सदृशो लक्ष्यते। आर्थी च तत्रोपमा प्रतीयमाना। अवरोहतिलक्ष्यस्य विषयतया स्मृतिशून्यीभवनस्य निषेधेन प्रतीयमानायाः स्मृतेरुपस्कारिका। लक्ष्योपमाबोधशब्दान्तराणि निर्दिश्यन्ते- एवं प्रतिभटप्रतिमल्लादिशब्दानां तदीयन्यग्भवनतदीयशोभारूपसर्वस्वापहरणादेः प्रयोजनस्य सत्त्वात्सादृश्यवति लक्षणैव, न व्यञ्जना। मुख्यार्थस्य बाधात्। प्रयोजने पुनर्व्यञ्जनैवेति। व्यङ्ग्यत्वेऽप्युपमाया अलङ्कारत्वं समर्थयति- क्वचिद् व्यङ्ग्यापि चेयमुपमालङ्कारः। उदाहरणं निर्देष्टुमाह- यथा- उदाहरणं निर्दिश्यते- 'अद्वितीयं रुचात्मानं मत्वा कि चन्द्र हृष्यसि। भूमण्डलमिदं मूढ केन वा विनिभालितम्।।' प्रसङ्गमवगमयति- कस्यचिद्विदेशस्थितस्य किरणैरात्मानं सन्तापयन्तं चन्द्रं प्रत्येषोक्तिः। उपपादयति- अन्र च अस्ति मम प्रियायाः कदापि बहिरनिर्गतायाः, अत एव त्वयाप्यदृष्टाया आननं त्वत्सदृशमिति प्रतीयमाना उपमा मूढपदेन ध्वन्यमानायां चन्द्रविषयायां वक्तृगतायामसूयायामलङ्गारः। दीक्षितमतं समीक्षते- एतेनाप्पय्यदीक्षितैरुपमालक्षणे दत्तमव्यङ्ग्यत्वविशेषणमयुक्तमेव। नहि व्यङ्ग्यत्वालङ्कारत्वयोरस्ति कश्चिद्विरोधः। प्राधान्येन व्यङ्ग्यतायां तु
Page 192
192 प्रधानत्वालङ्कारत्वयोर्विरोधादलङ्कारलक्षणं तत्र मातिप्रसाङक्षीदित्युपस्कारकत्वेन पुनिर्विशेषणीयम्, न त्वव्यङ्ग्यत्वेन, प्रागुक्तायामसूयालङ्कारोपमायामव्याप्त्यापत्तेः। विशिष्टोपमादिस्थले विशेषणाद्युपमानां वाच्यसिद्ध्यङ्गतया गुणीभूतव्यङ्ग्यत्वम्, सिद्धार्थस्योपस्करणाभावात्तु नालङ्कारत्वमिति न काप्यसङ्गतिः। पुनरन्यामप्पय्यदीक्षितोक्तिं समीक्षते- यच्चापि "सेयमुपमा संक्षेपतस्त्रिविधा-क्वचित्स्ववैचित्र्यमात्रविश्रान्ता। यथा 'सच्छिन्नमूल: क्षतजेन रेणुः' इत्यादौ। क्वचिदुक्तार्थोपपादनपरा। यथा 'अनन्तरत्नप्रभवस्य' इत्यादौ। क्वचिद् व्यङ्ग्यप्रधाना सा" इति तैरेव द्रविडशिरोमणिभिरभ्यधीयत। तदप्यहृद्यमेव। नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव' इति वाच्यवस्तूपस्कारिकायाः शरदिन्दूपमाया अक्रोडीकरणात्। अलङ्कारभूतोपमासु स्ववैचित्र्यमात्रविश्रान्ताया उपमाया:सङ्ग्रहे को नाम ध्वन्यमानायास्तस्या निरासायाव्यङ्ग्यत्वविशेषणदानदुराग्रहः? अहो महदेवेदमन्याय्यम्-यदलक्षणीयायाः सङ्ग्रह:, लक्षणीयायाश्चासङ्ग्रह इति। प्राचीनानां तूपमासामान्यं लक्षयतां ध्वन्यमानया इवास्या अपि सङ्ग्रहो नानुचितः। न तु स्वस्ययतेन ध्वन्यमानोपमां निरस्य कण्ठरवेणालङ्कारभूतोपमालक्षकस्य। यदि च प्रबन्धव्यङ्ग्योपस्कारकत्वेनेयं सङ्गृह्यत इत्युच्यते, तदा 'स्ववैचित्र्यमात्रविश्रान्ता' इति स्वोक्तिविरुद्धा स्यात्। 'अनन्तरत्नप्रभवस्य इत्यत्र गुणसमूहसमानाधिकरण एको दोषो दोषत्वेन न स्फुरतीत्यस्यार्थस्य पूर्वार्धप्रतिपादितार्थसमर्थनात्मकस्य सामान्यरूपस्य विशेषरूपोदाहरणप्रदर्शनमन्तरेण सम्यगनाकलनादिन्दुकिरणसमानाधिकरणोऽङ्क उदाहृतः, न तूपमानतया निर्दिष्टः, सामान्याद्विशेषस्य भेदाभावेनोपमितिक्रियाया अनिष्पत्त्या उपमालङ्कृतेरत्रानवतारादुदाहरणालङ्कारोऽयमतिरिक्तः। यथा 'इको यणचि' इति वाक्यार्थस्य सामान्यस्य विज्ञानायोदकोकारे दधीकारस्य य इति वाक्यान्तरेण तद्विशेष उदाहियते तद्वदत्रापीति तत्प्रसङ्गे विवेचयिष्यामः। पुनः दीक्षितोक्तिमेवालोचयति- यच्चाप्पय्यदीक्षितैः'लुप्तायां तु नैवं भेदाः। तस्यां साधारणधर्मस्यानुगामितानियमात्' इत्युक्तम्, तन्न। 'मलय इव जगति पाण्डुर्वल्मीक
Page 193
193 इवाधिधरणिधृतराष्ट्रः' इत्यत्रानुगामिधर्मस्याप्रत्ययाच्चन्दनानां पाण्डवानाम्, सर्पाणां दुर्योधनादीनां च बिम्बप्रतिबिम्बभावस्यैव प्रतिपत्तेः। अत्र बिम्बप्रतिबिम्बभावस्यासम्भवमाशडक्य समाधत्ते- न च शब्देनोपात्तत्वं बिम्बप्रतिबिम्बभावे तन्त्रमित्याग्रहो विदुषामुचितः। श्रौतत्वार्थत्वाभ्यां बिम्बप्रतिबिम्बभावस्य द्वैविध्यौचित्यात् । अत एवाप्रस्तुतप्रशंसादौ प्रकृताप्रकृतवाक्यार्थयोरौपम्यमवयव-बिम्बप्रतिबिम्बभावमूलं सङ्गच्छते। पुनः प्रकारान्तरेणोपमाया अष्टौ भेदान् प्रदर्शयति- इयमपि रूपकवत्केवलनिरवयवा, मालारूपनिरवयवा, समस्तवस्तुविषय-सावयवा, एकदेशविवर्तिसावयवा, केवलश्लिष्टपरम्परिता, मालारूपश्लिष्टपरम्परिता, केवलशुद्धपरम्परिता, मालारूपशुद्धपरम्परिता चेत्यष्टधा। एतद्भेदाष्टकगतं केवलत्वं निरवयवत्वञ्च विवृणुते- तत्रोपमायां केवलत्वं मालानन्तर्गतत्वं निरवयवत्वं चोपमान्तरनिरपेक्षत्वम्। अन्यभेदोदाहरणप्रदर्शनायास्य भेदस्योदाहृतत्वं प्रकटयति- इयं च शतशः प्रागेवोदाहृता। द्वितीयभेदमुदाहर्तुमाह- मालारूपनिरवयवा यथा- उदाहरणं निर्दिश्यते- 'आह्लादिनी नयनयो रुचिरैन्दवीव कण्ठे कृतातिशिशिराम्बुजमालिकेव। आनन्दिनी हृदि गता रसभावनेव सा नैव विस्मृतिपथं मम जातु याति॥ द्वितीयभेदस्यैवोदाहरणान्तरं निर्देष्टुमाह- यथा वा- उदाहरणं निर्दिश्यते- 'कलेव सूर्यादमला नवेन्दोः कृशानुपुञ्जात्प्रतिमेव हैमी। विनिर्गता यातुनिवासमध्यादध्याबभौ राघवधर्मपत्नी।। उभयो: पद्ययोर्वक्तव्यमुपपादयति-
Page 194
194 पूर्वमनुगामिना धर्मेण भिन्नदेशकालावच्छेदेन, अन्न तु बिम्बप्रतिबिम्ब- भावमापन्नेनैकदेशकालावच्छेदेनेति विशेषः। अन्राधिकदीप्तिरूपे वाक्यार्थे उपमे उपस्कारिके। आत्यन्तिकविनाशहेतुत्वेन देदीप्यमानत्वेन च साधारण्येन सूर्यमण्डलस्य, निष्कलङ्कताभिव्यञ्जकत्वेन भस्मीभवनहेतुत्वेन कृशानुपुञ्जस्य च लङ्काप्रतिबिम्बता। मालारूपत्वं चात्रैकोपमेयकानेकोपमासामानाधिकरण्यात्। तृतीयभेदमुदाहर्तुमाह- समस्तवस्तुविषया सावयवा यथा- उदाहरणं निर्दिश्यते- 'कमलति वदनं यस्यामलयन्त्यलका मृणालतो बाहू। शैवालति रोमावलिरद्भुतसरसीव सा बाला॥ तस्यैव प्रभेदस्योदाहरणान्तरं दातुमाह- यथा वा- उदाहरणान्तरं निर्दिश्यते- 'ज्योत्स्नाभमञ्जुहसिता सकलकलाकान्तकान्तवदनश्रीः। राकेव रम्यरूपा राघवरमणी विराजते नितराम्।। पद्यद्वयेऽपि समासेन वक्तव्यं विवृणोति- अन्न सर्वेषामुपमानानां शब्दैरेवाभिधानात् समस्तवस्तुविषया, अङ्गोपमा- भिनिष्पाद्यमानत्वाच्च साङ्गा भवति। चतुर्थं भेदमुदाहर्तुमाह- एकदेशविवर्तिनी सावयवा यथा- उदाहरणं निर्दिश्यते- 'मकरप्रतिमैर्महाभटैः कविभी रत्नसमैः समन्वितः। कवितामृतकीर्तिचन्द्रयोस्त्वमिहोर्वीरमणासि कारणम् ॥ उपपादयति- अन्नोत्तरार्धे उपमितसमास एव, विशेषणसमासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात्। राज्ञो जलधेरुपमाशब्देनानभिहिताऽप्यङ्गोपमाभिराक्षिप्ता प्रतीयते, इत्येकदेशविवर्तनादेकदेशविवर्तिनी।
Page 195
195 पञ्चमं भेदमुदाहर्तुमाह- केवलश्लिष्टपरम्परिता यथा- उदाहरणं निर्दिश्यते- 'नगरान्तर्महीन्द्रस्य महेन्द्रमहितश्रियः। सुरालये खलु क्षीबा देवा इव विरेजिरे॥ उपपादयति- अन्र श्लेषोपस्थापितेन सुमेरुणा मदिरागारस्योपमा क्षीबानां देवोपमाया उपाय इति श्लिष्टपरम्परिता, अन्योन्योपायतारूपसैव परम्परितत्वस्येह परिभाषणात्। मालारूपताविरहाच्च केवला। षष्टं भेदमुदाहर्तुमाह- मालारूपश्लिष्टपरम्परिता यथा- उदाहरणं निर्दिश्यते- 'महीभृतां खलु गणे रत्नसानुरिव स्थितः। त्वं काव्ये वसुधाधीश वृषपर्वेव राजसे ॥I' उपपादयति- अन्न श्लेषोपस्थिताभ्यां पर्वतशुक्राभ्यां राजकाव्ययोरुपमे मेरुवृषपर्वभ्यां राज्ञ उपमयोरुपायः। आशड्क्य समाधत्ते- नन्वत्र पर्वतानामिव राज्ञां शुक्र इव कवित्वे इत्येवंरूपा उपमा कथं प्रत्येतुं शक्या। उपमानोपमेयशब्दयोः पार्थक्याभावादिति चेत्, श्लेषे ह्यकशब्दोपात्तत्वेन रूपेणाभेदाध्यवसानस्येव तेनैव सादृश्याध्यवसानस्यापि सुवचत्वात्, तस्यैव च प्रकृते प्रयोज्योपमानुकूलत्वात्। सप्तमं भेदमुदाहर्तुमाह- केवलशुद्धपरम्परिता यथा- उदाहरणं निर्दिश्यते- 'राजा युधिष्ठिरो नाम्ना सर्वधर्मसमाश्रयः। दुमाणामिव लोकानां मधुमास इवाभवत् ॥'
Page 196
196 अष्टमं भेदमुदाहर्तुमाह- मालारूपशुद्धपरम्परिता यथा- उदाहरणं निर्दिश्यते- 'मृगतां हरयन्मध्ये वृक्षतां च पटीरयन्। ऋक्षतां सर्वभूतानां त्वमिन्दवसि भूतले॥ विशेषमाह- उपमानयो: परस्परमुपमेययोश्चानुकूल्ये उपमयोरेषोपायता निरूपिता। तथाविधमुदाहरणं प्रदर्शयितुमाह- प्रातिकूल्ये उपायता यथा- उदाहरणं निर्दिश्यते- 'राजा दुर्योधनो नाम्ना सर्वसत्त्वभयङ्करः। दीपानामिव साधूनं झञ्झावात इवाभवत् ।।' उपपादयति- अन्नोपमानयोर्दीपझञ्झावातयोरन्योन्यमुपमेययोश्च साधुदुर्योधनयोः प्रातिकूल्येऽप्युपमयोः परस्परमानुकूल्यादुपायतैव। प्रागुदाहृता प्रातिकूल्ये केवलपरम्परितोपमा इदानीं मालारूपा सा प्रातिकूल्ये उदाह्ियते- एवम्- 'सरोजतामथ सतां शिशिरर्तवताधुना। दर्भतां सर्वधर्माणां राज्ञानेन विदर्भितम्॥ इत्यादौ मालारूपतायामपि। उपमाया भेदान्तरं विवृणोति- उपमेयानां स्वस्वोपमानानुपमानानामुपमानताया रशनोपमा। रशनोपमामुदाहर्तुमाह- यथा- उदाहरणान्तरं निर्दिश्यते- 'वागिव मधुरा मूर्तिर्मूर्तिरिवात्यन्तनिर्मला कीर्तिः। कीर्तिरिव जगति सर्वस्तवनीय मतिरमुष्य विभोः। पूर्वोदाहरणगतं विशेषमाह-
Page 197
197 इयं धर्मभेदे। धर्मैक्ये रशनोपमामुदाहर्तुमाह- धर्मैक्ये तु- उदाहरणं निर्दिश्यते- 'भूधरा इव मत्तेभा मत्तेभा इव सूनवः। सुता इव भटास्तस्य परमोन्नतविग्रहाः।' रशनोपमां धर्मलुप्तामुदाहर्तुमाह- धर्मलोपे तु तस्येत्यस्यानन्तरम् 'भटा इव युधि प्रजाः' इति बोध्यम्। उपसंहरति- इयमेवंभेदा प्राचीनैर्भेदैर्गुणने वागगोचरं भूमानं भजमाना नेयत्तामर्हतीति दिक्। उपमाया ध्वनित्वमाह- एषैव च यदा सकलेन वाक्येन प्राधान्येन ध्वन्यते तदा परिहृतालङ्कार-भावा ध्वनिव्यपदेशहेतुः। ननु ध्वन्यमानायामपि उपमायाम् 'अलङ्कारध्वनिः' इति रीत्याऽलङ्कारव्यवहारो भवति सोधुना कथं सङ्गच्छतामित्यत आह- अस्यां चालङ्कारव्यपदेशः कदाप्यलङ्कारभावमप्राप्तेषु मञ्जूषादिगतेषु कटकादिष्विवालङ्कर्वाणगतधर्ममात्रसंस्पर्शनिबन्धनः। उपमाध्वनिं विभजते- क्वचिदसौ शब्दशक्तिमूलानुध्वननविषयः। क्वचिदर्थशक्तिमूलानुध्वननविषयः। प्रथमं प्रकारमुदाहतुमाह- आद्यो यथा- उदाहरणं निर्दिश्यते- 'अविरलविगलद्दानोदकधारासारसिक्तधरणितलः। धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम् ॥' उपमाध्वनेरुदाहरणान्तरं निर्देष्टुमाह- यथा वा- उदाहरणं निर्दिश्यते-
Page 198
198 'विमलतरमतिगभीरं सुपवित्रं सतत्त्ववत्सुरसम्। हंसावासस्थानं मानसमिह शोभते नितराम् ।' उपपादयति- अत्रानेकार्थानामपि शब्दानां प्रकरणेन कृतेऽपि शक्तिसङ्कोचे तन्मूलकेन ध्वननेन प्रतीयमानस्य, सरोवररूपस्यार्थान्तरस्याप्रस्तुतस्याभिधानं मा भूदिति प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कल्प्यते। द्वितीयं प्रकारमुदाहर्तुमाह- द्वितीयो यथा- उदाहरणं निर्दिश्यते- 'अद्वितीयं रुचात्मानं दृष्ट्वाकिं चन्द्र दृप्यसि। भूमण्डलमिदं सर्वं केन वा परिशोधितम् ।।' उपपादयति- अत्र मूढादिपदाप्रयोगादसूयादेरप्रत्ययान्मुख्यतयोपमैव व्यङ्ग्या। इदानीमुपमास्थलीयशाब्दबोधविचारमारभते- अथात्र सादृश्यस्य पदार्थान्तरत्वे बोधो विचार्यते- अरविन्दसुन्दरमित्यत्रारविन्दनिरूपितसादृश्यप्रयोजकं लक्ष्यते। तच्च सुन्दरपदार्थैकदेशेन सौन्दर्येणाभेदसंसर्गेणान्वेति। तेनारविन्दनिरूपितसादृश्यप्रयोजकाभिन्नसौन्दर्यवदभिन्नमिति धीः। निपातातिरिक्तनामार्थयोर्भेदान्वयस्याव्युत्पन्नत्वादभेदानुसरणम्। एकदेशान्वयस्तु देवदत्तस्य नप्तेत्यादाविवात्राप्यभ्युपेयः। 'समासस्यैव विशिष्टार्थे शक्तिः' इत्येके। 'अरविन्दपदमेव लक्षणया सर्वार्थबोधकं सुन्दरपदं तु तात्पर्यग्राहकम्' इत्यपरे। शाब्दबोधप्रदर्शनपुरस्सरं द्वितीयमुपमाप्रतिपादकं वाक्यमुल्लिखति- तथा अरविन्दमिव सुन्दरमित्यत्रेवार्थे सादृश्येऽरविन्दस्य निरूपितत्वसंसर्गेणान्वयः। तस्य च प्रयोजकतासंसर्गेण सौन्दर्ये एवं चारविन्दनिरूपितसादृश्यप्रयोजकसौन्दर्यवदभिन्नमिति। तदथ तथाविधं तृतीयं वाक्यमुल्लिखति- अरविन्दमिवेत्यत्र त्वरविन्दनिरूपितसादृश्यवदिति। आशंकामेकां मनसिकृत्य समाधत्ते-
Page 199
199 निपातजन्योपस्थितिप्रयोज्यप्रकारतानिरूपितविशेष्यता निपातजन्योपस्थितिप्रयोज्यविशेष्यतान्यतरभिन्नविशेष्यतासंसर्गेण नामार्थप्रकारकबोध एव विशेष्यतया विभक्तिजन्योपस्थितेर्हेतुत्वादिवार्थस्य नञर्थस्येव भेदसंसर्गेण नामार्थविशेष्यत्वे विशेषणत्वे च न दोषः। तथाविधं चतुर्थं वाक्यं समुल्लिखति- अरविन्दमिव भातीत्यत्रारविन्दनिरूपितसादृश्यस्य प्रकारतासम्बन्धेन धात्वर्थेऽन्वयादरविन्दसादृश्यप्रकारकधीविशेष्य इति। पञ्चमं तथाविधं वाक्यमुपदर्शयति- तत्रैव सौन्दर्येणेति धर्मोपादाने तृतीयार्थः प्रयोज्यत्वं धात्वर्थे भाने इवार्थे सादृश्ये वान्वेति । तेन सौन्दर्यप्रजोज्यारविन्दनिरूपितसादृश्यप्रकारकधीविशेष्य इति। तथाविधं षष्ठं वाक्यमुपदर्शयति- तथा गज इव गच्छति, पिक इव रौतीत्यादावुपमानपदानां तत्कर्तृकक्रियायां लक्षणया गजादिगमनादिसदृशगमनाद्यनुकूलकृतिमानिति। आशङ्कते- ननु घटो न पश्यतीत्यत्र घटान्विताभावस्य दर्शने कर्मतासंसर्गेणान्वयवारणाय धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंसर्गेण शाब्दबोधं प्रति विशेष्यतया विभक्त्यर्थोपस्थितेर्हेतुत्वम्। एवं च गज इव गच्छति, पिक इव रौतीत्यादौ नेवाद्यर्थस्य सादृश्यस्य धात्वर्थेऽन्वयः सम्भवति। तस्माद्रजादिसादृश्यस्य गमनादिकर्तर्येवान्वयः स्वगमनादिसदृशगमनादिकर्तृत्वेन समानधर्मेण। इत्थमेव चाख्यातवादशिरोमणिव्याख्यातृभिरपि सिद्धान्तितमिति चेत्। समाधत्ते- नैवम्, गज इव गच्छतीत्यत्र सादृश्यस्य विधेयतया प्रतीतेरपलापापत्तेः। गज इव यः पुरुषः स गच्छति, पुरुषो यः स गज इव गच्छतीति वाक्याभ्यां भिन्नप्रतीत्योरानुभविकत्वात्। एवं वनं गज इव गृहं देवदत्तो गच्छतीत्यादौ वनादेः सर्वथैवानन्वयापत्तेश्च। एवं बिम्बप्रतिबिम्बभूतस्य कारकमात्रस्यानन्वयो बोध्यः। तस्माद्गजनिरूपितसादृश्यप्रयोजकगमनाश्रय इत्येव गज इव गच्छतीत्यत्र धीः। कारकोपादाने तूपमानपदानां तत्कर्तृकक्रियायां लक्षणेत्येव साधु।
Page 200
200 पुनः पूर्वोक्तशङ्कासमाधानावान्तरशङ्कासमाधाने आह- न च प्रागुक्तकार्यकारणभावस्य धात्वर्थनिष्ठेत्यादेर्व्यभिचारः, तस्यानङ्गीकारात्। अङ्गीकारे च तूष्णीमारात्पृथगित्याद्यर्थानां धात्वर्थान्वयोऽनुभवसिद्धोऽपलपनीयः स्यात्। पुनरवान्तरशङ्कासमाधान एव तन्यते- कथं तर्हि घटो न पश्यतीत्यादौ घटाभावं पश्यतीति नान्वयबोधः। धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंसर्गेणान्वयबोधं प्रति नञ्जन्योपस्थितिमात्रस्य प्रतिबन्धकत्वकल्पनात्। धात्वर्थस्य नामार्थभिन्नत्वेन विशेषणं तु द्वयोस्तुल्यम्। तेन पाको न याग इत्यादौ न व्यभिचारः । इत्यलमप्रसक्तविचारेण। तथाविधं सप्तमं वाक्यं निर्दिशति- अथारविन्दतुल्यो भातीत्यत्र कथं धीः। तुल्यपदार्थस्य निपातभिन्ननामार्थत्वेन धात्वर्थे भेदेनान्वयायोगात्। तादृशतुल्यत्वादेर्भानोद्देश्यतावच्छेदकत्वे भानमात्रविधेयतायां विवक्षितार्थाप्रतीतिः। न च तुल्यपदेन तुल्यत्वप्रकारको लक्षणयोपस्थापितो ह्यभेदेन धात्वर्थेऽन्वेष्यतीति वाच्यम्। क्रियाविशेषणत्वेनारविन्दतुल्यशब्दस्य नपुंसकत्वापत्तेरिति चेत्, व्याकरणस्य सिद्धानुवादकत्वेन स्तोकं पचतीत्यादिमात्रविषयत्वेन क्रियाव्ययविशेषणानां क्लीबतेष्यते इत्यस्योपपत्तेः। धातोरेव लक्षणया सकलार्थबोधकत्वमितरस्य तात्पर्यग्राहकतेत्यपि केचित्। तथाविधमष्टमं वाक्यं निर्दिशति- अरविन्दवत्सुन्दरमित्यत्र वतेः 'तेन तुल्यम्-'इति विहितस्य सादृश्य- वदर्थकस्य सादृश्ये लक्षणा। तस्य च सुन्दरपदार्थैकदेशेन सुन्दरत्वेनान्वयादरविन्दमिव सुन्दरमित्यत्रेव बोधः। एकत्र शक्त्याऽपरत्र लक्षणया च सादृश्यप्रतिपादनाच्छ्रौत्यार्थी च। तथाविधं नवमं वाक्यं निर्दिशति- अरविन्दवन्मुखमित्यत्र त्वरविन्दनिरूपितसादृश्यवदभिन्नमिति। तथाविधं दशमं वाक्यं समुल्लिखति-
विन्दसौन्दर्यनिरूपितसादृश्याधिकरणमेतत्सम्बन्धि सौन्दर्यमिति मुखारविन्दसौन्दर्ययोः सादृश्यबोधे शाब्दे, तयोरभेदाध्यवसायादभिन्नधर्ममूला पश्चान्मुखारविन्दयोरपि सादृश्यधीः। तथाविधमेकादशवाक्यं विवेचयति-
Page 201
201 अरविन्देन तुल्यमित्यत्र तृतीयार्थो निरूपितत्वम्। तस्य च सादृश्येऽन्वया- दरविन्दनिरूपितसादृश्याश्रयाभिन्नमिति। तादृशं द्वादशवाक्यं विवेचयितुमवतारयति- तत्नैव सौन्दर्येणेति धर्मनिर्देशे तृतीयार्थः प्रयोज्यत्वम्। तेनारविन्दनिरूपितसौन्दर्यप्रयोज्यसादृश्यवदभिन्नमिति। तथाविधं त्रयोदशवाक्यं विवेचयति- अरविन्दमाननं च सममित्यत्र प्रथमं शब्दात्सादृश्यवदभिन्नमिति बोधे पश्चान्मानसी वैयञ्जनिकी वा परस्परनिरूपितसादृश्यस्य प्रतीतिः प्रसिद्धनिरूपितसादृश्यस्य वा। बिम्बप्रतिबिम्बभावापन्नधर्मकं चतुर्दशवाक्यं विवेचयितुमाह- बिम्बप्रतिबिम्बभावापन्ने तु- तादृशं वाक्यं निर्दिश्य विवेचयति- 'कोमलातपशोणाभ्रसन्ध्याकालसहोदरः। कुङ्कमालेपनो याति काषायवसनो यतिः॥' इत्यादौ कुङ्कमालेपनादिविशिष्टो यतिः कोमलातपादिविशिष्टसन्ध्याकालसदृशाभिन्न इति शक्त्या बोधे पश्चात्सादृश्यप्रयोजकधर्माकाङ्क्षायां श्रुतानां कोमलातपादीनामुपमानोपमेयविशेषणानां सादृश्यमूले तादात्म्याध्यवसाने साधारणत्वनिष्पत्तिः। पाठभेदेन बोधवैचित्र्यं दर्शयितुमाह- कुङ्कमालेपकाषायवसनाभ्यामयं यतिरित्यत्र कुङ्कमालेपवसनयोरसाधारणयोरपि साधारणत्वज्ञानजननद्वारा कल्पनीयसादृश्यनिष्पत्तिप्रयोजकत्वात्प्रयोज्यत्वेन सादृश्येऽन्वयः। एकदेशान्वयः पुनरेषु पक्षेष्वगतिकतयाश्रीयत इत्युक्तमेव। सादृश्यस्यातिरिक्तत्वे दिग्दर्शनविधया चतुर्दशोपमाप्रतिपादकवाक्यानां बोधा आलोचिताः, सम्प्रति तस्य समानधर्मरूपत्वे कियतां वाक्यानां बोधानालोचयितुमुपक्रमते- सादृश्यस्य समानधर्मरूपत्वे तु अरविन्दसुन्दरं वदनमित्यत्र लक्षणयाऽ- रविन्दवृत्तिसमानधर्मः प्रतीयते। तस्य चाभेदेन सुन्दरपदार्थैकदेशेन सुन्दरत्वेनान्वयः। तथाविधं द्वितीयवाक्यं प्रदर्शयति-
Page 202
202 अरविन्दमिव सुन्दरमित्यत्रारविन्दपदार्थ आधेयतया संसर्गेण इवपदार्थेन समानधर्मेणान्वेति । शेषं प्राग्वत्। तृतीयं तादृशं वाक्यं समुल्लिखति- सौन्दर्येणारविन्देन सममित्यत्र सौन्दर्योत्तरतृतीयया धान्येन धनीत्यत्रेव अभेदार्थिकया अन्यथा च निरूपितत्वार्थिकया सौन्दर्याभिन्नमरन्दनिरूपितं यत्सादृश्यं तद्वदभिन्नमिति धीः। लुप्तोपमास्थले बोधं विचारयति क्यडर्थाचारो धर्ममात्रम्। तस्य चोपमानपदेन लक्षणयोपस्थितं तन्निरूपितसादृश्यं प्रयोजकतासंसर्गेणाभेदेन वा विशेषणम्। विशेष्यं चाश्रयतयोपमेयम्। क्यचप्रत्ययविषये विचारयति- क्यजर्थाचारश्चानुरूपक्रियादिः। उपसंहरति इति दिक्। इवादिरव्ययः सादृश्यद्योतको वाचको वेति विमृशति- तत्रेवादीनां द्योतकत्वमेव न वाचकत्वम्, निपातत्वादुपसर्गवत्। द्योतकत्वं च स्वसमभिव्याहृतपदान्तरेण शक्त्या लक्षणया वा तादृशार्थबोधेन तात्पर्यग्राहकत्वेनोपयोगित्वमिति वैयाकरणाः। उपसर्गाणां द्योतकत्वमावश्यकम्। अन्यथा उपास्यते गुरु:, अनुभूयते सुखम्, गुर्वादेर्लेनाभिधानं न स्यात्। धात्वर्थकर्मताविरहात्। इवादीनां तु वाचकत्वम्, बाधकाभात्। प्रागुक्तहेतुस्त्वप्रयोजकत्वान्न साधकः। अन्यथा अव्ययत्वादिति हेतुना अव्ययमात्रस्यैव द्योतकतापत्तिरिति नैयायिकाः। उपमादोषानाख्यातुं प्रकमते- अथास्याश्चमत्कारस्यापकर्षकं यावत्तत्सर्वमपि दोषः। कविसमयप्रसिद्धिराहित्यम्, उपमानोपमेययोर्जात्या प्रमाणेन लिङ्गसंख्याभ्यां चाननुरूप्यम्, बिम्बप्रतिबिम्बभावे धर्माणामुपमानोपमेयगतानां न्यूनाधिकत्वम्, अनुगामितायामनुपपद्यमानकालपुरुषविध्याद्यर्थकत्वम्, एवमादि। उपमादोषानुदाहर्तुमाह- क्रमेण यथा- कविसमयप्रसिद्धिराहित्यस्योदाहरणं निर्दिश्यते-
Page 203
203 'प्रफुल्लकह्वारनिभा मुखश्री रदच्छदःकुङ्कमरम्यरागः। नितान्तशुद्धा तव तन्वि वाणी विभाति कर्पूरपरम्परेव ॥' उपमानोपमेययोर्जात्याऽननुरूपत्वस्योदाहरणं निर्दिश्यते- मुनिः श्ववदयं भाति सततं पर्यटन् महीम्। विनिवृत्तक्रियाजातः श्वापि लोके शुकायते॥' उपमानोपमेययोः प्रमाणेनाननुरूपत्वस्योदाहरणं निर्दिश्यते- 'सरसि प्लवदाभाति जम्बीरं सुपचेलिमम्। आदिकारणतोयौघ इव ब्रह्माण्डमण्डलम् ।' उक्तपद्ये ब्रह्माण्डमण्डलमुपमानं जम्बीरमुपमेयम्, किन्तु तयोः परिवर्तनेऽपि स दोषस्तदवस्थ एवेति प्रतिपादयति- एतस्यैव किञ्चित्पदव्यत्यासे ब्रह्माण्डस्योपमेयतायां चायमेव दोषः। उपमानोपमेययोः लिङ्गसङ्ख्याभ्यामननुरूपताया उदाहरणं निर्दिश्यते- 'द्राक्षेव मधुरं वाक्यं चरितं कौमुदी यथा। सदैवार्द्राणि चेतांसि सुधेव सुमहात्मनाम् ।' बिम्बप्रतिबिम्बभावापन्नधर्मस्य न्यूनताया उदाहरणं निर्दिश्यते- 'वामाकल्पितवामाङ्गो भासते भाललोचनः। शम्पया सम्परिष्वक्तो जीमूत इव शारदः।' उपपादयति- अन्र जीमूतगता भालस्थलोचनप्रतिबिम्बो नोपात्त इति न्यूनत्वम्। दोषपरिहारोपायमाह- 'भगवान् भवः' इति कृते तु बिम्बस्यैवाभावान्न प्रतिबिम्बापेक्षेति साधु। बिम्बप्रतिबिम्बभावापन्नत्वयोग्यस्य धर्मस्याधिकताया उदाहरणं निर्दिश्यते- 'विष्णुवक्षःस्थितो भाति नितरां कौस्तुभो मणिः। अङ्गारक इवानेकतारके गगनाङ्गणे ॥' उपपादयति- अत्र तारकाणां बिम्बाभावादाधिक्यम्। दोषोद्धारप्रकारमाह-
Page 204
'विष्णोर्वक्षसि मुक्तालिभासुरे भाति कौस्तुभः' इत्यर्थे तु न दोषः। 204
परिवर्तितपाठे उपमासिद्धिरीति स्फोरयति- अत्र विशेषणयोर्मुक्तालितारकागणयोर्बिम्बप्रतिबिम्बभावेन वक्षोगगनाङ्गणयोर्विशेषणयोर्बिम्बभावः, तन्मूला चोपमा। अनुगामिधर्मस्थले कालानुपपत्तेरुदाहरणं प्रदर्शयति- रराज राजराजस्य राजहंसः करस्थितः। हस्तनक्षत्रसंसक्त इव पूर्णो निशाकरः॥' उपपादयति- अत्र रराजेति प्रतिपाद्ये भूतकालावच्छिन्नक्रियाविशेषे राजहंसस्यान्वय इव न निशाकरस्येत्यनुपपद्यमानकालघटितत्वं धर्मस्य। अनुगामिन: क्रियारूपस्य साधारणधर्मस्यानुपपद्यमानकालघटितत्वमेव पुनरुदाहरति- 'रणाङ्गणे रावणवैरिणो विभो: शराः समन्ताद् वलिता विरेजिरे। निदाघमध्यं दिनवर्तिनोऽम्बरे सहस्रभानोः प्रखराः करा इव ॥' पुनस्तदेवोदाहर्तुमाह- यथा वा- उदाहरणं निर्दिश्यते- 'आगतः पतिरितीरितं जनैः शृण्वती चकितमेत्य देहलीम्। कौमुदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणा॥' उपपादयति- अत्र शृण्वतीति शत्रा प्रत्यायितेन श्रवणसमकालमेव प्रियाया देहल्यागमनमित्यर्थेनातिशयोक्त्यात्मना गमितस्त्वरातिशयस्तद्गतमौत्सुक्यातिशयं पुष्णाति। कौमुद्युपमा तु तत्परिपोषितं प्रधानीभूतं प्रियगतमौत्सुक्यम्। चकितमित्यागमनविशेषणमपि वस्तुतो विचार्यमाणमीक्षणविशेषणीभवत्तस्यैवानुकूलम्। इति स्थिते भविष्यत्कालावच्छिन्नशिशिरीकरणस्य साधारणधर्मस्योपमेयान्वितत्वमिव नोपमानान्वितत्वम्
अनुपपद्यमानपुरुषार्थकत्वमुदाहरति- 'एतावति महीपालमण्डलेऽ्वनिमण्डन।
Page 205
205 तारकापरिषन्मध्ये राजन्राजेव राजसे ॥' उपपादयति- अ्न क्रियायां सम्बोध्योपमेयान्वय इव नोपमानान्वयः। विध्यादौत्यादिग्राह्यप्रार्थनानुपपत्तिमुदाहरति- 'राजेव सम्भृतं कोषं केदारमिव कर्षकः। भवन्तं त्रायतां नित्यं भयेभ्यो भगवान् भवः॥' उपपादयति- अन्न प्रार्थ्यमानत्राणकर्तृत्वमुपमेये भव इवोपमानयो राजकर्षकयोर्नास्ति, तयोस्त्राणकर्तृत्वस्य सिद्धत्वात्। दोषोद्धारप्रकारमुपदर्शयति- यदि तु त्रायते इति प्रार्थनानिर्मुक्तं त्राणकर्तृत्वमुच्यते तदा धर्मस्य साधारणत्वान्न दोषः। लडन्तपाठेऽपि धर्मस्य साधारण्यहानिमाशड्क्य समाधत्ते- अथ त्रायत इति प्रार्थ्यमानतानिर्मुक्तेऽपि त्राणकर्तृत्वेन साधारणत्वम्। प्रार्थ्यमानताया इव विधेयतानुवाद्यत्वयोर्भेदकत्वादिति चेत्। सत्यम्। इह हि धर्मलोपरहितायामुपमायां धर्मवाचकशब्दप्रतिपादैः
प्रयोजकाभावान्नोपमानिष्पत्तिरिति निर्विवादम्। तत्र विधेयत्वानुवाद्यत्वाभ्यां शब्देनानिवेदिताभ्यां विषयताभ्यां विशिष्टस्य धर्मस्य यदि नास्ति साधारण्यं मास्तु नाम। न ह्युदासीनैर्विशेषणैर्विशिष्टस्य धर्मस्य साधारण्यमपेक्षितम्। अपि तु धर्मवाचकशब्दनिवेदितैः। एवं चन्द्रवत्सुन्दरं मुखमित्यत्रापि सुन्दरत्वस्योपमानेऽनुवाद्यत्वे उपमेये च विधेयत्वेऽपि न साधारण्यहानिः। आशड्क्य समाधत्ते- ननु-'नीलाञ्चलेन संवृतमाननमाभाति हरिणनयनायाः। प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाङ्क:॥ इत्यत्रोपमाने चन्द्रे योगमर्यादया भासमान एणरूपोऽङ्क आननरूपोपमेयविशेषणस्वबिम्बाभावात्कस्य प्रतिबिम्बः स्यात्। अत आधिक्यापादकतया दोषः। न च हरिणनयनसदृशस्य नयनस्योपादानात्तस्यैव बिम्बस्य प्रतिबिम्बः स्यादिति
Page 206
206 वाच्यम्। तादृशनयनस्य बहुव्रीह्यर्थकान्ताविशेषणतया आननाविशेषणत्वेन बिम्बत्वाभावादिति चेत्, मैवम्। शब्देनाननविशेषणत्वेन तादृशनयनस्याप्रतिपादने ऽपि कान्ताविशेषणत्वेनैवाननवृत्तित्वस्यापि प्रतिपत्तेः। न ह्याननमविषयीकृत्य कान्तां विशेष्टमीष्टे नयनम्, अनुभवविरोधात्। पुनरन्यथा शङ्कते- तथापि समभिव्याहारविशेषमापन्नेन शब्देनाप्रतिपादनाच्छाब्दे बोधे नाननस्य नयनविशिष्टत्वेन विषयत्वमिति चेत्। समाधत्ते- संसर्गत्वे बाधकाभावात् स्वविशिष्टाननसंसर्गेण तादृशनयनस्य कान्ताविशेषणत्वात्। यथाकथञ्चिदुपमेयवृत्तिताज्ञानस्य बिम्बताप्रयोजकत्वात्। बिम्बत्वसाधकस्य मुखवृत्तितया नयनविषयकशब्दप्रयोज्यज्ञानस्य प्रकारान्तरमाह- यद्वा कान्ताविशेषणतया तादृशनयनयोः शाब्दे बोधे वृत्ते पश्चादाननस्य तद्विशेष्यतया वैयञ्जनिके मानसे वा बोधे बाधकाभावात्। एवं च तादृशवाक्यप्रयोज्ये ज्ञाने उपमेयविशेषणतया भानस्य तादृशनयनस्य बिम्बस्य सत्त्वात्तदर्थं च चन्द्रगतस्यैणरूपस्याङ्कस्य प्रतिबिम्बतयोपादानमावश्यकमेवेति नाधिक्यं दोषः। उक्तपद्ये सम्भावितापरदोषाभावं समुपपादयति- कविसमयसिद्धतया चमत्कारापकर्षकत्वाभावेन लिङ्गभेदोऽपि नात्र दोषः। एवमन्यत्राप्यपवादमाह- एवं च कविसमयसिद्धतया प्रकारान्तरेण वा प्रागुक्तानां दोषाणां चमत्कारानपकर्षकत्वे नास्त्येव दोषत्वम्। कविसमयसिद्धत्वप्रयुक्तदोषाभावत्वस्य लक्ष्यं दर्शयति- यथा- 'नवाङ्गनेवाङ्गणेऽपि गन्तुमेष प्रकम्पते। इयं सौराष्ट्रजा नारी महाभट इवोद्भटा ।I' एवंरीत्या सर्वत्र दोषाभावः समर्थनीय इत्याह- एवमन्यत्रापि ज्ञेयम्। पूर्वोक्तं दोषत्वदूरीकरणनिपुणं प्रकारान्तरं यदुक्तं तत्किमिति जिज्ञासाप्रशमनायाह-
Page 207
207 शेषं स्मरणालङ्कारप्रकरणे विकल्पप्रकरणे च वक्ष्यामः। परमं प्रकृतमुपसंहरति- इत्युपमानिरूपणसंक्षेपः। उपमेयोपमानिरूपणं प्रतिजानीते- अथास्या एव भेद उपमेयोपमा निरूप्यते- उपमेयोपमायाः लक्षणं लिख्यते- तृतीयसदृशव्यवच्छेदबुद्धिफलकवर्णनविषयीभूतं परस्परमुपमानोपमेयभावमापन्नयोरर्थयोः सादृश्यं सुन्दरमुपमेयोपमा। पदकृत्यप्रदर्शनप्रसङ्गे प्रथमं 'भूतान्तस्य' उपमानोपमेयभावविशेषणस्य कृत्यं प्रदर्श्यते- 'तडिदिव तन्वी भवती भवतीवेयं तडिल्लता गौरी' इत्यत्र परस्परोपमाया- मतिव्याप्तिवारणाय भूतान्तम्। उक्त्वाक्येऽतिव्याप्तिमुपपादयितुमाह- अत्र तानवगौरिभ्यामनुगामिधर्माभ्यां प्रयोजितमुपमाद्वयं न तृतीयं सदृशं व्यवच्छिनत्ति। एकेन धर्मेणैकप्रतियोगिके परानुयोगिके सादृश्ये निरूपिते ऽपरप्रतियोगिकस्यैकानुयोगिकस्यापि तेन धर्मेण सादृश्यस्यार्थतः सिद्धतया शब्देन पुनस्तदुक्तिः स्वनैरर्थक्यपरिहाराय तृतीयसदृशव्यवच्छेदमाक्षिपति। प्रकृते चैकेन तानवरूपेण धर्मेण तडित्प्रतियोगिके कामिन्यनुयोगिके सादृश्ये निरूपिते तेनैव धर्मेण कामिनीप्रतियोगिकस्य तडिदनुयोगिकस्य सादृश्यस्यार्थतः सिद्धावपि न गौरत्वेन धर्मेण, सिद्धिरिति तदर्थमुपात्तस्य द्वितीयसादृश्यवचनस्य न तृतीयसदृशव्यवच्छेदफलकत्वम्। परस्परपदकृत्यमाह- 'सदृशी तव तन्वि निर्मिता विधिना नेति समस्तसम्मतम्। अथ चेन्निपुणं विभाव्यते मतिमारोहति कौमुदी मनाक् ॥' इति तृतीयसदृशव्यवच्छेदफलकवर्णनविषये सादृश्ये ऽ्तिव्याप्तिवारणाय परस्परमिति। सुन्दरपदनिवेशफलमाह- लिङ्गवचनभेदादिदुष्टसादृश्यवारणाय सुन्दरमिति- उदाहरणप्रदर्शनं प्रतिजानीते- अथेदमुदाह्ियते-
Page 208
208 उदाहरणं निर्दिश्यते- 'कौमुदीव भवती विभाति मे कातराक्षि भवतीव कौमुदी। अम्बुजेन तुलितं विलोचनं लोचनेन च तवाम्बुजं समम् ॥' उपमेयोपमाया भेदो विधीयते- इयं च तावद्द्विविधा उक्तधर्मा व्यक्तधर्मा च। उक्तधर्मा तावदनुगाम्यादिभिः प्रागुक्तैर्धर्मैरनेकधा। उक्तधर्मायाः प्रथमं प्रकारं निर्देष्टुमाह- अनुगामी धर्मो यथा- उदाहरणं निर्दिश्यते- 'निखिले निगमकदम्बे लोकेष्वप्येष निर्विवादोऽर्थः। शिव इव गुरुर्गरीयान् गुरुरिव सोऽयं सदाशिवोऽपि तथा॥' उक्तधर्माया द्वितीयं प्रकारं निर्देष्टुमाह- बिम्बप्रतिबिम्बभावमापन्नो यथा- उदाहरणं निर्दिश्यते- 'रमणीयस्तबकयुता विलसितवक्षोजयुगलशालिन्यः। लतिका इव ता वनिता इव रेजिरे लतिकाः॥' उपपादयति- अत्र रमणीयत्वविलसितत्वाभ्यां विशेषणाभ्यां युतत्वशालित्वाभ्यां च विशेष्याभ्यां परस्परं वस्तुप्रतिवस्तुभावमापन्नाभ्यां पुटितः स्तबकस्तनरूपः परस्परं बिम्बप्रतिबिम्बभावापन्नो धर्मः। तृतीयं प्रकारमुदाहर्तुमाह- उपचरितो यथा- उदाहरणं निर्दिश्यते- 'कुलिशमिव कठिनमसतां हृदयं जानीहि हृदयमिव कुलिशम्। प्रकृतिः सतां सुमधुरा सुधेव हि प्रकृतिरिव च सुधा।।' चतुर्थं प्रकारमुदाहर्तुमाह- केवलशब्दात्मको यथा-
Page 209
209 उदाहरणं निर्दिश्यते- 'अविरतचिन्तो लोके वृक इव पिशुनोऽत्र पिशुन इव च वृकः। भारतमिव सच्चित्तं सच्चित्तमिवाथ भारतं सकृपम् ॥ द्विविधयोरुपमेयोपमयोरुक्तधर्माख्यस्य प्रथमभेदस्यावान्तरभेदानां चतुर्णामुदाहरणानि प्रदर्श्य, सम्प्रति द्वितीयभेदस्य व्यक्तधर्माख्यस्योदाहरणं प्रदर्शयितुमाह- व्यक्तधर्मो यथा- उदाहरणं निर्दिश्यते- 'वारिधिराकाशसमो वारिधिसदृशस्तथाऽकाशः। सेतुरिव स्वर्गङ्गा स्वर्गङ्गेवान्तरा सेतुः॥' उपपादयति- अत्रापारत्वादिर्व्यज्यमानो धर्मः। विशेषमाह- एषा सर्वाडपि स्फुटे वाक्यभेदे प्रपञ्चिता। पूर्वसम्भावितमुपमेयोपमाप्रकारमुदाहर्तुमाह- आर्थे तु वाक्यभेदे- उदाहरणं निर्दिश्यते- 'अभिरामतासदनमम्बुजानने नयनद्वयं जनमनोहरं तव। इयति प्रपञ्चविषयेऽ्रपि वैधसे तुलनामुदञ्चति परस्परात्मना ।।' उपपादयति- अत्र परस्परात्मना तुलनामुदञ्चतीति संक्षिप्ताद्वाक्यादिदमेतेनैतच्चानेन तुलनामुदञ्चतीति वाक्यद्वयं विचारकमुल्लसति। अस्या उपमेयोपमाया अपरेऽपि प्रभेदाः सम्भवन्तीति सूचयितुमाह- एवं पूर्णालुप्तादयोऽप्यस्या उपमाया इव प्रायशः सर्वेऽपि भेदाः सम्भवन्ति। ननु सम्भवन्तस्ते भेदाः कुतो नोदाहियन्ते इत्यत आह- ते चामुयैव दिशा सुबुद्धिभिरुन्नेतुं शक्या इति नेह निरूप्यन्ते। खण्डयितुमप्पय्यदीक्षितमतमुत्थापयति- चित्रमीमांसाकृतस्तु प्राचीनं लक्षणमव्याप्त्यतिव्याप्त्यादिभिर्दूषयित्वा-
Page 210
210 'अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा। एकधर्माश्रया या स्यात्सोपमेयोपमा मता॥' इति स्वयं लक्षणमाहुः। अस्यार्थः संक्षेपेण सपदकृत्यस्तदुक्तरीत्या सहृदयानां सौकर्यायोच्यते-अन्योन्येनेति। अन्योन्यप्रतियोगित्वविशिष्टा व्यक्त्या व्यञ्जनाव्यापारेण वृत्त्यन्तरेण शक्त्या वा बोध्या वेद्या एकधर्माश्रया एकधर्मप्रयोज्या या उपमा सा उपमेयोपमा मतेत्यन्वयः। अन्योन्येनेति विशेषणादिदं तच्च सममित्युभयविश्रान्तोपमाया निरासः। अन्रान्योन्यप्रतियोगिकत्वस्य व्यञ्जनव्यापारमात्रगम्यत्वेनोपमायाश्च शक्तिवेद्यतया परस्परनिरपेक्षेणैकेन व्यापारेणान्योन्यप्रतियोगिकत्वविशिष्टायास्तस्या अबोधनात्, परस्परनैरपेक्ष्यस्यात्र वाकारेणाभिधानात्। एकधर्माश्रयेति विशेषणात् 'राजोभिर्भूरिव द्यौर्घनसन्निभैर्गजैश्च दौरिव भूः' इति कस्यचित्पद्यस्यार्थे परस्परोपमायां नातिव्याप्तिः, तत्रोपमाप्रयोजकधर्मैक्याभावात्। भूतलोपमानिकायां प्रयोजकस्य रजसामनुगामिधर्मस्य, नभस्तलोपमानिकायां प्रयोजकस्य घनसदृशगजानां बिम्बप्रतिबिम्बभावापन्नधर्मस्य च भेदात्। व्यक्त्येति च विशेषणं व्यङ्ग्योपमेयोपमासङ्ग्रहार्थमितीदमुपमेयोपमात्वप्रयोजकं लक्षणमिति। खण्डयति- तन्न। 'अहं लतायाः सदृशीत्यखर्वं गौराङ्गि गर्वं न कदापि यायाः। गवेषणेनालमिहापरेषामेषापि तुल्या तव तावदस्ति ॥' अन्नान्योन्यप्रतियोगिकत्वविशिष्टाया उपमायास्तनुत्वादिरूपैकधर्माश्रयाया वृत्त्यन्तरेण शक्त्या बोधनादुपमेयोपमात्वापत्तेः। आशड्क्य समाधत्ते- न चात्रान्योन्यप्रतियोगिकत्वमुपमायां न प्रतीयते, लतादिसम्बन्धिसादृश्याश्रयत्वस्यैवास्मत्पदार्थेऽन्वयादिति वाच्यम्। 'मुखस्य सदृशश्चन्द्रस्य सदृशं मुखम्' इत्युपमेयोपमायामव्याप्तेः। ननु 'मुखस्य सदृशः-' इतिवत् 'अहं लताया :- ' इति पद्यमपि लक्ष्यमेवोपमेयोपमायास्तथा च नातिव्याप्तिः, अलक्ष्ये लक्षणगमनस्यातिव्याप्तिपदार्थत्वादित्यत्राह- न ह्यहं लताया इत्यत्रोपमेयोपमा भवितुमर्हति। गर्वमात्रनिरासपरत्वेनोत्तरा- र्धोपमायास्तृतीयसदृशव्यवच्छेदाप्रतिपत्तेः। अत एव अन्यान्यपि तव सदृशानि सन्त्येव
Page 211
211 तेषां गवेषणेन किं फलमित्येतदर्थकं गवेषणेनेत्युत्तरार्धं सङ्गच्छते। तृतीयसब्रह्मचारिव्यवच्छेदो ह्युपमेयोपमाजीवितमित्यालङ्कारिकसिद्धान्तः। अन्यथा 'भुवस्तलमिव ब्योम कुर्वन्व्योमेव भूतलम्' इत्यत्राप्युपमेयोपमात्वनिवारणप्रयासवैयर्थ्यापत्ते 1 दीक्षितमतसमर्थिकां युक्तिमाशड्क्य समाधत्ते- न च तृतीयसदृशव्यवच्छेदफलकत्वमुपमाविशेषणं वाच्यम्, विशेषणान्तरवैयर्थ्यापत्तेः। विशेषणव्यावर्त्यानामाधुनिकविशेषणेनैव वारणात्। दीक्षितोक्तमन्यदपि दूषयितुमाह- अन्योन्यप्रतियोगिकत्वविशिष्टा उपमा एकवृत्तिमात्रवेद्येत्यप्ययुक्तमेव। 'खमिव जलं जलमिव खम्' इत्यादौ खजलयोः सादृश्यान्वये प्रतियोगित्वस्य संसर्गत्वेन वृत्यविषयत्वात्। वृत्तिवेद्यानां पदार्थानां संसर्गो वृत्त्यवेद्य इत्यभ्युपगमात्। अन्यथा प्रकारतापत्तेः। अलङ्कारसर्वस्वकारमतमालोचयितुमुपक्रमते- यदप्यलङ्कारसर्वस्वकृतोक्तं 'द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा। तच्छब्देनोमानोपमेयत्वप्रत्यवमर्शः। पर्यायो यौगपद्याभावः। अत एवात्र वाक्यभेदः' इति तन्न । अन्र द्वयोरिति व्यर्थम्। एकस्योपमानोपमेयात्मकत्वे 'गगनं गगनाकारम्' इत्यादौ वाक्यभेदाभावेन पर्यायाभावादेवाप्रसक्तेः। आशयविशेषवर्णनेन 'द्वयोः' इत्यस्य सार्थक्ये साधितेऽपि दोषान्तरेण दुष्टमेवैतल्लक्षणमित्याख्यातुं प्रवर्तते-
कविसमयसिद्धिस्फोरणार्थं वा द्वयोरिति ग्रहणं स्यात्, अथापि प्रागुदीरिते 'अहं लतायाः सदृशीत्यखर्वम्' इति पद्ये प्रतिपाद्यायामुपमायामतिव्याप्तेः। 'तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलामधिरोहतां द्वे। प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ।।' इति कालिदासपद्ये प्रतिपाद्यायामुपमानोपमेययोर्युगपदुपमेयोपमानभावायामुपमेयोपमायां
पुरोदीरिताव्याप्तौ कथञ्चित्समाहितायामपि दोषान्तरं सम्भवतीत्याह- न चात्रापाततः शब्दैक्येऽपि पर्यवसितो वाक्यभेदोऽस्तीति वाच्यम्। तथापि-
Page 212
212 'सविता विधवति विधुरपि सवितरति दिनन्ति यामिन्यः। यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि॥' इति कस्यचित्कवेः पद्ये परस्परोपमायामतिव्याप्तेः। न चेयमुपमेयोपमेति शक्यते वक्तुम्, सुखसमये दुःखदोऽपि सुखयति दुःखसमये च सुखदोऽपि दुःखयति इत्येतावन्मात्रस्यार्थस्य विवक्षितत्वात्तृतीयसदृशव्यवच्छेदाप्रतिपत्तेः। सर्वस्वकारकृतलक्षणस्यापरत्रापि अतिव्याप्तिमुद्भावयति- एवम्- 'रजोभि: स्यन्दनोद्धूतैर्गजैश्च घनसन्निभैः। भुवस्तलमिव व्योम कुर्वन् व्योमेव भुतलम् ॥' इत्यत्र परस्परोपमायामतिव्याप्तिः। विशेषमाह- सदृशान्तरव्यवच्छेदफलकत्वेन विशिष्यमाणे तु तस्मिन्नस्मदुक्त एव पर्यवसानम्। मूलालङ्कारसर्वस्वस्य खण्डनं विधाय सम्प्रति तद्विवरणरूपाया विमर्शिन्या अपि खण्डनं विधातुमाह- यच्च विमर्शिनीकारेणोक्तम् 'स च वाक्यभेदः शाब्द आर्थश्च। तत्र शाब्दो यथा-'रजोभिः स्यन्दनोद्धूतैः' इत्यादिः। अस्याश्चोपमानान्तरतिरस्कार एव फलम्। अत एवोपमेयेनोपमेत्यन्वर्थाभिधत्वम्' इति, तत्तुच्छम्। न हि 'रजोभिः स्यान्दनोद्धूतैः' इत्यत्रोपमानान्तरतिरस्कारः प्रतीयते। द्वयोरुपमयोरेकधर्मकत्वाभावात्, आद्याया उपमाया अनुगामिधर्मप्रयोज्यत्वात्, द्वितीयायाश्च बिम्बप्रतिबिम्बभावापन्नधर्मप्रयोज्यत्वात्। रत्नाकरोक्तं निरसितुमाह- यदपि 'परस्परमुपमानोपमेयत्वमुपमेयोपमा' इति लक्षणं विधाय 'सविता विधवति-' इत्यादि प्रागुक्तपद्यं रत्नाकरेणोदाहारि, तच्च तदीयेनैव 'स चोपमानान्तरनिषेधार्थः' इति ग्रन्थेन विरुद्धम्। न ह्यस्मिन्पद्ये उपमानान्तरनिषेधः प्रतीयत इति प्रागेवावेदनात्। प्रतीयत एवेति चेत्, पुनरपि पृच्छ हृदयमेव स्वकीयम्। परमतखण्डनप्रसङ्गमुपसंहतुमाह- इत्यलं विवादेन। 'उपमेयोपमा' अलङ्कारपदवाच्या कदा भवतीति स्पष्टयति-
Page 213
213 इयं चोपमेयोपमा यदि कस्याप्यर्थस्योक्तर्षाधायिका तदालङ्कारः । अन्यथा तु स्ववैचित्र्यमात्रपर्यवसितेति। अलङ्कारान्तरेष्वपि युक्तेरस्यास्तुल्यत्वमाह- एवमलङ्कारान्तरेऽपि ज्ञेयम्। व्यङ्ग्योपमेयोपमामुदाहर्तुमाह- अथ ध्वन्यमानेयमुदाहियते- उदाहरणं निर्दिश्यते- 'गाम्भीर्येणातिमात्रेण महिम्ना परमेण च। राघवस्य द्वितीयोऽब्धिरम्बुधेश्चापि राघवः॥।' उपपादयति- द्वितीयशब्दस्य सादृश्यविशिष्टे शक्त्यभावाद् व्यक्तिरेव। उक्तोदाहरणेऽरुचिमुद्धाव्योदाहरणान्तरं प्रदर्शयितुमाह- यदि तु लक्षणा तदेदमुदाहरणम्। उदाहरणं निर्दिश्यते- 'सुधासमुद्रं तव रम्यवाणी वाचं क्षमाचन्द्र सुधासमुद्रः। माधुर्यमध्यापयितुं दधाते खर्वेतरामान्तरगर्वमुद्राम्॥।' उपपादयति- अन्न वागादिकर्तृकस्य परस्पराध्यापनस्य बाधान्माधुर्यसंक्रान्तिविशेषस्य लक्षणया बुध्यमानस्य प्रयोजनं स्वप्रयोज्यान्योन्योपमानोपमेयभावः। दोषनिरूपणं प्रतिजानीते- अथ दोषा :- दोषानाह- तत्र तावत्प्रागुक्ता यावन्त उपमाया दोषाः अनुक्ताश्च विस्तृतिभयात्, ते सर्वेऽ्प्युपमात्वाक्रान्तत्वादस्यामपि बोध्याः। अयं पुनरन्योऽपि दोष :- यदेकोपमावैलक्षण्यमपरस्यामुपमायाम्। यथा-'कमलमिव वदनमस्या वदनेन समं तथा कमलम्' अत्र श्रौत्यार्थीकृतं वैलक्षण्यम्। 'कमलति वदनं यस्याः कमलं वदनायते जगति' क्विपक्यङ्कृतमत्र वैलक्षण्यम्। एवमन्रैव 'पद्मं वदनायते' इति निर्माणे
Page 214
214 'वक्त्रायते' इति वा उपमानोपमेयवाचकवैलक्षण्यम्। एवंप्रकारैरनेकैर्वैलक्षण्यं यदि सहृदयोद्वेजकं तदा दोषः। प्रकरणसमाप्तिं सूचयति- इति रसगङ्गाधरे उपमेयोपमाप्रकारणम्। अनन्वयालङ्कारनिरूपणं प्रतिजानीते- अथानन्वय :- लक्षणं लिख्यते- द्वितीयसदृशव्यवच्छेदफलकवर्णनविषयीभूतं यदेकोपमानोपमेयकं सादृश्यं तदनन्वयः। लक्षणेऽनुक्तमपि अलङ्कारेतिसंज्ञासामर्थ्यावगम्यमानं अर्थं स्फुटत्वायाह- स च कस्याप्युपस्कारकत्वेऽलङ्कारः। अन्यथा तु शुद्धः। पदकृत्यं प्रदर्शयितुं प्रत्युदाहरणं निर्दिश्यते- 'लोहितपीतैः कुसुमैरावृतमाभाति भूभृतः शिखरम्। दावज्वलनज्वालैः कदाचिदाकीर्णमिव समये ॥' उपपादयति- अन्र लोहितपीतकुसुमावृतं भूभृतः शिखरं स्वेनैव कस्मिंश्चित् समये दावज्वालाकीर्णेनोपमीयते, इति तत्सादृश्यवारणाय भूतान्तम्। स्फुटत्वाय प्रत्युदाहरणान्तरमाह- इदं वा प्रत्युदाहरणम्- 'नखकिरणपरम्पराभिरामं किमपि पदाम्बुरुहद्वयं मुरारेः। अभिनवसुरदीर्घिकाप्रवाहप्रकरपरीतमिव स्फुटं चकासे॥।' उपपादयति- अन्रापि नखकिरणपरम्पराभिरामं हरे: पदाम्बुजं स्वात्मनैव सुरदीर्घिकाप्रवाहप्रकरपरीतेनोपमीयते। ननु वर्णनकाले भगवच्चरणयोर्गङ्गाप्रवाहपरीतत्वाभावे तद्विशिष्टत्वेनासत एव तस्योपमानत्वकल्पने सदुपमानं नास्तीति द्वितीयसदृशव्यवच्छेदः प्रतीयत एवेत्यत आह- सम्प्रति सुरदीर्घिकाप्रवाहेण भगवत्पादाम्बुरुहस्य सम्बन्धाभावात्सुरनिम्न- गोत्पत्तिकालावच्छिन्नस्य तस्योपमानतावगमायाभिनवेति प्रवाहविशेषणम्।
Page 215
215 ननु पूर्वोक्तपद्ययुगलेऽनन्वयालङ्कारः कुतो नाङ्गीक्रियते इत्यत आह- न ह्यन्र सादृश्यवर्णनस्य फलं द्वितीयसब्रह्मचारिव्यवच्छेदः तस्याप्रतिपत्तेः। एकोपमानोपमेयकेति विशेषणव्यावर्त्यमाह- 'स्तनाभोगे पतन् भाति कपोलात्कुटिलोऽलकः। सुधांशुबिम्बतो मेरौ लम्बमान इवोरगः॥' उपपादयति- इति कल्पितोपमानिकायामुपमायामतिप्रसङ्गवारणायैकोपमानोपमेयकमिति। अत्रासत उपमानस्य कल्पनया सदुपमानं नास्तीति द्वीतीयसदृशव्यवच्छेदस्यास्ति प्रतीतिः। उदाहरणं दर्शयितुमाह- उदाहरणममृत(पीयूष)लहर्याख्ये मदीये गङ्गास्तवे- उदाहरणं निर्दिश्यते- 'कृतक्षुद्राघौघानथ सपदि सन्तप्तमनसः, समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः। अपि प्रायश्चित्तप्रसरणपथातीतचरितान्, नरानूरीकर्तुं त्वमिव जननि त्वं विजयसे॥।' उदाहरणान्तरं दातुमाह- यथा वा- उदाहरणं निर्दिश्यते- 'इयति प्रपञ्चविषये तीर्थानि कियन्ति सन्ति पुण्यानि। परमार्थतो विचारे देवी गङ्गा तु गङ्गेव ।।' उदाहरणान्तरदाने बीजमाह- पूर्वपद्ये वाच्योऽनुगामी धर्मः। इह तु व्यङ्ग्य इति विशेषः। द्वितीयोदाहरणघटक'तु' पदप्रतीयमानं विशेषं स्फुटीकर्तुमाह- तुशब्दोऽयं तिर्थान्तरेभ्यो वैलक्षण्यं प्रतिपादयंस्तत्प्रयोजकं भगवद्वासुदेवात्मकत्वं धर्मं श्रीगङ्गायां व्यनक्ति।
उभयत्रापि श्रीगङ्गाविषयकरत्युपस्कारकत्वादलङ्कारोऽयम्।
Page 216
216 अनन्वये बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मस्यासम्भावनां सूचयति- बिम्बप्रतिबिम्बभावापन्नो धर्मस्त्वत्र नास्ति। तस्मिंश्च सति किञ्चिद्धर्मावच्छिन्नेन स्वेन सादृश्यस्य धर्मान्तरावच्छिन्ने स्वस्मिन्नन्वये बाधकाभावात्सदृशान्तरव्यवच्छेदाप्रतिपत्तेश्चानन्वय एव न स्यात्। अनन्वयभेदानाह- स च पूर्णो लुप्तश्चेति तावद्द्विविधः। पूर्णस्तूपमावत् षड्विधोऽपि सम्भवति। पूर्णानन्वयस्य भेदानुदाहर्तुमाह- यथा- उदाहरणानि सार्धपद्येन निर्दिश्यन्ते- 'गङ्गा हृद्या यथा गङ्गा, गङ्गा गङ्गेव पावनी। हरिणा सदृशो बन्धुर्हरितुल्यः परो हरिः। गुरुवद् गुरुराराध्यो गुरुवद् गौरवं गुरोः।' लुप्तानन्वयभेदानाह- लुप्तेष्वपि धर्मलुप्तः पञ्चविधोऽपि सम्भवति, प्रागुक्ते सार्धपद्ये धर्मवाचकपदमपहाय पदान्तरदाने। वाचकलुप्तमनन्वयमुदाहरति- वाचकलुप्त :- 'रामायमाणः श्रीरामः सीता सीतामनोहरा। ममान्तःकरणे नित्यं विहरेतां जगद्गुरू॥' इत्यत्र क्यङ्समासयोः। वाचकलुप्तमेव पुनरन्यथोदाहरति- 'लङ्कापुरादतितरां कुपितः फणीव निर्गत्य जातु पृतनापतिभि: परीतः। क्रुद्धं रणे सपदि दाशरथिं दशास्यः। संरब्धदाशरथिदर्शमहो ददर्श ॥' अन्यत्रापि वाचकलुप्तानन्वयलक्ष्यसम्भावनामाह- एवं कर्तृणमुलादावप्यूह्यम्।
Page 217
217 एकलुप्तमुदाहृत्य सम्प्रत्यनेकलुप्तानन्वयोदाहरणप्रसङ्गे प्रथमं धर्मवाचकोभयलुप्त- मुदाहरति- 'अम्बरत्यम्बरं यद्वत्समुद्रोऽपि समुद्रति। विक्रमार्कमहीपाल तथा त्वं विक्रमार्कसि॥' उपपादयति- अत्र वाक्यार्थावयवेष्वनन्वयेषु धर्मवाचकयोर्लोपः। मुखवाक्यार्थस्त्वनन्वयफलेन निरुपमत्वेन समानधर्मेण प्रयोजितो मालोपमैव। एषा च ज्ञानसौकर्यायात्रैव निरूपिता। त्रिलुप्तमनन्वयमुदाहरति- 'एतावति प्रपञ्चेऽस्मिन् सदेवासुरमानुषे। केनोपमीयतां तज्ज़ै रामो रामपराक्रमः ॥' उपपादयति- अन्न वाचकधर्मोपमानानां लोपः। न्यूनतां निराचष्टे- अत्र चोपमानलुप्तादयोऽन्ये भेदा असम्भवादहृद्यत्वाच्च नोदाहृताः। खण्डनाय रत्नाकरमतमुत्थापयति- यत्तु-"तेन तदेकदेशेनावसितभेदेन वोपमानतया कल्पितेन सादृश्यमनन्वयः। उपमेयेनैवोपमानतया कल्पितेनोपमेयस्यामुखावभासमानसाधर्म्यापादानमेकोऽनन्वयः, उपमेयैकदेशस्य तथैवोपमानताकल्पनमपरः। उपमेयस्यैव प्रतिबिम्बत्वादिना भेदेनावसितस्य तत्त्वकल्पनं तृतीय:। आद्यो यथा- 'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापः' इत्यादि। द्वितीयो यथा- 'एतावति प्रपञ्चे सुन्दरमहिलासहस्त्रभरितेऽपि। अनुहरति सुभग तस्या वामार्धं दक्षिणार्धस्य ।।' तृतीयो यथा- 'गन्धेन सिन्धुरधुरन्धरवक्त्रमैत्री- मैरावणप्रभृतयोऽपि न शिक्षितास्ते।
Page 218
218 तत्त्वं कथं त्रिनयनाचलरत्नभित्ति- स्वीयप्रतिच्छविषु यूथपतित्वमेषि॥ एषूपमानान्तरविरहस्त्रिष्वपि भेदेषु गम्यते। इत्यनन्वयस्त्रिविधः।" इति रत्नाकरेणोक्तम्। खण्डयति- तन्न। उपमानान्तरविरहप्रतीतिमात्रादेवानन्वयत्वे 'स्तनाभोगे पतन्भाति' इत्यत्रोपदर्शितायाः कल्पितोपमाया अपि तथात्वापत्तेः। यद्यर्थातिशयोक्तावतिप्रसक्तेश्च। तादृशप्रतीतिफलकैकोपमानोपमेयकसादृश्यस्य तत्त्वे पुनः कथं नाम वामार्धदक्षिणार्धयोर्भिन्नयोः सादृश्ये तद्भेदत्वोपन्यासः। न च स
क्वाव्याप्तिरतिव्याप्तिर्वेति वाच्यम्। नास्त्यन्वयोऽस्येति योगार्थविरहेण तदेकदेशसादृश्यस्यानन्वयपदार्थत्वासम्भवात्। अपि चानन्वये 'गगनं
निरुपमत्वमुपमेयगतं सिद्ध्यति। अत्र च वामार्धस्योपमेयस्य दक्षिणार्धरूपोपमानकथनेन निरुपमत्वं विरुद्धमेव। कान्तागतनिरुपमत्वप्रत्ययस्तु नानन्वयस्य फलं भवितुमर्हति, तस्या अनुपमेयत्वात्। अलङ्कारसर्वस्वकारोक्तमुपपाद्य निरस्यति- यदपि चालङ्कारसर्वस्वकृता 'अनन्वयध्वनित्वमत्र भविष्यति। अन्यथाऽलङ्कारध्वनेर्विषयापहारः स्यात्' इत्युक्तम्, तदपि तुच्छम्। अस्य ह्युपमाननिषेधफलकमभिन्नोपमानोपमेयकं सादृश्यं स्वरूपमित्युक्तम्। प्रकृते च वामार्धदक्षिणार्धयोस्तद्वाधितमित्युक्तमेव। कान्तायाः पुनरुपमाननिषेधस्य व्यड्ग्यत्वेऽपि अभिन्नोपमानोपमेयकसादृश्यस्य स्वरूपस्याप्रत्ययात्। नहि निरुपमत्वप्रतीतिषु सर्वास्वभिन्नोपमानोपमेयकसादृश्यप्रतीतिपूर्वकत्वमिति नियमोऽस्ति। कल्पितोपमातिशयोक्त्योरसमालङ्कारध्वनौ च व्यभिचारात्। तस्मान्नास्त्येवात्रानन्वयगन्धोऽपि
अप्पय्यादीक्षितमतमुपपाद्य निरस्यति- यच्च 'अयमनन्वयो व्यङ्ग्योऽप्यस्ति'। यथा-
Page 219
219 'अद्य या मम गोविन्द जाता त्वयि गृहागते। कालेनैषा भवेत् प्रीतिस्तवैवागमनात्पुनः॥' अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवप्रीतिर्बहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत् नान्येन, इत्युक्तिभङ्ग्या त्वदागमनप्रभवप्रीतेः सैव सदृशी न त्वितरप्रभवा इति व्यज्यते' इत्यप्पयदीक्षितैरभिहितं तदपि न। अमुष्यास्त्वदागमनप्रभवायाः प्रीतेर्वारान्तरत्वदागमनप्रभवा प्रीतिः सदृशीति प्रत्ययस्य सर्वजनसिद्धतया श्रीकृष्णागमनजन्यप्रीतिसामान्यावयवयोद्वयोः प्रीतिव्यक्त्योः सादृश्यस्याबाधितत्वाद्योगार्थाभावेनानन्वय एव नायं भवितुमर्हति। 'स्वस्मिन् सादृश्यस्यान्वयाभावादनन्वयः' इत्युपमाप्रकरणे स्वयमेवाभिधानात्। उपमेयस्य प्रीतिव्यक्तिविशेषस्य सदृशान्तरव्यवच्छेदबाधात्, तादृशप्रीतिसामान्यस्य चावयविनो निरुपमतया प्रतीयमानस्यानुपमेयत्वात् पूर्वोदाहरणतुल्यमेवैतत्। क्वचिदवयवयोरुपमाप्यवयविगतनिरुपमत्वव्यञ्जिकेति स्थिते सामान्यस्य श्रीकृष्णागमनजन्यप्रीतेः सैव सदृशीति मध्ये स्वसादृश्यप्रत्ययकल्पनं पुनर्न सहृदयहृदयमारोढुमीष्टे। रत्नाकरोक्तस्यैवानन्वयप्रकारस्यात्र व्यङ्ग्यतेत्यपि न युक्तम्, तस्य प्रागेव दूषितत्वात् प्रकृतेऽवाच्यत्वात्, स्वयमनन्वयप्रकरणे तस्य प्रतिपादनविरहाच्च। 'अन्यथालङ्कारध्वनेर्विषयापहारः स्यात्' इति सर्वस्वकारोक्तिं मनसि निधाय तन्मुखमुद्रणाय स्वाभिमतमनन्वयध्वनिमुदाहर्तुमाह- इदं पुनरनन्वयध्वन्युदाहरणम्- उदाहरणं निर्दिश्यते- पुष्टाः खलु परपुष्टाः परितो दृष्टाश्च विटपिनः सर्वे। भेदेन भुवि न पेदे साधर्म्यं ते रसाल मधुपेन ॥' उपपादयति- अत्र भेदेनेत्युक्त्याऽभेदे सादृश्यमनन्वयात्मकं तु पेदे इति ध्वन्यते। उदाहरणान्तरं दर्शयितुमाह- यथा वा- उदाहरणं निर्दिश्यते- 'नगेभ्यो यान्तीनां कथय तटिनीनां कतमया
Page 220
220 पुराणां संहर्तु: सुरधुनि कपर्दोऽधिरुरुहे। कया वा श्रीभर्तुःपदकमलक्षालि सलिलै- स्तुलालेशो यस्यां तव जननि दीयेत कविभिः॥' उपपादयति- अन्र कया वा त्वदितरया श्रीभर्तुः पदं सलिलैरक्षालि यस्यामितरस्यां कविभिस्तव तुलालेशोऽपि दीयेतेत्यर्थेन त्वयि पुनः सलिलक्षालितश्रीरमणचरणायां तव तुला दीयेतैवेत्यर्थोऽनन्वयात्मा श्रीगङ्गागतनिरुपमत्वपर्यवसायी इतरपदमहिम्ना व्यज्यते। अनन्वयालङ्गारं निरूप्य सम्प्रति असमालङ्गारनिरूपणमारभमाणस्तावत्तल्लक्षणमाह-
विवेचयति- अयं चानन्वये व्यङ्ग्योऽपि तच्चमत्कारानुगुणतया रूपकदीपकादावुपमेव न पृथगलङ्कारव्यपदेशं भजते। वाच्यतायां तु स्वातन्त्र्येण चमत्कारितया पृथक्व्यपदेशभाक्। उदाहरणं निर्देष्टुमाह- यथा- उदाहरणं निर्दिश्यते- भूमीनाथ शहाबदीन भवतस्तुल्यो गुणानां गणै- रेतद्दूतभवप्रपञ्चविषये नास्तीति किं ब्रूमहे। धाता नूतनकारणैर्यदि पुनः सृष्टिं नवां भावये- न्न स्यादेव तथापि तावकतुलालेशं दधानो नरः॥' उदाहरणान्तरं निर्देष्टुमाह- यथा वा- उदाहरणं निर्दिश्यते- भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः। न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम् ।।' ननूदाहरणद्वयेऽपि निषेधस्य प्राधान्यात्कथमलङ्कारत्वम्, परपोषकत्वेनाप्रधानस्यैव तत्त्वादित्यत आह- राजस्तुत्युत्कर्षकत्वादत्रासमालङ्कारः।
Page 221
221 ननूपमानलुप्तोपमयैव गतार्थोऽयमसम इत्याशङ्गां मनसि निधायाह- आत्यन्तिकः क्वाचित्कश्च सदृशनिषेधोऽसमोपमानलुप्तयोर्विषयः। सर्वथैवोपमाननिषेधेन सादृश्याप्रतिष्ठानान्नोपमागन्धोऽपि। रत्नाकरमतमुपपाद्य निरस्यति- यत्तु- 'ढुण्ढुलन्तो मरीहसि कण्टक कलिआइं के अइवणाइं। मालइकुसुमसरिच्छं भमर भमंतो न पावहिसि ॥' इति। नेयमुपमानलुप्तोपमा, तस्याः, सम्भवदुपमानानुपादानविषयत्वात्। अपि त्वसमालङ्कारः' इति रत्नाकरेणोक्तम्, तदसत्। मालतीकुसुमसदृशं भ्रमर भ्रमन्नपि न प्राप्स्यसीत्युक्त्या वर्ततां नाम तत्सदृशं क्वापि, त्वया तु दुष्प्रापमेवेति प्रत्ययादात्यन्तिकोपमाननिषेधाभावादुपमानलुप्तोपमैवेयं भवितुमर्हति, नासमालङ्गारः। अन्यथा मालतीकुसुमसदृशं नास्तीत्येव ब्रूयात्, न तु प्राप्स्यसीति। आशंक्य समाधत्ते- अथासमालङ्कारध्वननेनैव चमत्कारोपपत्तेरनन्वयस्य पृथगलङ्कारता कथमिति चेत्, सत्यम्। दीपकादेरप्युपमाभिव्यक्त्यैव चमत्कारोपपत्तौ कथं नाम पृथगलङ्कारत्वमिति तुल्यम्। न च दीपकादावुपमाया व्यङ््यत्वेऽपि गुणीभावात्प्रकृते तु स्वसादृश्यस्य स्वस्मिन्नतितमां तिरस्कारेणासमालङ्कारस्यैव मुख्यतया ध्वननाद्वैषम्यमिति वाच्यम्। यथाहि दीपकसमासोक्त्यादौ गुणीभूतव्यङ्ग्यसत्त्वेऽप्यलङ्गारत्वं न हीयते एवमनन्वये प्रधानव्यङ्ग्यसत्त्वेऽपीति न किञ्चिद्विरुद्धम्। अनन्वयशरीरस्य स्वसादृश्यमात्रस्य वाच्यत्वेन वाच्यालङ्कारव्यपदेशोऽपि सुस्थ एव। दीपकाद्यलङ्कारकाव्ये गुणीभूतस्य व्यङ्ग्यस्य सत्त्वादस्तु नाम गुणीभुतव्यङ्यत्वम्। ध्वनित्वं पुनर्न क्वाप्यलङ्कृतिकाव्ये दृष्टमिति चेत्, पर्यायोक्तसादृश्यमूलाप्रस्तुतप्रशंसादिकाव्ये ध्वनित्वस्य स्फुटत्वात्। मतान्तरमाह- प्राञ्चस्तु नेदमलङ्कारान्तरमित्यप्याहुः। व्यङ्ग्यमसमालङ्कारं दर्शयितुमाह- अयं चासमालङ्कारो व्यज्यमानो यथा- उदाहरणं निर्दिश्यते-
Page 222
222 मयि त्वदुपमाविधौ वसुमतीश वाचंयमे न वर्णयति मामयं कविरिति क्रुधं मा कृथाः। चराचरमिदं जगज्जनयतो विधेर्मानसे पदं नहि दधेतरां तव खलु द्वितीयो नरः॥ उपपादयति- अत्र य एतावन्तं समयं विधातुर्मानसं नाधिरुढः सोऽग्रेऽपि मानाभावान्नाधिरोहेत्, अतः सर्वथैव नास्तीति गम्यते। व्यङ्ग्यत्वेऽपि कथमत्रासमस्यालङ्काररूपतेत्याह- एवं च व्यज्यमानोऽप्यसमोऽत्र प्रधानीभूतराजस्तुत्युत्कर्षकतयालङ्कार एव। यत्रासम एव मुख्यतयाऽभिव्यज्यते न रसादिस्तादशमुदाहरणं दर्शयितुमाह- मुख्यतया ध्वन्यमानोडयं यथा- उदाहरणं निर्दिश्यते- 'सदसद्विवेकरसिकैरालोक्य समस्तलोकमथ कविभिः। गणिता गगनलतादेर्गणनायां तन्वि! तव सदृशी॥' असमालङ्कारस्य भेदानुपपादयति- अयं क्वचिदुपमानस्य निषेधात्क्वचिच्च साक्षादुपमाया एव। आद्यस्तूपदर्शितः। द्वितीयभेदमुदाहर्तुमाह- द्वितीयो यथा- उदाहरणं निर्दिश्यते- 'पूर्णमसुरै रसातलममरैः स्वर्गो वसुन्धरा च नरैः। रघुवंशवीरतुलना तथापि खलु जगति निरवकाशैव॥' अन्यभेदानां स्वयमूहनीयतामाह- एवं पूर्णतया लुप्ततया चास्यापि यथासम्भवं भेदा उन्नेयाः। अयोदाहरणालङ्कारनिरूपणमारभमाणस्तावल्लक्षणमाह- सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेशं निरूप्य तयोरवयवावयविभाव उच्यमान उदाहरणम्। लक्षणं विवेचयितुमाह-
Page 223
223 अर्थान्तरन्यासवारणायोच्यमान इति। वचनं च इव-यथा-निदर्शन-दृष्टा-न्तादिशब्दैः काव्येषु स्फुटम्। न च इवयथाशब्दयोः सादृश्यवचनयोरवयवावयविभावे विशेषसामान्यात्मके नास्ति वृत्तिरिति वाच्यम् । लक्षणायाः साम्राज्यात्। अन्यथा ह्युत्प्रेक्षाबोधकतापि दुर्घटा स्यात्। लक्ष्यं दर्शयितुं कथयति- उदाहरणम्- उदाहरणं निर्दिश्यते- 'अमितगुणोऽ्पि पदार्थो दोषेणैकेन निन्दितो भवति। निखिलरसायनराजो गन्धेनोग्रेण लशुन इव ॥' आशड्क्य समाधत्ते- न चात्र पदार्थलशुनयोरुपमा शक्या वक्तुम्। तयोः सामान्यविशेषभावेन सादृश्यस्यानुल्लासात्। तथात्वे तु इवशब्दादीनामिव सदृशादिशब्दानामप्यलङ्कारेऽस्मिन् प्रयोग: स्यात्। इवपदघटितमुदाहरणमुक्त्वा यथापदघटितं तद्दर्शयितुमाह- यथा वा- उदाहरणं निर्दिश्यते- 'अतिमात्रबलेषु चापलं विदधानः कुमतिर्विनश्यति। त्रिपुरद्विषि वीरतां वहन्नवलिप्तः कुसुमायुधो यथा॥' उपपादयति- अत्र त्रिपुरद्विड्वीरते अतिमात्रबलचापलयोर्विशेषौ। अवलेपकुसुमायुधौ च कुमतिरित्यत्र गुणप्रधानयोः। निदर्शनपदघटितमुदाहरणं दर्शयितुमाह- यथा वा- उदाहरणं निर्दिश्यते- 'उपकारमेव कुरुते विपद्गतः सद्गुणो निरराम्। मूच्छां गतो मृतो वा निदर्शंनं पारदोऽन्र रसः॥
Page 224
224 दृष्टान्तपदघटितस्याप्युदाहरणालङ्कारस्योदाहरणमिदमेव पद्यं भवितुमर्हतीति बोधयितुं पाठान्तरमाह- दृष्टान्तो वा- विशेषमाह- इवादिशब्दप्रयोगे सामान्यार्थप्राधान्यं वाक्यैक्यम, निदर्शनादिशब्दप्रयोगे तु विशेषप्राधान्यं वाक्यभेदश्चेति विशेषः। तमेव विशेषं शाब्दबोधप्रदर्शनेन स्फुटीकरोति- तन्न तावद् 'अमितगुण :- ' इति पद्ये क्रियाप्रधानमाख्यातमिति नयेऽमितगुणपदार्थकर्तृकमेकदोषहेतुकं निन्दाविषयीभवनं निखिलरसायनराजलशुनकर्तृकोग्रगन्धहेतुकनिन्दाविषयीभवनावयवकमिति घीः। प्रथमान्तविशेष्यकबोधवादिनां तूग्रगन्धहे तुकनिन्दाविषयीभवनाश्रयतादृशलशुनावयवकस्तादृशपदार्थ एकदोषहेतुकनिन्दाविषयीभवनाश्रय इति। तत्रापि विशेषवाक्यार्थे क्रियान्वयो मृग्यते हेत्वन्तरान्वयार्थम्। अन्यथा तादृशलशुनावयवके तादृशपदार्थ एव क्रियान्वयेनोपपत्तिः स्यात्। एवं यथाशब्दस्थलेऽपि। उपकारमेवेत्यत्र तु विपद्गताभिन्नः सद्गुण उपकारानुकूलकृतिमानिति पूर्ववाक्यार्थ:, अत्रास्मिन्नर्थे मूच्छाङ्गतो मृतो वा पारदो निदर्शनमेकदेश इत्युत्तरवाक्यार्थे गुण इति केषाञ्चित्। इतरेषां तु तादृशकर्तृका तादृशक्रियेति पूर्ववाक्यार्थे तादृशः पारद एकदेश इति। प्रधानावयवस्येव गुणावयवस्यापि विशिष्टार्थावयवत्वात्, घटमानयेत्यत्र नीलघटवत्। चन्द्रालोकोक्तं 'विकस्वरालंकारं गतार्थयितुमाह- 'अर्थिभिश्छिद्यमानोऽपि स मुनिर्न व्यकम्पत। विनाशेऽप्युन्नतः स्थैर्थं न जहाति दुमो यथा॥' उपपादयति- अत्र दधोच्यालम्बनायां
प्रधानीभूतायामर्थ्यालम्बनस्तत्कृतयाच्जाश्रवणोद्दीपितो गात्रच्छेदाभ्यनुज्ञानानुभावितो धृत्या सञ्चारिभावेन पोषितो मुनिगत उत्साहो गुणः। तत्र
Page 225
225 चाध्यर्धतृतीयचरणगतस्यार्थान्तरन्यासस्योत्कर्षकतया स्थितस्य विवेचनद्वारालङ्करणं चतुर्थचरणशकलगतमुदाहरणम्। अलङ्कारदृष्ट्या पूर्वोक्तपद्यतुल्यं प्राचीनं पद्यान्तरमुद्धरति- एवमेव- 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्ग:॥' इति कालिदासपद्येऽपि बोध्यम्। नन्वेवं साङ्कर्येऽ्र्थान्तरन्यासविशेषत्वमेवास्तु उदाहरणत्वेनाभिमतस्थलविशेषस्येत्या- शङ्कायामाह- अस्मिंश्चालङ्कारेऽवयवावयविभावबोधकस्येवशब्दादेः प्रयोगः, सामान्यविशेषयोरेकरूपविधेयान्वयश्चार्थान्तरन्यासभेदाद् वैलक्षण्याधायक इति तत्प्रकरणे निपुणतरमुपपादयिष्यामः। प्राचीनमतमाह- प्राञ्चस्तु 'नायमलङ्कारोऽतिरिक्तः। उपमयैव गतार्थत्वात्। न च सामान्यविशेषयोः सादृश्यानुल्लासात्कथमुपमेति वाच्यम्। निर्विशेषं न सामान्यम् इति सामान्यस्य तत्किञ्चिद्विशेषं विना प्रकृतत्वायोगात्तादृशविशेषमादाय विशेषान्तरस्य सादृश्योल्लासे बाधकाभावादिवादिभिरामुखे प्रतीयमानस्यापि सामान्यविशेषभावस्य परिणामे सादृश्य एव विश्रान्तेः॥" इत्यप्याहुः॥ अथ स्मरणालंकारनिरूपणमारभमाणस्तावत्तल्लक्षणमाह- सादृश्यज्ञानोद्बुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालङ्कारः। उदाहरणं निर्देष्टुमाह- यथा- उदाहरणं निर्दिश्यते- 'दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डध्वनि- ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम्। वल्गद्राण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव- भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीश स्मरेत्'॥
Page 226
226 उदाहरणान्तर दातुमाह- यथा वा- उदाहरणं निर्दिश्यते- भुजभ्रमितपट्टिशोद्दलितदृप्तदन्तावलं भवन्तमरिमण्डलक्रथन पश्यतः सङ्गरे। अमन्दकुलिशाहतिस्फुटविभिन्नविन्ध्याचलो न कस्य हृदयं झगित्यधिरुरोह देवेश्वरः॥' उपपादयति- अनयोः पद्ययोः प्रधानीभूताया राजविषयककविनिष्ठरतेरुत्कर्षकतया स्मरणमलङ्कारः। उदाहरणद्वयप्रदर्शननिदानभूतमुभयोरुदाहरणयोर्वैलक्षण्यं दर्शयति- आद्ये वाच्यम्, द्वितीये तु लक्ष्यमिति विशेषः। ननु वीररसोऽप्यत्र प्रधानतया व्यज्यत इति तद्ध्वनित्वमुक्तपद्ययोः कुतो नाङ्गीक्रियत इत्याशंकायामाह- वीररसोऽपि चात्र प्रधानोत्कर्षकतयालङ्कार एव। लक्षणे प्रयोज्यत्वनिवेशस्य फलमाह- 'एकीभवत्प्रलयकालपयोधिकल्प- मालोक्य सङ्गरगतं कुरुवीरसैन्यम्। सस्मार तल्पमहिपुङ्गवकायकान्तं निद्रां च योगकलितां भगवान् मुकुन्दः॥' अन्न तल्पनिद्रयोः स्मरणं यद्यपि न तल्पनिद्रासादृश्यदर्शनोद्वुद्धसंस्कार-प्रयोज्यम्, तथापि
यत्किञ्चित्सादृश्यदर्शनोद्बुद्धसंस्कारप्रयोज्यम्। न हि सादृश्ये स्मर्यमाणसम्बन्धित्वं विवक्षितम्। एवं वाच्ययोस्तल्पनिद्रास्मरणयोः एतत्कारणतया आक्षिप्तस्य पयोधिस्मरणस्य चाविशेषेण सङ्ग्रहाय लक्षणे जन्यत्वमपहाय प्रयोज्यत्वमुपात्तम्। मतान्तरमाह- केचित्तु सदृशज्ञानोद्बुद्धसंस्कारजन्यं सदृशविषयकमेव स्मरणमलङ्कारः। भुजगेन्द्रनिद्रास्मृतिस्तु नालङ्कार इत्याहुः।
Page 227
227 सादृश्यज्ञाननिवेशफलमाह- 'इत एव निजालयं गताया वनिताया गुरुभि: समावृतायाः। परिवर्तितकन्धरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ॥' उपपादयति- अत्र स्मरणं चिन्तोद्बुद्धसंस्कारप्रयोज्यत्वान्नालङ्कारः व्यङ््यत्वविरहाच्च न भावः। उक्तस्थलसमानं स्थलान्तरमपि दर्शयति- एवम्- दरानमत्कन्धरबन्धमीषन्निमीलितस्निग्धविलोचनाब्जम्। अनल्पनिःश्वासङ्ग्याःभरालसाङ्गयाः स्मरामि सङ्गं चिरमङ्गनायाः॥' इहापि स्मृतिर्न भावो नाप्यलङ्कारः। व्यङ्ग्यस्यैव व्यभिचारिणो भावत्वात्। यथा-'सा वै कलङ्कविधुरा मधुराननश्रीः'। अयं चालङ्कारिकाणां सम्प्रदायो यत्सादृश्यमूलकत्वे स्मरणं निदर्शनादिवदलाङ्कारः। तस्याभावे व्यङ्ग्यतायां भावः। तयोरभावे तु वस्तुमात्रम्। आलोचयितुमप्पय्यदीक्षितमतमुत्थापयति- अप्पय्यदीक्षितास्तु- "स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया। स्मरणालङ्कृतिः सा स्यादव्यङ्ग्यत्वविशेषिता ॥' यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार। सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः॥' यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम्। उद्वीक्ष्य श्रियमिव काञ्चिदुत्तरन्तीमस्मार्षी ज्जलानिधिमन्थनस्य शौरिः॥' एकत्र सदृशदर्शनात्तत्सदृशकर्मिका स्मृतिः। इतरत्र सदृशदर्शनात्तत्सदृशलक्ष्मीसम्बन्धिनो जलनिधिमन्थनस्य स्मृतिः। उभयत्रापि सादृश्यमूलकवस्त्वन्तरस्मृतित्वमविशिष्टम्। अत एव सदृशासदृशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत्।
Page 228
228 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्ज्म्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति। वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः क्वासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि॥' अत्र श्रुतकुरङ्गसम्बन्धिनस्तन्नयनस्य स्परणात्तत्सदृशसीतानयनस्मृतिश्चेति। कि त्वेषा व्यङ्या अलङ्कार्यभूता च। तद्व्यावृत्त्यर्थमव्यङ््यत्वविशेषणम्। 'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाऽम्भोधय- स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः। आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद् भुव- स्तावद् बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः॥' अत्र स्तूयमानभूसम्बन्धिनो भूभृतः स्मृतिर्न सादृश्यमूलेति नात्र स्मरणालङ्कारः। किन्तु स्मृतेः सञ्चारिभावस्य भूभृद्विषयकरतिभावाङ्गत्वात्प्रेयोऽलङ्कारः। एतद्व्यावृत्तये सादृश्यमूलेति विशेषणम्।' इत्याहुः।" उक्तदीक्षितमतस्य खण्डनात्मिकामालोचनां विधत्ते- तदेतत् सर्वमरमणीयम्। यत्तावदुच्यते सदृशासदृशयोः केशपाशजलनिधिमन्थनयोः सद्ग्रहाय लक्षणे वस्त्वन्तरग्रहणमर्थवदिति। तत्र सादृश्यमूला स्मृतिः स्मरणालङ्कार इत्येतावतैव केशपाशस्मरणस्येव जलनिधिमन्थनस्मरणस्यापि सङ्ग्रहाद्वस्त्वन्तरसमाश्रयत्वविशेषणमनर्थकम्। एकत्र सादृश्यदर्शनोद्बुद्धसंस्कारजन्यत्वेन, अपरत्र च
सादृश्यमूलत्वाविशेषात्। नहि सादृश्यमूलेत्युक्ते सदृशविषयेति लभ्यते, येन जलनिधिमन्थनस्मृतेरसङ्ग्रह: स्यात्। यदपि 'सौमित्रे ननु सेव्यताम्'- इत्यत्र स्मृतिर्व्यङ्ग्या अलङ्कार्यभूता च तद्व्यावृत्तयेऽव्यङ्यत्वविशेषणमित्युक्तम्। तत्र नेयं स्मृतिरलङ्कार्यभूता, किन्तु जानक्यालम्बनो निशासमयोद्दीपितः सन्तापादिनानुभावित उन्मादेन सञ्चारिणा परिपोषितो विप्रलम्भः प्रधानत्वेनालङ्कार्यः। तस्य च- स्मृतिरुत्कर्षहेतुत्वादलङ्कार एव। अतो नितरां तद्व्यावृत्त्यर्थमव्यङ्ग्यत्वविशेषणदानमनुचितम्। नहि व्यङ्यत्वालङ्कारत्वयोर्विरोध इति
Page 229
229 वक्तुं शक्यम्। नित्यव्यङ्गयानां रसभावादीनामपि पराङ्गतायामलङ्कारत्वाभ्युपगमात्। प्रधानव्यङ्ग्यव्यावृत्त्यर्थं पुनरुपस्कारकत्वं सर्वेष्वलङ्कारलक्षणेषु देयमिति प्रागेवावेदितम्। यदप्युक्तम् 'अत्युच्चाः परितः स्फुरन्ति गिरयः-' इत्यत्र स्मृतेः सञ्चारिभावस्य भूभृद्विषयरतिभावाङ्गत्वात्प्रेयोऽलङ्कार इति, तन्न। भावस्य हि भावाद्यङ्गतायां प्रेयोऽलङ्कारत्वम्। न ह्यत्र स्मुतिर्भावः। तस्याः स्मरतिना वाचकेनाभिधानात्। नहि वाच्यस्य व्यभिचारिणो भावत्वं वक्तुं युक्तम्। 'व्यभिचार्यञ्जितो भावः' इति सिद्धान्तविरोधात्। तथा चोक्तं सर्वस्वकृता-'प्रेयोऽलङ्कारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः। तत्रापि विभावाद्यागूरितत्वे, यथा 'अहो कोपेऽपि कान्तं मुखम्' इति। न तु स्वशब्दनिवेद्यत्वे। यथा- 'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः। रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ।।' इत्यादाविति।' ननु भावाद्यङ्गीभूतभावत्वं न प्रेयोऽलङ्कारलक्षणम्। अपि तु भावाद्यङ्गीभूतसञ्चारित्वमात्रम्। तथा च प्रकृते स्मरणस्य स्वशब्दनिवेद्यत्वेन भावत्वविरहे ऽपि सञ्चारित्वानपायात्प्रेयोऽलङ्कारत्वमविरुद्धमेवेति चेत्, एवं तर्हीतराङ्गीभूतस्थायित्वमात्रं रसालङ्कारत्वम्, न तु व्यज्यमानत्वविशिष्टम्, इत्यस्यापि सुवचत्वात्। एवं च 'चराचरोभयाकारजगत्कारणविग्रहम्। कल्पान्तकालसंक्रुद्धं हरं सर्वहरं नुमः॥' इत्यत्र क्रोधस्य स्वशब्दनिवेदितत्वेऽपि देवताविषयकरतिभावाङ्गीभूतस्थायित्वानपायाद्रसालङ्कारता स्यात्। न चेष्टापत्तिः, अपसिद्धान्तात्। तस्माद् व्यज्यमानस्यैव स्थायिनः पराङ्गत्वे यथा रसालङ्कारत्वमेवं व्यज्यमानस्यैव सञ्चारिणो भावाद्यङ्गतायां प्रेयोऽलङ्कारत्वमिति नात्र स्मृतिमादाय प्रेयोऽलङ्कारता वाच्या, किन्तु भूविषयकरतेः पूर्वार्धव्यङ्ग्याया उत्तरार्धव्यङ्ग्यभूभृद्विषयरतिभावाङ्गत्वाद्युक्ता प्रेयोऽलङ्कारता वक्तुम्। उक्तं च मम्मटभट्टैः- 'अन्र भूविषयो रत्याख्यो भावो राजविषयरतिभावस्य' इति। अपि च महदिदमाश्चर्यं
Page 230
230 यत्स्वेनैव निर्मितः कुवलयानन्दाख्यः सन्दर्भो विस्मृतः। उक्तं च तत्र- 'विभावानुभावाभ्यामभिव्यञ्जितो निर्वेदादिर्भावः, स यत्रापरस्याङ्गं स प्रेयोऽलङ्कारः' इति। अलंकारसर्वस्वरत्नाकरयोर्मतमनूद्यावद्यति- यदपि 'सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम्' इत्यलङ्कारसर्वस्व-रत्नाकरयोः स्मरणालङ्कारलक्षणमुक्तम्, तदपि न। सदृशस्मरणादुद्बुद्धेन संस्कारेण जनिते स्मरणेऽव्याप्तेः। यथा- 'सन्त्येवास्मिञ्जगति बहवः पक्षिणो रम्यरूपा- स्तेषां मध्ये मम तु महती वासना चातकेषु। यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भिः स्मृत्यारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥।' अत्र च चातकदर्शनादेकसम्बन्धिज्ञानादुत्पन्नेनापरसम्बन्धिनो जलधरस्य भगवत्सदृशस्य स्मरणेन जनितं भगवतः स्मरणं भगवद्विषयरतिभावाङ्गम्। यदि च 'सदृशानुभवात्' इत्यपहाय 'सदृशज्ञानात्' इति लक्षणे निवेश्यते तदा भवत्यस्यापि सङ्गग्रह इति दिक्। स्मरणालङ्कारध्वनिं निरूपयितुमाह- अथास्य ध्वनिः। स्मरणालङ्कारध्वनिमुदाह्तुमाह- यथा- उदाहरणं निर्दिश्यते- 'इदं लताभिः स्तबकानताभिर्मनोहरं हन्त वनान्तरालम्। सदैव सेव्यं स्तनभारवत्यो न चेद्युवत्यो हृदयं हरेयुः॥' उपपादयति- अन्र स्तबकानताभिर्लताभिः स्तनभारवतीनां युवतीनां स्मरणमलङ्कार्यस्यान्यस्याभावादनुपसर्जनम्, स्तनस्तबकरूपस्य बिम्बप्रतिबिम्बभावमापन्नस्य साधारणधर्मस्य वाच्यत्वेऽपि तत्प्रयोजितसादृश्यमूलकस्य स्वस्य शब्दवाच्यत्वविरहाद् व्यङ्ग्यं च।
Page 231
231 पद्यघटकस्य 'युवत्यः' इति पदस्यासाधुतां मनसि कृत्वा समाधत्ते- युवत्य इति च 'सर्वतोऽक्तिन्नर्थात्' इति डीषि साधुः। उदाहरणान्तरं दशयितुमाह- यथा वा- उदाहरणं निर्दिश्यते- 'इदमप्रतिमं पश्य सरः सरसिजैर्वृतम्। सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥' उपपादयति- अन्रापि सरसिजज्ञानाधीनतत्सदृशस्मृतिः प्राधान्येन ध्वन्यते। अथास्यालङ्कारस्य दोषान् निरूपयति- अथास्मिन् स्मरणालङ्कारे उपमादोषाः प्रायशः सर्व एव दोषाः। विशेषतश्च नियमेनास्मिन् व्यज्यमानसादृश्यके सादृश्यस्य शब्दवाच्यातायां दोषः। यथा- 'उपकारमस्य साधोर्नैवाहं विस्मरामि जलदस्य। दृष्टेन येन सहसा निवेद्यते नवघनश्यामः॥' अत्र स्मृत्यैव घनसादृश्यं भगवतः प्रतीयमानं वाच्यवृत्त्या कदर्थितं निवेद्यते। देवकीतनय इति तु साधु। साधारणधर्ममूलकं विशेषं निरूपयितुमुपक्र्मते- अत्र सादृश्यप्रयोजकस्य साधारणधर्मस्य साक्षादुपादानानुपादानयोरुपमा-यामिवान्नापि व्यवस्था। तथा हि उपमायां तावत्क्वचिद्धर्मो नियमेन प्रतीयमानः साक्षान्नोपादेय एव। यथा 'शङ्कवत्पाण्डुरच्छविः' इत्यत्र पाण्डुरत्वम्। 'शङ्घवत्पाण्डुरोऽयम्' इत्यादौ तु नानाविधेषु धर्मेष्वनेनैव धर्मेण सादृश्यमित्यस्य दुरवगमत्वात्, सर्वत्रोपमानोपमेयसाधारणस्य श्लिष्टशब्दात्मकस्यान्यस्य वा स्वानभिप्रेतस्य साधारणधर्मस्योपमाप्रयोजकत्वसम्भवात्तद्वारणाय पाण्डुरत्वादिधर्मो वाच्यतां नीयते। यथा वा 'अरविन्दमिव सुन्दरं मुखम्' इत्यादौ सुन्दरत्वादिः। न नीयते च क्वचित्, वक्तुरन्यस्यानुपस्थानात्प्रसिद्धे: प्राबल्यात्। यथा 'अरविन्दमिव मुखम्' इत्यादौ स एव। अप्रसिद्धश्च धर्मोऽवश्यं साक्षादुपादेयः। अन्यथा तस्याप्रतिपत्तौ
Page 232
232 कवेस्तदुपमानिर्माणप्रयासवैयर्थ्यापत्तेः। यथा 'नीरदा इव ते भान्ति बलाकाराजिता भटाः' इत्यादौ श्लिष्टशब्दात्मकः। इत्थं च कश्चित्साधारणो धर्मः साक्षादनुपादेय एव। कश्चिदुपादेयानुपादेयश्च। कश्चिदुपादेय एवेति सहृदयसम्मतः समयः। एवमेवोपमाजीवातुकेऽस्मिन् स्मरणालङ्कारेऽपि बोध्यम्। उक्तत्रिविधधर्ममूलकस्मरणालङ्कारोदाहरणप्रदर्शनायाह- तन्नानुगामिनि धर्मे 'स्मृत्यारूढं भवति किमपि' इत्यादौ पद्ये निवेदितमेव स्मरणम्। बिम्बप्रतिबिम्बभावापन्नेऽपि धर्मे 'भुजभ्रमितपट्टिश-' इत्यादि पद्ये निरूपितम्। कुलिशपट्टिशयोर्भूधरदन्तावलयोश्च बिम्बप्रतिबिम्बभावात्। एवंम् नुगामिबिम्बप्रतिबिम्बभावापन्नेति द्विविधधर्ममूलकस्मरणालङ्कारोदाहरणभूतपद्ययुगलं स्मारयित्वोपचरितधर्ममूलकतदुदाहरणं दर्शयितुमाह- उपचरिते यथा- उदाहरणं निर्दिश्यते- 'क्वचिदपि कार्ये मृदुलं क्वापि च कठिनं विलोक्य हृदयं ते। को न स्मरति नराधिप नवनीतं किं च शतकोटिम् ।।' उदाहरणान्तरं दर्शयितुमाह- यथा वा- उदाहरणं निदिश्यते- 'अगाधं परितः पूर्णमालोक्य स महार्णवम्। हृदयं रामभद्रस्य सस्मार पवनात्मजः ॥' उपपादयति- अत्र मृदुलत्वाद्यो धर्मा हृद्युपचरिताः। उदाहरणद्वयदाननिदानभूतं विशेषमाह- इयांस्तु विशेष :- यदेकत्रानुभूयमाने हृदये स्मर्यमाणनवनीतादेः सादृश्यस्य सिद्धिः, अपरत्र तु स्मर्यमाणे हृदये ऽनुभूयमानसमुद्रस्येति, सादृश्यस्योभयाश्रयत्वात्। धर्मान्तरमूलकमुदाहरणं दर्शयितुमाह- केवलशब्दात्मके यथा- उदाहरणं निर्दिश्यते-
Page 233
233 'ऋतुराजं भ्रमरहितं यदाहमाकर्णयामि नियमेन। आरोहति स्मृतिपथं तदैव भगवान् मुनिर्व्यासः ॥' उपपादयति- अत्र भ्रमरहितशब्दो व्यासवसन्तयोः साधारणः। उपसंहरन्नाह- एवमन्येऽपि प्रभेदाः सुधीभिरुन्नेयाः। इह पुनर्दिद्मात्रमुपदर्शितम्। स्मरणालङ्कारनिरूपणानन्तरमिदानीं रूपकालङ्कारनिरूपणं प्रतिजानीते- अथाभेदप्रधानेषु रूपकं तावन्निरूप्यते। लक्षणं तावल्लिख्यते- उपमेयतावच्छेदकपुरस्कारेणोपमेये शब्दान्निश्चीयमानमुपमानतादात्म्यं रूपकम्। तदेवोपस्कारकत्वविशिष्टमलङ्कारः। पदकृत्यं दर्शयति- उपमेयतावच्छेदकपुरस्कारेणेति विशेषणादपहुति- भ्रान्तिमदतिशयोक्तिनिदर्शनानां निरासः। अपहुतौ स्वेच्छया निषिध्यमानत्वात्, भ्रान्तिमति च तज्जनकदोषेणैव प्रतिबध्यमानत्वादतिशयोक्तिनिदर्शनयोश्च साध्यवसानलक्षणामूलकत्वादुपमेयतावच्छेदकस्य नास्ति पुरस्कारः। शब्दादिति विशेषणात्त्। 'मुखमिदं चन्द्र:' इति प्रात्यक्षिकाहार्यनिश्चयगोचरचन्द्रतादात्म्यव्यवच्छेदः। निश्चीयमानमिति विशेषणात्सम्भावनात्मनो 'नूनं मुखं चन्द्र:' इत्याद्युत्प्रेक्षाया व्यावृत्तिः। उपमानोपमेयविशेषणाभ्यां सादृश्यलाभात् 'सुखं मनोरमा रामा' इत्यादिशुद्धारोपविषयतादात्म्यनिरासः। सादृश्यमूलकमेव च तादात्म्यं रूपकमामनन्ति। सादृश्यमूलकतादात्म्यस्यैव रूपकत्वे प्रमाणं दर्शयितुं प्राचीनोक्तिमुद्धरति- तथा चाहु :- 'तदूपकमभेदो य उपमानोपमेययोः।' 'उपमैव तिरोभूतभेदा रूपकमुच्यते ॥'इति। रूपके तादात्म्यभानं केन रूपेण भवतीति विवेचयितुमाह- तच्च यत्र विषयविषयिणोरेकविभक्त्यन्तत्वेन निर्देशस्तत्र संसर्गः, अन्यत्र तु शब्दार्थतया क्वचिद् विशेषणं विशेष्यं चेति विवेचयिष्यते।
Page 234
234 रत्नाकरमतमनूद्य निरस्यति- यत्तु 'सादृश्यप्रयुक्तः सम्बन्धान्तरप्रयुक्तो वा यावान्भिन्नयोः सामानाधिकरण्यनिर्देशः स सर्वोऽपि रूपकम्। सारोपलक्षणामूलकत्वस्य तुल्यत्वेन सादृश्यप्रयुक्तस्य तादात्म्यस्येव सम्बन्धान्तरप्रयुक्तस्यापि तादात्म्यस्य सङ्ग्रहीतुमौचित्यात्, तस्मात् दुराग्रह एवायं प्राचाम्- उपमानोपमेययोरभेदो रूपकम्, न तु कार्यकारणयोः' इति रत्नाकरेणोक्तम्, तन्न। अपहुत्यादौ भिन्नयोः सामानाधिकरण्यस्य सत्त्वात्तत्रातिव्याप्तेः। किञ्च 'सादृश्यमूलकं स्मरणं स्मरणालङ्कारः न तु चिन्तादिमूलम्' इति भवतैव पूर्वमुदितम्। तत्र यदि सादृश्यामूलकस्यापि कार्यकारणादिकयोः कल्पितस्य तादूप्यस्य रूपकत्वमभ्युपेयताम्। न च स्मरणस्य भावत्वमुच्यमानं निर्विषयं स्यदिति वाच्यम्, तस्य व्यज्यमानविषयत्वेनोपपत्तेः। खण्डनार्थं दीक्षितमतमनुवदति- अप्पय्यदीक्षितास्तु- "-बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिहुते। उपरञ्जकतामेति विषयी रूपकं तदा ।।' अत्र बिम्बाविशिष्ट इति विषयविशेषणात्। 'त्वत्पादनखरत्नानां यदलक्तकमार्जनम्। इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः।' इति निदर्शनाया निरासः। तत्र विषयस्य मार्जनस्यालक्तकादिरूपबिम्बविशिष्टत्वात्। निर्दिष्ट इति विशेषणान्निगीर्णविषयायां 'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्' इत्याद्यतिशयोक्तौ नातिव्याप्तिः। अनिहुते निषेधास्पृष्ट इति विशेषणादपहुतौ नातिव्याप्तिः। उपरञ्जकतामाहार्यतादूप्यनिश्चयगोचरतामेतीत्यनेन
ससन्देहोत्प्रेक्षयोर्निश्चयस्यैवाभावात्। समासोक्तिपरिणामयोर्विषयितादूप्यस्यागोचरत्वात्, समासोक्तौ व्यवहारमात्रसमारोपात्। परिणामे चारोप्यमाणस्यैव विषयतादूप्यगोचरत्वात्। भ्रान्तिमति च सतः कल्पितस्य वा प्रवृत्त्यादिपर्यन्तिकस्वारसिकभ्रमस्यैव निबन्धनेन तस्यानाहार्यत्वात्।' इत्याहुः। प्रागुक्तदीक्षितमतखण्डनप्रसङ्गे तावत् प्रथमविशेषणव्यावर्त्यं खण्डयति-
Page 235
235 तन्न। 'त्वत्पादनखरतानाम्' इत्यादि निदर्शनाव्यावृत्त्यर्थं बिम्बाविशिष्टत्वं विषयविशेषणं तावदयुक्तमेव। यद्यत्र 'मुखं चन्द्रः' इत्यादि रूपकान्तर इव सत्यपि श्रौतारोपे नेदं रूपकम्, अपि तु निदर्शनेत्युच्यते, तदा 'मुखं चन्द्रः' इत्यपि निदर्शनेत्युच्यताम्। निरस्यतां च रूपकदाक्षिण्यकौपीनम्। किं च 'त्वत्पाद'-इत्यत्र किंपदार्थनिदर्शना, आहोस्विद्वाक्यार्थनिदर्शना? नाद्यः।
कुवलयानन्दगतनिदर्शनाप्रकरणे त्वयोक्तमार्गेण धर्म्यन्तरे पदार्थे तदवृत्तिधर्मस्य पदार्थस्य भेदेनारोपस्याभावाच्च। न द्वितीयः। वाक्यार्थत्वारूपकोच्छित्त्यापत्तेः। इष्टापत्तौ वैपरीत्यस्य सुवचत्वाच्च। अस्माभिर्निदर्शनाप्रकरणे वक्ष्यमाणया सरण्या अभेदस्य श्रौतत्वार्थभ्यामुद्देश्यविधेयभावालिङ्गनानालिङ्गनाभ्यां च रूपकनिदर्शनयोर्वैलक्षण्येन सकलव्यवस्थोपपत्तेः । तस्मादत्र वाक्यार्थरूपकमेव, न वाक्यार्थनिदर्शना। तस्याश्चैवमुदाहरणं निर्मातव्यम्- 'त्वत्पादनखरतानि यो रञ्जयति यावकैः। इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः॥' अन्न कर्त्रोरभेदस्य शाब्दत्वेऽपि क्रिययोरभेदस्याशाब्दत्वात्तस्यैव च समग्रभरसहिष्णुत्वान्निदर्शनैव। ननु यदीदमुदाहरणं निदर्शनायां न स्यात्तदा कथमलङ्कारसर्वस्वकृता तत्प्रकरण उदाहृतमिति चेत्, भ्रान्तेनैव प्रतारितोऽसि। नहि प्रामाणिकेन भवता कदापि परेणानुक्तं किञ्चिदुच्यते। यदपि रूपके बिम्बप्रतिबिम्बभावो नास्तीत्युक्तं तदपि भ्रान्त्यैव। तथा च सर्वस्वटीकायां विमर्शिन्यामुदाहृतं बिम्बप्रतिबिम्बभावेन रूपकम्- 'कन्दर्पद्विपकर्णकम्बुमलिनैर्दानाम्बुभिर्लाञ्छितं संलग्नाञ्जनपुञ्जकालिमकलं गण्डोपधानं रतेः। व्योमानोकहपुष्पगुच्छमलिभि: सञ्छाद्यमानोदरं पश्यैतच्छशिन: सुधासहचरं बिम्बं कलङ्काङ्गितम् ।' अत्र कलङ्कस्य दानाम्ब्वादिभि: प्रतिबिम्बनम्, लाञ्छितत्वाङ्गितत्वयोः शुद्धसामान्यरूपत्वमित्युक्तं चेत्यास्तां तावत्। द्वितीयविशेषणमेव निरस्यति-
Page 236
236 तथा निर्दिष्टे शब्देनाभिहिते इत्यस्य येन केनचिदूपेण शब्देनाभिहित इत्यर्थः, उताहो उपमेयतावच्छेदकरूपेण शब्देनाभिहिते? आद्ये 'सुन्दरं कमलं भाति लतायामिदमद्भुतम्' इत्यत्रातिप्रसङ्ग:। सुन्दरपदेन सुन्दरत्वेन रूपेण इदंपदेन च विषयस्याननस्य प्रतिपादनात्। न चात्र सुन्दरपदार्थस्यारोप्यमाणकमलान्वय एव, न तु वदनरूपविषयान्वय इति वाच्यम्। कमलपदेन कमलतादूप्येणाननस्यैव लक्षणयोपस्थानात्तत्रैव सुन्दरादिपदार्थान्वयो युक्तः, न तु विशेषणीभूते कमले। अथ तादृशं विषयमुद्दिश्य विषयिताद्रूप्यं यत्र विधीयते इत्यपि लक्षणवाक्यार्थः। प्रकृते च सुन्दरत्वावच्छिन्नमुद्दिश्य कमलतादूप्यस्याविधानान्नातिप्रसङ्ग इति चेत्। न। 'मुखचन्द्रस्तु सुन्दरः' इत्यादिरूपके समासगतयोर्विषयविषयिणोः। पृथगविभक्तिमन्तरेणोद्देश्यविधेयभावाभावादव्याप्त्यापत्तेः। द्वितीये त्वनिहुत इति विशेषणवैयर्थ्यम्। अपहुतावुपमेयतावच्छेद्यस्य निषिध्यमानतया तेन रूपेण विषयस्यानिर्दिष्टत्वादेव लक्षणस्याप्रसक्तेः। निश्चयगताहार्यत्वविशेषणवैयर्थ्यं च। भ्रान्तिमति दोषविशेषेण प्रतिबध्यमानतया नास्त्युपमेयतावच्छेदकसंस्पर्श इति तावतैव वारणात्। अपि च 'नायं सुधांशुः किं तर्हि सुधांशु: प्रेयसीमुखम्' इति कुवलयानन्दे त्वयोक्तायामपहुतावतिप्रसङ्ग:। अत्र सुधांशौ सुधांशुत्वनिहुवेऽप्यारोपविषयस्यानिह्नवात्। न चेदं रूपकमेवेति वाच्यम्। त्वदुक्तिविरोधापत्तेः। चिरमीमांसायामप्पय्यदीक्षितेनोक्तमन्यदपि खण्डयति- यच्चाप्युक्तमव्यङ्ग्यत्वविशेषणाच्चेदमेवालङ्कारभूतस्य रूपकस्य लक्षणमिति, तदपि न। नहि व्यङ्ग्यत्वालङ्कारत्वयोर्विरोधोऽस्ति। प्रधानव्यङ्ग्यरूपकवारणाय पुनरुपस्कारकत्व विशेषणमुचितमित्यसकृदावेदनात्। अनलङ्कारत्वस्य तुल्यतया प्रधानव्यङ्गयरूपकस्येव प्रधानवाच्यरूपकस्यापि वारणीयत्वेन तद्वारकविशेषणाभावेन तत्रातिप्रसङ्गाच्च। मम्मटभट्टकृतकाव्यप्रकाशोक्तं लक्षणं निरस्यति- यच्च 'तदूपकमभेदो य उपमानोपमेययोः' इत्यादि प्राचीनैरुक्म्, तच्चिन्त्यम्, अपहुत्यादावुपमानोपमेययोरभेदस्य प्रतीतिसिद्धतया तत्रातिप्रसङ्गात्। अथोपमानोपमेययोरित्युक्त्या उपमेयतावच्छेदकं पुरस्कृत्योपमानतावच्छेदकावच्छिन्नाभेद इत्यर्थलाभादहुतौ चोपमेयतावच्छेदकस्य पुरस्काराभावान्नातिप्रसङ्ग इति चेत्। न। 'नूनं मुखं चन्द्र:' इत्याद्युत्प्रेक्षायां तथाप्यतिप्रसक्तेः। पूर्वापादितायाम् उत्प्रेक्षायां मम्मटलक्षणीयातिव्याप्तेरभावमाशड्क्य पुनस्तां द्रढयति-
Page 237
237 न च- 'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपहुतिः।' 'सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् ॥।' इत्याद्यपहुत्युत्प्रेक्षादीनां बाधकत्वात्तत्परिगृहीतविषयातिरक्तो रूपकस्य 'मुखं चन्द्रः' इत्यादिर्विषयः स्यात्। यथा 'शरमयं बर्हिः' इत्येतद्विषयातिरिक्तः 'कुशमयं बर्हिः। इत्यस्य। यथा वा क्सादेशविषयातिरिक्तो विषयः सिचः। लोकेऽपि यथा 'ब्राह्मणेभ्यो दधि देयम्', तक्रं कोण्डिन्याय' इत्यत्र तक्रसम्प्रदानातिरिक्तं दध्नः सम्प्रदानमिति वाच्यम्। वैषम्यात्। विशेषशास्त्रं हि स्वविषयातिरिक्तं विषयं ग्राहयत्सामान्यशास्त्रस्य बाधकमित्युच्यते। प्रकृते च रूपकस्य लक्षणं धर्मः। स यद्युत्प्रेक्षादिवृत्तिः स्यात् कस्तस्माद्विषयान्निरस्य विषयान्तरं ग्राहयेत्। नहि घटत्वं स्वाधिकरणात् पृथिवीत्वं द्रव्यत्वं वा निरस्य विषयान्तरं ग्राहयितुमीष्टे। तस्मादतिप्रसक्तिर्लक्षणे ऽस्मिन्दोषः। ननु सम्भावनात्मिकोत्प्रेक्षा, कथं तस्यामभेदत्वात्मकरूपकलक्षणातिप्रसक्तिरिति चेत्। न। विनिगमकाभावेन सम्भाव्यमानभेदस्याप्युत्प्रेक्षास्वरूपत्वात्। विषयसम्भावनाऽभेदाभ्यामुत्प्रेक्षायामलङ्कारद्वयव्यवहारापत्तेश्च। निश्चीयमानत्वेनाभेदो विशेषणीय इति चेदस्मदुक्त एव तर्हि पर्यवसतिरिति दिक्। सम्प्रति प्राचीनाभिमतान् रूपकभेदानाचष्टे- तदिदं रूपकं सावयवं परम्परितं चेति तावत्रिविधम्। तत्राद्यं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधम्। द्वितीयमपि केवलं मालारूपकं चेति द्विविधम्। तृतीयं च श्लिष्टपरम्परितं शुद्धपरम्परितं चेति द्विविधं सत्प्रत्येकं केवलमालारूपत्वाभ्यां चतुर्विधमित्यष्टविधमाहुः। उक्तेषु प्रधानभेदेषु लिलक्षितेषु तावत्प्रथमभेदं लक्षयति- तत्र- परस्परसापेक्षनिष्पत्तिकानां रूपकाणां संघातः सावयवम्। सावयवरूपकोपभेदौ लिलक्षयिषुस्तावत् प्रथमोपभेदं लक्षयति- तत्रापि- समस्तानि वस्तून्यारोप्यमाणानि शब्दोपात्तानि यत्र तत्समस्तवस्तुविषयम्। द्वितीयसावयवरूपकोपभेदं लक्षयति-
Page 238
238 यत्र च क्वचिदवयवे शब्दोपात्तमारोप्यमाणं क्वचिच्चार्थसामर्थ्याक्षिप्तं तदेकदेशे शब्दानुपात्तविषयिके अवयवरूपके विवर्तनात्स्वस्वरूपगोपनेनान्यथात्वेन वर्तनादेकदेशविवर्ति। नामकरणबीजविषयकमतभेदमाह- यद्वा- एकदेशे उपात्तविषयिके अवयवे विशेषेण स्फुटतया वर्तनादेकदेशविवर्ति। उदाहरणं निर्देष्टुमाह- समस्तवस्तुविषयं सावयवं यथा- उदाहरणं निर्दिश्यते- 'सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे। वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र सन्देहः॥' एतदुदाहरणगतं विशेषमाह- अत्र समुदायात्मकस्य सावयवरूपकस्यावयवानां सर्वेषामपि वस्तुतः समर्थ्यसमर्थकभावस्य परस्परं तुल्यत्वेऽपि कवे राकारूपस्यैव समर्थ्यत्वेनाभिप्रेतत्वात्समर्थकतयोपादानमितरेषामिति गम्यते। एवं स्थिते समर्थकरूपकाणां विषयविषयिणोः पृथग्विभक्तेरश्रवणादनुवाद्यत्वेऽपि समर्थ्यरूपकस्य तयोः पृथग्विभक्तिश्रवणाद्विधेयतया तदादाय सङ्गातात्मकस्य सावयवरूपकस्यापि विधेयत्वमत्र व्यपदिश्यते। यथा भटसङ्गातान्तर्गतस्य मुखस्य कस्यापि भटस्य जय- पराजयाभ्यां भटसङ्गातो जितः पराजितश्चेत्युच्यते। उदाहरणान्तरमाह- 'व्योमाङ्गणे सरसि नीलिमदिव्यतोये तारावलीमुकुलमण्डलमण्डितेऽस्मिन्। आभाति षोडशकलादलमङ्कभृङ्गं सूराभिमुख्यविकचं शशिपुण्डरीकम् ।' उदाहरणान्तर-दान-निदानभूतं विशेषमाह- अस्य तु सावयवरूपकस्यानुवाद्यत्वमेव।
Page 239
239 ननु सर्वमेतत्सत्यम्, परन्तु द्वितीयोदाहरणे सूर्याभिमुख्यविकचत्वं चन्द्रमसि वर्णितं कथं सङ्गतम्, सूर्याभिमुख्यकाले दिवसे चन्द्रविकासस्यासिद्धत्वादित्यत आह- अन्न वर्ण्यस्य पूर्णचन्द्रस्य सूर्याभिमुख्यं ज्योतिःशास्त्रसिद्धम्। तेन सूर्याभिमुख्ये चन्द्रस्य कथं विकास इति न शङ्कनीयम्। सावयवरूपकस्य द्वितीयं भेदमुदाहर्तुमाह- एकदेशविवर्ति सावयवं यथा- उदाहरणं निर्दिश्यते- 'भव-ग्रीष्म-प्रौढातप-निवह-सन्तप्त-वपुषो बलादुन्मूल्य द्राङ्निगडमविवेक-व्यतिकरम्। विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्य-शिशिरे विगाहन्ते दूरीकृतकलुषजालाः सुकृतिनः॥' उपपादयति- अन्र सहचरैर्निगडादिरूपकैः सुकृतिषु गजरूपकमाक्षिप्यते। उदाहरणान्तरं दर्शयितुमाह- यथा वा- उदाहरणं निर्दिश्यते- 'रूपजला चलनयना नाभ्यावर्ता कचावलीभुजगा। मज्जन्ति यत्र सन्तः सेयं तरूणीतरङ्गिणी विषमा ॥' उदाहरणान्तरदाने बीजमुद्भावयति- पूर्वं तु कवे: समर्थ्यत्वेनाभिमतस्य रूपकस्याक्षेपः, इह तु समर्थकत्वेनाभिमतस्य नयनयोर्मीनरूपकस्येति विशेषः। ननु रूपकसंघातात्मकस्यास्य सावयवरूपकस्य कथं रूपकभेदेषु पृथग्गणनेति शङ्कां समाधातुमाह- अत्र च चमत्कारविशेषजनकतया रूपकसंघातात्मकमपि सावयवरूपकं रूपकालंकृतिभेदगणनायां गण्यते। यथा मौक्तिकालंकृतिभेदगणनायामेकं नासामौक्तिकमिव सङ्गातात्मकमौक्तिकमञ्जर्यादयोऽपि गण्यन्ते। अन्यथा मालारूपस्योपमादेस्तद्भेदगणनेऽगणनप्रसङ्गात्। एतेन 'गवां सङ्गातो गोभेदानां कपिलादीनां
Page 240
240 गणनायां यथा न गण्यते तथा रूपकभेदगणनाप्रस्तुतौ न तत्सङ्गातात्मकं सावयवं गणनीयम्' इति परास्तम्। सावयवरूपक-मालारूपकयोरेकतरेणापरस्य गतार्थत्वमाशङ्क्य तद्वारकं तयोर्वैलक्षण्यमाह- एवमस्मात्सङ्गातात्मकात्सावयवान्मालारूपकस्य सङ्गातात्मकत्वेनाविशेषेऽप्येकविषयकत्व- परस्परनिरपेक्षत्वाभ्यामस्ति महान् विशेषः। त्रिधा विभक्तेषु रूपकेषु प्रथम: सावयवात्मको भेदः सोपभेदो निरूपितः इदानीं द्वितीयं निरवयवात्मकं भेदं निरूपयितुमाह- निरवयवं केवलं यथा- उदाहरणं निर्दिश्यते- 'बुद्धिर्दीपकला लोके यया सर्वं प्रकाशते। अबुद्धिस्तामसी रात्रिर्यया किञ्चिन्न भासते॥' उपपादयति- अत्र रूपकद्वयमपि सापेक्षरूपकसङ्गातात्मकत्वविरहान्निरवयवम्। मालात्मकत्वविरहाच्च केवलम्। निरवयवरूपकस्य द्वितीयमुपभेदमुदाहर्तुमाह- निरवयवं मालारूपकं यथा- उदाहरणं निर्दिश्यते- 'धर्मस्यात्मा भागधेयं क्षमायाः सारः सृष्टेर्जीवितं शारदायाः। आज्ञा साक्षाद् ब्रह्मणो वेदमूर्त्तेराकल्पान्तं राजतामेष राजा॥।' उपपादयति- एकविषयकनानापदार्थारोपरूपत्वान्मालारूपमिदम्। परस्परसापेक्षत्वविरहाच्च निरवयवम्। अथेदानीं निरूपणीयस्य रूपकतृतीयभेदस्य तावल्लक्षणमाह- यत्र चारोप एवारोपान्तरस्य निमित्तं तत्परम्परितम्। प्राग्लक्षितस्य परम्परितस्य द्वौ भेदौ श्लिष्टपरम्परितम्, शुद्धपरम्परितञ्च तत्राद्यस्य लक्षणमाह- तन्रापि समर्थकत्वेन विवक्षितस्यारोपस्य श्लेषमूलकत्वे श्लिष्टपरम्परितम्। श्लिष्ट-परम्परितरूपकमुदाहर्तुमाह-
Page 241
241 यथा- उदाहरणं निर्दिश्यते- 'अहितापकरणभेषज नरनाथ भवान् करस्थितो यस्य। तस्य कुतो हि भयं स्यादखिलामपि मेदिनीं चरतः॥' उपपादयति- अत्र द्वयोरप्यारोपयोः समर्थ्यसमर्थकभावस्य वस्तुतस्तुल्यत्वेऽप्यहिताना-मपकरणमेवाहीनां तापकरणमिति श्लेषमूलकेनारोपेण राजनि भेषजतादात्म्यारोपस्य समर्थनीयतया कवेरभिप्रायः। अत एव भङ्गश्लेषनिवेदितो ऽहि भयाभावोऽपि सङ्गच्छते। श्लिष्टपरम्परितं मालारूपमुदाहर्तुमाह- इदमेव मालारूपं यथा- उदाहरणं निर्देष्टुमाह- 'कमलावासकासारः क्षमाधृतिफणीश्वरः। अयं कुवलयस्येन्दुरानन्दयति मानवान् ॥।' परम्परितद्वितीयभेदस्य प्रथममुपभेदमुदाहर्तुमाह- शुद्धपरम्परितं केवलं यथा- उदाहरणं निर्दिश्यते- 'देवा: के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता- देवं जल्पन्ति तावत्प्रतिभट-पृतना-वर्तिनः क्षत्र-वीराः। यावन्नायाति राजन्नयनविषयतामन्तकग्रासिमूर्ते मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजङ्ग:।।' उपपादयति- अन्नापि भुजङ्गारोपो दुग्धारोपसमर्थ्यत्वेनाभिमतः। परम्परितद्वितीयभेदस्य द्वितीयमुपभेदमुदाहर्तुमाह- तदेव मालारूपं यथा- उदाहरणं निर्दिश्यते- 'प्राचीसन्ध्या समुद्यन्महिमदिनमणेर्मानमाणिक्यकान्ति- ज्वालामाला कराला कवलितजगतः क्रोधकालानलस्य।
Page 242
242 आज्ञा कान्ता पदाम्भोरुहतलविगलन्मञ्जुलाक्षारसाभा क्षोणीन्दो सङ्गरे ते लसति नयनयोरुद्भटा शोणिमश्रीः॥' अथेदानीं सावयवरूपकपरम्परितरूपकयोर्भेदं दर्शयितुमाह- यद्यपि सावयवे ऽप्यारोप आरोपान्तरस्योपायस्तथापि तन्नारोपातिरिक्तेन कवि-समय-सिद्ध- सादृस्येनाप्यारोपान्तरसिद्धिः सम्भवति। तथा प्रागुक्ते 'सुन्दरि राकासि नात्र सन्देहः' इत्यत्र मौक्तिकादीनां तारात्वाद्यारोपं विनाप्यौज्ज्वल्यमात्रेणापि सुन्दर्थां राकारोपसिद्धेः, इह तु नयनशोणिम्नि ज्वालाद्यारोपोऽनलसमारोपं नियमेनापेक्षते। एवं 'कारुण्यकुसुमाकाशः खल:' इत्यत्राकाशखलयोः सादृश्यस्याप्रसिद्धतयाऽडरोपसिद्ध्यर्थमारोप एवोपाय इति वैलक्षण्यम्। कश्चित्तु बह्वारोपात्मकात् सावयवादारोपद्वयात्मकमेवास्य वैलक्षण्ये बीजमित्याह। रूपकप्रभेदगणने न्यूनत्वं परिहरति- 'काव्यं सुधा रसज्ञानां कामिनां कामिनी सुधा। धनं सुधा सलोभानां शान्तिः संन्यासिनां सुधा॥' अन्न विषयमालाकृतो न कश्चिच्चमत्कारविशेष इति न पृथगभेदगणनायां गण्यते। आरोप्यमाणमाला तु चमत्कारविशेषशालित्वाद्रण्यत एव। सम्प्रति शिष्य-बुद्धि-वैशद्यार्थं परम्परितरूपकसम्बन्धिविशेषे विचारणीये प्रथमं श्लिष्टपरम्परितसम्बन्धिविशेषं विचारयति- अथ कथं नाम श्लिष्टपरम्परिते 'कमलावासकासारः' इत्यादावेकस्यारोपस्यारोपान्तरोपायत्वम्। यतः श्लेषेण कमलानामावासस्य कमलाया वासस्य चाभेदमात्रमन्र प्रतीयते, नैकन्नान्यारोपः। तस्य स्वतन्त्रविषयनिर्देशापेक्षत्वात्। न च शुद्धाभेदप्रत्ययेनात्रार्थः यत्सम्बन्धिनि यत्सम्बन्ध्यभेदस्तस्मिस्तदभेद इति 'कमलावासकासारः' इत्यादौ राजनि कासारारोपो राजसम्बन्धिनि लक्ष्म्याश्रयत्वे कासारसम्बन्धिसरोजाश्रयत्वाभेदारोपेण समर्थयितुं शक्य: श्लेषेण तु पुनर्लक्ष्म्याश्रयत्वसरोजाश्रयत्वयोरभिन्नत्वेन प्रत्ययादभिन्नधर्मनिबन्धनो राजकासासारयोरप्यभेदप्रत्ययः स्यात्, न तु राजनि विषये कासारविषयिकस्यारोपस्य प्रकृतस्य सिद्धिः। इमावभिन्नावित्याद्याकारस्य शुद्धाभेदप्रत्ययस्याप्रकृतत्वात्प्रागुक्त आरोपो मृग्यः। स च न श्लेषसाध्य इति। सत्यम्। श्लेषेण शुद्धाभेदप्रतीतौ सत्यां
Page 243
243 प्रकृतारोपसमर्थनायान्तरा मानसस्य राजसम्बन्धिनि कासारसम्बन्ध्यभेदारोपस्य कल्पनान्नानुपपत्तिः। शुद्धपरम्परिते विशेषं विचारयति- कथं तर्हि परम्परितरूपके सौजन्यचन्द्रिकाचन्द्रो राजा इत्यादौ रूपकत्वम्, अभेदारोपस्य सत्त्वेऽपि तस्य सादृश्यमूलकत्वाभावादिति चेत्, न। समर्थकारोपेण धर्मैक्यसम्पादने सादृश्यस्य निष्प्रत्यूहत्वात्। पुनरपरविधं रूपकसम्बन्धि-विचार विशेषं विधातुं शङ्कते- स्यादेतत्। सौजन्यचन्द्रिकाचन्द्र इत्यत्र तत्पुरुषावयवे समानाधिकरणतत्पुरुषे चन्द्रिकायामभेदसंसर्गेण सौजन्यस्य विशेषणत्वात्प्रतीयमानश्चन्द्रिकागतः सौजन्याभेदो न राजनि चन्द्राभेदात्मकं रूपकं समर्थयितुं प्रभवति, यत्सम्बन्धिनि यत्सम्बन्ध्यभेद इत्यादिप्रागुक्तन्यायात्। अपि तु सौजन्ये विषये चन्द्रिकाभेदः। यथा-'सौजन्यं ते धराशीश! चन्द्रिका त्वं सुधानिधिः। सच दुरुपपाद एव। न चानयोः समानवित्तिवेद्यत्वान्नानुपपत्तिरिति शक्यं वक्तुम्, प्रात्यक्षिके हि सामग्र्यास्तुल्यत्वात्तत्। न तु शाब्दबोधे व्युत्पत्तिवैचित्र्यनियन्त्रिते। एवमन्यत्रापि कथं समासगत-शुद्ध-परम्परिते द्वयोरारोपयोर्निर्वाह्य-निर्वाहकभावः? कथं च शशिपुण्डरीकमित्यादौ पुण्डरीकरूपकमुच्यते? पुण्डरीकाभेदात्मकस्य पुण्डरीकतादरूप्यस्याभानात्। शश्यभेदप्रत्ययाच्च पुण्डरीकं शशीत्यत्रेव शशिरूपकमुच्यताम्। एवं नीलिमदिव्यतोये तारावलीमुकुलमण्डलमण्डिते षोडशकलादलमङ्कभृङ्गमित्यत्राप्युत्तरपदार्थे पूर्वपदार्थाभेदस्यैव भानात्पूर्वपदार्थरूपकापत्तिः । तथा- 'सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे। वदन-परिपूर्णचन्द्रे सुन्दरि! राकासि नात्र सन्देहः॥' इत्यत्र सुन्दर्यां विषयभूतायां राकातादात्म्यावगमात्स्फुटमेव तावद्राकारूपकम्। तन्न चरणत्रयगतानि रूपकाणि राकारूपकानुगुणतयोपात्तान्यपि नानुगुण्यमाचरन्ति। ताराचन्द्रिका-पूर्णचन्द्राणां मौक्तिक-धवलांशुक-वदनाभिन्नत्वे सिद्धेऽपि न सुंदर्यां राकातादात्म्यं सेद्धुमीष्टे प्रत्युत विपरीतं राकायां सुन्दरीतादूप्यं, तेषां राकासम्बन्धित्वात् सर्वमेव व्याकुलमिति।
Page 244
244 समाधत्ते- अत्र वदन्ति-अभेदस्तावद्विशेषणस्य संसर्गे भवति। स च यथा मुखं चन्द्र इत्यादौ वाक्यगते रूपके स्वप्रतियोगिनश्चन्द्रस्य स्वानुयोगिनि मुखे विशेषणताया निर्वाहकस्तथैव समासगते मुखचन्द्र इत्यादौ रूपके स्वानुयोगिनो मुखस्य प्रतियोगिनि चन्द्रे विशेषणतायाः। एवं चोभयत्रापि वस्तुतश्चन्द्राभेद एव संसर्गः। क्वचिदनुयोगित्वमुखः, क्वचिच्च प्रतियोगित्वमुखः, विशेषण-विशेष्यभाववैचित्र्यात्। न तु मुखचन्द्र इत्यत्र मुखाभेदः संसर्गः। तथा सति चन्द्ररूपकतापत्तेः, मुखरूपकापत्तेश्च। स्वप्रतियोगिकाभेद एव विशेषणसंसर्गो न तु स्वानुयोगिकाभेद इति तु दुराग्रहः। एवं च सौजन्यचन्द्रिकेत्यादौ वस्तुतः सौजन्याभेदो न सौजन्यस्य चन्द्रिकाविशेषणस्य संसर्गः, अपि तु चन्द्रिकाभेद एव। तथा च सौजन्यनिष्ठाभेदप्रतियोगिनी चन्द्रिकेति पर्यवसितेऽर्थे, भङ्ग्यन्तरेण सौजन्ये चन्द्रिकाऽभेदसिद्धौ जातायां राजनि चन्द्राभेदोऽपि निष्पद्यते इति परम्परितेनानुपपत्तिः। शशिपुण्डरीकमित्यादावपि शशिनिष्ठाभेदप्रतियोगिपुण्डरीकमिति पर्यवसितेऽर्थे पुण्डरीकाभेदस्य भानात्पुण्डरीकरूपकमव्याहतम्। एवमन्येष्वप्यवयवरूपकेषु बोध्यम्, एवं सुविमलमौक्तिकतारे इत्यादावपि ताराद्यभेदा एव मौक्तिकादिगतो मौक्तिकादीनां तारादिविशेषणानां संसर्गोभवन् राकारूपकस्य समर्थको भवतीति सर्वं सुस्थम्। सोऽयमभेदो यत्रानुयोगित्वमुखस्तत्र रूपकस्य विधेयता। यत्र च प्रतियोगित्वमुखस्तत्रानुवाद्यत्वमिति दिक्। परम्परितरूपकस्य प्रभेदान्तरमवतारयति- तन्न 'प्राची सन्ध्या समुद्यन्महिमदिनमणेः' इत्यत्रारोप्यमाणयोः परस्परमारोपविषययोश्चानुकूल्ये रूपकयोरनुग्राह्यानुग्राहकभावो दर्शितः। पूर्वावतारणासूचितभेदान्तरं दर्शयितुमाह- प्रातिकूल्ये यथा- उदाहरणं निर्दिश्यते- 'आनन्दमृगदावाग्नि: शीलशाखिमद द्विप ः ज्ञानदीपमहावायुरयं खलसमागमः॥' उदाहरणान्तरं निर्देष्टुं कथयति- यथा वा-
Page 245
245 उदाहरणं निर्दिश्यते- कारुण्यकुसुमाकाशः शान्तिशैत्यहुताशनः। यशःसौरभ्यलशुनः पिशुनः केन वर्ण्यते ॥' उपपादयति- एकत्र नाश्यनाशकभावरूपमपरत्र चात्यन्तिकसंसर्गशून्यतारूपं प्रातिकूल्यमुपमानयोस्तथैवोपमेययोश्च। अनुग्राह्यानुग्राहकभावः पुनरारोपयोरविशिष्ट एव। परम्परितरूपकस्य भिन्नविधं वैचित्र्यं चित्रयितुमुदाहरणान्तरमाह- तथा- 'अयं सज्जनकार्पासरक्षणैकहुताशनः। परदुःखाग्निशमनमारुतः केन वर्ण्यते ॥' उपपादयति अत्र रक्षणशमनपदे विरोधिलक्षणया विपरीतार्थबोधके। अवान्तरप्रकरणसमाप्तिं सूचयति- एवं पदार्थरूपकं लेशतो निरूपितमेव। वाक्यार्थरूपकं निरूपयिष्यन तावत्तल्लक्षणमाह- वाक्यार्थे विषये वाक्यार्थान्तरस्यारोपे वाक्यार्थरूपकम्। दष्टान्तद्वारा वाक्यार्थरूपकगतं विशेषं स्फोरयितुमाह- यथाहि विशिष्टोपमायां विशेषणानामुपमानोपमेयभाव आर्थस्तथात्रापि वाक्यार्थघटकानां पदार्थानां रूपकमर्थावसेयम्। उदाहरणं निर्दिश्यते- 'आत्मनोऽस्य तपोदानैर्निर्मलीकरणं हि यत्। क्षालनं भास्करस्येदं सारसैः सलिलोत्करैः॥' उपपादयति- अन्नात्मनि तपोदानेषु चारोपविषयविशेषणतया बिम्बभूतेषु, भास्करस्य सलिलोत्करादीनां च विषयि-विशेषणत्वेन प्रतिबिम्बानां रूपकं गम्यमानं प्रधानीभूतविशिष्टरूपकाङ्गम्। दीक्षितमतमुत्थाय निरस्यति-
Page 246
246 'नेदं रूपकम्। रूपके बिम्ब-प्रतिबिम्बभावो नास्ति' इति केनाप्यालङ्कारिकम्मन्येन प्रतारितस्य दीर्घश्रवसो द्रविडस्योक्तिरश्रद्धेयैव। ययोरिवादिशब्दप्रयोगे उपमा तयोरेकत्नान्यारोपे रूपकमिति नियमात्। अ्र यदि रूपकं नाङ्गीकुरुषे मैवाङ्गीकुरु, तर्हि तत्नैव यथादिशब्दप्रयोगे उपमामपि। एवं 'त्वयि कोपो महीपाल सुधांशाविव पावकः' इत्यादौ स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययादुपमां ब्रूषे, ब्रूहि तर्हि तत्रैवेवस्य निरासे 'त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः' इत्यादौ रूपकमपि। वाक्यार्थरूपकस्योदाहरणान्तरमाह- तथा- 'कुङ्कमद्रवलिप्ताङ्ग: काषायवसनो यतिः। कोमलातपबालाभ्रः सन्ध्याकालो न संशयः॥' इत्यादावपि विशिष्टरूपकं बोध्यम्। 'त्वयि कोप' इत्यतः 'कुङ्कम' इत्यत्र यो भेदस्तमाह- त्वयि कोप इत्यत्र विषयिण: स्वबुद्धिकल्पितत्वात्कल्पितं विशिष्टरूपकम्। इह तु न तथेति विशेषः। आशड्क्य समाधत्ते- न चैवमादौ प्रतीयमानोत्प्रेक्षा वक्तुं शक्या, अभेदस्य निश्चीयमानत्वात्। उत्प्रेक्षायां च सत्यां सम्भाव्यमानता स्यात्। अन्यथा मुखं चन्द्र इत्यादावपि प्रतीयमानोत्प्रेक्षापत्त्या रूपकविलोपापत्तेः। अथ रूपकालङ्कारविशिष्टात्पदाद् वाक्याद्वा जायमानं बोधं विचारयितुं प्रतिजानीते- अथ बोधो विचार्यते- तत्र प्राचीनमतमाह- तत्र प्राञ्च :- 'विषयिवाचकपदेन विषयिवृत्तिगुणवतो लक्षणया सारोपयोपस्थितौ, विषये तस्याऽभेदेन संसर्गेण विशेषणतयाऽन्वयः। एवं च मुखं चन्द्र इत्यत्र चन्द्रवृत्तिगुणवदभिन्नं मुखमिति धीः। अत एवालङ्कारभाष्यकारः 'लक्षणापरमार्थं यावता रूपकम्' इत्याह। न च चन्द्रसदृशं मुखमित्युपमातोऽस्य को भेदः। बोधवैलक्षण्याभावेन विच्छित्तिवैलक्षण्याभावात् । वृत्तिमात्रवैलक्षण्यस्याप्रयोजकत्वादिति वाच्यम्। लाक्षणिकबोधोत्तरं जायमानेन प्रयोजनीभूतेनाभेदबोधेनैव वैलक्षण्यात्। निरूढलक्षणातिरिक्ताया लक्षणायाः
Page 247
247 प्रयोजनवत्तानियमात्। अभेदबुद्धेश्च वृत्त्यन्तरवित्तिभाव्यत्वेन न बाधबुद्धिप्रतिबध्यत्वम्' इत्याहुः। तन्नैव नवीनमतमाह- नव्यास्तु-'नामार्थयोरभेदसंसर्गेणान्वयस्य व्युत्पत्तिसिद्धत्वाच्चन्द्राभिन्नं मुखमिति लक्षणां विनैव बोधः। फलस्यान्यथैवोपपत्तेर्लक्षणाकल्पनस्यान्याय्यत्वात्। किञ्च यदि च रूपके लक्षणा स्यान्मुखचन्द्र इत्यत्रोपमितविशेषणसमासयोरुत्तरपदस्य लाक्षणिकत्वाविशेषादेकस्योपमात्वमन्यस्य रूपकत्वमिति व्याहतं स्यात्। अपि च मुखं न चन्द्रसदृशमपि तु चन्द्र इत्यादौ सादृश्यव्यतिरेकमिश्रिते सादृश्यबुद्धेरयोगात् एवं देवदत्तमुखं चन्द्र एव यज्ञदत्तमुखं तु न तथा, अपि तु चन्द्रसदृशमित्यादौ नञर्थस्य लक्ष्यमाणचन्द्रसदृशान्वयित्वात् 'न चन्द्रसदृशश्चद्रसदृशम्' इति बोधकदर्थानापत्तेश्च। नहि नञ: फलीभूतज्ञानविषयेणाभेदेनान्वयो युक्तः, एतदन्वयवेलायां तस्यानुपस्थितेः। तादृशाभेदबोधस्य चाहार्यत्वान्न बाधबुद्धिप्रतिबध्यत्वम्। यद्वा आहार्यान्यत्वस्येव शाब्दान्यत्वस्यापि बाधनिश्चयप्रतिबध्यतावच्छेदककोटौ निवेशः। सति च बाधनिश्चये तद्वत्ताशाब्दबुद्धेरनुत्पादः, योग्यताज्ञानविरहात्। सति च क्वचिदाहार्ये योग्यताज्ञाने तद्वद्ध्ेरिष्टत्वात् । अत एव योग्यताज्ञनस्य बाधनिश्चयपराहतस्यापि शाब्दधीहेतुत्वम्। तस्मादन्यतरप्रकारेण काव्ये सर्वत्र बोधोपपत्तिः। अपि च तद्रतधर्मवत्त्वबुद्धेः कथं तदभेदबुद्धि: फलं स्यात्। नाहि साधारणधर्मावच्छिन्नाभेदज्ञानस्य तत्तदसाधारणधर्मावच्छिन्नाभेदज्ञाने हेतुत्वं क्वाप्यवगतम्। घटपटयोर्द्रव्यत्वेनाभेदग्रहेऽपि घटत्वादिना भेदग्रहात्। तदभिन्नत्वेन ज्ञानस्य पुनस्तद्धर्मप्रतिपत्तिः फलं स्यात्। प्रवाहाभिन्नज्ञानस्येव शैत्यपावनत्वादिप्रतिपत्तिः। अत एव- 'कृपया सुधया सिञ्च हरे मां तापमूर्च्छितम्। जगज्जीवन तेनाहं जीविष्यामि न संशयः॥' इत्यादावमृताभिन्नत्वबोधे सत्येव कृपायाः सेके कारणत्वेनान्वयः। तादृशसेकस्य जीवने हेतुत्वेन इति दिक्। तृतीयान्तपदबोध्यसाधारणधर्मकरूपकस्थले बोधं विचारयति- अथ कथं 'गाम्भीर्येण समुद्रोऽयं सौन्दर्येण च मन्मथः' इत्यत्र बोधः।
Page 248
248 शृणु-प्राचां तावल्लक्ष्यमाणैकदेशे सादृश्ये प्रयोज्यता अभेदस्य वा तृतीयार्थस्यान्वयाद् गाम्भीर्यप्रयोज्यसमुद्रसादृश्यवदभिन्नोऽयम्, गाम्भीर्याभिन्नसमुद्रवृत्तिधर्मवदभिन्नोजयमिति वा धीः। लक्षणां विनैव अभेदसंसर्गेणान्वयवादिनां पुनरित्थम्-कविना स्वेच्छामात्रादुपकल्पिता असन्तोऽप्यन्तःकरणपरिणामात्मका अर्था उपनिबध्यन्ते मुखचन्द्रादयः। तेषु च साधारणधर्माणामस्त्येव प्रयोजकत्वम्, तद्दर्शनाधीनत्वात्तन्निर्मितेः। एवं च गाम्भीर्यादिप्रयोज्यसमुद्राद्यभिन्न इति बुद्धिरप्रत्यूहेति। यद्वा ज्ञानजन्यज्ञानप्रकारत्वं तृतीयार्थः, वह्िमान् धूमादित्यादौ पञ्चम्यर्थतया तस्य कल्पनात्। एवं च गाम्भीर्यज्ञानजन्यज्ञानप्रकारसमुद्राभिन्न इत्यादिर्बोधः। अभेदात्मकस्यास्य रूपकस्य वाक्यार्थे त्रिधा भानं भवतीति लक्ष्यप्रदर्शनमुखेन स्फोरयितुमाह- तदिदं रूपकं विषयविषयिणोः सामानाधिकरण्ये अपदार्थतया संसर्गः। यथा 'बुद्धिर्दीपकला' इत्यादौ। वाक्यार्थेऽभेदात्मकरूपकभानस्य प्रथमां विधां स्फोरयित्वा सम्प्रति द्वितीयां विधां स्फोरयितुमाह- वैयधिकरण्ये च शब्दार्थतया क्वचिद् विशेष्यम्। यथा- 'कैशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तना- वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया। आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहां किं चासीदमृतस्य भेदविगमः साचिस्मिते तात्त्विकः॥' अत्र शशाङ्कता-तादात्म्य-भेदविगमशब्दैरभिधीयमानं रूपकं प्रथमान्त-विशेष्यतावादिनां मते विशेष्यम्। क्रियाविशेष्यतावादिनां तु तत्रैव किञ्चिद् व्यत्यासेन निष्ठान्तक्रियादाने। वाक्यार्थेऽभेदात्मकरूपकभानस्य तृतीयां विधां स्फोरयितुमाह- क्वचिच्च विशेषणम्। यथा - 'अविचिन्त्यशक्तिविभवेन सुन्दरि प्रथितस्य शम्बररिपोः प्रभावतः । विधुभावमञ्चतितमां तवाननं नयनं सरोजदलनिर्विशेषताम् ।'
Page 249
249 इह द्वितीयार्थे विशेषणीभूतं विधुत्वादि विध्वभेदात्मकतया रूपकम्। समासगतरूपकस्थले बोधप्रकारं सूचयितुमाह- एवं मुखचन्द्र इत्यादावुपमितसमासे तावदुपमैव। विशेषणसमासे तु रूपकम्। बोधश्च शशिपुण्डरीकमित्यादाविव प्राक्प्रतिपादितदिशा बोध्यः। व्याधिकरणरूपकविशेषस्थले शाब्दबोधं दर्शयितुमाह- मीनवती नयनाभ्यां करचरणाभ्यां प्रकुल्लकमलवती। शैवालिनी च केशैः सुरसेयं सुन्दरी सरसी'॥ इत्यादौ तृतीयाया अभेदार्थकत्वात्तस्य च प्रागुक्तदिशा प्रतियोगित्वमुखस्यार्थवशादन्वये, नयननिष्ठाभेदप्रतियोगिमीनवतीति बोधः। मीनवत्त्वं च स्वाभिन्नद्वारकम्। एतत्स्फोरणायैव नयनाभ्यामित्युक्तम्। मीनाभिन्ननयनवतीति तु पर्यवसितम्। नयनाभेदे तु मीनेषु गृह्माणे सरसीरूपकापोषणादित्युक्तमेव। रूपके साधारणधर्मस्थिति विचारयति- साधारणधर्मश्चात्राप्युपमायामिव क्वचिदनुगामी क्वचिद्विम्बप्रतिबिम्बभावापन्नः क्वचिदुपचरितः क्वचिच्च केवलशब्दात्मा। सोऽपि क्वचिच्छब्देनोपात्तः, क्वचित्प्रतीयमानतया नोपात्तः। उपात्तमनुगामिनं धर्ममुदाहर्त्तुमाह- उपात्तोऽनुगामी यथा- उदाहरणं निर्दिश्यते- 'जडानन्धान्पङ्गून्प्रकृतिबधिरानुक्तिविकलान् ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन्। निलिम्पैनिर्मुक्तानपि च निरयान्तर्निपततो नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥' उपपादयति- अत्र त्रातुमिति तुमुन्नन्तेन शब्देनोपात्तं जडान्धादित्राणं भेषजभागीरथ्योः। अनुपात्तमनुगामिनं धर्ममुदाहर्तुमाह- अयमेवानुक्तो यथा- उदाहरणं निर्दिश्यते-
Page 250
250 'समृद्धं सौभाग्यं सकलवसुधायाः किमपि त- न्महैश्वर्यं लीलाजनितजगतः खण्डपरशोः। श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसां सुधासाम्राज्यं ते सलिलमशिवं नः शमयतु'॥ उपपादयति- अत्र सौभाग्यभागीरथ्योः स्वाभावव्यापकदौर्भाग्यत्व परमोत्कर्षाधायकत्वादिरनुपात्तः- प्रतीयमानो धर्मः। एवमीश्वरासाधारणधर्मत्व-परमगोप्यत्वनिरतिशयसुखजनकत्वान्यापामर- सकलजनजरामृत्युहरणक्षमत्वं चोत्तरोत्तरारोपेष्वनुगामीति। बिम्ब-प्रतिबिम्बभावापन्नं साधारणधर्मं पूर्वमुदाजहारेति स्मारयति- बिम्बप्रतिबिम्बभावमापन्नो विशिष्टरूपकप्रसङ्गे निरूपितः। उपचरितं साधारणधर्ममुदाहर्तुमाह- उपचरितो यथा- उदाहरणं निर्दिश्यते- 'अविरतं पर-कार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम्। अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका॥' उपपादयति- अन्नामृतरूपके विषये वचस्युपचरितो मधुरिमातिशयः शब्देनोपात्तः। अम्बुनिध्यादिरूपके च गाम्भीर्याद्यनुपात्तम्। केवलशब्दात्मकं साधारणधर्ममुदाहर्तुमाह- केवलशब्दात्मको यथा- उदाहरणं निर्दिश्यते- 'अङ्कितान्यक्षसङ्गातैः सरोगाणि सदैव हि। शरीरिणां शरिराणि कमलानि न संशयः॥' उपपादयति- अत्र सरोगशब्दादिरुपात्त एव प्रतीयते न लुप्तः। आद्यो ह्यभङ्गो द्वितीयस्तु भग्नः। अस्य भेदान्तरमाह- अयमेव साधारणो यत्र युक्तिरूपेणोपन्यस्यते तद्धेतुरूपकम्।
Page 251
251 उदाहरणं निर्देष्टुमाह- यथा- उदाहरणं निर्दिश्यते- पञ्चशाखः प्रभो यस्ते शाखा सुरतरोरसौ। अन्यथाऽनेन पूर्यन्ते कथं सर्वमनोरथाः॥' हेतुरूपकस्योदाहरणान्तरं निर्देष्टुमाह- एवम्- उदाहरणमाह- 'प्राणेशविरहक्लान्तः कपोलस्तव सुन्दरि। मनोभवव्याधिमत्त्वान्मृगाङ्क: खलु निर्मलः॥' उपपादयति- इह श्लेषेण रसचन्द्रयोः कपोले तादूप्यप्रत्ययाद्द्विरूपकं निरवयवम्। हेतुस्तु त्रिषु श्लिष्ट एव। भेदप्रदर्शनसमाप्तिं सूचयन्नाह- एवमन्येऽपि प्रकारा ज्ञेयाः। विशेषमाह- 'उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानां निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम्। उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः सङ्गातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥' अत्रोपमेय उपमानस्य नारोपः, अपि तु कारणे कार्यस्येति रूपकं न भवतीति प्राञ्चः। एतन्मतानुसारेणैवास्माभिरपि लक्षितम्। उच्छृङ्खलाः पुनरारोपमात्रं रूपकं वदन्त इहापि रूपकमेवाचक्षत इति प्रागेव निरूपितम्। स्थलविशेषे साधारणधर्मस्वरूपं स्फोरयितुं शङ्कासमाधाने विधत्ते- ननु- 'यशःसौरभ्यलशुनः शान्तिशैत्यहुताशनः। कारुण्यकुसुमाकाशः पिशुनः केन वर्ण्यते ॥'
Page 252
252 इत्यत्र लशुनहुताशनाकाशैः पिशुनस्य किं साधर्म्यम्, येन तेषामस्मिन् रूपकमुच्यत इति चेत्, यशःसौरभ्ययोः शान्तिशैत्ययोः कारुण्यकुसुमयोश्च तादूप्ये शब्दादुपस्थापिते ऽनन्तरमुपस्थितं यशोरूपसौरभ्याद्यभाववत्त्वमेतत्। एवं स्थितौ अन्योन्याश्रयमाशंक्य समाधत्ते- एवमपि लशुनखलयोस्तादूप्यसिद्धौ सत्यां लशुनरूपखलावृत्तित्वेन यशःसौरभ्ययोस्तादूप्यं सिद्ध्येत्, यशःसौरभ्ययोस्तादूप्यसिद्धौ च यशोरूपसौरभ्यशून्यत्वेन लशुनखलयोस्तादूप्यम्, इत्यन्योन्याश्रयो नाशङ्कनीयः। सकलसिद्धेः कल्पनामयत्वेन कल्पनायाश्च स्वप्रतिभाधीनत्वात्। शिल्पिभिः परस्परावष्टम्भमात्राधीनस्थितिकाभिः शिलेष्टकाभिर्गृहविशेषनिर्माणाच्च। रूपकध्वनिमुदाहर्तुमाह- अथास्य ध्वनि :- रूपकध्वनेः प्रथमभेदमुदाहर्तुमाह- तन्र शब्दशक्तिमूलो यथा- उदाहरणं निर्दिश्यते- 'विज्ञत्वं विदुषां गणे सुकवितां सामाजिकानां कुले माङ्गल्यं स्वजनेषु गौरवमथो लोकेषु सर्वेष्वपि। दुशर्वृत्ते शनितां नृलोकवलये राजत्वमव्याहतं मित्रत्वं च वहन्नकिञ्चनजने देव त्वमेको भुवि॥' उपपादयति- अन्न शक्तिनियन्त्रणेऽपि बुधत्व-शुकत्वादीनि बुधाद्यभेदरूपाणि राजनि व्यज्यन्ते। उदाहरणान्तरं दर्शयितुमाह- यथा वा- उदाहरणान्तरं प्रदर्शयति-
धनदाग्रमहितमूर्तिर्देव ! त्वं सार्वभौमोऽसि'॥ अथशक्तिमूलकं रूपकध्वनिमुदाहर्तुमाह- अर्थशक्तिमूलो यथा-
Page 253
253 उदाहरणं निर्दिशति- कस्तूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम्। प्रौढिं भजन्तु कुमुदानि मुदामुदारा- मुल्लासयन्तु परितो हरितो मुखानि॥' उपपादयति- अत्र त्वदीयमाननं कलङ्क-चन्द्रिका-विशिष्टचन्द्राभिन्नमिति रूपकं कुमुदविकासादिना ध्वन्यते न तु भ्रान्तिमान्। कुमुदानां हरितां चाऽचेतनत्वात्। न चाऽचेतनेषु मुदामसम्भवादवश्यं कुमुदादिषु चेतनत्वारोपेण भाव्यम्, तेन च भ्रान्तिसिद्धिरिति वाच्यम्। मुत्पदस्य विकासे लाक्षणिकत्वात्। उदाहरणान्तरं दर्शयितुमाह- इदं वा विविक्तमुदाहरणम्- उदाहरणं दर्शयति- 'तिमिरं हरन्ति हरितां पुराः स्थितं तिरयन्ति तापमथ तापशालिनाम्। वदनत्विषस्तव चकोरलोचने! परिमुद्रयन्ति सरसीरूहश्रियः॥' उपपादयति- इहापि वदनं चन्द्र इति गम्यते। ध्वनिकारोक्तं रूपकध्वनिं निरस्यति- आनन्दवर्धनाचार्यास्तु- 'प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या- न्निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि। सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात्- स्त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयोधेः॥' अत्र रूपकाश्रयेण काव्यचारुत्वव्यवस्थापनादूपकध्वनिः' इत्याहुः। तच्चिन्त्यम्। अत्र च जलाधिकम्पहेतुत्वेन विकल्पत्रयं कल्प्यते। तच्च प्रकृते राजविशेष्यिकां जलनिधिगतामनाहार्यविष्णुतादात्म्यज्ञानरूपां भ्रान्तिमेवाक्षिपति, न रूपकम् । तज्जीवातोराहर्यविष्णुतादात्म्यनिश्चयस्य कम्पाजनकत्वात्। कविजलधिगतत्वेन
Page 254
254 वैयधिकरण्याच्च। अज्ञातमेव केवलं विष्णुतादात्म्यं जलधे: कम्पेऽनुपयुक्तमेव। चमत्कारिण्यपि चात्र भ्रान्तिरेवेति ध्वनिरपि तस्या एव युक्तः। अथास्य दोषं निरूपयति- अथास्यापि कविसमयविरुद्धतया चमत्कारापकर्षका लिङ्गभेदादयो दोषाः सम्भवन्ति। दोषोदाहरणं दर्शयितुमाह- यथा- उदाहरणं दर्शयति- 'बुद्धिरब्धिर्महीपाल ! यशस्ते सुरनिम्नगा। कृतयस्तु शरत्कालचारुचन्दिरचन्द्रिका॥' दूषकताबीजमाह- अत्र विषयविषयिणोर्लिङ्गादिकृतं वैलक्षण्यं ततोस्यादूप्यबुद्धौ प्रतिकूलम्। दोषत्वेनाभिमतानामपि लिङ्गभेदादीनां क्वचिददोषतामाह- क्वचित्कविसमयसिद्धतया चमत्कारहानिराहित्ये तु नामी दोषाः। लिङ्गभेदादेरदोषत्वमुदाहर्तुमाह- यथा- उदाहरणं निर्दिशति- 'सन्ताप-शान्तिकारित्वाद्वदनं तव चन्द्रमाः' इत्यादौ हेतुरूपके। रूपकनिरूपणान्तरं सम्प्रति 'परिणाम' निरूपणं प्रतिजानीते- अथ परिणाम :-
तत्र तावत्तल्लक्षणमाह- विषयी यत्र विषयात्मतयैव प्रकृतोपयोगी न स्वातन्त्र्येण, स परिणामः। रूपक-परिणामयोर्भेदज्ञापनायाह- अन्न च विषयाभेदो विषयिण्युपयुज्यते। रूपके तु नैवमिति रूपकादस्य भेदः। उदाहरणं प्रदर्शयितुमाह- अयमुदाह्नियते- उदाहरणं निर्दिशति- 'अपारे संसारे विषमविषयारण्यसरणौ
Page 255
255 मम भ्रामं भ्रामं विगलितविरामं जडमतेः। परिश्रान्तस्यायं तरणितनयातीरनिलयः समन्तात् सन्तापं हरिनवतमालस्तिरयतु ॥' उपपादयति- अत्र भगवदात्मतयैव तमालस्य संसारतापनिवर्तनक्षमत्वम्। मार्गश्रान्तजनसन्तापहारकत्वाद्रमणीकशोभाधारत्वाच्च तमालो विषयितयोपात्तः। अयं समानाधिकरणो वाक्यगः। समागतं समानाधिकरणं परिणाममुदाहर्तुमाह- समासगोतं यथा- उदाहरणं दर्शयति- 'महर्षेव्यासपुत्रस्य श्रावं श्रावं वचःसुधाम्। उप(अभि)मन्युसुतो राजा परां मुदमवाप्तवान् ।' व्यधिकरणं परिणाममुदाहर्तुमाह- व्यधिकरणो यथा- उदाहरणं समुपस्थापयति- 'अहीनचन्द्रा लसताऽडननेन ज्योत्स्नावती चापि शुचिस्मितेन। एषा हि योषा सितपक्षदोषा तोषाय केषां न महीतले स्यात् ॥' उपपादयति- अत्र सर्वेषामेव तोषाय स्यादित्यनेन विरहिजनतोषजनकत्वमपि लभ्यते। तच्चारोप्यमाणशुक्लपक्षरजन्याः स्वात्मना बाधितम्, योषारूपेण तु सङ्गच्छत इति भवति परिणामः। स च परस्परसापेक्षबहुसङ्गात्मकतया सावयवः। तत्राद्यार्धगतौ द्वाववयवौ व्यधिकरणौ द्वितीयार्धगतश्चैकः समानाधिकरणः। निरसनीयमप्पय्यदीक्षितमतमुत्थापयति- यच्चाप्पय्यदीक्षितैर्वैयधिकरण्येन परिणामे उदाहृतम्- 'तारानायकशेखराय जगदाधाराय धाराधर- च्छायाधारककन्धराय गिरिजासङ्गैकश्रृङ्गारिणे। नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे
Page 256
256 नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः॥' यथा वा- 'द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प- श्चिन्तारत्स्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः। द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व- न्नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः॥' इति॥ प्रागुंक्त दीक्षितमतं निरस्यति- अत्र चिन्त्यते-तारानायकशेखरायेति पद्ये गिरिजासङ्गैकशृङ्गारिणि भवे कविकर्तृका नतिः प्रकान्ता। शृङ्गारिता च शेखरादीनि भूषणान्यपेक्षत इति नद्या आरोप्यमाणशेखररूपतयैवोपयोगः न स्वरूपेण। एवं दृशोऽपि तिलकरूपतयेति रूपकमेव शुद्धं भवितुमर्हति। ननु परिणामे विषयाभिन्नतया विषय्यवतिष्ठत इत्युक्तम्, प्रकृते च विषयवाचकेभ्यो नद्यादिशब्देभ्यः परस्यास्तृतीयाया अभेदार्थकत्वाच्छेखरादेश्च तदन्वयित्वात्कथं नात्र परिणाम इति चेत्, न। विषयाभिन्नत्वेन विषयिणो भानेऽपि तेन रूपेण तस्यानुपयोगात्। द्विर्भावः पुष्पकेतोरिति पद्येऽपि कोविदानन्दजनन-जगदुत्कर्षौ कथ्येते राज्ञो नृसिंहस्य। तत्र कोविदानन्दजनकत्वमपि राज्ञ आरोप्यमाणाद्वितीयमन्मथादितादूप्येण यथा सम्भवति न तथा केवलस्वरूपेण। तथाहि- अहो नयनानामस्मदीयानां साफल्यं यदयमपरो मन्मथोऽस्माभिरालोक्यत इति मन्यमानानां तेषां नयनानन्दस्तावत्पुष्पकेतुनैवोपपाद्यते, न तु राज्ञा। एवमपरोऽयं कल्पतरुश्चिन्तामणिद्वितीयः कर्ण इन्द्रश्च भूगतोऽयमन्यो दारिद्यमस्माकं परिहरिष्यति। हरिःखल्वयं संसारं हरिष्यतीत्यभिमानाज्जायमानस्तेषामानन्दोऽप्यारोप्यमाणैः कल्पवृक्षादिभिरेवेति न विषयात्मना विषयिण उपयोगः, अपि तु स्वात्मनैवेति कुत्रास्ति परिणाम :? खण्डनाय सर्वस्वकारमतमुपन्यस्यति- अलङ्कारसर्वस्वकारस्तु-'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति सूत्रयित्वा 'आरोप्यमाणं रूपके प्रकरणोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते परिणामे तु प्रकृतात्मतयारोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणतया परिणमति' इति व्याख्यातवान्।
Page 257
257 प्रागुक्तसर्वस्वकारोक्तं खण्डयति- अत्रापि चिन्त्यते-आरोप्यमाणस्य प्रकृतोपयोग इत्यस्य प्रकृतकार्ये उपयोग-आहोस्वित् प्रकृतविषयात्मतया उपयोगोऽर्थः? न तावदाद्यः। 'दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि! नास्मि दूये। उद्यत्कठोरपुलकाङ्करकण्टकाग्रै- र्यत्खिद्यते तव पदं ननु सा व्यथा मे॥' इति त्वदुदाहृतरूपकोदाहरणे आरोप्यमाणानां कण्टकानां प्रकृतखेदव्यथारूपकार्ये उपयोगेनातिप्रसङ्गात् न द्वितीयः। 'अथ पक्त्रिमतामुपेयिव्भिः सरसैर्वक्त्रपथाश्रितैर्वचोभिः। क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरङ्गमाद्ैः॥' इत्यत्र स्वोक्तव्यधिकरणपरिणामोदाहरणासङ्गत्यापत्तेः। यतो राजसङ्घटने ह्युपायनस्यारोप्यमाणस्य स्वात्मनैवोपयोगः न तु विषयवचोरूपया। वचसां तु विषयाणामारोप्यमाणामस्योदाहरणं साधु। इदं तु पुनर्व्यधिकरणरूपकं भवितुमर्हति। तृतीयार्धाभेदोऽ्पि मीनवतीनयनाभ्यामित्यत्रेव प्रकृत्यर्थानुयोगिको बोध्यः। मतान्तरमाह- केचित्तु क्वचित्केवलो विषयः स्वात्मना न प्रकृतोपयोगीत्ययमारोप्यमाणाभिन्नतयाऽवतिष्ठते, तत्रारोप्यमाणपरिणामः। यथा-'वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ'। अत्र वदनमिन्द्वभिन्नतयाऽवतिष्ठते, केवलस्य वदनस्य दृक्छिशिरीकारकत्वायोगात्। क्वचिच्चारोप्यमाणः स्वात्मना न प्रकृतकार्योपयोगीत्ययं विषयाभिन्नतयाऽवतिष्ठते, तत्र विषयपरिणामः। यथा- 'वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति' अन्रेन्दुर्वदनाभिन्नतयाऽवतिष्ठते, केवलस्येन्दोः स्मरतापापनोदकत्वायोगात्। एवं च परिणामद्वयात्मकमिदं रूपकमेव भवितुमर्हति। विषयतावच्छेदक- विषयितावच्छेदकान्यतरपुरस्कारेण निश्चीयमानविषयिविषयान्यतरत्वस्य तल्लक्षणत्वात्। अत एवोक्तम्-'तदूपकमभेदो य उपमानोपमेययोः' इति। तस्मान्न रूपकात्परिणामोऽतिरिच्यते' इति वदन्ति। अथ परिणामालङ्कारविशिष्टवाक्यजबोधं विचारयितुं प्रकमते-
Page 258
258 अथ बोध :- कतिपयेषु स्थलविशेषेषु विचारयति- हरिनवतमाल इत्यत्र भगवदभिन्नतमाल इति निर्विवादैव धीः। तथा श्रावं श्रावं वच:सुधामित्यत्र विशेषणसमासगतपरिणामे वचनाभिन्नां सुधामिति, पायं पायं वच:सुधामितिरूपके तु वचोनिष्ठाभेदप्रतियोगिनीं सुधामिति बुद्धि:। एवं च 'वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति' इति व्यस्तपरिणामे 'वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ' इति व्यस्तरूपके च बोधवैलक्षण्यम्। तथा- 'शान्तिमिच्छसि चेदाशु सतां वागमृतं शृणु। हृदये धारणाद्यस्य न पुनः खेदाम्भवः॥' इति परिणामे, शृण्विति विहाय पिबेति कृते तत्रैव रूपके, 'विद्धा मर्मणि वाग्बाणैर्घूर्णन्ते साधवः खलैः। सद्भिर्वचोऽमृतैः सिक्ताः पुनः स्वस्था भवन्ति ते ॥' इति रुपके च बोधव्यवस्थितिः। तथा 'अहीनचन्द्रा लसताऽऽननेन ज्योत्स्नावती चापि शुचिस्मितेन' इति व्यधिकरणपरिणामेऽभेदस्य तृतीयार्थत्वाल्लसदाननाभिन्नहीनेतरचन्द्रयुक्तेति धीः। मीनवती नयनाभ्यामित्यत्र तु सरसीतादात्म्यारोपो बाधकाभावात्तावत्सिद्धः। तस्य च मीनयोर्नयनाभेदारोपेणासमर्थनान्नयनयोर्मीनाभेदारोपो मृग्यः। स च तृतीयायाः प्रकृत्यर्थाभेदार्थकतायां न सम्भवतीति यथाकथञ्चित्तस्याः प्रकृत्यर्थनिष्ठाभेदप्रतियोगित्वार्थकत्वं वाच्यम्। तेन नयननिष्ठाभेदप्रतियोगिमीनयुक्तेति धीः। एवं चारोप्यमाणे विषयप्रतियोगिकाभेदस्याभानान्न परिणामः, अपि तु रूपकमेव। इयमेव सरणिः 'नद्या शेखरिणे दृशा तिलकिने-' इति प्रागुक्ताप्पय्यदीक्षितदत्तोदाहरणे, 'वचोभिरुपायनं चकर-' इत्यलङ्गारसर्वस्वोदाहरणे च बोध्या। पुनरारोप्यमाणे यथाकथञ्चिद्विषयाभेदप्रत्ययमात्रात्परिणामतोच्यते, नादरियते च प्रकृतोपयोगस्तदा 'प्रकृतोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम्' इति तदुदाहृतरूपकस्य परिणामतापत्तिः, प्रेमलतिकामिति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणायामभेदेन विशेषणत्वादिति दिक्।
Page 259
259 परिणामालङ्कारध्वनिनिरूपणं प्रतिजानीते- अथ परिणामध्वनिर्विचार्यते- अप्पाय्यदीक्षितोक्तमनूद्य खण्डयति- तत्र यत्तावदप्पय्यदीक्षितैर्विद्याधरोक्तं ध्वन्युदाहरणमनूद्य दूषितम्- 'तथाहि- 'नरसिंह धरानाथ! के वयं तव वर्णने। अपि राजानमाक्रम्य यशो यस्य विजृम्भते॥' अन्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्रमणरूपकार्योपयोगिनः प्रतीते: परिणामो व्यज्यते इति, तदयुक्तम्। तत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्रमणोपयोगः, न चन्द्रात्मना' इति। तदसत्। अत्र विजृम्भणं नाम न केवलं प्रागल्भ्यमात्रं कवेरभिप्रेतम्, येन यशःकर्तृकाक्रमणे नृपस्य नृपात्मनैव कर्मतारूप उपयोगः स्यात्। अपि तु निरतिशयनैर्मल्यगुणवत्तायां स्वसमानजातीयद्वितीयराहित्यप्रयुक्तः प्रौढिविशेषः। आक्रमणं तु न्यगभाव एव। एवं चैवंविधविज्म्भणे चन्द्रकर्मकमेवाक्रमणमुपयुज्यते, न तु नृपकर्मकमिति विषयितया व्यज्यमानस्यापि नृपस्य चन्द्रात्मनैवाक्रमणोपयोग इति रमणीयमेव विद्याधरेणोक्तं परिणामव्यङ््यतायामुदाहरणम्। दीक्षितोक्तमन्यदपि खण्डयति- यद्यपि तैरेव परोक्तिं दूषयित्वा स्वयं परिणामस्य व्यङ्ग्यतायामुक्तम्- "चिराद् विषहसे तापं चित्त! चिन्तां परित्यज। नन्वस्ति शीतल: शौरेः पादाब्जनखचन्द्रमाः॥' अत्र चिरतापार्तं प्रति हरिपादनखचन्द्रसद्भावप्रदर्शनेन तमेव निषेवस्व तन्निषेवणादयं तव ताप: शान्तिमेष्यतीति परिणामो व्यज्यते" इति, तत्तुच्छम्। 'आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योपयोगे परिणामः' इति स्वयमेवोक्तम्। त्र प्रकृतकार्योपयोगमात्रं न परिणामशरीरम्। अपि तु विषयिगतायाः प्रकृतकार्योपयोगिताया अवच्छेदकीभूतं विषयतादूप्यम्। एवं चात्र नखचन्द्रसद्भावप्रदर्शनेन तन्निषेवणादयं तव ताप: शान्तिमेष्यतीति प्रकृतोपयोगिताया व्यङ््यत्वेऽपि तदवच्छेदकीभूतस्य विषयिणि विषयतादूप्यरूपस्य परिणामस्य वाक्यवाच्यत्वात् शक्यसंसर्गत्वाद्वा सर्वथैव न व्यङ्ग्यत्वं वक्तुमुचितम्।
Page 260
260 स्वसम्मतं परिणामध्वन्युदाहरणं दर्शयितुमाह- इदं तूदाहरणं युक्तम्- उदाहरणं निर्दिशति- 'इन्दुना परसौन्दर्यसिन्धुना बन्धुना विना। ममायं विषमस्तापः केन वा शमयिष्यते ॥' उपपादयति- अत्र वक्तुर्विरहितया व्यज्यमानरमणीवदनाभिन्नत्वेनेन्दुरभिप्रेतः। तेन रूपेणैव तस्य प्रकृतविरहसन्तापशमनहेतुत्वात्। अत्रातिशयोक्तिमाशङ्क्य निराकुरुते- न चात्र विषयनिगरणात्मिकातिशयोक्तिर्वक्तुं शक्या, तस्यां ह्यारोप्यमाणाभिन्नत्वेन विषयस्य प्रत्ययात्। यथा 'कमलं कनकलतायाम्' इत्यादौ कनकलताऽभिन्नायां वनितायां कमलाभिन्नं मुखमिति। ननु प्रकृते कीदृशी प्रतीतिर्याऽतिशयोक्तेः प्रतिकूला परिणामस्य चानुकूलेति चेत्? तादशी प्रतीतिमुपपादयति- इह तु मुखस्य चन्द्राभिन्नत्वेन प्रतत्यये न पुनर्विरहतापशमनरूपप्रकृतकार्यसिद्धिरिति चन्द्रस्यारोप्यमाणस्य मुखरूपविषयाभिन्नत्वं मृग्यम्। तच्च व्यङ्ग्यतायामेव भवतीति परिणामध्वनिरेवायम्, नातिशयोक्तिः। ध्वनि-विशेषत्वं प्रकृतध्वनेः स्फोरयति- अयं त्वर्थशक्तिमूल:। भेदान्तरमुदाहर्तुमाह- शब्दशक्तिमूलपरिणामध्वनिर्यथा- उदाहरणं निर्दिशति- 'पान्थ मन्दमते किं वा सन्तापमनुविन्दसि। पयोधरं समाशस्वा येन शान्तिमवाप्नुयाः॥' उपपादयति-
Page 261
261 अत्र झगिति तापशमहेतुत्वेनोपस्थिते पश्चान्मद-(मति-पद)-बोधनीयवि- शेष्यकस्मरतापवत्तावैशिष्ट्यबुद्धौ सत्यां सहृदयस्य तादृशतापशमकरमणी- स्तनरूपविषयतादूप्यबुद्धिर्भवति। परिणामगतदोषपरिचायनायाह- दोषाश्चात्रापि पूर्ववदुन्नेयाः। परिणामालङ्कारनिरूपणानन्तरमिदानीं ससन्देहालङ्कारनिरूपणं कर्तव्यत्वेन प्रतिजानीते- अथ ससन्देह :- तत्र तावत्तल्लक्षणमाह- सादृश्यमूला भासमानविरोधका समबला नानाकोट्यवगाहिनी धी रमणीया ससन्देहालङ्कृतिः। पदकृत्यान्याह- 'अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य बान्धवानाम्। परिणेष्यति वा न वा युवाऽयं निरपायं मिथिलाधिनाथपुत्रीम्।' अत्र मिथिलास्थजनोक्तौ तच्चिन्ताभिव्यञ्जके संशयमात्रे ऽतिव्याप्तिवारणाय सादृश्यमूलेति। सादृश्यज्ञानरूपदोषजन्येत्यर्थः। तेन 'सिंहवतत्प्रान्तरं गच्छ गृहं सेवस्व वा श्ववत्' इत्युपमाविकल्पे वाकारप्रतीतविरोधकप्रान्तरगमनगृहसेवनरूपनानाधर्मावगाहिनि सादृश्यविषयकेऽपि नातिप्रसङ्ग:। तस्य सादृश्यज्ञानरूपत्वात्। मालारूपकातिप्रसङ्गवारणाय भासमानविरोधकेति। उत्प्रेक्षाव्यावृत्तये समबलेति समानभासकसामग्रीत्वार्थकम्। एतद्विशेषणद्वयप्राप्तस्यैवानेकत्वस्य स्फुटत्वार्थं नानेति। स्थाणुर्वा पुरुषो वेति लौकिकसंशयनिवृत्तये रमणीयेति, चमत्कारिणीत्यर्थः। एतच्च विशेषणं सामान्यालङ्कारलक्षणप्राप्तमेव। एवमुपस्कारकत्वमपि बोध्यम्। एतद्विशेषणद्वयस्य सादृश्यमूलत्वस्य चाभावे संशयमात्रमेव। ननु संशये विरोधो न भासते मानाभावात्। किंत्वविरोधित्वज्ञानाभावविशिष्टनानाकोटिकज्ञानमेव संशय इति कुत उक्तलक्षणमित्यतो लक्षणान्तरमाह- यद्वा 'सादृश्यहेतुका निश्चयसम्भावनान्यतरभिन्ना धी रमणीया संशयालङ्कृतिः'। संशयालङ्कृति विभनक्ति-
Page 262
262 सा च शुद्धा निश्चयगर्भा निश्चयान्ता चेति त्रिविधा। तत्र प्रथमभेदमुदाहर्तुमाह- आद्या यथा- उदाहरणं प्रदर्शयति- 'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः। रघुपतिमवलोक्य-तन्र दूरादृषिनिकरैरिति संशयः प्रपेदे॥' द्वितीयं भेदमुदाहर्तुमाह- द्वितीया यथा-
उदाहरणमाह- 'तरणितनया कि स्यादेषा न तोयमयी हि सा मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुतः। इति रघुपतेः कायच्छायाविलोकनकौतुके- र्वनवसतिभि: कैः कैरादौ न सन्दिदिहे जनैः॥' तृतीयं भेदमुदाहर्तुमाह- तृतीया यथा- उदाहरणमाह- 'चपला जलदाच्युता लता वा तरुमुख्यादिति संशये निमग्नः। गुरुनिःश्वसितैः कपिर्मनीषी निरणैषीदथ तां वियोगिनीति'॥ नन्वेषूदाहरणेषु संशयस्यैव प्राधान्येनान्योपस्कारकत्वविरहात्कथमलङ्कारत्वमत आह- एषु संशयेषु मञ्जूषादिगतकटकादिष्विवालङ्कारव्यपदेशः। प्रत्युदाहरणं दर्शयति- एवं च- 'तं दृष्टवान् प्रथममद्भुतधैर्यवीर्य- गाम्भीर्यमक्षणविमुक्तसमीपजानिम्। वीक्ष्याथ दीनमबलाविरहव्यथार्तं रामो न वाऽ्यमिति संशयमाप लोकः॥' इत्यत्र सत्यपि चमत्कारे सादृश्यमूलत्वाभावान्न संशयस्यालङ्कारत्वम्।
Page 263
263 विशेषं सूचयति- एवमारोपमूलोऽयं सन्देहालङ्कारः। प्रागुक्तस्य त्रिविधस्यापि ससन्देहालङ्कारस्यान्यमतसिद्धं त्रैविध्यमाशंक्य निरस्यति- अध्यवसानमूलोऽपि दृश्यते। यथा- 'सिन्दूरैः परिपूरितं किमथवा लाक्षारसैः क्षालितं लिप्तं वा किमु कुङ्कमद्रवभरैरेतन्महीमण्डलम्। सन्देहं जनयन्नृणामिति परित्रातत्रिलोकस्त्विषां व्रातः प्रातरुपातनोतु भवतां भव्यानि भासां निधेः॥' अयं च संशयः सवितृविषयककविरतिपरिपोषकतया कामिनीकरगतकङ्कणादिरिव मुख्यतयाऽलङ्कृतिव्यपदेश्यः। अत्र च विवक्षितविवेचने क्रियमाणे किरणव्राते सिन्दूरत्वादिकोटिकः संशयः पर्यवस्यति। स च न सारोपः। विषयविषयिणोस्तदनुकूलविभक्तेरभावात्। अतः सिन्दूरत्वादिना संशयधर्मी किरणव्रातोऽध्यवसीयत इति। अत्र विचार्यते-सिन्दूरैः परिपूरितं किमथवेति पद्ये तावत्सिन्दूरादिकरणकपरिपूरितत्वादिकोटिको जगन्मण्डलधर्मिकः संशयः शब्दात्प्रतीयते। तस्मिंश्च संशये किमिदं सिन्दूररजो वा स्यात्, आहोस्विल्लाक्षारसः, उताहो कुङ्कमद्रव इति सूर्यकिरणधर्मिकं संशयान्तरमानुगुण्यमाधत्ते। यथा पुरोवर्तिनि तुरगे स्थाणुर्वा पुरुषो वेति संशयो भूतलमिदं स्थाणुमत्पुरुषवद्वेति संशये। एवञ्च सूर्यकिरणधर्मिकः संशयो गुणीभूतो व्यञ्जनागम्यत्वाद्विषयविषयिणोरारोपानुकूलविभक्तिकतां नापेक्षते। अपेक्षते च साक्षाच्छब्दवेद्यतायामिति कुत्राध्यवसानमूलता संशयस्य? एतेनाध्यवसानमूलतां संशयस्य निरूपयतो विमर्शिनीकारस्योक्तिरपास्ता। अप्पय्यदीक्षितोक्तमनूद्य निरस्यति- अप्पय्यदीक्षितास्तु- 'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिग्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः। वेदाभ्यासजड: कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥'
Page 264
264 इत्यत्र चन्द्रादीनां सन्देहधर्मिणामेवानेकत्वम्। प्रकारस्तु वर्णनीयवनितास्रष्टत्वमेकमेवेत्यनेककोटिकत्वाभावद्विरोधेन परस्परप्रतिक्षेपकतया निबद्धानेककोव्यवगाहित्वरूपस्य संशयलक्षणस्याव्याप्तिमाहुः। तन्न। अत्र हि अस्याः सर्गविधौ यः प्रजापतिरभूत्स किं चन्द्रः, किं नु मदनः, किं वा नु वसन्त इति संशयः प्रजापतिधर्मिकश्चन्द्रत्वादिनानाकोटिक एवेति कुत्राव्याप्तिः। न चात्र चन्द्रादिधर्मिकः संशयो युक्तो वक्तुम्। एवं च प्रजापतेः प्रथमोद्देशो न स्यात्। दीक्षिताभिप्रेतमन्यदपि निराचष्टे- यदपि, 'साम्यादप्रकृतार्थस्य या धीरनवधारणा' इति प्राचां लक्षणं महता प्रबन्धेन त एव दूषितवन्तः, तदपि न। साम्यनिमित्ता निश्चयसम्भावनान्यतरभिन्ना या धीरिति तदर्थकरणे दोषाभावात्। निश्चयत्वं तु संशयाघटितमेव निर्वचनीयम्। विशेषमाह- उक्त्ेषूदाहरणेषु सोऽयं संशयालङ्कारः स्वशब्दवेद्यत्वाद्वाच्यः। लक्ष्य ससन्देहालङ्कारमुदाहर्तुमाह- लक्ष्यो यथा- उदाहरणमुपदर्शयति- 'साम्राज्यलक्ष्मीरियमृष्यकेतोः सौन्दर्यसृष्टेरधिदेवता वा। रामस्य रामामवलोक्य लोकैरिति स्म दोला रुरुहे तदानीम् ।' उपपादयति- अत्र पर्यायेणोभयकोट्यालम्बनतया दोलासादृश्यात् संशयोऽत्र दोलाशब्देन लक्ष्यते। व्यङ्ग्यं ससन्देहालङ्कारमुदाहर्तुमाह- व्यङ्योडयं यथा- उदाहरणमुपन्यस्यति- 'तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकासम्। आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमाला ।।' उपपादयति- अन्न कमलधर्मिकोऽभेदेन संसर्गेण पुरोवर्तिव्यक्तिद्वयप्रकारकः कमलमिदं वेति भ्रमरगतः संशयो व्यङ््यः। न च कमलाभेदबुद्धेर्भ्रमरप्रवृत्त्युपायतयाऽपेक्षणादिदं
Page 265
265 पदार्थाभेदबुद्धिर्निरर्थिकेति वाच्यम्।
कमलाभेदबोधसाम्राज्यात्। कमलत्वमेतद्वृत्ति तद्वृत्ति वेति संशयाकारः। सोऽयं संशयध्वनिः। सन्देहालङ्कारध्वनेरुदाहरणान्तरन्निरस्यति- 'आज्ञा सुमेषोरविलङ्गनीया कि वा तदीया नवचापयष्टिः। वनस्थिता कि वनदेवता वा शकुन्तला वा मुनिकन्यकेयम् ॥' यद्यप्यत्रापि वाचकशब्दाभावाद् व्यङ्ग्य एव भवितुमर्हति संशयः, तथापि विषयनिरूपणेन स्फुटमावेदितत्वान्न ध्वनिव्यपदेशहेतुः। अपि तु गुणीभूतव्यङ्ग्यप्रभेदव्यपदेशस्य, अनुगामी चात्र प्रतिप्रकारं पृथगेव निर्दिष्टः। निरसितुम् अप्पय्यदीक्षितोक्तं सन्देहध्वन्युदाहरणं तद्विवरणञ्चोद्धरति- यत्तु चित्रमीमांसायां संशयध्वन्युदाहरणप्रसङ्गे अप्पय्यदीक्षिता :- "काञ्चित् काञ्चनगौराङ्गी वीक्ष्य साक्षादिव श्रियम्। वरदः संशयापन्नो वक्षःस्थलमवैक्षत ।।' अत्र संशयस्य शब्दोपात्तत्वेपि तावन्मात्रस्यानलङ्कारत्वात्तदलङ्कारताप्रयोजकस्य वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य पुरस्तिष्ठतीत्येवं संशयाकारस्य वक्षःस्थलमवैक्षतेत्यनेन व्यङ्ग्यत्वात् सन्देहालङ्कारध्वनिरत्रेति। यथा- 'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः। वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्जया ॥' इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थं लज्जाशब्दप्रयोगेऽपि तस्याः स्वविभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिः" इत्याहुः। निरस्यति- तदेतद् ध्वनिमर्मज्ञैरुपहसनीयमेव। उपहसनीयत्वे हेतुमाह- तथाहि संशयाविष्ट इत्यत्र संशयपदेनैकस्मिन् पदार्थे विरुद्धनानापदार्थसम्बन्धावगाहिज्ञानं साक्षादेव निवेद्यते। तत्र कोऽसौ विरुद्धो नानार्थ इति विशेषाकाङ्क्षायां वक्षःस्थलावेक्षणेन
Page 266
266 वक्ष:स्थलस्थैव लक्ष्मीस्ततोऽवतीर्य कि पुरस्तिष्ठतीत्यादिरर्थो व्यञ्जनाव्यापारेण बोध्यमानः शक्त्या संशयशब्दनिवेदितज्ञानविशेषणीभूतेन सामान्यार्थेन साकमभेदेन पर्यवस्यति। एवं च संशयमात्रस्य शक्त्या बोधनाद्वक्षःस्थलस्थितैवेत्यादिविषयभागस्यापि विरुद्धनानार्थत्वेन सामान्याकारेणावलीढतया तथैव कवलीकरणाद्वाच्यार्थसंशयपर्यवसायकत्वाच्च न कस्यापि ध्वनिव्यपदेशहेतुत्वं युक्तम्। सर्वथा वाच्यवृत्त्यचुम्बितस्यैव तथात्वमिति ध्वनिमार्गप्रवर्तकैः सिद्धान्तितत्वात्। तथा च द्वितीयोद्द्योते- "शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः। यत्राविष्क्रियते स्वोक्त्या साऽन्यैवालङ्कृतिर्ध्वनेः॥" इति सूत्रयित्वा। 'सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ।' अत्र सङ्केतकालमनसं ज्ञात्वा लीलापद्मं निमीलितमिति वदता कविना लीलापद्मनिमीलनस्य प्रदोषाभिव्यञ्जकत्वं स्वोक्त्यैव निवेदितमिति ध्वनिमार्गादयमपर एव गुणीभूतव्यङ्ग्यस्य मार्ग:। यथा वा- 'अम्बा शेते ऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथाऽन्न। अस्मिन् पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ।।' अन्र निःशङ्कं रन्तुमायाहीत्यर्थश्चरणत्रयव्यङ्ग्योऽप्यवसरव्याहृतेर्व्याजत्वं ब्रुवता कविना स्फुटं स्वोक्त्या निवेदित इत्ययमपि न ध्वनेर्मार्गः'इत्याहुरानन्दवर्धनाचार्याः। तृतीयोद्योते च गुणीभूतव्यङ््यनिरूपणे 'व्यङ्ग्यस्यार्थस्य यदि मनागप्युक्त्या प्रकाशनं तदा गुणीभाव एव शोभते। तस्माद्यन्नोक्तिं विना व्यङ्ग्योऽर्थस्तात्पर्येण प्रतीयते तत्र तस्य प्राधान्याद् ध्वनित्वम्' इति तद्युक्तिविवेचनेऽभिनवगुप्तपादाचार्याः। एवं चैवंविधेषु विषयेषु व्यञ्जकत्वस्य व्यङ्ग्यस्य वा मनागुक्तिसंस्पर्शमात्रेण ध्वनित्वं निराकुर्वाणा: 'काञ्चित् काञ्चनगौराङ्गीं-' इति पद्ये शब्दाभिहितव्यङ्ये ध्वनित्वं कथमिव
Page 267
267 स्वीकुर्वीरन्। एतेन 'दर्पणे च परिभोरादर्शिनी' इति प्रागुक्तपद्ये लज्जाध्वनित्वं यद्दीक्षितैरभ्यधीयत तदप्यपास्तमिति दिक्। ससन्देहालङ्कारे साधारणधर्मस्थिति विचारयति- अस्मिंश्च संशये नानाकोटिषु क्वचिदेक एव समानो धर्मः। क्वचित् पृथक्। सोऽपि क्वचिदनुगामी, क्वचिद् बिम्बप्रतिबिम्बभावमापन्नः, क्वचिदनिर्दिष्टः, क्वचिन्निर्दिष्टः। क्मेण तत्तद्धर्मोदाहरणप्रदर्शनप्रसङ्गे प्रथममनुगामिनोऽनिर्दिष्टस्यैस्य तस्योदाहरणमाह- तन्र 'मरकतमणिमेदिनीधरो वा' इति प्रागुदाहृतपद्ये श्यामाभिरामत्वं धर्मिणो रामस्य कोट्योश्च तमाल-मरकत-भूधरयोरेक एवानुगामी धर्मः प्रतीयमानत्वादनिर्दिष्टः। निर्दिष्टमेकमनुगामिनं धर्ममुदाहर्तुमाह- स एव निर्दिष्टो यथा- उदाहरणमुपन्यस्यति- 'नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम्। सरोजं चन्द्रबिम्बं वेत्यखिलाः समशेरत ॥' उपपादयति- अन्न नेत्राभिरामत्वरूपस्त्रिष्वेक एवानुगामी धर्मो निर्दिष्टः। उक्तभिन्नानुगामिधर्मोदाहरणं स्मारयति- पृथगनुगामी निर्दिष्टो यथा प्रागुदाहृते 'आज्ञा सुमेषोः' इत्यादौ। तादृशस्य धर्मस्योदाहरणान्तरं दातुमाह- यथा वा- उदाहरणमुपन्यस्यति- 'सम्पश्यतां तामतिमात्रतन्वीं शोभाभिराभासितसर्वलोकाम्। सौदामिनी वा सितयामिनी वेत्येवं जनानां हृदि संशयोऽभूत् ॥' उपपादयति- अत्रातिमात्रतनुत्वं सौदामिन्या, शोभाभिराभासितसर्वलोकात्वं च सितयामिन्या सह कान्तायाः पृथगनुगामी समानो धर्मः। अनुक्तभिन्नानुगामिसाधारणधर्मोदाहरणप्रदर्शनायाह- अन्रैव पूर्वार्धगतविशेषणद्वयत्यागे स एवानिर्दिष्टः।
Page 268
268 बिम्बप्रतिबिम्बभावापन्नपृथङनिर्दिष्टसाधारणधर्मोदाहरणं स्मारयति- बिम्बप्रतिबिम्बभावमापन्नो यथा 'तीरे तरुण्या वदनं सहासम्' इत्यादौ प्रागुक्ते। तादृशधर्मोदाहरणान्तरं निर्देष्टुमाह- यथा वा- उदाहरणमुपन्यस्यति- 'सपल्लवा किं नु विभाति वल्लरी सफुल्लपद्मा किमियं नु पद्मिनी। समुल्लसत्पाणिपदां स्मिताननामितीक्षमाणैः समलम्भि संशयः॥' उपपादयति- अत्र पल्लवफुल्लपद्मे पाण्याननयोः प्रतिबिम्बकोव्योः पृथङ निर्दिष्टे। बिम्बप्रतिबिम्बभावापन्नस्य निर्दिष्टस्योदाहरणं दत्त्वाऽनिर्दिष्टस्य तदाह- 'इदमुदधेरुदरं वा नयनं वान्नेरुतेश्वरस्य मनः। दशरथगृहे तदानीमेवं संशेरते स्म कवयोऽपि ॥' उपपादयति अत्र तदानीमिति प्रकरणसाहाय्यवशाद्दशरथगृहेण धर्मिणाऽक्षिप्तस्य तत्कालजातस्य भगवतो रामस्य जलध्युदरादिसंशयकोटित्रयाक्षिप्तः साधारणश्चन्द्रः प्रतिबिम्बः। इमौ च बिम्बप्रतिबिम्बावनिर्दिष्टावपि प्रतीयमानौ सादृश्यं प्रयोजयतः। एतेन 'अनुगाम्येव धर्मो लुप्तः सम्भवति, न तु बिम्बितः' इति वदन्तः परास्ताः। इति दिक्। विशेषमाह- अयं च क्वचिदनाहार्यः, क्वचिदाहर्यः। यत्र हि कविना परनिष्ठः संशयो निबध्यते प्रायशस्तत्रानाहार्यः। यथा 'तीरे तरुण्याः'मरकतमणिमेदिनीधरो वा इत्यादिषु प्रागुदाहृतेषु पद्येषु। तत्र भ्रमरादीनां संशयानानां ग्राह्यनिश्चयाभावात्। यत्र च स्वगत एव तत्राऽ्हार्यः। यथा- 'अलिर्मृगो वा नेत्रं वा यत्र किञ्चिद् विभासते। अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः॥।' अत्र वक्तुः कवेस्तत्त्वज्ञतया संश्यावाहार्यावेव। अपरं विशेषमाह- परम्परितोऽपि चायं सम्भवति-
Page 269
269 विद्वद्दैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवी- दावाग्निः किमहो महोज्ज्वलयशःशीतांशुदुग्धाम्बुधिः। किंवानङ्गभुजङ्गदष्टवनिताजीवातुरेवं नृणां केषामेव नराधिपो न जनयत्यल्पेतराः कल्पनाः॥' अत्राप्याहार्यः। 'यत्र स्वगत एव संशयस्तत्राहार्यः' इति यदुक्तं प्राक् तन्नैवकारेण कृतमवधारणमयुक्तमिति साम्प्रतमाह- क्वचित् परनिष्ठोऽपि कविना निबध्यमान आहार्यो भवति। तादृशमुदाहरणं दर्शयितुमाह- यथा- उदाहरणमुपन्यस्यति- 'गगनाद् गलितो गभस्तिमानुत वाडयं शिशिरो विभावसुः। मुनिरेवमरुन्धतीपतिः सकलज्ञः समशेत राघवे॥" उपपादयति- अत्र मुनेर्वशिष्ठस्य सर्वज्ञत्वेनोपात्तस्य संशय आहार्य एव। 'गगनात्-' इति पद्यवर्णितस्य सन्देहस्यानाहार्यतामाशंक्य समाधत्ते- यद्यप्यत्र 'मुनीनां च मतिभ्रमः' इत्युक्त्या तस्यानाहार्यं एव संशयो वक्तुं शक्य:, तथापि कोटितावच्छेदकयोः शिशिरत्वगगनगलितत्वयोरग्निसूर्यरूपकोटिद्वये आहार्यबोधस्यैवावश्यवाच्यतया पुरोवर्तिनि कोटिद्वयाभेदांशेऽपि तस्यैव न्याय्यत्वात्। इह
गगनगलितत्वं शिशिरत्वं चारोप्यते वक्त्रा। उपसंहरति- एवमादयोऽन्येऽपि प्रकाराः सुधीभिः स्वयमुन्नेयाः। ससन्देहालङ्कारनिरूपणानन्तरमिदानीं भ्रान्तिमदलङ्कारनिरूपणं प्रतिजानीते- अथ भ्रान्तिमान्- आदौ भ्रान्तिमदलङ्कारस्य लक्षणमाह-
Page 270
270 सदृशे धर्मिणि तादात्म्येन धर्म्यन्तरप्रकारकोऽनाहार्यो निश्चयः सादृश्यप्रयोज्यश्चमत्कारी प्रकृते भ्रान्तिः। सा च पक्षुपक्ष्यादिगता यस्मिन् वाक्यसन्दर्भेऽनूदते स भ्रान्तिमान्। प्रतिज्ञाविरोधाभावायाह- अत्र च भ्रान्तिमात्रमलङ्कारः। भ्रान्तिमानलङ्कार इति व्यवहारस्त्वौपचारिकः। तथा चाहु :- 'प्रमान्नन्तरधीर्भ्रान्तिरूपा यस्मिन्ननूद्यते। स भ्रान्तिमानिति ख्यातोऽलङ्कारे त्वौपचारिक'॥ इति। लक्षणे निविष्टानां विशेषणानां फलान्युपदर्शयति- लक्षणे मीलित-सामान्य-तद्गुण वारणाय धर्मिग्रहणद्वयम्। रूपकवित्तिवारणायानाहार्य इति कविभिन्नगत इति वा। संशयवारण निश्चय इति। इदं रजतमिति रङ्गविशेष्यकबोधवारणाय चमत्कारीति। कविप्रतिभानिर्वर्तित इत्यर्थः रङ्गे रजतमिति बुद्धेर्लौकिकतया न कविप्रतिभानिर्वर्तित्वम्। 'अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम्। इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥' इत्यत्र नायिकासन्देशहारस्योक्तौ व्यज्यमानस्योन्मादस्य वारणाय सादृश्यप्रयोज्य इति। न चात्रोन्मादस्य प्राधान्यात् सकलालङ्कारसाधारणेनोपस्कारकत्वविशेषणेनैव वारणमिति वाच्यम्। तस्यापि पार्यन्तिकविप्रलम्भोपस्कारकत्वात्। यद्वा सन्देशहरात् संदेशं श्रुतवतो नायकस्य स्वमित्रं प्रति यदेदं वाक्यं 'अकरुणहृदय-' इत्यादि तदास्मिन्नेव पद्ये सेतिपदव्यङ्ग्यायाः स्मृतेरुपस्कारके उन्मादे तथाप्यतिप्रसङ्गापत्तेः सादृश्यप्रयोज्यत्वमावश्यकम्। लक्षणे चात्रैकत्वं विवक्षितम्। अन्यथा
अत एवैकवचनमपि सार्थकम्। भ्रान्त्यलङ्कारोदाहरणं निर्देष्टुमाह- उदाहरणम्- उदाहरणमुपन्यस्यति- 'कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया। चपलायुतवारिदभ्रमान्ननृते चातकपोतकैर्वने।।' उपपादयति-
Page 271
271 अत्र चातकगतहर्षोपस्कारकतया तद्रता भ्रान्तिरलङ्कारः। किञ्चिद्व्यत्यासेन प्रोक्तपद्यस्यैव भ्रान्तिध्वनेरुदाहरणत्वं दर्शयति- यदि 'परिफुल्लपतत्नपल्लवैर्मुमुदे चातकपोतकैर्वने' इत्युत्तरार्धं निर्मीयते तदायमेव भ्रान्तिध्वनिः। दीक्षितोक्तं लक्षणमनूद्यावद्यति- यच्चाप्पय्यदीक्षितैर्लक्षणमुक्तम्- 'कविसम्मतसादृश्याद्विषये पिहितात्मनि। आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः॥' इति। 'तत्र कविसम्मतसादृश्यप्रयोज्ये विषये आरोप्यमाणानुभवो यत्र वाक्सन्दर्भे स भ्रान्तिमान्' इति भ्रान्तिमतो लक्षणं विधाय रूपकव्यावृत्त्यर्थं पिहितात्मनीत्युच्यते। न चैतद्युक्तम्। नहि रूपकवाक्ये आरोप्यमाणस्यानुभवो वर्ण्यते, किं तु तस्माज्जायते। न चात्रानुभवान्तं भ्रान्तेर्लक्षणमग्रिमं च भ्रान्तिमतः। तत्र भ्रान्तिलक्षणे रूपकेऽतिव्याप्तेर्वारणाय विषये पिहितात्मनीति विशेषणमिति वाच्यम्। अनुभवत्वघटितस्य भ्रान्तिलक्षणस्यानुभूयमानाभेदात्मके रूपकं कथमप्यप्रवृत्तेः। यदि च रूपकपदं रूपकबुद्धिपरमिति ग्रन्थसामञ्जस्यं विधीयते तदापि विषयतावच्छेदकानवगाहिनि 'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः' इति संशयेऽतिप्रसङ्गात्, 'कमलमिति चञ्चरीकाश्चन्द्र इति चकोरास्त्वन्मुखमनुधावन्ति' इति भ्रान्तिसमुदायात्मन्युल्लेखेऽतिव्याप्तेश्च। अत्र भ्रान्त्या सङ्कीर्ण उल्लेख इति चेत्, नह्योतावतोल्लेखांशातिव्याप्तिर्न दोषः। नहि दुग्धजलभागानां व्यामिश्रतास्तीति दुग्धलक्षणं जलांशातिव्याप्तिकं कर्तुं युक्तम्। दीक्षितोद्धृतं भ्रान्तिविशेषोदाहरणमनूद्यालोचयति- यच्चापि भिन्नकर्तृकोत्तरोत्तरभ्रान्तावुदाहृतम्- 'शिञ्जानैर्मञ्जरीति स्तनकलशयुग चुम्बितं चञ्चरीकै- स्तन्नासोल्लासलीला: किसलयमनसा पाणयः कीरदष्टाः तल्लोपायालपन्त्यः पिकनिनदधिया ताडिता काकलोकै- रित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ॥' इति।
Page 272
272 तत्र विचार्यते-स्तनकलशयुगे हि न तावन्मञ्जरीसादृश्यं कविसमयसिद्धम्, येन तन्मूला चञ्चरीकाणां भ्रान्तिरुपनिबध्येत। दोषान्तरमूला तु सा नालङ्कार इत्यनुपदमेव निरूपितम्। अपि च धर्मिणि कलशरूपकानुवादेन मञ्जरीभ्रान्तिरूपमलङ्कारान्तरमुपनिबध्यमानमुद्वेजकमेव सहृदयानाम्। नहि सादृश्यमूलैकालङ्कारावच्छिन्ने सादृश्यमूलालङ्कारान्तरं शोभते। यथा 'मुखकमलं तव चन्द्रवत् प्रतीमः' इति प्रागेव निवेदनात्। प्रत्युत कलशरूपकेण मञ्जरीसादृश्यतिरस्काराच्च। 'तत्न्नासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः' इत्यत्र विधेया-विमर्शाद्विधेयान्तरमाकाडक्षितम्। कीरैर्दष्टा इति तु भाव्यम्। जाता इत्यध्याहारेऽपि विवक्षितस्याविधेयत्वमविवक्षितस्य च विधेयत्वं प्रसज्येत। एवं 'तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैः' इत्यत्र न तावत्पिकनिनदास्ताडनयोग्याः काकानाम्, येन तद्धिया आलपन्त्यस्तैस्ताघ्येरन्। नापि पिकनिनदभ्रम आलपन्तीषु सम्भवति। सम्भावन्वा न सादृश्यमूलः। पिकनिकरधियेति तु भाव्यम्। अथ तदालापेषु पिकनिनदबुद्धेरपि तासु पिकबुद्ध्युत्पादनद्वारा सम्भवत्येव ताडनोपयोग इति प्रयोज्यत्वार्थकतृतीयया पिकनिनदधीप्रयोज्यकाककर्तृकताडनकर्मत्वमालपन्तीनां सुप्रतिपादमेवेति चेत्, नैवम्। तथा प्रतीतेरसिद्धेः। 'चौरबुद्ध्या हतः साधुः' इत्यादौ चौरबुद्धिहननयोः सामानाधिकरण्येन हेतुहेतुमद्भावगमकत्वव्युत्पत्तेः। एवं 'दन्तिबुद्ध्या हतः शूरैर्वराहो वनगोचरः' इत्यत्रापि विशेष्यतया वराहवृत्तेर्दन्तिबुद्धेर्वराहवृत्तिहेतुभावागमः। त्वदुक्तरीत्या दन्तबुद्ध्येति कृते बोधकृदर्थेनैव। किं च पिकानां हि कूजितादिशब्दैरेव शब्दो वर्ण्यते, न तु निनदादिशब्दैः सिंहदुन्दुभ्यादिशब्दप्रयोगयोग्यैः। तथा प्रथमद्वितीयचरणस्थयोः स्तनपाण्योर्यथाकथञ्चित् व्यवहितमपि जातान्वयमपि त्वदरिमृगदृशामिति षष्ठन्तमन्वेतुं शक्नुयात्, न तु तृतीयचरणस्थे आलपन्त्य इत्यस्मिन् विशेषणे विशेष्यभावेनेति तासां ताटस्थ्यमेव स्यात्। विभक्तिविपरिणतावपि प्रकमभङ्गासंघ्ुलत्वाभ्यां स्थितमेवेति पद्यमव्युत्पन्ननिर्मितमेव। दीक्षितैस्तु भ्रान्त्यलङ्कारांशमात्रमादायोदाहृतमिति दिक्। सर्वस्वकारोक्तं लक्षणं परीक्षते- यत्त्वलङ्कारसर्वस्वकृता लक्षितम्, 'सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान्' इति तन्न। प्रागुक्ते संशयालङ्कारे वक्ष्यमाणायामुत्प्रेक्षायां चातिप्रसङ्गात्। प्रतीतिपदस्य निश्चयपरत्वे
Page 273
273 रूपकवित्तावतिप्रसङ्गात्। विषयतावच्छेदकानवगाहित्वेन निश्चयो विशेषणीय इति चेत्, विशेष्यताम्। तथाप्यतिशयोक्तिवित्तावतिप्रसक्तिरवारितैव। अनाहार्यत्वेन निश्चयविशेषणत्वे एव पर्यवसितिः, मतुबर्थासङ्गतिश्च। भ्रान्त्यलङ्कारे साधारणधर्मस्थितिं विचारयति- तत्र कनकद्रवकान्तिकान्तया' इत्यत्र सीतातडितोर्बिम्बप्रतिबिम्बभावः। युतत्वमिलितत्वयोश्च शुद्धसामान्यरूपता। 'रामं स्निग्धतरश्यामं विलोक्य वनमण्डले। धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः॥' अत्र स्निग्धत्वश्यामत्वयोरनुगामित्वम्। भ्रान्तिमदलङ्कारनिरूपणान्तरमिदानीमुल्लेखालङ्कारनिरूपणं प्रतिजानीते- अथोल्लेख :- तल्लक्षणमादौ ब्रूते- एकस्य वस्तुनो निमित्तवशाद् यद्यनेकैर्ग्रहीतृभिरनेकप्रकारकं ग्रहणं तदुल्लेखः। लक्षणे योजितानां विशेषणानां फलान्याचष्टे- 'अधरं बिम्बमाज्ञाय मुखमब्जं च तन्वि ! ते। कीराश्च चञ्चरीकाश्च विन्दन्ति परमां मुदम् ॥' अन्र कीरचञ्चरीकाभ्यामधरवदनयोर्बिम्बत्वेन पद्मत्वेन च ग्रहणे भ्रान्तिरूपेऽतिप्रसङ्गवारणायैकस्य वस्तुन इति। 'धर्मस्यात्मा भागधेयं क्षमायाः'
'नृत्यत्त्वद्वाजिराजिप्रखरखुरपुटप्रोद्धतैर्धूलिजालै- रालोकालोकभूमीधरमतुलनिरालोकभावं प्रयाते। विश्रान्तिं कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः। कोकाः कन्दन्ति शोकानलविकलतया कि च नन्दन्त्युलूकाः॥' अत्र धूलिजालरूपस्यैकस्य वस्तुनोऽनेकैर्लोककोकोलूकैर्ग्रहीतृभिरेकेनैव रजनीत्वरूपेण प्रकारेण ग्रहणमिति तत्रातिप्रसङ्गवारणायानेकप्रकारकमिति। ग्रहणमिति ग्रहणसमुदायो विवक्षितः। एकत्वं जातौ। अनेकग्रहीतृकस्यैकस्य ग्रहणस्याप्रसिद्धेः। तेन द्वयोर्बहूनां वा ग्रहणं निमित्तवशादिति तु वस्तुकथनमात्रम्।
Page 274
274 उदाहरणं प्रस्तौति-
उदाहरणम्- उदाहरणमुपन्यस्यति- 'नरैर्वरगतिप्रदेत्यथ सुरैः स्वकीयापगे- त्युदारतरसिद्धिदेत्यखिलसिद्धसङ्गैरपि। हरेस्तनुरिति श्रिता मुनिभिरस्तसङ्गैरियं तनोतु मम शं तनोः सपदि शन्तनोरङ्गना ।।' उपपादयति अत्र च लिप्सारुचिभ्यां निमित्ताभ्यामस्त्यनेकग्रहीतृकवरगतिप्रदात्वाद्यनेक- प्रकारकग्रहणसमुदायो गङ्गाविषयकरतिभावोपस्कारकः। विशेषमाह- शुद्ध एवात्रायमुल्लेखालङ्कारः, रूपकाद्यमिश्रणात्। यत्रोल्लेखालङ्कारेऽलङ्कारान्तरयोगो भवति, स सङ्कीर्णः कथ्यते । तादृशमपि लक्ष्यं नालभ्यमित्याह- सङ्कीर्णोऽपि दृश्यते। तादशमुदाहरणं निर्देष्टुमाह- यथा- उदाहरणं निर्दिशति- 'आलोक्य सुन्दरि! मुखं तव मन्दहासं नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः। किञ्चालि! पूर्ण-मृग-लाञ्छन-सम्भ्रमेण चञ्चूपुटं चटुलयन्ति चिरं चकोराः॥' उपपादयति- अत्रैकैकग्रहणरूपया भ्रान्त्या समुदायात्मक उल्लेखः सङ्कीर्णः। भ्रान्तिसंकीर्णमुल्लेखमुदाहृत्यापहुतिसङ्कीर्णं तमुदाहरति- 'वनितेति वदन्त्येतां लोकाः सर्वे वदन्तु ते। यूनां परिणता सेयं तपस्येति मतं मम॥'
Page 275
275 उपपादयति- अत्र विषयतावच्छेदकस्य परसम्मतत्वेन निषेध्यतयोपन्यासादपहुत्या सङ्कीर्णः। दीक्षितोक्तमनूद्य निरस्यति- अप्पय्यदीक्षितास्तु-"एवमपि यदि- 'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे। वक्त्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम् ।।' इत्यपह्नवोदाहरणविशेषेऽतिव्याप्तिः शङ्क्या, तदानीमनेकधोल्लेखनं निषेधास्पृष्टत्वेन विशेषणीयम्। तत्राद्योल्लेखनद्वयं परमतत्वोपन्याससामर्थ्याद्रम्यमाननिषेधमिति नातिव्याप्तिः" इत्याहुः। तन्न। 'द्विविधश्चायमुल्लेखः शुद्धोऽलङ्कारान्तरसङ्कीर्णश्च' इत्युक्त्वा 'श्रीकण्ठजनपदवर्णने-'यस्तपोवनमिति मुनिभिरगृह्यत' इत्यादौ शुद्धः, 'यमनगरमिति शत्रुभि: वज्रपञ्जरमिति शरणागतैः' इत्यादौ भ्रान्तिरूपकादिसङ्कीर्णः' इति स्वयमेवोक्तत्वात्। इहाप्यपहुत्या सङ्कीर्ण उल्लेख इत्यस्य सुवचत्वात्। यदि चैवंविधापहुतिवारणाय निषेधास्पृष्टत्वं विशेषणमुच्यते तदा- 'कपाले मार्जारः पय इति करांल्लेढि शशिन- स्तरुच्छिद्रपोतान् बिसमिति करी सङ्कलयति। रतान्ते तल्पस्थान् हरति वनिताऽप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति॥' इति त्वदुदाहृतभ्रान्तावतिप्रसङ्ग: कथं नाम वार्येत। मार्जाराद्यनेकग्रहीतृकानेकधोल्लेखनस्य तन्रापि सत्त्वात्। स्वस्वप्रियाहारलिप्सारूपनिमित्तभेदाच्च। तस्मात् सङ्कीर्णनिवारणाय यत्नोऽनर्थक एव। संशयसङ्कीर्णमुल्लेखमुदाहर्तुमाह- संशयसङ्कीर्णो यथा- उदाहरणं समुपन्यस्यति- 'भानुरग्निर्यमो वाऽयं बलिः कर्णोऽथवा शिबिः। प्रत्यर्थिनश्चार्थिनश्च विकल्पन्त इति त्वयि॥' उपपादयति-
Page 276
276 अन्र द्वयोर्ग्रहणयोः प्रत्येकं संशयत्वं समुदायस्य तूल्लेखता। भेदान्तरमाख्यातुं पूर्वोदाहृतेषु पद्येषु, भेदस्वरुरूपं विवृणोति - अयं च स्वरूपमात्रोल्लेखे स्वरूपोल्लेखः प्रागेव निरूपितः । भेदान्तरस्य स्वरूपं विवृण्वन् तदुदाहरणं निर्देष्टुमाह- फलानामुल्लेखे फल्लोल्लेखो यथा- उदाहरणमुपन्यस्यति- 'अर्थिनो दातुमेवेति त्रातुमेवेति कातराः। जातोऽयं हन्तुमेवेति वीरास्त्वां देव! जानते॥' पूर्ववत् पुनरपरस्य भेदस्य स्वरूपं प्रकटयन् तदुदाहरणनिर्देशं प्रतिजानीते- हेतूनामुल्लेखे हेतूल्लेखो यथा- उदाहरणमुपन्यस्यति- हरिचरण-नखरसङ्गादेके हरमूर्धस्थितेरन्ये। त्वां प्राहुः पुण्यतमामपरे सुरतटिनि! वस्तुमाहात्म्यात् ।।' प्रथममुल्लेखं निरूप्य द्वितीयमुल्लेखं निरूपयितुमिच्छुस्तावत्तल्लक्षणं सावतरणमाह- अत्र प्रकारान्तरेणाप्युल्लेखो दृश्यते-यत्रासत्यपि ग्रहीत्रनेकत्वे विषयाश्रयसमानाधिकरणादीनां सम्बन्धिनामन्यतमानेकत्वप्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारत्वम्। द्वितीयस्याप्युल्लेखस्य पूर्ववद् भेदमाह- अयमपि द्विविध:, शुद्धोऽलङ्गारान्तरसङ्कीर्णश्च। तत्र प्रथममुदाहतुमाह- शुद्धो यथा- उदाहरणमुपन्यस्यति- 'दीनव्राते दयार्द्रा निखिलरिपुकुले निर्दया किं च मृद्दी काव्यालापेषु तर्कप्रतिवचनविधौ कर्कशत्वं दधाना। लुब्धा धर्मेष्वलुब्धा वसुनि परविपद्दर्शने कांदिशीका राजन्नाजन्मरम्या स्फुरति बहुविधा तावकी चित्तवृत्तिः॥।' उपपादयति-
Page 277
277 अन्न दीनव्रातादीनां विषयाणामनेकत्वाच्चित्तवृत्तेरनेकविधत्वम्। राजविषयकरतिभावोपस्कारकोऽयमुल्लेखः। यद्यपि चित्तवृत्तिव्यक्तीनामन्नैक्यं नास्ति, तदीयचित्तवृत्तित्वेन सामान्येन तासामेकत्वं विवक्षितम्। तथा लक्षणे विवक्षाया अभावाद्दाहरणान्तरं प्रदर्शयितुमाह- यथा वा- उदाहरणमुपन्यस्यति- 'कातरा: परदुःखेषु निजदुःखेष्वकातराः। अर्थेष्वलोभा यशसि सलोभाः सन्ति साधवः॥' उपपादयति- अत्रापि साधवः सन्तीत्यनेन मृता अपि न मृतास्ते, इतरे पुनरमृता अपि मृता एवेत्यर्थाभिव्याक्तिद्वारा व्यज्यमाने साधूत्कर्षविशेषे उपस्कारकोजयम्।
यथा वा- उदाहरणं समुपन्यस्यति- 'तुषारास्तापसव्राते तामसेषु च तापिनः। दृगन्तास्ताडकाशत्रोर्भूयासुर्मम भूतये।।' पूर्वोदाहरणद्वयाद वैलक्षण्यं तृतीयोदाहरणे दर्शयति- पूर्वपद्ययोर्विषयानेकत्वप्रयुक्तम्, इह त्वाश्रयानेकत्वप्रयुक्तमनेकविधत्वं दृगन्तानाम्। समानाधिकरणानेकत्वप्रयुक्तमुदाहरति- 'विद्वत्सु विमलज्ञाना विरक्ता यतिषु स्थिताः। स्वीयेषु तु गरोद्गारा नानाकाराः क्षितौ खला:॥' उपपादयति- अत्र विद्वदादिसहचरभेदप्रयुक्तं खलानामनेकविधत्वम्। लक्षणघटके 'समानाधिकरणादीनाम्' इत्यत्र वर्तमानेन 'आदि' पदेन सङ्गह्यमाणं स्फोरयति - एवमन्येषां सम्बन्धिनां भेदेऽप्यूह्यम्। अलङ्कारान्तरसङ्कीर्णं द्वितीयमुल्लेखमुदाहर्तुमाह- सङ्कीर्णो यथा-
Page 278
278 उदाहरणमुपन्यस्यति- 'गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले। पृथिव्यां सागरायन्ते भूपाल! तव कीर्तयः॥' उपपादयति अत्रोपमया आपाततः प्रतीयमानया, पर्यवसितया चोत्प्रेक्षया। अलङ्कारान्तरसङ्कीर्णस्य द्वितीयोल्लेखस्योदाहरणान्तरं दर्शयति- 'उपरि करवालधाराकाराः क्रूरा भुजङ्गमपुङ्गवात्। अन्तः साक्षाद् द्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः॥' उपपादयति- अत्रोपमाव्यतिरेकाभ्यां तयोः समुच्चयेनोत्प्रेक्षया च सङ्कीर्णः । द्वयोरुल्लेखयोः सङ्करमादिपदग्राह्यसम्बन्धिभेदप्रयुक्तत्वं च दर्शयितुमाह- 'यम: प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनपतिर्धनाकाडिक्षिणाम्। गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः॥' उपपादयति- अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणादूपकेण, विपक्षभूपालादीनामेतस्मिन्नायाते यमत्वादिना भ्रान्तिरपि सम्भवतीति भ्रान्तिमता, विपक्षभूपालादिभिरनेकैर्ग्रहीतृभिर्यमत्वादिभिरनेकैर्धर्मैरुल्लेखनात् प्रागुक्तोल्लेखप्रकारेण च सह सङ्कीर्णोऽयं सम्बन्धिष्यन्तभेदप्रयुक्तवर्ण्यानेकविधत्वक उल्लेखः। द्वयोरुल्लेखयोर्वैलक्षण्यं दर्शयति- अन्रेदं बोध्यम्-प्रथमनिरूपितोल्लेखप्रकारे 'यं महाविष्णुरिति वैष्णवाः, शिव इति शैवाः, यज्ञपुरुष इति याज्ञिका:, स्वभाव इति लौकायतिकाः, ब्रह्मेत्यौपनिषदाः वदन्ति सोऽयमादिपुरुषो हरिः' इत्यादौ तत्तद्ग्रहीतृकतत्तत्प्रकारकज्ञानसमुदायस्य चमत्कारजनकताया अनुभवसिद्धत्वेनालङ्कारत्वम्। द्वितीये तु प्रकारे 'यः शिष्टेषु सदयः दुष्टेषु कराल:' इत्यादौ तत्तद्विषयभेदभिन्नस्य प्रकारसमुदायमात्रस्य तथात्वम्। न तु विद्यमानस्यापि ज्ञानांशस्य, चमत्कारित्वेनाननुभवात्। चमत्कारनिबन्धनो ह्यलङ्कारभाव
Page 279
279 उपमादीनाम्। अत एवास्माभिः 'विषयाद्यन्यतमानेकत्वप्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारत्वम्' इति द्वितीय उल्लेखो लक्षितः। एकरूपेण द्वयोरुल्लेखयोरनुगमं दर्शयति- एवं च 'लक्षणद्वयान्यतरत्वमुल्लेखसामान्यलक्षणतावच्छेदकम्' इत्याहुः। परे तु 'प्रकारद्वयेऽपि वर्ण्यवृत्तित्वेन भासमानप्रकारसमुदाय एवोल्लेखः' इत्यपि वदन्ति। व्यङ्ग्यमुल्लेखं निरूपयितुमाह- अथोल्लेखस्य ध्वनिः- व्यङ्ग्यमुल्लेखमुदाहर्तुमाह- यथा- उदाहरणमुपन्यस्यति- 'अनल्पतापाः कृतकोटिपापा गदैकशीर्णा भवदुःखजीर्णाः। विलोक्य गङ्गां विचलत्तरङ्गाममी समस्ताः सुखिनो भवन्ति॥' उपपादयति- अन्र पूर्वार्धोदीरितानां चतुर्णां विलोकनकर्तृणाम्। सुखित्वोक्त्या क्रमेण ताप-पाप-रोग- भव-नाशकत्वप्रकारकाणि ग्रहणान्याक्षिप्यन्ते। विशेषमाह- अयं च शुद्धस्योल्लेखस्य ध्वनिः। सङ्कीर्णोल्लेखध्वनिमुदाहर्तुमाह- सङ्कीर्णस्य यथा- उदाहरणमुपन्यस्यति- 'स्मयमानाननां तत्र तां विलोक्य विलासिनीम्। चकोराश्चञ्चरीकाश्च मुदं वरतरां ययुः ॥' उपपादयति- अत्र ध्वन्यमानया एकैकग्रहणरूपया भ्रान्त्या तदुभयसमुदायात्मा उल्लेखः सङ्कीर्णः। आशड्क्य समाधत्ते- न चात्र भ्रान्तेरेव चमत्कार इति शक्यापह्नव उल्लेखः। अनेककर्त्तृ- कानेकधाग्रहणस्यालङ्कारान्तरविविक्तविषयस्य चमत्कृतेरिहपि सत्त्वात्।
Page 280
280 प्रथमोल्लेखस्य शुद्धस्य सङ्कीर्णस्य च ध्वनेरुदाहरणे प्रदर्श्य द्वितीयोल्लेखध्वनिमुदाहर्तुमाह- द्वितीयोल्लेखस्य ध्वनिर्यथा- उदाहरणमुपन्यस्यति- 'भासयति व्योमगता जगदखिलं कुमुदिनीर्विकासयति। कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते॥' उपपादयति- अन्नाधिकरणभेदप्रयुक्तमेकस्यामेव कीर्तौ चन्द्रिकात्वसागरत्वरूपानेकविधत्वं रूपसङ्कीर्णं ध्वन्यते। उल्लेखालङ्कारनिरूपणानन्तरमपहुत्यलङ्कारनिरूपणं प्रतिजानीते- अथापहुतिः- अपहति-निरूपण-प्रसङ्गे तावत्तल्लक्षणमाह-
लक्षणं विवेचयति- रूपकवारणाय तृतीयान्तम्। अस्यां चोपमेयतावच्छेदकस्य निषेधादुपमेयतावच्छेदकोपमानतावच्छेदकयोर्विरोधो गम्यते। रूपके तु तयोः सामानाधिकरण्यप्रत्ययात् स निवर्तते। लक्ष्यप्रदर्शनायाह- उदाहरणम्- उदाहरणमुपन्यस्यति- 'स्मितं नैतत् किन्तु प्रकृतिरमणीयं विकसितं मुखं ब्रूते मूढ: कुमुदमिदमुद्यत्परिमलम्। स्तनद्वन्द्वं मिथ्याकनकनिभमेतत्फलयुगं लता रम्या सेयं भ्रमरकुलनम्या न रमणी ॥।' अत्र स्पष्टत्वाल्लक्षणसमन्वयमुपेक्ष्य भेदमुपपादयति- इयं चानुग्राह्यानुग्राहकभावापन्नावयवकसङ्गातात्मकतया सावयवा। भेदान्तरमुदाहर्तुमाह- निरवयवेयं यथा-
Page 281
281 उदाहरणमुपन्यस्यति- 'श्यामं सितञ्च सुदृशो न दृशोः स्वरूपं किं तु स्फुटं गरलमेतदथामृतं च। नो चेत् कथं निपतनादनयोस्तदैव मोहं मुदं च नितरां दधते युवानः ॥' अत्रापि निरवयवत्वस्य स्फुटतया तदुपपादनमुपेक्ष्य प्रागवद भेदमाह- अत्र प्रतिज्ञानार्थवैपरीत्ये बाधकोपन्यासाद्धेत्वपहुतिः। अपहुतिभेदानाचष्टे- अस्यां च नञादिभि: साक्षात्, परमतसिद्धत्वाद्युपन्यासैश्च किञ्चिद् व्यवधानेन विषयस्य निषेधे बोध्यमाने प्रायशो वाक्यस्य भेदः। मिषच्छलच्छद्यकपटव्याजवपुरात्मादिशब्दैस्तु तस्मिंस्तस्यैक्यम्। क्वचिदपह्मवपूर्वकत्वं क्वचिच्चारोपपूर्वकत्वं क्वचिद्विषयितादूप्यविषयनिषेधयोरेकस्य शाब्दत्वमेकस्यार्थत्वं क्वचिदुभयोः शाब्दत्वमथोभयोरार्थत्वं विधेयत्वमनुवाद्यत्वं चेति। एवमनेके प्रकाराः सम्भवन्ति। सत्स्वपि पुर्वोक्तेष्वनेकेषु प्रकारेषु न ते सर्वे प्रकारा अलङ्कारत्वेन परिगणयितुमुचिता इत्याह- परं न ते वैचित्र्यविशेषमावहन्तीत्यगणनीयाः। ते प्रकारा भवन्त्येव नेति शङ्कानिरासाया तेषां दिग्दर्शनं कारयति- एवमपि दिङ्मात्रमुपदर्श्यते-तत्र प्रागुक्तायां सावयवापहुतौ प्रथमावयवेऽपह्नपूर्वकत्वमुभयोः शाब्दत्वं विधेयत्वं वाक्यभेदश्च। द्वितीयावयवे तु वक्तृगतमूढतोक्त्या तद्गतभ्रान्तिप्रतिपत्तिव्यवहिता निषेधप्रतिपत्तिरिति निषेध आर्थः। ताद्रूप्यं शाब्दम्। विधेयवाक्यभेदापहुवपूर्वकत्वानि पूर्ववत्। चतुर्थावयवे पुनरारोपपूर्वकोऽपहवः। उभयोः शाब्दत्वविधेयत्वे वाक्यभेदश्च प्रथमवदेव। 'वदने विनिवेशिता भुजंगी पिशुनानां रसनामिषेण धात्रा। अनया कथमन्यथाऽवलीढा नहि जीवन्ति जना मनागमन्त्राः॥' अन्नैकवाक्यत्व निषेधतादूप्ययोरार्थत्वमनुवाद्यत्वं च, निवेशनस्य विधेयत्वात्। भेदविचारं समापयन्नाह- एवमन्यदप्यूहम्- लक्षणघटकाहार्यपदार्थं विवृण्वन् तत्फलमाह-
Page 282
282 अत्र च लक्षणे आरोप्यमाणमित्यस्याहार्यनिश्चयविषयीक्रियमाणमित्यर्थः । तेन- 'सङ्ग्रामाङ्गणसम्मुखाहतकियद्विश्वम्भराधीश्वर- व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा। अङ्गारप्रखरैः करैः कवलयन् सद्यो जगन्मण्डलं मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः॥' अत्र च विरहिजनवाक्ये नायं शशाङ्कः, अपि तु सच्छिद्रो मार्तण्ड इति च्छायामात्रमपहुतेः, न त्वपहुत्यलङ्कारः। तज्ज्ञानस्य दोषविशेषजन्यत्वेनानाहार्यत्वात्, किं तु भ्रान्त्यलङ्कार एव। 'अलिर्मृगो वा नेत्रं वा यत्र किञ्चिद्विभासते। अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः॥।' इत्यत्र मुखमरविन्दं वेति कविनिष्ठाहार्यसंशये मुखनिषेधसामानाधिकरण्येन विषयीभवतोऽरविन्दतादात्म्यस्य निश्चयविषयत्वाभावान्न सङ्ग्रहः। न चात्र विषयनिषेधस्यापदार्थत्वं शङ्क्यम्, वाशब्दार्थत्वात्। दीक्षितमतमनूद्य खण्डयति- यत्तु कुवलयानन्दाख्ये सन्दर्भे अप्पय्यदीक्षितैरपहुतिप्रभेदकथनप्रस्तावे पर्यस्तापहुत्याख्यं भेदं निरूपयद्भिरभिहितम्- 'अन्यत्र तस्यारोपार्थः पर्यस्तापहुतिस्तु सः। नायं सुधांशुः किं तर्हि सुधांशु: प्रेयसीमुखम् ॥' इति। अन्र चिन्त्यते- नायमपहुतेर्भेदो वक्तुं युक्तः, अपहुतिसामान्यलक्षणानाक्रान्तत्वात्। तथा हि 'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपहुतिः,' उपमेयमसत्यं कृत्वा उपमानं सत्यतया यत्स्थाप्यते साऽपहुतिः' इति काव्यप्रकाशोक्तलक्षणबहिर्भावस्तावत् स्फृट एव। एवं 'विषयापह्नवे वस्त्वन्तरप्रतीतावपहुतिः' इत्यलङ्कारसर्वस्वोक्तं लक्षणमपि नात्र प्रवर्तते। 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्। साम्यादपहुतिर्वाक्यभेदाभेदवती द्विधा।।' इति चित्रमीमांसागतं तन्निर्मितमपि लक्षणमिह तथैव। तस्मात् 'नायं सुधांशुः किं तर्हि सुधांशु: प्रेयसीमुखम्' इत्यत्र दृढारोपं रूपकमेव भवितुमर्हति, नापहुतिः। उपमेयतोपमानतावच्छेदकयोः सामानाधिकरण्यस्य निष्प्रत्यूहं भानात्। तदुक्तं विमर्शिन्याम्-"न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते।' अत्र विषस्य निषेधपूर्वं
Page 283
283 ब्रह्मस्वविषये आरोप्यमाणत्वाद् दृढारोपं रूपकमेव, नापहुतिः।" इति। यदि च प्राचीनमतमुपेक्ष्यालङ्काररत्नाकरेणेव मयाऽप्ययं प्रकारोऽपहुतिमध्ये गणित इत्युच्यते, तदा आहार्यतादूप्यनिश्चयस्य समानत्वादूपकभेद एवापहुतिरित्यप्युच्यताम्। निरस्यतां च प्राचीनमुखदाक्षिण्यम्। एवमपि चित्रमीमांसागतत्वन्निर्मितापहुतिलक्षणस्यात्राव्याप्तिः स्थितैव। अपि च यदि 'नायं सुधाशुः किं तर्हि सुधांशु: प्रेयसीमुखम्' इत्यत्र पर्यस्तापहुतिरित्युच्यते, तदा तस्यामेव त्वत्कृतचित्रमीमांसागतस्य- 'बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिहुते। उपरञ्जकतामेति विषयी रूपकं तदा ॥' इति रूपकलक्षणस्यातिव्याप्तिर्वज्रलेपायिता स्यात्, विषयिणो निह्नवेऽपि विषयस्यानिहुतत्वात्। अथापि चित्रमीमांसायां प्राचीनमतानुसारेण रूपकलक्षणम्, कुवलयानन्दे च रत्नाकराद्यनुसारेणापहुतित्वोक्तिरिति यथाकथञ्चित् सामञ्जस्यं विधेयमिति दिक्। भेदान्तरमुदाहरति- 'अनल्पजाम्बूनददानवर्षं तथैव हर्षं जनयञ्जनेषु। दारिद्य घर्म-क्षपणक्षमोऽयं धाराधारो नैव धराधिनाथः॥' भेदं स्फुटयति- सावयवारोपेयमपहुतिः। पुनर्भेदान्तरमाह- आरोपमात्रोपायत्वे परम्परिताप्येषा सम्भवति। उदाहर्तुमाह- यथा- उदाहरणमुपन्यस्यति- 'मनुष्य इति मूढेन खलः केन निगद्यते। अयं तु सज्जनाम्भोजवनमत्तमतङ्गजः॥' अपहुतिध्वनिमुदाहर्तुमाह- अस्याश्च ध्वनिर्यथा- उदाहरणमुपन्यस्यति-
Page 284
284 'दयिते रदनत्विषां मिषादयि! तेऽमी विलसन्ति केसराः। अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽलयः॥' उपपादयति- अन्र 'नैता रदनत्विषः, किंतु किञ्जल्कपरम्पराः। न चैतेऽलकाः, अपि त्वलय्ः' इति पूर्वोत्तरार्धाभ्यां द्वे अपहुती तावत्प्राकट्येनैव निवेदिते। ताभ्यां च 'न त्वं नारी, किं तु कमलिनी' इति तृतीयापहुतिर्व्यञ्जनव्यापारेण प्राधान्येन निवेद्यते, तत्सम्बन्धिवस्तुनिषेधारोपयोस्तन्निषेधारोपनिवेदकत्वस्य न्याय्यत्वात्। तुल्ययोगिता तु गुणतया स्थिता। खण्डनाया दीक्षितोक्तमुद्धरति- यत्त्वप्पय्यदीक्षितैरपहुतिध्वनावुक्तम्- "-'त्वदालेख्ये कौतूहलतरलतन्वी विरचिते विधायैका चक्रं रचयति सुपर्णीसुतमपि। अपि स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति॥' इत्यादावपहुतिध्वनिरुदाहर्तव्यः। अत्र हि चक्रसुपर्णलेखनेन 'नायं साधारणः पुरुषः, किन्तु पुण्डरीकाक्षः' इति कयाचिद् व्यञ्जितम्। अन्यया तु - तस्याप्येतादृशं रूपं न सम्भवतीत्याशयेन 'नायं पुण्डरीकाक्षोऽपि, किन्तु-मन्मथः' इति तदुभयमपमृज्य पुष्पसायकमकरध्वजलेखनेन व्यञ्जितम्।" इति। खण्डयति- तदेतदापातरमणीयम्। यत्तावदुच्यते-'चक्रसुपर्णलेखनेन नायं साधारणः पुरुषः, किन्तु पुण्डरीकाक्षः' इति कयाचिद् व्यञ्जितमिति। तत्रापहुतेर्द्वौ भागौ उपमेयनिषेधः, उपमानारोपश्चेति। तयोस्तावदुपमानारोपभागः
चक्रसुपर्णयोस्तत्सम्बन्धित्वात्। न तु नायं साधारणः पुरुष इत्युपमेयनिषेधभागोऽपि, व्यञ्जकस्यारोपमात्रव्यञ्जनसमर्थस्य तादृशनिषेधव्यञ्जने सामर्थ्याभावात्। नाप्यनुभवसिद्धः सः, येन तद्व्यञ्जनोपायो गवेष्येत। नापि गवेष्यमाणोऽपि तद्व्यञ्जनोपायः शब्दोऽर्थो वा उपलभ्यते, येनानुभवकलहोऽपि स्यात्। न च
Page 285
285 साधारणपुरुषनिषेधमन्तरेण पुण्डरीकाक्षतादात्म्यारोपो दुर्घट इति सोऽपि व्यज्यत इति वाच्यम्, रूपकोच्छेदापतेः। मुखं चन्द्र इत्यादौ मुखनिषेधमन्तरेण चन्द्रत्वं दुरारोपमित्यस्यापि सुवचत्वात्। तन्रापि मुखनिषेधावगमे जितमपहुत्या। अथ मुखं चन्द्र इति रूपके मुखत्वसामानाधिकरण्येन चन्द्रतादूप्यस्यारोप्यमाणतया न मुखनिषेधापेक्षेति चेत्, प्रकृतेऽपि तर्हि तादृशसाधारणपुरुषत्वसामानाधिकरण्येन पुण्डरीकाक्षतादात्म्यारोपरूपमसौ राजा पुण्डरीकाक्ष इत्याकारकरूपकमेव भवितुमीष्टे, नापहुतिः। यदपि चोच्यते 'नायं पुण्डरीकाक्षः, अपि तु मन्मथः' इत्यादि। तत्र यद्यपि चक्रसुपर्णदूरीकरणेन नायम् पुण्डरीकाक्ष इति निषेधः, पुष्पचाप-ध्वजगतमकरयोर्लेखनेन च मन्मथोऽयमित्युपमानारोपश्च व्यङ्ग्यो भवितुमर्हति, तथापि नासावपहुतिः। 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्' इति त्वत्कृतलक्षणस्याप्यत्रासत्त्वात्। अन्र हि निषेध्यस्य भगवतः पुण्डरीकाक्षस्यावर्ण्यत्वेनाप्रकृततया प्रकृतनिषेधाभावात्। नहि पूर्वारोपिततमात्रेण प्रकृतत्वं वक्तुं शक्यम्। प्रकृतपदस्यारोपविषयपरताया 'निषिध्य विषयम्' इत्यादिना क्त्वाप्रत्ययफलं ब्रुवता भवतैव तत्र स्फुटीकरणात्। काव्यप्रकाशकृतापि 'प्रक्रुतं यन्निषिध्यान्यत्साध्यते सा त्वपहुतिः' इति सूत्रं व्याचक्षाणेन 'उपमेयमसत्यं कृत्वा' इत्यादिना प्रकृतपदस्योपमेयपरतयैव व्याख्यानाच्च। प्राचीनमतसिद्धेयमपहुतिर्व्यङ्ग्यत्वेनास्माभिरिहोच्यत इत्यपि कुशकाशावलम्बनमात्रम्, 'प्रकृतस्य निषेधेन' इत्यादिलक्षणं कुर्वता भवतैव तस्या बहिःकरणात्। एवमप्युक्तपद्ये कोऽलङ्कारो व्यङ्ग्य इति चेत्? विच्छित्तिवैलक्षण्ये रतिरिक्तः, अन्यथा त्वपहुतिरेवास्तु। लक्षणं तु तदा प्रसक्तयक्तिञ्चिद्वस्तुनिषेधसामानाधिकरण्येन क्रियमाणवस्त्वन्तरारोपत्वमेव। तस्मान् सर्वमेवेदमहृदयङ्गमं सहृदयानाम्। अपहुतिनिरूपणानन्तरमुत्प्रेक्षाप्रकरणं प्रारब्धव्यतया प्रतिजानीते- अथोत्प्रेक्षाप्रकरणम्- तत्रादौ तल्लक्षणमाह- तद्भिन्नत्वेन तदभाववत्त्वेन वा प्रमितस्य पदार्थस्य रमणीयतद्वृत्ति- तत्समानाधिकरणान्यतरतद्धर्मसम्बन्धनिमित्तकं तत्त्वेन तद्वत्त्वेन वा सम्भावनमुत्प्रेक्षा। लक्षणघटकपदकृत्यान्याह-
Page 286
286 'लोकोत्तरप्रभाव! त्वां मन्ये नारायणं परम्' इत्यत्र तादृशप्रभावस्य नारायणत्वव्याप्यतासम्भावनादशायां सामग्र्यभावेनानुमित्यनुदयाज्जायमानायां नारायणेनानेन प्रायशो भवितव्यमिति सम्भावनायामतिप्रसङ्गवारणाय तद्भिन्नत्वेन प्रमितस्येति सम्भावनायामाहार्यतां गमयति। एतेन- 'रामं स्निग्धतरश्यामं विलोक्य वनमण्डले। प्रायो धाराधरोऽयं स्यादिति नृत्यन्ति केकिनः॥' इत्यत्र सम्भावनायाम्, 'धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः' इत्यन्न भ्रान्तौ च नातिप्रसङ्ग:। 'वदनकमलेन बाले स्मितसुषमलेशमावहसि यदा। जगदिह तदैव जाने दशार्धबाणेन विजितमिति॥' अत्र जगज्जयसम्भावनायामतिप्रसङ्गवारणाय रमणीयतद्धर्मनिमित्तकमिति। स्मितस्य सम्भावनोत्थापकत्वेऽपि जगद्विजितरूपविषयविषयिसाधारणत्वाभावान्न दोषः। एतेन- 'प्रायः पतेद् दौः शकलीभवेद् ग्लौः सहाचलैरम्बुधिभिः स्खलेद् गौः। नूनं ज्वलिष्यन्ति दिशः समस्ता यद् द्रौपदी रोदिति हा हतेति॥' अत्रापि रोदनकारणीभूतकेशग्रहणादिजन्यपापनिमित्तोत्थापितायां स्वर्गपतनसम्भावनायां नातिप्रसङ्ग:। प्रायः स्थाणुनानेन भवितव्यम्, नूनं पुरुषेणानेन भाव्यम्, दूरस्थोऽयं देवदत्त इवाभाति, इत्यादी निश्चलत्वचञ्चलत्वादिसाधारणधर्मनिमित्तायां सम्भावनायामतिप्रसङ्ग: स्यात्, अतो रमणीयत्वं धर्मगतमुपात्तम्। रूपकवित्तावतिप्रसङ्गवारणाय सम्भावनमिति। नन्वेवमपि तदभाववत्त्वेनेत्याद्यधिकमत आह- अत्र च तादात्म्येन संसर्गेण धर्म्युत्प्रेक्षायाः, संसर्गान्तरेण धर्मोत्प्रेक्षायाश्च सङ्ग्रहायैकोक्त्या लक्षणद्वयं विवक्षितम्। उत्प्रेक्षां विभजते- सा चोत्प्रेक्षा द्विविधा-वाच्या, प्रतीयमाना च। इव, नूनम्, मन्ये, जाने, अवैमि, ऊहे, तर्कयामि, शङ्के, उत्प्रेक्षे इत्यादिभि: क्यडाचारक्विबादिभिः प्रतिपादकैः सहिता यत्रोत्प्रेक्षासामग्री, तत्र वाच्योत्प्रेक्षा। यत्र च प्रतिपादकशब्दरहितं तत्सामग्रीमात्रम्, तन्न
Page 287
287 प्रतीयमाना। यत्र तत्सामग्रीरहितं प्रतिपादकमात्रम् तत्र सम्भावनमात्रमेव, नोत्प्रेक्षा। सापि प्रत्येकं त्रिविधा-स्वरूपोत्प्रेक्षा, हेतूत्प्रेक्षा, फलोत्प्रेक्षा चेति। तन्न जातिगुणत्रियाद्रव्यरूपाणां तदभावरूपाणां च पदार्थानां तादात्म्येनेतरेण वा सम्बन्धेन जातिगुणक्रियाद्रव्यात्मकैर्व्यस्तैः समुच्चितैरुपात्तैरनुपात्तैर्निष्पन्नैर्निष्पाद्यैर्वा निमित्तभूतैर्धर्मैर्यथासम्भवं जातिगुणक्रियाद्रव्यात्मकेषु विषयेषूत्प्रेक्षणं स्वरूपोत्प्रेक्षा। तत्नाभेदेन संसर्गेण धर्मिस्वरूपोत्प्रेक्षासंसर्गान्तरेण धर्मस्वरूपोत्प्रक्षेति चोच्यते। उक्तविधेषु पदार्थेषु प्रागुक्तप्रकाराणां पदार्थानां तथाविधैरेव निमित्तैर्यथासम्भवं हेतुत्वेन फलत्वेन च सम्भावनं हेतूत्प्रेक्षा फलोत्प्रेक्षा चोच्यते। एताश्च क्वचिन्निष्पन्नशरीराः क्वचिन्निष्पाद्यशरीराश्चेत्येवमाद्यनल्पविकल्पाः सम्पद्यन्ते। तथापि दिङ्मात्रमुपदर्श्यते। उदाहरणप्रदर्शनप्रसङ्गे प्रथमं जातिस्वरूपोत्प्रेक्षोदाहरणप्रदर्शनायाह- आख्यायिकायां जात्यवच्छिन्नस्वरूपोत्प्रेक्षा यथा- उदाहरणमुपन्यस्यति- 'तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी' इति। उपपादयति- अन्न भागीरथ्यां द्रव्ये जातौ वा हिमगिरिसम्बन्धी भुजत्वजात्यवच्छिन्नस्तादात्म्येनोत्प्रेक्ष्यते। तन्र च भागीरथीगतानां श्वैत्यशैत्यलम्बत्वजलधिजठरप्रविष्टत्वानां धर्माणां निमित्ततासिद्धये विषयिहिमगिरिभुजगत्वमश्यं सम्पादनीयम्। तेषां च मध्येऽनुपात्तयोः श्वैत्यशैत्ययोर्हिमगिरिसम्बन्धित्वादेव भुजगतत्वं सम्पन्नम्। इतरयोरपि सम्पादनाय तनयमैनाकगवेषणं फलमुत्प्रेक्षितम्, तत्साधनताज्ञानस्य लम्बत्वजलधिजठरप्रवेशानुकूलयतजनकत्वात्। एवं च विषयिगततादृशगवेषणफलकलम्बत्वजलधिजठरप्रविष्टत्वाभ्यां विषयगतयोः साहजिकलम्बत्वजलधिजठरप्रविष्टत्वयोरभेदाध्यवसानातिशयोक्त्या साधारण्यसम्पत्तौ निमित्तता। न चात्र फलस्याप्युत्प्रेक्षेति वक्तुं शक्यम्। उत्प्रेक्ष्यमाणफलनिष्पादितनिमित्तोत्थापितायां स्वरूपोत्प्रेक्षायामेव विधेयत्वाच्चमत्कृतेर्विश्रमात्, उत्प्रेक्षाप्रतिपादकस्य प्रत्ययस्य फलेनानन्वयाच्च, तयैवात्न
Page 288
288 व्यपदेशो युक्तः। अनिगीर्णविषया चेयमुपात्तानुपात्तगुणक्रियात्मकनिमित्ता। निष्पाद्यविशिष्टशरीराजात्युत्प्रेक्षा, हिमगिरिभुजस्य कविनैव निष्पादितत्वात्। भेदान्तरमुदाहर्तुमाह- तादात्म्येन गुणस्वरूपोत्प्रेक्षा यथा- उदाहरणमुपन्यस्यति- 'अम्भोजिनीबान्धवनन्दनायां कूजद्वकानां समजो विरेजे। रूपान्तराक्रान्तगृहः समन्तात् पुञ्जीभवञ्शुक्ल इवाश्रयार्थी।।' उपपादयति- अन्नैकाधिकरण्यापन्ने कूजनविशिष्टे बकत्वजात्यवच्छिन्ने विषये पुञ्जीभवनविशिष्टः शुक्लगुणस्तादात्म्येनोत्प्रेक्ष्यते। तत्र बकगतानां कूजननैर्मल्यपुञ्जीभवनानां शुक्लगुणतत्वमन्तरेण बकशुक्लयोरभेदस्य दुरुपपादत्वात्तत्सिद्धये तेषां विषयिगतत्वं साध्यम्। तत्र नैर्मल्यस्यानुपात्तस्य यथाकथञ्चिदुत्प्रेक्ष्यमाणे विषयिणि सिद्धत्वात् कूजनपुञ्जीभवनयोर्निष्पादनाय रूपान्तराक्ररान्तगृहत्वमाश्रयार्थित्वं च हेतुत्वेनोत्प्रेक्षितम्। इहापि प्राग्वत् साहजिकयोः कल्पिताभ्यामभेदाध्यवसानात् साधारण्यम्। एवमन्यत्राप्यूह्यम् । पूर्वं हि यथा फलस्योत्प्रेक्षणेऽपि न फलोत्प्रेक्षा तथेहापि हेतोरिति। भेदान्तरमुदाहर्तुमाह- क्रियास्वरूपोत्प्रेक्षा यथा- उदाहरणमुपन्यस्यति- 'कलिन्दजानीरभरेऽर्धमग्ना बकाः प्रकामं कृतभूरिशब्दाः। ध्वान्तेन वैराद विनिगीर्यमाणाः क्रोशन्ति मन्ये शशिनः किशोराः।' शाब्दबोधप्रदर्शनपुरस्सरमुपपादयति- अत्र प्रथनान्तविशेष्यकबोधवादिनामभेदसंसर्गेण कलिन्दजानीरार्धमग्नकृतभूरिशब्दोभयविशिष्टेषु बकेषु विषयेषु
क्रोशनकर्तृत्वं धर्म उत्प्रेक्ष्यते। तत्र तादात्म्योत्प्रेक्षणे धर्म्युत्प्रेक्षायां साधारणो धर्मः, सम्बन्धान्तरेणोत्प्रेक्षणे धर्मोत्प्रेक्षायां तत्समानाधिकरणो धर्मश्च विषयगतो निमित्तमिति स्थिते प्रकृते क्रोशनकर्तृत्वरूपधर्मोत्प्रेक्षायां तत्समानाधिकरणनिगरणकर्मत्वरूपधर्मस्य
Page 289
289 विषयगतत्वसिद्धये ऽनुवाद्यतया शशिकिशोरतादात्म्यमनुपात्तश्वैत्यनिमित्तकमुत्प्रेक्ष्यते। तन्र यथा विशिष्टोपमायामुपमानोपमेयविशेषणतद्विशेषणानामार्थमौपम्यम्, एवमन्नापि विषयबकविशेषणतद्विशेषणयोरर्धमज्जनयमुनाजलयोर्मूलोत्प्रेक्षाविषयि- शशिकिशोरविशेषणतद्विशेषणाभ्यां निगरणध्वान्ताभ्यामभेद आर्थः, ततश्च ध्वान्तकर्तृकनिगरणे सिद्धे मुख्योत्प्रेक्षानिर्वाहः। क्रोशनशब्दयोरपि बिम्बप्रतिबिम्बभावेनाभेदः। तेन कलिन्दजानीरार्धमग्नकृतभूरिशब्दोभयाभिन्ना बका ध्वान्तनिगीर्यमाणशशिकिशोरोभयाभिन्नाः क्रोशनक्रियानुकूलव्यापारवन्त इवेति बोधाकारः। आख्याते भावप्राधान्ये त्वभेदेन क्रोशनक्रियोत्प्रेक्षा। तन्र शाब्दे वृत्ते बकविशेषणतया प्रतीयमानमपि शब्दनं विषयतयाऽवतिष्ठते, अध्यवसानवशात्। क्रोशनक्रियायां च तादृशबका विशेषणम्, तादृशबकेषु चाभेदेन तादृशशशिकिशोराः, न तु शशिकिशोरा एव साक्षात्क्रियायाम्। एवं च बकानामनन्वयापत्तेः विषयविषयिविशेषणानां प्राग्वदेव बिम्बप्रतिबिम्बभावेनाभेदप्रतिपत्तिः। क्रियास्वरूपोत्प्रेक्षाया एवोदाहरणान्तरमुपदर्शयितुमाह- तथा- उदाहरणमुपन्यस्यति- 'राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः। सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः॥' उपपादयति- अत्रापि चन्द्रे विषये तादृशलेपनकर्तृत्वरूपधर्मोत्प्रेक्षेत्येकं दर्शनम्। किरणव्यापने विषये चन्द्रकर्तृकसुधाकरणकलेपनस्य तादात्म्येनोत्प्रेक्षणमिति द्वितीयम्। तन्र प्रथमे मते धवलीकारकत्वरूपनिमित्तानुपादानादनुपात्तनिमित्ता, विषयस्योपादानादुपात्तविषया। द्वितीयेऽपि तस्यैव निमित्तस्यानुपादानादनुपात्तनिमित्ता, विषयस्य निगीर्णतयानुपात्तविषयेति विशेषः। भेदान्तरमुदाहर्तुमाह- तादात्म्येन द्रव्यस्वरूपोत्प्रेक्षा यथा- उदाहरणमुपन्यस्यति- 'कलिन्दशैलादियमाप्रयागं केनापि दीर्घा परिखा निखाता। मन्ये तलस्पर्शविहीनमस्यामाकाशमानीलमिदं विभाति॥'
Page 290
290 उपपादयति- अन्र यमुनायां नीलत्वदीर्घत्वनिमित्तकमाकाशतादात्म्योत्प्रेक्षणम्। आकाशस्य स्वरूपात्मकत्वाद् द्रव्यस्वरूपोत्प्रेक्षेयम्। अत एवाकाशपदाच्छब्दाश्रयत्वाद्यनुपस्थितिदशायामप्याकाशधीः। नीलत्वरूपनिमित्तस्य विषयिणि सिद्ध्यर्थं तृतीयचरणोपादानम्। दीर्घत्वरूपनिमित्तसिद्ध्यर्यं च पूर्वार्धम्। भेदान्तरमुदाहर्तुमाह- जात्यादीनामभावोत्प्रेक्षा यथा- उदाहरणमुपन्यस्यति- 'बाहुजानां समस्तानामभाव इव मूर्तिमान्। जयत्यतिबलो लोके जामदग्न्यः प्रतापवान् ॥' उपपादयति- अत्र जात्यवच्छिन्नाभावो विरोधित्वनिमित्तेन तादात्म्येनोत्प्रेक्ष्यते। पाठभेदेन भेदान्तरतामापादिते प्रकृतपद्ये विशेषमुपपादयति- विनाश इवेत्युक्तौ तु ध्वंसः। 'समस्तलोकदुःखानाम्' इति प्रथमचरणे कृते गुणाभावः। क्रियाभावोत्प्रेक्षोदाहरणमाह- 'द्यौरञ्जनकालीभिर्जलदालीभिस्तथा वव्रे। जगदखिलमपि यथासीन्निर्लोचनवर्गसर्गमिव॥' उपपादयति- अन्नापि चाक्षुषज्ञानशून्यत्वेन निमित्तेन पार्यन्तिकः क्रियाभावो धर्मः। अभावोत्प्रेक्षोदाहरणदानप्रसङ्गमुपसंहरन्नाह- एवं द्रव्याभावोत्प्रेक्षाऽपि स्वयमूह्या। विशेषमाह- मालारूपाऽप्येषा सम्भवति। उदाहतुमाह- यथा- उदाहरणमुपन्यस्यति- 'द्विनेत्र इव वासव: करयुगो विवस्वानिव
Page 291
291 द्वितीय इव चन्द्रमा: श्रितवपुर्मनोभूरिव। नराकृतिरिवाम्बुधिर्गुरुरिव क्षमामागतो नुतो निखिलभूसुरैर्जयति कोऽपि भूमीपतिः॥' शङ्कासमाधानपुरस्सरमुपपादयति- अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोधनिवर्तनाय विषयिषु वासवादिष्वारोपेण साधारणीकरणम्। न चात्रोपमा शक्यनिरूपणा, द्विनेत्रत्वादीनामुक्तेर्निष्प्रयोजनकत्वापत्तेः। न चोपमाया निष्पादकं तेषां साधारण्यं, तदभावेऽपि परमैश्वर्यादिभिः प्रतीयमानैस्तस्या निष्पत्तेः। असुन्दरत्वादुपमानिष्पादकत्वेन कवेरनभिप्रेतत्वाच्च। नह्यन्न द्विनेत्रत्वादिभिर्धर्मैर्वासवादिसादृश्यं राज्ञः कवेरभिप्रायविषयः। एवं द्वितीयत्वादीनां चन्द्रादिष्वारोपोऽप्युपमायां सत्यामनर्थक एव स्यात्। अभेदप्रतिपत्तौ तु सहस्रनेत्रेण सहस्रकरेण विधिसृष्टावेकेन वपुविहीनेन जलाकारेण स्वर्गगतेन च तेन तेन कथमस्याभेदः स्यादिति प्रतिकूलधियमपसारयतां विषयिगतानां द्विनेत्रत्वाद्यारोपाणामस्त्येवोपयोगः। अन्नैवेवशब्दस्याभावे दृढारोपं रूपकम्। विषयिगतविशेषणानामभावे उपमा। उभयेषामेकतरस्याप्यभावे शुद्धरूपकमिति विवेकः। उपसंहरति- एवं स्वरूपोत्प्रेक्षा दिगुपदर्शिता। अवान्तरभिन्नप्रकरणारम्भं सूचयति- अथ हेतूत्प्रेक्षा। उदाहतुमाह- यथा- उदाहरणमुपन्यस्यति- 'त्वत्प्रतापमहादीपशिखाविपुलकज्जलैः। नूनं नभस्तले नित्यं नीलिमा नूतनायते॥' उपपादयति- अत्र नीलिमसामानाधिकरण्येनोत्प्रेक्षितस्य हेतुत्वेनोत्प्रेक्षणम्। पाठान्तरेऽस्यैव पद्यस्य हेतूत्प्रेक्षाप्रभेदान्तरोदाहरणता संभवतीत्याह- कज्जललेपनैः इति कृते इयमेव क्रियाहेतूत्प्रेक्षा।
Page 292
292 हेतूत्प्रेक्षाप्रभेदान्तरमुदाहर्तुमाह- गुणहेतूत्प्रेक्षा यथा- उदाहरणमुपन्यस्यति- 'परस्परासङ्गसुखान्नतभ्रुवः पयोधरौ पीनतरौ बभूवतुः। तयोरमृष्यन्नयमुन्नतिं परामवैमि मध्यस्तनिमानमञ्चति॥' उपपादयति- अत्र पूर्वार्धे सुखस्य गुणस्य हेतुत्वं तावत् पञ्चम्यैव निर्दिष्टम्। अपरार्धे धामविशेषणतया अनूधमानस्य गुणाभावस्य त्वार्थम्। यथा 'भोक्ता भुञ्जानो वा तृप्यति इत्यादौ भोजनादेः। उत्प्रेक्षाप्रकरणे नैयायिकोक्तगुणानामेव गुणपदेन ग्रहणं न, अपि तु, दार्शनिकान्तरा भिमतगुणानामपीति स्फुटयितुमुदाहरणान्तरमाह- यथा वा- 'व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतामाकर्ण्य स्तुतिमुदयत्त्रपातिरेकात्। आभूमीतलनतकन्धराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि॥।' हेतूत्प्रेक्षायाः प्रभेदान्तरमुदाहर्तुमाह- क्रियाहेतूत्प्रेक्षा यथा- गद्यात्मकमुदाहरणमुपन्यस्यति- 'महागुरुकलिन्दमहीधरोदरविदारणाविर्भवन्महापातकावलिवेल्लनादिव श्यामलिता इति। हेतूत्प्रेक्षाया एवावशिष्टं भेदमुदाहर्तुमाह- द्रव्यहेतूत्प्रेक्षा यथा- उदाहरणमुपन्यस्यति- 'वराका यं राकारमण इति वल्गन्ति सहसा सरः स्वच्छं मन्ये मिलदमृतमेनन्मखभुजाम्। अमुष्मिन्या कापि द्युतिरतिघना भाति मिषता- मियं नीलच्छायादुपरि निरपायाद्रगनतः॥' उपपादयति
Page 293
293 अत्नामृतसरोरूपत्वेनोत्प्रेक्षिते चन्द्रमसि नीलत्वेनाध्यवसिते कलङ्के उपरिवर्तिनभोहेतुकत्वमुत्प्रेक्ष्यते। एतेन द्रव्यस्य हेतुत्वेनोत्प्रेक्षणं नास्तीति प्राचां प्रवादो निरस्तः। अभावहेतूत्प्रेक्षामुदाहर्तुमाह- एषामेवाभावानां हेतुत्वोत्प्रेक्षा यथा- तत्र प्रथमं जात्यभावस्य हेतुत्वेनोत्प्रेक्षाया उदाहरणमुपन्यस्यति- 'नितान्तरमणीयानि वस्तूनि करुणोज्झितः। काल: संहरते नित्यमभावादिव चक्षुषः॥' उपपादयति- अत्र कालस्य साहजिके संहारकत्वे चक्षुरभावस्य हेतुत्वेनोत्प्रेक्षा। गुणाभावहेतुत्वोत्प्रेक्षोदाहरणमुपन्यस्यति- 'निःसीमशोभा सौभाग्यं नताङ्ग्या नयनद्वयम्। अन्योन्यालोकनानन्दविरहादिव चञ्चलम् ॥' उपपादयति- अत्र गुणाभावस्य। क्रियाभावहेतुत्वोत्प्रेक्षोदाहरणमुपन्यस्यति- 'जनमोहकरं तवालि मन्ये चिकुराकारमिदं घनान्धकारम्। वदनेन्दुरुचामिहाप्रचारादिव तन्वङ्गि नितान्तकान्तिकान्तम् ॥' उपपादयति- इह द्वितीयार्धे क्रियाभावस्य। प्रथमार्धे तु जात्यवच्छिन्नस्य जात्यवच्छिन्नाभावस्य वा स्वरूपोत्प्रेक्षैव। द्रव्याभावहेतुत्वोत्प्रेक्षोदाहरणमुपन्यस्यति- 'न नगाः काननगा यदुदतीषु त्वदरिभूपसुदतीषु। शकलीभवन्ति शतधा शङ्के श्रवणेन्द्रियाभावात् ।' उपपादयति- इह श्रोत्रत्वस्य जातिगुणक्रियाभ्योऽतिरिक्तस्य विवेके क्रियमाणे आकाश-स्वरूपतया तदवच्छिन्नाभावस्य द्रव्याभावस्य हेतुत्वेनोत्प्रेक्षा। निमित्तं क्रियाभावः।
Page 294
294 उपसंहरति- एवं हेतूत्प्रेक्षादिक। अवान्तरमन्यत् प्रकरणमारभते- अथ फलोत्प्रेक्षा- तत्र प्रथमं जातिफलोत्प्रेक्षोदाहरणमुपन्यस्यति- 'दिवानिशं वारिणि कण्ठदघ्ने दिवाकराराधनमाचरन्ती। वक्षोजतायै किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुजपड्गिरेषा॥।' उपपादयति- अत्र वक्षोजत्वमवयववृत्ति। जातिस्तल्प्रत्ययार्थः। त्वतलोः प्रकृतिप्रवृत्तिनिमित्ते भावे विधानात्। स एव चात्र तपश्चरणक्रियायाः साहजिकजलावस्थानभिन्नतयाऽध्यवसितायाः फलत्वेनोत्प्रेक्ष्यते। आशड्क्य समाधत्ते- न चात्र प्राप्तिक्रियामन्तरेण जातेः शुद्धाया अफलत्वात् क्रियाया एव फलत्वमिति वाच्यम्। प्राप्तेः संसर्गतया तद्द्वारैव जात्यादेः फलत्वोपपत्तेः। अन्यथा फलत्वबोधकचतुर्थ्या अनुपपत्तेः। अत एव-'ब्राह्मण्याय तपस्तेपे विश्वामित्रः सुदारुणम्' इत्यादयः प्रयोगाः। फलोत्प्रेक्षायाः प्रभेदान्तरमुदाहर्तुमाह- गुणफलोत्प्रेक्षा यथा- उदाहरणमुपन्यस्यति- 'वियोगवह्िकुण्डेस्मिन् हृदये ते वियोगिनि। प्रियसङ्गसुखायैव मुक्ताहारस्तपस्यति।' फलोत्प्रेक्षाया एव प्रभेदान्तरमुदाहर्तुमाह- क्रियाफलोत्प्रेक्षा यथा- उदाहरणमुपन्यस्यति- 'हालाहलकालानलकाकोदरसङ्गतिं करोति विधुः। अभ्यसितुमिव तदीयां विद्यामद्यापि हरशिरसि ॥' उपपादयति- अन्र विरहिवाक्येऽ्भ्यसनक्रियायास्तुमुना फलत्वं लभ्यते।
Page 295
295 उपसंहरति- एवं लक्ष्यानुसारेण यथासम्भवमन्यदप्युदाहार्यम्। स्वमतसिद्धं विशेषमाह- इह जात्यादयो हि भेदाः प्राचामनुरोधादुदाहृताः। वस्तुतस्तु नैषां चमत्कारे वैलक्षण्यमस्तीत्यनुदाहार्यतैव। चमत्कारवैलक्षण्यं पुनर्हेतुफलस्वरूपात्मकानां त्रयाणां प्रकाराणामेवेति। अपरं विशेषमाह- प्रागुदाहृतेष्वेव पद्येषु वाचकानामिवादीनां त्यागे प्रतीयमाना, अर्थसामर्थ्यावसेयत्वात्। न तु व्यङ्ग्येति भ्रमितव्यम्, तस्याः प्रकृते प्रसङ्गाभावात्। धर्मिस्वरूपोत्प्रेक्षामुदाहृत्य धर्मस्वरूपोत्प्रेक्षामुदाहर्तुमाह- धर्मस्वरूपोत्प्रेक्षा यथा। उदाहरणमुपन्यस्यति- 'निधिं लावण्यानां तव खलु मुखं निर्मितवतो महामोहं मन्ये सरसिरुहसूनोरुपचितम्। उपेक्ष्य त्वां यस्माद्विधुमयमकस्मादिह कृती कलाहीनं दीनं विकल इव राजानमतनोत्॥' उपपादयति- पूर्वार्धोत्प्रेक्षितमोहरूपधर्मसिद्धये द्वितीयार्धेऽविचार्यकारित्वं तत्सामानाधिकरण्येनोपात्तम्। निमित्तांशे प्रागनुक्तं विशेषमुपदर्शयति- अस्यां च स्वरूपस्य विषयित्वे निमित्तभूतो धर्म उपमायामिव बिम्बप्रतिबिम्बभावादिभिर्भिन्न उपात्तोऽनुपात्तश्च। हेतुफलयोर्विषयित्वे तु यं प्रति हेतुफले निरूपिते स धर्मः कल्प्यमानोऽपि विषयगतसाहजिकधर्मा-भिन्नतयाऽध्यवसीयमानो निमित्तं सम्पद्यते। स चोपात्त एव भवति। अन्यथा कं प्रति हेतुफलयोरनन्वयः स्यादिति सङ्क्षेपः। शाब्दबोधप्रकारज्ञानाय प्राचीनार्वाचीनभेदेन मतद्वयसत्ताः सामान्यतः सूचयित्वा प्रथमं प्राचीनमतमुपदर्शयति- अत्र च प्राचामर्वाचां चानेकधा दर्शनं व्यवस्थितम्। तत्र प्राचामित्थम्, सर्वत्राभेदेनैव विषयिणो विषये उत्प्रेक्षणम्, न सम्बन्धान्तरेण। तथाहि धर्मिस्वरूपोत्प्रेक्षायाम् 'मुखं चन्द्रं
Page 296
296 मन्ये' इत्यादौ तावद्विषयिणश्चद्रस्याभेदो विषये मुखे स्फुट एव, नामार्थयोर्भेदेन साक्षादन्वयस्याव्युत्पत्तेः। उपात्तविषया चेयम् । एवम् 'अस्यां मुनीनामपि मोहमूहे' इत्यत्र नैषधपद्ये(७/६४) धर्मस्वरूपोत्प्रेक्षायामपि मुनिसम्बन्धिनि धर्मान्तरे विषये दमयन्तीविषयकमोहस्य विषयिणोऽ्भेदेनैवोत्प्रेक्षा। उत्प्रेक्षायाश्च साध्यवसानत्वाद्विषयस्यानुपादानं सङ्गच्छते। निमित्तधर्मश् तत्तदङ्गासक्तवृत्तित्वम्। एवम् 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः' इत्यादौ कस्यापि पद्ये न प्रथमान्तार्थे कर्तरि लेपनकर्तृत्वादेरुत्प्रेक्षणं, तस्याख्यातार्थविशेषणत्वेनैकदेशत्वात्। नापि लेपनादिकर्तुरभेदेन, तस्या क्रियाविशेषणत्वेनाप्राधान्यात्। किन्तु तमःकर्तृकमङ्गकर्मकं लेपनमुत्प्रेक्ष्यते, तम:कर्तृकमङ्गकर्मकं वर्षणं च। उत्प्रेक्ष्यमाणाभ्यां च ताभ्यां विषयस्य तमः कर्तृकव्यापनस्य निगीर्णत्वादनुपादानम्। अत एव एवमादावियमनुपात्तविषयोच्यते। निमित्तधर्मश्च श्यामीकारकत्वादिरनुपात्त एव। अत एव 'सम्भावनमथोत्प्रेक्षाप्रकृतस्य समेन यत्' इति लक्षणं विधायोक्तम् 'व्यापनादि लेपनादिरूपतया सम्भावितम्' इति मम्मटभट्टैः। एवम्- 'उन्मेषं यो मम न सहते जातिवैरी निशाया- मिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः। नीतः शान्तिं प्रसभमनया वक्रकान्त्येति हर्षा- ल्लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः॥' इत्यादौ प्राचीनपद्ये हेतूत्प्रेक्षायामपि न हर्षरूपं हेतुमात्रमुत्प्रेक्ष्यते लक्ष्मीरूपे विषये, किन्तु तद्धेतुकं कार्यं लगनादिरूपं विषयि तादात्म्येन साहजिकलगनादौ विषये। कार्यस्य निमित्ततावादिनामपि विषयगततत्समानजातीयेनाभेदाध्यवसानस्यावश्यवाच्यत्वात्। अन्यथा हेतुरूपविषयिधर्मसमानाधिकरणधर्मस्य कार्यरूपस्य विषयावृत्तित्वेनोत्प्रेक्षैव न स्यात्। एवम्- 'चोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः। अद्यापि किं वानुभविष्यतीति व्यपाटयन् द्रष्टुमिवाक्षराणि ॥' इत्यादिपरपद्ये फलोत्प्रेक्षायां कण्टकिषु वनान्तेषु विषयेषु न केवलं भालत्वग्विपाटननिमित्तं ललाटाक्षरदर्शनं फलमुत्प्रेक्ष्यते। किन्तु तत्फलकं भालत्वग्विपाटनादिरूपं विषयि
Page 297
297 कण्टकजविपाटनादौ विषये तादात्म्येनेति सर्वत्राभेदेनैव विषये विषयिण उत्प्रेक्षणमिति दर्शनम्। प्राचीनमतमालोचयितुं प्रकरममाणस्तदुक्तयुक्तीर्निरस्यति- तत्र विचार्यते-न सर्वत्राभेदेनैवोत्प्रेक्षणमिति नियमे किञ्चिदस्ति प्रमाणम्, लक्ष्येषु भेदेनाप्युत्प्रेक्षणस्य दर्शनात्-'अस्यां मुनीनामपि मोहमूहे' इत्यादौ। न च मुनिसम्बन्धिनि धर्मविशेषे मोहस्याभेदेनोत्प्रेक्षणमिति वाच्यम्। भेदेनोत्प्रेक्षणे बाधकाभावेनेदृशकल्पनाया निरर्थकत्वात्। न ह्यभेदेनैवोत्प्रेक्षणमिति वेदेन बोधितम्, यदर्थमयमाग्रहः स्यात्, लक्षणनिर्माणस्य पुरुषाधीनत्वात्। 'लिम्पतीव तमोऽङ्गानि' इत्यत्रापि लेपनादिकर्तृत्वं तमआदिषु विषयेषूत्प्रेक्ष्यत इत्येव युक्तम्। अनुकूलव्यापारात्मकस्य कर्तृत्वस्यैवाख्यातार्थत्वात्। तस्य च प्रथमान्ते विशेष्ये आश्रयतासंसर्गेणान्वयान्न दोषः। 'भावप्रधानमाख्यातम्' इत्यस्य 'भावो व्यापारस्तदर्थकमाख्यातं तिङ्' इत्यर्थकरणान्न विरोधः। 'सत्त्वप्रधानानि नामानि' इत्युत्तरवाक्यस्थप्रधानशब्दस्याभिधेयपरत्वात्। फलमात्रार्थस्यापि धातोराख्यातार्थव्यापारव्यधिकरणत्वसमानाधिकरणत्वाभ्यामर्थगताभ्यां सकर्मकाकर्मकत्वव्यवहारः। नामार्थयोर्भेदेनान्वयाभावाच्च भावकृदर्थव्यापारस्य न नामार्थेऽन्वयः। अत एव च 'कर्तरि कृत्' इत्यनेन विशिष्टशक्तिबोधकेन न घञादिषु भावग्रहणस्य विशेषणशक्तिबोधकस्य गतार्थत्वम्, शब्दानुवृत्तिपक्षस्वीकाराच्च 'कर्तरि कृत्' इत्यत्र धर्मिपरस्यापि कर्तृग्रहणस्य 'लः कर्मणि-' इत्यत्र धर्मपरतायामपि न दोषः। यद्वा आस्तां फलव्यापारौ, धातोः, आश्रयश्च तिडोऽर्थः। परं तु देवदत्तः पचमान इत्यादाविव देवदत्तः पचतीत्यादिष्वपि प्रथमान्तार्थ एव तिडर्थस्याभेदेन विशेषणत्वं युक्तम् न तु भेदेन धात्वर्थभावनायाम्। सर्वजनसिद्धस्योद्देश्यविधेयभावस्य भङ्गापत्तेः। सत्यां हि गतौ 'प्रत्ययार्थे प्रकृत्यर्थो विशेषणम्' इत्यस्योत्सर्गस्याप्यनुग्रह एव न्याय्यः। 'भावप्रधानमाख्यातम्' इत्यस्य 'भावनार्थको धातुः' इत्यर्थकरणान्न विरोधः।न च वैयाकरणमतविरोधो दूषणमिति वाच्यम्, स्वतन्त्रत्वेनालङ्कारिकतन्त्रस्य तद्विरोधस्यादूषणत्वात् ।प्रपञ्चयिष्यते चैतदधिकमुपरिष्टादिति प्रकृतमनुसरामः। एवं च 'लिम्पतीव-' इत्यादौ भेदेनाभेदेन वा तिडर्थस्यैव प्रथमान्तार्थ एवोत्प्रेक्षणम्। न तु धात्वर्थस्य स्वनिगीर्णे व्यापनादौ, सर्वजनसिद्धाया इवार्थस्य विधेयताया अनुपपत्तेः। तमःकर्तृकं लेपनमिवेत्यस्मादपि उद्देश्यविधेयभावशून्यवाक्यादुत्प्रेक्षाप्रतीत्यापत्तेश्च। यदि च
Page 298
298 विषयिसम्बन्धिना लेपनादिना विषयसम्बन्धिनो व्यापनादेर्निमित्ततासम्पत्तये स्वतादूप्यसम्पादनेन निगीर्णत्वादनुपात्तविषयत्वमध्यवसानमूलत्वं चोच्यते तदा रूपके ऽप्यनुपात्तविषयत्वमुच्यतामध्यवसानमूलत्वं च। 'लोकान् हन्ति खलो विषम्' इत्यादौ खलसम्बन्धिनो दुःखदानादेर्विषसम्बन्धिहननात्मनाऽध्यवसानात्। तस्मान्निमित्तांशेऽतिशयोक्तिरेव। एवम् 'उन्मेषं यो मम न सहते' इत्यत्र लक्ष्मीरूपे विषये लगनहेतुत्वेन हर्ष उत्प्रेक्ष्यते। तत्र साहजिकसम्बन्धे तादात्म्येनाध्यवसितं लगनमेव निमित्तम्। तथा- 'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नपुरमेकमुर्व्याम्। अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ।।' अन्रापि मौनहेतुत्वेन नूपुरे विश्लेषदुःखमुत्प्रेक्ष्यते। तत्र निश्चलत्वनिमित्तकनिःशब्दत्वाध्यवसितं मौनं निमित्तम्, विश्लेषदुःखसमानाधिकरणत्वे सति नूपुरवृत्तित्वात्। न तु निश्चलत्वनिमित्तके निःशब्दत्वे विषये विश्लेषदुःखहेतुकमौनमभेदेन उत्प्रेक्षायामिवशब्दान्वितस्योत्प्रेक्ष्यताया उत्सर्गसिद्धत्वात्। विषयस्य निगीर्णतया विषयिणो विधेयत्वानुपपत्तेश्च। निमित्तान्तरगवेषणापत्तेश्च। यद्यप्येककालप्रभवत्वादिरस्ति साधारणो धर्मो निमित्तम्। तथापि तस्याचमत्कारित्वादुपमायामिवोत्प्रेक्षायामप्यप्रयोजकत्वात्। एवं फलोत्प्रेक्षायामपि बोध्यम्। एतेन 'यद्वा हेतुफलधर्मस्वरूपोत्प्रेक्षोदाहरणेष्वपि तादात्म्येनैवोत्प्रेक्षा' इति प्राचां मतमनुसरता द्रविडपुङ्गवेन यदुक्तं तदपि परास्तम्। पूर्वसूचितमर्वाचां मतमुत्थापयति- अलङ्कारसर्वस्वकृता तावदुत्प्रेक्षाया लक्षणमित्थं निगदितम्-विषयनिगरणे नाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः। स च द्विविध :- सिद्धः, साध्यश्च। तत्र साध्यत्वप्रतिपत्तौ व्यापारप्राधान्ये उत्प्रेक्षा इति।' अस्यार्थः-सिद्धत्वं निगीर्णविषयत्वम्। साध्यत्वं च निगीर्यमाणविषयत्वम्। यत्रा हि सिद्धत्वं तत्राध्यवसितप्राधान्यम्-यथाऽतिशयोक्त्यादौ। यत्र हि सिद्धत्वं तत्राध्यवसितप्राधान्यम्-यथाऽतिशयोक्त्यादौ। यत्र साध्यत्वं तत्र व्यापारस्याध्यवसानक्रियायाः प्राधान्ये उत्प्रेक्षा इति। एवमभेदगर्भमुत्प्रेक्षालक्षणं विधाय- "-'सैषा स्थली यत्र' इत्यत्र नूपुरगतस्य मौनित्वस्य हेतुत्वेन दुःखं गुण उत्प्रक्ष्यते। तत्र मौनित्वमेव नूपुरगतनिःशब्दत्वाभेदेनाध्यवसितं निमित्तम्।' इत्युक्तम्। एवं 'यत्र धर्म एव
Page 299
299 धर्मिगतत्वे' इत्यादिना धर्मोत्प्रेक्षाप्रसङ्गे "-'लिम्पतीव तमोऽङ्गानि' इत्यत्र लेपनक्रियाकर्तृत्वोत्प्रेक्षणे व्यापनादि निमित्तम्।' इत्युक्तम्। उक्तमलङ्कारसर्वस्वकारमतमालोचयति- तदेतत्सर्वं परस्परविरुद्धम्। नहि दुःखगुणोत्प्रेक्षायामभेदगर्भोऽध्यवसायोऽस्ति। मौनांशे सन्नप्यध्यवसायः सिद्धत्वादतिशयोक्तेरेव विषयो भवितुमर्हति, नोत्प्रेक्षायाः। त्वन्मते मौनस्य निमित्तत्वेनानुत्प्रेक्ष्यत्वाच्च। एवं 'लिम्पतीव' इत्यत्र लेपनाध्यवसायोऽपि। तस्यापि व्यापनरूपतया स्थितस्य त्वया कर्तृत्वोत्प्रेक्षानिमित्तत्वेनोक्तत्वाच्च। 'व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्यदन्वेष्यं स्यात्' इति त्वयैव बाधकोपन्यासात्। निमित्तांशाध्यवसानं तूपमादावपि स्थितम्। किञ्च, 'नूनं मुखं चन्द्रः' इत्यादौ कुत्राध्यवसायः, विषयस्य जागरूकत्वात्। न च सिद्ेऽध्यवसाये विषयस्य जठरवर्तित्वम्, साध्ये तु निगीर्यमाणत्वात्पृथगुपलब्धिरिति वाच्यम्, साध्याध्यवसाये मानाभावात्। अन्यथा रूपकादेरप्यध्यवसायगर्भत्वापत्तेः। किञ्च, अध्यवसानं लक्षणाभेदः। न चात्र विधेयांशे लक्षणास्ति। अभेदादिसंसर्गैराहार्यबोधस्यैव स्वीकारात्। तस्मात्प्राचीनानामाधुनिकानां चोक्तयो न क्षोदक्षमाः। प्राचीनानामाधुनिकानाञ्च मतान्युपपाद्य सामान्यतः समालोच्य च सम्प्रति तद्विषये स्वसम्मतं निष्कर्षमाह- एवं प्राप्ते ब्रूम :- तत्र तावद्धर्म्युत्प्रेक्षानिष्कर्षः प्राचीनमतपरीक्षावसरे कृत एव। हेतूत्प्रेक्षायां पञ्चम्यन्तार्थो हेतुः, अभेदश्च प्रकृतिप्रत्ययार्थयोः संसर्ग इति पक्षे विश्लेषदुःखाभिन्नहेतुः पञ्चम्यन्तार्थः। तस्य च प्रयोज्यतासंसर्गेणोत्प्रेक्षणमिवादिना बोध्यते। प्रयोज्यत्वं पञ्चम्यर्थ इति दर्शने निरूपितत्वं प्रकृतिप्रत्ययार्थयोः संसर्गः। आश्रयतासंसर्गेणोत्प्रेक्षणम् । उभयथापि पञ्चम्यर्थ एवोत्प्रेक्ष्यः, तेनैवे वाद्यार्थान्वयात्। उत्प्रेक्ष्यतावच्छेदकसंबन्धेनोत्प्रेक्ष्यसमानाधिकरणश्च धर्मोऽतिशयोक्त्या मौनाभिन्नत्वेनाध्यवसितनिश्चलत्वादिर्निमित्तम्। बद्धमौनं च विषयः। मौनद्वारकं च बद्धमौनस्य प्रयोज्यत्वं सम्भाव्यते। एवं प्रयोज्यधर्मके धर्मिणि सर्वत्रापि धर्मद्वारक एव पञ्चम्यर्थान्वयः। यत्र तु धर्म एव किञ्चिद्धर्माभिन्नत्वेनाध्यवसितः साक्षाद्विषयस्तन्न विषयतावच्छेदकधर्मो निमित्तम्। यथा तन्नैव 'विश्लेषदुःखादिव मौनमस्य' इति निर्माणे मौनत्वम्। एवं तृतीयार्थेऽपि बोध्यम्। फलोत्प्रेक्षास्थलीयं निष्कर्षमाह-
Page 300
300 फलोत्प्रेक्षायां तुमुन्नादेरर्थः फलम्। प्राग्वत्प्रकृत्यर्थप्रत्ययार्थयोरभेदः संसर्गः। तच्च साधनतासंसर्गेणान्वेतीति तेनैव संसर्गेणोत्प्रेक्ष्यते, यत्र चोत्प्रेक्ष्यते तदंशे विशेषणतया भासमानो धर्मो निमित्तम्। स च धर्मिणि विषये अभिन्नत्वेनाध्यवसितो धर्मः, तथाभूते च धर्मे विषये तद्विशेषणीभूतोऽन्य इति विवेकः। इदानीं हेतुफलोत्प्रेक्षासाधारणं स्पष्टीकरणं कुरुते- एवं च यत्र समासप्रत्ययगुणीभूते विषये हेतुफलान्वयो न साक्षात् सम्भवति तत्र प्रधान एव विषये तादृशविशेषणद्वारकप्रयोज्यत्वप्रयोजकत्वाभ्यां ससंर्गाभ्यां हेतुफलयोरुत्प्रेक्षा बोध्या। आशड्क्य समाधत्ते- यद्यपि विशेषणेऽ्रपि यथाकथंचिद्धेतुफलयोरन्वयाद्विशेषणस्यापि विषयत्वमुचितम्। तथापि विषयविषयिणोरुद्देश्यविधेयभावप्रत्ययस्यानुरोधादियं सरणिराश्रिता। यदि च तस्य नास्त्येवानुरोधस्तदा प्राचां दर्शनमेव रमणीयं स्यात्। प्राचीनमते न केवलमुद्देश्यविधेयभावभङ्गापत्तिरेव दोषः, अपि तु दोषान्तरमपीत्याह- किञ्च प्राचां मते हेतुफलोत्प्रेक्षास्थले तद्धेतुकतत्फलकयोः कार्यकारणयोरेव निगीर्णे विषये उत्प्रेक्षणात् स्वरूपोत्प्रेक्षायामेव पर्यवसानम्, न हेतुफलयोः। एवं च विभागश्चिरन्तनानामुच्छिन्नः स्यात्। अथ स्वरूपतादात्म्याविशेषेऽपि हेतुफलाविशेषणकशुद्धस्वरूपोत्प्रेक्षाया हेतुफलविशेषणकस्वरूपोत्प्रेक्षायामस्ति हेतुफलकृत एव भेद इति चेत् 'तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी' इति प्रागुदाहृतायां स्वरूपोत्प्रेक्षायां तनयमैनाकगवेषणरूपस्य फलस्योत्प्रोक्ष्यविशेषणकोटिप्रविष्टत्वात्फलोत्प्रेक्षात्वापत्तेः, उत्प्रेक्ष्ये साक्षाद्विशेषणताया अप्रयोजकत्वात्। इत्यलं स्वगोत्रकलहेन। अथेदानीमुत्प्रेक्षाणां साङ्कर्ये कयोत्प्रेक्षया व्यपदेश इति वक्तुं प्रयतते- उत्प्रेक्ष्यमाणेष्वपि यस्य विषयिण उत्प्रेक्षा विधेयतया भासते तदीयोत्प्रेक्षयैव व्यपदेशः, प्राधान्यात्। तेन 'विश्लेषदुःखादिव बद्धमौनम्' इत्यत्र नूपुरगतत्वेन दुःखस्योत्प्रेक्षणेऽपि न तदुत्प्रेक्षया व्यपदेशो न्याय्यः, तस्या अङ्गत्वेनानुवाद्यत्वात्। किन्तु पञ्चम्यर्थोत्प्रेक्षया, तस्या एव इवशब्दवेद्यत्वेन विधेयत्वात्। तथा 'चोलस्य' इति पद्येऽपि वनान्तगतत्वेन न
Page 301
301 ललाटाक्षरदर्शनोत्प्रेक्षयाऽपि, अपि तु तुमुन्नर्थोत्प्रेक्षया। एवं 'तनयमैनाक-' इत्यादिगद्े न फलोत्प्रेक्षया व्यपदेशः। नापि 'कलिन्दजानीरभरेऽर्धमग्ना' इत्यत्र शशिकिशोरतादात्म्योत्प्रेक्षया, तदुत्थापितया ध्वान्तकर्तृकवैरहेतुकनिगरणकर्मतादात्म्योत्प्रेक्षया वा, प्रागुक्तादेव हेतोरिति दिक्। उत्प्रेक्षानिमित्तभूतधर्मसम्बन्धिविशेषमाह- द्विविधो हि तावद्धर्मोऽपि-स्वत एव साधारणः साधारणीकरणोपायेनासाधारणोऽपि साधारणीकृतश्च। च चोपायः क्वचिदूपकम्, क्वचिच्छ्लेषः, क्वचिदपहुतिः, क्वचिद्बिम्बप्रतिबिम्बभाव:, क्वचिदुपचारः, क्वचिदभेदाध्यवसायरूपोऽतिशयः। उपायेन साधारणीकृतानां धर्मणामुदाहरणेषु निर्देष्टव्येषु प्रथमं रूपकोपायसाधारणीकृतं धर्ममुदाहरति- यथा- 'नयनेन्दिन्दिरानन्दमन्दिरं मिलदिन्दिरम्। इदमिन्दीवरं मन्ये सुन्दराङ्गि तवाननम्।' उपपादयति- अत्र प्रथमार्धगतः प्रथमो धर्मो रूपकेण विषयविषयिसाधारणीकृतः। द्वितीयश्च विलक्षणशोभयोरभेदाध्यवसायेन। सोदाहरणमुक्तप्रकारातिरिक्तमेकं निमित्तधर्मप्रकारं प्रकटयति- केवलशब्दात्मकोऽप्ययं सम्भवति। 'अङ्कितान्यक्षसङ्घातैः सरोगाणि सदैव हि। शङ्के पङ्केरुहाणीति शरीराणि शरीरिणाम्।।' शब्दात्मके निमित्तधर्मे यो विशेषस्तमाह- अयमुपात्त एव भवति। प्रसङ्गाच्छब्दात्मकेतरेषु धर्मेषु ततो वैलक्षण्यं दर्शयति- अर्थमयोऽनुपात्तश्चापि भवति। यथा 'द्वनेत्र इव वासवः' इत्यादौ जगदीश्वरत्वादिः। न चात्र द्विनेत्रत्वादिरूप उपात्त एव साधारणो धर्मः। साधारण्यार्थमेव तस्य विषयिण्यारोपादिति वाच्यम्। तस्यारोपेण साधारणत्वे कृतेऽपि असुन्दरत्वेनोत्प्रेक्षोत्थापकत्वविरहात्। साधारणीकरणं तु प्रतिबन्धकनिरासार्थमित्युक्तमेव।
Page 302
302 इलेषरूपेणोपायेन साधारणीकृतं धर्ममुदाहरति- 'दृष्टिः सम्भृतमङ्गला बुधमयी देव त्वदीया समा काव्यस्याश्रयभूतमास्यमरुणाधारोऽधरः सुन्दरः। क्रोधस्तेशनिभूरनल्पधिषण स्वान्तं तु सोमास्पदं राजान्नूनमनूनविक्रम भवान् सर्वग्रहालम्बनम् ।' उपपादयति- अत्रोत्प्रेक्ष्यमाणस्य सर्वग्रहालम्बनस्य धर्मेषु तत्तद्ग्रहाश्रिताङ्गकत्वेषु विशेषणीभूतैस्तत्तद्ग्रहैर्विषयस्य राज्ञो धर्मेषु कल्याणाश्रयत्वादिषु विशेषणानां कल्याणादीनां श्लेषेण तादात्म्यसम्पादनद्वारा तादृशधर्माणां साधरणतासम्पत्तिः। श्लेषेण साधारणीकृतस्यैव धर्मस्योदाहरणान्तरं दर्शयितुमाह- यथा वा- उदाहरणमुपन्यस्यति- 'विभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः। कपोलपालिं तव तन्वि मन्ये नरेन्द्रकन्ये दिशमुत्तराख्याम् ।' उपपादयति- इहापि विषयविषयिधर्मविशेषणयोरलकालकयोः श्रवणवैश्रवणयोश्च श्लेषेणाभेदे धर्मस्य साधारण्यम्। पुनः श्लेषेण साधारणीकृतस्यैव धर्मस्योदाहरणान्तरं प्रदर्शयितुमाह- यथा वा- उदाहरणमुपन्यस्यति- 'नासत्ययोगो वचनेषु कीर्तौ तथार्जुनः कर्मणि चापि धर्मः। चित्ते जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पाण्डुपुत्नाः।' उपपादयति- अत्र पाण्डुपुन्नेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां राजाश्रितत्वरूपो विषयिधर्मः श्लेषेण विषयाणां तदाश्रितानां चासत्याभावशुक्लगुणपुण्यपरमेश्वराणामभेदसम्पादनद्वारा विषयसाधारणीकृतः। अपहुतिरूपेणोपायेन साधारणीकृतं धर्ममुदाहरति-
Page 303
303 स्तनान्तर्गतमाणिक्यवपुर्बहिरुपागतम्। मनोऽनुरागि ते तन्वि मन्ये वल्लभमीक्षते॥' उपपादयति- अत्र वल्लभेक्षणस्य मनस्युत्प्रेक्षायां तन्निमित्तमन्तःप्रदेशाद्वहिरागमनमपेक्ष्यम्। तच्च बहिःप्रदेशसम्बन्धरूपं माणिक्यमात्रवृत्ति मनसो न सम्भवतीति माणिक्यापहुत्या मनोगतं क्रियते। बिम्बप्रतिबिम्बभावात्मकेनोपायेन साधारणीकृतं धर्ममुदाहर्तुं प्रागुक्तं पद्यं स्मारयति- बिम्बप्रतिबिम्बभावस्तु 'कलिन्दजानीरभरेऽर्धमग्ना' इत्यत्नैव निरूपितः। उपचारात्मकेनोपायेन साधारणीकृतं धर्ममुदाहरति- 'माधुर्यपरमसीमा सारस्वतजलधिमथनसम्भूता। पिबतामनल्पसुखदा वसुधायां ननु सुधा कविता॥' उपपादयति- अत्र कवितायां माधुर्यपानयोर्मुख्ययोरसम्भवादास्वादश्रवणयोरमुख्ययोरुपचारेण मुखाभ्यां साधारणीकरणम्। लक्षणया शक्याभेदेन लक्ष्यबोधनात्। अभेदाध्यवसायरूपेणातिशयेन साधारणीकृतस्य धर्मस्योदाहरणभूतं पूर्वोल्लिखितं पद्यं स्मारयित्वोपपादयति- अभेदाध्यवसायमात्रं यथा प्रागुदाहृतायां हेतूत्प्रेक्षायाम्। 'व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीताम्' इत्यत्र शाखानीचत्वकन्धरानमनयोरभेदाध्यवसाय एव त्रपाहेतूत्प्रेक्षानिमित्ततयोपात्तस्य कन्धरानमनस्य नीचशाखनतकन्धरोभयसाधारण्ये बीजम्। पर्यवसितार्थामाह- एवं सर्वत्र हेतुफलयोरुत्प्रेक्षणे यस्य हेतुः फलं वोत्प्रेक्ष्यते सोऽनेन प्रकारेण साधारणीकृतो निमित्तमित्यसकृदावेदितम्। निमित्तधर्मे विशेषमाह- एवं क्वचिदुपात्तो धर्मो विषयविषयिसाधारण्याभावादसुन्दरत्वाद्वा स्वयमुत्प्रेक्षणं साक्षादुत्थापयितुमसमर्थोऽपि तदुत्थापनक्षमधर्मान्तरोत्थापनेनानुकूल्यविधानादुपयुज्यते। तत्राद्योदाहरणं सोपपादनमाह-
Page 304
304 यथा 'दौरञ्जनकालीभिः-'इति प्रागुदाहृते पद्ये दिवो जलदालीसमावृतत्वरूपो धर्म उपात्तो जगतो निर्लोचनवर्गसर्गत्वोत्प्रेक्षायां वैयधिकरण्यादप्रयोजकोऽपि स्वप्रयोज्यनिबिडान्धकारप्रयुक्तचाक्षुषज्ञानशून्यत्वस्य तथाविधोत्प्रेक्षानिमित्तस्योत्थापनेन। विषयगतं विशेषं स्फोरयति- विषयोऽप्युपात्तो निरूपित एव। क्वचिदयमपहुतोऽपि भवति। अपहुतं विषयमुदाहर्तुमाह- यथा- उदाहरणमुपन्यस्यति- 'जगदन्तरममृतमयैरंशुभिरापूरयन्नयं नितराम्। उदयति वदनव्याजात् किमु राजा हरिणशावनयनायाः॥' **** समाप्तश्चाऽयं द्वितीयाननस्योत्प्रेक्षान्तो भागः। ++