Books / Rasa Gangadhara Jagannatha Sarala Mathurnath Shastri Tika Nagesh Bhatta Mathurnath Sastri Nirnaya Sagar Press KM 12 1947

1. Rasa Gangadhara Jagannatha Sarala Mathurnath Shastri Tika Nagesh Bhatta Mathurnath Sastri Nirnaya Sagar Press KM 12 1947

Page 2

KĀVYAMĀLĀ 12.

THE

RASAGANGADHARA

BY

JAGANNĀTH PAŅDIT

With the Commentary of Nages'a Bhatt

AND

SARALA COMMENTARY

OF

MATHURANĀTH S'ĀSTRĪ

PROFESSOR, MAHARAJA SANSKRIT COLLEGE, JAIPUR

Sixth Edition (Revised)

PUBLISHED BY

SATYABHĀMĀBĀI PĀNDURAÑG,

FOR THE 'NIRNAYA SAGAR' PRESS,

BOMBAY.

Page 3

[ All rights reserved by the Publisher. ] Publisher :- Satyabhamabai Pandurang, Nirnaya Sagar Press, Printer :- Ramchandra Yesu Shedge, 26-28, Kolbhat Street, Bombay

Page 4

काव्यमाला १२.

महाकविश्रीजगन्नाथपण्डितराजविरचितो नागेशभट्टकृतटीकया च सहितो रसगङ्गाधरः ।

महाराजसंस्कृतकॉलेज-साहित्यमहाध्यापक-साहित्याचार्य-

आमूलचूल सम्यक्सस्कृत्य सरलाख्यया टीकया समलंकृत्य च संशोधितः ।

षष्ठं संस्करणम्।

तच्

सुम्बय्याम् सत्यभामाबाई पाण्डुरङ्ग इत्येताभि:, निर्णयसागरमुद्रणयत्रालयकृते तत्रैव मुद्रापयित्वा प्रकाशितम्।

१९४७

Page 6

श्री:। प्रारम्भिकं वक्तव्यम्।

गङ्गाधरो दिविषत्सि्वव रसगङ्गाघरोऽयमलङ्कारशास्त्रग्रन्थेष्वद्वितीयः कमपि महिमानमाविष्करोतीति मन्ये नात्र कश्चिदृपि विवेकशीलो विद्वान् विवदेत। न्यायमीमांसादिशास्त्रसरणिमनुसरन्ती येयं विवेचनापद्धतिः श्रीमदभिनवगुप्तपादा- चायेरलङ्कारशास्त्रेडक्कुरिता, वाग्देवतापरावतारैः श्रीमम्मटभट्टैः कन्दलिता, श्रीमद- प्पय्यदीक्षितप्रभृतिभि: पुष्पिता, सेयं पण्डितराजेतियथार्थबिरुदेन श्रीजगन्नाथ- त्रिशूलिना फलवत्तामापादितेति नास्तन्न संशयावसरः। 'साहित्ये सुकुमारवस्तुनि दृढन्यायग्रहग्रन्थिले- तर्के वा मयि संविधातरि समं लीलायते भारती' इति तन्नभवतः कवितार्किकशिरोमणेः श्रीहर्षस्य गर्वोक्ति: पण्डितराजेनाप्य- क्षरशः कृतार्थतां नीता। अयं तु विशेष :- श्रीहर्षस्य काव्यानामिव विवेचनावच- सामपि ग्रन्थग्रन्थिभेदो विदुषामपि दुष्करप्रायः, पण्डितराजस्य तूभयत्रापि प्रसन्न- गम्भीरा सरस्वती सुरस्रोतस्विनीमनुक्षणमनुस्मारयति। नाप्ययं महोदारो मम्मट- भट्ट इव संक्षिप्तवाक, न वा विश्वनाथ इव विवेचनादरिद्राणां दर्पणदर्शकः, नच दीक्षितस्येवैकदेशितास्य वचःसु। सर्वशास्त्रसारः साहित्यमिति स्फुटमुपदरशयतानेन रसनिरूपणे दार्शनिका: सिद्धान्ता यथा औौढ्या विवेचिता:, तथवालक्गारनिरूपणे शब्दखण्डविचारा अपि कणेहृत्य प्रतिपादिताः । मम्मटस्याभिमतं सर्वथा निर्दोषं काव्यमपि च यद्युपलभ्यते, तर्हि पण्डितराजस्य कृतिप्वेवेत्यपि सम्यगनुभूतम्। मधुररसव्यअ्जकेष्वपि पद्येषु पाधुर्यप्रतिकूलतया सर्वेरालक्कारिकैरभिमतानां वर्णानां नितान्तमभावो यत्र भवेत्, तादृशालि पद्यानि संस्कृतभाषायां सन्ति न वेत्यस- न्मित्रगोध्यामेकदा विचार: प्रावर्तत। तदा-क्रियमाणेऽनवेषणे महाकवीनामपि सुवर्णमस्मिन्निकषे न किटकालिमाद्विशून्यमवातरत्, पण्डितराजस्य तु सन्ति तथा- विधानि पद्यानि येषां रेखान्नापि न मनागपि मलिनायते। अलङ्कारशास्त्रस्य मार्मिको विद्वान् यदि कविर्भवेत्, कीदशः स भवेदिति पण्डितराजनिदर्शने- नैवानुमातुं शक्यते। अस्मद्गुरुचरणैर्भारतेतिवृत्तिसारे प्रतिपादितम्-यत् पण्डित- १ यत्त कैश्चित् त्रिशूली जगन्नाथोऽपर एव, पण्डितराजस्तु न त्रिशूलीति समूहितम्, न तदुच्चितम्। आस्तां कश्चिदपरोऽपि त्रिशूली जगन्नाथः, परं पण्डितराजोऽपि त्रिशूलीत्युपनाम दधारेति साहित्याचार्यश्री पुरुषोत्तमचतुवेदमहाशयेन स्वीयहिन्दीरसगङ्गाधरभूमिकायां दृढं प्रमाण- मवलम्ब्य सुनिर्णीतम्। 1 रस० भू०

Page 7

रसगङ्गाघर: ।

राजादनन्तरं न तथाविध: संस्कृतकविः प्रादुरभूत्। अस्माभिस्तु इदमपि वक्तु साह- समवलम्ब्यते यदेवंविधोडलक्कारशास्त्रविवेचको न ततः प्राङ्, न चानन्तरसुदपद्यत जगतीतले। यद्ययं अ्रन्थो नाभविष्यत्, नूनं साहित्यपदार्थानां मार्मिकः परिचयो नैव पदमलप्स्यतेति नात्र कश्चिदत्युक्तिलेशः । यथानेन रसझरी प्रवाहिता, तथवालंकारा अपि निर्मलीकृत्य कामपि द्युतिमारो- पिताः । रसगङ्गाधरमनघीत्य 'कसतावद् रसपदार्थः' "कथ तत्र गुणसमावेशः" 'के वा इमे स्थायिव्यभिचारिभावाः' इति यथा स्पष्ट प्रतिपत्तिर्न जायते, पारिभाषिका इचेमे शब्दा: प्रतीयन्ते, परोक्ष इव चैषामर्थो निध्यायते तथवालक्कारपदार्थोडपि न स्पर्षट प्रतिभासते। विवेचकप्रवरैरप्यलंकारसामान्यविशेषलक्षणेषु व्यङ्रयभिन्नर्त्वं निवेश्य कर्थ भ्रमचक्रमारोपिता जिज्ञासव इति रसगङ्गाघरमघीत्यैव करतलामल- कायते। ? आस्ताम्-ग्रन्थाध्ययनेन सर्वमिदं विज्ञायत एव विद्वद्िः। तत एव चालंकार- शास्त्रस्योच्चशिक्षायां सर्वत्रव ग्रन्थरत्वस्यास्य परमः समादरः। परमेवंविघस्य ग्रन्थस्य मुद्रणाशुद्धिबाहुल्यं चन्द्रस्य कलङ्क इव, पारावारस्य क्षारतेव, तरुणीपुष्पस्य कण्ट- कित्वमिव चात्यर्थसुद्देजकमासीत् सहदयानाम्। 'भारतीया विद्वांसः प्राथमिकमु- द्वितपत्र(ग्रफ) शोधने न पटवो भवन्ति' इति युरोपीयैविद्वद्भिरारोप्यमाणः कलक्कः क्रचित् कचिदत्यर्थ स्फुटीभवति, यत्र त्वरापरवशानां यत्रालयाध्यक्षाणामनुवर्तन- मसहमाना महान्तो विद्वास: शोधकत्वेन स्वीयं नाम तु निर्दिशन्ति, परं कार्य कस्यचिदनतिप्रौढस्य शिष्यस्य भृत्या स्वीकृतस्य वा शिरसि निक्षिपन्ति। शुद्धसंस्करणप्रकाशने निर्णयसागरः प्राप्तयशस्कः, परं रसगङ्गाधरस्य तु तस्मिन् यत्ालये मुद्रितस्यापि विचित्नैवाभवद्दशा। काश्यामपि मर्मज्ञानां महापण्डितानां संशोधकत्वसुद्घोष्य मुद्धितोऽयम्, परं तत्राप्यशुद्धिपरिमार्जनस्य तु का कथा, अशुद्दिबाहुल्यमेव दुर्भाग्यादनेन लब्घम्। क्वचित् सर्वथा विपरीतार्थबोधकाः पाठा वैचित्रीमुद्भावयन्ति स-क्वचित्पाठनिर्धारणमेवातिदुःशकमासीत्। विरामचिद्व- वाक्य भेदादिमिश्चापरैव विशृङ्गला समु्भाविता। दिङ्मात्रमुदाहियते- निर्णयसागरस्य पूर्वसंस्करणे- पृष्ट १४-'एकत्रानैकान्तिकत्वमस्येव बहुष्वनैकान्तिकताया अपि ज्ञाताया अनुमितिप्र- तिकूलत्वाद् व्यक्तिप्रतिकूलत्वाच्च'। उचितं तु 'एकत्रानकान्तिकत्वस्येव ... अनुमितिप्रतिकूलत्वाद् व्यत्त्यप्रतिकूलत्वाच्च' इति। दृश्यतां मनाग् विद्वद्धिः-'दिवसस्य रात्रिरेव' जाता न वा ? पृष्ठ १४०-'लक्ष्यतया च(प्रस्तुता अतिपादकत्वस्य!प्रतिपत्तिहेतुत्वरूपस्य' अत्र 'लक्ष्य- "तया च (परस्तुतप्रतिपादकत्वस्य) इत्याद्युचितम्।

Page 8

प्रम्भिकं वक्तव्यम्।

रृष्ठ १४६-'मुख्यार्थान्वयानुपपत्तेः । तब्रत्वे तु 'काकेभ्यो दधि रक्ष्यताम्' इत्यादि। उचितं तु 'मुख्यार्थान्व्रयानुपपत्तेस्तन्रत्वे तु 'काकेभ्यो' इत्यादि। तत्रैवाये 'तत्र निरूढलक्षणाया अनुकूलप्रतिकूलानुलोमप्रतिलोमादय उदाहर- णम्। नीलाद्यश्च धर्मस्य । "अयमनुकूलः" इत्यादो' अत्र धर्मस्ेति पदं कुत्रा- न्वेतीति जगदीश्वर एव विजानीयात्। वस्तुतस्तु "तन्न निरूढलक्षणाया अनुकूल .उदाहरणं नीलादुयश्च । 'धर्मस्ायमनुकूलः' इत्यादौ"- एवमुचितं स्यादू। पृष्ठ १५९-इत्यादौ धर्मान्तरस्यापि प्रतिभानादसुन्दरत्वाच्च'। अत्र-धर्मान्तरस्या प्रतिभानादसुन्दरत्वाच्च'। इत्युचितम्। पृष्ठ २०१-'तृतीयसदृशव्यवच्छेदापत्तेः' अत्र 'तृतीयसदृशव्यवच्छेदाप्रतिपनेः' इत्यु- चितम्। १०६ पृष्ठे 'सोडयं निगदितः सर्वोऽपि रत्यादिलक्षणो व्यङ्ञयप्रपञ्नः' 1 अत्र न वाक्यसमासिरेव, किन्तु प्रकरणसमापतिरपि कृता। परं विचार्यमा- णेडन्र वाक्यसमालिरपि नास्ति, 'स्फुटे प्रकरणे झगिति प्रतीतेषु' इत्यादिना सहास्यैकवाक्यताया एव प्रतिपद्यमानत्वात्। एवम् १२६ पृ. आरम्भे-'तदा प्रायशो लिङ्भेद एव। एतेन सर्वथैच ततः स्वतत्र इति बोध्यम्'। अस्य पाठस्य कोऽप्यर्थ प्रतिपत्तुमसमर्थः स्यात्। उचितं तु 'तदा प्रायशो लिङ्गभेदा एव एते। न तु सर्वथैव ततः स्वतञ्ना इति बोध्यम् अवगते शुद्धपाठे नात्र किमपि काठिन्यम्। पृष्ठ १८८-'धात्वर्थनिवृत्त्यादेर्व्यभिचारः' इति सर्वथा दुरवगमः पाठः, 'धात्वर्थ- निष्ठेत्यादेर्व्यभिचार:' इति मुख्ये पाठे तु सर्वथा सुलभो ग्रन्थः। पृष्ठ ३१३-'तेनैवानुपूर्वी । अस्य च निगरणे'। उचितं तु 'तेनैवानुपूर्व्यस् निगरणे'॥ मन्ये संशोधकेन विच्छिद्य सरलत्वमापाद्यता वञ्चिता: सरलबुद्धयः । किय- दवोदाहराम :- संख्यातिगा अशुद्धयो विदुषोऽपि भ्रभिचक्रमारोपयन्ति। काशीमुद्रितेऽपि- पृष्ठ ४९१-'न विषय्यभिन्नत्वेन' इत्यल स्थाने 'विषयिभिन्नतवेन' इति। 'विषय्य- भेद:' इन्यस्य स्थाने 'विषयभेदो' भासते। पृष्ठ ४९२-इदन्त्वादेः' इत्यस्य स्थाने 'इन्दुत्वादेः'॥[अतिशयोकिस्थलमियद्शुद्धं यच्छोधनमकृत्वा ग्रन्थसंगतिरसंभवप्रायैव] 'विषयतावच्छेदकाऽनवगाहिनि' इत्यस्य स्थाने-'विषयतावच्छेदकावगाहिनि- इति (पृष्ठ ४२४)। सतिसप्षमी नानुरुपा' इत्ाने'इिीाुु' नगेशीक यामपि 'सत्सरतीत्र्थः' इत्यस्य स्थाने 'इति सप्तमीत्यर्थः' इति (पृष्ठ ५३१)

Page 9

रसगङ्गाघर:।

'अथ लुब्धकघीवर' इत्यस्य स्थाने आद्ये लुब्धकधीवर० इति। अन्यत्र बहुत्र आवश्यकतायामपि पदपार्थक्यं न कृतम्। किंतु-'ज्ञानादपिशब्दसाचिव्यात्' इति एकपद्तायामपि 'ज्ञानादपि शब्दसाचिव्यात्' इति पृथक पृथक पदद्वयं स्थापितं येन पण्डितस्यापि अ्रन्थभ्रंशो भवेत्। इत्यादि। उदाहरणमात्रमेतद्, ग्रन्थपाठा- देवाशुद्धिबाहुल्यं यथावदवभासेत विदुषाम्। सत्यप्यशुद्धिबाहुल्ये यदि ग्रन्थाक्षरसमुद्धासिनी सुस्पष्टा काचन टीका भवेत्, तर्हि न दुष्करमशुद्धिशोधनम्। इह तु महानयं खेदः, यदेवंविधस्य गम्भीरतम- स्यास्य ग्रन्थस्य टीकापि नैकाप्युपलभ्यते सर्वाङ्गपूर्णा। काव्यप्रकाशव्याख्याने यदा व्याख्यातृणां संफ्लव (बाढ) एव लक्ष्यते-तदा रसगङ्गाघरव्याख्याने नैकस्यापि लेखनी फुरफुरायितेति महदाश्चर्यम्। नागेशभट्टस्य तूपलभ्यमानं यत्न क्वचन व्याख्यानं टिप्पणपदेनाभिलप्यम्-टीका- पदेन वेति संशयास्पदमेव । तन्रापि स महानुभावःस्वप्रकृतिमनुसरन् ग्रन्थ- प्रतिक्षेपे यथा बद्धपरिकरस्तथा न ग्रन्थलापने। नास्ति च साहित्यविषयाणां मार्मिकता नागेशभाषितार्थविचक्षणस्य नागेशस्येति-ग्रन्थसम्पादकेन भट्टमहाशये- नैतत् स्पष्टीकृतम्। तदित्थं ग्रन्थरतस्यास्य प्रभा मलिनवस्त्रनिवद्धस्य रत्स्येव नाखिलजननयनानन्दकरी समभूत्। पण्डितराजस्य जीवनकाले तत्प्रतिभाप्रसारे जयपुरराष्ट्रमेव हेतुतामासादितवदि- त्यस्ति किंवदन्ती। तथेवेदानीमप्यशुद्यापत्पतितस्य पण्डितराजयरासः समुद्धारे जयपुरेणैव पराक्रान्तम्। प्रथमं-साहित्या चार्यश्रीपुरुषोत्तमशास्त्रिणा (इदानीमजय- मेरुस्थ 'मेयो कॉलेज' धर्मशिक्षकेण) भाषानुवारद प्रकाशय ग्रन्थग्रन्थिभेदनस्याध्वा विशदीकृतः । परं तत्र पुस्तके मूलपाठाप्रदानात् प्रतिपद्मनुवादाभावाच्च सर्वविधा धिकारिणां मूलपाठशोधनं न सौकर्यमवागाहत। तत एव तामेतामनुपपततिं सर्वथा परिहर्तु जयपुरमहाराजसंस्कृतकॉलेजस्य साहित्यशास्त्रप्रधानाध्यापकः साहित्या- -१ 'न सन्तीदानीं क्षत्रियाः, परशुरामेण एकविंशतिवारं निःशेषितत्वात्', 'नास्ति संस्कृत- भारती सर्वादिभूता, अपि तु अरबीभाषातः सा समुत्पन्ना इति दिल्ीन्द्रस्य (शाहजहांपातशा- हस्य) परिषदि प्रश्नद्दयं प्राचलत्। तत्समाधित्सुरामेरिपतिः (इदानीं यद्राज्यं जयपुरराज्य- सुच्यते) प्रथमः श्रीजयसिंहः (मिरजाराजेत्युपपदः) काशयां विद्वांसमन्विष्यन् जगन्नाथमास- साद। तमेनं प्रतिभाशालिनमभिज्ञायानीतवात्। तस्मिन्नेवावसरे जगननाथेनागरानगरेडप्यरवी- भाषाशिक्षार्थ कियन्तंन्वित्कालमुषितिम्। आमेरप्रान्तेऽपि च महाराजन सह कियन्तंचित्कालं स्थितः । तदनु श्रीजयसिंहमहाराज एव जगन्नाथपण्डितं दिल्लीन्द्रस्य सभायां नीतवान्। तत्रा- नेन पूर्वोंक्त वादद्यं सम्यक् प्रतिक्षिप्म्। निराकृताश्च यवनपण्डिताः । तत एव पातशाहस्य कृपाभाजनतां पण्डितराजपदं चासाद्यायं दिल्लीनगरे स्थित इति प्राचीनपण्डितभ्यः श्रयते। श्री पुरुप्रोत्तमसाहित्या चार्यमहाशयेन हिन्दीर सगङ्गाधर भूमिकाया मियं प्रसिद्धिविस्तरेण निरूपिता ।

Page 10

प्रारम्भिकं वक्तव्यम्।

ार्यश्रीमथुरानाथभट्टमहाशयः ससव्नाहं प्रवृ्ः। महाभागेनानेन सुबहु परिश्रम्थ पाठशोधनं तथा विहितम्, यदवलोक्य सहदयाः प्रसीदेयुरिति ढढो मे विश्वासः । कियतकष्ट महत्यस्मिन्कर्मण्यनेन सोढमित्यंशतोऽहमस्मि साक्षी। सहृदयाश्चानुमाने- नैवावगच्छेयुः । एवंविधेषु जटिलेषु विषयेषु निरवलम्बं प्रवर्तमानस्य स्वतत्रलेखा- येक्षयापि ग्रन्थकृदभिमताक्षरोहः कठिनो भवति-इति नैतत्परोक्षमेतस्मिन्नङ्गने कदाचिदवतीर्णानाम्। तन्नानेन महाशयेन सर्वथा साफल्यमासादितमिति ग्रन्थं पर्यालोच्य प्राचीनसंस्करणेन तुलनां च कृत्वा विद्वांस एव साक्षिण: स्युः । नैताव- देवान्न भट्टमहोदयेन विहितम्, अपि तु 'सरला' टीकाप्यत्र निबद्धा। सेयं सरला जटिलमपि ग्रन्थं विद्यार्थिनामवबोधाय सरलीकर्तु चेष्टते। लेखे मा भूद्विस्तर इति पुस्तकोद्घाटने स्वत एवोपस्थितं निदशनमिदसुपस्थावयामि-पृष्ठ २५२ "अरविन्दव त्सौन्दर्यमस्येत्यन्नार विन्दशब्दस्यार विन्दसौनदर्यलाक्षणिकतयाSर- चिन्द सौन्दर्यनिरुपितलादृयाधिकरणमेतत्संबन्धिसौन्दर्यमिति सुखारविन्दसौन्द- यंथो: सादृश्यबोधे शाब्दे, तयोरमेदाध्यवसायादभिन्नघर्ममूला पश्चान्मुखारविन्द- योरपि सादश्यधीः" [इति मूलग्रन्थः ]। टीका-'अर्थात् अरविन्दपदस्य अरवि- न्दसौनदयार्थे लक्षणा, ततश्च अरविन्दपदस्य अरविन्दसौन्दर्यमित्यर्थः ।सौन्दर्य च सादृश्यस्य निरूपकम् (नयोजकम्) । तथा च अरविन्दसौन्दर्यनिरूपितं (प्रयो- ज्यम्) यत्सादृश्यं तद्धिकरणम् (तदाधारः, आश्रयः) अस्य सान्दर्यम् अर्थात् एतत्संबन्धि (मुखसंबन्धि) सौन्दर्यमित्याशयः। अस्मिन् शाब्दबोधे सौन्दर्यरूप- साधारणधर्मस्य 'अस्य' इत्युपमेये, 'अरविन्दे' इत्युपमाने च संबन्धः सुस्पष्ट प्रतीयते।' क्षोदक्षेमेपि प्रवर्तते सरला। अन्न हि-"तन्न तस्येवेति वतेरिवार्थे विहितत्वेन सादडयार्थकस्य तत्परयोजके लक्षणयाSरविन्दसाद्डयप्रयोजकमेतत्संबन्धि सौन्दर्य- मिति बोधे उपपने अरविन्दपदस्य अरविन्दसौन्दर्यलक्षणा किंफला किंग्रमाणा चेति चिन्त्यमिदम्" इति नागेशो मूलं खण्डयति। सरलाऽन्र साधु समाधते -. "अरविन्दसादृशयप्रयोजकम् एतत्संबन्धि सौन्दर्यमिति नागेशेनोपपादिते शाब्द- बोधे तु उपमेयमात्रे सौन्दर्यस्यान्व्यः प्रतीयते। अरविन्दवत्सौन्दर्यमस्ेत्युक्तौ स्वार- सिकश्च सौन्दर्यस्योभयत्र संबन्धः । एवं सत्यपि 'अरविनदसौन्दर्यलक्षणा किंफला' इत्यादिना सुधैव खण्डयन् नागेशमहोदयस्तु स्थूलहश्वैव।" इति। तयोरभेदाध्यवसायादभिन्नधर्ममूलेत्यादिग्रन्थं विशदीकरोति-"तयोः उभयसं- बन्धिसौन्दर्ययोः सादश्यमूलकस्य अभेदस्य निश्चयात् अभिन्नधर्म(सौन्दर्य)मूला, मुखस्य अरत्िन्दस्य चापि सादृश्यबुद्धि: सिध्यति।" इति। यद्यपि यादृशी विस्तृता टीका सर्वविधविवेचनापूर्णस्य ग्रन्थस्यास्यापेक्ष्यते, न तथाविधेयम्, संक्षिप्तत्वात्। अथापि ग्रन्थग्रन्थिभेदनेऽवश्यं विदुषां साहाय्यमा-

Page 11

UY रसगङ्गाघर:।

चरिष्यतीति मे विश्वासः। तदेवंविधविद्वजनोपकारकविद्वदु चितकार्यसंपादने लब्घ- साफल्यं पण्डितप्रकाण्डं भट्टमहाशयमहं धन्यवादरभिनन्दामि। सफलयन्तु चास्य परिश्रमं दष्टिपातेन विद्वांस इत्याशासे।

३४१४।३९. गिरिधरशर्मा चतुर्वेदी.

भारतसुप्रसिद्धः सनातनधर्मनेता वागग्मितावाचस्पतिः जयपुर 'महाराजसंस्कृतकालेजस्य' अध्यक्ष: ]

Page 12

श्री:

सुरैः सदा सूरिवरश्च सेविता सुसनिधत्तां सरसा सरखती॥

उपोद्धातः

साहित्ये उत्तरोत्तरविकास: संगीतमथ साहित्यं सरस्त्या: स्तनद्रयस्। एकमापातमधुरमन्यदालोचनाऽमृतम्। साहित्यशास्त्रे यावदेव गभीरतरमालोचनं क्रियते तावदेव तस्मिन्ुत्तरोत्तरं सर्म- स्पर्शिता, तत्फलभूते काव्ये चाधिकाधिकमुपादेयता संपद्यते। यावव्वापासाहित्या नामुदमस्न्नोतस्वत्याः संस्कृतसरस्वत्याः साहित्यमिदमनादिकालादुद्वतम्, उत्तरो- त्तरमन्तस्तलस्पर्शिनां साहित्यकाराणां गभीरतरैविचारैश्र क्रमशो मार्मिकतायाश्चर मसीमानमधिगतमिति सवैंरेवालोचकैरनुमोदितम्। 'हचिरार्थानां शव्दानासुचितः संनिवेश: काव्यमिदम्' कैः कैः साधनैलोकानां हृदयावर्जनाय प्रचुर प्रभवतीति प्राचीनकालादारभ्याद्यावधि सर्व एव साहित्यकाराः ीयनिबन्धेषु यथामति मर्मतो व्यमशन्। विमशोयं स्थूलतया त्रिस्वरूपोऽवतिष्ठते- १- एकः स काल आसीदन्र काव्यशरीरभूतयो: शब्दार्थयो: प्रस्फुटसुत्सफुरन्न- लंकाराख्योडतिशय एव काव्ये चमत्कारकारणं पर्यगण्यत। यतो हि तिच्छित्तिविशे षशालिनी पदरचनैव तत्सामयिकैरालंकारिकैः काव्यस्यात्मंभूता निरदिश्यत ['रीतिरात्मा काव्यस्य'] भामहोन्टरटभट्टादीनां वाच्यादृग्रिमस्व व्यङ्ञयार्थस्य प्रतिभासोऽवश्यमभूत्परं सोऽप्यर्थो वाच्यार्थत्योपस्कारक एव तैः प्रत्यपाद्यतेति अलंकारसंकरे एवासौ संनिविशते। रुद्रटाद्यः प्राञ्जो रसभावादिकमभिचिन्व- न्तोऽपि वाच्यार्थस्यैवोपस्कारकमिमं निरदिशन्। अत एव हि ते रसवत्प्रेयआदीन- लंकारानेव तात्पर्यंगणयन्। २-द्वितीयः स समयोऽभूद्यत्र अभिधालक्षणादिभ्यः परां व्यज्जनावृत्तिं

विशिष्टेन व्यापारेण गम्यो व्यड्योऽर्थः परेण प्रतिवादसंघर्षेण सुस्फुटं साधितो- डभूत्। विश्रान्तिधामतया सोडयमेवार्थः प्रधानीभवन् ध्वनिकाव्यसुत्तममापादयति [अस्मिन्मध्यकाले श्रीमान् मम्मटभट्टो वस्तु-अलंकार-रसेति त्रिविधमपि ध्वनिं काव्यस्यात्मत्वेन साधयामास ]।

Page 13

५सगङ्गाधरः।

३-एतदनन्तरं स समयः समुपतिष्ठते यत्र हि त्रिविधेष्वपि व्यड््येघु रस एव काव्यस्यात्मतया संमन्यते। अर्थात् उत्तरोत्तरमन्तसतलं गवेषयत् साहित्यकाराणां हृदयं चरमविश्रान्तिधाम रसमासाद्यैव सुप्रसीदति। प्रघट्टकेनानेन स्फुटमवबुध्येरम्मार्मिका यद्विश्वसाहित्यजन्मदातृणां संस्कृतसाहि- त्यकाराणां मर्मगवेषिणी दृष्टिरत्तरोत्तरं तत्वालोचनप्रवणैवाडभूत्, यद्धि सहित्यस्य चरलं ध्येयम्। एतैर्हि महाभागैः सूच्यग्रेपि शैलमवस्थापयन्ती मर्मणोऽपि सर्मस्प- ्शिनी तादशी सूक्ष्मतमा समालोचनपद्धतिरुद्धाविता यस्या: प्रभावेण कवीनां प्रतिभा लोकतो बहुच्चैरुदगच्छत्। सोयमुत्कर्षः शनैः शनैरेतावद्ववृधे येन साधारणलोकानां कवीनां च विचारेषु भूयान् विप्रकर्षः समपद्यत। कवीनामियं साधारणी दृष्टिरभू- दया हि ते भूतलगतैर्हरितैर्मणिकिरणैर्दिव्यलोकस्थामपि देवगवीं हरितघासग्रासिनीं दद्शुः। मध्यन्दिने मध्यगगनारोहेण शिथिली भवतो रवितुरगान् राजसौधशिखर- गता मध्याह्नमरुता प्रस्फुरन्ती सेयं भवनपताकैव कशारूपेणोत्तेजयतीति ते विस्परष्ट विलोकयामासुः। तेषां हृदयमेतावन्मर्मस्पर्श्यभवत् यत् मधुररसलीनतासमये मधुरेतराण्यक्षराणि तेषां कर्णयो: कटुकतामसृजन् साहि त्यशास्त्राभिधाना सेयमौचित्योपनिषत् [मार्मिकालोचनपद्धतिः ] पण्डित राजं जगननाथमासाद्य विश्राभ्यतीव। नेतः परं समग्रस्यापि काव्यसाम्राज्यस्यानु- शासको विश्वजनीनः साहितनिबन्धो जनिं लेभे। यद्यपि अमरभारत्या: संस्कृतसर स्वत्या: साहित्य [ अलंकारशास्त्र ]विभागो नाद्यावध्यपि नवीनतया नितान्तं प्रही- णस्तथापि रसगङ्गाधरस्य समक्षसुत्कषें साम्यसंघर्षेऽपि वा साफल्यमासादयेदीदशः सर्वमान्य: साहित्यशास्त्रनिबन्धो न पुनराविरभूदिति मनाङ मान्यमेव भवेत्सवैः सर्वथापि। रसगड्गाघर: मुखबन्धस्य मुखभाग एवोदते पद्ये [ 'संगीतमथ साहित्यम्' अत्र ] साहित्यशा- स्त्नस्द यद् आलोचनाप्राणत्वमुद्धुष्यते, रसगङ्गाघराख्येस्मिन्निबन्धनायके तदेवत्प्रति- पर्दं प्रस्फुरति। रसगङ्गाधरस्य यावान् भाग उपलब्धस्तस्मिन् साहित्यशास्तरस्य ये ये विषयाः प्रतिपादितास्ते ते पूर्वनिबन्धानामपेक्षया अतीव विशदाः, अव्यात्यतिव्या- सिरहितेन सुदृढेन प्रतिपादनप्रकारेण स्थिरीकृताः, पूर्वनिबन्धप्रतिपादितान्विषयान् पूर्वपक्ष विधयाऽवलम््य मर्मस्पर्शिना विचारसंरम्भेण परतः सिद्धान्तिताः, यावत्सं-

१-'वैदभी केलिशैले मरकतशिखरादुत्थितैरंशुदमैं- ब्रह्माण्डाघातभन्नस्यदजमदतया हीधृतावाङ्मुखत्वैः। कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गतानै- नैषवीयचरितम्।

Page 14

उपोद्धातः ।

भवं सर्वमप्यानुषङ्रिकं परिकरविषयमप्युपादाय साकल्येन समुपब्रृंहिताः, वादयुग कालिक्या नव्यन्यायानुगतया ग्रौढतावच्छेदकतावच्छिन्या भापया चोपपादिताः, यद्वशाल्ललितलुलिताकीर्णमिति कृत्वा साहित्यक्षेत्रेऽस्मिन् न यस्य कस्यचिद्ठुद्धिः क्षोभमुत्पादयितुं प्रभवेत्। सर्वतोऽतिशायी विशेषश्चायमेवाऽस्य ग्रन्थस्य यदस्मिन् सर्वेष्वपि विषयेषु अन्तस्तलस्पर्शी विमर्शः कृतः । पूर्वाचार्यनिबन्धेषु नाभूतसुवि- धाऽप्येतस्मै विषयाय, यतो हि ते प्रायः पद्यनिबद्धाः । अतितमा समर्थोपि पद्यनि- बन्धा नियतेष्वक्षरेषु सर्वमपि तत्तच्छास्त्रीयमतिशयं साकल्येन समावेशयितुं प्रभवे- दिति घोरतरं कठिनमेव कि पायः असंभवमिव। काव्यप्रकाशे याः कारिकाः सन्ति ताः स्वयं ग्रन्थकारस्य स्युः, भरतादेरन्यस्य वा, परं किं ताभिः सर्वोपि अतिपादयि- तुमिष्टो विषयो निर्भ्रमं बुद्धिगम्यो भवति! यधेवं तर्हि संक्षेपवाढिनां शिरोमणि: श्रीमान मम्मटभट्ट एव वृत्तो किमिति तं विषयं विशदीकर्तु चेष्ट्ते? किञ्च-साहित्यशास्त्रस्य केचिद्विषयाः प्राचीनतमसाहित्यकाराणं समये पूर्णपरि णत लभमाना लप्स्यमाना वा आसन्, यथा वामनादीनां समये ध्वनिप्रपञ्जः। एवंविधेषु विषयेषु चूडान्तविवार: कथ वा तेषु निबन्धेषु संभवेत्? बहवो विषया एवंविधा भवन्ति ये विकासवादस्य सिद्धान्तानुसारं कमिकविपरिवर्तनेन बहुविधा: परिस्थितीरतुभूय क्रमश एव परिनिष्टिता अवन्ति। यथा संस्कृतसाहिते काव्यानां वर्णगुम्फननियमस्तत्कालप्रचलितानां भाषाणां सहयोगेनैव निजशथिल्यं तत्याज [अ्यं विषयः परस्ताद्विस्तार्येत ]। साहित्ये यावन्त्येव काव्यानि जनिं लभन्ते साहित्यशासत्रे काव्यानां गुणदोषगवे- षणा तावदेव मर्माभिमुखी संपद्यते, नानाविधानां काव्योदाहरणानां प्रत्यक्षोप- लम्भात्। शब्दसाधुत्वानुशासके व्याकरणशास्त्रेपि सेयमेव परिस्थितिरतुसंघेया। अत एव हि सोयमनुगम एव तन्न निष्पन्रः-'उत्तरोत्तरं सुनीनां प्रामाण्यम्' इति। रसगङ्गाधरे सेयं सर्वविधापि सुविधा स्वतः संघटिता। भरतमारभ्य श्रीमदा- नन्दवर्धनाचार्याभिनवगुप्तपादादिभिर्यानि किल काव्यस्य जीवभूतानि तत्वानि गवेषितानि, वादिप्रतिवादिसंघर्षोत्तरं सिद्धान्ततया निश्चितानि च, तानि पण्डित- राजाजगन्नाथातपूर्वभाविनां सर्वेष्मेव साहित्यकाराणां निबन्धेषु पूर्णा परिनिष्ठा प्रपुः । अत एव तेषां स्थापनाय प्रयासो नाऽडवयकोऽभूत्पण्डितराजस्य। अपि तु सिद्धेपु तेषु उत्तरोत्तरं मर्मस्पर्शी परिष्कार एव तस्य कृतित्वख्यातयेऽवाशिष्यत। पण्डितराजात्पूर्वकाल एव संस्कृतवाङ्मये ताहशा: सर्वसमर्थाः कवयोऽभूवन् येषाँ काव्यानि सर्वस्मिन् भूमण्डले ख्यातिमवापुः। अत एव नानाविधानामादर्शानां पुरः स्फुरितत्वातकाव्यगुम्फेषु अनालक्षितपूर्वा सूक्ष्मेक्षिका पण्डितराजस्यासाधारणारया बुद्धौ ग्रास्फुरत्। एष हि मान्यतमं श्रीहर्षस्य नैषधीयचरितकाव्यमेव मर्मालोच- नाया: पात्रीकरोति। सूक्ष्मदर्शिनामपि दृष्टौ निर्दोष एवैकस्मिन पद्ये स हि

Page 15

१० रसगङ्गाघर: ।

वाक्यार्थस्य सामान्यदोपम् 'असंघुलता'ख्यमाह। पण्डितराजस्य गभीरतमे औचि- त्यविचारे एतत्पद्यनिर्मातरि व्युत्पत्तिशेथिल्यं भासते। श्रूयन्तां पण्डितराजाक्षराणि

समथैरेव कविभी रचितः कामपि कमनीयतामाधत्ते, नेतरः। तथा हि- 'उपासनामेत्य पितुः स्म रज्यते दिने दिने साडवसरेषु बन्दिनाम्। पठत्सु तेषु प्रतिभूपतीनलं विनिद्वरोमाऽजनि शण्वती नलम्॥ अस्मिन्नैषधीयपद्ये दयो: क्रिययोरुददेश्यविधेयभावेन गुणप्रधानभावमकुर्वता बन्दिनः षष्यन्ततया सप्म्यन्ततया च द्विः परामृशता कविना वाक्यार्थः कमेलकवदसंघुलता मोपित: (पृ. ४५१) न केवलमालोचनाकरण एव पण्डितः पण्डितराजः । स हि पद्येडस्मिन् संशो- धनं प्रदुर्श्य स्वस्यासाधारणम् 'गाढतरव्युत्पत्तिनिपुणी कृतान्तःकरणत्वं पदार्थरचना- परिवृत्तिसमर्थत्वं च' प्रत्यक्षतः अकटयति। कथयत्ययम्-'यदि स एव वाक्यार्थः प्रकारान्तरेण निर्मीयते- उपासनार्थ पितुरागतापि सा निविष्टचित्ता वचनेषु बन्दिनाम्। प्ररंसतां द्वारि महीपतीनलं विनिद्वरोमाजनि शृण्वती नलम् ।' इति, तदा ललनाङ्संनिवेश इव कीदशीं कमनीयतामावहेदिति सहक्यैराकल नीयम्।' द्योरपि कवयित्रोः पदरचनासु किमन्तर संघटितमिति स्पष्टबोधनाय ततस्था नीयां मम टीकामविकलसुद्रामि-'निविष्टचित्ता० इत्यादिपाठे-पितुरुपासनार्थ- मागदानां द्वारि राजसामान्यं प्रशंसताँ बन्दितां वचस्सु निविष्टचित्तां (दमयन्तीम्) उददिश्य विनिदरोमतवं वर्णितमिति हयोः क्रिययोरुदेश्यविधेयतया गुणप्रधानभावः संपन्न इति वाक्यार्थस्य न विसंछुलता। नैवधीयपाढे तु 'सा बन्दिनामयसरेखु रज्यते' 'नलं शृण्वती विनिद्ररोमाऽजनि' इति द्वयोवाक्ययोः स्वतत्रत्वान्न गौणमु- ख्यभाव इतयाशय: ।' विषयप्रतिपादनशैली रसगङ्गाधरस्य विषयप्रतिपादनशैली अतितमाँ सफीता। यत्किल वक्तव्यं तत्ताह- शैरन्यूनातिरिकैः प्रौटैर्मधुरैश्चाक्षरैरुपपाद्यति यत्र न स्वल्पोपि संदेहस्य अर्थान्तरक लपनस्य वाऽवकाशः । पद्यबद्धेषु प्रमेयलक्षणेषु यथा स्वप्रतिपाद्योपपादनाय विवश- तथा संकोचः कर्तव्यो भवति, अन्वयद्वारा अर्थान्तरकल्पनस्याप्यवकाशो यथा भुक्तद्वारो भवति, न तथाऽत्र ग्रन्थे। संक्षेपेच्छया वा, प्रमेयप्रतिपादनप्रकारस्य प्रौढताप्रकटनाय वा, दैवदत्तात् अस्पष्टभाषितायाः स्वभावाद्दा, ग्रामाणिकतया १ अत एव हि मया प्रोक्तमन्ते-'यत्र प्रसङ्गपतितान्यपि मान्यकाव्यान्यालोचनानिकषमाप्य भवन्त्यसन्ति। न ज्ञायते यदिह दोषनिरूपणे तु काः काः कवीन्द्रकृतयोऽद्युतयोऽभविष्यन् ॥'

Page 16

उपोद्धातः । ११

अणभ्येष्वपि प्राचीनग्रन्थेषु विपयप्रतिपादनशैल्यां हन्त हन्त खेदजनिकैवाऽस्पष्टता ्राप्यते। लेखनाय पत्राणां दौर्लभ्यादिव ते ग्रन्थलेखे इयत्संक्षेत्ुमिच्छन्ति यत् अतिसमर्थत्वेपि ते्षा वकतव्यविषयो मृशमस्पष्टः परिणमति। कारिकायां कति पयानामेवाक्षराणां संक्षेपरक्षणाय वृत्ता तरेव भूयस्यः पङ्कयो लेखितव्या भवन्ति. चराकैष्टीकाकारैस्तु कतिपयानि पत्राण्येव मषीभिरुपरज्यन्ते, परं तथापि स विषयः अत्यूषान्धकारे इष्टः पदार्थ इव न तथा स्पष्टो भवति। प्रत्युत टीकाकाराणां स्वस्वमत्यनुसारं ग्रन्थलापनभेदेन परस्परं विसवादस्य मतभेदस्य च तथा सृष्टिभं- वति येन मूलग्रन्थस्य वास्तवं तत्वं सपतीमध्यपतितो बहुपतीकः प्रेयानिव दैव- रक्षणीयतामेवापद्यते। इष्टान्ताय काव्यप्रकाशशैली आलोचनाक्षेत्रे पूज्यपुरुषाणामवतारणं यदि न महदतिलंघनपातकेपु परिगण्यते तर्हि श्रीमन्मम्सटभटस्य लेखो भूयस्संशेष्वस्योदाहरणं स्याद्। काव्यप्रकाशस्य राने स्थाने मूलकर्तुस्तथाऽक्षराणि सन्ति यानि वृत्तौ विशदीकरणेऽपि, टीकासु बहुधा व्यास्यानेपि, न वास्तवं स्वारस्यं निर्भ्रममङ्कयन्ति हृदयपटे। प्रत्युत नाना- विधानां मताना नानाविधा मार्गा इतस्ततो भिद्यमाना इव दृशयन्ते। पूर्वत एव जानन्तो विवेचकलहाभागा एकद्वाभ्यामेव निदर्शनाभ्यां स्पर्ष्ट अतिपद्येरन्। लक्षणालक्षणमाह-'मुख्यार्थबाधे तद्योपे रूढितोशय मयोजनात्। अन्योऽर्थो लक्ष्यते यत्मा लक्षणारोपिता क्रिया॥' मुख्यार्थस्य बाधे सति, तद्योगे (तस्य मुख्यार्थस्य योगे), रूढेः (प्रसिद्धेः) पयोजनात् (शैत्यपावनत्वादिरूपार्फालात्) वा, शब्देन कर्त्रा, (उपरित आक्षि- व्यते इदम्) यत् अन्योडयों लक्ष्यते सा लक्षणा। अत्र 'यत्' इत्यस्पष्टार्थपदनिचे- शेनेव विवादबीजवापो जातः । एके कथयन्ति 'यत्' इति लक्षणरूपत्रिया- विशेषणम् 'अन्योऽथों यत् लक्ष्यते यत् प्रतिपादते सा लक्षणा'। लक्ष्यते इति विजन्तादाख्यातलू। णिजर्थो हेतो: (प्रयोजककर्तुः) व्यापारः! हेतु: (प्रयोजक- कर्ता) च शब्दः । रथा व अन्यार्थप्रतिपत्तिहेतुः शब्दव्यापारो लक्षणा। अपरे कथयन्ति-'यत्' इति 'यया' इत्यर्थे लुप्करणतृतीयान्तमव्ययम्। यया वृच्या अन्योरऽर्थः (सुख्यार्थाद् मिलनोऽर्थः लक्ष्यः तटादिरूपः) लक्ष्यते प्रतिपाद्यते सा (वृत्तिः) लक्षणा, इति। एते साधयन्ति यदियं ग्रन्थकारस्यास्य शल्येव, अन्यन्राप्येवमेव 'यत्' इति प्रयुक्तमनेन। क्वचित् 'यस्मात्' इत्यथे यथा ३४ तमका- िकायाम् "यत्सोऽर्थान्तरयुक तथा" इति। क्वचित् 'यत्' इत्यव्ययं अयुयोज, न विशेषणम्। यथा १६० तमकारिकायाम् 'उपमानाददन्यस् व्यतिरेकः स एव सः' इति। अस्याऽस्पप्टलेखखायं परिणासोडभवढ् यदेका टीका अनिपक्षिसंक्षोभाय भुज- दुण्डमास्फोटयति-"यत्वत्र यदिति क्रियाविशेषणम्। तथा च यत् लक्ष्यते यत्परतिपादते सा प्रतिपत्तिरेव (ज्ञानमेव) लक्षणेति कैश्िद्ववाख्यातम्, तदज्ञान.

Page 17

१२ रसगङ्गाघर:।

विजम्भितम्। लक्षणाया अभिधाव्यञ्जनयोरिव वृत्तिरूपतया वृत्तिजन्यायाः प्रति- पत्तेर्लक्षणात्वाSसंभवात्" इत्यादि। द्वितीयपक्षवादिनः कथयन्ति यद् 'ज्ञानमेव लक्षणा' हत्येव मम्मटस्य हृदयम्। अत एव 'प्रयोजनेन सहित लक्षणीयं न युज्यते' इत्यस्य समर्थनाय प्रोक्तम्- 'ज्ञानस्य विषयो ह्न्यः फलमन्यदुदाहृतम्' इति स्वरसतः संगच्छते। खेइस्त्वयमेव यत्कारिकाविशदीकरणेच्छया स्वयं निर्मितायां वृत्तावपि ग्रन्थ- कारस्तदेव संदेहात्मकमाह-'मुख्येन असुख्योरऽर्थो लक्ष्यते यत् स आरोपितः शब्दव्यापार: सान्तरार्थनिष्ठो लक्षणा' इति। दृश्यताम्, मुख्योर्थः इति पुमान्, सा लक्षणेति सत्री। अन्र इयोरनयोरविशेषणीभावस्यापेक्षायामपि विलक्षणं 'यत्' इति तृतीयं कीय निक्षिपन् मम्मटमहाभागः त्रिलिङ्गानां त्रिदोषं तथा ससर्ज येन मूर्तिमती अस्पष्टता जनि लेभे। श्रीमतो मम्मटभट्टस्याक्षराण्येव तथा भवन्ति येषामिदतया निश्चितोर्थों न केन- चिदवबोहुं शक्यते। एकस्तत्र यमर्थमचबुध्यते, अपरसैरेवाक्षरैन्यमर्थ समर्थयते- 'मित्रे क्वापि गते, सरोरुहवने बद्धानने ताम्यति, कदत्सु भ्रमरेपु, वीक्ष्य दुयितासननं पुरः सारसम्। चक्राह्वेण वियोगिना बिसलता नास्वादिता नोज्झिता कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ।' इति पद्यसुदाहृत्योच्यते-'इत्यादौ वाच्यमेव, न तु रसम्। अत्र बिसलता न जीवं रोहुं क्षमा, इति प्रकृताननुगुणोपमा'। (वामनटीका पृ.५६७) अस्यार्थमेके कुर्वन्ति-'अत्र एतादृशविप्रलम्भावस्थायाम् बिसलता जीवं रोदुं जीव निरोधाय न क्षमा नार्ऽर्पयितुं योग्या। जीवनिरोधनिमित्तं कण्ठे बिसलतार्पण- मनुचितमित्यर्थः । 'विप्रलम्भोतकर्षे जीवनिर्गमोपाय एवावलम्व्यते न तु निरोधो- पाय इति तेषामाशयः। अन्ये कथयन्ति यत्-'अन्र बिसलता जीवं निरोहुं न क्षमा न शक्ता', इति प्रकुनाननुगुणा उपमा। अयमाशय :- उपमायां हि द्योः सादृश्यमनुगुणं भवेत्तदैव सा शोभते। अर्गला मनुष्यादेर्गमनागमनादिकं रों शक्कोति । किन्तु बिसलता निर्गच्छन्तं प्राणवायुं न निरोडं शक्तका अतः अर्गल्या सह सादृश्यस स्वतोऽनुगुण- स्वाभावादत्र उपमा नाडलंकार:, अपितु अगलेवेत्युत्परेक्षालंकार इति। द्वावपि पक्षौ स्वस्वयुत्तिप्रदर्शनाय महता संरम्भेण ग्रन्थविस्तरमापादयतः । इह हि भवेदपि यथाकथचिन्निर्वाहः-उपमा स्यादुतप्रेक्षा वा। अलंकारो रसस्य नानुगुण:, अपि तु वाच्यस्यैवानुगुग इति येन केनापि पक्षेण विवक्षितस्यार्थस्य निर्वाः शक्कोति भवितुम्। परमेवं द्विसुखेन लेखेन परस्परविरुद्धार्थस्य साधनेन विवक्षित एवार्थो यदि कुत्रचिद् अ्रश्येत तर्हि? अन्यद् दृश्यताम्-'अभिलाष-विरह-ईर्ष्या-प्रवास-शाप-हेतुकः पञ्चविधो विप्रळम्भः' इत्युकत्वा तानुदाहरति। तत्र 'प्रेमार्ा प्रणयस्पृशः' इत्यादिना अभि-

Page 18

उपोद्धातः । १३

लाघ (पूर्वानुराग) हेतुको विप्रलम्भ उदाहृतः । एतदनन्तरम्-'अन्यत्र त्रजतीति का खलु कथा०' इत्यादिकं पद्यमुदाहृत्य प्रोच्यते-'एषा विरहोत्कण्ठिता' इति (प्ट. १२३) । अभिलाषविरहेर्ष्यादीनां (धर्माणाम्) उदाहरणस्य यत्र प्रसङ्ग आसीत्तत्र 'एपा विरहोत्कण्ठिता' इति धर्मिण उदाहरणस्याऽकस्मात् कः प्रसङ्ग: समापतितः? विरहमात्रस्य प्रसङ्गे उत्कण्ठायाः किमन्न निर्देशेन येन हि 'विरहोत्क- पिठता' इत्युच्यते तत्रभवता? एवं स्प्ष्ट बोद्धुव्यामोह उदेति। तत्र गुरुमहाभागा: परमानुग्रहेण बोधयन्ति यत्-विप्रलम्भभेदेपु विरहः किमिति पृथग् गणनीयः, प्रवासेन तत्सिद्धेः । इति शङ्कायासुच्यते-यद्यनयोरैक्यं स्यात्तर्हि विरहोत्कण्ठिता पोषितभर्तृका चेति पार्थक्यं न स्यात्। ननु मास्तु पार्थ- क्यम्। का हानिरिति तु न शक्यते वक्तुम्। भरतसुनिना स्वाधीनभर्तृकादयः षोड- श नायिकाया भेदा: स्वीकृताः। ततश्चानयोई्वयोरैक्ये स्वीकृते षोडशभेदेषु न्यूनता स्यादिति शङ्कासमाघाने मनसिकृत्याह-'एषा विरहोत्कण्ठिता' इति। अर्थात् प्रोपितभर्तृकात इयं भिन्ना। अत एव विरहः पृथगेव परिगणनीयो न प्रवासेऽन्त- र्भाव्य इति। किन्तु-'एवा विरहोत्कण्ठिता' इत्यक्षरैरेव सोयं शङ्कासमाधानप्रपञ्चः कया वा अदृष्टशकत्या बुद्धिगन्यो भवेत् ? भरतसुनिनैव वा विरहिणी प्रोषितपतिका चेति कया उपपत्या पृथग्गणिते इति निसर्गतः समुन्दूतं जिज्ञासितं न ग्रन्थकार: स्वैरक्षरैबोध- यितुमावश्यकं मनुते। 'ग्रन्थकारेण यत्किञ्चिदुच्यताम्, अन्येस्तु तस्य बलात् संगतिः कर्तव्या' इति मन्ये महतामेव पक्षे शोभाजनकं स्यात्। प्रत्येकसाहित्यनिबन्ध इव अस्मिन्नपि ग्रन्थे महता संदर्भेण संदिग्धत्वं दोषेषु परिगणितमुदाहृतं च । किन्त्वेवं- विधेषु बहुषु संदेहस्थलेषु किं प्रतिपद्यतां बोद्धभिः? कदाचित्कदाचित्वेवं बुद्धावा- भाति यत्तत्तच्छास्त्राणं नियमा न खलु तद्ग्रन्थप्रणेतणामाचार्याणां कृते। तत्र- भवान्पाणिनि: शब्दसाधुत्वनियमानाह। परं स्वयमेव स्वसूत्रेषु तान्नियमानु- पेक्षते-'हस्वनद्यापो नुट्' 'एङ्हस्वातसंबुद्धेः' 'ऊकालोऽजझस्वदीर्घप्ुतः' इत्यादिषु दयोबहूनां च समुचये कुतो न द्वि-बहु-वचने, समाहारे वा कुतो न नपुंसकत्वमू? 'बन्धुनि बहुव्रीहौ' इत्यन्न नित्यपुंलिङ्गस्य बन्धुशब्दस्य सप्तम्येकवचने 'बन्धुनि' इति कथं निष्पन्नम्? इत्यादिनियोगावकश्ो न तन्र। समाधीयतेपि तन्न तन्र 'छन्दो- वत्सूत्राणि' इति। 'रतिः संभोगश्ङ्गाराख्या उत्तमदेवताविषया न वर्णनीया, तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम्' इति स्वग्रन्थेऽनुशासदपि प्रकाशकार :- 'प्रतीय- मानोऽर्थ: संबद्धसंबन्धोपि भवती'त्यन्न- 'विपरीअरए लच्छी बम्हं दट्टूण णाहिकमलटठूं। हरिणो दाहिणणअणं रसाउला झत्ति ढककेह।I' (पृ. ३०२) इत्युदाहरणं स्वयमाह। यस्य हि 'विपरीतरतप्रसकतका लक्ष्मी रसाकुला सुरताऽडवे- 2 रस० भू०

Page 19

१४ रसगङ्गाघर: ।

शेनाकुला सुरतान्निवरतितुमक्षमा हरेविष्णो: दक्षिणनयनं स्थगयति' इति निररगलं व्याख्यानं टीकाकृद्धि: कर्तव्यं भवति। किमेतत्? समासोक्तिस्थले अप्रककृतार्थस्य व्यञ्ञनया प्रतीतिरिति सर्वेषां प्राचा सतम्। स्वयं प्रकाशकारोऽपि स्वयमेततस्वीकरोति, किन्तु 'परोक्तिर्भेंदकः छिष्टैः समासोक्तिः' इति लक्षणे, तद्याख्यायाँ च-'छ्रिष्टविशेषणमाहात्म्यात्, न तु विशेष्यस्य सामर्थ्यादृपि यत् अप्रकृतार्थस्याऽभिधानम् सा समासोक्तिः । अत्र 'अभिधानम्' इति लेखनं कियदुचितमिति निराग्रहमालोकनीयं मार्मिकैः। मूलकारो यत्किञ्चिदाह। किन्तु वराकेष्टीककारैस्तत्पक्षनिर्वहणं कर्तव्यं भवति-"अभिधानम् अप्रकृतगतव्यवहार- रूपस्यार्थस्य व्यक्षनया बोधनम् इत्यर्थः।" अभिधानमिति पदेन व्यञ्जनया बोधन- मित्यर्थ, विना पक्षपोषकैः कश्चिद्ोडुं शक्रुयात् ? (पृ. ७४१)। रसगङ्गाघरशैली रसगङ्गाधरे नैवंविधा क्विष्टता। तत्र हि यावदपेक्षितानि पदान्युपादाय स्वच- कव्ये तादशी ढढता संपाद्यते यत्रैकमपि पदं न संदिग्धम्, नाधिकम्, न न्यूनम्, न परसहायतयारऽर्थबोधकम्। संस्कृतसाहित्ये तदेतद्वादयुगमासीत् । अत्र हि नव्यन्यायसंपुटेन तादृशी सुनिबद्धा भाषा संघटिता यत्र न तिलमात्रस्यापि इत- स्ततः संभवः । अन्यथा तु श्वासप्रश्वासवत्पदे पदे संनिहितः प्रतिवादी त्वरितमेव निर्दयतया मर्द्येत्। ग्रन्थशीर्षके प्रतिज्ञैव पण्डितराजेन कृता-"मया सर्वानपि पूर्वान्निबन्धानन्तस्तलं विचार्य तादशेन सुदृढेन मननेन सोयं ग्रन्थो रचितो येन न कोऽप्यत्र दोषं गवेषयितुमवकाशो लभ्येत, प्रत्युत अस्याग्रे पुरातना: सर्वेऽपि निबन्धा निष्परभा: (दुष्टा इत्यर्थः) प्रतीयेरन्।" सोत्पासमाह स :- 'निमसेन केशैर्मननजलघेरन्तरुदरं मयोन्नीतो लोके ललितरसगङ्गाधरमणिः । हरन्नन्तर्ध्वान्तं हृदयमधिरूढो गुणवता- मलंकारान्सर्वानपि गलितगर्वान् रचयतु।।' ग्रन्थस्वरूपजिज्ञासूनां कृते एकमात्रमुदाहरणं पर्यासं स्यात्। उपमालंकारस्य स्वतः पूर्वाणि सर्वाण्यपि लक्षणानि आलोचनानिकषे कषितानि पण्डितराजेन- 'उपमिति क्रियानिष्पत्तिम त्सादृश्य व र्णनम दुष्ट् म व्य ड्य मु प म लंका रः' इति महता दार्ढ्येन घटितमप्पयदी क्षितलक्षणमेवं खण्डितं यत्-'उपमा अर्थालंकारः । अत एव शब्दवाच्यता अपेक्षिता। वर्णनस्य यद्यलंकारत्वं तर्हि स्वयं शब्दरूपं वर्णनं शब्दवाच्यं कथं स्यात् अव्यड््यत्वादिपददानमपि व्यर्थम्, व्यङ्गयत्वाऽलंकार- त्वयोरविरोधात्। इत्यादि।' 'स्वतःसिद्धेन भिन्नेन संमतेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चेदेक- गोपमा ।' इति विद्यानाथेन (प्रतापरुद्रीये) प्रोक्तं लक्षणं निरस्तम्-'यत्र साह-

Page 20

उपोद्धातः ।

इयस्य निषेधे पर्यवसानं भवति तस्मिन्व्यतिरेकालंकारेपि तादशं साम्यमस्तेव। भतः अतिव्याप्तं लक्षणमिदम्।' उपमानोपमेयत्वयोग्ययोर्थयोईयोः। हृदयं साधर्म्यसुमेत्युच्यते काव्यचेििः। इत्यन्यदपि प्राचीनानां लक्षणं दूषितम्-'हृद्यपद्दानेनैव विवक्षितार्थलाभे पदान्त- रदानं व्यर्थम्।' तत्रभवता मम्मटेन काव्यप्रकाशे प्रोक्त लक्षणम्-'साधर्म्यमुपमाभेदे' इत्यपि न रमणीयम्, पूर्ववद् व्यतिरेकेऽतिव्याप्तिप्ररुङ्गात्। किञ्चायं प्रसङ्ग: काव्योपस्कार- कस्याऽलंकारस्य।अन्र 'साधर्म्यम् उपमा' इति सामान्यलक्षणे उपस्कार्या (व्यङ्गया) वाच्या लौकिकी अलौकिकी सर्वाप्युपमा अन्तर्भवति। अतः असमर्पकमिदं लक्षणम्।' एवमेव 'भेदाभेदतुल्यत्वे साधर्म्यमुपमा' इति सामान्यतः ग्रोक्तम् 'अलकारस- र्वस्त'कारस्य लक्षणमपि निरस्तम्, अन्रापि सर्वविधानामप्युपमानां बोधसंदेहात्। इस्थमेव-'प्रसिद्धगुणेनोपमानेन, अप्रसिद्धगुणसयोपमेयस्य सादश्यसुपमा' इत्य- लंकाररताकरोक्त्तं लक्षणमपि दूषितम्-'शेषमूलिकायामुपमायां श्रिष्टशब्दरूपो धर्मः कविनैव कल्प्यते, न पूर्वतः प्रसिद्धो भवति। अत एव तस्यासंग्रहः स्ात् ।' एवं सर्वाणि लक्षणानि निरस्य-'चमत्कृत्याधायकं वाक्यार्थोपस्कारक सादृश्यमु- पमा' इति स्वलक्षण तथा दढैरक्षरः संघटयति येन स्वल्पमपि शैथिल्यं न प्रसजितुं शक्कुयात्। शीर्षंकप्रतिज्ञानुसारमयं प्रबन्ध: सर्वातिशायी। अत एवासििन् कस्ापि स्थलस्या- नुषङ्गिकोऽपि विषयो नाऽवशिष्येत तथा व्यापिनी दृष्टिग्रंन्थकारस्य। उपमायाः प्राचीनान् भेदान्साकल्येन प्रतिपाद्य, उदाहृत्य, 'हहान्या नपि भेदान्ये निगदन्ति' इति पुनर्भेदान्वर्णयित्वा द्वात्रिंशच्ेदा उपमा संपादिता। एतावन्ेदवत्यपि सेयमुपमा वस्त्वलंकाररसरूपाणां प्रधानव्यड््यानाम्, वस्त्वलंकारयोर्वाच्ययोश्चोपस्कारिका भवतीति उपस्कार्यभेदेन प्रत्येकं पञ्चभिर्भेदैः [३२X५=१६०] षष्टयुत्तरं शतं भेदा जाता: । इतोऽप्यग्रे भेदानाह-'इतश्रान्येऽपि प्रभेदाः कुशाग्रीयधिषणैः स्वयमुद्भाव- नीयाः । क्वचिदनुगाग्येव धर्मः, क्वचित्केवलं बिम्बप्रतिबिम्बभावापन्नः, कचिदु- भयम्। क्वचिद्वस्तुप्रतिवस्तुभावेन करम्बितं बिम्बप्रतिबिम्बभावम् (आपन्नः)। क्वचिदुपचरितः । क्वचित्केवलशब्दात्मकः।' एवसुपमाघटकस्य सामान्यधर्मस्याऽति- सूक्ष्मरूपेणानुसंधानं विधाय उपमायामतीव सूक्ष्मतमं विचारं संचारयति। पुनरप्यसंतोषः । पुनः प्राह-'इतोऽप्यघिकं प्रकारान्तरं च लक्ष्यानुसारेण सुधीभि: स्वयमुन्नेयम्। यथा- 'यथा लतायाः स्तबकानतायाः स्तनावन्रे नितराँ समासि। तथा लता पल्लविनी सगर्वे शोणाधराया: सदशी तवापि।' (प. २३३)

Page 21

१६ रसगङ्गाघर:।

अन्र हि सूक्ष्मातिसूक्ष्मविचारस्याप्यतिशर्यं दर्शयति। इह हि पद्ये तिस्त्र उपमा: सन्ति। यथातथाप्रतिपाद्या एका प्रधानम्। 'समासि' 'सदशी अस्ति' इतिरूपेण प्रतिपाधे दे उपमे तु प्रधानभूतायास्तस्याः समानधर्मभूते। उपमायाः साधारणधर्मो गुणक्रियादिस्तु सवैरन्विष्ट एव, परम् उपमायाः साधारणधर्मः स्वयसुपमैव भवतीति चमरकार: पण्डितराजेन प्रत्यक्ष दर्शितः । सोयं चमत्कारः सहृदयानाँ तदैव प्रत्यक्षी भूतो यदा ह्येताहश्या विलक्षणोपमाया उदाहरणमपि किश्चित्संमुखस्थमभूत्। इतो वागदेवतावतारभूता अपि श्रीमन्मस्मटभटसदशाः परकीयानां पद्यानामेव मुखम- वेक्षन्ते, येन यस्य स्थलस्योदाहरणमुपलब्धं तदेव तैर्निदर्शितम्। उदाहरणेष्वपि यदि किञ्चिद्विगुणम्, अनुचितं च, अत एव स्वस्याऽसंमतं तथापि परवशतया तद् ग्राह्य- मेवाडभूत्, उदाहरणान्तराऽलाभातू।[यथा संबद्धसंबन्धस्य व्यङ्गयस्य देवतार- तिरूपमनुचितं पूर्वोक्तमुदाहरणम्] किन्तु सर्वविषयेपु समर्थः अद्वितीयः कविः पण्डितराजस्तु उपस्थितविषयस्य तदैव अक्किष्ट मधुरं चोदाहरणं स्वयं निर्माति। अनेन हि वादसंघर्षऽप्यसाधारणो लाभ: सोयं भवति यद् वादी मुद्रितमुखः सन् भूमिमेवालिखति, नान्य उपायः । दश्यतामू- अप्पयदीक्षितकृतानां प्रतीपालंकारभेदानां खण्डनेडयमाह- 'उपमानस्याऽद्वितीयतागव परिहतु तत्समानस्य द्वितीयस्य प्रदर्शनेन तत्तिरस्कारो यदि द्वितीयं प्रतीपं तर्हि तिरस्कारवत् पुरस्कारेऽपि कश्चिन्वीनोऽलंकार: कल्पनीयः स्यात्।' परम् उदाहरणं विना अन्यः साहित्यकारो नेमामापतिं यथावत्साधयितु- मशक्ष्यत्। किन्तु पण्डितराजः स्वयमुदाहरणं निर्माति- 'एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिना- मित्येवं परिचिन्त्य मा सम मनसि व्याधाऽनुतापं कृथाः। भूपानां भवनेषु किंच विमलक्षेत्रेषु गूढाशया: साधूनामरयो वसन्ति कति न त्वत्तुल्यकक्ष्या: खलाः॥'(पृ.६७०) किमिदानीं प्रतिविधानम् ? तस्मात्संप्रतिपत्तिरेव हि वरं न ग्रम्यमन्नोत्तरम्। समासोक्तौ प्रकृतेऽप्रकृतव्यवहारसमारोप एवं मन्यते दीक्षितेन, न रूपसमा- रोपः । किन्तु पण्डितराजस्तदेवत्खण्डयंस्तादशमुदाहरणं सद्यो निरमांति यत्र रूपस- मारोपं चिना नान्य उपाय :- 'निर्लक्ष्मीकाऽभवत्प्राची प्रतीचीं याति भास्करे। प्रिये विपक्षरमणीरक्ते का मुदमञ्चति ।' अन्र पूर्वारधंगतायाँ समासोक्तौ भास्करादीनां नायकत्वं यावन्न प्रतीयेत तावदू उत्तरार्धे 'प्रिय'पदेन समर्थनरूपोऽर्थांन्तरन्यासः कथं सिध्येत्? नायकत्वारोपश्च रूपसमारोप एव। उच्यतां किमत्रोत्तरम् ? (पृ. ५०५)

Page 22

उपोद्धातः । १७

मिथ्याध्यवसित्यलंकारं खण्डयन्नाह-'यदि मिथ्याध्यवसितिरलंकारस्तहि सत्या- ध्यवसितिरप्यलंकार: स्वीकार्यः सात्। किन्त्वन्यः साहित्यनिबन्धकारः कुत्रोदा- हरणं प्राप्तुयात्। पण्डितराजस्तु तत्कालं स्वयं निर्माति- हरिश्चन्द्रेण संज्ञप्षाः प्रगीता धर्मसूनुना। खेलन्ति निगमोरसङ्गे मातगङ्गे गुणास्तव ।' (प्ृ. ६७२) एवं किल सदः स्वयमुदाहरणसामर्थ्येन सथाने स्थाने विजितं पण्डितराजेन। अयमध्यस्य ग्रन्थस्य सर्वातिशायी विशेष:। प्रौढतया अ्रन्थस्य दुष्प्रधर्ष्यता नवीनन्यायशैलीपरिग्रहणेन ग्रन्थो दुष्प्रवेशोऽवश्यमभूत् किन्तु अव्यात्यतिव्या- पिरहिततया निश्छिद्ध-प्रमेयनिरूपणार्थ तमिमं प्रकारं विहाय नासीदन्य उपायः। किञ्च वाद्युगे संस्कृतवाङायमात्रे सेयं शैली पाण्डित्यप्रतिष्ठानुकूला पर्यगण्यत। एतस्मिन् प्रशान्तविवाद्व्यतिकरे भगवत्याः सुरसरस्वत्या विश्रान्तिमयेऽपि समये कतिचित्पण्डितमहाभागा: सांप्रतमपि तादृशीमेव भाषां श्रौढपाण्डित्यपिशुनां मन्यन्ते याँ हिन कोपि संस्कृतज्ञ: कोषादिदर्शन विना सहसा बोदुं प्रभवेत्, तर्हि तसिमिन् पज्नलत्परस्परपाण्डित्यसंघर्षानले काले निच्छिद्प्रमेयप्रतिपादनपर: पण्डितराजस्तां शैलीमादातुं परवशः स्यान्तर्हि किमाश्चर्यन्? किञ्न-कोमलकान्तपदावलीकलितकाव्यकलापोपकारकतया साहित्यं सुप्रधर्ष सिति कृत्वा मास्मिन्नन्यशास्त्रज्ञा: सलतया खेलन्त्वति बुद्धिपूर्वकमेव पण्डितरा- जेन सुग्रौढा प्रतिपादनशैली पर्यगृह्यत । व्याकरणादिषु प्रौढपण्डितः उपनिषदादिषु संग्रविष्ट एव चाऽत्राधिकारीति सूचयन् प्राय उदाहरणान्यपि (पूर्वपक्षार्थम्) ताट- शानि दृदाति यत्र सामान्यानां तु च्जप्रवेश एव न सुसंभवः। योगशक्त्या न सर्वत्राऽर्थः, अस्मिन्नुदाहरति-'ईशानो भूतभव्यस् स एवाद्य स उश्वः' (पृ. १४६), 'शब्दादेव प्रमित:' (ब्रह्मसूत्रम्)। सादश्यमान्नं यद्युपमा त्हि यत्र परस्परसाम्यम्, तन्नोपमा खात्। अत्रोदाहरणम्-'कालोपसर्जने च तुल्यम्' (पाणिनीयसूत्रम्) (पृ. २१०)। स्थाने स्थाने धात्वर्थ-प्रत्ययार्थविचारसदशा व्याकरणशासतस्य ग्रौढा विषया विस्तरेणालोचिताः । 'भावप्रधानमाख्यातम्' इति यास्कवाक्यस्य वैयाकरणानुसारं विस्तृत्य विचार उत्प्रेक्षायाम् (पृ. ३९४) कृतः । अन्ते च 'प्रत्ययार्थे प्रकृत्यथों विशेषणम्' इति सर्वत्र स्वीकृतस्योत्सर्गस्य विरोधं प्रदर्श्य वैयाकरणानां मतं स्वतत्रतया तिरस्कृतम्-"न च वैयाकरणविरोधो दूषणमिति वाच्यम्, स्वतत्रत्वेनाSSलंकारिकतन्रस्य तद्विरोधस्याऽदूषणत्वात्" (पृ. ३९६)। अलंकारेषु शब्दबोधस्य मार्मिकतया विचारः कृतो यन्न हि आख्यातवाद- शिरोमणिव्याख्यातृसदशा अपि प्रत्याख्यायन्ते (पृ. २४८) । साहित्यशास्त्रस्याऽ-

Page 23

१८ रसगङ्गाघर: ।

क्षोभ्यताप्रदर्शनायैव बहुत्र दार्शनिकपदार्थानां विस्तृत्य विचारः। यथा विभाव- नायां कार्यकारणभावस्य (पृ. ५७९-५८६)। व्याप्यत्व-पक्षधर्मतयोः काव्यलिङ्गे (प. ६३०)। योग्यताज्ञानस्य कारणत्वं यथासंख्ये (पृ. ६४३) । कुत्रचित्तु भ्रसक्तानुप्रसक्तेनापि शास्त्रीय विचार: परिगृहीतः । यथा हि प्रक्ष उत्तरं चेति सर्वेषा- मेव परिज्ञाते। ततश्रोत्तरालंकारे तस्य भेदादिकमेव वर्णनीयमासीत्, किन्तु 'इष्- साधनताज्ञाने जाते जिज्ञासैव नोदेति' इति सुप्रौढं निगूढार्थ चोपन्यस्यति - (प. ७००)। एतत्सर्वमभिसंधायैव मया स्वटीकासमात्तौ प्रोक्तम्- 'पुरा प्रविश्यात्र निजप्रसङ्गादुन्ये व्यजम्भन्त बुधाः कदाचित्। अद्यानया पण्डितराजशक्तया त्वसाधि साहित्यमभेद्यदुर्गम्।' रसगङ्गाघरस्य वर्ण्यविषयक्रमो विशेषञ्च प्रथमानने-पूर्वैः साहित्यकारैः काव्यस्य त्रयो भेदा: स्वीकृताः, पण्डितराजेन तु चत्वारसे, मार्मिकतया समर्थिताश्च। काव्यस्यैकमात्रं कारणं प्रतिभा स्वीकृता। रसस्य स्वरूपं दार्शनिकविधया विस्तृत्य विवेचितम्। मम्मटादीनां नन्य कालुटा दीनाँ चत्वार्येव मतानि वर्णतानि, अत्र तु एकादश। तेषु षट स्फुटरूपाणि। अन्यानि तु स्वल्पभेदादेव पृथग् व्यपदेश्यानि। करुण-बीभत्सादीनां रसत्वं विमर्श- पूर्वकं रुचिरतया समर्थितम् । वीरस्य भेदविषये रुचिरो मार्मिकश्च विमर्शः। प्राचीनैः स्वीकृतानां दशगुणानामिह विशद विवेचनम्। तत्तद्गुणानुगुणरचनायां वर्जनीयवर्णादीनां सूक्ष्मो रोचकश्च विचारः । भावध्वनेर्लक्षणविचारो मार्मिक: । संचारिभावानां लक्षणोदाहरणादिना विस्तृत्य विवेचनमस्मिन्नेव ग्रन्थे। रस-भावा- दय: पूर्वैरसंलक्ष्यकमा एव स्वीकृताः, अत्र तु ध्वनिकाराकूतेन संलक्ष्यक्रमा अपीमे साधिता: । द्वितीयानने-अभिधानियामकानां संयोगादीनां विस्तृतो मार्मिकश्च विचारः। ध्वनिम्राधान्यविषये मर्मस्पर्शी विमर्शः। शक्ति-लक्षणादीनां औढया प्रणाल्या स्वरू- पार्दिकमुपपादितम्। रूपके लक्षणया, अथवा अभेदान्वयेनैवोपपत्तिरिति प्राचीन- नवीनमतविषयो मार्मिकविधया सुरुचिरमुपपादितः । लक्षणाप्रसङ्गेनैव च अलंका- राणां निरूपणम्। अलंकाराणां विषये तु सर्वापेक्षयाऽप्यपूर्वो मार्मिकश्च विमर्शः।

प्रशंसाविभावनाशङ्गलातद्गुणोत्तराद्यः के के वर्ण्यन्ताम्? सर्व एव रुचिरया सरण्या निरूपिताः । उत्तरालंकार एव चाऽपूर्णतया अन्थस्य परिसमाप्ि:। अतिमार्मिकमालोचनम् एकस्यालंकारस्याSपरस्मिन्नन्तर्भावविचारो बहुत्र अप्पयदीक्षितादिप्रतिस्पर्धावशा- स्कृत इव प्रतीयेत यथा पूर्वरूप-ललित-विकस्वरादिषु। किन्तु कुत्रचित्कुत्रचित् तथा मार्मिक्यालोचनास्ति या ह्यालोचनाचतुराणामपि चमतकारोति चेतः । आह स :-

Page 24

उपोद्धातः । १९

गुणग्रहणहे तौ उत्कृष्टगुणवस्तुसंनिधाने सत्यपि तद्गुणग्रहणरूपकार्याइ्भावोऽयमतद्- गुणो विशेषोक्तेरवान्तरभेद एव न त्वलंकारान्तरम्। ननु कार्यकारणभावो नात्र विवक्षितः, किं तु रंनिधानेपि तद्गुणग्रहणाभाव इत्येतावन्मात्रम्। अतो विशेषोक्ते रतद्गुणो भिन्न एव। इति तु न युक्तम्। 'संनिधानेपि' इत्यपिना विरोधोपि विव क्षित इति गम्यते [अर्थात् उत्कृष्टगुणवस्वन्तरसंनिधाने न्यूनगुणेन वस्तुना तदीय- गुणोऽवशयं ग्राह्य आसीत्तथापि न गृहीत इत्याकारः ]। विरोधो नासीति तुन शक्यतेऽपि केनचिद्वक्तुमू। यतो ह्ययमलंकारो विरोधमूलकेष्वन्यतमः। अत्र यदि विरो- धव्यामिश्रणं न स्यात्तर्हि चमत्कार एव किं कृतः स्याद्येनायमलंकारकोटिभुक्को भवेतू। विरोधे तु स्वीकृते कार्यकारणभावोऽपि विवक्षित एव [कारणसततायां कार्योतपत्तिसं- भवेऽपि कार्य न जातमिति ] (पृ. ६९३-९४)। पद्यरचनायाः प्रतिपद्समालोचनायां कीदशी मर्मस्पर्शिनी पण्डितराजदष्टिरिति स्थालीपुलाकन्यायेन परीक्षेरन्विचक्षणा इति पद्स्ैकस्याSलोचनाSविकलसुद्ि

'शिक्षानैर्मअ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीके- स्तत्ासोल्लासलीला: किसलयमनसा पाणय: कीरदष्टा:। तल्लोपायाऽडलपन्त्: पिकनिनदघिया ताडिता: काकलोकै- रित्थं चोलेन्द्रसिंह त्वदरिमृगदशां नाप्यरण्यं शरण्यम्।।' तत्र विचार्यते-सतनकलशयुगे हि न तावन्मज्जरीसाद््श्यं कविसमयसिद्धम्, येन तन्मूला चञ्चरीकाणां आ्रन्तिरुपनिबध्येत। दोषान्तरमूला तु सा नालंकार इत्यनुपदमेव निरूपितम्। अपि च धर्मिणि कलशरूपकानुवादेन सख्जरीआ्न्तिरुप- मलंकारान्तरसुपनिबध्यमानमुद्टेजकमेव सहदयानाम्। नहि सादश्यमूलैकालंका- रावच्छिनने सादृश्यमूलमलंकारान्तरं शोभते। यथा 'मुखकमलं तव चन्द्रवत्प्रतीमः' इति प्रागेव निवेदनात्। प्रत्युत कलशरूपकेण मज्जरीसादृश्यतिरस्काराच। 'तब्र- सोलासलीला: किसलयमनसा पाणयः कीरदष्टाः' इत्यन्न विधेयाविमर्शाद्विधेयान्तर- माकाद्ितम्। 'कीरैरद्ष्टाः' इति भ्व्यम्। जाता इत्यध्याहारेपि विवक्षितस्यावि- धेयत्वमविवक्षितस्य च विधेयत्वं प्रसज्येत। एवं 'तल्लोपायालपन्त्यः पिकनिनद्धिया ताडिता: काकलोकैः' इत्यन्न न तावत्पिकनिनदास्ाडनयोग्या: काकानाम्, येन तद्धिया आलपन्त्यस्तैस्ताड्येरन्। नापि पिकनिनद्भ्रम आलपन्तीषु संभवति। संभ- वन्वा न सादश्यमूलः । पिकनिकरधियेति तु भाव्यम्। अथ तदालापेषु पिकनिन- दबुद्धेरपि तासु पिकबुद्धुत्पादनद्दारा संभवत्येव ताडनोपयोग इति प्रयोज्यत्वार्थक-

१ उन्माद-प्रमादादिना या भ्रान्तिः सा नालंकार इति पूर्व साधितं अ्रन्थकृता। २ आलपन्तीषु (धर्मिषु) निनदस्य (धर्मस्य) भ्रमः कथं स्यादितिभावः ।

Page 25

२० रसगङ्गाधर: ।

चेत, नैवम्। तथाप्रतीतेरसिद्धेः। 'चोरबुद्या हतः साधुः' इत्यादौ चोरबुद्धि-हन- नयोः सामानाधिकरण्येन हेतुहेतुमन्धावगमकत्वव्युत्पत्तेः । एवं 'दुन्तिबुद्या हतः शूरैर्वराहो वनगोचरः' इत्यत्रापि विशेष्यतया वराहवृत्तेर्दन्तिबुद्धेर्वराहवृत्तिहननहेतु- भावावगमः । त्वदुक्तरीत्या दन्तिबुद्धेति कृते बोधकदर्थनैव । किंच पिकानां हि कूजितादिशब्दैरेव शब्दो वर्ण्यते, न तु निनदादिशब्दैः सिंहदुन्दुभ्यादिशब्दप्रयोग- योग्यैः । तथा प्रथमद्वितीयचरणस्थयोः स्नपाण्योर्यथाकथंचिद्वहितमपि जाता न्वयमपि त्वद्रिमृगद्दशामिति षध्यन्तमन्वेतुं शक्ुयात्, न तु तृतीयचरणस्थे आल- पन्त्य इत्यस्मिन्विशेषणे विशेष्यभावेनेति ताटस्थ्यमेव सात्। विभक्तिविपरिणतावपि प्रक्रमभङ्गाऽसंघुलत्वाभ्यां स्थितमेवेति पद्यमव्युत्पन्ननिर्मितमेव।' मार्मिकस्तत्वविमर्शः आमुखे निवेदितवानस्ि यत्संस्कृतसाहित्य( अलंकारशास्त्र) काराणां विचार- पद्धतिरुत्तरोत्तरं सूक्ष्मताऽभिमुखी। तैर्हि काव्यानां कृते उत्तरोत्तरं तथा सूक्ष्म अतिशया आविष्कृता यैरयमपारः काव्यसंसारो लोकतो बहूत्कृष्टःसमजनि। यावत्किल लोकापेक्षया कश्चिदृतिशयो न भवेन्न तावत्काव्ये चमत्कारकारणसुत्पद्यते। अत एव लोकतो नवीनमेव कञ्विदर्थ घटयन्ती कविप्रतिभा अलंकाराणां जीवातुर्जायत इति आञ्चः प्रोचुः। सूचितं चैतत् 'नियतिकृतनियमरहिताम्' इत्यादिना तत्रभवन्मम्मट- भट्टादिभिः । पीयूषवर्ष-अप्पयदीक्षितादिभिः-सोयमर्थो विशदीकृतः । अत एव सहोक्ति-विनोक्त्यादिषु 'जनरञ्जनः' इति विशेषणेन 'लोकविलक्षणतया क विप्रतिभा- कल्पितत्वाच्चमत्कृतिजनकं साहित्यं सहोक्तिः' इत्यादिरर्थस्तन्र तत्रालंकारे सूचितस्तैः। मननजलधेरन्तस्तलं प्रविष्टेन पण्डितराजेन तु साहित्यकरैर्गचेषितः सोयमतिशय उत्तरोत्तरं चरमसीमानमारोपितः । अत एव प्रायः सर्वेष्वेवालंकारेपु सुरुचिरपदगु- क्फैन प्रकटितोऽप्यर्थो यदि वास्तव एव (न लोकव्रिलक्षणः) तर्हि न तत्रालंकार- त्वस्य स्वीकारः । किमधिकम्, अलकारसर्वस्वकारादिसदशैः प्रामाणिकैरलंकारत्वेन निरूपितोऽप्यर्थः स्पष्टैरक्षरैनिरस्तः। यथा 'पद्मानां विजेता चन्द्रोपि येन विजित- स्तेन मुखेन पद्मानि विजितानीति किमु वक्तव्यम्' इत्येवं कैमुत्येन यत्रापरार्थस्य सिद्धि: साडर्थापत्तिरिति सर्वैः प्राग्भिरभ्युपगतम्। अन्राह पण्डितराज :- "अस्ां चार्थान्तरं लोकेऽविद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तदाऽलंकारत्वम्। १ अर्थात् पूर्व तदालापेषु पिकनिनदवुद्धिः । तादृशबुद्धा च तास्वपि पिकबुद्धिः । पिकबुच्ा च तासु ताडनमिति प्रयोज्यार्थकतृतीयया सोयमर्थः सुप्रतिपाद इति शङ्का। २ वराहे वर्तमाना दन्तिबुद्धिर्वराहवृत्तिहननस्य हेतुरित्याशयः ।

Page 26

उपोद्धातः । २१

यथा 'फणिनां शर्कुन्तशिशवः' इत्यादौ। अन्यथा तु कैसुतिकन्यायमान्म् । एवं च-'कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पशन्ति भावाः 'अवस्थेयं स्थाणीरपि भवति सर्वामरगुरोरविधो वक्रे मूर्कि स्थितवति वयं के पुनरमी' इत्यादि सर्वस्वकृता यदुदाहृतं तन्नातीवहृदयंगमम्"। एवं परिसंख्यायाम्-'सामान्यतः प्राप्तस्यार्थस्य कस्माच्चद्विशेषाद्यावृत्तिरेव न परिसंख्या। किन्तु कविप्रतिभानिमिता या व्यावृत्ति: सा। यथा-'यस्मिन् शासतरति वसुमतीपाकशासने महानसेषु संताप:, शरधिहृद्येषु सशत्यता, मजीरेधु मौख- र्म् ...... इत्यादौ'। एवं काव्यलिङ्गे-काव्यलिङ्गं नालंकारः। वैचित्र्यात्मनो विच्छित्तिविशेषस्याभा- वाद्। इत्यादि (पृ. ६६३)। एवं विषमे-ननु 'क शुक्तयः क वा मुक्ताः क पङ्ग: क च पङ्कजम् । क् मृगा: क्व च कस्तूरी धिग्विधातुर्विदुग्घताम्।' इत्यादौ वस्तुकथनमात्रे विषमालंकारप्र- सङ्ग: ? न चेष्टापत्तिः, वस्तुवृत्तस्य लोकसिद्धत्वेनालंकारत्वायोगात्। यतो बहिर- सन्तः कविप्रतिभामान्रकल्पिता अर्थाः काव्येऽलंकारपदास्पदम् । ..... तेन 'अर- ण्यानी क्रेयं धतकनकसूत्रः क्व स मृगः' इत्याद्यलंकारसर्वस्वकृतोदाहृतमपि प्रत्युक्त्तम्। एवं परिवृता-दानादानव्यवहारः कविकल्पित एव विच्छित्तये, न वासतवः। यत्र वास्तवस्तन्न नालंकारः । यथा 'कीणन्ति प्रविकचलोचनाः समन्तानमुक्ताभि- बंदरफलानि यत्र बाला:' इत्यादि। एवमुल्लासे-'अन्यदीयगुणदोषाभ्यामन्यस्य गुणदोषयोराधानरूप उल्लासः'। 'लौकिकार्थमयत्वादनलंकार एव' इत्यपरे, इत्यादि। किमेवंविधया उत्तरोत्तर मर्मप्रवणतया पण्डितराजविमर्शस मार्मिकत्वं न शक्यते स्पष्टमभ्युपगन्तुम्? पदरचना [अनुपमो मर्मविचार: ] काव्यजीवभूतस्य व्यङ्गयार्थस्याधारतया शरीरस्थानीयाया: पदरचनायाः (शब्दस्य) काव्ये महन्महत्त्वम्। काव्यकृतकान्तासंमितोपदेशाय विनेयानभिमुखीकर्तु प्रथमतः सोयं शब्द एवोपतिष्ठते। यदि पदरचनैव पूर्वतः श्रोतुर्मानसमाकर्ष्ट न अ्रभवेत्तर्हि अर्थोपरि विचारमेव कः कुर्यात्? अत एव पदरचनायाँ महत्पाटवम-

लीलालुण्ठित शारदा पुर महासंपन्भराणां पुरो विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेत्पामराः । अद्य श्रः फणिनां शकुन्तशिशवो दन्तावलानां शशाः सिंहानां च सुखेन मूर्द्धसु पदं धास्यन्ति शालावृक्ाः ॥"

Page 27

रसगङ्गाघर:।

पेक्ष्यते कवयितु: । उक्तमाकरग्रन्थेषु-'रूपकादिमलंकारं बाह्यमाचक्षते परे। सुपा तिर्डां च व्युत्पत्तिं वाचा वाञ्छन्त्यलंकृतिम्। तदेवदाहुः सौशब्यं नार्थव्युत्पत्ति- रीदशी ।'। प्राचीनत्रैस्तु पदरचनाया एतावत्पर्यन्तं गौरवमुद्घोषितं येन हिसा काव्यस्यात्मरूपापि स्वीकृता [रीतिरात्मा काव्यस्य ], किन्तु मध्यकालिका अपि तस्या महत्वसुत्तरोत्तरं पर्यसाधयन्। एतन्मूलका एव त इमे प्रशंसावादा :- 'अविदितगुणापि सत्कविभणितिः कर्णेषु वमत मधुधाराम्। अनधिगतपरिमलापि च हरति दशं मालतीमाला।' किन्तु व्याकरणनियमैः सुशङ्गलितायामेतस्यां संस्कृतभारत्यां मधुररसानुकूल केवलं मधुराणामेव पदानां गुम्फो न कठिन एव, अपि तु किञ्ञिदुसंभव इव। एतत्कथनेन न सहसैवोत्ताम्येयुः साहित्यौजस्विनः, मन्निवेदनं सूक्ष्मतयाऽडलो- चनीयम्। टवर्गम्, झय्संयोगम्, झय्घटितसंयोगपरहस्वादिकं च परिह्ृत्य, करुण-चिप्रलम्भादिषु केवलकोमलपदरचना कियत्कठिनेति त एव ज्ञातुं शकुयुर्ये- रेवं व्यवसितं स्यात्। दृशयताम्, पूर्वकालिकोऽर्थः पदे पदे उपतिष्ठत्येव। तत्र हि संयोगवाही 'त्वा' प्रत्ययोयं मधुराक्षरघटितमपि हलन्तधातुं 'दृष्ट्ा' 'ऊढ्ा' इत्यादि रूपे परिणमयति। उपसर्गयोगं कृत्वा 'य' (ल्यप्) रूपे आनीयते चेदथापि हलन्तधातोयोंगे एकसंयुक्ताक्षरं त्वनिवार्यमेव। एवं हलन्तधातोः 'क्,'तुमुन्नादि- प्रत्ययेष्वपि कष्टाक्षरत्वमभिसुखमेति। अस्तु. मुघैव विस्तरो भवेत्, परं संस्कृत- भाषायां केवलमधुरवर्णसंघटना न सामान्यकवेः कार्यम् । अमरुकसमः कविः, यस्यैकैकं पद्य प्रबन्धशतवत्संमानसुपयाति सोऽप्यस्िन्विषये स्थाने स्थाने निराधार- मधोमुखः पतति। तत्रभवान् मम्मटोपि च शङ्गारे तानीमान्युदाहरन् पदरचना- परीक्षायामप्रौढ इव परिगण्यते।

'शून्यं वासगृहं विलोक्य शयनादुस्थाय किज्ञिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वणर्य पत्युर्सुखम्। विश्रब्धं परिचुम््य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता।।' इत्यस्मिन्पद्ये-उत्थाय, किञ्रिच्छनैः, शनैर्निद्रा, निर्वर्ण्य पत्युर्मुखम्। विस्त्रब्धम्, परिचुम्ब्य, लज्जानम्र इत्यादीनि बहूनि माधुर्याद्विप्रतीपानि पदानि। सत्या वार्ता त्वियम्-यत्साहित्यकारैर्माधुर्यगुणार्थम्-'अटवर्गा: संयुक्ताक्षरपररहिताः' इत्यादि- रूपेण वर्णाः कामं परिगणिताः, किन्तु प्रयोगे तदिदं न यथावत्निर्वोदुमशक्यत। अत एव हि यस्सिन्काले प्राकृतभाषा पूर्ण प्रकर्षमधिगतवती तस्मिन्काले सेयं संस्कृ- तपदरचना क्िष्टाक्षरा पर्यगण्यत। १ 'अमरुककवेरेकं पद्यं प्रबन्धशतायते

Page 28

उपोद्धात: ।

उक्क् हि प्राकृतकविभि :- 'लेलिए महुरक्खरए जुवई जणवल्लहे ससिंगारे। संते पाइअकव्वे को सक्इ सक्कअं पढिउं।' प्राकृतभाषाकवय एव केवलमात्मप्रशंसामिमामकुर्वन्नित्येव न। संस्कृतकवयः, तेध्वपि मूर्दधन्यतमा: श्रीमन्तो राजशेखरसदशा अपि प्राकृतमाधुर्यसुग्धाः संस्कृतपद- बन्धमिमं कठिनसुद्घोषयन्ति स। आह स कर्पूरमअ्जर्याम्- "पैरुसा सक्कअबंधा पाउअबंधो वि होइ सुउमारो। पुरुसमहिलाणँ जेत्तिअमिहंतरं तेनियमिमाण।।' किमधिकविस्तरेण, साहित्यशास्त्रस्य यत्किञ्चिदनुशासकपुस्तकं गृह्यतां तस्मिन् मधुररसस्योदाहरणीभूतानि कतिचिदेवेद्टशानि पदानि अवेयुर्यानि निषिद्धान् संयुक्ताक्षरप्राचुर्यसमासबाहुल्यादीन् सर्वथा विरहय्य परीक्षानिकषे निष्टक्कं निर्दोषाणि सिध्येयुः । प्ाकृतसाहित्यस्य सहयोगेन यदा सेयं मार्मिकता संस्कृतकविभिरपि हृदयत्ो- डभिमताऽभूतदा हि पदरचनायाँ भूयस्तरामेव समवधानमदीयत तैः। मार्मिकैरा- लोच्यताम्-मम्मटभट्टय्य समये संस्कृतभाषाया मधुररचनाविषये यावान्ति- चारोडक्ियत तद्पेक्षया साहित्यदर्पणस्य निर्माणकाले किश्विदधिको विचारः आचलत्, येन हि स्वयं विश्वनाथरनितान्यन्यानि वा तत्सामयिकानि पद्यानि पूर्वेषामपेक्षया भूयस्तरां लालित्यमभिस्पृशन्ति । श्रीमतः पण्डितराजस्य तु स समयो यस्मिन्हि संस्कृतसाहित्यातसुन्दरसुन्दरमंशमादाय सम्द्न्ती सेय व्रजभाषा (हिन्दी) पूर्णमुत्कर्षमविन्दत्। सूरदासतुलसीदासाभ्यां व्रजभाषासाहित्यस्य यद् गौरवमाविष्कृतं, 'सतसई'निर्मात्रा बिहारीलालेन तन्ड्रूयस्तरां संवर्धितम् । समग्रं मोगलसान्राज्यं करे कुर्वनाम्बेरधरणीशो विहारिणे प्रतिपच्यमेकां स्वर्णमु- द्रामदिशदिति तु नाधिकं महत्वम्, किन्तु सूरतुलसीरसज्ञानामपि हृदि विहारिण: प्रत्यकं पद बाण इव गैभीरमर्मस्पृगभूदिति सत्यं महते गौरवाय। भनेन हि दोहा सदशे लघुकाये छन्दसि वर्ण्यार्थविस्तारः, व्यङ््यचमत्कारः, तत्तद्लकारझाङ्कारः, वर्णगुम्फपरिष्कारश्र स दर्शितो यमास्वाद्य राजानमारभ्य रङ्कपर्यन्तः सर्वोपि सहृद्यसमाजोऽस्य वशीभूतोऽभवत्। वजभाषायामपभ्रंशद्वारा वर्णानां लघुगुरू- करणादिविषये बहुतरं स्वातन्रयमासीदेन हि रचनायां विहारिणा महत्सौकर्य- 'ललिते मधुराक्षरे युवतिजनवलमे सशृङ्गारे। सति प्राकृतकाव्ये क: शक्रोति संस्कृतं पठितुम् ।।' २ 'परुषाः संस्कृतबन्धाः प्राकृतबन्धोपि भवति सुकुमारः । पुरुषमहिलानां यावदिहान्तरं तावदेवेषाम्।।' ३ 'सतसइयाको दोहरा ज्यों नावकको तीर।'

Page 29

२४ रसगङ्गाघर: ।

सुपलब्धम्। विहारिणः प्रायः प्रत्येकमेव पद्यमस्योदाहरणमिति केवलमेकेनैवोदा हरणेन परीक्षेरम्प्रामाणिका: । आह बिहारी- 'दीठि' न परव समानदुति कनक, कनकसे गात। भूषन कर करकस लगत परस पिछाने जात।।' अत्र हि दृष्टि, द्युति, गात्र, कर्कश, स्पर्शशब्दा यदि साक्षात्संस्कृतरूपेणैव प्रयुज्ये- रंसहि माधुर्यमवश्यं हीयेतेति को वा न मार्मिको मन्येत। भस्तु, एवं किल हिन्दी- साहित्यस्य, तेन सहैव च कवेर्विहारिलालस्यापि महती प्रतिष्ठा सर्वस्मिन्नपि सह- दयसमाजे देशमान्रव्याप्ाऽभूत्तस्मिन्समये। जयपुरराजधान्याम्, देहलीनगरे चेत्युत्तरभारते एव स्वकवितापसारं कुर्वन् पण्डितराजसदशः सर्वतोमुखः कविर्व्रज- भाषायास्तादशं प्रभावं नाऽवेदीदिति को वा मन्येत? विशेषतः किल विहारिमहा- कवेर्भागिनेयः कुलपतिमिश्रः श्रीमतः पण्डितराजस्य साहित्ये शिष्य एवासीत्। अत एव पूर्व यणा प्राकृतस्य सहयोगेन संस्कृतपदरचनायामधिकावधानं प्रारभ्यत तथा पण्डितराजस्य समये हिन्दीसाहित्यस्यापि भूयान्प्रभावः संस्कृतपदरचनायाम- पतदिति वक्तव्यं भवेत्। यदा हि व्रजभाषाकवयः शङ्गार-करुणादिरसेषु तदनुकूलां मधुरवर्णसंघटना यथावननिर्वाह्यन्ति तद्द्वारा च रसपरिपोष परितः प्रसारयन्ति तदा देवभाषायामेवायं नियम: शिथिलः स्यात् (केवलं साहित्यपुस्तकेष्वेव निबद्धः स्यात्) इति नाभवत्सह्यं मानिनः पण्डितराजस्य। अत एव संस्कृतसाहित्यस्य पुरातनं सर्वमपि विषयजातं विमर्शनिकषेण प्रस्फुटं परिष्कुर्वता पण्डितराजेन रसगङ्गाघरे पदरचनाविषये बहवो नियमा दढीकृताः। शृङ्गारादिषु संयुक्तवर्णविषयका बहवश्च नवीना योजिताः । (पृ. ८०)। पण्डितराजो हि अ्तिभावतां चूडामणिरासीत्। अत एव पदरचनाविषये संस्कृतसाहित्ये तादृशो मार्मिकविचार: प्रवर्तितो यस्याग्रे व्रजभाषापक्षपोषका अपि (ये हि मधुररचनायां संस्कृतात् स्वस्य गौरवमघोषयन्) निष्पभा अभवन्। वर्णानां स्वानन्तर्यादिविषये (पृ. ८३) तादशो मार्मिको विचार: प्रास्तूयत यो हि नासीत्कस्याश्चिदपि भाषायाः साहित्ये। न केवलं नियमनिर्माणमेव, प्रत्युत तेषामनुवर्तनमपि पण्डितराजेन प्रत्य- ्षतो दर्शितम्। वाग्देवताऽवतारभूता अपि स्वग्रन्थेषु मधुररचनायां केवलं नियम- मात्रमलिखन्, स्वयं तादृशोदाहरणनिर्माणस्य का कथा, परकीयोदाहरणान्यपि मधु- रसंघटनायामविकलमनुकूलानि नाडलभन्त। किन्तु पण्डितराजेन मधुरसंघटनाया उदाहरणानि तादृशान्यदीयन्त येषु प्रतिपक्षी न कर्थचिद्पि दोषमाविष्कर्तु प्रभवेत्। यथाहि- १ 'दशमुपैति कनकं न वपुराप्य कनकसमकान्ति। भूषणानि करकर्कशस्पर्शतया प्रतिभान्ति ।' इति विहारिणोनुवादः । 'साहित्यवैभवे' द्रष्टव्यः। पुस्तकमिदम्-'भट्ृश्रीमथुरानाथशास्त्री नागरपाडा जयपुर' इति स्थानात्प्राप्यम् । २ 'हिन्दीरसगङ्गाधर'स्य भूमिका द्रष्टव्या। विस्तर भयान्नात्रोद्धियते।

Page 30

उपोद्धातः ।

'लोलालकावलिवलन्नयनार विन्द- लीलावशंवदितलोकविलोचनायाः । सायाहनि प्रणयिनो भवनं त्रजन्त्या- व्चेतो न कस्य हरते गतिरङ्गनायाः॥' (प. ८६) 'कस्तूरिकातिलकमालि विधाय सायं समेरानना सपदि शीलय सौधमौलिम्। औ्रौढिं भजन्तु कुमुदानि सुदामुदारा- सुल्लासयन्तु परितो हरितो सुखानि॥' (पट. ९० ) एतादृशो मार्मिकविचार: पण्डितराजस्य तद्रन्थस् वा न किं विशेष: परिगण्येत? अनुप्रास: (पदान्तानुपासः) अनुप्रास-यमकादयः शब्दालंकारा अनुशिष्टा एव संस्कृतसाहित्यकारैंः । प्रयुक्तका श्रापि तैसतैः संस्कृतकविभिरिति को वा न जानाति। किन्तु जगनाथपण्डितराजस समयपर्यन्तं व्रजभाषाकविभिः प्रयुक्त: पदान्तानुपासः स्थानविशेषमहित्ना तथा माधुर्यमलभत थेन समग्रस्यापि तस्य पद्यस्य शोभैवाऽन्यादशी समभवत्। विशेषतो हि 'घनाक्षरी'छन्दस्तु। यथा 'तुलसी बिलोकि अनुलानी जातुधानी कहैं, चित्र हूके कपिसों निसाचर न लागि हैं' । 'बीती औधि आवनकी लाल सनभावनकी डग भई बाँवनकी सावनकी रतियाँ' (सेनापतिः)। बिहारिणो दोहाछन्दस्सु यथा- 'टंटकी धोई धोवती चटकीली सुख जोति। लसति रसोई के बगर जगरमगर दुति होति।।' 'नभ लाली चाली निसा चटकाली धुनि कीन। रति पाली आली अनत आये बनमाली न।।' 'छिनक चलति ठिठकति छनक भुज ग्रीतम गलडारि। चढी अटा देखति घटा बिजुछटासी नाि।' परस्तान्वाविनां पम्माकरादीनाँ ट सुप्रसिद्धा एव पदान्तानुप्ासाः । यथा-'कढि- गो अवीर पै अहीरको कढ़ै नहीं' । 'इन्दीवरनैनी तू कलिन्दीतीर जैयो ना। इत्यादि। 'बाने परतापके सुहाने जगजाने आज, जयके निसाने फहराने माधवे- सके।'[ अस्मत्पूर्वजाः सरस्वत्युपनामकाः श्रीद्वारकानाथकवयः ] १ 'रुचिरा मुखरुचिरालसति विशदा शाटी भाति। महाकान्तिराभाSडवहा महानसे प्रतिभाति॥' 'खमरुणमालीना निशा चटकालीध्वनिरेति। रतिपाली परया समं वनमाली न समेति॥' 'क्षणं चलेत्तिष्ठत्ष्षणं वाहौ प्रियमासाद। हर्म्यतटात् पश्यति घटामबला तडिच्छटाडद्य ॥' 'साहित्यवैभवे' विहार्यनुवादः । वैभवेस्मिन् टीकया पद्यचमत्कारो द्रष्टव्यः। 3 रस० भू०

Page 31

२६ रसगङ्गाघरः।

अयं किलाऽन्तानुप्रासः प्राचीनसंस्कृतकविभिनोपात्त इति न। बहुत्रोपातः, सफलतया चोपासः। किन्तु पण्डितराजपद्येषु पदान्तानुप्रासस्यापूर्वैव छटा, विशेष- तश्च मालभारिणीछन्दस्सु। सेयं ब्रजभाषाकवीनां तामिमा सरणिमाश्रित्य परु- ढापि पण्डितराजस्य प्रतिभापाटवेन ततोऽ्यतिशयं लेभे इति मार्मिका एव परि- चिनुयु:। यथा 'नितरां हितयाऽय निद्या मे बत यामे चरमे निवेदितायाः। सुद्ृो वचनं श्ृणोमि यावन्मयि तावत्प्रचुकोप वारिवाहः ॥' (पृ. १०७) 'प्रणिपत्य विधे भवन्तमद्धा विनिबद्धाश्जलिरेकमेव याचे। जतुरस्तु कुले कृषीवलानामपि गोविन्दपदारविन्दभाजाम्।' (पृ. ६८७) 'कुसुमानि शरा मृणालजालान्यपि कालायसकर्कशान्यभूवन्। सुदशो दहनायते सम राका भवनाकाशमथाऽभवत्पयोधि: ॥' (प. ५७२) शिखरिण्यां सोथमनुप्रासः शंकराचार्य-भवभूतिप्रभृतिमिरपि प्रायुज्यतैव। यथा- 'तवोर्सङ्गे गङ्गे यदि पतति कायस्तनुभतां (शङ्गरा. ) 'तथाप्येषा तन्वी रमयति च संतापयति च'। (भवभूतिः) किन्तु पण्डितराजस्य शिखरिणीष्वपूर्वेवानुप्रासच्छटेति किं वोदाहरणदानेन। सोयं परिपाको व्रजभाषाकवीनामपि पदान्तानुप्रासान्बहुधा विभावयता श्रीमता पण्डित- राजेन परिनिष्ठापित इति मार्मिका जानीयुः। अश्वधाटीछेन्दसोऽनुप्रासं बहुधा भाषाकवयः असृतेध्वनिच्छन्दस्सु घनाक्षरी (कवित्त) चतुर्थचरणेषु चोपजीव्य शनैः शनैस्तखिमिन् भूयसीसुन्नतिमदर्शयन्। किन्तु स्थाने स्थाने स एव परिपाकः प्रदर्शितः पण्डितराजेन। यथा-

"किं गाढरागपरिषङ्गादनारतमनङ्गाकुलोभिरमसे शृङ्गारवीथिनवभृङ्गायितो रतितरङ्गान्तरापतसि किम्। गङ्गामवाध्य भृशमङ्गान्युदस्य हृदि रङ्गान्तराहिततमं त्वं गाय भूरिभयभङ्गाय तोषिततुरङ्गाननाङ्गिकमलम्।।' (साहित्यवैभवे मम ) २ 'तरलित होत भुजंगवर, परत गंग उत इस। जटाजूट छूटत जबहिं, नृत्तत्तत हर नित्त॥। नृत्तत्ततहर नित्तत्तबहि दुचित्त त्तिभुवन। धित्तत्तत धुनि तित्ततजहिं न मित्तत्तसु गन ॥ सित्तत्ततगुन गित्तत्रिदसपवित्तत्तरनित। जित्तत्तपससिमित्तत्तकहिं चकित्तत्तरलित ।।' (अस्मत्पूर्वजाः श्रीकृष्णभट्टकविकलानिधयः)

Page 32

उपोद्धात: । २७

'वल्गद्गाण्डिव मुक्तकाण्डव लयज्वालावलीताण्डव- भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः सरेत् ॥' (पृ.२८६) मार्मिका: पण्डितराजकवितां सूक्ष्मेक्षिकया विविच्य निश्चिनुयुर्यत्तस्य पदरचनारया कश्चन चमत्कारकोऽनुप्रासः अन्यो वा कश्चन शब्दकृतो विशेषो वाडवशयं प्राप्येत। तच्छून्यं प्रायो नैकमपि पद्यं भवेत्। व्यड््यादिकृतचमत्कारसत्तायामपि शब्दुकृतः कश्चिदुतिशयः कवितायामवश्यं सयात्। यतो हि तद्द्वारैव विनेयानां प्रथममाकर्ष- णम्। शब्द एव प्रधानतः कविप्रतिभाया आधारभूतः । अत एव हि काव्यलक्षणेपि 'शब्दः काव्यम्' इतस्योपरि पण्डितराजस्य भूयानाग्रहः। ये त्वालोचकम्मन्याः शब्दकृतातिशयेन कज्चित्काें 'शब्दकवि' नान्ना व्यपदेषुं घार्ष्ट्यमाचरन्ति ते स्खलन्ति। अर्थचातुर्येण सह शब्दकृतोऽतिशयोऽपि यत्य कचेः, स एव प्रशंसनीयः। अस्तु. सोयमतिशयः पण्डितराजे पूर्णरूपेण प्रतिभासत इति व्रिवेचनीयं मार्मिकैः । सामयिक: प्रभाव: पण्डितराजस्य विचारशैल्यपि तत्सामयिकैरन्यभाषासेविभिः सह भूयस्तरा संवदते। यथा हि- 'कैशोरे वयस क्रमेण तनुतामायाति तन्व्यास्तना- वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्यारया। आस्ये पूर्णशशाङ्कता नयनयोस्तादात््यमम्भोरुहां किं चासीदमतस्य भेदविगम: साचिस्मिते तात्विक: ॥' (पृ. ३२२) इति वयःसन्धि :- 'छुंटी न सिसुताकी झलक झलक्यो जोबन अङ्ग। दीपति देह दुहून मिलि दिपति ताफ़तारङ्ग।।' 'अपने अँगके जानिकैं जोबन-नृपति प्रबीन ३ स्तनमननैननितम्बको बडो इज़ाफ़ा कीन।' 'नवनागरितन-मुलक लहि जोबन-आमिल जोर। घटि बढ़ितैं बढि घटि रकम करी औरकी ओर।' इत्यादीनि विहारिपद्यानि समाशयति। न सिसुताकी०' इत्यादीनां त्रयाणां विहारिपद्यानामयं 6 'Sनुवाद: 'गता न शिशुताद्युतिरितो यौवनमङ्गसुपैति। द्विविधरङ्गकौशेयमिव तनुराभ्यां रुच्चिमेति॥' 'निजाङ्गानि मत्वाऽभिनवयौवननृपतिवरेण। स्तननितम्बद्टक्चेतसां रच्ितोन्नतिरच्चिरेण।' 'नवललनातनुजनपदे यौवनसामन्तेन। कृतं वस्तु लघु गुरुतरम्, गुरु लघु कृतं बलेन।।3

Page 33

किं टु स्फुटं गरलमेतदथामृतं च। नो नेत्कथ निपतनादनयोस्तदेव मोहं सुदं च नितरां दघते युवान: ॥' (पृ. ३६६) इति पद्यमू 'अमीहलाहलमद्भरे स्वेत स्याम रतनार। जियत मरत झुकिद्ुकि परत जिंहिं चितवत इकबार।' इति प्राचीनतमं भाषापद्यमुपजीवति। 'नीलाञ्जलेन संवृतमाननमाभाति हरिणनयनायाः। प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणङ्ग: ।।' (पृ,२५९) इति पद्यम्- 'छिप्यो छबीलो मुँह लसै नीले आँचलचीर। मनों कलानिधि झलमलै कालिन्दीके नीर।' इति विहारिपद्येनाविकलं संवदते। समसामयिकयोरनयोः केन क उपजीवित इतन्न तु गचेषकमहोदया एव हस्तलाघवं दर्शयेयु:। विलासमयमोगलराजधान्या अपि तत्लामयिकान् विलासानविकलमयं चित्रय- तीति पण्डितराजाक्षरेरेव प्रत्यक्षीक्रियताम्- "कुतश्चिदागच्छन्त्या: पथि तदीयरूपयौवनगृहीतमानसैर्युवभिरनुगम्यमानायाः कस्ाश्षिभवनप्रवेशसमये निजसेवासार्थक्यविज्ञानाय गमनाज्ञापनरूपलाभलालसेपु तेषु परमपरिश्रमस्मरणसंजातकरुणाया गमनाज्ञादाननिवेदकस्य विलोचनाम्वुजमा- लापरिक्षेपस्यानुभावस्य वर्णनादभिव्यज्यमाना रतिर्बहुवचनेन बहुविषया गम्यते" तथा हि पद्यम्- 'भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेघु। तरुणेषु विलोचनाब्जमालामथ बाला पथि पातयांबभूव।।'

गृहे कपोतमिथुनानां पालनं तत्सामयिकानां मोगलविलासिनां विनोदेपु पर्यंग- (पृ. १२१ )

ण्यत, यं हि शिष्टाचारमिव तत्संप्रदायाभिमानिनः साम्प्रतमपि निर्वाह्यन्त्ेव। अस्तु, उक पण्डितराजेन- 'निरुद्य यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो ददाने। मयि स्मितारद्र वदनारविन्दं सा मन्दमन्दं नमयांबभूव। (पृ.९८) पण्डितराजोक्ती काश्चिद्विप्रतिपत्तयः ग्रन्थस्यास्य विशेषा विस्तरभयादिञ्ञात्रतो दर्शिता एव। किन्तु पण्डितराजविचा

'राजति नीलपटान्तरितमेतन्मुखमवघेहि। एवं कलानिधिरुलसति कालिन्दीसलिले हि॥' '(साहित्यवैभवे)

Page 34

२८ रसगङ्गाघर:।

इयामं सितं व सुदृशो न दशो: स्वरूपँ किं तु स्कुटं गरलमेतदथामृतं च। नो चेरकथ निपतनादनयोसतदेव मोहं मुदं च नितरां दघते युवान: ॥' (प. ३६६) इति पद्यम् 'अमीहलाहलमदभरे स्वेत स्याम रतनार। जियत मरत झुकिङ्ुकि परत जिंहिं चितवत इकबार ।।' इति प्राचीनतमं भाषापद्यमुपजीवति। 'नीलाञ्चलेन संवृतमाननमाभाति हरिणनयनायाः । प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाङ्ग:।।' (पृ.२५९) इति पद्यम्- 'छिंप्यो छबीलो मुँह लसै नीले आँचलचीर। मनों कलानिधि झलमलै कालिन्दीके नीर।' इति विहारिपद्येनाऽविकलं संवदते। समसामयिकयोरनयो: केन क उपजीवित इतन्र तु गवेषकमहोदया एव हस्तलाघवं दर्शयेयु: । विलासमयमोगलराजधान्या अपि तत्सामयिकान् विलासानविकलमयं चित्रय- तीति पण्डितराजाक्षरेरेव प्रत्यक्षीक्रियताम्- "कुतश्चिदागच्छन्त्याः पथि तदीयरूपयौवनगृहीतमानसैर्युवभिरनुगम्यमानाया: कस्याश्चिल्ववनप्रवेशसमये निजसे वासार्थक्य विज्ञानाय गमनाज्ञापनरूपलाभलालसेषु तैषु परमपरिश्रमस्मरणसंजातकरुणाया गमनाज्ञादाननिवेदकस्य चिलोचनाम्बुजमा- लापरिक्षेपस्यानुभावस्य वर्णनादभिव्यज्यमाना रतिर्बहुवचनेन बहुविषया गम्यते"। तथा हि पद्यम्- 'भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेपु। तरुणेषु चिलोचनाब्जमालामथ बाला पथि पातयांबभूव।।'

गृहे कपोतमिथुनानां पालनं तत्सामयिकानां मोगलविलासिनां विनोदेषु पर्यग- (पट. १२१ )

णयत, यं हि शिष्टाचारमिव तत्संप्रदायाभिमानिनः साम्प्रतमपि निर्वाहयन्त्ेव। अस्तु, उक पण्डितराजेन- 'निरुद्य यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो ददाने। मयि स्मितार्द्र वदनारविन्दं सा मन्दमन्दं नमयांबभूव। (पृ.९८) पण्डितराजोकौ काश्चिद्विप्रतिपत्तयः ग्रन्थस्यास्य विशेषा विस्तरभयाहिआ्ात्रतो दर्शिता एव। किन्तु पण्डितराजविचा 'राजति नीलपटान्तरितमेतन्मुखमवधेहि। एवं कलानिधिरुलसति कालिन्दीसलिले हि॥' (साहित्यवैभवे)

Page 35

उपोद्धातः।

रेधु या: काश्चिद्विप्रतिपत्तयो मम प्रतिभातास्ता अपि सरलायां यथास्थलं सूचिता:। यथा- 'आाज्ञा सुमेषोरविलङ्गनीया किं वा तदीया नवचापयष्टिः । वनस्थिता किं वनदेवता वा शकुन्तला वा सुनिकन्यकेयम्।' (प्ृ.३४६) अत्र किंपद्सत्वेपि वाच्यं ससंदेहालंकारं नाङ्रीकरोति पण्डितराजः । किन्तु 'किं तारुण्यतरोरियं रसभरोद्िना नवा मजरी' इत्यादिषु किंशब्दस्य ससंदेहवाचकत्वं द्धं सर्वत्र । अन्यभाषासाहित्यकारा अपि 'कैधों ये उजागर प्रभाकरस्तरूप राजै इत्यादिषु किंशब्दार्थकानां पदानां संदेहवाचकत्वमाहुः। 'संशय'-'संदेह' अभृतिप- दानामेव सत्तायाँ संशयस्य वाच्यत्वमिति तु केवलमाग्रहः स्यात्। स्वयं पण्डितराजे नापि 'अस्या: सर्गविधौ प्रजापतिरभूत्' इत्यादिपद्ये मम्मटप्रोक्त संदेहोऽनुमतः [संशयादिपदाभावेऽपि ]। 'वर्णानां खवानन्तर्य सकृदेकपदृत्वे किञ्ञिदश्रव्यम्, यथा 'पललमिवाभाति' इत्यादि। असकृच्चदधिकम् । असकृद्धिन्नपदत्वे ततोऽप्यधिकम्'। इलाह पण्डित राज: (पृ. ८३) ! किन्तु 'मुदितं च सकलललनाचूडामणिशासनेन मदनेन' (पृ. १७१) इति स्वयं प्रयुज्यते पण्डितराजेन । मधुररसेषु 'झय्' ('य र ल व श ष स ह' एतान्विहाय व्यअनवर्णाः) घटितसंयोगपरहस्वं सवर्णझयद्यघटितसयोग रेफघटितसंयोगपरहस्वं च विशेषतो वर्जनीयमाह (पृ.८५,८६)। किन्तु सोयं पण्डि- तराजोक्तावपि इष्टः । यथा-'तिर्यग्ग्रीवं यद्द्राक्षीत्तन्निष्पत्राऽकरोजगत्' (पृ. ४६६) । अस्तु. एवमादिकं पौरोभाग्यायितमपि विमर्शानुरोधेन कृतं तत्ततस्थल एव मम टीकायां दश्येतेत्यलमेतेन। पण्डितराजस्यतिवृत्तविषये- नाहं प्रवर्तितुमिच्छामि। सोयं विषयः आकसंस्करणप्रस्तावनया, हिन्दीरसगङ्गा- धरभूमिकया च परिचीयेतैवेति पिष्टपेषणं नाहमनिरोचयामि। किन्तु जगन्नाथस यवनसंसर्गापवादे कारणमिदमनुमीयते यत् आचाररक्षायामतितमामवहितेन तैल ङ्समाजेन सर्वतः प्रथमं तु यवनसेवास्वीकारः। ते हि असूयया जाति द्वेषेण वा अस्य पाण्डित्यादप्रभवन्तो जातिस्वभावानुसारं निन्दां चक्रुः। अन्यथा न किञ्ञितप्रमाण सुपलब्धंमस्मिन् । (संस्कृतचन्द्रिकासंपादक)अप्पाशास्त्रिप्रभृतिभिरपि खण्डित- मिदम्। किञ्च खयमिदं पङ्गीनां लेखको जात्ा दाक्षिणात्य:, तैलङ्गः। अय समयस्तु जातीनां वराकीणां मोक्षकाल एव। सुधारकसमाजेन किम्, भगवता कालेनैव संग्रति सर्वासामपि जातीनां बन्धनानि न केवलं शिथिलितान्येव, अपि तु भझा- न्येव। किं तु त्रिंशच्चत्वारिंशद्वर्षेम्यः पूर्व यैर्भारतवर्षीयो जातिविभागश्चक्षुर्भ्या च बुद्धया चालोचितसे जानन्ति यत् तत्तजातिसमाजे रूढिरक्षायां कीदशी सुदृढता वज्रघटिताSSसीदया हि साम्प्रतिकैः 'संकीर्णता'नाम्रा व्यपदिश्यते।

Page 36

रसगड्गाघर:|

नाधिकमनुधावनस्यापेक्षा। प्रत्यक्षीकृतमावेद्यते-चत्वरिंशर्ेभ्य पूर्व यदा स्त्पितृव्या राजकीयाङ्ग्लविद्याशालायामाङगलभाषाध्ययनाय प्रविष््वन्तस्तदा निय- मरक्षापरैर्जातीयैरनाचार इति कृत्वा तत्कुटुम्बीया बहुतरमधिक्षिप्ताः, यमदण्डस- ब्रह्मचारी जातिहण्डश्च निचिक्षिपिषितः। यदा पञ्चाशदूर्षेभ्यः पूर्वमेव तैलङ्गद्विजपु- झवानां सेयं जाति 'कटर'ताSभूत्तदा सार्धद्विशतवर्षेभ्यः पूर्वमदष्टवैदेशिकसभ्यता- कस्य, अस्पृष्टजात्यौदार्यस्य तैलङ्रसमाजस्य का वा परिस्थिति: स्ादिति स्वयमिदमनु- भविभिरनुमातव्यं स्यात्। भाषाध्ययनप्रवृत्तिमात्र एव यदा सेयमारूढता, तदा यवनराजानामाश्रयणमेव किम्, 'दिलीश्वरो वा जगदीश्वरो वा मनोरथानपूरथितुं समथः' इत्याकारकमाग्रहम्, वादानुशीलनप्रसङ्गेन वा, राजपरिवारकृतस्ेहेन वा, पण्डितराजोचितमर्यादया वा, ख्यात्यादिलाभलोभेनैव वा, रात्रिंदिवं यवनराजसह- वास च निसर्गत एव परोत्कर्षाऽसहिष्णु जातीयरक्त मुद्धितमुखं सत्किं सोढुं शक्कुयात्? तस्मादस्मादृशैस्तु निर्श्रममेवानुमीयते यद्धारतीयानां राज्ञामाश्रयमेव ट्ष्टा आहिता झयसैलङ्गपुङ्गवा अस्मत्पूर्वजान् अन्ययैव दशा यदा दद्दशुस्तार्ह-यवनसम्राज एता- दस संसर्गम् इयत्प्राचीनस्तैलङ्रसमाज: कया दशा पश्येदिति। विशेपतो हि जयपुरमहाराजाना सातिशयगौरवमाश्रयं चिरादनुवर्तमानानामस- हपूर्वजानां पण्डितराजेन सह संबन्धोऽपि कश्चिदासीतू। पण्डितराजो यदा जयपुर- माजगाम तदा समभूदस्मत्पूर्वजैः सह सख्यं वा सनेहो वा जातिगतसमवायो वा। एतदुत्तरमप्यस्याऽनुवृत्तिन निरुद्धा। अस्मत्पूर्वजेषु नारायणभट्टो जगनाथपण्डित राजस्य सविधे अधिजगे। (सप्दश) शतके लिखिते 'कुलप्रबन्धे' लिखितम् 'लब्धवा विद्या निखिला: पण्डितराजाजगन्नाथात्। नारायणस्तु दैवादल्पायुः स्वःपुरीमगमत् ।।' इति। यत्किञ्चिदस्तु, ये किल महोदया: पण्डितराजस्य तामेतामपवादकथा परमाग्रहे गोद्घोषयन्ति ते हि प्राचीनसिदं मनोरक्षकमितिवृत्तमिति वृत्तमिदं हृदयमस्जूषायां निभृतं निदधतु। आस्त च क्वचिन्भूमिकासु तदिदमुद्भतमपि। वयं तु महारत्नस्यासा- कारणीं प्रभाम, लोचनरोचकं वर्णम्, अनितरसामान्यां महामूल्यताम्, अनुपमं माङगल्यं च वर्तमानमभिनन्दामः। न तस्य कपणातपुरातनीमनभिज्ञकृतामवहेलाम्। अस्तु. दर्शनव्याकरणन्यायादीनां प्रगाढपण्डितोऽसौ परममार्मिकेऽस्मिन्विमर्श- अन्थे यान्निबन्धान् प्रमाणरूपेण खण्डनविधया वा जग्राह तेषां परिज्ञानम् 'रसग- झाधरे प्रमापकाः' इति शीर्षकेण पृथक्संगृहीतात्पत्राद्वेत्। नागेशभट्टस्तट्टीका च 'टीकाकारस्य नागेशभटृस्य विषये ज्ञातव्यो भूयानंशः प्राचीनसंस्करणस्थात्तद्विवर- १ साहित्यवैभवस्य 'वंशवीथ्याम्' द्रष्टव्यमिदं काव्यम्। साहित्यवैभवं 'भट्ठमथुरानाथशास्त्री, भट्टगार्डन रेजिडेन्सीरोड, जयपुर (राजपुताना)' इति स्थानात्प्राप्यम्। २-इदं वृत्तं मनोरअकम् इतिवृत्तम् (इतिहासः) इति कृत्वा।

Page 37

उपोद्धातः । ३१

गादवगम्येतैव। दत्त हि 'नागेशभट्टः' इति शीर्षकेग न केवलं तम्मात्रस्ैव विवरणम्, अपितु 'जगन्नाथपण्डितराजः' इति शीर्षकेण मूलग्रन्थकर्तुर्जगनाधक्ापि वृतं भूमिकावसाने। किन्तु नागेशटीकायाः स्वरूपमिह बोधनीयमत्यावश्यकं मम्ये। टीका हि ग्रन्थस्य सर्वाशतस्त्त्ववोधनाय भवति। टीकते लह गच्छनीति टीकापदेव अ्रन्थस्य प्रत्येकमर्मविषये तस्याः साहाय्यं भवतीति महद् गौरवं टीकाया:। यत्र ह्यन्यान्यराक्षैरपि ग्रन्थस्य मर्म अन्यथा योज्यते तत्र हि सिद्धानदस्य स्थिरीकरणाय टीकामुखमेवावेक्षन्ते प्रामाणिकाः । अत एव सर्वतः प्रसिदवं 'हीका गुरुणां तुरुः'। यस्य निदर्शनभूता याज्ञवल्कयस्मृतेर्मिताक्षरा; मनुस्मृते: कुल्लकभट्टीयटीकादयः । एता हि मूलस्य सुविशदमर्थमादौ बोधयित्वा ततस्तसंबड्धमपेक्षितं ज्ञातथ्प्रपञ्चम्, अन्ते च परमतक्षोदक्षेममारभन्ते। नागेशभट्टस्य समये संस्कृतवाञयस्य परिस्थिति: किन्तु भगवत्याः संस्कृतभारत्या इतिहासे विलक्षणविकासमयः सोपि समयः सम- भवघन्न हि नवीनन्यायस्य व्याकरणस्त्र च परिष्कारपरिजम्मणेन पण्डिवारना पारिसरे (वि) वाढुवालैव वेगतः प्राबहत्। पदार्थपरिषकारे पण्दितान प्रनिभा वाहयवेजा- सोन्मुखी समभवदयेनैकवाक्यस्य का कथा, एकैकशबदस्य एकेकवर्णस् एककमात्राप- र्यन्तत्यापि विषये तेपां गभीरतमो विचारसंवर्षः समवटत। विचारपर्यवलाने जाते विवादविपयीभूताया: पूर्गया रकत्ा नात्राया अलामाइलापय अर्वसानाया अपि लाघवलाभो जातस्तर्ह्यस्तिन् लोके तु तेषां कते नातः नरो लाभः। यतो 'हर्वमान्नालाघवेन पुत्नोत्सवं मन्यन्ते वैवाकरणा:।' आर्यविचारातुलारं पुरुषस्य कृते परमार्थबोधकानां वेदानामङ्गभूतसिद व्याकर- णम्। एतस्य संक्षेपाय तत्रभवान्पाणिनि: सूवाणि, तेष्वावश्यकविस्तराय वृत्तिकारो वृत्ती:, श्रीमान् भाध्यकारश्र भष्यं अणिनाय। एतत्रग्ीपरि्कृतस्य व्याकरणस विशढी करणाय व्याडिप्रभृतीनां संग्रहादयो ग्रन्था:, सधय-पनन्नादीनां काशिका- दयो वृत्तयश्च प्राचीनकाले प्रादुर्षभूवुः । एतहुत्तरं पूर्वुचितरय विवानयुगस्य मध्य- काले शास्त्रार्थ संघर्षेण प्राचीनान्वैययाकर णानिरसन् भट्टोजिडोक्षित: कौमुडीं कौस्तुभा- दींश्च निबबन्ध। अनेनैव महाभागेन व्याकरणे वादसंवर्धस्य बीजवापः कृतः। यतो हनेन तादशानां पण्डितानां मतनिरासः कृतोऽभूगे हि तस्मिन्समये परमाँ प्तिष्ठामधिजरमुः। अस्तु. तस्मिन्काले पण्डितानां वादोन्मुखी विकासशक्तिर सीदव, अत एवैते परमोत्तेजनोज्जवलिता: सर्वरूपेण प्रतिभाया असििनेवोपयोगनकार्षुँः। नवीनन्यायस्य पुटं प्रदाय व्याकरणपारदस्य तथा संस्कारा अक्रिन्त यथा तत्सेव- नेन पण्डितमल्लानां शक्तिर्निःसीमसुदजम्भत। सीमातिशायित्वादेवेतेवु परस्वरं मल- व्यायोगा इद शास्त्रविचारा: प्राचरन्। प्रकृततत्वविचारमुपसर्जनीक्वत्य (उपेक्ष्ये- त्यर्थ:) परस्परस्य शब्दसंनिवेश एव प्रायो भूयान् संरम्भोऽभवत्। अस्तु. श्रीमतः पण्डितराजस्य प्रतिभोज्म्भणं तदा भवति यदा हि वयसः परिपाकसुपगच्छनू भट्टो- जिदीक्षित: स्वग्रन्थान् प्रणीय लोकेषु ख्यातिभरमिव जरसम्यधिगच्छति। पण्डित-

Page 38

रसगङ्गाघर: ।

राज: सवगुरुकुलनिकारमसहमान: कविजनोचितनाम्ना ग्न्थेन भटटोजिदीक्षितमतं खण्डयन् विवादक्षेत्रेऽवतरति। गुरुमर्मप्रकाशस्य समय: श्रीमतो नागेशभट्टस्य प्रतिभोज्म्भणसमयस्तु वादप्रणाल्या: पक्षे पूर्णोल्लासमयः। तस्िन् सनये हि संस्कृतभारत्या: साहित्याऽवनौ प्ररूढो वादप्रणालीपादप: शाखा- प्रशाखाभि: पूर्णोज्जम्भणमगमत्। न केवलं न्याये व्याकरण एव वा, संस्कृतवाङम- यस्याऽन्यान्येष्वपि विभागेषु ये ये ग्रन्थास्तस्मिन्काले म्राणीयन्त प्रायः सर्वेष्वेव तेषु सेयं प्रणाली प्रचुर प्राचरत्। नवीनग्रन्थप्रणेतुः कृतित्वमियतैव परीक्ष्यते स यदनेन सुपरिष्कृतभाषया तथा विषयविचार: कृतोस्ति यसिन् क्षोदक्षेमस् भूयान्विस्तरः। श्रद्धया मृदुलहृदयेषु धार्मिकेषु धर्मतत्वबोधनाय प्रवृत्ततया सरल- सुबोधभाषोचिता धर्मशास्रनिबन्धा अपि तस्मिन्नेव रागे रज्जिता: प्ादुरासन्। भगवद्वावनामयेषु सरसहृदयेषु भक्तेषु भगवत्तत्वप्रकटनाय सरसभाषानिबन्धनीया: सांग्रदायिकनिबन्धा अपि तमेव वीरवेष वहन्तोऽदश्यन्त। किमधिकम्, तस्य पण्डि- तस व्युत्पत्तिरेव सुद्दढा नागण्यत येन हि स्वग्रन्थे नेय प्रणाली परिगृहीता। किं बहुना, प्रसादमाधुर्ययोर्गुणगीतीगौरवेण गायन्तः साहित्यनिबन्धकारा अपि तदा अ्रन्थप्रणयनविषये एतस्या एव शैल्याः संमुखे निजमस्तकं नमयामासुः। एतस्य हि अत्यक्ष प्रमाण वपुष्मानयं रसगङ्गाघरः । परमितोऽप्यधिकोज्जुम्भणस्य समयो नागेशभट्टस्य ग्रन्थप्रणयनकालः। भट्टोजिदी- क्षितस्य समये योऽसौ वादभानुरुदगान्नागेशभट्टस्य समये तस् पूर्णो मध्याह्नकाल आसीदिति मन्ये नाडत्युक्तये। यतो हि मध्यमध्या सूर्यस्योत्तापस्तावतीं पराकाष्ठा- मरोहति यस्या अग्रे पुनः सोयं कमेणावसादमेवाधिगच्छति। मोगलसम्राटसु औरङजेबस् शासनकालः प्रतापस्य चरमसीमानमधिरूढ: ख्याप्यते, यतो हि तद- धिको नाभवत्प्रतापः। प्रत्युत शनैः शनैरवरोह एव प्रारभ्यत। एवमेव एतत्प्रथा- वलस्बिषु सर्वसंभावितग्रन्थकारेषु श्रीमान्नागेशोऽन्तिमः । एतसादग्रे तु वादरङ्गभू- मिरियं कदाचित् कदाचित् समरभूमावपि परिणमन्ती दष्टा, यत्र हि परेषां कृते विषदिग्धैरिव नव्यन्यायघटितैः कूटशस्रर्बहुधा मर्मघात एवाक्रियत, न तु मर्मवि- चारः। प्रावृदसरितां पूरोपप्ठव इव ('बाढ') सोयं वादविप्नवस्ताटशी परिस्थितिम- वाप यत् जलोपप्लवस्याऽपगमोत्तरं यथा तन्द्रुमिभागस्य विरूपा दशाडवलोक्यते तथा वाद्युगस्य व्यतिकमेऽस्माकं वाङ्मयस्यापि। सामयिकी आवश्यकताऽसमान् जनप्र- चाहाभिसुखं नेतुमिच्छति, वादयुगीयाः पाठ्यग्रन्थास्तु शब्दजालमये निर्जने प्राचीन- विपिने। अत एव समयपरिवर्तनहतकमिदमेतद्पि श्रावयति-'घनाक्षरी'- १ 'मनोरमाकुचमर्दन'।

Page 39

उपोद्धातः । ३३

'शब्दशास्त्रशेवधि' खिडक्किकामवीक्ष्य मनाङ् नव्यतर्कफक्किकासु झम्पाः प्रतिदीयन्ते बाह्यज्ञानसंपादकसामयिकचर्चा नास्ति व्युत्पादककाव्यकथाः कर्णे नोपनीयन्ते। अश्रुतान्यवाक्यं घोरनिर्घोषा: क्रियन्ते तमां मजजुनाथ सत्यं वच्मि, चेन्मे क्षेमा दीयन्ते

केवलमलर्कसमाः साम्प्रतं पतीयन्ते।' विज्ञानभाषायाँ 'क्षितिजं' तन्द्रवति दृष्टिप्रसारे कृते यत्र हि स्थाने गगनं च भूतलं च मिलितमिवालोक्यते। मन्मत्यनुसारं श्रीमतो नागेशभटटस्य कालो वादशैल्योः 'क्षितिज'स्थानीयः। यतो हयस्मिन्नेव समये कूटप्रथाया अप्यारम्भोऽभूत्। यद्यप्ये तस्याः प्रथायाः सूत्रपातो बहोः कालादेवासीत्परं सुस्फुटरूपे दर्शनं निदर्शन चास्यैव समये प्राप्यते। विचारशीला विद्वांसः आलोचनाप्रवर्ण हृदयमादाय धैर्येण चेन्स- न्निवेदनं शृणुयुः, सर्वमहं विज्ञापयेयम्। टीकानां वास्तवं स्वरूपम् गुरूणामपि गुरुभूतायाष्टीकाया ग्रन्थयोजनाविषये कियद्वा महत्वपूर्ण स्थानमिति नागेशभट्टप्रघट्टकारम्भ एव निवेदितवानसिति। ग्रन्थपारगामितायै इमाष्टीका एव नौका इव परमं साहाथ्यमारचयन्ति। इमा ग्रन्थस्य तथा सहगामिन्यो भवन्ति यथा विभ्रष्टो मूलग्रन्थ एतासां साहाय्येन गवेषकैः पुनः समीकृत इति श्रूयते। अस्मदादीनां गुरुवरैरविद्यावाचस्पतिश्रीमधुसूदनशर्ममैथिलमहाभागैरेव टीकाद्वारा जानकीपरिणयनाटकं साङ्गीकृत्य तात्कालिकशिक्षाविभागाध्मक्षाय अत्तनू। किन्तु मूलकारो यया दिशा अचलति टीकाकारस्ततो विपरीतयैव दिशा गच्छेश्चेत् अ्न्थत- व्वजिज्ञासूनां का खाइशा? किञ्ज टीकाकारस्यासनं मूलकारस्य परिचर्यानुगुणम्। अग्रगामिना मूलकारेण यो मार्ग: परिगृहीतष्टीकाकारसतं सर्वेभ्यो जिज्ञासुभ्य: सुस्पष्टी- कुर्वन् तत्कण्टकाऽवकरादीनू दूरे करोति। यदि टीकाकारस्ं मार्गमबोधयित्वा सर्वत्र विपरीतमेव ब्रूयात्, मार्गेऽधिकाधिकं कण्टकानेव किरेत्त्हि कि टीकाकारेणानेन कृतं स्वासनोचितं कर्तव्यम्? अपि च-मूलकारष्टीकाकारश्रेति द्वावपि संभूय साहित्यसेवामारचयतः। सेयं च सेवा परमार्थतः सहदयानां सेवा। यदि टीकाकरणसमये द्योस्तुमुलं संघटते तर्हि

१ व्याकरणशास्त्ररूपस्य निवेः खिडक्किकां लघुद्वारभ्। निधेर्गुप्तीकरणाय यथा लघु द्वारं निर्मायते तथा विस्तृते संस्कृतवाङमये प्रवेशाय संक्षिप्ततममिदं व्याकरणम्। २ क्षमाः (प्रकार- बहुत्वाद्वहुवचनम्)। ३ विषमो विवाद एव उदर्क: (परिणामः) येषां तादृशाश्च, ते दताश्च।

Page 40

३४ इसगङ्गाघर:।

विबयजिज्ञासोन्लुखानां सहदयानां का दशा स्याद्? मृदङ्गवादनगुणो न सामान्य:। एत सि न्पारगमी संगीतममाजे महान्तमादर लभते। गायकापेक्षयापि मृदङ्गवादक स्तालविषये प्रधानभूत: । किन्तु गानसमये स गायकस्यानुचर एव शोभते, न स्वतत्रः। तो यादे संगीजगोध्यां परस्परसंघर्षमवलम्बेते तदा रसलोलुपानां संगीत- श्रोतृणां का दशा भवेत् ? कूटप्रयोग: वादयुगे-पण्डितमण्डले खण्डनमण्डनयोः काण्डमेवाखण्डं यदा प्राचरत्तदा परसतखण्डनसा प्रकारा जनतायां तत्प्रचारोपायाश्चापि विविधा आविर्भूताः । लोक- संभानितस्य कस्यव्विद् ग्रन्थस्य निकाराय कूटप्रयोगोऽयमवलस्बित: पण्डितैर्यंत् टीकाया व्याजं कृत्वा तत्खण्डनस्य प्रचार: प्रकान्तः । ग्रन्थस्य स्वारस्यमवगन्तुं लोका- ष्टीकामुपादुदत परं मूलकारस्य तत्पक्षीयाणां च खण्डनमेव बहुधा तन्राऽळभ्यत तैः॥ साधारणतया खण्डन-नण्डनयोः श्रवणानिच्छवस्तटस्था: पण्डिता: खण्डनमण्डन- मयान् ग्रन्थान् ओतुमपि काम नैच्छन् किन्तु टीकाव्याजेन निबद्धा अमी बलादेव पण्डितगोष्याँ प्रावर्तन्त। सूलग्रन्थं योजयितुं श्रद्धया समवालम््यत जिज्ञासुवराके- ष्टीका, किन्त्वन्ते मूलस्य मुख्ध्वंस एव तैः पर्यलोक्यत। श्रूयते यत्केनचिद्विज्ञापन- व्यापारिणा 'जीर्णभिनं ग्रन्थमहमेव सुद्धापयित्वा समर्पयिष्यामि' इति कृत्वा उपासनासमये पठनीथ: स्तोत्र अ्न्थः समार्प्यत कसिमंश्चित् सित्रष्टोपासनागृहे (गिरजा)। आसी देकदा मन्दिरे संपवृत्तोपालना। पुस्तकमादाय सर्वेप्यासन् समक्ति 'भजनानि' गायन्तः । यरथत्र सा गीतिरपूर्यत तथैव तन्निबद्धः सर्वोपि स्तुतिवादो- 'वीचमगोलका' Beechams pills) सु पर्यणभत्। सर्वेप्युपासकाश्चकित- मतिष्ठन्। एतादश एव प्रकारः खण्डनप्रख्यापकेः पण्डितैरप्यवालम्व्यत। पकृत विषयं परित्ज्य येन केनापि प्रकारेण पराभिमतधर्म-संप्रदायादेस्तिरस्कारष्टी- कया पर्यसाध्यत पण्डितपुङ्गतैः । दश्यताम्, अमरकोषेणानेन व्युत्पत्यर्थे कियानुप- कारः कृतः करियते चेने नाSविदितं कस्यापि। न चायं ग्रन्थो धर्मसंप्रदायविषयक एव। किन्तु विवादयुगे टीकाव्याजेन पण्डितपुङ्गचैरस्ायपि प्रसादः प्रत्त एव। शा- कयसुनेनामटीकार्याँ ओोक्तस्-'यद्पि वेदविरुद्धा्थांनुष्ठातृत्वाजिनशाक्यौ नरकवर्गे वक्तुसुचितौ। तथापे देवविरोवित्वेन बुद्युपारोहादत्रैवोक्तौ।' [ व्याख्यासुधा पृ.९] दटट स्यान्मार्मिकै :- माट्या एककशकटिचालकेषु यदा कदाचिन्मिथः स्पर्धा संभ- वति तदा हि स्पर्धमानाविमौ द्वावपि चालको पुनःपुनः कशाप्रहारवर्षया घोटकं तथा प्रवाहयती यथा शकटिस्थिता यात्रिणः पतनोन्सुखा एव भवन्ति। अभीष्टस्था- नप्राप्ते: का कथा, प्राणभिक्षामीश्वराद्याचन्ते वराकाः। एवमेव यत्न मूलग्रन्थ एव दुरूहः विषयोपि जटिलतमस्तन्न परमया प्रत्याशया वराको जिज्ञासुर्नीचष्टीकोपरि १ इका, ताँगा।

Page 41

उपोद्वातः । ३५

दीनां इष्टिं ददाति। किन्तु टीकायां दृशयते-ग्रन्थयोजनस्य का कथा, जिज्ञासुना स्प्रतिभया यावान् विषयो बुद्धो उपारोहितः सोपि टीकयाऽन्यधा कतः । अयमेव कूटप्रयोगः श्रीमता नागेशभट्टेन रसगङ्गाघरटीकारवा व्यवहतः। आलंका- रिकं विषयमादाय काव्यप्रकाशादिसदशादुरूहग्रन्थानां विमर्शात्मको विष्य एव पूर्व कठिनः। ततो वादयुगीया प्रणाली। तदुपर्यपि-बुद्धिपूर्व रसेत ताहशी दढप्रौढा सरणिग्रंन्थकारेणोपात्ता येन साधारणबुच्या नासिमन् ग्रन्थे यः कक्षन प्रतिनादी प्रवेश- मर्हेत्। एतदुपर्यपि कुष्ठे खर्जूरिव सोयं संकटो यन्मुद्वितो ग्रन्धः स्थाने स्थाने तथा- शुद्धो यथा ग्रन्थाशयों न कर्थचिद्बुद्धिगम्यो भवेत्। अतपुत्र सर्वतः काठिन्ये पतितो जिज्ञासुरुपततः सन् नागेशटीकायाँ दृष्टि ददाति। किनि्वतो नागेशस्चाभिस नधिरेवाडन्यादः । सहि ग्रन्थयोजनाय न प्रवृत्तः अधे हु जगनाथस्याभिभवं कर्तुम्। अत एव तत्वजिज्ञासाव्याकुलैरसाभिनीचिदष्टो दत्तायाँ बहुत्र 'चिन्तमिन्म्' इति खण्डनमुपलभ्यते। यदि कुन्नचिद्ग्रन्थो लाप्यतेऽपि, नाह मृलदिपरीतथे नैव, येन हि खण्डनाय तन्मार्गः प्रशस्तो भवेत्। बहुधा तु अतीब दुरूहैरक्षर प्रिप्य- गोमात्रं करियते। समग्रोयं ग्रन्थः कष्टं सोढ़ा यैरवधानेन योजितसते तदेतववगन्तुं शकुयुः। पण्डितराजेनापि विमर्शविधया परपक्षनिरासः कत एव, परं स्पपरूपेण। व्याकरणादिविषयेपि चत्र परपक्षखण्डनमावश्यकमासीपत्र डिडलवोकबेक स्वतत्रो ग्रन्थ एवारब्धो न तु टीकारूप: कूटप्रयोगोडवलस्विस।'तभ्न् समये खण्डनमण्डनादे: सषा सरणिरेवासीदिति' वक्तुं शक्येत, किन्ह टीक्ामिपमवलम्ज्य ग्रन्थयोजनस्थाने ग्रन्थभ्रंशों न न्यायदप्या समाधातुं पार्यत। अस्तु. रसगङ्गाधरे-यस्य पण्डितराजस्य संमुखे साहित्यसौधे बलात्मवेशायैव न, तन्मतखण्डनायापि चेष्टते श्रीमान् नागेशभट्टः सोयं साहियनर्मतु किरत्िपुण इति नातिसूक्ष्मस्य विचारस्य विषयः । स्थूलध्यापि शीकादर्शनेन नवीचंत यत्काज्य साहित्यविषये नागेशसहामागसय मौहिरत्यन्तं परिमितैव। नागेशटी कायास्तत्व विमर्शनम् नागेश: स्वटीकायां बहुरः शब्दविषयकं विचारमेव व्याख्यातुं समाधातुं च चेष्टते। अलंकारविषये तु यत्र यत्र कुकयानन्दकारस् पक्षपरिपुष्टि करोति भूय- रस्वंशेषु तत्र तन्रालंकारचन्द्रिकायाः (कुवलयानन्दटीकायाः) विचारा एवाऽडघाराः। चथा-चिकीर्षायाः कार्यमात्रं प्रति हेतुत्वं यद्यं खण्डयतति तदेतदसंगत्यलंकारस्था लंकारचन्द्रिकास्थमखिलम्। पङ्कयोऽ्यविकलास्ता एव (पृ.५९५)। खिन्नोसि मुञ्जेत्यादिपद्ये पण्डितराजेन साधिताया अनिष्टपासेर्निरासः अलंकारच- न्द्रिकास्थ एव। किन्तवलंकारचन्द्रिकोपजीवनेपि तस्ा यथा मर्मस्पर्शीन्यक्षराणि न तथा नागेशस्य। केवलं विषयमात्रमपहृत्योजगार। (प. ६०२)।

Page 42

३६ रसगङ्गाघर:।

एवमेव अनिष्टस्याऽप्यवापिश्चेत्यत्र अपिना इष्टानवापे: संग्रहोऽ्युत्पच्या दूषिता पण्डितराजेन। एतस्य समाधानमप्यत्र अलंकारचन्द्रिकास्थमेव (प. ६०१ )। एव-

कास्थमेव (पृ. ६०२)। एवं स्थाने स्थानेSलंकारचन्द्रिकाSSचमनेपि न कुत्रचि- तस्या नामोलेखः। किन्तु पर्यायोक्तपकरणे प्रत्येतुं शक्येत यन्चागेशमहोदय: कुवलया- नन्दरक्षपरिपुष्टिं किमाधारेण करोतीति। यतो हि तत्राकस्माल्लेखनीतो निर्गतम्- "अन्वेष्टव्या इत्यन्तो अ्न्थश्चिन्त् इति कुवलयानन्दे ध्वनितं तट्टीकायां स्पर्षट तत एव बोध्यमिति दिक"। (पृ. ५५७)। 'डन्मूलितः सह मदेन बलादलारेरुथापितो बलभृतां सह विसमयेन। नीलातपत्रमणिदण्डरुवा सहैत पाणी छृतो गिरिधरेण गिरि: घुनातु ।' अन्न गिरिधरेण मणिदण्डकानत्ा सह गिरि: पाणौ धतः। मणिदण्डकान्तिर्मणि- दण्डे तिष्ठेत् सा कथ पाणौ प्रापुयात्। भत एव अन्य( उपमान) धर्मस्य अन्यन्न (उपमेये) आरोपात्पदार्थनिदर्शनेति स्पषट सर्वेपाम्। किन्तु नागेशो व्याख्याति 'सदश वाक्यार्थ यो रैक्यारोपाब्रिदर्शना।' अर्थात् वाक्यार्थ निदर्शना। को वाऽडलंका- रिको नोपहसेदिदम्? अन्नैव उन्मूलित: इत्स व्याख्यां करोति 'समूलं खण्डितः'। किन्तु गोविन्देन गोवर्धनः खण्डित इति नाद्यावधि कापि पुराणे श्रुतम् (पृ. ४९०)। मद्बुद्यनुसारम् 'उन्मूलित:' इत्यस्य 'समूलमुत्खातः' [उत् (उत्खात) मूलं करोती- इयुन्मूलयति (गिच्) ततो भूते क्त: ] इति व्याख्यानमुचितम्। 'प्राची सन्ध्या०' इति पद्यस्थपरम्परितरूपके नयनशोणित्नि ज्वालात्वारोपस्तदैव भवेददा कोधे कालानलत्वारोपो भवेत्। किन्तु राज्ा हितैष्यपि नागेशः 'राजि अनलसमारोपम्' करोति ! धन्य:। (पृ. ३१०)। 'निर्भिद्य कष्मारुहाणा' मितिपद्यस्थभ्रान्तिमद्ध्वनौ 'आ्रान्तिमतां तिरश्चामप्येवमा- नन्दं जनयतीति जगदानन्दहेतुर्भगवानिति व्यज्यते' इत्यनेन तिरश्चामेव अमं स्प्ष्टमाह पण्डितराजः । किन्तु 'स्वर्णदण्डभ्रमेण भृतं पोषितं मनो येषां ते जनाः पादान् किरणान् धित्सन्ति धर्तुमिच्छन्ति' इति जनानां अ्रममाह नागेशः। स्थापनार्थ- कस्य 'धा'धातोरग्रहणे न क्वचित्परयोगः। अत्र हि व्यस्तवोडयमर्थः-'वृक्षाणामतिगहनं मध्यं निर्भिद्य गोन्नाम् (पृथ्वीम्) गतेषु येषु (प्रातःकालिककिरणेषु) स्वर्णदण्ड- अ्रमेण संभृतमानसा: शुकशिशवः पादान् स्वचरणान् धित्सन्ति स्थापयितुमिच्छन्ति, तिर्यक्प्रसृतशाखासु स्थित्यभ्यासित्वात्। विविच्यतामिदानीं साहि त्यमार्मिकत्वं नागे- शमहोद्यस्य। शुकशावका इत्यादिप्रयोक्तव्ये 'झुकबालकाः' इति प्रयोग एव साहि- त्याक्रमणपराक्र्मं सूचयेत्। (पृ. १७०)। 'निजसे विजाड्यनाशनचतुरो हरिर्भूंतचेस्तु' अत्न हरिपदं सूर्ये विष्णौ च छ्िष्टम्। जाड्यस्य अज्ञानस्य नाशने चतुरो विष्णुः, जाड्यस हिमकृतगान्नपिण्डीभावस् नाशे

Page 43

उपोद्धाद:। ३७

चतुरः सूर्य इति प्रसङ्गे नागेशकृतोऽ्थ :- 'जाड्यमज्ञानं मूर्खत्वं च'। अन्विष्यन्तु तत्वमस्य वैज्ञानिका: । (पृ. ५२४)। 'पुरः पुरस्तादरिभूपतीनाम्०' अत्र अरिभूपतीनां पुरः (नगर्यः) भसावशेषा भवन्तीत्यादि: स्पष्टोऽर्थः। किन्तु नागेशः 'पुरःपुरस्तात् पूर्व पूर्व'मिति वैयाकरणाना- मतीव हास्यास्पदं द्विर्भवं प्रयुज्य श्रोकमेवाडसंगत चकार। तथा हि 'भस्मशेषाः' इति बहुव्रीहिसमासाश्रयणे 'अरिभूपतीनाम्' इति षष्ठीविभक्तेरनन्वयः । तदा हि 'अरिभूपतयः' इति प्रथमा योग्या। शत्रुरूपाणां राज्ञां भस्मरूपा: शेषा भवन्ति इति तत्कृतव्याख्यानेऽपि राज्ञामिति षछ्या: शेषा इत्यत्रान्वये, शेषा इत्यस्य चोद्देश्यसम- र्यकत्वे 'राज्ञां शेषा:' कीदशा भवन्तीति विधेयसमर्पकपदाभावात् वाक्यार्थाऽनि- ष्पत्तिः। 'भस्मशेषाः' इत्यस्य विधेयसमर्पकत्वे, 'के भस्मशेषा जायन्ते' इत्याकाङ्क्- जायते, न तु केषामिति। किञ्न 'सर्वस्य द्वे' इति सूत्रेण 'पुरःपुरः' पुरस्तात् पुरा स्तात्' इति वा द्विर्भावो युकतः, न तु अस्प्रत्ययान्त-अस्तातिप्रत्ययान्तपढयोः, असांप्रदायिकत्वात्। (पृ. ४१७)। 'वचने तब यत्र माधुरी सा हृदि पूर्णा करुणा च कोमलेऽभू' दित्यत्र यस्मिन्को- मले हृदि पुरा पूर्णा करुणाभूत् तत्र कठोरताविरासीदिति सर्वस्य स्पष्टोर्थः, किन्तु नागेशो व्याख्याति-'हे कोमले' पृ. (८७)। 'सरसि प्रवदाभाति जम्बीरं सुपचेलिमम्' अत्र सुपक्कतया सुवर्णवत्पीतवर्ण जलोपरि प्रवत् (तरत्) जम्बीरमुपमेयम्। तोयौघोपरि भासमानं सुवर्णमयं ब्रह्माण्डं चोपमानम्। अन्न हि जम्बीरस्योपनेयस्य ब्रह्माण्डमुपमानं प्रमाणतो नानुरू- पम् (अत्यधिकविस्तीर्णत्वात्), इति ग्रन्थाशयेऽपि नागेशो व्याख्याति-'पवत्' 'चञ्चलम्'। किन्तु ब्रह्माण्डमण्डले चञ्चलसिति विशेषणं कियदुचितमिति सुधिय एव विभावयन्तु। पुनः स्वारस्यं दृश्यताम्। नागेशमहोदयो व्याख्याति-"अन्र प्रमाणत आननुरुप्यम्, तयोरत्यन्तवैलक्षण्यात्। एतत्पोषकमपि 'सुपचेलिमम्' इति विशेषणम्। पक्कस्य अत्यन्तसूक्ष्मत्वात्"। अननुरूप्यस्य पचेलिममिति कथं पोषकम् ? पक्के हि जम्बीरे पीतवर्णेक ब्रह्माण्डेन सह आनुरूप्यमुदेति, अथवा अन- जुरूपत्वम् ? नागेशमहोदयः प्राह-'पक्क जम्बीरमतिसूक्षमं भवति, अत एव तत् अननुरूपम्।' पक्कं जम्बीरं रसाधिक्येन परिमाणाधिक्यं लभते, उत सूक्ष्मत्वस्? अस्तु. यदि सुपचेलिमम् इति विशेषणं नाऽदास्यत तर्हि कि ब्रह्माण्डेन सह उपमा- यामानुरूप्यमभविष्यत् ? अत एव न त्त्वं ज्ञायते, किसुच्यते नागेशेन। यदि पक्क- पदेन शुष्कत्वं स्वीक्रियते तर्हि न पक्कशब्दस्य तादृशोऽर्थः। तरदर्थस्वीकारेपि शुष्कस्य तस्य धूसरवर्णतवं निन्नोन्नतत्वं च जायते। कविर्वर्तुलेन पीतवर्णेन च ब्रह्माण्डेन कथ तस्य सादृशयं निबनीयात्? (पृ. २५६)। 4 रस० भू०

Page 44

३८ रसगङ्गाघर: ।

'निदर्शनं पारदोऽत्र रसः' 'दृष्टान्तो वा'। इति पण्डितराजाक्षराणि। अर्थात् निदर्शनं पारदोऽन्र रसः' 'दृष्टान्तः पारदोऽत रसः' इत्युभयमपि उदाहरणस्योदा- हरण भवति। किन्तु नागेशमहोद्यष्टीकयति-'वाशब्द एवार्थे'। स्वयमवतरणिकां पूर्वमकरोत्-'निदर्शनपदस्थाने पाठान्तरमाह-दष्टान्तो वेति'। (पृ.२८३) 6शरदिन्दुरिवाSडह्लादजनको रघुनन्दनः । वनस्रजा विभाति सम सेन्द्रचाप इवाम्बुदः ।' अत्र शरदिन्दुरित्यादिपूर्वाध आह्लादजनक इति धर्मः सकृन्निर्देशात् रामे मेघे चानुगामी। द्वितीयार्धे (वनस्रजेत्यत्र) तूभयम् । अर्थात् 'विभाति स्ेति' मेघ- रामयोरनुगामी, वनमाला-इन्द्रधनुषोश्चाभेदाध्यवसानेन बिम्बप्रतिबिम्बभावापन्न इत्युभयविधः । इति पण्डितराजाशयः । किन्तु नागेशो व्याख्याति-'द्वितीयार्धे काषायवसनो यातीत्यादौ'। अत्र हि कुङ्कुमालेपादेर्यतिमात्रविशेषणतया साधारण- धर्मत्वाभावेन उपमैव न संभवतीति न ज्ञातं नागेशेन। (पृ. २३०)। इदानीं पदार्थज्ञानविषये काचिद्वर्णिका ('बानगी') दश्यताम्- 'अन्रानुगोदं मृगयानिवृत्त:०' अन्र 'वानीर'पदस्य तृणधान्यतृणेत्यर्थमाह। विचा- र्यतामिदं मार्मिकै: (पृ. २९१ )। 'वल्मीको दरसंभूतकपिकच्छूसहोदराः'। अत्र कपिकच्छूः 'कौंछ' इति भाषाख्या- वौषधिः सर्वत्र प्रसिद्धा । किन्तु नागेशमहोदयः प्राह-कपिकच्छूर्वृश्चिकः । (पृ.६७१)। एवमेव 'लवली' 'रायआँवळे' इत्याह (पृ. ६७२)। 'साम्राज्यलक्ष्मीरियमृष्यकेतोः' इत्यत्र 'ब्रह्मसूर्ऋष्यकेतुः स्यात्' इति कामदेवार्थ- बोधकोऽमरकोषः सुप्रसिद्धः । किन्तु नागेशो व्याख्याति-'ऋष्यकेतोश्चनद्रस्य'। 6ऋष्य' पदस्य कोषान्तरातकुरङ्गरूपार्थस्य साधनेि स्पष्टमस्वरस्म्। सहृदयसंप- ढाये समर एव कामिनां सम्राद समीर्यंते। सुरभि-सुधाकरयोस्तु सचिवतैव साहित्ये समीक्षिता, समुचिता च। (पृ. ३४५)। इदानीं भक्ति-पुराणयोपि नागेशसंबन्धी परिचयः प्राप्यताम्-अजामिलस्यो- द्धारो भगवत्कथासु सर्वत्र सुप्रसिद्ध इति सर्वेपि जानन्त्येव यदजामिल: क आसी- दिति। किन्तु नागेशमहोद्यो व्याख्याति-'अजमिलो राजा !! '। नेदमेतावदेव, किन्तु स्वस्य पुराणपरिचयं प्रख्यापयन्प्राह-'भागवते प्रसिद्धोऽयमर्थः !! '। कथा- मात्रेण भागवतं श्रुतवन्त्रस्तु जानन्ति-'कान्यकुब्जे द्विजः कश्चिदासीपतिरजा- मिलः' (पृ. ७७)। काव्यादिषु कियत्परिचय इत्यपि परिचीयताम्-'अस्याः सर्गविधौ प्रजापतिरभून्' इति सुप्रसिद्ध कालिदासस्य विक्रमोर्वशीयं पद्यं यद्धि काव्यप्रकाशे दर्पणे चाष्युदा-

Page 45

उपोद्धातः । ३९'

हृतम्। किन्तु नागेश एतद्वयाख्यायामाह-'मालतीमाधवे मालती वर्णनमिदम्'। इत्यादि (पृ. ३४४)। लघुनि मुखे महती वार्तेति न ममोपरि कुप्यन्त्वार्यमिश्राः । किन्तु नव्यन्यायप- ण्डिता: केवलवैयाकरणा वा स्वस्वविषयस्य संबन्धमात्रेण ये सरलतममिति वराके- डस्मिनू साहित्ये 'दीनस्य योषिज्गतः प्रजावती'ति हठात्प्रगल्भन्ते, अन्तस्तलपरी क्षायां तेषाँ सर्वेषामियमेव दशा विलोक्येतेति कृतं कोपाविष्कारेण हृदयदाहेन वा। अस्तु. भूमिकायां मुधा विस्तरः स्यादतो नागेशमहाभागस विषये या विप्रतिपत्तयो मया स्वटीकायां दत्तास्तासु काश्चित्पृष्ठाङ्कं प्रदाय सूच्यन्ते। सहृदयास्तत्र तन्र निरी० क्षितुं प्रभवेयुः। 'रतिं तदीयामपि' अत्र अप्यर्थविषये (पृ. १२१) कष्टत्वविषये (प. ७९)। बन्धरैथिल्ये (पृ. ७३) । 'गाढरक्ताः' इति विशेषणविषये (पृ. ६२) ॥ 'गामवतीर्णा' अत्र व्याजोक्तिविषये (पृ. १४४)। अभिधया प्रतिपादकत्वमित्यस्य समाधाने (पृ. १७८)। अरविन्दुवत्सौन्दर्यमस्येत्यस्य शब्दबोधे (पृ. २५२)। आरोप्यमाणस्य प्रकृतोपयोग इत्यत्र (पृ. ३३३)। 'नरसंह धरानाथ' अन्र (पृ. ३३७)। सुधांशुः प्रेयसीमुखमित्यस्य समाधाने (पृ. ३६९)। द्विनेत्र इव वासव- इत्यस्यार्थे (पृ. ३८३)। नासव्ययोग इत्स्यार्थें (पृ. ४०७)। 'पिबतामनल्पसु- खदा' अत्र (पृ. ४०८)। 'न मनागपि निश्चिन्ते' इत्यन्न समाधाने (पृ. ४२६) । वासयति हीनसत्वानित्यत्र (प. ४३३) । दिवि भाति यथा भानुरित्यत्र (प्ृ. ४४२) । ईश्वरेण समो ब्रह्मा इति व्यतिरेकोदाहरणे (पृ. ४८०) । उन्मीलन्तो निमीलन्तः' अत्र (पृ. ४८३)। आबन्नासीति पद्ये (पृ. ४९४)। शेषप्रकरणे 'तत्र' इत्यस्यार्थे (प. ५२३) । रूपकदाक्षिण्यकोपीनमित्यस्यार्थे (प्ृ. ३००)। 'अनन्वयप्रकारस्य न व्यङ्ञ्यता' इत्यस्ार्थे (पृ. २७७) इत्यादि। सत्यं त्विदम्-अर्थबोधाय कीदशी टीकाऽपेक्षितेति विचारो नागेशमहाभागस्य नाभूदावश्यकः, खण्डनमात्राय टीकायां पवृत्तत्वात्। न चास्य विषयस्य सर्वथाऽनु- भव एव। यतो हि टीकासापेक्षाणि कठिनस्थलानि सर्वथा परित्यजतीति तु स्पष्टनेव। किन्त्वाश्चर्यमिद यत् अतिप्रसिद्धान्पदार्थांन् यान् बालकोऽपि जानाति तान् स्थाने स्थाने व्याख्याति। यथा-'कीर्ण व्याप्म्। तन्वी कृशा। श्रियं शोभाम्।' (पृ. ९०)। 'कलितकुलिशघाता:०' (पृ. ८७) एवंत्रिधपद्यानां प्तिपद्व्याख्यां करोति। 'स्वाभाव्यादच्छमुक्ताफल.' (पृ.६६१) टीकासापेक्षाण्येवंविधपद्यानि तु स्पृशत्यपि न।

१ 'प्रजावती भ्रातृजाया'।

Page 46

४० रसगङ्गाधर:।

टीकायां लेखनकमोऽत्यन्तं भ्रामकः। बहुलानुसंधानेन बहुसमयव्ययेन च कथं चिदर्थस्य प्रतीतिः स्वात्सापि फल्गुः । यथा-'परस्पराध्यापनस्य बाधान्माघुर्यसं- करान्तिविशेषस्य लक्षणया' इति मूलं व्याख्यातुं टीकाऽसिति-'लक्षणयेत्यस्याध्यापयि- तुमिति पदेत्यादिः'। कोऽर्थ इति मीमांस्यतां प्रहेलिकेयम्। अस्तु. श्रूयतां नागेश- महोदयेनोच्यते 'माधुर्यसंक्रान्तिविशेषस्य अध्यापयितुं पदलक्षणया'। अर्थात् अध्यापयितुं पदस्य माधुर्यसंक्रान्तिविशेषरूपे लक्षणां कृला। इदानीं विचार्यताम्- कियन्तो बुध्येरन्ननया टीकया? (पृ.२६९)। 'अन्नेत्यस्य इतीत्यादिः'। अर्थांत् 'अहं लताया:०' इत्यनन्तरं केवलम् 'अत्र' इति न वक्तव्यम् । किन्तु 'इत्यत्न' इति वक्तव्यम्। किमनेन खण्डनाभासेन निष्पन्नमिति मार्मिका बुध्येरन् (प्ृ. २६६)। एवं प्रायः स्थाने स्थाने। प्रतीकदानप्रकारोऽत्यन्तं भ्रामक:। 'विभेति० । प्रवदिति०'प्रतीकैः 'विभावादीना बोधे' 'प्रवत्स्यत्पतिका' इत्यादिपदं बोधयितुमिच्छति। किमेतत्सरलतया बुध्येत? व्याकरणे 'लशकु' 'अट्कु' इत्यादिना 'लशक्कतद्धिते' 'अट्कुप्वाङ्रनुमूव्यवायेऽपि' इति यथा बुबोधयिषति तथाऽन्रापि 'मन्नीति०' इत्येतावन्मान्रं लिखति। अनेन 'मन्निर्मिता: पञ्च लहर्यः' इति प्रतीकं कथं वा झटिति बुध्येत? (पृ. १३४)। किञ्च-'अनुस्थानात्' इति पदं सूचयितुम् 'उदिति' पदं कथमिव बोधकं भव- व्वति श्रीमान्नागेश एव जानीयात् (पृ. १७४)। एवं सत्यपि मर्मस्पर्शिनो विद्वांसष्टीकयाऽनया, संकेतेनापि सूचितं तत्वमवगम्य अन्थयोजने साहाय्यमुपलभन्त एवेति को वा न वदेत् ? पूर्व संस्करणम् ग्रन्थस्यास्य दुरूहत्वाच्छुद्धपुस्तकानां चाडलाभात्पूर्वेषु संस्करणेष्वपरिज्ञाता अशु- द््यस्तथाऽवाशिष्यन्त याभिर्वास्तवतत्वावधारणं विवेकिनामपि कठिनतममेवाभूत्। बुद्धिपूर्वकं सुदृढ-प्रौढभाषया निबद्धत्वास्म्रथमतो ग्रन्थ एवायं दुष्प्रवेशः । ततोपि मार्मिकतमानां निगूढसाहि त्यविषयाणां गभीरतमो विमर्शः, यद्विषयको नान्यो ग्रन्थः संस्कृतसाहित्ये। तत्रापि चान्यैरालंकारिकैः सह संघर्षविषय इत्युत्तरोत्तरं काठिन्य परम्परैव। यद्यपि नव्यन्यायादिपण्डिताः प्रकटं प्रगल्भन्ते किन्तु तेषां कृते यावत्सा- हित्यग्रन्थानां मर्मपरिज्ञानमनिवार्यमेव, यतो हि त एवाडत्रालोचनादिषयाः । एवं सत्यपि ये महानुभावाः प्रतिपद्पाण्डित्यमुचा न केवलं वाचा, अपि तु पाठनाडम्बरे- णापि सर्वतो डिण्डिमं घोषयन्त्येतद्ग्रन्थगतविशेषाभिज्ञताया आत्मनः, ते न कथ धन्या :? तैरेतद्विषयको विशेषो यथावाचमवश्यावश्यं प्रकाश्य एव। बहवः खलु सुखतो घोषयन्त एव वराका: परलोकपथिका बभूवुः। कार्ययुगमिदम्, न केवळं विकत्थनेन प्रतिष्ठाडम्बरं तिष्ठेत्। प्रकाण्डपण्डितस्व्रभावानुसारं लेखनादिषु न प्रवृ- त्तिश्चेन्मादृश: सेवको नियोज्यो येन तत्वविलोपस्तु न भवेत्। निश्छलनिवेदनं हि मम 'साहित्यवैभवे'-

Page 47

उपोद्धात: I ४१

'कवित्त' 'वाचां मर्म विज्ञायैव वार्चा विसृजन्ति सदा ये केचिद्, वय वै तेपां गृह्यका गुणज्ञानाम् सुहदां सहाया:, पुनः प्रणताः प्रसन्नहदां, चाराश्चतुराणां, वयं बन्धवो बहुज्ञानाम्।

केचिहुर्मुखा ये, तेषां भेत्तारोऽनभिज्ञानाम् अज्ञानां सपताः, शास्त्रविज्ञानां कृतज्ञाः, पुन- र्निश्छलप्रतिज्ञा वयं सेवका रसज्ञानाम्॥, मार्मिकाणामपि मार्गे अ्रमसुत्पादयन्त्यः कियत्यः कीदृश्यश्चाशुद्धय आसन्निति तु न संप्रति सुखतो वक्तव्यस्याऽSवश्यकता। एतत्संस्करणेन निष्पक्षा विद्वासः स्वय- भेवावगच्छेयुः, म. म. पं. गिरिघरशर्मणां आरम्भिकवक्तव्याच्तापि किञ्ञित्परि चिनुयुः ॥ काशीसंस्करणम् आश्चर्यमिद यद्विश्वविदितकीर्तीनां सुप्रसिद्धविद्वन्महाभागानां नाम्ना यत् पुस्तकं काइयाँ सुदितं तदपि इयदशुद्ध यत्तेन पुस्तकेन यथार्थज्ञानं खपुप्पायितमेव। प्रक्रम- विच्छेदो विरामचिह्वादिपरिष्कारस्तु संस्कृतपण्डितानां कृते विमार्ग्य एव, मुद्रणर्ख- लितान्यपि सोढव्यान्येव। किन्तु मार्मिकस्थलेषु मूलशुद्धिं तु सुप्रसिद्धपण्डितेभ्य आशासीरन्नेव जिज्ञासुवराकाः। विद्वन्महाभागैर्भूमिकायां काव्यमालातः पूर्वमेव वा, समकालमेव वा काश्यामेतनमुद्रणं सूचितम्, किन्तु तैरेव लिखितं यत् 'यावद्य संपूर्णरसगङ्गाघरस्यान्वेषणं कुर्मस्ततः पूर्वमेव काव्यमालायाँ प्राकाश्यत तादिदम्। लाभोपि मुंबईमुद्रितपुस्तकेनैव, तथापि जनैरतुरुद्वा वयमेतत्प्रकाशयामः। स्पष्टमस्य प्रकाशने शास्त्रिमहाभागानामरुचिरभिव्यज्यते। भूमिकायां श्रीमन्तो लिखन्ति- 'यथाशककिशोधने यतितम्, परमव्यक्ताः काश्चिद्विहाय व्यक्ताः शोघिताः'। एवं सत्यपि प्रतिस्थलं सुव्यक्ततमानामशुद्धीनां बाहुल्यं श्रीमताममनोयोगं स्फुटमभिव्य- नक्ति। श्रीमद्भिः स्वयमकृत्वा, एतस् शोधनमव्युत्पन्नस्य फक्किकापण्डितस्य कस्यचि- दधस्ते दत्तम्। फलमस्येदमभूत यत् श्रीमतां नाममुद्रया स्थाने स्थाने सत्यमार्गाकया- विता वराकाः। दष्टान्तविधया वच्मि, न मे दुरभिसन्धिः। साहित्याचार्येण श्रीमता पुरुषोत्तम- शर्मचतुर्वेदमहाभागेन रसगङ्गाधरे कियान्परिश्रमः कृत इति त एव तरवतो जानीयु- यैंस्तदनूदितो हिन्दीरसगङ्गाघरस्याद्यावधि मुदितो भागो मनोयोगेन पौरोभाग्येनापि वा हष्टः स्यात्। मूलशोधनं कृत्वा, एवंविधभाषायां लिखितस्य पुस्तकस्य हिन्दीभा-

१ वाचां वाणीं, भागुरेराप्। २ वश्याः। ३ प्रेष्याः ।

Page 48

४२ इसगङ्गाघरः ।

पायामर्थविशदीकरणं न यस्य कस्यचित्कार्यम्। सोपि यद् यत्र कुत्रचिम्मार्गं परित्य- जति तन्र सेयं काशी नामसुदैवापराध्यतीति जाने। भावोदयध्वनौ-वीक्ष्य वक्षसि० इति पद्ये (प्राची० सं०१९४) 'हारलक्षमदर्शनं विभावः। बाहुलताकर्षणमनुभावः। रोपोदयो व्यङ्ञ्या:' इति सुस्पष्टोयं ग्रन्थः (यतो हि भावोदयध्वनिरुदाहियते)। किन्तु सुंबईपुस्तके सुद्धितमस्ति 'रोषादयो व्यड्याः'। शास्त्रिनाममुद्रावाहिनि काशी- पुस्तकेपि तथव। अत एवाहं तु सुदृढं विश्वसिमि यच्चतुर्वेदमहाभागो 'रोषादयो व्यङ्गयाः' इत्यत्र पुस्तकह्यसंवादं दृष्टैरैव 'इनसे रोषादिक व्यङ्ञय हैं' इति हिन्दीमक- रोतू। (पट. २८२)। अतिशयोक्त्यादीनि कानिचित्स्थलानि तु काशी पुस्तके तथाऽयुद्धानि सन्ति यानि रष्टा प्रत्येकमनसि भवेत् 'वाचाल(बहुगर्ह्यवाक्) तापेक्षया वराकस्य मूकस्य यथा मूकतैव वरं तथा ईदशमुद्रणाऽपेक्षयाऽमुद्रणमेव श्रेयस्करम्' इति। अस्तु. यथामति विहितमिदं मे शोधनं संमुखस्थमेव। मम नितान्तं मन्दप्रज्ञतया भूयांसि स्खलितानि संभाव्यन्तेऽस्मिन्सांप्रतमपि। अक्षरयोजककृता दृष्टिदोषनिमित्ता अश्ुद्धयस्त्वनिवार्या एव । किन्तु अ्न्थयोजने वैपरीत्यमुपतिष्टेत्ताद्टगशुद्धयो न कथंचित्स्युरिति मे विश्वासः।

लघुटाका सरला साहि त्यशास्त्रे विमर्शविषय एकमात्रोयं अ्रन्थ इति सर्वेषामेव साहित्यमार्मिकाणाम- वश्यानुशीलनीयत्वेपि सांप्रतमाचार्यपरीक्षायां पाठ्यतया नियत इति यथा कथंचि- स्पाठनोपयोगमयमहति। किन्तु पूर्वो ककारणैर्विद्यार्थिनां केशमुपतर्कयता मया वर्षद- यात्मागेव पञ्चदशवर्षैनिजानुभवानुसारमध्यर्धग्रन्थस्य विस्तृतैका टीका शनैः शनैः प्राणीयत। किन्तु पञ्चमेऽस्मिन्संस्करणे लघुटीकासंयोजमे वा्वमन्यत निर्णयस गरा'धिपतिभिः। अत एव प्रथमानने केवलमत्यावश्यकमंशं विशद्यन्ती लघुटीका सेयं 'सरला' समारभ्यत पुरा, किन्तु भिक्षुपादप्रसारणन्यायेन शनैः शनैरग्रेऽस्याः स्वरूपं विस्तृतमेवाऽभवत्। प्रथमानने हि न तादृशः क्विष्टो विषयः, भाषानूदित- अ्न्थोपि च विद्यार्थिनां बहुत्रोपकरोतीति तर्कथन् द्वितीयानन एव यथाऽपेक्षम- कल्पयं विस्तरम्। गुणग्राहिणो मुद्णालयाधिकृता अपि तमिममभ्यनन्दन्। अत्र हि तर्कशैलीपरिष्टताः पदार्था यावच्छक्यं विशदीकृताः । प्रतियोगि-अनु- योगि-अवच्छेदकादीनां प्रतिशब्दाभावेपि तत्संनिहितार्थवाहिभिरेव शब्दैरेषामर्थ- स्तथा विशदीकृतो येन जिज्ञासूनां तात्पर्यबोधे न बाधो भवेत्, कामं रूढिभक्ता विरकता भवेयुः। एवं मूलपङ्कीनामर्थविशदीकरणेप्यतिसरला भाषा व्यवहता। अर्थ- खोधे भ्रमो मा भूदित्यभिसंघिना व्याकरणसन्धिरपि न कृत इति न कुर्वन्तु विग्रहं अण्डितपुंगवा इत्यर्थये। प्रारम्भे प्रकाशकानां संकोचेन कतिचित्पश्रेष्वतिन्यूनैव

Page 49

उपोद्धा ::

टीकास्ति, यत्र जटिलार्थानां वाक्यानां पदानां च अवयवविश्रलेषणेन सह तात्पर्याववो- धाय यतितम्। द्वितीयानने तु-पक्कीनां दुरूहतायाँ प्रतिपद्व्याख्या, संपूर्णप्रवट्ट- कस्यैव काठिन्ये 'प्रघटकस्यास्येदं विशदी करणम्' इत्यादिशी र्पकेण संदर्भबद्ध तस्य स्पष्टी- करणम्, इत्यादिबहुभि :- प्रकारैर्ग्रन्थसारल्याय चेष्टितस्। उत्प्रेक्षातोडग्रे यथोत्तरं संकु- चन्ती नागेशव्याख्या केवलं नाममात्रायैव। आवश्यकता च तन्र पूर्वतोऽ्यधिका। त्त्र हि सेयं सरलैव मूलविशदीकरणाय प्रयतत इति स्पष्टमेव भवेतपाठकानाम्। उपकार: अस्य ग्रन्थस्य संपादने-प्राक्कयनलेखनेन, पाठसंशोधनाचुमननेन, ग्रन्थग्रन्थि- प्रेलीकरणेन च जयपुरराजकीयसंस्कृतकालेजाध्यक्षपद मधितिष्ववन्ि र्महामहोप ध्यायश्री गिरिधरशर्मचतुर्वेदमहोदयैर्महत् साहाययं से व्यधायीति हृजयतस्तेवां कृतर- तामावहामि। दर्शनादिशास्त्रपण्डित्येSलंकारसाहित्ये कवितालालित्ये धर्मोपदेशने नीतिनैपुण्येऽधिकारोचितप्रबन्धपाटवे वाग्मितायां च श्रीमन्तः सर्वत्रापि लब्य- यशस इति महद्गारवं संस्कृतपण्डितसमाजस्य। एवमेव परनमार्मिकस्य साहि- त्याचार्यपं० श्रीपुरुपोत्तमचतुर्वेदमहाभागस्याप्युपकारभारमहमनल्पं धारयामि यतो हिन्दीरसगङ्गाधरावलोकनमपि मे शोधने सहायकमासीत्। श्रीमन्नाल्वरडिक्ृण्ण- भूपास्थानविदुया साहित्यालंकारसांख्ययोगवेदान्तविदुषा जग्गूबेङ्कटाचार्येग सस- दशपृष्ठात्मिकायां लघुतमायां पुस्तिकायां रसगङ्गाघरपूर्वसंस्करणगत-१३५, १७४, १९१, ३१३, पृष्ठेषु या नागेशस्य टीका तस्याः सम्यक्खण्डनं कवृतम्। अग्रेपि यदि वेंकटाचार्यमहोदयः प्रैक्षिष्यत तर्हि नागेशस्य रहस्ान्युपालप्स्त। महाभागमिम- मभिनन्दन्नहं नागेशरहस्याऽवगतये सरलामिमामेकवारं द्वष्टमनुरु्धे। अस्तु, अस्मिन्नध्यवसाये यः कश्चन गुणलेशः स एतदादीनामनुग्रहजन्यः । पदे पदे संभाव्यमाना दोषास्तु ममव मन्दस्य मतिवैभवमिति सविनयं विज्ञान् विज्ञापयामि- दुर्दैवादसमस्तोपि प्रशस्तोयं प्रबन्धराद। एषोऽणुमात्रशेषोऽपि राकेशो रमयेन्मन: ॥। श्रीकाशी नाथशास्त्रिप्रवरकरुणया प्रापितो वाक्प्रवेश

साहित्यं कृष्णशास्त्रिप्रणिहितद्यया लब्धवान्, मातुलैः स्वै- र्वाग्गुम्फं लम्भितोऽसाविति विनयभराद्वन्दते मजजुनाथः॥ विदुषामनुचरो फाल्गु. शु. ४ सं. १९९५. ई मञ्जुनाथोपनामा भटश्रीमथुरानाथशास्त्री

१ एतदादीनां परिचयस्तु 'जयपुरवैभव'तः प्राप्यः। प्राप्तिस्थानम्-'भट्टश्रीमथुरानाथ शास्त्री, नागरपाडा जयपुर' इति।

Page 50

४४ रसगङ्गाघर: ।

श्री: [ पष्ठ संस्करणम् ] गुणग्राहिणां संस्कृतसेविनां भूरि किल कृतज्ञो निर्णयसागराधिनेता सरलाप्रणेता चायं यत्स्वल्पतमेऽपि पूर्वसंस्करणावधौ तथा समाद्रियत सोयं निबन्धो यथा अतिबन्धोच्छायमये ऽप्यस्मिन् महासमरसमये षष्टमिदं संस्करणमञ्जसा संघटनीय- मेवाडभूत्। वारेऽस्िन्नध्येतृणां बोधसौकर्याय स्थाने स्थाने परिवर्धिता सेयं सरला, परिवर्धितानि परिवर्तितानि चाक्षराणि स्थले स्थल एव सौकर्याय तेषाम्। समेधितो भूमिकायामपि भूयान् भागः, प्रयतितमधिकाधिकं च शोधन- मार्मिकतायामित्यादिना किं वा निवेदितेन। स्वयमिदमवगतं स्यात्सूक्ष्मदशाम्। अस्तु. व्यधिकद्विसहस्त्रतमे (२००२) मनोरमे वैकरमे वर्षे। विद्वत्कृपया अष्टं व्यधायि षष्ठं परिप्करणम्।। गुणज्ञानां कृतज्ञात्मा विज्ञान्विज्ञापयत्ययम्।

भट्टश्रीमथुरानाथशास्त्री जयपुरालय:।।

Page 51

रसगङ्गाधरे प्रमापकाः ।

अप्पयदीक्षितः १४, ४१, १५०, १७७, पश्च लहर्य: १३४. इत्यादि. बादरायणचरणा: १४६, ५३५. अभिनवगुप्तपादाचार्या: २८,१३१,३४९, भट्टनायक: २९. इत्यादि. भरतमुनि: ५७. अलंकारभाष्यकार: ३१८, ४९२ भवभूति: २३. अलंकाररत्नाकर: २१३, २१६, २६९, भागवतम् ५६. इत्यादि. भामह: ४९९, ६११. अलंकारसर्वखम् २१३, २६७, २७५, मनोरमाकारा: ४८५. ५६९ इत्यादि. आख्यातवादशिरोमणिव्याख्यातार: २४८. मम्मटभट्टाः २७, ३८, ६८, इत्यादि.

आनन्दवर्धनाचार्या: १३१, ३२८, ३४९. महाकविः (कालिदास:) २२६.

आलंकारिका: २३१, २८८,५६९, इत्यादि. महाभाष्यम् २०२, २२४.

आलुवन्दारुस्तोत्रम् ४५१. मुरारि: ४५४.

उत्तरमीमांसा १४६, ५३५. यमुनावर्णनम् २२, १६०.

उन्भटः ४९९, ५११, ५२६, इत्यादि. यास्क: ४६६.

औद्भटा: ५३६, ६४४. योगवासिष्ठम् १३४.

करुणालहरी ४४. रत्नावली १३४.

कालिदास: २६८, २८५. रामायणम् १३४. काव्यप्रकाश: १५, २०, ४५ इत्यादि. लोचनकार: ५५३.

काव्यप्रकाशटीकाकारा: ७२, १२६, १५४, वामन: ५०९, ६४५.

इत्यादि. विद्याधर: ३३७. कुवलयानन्द: २९२,३००,३०३, इत्यादि. विद्यानाथः २१२.

केयट: २२४. विमर्शिनीकार: २६८,३०१,३४३, इत्यादि गीतगोविन्दम् ६५. वृत्तिवार्तिकम् १४३, १७७, १७८. गीता (महाभारते) ५३, १०७, ६५८, वेद: ६२६. चित्रमीमांसा १४, १९, २१०, इत्यादि. वेदान्तवाक्यम् ५३५. जयदेव: ६५. वैयाकरणा: २२६, २५५, ५७१, इत्यादि. ध्वनिकार: ७, १६, १३८, इत्यादि. व्यक्तिविवेककृत् १७. ध्वनिकारानुयायिन: ५५४. शाङ्गदेव: ५५. ध्वन्यालोचनम् ५६०. श्रीवत्सलाञ्छन: ४८. नैयायिका: २५५, २३५, ५७१, इत्यादि. संगीतरन्नाकरः (रत्नाकरः) ३७, ३९. नैषधीयम् ४५१. साहित्य दर्पेणम् ८.

Page 52

जगन्नाथपण्डितराज: ।

"जगन्नाथपण्डित स्तैलङ्गदेशाजेयपुरे समागत्य पाठशालां स्थापितवान्, पराजित वांश्च विवादे तन्न दिल्लीनगरादागतं 'काजी'ति प्रसिद्ध कंचन यवनपण्डितं सत्वरमेव तम्मतग्रन्थानघीत. ततश्च 'काजी'मुखात्तद्विद्याबुद्धिचमतकारमाकर्ण्य परितुष्यता दिल्ली नरेन्द्रेण पण्डितो जयपुरातलमाहूतः, सभाजितश्च. तत्र च कस्यांचन येवनकन्या- यामासक्तो बादशाहानुग्रहेण तां परिणीय तथा सह सुखेनातिवाहितवान्यौवनं बाद- शाहसमाश्रय एव. वार्धके च वाराणस्यां गतो 'यवनीसंसर्गदूपितोऽयम्' इत्यप्पय- दीक्षितादिपण्डितैस्तिरस्कृतो ज्ञातिबहिष्कृतश्च गङ्गातटे गत्वा सोपानपङ्गिशिखरे समुपविष्टस्ततक्षणनिर्मितर्भक्तिभरितैः पद्ैर्गङ्गां स्तोतुमुपचक्रमे. भक्तवत्सला गङ्गापि प्रतिश्लोकमेकैकं सोपानमधिरोहन्ती द्वापञ्चाशन्मिते श्रोके प्रणीते प्राप्तवती पण्डित- राजोपकण्ठस्, प्लावितवती च सत्वरमेव यवनीसमेतमेनम्. ततश्चासूयामत्सराभ्या दृपिता वाराणसेया: पण्डितास्तादशं पण्डितराजप्रभावमालोक्यातीव विलक्षा बभूुः" इत्येके वदन्ति, अपरे त्वेवं कथयन्ति-"दिल्ीनरेन्द्रकृपापात्रतां प्राप्तस्य तत्प्रसादा- ह्धश्रियस्तारुण्यति मिरतिरस्कृतविवेकालोकस्य जगन्नाथपण्डितस्य बभूव कस्यांचन यवनयुवत्यामासक्ति: सा च कियत्कालानन्तरं पैञ्चत्वं गता. ततस्तद्विरहातुरः पण्डि तोऽपि दिल्लीं परित्यज्य वाराणस्यामागतस्तदाचरणमाकर्णितवद्धिस्तत्रत्यैः पण्डितैर- १ जयपुरे तु महाराष्ट्रदेशस्थब्राह्मणः सम्राड्जगन्नाथपण्डितो भिन्न एवासीत, यत्संततिरद्यापि जनपुरसमीपे ब्रह्मपुर्या वर्तते, यश्च महाराजसवाईजयसिहाशया १७३१ खिस्ताब्दे सिद्धान्त- सम्राजम्, सिद्धान्तकौस्तुभम्, पञ्चदशाध्यायात्मकस्य 'ग्रीक भाषानिबद्धस्य 'यूक्लीड़'प्रणीतस्य अ्न्थस्य रेखागणितनामकं संस्कृतानुवाद च विरचितवान्. महाराजसवाईजयसिहस्तु १६८८ खिस्ताब्दे जन्म लेभे, १७०० खिस्ताब्दे राज्यसिहासनमधिरूढः, १७१४ खिस्तान्देऽश्वमेध- यागं कृतवान्, १७२८ सित्रिस्ताब्दे च परलोकं जगामेति जयपुरेतिहासे समुपलभ्यते. २ 'यव- नौरमणी विपदः शमनी कमनीयतमा नवनीतसमा। उहिऊहिवचोSमृतपूर्णमुखी स सुखी जग- वीह यदङ्कगता ।।', 'यवनी नवनीतकोमलाङ्गीं शयनीये यदि नीयते कदाचित्। अवनीतलमेव साधु मन्ये न वनी माघवनी विनोदहेतुः ॥,' 'न थाचे गजालि न वा वाजिराजि न वित्तेषु चित्तं मदीयं कदापि। इयं सुस्तनी मस्तकन्यस्तहस्ता लवङ़गी कुरङ्गीट्टगङ्गीकरोतु॥' इत्याद्याः पण्डि- ज्राजप्रणीता यवन्यासक्त्यनुमापकाः श्रोकाः सन्तीति केचिद्दन्ति, परमेते पण्डितराजग्रन्थेष्व- सद्दृष्टेपु नोपलभ्यन्ते. ३ सैव स्तुतिरधुना 'गङ्गालहरी'नान्ना प्रसिद्धा सर्वत्र भागीरथीभक्तः पठ्यते, ४ अत्र भामिनीविलासस्य तृतीयो विलासः प्रमाणमिति वदन्ति, तैस्तु रसगङ्गाधरे करुणप्रकरणे समुदाहृतात 'अपहाय सकलवान्धवचिन्तामुद्दास्य गुरुकुलप्रणयम्। हा तनय विनय- शालिन्कथमिव परलोकपथिकोऽभू: ॥' इत्यस्मात्पद्यात्मण्डित(राज)स्य पुत्रमरणमपि कुतो नानुमीयते?

Page 53

जगन्नाथपण्डितराजः । ४०

नाहतो दुराचरणानुशयेन तिरस्कारेण प्रियतमाविरहानलेन च दूयमानमना: कुछ्रदि निवृंतिमलभमान: स्वकृतां गङ्गालहरीं पठन्परावृषि प्रवृद्धे गङ्गाप्रवाहे झम्पामदस, निममज च तन्रैव." एवमन्या अपि नानाविधा: पण्डितराजविषयिण्यो जनश्रुतयः श्रूयन्ते. एताः सर्वा अपि प्रमाणशून्या इत्युपेक्ष्य पण्डितराजप्रणीतग्रन्थेम्यो यद्वगतं यञ्चानुमितं तदेवात्र सप्रमाणमस्माभिः पुरस्क्रियते- आसीत्तैलेङ्गाभिजनो वेगिनाडकुलोत्पन्नः पेरुभट्टाख्यो महीसुरसत्तमः, यो वारा- णस्यां ्जैनिन्द्रभिक्षोरवेदान्तशास्म्, सहेन्द्रपण्डिताध्यायवशेपिकदर्शने, खण्डदेवा- स्पूर्वमीमांसाम्, शेषोपाह्ववीरेश्वरपण्डिताच्च महाभाष्यमधीतवानू. तसाल्लक्ष्मीवामि- कायां तद्धर्मपत्यां जगन्नाथो जन्म लेभे, पठितवांश्च निखिलानि शास्त्राणि प्रपः स्वपितुरेव. प्राप्तयौनश्चाश्रयेच्छया दिल्लीनगरे समागत्य शकोपमवसवस शाहजहा- नाभिधयवनसार्वभौमत्य संसदि प्रवेश लब्धवान् अधिगतवांश्च निजविद्याचसत्कार परितोषितात्तसमादेव पण्डितराजपदवीम्. स्थितश्च मध्यमे वयस पायस्तैत्रैव तत्समीपे वत्सूनोदाराशिकोहस्य समीपे च. शाहजहानमहीपतिस्तु १६२८ सिताब्दे राजसिंहा- सनमधिरूढ:, १६५८ स्त्रिस्ताब्दे औरङ्गजेबनास्ना ख्वपुन्रेण कारागारे निवेशितः, १६६६ स्त्रिस्ताब्दे च पञ्चत्वं गतः. दाराशाहस्तु प्रागेव दुर्दशामतुभाव्य औरङजेनेन घातितः पण्डितराजोऽपि वाधके कोइयाँ मथुरायाँ वा गत्वा परमेश्वराराधनेन वयारें नी तवान्. तस्मात्सि्त्र स्ताब्दीयसप्दशशतकमध्यभागे पण्डितराज आलीदिति सुव्यक्तमेव. १ 'तैलङ्गान्वयमङ्गलालय-' इत्यादि प्राणाभरणसमाप्तिस्थे पद्े, अग्रे समु्ने आसफविलाता प्रारम्भस्थे गद्ये च स्फुटमस्य तैलङ्गत्वम्. २ केषुचिद्भामिनीविलासपुस्तकेषु समातौ इति श्रीमइ- खिलान्ध्रवेगिनाडिकुलावतंस-' इत्यादि समुपलभ्यते. ३ पेरुभ्टस्य पेरमभट्ट इत्यपि नामान्तरं प्राणाभरणान्ते ससुपलभ्यते. ४ सिद्धान्तकौमुदीटीकायास्तत्ववोविन्याः कर्तायं ज्ञानेन्द्रसिध्ुः स्यात्. ५ स्वपितुर्गुरोः शेपोपाह्ववीरेश्वरपण्डितादपि किचिदवी तवानिति मनोरमाकुचमर्दनारम्मे समुपलभ्यते. ६ 'अथ सकल्लोकविस्तारविस्तारितम होपकारपरम्पराीनमानसेन प्रतिदिनमुध- दनवद्यगद्यपद्याद्यने कविद्याविद्योतितान्तःकरणैः कविभिरुपास्यमानेन कृतयुगीकृनकलिकालेन कुमवि तृण जालसमाच्छादित वे दवनमार्गविलोकनाय समुदीपिततुतर्कदहनज्वालाजालेन मूर्तिमतेव नव्दा- बासफखानमनःप्रसादेन द्विजकुलसेवा हेवकिवाअानःकायेन माथुर कुलसमुद्रेन्दुना रायमुकुन्देन दिष्टेन सार्वभौमश्रीशाहजहांप्रसादादधिगतपण्डितराजपदवीविराजितेन तैलङकुलावतंसेन पण्डिन- जगन्नाथेनासफविलासाख्येयमाखमायिका निरमीयत। सेयमनुग्रहेण सहृदयानामनुदिनमुल्लासिता भवतात्।' एतद्द्यमासफविलासप्रारभ्भे समुपलभ्यते. ७'दिल्लीवलभपाणिपल्लवतले नीतं नत्रीनं वयः' इति भामिनीविलासान्ते वर्तते. ८ जगदाभरणे दाराशाहस्यैव वर्णनं कृतमस्ति. ९ भामिनीविलासान्ते 'संप्रत्यन्धकशासनस्य नगरे तत्त्वं परं चिन्त्यते' इत्यस्ति. केषुचित्पुस्तकेषु 'संप्रत्युज्झितवासनं मधुपुरीमध्ये हरि: सेव्यते' इत्यपि पाठः समुपलभ्यते. तत्रान्धकशासनस्य नगरं काशी, मधुपुरी च मथुरेति ज्ञेयम्.

Page 54

४८ रसगङ्गाघर: ।

अद्यावधि ज्ञाता: पण्डितराजप्रणीता ग्रन्थास्त्वेते- (१) अमृतलहरी-यमुनास्तुतिरूपोऽयं ग्रन्थः काव्यमालायाँ मुद्रितः. (२) आसफविलास :- अत्र नव्वाबासफखानस्य वर्णनमस्ति. रसगङ्गा- धरेऽपि पद्द्वयमासफनामाक्कितं समुपलभ्यते, तच्चास्ादेव समुद्धतं स्यात्. ग्रन्थोS- यमद्यापि नास्माभिरुपलब्धः. केवलं पूर्व टिप्पण्यामुद्धूतं गद्यमलवरमहाराजाश्रितप- पूर्वतरे वर्षे प्रहितमासीत्. अस्मत्समीपेऽप्ययं ग्रन्थः संपूर्णो नास्तीत्यपि तैरुक्तम्, (३) करुणालहरी- विष्णुस्तुति रूपा काव्यमालायां सुद्रित ार (४) चित्रमीमांसाखण्डनम्-अन्राप्पयदी क्षित कृत चित्रमीमाँसाया दूषणानि संकलितानि सन्ति. काव्यमालायां सुद्रितम्. (५) जगदाभरणम्-अन्र शहाजहानसूनोर्दाराशिकोहस्य स्तुतिरस्ति. किंतु प्राणाभरणसमानमेवैतत्काव्यम् प्रायः प्राणनारायणनामस्थले द्ाराशाहस्य नाम न्यस्तमस्ति. अस्येकं पुस्तकं कोटानगरनरेन्द्राश्रितकैलासवासिगज्गावल्लभपण्डितसमीपे दृष्टमासीत्. (६) पीयूषलहरी-इयं गङ्गालहरीनाम्ना सुप्रासद्धा सदाशिवचतुर्भुजराम- चन्द्रादिकृतकतिपयटीकालमेता सुलभा मुद्रिता च. (७) प्राणाभरणम्-अत्र कामरूपदेशाधिपतेः प्राणनारायणमहीभृतो वर्णन- मस्ति. सुदितं चैतत्काव्यमालायाम्. एतट्टिप्पणमपि पण्डितराजकृतमेवास्ति. (८) भामिनीविलास :- अयं पण्डितराजप्रणीतपद्यसंग्रहरूपो ग्रन्थः सर्वत्र सुलभ एव, सुद्रितश्र बहुवारम्. मोडकोपाह्वपण्डिताच्युतरायप्रणीता भामिनी- चिलासटीका समूला निर्णयसागरयत्रालये सुद्धिता. (९) मनोरमाकुचमर्दनम्-अयं ग्रन्थो सट्ोजिदीक्षितप्रणीताया मनोर- मायाः खण्डनरूपो विरलप्रचार एव. तन्रनास्माभिरुपलब्धस्य पुस्तकस्य प्रारम्भे- "लक्ष्मी कान्तपदाम्भोजमानम्य श्रेयसाँ पदम् । पण्डितेन्द्रो जगन्नाथः स्यति गर्व गुरुद्रुहाम्।।' इह केचि' ननिखिलविद्वन्मुकुटमयूखमालालालित चरणकमलानां गीर्वाण- गणगौरव ग्राममांसलमहिममण्डिताखण्डमहीमण्डलानां शेषवंशावतंसानां श्रीकृष्ण- पण्डितानां चिरायार्चितयो: पादुकयो: प्रसादासादितशब्दानुशासनास्तेपु च पारमेश्वरं पदं प्रयातेषु कलिकालवशंवदी भवन्तस्तन्रभवद्भिरुल्लासितं पैक्रियाप्रकाशमाशयानववे धनिबन्धनिवं(नवबोधनिबन्धनैः)दूषणैः स्वयं निर्मितायां मनोरमायामाकुल्यकार्षुः १ भट्टोजिदीक्षितानाम्. २ भट्टोजिदीक्षिता: ३ अयमेव शेषश्रीकृष्णपण्डितः कंसवध- पारिजातहरणयोः कतेति भाति, यतः कंसवधप्रस्तावनायामप्यात्मनो वैयाकरणतां प्रकटयति, अथ च समयेSपि साम्यमस्तीति सुधीभिर्विचारणीयम्. ४ शेषश्रीकृष्णैः. ५ प्रक्रियाप्रकाशः प्रक्रियाकौमुदीटीका.

Page 55

जगन्नाथपण्डितराजः । ४९

पण्डितवीरेश्वराणां तनयैर्दूषितापि स्वमतिपरीक्षार्थ पुनरस्माभिनिरीक्ष्यते। तत्र ताव- रसार्वधातुकमपिदिति सूत्रगतकोस्तुभे-इत्यादिना संख्यावन्भिरुपहसनीयमर्थ निरूप- चताम्, तथाणुदित्सूतगतकोस्तुभे-इत्यर्थस्य निर्णयेन विलक्षण स्वव्युत्पत्तिपाटव- सुद्विरताम्, भवते इति सूत्गतमनोरमार्या-शपः प्रवृत्ति समर्थयमानानां गुरुद्वेष- दूषितमतीनां यद्यपि पुरुषायुषेणापि न शक्यन्ते गणयितुं प्रमादास्तथापि दिझात्रेण कानपि कुशाग्रीयधिषणेषु निरूपयामः।" इत्यादि वर्तते. (१०) यमुनावर्णनम्-गद्यनिबद्धोडयं ग्रन्थो नाद्याप्युपलब्धः रसगङ्गाधर उदाहृतानि द्वित्राणि गद्यान्यस्य समुपलभ्यन्ते. (११) लक्ष्मीलहरी-काव्यमालायां सुद्धितैव. (१२) सुधालहरी-काव्यमालायां मुद्धितैव ,र (१३) रसगङ्गाघर :- अयं पण्डितजगन्नाथस्य सुख्यो ग्रन्थः, किंतु सर्वत्रा- समाक्ष एव लभ्यते. अद्यावधि दैष्टेष्वस्माभिर्नवसु पुस्तकेष्वेकमप्युत्तरालंकारप्रकरण नातिकरामति. पण्डितराजात्स्वल्पकालानन्तरं समुत्न्नेन नागेशभट्टेनाप्ययं ग्रन्थ उत्त- रालंकारप्रकरणान्तमेव प्रापः, यतस्तत्प्रणीता रसगङ्गाघरटीकाप्युत्तरालंकारप्रकरणपर्य- तमेवास्ति, अतः पञ्चाननात्मक: संपूर्णोडयं अ्रन्थः कदाचिदुपलप्स्यत इति दुराशा- मात्रम्. ग्रन्थसलासिं कर्तुमपारयन्मध्य एव पण्डितराजः परलोकं गत इत्यपि वक्तुं न युज्यते. यतश्चित्रमीमांसाखण्डनमनेन रसगङ्गाधरानन्तरं प्रणीतमिति तत्ारम्भे स्फुट मस्ति. केवलमेतावदनुमीयते-अप्पयदी क्षितद्वेषेण चित्रमीमाँसानुकरणप्रवृत्तः पण्डितराजोऽपि स्वग्रन्थ चित्रैमीमांसावदसमाप्तमेव स्थापितवान्, चित्रमीमांसा तु बुद्धिपूर्वमेवाप्पयदी क्षितेन समाप्तिं न नीतेति तत्समात्िस्थश्लोकतो ज्ञायते. एवं त्रयोदशग्रन्थाः पण्डितराजप्रणीता ज्ञायन्ते. रशिसेना, पण्डितराजशतकं चेत्यन्यदृपि ग्रमधट्ूयं पण्डितराजप्रणीतमस्तीति कैश्चिदुच्यते. (१) अंश्वघाटी-रतिमन्मथ-वसुमतीपरिणयकर्ता तक्जारनगरवासी जगन्नाथः, (२)

१ मनोरमा, २ पुस्तकपञ्चकमस्माभि: साक्षाद्ृष्टम्, पुस्तकचतुष्टयस्य त्वन्तिमा पङ्किरस- न्मित्रैः काश्यादिनगरेभ्यो लिखित्वा प्रहिता दष्टा. २ 'नामंनामं घनश्यामं धाम तामरसेक्षणम् । पण्डितेन्द्रो जगन्नाथशर्मा निर्माति कौतुकम्॥,' 'रसगङ्गाधरे चित्रमीमांसायां मयोदिताः । ये दोषास्तेSत्र संक्षिप्य कथ्यन्ते विदुषा मुदे ॥,' 'सूक्ष्मं विभाव्य मयका समुदीरितानामप्पय्यदीक्षि- तकृताविह दूषणानाम् । निर्मत्सरो यदि समुद्धरणं विदध्यादस्याहमुज्वलमतेश्चरणौ वहामि ॥' इति चित्रमीमांसाखण्डनप्रारम्भक्रोकाः ४ 'अप्यर्थचित्रमीमांसा न मुदे कस्य मांसला। अनू- रुरिव तीक्ष्गांशोरधेन्दुरिव घूर्जटे: ॥' अयं चित्रमीमांसासमाप्तौ श्रोक: ५ काव्यमालाया द्विती- येडक्के प्राणाभरणप्रारम्भटिप्पणेSश्वधाटी रतिमन्मथं वसुमतीपरिणयं चेति अ्रन्थत्रयं पण्डितराज अ्रणी तग्रन्थनाममालायां भ्रमेण लिखितमासीदिति ज्ञेयम्. 5 रस० भू०

Page 56

५० रसगङ्गाधर:।

रेखागणितादिकरती सम्नाडजगन्नाथः, (३) विवादभङ्गार्णवकर्ता जगननाथतर्कपञ्चा ननः, (४) अतन्द्रचन्द्रिकनाटककर्ता जगन्नाथमैथिलः, (५) अनङ्गविजयभाण- कर्ता श्रीनिवाससूनुर्जगन्नाथपण्डितः, (६) सभातरङ्गकर्ता जगननाथमिश्र:, (७) अद्वैताृतकर्ता जगन्नाथसरस्वती, (८) समुदायप्रकरणकर्ता जगननाथसूरिः, (९) शरभराजविलासकर्ता जगनाथः, (१०) ज्ञानविलासकाव्यकर्ता नारायणदैवज्ञसूनु -र र्जगन्नाथः, (११) अनुभोगकल्पतरुकर्ता जगननाथः, इत्याद्या बहवो जगनाथना- मान: पण्डिता: समभूवन्, ते सर्वेडपि पण्डितराजाद्िन्ा इति ज्ञेयम्.

१. अयं जगन्नाथोऽपि तऔरनगरवास्तव्य भासीदिति रतिमन्मथादिप्रणेतुर्न भिन्न इति भाति.

Page 57

नागेशभट्टः।

अयं रसगङ्गाघरटीकाप्रणेता कालोपनामकदेशस्थमहाराष्ट्रब्राह्मणशिवभट्सती देव्योः सूनु्नांगेशभट्टः काइयाँ कस्मिन्समय आसीदिति विचारे मनोरमाकुचमर्दन-शब्दरत- मज्जूषादिग्रन्थविलोकनेनेतथं पुरुषपरम्परावगता- शेषश्रीकृष्णः

भट्टोजिदीक्षित: (शिष्यः) शेषवीरेश्वरः (पुत्र:)

वीरेश्वरदीक्षितः (पुत्र:) पण्डितराजजगन्नाथः (शिष्यः)

हरिदीक्षितः (पुत्रः)

नागेशभट्टः (शिष्यः) अत्र पण्डितराजाद्वितीयः पुरुषो नागेश आसीदिति ज्ञायते. पूर्वनिणीते आसने जगनाथपण्डितराजसमये १६६६ खिस्ताब्दे पुरुषद्वयपर्याप्ानि चत्वारिंशद्वर्षाणि योज्यन्ते चेत्तदा १७०६ सित्रस्ताब्दोऽयमासन्नो नागेशसमयः समायाति. अथ च "जयपुरमहाराजाः श्रीसवाईजयसिंह वर्माणोऽश्वमेघप्रसङ्गे नागेशभट्टाय निमत्रणपत्र प्रहितवन्तः. तदा नागेशेन 'अहं क्षेत्रसंन्यासं गृहीत्वा काइयां स्थितोऽस्मि, अतस्ता परित्यज्यान्यत्र गन्तुं न शक्रोमि' इत्युत्तरं प्रहितम्" एषा किंवदन्ती जयपुरेऽधुनापि प्रसिद्धास्ति. श्रीजयसिंहमहाराजाश्च १७१४ स्त्रिस्तान्देSश्वमेघं कृतवन्त इत्युक्तमेव प्राकू, अयमश्वमेधसंवत्सरोऽपि पूर्वलिखित १७०६ स्त्रिस्तसंवत्सरासन्न एवेति सित्रिस्ता- ब्दीयाष्टादशशतकप्रथमतुरीयांशे नागेशभट्ट आसीदिति व्यक्तमेव. केचित्तु खिस्ताब्दी- याष्टादशशतकपूर्वार्धानन्तरं नागेशसत्तां कथयन्ति. हैरिदीक्षितशिष्योडयं नागेशभट्ट: स्वशिष्याच्छुङ्गवेरपुराधीशबिसेनवंशसमुन्नूतरा-

१. 'अधीत्य फणिभाष्याब्धि सुधीन्द्रहरिदीक्षितात्। न्यायतन्नं रामरामाद्वादिरक्षोन्नरामतः ॥ याचकानां कल्पतरोररिकक्षद्ुताशनात्। श्रृङ्गवेरपुराधीशरामतो लब्धजीविकः॥ दैयाकरणनागेशः स्फोटायनऋषेर्मतम्। परिष्कृत्योक्तवांस्तेन प्रीयतामुमया शिवः॥ दृढस्तकेंऽस्य नाभ्यास इति चिन्त्यं न पण्डितैः । दृषदोऽपि हि संतीर्णाः पयोधौ रामयोगतः ॥' एवे श्रोका मञजूषादि- समास्त। वर्तन्ते. २. विसेनवंशजलधौ पूर्णः शीतकरोऽपर:। .... नाम्ना हिम्मतिवर्माभूद्धैयेंण हिमवानिव। ..... तस्माज्जातो रामदत्तश्चन्द्राच्ान्द्रिरिवापरः । ..... तेन श्रीरामभक्तेन सर्वा विद्याः प्रजानता। शृङ्गवेरपुरेशेन रिपुकक्षदवाभिना ॥ अ्थिनां कल्पवृक्षेण विद्वज्जनसभासदा।

Page 58

५२ रसगङ्गाघर: ।

मनृपालब्धजीविको बहुन्ग्रन्थान्प्रणीतवानू, तन्राद्यावधि ज्ञाता ग्रन्थास्तवेते-(१) काव्यप्रदीपोद्दगोतः, (२) परमलघुमज्जषा, (३) परमार्थसारविवरणम्, (४) परिभाषेन्दुशेखरः, (५) प्रायश्चित्तेन्दुशेखरः, (६) बृहच्छब्देन्दुशेखरः, (७ ) बृहन्मज्ूषा, (८) भाष्यप्रदीपोद्दयोतः, (९) योगसूत्रवृत्तिः, (१०) रसगङ्गा- धरमर्मप्रकाशः, (११) रसतरङ्गिणीटीका, (१२) रसमअ्जरीटीका, (१३) लघुमजजूषा, (१४) लघुशब्देन्दुशेखरः, (१५) वृत्तिसंग्रहः, (५६) वेदान्त- सूत्रवृत्तिः, (१७) सप्तशतीस्तोत्रटीका, (१८) सांख्यसूत्रवृत्तिः, (१९) सापिण्ड्यनिर्णयः काव्यप्रकाशोदयोतः, न्यायसूत्रवृत्तिः, मीमांसासूत्रवृत्तिः, वैशेषिकसूत्रवृत्तिः, एत- द्रन्थचतुष्टयमन्यदपि नागेशप्रणीतमस्तीति केचिद्वदन्ति, खवगुरोहरिदीक्षितस्य नाम्रा शेब्दरतम्, खप्रभो: शुङ्गवेरपुराधीशरामस्य नाम्नाध्यात्मवाल्मी की यरामायणयोष्टी काहूयं च नागेशभट्टेनैव प्रणीतमित्यपि प्रसिद्धिरस्ति.

भट्टनागेशशिष्येण बध्यते रामवर्मणा।। सेतुः परोपकृतयेऽध्यात्मरामायणाम्बुधौ।' एते श्रोका अध्यात्मरामायणटीकाप्रारम्भे सन्ति. ३. शृङ्गवेरपुरं गङ्गातीरे वर्तत इति वाल्मीकिरामा- यणेडयोध्याकाण्डे पञ्चाशन्मिते सगेडस्ति. अध्यात्मरामायणेडयोध्याकाण्डे पञ्चमे स्गे च 'गङ्गातीरं समागच्छच्छृङ्गिवेराविदूरत।' इत्यादि (६०) श्रोकटीकायां 'शङ्गिवेरं शृद्धिऋष्या- श्रमः । तदविदूरतस्तत्पूर्वभागे' इत्यस्ति. कोलब्ुक्क (H. T. Culebrooke) पण्डितोऽि 'मिस्सेलेनिअस् एस्सेस ( Miscellaneous Essays) नामकग्रन्थे (द्वितीयभागे १३ पृष्ठे टिप्पणे) 'शुङ्गवेरपुरं गङ्गातटोपरि सिंघोरनाम्ना ख्यातं प्रयागादुपरिभागे वर्तते' इति वदति. १. शब्दरते नागेशस्य तत्कृतशेखरमञ्जषयोश्च नाम समुपलभ्यते.

Page 59

रसगङ्गाधरीयविषयानुक्रम: ।

पृष्ठम् विषय: पृष्ठमू मङ्गलाचरणादिकम् शृङ्गार द्वेविध्यम् ४१ काव्यलक्षणम् करुण: ४३ काव्यप्रकाशीयलक्षणे आक्षेप: ६ शान्त: साहित्यदर्पणीयलक्षणे आक्षेप: ८ राद्र: ४४ प्रतिभाया एव काव्यकारणता वीर: ४५ काव्यस्य चातुरविध्यम् ११ ५२ उत्तमोत्तमलक्षणम् ११ तत्न प्रकाशोदाहरणे आक्षेपः ५२ उत्तमलक्षणम् २० हास्य: ५३ मध्यमलक्षणमू २२ भयानक: ५५ अधमलक्षणम् २३ बीभत्सः

प्रकासकृद्द्धदेषु कटाक्ष: २४ रसानां संख्यानियम: ५६ रसस्वरूपम् २५ रसानां विरोधाविरोधचिन्ता ५७ तत्र वादिभेदेन तस्यैकादश विधाः रसदोषाः ६२ २६-३४ गुणनिरूपणम् ६७ भरतसूत्रस्याष्टधा व्याख्यानम् २६-३४ अन्र खमतोकि: ६८ रसानां नवधात्वम् ३६ अत्र वामनादीनां मतम् शान्तस्य रसत्वव्यवस्थापनम् ३६ शब्दगुणानां लक्षणम् रतिलक्षणमू ३८ श्लेषः ७० शोकलक्षणम् ३९ प्रसादः करुणविप्रलम्भस्यांशतः करुणेऽशत- समता ७१

श्र शुद्गारेऽन्तर्भावः माधुयेम् " निवेद: सुकुमारता क्रोध: अर्थव्यक्ति: ७२ उत्साह: उदारता विस्मय: ओज: हास: कान्तिः ७३

भयम् " समाधि: जुगुप्सा ४० अर्थगुणानां लक्षणम् विभावादिस्वरूपम् श्लेषः ७४

Page 60

५४ रसगङ्गाघरः ।

विषय: पृष्ठम् विषयः पृष्ठमू प्रसाद: ७४ अमर्ष: १०८ समता अवहित्थम् १0९ नाधुयसू ७५ उग्रता " सुकुमारता उन्माद: ११० अर्थव्यक्ति: मरणम् उदारता ७६ वितर्क: १११ ओज: विषाद: कान्तिः ७6 औत्सुक्यम् समाघि: आवेगः ११२ अथैतेषां त्रिष्वेवान्तर्भावः ७९ जडता गुणानां व्यञ्जिका रचना ८० आलस्यम् ११४ रचनायां वर्जनीयम् ८३ तन्न विशेषतो वर्जनीयमू असूया ११५ ८५ अपस्मार: ११६ अथ भावध्वनिः चपलता भावलक्षणम् ९३ हर्ष निर्वेद: १९७ ९५ व्यभिचारिणां संख्या स्मृति: ११९

त्रीडा रसाभासा: ९७ मोहः भावशान्ति: १२४ धृति: भावोदयः ९९ शङ्का भावसन्घिः १२५ न्लानिः भावशबलता १२६ "> देन्यम् अलक्ष्यकमध्वनेरपि क्कचिल्लक्ष्यक्रमता १३० चिन्ता ९०० १०१ वर्णरचनादीनां रसाभिव्यज्जकत्वनिरा- मद: १०२ करणम् १३३ श्रमः १०३ द्वितीयमाननम् गर्व १०४ संलक्ष्यक्रमध्वनिः १३५ निद्रा शब्दशक्तिमूलकध्वनी मम्मटमतम् मतिः अत्रैव ध्वनिकारमतम् १३६ व्याधि: १०५ अत्रैव स्वमतम् १३८ त्रास: नानार्थे शक्तिनियामकरूपणम् तत्र सुप्तम् १०६ संयोगः १४७. विवोध: १०७ विप्रयोग: १४८

Page 61

विषयानुकमः । ५५

विषय: रष्ठम् विषयः पृष्ठम् साहचर्यम् १४८ अलंकारनिरूपणम् विरोधिता १५० उपमालक्षणम् २०४ अर्थः १५२ उपमाभेदाः प्राचां दश़ा २१३ प्रकरणम् १५३ स्वमतेनाक्षेपः प्राचां नये २११ लङ्गम् पुनः प्रकारान्तरेण विभाग: २२६ शब्दस्यान्यस्य संनिधि: " सादृश्यस्य पदार्थान्तरल वोध: २४६ सामर्थ्यम् १५५ सादृश्यम्य समानधर्मरूपले बोधः २५४ उपमादोषा: २५५ देश: १५६ उपमेयोपमा २६२ काल: अनन्वयः २७० व्यक्तः असम: २७८ सर उदाहरणम् शब्दशक्तिमूलको ध्वनिः २८१ स्मरणम् तत्रालङ्गारध्वनिः २८६ १५७ तत्र वस्तुध्वनिः रूपकम् २९७ १६३ परिणामः ३२९ अर्थशक्तिमूलको ध्वनिः ससन्देहः ३४० स्वतःसंभविना वस्तुना वस्तु १६५ भ्रान्तिमान् तत्रैव वस्तुनाऽलक्कतिः ३५३ १६६ उल्लेख: ३५८ तत्रवालक्कत्या वस्तु १६९ अपह्नुतिः ३६६ तत्रैवालक्कत्याऽलक्कतिः १७१ उत्प्रेक्षा ३७५ कविप्रोढोक्तिसिद्धे वस्तुना वस्तु अतिशयोक्ति: ४१० तत्रैवालङ्कत्या वस्तु १७२ तुल्ययोगिता ४२३ तत्रैव वस्तुनाSलङ्कतिः दीपकम् ४३१ तत्रैवालक्कत्याऽलक्कतिः १७३ प्रतिवस्तूपमा ४४० उभयशक्तिमूलकः १७४ दष्टान्त: ४५२ अथ लक्षणामूल: निदर्शना ४५६ तत्र जहत्खार्थामूल: १७५ व्यतिरेक: ४६७ तत्रैवाजहत्स्वार्थामूल: १७६ सहोक्ति: ४८१ अभिधाशक्तिनिरूपणम् विनोक्ति: ४९० वाचकशब्दनिरूपणम् १८२ समासोक्ति: ४९३ लक्षणाशक्तिनिरूपणम् १८५ परिकर: ५१७ लाक्षणिकवाक्यानां शाब्दबोध- ५२३ निरूपणम् १८७ अप्रस्तुतप्रशसा ५३७

Page 62

५६ रसगङ्गाघर:।

पृष्ठम् .771 पृष्टम् पर्यायोक्तम् ५४७ परिवृत्तिः ६४८ व्याजस्तुतिः ५५७ परिसंख्या ६५० आक्षेप: ५६३ अर्थापत्ति: ६५३ विरोधः ५७१ विकल्प: ६५७ विभावना ५७८ समुच्चयः ६६० विशेषोक्ति: ५८६ समाधि: ६६४ असङ्गतिः ५९० प्रत्यनीकम् ६६५ विषमम् ५९६ प्रतीपम् ६६७ समम् ६०४ पाढोक्ति: ६७१ ६०८ ललितम् अधिकम् ६७४ ६१० अन्योन्यम् प्रहर्षणम् ६१२ ६८० विषादनम् विशेष: ६१४ ६८२ उल्लासः ६८३ व्याघातः ६१७ शुङ्गलालक्षणम् ६२० अवज्ञा ६८५

कारणमाला ६२१ अनुज्ञा ६८७

एकावली ६२४ तिरस्कार:

सारः ६२६ लेश: ६९०

काव्यालङ्गमू ६२८ तहुणः ६९२

अर्थान्तरन्यासः ६३४ अतद्गुणः ६९३ अनुमानम् ६४० मीलितम् ६९४ यथासंख्यम् पर्याय: ६४२ सामान्यम् ६९५ ६४५ उत्तरम् ७००

Page 63

काव्यमाला। पण्डितराजश्रीजगन्नाथविरचितो रसगङ्गाघरः । नागेशभट्टकृतया गुरुमर्मप्रकाशाख्यव्याख्यया मञ्जुनाथ- कृतया सरलया च समेतः ।

प्रथममाननम्। स्मृतापि तरुणातपं करुणया हरन्ती नृणा- मभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्। कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी ।

नलवा गद्ाधर मर्मप्रकाशं तनुते गुरुम्।

याचकानां कल्पतरोररिकक्षहुताशनात्। नागेशः शृङ्गवेरेशरामतो लब्धजी विकः ॥ प्रारिप्सितप्रतिबन्धकदुरितशमनाय शृङ्गारालम्बनादिविभावतया तद्देवतालेन च समुचितस्वेष्टदेवतावस्तुनिर्देशरूपं मङ्गलमाचर्शष्यशिक्षायै व्याख्यातृश्रोतृणामनुषङ्गतो मङ्गलाय च निबधाति-स्मृतापीति। कादम्बिनी मेघपङ्किलेनाध्यवसिता कृष्णमूर्तिः। विलक्षणश्यामत्वात्सकलमेघकार्यकरत्ाच। अत एव मेघलेनाध्यासः। कापीतनेनान्न तद्धर्मसत्त्वेऽपि ततोऽधिककार्यकारिलेन प्रसिद्धकादम्बिनीतो व्यतिरेकस्तत्र बोध्यते। मतिचुम्बिनी मतिविषयः । भवतिति प्रार्थने लोट्। व्यतिरेकपोषकं विशेषणन्रयम् । प्रसिद्धा सा तु दष्टा वर्षणद्वारा स्पृष्टा वा साभाव्याद्वषस्थभान्वातपान्यतापं केषांचिन्न तु सर्वेषां भूतभविष्यद्वर्तमानभेदेन हतवती। इयं तु स्मृतापि। दष्टादिसमुच्चायकोऽपिः। तरुणातपम्। तमपि करुणया न तु यथाकर्थचित्। नृणां सर्वेषां न तु केषांचित्। हरन्ती न तु जहार हरिष्यति वा। किं च सा भङ्गशीलतनुकान्तिविद्युता वलयिता वेष्िता। गणनाथे नतिमयता मथुरानाथेन मसुनाथेन। गङ्गाधराध्वतरला सरला परिलाप्यते सेयम्।। तरुणं प्रचण्डम् आतपम् ।

Page 64

काव्यमाला। [प्रथमानने-

काणादीराक्षपादीरपि गहनगिरो यो महेन्द्रादवेदीत्। देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं शेषाङ्कप्राप्तशेषामलभणितिरभूत्सर्वविद्याधरो य ॥ पाषाणादपि पीयूषं स्यन्दते यस्य लीलया। तं वन्दे पेरुभट्टाख्यं लक्ष्मीकान्तं महागुरुम्॥ निमम्नेन क्वेशैर्मननजलघेरन्तरुदरं मयोन्नीतो लोके ललितरसगङ्गाधरमणिः ।

इयं तु चिरकालस्थायिशरीरकान्तीनां विद्युतां तत्वेनाध्यवसितानां गोपाङ्गनानां शतैर्न लेकद्वित्र्यादिभिर्वलयिता वेष्टिता। यद्वा 'धान्येन धनवान्' इतिवतृतीया। तदभिन्नसंजा- तवलया। कलिन्दाख्यमहीधरोत्पन्नयमुनातीरे सुरडमा नीपाः। तेषां तत्त्वं तु हरिप्रिय- खातू। 'मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे' इति लिग्गाच बोध्यम्। यद्वा तीरमेव सुरद्ठुमास्तत्त्वेन प्रसिद्धाः पञ्च, तदाश्रयिका। सा तु वियत्सरण्याश्रयिकेति भावः। यद्वा कादम्बिनीलेनाध्यवसिता काली। सा च कृष्णमूर्तिः, वृन्दावनाधिष्ठात्री देवता राधा वा। विद्युत्त्वेनाध्यवसितास्तत्परिचारकदेव्यः । तृतीयविशेषणार्थस्तु स्पष्ट एवेति बोध्यम्। अत्र व्यतिरेकरूपकातिशयोत्तयोरङ्गाद्विभावाख्यः संकरः ॥ सवोक्ते: कल्पितत्वनिरासाय स्विद्यायाः सांप्रदायिकत्वसूचनाय च गुरुनतिं द्वाभ्या- माह-श्रीमदिति। श्रीः सरस्वती ब्रह्मवर्चसं वा। ज्ञानेन्द्राख्ययतेः सकाशादित्यर्थः । पूर्वार्धे य इत्युभयत्रान्वेति। उत्तरार्धे य इति त्रिषु। प्रपश्चे निखिललोक्ता लेशतोऽपि तदत्याग: सूचितः । कणादाक्षपादाभ्यां प्रोक्ता गम्भीरवाण्यः। न्यायवैशेषिकशास्त्राणीति यावत्। देवादेव। एवः प्रसिद्धौ। खण्डदेवादेवेत्यर्थः । स्मरेति। काश्यां जैमिनिप्रोक्तं शास्त्रम्। शेष इत्यङ्क उपनाम यस्य तस्माद्वीरेश्वरपण्डितात्प्राप्ता शेषस्य पतज्ञलेरमला भणितिर्महाभाष्यरूपा येन तादशः । उपसंहरति-सर्वेति। एतेन तदितरशास्त्रवेदादि- ज्ञातृत्वं सूचितम् । अत्र य इत्यस्य तमित्युत्तरश्लोर्कनान्वयः ।। पाषाणादपीति। यच्चेष्टाविशेषेण जडादप्यमृतस्त्रावश्चेतनादिति तु किमु वाच्यम्। इत्यनेन महामहिमशालिता वर्णिता। तेन तन्मुखश्रवणमात्रेण पाषाणतुल्यस्य सस्य सक- लविद्याविर्भावोऽनायासेन सूचितः । लक्ष्मीति तत्पत्नीनाम। यद्वा लक्ष्मीकान्तं विष्णु- स्वरूपम् । सर्वविद्यानामेकस्मादेव लाभात्तत्र महत्त्वम् ॥। ततः किमत आह-निमग्नेनेति। युक्तिहे तुकानुचिन्तनरूपोदव्युदरमव्ये न तु यत्र क्वचित्। केशैने तु क्लेशेन। नितरां न तु यथाकर्थंचित्। मग्नेन मया जगन्नाथेन लोके भूलोक उन्नीत आनीतो ललितो रमणीयो रसगङ्गाघर एव मणिर्गुणवताम्। अनेन

Page 65

ग्रन्थवैशिष्यम् ] रसगङ्गाघर: ।

हरन्नन्तर्ध्वान्तं हृदयमधिरूढो गुणवता- मलंकारान्सर्वानपि गलितगर्वान्रचयु ॥ परिष्कुर्वन्त्वर्थान्सहृद्यघुरीणा: कतिपये तथापि क्ठेशो मे कथमपि गतार्थो न भविता। तिमीन्द्राः संक्षोभं विद्धतु पयोधेः पुनरिमे किमेतेनायासो भवंति विफलो मन्दरगिरे: ॥ निर्माय नूतनमुदाहरणानुरूपं काव्यं मयात्र निहितं न परस्य किंचित्। किं सेव्यते सुमनसां मनसापि गन्धः करतूरिकाजननशक्तिभृता मृगेण ।।

तद्रहितानामनादरेऽपि न क्षतिरिति सूचितम् । हृदयमधिरूढः खान्तं प्रविष्टः। असा- धारणधर्ममाह-अन्तरिति। ग्रन्थपक्षे साहित्यविषयमज्ञानम्। मणिपक्षे तु स्पष्टमेव । अलंकारान्भूषणानि तच्छास्त्राणि वा। सर्वोनपि न तु कांश्चित्। गलितः खयमेव च्युतो नष्टो गर्वो येषां तान्स्चयतु। करोतित्यर्थः ॥ ननु तादृशार्षप्रन्थेनैव निर्वाहे किमित्यपूर्वोडयं ग्रन्थोऽत आह-परीति । केचन काव्यवासनावासितान्तःकरणश्रेष्ठा अर्थानार्थानलंकारादीन्परिष्कुर्वन्तु, तथापि तैसथा कृतेऽपि मे क्ेशो रसगङ्गाधररचनरूपः कथमपि स्वत्पतोऽपि गतार्थश्वरितार्थों न भविता। भविष्यतीति वाच्ये भवितेत्यनेनेदं सूचितम्-खग्रन्थकरणकाले खतुल्यपण्डि- तसत्वेन तेषां गतार्थलेऽप्यग्रिमाणामल्पबुद्धीनां न गतार्थलम्। अत एव केचन सह- दयधुरीणा इत्युक्तमिति। उक्तमर्थमर्थान्तरोपन्यासेन द्रढयति-तिमीन्द्रा मत्स्यविशेष- श्रष्ठाः पुनर्भूयः सम्यङ् न तु यथाकरथंचित्क्षोभमालोडनं कुर्वन्तु। एतेन तत्कर्तृकेन तेन मन्दराचलप्रयासो विफलो निष्फलः किं भवति। अपि तु नेति। तिमीन्द्राणां तत्रत्य रत्नालामेऽपि देवानां तल्लाभात्तत्कारणेन साफल्यमिति भावः ॥ इतरग्रन्थतो विशेषान्तरमाह-निमायेति। उदेति। तत्तदलंकारादिलक्ष्यत्वयोग्यं काव्यं भामिनीविलासाख्यम्। अत्र रसगङ्गाधरत्रन्थे। लेशतोऽपि परकीयत्वाभावा- याह-न परस्येति। निहितमित्यस्यानुषङ्गः। पूर्ववदाह-किमिति। सुमनसां पुष्पा- णाम्। गन्धः आमोदः । कस्तूरिकावतेति वाच्ये जननशक्तीत्यनेन सूचितम्-कदापि परकीयग्रहणं न, तज्जननशक्तिसत्त्वेन यावदपेक्षितोत्पादनसंभवादिति॥ १ स्थूला बुद्धिरियम् । काव्यपदेन रमणीयार्थप्रतिपादकं मुक्तकपद्यमेवात्र विवक्षितम्, न प्रबन्धात्मकमिदम्। एतदन्तर्निधाने तस्य तन्नाम्ना व्यपदेशासंभवात। उपशतश्रोकात्मकेन तेन प्रायो नवशतश्रोकात्मकस्यास्य पूर्तेरसंभवाच्च।

Page 66

काव्यमाला। [प्रथमानने-

मननतरितीर्णविद्यार्णवो जगन्नाथपण्डितनरेन्द्रः । रसगङ्गाधरनाम्नीं करोति कुतुकेन काव्यमीमांसाम्।। रसगङ्गाधरनामा संदर्भोऽयं चिरं जयतु। किं च कुलानि कवीनां निसर्गसम्यन्नि रञ्जयतु। तत्र कीर्ति-परमाह्वाद-गुरुराज देवता प्रसादाद्यनेकप्रयोजनकस्य काव्यस्य व्युत्पत्ते: कविसहृद्ययोरावश्यकतया गुणालंकारादिभिर्निरूपणीये तस्मि- न्विशेष्यतावच्छेदकं तदितरभेद्बुद्धौ साधनं च तल्लक्षणं तावन्निरुप्यते- रमणीयार्थप्रतिपादक: शब्द: काव्यम्। रमणीयता च लोकोत्तराह्लादजनकज्ञानगोचरता। लोकोत्तरत्वं चा-

प्रतिजानीते-मननेति। मननरूपनौकापारंगतविद्यारूपोदधिर्जगन्नाथाख्यपण्डित श्रेष्ठः, पण्डितो नरेन्द्रः पृथ्वीशो येन वा। नरेन्द्रस्य पण्डित इति वा। पण्डितश्रासी नरेन्द्रश्च तत्तुल्यत्ादिति वा। वस्तुतस्तु जगननाथपण्डितराज इति पृथ्वीपतिदत्तनामा- भिलापोऽयम्। कुतुकेनेत्यनेन स्वस्य प्रन्थकरणे क्रेशाभावः सूचितः । मीमांसा विचारः ॥ प्रार्थयते-रसेति। अयं बुद्धिस्थः संदर्भ: पश्चाङ्गकं वार्क्य चिरं चिरकालं जयतु सर्वोत्कर्षेण वर्तताम्। किं च स एव निसर्गसम्यश्चि सवभावरमणीयानि। एतेन कृत्रि- मरमणीयनिरासः । कवीनां कुलानि वंशान्समूहान्वा रजयलनुरक्तान्करोतु।। तत्र करणीये ग्रन्थे। परमाह्रादो विगलितवेद्यान्तरानन्दः । आदिना द्रव्यलाभादिः : कविः काव्यकर्ता। सहृदयस्तदनुभववान्। कवेरनुभवश्चेत्सहृदयलेनैव न तु कविलेन। गुणेति। विशेषणैरित्यर्थः । आदिना रसादिपरित्रहः । तस्मिन्काव्ये। निष्ठवं सप्तम्यर्थः । तस्य विशेष्यतायामन्वयः । तल्लक्षणं काव्यलक्षणम्। इष्टतावच्छेदकं च तदेव। तत्प्र कारकज्ञानस्य प्रवर्तकत्वादिति बोध्यम्। तावदादौ। रमणीयेति। कटाक्षादिवारणाय ऋन्द इति। व्यङ्ग्यादिसंग्रहाय वाचक इत्यनुक्ता प्रतिपादक इत्युक्तम्। रमणीयश- ब्दप्रतिपादके व्याकरणादिरूपेऽतिव्याप्तिवारणायार्थति । 'घटमानय' इत्यादिवाक्यवार- णाय रमणीयेति। ननु रमणीयस्याननुगतलात्तत्रापि तत्त्वमस्त्येवेत्यत आह-रमणी- यता चेति। ननु लोकोत्तरत्वं यथाकर्थंचिच्चेदुक्तदोषः, आत्यन्तिकं चेद्रह्मानन्द एवात आह-लोकोत्तरत्वं चेति। अनुभवसाक्षिक इत्यनेन तदन्यप्रमाणनिरासः।स १ काव्यं हि गुणालंकाररसादिभिविशिष्टं भवति। ततश्च गुणालंकारादिभिर्विशेषणैर्विशेष्यतया बोधनीये तस्मिन् (काव्ये) विशेष्यतावच्छेदकम् (गुणालंकारादिविशेषणानां विशेष्यं यत्काव्यं तस्य विशेष्यतावच्छेदकम्) अर्थात्काव्यत्वम् तदेव तदितरस्मात् काव्येतरसमात् (अर्थात् अकाव्यात) काव्यस्य भेदबोधने साधनं भवतीति काव्यलक्षणं निरूप्यत इत्याशयः । २ लोकोत्तरो य आह्लादस्तज्जनकं यज् ज्ञानम् (भावना) तद्गोचरता तद्विषयीभूततेत्यर्थः।

Page 67

काव्यलक्षणम् ] रसगङ्गाधर: ।

ह्वादगतश्चमत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेष:। कारणं च तद्वच्छिन्ने भावनाविशेषः पुनःपुनरतुसंधानात्मा। 'पुत्रस्ते जातः,"धनं ते दास्यामि' इति वाक्यार्थधीजन्यस्याह्वादस्य न लोकोत्तरत्वम्। अतो न तस्मिन्वाक्ये काव्यत्वप्रसक्तिः । इत्थं च चमत्कारजनकभावनाविषयार्थ- प्रतिपादकशब्दत्वम्, यत्प्रतिपादितार्थविषयकभावनात्वं चमत्कारजनक- तावच्छेदकं तत्वम्, स्वविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेण

चानुभवः सहृदयानामेव। एवं च नोक्तदोष इति भावः। ज्ञानं च भावनारूपमेव नान्य- दित्याह-कारणं चेति। तदवच्छिनने चमत्कारतापरपर्यायलोकोत्तरतरूपजा- त्यवच्छिन्ने। विशेषो न तु सामान्यम्। अत एव तत्खरूपमाह-पुनरिति। लोकोत्तरेति विशेषणकृत्यमाह-पुत्रस्ते इत्यादि। अत्र वाक्यार्थद्वयम् । तथा सति परिष्कृतं लक्षणमाह-इत्थं चेति। उक्तार्थसिद्धौ चेत्यर्थः। फलितमित्यत्रान्वयः। यर्त्किंचि चमत्कारजनकज्ञाने समूहालम्बनविधया भासमानान्यार्थप्रतिपादकशब्दे काव्यलवार- णाय ज्ञानेत्यपहाय भावनेत्युक्तम् । शब्दतमित्यस्य काव्यत्मित्यत्रान्वयः। धारावा- हिकसकलज्ञानविषयतादृटशार्थप्रतिपादके वाक्येतिव्याप्तेराह-यत्प्रतिपादितेति । यादृशानुपूर्वीप्रतिपादितार्थविषयकत्वविशिष्टभावनातं तज्जनकतावच्छेदकं तादृशानुपूर्वी- मत्त्वमित्यर्थः । तेन नोक्तदोषः । लाघवादाह-स्वेति। सं चमत्कारलम्। जनकता- वच्छेदकार्थेति। अर्थे भावनानिष्ठजनकतावच्छेदकता विषयतासंबन्धेन बोध्या। लक्ष्य- तावच्छेदकं चैतत्समानाधिकरणं काव्येत्याद्यनुगतव्यवहारेणासादजनकतया च सिद्ध- जातिविशेषरूपमुपाधिरूपं वा काव्यतं बोध्यम्। प्राश्चः प्रकाशकृदादयः। नन्वाखाद-

१ चमत्कारजनिका या भावना तादृशभावनाया विषयीभूतो योऽर्थः तत्प्रतिपादकः शब्दू: काव्यम्, तत्त्वं च काव्यत्वम्। २ येन यैर्वा शब्दैरुपस्थापितस्य (अर्थात् यादृशानुपूर्वीप्रतिपादितस्य) अर्थस्य भावनया (पुनःपुनरनुसंधानेन) चेतसि चमत्कारजननं भवति ताद्ृशचमत्कारजनकताया अवच्छेदकं तादृशशब्दानुपूर्वीमत्व्रमेव काव्यत्वं भवतीत्याशयः। एवं सति सकलया आनुपूर्व्या यत्र चमत्कारो नोत्पदते किन्तु धारावाहिकरूपेणाऽन्यदपि (अचमत्कारोडपि) प्रतीयते तत्स्थलस्य निरास:। ३ मतल्लक्षणस्य हि लक्ष्यं काव्यम्, लक्ष्यतावच्छेदकं च काव्यत्वम् । तद्धि किंरूपमिति जिज्ञासायां सर्वेषु काव्येषु 'इदं काव्यम् इदं काव्यम्' इत्याद्यनुगतव्यवहारेण आस्वादोद्ोधक- तया च काव्यत्वं जातिविशेषरूपसुपाधिरूपं वा सिध्यतीति नागेशाशयः ।

Page 68

६ काव्यमाला। [प्रथमानने- चमत्कारत्ववत्त्वमेव वा कार्व्यत्वमिति फलितम्। यत्तु प्राव्वः 'अदोषौ सगुणौ सालंकारौ शब्दार्थो काव्यम्' इत्याहुः, तत्र विचार्यते-शब्दार्थ- युगलं न काव्यशब्दृवाच्यम्, मानाभावात्। काव्यमुचचेः पठ्यते, काव्यादर्थोऽवगम्यते, काव्यं श्रुतमर्थों न ज्ञातः, इत्यादिविश्वजनीनव्यव- हारतः प्रत्युत शब्दविशेषस्यैव काव्यपदार्थत्वप्रतिपत्तेश्च। व्यवहार: शब्दमात्रे लक्षणयोपपादनीय इति चेत्, स्यादप्येवम्, यदि काव्यपदा- र्थतया पराभिमते शब्दार्थयुगले काव्यशब्दशक्तः प्रमापकं दढतरं किमपि प्रमाणं स्यात्। तदेव तुन पश्यामः । विमतवाक्यं त्वश्रद्धेयमेव। इत्थं चासति काव्यशब्दस्य शब्दार्थयुगलशक्तिग्राहके प्रमाणे प्रागुक्त्ता- व्यवहारतः शब्दविशेषे सिद्न्तीं शक्तिं को नाम निवारयितुमीष्टे। एतेन विनिगमनाभावादुभयत्र शक्तिरिति प्रत्युक्तम्। तदेवं शब्दविशेष- स्यैव काव्यपदार्थत्वे सिद्धे तस्यैव लक्षणं वक्तुं युक्तम्, न तु स्वकल्पि- तस्य काव्यपदार्थस्य। एषैव च वेदपुराणादिलक्षणेष्वपि गतिः । अन्यथा तत्रापीयं दुरवस्था स्यात्। यत्त्वास्वादोद्वोधकत्वमेव काव्यत्वप्रयोजकं तच्च शब्दे चार्थे चाविशिष्टमित्याहुः, तन्न। रागस्यापि रसव्यञ्जकताया ध्वनि- व्यअ्जकत्वस्योभयत्राविशेष एव मानमत आह-काव्यमिति । प्रत्युत वैपरीत्येन। आदिना काव्यं पठितमित्यादिसंग्रहः । इत्यादीति । इत्यादिसार्वजनीनव्यवहारात् । सार्वविभक्तिकस्तसिः । विशेषपदेन प्रागुक्तार्थकत्वसूचनम्। एवमग्रेऽपि। एवेनार्थनिरासः। प्रतिपत्तेश्व निर्णयाच्चेत्यन्वयाथौ। परेति। प्रकाशकृदादीत्यर्थः। प्रत्यायकं निश्चायकम्। विमतेति। प्रकाशकृदित्यर्थः । उपसंहरति-इत्थं चेति। तस्याश्रद्धेयले चेत्यर्थः । शब्दस्येत्यस्योभयत्र शक्तावन्वयः । एतेन व्यवहाररूपविनिगमकसत््वेन । प्रकरणार्थमुप- संहरति-तदेवमिति। एवमुक्तप्रकारेण। तस्यैव शब्दविशेषरूपस्यैव। प्रासङ्गिकं माह-एषैव चेति। अन्यथा वेदलादेरुभयत्राङ्गीकारे। दुरवस्था व्यवहारोच्छेदापत्ति- रूपा। लक्षणीयत्वेति। तथा च तत्रातिव्याप्तिरिति भावः । सर्वेषामपि चेष्टादी- १ लघुभूतं लक्षणमाह-स्वविशिष्टजनकतेति। अयं भावः-चमत्कारत्ववत्वमेव काव्यत्वम्। चमत्कारत्ववत्त्वं च स्वविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेण ग्राह्यम्। अन्र स्वं चमत्कारत्वं तादृशचमत्कारत्वविशिष्टा विषयतासंबन्धावच्छिन्ना अर्थनिष्ठा या भावना- निष्ठजनकताऽवच्छेदकता तद्रूपेण संसर्गेणेत्याशयः । सर्वस्य लक्षणस्यायं निष्कर्षः-यादृश- शब्दानुपूर्व्याः (शब्दपरम्परायाः) पुनःपुनरनुसंधानात्मकेन भावनाविशेषेण चमत्कारापर- पर्यायस्य अलौकिकानन्दस्य जननं भवति तादृशशब्दानुपूर्वीमत्वं काव्यत्वमिति।

Page 69

काव्यलक्षणम् ] रसगङ्गाघर: ।

कारादिसकलालंकारिकसंमतत्वेन प्रकृते लक्षणीयत्वापत्तेः । किं बहुना नाट्याङ्गानां सर्वेषामपि प्रायशस्तथात्वेन तत्त्वापत्तिर्दुवारैव। एतेन रसोद्वो- धसमर्थस्यैवात्र लक्ष्यत्वमित्यपि परास्तम्। अपि च काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयोर्व्यासक्तम्, प्रत्येकपर्याप्ं वा? नादः। एको न द्वाविति व्यवहार- स्येव श्ोकवाक्यं न काव्यमिति व्यवहारस्यापत्तेः । न द्वितीयः। एकस्मि- न्पद्ये काव्यद्वयव्यवहारापत्तेः । तस्माद्वेदशास्त्रपुराणलक्षणस्येव काव्य- लक्षणस्यापि शब्दनिष्ठतैवोचिता । लक्षणे गुणालंकारादिनिवेशोऽपि न युक्तः। 'उदितं मण्डलं विधोः' इति

आावादिपरे 'गतोऽस्तमर्कः' इत्यादौ चाव्याप्यापत्तेः । न चेदमकाव्य- मिति शक्यं वदितुम्। काव्यतया पराभिमतस्यापि तथा वक्तुतं शक्य- त्वात्। काव्यजीवितं चमत्कारित्वं चाविशिष्टमेव । गुणत्वालंकारत्वा- नामपि। क्वचित्तदभावादाह-प्रायश इति। तथालेन रसव्यञ्जकलेन। तत्त्वापति- काव्यत्वापत्तिः। मतत्रयसाधारणं दोषमाह-अपि चेति । व्यासक्तं व्यासज्यवृत्ति। तावच्छेदकधर्मवत्त्वरूपस्यानुपह्सनीय का व्य लक्षणस्य भयवृत्तित्वाच्च काव्यं पठितम्, श्रुतं काव्यम्, बुद्धं काव्यमित्युभयविधव्यवहारदशनाच्च काव्यपदप्रवृत्तिनिमित्तं व्यासज्यवृत्ति । अत एव वेदलादेरुभयत्ृत्तित्वप्रतिपादकः 'तद- धीते' इत्यादिसूत्रस्थो भगवान्पतञ्ञलिः संगच्छते। लक्षणयान्यतरस्मिन्नपि तत्वादेको न द्वावितिवन्न तदापत्तिः। तेनानुपहसनीयकाव्यलक्षणं प्रकाशोक्तं निर्बाधम्। एवमा- खादादौ वैलक्षण्यनिवेशादुक्तलक्षणद्वयमपि निर्बाधमिति नान्यमतमपि दुष्टमित्युच्यो तह्यस्तु तथा। सामान्यलक्षणं लदोषादिपदाघटितमेव तेषामपि मते। एवं च न कोऽपि दोष इति बोध्यम्। तदाह-लक्षण इति। काव्यसामान्यलक्षण इत्यर्थः । आदिना संख्यादिपरिग्रहः । यथासंख्यमन्वयः । आदिना पतिप्राह्यादिपरिग्रहः । इदंच मध्यम- णिन्यायेनोभयान्वयि। अव्यास्यापन्तेरिति । गुणालंकारयोरभावादिति भावः । तथा अकाव्यमितीति। ननु काव्यजीवितं चमत्कारितवं तत्रास्तीत्यत आह-काव्येति । १ आस्वादोद्वोधककाव्यत्वरूपम् । २ अभिसरणविधिर्दूत्याः, अभिसरणनिषेधोऽभिसारिकायाः, जीवनाभावो विरहिण्या इति बोध्यम्। ३ शब्दार्थयुगले काव्यशब्दशक्तेर्दृंढतरप्रमापकाभावान्न लक्षणेति स्पष्टं प्रत्याख्याता लक्षणा। आस्वादे वैलक्षण्यनिवेशोपि [अर्थात् शब्दार्थबोधजनितो यो विलक्षण आस्वादस्तस्योद्वोधकस्यैन काव्यत्वम्, न रागादिजनितस्येति ] भेदकाभावाद् ग्रन्थकर्तुरननुमतः । एवं स्थितेपि 'अस्तु तथा' [अर्थात् अदुष्टत्वमस्तु ] इति टीकारूपेण ग्रन्थकर्तुर्मुखान्निःसार्यते इति धन्या सेयं वादशैली।

Page 70

काव्यमाला। [प्रथमानने-

देरननुगमाच। दुषं काव्यमिति व्यवहारस्य बाधकं विना लाक्षणिकत्वा- योगाच। न च संयोगाभाववान्वृक्षः संयोगीतिवदशभेदेन। दोषरहितं दुष्टमिति व्यवहारे बाधकं नास्तीति वाच्यम्। 'मूले महीरुहो विहंगमसं- योगी, न शाखायाम्' इति प्रतीतेरिवेदं पद्यं पूर्वार्धे काव्यमुत्तरार्धे तु न काव्यमिति स्वरसवाहिनो विश्वजनीनानुभवस्य विरहाद्व्याप्येवृत्तिताया अपि तस्यायोगात्। शौर्या दिवदात्मधर्माणां गुणानाम्, हारादिवदुपस्कार- काणामलंकाराणां च शरीरघटकत्वानुपपत्तेश्र। यन्तु 'रसवदेव काव्यम्'

ननु विलक्षणचमत्कारितं तत्रैवेति नोक्दोषोऽत आह-गुणत्वेति। ननु काव्यध- मलं रसधर्मतं वा गुणत्म्, काव्यशोभाधायकत्वं काव्यधर्मत्ं वालंकारत्मित्यनुगम एवेति चेत्सत्यम्। तथापि गुणालंकारादीत्यादिपदेनादोषाविति विशेषणमयुक्तमित्यभिम- तमू। युक्तं चैतत् । दोषसामान्याभावनिवेशे काव्यव्यवहारस्य विरलविषयतापत्तेः । इद्रं काव्यं दुष्टमिति व्यवहारानापत्तेश्र। न चादोषपदेन स्फुटदोषराहित्यं विवक्षितम् । स्फुटतं च शब्दबोधप्रतिबन्धकत्म्। तेन निराकाङ्कवानासन्नत्वे गृह्येते। अन्यथा रसादिदोषाणां त्यागे बीजानापत्तिः । न ह्यदोषौ शब्दार्थावित्युक्त रसादिदोषाभावः प्रतीयत इति वाच्यम्। अर्थशब्देन रसस्यापि ग्रहादिति भावः। तदाह-दुष्ट काव्यमितीति। एवं च तेषामपि मते तादृशकाव्यलक्षणेऽदोषाविति मात्रस्यानि- वेश इति बोध्यम्। स्वरसेति। सारसिकस्येत्यर्थः । विश्वेति । सर्वजनीनेत्यर्थः । अपिः प्रागुक्तरीतिसमुच्चायकः। ननु सामान्यलक्षणस्यादोषपदाघटितलात्तथा व्यवहा- रोपपत्तिरत आह-शौर्यादीति। उत्कर्षाधायकत्वेन साम्यम्। एवं च विशेषल-

१ इमे इयन्तश्चेति स्वरूपसंख्यादेरनिश्चयादित्याशयः । २ अलक्ष्ये लक्षणगमनस्याऽभावो नास्ति, अपि तु अलक्ष्ये (दुष्टेडपि) काव्यत्वं प्रसक्तम्। ३ काशीस्था म. म. पं. गङ्गाधरशास्त्रिणस्त्वाहु :- प्रकाशादिकाव्यलक्षणेषु दोषाभाव- गुणालंकाराणां काव्यलक्षणोद्ेश्यतावच्छेदककोटिप्रवेशो नास्ति। उद्देश्यता हि शब्दार्थयोईयोः, न पुनः केवले शब्दे, द्योरेव कविसंरम्भगोचरत्वात। शब्दार्थानुगतकाव्यलक्षणं तु-कवि- कर्तृकरसविषयज्ञानौपयिकसामग्रीसंघटनविषयकज्ञानविषयत्वम्, अत एव च लास्याङ्गानां न काव्यत्वापत्तिः, तेषां कविकर्तृकनिरुक्तज्ञानविषयताया अभावात। शब्दमात्रस्य काव्यत्वे तु तन्मात्रगतानां दोषगुणालंकारध्वनीनां निरूपणौच्चित्येन अर्थगतानां तेषां निरूपणस्योन्मत्त- अलापत्वापत्तिः । ननु रसोपयोगितामात्रेण तेषामपि निबन्धनसुपपद्यत एवेति चेत, काव्याङ्ग- निरूपणं प्रतिज्ञाय तेषां निरूपणस्याSसंगतत्वात् इति तदुक्तिसारः । विस्तरस्तु काशीमुद्रित- पुस्तकाज्जेयः ।

Page 71

काव्यकारणम् ] रसगङ्गाघर: ।

इति साहित्यदर्पणे निर्णीतम्, तन्न। वस्त्वलंकारप्रधानानां कात्यानाम- काव्यत्वापत्तेः । न चेष्टापत्तिः, महाकविसंप्रदायस्याकुलीभावप्रसंङ्गात्। तथा च जलप्रवाह्वेगनिपतनोत्पतनभ्रमणानि कविभिर्वर्णितानि कपिबा- लादिविलसितानि च। न च तत्रापि यथाकर्थंचित्परम्परया रसस्पर्शोड- स्त्येवेति वाच्यम्। ईदशरसस्पर्शस्य 'गौश्चलति', 'मृगो धावति' इत्यादाव- तिप्रसक्तत्वेनाप्रयोजकत्वातू। अर्थमात्रस्य विभावानुभावव्यभिचार्यन्यतम- त्वादिति दिक्। तस्य च कारणं कविगता केवला प्रतिभा। सा च काव्यघटनातु- कूलशब्दार्थोपस्थितिः। तद्गतं च प्रतिभात्वं काव्यकारणतावच्छेदकतया सिद्धो जातिविशेष उपाधिरूपं वाखण्डम्। तस्याञ्च हेतुः कचिदेवता- महापुरुषप्रसादादिजन्यमदष्टम्। क्चिच्च विलक्षणव्युत्पत्तिकाव्यकरणा- भ्यासौ। न तु त्रयमेव। बालादेस्तौ विनापि केवलान्महापुरुषप्रसादादृपि

क्षणे तेषां निवेशेऽपि सामान्यलक्षणे तेषां न निवेश इति न कोऽपि दोष इति भाव: । वस्त्विति। प्रधानपदस्योभयन्रान्वयः। आकुलीति। उच्छेदेत्यर्थः। संप्रदायमे- वाह-तथा चेति। विलसितानि चेति वर्णितांनीत्यस्यानुषङ्गः । न च तत्र रसो- Sस्तीति भावः । यथाकर्थंचिदित्यस्यैव व्याख्या परम्परयेति। परम्परामेवाह-अर्थेति। सर्वस्यार्थस्येत्यर्थः ॥ तस्य च काव्यस्य । केवलेत्यनेन निपुणतादिव्यावृत्तिः। शब्दाथोपेति। शब्दा- र्थोभयेत्यर्थः । उपाधिर्वेति। उपाधितवपरित्यागेन तत्वाङ्गीकारे बीजमित्यर्थः। नील- घटतादिवत्सखण्डोपाधिरेवेति वार्थः। 'अखण्डम्' इति पाठस्तु चिन्त्य एव । तस्य्मः प्रतिभायाः । आदिना तपआदिपरिग्रहः । व्युत्पत्तीति। लोकशास्त्रादिविषयेत्यर्थः । न तु त्रयमेवेति। प्रतिभालावच्छिनं प्रति मिलितं त्रितयमेव कारणमिति नेत्यर्थः । एवकारेण क्वचित्रितयस्यापि कारणलमिति ध्वनयति। विलक्षणत्रितयजन्यप्रतिभा

१ प्रकृतरसरूपेण परिणंस्यमानरत्यादिविषयकसंस्कारोद्वोधकताया असार्वत्रिकत्वादियं प्रौढिः । विशिष्टवाक्यार्थानां रसतात्पर्यकत्वाभावे तत्सामग्रीघटकोद्बोधकताया अभावात्। यत्र त्वस्ति तत्तात्पर्यकत्वं तत्राक्षेपादिष्यत एव विशिष्टबोधजननमुखेन चमत्कारित्वम्। यथाह-'सद्भ्ावश्चेद्विभावादेद्वयोरेकस्य वा भवेत्। झटित्यन्यसमाक्षेपे तदा दोषो न विद्यते ॥' एवं च जलप्रवाहादिवर्णनेऽप्युक्तरीत्या महावाक्यार्थधीद्वारा रसोद्वोधकत्वात्काव्यत्वस्य न क्षतिः । इति म. म. गङ्गाधरशास्त्रिणः ।

Page 72

१० काव्यमाला। [प्रथमानन

प्रतिभोत्पत्तेः । न च तत्र तयोर्जन्मान्तरीययोः कल्पनं वाच्यम्। गौर- वान्मानाभावात्कार्यस्यान्यथाप्युपपत्तेश्र। लोके हि बलवता प्रमाणेनाSSग- मादिना सति कारणतानिर्णये पश्चादुपस्थितस्य व्यभिचारस्य वारणाय जन्मान्तरीयमन्यथानुपपत्त्या कारणं धर्माधर्मादि कल्प्यते। अन्यथा तु व्यभिचारोपस्थित्या पूर्ववृत्तकारणतानिर्णये भ्रमत्वप्रतिपत्तिरेव जायते। नापि केवलमदष्टमेव कारणमित्यपि शक्यं वदितुम्। कियन्तंचित्कालं काव्यं कर्तुमशक्कुवतः कथमपि संजातयोर्व्युत्पत्त्यभ्यासयोः प्रतिभायाः प्रदुर्भावस्य दर्शनात्। तत्राप्यदृष्टस्याङ्गीकारे प्रागपि ताभ्यां तस्या: प्रसकेः। न च तत्र प्रतिभायाः प्रतिबन्धकमदष्टान्तरं कल्प्यमिति वाच्यम्। तादृशानेकस्थलगतादृष्टद्वयकल्पनापेक्षया क्ृप्तव्युत्पत्त्यभ्यासयो- रेव प्रतिभाहेतुत्वकल्पने लाघवात्। अतः प्रागुक्तसरणिरेव ज्यायसी। तादशादष्टस्य तादृशव्युत्पत्त्यभ्यासयोश्च प्रतिभागतं वैलक्षण्यं कार्यतावच्छे- दकम्, अतो न व्यभिचारः।प्रतिभात्वं च कवितायाः कारणतावच्छेदकम्, प्रतिभागतवैलक्षण्यमेव वा विलक्षणकाव्यं प्रतीति नात्रापि सः । न च

चातिविलक्षणा। तज्जन्यं काव्यं चातिविलक्षणमेवेति न दोष इति दिक्। दोषान्तर- माह-मानेति। ननु कार्यान्यथानुपपत्तिरेव मानमत आह-कार्येति। केवलाट- ष्टादपीत्यर्थः । तदेव विशदयति-लोके हीति। लोकशब्दः प्रकृतेतरपरः । आगमः श्रुतिः । आदिना स्मृत्यादिपरिग्रहः । अत एव बलवत्त्वम् । अन्यथा तु बलवतागमा- दिंना तदनिर्णये तु। एवेन प्रमात्व्यावृत्या कार्यासाधकत्वं सूचितम्। केवलपदं स्पष्टा- र्थनू। प्रतिभां प्रतीति शेषः । कथमपि केनापि प्रकारेण। व्युत्पत्त्यभ्यासयोः स्रतो- रिति शेषः । ताभ्यां व्युत्पत्त्यभ्यासाभ्याम्। तस्याः प्रतिभायाः । तत्र व्युत्पत्त्यभ्या- सप्राक्कालिकादृष्टविषये। एवं च तदानीं सा न। अनन्तरं कथमपि प्रतिबन्धकनाशे सा भवत्येवेति भावः । कृप्नति। प्रतिबन्धकादृष्टादिनाशकतयेति भावः । एतेनोक्तद्व- यव्यावृत्तिः । नन्वेवं प्रतिभाकार्यककार्यकारणभावे व्यभिचारोऽत आह-तादृशेति। केवलेत्यर्थः । तथा च विजातीयप्रतिभां प्रति तत्कारणं विजातीयप्रतिभां प्रति ताविति न दोष इति भावः । नन्वेवमपि प्रतिभाकारणककार्यकारणभावे व्यभिचार एवात आह-प्रतिभात्वं चेति। प्रागुक्तं सामान्यरूपमित्यर्थः। नन्वेवमप्येकप्रतिभातोऽपर सपि काव्यं स्यादत आह-प्रतिभागतेति। अत्रापीति। द्वितीयकार्यकारणभावेऽपि न व्यभिचार इत्यर्थः । ननु वैलक्षण्यमदृष्टासहकृतत्वरूपमेवोकं तच्च तत्रास्त्यवेत्यत

Page 73

काव्यभेदा: ] रसगङ्गाघर: । ११

सतोरपि व्युत्पत्त्यभ्यासयोर्यत्र न प्रतिभोत्पत्तिस्तत्रान्वयव्यभिचार इति वाच्यम्। तत्र तयोस्तादशवैलक्षण्ये मानाभावेन कारणतावच्छेदकानव- च्छिन्नत्वात्। पापविशेषस्य तत्र प्रतिबन्धकत्वकल्पनाद्वा न दोषः । प्रतिबन्धकाभावस्य च कारणता समुदितशक्यादित्रयहेतुतावादिनः शक्तिमात्रहेतुतावादिनश्चाविशिष्टा। प्रतिवादिना मत्रादिभि: कृते कतिप- यदिवसव्यापिनि वाक्स्तम्भे विहितानेक प्रबन्धस्यापि कबे: काव्यानुदयस्य दर्शनात्। तच्चोत्तमोत्तमोत्त ममध्य मा धम भे द्द ा च्य त तुर्धा । शब्दार्थी यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यङ्गस्तदाद्यम् ॥।

आह-पापेति। नन्वेवमिदमेव गौरवमत आह-प्रतीति। एवं च कार्यमात्रं प्रति प्रतिबन्धकाभावस्य कारणतायाः क्कप्तत्वेन काव्यं प्रति यथोभाभ्यां सीक्रियते तथात्रा- पीति न मेऽधिककल्पनजगौरवमिति भावः। समुदितहेतुवादिमते तत्लीकार आवश्यक इत्याह-प्रतिवादीति। विहितेति। कृतानेककाव्यस्यापीत्यर्थः ॥ तच्चति। काव्यं चेत्यर्थः । शब्दार्थाविति। गुणीभावितात्मानी शब्दार्थो यत्र कमप्यर्थमभिव्यङ्क इत्यन्वयः । भूमिं निदानम् । व्यङ्गयपदस्योभयत्र संबन्धः । एवमग्रे-

१ विशिष्टकाव्यं प्रति प्रतिभादित्रितयस्यव कारणत्वमुपपद्यते। शक्तिहिं द्विविधा, उत्पा- दिका व्युत्पादिका च। आद्यया पदसंघातस्य योजनेऽपि द्वितीयस्या अभावे विनेयसमवेत- िलक्षणवाक्यार्थधियोSसंभवेन लोकोत्तरवर्णनानैपुण्यस्य कविगतस्याभावाद्विशिष्टकविकर्मताया- स्तत्सत्व एव संभवात्। तत्र द्वितीयैव निपुणता नाम। अभ्यासो लोकोत्तरत्वं प्रत्येवोपयुज्यते। तथा च लोकोत्तरवर्णनानिपुणताविशिष्टकविकर्मरूपकाव्यं प्रति त्रितयस्यैव कारणत्वसुचितम् इति म. म. गङ्गाधरशासितणः । एतदुपरि हिन्दीरसगङ्गाधरनिर्मातुः साहित्याचार्यपुरुषोत्तमचतुर्वेदस्य टिप्पनीसार :- सवेंषामेव मतेन अलौकिकचमत्कारिण एव गुम्फनस्य नाम काव्यं न पुनश्छन्दोलयनिबन्धन- मात्रस्य। अर्थात भवन्मते यद्विशिष्टं काव्यं तदेव हि सामान्यतः काव्यम्। या ह्युत्पा- दिका शक्तिरभ्युपेयते सा हि काव्यस्योत्पादिका तदैव भवेद् यदा सा विशिष्टकविकमोंत्पादिक सिध्येत। अत एव प्रकाशकारोडपि अनुपहसनीयकाव्यनिर्माणशक्ति प्रतिभामाह। अत एव विशिष्टकाव्यशक्तिरेव प्रतिभेति काव्यं प्रति तस्या एव कारणत्वम्, प्रतिभाविकासं प्रति च व्युत्पत्त्यभ्यासयोरिति ।

Page 74

१२ काव्यमाला। [प्रथमानने-

कमपीति चमत्कृतिभूमिम् 1 तेनातिगूढस्फुटव्यङ्गययोर्निरासः अपराङ्गवाच्यसिद्यङ्गव्यङ्ग्यस्यापि चमत्कारितया तद्वारणाय गुणीभा- वितात्मानाविति स्वापेक्षया व्यङ्ग्यप्राधान्याभिप्रायकम्। उदाहरणम्- 'शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान्। दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते।।' अन्नालम्बनम्य नायकस्य, सविधशयनाक्षिप्तस्य रहःस्थानादेरुद्दीपनस्य च विभावस्य, तादृशनिरीक्षणादेरनुभावस्य, त्रपौत्सुक्यादेश्च व्यभिचा- रिणः, संयोगाद्रतिरभिव्यज्यते। आलम्बनादीनां स्वरूपं वक्ष्यते। न च यद्ययं शयितः स्यात्तदास्याननाम्बुजं चुम्बेयमिति नायिकेच्छाया एव व्यङ्गयत्वमत्रेति वाच्यम्। मनोरथान्सफलीकर्तुमसमर्थेत्यनेन मनोरथाः सर्वेऽस्या हृदि तिष्ठन्तीति प्रतीते: स्वशब्देन मनोरथपदेन सामान्या- कारेण तादृशेच्छाया अपि निवेदनात्। न च मनोरथपदेन मनोरथत्वा- कारेण सामान्येच्छाया अभिधानेऽपि चुम्बेयमिति विषयविशेषविशिष्ठे- च्छात्वेन व्यङ्ञयत्वे किं बाधकमिति वाच्यम्। चमत्कारो न स्यादित्य- स्यैव बाधकत्वात्। न हि विशेषाकारेण व्यङ्गयोऽपि सामान्याकारेणा- भिहितोऽर्थः सहृदयानां चमत्कृतिमुत्पादयितुमीष्टे। कथमपि वाच्यवृत्त्य-

5पि। निरास इति। असुन्दरस्येत्यपि बोध्यम्। गुणीभावितात्मानावित्यनेनाप्यस्य निरास इति ध्वनयितुं द्वयोरेवोक्तिः । एवं संदिग्धप्राधान्यतुल्यप्राधान्यकाक्काक्षिप्ताना- मपि बोध्यम्। खापेक्षया शब्दार्थापेक्षया। सविधेऽर्थाद्दयितस्य। कारणसत्त्वेऽपि कार्या- भावादहो इत्याश्चये। रह एकान्तम्। त्रपात्सुक्यादेरिति। दरेत्यनेन त्रपा व्यङ्ग्या, निरीक्षणेन चौत्सुक्यमिति बोध्यम्। संयोगात्संबन्धात्। रतिरिति ।नायि- काया इति शेषः । शयित इति। कर्तरि भूते कः। 'तदास्याननाम्बुजम्' इति पाठः । एव उत्तव्यवच्छेदे। स्वशब्देनेत्यस्य व्याख्या मनोरथेति। सामान्येति । मनोरथत्वे- त्यर्थः। तथा च वाच्यस्याव्यङ्ग्यत्वमिति भावः । सामान्येत्यस्य व्याख्या मनोरथेति। यद्ा सामान्येनेच्छात्वेन। अवच्छिन्नत्वं तृतीयार्थः। चमत्काराभावे हेतुमाह-न हीति। तत्र हेतुमाह-कथमपीति। सामान्यरूपेण विशेषरूपेण चेत्यर्थः । एवं च ध्वनिवि- शेष एवैतद्वोध्यम्। स्पष्टश्वायमर्थो गूढाख्यगुणीभूतव्यङ्ञयनिरूपणे पश्चमोल्लासे रसदो-

Page 75

काव्यभेदा: ] रसगङ्गाघरः । १३

नालिङ्गितस्यैव व्यञ्च्यस्य चमत्कारित्वेनालंकारिकैः स्वीकारात्। चुम्ब- नेच्छाया रत्यनुभावतयैव सुन्दरत्वेन तद्व्यञ्जने चुम्बमीति शब्दवला- चुम्बनेच्छावदचमत्कारित्वाच्च। एवं त्रपाया अपि न प्राधान्येन व्यङ्गय- त्वम्। अनुवाद्यतावच्छेदकतया प्रतीतायां तस्यां सुख्यवाक्यार्थत्वायो- गात्। न च दरमीलन्नयनात्वविशिष्टनिरीक्षणं विधेयमिति नानुवाद्यताव- च्छेदकत्वं तस्या इति वाच्यम्। एवमपि नयनगतदरमीलनस्य. तत्कार्य- त्वेऽपि दरमीलन्नयनात्वविशिष्टनिरीक्षणस्य रतिमात्रकार्यत्वात्। त्रपाया एव मुख्यत्वेन व्यङ्ग्यत्वे निरीक्षणोक्तेरनतिप्रयोजनकत्वापत्तेः । वाच्य- वृत्त्या रतेरनुभावे निरीक्षणे त्रपाया अनुभावस्य दरमीलनस्येव व्यञ्जनया तस्यां तस्या अपि गुणीभावप्रत्ययौचित्यात्। यथा वा- 'गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम्। दरकुण्डलताण्डवं नतभ्रूलतिकं मामवलोक्य घूर्णितासीत्।'

षनिरूपणे सप्तमोल्लासे च । व्यङ्गयस्य वाच्यीकरणे वमनाख्यदोष इति प्राश्चः। नन्वन्र पक्षे यदेवोच्यते तदेव व्यङ्ञयं यथा तु व्यङ्यं न तथोच्यत इत्यादिपर्यायोक्तप्रकरणस्थमू- लग्रन्थविरोधोऽत आह-चुम्बनेच्छाया इति। संशयालंकारनिरूपणे च स्फुटतरं निरूपयिष्यत एव ग्रन्थकृता। एवस्तदन्यथालेन तत्त्वव्यवच्छेदे। तदव्यञ्जने रत्यव्य- जने। एवमिच्छाया इव यथाकर्थंचित्तत्त्वसत्त्वादाह-प्राधान्येनेति। तस्यां त्रपा- याम्। एवमग्रेऽपि । मुख्येति। मुख्यतया वाक्यतात्पर्यविषयलायोगादित्यर्थः । तत्कार्येति। त्रपाकार्येत्यर्थः। मात्रपदेन तदन्यव्यवच्छेदः। ननु मीलन्नयनालमेव विधेयमास्तामत आह-त्रपाया इति। त्रपाजनकतया निरीक्षणस्योपयोगादाह-अन- तीति। ननु वैपरीत्येन निरीक्षणविशिष्टदरमीलन्नयनालमेव विधेयमास्तामत आह- वाच्येति। 'भावप्रधानमाख्यात'मितिसिद्धान्तादिति भावः । तस्यां रतौ। तस्यास्त्रपायाः। गुरुमध्येति। श्वश्वादिसमीपप्रदेशोपविष्टा। कमलमुकुलेन मन्दं नितरां हता। अत एव १ दरमीलन्नयनेति विशेषणेन त्रपाभिव्यज्यते। विशेषणेन चानेन पूर्वसिद्धस्यार्थस्याडनु- वाद्यतैव प्रत्याय्यते, न त्वत्र विधानम्। ततश्च तादृशविशेषणोपस्थापिता त्रपाऽत्र प्रधानमिति न शक्यते वक्तुमित्याशयः । २ रतेरनुभावं निरीक्षणं प्रति त्रपाया अनुभावो दरमीलनं वाच्यवृत्त्या यथा गुणीभूतं स्वीक्रियते तथा व्यज्जनावृत्त्या रति प्रति त्रपाया अमि गुणीभाव ए्वोचितः, न तु प्राधान्येन

२ रस०

Page 76

१४ काव्यमाला। [प्रथमानने-

अत्र घूर्णितासी दित्यनेनासमीक्ष्यकारिन्किमिद्मनुचितं कृतवानसीत्यर्थसंव- लितोSमर्षश्रर्वणाविश्रान्तिधामत्वात्प्राधान्येन व्यज्यते। तत्र शब्दोडर्थश्र गुणः । यथा वा- 'तल्पगतापि च सुतनुः श्वासासङ्गं न या सेहे। संप्रति सा हृदयगतं प्रियपाणिं मन्दमाक्षिपति ।।' इदं च पद्यं मन्निर्मितप्रबन्धगतत्वेन पूर्वसाकाङ्कमिति दिव्यात्रेण व्याख्या- यते-या नववधूः पल्यङ्कशयिता श्वासस्यासङ्गमात्रेणापि संकुचदङ्गलति- काभूत्सा संप्रति प्रस्थानपूर्वरजन्यां प्रवत्स्यत्पतिका प्रियेण सशङ्गेन समर्पितं हृदि पाणिं नववधूजातिस्वाभाव्यादाक्षिपति, परं तु मन्दम् । अन्र शनैः स्वस्थानप्रापणात्मना मन्दाक्षेपेण रत्याख्यः स्थायी संलक्ष्य- क्रमतया व्यज्यते। उपपादयिष्यते च स्थाय्यादीनामपि संलक्ष्यक्रमव्य- ड्गयत्वम्। अमुमेव च प्रभेदं ध्वनिमामनन्ति। यच्तु चित्रमीमांसायामप्प- य्यदीक्षितैः 'निःशेषच्युतचन्दनम्' इति पद्यं ध्वन्युदाहरणप्रसङ्गे व्याख्या-

घूर्णनं भ्रमणम्। तादृशी सा मामवलोक्य दरेति नतेति च यथा स्यात्तथा घूर्णितासीदित्य- न्वयः । मन्दतफलं दरेति। गुरुमध्यगतत्वान्नतेति। नायकोक्तिरियं सखायं प्रति । कृत- वानसीत्यर्थेति। अस्याप्यमर्ष प्रति गुणतैव। तत्कार्यलात्। संवलितो विशिष्टः। चर्व- णेति। पार्यन्तिकास्वादाश्रयत्ादित्यर्थः । तत्रामर्षे। अयमेव पूर्वोदाहरणाद्विशेषः। तल्पं शय्या। असहने हेतुगर्भ विशेषणं सुतनुरिति। खहृदयस्थितं शनैः स्वस्थानं प्रापयतीत्यर्थः। प्रबन्धो भामिनीविलासाख्यः । नवोढाप्रकरणादाह-नवेति। आङ् ईषदर्थे। संप्रतीत्य- स्यार्थमाह-प्रस्थानेति। प्रकरणादाह-प्रवदिति। सशङ्कनेति। सुतनुतान्नाश- शङ्केति भावः। मन्दमिति। भाविविरहशङ्गयेति भावः । संलक्ष्येति। व्यङ्गयव्यज- १ स्फुटे प्रकरणे, झटिति प्रतीतेषु विभावानुभावव्यभिचारिषु, मार्मिकतमेन प्रमात्रा रस- तया व्यपदेश्यः सोयं रत्यादिः सूक्ष्मतमेनैव समयेन प्रतीयत इति हेतुहेतुमतोः पौर्वापर्यक्रम- स्याडलक्ष्यत्वादलक्ष्यक्रम इति व्यपदेशः । यत्र तु विचारवेदं प्रकरणम्, न तु स्फुटम्। विभावादयोपि बुद्धा उन्नेयास्तत्र रसाभिव्यक्तिसामग्रीविलम्बात् चमत्कृतेर्मान्थर्यम्। अत एव झगिति चमत्कारानुद्येन क्रमस्य संलक्ष्यतापि भवति। अस्मिन्पधे च 'संप्रति' इति पदेन "पूर्व तस्या नववधूत्वे अन्यैव संकोचपरिस्थितिरासीत, अधुना तु संकोचस्यापि क्रमिकः संकोच इति" पूर्वापरानुसंधानादर्थावगतिर्विलम्बेन। ततश्च क्रमस्य संलक्ष्यतेत्याशयः ।

Page 77

काव्यभेदा: ] रसगङ्गाघर: । १५

तम्-'उत्तरीयकर्षणेन चन्दनच्युतिरित्यन्यथासिद्धिपरिहाराय निःशे- षग्रहणम्। ततश्चन्दनच्युतेः स्ानसाधारण्यव्यावर्तनेन संभोगचिह्ोद्धा- टनाय तटग्रहणम्। सत्नाने हि सर्वत्र चन्दनच्युतिः सात्, तव तु स्तनयो- स्तट उपरिभाग एव दृश्यते। इयमाश्लेषकृतैव। तथा निर्मृष्टरागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बात्प्राचीनरागस्य किंचिन्मृष्टतेत्यन्यथासिद्धिप- रिहाराय निर्मृष्राग इति रागस्य निःशेषमृष्टतोक्ता। पुनः स्ानसा- धारण्यव्यावर्तनेन संभोगचिह्नोद्वाटनायाघर इति विशिष्य ग्हणम् । उत्तरोष्ठे सरागेऽधरोष्ठमात्रस्य निभृष्टरागता चुम्बनकृतैव' इत्यादिना, 'इद्मपि ध्वनेरुदाहरणम्' इत्यन्तेन संदर्भेण। 'तटादिघटिता वाक्यार्थाः स्नानव्यावृत्तिद्वारा संभोगाङ्गानामाश्लेषचुम्बनादीनां प्रतिपादनेन प्रधान- व्यङ्ग्यव्यञ्जने साहायकमाचरन्ति' इति, तदेतदलंकारशास्त्रतत्वानवबोध- निबन्धनम्। प्राचीनसकलग्रन्थविरुद्धत्वादुपपत्तिविरोधाच। तथा हि पञ्चमोल्लासशेषे'निःशेषेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतोऽपि भवन्ति। यतश्चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानीत्यनैकान्तिकानि' इति काव्यप्रकाशकृतोक्तम्। तथा तत्रैव तेन- 'भम धम्मिअ वीसत्थो सो सुणओ अज्ज मालिदो तेण। गोलाणइकच्छ निकुडंगवासिणा दरिअसीहेण।'

कयो: क्रमः संलक्ष्यो यत्र तयेत्यर्थः। अयमेव पूर्वतो विशेषः। नतु स्थाय्यादीनामसंल- क्ष्यक्रमव्यङ्ञयत्वमेव प्राचीनैरुक्तमत आह-उपेति । अमुमुत्तमोत्तमम्। व्याख्यानमे- वाह-उत्तरीये त्याद्याचरन्तीत्यन्तेन। इत्यादी त्यादिना प्रातर्दत्तमञ्जनं कालविलम्बेन किंचिद्विलप्तमित्यन्यथासिद्धिपरिहाराय दूरमिति। अत्यर्थमित्यापाततोऽर्थः । एतेन काला- न्यथासिद्धिनिरासः । पुनः स्नानसाधारण्यव्यावर्तनेन संभोगचिहोद्वाटनाय दूरे प्रान्त इति हृदयस्थितोऽर्थः । कालतः स्नानेन सर्वतोऽजनलोप: स्यात्तव तु लोचनयोः क्वचित्प्रान्त एवानञ्ञनतमिदं चुम्बनकृतमेवेत्यादिपरिग्रहः । वाक्यार्था विशेषणवाक्यार्थाः। प्रधान- व्यङ्गयं संभोग: । तत्र ग्रन्थविरोधमाह-पञ्चमोल्लासेति। अस्योक्तमित्यन्रान्वयः । गमकेति। संभोगेत्यादिः। अत्रैव निःशेषेत्यादावेव। प्रतिबद्धानि जन्यतया न तत्रैव संबद्धानि। अनैकान्तिकानि साधारणानि। तत्रैव पञ्चमोल्लास एव। तेन प्रकाशकृता । अभ्युपगतमित्यत्रान्वयः । भ्रमेति। 'भ्रम धार्मिक विश्रब्धः स शुनकोऽद्य मारितसतेन।

Page 78

१६ काव्यमाला। [प्रथमानने-

इत्यादौ लिङ्गजलिङ्गिज्ञानरूपेणानुमानेन व्यक्तिं गतार्थयतो व्यक्तिविवेक- कृतो मतं प्रत्याचक्षाणेन व्यभिचारित्वेनासिद्धत्वेन च संदिहमानादृपि लिङ्गाव्यञ्ञनमभ्युपगतम्। इत्थमेव च ध्वनिकृतापि प्रथमोद्दयोते। एवं च व्यञ्ञकानां साधारण्यं प्रतिपाद्यतां प्रामाणिकानां ग्रन्थैः सहासाधारण्यं प्रतिपाद्यतस्तव ग्रन्थस्य विरोधः रफुटः । किंच यदिदं निःशेषेत्याद्यवा- न्तरवाक्यार्थानां वापीस्नानव्यावृत्तिद्वारेण व्यड्यासाधारण्यं संपाद्ते तत्किमर्थमिति पृच्छाम: ? व्यङ्ग्यस्य व्यञ्जनार्थमिति चेन्न। व्यञ्जकग- तासाधारण्यस्य व्यञ्ञनानुपायत्वात्। 'औण्णिहं दोब्बलं चिंता अलसंतणं सणीससिअम्। मह मंदभाइणीए केरं सहि तुह वि परिभवइ।' इत्यादौ साधारणानामेवौन्निदादीनां वक्रादिवैशिध्यवशादर्थविशेषव्यञ्ज- कताया अभ्युपगतेः। प्रत्युतासाधारण्यस्य व्यात्यपरपर्यायस्यानुमानानुकू- लतया व्यक्तिप्रतिकूलत्वाच्च। अथ तटादिघटितत्वेSपि न निःशेषेत्यादिवा- क्यार्थानामसाधारण्यम्। सलिलार्द्रवसनकरणकप्रोञ्छनादिनापि तत्संभ-

गोदानदीकच्छनिकुञ्जवासिना दप्तसिंहेन ॥I' कुसुमावचयार्थ कुक्जे धार्मिकपरित्रमणेन खण्डितसंकेतायास्तन्निवारणोक्तिरियम्। अन्र वाच्येन भीरुस्वभावस्य गृहे श्वनिवृत्त्या भ्रमणेन निकुञ्जे सिंहोपलब्ध्या भ्रमणनिषेधो व्यङ्यः। इत्थमेवेति। उत्तं स्ीकृतं चेत्यर्थः। ननु तैः साधारण्ये व्यञ्ञने स्वीकृतेऽसाधारण्ये सुतरामङ्गीकृतम्, प्रकृते च तथा संभवान्मयोपपादितमिति कस्तैर्विरोध इति चेत्सत्यम्, अत एवोपपत्तिविरोधोऽपरो दोषो- Sभिहितस्तमुपपादयति-किं चेत्यादि। व्यङ्ग्येति। व्यञ्ञयसंभोगं प्रत्यसाधारण्यमि- त्यर्थ: । अनुपायले हेतुमाह-औण्णिद्दमिति 'औत्निव्यं दौर्बल्यं चिन्तालसत्वं सनिः- श्वसितम्। मम मन्दभागिन्याः कृते सखि लामपि परिभवति ॥' कृतकामुकसंभोगां दूतीं प्रत्युपभोगचिहैस्तं ज्ञातवत्या नायिकाया इयमुक्तिः। साधारणानां रोगादितोऽपि तत्संभ- बातू। यथात्रैव नायिकायास्तद्वियोगतः । वक्रादीति। आदिना बोद्धव्यपरिग्रहः । ननु तस्य तदनुपायलेऽपि सति संभवे तत्प्रतिपादनमित्युक्तमेवात आह-प्रत्युतेति । व्यकीति। व्यज्ञनेत्यर्थः । एवमग्रेऽपि। एवं च व्यञ्ञनासिद्धिरेव न स्यादिति भावः । तटादीत्यस्य वापीस्नानव्यावर्तनायेत्यादिः । आदिना जलबिन्दुपातादिपरिग्रहः। 'जातायाः' इति पाठः। नन्वत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येनाधमपदेन व्यज्यत इति प्रका-

Page 79

काव्यभेदा: ] रसगङ्गाधरः। १७

वादिति चेत्तर्हि वापीस्ानव्यावर्तनेन क: पुरुषार्थः । एकत्रानैकान्तिक- त्वस्येव बहुष्वनैकान्तिकताया अपि ज्ञाताया अनुमितिप्रतिकूलत्वाव्य- क््यप्रतिकूलत्वाच्च। अपि चात्र हि तदन्तिकमेव रन्तुं गतासीति व्यङ्गयश- रीरे तदन्तिकगमनं रमणरूपफलांशश्रेति दवयं घटकम्। तत्र तावत्तदन्तिकं गतासीत्यंशस्य त्वन्मते व्यङ्गयत्वं दुरुपपादम्। त्वदुक्तरीत्या विशेषणवा- क्यार्थानां निःशेषेत्यादिप्रतिपाद्यानां वाच्यार्थे वापीस्नाने बाधितत्वाद्वाच्च- कक्षागतप्रधानवाक्यार्थीभूतविधिनिषेधप्रतिपादकाभ्यां गता न गतेति शब्दाभ्यां विरोधिलक्षणया निषेधस्य विधेश्च प्रतीतेरुपपन्तेः । नहि मुख्यार्थबाधेनोन्मीलितेऽर्थे व्यक्तिवेद्यतोचिता। यथा 'अहो पूर्ण सरो यत्र लुठन्तः स्नान्ति मानवाः' इत्यत्र कर्त विशेषणानुपपेत्त्यधीनोह्लासे पूर्णत्वाभावे। अथ तदन्तिकगमनस्य लक्षणावेद्यत्वेSपि रमणस्य फलांशस्य लक्ष्यशक्ति- मूलध्वननवेद्यत्वमव्याहृतमेवेति चेत्, 'अधमत्वमप्रकृष्टत्वं तच्व जात्या कर्मणा वा भवति। तत्र जात्यापकर्ष नोत्तमनायिका नायकस्य वक्ति' इत्यादिना संदर्भेण भवतैवार्थापत्तिवेद्यताया: स्फुटं वचनात्। अन्यलभ्यस्

शकाराद्युक्तत्वात्स्नानव्यावृत्तिर्मया कृतात आह-अपि चेति। लन्मत इत्यनेन तेषां मते तत्सूपपादमिति सूचितम्। त्वदुक्केति । तटादिघटितत्वरूपयेत्यर्थः । निषे- धस्येति। यथाक्रममन्वयः । उन्मीलिते प्रकटिते। कर्तृविशेषणं लठन्त इवि। तदनुपपत्त्यधीन उल्लासो यस्य विरोधिलक्षणया पूर्णलाभावस्य तत्र यथा न व्यञ्ञनावे- द्यतेत्यर्थः । लक्ष्येति। लक्ष्यं तदन्तिकगमनं तस्य या शक्ति: सामर्थ्य तन्मूलं यद्यअनं तद्वेद्यलमित्यर्थः । आदिना 'नापि स्वापराधपर्यव सायिदूतीसंभोगादिहीनकर्मातिरिक्ते न १ वाच्यकोटौ-वाक्यार्थे प्रधानीभूताभ्यां 'वापी सनातुमितो गताऽसि' इति विधेः 'तस्य अधमस्य अन्तिकं न' इति निषेधस्य च प्रतिपादकाभ्यां 'गता' 'न गता' इति शब्दाभ्यां विप- रीतलक्षणया 'गता' इति विधिस्थाने निषेधस्य 'न गता' इति निषेधस्य स्थाने च विधेश्च प्रतीत्या अर्थस्योपपादनं भवेत्। मुख्यार्थबाधे सति तु लक्षणा भवति, न व्यअ्जनेति प्रसिद्धम्। ततश्च तदन्तिकगमनरूपे व्यङ्गयस्य प्रथमांशेऽस्मिन् का वा व्यक्कयतायाः प्रत्याशेत्याशयः । २ स्नानकर्तणां मानवानां 'लुठन्तः' इति विशेषणस्य सरःपूर्णत्वे अनुपपत्तिः। ततश्च विपरीतलक्षणया पूर्णत्वाडभावे साधिते व्यक्तिवेद्यता यथा नोच्चिता भवति तथात्रेति संबन्धः । ३ अर्थाद् व्यङ्ग्यशरीरघटकद्वितीयांशस्य।

Page 80

१८ काव्यमाला। [ प्रथमानने-

च शब्दार्थताया अस्वीकृतैः। अन्यच्न यथाकर्थंचिदङ्गीकुरु वात्र व्यञ्ञना व्यापारं तथापि न तवेष्टसिद्धिः । वाच्यानां निःशेषच्युतचन्दनस्तनतट- त्वादीनामधमत्वस्य च त्वदुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूती- संभोगमात्रनिष्पाद्यत्वेन गुणीभूतव्यङ्गयत्वंप्रसङ्गात्। एवं चोपपेत्तिविरो- धोऽपि स्फुटतर एव। तस्साद्वाच्यार्थसाधारण्यमेवोचितमतिविद्ग्धनायि- कानिरूपितानां विशेषणवाक्यार्थानाम्। तथा हि-'अयि बान्धवजन- स्याज्ञातपीडागमे सवार्थपरायणे स्नानकालातिक्रमभयवशेन नदीमदीयपि- ययोरन्तिकमगत्वैव वापीं स्नातुमितो ममान्तिकाद्गतासि, न पुनस्तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम् । यतो निःशेष- च्युतचन्दनं स्तनयोस्तटमेव नोर:स्थलम्, वापीगतबहुलयुवजनत्रपा- पारवश्यादंसद्वयलग्नाग्रस्वस्तिकी कृतभुजलतायुगलेन तटस्यैवोन्नततया मुहु- रामर्शात्। एवं त्वरया सम्यगक्षालनेनोत्तरोष्टो न निर्मृष्टरागोऽधरस्तु तद्- पेक्षया गण्डूषजल-रदनशोधनाङ्गुल्यादीनामधिकसंमर्दमावहतीति तथा। किं चं सम्यगक्षालनेन नेत्रे जलमात्रसंसर्गादूरसुपरिभाग एवानञ्जने। शीतवशात्तानवाच्च तव तनुः पुलकितेति। एवं तस्या विदृग्धाया गूढता-

कर्मणा, तादृशं हि दूतीप्रेषणात्प्राचीनं सर्व सोढमेवेति नोद्धाटनार्हम्, अन्यथा स्वयं दूती- संप्रेषणानुपपत्तेः' इत्यादिपरिग्रहः । तस्यापि रमणस्यापि। ननु तद्वेद्यत्वेऽपि व्यञ्ञना कुतो नात आह-अन्येति । 'अनन्यलभ्यो हि शब्दार्थः' इति न्यायादिति भावः । यथा- क्रथंचिदिति। अर्थापत्तिप्रमाणस्यातिरिक्तस्याभावादिति भावः । अत्र रमणे। संभो- गमात्रेति। तदन्येन वाच्यस्य सिद्धेरेवाभावादिति भावः । उपसंहरति-एवं चेति। उक्तरीत्या गुणीभूतव्यङ्ञयत्वप्रसङ्ने चेत्यर्थः। एवं चात्र तदनुरोधेन तथोक्तावुपपत्तिविरो- ववत्तत्र तदनुरोधत्यागेनासाधारण्यप्रतिपादनं तद्विरुद्धमेव तदाह-अपीति। कथं तर्हि तस्य व्यङ्गयतं प्रकाशाद्युक्तमाह-तस्माद्वाच्यार्थेति। वापीस्नानेत्यर्थः। निरूपि- तेति। बोधितेत्यर्थः । गमे इत्यन्तव्याख्या स्वार्थेति। अन्तिकमित्यत्र गतासीत्यनुषङ्गः। एवं त्रपापारवश्यात्। तथा निर्मृष्टरागः। तन्वीत्यस्यार्थमाह-तानवाच्चेति। कृशला- १ तदन्तिकं रन्तुमेव गतासीति व्यङ्ग्यायेंनैव अधमत्वरूपवाच्यार्थस्योपपादनात्। २ ध्वनेरिदसुदाहरणमिति सवोपपादनस्य विरोधः । किंवा-उपपत्ति-(युक्ति-)द्वारापि भव- त्कथने विरोधः इत्यर्थ।

Page 81

काव्यभेदा: ] रसगङ्गाघर: । १९

न्पर्यवोक्तिरुचिता, अन्यधा वैदग्व्यभङ्गापत्तेः । एवं साधारणेष्वेषु वा- क्यार्थेषु मुख्यार्थे वाधाभावात्तात्पर्यार्थस्य झटित्यनाकलनात्कुतोSत्र लक्षणा- वकाशः। अनन्तरं च वाच्यार्थप्रतिपत्तेर्वक्तबोद्धव्यनायकादीनां वैशिष्ट्यस्य अतीतौ सत्यामधमपदेन स्वप्रवृत्तिप्रयोजको दुःखदातृत्वरूपो धर्मः साधा-

व्यञ्जनाव्यापारेण दूतीसंभोगनिमित्तकदुःखदातृत्वाकारेण पर्यवस्यतीत्या लंकारिकसिद्धान्तनिष्कर्षः । एतेन 'अधमत्वमपकृष्टत्वं तच्च जाता कर्मणा वा भवति। तत्र जात्याऽपकर्ष नोत्तमनायिका नायकस्य वक्ति। नापि स्वापराधपर्यवसायिदूतीसंभोगादिहीनकर्मातिरकेन कर्मणा। तादशं च दूतीसंप्रेषणात्प्राचीनं सोढमेवेति नोद्धाटनार्हमितीतरव्यावृत्त्या संभोग- रूपमेव पर्यवस्यति' इति यदुक्तम्, तद्पि निरस्तम्। विदग्धोत्तमनायि- कायाः सखीसमक्षं तदुपभोगरूपस्य खनायकापराघस्य स्फुटं प्रकाशयितु- मतितमामनौचित्येन प्राचीनानामेव सोढानामप्यपराधानामसह्यतया दूर्ती प्रति प्रतिपिपादयिषितत्वादिति दिक।

च्चेतर्थः । उपसंहरति-एवमिति। उक्तप्रकारेत्यर्थः । प्रागुक्तलक्षणापत्तिदोष इह नेलाह-एवमिति। मुख्यार्थे वापीसाने। अनन्तेति। वाच्यार्थप्रतिपत्तेरनन्तरं चेत्यर्थः । वक्री विदग्वोत्तमनायिका। बोद्धव्या दुःशीला दूती। नायकस्तादशः । आदिना काक्कादिपरिग्रहः। अधमपदेनेति। बोधित इति शेषः । स्वेति। अधमपदप्रत्ृ- त्तिनिमित्तमित्यर्थः । साधारणेति। तादशकर्मान्तरसाधारणेत्र्थः। दातृत्वरूपेण

तन्र प्रवृत्तिनिमित्ततया · स्वीकार्याः । प्रकृते तु दुःखदातृतरूपो धर्मः । तत्र च वाच्य कक्षायां दुःखलेन रूपेणापराधान्तरविमितं दुःखं प्रकरणादिवशाङ्टकीभूय भासते। व्यङ्गयकक्षायां तु दूतीसंभोगनिमित्तदुःखलेन दूतीसंभोगनिमित्तकं दुःखमिति भावः । तदभिप्रायेणोच्यते-स्थितः पर्यवस्यतीति चेति। स्वापेति। सं नायिका। दूतीसंभोगादि- रूपं यद्ीनकर्मेत्यर्थः । एतेनेत्यस्यार्थमाह-विदेति। तदुपेति। दूत्युपेत्यर्थः । अति- तमामत्यन्तम्। प्राचीति। दूतीसंप्रेषणादित्यादिः। अन्यथा वैदग्ध्यादिभङ्गापत्तिः । दोषान्तरमपि प्रागुक्तं तदाह-दिगिति। १ विदग्धायास्तस्याः सेयमुक्तिर्गूढतात्पर्यां। ततश्च तात्पर्यार्थस्य सहसैव भानाभावाच्तातप- र्यांनुपपत्तिमाश्रित्यावतरन्ती लक्षणा कथं संभवेदित्याशयः ।

Page 82

२० काव्यमाला। [प्रथमानने-

यत्र व्यड्यमप्रधानमेव सच्चमत्कारकारणं तद्वितीयम्। वाच्यापेक्षया प्रधानीभूतं व्यङ्ग्यान्तरमादाय गुणीभूतं व्यङ्गयमादाया- तिव्याप्तिवारणायावधारणम्। तेन तस्य ध्वनित्वमेव। लीनव्यड्ग्यवाच्य- चित्रातिप्रसङ्गवारणाय चमत्कारेत्यादि। यत्तु 'अतादृशि गुणीभूतव्य- ड्यम्' इत्यादिकाव्यप्रकाशगतलक्षणे चित्रान्यत्वं टीकाकारर्दत्तम्, तन्न । पर्यायोक्तसमासोक्त्यादिप्रधानकाव्येष्वव्याप्यापत्ते:। तेषां गुणीभूतव्यङ्गय- तायाश्चित्रतायाश्च सर्वालंकारिकरूमतत्वात्। उदाहरणम्- 'राघव विरहज्वालासंतापितसहयशैलशिखरेषु। शिशिरे सुखं शयाना: कपयः कुप्यन्ति पवनतनयाय ॥' इति। अत्र जानकीकुशलावेदनेन राघव: शिशिरीकृत इति व्यङ्गयमाकस्मिक-

द्वितीयमुत्तमम् । वाच्येति। वाच्यार्थतः प्रधानमन्यव्यङ्गयादप्रधानं यद्यङ्ञं तदा- दायेत्यर्थः । अपराङ्गोदाहरणे 'अयं स रशनोत्कर्षी' इत्यत्रापि वाच्यापेक्षया श्ृद्गारस्य न आ्धान्यम्। शोकोतकर्षकतया शरङ्गाररूपव्यङ्गयापेक्षया वाच्यस्यैव चमत्कारकारित्ात्। एवं सर्वत्रापराङ्गोदाहरणेषूह्यम्। अवधारणे एवः । तस्य सांप्रतमुक्तस्य। लीनव्यङ््ेति बहुव्रीहिः। शब्दचित्रे तदभावादाह-वाच्येति । तत्रोत्तमत्वादिप्रसङ्गेत्यर्थः । उदेति। लक्षितद्वितीयकाव्योदाहरणमित्यर्थः । राघवविरहेति। सीतावियोगकृत- १ अर्थात् 'एव' कारनिवेशः । अयं भाव :- यद्यत्र 'व्यङ्गयमप्रधानमेव सत्' इत्यवधारणं न दीयेत तर्हि 'व्यङ्ञ्यमप्रधानं सत् चमत्कारकम्' इत्यर्थों भवेत्। ततश्च 'अयं स रशनो- त्कर्षी'त्यादयपराङ्गोदाहरणेषु करुणापेक्षया अप्रधानं शृङ्गारश्चमत्कारकारणमस्तीति ध्वनित्वस्थाने अस्याप्युत्तमकाव्यत्वं प्रसज्येत। एवकारनिवेशे तु-यद् व्यञ्ञचमप्रधानमेव सदित्युक्त्या करु णापेक्षया गुणत्वेपि वाच्यार्थापेक्षया शृङ्गारस्य प्राधान्यमस्तीति ध्वनिकाव्यत्वमस्याऽव्याहतम् । अत्र 'अयं स रशनोत्कर्षी'त्यत्र वाच्यापेक्षया शृङ्गारस्य न प्राधान्यम्, वाच्यस्यैव शोकोत्कर्षक तया चमत्कारित्वात्' इति नागेशोक्तिस्तु मूलविरुद्धा केवलं अ्रमापादिकैव। पूर्ववृत्तश्ङ्गारस्य करुणप्रसङ्गे शोकोत्कर्षकतया चमत्कारित्वस्य प्रदीपाद्यङ्गीकृतत्वात्। २ वाच्य-चित्रकाव्येषु व्यङ्ञयं लीनं भवति, न तत्कृतश्चमत्कारः । तेष्वतिप्रसक्तिवारणाय चमत्कार कमित्युक्तम्। ३ चित्रान्यत्वं वाच्यचित्रादि-अलंकारप्रधानककाव्यभिन्नत्वम्। ४ राघवप्रीतिभाजने हनूमति 'जानकीकुशलसूचनेन रामः शिश्षिरीकृतः' इति व्यङ्गयं विना कपीनामकस्मात्कोपो नोपपद्ते। अतो वाच्यकोपोपपादकतया व्यञ्ञयं गुणीभूतमित्याशयः ।

Page 83

काव्यभेदा: ] रसगङ्गाघर: । २१

कपिकर्तृक-हनूमद्विषयककोपोपपादकतया गुणीभूतमपि दुर्देववश्तो दास्य- मनुभवद्राजकलत्रमिव कामपि कमनीयतामावहति। नन्वेवं प्रागुक्तमाक्षेप- गवं मान्दमपि नववधूप्रकृतिविरोधादनुपपद्यमानं व्यङ्गयेनैवोपपाद्यत इति कथमुत्तमोत्तमता तस्य काव्यस्येति चेतू, न। यतो ह्यनुदिनसख्यु- पदेशादिभिरनतिचमत्कारिभिरप्युपपद्यमानं मान्दमिदं प्रथमचित्तचुम्बिनी विप्रलम्भरतिमप्रकाशयन्न प्रभवति सवातत्रयेण परनिर्वृतिचर्वणागोचरता- माधातुम्। इत्थमेव निःशेषच्युतचन्दनमित्यादिपद्येष्वधमत्वादीनि वा- च्यानि व्यङ्गयातिरिक्तेनार्थेनापाततो निष्पन्नशरीराणि व्यञ्जकानीति न तत्रापि गुणीभावः शङ्कनीयः । अनयोर्भेदयोरनपह्मवनीयचमत्कारयोरपि प्राधान्याप्राधान्याभ्यामस्ति कश्चित्सहृदर्यवेद्यो विशेष:। यत्तु चित्रमीमां- साकृतोक्तम्- प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेण वा किमुत सकले याते वाऽहि प्रिय त्वमिहैष्यसि। इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालाSडलापैः सबाष्पगलज्जलैः ।।' इत्यत्र सकलमहः परमावधिस्ततः परं प्राणान्धारयितुं न शक्ोमीति व्यङ्गयं प्रियगमननिवारणरूपवाच्यसिद्धयङ्गमतो गुणीभूतव्यङ्गयन्' इति। तन्न। सबाष्पगलज्जलानां प्रहरविरतावित्याद्यालापानामेव प्रियगमननिवा-

रामविरहानलज्वालासरंतापितसह्यनामकाद्विशिखरेषु शिशिरतौं सुखं यथा तथा शयाना इत्यादिरर्थः । कोपो वाच्यः । प्रागुक्तं ध्वनितृतीयलक्ष्ये 'तल्पगतापि च' इति पद्ये उक्तम्। व्यङ्ञयेनैव रत्याख्यस्थायिनैव। एवोऽन्यव्यवच्छेदे। प्रथममेव । चित्तारूढामि- त्यर्थः। अप्रेति। अव्यञ्जयन्। सवेति। मन्दलमात्रेणेत्यर्थः । परेति । परमसुखा- खादविषयतामित्यर्थः । अर्थेनापराधान्तरनिमित्तकुःखदातृत्वरूपेण। तत्र तात्पर्याभा- वादाह-आपातत इति। ननूक्तमेदयोश्वमत्कृतेस्ताल्यादैक्यमेवास्तामत आह- अनयोरिति। प्रहरविरताविति। हे प्रिय, तं किं प्रहरसमातौ दिनमध्ये याते १ अधमत्वादीनि केवलं दूतीसंभोगकारित्वमात्रेणैव न निष्पद्यन्ते, अपराधान्तरकृतदुःख- दातृत्वेनापि संभवन्तीति व्यङ्कयमात्रोपपाद्यत्वं वाच्यस्य नास्तीत्याशयः । २ व्यङ्कयकृतचमत्कारो ह्युभयत्राऽप्यनपह्रवनीयः (न निगृहनीयः) तथापि उत्तमोत्तमे ध्वनिकाव्ये (प्रथमे) व्यङ्गयस्य ग्राधान्यम्, उत्तमे गुणीभूतव्यङ्गये (द्वितीये) च तस्याSप्राधा- न्यमिति द्वयोविशेष: सहृदयैरेव बुध्यत इत्यर्थः ।

Page 84

२२ काव्यमाला। [प्रथमानने-

रणरूपवाच्यसिद्ध्यङ्गतया व्यङ्गयस्य गुणीभावाभावात्। आलापैरिति तृती- यया प्रकृत्यर्थस्य हरणक्रियाकरणतायाः स्फुट प्रतिपत्तेः । न च व्यङ्गय- स्यापि वाच्यसिद्ध्यङ्गतात्र संभवतीति तथोक्तमिति वाच्यम्। निःशेषच्यु- तचन्दनमित्यादाविवाधमत्वरूपवाच्यसिद्ध्यङ्गताया दूतीसंभोगादौ संभ- बाहुणीभावापत्तेः । अस्तु वा ततः परं प्राणान्धारयितुं न शक्कोमीति व्यङ्गयस्य वाच्यसिद््यङ्गतया गुणीभावस्तथापि नायकादेविभावस्य बाष्पा- देरतुभावस्य चित्तावेगादेश्च संचारिण: संयोगादभिव्यज्यमानेन विप्रल- क्भेन ध्वनित्वं को निवारयेत्। यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो वाच्यचमत्कारस्त ततृतीयम्। यथा यमुनावर्णने-'तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्ट- हिमगिरिभुजायमानाया भगवत्या भागीरथ्या: सखी' इति। अन्नोत्प्रेक्षा वाच्यैव चमत्कृतिहेतुः । श्वैत्यपातालतलचुम्बित्वादीनां चमत्कारो

वा मध्याह्वादपि परेण तृतीयप्रहरेण यातेन वा सर्वदिने गते वेह मत्समीपे उत निश्च- येनैष्यस्यागमिष्यसीत्येवं प्रकारेण। आलापेऽस्यान्वयः । अग्रे स्पष्टम्। शतशब्दोऽनि- यतसंख्यावाची। एवमुत्तव्यक्क्यव्यवच्छेदे। व्यङ्गयस्य शक्कोमीत्यन्तस्य। ननु विनि- गमनाविरहोऽत आह-आलापैरिति। प्रकृत्यर्थस्य तादृशालापस्य। अपिरुक्तस- मुचये। ननु सबाष्पगलज्जलतदुक्तालापानां गमनोत्तरचिरकालावस्थिति निवारकतयाप्यु- पृपत्तेर्व्यङ्गयसहितानामेव गमननिवारणसामर्थ्यमत आह-अस्तु वेति । आन्तरा= लिकव्यङ्यमादायैव ध्वनिगुणीभूतव्यञ्ञयादिव्यवहारस्योपपद्यमानतया विप्रलम्भेन ध्वनितं को निवारयेदिति चिन्त्म्। अन्यथा 'ग्रामतरुणम्' इत्यादिगुणीभूतव्यज्ञयीयप्रका- शादुक्तोदाहरणानामप्यसंगत्यापत्तो व्याकुली स्यात्। तत्रापि व्यज्ञयसंकेतभज्गेन वारच्यमु- खमालिन्याति शयरूपानुभावमुखेनैव विप्रलम्भाभासपोषणं न केवलेन संकेतभङ्गेन। तस्या- कर्तव्यत्वबुद्धापि संभवादिति बोध्यम्। व्यङ्ग्येति । तदसमानाधिकरणतं चास्फुटतना बोध्यम् । हिमाचलस्य मैनाक: पुत्रः। लम्बीकृतत्वप्रविष्ठत्वे भुजविशेषणे। तद्वदाचरिता। 'उपमानादाचारे' इति क्यड। सखी यमुना वाच्यैव। तदर्थ क्यङः सत्त्वात्। अत्र श्वेतपातालतलगामिनी भागीरथी तादृशविशिष्टभुजत्वेनोत्प्रेक्ष्यते। एवव्यावर्त्य व्यङ्ञ्यमाह-शवैत्यति। व्यक्ञ्यानामिति असमानाऽधिकरण: (असहवासी), वाच्यूचमत्कार: स्पष्ट उत्कृष्टश्च यत्र स्यात् इत्याशयः । २ व्यङ्यद्वारा वाच्यस्य (मुखमालिन्यस्य) अतिशयः स्वयं श्रीमतैव स्वीक्रियते अत एव नात्र ध्वनित्वम्। चरमं विप्रलम्भाभासमादाय तु ध्वनित्वमनुमतमेव तन्रापि।

Page 85

काव्यभेदा: ] रसगङ्गाघरः । २३

लेशतया सन्नप्युत्प्रेक्षाचमत्कृतिजठरनिलीनो नागरिकेतरनायिकाकल्पित- काश्मीरद्रवाङ्गरागनिगीर्णो निजाङ्गगौरिमेव प्रतीयते। न तादशोऽस्ति कोडपि वाच्यार्थो यो मनागनामृष्ठप्रतीयमान एव स्वतो रमणीयतामाधातुं प्रभवति। अनयोरेव द्वितीयतृतीयभेदयोर्जागरूकाजागरूकगुणीभूतव्य- ड्ययोः प्रविष्टं निखिलमलंकारप्रधानं काव्यम्। यत्रार्थचमत्कृत्युपस्कृता शब्दचमत्कृतिः प्रधानं तद्धमं चतुर्थम्।। यथा- 'मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे। गोत्नारिगोत्रजन्राय गोत्रात्रे ते नमो नमः ॥' इति। अत्रार्थचमत्कृतिः शब्दचमत्कृतौ लीना। यद्पि यत्रार्थचमत्कृतिसामा- न्यशून्या शब्दचमत्कृतिस्तत्पञ्चममधमाधममपि काव्यविधासु गणयितु-

वस्तुतः

शेषः । नागेति । ग्रामीणेत्यर्थः । अत एव सम्यग्लेपनात्साङ्गगौरलनिगरणम् । काश्मीरद्रवः केसररसः। सन्नपीत्यनेन व्यङ्ञ्यासमानाधिकरणत्मित्येव कुतो नोक्तमित्यस्य निरासः । तदाह-न तादृश इति। मनागिति । ईषदस्पृष्टव्यक्ञ्य एवेत्यर्थः । उपस्कृतत्वं पोषितलम्। अत एव तस्याः प्राधान्यम्। मिन्नति। गोन्नात्र इति तृज- न्तस्य चतुर्थ्यन्तम्। शिवाय विष्णवे वा। सूर्याचन्द्रनेत्राय। त्रयी वेदत्रयी तत्र शात्रवं शत्रुत्ं यस्य मदनस्य, येषां वा दैत्यानाम्, तच्छत्रवे। गोत्नारिरिन्द्रस्तद्वोत्रजा देवास्तद्रक्षकायेत्यर्थः । लीनेति। अप्रधानत्वेनास्फुटत्वादिति भावः । न्यूनतां परि- हरति-यद्यपीति। विधासु भेदेषु। महत्त्वेन तथानिबन्धे योग्यता सूचिता। परम्परामित्यनेनान्धपरम्परावदविचारः सूचितः । काव्येषु तत्र तत्र स्थलविशेषे। प्राचीनोक्ते: सूचितासांगत्यहेतुमाह-वस्त्विति । केचित् प्रकाशकारादयः । एवं तारतम्यज्ञत्वेन। 'विनिर्गतं मानदमात्ममन्दिराद्भ्वत्युपश्रुत्य यदच्छयापि यम्। ससंभ्रमे- न्द्रद्रुतपातितार्गला निमीलिताक्षीव भियामरावती ॥I' इति प्रकाशादयुक्त्म् । 'स च्छिन्र-

१ जागरूकः चमत्कृतिशाली गुणीभूतो व्यङ्चयो यस्मिन् स च, अजागरूको मन्दायमान: गुणीभूतो व्यङ्कयो यस्मिन्स च्चेति तयोः ।

Page 86

२४ काव्यमाला । [प्रथमानने-

काव्यत्वाभावेन महाकविभिः प्राचीनपरम्परामनुरुन्धानैस्तन्न तत्र काव्येषु निबद्धमपि नास्माभिर्गणितम, वस्तुस्थितेरेवानुरोध्यत्वात्। केचिदिमा- नपि चतुरो भेदानगणयन्त उत्तममध्यमाधमभावेन त्रिविधमेव काव्यमाच- क्षते। तन्नार्थचित्र-शब्दचित्रयोरविशेषेणाधमत्वमयुक्तं वक्तुम्, तारतम्यस्य स्फुटमुपलब्धेः। को ह्येवं सहृदयः सन् 'विनिर्गतं मानदमात्ममन्दिरात्', 'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादिभिः काव्यैः 'स्वच्छन्दोच्छलद्' इत्यादीनां पामरश्लाध्यानामविशेषं ब्रयात्। सत्यपि तारतम्ये यद्येकभे- दत्वं कस्तर्हि ध्वनिगुणीभूतव्यङ्गययोरीषदन्तरयोर्विभिन्नभेदत्वे दुराग्रहः। यत्र च शब्दार्थचमत्कृत्योरैकाधिकरण्यं तत्र तयोर्गुणप्रधानभावं पर्या- लोच्य यथालैक्षणं व्यवहर्तव्यम्। समप्राधान्ये तु मध्यमतैव।

यथा- 'उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानां निस्तारः शोकदावानलविकलहदां कोकसीमन्तिनीनाम्। उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः संघात: कोऽपि धाम्नामयमुद्यगिरिप्रान्ततः प्रादुरासीत् ।।'

मूल: क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ।I' इत्यप्पयदीक्षितोक्तम्। काव्यैः, अर्थचित्रैरिति शेषः । 'स्वच्छन्दो- च्छलदच्छ कच्छकुहरच्छातेतराम्भशछट।मूच्छन्मोहमहर्षिहर्षविहि तस्ानाह्विकाहाय वः। भिन्दादुददुदारदर्दुरदरीदैर्ध्यादरिद्रद्रुमद्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥' इति प्रकाशादुक्तम्। पामरेति। शब्दचित्रत्वादिति भावः । ईषदन्तरेति। प्राधा- न्याप्राधान्यकृतेत्यर्थः । उल्लास इति । रविवर्णनम्। उदयाचलप्रान्तभागादयं कोऽपि विलक्षणो धाम्नां तेजसां समूहः प्रादुर्भवति। तत्र रूपकं चतुर्धा। विकसितकमलसमू- हमध्यावधिकनिःसरणयुतरसपानजोन्मादवद्भमराणामुल्लासः। तादृशकोकीनां निस्तारो दुःखोद्धर्ता। नाशिततेजसां तामसानां तमःसमूहानामुत्पातो नाशकः । नेत्राणां पक्षपातः सहकारी। 'आवृतवर्णसंपूर्ण वृत्त्यनुप्रासवद्वचः । ओजः स्यात्प्रौढिरर्थस्य संक्षेपो वाति-

१ लक्षणानुसारम्। अर्थचमत्कृतिप्राधान्ये मध्यमत्वम्, शब्दचमत्कृतिप्राधान्ये चाडघमत्वं व्यप देश्यमित्याशयः ।

Page 87

रस: ] रसगङ्गाघर:। २५

अत्र वृत्त्यनुप्रासप्राचुर्यादोजोगुणप्रकाशकत्वाच्च शब्दस्य, प्रसादगुणयो- गादनन्तरमेवाधिगतस्य रूपकस्य हेत्वलंकारस्य वा वाच्यस्य, चमत्कृत्योस्तु- ल्यस्कन्धत्वात्सममेव प्राधान्यम्। तन्न ध्वनेरुत्तमोत्तमस्यासंख्यभेदस्यापि सामान्यतः केऽपि भेदा निरू- ध्यन्ते-द्विविधो ध्वनिः, अभिधामूलो लक्षणामूलश्च। तत्राद्यस्त्रिविधः। रसवस्त्वलंकारध्वनिभेदात्। रसध्वनिरित्यलक्ष्यक्रमोपलक्षणाद्रसभावतदा- भासभावशान्तिभावोद्यभावसंधिभावशबलत्वानां ग्रहणम्। द्वितीयश्च द्विविधः। अर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्च। एवं पञ्चात्मके ध्वनौ परमरमणीयतया रसध्वनेत्तदात्मा रसस्तावदभिधीयते- समुचितललितसंनिवेशचारुणा काव्येन समर्पितैः सहृदयहृदयं प्रविष्टैस्तदीयसहृदयतासहकृतेन भावनाविशेषमहिस्ना विगलितदुष्य- न्तरमणीत्वादिभिरलौकिक विभावानुभावव्यभिचारिशब्दव्यपदेश्यैः शकुन्तलादिभिरालम्वनकारणैः, चन्द्रिकादिभिरुद्दीपनकारणैः, अश्रु- पातादिभि: कार्यः, चिन्तादिभि: सहकारिभिश्च, संभूय प्रादुर्भाविते- नालौकिकेन व्यापारेण तत्कालनिवर्तितानन्दांशावरणाज्ञानेनात एव अ्रमुष्टपरिमितप्रमातृत्वादिनिजधर्मेण प्रमात्रा खप्रकाशतया वास्तवेन

भूयसः ॥ यस्मादन्तःस्थितः सर्वः स्पष्टमर्थोऽवभासते। सलिलस्येव सूकस्य स प्रसाल इति स्मृतः ।I' इति तह्लक्षणानि बोध्यानि। रूपकस्योल्लासाद्यभेदरूपकस्य। ननूल्लासा- दीनां तत्कार्यल्ात्कथं रूपकमत आह-हेत्वलमिति। 'हेतोर्हेतुमता सार्ध वर्णनं हेतु- रुच्यते' इति तल्लक्षणम्। तत्र चतुर्णा मध्ये। त्रेविध्योपपत्तये आह-रसेति। एते- नाधिक्यात्रैविध्यमनुपपन्नमित्यपास्तम्। तदाभासेति । रसाभासभावाभासेत्यर्थः । एतेषां स्वरूपाण्यग्रे स्फुटीभविष्यन्ति । एवमुक्तप्रकारेण। घटकत्वं सप्तम्यर्थः । रसध्वनेः परमरमणीयतयेत्यर्थः । तदात्मा ध्वन्यात्मा। समुचितेति। तत्तद्रससमुचितेत्यर्थः । अत एव ललित इति बोध्यम्। सहकारिभिश्चेत्यस्य चर्व्यमाणैरिति शेष: । आनन्दां- शेति। आनन्दांशस्यावरणरूपमज्ञानं यस्येति बहुव्रीहिः । प्रमातृविशेषणमिदम्। अत ३ रस०

Page 88

२६ काव्यमाला। [प्रथमानने-

निजस्वरूपानन्देन सह गोचरीक्रियमाण: प्राग्विनिविष्टवासनारूपो रत्यादिरेव रसः।। (१) तथा चाहुः-'व्यक्तः स तैर्विभावादैः स्थायिभावो रसः स्मृतः' इति। व्यक्तो व्यक्तिविषयीकृतः। व्यक्तिश्र भग्नावरणा चितू। यथा हि शरा- वादिना पिहितो दीपस्तन्निवृत्तौ संनिहितान्पदार्थान्प्रकाशयति, स्वयं च प्रका- शते, एवमात्मचैतन्यं विभावादिसंव लितान्रत्यादीन्। अन्त:करणधर्माणां साक्षिरभास्यत्वाभ्युपगतेः। विभावादीनामपि स्वप्नतुरगादीनामिव रङ्गरजता- दीनामिव साक्षिभांस्यत्वमविरुद्धम्। व्यञ्जकविभावादिचर्वणाया आवरण- भङ्गस्य वोत्पत्तिविनाशाभ्यासुत्पत्तिविनाशौ रसे उपचर्येते वर्णनित्यतायामिव

एव। आवरणनिवृत्तेरेवेत्यर्थः । सकलविषयज्ञानसंभवादिति भावः। प्रमात्रेत्यस्य गोचरी- क्रियमाण इत्यत्रान्वयः । आहुर्मम्मटभट्टः। रत्यादीनित्यत्र प्रकाशयति स्यं च प्रकाशत इत्यस्यानुषङ्गः। ननु वासनारूपरत्यादीनां तद्भास्यत्वेऽपि विभावादीनां कर्थ तद्भास्य- लमू, असाहित्येनासंबन्धादत आह-अन्तःकरणेति । तथा च परम्परासंबन्ध इति भाव: । हेतोरविरुद्धमित्यत्रान्वयः । सप्नदृष्टान्तमुक्ता जाग्रदृष्टान्तमाह-रद्गेति। नन्वेवमुत्पन्नो नष्टो रस इति व्यवहारो न स्यात, चैतन्यरूपलात, अत आह-व्यअ्ञ- केति। बहुपरम्पराभयादाह-आवरणेति। उत्पन्तीति। हेतौ पञ्चमी। उत्पत्तिवि- १ कारणकार्यसहकारिभिः (विभावानुभावसंचारिपदव्यपदेश्यैः) सर्वैः संभूय (व्यज्जनाख्य- स्यालौकिकव्यापारस्य प्रादुर्भावकार्यें संगत्य) अलौकिको व्यापार: (व्यज्जनाख्यः) प्रादुर्भाव्यते (प्रकटीक्रियते)। तेन च व्यापारेण आनन्दांशस्याSSवरणमज्ञानं निवत्यते। ततश्च निवृत्तम- ज्ञानं यस्य ईदृशेन, अत एव परिमितप्रमातृभावं त्यक््त्वा अपरिमितप्रमातृभावविशिष्टेन प्रमात्रा (रसानुभवकर्त्रा, सामाजिकेन कर्तृभूतेन) स्वस्वरूपम् (प्रमातुः वास्तवं स्वं रूपम्) य आनन्दः [ यतो हि आत्मा सत् च्ित् आनन्दस्वरूपः ] तेन सह गोचरीक्रियमाणो रत्यादिः । अर्थात् यस्मिन्काले रत्यादिगोंचरीक्रियते तस्मिन्काले आत्मस्वरूपभूत आनन्दोपि गोचरीक्रियते। एवं च आनन्देन सह गोचरीक्रियमाणो रत्यादिरेव रस इति लक्षणस्याशयः । २ साक्षादात्मना भास्यत्वम् । अयं भाव :- आन्तरिकधमेंतरान् घटपटादिपदार्थान् अन्तःक- रणसंयोगेनाऽयमात्मा प्रकाशयति। रत्युत्साहादीनन्तःकरणधर्मास्तु साक्षादयमात्मैव भासय- तीति 'साक्षिभास्य'त्वव्यपदेशः । ३ ननु वासनारूपतया अन्तःकरणधर्माणां रत्यादीनामस्तु साक्षिभास्यत्वम्। शकुन्तला- दिभौतिकपदार्थानां विभावादीनां तु कथं साक्षिभास्यत्वम्? इत्याह-खप्ने तुरगादीनाम्, तथा जाग्रदवस्थायां रक्के रजतादीनां च केवलकाल्पनिकत्वात्साक्षिभास्यत्वं यथा स्वीक्रियते तथा भावनामयानां विभावादीनामपि साक्षिभास्यत्वे न विरोध इति ग्रन्थाशयः ।

Page 89

रस: ] रसगङ्गाधर: २७

व्यञ्चकताल्वादिव्यापारस्य गकारादौ। विभावादिचर्वणावधित्वादावरण- भङ्गस्य, निवृत्तायां तस्यां प्रकाशस्याSSवृतत्वाद्विदमानोऽपि स्थायी न प्रकाशते। यद्वा विभावादिचर्वणामहित्रा सहृद्यस्य निजसहृद्यतावशोन्मिषितेन तत्तत्स्थाय्युपहितस्वस्वरूपानन्दाकारा समाधाविव योगिनश्चित्तवृत्तिरुप- जायते, तन्मयीभवनमिति यावत्। आनन्दो ह्ययं न लौकिकसुखान्तर- साधारण:, अनन्तःकरणवृत्तिरूपत्वात्। इत्थं चाभिनवगुप्तमम्मटभट्टादि- ग्रन्थस्वारस्येन भग्नावरणचिद्विशिष्टो रत्यादि: स्थायी भावो रस इति स्थितम्। वस्तुतस्तु वक्ष्यमाणश्रुतिस्वारस्येन रत्याद्यवच्छिन्ना भभ्नावरणा चिदेव रसः। सर्वथैव चास्या विशिष्ठात्मनो विशेषणं विशेष्यं वा चिदंशमादाय नित्यत्वं सवप्रकाशत्वं च सिद्धम्। रत्याद्यंशमादाय त्वनित्यत्वमितरभास्यत्वं च । चर्वणा चास्य चिद्धतावरणभङ्ग एव, प्रागुक्ता, तदाकारान्त:करणवृ- त्तिर्वा। इयं च परब्रह्मास्वादात्समाधेर्विलक्षणा, विभावादिविषयसंवलि-

नाशयोः सत्त्वादित्यर्थः । व्यापारस्योत्पत्यादेः। ननु विभावादिचर्वणानाशेऽपि स्थायि- प्रकाशः कुतो नात आह-विभेति। तस्यां तच्चर्वणायाम्। विद्येति। सूक्ष्मरूपत- येति भावः। मध्ये व्यापारकल्पनजलाघवायाह-यद्वति। सहृदयस्येत्यस्य चित्तवृत्ति- रित्यत्रान्वयः । आनन्दाकारा तद्विषया। समाधौ सविकल्पकसमाधौ। निर्विकल्पके तद- नज्गीकारादिति बोध्यम्। चित्तवृत्तिरिति। सा च काव्यव्यञ्ञनामूलेति बोध्यम्। तन्मयीति। आनन्दविषयतया तत्प्रचुरेत्यर्थः। अस्य लौकिकलादाइ-सुखान्तरेति। अनन्तःकरणेति। अन्तःकरणवृत्त्यवच्छिन्नाचैतन्यरूपत्ादित्यर्थः। अस्या वृत्तेर्निरक- च्छिन्नविषयकत्वादिति भावः । उपसंहरति-इत्थं चेति। स्थितमितयनेन सूचितश्रुति- विरोधरूपारुचिसिद्धान्तमाह-वस्त्वििति। वक्ष्येति। 'रसो वै सः' इत्यादीति भावः । सर्वथैव चेति। उभयथापीत्यर्थः । मतक्मादाह-विशेषेति। चर्व्यमाणो रस इति प्राचीनव्यवहारोपपत्तये आह-चर्वणा चास्येति। यद्वेति मतेनाह-प्रागुक्तेति। इयं चेति। रसचर्वणा चेत्यर्थः । परेति बहुत्रीहिः । समाधेः सविकल्पकात्। विषयेति। सा च विषयासंवलितशुद्धव्रह्मालम्बनेति भावः । काव्यव्यापारो व्यंज्ना। १ अन्यानि सुखानि अन्तःकरणवृत्त्यवच्छिन्नचैतन्यरूपाणि। रसस्तु अन्तःकरणवृत्त्यव- च्छिन्नचैतन्यात्मको न, अपि तु शुद्धचैतन्यात्मकः । अस्यानुभवे हि च्वित्तवृत्तिरानन्दमयी भवति। अथं चानन्दोऽनवच्छिन्नः, अन्तःकरणवृत्त्यवच्छेदराहित्यात्।

Page 90

२८ काव्यमाला। प्रथमानने-

तचिदानन्दालम्बनत्वात्। भाव्या च काव्यव्यापारमात्रात्। अथास्यां सुखांशभाने किं मानमिति चेत्समाधावपि तङ्भाने किं मानमिति पर्यतुयो- गस्य तुल्यत्वात्। 'सुखमात्यन्तिकं यत्तद्वुद्धिग्राह्यमतीन्द्रियम्' इत्यादि: शब्दोडस्ति तत्र मानमिति चेत्, अस्त्यत्रापि 'रसो वै सः, रसं ह्येवायं लब्ध्वानन्दीभवति' इति श्रुतिः, सकलसहृदयप्रत्यक्षं चेति प्रमाणद्वयम्। येयं द्वितीयपक्षे तदाकारचित्तवृत्त्यात्मिका रसचर्वणोपन्यस्ता सा शब्द- व्यापारभाव्यत्वाच्छाब्दी। अपरोक्षसुखालम्बनत्वाच्चापरोक्षात्मिका । तत्वंवाक्यजबुद्धिवत्। इत्याहुरभिनवगुप्ताचार्यपादाः । (२) भट्टनायकास्तु "ताटस्थ्येन रसप्रतीतावनास्वाद्यत्वम्। आत्मगत- त्वेन तु प्रत्ययो दुर्घटः । शकुन्तलादीनां सामाजिकान्प्रत्यविभावत्वात्। विना विभावमनालम्बनस्य रसादेरप्रतिपत्तेः। न च कान्तात्वं साधारणविभावता- वच्छेदकमन्राप्यस्तीति वाच्यम्। अप्रामाण्यनिश्चयानालिक्विताऽगम्यात्व- प्रकारकज्ञानविरहस्य विशेष्यतासंबेन्धावच्छिन्नप्रतियोगिताकस्य विभाव- तावच्छेदककोटाववश्यं निवेश्यत्वात्। अन्यथा सवस्रादेरपि कान्तात्वादिना तत्वापत्तेः । एवमशोच्यत्वकापुरुषत्वादिज्ञानविरहस्य तथाविधस्य करुण- रसादौ। तादशज्ञानानुत्पादुस्तु तत्प्रतिबन्धकान्तरनिर्वचनमन्तरेण दुरुप- पाद:। स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरेव तथेति चेत्, न। नायके धराधौरे-

मात्रपदेन तत्कास्णश्रवणादिनिरासः । शाब्दत्वापरोक्षत्वयोन विरोध इत्याह-तत्वेति। ताटस्थ्येन रसेति। खसंबन्धराहित्येनेत्यर्थः । विभावं विनैवास्तामत आह- विनेति। अनालम्बनस्य निराधारस्य। अन्नापि वेषेऽपि। अनालिङ्गितलं ज्ञानविशेषः। विशेष्यतासंबन्धः समवायः। आवश्यकत्वमुक्तं द्रढयितुं विपक्षे बाधकमाह-अन्य- थेति। एवमुक्तरीत्या। तथाविधस्य विशेष्यतासंबन्धावच्छिन्नप्रतियोगिताकस्य । रसादावित्यस्य विभावतावच्छेदककोटाववश््यनिवेश्यत्वमिति शेषः ॥ तादृशति । अप्रामाण्यनिश्चयानालिद्गितेत्यर्थः। 'धराधौरेय' इति पाठः । विशिष्टोऽत्र धर्म उभयत्र। १ 'तख्वमसि' इति वाक्यजञ्रह्मज्ञानवत्। २ शङ्गारे कान्तादेविभावताSवच्छेदककोटौ (अर्थाद् विभावत्वनिर्धारणे) समवायसंबन्धा- वच्छिन्ना प्रतियोगिता यस्य ईद्वशस्य, अप्रामाण्यनिश्चयेनाSस्पृष्टस्य, 'इयमगम्याऽस्ति' इत्याकार- कज्षानस्याड्भावोवश्यं निवेश्यः । अयं भाव :- कान्तायाः शृङ्गाररसे विभावत्वं तदैव भवेता यदा इयमगम्या नास्तीति प्रामाणिको निश्चयः स्याद्। ३ अप्रामाण्येतिप्रकारकस्य 'इयमगम्या' इति ज्ञानस्याऽनुत्पत्तिः ।

Page 91

रस:] रसगङ्गाघर:। २९

यत्वधीरत्वादेरात्मनि चाधुनिकत्वकापुरुषत्वादेवैधर्म्यस्य स्फुटं प्रतिपचेर- भेदबोधस्यैव दुर्लभत्वात्। कि च केयं प्रतीतिः? प्रमाणान्तरानुपस्थानाच्छा- ्दीति चेत्, न। व्यावहारिकशब्दान्तर जन्यनायकमिथुनवृत्तान्तवित्तीनामि- वास्या अप्यहृद्यत्वापत्तः । नापि मानसी । चिन्तोपनीतानां तेषामेव पदार्थानां मानस्याः प्रतीतेरस्या वैलक्षण्योपलम्भात्। न च स्मृतिः। तथा प्रागननुभवात्। तस्मादभिधया निवेदिता: पदार्था भावकत्वव्यापारेणाड- गम्यत्वादिरसविरोधिज्ञानप्रतिबन्धद्वारा कान्तात्वादिरसानुकूलधर्मपुर- स्कारेणावस्थाप्यन्ते। एवं साधारणीकृतेषु दुष्यन्तशकुन्तलादेशकालवयो- वस्थादिषु, पङ्गौ पूर्वव्यापारमहिमनि, तृतीयस्य भोगकृत्त्वव्यापारस्य महिम्रा निगीर्णयो रजस्तमसोरुद्रिक्तसत्वजनितेन निजचित्सभावनिर्वृति- विश्रान्तिलक्षणेन साक्षात्कारेण विषयीकृतो भावनोपनीतः साधारणात्मा रत्यादिः स्थायी रसः । त्र भुज्यमानो रत्यादिः, रत्यादिभोगो वेत्युभय- मेव रसः । सोऽयं भोगो विषयसंवलनाङ्रह्मास्वादेसविधवर्तीत्युच्यते। एवं च त्रयोंऽशा: काव्यस्य-"अभिधा भावना चैव तन्डोगीकृतिरेव च"

प्रमेति। प्रत्यक्षादी त्यर्थः । शब्दान्तरेति। काव्यान्यव्यवहार साधकशब्देलयर्थः। वृत्ता- न्तेति। वृत्तान्तज्ञानानामित्यर्थः । अस्या अपि। उक्तशब्दाप्रतीतेरित्यर्थः । अगस्य- त्वादीति। तत्प्रकारकं रसविरोधि यज्ज्ञानं तत्प्रतीत्यर्थः । कान्तेति । कान्तात्वादी रसानुकूलो यो धर्मस्तद्वैशिष््येनेत्यर्थः। एवमुक्तव्यापारेण। तावतैव साफल्येनाह- पङ्गाविति। सतिसप्तमी। तमसोरित्यत्राप्येवम्। उद्रेकश्च खेतरावभिभूयावस्थानम् साधारणेति। संबन्धिविशेषानवच्छिन्नेत्यर्थः । विनिगमनाविरहादाह-तत्रति । विशिष्ट इत्यर्थः । भोगश्च सत्त्वगुणोद्रेकवात्प्रकाशते य आनन्दस्तत्खरूपानन्यालम्बना या संवित्तत्सरूपो लौकिकसुखानुभवविलक्षणः । सत्त्वरजस्तमसां गुणानामुद्रेकेण कमात्सु- खदुःखमोहाः प्रकाश्यन्ते। सविधेति। न तु स एवेति भावः । अंशा व्यापाराः ।

१ व्यावहारिकैरन्यान्यैः शब्दैजातानां नायक-नायिकयोर्वत्तान्तज्ञानानां यथा अहद्यत्वं यैषामपीत्याशयः ॥ २ तत्सदृशः, नतु स एव। ज्रह्मानन्दे विषयाणामसंवलनादू।

Page 92

३० काव्यमाला । [प्रथमानने-

इत्याहुः। मतस्यैतस्य पूर्वस्मान्मताद्धावकत्वव्यापारान्तरस्वीकार एव विशेष: । भोगस्तु व्यक्तिः। भोगकृत्वं तु व्यञ्जनादविशिष्टम्। अन्या तु सैव सरणिः । (३) नव्यास्तु 'काव्ये नाट्ये च कविना नटेन च प्रकाशितेषु विभावादिषु व्यञ्जनव्यापारेण दुष्यन्तादौ शकुन्तलादिरतौ गृहीतायामनन्तरं च सहद- यतोल्वासितस्य भावनाविशेषरूपस्य दोषस्य महित्रा कल्पितदुष्यन्तत्वाव- च्छादिते स्वात्मन्यज्ञानावच्छिन्ने शुक्तिकाशकल इव रजतखण्ड: समुत्पद्य- मानोऽ निर्वचनीयः साक्षिभास्यशकुन्तलादिविषयकरत्यादिरेव रसः । अयं च कार्यो दोषविशेषस्य। नाशयश्र तन्नाशस्य। खवोत्तरभाविना लोकोत्तराह्लादेन भेदाऽग्रहात्सुखपद्व्यपदेश्यो भवति। स्वपूर्वोपस्थितेन रत्यादिना तद्ग्रहात्तद्रतित्वेनैकत्वाध्यवसानाद्वा व्यङ्गयो वर्णनीयश्चोच्यते। अवच्छादकं दुष्यन्तत्वमप्यनिर्वचनीयमेव । अवच्छादकत्वं च रत्यादि- विशिष्टबोधे विशेर्ष्यतावच्छेदकत्वम्। एतेन-"दुष्यन्तादिनिष्ठस्य रत्या- देरनासवाद्यत्वान्न रसत्वम्। रनिष्ठस्य तु तस्य शकुन्तलादिभिरतत्सं

सैवेति। प्रागुक्त एव मार्ग इत्यर्थः । तन्नाशेति । दोषविशेषनाशेत्यर्थः । स्वपूर्वो- पेति। दुष्यन्तादौ गृहीतशकुन्तलारत्यादिनेत्यर्थः। तद्ग्रहादिति। मेदाग्रहादित्यर्थः। नन्वेवमपि कथं तद्वर्मलाभोऽत आह-तद्रतीति। एतेनेति। उक्तरीत्या सर्वोपपाद- १ पूर्वस्मान्मतात् (अभिनवगुप्तादेः) भावकत्वव्यापारस्य नवीनस्य स्वीकार एव विशेषः । भोगस्तु व्यज्ञना । व्यञ्जनया अज्ञानावरणमपसार्य सत्वोद्रेकान्भ्मावरणिद्विश्विष्टो रत्यादिः, भग्नावरणा चिदेव वा, यथा रसत्वेनास्वादविषयीक्रियते तथा भोजकत्वव्यापारेण सत्ववृद्धौ सत्यां निजन्चित्स्वभावनिर्वृति(चैतन्यावरणभङ्ग)लक्षणेक साक्षात्कारेण विषयीकृतो रत्यादिरेव रसत्वेनाभ्युपेयते। ततश्च भोजकत्वं व्यञ्जनास्थानीयम्। केवलं विभावादिसाधारणीकारको भावनाव्यापार एव नवीन इत्याशयः । २ सदसद्विलक्षणतया निर्वचनानईः । ३ रसोत्पत्ते: पूर्व शकुन्तलादिषु दुष्यन्तादेर्या रतिर्व्यज्जनया गृह्यते तया साकं स्वात्मनि कल्पिताया रतेः (प्रेम्णः) अमेदो भवतीति अयमपि (रसः) व्यश्चयो वर्ण्यश् प्रतीयत इत्याशयः। ४ रत्यादिविशेषणकशाब्दबोधे विशेष्यतावच्छेदकत्वम्। अर्थात् मत्संबन्धिन एव रत्या- दयः सन्तीति आत्मनि रत्यादीनां विशेष्यताकल्पनमेव अवच्छादकत्वमित्याशयः।

Page 93

रस: ] रसगङ्गाघर:ः । ३१

बन्धिभि: कथमभिव्यक्तिः । स्वस्मिन्दुष्यन्ताद्यभेदव्ुद्धिस्तु बाधबुद्धि- पराहता" इत्यादिकमपास्तम्। यदपि विभावादीनां साधारण्यं प्राचीनैरुक्तं तदपि काव्येन शकुन्तलादिशव्दैः शकुन्तलात्वादिप्रकारकवोधजनकैः प्रति- पाद्यमानेषु शकुन्तलादिषु दोषविशेषकल्पनं विना दुरुपपादम्। अतोऽ- वश्यकल्प्ये दोषविशेषे तेनैव स्वात्मनि दुष्यन्ताद्यभेद्वुद्धिरपि सूपपादा। नन्वेवमपि रतेरस्तु नाम दुष्यन्त इव सहद्येSपि सुखविशेषजनकता, करुणरसादिषु तु स्थायिन: शोकादेर्दुःखजनकतया प्रसिद्धस्य कथमिव सह- द्याह्लादहेतुत्वम्। प्रत्युत नायक इव सहृद्येऽपि दुःखजननस्यैवौचि- त्यात्। न चं सत्यस्य शोकादेर्दुःखजनकत्वं क्ृपं न कल्पितस्येति नाय- कानामेव दुःखम्, न सहृद्यस्येति वाच्यम्। रज्ुसपादेभेयकम्पाद्यनुत्पा- दुकतापत्तेः। सहृदये रतेरपि कल्पितत्वेन सुखजनकतानुपपत्तेश्चेति चेत्। सत्यम्। शङ्गारप्रधानकाव्येभ्य इव करुणप्रधानकाव्येभ्योऽपि यदि केवलाह्राद एव सहृदयहद्यप्रमाणकस्तदा कार्यानुरोधेन कारणस्य कल्पनी- यत्वाल्लोकोत्तरकाव्यव्यापारस्यैवाह्वादप्रयोजकत्वमिव दुःखप्रतिबन्धकत्व- मपि कल्पनीयम्। अथ यद्याह्राद इव दुःखमपि प्रमाणसिद्धं तदा प्रति- बन्धकत्वं न कल्पनीयम्। स्वस्वकारणवशाच्ोभयमपि भविष्यति। अथ तत्र कवीनां कर्तुम्, सहदयानां च श्रोतुम्, कथं प्रवृत्तिः ! अनिष्टसाधन- त्वेन निवृत्तेरुचितत्वात्। इति चेत्। इष्टस्याधिक्यादनिष्टस्य च न्यूनत्वाच्- न्देनद्रवलेपनादाविव प्रवृत्तरुपपत्तेः । केवलाह्लादवादिनां तु प्रवृत्तिरप्रत्यू-

नेनेत्यर्थः । तस्य रत्यादेः। रजुसपांदेरिति। तद्रूपसर्पादेरित्यर्थः । केवलेति। दुःखामिश्रेत्यर्थः । दुःखप्रतिबन्धेति। सुरतकालिकदन्ताद्याघातस्येवेत्यर्थः। प्रमाणेत्यस्य सहृदयेत्यादिः । तन्र करुणप्रधानकाव्ये । द्वितीयमतेनेदमुक्तं नादयमतेनेत्याह-केव-

१ भावनाविशेषमहिन्ना कल्पितदुष्यन्तत्वावच्छादिते आत्मनि शकुन्तलाविषयकरतेः परिगृहीतत्वात् 'दुष्यन्तादिनिष्ठा रतिरनास्वाद्या, दुष्यन्ताद्यमेदबोधश्च पराहतः' इत्यादिप्रति- वादिशङ्कानामनवसर एवेत्याशयः । २ चन्दनद्रवलेपे-यथा घर्षणजन्यः श्रमः, लेपशोषोत्तरं शुष्कपर्पटिकाच्युतिरित्यादिकम निष्टं न्यूनम्। इष्ट शैत्यजन्या निर्वृतिस्त्वधिका तथाSत्रापीत्याशयः ।

Page 94

३२ काव्यमाला। [प्रथमानने-

हैव। अश्रुपातादयोऽपि तत्तदानन्दानुभवस्वाभाव्यात्, न तु दुःखातू। अत एव भगवद्भक्तानां भगवदवूर्णनाकर्णनादश्ुपाताद्य उपपद्यन्ते। न हि तत्र जात्वपि दुःखानुभवोऽस्ति । न च करुणरसादौ-खात्मनि शोकादिम दशर थादितादात्म्यारोपे यद्याह्लादस्तदा खवप्नादौ संनिपातादौ वा स्वात्मनि तदारोपेऽपि स स्यात्, आनुभविकं च तत्र केवलं दुःखमिती- हापि तदेव युक्तमिति वाच्यम्। अयं हि लोकोत्तरस्य काव्यव्यापारस्य महिमा, यत्प्रयोज्या अरमणीया अपि शोकादयः पदार्था आह्लादमलौ- किकं जनयन्ति। विलक्षणो हि कमनीयः काव्यव्यापारज आस्वाद: प्रमा- णान्तरजादनुभवात्। जन्यत्वं च स्वजन्यभावनाजन्यरत्यादिविषयकत्वम्। तेन रसास्वादस्य काव्यव्यापाराजन्यत्वेऽपि न क्षतिः। शकुन्तलादावगम्या- त्वज्ञानोत्पादस्तु स्वात्मनि दुष्यन्ताद्यभेदबुद्ध्या प्रतिबध्यते' इत्याहुः।

क्तदोषमहि्रा स्वात्मनि दुष्यन्तादितादात्म्यावगाही शकुन्तलादिविषयक- रत्यादिमद्भेद्बोधो मानसः काव्यार्थभावनाजन्मा विलक्षणविषयता- शाली रसः। स्वाप्नादिस्तु तादृशबोधो न काव्यार्थचिन्तनजन्मेति न रसः । तेन तत्र न तादृशाह्वादापत्तिः । एवमपि स्वस्मिन्नविद्यमानस्य रत्यादेरनुभवः कथं नाम स्यात्। मैवम्। न ह्ययं लौकिकसाक्षात्कारो

लेति। न चादमतेऽश्रुपातादयो न स्युः, तेषां दुःखकार्यलादत आह-अश्रुपाताद- योऽपीति। नेदं क्वचिदृष्टमत आह-अत एवेति। जापीषदपि। तदारोपेऽपि शोकादिमद्दशरथादितादात्म्यारोपेऽपि। स आह्रादः। तन्र खप्नादौ। इहापि करुणरसा- दावपि। तदेव दुःखमेव। यत्प्रयोज्याः काव्यव्यापारप्रयोज्याः । प्राचीनोक्तदोषमुद्ध- रति-शकुन्तलादाविति। प्रागुक्तदोषमुद्धरति-स्वाप्नादिस्त्विति । नन्वेवं

१ सं काव्यं तज्जन्या या भावना तज्जन्यो रत्यादिविषयक आस्वाद एव काव्यव्यापारज आस्वाद इत्यभिधीयत इति भाव: । २ 'अनिर्वचनीय: साक्षिभास्यः शकुन्तलादिविषयकरत्यादिरेव रसः' इति रसानुभने अनि- र्वचनीयता (सदसद्विलक्षणतयाऽनिर्वाच्यता) पूर्वमते स्वीक्रियत इति तात्पर्यम्।

Page 95

रस: ] रसगङ्गाघर:। ३३

रत्यादेः, येनावश्यं विषयसद्भावोऽपेक्षणीयः स्यात्। अपि तु भ्रमः । आस्वादनस्य रसविषयकत्वव्यवहारस्तु रत्यादिविषयकत्वालम्बनः' इत्यपि वदन्ति । एतैश्च स्वात्मनि दुष्यन्तत्वेधर्मितावच्छेदकशकुन्तलादि- विषयकरतिवैशिध्यावगाही, स्वात्मत्वविशिष्ठ शक्कुन्तलादिविषयकरति- विशिष्टदुष्यन्ततादात्म्यावगाही, स्वात्मत्वविशिष्टे दुष्यन्तत्वशकुन्तला- विषयकरत्योवैशिष्यावगाही, वा त्रिविधोऽपि बोधो रसपदार्थतयाभ्यु- पेयः। तत्र रतेर्विशेषणीभूँतायाः शब्दादप्रतीतत्वाव्यञ्जनायाश्च तत्प्रत्यायि- काया अनभ्युपगमाच्चेष्टादिलिङ्गकमादौ विशेषणज्ञानार्थमनुमानमभ्युपेयम्। (५) 'मुख्यतया दुष्यन्तादिगत एव रसो रत्यादिःकमनीयविभावाद्य- भिनयप्रदुर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नढे समारोप्य साक्षात्क्रियते'

बोधस्यैव सत्त्वेन कथमाखादे रसविषयकत्वव्यवहारोऽत आह-आस्वादेति। एतैश्व 'परेतु' इति वादिभिश्च। अभ्युपेय इति। विनिगमनाविरहादिति भावः। रस इति। रत्यादिरूपो रस इत्यन्वयः । दुष्यन्ताद्यनुकतरीति। श्रव्यकाव्ये तु काव्यपाठक इति १ भ्रमस्य ज्ञानरूपत्वाचदास्वादः कर्थं घटेतेति शङ्कायान्-'शकुन्तलादिरतेरात्मनि अ्रमो भवति। रतेरास्वादश्चानुभवसिद्धः । ततश्च रतिविषयकास्वादव्यवहारमवलम्व्य रसस्या- प्यास्वादो व्यवहियते' इत्युत्तरम्। २ सहृद्यस्य निजात्मनि-दुष्यन्तत्वं धर्मितावच्छेदकं यस्मिन् (अर्थात् यस्मिन् रतिवै- शिष्टये दुष्यन्तो धर्मी भवति) ईद्ृशं यत् शकुन्तलाविषयकरतिवैशिष्टयं तत्प्रतिपादकः अर्थात् 'शकुन्तलादिविषयिका या रतिस्तदुक्तः अहं दुष्यन्तोडस्ि' इति मानसः प्रथमो बोधः । स्वात्मत्वविशिष्ट (स्वात्मनि) शुकुन्तलादिविषयिका या रतिस्तद्विशिष्टो यो दुष्यन्तः तस्य तादात््यावगाही (अभेदबोधकः) अर्थात 'शकुन्तलादिविषयकरतिविशिष्टो दुष्यन्तः अहमस्मि' इति द्वितीयः । स्वात्मनि दुष्यन्तत्वस्य शकुन्तलाविषयकरतेश्च वैशिष्ट्यप्रतिपादक: अर्थात् 'अहं दुष्यन्तत्वेन शकुन्तलाविषयकरत्या च विशिष्टः अस्मि' इति तृतीयः । त्रिष्वपि तात्पर्यमेकमेव, किन्तु प्रथमे 'अहं दुष्यन्तः' इति अह्दमित्युद्दिश्य दुष्यन्तत्वं विधी- यते। द्वितीये 'दुष्यन्तः अहमस्मि' दुष्यन्तत्वमाधारीकृत्य अहंत्वं विधीयते। तृतीये आत्मनि दुष्यन्तत्वं रतिश्च विशेष्यते। ३ त्रिष्त्रपि बोधेषु रतिर्विशेषणतया प्रविष्टा। सा शब्दैस्तु न प्रतिपादयितुं शक्या।' व्यञ्जना चास्िन्मते नाऽङ्गीकृता। ततश्च-नटादीनां चेष्टारूपेण हेतुना विशेषणभूतायास्तस्या ज्ञानार्थमनुमानं स्वीकार्यमिति तात्पर्यम्। अनुमानेन शकुन्तलादिरतिर्दुष्यन्ते साधनीया । ततश्च दोषविशेषमाहात्म्याद्भेदप्रतीतिस्थगनं विधाय ताद्ृशरतिमता दुष्यन्तेन सह आत्मनोऽपि ऐकात्म्यं साधयित्वा 'मानसो रतिमदमेदबोध मव रसः' इति 'परे तु' इति मतम्।

Page 96

३४ काव्यमाला। [प्रथमानने-

इत्येके। मतेSस्मिन्साक्षात्कारो डुष्यन्तोऽयं शकुन्तलादिविषयकरतिमानि- त्यादि: प्राग्वद्ध्म्येशे लौकिक आरोप्यांशे त्वलौकिकः । (६) 'दुष्यन्तादिगतो रत्यादिर्नटे पक्षे दुष्यन्तत्वेन गृहीते विभावादिभिः कृत्रिमैरप्यकृत्रिमतया गृहीतैर्भिन्ने विषयेऽनुमितिसामग्रया बलवत्त्वादनु- मीयमानो रसः' इत्यपरे। (७) 'विभावाद्यस्त्रयः समुदिता रसाः' इति कतिपये। (८) 'त्रिषु य एंव चमत्कोरी स एव रसोऽन्यथा तु त्रयोऽपि न' इति बहवः। (९) 'भौव्य- मानो विभाव एव रसः' इत्यन्ये। (१०) 'अनुभावस्तथा' इतीतरे। (११) 'वयभिचार्येव तथा तथा परिणमति' इति केचित्। तन्न 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति सूत्रं तत्तन्म- तपरतया व्याख्यायते-'विभावानुभावव्यभिचारिभिः संयोगाव्यञ्जना- द्रसस्य चिदानन्दविशिष्टस्थाय्यात्मनः स्थाय्युपहितचिदानन्दात्मनो वा निष्पत्ति: स्वरूपेण प्रकाशनम्' इत्यादे। 'विभावांनुभावव्यभिचारिणा

बोध्यम्। मतेऽस्मिन्निति । अस्मिन्मते इत्यादिः। साक्षात्कारस्तन्न लौकिकोऽन्यत्रा- लौकिक इत्यन्वयः । मतान्तरमाह-दुष्यन्तादीति। कंतिपये केचन। त्रिषु विभा- वादिषु। तथा भाव्यमानोऽनुभावस्तथा रस इतीतरे इत्यर्थः । तथा भाव्यमानो व्यभि- चारिभाव एव तथा रसरूपतया परिणमतीत्यर्थः । उक्तार्थानां समूलवमाह-तन्रति । उक्तपक्षसिच्र्थमित्यर्थः । संयोगादित्यस्य व्याख्या व्यञ्ञनादिति । विनिगमनाविरहा- दाह-स्थाय्युपेति। निष्पत्तिरित्यस्य व्याख्या स्वरूपेणेत्यादि। आद्येऽभिनवगुप्तमते। · १ अयं (नटः ) शकुन्तलादिविषयकरतिमान् दुष्यन्तः । इति सोयं साक्षात्कारः प्राग्वत् पूर्वमतवत् त्रिभिः प्रकारैः [ अयं दुष्यन्तः; दुष्यन्तः अयम्, अयं दुष्यन्तः शकुन्तलादिरतिमांश्च ] भवंति। अयं तत्र धर्म्यशे अर्थात् 'अयम्' इति नटविनये, धर्मिणः प्रत्यक्षोपस्थितत्वात् सोयं साक्षात्कारो लौकिकः । आरोप्यांशे (दुष्यन्तपक्षे) अतथात्वादलौकिकः । लोछटादिमतेऽस्मिन्-चेष्टादिभिर्दुष्यन्ते रतिमनुमाय, तदनुकर्तरि नटे चाभिनयपाट- वाहुष्यन्तस्यारोपं कृत्वा, आरोपवतस्तस्य ( नटस्य) ऐकात्म्यं दोषविशेषमाहात्म्याद्यथाकर्थ- च्चिदात्मनि कृत्वा सहदयेनास्वाद्यमानस्य रत्यादेः परिणति; रसो भवतीति बोध्यम्। अत एव काव्यप्रकाशे-एतन्मते सामाजिक स्य रसानुदयरूपया अरुच्या मतान्तरस्यावतरणम्। २ सम्यग् योगश्चमत्कारः, तच्छाली.।" ३ भावनायाः (पुनः पुनरनुसंधानस्य) विषयीकृतः।

Page 97

रस: ] रसगङ्गाधर: ३५

सम्यक्साधारणात्मतया योगा्भावकत्वव्यापारेण भावनाद्रसस्य स्थाय्युप- हितसत्वोद्रेकप्रकाशितस्वात्मानन्दरूपस्य निष्पत्तिर्भोगाख्येन साक्षात्कारेण विषयीकृतिः' इति द्वितीये। 'विभावानुभावव्यभिचारिणां संयोगाद्भाव- नाविशेषरूपाद्दोषाद्रस स्यानिर्वचनीयदुष्यन्तरत्याद्यात्मनो निष्पत्तिरु- त्पत्तिः' इति तृतीये। 'विभावादीनां संयोगाज्ज्ञानाद्रसस्य ज्ञानविशेषात्मनो निष्पत्तिरुत्पत्तिः' इति चतुर्थे। 'विभावादीनां संवन्धाद्रसस्य रत्यादेर्नि- ष्यत्तिरारोपः' इति पञ्चमे। 'विभावादिभिः कृत्रिमैरप्यकृत्रिमतया गृहीतैः संयोगादनुमानाद्रसस्य रत्यादेर्निष्पत्तिरनुमितिः, नटादौ पक्ष इति शेषः' इति षष्ठे। 'विभावादीनां त्रयाणां संयोगात्समुदायाद्रसनिष्पत्ती रस- पद्व्यवहारः' इति सप्तमे । 'विभावादिषु सम्यग्योगाच्चमत्कारात्' इत्यष्टमे। तदेवं पर्यवसितस्त्रिषु मतेषु सूत्रविरोधः। विभावानुभावव्य भिचारिणामेकस्य तु रसान्तरसाधारणतया नियतरसव्यञ्जकतानुपपत्ते: सूत्रे मिलितानामुपादानम्। एवं च प्रामाणिके मिलितानां व्यञ्जकत्वे

नानैकान्तिकत्वम्। इत्थं नानाजातीयाभिः शेमुषीभिर्नानारूपतया- वसितोऽपि मनीषिभि: परमाह्नादाविनाभावितया प्रतीयमान: प्रपश्ेऽस्मि- न्रसो रमणीयतामावह्तीति निर्विवादम्।

संयोगादित्यस्य विच्छिद्यार्थमाह-सम्यगिति। द्वितीये भट्टनायकमते। तृतीये नव्य- मते। चतुर्थे परे लितिमते। पश्चमे इत्येके इतिमते। अनुमितिरित्यन्तोऽर्थः । अग्रे शेषपूरणम्। षष्ठे इत्यपरे इतिमते । सप्मे इति कतिपये इतिमते। अष्टमे इनि बहव इतिमते। उपसंहरति-तदेवमिति। त्रिषु मतेषु भाव्यमान इत्यादिष्वग्रिमेषु। ननु तत्रैव त्रयाणां किमित्युपादानं येन मतन्रये सूत्रविरोधोत आह-विभावेति । निर्धारणषष्ठीयम्। रसान्तरेति। तदुक्तम्-'व्याघ्रादयो विभावा भयानकस्येव रौद्राद्भुतवीराणाम्। अश्रुपातादयोऽनुभावाः शृङ्गारस्येव करुणभयानकयोः । चिन्तादयो व्यभिचारिण: शङ्गारस्येव करुणवीरभयानकानाम्' इति। एवं च उक्तहेतोस्तदनुप- पत्तौ च। यत्र क्वचिदिति । 'परिमृदितमृणालीम्लानमङगं प्रवृत्तिः कथमषि परिवारप्रार्थनाभिः क्रियासु। कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मीमभिन- वकरिदन्तच्छेदपाण्डुः कपोलः ॥' इत्यादावित्यर्थः । परमप्रकृतमुपसंहरति-इत्थ- मिति। उक्तप्रकारैरित्यर्थः । शेमुषीभिर्मतिभिः । अविनेति। तन्नियतसंबन्धित-

Page 98

३६ काव्यमाला । [प्रथमानने-

स च- 'भृङ्गारः करुणः शान्तो रौद्रो वीरोऽड्ुतस्तथा। हास्यो भयानकश्चैव बीभत्सश्रेति ते नव।।' इत्युक्तेनेवधा। सुनिवचनं चात्र मानम्।

'शान्तस्य शमसाध्यत्वान्नटे च तदसंभवात्। अष्टावेव रसा नाट्ये न शान्तस्तत्र युज्यते।। इत्याहुः । तच्चापरे न क्षमन्ते। तथा हि-नटे शमाभावादिति हेतुर- संगत:, नटे रसाभिव्यक्तेरसवीकारात्। सामाजिकानां शमवत्त्वेन तत्र रसोद्वोधे बाधकाभावात्। न च नटस्य शमाभावात्तद भिनयप्रकाशकत्वा- नुपपत्तिरिति वाच्यम्। तस्य भयक्रोधादेरप्यभावेन तद्भिनयप्रकाशक- ताया अप्यसंगत्यापत्तेः । यदि च नटस्य क्रोधादेरभावेन वास्तव्तत्का- र्याणां वघबन्धादीनामुत्पत्त्यसंभवेSपि कृत्रिमतत्कार्याणां शिक्षाभ्यासादित उत्पत्तौ नास्ति बाधकमिति निरीक्ष्यते, तदा प्रकृतेऽपि तुल्यम्। अथ नाट्ये गीतवाद्यादीनां विरोधिनां सत्वात्सामाजिकेष्वपि विषयवैमुख्यात्मनः शान्तस्य कथमुद्रेक इति चेत्, नाट्ये शान्तरसमभ्युपगच्छद्धि: फलवला- त्तेद्गीतवाद्यादेस्तस्मिन्विरोधिताया अकल्पनात् । विषयचिन्तासामान्यस्य तत्र विरोधित्वस्वीकारे तदीयालम्बनस्य संसारानित्यत्वस्य तदुद्दीपनस्य

येत्यर्थः। तद्भेदमाह-स चेति। अत्राप्रामाण्यशङ्गां निराचष्टे-मुनीति। 'शृङ्गार- हास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च काव्ये नव रसाः स्मृताः ॥' इतीत्यर्थः । शमसाध्यत्ाच्छमस्थायिकत्वात्। नाट्ये इत्यस्येतीति शेषः । प्रकृ- तेऽयि तुल्यमिति। न च शान्तस्य रोमाश्चादिराहित्येनानभिनेयल्ात्कथ नाट्ये स इति वाच्यम्। सर्वचेष्टाराहित्यरूपेणेव तदभिनयसंभवादित्याहुः। अत एव च उक्तरीत्या १ वास्तवे तत्कार्याणां (क्रोधकार्याणाम्) वधस्य बन्धनादेश्च उत्पत्तिरसंभवा तथापि कृत्रि- माणां क्रोधकार्याणां वधबन्धनादीनां शिक्षया अभ्यासादिना च उत्पत्तौ बाधो नास्तीत्याशयः । २ शान्तोद्दीपनार्थ गृहीतस्य तस्य (ताद्ृशस्य) गीतवादित्रादेः तस्मिन् (शान्ते) विरोधिता न कल्प्यते शान्तपोषणरूपफलजननात्, यथा देवविषयकभावे विषयवैमुख्येपि तदनुकूल गीतवाद्यादेः ।

Page 99

रस: ] रसगङ्गाघर:। ३७

पुराणश्रवण-सत्सङ्ग-पुण्यवन-तीर्थावलोकनादेरपि विपयत्वेन विरोधि- त्वापत्तेः । अत एव च चरमाध्याये संगीतरत्नाकरे- 'अष्टावेव रसा नाट्येष्विति केचिदचूचुदन्। तदचारु, यतः कंचिन्न रसं खदते नटः ।।' इत्यादिना नाट्येऽपि शान्तो रसोऽस्तीति व्यवस्थापितम् । वैरपि नाट्ये शान्तो रसो नास्तीत्यभ्युपगम्यते तैरपि बाधकाभावान्महाभारतादिपव- न्धानां शान्तरसप्रधानताया अखिललोकानुभवसिद्धत्वाच्च काव्ये सोऽवश्यं स्वीकार्यः । अत एव 'अष्टौ नाट्ये रसाः स्मृताः' इत्युपक्रम्य 'शान्तोऽपि नवमो रसः' इति मम्मटभट्टा अध्युपसमहार्युः । अमीषां च- 'रतिः शोकश्च निर्वेदक्रोधोत्साहाश्च विस्मयः। हासो भयं जुगुप्सा च स्थायिभावा: क्रमादमी॥' रसेभ्यः स्थायिभावानां घटादेर्घटाद्यवच्छिन्नाकाशादिव प्रथम- द्वितीययोर्मतयोः; सत्यरजतस्वानिर्वचनीयरजतादिव तृतीये, विषयस्य (रजतादेः) ज्ञानादिव चतुर्थे भेदो बोध्यः। तत्र आ प्रबन्धं स्थिरत्वाद- मीषां भावानां स्थायित्वम्। न च चित्तवृत्तिरूपाणामेषामाशुविनाशित्वेन स्थिरत्वं दुर्लभम्, वासनारूपतया स्थिरत्वं तु व्यभिचारिष्वतिप्रसक्तमिति वाच्यम्। वासनारूपाणाममीपां मुहुर्मुहुरभिव्यक्तेरेव स्थिरपदार्थत्वात्। व्यभिचारिणां तु नैव, तदभिव्य क्तेविद्युद्दयोतप्रायत्वात्।

तत्र तस्य रसत्वादेव च। व्यवस्थापितमित्यत्रान्वयः । कंचित्कंचिदपि। नाट्यऽपि शान्तो रस इति। अत एव प्रबोधचन्द्रोदयस्य नाटकतं स्वीकृतं स्वैः। अभ्युपे- त्याह-यैरपीति। अत एव काव्ये आवश्यकत्वादेव। उपसमहारघुरुपसंहारं कृत- वन्तः । तथा च तेषां नवले न विवाद इति भावः । अमीषां च शृङ्गारादीनां च मतयोरभिनवगुप्तभट्टनायकोक्तयोः । तृतीये नव्यमते। चतुर्थे परे तिति मते। ननु पार- मार्थिकस्थिरत्वाभावात्कथं स्थायिलमत आह-तत्रति। काव्यादावित्यर्थः। नयतीत्न्न १ व्यभिचारिणां मुहुर्मुह्ुरभिव्यक्तिनैंव, इत्यर्थः । ४ रस०

Page 100

३८ काव्यमाला। [प्रथमानने-

गदाहु :- विरुद्वैरविरुद्वैर्वा भावैर्विच्छिद्यते न यः । आत्मभावं नयत्याशु स स्थायी लवणाकरः ॥। चिरं चित्तेऽवतिष्ठन्ते संबध्यन्तेऽनुबन्धिभिः । रसत्वं ये प्रपद्यन्ते प्रसिद्धाः स्थायिनोऽत्र ते।।' चिरमिति व्यभिचारिवारणाय। अनुबन्धिभिर्विभावादैः। तथा 'सजातीयविजाती यैर तिरस्कृतमूर्तिमान्। यावद्रसं वर्तमान: स्थायिभाव उदाहृतः ॥' इति। केचित्तु रत्याद्यन्यतमत्वं स्थायित्वमाहुः। तन्न। रत्यादीनामेकस्मिन्प्- रूढेऽन्यस्याप्ररूडस्य व्यभिचारित्ोपगमात्। प्ररूढत्वाप्ररूढत्वे बह्वल्पवि- भावजत्वे। तदुक्तं रत्नाकरे- 'रत्यादयः स्थायिभावा: स्युभूयिष्ठविभावजाः। स्तोकैर्विभावैरुत्पन्नास्त एव व्यभिचारिणः ॥।' इति। एवं च वीररसे प्रधाने क्रोधः, रौद्रे चोत्साहः, शङ्गारे हासः, व्यभिचारी भवति, नान्तरीयकश्च। यदा तु प्रधानपरिपोषार्थ सोऽपि हुविभावज: क्रियते तदा तु रसालंकार इत्यादि बोध्यम्। तत्र स्त्रीपुंसयोरन्योन्यालम्बनः प्रेमाख्यश्चित्तवृत्तिविशेषो रतिः स्थायि- सभाव: ।। हार गुरुदेवतापुत्राद्यालम्बनस्तु व्यभिचारी। इत ते विभावादीनिति शेषः। लवणेति। लवणाकर इवेत्यर्थः। बह्वल्प विभावजत्वे इति। बहु विपुलम्। विभावशब्दो वा साहचर्याद्विभावानुभावव्यभिचारिपरः । अत एव रत्नाकरे बहुवचनम्। एवं च एकस्य प्ररूढलेऽन्यस्य तत्त्वाङ्गीकारे च। नान्तरीयेति। क्रोधादिं विना तदसंभवादिति भावः । सोऽपि क्रोधादिरपि। रसालंकार इति। रसच- दलंकार इत्यर्थः । तान्क्रमेण लक्षयति-तन्र तेषां मध्ये। आदिना नृपादिपरिग्रहः। शोकं लक्षयति-पुत्रादीति। पुत्रादीत्युक्तिफलमाह-स्त्रीपुंसेति। वियोग उक्ता १ बड्ुविभावजन्यत्वं प्ररूढत्वम्। अल्पविभावजन्यत्वं चाऽप्ररूढत्वमित्याशयः ।

Page 101

स्थायिभावा: ] रसगङ्गावर: ३९

पुत्रादिवियोगमरणादिजन्मा वैक्कव्याख्यश्चित्तवृत्तिविशेष: शोक:। स्त्रीपुंसयोस्तु वियोगे जीवितत्वज्ञानदशायां वैक्कव्यपोषिताया रतेरेव प्राधान्याच्छृङ्गारो विप्रलम्भाख्यो रसः। वैकुव्यं तु संचारिमात्रम्। मृत- त्वज्ञानदशायां तु रतिपोषितस्य वैक्ठव्यस्येति करुण एव। यदा तु सत्यपि मृतत्व्रज्ञाने देवताप्रसादादिना पुनरुजीवनज्ञानं करथंचित्स्यात्, तदा- लम्बनस्यात्यन्तिकनिरासाभावाच्चिरप्रवास इव विप्रलम्भ एव, न स करुणः । यथा चन्द्रापीडं प्रति महाश्वेतावाकयेपु। केचित्ु रसान्तरमेवात्र करुणविप्रलम्भाख्यमिच्छन्ति । नित्यानित्यवस्तुविचारजन्मा विषयविरागाख्यो निर्वेद: ॥ गृहकलहादिजस्तु व्यभिचारी। गुरुबन्धुवधादिपरमापराधजन्मा प्रज्वलनाख्यः क्रोधः ।। अयं च परविनाशादिहेतुः। क्षुद्रापराधजन्मा तुपरुषवचनासंभापणा- दिहेतुः । अयनेवामर्षाख्यो व्यभिचारीति विवेकः । धरपराक्रम-दानादिस्मृतिजन्मा औन्नत्याख्य उत्साहः॥ अलौकिकवस्तुदर्शनादिजन्मा विकासाख्यो विस्मय:॥ वागङ्गादिविकारदर्शनजन्मा विकासाख्यो हासः।। व्याघ्रदर्शनादिजन्मा परमानर्थविषयको वैक्कव्याख्यः स भयम् ॥ परमानर्थविषयकत्वाभावे तुस एव त्रासो व्यभिचारी। अपरे तु औत्पातिकप्रभवस्त्रासः, स्वापराधद्वारोत्थं भयमिति भयत्रासयोभेदमाहु:।

मरण आह-मृतत्वेति। वैक्कव्यस्थति। प्राधान्यमिति शेषः। एवादावादिनेत्यस्य पुन- रजीवनेत्यन्वयः। कर्थंचित्केनापि प्रकारेण। एव न स इति । विप्रलम्भ एव सः, न करुण इत्यर्थः । अन्न पुनरुजीवनस्थले। उक्तरीत्यैव निर्वाहेऽधिकतत्खीकारो वृथेत्यरुचिः केचिदित्यनेन सूचिता। वधादिति। वधादिरूपो यः परमापराधस्तज इत्यर्थः । परमा- नर्थेति। मरणादिसंपादकेत्यर्थः । स चित्तवृत्तिविशेषः । त्रासस्तदाख्यः। विभावादी-

१ परस्य (शत्रोः) विनाशादेः कारणम्। क्षुद्धापरावजन्यस्तु कठोरवचनस्य, अरसभाषणा- देश्च हेतुः ।

Page 102

४० काव्यमाला। [प्रथमानने-

कदरयेवस्तुविलोकनजन्मा विचिकित्साख्यश्चित्तवृत्तिविशेषो जु- गुप्सा।। एवमेषां स्थायिभावानां लोके तत्तनायकगतानां यान्यालम्ब- नतयोद्ीपनतया वा कारणत्वेन प्रसिद्धानि तान्येषु काव्यनाव्य योर्व्यज्यमानेषु विभावशब्देन व्यपदिश्यन्ते।। विभावयन्तीति व्युत्पत्तेः । यानि च कार्यतया तान्यनुभावशब्देन।। अनु पश्चाद्भाव उत्पत्तिर्येषाम् । अनुभावयन्तीति वा व्युत्पत्ते: । यानि सह चरन्ति तानि व्यभिचारिशब्देन ।। तत्र शृङ्गारंस्य स्त्रीपुंसावालम्बने। चन्द्रिकावसन्तविविधोपवनरह :- स्थानादय उद्दीपनविभावाः । तन्मुखावलोकनतद्गुणश्रवणकीर्तनादयोऽन्ये सात्विकभावाश्चानुभावा: । स्मृतिचिन्ताद्यो व्यभिचारिणः। करुणस्य बन्धुनाशाद्य आलम्बनानि। तत्संबन्धिगृहतुरगाभरणदर्श- नाद्यस्तत्कथाश्रवणाद्यश्चोद्दीपकाः । गात्रक्षेपाश्रुपाताद्योऽनुभावाः । ग्लानिक्षयमोहविषाद्चिन्तौतसुक्यदीनताजडतादयो व्यभिचारिणः। शान्तस्यानित्यत्वेन ज्ञातं जगदालम्बनम्। वेदान्तश्रवण-तपोवन-ताप- सदर्शनादयुद्दीपनम्। विषयारुचिशंत्रुमित्राद्यौदासी न्यचेष्टा हा नि ना सा ग्रद्य- दयोऽनुभावाः । हर्षोन्मादस्मृतिमत्यादयो व्यभिचारिण: । रौद्रस्यागस्कृतपुरुषादिरालम्बनम्। तत्कृतोऽपराधादिरुद्दीपकः । वधब-

वेगौध्यचापलांद्यः संचारिणः ।

हक्षयति-एवमिति । स्थायिभाववदित्यर्थः। एषु स्थायिभावेषु। कार्यतया स्थायि- भावानां प्रसिद्धानीत्यस्यानुषङ्ग:। शब्देन, व्यपदिश्यन्त इत्यनुषङ्गः । एवमग्रेऽपि। लाघ- वादाह-अनुभावयन्तीति। तत्र तेषां मध्ये। तन्मुखेति। अन्योन्यमुखेत्यर्थः एवमग्रेऽपि। अन्ये सान्विकेति। क्षेपस्त्यागः । चेष्टाहानिर्निश्रेष्टतम्। आगस्कृदप- १ सांसारिकविषयेषु अरुचिः, शत्रु-मित्रादिषु औदासीन्यम् (ताटस्थ्यं समानतया वर्तन- मित्यर्थ:), चेष्टाहानिर्निःसपृहृतया सर्वकार्येषु निश्चेष्टत्वम्।

Page 103

विभावादय: ] रसगङ्गाघर: । ४१

एवं यस्याश्चित्तवृत्तेयों विषयः स तस्या आलम्वनम् । निमित्तानि चोद्ीपकानीति बोध्यम्। तत्र शृङ्गारो द्विविधः । संयोगो विप्रलम्भश्च। रतेः संयोगकालाव- च्छिन्नत्वे प्रथमः । वियोगकालावच्छिन्नत्वे द्वितीयः। संयोगश्च न दंपत्यो: सामानाधिकरण्यम्, एकतल्पशयनेSपीर्ष्यादिसद्भावे विप्रलम्भस्यैव वर्ण- नातू। एवं वियोगोऽपि न वैयधिकरण्यम्, दोपस्योक्तत्वात्। तस्मा- हाविमौ संयोगवियोगाख्यावन्तःकरणवृत्तिविशेषौ। यत्संयुक्तो वियुक्त- श्रास्मीति घीः। तत्राद्यो यथा-'यिता सविवेऽप्यनीश्वरा' (१२ पृष्ठे) इत्यत्र निरूपितः । यत्तु चित्रमीमांसायाम्-'वागर्थाविव संपृक्तौ इत्यत्र रसध्वनिः ।

पार्वतीपरमेश्वरविषयककविरतौ प्रधाने निरतिशयप्रेम्णो गुणीभावात्। न हि गुणीभूतस्य रत्यादे रसध्वनिव्यपदेशहेतुत्वं युक्तम्। 'मिन्नो रसादलं- कारादलंकार्यतया स्थितः' इति सिद्धान्तात्।

राधकृत। उक्तन्यायेन वीरादिष्वपि बोध्यमित्याह-एवमिति । एकतल्पेति। एकखद्दायां निद्रायामपीत्यर्थः। एवमित्यस्यार्थमाह-दोषेति। ईर्ष्यादयभावे वैयधिकरण्ये- पि संभोगस्यैव वर्णनादित्यर्थः । यद्यस्मात्। तत्राद्यः शयितेति पाठः । यथेति पाठे तथेति

१ संयोगकालव्यातत्वे इत्यर्थः। परस्परसंयोगसमये यत्र रतेः स्थितिरित्याशयः । एवं विप्रलम्मेपि बोध्यम्। २ पृथवस्थानस्थितावपि मनसि रतेः सच्वे, ईर्ष्यादीनां चाऽसत्वे, वियोगो नाऽख्यायते, अपि तु संभोग एवेति, वैयधिकरण्यस्य विप्रयोगलक्षणत्वे दोष एवेत्याशयः । ३ 'संयुक्त: अस्मि' इति धीः मनोभावः संयोगः, 'वियुक्तः अस्मि' इति मनोभावश्र वियोग इति तात्पर्यम्। ४ अजहल्लिङ्गः प्रधानशब्दः, प्रधानभूतां कविरति प्रति निरतिशयप्रेम्णो गुणीभावादिति तात्पर्यम् । ५ अलंकार्यतया अलंकारादिभि: उपरकार्यतया शोभनीयतया स्थितो रसभावादि: (ध्वनित्व- व्यपदेशहेतुः श्रृङ्गारादिरसादिः ), रसादयलंकारात् अन्यं प्रति गुणीभूतात् रसभावादेः (रसव- दाद्यलंकारात्) भिन्नः ।

Page 104

४२ काव्यमाला [प्रथमानने-

द्वितीयो यथा 'वाचो माङगलिकीः प्रयाणसमये जल्पत्यनल्पं जने केलीमन्दिरमारतायनमुखे विन्यस्तवक्राम्बुजा। निःश्वासग्लपिताधरोपरि पतद्वाष्पार्द्रवक्षोरुहा बाला लोलविलोचना शिव शिव प्राणेशमालोकते।।' अत्राप्यालम्वनस्य नायकस्य, निःआसाश्रुपातादेरनुभावस्य, विषाद्चि- न्तावेगादेश्च व्यभिचारिण:, संयोगाद्रतिरभिव्यज्यमाना वियोगकालाव- च्छिन्नत्वाद्विप्रलम्भरसव्यपदेशहेतुः । यथा वा: 'आविर्भूता यदवधि मघुस्यन्दिनी नन्दसूनो: कान्तिः काचिन्निखिलनयनाकर्षणे कार्मणज्ञा। श्वासो दीर्घस्तद्वधि मुखे पाण्डिमा गण्डयुग्मे शून्या वृत्ति: कुलमृगदशां चेतसि प्रादुरासीत्।।' यथा वा नयनाञ्न्लावमश या न कदाचित्पुरा सेहे। आलिङ्गितापि जोषं तस्थौ सा गन्तुंकेन दुयितेन ।।' इहापि सहजचाञ्ल्यनिवृत्तिजडता चातुभावव्यभिचारिणौ। इमं च पञ्नविधं प्राञ्ः प्रवासादिभिरुपांधिभिरामनन्ति। ते च प्रवासाभिलाष- विरहेष्याशापानां विशेषातुपलम्भान्नास्माभि: प्रपश्विताः ।

शेष: । माङगलिकीर्मङ्गलफलकाः। मारुतेति । गवाक्षविवर इत्यर्थः । निःश्वासैग्लपितो क्लापितोऽघरोष्टो यस्य प्राणेशस्य तन्र। शिव शिवेति खेदातिशये। यदवधि यदिनादा- रभ्य। मधुस्यन्दिनी मधुस्ाविणी। तदाकर्षणविषयकं यत्कार्मणं मन्त्रतन्त्रादि तज्ज्ञा। नयनेति। लोचनपक्ष्मस्पर्शमित्यर्थः। जोषं तूष्णीम्। गन्तुकेन गन्तुकामेन। इमं च विप्रलम्भं च। ते च प्रवासादयुपाधयः । षष्ठ्यन्तपाठे चैवम्। अभे प्रथमान्तपाठे उपाधय इत्येवार्थः। प्रवासाभिलाषेति। प्रवासः प्रसिद्धः। अनादिसङ्गाभावेऽपि गुणश्रवण- दिजन्याभिलाषे इच्छारूपे सति तदप्राप्तौ यः सोऽभिलाषहेतुक उच्यते। गुरुजनादिल- १ कार्मणं तत्रमन्नादिना वशीकरणादि, तज्ज्ञा। २ परस्परं विशिष्य भेदाऽप्रतीतेरिति तात्पर्यम्।

Page 105

रसभेदा: ] रसगङ्गाघर:। ४३

करुणो यथा- 'अपहाय सकलबान्धवचिन्तामुद्वास्य गुरुकुलप्रणयम् । हा तनय विनयशालिन्कथमिव परलोकपथिकोऽभू: ॥' अन्न प्रमीततनय आलम्बनम्। तत्कालावच्छिन्नबान्धवदर्शनायुद्दी- धनम्। रोदनमनुभावः । दैन्यादयः संचारिणः । शान्तो यथा- 'मल्यानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः । श्वपचात्मभुवोर्निरन्तरा मम जाता परमात्मनि स्थिति: ।।' अन्न प्रपञ्ः सर्वोऽप्यालम्बनम्। सर्वत्र साम्यमतुभावः। मत्यादयः संचारिणः । यद्यपि प्रथमार्धे उत्तमाधमयोरुपक्रमाद्वितीयार्धेऽधमोत्तम- वचनं क्मभङ्गमावहति, तथापि वक्तुर्व्रह्मात्मकतयोत्तमाधमज्ञानवैकल्यं संपन्नमिति द्योतनाय क्रमभङ्गो गुण एव। इदं पुनर्नोदाहार्यम्- 'सुरस्रोतस्विन्या: पुलिनमधितिष्टन्नयनयो- र्विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान्। विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा निमभ: स्यां कस्यांचन नवनभस्याम्वुदरुचि।।'

ज्ादितः संगमप्रतिवन्धो विरहः । ईर्ष्या असूयादिशब्देन मानहेतुक उच्यते। ग्रिये सपलनीरते कोप ईष्या। तत्कृतो गुणेधु दोषारोपोऽसूया। शापाद्यथा शकुन्तलादेर्दुर्वा- सस इति प्राचामाशयः । प्रमीतो मृतः तत्कालेति। मृतिकालेत्यर्थः । भोगिभोग: सर्पेफणा। श्वपचेति। चण्डालज्ञानिनोरित्यर्थः । निरन्तरा तारतम्यशून्या। प्रपश्च इति। अनित्यत्वेन ज्ञात इत्यर्थः । क्रमभङ्गमिति। तथा चाक्रमलदोषाहुष्टं काव्यमिति भाव: । गुण पवेति। तथा चादुष्टमिति भावः । पुलिनमिति। 'अधिशीङ्-' इति १ पूर्वार्थे-मलयानिलश्च कालकूटश्र, रमणीकुन्तलश्च भोगिभोगश्च, इति पूर्वमुत्तमस्ततो Sधम इत्युपक्रम: कृतः । उत्तरार्थे तु-ध्पचश्च आत्मभूः (ब्रह्मा) चेति पूर्वमधमस्तत उत्तम उक्त इति प्रक्रमभङ्गदोषमावहतीति शङ्का। २ अतिमधुरायां नवनभस्याम्बुदरुचि भाद्रपदीयनवमेधकान्तौ कस्यांचन (अनिर्वचनीया याम्) चिति चैतन्ये (श्रीकृष्णे) कदा निमझ्ः स्याम्।

Page 106

४४ काव्यमाला। [प्रथमानने- अन्रापि यद्यपि विषयगणालम्बनः सुरस्रोतखिविनीतटादुद्दीपितो नयन- निमीलनादिभिरनुभावितः स्थायी निर्वेद: प्रतीयते, तथापि भगवद्वासु- देवालम्बनायां कविरतौ गुणीभूत इति न शान्तरसध्वनिव्यपदेशहेतुः । इदं च पद्ं मन्निर्मितायां भगवद्धक्तिप्रधानायां करुणालहर्यामुपनिबद्धमिति

चानुदाहार्यमेवैतत्। पूर्वपद्ये तु 'परमात्मनि स्थितिः' इत्यनेन तत्ताद्रूप्या- वगमाद्रतेरप्रतिपत्तिः । रौद्रो यथा- 'नवोच्छेलित यौवनरफुरदखर्वगर्वज्वरे मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति। अयं पततु निद्यं दलितदप्तँभूमृद्वल- रखलद्ठुधिरघस्मरो मम परश्वधो भैरव: ॥।' अत्र तदानीं रामत्वेनाऽज्ञातो गुरुकारमुकभञ्जक आलम्बनम्। अत एव विशेष्यानुपादानम्, गुरुदुहो नामग्रहणानौचित्यात्, क्रोधाविष्काराद्वा। ध्वनिविशेषानुमितो निःशङ्कधनुर्भङ्ग उद्दीपकः । परुषोक्तिरतुभावः। गर्वो- अत्वादयः संचारिणः । एषा च धनुर्भेङ्गध्वनिभग्नसमाधेर्भार्गवस्योक्तिः। वृत्तिरप्यत्र महोद्धता रौद्रस्य परमौजस्वितां परिपुष्णाति। अन्यत्र गुरु- स्मरणे सत्यहंभावविगमस्यावश्यकतया प्रकृते चाजहत्सवार्थलक्षणामूलध्व-

कर्म। सपदि तत्कालम्। गुम्फो रचनाविशेषः । इति च इत्यतोऽपि। नन्वेवमुदाहृत- पद्येऽप्येवं स्यादत आह-पूर्वेति। तदानीं कोवसमये। गुरुः शिवः । अत एवेत्यस्या १ तस्यां प्रधानभूतो यो भावः (देवविषयको रतिभावः) तत्प्राधान्यमेवाहतीत्यर्थः । २ नवोच्छलितयौवनेन स्फुरन् (विजम्भमाणः) अखर्वो गर्वज्वरो यस्य, तस्मिन्। ३ दलितेभ्यो दृप्तानां भूभृतां (राशाम्) गलेभ्यः रखलद् यद्रुधिरं तस्य घस्रः पाता। ४ या हि प्राचामुपादानलक्षणा। एतन्मूलध्वननेन-अस्मच्छब्दः स्वार्थमपि सूचयंलक्ष्यार्थ बोधयति-'अहमेकविंशतिवारान् वसुधां निःक्षत्रियामकरवम्, पित्राज्ञया मातुर्वधेऽपि न समकु- चम्' इत्यादि। एतलक्ष्यार्थस्य-गर्वोत्कर्षप्रकाशनपूर्वकं-विवेकशून्यतया क्रोधातिशयो व्यञ्यः।

Page 107

रसभेदा: ] रसगङ्गाघर:। ४५

ननेन मदीयेत्यनेन गर्वोत्कर्षस्यैव प्रकाशनात्सफुटं गम्यमानेन विवेकश- ज्यत्वेन कोधस्याधिक्यं गम्यते। इदं तु नोदाहार्यम्-

न्महागुरुवधस्मृतिः श्वसनवेगधूताघरः। विलोचन विनिःसर दूहलविस्फुलिङ्गत्रजो रघुप्रवरमाक्षिपञ्जयति जामदन्न्यो सुनिः।' अत्राप्यपराधासपदेन रघुनन्दनेनालम्वितो धनुर्विद्लनध्वनिश्रवणेनो- द्दीपितो निश्वासनेत्रज्वलनादिभिरनुभावितो महागुरुवधस्मृति र्वोग्रत्वा- दिभिश्च संचारितः क्रोधो यद्यपि व्यज्यते, तथाप्यसौ तत्प्रभाववर्णनवीज- भूतायां कविरतौ गुणीभूत इति न रौद्ररसध्वनिव्यपदेशहेतुः। काव्यप्रका- शगतरौद्ररसोदाहरणे तु 'कृतमनुमतं दृष्ट वा यैरिदं गुरुपातकम्' इति पद्ये रौद्ररसव्यञ्जनक्षमा नास्ति वृत्तिः, अतस्तत्केवेरशक्तिरेव। वीरश्चतुर्धा। दानदयायुद्धधमैस्तदुपाघेरुत्साहस्य चतुर्विधत्वात्। तत्राद्यो यथा- 'कियदिदमधिकं मे यद्िजायार्थयित्रे कवचमरमणीयं कुण्डले चार्पयामि। अकरुणमवकृत्य द्राक्कपाणेन निर्य- दूहलरुघिरधारं मौलिमावेद्यामि ।'

र्थमाह-गुर्विति । धनुरित्यस्य श्रीरामकृतशिवेत्यादिः । अन्यत्र क्रोधाभावे। लक्षणेति। लक्ष्यतावच्छेदकं चैकवशतिवारनिःक्षत्रियवसुमतीकारकल्वम्, पित्रा- ज्ञया मातृवधकारितवं वा। तत्प्रभावेति। जामदग्न्यप्रभावेत्यर्थः । निर्यननिःसरद् ।

१ आविर्भवन्ती महागुरो: (जमदन्नेः) वधस्मृतिर्यस्य सः । २ विलोचनाभ्यां विनिःसरन् भूयान् अभिकणसमूहो यस्य सः। ३ 'आक्षिपन् (क्रोधोक्तिमिस्तिरस्कुर्वन्) मुनिर्जयति' अत्र कविनिष्ठा मुन्यालम्बना रतिः प्रधानतया प्रतीयते, क्रोधस्थायिको रौद्रस्तु तत्परिपोषकतया गुणीभूत इति तात्पर्यम्। ४ तस्य कवेः ।

Page 108

४ ६ काव्यमाला। [प्रथमानने-

एषा द्विजवपायन्द्राय कवचकुण्डलद्ानोद्यतस्य कर्णस्य तद्दानविस्मिता- न्सभ्यान्प्रत्युक्ति: । अत्र याचमान आलम्बनम्। तदुदीरिता स्तुतिरुद्दी- पिका। कवचादिवितरणं तत्र लघुत्वबुद्ध्यादिकं चानुभाव: । मे' इत्यर्था- न्तरसंक्रमितवाच्यध्वन्युत्थापितो गर्वः स्वकीयलोकोत्तरपितृजन्यत्वादिस्मृ तिश्च संचारिणै। वृत्तिरप्यत्र तत्तदर्थानुरूपोद्गमविरामशालितया सहद- यैकचमत्कारिणी। तथा हि-उत्साहपोषकं कवचकुण्डलार्पणयोर्लघुत्व- निरूपणं विधातुं पूर्वोर्धे तदनुकूलशिथिलबन्धात्मिका। उत्तरार्धे तु मौलित: प्राग्वक्तृगतगर्वोत्साहपरिपोषणायोद्ता। ततः परं ब्राह्मणे सविन- यत्वं प्रकाशयितुं तन्मूलीभूतं गर्वराहित्य ध्वनयितुं पुनः शिथिलैव। अत एवावेद्यामीत्युक्तम्। न तु ददामि वितरामीति वा। इदं तु नोदाहरणीयन्- 'य स्योदामदिवा निशार्थिविलसद्दानप्रवाहप्रथा- माकण्यावनिमण्डलागतवियदून्दीन्द्रवृन्दाननात्। ईर्ष्यानिर्भरफुह्लरोम निकरव्यावल्गदूध:स्रव- त्पीयूषप्रकरैः सुरेन्द्रसुरभिः प्रावृद्पयोदायते ।।' याचमान इन्द्रः । अरमणीयपदार्थमाह-तत्र लघुत्वेति। मे इत्यर्थान्तरेति। अनेकशो रणेषु क्षतजर्जरीभूतकलेवरत्वं लक्ष्यतावच्छेदकम, सकलराज्यकोषादिदा तृरख वा, रविकुन्तीसुतत्वं वा। स्वकीयलोकोत्तरेति। इदमेव च शक्यतावच्छे दकमू। तत्तदिति। तत्तदर्थानुरूपौ यावुद्रमविरामौ प्रारम्भसमाप्ती तच्छालितयेत्यर्थः । मौलितो मौलिमित्यतः। वक्ता कर्णः। ब्राह्मणे तद्वेष इन्द्रे। तन्मूलीभूरतं सविनयत्मू- लीभूतम् । सुरेन्द्रसुरभि: कामधेनुः । यस्य राज्ञः स्तुतिस्वामाकर्ण्य तैः प्रावृदपयोदायते १ मे इत्यस्य निःसंकोचं सकलराज्यकोषादीनां दातुर्जगत्प्रसिद्धदानवीरस्य मे इति लक्ष्योऽर्थः । अन्र वाच्योथोंऽसामान्यदानशौण्डादिरूपेडर्थान्तरे संक्रमितः । एवंभूतलक्षणामूल- धवन्युत्थापितो गर्वः । २ कामधेनुः उद्दाम (अतिशयितं यथा स्यात्तथा) दिवानिशम् अर्थिषु विलसन्तीं यस्य (राक्:) दानप्रवाहकीर्तिम् अवनिमण्डलात् आगतानां स्वगीयस्तुतिपाठकश्रेष्ठवृन्दानां मुखात् आाकर्ण्य, ईष्यया (हन्त मदपेक्षयापि सोयमधिकं कामपूरकः इति) निर्भरं फुलो रोमनिकरो यस्य, अत एव व्यावल्गत् स्फुरत् यत ऊधः (स्तनभारः), तसात्स्रवद्भिः पीयूष( नव्य- दुग्ध)समूहैः (हेतुभि:) प्रावृट्पयोदायते।

Page 109

रसभेदा: ] रसगङ्गाघर: । ४७

अत्रेन्द्रसभामध्यगतसकलनिरीक्षकालम्बनः अवनिमण्डलागतवियदू- न्दीन्द्रवदनविनिर्गतराजदानवर्णनोद्दीपितः, ऊध:प्रस्नुतपीयूषप्रकरैंरनुभा- वितः, असूयादिभिः संचारिभिः परिपोषितोऽपि कामगवीगत उत्साहो राजस्तुतिगुणीभूत इति न रसव्यपदेशहेतुः । अत एवेदमपि नोदाहरणम्- 'साब्धिद्वीपकुलाचलां वसुमतीमाक्रम्य सप्तान्तरां सर्वा द्यामेपि सस्मितेन हरिणा मन्दं समालोकित: ।

व्यानम्रीकृतकंधरोऽसुरवरो मौलिं पुरो न्यस्तवान् ।* इह च भगवद्वामनालम्बनः, तत्कतृकमन्दनिरीक्षणोद्दीपितः, रोमाक्वा दिभिरनुभावितः, हर्षादिभिः पोषितः, उत्साहो व्यज्यमानोऽपि गुणः । आगन्यैगतस्येव प्रकृते राजगतस्यापि तस्य राजस्तुत्युत्कर्षकत्वात्। एतेन 6त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः' इति "श्रीवत्सलाळ्छनोकत

वर्षािघायते। बन्दीन्द्राः स्तुतिपाठकेन्त्राः : व्यावल्गन्मधु(न्थरम्। कोपोऽमर्ष इतयन- र्थान्तरम्। ईर्ष्याऽक्षमा, गुणेषु दोपारोपोऽसूयेति मेदः । असूयादिभिरिति। ईर्ष्या- जनिका चासूयेति व्यक्च्यत्वमेवास्या इति भावः । कामगवी कामधेनुः। अत एव गुर्णी- भूतत्वादेव। सप्तान्तरां सप्तप्राकाराम। अत एव सर्वा द्यामू। छलेन द्वाभ्यां सर्वप्र- हणान्मन्दलम्। पर उत्कृष्टः । असुरवरो बलिदेत्यः । हषादिभिरिति । प्रमोद: सुखं तदंशावरणभज्जकश्चित्तवृत्तिविशेषो हर्षः। अनोन वाच्यता व्यनिचारिण इत्यवषें- यम्। प्रागन्यति। सामानाधिकरण्यवैयधिकरण्यप्रयुक्तमेदेऽ्युपकारकत्वं. तस्य समान- मिति भाव: । त्यागः सप्तति। 'उत्पत्तिर्जेमदमनितः स भगवान्देवः पिनाकी गुरुवीर्य यत्तु न तद्विरां पथि ननु व्यक्तं हि तत्कर्मभिः। त्यागः सप्तरुमुद्रमुद्ितमहीनिर्व्याजदा- नावधि: सत्यब्रह्मतपोनिधेर्भगवतः कि किं न लोकोत्तरम् ॥'इतीत्यर्थः : एतेनेत्यस्यार्थ- १ स्तुतौ गुणीभूतः । २ वसुमतीमाक्रम्य, सप्तान्तरां द्यां (स्वर्गम्) अपि आक्रम्य सस्मितेन। ३ प्रादुभूतेन पर-प्रमोदेन विदलन् (फुल्न्) यो रोमाञ्नः स संजातो यस्याः । इतचू। ४ पूर्व कामगवीगत उत्साहो राजस्तुतौ गुणीभूनः । इह तु राजा (बलिः) तद्गृत उत्साहस्तद्गतस्तुतेरेव परिपोषकतयाडङ्गम्, न तूत्साहः प्रधानमित्याशयः । ५ काव्यप्रकाशटीकायाः सारबोधिन्याः कर्ता श्रीवत्सलान्छनः ।

Page 110

४८ काव्यमाला [प्रथमानने-

मुदाहरएं ग्रास्तम्। तस्य गुणीभूतव्यड्गत्वेन रसध्वनिप्रसङ्गेडनुदाहरणी- यत्ात् : ननु 'अकरुणमवकृत्य-'इत्यत्रापि प्रतीयमानस्य दानवीरस्य कर्णस्तुल त्व्रात्कथं ध्वनित्वमिति चेत्, सत्यम्। अत्र कवे: कर्णवचनानु- वादमान त्पर्यकत्वेन कर्णस्तुतौ तात्पर्यविरहात्, कर्णस्य च महाशयत्वे- नात्मस्तु तात्पर्यानुपपचे: स्तुतिरवाक्यार्थ एव। परं तु वीररसप्रत्ययान- न्तरं ताक त्साहेन लिङ्गेन स्वाधिकरणे सानुमीयते। राजवर्णनपद्ये तु राजस्तुते नात्पर्याद्वाक्यार्थतैव तस्याः ।

द्विर्त यथा- 6: कपोत भवन्तमण्वपि स्पृशतु श्येनसमुद्भवं भयम्। नमद्य मया तृणीकृतं भवदायुःकुँशलं कलेवरम् ।।' अथ। विन्यास :- 1 ... कपोतकपोतकं तव स्पृशतु श्येन मनागपि स्पृहा। उमदय मया समर्ित भवते चारुतर कलेवरम् ।।'

एषा तेः कपोतं श्येनं प्रति चोक्तिः । अत्र कपोत आलम्बनम् । तदूत व : ीभवनमुद्दीपनम् । तस्य कृते स्वकलेवरापेणमनुभावः। न

माह-तःभ से। ननु स्कतृकैव स्तुतिरास्तामत आह-कर्णस्येति। तादशोत्साहे-

१ अत्र रशुरामालम्बनो दानवीरो व्यङ्गयोपि कविनिष्ठतत्स्तुतौ गुणीभूत इति न ध्वनि- रित्याशयः २ स्तुतिः वाक्यार्थः वाक्यप्रतिपाद्या नास्ति। अयं भाव :- स्तुतौ न कवेस्तात्पर्य न चोदाराशयस्य कर्णस्य। ततश्च अतात्पर्यभूतां स्तुतिं प्रति कथं वा वीररसः (उत्साहः) अङ्गं स्यात् ? नन दिदमधिकं मे इत्यादिपद्ये कर्णस्य महाशयत्वनिबन्धना स्तुतिस्त्ववश्यं प्रती- यत इति व यनवाक्यार्थ इति चेत्, सा हि उत्साहेन लिङ्गेन (हेतुना) स्वाधिकरणे (स्वे अधिकरणे, हृदये) अनुमीयते [ कणोयं स्तुतिपात्रं तादृशोत्साहशालित्वात् इति ] न शब्दैः प्र चने। राजवर्णनपदे (यस्योद्दामदिवानिशम्० साब्धिद्वीपकुला० इत्यादौ) तु वर्णनीयैव रा तिरिति प्रधानभूतायां तस्यामुत्साहादेर्गुणीभूततैवेति तात्पर्य प्रघट्टकस्य। ३ भवलाग: क्षेमस्वरूपम्।

Page 111

रसभेदा: ] रसगङ्गाघर:। ४९

चात्र शरीरदानप्रत्ययाद्दानवीरध्वनित्वापत्तिरिति वाच्यम्। श्येनकपोतयो- भक्ष्यभक्षकभावापन्नत्वेन शिबिशरीरस्यार्थिनोSभावात्तद प्रतिपच्तेः। श्येन- शरीरनिवेदनस्य कपोतशरीरत्राणोपाधिकतया विनिमयपदवाच्यत्वात्। तृतीयो यथा- 'रणे दीनान्देवान्दशवदन विद्राव्ये वहति प्रभावप्रागल्भ्यं त्वयि तु मम कोडयं परिकरः ।

भवो मे कोदण्डच्युतविशिखवेगं कलयतु ।।' एषा दशवदनं प्रति भगवतो रामस्योक्तिः । इह भव आलम्बनम् । रणदर्शनमुद्दीपनम्। दशवदनावज्ञानुभावः। गर्वः संचारी। वृत्तिरत्र देवानां प्रस्तावे तदतकातर्यप्रकाशनद्वारा वीररसानालम्बनत्वावगतयेऽनुद्धतैव । दुशवदनप्रस्तावे तु देवदर्पदमनवीरत्वप्रतिपादनायोद्धतापि तस्यावज्ञया रामगतोत्साहानालम्वनत्वेन तैदालम्बनस्य रसस्याप्रत्ययान्न प्रकर्पवती। भगवतो भवस्य तु परमोत्तमालम्बनविभावत्वात्तत्प्रस्तावे तदालम्बनस्यौ- जस्विनो वीररसस्य निष्पत्ते: प्रकृष्ठोद्धता।

नेति। विभावाद्यभिव्यक्तोत्साहेनेत्यर्थः। सा स्तुतिः । अर्थिनस्तद्विषयकार्थित्ववतः। तद- प्रतिपत्तेरिति। शरीरदानाप्रतिपत्तेरित्यर्थः। नन्वेवं किमित्यर्पितमत आह-श्येन इति। निरुपाधिकस्थल एव दानप्रतीतिरिति भावः । परिकरो गात्रबन्ध आरम्भो वा। कलयतु जानालङ्गीकरोतु वा। तद्गतेति। देवगतेत्यर्थः। देवदर्पेति। तद्दर्पदमनं यद्वी -- रत्वं तत्प्रेत्यर्थः । तस्य रावणस्य। तत्प्रस्तावे भवप्रस्तावे। तदालम्बनस्य भवाश्रयकस्य। १ श्येनस्य कपोतो भक्ष्यः, अत एव से कपोतशरीरस्यार्थी, न तु शिबिशरीरस्य। ततश्च शिविशरीरस्य श्येनप्रार्थितत्वाभावात्तद्दानेन न दानवीरत्वव्यपदेशः । शिबिना हि कपोतशरीर- रक्षायै तत्परिवर्ते स्वशरीरं निवेदितमिति सोयं द्रव्यविनिमयो न दानमित्याशयः । २ देवान् विद्राव्य प्रभावप्रागल्म्यं (प्रभुत्वधृष्टताम्) वहति त्वयीति योजना । ३ ललाटात उद्यन्ती या ज्वाला तया कवलितो जगज्जालस्य विभवो येन, ईदृशप्रभाव- शालितया शिवस्य युद्धयोग्यना सूच्यते। ४ रामगतस्योत्साहस्य दशवदनो नालम्बनम् (अवज्ञया), अत एव रावणालंबनस्य रसस्या- डप्रतीत्या 'प्रभावप्रागल्भ्यम्' इत्यादिद्वितीयचरणे उद्धतापि वृत्तिर्न प्रकर्षवतीत्याशयः। ५ रस०

Page 112

काव्यमाला। [प्रथमानने-

चतुर्थो यथा- 'सपदि विलयमेतु राज्यलक्ष्मीरुपरि पतन्त्वथवा कृपाणधाराः । अपहरतुतराँ शिरः कृतान्तो मम तु मतिर्न मनागपैति धर्मात्।।' एषाऽघर्मेणापि रिपुर्जेतव्य इति वदन्तं प्रति युधिष्ठिरस्योक्तिः। अत्र धर्मविषय आलम्बनम्। 'न जातु कामान्न भयान्न लोभा्धर्म त्यजेजीवि- तस्यापि हेतोः' इत्यादिवाक्यालोचनमुद्दीपनम्। शिरश्छेदादङ्गीकारो- डनुभाव:। धृतिः संचारिणी। इत्थं वीररसस्य चातुर्विध्यं प्रपशच्ितं प्राचा- मनुरोधात्। वस्तुतस्तु बहवो वीररसस्य शृङ्गारस्येव प्रकारा निरूपयितुं शक्यन्ते। तथा हि-प्राचीन एव 'सपदि विलयमेतु' इत्यादिपद्े 'मम तु मतिर्न मनागपैतु सत्यात्' इति चरमपादव्यत्यासेन पद्यान्तरतां प्रापिते सत्यवीरस्यापि संभवात्। न च सत्यस्यापि धर्मान्तर्गततया धर्मवीररस एव तद्वीरस्याप्यन्तर्भाव इति वाच्यम्। दानदययोरपि तदन्तर्गततया तद्वीरयोरपि धर्मवीरात्पृथग्गणनानौचित्यात्। एवं पाण्डित्यवीरोऽपि प्रतीयते।

यथा- 'अपि वक्ति गिरां पतिः स्वयं यदि तासामधिदेवतापि वा। अयमस्मि पुरो हयाननस्मरणोल्लद्वितवाङायाम्बुधिः ।।' अत्र बृहस्पत्याद्यालम्बनः सभादिदर्शनोद्दीपितो निखिलविद्वत्तिर- स्कारानुभावितो गर्वेण संचारिणा पोषित उत्साहो वक्तुः प्रतीयते। ननु चात्र युद्धवीरत्वम्, युद्धत्वस्य वादसाधारणस्य वाच्यत्वात्। इति चेतू, क्षमावीरे किं त्रूया: ?

तदन्तरिति। धर्मान्तर्गततयेत्यर्थः। तद्वीरेति। दानदयावीरयोरपीत्यर्थः। तासा- मधीति। गिरामधिष्ठात्री देवता। सरस्वतीत्यर्थः । हयाननो हयग्रीवः। तां धराम्। हे

१ पूर्वोंक्ते।

Page 113

रसभेदा: ] रसगङ्गाघर: । ५१.

यथा- 'अपि बहलदहनजालं मूर्ति रिपुर्मे निरन्तरं धर्मतु। पातयतु वाऽसिधारामहमणुमोन्रं न किंचिदाभाषे ।।' क्षमावत उक्तिरियम् । बलवीरे वा किं समादध्याः ?

यथा- 'परिहरतु धरां फणिप्रवीरः सुखमयतां कमठोऽपि तां विहाय! अहमिह पुरुहूत पक्षकोणे निखिलमिद्ं जगद्क्कुमं वहामि।।' पुरुहूतं प्रत्येषा गरुत्मत उक्तिः । ननु 'अपि वक्ति-' 'परिहरतु धराम्-' इति पद्यदवये गर्व एव नोत्साहः । मध्यस्थपद्ये तु धृतिरेव ध्वन्यते इति भावध्वनय एवैते न रसध्वनय इति चेत्, तर्हि युद्धवीरा- दिष्वपि गर्वादिध्वनितामेव किं न ब्रूयाः ! रसध्वनिर्सामान्यमेव वा किंन तव्यभिचारध्वननेन गतार्थयेः ? स्थायिप्रतीतिर्दुरपह्ववा चेत्तुल्वं प्रकृते- डपि। अनन्तरोक्तपद्ये तु नोत्साहः प्रतीयते, दयावीरादिषु प्रतीयत इति तु राज्ञामा (राजा)ज्ञामात्रम्।

पुरुहूत, सवपक्षैकदेशे। 'निखिलमिदं जगदण्डकं वहामि' इति पाठः। वीररसध्वन्यु- च्छदमुक्ता तुल्ययुक्त्या सामान्योच्छेदमाह-रसेति। स्थायीत्यस्य तन्रेत्यादिः। दया-

१ वायुसंयोगेन वर्धयतु। २ अणुमात्रं स्वल्पमपि किश्चिद् वाक्यन्। ३ अपि बहल० इत्यत्र। ४ तद्गतो यो व्यभिचारस्तद्वूननेन रसध्वनिसामान्यमेव कि न गताथयेः ? अर्थात् रस- ध्वनिस्थले सर्वत्र व्यभिचारिध्वनिमेव साधयित्वा, सर्वांनेव रसध्वनीन् किं न गतार्थान् करो- षीति तात्पर्यम् । ५ ननु रसव्वनिस्थले व्यभिचारिणामपेक्षया स्थायिभावस्य प्रतीति: प्रबलास्तीति तत्कृतो रसध्वनिव्यवहार एव स्ादिति चेत, प्रकृतेऽपि (सत्य-बलवीरादिष्वपि) स्थायिनः प्रवलतया वीररसध्वनिव्यवह्दारः केन प्रतिबन्धनीयः स्यात् ?। ६ ततश्च दया-दानेत्यादिचतुःप्रकारगणना प्राचामपर्याप्तैवेति पण्डितराजस्याशयः।

Page 114

५२ काव्यमाला। [ प्रथमानने-

अद्भुतो यथा- 'चराचरजगज्ालसद्नं वदनं तव। गलद्वंगनगाम्भीय वीक्ष्यास्मि हृतचेतना ।।' कदाचिद्भगवतो वासुदेवस्य वदनमालोकितवत्या यशोदाया इयमुक्तिः। अन्न वदनमालम्बनम्। अन्तर्गतचराचरजगजालदर्शनमुद्दीपनम्। हृतचे- तनत्वम्, तेन गम्यं रोमाञ्नेत्रस्फारणादि चानुभावः। त्रासादयो व्यभि- चारिणः। नैवात्र विद्यमानापि पुत्रगता प्रीति: प्रतीयते, व्यञ्जकाभावात्। प्रतीतायां वा तस्यां विस्मेयस्य गुणत्वं न युज्यते। एवं कश्चिन्महापुरु- षोडयमिति भक्तिरपि तस्याः पुत्रो मयायं बाल इति निश्चयेन प्रतिबन्धा- दुत्पत्तुमेव नेष्टे। अतस्तस्यामपि विस्मयस्य गुणीभावो न शङ्क्यः । यच् सहृदयशिरोमणिभिः प्राचीनैरुदाहृतम्- 'चित्रं महानेष नवावतारः क्व कान्तिरेषाभिनवैव भङ्गिः। लोकोत्तरं धैयमहो प्रभाव: काप्याकृतिनूतन एष सर्गः ॥' इति, तत्रेद्ं वक्तव्यम्-प्रतीयतां नामान्न विस्मयः, परं त्वसौ कथंकारं [ अद्भुतरस ] ध्वनिव्यपदेशहेतुः ? प्रतिपाद्यमहापुरुषविशेषविषयायाः

वीरादिषु प्राचीनोदाहृतेषु। गलन्नष्टम्। तेन गम्यमिति। तद्वोधकशब्दाभावादिति भावः । अत्र भावध्वनित्वं निराचष्टे-नैवेति। प्रतीतायां वेति। प्रकरणादिपर्या लोचनयेति भावः । विस्मयस्य गुणत्वमिति। विस्मयस्योत्कटत्वेन तस्या एव गुण- लमनुत्कटलातू। हृतचेतनेत्यनेन तस्यैव प्राधान्यप्रकटनाच्चेति भावः । अन्यथापि संभा- वितलं निराचष्टे-एवमिति। तस्या इत्यस्य मध्यमणिन्यायेनान्वयः । अत उपपत्त्य- आावादेव। तस्यामपि भक्तावपि। कथंकारं कथं कृला। अस्य विस्मयस्य। तत्र दृष्टान्त-

१ गलत् नश्यत् गगनस्यापि गाम्भीर्य यत्र तादटशं वदनम्। २ प्रकरणपर्यालोचनया यदि पुत्रगता प्रीति: प्रतीयेतापि, किन्तु हृतचेतनत्वोक्तया विस्म- यस्यैव प्राबल्येन तस्यां (प्रीतौ) विस्मयस्य गुणीभूतत्वं न युंज्यते इत्याशयः । ३ 'अर्य बालो मम पुत्रः' इति निश्चयेन प्रतिबन्धात् 'अयं कश्चिन्महापुरुषः' इति तस्याः (यशोदायाः) कृष्णविषया भक्तिरपि उत्पन्तुमेव न शक्रोतीति तात्पर्यम् ।

Page 115

रसभेदा: ] रसगङ्गाघर: ५.३

प्रधानीभूतायाः स्तोतृगतभक्ते: प्रकर्षकत्वेनास्य गुणीभूतत्वात्। यथा महा- भारते गीतासु विश्वरूपं दष्टवतः पार्थस्य 'पश्यामि देवांस्तव देव देहे सर्वास्तथा भूतविशेषसङ्वान्' इत्यादौ वाक्यसंदर्भे। इत्थं चास्य रसालंका- रत्वमुचितम्। भक्तिनैवात्र प्रतीयत इति चेद्दरमुकुलितलोचनं विदांकु- र्वन्तु सहदयाः ।

हास्यो यथा-

'श्रीतातपादैर्विहिते निबन्धे निरूपिता नूतनयुक्तिरेषा। अङ्गं गवां पूर्वमहो पैवित्रं न वा कथं रासभधर्मपत्न्याः ॥।' तार्किकपुत्रोSन्नालम्बनम्। तदीया निःशङ्कोक्तिरुद्दीपिका। रदनत्र- काशादिरुद्वेगादयश्चानुभावव्यभिचारिणः ।

माह-यथेति। पार्थस्यार्जुनस्य। इत्यादिरूपवाक्यसंदभे। तस्य तत्र लंप्रथेत्यर्थः । अस्य प्राचोक्तपद्यस्य। एवमग्रेऽपि ईषन्मुकुलितलोचनमिति क्रियाविशेषणम्। विहिते कृते। गौर्गर्दभी च तुल्येति भावः । रदनेति। दन्तेत्यर्थः । यथासंख्यमन्वयः । अत्र

१ अस्य (विस्मयस्य ) स्तोनृनिष्ठमक्त: प्रकर्षकत्वेन (पोषकत्वेन) अस्य विस्मयस्य (तां भक्ति प्रति) गुणीभूतत्वात्। २ एतदादौ वाक्यसंदर्भेऽपि पार्थगता भक्तिरेव प्रधानं, विश्वरूपदर्शनजो विस्मयश्च तदुत्क- र्षकः, तद्वदत्रापि भक्तरेव प्राधान्यमुचितमित्याशयः । ३ पश्यामि देवांस्तव देवेत्यादितः पूर्व 'हष्टरोमा धनंजयः । प्रणम्य शिरसा देवं कृताञ्- लिरभाषते'त्यादिना भगवन्भक्ति: स्फुटा। विराड्रूपदर्शनान्तेऽपि-'सखेति मत्वा प्रसभ यदुक्ततं ह्वे कृष्ण हे यादव हे सखेती'त्यादिना भगवदालम्बनोऽनुरागः प्रसभमुल्लसितः । ततः कथं वा भक्तिप्रतीतिरियमपह्वयताम् ? किं बहुना, स्वयं भगवानेवाह-एवंविधस्य मम दर्शने भक्तिरेव प्रभवति-'नाहं वेदैन तपसा न दानेन न चेज्यया। शक्य एवंविधो द्रषटं दृष्टवानसि मां यथा॥ भत्तया त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।' इति। एवं स्पष्ट दृष्टौ स्फुरन्तीमपि भक्तिमूर्ति चेन्नावलोकयितुं शक्कुथ, तहि ईषन्मुकुलितलोचनं विचारयतेति ग्रन्थकर्तुराशयः। ४ धर्मशास्त्रे गवां पश्चार्थमेव विशिष्य पवित्रम् । किन्तु तातपादमहाशयानां युक्तिः सर्वथा नवीना। अत एव तदिदमप्यभिनवं निवेदितभिति परिहासः ।

Page 116

५४ काव्यमाला [प्रथमानने-

अन्नाहु :- 'आत्मस्थः परसंस्थश्चेत्य् भेदयंमतम् आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः ॥ हसन्तमपरं दष्टा विभावश्चोपजायते। योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः ॥ उत्तमानां मध्यमानां नीचानामप्यसौ भवेत्। त्यवस्थः कथितस्तस्य षड्भेदाः सन्ति चापरे ॥ स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः। भवेद्विहसितं चोपहसितं मध्यमे नरे।। नीचेऽपहसितं चातिहसितं परिकीर्तितम्। ईषत्फुल्लकपोलाभ्यां कटाक्षैरप्यनुलबणैः॥ अदृश्यद्शनो हासो मधुरः स्मितमुच्यते।

किंचिल्लक्षितदन्तश्च तदा हसितमिष्यते। सशब्दं मधुरं कार्यगतं वदनरागवत्।। आकुञ्विताक्षि मन्द्रं च विदुर्विहसितं बुधाः ।

उत्फुल्लनासिको हासो नाम्रोपहसितं मतम्। अस्थानज: साश्रुदृष्टिराकम्पस्कन्धमूर्घेजः ॥।

हास्यविषये। आहुः प्राश्चः। तदेवाह-आत्मेत्यादिमतमितीत्यन्तेन। अस्य हास्यस्य। त्र्यवस्थ उक्तप्रकारेण त्रिधावस्थः । तस्योक्तविधस्य। षण्णां क्रमेण लक्षणान्याह-ईष- दिति। अनुल्बणैरवृद्धैः । दशना दन्ताः । 'कालगतम्' इत्यपाठः 'कायगतम्' इवि पाठः । वदनेति। तल्ौहित्यविशिष्टम्। जिह्मेति । व्यधिकरणपदबहुव्रीहिः। आकम्पौ कम्प- १ अपरं हसन्तं दृष्टा योसौ हास्यरसः स परस्थः । अस्य हास्यरसस्य विभावश्चापि अपरं हसन्तं दृष्टा उपजायते। अर्थात् अपरस्य हास्यं दृष्ट्व अयं हास्यरसो जातस्तथा चास्य कारण- मपि हास्य एवेति। २ ईषत्संकुच्चितैनेत्रप्रान्तैरुपलक्षित इत्यर्थः । ३ कायस्य उदरादयन्यावयवेष्वपि यस्य प्रभावः प्रतीयेतेत्याशयः ।

Page 117

बसभेदा: ] रसगङ्गाघरः । ५५

शार्ङ्गदेवेन गदितो हासोऽपहसिताह्वयः । स्थूलकर्णकटुध्वानो वाष्पपूर प्ुतेक्षणः ।। करोपगूढपार्श्वश्र हासोऽतिहसितं मतम् ॥'इति । भयानको यथा- 'इयेनमम्बरतलादुपागतं शुष्यदाननविलो विलोकयन्। कम्पमानतनुराकुलेक्षणः स्पन्दितुं नहि शशाक लावकः ॥।' अन्न श्येन आलम्वनम्। सवेगापतनमुद्दीपनम्। आननशोषाद्यो- इनुभावाः । दैन्यादयः संचारिणः । बीभत्सो यथा- 'नखैर्विदारितात्राणां शवानां पूयशोणितम्। आननेष्वनुलिम्पन्ति हृष्टा वेतालयोषितः ।।' शवा इहालम्बनम्। अन्नविदारणाद्युद्दीपनम्। आक्षिपा रोमाञ्चने- न्रनिमीलनाद्योऽनुभावाः। आवेगादयः संचारिणः। ननु रतिक्रोधोत्साह- भयशोकविस्मयनिर्वेदेषु प्रागुदाहतेपु यथालम्बनाश्रययोः संप्रत्ययः, न तथा हासे जुगुप्सायां च। तत्रालम्बनस्यैव प्रतीतेः । पद्यश्रोतुश्च रसा-

मानौ स्कन्धमूर्धजौ यस्मिन्। स्थूल: कर्णकटुर्ध्वानः शब्दो यत्र। कराभ्यामुपगूढे व्याप्ते पार्श्वे यत्र। शुष्यदाननमेव बिलं यस्य। लावकः पक्षिविशेषः । सवेगेति । वेगसहितमापतनमित्यर्थः । पूयेति समाहारद्वन्द्वः । आननेत्यस्य खेत्यादिः। तत्र तयोः । ननु पद्यश्रोतैवाश्रयोऽत आह-पद्यति । रसस्तलौकिक इति भावः । १ हास्यवेगधारणार्थ कराभ्यां पाश्वयोरुपगृहनम् (अवलम्बनन्) यत्र कर्तव्यतामावहृति ज्ाइृशः । २ आलम्बनं विरूपो घृणितश्च पुरुषः, यमालम्व्य हास-जुगुप्सोदयः । आश्रयो बोद्ा, यस हृदये रसोद्ोधः । किन्तु हास्य-जीभत्सरसाश्रयेषु पधेषु केवलमालम्बनस्यैव प्रतीतिर्भवति, नाश्र- यस्य। पद्यश्रोता तु आश्रयो न भवितुमर्हति। स हि अलौकिकस्य रसास्वादस्याधारः । एव लौकिकयोहास-जुगुप्सयोराश्रयो न स्यादिति शङ्कायामाह-हास्य-बीभत्सस्थले द्रष्टः कस्यचित्पुरुप- स्याSडक्षेपेण आश्रयस्य पूर्तिः करणीया। आक्षेपाभावेऽपि स्वकान्तावर्णनपद्यश्रोता यथा शृङ्गार- रसानुभवं करोति-अर्थात् लौकिकरतेर्य आश्रयः श्रोता, स एवालैकिकरसानुभविताडपि संभवति, मवमन्नापि लौकिक-भावस्य अलौकिकरसस्य चाश्रयक्ये न विरोध इति सर्वस्याशयः ।

Page 118

५६ काव्यमाला [प्रथमानने-

स्वादाधिकरणत्वेन लौकिकहासजुगुप्साश्रयत्वानुपपत्तेरिति चेतू। सत्यम्। तदाश्रयस्य द्रष्टपुरुषविशेषस्य तत्राक्षेप्यत्वात्। तद्नाक्षेपे तु श्रोतुः स्वीयकान्तावर्णनपद्यादिव रसोद्वोधे बाधकाभावात्। एवं च संक्षेपेण निरूपिता रसा:। एषां प्राधान्ये ध्वनिव्यपदेशहे- तुत्वम्, गुणीभावे तु रसालंकारत्वम्। केचित्तु 'प्राधान्य एवैषा रसत्वमन्य- थालंकारत्वमेव। रसालंकारव्यपदेशस्त्व लंकारध्वंनिव्यपदेशवत्, ब्राह्म- णश्रमणन्यायात्। एवमसंलक्ष्यक्रमतायामेव। अन्यथा तु वस्तुमात्रम् इत्याहुः। एते चासंलक्ष्यक्रमव्यङ्ग्याः, सहृदयेन रसव्यक्तौ झगिति जायमानायां विभावानुभावव्यभिचारिविमर्शक्रमस्य सतोऽपि सूचीशतप- त्रपत्रशतवेधक्रमस्येवालक्षणात्। न त्वक्रमव्यङ्ञ्याः, व्यक्तेसतद्वेतूनां च हेतुहेतुमद्भावासंगत्यापत्तेः। अथ कथमेत एव रसाः, भगवदालम्बनस्य रोमाव्ाश्ुपातादिभिरनु- भावितस्य हर्षादिभिः परिपोषितस्य भागवतादिपुराणश्रवणसमये भगवद्- क्तैरनुभूयमानस्य भक्तिरसस्य दुरपह्नवत्वात्। भगवद्तुरागरूपा भक्तिव्रात्र स्थायिभावः। न चासौ शान्तरसेऽन्तर्भावमर्हति अनुरागस्य वैराग्यविरुद्धत्वात्। उच्यते-भक्तेर्देवादिविषयरतित्वेन भावान्तर्गततया रसत्वानुपपत्ते: ।

तदेति। हासाश्रयस्येत्यर्थः । तत्र हासजुगुप्सयोः। तुरप्यथें। पद्यादिवेति। तत इति शेषः। एवं चेत्यस्य हेतुत्वादावन्वयः । एतेन रसत्व्यवच्छेदः। प्राचोक्तिविरोधं परिहरति- रसालंकारेति। भूतपूर्वगत्येति भावः। प्रकारान्तरेणाह-एवमिति। असंलक्ष्य- तायामेवेति। रसत्मेषा मिति शेषः। अन्यथा कुसंलक्ष्यक्रमतायां तु। केचिदित्यरुचिबीजं तूक्तरीत्यैवोपपत्तौ भूतपूर्वगत्याद्याश्रयणमयुक्तमिति। एते च रसाः। सहृदयेनेत्यस्याल- क्षणादित्यत्रान्वयः । रसव्यक्तौ । रसाभिव्यक्तौ अक्रमेति बहुव्रीहिः। विभावादिविशेषण पत्तेरिति। हेतुहेतुमद्भावस्य क्रमनियतत्वादिति भावः । भगेति बहु्रीहिः। अनुभूयेति। १ अलंकारध्वनिस्थले उपमादिः सर्वैरुपकरणैः प्रधानतया भूषणीयो भवतीति सोऽलंकार्य एव न तु अपरेषामलंकरणकर्ताSलंकार: । परंतु पूर्वप्रसिद्धिमादाय यथा तस्य अलंकारत्व- व्यपदेशस्तथा रसस्यापि अलंकारत्वव्यवहार इत्याशयः ।

Page 119

रसभेदा: ] रसगङ्गाधर: ।

'रतिर्देवादिविषया व्यभिचारी तथाज्ञितः। भावः प्रोक्तस्तदाभासा ह्यनौचित्यप्रवर्तिताः ।।' इति हि प्राचां सिद्धान्तात्। न च तर्हि कामिनीविषयाया अपि रतेर्भावत्वमस्तु, रतित्वाविशेषात् । अस्तु वा भगवङ्भक्तरेव स्थायित्वम्, कामिन्यादिरतीनां च भावत्वम्, विनिगमकाभावात्, इति वाच्यम्। भरतादिमुनिवचनानामेवात्र रसभावत्वादिव्यवस्थापकत्वेन स्वातक्र्ययो- गात्। अन्यथा पुत्रादिविषयाया अपि रतेः स्थायिभावत्वं कुतो न स्यात्। न स्याद्वा कुतः शुद्धभावत्वं जुगुप्साशोकादीनाम्, इत्यखिलदर्शने- वैयाकुली स्यात्। रसानां नवत्वगणना च सुनिवचननियत्तिता भज्येत, इति यथाशास्त्रमेव ज्यायः । एतेषां परस्परं कैरपि सहाविरोध: कैरपि विरोधः। तत्र वीरशृङ्गारयोः, शृङ्गारहास्ययोः, वीराद्भुतयोः, वीररौद्रयोः, शृङ्गाराङ्ुतयोश्चाविरोधः। शृङ्गारवीभत्सयोः, शङ्गारकरुणयोः, वीरभयानकयोः, शान्तरौद्रयोः, शान्तशृङ्गारयोश्च विरोधः । तन्र कविना प्रकृतरसं परिपोष्ठुकामेन तद्भिव्यञ्जके काव्ये तद्विरुद्रसाङ्गानां निबन्धनं न कार्यम्। तथा हि सति तद्भिव्यक्तौ विरुद्धः प्रकृतं बाधेत। सुन्दोपसुन्दन्यायेन वोभयो-

तथा चानुभवापलापः कर्तुमशक्य इति भावः। नन्वेवमपि स्थायिभावाभावान्नाधिक्य- मत आह-भगेति। अज्जितोऽभिव्यक्तो व्यभिचारिभावः। तथाशब्दश्वार्थे। प्राचा प्रकाशकृताम् । अतिप्रसङ्गं दत्त्वा वैपरीत्यमाह-अस्तु वेति । अत्र शास्त्रे।

वत्मित्यर्थः । दर्शनं शास्त्रम्। भक्तिरसस्यातिरिक्तलाङ्गीकारे दोषान्तरमाह-रसाना मिति। नियन्त्रिता नियमिता। एतेषां रसानाम्। विरोध इति। अन्ये तूदासीनाः। यथा शान्ताद्भुता, वीरबीभत्सावित्यादीति बोध्यम्। तद्भीति। विरुद्धरसाङ्गाभीत्यर्थः। तस्य बाधकले नियामकाभावादाह-सुन्दोपेति। एकत्र काव्ये। तत्र तयोर्मध्ये। विरो- १ रस-भावत्वादिव्यवस्थापने भरतादिवचनानामेव स्वातव््ययोगोस्ति, नान्यवचनाना- मित्याशयः । 'स्वातन्रयायोगात्' इति पाठे तु-भरतादिवचनानामेव व्यवस्थापकत्वेन अन्य- संबन्धिवचनानां व्यवस्थापने स्वातक्र्यस्याडयोगात् (अनवसरात्) इत्यर्थः । २ व्याकुलता, भावेऽनूप्रत्ययः ।

Page 120

५८ काव्यमाला। [प्रथमानने-

रुपहतिः स्यात्। यदि तु विरुद्धयोरपि रसयोरेकत्र समावेश इष्यते तदा विरोधं परिहृत्य विधेयः । तथा हि-विरोधस्तावद्विविधः स्थितिविरोधो ज्ञानविरोधश्च। आद्यस्तदधिकरणवृत्तितारूपः । द्वितीय स्तज्ज्ञानप्रतिबध्य- ज्ञानकत्वलक्षणः । तत्राधिकरणान्तरे विरोधिनः स्थापने प्रथमो निवर्तते। यथा नायकगतत्वेन वीररसे वर्णनीये प्रतिनायके भयानकस्य। रसपदेनात् प्करणे तदुपाधि: स्थायिभावो गृह्यते। रसस्य सामाजिकवृत्तित्वेन नायका- द्यवृत्तित्बान्, अद्वितीयानन्दमयत्वेन विरोधासंभवाच्च। उदाहरणम्- 'कुण्डली कृत कोदण्डदोर्दण्डस्य पुरस्तव। मृगारातेरिव मृगा: परे नैवावतस्थिरे।।' रसान्तरस्याविरोधिन: संधिकतुरिवान्तरालेऽवस्थापने द्वितीयोSपि निवर्तते। यथा मन्निर्मितायामाख्यायिकायां कण्वाश्रमगतस्य श्वेतकेतोर्म- हर्षे: शान्तरसप्रधाने वर्णने प्रस्तुते 'किमिद्मनाकलितपूर्व रूपम्, कोऽयमनिर्वाच्यो वचनरचनाया मधुरिमा' इत्यद्ुतस्यान्तरवस्थापनेन वरवर्णिनीं प्रत्यनुरागवर्णने।

घिनः । रसस्येति शेषः । प्रथमः स्थितिविरोधः । भयानकस्य। स्थापने इति शेषः । रसस्य मुख्यरसस्य। अत एवाह-अद्वितीयेति। उदेति। उत्तरीत्या आद्यविरोधाभा- नोदाहरणमित्यर्थः । कुण्डलीति। बहुव्रीहिद्धयम्। मृगारातेः सिंहस्य। परे शत्रवः । अन्तराले विरुद्धरसयोर्मध्ये। वरवर्णिनीं तदाख्यनायिकाम्। व्योम्नि विमानगा इत्यन्वयः। १ यस्मिन्नधिकरणे वाधको विरोधी रसो भवति तत्र बाध्यस्य अवृत्तिता अस्थितिः । २ तस्य (विरोधिरमस्य) व्वानेन बाव्यं ज्वानं यस्य तत्त्वम्। अर्थात् द्वयोरपि रसयोज्ञानं परस्परं प्रतिद्न्दि भवेत्। 'प्रतिबद्धे'तिपाठे विरोवि-ज्ञानेन प्रतिबद्धं बाधितं ज्ञानं यस्य तत्वमित्यर्थः । 'प्रतिबद्धज्ञानजनकत्व'मिति काशीपाठस्तु स्थूल एवं। ३ रसस्याSSनन्दस्फूर्तो द्वितीयस्य वेद्यस्य प्रतीतिरेव न भवतीति केनच्वित्सह विरोधप्रतीतेः का कर्थत्याशयः ४ विरोधनिवृत्ते: प्रथमप्रकारस्योदाहरणम्। सज्जितकोदण्डे नायके वीरः, परेषु (शत्रुषु) मयानक इति। ५ कुण्डलीकृतः कोदण्डो याभ्यामिति बहुव्रीह्युत्तरं कुण्डलीकृतकोदण्डौ दोर्दण्डौ यस्येति पुनर्बहुनीहिः।

Page 121

बसभेदा: ] रसगङ्गाघरः । ५९

यथा वा- 'सुराङ्गनाभिराश्लिष्टा व्योम्नि वीरा विमानगा: । विलोकन्ते निजान्देहान्फेरुनारीभिरावृतान्।।' अत्र सुराङगनामृतशरीरालम्बनयोः शृङ्गारवीभत्सयोरन्तः स्वर्गलाभा- क्षिप्तो वीररसो निवेशितः । अन्तर्निवेशश्च तदुर्भयचर्वणाकालान्तर्वर्ति- कालगतचर्वणाकत्वम्। तच्च प्रकृतपद्ये पथमार्ध एव शृङ्गारचर्वणोत्तरं वीरस्य चर्वणादनन्तरं च द्वितीयार्घे वीभत्सस्येति स्फुटमेव। 'भूरेणु- दिग्धान्' इत्यादिकाव्यप्रकाशगतपद्यकद्म्वे तु प्रथमश्ुतवीभत्ससामग्रीव-

वीरस्य चर्वणे शङ्गारचर्वणेति विवेकः। इत्थं चोदासीनचर्वणेन प्रतिबन्ध- कज्ञाननिवृत्तौ निष्प्रत्यूहः प्रतिबध्यचर्वणोदय इति फलितोऽर्थः । अङ्गा- ङ्विनोः, अङ्गिन्यैन्यस्मिन्नङ्गयोर्वा न विरोधः, अङ्गत्वानुपपत्तिप्रसङ्गात्।

फेरुनारीभिर्जम्वुकस्त्रीभिः। अत्र सुराङेति। यथासंख्यमन्वयः। सवर्गलाभश्च पूर्वा- र्धेन प्रतिपादितः । तदुभयेति। विरुद्वरसद्वयेत्यर्थः । चर्वणात् क्रमेण पादद्वयेनेति भावः । बीभत्सस्य चर्वणादित्यस्यानुषङ्गः । तच्चत्यस्य स्फुटमेवेत्यत्रान्वयः । चर्वणे। सतीति शेषः । विवेको भेदः। द्वितीय विषयमुपसंहरति-इत्थं चेति। उक्तप्रकारेण्ड चेत्यर्थः। उदेति मध्ये इत्यादिः। निवृत्तौ। ज्ञानस्य त्रिक्षणावस्थायित्वादिति भावः । प्रकारान्तरेण विरोधं परिहरति-अङ्गाङ्गिनोरिति । पुनरन्यथा तं परिहरति- अद्गिनीति। अङ्गत्वेति । एकाङ्गिनिरूपितेत्यादिः तत्राद्योदाहरणमाह- १ तयोरुभयोः (बाव्यवाधकरसयोः) चर्वगाकालान्वंतिनि काले गता चर्वणा यस् तत्वम्। २ तस्य (बीभत्सस्य) सामग्र्या आक्षिप्ता निःशङ्कप्राणत्यागादिरूपा सामग्री यस्य (वीरस्य) : ३ पण्डितराजपदे (सुराङनाभिरित्यादिनि) पूर्व शङ्गारस्ततो वीरः (उदासीनरसः) ततो विरोधी वीभत्सः, इति क्रमः । प्रकाशे तु पूर्व बीभत्सस्ततो वीरस्ततश्च श्रृङ्गार इति क्रमः । अयमेव भेदः । ४ यौ रसौ परस्परमङ्गाङ्गिनौ (अर्थात् एको रसः अङ्गम्, अन्यश्चाङ्गी) तयोन मिथो विरोधः। यथा-प्रत्युद्गतेत्यग्रिमपदे; यया सामघया शङ्गारो व्यज्यते नयैव प्रकरणवशा- स्करुण इति विरुद्धयोरप्यनयोः, करुणरसप्रकर्षकतया शृङ्गारस्याङ्गत्वात् अङ्गिना करुणेन सह न विरोधः । ५ अङ्गिनि अन्यस्मिन् रसे, अङ्गभूतयोरपि विरुद्धरसयोन विरोधः । एकस्मिन्नङ्गत्वं हि अवि- रुद्धयोरेवोपपद्यते न विरुद्धयोरिति उपपत्तेः । उदाहरणम् 'उत्क्षप्ताः' इत्यादि।

Page 122

६० काव्यमाला। [प्रथमानने-

यथा

'प्रत्युद्गता सविनयं सहसा सखीभिः स्मेरैः स्मरस्य सचिवैः सरसावलोकैः। मामद्य मञ्जरचनैवेचनैश्रच बाले हा लेशतोऽपि न कथं वद सत्करोषि।' इयं च पुरो निपतितां प्रमीतां नायिकां प्रति नायकस्योक्तिः । इह नायिकालम्बना, अश्रुपातादिभिरतुभावैरावेगविषादादिभिः संचारिभिश्च व्यज्यमाना नायकगता रतिस्तुल्यसामशर्यभिव्यक्त प्रकृतत्वात्प्रधानीभूते तद्रत एव शोके प्रकर्षकत्वादङ्गम्। यदि तु नायकगता रतिर्नान्र प्रती- यते किं तु निरुक्तसामग्र्या शोके एव प्रकृतत्वादित्यागृह्यते, तदा नाय- कालम्बना प्रत्युद्गमाद्यनुभाविता हर्षादिभि: पोषिता नायिकाश्रया रतिरेवे तत्राङ्गमस्तु। नायिकागतरतेर्नाय कशोकप्रकर्षहेतुतायाः सर्वसंमतत्वात्। न च नायिकाया नाशात्तदृताया रतेरसंनिधानात्कथमङ्गतेति वाच्यम् । संनिधानस्याङ्गतायामतन्नत्वेन स्मर्यमाणायास्तस्या अङ्गत्वोपपत्तेः। अङ्गयोयथा- 'उ्क्षिप्ताः कबरीभरं विवलिताः पार्श्वेद्वयं न्यक्कताः पादाम्भोजयुगं रुषा परिहता दूरेण चेलाञ्नलम् ।

प्रत्युद्गतेति। प्रमीतां मृताम्। तुल्यसामग्रीति। उक्तसामग्रीसजातीयेत्यर्थः । तद्गते एव नायकगते एव। नात्रेति। नैवात्रेत्यर्थः। निरुक्तेति। नायिकालम्बनेत्यादिनेति भावः। आगृह्यते आग्रहः करियते। तन्र शोके नायकशोकेति। नायकनिष्ठशोकेत्यर्थः । अतन्त्रलेनाकारणत्वेन। अङ्गयोरित्यस्यैकस्मिन्नङ्विनीत्यादिः । उत्क्षिप्ता उन्नतीकृताः ।

१ प्रकृतत्वात् (प्रकरणात्) शोक एव प्रतीयते इत्यन्वयः । २ अङ्गयो रसयोरविरोधविचारं प्रतिज्ञायं रतेरङ्गता न वक्तव्या, अपि तु 'करुणरसं प्रति नायिकानिष्ठः शृङ्गार एवाङ्गमस्तु' इति शृङ्गाररसस्याङ्गता वाच्या। इति तु न शङ्कितव्यभ 'गुणीभूतस्य रत्यादेरन रसध्वनिव्यपदेश्यत्वन्' इति (पृ. ४१) पूर्वोक्ताऽनुगमानुसारमेव स्थायिनान्ना व्यपदेशात। एवमन्यत्राप्येवंविधे स्थले बोद्धव्यम्।

Page 123

विरोविरससमावेश: ] रसगङ्गाघरः । ६१

गृहन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां यान्तीनां गहनेषु कण्टकचिता: के के न भूमीरुहाः ॥' अत्र समासोक्त्यवयवाभ्यां तरुकोमिकर्तकरिपुकामिनीकबर्यादिग्रह- णरूपाभ्यां प्रकृताप्रकृतव्यवहाराभ्यां व्यक्तयोः करुणशृङ्गारयो राज- विषयकरतिभावाङ्गत्वम्। कि च प्रकृतरसपरिपुष्टिमिच्छता विरोधिनो- डपि रसस्य बाध्यत्वेन निबन्धनं कार्यमेव। तथा हि सति वैरिविजयकृता वर्ण्यस्य कापि शोभा संपद्यते। बाध्यत्वं च रसस्य, प्रबलैर्विरोधिनो रस- स्याङ्गैर्विद्यमानेष्वपि खाङ्गेषु निष्पत्तेः प्रतिबन्धः। व्यभिचारिणो बाध्यत्वं तु तदीयरसनिष्पत्तिप्रतिबन्धमात्रात्, न त्वनभिव्यक्त्या, अभिव्यक्तौ बाधकाभावात्। न च विरोध्यङ्गाभिव्यक्त्या प्रतिबन्धान्नाभिव्यक्तिरिति

विवलिता वक्रीकृताः । न्यक्कता अधःकृताः । ग्रहणे हेतुगर्भ विशेषणं कण्टकचिता इति। कण्टकव्याप्ता इत्यर्थः । तरुकामीति। एतदुभयकर्तृकेत्यर्थः । रतिभावेति। कविनि- छ्ठेत्यादिः । एकत्र काव्ये। पुनः प्रकारान्तरेण विरुद्धत्वाभिमतयोर्निबन्धे न दोष इत्याह- किं चेति। इच्छतेति । कविनेति शेषः । काप्यनिर्वचनीया। रसस्येत्यस्य पूर्वत्रेव निष्पत्तेरित्यत्राप्यन्वयः । तदीयेति । व्यभिचारभावीयेत्यर्थः । अनभीत्यस्य व्यभिचारिभावस्येत्यादिः । एवमप्रेऽपि। विरोध्यङ्गेति। विरोधिनो रसस्याङगेत्यर्थः ।

१ के के भूमीरुहाः उत्क्षिप्ताः सन्तो वामभ्नुवां कवरीभरन्, विवलिताः (वक्रीकृताः) पार्श्रद्वयम्, न्यकृता: पादाम्भोजयुगम्, दूरेण परिहृताश्चेलाव्चलन् त्वरया न गृद्धन्ति, अपि तु सर्व एव गृह्णन्तीत्यन्वयः । २ तरुकर्तृको रिपुकामिनीकबर्यादिग्रहः प्रकृतो व्यवहारः, कामिकर्तको व्य्नया भास- मानश्च सोऽप्रकृतव्यवहारः । समासोक्तिनिष्पादकाभ्यामाभ्यां यथासंख्यं करुणः शङ्गारश्चा- भिव्यज्येते। मिथो विरोधिनावपीमौ रसौ पद्ये प्रधानभूताया राजविषयकरतेरङ्गभूतौ (परिपो- धकौ), ततश्चाङ्कयोरनयोन विरोध इति भावः । ३ स्वस्य अङ्गेषु (अभिव्यक्ननोपकरणेषु) विद्यमानेष्वपि, विरोधिरसस्य प्रबलरङ्वैः (अर्थात्तेषां प्राबल्यात्) कस्यच्वित् (बाध्यस्य) रसस्य अनभिव्यक्तिरेव बाध्यत्वमिति भावः । ४ अर्थात् यस्य रसस्य संचरणम् (पोषणम्) अय संचारी करोति तस्य रसस्य प्रतिबन्धे सति अस्य व्यभिचारिणो वाध्यत्वं जायते, न त्वस्य व्यभिचारिण एवाऽनभिव्यक्या। ५ ननु विरोधिनो रसस्य अङ्गभूता ये व्यभिचारिणस्तेषामभिव्यत्तया प्रकृतस्य व्यभिचा-

६ रस०

Page 124

६२ काव्यमाला। [ प्रथमानने-

वाच्यम्। तव्यञ्जकशव्दार्थज्ञानसमये विरोध्यङ्गाभिव्यञ्ञकशब्दार्थज्ञान- स्यासंनिधानात् प्रतिवध्यप्रतिबन्धकभावकल्पने मानाभावात्, भावश- चलताया उच्छेदापत्तेश्च। रसनिष्पत्तेः प्रतिबन्धस्त्वनुभवसिद्ध इति तां प्रत्येव विरोध्यङ्वानां बलवतामभिव्यक्कः प्रतिबन्धकत्वं न्याय्यम्। अपि च यत्र साधारणविशेषणमहित्रा विरुद्धयोरभिव्यक्तिस्तन्नापि विरोधो निवर्तते। यथा- नितोन्तं यौवनोन्मत्ता गाढरक्ताः सदाहवे। बसुन्धरां समालिङ्ग्य शेरते वीर तेऽरयः ॥' इत्थमविरोधसंपादनेनापि निबध्यमानो रसो रसशव्देन शङ्गारादिश- ·दैर्वा नाभिधातुमुचितः, अनास्वाद्यतापत्तेः । तदास्वाद्श्च व्यञ्जनमात्र- निष्पाद्य इत्युक्तत्वात्। यत्र विभावादिभिरभिव्यक्तस्य रसस्य स्वशब्दे- नाभिधानं तत्र को दोष इति चेत्, व्यङ्गयस्य वाच्यीकरणे सामान्यतो वमनाख्यदोषस्य वक्ष्यमाणत्वात्। आस्वाद्यतावच्छेदकरूपेण प्रत्ययाजन- कतया रसस्थले वाच्यवृत्तः कापेयकल्पत्वेन विशेषदोषत्वाच्च। एवं स्थायि-

तव्यअ्ञकेति। व्यभिचारिभावव्यज्ञकेत्यर्थः । असंनिधानान्ष्टलवात्। ननु संस्कारस्यैव तत्त्वमास्तामत आह-भावेति। नन्वेवं रसनिष्पत्तिप्रतिबन्धोऽपि न स्यादत आह- रसेति। पुनरन्यथा तं परिहरति-अपि चेति। अत्र रक्तं रुधिरम्, अनुरागश्च, इति साधारणत विशेषणस्य। तद्वलात्करुणशृङ्गारयोरभिव्यक्ति:। एवमविरोधानुक्ता दोषा- नाह-इत्थमिति। उक्तप्रकारैरित्यर्थः । शङ्गते-यत्रति। सामान्यदोषमुक्ता विशे- -आस्वाद्यति। कापेयेति। वानरचेष्टिततुल्यब्लेनेत्यर्थः। एवं रसवत् दोषा- १ यस्मिन्काले प्रस्तुतस्य व्यभिचारिणः शब्दार्थाभ्यामभिव्यअ्जनं तस्मिन्समये (अर्थात् युगपत्) विरोधिरसाङ्गानां भावानामभिव्यञ्जका ये शब्दार्थाः तेषां ज्ञानं न भवितुमर्हति इति द्वयोर्व्यभिचारिणोमिंथो बाध्यबाधक एव नास्तीति समाधानम्। २ यौवनोन्मत्ताः, गाढरक्ताः, वसुन्धरां समालिङ्ञय, इति त्रिभिरथ्यरिविशेषणैस्तषां मृतौ करुणस्तु प्रतीयत एव। परं यौवनोन्माद-गाढानुरागालिङ्गनादिभिः शृङ्गारोप्यभिव्यज्यते इति त्रयाणामेव साधारणता। गाढरक्ता इत्यस्यैव साधारणत्वं वदन्नागेशस्तु विचार्य एव। ३ येन रूपेण रसस्य आस्वाद्यता भवेत्तेन रूपेण वाच्यवृत्ति: प्रत्ययाऽजनिका (बोधस्याङ्- संपादयित्री) अत एव रसस्थले वाच्यवृत्ति: (रसशब्देन शृङ्गारादिशब्दैर्वाSभिधानम्) कापेय- कल्पा। कपिर्यथा अस्थाने चेष्टां करोति तथैव सोयं व्यवसाय इत्याशयः ।

Page 125

रसदोषा:] रसगङ्गाधर: ६३

व्यभिचारिणामपि शब्दवाच्यत्वं दोषः । एवं विभावानुभावयोरसम्यक्प्र- त्यये विलम्बेन प्रत्यये वा न रसास्वाद इति तयोर्दोषत्वम्। समवलप्रवलप्र- तिकूलरसाङ्गानां निबन्धनं तु प्रकृतरसपोषप्रातीपिकमिति दोषः । प्रवन्धे प्रकृतस्य रसस्य प्रसङ्गान्तरेण विच्छिन्नस्य पुनर्दीपने सामाजिकानां न सामग्रयेण रसास्वाद इति विच्छिन्नदीपनं दोषः। तथा तत्तद्रसप्रस्तावनान- हैऽवसरे प्रस्तावः, विच्छेदानर्हे च विच्छेदः । यथा संध्यावन्दनदेव- यजनादिधर्मवर्णने प्रसक्ते कयापि कामिन्या सह कस्यचित्कामुकस्यानु- रागवर्णने। यथा च समुपस्थितेषु महाहवदुर्मदेपु प्रतिभदेषु मर्मभिन्दि वचनान्युद्विरत्सु नायकस्य संध्यावन्दनादिवर्णने® चेत्युभयमनुचितम् । एवमप्रधानस्य प्रतिनायकादेरनानाविधानां चरितानामनेकविधायाश्च संपदो नायकसंचन्धिभ्यस्तेभ्यो नातिशयो वर्णनीयः । तथा सति वर्णयितुमिष्टो नायकस्योत्कर्षो न सिद्येत्। तत्प्रयुक्तो रसपोषश्च न स्यात्। न च प्रतिनायकोत्कर्षस्य तद्भिभावकनायकोत्कर्षाङ्गत्वात्कथमवर्णनीयत्वमिति वाच्यम्। यादशस्य प्रतिनायकोत्कर्षवर्णनस्य तद्भिभावकनायकोतकर्षा- ङ्गतासंपादकत्वं तादृशस्येष्टत्वात्। तद्विरोधिन एव निपेध्यत्वात्। न च प्रतिपक्षस्य प्रकृतापेक्षया वर्ण्यमानोऽ्युत्कर्षः स्वाश्रयहन्तृतामात्रादेव

न्तरमाह-एवमिति। उक्तदोषवदित्यर्थः। तयोर्दोषत्वमिति। तदविषयकासम्यक्प्र- त्ययविलम्बप्रत्यययोरित्यर्थः । दोषान्तरमाह-समवलेति। रसाङ्गविशेषणम्। प्राती- पिकं प्रतिकूलतासंपादकम् । विरुद्धमिति यावत्। दोष इति। तदेव दोष इत्यर्थः । दोषान्तरमाह-प्रबन्ध इति। सामग्र्येण साकल्येन। दोषान्तरद्वयमाह-तथेति। द्वितीयमुदाहरति-समुपेति। इतः प्राग्यथा वेत्यपपाठः। दोषान्तरमाह-एवमिति। तेभ्यो नानाचरितादिभ्यः । तत्प्रयुक्त उत्कर्षप्रयुक्तः। तद्भीति । तत्तिरस्कारकारी- त्वर्थः । ननु सर्वत्रोत्कर्षसंपादकलं नोक्तवैम्रम्यमित्याशयेन शङ्कते-न चेति। स्वाश्र- १ समानबलानां प्रबलानां वा विरोधिरसस्याङ्गानाम्। २ दोषोऽस्तीति पूर्वेण संबन्धः । ३ अत्र अनवसरे शृङ्गारस्यावतारः । ४ विच्छेदानहें समये वीरस्य (रौद्रस्य वा) विच्छेद इति दोषः । ५ प्रकृतस्य नायकस्यापेक्षया। ६ स्वम् उत्कर्षः, तदाश्रयः प्रतिनायकः, तस्य हननमात्रादेव। अर्थात् उत्कर्षाश्रयस्य प्रति- नायकस्यायं हन्ता, अत एव प्रकृतनायकस्योत्कर्षम् अतिशाययेत् अतिशयितं कुर्यात्।

Page 126

६४ काव्यमाला। [प्रथमानन-

प्रकृतगतमुत्कर्षमतिशाययेत्, अतो न दोषावह इति वाच्यम्। एवं हि सति महाराजं कमपि विषशरक्षेपमात्रेण व्यापादितवतो वराकस्य शबर- स्येव प्रकृतस्य नायकस्य न कोऽप्युत्कर्षः स्यादिति । तथा रसालम्ब- नाश्रययोरनुसंधानमन्तरान्तरा न चेद्दोषः। तदतुसंधानाधीना हि रसप्रति- पत्तिधारा तद्ननुसंधाने विरता स्यात्। एवं प्रकृतरसानुपकारकस्य वस्तुनो वर्णनमपि प्रकृतरसविरामहेतुत्वाद्दोष एव। अनौचित्यं तु रसभङ्गहेतुत्वात्परिहरणीयम्। भङ्गश्च पानकादिरसादौ सिकतादिनिपातजनितेवारुन्वुदता। तच जाति देशकालवर्णाश्रमवयोवस्था- प्रकृतिव्यवहारादेः प्रपश्नजातस्य तस्य तस्य यल्लोकशास्त्रसिद्धमुचितद्रव्य- गुणक्रियादि तद्ेदः। जात्यादेरनुचितं यथा-गवादेस्तेजोबलकार्याणि पराक्रमादीनि, सिंहादेश् साधुभावादीनि। स्वर्गे जराव्याध्यादि, भूलोके सुधासेवनादि। शिशिरे जलविहारादीनि, ग्रीष्मे वह्निसेवा। ब्राह्मणस्य मृगया, बाहुजस्य प्रतिग्रहः, शूद्रस्य निगमाध्ययनम्। ब्रह्मचारिणो यतेश्च ताम्बूलचर्वणम्, दारोपसंग्रहः। बालवृद्धयोः स्त्रीसेवनम्, यूनश्च विरागः। दुरिद्राणामाढ्याचरणम्, आढ्यानां च दरिद्राचारः । प्रकृतयो दिव्या:, अदिव्याः, दिव्यादिव्याश्च। धीरोदात्तधीरोद्धतधीरललितधीरशान्ता उत्साहक्ोधकामिनीरतिनिर्वेदप्रधाना उत्तममध्यमाघमाश्च। तत्र रैत्यादीनां भयातिरिक्तस्थायिभावानां सर्वत्र समत्वेऽपि, रतेः संभोगरूपाया मनुष्ये-

येति। उत्कर्षाश्रयप्रतिपक्षकर्मकहननकर्तृतमात्रादेवेत्यर्थः। मात्रपदेनोक्तवैषम्यव्यावृत्तिः । विषेति। तत्संबद्धबाणेत्यर्थः । वराकस्य दीनस्य। दोषान्तरमाह-तथेति। रसस्या लम्बनाश्रययोरित्यर्थः । अन्तरान्तरा मध्ये मध्ये। तदुपपादयति-तदन्विति। तयोसता- दृशान्वित्यर्थः। दोषान्तरमाह-एवमिति।दोपान्तरमाह-अनौचीति। तुरुक्तप्रका- रव्यवच्छेदाय। तदाह-रसेति। अत एवाह-भङ्गश्चेति। अरुन्तुदता मर्मच्छेदिता। तच्चानौचित्यं च। प्रपश्चजातस्य प्रपञ्चसमूहस्य। बाहुजस्य क्षत्रियस्य । निगमो वेदः । संग्रहः संग्रहृश्च। प्रकृत्यन्तरमाह-धीरोदान्तेति। धीरोदात्तादीनां चतुर्णां चत्ारि यथासंख्येनाह-उत्साहेति। प्रकृत्यन्तरमाह-उत्तमेति। तत्र तासां मध्ये। सर्वत्र १ तस्य तस्य सांसारिकपदार्थसमूहृस्य (जाति-देश-कालादेः)। २ तस्मात (उच्चितद्रव्यगुणक्रियादेः) मेदो भिन्नता। ३ भयातिरिक्तानां रत्यादीनां स्थायिभावानामित्याशयः ।

Page 127

गुणा: ] रसगङ्गाघर: ६५

ष्विवोत्तमदेवतासु स्फुटीकृतसकलानुभाववर्णनमनुचितम्। क्रोधस च

व्येषु। आलम्बनगताराध्यत्वस्यानुभावगतमिथ्यात्वस्य च प्रतीत्या रसानुल्लासापत्तेः। न च साधारणीकरणादाराध्यत्वज्ञानानुत्पत्तिरिति वाच्यम्। यत्र सहृदयानां रसोद्वोध: प्रमाणसिद्धस्तन्रैव साधारणीकरणस्य कल्पनात्। अन्यथा स्वमातृविषयकस्वपितृरतिवर्णनेSपि सहृद्यस्य रसोद्वोधापत्तेः। जयदेवादिभिस्तु गीतगोविन्दादिप्रबन्धेषु सकलसहदय संमतोऽयं समयो मदोन्मत्तमतङ्गजैरिव भिन्न इति न तन्निदर्शनेनेदानी- तनेन तथा वर्णयितुं सांप्रतम् । तथा विद्यावयोवर्णाश्रमतपोभिरुत्कृष्टैः स्वतोऽपकृष्टेषु न सबहुमानेन वचसा व्यवहर्तव्यम्। व्यवहर्तव्यं चाप- कृष्टैरुत्कृष्ठेषु। तन्रापि तत्रभवन्भगवन्नित्यादिभिः संबोधनैमुनिगुरुदेवता- प्रभृतय एव न राजादयः, जात्योत्तमैर्द्विजैरेव नाधमैः शूद्रादिभिः, परमेश्वरेत्यादिसंबोधनैश्चक्रवर्तिन एव न मुनिप्रभृतयः संबोध्याः।

सर्वासु प्रकृतिषु। स्फुटीकतेति । स्फुटीकृताः सकलानुभावा यस्मिन्कर्मणि यथा- तथेति क्रियाविशेषणमेतत्। अदिव्येषु वर्णनमनुचितमित्यस्यानुषङ्गः । साधारणीति। यथा चतत्तथा प्राक्प्रतिपादितम्। अन्यथा सर्वत्र साधारणीकरणे। समयः संकेतः । तन्निदर्शनेन तदृष्टान्तेन। मदोन्मच्चेति। दृष्टान्तोल्वेखेन नेदने उन्माद एव कारणम्, न तु युक्तिरिति सूचितम् । अत एव सांप्रतं तदनाश्रयणमिति भावः । एवं प्रकृत्यन्तानौचि- त्यमुक्ला व्यवहारानौचित्यमाह-तथेति। खतः खेन रूपेणैवेत्र्थः । सबह्निति। तत्सहितेनेत्यर्थः । 'संबहु' इति पाठे सम्यग्बहुमानो यत्र वचसि तेनेत्यर्थः। व्यवेति। तादृशेन वचसेति भावः। व्यवहर्तृनियममाह-जात्योत्तमैरिति। ब्राह्मणक्षत्रियवैश्यै-

१ लोकभस्मीकरणपटोः, दिनस्थाने रात्रिः रात्रिस्थाने दिनमिति परिवर्तनकारिणः क्रोधस्य अदिव्येषु वर्णनम् इति योजना। २ दिव्येष्वालम्वनेषु आराध्यत्वस्य, अदिव्येषु पूर्वोक्तानामनुभावानाम् (असामान्यक्रो- धादेः) मिथ्यात्वस्य च प्रतीत्या अभीष्टो रसोल्ासो न भवेदिति तात्पर्यम्। ३ भट्टनायकमते भावकत्वव्यापारेण, नव्यरीत्या च सहृदयतोल्लासितस्य भावनाविशेष- रूपस्य दोषस्य महिन्ना (पृ. ३०-३१) साधारणीकरणं प्रतिपादितम् ।

Page 128

६६ काव्यमाला [प्रथमानने-

तथा चाहु :- 'अनौचित्याहते नान्यद्रसभङ्गस्य कारणम्। प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ॥' इति। यावता त्वनौचित्येन रसस्य पुष्टिस्तावच्ु न वार्यते, रसप्रतिकूलस्यैव तस्य निषेध्यत्वात्। अत एव 'ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां स्वल्पं जल्प बृहस्पते जडमते नैषा सभा वज्तिणः। वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो सीतारेल्लकभल्लभग्नहृदय: स्वस्थो न लङ्केश्वरः ॥' इति कस्यचिन्नाटकस्य पद्ये विप्रलम्भशङ्गाराङ्गीभूतवीररसाक्षेपकपर- मैश्वर्यपरिपोषकतया स्थितदौवारिकवचनस्य ब्रह्माद्यधिक्षेपपरस्यानौचित्यं न दोषः । एवमेव 'अले ले सदःसमुप्पाडिअहरियकुसग्गंथिमयाच्छमा- लापइवित्तिविस्संभिअबालविह्वंद:कअणा बम्हणा' इत्यादिविदृषकवच- नेडपि रेशव्दादिप्रयोगस्य तत्तथा, हास्यानुगुणत्वात्। एषा हि दिगुप- दर्शिता। अनया सुधीभिरन्यद्प्यूह्यम्।

रित्यर्थः। अनौचित्यं लित्यायुक्तेऽर्थे संमतिमाह-तथा चाहुरिति। परोत्कृष्टा। उपनिषदिव, यथा सा ब्रह्मणः प्रतिपादिका तथायं रसस्येति भावः । तत्र विशेषमाह यावतेति। तस्यानौचित्यस्य। अत एव पोषकस्य तस्यावार्यतादेव। न दोष इत्यन्ना- स्यान्वयः । ब्रह्मन्निति । रावणद्वारि समागतान्ब्रह्मादीन्प्रति दौवारिकस्येयमुक्तिः । बहिस्तूष्णीं स्थीयताम्। वहुभाषित्वादेव जडमतिलम्। स्तुतीत्याद्युत्तरान्वयि। सीताया रलकः सीमन्तसरणिरेव भल्लो बाणस्तेन भमं हृदयं यस्य सः। 'शिरःसिन्दूरसरणिः स्त्रीणामारह्लकं स्मृतम्' इति हलायुधः । विप्रलम्मेति। सीक्षाविषयेत्यादिः। उदाहर- णान्तरमाह-एवमेवेति। तत्तथेत्यत्रान्वयः । अले ले इति। 'अरे रे सद्यःसमुत्पा- टितहरितकुशग्रन्थिमयाक्षमालापरिवृत्तिविस्त्रम्भितबालविधवान्तःकरणा ब्राह्मणाः' इत्यादि प्राकृतार्थः । तदनौचित्यं तथा न दुष्टम्। हास्यान्विति। तत्पोषकत्वादित्यर्थः। नेदं परिगणनम्, किं तूपलक्षणमित्याह-एषेति। दिक् रीतिः। अनया दिशा। निरतीति। १ 'औच्वित्योपनिबन्धस्तु' इति ध्वन्यालोकदृष्टः पाठः । २ रलको नेत्रपक्ष्मपङ्गिरिति स्थानान्तरे व्याख्या।

Page 129

गुणा: ] रसगङ्गाघर: ६७

रसेषु चैतेषु निवदितेषु माधुयौजःप्रसादाख्यांस्त्ीन्गुणानाहुः । तत्र शृङ्गारे संयोगाख्ये यन्माघुर्य ततोऽतिशयितं करुणे, ताभ्यां विप्रलम्भे, तेभ्योऽपि शान्ते। उत्तरोत्तरमतिशयितायाश्चित्तद्ुतेर्जननात्' इति केचित्। संयोगशङ्गारात्करुणशान्तयोस्ताभ्यामपि विप्रलम्भे' इत्यपरे। 'संयोग- शृङ्गारात्करुणविप्रलम्नशान्तेष्वतिशयितमेव न पुनस्तन्रापि तारतम्यम्' इत्यन्ये। तन्न प्रथमरचरमयोर्मतयोः 'करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम्' इति प्राचां सूत्रमनुकूलम्। तस्योत्तरसूत्रगतस्य क्मेणेति पदस्यापकर्धानपकर्षाभ्यां व्याख्याद्वयस्य संभवात्। मध्यस्थे तु मते करुणशान्ताभ्यां विप्रलम्भस्य माधुर्यातिशये यदि सहदयाना- मनुभवोऽस्ति साक्षी, तदा सप्रमाणम्।वीरबीभत्सरौद्रेष्वोजसो यथोत्तर- मतिशयः, उत्तरोत्तरमतिशयितायाश्चित्तदीप्ेर्जननात्। अद्भुतहास्यभयान- कानां गुणद्वययोगित्वं केचिदिच्छन्ति, अपरे तु प्रसादमात्रम्। प्रसादस्तु सर्वेषु रसेपु सर्वासु रचनासु च साधारणः । गुणानां चैषां द्रुतिदीप्निविकासाख्यास्तिस्रश्चित्तवृत्तयः क्रमेण प्रयोज्या:। तत्तँहुणविशिष्टरसचर्वणाजन्या इति यावत्। एवमेतेपु गुणेषु रसमात्रधर्मेषु व्यवसितेषु मधुरा रचना, ओजस्वी बन्ध इत्यादयो व्यवहारा आकारोडस्य

नितरामतिशयितमित्यर्थः । तन्नापि करुणविप्रलम्भशान्तेष्वपि। तन्माघुर्यम्। नन्वेक- तोऽर्थद्वयप्रतीत्यभावेन क्थ तयोसतो लाभोऽत आह-तस्योत्तरेति। 'दीह्यात्मवि- स्तृतेहेतुरोजो वीररसस्थिति। बीभंत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण तु ।।' इत्युत्तर- सूत्रेत्यर्थः । यदीत्यनेन तदभावः सूचितः। एवं त्रयाणां रसानां माधुर्यमुक्ला त्रयाणामो- जोगुणमाह-वीरेति। मात्रपदेनान्यगुणव्यावृत्तिः। एवं सति प्रसादोऽन्ययोर्नेति भ्रन- निवारणायाह-प्रसादस्त्विति। रचनासु चेति । एताः स्फुटीभविष्यन्ति । प्रयोज्याः, न तु जन्याः । तदेवाह-तत्तदिति। चर्वणासादः। व्यवेति। निश्चितेष्वि- १ ताभ्यां संयोगशृङ्गार-करुणाभ्यामतिशयितमिति पूर्वेण संबन्धः । एवं 'तेन्योऽपि' अन्रापि बोद्धव्यम्। २ संयोगशृङ्गारे यन्माधुर्य ततोऽतिशयितं करुणे, ताभ्यां विप्रलम्भे इत्यादिकं प्रथममतम् संयोगशृङ्गारात्करुणविप्रलम्भशान्तेष्वतिशयितमेवेत्यादिकं चरममतम्। ३ 'संयोगशृङ्गारात्करुणशान्तयोस्ताभ्यामपि विप्रलम्मे' इति। ४ माधुर्यौजःप्रसादा ये गुणास्तद्विशिष ये शृङ्गारवीराद्या रसास्तेषां चर्वणया जन्या इमा द्रुतिदीप्यादय इत्याशयः ।

Page 130

६८ काव्यमाला। [ प्रथमानने-

शूर इत्यादिव्यवहारवदौपचारिका इति मम्मटभट्टादयः। येडमी माधुयौज :- प्रसादा रसमात्रधर्मतयोक्तास्तेषां रसधर्मत्वे कि मानम्! प्रत्यक्षमेवेति चेतू, न। दाहादेः कार्यादनलगतस्योष्णस्पर्शस्य यथा भिन्नतयानुभवस्तथा हुत्या- दिचित्तवृत्तिभ्यो रसकार्येभ्योऽन्येषां रसगतगुणानामनतुभवात्। तादश- गुणविशिष्टरसानां द्रुत्यादिकारणत्वात्कारणतावच्छेदकतया गुणानामनु- मानमिति चेत्, प्रातिस्विकरूपेणैव रसानां कारणतोपपत्तौ गुणकल्पने गौरवात्। रङ्गारकरुणशान्तानां माधुर्यवत्त्वेन द्रुतिकारणत्वं प्रातिस्विरि- करूपेण कारणत्वकल्पनापेक्षया लघुभूतमिति तुन वाच्यम् । परेण मधुरतरादिगुणानां पृथद्द्रुततरत्वादिकार्यतारतम्यप्रयोजकतयाभ्युपगमेन

त्यर्थः। उक्तमतं दूषयन्समतमाह-येSमीत्यादि माहशाः इत्यन्तेन। तादृशेत्यस्य न खिल्यादिः। 'इति चेतू, न' इति पाठः । प्रातिस्विकेति। शङ्गारतादिनेति भावः । गुणेति। उक्तरीत्या तदन्यगुणकल्पन इत्यर्थः। शङ्कते-भृङ्गारेति। लघुभूतमिति। एककार्यकारणभावात्। तत्र तु त्रयमिति भावः। परेण मम्मटभट्टादिना। पृथक्पार्थक्येन। एवं च विशिष्य प्रयोज्यप्रयोजकभावेनैव निर्वाहे सामान्यकार्यकारणभावस्तुरीयो निष्फ-

१ अभिनिजन्यकार्यदाहो यथा अनञौ उष्णस्पर्शरूपाद् गुणात्पृथगनुभूयते, तथा रसेषु (शृङ्गारवीरादिषु) रसकार्याणि द्रुतिदीघ्यादय एव केवलमनुभूयन्ते, न ततः पृथङ माधुर्या- दयः केच्विद्गुणाः प्रतीयन्ते। ततश्च माधुर्यादयो रसस्य गुणा इति कथं प्रतीयतामित्याशयः । २ माधुर्यादिगुणविशिष्टा एव रसा द्रुत्यादीनां कारणानि (अर्थाद गुणसहकारादेव द्त्या- दिप्रयोजकत्वं तेषाम्) ततश्च कारणताऽवच्छेदकतया (कारणानि रसास्तेषां विशिष्टधर्मतया) गुणानामनुमानं स्यादिति पूर्वपक्षः । शृङ्गारत्वादिना केवलानां रसानामेव कारणतास्वीकारे लाघवमित्युत्तर: पक्षः । ३ ननु प्रातिस्विकरूपेण (शृङ्गारो द्रुतेः कारणम्, शान्तो द्रुतेः कारणम्, करुणो द्रुतेः कारणम्) इति त्रयः कार्यकारणभावाः कल्पनीयाः स्युरिति गौरवम् । 'शृङ्गारकरुणशान्ताः माधुर्यवर्वेन द्रुतेः कारणानि' इति गुणद्वाराऽनुगमे तु एक एव कार्यकारणभाव इति लाघवमिति शङ्ायाम्-मम्मटभट्टादिभि :- 'मधुरो रसः (शृङ्गारः) द्रुतेः कारणम्, मधुरतरो रसः (करुण:) अतिद्रुतेः कारणम्, मधुरतमो रसः (विप्रलम्भशृङ्गारः) अतितमां द्रुतेः कारणम्' इति पृथ- वपृथकारणता स्वीकर्तव्या। तथा च पूर्वोक्तकार्यकारणभावत्रयादधिकः सामान्योयं चतुर्थः कार्यकारणभावः (शृङ्गारादयो द्रुतिकारणानि, माधुर्यवत्त्वात्) तवैव 'गड'-(मेद-घेघा इत्यादि भाषायाम्)-स्थानीयत्वान्भारायित इत्युत्तरम्।

Page 131

गुणा: ] रसगङ्गाघर: । ६९

माधुर्यवत्वेन कारणताया गडुभूतत्वात्। इत्थं च प्रातिस्विकरूपेणैव कारणत्वे लाघवम्। कि चात्मनो निर्गुणतयात्मरूपरसगुणत्वं माधुर्यादी- नामनुपपन्नम्। एवं तदुपाधिरत्यादिगुणत्वमपि, मानाभावात्, पररीत्या गुणे गुणान्तरस्यानौचित्याच्च। अथ शङ्गारो मधुर इत्यादिव्यवहार: कथमिति चेत्, एवं तर्हिं द्रुत्यादिचित्तवृत्तिप्रयोजकत्वम्, प्रयोजकता- संबन्धेन द्ुत्यादिकमेव वा माधुर्यादिकमस्तु। व्यवहारस्तु वाजिगन्धो- ष्णेतिव्यवहारवदक्षतः। प्रयोजकत्वं चार्दष्ठादिविलक्षणं शब्दार्थरसर- चनागतमेव ग्राह्यम्। अतो न व्यवहारातिप्रसक्तिः । तथा च शब्दार्थ- योरपि माधुर्यादेरीद्शस्य सत्वादुपचारो नैव कल्प्य इति तु मादशाः । जरत्तरास्तु- 'श्लेषः प्रसाद: समता माधुर्य सुकुमारता।

लल्ाद्रडस्थानापन्न इति तदङ्ीकारे विपरीतं गौरवमिति भावः । तदाह-इत्थं चेति। तुरीयकार्यकारणभावाङ्गीकारे चेत्यर्थः । नन्वेवं तथैवास्तां तावतापि गुणसिद्धिरत आह-किं चेति। एवं रसवत्। गुणत्मप्यनुपपन्नमित्यस्यानुषङ्गः। अथेति। वेषां तदुभयगुणत्वाभावे इति भावः। लाघवादाह-प्रयोजकेति। ननु प्रयोजकतवस्यादृष्टा- दिसाधारण्यात्तत्रापि माधुर्यादिव्यवहारापत्तिरत आह-प्रयोजकत्वं चेति। आदिना कालादिपरिग्रहः । शब्दार्थेति चतुर्णा द्वन्द्वः। अतो न व्यवेति। इदमपरमत्र बोध्यम्। आह्लादकत्वरूपमाधुयस्याह्लादकरूपे रसे स्थिति: कर्थ वक्तुं युक्ता। शब्दवृत्तितानये गुणालंकारयोरभैदस्लेवम्-काव्यशोभाकारिणो गुणाः, तदतिशयहेतवोऽलंकारा इति। अत एव वामन :- 'युवतेरिव सर्वमङ्ग काव्यं खदते शुद्धगुणं तदप्यतीव । हतप्रणय निरन्तराभि: सदलंकारविकल्पकल्पनाभिः ॥' इति। तथा सति फलितमाह-तथा १ तेषां रसानामुपाधयो ये रत्यादिस्थायिभावाः तेषां गुणत्वमपि माधुर्यादीनामनुपपन्नम्, प्रमाणाभावात्। रसस्य गुणा रत्यादयः (मम्मटादिरीत्या सुखरूपत्वात्तेषाम्), रत्यादीनां गुणाश्च माधुर्यादय इति गुणे गुणान्तरस्वीकारानौचचित्यमित्वाशयः । २ अदृष्ट-(धर्माधर्मादि)-कालादीनामपि द्रुत्यादिन्वित्तवृत्तिप्रयोजकत्वात्तेषामपि मधुरत्वादि प्रसज्येतेति शङ्कायाम्, अदृष्टादिभिन्नमेवात्र प्रयोजकत्वं स्वीकार्यमिति समाधानम्। ३ द्रुत्यादिच्चित्तवृत्तिप्रयोजकत्वरूपं माधुर्यादिकं (द्रुतिप्रयोजकं माधुर्यम्, दीप्तिप्रयोजक- मोज:, विकासप्रयोजकः प्रसादः) शब्दार्थादीनामपि स्वतःसिद्धमिति तदर्थम् 'आकारोऽस्य शूरः'। इतिवदुपचारो न कल्प्यः स्यादित्याशयः।

Page 132

७० काव्यमाला। [ प्रथमानने-

इति दश शब्दगुणान्, दशैव चार्थगुणानामनन्ति। नामानि पुनस्ता- न्येव, लक्षणं तु भिन्नम्। तथा हि- शब्दानां भिन्नानामप्येकत्वप्रतिभानप्रयोजकः संहितयेकजाती- यवर्णविन्यासविशेषो गाढत्वापरपर्यायः श्रेषः॥। यदाहु :- '्रिष्टमस्पष्टशैथिल्यम्' इति। यथा-'अनवरतविद्वद्दुम-

गाढत्वशैथिल्याभ्यां व्युत्कमेण मिश्रणं बन्धस प्रसाद: ॥ यथा- 'किं ज्रूमस्तव वीरतां वयममी यस्मिन्धराखण्डल क्रीडाकुण्डलितभ्रुशोणनयने दोर्मण्डलं पश्यति।

विन्ध्यारण्य गुहागृहावनिरुहास्तत्कालमुल्लासिताः ।।' अन्र यस्मिन्नित्यन्तं शैथिल्यम्, भ्रशब्दान्तं गाढत्वम्, पुनर्नयनेत्यन्तं अथममित्यादि बोध्यम्।

चेति। जरत्तरास्तित्यस्याहुरित्यग्रेतनेनाप्यन्वयः । लक्षण त्विति। प्रत्येकाभिप्राय मेकवचनम्। तत्रादौ शब्दगुणलक्षणानि सोदाहरणान्याह-शब्दानामित्यादि। संहितया परसंनिकर्षेण। श्िलिष्टं श्ेषः । न स्पष्टं शैथिल्यं भेदो यत्रेत्यर्थः। विद्वांस एव द्रुमास्तेषां निरन्तरं द्रोहकारिणो ये दारिदरूपा मादन्तो द्विपा गजास्तेषा मुत्कृष्टदर्पस- मूहनाशने समर्थः सिंहस्तमिति राजवर्णनम्। व्युत्कमेणादो शैथिल्यमग्रे गाढलम्। हे पृथ्वीन्द्र, यस्मिंस्तयि क्रीडया तस्यां वा कुण्डलिते भ्रुवौ शोणनयने च यस्य तस्मिन्सति। दोर्मण्डलं दोर्युग्मं पश्यति च सति। तत्कालं तस्मिन्नेव समये । रक्तम-

सव वीरताममी वयं किं ब्ूम इत्यर्थः। करीडायां तथाकृतं श्रुला शत्रवः पलाय्य १ विपरीतक्रमेण। समाधौ हि क्रमेण गाढत्व-शैथिल्ययोः संनिवेशः, अत्र तु व्युत्क्रमे- पेत्ययमेव मेदः । २ माणिक्यावलिकान्तिभिः दन्तुरतरैः उन्नतदन्तयुक्तरिव (नतोन्नतैः सुन्दरैवा)। ३ शैथिल्यम् ।

Page 133

गुणा: ] रसगङ्गाघर: । ७१

उपक्रमादासमाप्ते रीत्यभेद: समता॥ यथा वक्ष्यमाणमाधुर्योदाहरणे। तत्र ह्ुपनागरिकयेवोपक्रमसंहारौ। संयोगपरहस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुयंम्।। यथा- 'नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि। यदि कोमलता तवाङ्गकानामथ का नाम कथापि पह्धवानाम्।।' अपरुषवर्णघटितत्वं सुकुमारता ॥ यथा-

दोलायितश्रवणकुण्डलवन्दनीया। आनन्दमङ्कुरयति स्मरणेन कापि रम्या दशा मनसि मे मदिरेक्षणायाः ॥'

विन्ध्य प्रदेशे संगता इति भावः। आ समाप्ते: समापिपर्यन्तम्। रीत्यभेद इति।रीत- यक्षोपनागरिका परुषा कोमला च। एता एव क्रमेण वैदभीगोडीपाच्ाल्य उच्यन्ते।

ककेवलप्रसादयुक्ताक्षरान्त्येति विवेकः । अन्त्याया एव ग्रम्येति संज्ञा केषांचित्। वक्ष्य- माणेत्यस्यानुपदमित्यादिः। संयोगपरेति। संयोगश्चात्र परसवर्णानिष्पन्नहलघटित एव :। स्पष्टं चेदमत्रैवाग्े। पृथक्पदलम्। पदानि भिन्नान्यपेक्षितानि, न तु शेषवन्। विचारेति। अङ्गवन्मृणालानि न वेति विचारेऽपि समर्थानि नेतर्थः । अङ्कानामित्य- त्रानुकम्पायां कन्। दृष्टेेति शेपः । नायिकां प्रति नायकोक्तिः । स्वेदेति। नायकोकिः । श्रवणकुण्डलं कर्णताटङ्कः । अन्र स्मृत्युपप्टब्धश्ङ्गारः पूर्वाधे। अपरुषवर्णघटितत्वरूपा सुकुमारतेति शेषः । अपिनाऽस्याँ अपि समुच्यः । झगिति द्राक्। प्रतीयमानलमन्वय- १ संयोग: परो येभ्यः इदृशा ये ह्ृसत्दवर्णाः तदतिरिक्तवर्णघटितत्वे। अर्थात् संयोग- भरत्वेन हस्वानां गुरुत्वं यत्र न स्याद्। २ विचारेऽपि मञ्जलानि। 'चारौ दक्षे च पेशलः' इत्यमरः । 'विचारेऽपि समर्थानीति' नागेशस्तु स्थूल एव। ३ स्वेदाम्बुन: सान्द्रा ये कणास्तच्छालिनी या कपोलपालिस्तत्र दोलायिते ये श्रवणकुण्डले ताभ्यां वन्दनीया श्राघनीयेति यावत्। ४ 'पल्लवानाम्' इति हि लद्वयसंयोगो न परसवर्णनिष्पन्न इति न दोषः । ५ 'उत्तरा्द्धे तु माधुर्यमपीति' अपिना अस्याः सुकुमारताया अपि समुच्चय हत्यर्थः ।

Page 134

७२ काव्यमाला। [प्रथमानने-

अत्र पूर्वाधें। उत्तरार्धे तु माधुर्यमपि। झगिति अतीयमानार्थान्वयकत्वमर्थव्यक्ति:॥ यथा 'नितराम्' इत्यादौ। कठिनवर्णघटनारूपविकटत्वलक्षणोदारता। यथा- प्रमोद्भरतुन्दिलप्रमथदत्ततालावैली- विनोदिनि विनायके डमरुडिण्डिमध्वानिनि। ललाटतट विस्फुटन्न वकृपीट योनिच्छटो हठोद्धतर्जँटोड्गटो गतपटो नटो नृत्यति ॥' 'पदानां नृत्यत्प्रायत्वं विकटता' इति काव्यप्रकाशटीकाकारा व्याच- क्षते। उदाहरन्ति च 'स्वचरणविनिविष्टैनपुरैनर्तकीनां झटिति रणितमा- सीत्' इत्यादि। तत्र तेषामेतादशीं विकटत्वलक्षणामुदारतामोजस्यन्तर्भा- वयन्काव्यप्रकाशकार: कथमनुकूल इति त एव जानन्ति। न ह्यन्रौजसो वैपुल्येन प्रतिभानमस्ति । 'विनिविष्टैनपुरेनेर्त- इत्यत्र सन्नप्योजसो लवो न चमत्कारी। नापि तत्र नृत्यत्प्रायत्वं वर्णानामनुभवन्ति सहृदयाः। अंशोन्तरे तु माधुर्यमेव। संयोगपरहस्वप्राचुर्यरूपं गाढत्वमोजः।।

विशेषणम्। आकाल्लादिसकलकारणसामग्रीसत्वादिति भावः । प्रमथा गणाः । डमरु डिण्डिमेति। डमरुढांकृति तन्वतीत्यर्थः । गतपटो दिगम्बरः । तत्रोक्तेऽर्थे। तेषां टीकाकाराणाम्। अनुकूललाभावमेवाह-न हीति। अत्र खचरणेति पद्ये वैपुल्येन १ तालावलीभिर्विनोदशालिनि। २ डमरुं डिम् डिम् इति ध्वनयति तच्छीले, डमरुं डिण्डिमं च ध्वनयतीति वा। ३ ललाटतटात विस्फुटन्ती (निःसरन्तीति यावत्) कृपीटयोनेः (अन्नेः) छटा यस्य। ४ जटाभि: उन्भटः विकटः । ५ निविष्टैरनपुरैरित्यायंशादन्यस्मिन्नंशे 'झटिति रणितमासी'दित्यत्र।

Page 135

गुणा: ] रसगङ्गाधर: ७३

यथा- 'साहंकारसुरासुराव लिकराकृष्टभ्रमन्मन्दर- क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वकषाः । तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता भूमीभूपण भूषयन्ति भुवनाभोगं भवत्कीर्तयः ।।' यथा वा 'अयं पततु निरदयम्' इत्यादिप्रागुदाहते। अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्य- मानेषु पदेषु लोकोत्तरशोभारूपमौञ्वल्यं क्रान्ति: ।। यथा 'नितराम्' इत्यादि प्रागुदाहते। बन्धगाढत्वशिथिलत्वयोः क्रमेणावस्थापनं समाधि:। अनयोरेव प्चीनैरारोहावरोहव्यपदेशः कृतः । क्रम एव हि तयोः प्रसादादस्य भेदक: । तत्र हि तयोर्व्युत्क्रमेण वृत्तेः । यथा- स्वर्गनिर्गतनिरगलगङ्गावुङ्गभङ्गरंतरङ्गसखानाम्। केवलामृतमुचां वचनानां यस्य लास्यगृहमास्यसरोजम्॥' अन्नारोहः प्रथमेडर्घे। तृतीयचरणे त्ववरोहः । गड़्े माधुयंस्य व्यञ्जकेषु वर्णषु सत्स्वपि दीर्घसमासान्तःपातितया न तस्य प्ररोहः । उत्तरार्धे तु सोऽपि। एते दश शब्दगुणाः ।

सर्वाशेन। लवो लेशः । अत एव न चमत्कारित्म्। तत्रौजसो लवांशे। साहमिति। हे भूमीभूषण। आभोगो विस्तारः। अनयोगोढत्वशिथिलतयोः। प्रसादात्समाघेर्भेदमाह- क्रम एवेति। तयोरगोढतशिथिललयोः कम एव हीत्यर्थः। वृत्तेः प्रवृत्तेः । स्वर्गेति। यस्यास्यसरोजं तेषां लास्यगृहं भवतीत्यर्थः । तृतीयचरण इति बहुव्रीहिः। द्वितीयेऽर्ये १ आकृष्टः अत एव भ्रमन् यो मन्दरस्तेन क्षुभ्यन् विलोड्यमान इति भावः । २ सर्वकषा: सर्वथा हारिकाः । ३ तृष्णया ताम्यन्ति व्याकुलानि यानि तापसकुलानि तानि शीत-स्वच्छ-श्रेतत्वात्पीयूषादि तृषा शान्तिसाधनं मत्वा कीर्तिमवलोकयन्तीत्याशयः। ४ भङ्गरा भङ्गीशालिन: (वक्रा इति यावत्) ये तरङ्गाः । ५ तृतीयश्चरणो यस्मिन्, उत्तराधें इत्यर्थः । विचायोडत्र नागेशमहोदयः, यस्य लास्येत्यादौ (चतुर्थचरणे) बन्धशैथित्यस्याप्रतीते:। ७ रस०

Page 136

४ काव्यमाला। [प्रथमानन-

एवं क्रियापरम्परया विदग्धचेष्टितस तदस्फुटत्वस्य तदुपपाद- कयुक्तेश्र सामानाधिकरण्यरूप: संसर्ग: श्रेष:।। यावदर्थकपेदत्वरूपमर्थवैमल्यं प्रसाद:।। यथा-'कमलानुकारि वदनं किल तस्याः' इत्यादि। प्रत्युदाहरणं तु कमलकान्त्यनुकारि वक्रम्' इत्यादि। प्रक्माऽभङ्गेनार्थघटनात्मकमवैषम्यं समता॥ यथा- 'हरिः पिता हरिर्माता हरिर्भ्राता हरिः सुहृत्। हरिं सर्वत्र पश्यामि हरेरन्यन्न भाति मे।।'

इत्यर्थः । तस्य माधुर्यस्य। पृथक्पदतस्य तत्र निविष्टलेन तदभावादिति भावः । सोऽपि माधुर्यप्ररोहोऽपि। तथा च सांकर्यमिति भावः । एवं शब्दगुणानां प्रपञ्चमुक्तार्थ- गुणानां तमाह-एवमिति। उत्तवदित्यर्थः। विद्ग्धचेष्टितस्येति। यथा 'दृष्ट्- कासनसंस्थिते प्रियतमे' इत्यादयमरुकपद्यादौ। अत्रैकामतिक्रम्यान्याचुम्बनं विदग्धचे- ष्टितम्। तस्यास्फुटतमन्यया तदज्ञानात्। तत्रोपपत्तिश्च नयनपिधानपूर्वकं क्रीडानु- बन्धः । एषां च पश्चादागमननयनपिधानकीडाकरणादिक्रियापरम्परया सामानाधि- करण्यं काव्ये निबद्धम्। इदं च 'क्रियापरम्परया' इति तृतीयान्तपाठे बोध्यम्। षष्च- न्तपाठे तु तस्य(स्याः) तेषां च सामेत्यादर्थः। यावदिति। अर्थाऽन्यूनाधिकपदव- १ विदग्ध-(चतुर-)-चेष्टितस्य, तदसफुटत्वस्य (तन्नेष्टिताऽस्फुटत्वस्य अप्रकटनस्य) तदुपपादकयुक्ते: (तच्चेष्टितसाधिकाया युक्तेः) च क्रियापरम्परया (पश्चादागमन-नयनपि- धान-क्रीडानुबन्धादिक्रियाणां शृङ्धलया) सामानाधिकरण्यरूपः एकस्मिन्नधिकरणे (स्थले) युगपद्वर्णनरूपः संसर्ग: । षष्ठयन्तपाठे तु क्रियापरम्परायाः विदग्धचेष्टितादीनां च सर्वेषां सामानाधिकरण्यमित्यर्थः। अयं भाव :- चातुर्येण कार्यानुष्ठानम् तद्गोपनम्, तत्साधक- युक्तिश्च पतेषां क्रमिकक्रियाद्वारा एकस्मिन्नेव स्थळे तथा वर्णन यथा तेषां परस्परं संबन्धो विच्छिन्नो न भवेत्, पतादृशी अर्थसंघटनैव श्रेषः । २ यावान् अर्थस्तावन्तयेव पदानि, अर्थापेक्षया न न्यूनानि न चाधिकानि पदानि यत्र, इत्याशयः । 'दृष्टकासनसंस्थिते प्रियतमे पश्चादुपेत्याSडदरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ईषद्धक्कितकन्धरः सपुलक-प्रेमोलसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूतोंऽपरां चुम्बति॥'

Page 137

गुणा: ] रसगङ्गाघर: ।

अत्र विष्णुरभ्रातेत्यादिनिर्माणे प्रक्रमभङ्गात्मकं वैषम्यम्। एकस्या एवोक्तेमशयन्तरेण पुनः कथनात्मकमुक्तिवैचित्र्यं माधुर्येम् ॥ यथा- 'विधत्तां निःशङ्कं निरवधिसमाधि विधिरहो सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः। कृतं प्रायश्वित्तरलमथ तपोदानयजनैः सवित्री कामानां यदि जगति जागर्ति भवती।।' अत्र विध्यादिभिर्नास्ति किमपि प्रयोजनमित्येषोऽर्थः समाधिविधाना- दिप्रेरणारूपेणोक्तिवैचित्र्येणाभिहितः । अन्यथाऽनवीकृतत्वापत्ते: । अकाण्डे शोकदायित्वाभावरूपमपारुष्यं सुकुमारता ।। यथा-'त्वरया याति पान्थोऽयं प्रियाविरहकातरः'। 'प्रियामरणकातरः' इत्यत्र शोकदायिनो मरणशब्दस्य सत्त्वात्पारु- व्यम्। इदं चाश्षीलतादोषर्व्याव्यम्। वस्तुनो वर्णनीय स्यासाधारणक्रियारूपयोर्वर्णनमर्थव्यक्ति:॥ यथा- 'गुरुमध्ये कमलाक्षी कमलाक्षेण प्रहर्तुकामं माम् । रद्यन्नितरेसनागं तरलितनयनं निवारयांचक्रे।।'

त्वेत्यर्थः । प्रत्युदाहरणे कान्तीत्यधिकम्। प्रक्रमेति। उपक्रमाभज्ञेनेत्यर्थः । शाब्दबोधे शब्दस्यापि प्रकारतया भानस्य 'न सोऽस्ति' इत्यादिना हरिणा प्रतिपादितलादिति भावः। भज्गयन्तरेण रीत्यन्तरेण। विघत्तामिति। देवी प्रति भक्तोक्तिः। कामानां मनोरथाना सवित्री निष्पादिका एषोऽर्थ इत्यस्यैक एवेि शेषः । अन्यथा तथव प्रत्येकमुक्ती। अनवीति। दोषोऽयम्। अकाण्डेऽनवसरे। मार्गे विवक्षितदेशप्राप्तेरुद्देश्यले नावसर इति शोकस्यानवसरः। प्रत्युदाहरणमाह-प्रियेति। ननु शोकदायित्वरूपं पारुष्यं न दोषेषु गणितमत आह-इदं चेति । तदन्तःपात्यमङ्गलरूपत्वादिति भावः । रूपं स्वरूपम्। कमलाक्षीति सवरूपम्। रदेत्यादि करिया। अयमेव अर्थव्यक्त्याख्यगुण एव। १ अक्रीलतादोषो व्यापकः जुगुप्सादायित्वाद्धिकदेशव्यापित्वात। इदं तु शोकदायि- (अमङ्गल-)-मात्रसंबद्धतया न्यूनदेशव्यापितया व्याप्यम्। अश्रीलतादोषान्तर्गतमित्यर्थः। २ रदैः यत्रितम् (आपीडितम्) रसनाग्रं यथा भवति तथा। ३ गङ्गां प्रतीति मन्ये नागेशाशयः । अहो विस्पष्टार्थता टीकायाः ।

Page 138

७६ काव्यमाला। [प्रथमानने-

अयमेवेदानींतनैः स्वभावोक्त्यलंकार इति व्यपदिश्यते। 'चुम्बनं देहि मे भार्ये कामचाण्डालतप्ये' इत्यादिग्राम्यार्थप- रिहार उदारता।। एकस पदार्थस्य बहुभि: पदैरभिधानम्, बहूनां चैकेन, तथैकस वाक्यार्थस्य बहुभिर्वाक्यैः, बहुवाक्यार्थस्यैकवाक्येनाभिधानम्, विशेषणानां साभिग्रायत्वं चेति पञ्चविधमोज: ।। यदाहुः 'पदार्थे वाक्यरचना वाक्यार्थे च पदाभिधा। प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ।।'इति। पूर्वार्धप्रतिपादं द्वयं व्याससमासौ चेति चतुष्प्रकारा प्रौढिः, साभिप्रा यत्वं चेति पञ्चप्रकारमोज इत्यर्थः । त्रौढि: प्रतिपादनवैचित्रयम् । यथा- 'सरसिजवनबन्धुश्रीसमारम्भकाले रजनिरेमणराज्ये नाशमाशु प्रयाति। परमपुरुषवक्रादुद्वतानां नराणां मधुमधुरगिरां च प्रादुरासीद्विनोदः ।।' अत्रोषसीत्येकपदार्थस्याभिधानाय प्रथमचरणः। इत्याद्यग्रेऽपि बोध्यम्।

मण्डिताखिलदिक्प्रान्ताश्चण्डांशोर्भान्ति भानव: ।।'

उक्तक्रमेणैवाह-पदार्थ इति। व्यासेति। तथेत्यादिनोक्तों। अस्य विशेषणस्य। प्रौढि- पदार्थमाह-प्रतीति। क्रमेणोदाहरणान्याह-यथेत्यादिना। इत्याद्यग्रेऽपीति । द्वितीयचरणोऽपि तदर्थे। तृतीयचरणेन ब्राह्मणानामित्यर्थलाभः । ईशमुखजतात्तेषाम्। उद्गतानामित्यस्य गिरां चेत्यत्रापि संबन्धः । अत एव च वेदानामित्यर्थलाभः । द्वितीयो-

१ एकेन वाक्येन वर्णनीयस्यार्थस्य बहुभिर्वाक्यैर्वर्णनमिति विस्तरो व्यासः, अनेकैवाक्यै- वर््यस्यार्थस्य मकेन वाक्येन वर्णनमित्यर्थसंक्षेपः समासः । १ चन्द्रः, तस्य राज्ये। ३ सतिसप्तमी।

Page 139

गुणा: ]· रसगङ्गाघरः।

अत्र 'यस्याः पराङ्गनागेहात्पतिः प्रातर्गृहेऽव्वति' इति वाक्यार्थे खण्डितापदाभिधानम्। 'अयाचितः सुखं दत्ते याचितश्च न यच्छति। सर्वस्वं चापि हरते विधिरुच्छृङ्गलो नृणामू।' अन्र दैवाधीनं सर्वमित्येकस्मिन्वाक्यार्थे नानावाक्यरच नात्मको व्यास- पद्वाच्चो विस्तरः । 'तपस्यतो मुनेर्वकराद्वेदार्थमधिगत्य सः। वासुदेवनिविष्ठात्मा विवेश परमं पदम् ॥' अत्र मुनिस्तपस्यति, तद्वक्रात्स वेदार्थमधिगतवान्, तदनन्तरं वासुदेवे परव्रह्मणि मनः प्रावेशयत्, ततश्च मुक्तोऽभूदिति वाक्यार्थकलापः शेतृ- वत्वा-वहुत्रीहिभिस्तिङन्तेन चानुवाद्यविधेयभावेनैकवाक्यार्थीकृतः । साभिप्रायत्वं च प्रकृतार्थपोषकता। यथा- 'गणिकाजामिलमुख्यानवता भवता वताहमपि। सीदन्भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः ।।' अत्रोपेक्षाभावे करुणामूर्तित्वं पोषकम्। पापिष्ठत्वात्करूणाया अभावे प्रकृतेऽस्याः संपादनाय गणिकेत्यादि सीदन्निति च।

दाहरणमाह-खण्डीति। कजं कमलम्। भानवः सूर्यस्य किरणाः। खण्डितानेत्ररजकल तु तदा प्रियदर्शनेनेति बोध्यम्। अश्वति गच्छति। तृतीयोदाहरणमाह-अयाचीति। उच्छृङ्गलो निर्मर्यादः। तुर्योदाहरणमाह-तपेति। स परमभक्तः कश्चित्। अत्रेत्य- स्यादाविति शेषः । तद्वकरादित्यस्य तत इत्यादिः । आत्मशब्दार्थमाह-मन इति।' तथेति। गणिका चाजामिलश्च तौ मुख्यौ येषां तान्। गणिका पिङ्गला। अजामिलो राजा। भागवते प्रसिद्धोयमर्थः । बतेति खेदे। भव एव मरुगर्तस्तत्र सीदन्दुःखी। १ यस्याः पतिरित्यन्वयः । २ शतृ-क्त्वा-'वासुदेवे निविष्टः आत्मा वस्येति' बहुन्रीहिभिरनुवाद्यभावेन, विवेशेति तिङ- न्तेन च विधेयभावेन सोयमर्थकलाप एकवाक्यार्थीकृत इत्याशयः । ३ करुणायाः संपादनाय गणिकादिदृष्टान्तगर्भ भगवद्विशेषणं सीदन्नित्यात्मविशेषणं च साकूतं दत्तमित्याशयः । ४ अहह वादयुगे कोटित्रोटिघटकानां दिग्गजपण्डितानां साहित्यशानस्व निरुपमनिदर्शनमिदम्। कथास्वपि भागवतं श्रुतवन्तस्तु जानन्ति-'कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः' इत्यादि।

Page 140

काव्यमाला । [ प्रथमानने-

दीप्षरसत्वं कान्ति: ।। तच्च स्फुट प्रतीयमानरसत्वम्। उदाहरणं च वर्णितमेव। रसप्रकरणे वर्णयिष्यते च। अवर्णितपूर्वोऽयमर्थः पूर्ववर्णितच्छायो वेति कवेरालोचनं समाधि:। ज्ञानस्य विषयतासंबन्धेनार्थनिष्ठत्वादर्थगुणता। आद्यो यथा-'तनयमैनाकगवेषण-' (२२ पृष्ठ) इत्यादौ। द्वितीयस्तु प्रायशः सर्वत्रैवेत्याहुः। अपरे त्वेषु गुणेषु कतिपयान्प्रागुक्तस्त्रिभिर्गुणैर्व- क्ष्यमाणदोषाभावालंकारैश्र गतार्थयन्तः, कांश्चिद्वैचित्रयमात्ररूपतया क्कचि- द्दोषतया च मन्यमाना न तावतः स्वीकुर्वन्ति। तथा हि-शेषोदारताप्र- साद्समाधीनामोजोव्यञ्जकघटनायामन्तर्भावः । न च शेषोदारतयोः सवाशे गाढबन्धात्मनोरोजोव्यञ्जकघटनान्तर्भावोडस्तु नाम, प्रसादसमा- ध्योस्तु गाढशिथिलात्मनोरंशेनौजोव्यञ्जकान्तर्भावेऽप्यंशान्तरेण कुत्रान्त- भाव इति वाच्यम्। माधुर्याभिव्यञ्जके प्रसादाभिव्यञ्जके वेति सुवच- त्वात्। माधुर्य तु परेषामस्मदभ्युपगतमाधुर्यव्यञ्जकमेव। एवं च सर्वत्र व्यञ्जके व्यङ्गयशब्दप्रयोगो भाक्तः । समता तु सर्वत्रानुचितैव। प्रति-

प्रकृते मयि। मुख्यदीप्तत्वाभावादाह-तच्चेति। रसेत्यस्य पूर्वान्वयः । छायस्तत्सदशः। नन्वालोचनं ज्ञानं तच्चात्मगुणो नार्थगुण इत्यत आह-ज्ञानस्येति । खोक्तौ तथाभा- वादाह-प्रायश इति। दोषाभावेति। द्वयोबहुवचनान्तानां द्वन्द्वः। तावतो दश। तत्रादौ शब्दगुणानां तेषामन्तर्भावायाह-लेषोदेति। घटनायां वर्णरचनायाम् । तदंशे सर्वत्र माधुर्यसत्त्वे मानाभावात्। प्रसादस्य सर्वरससाधारण्याचाह-प्रसादा- भीति। प्रतिपाद्येति। प्रतिपाद्यस्य यदुद्भटतमनुद्भटतं च ताभ्यामित्यर्थः । ग्राम्य- १ पृथकपदत्वं माधुर्यम्, अर्थात् असमस्ताSसन्धिकानां पदानां पृथवपृथग्रपेण संनिवेश एव माधुर्यमिति वर्णरचनासु व्यवहतं वामनादिसंमतं माधुर्य मन्मटानुसारं माधुर्यगुणस्य व्यञ्ञकं शब्दसंघटनारूपमेव। २ अयं भाव :- मम्मटादीनां मते रसध्मा अमी माधुर्यादिगुणाः शब्दार्थाभ्यामभिव्य- ज्यन्ते, ततश्च व्यङ्गेष्वेषु (गुणेषु) माधुर्यादिशब्दप्रयोगः । वामनादिरीत्या तु-'एकजातीय- वर्णविन्यासः क्रेषः, पृथक्पदत्वं माधुर्यम्, संयोगपरहस्वबाहुल्यमोजः' इत्यादिना शब्दार्थ- संघटनैव माधुर्यादिनाम्ना व्यपदिश्यते। तथा च मम्मटमतानुसारं व्यज्जके (शब्दार्थगुम्फे) व्यञ्ञ्यवाचकानां माधुर्यादिशब्दानामुपचारेण प्रयोग: क्रियत इति।

Page 141

गुणा: ] रसगङ्गाघरः ।

चथा 'निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रव- न्मृद्वीकामघुमाधुरीमदपरीहारोद्ुराणां गिराम्। काव्यं तहि सखे सुखेन कथय त्वं संमुखे मादशां नो चेट्टुष्कृतमात्मना कृतमिव स्वान्तादवूहिर्मा कृथाः ॥।' अन्न पूर्वार्घे तृतीयचरणे च लोकोत्तरनिर्माणप्रतिपाढके यो मार्गो न स चतुर्थचरणे कदर्यकाव्यप्रतिपादक इति वैषम्यमेव गुणः । ग्राम्य- त्वकरष्टत्वयोस्त्यागात्कान्तिसौकुमार्ययोर्गतार्थता, प्रसादेन चार्थव्यक्तरिति। अर्थगुणेष्वपि-श्ेषः, ओजस आद्याश्चत्वारो भेदाश्च, वैचित्र्यमा- त्रूपा न गुणान्तर्भावमर्हृन्ति, अन्यथा प्रतिश्लोकमर्थवैचित्र्यवैलक्षण्या- दुणभेदापत्तेः । अनधिकपदृत्वात्मा प्रसादः, उक्तिवैचित्र्यवपुर्माघुर्यम्, अपारुष्यशरीरं सौकुमार्यम्, अग्राम्यरूपोदारता, वैषम्याभावलक्षगा

तकष्ट्त्वयोस्त्यागादिति। अन्रेदं चिन्तैम्-कष्टत्वमोजोव्यज्कवर्णलम्, सुकुमारतं माधुर्ये- व्यञ्जकवर्णत्म्। तथा चानयोः परस्पराभावल्वाभावात्क्थं तेनान्यस्यान्यथा सिद्धिरिवि । अर्थव्यकेरित्यस्य गतार्थतेत्यस्यानुषङ्गः। इतिः शब्दगुणान्तर्भावादिसमात्ौ। अन्यथा वैचित्र्यमात्ररूपलेऽपि गुणान्तर्भावे गुणभेदापत्तेरिति। एतेन चमत्कारानुगुणत्रूपस वैचित्यस्य गुणत्साधकतेत्यपास्तम्। कान्तिश्वेत्यस्यैतानीति शेषः । अनधिकपदेत्यार-

१ कष्टत्वं श्रुतिकटत्वमिति सर्वविदितः काव्यप्रकाशाशयः । श्रुतिकदत्वं च श्रुत्युद्वेजकवर्ग- घटितत्वम्। ततश्च परुषवर्णसंघटनया श्रुत्युद्वेजकं कष्टमित्यर्थः पर्यवसितः । मतद्विपरीता सुकु- मारता च अपरुषवर्णघटितत्वम्। एवं च अकाण्डे परुषवर्णघटितत्वरूपकष्टत्वाभाव एव सौकु- मार्यमिति स्पष्टमेव। ततश्च न मन्मटादयुक्तौ दोषावकाशः । २ नागेशस्तु-'ओजोव्यञ्जकवर्णत्वं कष्टत्वन्' इति व्याख्याय स्वेच्छयैव काव्यप्रकाशाश- यमपकर्षन्-'अपरुषवर्णघटितत्वं सुकुमारत्वम्' इति प्राक्संमतलक्षणस्थाने 'माधुर्यव्यक्षकवर्णत्वं सुकुमारत्वमिति' स्वैरकल्पनया प्राचामप्याशयं कलुषयन् येन केनापि प्रकारेण मूलखण्डन पाण्डित्यं प्रकटयितुमभिनिविशते। किन्तु माधुर्यसौकुमार्ययोः स्फुटपार्थक्यं स्वीकुर्वतां आचा मनुसारमिदं न घटेत। स्वेदाम्बुसान्द्रकणेत्याद्येकत्रैव स्थले माधुर्यसौकुमार्ययोः पृथङ् निद- रशनात। मम्मटाद्यनुसारं तु परस्पराभावत्वमेनयोरुपरि साधितमेवेति विदो विदांकुर्वन्दु।

Page 142

८० काव्यमाला। [प्रथमानने-

समता, साभि प्रायत्वात्मकः पञ्चम ओजसः प्रकारः, खवभावस्फुटत्वात्मि- काडर्थव्यक्ति:, स्फुटरसत्वरूपा कान्तिश्च, अधिकपदत्वानवीकृतत्वा- मङ्गलरूपाश्षीलग्राम्यभग्नप्रक्रमापुष्टार्थरूपाणां दोष्ाणां निराकरणेन स्वभा- वोक्त्लंकारस्य रसध्वनिरसवदलंकारयोश्च स्वीकरणेन च गतार्थानि। समाधिस्तु कविगतः काव्यस्य कारणं न तु गुणः । प्रतिभाया अपि काव्यगुणत्वापत्तेः । अतस्य एव गुणा इति मम्मटभट्टाद्यः । तत्र टवर्गवर्जितानां वर्गाणां प्रथमतृतीयैः शर्भिरन्तस्थैश्च घटिता, नैकट्येन प्रयुक्त्तरनुस्वारपरसवणैः शुद्धानुनासिकैश्च शोभिता, वक्ष्यमाणैः सामान्यतो विशेषतश्च निषिद्धैः संयोगादैरचुम्बिता, अवृत्तिर्मुदुवृत्तिर्वा रचनानुपूर्व्यात्मिका माधुर्यस्य व्यञ्जिका। द्वितीयचतुर्थास्तु वर्ग्या गुणस्यास्य नानुकूलाः, नापि प्रतिकूलाः, दूरतया संनिवेशिताश्च्ेत् । नैकट्येन तु प्रतिकूला अपि भवन्ति, यदि तदायत्तोऽनुप्रासः । अन्ये तु वर्गस्थानां पञ्चानामप्यविशेषेण साधुर्येव्यञ्जकतामाहुः । उदाहरणम्- 'तां तमालतरुकान्तिलद्गिनीं किंकरीकृतनवाम्बुदत्विषम्। स्वान्त मे कलय शान्तये चिरं नैचिकीनयनचुम्बितां श्रियम् ॥'

भ्योक्तानीति तदर्थः । क्रमेणाह-अधिकेति। अर्थव्यक्तः संग्रहायाह-स्वभाविति। कान्तेराह-रसेति। प्राधान्ये रसत्मन्यथा रसवदलंकारलमिति भावः।समाधि- स्त्विति। ज्ञानरूप इत्यर्थः । तस्यात्मगुणतादिति भावः । तदाह-कवीति। न तु गुण इति अर्थस्य तत्कारणमिति शेषः। प्रतीति। तस्या अपि विषयतासंबन्धेन तद्वदर्थवृत्तित्वादिति भावः। उपसंहरति-अत इति । अथ यासु रचनाखन्तर्भाव उक्तस्ता रचना आह-तत्रत्यादिना। तन्र तासां मध्ये। शर्मिः शषसैः । 'अन्तः- स्थाभिश्च' इति पाठः। यरलवैरिति तदर्थः । वक्ष्यमाणैरित्यस्यानुपदमित्यादि। अतृ- त्तिवृत्तिसामान्याभाववती। बाघादाह-मृदुवृ्त्तिवेति। गुणस्यास्य माधुर्येस्य। नैकट्येन संनिवेशिताश्चेदित्यस्यानुषङ्गः । अपिनानुकूलतसमुच्चयः । तदेवाह-यदीति। तदायत्तस्तदधीनः । वर्गेत्यस्य टवगान्येत्यादिः । अन्नारुचिबीजमुक्तमेव। उदेति। उदाहरणमित्यर्थः । तामिति। हे खान्त मनः, तां श्रियं कृष्णमूर्तिशोभां शान्तये मे "१ प्रसाद: अधिकपदत्वरूपदोषाभावः, माधुर्यमनवीकृतत्वदोषाभावः, सौकुमार्यममङ्गला- करीलाभावः, उदारता ग्रम्यत्वाभावः, समता भग्नप्रकमतादोषाभावः, साभि प्रायत्वात्मकमोजश्च अपुष्टार्थत्वाभावरूपमिति फलितम्। यवम्-अर्थव्यक्तिः स्वभावोत्तयलंकारः, कान्तिश्च रसस्य प्राधान्ये रसध्वनिः, गुणीभावे च रसवदलंकाररूप इत्याशयः । २ वर्णानुपूर्व्यात्मिका रचना इत्यन्वयः ।

Page 143

गुणा: ] रसगङ्गाघर: । ८१

यथा वा- 'स्वेदाम्बुसान्द्रकणशालिकपोलपालि- रन्तःस्मितालसविलोकनवन्दनीया। आनन्दमङ्करयति स्मरणेन कापि रम्या दशा मनसि मे मदिरेक्षणायाः ।।' प्रथमे पद्येऽतिशयोक्त्यलंकृतस्य भगवज्धयानौत्सुक्यस्य भगवद्विषयक्त- रतेर्वा ध्वन्यमानायाः शान्त एव पर्यवसानान्तदृतमाधुर्यस्याभिव्यज्जिका रचनेयम्। द्वितीये तु स्मृत्युपष्टव्घशृङ्गारगतस्य । नैकट्येन द्वितीयचतुर्थवर्गवर्ण-टवर्गजिह्वामूलीयोपध्मानीयविसर्गसका- रबहुलैर्वणैर्घटितो झेयरेफान्यतरघटितसंयोगपरह्नस्वैश्च नैकट्येन प्रयुक्त- रालिङ्गितो दीर्घवृत्त्यात्मा गुम्फ ओजसः । अस्मिन्पतिताः प्रथमतृतीय- वर्ग्या गुणस्यास्य नानुकूला नापि प्रतिकूला: संयोगाघटकाश्चेत्। तद्ट- कासत्वनुकूला एव। एवमनुस्वारपरसवर्णा अपि। यथा-'अयं पततु निर्दयं दलितदप्-' (४४ पृष्ठे) इत्यादौ प्रागुदाहते। श्रुतमात्रा वाक्यार्थ करतलबदरमिव निवेद्यन्ती घटना प्रसादस्य।

चिरं कलयेत्यर्थः। नैचिक्यो गावस्तन्नेत्रचुम्बितामित्यर्थः । सेदाम्व्विति। गतोऽयं श्लोक: (७० पृष्ठ) यद्यपि पाल्यग्रे 'दोलायितश्रवणकुण्डल' इति तत्र पाठः, तथापि टवर्गस्य वर्ज्यतादाह-'अन्तः स्मितालसविलोकन' इति। अत एवानयोर्मध्ये 'यथा वा-रमृतापि' इति क्वाचित्कोऽपपाठ इति बोध्यम्। अत एवाह-प्रथमे इति । तामित्यत्रेत्यर्थः । विनिगमनाविरहादाह-भगवदिति । तद्गतेति । शान्तगतेत्यर्थः । द्वितीये सवेदाम्ब्विति पद्ये। स्सृत्युपेति। तद्विषयेत्यर्थः । गतस्येत्यस्य माधुर्येत्याद्यनुषङ्गः। प्रसा- दस्थल आह-नैकट्येनेति। 'टवर्गजिह्नः' इति पाठः। 'टवर्गझय्' इत्यपपाठः। गुम्फो रचनाविशेषः । व्यञ्जक इति शेषः । बहुलैरित्यनेनान्येषामपि सत्ता सूचिता। तदाह- अस्मिन्निति । वर्ग्या वर्गसंबन्धिवर्णाः । अस्य ओजसः । चेदन्तं पूर्वान्वयि। सवर्णा अपीति । गुणस्येत्यादेः सर्वस्यानुषङ्गः। ओजसो लक्षणमाह-यथेति । मात्रपदेन १ 'झभज् धढघष् जबगडदश् खफछठथचटतव् कपय्' इति पाणिनीयव्याकरणप्रसिद्धः । वर्गाणामादिमाश्चत्वारो वर्णा इत्यर्थः । एमिवर्णै रेफेण वा संपन्नो यः संयोगस्तत्परौनेंकटनिकटं प्रयुक्तैः अ-इ-इत्यादिहस्वाक्षरौमंलितः।

Page 144

८२ काव्यमाला। [प्रथमानने-

अयं च सर्वसाधारणो गुणः। उदाहरणान्यत्र प्रायशो मदीयानि सर्वाण्येव पधानि। तथापि यथा- 'चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभा: प्राणेश: प्रणयाकुलः पुनरसावास्तां समस्ता कथा। एतत्त्वां विनिवेद्यामि मम चेदुक्तिं हितां मन्यसे मुग्धे मा कुरु मानमाननमिदं राकापतिर्जेष्यति।।' अन्न सर्वावच्छेदेन प्रसादाभिव्यञ्जकत्वमंशभेदेन तु माधुर्योजोभि- व्यञ्जकत्वमपि, मनसिजान्तस्य माकुर्वादेश्च माधुर्याभिव्यक्तिहेतुत्वात्, सख्य इत्यादेरोजोगमकत्वात्। नन्वत्र शृङ्गाराश्रयस्य माघुर्यस्याभिव्यक्तये तदनुकूलास्तु नाम रचना, ओजसस्तु क: प्रसङ्गो यदर्थ तदनुकूलवर्ण- विन्यास इति चेत्। नायिकामानोपशान्तये कृतानेकयत्नायास्तदीयं हित- सुपदिशन्त्या: सखयाः सक्रोधत्वस्य व्यञ्ञनीयतया तथाविन्यासस्य साफ- ल्यात्। किं बहुना रसस्यौजस्विनोSमर्षादेर्भावस्य चाविवक्षायामपि वक्तरि कुद्धूतया प्रसिद्धे, वाच्ये वा क्ूरतरे, आख्यायिकादौ प्रबन्धे वा, परुष- वर्णघटनेष्यते। यथा वा- 'वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदा- स्तां स्वप्नेऽपि न संस्पृशाम्यहमहंभावावृतो निरपः । इत्याग:शतशालिनं पुनरपि स्वीयेषु मां बिभ्रत- स्त्वत्तो नास्ति द्यानिधिर्यदुपते मत्तो न मत्तः परः ॥' अत्र गुणान्तरासमानाधिकरणः प्रसाद: ।

वर्णविशेषनियमादिव्यवच्छेदः । घटना रचना। व्यज्जिकेति शेषः । उदेत्यस्य यद्यपी- त्यादिः। अत्र प्रसादे। तथापि यथेति। विशिष्योदाहरणमित्यर्थः । चिन्तेति । 'एतत्त्वां विनि-' इति पाठः। जेष्यति पीडादानेन। मानमलीमसत्न्मुखसादृश्यस्य खस्मिन्संपादनेन वा। अत एव राकापतिरित्युक्तम्। राका पूर्णिमा। अन्यदा तु चन्द्रे सर्वथा साम्याप्रसिद्धिरिति भावः । तथा ओजोनुकूलवर्णेत्यर्थःरसस्य वीररौ- द्रबीभत्सात्मकस्य। भावस्य च व्यभिचारिभावस्य च। प्रसादस्योदाहरणान्तरमाह- यथा वेति। उदाहरणान्तरदाने बीजमाह-अन्रेति। खानन्तर्यं स्ाव्यवहितोत्तर- १ केवल: प्रसादगुण एवेत्यर्थः ।

Page 145

गुणा: ] रसगङ्गाघरः । ८३

इदानीं तत्तद्ुणव्यञ्जनक्षमाया निर्मिते: परिचयाय सामान्यतो विशेष- तश्च वर्जनीयं किंचिन्निरूप्यते-वर्णानां स्वानन्तर्य सकृदेकपदगतत्वे किंचिदश्रव्यम्। यथा-'ककुभसुरभिः, विततगात्रः, पललमिवाभाति' इत्यादौ। असकृच्चेदधिकम् । यथा-'वितततरस्तरुरेष भाति नूमौ।' एवं भिन्नपद्गतत्वेपि। यथा-'शुक करोषि कर्थ विजने रुचिम्' इत्यादौ। असकृद्धिन्नपद्गतत्वे ततोऽप्यधिकम्। यथा-'पिक ककुभो मुखरीकुरु प्रकामम्'। एवं स्वसमानवर्ग्यानन्तर्य सकृदेकपदगतत्वे किंचि- द्श्रव्यम्। यथा-'वितथस्ते मनोरथः' । असकृव्चेदधिकम्। चथा- 'वितथतरं वचनं तव प्रतीमः'। एवं भिन्नपद्गतत्वे। यथा 'अथ तस्थ वचः श्रुत्वा' इत्यादौ।असकृद्भिन्नपदगतत्वे तु ततोऽ्यधिकम्। 'अथ तथा कुरु येन सुखं लभे'। एतच्च वर्गाणं प्रथमद्वितीययोस्तृतीयचतुर्थयोरान- न्तर्यम्। प्रथमतृतीययोर्द्वितीयतृतीययोवाSSनन्तर्य व तथा नाश्राव्यम्। किं त्वीषत्, निर्माणमार्मिकैकवेद्यम्। एतदप्यसकृच्वत्ततोऽधिकत्वात्साधारण- रपि वेद्यम्। यथा-'खग कलानिधिरेष विज़म्भते' । 'इति वदति दिवानिशं स धन्यः' । पञ्मानां मधुरत्वेन स्ववर्ग्यानन्तर्य न तथा । यथा-'तनुते तनुतां तनौ'। सानन्तर्य त्वश्रव्यमेव। यथा-'मम महती मनसि व्यथाविरासीत्'। एतानि चाश्रव्यत्वानि गुरुव्यवायेना- पोदन्ते। 'संजायतां कथंकारं काके केकाकलख्वनः'। यथा वा- 'यथा यथा तामरसायतेक्षणा मया सरागं नितरां निषेविता। तथा तथा तत्त्वकथेव सर्वतो विकृष्य मामेकरसं चकार सा।

लम्। किंचिदीषत्। एवं वर्णानां स्वानुन्तर्य सकृत्कंचिच्छ्व्यमित्यर्थः । एवमग्रेऽपि । अत एवाग्रे ततोऽप्यधिकमित्युक्तम्। एतच्चेति। ससमानवर्ग्यानन्तर्य चेत्र्थः। तेषां तयोरानन्तर्ये बोध्यमित्यन्वयः। ईषत्पदार्थमाह-निर्माणेति। साधारणैरपि निर्माणमा- र्मिकभिन्नैरपि। आद्योदाहरणमाह-खगेति। द्वितीयोदाहरणमाह-इतीति। चतुर्णा गतिमुक्त्वा पञ्चमानामाह-पञ्चेति। न तथा नाश्रव्यम्। स्वानन्तर्यमिति पञ्चमानामित्यस्यानुषङ्ः । एतेषामपवादमाह-एतानिति । गुर्विति । गुरुवर्णव्यव- धानेनेत्यर्थः । 'काक' इति पाठे संबोधनम्। तं प्रत्युक्तिः । युक्तस्तु सप्तम्यन्तपाठः । १ अपवादतया निरस्यन्ते, अर्थात् गुरुवर्णव्यवधाने अश्नव्यत्वानि न भवन्तीत्याशयः ।

Page 146

८४ काव्यमाला। [प्रथमानने-

इदं तु दीर्घव्यवाये। संयोगपरव्यवाये तु- सदा जयानुषङ्गाणामङ्गानां संगरस्थलम्। रङ्गाङ्गणमिवाभाति तत्ततुरगताण्डवैः ॥।' इदं तु बोध्यम्-गुरुर्ययोर्व्यवधायकस्तयोरेव वर्णयोरानन्तर्यकृतम- श्रव्यत्वमपवदृति। तेनात्र थकारतकारानन्तर्यकृतदोषापवादेऽपि तकारै थकारानन्तर्यकृतमश्रव्यत्वमनपोदितमेव। एवं त्र्यादीनां संयोगोऽपि प्राये- णाश्रव्यः । 'राष्ट्रे तवोधट्यः परितश्चरन्ति' इत्येवमादयः श्रुतिकाटवभेदा अन्येऽप्यनुभवानुसारेण बोध्याः। अथ दीर्घानन्तर्य संयोगस्य भिन्नपद्ग- तस्य सकृदृप्यश्रव्यम्, असकृत्तु सुतराम्। 'हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते। सेवितं सर्वसंपद्धिरपि तद्भ्वनं वनम् ॥' एकपद्गतस्य तु तथा नाश्रव्यम्। यथा-'जाग्रता विचितः पन्थाः शात्रवाणां वृथोद्यमः'। परसवर्णकृतस्य तु संयोगस्य सर्वथा दीर्घाद्धिन्नप- दुगतत्वाभावान्मधुरत्वाच्चानन्तर्य न मनागप्यश्रव्यम्। यथा-'तां तमा- लतरुकान्ति-'इत्यादिपदे (७९ पृष्ठे)। अत्र तामित्यत्र नीमित्यत्र च परस- वर्णस्य पूर्वपदभक्ततया न संयोगो भिन्नपदगतः । प्रत्येकं संयोगसंज्ञेति पक्षेऽपि भिन्नपदगतः संयोगो न दीर्घादव्यवहितपरः। नवाम्बुदेत्यत्र त्वे- कादेशस्य पदद्वयभक्ततया दीर्घाद्भिन्नपदगतत्वे सत्यव्यवहितोत्तरत्वं यद्यपि

तत्त्वकथा ब्रह्मकथा। सर्वस्माद्विषयादाकृष्य। एकरसं स्वमयं ब्रह्ममयं च। गुरु्द्ेधा, दीर्घ: संयोगपरश्च। तत्राद्योदाहरणमुक्तम्, अन्त्यस्योच्यत इत्याह-इद त्वित्यादि। गुरु व्यवायेन तदंशे दोषाभावो न सर्वांशे इत्याह-इदं त्विति। प्रायेणेति। श्रुत्यकटुले तुन तथेति भावः। उपसंहरति-एवमाद्य इति। आद्योदाहरणं हरिणीत्यभिप्रायम्। गतस्येत्यस्य संयोगस्य दीर्घानन्तर्यमिति शेषः। न दीर्घादव्यवेति। परसवर्णेनैव व्यवधानादिति भावः । समस्ते पदे विशेषमाह-वाम्बुदेति । अदोष इति। १ देशविशेषाणाम्। .: २ 'यथा ताम', तथा तथा तत्त्व इति। ३ तथा तथेति तकारानन्तरस्थकारः । 4 ४ पूर्वपदावयवतयेत्याशयः । एवमग्रेपि बोद्धव्यम्। ५ नव-अम्बुदेत्यत्र दीर्घादेशः पदद्वयस्यापि संबन्धी गणयितुं शक्यते। ततश्च तस्य पूर्वपद- भक्ततायां, नवान्बुदेत्यत्र 'म्बु' इति संयोगो दीर्घात्परो भिन्नपदगतश्च गणयितुं शक्य इति पूर्वोक्तदोष: प्रसज्येवेति शङ्का। समाधानं स्पष्टम्।

Page 147

वर्ज्यवर्णा: ] रसगङ्गाघर:।

परसवर्णकृतसंयोगस्य भवति तथाप्यत्र भिन्नपद्गतत्वमेकपद्गतभिन्न- त्वं विवक्षितमित्यदोषः । असकृत्तु सुतराम्। यथा-'एषा प्रिया मे क गता त्रपाकुला'। इदं चाश्रव्यत्वं काव्यस्य पङ्गुत्वसिव प्रतीयते। अथ स्वेच्छया संध्यकरणं सकृदृप्यश्रव्यम्। यथा-'रम्याणि इन्दुमुखि ते किलकिञ्च्च्वितानि'। प्रगृह्यताप्रयुक्तं त्व्रसकृदेव। 'अहो अमी इन्दुमुखी- विलासाः' एवमेव च यनत्र-लोपप्रयुक्तम्। 'अपर इनव एते कामिनीनां दगन्ताः'। कथं तर्हि- 'भुजगाहितप्रकृतयो गारुडमन्ना इवावनीरमण । तारा इच तुरगा इव सुखलीना मत्रिणो भवतः ॥।' इति भवदीयं काव्यमिति चेदकृत्वैव यलोपं पौठान्न दोषः। एवं रोरु- त्वस्य हलि लोपस्य यणगुणवृद्धिसवर्णदीर्घपूर्वरूपादीनां नैकट्येन वाहुल्य- मश्रव्यताहेतुः। एवमिमे सर्वेऽप्यश्रव्यभेदाः काव्यसामान्ये वजेनीयाः। अथ विशेषतो वर्जनीयाः। तत्र मधुररसेषु ये विशेषतो वर्जनीया अनु- पदं वक्ष्यन्ते त एवौजस्विष्वनुकूलाः, ये चानुकूलतयोक्तास्ते प्रतिकूला इति सामान्यतो निर्णयः। मधुररसेपु दीर्घसमासं झयूघटितसंयोगपरह- स्वस्य विसर्जनीयादेशसकारजिह्वामूलीयोपध्मानीयानां टवर्गझयां रेफह-

वस्तुत एकपदगतत्वेन तत्वाभावादिति भावः । असकृतु सुतरामिति। भिन्नपद- गनस्य संयोगस्य दीर्घानन्तर्यमसकृच्चेत्तर्हि सुतरामश्रव्यमित्यर्थः । अश्रव्यत्वमंशे इति शेषः । काव्यस्य पड्डत्वमिवेत्यन्वयः । रसाद्यप्रतीतेस्तत्वमिति भावः । किलकिञ्चितानि हावविशेषा इत्यर्थः । प्रयुक्तं तु संध्यकरणमित्यनुषङ्गः । एवमग्रेऽपि। असक्कृदेवेति । अन्यथा शास्त्रानर्थक्यं स्यादिति भावः। यवलोपे 'लोपः शाकल्यस्य' इति। तत्र यलो- पोदाहरणमाह-अपर इति। इषव इति 'इव त' इति पाठान्तरम्। भुजगेति। हे पृथ्वीनाथ, तवामात्याः गारुडमन्ररा इव भुजगाहितप्रकृतयः, तारा इव तुरगा इव सुखलीना इत्यन्वयः । भुजगानां सर्पोणं विटानां चाहिता प्रकृतिर्येषाम्। सुखेष्वा- सकाः। सुष्ठ खे आकाशे लीनाः। सुष्टु खलीनं येषां ते तादृशाश्वत्र्थः। उपसंहरति- एवमिति। उत्तप्रकारेणेत्यर्थः । सर्वेऽपि वर्णानां स्वानन्तर्यमित्यादिनोक्ताः । तत्र तेषां मध्ये। ये चेत्यादौ यथाक्रमं सप्तम्यन्तद्वयानुषङ्गः। समासमित्यस्य वर्जयेदित्यत्र- न्वयः । अग्रिमसर्वषध्ठ्यन्तानामसकृत्प्रयोगमित्यत्रान्वयः । सवर्णेति । 'तुल्यास्य'मिति १ मब्रायिव तारायिवेत्यादि पठनीयमिति भावः । ८ रस०

Page 148

८६ काव्यमाला। [प्रथमानने-

कारान्यतरघटितसंयोगस्य हलां लनम-न-भिन्नानां स्वात्मना संयोगस्य झयुद्यघटितसंयोगस्य चासकृत्प्रयोगं नैकट्येन वर्जयेत्। सवर्णझयूद्वय- घटितसंयोगस्य शर्भिन्नमहाप्राणघटितसंयोगस्य सकृदपीति संक्षेपः । दीरघसमासो यथा- 'लोलालकावलिवेलन्नयनारवि लीलावशंव दितलोकविलोचनायाः । सायाहनि प्रणयिनो भवनं व्रजन्त्या- श्चेतो न कस्य हरते गतिरङ्गनायाः ।।' झयूघटितसंयोगपरह्वस्वानां प्राचुर्य नैकट्येन यथा- 'हीरस्फुरद्रदनशुभ्रिमशोभि किं च सान्द्रामृतं वदनमेणविलोचनायाः । वेधा विधाय पुनरुक्तमिवेन्दुबिम्बं दूरीकरोति न कथं विदुषां वरेण्यः ।।' अत्र भ्रिशब्दपर्यन्तं शृङ्गाराननुगुणम्। शिष्टं तु रमणीयम् । उत्त- रार्धे ककारतकाररूपझयुद्वयसंयोगस्य सत्वेऽपि प्राचुर्याभावान्न दोषः । यदि तु 'दन्तांशुकान्तमरविन्दरमापहारि सान्द्रामृतं' इत्यादि क्रियते तदा सर्वमेव रमणीयम् । विसर्गप्राचुर्य यथा- 'सानुरागा: सानुकम्पाश्चतुराश्शीलशीतलाः । हरन्ति हृदयं हन्त कान्तायाः स्वान्तवृत्तयः ॥' अत्र शकारद्वयसंयोगान्तं पूर्वार्ध माधुर्याननुगुणम्।

सवर्णसंज्ञकेत्यर्थः । अपिना सकृत्समुच्चयः। नैकट्येन प्रयोगं व्जयेदित्यस्यानुषङ्गः । 'चलन्' इति पाठेऽपि स एवार्थः । वशंवदितानि स्वाधीनीकृतानि। सायाहनि सायंकाले। हीरेति। हीरैहींरवद्वा स्फुरन्तो ये रदना दन्तास्तेषां शुभ्रिम्णा शुभ्रलेन शोभते तच्छीलम्। सान्द्रं घनममृतं यस्मिस्तत् । यद्वा नञ काक्काम्। अपि तु दूरीकरोत्येव। परिवेषच्छलेनेति भावः । यदि त्विति। दन्तकिरणरम्यं कमलशोभापहारीत्यर्थः। हरन्ति। ममेति शेषः। नायकोक्तिरियम्। पूर्वार्ध तदैवयवभूतम्। जिह्वेत्यस्य विसर्गादेशेत्यादिः । एवमग्रेऽपि। १ अलकावलिश्च नयनारविन्दे च एषां लीलया वशंवदितानि लोकलोचनानि यया। २ पूर्वार्धावयवभूतमिति व्याख्यया किं बुबोधयिषितं नागेशमहोदयस्य? शकारद्वयसंयोगान्तं पूर्वार्ध माधुर्याननुगुणमिति मूले सोयमर्थोडस्पष्टः किम् ?।

Page 149

वर्ज्यवर्णा: ] रसगङ्गाघर: ।

जिह्वामूलीयप्राचुर्य यथा- 'कलित कुलिशघाताX केऽपि खेलन्ति वाताX कुशलमिह कथं वा जायतां जीविते मे। अयमपि वत गुञ्जन्नालि माकन्दमौलौ चुलुकयति मदीयां चेतनां चञ्रीकः ॥' अत्र द्वितीयजिह्वामूलीयपर्यन्तमननुगुणं माधुर्यस्य। यदि च 'कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः' इति विधीयते, तदा नायं दोषः। उपध्मानीयप्राचुर्य यथा- 'अलकाष फणिशावतुल्यशीला नयनान्ताX परिपुङ्धितेषुलीलाः । चपलोपमिता खलु स्वयं या वत लोके सुखसाधनं कथं सा ।।' अत्न द्वावुपध्मानीयावेव न शान्तानुगुणौ। टवर्गझयः प्राचुर्य यथा- 'वचने तव यत्र माधुरी सा हृदि पूर्णा करुणा च कोमलेऽभूत्। अधुना हरिणाक्षि हा कथं वा कटुता तत्र कठोरताविरासीत्।।'

कलितेति। नायिकोक्ति: सखीं प्रति। कलितः कृतः कुलिशवद्वज्रवद्ातो यैस्तादशाः केऽपि विलक्षणा वाताः खेलन्ति क्रीडां कुर्वन्ति। अत इह देशे मम जीविते कुशलं क्थं जायताम्। वाशब्दः पादपूरण इवार्थे वा। कारणान्तरमाह- अयमिति । हे आलि, माकन्दतरूमौलावाम्रतरुमस्तके गुञ्जन्नयमपि चश्चरीको भ्रमरः । बतेति खेदे। मदीयां चेतनां चुलकयति। चुलकनदापिबतीत्यर्थः । मलयाचलस्थतरुस्थितसपेमुखनिःसता इत्यर्थः । अत एव कृतान्ताः। अत्र सकृ- तसत्त्वेऽपि प्राचुर्याभावः। अलका इति। यस्या इति शेषः । पुङ्गयुक्तबाणसदृश- लीलाः । चपला विद्युत्। एतेनान्यत्सर्व रमणीयमिति सूचितम्। वचन इति। हे कोमले, तत यत्र वचने सा माधुरी, खान्ते पूर्णा करुणा चाभूत्। हे

१ इंदं संबोधनं वा, हृदीत्यस्य विशेषणं वेति सहृदयैविंचारणीयम्।

Page 150

८८ काव्यमाला। [ प्रथमानने- 'अधुना सखि तत्र हा कथं वा गतिरन्यैव विलोक्यते गुणानाम्' इति त्वनुगुणम्। रेफघटित संयोगस्यासकृत्प्रयोगो यथा- 'तुलामनालोक्य निजामखर्वं गौराङ्गि गर्वं न कदापि कुर्याः। लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु॥' यदि तु 'तुलामनालोक्य महीतलेऽस्मिन्' इति निर्मीयते तदा साधु। हलां ल-म-न-भिन्नानां स्वात्मना संयोगस्यासकृत्प्रयोगो यथा-'विग- णय्य मे निकाय्यं तामनुयातोऽसि नैव तन्न्याथ्यम्।' ल-म-नानां खात्मना संयोगस्तु न तथा पारुष्यमावहति। यथा- 'इयमुल्लसिता मुखस्य शोभा परिफुलल नयनाम्बुजद्वयं ते। जलदालिमयं जगद्वितन्वन्कलितः कापि किमालि 'नीलमेघः ॥ झयूद्वयघटित संयोगस्य यथा- 'आ सायं सलिलभरे सवितारसुपास्य सादरं तपसा। अधुनाब्जेन मनाक् तव मानिनि तुलना मुखस्याप्ता ॥' अत्र द्वितीयार्धेमरम्यम्। 'सरसिजकुलेन संप्रति भामिनि ते मुखतु- लाधिगता' इति तु साधु। सवर्णझय्द्वयघटितसंयोगस्य सकृत्प्रयोगो यथा- 'अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाक्कुरुषे। अधुनैव कलय शमितं राकारमणस्य हन्त साम्राज्यम् ।।'

अधुना। हा इति खेदे। कथामव तत्र यथाक्रमं कटुता कठोरता चाविरासीदित्यर्थः । अत्रोत्तरार्े टवर्गझयां नैकट्येन प्राचुर्य बोध्यम्। अत एवाह-अधुनेति। अखर्व गर्व- मित्यन्वयः । गहनं काननम्। साध्विति। एकत्र सत्त्वेऽपि प्राचुर्याभावः । हकारघटि- तसंयोगस्यासकृत्प्रयोगोदाहरणं त्रुटितमत्र । निकाय्यं निवासम्। तां सपत्नीम् । नायिकोक्तिर्नायकं प्रति। वहतीति। अतस्तदन्यत्वं निवेशितमिति भावः । इय- मिति। अधुना द्वितीयेऽहि। अयीति। अयि तन्वङ्गि, यदि वदनं मनाक् मन्दस्मि- १ हे आलि ! किं नीलमेघ: (मेघत्वेनाध्यवसितः श्रीकृष्णः) कलितो मिलितः ? 'कल' कामघेनुः । लक्षिता नायिका।

Page 151

वर्ज्यवर्णाः ] रसगङ्गाधर: । ८९

नन्वत्र ककारद्वयसंयोगस्य हल्घटितस्वात्मसंयोगत्वेनैव निषेधात्क- खसंयोगस्य महाप्राणसंयोगनिपेधविपयत्वात्तृतीयसंयोगस्य चासंभवात्स- वर्णझयद्वयसंयोगनिपेधो निरवकाश इति चेन्, न। सकृत्प्रयोगविषयत्वे- नास्य पार्थक्यात्। अन्यथा मनाकुरुप इति निर्दोषं स्यात्। महाप्राणघटितसंयोगो यथा- 'अयि मृगमदबिन्दुं चेद्धाले वाले समातनुपे।' उत्तराध तु प्राचीनमेव । एवं त्वप्रत्ययं यङन्तानि यङ्लुगन्तान्यन्यानि च शाब्दिकप्रिया- ण्यपि मधुररसे न प्रयुञ्जीत। एवं व्यङ्ग्यचर्वणातिरिक्तयोजना विशेषापेक्षा- नापाततोऽविकचमत्कारिणोऽनुप्रासनिचयान् यमकादींश्च संभवतोऽपि कविन निवन्नीयात्। यतो हि ते रसचर्वणायामनन्तर्भवन्तः सहृदयहृदयं स्वाभिमुखं विद्धाना रसपराडुखं विदधीरन्, विप्रलम्भे तु सुतराम्। यतो मधुरतमत्वेनास्य निर्मलसितानिर्मितपानकरसस्येव तनीयानपि स्वातकयमा- वहन्पदार्थः सहृदयहृदयारुंतुदतया न सर्वथैव सामानाधिकरण्यमर्हति। यदाहु :- 'ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम्। शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥।'

तमधुरं कुरुषे तर्हि अधुनैव। न तु कालान्तरे। हन्तेति हषे। चन्द्रस्य साम्राज्यं शमितं कलय। जानीहीत्यर्थः । कखेति। खादिधातुपाठे इति भावः । व्यङ्ञ्येति।' व्यङ्ग्यास्वादान्यो यो योजनाविशेषः पदार्थानां तदपेक्षा नेत्यर्थः । यतो हीति। निपातसमुदायो हेतौ। सुतरामिति।पूर्वोक्तसर्वानुषङ्गः। तनीयानपि पदार्थो रजःकणः पदार्थैकदेशश्च स्वातन्नयं स्वाभिमुखतं कुर्वन्नित्यर्थः। निबन्धनं शक्तावपि प्रमादित्वरूपं १ सवर्णझय्घटितसंयोगो यो यः संभवति तस्य प्रकरणेडस्मिन्निषेधसमावेशप्रकारं निर्दिश्य- *किमित्ययं (सवर्णझय्संयोगः) निषेध्येषु गणित इति' शङ्का। अन्येषामसकृत्प्रयोगो निषिद्धः, अस्य तु सकृदपीति पार्थक्यार्थ गणनमिति समाधानम्। २ व्यङ्गयास्वादं विहाय येषां योजनायां विशेषप्रकारस्य यतस्यापेक्षा एतादृशान्। ३ सह संनिवेशम्।

Page 152

९० काव्यमाला। [श्रथमानन-

ये तु पुनरछ्विष्टतयानुन्नतस्कन्धतया च न पृथग्भावनामपेक्षन्ते, किं तु रसचर्वणायामेव सुसुखं गोचरीकर्तु शक्याः, न तेषामनुप्रासादीनां त्यागो युक्त:। यथा 'कस्तूरिकातिलकसालि विधाय सायं स्मेरनना सपदि शीलय सौधमौलिम्। प्रौढिं भजन्तु कुमुदानि मुदामुदारा- मुल्लासयन्तु परितो हैरितो मुखानि॥' इत्थमेते प्रसङ्गतो मधुररसाभिव्यञ्जिकायां रचनायां संक्षेपेण निरू- पिता दोषा: । 'एभिर्विशेषविषयैः सामान्यैरपि च दूषणै रहिता। माधुर्यभारभङ्गुरसुन्दरपदवर्णविन्यासा। व्युत्पत्तिमुद्िरन्ती निर्मातुर्या प्रसादयुता । तां विबुधा वैदर्भी वदन्ति वृत्तिं गृहीतपरिपाकाम्।' अस्यामुदाहृतान्येव कियन्त्यपि पद्यानि। यथा वा- 'आयातैव निशा निशापतिकरैः कीर्ण दिशामन्तरं भामिन्यो भवनेषु भूषणगणैरुल्लासयन्ति श्रियम्। वामे मानमपाकरोषि न मनागद्यापि, रोषेण ते हा हा बालमृणालतोऽप्यतितमां तन्वी तनुस्ताम्यति॥'

भवतीत्यर्थः । अनुन्नतेति। अनुन्नतविस्तारतया चेत्यर्थः । सुसुखमत्यन्तसुखं यथा तथा। क्वचित् 'सुखम्' इत्येव पाठः। सौधमौलिं सुधानिर्मितप्राकारोर्ध्वप्रदेशम्। मुदां औ्ढिमित्यन्वयः । उपसंहरति-इत्थमिति। प्रसङ्गादृत्ति निरूपयति-एभिरिति। माधुर्यभारेण भङ्गरोऽत एव सुन्दरः पदानां वर्णानां च विन्यासो रचना यस्यां सा। निर्मातुर्व्युत्पत्तिमुद्धिरन्तीत्यन्वयः। प्रसादगुणेन युता। गृहीतः परिपाको रसचर्वणा यस्यां सा। कीर्ण व्याप्तम्। श्रियं शोभाम्। तन्वी कृशा। अस्या वैदर्भ्याः । भङ्गमुदा- १ अनेन हि शशाङ्कगतमेचकचिह्वसंपत्त्या कुमुदादीनामुल्लासनाय पूर्णचन्द्रत्वं ध्वन्यते। २ अनेन हि ज्योत्साजालविच्छुरणं ध्वन्यते। ३ हरितः (दिशः) स्वमुखानि उद्धासयन्तु इत्यन्वयः ।

Page 153

रचनालोचना ] रसगङ्गाघर: । ९१

अस्याश्च रीतेर्निर्माणे कविना नितरामवहितेन भाव्यम्। अन्यथा तु परिपाकभङ्ग: स्यान्। यथामरुककविपद्य- 'शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै- र्निद्राव्याजसुपागतस्य सुचिरं निर्वर्ण्य पत्युर्सुखम्। विस्नव्धं परिचुम्व्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता वाला चिर चुम्बिता ॥' अत्रोत्थाय किंचिच्छनैरित्यत्र सवर्णझयद्वयसंयोगस्तत्रापि नैकट्येनेति सुतरामश्रव्यः । एवं झय्घटितसंचोगपरह्वस्वस्वापि। तथा शनैनिद्रेत्यत्र, निर्वर्ण्य पत्युर्मुखमित्यत्र च रेफघटितसंयोगस्य, झयूघटितसंयोगपरह्वस्वस्य च प्ाचुर्यम्। विस्नब्धमित्यत्र महाप्राणघटितस्य, लज्जेत्यत्र स्वात्मसवर्ण- झयूद्वयघटितस्य, मुखी प्रियेणेत्यत्र भिन्नपद्गतदीर्घानन्तरस्य संयोगस्य, तथा क्त्वाप्रत्ययस्य पञ्चकृत्वः, लोकतेश्च धातोर्द्विः प्रयोग: कवेर्निर्माणसा- मग्रीदारिदं प्रकाशयति। इत्यलं परकीयकाव्यविमर्शनेन। इति संक्षेपेण निरूपिता रसा:। अथ भावध्वनिर्निरूप्यते- अथ किं भावत्वम् १ विभावानुभावभिन्नत्वे सति रसव्यञ्जकत्वमिति चेत्, रसकाव्यवाक्येऽतिव्याप्यापत्तेः । अर्थद्वारा शब्दस्यापि व्यञ्ञ- कत्वात्। द्वारान्तरनिरपेक्षत्वेन व्यञ्जकत्वे विशेषिते त्वसंभवः प्रसज्येत । भावस्यापि भावनाद्वारैव व्यञ्जकत्वात्, भावनायामतिव्यात्यापत्तेश्र ।

हरति-यथेति। अत्र लज्जेति पृथक्पदम्। तेन समानकर्तकत्वोपपत्तिः। एवमिति। उक्तस्थल एवेत्यर्थः। नैकट्येनासकृत्प्रयोगोऽश्रव्य इति भावः । प्राचुर्यमिति । तथा चाश्रव्यमिति भावः । स्वात्मेति। खात्मघटितः सवर्णझय्द्वयघटितश्रेति दोषद्व- यम्। घटितस्येति। द्वयस्य संयोगस्येत्यन्रान्वयः । सकृदिति तस्य शेषः । तस्य च प्रयोग इत्यत्रान्वयः । एवमग्रेऽपि। तस्य प्रकाशने क्तृतम्। निर्माणेत्यस्य काव्येत्यादिः । अथ रसनिरूपणानन्तरम्। भावना पुनः पुनरनुसंधानम्। अत एव च भावनायामति- १ भावना हि द्वारान्तरमनपेक्ष्य रसं व्यनक्ति । ततश्च तस्यामपि 'विभावानुभावभिन्नत्वे सति द्वारान्तरनिरपेक्षं रसव्यञ्जकत्वं-भावत्व'मतिप्रसक्तमिति भावः ।

Page 154

९२ काव्यमाला। [प्रथमानने-

अत एव च विभावानुभावभिन्नत्वस्येव शव्दभिन्नत्वस्यापि तद्विशेषणत्वे न निस्तारः। प्रधानध्वन्येमानभावे रसव्यञ्जकताभावादव्यात्यापत्तेश्र। न च त्रापि प्रान्ते रसोऽभिव्यज्यत एवेति वाच्यम्। भावध्वनिविलोप- अ्रसङ्गात्। भावचमत्कारप्रकर्षाद्धाव्ध्वनित्वम्। रसस्तु तत्र व्यज्यमानो- प्यचमत्कारित्वान्न ध्वनिव्यपदेशहेतुरित्यपि न शक्यं वदितुम्। चम- त्काररहितरसव्यक्तौ मानाभावात्। रसे हि धर्मिग्राहैकमानेनानन्दांशाSवि- नाभावस्य प्रागेवावेदनात्। अस्तु वा प्राधान्येन ध्वन्यमानस्यापि भावस्य प्रान्ते रसाभिव्यञ्जक- त्वम्। तथापि देशकालवयोवस्थादिनानापदार्थघटिते पद्यवाक्यार्थे तथा-

व्याप्तेरेव च। तद्विशेषणले व्यञ्ञकत्वविशेषणले। अस्तु वा प्राधान्येनेति। रसं प्रति गुणीभूतलेऽपि वाच्यातिशायितवात्तङ्धनित्वं राजानुगम्यमानविवहनप्रवृत्तभृत्यस्येव रसापेक्षयापि हि अस्य प्राधान्यमस्ति। अत एव न भावध्वनिविलोप इति भावः । तथापि उक्तस्थलेऽव्याप्यापत्त्यभावेऽपि। तथापि विभावानुभावभिन्नत्वे सति [शब्द- भिन्नत्वे सति] रसव्यञ्जकत्वमित्युक्तावपि। भिन्नत्वे सतीत्युपलक्षणं शब्दभिन्नत्वे सती- १ भावना हि शब्दाद् भिन्ना सत्येव द्वारान्तरनिरपेक्षा रसं व्यज्जयतीति। २ तत्र हि स भाव एव विभावादिसामध्या व्यङ्गयो भवति, न स रसव्यअ्जकस्तत्र भावत्वं न सिध्येदित्याशयः । ३ चरमा रसाभिव्यक्तिरेव चेत्परिगण्येत तर्हि भावध्वनिस्थलेपि चरमां रसप्रतीतिमालम्ब्य रसत्वव्यपदेशः स्यादिति भावध्वनिव्यपदेशस्य लोप एव स्यादित्याशयः । ४ ननु भावध्वनिस्थले रससत्तायामपि भावकृतश्चमत्कार एव तत्र प्रकृष्टो न रसस्य चम- तकार इति विभावानुभावभिन्नत्वे सति शब्दभिन्नो रसाभिव्यञ्ञको भाव इति लक्षणे न दोषः स्यादिति चेत्, न। अभिव्यक्तो रसश्चमत्काररहितो भवेदत्र न किञ्ञिन्मानम्? ५ धर्मिंणो रसस्य श्रहकं प्रत्यायकं यन्मानं प्रमाणं तेनैव रसस्य आनन्दांशाSविनाभावि- त्वस्य प्रतिपादनात। अयं भाव :- विभावादिव्यज्ञनया यया सामयया रसाभिव्यक्त: साधिता तयैव हि रसोद्वोधे सति आनन्दस्यावश्यंभावित्वमप्यावेदितम्। भ्नावरणस्य चिदानन्दस्यैव रसत्वव्यपदेशात्। ६ ननु भावव्वनिस्थले चरमचमत्कारिरसाभिव्यक्तौ स्वीकृतायामपि विभावानुभावभिन्नत्वे सति शब्दभिन्न-रसाभिव्यअ्कत्वरूपे भावत्वे भावध्वनित्वविलोपो न स्यात्। रसं प्रति गुणी- भावेऽपि वाच्यातिशायित्वाद्द्ावध्वनित्वाऽक्षतेः, रसचमत्कारेऽपि राजानुगतस्य विवाहप्रवृत्त- भृत्यस्येव ध्वन्यमानभावस्य प्राधान्याद्ा । इति, पूर्वपक्षिण उक्तौ तथापि देशकालेत्यादिना दोषान्तरदानम्।

Page 155

भावध्वनि: ] रसगङ्गावर: ९१

प्यतिव्याप्तिः । तस्य विभावानुभावभिन्नत्वे सति रसाभिव्यञ्जकत्वात् । नापि रसाभिव्यञ्जकचर्वणाविषयचित्तवृत्तित्वं तत्वम्। भावादिचर्वणा- यामतिप्रसङ्गवारणाय चर्वणाविषयेति चित्तवृत्तिविशेषणमिति वाच्यम् । 'कालागुरुद्रवं सा हालाहलवद्विजानती नितराम्। अपि नीलोत्पलमालां वाला व्यालावलिं किलामनुते।।' •इत्यत्र हालाहलसदशत्वप्रकारज्ञाने अतिव्याप्तेः । तस्य विप्रलम्भानु- भावत्वेन रसाभिव्यञ्जकचर्वणाविषयत्वान्, चित्तवृत्तित्वाच। नाप्य- खण्डम्। तत्त्वे मानाभावात्। अत्रोच्यते- विभ्ववादिव्यज्यमानहर्षा्यन्यतमत्वं तच्वम्॥ यदाहु :- 'व्यभिचार्यञ्जितो भावः' इति। हर्षादीनां च सामाजिकग- तानामेव स्थायिभावन्यायेनाभिव्यक्तिः । सापि रसन्यायेनेति केचित्। व्यङ्ञ्यान्तरन्यायेनेत्यपरे मन्यन्ते।

त्यस्यापि। नापीत्यस्य वाच्यमित्यत्रान्वयः । चर्वणा आस्ादः। चर्वणायामतीति। रसाभिव्यज्ञकचित्तवृत्तित्वस्य तस्यां सत्त्वादिति भावः । कालागुरुदरवं नितरां हालाह- लवद्विजानती सा बाला नीलोत्लमालामपि व्यालावलिं किलामनुत इत्यन्वयः । तस्य ज्ञानस्य। चित्तवृत्तित्वाच्चेति। अन्रैवानुभावभिन्नत्वे सतीति विशेषणदाने को दोष इति चिन्त्यम्। अखण्डं भावत्वमिति शेषः। तत्वे अखण्डत्वे। विशेष्यमात्रोक्तौ तेर्षा शब्दवाच्यत्वे तत्त्वापत्तिः। अतः विभावादीति। तावन्मात्रोक्तों रसेतिप्रसङ्ग इति समु- दितमुपात्तम्। अज्ञितोऽभिव्यक्तो व्यभिचारी भाव इत्यर्थः । स्थायिभावेति। प्रति- पादितमेतदधस्ताङ्रन्थकृता। सापि तद्गतानां तेषां तथाभिव्यक्तिरपि। व्यड्या- न्तरेति। रसापेक्षया भिन्नं यद्यङ्ञयं वस्तलंकारादि तद्रीत्ेत्यर्थः । तथा च रसापे- १ भावत्वमखण्डोपाधिः । एतस्मिन् हि लक्षणनिदेशो नावश्यकः । २ मतत्रयमेवम्-वासनारूपेण सामाजिकानां हृदि स्थिताः स्थायिभावा नाटककाव्यादिषू- मस्थितैर्विरुद्धाSविरुद्धभावैरनभिभूततया तत्तदभिव्यक्तितामग्रया यथा स्थिरामभिव्यक्ति लभन्ते तथा इमे हर्षादयोपीति सिद्धान्तभूतः प्रथम; पक्षः। सामाजिकानां हृदि निसर्गेण वर्तमानोऽपि विभावानुभावाद्यभिव्यक्तिसामय्रया सत्त्वोद्रेकेण पिधाननिवृत्तौ स्थायिभावोपहितो भन्नावरणश्चिदानन्द एव यथा रसत्वेनाभिव्यज्यते तथा विभा- वाद्यभिव्यक्तिसामग्रया उद्रिक्तसत्वतया भभनावरणन्विद्विशिष्टा भावा अपि सामाजिकानां हृद्यभि- व्यज्यन्ते इति केचित्पदसंदृब्धो द्वितीयः कल्पः । वाचक-लक्षकादिशब्दद्वारा वाच्य-लक्ष्याद्यर्थोपस्थितावपि वक्तबोद्धव्यादिवैशिष्टये सत्यनुर- गनन्यायेन वस्त्वलंकारात्मको व्यङ्चो यथा श्रोतृणां हृद्यभिव्यज्यते तथा विभावादिवाचक- तत्तच्छव्दप्रत्ययानन्तरमनुरणनन्यायेन भावा अपीमे सामाजिकानां हृद्यभिव्यज्यन्त इत्यपरे पदघटितं तृतीयं मतम् ।

Page 156

९४ काव्यमाला। [प्रथमानने-

विभावातुभावौ चात्र व्यञ्ञकौ। न त्वेकस्मिन्व्यभिचारिणि ध्वन्यमाने व्यभिचार्यन्तरं व्यञ्जकतयावश्यमपेक्ष्यते, तस्यैव प्राधा- न्यापत्ते:। वस्तुतस्तु प्रकरणादिवशात्प्राधान्यमनुभवति कस्मिंश्चिद्भावे तदीयसामग्रीव्यङ्गयत्वेन नान्तरीर्यकतया तनिमानमावहतो व्यभिचा- यन्तरस्याङ्गत्वेऽपि न क्षतिः । यथा गर्वादावमर्षस्य, अमर्षादौ वा गर्वस्य। न चैवं सति गुणीभूतव्यङ्गयत्वापत्तिः। पृरथग्विभावानुभावाभिव्य- क्तस्यैव (भावस्य), गुणीभूतव्यङ्गयव्यपदेशहेतुत्वात्। अत एव नान्तरी- यकस्य भावस्य ध्वननं भवति। अन्यथा गर्वादिध्वनेरुच्छेद एव भवेत् । विभावस्त्वत्र व्यभिचारिणो निमित्तकारणसामान्यम्। न तु रसस्येव सर्वथैवालम्बनोद्दीपने अपेक्षिते। यदि तु क्चित्संभवतस्तदा न वार्येते। हर्षादयस्तु-

क्यावेगजडतालस्यास्यापस्मारचपलताः। प्रतिपक्षकृतधिककारादि-

क्षयापकर्षः सूचितः । अत्र भावे। तस्यैव व्यभिचार्यन्तरस्य। प्रकरणादीनां तात्पर्ये नियामकत्वेन न तदापत्तिरित्याशयेन सिद्धान्तमाह-वस्तुतस्त्विति। तदीयेति। प्रधानभावीयेत्यर्थः । नान्तरीयकत्वे हेतुरयम्। अत एवाग्रे 'अत एव नान्तरीयकस्य' इति वक्ष्यति। तनिमानमिति । कशिमानमित्यर्थः । विनिगमनाविरहादाह-अम- षादो वेति। एवं सति व्यभिचार्यन्तरस्य प्रधानभावेऽद्वत्वे सति। भावशरीरनिवि- षहर्षादीनाह-हर्षादय इति। एतेन पुत्रादिविषयरतेर्मुनिना भावतगणनेनेत्यर्थः । १ नित्यसंबद्धतया। अयं संदर्भस्याशय :- प्रकरणवशात्प्रधाने कस्मिश्चिद्भावे तेन भावेन सह नित्यसंबद्धः, तनिमानमावहन् (स्तोकं प्रकाशमानः) अन्योपि कश्चिद्भावः प्रधानाभि व्यक्तिसामग्रयैव यद्यङ्गतयाऽभिव्यज्यते, यथा गर्वादावमर्षः, तत एकस्मिन् भावे न केवलं विभा- वानुभावयोरेव, अपि तु भावान्तरस्यापि व्यञ्षकत्वे न दोषः । ननु भावं प्रति भावोऽत्र गुणी- भूत इति गुणीभूतव्यङ्गयत्वस्य व्यपदेशो भवेन्न ध्वनित्वस्य। इति तु न शङ्कितव्यम्, यत्राङ्गभूतो भाव: पृथग विभावानुभावाभ्यामेवाभिव्यज्यते न तु प्रधानभावाभिव्यक्तिसामऊ्रया, तत्रैव गुणीभूतव्यञ्कयत्वव्यवहारात्। अन्यथा गर्वादिस्थले अमर्षादेनान्तरीयकतया गर्वादिध्वने- रुच्छेद एव स्यात्। २ पृथग्विभावानुभावाभिव्यक्तस्य अत एवाऽनान्तरीयकस्य भावस्य भावान्तरगुणीभूतव्य जयव्यपदेशहेतुत्वाद। इति काशीमुद्रितपुस्तकपाठः ।

Page 157

भावध्वनिः ] रसगङ्गाघर: ।

जन्मा निर्वेदश्वेति त्रयसित्रिंशद्यभिचारिणः । गुरुदेवनृपपुत्रादिविषया रतिश्रेति चतुस्त्रिंशत् । एतेन वात्सल्याख्यं पुत्राद्यालम्बनं रसान्तरमिति परासम्। उच्छृङ्खल- ताया सुनिवचनपराहतत्वात्। तत्र इष्टप्राह्यादिजन्मा सुखविशेषो हर्षः ॥ तदुक्तम्- 'देवभर्तृगुरुस्वामिप्रसाद: प्रियसंगमः । मनोरथाप्तिर प्राष्यमनोहरधनागमः ।। तथोत्पत्तिश्च पुत्रादेर्विभावो यत्र जायते। नेत्रवक्रप्रसादश्च प्रियोक्ति: पुलकोद्रमः ॥। अश्रुस्वेदाद्यञ्चानुभावा हर्ष तमादिशेन् ।' इति। उदाहरणम्- 'अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना । अवलोक्य समागतं तदा मामथ रामा विकसन्मुखी बभूव ।' अन्नावधिकाले प्रियागमनं विभावः । सुखविकासोऽनुभावः । सँस्कारजन्यं ज्ञानं स्मृतिः ।। यथा- 'तन्मञ्जु मन्दहसितं श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः । अद्यापि मे हृदयमुन्मद्यन्ति हन्त सायंतनांम्बुजसहोदरलोचनायाः ।।'

तदाह-उच्छुङ्गलेति। तत्र हर्षादीनां मध्ये। देवेत्यादि उत्पत्त्यन्तो विभावो यत्र जायते, नेत्रेत्याद्युक्ता अनुभावा यत्र जायन्ते तं हर्षमादिशेदित्यर्थः । तदा अवधिकाले। अथ हर्षानन्तरम्। श्रीरित्यग्रे चेति शेषः। तङ्धनित्वं भावध्वनित्वम्। पूर्वमते स्मृति- १ वस्तुनो दर्शनश्रवणादिना हृदये योडयं संस्कारः संचीयते तज्जन्यं ज्ञानमित्यर्थः। २ उत्तरोत्तरं निमीलनोन्मुख-नयनाया इत्याशयः ।

Page 158

९६ काव्यमाला। [ प्रथमानने- चिन्ताविशेषोऽ्र विभावः । भ्रून्नतिगात्रनिश्चलत्वादय आक्षेपगम्या अनुभावाः। यद्यप्यत्रास्या एव स्मृते: संचारिण्याः, नायिकारूपस्य विभा वस्य, हन्तपद्गम्यस्य हृदयवैकल्यरूपानुभावस्य, संयोगाद्विप्रलम्भर- साभिव्यक्ते रसध्वनित्वं शक्यते वक्तुम्, तथापि स्मृतेरेवात्र पुरःस्फूर्तिक- त्वाच्चमत्कारित्वाच्च त्धनित्वमुक्तम्। तदादेर्बुद्धिस्थप्रकारावच्छिन्ने शक्ति रिति नये बुद्धे: शक्यतावच्छेदकानुगमकतया न वाच्यतासंस्पर्शः। बुद्धिस्थत्वं शक्यतावच्छेदकमिति नयेऽपि स्सृतित्वेन स्मृतेर्व्यक्तिवेद्यतैव।

त्वेन स्मृतेर्वाच्यत्ात्कर्थं भावध्वनिलमत आह-बुद्धरिति। शक्यतावच्छेदकतावच्छे- दकस्येत्यर्थः । द्वितीयमते बुद्धिस्थतस्य वाच्यत्वेऽपि न स्मृतित्वस्य तत्त्वमित्याह-स्सृति- त्वेन स्मृतेरिति । व्यक्तिर्व्यज्ना । 'व्यञ्गयस्य कथमपि वाच्यवृत्त्यनालिद्ितस्यैव

१ अस्य शङ्कासमाधानप्रघट्टकस्य सर्वस्यापि निर्गलितः सारांशो निर्दिश्यते-'तत्'पदस्या- थविषये नैयायिकानां मतद्यम्। तत्पदेन हि बुद्धिस्थत्वेनाSनुगतीकृतः असाधारणपदार्थो बोध्य इति प्रथमम्। बुद्धिस्थत्वरूपेण अनुगमकधर्मेण व्यवस्थितानां नानार्थानां बोधनादेव 'तत्'पदं सर्वार्थबोधकं सदपि अनेकार्थ न परिगण्यते। तदादिस्थले इदं बुद्धिस्थत्वमेव (धर्मः) सकलानां शक्यतावच्छेदकानाम् (शक्यविशेषणानाम्) अनुगमकं स्वीक्रियते। अयं चानुग- मकः कस्यापि पदस्य शक्यो न परिगण्यते इति प्रथममतस्य सारः । 'तत्'पदेन पदार्थस्य असा- धारणरूपेण बोधो न भवति, किन्तु बुद्धिस्थतवेन। बुद्धिस्थत्वं च शक्यतावच्छेदकमिति द्वितीयम्। बुद्धिस्थत्वेनानुगतीकृत: असाधारणः पदार्थो बोध्यत इति प्रथमे, बुद्धिस्थरूपोडथों बोध्यत इति द्वितीये। उभयत्रापि तत्पदेन बुद्धिस्थं परामृश्यते। बुद्धिर्ज्ञानं चैकमेव। समृतिर्ज्ञानरूपा। अन एव 'तत्'पदेन यदा बुद्धिस्थं परामृश्यते तदा तेन (तत्पदेन) ज्ञानरूपायाः स्मृतेरपि परा- मर्शात् तन्मक्ज० इत्यादिपद्यं स्मृतिध्वनेरुदाहरणं न संभवेत। अत्र हि तत्पदेन ज्ञानरूपायाः स्मृते: परामर्शात् स्मृत्या सह वाच्यतायाः संबन्धो जातः । ध्वनिश्च तत्रैव भवति यत्र हि व्यङ्गयार्थस्य वाच्यतावृत्तः कथमपि संस्पशों न भवेदिति शङ्का। प्रथममतानुसारमस्मिन्पद्ये तत्पदस्य शक्यः असाधारणसौन्दर्यविशिष्टं हसितादि। बुद्धिस्तु शक्यतावच्छेदकस्य अनुगम- मात्रं कारयति। सा वाच्या (शक्यः) न भवितुमर्हति। द्वितीयनयेऽपि-तत्पदस्य शक्यताव चछेदकं बुद्धिस्थत्वं भवति। ततश्च 'ब्रुद्धिस्थघटितबुद्धे: सामान्यज्ञानरूपेण प्रतिपादनेऽपि स्मृतित्वेन विशेषरूपेण स्मृतिर्व्यञ्ञनथैव बोध्या, न शक्त्या। तथा च मतद्वयेपि स्मृतेर्वांच्य- त्वाभावात्स्मृतिध्वनित्वमव्याहतमिति समाधानम्।

Page 159

भावध्वनि: ] रसगङ्गाघर: ।

तस्याश्रात्र वाक्यवेद्यत्वेऽपि पदस्यैव कुर्वद्रूर्षत्वात्पदध्वनिविषयत्वम् । एतेन भावानां पदव्यङ्गत्वे न वैचित्रयमिति परास्तम्। सायंतनाम्बुजोप- मोनेन नयनयोरुत्तरोत्त राधिकनिमीलनोन्मुखत्वध्वननद्वारा तस्या आनन्द- मग्नताप्रकाशः ।

. अनल्पनिःश्वासभरालसाङ्गं स्मरामि सङ्ग चिरमङ्गनायाः ।' इत्यत्र स्मृतिर्न भावः, स्वशब्देन निवेदनादव्यङ्ञयत्वान्। नापि स्मर- णालंकार:, सादश्यामूलकत्वात्। साहश्यमूलकस्येव स्मरणस्यालंकारत्वम्, अन्यस्य तु व्यञ्जितस्य भावत्वमिति सिद्धान्तात्। किं तु विभावै एव सुन्दरत्वात्कथंचिद्रसपर्यवसायी। स्त्रीणां पुरुपमुखावलोकनादेः, पुंसां च प्रतिज्ञाभङ्गपराभवादेरु- त्पन्नो वैवर्ण्याधोमुखत्वादिकारणीभूतश्चित्तवृत्तिविशेषो त्रीडा।।

चमत्कारितमित्यालंकारिकसमयः' इति पूर्वतनग्रन्थेन विरोधाच्चि्लमेतत्। व्यङ्गयता- वच्छेदकतया भासमानजात्यादिरूपेण यत्र वाच्यता तत्रवाचमत्कारिता। पूर्वोदाहरणे हि मनोरथत्वेच्छात्योर्घटतवकलशतवदेकतया तेन रूपेणव वाच्यतास्तीति न दोष इत्यपि कश्चित्। तस्या नायिकायाः। विभाव एव नायिकारप एव। कथंचित्साम- १ सर्वेण वाक्येन स्मृतिभावो यद्यपि वोध्यते तथापि 'तत्'पदनेव प्राधान्येन स्मृत्यभिव्यञ्जने स्फुरत्सामर्थ्यमिति पदप्रकाश्यध्वनित्वव्यपदेश इत्याशयः । २ उपमया। ३ नायिकैव चमत्कारितया ईषत्कन्धराSSनमनादिकमनुभावम्, आक्षित्तान् त्रीडादींश्र संचारिण:, समुपस्थाप्य रसमभिव्यनक्तीत्याशयः । एवमाक्षेपे परम्पराश्रयणमित्यव क्वेश इति कर्थंचित्पदस्याकूतम्। ४ शयिता सविधे इत्युदाहरणे वाच्यवृत्तः कथमपि स्पर्शे-ध्वनित्वविघातक इत्युक्तम्। अत्र च बुद्धिस्थत्वघटितबुद्धित्वरूपेण स्मृतेरपि सामान्यतया वाच्यतास्पर्श इति कथमयं ध्वनिः पूर्वग्रन्थविरोधात्। इति केषांचिदाक्षेपः । व्यञ्क्यतावच्छेदकतया भासमाना या जातिस्तज्जात्यादिरूपेण यत्र वाच्यता तत्रव अचन- त्कारकृतो ध्वनित्वनिरासः । शयिता सविधे इत्युदाहरणे वटत्व-कलशत्ववत् मनोरथत्वेच्छा- त्वयोरेकतया तेनैव रूपेण वाच्यतास्पशों भवतीति तत्र ध्वनित्वं निरस्यते। अत्र तु तथा नेति पण्डितराजोक्तो न दोष: इति समाधानम्। ९ रस०

Page 160

काव्यमाला। [प्रथमानने-

यथा- 'कुच कलशयुगान्तर्मामकीनं नखाङ्कं सपुलकतनु मन्दं मन्दमालोकमाना। विनिहितवदनं मां वीक्ष्य बाला गवाक्षे चकितनतनताङ्गी सद् सदो विवेश ।।' अत्र प्रियस्य दर्शनं तेने नायिका कर्तृ कतत्कुचान्तर्वर्तिप्रियनखक्षतावलो- कनजन्यहर्षाँवेदकतत्पुलकादेर्दे्शनं च विभावः । सदः सद्नप्रवेशोऽनु- भाव:। यथा वा- 'निरुच् यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो ददाने। मयि स्मितारद्रं वदनारविन्दं सा मन्दमन्दं नमयांबभूव।।' धूर्वत्र त्रास इवात्रापि हर्षो लेशतया सन्नपि व्रीडाया अनुगुण एव। प्रियकर्तृकं कपोतस्याग्रे कपोत्याः समर्पणं विभावः । वदननमनमनुभावः। भयवियोगादिप्रयोज्या वस्तुततत्वानवधारिणी चित्तवृत्तिर्मोहः । 'अवस्थान्तरशबलिता सा तथा' इति तु नव्याः । उदाहरणम्- 'विरहेण विकलहृदया विलपन्ती दयित दयितेति। आगतमपि तं सविधे परिचयहीनेव वीक्षते बाला।।' अत्र कान्तवियोगो विभावः । इन्द्रियवैकल्यं लज्जाद्यभावश्चानुभाव:। यथा वा- 'शुण्डादण्डं कुण्डलीकृत्य कूले कलोलिन्याः किंचिदाकुञ्विताक्षः। नैवाकर्षत्यम्बु नैवाम्बुजालिं कान्तापेतः कृत्यशून्यो गजेन्द्रः ।।'

ध्यन्तराभावकृतः क्रेशः । सपुलकतन्विति क्रियाविशेषणम । गवाक्षे विनिहितवदनमि- त्यन्वयः । चकितेत्यत्र कर्मधारयद्वयम्। तेनेति। प्रियेणेत्यर्थः । तत्कतृकमिति यावत्। पुलकादेर्दर्शनमित्यत्रान्वयः । तत्कुचेति । नायिकाकुचेत्यर्थः । एवमग्रेऽपि । सझ्श- ब्दार्थमाह-सद्नेति। तरसा शीध्रम्। स्मितेनार्द्रमिव नमयांबभूव नमयांचकार। १ चकिता नता च सा नताङ्गी। २ तेन प्रियेण अर्थाद् प्रियद्वारा। . ३ वस्तुतत्त्वानवधारणरूपमवस्थान्तरं प्राप्ता सा चिन्ताख्यचित्तवृत्तिरेव तथा अर्थात् मोहः ।

Page 161

भावध्वनिः ] रसगङ्गाधर: । ९ ९

धृतिः।। उदाहरणम्- 'संतापयामि हृदयं धावं धावं धरातले किमह्म्। अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः ॥' अन्र विवेकश्रुतसंपत्त्यादिर्विभावः । चापलादयुपशमोऽनुभावः । ननु चोत्तरार्धे चिन्ता नास्तीति वस्तुनोडभिव्यक्ते: कथमस्य धृतिभावध्वनित्व- मिति चेत्, तस्य घृत्युपयोगितयैवाभिव्यक्तेः । किमनिष्ट मम भविष्यतीत्याकारश्वित्तवृत्तिविशेष: शङ्का। उदाहरणम्- 'विधिवञ्चितया मया न यातं सखि संकेतनिकेतनं प्रियस्य। अधुना वत किं विधातुकामो मयि कामो नृपतिः पुनर्न जाने।।' अत्र राजापराधो विभावः । मुखवैवर्ण्यादय आक्षेप्या अनुभावाः । इयं तु भयाद्युत्पादनेन कम्पादिकारिणी, न तु चिन्ता। आधिव्याधिजन्यवलहानिप्रभवो वैवर्ण्यशिथिलाङ्गत्वदग्भ्रमणादि- :खविशेषो ग्लानि: ।। य्रथा- 'शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव। प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणैरेव ।' अत्र प्रियविरहो विभावः। मधुरवीक्षणैरेवेत्येवकारेण बोध्यमाना प्रत्युद्रमचरणनिपतनाश्लेषादीनां निवृत्तिरनुभावः। न चात्र श्रमः शङ््यः । कारणाभावात्। केचित्तु व्याध्या दिप्रभवबलनाशं ग्लानिमाहुः। तेषां मते

अम्बुजालिं कमलपङ्किम्। जनितश्चासावुपप्लवश्च । उपद्रवश्चेत्यर्थः। घावं धाव धाविला धाविला। कथमिति। वस्तुव्वनित्वस्यैवौचित्यादिति भावः । तस्य चिन्ता- भावरूपवस्तुनः । उपयोगिता पोषकता। विधिर्दैवम्। इयं तु शङ्का। तुरेवार्थे। सुषमा शोभाविशेषः । श्रमस्तदाख्यो भावः । कारणेति। तच्च स्फुटीभविष्यति। लक्षणेति। १ ननु चिन्ता मे नास्तीति वस्तु ध्वन्यते, ततो वस्तुध्वनिः सोयमिति शङ्का। सोयं ध्वनि- धृतिभावं पोषयतीति धृतिध्वनित्वेनैव व्यपदेश इति समाधानम्।

Page 162

१०० काव्यमाला। [प्रथमानने-

चित्तवृत्त्यात्मकेषु भावेषु नाशरूपाया ग्लाने: कथं समावेश इति ध्येयम्। यद्यपि 'बलस्यापचयो ग्लानिराधिव्याधिसमुङ्गवः ।' इति लक्षणवा- क्यादपचयशब्देन नाश एव प्रतीयते, तथापि प्रागुक्तानुपपत्त्या बलनाश- जन्यं दुःखमेव बलापचयशब्देन विवक्षितम्। स्वापकर्षभाषणादिहेतुश्चित्तवृत्ति- विशेषो दैन्यम्॥ उदाहरणम्- 'हतकेन मया वनान्तरे वनजाक्षी सहसा विवासिता। अधुना मम कुत्र सा सती पतितस्येव परा सरस्वती।।' सीतां परित्यक्तवतो भगवतः श्रीरामभद्रस्येयमुक्तिः । अत्र सीताप- रित्यागरूपोऽपराधस्तज्जन्यं दुःखं वा विभावः। पतितसाम्यरूपस्वापकर्ष- भाषणमनुभाव: । यदाहु :- 'चित्तौत्सुक्यान्मनस्तापाददौर्गत्याच विभावतः। अनुभावान्तु शिरसोऽभ्योवृत्तेर्गात्रगौरवात् ।। देहोपस्करणत्यागाद्दैन्यं भावं विभावयेत् ॥' इति। 'दौर्गत्यादेरनौजस्यं दैन्यं मलिनतादिकृत्।' इति च। अत्र हतकेन मया विवासिता न तु विधिनेत्येतस्यार्थस्य पतितोपंम- यैव परिपोष:, न तु शूद्राद्युपमया। यतः शूद्रस्य जातैव श्रुतिदौर्लभ्यं विधिना कृतम्। पतितस्य तु ब्राह्मणादेविधिना श्रुतिसुलभत्वे स्वभावेन

मुन्युक्तत्यादिः। अनुपपत्तिरसमावेशरूपा। विवक्षितमिति । एवं तु क्वचिद्रन्यो- डपि सुयोज इति भावः । हतकेन हतसदृशेन। भाग्यरहितेनेति यावत्। वनजाक्षी जलजाक्षी। सहसा कारणं विनैव। परा उत्कृष्टा सरखती। श्रुतिरित्यर्थः । विनिगम- काभावादाह-तज्जन्यमिति । चित्तौत्सुक्यादिरूपविभावत्रयतः, शिरसोऽप्या(भ्या)- वृत्त्यादिरूपानुभावत्रयतो दैन्यं भावं जानीयादित्यर्थः । वचनान्तरमाह-दौगत्यादे- रिति। अनौजस्यमोजोगुणाभावः । सर्व वाक्यं सावधारणमिति न्यायलभ्यमर्थमाह- न तु विधिनेति। जात्यैव स्वभावेनैव। तेनैव पतितेनैव। तथाविधं पातित्यजनकम्। १ अर्थात अभावरूपायाः ।

Page 163

भावध्वनिः ] रसगङ्गावरः । १०१

कृतेपि तेनैव तथाविधं पापमाचरता स्वतः श्रुतिर्दूरीकृतेति तस्थ पति- तेन साम्यम्, तस्याश् श्रुत्येत्युपमालंकारो दैन्यमेवालंकुरुते। तथा मयेति सेति चोपादानलक्षणानूलध्वनिभ्यां कृतन्त्वकृतज्ञात्वनिदेयत्वद्यावतीत्वा- द्यनेकधर्मप्रकाशनद्वारा तदेव परिपोष्यते, सेति स्मृत्या च लेशतः प्रतीयमानया। इष्टाप्राह्यनिष्टप्राप्यादिजनिता ध्यानापरपर्याया वैवर्ण्यभूलेखना-

यदाहु :- 'विभावा यत्र दारि्यमैश्वर्यभ्रंशनं तथा। इष्टार्थापहृतिः शश्चच्छासोच्छासावधोमुखम्। संताप: स्मरणं चैव कार्श्य देहानुपस्कृतिः । अधृतिश्चानुभावाः स्युः सा चिन्ता परिकीर्तिता।। वितर्कोडस्याः क्षणे पूर्वे पाश्चात्त्ये वोपजायते ।।' इति। 'ध्यानं चिन्ता हितानाप्ेः संतापादिकरी मता।' इति च। उदाहरणम्- 'अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलद्विनी। अकृतप्रतिमा तनुः कृता विधिना कस्य कृते मृगीदृशः ।'

त्तस्य रामस्य। तस्या: सीतायाः । साम्यमित्यस्यानुषङ्गः। एवालमिति। अलंकुरुत एवेत्यर्थः । न तु स्यं प्रधानं येन गुणीभूतव्यङ्कयल्वापत्तिरिति भावः। उपादानलक्षणा- ध्वनिभ्यामिति। सार्थमुपादायेतरार्थलक्षणमुपादानलक्षणा। लक्ष्यतावच्छेदकं वेक्लेशे तदत्यक्ततवं मत्पदस्य। वनवाससखीतमित्यादि च तत्पदस्य। व्यङ्गयार्थमाह- कृतम्नत्वेत्यादि। यथाक्रममन्वयः । तदेवेति । दैन्यं परिपोष्यत एवेत्यर्थः। न तु प्राधान्यं येन दैन्यध्वनितोच्छेद इति भावः। सेतीति । यतस्तेन तद्वर्मप्रकाशोऽतो लेशतोंSशतः प्रतीयमानया सेति स्मृत्या च दैन्यं परिपोष्यत एवेत्यस्यानुपङ्गः। न तु प्राधान्यं येन स्मृतिध्वनितवं स्यात्, न दैन्यध्वनित्वमिति भावः । यत्र चिन्तायाम् । अथ विभावकथनानन्तरम्। 'अस्याः' इति पाठे चिन्ताया इत्यर्थः । एवमग्रेऽपि। तथा चेतः प्राक्तनाविर्भावः। अस्या इत्यस्यानुभावा इत्यनेनान्वयात्। देहानुपस्कृतिदेहाप्रसा- धनम्। वितर्को वक्ष्यमाणस्वरूपः । अस्तपल्लवेति पञ्चम्यर्थे बहुन्रीहिः। पल्लवपदेन तच्छोभा। अकृतप्रतिमेति । उपमानमित्यर्थः । कृता मृगीदृश इत्यनयोः सर्वत्र १ न कृता प्रतिमा (उपमानम्) यस्याः । निरुपमा ।

Page 164

१०२ काव्यमाला। [प्रथमानने-

अन्न तदप्रापतिरविभावः। अनुतापाद्य आक्षेप्या अनुभावाः । न चात्रौत्सुक्यध्वनिरिति वाच्यम्। कस्य कृत इत्यनिर्धारितधर्म्यालम्बनाया- श्विन्ताया एव प्रतीयमानतया सतोऽप्यौत्सुक्यस्यैतद्वाक्येन प्राधान्येना- डबोधनात्। मद्याद्युपयोगजन्मा उल्लासाख्यः शयनहसितादिहेतुश्चित्तवृत्ति- विशेषो मद:॥ यदाहुः-'संमोहानन्दसंदोहो मदो मद्योपयोगजः ।' इति। तत्रो- त्तमे पुरुषे स्वापोऽनुभावः । मध्यमे हसितगाने। नीचे तु रोदनपरुषो- क्त्ादि। अयं च मदस्तिविधः, तरुणमध्यमाधमभेदात्। अव्यक्ता- संगतवाक्यैः सुकुमारस्सलद्वत्या च योऽभिनीयते स आदयः। भुजाक्षे- पस्खलितघूर्णितादिभिर्मध्यमः। गतिभङ्गस्मृतिनाशहिक्कच्छर्द्यादिभिरधमः। उदाहरणम्- 'मधुरतरं स्मयमान: स्वस्मिन्नेवालपञ्शनैः किमपि। कोकनदयंस्त्रिलोकी मालम्बनशून्यमीक्षते क्षीबः।।' अत्र मादकद्रव्यसेवनं विभावः। अव्यक्तालापाद्यनुभावः ।अन्र मत्त- स्वभाववर्णनस्य तन्निष्ठमदव्यञ्ञनार्थत्वान्मदभाव एव प्रधानमिति न स्वभावोक्त्यलंकारस्य प्राधान्यम्, अपि तु तद्धन्युपस्कारकत्वमेव।

संबन्धः । तदप्राप्तिस्तादशनायिकाऽप्राप्तिः। प्रतीयेत्यस्य 'द्राक्प्राधान्येनेत्यादिः। उपयोगः आ्शनम्। संमोहेति। अनयोः समूहो यत्रेत्यर्थः । तन्र शयनादीनां मध्ये। उत्तमे पुरुषे इति। 'उत्तमसत्त्वः प्रहसति गायति तद्च्च मध्यमप्रकृतिः । परुषवचनाभिधायी शेते रोदित्यधमसत्त्वः ॥' इति प्रदीपविरुद्धमेतत्'। अव्यक्तेति। अस्पष्टाक्षरासंबद्ध वाक्यैरित्यर्थः । सुकुमारेति कर्मधारयद्वयम्। शनैरित्यनेनाव्यक्तलम्, किमपीत्यनेनासंगत- लम्। त्रिलोकीं कोकनदयन्। आलम्बनेति क्रियाविशेषणम्। तन्निष्ठेति। मत्तनि ष्ेत्यर्थः । तङ्गन्युपेति। मदभावध्वन्युपेत्यर्थः। ननु क्षीबपदेन विशेषणविधया वाच्यस्य मदस्य कथं ध्वनितास्पदत्वम्, कथमपि वाच्यवृत्त्यनालिङ्वितस्यैव व्यङ्ञ्यस्य चम- स्कारित्मिति स्वयमेव प्रागावेदनात्। एवं च सवभावोत्तयलंकार एवायमत आह-

१ रक्तकमलायिताम् (अरुणनेत्रकान्त्यारक्ताम्) कुर्वन्।

Page 165

भावध्वनिः] रसगङ्गाघरः । १०३

इदं वा पुनरुदाहरणम्- 'मधुरसान्मधुरं हि तवाघरं तरुणि मददने विनिवेशय। मन गृहाग करेण करास्तुजं पपननानि हहा भभभूनले।।' अन्नापि स एव विभावः । अधिकवर्णोच्चारणादिरनुभावः । पूर्वाधैगता आाम्योक्तिरुत्तरार्वे च तरुणीकरेऽम्वुजोपमेयता निरूपणीये स्वकरस् तडुपमेयतया निरूपणं च मदमेव पोषयतः ।

खेदविशेष: श्रमः।। यदाहु :- 'अध्वव्यायामसेवादयैर्विभावैरतुभावकैः। गात्रसंवाहनैरास्यसंकोचैरङ्गमोटनैः ।। निःश्वासैर्ज्म्भितैर्मन्दैः पादोत्क्षेपैः श्रमो मतः ॥' इति । 'श्रमः खेदोऽध्वगत्यादेर्निद्राश्वासादिकन्मतः ।' इति च। अयं च सत्यपि वले जायते, शारीरव्यापारादेव च जायते, न तु ग्लानिः । अतो ग्लानेः श्रमस्य भेद्ः । उदाहरणम्- 'विधाय सा मद्वदनानुकूलं कपोलमूलं हृदये शयाना। चिराय चित्रे लिखितेव तन्वी न स्पन्दितुं मन्दृमपि क्षमासीत्।।' अन्र विपरीतसुरतरूपः शारीरव्यापारो विभाव:। स्पन्दराहित्यशय- नाद्योऽनुभावाः। न चात्र निद्राभावध्वननेन गतार्थतेति शङ््यम्। सुपुप्तौ हि ज्ञानराहित्येनैव यत्नराहित्यान्मन्दमपि स्पन्दितुं न क्षमासीदित्य-

इद वा पुनरिति। हि यतो मधुरसान्मधुरं तव खस्य। स एव मादकद्रव्यसेवनरूपः प्रागुक्त एवेत्यर्थः । अधिकेति। पपहहाभमेत्यर्थः। निरूपणं चेत्यस्योभे इति शेष: । अध्वेति त्रयाणां द्वन्द्वगर्भो बहुव्रीहिः । अनुभावकैरित्यस्याग्रेतनैरन्वयः । संवाहनं सेवनम्। मोटनं मोडनमिति भाषाप्रसिद्धम्। मन्दैरित्युत्तरान्वयि। अतो ग्लानेरिति। उत्तहेतु- द्वंयाद्ग्लानेः सकाशादित्यर्थः। दृष्टान्तेन सुषुप्तेरेव लाभः, न तु खप्नस्येत्याशयेनाह- सुषुतौ हीति। नैवेति। यत्नं प्रति तस्य कारणतादिति भावः। ननु स्पष्टार्थमेव १ मधुनो रसात्।

Page 166

२०४ काव्यमाला [प्रथमानने-

स्यानतिप्रयोजनकत्वापत्तेः, शीडाभिहिततया तस्या व्यड्गयत्वानुपपत्तेश्र। श्रमे त्वानुगुण्यमुचितम् । रूपधनविद्यादिप्रयु क्तात्मोत्कर्षज्ञानाधीनपरावहेलनं गर्वः।। उदाहरणम्- 'आ मूलाद्रत्नसानोर्मलयवलयितादा च कूलात्पयोधे- र्यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्क वदन्तु। मृद्वीकामध्यनिर्यन्मसृणरसझरीमाघुरीभाग्यभाजां वाचामाचार्यतायाः पदमनुभवितुं कोडस्ति धन्यो मदन्यः॥' अंत्र स्वकीयकविताया अनन्यसाधारणताज्ञानं विभाव:। पराधिक्षेप- परैतादशवाक्यप्रयोगोऽनुभावः । इमं चासूयापि लेशतः पुष्णाति। उत्सा- हप्रधानो गूढगर्वो हि वीररसध्वनिः, अयं तु गर्वप्रधान इति तस्मादस्य विशेषः । तथा हि वीररसप्रसङ्गे आ्गुदाहते 'यदि वक्ति-' इत्यादि पद्ये गीष्पतिना गिरामधिदेवतयापि साकमहं वदिष्यामीति वचनेनाभिव्यक्त- स्योत्साहस्य परिपोषकतया स्थितः सर्वेभ्यः पण्डितेभ्योऽहमधिक इति गर्वः, न तु प्रकृतपद्य इव नास्त्येव महीतले मदन्य इति स्फुटोदितेन सोलुण्ठवचनेनानुभावेन आधान्येन प्रतीयमानः । श्रमादिप्रयोज्यं चेतःसंमीलनं निद्रा ।। नेत्रनिमीलनगात्रनिष्क्रियत्वादयोऽस्या अनुभावा:। उदाहरणम्- 'सा मदागमनबृंहिततोषा जागरेण गमिताखिलदोषा। बोधितापि बुबुधे मधुपैने पतराननजसौरभलुब्ैः ॥' रात्रिजागरणश्रमोडन्र विभावः । मधुपैर्बोधाभावोनुभाव:। शास्त्रादिविचारजन्यमर्थनिर्धारणं मततिः।। अत्र निःशङ्कतरद्र्थानुष्ठानसंशयोच्छेदादयोऽनुभावाः।

तदस्तु अत आह-शीङेति। प्रकारतयेति भावः । तस्या निद्रायाः। रतनसानुः सुमेरुः । मृद्दीका द्राक्षा। निर्येननिःसरन्। झरी प्रवाहः । तस्माद्वीररसध्वनेः। मदन्य इतीति गर्वाकारः । सोहण्ठं साभिप्रायम्। वचनेन आ मूलादित्यादि मदन्य इत्यन्तेन। १ 'यदि वक्ति' इत्यादिपधे उत्साहस्य परिपोषकतया अङ्गभावेन स्थितो गर्वः 'आमूलात्' इति पद्यवत् प्राधान्येन प्रतीयमानो नास्तीति भावः ।

Page 167

भावध्वनि: ] रसगङ्गाघर: ।

उदाहरणम्- 'निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम्। अथ तस्य कृते कियानयं क्रियते हन्त मया परिश्रमः ॥' 'शरीरमेतज्जलबुद्दुदोपमं-' इत्यादिशास्त्रपर्यालोचनमन्र विभावः।हन्त- पद्गम्या स्वनिन्दा राजसेवादिविरतिर्वितृष्णता चानुभावः । झगिति मतेरेव चमत्काराद्ूनिव्यपदेश हेतुता, न शान्तस्य । विलम्बेन प्रतीतेः । रोगविरहादिग्रभवो मनस्तापो व्याधि:।।

यदाहु :- 'एकैकशो द्वन्द्शो वा त्रयाणां वा प्रकोपतः । वातपित्तकफानां स्युर्व्याधयो ये ज्वरादयः । इह तत्प्रभवो भावो व्याधिरित्यभिधीयते ।' उदाहरणम्- 'हृदये कृतशैवलानुपङ्गा मुहुरङ्गानि यतस्ततः क्षिपन्ती। तदुदन्तपरे मुखे सखीनामतिदीनामियमादधाति दृष्टिम् ।' विरहोऽत्र विभावः । अङ्गक्षेपादिरनुभावः ।

अनुभावाश्चास्य रोमाव्वकम्पस्तम्भभ्रमाद्यः । यदाहु :- 'औत्पातिकैर्मनःक्षेपस्तासः कम्पादिकारकः ।' उदाहरणम्- 'आलीषु केलीरभसेन वाला मुहुर्ममालापसुपालपन्ती। आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमामयासीत्।।

दोषा रात्रिः। ये ज्वरादय इति। लोके इति शेषः। इह शास्त्रे। तत्प्रभवो ज्वरादि- प्रभवः । तदुदन्तेति। नायकोदन्तेत्यर्थः । मुखे इत्येकवचनेनैकवार्तैव सर्वाभिरुच्यत इति ध्वनितम्। तदलाभादैन्यं दृष्टौ। भीरोर्भयशीलस्य। सत्त्वं प्राणी। स्फूर्जथुर्वज्रनि- र्घोषः । औत्पातिकरुत्पातसूच कैर्घोर सत्त्वदर्शनादिभिः। मनःक्षेपश्चित्तवृत्तिविशेषः । केली- रभसेन क्रीडाराभस्येन। नायकोक्तिरियम्। आरादूरम्। ततोऽचिरस्थायिलेन विद्युच्छो

Page 168

१०६ काव्यमाला। [प्रथमानन-

अत्र पत्या स्ववचनाकर्णनं विभावः। पलायनमनुभावः। न चात्र लज्जाया व्यङ्ञ्यत्वमाशङ्कनीयम्। शैशवेनैव तस्या निरासात्। इदं वा विविक्तमुदाहरणम्- 'मा कुरु कशां कराब्जे करुणावति कम्पते मम स्वान्तम्। खेलन्न जातु गोपैरम्ब विलम्बं करिष्यामि॥' एषा भगवतो लीलागोपकिशोरस्योक्तिः। निद्राविभावोत्थज्ञानं सुसम् ॥ स्वप्न इति यावत्। अस्यानुभावः प्रलापादिः। नेत्रनिमीलनादयस्तु निद्राया एवानुभावा न त्वस्य, अनिदंजन्यत्वात्। यत्तु प्राचीनैः 'अस्या- नुभावा निभृतगात्रनेत्रनिमीलनं-' इत्यायुक्तं तदन्येथासिद्धानामपि तेषामे- तद्भावव्यापकत्वादिति ध्येयम्। उदाहरणम्- 'अकरुण मृषाभाषासिन्धो विमुख् ममाञ्वलं तव परिचितः स्नेहः सम्यङमयेत्यनुभाषिणीम्। अविरलगलद्वाष्पां तन्वीं निरस्तविभूषणां क इह भवतीं भद्रे निद्रे विना विनिवेदयेत्।।' एषा प्रवासगतस्य स्वप्नऽपि प्रियामेवंभाषिणी दष्टवतो निद्रां प्रति कस्यचिदुक्तिः । यद्यप्येवंभूतायाः प्रियतमावस्थाया निवेदनेन निद्रे मम भवत्या महानुपकार: कृत इति वस्तु, विप्रलम्भशृङ्गारञ्चात्र प्रतीतिपथ-

भालाभः । पत्या तत्कतृकम्। 'शब्दानुशासनमाचार्येण' इतिवत्प्रयोगः । शैशवेनै- वेति। बालापदबोध्येनेत्यर्थः । तस्या लज्ायाः। एवं च मूले कुठारान्न तदाशङ्केति भावः। ननु बालापदं न शैशवबोधकम्, किं तु विशेषबोधकमत आह-इदं वेति। कशां ताडनरजुम्। वस्तुतस्तत्त्वाभावादाह-लीलेति। अनिदंजन्यत्वादिति। एतज्जन्यत्वाभावादित्यर्थः । खप्नजन्यत्वाभावादिति यावत्। अन्यथेति । निद्रयेत्यर्थः । एतदिति। खप्नेत्यर्थः । ृषेति। मिथ्याभाषिन्। इह प्रवासे। प्रियतमेति। नायि- १ शिशुतया लज्जा स्वतो निरस्ता, अतो लज्जाया व्यङ्गयत्वं नाशक्कनीयम्। शिशूनामेवंबिधे स्थले त्रासो भवति न लज्जेत्याशयः । २ निद्रायां संभवन्तस्ते सुप्तमपि व्याप्नुवन्ति (स्वप्मप्यधिकुर्वन्ति) इति सुप्त-भावेडपि नेत्र- निमीलनादय: प्रोक्ता इत्याशयः ।

Page 169

भावध्वनि: ] रसगङ्गाघर: । १०७

भवतरति, तथापि पुरःरकर्तिकतया स्वप्नध्वननमत्रोद्दाहृतं न प्रान्ते तयो- धर्वननं निरोद्धुमीष्ठे। निद्रानाशोत्तरं जायमानो वोधो विवोध: ।। निद्रानाशश्र तत्पूर्ति-स्त्रप्रान्त-वलवच्छव्द्-पर्शादिभिर्जायत इति त एवात्र विभावाः । अक्षिमदेनगात्रमर्दनादयोऽनुभावाः। तत्र संक्षेपेणोदाहणम्- नितरां हितयाद्य निद्रया मे बत यामे चरमे निवेदितायाः । सुदृशो वचनं शृणोभि यावन्मयि तावत्प्रचुकोप वारिवाहः॥' अत्र गर्जितश्रवणं विभावः। प्रियावचनश्रवणोल्लासनाशोऽनुभाव- स्नून्नेयः। केचिद्विद्याध्वंसजन्यमप्यमुमामनन्ति। तेपां मते 'नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत। स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ।।' इति गीतापद्यमुदाहार्यम्। न तु वारिवाहविपयाया असूयाया एवात्र वाक्यार्थतेति शङ््यम्। विघोधप्रतीतौ हि सत्यां तस्मिन्ननौचित्यावगमे सत्यनुचित विबोधजनकत्वेन वारिवाहेऽसूयाया विलम्बेन प्रतीतेः, परमु- खेनिरीक्षकत्वात्। स्यादपि तस्या अपि प्राधान्यम्, यदि वारिवाहे निष्क- रुणत्वादिबोधकं किंचिदृपि स्यात्। नापि स्वप्नस्व, वारिवाहनादेन तन्नाशस्यैव प्रतिपत्तेः । अस्तु वा रप्नभावप्रशमेनासूयया च सहास्य संकरः ।

केतर्थः। अत्रोदाहृतमिति। अस्यापि वाच्यातिशायि त्ादेतद्धनिव्यवहारोऽपि। तथ च सांकर्यमिति भावः । तत्पूर्तिर्निद्रापूर्तिः । वारिवाहो मेघः । अमुं विवोधम्। सिंहाव- लोकनन्यायेनासूयाध्वनित्वं निराचष्टे-न त्विति । हि यतः। तस्मिन्विवोधे। तस्या अप्यसूयाया अपि। खप्नस्य वाक्यार्थतेति शङ््यमित्यस्यानुषङ्गः। जलाहरणकर्तृलेन बोध- कवारिवाहशब्दस्य सत्त्वात्, अत आह-अस्तु वा स्वप्नभावेति। इदं वक्ष्यमाणम् । सकलां यामिनीमभिव्याप्य सहस्थितवर्तीं निद्रां गाढमालिङ्ग्याथ च प्रातस्तां विहाय स

१ पर्यन्ते यदि वस्तु-विप्रलम्भध्वनी अपि स्फुरतश्चेत्तावपि भवत एवेत्याशयः । २ विबोधोत्तरं जायमानतया तदधीनत्वमित्याशयः ।

Page 170

१०८ काव्यमाला। [ प्रथमानने-

इदं तु नोदाहार्यम्- 'गाढमालिङ्ग्य सकलां यामिनीं सहतस्थुषीम्। निद्रां विहाय स प्रातरालिलिङ्गाथ चेतनाम् ।।' विबोधस्य चेतनापदवाच्यत्वात्। यथा कश्चित्सत्यप्रतिज्ञो द्वाभ्यां नायि- काभ्यां द्वौ कालावुपभोगार्थ दत्त्वा यथोचिते काल एकामुपभुज्य काला- न्तरे प्रवृत्ते तां विहायापरां भुङ्के, तथैवायं रात्रौ निद्राम्, प्रातश्चेतनामिति समासो्तेरेवेह प्रकाशनात्। परकृतावज्ञादिनानापराधजन्यो मौनवाक्पारुष्यादिकारणीभूत-

प्राग्वत्कारणानां कार्याणां च क्रमेण विभावानुभावत्वम्। उदाहरणम- 'वक्षोजाग्रं पाणिनामृश्य दूरे यातस्य द्रागाननाब्जं प्रियस्य। शोणाग्राभ्यां भामिनी लोचनाभ्यां जोषं जोषं जोषमेवावतस्थे।।' इह त्वाकस्मिकस्तनाग्रस्पर्शो विभावः । नयनारुण्यनिर्निमेषनिरीक्षणे अनुभावौ। ननु क्रोधामर्षयोः स्थायिसंचारिणोर्भावयोः कि भेदकमिति चेत्, विषयतावैलक्षण्यमेवेति गृहाण। तत्र तु गमकं झटिति परविना- शादौ प्रवृत्तिर्वचनवैमुख्यादिकं चेति कोर्यवैलक्षण्यम्।

चेतनामालिलिङ्गेत्यन्वयः। नन्वेवं विबोधभावध्वनित्वाभावेऽपि कस्येदमुदाहरणम्, अत आह-यथेत्यादि। प्राग्वद्विबोधवत्। कारणानां परकृतावज्ञादीनाम्। कार्योणां मौनादीनाम्। आमृश्य संस्पृश्य। जोषं जोषमिति। निर्मिंमेषं दृष्टा दृष्ट्रेत्यर्थः। जोष- मेव तूष्णीमेव। भामिनी कत्री। अन्रादिसंग्राह्यविभावानुभावयोः सत्त्वमित्याह-इह त्विति। इदं च निर्निमेषनिरीक्षणं सेवार्थकजुषा णमुला च गम्यं तदाह-निर्निमे- षेति। इदमुपलक्षणम्। मौनमप्यनुभावो बोध्यः। किं भेदकमिति। उक्तकारण- कार्ययोस्तक्यमेवेति भावः। तत्र तु विषयतावैलक्षण्ये तु। कार्येति। कोधामर्षयोर्य-

१ द्वयोविषया भिन्ना भवन्तीति। २ उत्कटावस्थापन्नो भावः क्रोधः, कोमलावस्थापन्नोऽमर्ष इति तात्पर्यम्।

Page 171

भावध्वनि: ] रसगङ्गाघर:। १०९

षोऽवहित्थम् ॥ व्रीडादिभिर्निमित्तरहर्पा्यनुभावानां गोपनाय जनितो भावविशे-

तटुक्तम्- 'अनुभावपिधानार्थेऽवहित्थं भाव उच्चते। तद्विभाव्यं भयत्रीडाधार्ष्यकौटिल्यगौरवैः ।' यथा- 'प्रसङ्गे गोपानां गुरुषु महिमानं यदुपते- रुपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः । विषज्वालाजालं झगिति वमतः पन्नगपतेः फणायां साश्चर्य कथयतितरां ताण्डवविधिम् ॥' अन्र व्रीडा विभाव:। तादृशकालियकथाप्रसङ्गोडनुभावः। एवं भया- दिप्रयोज्यमप्युदाहार्यम्। अधिक्षेपापमानादिप्रभवा किमस्य करोमीत्याद्याकारा चित्तवृ- त्तिरुग्रता।। यदाहु :- 'नृपापराधोऽसद्दोपकीर्तनं चोरधारणम् । विभावाः स्युरथो बन्धो वधस्ताडनभर्त्सैने।। एते यत्रानुभावास्तदौध्यं निर्दयतात्मकम् ।' इति। यथा- 'अवाप्य भङ्गं खलु सङ्गराङ्गणे नितान्तमङ्गाधिपतेरमङ्गलम्। परप्रभावं मम गाण्डिवं धनुर्विनिन्दृतस्ते हृदयं न कम्पते।।'

थाक्ममित्यादिः । हर्षाद्यनुभावानामिति। हर्षादिजन्यानुभावानामित्यर्थः । भाववि- शेषोऽभिप्रायविशेषः । अनुभावेत्यस्य हर्षादिजन्येत्यादिः । तद्वहित्थम्। भयादिभिर्वि- भाव्यं जन्यमित्यर्थः । गुरुषु तत्समीपे। गोपानां प्रस्गे इत्याद्यन्वयः । पन्नगपतेः कालि- यस्य। सांश्चर्यमाश्चर्येण सहितम्। ताण्डवविधिं यदुपतेरिति भावः । तादृशति। विष- वमनकत्रित्यर्थः । असदिति । अविद्यमानदोषकथनमित्यर्थः । अङ्गाधिपतेः कर्णात् । १ पूर्वाधोंक्ती स्वेद-रोमाञ्चौ प्रेमजनितौ न, अपि तु पराक्रमवर्णनजन्याविति प्रकटनेन आावगुप्तिः । २ अङ्गाधिपते: सकाशात् अमङ्गलं भङ्गमवाप्येत्यन्वयः । १० रस०

Page 172

११० काव्यमाला। [प्रथमानने-

एषा कर्णेन पराभूतं गाण्डिवं निन्दन्तं युधिष्ठिरं प्रति धनंजयस्योक्तिः। युधिष्टिरकर्तृका गाण्डिवनिन्दात्र विभावः । वघेच्छानुभावः। न चामर्षो- अ्तयोर्नास्ति भेद इति वाच्यम्। प्रागुदाहृतेऽमर्षध्वनावुग्रताया अप्रतीतेः। नाप्यसौ क्रोधः । तस्य स्थायित्वेनास्याः संचारिणीत्वेनैव भेदात्।

शुक्तिरजतादिज्ञानव्यावृत्तये जन्मान्तम् । उदाहरणम्- 'अकरुणहृद्य प्रियतम सुख्जामि त्वामितः परं नाहम्। इत्यालपति कराम्बुजमादायालीजनस्य विकला सा।।' एषा पवासगतं खनायिकावृत्तान्तं पृच्छन्तं नायकं प्रति कस्याश्चित्सं- देशहारिण्या उक्तिः । प्रियविरहोऽत्र विभाव:। असंबद्धोक्तिरनुभावः। उन्मादृस्य व्याधावन्तर्भावे संभवत्यपि पृथगुपादानं व्याध्यन्तरापेक्षया वैचित्र्यविशेषस्फोरणाय। रोगादिजन्या मूच्छारूपा मरणप्रागवस्था मरणम् ॥ न चात्र प्राणवियोगात्मकं मुख्यं मरणमुचितं त्रहीतुम्। चित्तवृत्त्या- त्मकेषु भावेषु तस्याप्रसक्तेः। भावेषु च सर्वेषु कार्यसहवर्तितया शरीरप्रा- णसंयोगस्य हेतुत्वात्। उदाहरणम्- 'दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत्। अधुना खलु हन्त सा कृशाङ्गी गिरमङ्गीकुरुते न भाषितापि।।' प्रियविरहोऽत्र विभावः । वचनविरामोऽनुभाव:। हन्तपदस्यान्नात्य-

परेति। उत्कृष्टेत्यर्थः । पराभूतमिति युधिष्ठिरविशेषणम्। न चामषोग्रेति। कारणा- धिक्यादिति भावः । अप्रतीतेरिति। अस्यां वधादीच्छापि न तस्मिन्नित्यनुभावमेदा- दिति भावः । असावुग्रता। भेदादिति । गुरुबन्धुवधादिजन्यः, स्थायी, वागपराधादि- जन्यः संचारीति भेद इत्यपरे। व्यावृत्तय इति। ज्ञानस्योन्मादतव्यावृत्तय इत्यर्थः । तस्याप्रसक्तरिति। मुख्यमरणस्यान्तर्भावासंभवादित्यर्थः । तत्र हेतुमाह-भावेषु चेति। अज्ञीकुरुते न। न प्रतिवदतीत्यर्थः । अत्र मरणे हन्तपदस्य दुःखातिशयबोध-

Page 173

भावध्वनिः ] रसगङ्गावर: । १११

भावस्य पदव्यङ्गयतायां नात्यन्तं वैचित्र्यमिति परास्तम्। दयितस्य गुणाननुस्मरन्तीत्यनेन व्यज्यमानं 'चरमावस्थायामपि तस्या दयितगुण- विस्मरणं नाभूदिति' वस्तु विप्रलम्भस्य शोकस्य वा चरममभिव्यक्तस्य पोषकम्। अयं च भावः स्वव्यञ्जकवाक्योत्तरवर्तिना वाक्यान्तरेण संदर्भघटकेन नायिकादेः प्रत्युज्जीवनवर्णने विप्रलम्भस्य, अन्यथा तु करुणस्य पोषक इति विवेकः । कवयः पुनरमुं प्राधान्येन न वर्णयन्ति, अमङ्गलप्रायत्वात्। संदेहाद्यनन्तरं जायमान ऊहो वितर्कः ॥ स च निश्चयानुकूल: । 'यदि सा मिथिलेन्द्रनन्दिनी नितरामेव न विद्यते भुवि। अथ मे कथमस्ति जीवितं न विनालम्बनमाश्रितस्थिति: ॥।' स्वात्मनि भगवतो रामस्यैषोक्तिः । भुवि सीतास्ति न वेति संदेहोऽत्र विभाव: । भ्रृक्षेपशिरोङ्कलिनर्तनमाक्षिप्तमनुभावः। न चासौ चिन्तेति शक्यं वदितुम्, चिन्ताया नियमेन निश्चयं प्रत्यप्रयोजकत्वात्। किं भविष्यति कथं भविष्यतीत्याद्याकारायाश्चिन्तायाः, इदमित्थं भवितुम्हति प्रायश इत्याकारस्य वितर्कस्य, विषयवैलक्षण्योपलम्भाच्च। न विनेत्यादि-

कत्वादिति भावः । प्रकृतेऽनुपदं वक्ष्यमाणरीत्या विप्रलम्भासंभवादाह-शोकेति। करुणस्थायिभावस्येत्यर्थः । अस्य पुरोऽ्नभिव्यक्तेराह-चरममिति। अत एवैतद्धनि- म्। तदेवाह-अयं चेति। नन्वस्य प्रधानोदाहरणं कुतो न दत्तमत आह-कवय इति। पुनःशब्दो हिशब्दार्थे। आदिना विपर्ययपरिग्रहः । आलम्बनमाधारभूतम्। नतु नियमे तदभावेऽपि लक्षणे तदनिवेशात्प्रकृते तत्संभव एवात आह-किं भविष्य- तीति। ननु न विनेत्यादिनार्थान्तरन्यासस्य प्रतीते: कथं व्वनितमत आह-न विने-

१ चिन्तायामन्ते नियमेन निश्चयः स्यादिति नास्ति। अयं तु निश्चयानुकूलः । २ अर्थान्तरन्यास: (आधारं विना आधेयस्थितिनेति) निश्चयानुकूलस्य वितर्कस्यैव अनुरूपो न तु चिन्तायाः । तथा च सोयं भावपोषकतया अङ्गं न तु प्रधानमिति नालंकारप्राधान्यम्।

Page 174

११२ काव्यमाला। [प्रथमानने-

इष्टासिद्धिरा जगुर्वाद्यपरा धादिजन्यो नु त0ा पोविषाद॥ उदाहरणम्- 'भास्करसूभावस्तं याते जाते च पाण्डवोत्कर्षे। दुर्योधनस्थ जीवित कथमिव नाद्यापि निर्यासि ॥' अत्र स्वापकर्षपरोत्कर्षयोर्दर्शनं विभावः । जीवितनिर्याणाशंसा, तदा- क्षिपं वदननमनादि चातुभावः। अस्मिन्नेव च विषाद्ध्वनौ दुर्योधनस्येत्य- र्थान्तरसंक्रमितवाच्यध्वनिरनुग्राहकः।न चात्र त्रासभावध्वनित्वं शङ््यम्, परवीरस्य दुर्योधनस्य त्रासलेशस्याप्ययोगात्। नापि चिन्ताध्वनित्वम्, युद्धा मरिष्यामीति तस्य व्यवसायात्। नापि दैन्यध्वनित्वम्, सकलसै- न्यक्षयेSपि विपदस्तेनागणनात्। न वा वीररसध्वनित्वम्, मरणस्य शरणीकरणे परापकर्षजीवितस्योत्साहस्याभावात्। इदं पुनरत्र नोदाहार्यम्- 'अयि पवनरयाणां निर्दयानां हयानां शथय गतिमहं नो संगरं द्रष्टुमीहे। श्रुतिविवरममी मे दारयन्ति प्रकुप्य- द्ुजगनिभभुजानां बाहुजानां निनादाः ।।' अत्र त्रासस्यैव प्रतीयमानत्वेन विषादस्याप्रतीतेः। लेशतया प्रतीतौ वा त्रास एवानुगुण्यौचित्येन ध्वनिव्यपदेशायोग्यत्वात्। अधुनैवास्य लाभो ममास्त्वितीच्छा औत्सुक्यम् ।

त्यादीति। सामान्येन विशेषसमर्थनमत्र बोध्यम्। भास्करसूनौ कर्णे। दुर्योधनस्य जीवितेति संबुद्धिः। हे वीरेत्यर्थः । इवशब्दो वाक्यालंकारे। निर्यासि गच्छसि। विषा- दध्वनितं द्रढयति-अस्मिन्नेवेति। वाच्यध्वनिरिति। लक्ष्यतावच्छेदकं च कर्ण- दर्शनावधिजीविलम्, एकादशाक्षौहिणीपतिवन्धलम्, प्रतापेनागणितपाण्डवतेजस्लम्, पाण्डवानां वनवासादिदातृत्वं वा, अतिदुःखितं व्यङ्ञयम्। परेति। उत्कृष्टेत्यर्थः । युद्कति। तथा च किं भविष्यतीत्याद्याकारायास्तस्या असंभव इति भावः। तेनागेति। तथा च तद्विभावस्याभाव इति भावः। उत्साहस्यति। तत्स्थायिभावः । अयीति कोमलामन्रणे। 'अमी मे' इति पाठः। बाहुजानां क्षत्रियाणाम्। अस्य पदार्थस्य। १ परापकर्षों जीवितं यस्य। उत्साहे हि परस्यापकर्ष एव प्रधानम्, अन्र तु स्वापकर्षों घोष्यत इत्यर्थ: ।

Page 175

भावध्वनिः ] रसगङ्गाघरः । ११३

इष्टविरहादिरत्र विभावः । त्वराचिन्ताट्योऽनुभावाः । यदाहु :- 'संजातमिष्टविरहादुद्दीनं प्रियसंस्मृतेः । निद्रया तन्द्रया गात्रगौरवेण च चिन्तया ।। अनुभावितमाख्यातमौत्सुक्यं भावकोविदैः ॥' इति। उदाहरणम्-

कदा नयननीलाब्जमालोकेय मृगीहशः।।' अनर्थातिशयजनिता चित्तस्य सं्रमाख्या वृत्तिरावेगः ॥ उदाहरणम्- 'लीलया विहितसिन्धुबन्धनः सोऽयमेति रघुवंशनन्दनः । दर्पदुर्विलसितो दशाननः कुत्र यामि निकटे कुलक्षयः ॥' एपा स्वात्मनि मन्दोदर्या उक्तिः । रघुनन्दनागमनमत्र विभावः । कुत्र यामीत्येतव्यङ्गयः स्थैर्याभावोऽनुभावः। न चात्र चिन्ता प्राधान्येन व्यज्यत इति शक्यते वक्तुम्, कुत्र यामीति स्फुटं प्रतीतेन स्थैर्याभावेनो- द्वेगस्येव चिन्ताया अप्रत्यायनात्। परं त्वावेगचर्वणायां तत्परिपोषकतया गुणत्वेन चिन्तापि विषयीभवति।

प्रतिसंधानविकला चित्तवृत्तिजेंडता ॥। इयं च मोहात्पूर्वतः परतश्च जायते। यदाहु :- 'कार्याविवेको जडता पश्यतः शृण्वतोऽपि वा। तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा ।।

निपतदिति। निपतद्वाष्पसंरोधेन मुक्तचाञ्चल्यास्तारका यस्येत्यर्थः । आलोकेय। लिडो रूपम्। उद्वेगस्यवेति। उद्वेगावेगौ पर्यायौ । चिन्तोत्कण्ठेति। 'चिन्तोत्कर्ष' इति पाठान्तरम्। इष्टानिष्टेति। प्रियानिष्टेत्यर्थः । तद्विभेति। जडताविभावा इत्यर्थः । रुजा रोगश्चेत्यर्थः । वाशब्दः समुच्ये। विदामर्थाद्रसज्ञानां मतमिष्टम्। दूरतो दूरे। १ यदि लेखकाऽशुद्धिर्न, तहिं बहुवचनमिदं व्याख्यातुर्वहुज्चत्वं दर्शयति।

Page 176

११४ काव्यमाला। [प्रथमानने-

अनुभावास्त्वभी तूष्णींभावविस्मरणादयः । सा पूर्वं परतो वा स्यान्मोहादिति विदां मतम् ॥' उदाहरणम्- 'यद्वधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतोऽभूत्। तदवधि शिथिलीकृतो मदीयैरथ करणैः प्रणयो निजक्रियासु ॥' प्रियविरहोडत्र विभावः । करणैश्चक्षुःश्रवणादिभिः क्रियासु तत्तत्प्र- मितिषु प्रणयस्य शिथिलीकरणमनुभावः। मोहे चक्षुरादिभिश्चाक्षुषादेरज- ननम्, इह तु प्रकारविशेषवैशिक्षेन बाहुल्येनाजननमिति तस्मादस्य विशेषः । अत एवोदाहरणे शिथिलीकृत इत्युक्तम्, न तु त्यक्त इति। अतितृप्तिगर्भव्याधिश्रमादिजन्या चेतसः क्रियानुन्मुखताऽडलस्म्। अत्र च नासामर्थ्यम्। नापि कार्याकार्यविवेकशून्यत्वम्। तेन कार्या- करणरूपस्यानुभावस्य तुल्यत्वेऽपि ग्लानेर्जडतायाश्चास्य भेद: । उदाहरणम्- 'निखिलां रजनीं प्रियेण दूरादुपयातेन विबोधिता कथाभिः । अधिकं नहि पारयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा॥' एषा हि प्रियागमनद्वितीयदिवसे मुहुर्निशावृत्तान्तं पृच्छन्तीं सखीं प्रति रजनिजागरणजनितालस्यायाः कस्याश्चिदुक्तिः । अत्र रजनिजाग- रणं विभाव:। अधिकसंभाषणाभावोऽनुभावः। जडतायां मोहात्पूर्ववर्ति- त्वमुत्तरवर्तित्वं वा नियतम्, न त्वत्रेत्यपरो विशेष:। गोपनीयविषयत्वा- दयदि कथाभिरित्यविवक्षितवाच्यं तदा श्रमोऽस्तु परिपोषकः । श्रमजन्ये

करणैरिन्द्रियैः प्रणयः स्नरेहः। अन्यासामसंभवादाह-तत्तत्प्रति। चाक्षुषादिरूपास्विरि- त्यर्थः । चाक्षुषादेरिति । सामान्येनेति भावः । प्रकारेति । तत्तत्प्रकारेणेत्यर्थः । अत एव बाहुल्येन। अत एव सर्वथाऽत्यागादेव। अस्यालस्यस्य तुल्यलेऽपि ग्लान्यादा- विति शेषः । यथासंख्यमन्वयः । पारयामि शक्कोमि। आयसी लोहमयी। रसज्ञा जिह्ना। प्रियेति । प्रियस्यागमनं यस्मिन्दिने ततो द्वितीयेत्यर्थः। जडतातो भेदान्तरमाह- जडेति। वाशब्दश्चार्थे। अत्रालस्ये। कथाभिरित्यविवक्षितेति । कथाभिरिति १ येन प्रकारेण यच्चाक्षुषादिप्रत्यक्षं भवति तेन प्रकारविशेषेण न भवति। सम्यगरूपेणा- जननमित्याशयः ।

-भेद इत्यर्थः । २ ग्लानौ असामर्थ्यम्, जडतायां च कर्तव्यप्रतिसन्धानाभावः, अतव द्वयोरपेक्षया आलस्ये

३ कथाहेतुना जागरिता। कथाद्वारा शिक्षिता वा।

Page 177

भावध्वनि: ] रसगङ्गाघर: ।

ह्यालस्ये श्मस्य पोषकताया अवार्यत्वान्। अतिहृत्यादिजनिते त्वालस्े श्रमाद्विविक्तविपयत्वं बोध्यम् परोत्कर्पदर्शनादिजन्यः षोडसूया।। इमामेवासहनादिशव्दैर्व्यवहरन्ति। यथा- 'कुत्र शैवं धनुरिदं क चायं प्राकृतः शिशुः । भङ्गस्तु सर्वसंहुत्रा कालेनैव विनिमितः ॥।' एपा भग्नहरकामुकस्य भगवतो रामस्य पराक्रममसहमानानां तत्र- त्यानां राज्ञामुक्ति:। अत्र च श्रीमदाशरथिवलस्य सर्वोत्कृष्टताया दर्शनं विभावः । ग्राकृतशिशुपद्गम्या निन्दानुभावः । 'तृष्णालोलविलोचने कलयति प्राचीं चकोरत्रजे मौनं सुख्जति किं च कैरवकुले कामे धनुर्धुन्वति। माने मानवतीजनस्य सपदि प्रस्थातुकामेऽघुना धातः किं तु विधौ विधानुमुचितो धाराधराडम्बरः ?॥' अन्नापि यद्यपि तदीयोच्छृङ्गलतादिदर्शनजन्या अनुचितकारित्वरू- पनिन्दाप्रकाशानुभाविता कविगता विधात्रालम्वनाऽसूया व्यज्यत इति शक्यते वक्तम्, तथापि कार्यकारणयोस्तुल्यत्वादभिव्यक्तनामर्पेण शबलि-

सुरतपरं तत्त्वमेव लक्ष्यतावच्छेदकम्। अतिश्रमयुक्तत्वं व्यङ्ञयम्। श्रम इत्यस्य व्यश्षे- त्यादिः। परिपोषक इत्यनेन श्रमध्वनितं निरस्तम्। ननु तस्य तत्त्वे प्रकृते गौरवमत आह-श्रमेति। नन्वेवं सर्वत्र तत्सशवेन विभावभेदोक्तिरयुक्तत आह-अतीति। प्राकृत इति। क्षत्रियोद्भव इत्यर्थः । तत्रत्यानां सीतापरिणयनार्थ जनकगृहे समागतानां सदस्युपविष्ठानाम्। शिशुपदेति। एतदुभयपदेत्यर्थः । तृष्णालोलेत्युदाहरणदाने बीजं कथयितुमाह-तृष्णेति। कलयतीत्यादि सविसप्तम्यन्तम्। कलयति चन्द्रिकापानार्थ स्वीकुर्वति। चकोरव्रजे तत्समूहे। कुलं समूहः । धुन्वति टंकारयति। विधौ चन्द्रे। धाराधरेति। मेघाच्छादनमित्यर्थः । तदीयेति। धात्रीयेत्यर्थः। प्रकाशेत्यनेन तस्या वाच्यतं सूचितम्। वक्कुमिति। तथा चेदमप्यस्या उदाहरणमिति भावः । कार्यका- रणयोस्तुल्यत्वादिति । असूयाकार्यकारणयोरिवामर्षकार्यकारणयोरपि विद्यमानत्ा

Page 178

काव्यमाला। प्रथमानने-

तैवासौ न विविक्ततया प्रतीयते। नहि विधातुरपराध इव भगवतो राम- स्यापराधोऽस्ति येन कवेरिव वीराणामप्यमर्षोऽभिव्यज्येत। स्वभावो हि महोन्नतक्रियानिष्पादुनं वीराणाम्। अन्नाप्रस्तुतचन्द्रवृत्तान्तेन प्रस्तुत- राजकुमारादिवृत्तान्तस्य ध्वननान्नास्त्यसूयाध्वनित्वमिति तुन वाच्यम्। एकध्वनेर्ध्वन्यनतराविरोधित्वात्। अन्यथा महावाक्यध्वनेरवान्तरवाक्य- ध्वनिभिः, तेषां च पद्ध्वनिभिः सह सामानाधिकरण्यं कुत्रापि न स्यात्।

विशेषोऽपस्मारः ॥ व्याधित्वेनास्य कथनेऽपि विशेषाकारेण पुनः कथनं बीभत्सभयानक- योरस्यैव व्याधेरङ्गत्वं नान्यस्येति स्फोरणाय। विप्रलम्भे तु व्याध्यन्त- रस्यापि च ।

उदाहरणम्- 'हरिमागतमाकर्ण्य मथुरामन्तकान्तकम्। कम्पमान: श्वसन्कंसो निपपात महीतले ।!' अत्र भयं विभावः । कम्पनिःश्वासपतनादयोऽनुभावाः। अमर्षादिजन्यवाक्पारुष्यादिकारणीभृता चित्तवृत्तिश्चपलता।।

दित्यर्थः । असौ असूया प्रतीयत इत्यन्नान्वयः । एवव्यवच्छेद्यमाह-नेति। भेदेन नेत्यर्थः । अत इदं नोदाहृतमिति भावः । ननु पूर्वोदाहरणेऽपि शबलितत्वमत आह - नहीति। ननु रामस्य कुतो नापराधोऽत आह-स्वभावो हीति। अप्रस्तुतप्रशंसैवा- त्रेति मतं निराचष्टे-अत्राप्रेति। तेषां च अवान्तरवाक्यध्वनीनां च। अस्य अपस्मा- रस्य। विशेषेति । अपस्मारलेनेत्यर्थः । बीभत्सेत्याद्युक्तिस्वारस्यमाह-विप्रेति । अस्यापि च अपस्मारस्यापि। अङ्गत्वमित्यस्यानुषङ्गः। कम्पमानः श्वसन्निति।

१ पूर्वोदाहरणे (कुत्र शैवम्) रामस्यापराधो नास्तीति वीरकृतेन अमषेण अमिश्रिता- इसूया। तृष्णेत्युदाहरणे तु धातुरपराधेन कवेरमर्ष इति अमर्षशबलिताSसूयेति दयोभेंदः । २ द्वयोर्ध्वन्योः संकर इति भावः ।

Page 179

भावध्वनिः ] रसगङ्गाघर:। ११

यदाहु :-

इति यत्र विभावा: स्युरनुभावस्तु भर्त्सनम् ॥ वाक्पारुष्यं प्रहारञ्च ताडनं वधवन्धने। तच्चापलमनालोच्य कार्यकारित्वमिष्यते ।।' इति।

उदाहरणम्- 'अहितत्रत पापात्मन्मैवं मे दर्शयाननम्। आत्मानं हन्तुमिच्छामि येन त्वमसि भावितः ॥।' एषा भगवद्नुरक्तिविघटनोपायमपश्यतः प्रह्लादं प्रति हिरण्यकशिपो- रुक्तिः। भगवद्वेपोत्थापितः पुत्रद्वेषोऽत्र विभावः। आत्मववेच्छा परुष- वचनं चानुभावः। न चामर्ष एवात्र व्यज्यत इति वाच्यम्। सदैव भगवद्नुरागिणि प्रह्लादे हिरण्यकशिपोरमर्षस्य चिरकालसंभृतत्वेनात्मव- वेच्छाया इदंप्रथमतानुपपत्तेः। इदप्रथमकार्यस्य चेदंप्रथमकारणप्रयोज्य- तया प्राचीनचित्तवृत्तिविलक्षणाया एव चपलताख्यचित्तवृत्तेः सिद्धेः। न चामर्षप्रकर्ष एवात्मवधेच्छादिकारणमभिव्यज्यतामिति वाच्यम्। प्रकर्ष- स्यापि स्वाभाविकविलक्षणलक्षणताया आवश्यकतया तस्यैव चपलता- पदार्थत्वात्। नी चपुरुषेष्वाक्रोशनाधिक्षेपव्याधिता डनदारिघ्येष्टविर हपरसंपद्दर्श- नादिभिः, उत्तमेषु त्ववज्ञादिभिर्जनिता विषयद्वेषाख्या रोदन-दीर्घ- श्वासदीनमुखतादिकारिणी चित्तवृत्तिनिर्वेद:॥

श्वासजन्यकम्पवानित्यर्थः । च मत्सर इति। मत्सरश्चेत्यर्थः । अहितेति। न हितं व्रतं भगवदनुरक्तिरूपं यस्य तत्संवुद्धिः । अत एव पापात्मन्प्रह्राद। भावित इति । उत्पादित इत्यर्थः । अवज्ञादिभिरिति । आदिना विरहादयः ।

१ स्वाभाविकरूपाद्विलक्षणं लक्षणं यस्य तत्ता। प्रकर्षे सति वस्तुनः पूर्वसिद्धाद्रूपाद्वैचित्र्य- मवश्यं भवत्येव। ततश्च अमर्षाद्भिन्नो यः प्रकृष्टामर्षस्तस्यैव नाम चपलतेत्याशयः ।

Page 180

११८ काव्यमाला। [प्रथमानने-

-उदाहरणम्- 'यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणं समेष्यति। अमुना जडजीवितेन मे जगता वा विफलेन कि फलम् ॥' नित्यानित्यवस्तुविवेकजन्यत्वाभावान्नासौ रसव्यपदेशहेतुः। देवादिविषया रतिर्यथा- 'भवद्वारि कुध्यज्यविजयदण्डाहतिदल- त्किरीटास्ते कीटा इव विधिमहेन्द्रप्रभृतयः । वितिष्ठन्ते युष्मन्नयनपरिपातोत्कलिकया वराका: के तत्र क्षपितमुर नाकाधिपेतयः ।'

ब्रह्मादिगता भगवदालम्बना रतिर्नाभिव्यज्यते, अपि तु भगवदैश्वर्यम- वाङ्ानसगोचर इति चेत्तथापि तादृशभगवदैश्वर्यवर्णनानुभावितया कविगतभगवदालम्बनरत्या ध्वनित्वमक्षतमेव। इदं वोदाहरणम्- 'न धनं न च राज्यसंपदं नहि विद्यामिदमेकमर्थये। मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम्॥'

यदीति। भगवतो रामस्येयमुक्तिः। सा सीता। जडेति। अचेतनजीवितेनेत्यर्थः। विफलेन विरुद्धफलेन। नन्वत्र निर्वेदस्थायिकशान्तरसध्वनितमेवात आह-नित्येति। असौ निर्वेदः। भवदिति। विष्णुं प्रति भक्तोक्तिः । हे क्षपितमुर मुरजित्, जयविजयौ द्वारपालौ। ते अनिर्वचनीयप्रभावास्ते भवद्वारि भवन्नेत्रपातोत्कण्ठया कीटा इव विति- घृन्त इत्यन्वयः । वराका दीनाः। नाभिव्यज्यत इति। धनादभिलाषेणापि तदुपपत्ते- रिति भावः । इतीत्यस्याभिव्यज्यत इत्यन्रानुषङ्गः । चेत् यद्यपि। नन्वस्या अप्रा- धान्येन कथं तत्त्वमत आह-इदं वेति। स्य भावस्य। अन्त्भावे हेतुमाह- १ नयनयोर्यः परितः पातः, सम्यङ् निरीक्षणमित्यर्थः, तदुत्कलिकया तल्लालसाराभस्येन। वितिष्ठन्ते, अर्थित्वादन्यापेक्षया विशिष्टप्रकारेण तिष्ठन्ति। २ महेन्द्रस्य पूर्वमुक्तत्वादत्र नाकभागस्याधिपतयः कुबेरादयोऽन्ये ग्राह्याः । ३ इति वस्त्वभिव्यज्यते। ततश्च नासौ भावध्वनिरिति शङ्का। ऐश्वर्यवर्णनानुभावेन कविगता भगवद्रतिरभिव्यज्यत इति समाधानम्। ४ ननु रतिरप्रधानम्। ऐश्वर्यवर्णनमेव प्रधानम्, अत एव रतिभावस्योदाहरणान्तरं दत्तमित्याशयः ।

Page 181

रसाद्याभासा:] रसगङ्गाघरः । ११९

अत्र धनाद्यपेक्षाशून्यस्य भगवहृगन्तपाताभिलापो हि भगवत्यत्यन्ता- नुरक्तिं व्यनक्ति। एवं संक्षेपेण निरूपिता भावाः ॥ अथ कथमस्य संख्यानियमः। मात्सयोद्वेगदम्भेर्प्याविवेकनिर्णयक्कैव्य- क्षमाकुतुकोत्कण्ठाविनयसंशयधाध्ादीनामपि तत्र तत्र लक्ष्येषु दर्श- नात् इति चेत्, न । उक्ेष्वेवैषामन्तर्भावेन संख्यान्तरानुपपत्तेः । असूयातो मात्सर्यस्य, त्रासादुद्वेगस्य, अवहित्थाख्याद्भावाद्म्भस्य, अमर्पा- दीर्ष्यायाः, मतेर्विवेकनिर्णययोः, दैन्यात्क्वैव्यस्य, धृतेः क्षमायाः, औत्सु- क्यात्कुतुकोत्कण्ठयोः, लज्जाया विनयस्, तर्कोत्संशयस्य, चापलाद्धा- ष्टर्यस्य च वस्तुतः सूक्ष्मे भेदेऽपि नान्तरीयकतया तदनतिरिक्तस्यैवाध्य- वसायात्। मुनिवचनानुपालनस्य संभव उच्छृङ्गलताया अनोचित्यान्। एपु च संचारिभावेषु मध्ये केचन केषांचन विभावा अनुभावाश्च भवन्ति। तथा हि-ईर्ष्याया निर्वेदं प्रति विभावत्वम्, असूयां प्रति चानुभाव- त्वम्। चिन्ताया निद्रां प्रति विभावत्वम्, औत्सुक्यं प्रति चानुभावतेत्यादि स्वयमूह्यम्। अथ रसाभास :- तत्र अनुचितविभावालम्वनत्वं रसाभासत्वम् ॥ विभावादावनौचित्यं पुनर्लोकानां व्यवहारतो विज्ञेयम्। यत्र तेषाम- युक्तमिति धीरिति केचिदाहुः। तदपरे न क्षमन्ते। मुनिपत्न्यादिविषयक- रत्यादे: संग्रहेऽपि बहुनायकविषयाया अनुभयनिष्ठायाश्च रतेरसंग्रहात्। तत्र विभावगतस्यानौचित्यस्याभावात्। तस्मादनौचित्ेन रत्यादिर्विशेष- णीयः। इत्थं चानुचितविभावालम्बनाया बहुनायकविपयाया अनुभयनिष्ठा- याश्च संग्रह इति। अनौचित्यं च प्राग्वदेव। तत्र रसाद्याभासत्वं रसत्वा- असूयात इति। ननु सूक्ष्मभेदप्रयुक्तमेदः कुतो नात आह-मुनीति। संचारीति षध्यर्थे सप्तमी। तन्न निरूपणीये रसानासे। यत्र विभावादौ। तेषां लोकानाम्। आदिना गुरुपत्नयादिसंग्रहः । तत्र तयोः। तस्मादिति। तथा चानुचितविभावालम्बनकेरतिलं तत्त्वं ज्ञेयम्। आदिना हासादिपरिग्रहः। इत्थं च तथाविशेषणे च। इतिरपरमतसमात्तौ १ नित्यसंबद्धतया तदभिन्नस्वरूपस्यैव (भावस्य) निश्चयात्। अर्थाद् यत्र मात्सर्यं भवे- त्तत्राSसूयाऽप्यवश्यमेवोपलभ्येत। ततश्चानयोरभेदस्वीकार एव समुचितो न तु मुनिवचनेभ्य उच्छङ्गलता। एवं त्रासोद्वेगादिष्वपि बोद्धव्यम्। २ अनेन हि अनुचितविभावालम्बना, स्वयमनुचिता च रतिविवक्षिता। अनुचितप्रवृत्त- स्थायिकत्वं रसाभासत्वमिति तु सरलम्।

Page 182

१२० काव्यमाला। [प्रथमानने-

दिना न समानाधिकरणम्, निर्मलस्यैव रसादित्वात्, हेत्वाभासत्वैमिव हेतुत्वेन इत्येके। 'नह्यनुचितत्वेनात्महानिः, अपि तु सदोषत्वादाभास- व्यवहारः । अश्वाभासादिव्यवहारवत्' इत्यपरे। उदाहरणम्- 'शतेनोपायानां कथमपि गतः सौधशिखरं सुधाफेनस्वच्छे रहसि शयितां पुष्पशयने। विबोध्य क्षामाङ्गीं चकितनयनां स्मेरवदनां सनिःश्वासं श्लिष्यत्यहह सुकृती राजरमणीम् ।।' अन्रालम्बनमनुचितप्रणया राजरमणी। रहोरजन्याघुद्दीपनम्। साह- सेन राजान्तःपुरे गमनम्, प्राणेषूपेक्षा, निःश्वासाश्लषादयश्चानुभावाः । शङ्कादयः संचारिणः। निषिद्धालम्बनकत्वाच्चास्या रतेराभासत्वं रसस्य। न चात्र चकितनयनामित्यनेन परपुरुषस्पर्शत्रासाभिव्यक्त्या रतेरनुभयनिष्ठते- त्याभासताहेतुर्वाच्यः । अस्याश्च चिराय तस्मिन्नासक्ताया अन्तःपुरे परपु- रुषागमनस्यात्यन्तमसंभावनया क एष मां बोधयतीत्यादावुचित एव त्रासः। अनन्तरं च परिचयाभिव्यक्त्ा सोऽयं मत्प्रियो मदर्थ प्राणानपि तृणीकृत्यागत इति ज्ञानादुत्पन्नं ह्षमभिव्यञ्जयत्स्मेरवदनामिति विशेषणं

चस्तर्थ। तत्र रसाभासेषु। आदिना भावपरिग्रहः। निर्मलस्य निर्दुष्टस्य। हेतुलेने- त्यस्य न समानाधिकरणमित्यस्यानुषङ्गः। नन्वत्र मते दुष्टो हेतुरितिवद्दुष्टो रस इत्या- दिव्यवहारानुपपत्तिरतो मतान्तरमाह-नहीति । आत्महानिः खरूपहानिः। अश्वा- भासेति। अश्व इति भावः । सौधेति। सुधानिर्मितराजगृहोपरितनप्रदेशमित्यर्थः । फेनस्यात्यन्तस्च्छत्ादुक्तिः । पुष्पशयने पुष्पशय्यायाम्। अहहेति शङ्कायाम्। अनु- चितेति। अनुचितः प्रणयो यस्यामित्यर्थः । यस्या इति वा। इदमाद्योदाहरणमित्याह- निषिद्धेति । अस्या नायकनिष्ठायाः । परेत्यस्य विबोध्येति। बोधितेत्यादिः । स्पर्शेति। स्पर्शकृतत्रासेत्यर्थः । अनुभयेति। नीयके सत्त्वेऽपि नायिकायामभावादिति भाव: । हेतुरिति। तथा च तृतीयोदाहरणमेतन्नाद्यस्येति भावः । समाधत्ते-अस्या- ऋ्चेति। चो यत इत्यर्थे। व्यनक्तीत्यत्रास्यान्वयः । रतिमिति। नायिकासंबन्धिनीं १ हेत्वाभासत्वं यथा हेतुत्वेन, तथा रसाद्याभासत्वं रसत्वेन न समानाधिकरणम्। अर्थात् यत्र हेत्वाभासत्वं भवति तत्र यथा हेतुत्वं न, तथा यत्र रसाभासत्वं तत्र रसत्वं न तिष्ठतीत्याशयः। २ निद्रातः सहसा जागरणात् 'कोयं मां बोधयनी'त्येव त्रासः, न तु परपुरुषबुच्धा। अतो नाऽनुभयनिष्ठताऽवसर इत्यर्थः ।

Page 183

रसाद्याभासा: ] रसगङ्गाधर: । १२१

रतिं तदीयामपि व्यनक्ति। परं तु प्राधान्यं नायकनिष्ठाया एव रतेः, सकलवाक्यार्थत्वात्।

यथा वा-

'भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेषु। तरुणेषु विलोचनाव्जमालामथ वाला पथि पातयांवभूव ।।' अत्र कुतश्चिदागच्छन्त्याः पथि तदीयरूपयोवनगृहीतमानसैर्युवभिरतु- गम्यमानाया: कस्याश्चिद्भवनप्रवेशसमये निजसेवासार्थक्यविज्ञानाय गमनाज्ञापनरूपलाभलालसेषु तेपु परमपरिश्रमस्मरणसंजातकरुणाया गमनाज्ञादाननिवेद्कस्य विलोचनाम्वुजमालापरिक्षेपस्यानुभावस्य वर्णनाद्- भिव्य्यमाना रतिर्वहुवचनेन बहुविषया गम्यत इति भवत्ययमपि रसाभास:।

रतिमपीत्यर्थः । हर्षसमुच्चायकोऽपिः। नन्वेवं विनिगमनाविरहोऽत आह-परंत्विति। नायिकानिष्ठा तु स्मेरेति पदमात्रव्यङ्ञयलान्न वाक्यार्थः । तथा चायोदाहरणतास्य सुस्थेति भाव: । द्वितीयोदाहरणमाह-यथा वेति। भवनं खगहम्। विज्ञानाय तदङ्गीकाराय। तेषु तरुणेषु। करुणायामन्वयः । परमेत्यस्य तरुणसंबन्धीत्यादिः। बह्निति। तरुणेष्विति

१ अन्थकर्तुविरुद्धनिदम्। 'तदीयामपि रतिन्' अर्थात् नायिकाया अपि रतिमिति वदता ग्रन्थकृता अपिना नायिकाया रतिः समुच्चीयते। अर्थात् उपायशतेन सौधशिखरमारोदुनीय- कस्य रतिस्तु सुस्फुटैव, परं स्मेरवदनाया नायिकाया अपि रतिरस्त्येवेति। स्फुटं चेदसुचितम्। यूर्वपक्षिणा-परपुरुषत्रासाभिव्य्जकेन चकितनयनामिति विशेषणेन नायिका या रत्यभावो यदा शङ्कयते तदा तत्समाधाने 'तदीयामपि रतिभ्' अत्र स्पर्ष्ट नायिकाया एव रतिर्ग्रहीतुसुचितैव । नागेशमहोदयस्तु-'तदीयामपि रतिम्' (नायिकासंबन्धिनीमपि रतिम्) इति रफुर्ट चदन्तं अ्रन्थकारं पराभूय 'रतिमपि' इत्यर्थ वदन् हर्षसमुच्चायकमाह। अर्थात् 'नायिकाया रतिमभिव्यनक्ति, हर्षमपि' इति। ग्रन्थस्वारस्यं कियद्ूरं गलहस्तितमिति मर्मविदो विद्युरेव। 'हर्षमभिव्यक्जयत्' इति मूलोक्तस्फुटोक्तावपि न टीकाकर्तुईष्टिरिति हन्त !! एवमेव स्थाने स्थाने साहित्यमामिकत्वमभिनीतं नागेन, किन्तु क्वचित्कच्चिदेव निदशितमित्यलं प्राचां वाचां विचारेण। ११ रस०

Page 184

१२२ काव्यमाला। [प्रथमानने-

यथा वा- 'भुजपञ्जरे गृहीता नवपरिणीता वरेण वधूः। तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ।।' अत्र रतेनववध्वा मनागप्यस्पर्शादनुभयनिष्ठत्वेनाभासत्वम्। तथा चोक्तम्- 'उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च। बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् ॥' इति। अत्र मुनिगुरुशव्दयोरुपलक्षणपरतया राजादेरपि ग्रहणम्। अथात्र किं व्यङ्ग्यम्- 'व्यानम्राश्चलिताश्चैव स्फारिताः परमाकुलाः । पाण्डुपुत्रेषु पाञ्चाल्याः पतन्ति प्रथमा दशः ।।' अत्र व्यानम्रतया धर्मात्मताप्रयोज्यं युधिष्ठिरे सभक्तित्वम्, चलिततया स्थूलाकारताप्रयोज्यं भीमसेने सत्रासत्व्म्, स्फारिततया अलौकिकशौर्यश्र- वणप्रयोज्यमर्जुने सहर्षत्वम्, परमाकुलतया परमसौन्दर्यप्रयोज्यं नकुल- सहदेवयोरौत्सुक्यं च व्यञ्जयन्तीभिदेग्भि: पाञ्चाल्या बहुविषयाया रतेर- भिव्यञ्जनाद्रसाभास एवेति नव्याः । प्राव्रत्वपरिणेतृबहुनायकविषयत्वे रतेराभासतेत्याहुः। तत्र शृङ्गाररस इव शृङ्गाराभासोऽपि द्विविधः, संयोगविप्रलम्भभेदात्। संयोगाभासस्त्वनुपद्मेवोदाहृतः ।

बह्नित्यर्थः। तृतीयोदाहरणमाह-यथा वेति। भुजेति रूपकम्। उपेति। आभासत्- मिति शेषः। प्रथमोदाहरणसंग्रहायाह-अत्रति। अत्र वक्ष्यमाणोदाहरणे किं रसो वा तदाभासो वेत्यर्थः । स्फारिता विस्तृताः । प्रथमा इत्यनेन पूर्व दर्शनाभावः सूचितः । सभक्तित्वमित्यादिद्वितीयान्तानां व्यञ्ञयन्तीभिरित्यनेनान्वयः । भास एवेत्यस्य व्यङ्ञय इति शेष: । एवेन रसव्यवच्छेदः। प्राश्चस्त्विति । अन्रारुचिबीजं तु रत्यनौचित्यस्या- परिणीते इवात्रापि सत्त्वम्। नहि लक्षणे तथा निवेशोऽस्तीति। तन्र रसाभासानां

१ भामिनीविलासे तु 'वरेण रहसि वधूः' इति पाठो दृष्टः । काशीमुद्रितरसगङ्गाधरे तु रहसिपदमित उड्डीय 'भवत्ययमपि रहसि रसाभासः' इति उपरिपङ्गौ गतम्।

Page 185

भावशान्त्यादय: ] रसगङ्गावर: । १२३

विप्रलम्भाभासो यथा- 'वयत्यस्तं लपति क्षण क्षणमथो मौनं समालम्वते सर्वस्मिन्विदधाति किं च विपये दृष्टिं निरालम्वनाम्। श्वासं दीर्घमुरीकरोति न मनागङ्गेषु धत्ते धृति वैदेहीकमनीयताकवलितो हा हन्त लङ्केश्वरः ।।' अत्र सीतालम्बनेयं लङ्गेशगता विप्रलम्भरतिरनुभयनिष्ठतया जगडु- रुपत्नीविषयकतया चाभासतां गता, व्यत्यस्तं लपतीत्यादिभिरुक्तिभिर्व्य- ज्यमानैरुन्मादश्रममोहचिन्ताव्याधिभिस्तथैवाभासतां गतैः प्राधान्येन परिपोष्यमाणा ध्वनिव्यपदेशहेतुः। एवं कलहशीलकुपुत्राद्यालम्बनतया वीतरागादिनिष्ठतया च वर्ण्यमान: शोकः, ब्रह्मविद्यानधिकारिचाण्डाला- दिगतत्वेन च निर्वेदः, कदर्यकातरादिगतत्वेन पित्राद्यालम्बनत्वेन वा क्रोधोत्साहौ, ऐन्द्रजालिकाद्यालम्वनत्वेन च विस्मयः, गुर्वाद्यालम्वनतया च हास:, महावीरगतत्वेन भयम्, यज्ञीयपशुवसासृख्मांसाद्यालम्वन- तया वर्ण्येमाना जुगुप्सा च रसाभासाः । विस्तृतिभयाचामी नेहोदाहताः सुधीभिरुन्नयाः । एवमेवानुचितविषया भावाभासाः । यथा- 'सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता विद्यापि खेदकलिता विमुर्खावभूव। सा केवलं हरिणशावकलोचना मे नैवापयाति हृदयादविदेवतेव।।'

मध्ये। एकं क्षणमिति पूर्वान्वयि। अपरमुत्तरान्वयि। ननु सीतायास्तदभावेऽपि लङ्खेशे तत्सत्त्वमत आह-जगदिति। उक्तिभिरिति। यथाक्रममिति शेषः । तथैव जग- डुरुपत्नीविषयकतयैव। प्राधान्यनेति। तथा च न तद्भावाभासघ्वनितमिति भावः । कलहशीलेति । अवीतरागादिविषयमिदम्। अत एवाह-वीतेति । कदयो निन्धः । कातरो भीतः । एवमेव रसाभासवदेव। खेदकलिता खेदव्याप्ता । विनिगम- १ व्यत्यस्तलापेन उन्मादः, मौनेन श्रमः, निरालम्बनदृष्या मोहः, दीर्घश्वासैश्चिन्ता, अङ्गानामधृत्या च व्याधि:, उदाहरणे व्यज्यत इति बोध्यम् । अनुन्वितस्थले प्रवृत्ता व्यभि- चारिणोऽप्याभासा भवन्तीत्यपि अन्थकर्त्रा सूचितमनेन।

Page 186

१२४ काव्यमाला। [ प्रथमानने-

गुरुकुले विद्याभ्याससनये तदीयकन्यालावण्यगृहीतमानसस्यान्यस्य वा कस्याचदप्रतिषिद्धगमनां स्मरतो देशान्तरं गतस्ेयमुक्ति: । अत्र च स्वात्मत्यागात्यागाभ्यां स्रक्चन्दनादिषु विषयेषु चिरसेवितायां विद्यायां च कृतन्नत्वम्, अस्यां च लोकोत्तरत्वमभिव्यज्यमानं व्यतिरेकवपुः स्मृतिमेव पुष्णातीति सैव प्रधानम्। एवं च त्यागाभावगतं सार्वदिकत्वं व्यञ्जयन्त्यधिदेवतोपेमापि। एषा चानुचितविषयकत्वादनुभयनिष्ठत्वाच्च भावाभासः । यदि पुनरियं तत्परिणेतुरेवोक्तिस्तदा भावध्वनिरेव ।। अथ भावशान्ति :- भावस्य प्रागुक्तस्वरूपस्य शान्तिर्नाशः ।। स चोत्पत्यवच्छिन्न एव ग्राह्यः, तस्यैव सहृद्यचमत्कारित्वात्। उदाहरणम्- 'मुञ्जसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय। इति तन्व्याः पतिवचनैरपायि नयनाब्जकोणशोणरुचि: ।।' इह तादशप्रियवचनश्रवणं विभावः । नयनकोणगतशोणरुचेर्नाशः, तद्भिव्यक्तः प्रसादो वानुभावः । उत्पत्तिकालावच्छिन्नो रोषनाशो व्यङ्ग्यः । तथा- भावोदयो भावस्योत्पत्ति: ।।

नाविरहादाह-अन्यस्येति। अत्र च सात्मत्यागेति विषयविद्योभयकर्तृकस्वत्यागेन विषयविद्ययो: कृतन्नत्वम्, नायिकाकर्तृकस्वीयात्यागेन चास्यां नायिकायां लोकोत्तरत्व मित्यर्थः । एवं स्मृतिमेव पुष्यतीत्यर्थः । स च नाशश्चोत्पत्त्यवच्छिन्न एवोत्पत्तिकाला- वच्छिन्न एव। मुदिरालिर्मेघपङ्किः। नाशस्य साक्षात्तत्कार्यलाभावादाह-तदभीति।

१ चिरसेवनेपि विमुखे विषय-विद्ये कृतन्न, तदपेक्षया न्यूनकालाडभिध्यानेऽपि सर्वदानुगा- मिनी भामिनी तु लोकोत्तरकृतज्ञेति व्यज्यमानोऽपि व्यतिरेकालंकारः स्मृतिभावपोषकतया अप्राधान्यान्न व्वनित्वव्यपदेशहेतुरित्यर्थः । २ तत्तद्स्तुनोऽधिष्ठात्री देवता यथा न जातु तत्परित्यजति, तथा सेयमपि मृगलोचना अकृतमद्धदयमोचनास्तीति उपमालंकारेणापि नास्य काव्यस्य व्यपदेशः, उपमाया अपि प्रधान- स्मृतेरेव प्रसाधकत्वादित्याशयः ।

Page 187

भावशान्त्यादय: ] रसगङ्गावरः । १२५

उदाहरणम्- 'वीक्ष्य वक्षसि विपक्षकानिनीहारलक्ष्म दयितस्य भामिनी। अंसदेशवलर्याकृतां क्षणादाचकर्ष निजबाहुवह्लरीम् ।' अन्नापि दयितवक्षोगतविपक्षकामिनीहारलक्ष्मदर्शनं विभावः । प्रियां- सदेशवलयीकृतनिजवाहुलता कर्पणमनुभावः। रोपोदयो व्यङ्ञ्यः । चद्यपि भावशान्तौ भावान्तरोद्यस्य, भावोदये वा पूर्व भावशान्तेरावश्य- कत्वान्नानयोरविविक्तो व्यवहारस्य विपयः, तथापि द्वयोरेकत्र चमत्कार- विरहान्, चमत्काराधीनत्वाच्च व्यवहारस्य अस्ति विपनविभागः । एवम्-

नाधिकरण्यम् ॥ उदाहरणम्- 'यौवनोद्गमनितान्तशङ्किता: शीलशौर्यबलकान्तिलोभिताः । संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥' अन्न भगवद्दाशरथिगतस्य लोकोत्तरयौवनोद्रमस्य, ताहशस्वैव शील- शौर्यादेश् दर्शनं विभावः । नयनगतसंकोचविकासावनुभावः । त्रीडौ- त्सुक्ययोः संधिर्व्यड््यः ।

ननु ततः किमत आह-चमत्कारेति। एवं च यत्कतो यन्न चमत्कारस्तन्र तद्य- वहार इति भावः । सामानाधिकरण्यमिति। एकदेशवृत्तितवविशिष्टैककालवृत्तित- रूपमित्यर्थः । सूक्ष्ममेदस्त्वकिंचित्कर शति भावः। शबलतायां लेकदेशवृत्तितरूपमेव

१ यौ भावौ परस्परस्याभिभवयोग्यतां धारयतो न च परस्परमभिभूतौ (अवरुद्धान्योन्य- चनत्कारौ), तयोरेकस्मिन् स्थले एकस्मिश्च कालेऽभिव्यक्तिर्भावसन्धिरित्याशयः । परस्पराभि- भूतयोर्भावयोः सन्धौ द्वयोरेव न चमत्कारः, उदासीनयोः (परस्पराभिभवयोग्यताविरहितयोः) अभिव्यक्तौ न सन्धिकृतो विशिष्टश्चमत्कार इति तथाविशेषणदानस्याकूतम्। २ वयःसन्धिमारूढाया अनूढायाः सीताया यौवनोद्गमवन्तं भगवन्तं द्ृष्ट्वा प्रथमवयःस्वा- भाव्याच्छक्केति संकेत: ।

Page 188

१२६ काव्यमाला [प्रथमानने-

तथा- भावशवलत्वं भावानां वाध्यवाघकभावंमापन्नानामुदासीनानां वा व्यामिश्रणम्।। एकचमत्कृतिजनकज्ञानगोचरत्वमिति यावत्। उदाहरणम्- 'पापं हन्त मया हतेन विहितं सीतापि यद्यापिता सा मामिन्दुमुखी विना बत वने किं जीवितं धास्यति। आलोकेय कथं मुखानि कृतिनां किं ते वदिष्यन्ति मां राज्यं यातु रसातलं पुनरिदं न प्राणितुं कामये ।।' अत्र मत्यसूयाविषादस्मृतिवितर्कत्रीडाशङ्कानिर्वेदानां प्रागुक्तस्वस्ववि- भावजन्मनां शवलता। यत्तु काव्यप्रकाशटीकाकारैः 'उत्तरोत्तरेण भावेन पूर्वपूर्वभावोपमर्दः शबलता' इत्यभ्यधीयत, तन्न। 'पश्येत्कश्चिचल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः कासि यासि' इत्यत्र

ताया राजस्तुतिगुणत्वेन पञ्चमोल्लासे मूलकृतैव निरूपणात्। स्वोत्तर- विशेषगुणेन जायमानस्तु नाशो न व्यङ्ग्यः, न वोपमरदेपदवाच्यः,

सामानाधिकरण्यमिति विशेषः। तादृशस्यैव लोकोत्तरस्यैव। एकेति। एकं यत्तादृशं ज्ञानं महावाक्यार्थबोधस्तद्विषयतमित्यर्थः । पापमिति । अन्न पापमित्यनेन मतिः, हते- त्यादिनासूया, सीतापीत्यादिना विषादः, सेत्यनेन स्मृतिः, मामित्यादिना वितर्केः, आलो- केयेत्यादिना व्रीडा, किं त इत्यादिना शङ्का, राज्यमित्यादिना निर्वेदः, इति बोध्यम्। पश्येत्कश्चिदीति शङ्का। चल चपल रे इत्यसूया। का लरेति धृतिः । अहं कुमारीति स्मृतिः । हस्तालम्बं वितरेति श्रमः । हहहेति दैन्यम्। व्युत्क्म इति दैन्यम्। क्वासीति मतिः। यासीत्यौत्सुक्यम्। औत्सुक्यानामिति। मध्ये पूर्वपूर्वस्योत्तरोत्तरेणेति तत्तद्भ्भावानां चमत्कारजनके एकस्मि- न्महावाक्यार्थबोधे सहृदयानुभवविषयत्वमित्याशयः । २ च्ित्तवृत्तिरूपा अमी भावा नैयायिकानां नये इच्छादिषु विशेषगुणेष्वेव समाविष्ाः स्युः । तन्नये च पूर्वभावस्य नाशे सत्येव भावान्तरस्योदयः स्यात्ततश्च कथमेककाले नानाभावानुभव- रूपा सेयं शबलतेति शङ्का। ईदृशो नाशो व्यञ्ञय एव कथं भवेत [उत्तरेणोपमर्दावस्थायां, हृदये Sप्रतिफलनाव]। न चायमुपमर्दपदेनाभिधातुं शक्य इत्यादिकं समाधानम्।

Page 189

भावशान्त्यादय: ] रसगङ्गाघर: १२७

नापि चमत्कारी तस्मान्। 'नारिकेलजलक्षीरसिताकदलमिश्रणे। विलक्षणो यथास्वादो भावानां संहतौ तथा॥' अन्रेदं वोध्यम्-य एते भावशान्त्युद्यसंविशवळताध्वनय उदाह- तास्तेSपि भावध्वनय एव। विद्यमानतयो चर्व्यमाणेध्विवोत्पत्त्यवच्छिन्न-

वर्यमाणेघु भावेष्वेव प्राधान्यस्यौचित्यात्, चमत्कृतेस्तत्रैव विश्रान्तेः । यद्य- प्युत्पत्तिविनाशँसंधिशवलतानां तत्संबन्धिनां भावानां च समानायां चर्वणाविषयतायां न प्राधान्यं विनिरगन्तुं शक्यते, तथापि स्थितौ भावेपु प्रधानतायाः कपत्वात्, भावशान्त्यादिष्वपि-तेष्वेव शान्तिप्रतियोगित्वा- दिभिर्व्यज्यमानेपु तस्या: कल्पयितुमौचित्यात्। किं च यदि भावशान्त्ादौ

शेषः । मूलकृतैव प्रकाशकृतैव। तत्त्वेऽप्याह-न वेति। तत्त्वेऽप्याह-नापीति । अन्र च सहृदयहृदयमेव प्रमाणमिति भावः । उपसंहरति-तस्मादिति। चूर्णिकेयम्। संहतौ मिश्रणे। भावशान्त्युदेति। भावसंबन्धिशान्त्यादीनां ध्वनय इत्यर्थः । स्थितौ तद्विषये। तेष्वेव भावेष्वेव। तस्याः प्रधानतायाः । ननु तत्र तत्कृतश्वमत्कारः, अत्र त्वेतत्कृत इति वैषम्यमत आह-किं चेति। सामान्येनोक्तमर्थ विशिष्योपपादयति-

१ अन्यपदार्थस्याSSस्वादमनुपमृद्गन्तो नारिकेलजलादयः पदार्था निश्रणे सति विलक्षणमा- स्वादं यथोपजनयन्ति तथा पृथवपृथगभिव्यज्यमाना अप्यनी भावा महावाक्यार्थबोधे संनिलितम- चूर्व चमत्कारसुपजनयन्तीत्याशयः। २ भावध्वनिषु (यत्र हि विद्यमानत्वावस्थापन्नो भावो भवति, तेषु) भावस्यैव प्राधान्य दृश्यते, न विद्यमानत्वाऽवस्थायाः, तदनुसारमव्यपदेशान्। एवमेव भावोदय-भावशान्त्यादि- ध्वपि उत्पत्त्यवच्छिन्नत्व-विनश्यदवस्थत्वादीनां प्रकाराणाम् (अवस्थानाम्) न प्राधान्यसुचितम्, अपि तु भावानामेवेत्याशयः । ३ भावोदय-भावशान्त्यादिस्थले। ४ उत्पत्ति-विनाशाद्वस्थानां तत्संसष्टानां भावानां च मध्ये कतरस्य प्राधान्यमिति निर्धारयितुं न शक्यत इत्यर्थः ॥ ५ शान्तिप्रतियोगित्वादिभि: प्रकारैः (यस्य भावस्य शान्तिर्भवति स प्रतियोगी। यथा 'मुश्चसि नाद्यापीति' पद्ये कोपस्य शान्तिः) चर्वणाविषयीकृतेषु तेषु भावेष्वेव प्रधानतायाः कल्पयितुमौचित्यम्।

Page 190

१२८ काव्यमाला [प्रथमानने-

भावो न प्रधानन्, किं तु तदुपसर्जनकशान्त्यादिरेवेत्यभ्युपेयते तदा व्यञ्यमानेभावेप्वभिहितततर्प्रशमादिषु काव्येपु भावप्रशमादिध्वनित्वं न स्वात्। तथा हि। 'उपसि प्रतिपक्षनायिकासदनादन्तिकमञ्वति प्रिये। सुदृशो नयनाव्जकोणयोरुदियाय त्वरयारुणद्युतिः ।।' अत्रोत्पूर्वकेणैतिना भावोद्यस्य वाच्यतयैव प्रत्यायनात्। (ननु) उद्यस्य वाच्यत्वेऽपि भावस्यावाच्यत्वाङ्धनित्वं सुस्थमिति चेत्, प्रधानस्य व्यपदे- शानौपयिकत्वेSप्रधानकृतव्यपदेशानुपपत्तेः । अस्मन्मते तूत्पत्तेर्वाच्यत्वे- डप्युत्पत्त्यवच्छिन्नस्यामर्षस्य प्रधानस्यावाच्यत्वाद्युक्त एव भावोद्यध्वनि- व्यपदेशः । एवं व्यज्यमानरभावप्रतियोगिकस्य अशमस्य वाच्यत्वे भावशान्ति- ध्व्र नित्वं न स्यात् । यथा- 'क्षमापणैकपदयोः पद्योः पतति प्रिये। शेमुः सरोजनयनानयनारुणकान्तयः ।।' ननु शब्दवाच्यानां प्रशमादीनामरुणकान्त्यैवान्वयात् अरुणकान्ति- प्रशमादेरेव वाच्यत्वं पर्यवसितम्, न तु तादृशप्रशमादिव्यङ्गस्य रोष-

तथा हीति। अन्वतीति सप्तमी। उत्पूर्वकेणैतिनेति। उदुपसर्गपूर्व केणेणधातुने- त्र्थः । शङते-उद्येति। अनौपयिकलेSप्रधानेत्यत्राकारप्रश्लेषः । उदयस्थलै दोषं दत्वा शान्तिस्थले तमाह-एवमिति। एकपदयोरसाधारणस्थानयोः । पततीति सप्तमी। उभयत्र शङ्कते-नन्विति । वाच्यान्वयेति। सकलपदानामिति शेषः । १ सः (भावः) उपसर्जनं गौणो यस्मिन्नीदृशः शान्त्यादिरेव प्रधानमिति अभ्युपेयते स्वीक्रियते। २ व्यज्यमानो भावो येषु, अभिहितश्च तत्प्रशमादिर्येषु काव्येषु। अर्थात् येषु काव्येषु भावो व्यज्जनया गम्यः प्रशमादिस्तु अभिधया तेषु। ३ भवन्मते प्रधानं य उदयादिस्तस्य व्यपदेशार्थ (ध्वनित्वस्थापनार्थम्) अनुपयोगित्वे (अनर्हत्वे) अप्रधानकृतो व्यपदेशो नोपपद्यत इत्यर्थः । ४ व्यज्यमानो भाव: प्रतियोगी यस्य, अर्थात् यस्य प्रशमो वाच्यः स भावो व्यड्यः, प्रशमस्तु वाच्य इत्यर्थः ।

Page 191

भावशान्त्यादय: ] रसगङ्गाघर: । १२९

प्रशमादेः, व्यङ्गयव्यञ्ञकभेदस्यावश्यकत्व्रात्। न चारुण्यव्य डयरोपस्यैव वाच्यीभूतप्रशमाद्यन्वय इति वाच्यम्। वाच्यव्यङ्गप्रतीत्योरानुपूर्व्येण सिद्धतया वाच्यान्वयवोधवेलायां वाच्येः सह व्यज्ञ्यान्वयानुपपत्तेः । अन्यथा 'सुदृशो नयनाव्जकोणयोः' इत्यस्यान्वयो न स्थान्। मैवम्। एवमपि- 'निर्वासयन्तीं धृतिमङ्गनानां शोभां हरेरेणहशो धयन्त्याः। चिरापरावस्मृतिमांसलोऽपि रोपः क्षणप्राघुणिको बभूव ।' इत्यादावपि भावप्रशमध्वनित्वापत्तेः, भावस्य वाच्यत्वेऽपि प्रधानस्य तत्प्रशमस्य व्यङ्ग्यत्वात्। उभयोरप्यवाच्यत्वमपेक्षितमिति चेन्, प्रागुक्त पद्यद्वये शमत्वोदयत्वाभ्यां शमोद्ययोर्वाच्यत्वादनुदाहरणत्वापत्तेः । इष्टा- पत्तिस्तु सहदयानामनुचितैव। तस्माद्गावप्रशमादिष्वपि प्राधान्येन भावा- नामेव चमत्कारित्वम्, प्रशमादेस्तूपसर्जनत्त्रमतो न तस्य वाच्यतादोषः। इदं पुनर्भावध्वनिभ्यो भावशान्त्यादिध्वनीनां चमत्कारवैलक्षण्ये

वाच्येः प्रशमादिभिः। व्यङ्गयान्वयेति । आरुण्यव्यक्ञयरोषान्वयेत्यर्थः। अन्यथा तदङ्गीकारे। न स्यात्, रोषोदये सुदृक्तस्य बाधात्। तथा च रोषप्रशमादिध्वनित्वं सुस्थमिति भावः । निर्वासयन्तीं दूरीकुर्वतीम्। मांसल: पुष्टः। क्षणप्राघुणिकोऽतिथिः । शङ्कते-उभयोरपीति। एवमेव उक्तदोषद्वयाभावेऽपि। प्रधानाप्रधानयोरपीत्र्थः। पद्यद्वये 'उषसि-' 'क्षमाप-' इत्यत्रेत्यर्थः। सहृद्यानामिति। अत्र शासे तेषामेव मुख्यप्रमाणत्वेनोरीकारादिति भावः । अपिर्भावस्थितिसनुच्चायकः । नन्वेवं वैलक्षण्याना- पत्त्या भेदेनोक्त्संगत्यापत्तिरत आह-इदं पुनरिति । यदेकत्र शुद्धभावच्वनौ। १ 'ननु' इत्यारभ्य'-'सुद्ृशो नयनाव्जकोणयोः' इत्यस्यान्वयो न स्यात्' एतत्पर्यन्तं प्रशमादिप्राधान्यवादिन: पूर्वपक्षिण उक्तिः। सर्वस्य निर्गलितः सारस्त्वयम्- शेमुः इतिपदेन अरुणकान्तेः प्रशम एव वाच्यो जातो न त्वरुणकान्तिप्रशमेन व्यङ्ञयः कोपरूपभावस्य प्रशमः । ननु 'शेमुः' इत्यनेन आरुण्यव्यङ्गयस्य रोषस्यैवान्वयादभिधेयता विवक्षितेति तु न शक्यं वक्तुम्। वाच्योत्तरमेव व्यङ्गयस्य प्रतीतिर्भवतीति क्रमः । ततश् वाच्यान्वयसमये व्यङ्ग्यस्य बोध एव न पर्यवसीयते। कथं तेन सहान्वयः ? एवं च क्षमापणै- केत्युदाहरणं प्रशमस्य वाच्यतया ध्वनित्वोदाहरणं न स्यादिति योडयमस्सत्पक्षे दोषो दत्तः सन सिध्यति। 'रोषप्रशमस्याऽवाच्यत्वेन ध्वनेरेवेदमुदाहरणम्', इति पूर्वपक्षिण उक्तौ, मैवम् इत्यादिना सिद्धान्तिनः समवतरणम्।

Page 192

१३० काव्यमाला। [प्रथमानने-

निदानम्-यदेकत्र चवणायां भावेषु स्थित्यवच्छिन्नामर्षादित्वम्, अमर्षा- दित्वमेव वा प्रकार:, अन्यत्र तु प्रशमावस्थत्वादिरपीति। रसस्य तु स्थायिसूष्कत्वात्मशमादेरसंभवः, संभवे वा न चमत्कारः, इति न स विचार्यते। सोऽयं निगदितः सर्वोडपि रत्यादिलक्षणो व्यङ्ञ्यप्रपश्नः स्फुटे प्रकरणे झगिति प्रतीतेपु विभावानुभावव्यभिचारिषु सहृद्यतमेन प्रमात्ना सूक्ष्मेणैव समयेन प्रतीयत इति हेतुहेतुमतोः पौर्वापर्यक्रमस्यालक्षणा- दलक्ष्यक्रमो व्यपदिश्यते। यत्र तु विचारवेदं प्रकरणम्, उन्नेया वा विभावाद्यस्तत्र सामग्रीविलम्बाधीनं चमत्कृतेर्मान्थर्यमिति संलक्ष्य- क्मोऽप्येष भवति। यथा-'तल्पगतापि च सुतनुः' इति प्रागुदाहृते (१४ पृष्ठे) पद्ये 'संप्रति' इत्येतदर्थावगतिर्विलेम्बेन। न खलु धर्मिग्राहँक- मानसिद्धं रत्यादिध्वनेरलक्ष्यक्रमव्यङ्गयत्वम्। अत एव लक्ष्यक्रमप्रसङ्गे- "एवंवादिनि देवर्षो पार्श्वे पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती ।। इत्यत्र कुमारीस्वाभाव्यादप्यधोमुखत्वविशिष्टस्य लीलाकमलपत्रगण- नस्योपपच्या मनाग्विलम्बेन नारदकृतविवाहादिप्रसङ्गविज्ञानोत्तरं व्रीडा-

अन्यत्र भावशान्त्ादिध्वनौ। इतिर्निदानसमाप्तौ। ननु भावशान्त्यादिवद्रसशान्त्यादि: कुतो नोदाहृतोऽत आह-रसस्येति। असंभव इति। तत्वे स्थायितानुपपत्तेरिति भावः। नन्वभिव्यक्तिनाशादिरेव प्रशमादिरत आह-संभवे वेति। रत्यादिलक्षणो रत्यादिस्रूपः । समयेन कालेन। हेत्विति। विभावादिरत्यादयैरित्यर्थः । प्रकरणस्य स्फुटत्वेऽप्याह-उन्नेया वेति। अत एव तन्मात्रलाभावादेव। अस्योभयत्रान्वयः । १ भावधनौ-स्थित्यवस्थापन्नामर्षादित्वस्य, केवलामर्षादित्वस्य वा प्रकारतया चर्वणा भवति, भावशान्त्यादिध्वनिषु तु भावत्वेन सह प्रशमावस्थापन्नत्वस्यापि। अर्थात् भावध्वन अमर्षादिकृतचमत्कार एवास्वादनीयो भवति, भावशान्त्यादिषु तु भावैः सह प्रशमोदयादि कृतश्चमत्कारोप्यास्वादनीयो भवतीत्याशयः । २ एतत्स्पष्टीकरणं तल्पगतेतिपद्य (१४ पृष्ठ) टिप्पण्यां द्रष्टव्यम्। ३ धर्मिंणो ग्राहकेण मानेन सिद्धम् । अर्थात् रत्यादीनां ध्वनयो येन प्रमाणेन गृह्यन्वे सैनैव प्रमाणेन तेषामसंलक्ष्यक्रमतापि गृहीता भवेदित्यपि नास्तीत्याशयः।

Page 193

रसादे: संलक्ष्यक्रमता ] रसगङ्गाघरः । १३१

याश्चमत्करणाह्क्ष्यक्रमोऽयं ध्वनिः" इति प्राहुरानन्दवर्धनाचार्याः । "रसभावादिररथो ध्वन्यमान एव, न वाच्यः। तथापि न सर्वोSलक्ष्यक्र- मस्य विषयः" इति चाभिनवगुप्नपादाचार्याः । स्यादेतन्, यद्यं रसादि: संलक्ष्यक्रमस्य विषयः स्यान्-अनुरणनभेद्गणनप्रस्तावे "अर्थशक्ति- मूलस्य द्वादश भेदाः" इत्यभिनवगुप्तोक्तिः, "तेनायं द्वादशात्मकः" इति मम्मटोक्तिश्च न संगच्छेत, वरत्वलंकारात्मना द्विविधेन वाच्येन स्वत :-

रुपाधिमिश्नैविध्यमापन्नेन पडात्मना वरत्वलंकारयोरिव रसादेरप्यभिव्यञ्ञ- नाद्ष्टादशत्वप्रसङ्गात्।

ज्यमानो रत्यादि: स्थायिभावो रसीभवति, न संलक्ष्यत्रमतया। रसी- भावो हि नाम झगिति जायमानालौकिकचमत्कारविषयस्थायित्वम् । संलक्ष्यकमतया व्यज्यमानस्य रत्यादेस्तु वस्तुमात्रतैव, न रसादित्वमिति

देवषौ नारदे। पितुर्हिमालयस्य। तथापि ध्वन्यमानत्मात्रत्वेऽपि। अनुरणनभेदेति। ध्वनिभेदेत्यर्थः । तदेत्यादिः। रसीभवत्यरसो रसः संपद्यते। एवव्यवच्छेद्यमाह-न संलक्ष्येति। एवमग्रेऽपि। तेषामभिनवगुप्तादीनाम्। वर्णनेन। व्याख्याकारैरिति शेषः।

१ एवंविधा चेष्टा कुमारीस्वभावादपि संभवति। तनश्च सेय चेष्टा स्वानाविकी आहोस्वित कस्यच्िद्द्ावस्य गोपनायेति जिज्ञासायां प्रकरणाद्यन्वेषणे सोयं त्रीडायाः (तद्गोपनात्मकस्या- बहित्थस्य) चमत्कार: परस्तादुदेतीति संलक्ष्यक्रमत्वमित्याशयः । २ अर्थात् संलक्ष्यकमोपि स भवतीति। ३ स्यादित्यनेन पुनः शङ्का-यदि रसादिः संलक्ष्यक्मः स्यात्ततश्च क्रमस्य लक्ष्यतया अनु- रणनमन्रापि सिद्धम् (पूर्व वाच्यानां विभावादीनां प्रतीतिस्ततश्च व्यञ्ञयस्य रसस्याडभिव्यक्ति रिति)। एवं च यथा वस्त्वलंकाररूपयोर्यङ्कयोः स्वतःसंभवित्वादिभिरुपाधिभिः प्रत्येक षड्भेदता तथा रसस्यापि स्यादिति त्रयाणामष्टादशधात्वं स्यादिति। ४ झगिति जायमानो यः अलौकिकचमत्कारस्तस्य विषयः स्थायी यस्य तत्त्वम्। अर्थात तादृशचमत्कारस्य विषयो यत्र रत्यादिस्थायिभावः स्यात्स एव रसः । ५ काशीमुद्रितपुस्तके तु 'वस्तुमात्रतैव' इत्यस्य स्थाने 'भावतैव'। एवं 'न तदुक्तीना विरोधः' इति नकारोपि दुप्तः । सोयं पाठो भ्रामक एव अविचारात्।

Page 194

१३२ काव्यमाला। [प्रथमानने-

तेपामाशयस्य वर्णनेन न तटुक्तीनां विरोधः । उपपत्तिस्त्वर्थेऽस्मिन्वि- चारणीया। रसभावादिरर्थ इत्यत्र रसादिशव्दो रेत्यादिपरः ।

तदित्थं निरूपितस्यास्य रसादिध्वनिप्रपञ्चस्य पदवर्णरचनावाक्यप्रबन्धैः पदैकदेशैरवर्णात्मकै रागादिभिश्चाभिव्यक्तिमामनन्ति। तत्र वाक्यगतानां पदानां सर्वेषामपि स्वार्थोपस्थितिद्वारा वाक्यार्थज्ञानोपायत्वे समानेऽपि कुर्वद्रूपतया चमत्कारायोगव्यवच्छिन्नत्वेन कस्यचिदेव ध्वनिव्यपदेश- हेतुत्वम्। यथा 'मन्दमाक्षिपति' (१४ पृष्ठ) इत्यन्न मन्दमित्यस्य ।

उपपत्तिस्त्वर्थे इति। विभावादिप्रतीते रसप्रतीतेश्व विद्यमानस्य सूक्ष्मकालान्तरत्- रूपस्य क्रमस्य सहृद्येनाकलने तस्य विगलितवेद्यान्तरत्वानापत्त्या रसतभङ्गापत्तिः। विग- लितवेद्यान्तरत्वं च सकलसहृदयानुभवसाक्षिकमिति तवापि संमतमिति तदुपपत्तिर्बोध्या। नव्यास्तु-वक्तवैशिष्ट्य प्रकरणादिज्ञानसहित स्यैव व्यञ्जकत्वात्तत्सहितविभावादिज्ञानोत्तरं जायमानरसप्रतीतेरविभावादिज्ञानापेक्षया विद्यमानक्रमालक्षणेन चालक्ष्यक्रमत्म्। तन्च प्रकरणादिज्ञानविलम्बेन विभावादिज्ञानविलम्बेऽपि पूर्वोदाहरणेऽक्षतमेव । नहि विभा- वादिज्ञानस्य तज्जनकस्य च क्र्ममादायालक्ष्यक्रमत्वम्, अपि तु तजन्यस्य। एतदेवा- भिप्रेत्य 'अर्थशक्तिमूलस्य द्वादशभेदाः' इत्यभिनवगुप्तोक्तिर्यत्किंचिद्वाच्यार्थापेक्षया कमोऽपि ग्रह्यत इत्यभिप्रेत्य लक्ष्यकमलोक्तिर्यथाक्थंचिन्नेया। नहि विभावादिप्रतीति- रहितयत्कंचिद्वाच्यार्थमात्रप्रतीतौ विगलितवेद्यान्तरता सहृदयानुभवसाक्षिका। येन तत्क्मग्रहणेऽपि रसतहानिः स्यादित्याहुः। रसभावादिरर्थ इत्यत्रति । अभिनव- गुप्तवाक्य इत्यर्थः । अन्यथा तदसंगतिः स्पष्टैवेति भावः । कस्यचिदेव पदस्य। यथेति।

१ काशीमुद्रित पुस्तके तु 'उपपत्तिस्त्वरथे सति वारणीया' इति पाठो विचिन्त्य एव। २ 'रसभावादिरथों ध्वन्यमान एव, न वाच्यः । तथापि न सर्वोडलक्ष्यक्रमस्य विषयः' इत्यभिनवगुप्तवाक्ये रसभावादिपदेन रत्यादिर्ग्राह्यः । यतो हि तन्मतानुसारमलक्ष्यक्रमतायामेव रसत्वं भवति। अन्यथा अनुरणनानुसारं रसस्यापि षड्विधत्वं संभवेत्। तस्मात् 'रसभावादि' पदेन रत्यादयो ग्राह्याः । ३ चमत्कारस्य अयोग: असंबन्धः तेन व्यवच्छिन्नं रहितम्। अर्थात् सर्वदा चमत्कार- सहितमेव (तत्पदम्) उपलभ्येत।

Page 195

रसादेः संलक्ष्यक्रमता ] रसगङ्गाघरः। १३३

रचनावर्णानां तु पदवाक्यान्तर्गतत्वेन व्यञ्जकतावच्छेदकेकोटिप्रविष्ट- त्वमेव न तु व्यञ्जकत्वमिति यद्यपि सुवचम्, तथापि पदवाक्यविशिष्ट- रचनात्वेन, रचनाविशिष्टपदवाक्यत्वेन वा व्यञ्जकत्वमिति विनिगमना- विरहेण वढादो दण्डचकाढे: कारणत्वस्येव प्रत्येकमेव व्यञ्ञकतायाः ससिद्धिरिति प्राञ्च्ः । वर्णरचनाविशेषाणां माधुर्यादिगुणाभिव्यञ्जकत्वमेव न रसाभिव्यञ्ज- कत्वम्, गौरवोन्मानाभावाच। न हि गुण्यभिव्यञ्जनं बिना गुणाभिव्यञ्ज- कत्वं नास्तीत्यस्ति नियमः, इन्द्रियत्रये व्यभिचारान्। इत्थं च स्वस्वव्यञ्ज-

प्रतिपादितमधस्तान्। अभ्यर्हितल्ाव्रचनाशव्दस्य पूर्वनिपातः । कोटीति। रचना- विशिष्टपदलवादिना व्यञ्ञकल्वमिति भावः । इति इतत्र। घटादाविति । दण्डविशि- एचकरादे्कादिविशिटदण्डादेर्वा कारणलमित्यत्र विनिगमनाविरहेण यथा कारण- तायाः प्रत्येकपर्याप्तिन्तथात्र व्यज्ञकताया इति भावः । नव्यमतमाह-वणेति । १ रचना (वर्ग-पद्-गुम्कः ) बर्गा वा पृथ्रपेण नोपलभ्यन्ते, किन्तु पदानां वाक्यानां वा अन्तर्गता: प्राप्यन्ते। एवं च रचनाविशिष्ठपद्त्वेन रचनाविविष्टवाक्यत्वेन च नदाना वाक्यानां वा व्यख्षकत्वन्, वर्णविशिष्टाव्त्वेन वाक्यन्वेन च वर्णानां व्यञ्जकत्वं निरुच्येत। नतश्च रचनावणानां व्यक्षकतावच्छेदक-(व्यक्षकविशेषण-)-कोटिप्रविष्टत्वमेव, न स्वतत्र- तया व्यक्षकत्वमिति शङ्का। अन्र पद-वाक्यविशिष्टवर्गरचनात्वेन व्यज्जकत्वं ग्राह्ममाहोस्वित वर्ण-रचनाविशिष्टपद-वाक्यत्वेनेति विनिगमनाविरहाव (उकतरपक्षसावनाय दृद्तरप्रमाणा- भावात्) प्रत्येकस्यैव व्यख्चकता ग्राह्या। यथा हि घटं प्रति दण्डविशिष्टचकत् कारणलन्, उत चक्रविशिष्टदण्डस्येति, उभयत्र विनिगननाडभावे कारगता प्रन्वेकपर्याप्ता गृलते इति समाधानन्। २ रसव्यञ्जकानां संख्या सुवैव प्रवृद्धा स्वादिति गोरवन्। ३ घ्राण-रसन-श्रोत्रेषु। एमिहि गन्धादिगुणानामेव प्रत्यक्षं भवति, न गुणिनां पृथिव्या- दीनामपि। ४ गुणिनो गुणाश्च (पृथिव्याद्या गन्धास्मश्च) उदासीना वा (येषां मिथो गुणगुणित्वादि- संबन्धो नास्ति ते) स्वस्वव्यञ्जकैः (शब्दादिभिः साधनैः) पृयकपृथगुपस्थाप्यन्ते। परमिमे कदाचित्परस्परमिलिताः कदाचिच्च तटस्थाः सन्तः प्रमितेः (प्रत्यक्षस्य) गोचरा भवन्ति [अर्थात् नायं नियमो यद् गुणेन सह गुणिनोऽपि प्रत्यक्षं भवेदेव ]। एवमेव रसा गुणाश्चापि स्वस्वव्यञ्जकैः पृथव्पृथगभिव्यक्ता अपि कदाचित्संमिलिताः कदाचिच्च तटस्थाः सन्तः अभि- व्यक्तेरविषया भवन्ति (अभिव्यज्यन्ते) । अर्थात् अन्रापि नायमनुगमः कर्तु शक्यते यद् गुणानामभिव्यज्ने गुणिनाम् (रसानाम्) अपि अभिव्यक्षनं स्यादिति । ततश्च वर्णरचनाद्याः स्वतत्रतया माधुर्यादिगुणानामेव व्यक्षकाः स्वीकार्या न रसादेरिति नवीनानां मतम्। १२ रस०

Page 196

१३४ काव्यमाला। [प्रथमानने-

कोपनीतानां गुरेना गुणानामुदासीनानां च यथा परस्परोपश्लेपेणौदासी- न्येन वा तत्तसनितिगोचरता तथा रसानां तह्गुणानां चाभिव्यक्तिविषय- तेति तु नव्याः। उदाहरणं तु 'ताँ तमाल' इत्यादि प्रागुक्तमेव (७९ पृष्ठे) वाक्यत्व व्यञ्जकतायामपि 'आविभूता यदवधि' इत्यादि च (४१ पृष्ठ)। प्रवन्धस्य तु योगवासिष्ठैरामायणे शान्तकरुणयोः, रत्नावल्यादीनि च शृङ्गारस्य व्यञ्जकत्वान्निदर्शनानि प्रसिद्धानि । मन्निर्मिताश्च पञ्च लहरयो भावस्य। पदैकदेशस्य च 'निखिलमिदं जगदण्डकं वहामि' (५० पृष्ठे) इति करूपतद्धितो वीररसस्य प्रागेवोदाहृतः । एवं रागादिभिरपि व्यङ्ग्यत्वे सहृद्यहृदयमेव प्रमाणम्। एवमेषां रसादीनां प्राधान्येन निरूपितान्यु- दाहरणानि। गुणीभावे तु वक्ष्यन्ते, नामानि च। तत्र प्राधान्य एवैषां रसादित्वम्, अन्यथा तु रत्यादित्वमेव। नामेनि रसपदं तु रत्यादिपर- मित्येके। अस्त्येव रसादित्वं किं तुन ध्वनिव्यपदेशहेतुत्वमित्यपरे ॥ इति महोपाध्यायपदवाक्य प्रमाणपारावारपारीणश्रीपेरमभट्टस्य सूरे: सूतुना पण्डितराजजगन्नाथेन निर्मिते रसगङ्गाधरे रसनिरूपणात्मकं पूर्वमाननम्।

मन्नीति। भावस्य तद्यङ्ञ्यसंबन्धिप्रबन्धादिरूपव्यञ्जकस्य। उदाहरणानीति शेषः । पदैकदेशस्य चेति। चस्लर्ये। उदाहरणमिति शेषः । वीररसस्येत्यस्य व्यञ्ञक इति शेषः । रागादिभिरपीति । रसस्येति शेषः । वक्ष्यन्ते इत्यन्र उदाहरणानीत्यस्यानु- षङ्ग:, तस्य चाग्रे नामानीति। रसवदित्यत्रेत्यर्थः ॥ इति प्रथमाननप्रकाशः । १ योगवासिष्ठ शान्तस्य, रामायणं करुणस्येति यथासंख्यं प्रबन्धव्यअ्जकतायामुदाहरणे। २ ननु प्राधान्य एव यदा रसादिव्यपदेशस्तहि गौणतायां 'रस'वत् इति नाम कथमिति शङ्ा। 'रस' पदस्यान्न 'रतिप्रभृतिस्थायिनोऽर्थाः' इति समाधानम्। ३ मन्निर्मिता: पञ्चलहर्य इति प्रतीकम् । मुद्रणदोषान् जहती दधती विषमेषु सान्द्रसाहाय्यम्। पूर्वाननपरिसर-ला सरला सरलायतां पठताम्॥ भङ्गाय वि(कु)मतिसङ्गाद्रसगङ्गाधरमुपेयुषां विदुषाम्। बत मजुनाथकर-ला सरला गरलायते सेयम्॥ 1 मुद्राद्वारकनिरोधादिप्रहाणं व्यसनसामयिकसाहाय्यं चादधत उदारपुरुषोपि माननगतमुपदिशतीत्यादिरप्यर्थों विदां विदितप्राय एव। पूर्वेषा-

Page 197

भावध्वनि:] रसगङ्गाघर:। १३५

द्वितीयमाननम्। अथ संलक्ष्यक्रमध्वनिर्निरूप्यते स च तावद्विविधः, शब्दशक्तिमूलोऽर्थशक्तिमूलश्च। तत्राद्यो द्विविधः, व्यङ्गयस्य वस्तुत्वालंकारत्वाभ्यां द्वैविध्यान्। द्वितीयोऽपि वसत्वलंकारा त्मना लोकसिद्धेन, तथाभूतेनैव प्रतिभामात्रनिर्वर्तितेन च व्यञ्जकेनार्थेन चतुर्विधेन वर्त्वलंकारात्मनो द्विविधस्य व्यङ्ग्यस्य प्रत्येकं व्यञ्ञनादप्र- मूर्तिः। प्रतिभानिर्वर्तितत्वाविशेपाच्च कवितदुम्भितवक्तप्रोढोक्तिनिष्पन्नयो- रर्थयोन प्ृथग्भावेन गणनोचिता, उम्भितोम्भितादेरपि भेदान्तरप्रयोजक- तापत्तेः। न च तस्यापि कव्युम्भितत्वानपायात्तत्प्रयोज्यभेदान्तर्गतत्वमेवेति वाच्यम्। प्रथमोम्भितस्यापि लोकोत्तरवर्णनानिपुणत्वलक्षणकवित्वानपा- यात्प्ृथग्भेदप्रयोजकतानुपपत्तेः । एवं साकल्येन दशभेदोऽयम् । तत्र केचिदाहु :- नानार्थस्य शब्दस्य सर्वेष्वर्थषु संकेतग्रहस्य तुल्यत्वाच्छ्रृतमात्र एव तस्मिन्सकलानामर्थानामुपस्थितौ, शब्दस्यास्य कस्मिन्नर्थे तात्पर्यमिति संदेहे च सति, प्रकरणादिकं तात्पर्यनि- र्णायकं पर्यालोचयतः पुरुषस्य सति तन्निर्णये, तदात्मकपदज्ञानजाया एकार्थमात्रविषयायाः पुनःपदार्थोपस्थितेरनन्तरमन्वयबोध इति नये द्वितीयायाः पदार्थोपस्थितेः प्राथमिक्या इव न कुँतो नानार्थगोचरतेति प्रकरणादिज्ञानस्य तद्धीनतात्पर्यनिर्णयस्य वा पदार्थोपस्थितौ प्रतिब-

तथाभूतेनैवेति। वस्तलंकारात्मनेत्यर्थः । अन्येपां भेदानां संग्रहायाह-प्रति- भेति। तदुम्भितेति। तन्निबद्धेत्यर्थः। तस्यापि उम्भितोम्भितस्यापि। प्रतिबन्धा समाधत्ते-प्रथमोम्भीति। पृथग्मेदेति। वृद्धोक्तिविषयाच्छिशुक्तिविषय इव कव्यु- क्तिविषयात्कविनिबद्धोक्तिविषये चमत्काराधिक्यानुभविकलात्पृथगुक्तिः। ततः परं च प्रतिनिधानसाध्यप्रतीतिकतया चमत्कारस्थगनान्नोम्भितोम्भितादेः पृथग्गणनेति तु नव्याः । साकल्येन मिलिला। अयं संलक्ष्यक्रमध्वनिः । तन्निर्णये तात्पर्यनिर्णये ! तदात्मकपदेति। तात्पर्यज्ञानात्मकपदेत्यर्थः । तस्य नष्टलादाह-तद्धीनेति ।

२ 'पुरः' इति कार ३ अर्थात् प्रथमा उपस्थितिर्यथा नानार्थविषयिणी भवति, तथा तात्पर्यनिर्णयोत्तरं जायमाना द्वितीयाप्युपस्थिति: कुतो न नानार्थविषया?

Page 198

१३६ काव्यमाला। [ द्वितीयानने-

न्धकत्वं वाच्यन् । अन्यथा शाव्दबुद्धेरपि नानार्थविषयत्वापत्तिः । अत एवोक्तम्-'अनवच्छेदे विशेषस्मृतिहेतवः' इति। अनव- चछेढे तात्पर्यसंदेहे । विशेषस्मृतिरेकार्थमात्रविषया स्मृतिः । इत्थं च सुरभिमांसं भक्षयतीत्यादेर्वाक्याजायमाना द्वितीया प्रतीतिगवाद्यु पस्थितेरभावात्कथं स्यादिति तदुपस्थित्यर्थ व्यञ्जनव्यापारोऽभ्युपेयः। अथै- कया शक्त्या प्राकरणिकार्थोपस्थितेरनन्तरं द्वितीयया शक्त्या द्वितीया- र्थोपस्थितिस्तथापि स्यादिति चेत्, न स्यादेव, प्रकरणादिज्ञानस्य प्रति- वन्धकस्यानुपरमात्। अन्यथा प्राकरणिकार्थोपस्थितावेवाप्राकरणिकस्या- व्यर्थस्य विषयत्वं स्यात्। न च प्रकरणादिज्ञानस्य तादेशपदजन्यार्थोप- स्थितिसामान्य एव प्रतिबन्धकत्वाव्यक्त्यापि कथमर्थान्तरोपस्थितिरिति शाङ््यम्। धर्मिग्राहँकमानेनाप्राकरणिकोपस्थापकतयैव तादृशव्यक्तरुल्ला- सात्तदृजन्योपस्थिति प्रत्येव प्रकरणादिज्ञानस्य प्रतिबन्धकत्वकल्पनात् ।

द्वितीयेति। गवादिविषयेत्यर्थः । प्रतिबन्धकसत्त्वादिति भावः। तदाह-गवादीति। नानाशक्तिरिति मताभिप्रायेण शङ्कते-अथेति। तथापि प्रतिबन्धकसत्त्वेऽपि। तस्य पूर्वशत्त्या पुनरनुपस्थितौ चारितार्थ्यात्। तथा च व्यज्ञनाव्यापारो निष्फल इति भावः। ज्ञानस्येत्युपलक्षणं तात्पर्यनिर्णयस्यापि। एवमग्रेऽपि। अनुपरमादनाशात् । सत्त्वादिति यावत्। शक्तेर्नानाले न मानम्, सत्त्वेऽपि वा तत्संकोच एवेति भावः । अन्यथा तत्सत्त्वेऽपि। तदङ्गीकारे व्यज्ञनाङ्गीकारेऽप्यनिर्वाह इति शङ्गते-न चेति। तादृशति। द्वितीयेत्यर्थः । व्यक्त्यापि व्यञ्ञनयापि। तादृशेति। अर्थान्तरोपस्थाप- केत्यर्थः । तद्जन्येति। व्यञ्ञनाख्यवृत्त्यजन्येत्यर्थः । विनिगमनाविरहादाह- १ नानाशक्तिवादिनो मते एकया शत्त्या पूर्व सुगन्धितार्थस्योपस्थितौ, द्वितीयया (गोवि- षयया) शत्त्या द्वितीयस्य गवादेरर्थस्योपस्थितिः स्यात। अर्थात् शत्तया एकवारं यथा सुगन्धि- तार्थस्योपस्थितिस्तथा द्वितीयवारं शत्तयैव गवाद्यर्थोपस्थितिरिति पूर्वपक्षः । २ नानार्थकपदजन्या या द्वितीयार्थोपस्थितिस्तत्सामान्ये। अर्थात् नानार्थकपदेन शत्त्या व्यञ्जनया वा यादृश्यपि द्वितीयाथोंपस्थितिर्भवेत्तां सर्वा प्रति तात्पर्यज्ञानस्य प्रतिबन्धकत्वं स्यादिति शङ्का । ३ धर्मिणो ग्राहकं यन्मानं तेन। अर्थात् येन प्रमाणेन व्यक्तेरुल्ठासो विदितस्तेनैवैतदपि विदितं यत् प्रकरणादिज्ञानं व्यक्तयजन्योपस्थितिम् (अर्थात् व्यञ्ञनातोऽतिरिक्ता या अभिधा तज्जन्यार्थोपस्थितिम्) प्रत्येव प्रतिबन्धकं, न व्यञ्जनाजन्यां प्रति। यतो हि अप्राकरणिकार्थस्य (गवादेः) उपस्थापनायैव व्यज्जनाया अवतारः ।

Page 199

अभिधामूलध्वनि: ] रसगङ्गावर: । १३७

'अनेकार्थस्य शब्दरस्य वाचकत्वे नियत्रिते।

अपरे त्वाहु :- नानार्थशव्द्रजशाब्दबुद्धौ तात्पर्यनिर्णयहेतुताया अव- श्यकल्व्यत्वात्प्रथमं नानार्थशव्दादनेकार्थोपस्थानेऽपि प्रकरणादिभिस्ता- त्पर्यनिर्णयहेतुभिरुत्पादिते तत्मिन्यत्र तात्पर्यनिर्णयस्तस्यैवार्थस्यान्वय- बुद्धिर्जायते, नान्यस्येति सरणावाश्रीयमाणायां नैकमात्रेगोचरस्मृत्यपेक्षा, नाध्यपरार्थोपस्थान प्रतिबन्धकत्वकल्पनम्। एवं च प्रागुपदशितनानार्थस्थले

इपर्यार्थविषयापि शव्दवुद्धिस्तस्मादेव शव्दाजायमाना कस्य व्यापारस्य साध्यतामालम्वनाम्, ऋते व्यञ्जनात्। न च शक्तिसाध्या सेति वाच्यम्। तद्धीनबोधं प्रति तात्पर्यनिर्णयस्य हेतुत्वात्। व्यक्त्यधीनवोधस्तु नावश्यं तात्पर्यज्ञानमपेक्षते। नन्वेकमात्रगोचरस्मृतेस्तच्छाव्दबुद्धावनपेक्षितत्वे 'विशेषस्मृतिहेतवः' इति प्राचां अ्रन्थः कथ संगच्छते ? कथं वा प्रकरणादिज्ञानस्यापरा्थो-

व्यक्तिज्ञानस्येति। बोधकताविशेषः शक्तिः, तद्विशेपो लक्षणा, तद्विशेप एव च व्यञ्ञने- त्यालंकारिकसमयः । तज्ज्ञानं च शाब्दबोधे हेतुरित्यभिप्रायः। उक्तम्। काव्यप्रकाश- कृतेति भावः। प्रथमं तात्पर्यनिर्णयात्पूर्वम्। तस्मिस्तात्पर्यनिणये। इतिः पूर्वोक्तार्थस्या- प्रिमनिषेधद्वये हेतुतबोधकः। नावश्यमिति। न नियमेनेत्यर्थः । व्यङ्ञयानेकस्थले लपेक्षैवेति भावः । तात्पर्यज्ञानमपेक्षते इति। धर्मिग्राहकमानेन तस्यास्तथैव सिद्धे- रिति भावः । इतिरपरमतसमाप्तौ। उत्तिश्चेत्यस्य कथं संगच्छत इत्यत्रानुषङ्गः। १ प्रकरणादिज्ञानेन अप्राकरणिकार्थोपस्थिति: प्रतिवद्धा, किन्तु व्यञ्ञनाजन्यं ज्ञानं तत्रोत्तेज- कमिति न तदर्थोंपस्थितौ बाधः । यथा प्रतिबन्धकसत्तायामपि उत्तेजकस्य मण्यादेः सच्वरे बहनेर्दाहकत्वस्य न प्रतिबन्धः । २-३ अस्मिन्मते-पूर्वमतवत् एकार्थविषयिणी या पुनः पदार्थोपस्थितिर्भवति न तदपेक्षा । द्वितीयार्थोपस्थितौ प्रकरणादेः प्रतिबन्धकत्वकत्पनमपि नावश्यकम्, पूर्वमेव तस्य प्रतिबद्धत्वात्। ४ काव्यार्थभावनापरिपक्कमतीनां साऽवश्यं भवति। कवेरपि च तत्र संरम्भ:, तादृश- (नानार्थबोधक)पदप्रयोगात्। ततश्च सा व्यञ्ञनाव्यापारसाध्यैव।

Page 200

१३८ काव्यनाला [द्वितीयानने-

पस्थानप्रतिबन्धकत्वविरहे संयोगाधैरनेकार्थस्य शव्दस्य वाचकताया नियत्रगोक्तिश्चेति चेन्? इत्थम्-स्सृतिशब्दस्य निश्चयपरतया विशे- पन्सृतिशव्देन विशेषविषयस्तात्पर्यनिर्णयो गरृह्यते। संयोगादैर्वाचक- ताया नियन्रणं चैकार्थमात्रविषयकतात्पर्यनिर्णयजननद्वारा शाव्डबुद्ध्- नुकूलत्वम्। अवाच्यार्थोऽतात्पर्यार्थः । एवं च न ग्रन्थासंगतिरि- त्यपि वदन्ति। अथ प्राकरणिकार्थबोधानन्तरं तादृशपदज्ञानस्योपर- मात्कथं व्यक्तिवादिनाप्यर्थान्तरधीः सूपपादेति चेत्। मैवम्। प्रथमार्थ- प्रतीतेर व्र्यापारस्य सत्त्वाददोष इत्येके। अर्थप्रतीतौ शक्यतावच्छेदकस्येव पदस्यापि विशेषणतया भानात्प्राथमिकशक्यार्थबोधस्यैव पदज्ञानत्वादि- तयपरे। आवृत्त्या पदज्ञानं सुलभमित्यपि कश्चित्। तदित्थं नानार्थस्थ- लेऽनुरणनीयं व्यञ्जनं शब्दशक्तिमूलम्, शब्दस्य परिवृत्त्यसहत्वादिति ध्वनिकारानुयायिनो वर्णयन्ति। अन्ये त्वत्र प्रत्यवतिष्ठन्ते। यत्तावदुक्तमे कार्थमात्रविषया पदार्थोपस्थिति-

इत्यपि वदन्तीति। अपरे इति भाव: तादृशेति तात्पर्यज्ञानात्मकेत्यर्थः । सत्वादिति। तथा च तेन संबन्घेन तत्सत्त्वमिति भावः । पदंस्यापीति। 'न सोडस्ति प्रत्ययो लोके यः शब्दानुगमादते। अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ।।' इति हर्युक्तेरिति भावः । परिवृत्तीति । पर्यायान्तरेणाऽबोधनादिति भावः । अत्र मतद्ये। तत्रादमते आह-यत्तावदिति। ननु तात्पर्यज्ञानस्य तत्रैवोपयोग इति १ तथा च 'संयोगो विप्रयोगश्च' इत्यादिकारिकाया अयमर्थ :- 'शब्दार्थस्य अनवच्छेदे तात्पर्यसंदेहे सति संयोगो विप्रयोगश्च इत्यादयः विशेषस्मृतेः विशेषविषयस्य तात्पर्यनिर्णयस्य हेतवो भवन्ति' इति। व्यअ्जनास्वरूपबोधिकायाः 'अनेकार्थस्य शब्दस्य' इत्यादिकारिकाया अप्ययमर्थः-अनेका- र्थस्य शब्दस्य संयोगादैः वाचकत्वे नियत्रिते ्कार्थविषयकतात्पर्यनिर्णयेन (अतात्पर्यार्थ विरह्य्य) अभिधाजन्ये शाब्दबोधे निश्चिते (पुनरपि) अवाच्यार्थस्य अतात्पर्यविषयस्य (सुर- भीत्यादौ गवाद्यर्थस्य) बोधकृत् यो व्यापारः सा व्यञ्जनेति। २ पदज्ञानोत्तरं प्राकरणिकार्थबोधः, तदनन्तरं च अप्राकरणिकार्थ-(व्यङ्गार्थ-)-बोधः, तथा च पदज्ञानोत्तरं बोधनव्यापारस्य शङ्गला न विच्छिन्नेत्याशयः । ३ प्राथमिको यः शक्यार्थबोधः (प्राकरणिकार्थबोधः) तस्मिन् विशेषणविधया पदस्यापि भानं स्यात (न सोस्ति प्रत्यय इति हर्युक्यनुसारम्)। ततश्च स प्राकरणिकार्थबोध एव मदञ्ञानस्थानीय: स्यात्।

Page 201

अभिवामूलध्वनि: ] रसगङ्गावर:। १३९

स्तदन्वयवोधेऽपेक्ष्यंत इति तदसारम्। नानार्थादर्थद्वयोपस्थितावपि म्क- रणादिज्ञानाधीनतात्वर्यम हित्नेव विवक्षितार्थशाव्वोधोपपत्तेः, एकार्थमा त्रोपस्थित्यपेक्षायां मानाभावान्। अपरार्थोपस्थापकसानठ्या: पद्ज्ञानस्य सत्वेन तदुपस्थितेर्याचित्याच। न च प्रकरणादिज्ञानं तद्धीनतात्पर्यज्ञारन चा परार्थोपस्थाने प्रतिबन्धकमिति शक्यं वक्तुम् । संस्कारतदुद्गोधकयोः सत्वे स्मृतेः प्रतिबन्धस्य क्वाप्यदष्ठत्वान्। अन्नैव स्सृतावयं प्रतिबध्यप्रति- चन्धकभावः कल्प्यते, न स्सृत्यन्तरे इत्यप्यहृद्यंगमम्। तादशकल्पनाया निष्फलत्वान्, अनुभवविरुद्धत्वाच्च। तथा हि नानार्थशक्किविपयकटढ- संस्कारशालिनां प्रकरणज्ञानवतामपि पयो रमणीयनित्यादेर्वक्यात्प्रथम- मर्थद्वूयोपस्थितिरनुभवसिद्धा। अत एव पयो रमणीयनित्यादिवाक्यमक- स्मादप्याकर्णितवद्धि: प्रकरणाद्यभिज्ञेरप्रकरणज्ञाः पांसुरपादा वक्तुस्तात्पय बोध्यन्ते, नूनमस्य दुग्धे तात्पर्य शब्दस्य, न तु जल इति। यदि च प्रकरणादिज्ञानं नानार्थशव्दाज्जायमानामप्राकरणिकार्थोपस्थिति प्रतिवध्नी- ययात्तत्कथमेते तदानीमनुपस्थितजलाः प्रकरणज्ञा जलतात्पर्य निपेधेयुरि- त्यहृद्यंगम एवायमप्राकरणिकार्थोपस्थापनप्रतिबन्धकभावः प्रकरणादि- ज्ञानस्य।

तदावश्यकत्वमत आह-अपरेति। तदुपस्थितेरपि अपरार्थोपस्थितेरपि। शङ्कते- अन्नैवेति। ननूपायस्योपायान्तरादूषकत्वात्साप्युचितात आह-अनुभव्रेति। प्रकर- जेति। प्रकरणादीत्यर्थः । अपिना तदज्ञानिसमुच्चयः । अत एव तस्या अनुभवसि- द्धलादेव। विपक्षे बाधकमाह-यदि चेति। अनुपस्थितजला इति हेतुगर्भ विशेष- १ 'तत्र केचिदाहुः' इत्यादिना यदादं मतमुक्तं तत्र प्रथना नानार्थविषयिणी । द्वितीया च तात्मर्यज्ञानाधीना एकार्थमात्रविषयिणी पदार्थोपस्थितिः तदन्वयवोधे पदार्थान्वयवोधे (शाब्द- बोधे) अपेक्ष्यते इत्युक्तम् । तत्रान्येष्पं (ग्रन्थकारादीनाम्) विप्रतिपत्तिः। अयमाशय :- वक्ता हि कञ्वित्प्रसङ्गमालम्व्यैव तं तं नानार्थशब्दमुच्चारयेत्। ततश्च प्रसङ्गाधीनेन तात्पर्य- ज्ञानेन (भवन्मतानुसारं नानार्थविषयकपदार्थोपस्थितिप्रसङ्ग एव)- विवक्षितार्थविषयकः शाब्द- बोधो भवेत्। का आवश्यकता एकार्थमात्रविषयिण्याः पदार्थोपस्थितेः ?। २ कोषादिजानबलान्नानार्थकशब्दे यो ह्यनेकार्थविषयको दृढः संस्कारः, तादृशप्रसङ्गादिर्यश्च तदुद्वोधकस्तयोः सत्वे। ३ भवन्मतानुसारं प्रकरणेन जले तात्पर्य प्रतिबद्धम्। अतो जलार्थस्योपस्थितिरेव तेषां न भवेत। ततः कथमेते जलतात्पर्य निषिध्येयुः १ न हि अप्रापं प्रतिषिध्यत इति।

Page 202

१४० काव्यमाला। [ द्वितीयानने-

यदप्युच्यते प्रकरणादिज्ञानात्प्राकरणिकेऽर्थे तात्पर्यविषयतया निर्णीते तेदीयशाव्दृबोधानन्तरमतात्पर्यविपयीभूतार्थबोधो जायमानो व्यञ्जनव्या- पारसाध्य इति। तत्र किमयं नानार्थस्थले सर्वत्रैव व्यञ्जनोल्लासः, आहो- स्वित्क्कचिदेवेति संमतम्। नादः। प्राकरणिकाप्राकरणिकयोरर्थयोः शाब्द- बुद्धौ सर्वत्राभ्युपगम्यमानायां तात्पर्यज्ञानकारणतायाः कल्पनेस्य नैरर्थ- क्यापत्तेः। न च शक्तिजबोधे सा कल्प्यते। व्यक्तिजबोधस्तु तात्पर्यज्ञानं विनापि भवतीति तत्स्थाने शक्तिजबोधवारणाय तत्कल्पनमिति वाच्यम्। अतात्पर्यार्थवोधस्य सार्वत्रिकत्वे तस्य शक्तिजतायामपि बाधकाभावात्। अथ नानार्थशब्दादर्थद्वयोपस्थितौ सत्यां प्रकरणादिना सत्येकस्मिन्नर्थे तात्प- र्यनिर्णये तस्यैवार्थस्य प्रथमं शाव्दबुद्धिर्जायते, नापरस्यार्थस्येति नियमर- क्षणाय शक्तिजतैदर्थशाब्दबुद्धौ तदर्थतात्पर्यज्ञानं हेतुरिष्यते। अन्यथा तात्पर्यविषयतया निर्णीतस्यार्थस्येवातथाभूतस्यापरस्याप्यर्थस्य ग्रथमं

णम्। तदुपस्थितेरेवाभावादिति भावः। तत्स्थाने व्यक्तिजबोधस्थाने। तत्कल्पनं तात्पर्यज्ञानकारणताकल्पनम्। कार्यकारणभावानङ्गीकारे नियमभङ्गमाह-अन्यथेति ।

१ प्राकरणिकार्थसंबन्धिशाब्दबोधानन्तरम्। २ अप्राकरणिकार्थस्यापि बोधो यदा जातस्तदा किं फलं प्रकरणज्ञानस्य?। तद्धि अप्राकर- णिकार्थनिवारणार्थम्। यदा हि नानार्थस्थले सर्वत्रैव (प्राक० अप्राक०) अर्थद्वयोपस्थितिस्तदा निरर्थकमेव तात्पर्यज्ञानकारणताकल्पनमित्याशयः । ३ अर्थात्तात्पर्यज्ञानकारणता न निष्फला, शक्तिजन्ये बोधे तात्पर्यार्थ एवोपतिष्ठते नान्य इति शक्तिजन्यबोधार्थ तदुपयोग इत्याशयः । ४ भवन्मतानुसारं यदि सर्वत्रैवाSतात्पर्यार्थबोधोपि भवति, तर्हि सोपि शक्तिजन्य एव जातः । यस्मिन् शब्दे उच्चारिते यस्यार्थस्य सार्वदिकी उपस्थितिस्तहिं तस्यार्थस्य शक्तिजत्वस्यास्वीकारे का वा बुद्धिमत्तेत्याशयः । ५ शक्तिजन्यो यः प्राकरणिकार्थविषयकः शाब्दबोधस्तस्मिन् तदर्थविषयक तात्पर्यश्ञानं हेतुः। अयं भाव :- तात्पर्यज्ञानकारणताया निष्फलत्वं यदुक्तं तन्नास्ति। नानार्थशब्दादर्थ- द्वयस्योपस्थितावपि प्रकरणादिना तात्पयें बोधिते प्राकरणिकस्यैवार्थस्थ शाब्दबोधो जायते नाऽपरस्येति, शाब्दबोधे प्राकरणिकाथोंपस्थापनमेव तस्या: फलम्।

Page 203

अभिधामूलध्वनि: ] रसगङ्गाधरः। १४१

शाब्दधीः स्थान्। अनन्तरं तु तात्पर्यविषयार्थबोधादतात्पयविषयार्थ- विषयापि शाब्द्रधीरिप्यत इति तज्जन्यतावच्छेदककोटौ शक्तिजत्वं निवेश्यत इति चेन्। मवम् । 'सोऽव्यादिष्टभुजंगहारवलयरत्वां सर्वदो माधवः' इत्यादौ श्लेपकाव्य इव प्रकृतेडपि प्रकृताप्रकृतयोरथयोर्बोधस्य स्वीकारे वाधकाभावात्। न च दष्टान्तेऽर्थद्वयेऽपि प्रकरणसाम्यात्तात्पर्य- ज्ञानमस्तीति युगपट्ठयोर्बोध उपपद्येत। दार्शान्तिके त्वेकत्रैव प्रकरणादिव- शा्तदिति न युगपदर्थद्वयबोधोपपत्तिरिति वाच्यम्। तात्पर्यज्ञानकारणताया एवासिद्धत्वेन युगपदर्थद्वयवोधानुपपत्तिवाचोयुक्तेररमणीयत्वान्। ताह- शज्ञानहेतुतासिद्धी तु शक्येतापीत्थं वक्तुम्। तहिं तात्पर्यज्ञानस्य कुत्रो- पयोग इति चेत्। अस्मिन्नर्थेऽयं शब्दः प्रमाणमयमर्थः प्रमाणवेद्य इत्यादिनिर्णये प्रवृत्यायुपयोगिनीति गृहाण। इत्थं च नानार्थस्थलेडपि तात्पर्यधियः कारणतायां शिथिलीभवन्त्यामतात्पर्यार्थविपयशाव्दवुद्धि- संपादनाय व्यक्तिस्वीकारोऽनुचित एव, शक्तैव बोधद्वयोपपनेः । नापि द्वितीयः। हेतोरभावान्।व्यङ्यार्थविषयककवितात्पर्यज्ञानं तथेति

अतथाभूतस्यातात्पर्यविषयस्य। अनन्तरं त्विति। बोधादित्यग्रेऽन्वेति। युगपदिति शेषो बोधस्येत्यस्य बोध्यः । तत्तात्पर्येज्ञानम्। वाच इति। तदूपवाचोयुकेरित्यर्थः। द्वितीय इति। नानार्थस्थले क्चिदेव व्यञ्ननोलास इतीत्यर्थः । शङ्कते-व्यङ्गगे-

१ तात्पर्याथज्ञानजन्यतावच्छेदककोटौ । पूर्वपक्षिण उक्तेरयं सार :- तात्पर्यज्ञानकारणतायाः स्वीकारे नानार्थशब्देषु आ्करणिक एवार्थः शाब्दवुद्धौ भासेत, नाऽपाकरणिकः। ततश्च शक्तिजन्यशाब्दबोधं प्रति तात्पर्यज्ञानकारणता न निष्फला। एवंवरिधशक्तिजशाब्दवोधोत्तरं व्यअ्ञनयाSपरोपि बोधो भवतीति द्वितीया कथा। किन्तु शक्तिजबोधे तात्पर्यार्थ एवोपतिष्ठते। २ शब्दजन्यानुरणनस्थलेऽपि। मककालमेव द्वयोरथयोबोंधे न बाधकमित्याशयः । ३ 'नानार्थस्थले-सर्वत्रैव व्यञ्ञनोल्ासः, तज्जन्यः अप्राकरणिकार्थबोधश्चेति' प्रथमपक्षे तात्पर्यज्ञानकारणतैव निष्फलतया न सिध्यतीत्याशयः । ४ प्रयोगप्रवृत्त्यर्थमावश्यके "अस्मिन्नथें अयं शब्दः कविभिः प्रमाणतया स्वीकृतः", इत्यादि निर्णये तस्योपयोग इत्यर्थः ।

Page 204

१४२ काव्यमाला। [द्वितीयानने-

चेत्। न । व्यक्तिजवोवे तात्पर्यज्ञानकारणतायास्त्वयानभ्युपगमात्। यत्र :- शीलं दोपस्तत्राप्राकरणिकेऽर्थे सकलानुभवसिद्धे कवितात्पर्यस्य विरहात्त- जज्ञानस्य ताहशबुद्धिहेतुताया व्यभिचारदूषितत्वाच्च। अथ श्रोतुः शक्ति विशेषो व्यक्तरुल्वासे हेतुः, स च फलबलाच्चमत्कारिण्येवार्थ व्यक्तिमुल्ला- सयति नाचमत्कारिणीति सिद्धं व्यञ्जनोह्लासस्य क्वाचित्कत्वमिति चेत् । न। हन्तैवं स नियन्तितशक्तेरेवोल्लासकोऽस्त्विति कृतं नानार्थस्थले वयक्ति- कल्पनया। किं च 'उल्लास्य कालकरवालमहाम्बुवाहम्' इत्यादिनानार्थ- न्यञ्जकस्थलेऽगृहीत द्वितीयार्थशक्तिकस्य गृहीतविस्मृतद्वितीयार्थशक्तिकस्य वा पुंसः सर्वथैव व्यञ्जनया द्वितीयार्थबोधानुदयात्तत्र तयो तदापत्तिस्तव दुर्वारा। न च येन शब्देन योरऽर्थो व्यज्यते तस्य शब्दस्य तदर्थगतशक्ति-

ति। तथा हेतुः। नन्वेवमपि फलबलात्सवीक्रियतेऽत आह-यत्रति । विरहा- दिति। दोषप्रतिपादने तात्पर्यादिति भावः । तज्ज्ञानस्य कवितात्पयेज्ञानस्य। ताद- शेति। व्यक्तिजेतयर्थः । व्यभिचारेति। व्यतिरेकव्यभिचारेत्यर्थः । शक्तिविशेष इति। बुद्धिशक्तिविशेष इत्यर्थः। सः शक्तिविशेषः । नियन्त्रितेत्यस्य प्रकरणादिनेत्यादिः । अभ्युपेत्याह-किं चेति। विनिगमनाविरहादाह-गृहीतेति। सर्वथव सर्वप्रकारेणैव। सिद्धान्ते इत्यादिः । तयेति । व्यञ्ञनयेत्यर्थः । तदापत्तिर्द्वितीयार्थबोधापत्तिः । एतद्ो- १ नानार्थस्थले क्न्विदेव व्यञ्ञनोल्लास इति भवदभिमतानुसारं चमत्कारिणि नानार्थस्थले प्रकरणादिना नियत्रितशक्तेरेवोलासो नाऽचमत्कारिणीति स्वीकृते व्यज्ञनास्वीकारगौरवं न भवतीत्याशयः । २ ओ्ोतुर्वुद्धिशक्तिविशेष एव व्यज्ञनां जागरयतीति व्यञ्जनायाः क्वाचित्कत्वसाधके भवदनु- गमे दोषोडपि। यथा उल्लास्य कालेत्यादिपद्ये अगृहीतद्वितीयशक्तिकस्य विस्मृतद्वितीयार्थशक्ति कस्य वा पुरुषस्य व्यअ्ञनया बोधो न भवतीति स्थितिः । किन्तु भवदनुगमानुसारं 'चम- त्कारिण्यर्थे व्यञ्जनोलासः' इति कृत्वा चमत्कारिण्यस्मिन्पदेऽपि व्यज्जनया अपरार्थबोधोभ्युप- गन्तव्यो भवेव। ३ तस्य व्यअकशब्दस्य तदर्थगतशक्तिज्ञानं तादृशव्यङ्गयार्थसंबन्धिशक्तिज्ञानं तदर्थगतव्यञ्ज- नोल्लासे हेतुः। अर्थात् अनेकार्थव्यअ्ञकस्थले पूर्व शक्तिज्ञानं भवेत्तदैव द्वितीयार्थबोधिका व्यञ्ष- नाडभ्युपेयते। एवं च अगृहीतशक्तेर्विस्मृतशक्तेवा न व्यञ्ञनापत्तिः इति पूर्वपक्षिणः समाधा- नम्। किन्तु एवं सति निःशेषच्युतेति प्रसिद्धव्यअ्जनास्थल एव 'रन्तुं गतासि' इति व्यञ्ञयार्थ- बोधो न भवेत, 'व्यञ्ञकशब्दस्य शक्तिज्ञानं व्यज्ञनोल्ासो हेतुः' इति भवन्मतानुसारम् व्यअ्जक- स्याऽधमपदस्य रमणेडर्ये शक्यभावाद। ४ व्यञ्जनाजन्ये बोधे हेतुः इत्यनुगमस्य व्यभिचार इत्यर्थः ।

Page 205

अभिधामूलध्वनिः ] रसगङ्गाघर: । १४३

ज्ञानं तदर्थव्यक्तेरुल्लासे हेतुरिति वाच्यम्। 'निःशेपच्युत-' इत्यादौ रमणव्यक्त्यनापत्तेः । नह्यघमपदस्य कस्यचिद्रमणे शक्तिग्रहोऽसि। सति वा तस्मिस्तेनवोपपत्ती व्यक्तिकल्पनवयर्थ्यापत्तेश्व। न च नानार्थव्यञ्ज- नस्थल एवैवंजातीयकः कार्यकारणभावः कल्प्यैते। तत्र च शक्तेर्नियत्ति- तत्वेन तद्धहेस्याप्रयोजकतया व्यक्तिकल्पनौचित्यादिति वाच्यम्। नवीन- कार्यकरणभावकल्पने गौरवप्रसङ्गान्। नियत्रगत्य पूर्वमेव दूपितत्वेन तद्वेतोरेवेति न्यायावताराच। अथास्त्वप्राकरणिकोऽप्यर्थः शक्तिवेद्य एवान्वयधीगोचरः, परंतु यत्र न वाधितः स्यात्। यत्र तु वाधितस्तत्र 'जैमिनीयमलंघत्ते रसनाणनयं द्विनः' इत्यादो जुगुप्सितोऽथों वहनिना सिश्तीत्यादौ वह्िकरगकसेक इवावोधो- मेहत एव स्यात्। वाधनिश्चयस्य तद्वत्ताज्ञानं प्रति प्रतिबन्धकतायाः सर्वज- नसिद्धत्वान्। व्यक्तेस्तु वाधितार्थबोधकत्वं धर्मित्राह्क्मानसिद्धमिति व्यक्तिवादिनामदोप इति। मैवम्। 'गामवतीर्णा सत्यं सरस्वतीयं पतस्ललि- व्याजात्।', 'सौधानां नगरस्यास्य मिलन्त्यर्केण मौलयः। इत्यादौ वाच्या- र्धान्वयवोधोपपादनायानुसरेंणीयेन यन्नेन नानार्थस्थलेपि वाधितार्थवोध-

योद्धाराय शङ्कते-न चेति। रमणति। नायककतकरतीच्यर्थः । सरति वेति। नायके तच्छत्तिग्रहसत्त्वादिति भावः । तेनैवेति। शक्तिग्रहेणव कोधोपपत्तावित्यर्थः । एवंजातीयको येन शब्देनेत्याद्युक्तः। तथा च निःशेषेत्यादी न दोप इति भावः : गन्व- न्यथानुपपत्त्या गोरवं सुसहमत आह-नियन्णेति। तद्टेनोरिति। त्यक्त्युल्लासहे- तोस्तदर्थगतशक्तिज्ञानस्यैव तदर्थबोधजनकलमस्तु, किं व्यक्त्युलासजनकलेनेलर्थः। अपि: प्राकरणिकार्थसमुचचायकः । तत्रेत्यस्येत्यादावित्यनेनान्वयः । जैमीति। जैमिनिप्रोक्तं पूर्वमीमांसाशास्त्रं अलं परिपूर्ण धत्ते इत्येकोऽर्थः । जैमिनिप्रोक्तशात्त्रव्येतृगां मलं विष्वां धत्ते इत्यपरोर्ऽर्थो निन्दितः । गामिति सौधानामिति च भिन्नपद्यार्घे। गामित्यस्य यत इत्यादि। यत्नेति। बाधज्ञानं शाव्दज्ञाने न प्रतिबन्धकम्, अयोग्यतानिश्चयश्च। १ निःशेषेत्यत्र अधमपदं नानेकार्थकमिति नायं कार्यकारणभाव इत्याशयः । २ द्वितीयाथें शक्तिग्रहस्य नियत्रिततया न द्वितीयाथोंपस्थितिः, अतो व्यञ्ञना आवश्यकी। ३ वह्िना सिञ्च्तीत्यत्र यथा न वोधस्तथेव जुगुप्सितेऽपरेडर्थऽपि बाधादोधानावः । व्यअ्जनायां तु बाधेऽपि बोधोङ्गीक्रियत इति वाधितद्वितीयार्थबोधाय व्यक्षनास्वीकार इति पूर्दपक्षः। ४ रूपके लाक्षणिकबोधस्थले वक्ष्यते-'वाधनिश्चयप्रतिवध्यतावच्छेदककोटौ अनाहार्यत्वसेव शाब्दान्यत्वस्यापि निवेश्यत्वात्।',.'मुखं चन्द्र इत्यादौ आहार्ययोग्यताज्ञानसाम्राज्यम्।' 'आहार्य एव वाडमेदबोधोऽस्तु' इति।

Page 206

१४४ काव्यमाला। [द्वितीयानने-

स्योपपत्तिः स्यात्। अन्यथा प्रायशः सर्वेष्वप्यलंकारेषु वाच्यार्थबोधोप- पत्तये व्यञ्जनाङ्गीकरणीया स्थान्। तस्मान्नानार्थस्याप्राकरणिकेऽर्थे व्यञ्जनेति प्राचां सिद्धान्तः शिथिल एव। प्राकरणिकाप्राकरणिकयोरर्थयोरुपमायां तु सा कदाचित्स्यादपीत्यत्रास्माकं प्रतिभाति। एवमपि योगरूढिस्थले रूढिज्ञानेन.योगापहरणस्य सकलतत्रसिद्धतया रूढ्यनधिकरणस्य योगार्थालिङ्गितस्यार्थान्तरस्य व्यक्तिं विना प्रतीतिर्दुरु- पपादा। यथा- 'अबलानां श्रियं हत्वा वारिवाहैः सहानिशम् । तिष्ठन्ति चपला यत्र स काल: समुपस्थितः ।' अत्राशक्तानां द्रव्यमपहृत्य जलवाहकैः पुरुषैः सह पुंश्चल्यो रमन्त इत्यर्थान्तरं न तावद्वलावारिवाहचपलाशव्दैर्योगरूढ्या शक्यते बोध- यितुम्, मेघत्वविद्युत्त्वाद्यर्घटितस्यैव तस्यार्थस्य प्रतीतेः । अन्यथा

एवं योग्यताज्ञानमपि न कारणम्। आहायों वा बोध इत्यादि यत्नोऽग्रे मूल एव स्फुटः । अन्यथा तत्रैव यत्नानुसरणाभावे। सर्वैष्विति। गामित्यत्र व्याजोक्तिः। सौधानामि- त्यन्न संबन्धातिचयोक्तिः। एवमन्यन्नापि बोध्यम्। नानार्थम्य शब्दस्य। सा व्यज्ञना । तथा चोपमा व्यङ्कयति भावः । स्यादपीत्यसंदिग्धे संदिग्धवचनम्, वेदाः प्रमाणं यदीतिवत्। तादृशद्वितीयार्थमादाय वाक्यार्थस्यासंबद्धार्थकत्वं मा भूदिति कल्प्यमानो- पमाया अथोपत्तिवेद्यत्वस्यापि संभव इत्यत उक्तं कदाचिदिति । अपहरणं बाधः । योगार्थेति। योगशक्तीत्यर्थः । अबलेति । विद्युतो मेघेः सह नायिकानां शोभा- भपहृत्य यत्र तिष्ठन्ति स कालः समागत इति वाच्यार्थः। तस्यार्थोन्तरस्य । १ रूढियोगापहारिणीति सिद्धान्तात् रूढि न अधिकरोति, केवलं योगार्थेनैवाSडलिङ्गितः, तादृशस्यार्थान्तरस्य व्यञ्जनां विना प्रतीतिर्दुःसमाधेया तदर्थ व्यअ्ञनास्वीकार इत्यभिनवमतमाह। २ अशक्तानां द्रव्यमपहृत्येत्यादावर्थे मेघत्व्-विद्युत्वादिको रूढ्यर्थों न संवलितः अपि तु केवलं यौगिकः । एतादृशार्थस्य प्रतीतियोगरूढ्या न संभवति। यतः सा हि रूढ्यर्थमपि सहक- रोति। न च केवलया योगशच््या तत्प्रतीतिसंभवः, रूढिघटिताया योगशक्तः केवलयौगिकार्थबोध- नाऽसामर्थ्यात्। रूढ्यर्थः (विद्युन्मेधादि) संवलितः पुंश्चलीत्वादिकोर्थश्च केवलयोगशक्ते: सर्वथा अविषयः । अत एव तदर्थ व्यज्ञना स्वीकार्या। तयैव च ताद्ृशार्थप्रतीतिरिति सर्वस्याशयः । ३ सौधानामित्यादौ संबन्धातिशयोक्ति स्वीकुर्वता पतञ्जलिव्याजादत्रापि कैतवापह्ुतिरेव वक्तव्या। विचारणीयं मार्मिकैः।

Page 207

अभिघामूलध्वनिः ] रसगङ्गाघर: । १४५

चेमत्कारो न स्यान्। अत एव न योगशक्त्यापि केवलया। रूढ्यर्थासंवलि- तार्थबोधकत्वस्य तस्या रूढिसमानाविकरणाया असंगतेः । पुंश्चलीत्वादेः सर्वथैव तद्विपयत्वात्। एवं यौगिकरूढिस्थलेऽपि बोध्यम्। यथा वा- 'चाख्ल्ययोगि नयनं तव जलजानां श्रियं हरतु। विपिनेSतिचञ्चलानामपि च सृगाणां कथ हरति।' अत्र नैवाश्चर्यकारी चाञ्नल्यगुणरहितानां कमलानां चाव्रल्यगुणाधि- केन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकृनु हरिणानां तद्गुणयु- कानां तस्याः स इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयोगम- र्यादया मूर्खपुत्राणामत एव प्रमत्तानां नेतृभिश्चोरादैः श्रियो धनस्य हरणं सुशकम्, न तु गवेषकाणामत एवाप्रमत्तानामिति जलजनयनमृगशव्देभ्यः प्रतीयमानो अर्थः कथं नाम व्यञ्जनाव्यापारं विनोपपादयितुं शक्यते। अत एव पङ्कजादिपदेभ्यः पङ्गँजनिकर्तत्वेन कुमुदाद्युपस्थितिर्लक्षणयैवेति

अन्यथा तदप्रतीतौ। तदघटितस्यैव प्रतीताविति यावत्। अत एवेत्यस्यार्थमाह- रूढ्यर्थेति। तस्या इति। योगशक्तेरित्यर्थः। ननु फलबलात्तथा कल्प्यतेऽत आह-पुंश्चलीति। आदिना पुरुषतरतितपरिग्रहः। प्रयोगरूढस्योदाहरणान्तरमा ह- यथा वेति। तहुणेति। चा्वल्यगुणाधिक्येत्यर्थः । तस्याः स इति । शोभाया- स्तिरस्कार इत्यर्थः । जलजनयनमृगेति। डलयोरैक्याजडजलेन मूखेपुत्राणा- मित्यस्य, नयतीति नयनमित्यनेन नेतृत्वेन चौरादैरित्यस्य, मृगयन्तीति मृगा इत्यनेन गवेषकाणामित्यस्य लाभः । 'मृग अन्वेषणे' इत्यदन्ताच्चुरादेः पचादच्। अत एव योगशत्तया अलाभादेव। एवमग्रेऽपि। ईशान इत्यस्य 'अङ्गष्ठमान्रः पुरुषो ज्योतिरि-

१ तादृशद्वितीयार्थस्य प्रतीतिरेव न भवतीत्युक्तिस्तु चमत्कारविपरीता। अनुभविभि: सह- दयैरेतन्न वक्तुमर्हमित्याशयः । २ मण्डपादिशब्दघटितकाव्येषु। ३ पङ्कजनिकर्तृत्वस्य (योगार्थस्य) शैवालादिष्वपि प्रसक्ततया रूढिबलात्पङ्कजं कमलमेव गृह्यते। इदानीं तु 'रूढियोंगापहारिणी'तिनियमात् पङ्कजपदेन पङ्कजनिकर्तृत्वरूपेण योगमहिन्ता कमलविशेषाणां कुमुदानां बोधो न भवेदत एव लक्षणा तत्र कर्तव्येति नैयायिकाः । १३ रस०

Page 208

१४६ काव्यमाला। [द्वितीयानने-

नैयायिका मन्यन्ते। अत एव च 'ईशानो भूतभव्यस्य स एवाद्य स ड शः' इति वेदान्तवाक्ये किमैश्वर्यविशिष्टः कश्चिज्जीवोऽत्र प्रतिपाद्यत उतेश्वर इति संशये, जीव एवेति पूर्वपक्षे च, 'शब्दादेव प्रमितः' इति सृंत्रित मुत्तरमीमांसाकारैर्बादरायणचरणैः (ब्रह्मसूत्रे १। ३। २४)। तस्मादर्थान्तरमिह न शक्तिवेद्यम्, अपि तु व्यक्तिवेद्यमेव। यथाश्रुतार्थस्यै- वोपपत्तेरबाधाभीवेन लक्ष्यमित्यपि न शक्यं वक्तुम्। तात्पर्यार्थबोधस्तु तदर्थ- वोधोत्तरं वोध्यः। स एव तु कथं स्यादित्युपायोऽयं विचिन्त्यते। नह्यप- हतृव्यवहारो वक्रा विवक्षित इति श्रोतुर्बोधे कश्चिदुपायोऽस्ति ऋते सह- दृयहृद्योन्मिषिताद्स्मांव्यापारात्। एव मन्यत्राप्यूह्यम्। तादृशार्थ प्रतिपत्ति- रेव नास्तीति तु गाढतरशब्दार्थव्युत्पत्तिमसृणीकृतान्त:करणैन शक्यते वक्तुम् ।

वाधूमकः' इत्यादिः। कठवल्लीस्थमिदम् (चतुर्थवल्ली। १३)। अद्य वर्तमानकाले स एवास्ति। श्वो भविष्यत्काले स एव भवितेत्यर्थः। जीव पवेति। अङ्गष्ठपरिमाणस्य लिङ्गस्य व्रह्मण्यसंभवादिति भावः। सूत्रितमिति । सिद्धान्तार्थमिति शेषः । स चेत्थमू-परमात्मात्र प्रतिपाद्यः प्रमितः । कुतः । शब्दादेव। ईशानो भूतभव्यस्येत्यन्ने- शानशब्दात्। नहि जीवे ईशानशब्द आज्जसः । लिङ्गश्रुत्योर्विरोधे श्रुतेः प्राबल्यात्। एतत्सूचनार्थमेवैवकारः। अङ्डष्ठमात्रत्वं तु अङ्गुष्ठमात्रजीवानुवादेन ब्रह्माभेदप्रतिपादना-

तथा च मुख्यार्थबाधरूपलक्षणाबीजाभावान्न सेति भावः। नन्वेवं तथापि कथ निर्वा- होत आह-तात्पयाथति। ननु यत्र तद्वाक्येन तदर्थान्वयबोधात्प्राक्प्रकारान्तरेण तदर्थ वक्तुस्तात्पयंग्रहस्तत्रास्तु नाम 'काकेभ्यो दधि रक्ष्यताम्' इत्यादौ तात्पर्यानुपपत्त्या लक्षणा, प्रकृते तु न तथेत्याह-नह्यपहतृव्यवहार इति । अस्माद्यज्ञनरूपात्। १ यथाऽत्र (ऐश्वर्यविशिष्टः ईशानः) इति योगरूढिशब्दे केवलयोगशत्तया जायमानो जीवाथों बाधितस्तथा पूर्वोदाहरणेष्वपि यौगिकोडथों बाध्येत। ततश्र तादृशार्थलाभाय व्यञ्जना आवश्यकीति उदाहरणस्य तात्पर्येम्। २ ननु लक्षणास्तु इति शङ्कायामाह-मुख्यार्थबाधे सति लक्षणा भवति। अत्र च 'नायि- कानां शोभां हत्वा विद्युतो मेघैः सह रमन्ते' इत्यादिको यथाश्रुतार्थस्तु-नानुपपन्न इति तात्पर्यानुपपत्तिरूपवाधाभावात्कथं लक्षणाSवतार इत्याशयः । ३ 'तात्पर्यार्थबोधस्तु' इत्यारन्य 'अस्माद्यापारात्' पतत्पर्यन्तस्य ग्रन्थस्य त्वयं भाव :- एवंविधे योगरूढस्थले लक्षणया न निर्वाहः। तात्पर्यानुपपत्तिि लक्षणावीजम्। ततश्र याव-

Page 209

अभिवामूलध्वनिः ] रसगङ्गाघर: । १४७

तथा चेत्थं संग्रह :- 'योगरूढस्य शब्दस्य योगे रूख्या नियम्तिरिते। धियं योगस्टृशोऽर्थस्य या सूते व्यञ्जनैव सा ।।' एवं स्थिते नानार्थस्थलेऽप्युपमायाः प्राकरणिकाप्राकरणिकार्थगतायाः प्रतिपत्तयेSवश्यं वाच्यया व्यञ्ञनयैवाप्राकरणिकस्याप्यर्थस्य प्रतिपत्तावलं क्विष्टकल्पनयेत्याशयेन प्राचीनेरुक्तं नानार्थव्यञ्जकत्वमपि न दुष्यति। तत्र नानार्थशक्तिनियमनाय तैः संयोगादयो निरूपिता :- 'संयोगो विप्रयोगश्च साहचर्य विरोविता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः॥ सामर्थ्यमौचिती देशः कालो व्यक्ति: खरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥।'

संयोगो नानार्थशव्दशक्यान्तरवृत्तितया अप्रसिद्धत्वे सति तच्छ- तत्र-

क्यवृत्तितया प्रसिद्धः संबन्ध: ॥ यथा-'सशङ्गचकरो हरिः' इत्यत्र शङ्ग्चक्रयोः संयोगो भगवन्मात्र- निष्ठतया प्रसिद्धो भगवति हरिशव्दस्याभिधाया नियमेनावस्थापकः ।

तादृशति। अन्येत्यर्थः । अवश्यं वाच्ययेति। अर्थापत्तेः प्रमाणान्तरले नानाभा- वादिति भावः । क्किष्टति। पूर्वोक्तेत्यर्थः । तत्र निरूपितायां व्यज्नायाम्। तैः प्राचीनैः । तन्न संयोगादीनां मध्ये। मात्रपदेन विशेषणदलसत्ता सूचिता। भगवति विष्णौ। त्कालं तात्पर्यबोधो न भवेत्तावत्तस्य बाध एव न साधयितुं शक्यः । अत्र च (अवलानामि- त्यादौ) अशक्तानां द्रव्यमपहृत्य जलवाहकैः पुरुषैः सह पुंश्चल्यो रमन्ते इत्याकारको मेधत्व- विद्युत्वाद्यघटितो वक्तुस्तात्पर्यार्थबोधस्तु अबलावारिवाहचपलाशब्देषु केवलां योगशक्तिमास्थाय पुंश्चलीत्वादिके शुद्धयोगार्थे निष्पादिते एव भवेत्। स एवार्थस्तु कथं भवेत्? (रूढ्याऽपहृत- त्वात्)। एतदर्थमेव तु व्यज्जनादिक उपायो गवेष्यते। ततश्च तात्पर्यार्थस्तावन्न परिज्चायते यावड्विनीयोऽथों न निष्पाद्यते। द्वितीयोर्थस्तु स्वयमनिष्पन्नो व्यज्जनादिकमवलम्वते। अन्वय- बोधात्प्राक् यत्र प्रकारान्तरेण वक्तुस्तात्पर्यम् (दध्युपघातकेभ्यो रक्षाऽस्य चिकीरषिता इति) ज्ञायते तत्रैव 'काकेभ्यो दधि रक्ष्यताम्' इत्यादौ लक्षणा। अत्र (अबलानां श्रियम् इत्यादौ) पुंश्चलीत्वादिव्यवहारः, (चाञ्चल्ययोगिनयनेत्यादौ) अपहृर्तृव्यवह्दारो वक्त्रा विवक्षित इति बोधस्तु व्यञ्ञनोपायं विना न साध्यः । तथा च तात्पर्यबाधवीजया लक्षणयाऽत्र न निर्वाह्ः ।

Page 210

१४८ काव्यमाला। [द्वितीयानने-

न त्वार्युंधत्वेनायुवसामान्यसंयोग:, पाशाङ्कशादिसंयोगो वा, दलद्वया- भावान्। न चासौ लिङ्गान्तर्गत इति मन्तव्यम्, शक्यान्तरे नियमेना- वृत्तेरेव प्रक्वते लिङ्गत्वात्। शङ्गचक्रयोस्त्विन्द्रादिनापि कदाचिद्धारण- संभवातू। विप्रयोगो विश्लेषः ।। यथा-'अशङ्गचक्रो हरिः' इत्यन्र तयोरेव विश्लेषस्तथा। अन्न हि विश्लेषनियतपूर्ववर्तिनः संश्लेषस्य प्रागुक्तदलद्वयाक्र्ान्तत्वमपेक्ष्यते। तेनायु- धसामान्यविभागः, पाशाङ्कुशादिविभागो वा न तथा। यदप्यत्र गुणतया वर्तमानस्तादृशसंयोग एवाभिधानियमनायालम्, तथापि गुणप्रधानयो: संनिपाते प्रधानानुरोध एव न्याय्य इत्याशयेन विप्रयोगस्य नियामकत्व- मुक्तम्। यद्वा संयोगस्यैव केवलत्वेन, विश्लेषगुणीभूतत्वेन च द्वैविध्यप्र- दर्शनाय तथोक्तम्। साहचर्यमेकसिमिन्कार्ये परस्परापेक्षित्वम्। यथा-'रामलक्ष्मणौ' इत्यत्र रामे लक्ष्मणसाहचर्य रामशब्दस्य।अथ किमिदं परस्परापेक्षित्वं यत्कंचित्कार्ये, सर्वेषु कार्येषु वा। नादः। घटा-

क्रमेण दलद्वयकृत्यमाह-न त्वायुधेति। असौ संयोगः। लिङलात्तत्वेन ग्रहणात्। तथा च विशेषणदले नियमेनेति पूरणीयमिति भावः। तयोरेव शङ्गचक्रयोरेव। तथा अभिधानियामकः । एवमप्रेऽपि। अतिप्रसङ्गवारणायाह-अत्रेति। तेन सश्लेषपूर्वकस्यैव तस्य ग्रहणमिति नातिप्रसङ्गः । प्राग्वत्तत्कृत्यमाह-तेनेत। गुणतया प्रकारतया। ता दृशेति। दलद्वयाकान्तेत्यर्थः । अलं समर्थः । विश्लेषस्य नियामकत्वकल्पनजगौरवा- दाह-यद्वति। केवललेन शुद्धसंयोगलेन। रामशब्दस्य राघवेभिधानियामकमिति १ सायुथी हरिरित्यत्र सायुधत्वम् (आयुधसंयोग:) शक्यान्तरे इन्द्रादौ अप्रसिद्धो नास्ति अपि तु सायुधत्वं तत्राप्यस्तीति, प्रथमदलोवत्या तादृटशसंबन्धस्य निरासः। एवं सपाशाङ्कुशो हरि: इत्युक्तो पाशाङ्कशसंयोगो हरौ (विष्णौ) एव प्रसिद्धो नास्तीति, द्वितीयदलेन तन्निरासः। २ अनायुधो हरिरित्यत्र विश्रेषनियतपूर्ववर्तीं संयोग: शक्यान्तरे इन्द्रादावप्यस्ति। एवं अपाशाङ्कुशो हरिरित्यत्र पूर्ववत् संयोगो विष्णावप्रसिद्ध इति विभागोSत्राभिधानियामको न। ३ अशङ्ञचक्रो हरिरित्यत्र प्रकारतया संयोगोऽवश्यमन्वेति, संयोगपूर्वकत्वाद्विभागस्य । ततश्र पूर्वरीत्या दलद्वयाक्रान्तः संयोग एवाभिधानियमनायालं किं पृथग्विभागगणनया इति शङ्कायां गुणीभूतस्य संयोगस्यापेक्षया प्रधानं विभाग एव नियामकतयोचितः ।

Page 211

अभिधानियामक: ] रसगङ्गावर:। १४९

दंव्यावर्तनाङ्वटसाह चर्यस्यापि रामपदशक्तिनिया मकतापत्तेः न द्वितीयः लक्ष्मणसाहचर्यस्थापि निवारणापनेः । पक्षद्वयेऽपि रामायोध्ये रघुरामावि त्यन्नानियमापत्तश्च। न च नानेथरदसमभिव्याहतपदान्तरार्थस्य प्रसिद्ध: संबन्धस्तत्। स चकजन्यत्व-दांपत्य-जन्यजनकभाव-स्वामिभृत्यभाव- स्वस्वामिभावादिरनेकविधः। तेन रामलक्ष्मणो, सीतारामौ, रामदशरथौ, रामहनूमन्तौ, रामायोध्ये, इत्यादौ साहचर्य नियामकमिति वाच्यम् । लक्ष्मणादिसंवन्धापेक्षया चक्रादिसंबन्धस्याँविशिष्ठतया सशङ्गचक्र इत्य- न्नापि साहचर्यस्यैव नियामकतापत्तेः। न च सशङ्गचक्र इत्यादो यत्र संबन्ध: सयोगरूपस्तत्राद्स्य, यत्र च संवन्धान्तरं तत्र तृतीयस्यावकाश इति वाच्यम्। संयोगस्यैव पथक्कारे वीजाभावात्। न च यत्र संयोगः शब्दो- यात्तस्तत्र स एव नियामकः, यत्र तु संवन्धिमात्रं न तु संबन्धस्तत्र साहचर्यम्, अत एव सशङ्गचक्र इति संयोगस्य, रामलक्ष्मणाविति च

शेषः । निवारणेति। सर्वकार्ये तदभावादिति भावः। पक्षद्वयेऽपीति। कार्यमात्रे तयोस्तदभावात्। आधेऽसंभवातू, अन्लये तदा रघोरसत्त्वादिति भावः । प्रसिद्ध इति। नानार्थपदार्थे इति शेषः। तत्साहचर्यम्। उक्तसंबन्धानां क्रमेणोदाहरणान्याह- तेनेति। यत्र सशङ्कचक्र इत्यादावित्वन्वयः । आद्यस्य संयोगस्य। यत्र च रामलक्ष्मणा- वित्यादौ। संवन्धान्तरमेकजनकजन्यत्वादिरूपम्। तृतीयस्य साहचर्येस्य। संबन्धिमान्नं

१ यत्किञ्चित्कायें घटस्यापि रामेण सह सापेक्षत्वमिति घटादेर्व्यावृत्तिन जातेत्याशयः । २ नानार्थपदेन समभिव्याहृतं (संयुक्तम्) यत्पदान्तरं (लक्ष्मणादि) तदर्थस्य नानार्थ- पदार्थेन सह प्रसिद्धः संबन्धः साहचर्यम्। संबन्धश्च एकजन्यत्वादिरग्रे वक्ष्यमाणोSनेकविधः । यथा रामलक्ष्मणावित्यत्र-नानार्थकपदेन (रामेण) सह संयुक्तं यत्पदान्तरं लक्ष्मण इति तदर्थेन लक्ष्मणव्यत्तया नानार्थपदार्थस्य (रामस्य) एकजन्यत्वरूप: संबन्ध: स एव साहचर्य कि न स्यादिति पूर्वपक्षः । एवंविवसंबन्धस्वीकारे सशङ्गचक्रो हरिरित्यत्रापि स्वस्वामिभावसंबन्धात्साह- चर्यस्य नियामकतापत्तिः, न स्यात्संयोगस्य नियामकता। ३ अविशेषवत्तया (अपृथक्तयेत्याशयः)। ४ अभिधानियामकेषु पृथग्रपेण संयोगः किमिति परिगणितः, तत्कार्यस्य साहचर्येणैव सिद्धेरित्याशयः ।

Page 212

१५० काव्यमाला। [ द्वितीयानने-

साहचर्यस्योदाहरणमिति वाच्यम्। सलक्ष्मणो रामो विलक्ष्मणो राम इत्यत्र संयोगविभागयोर्गुणयोरप्रतीत्या साहचर्योदाहरणतायां प्रसक्तायां सशङ्गचक्र इत्यादेरपि तदुदाहरणताया एवौचित्यादिति चेत्। उच्यते- संयोगशव्दस्य संबन्धसामान्यपरतया यत्र शब्दोपात्तं प्रसिद्धं संबन्ध- सामान्यं शक्तिनियामकं तदादयस्य, यत्र तु द्वन्द्वादिगतः संबन्ध्येव केवलस्तदा तत्साहचर्यस्योदाहरणमिति प्राचामाशयात्। इत्थं च सगा- ण्डिवोर्ऽर्जुन: इति संयोगस्य, गाण्डिवार्जुनाविति साहच्येस्योदाहरणम्। विरोधिता प्रसिद्धं वैरम्, सहानवस्थानं च।। तन्नाद्यस्य 'रामार्जुनौ' इत्युदाहरणं प्राश्चो वदन्ति। यत्त्वप्पय्यदीक्षितो वृत्तिवार्तिके प्राचामुदाहरणं निराकुर्वन्नाह-"रामार्जुनपद्योर्वध्यघातक- भावविरोधाद्भार्गवकार्तवीर्ययोरभिधा नियम्यत" इति, तद्युक्तम्। राम- पदस्याभिधानियमने सति तद्विरोधप्रतिसंधानेनार्जुनपदस्य कार्तवीर्येडभि- धानियमनम्, तस्मिंश्च सति तद्विरोधप्रतिसंधानेन रामपदस्येत्यन्योन्या- श्रयापत्तेः । तस्मादन्यतरपदस्य व्यवस्थितार्थत्व एव स्मृततद्विरोधप्रति- संधानान्नानार्थपद्स्याभिधानियमनमिति रामरावणयोरित्युदाहरणं भवि-

शब्दोपात्तमित्यनुषज्यते। मात्रपदव्यवच्छेद्यमाह-न त्विति। गुणयोरप्रतीत्येति। असंभवादिति भावः । किं तु साहित्यतद्भावयोः प्रतीत्येति शेषः। आद्यस्य संयोगस्य। संबन्ध्येवेति। द्वन्द्वादिघटकः केवलः संबन्ध्येव तथा प्रसिद्धः शब्दोपात्त इत्यर्थः। भावेति। भावरूपविरोधादित्यर्थः । तत्परशुरामेत्यर्थः । तस्मिंश्च सति कार्तवीर्येडभिधा नियमने सति। तत्कार्तवीर्येत्यर्थः । रामपदस्य परशुरामेऽभिधानियमनमिति शेषः । व्य- वस्थितेति। निश्चितेत्यर्थः । नियामकत्वस्येत्यस्योदाहरणमित्यत्रान्वयः । एवं स्थितेऽपि १ संयोगविभागौ किल गुणौ (द्रव्यध्मौं), तयोर्द्रव्य( लक्ष्मण)सहकृतैव प्रतीतिर्न पृथक्तया। ततश्च संयोग-विभागयोरपृथकूप्रतीत्या सलक्ष्मणो राम इत्यादिकं साहचर्यस्योदा- हरणं स्यात। यदा च सलक्ष्मणो राम इति साहचर्यस्योदाहरणं तदा सशङ्कचक्रो हरिरित्यपि साहचर्यंस्यवोदाहरणसुच्चितमिति पूर्वनिर्धारितवैयाकुली प्रसज्येतेति शङ्का। किंवा गुणयोर्गुणीभूतयोरित्यर्थः । अयं भाव :- सलक्ष्मणो राम इत्यत्र लक्ष्मणसंयुक्तो धर्मी प्रतीयते, धर्मः संयोगस्तु गुणीभूतः । एवमेव विलक्षण इत्यत्रापि लक्ष्मणरहितो धर्मी प्रधानम्, साहित्याभावस्तु गुणीभूत इत्याशयः ।

Page 213

अभिधानियामक: ] रसगङ्गाघर: । १५१

तुमहृति इति।" तत्र तावद्रानरावणयोरिति व्यवस्थितार्थान्यतरपढ्क- मुदाहरणं विरोधिताया नियामकत्वस्य न युक्कम्। रामलक्ष्मणयोरित्यत्रे- वात्रापि साह्चर्यस्यैव नियामकत्वान्। न च लक्ष्मणसाहचर्य रामस्य प्रसिद्धम्, न तु रावणसाहचर्यमिति वाच्यम्। प्रसिद्धततसंवन्धकत्वस्यैव तत्साहचर्यपदार्थत्वात्। पितृभ्रातृजायाSपत्यशृत्यनगरीणं संबन्धस्येव रिपो: संवन्धस्यापि लोकप्रसिद्धत्वान् । एवं स्थितेऽपि विरोधितायाः पृथग्गणने मित्रत्वादेरपि तथा गणनापत्तेः । तस्मात्प्राचीनोदाहरणनिव त्वटुक्तमुदाहरणमप्यशुद्धमेव। 'अन्यतरपदस्य व्यवस्थितार्थत्व एव' इत्यादयव्यसंगतमेव । हरिनाग-

विशेषाविशेषितेनापि युगपद्धर्मिविशेषद्वयेऽभिवाया नियन्तुं शक्यत्वात्। यद्पि 'रामार्जुनगतिस्तयोरिति शब्दान्तरसंनिधेरुदाहरणम्' इति स वाह। तदप्यसन्। त्वया निरूपिते शब्दान्तरसंनिधेरुदाहरणे 'निषधं पश्य भूभृतम्,''नागो दानेन राजते', इत्यत्र चाभिधाया नियतविषयतां विनान्वयस्यैवानुपच्या, प्रकृते च 'रामार्जुनगतिस्तयो'रित्यत्रार्थान्तरविषय-

साहचर्यस्य नियामकल्वसंभवेऽपि। तथा पृथक्। लदुक्तमप्पव्यदीक्षितोक्तम्। तत्सि- द्वान्तं खण्डयति-अन्यतरेति। हरीति । 'येषां च विरोधः शाश्वतिकः' इति समाहारकवद्भावः । अत एवाह-एकवन्भावेति । स एवाप्पव्यदीक्षित एव। भूभृतमित्यत्रति। निषधपदसांनिध्याद्धभृत्पदस्य राज्ञि, दानपदसांनिध्यान्ागपदस्य गजेऽभिधानियमनम्। अर्थान्तरविषयत्वेऽपीति। रामार्जुनवत्पराक्रमशालितमि- १ प्रसिद्ध: तत्संबन्ध: (तेन सह संबन्धः) यस्य स प्रसिद्धतत्संबन्धकः तद्भ्ावः, तत्सा- इचर्यमित्यर्थः । २ धार्मेविशेषे न संजातो विशेषो यस्मिन्, अर्थात् हरिमुद्दिश्य नागस्य विरोधः, अथवा नागसुददिश्य हरेविरोध इत्यविशेषाद्धमिद्दयेपि समानैव विरोधप्रतीतिर्न कुत्रचिद्विशेष: । ३ निषधं पश्येत्याद्युदाहरणद्दये यावत्कालं निषध-भूभृत्-नाग-दानपदानानभिधानियमो न भवेत्तावत्-भूभृत्पदस्य पर्वते शक्तिसंचारात्तस्य च तत्समये दर्शनान्वयानुपपत्तिः । एवं नागपदस्य सर्पेपि शक्तित्रमेण तस्य दानसंबन्धायोगः । भूमृन्नागादिपदानामभिधानियमे तु न सा। एवं स्थितौ (अनुपपत्तौ) उदाहरणद्वयं शब्दान्तरसंनिधेरुचितम्। रामार्जुनेत्यत्र तु अभिधानियमाभावेSपि पराक्रमशालितायें (राघवार्जुनाविव पराक्रमिणौ इत्यथें) नाऽनुपपत्तिः । ततश्च अन्वयस्य उपपत्त्यनुपपत्तिवैषम्येपि कथं समानरूपेण शब्दान्तरसंनिधेरुदाहरणतेत्याशयः ।

Page 214

१५२ काव्यमाला। [द्वितीयानने-

योगान्। एवसपि काव्यप्रकाशगतस्य 'रामार्जुनगतिस्तयो'रिति विरोधि- तोदाहरणस्यासंगतिः स्थितैवेति चेत्। न। तयो: कयोश्चित्प्रसिद्धविरोधयो रामार्जुनगती रामार्जुनसदशी गतिराचरणमिति तदर्थवर्णने विरोधेन प्स्ताववशात्प्रतीतेन युर्गपद्भार्गव कार्तवीर्ययो रामार्जुनशब्दाभिघाया निय- मनस्यापपतत न च प्रकरणादेविशेषः। विरोधस्य प्रक्रान्तत्वैऽपि भार्गव- कार्तवीर्ययो: शक्तिनियमाधिकरणयोरप्रक्रान्तत्वात्। सहानवस्थानलक्षणा विरोधिता तु छायातपावित्यादौ बोध्या। अर्थः प्रयोजनं चतुर्थ्याद्यभिधेयम्॥ यथा-'स्थाणुं भज भवच्छिदे' इत्यादौ भवच्छेदनादि स्थाणुपदस्य भवे। नन्वर्थस्य लिङ्गात्को भेद: ? न च लिङ्गमनन्यसाधारणस्तद्वर्मः, अर्थस्तु वद्गजनादे: कार्यम्, न तु तदतो धर्म इति स्फुट एव भेद इति वाच्यम्। भवच्छेदजनकभजनकर्मत्वस्य काष्ठावृत्तिभवधर्मत्वादिति चेतू।

त्याय्यर्थान्तरम्। एवमपि दीक्षितोत्त्यसांगत्येऽपि। स्थितैवेति। दीक्षितोद्भावितान्यो- न्याश्रयस्यानुद्धारादिति भाव: । तदर्थति। उदाहरणार्थेत्यर्थः । प्रस्तावः प्रकरणम्। युगपदिति। तथा च नान्योन्याश्रय इति भावः । नियमनेति। तन्नियमाश्रयस्य प्रकान्तले एव प्रकरणस्य नियामकत्वमिति भावः । द्वितीय विरोधितोदाहरणमाह-स- हेति। आदिना तुमुनादिपरिग्रहः। छेदनादीत्यस्य प्रयोजनमिति शेषः। भवे। अभि- धानियामकमिति शेषः । अत्र तच्छब्दाः शिवपराः काष्ठावृत्तीत्यनेनानन्यसाधारणलं

१ एकस्य अभिधानियमने तद्विरोधितया अन्यस्याभिधानियमनं नास्ति येनान्योन्याश्रयः, अपि तु प्रकरणप्रतीतेन विरोधेन एककालमेव दयोरभिधानियमनमिति। २ अर्थात् इदमपि प्रकरणेनाभिधानियमनस्योदादर्रणं स्ादिति शङ्का। प्रकरणं तत्रवाभिधा- नियमनं करोति यत्र अभिधानियमस्य आश्रयोऽपि पूर्वप्रक्रान्तो भवेत्। इह नियामको विरोधस्तु अक्रान्तः, नियमाधारौ रामार्जुनौ तु न प्रकरान्ताविति नात्र प्रकरणस्यावकाश इत समाधानम्। ३ काष्ठे (स्थाणौ) अवृत्तिः भवस्य (शिवस्य) धर्मः। एवं चायमप्यसाधारणो धर्मों जातस्तथा च न लिद्गाद्वेद इति शङ्का। लिङ्गं शाब्दबोधात्पूर्वमभिधां नियम्य शाब्दबोधे उपकारि। अर्थः (उक्तो विशिष्टो धर्मः) तु शब्दबोधे जाते अर्थवादविषयतया मानसबोधविषय इति द्योभेंद इति समाधानम्। ४ 'अर्थ' निरूपणे ये तच्छ्देन निर्देशास्ते शिवबोधका इत्याशयः।

Page 215

अभिवानियामक: ] रसगङ्गाघर: । १५३

अत्राहुः-उक्तस्य विशिष्टधर्मस्य शब्दवोधोत्तरभाविमानसवोधविषय- त्वेन प्रकृतशाब्दबोधाविषयत्व्राहिङ्गतो वैलक्षण्योपपत्तिरिति। लिङ्गं त्वेकपदार्थ: कोपादिः, अनन्वित एव यः पदार्थान्तरेण प्रकृतशक्यधर्मतां शक्यान्तरव्यावृत्ततां च भजते। उक्तवर्मस्तु न तथेत्यपि केचित्। प्रकरणं वक्तश्रोतबुद्धिस्थता ॥ यथा-राजानं संबोध्य केनचिद्धतेनोक्ते 'सर्व जानाति देवः' इति वाक्ये देवपदस्य युष्मदर्थे। ङ्ं. नानार्थपद्शक्यान्तरावृत्तिरेकशक्यगतः साक्षाच्छव्दवेद्यो धर्मः ॥ यथा-'कुपितो मकरध्वजः' इत्यत्र कोपो मकरध्वजपदस्य। शब्दस्यान्यस्य संनिधिर्नाार्थपदैकार्थमात्रसंसर्ग्यर्थान्तरवाचक- पदसमभिव्याहारः।।

सूचितम्। उक्तस्य भवच्छेदजनकभजनकर्मतस्य। शाब्देति। भवच्छेदफलकचैत्रा- भिन्नकर्तृ कस्थाणुकर्मकभ जनमित्य स्यैव शाब्दबोधत्ादिति भावः । प्राचीनाशयसूचकं मता- न्तरमाह-लिङ्गं त्विति। एकपदार्थ इत्यस्य विवरणं पदार्थान्तरेणानन्वित एवेति। एवं चासमस्ताखण्डेकपदार्थों लिङ्गमिति फलितम्। भवच्छेदनादिकं च भजनादिरूप- भिन्नपदार्थान्वितमेव भवधम इति भावः । कोपादिरिति । कुपितो मकरध्वज इत्यादौ। उक्तेति। भवच्छेदजनकभजनकर्मतरूपस्तु भजनादिरूपभिन्नपदार्थान्वित एव भवधर्मो नानन्वित इत्यर्थः । अत्रारुचि: स्फुटीभविष्यत्यनुपदमेव । युष्मदर्थे। शक्ति- १ नानार्थपदस्य प्रकृतशक्यात् अन्यस्मिन् शक्ये अवर्तनानः । 'कुपितो मकरध्वजः' अन्र प्रकृतशक्यादन्यस्मिन् शक्ये समुद्रे सोडयं कोपोऽवर्तनानः । २ नानार्थपदस्य अनेकार्थानां मध्ये एकार्थमात्रसंसर्गिणा, अर्थान्तरवाचकेन पदेन समभि- व्याहार: सह पठनं (संयोगः) अभिधानियमनं करोतीति पूर्वसंबन्धः । यथा-पाणि-शुण्डे- त्यनेकार्थवाचकस्य करपदस्य अनेकयोरथयोरमध्ये शुण्डामात्रारथसंसर्गिणा अर्थान्तर (सर्प)- वाचकेनापि सता गजवाचकेन 'नाग'पदेन समभिव्याहारः शुण्डायाम्, एवं नागपदस्य कर- पदेन समभिव्याहारो गजे शक्तिनियमनं करोतीति। अत्र हि करनागपदयोविवक्षितार्थापेक्षया अर्थान्तरग्रहणे अन्वय एव नोपपद्यते। अत एव द्योरपि पदयोर्युगपदेव अभिधानियमो भवति, तेन नान्योन्याश्रयः । 'देवस्य पुरारातेः' अत्र तु नानार्थकयोर्द्वयोरपि पदयोः अर्थद्वयमध्यात् यस्य कस्याप्यर्थस्यो- पस्थितावपि अन्वय उपपद्यत एव (नगरवैरिणः राजः, त्रिपुरासुरवैरिणः सुरस्य शिवस्य) इति। तथा च-अन्वयानुपपत्तावेव एकार्थमात्रसंसर्गि-पदान्तरसमभिव्याहारः शक्तिनियमनं करोतीत्याशयः ।

Page 216

१५४ काव्यमाला। [ द्वितीयानने-

यथा-'करेण राजते नागः' इत्यत्र करपदस्य नागपदमादाय, नाग- पदस्य च करपदमादाय शुण्डायां गजे च। न चात्रैकशव्दशक्तिनियमन- मपरशव्डशक्तिनियमोऽपेक्षते, येनान्योन्याश्रयः स्यात्। किं तु करनाग- शब्दयोरर्थान्तरग्रहणेऽन्वयानुपपत्त्या युगपदेव शक्तिर्नियम्यते। देवस्य पुरारातेरिति प्राचामुदाहरणे सुरत्वभूपत्वाभ्यां देवपदान्नगरारित्वासुर- विशेषारित्वाभ्यां पुरारातिपदाच्चोपस्थितेरुभयोरपि नानार्थत्वादर्थान्तर- स्वीकारेऽप्यन्वयोपपत्तेश्र कथं शक्तेर्नियम: स्यात्। न च पुरारातिपद योगरूढम्, तथा च रूढेर्योगापहारितया शिवत्वेनैव तस्य बोधकत्वाद्देव- पदशक्तिनियामकतेति वाच्यम्। पुरारातिपदस्य रूढौ मानाभावात् । अथ 'देवस्य त्रिपुरारातेः' इति पाठस्तथापि पदान्तरोपस्थापितस्य त्रिपुरा सुरवैरित्वस्य लिङ्गतया लिङ्गोदाहरणत्वमेवास्य स्यात्, न तु शब्दान्तर- संनिध्युदाहरणत्वमिति वदन्ति। तत्रैकपदार्थः कोपादिः पदार्थान्तरेणा नन्वित एव यः प्रकृतशक्यधर्मताम्, शक्यान्तरव्यावृत्ततां च भजते स लिङ्गपदेनात्रोक्त इति प्राचामाशये तु नोक्तदोषः । यत्तु शब्दस्याव्यभि- चरितस्य संनिधि: सामानाधिकरण्यम् इति काव्यप्रकाशटीकाकारैरुक्तम्। तत्तु 'करेण राजते नागः' इत्यादावव्यापेनात्, तन्नियामकान्तरस्य गवेषणे गौरवात्, 'कुपितो मकरध्वजः' इति तन्मूलोक्ते लिङ्गोदाहर-

नियमनमिति शेषः। एवमग्रे सर्वत्र। न चेति। नहीतर्थः। अर्थान्तरेति। हस्तस- पैत्यर्थः। प्राचोकतं खण्डयति-देवस्येत्यादि। वदन्तीत्यन्तेन। अर्थान्तरेति। भूप- नगरादिरूपेत्यर्थः । तस्य पुरारातिपदस्य। देवेति। पुरेत्यादिः। पदान्तरेति। त्रिपु- सरातेरितीत्यर्थः । अस्य देवस्य त्रिपुरारातेरित्यस्य। वदन्तीति सूचितामरुच्ि- माह-तत्रेति। 'देवस्य त्रिपुरारातेः' इति पाठे इत्यर्थः। प्रकृते च वैरितं त्रिपुरासुरा न्वितमेव शक्यान्तरव्यावृत्तमतो न दोष इति भावः। वस्तुतस्तु त्रिपुरारातिपदस्य योग- रूढलेन रूढ्यर्थान्वितत्रिपुरासुरवैरित्स्य तत्पीड्यमानभूभृत्खपि सत्त्वेन शक्यान्तर व्यावृत्तल्ाभावाच्च। एवं चैकपदार्थ इत्यस्य यथाश्रुतत्वमेवास्तिति बोध्यम्। नोक्तदोष इति। शब्दान्तरसंनिध्युदाहरणत्ाभावरूपदोषो नेत्यर्थः । अव्यभिचरितस्यार्थान्तराप्र १ देवपदात् सुरत्व-भूपत्वाभ्याम् (अवृत्तिनिमित्ताभ्याम्), सुरभूपयोरर्थयौः, पुरारातिपदाच्च नगरारित्व-असुरविशेषारित्वाभ्याम् (प्रवृत्ति०) नगरशत्रु-शिवरूपयो रर्थयोः उपस्थितेरित्याशयः । २ कर-नागपदे अर्थान्तरस्य प्रत्यायके एव स्तः । ३ उक्तनियामकेभ्योऽन्यत्किञ्चिदत्र नियामकमित्यन्वेषणे व्यर्थ संख्यावृद्धिरित्यर्थः । ४ अव्यभिचारितया अयमपि लिङ्गत्वधर्मयुक्तो जात इति।

Page 217

अभिधानियामक: ] रसगङ्गावर: । १५.५

सामर्थ्य कारणना ।। यथा-'मधुना मत्तः कोकिन:' इत्यत्र कोकिलमदजनकता मधुशब्दस्य वसन्ते। 'अ्र कोकिलमादने मधोरेव शक्तिन तु मधुनः । माद्कत्वं मधुन्यपीति न लिङ्गम्' इति वदन्ति। तत्र सामर्थ्य लिङ्गान्तर्ग- तमेव कुतो न स्थान्, इति शङ्कायाः कथमेतदुत्तरं संगच्छते। न च मादनसामर्थ्येस्य सुरावृत्तितया नासाधारणधर्मतारूपं लिङ्गत्वमिति वाच्यम। मादनसामर्थ्यस्य सुरावृत्तित्वेऽपि कोकिलमादनसामर्थ्यस्य वसन्तासाधारणतया लिङ्गस्य दु्वारत्वान्। न च ग्राणिमात्रमादन- सामर्ध्यस्य मधुनः कोकिलमादनसामर्थ्यमप्यस्तीति वाच्यम्। एवं सैति सामर्थ्यस्य वाचकतानियामकत्वमसंगतं स्यान्। न तु मधुन इति स्वोक्ति- विरोधश्च भवेन्। प्रसिच्चाश्रये पुनर्लिङ्गत्व्रमप्रच्युतम्। शार्व्दत्वाशाव्द्- त्वाभ्यामेकानेकपदार्थत्वाभ्यां वा विशेषस्तु स्यात्। औचिती योग्यता।। यथा-'पातु वो दयितामुखम्' इत्यत्न दयितामुखेकर्तकरक्षणकर्मत्वा- क्षिप्तकामार्तानां संबोध्यपुरुपाणां त्राणं हि तस्याः सांमुख्येनैव भवति, नतु

त्यायकस्य। गवेषणेऽन्वेषणे। तन्मूचोस्ते प्रकाशकारोक्ते। मधुनो मद्यस्य। वदन्तीति सूचि- तामरुचिमाह-तत्रेति। मधुनेत्युदाहरणविपयभूतमित्यर्थः । मादने करणे ल्युद्। वाचकतेति। शक्तीत्र्थः। असाधारणलाभावादिति भावः। इटापनावाह-न त्विति। अप्रच्युतमिति। कोकिलनादनसामर्थ्यस्य वसन्न एव प्रतिद्वेरिति भावः । शान्दत्वाशन्दत्वाभ्यामिति। मधुकरणकमदाश्रयः कोकिल इति हि तत्र बोधः शाब्दः । कुपितो मकरध्वज इत्यन्र तु कोपाश्रयाभिन्नः इत्येव तथेति भावः। एवं भेदस्य प्रागनुक्तलात्तत्रापि कोपसाधनोल्लेखस्य सुवचलाच्चाह-एकानेकेति। आक्षि- १ यदा हि सामर्थ्यस्य लिद्गान्तर्गनत्वमाशक््य शक्तिनियामकेषु वृथग्गणनमस्य विप्रतिपद्यने तदा वसन्तस्य मादनं प्रति असाधारणधर्मतास्थापनं नोत्तरम्। सामथ्यस्याऽपि असाधारणतायाः 'न च मादनसामर्थ्यस्ये'त्यादिना पूर्वपक्षिणो विवक्षितत्वात्। २ एवं साधारणतास्वीकारे शक्तिनियामकत्वरूपा भवदङ्गीकृता विशिष्टयोग्यता न सिध्येदित्याशयः। ३ कोकिलमादनसामर्थ्य वसन्तस्यैव प्रसिद्धम्, सदपि मधुनः साम्थ्यमप्रसिद्धमिति सामर्थ्यस्य पृथक्त्वसाधने प्रसिद्धिराश्रीयते, तदापि असाधारणत्वसंपत्त्या लिज्गत्वं न दूरीभूतम्। अर्थात् सामर्थ्य-लिद्गयोर्मध्ये पृथग्गणनोच्चितो भेदो न साधितः । ४ स्वसंमतं द्वयोभेंदमाह। ५ दयितामुखकर्तकं यद्रक्षणं तत्संबन्धि यत्कर्मत्वं तेन आक्षिप्तानां कामार्तानाम्।

Page 218

१५६ काव्यमाला। [ द्वितीयानने-

मुखमात्रेण, वैसुख्ये तेन त्राणायोगात्। अतसाणार्हत्वं वदन-सांमुख्योभय- प्रत्यायकस्य मुखशव्दस्य । देशो नगरादिः।। चथा-'भात्यत्र परमेश्वरः' इत्यादौ परमेश्वरादिशब्दस्य राजादौ तस्य नगरादिसंबन्ध-तद्भावयोः संभवेनाभावव्यावृत्त्यर्थमधिकरणकीर्तनस्य सार्थक्यात्। परमात्मनस्तु सर्वगतस्य व्यावर्त्याभावात्तदुक्तिवैयर्थ्यापत्तेः। एवं 'वैकुण्ठे हरिर्वसति' इत्यत्रापि बोध्यम्। एकत्रार्थान्तरोपग्रहेSधिकरणो- क्तिवैयर्थ्यम्, अपरत्र तु तदधिकरणत्वाप्रसिद्धिरिति विशेषः । कालो दिवसादि:॥ 'चित्रभानुर्दिने भाति' इत्यादौ चित्रभान्वादिपदानां सूर्यादिषु। एवं 'चावुर्मास्ये हरिः शेते' इत्यस्य। व्यक्ति: स्त्रीपुंनपुंसकलिङ्गानि। यथा-'मित्रो भाति', 'मित्रं भाति' इत्यन्न मित्रशब्दस्य पुंनपुंसके सुहत्सूर्ययोः । एवं 'नभो भाति', 'नभा भाति' इत्यत्रापि। सर उदात्तादि:।। यथा-'इन्द्रशत्रुः' इत्यत्र समासान्तोदात्तत्वमिन्द्रशत्रुशब्दस्येन्द्रस्य शत्रौ। पूर्वपदप्रकृति स्वरप्राप्तमादयुदात्तत्वं त्विन्द्रशत्रुके। आदिनाभिनयादि- परिग्रहः। यथा-'एद्दहमेत्तत्थणिआ' इत्यादौ।

प्ेति। विशेषरूपेणाक्षिप्तेत्यर्थः । सांमुख्येन संमुखलेन। तेन मुखेन। तदुक्तीति। अधिकरणोकीत्यर्थः । एकत्र आदे। अर्थान्तरेति । परमात्मवानरादावित्यर्थः । आदिभ्यां रात्रिवह्नयादिपरित्रहः। शेते इत्यस्येत्यत्रापि बोध्यमिति शेषः। पुंनपुंसके पुंन- पुंसकले। सुहृत्सूर्ययोरिति। सूर्यसुहृदोरिति क्रमो बोध्यः। पाठ एव वेत्थम् । नभा: श्रावण: । एद्दहेति। 'एद्दहमेत्तत्थणिआ एद्दहमेत्तेहिं अच्छिवत्तेहिं। एद्दहमे- त्तावत्था एद्दहमेत्तेहिं दिअएहिं ।।' 'एतावन्मात्रस्तनिका एतावन्मात्रैरक्षिपत्रैः। एता- वन्मान्रावस्था एतावन्मात्नैर्दिवसैः ॥'[ इति च्छाया। ] अर्थसामर्थ्येन अर्थयोग्यतया। यथासंख्यमन्वयः । बोधकवैचित्र्येऽपि पदार्थयोर्यः कार्यकारणभावस्तद्वोधकेत्यर्थः । १ सांमुख्यार्थें शक्तिनियमनं करोतीति प्रक्रान्तान्वयः ।

Page 219

अभिधानियामक: ] रसगङ्गावर: । १५७

वोध्यमानकार्यकारणभाव एव नियामकः, न तु वस्त्वन्तरम्। बोधकवैचि- व्याच्च नियामकस्य वैचित्रयेणोक्ति: प्राचाम्। वस्तुतस्तु संयोगादीनामर्था- न्तरसाधारणत्व नानार्थशव्दस्यार्थविशेषे शक्कते: संकोच एव न संभवति, नियामकानामसंकुचितत्वात्। अथ प्रसिद्धत्वादिना तेषामसाधारणता- बुद्धियेथाकथंचिदुपपाद्यते, तदा प्रायशो लिङ्गभेदा एवैते, न तु सर्वथैव ततः स्वतन्रा इति बोध्यम्। तत्र शब्दशक्तिमूलालंकारस्य ध्वनिर्यथा- 'करतलनिर्गलद्विरलदानजलोल्लासितावनीवलयः। धनदाग्रमहितमूर्तिजयतितरां सार्वभौमोऽयम् ।।' अत्र राजप्रकरणे कर-दान-धनद-सार्वभौमशब्दानां शक्तौ संकोचिता- यामपि तन्मूलकेन ध्वननेन प्रतीयमानस्यार्थान्तरस्याप्रस्तुतस्याभिधानं मा

नियामकस्य अर्थादेः। वैचित्र्येण मेदेन। प्राचामिति सूचितामरुचिमाह-वस्तुत- स्त्विति। साधारणले सतीति शेषः । स्वारसिकत्ाभावादाह-यथाकथंचि- दिति। प्रागुक्तरीत्यार्थांदीनामसंग्रहादाह-प्रायश इति। तेषामप्यन्तर्भावसंभवा- दाह-सर्वथैवेति। ततः लिज्गात्। तत्र त्रयोदशभेदानां मध्ये। अलंकार स्येत्यस्यो- पमेत्यादिः। अविरलेति। संततेलर्थः । अवनीवलयः भूमण्डलः । धनदानामग्रे आदो महिता पूजिता मूर्तिर्यस्य सः । अत्रेति । हस्तवितरणदातृजनभूपेध्विति भावः । तन्मूलकेन शब्दशक्तिमूलकेन। अर्थान्तरेति । इन्द्रवृत्तान्तेलर्थः । षध्यर्थे बहुत्रीहिद्दयम्। करतलमैरावतशुण्डागण्डस्थलम्। धनदः कुवेरः । अप्रस्तुतस्यासंब-

१ संयोगविभागादिषु यथा संयोगविभागवाचकाः शब्दा नियामकास्तथात्र न, किन्तु विभ- क्तिवोध्यः कार्यकारणभाव एवेत्यर्थः । २ नियामकानां परस्परं भेदसाधनाय शङ्का-समाधानयोरयं सार :- 'ऐक्यप्रतिभासेपि कार्यकारणभावरूपबोधकवैचित्यात् अर्थादीनां नियामकानां पार्थक्येनोक्तिः' इति प्राचां समा- धानं शिथिलमेव। यदि संयोगादयो नियामका नियामकान्तराऽतिव्याप्ततया स्वयमसंकुच्चिता भवेयुस्तहि एमिः शक्तिसंकोच एव न संभवेत, नियामकानां संकुन्चितत्व एव तथा संभवात्। यदि तु 'अयमेतदर्थ प्रसिद्धः, नायम्' इत्यसाधारणतां संपाद अर्थ-सामर्थ्यादीनां मिथः पार्थक्यं साध्यते, तदा असाधारणधर्मों लिङ्गमिति स्वीकारादेते सवें लिङ्गस्य भेदभूताः (लिङ्गा- न्तर्गताः) एव सिध्येयुर्न तु स्वतत्राः। तस्मात्प्राचीनैः स्वीकृतेष्वेषु शक्तिनियामकेषु मेद: पूर्वोक्ताभिरस्मदुपपत्तिभिरेव साध्य इति। १४ रस०

Page 220

१५८ काव्यमाला। [द्वितीयानने-

भूदिति प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कल्प्यत इत्युपमालंकारध्वनिः । अथ श्िष्टविशेषणायां समासोक्तौ व्यङ्गस्याप्य- अकृतव्यवहारस्य प्रकृतधार्मण्यारोप्यमाणस्य प्रकृतोपस्कारकतया यथा गुणीभूतव्यङ्मयत्वम्, एवमिहाप्युचितम्। न चोपमा प्रकृतार्थोपस्कारिका न भवतीति शक्यं वदितुम्। 'उल्लास्य कालकरवालमहाम्बुवाहम्', 'भद्रा- त्मनो दुरधिरोहतनोः' इत्यादौ प्राचीनानां पद्ये 'करतल-' इत्यादि प्रागुदाहृतपद्ये च व्यङ्गयोपमया प्रकृतस्य राज्ः प्रकर्षस्य सकलानुभव- सिद्धत्वात्। अनुभवापलापे तु समासोक्तावप्यप्रकृतव्यवहारस्य प्रकृतो- पस्कारकत्वं नेति सुवचत्वात्। ननु समासोक्तावत्र चास्ति विशेष :- यत्तत्र व्यवहारिणो नानार्थशब्दानुपस्थाप्यत्वम्, इह तु तदुपस्थाप्यत्वम्, इति चेत्, किं चातो न हि व्यवहारिणो नानार्थशब्दोपस्थाप्यतामात्रेणा- प्रकृर्तधर्मिनिरूपिताया उपमायाः प्रकृतधर्म्युपस्कारकत्वं वार्यते, येन गुणीभूतव्यङ्गयत्वं न स्यात्। न चात्रोपमादीनामलंकाराणां स्वभावतः सुन्दरत्वात्काव्यप्रवृत्त्युद्देश्यतया च वस्तुमात्रे गुणीभावो न संभवति, यथा वस्तुमात्रेणाभिव्यक्तानामलंकाराणाम्, तुल्यन्यायत्वात्। अप्रकृत- द्धस्य। ्िष्टेति। 'अयमैन्द्रीमुखं पश्य' इत्यादौ। व्यवहारस्य मुखचुम्बनादिरूपस्य आरोप्येति। अन्यथा असंबद्धाभिधानं स्यादिति भावः । इहापि करतलेत्यादावपि। तथा च मध्यमकाव्यत्म्, नोत्तमकाव्यत्वमिति भावः । व्यङ्गयोपमयेति। व्यञ्ञ्यरूपो- पमयेत्यर्थः । समासोक्तावपि उक्तरूपायाम्। अन्र च करतलेत्यादौ। एवमग्रेऽपि। व्यवहारिणो जारादेः। तदुपेति । सार्वभौमेति नानार्थपदोपेत्यर्थः । स्वभावसुन्द- रस्यापि श्रृङ्गारादेः क्वचिद्गुणभावदर्शेनादाह-काव्यप्रवृत्त्युद्देश्यतया चेति। अन्यथा नानार्थशब्दघटितकाव्यकरणरूपकविप्रयासानर्थक्यापत्तिरिति भावः। वस्तुमात्रे प्रकृतार्थे। यथा वस्तुमात्रति । 'वीररुद्रभटान्टृष्टरा जयलक्ष्मीसमावृतान्। रणे कर्ष- न्त्यरिवधूकेशांस्ते कण्टकिदुमाः ॥' इत्यादाविति भावः । तुल्येति। उक्तहेतोस्तुल्यला- १ अयं सार्वभौमः (चक्रवर्ती) सार्वभामः (दिग्गजः) इवेति। २ अप्रधानशब्दार्थानुपस्थाप्यत्वमिति काशीपाठो विचार्य एव, समाधाने पुनर्नानार्थशब्द- अ्हणात्। व्यवहारी प्रकृतव्यवहारनिर्वाहको धर्मी, यथा समासोक्तौ-अयमैन्द्रीत्यत्र चन्द्रः । सः (विशेष्यभूतश्चन्द्रः) न अनेकार्थः । अत्र तु व्यवहारी 'सार्वभौमः' नानार्थक इति विशेषः । ३ अतः किम् ? एतावन्मात्रेण किमित्यर्थः । ४ अप्रकृतधामें(दिग्गज)निरूपितायाः । ५ प्रधानताकृतचमत्कारवैकल्येपि अलंकाराणां स्वाभाविकं सौन्दर्यमादाय-वस्तुनाभिव्य- कानां तेषां ध्वनित्वमेव न गुणीभूतत्वम्। उक्त प्रकाशकृता-'व्यज्यन्ते वस्तुमात्रेण यदाSलं

Page 221

शब्दशक्ति-ध्वनिः ] रसगङ्गाधर: १५९

व्यवहारस्य तु समासोक्त्वयवस्व निरलंकारतया वस्तुन्युपस्कारकत्वं समासोक्तावविरुद्धमिति वाच्यम् । एवमपि 'बाधेऽदढेऽन्यसाम्यार्तिक दढेऽन्यदपि बाध्यताम्' इति न्यायेनोक्तयुक्त्त: शिथिलत्वात्, अपराङ्ग- ताया दुरपह्नवत्वात्। अथोच्येत-उपमानमुपमेयं साधारणो धर्म इति ह्युपमाशरीरघटकम्, न तु ततः पृथग्भूतम्, तैर्विना तस्या अनिष्पत्तेः । इत्थं चोपमेयस्य साद- श्यांशेनोपस्कारेऽप्युपमाया नापराङत्वम्, उपमेयस्यापरत्वाभावात्। यथा समासोक्तावप्रकृतव्यवहारेण प्रकृतस्योपस्करणेऽपि न समासोक्तेरपराङ्ग- त्वम्, प्रकृताप्रकृतघटितत्वान्, एवमिहापि स्वादिति । तथापि समा- सोक्तेरिवास्यापि प्रभेदस्य गुणीभूतव्यङ्गयत्वापत्तेः, अस्येव वा समासोक्ते-

दित्यर्थः । अनलंकारलेऽवयवतं हेतुः । अदृढे इति च्छेदः । सादृश्यांशेन तद्रपोपमाङ्के- नोपमानेन। उक्तमेवार्थ विशदयति-यथेति। गुणीभूतव्यङ्गत्वापत्तरिति। अयं भाव :- विशिष्टस्योपमाशरीरल्ेऽपि उपमेयांशस्य न व्यङ्यतम्। शक्तैव तल्लाभात्। एवं च तद्घटकव्यञ्ञयांशस्य तद्घटकवाच्यादनतिशायिलेन गुणीभूतव्यङ्ञयतवं दुर्वार मिति। अत्र वदन्ति-अलंकाराणामुद्दीपनविधया रसाद्युपयोगिलेनालम्बनापेक्षयोद्दीपने- Sधिकचमत्कारित्वस्य सर्वानुभवसिद्धतया करतलेतिपदवाच्यालम्बनविभावापेक्षयाविशा- यिलाद्धनित्वमव्याहतमेव। रसाद्यपेक्षया गुणीभूतव्यङ्गयत्वं लिष्टमेव। समासोक्ती तु

विना तदनुपपत्तेर्गुणीभूतव्यड्ञयत्वं स्पष्टमेव। यत्र तु तस्यापि रसाद्युपस्कारकतया वाच्या- कृतयस्तदा । ध्ुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात् ।।' एवं च अलंकारगतचमत्कार- हतोस्तुल्यत्वादत्रापि गुणीभूतत्वं न स्यादिति शङ्का । यदि वाधिका (दत्तदोषनिवारिका), युक्ति: शिथिला, तर्हि अन्यस्थले एवं जातमिति दृष्टान्तेन किं साध्यन्? [ यथाSन्ैव अलंका- राणासुपरकारकत्वेपि ध्वनित्वं प्रकाशे उक्तमिति दृष्टान्तेन न फलम्। ] युक्तौ प्रवलायाम् अन्यदपि (निदर्शनस्थलमपि) बाध्यताम्। अर्थात प्रधानस्योपसकारकत्ने गुणीभावो भवतीति अनुगमे दृढे ग्रकाशादयुक्तस्थलेपि-गुणीभाव पवोचितः । इति समाधानम्। १ उपमाशरीरसंपादकसामग्री। २ सार्वभौमेन (दिग्गजेन) साम्यम् (यद्धि उपमाया एकमङ्गम्) प्रकृतस्य राज्ञ उपस्का- रकमिति, अङ्गिन्या उपमाया अपराङ्गत्वं न शक्यं वक्तम् । अपरं प्रति अङ्गत्वं तदैव भवेत् यदा इयमुपमा स्वस्मादन्यस्य कस्यत्विदङ्गं स्यात। अत्र तु उपस्कार्यभ् उपमेयमुपमाघटकमेव। ततः अपरपदेन कथं वा तद्व्यपदेश उच्चितः ? यथा समासोक्तेरङ्गद्वयं प्रकृतमप्रकृतं च। तन्र अप्रकृतस्य प्रकृतोपरकारकत्वेपि प्रकृताप्रकृतघटिताया अङ्गिन्याः समासोक्तेर्न अपराङ्गत्वं व्यवहि- • यते तथात्राप्युपमाया नाऽपराङगत्वम्, इति शङ्का।

Page 222

१६० काव्यमाला। [द्वितीयानने-

रपि ध्वनिव्यपदेश्यत्वापत्तेः । अन्यच-श्ेषे हि श्रेषभित्तिकमभेदा- ध्यवसानं द्वयोरर्थयोरिति सकलालंकारिकनिबद्धम्, अनुभवसिद्धं च । तत्र मूलान्वेषणे विधीयमाने एकपदोपात्तत्वान्न शक्यते मूलमन्य- न्निर्वन्तम्। एकपदोपात्तो ह्यनेकोऽप्यर्थोSभिन्नतयैव भासते। इत्थं च 'उल्लास्य कालकरवाल- इत्यादावप्येकपदोपात्ततया द्वयोरर्थयोरभेदाव्य- वसानस्य युक्तत्वेनाभेदस्यैव व्यङ्गयत्वमुचितम्, नोपमायाः। श्रेषे द्वयो- रर्थयोर्वाच्येत्वम्, एककालत्वं च । इह त्वेकस्य वाच्यत्वम्, अपरस्य व्यङ्गयत्वम्, भिन्नकालत्वं चेति। एतावन्मात्रेणैवैकपदोपात्तत्वप्रयुक्तम- भेदाध्यवसानं न शक्यं त्यक्तम्, व्यङ्गयताया भिन्नकालत्वस्य चाभेद- प्रतिपत्ताववाधकत्वात्। एतेन 'रूपकस्योपमाज्ञानाधीनज्ञानत्वेन प्रथमो- पस्थिततया तस्या एव संबन्धत्वं कल्प्यम्' इति काव्यप्रकाशटीका- कारैरुक्तं नातीव श्रेद्धेयमिति । प्रकृतमनुसरामः । एवमलंकारान्तरमपि शब्दशक्तिमूलानुरणनस्य विषयः । यथा यमुना वर्णने-'रविकुलप्रीतिमावहन्ती नरविकुल प्रीतिमावहति। अवारितप्रवाहा

दतिशयिततं प्रागुक्तरीत्या तन्रास्तु नाम ध्वनितं तस्याः । न चैवमप्युपमाकृतोत्कर्षमा- दायास्तु ध्वनिलम्, अलंकारध्वनिरिति तु कथमिति वाच्यम्। अलंकारकृतोत्कर्षध्वनावे- वालंकारध्वनिरिति व्यवहारादिति। विनिगमनाविरहादाह-अस्येव वेति। प्रभेदस्येवे- त्यर्थः । प्राचोक्तमुपमालंकारध्वन्युदाहरणं खण्डयति-अन्यच्चेति । किं चेत्यर्थः । श्लेषभित्तिकं तन्मूलकम्। विधीयमान इति । क्रियमाण इत्यर्थः । एकपदोपात्तल्वाद- न्यदित्यन्वयः । इह तु 'उल्लास्य-' इत्यादौ तु । इतिः पूर्वग्रन्थसमातौ। अलं- कारान्तरमिति। उपमातिरित्तमपीत्यर्थः । रवीति। सूर्यवंशप्रीति मनुष्यपक्ष्युभय- समूहप्रीति च। अवारीति। अप्रतिबद्धप्रवाहा। शोभनं वार्जलं तत्संजातं यस्य १ यदि समासोक्त्या सह साम्यं संपाद्यते तहिं यथा समासोक्तेर्गुंणीभूतव्यङ्गयेषु गणना तथा अस्या उपमाया अपि स्वीकार्या (या हि असमाभि: साध्यते)। ननु समासोक्तिरेव एत- त्समाना कुतो न स्यादिति आगृह्यते, तदा भवद्युत्तया समासोक्तिरपि ध्वनिकाव्यं स्यात्। तस्मादेवंविधस्थलेषु अभेदाध्यवसानमेव (रूपकमेव) व्यञ््यं नोपमा। इति स्वसिद्धान्तं स्थाप- यति, प्राचोक्तत च खण्डयति। २ प्राचामनुसारं तत्र प्रकरणादिनाडभिधानियमाडभावात्। अर्थाङ्मयोरेव प्रकृतत्वात्। ३ इह तु प्रकरणादू राजार्थस्य वाच्यत्वम्, दिग्गजार्थस्य व्यङ्गयत्वम्। - ४ पूर्वयुक्तया अभेदस्यैव (रूपकस्यैव) व्यङ्गयत्वं सिद्धं नोपमायास्तदा उल्लास्य कालकरेत्यक्र उपमाया एव प्रकृताप्रकृतयोः संबन्धत्वकथनमसंगतमेवेत्यर्थः । तथा चात्रापि एकपदोपस्थाप्य- त्वरूपामेदाध्यवसानेन रूपकस्यैव व्यञ्ञ्यत्वमित्याशयः ।

Page 223

शब्दशक्तिध्वनिः ] रसगङ्गाघर: । १६१

सुवारितप्रवाहा ।' इह नराणां वीना च कुलस्य ग्रीतिमावहतीति प्रकृतेऽर्थ सिद्धे रविकुलप्रीति नावहतीति द्विनीयोऽप्रक्ृनोऽर्थः विरोधञ्च। एतमन्य- त्रापि। यदि तु रविकुलप्रीतिमावहन्त्यपि न रविकुलप्रीतिमावहति। अवा- रितप्रवाहापि सुवारितप्रवाहा इत्यपिरन्तर्भाव्यते तदा विरोधांशस्यापिनोक्त- त्वादितीयार्थस्य च तदाक्षिपत्वान्न ध्वनित्वम्। निपातानां दयोतकतानयेऽपि स्फुटद्योतितस्य तदाक्षिप्स्व च वाच्यकल्पत्वान्न तथात्वम्।नु 'मृणालव- लयादि दवदहनराशिः' इत्यत्र विरोधाभासस्व क्थं वाच्यालंकारत्वम् । विरोधांशस्य शब्दवाच्यताविरह्ेण व्यङ्ताया एवाभ्युपगन्तव्यत्वात्। न च विरोधविशिष्टाभेदस्य संसर्गत्वाद्वाच्यार्थवोधविषयतया विरोधस्य वाच्यत्वमिति वाच्यम्। विरोधाभेदयोः परस्परविरुद्धत्वेनैककालावच्छे- देनैकसंसर्गत्व्रस्यानुपपत्तेः । नानार्थयोरभेदस्यैव संसर्गतया विरोधस्यापि संसर्गत्वे मानाभावाच। पर्यन्ते दवदहनराशिपदस्य सदशलाक्षणिकतया

तादृशः प्रवाहो यस्याः सा । विरोधश्चेति । अलंकारो ध्वन्यत इति शेषः । द्वितीयार्थस्य चाप्रकृतार्थस्य च। तदेति। अपिबोध्यविरोघेत्यर्थः । ननु निपातानां द्योतकत्वेनोक्तलाभावाद्धनितवमेवात आह-निपातानामिति। तथा च दोतकलं विलक्षणमिति भावः । न तथालं न ध्वनिलम्। प्राचीनोदाहरणे शङ्कते-नन्विति । ननु तादात्म्यवदुपपत्तिः स्यादत आह-नानार्थयोरिति। संसर्गत्वे तद्टकत्वे। तादात्म्यस्य संसर्गेतं तु तन्न्रान्तरे प्रतिद्धमिति भावः। नतु प्रतीतन्यथानुपपत्तिरेव मानमत आह-पर्यन्त इति। पर्यवसान इत्यर्थः । मात्रपदेन वाच्यलनिरासः ।

१ अगूढं व्यङ्गयं वाच्याक्षिप्तं च वाच्यायमानमिति सर्वैरुक्तन्। २ विरोधवाचकः 'अपि' शब्दोत्र नास्तीति। ३ वाच्यार्थस्य यो बोधस्तद्गोचरः । अयं भाव :- 'मृणालवलयो दवदहनः' इत्युक्ती विरो- धविशिष्टयोईयोरनयोरभेदः संसर्गविधया वक्त्तव्यः स्यात्। ततश्च विरोधविशिष्टौ इमौ यदा वाच्यार्थबोधविषयौ, तदा तत्संबद्धो विरोधोपि अभिधाविषयीभूतो जात इति शङ्का। विरोध- विशिष्टयोरभेदोनुपपन्नः । यदा विरोध: प्रतीयेत तदा अमेदो नेति, एककालं दयोः संसर्गता न स्यादिति समाधानम्।

Page 224

१६२ काव्यमाला। [ द्वितीयानने-

विरोधांस्य तिरोधानाच। मैवम्। उक्तपद्यस्य विरोधोदाहरणतामात्रे तात्पर्यात्, व्यञ्ञवत्वेऽपि तथात्वस्यानपायात्। वाच्यविरोधोदाहरणतायां त्वपिरन्तर्भाव्य: । केचित्तु-'विरोधांशस्य व्यङ्गयत्वेऽपि विरोधिद्वयस्य वाच्यतामात्रेण विरोधाभासस्य वाच्यालंकारव्यपदेशोपपत्तिः । इत्थमेव चांशान्तरस्य व्यङ्ञयत्वेऽप्येकांशमादाय समासोक्त्यादीनामपि वाच्यालं- कारव्यपदेशः' इत्याहुः । यथा वा- 'कृष्णपक्षाधिकरुचिः सदासंपूर्णमण्डलः । भूपोऽयं निष्कलङ्कात्मा मोदते वसुधातले।' अन्न भगवत्पक्षाधिकप्रीत्यादिलक्षणे प्रकृतभूपोपयोगित्वात्प्रकृतेऽर्थे शक्त्ा प्रतीतिपथमवतीर्णे द्वितीयोऽर्थोSप्रकृतो वैधर्म्यात्मा तत्प्रयुक्तो व्यतिरेकश्च। न चान्र व्यतिरेकस्य कविगतराजविषयकरतिभावोत्कर्ष- कतया गुणीभूतस्य कथं ध्वनिव्यपदेशहेतुत्वम्, प्रधानस्यैव ध्वनिव्य- पदेशहेतुत्वादिति वाच्यम्। उदासीने वक्तरि तत्त्वार्थकथनपरस्य पद्यस्य वक्तगतरतिव्यञ्जकत्वासंगतेः, गुणीभूतस्याप्यर्थस्य वाच्यार्थापेक्षया प्रधा- नतया ध्वनिव्यपदेशहेतुतायाः प्राचीनैः सवीकाराच। अन्यथा- 'निरुपादानसंभारमभित्तावेव तन्वते। जगचित्रं नमस्तस्मै कलाम्ाध्याय शूलिने।।' अन्तर्भाव्यः मृणालेत्यादौ। शब्दशक्तिमूलालंकारान्तरध्वनिमुदाहरति-यथा वेति। भगवत्पक्षेऽधिका प्रीतिर्यस्य। सद्धिरा समन्तात्परिपूर्ण मण्डलं यस्य। निष्कलङ्ग: पवित्र आत्मा यस्य सोऽयं भूपो भुवि मोदत इति प्रकृतोऽर्थः । कृष्णपक्षेऽसितपक्षेऽधि- करुचिः । सदा सर्वकाले संपूर्णमण्डलः । निष्कलङ्कः कलङ्गशून्य आत्मा यस्य सोऽयं भुवि मोदत इति चन्द्रवैधर्म्यात्मा प्रकृतोऽर्थः । यद्ा कृष्णपक्षे पापकर्मण्यधिकरुचिः । सदासं यथा तथा पूर्ण मण्डलं यस्य। निष्कलङ्कोऽत्यन्तकलङ्ग आत्मा यस्य सोऽय- मित्यप्रकृतोऽर्थः । तत्प्रेति। अप्रकृतार्थप्रयुक्तव्यतिरेकालंकार इत्यर्थः । व्यज्यत इति शेषः । उदासीने। रतिरोषोभयानाविष्टे सतीति शेषः । अन्यथा तथानङ्गीकारे। निरु- पेति। उपादानसंभार उपकरणसमूहस्तूलिकादिकं तद्रहितं यथा स्यात्तथा। अभित्तावेव १ 'वाच्यात् अतिशायिनि व्यञ्चे, उत्तमम् (ध्वनिः)' एतदेव ध्वनिलक्षणे प्रोक्तम्, तव्यञयं वाच्यापेक्षया अतिशायकं सदपि कस्यचिद्वञ्ञ्ान्तरस्यापेक्षया अनतिशायकं न स्यादिति तत्र नोक्तम्। पण्डितराजेन तु ध्वनिलक्षणे गुणीभावितात्मानाविति विशेषणेन अपराङ्गादी।' निरासो विहित इत्याकूतम्।

Page 225

शव्दशक्ति-ध्वनिः ] रमगङ्गाघरः ।

इत्यन्न व्यतिरेकध्वनिन्वं तरुक्तमसंगतं स्यान्। व्यतिरेकस्व भगवद्विप चकरतिभावाङ्गताया अनुभवसिद्धत्वान्। शब्दशक्तिमू लवस्तुध्वनियथा- 'राज्ञो मत्प्रतिकूलान्मे मह्ङ्भयमुपस्थितम् । वाले वारय पान्थस्य वासदानविधानतः ।।' अत्रोपभोगं देहीति वस्तु राजपदशक्तिमूलानुरणनविषयः ।राजपदाच्- न्द्रोपस्थितावेव चन्द्रजनितभयवारणकारणत्वेनोपभोगस्याभिव्यक्त: । न चात्र नृपचन्द्रयोरुपमानोपमेयभावः, भेदापोहरूपं रूपकं वा तथास्त्विति वाच्यम्। इह नृपरूपस्यार्थस्य चन्द्ररूपार्थगोपनमात्रारथसुपात्तत्वेन युग- पदुल्लसितोपमानोपमेयकयोरुपमारूपकयोस्तात्पर्यविषयताया अयोगान् । न चासंसृष्ठार्थद्वयबोधने वाक्यभेद इति वाच्यम्। तुल्यकक्षतया द्वयोरसंसृष्टयोरथयोः प्रतिपिपादैयिषितत्व एव तस्याभ्युपगमात्। इह त्वाच्छादकप्रतीतिसमये आच्छाद्याSप्रतीतिः, आच्छाद्यप्रतीतौ चाच्छाद- कन्यग्भाव एवेति नास्ति तुल्यकक्षता। काव्यप्रकाशे तु-'शनिरशनिश्च तमुचैः' इत्यादिकमुदाहृत्य 'अन्न विरुद्धौ द्वावपि त्वदनुवर्तनार्थमेकं कार्य कुरुत इति ध्वन्यत' इत्युक्तम् ।

शून्य एव चित्रं नानाकारं जगत्तन्वते तस्मै अनिर्वचनीयखवरूपाय, कला चन्द्रस्य पोडशो भागसतेन श्लाध्याय शूलिने महादेवाय नमः । पक्षे चित्रमालेख्यम्। कला आलेख्य- क्रिया कौशलं च । तैः प्राचीनैः। राज्ा इति। हे बाले, लं मत्प्रतिकूलाद्राज्ः सकाशादु पस्थितं महत्पान्थस्य मम भयं वासदानविधानतो वारयेत्यन्वयः । वासश्र दानं चेलर्थः। भेदापोहेति। अभेदेत्यर्थः। तथास्तु अनुरणनविषयोऽस्तु। तथा च तादृशालंकारघ्वने- रेवोदाहरणम्, न वस्तुध्वनेरिति भावः । युगपदुल्लसिते उपमानोपमेये ययोस्तयोरित्यर्थः । तस्य वाक्यमेदस्य। आच्छाद्केति। नृपरूपार्थेत्यर्थः । आच्छाद्यति। चन्द्ररूपार्थे- त्यर्थः। शक्तिनियमेनेति भावः । अत्र बाले इति पदेन व्यङ्ञयस्य वाच्यायमानताकर- णादयोग्यमेतत्। शनिरिति । शनिग्रहः, अशनिर्वज्रं च। पुनस्तर्थे। उदार उङ्भटः। १ उपभोगरूपोर्थस्तत्र संनिहितानां न गोचरः स्यादिति पान्थस्य तात्पर्यम्। चन्द्रेण सहो- 4.भेदयोस्तु सोडर्थ: सफुटः स्यादित्याशयः । *.

२ प्रतिपादयितुम् इष्टः प्रतिपिपादयिषितः तत्त्वे।

Page 226

१६४ काव्यमाला। [द्वितीयानने-

तञ्न 'दौ शन्यशनी उदारानुदारौ चैक कार्य हननं भानं चे' इति व्याख्या-

न्वयाभावात्कथमेककार्यकारित्वं संगत स्यात्। अतो विरुद्धौ द्वावित्यादि प्रथमार्धविषयम्। द्वितीयार्धे तु विरोधाभास एव। कर्तर्यभेदेनान्वयमात्रेण कुरुत इत्यस्योपपत्तिश्चेत्, अस्तु द्वितीयार्धेऽपि विरुद्धौ द्वावित्यादि वस्तु व्यङ्गयम्। परं त्वर्धद्वयेऽपि विरोधाभासालंकारशबलितमेव। शत्रुविरुद्धस्य शत्रुत्वासंभवादेकस्य शन्यशनिकर्तृकहननकर्मत्वायोगेनाद्यार्घे, उदारत्वानु- दारत्वयोरेकाधिकरणवृत्तित्वायोगाद्वितीयार्धे च विरोधस्य स्फुटत्वात्। अथेशक्तिमूलानुरणनं यथा- 'गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम् । आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥' अत्र मधुव्रतकर्तृकमञ्जुगुञ्जनादयैर्वस्तुभिः कविकल्पितत्वविरहेण स्वत :-

अनुदार अनुगतदारः, नपदत्तैश्वर्येणाप्रवासात। न उदारो यस्मादिति वा। पक्षे- Sशनिः शनिविरोधी। नञः असुरादाविव विरोध्यर्थकत्वात्। अनुदार उदारादन्यः । शबलितमेव । उक्तवस्तु व्यञ्ञयमित्यनुषङ्गः। तदलंकारसत्वे हेतुमाह-शत्रुवि- रुद्धस्येति। विरोधिशत्रोर्विरोव्यन्तरमित्रतादेकस्य विरोधिद्यकर्तृकहननकर्मल्ायोगेन तादृशहननकर्मतयोरपि विरोधादिति भावः। राजोऽविहृताज्ञलमादाय कोपस्यातिशयि- ततमादाय वा तत्परिहारः । अशनिरित्यत्र नञ् विरुद्धार्थक इत्युक्तम्। न चैवं विरो- धेऽस्य कर्थ व्यङ्ञ्यता। तन्मूलकहननकर्मत्योर्विरोधस्य व्यङ्क्यत्वेनाक्षतेः । तमादायैव च विरोधाभासः । तस्यैव समाधानात्। न खनयोर्विरोधस्यास्य समाधानमस्ति । एतेनैकधर्मिगतत्वे एव विरोधस्यालंकारलान्नान्न विरोधालंकार इति परास्तम्। तादृशकर्म- खयोरेकधर्मिगतत्वस्य स्पष्टलात्। अन्ये तु विरोधिनोरप्येकशत्रुसंभवान्न ताद्शहनन- कर्मत्योर्विरोध इत्याहुः। द्वितीयार्धे चानुगतदार ईत्यर्थेन तत्परिहार उक्त एवेति दिक्। रणनं यथेति। खतःसंभविवस्तुना वस्तुध्वनिर्यथेत्यर्थः । संमुखमिति। सरस्या १ कुरुतः इत्यनुषङ्गः । तत्र हननकार्यकर्तृत्वेपि भानकार्यकर्तृत्वं नास्ति । 'स उदारः अनुदारश्च भाति' अत्र प्रधानकर्ता सः, उदारानुदारौ तद्विशेषणे। ततश्च विरुद्धयोः उदारा- नुदारयोः भानकर्तृत्वं क?। २ भातिक्रियाकर्ता यः तत्पदार्थः तद्विशेषणयोः । तत्पदार्थस्य प्रकारविशेषणयोवा। ३ अर्थात्पूवार्द्धि वस्तु व्यज्सम्। उत्तरायें अलंकारो (य एव उदारः स एव अनुदार इति) व्यज्स:।

Page 227

अर्थशक्ति-ध्वनिः ] रसगङ्गावर: । १६५

संभविभिरासन्नसरसिजोत्पत्तिध्वननद्वारा शरदागमनैकट्यरूपं वस्तु यज्यते । काव्यप्रकाशे तु-'अरससिरोमणि घुत्ताणं अग्गिम-' इत्यादुदाहृत्य 'ममैवोपभोग्य इति वस्तु व्यज्यते' इत्युक्त्तम्। तत्र केन वस्तुनेदं वस्तु, व्यज्यते ? न तावदलसशिरोमणित्वादिकान्तविशेषणैः, तेषां धात्र्यादिवृंद्धल्तरीनिरूपितत्वेन तवैवोपभोग्य इत्यादिरूपेर्णव व्यडयस्य वक्तव्यतापत्तेः । विशेषणानां कामिनीनिरूपितत्वे तु ममैंवेत्यादि व्यञ्ञयाकार: स्थान्। नापि परिफुललविलोचनत्वेन, तस्य हर्षभावानुभाव- त्वेन हर्षव्यञ्जकताया एव कृप्तत्वात्। मदुपभोग्यत्वं हि हर्पभावस्य विभावः । नह्यर्नुभावैर्भावो व्यज्यत इति तद्विभावव्यक्षनं शक्यं वक्तुम्।

इति भावः। आसन्नति। शीघ्रभाविनी या कमलानामुत्पत्तिस्तद्यजनेत्र्थः। अर- सेति। 'अलसशिरोमणिधूर्तानामग्रणी: पुत्रि धनसमृद्धिमयः । इति जल्पितेन नताङ्गी प्रफुळलविलोचना जाता ॥' पतिवरां प्रति धात्याः प्ररोचनोक्तिः पूर्वार्धम्। उत्तरार्ध तु कविवाक्यन् । हे पुत्रि, अयं वरः निरुद्योगश्रेष्ठो धूर्तश्रेष्टः प्रच्ुरधनसमृद्धिः, इति भाषि- तेन लज्या नताङ्ी काचिन्कन्या हर्षविकसितलोचना जातेत्यर्थः । अत्रालसन्व्रेन नायि- कान्तरागमनं सूच्यते। धूर्तत्वेन रतेष्वनादृतगुणतम्, धनिकत्वेन कृपणतया दातृत्वं च सूचितं सत् अन्यासामनाकर्षणीयत्वं मदुपभोग्यत्ं च व्यनक्ति। तद्विषयकं च कुमार्या ज्ञानं प्रफुल्लनयनत्ववत्त्वेन वस्तुना सहेतुहषव्यञ्जनद्वारेण तत्कारणीभूतं सामाजिकेषु व्यज्यते। केचित्तु-'अलसत्वेन धनिकत्वेन चाप्रवासितम्, धूर्तत्वेन संभोगेष्वतृप्तत्वम्, धनि- कलेन नानाधनदातृत्वमपि, नताद्विलेन नमस्कारः तेन स्वस्याप्यमानिनीलम्, प्रफुल्लन- यनत्वेन हर्षः तेन ममवोपभोग्यो नाविदग्धाया इति वस्तुव्यज्ञनम्' इलाहुः।'तेपां विशे- षणानां निरूपितत्वेन कथितत्वेन। एवमग्रेऽपि। परीति। अस्य कामिनीनिष्ठत्वादिति भाव:। तस्येति। परिफुल्लविलोचनालस्य हर्षाख्यव्यभिचारिभावकार्यतवेनेत्र्थः। कार्येण कारणानुमानस्य प्रसिद्धत्वादिति भावः। विभावः कारणम्। तत्सत्त्व एव हषोदयात्। नहीत्यस्य वक्तुं शक्यमित्यत्रान्वयः । तद्विभावेति। भावविभावेत्यर्थः । हिसूचितमश- १ यतस्तत्र 'पुत्रि' इति आमत्रणम् । २ यदि कामिन्या निरूपितं स्यात्तदा ममैवेत्यादि व्यङ्गं स्यात्तया तु न निरूपितमित्याशयः । ३ हृषेण प्रफुल्लविलोचनत्वं भवतीति इदं हर्षस्य अनुभावः । अयमनुभावः हर्षस्य (भावस्य) व्यज्जकः स्यात्, न त्वयं हर्षभावस्य विभावम् (ममायमुपभोग्य इति हर्षकारणभूतं ज्ञानरूपं वस्तु) व्यङ्कु प्रभवेत्। ४ अनुभावैर्भावः अभिव्यज्यते, अत एव तस्य भावस्य विभावोऽपि अनुभावैरेव व्यज्यते इति तु न शक्यं वक्तुम्। परिफुल्लविलोचनत्वरूपेणानुभावेन ममैवोपभोग्य इति विभावव्यजने- डसामर्थ्यात। पुत्रागमनादिनापि प्रफुल्ललोचनत्वस्य सत्त्वाद्।

Page 228

१६६ काव्यमाला [ द्वितीयानने-

केवलस्य परिफुल्लविलोचनत्वस्य ममैवेत्यादिव्यङ्गयव्यञ्जने सामर्थ्या- भावात्। पुत्रागमनधनप्राप्तयादिविभावकेऽपि हर्षभावे परिफुल्लविलोचन- ताया अनैकान्तिकत्वादिति। सत्यम्। 'इअ भणिम्मि' इत्याद्यर्थवश- प्रापितालसशिरोम णित्वा दि विशेषणश्रवणविशिष्टप्रफुल्लविलोचनत्वेन मदु- पभोग्यत्वलक्षणविभावाभिव्यक्तिद्वारा हर्षभावोऽभिव्यज्यते। तत्र द्वारीभूतविभावाभिव्यक्तिमादाय काव्यप्रकाशग्रन्थसंगतिः । न च भाव- धवनेः संलक्ष्यक्मत्वापत्तिः, द्वारस्य संलक्ष्यक्रमत्वादिति वाच्यम्। इष्टापत्तेः । न चापसिद्धान्तः, तस्य प्रागेवोद्धारात्। 'मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः स्वयातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः । तत्त्वं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता कृष्णेत्यक्षरयोरयं मधुरिमोद्रारः क्चिल्लक्षितः ॥'

क्यत्वे हेतुमाह-केवलस्येति। विशिष्टस्य तत्त्वस्य सिद्धान्ते वक्ष्यमाणतादिदं विशे- षणमू। विलोचनताया इति। सत्त्वेन तस्या इति शेषः। अनैकान्तिकलाद्यभि- चरितत्वात्। इअ भणीति। इति भणितेने त्याययुत्तरार्घस्य योऽर्थस्तदुद्देशेन प्रापितो यस्तादृशपरिफुल्लविलोचनत्वरूपो धर्मस्तेनेत्यर्थः । तस्यैकपदाबोध्यलादर्थवशप्रापितेत्यु- क्म्। विभावेति। हर्षभावविभावेत्यर्थः । भावध्वनेर्हर्षभावध्वनेः । द्वारस्य तद्वि- भावाभिव्यक्तिरूपस्य । तस्येति । अपसिद्धान्तत्वस्येत्यर्थः । तथा च सिद्धान्त एवायमिति भाव: । मृद्वीकेति। खतःसंभविवस्तुनालंकारध्वनिर्यथेत्यादिः । मृद्वीका द्राक्षा। सिता खण्डश्केरा। स्वर्यातेन स्र्ग प्रति गतेन। अपेः समुचेयमाह-रम्भेति।

१ इत्याद्यर्थवशेन उपस्थापितम्, अलसशिरोमणित्व-ूर्ताग्रणीत्वादिविशेषणश्रवणेन सह- कृतम्, यत्प्रफुल्लविलोचनत्वम् (अनुभावः), तेन मदुपभोग्योयमिति मदुपभोग्यत्वरूप- विभावाभिव्यक्तिद्वारा (मदुपंभोग्यत्वरूपं विभावमभिव्यज्य) ततः हर्षभावोऽभिव्यज्यते। २ अयं भाव :- अत्र चरमं हर्ष एवाभिव्यज्यते परंतु तदभिव्यक्तर्द्वारभूतं मदुपभोग्योय- मिति विचाररूपं हर्षभावस्य विभावम् अभिव्यज्य ततः सोऽभिव्यज्यते। ततश्च-हर्षाभिव्यक्ते द्वारभूतां मध्यगतां विभावाभिव्यक्तिमादाय काव्यप्रकाशेनोक्तं-'ममैवोपभोग्योयम् इति वस्तु अभिव्यज्यते', इति न कान्विदसंगतिरित्याशयः ।

Page 229

अर्थशक्ति-ध्वनिः ] रसगङ्गावर:। १६७

संघातात्म कास्मत्पव बोध्यकर्तकप्रश्नविषयेणार्थेन वस्तुना तथाभूतेन भगव-

सायरूपातिशयोक्तिव्यज्यते। अथ प्रश्नविषयस्यात्र नानाजन्मगतवृत्तान्त- रूपतया तज्ज्ञं प्रत्येव प्रषुमौचित्येनानभिज्ञं स्वजीवं प्रति प्रषुमयोग्यत्व्रा- त्प्रश्नान्यथानुपपत्त्या आक्षिप्ा, वाच्यसिद्ध्यङ्गत्वेन गुगाभूनव्यङ्गयरूपा वा, प्रागुक्तातिशयोक्तिरिह कर्थ ध्वनिव्यपदेशहेतुः स्थान् ? इत्थमेव च 'तद्प्राप्तिमहादुःख्र- इत्यत्राप्यतिशयोक्तेर्थापत्तिविपयत्वं गुणीभूत- च्यङ्गयत्वं वा युक्तम्। अनेकजन्मोपभोग्यदुःखसुखराशिभ्यां तद्प्रापि-

अनुपपत्तेः। तत्तहुःखसुखानां स्वस्वफलोपहितपापपुण्यनाशकताया एवान्यत्र कृमत्वान्। निगरणे तु तयोस्तन्नाशकतावुद्ुपपचिः । न च वस्तुमात्राभिव्यक्तस्यालंकारस्य न गुणीभूतव्यन्नयत्वम्।

भूयः पुनः। अयं सांप्रतमनुभूयमानः । निष्कृष्टेति। परिदृश्यमानतच्छरीरादिपृथ- कृतेत्यर्थः। तत्वं च तस्य भवता मदीयेत्याभ्यामाविष्कृतम्। अर्थेन मधुरिमोद्ारलक्षण- रूपेण तथाभूतेन स्वतःसंभविना। नान्न इत्यस्य तादात्म्याव्यवसायेत्यत्रान्वयः । अनेक- जन्मस्ववृत्तान्तप्रत्यक्षीकरणे कारणभूतो यो योगाभ्यासजन्यतिद्धिविशेव इत्यर्थः । अर्थापत्तर्मानान्तरलाभावादाह-वाच्येति। तदिति। 'तदप्रापिमहादुःखविलीनाशेय- पातका। तच्चिन्ताविपुलाह्वादक्षीणपुण्यचया तथा। चिन्तयन्ती जगत्सृतिं परत्रम्म- स्वरूपिणम्। निरुच्छ्वासतया मुक्ति गतान्या गोपकन्यका ॥' इति। जगत्सू्ति श्रीकृष्णम्। तत्संभोगाप्राह्या महादुःखम्। तच्चिन्तया विपुलाह्वादः । 'नास्य प्राणाः समुत्कामन्ति । अत्रैव समवलीयन्ते' इति श्रुतेर्मोक्षकाले निरुच्छ्ासता। चयशब्दार्थमाह-पुश्जेति। स्वस्वेति। तत्तहु:खमुखरूपफलजनकेत्यर्थः । तासामलकृतीनाम्। अत्र प्रकृतलक्ष्ये १ शरीरादितः पृथग्विभावितो यो जीवः स संबोध्यो यस्मिन्, परिदृश्यमानो यः स्थूल देहेन्द्रियादिचेतनाचेतनसंघातः तदात्मकः अस्मत्पदवोध्यः कर्ता यसििन्, एतादृशेन प्रश्ष- विषयेणार्थेन-"भगवन्नाम अनेकजन्मसंबन्धिस्ववृत्तान्तप्रत्यक्षीकरणस्य कारणभूतो यो योगसिद्धि- विशेष: तदात्मकमस्ति" अर्थात नाम्ना सिद्धिविशेषो भवतीति न, नाम स्वयमेव सिद्धिविशेष- रूपम् इति योगसिद्धिविशेषेण सह नाम्न: तादात्म्याध्यवसानरूपा अतिशयोक्तिर्व्यज्यते इत्याशयः । २ श्रोकद्यं विष्णुपुराणे पञ्चमांशे त्रयोदशेडध्याये (२१।२२) वर्तते. उदाहृतं च काव्य- प्रकाशे चतुर्थोल्लासे.

Page 230

१६८ काव्यमाला। [ द्वितीयानन-

'व्यज्यन्ते वस्तुमात्रेण यदालंकृतयस्तदा। ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात् ।।' इति सिद्धान्तादिति वाच्यम्। बाधे दढे सिद्धान्तमात्रेणात्र ध्वनित्वस्य स्थापयितुमशक्यत्वादिति चेत्। सत्यम्। यादशव्यङ्गयप्रतिपत्ति बिना यत्र वाच्यस्य सर्वथाप्यनुपपत्तिस्तत्र तद्वाच्यसिद्धयङ्गम्। यत्र च प्रकारान्तरेणापि तस्योपपत्ति: शक्या कर्तु न तत्र तथा। अन्यथा हि 'निःशेषच्युतचन्दनं स्तनतटम्' इत्यत्राधमत्वसिद्धयङ्गत्वाूतीरमणस्य वाच्यसिद्धयङ्गगुणीभूत- व्यन्कयत्वापत्तः । प्रकृते च भगवन्नान्नि योगसिद्धितादात्म्याध्यवसायरू पामतिशयोक्तिं विनापि भगवन्नामोच्चारणमाहात्म्यप्राप्तसार्वज्यबुद्धयाSपि प्रश्नोपपत्तेर्न गुणीभूतव्यञ्गयत्वम्। एतेनासंबन्धे संबन्धरूपातिशयोक्तिर्ना- मोच्चारणमाहात्म्यप्रभवसार्वज्ञ्याध्यवसायेSपि स्थितेति स दोषस्तद्वस्थ इति परास्तम्। भगवन्नामोच्चारणस्याचिन्त्माहात्म्यतायाः पुराणप्रसिद्ध- त्वात्। अथ वा मास्तु प्रागुक्तमुदाहरणं वस्तुनोऽलंकारव्यञ्जकतायाः, इदं तु भविष्यति

तथा च सिद्धान्तोऽन्यविषयक इति भावः । तथा वाच्यसिद्धङ्गम्। वाच्येति। वाच्य- सिध्धङ्गरूपं यदुणीभूतव्यङ्गयं तत्वापत्तेरित्यर्थः । यथा चात्र प्रकारान्तरेणाधमत्वसिद्धि- स्तथा स्पष्टमधस्तात। सार्वज्येति। सर्वज्ञतेत्यर्थः स्थितेतीति। सर्वज्ञल्वासंबन्धे तत्कल्पनादिति भावः। स दोषो गुणीभूतव्यङ्ग्यत्वापत्तिरूपदोषः। पुराणेत्युपलक्षणं श्रुत्यादेरपि। तथा च वस्तुतस्तत्सत्तैव, न कल्पनमिति न संबन्धातिशयोक्तिरिति भावः । अभ्युपेत्याप्याह-अथ वेति। अनुगमः संबन्धः। पाण्डभावः पाण्डुतम्। उपचीयते १ 'अथ प्रश्नविषयस्य' इत्यारभ्य, 'सत्यम्' इत्यतः प्राक् पूर्वपक्षस्यायं भाव :- अनेकजन्य- संबन्धिवृत्तान्तविषयकः सोयं प्रश्नः अनभिश्ञं जीवं प्रति कृतः । ततश्च अप्रमत्तकविकृतस्य प्रश्नस्यास्यान्यथानुपपत्तिरुपया अर्थापत्या (प्रमाणविशेषेण) पूर्वोक्ता साडतिशयोक्ति: (भग- वन्नाम्नो योगसिद्धितादात्म्याव्यवसानरूपा) आक्षिप्यते (यथा अनुपपद्यमानस्य पीनत्वस्योप- पत्त्यर्थ रात्रिभोजनम्) न त्वभिव्यज्यते। अर्थापत्तिमनङ्गीकुर्वतां मते तु-यावत्कालमतिशयोकतिरियं नोपतिष्ठते तावद्वाच्यस्यास्य प्रश्नविषयार्थस्य सिद्धिरेव न भवतीति सेयमतिशयोक्तिर्वाच्यसिद्धेरङ्गभूता। एवमेव 'तदप्राप्तिमहांदुःख' इत्यादिप्रकाशोदाहरणेपि अशेषपातकानां पुण्यचयस्य च क्षयस्तावत्कालं नोपपद्यते यावत्कालं तदप्राप्तिमहादुःस्वस्य अनेकजन्मोपभोग्यदुःखराशिना, तच्चिन्ताविपुलाह्वादस्य च अनेकजन्मोपभोग्यसुखसमूहेन च तादात्म्याध्यवसानं न भवेत, (सुखदुःखोपभोगेनैव पुण्यपापयोनाशनीयत्वात) ततश्च स्थलद्वयेऽपि गुणीभूतव्यङ्गयत्वात्कथं ध्वनित्वमिति शङ्का।

Page 231

अर्थशक्ति-ध्वनिः ] रसगङ्गाघर:। १६९

'न मनागपि राहुरोधशङ्का न कलङ्कानुगमो न पाण्डुभावः । उपचीयत एव कापि शोभा परितो भामिनि ते मुख़स्य नित्यम् ।'

'नदन्ति मददन्तिनः परिलसन्ति वाजित्रजाः पठन्ति विरुदावलीमहितमन्दिरे बन्दिनः । इदं तद्वधि प्रभो यद्वधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणद्ुतिः ।।' अत्र युगान्तदहनोपमया यदैव तव कोपोदयस्तदेव रिपूगां संपदो भस्म- साङ्गविष्यन्तीति वस्तु व्यञ्यमानं राजविषयकरतिभावेऽङ्गमपि वाच्यापे- क्षया सुन्दरत्वाङ्धनिव्यपद्ेशहेतुः। न च भस्मीकरणपटत्वरूपस्य साधारण- धर्मस्योपमानिष्पादकत्वाव्यन्ञयस्य वाच्यसिद्ध्यङ्गत्वं शङ््यम्। उपात्तशोणत्व- रूपसाधारणधर्मेणापि तन्निष्पत्तेः संभवात्। उपमेयीभूतशोणद्युतिगतस्य

वर्धते। नदन्तीति। खतःसंभव्यलंकारेण वस्तुनो यथेत्यादिः । मदशब्दे अशआ- दच्। बिरुदावलीं स्तुतिपरम्पराम्। अहितमन्दिरे शत्रुगृहे। तदवधि तावत्पर्यन्तम्। एवमग्रेऽपि। उपमयेति । वाच्ययेति शेपः । व्यङ्गयस्येति। तच्छरीरनिविष्टत्ादिति भावः । तन्निष्पत्तरुपमानिष्पत्तेः। विनिगमनाविरहेऽप्याह-उपमेयीभूतेति । भगवन्नाममाहात्यात्सर्वशताप्राध्याऽपि मोयं प्रश्न उपपद्ते, इति व्यङ्ञप्रतीति विनापि वाच्यस्योपपद्यमानतया न वाच्यसिद्धङ्गमियमतिशयोक्तिरिति तत्समाधानम्। १ प्राचामनुसारमिदमुक्तं पण्डितराजेन। अन्यथा स्वक्कतध्वनिलक्षणे तु 'गुणीभाविता- त्मानौ' इति विशेषणेन अपराङ्व्यङ्गयस्य स्फुटमेव निरासः । प्रोत्तनेदं 'कृष्णपक्षाधिकरुन्तिः' इति शब्दशक्तिमूलालङ्कारध्वनेरुदाहरणे। २ रिपुसंपदो भस्मसाद्भविष्यन्तीति व्यङ्ग्यतया प्रोक्तं यद्दस्मीकरणपदत्वं तदेवोपमां निष्पा- दयतीति शङ्का। अत्र भस्मीकरणपटत्वं साधारणधर्मतया न विवक्षित किन्तु-यथा नयनको- णद्युतिः शोणा तथा युगान्तदहनोपि शोण इति शोणत्वस्यैव धर्मता विवक्षितेति समाधानम्। ३ ननु भस्मीकरणपटत्वमपि तु साधारणधर्मः संभवति, तदा ध्वनित्वं कथमित्याह-अत्र 'यदैव तव कोपोदयस्तदैव रिपुसंपदो भस्मसान्भ्विष्यन्ति' इति व्यङ्यशरीरे भस्ीकरणपट्टत्वं यथा वाच्याया नयनकोणद्युतेर्धर्मस्तथा व्यङ्गयस्य कोपस्यापि। ततश्च वाच्यनयनकोणदयुतिगतं भस्सीकरणपद्टत्वमेव साधारणधर्म सत् वाच्यासुपमां निष्पादयेत, उपमेयेन (नयनकोणद्युत्या) अभिव्यङ्गयस्य कोपस्य संबन्धि भस्मीकरणपडत्वं तुन। यतो हयुपमा वाच्या, अत एव वाच्या- वस्थायां यः साधारणधर्मः स एव तां निष्पादयेत्। व्यङ्गयवाच्ययोरेककालत्वाभावात् व्यङ्गयगतः साधारणधर्मों न तां संपादयितुमहेदित्याशयः । १५ रस०

Page 232

१७० काव्यमाला। [ द्वितीयानने-

पगतभस्नीकरणपदत्व स्यातथात्वाच्। यथा वा 'निर्भिदं क्मारहाणामतिघनमुदरं येषु गोत्रां गतेषु द्राघिष्ठस्वर्णदण्डभ्रमभृतमनसो हन्त धित्सन्ति पादान्। यैः संभिन्ने दलाग्रप्रचलहिमकणे दाडिमीवीजबुड्ध्या चञ्रूचाञ्ल्यमञ्च्न्ति च शुकशिशवस्तेंSशवः पान्तु भानो: ॥' अत्र भ्रान्तिभृतां तिरश्चामप्येवमानन्दं जनयतीति जगदानन्दहेतुर्भ- गवानिति व्यज्यते। एवंरूपाया भ्रान्तेलोंकेऽपि संभवात्स्वतःसंभवित्वम्।

उपमाया वाच्यलेन तदवस्थायां यदुपमेयं तद्गतधर्मस्यैव तन्निष्पादकल्वम्, न तूपमेयभू- तोपमाव्यक्कय रूपकोपगतस्य तद्धर्मस्य। तदा तस्यानुपस्थितेः । तथा च यस्य तन्निष्पाद- कतं न तस्य व्यङ्ञ्यलम्, यस्य तत्वं न तस्य तत्वम्। सोऽनुपात्त इत्यन्यद्। अस्योदाहर- ान्तरमाह-यथा वेति। ते रविकिरणा युष्मान्पान्तु। ते के। येखु तरूणामतिनिवि- डमन्तःप्रदेश विदार्य भूमिं गतेष्वतिदीर्घसुवर्णदण्डसंबन्धित्रमेण भृतं पोषितं मनो येषां ते जनाः । हन्तेत्याश्चर्यम्। पादान्किरणान्धित्सन्ति धर्तुमिच्छन्ति। किं च शुकबा- लका यैः संभिन्ने मिश्रिते तरुपत्राग्रनिष्ठचश्चलहिमकणे या दाडिमीबीजस्य वुद्धिस्तया चश्वा चाश्चल्यं ग्रहणार्थ व्यापारमश्चन्ति । कुर्वन्तीत्यर्थः । अत्र भ्रान्तिमानलकारः । १ क्ष्मारुहाणाम् (वृक्षाणाम्) अतिगहनमुदरम् (मध्यम्) निर्भिंद्य गोत्राम् (पृथ्वीम्) गतेषु येषु (किरणेषु) अतिदीर्घ-स्वर्णदण्डभ्रमेण संभृतमानसाः (शुकशिशवः) पादान् स्वच- रणान् धातुमिच्छन्ति । अतिनिबिडवृक्षरन्ध्रं प्रविश्य भूमौ गतान् यान् (किरणान्) तिर्यक्त्र- सृतान् अतिदीर्घान् स्वर्णदण्डान् आ्रन्त्ा तिर्यक्प्रसतशाखासु स्थित्यभ्यासिनः पक्षिणोऽवस्था- नार्थ पादान् धातुमिच्छन्तीत्यर्थः। यैः (किरणैः) संभिन्ने (अत एव अरुणवर्णे) पत्राग्रस्थि- तनीहारकणे च दाडिमीनीजबुच्या स्वचश्चूचाञ्चल्यं (अहणाय) कुर्वन्ति, ते भानोः किरणाः पान्तु। २ अत्र गुणविवेकिनां मनुष्याणां का कथा, भ्रान्तिमतां तिरश्चामप्येवमानन्दं भानुमान् जनयतीत्युक्तौ 'अपि' पदस्वारस्यात, 'अञ्नन्ति च' इति 'च' पदोक्तया, 'शुकशिशवः' इति शिशुपदेन भ्रान्तिपात्रतासंघटनौच्चित्येन च, तिरश्चामेवाSSनन्दः स्पष्टमुपनिबद्धः कविना। साहित्यमार्मिको नागेशमहोदयस्तु वृक्षनिर्गतरविकरेषु स्वर्णदण्डभ्रमं जनानामेवाह। ते (जनाः) च पादान् (किरणान्) वित्सन्ति धर्तुमिच्छन्ति? इति व्याचष्टे। 'धा' धातोर्ग्रहणे न ककन्वित्प्रयोग इति चिन्त्य मवायमर्थः । 'किरणान्' इति यदि सुद्रणदोषः स्यात्। किन्तु ते जनाः

Page 233

अर्थशक्ति-ध्वनिः ] रसगङ्गाघर:।

'उदितं मण्डलमिन्दो रुदितं सदो वियोगिवर्गेण। मुदितं च सकललैलनाचूडामणिशासनेन मदनेन ।I' अत्र समुच्येन क्रियायोगपद्यात्मना कार्यकारणपावीपर्यविपर्ययात्मि- कातिशयोक्ति: । एषु स्वतःसंभवी व्यञ्जक: । 'तद्वधि कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकः । यद्वधि न पदं दधाति चित्त हरिणकिशोरदृशो हशोर्विलासः।।" अत्र कामिनीदग्विलासे चेतसि पदमर्पितवति विवेकस्य नास्ति कुशल-

निष्पन्नत्वेन सुनिपण्णे तस्मिन्का कुशलचर्चा विवेकस्यति वस्तु व्यज्यते। 'कस्मे हन्त फलाय सजन गुणग्रामार्जने सजसि स्वात्मोपत्करणाय चेन्मम वचः पथ्यं समाकर्णय। ये भावा हृदयं हरन्ति नितरां शोभाभरैः संभृता- स्तैरेवास्य कले: कलेवरपुपो दैनंदिनं वर्तनम्॥' इह यद्यपि रमणीयाः पदार्थाः कलेर्नित्यमदनीया इति वस्तुना प्रौढो-

तद् व्यङ्गयमाह-अत्रेति। अपिना अतिरथ्वाम्। उदितमिति। तादृशालंकारेणालं कारस्य यथेत्यादिः । तदवधीति। कविप्रौढोक्िनिष्पन्नवस्तुना वस्तुनो यथेलादि: ॥ तदवधि तावत्पर्यन्तम्। एवमग्रेऽपि। निष्पन्नेन वस्तुनेलन्वयः । व्यज्ञयमाह-सुनीति। दृग्विलासे सुस्थित इत्यर्थः । अस्ोदाहरणाभासं खण्डयति-कस्मा इति। उपस्कर- णाय भूषणाय। भावाः पदार्थाः। वर्तनं वृत्तिः। जीवनमिति यावत्। उत्तरार्धार्थमाह- रमेति। अदनीया भक्षणीयाः ।अस्य नियमेन लोकसिद्धलवाभावादाह-प्रो स्वर्णदण्डेपु तेषु पादान् चरणान् स्थापयितुमिच्छन्तीति नागेशस्याशयस्तदा मार्गे गच्छतां पुरु- षाणामकाण्ड एव स्वर्णदण्डभ्रान्तिः, ततोऽपि मार्गगमनं परित्यज्य तदुपरि पादप्रक्षेपः कीलोत्पा- टितामेव तेषां पिशुनयतीति कि वा वक्तव्यं विचारशीलेषु? शावका इत्यादिप्रयोक्तव्ये 'शुकना- लकाः' इत्यादिप्रयोगोपि व्याकरणफक्किकाभ्यासिनोऽस्य साहित्याक्रमणपराक्रमं प्रकाशयतीत्यलम्। १ 'ल' कारस्य असकृत्स्वानन्तर्यमश्रव्यं स्वयमुपनिबद्धं कविना। इदं हि श्रवणे यथा विस- दृशं तथा उच्चारणेडपि क्वेशावहम्। अपि ललनापद्रनिधानेनैव तु नेदं हृदयहारि स्यात्?

Page 234

१७२ काव्यमाला। [द्वितीयानने-

क्तिसिद्धेन मतुं कामयसे चेहुणप्राप्तौ यतस्वेति वस्तु व्यज्यते, तथापि तस्य पर्यायोक्तात्मनो वाच्यापेक्षया सुन्दरताविरहाद्गुणीभूतत्वमेव। अलं- कारा हि वाच्यसौन्दर्यसाराः प्रायशः स्वान्तर्गत प्रतीयमानं पृष्ठतः कुर्वन्ति। 'देवो: के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता- देवं जल्पन्ति तावत्प्रतिभटपृतनावर्तिनः क्षत्रवीराः । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते

अत्र कविप्रौढोक्तिसिद्वेन रूपकेण त्वय्युद्यतकरवाले सति का परेषां जीवनस्याशेति वस्तु व्यज्यते।

'साहंकारसुरासुरावलिकराकृष्टभ्रमन्मन्दर- क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वकषाः । तृष्णाताम्यद्मन्दतापसकुलैः सानन्दमालोकिता भूमीभूषण भूषयन्ति भुवनाभोगं भवत्कीर्तयः॥।' अत्र कीर्ते: सानन्दालोकनेन वस्तुना कविकल्पितेन दुग्धभ्रान्तिस्ताप-

कीति। कवीत्यादिः । गुणेति । सज्नेत्यादिः । तस्य व्यङ्ञयभूतवस्तुनः । पर्या- योक्तेति। 'पर्यायोक्तं तु गम्यस्य वचो भङ्ग्यन्तराश्रयम् ।' इत्युक्तेति भावः । हि यतः। देवा इति। कविप्रौढोक्तिनिष्पन्नालंकारेण वस्तुनो यथेत्यादिः । के इवि मध्यमणिन्यायेनान्वेति। पूर्वदेवा असुराः । समिति सङ्गामे। मम पुरस्तादित्यन्वयः । नर इति जसन्तम्। मुग्धेति। मुग्धरूपशत्रुतंबन्धिप्राणरूपदुग्धभोजनकृतत्िनिग्धका न्तिरित्यर्थः । रूपकेण खङ्गसर्परूपकेण। साहंकारेति । कविप्रौढोक्तिनिष्पन्नवस्तुना अलंकारस्य यथेत्यादिः । व्याख्यातमिदमधस्तात्। अविवेकोऽभेदः । इदं च व्यज्ञयत्व-

१ मरणोत्तरं हृदयहारि-सोभाभरेषु भावेषु यदि ते गणना कामनीया ताहें गुणप्राप्तौ यत- स्वेति व्यञ्ञमेव भञ्गयन्तरेण अभिधया प्रोक्तमिति पर्यायोक्तालंकारतया परिणतस्य व्यङ्गयस्यास्या पेक्षया वाच्यस्यैवाधिकचमत्कारत्वादलंकारत्वेनैव (गुणीभूतव्यङ्गयत्वेन) व्यपदेश इत्याशयः । २ समिति मम पुरस्तादेवाः के, पूर्वदेवाः के, नरो वा के सन्तीत्यन्वयः ।

Page 235

अर्थशक्ति-ध्वनिः ] रसगङ्गावर: । १३२

सगता व्यज्यते। न च सानन्दालोकनस्वैव चाक्षुपभ्रान्तिरूपतया व्यनय- व्यञ्जकयोरविवेको व्यद्वयत्वानुपपत्तिश्चेति वाच्यम् । वस्तुन एकत्वेऽपि कीर्तिरूप विशेष्यावृत्तिदुग्धत्वप्रकारकत्वात्मकभ्रान्तित्वेन सानन्दावलोक- नत्वेन च व्यङ्ञ्यव्यञ्जकविवेकस्व व्यङ्ञयतावच्छेदकरूपेण वाच्यताया अभावाव्यङ्ञ्यत्वस्य चोपपत्तेः । तथा चाहुः-'यद्देवोच्यते तदेव व्यङ्ग्यम्। यथा तु व्यङ्ञ्यं न तथोच्यते' इति। 'दयिते रदनत्विपां मिषादयि तेडमी विलसन्ति केसराः । अपि चालकवेपधारिणो मकरन्दस्पृहयालवोऽलयः ।।' अत्र पूर्वोत्तराधवर्तिनीभ्यामपह्नुतिभ्यां न त्वं नारी किं तु नलिनीति तृतीयापह्नुतिव्येज्यते। एपु प्रौढोक्तिनिष्पन्नो व्यञ्जकः । यद्यपि शब्दशक्तिमूलकत्वमर्थशक्तिमूलकत्वं चेत्युभयमपि सकलव्यङ्गय- साधारणम्, शब्दार्थयोरतुसंधानं विना व्यङ्ग्यस्यैवानुद्वासान्, तथापि परि-

मभ्युपेत्य वस्तुनस्तदेव नेलाह-व्यङ्गयत्वेति। वाच्यलात्तस्येति भावः । कीतीति। यथासंख्यमन्वयः । उपपत्तेरिति। 'शयिता सविधे-' इत्यन्न । 'व्यञ्ञतावच्छेदके- च्छालरूपजातिरूप' इति पाठः। तेन रूपेणैव मनोरथपदेन बोधनान्न पूर्वग्रन्थविरोधः । मनोरथलेच्छालयोघेटलकलशलवदेकलान्। इह तु आ्रान्तितसानन्दावलोकनलयो- र्र्याप्यव्यापकभावेन भेदादिति बोध्यम्। यथा तु येन रपेण। एवमप्रेऽपि। दयितेति। कविप्रौढोक्तिनिष्पन्नालंकारेणालंकारस्य यथेल्यादिः। पूर्वोत्तरेति। लोकसिद्धलाभावेन कविप्रौढोक्तिनिष्पन्नाभ्यामित्यादिः। अनुसंधानं ज्ञानम्। तत्प्रयुक्तात्तदसहिष्णुशब्दप्रा-

१ प्रघट्टकस्यास्यायं सारः-अमूर्तायाः कीतेः सानन्दालोकनमेव भ्रान्तिः। ततश्च यथा व्यक्चया आान्तिः, एवं व्यञ्जिका (अर्थाद् वाच्यानि) जातैव। तथा च व्यङ्ञव्यज्जकयोरभेदः स्फुटमेव प्रसक्तः (प्रथमशङ्का)। किव्च या आ्रन्तिर्वाच्या सा व्यड्चया कथं स्यात्? इति व्यञ्ञ्यत्वानुप- पत्तिः (द्वितीयशङ्का)। व्यङ्चया हि भ्रान्ति :- कीर्तिरूपे विशेष्ये अवृत्ति (अवर्तमानम्) यद् दुग्धत्वप्रकारकत्वम् तदात्मिका, अर्थात कीर्तों (कीर्ति दृष्टा) इदं दुग्धमित्याकारिका। व्यज्जिका (अर्थात् वाच्या) तु सानन्दावलोकनात्मिका। अतो द्वयोरभेंदः (प्र. शं. समाधानम्) । आ्रन्तिर्वाच्या इत्यपि न। यथा व्यङ्गयं तथा (सा) नोच्यते। अर्थात् व्यङ्यतावच्छेदकरूपेण (कीर्तिरूपविशेष्याSवृत्तिदुग्धत्वप्रकारकत्वात्मकभ्नान्तित्वेन) सा नोच्यते, अपि तु सानन्दा- वलोकनभ्रान्तित्वेन। (द्वि. शं. समाधानम्)।

Page 236

१७४ काव्यमाला। [ द्वितीयानने-

वृत्त्यसहिष्णूर्ना शब्दानां प्राचुर्ये तत्प्रयुक्तात्प्राधान्यात्सत्या अप्यर्थशक्तेरप्रा- वान्याच व्यङ्यस्य शब्दशक्तिमूलकत्वेनैव व्यपदेशः। परिवृत्तिसहिष्णूनां तु प्राचुर्येऽर्थशक्तेरेव प्राधान्यात्सत्या अपि शब्दशक्ते: प्रधानानुगुण्यार्थतया कङ्मानादिवत्प्रधानेनैव व्यपदेशः। यत्र तु काव्ये परिवृत्तिं सहमानानाम- सहमानानां च शव्दानां नैकजातीयप्राचुर्यम्, अपि तु साम्यमेव, तत्र श्दार्थोभयशक्तिमूलकस्य व्यङ्ग्यस्य स्थितिरिति द्वयुत्थो ध्वनिः। न चायं शव्दशक्तिमूलकतयैवार्थशक्तिमूलकतयैव वा व्यपदे्ुं शक्यः, विनिगमका- भावात्। नापि शब्दशक्तिमूलकार्थशक्तिमूलकयोः संकरेण गतार्थयितुम्, एव संकरस्येष्टेः । इह तु व्यङ्गयस्यैक्येन तस्यानुत्थानात्। उदाहरणम्- 'रम्यहासा रसोल्लासा रसिकालिनिषेविता। सर्वोङ्गशोभासंभारा पझ्मिनी कस्य न प्रिया।' अयं च वाक्यमात्रे। पद्समूदश्च वाक्यम्। तेनास्य नानार्थानानार्थ- घटितसमासविषयत्वेऽपि न विरोधः। न तु शुद्धैकपदे, तस्मिन्नानार्थानाना-

चुर्यप्रयुक्तात्। प्रधानेति। तदुपकारकतयेत्यर्थः। चशब्दानामिति। निर्धारणे षष्ठी। अयं ह्ुत्थो ध्वनिः । एवमग्रेऽपि। विनिगमनाविरहादाह-अर्थेति । गतार्थयितुमिति शक्योऽयमित्यस्यानुषङ्गः । उदेति। दुत्थध्वनेरित्यादिः। अत्र हासरसालिपद्मिनीशब्दा- स्तदसहाः, अन्ये तत्सहा इति साम्यम्। तेन पदसमूहरूपवाक्यनिष्ठलवेन । अस्य ह्ुत्थ- ध्वनेः । न विरोध इति । तस्याप्यवान्तरपदतमादाय पदसमूहत्ादिति भावः । मात्रपदव्यावर्त्यमाह-न त्विति। सामान्यशून्यत्मिति। सामान्याभाव इत्यर्थः । तथा

१ प्रधानानुगुण्येन अर्थो यस्याः तत्तया। प्रधानानुगुणः (प्रधानानुकूल:) अ्थों यस्या इति यावत्। प्रधानानुसारमर्थस्य व्यवस्थेत्याशयः, यथा मलग्ाम इत्यत्र। अन्येषु लोकेषु सत्स्वपि मल्ानां तत्र प्राधान्यात्तथा नामेत्याशयः । २ शब्दशक्तिमूलकार्थशक्तिमूलकयो: संकर एव कुतो नाङ्गीकृतः, उभयशकत्युत्थ इति पृथग्भेदः किमित्यङ्गीकृत इति शङ्का। व्यञयभेदे सत्येव संकरस्य इष्टत्वात्। अर्थाद् उभयश- कत्युत्यें दयोः शचयोः भिन्नौ मिन्नौ व्यड्यौ यदा अभिव्यक्तौ स्यातां तदैव संकरत्वं संभवेत्। अकृते तु-उभयशक्तिमूलके शक्तिद्वयसमुत्थः एक एव व्यक्कयो भवतीति न संकरस्योत्थानमिति समाधानम्।

Page 237

अर्थशक्ति-व्वनिः ] रसगङ्गाघरः

र्थयोरससावेशान्। अन्ये तु-'अर्थशक्तिूर्लकत्वव्य नदेये नानार्थप्रकाश-

मूलकत्वव्यपदेशे नु नार्थशकत्युल्ास्यत्वसामान्यसून्यत्वं तथा, विपयदौल- भ्यापत्तः। नहि नानार्थशच्द्मात्रघटिनं पद्य प्रचुरविषयम्। अवः शच्द- शक्तिमूलकत्वेनेवायं अक्यव्यपदेशो ध्वनिः' इसप्याहुः । इ्थमभिधा- मूलस्तिविवोऽपि संक्षेपेण निरूपितो ध्वनिः । निरूपयिष्यते चांशतो यथावसरम्। लक्षणानूलस्तु निरूप्यते- तत्र वक्ष्यमाणलक्षणायां लक्षणायां प्रयोजनवत्याः पड्डिवायाः सारो- पसाध्यवसानाभ्यां गौणीशुद्धाभ्यां च विभक्तानां भेदानां चतुर्णामलंकारा- त्मना परिणतत्वाह्ौ भेदौ ध्वन्याश्रयतया स्थितौ, जहत्सार्था अजहत्सार्थी चेति। तन्मूलौ च द्वौ ध्वनेः प्रभेदौ। तयोर्जहत्स्ार्थीमूलो यथा- 'कृतं त्वयोन्नतं कृत्यमर्जितं चामलं यशः । यावजीवं सखे तुभ्यं दास्यामो विपुलाशिष: ।।' तन्त्रम्। कारणमिति तदर्थः । अत इति। तथा वक्तुनशक्यत्वेन। तद्िन्नल एव तत्त्वस्यावश्यवक्तव्यतादित्यर्थः । अयं नुत्थो ध्वनिः । उक्तरीत्या भेदसंभव एवात्रारुचिः। उपसंहरति-इत्थमिति। तत्र निरपणीये तस्मिन्। वक्ष्यमाणेति। वक्ष्यमाणं लक्षणं यस्यास्तस्यामित्यर्थः । सत्यामिति शेषः । अलंकारात्मनेति। रूपकतिशयोक्ति- हेतलंकारात्मनेत्यर्थः । जहत्स्वार्था अजहन्सार्था चेति। अनयोरेवोपादानलक्षण- लक्षणेति व्यवहारः । कथं कीदृशम्। अ्रोभ्नतादिपदानां स्ार्थतयानेनाघमादो लक्षणा । १ यत्र व्यङ्गयोपस्थापका नानार्थशब्दा: स्वथा न भवेयुस्तत्रेव अर्थशक्तिमूलकध्वनिव्यवहा- रस्तथा च अर्थशक्तिमूलकध्वनित्वव्यवहारे नानार्थकशव्इशत्तयुल्लास्यत्वाभावः कारणन्। लभ्ये- रन्नीदृशानि बहूनि अर्थशक्तिकाव्यानि यत्र नानार्थशब्दप्रयोगो न स्यात्। शब्दशक्तिनूलकत्व- व्यवहारे तु अर्थशत्तयुलास्यत्वाभावः कारणं न। 'अर्थात्तत्रेव शब्दशक्तिध्वनिव्यवहारो भवेदसििन् काव्ये सर्वाणि पदानि नानार्थोंपस्थापकान्येव स्युः, किञ्विदपि पदमेकार्थकं न स्यादि'ति न शक्यते वक्तुम्-ध्वन्युपस्थापककेवलनानार्थशब्दघटितानि काव्यानि अतिविरलानि स्युरिति। तथा च शब्दशक्तिमूलकध्वनिकाव्ये नानार्थकशब्देतरे अपि शब्दा भवन्तीति सिद्धन्, एवं च रम्यहासा रसोल्ासेत्यादि द्वयुत्थध्वनिकाव्यं शब्दशक्तिमूलकत्वेनैव व्यपदेष्टुं शक्यम्, न पृथगिति अन्येषां मतम्। २ अर्थात् गौणी सारोपा गौणी साध्यवसाना, शुद्धा सारोपा शुद्धा साध्यवसाना इति व्यपदेश्यानाम्। ३ गौणी सारोपा रूपकत्वेन, गौणी साध्यवसाना अतिशयोक्तित्वेन, शुद्धाभेदौ तु हेत्वलङ्कारत्वेन परिणता भवन्तीत्यर्थः। ४ कथं शक्यते वक्तुमित्यस्य कीदृशं शक्यते वक्तुमिति व्याख्या विचित्रैव। धन्यो नागेशः ।

Page 238

१७६ काव्यमाला। [ द्वितीयानने-

इयं कस्यचिद्पकारिणं प्रत्युक्तिः। त्वया कृतेऽप्यपकारे परमखेदहेतौ मधुरमेव यो भापेय, न परुपं तस्मिन्नेवंजातीयके मयि पापमाचरतस्तव पापिष्वत्वं कर्थ शक्यते वक्तुमिति व्यङ्ग्यम्। अपरामूलो यथा- 'वधान द्रागेव द्रढिमरमणीयं परिकर किरीटे बालेन्दुं नियमय पुनः पन्नगगणैः। न कुर्यारत्वं हेलामितरजनसाधारणधिया जगन्नाथस्यायं सुरधुनि समुद्धारसमयः ।' अत्र जगन्नाथस्येत्यनेन शक्य एवानेकपापविशिष्टत्वेन लक्ष्यते। पापानां पदान्तरेणानिर्वाच्यत्वं व्यङ्गयम्। कुन्ताः प्रविशन्तीत्यादौ तु वाच्य- गततैक्ष्ण्यादिलक््म। तदेवमेते ुक्ता द्वयुत्थातिरिक्ताः सर्वेपि व्वनय एकस्मिन्वाच्ये यद्येकपद्मात्रगतास्तदा पद्ध्वनितया व्यपदिश्यन्ते। नाना- पद्गततायां तु वाक्यध्वनितयेति। अथ केयमभिधा नाम यन्मूलः प्रथमं निरूपितोडयं ध्वनिप्रपञ्नः । उच्यते- शक्त्याख्योऽर्थस्य शब्दगतः, शब्दस्यार्थगतो वा संबन्धवि- शेषोऽभिधा।। सा च पदार्थान्तरमिति केचित्। 'अस्माच्छन्दाद्यमर्थोऽवगन्तव्य-

अपरेति। अजहत्सार्थेत्यर्थः । द्रढिमेति तृतीयातत्पुरुषः । नियमय बधान। शक्य एवेति। जगन्नाथत्वेनेति शेषः । अनेनाजहृत्सार्थतं प्रकटितम्। पदान्तरेण जगन्नाथ- पदातिरिक्तेन। तैक्ष्ण्यादिलक्ष्यमिति । वाच्यार्थगतं यत्तैक्ष्ण्यादि तल्लक्ष्यवृत्तितया व्यञ्कयमित्यर्थः । उपसंहरति-तदेवमिति। विनिगमनाविरहादाह-शब्द- १ जगन्नाथत्वेन शक्यः अभिधेयः (जगन्नाथः) एव अनेकपापविशिष्टत्वेन लक्ष्यते। अर्थात् जगन्नाथपदस्य अनेकपापविशिष्टेsयें लक्षणा। अनेन जगन्नाथपदस्य अनेकपापविशिष्ट- जगन्नाथे लक्षणेति स्वार्थापरित्यागः सूच्चितः । ईदृशोयं पापी अस्ति यत्पदान्तरेण न वकुं शक्य:, अतिशयपापित्वं व्यञ्ञयमित्याशयः । २ कुन्ताः प्रविशन्तीति अजहत्स्वार्थायां तु कुन्तपदेन कुन्तवन्तः परामृश्यन्ते, ततश्च स्पष्ट एव स्वार्थाऽपरित्यागः । वाच्यार्थः कुन्तः तद्गतं यव तैक्ष्ण्यादि, तत् लक्ष्यं यस्य ईदशं व्यड्यम्। अर्थात् वाच्यार्थगतं तैक्षण्यं लक्ष्ये (कुन्तवति) व्यङ्कयत्वेन प्रतीयते, बधानेत्युदाहरणे तु वाच्य(जगन्नाथ)गतत्वेन व्यङ्गयस्य. (पापानि पदान्तरेणाSनिर्वाच्यानि इत्यस्य) न प्रतीतिरिति भेदः । ३ अर्थ शब्देन, शब्दमर्थेन च संबश्न् (शृङ्गलाविशेष:) अभिघेति यावत्।

Page 239

उभयशक्ति-ध्वनिः ] रसगङ्गाघर: । १७७

इत्याकारेश्वरेच्छेवाभिधा। तसाध्र विषयतया सर्वत्र सत्त्वात्पटादीनामपि घटादिपदवाच्यता स्यात्। अतो व्यक्तिविशोपोपधानेन घटादिपदाभिधातवं वाच्यम्' इन्यपरे । 'एवमपीश्वरज्ञानोदिना विनिगमनाविरहः स्ान्, अतः प्रथममतमेव ज्यायः' इत्यपि वदन्ति। यनु वृत्तिवार्तिके-'शक्ता प्रतिपादकत्वमभिधा' इत्यप्पयदीक्षितैरुक्तं तत्तुच्छम्, उनपत्तिविरोधात्। तथाहि-इह शब्दाजायमानायामर्थोपस्थितौ कारणीभूतं यदीयज्ञानं सा शव्दवृत्तिरभिधाख्या लक्ष्यतया प्रस्तुता। ग्रतिपाद्कत्वस्य च प्रतिपत्ति- हेतुत्वरूपस्य शव्दृगतस्य न ज्ञानं प्रतिपत्ती कारणम्। अतः कथं नाम प्रतिपादकत्वमभिधेत्युच्यते ? अथ प्रतिपाद्कत्वं प्रतिपत्त्यनुकूत्व्यापार- रूपं ज्ञातं सदेवोपयुज्यते प्रतिपत्तावित्युच्येत, एवमपि शक्तेत्नेन शब्दगतार्थगता वा काचिच्छक्ति: प्रतिपत्तिहेतुतया विवक्षिता, सेवाभिधेति 'अभिधया प्रतिपाद्कत्वमभिधा' इति लक्षणं पर्यवसन्नम्। तथा च स्फुटैवासंगतिरात्माश्रयञ्च। न चाभिधातः शक्तिरतिरिक्ता शब्दजन्य- अतिपत्तिप्रयोजिका काचिदस्तीत्यन्र प्रमाणमस्ति ।

स्येति। केचित्, वैयाकरणनीमांसकादयः । अपरे, नैयायिकाः । एवमपि उक्तरी त्यातिप्रसङ्गवारणेऽपि। विवक्षितेति। शक्तेति। तृतीयाश्रुतेरिति भावः। खज्ञाने खज्ञानापेक्षत्वेनात्माश्रयस्य स्पष्टतादसंगतिमुपपादयति-न चेति । नहीलर्थः । प्रमाणमस्तीति। प्रकृत्यादिलाद्वान्येन धनवानित्यादिवतृतीयाया अनेदार्थकत्वेन न १ ईश्वरेच्छा विषयतासंबन्धेन यथा घटे तथा पटेपि वर्ननाना। अर्थनोधिकायात्तस्याः सर्वत्र समानं वर्तमानतया वटपदबोधसमये पटार्थप्रतीतिरपि स्यात्। अतो व्यक्तिविशेषसुपाधि- रूपेण संबध्य-घटोपहिता घटपदाभिधा, पटोपहिता पटाभिधेति नैयायिकानां समयः। २ ननु ईश्वरश्ञानमेव अभिधारूपेण कुतो न स्वीकार्यमित्यन्ये शक्ुयुर्वक्तुम्। ततश्च नानाविधानामभिधास्वरूपाणां मध्ये अन्वातमनिर्धारणे न किञ्चित्प्रमाणमिति वैयाकरणादीनामेव मतं सम्यगित्यर्थः । ३ काशीपुस्तके तु इदं वाक्यमेव सर्वं नावलोक्यते। ४ उपरिप्रोक्तस्य खण्डनप्रघट्टकस्यायं सार :- लक्षणे प्रोक्तं प्रतिपादकत्वं प्रतिपत्तेः (्ानस्य) हेतुत्वमिति निरुच्येत। तन्व अभिधायकशब्दगतं स्यात्। पतच्छव्दनिष्ठं प्रतिपादकत्वमस्तीत्ये- तज्ज्ञानमात्रेण किं प्रतिपत्तिः (ज्ञानम्) भवेत्? ततः कथ प्रतिपादकत्वमभिधेति लक्षणम्? यदि तु प्रतिपादकत्वस्यार्थः प्रतिपत्त्यनुकूल: (येन बोधो भवेत तादृशः) व्यापार इति। स च व्यापारो ज्ञात एव अभिधेयार्थबोधे उपयुक्तः स्यादित्युच्येत [ज्ञातैवाभिधा कारणमिति

Page 240

१७८ काव्यमाला। [द्वितीयानने-

सेयमभिधा त्रिविधा-केवलसमुदायशक्ति:, केवलावयवशक्ति:, समुदायावयवशचतिलंकरश्र्ेति। आद्याया डित्थादिरुदाहरणम्, तन्रावयव- शक्तरभावाद्। द्वितीयायास्तु पाचकपाठकादिः, तत्र धातुप्रत्ययशक्ति-

समुदायशक्तेरभावात्। तृतीयायाः पङ्कजादिः। इह धातूपेपद्प्रत्ययरू- पावयवशक्तिवेद्यानां पङ्कजननकर्तृणामाकाड्कादिवशादन्वये प्रकाशमाना- त्पङ्कजनिकर्तृरूपादर्थादतिरिक्तस्य पद्मत्वविशिष्टस्य प्रत्ययेन तदर्थ समुदाय- शक्तेरपि कल्पनादुभयो: संकरः। एता एव विधा रूढि-योग-योगरूढि- शब्दैर्व्यपदिश्यन्ते। यन्तु 'अखण्डशक्तिमात्रेणैकार्थप्रतिपाद्कत्वं रूढिः। अवयवशक्तिमात्रसापेक्षं पदस्यैकार्थप्रतिपादकत्वं योगः । उभयशक्ति सापेक्षमेकार्थप्रतिपादकत्वं योगरूढिः ।' इति वृत्तिवार्तिकेSप्पयदीक्षितै- रुक्तम्, तन्न। अभिधालक्षणोक्तदूर्षेणानामिहापि दुर्वारत्वात्।

कश्चिद्ेष इति चिन्तयमेतेतसर्वम्। निरूपिताभिधां विभजते-सेयमिति। धातुप्रेति पङ्कादिभियेथासंख्येनान्त्रयः । उभयोः समुदायावयवशत्तयोः । विधाः प्रकाराः। दूषणानां तात्पर्यम्]। ततोऽपि 'शत्तया प्रतिपादकत्वम्' इति कथनं नोपपद्ेत। शक्तिहिं अभिधाख्यैव। ततश्च 'अभिधया प्रतिपादकत्वमभिधा' इति लक्षणं स्वज्ञाने स्वज्ञानापेक्षतया आत्माश्रयदोष- दुष्टम्। अभिधातोऽन्या शक्ति: काच्चित्प्रमाणसिद्धैव नेति लक्षणे असंगतिरपि स्फुटैव। १ पचूधातुः, ध्वुलप्रत्ययः अनयोर्यां शक्तिस्तद्बोध्ययोः । २ जनधातुः पङ्केत्युपपदम् डप्रत्ययरूपा ये अवयवास्तेषां शत्तया वेद्याः पङ्क-जनन-कर्तृ- रूपा: व्रेषामाकाह्कादिवशात् अन्वये। ३ पङ्कजनिकर्तृत्वरूपोर्थः शैवालादिष्वपीति तन्निवारकस्य पद्मत्वविशिष्टस्य पझ्मरूपार्थस्य प्तीत्या। ४ लक्षणे गृहीतस्य प्रतिपादकत्वस्य प्रतिपादकत्वं न संभवति, शक्तेरभिधां विहाय अन्यत्वा भावादसंगतिः, पूर्वोक्त आत्माश्रयश्चेति। ५ तृतीयाविरभकतिसाघुत्वसाधनं भवेद्वैयाकरणपुङ्गवस्य नागेशमहोदयस्य मते समाधानम्, किन्तु यत्र शब्दपुनरुक्तिरेव हेया तत्र साहित्ये 'अभिधया अतिपादकत्वमभिधा' इत्यस्ेदमुत्तरं कि आम्यतां नावहेत?

Page 241

शक्त: ] रसगङ्गावरः । १७९

रिति। अत्र केचिन् 'अश्वगन्धारसं पिवेन्' इत्यादिपु विषयविशेपे केवल- समुदायशक्तिः । अश्वगन्धा वाजिशाला, इत्यादिपु तु केवलयोगशक्ति: । समुदायावयवशक्तोरुभयोरेकशव्दाश्रयत्वे कर्थं केवलत्वविशेषितयो- रादद्वितीरयेभेदयोः प्रसक्तिरिति तु न शङयम्। समुदायावयवशक्तिवेध्य योरर्थयोरनन्वयेन ताहशशकत्योः कैवल्यस् साम्राज्यान्। इदमेव हि केवलत्वमिह विवक्षितम्, यदन्वयायोग्यार्थवोधकत्त्रम्। संकरस्त्वन्वय- योग्यार्थवोधकचोरेवेति न तस्वात्र प्रसक्ति:' इत्याहुः । अन्ये तु- 'अश्वकर्णादिशव्देषु नाभिवायाः प्रथमद्वितीययोविधयोः अ्रसक्तिः, कैवल्यविरहान्। परंतु संकरस्य द्वी भेदौ-योगरूडियौगिकरूढिश्चेति। तत्राद्यस्योदाहरणं पक्कजादिशव्दाः । द्वितीयस्य त्वश्वकर्णादयः' इत्याहुः । 'चतुर्थ एवायमभिधाया भेद:' इत्यप्यन्ये। 'अखण्डा एव हि शब्दाः । तत्र समासेपु पदानाम्, कृत्तद्विततिङन्तेपु च प्रकृतिप्रत्ययानां विभाग:

त्यर्थः। शङ्कते-समुदेति। अनन्वयेन मिथ इल्यादि। यदन्वयायोग्येति। एवं च

र्थप्रतिपादकत्वं योगस्य केवललन्। इति फलितम्। बोधकयोरेवेति। मेदयोरित्र्थः । ताहृशकेवल्यविवक्नायां मानाभावादाह-अन्ये त्विति। संकरस्य योगरुडिशव्देनेव प्ररिद्वेर्मतान्तरमाह- चतुर्थ एवेति। एवेनाभिधापदसंबदेन संकरनेदनिरासः। तथा चाभिधा चनुविधेति भावः । सिद्धान्तमाह-अखण्डा इति। हिस्तर्थ। तत्र अखण्डानां मध्ये। तथा १ अर्थात् केवलसमुदायशक्ति-केव्लावयवशत्तयोरत्र एकसिमिन्नेव अश्गन्धापदे क्थं प्रसङ्ग: स्वात्? केवलपददानं केवलां समुदायशक्तिमेव स्वीकरोति नावयवशक्तिम्। एवमेव केवला- वयवशक्तिपदे केवलविशेषणनवयवशन्तिमेव स्वीकरोति, न समुदायशक्तः सहकारम्। अत्र त्वेकस्मिन्नेव पदे केवलेति विशेषणविशिष्टे उमे शक्ती स्वीक्रियेते, कथमेतत्संगच्छेवेति शङ्का। अत्र हि कैवल्यस्य (केवलपददानस्य)अयमेवार्थों यत् 'यदन्वयायोग्यार्थबोधकत्वन्' 'यन्' यत्पदवाच्या स्वस्मादन्या या (शक्तिः) तत्संबन्धिनोऽन्वयस्य अयोग्यो योर्थस्तद्बोधकत्वम्। अर्थात् यस्मिन्समये समुदाय(रूढि)शक्तेरन्वयेन औषधिरूपोऽर्थस्तस्मिन् समये अवयवशक्त: अन्वयो न। यस्मिन् समये अवयव(योग)शच्तया वाजिशालाऽर्थः क्रियते तस्मिन्समये समुदाय- शक्तेयोंगो न, ततश्र परस्परमनन्वयाद्वर्तत एव कैवल्यमिति समाधानन्। २ नतु द्वयोः शक्तयोः संकर एवात्र स्वीक्रियताम् । न । यत्र दयोः शक्त्योः (समु. अव.) अन्वयेन अर्थस्तत्रैव तयोः संकरः । ततश्च संकरो बोधिकयोः शत्त्योः स्वीक्रियते। अत्र तु यस्मिन्समये एका, तस्मिन्समये द्वितीया नास्तीति न संकर इत्याशयः ।

Page 242

१८० काव्यमाला। [ द्वितीयानने-

काल्पनिक एवेति कुन्नास्ति योगशक्ति: ? विशिष्टस्व विशिष्टार्थे रूढेरेवा- भ्युपगमात्' इत्यपि वदुन्ति। अथ 'गीष्पतिरप्याङ्गिरसो गदितुं ते गुणगणान्सगर्वो न। इन्द्रः सहस्रनयनोऽप्यद्ुतरूपं परिच्छेत्तुम् ।।' इत्यादौ रूढ्यर्थमादाय पुनरुक्त्यापत्तिः । न चैवंविधपद्द्वयसमभि- व्याहारस्थले योगरूढपदस्यावयवार्थमात्रबोधकत्वम्, तावन्मात्रस्यैव प्रकृतोपयोग्यतिशयविशेषसमर्पकत्वात्, इति वाच्यम्। एवमपि योग- रूढपद्स्य रूढिशक्तेरनियत्रणेन योगार्थमात्रप्रतिपादकताया अनुपपादना- डुक्कदोषस्यानुवृत्तेः । एकेनैव पदेन योगार्थरूढ्यर्थयोरुभयोरप्यावश्यक- योरर्थयोरुपस्थितिसंभवेन द्वितीयपद्प्रयोगस्य नैरर्थक्यापत्तेश्च, इति चेत्, अन्नाहु :- 'एकपदोपात्तत्वादन्तरङ्गाकाङ्कावशेन प्रथमं योगार्थरुढ्यर्थ- योरन्वये सति समुल्लसितस्य विशिष्टार्थस्यैव पदान्तरार्थेनान्वयः, न तु तयोरेव विशकलितयोरिति यद्यपि न्यायसिद्धोऽर्थः, तथापि शक्त्याऽर्थस्य प्रतिपादने स्यादेवम्। लक्षणायां तु योगरूढेन योगार्थमात्रप्रतिपादनेन न धकमस्ति। नापि द्वितीयपद्प्रयोगस्य नैरर्थक्यम्। तथा सति रूढ्यर्थबोधनेन गतार्थन योगरूढशब्दन प्रातपाद्यमानस्य योगार्थस्य पङ्कजाक्षीत्यादाविव नान्तरीयकत्वशङ्गया कुर्वद्रूपताया अपहतौ प्रकृतोप- योग्यतिशयविशेषव्यञ्जनस्य पाक्षिकत्वापत्तेः । द्वितीयपदयोगे तु तेनैव

चाभिधाया रूढ्याख्य एक एव भेद इति भावः । अत्र शङ्कते-अथेति। गीष्पति- रिति। राजवर्णनमिदम्। अतिशयेति । राजनिष्ठगुणाद्यतिशयेत्यर्थः। अनियन्त्रणेन असंकोचेन। प्रकरणादिसंकोचकाभावादिति भावः। प्रकरणादिसत्त्वे आह-एकेनै- वेति। आवश्यकयोरिति। पदद्वयोल्लेखेनोक्तातिशयव्यञ्ञनार्थमिति भावः। एकपदो- पेति। अन्तरङ्गत्वादौ हेतुरयम्। तयोः योगार्थरूढ्यर्थयोः। विशकलितेति। पदा- न्तरार्थनान्वय इत्यस्यानुषङ्ग। एवं योगार्थमात्रबोधकत्वानुपपादनमाद्यदोषमुद्त्य द्विती- यदोषमुद्धरति-नापीति। तथा सति द्वितीयपदानुपादाने सति। नान्तरीयकत्वेति। मुख्यतात्पर्याविषयतत्यर्थः। शङ्काया अभावे लिष्टार्थसिद्धिरत आह-पाक्षि-

Page 243

शक्ति: ] रसगङ्गाघरः । १८१

रख्यर्थप्रतिपादने सिद्धे योगरुढपदप्रतिपाद्यस्य योगार्थस्य नान्तरीयक- त्वशङ्काया अयोगा कुर्वद्रपत्वेन व्यज्ञय विशेषव्यञ्जकत्वं नियमेन सिख्धति। एपा पदद्वयोपादानस्थले गैतिरुक्ता । यत्र तु 'पुप्पधन्वा विजयते जगत्वत्करुणावशान्' इत्यादावेकेनैव पदेन रूळ्चर्थोपस्थितिर्योगार्थद्वारा निःसारत्वादयवगमञ्च भवति, तत्र कविकृतम- न्मथरूढ पदान्तरानुपादानपूर्वकपुष्पधन्त्र पढोपादानप्रतिसंधानेन तदाययो- गार्थे कुर्वद्रूपनाधानं वोध्यम्। तदित्यं द्वितीचपढस्वोपादानेऽनुपादाने वान क्षतिः। एवं जात्यन्तरविशिष्ठवाचकपदसमभिव्याहारेपि। 'दिशि दिशि

केति। अत एवाओे नियमेनेति वक्ष्यति। जगन् कने। कविकृनत्वनुपादानेऽन्वेति। १ गीम्परिर्या इत्यादेः प्रवद्टकस्य दुरूहत्वादिदं तदिशदीकरणम्-'गीष्पतिः (वर्गन- समर्थानां वावन्मातगिरा स्वामी) अपि आङ्विरसो उुणवर्णने-किव्च प्त्यक्षीकरणसाधनैः सहस्र- नयन, वैशिष्टोपि दन्द्रस्तव रुपस्य इयस्तां कर्तु सगवों न' इति राजवर्णनपदे योगरूढादाभ्यामेव योगार्थरूढ्यर्थयो: प्रताते: संभवे-आज्विरस-इन्द्र-पदप्रयोगो रू्चर्थविषये पुनरुक्तिशोपायेनि शङ्का। एवंविघस्थले योगरूडपदं केवलं योगवाचकमेव, नावन्मात्रेणैव प्रकृतस्वातिशयस् प्रतिपा- दनात्, इत्यपि न शक्यं ममाधातुन्। प्रकरणादिकस्य शक्तिसंकोचकस्वाभावे रूढेनियत्रण- स्याशक्यतया पौनरुत्तयस्याSवारणीयत्वाद। श्तिसंकोचकेन किन्?, एकेनैव योगरूढपदेन उभयार्थयोः संभवे द्वितीयपदस्य स्पषटं निरर्थकत्वाच्चेति पूर्वपक्षः । एकपदोपात्तत्वादिभिरुपपत्तिभि: संमिलितशत्तिदयेन संजनितस्व (योग-रूढ्यात्नकस्य) अर्थद्वयस्य एकपदोपात्तत्वरूपादन्तरङ्गत्वात्प्रथमं निष्पत्तिः, तदनन्तरं गोम्पत्यादिपदस्य मदान्तरेण (आङ्विरसादिना) योग: स्ान् इति हि न्यायसिद्ध: न्रकारः शक्त्या पदार्थीपस्थितौ स्यानू। वयं तु अप्रमत्तस्य कवे: पुनः पदप्रयोगरूपेण दाधेन-गीष्पतिसहस्रनयनेतिपदाभ्यां लक्षणया योगार्थमात्रमुपस्थाप्य, तदुत्तरं प्रयुक्ताभ्यामाद्विरसादिपदाभ्यां संबन्धेन निखिलगिरां स्वामी गुरुरपि तव गुणवर्णने न सगर्व इति राज्ञोतिशयं साधयामः । एकेनैव योगरूढपदेनार्थद्वयसिद्धौ द्विती- यपदं निरर्थकमित्यपि न दोषः । पङ्डजाक्षीत्यादौ पंकजपदेन रूत्यर्थ: (कमलम्) एव गृह्यते। त्तत्र योगार्थः नान्तरीयक: (मुख्यतात्पर्याSविषयः), इति तस्य कुर्वद्रूपता (तात्पर्यानुगुण- त्वेन स्फुरद्रूपता) अपहीयते। एवमेव गीष्पत्यादिस्थलेपि-रूढ्यर्थापहृतस्य योगार्थस्य कुर्- द्रूपताहाने: शङ्का तदा तु गिरांपतिरिति योगार्थसाध्योडतिशयो न। यदा तु सा शङ्का नोदेति तदा कुर्वद्रूपतया योगार्थेन सोडतिशयो जायते इति राजवर्णनेऽस्मिन् अतिशयो वैकत्पिकः स्याद्। द्वितीयपद प्रयोगे तु नान्तरीयकत्वशङ्काया अभावेन नियतमेव सोतिशयः प्रतीयत इति द्वितीयपद प्रयोगस्य न निष्फलत्वमिति समाधानम्। २ जात्यन्तर (कमलापेक्षयाऽन्यजाति )विशिष्टस्य अर्थस्य (कुमुदस्य) वाचकं यत्पदम्। १६ रस०

Page 244

१८२ काव्यमाला। [ द्वितीयानने-

जलजानि सन्ति कुमुदानि' इत्यन्नापि जलजादिपदानां लक्षणया योगार्थ- मात्रबोधकत्वमू, योगशक्त्युल्लासितस्य तु तादृशार्थस्य रूढ्यर्थोपश्िष्टत्वेन स्वातक्रयेण कुमुदादावन्वयायोगात्। इत्थमभिधा निरूपिता । अनया यः शब्दो यमर्थ बोधयति स तस्य वाचकः । इयं च यस्य शब्दस्य यस्मिन्नर्थेडस्ति तस्य सोऽर्थोडभिधेयः। स च जातिगुणक्रियाया- दच्छिकात्मकः । तन्र जातिर्गोत्वादिः संस्थानविशेषाभिव्यङ्गया प्रत्यक्षसिद्धा गवादिपदानामभिधेया। अनुमानसिद्धा च घ्राणरसनत्वादिर्वाणरसनादि- पदानाम्, आनन्त्यात्, व्यभिचाराच्च व्यक्तीनामभिधेयताया अकल्पनात्। न च ज्ञातगोत्वादिरूपया गोत्वादिज्ञानरूपया वा प्रत्यासत्त्या प्रत्यक्षेण परिकलितासु सकलतदीयव्यक्तिष्वभिधायाः कल्पने नास्ति दोष इति

प्रतिसंधानेन श्रोतुरिति शेषः। इत्यत्रापि इत्यादावपि। शक्त्या न निर्वाह इत्याह- योगेति। प्रत्यक्षेति। गवादीनां प्रत्यक्षत्ादिति भावः । अनुमानेति। प्राणेन्द्रि- यादीनामतीन्द्रिय तादिति भावः । आनन्त्यादिति। अनन्तशक्तिकल्पनजगौरवादित्यर्थः। ज्ञायमानं सामान्यं प्रत्यासत्तिरितिमतेनाह-ज्ञातगोत्वादीति। सामान्यज्ञानं १ व्यक्तो शक्तिस्वीकारे अनन्तव्यक्तीनामुपस्थितिस्त्वसंभवैव। ततश्च प्रत्यक्षोपस्थितायां यस्यां व्यक्तौ संकेतग्रहो भवेत्तस्यामेव तदभिधायाः प्रत्ययात्तदितरव्यक्तो तत्पदाभिधेयताया व्यभिचार: स्फुट एव। तेन च कर्मवैगुण्यम्। यथा-'गौरनुबन्ध्यः' इति यत्रानुशिष्यते तत्र व्यावद् गोव्यक्तीनामनुबन्धनाऽसंभवाद् गवानुबन्धनकर्मणः स्फुटमेव वैगुण्यम्। २ अलौकिकप्रत्यक्षे सामान्यलक्षणप्रत्यासत्तिनैयायिक: स्वीकृता। तत्र 'ज्ञायमानं सामान्यं प्रत्यासत्तिः' इति मते यत्किञ्चित्स्थले बुद्धा परिगृहीतं यत्सामान्यं (गोत्वादिकम्) तदेव प्रत्यक्षाय संनिकर्षस्थानीयं भूत्वा यावद्गोव्यक्तीनामुपस्थिति कारयति। अर्थात् अनन्ता व्यक्ती- रजानन्तोपि वयं गोत्वादिसामान्येन (इयं गोपदवाच्या इत्येकत्र परिज्ञाय) तत्सजातीयास्व- न्यास्वपि गोव्यक्तिषु गोपदशक्ति गृखीमः । यत्रैको घटः संयोगसंबन्धेन भूतले ज्ञातस्तदनन्तरं तादृशानां सर्वेषामेव घटवतां भूतलानां सामान्यलक्षणया भानं भवति। तत्र यावद्भूतलानां घटवत्त्वज्ञानार्थ घट एव संनिकर्षो भवति । किन्तु यत्र घटनाशोत्तरं घटवद्दूतलमासीदिति स्रणं तत्र सामान्यलक्षणया यावद्तलानां घटवत्त्वभानं न स्यात्। सामान्यस्य (संनिकर्षस्थानीयस्य घटस्य) अभावात्। तस्माद् 'सामा- न्यश्ञानं प्रत्यासत्तिः' इति द्वितीयः पक्षः । पक्षद्रयानुसारमपि सामान्यलक्षणया गोव्यक्तिषु गोपदाभिधाया ग्रहणे न व्यमिचार इति शङ्का।.

Page 245

शक्ति: ] रसगङ्गावर: । १८३

वाच्यम्। सामान्यप्रेत्यासत्तेनिराकरणान्। गौरवदोषस्यानुद्धाराच। एतेन शक्तिग्रहपदार्थोपस्थितिशाबडवोधानां समानप्रकारकतयैव हेतुहेतुमद्गावाद- गृहीतसंकेतानामपि व्यक्तिविशेषाणामन्वयबोधविषयताया उपपादनेSपि न निस्तारः। व्यक्तीनां प्रत्ययस्त्वाक्षेपाह्मक्षणया वेतन्यदेतत्। अयंच जाति- रूप: शब्दार्थः प्राणद इत्युच्यते। प्राणं व्यवहारयोग्यतां ददाति संपादयतीति व्युत्पत्तेः । तदुक्तम्-'गौः स्वरूपेण न गौर्नाध्यगौः, गोत्वाभिसंतन्धाद्गौः' इति। अस्यार्थ :- गौः सास्रादिमान्धर्मी स्वरूपेण अज्ञातगोत्वकेन धर्मिस्वरूपमात्रेण न गौः न गोव्यवहारनिर्वाहकः । नाप्यगौः नापि गोभिन्न इति व्यवहारस्व निर्वाहकः। तथा सति दूराद- नभिव्यक्तसंस्थानतया गोत्वाग्रहदशायां गवि गौरिति गोभिन्न इति वा व्यवहारः स्यात्। स्वरूपस्याविशेषाद्धटे गौरिति गवि चागौरिति वा व्यवहारः स्वादिति भावः । गोत्वाभिसंबन्धाद्गोत्ववत्तया ज्ञानादोरगो- शब्दव्यवहार्य इति।

प्रत्यासत्तिरिति मतेनाह-गोत्वादिज्ञानेति। प्रत्यक्षेण दोषस्येति । द्वितीयदोपोद्धारेऽप्याद्यदोषस्येत्यर्थः। एतेन गौरवदोषानुद्धा- रेण । एवकारेण समानविशेष्यकत्वादिव्यवच्छेदः । तदुक्तमिति । प्रकाशकृतेति शेषः । एवमग्रेऽपि। तथा सति धर्मिस्वरूपमात्रेण व्यवहारनिर्वाहकलवाङ्गीकारे सति। गौरिति व्यवहारे इष्टापत्त्या आह-गोभिन्न इतीति। अविशेषादिति। व्यक्तिस- रूपाणां स्व्रतोऽव्यावृत्तत्वादिति भावः । गौरित्यत्र विशेषणज्ञानविधया तस्यो- पयोगेऽपि नाप्यगौरित्यनेन व्यवहारमात्रं धर्मज्ञानसाध्यमिन्युच्यते। अभावज्ञानेऽपि १ सामान्यलक्षणा प्रत्यासत्तिरन्यर्न स्वीकृता। प्रत्यक्ष हि अशेषविशेषप्रत्ययार्थम्। असिन् प्रत्यक्षे कि तत्तद्व्यक्तीनामशेषविशेषपरिचयो भवेत्? तथा चाकिञ्चित्कर्येव सेषा प्रत्या- सत्तिरिति तद्ावः । २ शक्तिग्रह-पदार्थोपस्थिति-शाब्दवोधेषु पूर्वपूर्वस्य उत्तरोत्तरं प्रति समानप्रकारकतया हेतुता। अर्थात् यत्प्रकारको यद्विशेष्यकश्च शक्तिग्रहः स तत्प्रकारक-तद्विशेष्यकपदार्थोंपस्थितिं प्रति हेतुः, एवं यत्प्रकारिका यद्विशेष्यिका च पदार्थोंपस्थितिः सा तत्प्रकारकतद्विशेष्यकशा- ब्दबोधं प्रति हेतुः। तथा च व्यक्तीनामनन्ततया येषु व्यक्तिविशेषेषु शक्तिग्रहो न जातस्त- द्विषयकशाव्दवोधस्य पूर्वोंत्तरीत्या (गोत्वेन प्रकारेण) सिद्धि: स्यात्। इत्येवं समर्थनेपि न दोषमुक्ति:, व्यभिचारवारणेSपि अनन्तशक्तिकल्पनगौरवस्य असमाहितत्वात्। ३ ननु जातिशक्तिवादे तत्तत्कार्यार्थमावश्यकं व्यक्तीनां भानं कथ स्यादित्याह-व्यक्तिं विना जातेरभावात् आक्षेपः अनुमानम्। अनुपपत्या गोत्वादिजातेर्व्यक्तो लक्षणा वा।

Page 246

१८४ काव्यमाला। [द्वितीयानने- गुणः शुक्ादिः शुह्लादिपदानामभिवेयः। क्रिया चलनादिशव्दानाम्। शुक्कादीनां चलनादीनां च प्रतिव्यक्तिभेददर्शनादानन्त्व्यभिचाराभ्यां व्यक्तिशक्तिवाददोषाभ्यामिहापि कलुषीकरणमिति चेत्, तेषां लाघवा- त्प्रत्यभिज्ञावलाच्चैकताया अभ्युपगमात्। तदुक्तम्-'गुणक्रियायदच्छानां वस्तुत एकरूपाणामाश्रयभेदाद्वेद इव लक्ष्यते' इति। तथा च भेद- प्रतीतिर्भ्रम एवेति भावः। इदमुपलक्षणम् । उत्पत्तिविनाशप्रतीतिरपि तथैव, वर्णनित्यतावादे गकारादुत्पत्तिविनाशप्रतीतेर्भ्रमत्वस्य सवीकारात्। यादच्छिकेरतु वक्रा स्वेच्छया डित्थादिशव्दानां प्रवृत्तिनिमित्तत्वे संनि- वेशितो धर्मः । स च 'परम्परया व्यक्तिगतश्चरमवर्णाभिव्यङ्गयोऽखण्डः स्फोटः' इत्येके। 'आनुपूर्व्यवच्छिन्नो वर्णसमुदायः' इत्यपरे। 'केवला व्यैक्तिरेव' इतीतरे। तत्राद्यमतद्वये विशेषणज्ञानाद्विशिष्टप्रत्ययः। तृतीय- मते च निर्विकल्पकात्मकः प्रत्ययः। तदित्थं चतुष्टयी शब्दानां प्रवृत्तिरिति अ्तियोगितावच्छेदकविशिष्टज्ञानस्य प्रतियोगितावच्छेदकज्ञानस्य वा हेतुत्वादित्याहुः । शङते-शुक्कादीनामिति । इहापि गुणक्किययोरभिधेयत्वेऽपि । चेदित्यस्य तत्रेति शेषः । एकताया इति। तथा च नित्यतमपि सिद्धमिति भावः । तथव भ्रम एव । व्यक्तिगतोरऽर्थव्यक्तिगतः। अतिरिक्तस्फोटाङ्गीकारे फलाभावादाह- आनुपूव्यति। वर्णानां जन्यलेन समुदायासंभवादाह-केवलेति। दर्शनं मतम्। १ यथा हि कृपाणमुकुरतैलादीनां प्रतिबिन्बाधाराणां मेदादेकमेव सुखं खड्गे दीर्घम्, मुकुरे अणु-महद्रूपम्, तैले खिग्धम्, एवंरीत्या नानाकारत्वेन भासते, तथैव शुक्कादिर्गुणश्चलनादि- क्रिया चाश्रयमेदेन ननाकारा भासत इत्यानन्त्य-व्यभिचारशङ्का नेत्याशयः । २ यदृच्छाशब्दस्य यादृच्छिकोऽर्थस्तत्वतो व्यक्तिरूप एव सिध्यति, अत एवाग्रे वक्ष्यत्यपि "केवला व्यक्तिरेव' इतीतरे। किन्तु उपाधिशक्तिवादिभिः स हि व्यक्तः पृथगवस्थाप्यते। एत- दुपपादने प्रकारभेदः । एके आहु :- 'परम्परया व्यक्तिगत०'। अयं भाव :- आशुविनाशिनां ऋमिकाणां वर्णानां मेलनाभावाद्वर्णानुपूर्व्या असंपत्तौ कथं वा स स्फोटोडभिव्यज्यतां यो हि शब्दानामभिधेयः प्रख्यायते । ततश्र पूर्वपूर्ववर्णान्नभवजनितसंस्कारसहितेनान्तिमवर्णेन यः स्फोट: (स्फुटयत्यर्थम्) अभिव्यज्यते स एव यद्टच्छाशब्दानामभिधेय इत्यर्थः । स चायं रफोटो वस्तुगत्या आकाशनिष्ठ एव। किन्तु तच्चरमं फलं व्यत्तयभिगमनमेवेत्यत आह-'पर म्परया व्यक्तिगतः'। ३ अर्थात् डित्थ इति संज्ञाशब्दस्य अयं वर्णसमुदाय एवार्थ इति। ४ डित्थशब्दस्य तन्नामिका व्यक्तिरेवाऽभिधेय इत्यर्थः । ५ विशेषणयोः (स्फोट-वर्णसमुदाययोः) व्वानाद् विशिष्टस्य (विशेष्यस्य) तादृशव्यक्ति रूपार्थस्य प्रत्ययः । ६ निर्विशेषणतया शुद्धाया व्यक्तेरेव बोध इत्यर्थः ।

Page 247

लक्षणा ] रसगङ्गाघर: १८५

दर्शनं व्यवस्थितम्। सर्वेपां शव्दानां जातिरेवार्थः । गुणक्रियाशव्दानां गुणक्रियागतायाः, यदच्छाशव्दानां च वालवृद्धशुकाशुदीरिततत्तच्छ्व्द्र- वृत्तेस्तत्तत्समयभिन्नार्थवृत्तेवा जातेरेवाभिवेयतासंभवान्। इति जाति- शक्तिदर्शनम्। अथ केयं लक्षणा, यन्मूलश्रमं निरूपितो ध्वनिः । उच्यते- शेक्यसंबन्धो लक्षणा ।।

च्छेदकताया अभावो न तन्रम्। शक्यतावच्छेदकरूपेग लक्ष्यभानस्य स्वीकारान। किं तु तात्पर्यविपयान्वये मुख्यार्थतावच्छेदकरूपेण मुख्यार्थ- अ्रतियोगिकताया अभावो रूढिप्रयोजनयोरन्यतरच्च तत्रम्। मुख्यार्था-

मतान्तरमाह-सर्वेपामिति। जातिगुणक्रियायटच्छाशब्दानामित्यर्थः । परम्परया तन्निष्ठत्वकल्पने गौरवादाह-तत्तत्समयेति। वालतयुवतवृद्धलरूे-

१ बालवृद्ध-शुकादिभिरुदीरिताः ये नानाडित्थादिशव्दास्तेषु सवेषु डित्थत्वनेका जातिर- भिधेया सिध्यति। अर्थगता जातिरितिपक्षे-तत्तत्समये वाल्य-यौवन-वाधक्यसमये भिन्ना ये डित्थादर्थाः (व्यक्तयः) तेघु डित्थत्वमेका जातिरभिधेया भवतीताशयः। २ शक्यस्य प्रवाहरूपार्थस्य अन्येन तटादिलक्ष्यार्थेन सह संबन्धः । अर्थात् शक्यतंबन्धि- तया तत्संबद्धस्व अन्यार्थस्य प्रत्यायनं लक्षणेत्याशयः । ३ मुख्यार्थतावच्छेदकन् (गज्गापदस्य मुख्योऽर्थः गङ्गा (प्रवाहः), मुख्यार्थतावच्छेदक गङ्गात्वम्), तद्धि सर्वथैव तात्पर्यविषयान्वयितावच्छेदकं न भवेत, अर्थात् तात्पर्यविषयीभूतेs- न्वये मुख्यार्थतावच्छेदकस्य (गङ्गात्वस्य), सर्वथैव यदयनन्वयस्तदैव लक्षणाऽवतरेत इति न कार- णम्। लक्ष्यस्य नटाद्यर्थस्य मुख्यार्थतावच्छेदक-(प्रवाहत्व)-रूपेण प्रतीते: स्वीकारात्। तदैव हि शैत्यपावनत्वरूपप्रयोजनस्य प्रतिपत्तिः । ४ तात्पर्यविषयीभूतेऽन्वये मुख्यार्थतावच्छेदकरूपेण मुख्योऽर्थंः अभावस्य प्रतियोगी भवति, अर्थात् तत्र मुख्योर्थः (प्रवाहः) मुख्यार्थतावच्छेदकरूपेण नाऽन्वेति, अपि तु लक्ष्या- थेन सह संबद्धतयाSडनुषङ्गिकरूपेण। ततश्-लक्षणायां मुख्यार्थस्यान्वये सत्यपि सुख्यार्थत्व- रूपेण मुख्यार्थस्य अन्वयो न भवति। एवं च मुख्यार्तावच्छेदकतया सुख्यार्थप्रतियोगिको- इभाव:, रूढिप्रयोजनयोर्मध्ये एकतरच्च लक्षणायां कारणमिति सारम्।

Page 248

१८६ काव्यमाला। [ द्वितीयानने-

न्वयानुपपत्ते: तब्मत्वे तु 'काकेभ्यो दधि रक्ष्यताम्' इत्पत्र लक्षणोत्थीनं न स्ान्। 'गाङ्गायां वोषः' इत्यत्र सामीप्यम्, 'मुखचन्द्रः' इत्यादौ सादृश्यम्, व्यतिरेकलक्षणायां विरोधः, 'आयुर्घृतम्' इत्यादौ कारण- त्वादयश्च संबन्धा यथायोगं लक्षणाशरीराणि। इयं तावद्विविधा, निरूढा प्रयोजनवती च। तन्रापि द्वितीया द्विविधा, गौणी शुद्धा च। तत्राद्या सारोपा, साध्यवसाना चेति द्विविधा। अन्त्या चतुर्विधा-जहत्खार्था, अजहत्सार्था, सारोपा, साध्यवसाना चेति प्रयोजनवती षड्विधा संपद्ते। तत्र निरूढलक्षणाया अनुकूलप्रति- कूलानुलोमप्रतिलोमलावण्यादय उदाहरणं नीलादयश्च। 'धर्मस्यायमनु- कूलः' इत्यादौ मुख्यार्थस्य कूलानुगतत्वादेर्बाधात् अनादिप्रयोगप्रवाहव- शादेकवस्तुप्रवणेत्वात्मना कूलानुगतादिरूपशक्यस्य सादश्येन संबन्धे- नानुकूलादिशव्दैरनुगुणादयो लक्ष्यन्ते। एवं नीलादिपदानां लाघवाह्गुण- गतजातेरेव शक्यतावच्छेदकतया गुणद्रव्ययोः 'नीलो घटः' इत्यादौ सामानाधिकरण्येनान्वयस्यानुपपत्तेः समवायात्मना गुणरूपशक्यस्य

त्यर्थः । तन्त्रं कारणम्। व्यतिरेकलक्षणेति । 'उपकतं बहु नाम-' इत्यादौ। यथायोगं यथासंभवम्। लक्षणाशरीराणीति। लक्षणाज्ञानकार्यतावच्छेदकं च ताद्- शशक्यसंबन्धप्रकारकलक्ष्यविशेष्यकशाब्दवुद्धितमिति प्राचीनालंकारिकमतम्। तदन- नतरं व्यञ्ञनया तादृशशक्यतावच्छेदकप्रकारकलक्ष्यबोध इति च। एकप्रवणतं तदेकस-

१ काकेभ्यो दधि रक्ष्यताम्, अन्र काकपदमुख्यार्थस्य काकस्य रक्षणक्रियान्वये न बाधः, तेभ्योऽपि दविरक्षा वक्तुविवक्षितैव। ततश्च मुख्यार्थान्वयानुपपत्तिरेव लक्षणाबीजमिति स्वीकारे काकपदस्य दध्युपघातके लक्षणा नावतरेदित्याशयः । २ अनुकूलपदस्य 'कूलम् अनुगतः' इति यः शक्योऽर्थः, तस्य एकवस्तुप्रवणत्बात्मना (एकस्मिन् वस्तुनि यत् प्रवणत्वं संसक्तत्वम् तद्रूपेण) सादृश्येन संबन्धेन। ३ नीलादिपदानां नीलादिगुण-तद्विशिद्द्रव्येत्युभयवाचकत्वापेक्षया गुणमात्रव्वाचकत्वे लाघवम् ।, ततश्च-नीलादिपदानां शक्यतावच्छेदकं नीलादिगुणगता जातिन तु द्रव्यगता । 'नीलो घटः' इत्यत्र तु नील इति गुणस्य घट इति द्रव्यस्य च समानाधिकरणत्वेन (विशेषण- विशेष्यभावेन) अन्वयस्य बाधात नीलादिगुणरूपशक्यस्य समवायरूपेण संबन्धेन नीलादिश- ब्दैर्नीलगुणविशिधनि द्रव्याणि लक्ष्यन्ते इति सर्वस्याशयः ।

Page 249

लक्षणा ] रसगङ्गाघर:। १८७

संवन्धेन नीलादिशव्दैर्गुणिनो लक्ष्यन्ते। तत्रार्दयवर्गे साहश्यसंबन्धेन द्वितीयेवर्गे च तदितरसंवन्घेन लक्षगायाः प्रृत्तेर्निरूडायामपि गौणीत्व- शुद्धत्वाभ्यां द्वैविध्यमामनन्ति। विषय विषयिणोः पृथङ्निर्दिष्टयोरभेद आरोपः। अपटथङनिर्दिष्टे विषये विषय्यभेदोऽध्यवसानम्। तन्नाद्येन सहिता सारोपा। द्वितीयेन तु साध्यव- साना। उदाहरणानि च 'मुखं चन्द्रः' इत्यादीनि गौण्याः सारोपायाः। 'पुरेऽस्मिन्सौधशिखरे चन्द्रराजी विराजते' इत्यादीनि च तस्याः साध्यवसा- नायाः । अत्राद्यायां विपयिप्रतिपादकैश्चन्द्रादिशव्दैर्लक्षणयोपस्थापितानां चन्द्रादिस दशानामभेदसंसर्गेण मुखादिशब्दोपस्थापितमुखत्वादिविशिष्टैर्मु- खादिभिरन्वयः। सादश्यरूपधर्मलक्षणायां तु तेन सह मुखादीनामन्वयो न स्यान्, नामार्थयोरभेदातिरिक्तसंसर्गेण विशेष्यविशेषणभावस्यानुपपत्तेः । नन्वेवं सति बोधावैर्लेक्षण्याच्चन्द्रसदशं मुखमित्युपमातो मुखं चन्द्र इति रूपकस्य कथं भेदः । न च सहशविशेषणचन्द्रैसंबन्धासंवन्धाभ्यामिति

कलम्। विषयविषयिणोरिति। उपमेयोपमानयोरित्यर्थः । आद्येनारोपेण। द्विती- येन त्विति। अध्यवसानेनेत्यर्थः । सहितेत्यस्यानुपङ्गः। तस्या इति। गौप्या इत्यर्थः । ननु गौरवात्सदशरूपधर्मिलक्षणा न युक्ता अत आह-सादृश्येति। तेन साहश्येन। न स्यात्कथमपि न स्यात। अतिरिक्तेति। अमेदेन तु बोधान्नेति भावः । एवं सति धर्मिलक्षणयाSमेदेनान्वयाङ्गीकारे सति। धर्मलक्षणया व्युन्पत्तिसंकोचमजीकृत्य भेदा- न्वये तु स्याद्वलक्षण्यमिति भावः । बोधावैलेति। उपमायामप्यभेदेनेव बोधादिति १ अनुकूल-प्रातेकूलादेषु। २ नीलादिषु। ३ ततश्च गौण-सारोपलक्षणायां सत्याम् 'मुखं चन्द्रः' इत्यत्र चन्द्रसदृशाभिन्नं सुखमिति शाब्दबोधस्य सारः । ४ ननु लक्षणया रूपकेऽपि चन्द्रसदृशमिति बोधे जायमाने, चन्द्रसद्टशं सुखनिति प्रसिद्धो- पमापेक्षया बोधस्य अवैलक्षण्यादुपमारूपकयोः कथं पृथगलंकारता साधनीयेति पूर्वपक्षः। ५ नन्वस्ति रूपके उपमायां च मिथो बोधवैलक्षण्यम् । यतो हि-मुखचन्द्र इति रूपके सद्टशलक्षणया चन्द्र इत्येकेनैव पदेन चन्द्र-तत्सदृशयोबोंधनात् द्वयोरनयोः संबन्धः संसर्गतया न भासते [भिन्नपदोपस्थाप्ययोरेवाथयोः संबन्धः संसर्गतया स्वीक्रियत इति नियमात] । चन्द्रसदृशं मुखमित्युपमायां तु चन्द्र-तत्सदृशयोभिन्नपदार्थत्वात्तयोः संबन्धस्य संसर्गतयैव भान- मिति शङ्कायाम्-एतावन्मान्रमेदेन सुखं चन्द्र इव इति शाब्दोपमायाः, चन्द्रसट्टशं सुखमित्या

Page 250

१८८ काव्यमाला। [ द्वितीयानने-

वाच्यम्। वोधस्य वैलक्षण्यमात्रेण पृथगलंकारताया असिद्धेः । अन्यथा मुखं चन्द्र इवेत्यत्र चन्द्रसहशमित्येतद्रतात्पृथगलंकारतापच्तिरिति चेत्, अत्र केचित्-"रूपकस्योपमातः स्वरूपसंवेदनांशमादायावैलक्षण्येऽपि लक्षणाफलीभूतताद्रूप्य संवेदनमादाय वैलक्षण्यं निर्बाधम्। ताद्रूप्यसंवेदनं च विषये मुखादौ विषयितावच्छेदकस्य चन्द्रत्वादेः संप्रत्ययः। ननु लक्षणाप्रयोज्याद्पि तत्सदशबोधात्कथं नाम ताद्रूप्यप्रत्ययः स्यात् । उपारयस्याभावान्भेदज्ञानेन प्रतिबन्धाच्च। अन्यथा चन्द्रसदशं मुखमित्यत्रापि

भावः। सदशविशेषणचन्द्रसंबन्धासंबन्धाभ्यामिति। सदशे विशेषणभूतो यश्चन्द्रस्तत्सं- बन्धतदसंबन्धाभ्यां संसर्गतया भासमानाभ्यामित्यर्थः वोधवैलक्षण्यमिति शेषः । मुखं चन्द्र इत्यन्न चन्द्रपदस्य तत्सदशे लाक्षणिकलेन तस्यैकपदार्थतात्संसर्गस्यापि लक्ष्यघ- टकतया चन्द्रसदशयोः संबन्धस्य संसर्गविधयाऽमानम्। चन्द्रसदशमित्यत्र तु तयो- र्भिन्नपदार्थलेन संसर्गस्य तत्वेन भानमावश्यकमेवेति भावः । अन्यथा बोधवैलक्षण्यमात्रे- णालंकारभेदाङ्गीकारे। मुखं चन्द्र इवेत्यत्रेति। इत्यस्यामुपमायामित्यर्थः। इवस्य द्योतकत्वेन रूपकरीत्या संसर्गस्य तत्त्वेनाभानात्। सादृश्यवाचकत्वेऽपि तेन सह प्रति- योगित्वं संबन्धः । चन्द्रसदशमित्यत्र तु तत्प्रतियोगिकाश्रये लाक्षणिकतया अभेदस्य संबन्धत्वमिति स्पष्टं वैलक्षण्यम्। सदशवाचकत्वेऽपि खप्रतियोगिकाश्रयत्म् चन्द्र इवे- त्यन्न संबन्धः, तत्र तु स एवेति स्पष्टो भेद इति भावः। एतद्गतादिति। उपमालं- कारादिति शेषः । तादूप्यसंवेदनमिति। ताद्रूप्यमात्रसंवेदनमित्यर्थः । एतेन मेदा- मेदोभय प्रधानोपमा। असाधारणरूपेणोपमानोपमेययोर्भेदः, साधारणरूपेण लभेद इत्यलं- कारसर्वस्वक्ृद्गन्थविरोध इत्यपास्तम्। उपायस्येति। शक्तिलक्षणान्यतरस्येत्यर्थः । तत्रापि लक्षणास्तु, अतआह-भे देति। अन्यथा तस्याप्रतिबन्धकत्वे। इत्यत्रापीति। उपमायामपि। ताद्ूप्येति। ताद्रूप्यमात्रेत्यर्थः । एवमुपायमुक्ता द्वितीयहेतुं खण्ड- रथोंपमालंकारापेक्षयापि पृथगलंकारता स्वीकर्तव्या स्यात्। 'इव' इति निपातस्य द्योतकत्वेना- वाचकत्वाद् भिन्नपदानुपस्थाप्यस्य तत्सादृश्यस्य चन्द्रेण सह संबन्धः संसर्गतया न भासते । चन्द्रसदृशमित्यत्र तु लक्षणया सदृशपदप्रतीयमानस्य सादृश्यस्य भिन्नपदोपस्थाप्यतया तयोः संबन्ध: संसर्गतयैव भासत इति मेदादनयोरपि मिथः पृथगलंकारता प्रतिपाद्या स्यात्। ततश्च रूपके लक्षणास्वीकारे बोधस्याऽवैलक्षण्यादुपमारूपकयोः को भेद इति पूर्वपक्षः । मतस्य हि 'केच्वित्' 'अन्ये तु' 'अपरे तु' इति प्राचीनानां त्रिधा समाधानम्। १ उभयत्रापि चन्द्रसदृशमिति स्वरूपबोधः एकरूप एवेत्यवैलक्षण्येपि। २ ताद्रूप्यस्य (अभेदस्य) प्रत्ययार्थ शक्तिवां लक्षणादिको वा यदि कश्चिदुपायः स्यात्तदैव तत्सिद्धिः । अत्र तु चन्द्र-तत्सदृशयोमेंदप्रतीतिरिति तद्विरुद्धः अपायः।

Page 251

लक्षणा ] रसगङ्गाधरः । १८९

ताद्रूष्यप्रत्ययप्रसङ्ग इति चेन, मैवम्। श्वेपस्थल इवात्रा्येकशब्दोपादा-

अथ चन्द्रतत्सदशयोरेवैंकपदोपात्तत्वाचन्द्रसहशे चन्द्रताद्रूप्यस्य प्रत्ययो यथाकथंचिद्स्तु, न तु मुखत्वविशिष्टे मुखे। अनुभवसिद्धश्च सर्वेपाम् 'वक्रे चन्द्रमसि स्थिते किमपरः शीतांशुरुज्म्भते' इत्यादौ विषये विषयिताद्रप्यस्य प्रत्यय इति सत्यम्। स्वताद्रप्यंवद्भेदवुद्धा स्वताद्रध्यस्य सुबोधतया तस्मिन्नपि तस्य सिद्धेः" इत्याहुः । अन्ये तु-"चन्द्रादिपदेभ्यो लक्षणया चन्द्रसहगत्वेनापि रूपेणोपस्थि- तानां मुखादीनां चन्द्रत्वेन रूपेणैव सुखादिपदोपस्थापितैः सहाभेदान्वय-

यति-वैयञ्चनीति। एतेन सुखतविशिष्टमुखव्यवच्छेदः। तदेवाह-न त्विति। रूपान्तरेण मुखोगस्थितेः सत्त्वादाह-मुखत्वेति। इषटापति खण्डयति-अनुभवे- ति । खताद्रूप्यवदिति। चन्द्रताद्रूप्यवत्सदृशाभेदेत्वर्थः। तस्मिन्विपये। तत्य ताद्रू- ध्यप्रत्ययस्य। केच्िदित्यनेनारुचिः सूचिता। तद्वीजं तु सरूपसंवेदनकृतवैलक्षण्यस्यापि संभवेन तावत्पर्यन्तगमनं व्यर्थमिति। अत एव मतान्तरमाह-अन्ये त्विति। अपि- मुखत्वामुखत्वसमुच्चायकः। रूपेणैवेत्यस्याभेदान्वयेत्यत्रान्वयः। उपस्थापितैरित्यस्य मुख- लामुखत्वादिभिरिति शेषः । ननु लक्षणाज्ञानकार्यतावच्छेदकं प्राचीनसंमतं प्रागुक्तमिति

१ 'विधौ वक्रे मू्निं' इत्यादिक्लेषे विधौ इति एकपदोपस्थाप्ययोः विधि-विध्वोः एकपदोप- स्थापनजन्या व्यज्जना यथा अभेदं पर्यवसाययति तथा चन्द्रेत्येकपदेन चन्द्र-तत्सट्टृशयो-रुप- स्थितिरित्येकपदोपादानोत्थितया व्यज्जनया द्वयोस्ताद्रूप्यप्रत्ययः स्यात्। भेदशानरूपा बाधवुद्धिरपि न स्यादत्र प्रतिबन्धिका, व्य्षनाजन्यबोधस्य तत्प्रतिबध्यत्वाभावात्। २ चन्द्रसदृशे यदि चन्द्रताद्रूप्यं पूर्वोंक्तव्यक्षनया सावितं तहिं स्व(चन्द्र)ताद्रूप्यवान् य: चन्द्रसदृशः तेन सह अभिन्नस्य मुखस्यापि चन्द्रताद्रप्यं भवेदेव। चन्द्र(सद्ृश)-सुखेति द्वयोर्नामार्थयोरभेदस्य च सर्वानुमतत्वात्। यश्च यस्य अभिन्नेन सह अभिन्नः स तसादप्य भिन्नः [चन्द्रसद्शाचन्द्रः अभिन्नः तहि चन्द्रसदृशादभिन्नान्सुखादपि चन्द्रः अभिन्न एव ]। ३ चन्द्रसदृशाभिन्नं सुखमिति बोध चन्द्रसदृशस्य मुखस्य च यद्यप्यमेदो लक्षणया सिद्ध्ति तथापि सुखेन सह सोयमभेदश्चन्द्रत्वेनैव रूपेण भवति, अर्थात् पदार्थोपस्थितिरन्यविधा (सट्ट- सत्वात्मिका), अन्वयश्च (बोधः) चन्द्रेण सह अभेदात्मकः, इत्यथोंपस्थितिशाब्दबोधयोभेंदः स्वीकार्य एवेत्याशयः ।

Page 252

१९० काव्यमाला। [द्वितीयानने-

बोधो जायते। तत्तत्पद्लक्षणाज्ञानस्य तत्तत्पद्शक्यतावच्छेदकप्रकारक- लक्ष्यान्वयवोधत्वावच्छिन्नं प्रति हेतुतायाः, पदार्थोपस्थितिशाब्दबोधयोः

यात् कल्पनात् । अत एव गङ्गायां घोष इत्यन्न तटत्वेनाप्युपस्थितस्य तटस्य गङ्गात्वेनान्वयवोधस्तत्प्रयोज्यः शैत्यपावनत्वादिप्रत्ययश्च संगच्छते। प्रकृते तु विषयिचन्द्रादिनिष्ठासाधारणगुणवत्त्वप्रत्ययः फलम् । न हि चन्द्रत्वप्रतीतिं बिना मुखे चन्द्रत्वनियतगुणवत्त्वधीः शक्योपपाद्यितुम्। ताद्रष्यपदेन तद्साधारणगुणवत्त्वमेव प्राचीनैरुक्तम्। इत्थं च स्वरूप- संवित्तिकृत: फलीभूतसंवित्तिकृतश्चोपमातो रूपकस्य भेद: सफुट एव"

कथं तथा बोधोऽत आह-तत्तत्पदेति। नन्वेवमपि तदुपस्थितिबोधयोः समानप्रकार- लनियमभझ्गोऽत आह-पदार्थोपेति। कल्पनाया आवश्यकतामाह-अत एवेति। अपिना समीपत्वसमुच्चयः । ननु प्रकृते फलाभावोऽत आह-प्रकृते त्विति। नन्वेवं पचीनविरोधः। ताद्रूप्यसंवेदनस्य फलत्स्य तेरुक्तवादत आह-ताद्रूप्येति। तदसाधारणेति। विजातीयाह्वादकतवेत्यर्थः । इत्थं चेति। रूपके तथा वोधे तथा फलेऽड्गीक्रियमाणे चेत्यर्थः। उपमातो रूपकस्येति। उपमायां तथा बोधाभावात्सा- १ नन्वेवं चन्द्रसदृशाभिन्नं मुखमिति लाक्षणिकबोधः पूर्वमुक्तो विरुद्धः स्यादित्येको दोषः । पदार्थोपस्थिति-शाब्दवोधयोः समानप्रकारकत्वनियमोपि च खण्डितः स्यादित्यपरो दोष इति द्योः समाधानार्थमाह-तत्तत्पदलक्षणेति०- तच्तत्पदानां (चन्द्रादीनाम्) यत् लक्षणाजन्यं ज्ञानं (चन्द्रसदृशमिति) तद्धि लक्ष्याणा (चन्द्रसदृशादीनाम्) तादृशम् लक्ष्यान्वयबोधं प्रति हेतुर्यत्र तत्तेषां पदानां (चन्द्रादीनाम्) शक्यतावच्छेदकं (चन्द्रत्वम्) प्रकारः (विशेषणीभूतः) स्यात्। अर्थात् चन्द्रसदृशादीरना लाक्षणिकपदानामन्वयबोधे चन्द्रादीनां शक्यतावच्छेदकं चन्द्रत्वमपि प्रविष्टं भवति, ततश्च चन्द्रत्वेन रूपेण मुखस्याभेदो न दुर्लभ इत्याशयः । द्वितीये च-पदार्थोपस्थिति-शाब्दबोधयोः समानाकारकता अनुभवसाक्षिकं वैलक्षण्यं यस्य ईदृशं लाक्षणिकबोधम् अतिरिच्य (विहाय) एवं कल्प्यते। लाक्षणिकबोधत्वादन्र तदुल्ल- द्नेपि न दोष इति। २ लक्ष्यार्थस्य तटत्वेन रूपेण शाब्दबोधान्वये तु शैत्यपावनत्वप्रतीतिर्न स्याद। ३ केन्वित्तु इति मते उपमाया रूपकेण सह ताद्रूप्यसंवेदनकृत एव भेदः, स्वरूपसंवेदनं त्वेकमेव। अस्मिन्मते तु-मुखचन्द्र इति रूपके पदार्थोपस्थितिः 'चन्द्रसदृशं सुखम्' इत्या- कारिका, शाब्दबोधस्तु चन्द्ररूपं मुखमिति, द्योभेंदः । उपमायां तु चन्द्रसटृशं मुखमिति पदार्थोपस्थितिः शाब्दबोधश्च द्वावपि समानाकारौ। एवं च-स्वरूपसंवित्तिकृतस्ताद्रूप्यसंवित्ति- कृतश्च द्विविध एव द्योर्भेदः ।

Page 253

लक्षणा ] रसगङ्गाघर:। १३१

वदन्ति। अपरे तु-"भेदकरम्वितं साहश्यमुपमाजीवातुभूनम्, भेदाकरम्चितं च गौगसारोपलक्षणाया इति म्फुटे भेदे कृतं फलकृतवै-

प्रतीतिः कर्थ नाम फलं भवितुमीष्ठे, इत्यतुनपात्तिं परिहर्तुमायासोऽपि नापततीत्यपरमनुकूलम्" इत्यप्याहुः। तदित्थं प्राचामाशयो मतभेदेन वर्णितः । नव्यास्तु-"मुखं चन्द्रः, वाहीको गौः" इत्यादो चन्द्रा्दीनां मुखा- दिभिः सह संभवति लक्षणां विनैवाभेदसंसर्गेणान्वयबोधः। वाधनिश्चैय- प्रतिवव्यतावच्छेदककोटावनाहार्यत्वस्येव शाव्दान्यत्वस्ापि निवेश्य- त्वान्। अत एव 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' इति प्रारचां प्रवादोऽपि संगच्छते। न च 'वहिना सिञ्ति' इत्यतो वाक्यादपि शाब्द-

धारणस्यैव गुणस्य प्रतीतेक्षेति भावः । अत्रापि पक्षेऽरुचि सूचयन्मनान्तरमाह-अपरे त्विति। करम्बितं विशिष्टम्। सादश्यस्य धमरूपलेऽतिरिच्तले च नेदागभल्ादिति भावः। जीवातुर्जीवनोषधम्। स्फुटे भेद इति। उपमायां चन्द्रभिन्नं चन्द्रसदशमिति बोधः । रूपके तु चन्द्रसदृशमिलवेति भावः। पक्षेऽन्मित्नित्वस्यापरमितनेनान्वयः । ननु मुखं न चन्द्र इत्यादिवाधज्ञानसत्त्वेन कथ तथा बोधोऽन आह-वाधेति। अना- हार्येति। तत्सत्त्वेSपीच्छारूपोत्तेज कवशादाहार्येस्य जायनानत्ादिति भावः। न चेत्यस्यैव- मिति शेषः। शाब्दान्यवनिवेशे इति तदर्थः। नन्वेवं प्रक्ृतेऽपि योग्यनाज्ञानाभावात्कर्य

१ भेदो गभें यस्या ईद्दशी सादृश्यप्रतीतिरुपमायां भवति, ततश्चैतादृशप्रतीतेः फलं ताद्रू- व्य(अभेद)प्रतीति: कथ स्यात्? भेदाभेदयोरमिंथो विरुद्धत्वात्। रूपके तु सादृश्यबोधे सत्यपि ताद्रूप्यप्रतीतिरेव लक्षणायाः फलं स्वीक्रियते। तथा च द्वयोरनयोरलंकारयोः पृथग्मेदसाधनाय नायास: कर्तव्यो भवतीत्याशयः । २ वाधनिश्चयेन यजू ज्ञानं प्रतिबध्यते तदवच्छेदक( साक्षाद्धर्म)कोटौ यथा आहार्यश्ा- नभिन्नत्वं निवेश्यते तथा शाब्दान्यत्वमपि निवेश्यम्। अर्थात् वाधे सत्यपि कल्पितो बोधः (आहार्य:) यथा वाधज्ञानेन न प्रतिरुध्यने तथा शब्दमात्रेण जनितः (न तु व्यावहारिक- रूपेण जगत्युपलब्धः) बोधोपि न प्रतिरुध्यते। तथा च मुखं चन्द्र इत्यादेः शब्दमात्रजनित- बोधत्वालक्षणां विनैव अभेदबोध इत्याशयः । ३ अन्रापि शब्दमात्रजनितवोरथं स्वीकृत्य शाब्दबोध: स्यादिति शङ्का।

Page 254

१९२ काव्यमाला। [ द्वितीयानने-

बोधापत्तिः। योग्यताज्ञानविरहात्। मुखं चन्द्रः, गौर्वाहीकः, इत्यादौ त्विष्टचेमत्कारप्रयोजकताज्ञानाधीनाया इच्छायाः सत्त्वादाहायेयोग्यता- ज्ञानसाम्राड्यम्। अत एव शाब्दवोधे योग्यताज्ञानस्य कारणत्वोक्ति: प्राचां संगच्छते। आहार्य एव वाडभेदान्वयबोधोऽस्तु। मास्तु बाध- बुद्धिप्रतिबध्यतावच्छेदककोटौ शाव्दान्यत्व्म्। मा चास्तु शाब्दबुद्धौ योग्यताज्ञानस्य कारणत्वम्। आहार्यं प्रात्यक्षिकमेवेति नियमश्च। अवश्यं मुखचन्द्र इत्यादौ पराभिमतसारोपलक्षणोदाहरणे वाच्यार्थयोरेवाभेदा- न्वयोऽभ्युपगन्तव्यः, न तु वाच्यलक्ष्ययोः । अन्यथा 'रार्जनारायणं

बोधोऽत आह-मुखमिति। अत एवाहार्ययोग्यताज्ञानसत्त्वादेव। शाब्दबोधे शाब्द- वोधल्वावच्छिन्ने। लाघवान्मतान्तरमाह-आहार्य एव वेति। मा चास्त्वति। वह्निना सिश्चतीत्यादावप्याहायेज्ञानस्येष्टत्वादिति भावः । अस्योभयत्रान्वयः । उक्तत द्रढयति-अवश्यमित्यादिना। अभेदेत्यस्याहार्येत्यादिः। एवव्यवच्छेद्यमाह- १ मुखं चन्द्र इत्यादिबोध: अभीष्टस्य चमत्कारस्य प्रयोजक इति ज्ञानाधीनाया अस्माकमि- च्छायाः सत्वात् आहार्य(आरोपित)योग्यताज्ञानस्य तत्राधिकारो भवति येन न शाब्दबोधे प्रतिबन्ध इत्याशयः । २ आहार्यमारोपितं प्रत्यक्षसिद्धमेव भवतीति नियमश्चापि 'मास्तु' इति पूर्वेणान्वयः । अर्थात् शब्दजन्यस्यापि तस्य स्वीकारे सोयं नियमो न स्वीकार्य इत्याशयः । ३ परै: (प्राचीनै:) मुखं चन्द्रः अत्र लक्षणां स्वीकृत्य चन्द्र इति लक्ष्यस्य मुखमिति वाच्यस्य च परस्परमभेदान्वयः प्रोक्तः। वयं तु लक्षणां विनैव वाच्ययोरेवानयोः अभेदं (नामार्थयोस्तथैवोचितत्वात) स्वीकुर्म इति नव्यानामाशयः । ४ 'अन्यथा राजनारायणं लक्ष्मी'रित्यारभ्य 'तन्निवर्तकताया अयोगादिति' पर्यन्तस्य अघट्टकस्यायं सार :- राजा नारायण इवेत्युपमितसमासाधीनायामुपमायां लक्ष्मीकर्तृकमालिङ्गनं नोपपद्यते। लक्ष्म्यालिङ्गनार्थ हि राशि नारायणाडमेदोऽपेक्ष्यते न तु नारायणसादृश्यम्। तत्तु रूपके उप- पद्यते, नोपमायाम्। एवमेव मयूरव्यंसक(विशेषण)समासावीने रूपके पाद एवाम्बुज- मित्यत्र पादस्य अम्बुजरूपत्वे स्वीकृते नूपुरमनोहरत्वं 'नोपपद्यते। नूपुरधारणं हि चरणे उपयु- ज्यते न तु कमले। प्राचीनानां रीत्या रूपके सदृशलक्षणास्वीकारे तु राजैव-नारायण इति रूपकेऽपि सदृश- लक्षणया नारायणसदृश इति बोधे आलिङ्गनानुपपत्तौ तथैव स्थितायाम् उपमानुपपत्ते रूपक- निर्णायकता प्रोक्ता न संगच्छेत। एवमेव पादाम्बुजमित्यत्र रूपकस्वीकारेपि प्राचीनानां मते लक्षणया अम्बुजसदृशमिति बोधेन नूपुरशिञ्जितद्वारा मनोहरताया उपपत्तौ उपमितसमासस्य रूपकनिवर्तकताया उक्तिः प्राचां नोपपद्यते। तस्मान्मुखं चन्द्र इत्यादौ वाच्ययोरेवाभेदः नतु वाच्यलक्ष्ययोरिति ।

Page 255

लक्षणा ] रसगङ्गाघर:। १९३

लक्ष्मीस्त्वामालिङ्गति निर्भरम्', 'पादाम्वुजं भवतु मे विज्याय मञ्जु-

योरनुपपत्तिर्निर्णायिका रूपकोपमयोः प्राचीनैस्तत्र तत्रोपनिवद्धा विरुद्धा स्यात्। आद्यपदे उपमाया इत रूपकस्यापि स्वीकारे वाधकस्य तुल्यतया तन्निर्णायकताया असंगतेः । द्वितीयपद्ये रूपकस्यापि स्वीकारे वाधका- भावेन तन्निवर्तकताया अयोगात्। न च मुसचन्द्रादी समासे कचिदस्तु नाम प्रागुक्तरीत्या लक्षणां विनापि बोधोपपत्तिः, व्योसे तु लक्षणाया नास्ति वाधकमिति वाच्यम् । 'कृपया सुधया सिञ् हरे मां ताप- मूर्च्छितम्' इत्यादौ व्यासेऽ्यनुपपत्तेः । न च सिञ्तेरपि विपयीकेरणे लक्षणया नानुपपत्तिः। उत्प्रेक्षाद्यतिरिक्तातिशयोक्यपह्न वादिध्विवाहार्य- ज्ञानेनोपपत्तो लक्षणायां बीजाभावादनुभवविरोधाच्च। अपि चोपमानवाचकस्य चन्द्रादिपदस्य रूपके उपमानसदशे लक्षणा इति हि प्राचां समयः । तत्र च लक्ष्यतावच्छेदकं साहश्यम्। तञ्च

न त्विति। अन्यथा वैपरील्याड्वीकारे। विरुद्वेत्यत्रास्यान्वयः। उपमितविशेषणेति। 'उपमितं व्याघ्रादिभिः' । 'मयूरव्यंसकादयक्ष' इतीत्यर्थः । तन्र तयोः सवीकारे या तद- नुपपत्तिः सा वैपरीत्े निर्णायिकेत्यखण्डार्थः । वाधकस्य तत्क्ृकालिङ्गनासंभवस्य। वावकाभावेन तादृशमनोहरत्वासंभवाभावेन। प्रागुक्केति। प्राचीनोक्तेलर्थः । नास्ति वाधकमिति । प्राचानुक्तत्वादिति भावः । सिश्चतेरिति । अपिरेवार्थः । उत्प्रक्षति। अन्र तु यथा लक्षगा तथा स्फुटीभविप्यति। विनिगमनाविरहादाह- अनुभवेति। तत्र विसंवादादाह-अपि चेति। सच सनानवमश्च। एवमादो

१ समासाभाने तु सदृशलक्षणयेव कार्य स्यादिति शङ्का। कृपया सुधयेत्यत्र व्यासेऽपि सदृशलक्षणायां सुधासदृश्या कृपया सेचनं तावन्न संवटते यथा सुधाऽभिन्नया। अत एक वाच्ययोईयोरभेदः स्वीकार्य इति समाधानम्। २ अतिशयोक्तो विषयिणः (उपमानस्य) एव यथा विषयीकरणम् (उपमेयतया स्थाप- नम्) तथाSत्रापि 'कुरु' इत्यस्य (विषयस्य) स्थाने सिञ्नति विषयिणः प्रयोगः । अतिशयोक्ति- संवलने चायमर्थ :- 'तापमू्च्छितस्य ममोपरि सुधासेचनसदृशी कृपां कुरु' इति फलितोर्थः । तथा च असमासस्थलेऽपि लक्षणास्वीकारे नानुपपत्तिरिति पूर्वपक्षः । उत्प्रेक्षादिकं विहाय अति- शयोत्तयपहुत्यादिषु यथा आहार्यज्ञानेनैवोपपत्तिस्तथात्रापि आहार्यज्ञानेनैवोपपत्तौ लक्षणास्वीकारे हेतोरभावः, अनुभवविरोधश्चति तत्समाधानम् । १७ रस०

Page 256

१९४ काव्यमाला। [ द्वितीयानने-

संमानधर्मरूपन। स च लक्ष्यांशे सुन्दरत्वादिना विशेषरूपेण प्रतीयते, उताहो सामान्यरूपेण ? नाद्यः। सुन्दरं मुखं चन्द्र इत्यादौ पौनरुक्ता- पच्तेः। न चैवमादावुपात्तधर्मके रूपके तद्वर्मातिरिक्तो धर्म एव लक्ष्य- तावच्छेद्कीभूतसादृश्यरूप इति वाच्यम्। अनुभवविरोधात्। 'अङ्कितान्यक्षसंघातैः सरोगाणि सदैव हि। शरीरिणां शरीराणि केमलानि न संशयः ॥' इत्यादौ श्लेषभित्तिकाभेदाध्यवसितधर्म विना धर्मान्तरस्य सर्वथैवास्फूर्तेश्च। नान्त्यः। सादृश्यस्य शब्दोपात्तत्वेनोपमात्वापत्ते: । न च सादृश्यस्य

इत्यादावित्यर्थः । अत्रादिशब्दस्य प्रकारार्थत्वात्तत्प्रयोजकधर्ममाह-उपात्तेति। तद्द- मैति। उपात्तधर्मान्याह्वादक त्वादिरित्यर्थः। तथानुभवे विसंवादादाह-अङ्कितानीति। अक्षाणीन्द्रियाणि, अक्षाः पद्माक्षाश्च तत्समूहैर्व्याप्तानि। रोगसहितानि, सरोगामी- नीतर्थः। श्रेषेति। शब्दश्लेषनिमित्तको यो विशेषणार्थयोरभेदाध्यवसायस्तद्विषयी- भूतो यो धर्मस्तद्याप्तत्वसरोगलरूपस्तमित्यर्थः। एवमग्रेऽपि। एवं चात्र पौनरुकत्ं दृढमिति भावः। शब्दोपान्तिति। लक्षणयेति भावः । तथा च रूपकोच्छेदापत्ति- १ समानध्मों यदि सुन्दरत्वादिना विशेषरूपेण प्रतीयते तर्हि सुन्दरं मुखं चन्द्रः अत्र सुन्दरत्वस्य शब्दद्वारा उक्ति: पौनरुक्त्यम्। यतो हि सुन्दरत्वमेव यदा लक्ष्यतावच्छेदकं तदा सुखं चन्द्र इत्यस्यैव चन्द्रेण समानं सुन्दरं मुखमित्यर्थसंपत्या पुनः कथनं पुनरुक्तिरेव। २ शरीराणि कमलानीति व्यस्तरूपकम् । लक्षणया कमलसद्टृशानाम् (शरीराणाम्) लक्ष्यतावच्छेदकं सादृश्यं च शब्दश्रेषरूपया भित्त्या (निमित्तेन) विशेषणीभूतयोरर्भयोः एक- पदोपस्थाप्यत्वरूपस्य अभेदाध्यवसानस्य विषयीभूतो यो धर्मः अक्षसंघातैः (इन्द्रियसमूहैः पझ्माक्षराशिभिश्र) व्याप्तत्वम्, सरोगत्वम् (रोगसहितत्वं सरोगामित्वं) च विहाय नान्यो (वर्मः ) भवितुमहति । अर्थात् 'सुन्दर मुखं चन्द्रः' अत्र तु उपात्तं धर्म सुन्दरत्वं विहाय अन्योपि कश्चन धर्मः (आह्लादकत्वं गौरत्वं वा) लक्ष्यतावच्छेदकसादृश्यरूपेण निर्वक्तं शक्यते। अत्र तु शरीराणाम् (उपमेयानाम्) कमलनाम् (उपमानानां) च पूर्वोंक्तम् अभेदाध्यव- वसतधर्म विना अन्यो न कोपि समानधर्मः प्रतीयते। तस्य च भवन्मतानुसारं लक्ष्यतावच्छेद- कसादृश्यरूपत्वेन 'शरीराणि कमलानि' इत्यस्यैव 'कमलसदृशानि अक्षसंघाताङ्कितानि सरो- गाणि शरीराणि' इत्यर्थो जातः । पुनः पद्ये 'अङ्कितान्यक्षसंघातैः' इत्याद्युक्तिः पौनरुत्तयायैव। वतश्च लक्ष्यतावच्छेदकं सादृश्यं विशेषरूपेण न प्रतीयते पौनरुत्तयापत्तेः । इति वक्तव्यं स्यात्। ३ लक्ष्यतावच्छेदकं सादृश्यं सादृश्यत्वेन सामान्यरूपेण प्रतीयते इति अन्त्योपि पक्षो न । तथा सति लाक्षणिकेन चन्द्रादिपदेन यथा लक्ष्योर्थः प्रतिपादते तथा लक्ष्यतावच्छेदकम् (साद- श्यम्) अपि प्रोच्यते। ततश्च रूपकेऽपि शब्दोपात्तस्व सादृश्यस्य सिद्धत्वादुपमालंकारो भवेत्। रूपकस्य चोच्छेद: स्यादित्याशयः ।

Page 257

लक्षणा ] रसगङ्गाघर: । १९५.

वोच्यतायामेवोपमाव्यपदेशः । 'नलिनप्रतिपक्षमाननम्' इत्यादौ तदभा- वापत्तेः । किं च 'विद्वन्मानसहंस-' इत्यादौ छ्िष्ठपरम्परितरूपके श्रेप- निष्पत्तो श्रेषभित्तिकाभेदाध्यवसानेन मानसवासित्वरूपे भूपहंसयो: सादृश्ये सिद्धे सदशलक्षणामूलस्य भूपे हंसरूपकस्व सिद्धिः। तस्यां च सत्यां सरोमनोरूपार्थद्वयाभिधानलक्षणस्य ललपस्य निष्पत्तिरिति परस्प- राश्रयः। नहि रूपकास्फूती सरोरुपेऽर्थे मानसशव्दस्य तात्पर्य वेदयितुं किंचित्प्रमाणमवतरति। स्फुरिते तु रूपके तढ्ूटकसादृश्यान्यथानुपपत्ति- रूपेण प्रमाणेनार्थद्वयाभेदवोधफलकस्य तदुभयप्रतिपादनात्मनः श्रेषस्

रिति भावः। वाच्यतायामेवेति। शक्तेति भावः। तदभावेति । प्रतिपक्षश- व्दस्य न सादश्ये शक्तिः किं तु लक्षणेति भावः। इष्टापत्तावाह-किं चेति। विद्व- दिति। 'विद्वन्नानसहंस वैरिकमलासंकोचशीतद्युते दुर्गामार्गणनीललोहिन समित्सी- कारवैश्वानर। सत्यप्रीतिविधानदक्ष विजयप्राग्भारभीम प्रभो साम्राज्यं वरवीर वत्सर- शतं वैरिच्चमुच्ैः क्रियाः ॥' इलादावित्वर्थः । अत्र नानसमेव मानसमित्यादि'लेनः। तस्य रूपकसिद्धां। तद्धटकेति। लक्ष्यतावच्छेदकेत्यर्थः । अर्थद्येति । सरोमनोरूपे-

१ यत्र सादृश्यमभिधया प्रतिपादं तत्रैवोपमा। अत्र तु सादृश्यं लक्षणया प्रतिपादं ततो नोपमा प्रसज्येतेति शङ्का। नलिनप्रतिपक्षम् इत्यादावपि प्रतिपक्ष शत्रुपदेन सादृव्यं न वाच्यम्, अपि तु लक्षणागम्यमेव। सर्वसंमता चेयसुपना। लमादभिधया वाच्ये एव सादृश्ये उपमा इति नोपपन्ननिदं समाधानम्। तनश् रूपके लक्ष्यतावच्छेदकं सादृश्यं न विशेष रूपेण, न वा सामान्यरूपेण प्रतिपादयितुं शक्यत इति सर्वस्याशयः । २ विदुषां मानसम् (मनः) एव मानसन् (सरः) तस्य हंसः। वैरिकमलायाः (लक्ष्म्याः ) संकोच एव वैरिकमलानाम् आ (समन्तात्) संकोचः तस्य कृते शीतद्युते (चन्द्र !) इत्या- दिषु मानसवासित्वरूपे भूपहंसयो: सादृतये सिद्धे सति (लक्ष्यतावच्छेदकस्य धर्नस्य संपत्या) भूपे हंसरूपकस्य सिद्धिः । रूपकसिद्धौ सत्यां तु राजनि हंसताप्रतीतिवशात सरोमनोरूपस्य अर्थद्वयस्य प्रत्यायक: मानसपदश्हेषः सिध्येत्। [यावत्कालं राजनि हंसरूपकं न सिध्यति तावत् विद्वत्पदसहकृततया मनोरूपार्ये दृढीभूतस्य मानसपदस्य सरोरूपमर्थ बोधयितुं न किञ्ञि- स्प्रमाणान्तरमस्ति ] एवं च रूपकसिद्धौ श्रेषापेक्षा, ऋेषसिद्धौ च रूपकमपेक्षितमिति अन्योन्या श्रयदोषाद्वाच्ययोरभेदान्वयसरणिरेवोत्तमा, न तु सद्ृशलक्षणेत्याशयः ।

Page 258

१९६ काव्यमाला। [द्वितीयानने-

निष्पत्तिः । अतो नामार्थयोरभेदान्वयसरणिरेव रूपकस्थले रमणीया । सदशलक्षणायाः फलं रूपके ताद्रप्यप्रत्यय इत्यपि न हृदयंगमम्। तत्सदस इति शब्दात्सादृश्यप्रत्यये सत्यपि ताद्रृप्यप्रत्ययापत्तेः" इत्याहुः । अत्रेदं विचार्यते-यत्तावदुच्यते नामार्थयोरभेदान्वयबोधेनैवोपपत्तौ रूपके नास्ति लक्षणेति, तत्र चमत्कारिसाधारणधर्मानुपस्थितिदशायामुप- मालंकारस्येव रूपकालंकारस्यापि नास्ति निष्पत्तिश्चमत्कारो वेति सकल- हृदयसिद्धम्। कथमन्यथा 'भारतं नाकमण्डलम्', 'नगर विधुमण्डलम्' इत्यादिवाक्यश्रवणानन्तरमनुन्मिषन्त्या रूपकप्रतिपत्तेः सुपर्वालंकृत- सकलकलादिशब्दश्रवणोत्तरमेव सेमुन्मेष: सर्वेषाम्। इत्थमेव च मुखं चन्द्र इत्यादिप्रसिद्धोदाहरणेऽपि। इयांस्तु विशेष :- यदेकत्र साधारणो धर्मः प्रसिद्धतया नियमतः सवबोधकश्रुति नापेक्षते। इतरत्र त्वप्रसिद्धतया

त्यादिः। प्राचोक्तमन्यत्खण्डयति-सदशेति। नास्ति लक्षणेतीति। मास्तु लक्षणा। नामार्थयोश्वामेदान्वय एवास्तु। न च बाधज्ञानं प्रतिबन्धकम्। सादृश्यज्ञानरूपदोषस्यो- त्तेजकलात्। एतज्ज्ञानं च प्रसिद्धसादृश्यकस्थले साधारणधर्मानुपादाने एकसंबन्धिज्ञा- नाद्परसंबन्धिस्मरणन्यायेन। साधारणधर्मस्मृतौ दोषविशेषसहकारेण शब्दादभेदप्रत्ययः। शङ्के पीतलाभावनिश्चये काच-कामलादिदोषेण तत्पीतत्वप्रत्यक्षवत्। रूपके आहार्यबु- द्विरिति प्राचीनव्यवहारे बाधवुद्धिकालिकाकालिकत्वमात्रे आहार्यपदं लाक्षणिकम्। इव- शब्दादिसमभिव्याहारे तु तेन भेदगर्भसादृश्यस्यैवोपस्थापनान्नाभेदप्रतीतिरिति मम प्रति- भाति। तत्र दोषं वक्तुमाह-तत्रेत्यादिना। चमत्कारी यः साधारणधर्मस्तदनुपे- त्यर्थः। उभयन्र क्रमेण साधारणधर्ममाह-सुपर्वेति। देवालंकृतत्वं पण्डितालंक्ृ-

१ यथा सद्टृशलक्षणायां तत्सद्टशेडयें जाते ताद्रूप्यं लक्षणाप्रयोजनं ख्यायते तथा 'तत्सदृशः' इति पदेपि ताद्रूप्यम् (अभेदः) प्रतीयेत। न तु तथा भवतीति रूपके सद्टशलक्षणा नोचितेति नवीनानामाशयः । २ 'भारतं नाकमण्डलम्' इति या रूपकप्रतीतिः पूर्व नाभ्युदेति स, सा 'सुपर्वालंकृतम्' (सुपर्वभि: देवैः अलंकृतं स्वर्गमण्डलम्, सुन्दरैः सभा-वन-विराटादिभिः पर्वभिश्च अलंकृतं महाभारतम्) इति साधारणधर्मश्रवणे स्फुटं स्फुरति। एवमेव 'नगरं विधुमण्डलम्' इति रूप- कमपि 'सकलकलम्' (सकलाः कलाः षोडशभागाः यत्र तादृशं चन्द्रमण्डलम्, कलकलेन सहितं चतुःषष्टिकलासहकृतं वा नगरम्) इति सामान्यधर्मश्रवणे द्रुतं बुध्धारूढं भवति। ३ स्वस्य ( साधारणधर्मस्य) बोधिकां श्रुति शब्दश्रवणम्। साधारणधर्मवाचकशब्दश्रवण- मित्यर्थः ।

Page 259

लक्षणा ] रसगङ्गाघर: । १९७

तथा। एवं स्थिते साधारणधर्मवत्त्वरूपं सादश्यं यदि रूपकमध्यं न प्रविशेत्तदा कथमिव धर्मविशेषानुपस्ितिदशायां रूपकं न पर्यवस्थेन्। चमत्कार वान जनयेन्। उपमानोपमेययोराहार्याभेद्वुद्धेरनन्यापेक्ष- पर्यवमानायाः साम्राज्यान। न चाहायपदार्थद्वयाभेदवुद्धो तच्चमत्कारे वा साधारणधर्मविशेषज्ञानं प्रयोजकमिति शक्यं बक्कम्। 'यद्यरनुष्णो भवेद्ह्निर्यद्यशीतं भवेज्जलम्। मन्ये दृढत्रतो रामस्तदा स्वादप्यसत्यवाक्।' इत्यादौ साधारणधर्मस्याप्रत्ययेऽपि वह्नयनुष्णत्वादीनामभेदप्रत्ययोपगतेः। न चोपमानोपमेयस्थल एवायं नवीनो विशेष इति वाच्यम्। ईदशविशे- घकल्पने मानाभावान्। साधारणधर्मानुपस्थितिदवशायामपि 'मुखं यदि

तत्ं सकलकलत्वं चेत्यर्थः । कला पोडशो भागः कौशलं च। एकत्र प्रसिद्धोदाहरणे। इतरत्राप्रसिद्धोदाहरणे तु। तथेति । नियमेन सबोधकश्रुतिनपेक्षत इत्यर्थः । कथ- मिव कथमपि। अनन्यापेक्षेति। रूपकस्य तु धर्मविशेषोपस्थितपेक्षं पर्यवसानमिति भावः विशेषज्ञानमिति। तथा च तदभावादमेदवुद्धिरपि न स्यादिति भावः । वह्नयनुष्णेति। वह्यादावनुष्णाद्यभेदप्रतीतेरित्यर्थः । न चोपमेति । वह्वयनुष्णा- १ न अन्यत् (साधारणधर्मादिकम्) अपेक्षते पर्यवसानं ( सिद्धिः पूर्णता वा) यस्याः, ईदृश्याः उपमानोपमेययोः आहार्यामेदबुद्धेः साम्राज्यात् पूर्णाधिकारात्। अर्थात् भवद्रीत्या नामार्थयोईयो: आहार्याभेदस्य बुद्धिर्निष्प्रतिरोधं तत्र वर्वत एव। तस्यां दुर्आ च न कस्यचित् साधारणधर्मादिज्ञानस्यापेक्षा। एवं सत्यपि साधारणधनवत्वन् (साटृश्यन्) यावत्कालं रूपक- मध्यं न प्रविशति तावत् (नामाथयोदयोरभेदबुद्धौ सिद्धायानपि) रूपकं न पूर्ण भवति, नापि वा चमत्कारकं भवति। किमेनत् ? २ 'वहनिः अनुष्णः' 'अशीतं जलन्' अत्र अनुष्णाभिन्नो वहिः, अशीताभिन्नं जलम्, इति द्वयोः पदार्थयोरमेदप्रतीतिः साधारणधर्मज्ञानं विनैव भवतीत्यर्थः । ३ उपमानोपमेययोश्चन्द्रमुखयोराहार्याSभेद: साधारणधर्म प्रयोजकं कृत्वैव संभवति, अन्यथा न, इत्यपि न शक्यते वक्तुम्। यनो हि 'मुखं यदि चन्द्रः स्वात् तदा भूम्यवस्थित न स्यात्' अत्र मुखचन्द्रयोरुपमेयोपमानत्वे सत्यपि साधारणधर्मस्य (आह्लादकत्वादेः) अभा- वेपि आहार्याभेदज्ञानं स्वीक्रियते। अन्यथा 'मुखं चन्द्रः स्यात्' इत्यन्वय एव न संभवे । द्वयोर्नामार्थयोरभेदातिरिक्तेन संबन्धेन अन्वयस्यैवाSस्वीकारात्। ततश्च मुखचन्द्रादिषु उपमेयो- पमानेषु साधारणधमोंपस्थितिं विनापि अभेदबोधः संभवति, परं साधारणधर्मप्रयोज्यस्य साटृ इयस्याभावे आहार्याभेदज्ञानमात्रेण रूपकं न सिध्यति। एवं च रूपकसिध्र्थमपेक्षितस्य सादृश्यस्य प्रतीतये सदृशलक्षणा स्वीकर्तव्येत्याशयः ।

Page 260

१९८ काव्यमाला। [ द्वितीथानने-

चन्द्रः स्यान्तदा भूज्यवस्थितं न स्यात्' इत्यादौ तादृशप्रतीत्युपगमाच। ननु रूपक प्रतीते रुपमानाभेदविषयत्वविरहे 'सिंहेन सदशो नायं किं तु सिंहो नराधिप:' इत्यादौ निषेध्यविधेययोरसंगतिरिति चेत्, न । अनुपद्मेव आचीनमतद्वयेऽपि रूपके ताद्रृप्यप्रतिपत्तेः स्वीकारस्य प्रतिपादनात्। अथ विधेयकोटौ प्राचां मते सादृश्यस्यापि प्रविष्टतया तन्निषेधानुप- पत्तिस्तथापि स्थितैवेति चेत्, भेदृघटितसादृश्यरूपाया उपमाया एव निषेध्यत्वात् तिरोभूतभेदसादृश्यलक्षणस्य रूपकस्य विधेयत्वाच्च नानुप- पत्तिः। यदप्युक्त रूपके लक्षणास्वीकारे 'राजनारायणम्' इत्यत्र 'पादाम्बु- जम्' इत्यत्र चोपमारूपकयोर्वाधकतया रूपकोपमयो्निर्णायकतया विरुद्धा स्यादित्यादि, तद्पि न। रूपके उपमानतावच्छेदकरूपेण तत्सह- शप्रत्यंयस्योपपादितत्वेन 'राजनारायणम्' इत्यादौ विशेषणसमासायत्तस्य दीनां तु नोपमानोपमेयलम्। अत एव तत्र रूपकादिकं न। अभेदवुद्धिस्तु तन्रास्तीति भावः। न लन्यथानुपपत्तिरेव मानं तत्राह-साधारणेति। तादशति। उपमानोपमे- ययोश्रन्द्रमुखयो रूपकसत्त्वेनाभेदप्रतीत्यज्गीकारादित्यर्थः । तस्मादभेदबुद्धौ तस्य प्रयोज- कत्वस्य दुर्वचतया सैव स्यात्। रूपकं न पर्यवस्येत्। अतस्तदुपस्थित्वर्थ लक्षणावश्यमा- श्रयणीयेति भावः। तत्र शङ्कते-ननु रूपकेति। विरहे इति। नामार्थयोरभेदान्वय इति सरण्यनङ्गीकारे इत्यर्थः । विधेयकोटाविति। 'सिंहो नराधिपः' इत्यादावि त्यर्थः । तथापि ताद्रूप्यप्रतिपत्त्यङ्गीकारेऽपि। एवेन सादश्यस्य विधिनिषेधव्यावृत्तिः । तिरोभूतभेदेति बहुव्रीहिः। सादृश्येति। सादृश्यरूपस्येत्यर्थः। विशेषणसमासेति। १ रूपके केवलं लक्षणैव न, उपमानाभेदोऽपि स्वीक्रियत इति शङ्कासमाधानान्यां स्थिरी- करोति। 'ननु रूपकप्रतीते०' इत्यादिना। २ 'कि तु सिंहो नराधिपः' अनेन निषेधोत्तरं कदविधीयते तन्रापि प्राचामनुसारं सद्टशलक्ष- गया 'नराधिपः सिंहः' अत्र 'सिंहसदृशः' इत्येवार्थः स्यात्। 'अयं सिंहेन सदृशो न, किंतु नराधिप: सिंहः' अर्थात् सिंहसदृशः । एवं च 'सिंहसदृशो न अपि तु सिंहसदृशः' (लक्ष- गया) इत्येवार्थः संपन्नो यो हि स्फुटमनुपपन्नः । ततश्च लक्षणायां कथमर्थसिद्धिः ? इति शङ्का। इसेंहेन सदृशो नायमित्यत्र सादृश्यस्य निषेधः सिहत्वस्य च विधानं न। अपि तु भेदघटितसादृश्या उपमा निषिध्यते। तिरोभूतसादृश्यस्य रूपकस्य विधानम्। इति न काच्विदसंगतिरित्युत्तरम् । ३ 'चन्द्रसदृशत्वेनापि रूपेणोपस्थितानां मुखादीनां चन्द्रत्वेन रूपेणैव मुखादिपदोपस्थापितैः -सहाभेदान्वयबोधो जायते' इति।

Page 261

लक्षणा ] रसगङ्गाघर: १९९

रूपकस्य स्वीकारे प्रधानीभूतोन्तरपदार्थस्य नारायणसहशन्यापि नारायण- त्वेनैव प्रतीतेलेक्ष्मीकर्तकालिङ्गनकर्मताया अनुपपत्तेरभावान्। उपमाया उपमितसनासायत्तायाः सवीकारे तु प्रधानीभूतपूर्वपदार्थस्य राज्ञो राज- त्वेनैव प्रत्ययात्ताहशकर्मताया अनुपपनेः । 'पादान्तुजम्' इन्यादावपि

प्रतीतेर्मञ्ुमञ्जीरशिञ्चितमनोहरताया अनुपपत्तेः। उपनितसमासाचनो- यमायां तु प्रधानस्य पादस्य पादत्वेनैव प्रतीतस्य्र नास्ति तस्या अनुप- पत्तिरिति न कोडपि दोषः । न चोपमितस्मासे पुर्वनदार्थस्वोपमेय- स्योपमेयतावच्छेदकतयैव प्रतीतिरिति न युक्तम्। 'वक्रे चन्द्रमसि' इति आगुक्तरूपक इवोपमानताद्रप्यवद्भेदवुद्ध्या त्तादृव्यस्यात्रापि प्रतिपतुं शक्यत्वाल्लक्षणायास्तुल्यत्वादिति वाच्यम्। उपमितसमासे भेदघटिनसा- दश्यस्व लक्ष्यकोटिप्रविष्ठतया वैलक्षण्यस्य वक््यमाणत्वान्। यदप्युक्त

मयूरव्यंसक इति समासेलर्थः। उपमितसमासेति। 'उपमिन व्य प्रादि-'इति समा- सेत्यर्थः । तादृशेति। लक्ष्नीकर्तृकालिडनेल्र्थः । तस्या इति । मन्नमश्जीरशिज्ञत- मनोहरताया इत्यर्थः। उपमानतादूप्येति। उपमानसद्ृशयोरेकपदोपात्तत्वेनोपमान- ताद्रूप्यवत्सदशाभेदवुद्धा उपमेये उपमानताद्रूप्यस्योपमायामपि ज्ञातुं शक्यतादित्र्थः। तत् हेतुमाह-लक्षणेति। रूपके इवोपमितसमासे वाचकेवशव्दस्याभावेन लक्षणा-

१ अर्थात् पादस्य पादत्वेनैव प्रतीतिर्भवति इति कथनं न युक्तन्। वक्रे चन्द्रनसि स्थिते यदपर: शीतांशुरुजजुम्भते' अन्र चन्द्रलदृशस्य चन्द्रस्य च एकपदोपस्थाप्यत्वरूपेग अभेदा, व्यवसानेन ताद्रूप्यम् (अभेदः) भवति। ततः चन्द्रनाद्रप्यवता चन्द्रसदट्टशेन सह अभेदात (नामार्थयोः) मुखस्यापि चन्द्रत्वं भवतीति भवता पूर्व साधितन्। तदनुसारम् अम्बुजसदृशस्य पादेन सह अभेदान्वयात् पादेऽपि अन्बुजताद्रृप्यं सिध्येत्। यथा रूपके (सद्टश)लक्षणा, तथा उपमितसमासेSपि लक्षणा स्वीकर्तव्यैव। यतः 'पुरुषव्यात्रः' इत्यादौ इवशब्दस्याडभावेन तदर्थप्रत्ययार्थ व्याघ्रपदस्य व्याघ्रसदृशे लक्षणेति वैयाकरणैरप्यङ्गीकृतत्वात्। तथा च अम्बुज- ताद्रूप्यप्रत्यये सति पादे नूपुरसंबन्धस्यानुपपत्तिरुपमितसमासेपि तथव स्थितेति शङ्का। उपमितसमासे भेदघटितं सादृश्यं लक्ष्यकोटिप्रविष्टम्, विशेषणसमासे तु सादृश्यं भेदा- घटितमिति लक्षणाया उभयत्र समानत्वेपि, उपमायां रूपके च भेदघटितत्वाडमेदघटितत्वाभ्यां भेदो भवति। तथा च भेदघटितसादृश्यस्य प्रत्ययेन उपमितसमासे न अम्बुजताद्रूप्यप्रतीतिरिति समाधानम्।

Page 262

काव्यमाला। [ द्वितीयानन-

सादृश्यस्य शब्देनोपादानादुपमात्वापत्तिरिति, तदपि न। भेदाकरम्वित- सादृश्यविशिष्टत्व रूपके लक्ष्यत्वादुपमाव्यपदेशस्याप्रसक्तेः । 'सादृश्य- मुपमा भेदे' इति तत्सिद्धान्तात्। ननु यत्र भेदघटितसादृश्यवति वक्रा लक्षणया सुखं चन्द्र इति प्रयुक्त्तं तन्र तथाप्युपमालंकारापत्तिः स्थितैवेति चेत्, भेद्घटितसादश्यप्रतिपिपाद्यिषाकाले लक्षणया तद्वति शब्द- प्रयोगस्य विरुद्धत्वात्। लक्षणायास्ताद्रप्यप्रतिपिपाद्यिषाधीनत्वात्। नहि प्रयोजनमनुद्िश्य रूढिव्यतिरिक्तया लक्षणयार्थ प्रतिपाद्यन्त्यार्याः । भेदताद्रप्ययोर्विप्रतिषिद्धत्वेन युगपत्प्रतिपत्तबुद्धयुपारोहासंभवाच्। अथोपमितसमासे पुरुषव्याव्र इत्यादावुत्तरपदस्य स्वार्थसदशे लक्षणै- वोपगन्तव्या। अन्यथा बोधकाभावेन समासे सादृश्यप्रत्ययो न स्यात्। न च व्याघ्र इवेतीवशब्दस्तद्वोधक इति वाच्यम्, तस्य समासे संबन्धा- भावात्। सति च संबन्धे तन्निवृत्तेरयोगात्, निवर्तकशास्त्रस्याभावात्। विग्रहवाक्यगतस्त्विवशब्दः खघटितवाक्यस्योपमाप्रतिपादकत्वं संपाद- यितुमीष्टे, न वाक्यान्तरस्य। तस्य विवरणत्वानुपपत्तेश्र। नहि विवरणीयवाक्यगतशब्दाप्रतिपाद्यस्यार्थस्य विवरणं युज्यते। इत्थं च

सत्वेन तस्याः समत्ादित्यर्थः। मेदाकरम्बीति। भेदाविशिष्टेत्यर्थः। दोषान्तरमाह- भेदेति। संबन्धाभावादिति। द्वयोरेव पदयोः समासादिति भावः । अभ्युपेत्याह- सति चेति। उपमाप्रतीति। उपमालंकार प्रती त्यर्थः। वाक्यान्तरस्य समासवाक्यस्य। ननु समासे मास्तु सादृश्यप्रतीतिरत आह-तस्यति। विग्रहवाक्यस्येत्यर्थः । इत्थं च।

१ मेदमिश्रितं सादृश्यम् (पुरुषव्याघ्र इत्यापमितसमासे), अमेदघटितं सादृश्यं च (मुखं चन्द्र इत्यादौ रूपके) इत्युभयविधमपि सादृश्यं लक्षणया बोध्यत इति स्थितम्। ततश्च सादृश्य- प्रयोगस्य वक्तुरिच्छाधीनत्वात् भेदघटितं सादृश्यं हृद्याधाय यत्र प्रयोक्रा 'मुखं चन्द्रः' इत्यभि- हितम्, तत्र सादृश्यस्य भेदघटिततया उपमालंकारत्वं प्रसज्येतेति शङ्का। समाधानं तु मूल एक स्पष्टम्। २ व्याघ्रसदृशे ।

Page 263

लक्षणा ] रसगङ्गाघर:।

लक्षणायी एवाभ्युपगम्यतया सत्यां च तत्प्रयोजनीभूनताट्रूप्य प्रतिपत्तौ कथमुपमा तत्र प्राचीनेरुक्तेति चेन, अत्रोच्यते-उपमितसमा

शब्दस्य भेद्घटितसादश्यविशिष्टे निरूढलक्षणाया वा स्वीकाराददोप:। इयमेव निपातानामिवादीनां दोतकतानये मुखं चन्द्र इवेत्यादौ, वाचक- लुप्तायासुपमायाँ च गतिरतुसरणीया। वाचकलोपेस्तूपमानाद्यकरम्वित-

उक्तदोषे चेत्यर्थः । द्विलुप्तेति। उक्तरीला धर्मवाचकयोः सत्वेन कर्थ धर्मवाचकलुप्तो- केतर्थः । विशिष्टशक्तो गौरवादाह-तद्टकीति। भेदघटिनेति। तथा च साधा रणधर्माभानाद्धमलुप्तत्वं सुस्थम्। नन्वेवमपि ताट्रूप्यप्रतील्या करथं धमन्दप्तत्वमत आह- निरूढलक्षणेति। इयमेवेति। उक्तेव गतिरित्यर्थः। धर्मद्प्तोदाहरणमाद्द-मुखं चन्द्र इवेति। वाचकलुप्तायामिति। तडिद्वारीलादावित्यर्थः। नन्वेवमपि साहश्यवाचकस्यो- पमानशब्दस्वेव सत्वात्कर्थं वाचकलुप्तत्मत आह-वाचकेति। वाक्ये इवानुपादाने १ धने-वाचकनुप्ा कथमुक्ता? ताद्रप्यस्य (व्यात्रत्वरूनत्य वर्नेस्य) इवार्यन्य सादृश्यस्य च लक्षणया प्रतिपादितत्वादिति रङ्का। २ अर्थात् पुरुषव्यात्र इति समासनिष्पन्नरदस्येव व्यात्रमित्ो व्यात्सदरः पुरुष इत्यर्था- डभिधया भवति, नाडत लक्षणा। ३ अर्थात् उपमितसमासघटितव्याघ्रशब्दन्य भेदघटितसादृडययुक्ते (व्याघ्रभिन्ने व्याघ्रमद्दशे) निरूढा (प्रयोजनानुसंधानरहिता) लक्षणा। एवं च आद्यपक्षे लक्षणाया एवाडभावेन, द्वितीय- पक्षे च लक्षणाया रूढत्वान्न ताद्रूप्यप्रतिपत्तेः संबन्धः। तनश्र द्वितात्वविरोधो न प्रसज्यत इति पूर्वोक्तशङ्कायाः समाधानन्। ४ इवस्य प्रयोगेऽपि तस्व (शवस्य) द्योनकन्व्रेन वाचकत्वाभावात्सादृश्यस्व वाच्यत्वं न व्यपदिश्येत। ततश्च वाचकलुतात्वं नास्त्विति 'चन्द्र इव' इति समुदायस्य चन्द्रभिन्ने चन्द्र- सदृशे शक्तिः । किं वा चन्द्रेत्युपमानस्य चन्द्रभिन्ने चन्द्रसदटशे निरूढा लक्षणा। ५ तडिद्गौरीत्यादौ वाचकस्य लोपे तडित्सादृश्यप्रत्ययार्थ समुदायस्यैव तडिद्भिन्ननडित्स- दृशगौर्या शक्तिः, उपमानस्य तडितो वा तद्भिन्नतत्सटृशगौर्या निरूढा लक्षणेत्याशयः । ६ नन्वेवं व्याघ्रादेरुपमानस्यैव (शक्त्या लक्षणया वा) सादृश्यवाचकत्वस्वीकारे पुरुष- व्याघ्र इत्यादौ वाचकलोप: कथं व्यपदिश्येतेति शङ्का। उपमानाद्यकरम्वितस्य (उपमानादितो भिन्नस्य), सादृश्यवाचकः (इवादि:) तत( सादृश्य)विशिष्टवाचकः (सम-सद्टशादि:) अनयोरन्यतरस्य प्रतिपादको यः शब्दः तच्छून्यत्वाद्वक्तव्यः । अयं भाव :- उपनानेन सादृ- ऋयप्रतीतावपि सादृश्यवाचकसत्ता नाङ्गीक्रियते। तदर्थ हि इवादेः, सम-सदृशादिशब्दानां वा पृथक् प्रयोगोडपेक्षितः । प्रकृते च उपमान एव सादृश्यवाचकः, न इवादि: सदशादिर्वेति न दोष इति समाधानम्।

Page 264

२०२ काव्यमाला। [ द्वितीयानने-

। यच्च 'विद्वन्मानस-' इतत्र दूषणमभिहितं तद्रूपकप्रकरणे परिहरिष्यते। यदप्युकं रूपके सदशलक्षणायाः फलं ताद्रूप्यप्रत्ययो न युज्यते। तत्सदश इति शब्दजवोधानन्तरमपि तथाप्रत्ययापत्तेरिति, तन्न। तत्सदश इत्यत्र लक्षणाया अभावेन ताद्रूव्यप्रत्ययस्यापादनायोगात्। ताद्रूप्यप्रत्ययो लक्षणायाः फलमिति प्राचां समयः। महाभाष्यादिग्रन्थानामस्मिन्नेवानु- कूलत्वाच्च। नव्यनये तु तेषामाकुलीभावः स्यादिति दिक्। "साध्यवसानायां च 'चन्द्रराजी विराजते' इत्यादौ चन्द्रादिशब्दैर्ल- क्षणया मुखत्वेनोपस्थापितस्यापि मुखादेः शाब्दवोधश्चन्द्रत्वादिना भवति, लंक्षणाज्ञानस्यैव माहात्म्यात्" इत्येके। "लक्षणया मुखत्वेन मुखादेः शाब्द-

वाचकलुप्तल्वाय-सादृश्येति । समसदृशादप्रयोगे तत्त्वायाह-तद्विशिष्टेति। सादृश्यविशिष्टेत्यर्थः । परिहरिष्यत इति। अयं भाव :- उपमेयोपमानयोरभेद एव रूपकमिति मते सादृश्यज्ञानमूलकाभेदप्रतीतिविषय एव सः। एवं च 'पौरुषाब्धेस्तरङ्ग: प्रत्यर्थिवंशोल्वणविजयकरिप्रौढदानाम्बुपट्टः खङ्ो मालवस्य इत्यादौ खङ्गे शब्दात्प्रतीय- मानदानाम्बुपट्टामेदे प्रत्यर्थिषु वंशाभेदप्रतीतिमूलकतज्जेतृसंबन्धित्वरूपं साधर्म्य मूलम्। प्रत्यार्थषु वंशाभेदे च खङ्गे दानाम्बुपट्टाभेदप्रतीतिमूलकतद्वद्भज्यमानल्म् । तथेति। ताद्रूप्येत्यर्थः । तस्मादवश्यं रूपके लक्षणा। अत्र युत्त्यन्तरमाह-महाभाष्यादीति। तथा च 'पुंयोगादाख्यायाम्' इति सूत्रे भाष्यम्-'भिन्नानाममेदाभावात्, क्थं पुन- स्तस्मिन् स इत्येतद्भवति। चतुर्भि: प्रकारस्ताद्रूप्यमारोप्यते, न तु मुख्यम्। तात्स्थ्यातू, ताद्धर्म्यातू, तत्सामीप्यात्, तत्साहचर्यात्, इति। तात्स्थ्याद्यथा मश्चा हसन्ति। ताद्ू र्म्याद्यथा-'जटी ब्रह्मदत्तः'। ब्रह्मदत्ते यानि कार्योणि जटिन्यपि तानि क्रियन्ते। तत्सा- मोप्यायथा-'गड्ायां घोषः' । तत्साहचर्याथा 'कुन्तान्प्रवेशय' इति। लक्षणाभाव वादिनापि कथमन्योन्याश्रयः परिहार्यः । किमर्थ वा श्लिष्टपर्यन्तानुधावनं नवीनैदीक्षितैः

१ पदार्थोपस्थितिशाब्दबोधयोः समानाकारकत्वानयमस्य लाक्षणिकबोधेतरबोधविषयताया; भूर्वसुपपादितत्वात चन्द्रादिशब्दानामर्थोपस्थितिर्मुखत्वेनोपस्थापितमुखरूपेण भवति तथापि शाब्द- बोधश्रन्द्रत्वावच्छिन्नमुखरूपे भवतीति एकेषां मतस्य सारः ।

Page 265

लक्षणा ] रसगङ्गाघर:। २०३

वोधे वृत्ते व्यञ्जनयैकशब्द्रोपात्तत्व्वप्रादुरभूतया चन्द्रत्वेन बोधः" इत्यपरे। मतद्वये Sप्यस्मिन्मुखादौ चन्द्रत्वभानसामत्र्या मुखत्वादे: स्वधर्मस्य भानं न निवार्यते। इत्थं चैकस्मिन्धर्मिणि चन्द्रत्वादीनां मुखत्वादीनां च साक्षाद्गा- नमेव सारोपातोऽस्या विच्छेदकम्। अपरे तु "निवार्यत एव विरुद्ध- भानसामग्र्या स्वधर्मस्य भानम्। रजतत्वभानसामग्रया शुक्तित्वस्या- भानात्" इति वैदन्ति। मतेस्मिन्विपयेतावच्छेदकास्कृर्तिस्तथा। वस्तु- तस्तु साध्यवसानायां विषयतावच्छेदकधर्मभानं यदि सहद्यहृद्य- अमाणकं तदा तद्वारणाय कारणकल्पनानुचितव। शुक्तिरजतभानस्थले

कृतमिति चिन्त्यमिति। अयमेव दिगर्थ इति बोध्यम्। माहात्स्यादिति। समानप्रका- रकल्वनियमस्य लाक्षणिकवोधान्यबोधविषयकत्वस्य प्रागुक्तलादिति भावः। ेयमाजी- कर्नृमतमाह-लक्षणेति। इदमपि प्रागुक्तम्। मुखत्वादीनां चेति। एकपदोप- स्था यानामिति बोध्यम्। साक्षादिति। सारोपायां तु चन्द्रत्स्य चन्द्रसदश भान- द्वारा तत्र भानमिति परम्परया नद्धानमिति भावः। अस्या इति। माध्यवसानाया भेदकमित्यर्थः । एकधम्यधिकरणकोभयभानं तु समानमिति भावः । विपयतावच्छे- दकेति। लक्ष्यतावच्छेदकेल्यर्थः । क्रचित्तथेव पाठः । लकष्यनावच्छदक च साधारण- १ समानप्रकारकत्वनियमं ये लक्षणायानपि स्वीकुर्वन्नि तेषां नते चन्द्रादिशब्दैः लक्षणया मुखत्वेनोपस्थापितानानपि मुखादीनान् एकमदप्रतिपादनोत्थव्यञ्ञनावशात् चन्द्रतवेन रूपेण शाब्दबोधः । अर्थात् लक्षणया चन्द्रादिपदैः पूर्व मुखावेवोंधः, तदनन्तरमेकपदोपादानोत्थया (अर्थात् अभिधया चन्द्रपदस्यार्थश्चन्द्रः, लक्षणया तु नत्त्वैवार्थी सुखमिति) व्यख्जनया मुखख चन्द्रत्वेन शाब्दबोधः । इत्यपरेषां मतन् (द्वितीयन्)। २ अर्थान साध्यवसानायां चन्द्रशव्दख लाक्षणिकोडथों यन्मुखमिति भवति तत्र सुखत्वस्य चन्द्रत्वस्य चेत्युभयोर्धनयोभानं भवति। ३ एकस्मिन् धर्मिणि (चन्द्रराजी विराजते इत्यादिषु-उपमाने चन्द्रे) मुख्यार्थतावच्छेदकस्व चन्द्रत्वस्य लक्ष्यार्थतावच्छेदकस्य मुखत्वस्य न साक्षान्धानं भवति। अयं भाव :- सारोपायानणि चन्द्रत्व-मुखत्वयोईयोरपि यद्यपि भानं भवति, तथापि सारोपायां चन्द्रत्वस्य भानं प्रथमं चन्द्रसदृशे भवति। (यतो हि लक्षणया "चन्द्रशब्दस्यार्थः तत्सदृशम्, न तु मुखम्) नदनन्वर तु चन्द्रसददशाऽभिन्नं मुखमिति मुखे चन्द्रत्वस्य संप्रत्ययः । एवं च-सारोपायां चन्द्रसदृशे चन्द्रत्वस्य भानं द्वारभूतम्। तद्वारेण च मुखे चन्द्रत्वस्य भानम्। इति परम्परया चन्द्रत्वस्य भानं भवति। साध्यवसानायां तु एकस्मिन् धर्मिणि मुखत्वस्य चन्द्रत्वस्य च साक्षाद्भानं भवतीति मिथो दयोभेंदः । ४ द्वितीये मते एकस्मिन्धर्मिणि चन्द्रत्वस्य मुखत्वस्य च भानं न निवार्यते। 'अपरे तु' इत्यादिना प्रतिपादिते तृतीयेSस्िन्मते तु लक्षणया चन्द्रे चन्द्रत्वावच्छिन्नस्य मुखस्य प्रतीतिर्भवति न तु मुखे मुखत्वमपि प्रतीयते। ५ सारोपायां-सुखादिु लक्ष्यतावच्छेदकस्य (आह्लादकत्वादेः साधारणधर्मस्य) प्रतीतिभवति। साध्यवसानायां तु मुखे साक्षाच्चन्द्रत्वस्यव।

Page 266

२०४ काव्यमाला । [ द्वितीयानने-

तु शुक्तित्वेन भाते पुरोवर्तिनि रजतत्वभानस्य सर्वथैव विरुद्धत्वाद्रजत- त्वभानसमये शुक्तित्वभाननिवारणमावश्यकम् । न चेहापि तथा, अनुभवविरुद्धत्वात्। यदि तु तन्न प्रामाणिकं तदा सोचितैव। अथास्य प्रागभिहितलक्षणस्य काव्यात्मनो व्यङ्ग्यस्य रमणीयताप्रयो- जका अलंकारा निरूप्यन्ते- तत्रापि विपुलालंकारान्तर्वर्तिन्युपमा तावद्विचार्यते- सादृश्यं सुन्दरं वाक्यार्थोपस्कारकसुपमालंकृतिः॥ सौन्दर्य च चमत्कृत्याधायकत्वम्। चमत्कृतिरानन्दविशेषः सहृदय- हृदयप्रमाणकः । अनन्वये च 'गगनं गगनाकारम्' इत्यादौ सादृश्यस्य द्वितीयसव्रह्मचारिनिवर्तनमान्रार्थमुपात्तत्वेन स्वयमप्रतिष्ठानादचमत्कारि- तैव। अत एव तस्यान्वयाभावादनन्वयं तमाहुः। व्यतिरेके 'तवाननस्य तुलनां दधातु जलजं कथम्' इत्यादौ चमत्कारिणो निषेधस्य निरूपणाय प्रतियोगिनः सादृश्यस्य निरूपणमचमत्कारकमेव। एवमभेदप्रधानेष्वपि रूपकापह्नुतिपरिणामभ्रान्तिमदुललेखादिषु, भेदप्रधानेषु द्ृष्टान्तप्रतिवस्तूप- मादीपकतुल्ययोगितादिषु चमत्कारिषु तत्तन्निष्पाद्कतयावस्थितस्यापि सादृश्यस्य चमत्कारिताविरहेण नास्त्युपमालंकृतित्वम्। मुखमिव चन्द्र इति प्रतीपे, चन्द्र इव मुखं मुखमिव चन्द्र इत्युपमेयोपमायां च धर्मरूपमाह्लादकत्वादेवैतन्मते बोध्यम्। तथेति। ततो भेदिकेत्यर्थः। अथोपमा- काव्यात्मन इति। भेदे षष्टीयम्। काव्यात्मनो यद्यङ्ग्यं तस्येत्यर्थः । यद्वा काव्या- त्मन इत्यलंकारा इत्यनेनान्वेति। तत्सामान्यलक्षणमाह-व्यङ्गयस्य रमणीय- तेत्यादि। तत्रापि तेष्वपि। विपुलेति। वह्नित्यर्थः। वाक्यार्थोपस्कारकमित्यलंकारस्य सुन्दरमित्यस्य व्यावत्यमाह-अनन्वये चेति। सामान्यलक्षणप्राप्तम्। सव्रह्मचा- रीति। सदशेत्यर्थः । स्वयमिति । सवस्यापर्येवसानादित्यर्थः । अत एव स्वार्थबोधने तात्पर्याभावादेव। तस्य सादृश्यस्य। द्वितीयं तदाह-व्यतिरेक इति। अन्यदपि तदाह-एवमिति। अनन्वयव्यतिरेकयोरिवेत्यर्थः। तत्तत्निष्पादकेति। अभेदा- १ अपरे त्विति तृतीयमते विषयता( लक्ष्यता)वच्छेदकस्य मुखत्वस्य भानं निवार्यते इत्युक्तम्। किन्तु वस्तुतरित्वत्यादिना पण्डितराजः समीक्षते यत् साध्यवसानायां चन्द्रत्वं सुखवं च साक्षान्दासत एव । ततश्र विरुद्धभान(अर्थात् लक्षणया चन्द्रत्वभान)सामग्रीकल्पनमनु- च्ितम्। शुक्तित्वरजतत्ववत् मुखत्व-चन्द्रत्वयोः विरुद्धधर्मता न सहृदयहृदि प्रतीयते। हिन्दी- रसगङ्गाधरे तु-अस्यार्थकरणे साध्यवसानायां लक्ष्यतावच्छेदकम् (आह्लादकत्वादि) यदुक्तम् (. १८४) मन्ये सोयं लेखभ्रम एव।

Page 267

उपमा ] रसगङ्गाधर:। २०५

सादृश्यस्य चमत्कारित्वान्नातिप्रसङ्ग: शङ्कनीयः, तयोः संग्राह्यत्वात्। ननु 'त्वयि कोपो ममाभाति सुधांशाविव पावकः' इत्यादावुपमानस्या- त्यन्तमसंभावितत्वात्सादृश्यमेव न तावत्प्रतिपतुं शक्यम्, चमत्कारस्तु युनः केन स्यादिति चेन, कविना हि खण्डशः पदार्थीपस्थितिमता स्वेच्छया संभावितत्वेनाकारेण चन्द्राधिकरणकमनलं प्रकल्प्य तेन सह साम्यस्यापि कल्पने वाधकाभावात्। कल्पितमसत्सादृशयं कर्थ चमत्कारजनकमिति तु न वाच्यम्, परमसुकुमारीभवत्कनकनिर्मिताङ्या मणिमयद्शनकान्तिनिर्वासितध्वान्तायाः कान्ताया भावनया पुरोऽवस्था- पिताया आलिङ्गनस्याह्लादजनकत्वदर्शनान्। उपमानोपमेययोः सत्यत्वस्य लक्षणे प्रवेशाभावान्नात्रे दोषलेशोऽपि।

नहवादिनिष्पादकेलर्थः। तयोस्तादृशप्रतीपोपमेयोपमानयोः। संग्राह्यत्वादिति। चित्र- मीमांसोक्तोपनालक्षगदूतणावसरे इति भावः । नव्यास्तु "यत्र चन्द्रादयुपमान प्रतियोगिक-

बुद्धिकृतः सः, किं तु निरुपनन्नवुद्धिक्कन इति नोपमालम्। उपनेयोपमायामपि न पर- स्परसादृश्यवुद्धिक्कृतः सः, किं लनयोरेव साम्य न तृतीय एनन्सदश इति बुद्धिक्कृत इति तस्यामपि न तत्त्वम्। मुसमिव चन्द्र इति प्रतीपेऽपि नुखादों सादृश्यप्रतियोगिकल- बुद्धिकृत एव सः, न तदनुयोगिकलवुद्धिकृत इति तत्रपिन तत्त्व्रम्। 'अहमेव गुरु :- ' इति प्रतीपेऽपि उपमानतिरस्कृततकृत एव सः, न तु सादृश्यवुद्धिकृत इति न तत्रापि तत्त्वम्। अलंकारभेदे च चमत्कारनिदानमेद एव निदानम्। रूपकोतप्रेक्षादी तथा हनलात्, सहदयातुभवसाल्षिकलाच। एतेन सादत्यस्याप्रतिष्ठानं यदि सादृश्याप्रतीति- स्च्ननुभवविरोधः । यदि मेदगमे तद्प्रतीतिसतदा भेवांशनिवेशेन तद्विवरणे किं फलम्। उपनेयोपमावत्तत्याप्यरतूपमात्वमित्यपास्तन्" इत्याहुः। उपमानस्य चन्द्राधिकरणकान- लस्य। असंभावितलेन न तु सत्येन रूपेणेति भावः । कल्पितमिति। यतः कल्पि- तमत एवासदित्यर्थः । नन्वेवं भवतु तार्द्ृशस्यापि सादृश्यस्य चमत्कृतिजनकलं तथापि लक्षणे उपमानोपमेययोर्निवेशेन तयोः सत्यत्वस्यापेक्षितलेन कथमुक्तस्थले निर्वाहोऽत १ 'सुधांशा वहिः' इति संमिलितस्य पदार्थस्योपस्थितिस्तस्य न। अपि तु चन्द्रस्य अभेश्च नस्य पृथक् पृथगुपस्थितिः । ततः कविः स्वेच्छानुसारं संभावनाविषयीभूतेनाSSकारेण चन्द्र- रूपेडधिकरणे अनलं प्रकल्प्य साम्यं कल्पयतीति। केचित्तु-'स्वेच्छया असंभावितत्वेनाकारेण* अर्थात् यस्य संभवो नास्ति ताद्ृशेन मनःकल्पितेन आकारेण न तु वास्तवे नेत्यर्थमाङ्ठः । २ उपमानस्य कल्पनामात्रप्रसूतत्वेSपि उपमायां न किञ्िद्वाधकमित्याशयः । १८ रस०

Page 268

२०६ काव्यमाला। [ द्वितीयानने-

अत एव 'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः। शशाङ्कविम्वतो मेरौ लम्बमान इवोरगः ॥।' इत्यादावपि नानुपपत्तिः। परे तु अस्या: कल्पितोपमाया उपमानान्त- राभीव फलकत्वेनालंकारान्तरतामाहुः। तन्न। सादृश्यस्य चमत्कारितयोप- मान्तर्भावस्यैवोचितत्वात्। सन्निरूपितत्वस्य लक्षणे प्रवेशाभावात्। उप- आनान्तराभावफलकत्वं ह्युपमाविशेषत्वे साधकम्, न तूपमाबहिर्भावे। अथ 'विलसत्याननं तस्या नासाग्रस्थितमौक्तिकम् । आलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम् ॥' इत्यादौ साधारणधर्मस्याभांवात्कथसुपमानिष्पत्तिः ? बुधमौक्तिकयो- रेकैकमात्रवृत्तित्वात्। न चात्र यदि नासाग्रस्थितमौक्तिकं तस्या आनन- मालक्षितबुधाश्लेष राकेन्दोर्मण्डलमिव विलसतीति तादशराकेन्दुमण्डल- निरूपितसादृश्यप्रयोजकविलासाश्रयस्तादशमाननमिति तात्पर्य तदा विपूर्वकलसत्यर्थशोभाविशेष एव समानो धर्मः । यदि च तादशमिन्दु- मण्डलमिव य्तादशमाननं तद्विलसतीति तादशसादश्यावच्छिन्नमानन-

आह-उपमानोपेति। भावफलकत्वमिति। उपमानान्तराभावस्य फललेऽपि कविकल्पितसादृश्यकृत एव चमत्कार इति नव्यमतेऽपि न दोषः । आलक्षितेति। आलक्षिताश्िष्टवुधमित्यर्थः । तथा पाठस्तूचितः । अत एव वक्ष्यति-बुधमौक्तिक- योरिति। कथमिति। तद्धर्मोपस्थितेः कारणतस्य तत्र प्रागभिहितत्वादिति भावः। तादशराकेन्दुमण्डलेति। तद्विशिष्टराकेन्द्वित्यर्थः। एवमग्रेऽपि। तथा वकुं तु

१ अर्थात् जगति नान्यः कश्चन पदार्थः प्राप्यते येन सह तुलना प्रकृतस्योपमेयस्य दीये- सेति कवेस्तात्पर्येण उपमायामपर्यवसानेन अलंकारान्तरमेव किश्चिदिति शङ्का। सुन्दर (चमत्कृ- तिजनकम्) सादृश्यमुपमेति लक्षणेन चमत्कारजनकस्य सादृश्यस्य प्रत्यक्षमुपलम्भादुपमाया एव निष्पत्तिः । सादृश्यं सन्निरूपितम् अर्थात् सता सत्येन उपमानेन निरूपितं स्यादिति तु लक्षणे नानुप्रविष्टम्। अन्यदुपमानं नास्तीति प्रतीतिरत्र फलभूतेत्येतावतापि उपमाया निरासो न क्रियते, प्रत्युत् विशिष्टोपमात्वमेव साध्यत इत्युत्तरम्।

Page 269

उपमा ] रसगङ्गाघर: २०७

मुद्दिश्य विलासाश्रयत्वं विधेयतया विवक्ष्यते तदास्या लुनोपमात्वात्पम्म- मिव मुखमित्यादाविवालादकत्वादिधर्म उन्नेच इति वाच्यम्। उपमानोप- मेयशोभयोरपि वस्तुतोऽसाधारणत्वान्।

काषायवसनो याति कुङ्कुमालपना यतिः ।।' इत्यादौ धर्मान्तरस्याप्रतिभानादसुन्दरत्वाच्च कोमलातपादीनामसा- धारणत्वात्कथमुपमेति चेत्, अत्राहु :- उपमेयगतानामुपमानगतानां चासाधारणानामपि धर्माणां सादश्यमूलेनाभेदाध्यवसायेन साधारणत्व- कल्पनादुपमासिद्धिः। न च भ्रमात्मकेनाहार्याभेद्दबोवेन कथं नाम

युक्तम्। आद्ये दूषणमाह-उपमानोपेति। द्वितीयरीलोक्तप्रसिद्धोदाहरणे निर्वाऽप्य- प्रसिद्धोदाहरणे दोषमाद्यसाधारणमाह-कोमलेति। कोमलातपतं शोणात्रतं च बहुत्रीहिणा संव्याकालविशेषणम्। अत एव कोमलातपादीनामिति वक्ष्यति। अभेदा-

१ उपर्युक्तस्य सर्वस्यापि प्रघट्कम्य -वलसत्याननामचादा सार्भा- रणधर्मसिद्धये द्विधा युक्ति: पूर्वपक्षे। (१)-तादृश(आलक्षितवुधा०) राकेन्दुमण्डलनिरूपिन यत्सादृश्यं तत्प्रयोजकस्य (तत्कारणीभूनस्य) विलासन्य (विलसतीति प्रतिवाधन्य शोभाविशेषस्य) आश्रयः नादृशन् (नासाग्रस्थित०) आननम्। अर्थात चथा इन्दुमण्डलं विलसति तथा मुखें विलसतीति तात्पर्येंण विलास एवोभयसाधारगो धर्मः । (२)-तादृशराकेन्दुमण्डलनिरूपित- सादृश्यावच्छिन्नन् आननसुद्दिश्य विलासाश्रयत्वं विधीयन इति विलासस्य विधेयतया पूर्वसिद्ध- त्वाभावेन साधारणधर्मत्वं न संभवतीति धर्मलुप्ता सेयमुपना स्वान्। नर्थात् आहादकत्वादिधमों बुद्धया ऊहनीयः । एतस्य खण्डने-(१)-मुखस्य शोभा पृथक्, इन्दुनण्डलत्य च शोभा पृथक् अथीद असाधारणी। ततश्र विलासस्य (शोभायाः) साधारनधर्नत्वोक्तिर्न घटते। (२)-द्वितीय- युक्ति: (धर्मान्तरकल्पनम्) तत् प्रसिद्धे उदाहरणे (चन्द्र इव मुखमित्यादौ) आह्लादकत्वा देर्धर्मस्य प्रसिद्धत्वेन कदाचित्संभवेत्, परं कोमलातप इत्यादिषूदाहरणेषु धर्मान्तराSस्फूत्या न संभवति [यातीत्यस्य तु पूर्वोंक्तोदाहरणवत् विवेयस्य कल्पनेन साधारणघनत्वं न संभ- वति, एतदतिरिक्तश्र धमों न स्फुरति ] । यदि स्फुरेत्तदाडपि तस्य न सुन्दरत्वन्। कोमला- तपादयो यदि साधारणधर्मतया स्थाप्येरन् तहिं न ते साधारणाः, कोमलः आतपो यस्निन्नि- त्यादिवहुन्नीहिणा सन्ध्याकालविशेषणत्वात्तेषाम्। तथा च साधारणधर्मसंपादनाय युक्तिद्वयमपि न संभवति, कथमियसुपमेति, 'चेत' पर्यन्तः पूर्वपक्षः। बुधस्य मौक्तिकस्य च, कोमलातपस्य केसरालेपनस्य च, भिन्नत्वेऽपि बुध-मौकतिकयोः श्वेत- कान्त्या कोमलातप-केसरलेपयोश्चारुणकान्त्या या मिथः समानता तद्दारा मिथः अभिन्नो मत्वा (बुधनक्षत्रादभिन्नं मौक्तिकम्, कोमलातपादभिन्नः केसरळेप: इत्यादिरूपेण) अथात् असा धारणानामपि धर्माणां साधारणत्वसंपत्या उपमा सिध्यतीति तत्समाधानम्।

Page 270

२०८ काव्यमाला । [द्वितीयानने-

कुङ्कमालेपकोमलालपादीनां वस्तुतो भिन्नानां साधारणत्व्रसिद्धयेऽत्यन्त- मसन्नभेद: सेहुं शकुयात्, भ्रमेणार्थसिद्धेरभावादिति वाच्यम्। प्रागुक्तेपि 'त्वयि कोपो ममाभाति सुधांशाविव पावकः' इत्यादावुपमा नोपमेययोरत्यन्तासत्वेऽपि कल्पनामात्रतो यथा निष्पत्तिस्तथैव प्रकृते साधारणधर्मस्यापीति व्यक्तमुपपाद्यिष्यामः । अयमेव विम्बप्रतिविम्ब- भाव इति प्रचीनैरभिधीयते। एवम् 'भुजो भगवतो भाति चेन्नंश्राणूरचूर्णने। जगन्मण्डलसंहारे वेगवानिव धूर्जटिः ।' अन्न केवलभानस्याप्रयोजकतया चाणूरचूर्णननिमित्तकचाञ्च्ल्यवत्त्व-जगन्म- ए्डल संहार निमित्तक वेगवत्व योरभेदाध्यव सानेनाभिन्नधर्मप्रकार कभान- विशेष्यत्वस्य साधारणधर्मस्य सिद्धेरुपर्मासिद्धिः । तत्र चाणूरजगन्मण्ड-

मस्तु किममुना मेदाध्यवसायेनेति वाच्यम्। साधारणधर्मेणोपमानोपमेययोरभेदप्रतीतिकृ- तचमत्कारस्योपमायामिष्टस्य धर्मयोरभेदाध्यवसानं विनानुपपत्तेः । तथा चोक्तमलंकार- सर्वसकृता-'भेदाभेदप्रधानोपमेती'ति बोध्यम्। प्रागुक्त इति। यत इत्यादिः। अयमेव सादृश्यमूलाभेदाध्यवसाय एव। प्राचीनैर्विम्बप्रतिबिम्बभाव इत्यभिधीयत इत्यर्थः। एवम् उक्तोदाहरणे उपमासिद्धिवत्। भगवतः कृष्णस्य। चञ्चन् चाश्चल्यवान्। धातूनाम- १ अत्यन्तं विशकलितयोरपि उपमानोपमेयवर्मयो: केनापि सादृश्येन भेदप्रतीतिस्थगन- मित्याशयः । २ एतत्पुस्तकपाठदर्शनेऽपि 'चञ्चच्चाणूरे'ति हिन्दीरसगङ्गाधरपाठस्तु भ्रम एव । ३ भानकियाया उभयत्राऽन्वयात्सैव साधारण्ध्मस्थानीया स्यादित्यपि न संभवति। प्रकार(विशेषण)शून्यायास्तस्याः सादृश्यं प्रति अप्रयोजकत्वादित्याशयः । ४ चाणूरचूर्णनं निमित्त यस्य (अर्थात् चाणूरमर्दनार्थम्) चाञ्चल्यवत्त्वस्य (उपमेयगत- धर्मस्य), जगन्मण्डलसंहारो निमित्तं यस्य तादृशस्य वेगवत्त्वस्य (उपमानधर्मस्) चेति भानस्य (प्रतीतेः) प्रकारयोः (विशेषणयोः) अनयोः पूर्वोंक्तरीत्या अमेदाध्यवसानेन अभिन्नौ ध्मां प्रकारौ (विशेषणे) यस्याः पतादृश्या भानक्रियाया विशेष्यत्वम् (आश्रयत्वम्) यद्धि शिवे भगवद्भुजे चोभयत्रास्ति[ एतद्धि नैयायिकानुसारम्, तेषां मते कर्तृविशेष्यकशाब्द- बोधात्] एतद्विशेष्यत्वमेव साधारणधर्मकोटौ परिगण्यते। अत यवात्रोपमासिद्धिरित्याशयः ।

Page 271

उपमा ] रसगङ्गाघर: । २०९ लयोर्वस्तुतो भिन्नयोर्महाकायत्वादिना साहश्याङ्विम्वप्रतिविम्यभावः ।

रूपतैवेति वस्तुप्रतिवस्तुभावः । इत्वेवं निरूपितमुपमालक्षणम्। अथेयमुदाह्ियते-

दरद्लदरविन्दसुन्दरं हा हरिणदशो नयनं न विस्मरामि।।' अत्र दलदरविन्दशव्दस्योपमानवाचकस्य सुन्दरशव्देन सामान्यव- चनेन समासे प्रतीयमानोपमा सकलवाक्यार्थस्व विप्रलम्भशृङ्गारस्य स्मृत्युपस्करणद्वारोपरकारकतयालंकारः । न चात्र स्मृतिः प्रधानतया ध्वन्यत इति वक्तं शक्यम्, न विस्मरामीति स्मृत्यभावनिषेधमुखेन स्फुटमावेदनात्। नापि पूर्वार्धगतत्रासौत्सुक्ययोः परस्पराभिभवकामयोः संधि: प्रधानम्, तस्य नायिकागतत्वेनानुवाद्यत्वात्, उत्तरार्धगतस्मृत्यङ्ग- त्वाच्च। तस्माद्भावसंध्युपमालंकाराभ्यामुपस्कृता स्मृतिरहापद्गम्य: संतापोऽनुभावश्र विप्रलम्भमेवोपस्कुरुत इति तस्यैवात्र प्राधान्यम्। नेकार्थलात्। चाणूरो दैत्यः । तत्र धरमयोमध्ये। वस्तुप्रतिवस्तुभाव इति। तन्र चूर्णनसंहारयोराश्रयभेदजभेद प्रल्ययस्तत्संबन्धिचाणूर जगन्मण्डलयोमेदबुद्धिर्बहिरद्गा नोदेतीति भावः । चाश्वत्यवेगवत्त्वयोस्त्राश्रयभेदान्ेदेऽपि एकननिमितकलेनाभेदमादाय साधारणतेति बोध्यम्। समासे इति। 'उनमानानि-'इति सूत्रेणेति भावः । अत एव न श्रौतीत्याह-प्रतीयेति । सकलवाक्यार्थस्य सकलवाक्यतात्पर्यविषयभूतस्य । शृङ्गारस्येत्यस्योपस्कारकतयेत्यन्नान्वयः । त्रासेति। गुरुजनभयमद्विलोकनपदवोध्ययो- र्गुरुजनभयमद्विलोकनयोमध्ये व्याकुललोदयेन द्वयोरपि तुल्यकक्षलम्। अत आह- १ वस्तुतो भिन्नयोरपि पदार्थयोस्तद्वतथर्माणामभिन्नतया ऐक्यप्रतिभासो विन्वप्रतिबिम्बभाव इत्याशयः । २ वस्तुतः अभिन्नयोरपि आश्रयस्य (आधारस्य) मेदात् (भिन्न-भिन्नशब्दप्रतिपाद्यत्व- रूपभेदाच्च) भिन्नत्वेन प्रतीतयोः पदार्थयोरैक्यप्रतीतिर्वस्तुप्रतिवस्तुभावः । ३ गुरुजनानां भयम् मद्विलोकनं चेत्यनयो: अन्तः (मध्ये) समुदयन्तं व्याकुलभावं धारयन्त्याः। ४ अत्र विप्रलम्भशृङ्गारः सकलवाक्यार्थतया प्रधानम् । स्मृतिभावश्च तस्याङ्गभूतः । ततश्चाङ्गभूतं स्मृतिभावमुपस्कृत्य (प्रसाध्य) प्रधानं शृङ्गारसुपशोभयन्ती उपमाSत्रालंकार पदभागित्याशयः ।

Page 272

२१० वाव्यमाला। [द्वितीयानने-

शयवर्णनं वा तथाभूतं तथा' इति लक्षणद्वयमाहुः। तच्चिन्त्यम्। वर्णनस्य विरक्षणशब्दात्मकस्व विलक्षणज्ञानात्मकस्व वा शब्दवाच्यताविर- हेणार्थालंकारताया बाधात्। तस्य सर्वथैवाव्यङ्ञयत्वाद्व्यङ्गयत्वविशेषण वैयर्ध्याच्च। अथ यदि वर्णनविषयीभूतं ताहशसादृश्यमुपमेत्युच्यते, तदा यथा गौस्तथा गवय इत्यत्रोपमालंकारापत्तेः। एवं 'कालोपसर्जने च तुल्यम्' इत्यादावपि। अशिष्यत्वादिना प्रधानप्रत्ययार्थवचनसादश्यस्या-

यरस्परेति। तस्य संधेः। पुनः शब्दार्थे। शब्दस्य शब्दवाच्यतमते नायं दोषोऽत आह-विलक्षणज्ञानेति । अव्यज्ञ्यत्ाघ्यङ्गयत्वाभावात्। तादृशति। अदुष्टा- व्यङ्गयाद्यविशेषणद्वयान्यतरेत्यर्थः । इत्यादावपीति। उपमालंकारापत्तिरित्यस्यानु- षङ्गः। आदिसंग्राह्यं चिन्त्म्। अत्रापि कालोपसर्जनयोरपि। अन्र 'कालोपसर्जने च

१ यस्मात् उपमितिक्रियायाः (तुलनायाः) सिद्धिर्भवेत् ईदशं सादृश्यवर्णनमित्यर्थः । २ स्वस्य (उपमायाः) निषेधे यस्य पर्यवसानं न भवेत्। ३ उपमा अर्थालंकारः । अर्थश्च शब्दवाच्यो भवति। (सादृश्य)वर्णनस्य स्वयं शब्दा रमकस्य शब्दवाच्यत्वं कर्थं स्यात! यथाकर्थंचित् शब्दस्य शब्दवाच्यत्वसाधनेऽपि वर्णन- प्ृदेन यदि आन्तरिकज्ञानं बुध्येत ताहहं ज्ञानस्य सर्वथैव शब्दवाच्यत्वाभावात् (वर्ण- -नम् उपमा) इति लक्षणमसंगतमित्याशयः । ४ 'प्रधानप्रत्ययार्थवचनमर्थस्याऽन्यप्रमाणत्वात्' इति पाणिनीयमूत्रस्य 'प्रत्ययाथः प्रधार्न भवति, एवंरूपं वचनमशिष्यम् (शास्त्रद्वारा नाऽनुशासनीयम्) यतः अर्थस्य लोकत एवंसिद्धे: ।' इति वृत्तिः । अयमथों लोक एव प्रसिद्धः। अतस्तदर्थ शास्त्रानुशासनं नापेक्षितमिति सूत्र- स्याशयः। एतदुत्तरं 'कालोपसर्जने च तुल्यम्' इति सूत्रम्। 'अतीताया रात्रेः पश्चारषेन आगा- मिन्या: पूर्वार्धेन च सहितो दिवसोऽद्यतनः । विशेषणमुपसर्जनम्' इत्यादि यत्पूर्वाचार्येः परिभा- षितं तत्राप्यशिष्यत्वं समानम्, लोकत एव प्रसिद्धेः। अर्थात् प्रत्ययार्थः प्रधानम् इत्यादिवचनं यथा अशिष्यं तथा अद्यतनोडयं काल:, विशेषणं हि उपसर्जनं भवतीत्यादिकमप्यशिष्यम् (लोक- पसिद्धत्वात्)। अत्र हि प्रधानप्रत्ययार्थवचनस्य कालोपसर्जनयोश्च अशिष्यत्वरूपसामान्यधर्मेंण सादृश्यं प्रतिपाद्यते, ततश्चाऽत्राप्युपमालंकार: स्यादित्यापत्तिः ।

Page 273

उपमा] रसगङ्गाघर: ।

तापि प्रतिपादनान्। न चात्र वचनभेदस्व दोपस सत्वाद्दुष्टत्- विशेपणेन वारणं भविष्यनीति वाच्यम्। एनद्वाक्योपपुनवाक्यान्तर- प्रतिपावितेकोपमेयके साहश्ये तथाप्यतिमसङ्गान्। न चात्रोपनितिक्रियाया निप्पत्तावपि न सादश्यवर्णनम्, वितवस्ाचमत्कारित्वान्, चमत्कार- विपयककवित्यापारस्यैव वर्णननदार्थतवादिति वाच्यम्। एवं हि चमत्कारित्वस्य लक्षणेऽवशयं निवेश्यव्ेनोपनितिक्रियानिप्पत्तिविद्ेपणस वैयर्ध्यान्। न्ह्यनिष्पन्नमापातनः प्रतयमानं नादश्यं चनत्कृतिमाधत्ते। एवं द्वितीयलक्षणेडपि निपेधापर्यवसायित्वं निरर्थकम्। व्यनरेके कमला- दिसाहश्यनिपेधस्यानन्वये च सर्वथा साहइयनिपेवन्त्र चमत्कारितया तैदर्थ साहश्यस्य निरूपणमिति प्रागेवाभिधानात्। किंच। 'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । शशाङ्कविम्ततो मेरौ लम्वमान इवोरगः ।।' इत्यादो मुख्यवाक्यार्थत्वेनानलंकार भूतायामुपमायामतिव्यामिः। उपमि- तिक्रियानिष्पत्तिमत्साहश्यवर्णनस्यादुष्टाव्यङ्गयत्वस्य चात्रापि सत्वान्। न

तुल्यम्' इत्यत्र। द्विवचनोपादानादिति भावः । एतदर्थमेव द्विनीयदोपोक्तिः। उप- प्ुतेति। कल्पितेत्र्थः। प्रधानप्रत्ययार्थवचनवन्काल इत्यादीति भावः । तदाह- एकोपमेयेति। अत्रेति। यथा गौरित्यादावित्वर्थः। व्यतिरेक इति । तवानन- स्पेत्यादावित्यर्थः। कमलादिसादृश्येति। कनलादिनिष्ठसादड़येसर्थः। ननु वर्णनप- दस्य चमत्कारजनकज्ञानविषयीभूतानुयोगिकलाथे तात्पर्यग्राहकमिदम्, नतु लक्षणश- रीरघटकमिति चेतू, तत्राह-किंचेति। वाक्यार्थत्वेनेति। तथा च न वाक्यार्थो- पस्कारकतमिति भावः। तदाह-अनलमिति। नतु अलंकरोतीति योगबोधितोपस्का- १ ननु कालोपसर्जने इति द्विवचनन्, तुल्यन् इत्येकवचनन्। इति वचनमेदरूपण दोषेण दुष्टत्वादियमुपमा न सिध्येत्, लक्षणे अदुष्टमिति विशेषणात्। इति पूर्वपक्षः। एतदा- क्यार्थबोधनाय उपप्लुतेन (कल्पितेन) वाक्यान्तरेण (कालः प्रधानप्रत्ययार्थवचनेन तुल्यः । उपसर्जनं प्रधानप्रत्ययार्थवचनेन तुल्यन् । इत्याकारेण) प्रतिपादिते, एकमुपनेयं यत्र ईदटश्रे सादृश्ये वचनदोषस्याभावात्स्यादेव उपमाप्रसक्तिरिति समाधानम्। २ निषेधार्थ तत्र सादृश्यस्य निरूपणन्, न सादृश्ये पर्यवसानाय। ततश्च तत्र सादृश्ये न न्वमत्कार इत्यर्थः । ३ इयमुपमैव, सकलवाक्यार्थत्वात्प्रधानं स्वस्य शोभाप्रख्यापिका। अलंकारस्तु अन्यस्य (स्वस्मादन्यस्य प्रधानस्य) उपस्कारको नवत। ततश्च अनलंकारेSस्मिन्नतिव्याप्तिरित्याशयः।

Page 274

२१२ काव्यमाला। [ द्वितीयानने- चेयमप्युपमा लक्ष्येति वाच्यम्। ध्वन्यमानोपमानिवारणप्रयासस्य वैयर्थ्यापन्तेः : नह्यत्राभेदुप्रधानोत्प्रेक्षा शक्या वक्तम्। कल्पितोपमाया निरविष्यत्वप्रसङ्गातू। 'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः । क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा।।' इति स्वकृतसूत्रे Sलंकारभूतोपमाया एव लक्ष्यत्वेनाभिधानात्। 'अलंकार- भूतोपमालक्षणत्वे तदेवादुष्टाव्यञ्ञयत्वविशेषितमिति' तन्रैव पुनरभि-

वाक्यार्थः, येनोपमा तमलंकुर्यात्। अपि च लक्षणे सादृश्यविशेषणं निरर्थकम् । 'उपमितिक्रियानिष्पत्तिमद्वूर्णनमुपमा' इत्येतावतैव स्वाभीष्टार्थलाभात्। एवम् 'स्वतःसिद्धेन भिन्नेने संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकेदोपमा ।।' इति विद्यानाथोक्तं लक्षणमपास्तम्। व्यतिरेके निषेधप्रतियोगिनि साह- श्येऽतिव्यापेः।

रकत्वस्यालंकारसामान्यसवरूपलेन विशेषलक्षणेषु तदनिवेशेऽपि क्षत्यभाव इत्यत आह- अपि चेति। अत एव चित्रभूतोपमालक्षणं लिति तैर्नोक्तम्। पूर्ववदस्यापि तात्पर्यग्रा- हकल्ादिदमपि चिन्त्यम्। अव्यङ्गयत्वं च तल्लक्षणे प्राधान्येनाव्यज््यतं बोध्यमिति दिक्। एवपदार्थमाह-व्यतीति । तवाननस्येत्यादावित्यर्थः । एवमग्रेऽपि। यथासंभवम् १ स्वयंग्रधानभूता चेदियं लक्ष्या, तर्हि स्वयंप्रधानभूता ध्वन्यमानैव किमिति निवार्यते इत्यर्थः । २ उपमानाख्यः (तुलनात्मकः) व्यापारः उपमितिक्रियासिद्धिपर्यन्तं यदि विवक्षितः तहिं उपमालंकृतिरित्यर्थः । ३ अलंकारभूताया उपमाया यदीदं लक्षणद्वयं भवेत्तर्हि इदम् अदुष्टाव्यङ्मयत्वविशेषितं स्यादित्युत्तया अलंकारभूतोपमाया लक्ष्यत्वं स्पष्टमभीष्टमित्याशयः । ४ उपमेयाद्धिन्नेन। ५ एकदा एकवारं सादृश्यम्। ६ यत्सादृश्यं निषेधस्य प्रतियोगि भवति। अर्थात् यस्य निषेधः कर्तव्यो भवति। 'तवान- नस्य तुलनां दधातु जलजं कथम्' इति व्यतिरेके जडजातेन कमलेन आननस्य सादृश्यमेव नास्तीति पर्यवसाने सादृश्यनिषेध एव फलतीत्याशयः ।

Page 275

उपमा ] रसगङ्गाघर: । २१३

एवम्

हृद्यं साधर्म्यसुपमेत्युच्यते काव्यवेदिभि:॥' इति प्राचामपि लक्षणं प्रत्युक्तम्। हृद्यतामात्रेण नि्वाहे विशेषणान्तर- वैयर्थ्यात्। एवं काव्यप्रकाशोक्तमपि 'साधर्म्यमुपमा भदे' इति लक्षणं नातीव रमणीयम्। त्यतिरेके निपेधप्रतियोगिनि सादश्येऽतिव्यापनात्। न च पर्यवसितत्वेने साधर्म्य विशेषणीयमिति वाच्यम्। अनन्वयस्थ- सादृश्यस्यापर्यवसायित्वेनैव वारणे भेदविशेपणवैयर्थ्यापत्तेः। काव्यालं कारप्रस्तावे लौकिकालौकिकप्रधानवाच्यव्य ङ्वयोपमासामान्यलक्षणकरणा- नौचित्याच। अत एव 'भेदाभेदतुल्यत्वे साधर्म्यमुपमा' इत्यलंकारसर्व- स्वोक्तमपि लक्षणं तथैव। एवं 'प्रसिद्धगुणेनोपमानेनाप्रसिद्धगुणस्योपमेयस्य सादश्यमुपमा' इत्यलंकाररन्नाकरोक्त्तमपि न भव्यम्। श्रलेनमूलकोपमायां तादशशव्दात्मकस्य धर्मस्य कविनैव केल्पनान्, तेन रूपेणोपमानस्या- प्रसिद्धेश् इत्यलं परकीयदूपणगवेषणया। प्रकृतमनुसरामः । अस्याश्चोपमायाः प्राचामनुसनरेण केचिद्वेदा उदाहियन्ते। तथाहि- उपमा द्विविधा, पूर्णा लुप्ता च। पूर्णा तत्र-शरौती, आर्थी चेति द्विघा भवन्ती वाक्यसमासतद्धितगामितया पोढा। लुप्ना च-उपमानलुप्ता, धर्मलुप्ता, वाचकलुप्ता, धर्मोपमानलुमा, वाचकधर्मलप्ता, वाचकोपमेय-

एवमर्थमाह-हृद्यतेति । ननु तत्रेव तात्पर्यग्राहकं तदत आह-काव्येति । अत एवेति। प्रकाशग्रन्थे। उत्तदोषगणादेवेत्यर्थः । तथैव नातीव रमणीयमित्यर्थः । एवमिति। व्यतिरेकेऽतिव्यापनादित्यर्थः। ननु पर्यवसितलेन विशेषणान्न दोषोऽ्त आह-श्ेषेति । प्राचां प्रकाशकारादीनाम्। तत्र तयोमध्ये। तत्र तासाँ सप्तानां १ यस्य साधर्म्यस्य साध्म्यें एव पर्यवसानं भवेत, न निषेधादी। तथा च निषेधपर्यव- सायिनो व्यतिरेकगतसाटृश्यस्य निरासः । २ अनन्वयगतसादृश्यस्यापि निषेधे एव पर्यवसानम्। ३ मेदस्य अमेदस्य च तुल्यत्वे। ४ क्विष्टशब्दरूपो धर्मों न प्रसिद्धः, कल्पितत्वात्। न स उपमेये नाप्युपनाने प्रसिद्धस्त- थापि तत्रोपमा भवति, प्रसिद्धेति विशेषणे तु तत्राऽव्याप्तिः त्या दित्याशयः ।

Page 276

२१४ काव्यनाला। [द्वितीयानने-

लुप्ता, धर्मोपनानवाचकलुप्तेति तावत्सप्रविधा। तत्रोपमानलुप्ता-वा कयगा, समासगा चेति द्विविधा। धर्मलुप्ता-समागता-श्रौती, आर्थी। वाक्यगता-औौती, आर्थी। तद्धितगता च-आर्थ्येव, न श्रौती। इति मश्चविधा। वाचकलप्ा-समासगता, कर्मक्यज्गता, आधारक्यजता, क्यङ्गता, कर्मणमुल्गता, कर्तृणसुल्गता चेति षड़िधा। धर्मोपमानलुप्ता- वाक्यगता, समासगता चेति द्विविधा। वाचकधर्मलुप्ता किब्गता, समासगता चेति द्विविधैव। वाचकोपमेयलुप्ता त्वेकविधा। धर्मोपमान- वाचकलुपा तु समासगतैकविधा। इति। एवं साकल्येनैकोनविंशतिर्लुप्ता- भेदा: पूर्णाभेदैः सह पञ्चविंशतिः क्रमेणोदाहियन्ते। तत्र पूर्णा श्रौती वाक्यगता यथा-

प्रावृषेण्य इव वारिरो मे वेदनां हरतु वृष्णिवरेण्यः ।।' अन्न प्रावृषेण्य इत्यनेन वारिधरविशेषणेन नैराकाइयात्, इवेन समास इत्येव पाठान्नित्यत्वाभावाद्वारिधरेणापि नेवस्य समासः । एषा चोपमा नोपमेययोर्वारिधरभगवतोर्वेदनाहरणकर्तृत्वस्य साधारणधर्मस्य सादृश्य- बोधकस्येवशब्दस्य चाभिधानात्पूर्णा। सादृश्यस्य श्रुत्या बोधनाच्छौती। पूर्णा आर्थी वाक्यगता यथा- 'प्राणापहरणेनासि तुल्यो हालाहलेन मे। शशाङ्क केन मुग्धेन सुधांशुरिति भाषितः ।।'

भध्ये। तत्र पश्चविंशतीनां मध्ये। ग्रीष्मेति। मण्डलस्य भीष्मा ज्वाला यत्र तत्र देशे यत्संसरणं गमनं तेनेत्यर्थः । वृष्णिवरेण्यः कृष्णः । वाक्यगतत्वमाह-अत्रेति। इवेन समास इति 'सुप्सुपा' इत्यस्यानित्यलेनास्य तत्प्रपञ्चलात्। एवं च वैकल्पिकत्वात्तदभावः। पूर्णालमाह-एषेति। श्रुत्येति। इवेनेत्यर्थः । विशेष्यतयेति भावः । प्राणापेति। १ प्रावृषेण्य इति हि वारिधरस्य विशेषणम्, अत एव विशेष्याकाङ्ङस्यास्य इवशब्दयोगस्य नाडपेक्षा। ननु तहि वारिधर इति विशेष्येण सह समासोऽस्तु। एतदपि न। इवेन सह समा सस्य अनित्यत्वात् (वैकल्पिकत्वात) वारिधर इत्यनेनापि सह इवस्य न समासः, अत एवं वाक्यगता सेयमित्यर्थः ।

Page 277

उपमा ] रसगङ्गाघर: । २१५

पूर्णा श्रौती समासगा यथा- 'हरिचरणकमलनग्वगणकिरणश्रेणीव निर्मला नितराम्। शिशिरयतु लोचनं मे देवत्रतपुत्रिणी देवी।।' अत्रेवेन समासः । पूर्णा आर्थी समासगा यथा- 'आनन्दनेन लोकानामातापहरणेन च। कलाधरतया चापि राजन्निन्दूपनो भवान्।।' पूर्णा श्रौती आर्थी च तद्धितगा वथा- 'निस्विलजगन्महनीया यस्याभा नवपयोधरवन्। अम्बुजवद्विपुलतरे नयने तङ्र्ह्म संश्रये सगुणम् ।।' अत्र पूर्वार्धे वतेः 'तत्र तस्येव' इति सादृश्ये विधानाच्छ्रौती। उत्तरार्वे 'तेन तुल्यं-' इति विधानात्सादश्यवदर्थकतया आर्थी। उपमानलुपा वाक्यगा यथा- यस्त तुलामधिरोहसि लोकोत्तरवर्णपरिमलोग्गारेः । कुसुमकुलतिलक चम्पक न वयं तं जातु जानीमः ।।' यचुलनामधिरोह्सीत्याद्यचरणनिर्माणे इयनेव समासगा। उपमाना- भावेन साहश्याभावस्य पर्यवसानात्सावश्यपर्यवसानस्य चोपमाजीवित- त्वादलंकारान्तरमेवात्र नोपमानलुप्तेति नाशङ्कर्नायम्। चस् तुलामारोहसि न तं वयं जानीम इत्युक्ता अस्माकमसर्वज्ञत्वादस्मदगोचर: कोऽपि तवोपमानं भविष्यतीति साहश्यवर्यवसानमस्ीत्युपमानलुमेवेयसुपमा, नालंकारान्तरम् । अत्र समासाभावाद्वाक्यगलम्। विषचन्द्रयोः प्राणापहारकलरूपधर्मस्य तुल्यश- व्दस्य चोपादानात्पूणोलम्। तुल्यशब्दस्य सदशार्थकलऽपि प्राधान्येनेवशब्दवत्साद- इयबोधकलवाभावादार्थत्वम्। हरीति। देवत्रतेन पुत्रिणी। पुत्रवतीलर्थः । अत्रपि चतुर्णामिवस्य चोपादानात्पूर्णात्वं श्रौतीलं च। समासगात्वमाह-अत्रति। आनन्द- नेनेति। करणे ल्युद। लोकानामिति मध्यमणिन्यायेनान्वेति। आ समन्तात्तापेत्यर्थः । इन्दूपमो भवानिति। अत्र समासस्य धर्मिशक्तत्वात्कर्मसाधनेनोपमाशव्देन समासाद्वा आर्थीखं समासगतं च । पूर्णालं तु स्पष्टमेव। सगुणं त्रह्म कृष्णरूपम्। कुसुमकुलानां तरूणां तिलक श्रेष्टेति चम्पकविशेषणम्। यत्तुलनामिति। यस्य तुलनां यत्तुलना- मित्यर्थः । शङ्कते-उपमानेति। यस्येति। यत इत्यादिः। इत्युक्त्येति। स नास्ती- १ देवत्रतो भीष्मः, तेन पुत्रवती गङ्गा. २ व्याख्यानमिदं साहित्यमारमिकेविचारणीयम्।

Page 278

२१६ काव्यमाला। [ द्वितीयानने-

एतेन 'हुँहुँगँतो हि मरीहिसि कण्टककलिआइँ केअइवणाइं। मालइकुसुमसरिच्छं भमर भमंतो ण पावहिसि ॥' इत्यन्नासमालंकारोऽयमुपमातिरिक्त इति वदन्तोऽलंकाररत्नाकराद्यः परास्ता:। धर्मलुप्ता श्रौती वाक्यगता यथा- 'कलाघरस्येव कलावशिष्टा विलूनमूला लवलीलतेव। अशोकमूलं परिपूर्णशोका सा रामयोषा चिरमध्युवास ॥' 'ग्रीष्मचण्डकरमण्डल-' इति प्रागुदाहते पूर्णाया उदाहरणे प्रावृषेण्यो वारिधर इव यो वृष्णिवरेण्यः स मे वेदनां हरत्विति वृष्णिवरेण्यमात्र- गतत्वेन वेदनाहरणकर्तृत्वं विवक्षितम्, वारिधरसादृश्यं च श्याम- त्वादिना यदि, तदा तत्राप्येषा बोध्या। इयांस्तु विशेष :- यत्पूर्णायां वृष्णिवरेण्यमात्रमुद्दिश्य प्रावृपेण्यवारिधरसादृश्यप्रयोजकं तादशवारि- धरसादृश्याभिन्नं वा वेदनाहरणकर्तृत्वं विधेयमित्युपभाविधेयिका घीः ।

त्युक्तिरन्यथा स्यादिति भावः । एतेनेति। उक्तरीत्या सादृश्यपर्यवसानेनेत्यर्थः। अन्रापि तत्प्राप्तिस्तव दुर्लभेत्युक्तं न तु स नास्तीति भावः । 'ढुं ढुं कृत्वा हि मरिष्यसि कण्टकक- लितानि केतकीवनानि। मालतीकुसुमसदृक्षं भ्रमर भ्रमन्न प्राप्स्यसि ॥' लवलीलता 'हरफा- रेवडी' इति भाषया प्रसिद्धा। अशोकमूलमिति। 'उपान्व-' इत्याधारः कर्म। इयामत्वादिनेति। विवक्षितमित्यनुषङ्गः। सादृश्यस्यातिरिक्तल आह-प्रावृषेण्येति। धर्मरूपले आह-तादृशति। प्रावृषेण्येत्यर्थः । अवच्छेदिकेत्यस्येतीवि शेषः। साद- १ श्यामत्वादिना धर्मेण यह्योः सादृश्यं विवक्षितं तच्छव्दोपात्तं न, यञ्च वेदनाहरण- रूपं शब्दोपात्तं तत् उपमेये वृष्णिवरेण्यमात्रे संबद्धत्वात्साधारणधर्मपद्वाच्यं नेति धर्मलुप्ता सेयमित्याशयः । २ 'वारिधर इव वृष्णिवरेण्यो मे वेदनां हरतु' इति पूणोपमायां वृष्णिवरेण्योद्देश्यकं यद् वेदनाहरणकर्तृत्वम् (वेदनाहरणम्) हरत्विति लोटा विधीयते तदेव वृष्णिवरेण्यवारिधरयोः सादृश्यं प्रयोजयति (संपादयति) । [ यदि तु सादृश्यमतिरिक्तः पदार्थों न, किन्तु सदृशस्य भाव: सादृश्यमिति धर्मरूपम्, तेषां मते हरणकर्तृत्वमेव सादृश्यम्]। सादृश्यं चोपमा। अत एव उपमा विधेया यस्िन्नीदृशः शाब्दबोधः ।

Page 279

उपमा ] रसगङ्गाघर:। २१७ धर्मलप्तायां तु वारिधरसाहश्यात्रच्छिन्नवृष्णितरेण्यमुद्दिश्य वे दनाहरण- कर्तृत्वमात्रं विधेयमित्युपमोद्देश्यतावच्छेदिका। धर्मलुपा आर्थी वाक्यगता यथा- 'कोपेडपि वदनं तन्वि तुल्यं कोकनदेन ते। उत्तमानां विकारेऽपि नापैति रमणीयता ।।' धर्मलुप्ता समासगा औत्यार्थी तद्धितगार्थी च यथा- 'सुधेव वाणी वसुधेवे मूर्तिः सुधाकरश्रीसदशी च कीर्तिः । पयोधिकेल्पा मतिरासफेन्द्रोर्महीतलेऽन्यस्य नहीति मन्ये ॥।' ईपदसमामिरपि भङ्गन्तरेण साहश्यमेव। वाचकलुपा समासगा-'दरदलदरविन्दुसुन्दरं' इति प्रागुदाहते पद्ये। कर्माधारक्यज्गता क्यङ्गता च यथा- 'मलयानिलमनलीयति मणिभवने काननीयति क्षणतः । विरहेण विकलहृदया निर्जलमीनायते महिला॥' अन्नानलमिवाचरतीत्यर्थऽनलशव्द्ान् 'उपमानादाचारे' इति सूत्रेण, कानन इवाचरतीत्यर्थे काननशब्दाच तत्सूत्रस्थेन 'अधिकरणाच' इति वार्ति- केन क्यच्। निर्जलमीनशव्दाच 'कर्तुः क्यङ् सलोपश्च' इति क्यङ्। आचार- इयमेवेति। तथा च तद्विशिष्टार्थप्रतिपादकत्वादार्थी. कर्माधारेति । वाचकलुसे- त्यादिः। नन्वेवमाचारवत्सादृश्यस्यापि क्यजादिना बोधनात्कर्यं वाचकलदप्ात्वमत आह- आचारेति। सादृश्यवाचकाभावादिति। शक्तेति भावः । ननु नेदं युक्तम्। अत्र मे इवादीनां द्योतकतानये सर्वत्रेव वाचकाभावाद्ाचकलप्तात्वापत्तेः, चन्द्रप्रतिपक्षमाननमि- १ 'वारिर इव (श्याम: ) यो वृष्णिवरेण्यः स मे वेदनां हरतु' इति लुप्तायां तु साटृ- श्यम् (सामान्यधर्म:) श्यामत्वन्। तद्धि पूर्वतः सिद्धन्, उद्देश्यकोटिप्रविष्टन्, नात्र विधी- यते। ततश्च सादृश्यस्योद्देश्यकोटिप्रविष्टत्वेन, अन्न उपमा उद्देश्यतावच्छेदिका अर्थात् उद्देश्य- कोटिनिविष्टा भवतीत्याशयः । २ सुधेव वस्ुधेवेत्युभयत्र धर्मलुप्ता समासगता औती। ३ धर्मलुप्ता समासगा आर्थी। ४ धर्मलुप्ता तद्धितगता आर्थी। ५ नबाव आसफखान इति नाम्ना प्रसिद्धस्य 1 १९ रस०

Page 280

२१८ [द्वितीयानने-

मात्रार्थकतय मवधयओः प्रकृत्यैवे लक्षणया स्वस्ार्थसादृश्यप्रतिप- निरिदि नने सावस्यवाचकाभावाद्वाचकलुपा। अनलीयतीत्यादिसमुद्दा- चसपैयानलाविादश्यप्रयोजकाचरणेकर्तृशक्तत्वमिति नयेऽपि सादृश्य-

कर्तृकर्मणमुल्गता यथा- 'निरपायं सुधापायं पयस्तव पिबन्ति ये। जहुजे निर्जरावासं वसन्ति भुवि ते नराः ॥' अत्र सुधापायमिति सुधामिव, निर्जरावासमिति निर्जरा इवेति 'उपमाने कर्मणि च' इति कर्मणि चकारात्कर्तर्युपमान उपपदे णमुल। धर्मोपमानलुप्ता वाक्यगा समासगा च यथा- 'गाहितमखिलं विपिनं परितो दृष्ठाश्च विटपिनः सर्वे। सहकार न प्रपेदे मधुपेन तथापि ते समं जगति॥' 'तथापि ते समं' इति हित्वा 'भवत्समं' इति यद्यार्या शुद्धैव विधी- यते तदेदमेवोदाहरणं समासगायाः।

त्यन्नापि वाचकलुप्तालापत्तेश्र। तत्र हि प्रतिपक्षपदेन सादृश्यं लक्ष्यमेव। तस्मात्सादृश्य- सादृश्यविशिष्टान्यतरमान्रबोधकाभाव एव वाचकलोप इति तत्त्वम्। अत आह-अनली- यतीत्यादीति। गाहितमिति। यद्यपीत्यादिः। तथापि हे सहकार ! जगति तव तुल्यं वस्तु भ्रमरेण न प्राप्तमित्यर्थः । शुद्धवेति। आर्यासामान्यलक्षणाकान्तत्वात्। सा तु

१ क्यचूक्यडादि: प्रत्ययो यस्मात्क्रियते तेन (अनल-कानन-मीनादिना प्रकृतिभागेन) लक्षणाद्वारा स्वस्य स्वस्य अर्थस्य (अर्थात् अनलादेः) यत्सादृश्यं तस्य प्रतीतिर्भवतीति मते

२ अनलीयतीत्यादिक्यचूक्यडन्तानां पदानामेव अनलादिसादृश्यहेतुभूतं यदाचरणं तत्क- र्वरि-शक्तिरिति मते तु सादृश्यस्यापि प्रत्ययवाच्यतया वाचकलप्तात्वं न स्यादित्याह-सादृश्य- सादृश्यविशिष्न्यतरेति। अनलीयतीत्यादि पदं न केवलं सादृश्यस्यैव, न वा सादृश्यविशि- स्यैव वाचकम्, आचारादेरन्यार्थस्यापि वाचकत्वाद्। ३ सुधामिवेत्यादिविग्रहे सादृश्यवाचकमिवपदं श्रयते, अत्र दु नेति वाचकप्ता सेयम्।

Page 281

उपमा ] रसगङ्गाघर:। २१९.

वाचकधर्मलुप्ता कविळ्गता यथा- 'कुचकलशेष्ववलानामलकायामथ पयोनिधेः पुलिने। क्षितिपाल कीर्तयस्ते हारन्ति हरन्ति हीरन्ति॥' अत्र हारहरहीरशब्दा आचारार्थके ककिपि लपने धातवः। तत्र हारादि- शब्दा लक्षणया हारादिसादृश्यं वोवयन्ति। लुमोऽपि स्मृतः किवाचारमिति पक्षे वाचकधर्मलोपः स्पष्ट एव। हारादिशव्दा एव लक्षणया ताहश- सादृश्याभिन्नमाचारमिति पक्षे सादृश्यस्वव धर्मन्यापि तन्मात्रवोध- काभावाल्लोप एव। वाचकधर्मेलुपा समासगा यथा- 'शोणाधरांशुसंभिन्नास्तन्वि ते वदनाम्वुने। केसरा इव काशन्ते कान्तदन्तालिकान्तयः ।।' अत्र वद्नाम्बुजयोरभेद्विवक्षया विशेषणसमासे दन्तालिकान्तीनां

मिश्रितेति भावः। धातव इति। तथा च हारन्तीत्यादिप्रयोगसिद्धिरिति भावः । तत्र उक्तप्रयोगेधु। आचारमिति। बोधयतीति शेषः । स्पष्ट पवेति। सादृश्यस्य शत्त्य- प्रतिपाद्यत्वात्क्िपो लुप्तत्वाच्चेति भावः ।तादृशति। हारादीत्यर्थ: । तदित्युचितम् । अभिन्नमिति। तस्य धर्मरूपत्वादिति भावः । संभिन्ना मिश्राः । कान्ताश्च ते दन्ता- श्चेत्यर्थः । विशेषणेति। मयूरव्यंसकेतीत्र्थः । अधिकरणेति। वदनाम्वुजे इत्यत्र-

१ अभिधया केवलसादृश्यवाचकस्य इवादेः, व्मभूनो य आचारस्तदाचकस्य किपश्च लुप्तत्वेनाभावात्। २ हारादिशब्दा एव हारादिसादृश्याभिन्नन् (हारादिसादृश्यरूपन्) आचारमत्र बोध- यन्ति। एवं च एकेनैव हारादिपदेन सादृश्यस्य, साधारणधर्मस्य (आचारस्य) च बोधो भवति। तथा च सादृश्यमात्रवाचक-सादृश्यविशिष्टमात्रवाचकान्यतरस्याभावे यथा वाचक लोपो व्यपदिश्यते, तथव धर्ममात्रवाचकस्यवाभावे धर्मलोपः ख्यायेत। अन्र च हारादिशब्दा यथा सादृश्यमात्रवाचका न, साधारणधर्मरूपस्य आचारस्यापि वाचकत्वात, एवं ते (हारा- दिशब्दाः) धर्ममात्रवाचका अपि न, धर्मेतरस्य सादृश्यस्यापि वाचकत्वात्। तथा चैवंविधे स्थले उभयलोप एव स्वीकार्य इत्याशयः । ३ आर्यमिश्राः! केन मिश्रितेति टीकयन्भिरपि कि नाज्पं श्रीमद्भिः? अस्तु 'तथापि ते समम्' इतिघटितमुत्तरार्ध 'गीतेः' स्यात्। 'भवत्समम्' इति परिवर्तने तु शुद्धा आर्या। अर्थात् आर्यासामान्यम्, न तु पथ्या-विपुलादिव्यपदेशविशेषैर्जुध्।

Page 282

२२० काव्यमाला। [द्वितीयानने-

केसरसाटट््योसरलंगता खान्। यतो ह्यम्वुजतादात््यसाधकं दन्तालि- कान्तीना केसरताडात््य न तु केसरसादश्यम्। उपमितसमासे तु वढना- म्युअयोधमिणोरौपम्ये केसरदन्तालिकान्तीनामपि तहूर्माणामौपम्योक्ति- रुचितेत । अतोऽघिकरणतावच्छेदकोपमामादाय वाचकधर्मलुप्तोदाहता। विधेयतावच्छेदिका तु पूर्णेव। वाचकोपमेयलुप्ता क्यज्गता धर्मोपमानवाचकलुपा समासगा च यथा- 'तया तिलोत्तमीयन्त्या मृगशावकचक्षुपा। ममायं मानुपो लोको नाकलोक इवाभवत्।' तिलोत्तमीयन्त्येति तिलोत्तमामिवात्मानमाचरन्त्येत्याचारार्थके क्यचि तिलोत्तमापदस्य तिलोत्तमासादृश्ये लाक्षणिकतया वाचकस्य स्फुटत्वेन प्रतीयमानतया आत्मन उपमेयस्य चानुपादानालोप:। स्वयं तुसा नोपमेया। आचारकर्मण उपमानस्य तिलोत्तमारूपस्य तत्कत्र्यामुपमेयायासुपमा नत्वा - संगतेः । अत आत्मैवात्रोपमेर्यतयोन्नेयः। मृगचक्षुपेति मृगस्य चक्षुषी इव

त्यामित्यर्थः । अवच्छेदिका त्विति। उपमेति शेषः । कान्तयः केसरा इव काशन्ते इत्यन्नत्येति भावः। वाचकस्येति। इवशब्दस्येत्यर्थः। उपमेयानुपादाने हेतुमाह- स्फुटत्वेनेति। स्वयं त्विति। तिलोत्तमीयन्तीति बोध्येत्यर्थः। तत्कर्त्र्यामाचारकर्तर्याम्। १ वदनमेव अम्बुजमिति अम्बुजेन सह अभेदसाधकं केसरतादात्म्यम् (अभेदः, दन्ता- लिकान्तय एव केसरा इत्याकारकः) एव स्यान्न तु दन्तपङ्गिकान्तीनां केसरेः सह सादृश्यम्। २ दन्तकान्तीनां केसराणां चाधारभूतयोर्वदनाम्वुजयोरुपमा वाचकधर्मलुप्तास्ति (वाच- कस्य इवस्य, धर्मस्य सुन्दरमित्यादेरनुपादानात्), सैवात्रोदाहरणभूता। विधेयतावच्छेदिका [वाक्यार्थें प्रधानभूता) कान्तयः केसरा इव काशन्ते इति तु पूर्णेवेत्याशयः । ३ 'तिलोत्तमीयन्त्या' अत्र तिलोत्तमापदस्यैव तिलोत्तमासदशे लक्षणा, अन्यथा तिलोत्तमा- मिव आत्मानमाचरन्त्येति विग्रहस्यार्थः सिद्धरूपे न प्रतीयेत। ततश्च सादृश्यमात्रवाचकस्य इवादेरनुपादानात, क्यचूप्रत्ययेनैव (तिलोत्तमामिव) आत्मानमाचरन्तीति उपमेयभूतस्य आत्मनः सफुटं प्रतीतिर्भवति, ततश्च-रफुटत्व।देव उपमेयस्यानुपादानाच् वाचकोपमेयलुप्ता सेयमित्याशयः । ४ ननु तिलोत्तमारूपस्योपमानस्य उपमेयं नायिका। तद्वाचकमत्र 'तया' इति पदं स्फुट- ुपात्तम्। तत्कथमुपमेयलोप इति शङ्का। अत्र तिलोत्तमारूपमुपमानम् आचरणक्रियायाः कर्म। आचरणक्रियायाः कर्त्री नायिका तु प्रथमान्तम् । ततश्च-उपमानोपमेययोः समानविभक्तिकत्वनियमात् प्रथमान्तस्य (नायि-

Page 283

उपमा ] रसगङ्गाघर:। २२१

चक्षुपी अस्वा इति 'समन्युपमानपूर्वस्य' इने समासोत्तरपदलोपौ।

इहान्यानपि मेदानन्ये निगदन्ति-वाचकनुना पद्विधोपवर्णिता। 'कर्तर्युपमाने' इति जिनौ समन्यपि दश्यते। कोकिल इवालपति कोकि- लालापिनीति। तथाष्टम्यपि-'इवे प्रतिकृतों इते कनि 'लुम्मनुप्ये' इति लुपि चञ्चेवेत्वर्थे 'चञ्वा पुरुषः सोऽयं यः नवहिनं नैव जानीते' इत्यत्र। नवम्यपि-आचारकिपि पदान्तरेण प्रतिपादिते समाने धर्मे हश्यते। 'आह्रादि वडनं तस्या शरद्राकामृगाङ्कति' इत्यादौ । उपमानन्ुमा वाक्यसमासयोर्द्विविधोपवर्णिता, तृतीयापि दृश्यते- 'यञोराणामस्य च समागमो यच् तैर्वधोऽस्य कृतः ।

इत्यत्र काकतालशव्द्योलेक्षणया काकागमनतालपतनबोधकयोरिवार्ये 'समासाच्च तद्विपयात्' इति ज्ञापकात्समासे काक इव ताल इव काक- तालमितिकाकतालसमागमसदशश्रोराणामस् च समागम इत्यर्थः । ततः

तयोः समानरूपस्य तत्र तन्त्रतादिति भावः। शरद्राकेति। शारदपूर्णिमाचन्द्र इवा- चरतीत्यर्थः । पूर्वोक्तेन 'समासाच्च-' इल्नेन। स्थिते इत्यस्यार्ये इत्यादिः । तृतीयचर-

कायाः) उपनेयस्य तिलोत्तनानिवेति द्वितीयान्ननुपमानं न भवितुनर्हति। आवश्यकं च क्यज्विधायकसूत्रे उपमानस्य कर्नत्वन्। तथा च आत्मानमित्येवोपमेयं न नायिका । आत्मानमिति तु समस्ते न दृश्यत इत्युपमेयलोपख्यातिः । १ मृगपदस्य मृगचक्षुःसहशमिति लक्षणया बोधः । ततो नृगचक्षुःसहशवाचकस्य नृग- पदस्य चक्षुःशब्देन बहुव्रीहिसमासे नृगवत् (अर्थात् मृगचक्षुर्वत) चक्षुषी यस्या इत्यर्थः । इत्येक: पक्षः । २ वृत्ति: बुत्रीहिसमासवृत्तिरेव पूर्वा्तस्य विशिष्टार्थस्य वाचिका। अर्थात् 'नृगचक्षुः' इति समासघटितपदस्यैव मृगचक्षुःसदृशचक्षुःशालिनीत्यर्थः । इति द्वितीयः पक्षः । उभय- त्रापि उपमानवाचकस्य चक्षुःशव्दस्य [समासे यच्चक्षुःपदं श्रयते तत्तु उपमेयस्य नायिकाच- श्रुषो वाचकम् ], केवलसादृश्यवाचकस्य इवादेः, साधारणधर्मवाचकस्य विशालादिपदस्य, चेति त्रयाणामभावाद् धमोंपमानवाचकलुप्तेति व्यपदेशः ।

Page 284

२१२ काव्यमा [द्वितीयानने-

काकनालामयेत रमट हवार्थे पूर्वोक्तनैव सूत्रेण छप्रत्यये तालपतनज- न्यकगम्प स्करकर्तको देवदत्तवध इत्येवं स्थिते प्रत्ययार्थोपमाया-

वाचकोपमानलुप्ता तु नान्नैव न निर्दिष्टा। साप्यत्र प्रकृत्यर्थे दृश्यते। धर्मोपमानलुपा वाक्यसमासयोर्द्विविधवोक्ता। सा चान्रापि तृतीय- चरणोक्तधर्मनिरासे प्रेत्ययार्थे दृष्टा। वाचकधर्मलुप्ता क्किप्समासयोई्योरेव कथिता। सापि 'चञ्ा पुरुषः सोऽयं योऽत्यन्तं विषयवासनाधीनः' इत्यत्र सवहिताकरणरूपस्य धर्मस्या- नुपादाने कनो लोपे विलोक्यते। एवं च द्वात्रिशद्गेदाः । अन्नेद्मवधेयम्-कर्माधारक्यच क्यडि च वाचकलप्ोदाहरणं प्राचामसंगतमिव प्रतीयते, धर्मलोपेस्यापि तत्र संभवात्। न च क्यजादयर्थ आचौर एव साधारणधर्मोSस्तीति वक्तव्यम्। धर्ममात्ररूपस्याचारस्योपमा-

णोक्तेति। 'उपनतमेतदकस्मात्' इत्यस्य स्थाने चरणान्तरनिर्माण इत्यर्थः । धर्मलोप- स्यापीति। 'उपमानादाचारे' इत्यत्रोपमानमाचारनिरूपितमेव ग्रृह्यते। उदाहरणे च पुत्रपदस्य पुत्रकर्मकाचारसदशे लक्षणेति वैयाकरणमते च सुतरां धर्मलोपः । न चैत- न्मते 'त्रिविष्टपं तत्खलु भारतायते' इत्यत्र क्यचोऽनुपपत्तिः। भारताचारसदृशाचारस्य त्रिविष्टपत्ृत्तेर प्रसिद्धेः । 'सुपर्वभिः शोभितम्' इत्यस्य श्लेषेणाभेदाध्यवसाय एव, न सादृश्यावसाय इति वाच्यम्। एकशब्दोपात्तत्वेनाभेदवुद्धेरिव शब्दरूपसाधर्म्येण साद- १ छप्रत्ययप्रकृतिभागस्य काकतालमित्यस्याथें। तत्र हि उपमानं काकतालसमागमः, तथा च समागमवाचकपदाभावादुपमानस्य, एवम् इत्रादेवांचकस्याप्यभावाद्वाचकोपमानलोपः । २ छप्रत्ययस्यार्थे काकतालीयमित्यत्र । ३ विषयवासनाधीनत्वं तु पुरुषमात्रनिष्ठं न साधारणधर्मः, चञ्रायां (तृणमये पुरुषे) तदसंभवेन उभय साधारणत्वाभावाद्। ४ अर्थात् धर्म-वाचकलुसोदाहरणमिदम्। ५ यत्किश्चिद्धर्मरूपस्य आचारस्य सत्तया साधारणधर्मसत्तां संसाध्य धर्मलुप्तात्वाभावो न साधयितुं शक्यते। 'धर्मलोप'पदे तादृशो धर्मोंनुपदमेव विवक्षितो ग्रन्थकृता यो हयुपमाप्रयो- जक: स्यादू।

Page 285

उपमा ] रसगङ्गाघर: । २१३

प्रयोजकत्वाभावान्। 'नारीयते सपन्नसेना' इतयादौ वृत्त्यन्तरनिवेदिनै: कातरत्वादि भिरभिन्ननयाध्यव सितन्याचार स्योपनानिष्पादकत्वान्। यदि च क्यडर्थ आचारमात्रसुपमानिप्पादकं स्वानदा 'त्रिविष्टपं तत्खलु भार-

तस्वैव च 'सुपर्वभिः शोभितनन्तराश्रितैः' इति चरणान्तरनिर्माणे तस्ा निष्पत्तेः क्यसाधर्थः साधारणोऽयि नोपसा प्रयोजयति। उपमापयोजक- तार्वैच्छेदकरपेण साधारणधर्मवाचकशून्यत्वस्यैव धर्मलोपशव्डेनाभिधा- नान्। अन्यथा 'मुखरूपमिदं वस्तु प्रफुल्लनिव पङ्कनम्' इत्यादौ पूर्णोप- मापन्ेरिति दिक्। यन्चाप्पयदीक्षितैरस्मिन्नेव ्रस्तावे "धर्मलुप्ता वाक्यसमासतद्धितेषु दर्शिता द्विर्भावेपि दश्यते। 'पटुपदुर्देवदत्तः' इत्यत्र 'प्रकारे गुणवचनस्य' इति सादश्ये द्विर्भावविधानान्" इति निगदितं तत्तुच्छम्। अत्र च वाच-

श्यवुद्धेरप्युपपत्तेः । इत्याहुः। ननु नारीयते इन्यादौ तस्य तत्त्वमस्तीत्त आह-नारीति। वृत्त्यन्तरेति । मात्रपदेन किंचिदभिन्नतयाव्यवसितत्वव्यवच्छेदः । तस्येव पद्यस्य। तस्या उपमालंकृतेः । साधारणोऽपि उभयनिष्ठोऽपि। ननु क्यजयर्थाचारमात्रस्यो- पमाप्रयोजकलाभावेऽपि साधारणत्वेनोभयधर्मत्वात्तत्सत्त्वाच्च कर्थं तलोपसंभवोडत आह-उपमेति। अत्र चेति। चो ह्य्थे। सूत्रार्थ इति। द्विर्भावस्य सादृश्यद्योत-

१ 'नारीयते' अत्र नारीपदेन कातरता(भीरना)रूपस्यार्थस्यापि वृत्त्यन्तरेण (व्यज- नया) प्रतीयमानतया यत्किञ्चिद्वर्मरूपस्य आचारस्यैवोपमासाधकत्वं न, अपि तु व्यअ्नानिवे- दित-कातरत्वेन सह अभिन्नतयाऽध्यवसितस्याचारस्यैव। नारी अर्थात् भयशालिनी (स्त्री) यथा भीरूचितमाचरणं करोति तथा वीरं त्वां दृष्टा सपतसेनेति तत्तात्पर्यम्। २ आचारो यद्यपि उपमानोपमेयनिष्ठतया साधारणस्तथापि नोपमासंपादकः । किन्तु आचारेतरस्य तादृशधर्मस्यापेक्षा, यो ह्युपमाप्रयोजकः स्ाद्। ३ अर्थात् यो धर्म उपमाप्रयोजको भवेत्, तादृशसाधारणधर्मवाचकपदशून्यतायामेव धर्मलोपव्यपदेशो भवति। ४ वस्तुत्वम् (पदार्थत्वन्) सुखे पङ्कजेऽपि च सत्त्वात्साधारणधर्नस्तथाप्युपमागतचमत्कार प्रयोजकत्वाभावान्न कस्याप्येतादृशो धर्मोडनुमतः ।

Page 286

२२४ [ द्वितीयानने-

धर्मदुमरर, पमी बुनाया एव धर्मलुमाशव्देन तैर्विवक्षणात्। अन्यैथा

न चाव वायकस्य द्विभीवर्स्वेव सत्वान्नास्ति लोप: अपि तु धर्ममात्रस्येति

तदुकं कॅयटेन 'प्रकारे गुणवचनस्य' इति सूत्रे सिद्धं त्विति प्रतीकमुपा- दाय-'द्विर्वचनस्य प्रक्कतिः स्थानी इति तदर्थो विशेष्यते न तु प्रकारः। तत्र सर्वस्य गुणवचनत्वाव्यभिचाराभावात्। तद्रहणाद्गुणवचनो यः शच्दो निर्ज्ञातस्तस्य सादृश्ये दयोते द्वे भवत इति सूत्रार्थः' इति। इदं चान्यत्तस्मिन्नेव प्रस्तावे चित्रमीमांसाकृद्विरभ्यवीयत- "-नृणां यं सेवमानानां संसारोऽ्यपवर्गति। तं जगत्यभजन्मर्ऽश्रञ्च्ा चन्द्रकलाधरम् ।।' अत्र कविप्कनोलोंपे प्रत्येकं वाचकधर्मलोप उभयन्नापि," तदरमणीय-

कलवेऽपि शक्तत्वरूपवाचकलाभावाद्वाचकलोप इति तव हृदयम्। तत्तु इवादेर्दयोतकता- नये चन्द्र इव मुखमित्यन्र, चन्द्रसुहन्मुखमित्त्र च वाचकलप्ताव्यवहाराभावाय साद- श्यतद्विशिटान्यतरबोधकाभावस्यैव वाचकलपताव्यवहारप्रयोजकत्वस्य वाच्यत्वेन द्योतक- स्यापि बोधकलानपायेन नास्ति वाचकलोप इति तदाशयादबोधमूलकमिति चिन्त्य- मिदम्। इदं चान्यदिति । वक्ष्यमाणमन्यचेत्यर्थः । क्विब्लोपे तथोक्तेर्युक्तलेऽपि

१ धर्मलुप्तायां वाचकादेरन्यस्यापि लोपे सत्यपि यदि धर्मलुप्तेत्येव व्यवहारः स्यात्तदा भव- न्मतानुसार मेकलप्तायामेव द्विलुप्ास्त्रिलुप्ता अप्युपमा: संगृहीताः स्युः (धर्मलुप्तायाम् अन्यलोपे सत्यपि भवता एक(धर्म)लुत्तेत्येव व्यवहार: क्रियते) ततश्च छविलुप्ता-त्रिलुत्ानां पृथक्परि- गणनं व्यर्थ स्यादित्याशयः । २ प्रकारे गुणवचनस्ेतिसूत्रस्थं गुणवचनपदं प्रकारस्य (सादृश्यस्य) विशेषणमुत स्थानिन: (यस्य दवित्वं क्रियते तस्य प्रकृतिभागस्य)? तत्र प्रकारस्य विशेषणं व्यर्थम्, प्रकारस्य (साद- श्यस्य) सर्वत्रैव गुणवाचकत्वात् [तद्धि न क्रियारूपं न वा जातिरूपम्]। 'संभवव्य- भिचाराभ्यां स्याद्विशेषणमर्थवत्' इति नियमानुसारं प्रकारे गुणवचनताया नास्त्येव व्यभि- चार: । ततश्च तद्ग्रहणात् (अर्थात् गुणवचनपदग्रहणात्) गुणवचनो यः शब्दः इत्यादिको मूलप्रोक्तोडथों निष्पन्न इति सर्वस्याशयः । ततश्च दविर्भावः सादृश्यस्य द्योतको न वाचकः, एवं च पटपटः (अर्थात् पट्सदृशः) इति धर्मवाचकलुप्तोदाहरणं न धर्मलुप्तायाः।

Page 287

उपमा ] रसगङ्गाघर:। २२५

मेव। कनो वाचकस्य लोपेडपि तं चन्द्रकलाधरमभजन्निति चन्द्रकला- धरभजनराहित्यरूपस्य धर्मस्व चञ्ामर्त्यसाधारणस्योक्तत्वात्कथं ताव- द्धर्मस्य लोपः। न चोपमेयमत्यविशेपणतयोपात्तस्त्र चन्द्रकलाधरभजन- राहित्यस्य साहश्योपसर्जने चञ्ायामनन्वयान्न साधारण्यमिति वाच्यम्। "-यङ्गक्तानां सुखमयः संसारोऽ्यपवगति।

इति पाठे धर्मश्रवणमप्युभयत्रापि संभवति" इति सवोक्तेरसंगतत्वापत्तेः। इहाप्युपमेयसंसारविशेषणतयोपात्तस्य सुखमयत्वस्य साहयोपसर्जनेऽप- वर्गेऽन्व्रयाभावात्कथंकारं धर्नस्य साधारण्यम्। उपमेयगतत्व्रेनोपमानग- तत्वेन वोपात्तस्य धर्मस्य शाब्द उभयान्वयेऽसत्यपि वस्तुन उनयृत्ति- त्वज्ञानमेव साधारणताया नियामकमिति चेन्, चन्द्रकलाधरभजनराहि- त्येऽपि दीयतामेवमेव दृष्टिः। यदि चोपमेयतावच्छेदैकतयैव चन्द्रकला- धरभजनराहित्यं मम वितक्षितम्, साधारणधर्मश्र स्वात्महिनाऽकरणरूप: स चात्र लुप् एवेति शपथेन स्वाभिप्रायः प्रकाश्यते तदा निवारितोऽयं दोप: । र्तुष्यतु भवान्। इद्मप्यन्यत्तैरेव वाचकोपमेयलुपायामुदाहरणं निरमीयत- 'रूपयौवनलावण्यस्पृहणीयतराकृतिः । पुरतो हरिणाक्षीणामेप पुष्पायुधीयति ॥' कन्लोपेयुक्तलमिल्याह-कन इति। तामुपपादयति-इहापीति। कथंकारं कर्थ- कृलवा। पाठान्तरवादी स्वाशयमाह-उपमेयेति। एवमेवेति। एवं च तुत्यतेति भावः। प्रकारान्तरेण स स्वाशयमाह-यदि चेति। इदमप्यन्यदिति। वक्ष्यमाण- १ सादृश्यं प्रति उपसर्जनीभूते (विशेषणीभूते) । अयमाशयः-इवार्थें विहिनन्य कनो लोपेपि चञ्चापदस्य चञ्चासदृशः पुरुोऽथः। ततश्च सदृशपदार्थ प्रति गुगीभूतश्चत्ा। किञ्च चन्द्रकलाधरमभजन्निति विशेषणसुपमेयेन पुरुपेणैव संवद्धमित्युभयत्र योगाभावान्नास्य साधारण- धर्मते त्यवान्तर पूर्वपक्ष: । २ अर्थात् अन्र सुखमयविशेषणस्य शान्दोऽन्वयः उपमेयेन पुरुपेणैवास्ति, तथापि बौद्धः (अस्मद्बुद्धावभिप्रतः) अन्वयः उपमानेन अपवर्गेणापीति साधारणतायां न वाधकमिति नेत्समाधीयते ताहें चन्द्रकलाघरमभजन्नित्यस्यापि वौद्धेऽन्वये (उपनानेन चव्चया) संभवति धर्मलुप्तोदाहरणत्वमसंगतं स्यात्। ३ अस्मद्बुद्या केवलमुपमेय-पुरुषविशेषणतयैव तदिदं वक्तुमभिप्रेतमित्याशयः । ४ अर्थात् मौखिकशपथेन हृदयनिहितसत्यस्याSपलापः सोयम्।

Page 288

२२६

इड च रफनरमडुट्टनवैय्ाकरणतां कर्तुः प्रकाशयति। तथा हि पुरत इति नगरवाचिन: पुरशव्दात्तसिलि हरिणाक्षीणां नगरादित्यर्थस्यासंगतेः। नहि पूर्ववाचकः पुरशव्द: कापि श्रयते। पूर्वशव्दात्तु 'पूर्वाधरावराणा- मसिपुरधवध्रपाम्' इत्यसौ पुरादेशे च पुर इति भाव्यम्, न तु पुरत इति। अत एव 'अमुं पुरः पश्यसि देवदारुम्' इति प्रायुङ्क महाकविः। एवमेव "मुखस्य पुरतश्चन्द्रो निष्प्रभः- इत्यप्रस्तुतप्रशंसा" इति द्वितीयप्रकरणार- म्भेऽप्यपशव्धितं तैः । तथा चाहुर्वैयाकरणा :- "-'पत्या पुरतः परतः', 'आत्मीयं चरणं दधाति पुरतो निन्नोन्नतायां भुवि', 'पुरतः सुदृती समागतं माम्' इत्यादयः सर्वेऽपि व्याकरणाज्ञानमूला अपशब्दाः" इति। इयं चैवंभेदोपमा वस्त्वलंकाररसरूपाणं प्रधानव्यङ्गयानां वरत्वलं- कारयोरवाच्ययोञ्चोपस्कारकतया पञ्च्धा। तत्र व्यङ्गयवस्तूपस्कारिका यथा 'अविरंतपरोपकरणव्यग्रीभवद्मलचेतसां महताम् । आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ।।' अत्र ताहंशि वचनान्यर्थद्वारा सेवमानस्य मनागप्यक्षुभ्यतः परिणामे परमं सुखं भवतीति प्राधान्येन व्यङ्गयस्य वस्तुन उपस्कारिका भेषजोपेमा।

मित्यर्थः । तसिलीति। इदं चिन्तम्। तदप्राप्तेः । आद्यादित्त्वात्तसावित्युचितम् । महाकविः कालिदासः । तैः अप्पयदीक्षितैः । इदं चिन्त्म् । "पुरत इति निपाताङ्गी- कारातू। अत एव 'इयं च तेऽन्या पुरतो विडम्बना' इति कालिदासः, 'पश्यामि तामित इतः पुरतश्च पश्चात्' इति भवभूतिश्च संगच्छते" इति केचित् । अन्ये तु "दक्षि- णोत्तराभ्यामतसुच् इत्यत्र तसुचैव पुंवद्भावेन सिद्धेऽतसुज्विधानमन्यस्मादपीति ज्ञाप- नाय। तेन पचाद्यजन्तात्पुरशब्दात्तस्मिन्निष्टसिद्धिः ।" इत्याहुः। वस्तुतस्तु-'पुर अग्रगमने' इति चौरादिकाण्णिजभावे इगुपवलक्षणे के 'सार्वविभक्तिकस्तसिः' इति बोध्यम्। वैयाकरणा इति। प्राश्च इत्यादिः। एवंभेदा वक्ष्यमाणप्रकारभिन्ना। तदेव विशिष्याह-वस्त्विति। आपातेति । प्रागनुभूयमानकटतकानीत्यर्थः । तादंशि आपातकाटवानि। प्राधान्येन व्यङ्ग्यस्येति। तेनापातकाटवानीति पदव्यङ्ञयस्ये- १ अनवरतेति पाठस्तु सर्वत्राऽप्युपादीयमानश्छन्दोभङ्गी। २ औषधान्यापातत एव कटकानि, परिणामे तु गदनिर्हरणद्वारा तान्यमृतायमानानि भवन्ती- त्यर्थ सूचयन्ती सेयमुपमा पूर्वोंपपादितं व्यञ्ञयं प्रसाधयतीत्याशयः।

Page 289

छपमा ] रसगङ्गाघर: । २२७

व्यङ्गयालंकारोपस्कारिका यथा- 'अङ्कायमानमेलिके सृगनाभिपक्कं पङ्करहाक्षि बदनं तव वीक्ष्य विभ्रन्। उह्लासपल्लवितकोमलपक्षमूला- अ्रख्धपुटं चपलयन्ति चकोरपोताः ।।' अत्र प्राधान्येन व्यङ्गये आरोप्यमाणचन्द्रके भ्रान्तिमत्यलंकारे उपपा-

कत्वादुपमात्रालंकारः । रसोपस्कारिका तु 'दरदलदरविन्द-' इत्यत्र प्रागेवोदाहृता। रसप-

'नैवापयाति हृदयादविदेवतेव', 'वन्यकुरङ्गीव वेपते नितराम्' इत्यादिषु प्रागुदाहतेपु। वाच्यवस्तूपरकारिका यथा- 'अमृतद्रवमाधुरीभृतः सुख्यन्ति श्रवसी सखे गिरः। नयने शिशिरीकरोतु ने शरदिन्दुप्रतिमं सुखं तव ।।' अन्न नयनशिशिरीकरणरूपे वस्तुनि वाच्ये मुखस्य शरदिन्दूपमोप- स्कारिका।

त्यर्थः । नन्वत्रोपमालंकारो नैवान आह-अन्र प्राधान्येनेति। व्यङ्गे इति वाक्यव्यङ्गये इत्यर्थः । अलंकारे सतीति शोः। उपनादकेत्वस्य तस्येत्यादिः । अत्ालं- कार इति। तथा च तटुपस्कारकलमस्याः स्पष्टमिति भावः । ननु वस्तलंकारयोरिव १ अलिके अङ्कायमानम् (चन्द्रगननेचकचिह्रसदृशन्) मृगनाभिपङ्कं विभ्रत् तव वदनं वीक्ष्येत्यन्वयः । २ उल्लासेन पलविते (पछ्त्नाकारतया स्फुट प्रकटिते) कोमले पक्षमूले (पक्षत्योर्मूलदेशौ) येषाम्। ३ आरोप्यमाण: चन्द्रो यस्मिन् अर्थात् चकोरपोता भ्रान्तिवशान्मुखे चन्द्रस्यारोपं कुर्व- न्तीति भ्रान्तिमान् प्रधानव्यङ्गयः । तसििन्नुपपादकः (साधकः) ललाटस्थकस्तूरीद्रवे कलङ्कस्य अमेदारोपः । अमेदारोपे च नृगमदद्रवस्य कलङ्गस्य च सादृश्यरूपो दोषो मूलम्। सादृश्यमेव चोपमा। तथा चैंवरीत्या उपमा व्यञ्ञ्यस्य भ्रान्तिमदलंकारस्योपस्कारिकास्तीते सर्वस्याशयः ।

Page 290

२२८ कवदनाला। [द्वितीयानने-

वाच्यानंकारोकारिका यथा- शिधिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम् । न ननागपि तन्वि शोभते तव रोपेण तथेदमाननम्॥' अत्र वाच्यस्य दीपकस्योपमोपस्कारिका । रसादिस्तु न वाच्य इति प्रागेवाभिहितम्। अथ कथमलंकारस्थालंकारान्तरोपस्कार्यत्वमुच्यते। प्रधानस्यैवालंका- येत्वादिति चेत्, मैवम्। अलंकारस्योपमादेर्ध्वन्यमानतायां प्राधान्याद्र- सादिवद्लंकारान्तरोपस्कार्यत्वे न कोऽपि तावदसि्ति विरोधः । एवमेव मुख्यतया वाच्यतायामपि। यथा ह्यापणादौ विक्रीयमाणतायां कनकताट- क्कस्य रन्नाद्यलंकारान्तरोपस्कार्यत्वे तस्वैव च कामिनीकर्णालंकरणतायां पुनः प्रधानानतरसांनिध्यात्ताटङ्कस्य तद्गतरत्नानां च साक्षात्परम्परया च कर्णादिशोभोपस्कारकतया यथा तद्लंकारत्वम्, एवमेव रसादिसांनिध्ये रूपकादेस्तदुपस्कारकस्यालंकारान्तरस्य च रसादयलंकारतेति । एवं च प्राचां मते पञ्नविंशतिभेदायाः पुनः पश्विधतायां सपादशतं भेदाः । द्वान्निशद्द्ेदवादिनां तु षष्युत्तरं शतम्। इतश्चान्येऽपि प्रभेदाः कुशाश्रीयधिषणैः स्वयमुद्धावनीयाः । तत्र क्वचिदनुगाम्येव धर्मः । कचिच्च केवलं विम्वप्रतिबिम्वभावमापन्नः । कचिदुभयम्। कचिद्वस्तुप्रतिवस्तुभा- वेन करम्वितं विम्वप्रतिविम्वभावम्। कचिद्सन्नप्युपचरितः । कचिच्च केवलशब्दात्मकः ।

रसस्यापि वाच्यत्वेन घोढा वक्तुमुचितेयमत आह-रसादिरिति। प्रधानस्यैवेति। अलंकारस्तप्रधानमेवेति भावः । वाच्यतायामपि विरोध इत्यनुषङ्गः। उभयं अनुगामितं

१ अर्थात मुख्यतया वाच्यतादशायामपि अलंकाराः अलंकारान्तरेणोपस्कार्या भवन्ति। २ पूर्वस्य प्रधानस्य (ताटङ्कस्य) अपेक्षया अन्यस्य (कामिनीकर्णस्य) सांनिध्यात् ताटङ्कस्य साक्षात ; रलानां च परम्परया कर्णशोभकतया तदलंकारत्वम् [तस्याः (कामिन्याः) अलंकारत्वम्]। ३ आपन्नः स धर्म इति पूर्वान्वयः ।

Page 291

उपमा ] रसगद्गाघर: । २२९

तत्राद्यो यथा- 'शरदिन्दुरिवाह्रादजनको रघुनन्दनः । वनस्नजा विभाति र्म सेन्द्रचाप इवाम्तुद्ः ।।' अत्र पूर्वार्धे सकृन्निर्देशाद्वर्मोडनुगामी। केवलविम्बप्रतिविम्वभावापन्नः 'कोमलातपशोणाभ्र-' इत्यत्र बोध्यः। द्वितीयार्घे तूभयम् । तृतीयोऽपि त्रिविध :- विशेषणमात्रयोरविशेष्यमात्रयोस्तयुगलयोर्वा चस्तुप्रतिवस्तुभावेन करम्वितः । तत्राद्यो यथा- 'चलद्ङ्गमिवाम्भोजमधीरनयनं सुखम् । तर्दीयं यदि दश्येत काम: कुद्धोऽस्तु किं ततः ।।' अत्र चलनाधीरत्वयोविशेषणयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनो- पादानाद्वस्तुप्रतिवस्तुभावः। तद्विशेर्षणकयोश्च वृङ्गनयनयोर्विम्तप्रतिबिम्ब्र- भावः । इति तत्करम्बितोऽयमुच्यते। तत्र द्वितीयो यथा- आलिङ्गितो जलधिकन्यकया सलीलं लभ्नः प्रियंगुलतयेव तरुस्तमालः । देहावसानसमये हृदये मदीये देवश्चकास्तु भगवानरविन्दुनाभः ।।'

विम्बप्रतिबिम्बभावं च। अयं चोक्तान्तर्गतोनतिरिक्तो मेदः । अत एव वक्ष्यति- ढृतीयोऽपि त्रिविध इति। षष्ठ इति च। वनस्रजा आपादतलावलम्बिमालया।

१ शरदिन्दुरितिपद्यस्य द्वितीयार्घे । अन्र हि विभाति सेति मेघ-रामयोरनुगानी। वन- मालेन्द्रधनुषोरमेदरूपश्च विम्वप्रतिबिम्वभावापन्नः इत्युभयमपि । द्वितीयायें इत्वस्य 'काषाय- वसनो यातीत्यादौ' इति टीकयन्नागेशस्तु भ्रान्तः । कुङ्कमालेपादेरयतिमात्रविशेषणतया साधारण- स्वाभावेन उपमाया एवाभावाद। २ चलनाधीरत्वे विशेषणे ययोस्तयोर्विशेष्ययोः । २० रस०

Page 292

२३० काव्यमाला। [द्वितीयानने-

अत्रालिक्कितत्त्रलस्त्वयोर्व स्तुप्रततिवस्तुभावः। तद्विशेष्यकयोञ्च जल- विकन्यानियंगुलतयोर्विन्बप्रतिविम्बभावः। इत्ययमपि तत्करम्वित एव। तत्र दृतीयो यथा- 'दुशाननेन दप्तेन नीयमाना बरभौ सती। द्विरदेन मदान्घेन कृष्यमाणेव पझ्मिनी ।।' अन्र विशेषणयोर्द्टतत्वमदान्धत्वयोर्विशेष्ययोश्च नीयमानत्वकृष्यमा- णत्वयोर्वस्तुप्रतिवस्तुभावेनोभयतः संपुटितो दशाननद्विरद्योर्षिम्बप्रति- विम्बभावः । इत्ययमपि तत्करम्वितः । 'विमलं वदनं तस्या निष्कलङ्कमृगाङ्कति' इत्यत्र वैमल्यनिष्कलक्कत्व- योर्वस्तुत एकरूपयोविम्बप्रतिविम्वभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्न- योरुपमानिष्पादकत्वं यद्यस्ति तदा शुद्धं वस्तुप्रतिवस्तुभावमापन्नोऽप्येष षष्ठो धर्मः । न च 'कोमलातपशोणाभ्रसंध्याकालसहोदरः' इत्यादौ यति- संध्याकालयोरुपमायां धर्मान्तरस्यानवगमात्कुङ्कमालेपकषायवसनयोः कोमलातपशोणाभ्रयोश्च बिम्बप्रतिविम्बभावो यथावश्यमभ्युपेयः, प्रकृते तुन तथा वस्तुप्रतिवस्तुभावः। वदनमृगाङ्कयोः सौन्दर्यरूपसाधारणधर्मस्य अ्रतीयमानत्वेन धर्मान्तरानपेक्षणादिति वाच्यम्। एवं तहिं 'यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्ा' इति भवभूति- द्वितीयार्ये तु 'काषायवसनो याति' इत्यादौ। यद्यस्ति तदेत्यनेनारुचि: सूचिता। तद्वीजं तु-एकोऽप्यर्थो भिन्नशब्देनोपात्तो भिन्न इव प्रतीयते। अत एव 'उदेति सविता साम्रस्ताम्र एवास्तमेति च' इत्यादौ 'रक्त एवास्तमेति च' इति पाठे दुष्टतेति प्राश्चः । प्रकृते संबन्धिभेदादपि मेदप्रत्ययस्तयोः । भिन्नरूपेण प्रतीयमानस्य च न साधारणता। साधारणीकरणस्य च न कश्चिदुपायः, विना बिम्बप्रतिबिम्ब- भावापन्नैकधर्मसंबन्धिलम्। तथा च शब्दाद्विदेन प्रत्यये, संबन्धिमेदाच्च मेदप्र- रये, बिम्बप्रतिबिम्वभावापन्नैकधर्मसंबन्धिलेन तयोरभेदाध्यवसाये साधारणलमस्येति कथं शुद्धस्योपमानिष्पादकलम्। अत एव प्राश्चः बिम्बप्रतिबिम्बभावकरम्बित एवायमित्याहुरिति। प्रकृते तु न तथेति । तथा तु प्रकृते नेत्यर्थः । १ ते आलिङ्गितत्वलस्नत्वे विशेष्ये ययोः, अर्थात् आलिङ्गित-लम्नेति-विशेष्यद्वयस्य विशेषणी- ूवयोः । जलधिकन्यया आलिङ्गितः, त्रियङ्कलतया लग्न इत्यन्वये जलधिकन्या प्रियङ्गुलता च विशेषणम्, आलिङ्गित इत्यादि च विशेष्यमित्यर्थः ।

Page 293

उपमा ] रसगङ्गाघर: । २३१

पद्येऽपि प्रतीयमानेन सौन्दर्येणैव सामान्येन निर्वाहे कंधरावृन्तयोर्कि प्रतिबिम्बभावस्य वलितत्वाSवृत्तत्ववोर्वस्तुप्रतिवस्तुभावस्य च सकलैरालं कारिकैः स्वीकारो विरुद्धः स्यान्। अतो यथास्थितमेव साधु। उपचरितो यथा- 6शतेकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः । येनाकारिपि मित्रं स विकलहदयो विधिर्वाच्यः ।' एषा सीतां विवासितवतः स्वात्मगता रामस्योकिः । अत्र काठिन्यं पार्थिवो धर्मश्चित्ते उपचरितः । केवलशब्दात्मको यथा- 'यत्र वसन्ति सुमनसि मनुजपशौ च शीलवन्तः सर्वत्र समाना मत्रिणो मुनेय इव।' अन्नोपमानोपमेयगतस्यार्थस्यकस्याभावाच्छव्द एव वर्मः । एवमेतेषां धर्माणां व्यामिश्रणं च संभवति।

१ अयमस्य प्रघट्टकस्य सार :- कोमलातप० इत्यादौ उपमासंपादक-धर्मान्तरानुपलम्भाद विम्बप्रतिबिम्बभावो धर्मतया स्वीक्रियते । विमलं वदनम् इत्यत्र तु वदनमृगाङ्गयोः सौन्द- यरूपसाधारणधर्मेणैवोपमासिद्धि: स्यात्ततः काSडवश्यकता वस्तुपतिवस्तुभावस्य साधारणघर्मत्व स्वीकारे इति शङ्का। उपमासावनाय येषां पदार्थानां विम्वप्रतिबिम्बभावो वस्तुप्रतिवस्तुभावो वा साधारणकमै तथा कविना स्वरचनायामाकृतेन सूचितो भवेत, उपमोपस्करणाय यादृशश्चालंकारिकाणा संप्रदायः, तत्र तदनुसारमेव उपमा उपपादयितव्या। अन्यथा यान्त्या मुहुः० इति भवभूति- प्रद्येपि सौन्द्येंणैव साधारणधर्मेण उपमोपपुचौ बिम्बप्रतिबिम्बभावादेः स्वीकारस्य काऽडवश्य कता स्वादिति तत्समाधानम्। २ वज्रम् । ३ निन्दनीयः । ४ पृथिवीसंबन्धी धर्म: अमूतें चित्ते आरोपितः । ५ 'मुनय इव सुमनसि (विदुषि) मनुजपशी (महामूर्खे) च सर्वत्र समानाः मत्रिणः' अत्र उपमाने सुनौ समानपदस्य समदृष्टित्वमर्थः । उपमेये मश्रिणि (समः मानः समादरों येषां ते समाना: इत्यर्थ:) ततश्चार्थमेदेपि शब्दात्मकः समानधर्मः ।

Page 294

२३२ काव्यमाला। [ द्वितीयानने-

यथा 'श्यामलेनाङ्गितं भाले वाले केनापि लक्ष्मणा।

आचारेऽनुर्गामिन्यभेदमापद्य स्थितौ। यथा वा- 'सिन्दूरारुणवपुषो देवस्य रदाङ्करो गणाधिपतेः । संध्याशोणाम्बरगतनवेन्दुलेखायित: पातु ॥' अत्र सिन्दूरसंध्याभ्यां गणाधिपगगनाभ्यां च बिम्बप्रतिबिम्बभावमा पन्नाभ्यां [धर्माभ्यां ] संपादिताभेदेन विशिष्टधर्मेणाभेदेनावस्थित: क्यङ थोऽनुगामी। क्क हेतुमन्गावेन। यथा- 'खलः कापट्यदोषेण दूरेणैव विसृज्यते।

गणाधपगगनाभ्यामिति । गणाधिपगगनयोर्बिम्बप्रतिबिम्बभावे च बिम्बप्रति- निम्बभावापन्नसिन्दूरसंव्याविशेषणकारुणतशोणले वस्तुप्रतिवस्तुभावापन्ने एव साधा- रणधर्म इति तयोरमेदेन विशिष्टवर्मेणेत्युक्तिरिति भावः । क्यड्थोऽनुगामीति। यद्यपि प्रसिद्धौजवल्यशोभाविशेषादिकमादायाप्याचारोऽनुगामी कर्तुं शक्यते तथापि

१ 'मुखमम्बुजायते (अन्वुजवदाचरति)' इत्युत्तया क्यङ्प्रत्ययार्थ आचरणम् उपमेये मुखे, उपमाने अम्बुजे चानुगामि (उभयसंबद्धम्) इत्यववुध्यते। मुखस्य अम्बुजवदाचरणं च-भालगतस्याङ्गस्य अन्तरासुपस्य मृङ्गस्य च विम्बप्रतिबिम्बभाव(अभेदारोप)रूप एव। एवं व अस्यामुपमायां विम्बप्रतिनिम्बभावस्य अनुगामिनी धर्मस्य च व्यामिश्रणं जातमित्याशयः । :रअयं भाव :- वस्तुप्रतिवस्तुभावापन्नाभ्यामरुणत्वशोणत्वाभ्यामन्वितयोः सिन्दूर-सन्ध्य-

श्वापि मिथो विम्बप्रतिबिम्बभावः । स च व्यड्थांत् आचारात (यः उपमानोपमेययोरनुगामी) अभिन्नः, अर्थात् तादृशधर्मविश्विष्टयोर्गणाधिपगगनयोरमेदः (बिम्बप्रतिबिम्बभावः) एव स आचाररूप: साधारणधर्मोडस्ति यडेतुना दन्ताङ्कुरचन्द्रलेखयोरुपमा सिध्यति। ३ व्यामिश्रणमिति पूर्वसंबन्धः । यथा श्यामलेन० सिन्दूरारुण० इति पूर्वोंदाहरणयोबिम्व- प्रतिनिम्बभाव: अनुगामिनि धर्मे अभेदेन व्यामिश्रः, तथात्र विन्बप्रतिनिम्बभावः अनुगामिनि कार्यकारणभावेनेत्यर्थः ।

Page 295

उपमा ] रसगङ्गाघर: २३३

अत्र कापट्यं विषं च विन्वप्नतिबिम्त्रतां गतं दूरतो विसर्जनेऽनु- गामिनि हेतुः । यथा वा- 'रूपवत्यपि च कूरा कामिनी दुःखदायिनी। अन्तः काटवसंपूर्णा सुपक्केवेन्द्रवारुगी।I' अत्र रूपवत्त्वदुःखदायित्वयोर्द्वयोरनुगामिनोर्मव्ये करौर्यकाटवे विम्ब- प्रतिविम्बभावापन्ने दुःखदायित्वेन सह हेतुहेतुमद्गावेन मिश्रिते, अपरेण तु शुंद्धसामानाधिकरण्येन। एवमन्यैरपि व्यामिश्रणं वोध्यम्। प्रकारान्तरं च लक्ष्यानुसारेण सुधीभिः स्वयमुन्नेतुं शक्यम् । यथा- 'यथा लतायाः स्तबकानतायाः स्तनावनम्रे नितरां समासि। तथा लता पह्लविनी सगर्वे शोणाघरायाः सदृशी तवापि।' अत्र स्तनावनम्राहं स्तवकानताया लताया उपमानमस्मीति गर्वं मा

कवितात्पर्यविषयतास्यवेति बोध्यम्। तादृशशोभाविशेषयोरैक्यप्रतिपत्तये वानयोर्बि- म्वप्रतिविम्बभाव आवश्यक इत्याहुः केचित्। अनुगामिनि हेतुरिति। तयो- बिम्बप्रतिबिम्बभावं विना भिन्नप्रकरणलेन दूरविसर्जने मेदप्रतीत्यानुगामिलमेव १ खलस्य सर्पस्य च अत एव दूरतो विसर्जनं क्रियते यतस्तयोरयथासंख्यं कापव्यं विष चास्ति। एवं चात्र दूरतो विसर्जने (दवयोरनुगामिनि) विन्वप्रतिविन्वभावापन्नं कापट्यं विषं च हेतुरविसर्जनं च हेतुमत् (कार्यम्) इत्याशयः । २ रूपवत्वदुःखदायित्वे कानिर्नीन्द्रवारुण्युभयगानितया अनुगामिनौ धर्मों। तयोरमध्यात् दुःखदायित्वेनानुगामिना सह विन्वप्रतिविन्वभावापन्नयोः कौर्यकाटवयोहेंतुहेतुमन्गावेन मिश्र- णम्। यतो हि कामिन्यां क्ररत्वम्, इन्द्रवारुण्यां च काटवं दुःखस्य कारणन्। अपरेण (रूप- वच्वेन) सह तु विम्बप्रतिविम्बभावापन्नयो क्रौर्यकाटवयोः सामानाधिकरण्यमात्रम्। कामिनी- न्द्रवारुण्यो: (आधारयोः) रूपवत्त्वक्रौर्यादीनां सहाधिष्ठानातू। ३ 'त्वं लतायाः सदृशी' इति दृष्टा त्वं-पदार्थे (कान्तायान्) उपमेयत्वभ्रमस्तु न कर्तव्यः । 'लतायाः सदृशी' इति वाक्ये लताया उपमानत्वे कान्तायाश्चोपमेयत्वेपि 'यथा त्वं लताया: सदृशी तथा लता तव सदृशी' इति यथातथापदप्रतिपादयायासुपमायां कान्ताया उपमानत्वमेव। यतो हि यथापदसंबद्धमुपमानम्, तथापदसंब्द्ध चोपमेयं भवति। यथा इन्द्र- स्तथा जयपुरेन्द्रः' अत्र यथापदसंबद्धस्य इन्द्रस्य स्फुटमेवोपमानत्वम्। इयं शङ्का न चेत्या- दिना स्वयं अ्न्थकृतैव समाहितेति जिज्ञासुभिरवधातव्यम्।

Page 296

२३४ गवयसाला। [ द्वितीयानने-

विदृध्याः। वतः शोणावराया उपमेयायास्तवापि पहविनी लतोपमानं भवनीते वाक्यार्थे चथातथापद्प्रतिपादया कान्तोपमानिका लतोपमेयिको- थमा निम्नादिका। अस्यां चोपमायां निरूपकतासंबन्धेनोपमानोपमेयगते के उपमे समसदशशव्दाभ्यां प्रतिपादिते विम्वप्रतिबिम्बभावमापन्ने साधारणधर्मतया स्थिते। तन्न निरूपकतासंवन्धेन प्रधानीभूतोपमोपमान- कान्तागतायासुपमायां प्रतिबिम्बभूतायां गुच्छस्तनयोर्वस्तुप्रतिवस्तुभावा- पन्ननमननश्रीभवनविशेषणयोर्विम्बप्रतिबिम्बभावमापन्नयोः साधारणधर्म- त्वम्। एवं तेनैव संबन्धेन लतारूपोपमेयगतायां बिम्बभूतायामुपमायामधर-

न स्यादिति भावः । उपमा निष्पादिकेति। एवं च वाक्यार्थोपस्कारिकेय- सुपमेत्यर्थः । विम्वप्रतिविम्बभावमापन्ने इति। यद्यपि समसदृशशब्दाभ्यां अतिपादितोपमयोर्वस्तुप्रतिवस्तुभाव एव, तथापि तद्विशेषणयोः शोणाधरनायिका- सबकावनम्रलतयोर्विम्बप्रतिबिम्बभाव आवश्यक इति भावः । तयोश्च विम्बप्रति- चिम्बभावे सादृश्यानुयोगिलमेव साधारणो धर्म इति ध्येयम्। तत्र तयोरुपमयोर्मध्ये। निरूपकतेति। प्रतियोगितेत्यर्थः । तेनैव संबन्धेनेति। प्रतियोगितासंवन्घेनेत्यर्थः ।

१ कान्ता उपमानं यस्याम्।

२ यथातथापद प्रतिपाद्या प्रधानभूता सेयमुपमा वाक्यार्थापरकारिका। वाक्यार्थसंपा- दिक्का च। ३ अस्य प्रघट्टकस्यायं सार :- अस्तिन्पद्य तिस्न उपमाः। तासु 'यथा त्वं लतासद्शी, तथा लता तव सदशी' इति यथातथाप्रतिपाद्या वाक्यार्थभूता प्रधानम्। प्रधानभूताया अस्या उप्रमायाः 'त्वं लतासदृशी', 'लता त्वत्सदृशी' इति दे उपमे साधारणधर्मभूते। अङ्गभूते इमे द्े अपि उपमे परस्परं विम्वप्रतिबिम्वभावापन्ने। अनयोर्मध्ये 'स्तनावनन्रा त्वं स्तबकानताया लतायाः सदृशी' इत्याकारिकायाः प्रतिबिम्बभूतायाः प्रथमोपमायाः वस्तुप्रतिवस्तुभावापन्न- योरनंनीभवन-नमनयोविशेषणीभूतौ सतन-स्तबको [स्तनाभ्याम् आनम्रा इत्यन्वये स्तनौ आ- नत्रीभवनपदार्थे विशेष्येते इति विशेषणत्वमनयोः ] साधारणधमभूतौ, यौ हि मिथो विम्बप्रति- सिम्बभावापननौ। एवं 'पल्ठविनी लता शोणाधरायाः तव सदृशी' इति बिम्बभूतायां द्वितीयो- प्रमायाम् अधर-पठ्ठवौ साधारणध्मौं, यौ हि मिथो विम्बप्रतिबिम्बभावापन्नौ। [अत्र हि अिम्बप्रतिबिम्वभावो वस्तुप्रतिवस्तुभावकरम्बितो नास्तीति यूर्वोपमातो भेद: ]। पूर्वमुदाहतास

Page 297

उपमा ] रसगङ्गाघर: । पहवयोः। न च तेन सदश इत्यादो तन्निरूपितसादृश्याश्रयस्योपमे- यस्य, तस्य सदश इत्यादो च तत्संबन्धिसाहश्याश्रयस्योपमानस्व प्रतीते: सिद्धत्वात्प्रकृते च सहशीति शव्दान्निवेद्यमानेऽ्युपमानभावे कथं नाम लताया उपमेयतेति वाच्यम्। सहशशब्दप्रतिपाद्वर्मभूनोपमायामुप- मानत्वेऽपि यथातथाशव्द्वेद्योपमायां लताया उपमेयत्वे वाधकाभावात्। एवमन्येऽपि प्रकाराः । 'चथा तवाननं चन्द्रस्तथा हासोऽपि चन्द्रिका । यथा चन्द्रसमञ्चन्द्रस्तथा त्वं सदशी नव ।।' एभिेंदैः प्रागुक्तानां सधमीणां भेदानां चथासंभवं गुणने बहुनरा भेदा भवन्ति। तथा धर्माणां वाच्यतायां वाच्यधर्मा बहुधोक्ता। व्यन्यत्वे व्यङ्जयधर्मा, धर्मलोपे गदितैव। लक्ष्यतायां यथा- 'सर्न इत शान्तमूर्ति: श्वेवायं मानपरिपूर्णः । क्षीव इव सावधानो मर्कट इव निष्क्रियो नितराम् ।।' इत्यत्रोपमानमहिन्रा शान्तमूर्यादिशब्दैर्विरुद्धा धर्मा लक्ष्यन्ते। अधरपल्लवयोरिति। कान्तालताविशेषणयोर्विम्बप्रतिविम्बभावमापन्नयोः साधारण धर्मतमित्यर्थः। तन्निरूपितेति। तत्प्रतियोगिकेतवर्थः। सादृश्याश्रयस्य तत्प्रतियोगिन इत्यर्थः। सधर्माणां ेदानामिति। साधारणधर्मभेदसहितानां पूर्गलपादिभेदाना- मित्यर्थः । व्यङ्ग्यत्वे इति। धर्माणामित्यस्यानुष्गः। लक्ष्यतायामिति। धर्माणामि- त्यादिः। महिन्नेति। तेषु शान्तमूर्तितादेरभावादिति भावः । धर्मा लक्ष्यन्त इति। उपमासु अन्यान्ये नानाविधाः साधारणधर्मा उक्ताः, अन्र तु उपनाया इमे दे उपमे एव साधारणधर्मभूते इत्येव नवीनः प्रकार इत्युदाहरणदानस्य विशेषः । १ चन्द्रेण सद्ृशम् इत्युक्तौ चन्द्रनिरूपितं यत्सादृश्यं तदाश्रय इत्यर्थप्रतीत्या चन्द्रः उपमानिरूपक: (उपमानम्), सादृश्याश्रय उपमेयं च उपमाया आधारः (अधिष्ठानन्) भवति। 'चन्द्रस्य सदृशम्' अर्थात् चन्द्रस्य सादृश्यं वहति इत्युक्तौ सादृश्यं चन्द्रस्य संबन्धि भवति तदाधारश्चोपमानं भवति [ चन्द्रसंबन्धि सादृश्यं गृद्यते, तस्याधारः चन्द्र एव स्यात् ] सादृश्यस्य (उपमायाः) निरूपकं च उपमेयं भवति। ततश्च-लतायाः सदृशीत्युक्ती लता उपमानम् स्यात्कथं लताया उपमेयत्वमिति शङ्का। लतायाः सदृशीति वाक्ये लताया उपमानत्वेपि 'यथा लतायाः सदशी त्वं तथा लता तव सदृशी' इति वाक्ये तु तस्या उपमेय- त्वमेवेति समाधानम्।

Page 298

२३६ काव्यमाला [ द्वितीयानने-

इयं चोपमा इस्यार्थत्व क्वचित्साक्षादुपस्कारिणी क्वचिच्चोपस्कार- कान्तरोपस्करणद्वारा। तत्र साक्षादुपस्कारिणी प्राग्बहुधोदीरिता। परम्परया यथा 'नदन्ति मददन्तिन: परिलसन्ति वाजिव्रजाः पठन्ति विरुदावलीमहितमन्दिरे बन्दिनः । इदं तद्वधि प्रभो यद्वधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणद्युतिः ।।' अन्र मुख्यार्थस्य राजविषयायाः कविरतेरुपस्कारकस्य यदैव तव कोपोद्यस्तदैव रिपूणां संपदो भस्मसाद्भविष्यन्तीति वस्तुन उपस्कारिका नयनकोणशोणद्युतेर्युगान्तदहनोपमा। इयं चेवयथावादिशब्दैर्वाचकैः अतिपादिता वाच्यालंकारः । लक्ष्यापि चालंकुर्वाणा दृश्यते। यथा- 'नीवीं नियम्य शिथिलामुषसि प्रकाश- मालोक्य वारिजदृशः शयनं जिहासोः। नैवावरोहति कदापि च मानसान्मे नाभेर्निभा सरसिजोदरसोदरायाः ॥।' अन्नैकोदरप्रभवत्वरूपस्य मुख्यार्थस्य बाधात्तदीयशोभालक्षणसमानां- शहरत्वस्य प्रयोजनस्य सत्त्वात्सोदरपदेन सदशो लक्ष्यते। आर्थी च तत्रोपमा प्रतीर्यमाना। अवरोहृतिलक्ष्यस्य विषयतया स्मृतिशून्यीभवनस्य निषेधनेन अतीयमानायाः स्मृतेरुपस्कारिका। एवं प्रतिभटप्रतिमल्लादिशब्दानां तैदी- यन्यग्भवनतदीयशोभारूपसर्वस्वापहरणादेः प्रयोजनस्य सत्त्वात्सादृश्य- वति लक्षणैव, न व्यञ्जना। मुख्यार्थस्य बाधात्। प्रयोजने पुनर्व्यञ्जनैवेति।

लक्ष्यतावच्छेदकेऽपि लक्षणेति मतेनेदम्। इयं चेति । उपमेत्यर्थः । तत्र नाभौ। अवरोहतिलक्ष्यस्येति। एतत्पदलक्ष्यस्येत्यर्थः । व्यञ्जनैवेति। इत्यस्य बोध्यमिति १ नाभिसंबन्धिनी या शोभा तद्रूपसमानांशहरत्वस्। २ प्रतीता भवतीत्यथः । ३ (मानसात्) अवरोहृतिपदस्य लक्षणीयार्थभूतं यत् विषयरूपया स्मृत्या शून्यीभवनम् (अर्थात् विस्मृतेविषयीभवनम्) तन्निषेधनेन। ४ चन्द्रप्रतिभटमित्युक्तयां चन्द्रस्य न्यग्भवनं प्रयोजनमित्याशयः ।

Page 299

उपमा ] रसगङ्गाघर: 1 २३७

क्कचिव्यस्यापि चेयमुपमालंकारः। यथा- 'अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हप्यसि। भूमण्डलमिद्ं मूढ केन वा विनिभालितम् ।।' कस्यचिद्विदेशस्थितस्य किरणैरात्मानं संतापयन्तं चन्द्रं प्रतेषोक्तिः। अत्र च अस्ति मम प्रियायाः कदापि वहिरनिर्गतायाः, अत एव त्वया- व्यदष्टाया आननं त्वत्सदशमिति प्रतीयमाना उपमा मूढपदेन ध्वन्यमा- नायां चन्द्रविषयायां वक्तगतायामसूयायामलंकारः। एतेनाप्पयदीक्षितै- रुपमालक्षणे दत्तमच्यङ््यत्वविशेषणमयुक्तमेव। नहि व्यज्ञ्यत्वालंकार- त्वयोरस्ति कश्चिद्विरोधः। प्राधान्येन व्यङ्कयतायां तु ग्रधानत्वालंकार- त्वयोर्विरोधादलंकारलक्षणं तत्र मातिप्रसाङ्कीदित्युपस्कारकत्वेन पुनर्विशेष- णीयम्, न त्वव्यङ्गयत्वेन, प्रागुक्तायामसूयालंकारोपमायामव्याप्यापत्तेः। विशिष्टोपमादिस्थले विशेषणाद्युपमानां वाच्यसिद्धयङ्गतया गुणीभूतव्य- ड्रयत्वम्, सिद्धार्थस्योपस्करणाभावात्तु नालंकारत्वमिति न काप्यसंगतिः । यच्चापि "'सेयमुपमा संक्षेपतस्त्रिविधा-कचित्स्ववैचित्र्यमात्र- विश्रान्ता। यथा 'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादौ। कचिदुक्कार्थोप- पादनपरा। यथा 'अनन्तरत्नप्रभवस्य' इत्यादौ" । क्वचिद्यङ्गप्रधाना

शेषः । विनिभालितमिति। विशेषेण दष्टमिलर्थः । अत्र चेति। प्रतीयमानेत्यत्रा- स्यान्वयः । मरतीयमाना उपमेति। अन्रोपमानस्योपमेयत्वकल्पनात्मकप्रतीपस्यैव व्यङ्गयत्वम्, मूढपदसारस्यात्, चमत्कारातिशयाच्च। किं हृष्यसीत्येतत्खारस्याच्वेति केचित्। एतेनेति। एतेनापीत्र्थः । अपिना प्रागुक्तदूषणसमुच्चयः । तैरेवेति। अप्प-

१ अलंकारस्यैव प्राधान्येन व्यञ्ञयतायाम्। २ विन्नप्रतिबिम्बभावापन्नसाधारणवर्मादिका या विशिष्टाः (विशेषप्रकारिकाः) उपमा: पूर्व निदर्शितास्तासु निम्वप्रतिविन्बभूतयोर्विशेषणयोर्या अवान्तरा उपमा भवति सा व्यड्सैद भवति। ननु तस्या निरासाय अव्यञ्जयविशेषणदानं न निररथकमिति शङ्का । एवंविधोपमायाः प्रधानोपमासाधकतया वाच्यसिध्धङ्गतवेन गुणीभूतव्यञ्ञयत्वम्। कस्यच्ित्पूर्वसिद्धस्यार्थस्यालंकरणं तया न क्रियवे अपि तु प्रधानभूता उपमैवालंक्रियते इति तस्या अलंकारत्वमपि नास्तीति तन्निरासार्थ यतो व्यर्थ इति समाधानम्।

Page 300

२३८ काव्यमाला [द्वितीयानने-

सा इति तैरेव द्रमिडवरोमणिभिरभ्यधीयत । तद्ध्यहद्यमेव। 'नयने शिशिरीकरोह ने शरदिन्दुम्तिमं मुखं तव' इति वाच्यवस्तूपरकारिकाया: शरदिन्दूरमाया अक्रोडीकरणात् । अलंकारभूतोपमासु स्व्रवैचित्रयमात्र- विश्रान्ताया उपमायाः संग्रहे, को नाम ध्वन्यमानायास्तस्या निरासायाव्य-

संग्रहः, लक्षणीयायाश्चासंग्रह इति। आ्रचीनानां तूपमासामान्यं लक्षयता ध्वन्यमानाया इवास्या अपि संग्रहो नानुचितः। न तु स्वस्य यत्नेन ध्वन्य- मानोपमां निरस्य कण्ठरवेणालंकारभूतोपमालक्षकस्य। यदि च प्रबन्ध- व्यङ्ग्योपस्कार कत्वेनेयं संगृह्यत इत्युच्यते तदा 'स्व्रवैचित्र्यमात्रविश्रान्ता' इति स्वोक्तिविरुद्धा स्यात्। 'अनन्तरत्नप्रभवस्य' इत्यत्र गुणसमूह-

यदीक्षितैरेवेत्यर्थः। स्वस्येति। तवेत्यर्थः । नानुचित इत्यस्यानुषङ्गः। इयं स्ववैचित्रय मात्रविश्रान्ता। विरुद्धा स्यादिति। वस्तुतस्तु उपमासामान्यलक्षणस्यापि प्रकृतवे- नोपमासामान्यस्यैवायं विभागः। उपमानोपमेयतावच्छेदकयोर्भेंदाच्चास्त्येवोपमितिनि- ष्पत्तिः । अत एव सेयमुपमेत्येवोक्तम्, न ललंकार इति। 'नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं सुखं तव' इत्यत्र तु उक्तार्थोपपादनपरैव मुखकर्तृकनयनकर्मकशिशिरीक- रणस्य कव्युक्तस्येन्दूपमयैवोपपत्तेः । उक्तार्थोपपादनेत्यस्य चोकार्थस्योपपादनमुक्तार्ये

१ संग्रहे कृते सति। अर्थात्तस्यास्तु संग्रहः कृतः, व्यज्ञयाया निरासार्थ यत इत्याश्चर्यम्। २ सवैचित्यमात्रविश्रान्ता न कस्वचिद्वस्तुनः शोभाकरी, अत एव अलक्षणीया सा। ३ या स्वयं व्यञ्ा सत्यपि प्रधानव्यञ्ञयस्योपस्कारिका (सा शोभाकरत्वात लक्षणीया) वस्या असंग्रहः। ४ ननु प्राचीनैरालंकारिकैरपि स्ववैचित्र्यमात्रविश्रान्तायाः संग्रहः कृतः, को मे दोष इति चैदाह-पराचीनानां तु०। तैः सामान्यलक्षणं कृतम्। तत्र यथा व्यज्यायाः संग्रहो नानु- च्ितस्तथा स्ववैन्चित्र्यमात्रविश्रान्ताया अपि संग्रह्ो नानुचितः । ५ येन ध्वन्यमानोपमां निरस्य कण्ठरवेण अलंकारभूतोपमालक्षकस्य स्वस्य (तव) स्ववैं- च्वित्र्यमात्रविश्रान्तायाः संग्रहो न नानुचितः, अपि तु अनुचित एव। इत्यर्थः । ६ प्रबन्धस्य व्यक्चो यो वीररसादिस्तस्योपस्कारिका या (यथा सच्छिन संदर्भस्य व्यञ्चय भूतो यो वीरस्तस्योपस्कारिका) सा स्ववैन्चिव्यमात्रविश्रान्ता कथमिति विरोधः।

Page 301

उपमा ] रसगङ्गाघर: । २३९

सर्मानाधिकरण एको दोपो दोपत्वेन न स्फुरतीत्यस्थार्थस्य पूर्वार्वप्रतिपादि- तार्थसमर्थनात्मकस्य सामान्यरूपस्य विशेषरूपोद्ाहरणप्रदर्शनमन्तरेण सम्यगनाकलना दिन्दुकिरणसमानाविकरगोडड् उदाहतः, न तूर्मानतया निर्दिष्टः। सामान्याद्विशेपस्य भेदाभावेनोपेमितिक्रियाया अनिष्पत्या उपमालंकृतेरत्रानवतारादुदाहरणालंकारोऽयमतिरिकः । यथा 'इको यणचि' इति वाक्यार्थस्य सामान्यस्य विज्ञानायोकारे दध्युदकेकारस्येवेति वाक्यान्तरेण तद्विशेप उदाहियते तद्वदत्रापीति तत्प्रसङ्ग विवेचयिप्यामः। यच्चाप्पयदीक्षितैः 'लुमायां तु नैवं" भेदाः। तस्थां साधारणवर्मस्थानुगा- मितानियमात्' इत्युक्तम्, तन्न 'मलय इव जगति पाण्डुर्वल्मीक इवा- धिधरणि धृतराष्ट्रः' इत्यत्रानुगामिधर्मस्याप्रत्ययाच्चन्दनानां पाण्डवानाम्,

वोपनादनमिलयर्थद्वयम्, विनिगमनाविरहात् इति न दोष इति चिन्त्मिदनिति बोध्यम्। उक्तार्थोंपपादनवरोपमायास्तदुक्तमुदाहरणं दूषयति-अनन्तेति। 'अनन्त- रत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसंनिपाते निमज्तीन्दोः किरणेष्विवाङ्कः ॥' इत्वन्ेत्र्थः । स्ुरतीत्यस्यार्थस्य तृतीयचरणप्रति- पाद्यस्य। तत्त्वेनानिर्दिष्टलवे हेतुमाह-सामान्येति। अनवतारादिति। अग्रे तथा चेति शेषः। अलंकारोऽयमतिरिक्त इति। 'अदत्त्वा मादशो मा भूर्दत्वा लं ला-

निष्पत्तेरुपमालंकारव्यवहारस्य च सर्वसंमतलेन तद्वदिहापि सामान्यधर्मविशेषधर्मयो- स्तयोर्भैदेन तन्निष्पत्तेः संभवादुदाहरणालंकारो मास्ततिरिक्त इति तदाशयाचचिन्त- मेतत् । उदकोकारे दधीकारस्य य इति पाठः। तत्प्रसक्के उदाहरणालंकार प्रसङ्गे।

१ गुणसमूह्देन समानमधिकरणं यस्य, (गुणसमूहसहवासी)। २ अनन्तरतसमानाधिकरणो यस्य हिनः सौभाग्यलोपी न जात इति पूर्वीधोंक्तार्थस्तत्स मर्धनात्मकस्य। ३ इन्दुकिरणैः समानमधिकरणम् (आधारः) यस्य ईंदशोडङ्ग: कलङ्गः । ४ सामान्ये विशेषोऽप्यन्तर्भवतीति न तयोमिथो भेदः । उपमितिश्च मिन्नयोद्वयोभवति। ५ विम्बप्रतिविम्बभावापन्नादिनानाविधानां साधारणधर्मांणां भदवशाद् ये भवन्ति ते। तस्यां तु साधारणधर्म: केवलमनुगामी भवति नान्यविध इत्यर्थः ।

Page 302

२४३ [द्वितीयानने-

सर्पाणां दुर्योधनाईन व विम्बप्रतिविन्बभावस्यैत प्रतिपत्तेः। न च शब्दे- नोपात्तत्वं विन्वम्ातेविम्वभावे तन्रमित्याग्रहो विदुपासुचितः । श्रीतत्वा- र्थत्वान्यां विन्वप्रतिविम्बभावस्य द्वैविध्याचित्यात्। अत एवाप्रस्तुत-

संगच्छते। इयमपि रूपकवत्केवलनिरवयवा, मालारूपनिरवयवा, समस्तवस्तु- विपयसावयवा, एकदेशविवर्तिसावयवा, केवलन्लिष्टपरम्परिता, मालारूप- श्िष्टपरम्परिता, केवलशुद्धपरम्परिता, मालारूपशुद्धपरम्परिता चेत्यष्टधा। तत्रोपमायां केवलत्वं मालानन्तर्गतत्वं निरवयवत्वं चोपमान्तरनिर- पेक्षत्वम्। इयं च शतशः प्रागेवोदाहता। मालारूपनिरवयवा यथा- आह्रादिनी नयनयो रुचिरैन्द्वीव कण्ठे कृतातिशिशिराम्बुजमालिकेव। आनन्दिनी हदि गता रसभावनेव सा नैव विस्मृतिपथं मम जातु याति ।।' यथा वा- 'कलेव सूर्यादमला नवेन्दोः कृशानुपुञ्जात्प्रतिमेव हैमी। विनिर्गता यातुनिवासमध्यादध्याबभौ राघवधर्मपत्नी॥' पूर्वमनुगामिना धर्मेण भिन्नदेशकालावच्छेदेन, अन्न तु बिम्प्रतिबि-

अत एव तस्य द्वैविध्यादेव। इयमपि उपमापि। तत्र तासां मध्ये। इयं च केवलनिरवयवा च। पन्दवीति। ऐन्दवी रुचिरिवेत्यर्थः । यातुनिवासेति। राक्षसनिवासेत्यर्थः। १ येन हि चन्दना इव लोकानन्दना: पाण्डवा उत्पादिताः । येन च सर्पा इव भयसमर्पा दुर्योधनादयो जनिताः । २ अवयवानाम् आर्थः (अर्थवशादाक्षेप्यः) यो विम्बप्रतििन्त्रभावस्तन्मूलम् । तथा च शाब्देतर: (आर्थः) अपि आवश्यक इत्याशयः ॥ ३ पूर्वपदे आह्लादिनीत्यादिर्धमोऽनुगामी। ४ यौ देशकालौ इन्दुरच्यादेर्न तौ नायिकायाः । ५ सूर्यस्य कृशानुपुअ्स्य च यातुनिवासेन सह विम्बप्रतिबिम्बभावः ।

Page 303

उपमा ] रसगङ्गाघर:। २४१

न्यभावमापन्नेनैकदेशकालावच्छेदेनेति विशेष: । अत्राधिकदीपिरूपे वाक्यार्थे उपने उपस्कारिके। आतन्निकविनाशहेतुत्वेन देदीप्यमानत्वेन च साधारण्येन सूर्यमण्डल्स्, निष्कन्क्कनाभिव्यञ्जकत्वेन भस्मीभवन- हेतुत्वेन कृश़ानुपुञ्जन्य च लङ्काप्रतिबिम्धता। मालारूपन्वं चात्रैकोपेथें- कानेकोपमासामानाधिकरण्यान्।

समस्वस्तुविपया सावयवा यथा- 'कमलति वदनं चस्वामलयन्त्यलका मृगालनो वाडू। शैवालति रोमावलिरद्ुनसरसीव सा वाला।।' यथा वा- 'ज्योत्न्ाभमख्जुहसिना सकलकलाकान्तकान्तवदनश्रीः । राकेव रम्यरपा राघवरमणी विराजते नितराम् ।।'

द्वितीये तमुपपादयति-अत्रेति। द्वितीयपय्य इत्यर्थः। सूर्यमण्डलस्यति। लङ्काप्रति- बिम्वतेत्यत्रान्वयः । अमारयां रावणवधे सति प्रतिपदि सीनानिगन इत्ेकदेशकालावच्छि- ननतं वोध्यम्। सामानाधिकरण्यादिति। उपनन्नग्निरपेक्षलात्निरवयवल्मित्यपि बोध्यम्। कमलतीति। अत्र चतुर्पु उपमानादाचारे किन। ज्योत्सेति। उयोन्मार्भ

१ एकदेशकालत्वं टीकाया प्रकटम् । २ सूर्यनण्डलं चन्द्रकलाया अव्यन्तिकविनाशकारगं दीतिशालि च। एवं लंकापि सोनाया आत्यन्तिकविनाशकारणम् (अविकनिवासे नस्या नाशावश्यमवान्) सौवर्गत्वादीपिशालिनी च । अत एव लङ्कायाः प्रतिबिन्बभूनं तत् । अगनिपुओ्जपि सुवर्णप्रतिमाया निष्कलद्कनाभिव्यक्षको (तम्याः) मसीभवनहेतुश्च। एवं लङ्कापि सीताया निष्कलङ्कताभिव्यञ्िका (स्वस्य) भस्मीभवनहेतुश्च। अत एव अभ्निपुअस्यापि

३ एकमुपमेयं यासु एवंविधानामनेकासामुपमानां सामानाधिकरण्यम् (एकस्थाने नमा- वेशः)। ४ यस्यां बालायाम् अलकाः अलयन्ति भ्रमरायन्ते । 'यस्याः मलयन्त्यलकाः' इति छेदे. 'अलका मलयन्ति सर्पायन्ते' इत्यर्थस्तु हिन्दीरसगङ्गाधरोक्तः कोषग्रमाणसापेक्षः। २१ रस०

Page 304

[द्वितीयानने-

अत्र सर्वेवासुपमानानां शब्दरेवाभिधानात्समस्तवस्तुविपया, अङ्गो- पमाभिनिष्पाद्यनानत्वाच साङ्गा भवति। एकदेशविवर्तिनी सावयवा यथा- 'मक्रप्रतिमैमहाभटैः कविभी रत्नसमेः समन्वितः । कविताSमृतकी तिचन्द्रयोसत्वमिहोर्वीरमणासि कारणम् ।' अ्रोत्तरार्वे उपमितसमास एव, विशेपणसमासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात् । राज्ञो जलघेरुपमा शव्देनानभिहिताप्यङ्गोपमा- भिराक्षिपा प्रतीयते, इत्येकदेशविवर्तनादेकदेशविवर्तिनी। केवलश्िष्टपरम्परिता यथा- 'नगरान्तर्महीन्द्रस्व महेन्द्रमहितश्रियः । सुरालये खछ क्षीवा देवा इव विरेजिरे॥।' अत्र श्पोपस्थापितेन सुमेरुणा मदिरागारसयोपमा क्षीबानां देवोपमाया उपाय इति श्िलिष्टपरम्परिता, अन्योन्योपायतारूपस्यैव परम्परितत्वस्येह परिभाषणात्। मालारूपताविरहाच् केवला।

मन्जु हनितं सस्याः । सकलः पूर्णकलः कलाकान्तश्वन्द्रस्तद्वद्वदनश्रीयस्याः । अत्र उदाहरणद्वये। सर्वेपामवयव्ररूपाणामवयविरूपाणां च। तथा च तेषां नदभिधेयलमेव समस्तवस्तुविषयत्वमिति भावः । अङ्गोपमेति। अवयवोपमेत्यर्थः । एवमग्रेऽपि। साङ्गा सावयवा। तथा चोपमानां सापेक्षत्वं सावयवत्वमिति भावः । मकरा मत्स्याः :कविता अमृनमिव। कीर्तिश्वन्द्र इव। विशेषणेति । मयूरव्यंसकेतील्यर्थः । नगरान्तरिति। महेन्द्रवत्पूजिता श्रीरयेस्य तस्य राज्ञो नगरमध्ये सुरालये मत्ता देवा इव खल विरेजिरे इत्यर्थः । गारस्योपमेति। सुरालये इतीति भावः। नन्वेवं श्िष्टलऽपि कथं परम्प- रिततमत आह-अन्योन्योपायतारूपस्यैवेति। सावयवायां परस्परसमर्थकलेऽपि नोपायता। ज्योत्त्ायां हसिततारोपं विनापि औज्वल्यादिना सीतायां राकासाम्य- सिद्धेः । इह तु मदिरागारेषु सुमेरूपमां विना क्षीबेषु देवोपमायां न किंचित्साधर्म्यम् । तस्मिश्व तादृशसादृश्यप्रतीतिमूलाभेदमापन्नं सुरालयवृत्तिलमेव। तथा मदिरागारेयु सुमे- १ एकदेशे (अवयत्रे) विवर्तनात् स्वस्वरूपगोपनेन अन्यथात्वेन वर्वनात्। यद्ा एकदेशे विशेषेण स्फुटतया वर्तनादेकदेशविवर्तिनीति रूपके स्फुटीक्रियेत। २ साधर्म्ये च तादृश(क्रिष्टतया एकशब्द्रोपस्थाव्यतारूप)सादृश्यप्रतीत्या सुरालयः (मदिरागारभ्) सुरालयात् (सुमेरोः) अभेदमापन्नो भवति। ततश्च तादृशसुरालयवृत्तित्व- मेव उपायः।

Page 305

उपमा ] रसगङ्गाघरः । २४१

मालारूपश्िष्टपरम्परिता यथा- 'महीभृतां खळ्ु गगे रत्नसानुरित स्थितः । त्वं काव्ये वसुधाधीश वृपपर्वेव राजसे ।।' अत्र श्रेषोपस्थापिताभ्यां पर्वतश्ुकाभ्यां राजकाव्ययोरुपमे मेरुवृघप- र्वभ्यां राज उपमयोरुपायः । नन्वत्र पर्व्रतानानिव राज्ञां शुक्र इव कवित्वे इत्येवंरूपा उपमा कथं प्रत्येतुं शक्या । उपमानोपमेयशबदयोः पार्थ- क्याभावादिति चेन्, श्रेपे ह्वेकशव्दोपात्तत्वेन रूपेगाभेद्ाव्यवसानस्वेव तेनैव साधर्म्येण सादश्याव्यवसानस्यापि सुवचत्वान्, तस्यैव च प्रकृते प्रयोज्योपमानुकूलत्वान्। केवलशुद्धपरम्परिता यथा- 'राजा युविष्ठिरो नान्ना सर्वधर्मसमाश्रयः । दुमाणामिव लोकानां मधुमास इवाभवन्।' मालारूपशुद्धपरम्परिता यथा- 'मृगतां हरयन्मध्ये वृक्षतां च पटीरयन्। ऋक्षतां सर्वभूपानां त्वमिन्दवसि भूतले ।।'

रूपमायां च क्षीबेषु देवोपमां विना न साधारणवमे इत्यन्योन्योपायता। अन्योन्या- श्रयपरिहारस्तु रूपकप्रकरणे वक्ष्यते। चस्तर्थे, केवलमदोत्तरं वा योज्यः । महीभृता पर्वतानां राज्ञां च गणे सनूहे। रन्नसानुः मुमेरुः । काव्ये झुक्े कविते च। वृषप- र्वैव देत्यराज इव। तेनैव एकशब्दोपात्तलेन साधम्येण। मधुमास इव चैत्रमास इव। अत्र मालारूपताविरहात्केवललम्, श्लेषाभावाच्छुद्धलम्, अन्योन्योपायतारूपल्वात्पर- म्परितत्मिति बोध्यम्। मृगतामिति। मृगा इवाचरतां सर्वभूपानां मध्ये हरयन्सिंह- १. उपमानोपमेये यत्र पृथवपृथक्शब्दाभ्यामुपतिष्ठनस्तत्रैवोपमाप्रतीतिः । अत्र तु 'मही- भृताम् इत्यादि: किष्ट एक एव श्रयते, तथा च रूपकप्रतीतिरेव स्यादिति शङ्का। ऋेषे एक- शब्दोपात्ततया यथा द्योरभेदोऽव्यवसीयते तथव एकशव्दोपात्ततारूपं साधर्म्यमादाय दयोः सादृश्यनपि वक्तुं शक्यम्। ततश्च-एकशव्दोपात्तत्वरूपसाध्म्येण महीभृनाम् (पर्वतानां राज्चां च) काव्यस्य (शुक्रस्य कवितायाश्च) परस्परमुपमैव 'वृषपर्वेव' इति प्रवानोपमाया अनुकूला। [रूपकं यत्राद्वि तत्र अङ्गभूतेषु क्रिष्टाथेंधु अभेदः। उपमा यत्राश्विनी तत्र किष्टेष्वज्वेषु उपमेति सारार्थ: ] तथा च अङ्गयोरुपमयोः सिद्धत्वान्न दोष इति समाधानम्।

Page 306

२४४ काव्यमाला। [ द्वितीयानने-

उपमानयो: परत्रदुपनेययोध्चानुकूल्ये उपमयोरेपोपायता निरूपिता। पातिक्व्ये उपायता यथा- 'राजा दुर्योधनो नान्ना सर्वसत्त्वभयंकरः । दीपानामिव साधूनां झञ्झावात इवाभवत् ॥' अत्रोपमानयोर्दीपझञ्झावातयोरन्योन्यमुपमेययोश्च साधुदुर्योधनयोः प्रातिकूल्येऽप्युपेमयोः परस्परमानुकूल्यादुपायतैव। एवम्- 'सरोजतामथ सतां शिशिरर्तवताधुना। दर्भतां सर्वधर्माणां राज्ञानेन विदुर्भितम्।' इत्यादौ मालारूपतायामपि। उपमेयानां स्वस्वोपमानानुर्पमानानामुपमानतायां रशनोपमा। यथा-

इवाचरन्, वृक्षा इवाचरतां तेषां मध्ये पटीरयंश्चन्दनद्रुरिवाचरन्, लं ऋक्षतां नक्ष- त्राणीवाचरतां तेषां मध्ये भूतले चन्द्रवदाचरसीत्यर्थः। आनुकूल्ये इति। अनुकूल- ताख्यगुणे सतीत्यर्थः । मृगतां हरयन्नित्यत्रापि मृगाधिपत्ादानुकूल्यमेवेति बोध्यम्। एवं प्रातिकूल्ये शुद्धपरम्परितामुदाहरति-एवमिति। कमलवदाचरतां सतां मध्ये शिश्षि- रतुवदाचरतानेन राज्ञा अधुना दर्भवदाचरतां सर्वधर्माणां मध्ये विदर्भदेशवदाचरितमि- त्यर्थ:। स्वस्वोपमानानुपमानानामिति। इदं विशेषणमुपमेयोपमायामतिव्याप्तिवार-

१ मृग-मृगाधिपयोर्वृक्ष-चन्दनयोश्च (उपमा० उपमे०)परस्परं योगानुकूल्यात्पूर्वार्धोक्तस्य उपमाद्रयस्य 'इन्दवसी'ति प्रधानोपमां प्रति उपायता, अत एव परम्परितत्वमित्यर्थः । २ अङ्गभूता उपमा 'दीपानामिव', अङ्विनी च 'झव्झावात इव' इत्यनयोरङ्गाङ्गितया पर- स्परमानुकूल्यादुपायता (साधकता)। सेयं प्रातिकूल्ये केवलशुद्धपरम्परिता । 'सरोजतामथ' इत्यादि तु प्रातिकूल्ये मालारूपशुद्धपरम्परितेति बोध्यम्। ३ विदर्भदेशे यथा दर्भा न प्ररोहन्ति तथास्मिन् राशि सर्वधर्मा इत्याशयः । ४ यत्र उपमेयानि निजोपमानानामुपमानानि न भूत्वा अन्येषामुपमानानि भवन्ति तत्रे- त्याशयः । उपमेयोपमाया् उपमानानि स्वोपमानस्यैव उपमानानि भवन्ति । यथा 'धर्मः अर्थ इव पूर्णश्रीः' अत्र धर्म इत्युपमेयम् 'अर्थों धर्म इव त्वयि' इत्युत्तरवाक्ये स्वोपमानस्य अर्थस्यव उपमानं भवति। तथा च उपमेयोपमानिरासार्थ 'सवोपमानानाम् अनुपमानानि यानि उपमेयानि तेषासुपमानतायाम्' इत्युक्तम्।

Page 307

उपमा ] रसगङ्गाघर:। २४५

'वागिव मधुरा मृर्निमृतिरितात्यन्तनिर्मला कीतिः । कीर्तिरिव जगति सर्वस्वनीया सतिरनुष्य विभो: ॥' इयं धर्मभेढ़े। धर्मैक्ये तु- 'भूधरा इव मत्तेभा मत्तेभा इव सूनवः । सुता इच भटास्स्य परनोन्नतवित्रहाः ॥' धर्मलोपे तु तत्येत्वत्यानन्तरम् 'भटा इत युधि प्रज्ाः' इति वोध्वम्। इयनेवंभेदा प्राचीनरमेदैर्युगने वागगोचरं नूमानं भजमाना नेयनामर्हतीति दिक। एपैव च बढ़ा सकलेन वाक्येन प्राधान्वेन ध्वन्यते तदा परिहतालं- कारभावा ध्वनिव्यपदेशहेतुः । अस्यां चालंकारव्यपदेशः कदाप्यलंका- रभावमप्रामंपु मञ्जपादिगतेषु कटकादिप्विवालंकुर्वाणगतधर्ममात्रसंस्पर्श- निवन्धनः । कचिदसौ शब्दशक्तिमूलानुध्वननविपयः । कचिदर्थशक्तिमू- लानुध्वननविपयः । आद्यो यथा- 'अविरलविगलद्दानोदकधारासारसिक्तवरणितलः । धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम्"।' यथा वा- 'विमलतरमतिगभीरं सुपवित्रं सत्ववत्सुरसम्। हंसावासं स्थानं मानसमिह शोभते नितराम् ।।' अन्नानेकार्थानामपि शव्दानां प्रकरणेन कृतेऽपि शक्तिसंकोचे तन्मूलकेन

णार्थम्। भूधरा इति। परमोन्नतविग्रहत्वमेकोऽत्र धर्मः । एषैव च उपमैव। परीति। त्यक्तालंकारत्केत्यर्थः । नन्वेवं कथं तत्रालंकारव्यवहारोऽत आह-अस्यां चेति। धर्ममात्रेति। उपमातेत्यर्थः । मात्रपदेनालंकारत्वव्यवच्छेदः। अविरलेति। अयं राजा सार्वभौम: सर्वभूमीश्वरः । उदग्दिग्गजश्च। धारापदं व्यर्थमिति केचित्। 'स कीचकै :- ' इतिवत्प्रयोग इत्यन्ये। धनदातृणामग्रे पूजितमूर्तिः । कुवेराग्रे पूजितमूर्तिश्व। सत्त्वं प्राणी बलं च। रसो जलं शृङ्गारादिश्च। हंसः पक्षी परमात्मा च। अत्रेति।

Page 308

२४६ कव्यमाला। [ द्वितीयानने-

सुिनि मछटताप्क्वतयोतृपमानोपमेयभावः प्रधानवाक्यार्थतया कलयते। द्िनीयो चथा- 'अद्वितीयं रुचात्मानं दष्ट्वा किं चन्द्र दप्यसि। नूमण्डलमिदं सर्व केन वा परिशोधितम्।।' अत्र मूढादिपदाप्रयोगादसूयादेर प्रत्ययान्मुख्यतयोपमैव व्यड्या। अथात्र सादश्यस्य पदार्थान्तरत्वे बोधो विचार्यते-अरविन्दसुन्देर- नित्यत्रारविन्दुनिरूपितसादृश्यप्रयोजकं लक्ष्यते। तच्च सुन्दरपदार्थैकदेशेन सान्दर्येणाभेदसंसर्गेणान्वेति। तेनारविन्दनिरूपितसादृश्यप्रयोजकाभिन्न- सान्दर्यवदभिन्नमिति घीः। निपातातिरिक्तनामार्थयोर्भेदेनान्वयस्याव्युत्पन्न-

उदाहरणदये इत्यर्थः। अद्वितीयमिति। वाशब्दो हेतर्थः। असूयादेरप्रत्ययादिति। अन्न नूढादिपदाप्रयोगेऽपि किं चन्द्र दृप्यसीत्याक्षेपेणासूया व्यक्ञ्या न वेति सहृदयैर्विभा- व्यम्। लक्ष्यत इति । अरविन्दपदेनेति शेषः । अभेदानुसरणमिति । प्रयोज- कमौन्दर्ययोरिति भावः। ननु नित्यसाकाङ्ङस्थले तथाङ्गीकारेऽप्यत्र न तथेति चेदत एव 2 सार्वभौमः (राजा) सार्वभौमः (उत्तरदिग्गजः ) इवास्ति । एवम् मानसम् (मनः) मानसन् (सरः) इवास्ति। इत्याकारकः । ना चेयमुपमा वाचकाभावाद् व्यड्या। ढानादि- मदाना परिवृत्त्यसहत्वात् शब्दशत्तिध्वननविषयः सेयमुपमा। अद्वितीयमिति पद्ये तु पदानां परिवृत्तिसहत्वादर्थशक्तिरिति घ्नेयम्। २ अरविन्दसुन्दरमित्यत्र अरविन्दवत् सुन्दरमित्यर्थप्रतीतावपि मादृश्यवाचकस्याश्रवगात्तदयें लक्षणा। उपमायां हि सादृश्यस्य निरूपकं (प्रवर्तकम्) उपमानं भवति। ततश्चात्र-अर- विन्दपदेन अरविन्दनिरूपितं यत्सादृश्यं तत्प्रयोजकं लक्ष्यते। सुन्दरपदस्य च सौन्दर्यवदि- त्यर्थः । ततश्च सुन्दरपदश्रवणे एकदेश(अवयव)भूतं सौन्दर्य तद्युक्तो धर्मी च प्रतीयते। निपातातिरिक्तयोर्नामार्थयोरमेदेनैवान्वय इत्यनुगमः पूर्व प्रतिपादितस्तदनुसारं 'अरविन्द' 'सुन्दर' इति प्रातिपदिकयोरपि अमेदान्वय एव स्यादिति स्थितौ-सुन्दरपदार्थस्यैकदेशेन सौन्दर्येंण सह अरविन्दपदार्थस्यामेदः कर्तव्यः [एकपेशान्वयो हि 'देवदत्तस्य नता' इत्यर्थ सर्वैरव स्वीकर्तव्य: ] ततश्च-अरविन्दनिरूपितसादृश्यप्रयोजकाभिन्नं यत् सौन्दर्य तद्दता (तद्यक्तेन) सह अभिन्नम् [अन्रापि नामार्थयोरभेदात् ] (मुखम्) इति शाब्दबोधः । 'एकदेशान्वयः सर्वत्र नानुमतः' इति मते 'अरविन्दसुन्दर'मिति समासस्यैव अरविन्दनिरू- पितसादृश्यप्रयोजकसौन्दर्यवदभिन्ने शक्तिरिति सिद्धस्तादृशोऽर्थबोधः । अन्ये तु-समासघटि- तस्य अरविन्दपदस्यैव अरविन्दनिरूपितसादृश्यप्रयोजकसौन्दर्यवदभिन्नमित्यथों लक्षणया। सुन्दर- पदं तु तात्पर्यग्राहकम्। यथा प्रभवतीत्यादौ प्रकृष्टभवनं भवतीत्यस्यैवार्थः, 'प्र'उपसर्गस्तात्पर्य- ग्राहकमात्रः ।

Page 309

उपमा ] रसगङ्गाघर: ।

त्वादभेदानुसरणम्। एकदेशान्वयन्तु देवदत्तस्य नप्ेय्यादावित्यात्राप्यभ्टु- पेयः। 'समासस्वव विशिटार्थ शकिः' इनेके। अरविन्दादमेव लक्षगया सर्वार्थबोधकं सुन्दरपदं तु तान्पर्यग्राहकम' इन्यपरे। तथा अरविन्दुमिव सुन्दरमित्त्रवार्थ माहशयेडरविन्दस्य निरपिनत्व- संसर्गेणान्वयः । तन्य च प्रयोज्ञकतासंसर्गेग सौन्दर्ये। एवं चारविन्द-

र्गेण नामार्थप्रकारकघोध एव विशेष्यनया विभक्तिजन्योर थनेहेतुन्वादिवा- र्थस्य नञ्रर्थस्वेव भेदसंसर्गेण नामार्थविशेष्यत्वे विश्ेपणतवे च न दोप:। अरविन्दमिव भातीत्यत्रारविन्द्वनिरूपितसादृश्यस्य प्रकारनासंबन्घेन धात्व-

मनान्नरमाह-समासेति। अत्र मते गौरवान्मतान्तरमाह-अरविन्देति। तथेति। समस्तवद्यन्नेऽपीचर्थः। ननु विशेप्यतया नामार्थप्रकारकवोवे विशोष्यनया विभा

आह-निपातेति। उत्तोदाहरणे डवार्थमादृश्ये प्रकारनाविशेयनान्यतरवसत्वादन्- १ सादृश्यस्य । २ इवस्य यद्यपि सादृश्यमेवार्थः, किन्त्वंग्र उनमात्वसिद्धये मुखेनात्व्रयो विर्वाक्षितः ।त च आश्रयाश्रयिभावरूपः । अत पवात्र 'साटृश्यवत्' इति धर्मिप्रधानको बोषः । ३ एतद्विशेष्यताद्वयभिन्ना या विशेष्यता तत्संबन्देन यत्र नानार्थ प्रकानीकृत्य (विभेष्णी- कृत्य) बोधो भवति नादृशशाब्द्रवोधे एव विभनयर्थन्य विशेष्यतया हेतुत्वन्। अवं नाव :- भेदसंवन्वेन प्रातिपदिकार्थ: सर्वत्र विभत्तयर्थे दव विशेषण भवनि, विननयर्थश्च विशेषणतया धात्वर्थेन प्रातिपदिकान्तराथेन वा युज्यते। परं वत्र निपानपदप्रयोगो भवति तत्र निमानार्थः साक्षात्प्रातिपदिकार्थे विशेषणं भवितुमरहृति, विभत्तयथे न। स प्रातिपदिकार्थश्च विभक्तयथें विशेषणं भवितुमर्हति। एवं च-निपाताथें यत्र विशेष्यना भवेत्, निपातार्थ विशेषगीकृत्य नामार्थे वा विशेष्यना (निपातजन्योपस्थितिप्रयोज्यप्रकारतानिरूपितविशेष्यता) भवेत्, उवविधं विशेष्यताद्यं विहाय विभत्तयर्थस्य विशेष्यतया बोधो नियत इति सारन्। अन्र तु 'इव' निपान स्वास्ति, अन एव एतदन्यतरभिन्ना विशेष्यता न, अपि तु अन्यतररूपैव। तनश् नजथों यथा नामार्थस्य विशेष्यं विशेपगं वा भवति [ यथा घटः पटो न, अत्र पटप्रतियोगिकमेदवान् घट इति बोधे नवर्थ प्रति पटः प्रतियोगितासंबन्धेन विशेषणं वटश्च विशेष्यम्। अत्र हि विम क्यर्थेन न संबन्ध: ] एवमत्रापि इवार्थस्य सादृश्यस्य भदसंसर्गेण नानार्थ प्रति विशेध्यतया विशेषणतया वा बोधो न दुष्यतीत्याशयः ।

Page 310

२४८ काव्यमाला। [द्वितीयानने-

र्थे Sन्वयादर विन्दसादृश्य प्रकारकधीविशेष्य इति। तत्रैव सौन्दर्येणेति धर्मो- पादाने तृतीयार्थः प्रयोज्यत्वं धात्वर्थे भाने इवार्थे, सादृश्ये वान्वेति।

गज इव गच्छति, पिक इव रौतीत्यादावुपमानपदानां तत्कर्टकेक्रियायां लक्षणया गजादिगमनादिसदशगमनाद्यनुकूलकृतिमानिति। ननु घटो न पश्यतीत्यत्र घटान्विताभावस्य दर्शने कर्मतासंसर्गेणा- न्वयवारणाय घात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंसर्गेण शाब्दबोधं प्रति विशेष्यतया विभक्त्यर्थोपस्थितेर्हेतुत्वम्। एवं च गज इव गच्छति, पिक इव रौतीत्यादौ नेवाद्यर्थस्य सादृश्यस्य धात्वर्थेऽन्वयः संभवति। तस्माद्गजादिसादृश्यस्य गमनादिकर्तर्येवान्वयः खगमनादिसदशगमना- दिकर्तृत्वेन समानधर्मेण। इत्थमेव चाख्यातवादशिरोमणिव्याख्यातृ-

तरभिन्नवनिवेशः। एवेनोक्तकार्यकारणभावव्यवच्छेदः। धातर्थमाह-धीति। तत्रैवेति। अरविन्दमिव भातीति वाक्य एवेत्यर्थः । तृतीयार्थाभिन्नं प्रयोज्यतम् अन्वये कर्तृ। भा- नस्य तत्प्रयोज्यत्ाभावादाह-इवार्थ इति। कर्तर्येवेति। एवेन लक्षणादिव्यवच्छेदः।

१ वी: भानं तत्र विशेष्यः अर्थात् आश्रयः कर्ता (मुखादि) । वैयाकरणानां मते तु- कं वर्तमानकालिकम् अरविन्दनिरूपितसादृश्यप्रकारकं भानमिति बोधः । २ गजो यथा गच्छति तथायम्, इति वोधनतात्मर्यात गजकर्तृकगमनक्रियायां पिककर्तृक- रवणक्रियायां च लश्षणा। ३ घटाभावं पश््यतीति द्वितीयाविभक्तिवारणाय। ४ अयं भाव :- आख्यात( तिडन्तक्रिया)स्थले यत्र धात्वथों विशेष्यम् (प्रधानम्) भवति तत्र प्रकार: विभक्तिजन्योडथों भवति। घटो न पश्यतीत्यत्र घटान्वितोऽभावो विभत्तया उपस्थापितो नास्तीति धात्वर्थम् (दर्शनम्) प्रति न तस्य विशेषणतयाऽन्वयः । ततश्च न

५ इवार्थस्य सादृश्यस्य (प्रकारतया) धात्वर्थ (गमने) अन्वयो न स्यात्, किन्तु कर्तरि (गजादौ)। कर्तुश्च धात्वर्थेऽन्वयः । यतो हि पूर्वोक्तनियमानुसारं विभत्तिजन्यार्थस्यैव प्रकार- बया धात्वयें(विशेष्ये)ऽन्वयो भवेत्। निपातभूत इवार्थस्तु न विभक्तिजन्यः। ततश्च गजगमन- सदृशगमनानुकूलकृतिमान् इति घात्वर्थेन सह सादृश्यान्वयशाली शाब्दबोधः कथमिति शङ्का।

Page 311

उपमाशाब्दबोध: ] रसगङ्गाघर: । २४९

भिरपि सिद्धान्तितमिति चेन्, नैवम्। गज इव गच्छतीत्यत्र सादश्यस्य विधेयतया प्रतीतेरपेलापापत्तेः । गज इव यः पुरुषः स गच्छति, पुरुषो यः स गज इव गच्छतीति वाक्याभ्यां भिन्नप्रतीतोरानुभविक- त्वान्। एवं वनं गज इव गृहं देवदत्तो गच्छतीत्यादौ बनाढेः सर्वथै- वानन्वयापत्तेश्र । एवं विम्वप्रतिविम्तभूतस्य कारकमात्रस्यानन्वयो बोध्यः। तस्माद्गजनिरूपितसादृश्यप्रयोजकगमनाश्रय इत्येव गज ईव गच्छतीत्यत्र घीः । कारकोपोदाने तूपमानपदानां तत्कर्तकक्रियायां लक्षणेतयेव साधु। न च प्रागुक्तकार्यकारणभावस्य वात्वर्थनिष्ठेत्यादेवर्य-

समानधर्मेणेत्यस्य पूर्वत्रान्वयः । ननु तस्य तत्वेन प्रतीतावेव न मानमत आह-गज इवेति। अनन्वयो वोध्य इति। वस्तुतस्तु वनं गज इव रणभूमि शूरो गच्छती-

इत्यादिबोधः। इवशन्देन च विम्बप्रतिबिम्वभावापन्नवनसमरभूमिविशेषणकगमनमेव धर्म- लेन बोध्यते। इवादयश्च धर्मलेनैव बोधका इति सर्वसंमतम्। गज इव यः पुरुषः स गच्छतीत्यन्न चेवेन गमनान्वित एव शूरत्ादि वर्मलेन बोध्यते। पुरवो यः स गच्छती- त्यन्न तु गमनमेव तथेति तयोर्विशेषोऽ्युपपद्यत एव। उपमाया विधेयत्तं चैतदेव यद्विधे- यस्यैव धरमत्वेनोपमाबोधकबोध्यत्मिति चिन्त्यमिदम्। वैयाकरणनये तु क्रिययोरेवोप- मानोपमेयभावः । गच्छतीत्यस्य चावृत्त्योभयन्नान्वयः । गजादिपदानां स्वकर्तृकक्रियायां लक्षणा वेति दिक। कारकोपेति। कर्त्रादीत्यर्थः। अड्गीकारे दोषमाह- १ गमनगतं सादृश्यं यद् विधेयतया (तात्मर्यविषयनया) प्रतीयने तस्यापलापः स्यात्, कर्त्येव सादृश्यान्वये कर्त्रोरेव उपमानोपमेयभावात्। २ पूर्ववाक्ये कत्रों: सादृश्यम्, गमनं च न समानवर्नः । अपि तु स्थौल्यादिना साम्यम्। उत्तरत्र तु उभयकर्तकयोगमनयोरुपमा। कर्त्रेव सह वात्वर्थान्वये तु उभयत्र समाना प्रतीतिः स्यान्। ३ अन्र हि 'यथा गजो वनं गच्छति तथा देवदत्तो गृहं गच्छति' इति वनगृहयोर्विम्त्रप्रति- बिम्बतया सादृश्येऽन्वयः सर्वेषां प्रतीयते, भवद्रीत्या तु केवलं कत्रोरेवान्वयः स्याद। अस्मन्मते तु कारकोपादाने उपमानपदानां तत्कर्तृकक्रियायां लक्षणया तत्क्रियान्वितत्वेन कारकाणामप्यन्वयः । ४ गज इव इत्यस्य गजनिरूपितं यत्सादृश्यम् इत्यर्थः, गच्छति इत्यस्य (प्रयोजक )गननाश्रय इति। अर्थात् गजेन सह सादृश्यस्य निमित्तं तादृशं गमनमेवास्ति, तस्याश्रयोऽयमित्याशयः । ५ अर्थात् कर्मादिकारकं यत्र गच्छतीत्यनेन सह उपात्तं तत्र। कर्त्रांदि कार कमित्ि नागेश- टीका तु विचारइरिंद्रैव, गजादेः कर्तुः पूर्वत एवोपादानात्। अत एव यत्र विम्बप्रतिविम्ब- भावेन कर्मादिकारकमुपात्तं यथा वनं गज इव गृहं देवदत्तो गच्छनीत वनकमकगजगमन- 'सद्टश-गृहकर्मकगमनानुकूलकृतिमान् देवदत्तः' इति बोधः ।

Page 312

२५० काव्यमाला। [द्वितीयानन-

मिचारः, तस्यानङ्गीकारात्। अङ्गीकारे च तृष्णीमारात्प्ृथगित्याद्यर्थानां घात्वर्थान्वयोऽनुभवसिद्धोऽपलैपनीयः स्यात्। कथं तर्हि घटो न पश्य- तीताडी घटाभावं पश्यतीति नान्वयवोधः । धात्वर्थनिष्ठविशेष्यतानिरू- पितप्रकारतासंसर्गेणान्वयवोधं प्रति नञ्जन्योपस्थितिमात्रस्य प्रतिबन्धक- त्वकल्पनात्। धात्वर्थस्य नामार्थर्भिन्नत्वेन विशेषणं तु द्वयोस्तुल्यम्। तेन पाको न याग इत्यादौ न व्यभिचारः । इत्यलमप्रसक्तविचारेण।

अथारविन्दतुल्यो भातीत्यत्र कथं घीः । तुल्यपदार्थस्य निपातभिन्न- नामार्थत्वेन धात्वर्थे भेदेनान्वयायोगात्। तादशतुल्यत्वादेर्भानो द्वेश्यता- वच्छेदकत्वे भानमात्रविधेयतायां विवक्षितार्थांप्रतीतिः। न च तुल्यपदेन तुल्यत्वप्रकारको लक्षणयोपस्थापितो ह्यमेदेन धात्वर्थेऽन्वेष्यतीति वाच्यम्। क्रियाविशेषणत्वेनारविन्दतुल्यशव्दस्य नपुंसकत्वापत्तेरिति चेत्, व्याकरणस्य सिद्धानुवादकत्वेन स्तोकं पचतीत्यादिमान्रविषयत्वेन

अङ्गीति। उक्तदोषमुद्धरति-कथमिति। मात्रपदेनेतरनिपातव्यवच्छेदः। कथमिति। भेदेनामेदेन वेत्यर्थः । तत्र नाद इत्याह-तुल्येति। उक्तव्युत्पत्तेरिति भावः । नाप्यमे- देनेल्याह-न चेति। घालर्थे भानरूपे। उपपत्तरिति। तथा चोक्तरीत्या अभेदेनैवा-

१ यतो ह्यत्र सादृश्यस्य धात्वथेब सहान्वयः कृतः, पू्वोंक्तकार्यकारणभावानुसारं तु सादृ- श्यस्य कत्रैव अन्वय उचितो न धात्वथेंन। २ तूष्णीं तिष्ठति, आराद् वसति, इत्यादौ विभत्तयनुपस्थापितयोरपि तृष्णीभ् आरात् इति निपातार्थयोर्धात्वर्थेऽन्वयः सकलानुभवसिद्धः । ३ अर्थात घात्वर्थ विशेष्यीकृत्य (प्रधानीकृत्य) प्रकारता(विशेषणता)संसर्गेण नञ्जन्या उपस्थिति: अन्वयबोधे प्रतिबन्धिका, अर्थात् तत्रान्वयवोधो न भवति। ततश्च नवर्थस्य संबन्धे प्रतिबन्धान्न कर्मताSSपत्तिः । ४ अत्र घातर्थपदेन नामार्थ(प्रातिपदिक)भिन्नो धात्वर्थों गृह्यते। तथा च पाको न याग: अत्र नञो घात्वर्थेन संबन्धे शाब्दबोधसिद्धावपि न व्यभिचारः, पाक इत्यादेनांमार्थत्वात्।

Page 313

उपमाशावद्बोध:] रसगङ्गाधर: ।

क्रियाव्ययविशेपणानां क्वीवतेष्यते इत्यस्योपेपत्तेः । धातोरेव लक्षणया सकलार्थबोधकत्वमितरस्य तात्र्यग्राहकतेत्यपि केचिन्। अरविन्दवतमु- न्दरमित्यत्र वतेः 'तेन तुल्यम्-' इति विहितस्य सादन्यवदर्थकस्य साहश्ये

न्वय इति भावः। मतान्तरनाह-धातोरेवेति। तथा च तस्व नादशो विशिष्ट एवाथे इति नोक्तव्युत्पत्त्यवसर इति भावः। इत्यपि केचिदिति। वस्तुनस्तु उपमाविधेयकबोधे तात्पर्ये अरविन्दतुत्यमितेव साधु, न तुल्य इति । यदि तु विधेयस्य धर्नन्चेनोनमः- बोधकबोध्यतवमेव विधेयत्वमुपमाया इति विभाव्यते नहिं अरविन्द्तुल्यविषयक भानं भानविषयोSरविन्दतुल्य इति वा बोधेऽपि भानस्व वर्नलेन भानादुपनाया अविधेदल्- मेव। धर्मान्नरस्य तथा भाने तु अरविन्दनुत्य इलेव प्रयोग: सर्वसंननः। उनमाया उहे- शयतावच्छेदकलं चेति ध्येयम्। अरविन्दमिव सुन्दरमित्यत्रत्रेति।वस्तुनस्तु करिया- यास्तुस्चले एव 'तेन तुल्यम्-' इति वतिविधानादरविन्दमिव सुन्दरमित्ादिवत्कर्थ बोध इति चिन्तयमिदम्। अत एव व्राह्मणवदधीते इतन्न त्राह्मणकरनृकाध्यदने त्राह्मणादस्य लक्षपेति महामाष्यकारादयः। अरविन्द्वत्सुन्दरं मुखमितत्र च भत्रतिक्रियाध्याहदर्या। अरविन्दपदेन च सुन्दररवविन्दभवनं लक्ष्यते। तथा च सुन्दरारविन्दभवनसददं सुन्दरं १ अथारविन्देत्यारभ्य, 'उपपत्तेः' वततर्वन्तस्य संवभत्यायमादाय :- निरानमत्नो नानालों धात्वथ यदयन्व्रेति तढाडमेदेनव: म च क्रियाविदेपगमिति व्यनवेवसने। पदनुकरं नुल्यत्वप्रकारकनुत्यविशेष्यकन्य तुत्यपठार्थन्य भातीव्यनेन सह कर्थ योगः : नतु अविन्दतुल्य इति हि कतुः चरणादेविशेपगमित्युददेवयनावन्लेन्नककोटिप्वि्टन् : भानीत्यनेन तु केवक नानमात्रं विधीयते। ततश्च विधेयेन भाीत्यनेन सह तुत्यरान्वय =्र नवदयक रति तु नोचितम्। अरविन्दतुल्यो भातीति प्रयुआ्जानन्य तुत्यनानन्विते ननमानर नाह्यीनवान्। नतश्च अभेदान्वयानुरोधेन तुल्यपठस्य नुत्यत्वाकारकतुत्यवशेष्ठक इन्दर्यमध्यान् तुल्पत्वत्र- कारक इति भागमात्रे लक्षणा। लक्षिनः तृत्यत्वप्कारक इत्यथ।डमेदेन धन्र्ये भानेऽन्त्रेति। एव च अरविन्दनिरूपिततुल्यत्वप्रकारकाभिन्नं नाननिति बोध: । क्रियाविभेपननया अरविन्द्तुल्य- शब्दस्य नपुंसकत्वरापत्तिस्तु न। व्याकरणं हि सिद्धानुवादकम् (अर्थातू यथा लोकानां प्रयोग- स्तदनुकूलमनुशासनम्)। ततश्च क्रियाव्ययविशेषणानां क्ठीवतेत्यनुशासनस्य प्रसिद्धेपु स्तोकं पचतीत्यादिष्वेव प्रवृत्तिः, नात्र। नस्मारपूर्वीक्तो बोधो निर्दाप इत्याशयः । २ अर्थात् भातीत्यस्यैव अरविन्दतुत्यत्वप्रकारकं भानमित्यर्थः । अरचिन्द्वतुल्य इति तु तात्पर्यग्राहकमात्रः । एवं च अभेदबोधकादिव्युत्पत्तीनामवसर एव नेत्याशयः । ३ सदृशार्थकस्य तुव्यपदस्य सादृश्यवान् इत्यर्थः । तनश्च तुल्यार्थ विहितस्य 'वत्' प्रत्यय- स्यापि सादृश्यवदर्थः । ततश्च लक्षणया तस्य (वतेः) सादृश्यमर्थः । तस्य सादृश्नम्य (पदार्थान्तरत्वे) सौन्दर्येण सह प्रयोज्यप्रयोजकभावसंबन्धेनान्व्यात् 'अरविन्दमिव सुन्दरम्' इतिवत् अरविन्दनिरूपितसादृश्यप्रयोजकसौन्दर्यवदभिन्नम् (सुखम्) इति शाब्डबोधः ।

Page 314

२५२ काव्यमाला। [ द्वितीयानने-

लक्षणा। नस्व सुन्दरपदार्थकदेशेन सुन्दरत्वेनान्वयादरविन्दमिव सुन्दर- मित्यत्रेव बोधः । एकत्र शक्त्याSपरत्र लक्षणया च सादृश्यप्रतिपादना- च्छ्रोतार्थी चेति। अरविन्दवन्मुखमित्यत्र त्वरविन्दुनिरूपितसादृश्यवदभिन्नमिति। अर- विन्द वत्सौन्दर्यम स्ये त्यत्रारविन्द शव्दस्यार विन्द सौन्दर्यलाक्षणिक तयारवि- न्द्सौन्दर्यनिरूपितसादश्याधिकरणमेतत्संबन्धि सौन्दर्यमिति मुखारविन्द- सौन्दर्ययो: सादश्यबोधे शाब्दे, तयोरभेदाध्यवसायादभिन्नधर्ममूला पञ्चान्मुखारविन्दयोरपि साहश्यवीः । अरविन्देन तुल्यमित्यत्र तृतीयार्थो निरूपितत्वम्। तस्य च साहश्येSन्वयादरविन्दुनिरूपितसादृश्याश्रया- भिन्नमिति। तत्रैव सौन्दर्येणेति धर्मनिर्देशे तृतीयार्थः प्रयोज्यत्वम् । मुखभवनमिति शाब्दे बोधे बृत्ते अरविन्दमुखयोः सौन्दर्यधर्मकृतसादृश्यं व्यञ्जनया वुध्यते। एवमरविन्दवन्मुखमित्यत्रापि अरविन्दभवनसदृशं मुखभवनमित्येव वोधो युक्त इति बोध्यम्। एकत्र अरविन्दमिवेत्यत्र। अपरत्र अरविन्दवदित्यत्र। सादृश्यवद्- भिन्नमितीति। बोध इत्यस्यानुषङ्गः । लक्षणा नेति भावः । अत एव तुः प्रयुक्तः । सौन्दर्यलाक्षणिकतयेति । तन्र तस्येवेति वतेरिवार्थे विहितलेन सादृश्यार्थकस्य तत्प्रयोजके लक्षणयारविन्दसादृश्यप्रयोजकमेतत्संबन्धिसौन्दर्यमिति बोधे उपपन्ने अरवि- न्दपदस्यारविन्दसौन्दर्यलक्षणा किंफला किंप्रमाणा चेति चिन्तमिदम्। शब्दे इति। वृत्ते इति शेषः । तयोमुखारविन्दसौन्दर्ययोः । अभेदेत्यस्य सादृश्यमूलेत्यादिः । अभिन्नधर्मेति। सौन्दर्यरूपेत्यर्थः। सादृश्ये तुल्यपदार्थेकदेशे। अभिन्नमितीत्यस्य १ अर्थात् अरविन्दपदस्य अरविन्दसौन्दर्यार्थे लक्षणा, ततश्च अरविन्दपदस्य अरविन्दसौन्दर्य- मित्यर्थः । सौन्दर्य च सादृश्यस्य निरूपकम् (प्रयोजकन्)। तथा च अरविन्दसौन्दर्यनिरू- पितन् (प्रयोज्यम्) यत् सादृश्यं तदधिकरणम् (तदाधारः, आश्रयः) अस्य सौन्दर्यम् अर्थात् एतत्संबन्धि सौन्दर्यमित्याशयः। अस्मिन् शाब्दबोधे सौन्दर्यरूपसाधारणधर्मस्य अस्य इत्युपमेये अरविन्दे इत्युपमाने च संबन्धः सुरपष्ट प्रत्नयते । अरविन्दसादृश्यप्रयोजकम् एतत्संबन्धि सौन्दर्यमिति नागेशेनोपपादिते शाब्दबोधे तु उपमेय- मात्रे सौन्दर्यस्यान्वयः प्रतीयते। अरविन्दवत्सौन्दर्यमस्येत्युक्तौ स्वारसिकश्च सौन्दर्यस्योभयत्र संबन्ध: । एवं सत्यपि 'अरविन्दसौन्दर्यलक्षणा किंफला' इत्यादिना सुधैव खण्डयन् नागेश- महोदयस्तु स्थूलदृश्रेव । २ तयो: उभयसंबन्धिसान्दर्ययोः सादृश्यमूलकस्य अभेदस्य निश्चयात् अभिन्नधर्म(सौन्दर्य)- मूल, मुखस्य अरविन्दस्य चापि सादृश्यबुद्धि: सिध्यति। ३ मुखमित्यनेन सहान्वये द्वयोरभेदस्यानुरोधादिदम्।

Page 315

शाब्दवोध: ] रसगङ्गाघर: । २५३

तेनारविन्दुनिरूपितसौन्दर्यप्रयोज्यसादश्यवदभिन्नमिति। अरविन्दमाननं च सममित्यत्र प्रथमं शर्व्दात्सादृश्यवद्भिन्नमिति बोधे पश्चान्मानसी वैयञ्जनिकी वा परस्परनिरूपितसाश्यस्य प्रतीतिः प्रसिद्धनिरूपित- सादृश्यस्य वा। विम्बप्रतिविम्बभावापन्ने तु- 'कोमलातपशोणाभ्रसंध्याकालसहोदरः । कुङ्कमालेपनो याति कापायवसनो यतिः ।।' इत्यादौ कुक्कुमालेपनादिविशिष्टो यतिः कोमलातपादिविशिष्टसंध्याकाल- सदशाभिन्न इति शक्ता बोधे पश्चात्सादृश्यप्रयोजकधमाकाड्कायां श्रुतानां कोमलातपादीनामुपमानोपमेयविशेषणानां सादश्यमूले तादात्म्याध्यवसाने साधारणत्वनिष्पत्तिः। कुङ्कमालेपकाषायवसनाभ्यामयं यतिरित्यत्र कुङ्गुमा- लेपक्रापायवसनयोरसाधारणयोरपि साधारणत्वज्ञानजननद्वारा कर्ल्पनीय- बोध इति शेप: । एवनग्रेऽपि निरूपितप्रयोज्यते सादृश्यविशेषणे। अभिन्नमिति। अरविन्दमाननं चेति शेप: । परस्परेति। मुखसादश्यस्य कमले, कमलसादृश्यस्य मुखे इत्यर्थः । विनिगमनाविरहादिति भावः । प्रसिद्धत्वस्य गमकत्ादाह-प्रसिद्धति । अरविन्देल्र्थः । सादृदयस्य वेति। प्रतीतिरित्यस्यानुषङ्गः । पन्न त्विति। तदापन्न- धर्मके वितर्थः । सहोदरशव्दार्थमाह-सदृशति। तादात्म्येति। अमेदेत्यर्थः । लक्ष्यान्तरमाह-कुङ्गमालेपेति। साधारणत्वेति। सादृश्यनूलामेदाध्यवसानेनेत्या दिः । कल्पनीयेति। यतिरित्यस्य यतिरिवेत्यर्थः । अन्यत्र अन्यशव्दप्रयोगादिति भावः। १ समशब्दात् सादृश्यवदनिन्नम् (सादृश्यवना अभिन्नम्, सटटशन्) अर्थात् मुखमाननं च सादृश्यवत् इति शाव्दबोधः । तदनन्तरं च एकतरनाटृश्ये विनिगनकाभावात् परस्पर- सादृश्यस्य अर्थात् कनले नुरनादृश्यस्य नुखे न कनलसादृश्यस्य मानसी व्यज्नाजन्या दा अनीतिजीयते। अथवा मुखस्य अरविन्देन सादृश्यं प्रसिद्धम्, अतः प्रसिद्धत्वं विनिगमकमादाय अरविन्दसादृश््यस्य नुखे प्रनीतिन परस्परस्येत्याशयेन प्रोक्तम् 'प्रसिद्धनिरूपितसादृश्यस्य वा' । अ्रसिद्धम् अरविन्दं तन्निरूपितनादृश्यस्ेति तदर्थः । २ अर्थात् शाब्दो बोधस्तु अयमेव । केन कारणेनानयोः सादृश्यमिति आकाङ्कायामुपमानोपमेयगतविशेषणानां सादृश्यमूलके अभेद- निश्चये जाते उनयेपां साधारगत्वं निष्पयते। ततश्र-एतादृशसादृश्यप्रयोजकवर्ममूला यति- संध्याकालयोः सादृव्यप्रतीतिरित्याशयः । ३ 'कुङ्कमालेपकापायवसनाभ्यामयं यतिः । कोम- लातप शोणान्रसंध्याकालसहोदरः' इति लक्ष्ये तु। ४ कल्पनीयं यत् द्वयोः (यति-संध्या- कालयोः) सादृश्यं तन्निष्पत्तिप्रयोजकत्वात् कुङ्कमालेपकषायवसनयोः, सादृश्ये प्रयोज्यत्वे- नान्वयः । अर्थात् द्योः सादृश्यस्य प्रयोज्यस्य कुङ्कमालेपकाायवसने प्रयोजके। ततश्र- कुङ्कुमालेप्कापायवसनप्रयोज्यं यत् कोमलातपशोणाअ्संध्याकालसादृश्यं तद्रदभिन्नो यतिरिति बोधः । ५ धन्यमिदं नागेशत्य साहित्यज्ञानम्। २२ रस०

Page 316

२५४ काव्यमाला। [ द्वितीयानने-

सादृश्यनिष्पत्तिप्रयोजकत्वात्प्रयोज्यत्वेन सादश्येऽन्वयः। एकदेशान्वयः पुनरेषु पक्षेष्वगतिकतयाश्रीयत इत्युक्तमेव। सादृश्यस्य समानधर्मरूपत्वे तु अरविन्दसुन्दरं वद्नमित्यत्र लक्षणया- रविन्दुवृत्तिसमानधर्मः प्रतीयते। तस्य चाभेदेन सुन्दरपदार्थेकदेशेन सुन्दरत्वेनान्वेयः । अरविन्दमिव सुन्दरमित्यत्रारविन्दपदार्थ आधेयतैया संसर्गेण इवपदार्थेन समानधर्मेणान्वेति। शेषं2 प्राग्वत्। सौन्दर्येणारवि- न्देन सममित्यत्र सौन्दर्योत्तरतृतीयया धान्येन धनीत्यत्रेव अभेदार्थिकया अन्यया च निरूपितत्वार्थिकया सौन्दर्याभिन्नमरविन्दनिरूपितं यत्सादृश्यं तद्वदभिन्नमिति घीः । क्यडर्थाचारो धर्ममात्रम्। तस्य चोपमानपदेन लक्षणयोपस्थितं तन्निरूपितसादृश्यं प्रयोजकतासंसर्गेणाभेदेन वा विशेष- णम्। विशेष्यं चाश्रयतयोपमेथम्।क्यजर्थाचारश्रानुरूपक्कियादिरिति दिक।

लक्षणयेत्यस्यार विन्दपदस्येत्यादिः । शेषमिति। तस्य चामेदेनेत्यादीत्यर्थः । अन्यया चेति। अरविन्दपदोत्तरया चेत्यर्थः । एकदेशान्वयः प्राग्वदेवेत्याह-सादृश्यमिति। उप्तास्थले बोधमाह-क्यड्थेति । सादृश्यस्यातिरिक्तले आह-प्रयोजकतेति। धर्मरूपले आह-अभेदेति। विशेष्यमिति। अस्य चेत्यादिः। तन्न सादृश्ये। ननु १ ननु कुङ्कुमालेपादे: सहोदरपदस्य अर्थे सदशे अन्वय उचितो न तु सदृशस्यैकदेशे सादृश्ये इति शङ्कायामाह-एकदेशान्वय इति। २ अरविन्दवृत्तिसमानधर्माडभिन्न-सुन्दरत्ववदभिन्नं सुखमिति बोधः । ३ यतो हि अरविन्दे (आधारे) इवपदार्थः समानधर्म आधीयते। ततश्च अरविन्दवृत्तिर्यः समानधर्म इत्यर्थः । ४ अर्थात् तस्य समानधर्मस्य अमेदेन सुन्दरपदार्थैकदेशेन सुन्दरत्वेनान्वयः । ततश्च पूर्व- वत् अरविन्दवृत्तिसमानधर्माभिन्न-सुन्दरत्ववदभिन्नं वदनमिति बोधः। ५ प्रकृत्यादिभ्य उपसंख्यानमित्यनुशिष्टया। ६ अरविन्दायते मुखम् इत्यस्य बोध: सादृश्यस्य पदार्थान्तरत्वे समानधर्मरूपत्वे वा कीटकू तदाह। ७ तथा च अरविन्दनिरूपितं यत्सादृश्यं तत्प्रयोजको य आचारः (सुखवृत्तितत्तद्धर्मरूप:) तदाश्रयो सुखमिति पदार्थान्तरत्वे, तदभिन्नो य आचारस्तदाश्रयो सुखमिति समानधर्मत्वे बोधः। ८ ततश्च चन्द्रीयति मुखं [ मुखं (कर्तृ)चन्द्रमिवात्मानमाचरति ] इत्यादौ चन्द्रनिरूपित- सादृश्याभिन्न: (सादृश्यस्य धर्मरूपत्वे) साद्ृश्यप्रयोजकः (इति सादृश्यस्य पदार्थान्तरत्वे) य आचारस्तदनुकूलकृतिमन्मुखमिति बोधः ।

Page 317

उपमा ] रसगङ्गाघर: । २५५

तत्रेवादीनां द्योतकत्वमेव न वाचकत्वम्, नि्पातत्वादुपसर्गवत्। द्योतकत्वं च रेवसमभिव्याहृतपदान्तरेण शक्ता लक्षणया वा तादशार्थ- बोधने तात्पर्यग्राह्कत्वेनोपयोगित्व्रमिति वैयाकरणाः । उपसर्गाणां द्योतक- त्वमावश्यकम्। अन्यथा उपास्यते गुरुः, अनुभूयते सुखम्, इत्यादौ गुर्वा- देर्लेनाभिधानं न स्यात् धात्वर्थकर्मताविरहात्। इवादीनां तु वाचकत्वम्, बाधकाभावात्। प्रागुक्तहेतुस्त्वप्रयोजकत्वान्न सावकः । अन्यथा अव्यय- त्वादिति हेतुना अव्ययमात्रस्वैव द्योतकतापत्तिरिति नैयायिकाः । 1 अथास्याश्मत्कारस्थापकर्षकं यावत्तत्सर्वमपि दोपः । कविसमय- प्रसिद्धिराहित्यम्, उपमानोपमेययोर्जात्या प्रमाणेन लिङ्गसंख्याभ्यां चान- नुरूप्यम्, विम्बप्रतिविम्बभावे धर्माणामुपमानोपमेयगतानां न्यूनाघिक्यम्, अनुगामितायामनुपपद्यमानकालपुरुषविध्याद्यर्थकत्वम्, एवमादि।

न दोतकतं साध्यम्। अनर्थकनिपातेषु निपाततवत्सु द्योतकल्वाभावेन व्यभिचारा्। अत एव द्योत्यं साध्यमाह-न वाचकत्वमिति। तथा च वाचकल्वाभावे साध्ये नोक्त- व्यभिचार इति भावः। नानार्थभिन्नस्थले शक्ता बोधने तात्पर्यग्राहकानपेक्षणादाह- लक्षणयेति । लेन लकारेण । प्रयोजकत्वादिति । 'साक्षात्कियते दयिता' इत्यादो लेन दयितादेरभिधानसिद्धये निपातले द्योतकतावच्छेदकता कल्प्यत इति चिन्तमेतत्। द्योतकतापत्तिरिति । न चेष्टापत्तिः। खरादीनां स्ातत्रयेण प्रयोगा- नापत्तेरिति भावः । अस्याः प्रकृतोपमायाः । समयः संकेतः । आननुरूप्यमिति। १ 'निपानत्वात्' इति हेतुना निपातेषु वाचकत्वाभावः साध्यते। ततश्च 'अरविन्दमिव' इत्यत्र अरविन्दनिरूपितसादृश्यम् अरविन्दपदस्यैवार्थः । 'इन'निपातस्तु सादृश्यारथबोधने तात्पर्यंग्राहकमात्र इत्याशयः । २ खेन निपातेन (इवादिना) समभिव्याहृतं सहोच्चारितं यत्पदान्तरम् (अरविन्दादि) तेन। ३ सादृश्याद्यर्थबोधने। ४ अयं भाव :- यद्युपसर्गाणां वाचकत्वं स्यात्तहि 'उपास्यते' अत्र सेवनमर्थः 'उप्' उप- सर्गस्यैव स्यात्, 'आसू' धातोरुपवेशनमात्रार्थकत्वात। एवमेव 'अनुभूयते सुखम्' अत्रापि अत्यक्षीकरणम् उपभोगो वा 'अनु' उपसर्गस्यैवार्थः स्यान्, 'भू' धातोः सत्तामात्रार्थकत्वाद्। ततश्च गुरोः सुखस्य च धात्वर्थ प्रति कर्मता न सिध्येत। [धातुः 'आस्' 'भू' इति। तत्कर्मत्वं गुर्वादे: कथं संभवति ?] एवं च 'उपास्यते' इत्यादौ लट्लकारेण गुर्वादेः कर्मणोऽभिहिततय. प्रथमा भवतीति कथनमसंगतं स्यात। तस्मादुपसर्गाणां द्ोतकत्वमेव स्वीकर्तव्यमित्याशयः । ५ उपसर्गाणां योगे यथा धात्वर्थकर्मत्वाद्यनुपपत्यादिकं बाधकं तथाSत्र नास्तीत्याशयः ।

Page 318

२५६ काव्यमाला। [ द्वितीयानने-

क्रमेण यथा- 'प्रफुल्लकह्वारनिभा मुखश्री रदच्छद: कुङ्कमरम्यरागः । नितान्तशुद्धा तव तन्वि वाणी विभाति कर्पूरपरम्परेव ।।' 'मुनिः श्ववदयं भाति सततं पर्यटन्महीम्। विनिवृत्तक्रियाजातः श्वापि लोके शुकायते।।' 'सरेसि प्रवदाभाति जम्बीरं सुपचेलिमम्। आदिकारणतोयौघ इव न्रह्माण्डमण्डलम् ॥' एतस्यैव किंचित्पदव्यत्यासे ब्रह्माण्डस्योपमेयतायां चायमेव दोषः। 'द्राक्षेव मधुरं वाक्यं चरितं कौमुदी यथा। सदैवार्द्राणि चेतांसि सुधेव सुमहात्मनाम् ॥' वामाकल्पितवामाङ्गो भासते भाललोचनः । शम्पया संपरिष्वक्तो जीमूत इव शारद्ः ॥' अत्र जीमूतगतो भालस्थलोचनप्रतिबिम्वो नोपात्त इति न्यूनत्वम् । 'भगवान्भवः' इति कृते तु विम्वस्यैवाभावान्न प्रतिबिम्बापेक्षेति साधु। 'विष्णुवक्ष:स्थितो भाति नितरां कौस्तुभो मणिः । अङ्गारक इवानेकतारके गगनाङ्गणे।।'

नव्समासोत्तरं भावप्रत्ययः । कालो भूतादिः। पुरुषः प्रथमादिः। प्रफुहति। अत्र कहारमुखयो: केसरौष्ठयोः कपूरवाण्योश्च तत्त्वं तत्संकेताप्रसिद्धम्। कह्ारं पुष्पविशेषः। रदानां दन्तानां छदोऽपवारकः पह्लवः । ओष्ठ इति यावत्। विनीति। विशेषेण निवृत्तक्रियासमूहः । अत्र श्वमुन्योः शुकशुनोश्च जात्याननुरूप्यम्। प्रवच्चश्चलम्। सुपचेलिमं अत्यन्तपक्कम्। आदिकारणेति। 'अप एव ससर्जादौ तासु बीजमवा- सजत्' इति श्रुतेस्तत्त्वमिति भावः । अत्र प्रमाणत अननुरूप्यम्। तयोरत्यन्तवैलक्ष- प्यात् 1 एतत्पोषकमपि सुपचेलिममिति विशेषणम। एimT

नमात। पामया पावत्या कल्पत स्वीकृतं वामार्ङ् १ शुकः शुकमुनिः। २-सरसि प्रवत (तरत्) सुपकतया सुवर्णवत्पीतवर्ण जम्बीरमुप- मेयम्। तोयौधोपरि दीप्यमानं सुवर्णमयं ब्रह्माण्डं चोपमानम्। जम्बीरस्योपमेयस्य ब्रह्माण्ड सुपमानं प्रमाणतो नाडनुरूपम् (अत्यधिकविस्तीर्णत्वात) । 'पक्कस्याऽत्यन्तसूक्ष्मत्वात' इत्यादि नागेशव्याख्यानं तु भ्रमापादकमेव। पक्कं जन्बीरं रसाविक्येन बृहत्परिमाणं भवति, उत तत्र सूक्ष्मत्वम्१, इत्यादि विशेषविवरणमुपोद्वातस्य ३७ पृष्ठे द्रष्टव्यम्।

Page 319

नपमादोषा: ] रसगङ्गाघर:। २५७

अत्र तारकाणां विम्बाभावादाधिक्यम्। 'विष्णोर्वक्षसि मुक्तालिभामुरे भाति कौस्तुभः' इत्यर्थे तु न दोपः। अत्र विशेषणविशेरषैणयोर्मुक्त्तालिता-

विम्तभावः, तन्मूला चोपमा। 'रराज राजराजस्य राजहंसः करस्थितः । हस्तनक्षत्रसंसक्त इव पूर्णो निशाकर: ।।' अत्र रराजेति प्रतिपाद्य भूतकालाचच्छन्नक्रियेे राजहंसस्ा्वय इव न निशाकरस्येत्यनुपपद्यमानकालघटितत्वं धर्मस्य। 'रणाङ्गणे रावणवैरिणो विभो: शराः समन्ताद्वलिता विरेजिरे। निदाघमध्यंदिनवर्तिनोडम्बरे सहस्रभानो: प्रखराः करा इव ।।' यथा वा- 'आगतः पतिरितीरितं जनैः शण्वती चकितमेत्य देहलीम्। कौमुदीव शिशिरीकरिष्यते लोचने मम कढा मृगेक्षणा।' अत्र शृण्वतीति शत्रा प्रत्यायितेन श्रवणसमक्कालमेव प्रियाया देहल्या- गमनमित्यर्थैनातिशयोक्त्यात्मना गमितस्त्वरातिशयस्तद्गतमौत्सुक्याविशयं पुष्णाति। कौमुद्युपमा तु तत्परिपोषितं प्रधानीभूतं प्रियगतमौत्सुक्यम्।

यस्य सः। शम्पया विद्युल्लतया। जीनूनो नेघः । राजराजस्य कुबेरस्य। न निशाक- रस्येति। तदीयक्रियाविशेषस्य वर्तमानलात्। निशाकरस्याकल्पस्थायितवात्। एवमग्रेऽपि बोध्यम्। धर्मस्य क्रियाविशेषस्य। अस्यैवोदाहरणान्तरमाह-यथा वेति। एव- मग्रेऽपि। विभो: श्रीरामस्य । वलितास्तीक्ष्णाः । ईरितमिति। वच इति शेषः । तद्रतं नायिकागतम्। तत्परिपोषितं नायिकागतौत्सुक्यातिशयपोषितम्। आत्सुक्य-

१ मुक्त्तालिभासुरे अनेकतारके इति हि क्रमशो वक्षसि गगनाङ्गणे इत्यनयोर्विशेषणे। 'मुक्तालि' 'तारकागण' इति तु विशेषणयोरपि विशेषणे, मुक्तालिभिर्भासुरे इत्याद्यन्वये तयोविशेषणत्वात इत्यर्थः । विशेषण-विशेषणयोर्विम्बप्रतिबिम्बभावात् (हेतोः) विशेषणयोः सः ॥ २ पूर्व श्रवणं ततस्तदर्शनोत्कण्ठा ततस्तत्रागमनमिति क्रमसत्वेपि श्रवणस्य कारणस्य, भागमनस्य व कार्यस्य सहत्ववर्णनात्मिकेत्यर्थः । ३ व्यज्जितः ।

Page 320

२५८ काव्यमाला। [द्वितीयानने-

चकितमितयागमनविशेषणमपि वस्तुतो विचार्यमाणमीक्षेणविशेपणीभव- त्तस्यवानुकलम्। इति स्थिते भविष्यत्कालावच्छिन्नशिशिरीकरणस्य साधारणवर्मस्योपमेयान्वितित्वमिव नोपमानान्वितत्वम्। 'एतावति महीपालमण्डलेऽवनिमण्डन। तारकापरिषन्मध्ये राजन्राजेव राजसे ।।' अन्न क्रियायां संबोध्योपमेयान्वय इव नोपमानान्वयः । 'राजेव संभृतं कोषं केदारमिव कर्षकः । भवन्तं त्रायतां नितं भयेभ्यो भगवान्भवः ।।' अत्र प्रार्थ्यमानत्राणकर्तृत्वमुपमेये भव इवोपमानयो राजकर्षकयोर्नास्ति, तयोस्त्राणकर्तृत्वैस्य सिद्धत्वात्। यदि तु त्रायत इति प्रार्थनानिर्मुक्तं त्राण-

मिति। पुष्णातीत्यस्यानुषङ्गः। तस्यवेक्षणस्यैव। नोपमानान्वितत्वमिति । तथा चानुपपद्यमानकालार्थकतं सर्वत्र बोध्यम्। एषु सर्वेषु भूतभविष्यत्तत्तत्पदा- र्थानामेवोपमानीकर्रेणेनान्वयस्य संभवोऽस्त्येवेति चिन्त्ान्येतान्युदाहरणानि। 'त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव' इत्यादि तूदाहतुमुचितम्। राजेव चन्द्र इव। नोपमानेति। तथा चानुपपद्यमानपुरुषार्थकत्वमत्र बोध्यम्। विध्यादीत्यादिपद- ग्राह्यप्रार्थनोदाहरणमाह-राजेवेति। नास्तीति। विशेषणाभावप्रयुक्तविशिष्टाभावोऽन। तदाह-तयोरिति। त्रायते। इतीति। लडन्तमिति भावः । लडन्तपक्षे शङ्गते-

१ मृगेक्षणाघटितस्येक्षणस्य विशेषणम्, अर्थात् मृगवत् चकितमीक्षणं यस्या इत्यर्थः । एवं प्रकारेण ईक्षणविशेषणीभावो विचार्यो विवेकिनाम्। २ उपमेया कान्ता आशास्ये भविष्यत्काले एव लोचने शिश्षिरीकरिष्यति, उपमानभूता कौमुदी तु सर्वदैव शिशिरीकरोति, न तु भविष्यत्काले एव करिष्यतीत्याशयः । ३ 'त्वं राजसे' इति मध्यमपुरुषस्य उपमेयेऽन्वयः, राजेव (चन्द्र एव) इति युष्मद्- मिन्ने (मध्यमपुरुषो यत्र न भवति) उपमाने नान्वय इति धर्मसय उपमानोपमेयसाधारणत्वा- -भावो दोष इत्यर्थः । ४ राजा कोषम्, कर्षकश्च केदारं त्रायत पवेति त्राणकर्तृत्वस्य सिद्धतया तत्र प्रार्थ्यमानत्वं नास्तीत्यर्थः । ५ सर्वकालस्थायिनो हि निशाकरकौसुद्यादयः । तथा च भविष्यत्कालिकानां तेषामुप- मानीकरणे अनुपपद्यमानकालत्वं नास्ति। त्यक्ष्यामि वैदेहसुतामित्यत्र तु पृथिव्या: पूर्व त्यक्त- त्वान्द्रविष्यत्कालान्वयो दुष्टः ।

Page 321

उपमादोषा: ] रसगङ्गाघरः । १५९

कर्तृत्वमुच्यते तदा धर्मस्व साधारणत्वान्र दोषः। अथ जायत इति प्राध्य- मानतानिमुक्तऽपि त्राणकतृत्वे न साधारणत्वम्। प्राथ्यमानताया इव विधे- यतानुवाद्यत्वयोर्भेदकत्वादिति चेन्। सत्यम्। इह हि धम ठोपरहितायामुप- मायां धर्मवाचकशव्द्प्रतिपाैः प्रार्थना। भूतभविष्यद्वर्तमानत्वादिभिर्वि- शेषणैर्विशिष्टधर्मस्वोपमानोपमेयसाधारण्याभावे प्रयोज अभावान्नोपमानि- ष्पत्तिरिति निर्विवादम्। तत्र विधेयत्वानुवाद्यत्वाभ्यां शव्द्वेनानिवेदिताभ्यां विषयताभ्यां विशिष्टस्य धर्मस्य यदि नासिति साधारण्यं मास्तु नाम । नह्युदासीनैर्विशेषणैर्विशिष्टस्य धर्मस्य साधारण्यमपेक्षितम्, अपि तु धर्म- वाचकशब्दुनिवेदितैः । एवं चन्द्रवत्सुन्दरं सुखमित्यत्रापि सुन्दरत्वस्यो- पमानेऽनुवाद्यत्वे उपमेये च विधेयत्वेऽपि न साधारण्यहानिः । ननु 'नीलाञ्व्लेन संवृतमाननमाभाति हरिणनयनायाः । प्रतिविम्बित इव यमुनागभीरनीरान्तैरेणाक्क: ।।' अथेति। विधेयतेति। उपमाननिष्ठे तत्रानुवाद्यलमुपमेयनिष्टे नत्र विधेयत्वमिति भावः । प्रार्थ्यमानताया इवेत्स्य प्रार्थ्यमानतातदभावयोरित्यर्थः । साधारण्याभावे स्रतीति शेषः । प्रयोजकेति । सादृश्यप्रयोजकसाधारणधर्माभावादित्यर्थः। तत्र तस्यामुपमायाम्। उदासीनैः शब्दाप्रतिपाधः। प्रसिद्धोदाहरणेऽप्येनमेवेत्याह-एव- मिति। तथा च तत्कृतमेदेऽपि तस्यानपेक्षितस्य तत्वसत्त्वालवडन्तप ठे न दोष इत्युक्त युक्तमेवेति भावः । प्रतीति। यमुनागभीरजलमध्ये प्रतिबिम्बितश्चन्द्र इवेलर्थः । १ त्रायतामिति पाठे प्रार्थ्यमानता यथा द्वयोः साधारणताविवातनी आसीचथा त्रायते इति पाठेपि उपमान(राजादि)निषठं त्राणं पूर्वसिद्धमिति तत्रानुवाद्यत्वम्, उपमेयनिष्ठ त्राणं तु नवीनतया इदानीं विधेयमित्युद्देश्यविधेयत्वकृतमेदात्कथं त्राणस्य साधारणधर्मत्वमिति शक्का। २ धर्मसहितायामुपमायां साधारणधर्मस्य शब्दवाच्यता अपेक्षिता । शब्दवाच्ये धमें शब्दवाच्यैरेव भूत-भविष्यत्त्वादिविशेषणर्यदि द्वयोः साधारण्यविधातस्तईि उपमायां प्रयो- जकस्य साधारणधर्मस्य असंपत्त्या नोपमानिष्पत्तिरिति सर्वसंमतन्। राजेवेति पद्ये तु विधे- यानुवाद्यत्वे शब्दवाच्ये न। अत एव शब्दानुपस्थापितविशेषणविशिष्टस्य धर्मस्य साधारण- ताऽभावेपि न हानिः । धर्मवाचकशब्दनिवेदितैविशेषणैर्विशिष्टो धर्मो यदि साधारणो न भवे- न्दैव दोष: परिगण्यते, अत एव चन्द्रवत्सुन्दरमित्यत्र चन्द्रे सुन्दरत्वमनुवाद्यम् (पूर्वसिद्धत्वाद), मुखे तु नवीनतया विधेयमिति पार्थक्येऽपि विधेयताऽनुवाद्यत्वयोः शब्दनिवेदितत्वामावान्न दोष इति समाधानम्। ३ गभीरनीरस्य अन्तः अभ्यन्तरे एणाङ्कः चन्द्रः । पद्यस्यास्य छायाविचारः उपोद्घातस्य २८ पृष्ठे द्रष्टव्यः ।

Page 322

२६० काठ्यमाला। [ द्वितीयानने-

इत्यत्रोपमाने चन्द्रे योगमर्यादया भासमान एणरूपोडक्क आननरूपोपमे- यविशेषणसवरविम्वाभावात्कस्य प्रतिबिम्बः स्यात्। अत आधिक्यापादकत- या दोप:। न च हरिणनयनसदशस्य नर्यनस्योपादानात्तस्यैव विम्बस्य प्रतिबिम्वः स्यादिति वाच्यम्। तादृशनयनस्य बहुत्रीह्यर्थकान्ताविशेषणतया आननाविशेषणत्वेन विम्बत्वाभावादिति चेत्, मैवम्। श्देनाननविशेष- णत्वेन तादृशनयनस्याप्रतिपादनेऽपि कान्ताविश्ेषणत्वेनैवाननवृत्तित्वस्यापि प्रतिपत्तेः। नह्याननमविषयीकृत्य कान्तां विशेष्ुमीष्टे नयनम्, अनुभव- विरोधात्। तर्थापि समभिव्याहारविशेषमापन्नेन शव्देनाप्रतिपादना- च्छाव्डे बोधे नाननस्य नयनविशिष्टत्वेन विषयत्वमिति चेत्, संसर्गत्वे बाधकाभावात्स्विशिष्टाननसंसर्गेण तादृशनयनस्य कान्ताविशेषणत्वात्।

योगेति। बहुन्रीहीत्यर्थः । स्वेति। अङ्केत्यर्थः । तादृशेति। हरिणनयनसदृशेत्यर्थः। एवमग्रेऽपि। ईष्टे इति। नयनस्याननमात्रसंबन्धित्वादिति भावः । तदाह-अनुभ- वेति। शङ्कते-तथापीति । तद्ृत्तितस्यार्थिकप्रतिपत्तावपीत्यर्थः । समभीति। नयनरूपेत्यर्थः । शब्देन हरिणनयनशब्देन। अप्रतीति। नयने आननवृत्तित्वस्येत्यादिः। विषयता त्रिविधा-प्रकारता, विशेष्यता, सांसर्गिकी च। तत्राद्ययोरभावेऽप्यन्त्या सुवचेत्याह-संसर्गत्व इति । आननस्येत्यादिः । तदेवाह-स्वविशिष्टति ।

१ उपमेयस्य विशेषणीभूतो यः स्वस्य (एणाङ्कस्य) विम्बः, तस्याऽभावात्। २ हरिणनयनसदृशे नयने यस्याः इत्यर्थवाचकहरिणनयनापदे हरिणनयनसदृशं नयन- सुपात्तमेव, तस्यैव िम्बभूतस्यायं प्रतिबिम्बः स्यादिति पूर्वपक्षिणः समाधानम्। ३ अर्थात् हरिणनयनागतं नयनपदं शब्देन कान्ताया विशेषणं सदपि आननस्यापि विशेषणमस्ति, नयनस्य आननमात्रसंबन्धित्वात्। अयं भाव :- विषयतासंबन्धेन आनने वर्तमानमेव नयनं कान्ताया विशेषणं भवति, तथा च. कान्ताविशेषणमपि आननस्यापि विशे- षणं स्यादेव। ४ एवं सत्यपि समभिव्याहारविशेषम् (सहोच्चारणविशेषम्) आपन्नेन शब्देन अर्थात् नयनेत्याकारकेण शब्देन नयने आननवृत्तित्वस्याSप्रतिपादनात् आननं नयनविशिष्टत्वेन शाब्दबोधस्य विषयो न स्यादिति शङ्का। वास्तवे द्याननं नयनविशिष्टम्। अत एव स्व(नयन) विशिष्टाननसंसर्गेण हरिणनयनं कान्ताविशेषणं भवितुमहृति। अर्थात् संसर्गविधया नयनस्य आननविषयतायाः शाब्दबोधे प्रतीति: स्यात्। अयं भाव :- विषयता त्रिविधा। तत्र प्रकारता-विशेष्यता इत्येतयोरसिद्धावपि सांसर्गिकी विषयता स्यादेवेति समाधानम्।

Page 323

उपमादोषा: ] रसगङ्गाघर: । २६१

यथाकथंचिदुपमेयवृत्तिताज्ञानस्य विम्वताप्रयोजकत्वान्। यद्वा कान्ता- विशेषणतया तादशनयनयो: शाब्दे वोघे वृत्ते पश्चादाननस्य तद्विशेष्य- तया वैयञ्जनिके मानसे वा वोघे 'बोधकाभावान्। एवं च तादशवाक्य- अयोज्ये ज्ञाने उपमेयविशेषणतया भातस्व तादड्रानयनस्य विम्बस्य सत्वात्तदर्थ च चन्द्रगतस्यैणरूपस्याङ्कम्य प्रतिविम्वतयोपादानमावश्यकमे- वेति नाधिक्यं दोपः। कविसमयसिद्धनया चमत्कारापकर्षकत्वाभावेन लिङ्गभेदोऽपि नात्र दोपः । एवं च कविसमयसिद्धतया प्रकारान्तरेण वा आगुक्तानां दोषाणां चमत्कारानपकर्षकत्वे नास्तेव दोपत्वम। यथा- 'नवाङ्गनेवाङ्गणेपि गन्तुमेष प्रकम्पते। इयं सौराष्ट्रजा नारी महाभट इवोड्टा।I' एवमन्यत्रापि ज्ञेयम्। शेषं स्मरणालंकारप्रकरणे विकल्पप्रकरणे च वक्ष्यामः । इत्युपमानिरूपणसंक्षेपः ॥ इति रसगङ्गाघरे उपमाप्रकरणम्।

नयनविशिष्टेत्यर्थः । नन्वेवमपि प्रकारतया विशेष्यतया वा उपमेयवृत्तितवज्ञानस्य बिम्ब- ताऽप्रयोजकतवात्कथं बिम्बतमत आह-यथाकथंचिदिति। न तूक्तरीत्यैव । तथा च संसर्गतया तत्त्वसत्त्वात्तत्वं सुवचम्। नन्वेवमप्यतिप्रसङ्गापत्तिः । नहि संसर्गतया भासमानस्य शाब्दलमत आह-यद्वति। तादृशति । हरिणीयत्वनायकी यत्वविशिष्टे- त्यर्थः । तद्विशेष्येति। नयनविशेष्येत्यर्थः । ताटृशति । कान्ताविशेषणलेन नयन- बोधकेत्यर्थः। साक्षात्तज्न्यताभावादाह-प्रयोज्ये इति। ज्ञाने वैयज्ानेकादौं। तदर्थ तत्प्रतिबिम्बाकाङ्वाशान्त्यर्थम् । एवमाधिक्यदोषं परिहृत्य नीलाश्चलेनेतत्र लिङ्मेददोष- मुद्धरति-कवीति। एवमन्यत्राप्यपवादमाह-एवं चेति। तदभावसिद्वौ चेत्यर्थः । तत्रादौ कविसमयसिद्धतयेत्यस्य लक्ष्यमाह-यथेति। ननु किं तत्प्रकारान्तरं येनादुष्ट- लमत आह-शेषमिति । परमुं प्रकृतमुपसंहरति-इत्युपमेति। चन्द्रालोके तु-'अनेकस्यार्थयुग्मस्य सादृश्ये स्तबकोपमा। श्रितोऽस्मि चरणौ विष्णोरभृङ्गस्तामरसौ यथा॥ स्यात्संपूर्णोपमा यत्र द्वयोरपि विधेयता। पद्मानीव विनिद्राणि नेत्राण्यासन्नहमुखे।' इति भेदद्वयमधिकमुक्म् ॥ इति रसगङ्गाधरमर्मप्रकाशे उपमाप्रकरणम् ॥ १ अर्थात् शाब्दे बोधे तु हरिणसदृशे नयने कान्ताविशेषणे एव। किन्तु शाब्दवोधोत्तरम् आननस्य हरिण(सदृश)नयनविशिष्टतया बोधो व्यञ्ञनाजन्यो मानसो वा भवतीति द्वितीयं समाधानम्। २ आननम् एणाङ्क इव, अत्र यथाक्रमं नपुंसकपुंल्िङ्गयोरुपमेयोपमानभावः ।

Page 324

२६२ काव्यमाला। [ द्वितीयानने-

अथास्या एत्र भेद उपमेयोपमा निरूप्यते- तृतीयसद्दशव्यवच्छेदबुद्विफलकवर्णनविषयीभृतं परस्परमुपमानो- पमेयभावमापन्नयोरर्थयोः सादृश्यं सुन्दरमुपमेयोपमा । 'तडिदिव तन्वी भवती भवतीवेयं तडिल्लता गौरी' इत्यत्र परस्परोप- भायामतिव्याप्तिवारणाय भूतान्तम्। अत्र तानवगौरिमभ्यामनुगामि- धर्माभ्यां प्रयोजितमुपमाद्वयं न तृतीयं सदशं व्यवच्छिनत्ति। एकेन धर्मेणैकप्रतियोगिके परानुयोगिके सादृश्ये निरूपितेSपरप्रतियोगिकस्यैका- नुयोगिकस्यापि तेन धर्मेण सादृश्यस्यार्थतः सिद्धतया शब्देन पुनस्तदुक्तिः सवनैरर्थक्यपरिहाराय तृतीयसदृशव्यवच्छेद्माक्षिपति। प्रकृते चैकेन तान- वरूपेण धर्मेण तडित्प्रतियोगिके कामिन्यनुयोगिके सादश्ये निरूपिते तेनैव धर्मेण कामिनीप्रतियोगिकस्य तडिदनुयोगिकस्य सादृश्यस्यार्थतः सिद्धावपि न गौरत्वेन धर्मेण सिद्धिरिति तदर्थमुपात्तस्य द्वितीयसादृश्यवचनस्य न

'सदृशी तव तन्वि निर्मिता विधिना नेति समस्तसंमतम्। अथ चेन्निपुणं विभाव्यते मतिमारोहति कौमुदी मनाक्॥' इति तृतीयसदशव्यवच्छेदफलकवर्णनविषये सादृश्येऽतिव्याप्तिवार- णाय परस्परमिति। लिङ्गवचनभेदादिदुष्टसादृश्यवारणाय सुन्दरमिति । उपमाद्वयमिति। यतोऽतः पुनर्वण्यमानमिति शेषः । एकेनेत्यस्य यत इत्यादिः। तदर्थ तेन धर्मेण सादृश्यसिद्र्थम्। सदृशीति। व्यक्तिरित्यर्थः । समस्येति। सर्वे- त्यर्थः । विभाव्यते विभावनाविषयीक्रियते। मतिमितति। तदेत्यादिः। तदैवं बुद्धारूढं भवति कौमुदी ईषत्तव सदशीत्यर्थः। अत्र कौमुदीभिन्ने कान्तासादृश्यनिषेधस्य शब्दतः कथनादीषत्सादृश्यस्य चन्द्रिकायां कथनात्तृतीयसदृशव्यवच्छेद: फलितस्तदाह- तृतीयेति। परस्परमिति । कौमुदीसादृश्योक्तेस्तन्राभाव इति भाव:। दुष्टेति। १ तृतीयस्य सदृशस्य व्यवच्छेदबुद्धि: फलं यस्य ईदृशस्य वर्णनस्य विषयीभूतम् (उप. मे. भावम्)1 २ 'तडिदिव तन्वी' अत्र तानवधर्मेण यथा त्वं तडित्सदृशी तथा तडिदपि त्वत्सदृशी' इति वचनेन अनुक्तावपि अर्थतः स्वयं सिध्यति। एवं स्थितावपि यदि 'तडिदिव तन्वी भवती, भवतीव तडिछता तन्वी' इति पुनर्मुखतः प्रोच्येत, तर्हि सेयं पुनरुक्तिनिररिका माभूदिति 'ये एव युवां सदृश्यौ स्तः, तृतीया नास्ति' इति तृतीयव्यवच्छेदः फलति। धर्मद्वयप्रयोजि तायां परस्परोपमायां तु न तथेति तद्वारणाय भूतान्तम्। ३ तन्वीकौसुद्योनांत्र परस्परं सादृश्यं शब्देन वर्णितमित्याशयः ।

Page 325

उपमेयोपमा ] रसगङ्गाघर: । २६३

अथेयमुदाहियते- 'कौमुदीव भवती विभाति मे कातराक्षि भवतीव कौमुदी। अम्बुजेन तुलितं विलोचनं लोचनेन च तवाम्वुजं समम्॥।' इयं च तावद्विविधा-उक्तध्मा व्यक्तवर्मा च। उक्तवर्मा तावद- नुगाम्यादिभि: प्रागुक्ततधर्मरनेकधा। अनुगामी धर्मो यथा- 'निखिले निगमकदम्बे लोकेष्वप्येष निविवादोऽर्थः । शिव इव गुरुर्गरीयान्गुरुरिव सोऽयं सदाशिवोऽपि तथा॥' विम्बग्रतिविन्त्रभावमापन्नो यथा-

'रमणीचस्तवकयुता विलसितवक्षोजयुगलशालिन्यः । लतिका इव ता वनिता वनिता इव रेजिरे लतिकाः ॥।' अत्र रमणीयत्व्रविलसितत्वाभ्यां विशेषणाभ्यां युतत्वशालित्वाभ्यां च विशेष्याभ्यां परस्परं वस्तुप्रतिवस्तुभावमापन्नाभ्यां पुटितः स्तबकस्तनरूप: परस्परं विम्बप्रतिविम्बभावापन्नो धर्मः । उपचरितो यथा- 'कुलिशमिव कठिनमसतां हृदयं जानीहि हृदयमिव कुलिशम्। प्रकृतिः सतां सुमधुरा सुधेव हि प्रकृतिरिव च सुधा ।।'

घट इव पटः, पट इव घटः, इत्यादेस्तु सामान्यप्राप्तालंकारलेनैव निरास इति भावः । तवाम्वुजं सममिति । अन्र तुलितं सममित्युपमावाचकवेलक्षण्यं वक्ष्यमाणक्किप्- क्यडादिवैलक्षण्यमिव दुष्टमिति चिन्त्यमिदम्। व्यक्तति। व्यज्जितेत्यर्थः। निगमेति। वेदसमूहे इत्यर्थः । तथा गरीयान्। विशेषणेति । स्वकव्रक्षोजयुगलेत्यादिः। एव- मग्रेऽपि। वस्त्विति। वस्तुतस्तयोरेकत्वादिति भावः। पुटितः संपुटितः । कुलिश- मिति। अन्र पृथिवीनिष्ठकठिनत्स्य मनति, सुधानिष्ठमाधुर्यस्य प्रकृतावुपचारः ।

Page 326

२६४ काव्यमाला। [द्वितीयानने-

केवलड़ाव्दात्मको यथा- 'अर्विरंतचिन्तो लोके वृक इव पिशुनोऽत्र पिशुन इव च वृकः। भारतमिव सच्चित्तं सच्चित्तमिवाथ भारतं सक्कृपेम् ।।' व्यक्तधमां यथा- वारिधिराकाश्समो वारिधिसदशस्तथाकाशः । सेतुरिव स्वर्गङ्गा स्वर्गङ्गेवान्तरा सेतुः ।l' अन्रापारत्वादिर्व्यज्यमानो धर्मः । एषा सर्वापि स्फुटे वाक्यभेदे प्रपश्चिता। आर्थे तु वाक्यभेदे- 'अभिरामतासदनमम्बुजानने नयनद्वयं जनमनोहरं तव। इयति प्रपञ्न्विषयेऽपि वैधसे तुलनामुदृञ्वति परस्परात्मना ।।' अत्र परस्परात्मना तुलनासुदञ्न्तीति संक्षिप्ताद्वाक्यादिदमेतेनैतच्चानेन तुलनामुदञ्न्तीति वाक्यद्वयं विचारकमुललसति। एवं पूर्णालप्तादयोऽप्यस्या उपमाया इव प्रायशः सर्वेपि भेदाः संभवन्ति। ते चामुयैव दिशा सुबु- द्धिभिरुन्नेतुं शक्या इति नेह निरूप्यन्ते। चित्रमीमांसाकृतस्तु प्राचीनं लक्षणमव्याप्यतिव्याप्यादिभिर्दूषयित्वा 'अन्योन्येनोपमा वोध्या व्यक्त्या वृत्त्यन्तरेण वा। एकधमाश्रया या स्यात्सोपमेयोपमा मता ॥'

अवीति। निरन्तरचिन्तत्वस्य पिशुनवृत्तिेऽपि वृकावृत्तिलात्सकृपत्वस्य साधुचित्त- वृत्तिलेऽपि भारतग्रन्थावृत्तिताच्छव्द एव समानोऽत्र धर्मः । न चोपचरितत्वं शाङ्यम्। एकनिष्ठस्यान्यत्रारोपे तत्त्वेऽपि प्रकृते तत्त्वेनाप्रसिद्धलात्। अन्तरा आकाशमध्ये, समु- द्रमध्ये च। आदिना दुर्घटतं सेतुखर्गङ्योः संगृह्यते। व्यक्तपदार्थ सूचयितुमाह- व्यज्येति। वाक्यभेद इति। उदाहियत इति शेषः। वैधसे विधातृनिर्मिते। उदश्वति अकाशयति। परस्वरात्मना परस्पररूपतया। इदं नयनम्। एतेन नयनेन। एवम- प्रेडपि। विचारकमिति । विवरणरूपमित्यर्थः । एवमनुगाम्यादिधर्मभेदवत्। अस्या उपमेयोपमायाः। असंभावितमेदवारणाय प्रायश इति। दिशा रीत्या। प्राचीनेति। *उपमानोपमेगतवं द्वयोः पर्यायतो यदि। उपमेयोपमा सा स्याद्द्विविवैषा प्रकीर्तिता ।।' इत्यर्थः । अव्याप्तीति । 'तद्दल्ुना युगपदुन्मिषितेन तावत्' इत्यत्राव्याप्तिः । 'रजोभिः १ अविषु मेषेषु) रता चिन्ता ननोव्यापारो यस्य ईदृशो वृकः, निरन्तरच्चिन्तः पिशुनः । २ सदयं सच्चित्तम्, कृपाचार्यसहितं च भारतम्।

Page 327

उपमेयोपमा ] रसगङ्गाघर: । २६५

इति स्वयं लक्षणमाह्ुः । अम्यार्थः संक्षेपेण सपदकृत्यसदुक्त्तरीत्या सह- दयानां सौकर्यायोच्यते-अन्योन्येनेति। अन्योन्यप्रतियोगिकत्वविशिष्टा व्यक्त्या व्यञ्जनाव्यापारेण वृत्त्यन्तरेण शक्ता वा बोध्या वेद्ा एकधर्मा- श्रया एकधर्मप्रयोज्या या उपमा सा उपमेयोपमा मतेत्यन्वयः। अन्योन्ये- नेति विशेषणादिदं तच्च सममिन्युभयविश्रान्तोपमाया निरासः। अत्रान्यो- न्यप्रतियोगिकत्वस्य व्यञ्जनव्यापारमात्रगम्यत्वेनोपमायाश्च शक्तिवेद्यतया परस्परनिरपेक्षेणैकेन व्यापारेणान्योन्यप्रतियोगिकत्वविशिष्टायास्तस्या अवो- धनान्, परस्परनेरपेक्ष्यस्यान्न वाकारेणाभिधानान् । एकधर्माश्रयेति विशेषणात् 'रजोभिर्भूरिव दयौर्घनसंनिभर्गजश्च दौरिव भूः' इति कस्वचि- त्पद्य स्यार्थे परस्परोपमायां नातिव्याप्तिः, तत्रोपमाप्रयोजकधर्मेक्याभावान् । भूतलोपमानिकायां प्रयोजकस्य रजसामनुगामिधर्मस्य, नभस्तलोपमानि- कायां प्रयोजकस्य घनसशगजानां विम्वप्रतिबिम्वभावापन्नधर्मस्य च भेदात्। व्यक्त्येति च विशेषणं व्यङ्गयोपमेयोपमासंग्रहार्थमितीदमुपमेयो- पमात्वप्रयोजकं लक्षणमिति, तन्न ।

स्यन्दनोद्धतैः' इत्यन्रानिव्याप्तिरिति भावः । तृतीयार्थः प्रतियोगितवमित्याशयेनाह- अन्योन्यप्रतीति। लक्षणाया असंभवादाह-शक्त्येति। इवादिसतत्वे इति भावः। विश्रान्तेति। उभयत्र पर्यवतिता न श्रौती तस्यामितर्थः । शकीति। समपदे- ल्यादिः। नतु मिथो निरपेक्षलं न निविष्टमत आह-परस्परेति । अन्यथा पक्षान्त- रकथनासंगतेरिति भावः । अर्थ इति। अर्थरूपायां तस्यामित्वर्थः । रजसामिति। प्रयोजकीभूतर जोभिन्नानुगामिध्मस्ेसर्थः समानविभक्तिकतवस्येव समानवचनलस्या- मेदान्वये न तन्त्रत्मिति भावः । एवमग्रेऽपि। घनगजयोर्भेदेन साधारणतं कथमत आह-विम्वेति। प्रयोजकमिति । अनुगतानतिप्रसक्तलक्षणमात्रं तु 'सदृशस्य तृतीयस्य व्यवच्छेदाय यद्रयोः । अन्योन्येनोपमेयलमुपमेयोपमा मता ॥' इति द्रष्टव्यम्। अन्नान्योन्येनेति विशेषणम् 'अहमेव गुरु: सुदारुणानाम्' इति प्रतीपविशेषव्यावृत्त्यथमिति १ अयं भाव :- 'इद तच् समम्' अत्र उपमा तु समम् इति शब्दवाच्यतया अभिधा- गम्या, अन्योन्यप्रतियोगिकत्वम् अर्थात् 'इदं तेन समम्, तच्च अनेन समम्' इति परस्परोप- मानभावस्तु व्यज्नया गम्यः । ततश्रास्यामुपमेयोपमायां शक्तिव्यापारस्य व्यज्जनाव्यापारस् चेत्युभयोरपेक्षणात। परस्परनिरपेक्षेण एकेन व्यापारेण (व्यत्त्या शत्तया वा) वोध्यत्वं नास्ति। द्वयोः परस्परनिरपेक्षत्वं तु वाशब्देन प्रोक्तमेव। २३ रस०

Page 328

२६६ काव्यमाला। [ द्वितीयांनने- 'अहं लतायाः सदशीत्यखर्व गौराङ्गि गर्व न कदापि यायाः। गवेपगेनालमिहापरेपामेषापि तुल्या तव तावदस्ति ॥' अत्नान्योन्यप्रतियोगिकत्वविशिष्टाया उपमायास्तनुत्वादिरूपैकधर्माश्र- चाया वृत्त्यन्तरेण शक्त्या बोधनादुपमेयोपमात्वापत्तेः । न चात्रान्योन्य- प्रतियोगिकत्वमुपमायां न प्रतीयते, लतादिसंबन्धिसादृश्याश्रयत्वस्यैवा- स्मत्पदार्थेऽन्वयादिति वाच्यम्। 'मुखस्य सदशश्रन्द्रश्चन्द्रस्य सदशं सुखम्' इत्युपमेयोपमायामव्याप्तेः। न ह्यहं लताया इत्यत्रोपमेयोपमा भवितुमर्हृति। गर्वमान्ननिरासपर त्वेनोत्तरार्धोपमायास्तृतीयसदशव्यवच्छेदाप्रतिपत्तेः । अत एव अन्यान्यपि तव सदशानि सन्त्येव तेषां गवेषणेन किं फलमित्ये- तदर्थकं गवेषणेनेत्युत्तरार्ध संगच्छते। तृतीयसत्रह्मचारिव्यवच्छेदो हयुपमे- योपमाजीवितमित्यालंकारिकसिद्धान्तः । अन्यथा 'भुवस्तलमिव व्योम कुर्वन््योमेव भूतलम्' इत्यत्राप्युपमेयोपमात्वनिवारणप्रयासवैयर्थ्यापत्तेः। भावः । अहमिति। लतानुयोगिकसादृश्याश्रयाहमित्यर्थः । अखर्व महान्तम् । एषा- पीति। तदनुयोगिकसादृश्यप्रतियोगिकेत्यर्थः । अत्रेत्यस्य इतीत्यादिः । तनुलेत्यस् अनुपात्तेत्यादिः । लतादीति । लताद्यनुयोगिकसादृश्यप्रतियोगिकत्वस्यैवेत्यर्थः । एवेन सादृश्यव्यवच्छेदः। सदशादिपदानां धमिबोधकलवात्। एवं च सादृश्यस्य तत्रान्वये इयम्, न तु तत्रेति भावः । मुखस्येति। अ्रापि सदशपदसत्त्वेन तत्तुल्ययोगक्षेमला- दिति भावः । नन्वेवं तथा दुर्वचमिति यथैतत्संग्रहस्तथाह-लताया इति। अस्यापि संग्रह इष्ट एवेत्यतिव्याप्तिर्नात आह-न ह्यहमिति। ननु तन्मात्रपरत् एव किं बीज- मत आह-अत पवेति। तत्परलेन तस्याः साफल्यादेवेत्यर्थः। उत्तरार्ध तदेकदेशः। अन्यथा तुर्यचरणेनैवेष्टाथलाभे मध्ये एतत्कथनानर्थक्यं स्पष्टमेवेति भावः । नन्वेवमपि तृतीयसदृशव्यवच्छेदप्रतीतावेवेयमितत्र किं विनिगमकमत आह-तृतीयेति। सब्रह्मति। सदृशेत्यर्थः । एवमग्रेऽपि बोध्यम्। 'सिद्धान्त' इति पाठः । 'सिद्धान्तात्' १ परस्परोपमानभावाया इत्यर्थः । २ अत्र तनुत्वादिर्धमोंडथवलादाक्षिप्यते। तमेकं धर्ममाश्रित्य सेयमित्यर्थः । ३ 'लताया: सदृशी, तव तुल्या' इति कथनात सादृश्याश्रयभूतस्य सद्टशस्य धर्मिण एवान्वयो न सादृश्यस्येति एकदेशिन: समाधानन्। ४ पूर्वो कप्रकारेण एकधर्माश्रयेतिविशेषणान्निवारणयलेSपि परस्परोपमायां पुनरप्युपमेयोपमात्वं प्रसज्येतैव। तृतीयसदृशव्यवच्छेदफलकत्वस्वीकारे तु नात्र प्रसक्तिः, तृतीयसदृशव्यवच्छेदे तात्पर्याभावाव।

Page 329

उपमेयोपमा ] रसगङ्गावर: ।

न च तृतीयसदशव्यवच्छेद्फलकत्वमुपमाविशेषणं वाच्यम्, विशेषगा- न्तरवैयर्थ्यापत्तेः । विशेषणव्यावर्त्यानामाधुनिकविशेयणेनैव वारणान्। अन्योन्यप्रतियोगिकत्वविशिष्ठा उपमा एकवृत्तिमात्रवेद्येत्यप्ययुक्तमेव। खमिव जलं जलमिव खम्' इत्यादी बजलयोः सादश्यान्वये प्रतियोगि- त्वैस्य संसर्गत्वेन वृत्त्यवियत्वान् । वृत्तिवेद्यानां पदार्थानां संसर्गो वृत्त्यवेद् इत्यभ्युपगमात्। अन्यथा प्रकारतापनः । यद्प्यलंकारसर्वस्वकृतोक्तम् 'द्वयोः पर्याचेग नम्मिन्नुपमेयोपमा । तच्छव्देनोपमानोपमेयत्वप्रत्यवमशः। पर्यायो यौगपद्याभावः। अत एवात्र वाक्यभेदः' इति, तन्न। अन्र द्वयोरिति व्यर्थम्। एकस्वोपमानोपमेयात्म- कत्वे 'गगनं गगनाकारम्' इत्यादौ वाक्यभेदाभावेन पर्यायाभावादेवाग्र- सक्तेः। यदि च स्फुटत्वार्थमुपमानोपमेयत्वयोग्यतासंपादकलिङ्गवचन- भेदराहित्यप्रतिपत्त्यर्थ कविसमयप्रसिद्धिस्फोरणार्थ वा द्वयोरिति ग्रहणं स्यान्, अथापि प्रागुदीरिते 'अहं लतायाः सदशीत्यसत्रर्वम्' इति पद्ये

'तद्वल्गुना युगपदुन्मिपितेन ताव- त्सद्यः परस्परतुलामधिरोहतां द्वे।

इत्यपपाठः । अन्यथा तस्य तजीवितलानङ्गीकारे। वाच्यमिति। 'अहं लतायाः' इत्यत्रातिव्याप्तिवारणायेदानीं वक्तव्यमित्यर्थः । विशेपणान्तरेति । अन्योन्येनेलयादी- त्यर्थः । नन्वेवं कथमुक्त्तदोषनिरासोऽत आह-विशेषणेति।विशेषणान्तरेत्यथः। तटु- कमन्यहूपयति-अन्योन्यति। प्रतियोगित्वस्येति। अनुयोगितविशिष्टेलादिः । ननु तस्य वृत्तिविषयत्वं कुतो नेलयाह-वृत्तीति। उक्तग्रन्थस्यकवृत्तिमात्रवेद्यले न तात्पर्य किं तु वृत्तिद्वयवेद्यलाभावे। यद्ा तजन्यप्रतीता यथाकर्थंचिद्धासमानलमेव तन्मात्र- वेद्यल्वम्। अस्ति च 'खमिव जलम्' इत्यादा। नास्ति च तत्रेति तन्निरास इल्याश- येनादोषाचिन्त्यमिदम्। द्वयोरिति। द्वयोः पर्यायेण तस्मिन्सतीत्यर्थः। अन्नेलस्यात इत्यादिः। ननु स्फुटार्थलेऽन्येषामपि निवेशः कुतो नात आह-उपमेति। तन्जेदेऽपि तद्योग्यतायाः सत्वादाह-कवीति । इष्टापत्त्या नातिव्याप्तिरत आह-तदिति। १ 'अन्योन्येनोपमा' इति कथनेन परस्परप्रतियोगिकत्वसुपमायाः प्रोक्तम्। 'खमित्र जलम्' अन्र खस्य इवपदार्थेनान्वये खप्रतियोगिकं जलानुयोगिकं सादृश्यमित्यर्थे खपदस्य- काशोर्थ: इवस्य सादृश्यमर्थः । प्रतियोगित्वं तुन कस्याप्यर्थः, स तु संसर्गविधया भासते। स्वयं संसर्गस्तु वृत्त्यवेद्यः, इत्युपमेयोपमा 'एकमान्रवृत्तिव्रेद्या' इति कथनमसंगतमेवेत्वाशयः।

Page 330

२६८ काव्यमाला। [ द्वितीयानने-

श्रक्षुस्तव प्रचलितभ्रमरं च पद्मम् ।।' इति कालिदासपद्ये प्रतिपाद्यायामुपमानोपमेययोयुगपदुपमेयोपमान- भावायानुपमेयोपमायां वाक्यभेदाभावादव्याप्रेश्च। न चात्रापाततः शब्दैक्येऽपि पर्यवसितो वाक्यभेदोऽस्तीति वाच्यम्। तथापि- 'सविता विधवति विधुरपि सवितरति दिनन्ति यामिन्यः । यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥' इति कस्यचित्कवेः पद्ये परस्परोपमायामतिव्यापेः। न चेयमुपमेयोपमेति शक्यते वक्तुम्, सुखसमये दुःखदोऽपि सुखयति, दुःखसमये च सुखदो- डपि दुःखयति इत्येतावन्मान्रस्यार्थस्य विवक्षितत्वात्तृतीय सदशव्यवच्छे- दाप्रतिपत्तेः । एवम्- 'रजोभि: स्यन्दनोद्धतैर्गजैश्र घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्।' परस्परोपमायामतिव्याप्तिः। सदृशान्तरव्यवच्छेदफलकत्वेन विशिष्यमाणे तु तस्मिन्नस्मदुक्त एव पर्यवसानम्। यच्च विमर्शिनीकारेणोक्तम् "स च वाक्यभेद: शाब्द आर्थश्च। तत्र शाब्दो यथा-'रजोभि: स्यन्दनोद्धतैः' इत्यादिः। अस्याश्चोपमानान्तर- तिरस्कार एव फलम्। अत एवोपमेयेनोपमेत्यन्वर्थाभिधत्वम्" इति, तत्तु- च्छम्। न हि 'रजोभि: स्यन्दनोद्धतैः' इत्यत्रोपमानान्तरतिरस्कारः प्रती- यते। द्वयोरुपमयोरेकधर्मकत्वाभावात्, आद्याया उपमाया अनुगामिधर्म-

आवायामिति। उपमेयोपमानात्मिकायामित्यर्थः। विधवतीत्यादीन्याचार क्विबन्तानि। यथासंख्यमन्वयः । न चेति । नहीत्यर्थः । तथा च लक्ष्यतान्नातिव्याप्तिरिति भावः । मात्रपदव्यवच्छेदं स्फुटतायाह-तृतीयेति। सदृशान्तरेति। तृतीयसदृशेत्यर्थः। विशीति । विशेषविषयीकृते वित्यर्थः । तस्मिन्नुपमानोपमेयत। अस्मदिति। तृतीयसदृशव्यवच्छेदेत्याद्युक्ते एवेत्यर्थः । विमर्शिनीति। अलंकार सर्वस्वव्याख्याकारेणे- त्यर्थः । स चेति। मूलीयलेन प्रागुक्त इत्यर्थः । अस्या उपमेयोपमायाः। उपमाना- न्तरेति। तृतीयसद्ृशेत्यर्थः । हि यतः । अनुगामीति। रजोरपेत्यर्थः। बिम्बेति।

Page 331

उपमेयोपमा ] रसगङ्गाघर: । २६९

यद्पि 'परस्परमुपमानोपमेयत्वमुपमेयोपमा' इति लक्षणं विवाय 'सविता विधवति-' इत्यादि प्रागुक्तपयं रन्नाकरेणोदाहारि, तच्च तदीयेनैव 'स चोपमानान्तरनिषेधार्थः' इति त्रन्थेन विरुद्धम्। न ह्यस्मिन्पद्ये उपमाना- न्तरनिपेधः प्रतीयत इति प्रागेवावेदनात्। प्रतीयत एवेति चेत्, पुनरपि पृच्छ हृद्यमेव स्वकीयम्। इत्यलं विवादेन। इयं चोपमेयोपमा यदि कस्याप्यर्थस्योत्कर्षाधायिका तदालंकारः । अन्यथा तु स्ववैचित्र्यमात्रपर्यवसितेति। एवमलंकारान्तरेऽपि ज्ञेयम्। अथ ध्वन्यमानेयमुदाहियते- 'गाम्भीर्येणातिमात्रेण महित्रा परमेण च। राघवस्य द्वितीयोऽव्धिरम्बुधेश्चापि राघवः ।।' द्वितीयशव्दस्य सादृश्यविशिष्टे शक्त्यभावाव्यक्तिरेव। यदि तु लक्षणा तदेदमुदाहरणम्- 'सुधासमुद्रं तव रम्यवाणी वाच क्षमाचन्द्र सुधासमुद्रः । माधुर्यमध्यापयितुं दधाते खर्वेतरामान्तरगर्वमुद्राम् ।।' अत्र वागादिकर्तृकस्य परस्पराध्यापनस्य बाधान्माघुर्यसंक्रान्तिविशेपस लक्षणया वुध्यमानस्य प्रयोजनं स्वप्रयोज्यान्योन्योपमानोपमेयभावः । अथ दोषा :- तत्र तावत्प्रागुक्ता यावन्त उपमाया दोपाः, अनुक्ताश्च विसतृतिभयात्,

घनगजेत्यर्थः । स च मिथ उपमानोपमेयभावश्च। हिः पूर्वहेतुतवपरामर्शकः । इतीति। अस्य बोध्यमिति शेषः । अतिमात्रेणातिशयितेन। व्यक्तिरेव व्यञ्ञनैव। इदं वक्ष्यमाणम्। सुधेति। राजानं प्रति कव्युक्तिः। हे क्षमाचन्द्र, तव रम्यवाणी सुधासमुद्र माधुर्यमध्यापयितुं संक्ामयितुं सुधासमुद्रश्च तव वाचं माधुर्यमध्यापयितुं च महतीं मान- सिकगर्वसूचकाकारव्यक्तिं धत्त इत्यर्थः । लक्षणयेत्यस्याध्यापयितुमिति पदेत्यादिः। एवं मुख्यार्थबाधतद्योगावुक्ला प्रयोजनवतीलमाह-प्रयोजनमिति। सं लक्षणा। तत्प्रती- विश्व वैयञ्जनिक्येवेति भावः । दोषा इति। अस्या इत्यादिः । उच्यन्त इति शेषः। तत्र वक्तव्यानां तेषां मध्ये प्रागुपमायामुक्ता यावन्तो दोषा इत्यन्वयः। न तत्परिगणनम-

Page 332

२७० काव्यमाला। [द्वितीयानने-

ते सर्वेऽप्युपमात्वाक्रान्तत्वादस्यामपि बोध्याः। अयं पुनरन्योऽपि दोप :- यदेकोपमवैलक्षण्यमपरस्यामुपमायाम्। यथा-'कमलमिव वदनमस्या वदनेन समं तथा कमलम्' अत्र श्रौत्यार्थीकृतं वैलक्षण्यम्। 'कमलति वदनं तस्याः कमलं वदनायते जगति' कविपूक्य ङ्कृतमत्र वैलक्षण्यम्। एवमत्रैव 'पझ वटनायते' इति निर्माणे 'वक्रायते' इति वा उपमानोपमेयवाचक- वैलक्षण्यम्। एवंप्रकारैरनेकैर्वैलक्षण्यं यदि सहृद्योद्वेजकं तदा दोषः।। इति रसगज्जाधरे उपमेयोपमाप्रकरणम्। अथानन्वयः द्वितीयसद्दशव्यवच्छेदफलकवर्णनविषयीभूतं यदेकोपमानोपमेयकं सादृश्यं तदनन्वयः ।। स च कस्याप्युपस्कारत्वेऽलंकारः । अन्यथा तु शुद्धः । 'लोहितपीतैः कुसुमैरावृतमाभाति भूभृतः शिखरम्। दावज्वलनज्वालैः कदाचिदाकीर्णमिव समये॥' अत्र लोहितपीतकुसुमावृतं भूभृतः शिखरं स्वेनैव कस्मिश्चित्समये दावज्वालाकीर्णनोपमीयते, इति तत्सादृश्यवारणाय भूतान्तम्। इदं वा प्रत्युदाहरणम्- 'नखकिरणपरम्पराभिरामं किमपि पदाम्बुरुहृद्वयं मुरारेः। अभिनवसुरदीर्घिकाप्रवाहप्रकरपरीतमिव स्फुटं चकासे ।।' अत्रापि नखकिरणपरम्पराभिरामं हरे: पदाम्बुजं स्वात्मनैव सुरदीर्धि- काप्रवाहप्रकरपरीतेनोपमीयते। संप्रति सुरदीर्धिकाप्रवाहेण भगवत्पादा- म्वुरुहस्य संबन्धाभावात्सुरनिन्नगोत्पत्तिकालावच्छिन्नस्य तस्योपमानताव -

त्याह-अनुक्ताश्चेति । ननूपमादोषा अत्र कथमत आह-उपमात्वेति। अत एवास्या एव मेद इति प्रतिज्ञावाक्ये उक्तम्। तदृत्त्यन्यदोषमाह-अयं पुनरिति। इति वेति। कमलमित्यादिः। निर्माणे इत्यस्यानुषङ्ः। उपसंहरति-एवमिति। यदीलनेन तदभावेऽदुष्टतमेवेति सूचितम् । इति रसगङ्काधरमर्मप्रकाश उपमेयोपमाप्रकरणम् ।। शुद्ध इति । खववैचित्र्यमात्रविश्रान्त इत्यर्थः । भूमृतः पर्वतस्य। कदाचित्समये तैराकीर्ण समिवेत्यर्थः। स्फुटलाय प्रत्युदाहरणान्तरमाह-इदं वेति। अत एवाह- अत्रापीति। खात्मनैव पदाम्बुजद्वयेनैव। संप्रति वर्णनकाले। तस्य प्रवाहस्य। अन्र

Page 333

अनन्वय: ] रसगङ्गाघर: । २७१

गमायाभिनवेति प्रवाह विशेषणम्। नह्यत्र सादश्यवर्णनस्य फलं द्वितीय- सन्रह चारिव्यवच्छेदः, तन्याप्रतिपनेः । 'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । सुधांशुविम्बनो मेरी लम्यमान इवोरग: ।।'

मिति। अत्रासत उपमानस्य कल्पनया सदुपमानं नाम्नीति द्वितीयसहश- व्यवच्छेदस्यास्ति प्रतीतिः । उदाहरगममृत(पीयूष)लहर्याख्ये नदीये गङ्गास्तवे- 'कृतश्षुद्राघौघानथ सपदि संतप्तमनसः समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवह्याः । अपि आ्यश्चित्तप्रसरणपथातीतचरिता- नरानूरीकर्तु त्वमिव जननि त्वं विजयसे ।।' यथा वा- 'इयति प्रपञ्चविषये तीर्थानि कियन्ति सन्ति पुण्यानि । परमार्थतो विचारे देवी गङ्गा तु गङ्गेव ।।' पूर्वपद्ये वाच्योऽनुगामी धर्मः । इह तु व्यङ्ग्य इति विशेषः । तुशब्दोडयं तीर्थान्तरेभ्यो वैलक्षण्यं प्रतिपाद्यंस्तत्प्रयोजकं भगवद्वासुदेवा-

प्रत्युदाहरणद्वये। द्वितीयसव्रह्मेति। द्वितीयसदृशेत्वर्थः । अनन्वय्यर्थनिबन्धनव- शाद्धि द्वितीयसदृशव्यवच्छेदः फलति। नहि धर्मान्तरावच्छिन्नत्वस्य धर्मान्तरावच्छिन्न- लेन साधर्म्यमनन्वयि। अन एवोपमेयनाव्छेदकोपमानतावच्छेदकयोर्भेद एव साधर्म्य- घटको न तु धर्मिणोः इत्युक्तं प्राकू। एवं चानन्वय्यर्थनिबन्धनप्रयोव्यद्वितीयस दशव्यवच्छे- दफलकसादृश्यवर्णनमनन्वयः । एकोपमानोपमेयकतवविशेषणं चात्रैवार्थे तात्पर्यग्राहकम्। अन्यथा धर्मिभेदादेव तत्र वारणेन तद्वैयर्थ्य स्पष्टमेवेति भावः ।तदाह-तस्येति । तव्यवच्छेदस्येत्यर्थः ।असत इति । तथा च धरमिमेदः स्पष्टोऽत्र। नास्तीति। अन्यथा तावत्पर्यन्तधावनं व्यर्थ स्यादिति भावः । अथ अल्पपापकरणानन्तरम्। सपदि तत्कालमेव। न तु कालान्तरे। प्राक्तनसुक्कतोद्रेकादिति भावः । अपीति। प्रायश्चित्त- पप्तिविषयत्वातिक्रान्ताचरणकानपीलर्थः । नरानिति पूर्वार्घेऽपि विशेष्यम्। निष्पा- पलेन स्वीकर्तुम्। जननि गङ्ने। उदाहरणान्तरदाने बीजमाह-पूर्वेति। विजयसे इवि वाच्यः सर्वोत्कर्षरूप इत्यर्थः । इह तु इति। स एवानुगामीति शेषः । पूर्ववदत्र स्पष्टवैलक्षण्याभावादाह-तुशब्दोऽयमिति । 'तुशब्दोऽन्र' इवि पाठान्तरम् ।

Page 334

२७२ काव्यमाला। [द्वितीयानने- त्मकत्वं धर्म श्रीगह्ञायां व्यनक्ति। उभयन्नापि श्रीगङ्गाविपयकरत्युपस्कार- कत्वादलंकारोऽचन्। चिम्त्र प्रतिविम्बभावापन्नो धर्मस्त्वत्र नास्ति। तस्मिंश्च सति किं चिद्धर्नावच्छिन्नेन स्वेन सादश्यस्य धर्मान्तरावच्छिन्ने स्वस्मिनन वये वाधकाभावात्सदशान्तरव्यवच्छेदाप्रतिपत्तेश्चानेन्वय एव न स्यात्। स च पूर्णो लुप्तश्चेति तावद्विविधः । पूर्णस्तूपमावत्षद्िधोऽपि संभवति। यथा- 'गङ्गा हद्या यथा गङ्गा, गङ्गा गङ्गेव पावनी। हरिणा सदृशो बन्घुर्हरितुल्यः परो हरि:॥ गुरुवह्गुरुराराध्यो गुरुवद्गौरवं गुरोः ।।' लप्रेष्वपि धर्मलुप्तः पञ्चविधोऽपि संभवति, प्रागुक्त साधेपद्ये धर्म- वाचकपद्मपहाय पढान्तरदाने। तथा वाचकलुप :- 'रामाचमाणः श्रीरामः सीता सीतामनोहरा। ममान्तःकरणे नित्यं विहरेतां जगहुरू।।' इत्यत्र क्यड्समासयोः । एवम्- रतीति। कविनिष्ठेत्यादिः । अत्र उभयत्र। बाधकाभावादिति। चो वाक्यालंकारे, हेतो वा। सदशान्तरव्यवच्छेदाप्रतिपत्तावन्वये बाधकाभावो हि हेतुः। स च अनन्वयश्च। षद्िधोऽपीति। श्रौतार्थयोस्तयोः प्रत्येकं वाक्यसमासतद्वितगामिलेनेति भावः । गङ्गेति।अत्राद्यपादे श्रौतो वाक्यगः पूर्णः। द्वितीयपादे समासगः श्रौतः पूर्णः । तृतीयपादे आर्थो वाक्यगः पूर्णः । तुर्यपादे समासग आर्थः पूर्णः । पञ्चमपादे 'तेन तुल्यं- इति वतेः सत्त्वादार्थ: स तद्धितगः पूर्णः। षष्ठपादे 'तत्र तस्येव' इति वतेः सत्त्वाच्छ्रौतस्तद्वितगः पूर्ण इति ध्येयम्। 'लुप्तेष्वपि' इंति पाठः । मेदेष्विति शेषः। निर्धारणे एकवचनासंगतेः। पञ्चविधोऽपीति। श्रौतो वाक्यगः, आर्थो, वाक्यगः, श्रौतः समासगः, आर्थः समासग:, आर्थस्तद्वितगश्चेत्येवमित्यर्थः । पूर्वं तेषामेवोदाहृतत्वादिति भावः । पदान्त- रेति। 'गङ्गा राजन्यथा गङ्गा गङ्गा गङ्गेव सर्वदा। हरिणा सदशो विष्णुर्विष्णुतुल्यः सदा हरि: ॥ गुरुवद्गुरुरास्तेऽस्मिन्मण्डले गुरुवद्गुरोः ॥l' इति न्यास इत्यर्थः । कर्मणमुल्गतमुदा- १ किश्चिद्धर्मावच्छिन्नेन स्वेन सह धर्मान्तरावच्छिन्नस्य स्वस्य सादृश्यवर्णने हि बिम्बप्रति- विम्बमावापन्नसाधारणधर्मकः 'अनन्वयः' उदाहृतो भवेत्। एवं सति सादृश्यस्यान्वयो जातं एवं । तथा च 'न अन्वयः सादृश्यस्य, इत्यनन्वयः' इति सदृशान्तरव्यवच्छेदरूपं स्वारस्यं न सिध्यति। इति न विम्बप्रतिबिम्वतासंभवः ।

Page 335

अनन्वय: ] रसगङ्गाघर: । २७३

'लङ्कापुरादतितरां कुपितः फणीव निर्गत्य जातु पृतनापतिभिः परीतः। कुद्धं रणे सपदि दाशरथ दशास्यः संरव्धदाशरथिदर्शमहो ददर्श ॥' एवं कर्तृणमुलादावप्यूह्यम्। 'अम्बरत्यम्बरं यद्वत्समुद्रोड़पि समुद्रति। विक्रमार्केमहीपाल तथा त्वं विक्रमार्कसि।' अत्र वाक्यार्थावयवेष्वनन्व्रयेघु धर्मवाचकयोर्लोपः। मुंखवाक्यार्थस्त्व- नन्वयफलेन निरुपमत्वरेन समानधर्मेण प्रयोजितो मालोपमैव । एपा च ज्ञानसौकर्यायात्रैव निरूपिता। एतावति प्रपश्वेऽस्मिन्सदेवासुरमानुषे। केनोपमीयतां तज्ज्ञै रामो रामपराक्रमः ॥' अन्र वाचकधर्मोपमानानां लोपः। अत्र चोपमानलुप्ताद्योऽन्ये भेदा असंभवादहृद्यत्वाच्च नोदाहताः । यन्तु-"'तेन तदेकदेशेनावसितभेदेन वोपमानतया कल्पितेन सादृश्य- मनन्वयः । उपमेयेनैवोपमानतया कल्पितेनोपमेयस्यामुखावभासमानसा- धर्म्यापादनमेकोऽनन्वयः । उपमेयैकदेशस्य तथैवोपमानताकल्पनमपरः । उपमेयस्यैव प्रतिबिम्बत्वादिना भेदेनावसितस्य तत्त्वकल्पनं तृतीयः । आद्यो यथा-'युद्धेऽर्जुनोऽर्जुन इव प्रथितग्रतापः' इत्यादि।

हरति-एवं लक्कति। ईदशो दशास्यो रणे कुद्धं सपदि दाशरथिं संरव्धदाशरथितुल्यं ददर्शेत्यर्थः । संरब्धदाशरथिरिव दृश्यते इति कमणि णसुल्। धमवराचकलुप्तमुदाहरति- अम्वरेति। अन्न सर्वत्राचारे कि्। अम्बरमाकाशम्। ननु कोऽसी वाक्यार्थो यद्वयवा- स्त्नयोऽनन्वया अत आह-मुख इति। मुख्य इत्यर्थः । 'मुख्य' इति पाठस्तूचितः। ननु मालोपमा नैवास्ति पूर्वमनुक्तत्वादत आह-एषा चेति। मालोपमा चेलर्थः। अत्रैव अनन्वयप्रकरण एव वाचकधर्मोपमानलप्तमुदाहरति-पतेति। तज्ज्ञै रामस्रूपज्ञैः । न्यूनतां निराचष्टे-अत्र चेति। संभवेऽप्याह-अहृद्यति। तेनेत्यस्यार्थमाह- उपेति। अमुखेति। अमुख्येत्यर्थः। तदेकदेशेनेत्यस्यार्थमाह-उपेति। तथैव उपमेय- वतू। अवसितभेदेनेत्यस्यार्थमाह-उपेति। प्रतिबिम्बोऽत लौकिकः। अवसितस्य निश्चि- १ वाक्यार्थस्य अवयवभूताः-अम्बरम् अम्बरति, समुद्रः समुद्रतत, विक्रमार्क त्वं विक्रमा- कसि, इति त्रयो विकीर्णा अनन्वयाः । 'यद्वत् समुद्रः ... ... तथा त्वं विक्रमार्कसि' इति प्रधा- नवाक्यार्थ: (यद्रत्तथापदप्रतिपादितः) तु निरुपमत्वरूपं साधारगधर्ममादाय मालोपमैव न अनन्वयः । (समुदितेन उपमाया एव प्रतीते: )।

Page 336

२७४ काव्यमाला। [द्वितीयानने-

द्वितीयो यथा 'एतावति प्रपञ्चे सुन्दरमहिलासहस्रभरितेऽपि। अनुहरति सुभग तस्या वामार्ध दक्षिणार्धस्य।' तृतीयो यथा- 'गन्धेन सिन्धुरधुरंधरवक्र मैत्री- मैरावणप्रभृतयोऽपि न शिक्षितास्ते। तत्त्वं कथं त्रिनयनाचलरत्नभित्ति- स्वीयप्रतिच्छविषु यूथपतित्वमेषि ॥' एषूपमानान्तरविरहस्त्रिष्वपि भेदेषु गम्यते। इत्यनन्वयस्त्रिविधः ।" इति रत्नाकरेणोक्तम्। तन्न। उपमानान्तरविरहप्रतीतिमात्रादेवानन्वयत्वे 'स्तनाभोगे पतन्भाति-' इत्यत्रोपदर्शितायाः कल्पितोपमाया अपि तथात्वा- पत्तेः । यदयर्थातिशयोक्तवतिप्रसक्तेश्र। तादश प्रतीतिफलकै कोपमानोप- मेयकसादृश्यस्य तत्त्वे पुनः कथं नाम वामार्धदक्षिणार्धयोर्भिन्नयोः सादृश्ये त्वेदत्वोपन्यासः। न च स तदेकदेशस्तत्प्रतिविम्बश्चत्येतद्न्यतमप्रतियोगि- कसादृश्यमनन्व्रयः इति क्वातिव्याप्तिर्वेति वाच्यम्। नास्त्यन्वयोऽस्येति

तस्य। तत्वेति। उपमानलेव्यर्थः । महिला स्त्री। दक्षिणार्धस्येति कर्मणः शेषत्वि- वक्षायां षष्ठी। अन्रोपमेयं समुदिता नायिका। गन्धेनेति। हे सिन्धुरधुरंधरवक्त गज- श्रेष्ठमुख गणपते, ऐरावणप्रभृतयोऽप्यैरावतादयोऽपि ते तया गन्घेन सुगन्धेन मैत्रीं न शिक्षिताः। यद्वा गन्वेन संबन्धेन लेशेन गर्वेण वा। अपिर्गन्धपदोत्तरं मैत्रीपदोत्तरं वा योज्यः । तत्तस्मात्कारणात्त्वं कैलासाचलरल्नखचितभित्त्याधारकवप्रतिब्निम्बेषु यूथ- पतित्ं दिग्गजलं कथमेषीत्यर्थः । उपमानान्तरविरह इति। तत्रादये स्फुट एव । द्वितीये तदवयवस्य तदवयवान्तरोपमया तस्यां निरुपमत्वं सिद्धति। अन्यथा तत्सदृश- पदार्थावयवेनैवेतदवयवस्योपमां दद्यात्। तृतीयेऽपि प्रतिबिम्बस्योपमानत्वकल्पनयान्य- स्योपमानस्याभावो गम्यते। तथात्वेति। अनन्वयलल्यर्थः। इष्टापत्तावाह-यद्यर्थति। ताहशेति । उपमानान्तरविरहेत्यर्थः । सादृश्यविशेषणमुभयत्र। तत्त्वे अनन्वयले। पुनःशब्दस्तुशब्दार्थे। भिन्नयोरिति। तथा च द्वितीयविशेषणाभाव इति भावः । वद्धेदत्वेति। अनन्वयविशेषलेत्यर्थः । सेति। उपमेयेत्यर्थः । इदानीमाद्यविशेषणं न १ 'यद्य्योक्तौ च कल्पनम्' इति काव्यप्रकाशोक्ततृतीयातिशयोत्त्युदाहरणे-'राकायां यदि चन्द्रस्य निष्कलङ्कं वपुः स्यात्तहि तस्या मुखं पराभूयेत' इत्यादौ पूर्णचन्द्रस्य निष्कल झता न संभवतीति निरुपमं तस्या सुखमित्यर्थः प्रतीयते, ततश्चात्राऽतिव्याप्तिरित्यर्थः ।

Page 337

अनन्वय: ] रसगङ्गाघरः । २७१ योगार्थविरहेण तदेकदेशसाश्यन्यानन्वयपदार्थत्वासंभवान्। अपि चा- नन्वये 'गगनं गगनाकारम्' इत्यादावुपमेयस्यवोपमानत्वेनोपन्यासादुपमे- यातिरित्तोपमानविरहप्रतीतिद्वारा निरुपमत्व्रमुपमेयगतं सिद्यति। अत्र च वामाधस्योपमेयस्य दक्षिणाधरूपोपमानकथनेन निरुपमत्वं विरुद्धमेव। कान्तागतनिरुपमत्वप्रत्ययस्तु नानन्व्रयस्व फलं भवितुमहृति, तस्या अनु- पमेयत्वात्। यदपि चालंकारसवंत्वकृता 'अनन्वयव्वनित्व्रमत्र भविष्यति। अन्यथाऽलंकारध्वनेविषयापहार: स्थान्' इत्युक्तम्, तद्पि तुच्छम्। अस्य हयुपमाननिषेधफलक्मभिन्नोपमानोपमेयकं सादश्यं स्वरूपनित्युक्तम् । अकृते च वामार्धदक्षिणाधयोसतद्वावितमित्युक्तमेव। कान्तायाः पुनरुप- माननिपेधस्य व्यङ्ञयत्वेऽपि अभिन्नोपमानोपमेयकसाहश्यस् स्वरूपस्या- प्रत्ययान्। नहि निरुपनत्वप्रतीतिपु सर्वस्वभिन्नोपमानोपमेयकसावश्यप्रत्ी- तिपूर्वकत्वनिति नियमोडस्ति। कल्पितोपमातिशयोक्तोरसमाळंकारध्वनौ च व्यभिचारात्। तन्मान्नास्त्येवात्रानन्वयगन्वोडपि । देयम्। तद्विरहस् नान्तरीयकलादिति भावः । विरहेणेति। अवाधितल्वादिति भावः। ननु रूडमेवानन्त्रयपदमत आह-अपि चेति। अन्र द्वेतीयनेदे च। निरुननतं एपूनमा- नान्तरेत्यादिना प्रतिपादितम्। ननु तेन अ्न्थेन कन्तावां नेरुपमतवं प्रतिपादितं न तत्रात आह-कान्तेति। अनन्वयध्वनित्वमिति। तद्ानाध दक्षिणाधनतुहरतीत्युच्चता सोऽनुहरतीति व्यक्ष्यमिति भावः । एवं चास्त हीलादिना किसुच्यते तदविचार्य सहृदयः। ईदशव्यञ्ञयव्यसने उपायाभव इत्पि कशचित्। अत्र द्वितीयलक्ष्ये। हि यतः । अत्यानन्वयस्येदं स्वरूपमित्युत्तमतस्तन्तुच्छमित्यर्थः। तदुपपाद्यति-प्रकृते चेति। तन् अभिन्नोपमानोपमेयकं साहश्यं तयोमेदान्। ननु कान्तागतनिरुपमलस्य व्यङ्ञयलेन तस्या एवोपमेयाया उपमानतकल्पनेन तादशसादृश्यप्रतीतिस्तयोस्तस्य वाधितलेऽप्य- स्थवात आह-कान्ताया इति। साइश्येऽप्यन्वयः । कल्पितोपमेति। सनाभोगे इत्यत्रेत्यर्थः । अतीति। यद्यपीतीत्यर्थः । उपसंहरति-तस्मादिति। सैव तदागमन- १ अभिन्नोपनानोपमेयकमुपमाननिषेधफलकं सादृश्यमनन्वय इत्युक्या अत्र कान्तागतः केवलमुपमाननिषेध: प्रतीयते, न तादृशं सादृश्यन्। नतश्र नात्राऽनन्वयः । ननु उपना- ननिषेवेनैव अभिन्नोपमानोपमेयकं सादृश्यमपि स्वतः प्रतीयेत इति शङ्कां हृदि निधाव स्वयं परिहरति-न हि निरुपमत्वप्रतीत्यादिना।

Page 338

२७६ काव्यमाला। [द्वितीयानने- यश्च "अयमनन्व्रयो व्यङ्गयोऽप्यस्ति। यथा- 'अद्य या मम गोविन्द जाता त्वयि गृहागते। कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ।।' अन्न गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवप्रीति- बेहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत् नान्येन, इत्युक्तिभङ्या त्वदागमनप्रभवग्रीतेः सैव सहशी न त्वितरप्रभवा इति व्यज्यते" इत्य- प्पयदीक्षितैरभिहितम्, तद्पि न। अमुष्यास्त्वदागमनप्रभवायाः प्रीते- वारान्तरत्वदागमनप्रभवा प्रीतिः सदशीति प्रत्ययस्य सर्वजनसिद्धतया श्रीकृष्णागमनजन्यप्रीतिसामान्यावयवयोर्द्वयोः श्रीतिव्यक्त्योः सादृश्यस्या- वाधितत्वाद्योगार्थाभावेनानन्वय एव नायं भवितुमहृति। 'स्वस्मिन्सादृश्य- स्यान्वयाभावादनन्वयः' इत्युपमाप्रकरणे स्वयमेवाभिधानात्। उपमेयस्य प्रीतिव्यक्तिविशेषस्य सदशान्तरव्यवच्छेदे बाधात्, तादृशप्रीतिसामान्यस्य चावयविनो निरुपमतया प्रतीयमानस्यानुपमेयत्वात्पूर्वोदाहरणतुल्यमेवैतत्। प्रभवैच। अमुष्या इति। यत इत्यादिः। व्यक्तयोदितमेदेनेति शेषः । योगार्थेति। अनन्वयपदयोगार्थेत्यर्थः । ननु रूढमेवानन्वयपदमभिमतमत आह-स्वस्मिन्निति। व्यवच्छेदे वाधादिति। तस्य व्यवच्छेदकरणेSसामर्थ्यादित्यर्थः । कालान्तरस्थप्रीति- व्यक्तिविशेषस्य सदृशस्य सत्त्वादिति भावः । तादृशेति। श्रीकृष्णागमनजन्येत्यर्थः । पूर्वोदाहरणेति । अनुहरतीत्युदाहरणेत्यर्थः । नन्ववयविनो निरुपमत्वप्रतीतिवन्मध्ये १ श्रीकृष्णागमनजन्यं प्रीतिसामान्यम् अवयवि। तस्याऽवयवभूते-अद्य कृष्णागमनजन्या प्रीतिः, वारान्तरे संभाव्यमानकृष्णागमनजन्या प्रीतिश्च। तत्र उपमेया या (अवयवभूता) अद्यतनी प्रीतिस्तस्याः सदृशान्तरव्यवच्छेदः (स्वसट्शस्य अन्यस्याऽभावः अर्थात् निरुपम- त्वम्) बाधितः (न भवितुमहृति) वारान्तरे संभाव्यमानया प्रीत्या सह सादृश्यस्य प्रतीत- लात्। यदि तु अवयविभूतस्य कृष्णागमनजन्यप्रीतिसामान्यस्य निरुपमत्वमादाय अनन्व- यत्वं साध्यते तर्हि तत् (प्रीतिसामान्यम्) उपमेयं न। उपमेयस्यैव सादृश्यानन्वयः (निरु- पमत्वम्) अनन्वयालंकारे विवक्षितः न तु यस्य कस्यचिदनुपमेय्त्यापि। अत एव रतना- करोपस्थापितवामार्धदक्षिणाधयोरुपमाविचारे पूर्व प्रोक्तम्-'कान्तागतनिरुपमत्वप्रतीतिस्तु नान- न्वयस्य फलं भवितुमहति, तस्या अनुपमेयत्वात्' इति। तथा च पूर्वोदाहरणे (एतावति प्रपश्चे०) यथा अनन्वयो निरस्तस्तथाSत्रापीत्याशयः ।

Page 339

अनन्वय: ] रसगङ्गाघर:। २७७

कचिदवयवयोरुपमाप्यवयविगतनिरुपमत्वत्यञ्जिकेति स्थिते सामान्यस श्रीकष्णागमनजन्यप्रीते: सैव सदशीति मध्ये स्वसादश्यप्रत्ययकल्पनं पुनर्न सहद्यहद्यमारोदुमीष्टे। रन्नाकरोक्तस्यैवानन्व्रय प्रकारस्यात्र व्यङ्ग्यतेत्यपि न युक्तम्, तस्य प्रागेव दूपितत्वात् प्रक्ृतेऽवाच्यत्वात्, स्वयमनन्वय- प्रकरणे तस्य प्रतिपाद्नविरहाच। इदं पुनरनन्वयध्वन्युदाहरणम्- *पृथ्ः खलु परपुष्टाः परितो दद्टान्र विटपिनः सर्वे। भदन न पेढ़े साधर्म्य ते रसाल मधुपेन ॥" अत्र भेदेनेत्युक्त्याडभेढे साहश्यमनन्व्रयात्मकं तु पेदे इति ध्वन्यते।

सादृश्य प्रतीतिरप्यस्तु अत आह-क्वचिदिति। पूर्वोदाहरण इत्वर्थः । सैव श्रीकृष्णा- गमनजन्यनीनिरेव। मव्ये वाच्यव्यक्क्यार्थयोर्मःये। ननूक्तरीलया न व्यक्षयलं किन्तु रन्ना- करोकरीलेति नोकदोपोडत आह-रत्नेति। तस्य प्रकारस्य प्रकृतेऽवाच्यलान्। अना- व्यवे हेतुः मागेव दूपनववादिति। ननु लया दृपितोऽपि न मया दृषितस्तत्राह- स्वयमिति । 'अन्यथानकारध्वनेर्विपयापहारः स्यात्' इति रन्नाकरोनि खडयितु- माह-इदं पुनरिति। परपुष्टाः कोकिलाः। हे आम्रवृक्ष, तव भुवि नेदेन सादृश्यं भ्रमरेण न पेदे। न गृहीतमिच्यर्थः । नगेभ्यः। पर्वरतेभ्यः। कपर्दो जटाजूटः । अत्र पूर्वार्षे

१ अनयोरवयवभूनयोः प्रीत्योरुपमया 'कृष्णागमनजन्यं प्रीतिसमान्यन् (अवयवि) निरु- पनम्' इति व्यज्यने। किन्तु निरुपमापि सा नीतिः उपनेया न। नस्या उनमेयत्वसाधनार्थ यद्ुच्येत यत् वाच्यायाः अवययोपमायाः व्यजयस्य निरुपमत्वस्य च नध्ये रदमपे प्रतीयतेsत्र चत् 'श्रीकृम्णागननजन्वपरीतितानान्यन्य नैव ग्रीतिः सदशी, नान्या।' नथा च अवयविभून- प्रीतिसामान्यस्य निरुपमस्य उपनेयतनपि संपन्ननिति स्वादनन्वय इति पूर्वपक्षिण उत्त: 'सह- दयहृदये नवंविधा प्रतीतिर्भवितुनहति' इति सिद्धान्ते निरासः । २ भवद्रीत्या अनन्वयस्य व्यज्ञपत्वं मास्तु परं रत्नाकरोक्तेपु त्रिपु प्रकारेपु 'तदेकदेशेन' इत्यादि- प्रकारस्य व्यङ्गयता स्यात्, इति यदि समावीयेत, तदपि न। स प्रकारः अनुहरतीत्युदा- पूर्व खण्डिन इति न पुनरिह स वाच्यः । ननु येपु प्रकारेपु भवनैकः खण्डि- वेडन्यः प्रकारो मनाभिमरेत इति शङ्कां परिहरति-स्वयमनन्वयेति। यद्यन्यः प्रकारोडभिप्रेनस्तहिं अनन्वयप्रकरणे तत्प्रतिपादनं कर्तव्यनासीत। किन्तु तस्याभाव एव। ३ भ्रान्तोऽत्र नागेशः । 'रत्नाकरोक्तस्यैव अनन्वयप्रकार स्यात्र व्यङ्गयता-' इति वदतो ग्रन्थ- कर्तु: अनन्वयस्य प्रकारः (भिद्वा) विवक्षितः, न तु व्यङ्गयताया रीतिः । यतो हि 'प्रागेव दूषितत्वात्' अस्य व्याख्यायां स्वयं नागेशेनैव व्याख्यायते-'तस्य प्रकारस्य दूपिनत्वात्' इति। किन्तु ग्रन्थकृता व्यङ्ञतायाः प्रकारो न दूषितः, अपि तु अनन्वयस्यैव-इत्यास्तां तावद्। २४ रस०

Page 340

२७८ काव्यमाला। [द्वितीयानने-

यथा वा- नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तुः सुरधुनि कपर्दोऽघिरुरुहे। कया वा श्रीभर्तुः पदकमलमक्षालि सलिलै- खुलालेशो यस्यां तव जननि दीयेत कविभिः ॥' अत्र कया वा त्वदितरया श्रीभर्तुः पदं सलिलैरक्षालि यस्यामितरस्यां कविभिस्तव तुलालेशोSपि दीयेतेत्यर्थेन त्वयि पुनः सलिलक्षालितश्रीरमण- चरणायां तव तुला दीयेतैवेत्यर्थोऽनन्वयात्मा श्रीगङ्गागतनिरुपमत्वपर्यव- सायी इतरपद्महित्रा व्यज्यते।।

अयं चानन्वये व्यङ्गयोऽपि तच्चमत्कारानुगुणतया रूपकदीपकादावुप- सेव न पृथगलंकारव्यपदेशं भजते। वाच्यतायां तु स्वातक्रयेण चमत्का- रितया पृथग्व्यपदेशभाकू। यथा- 'भूमीनाथ शहावदीन भवतस्तुल्यो गुणानां गणै- रेतन्द्रूतभवप्रपञ्चविषये नास्तीति किं ब्रूमहे। धाता नूतनकारणैर्यदि पुनः सृष्टिं नवां भावये- न्न स्यादेव तथापि तावकतुलालेशं दधानो नरः ॥'

तादशव्यञ्ञकाभावादाह-अत्र कया वेति। पूर्वोदाहरणे भेदेनेत्युक्त्या तादृशव्यङ्गयस्य स्फुटं प्रतीतिः । अत्र लस्फुटा। अत एवोदाहरणान्तरदानं व्वनयन्नाह-इतर- पद्महिन्नेति॥ इति रसगङ्गाधरमर्मप्रकाशेSनन्वयप्रकरणम् ॥ उपमानिषेध इति। साक्षात्परम्परया वेलादिः। तच्चमत्कारेति। तन्निषेध- कृतचमत्कारपरिपोषकतयेत्यर्थः । पृथगिति । पृथगलंकारेत्यर्थः । शहाबदीनेति राज्ञो नाम। एतन्दतेति। अनेन कारणान्तरस्याप्यादौ निर्माणेन तेनाग्रिमसृष्टिकरणयोग्यता सूचिता। अन्यथा तेषामेवासत्त्वादसंगति: स्पष्टैव। तदाह-नूतनेति। प्रसिद्धपश्चभू- तातिरिक्तखवनिर्मितकारणरित्यर्थः । अत एव सृष्टेरपि न तत्वम् । न स्यादेवेत्यर्थ इतीति १ अनन्वये व्यङ्यः 'असमः' पृथगलंकारव्यपदेश न भजते, वाच्यस्तु पृथक चम- स्कारितया भजत इत्याशयः । २ एतैर्वर्वमानः भूतैः पञ्चमहाभूतैर्जनिते प्रपञ्चविषये।

Page 341

असम: ] रसगङ्गाघर: । २७९

यथा वा- 'भुवनत्रितयेSपि मानवैः परिपूर्णे विव्रुैश्च दानवैः। न भविष्यति नासिति नाभवन्नृप यस्ते भजते तुलापदम् ।।' राजस्तुत्युत्कषकत्वादत्रासमालंकारः। आत्यन्तिकः क्वाचित्कश्च सदश- निपेधोऽसमोपमानलुप्नयोर्विषयः। सर्वथेवोपमाननिपेधेन सादश्यस्याप्रति-

यत्तु- "-'हुण्डुलन्तो मरीहसि कण्टककलिआइं केअइबगाईं। मालइकुसुमसरिच्छं भमर भमंतो न पावहिसि ॥' इति। नेयमुपमानलुप्नोपमा, तस्याः संभवदुपमानानुपादानविषयत्वात्। अपि त्वसमालंकार:" इति रक्नाकरेणोक्तम्, तद्सन्। मालतीकुसुमसदृशं भ्रमर भ्रमन्नपि न प्राप्स्यसीत्युक्तया वर्ततां नाम तत्सदृसं कापि, त्वया तु दुष्पाप-

हति नासमालंकारः। अन्यथा मालतीकुसुमसदृशं नास्तीत्येव त्रूयात्, न तु आप्स्यसीति। अथासमालंकारध्वननेनैव चमत्कारोपपत्तेरनन्वयस्य पृथग- लंकारता कथमिति चेत्, सत्यम्। दीपकादेरप्युपमाभिव्यक्तैव चमत्कारो-

शेषः । नृपेति संबोधनम् । पदं स्थानं चिह्नं वस्तु वा । आद्योर्भेदसंबन्धः । अन्त्ये- Sमेदः। कालत्रयासत्त्वमुक्तोदाहरणाद्विशेषः । ननूदाहरणद्वयेऽपि निषेधस्य प्राधान्यात्क- थमलंकारत्वमत आह -राजेति। अत्र उदाहरणद्वये। ननूपमानलुप्तयैव गतार्थोऽयमत आह-आत्यन्तिक इति। यथासंख्यमन्वयः। नन्वात्यन्तिकनिषेधेऽपि कुतो नोपमा नलुप्तात आह-सर्वथवेति। निषेधाभावादिति। संभवदुपमानत्वाच्ेत्यपि बोध्यम्। अन्यथा तस्येष्टत्वे। एवं वाच्यतायां निषेधस्यासमालंकारे सिद्धेऽनन्वये निषेधस्य व्यञ्ञयत्वे वासमालंकारस्य ध्वननाङ्गीकारे चमत्कारस्तत एवास्तु नानन्वयकृत इत्यनेनैव गतार्थः स इत्याशयेन शङ्कते-अथेति । प्रतिबन्धा समाधत्ते-सत्यमिति। अत एव पूर्वं दृष्टान्तोकिः । दीपकादेरित्यस्य पृथगलंकारत्मित्यत्रान्वयः । हि यतः । १ असमालंकारे स्वीकृते, अनन्वयस्थले ( त्वमिव जननि त्वं विजयसे इत्यादौ) 'तव सादृश्यं जगति नास्ति' इति निषेधस्य व्यङ्ञयतया तत्कृतेन व्यङ्येन असमालंकारेणैवास्तु व्यपदेशः, किमनन्वयालंकारस्वीकारेणेति शङ्का।

Page 342

२८० काव्यमाला। [द्वितीयानने-

पपत्तौ कर्थ नान पृथगलंकारत्वमिति तुल्यम्। न च दीपकादावुपमाया व्यङ्नयतवेडाने गुणीभावात्प्रकृते तु स्वसादश्यस्य स्वस्मिन्नतितमां तिरस्कारे- णासमालंकारस्यैव सुख्यतया ध्वननाद्वैपम्यमिति वोच्यम्। यथा हि दीपक- समासोकत्यादौ गुणीभूतव्यङ्ग्यसत्त्वेऽप्यलंकारत्वं न हीयते एवमनन्वये प्रधानव्यञ्ञयसत्त्वेपीति न किचिद्विरुद्वम्। अनन्वयशरीरस्य स्वसाद्दश्य- मात्रस्य वाच्यत्वेन वाच्यालंकारव्यपदेशोऽपि सुस्थ एव। दीपकाद्यलंकार- काव्ये गुणीभूतस्य व्यङ्गयस्य सत्त्वादस्तु नाम गुणीभूतव्यङ्गयत्वम्।ध्वनित्वं पुनर्न क्ाप्यलंकृतिकाव्ये दृष्टमिति चेत्, पर्यायोक्तसादृश्यमूलाप्रस्तुतप्रशंसा- दिकाव्ये ध्वनित्वस्य स्फुटत्वात्। प्राञ्नस्तु नेदमलंकारान्तरमित्यप्याहुः । अयं चासमालंकारो व्यज्यमानो यथा- 'मयि त्वदुपमाविधौ वसुमतीश वाचंयमे न वर्णयति मामयं कविरिति क्ुधं मा कृथाः । चराचरमिदं जगज्नयतो विधेर्मानसे पदं न हि दुधेतरां तव खलु द्वितीयो नरः ।।' सत्त्वेऽपीति । अलंकारतं न हीयते इत्यस्यानुषङ्गः। एवमलंकारत्व्यपदेशे साधिते वाच्यालंकारव्यपदेशं तस्य साधयति-अनन्वयेति। शङ्कते-दीपकाद्यलंकारेति। बहुव्रीहिः। अलंकृतीति। तद्युक्तकाव्य इत्यर्थः । तथा चैवमित्याद्युक्तिरयुक्तेति भावः । अप्रस्तुतप्रशंसाया अनेकविधतादाह-सादृश्येति। अलंकारान्तरमिति। अत्रो- पपत्तिव्यतिरेकालंकारप्रकरणे स्फुटीभविष्यति। त्वदिति। लदुपमावर्णनविषये। वाचं- १ दीपकादौ उपमाया व्यङ्कयत्वेपि दीपकादेः पृथग्व्यपदेशस्तत्कृत एव च काव्ये दीपका- दिव्यवहारस्तथात्रापीति प्रतिबन्धा समाधानम्। २ ननु दीपकादिस्थले उपमा गुणीभूता, ततश्च गुणीभूतां तामादाय न व्यपदेशः, अनन्व- यस्थले तु असमालंकारस्य मुख्यतया ध्वनित्वसत्वादसमालंकारव्यपदेश एवोचित इति शङ्का। ३ प्रधानीभूततया ध्वनिरूपस्य असमालंकाररूपव्यङ्गयस्य सत्त्वेपीत्यर्थः । ननु असमस्य मुख्यतया ध्वननात्तस्यैव प्राधान्येन असमालकारध्वनिव्यवहारोस्तु तत्र, न अनन्वयालंकारत्वमिति तु न शङ्क्म्। त्वमिव जननि त्वमित्यत्र गङ्गागतरतेरेव चरमव्यङ्ग्यतया ध्वन्यमानस्यापि असमस्य अलंकारत्वात्। अलंकारत्वस्य व्यङ्कयत्वस्य च न मिथो विरोध इति स्थाने स्थाने प्रोक्तमेव ग्रन्थकृता। ४ स्वेनैव स्वस्य सादृश्ये अभिधया प्रतिपादे वाच्योऽनन्वय इत्यर्थः । ५ ननु दीपकादौ उपमाया व्यङ्गयत्वेपि वाच्यार्थस्य प्राधान्याद् गुणीभूतव्यञ्ञत्वं यत्प्रसिद्धं तदुन्वितमेव। अनन्वये तु स्वस्य समानता न सवस्मिन् प्रतितिष्ठतीति तत्र असमालंकारस्य ध्वनित्वम् (प्रधानतया) कथमिवालंकारकाव्ये स्यादुचितमिति शङ्का। पर्यायोक्तादलंकारेषु ध्वनित्वं स्फुटं प्रसिद्धमिति समाधानम्।

Page 343

असम: ] रसगङ्गाघर:। २८१

अत्र य एतावन्तं समयं विधातुर्मानसं नाविरूढ: सोऽगरेऽपि माना- भावान्नारोहेन्, अतः सर्वधव नास्तीति गम्यते। एवं च व्यज्यमानोऽप्य समोऽन्र प्रधानीभूनराजस्तुत्युत्कर्पकवयालंकार एव। मुख्यतया ध्वन्यमानोडयं चथा- 'सदसद्विवेकरसिकेरालोक्य समसलोकमथ कविभिः । गणिता गगनलतादेर्गणनायां तन्वि तव सहझी।।' अयं कचिदुपमानन्य निपेधात्कचित्त साक्षादुपमाया एव । आद्यस्तूप- दर्शितः । द्वितीयो यथा- 'पूर्णमसुरे रसानलममरैः स्वर्गो वसुंधरा च नरैः । रघुवंशवीरनुचना तथापि खळ् जगति निरवकाशैव ।।' एवं पूर्णतया लननया चास्यापि यथासंभवं भेदा उन्नेयाः ॥

सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेशं निरूप्य तयोरवयवावयविभाव उच्यमान उदाहरणम्। अर्थान्तरन्यासवारणायोच्यमान इति। वचनं च इव-यथा-निदर्शन-

यमे मौनव्रतवति। पदं चरणम्। द्वितीयः सहायः। सदश इति यावत्। ननु निषेधस्य वाच्यलन कथं तस्य व्यङ्ञयलम्, किंच लिटा भूतनिषेधप्रतिपादनेनात्यन्तिकनिषेधाप्रतीत्या कथमयमत आह-अत्रेति। पद्ये इत्यर्थः। एवं च पदधारणनिषेधस्य शब्दलेऽयुपमा- ननिषेधस्य व्यक्ञयत्मेवेति भावः । प्राग्वदाह-एवमिति। अथ अनन्तरम्। हे तन्वि, तव तुल्या असत्पदार्थगणनायां गणिता। एवं च लत्तुल्या असतीति प्राधान्येन ध्वन्यते इति ध्वनिरयम्, नालंकारः। निरवेति। निष्प्रसरेत्यर्थः । निराधारेति यावत्। एवं उक्तभेदवत्। अस्याप्यसमालंकारस्यापरि। इति रसगज्ञाधरमर्मप्रकाशेऽसमालंकारप्रकरणम् ॥ । दुततरं वुद्ारूढलाय। तयोः सामान्यकदेशयोः। अवयवावयविभावसव-

१ गुणवद्दस्तुसंसर्गाद्याति स्वल्पोपि गौरवम्। दुष्पमालानुपङ्गेण सूत्रं शिरसि धार्यते ।। इति विशेषेण सामान्यसमर्थनरूपेऽर्थान्तरन्यासे गुणवद्दस्तुरूपस्य सामान्यस्य तदेकदेशस्य पुष्प- मालायाश्च अवयवावयविभावः (विशेषसामान्यात्मकः) यद्यप्यस्ति, परम् इव-यथादिवाचक- शब्दैरप्रतिपादतया न स उच्यमान: (वाच्यः)।

Page 344

२८२ काव्यमाला। [ द्वितीयानने-

दृष्टान्तादिशव्दैः काव्येपु स्फुटम्। न च इव-यथाशव्दयोः सादश्यवचन- चोरवयवावयविभावे विशेपसामान्यात्मके नास्ति वृत्तिरिति वाच्यम्। लक्षणायाः साम्राज्यात्। अन्यथा ह्युत्प्रेक्षाबोधकतापि दुर्घटा स्यात्। उदाहरणम्- 'अमितगुणोऽपि पदार्थो दोपेणैकेन निन्दितो भवति। निखिलरसायनराजो गन्घेनोग्रेण लशुन इव ॥' न चात्र पदार्थलशुनयोरुपमा शक्या वक्तुम्। तयोः सामान्यविशेषभा- वेन सादश्यस्यानुल्लासात् । तथात्वे तु इवादिशव्दानामिव सदशादिशब्दा- नामप्यलंकारेऽस्मिन्प्रयोग: स्यात्। यथा वा- 'अतिमात्रबलेषु चापलं विद्धान: कुमतिर्विनश्यति। त्रिपुरद्विषि वीरतां वहन्नवलिप्ः कुसुमायुधो यथा॥' अत्र त्रिपुरद्विद्गीरते अतिमात्रवलचापलयोर्विशेषौ। अवलेपकुसुमा- युधौ च कुमतिरित्यत्र गुणप्रधानयोः। यथा वां- 'उपकारमेव कुरुते विपद्गतः सद्गुणो नितराम्। मुर्च्छा गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥'

रूपमाह-विशेषेति। अन्यथा लक्षणानङ्गीकारे। अनुल्लासादिति। मिथो भेदाभा- वेन स्फुटमप्रतीतेरित्यर्थः। तथाले तु सादृश्योल्वासे तु। अस्योपपत्तिरग्रेऽत्रैव स्फुटीभवि- ष्यति। इवयुतोदाहरणमुक्ता यथाघटितमुदाहरणमाह-यथा वेति। गुणेति। कुत्सित- मतितद्विशेष्ययोरित्यर्थः । विशेषावित्यस्यानुषङ्गः। निदर्शनपदघटितमाह-यथा वेति। सदुणो विपद्गतोऽपीत्यर्थः। दृष्टान्तपदघटितस्यापीदमेवोदाहरणमिति ध्वनयितुं निदर्शनप- १ इवादीनाम् अवयवावयविभावे वृत्तिर्वर्तमानता अर्थाद्वोधकता, (शक्तिवां) नास्तीति शङ्का। इवादिभिर्लक्षणया सोडर्थों बोध्यत इति समाधानम्। २ सामान्याद्विशेषस्य भेदाSभावेन मेदसापेक्षं सादृश्यं मिथः कथमुल्लसेदित्याशयः ।

शेषौ (तदेकदेशौ)। ३ अर्थात् अतिमात्रबल-चापले सामान्ये (अवयविभूते) । त्रिपुरद्विट्-वीरते च तद्वि-

४ कुमतिरित्यत्र कुमतिविशिष्टः पुरुष इति बोधेन कुत्सिता मतिः गुण( विशेषण)भूना, {तद्विशिष्टः) पुरुषश्च प्रधानम् (विशेष्यभूतः), ततश्च विशेषणविशेष्यभूतयोः कुत्सितमति-तदि- शेष्यपुरुषयो: सामान्यभूतयोः अवलेप-कुसुमायुधौ विशेष (एकदेश) भूतौ इत्याशयः ।

Page 345

उदाहरणम् ] रसगङ्गाधर: । २८३

दृष्टन्तो वा। इवाविशव्दप्रयोगे सामान्यार्थप्राधान्यं वाक्येक्यन, निदर्शनादिशव्दप्रयोगे तु विशेषप्रारधान्यं वाक्यमेदश्च्ेति विशेषः। तत्र तावत् 'अनिनगुगः-' इति पद्ये क्रियापधाननाख्यानमिति नयेऽसितगुण-

कोग्रगन्धहेतुकनिन्दाविपरयी भर्वनावयतकमिति घीः। प्रथमान्नविशेध्यक- बोधवादिनां तूयगन्ध हेतुकनिन्दाविपयी भवनाश्रयताहड्रलशुनावयवकस्ता- हशपदार्थ एकदोपहेतुकनिन्दाविपयी भवनाश्रय इति। तन्रापि विशेपवाक्यार्थे क्रियान्वयो मृग्यते हेत्वन्तरान्तयार्थम्। अन्यथा ताहशलशुनावयवके ताहशपदार्थ एव क्रियान्वये नोपपत्तिः स्यान्। एवं चथाशव्दम्धलेऽपि।

दस्याने पाठान्तरनाह-दष्टान्तो वेति । वाशब्द गवाये। इवलस् तत्रेतादिः । सामान्यार्थप्राधान्यमिति। नम्यापि प्राधान्यमित्यर्थः । तमेव विशेषं प्रदशयति- तत्रेत्यादिना। तत्र तेयं नध्ये। तादृशति। निखिलरसायनराजेलर्थः। तादृशेति। अमितगुणेत्र्थः । एवनग्रेऽपि वीरितयस्यानुपन्नः । ननु निन्दितो भवतीत्ादेरेकत्रैवोष- दानात्कथमुभयत्र बोधोऽन आह-तत्रापीति। हेत्वन्तरान्वयेति। उम्रगन्ध,दि रूपहेतन्तरेत्यर्थः । अन्यथा तदनन्वये। नोपपत्तिरिति । उपपत्तिन स्वादित्र्थः । १ उग्रेण गन्वेन लशुन इव एकेन दोषण अमितगुणोपि पदार्थो निन्दितो भवतीत्यत्र अमि- तगुणपदार्थस्य सामान्यस्य प्राधान्यं वाक्यक्यं च स्ष्टन्। २ सद्गुणशाली उपकारमेव कुरुते। मृतः पारदोऽत निदशनन्, अत्र विशेषस्व पारदस्य प्राधान्यं वाक्यभेदश्चेति स्फुटन्। इवादौ वाक्यैक्चम्, निदशनादिशव्पयोन वाक्यमेद इत्यादिकं शाब्दबोधे स्पष्टीकृतं ग्रन्थकृता। ३ लशुनकर्तकम् उग्रगन्धहेनुकं निन्दाविषयीभवनन् अवयवो वत्व, अर्थात् अमिनयुगपशार्थस् ( सामान्यस्य, अवयविभूतस्य) एकदोपहेतुके निन्दाविषयीनावे रसायनराजलशुनस्व (सानान्यैक- देशभूतस्य, विशेषस्य) उग्रगन्धेन हेतुना निन्दाविपयीभावः अवयवः; एकदेशभून इत्याशयः । ४ अयं भाव :- एकदोच्चारिताया निद्दितो भवतीति क्रियाया अन्वयो यद्यप्येकदैव माप्स्त- धापि विशेषवाक्यार्थे (लशुनवाक्यारथे) उग्रगन्धेति हेतोरन्वयार्थ द्विवारमावर्त्यते । वद्येकवारमेव क्रियान्वयः स्यात्तह-'रसायनराजलश्चुनावयवक अर्थात् अमितगुणपदार्थसामान्यस्व एकदेश- भूतो लशुनो यत्र) अमितगुणपदार्थकर्तृकम् एकदोषहेतुकं निन्दाविषयीभवनन्' इत्येकदा क्रियान्वये सति, एकदेश(अवयव)घटितवाक्ये क्रियाऽनन्वयात् पूर्णवाक्यार्थस्वोपपत्तिन स्यादित्याशयः । ५ पाठान्तरं त्रुवतोपि नागेशस्य सेयं व्याख्या भ्रमाख्या। 'निदर्शनं पारदोऽत्र रसः' इति पाठस्य स्थाने 'दष्न्तः पारदोऽत्र रसः' इति पाठान्तरं स्वीकृत्यापि 'वाशब्द एवारयें' इत्यस्य कोडर्थ:१

Page 346

२८४ काव्यमाला। [ द्वतायानन-

उपकारनेवेत्यन्न तु विपद्ताभिन्नः सह्ुण उपकारानुकूलकृतिमानिति पूर्व- वाक्यार्थः, अतातत्मिन्नर्थे मूच्छा गतो मृतो वा पारदो निदर्शनमेकदेश इत्युत्तरवाक्यार्थे गुण इति केषांचित्। इतरेषों तु तादशकर्तृका ताहशक्रियेति पूर्ववाक्यार्थे तादशः पारद एकदेश इति। प्रधानावयवस्येव गुणावयवस्यापि विशिष्टार्थावयवत्वात्, घटमानयेत्यत्र नीलघटवत्। अर्थिभिश्छिद्यमानोऽपि स मुनिर्न व्यकम्पत। विनाशेऽप्युन्नतः स्थैर्य न जहाति द्रुमो यथा॥' अत्र दधीच्यालम्वनायां तदीयलोकोत्तरचरितस्मरणोद्दीपितायामेतत्पद्य प्रयोगानुभावितायामेतत्पद्यनिर्मातृगतायां रतौ प्रधानीभूतायामर्थ्यालम्बन- स्तत्कृतयाच्चाश्रवणोद्दीपितो गात्रच्छेदाभ्यनुज्ञानानुभावितो धृत्या संचारि- भावेन पोषितो मुनिगत उत्साहो गुणः। तत्र चाध्यर्धतृतीयचरणगत-

पद्यस्थात्रेत्यस्यार्थमाह-अस्मिन्निति। केषांचिन्नैयायिकानाम्। इंतरेषां च वैयाकर- णानामू। तादृशति । विपद्गताभिन्नसह्ुणकर्तृकोपकारक्रियेत्यर्थः । पद्यस्थात्रेत्यस्यार्थ- माह-पूर्ववाक्यार्थ इति। मूर्च्छां गतादिरूप: पारदः पूर्ववाक्यार्थस्यावयव इत्यर्थः । ननु क्रियारूपस्य पूर्ववाक्यार्थस्य कथं द्रव्यरूपः पारदोऽवयव इत्यत आह-प्रधानेति। घटमानयेति। कर्मणः सर्वमते गुणलादित्यर्थः। नीलघटवदिति चिन्त्यमिति कश्चित्। अत्रोदाहरण एकवाक्यतासत्त्वेऽपि वाक्यैकवाक्यता पूर्वस्माद्विशेषः । पूर्वत्र तु पदैकवा- क्यतैवेति बोध्यम्। स दधीचिः। नन्वेवं कथमलंकारतमत आह-तत्र चेति। रतावित्यर्थः । उत्कर्षकतयेत्यत्रास्यान्वयः । अध्यधति। अर्धाधिकस्तृतीयचरणो यसिमिं- १ गुणः गुणीभूतः । अर्थात् विशेष( एकदेश) प्रतिपादक उत्तरवाक्यार्थः प्रधानम्, सामान्य( अवयवि) प्रतिपादकः पूर्ववाक्यार्थश्च तत्र गुणीभूतः। उक्त पूर्व ग्न्थकृता-'निद- शनादिशब्दप्रयोगे तु विशेषप्राधान्यं वाक्यमेदश्च' इति। २ अर्थात् क्रियाविशेष्यकवोधवादिनां वैयाकरणानां मते तु-ताटृशकर्तका ताहृशक्रियेति पूर्ववाक्यार्थें अर्थात् विपद्गताभिन्नसद्गुणकर्तृकोपकारक्रियायां तादृटशः अर्थात् मूच्छां गतो भृतो वा पारदः निदर्शनम् (एकदेशः)-इत्याकारकः शाब्दबोधः। ३ ननु उत्तरस्य विशेषवाक्यार्थस्यैकदेशः पारदः पूर्ववाक्यार्थस्य (क्रियाविशेष्यकबोधवादिनाम्) कथमेकदेश इति शङ्का। घटमानयेति वाक्यस्य यथा घटोऽवयवः, एवं प्रधाने घटे समवेततया गुणीभूतो नीलगुणोप्यवयवः। एवमेव पूर्ववाक्यार्थस्य यथा उत्तरवाक्यार्थोSवयवस्तथा तद्वाक्यावयवः पारदोप्येकदेश इति समाधानम्। ४ गुणीभूतः ।

Page 347

उदाहरणम् ] रसगङ्गाघर: । २८५

स्यार्थान्तरन्यासस्योत्कर्षकतया स्थिनस्य विवेचनद्वारालंकरणं चतुर्थचरण- शकलगतमुर्दाहरणम्। एतमेव- 'अनन्तरत्नप्रभवस्य यस्थ हिमं न सौभाग्यविलोपि जातम्। एको हि दोपो गुणसंनिपाते निमजतीन्दोः किरणेष्विवाङ्कः ।।' इति कालिदासपदयेऽपि बोध्यम्। अस्मिंश्चालंकारेऽवयवावयविभाववो- धकस्येवशव्दादेः प्रयोगः, सामान्यविशेषयोरेकरूपविवेयान्वयञ्चार्थान्तर- न्यासभेदाद्वैलक्षण्याधायक इति तत्प्रकरणे निपुणतरसुपपाढयिध्यामः । प्राञ्चस्तु "नायमलंकारोऽतिरिक्तः । उपमयैव गतार्थत्वरान्। न च सामान्यविशेषयोः साहश्यानुल्लासात्कथमुपमेति वाच्यम्। 'निर्विशेषं न सामान्यं-'इति सामान्यस्य यत्किंचिद्विशेषं विना प्रकृतत्वायोगाचादयवि-

इस्वेलर्थः। अत एव वक्ष्यति-शकलेति। विवेचनेति। वुद्धारोहणेचर्थः ! वस्य । कुमारसंभवस्थं पद्यम्। नन्वेवं सांकर्येण तद्विशेषत्वसैवात्र संभवेन कथ- मलंकारान्तरत्वमत आह-अस्मिश्चेति। मेदाद्विशेषान् । तत्प्रकेति। अर्थान्तर- न्यासप्रकरण इत्यर्थः । अयमुदाहरणरूपः । नन्वेवमप्यत्रेवादीनां सामान्यविशेषभावा १ 'छिद्यमानोपि स मुनिन व्यकम्पन' इति विशेषस्य, 'उदारपुरुषो विनाशेपि स्यैर्य न जहाति' इति सामान्येन समर्थनादर्थान्तरन्यासोडवं दवीच्यालन्यनाया रतेरुत्कर्षकः (अलंकार:)। अर्थान्तरन्यासेन समर्थनीयमर्थ रपष्ट बुद्धयारूडं कुर्वत, वाचकेन यथाशब्देन चतुर्थचरणस्य खण्डे स्फुटीनवन् 'द्ुनो यथा' इन्युदहरणं विनश्यदवस्थापन्नत्वेऽपि स्थिरी- भूतस्य उन्नतस्य (सामान्यस्य, अवयविनः) दुनः एकदेश इति] च अर्थान्तरन्यासस्यालंक- रणमित्याशयः । [एवंविधस्थले उदाहरणेनैव गतार्थत्वे कुवल्यानन्दस्वीकृतो नत्रीनो विकस्वरालंकारोऽनुचित इत्यर्थान्तरन्यासे प्रकटीकरिध्यमाणमाकृतं सूचितम् ] २ नतु अर्थान्तरन्यासविशेप (मेद)- एव उदाहरणालंकार इति शङ्कायां द्वयोर्वैलक्षण्यनाह- उदाहरणे सामान्य-विशेषयोः एकरूपे विधेये (क्रियायाम्) अन्वयः । अर्थात् विशेषनिरूपण- पक्षेऽपि पूर्वप्रतिपादितसामान्यार्थगतैव किया विधेया भवति। यथा 'उपकारमेव कुरुते विप- द्गतः सद्गुणो नितराम् । मूच्छा गतो मृतो वा निदर्शनं पारदोऽतर रसः ॥' इत्युदाहरणे विशेषस्य पारदस्य पक्षेपि 'उपकारमेव कुरुते' इति सामान्यगतक्रियैव विधेया। 'उपकारमेव कुरुते विपद्गतः सद्गुणो नितराम्। मूच्छां गतो मृतो वा रोगानपह्रति पारदः सकलान् ॥' इत्यर्थान्तरन्यासे तु पृथगुपात्त-विशेषरूपेण 'अपहरति'क्रियान्वयो भवतीत्यर्थान्तरन्यासप्रकरणे प्रतिपादितम्।

Page 348

२८६ काव्यमाला। [द्वितीयानने-

शेषमादाय विशेपान्तरस्य साहश्योल्लासे वाधकाभावादिवादिभिरामुखे प्रतीयमानस्यापि सामान्यविशेषभावस्य परिणामे सादृश्य एव विश्रान्तेः।" इतस्याङुः ॥ इति रसगङ्गाधर उदाहरणप्रकरणम्। सादृश्यज्ञानोद्दुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालंकार: । यथा- 'दोदण्डद्वयकुण्डली कृतलसत्कोदण्डचण्डध्वनि- ध्वस्तोइण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम्।

भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशेः स्मरेत् ।' यथा वा- 'भुजभ्रमितप ट्टिशोद्दलितदप्तदन्तावलं भवन्तमरिमण्डलक्रथन पश्यतः संगरे। अमन्दकुलिशाहतिस्फुट विभिन्नविन्ध्याचलो न कस्य हृदयं झगित्यधिरुरोह देवेश्वरः ॥' अनयोः पद्ययोः प्रधानीभूताया राजविषयककविनिष्ठरतेरुत्कर्षकतया

त्मकावयवावयविभावबोधकलेन कथं तटुल्लासोऽत आह-इवेति। आमुखे आदौ ।। इति रसगङ्गाधरमर्मप्रकाश उदाहरणप्रकरणम् । लवां प्रकृतं राजानम्। मध्येरणमिति । रणमध्ये इत्यर्थः । वल्गन्मनोहरम्। प्राण्डवमजुनम्। दन्तावलो हस्ती। अरिमण्डलक्रथनेति संबोधनम्। अमन्देति। तीक्ष्णेत्यर्थः । 'कराल' इति द्विः पाठः । झगिति झटिति। देवेश्वर इन्द्रः । रतेभावस्य। १ निर्विशेषं न सामान्यमित्यादे: प्राचां समाधानस्यायं निर्गलितार्थः-यथा अमितगुणोपि पदार्थ इत्युदाहरणे लशुनस्य (विशेषस्य) प्रस्तावे अमितगुणपदार्थसामान्यस्य अप्रकृतस्य कीर्वनं न युज्यते इति तदन्तर्गतेन ( यतो हि सामान्यगभेपि कश्चिद्विशेषो भवत्येव) यत्किञ्चि- द्विशेषपदार्थेन सह विशेषान्तरस्य (लशुनस्य) सादृश्योल्ासे उपमा निर्वाधेति प्राचामाशयः । नन्वेतादृशस्थले इवादिना सामान्यविशेषभावः(अवयवावयविभावः) वोध्यते, ततः कथं सादृश्यमुल्लसेदिति चेत्। आदौ प्रतीयमानस्यापि सामान्यविशेषभावस्य अन्ते सादृश्ये एव पर्यवसानं भवतीति उपमायां बाघाऽभावात्। २ ध्वनिना व्वस्तं विपक्षमण्डलं येन तम्। ३ काण्डवलयस्य वाणसमूहस्य ज्वालावलीनां ताण्डवेन भ्रश्यत (नश्यत्) यत् खाण्डवं तन्नामकं वनं तत्र रुष्टं पाण्डवम्। ४ 'क्षितीश !' 'इति संबोधनपाठे तु-हे क्षितीश त्वां वीक्ष्य पाण्डवं को वा जनो न स्रेदित्यर्थः।

Page 349

स्मरणम् ] रसगङ्गाघर: । २८७

स्मरणमलंकारः । आद्ये वाच्यम, द्वितीये तु लक्ष्यमिति विशेषः वीररसोडपि चात्र प्रधानोत्कर्पकनयालंकार एव।

मालोक्य संगरगतं कुमवीरसेन्यम्। सस्मार तल्पम गवकायकान्त निद्रां च योगकलितां भगवान्मुकुन्दः ॥ अत्र तल्पनिद्रयोः स्मरणं यद्यपि न तल्पनिद्रामादश्यदर्शनोह्ुद्वसंस्कार- प्रयोज्यम्, तथापि सैन्यगतपयोधिसाहश्यद्शनोहवुद्वपयोविविषयकसंसका-

प्रयोज्यम्। नहि सादश्ये स्मर्यमाणसंवन्धित्वं वितक्षितम्। एवं वाच्चयो- स्तल्पनिद्रान्मरणयोः, एतत्कारणतया आक्षिपस्य पयोधिस्मरणस्य चाविशे- पेण संग्रहाय लक्षणे जन्यत्वमपहाय प्रयोज्यत्वसुपात्तम्। केचिनु सवण- ज्ञानोदुद्वसंस्कारजन्यं सहशविनयकमेव स्मरणमळंकारः। भुजगेन्द्रनिद्रा- दिस्मृतिस्तु नालंकार इत्याहुः ।

लक्ष्यद्यदाने वीजमाह-आद्ये इति। स्मरणमित्यस्यानुपन्गः। लक्ष्यमिति। अभिगे- हतेर्लक्ष्यमित्यर्थः। नन्त्रेवमपि वीररमस्यानयोः प्राधान्येन राजनिष्ठम्य सत्वात् ध्वनिलमे- वात आह-वीरेति। प्रधानोत्कर्पेति। कविनिष्ठरत्युन्कर्पेत्षर्थः। अलमिति। रन- वदलंकार इत्यर्थः । विवक्षितं लक्षणे इति शेषः । एवमिति। वधन्धे दृष्टान्नः । एत- दिति। तल्पनिद्रात्मरणकारणतयेत्यर्थः । संग्रहाय एनहश्यलय। केचित्विति। अत्र मते जन्यत्निवेश: सादृश्ये स्मर्यमागसंवन्धिनिवेशश्चेति पूर्वतो मेदः । भुजगेन्द्रेति। एकसंबन्धीति न्यायेन तल्पादित्मरणस्य पयोधित्मरणजन्यत्वेऽपि तादृशसंस्काराजन्यन्ना- दसदृशविषयकत्वाच्च पयोधिस्मरणं तु तथेति भवति स इति भावः। अन्नारुचियीजं तु १ सादृश्यदर्शनेन उह्डुद्ो यः पयोधिविपयकः संस्कारस्तज्जन्यस्य पयोधिस्मरणसाभीन- तवात्। अर्थात् तल्पनिद्रयोः स्रणं केनचित्पदार्थन सह तयोः सादृश्यदर्शनात् यद्नि न जातँ तथापि तयो: स्मरणे यत्किश्चित्सादृश्यदर्शनं नून्भूतनवश्यमस्ति। अपारेण सैन्येन सह पयोधे: सादृश्यात् पयोधेः संस्कार उद्बुद्धः तेन च पयोधिस्मरणं जातम्, नत्लरणाधीनं च नल्न- निद्रयोः स्नरणमिति एयो: स्रण (पयोधेः) सादश्यज्ञानोह्वुद्धसंस्कारप्रयोज्यं जातन्। २ अर्थात् यद् वस्तु सर्यमाणं तत्संबन्धिसादृश्यश्ञानोहवुद्धेत्याद्यर्थो न विवक्षितः । ३ सादृश्यज्ञानोद्ुद्धसंस्काराज्जन्यावं पयोधिस्मरणस्यैव, प्रयोज्यत्वं तु पयोधिस्मरणावीन-

Page 350

२८८ काव्यमाला। [ द्वितीयानने-

'इन एव निजालयं गताया वनिताया गुरुभि: समावृतायाः । परिवतितकंधरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि।।' अत्र स्मरणं चिन्तोदुद्धसंस्कार प्रयोज्यत्वान्नालंकार: । व्यञ्न्यत्वविरहाच् न भाव:।

एवम्-

अनल्पनिःश्वासभरालसाड्याः स्मरामि सङ्गं चिरमङ्गनायाः ।।' इहापि स्मृतिरन भावो नाप्यलंकारः । व्यङ्ग्यस्यैव व्यभिचारिणो भाव- त्वात्। यथा 'सा वै कलङ्कविधुरा मधुराननश्रीः'। अयं चालंकारिकाणां संप्रदायो यत्सादृश्यमूलकत्वे स्मरणं निदर्शनादिवदलंकारः । तस्याभावे व्यङ्ग्यतायां भावः । तयोरभावे तु वस्तुमात्रम् । अप्पयदी क्षितास्तु- "-स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया। स्मरणालंकृतिः सा स्यादव्यङ्गयत्वविशेपिता ।।' यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यी चकार। सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ।'

सादृश्ये स्मर्यमाणसंवन्धितनिवेशस्यैवं सति फलाभावः। नहि तादृशसंस्कारजन्यं स्मरणं विसदशविषयकं संभवति। तथा पयोविस्मरणस्य सदशज्ञानत्वेन तेन तल्पादिस्मरणानुकू-

लमाह-इत पवेति। गुरुभिः श्वश्रवादिभिः। परिवर्तितेत्यादिद्वयं स्मयमानक्रियाविशे- षणम्। इहापि इत्यत्रापि। ननूक्तरीत्यानलंकारत्वेऽपि भावत्वं कुतो न, अव्यङ्गयल- स्याप्रतिबन्धकलात्। अत आह-व्यङ्गयति। तस्य सादृश्यमूलकत्वस्य। व्यङ्गयतायां सत्याम्। तयोव्यङ्गयत्वसादृश्यमूलकतयोः । अपीति । रघुवंशे दशरथमृगयावर्णनम्।

Page 351

स्मरणम् ] रसगङ्गाघर:। २८९

यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम्। उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्तीमस्मार्षीज्जलनिघिमन्थनस्य शौरिः॥।' एकत्र सदशदर्शनात्तत्सटशकर्मिका स्मृतिः । इतरत्र सद्दशदर्शनात्त- त्सदशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि सादृश्य- मूलकवस्त्वन्तरस्मृतित्वमविशिष्टम्। अत एव सदशासदशसाधारण्यार्थतया लक्षणे वस्त्वैन्तरग्रहणमर्थवत्। 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुजजम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽ्यमुन्मीलति। वत्सैतद्विदितं कथ नु भवरता धत्ते कुरङं यतः क्कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि।।' अत्र श्रुतकुरङ्गसंबन्धिनस्तन्नयनस्य स्मरणात्तत्सद्शसीतानयनस्मृति- स्तत्संबन्धिसीतास्मृतिश्चेति। किं त्वेषा व्यङ्ग्या अलंकार्यभूता च तव्यावृत्त्य- र्थमव्यङ्गयत्वविशेषणम्।

स दशरथः । सादृश्यबोधकं केशपाशस्य विशेषणद्वयम्। दिव्यानामिति। माघे जल- क्रीडावर्णनम्। अम्भस्तो जलात्। मन्थनस्येति 'अधीगर्थ-' इति कर्मणि शेषे षष्टी। लक्ष्यद्वयदाने बीजमाह-एकत्रेति। आद् इत्यर्थः । इतरत्र अन्त्ये। सदृशेति। लक्ष्मीसदृशनायिकेत्यर्थः । लक्षणं संगमयति-उभयत्रति। तथा च द्वितीयलक्ष्यसंग्रह एव वस्तन्तरसमाश्रयेति विशेषणफलमित्याह-अत एवेति । द्वितीयस्य लक्ष्यलादेवे- त्यर्थः। सदृशासदृशेति। स्मृतेः सदशासदृशान्यतरविषयकत्वलाभार्थतयेत्यर्थः। अव्य- कयत्वविशेषणफलमाह-सामित्र इति । हनुमन्नाटके सीतावियोगे श्रीरामचन्द्रस् लक्ष्मणं प्रत्युक्तिरियम्। ननु निश्चयेन । चण्डांशुः सूर्यः । तन्नयनेति । कुरज्ननयने- त्यर्थः । तत्सदृशेति नयनविशेषणम् । इतिभूता चेत्ग्रे योज्यः । एषा सीतास्पतिः। अलं कारसामान्यलक्षणमपि नास्तीत्याह-अलमिति । सीतास्मृतेः प्राधान्यादिति भावः ।

१ किश्चिद्वरतु दृष्टा कुत्रचित् तत्सद्दशस्य वस्तुनः सरणम्, कुत्रचित्त तत्सद्ृशवस्तुनः संबन्धिपदार्थस्य यस्य कस्यच्वित् (असदृशस्यापि) स्मरणम्। उभयत्रापि सादृश्यं मूलं यत्र तादृशम् (अर्थात् सादृश्यं दृष्ट्रा ) वस्त्वन्तरस्य स्मरणं भवतीत्याशयः । २५ रस०

Page 352

२९० काव्यमाला। [द्वितीयानने-

'अत्युञ्चाः परितः स्फुरन्ति गिरयः र्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ।।' अन्न स्तूयमानभूसंबन्धिनो भूभृतः स्मृतिने सादृश्यमूलेति नात्र स्मरणा- लंकार:। किं तु स्मृते: संचारिभावस्य भूयद्विषयरतिभावाङ्गत्वात्प्रेयोलं कारः । एतव्यावृत्तये सादृश्यमूलेति विशेषणम्।" इत्याहुः । तदेतत्सर्वमरमणीयम्। यत्तावदुच्यते सदशासदशयोः केशपाशजलनि- धिमन्थनयोः संग्रहाय लक्षणे वस्त्वन्तरग्रहणमर्थवदिति। तत्र सादृश्यमूला स्मृतिः स्मरणालंकार इत्येतावतैव केशपाशस्मरणस्येव जलनिधिमन्थन- स्मरणस्यापि संग्रहाद्वस्त्वन्तरसमाश्रयत्वविशेषणमनर्थकम्। एकत्र सादृश्य- दर्शनोद्वुद्वसंस्कारजन्यत्वेन, अपरत्र च सादृश्यदर्शनोद्वुद्धसंस्कारजलक्ष्मी- स्मरणोद्वुद्धसंस्कारजन्यत्वेन च सादृश्यमूलत्वाविशेषात्। नहि सादृश्यमूले- त्युक्ते सद्दशविषयेति लभ्यते, येन जलनिधिमन्थनस्मृतेरसंग्रहः स्यात्। यद्पि 'सौमित्रे ननु सेव्यतां-' इत्यत्र स्मृतिर्व्यङ्गया अलंकार्यभूता च, तव्यावृत्तये ऽव्यङ्गयत्वविशेषणमित्युक्तम्। तत्र नेयं स्मृतिरलंकार्यभूता। किंतु

अत्युच्चा इति। भुवं प्रत्युक्तिरियम्। प्रस्तौमि करोमि। इमां भुवम्। न सादृश्येति। किं लेकसंबन्धीति रीत्येति भावः । रतिभावेति । कविनिष्ठेत्यादिः । अरमणी- यमिति। वक्ष्यमाणदोषादिति भावः । तमेव दार्व्यायानूदयाह-यत्तावदिति। तन्न उच्यमाने तस्मिन्। ब्ूम इति शेषः । तदाह-सादृश्येति। एवमग्रेऽपि। केशेति। तस्य सदृशलेन दृष्टान्तवमिति भावः । स्यादिति। इतीति शेषः । सादृश्यपदस्य निय- तसंबन्धिकतया संबन्ध्याकाङ्गायामुपस्थितस्मर्यमाणस्यैवान्वयापत्तिः। नहि जनकत्वमूला पूज्यत इत्युक्ते पुत्रजनकलेन भार्या पूज्यते। अतो वस्तन्तरसमाश्रयेत्यावश्यक्रमिति चिन्त्यमिदम्। नेयं स्मृतिरलंकार्यभूतेति। अत्र स्मृते: हा क्वासीत्यादिपदगम्य- लेन विवहनप्रवृत्तराजानुगम्यमानभृत्यवत्, 'शठेन विधिना निद्रादरिद्रीकृतः' इत्यादौ शठादिपद्गम्यासूयावद्वा तस्या एव प्राधान्यादलंकार्यलम्। अनुपस्कारकत्वाच्च विप्र- १ संस्कारजं यत् लक्ष्मीस्मरणम्, तेन उद्डुद्धो यः संस्कारः (जलनिधिमन्थनविषयकः ) सब्जन्यं (जलनिथिमन्थनस्रणम्) तत्त्वाद। 4

Page 353

स्मरणम् ] रसगङ्गाघर:। २९१

जानक्यालम्वनो निशासमयोद्ीपितः संतापादिनानुभावित उन्मादेन संचा- रिणा परिपोषितो विप्रलम्भ: प्रधानत्वेनालंकार्यः। वस्य च स्मृतिरुत्कर्षहेतु- त्वादलंकार एव। अतो नितरां तव्यावृत्त्यर्थमव्यक्यत्व्रविशेषणदानेमनु- चितम्। नहि व्यङ्ग्यत्वालंकारत्वयोर्विरोध इति वक्तुं शक्यम्। नित्य- व्यङ्गयानां रसभावादीनामपि पराङ्गतायामलंकारत्वाभ्युपगमात्। प्रधान- व्यङ्गयव्यावृत्त्यर्थ पुनरुपस्कारकत्वरं सर्वेध्वलंकारलक्षणेषु देयमिति प्रागेवा- वेदितम् । यदप्युक्तम् 'अत्युच्चाः परितः स्फुरन्ति गिरयः' इत्यत्र स्मृते: संचारिभावस्य भूभृद्विषयरतिभावाङ्गत्वात्प्रेयोलंकार इति, तन्न। भावस्य हि भावाद्यङ्गतायां प्रेयोलंकारत्वम्। नह्यत्र स्मृतिभावः। तस्याः स्मरतिना वाच- केनाभिधानात्। नहि वाच्यस्य व्यभिचारिणो भावत्वं बक्तुं युक्तम्। 'व्यभि- चार्यञ्चितो भावः' इति सिद्धान्तविरोधान्। तथा चोक्तं सर्वस्वकृता- "प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिविषयः । तन्नापि विभावाद्यागूरितत्वे, यथा 'अहो कोपेऽपि कान्तं मुस्रम्' इवि। न तु स्वशब्दनिवेद्यत्वे। यथा- 'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेद्ः । रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्रम् ।।'

लम्भस्यैव तत्त्वाच्चेति चिन्त्म्। विप्रलम्भः श्रीरामचन्द्रनिष्ठः। नितरामित्यस्यानौचि- त्येऽन्वयः । तदाशयं खण्डयति-नहीति। नित्येति। सर्वथेत्र्थः । कदाप्यवाच्यल- क्ष्येति यावत्। नन्वेवं प्राधान्येऽप्यलंकारलापत्तिरत आह-प्रधानेति। सर्वेषु न तन्नैव। तथा चालंकारसामान्यलक्षणप्राप्तत्वात्तस्य नातिप्रसङ्ग इति भावः । सिद्धा- न्तेति। मम्मटभद्टादीनामिति शेषः। तद्रन्थमाह-प्रेयोलमित्यादि। इतीलन्तेन। तत्रापि तदुत्थापितस्मृतिष्वपि। आगूरितले आविष्कृतले। अत्रेति। पुष्पकेण लङ्कातोऽयोध्यां गच्छतः श्रीरामस्य सीतां प्रत्युक्तिरियं रघुवंशे। अनुगोदं गोदासमीपे। वानीरेति। तृणधान्यतृणेत्यर्थः । सुप्तं सापः । इष्टापति परिहरति-एवं चेति। १ तस्य (विप्रलम्भस्य) उत्कर्ष हेतुत्वात्स्मृतिरलंकार एवेत्यन्वयः । २ सौमित्रे अत्र स्मृते: सादृश्यमूलकत्वम् उपस्कारकत्वं च यदा सिद्धं तदाऽस्या अलंकारत्व- मपि न व्यावर्वनीयम्, व्यज्सत्वं तु अलंकारते न विरोधीति तु प्रोक्तमेव।

Page 354

२९२ काव्यमाला। [ द्वितीयानने-

इत्यादाविति।" ननु भावादङ्गीभूतभावत्वं न प्रेयोलंकारलक्षणम्। अपि तु भावादङ्गीभूतसंचारित्वमात्रम्। तथा च प्रकृते स्मरणस्य स्वशब्द- निवेद्यत्वेन भावत्वविरहेऽपि संचारित्वानपायात्प्रेयोलंकारत्वमविरुद्धमेवेति चेत्, एवं तर्हीतराङ्गीभूतस्थायित्वमात्रं रसालंकारत्वम्, न तु व्यज्य मानत्वविशिष्टम्, इत्यस्यापि सुवचत्वात्। एवं च- 'चराचरोभयाकारजगत्कारणविग्रहम्। कल्पान्तकालसंक्ुद्धं हरं सर्वहरं तुमः ।।' इत्यत्र क्रोधस्य स्वशब्दनिवेदितत्वेऽपि देवताविषयकरतिभावाङ्गी- भूतस्थायित्वानपायाद्रसालंकारता स्यात्। न चेष्ापत्तिः, अपसिद्धान्तात्। तस्माव्यज्यमानस्यैव स्थायिन: पराङ्गत्वे यथा रसालंकारत्वमेवं व्यज्य- मानस्यैव संचारिणो भावादयङ्गतायां प्रेयोलंकारत्वमिति नात्र स्मृतिमादाय प्रेयोलंकारता वाच्या, किं तु भूविषयकरतेः पूर्वार्धव्यङ्ग्याया उत्तरार्ध- व्यङ्गयभूभृद्विषयरतिभावाङ्गत्वाद्युक्ता प्रेयोलंकारता वक्तुम्। उक्तं च मम्मटभट्टैः-'अत्र भूविषयो रत्याख्यो भावो राजविषयरतिभावस्य' इति। अपि च महदिदमाश्चर्य यत् स्वेनैव निर्मितः कुवलयानन्दाख्यः संदर्भो विस्मृतः । उक्त्तं च तत्र-'विभावानुभावाभ्यामभिव्यञ्जितो निर्वेदादिर्भावः, स यत्रापरस्याङ्गं स प्रेयोलंकार:' इति। यद्पि 'सद्ृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम्' इत्यलंकारसर्वस्व-

तथा सुवचले चेत्यर्थः। स्वशव्देति । कुद्धमितीत्यर्थः। रतिभावेति। कविनिष्ठेत्यादिः। स्मृतिमादायेत्युक्तिफलमाह-किं त्विति। एवं च प्रेयोलंकारसत्त्वेऽपि त्वत्कृतं तदुप- पादनं चित्रमीमांसास्थमयुक्तमिति भावः। भावस्येति। अङ्गमिति शेषः । खेनैव अप्प- तेनैव। तन्र कुवलयानन्दे। निर्वेदादिस्रयस्त्रिंशत्। अपरस्य भावादेः। अलंकार- १ अङ्गभूतो भावो विभावादिभिव्यंञ्जितो भवेदिति नावश्यकम्, अपि तु भाव: (संचा- रिमात्रम्) अज्गं भवेदिति। २ अर्थात् रसस्याङ्कभूतो रस: (अर्थाद् स्थायी, यतो दि प्रधानतायामेव रसत्वव्यपदेशः अकतायां तु स्थायित्वमात्रमिति संप्रदायात) व्यज्यमान: स्यादित्यपि रसालंकारत्वे नावश्यकं स्पात्, अपि तु रसस्याअ्भूतं स्ायिभावमात्रं स्ादित्यपि बक्तुं शक्येतेत्यापच्िः ।

Page 355

स्मरणम् ] रसगङ्गाघर:। २९३

रत्नाकरयोः स्मरणालंकारलक्षणमुक्तम्, तदपि न। सहशस्मरणादुदद्वेन संस्कारेण जनिते स्मरणे अव्याने: । यथा- 'सन्त्येवास्मिक्जगति वहतः पक्षिणो रम्यरूपा- स्तेषां मध्ये मम तु महती वासना चातकेधु। यैरध्यक्षेरथ निजसखं नीरदं स्मारयद्ि: स्मृत्यारूढं भवति किमपि ब्रह्म कृष्णाभिघानम् ।' अत्र च चातकदर्शनादेकसंबन्धिज्ञानादुत्पन्नेनापरसंबन्धिनो जलध- रेंस्य भगवत्सदशस्य स्मरणेन जनितं भगवतः स्मरणं भगवद्विषयरति- भावाङ्गम्। यदि च 'सद्दशानुभवान्' इत्यपहाय. 'सदशज्ञानात्' इति लक्षणे निवेश्यते तदा भवत्यस्यापि संग्रह इति दिकू। अथास्य ध्वनिः । यथा- 'इदं लताभि: स्तवकानताभिर्मनोहरं हन्त वनान्तरालम्। सदैव सेव्यं स्नभारवत्यो न चेद्युवत्यो हृदयं हरेयुः ।।' अत्र स्तबकानताभिर्लताभि: सनभारवतीनां युवतीनां स्मरणमलंकार्य- स्यान्यस्याभावार्दनुपसर्जनम्, स्तनस्तवकरूपस्य विम्वप्रतिबिम्बभावमाप-

सर्वस्वरत्नाकरयोर्ग्रन्थयोः । अध्यक्षैः प्रत्यक्षैः । अथ प्रत्यक्षानन्तरम् । अनुपसर्जन- मिति। प्रधानमित्यर्थः । एवमलंकारत्वं निरस्य ध्वनितमुपपादयितुमाह-स्तनेति। १ इद हि चातकं दृष्टा तदेकाधारस्य जलधरस्व स्रणं पूर्व जायते, तदनु च जलधरसा- दृश्येन भगवतः स्मृतिरुपतिष्ठते । ततश्च भगवतः सेयं स्मृतिः सदृशस्य सरणादुद्बुद्धो यः सदृशविषयः (श्रीकृष्णविषयः) संस्कारस्तस्माज्जनिता वर्तते, न तु सदशानुभवात, इति पद्येडस्मिन् स्मरणालंकारलक्षणस्याव्यापनादव्याप्तिदोषः । २ रतिभाव: प्रधानम्, स्मरणं तु तदुपस्कारकत्वादङ्गम् इत्यलंकार एवायमित्याशयः । सेयमलंकारता रल्नाकराभिमतलक्षणे न संगृद्यत इत्यापत्तिः । ३ 'सदृशज्ञानात्' इत्युक्तौ तु सटृशस्य (जलधरस्य) ज्ञानात (हेतोः) अर्थात् जलधर- सादृश्यज्ञानहेतुकं भगवद्रूपवस्त्वन्तरस्य समरणमत्रोपपन्नमिति सरणालंकार: संपद्यत एवेत्याशयः । ४ यथा पूर्वोदाहरणेषु कृष्णविषयकरतिभावादि: प्रधानं स्मरणं च तदुपस्कारकम्, तथान्र नास्ति। स्मरणस्यैवात्र चमत्कारजनकतया तदिदं प्रधानमित्याशयः ।

Page 356

२९४ काव्यमाला। [द्वितीयानने-

न्रस्य साधारणवर्मस्व वाच्यत्वेऽपि तत्प्रयोजितसादृश्यमूलकस्य स्वस् शब्दवाच्यत्वविरहाव्यङ्गयं च । युवत्य इति च 'सर्वतोऽक्तिम्नर्थात्' इति डीपि साधु: । चथा वा- 'इदमप्रतिमं पश्य सरः सरसिजवृतम्। सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥' अन्रापि सरसिजज्ञानाधीनतत्सदृशनयनस्मृतिः प्राधान्येन ध्वन्यते। अथास्मिन्स्मरणालंकारे उपमादोषाः प्रायशः सर्व एव दोषाः । विशेष- तश्च नियमेनास्मिन्व्यज्यमानसाहश्यके सादृश्यस्य शब्दवाच्यतायां दोषः। यथा- 'उपकारमस्य साधोनैवाहं विस्मरामि जलदृस्य । दृष्टेन येन सहसा निवेद्यते नवघनश्यामः ॥' अन्र स्मृत्यैव घनसादृश्यं भगवतः प्रतीयमानं वाच्यवृत्त्या कदर्थितम्, निवेधते देवकीतनेय इति तु साधु। अन्न सादृश्यप्रयोजकस्य साधारणधर्मस्य साक्षादुपादानानुपादानयो- रुपमायामिवान्नापि व्यवस्था। तथा हि उपमायां तावत्क्चिद्धर्मो नियमेन प्रतीयमान: साक्षान्नोपादेय एव । यथा 'शङ्गवत्पाण्डुरच्छविः' इत्यन्न पाण्डुरत्वम्। 'शङ्गवत्पाण्डुरोऽयम्' इत्यादौ तु नानाविधेषु धर्मेष्वनेनैव

स्स्य स्मरणस्य। व्यङ्ं च स्मरणमिति पूर्वत्रान्वयः । डीषि साधुरिति। यौतेः शत्रन्तात् डीप्यपि साधुतं भवति। 'सर्वतः- इत्येतत्पर्यन्तानुधावनं व्यर्थ दुष्ट चेति प्रपच्चित- मन्यत्र। व्यज्येति । अर्थात् प्रतीयमानसादर्श्यक इत्यर्थः । अत्र स्मरणालंकारे। अस्योपादानादावेवान्वयः । दानयोः सतोरिति शेषः । अत्रापि स्मरणालंकारेऽपि। स्पष्टताय पुनरुक्तिः। प्रतीयमानो गम्यमान: । साक्षादुपमानोपमेयविशेषणलेन। यथेति । उपमेयविशेषणच्छविविशेषणतयोपस्थितपाण्डरत्वस्यैव प्रत्यासत्त्या तत्र गम्य- १ यनं दृष्टा घनश्यामस्य हरे: सादृश्यं स्मृत्यैव स्वयसुपतिष्ठते। एतद्धि 'धनश्यामः' इति शब्देन न्यकृत्य सरणालंकाराच्यावितम्। 'घनश्याम'स्य स्थाने 'देवकीतनयः' इति तु कृते वाच्यकदर्थना निवर्तत इत्याशयः ।

Page 357

स्मरणम् ] रसगङ्गाघर: । २९५

धर्मेण सादृश्यमित्यस्य दुरवगमत्वान, सर्वत्रोपमानोपमेयसाधारणस्य शविष्टशब्दात्मकस्यान्यस्य वा स्वानभिप्रेनस्य साधारणधर्मस्योपमाप्रयो- जकत्वसंभवात्तद्वारणाय पाण्डुरत्वादिधर्मों वाच्यनां नीयते। यथा वा 'अरविन्दमिव सुन्दरं सुखम्' इत्यादौ सुन्दरत्वादिः।न नीयते च कचिन्, वक्तुरन्यस्यानुपस्थानात्प्रसिद्धेः प्रावल्यान्। यथा 'अरविन्दमित्र मुम्म्' इत्यादौ स एव। अप्रसिद्धश्च धर्मोऽवश्यं साक्षादुपादेयः । अन्यथा तस्याप्रतिपत्तौ कवेस्तदुपमानिर्माणप्रयासवैयरथ्यापत्तेः । यथा 'नीरदा इन ते भान्नि वलाकाराजिता भटाः' इत्यादौ म्रिष्ठशब्दात्मकः । इत्थं च कश्चित्साधारणो धर्मः साक्षादनुपादेय एव। कश्चिदुपादेयानुपादेयञ्च। कश्चिदुपादेय ऐवेति सहृदयसंमतः समयः। एवमेवोपमाजीवातुकेडस्मि- न्सरणालंकारेपि बोध्यम्। तत्रानुगामिनि धर्मे 'स्मृत्यारूढं भवति किमपि' इत्यादौ पद्ये निवेदितमेव स्मरणम्। विम्बप्रतिबिम्बभावापन्नेडपि धर्मे 'भुजभ्रमितपट्टिश-' इत्यादिपदये निरूपितम्। कुलिशपट्टिश योर्भूधर- दन्तावलयोञ्च विम्त्रप्रेतिविम्त्रभावान्।

मानलादिति भावः। ननु धर्मान्तरस्योपमाप्रयोजकलाभावादेव नैव सादृश्यं दुरवगममत आह-सर्वत्रति। अस्य द्वितीयमुदाहरणं विशेषं वक्तुमाह-यथा वेति । न नीयते चेति । वाच्यतामित्यस्यानुषङ्गः । अनुपस्थिनौ हेतुमाह-प्रसिद्धे- रिति। स एवेति। सुन्दरल्ादिरित्यर्थः । बलाकाराजिता इति। वलाका वकपक्किस्तया राजिताः। वलाकाराभ्यामजिता इत्यर्थः । उपसंहरति-इत्थ चेति। यथोपमायामिति शेषः। जीवातुर्जीवनौषधम्। तत्र अनुपादेयादिधर्माणां मध्ये। स्मृत्यारूढमिति । अन्रानुगामी श्यामत्धर्मोऽनुपात्तः । निरूपितं स्मर- णमित्यस्यानुषङ्गः । एवमग्रेऽपि । अत्रोक्तहेतोस्तस्योपादानमित्याह-कुलिशति । १ वक्तु: अन्यस्य धर्मस्य उपस्थितिर्न भवतीति हेनुः । २ यथा- 'शङ्मवत्पाण्डुरच्छविः' इति। ३ नानाधर्माणां मध्ये अनभिप्रेतेन सादृश्यं मार्त्वत्युपादेयो यथा-'शक्वत्पाण्डुरोऽयम्" 'अरविन्दमिव सुन्दरं मुखम्' इत्यादिः । प्रसिद्धेः प्राबल्यादनुपादेयो यथा-'अरविन्दमिव मुखम्।' ४ अर्थात् अप्रसिद्धः (साक्षात् उपमानोपमेयविशेषणत्वेन) उपादेय एव यथा-नीरदा इव ते भान्ति बलाका०। ५ पट्टिशदन्तावलयोबिम्बत्वं कुलिशभूधरयोश्च प्रतिबिम्बत्वमिति वोध्यम्।

Page 358

२९६ काव्यमाला। [ द्वितीयानने-

उपचारते यथा- 'कचिदृपि कार्ये मृदुलं कापि च कठिनं विलोक्य हृदयं ते। को न स्मरति नराधिप नवनीतं किं च शतकोटिम् ।।' यथा वा- 'अगाधं परितः पूर्णमालोक्य स महार्णवम्। हृदयं रामभद्रस्य सस्मार पवनात्मजः ।।' अत्र मृदुलत्वादयो धर्मा हृद्युपचरिताः । इयांस्तु विशेष :- यदेकत्रा- नुभूयमाने हृदये स्मर्यमाणनवनीतादेः सादृश्यस्य सिद्धिः, अपरत्र तु स्मर्यमाणे हृदयेऽनुभूयमानसमुद्रस्येति, सादृश्यस्योभयाश्रयत्वात्। केवलशव्दात्मके यथा- 'ऋतुराजं भ्रमरहितं यदाहमाकर्णयामि नियमेन। आरोहति स्मृतिपथं तदैव भगवान्मुनिर्व्यासः ।।' अत्र भ्रमरहितशब्दो व्यासवसन्तयोः साधारणः। एवमन्येऽपि प्रभेदा: सुधीभिरुन्नेयाः। इह पुनर्दिआमात्रमुपदर्शितम्। इवि रसगङ्गाधरे स्मरणालंकारनिरूपणम्।

स पवनात्मज इत्यन्वयः । अत्रानयोः । आदिना कठिनत्ागाधलादिपरिग्रहः । द्वितीयो- दाहरणदाने बीजमाह-इयानिति। एकत्र आदे। अपरत्र द्वितीये। समुद्रस्ये- तीति। सादृश्यस्य सिद्धिरित्यस्यानुषङ्गः। उभयाश्रयलादुभयनिरूप्यलात्। ऋतुराजं वसन्तम्, भ्रमराणां हितम् ; नानापुष्पविकासद्वारा. मधुप्रापकत्वात्। व्यासपक्षे भ्रमेण रहितमित्यर्थः । नियमेनेत्युत्तरान्वयि। इति स्मरणम् ॥ इति रस्षगङ्गाधरमर्मप्रकाशे सरणालंकारनिरूपणम् ॥

१ उपचरिते धर्मे स्मरणं यथेत्यनुषङ्गः । एवमग्रेडपि । R मृदुळत्वकठिनत्वे मूर्त(दृश्यमान)पदार्थधमौं, अगाधत्वं च समुद्रगतः, एवं सत्यपि हदये उपचरितः (भरोपिता इति यावद्)। ३ मृदुलुलादिविशिक्स हदयस्यातभवः प्रत्यक्षतः, नवनीतादेस्तु स्मरणं भवतीत्याशयः ।

Page 359

रूपकम् ] रसगज्गाघर: 1 २९७

अथाभेदप्रधानेषु रूपकं तावन्निरूप्यते- उपमेयतावच्छेदकपुरस्कारेणोपमेये शब्दान्निश्रीयमानमुपमानता- दात्म्यं रूपकम्। तदेवोपस्कारकत्वविशिष्टमलंकारः ।। उपमेयतावच्छेदकपुरस्कारेणेति विशेषणादपहुतिभ्रान्तिमद्विशयो- क्तिनिदर्शनानां निरासः । अपह्नतौ सेच्छया निषिष्यमानत्वात्, भ्रान्तिमति च तज्जनकदोषेणैव प्रतिबध्यमानत्वात्, अतिशयोक्तिनिदर्श- नयोश्च् साध्यवसानलक्षणामूलकत्वात्, उपमेयतावच्छेद्कस्य नास्ति पुरस्कारः। शव्दादिति विशेषणात् 'मुखमिदं चन्द्रः' इति प्रात्यक्षिका- हार्यनिश्चयगोचरचन्द्रतादात्म्यव्यवच्छेदः । निश्चीयमानमिति विशेषणा- त्संभावनात्मनो 'नूनं मुखं चन्द्रः' इत्याद्युत्प्रेक्षाया व्यावृत्तिः । उपमानो- पमेयविशेषणाभ्यां सादृश्यलाभात् 'सुखं मनोरमा रामा' इत्यादिशुद्धारोप- विषयतादात्म्यनिरासः। सादृश्यमूलकमेव च तादात्म्यं रूपकमामनन्ति। प्रधानेष्वलंकारेघु। एवं च पूर्व मेदामेदोभयप्रधाना निरूपिताः, इदानी बह्धलंका- रव्यापिलेन प्रसिद्धतया प्राधान्येन च रूपकनिरूपणमिति भावः। उपमेयतावच्छेदक- मात्रप्रकारकप्रतीतिजनकशब्दबोध्ये विषये इत्यर्थः। तेनातिशयोक्ता चन्द्रादिपदान्मुख- लादिना मुखोपस्थितिरिति मतेऽपि नातिव्याप्तिरिति बोध्यम्। तज्जनकेति। भ्रान्ति- जनकेत्यर्थः । उपमेयतेति । मध्यमणिन्यायेनोभयत्रान्वयोऽस्य। संभावनात्मनसद्ू- पाया उत्प्रेक्षाया वस्तूत्प्रेक्षायाः । उपमानोपमेयेति। एतद्रूपविशेषणाभ्यामित्यर्थः । १ मुखं चन्द्र इत्यत्र उपमेयतावच्छेदकं मुखत्न् नत्पुरस्कारेग (अर्थात् तदुदिश्य) उपमेये अर्थात मुखत्वविशिष्टे मुखे यश्चन्द्रतादात्म्यनिश्चयः (तद्रूपकामत्यर्थः)। २ प्रात्यक्षिको य आहार्यनिश्चयः (अर्थात् शब्दद्वारा अमेदारोपो न, अपि तु 'मुखमिदं चन्द्रः' इति चाक्षुषादिप्रत्यक्षद्वारा यः काल्पनिको निश्चयः) तद्विषयकस्य चन्द्रवादात्म्यस्य व्यवच्छेदो निरासः । अर्थात शब्दादित्युक्तौ हि 'मुखं चन्द्रः' अत्र अन्यस्मिन् अन्यशब्दव्य- पदेश इति शाब्दिक एव अमेदारोपः, नतु प्रात्यक्षिको निश्चय इति सुतरां सिद्धयति व्यवच्छेद इत्याशयः । 'प्रात्यक्षिकाहार्यनिश्चयाश्रयणे च' इति काशीपुस्तकपाठः । ३ अयं भाव :- उपमेये उपमानस्य तादात्म्यमिति रूपकस्वरूपम् । ततश्च उपमेय सुपमान- मिति द्वे अपि तादात्म्यं प्रति विशेषणभूते। उपमानोपमेयभावश्च सादृश्यनियतः, अर्थात् सादृश्ये सत्येव भवति। ततश्च विशेषणाभ्यामाभ्याम् (उपमा०उपमे०) 'उपमेये शब्दान्निश्चीयमानम् सादृश्यमूलकं यत् उपमानतादात्म्यं तद्रूपकम्' इत्यर्थः फलितः । एवं च 'मनोरमा राम1 सुखम्' अर्थात् सुन्दरस्त्री सुखकारणभूता एव किम्, स्वयं सुखरूपा। अत्र आरोपस्य (लक्ष- णाप्रवृत्तेः) सादृश्येतर(कार्यकारणभाव)संबन्धमूलकत्वास शुद्धोऽयमारोपः । एवं च शुद्ध- रोपविषयस्य तादात्म्यस्य निरासे सति 'रामा सुखम्' इति रूपक न भवतीत्याशयः ।

Page 360

२९८ काव्यमाला [द्वितीयानने-

तथा चाहु :- 'तदूपकमभेदो य उपमानोपमेययोः ।' 'उपमैव तिरोभूतभेदा रूपकमुच्यते।' इति। तच्च यत्र विषयविपयिणोरेकविभक्त्यन्तत्वेन निर्देशस्तन्र संसर्ग:, अन्यत्र तु शब्दार्थतया कचिद्विशेषणं विशेष्यं चेति विवेचयिष्यते। यनु "सादृश्यप्रयुक्तः संबन्धान्तरप्रयुक्तो वा यावान्भिन्नयोः सामा- नाधिकरण्यनिर्देश: स सर्वोऽपि रूपकम्। सारोपलक्षणामूलकत्वस्य तुल्यत्वेन सादृश्यप्रयुक्तस्य तादात्म्यस्येव संबन्धान्तरप्रयुक्तस्यापि तादा- त्म्यस्य संग्रहीतुमौचित्यात्। तस्मात् दुराग्रह एवायं प्राचाम्-उपमानो- पमेययोरभेदो रूपकम्, न तु कार्यकारणयोः" इति रत्नाकरेणोक्तम्, तन्न । अपहुत्यादौ भिन्नयोः सामानाधिकरण्यस्य सत्त्वात्तत्रातिव्याप्तः । किं च 'सादृश्यमूलकं स्मरणं स्मरणालंकारः, न तु चिन्तादिमूलम्' इति भवतैब पूर्वमुदितम्। तत्र यदि साद्ृश्यामूलकस्यापि कार्यकारणादिकयोः कल्पितस्य ताद्रूप्यस्य रूपकत्वमभ्युपेयते तदा सादृश्यामूलकस्य चिन्ता- दिमूलस्य स्मरणस्याप्यलंकारत्वमभ्युपेयताम्। न च स्मरणस्य भावत्वमु- च्यमानं निर्विषयं स्यादिति वाच्यम्। तस्य व्यज्यमानविषयत्वेनोपपत्तेः। अप्पयदीक्षितास्तु- "-बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिहुते। उपरञ्जकतामेति विषयी रूपक तदा ।।' उपमानलोपमेयत्योः सादृश्यनियतत्वादिति भावः । आहुरिति। मम्मटभट्टादय इत्यर्थ: । अत्रार्ध मम्मटीयम्। अर्धमन्यदीयम्। तथा च भिन्नं लक्षणद्वयमिदम्। तच्चेति। उक्तरूपतादात्म्यं चेतर्थः। संसर्ग इति। अपदार्थत्ादिति भावः । विनि- गमकाभावादाह-कचिदिति। भिन्नयोरिति । न तूपमानोपमेययोरित्यर्थः । किं च्ेति। यत इति शेषः । निर्विषयमिति। सर्वस्यैवालंकारलेन तदन्यलाभावादिति भाव: । व्यज्यमानेति । व्यज्यमानस्मरणविषयलेनेत्यर्थः । नखरत्नानामिति रूपकम् । बिम्बेति। अयं भाव :- यथा चन्द्रः सतः शुभ्रतादनासञ्ञनीयधावल्यस्तथा नखाः १ अपदार्थ: (पदानामर्थों न भवन्नपि) संसर्गविधया भासत इत्यर्थः । २ यत्र एकविभत्तयन्तत्वेन न निर्देशस्तत्र, विशेषणीभूतं तादात्म्यं यथा 'विधुभावमञ्चतितमा तवाननम्' इत्यादौ । विशेष्यं यथा-'आस्ये पूर्णशशाङ्कता' इत्यादौ। ३ कारणस्य कार्यस्य च कल्पितं यत्ताद्रूप्यम् (अमेदः) तस्य। यथा सुखकारणभूताया अपि रामायाः सुखमित्यमेद: }

Page 361

रूपकम् ] रसगङ्गाघर: । २९९

अत्र बिम्बाविशिष्ट इति विषयविशेषणान्

इदं श्रीखवण्डलेपेन पाण्डुरीकरणं विधोः ।।" इति निदर्शनाया निरासः । तत्र विषयस्य मार्जनस्यालक्तकादिरूप- बिम्बविशिष्टत्वान्। निर्दिष्ट इति विशेषणान्निगीर्णविषयायाम् 'कमल- मनम्भसि कमले च कुवलये तानि कनकलतिकायाम्' इत्याद्यतिश्योक्त्ती नातिव्याप्तिः । अनिहनते निषेधास्पृष्ट इति विशेषणादपढ्कता नाविव्याप्तिः।

भावात्। समासोक्तिपरिणामयोर्विषयिताद्रप्यस्यागोचरत्वान्, समासोक्ती व्यवहार मात्रसमारोपात्। परिणामे चारोप्यमाणस्यैव विषयताद्रूप्यगो- चरत्वात्। भ्रान्तिमति च सतः कल्पितस्य वा प्रवृत्त्यादिपयन्तिकस्वार- सिकेभ्रमस्यैव निवन्धनेन तस्यानाहार्यत्वान्।" इत्याहुः। नन्न। 'तवत्पा- दनखरत्नानाम्' इत्यादिनिदर्शनाव्यावृत्त्यर्थ बिम्बाविशिष्टत्वं विषयविशे- षणं तावद्युक्तमेव। यद्त्र 'मुखं चन्द्रः' इत्यादिरूपकान्तर इव सत्यपि शतारोपे नेदं रूपकम्, अपि तु निदर्शनेत्युच्यते, तदा 'मुखं चन्द्रः'

सतोरुणलादनासज्नीयारुण्या इति सादृश्येन नखानां चन्द्रस्य च बिम्बप्रतिबिम्ब- भावः । अलक्तकचन्दनयोरन्यत्र स्ववर्णासञ्तकलवेन सः। तथा च विम्बप्रतिबिम्बभ- नापन्ननखालक्तकविशिष्ट एव रख्जने तत्प्रतिबिम्बभूतचन्द्रचन्दनविशिष्टं पाण्डुरीकरण- सुपरख्जकमिति। निर्दिष्ट इति। उच्चारित इत्यर्थः । तत्र येन यस्य व्यावृत्तिस्तत्क- मेणाह-ससमिति ।अगोचरले क्रमेण हेतू आह-समेति। अत्र तत्पा देतत्र। १ मरिणामे आरोप्यमाणस्य (विषयिणः) एव विषयतादप्यं भवति। यथा 'दगब्जेन वीक्षवे मदिरेक्षणा', अत्र विषयिणः अब्जस्यैव टृकताद्रूप्यमिष्यते, वीक्षणोपयोगित्वात् । न त्वन्न विषयस्य विषयिताद्रूप्यम्। २ प्रवृत्त्यादिपर्यन्तं स्वारसिको यो अ्रमस्तस्य निबन्धनेन, अर्थात्तत्र स्वरसतः (स्वभावतः ) प्रवृत्त्यादिपर्यन्तं भ्रम एव भवति न स्वेच्छयाSSरोपितत्वप्रत्ययः । यथा 'पलाशकुसुमन्नान्त्या शुकतुण्डे पतत्यलिः' अत्र हि शुकतुण्डे प्रवृत्तिप्रयोजको त्रमरस्य यः पलाशमुकुलन्रमः (शुकतुण्डे पलाशमुकुलताद्रूप्यनिश्चयः) भवति न स आह्यार्य इत्याशयः । ३ रूपकान्तरे रूपकमध्ये।

Page 362

३०० काव्यमाला। [ द्वितीयानने-

इत्यपि निदर्शनेत्युच्यताम्। निरस्यतां च रूपकदाक्षिण्यकौपीनम्। किं च 'त्वत्पाद-' इत्यत्र कि पदार्थनिदर्शना, आहोसिविद्वाक्यार्थनिदर्शना ?

अ्रतीतेः । कुवलयानन्दगतनिदर्शनाप्रकरणे त्वयोक्तमार्गेण धर्म्यन्तरे पदार्थे तदैवृत्तिघर्मस्य पदार्थस्य भेदेनारोपस्याभावाच्च। न द्वितीयः । वाक्यार्थरूपकोच्छित्त्यापत्तेः । इष्टापत्तौ वैपरीत्यस्य सुवचत्वाच्च। अस्माभिर्निदर्शनाप्रकरणे वक्ष्यमाणया सरण्या अभेदस्य श्रौतत्वार्थत्वा- भ्यामुद्देश्यविधेयभावालिङ्गनानालिङ्गनाभ्यां च रूपकनिदर्शनयो्वैलक्ष- ण्येन सकलव्यवस्थोपपत्तेः । तस्मादन्न वाक्यार्थरूपकमेव, न वाक्यार्थ- निदर्शना। तस्याश्चैवमुदाहरणं निर्मातव्यम्-

दाक्षिण्येति। रूपकमुखसंकोचरूपकोपीनमित्यर्थः। निर्लजल्ादिति भावः। विशिष्टार्थयोः वाक्यार्थयोः। खदुकतपदार्थनिदर्शनालक्षणमपि नास्तीत्याह-कुवलयेति। वैपरी- त्यस्य वाक्यार्थनिदर्शनोच्छित्तेः । खमते न कस्याप्युच्छेद इत्याह-अस्माभिरिति। श्रीतत्वेति। यथासंख्येनान्वयः। नन्वेवं तर्हि तस्याः किमुदाहरणमत आह-तस्या- १ रूपकालंकारेपि परिज्ञानदाक्षिण्यमस्तीति विद्वत्सु स्वस्य निर्लज्जतानिवारकमवगुण्ठनं संप्रवि निरस्यताम्, एवंविधस्थले रूपकमनङ्गीकृत्य प्रसह्य निर्लज्जताप्रकटनात, अथवा रूपकदाक्षिण्यरूपं कापीनं कूपपतनोचितमकार्यम्। एवं सति रूपकदाक्षिण्यगवों भवत्कृते अपराधस्थानीय इत्याशयः । 'अकार्यगुद्ये कौपीन'मित्यमरः। रूपकमुखसंकोचे त्यादि नागेशाक्षरस्वारस्यं तु नागेश एव विजानीयात्। २ बिम्बप्रतिबिम्बभावापन्ना ये पदार्थाः (नखालक्तकचन्द्रचन्दनाः ) तद्घटितयोर्विशिष्टार्थयोः (मार्जन-पाण्डुरीकरणयोः) । 'विशिष्टयोः (निम्बप्रतिबिम्बभावापन्नधर्मविशिष्टयोः) धर्मयो- रैक्यारोपो वाक्यार्थनिदर्शना' इति कुवलयानन्दोक्तरीत्या नात्र पदार्थनिदर्शनेत्याशयः । ३ 'उपमानोपमेययोरन्यतरस्मिन्नन्यतरधर्मारोपः पद्रार्थनिदर्शना' इति तत्रैवोक्ततेः अन्यतर- सिन्नन्यतरधर्मारोपाभावान्न पदार्थनिदर्शनेति भावः । ४ श्रौतः (शाब्दः) यत्राभेदः, उद्देश्यविधेयभावस्यालिङ्गनं यत्र तद्रूपकम् । यथा 'मुखं चन्द्रः' अत्र शाब्दः अभेदः, मुखमुद्दिश्य चन्द्रस्याभेदो विधीयते इत्युद्देश्यविधेयभावोपि स्फुटः । यत्र आर्ध: (अर्थबलाद् गम्यः) यत्रामेदः, उद्देश्यविधेयभावस्य अनालिङ्गनं यत्र सा निदर्शना। यथा-'यो नखान् यावक रञ्जयति स इन्दुं चन्दनेन पाण्डुरीकुरुते' अत्र यः सः इत्येक- विभक्तिकयोः कर्त्रोरभेदः शब्दतः प्रतीयते, परं रअ्यति-पाण्डुरीकरोत्योरभेदो न शाब्दः । एवमेव उद्देश्यविधेयभावोपि नात्रेति द्योस्ळंकारयोर्व्यवस्था।

Page 363

रूपकम् ] रसगद्गापर: । ३०१

'त्वत्पादनखरन्नानि यो रक्षयति यावकैः । इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥।' अत्र कत्रोरभेदस्य शाव्दत्वेऽपि क्रिययोरमेदस्वाशाव्दृत्वात्तस्येव च समग्रभरसहिष्णुत्वान्निदर्शनैत । ननु यदीदमुदाहरणं निदर्शनायां न स्यात्तदा कथमलंकारसर्वस्वकृता तत्प्रकरण उदाहृतमिति चेत्, भ्रान्तेनैव प्रतारितोऽसि। नहि प्रामाणिकेन भवता कदापि परेणानुक्तं किंचिदुच्यते। यद्पि रूपके विम्त्प्रतिविम्तभाव्रो नासीत्युक्त तदपि भ्रान्त्यैव। तथा च सर्वस्वटीकायां विमर्शिन्यामुददाहतं विम्त्रप्रतिबिम्वभावेन रूपकम्-

संलग्नाञ्जनपुञ्जकालिमकलं गण्डोपधानं रतेः । व्योमानोकह पुष्पगुच्छमलिभि: संछाद्यमानोदरं पश्यैतच्छशिनः सुधासहचरं बिम्बं कलङ्काङ्कितम् ।।' अत्र कलङ्कस्य दानाम्व्वादिभिः प्रतिबिम्बनम्, लाञ्छितत्वाङ्किनत्वयोः शुद्धसामान्यरूपत्वमित्युक्तं चेत्यास्तां तावत्। तथा निर्दिष्ट शब्देनाभिहिते इत्यस्य येनकेनचिद्रपेण शव्देनाभिहित इत्यर्थः, उताहो उपमेयतावच्छेदक्- रूपेण शब्देनाभिहिते?। आद्ये 'सुन्दरं कमलं भाति लतायामिदमन्दुतम्' श्चेति। वाक्यार्थनिदर्शनाया इत्यर्थः। यावकेः अलक्तकरसैः । ननु कर्त्रोरमेदमादाय चाक्यार्थरूपकमेवास्तित्यत आह-तस्यैव चेति। क्रिययोरमेदम्यैव चेन्यर्थः । सम- ग्रेति । मुख्यत्वादित्यर्थः । इदं दीक्षितोक्तम्। भ्रान्तेनवेति। त्रान्त्ववेति मुख्य- पाठः । कंदर्पद्विपेति। सर्वत्र षषीतत्पुरुषः । कम्बु रङ्गः । कलं रमणीयम्। 'अनो- कहः कुटः शालः'। शुद्धसामान्यति। अनयोर्वस्तुप्रतिवस्तुभावापन्नलादिदं चिन्त्यम् । उक्त चेति। चकार उदाहृतसमुचचायकः। द्वितीयविशेषणं दूषयति-तथेति। उताहो अथवा। इत्यन्न रूपकातिशयोक्तिविषये। अन्वय एवेति। तत एव चमत्कारात्सांनिध्याच्चति भाव: 66 रूपकातिशयोकिं ध्वनयितुमाह-कमलेति। १ 'आं तेनैव' इति काशीपुस्तकपाठः सुन्दरः । २ श्यामर्मदजलर्लान्छितं कन्दर्परूपद्विपस्य कर्णसमीपस्थं कम्बु (शङः) । हस्तिन: कर्णास्थनि शङ्क्ो भवतीति राजनिर्घण्टादिषु प्रसिद्धम्। हिन्दीरसगङ्गाधरस्थः 'कामदेव के हाथी का कान' इति कम्बु विसुच्य शूर्पप्रायेण कर्णेन रूपकार्थस्तु विचार्य एव। ३ अत्र शशिविम्बे कम्बु-गण्डोपधान(कपोलोपबह 'गालमसूरी'ति भाषायान्)प्रभृ- तीनां रूपणम्। रूपके चात्र उपमेय (शशिबिम्ब)धर्मस्य कलङ्कस्य दानाम्बु-अजनादिमि: उपमान(कर्णकम्ब्वादि)ध्मेः सह विम्नप्रतिविम्बभावः । २६ रस०

Page 364

३०२ काव्यमाला। [ द्वितीयानने-

इत्यन्रातिपरमरः । सुन्दरपदेन सुन्दरत्वेन रूपेण इदपदेन च विषय- स्याननस्व प्रतिपादनान्। न चात्र सुन्दरपदार्थस्यारोप्यमाणकमलान्वय एव, न तु वदनरूपविपचान्वय इति वाच्यम्। कमलपदेन कमलताद्रूप्ये- णाननस्यैव लक्षणयोपस्थानात्तन्नैव सुन्दरादिपदार्थान्वयो युक्त:, न तु विशेषणीभूते कैमले। अथ तोहशं विषयमुद्दिश्य विषयिताद्रूप्यं यत्र विधीयते इत्यपि लक्षणवाक्यार्थः । प्रकृते च सुन्दरत्वावच्छिन्नमुद्दिश्य कमलताद्रृप्यस्याविधानान्नातिप्रसङ्ग इति चेतु। न। 'मुखचन्द्रस्तु सुन्दरः' इत्यादिरूपके समासगतयोर्विषयविषयिणोः पृथग्विभक्तिमन्तरेणोद्देश्य- विधेयभावाभावादव्याप्यापत्तेः। द्वितीये त्वनिहृत इति विशेषणवैयर्थ्यम्। अपह्ृतावुपमेयतावच्छेद्यस्य निपिध्यमानतया तेन रूपेण विषयस्यानिर्दिष्ट- तत्रैव आनन एव। न त्विति। पदार्थः पदार्थेनेति न्यायादिति भावः । तादृशं येनकेनचिद्ूपेण शब्देनाभिहितम्। इत्यपि उद्देश्यविधेयभावघटितोऽपि। अविधाना- दिति। तादृशमाननमुद्दिश्य भानक्रियाया एव विधेयल्ादिति भावः । यद्वा सुन्दरत्वादेः कमलतादिविशिष्टे विशेषणतमेवोद्देश्यतावच्छेदकलम्। इयांस्तु विशेष :- यदतिशयोक्ता- वुपमेयधर्म स्योद्देश्यतावच्छेदकलवाभाव एव। रूपके लनियम इतीति भावः। अत एवाह- मुखचन्द्रस्त्विति। पृथगिति। उद्देश्यविधेयभावेन बोधेऽभिन्नविभक्तिजन्योपस्थिते- स्तन्न्लातू। तथा च व्यस्ते तथा प्रतीतिः, न समासे इत्यत्राव्याप्तिरिति भावः । ननूपमेयता- वच्छेदकरूपेण शब्देनाभिहिते इति तदर्थेन न प्रागुक्तदोषोऽत आह-द्वितीये त्विति। १ येनकेनचिद्रूपेण (सुन्दरत्वेन रूपेण), शब्देन (इदंपदेन) विषयस्य (आननस्य) प्रति- पादनात् सुन्दरं कमलमित्यत्र अतिशयोक्ति परिहृत्य रूपकमेव प्रसज्येत। वास्तवे तु इदंपदेन आननं निर्दिश्य कमलत्वेनातिशयोक्तविषय इत्यापत्तिरेवेयम्। २ सुन्दरपदार्थस्य आरोप्यमाणे (विषयिणि) कमले एवान्वयः, न तु वदनरूपे (विषये). अन्वय इति शङ्का। ३ 'पदार्थ: पदार्थेनान्वेति न तु पदार्थकदेशेन' इति न्यायानुसारं कमलपदेन लक्षणया उपस्थिते आनन एव सुन्दरपदार्थान्वय उचित इति तत्समाधानम्। ४ तादृशम् अर्थात् येन केनच्तिदूपेण, शब्देनाभिहितं® विषयमुद्दिश्य विषयिणः अभेदो यत्र. विधीयते इत्युद्देश्यविवेयभावघटितो रूपकलक्षणवाक्यार्थः स्वीक्रियते। रूपकातिशयोक्तौ (सुन्दरं -कमलम्० अत्र) च मुखमुद्दिश्य कमलताद्रूप्यं न विधीयते, अपि तु सुन्दरम् आननमुद्दिश्य भान(प्रतीति)क्रियव विधेया। ततश्च तादृशोददेश्यविधेयभावाऽघटितत्वान्न रूपकापत्तिरिति पूर्वपक्षी। ५ उद्देश्यविधेयभावस्वीकारे 'मुखचन्द्र' इत्यादौ प्रसिद्धे उदाहरण एव रूपकं न स्यात्, 'मुखं चन्द्र:' इत्यादिरूपेण विभक्त्या पृथड निर्देशं बिना उद्देश्यविधेयभावस्याप्रतीतेरिति सिद्धान्ती पूर्यपक्ष समाधते। ६ उपमेयतावच्छेदकं मुखत्वम्, च मुखम् तस्य।

Page 365

रूपकम् ] रसगङ्गाघर:। ३०३

त्वादेव लक्षणस्याप्रसत्ते: । निश्चयगताहार्यत्वविशेषणवैयथ्यं च। भ्रान्तिमति दोषविशेषेण प्रतित्रध्यमानतया नाम्त्युपमेयतावच्छेदकसंस्पर्श इति तावतैव वारणान् । अपि च 'नायं सुधांशुः कि तर्हि सुांशुः प्रेयसीमुखम्' इति कुवलयानन्दे त्वयोक्तायामपह्ुनावतिप्रसङ्गः। अत्र सुधांशा सुधांशुत्वनिहुवेऽपयारोपविषयस्यानिह्वान्। न चेदं रूपकमेवेति वाच्यम्। त्वदुक्तिविरोधापत्तः। यथाप्युक्तमव्य क्त्वविशेषणाबेदमेवा- लंकारभूतस्य रूपकस्य लक्षणमिति, तदपि न। नहि व्यङ्ञयत्वालंकार-

अपन्रुतौ 'नायं सुधांशुः किं ताह व्योमगज्गासरोर्हम्' इत्न्। अनिर्दिष्टत्वादेवेति। अत्र निषेधप्रतियोगिविधया निर्दिष्टत्वादिदं चिन्तम्। न च तथा निर्दिष्टलऽपि पुर- स्काराभावः । तर्हि तावत्पर्यन्तविवक्षाबोधनारथमेवानिह्ुते इति विशेषणसाफल्यादिति बोध्यम्। तावतैव उक्तार्थकनिर्दिष्टे इति विशेषणेनैव। इदं चिन्त्म्। आहार्यत्वविशे- षणस्य निर्दिष्टे इति विशेषणलब्धार्थकथनतात्पर्यकत्वात्। अविशयोक्ती लक्षणामाहा- त्म्याजायमानज्ञानस्यानाहायस्यैव जायमानलेन तावतैव वारणात्। शक्यतावच्छेदकल- क्ष्यतावच्छेदकयोर्भानमिति तल्विखितमतान्तरेऽपि युगपदेवोभयोर्भानिन बाधस्यबानुप- स्थितलान्न तह्ुद्वेराहार्यलम्। किं च चन्द्रवृत्तिगुणवत्त्वस्य लक्ष्यतावच्छेदकस्य चन्द्रत्स्य च मिथो विरोधाभावेन न वाधप्रतिसंधानम्। मुखलेन मुखं लक्ष्यत इति लश्रद्वेयमेव। रूपके तु बाघस्य स्फुटमुपस्थितलेन साक्षाद्यज्नया वा जायमाना ताद्रूप्यप्रतिपत्तिरा- हायैवेति दीक्षिताशय इति दिक्। अपहुनौ पर्यस्तापह्ुता। विषयस्यें सुधांशोः। इद- मपि चिन्त्यम्। उपमेयोपमादीनां वैचित्र्यविशेषेणालंकारान्तरत्वदिह्दाप्युपपत्तेः। मता- न्तरेऽप्यमेदादिकृते चमत्कारे रूपकम्, निह्वादिकृते तम्मिस्तु सेति विषयविभागसं-

इष्टापत्तेक्वेति दिक। चित्रमीमांसायामप्पयदीक्षिनोक्तमन्यदपि खण्डयति-यञ्चापीति । १ 'आहार्यो यस्ताद्रूप्यनिश्चयस्तद्नोचरतान्' इति बदता दीक्षितेन आ्रन्तिमति त्रमवशा- ज्जायमानस्य ताद्रूप्यनिश्चयस्य ग्रह्णं मा भूदिति 'आह्यार्य'विशेषणं दत्तन् । 'निर्दिष्टे' इत्यस्य 'उपमेयतावच्छेदकरूपेण, शब्देनाभिहिते विषये' इत्यर्थस्वीकारे तु प्रमत्तमधुपत्त्वन्नुखं पङ्कजं वेत्तीत्यत्र भ्रान्तौ पङ्कजभ्रमदोषेण विषये (मुखे) उपमेयतावच्छेदकस्य (मुखत्वस्य) र्पर्शोपि नास्ति [कमलमिति मुखे भ्रान्तस्य मुखत्वसंस्पर्शः कथं स्ात् । ] इति 'निर्दिष्ट' इति विशेषणे- नैव वारणादाहार्यपदनिवेशो व्यर्थ इत्याशयः । २ अर्थात् 'सुधांशुः प्रेयसीमुखम्' इत्यंश्रे उपमेयतावच्छेदकरूपेण शब्देनाभिहिते 'प्रेयसी- सुखम्' इति विषये 'सुधांशुः' इति विषयिण उपरञजनात रूपक प्रसज्येतेत्यापत्तिः । ३ मुखस्य स्थाने सुधांशोविषयीकरणं विचार्यमेव।

Page 366

३०४ काव्यमाला। [ द्वितीयानने-

त्वयोर्विरोधोऽस्ति। प्रधानव्यजयरूपकवारणाय पुनरुपस्कारकत्वं विशे- षणमुचितमित्यसक्ृदावेदनात्। अनलंकारत्वस्य तुल्यतया प्रधानव्यङ्नयरू पकस्येव प्रधानवाच्यरूपकस्यापि वारणीयत्वेन तद्वारकविशेषणाभीवेन

यच्च 'तद्रूपकमभेदो य उपमानोपमेययोः' इत्यादि प्राचीनैरुक्तम्, तच्ञि- न्तम्। अपहुत्यादावुपमानोपमेययोरभेदुस्य प्रतीतिसिद्धतया तत्रातिप्रस- झात्। अथोपमानोपमेययोरित्युक्त्या उपमेयतावच्छेदकं पुरस्कृत्योप- मानतावच्छेदकावच्छिन्नाभेद इत्यर्थलाभादपहुतौ चोपमेयतावच्छेद कस्य पुरस्काराभावान्नातिप्रसङ्ग इति चेत्। न। 'नूनं मुखं चन्द्रः' इत्यादुत्प्रे- क्षायां तथाप्यतिप्रसक्त्ेः । न च- 'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः ।' 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्।' इत्याद्यपह्ृत्युत्प्रेक्षादीनां बाधकत्वात्तत्परिगृहीतविषयातिरिक्तो रूपकस्य 'मुखं चन्द्रः' इत्यादिर्विषयः स्यात्। यथा 'शरमयं बर्हिः' इत्येतद्विषया- तिरिक्तः 'कुशमयं बर्हिः' इत्यस्य। यथा वा क्सादेशविषयातिरिक्तो

इदगेव प्रागुक्तत रूपकलक्षणमेव। नन्वेवं कथमतिप्रसङ्गनिरासोऽत आह-प्रधा. नेति। नन्वेवमपि विनिगमनाविरहात्तथोक्तिरत आह-अनलमिति। मन्मते तु वेनैवोभयोर्वारणमिति भावः । प्रकाशोकतिं खण्डयति-यच्च्ति। तथापि उक्तार्थाङ्गी- कारेऽपि। अत्र तस्य पुरस्कारोऽस्तीति भावः । मुखं चन्द्र इति। अत्र गमकाभा- वात्तदुभयं न। तत्र जैमिनीयं दृष्टान्तमाह-यथा शरेति। आभिचारिके कर्मणि विशेषविहितमिदम्। व्याकरणोक्तं तमाह-यथा वा क्सेति। 'शल इग्-' इति १ अव्यञ्ञत्वविशेषणेन प्रधानव्यज्ञस्य (अलंकार्यस्य) रूपकस्य वारणं कदाच्चित्स्यात्, परं वाच्यालंकारदयमध्ये एकेन अलंकारेण उपस्कार्य यत् प्रधानं रूपकं तस्य अलंकारगणनातो वारणमव्यञ्ञत्वेन न स्यात्। आवश्यकं च वारणं तस्यापि। यथा प्रधानव्यञ्ञयं रूपकम् अलंकार्यतया अनलंकारम् (अलंकारभिन्नम्), एवं प्रधानवाच्यमपि अन्यालंकारेण अलंकार्य- तया अनलंकारत्वादलंकारगणनातो वारणीयम्। तस्मात् उपस्कारकत्वविशेषणेनैव द्वयोर्वारण भववीत्याशयः । २ उत्प्रेक्षादिपरिगृहीताद्विषयादतिरिक्तः । अयं भाव :- 'प्रकल्प्य चापवादविषयं तत उत्स- गोंडमिनिविश्वे' इति वैयाकरणनये इव अपवादभूतानामपह्ुत्यादीनां विशेषालंकाराणां विषयं परिहृत्य उत्सर्ग(सामान्य)स्य रूपकस्य विषयः स्यात्। इति 'वाच्यं'पर्यन्तः पूर्वपक्षः ।

Page 367

रूपकम् ] रसगङ्गाघर: । ३०५

विपयः सिचः । लोकेऽपि यथा 'ब्राह्मणेभ्यो दवि देयम्', 'तक्रं कोण्डि- न्याय' इत्यत्र तक्संग्रदानातिरिक्त दन्नः संप्रदानमिति वाच्यम्। वैप- म्यान्। विशेपशास्त्रं हि स्वविपयातिरिक्त्तं विषयं ग्राह्यत्सामान्यशास्त्स्य वाधकमित्युच्यते। प्रक्रृते च रूपकन्य लक्षणं धर्मः । स यदयुत्प्रेक्षादिवृत्तिः स्यान् कस्तमस्माद्विपयान्निरस्य विषयान्तरं ग्राह्येन्। नहि घटत्वं स्वाधिकरणात्टृथिवीत्वं द्रव्यत्वं वा निरस्य विपयान्तरं आ्ह्यितुनीष्ठे। तस्मादतिप्रसक्तिर्लक्षणेडस्मिन्दोपः । ननु संभावनात्मिकोत्प्रेक्षा, कथं तस्यामभेदत्वात्मकरूपकलक्षणातिप्रसक्तिरिति चेन्। न । विनिगमका- भावेन संभाव्यमानाभेदस्याप्युत्प्रेक्षास्वरूपत्वान्। विषयसंभावनाSभेदा- भ्यामुत्प्रेक्षायामलंकार द्रैयव्यवहारापत्तश्र। निश्चीयमानत्वेनाभेदो विशेष- णीय इति चेदस्मदुक्त एव तर्हि पर्यवसितिरिति दिक्। तदिदं रूपकं सावयवं निरवयवं परम्परितं चेति तावत्रिविधम्। तत्रादं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधम्। द्वितीयमपि केवलं मालारूपकं चेति द्विविधम्। तृतीयं च श्विष्टपरम्परितं शुद्धपरम्रितं चेति द्विविधं सत्प्रत्येकं केवलमालारूपत्वाभ्यां चतुर्विधमित्यष्टविधमाहुः । विहितः । ग्राह्यत् न लग्राहृयन्। तस्यैव तद्वीजलात्। धर्मः अमेदतरूपः । संभावनैवो- त्प्रेक्षेति पक्षे आह-विषयेति। अलंकारद्वयेति। रूपकोत्प्रेक्षेतीत्यर्थः । नहि प्रधा- नव्वं तद्विशेषणम्, तत्त्वस्यैव भज्गापत्तेः । तावन् आदो। आहुः प्रकाशकारादयः । एत- १ विशेषशास्त्रं हि स्वनवृत्तेविधये सामान्यशास्रस्व प्रवृत्ति वारयितुं शक्कोति, एकेन शास्त्रेण अपरशार्रस्य प्रवृत्तेर्वारयिनुं शक्यत्वान्। किन्तु रूपकन्य लक्षणम् अभेदरूपो धर्नः ।सः (अमेदः) यद्यपह्नुत्यादिप्वपि उपलभ्येत, नहि तत्निवारणं केन शक्यम्: वत्वं हि पृथितीत्यस्य द्रव्यत्वस्य वाऽपेक्षया विशेपधर्नः । ततश्च स्वस्य (वटत्वस्य) अधिकरणे (कम्ब्रुग्ीवादिनद्व्यक्तौ) सामान्यधर्म पृथिवीत्वं द्रव्यत्वं वा बाधित्वा (निरस्य) एव घटत्वं तिष्ठेदिति किं संभवपरन्? तस्मादलंकारेधु (एपु) वाध्यवाधकभ्मवः शासत्रेध्विव न घटते, इति स्पष्ट वैषन्यम्। इत्युत्तर: पक्ष: । २ अभेदो रूपकमित्यविशेपोक्तौ संभाव्यमानोऽप्यमेदो अ्रहीतुं शक्येतेत्यर्थः । ३ ननु भवद्रीत्या संभाव्यमान: अभेदः उत्प्रेक्षा। ये तु विषयसंभावनामेव उत्प्रेक्षां मन्यन्ते -तन्मते तु रूपकलक्षणस्य नातिप्रसक्तिरुत्प्रेक्षायाम्? इति शङ्कायामाह-विषयसंभावना०-तथा सति लक्षणभेदात उत्प्रेक्षायामेव उत्प्रेक्षा-रूपकमित्यलंकारद्वयव्यवहार: स्वादित्यापत्तिः । ४ उत्प्रेक्षायामभेदस्य संभाव्यमानतया (ऊह्यमानतया) न निश्चय इत्यतिप्रसक्तिवारणाय निश्चीयमान: अमेदः इति विशेष्यते चेत्।

Page 368

३०६ काव्यमाला। [ द्वितीयानने-

तत्र- परस्परसापेक्षनिप्पत्तिकानां रूपकाणां संवातः सावयवम्।। तत्रापि- समस्तानि वस्तून्यारोप्यमाणानि शब्दोपात्तानि यत्र तत्समस्त- वस्तुविषयम् ।। यत्र च क्वचिद्वयवे शब्दोपात्तमारोप्यमाणं क्वचिच्चार्थसामर्थ्या- क्षिपं तदेकदेशे शब्दानुपात्तविषयिके अवयवरूपके विवर्तनात्खख- रूपगोपनेनाऽन्यथात्वेन वर्तनादेकदेशविवर्ति॥ यद्वा- एकदेशे उपात्तविषयिके अवयवे विशेषेण स्फुटतया वर्तनादेक- देशविवर्ति॥। समस्तवस्तुविषयं सावयवं यथा- 'सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे। वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेहः ।।' अत्र समुदायात्मकस्य सावयवरूपकस्यावयवानां सर्वेषामपि वस्तुतः समर्थ्यसमर्थकभावस्य परस्परं तुल्यत्वेऽपि कवे राकारूपस्यैव समर्थ्यत्वे- नाभिप्रेतत्वात्समर्थकतयोपादानसितरेषामिति गम्यते। एवं स्थिते समर्थ- करूपकाणां विषयविषयिणोः पृथग्विभक्तेरश्रवणादनुवाद्यत्वेऽपि समर्थ्य- रूपकस्य तयोः पृथग्विभक्तिश्रवणाद्विधेयतया तदादाय संघातात्मकस्य

त्सूचिताऽरुचिस्लग्रे स्फुटीभविष्यति। यत्र च यत्र त संघातात्मकसावयवरूपके। अव- यवरूपके इति। रूपकसंघातस्यावयविनोऽवयवे कस्मिंश्चिद्रूपक इत्यर्थः । विवर्तना- दिति। विरुद्धतया वर्तनादित्यर्थः । विरुद्धत्वमेवाह-स्वेति। विनिगमनाविरहादाह- यद्वेति। अवयवे अवयवरूपके। अवयवानां मुक्तानक्षत्र वस्त्रज्योत्सनामुखचन्द्रनायिका- पूर्णिमारूपाणाम् । अभिप्रतेति । विधेयलेन वर्ण्यतादिति भावः। तयोर्विषयविष-

१ परस्परसापेक्षा निष्पत्तिर्येषाम्, अवयवरूपकाणां सिद्धिं विना प्रधानरूपकस्य सिद्धि- व यत्र न भवेदित्याशयः ।

Page 369

रूपकम् ] रसगङ्गाघर: । ३०७

सावयवरूपकस्यापि विधेयत्वमत्र व्यपदिश्यते। यथा भटसंघातान्तर्गतस्य मुख्यस्य कस्यापि भटस्य जयपराजयाभ्यां भटसंघानो जितः पराजित- श्चेत्युच्यते। 'कयोमाङ्गणे सरसि नीलिमदिव्यनोये तारावलीमुकुलमण्डलमण्डितेडम्मिन्। आभाति पोडश्कलादलमक्कभृङ्ग सूराभिमुख्यविकचं शेशिपुण्डरीकम् ।' अस्य तु सावयवरूपकस्यानुवाद्यत्वमेव। अत्र वर्ण्यस्य पूर्णचन्द्रस् सूर्याभिमुख्यं ज्योतिःशास्त्रसिद्धम्। तेन सूर्याभिमुख्ये चन्द्रस्य कथं विकास इति न शङ्कनीयम् । एकदेशविवर्ति सावयवं यथा- 'भवग्रीष्मप्रौढातपनितहसंतप्तव पुषो बलादुन्मूल्य द्राङगडमविवेकव्यतिकरम्। विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे विगाहन्ते दूरीकृतकलुपजाला: सुक्ृतिनः ।।' अत्र सहचरैनिंगडादिरूपकः सुकृतिपु गजरूपकमाक्षिप्यते। यथा वा- 'रूपजला चलनयना नाभ्यावर्ता कचावलीभुजगा। मज्जन्ति यत्र सन्तः सेयं तरुणीतरङ्गिणी विषमा ॥'

यिणोः । तदादाय तदीयविधेयत्वमादाय। अन्र पद्ये। अन्यधर्मेणान्यत्र व्यपदेशे मान- माह-यथेति। लक्ष्यान्तरनाह-व्योमेति। लक्ष्यान्तरदाने विशेषमाह-अस्य त्विति। अन्र क्वापि पृथन्विभक्तेर श्रवणान्मिथ उद्देश्यविधेयभावाभावेन सर्वमुद्दिश्याभाया एव विधेयतादिति भावः । स्पष्टत्वादितरदुपेक्ष्याह-अत्रेति। प्रौढातपेत्यत्र कमधा- रयः। व्यतिकर: संबन्धः । सहचररित्यनेनाक्षेपकव्वयोग्यता, गजरूपकस्य प्राधान्यं च १ 'सुन्दरि त्वं राकासि' अत्र सुन्दरी उद्देश्यं राकात्वं विवेयमिति यथा स्पष्टं प्रतीयते तथा सुविमलमौक्तिकतारे! (सुविमलमौक्तिकानि तारा यस्याम्) इत्यादिसंबोध्यविशेषणेषु मौक्तिकादीन्युद्दिश्य तारादित्वविधानं (वर्णनम्) न स्पष्ट प्रतीयते, समासेन उद्देश्यविवेय भावसूचक-विभक्तिलोपात। इति शङ्कायाः-समर्थ्य(प्रधान)रूपकस्व विधेयत्वमादाय संपूर्ग- रूपकस्यापि विधेयत्वं व्यपदेश्यमिति समाधानम्। २ पूर्वोदाहरणे 'सुन्दरि ! त्वं राकाऽसि' इति रूपकं यथा विधेयं तथाडत्र न । अपि तु-'शशी एव पुण्डरीकम्' इति पृथग्विभत्तयाऽनि- दिष्टोपमानोपमेये रूपके (उद्देश्ये) आभातीति शोभामात्रं विधेयम्। ३ मजजनपूर्वकं स्रान्ति।

Page 370

३०८ काव्यमाला। [ द्वितीयानन-

पूर्व तु कबे: समर्थ्यत्वरेनाभिसतस्य रूपकस्याक्षेपः, इह तु समर्थ- कत्वेनाभिमनस्य नयनयोर्मीनरूपकस्येति विशेषः । अत्र च चमत्कार- विशेषजनकनया रूपकसंधातात्मकमपि सावयवरूपकं रूपकालंकृतिभेद्- गणनायां गण्यते। यथा मौक्तिकालंकृतिभेदगणनायामेकं नासामौक्तिक- मिव संघातात्मकमौक्तिकमञ्जर्यादयोऽपि गण्यन्ते। अन्यथा मालारूप- स्योपमादेस्तद्वेदगणनेSगणनप्रसङ्गात्। एतेन 'गवां संघातो गोभेदानां कपिलादीनां गणनायां यथा न गण्यते तथा रूपकभेदगणनाप्रस्तुतौ न तत्संघातात्मकं सावयवं गणनीयम्' इति परास्तम्। एवमस्मात्संघाता- त्मकात्सावयवान्मालारूपकस्य संघातात्मकत्वेनाविशेषेऽप्येकविषयकत्व- परस्परनिरपेक्षत्वाभ्यामस्ति महान्विशेषः । निरवयवं केवलं यथा- 'बुद्धिर्दीपकला लोके यया सर्वं प्रकाशते। अबुद्धिस्तामसी रात्रिर्यया किंचिन्न भासते ।।' अत्र रूपकद्वयमपि सापेक्षरूपकसंघातात्मकत्वविरहान्निरवयवम् । मालात्मकत्वविरहाच्च केवलम् । निरवयवं मालारूपकं यथा- 'धर्मस्यात्मा भागघेयं क्षमायाः सारः सृष्टेर्जीवितं शारदायाः । आज्ञा साक्षाद्वह्मणो वेद्मूर्तेराकल्पान्तं राजतामेष राजा ।।' सूचितम्। लक्ष्यान्तरदाने बीजमाह पूर्व त्विति। रूपकस्य गजेत्यादि । मीनेति। सन्त इत्यस्य तु साधवः सुहृदश्चेत्यर्थद्वयमिति भावः । जनकतयेति गणनायां हेतुः । गण्यत इति। पृथगिति शेषः । लोकदष्टान्तेन सिद्धमर्थ प्रतिपाद्य व्यतिरेकमुखेन द्रढ- यति-तद्भ्ेदेति। उपमालंकारमेदेत्र्थः। प्रस्तुतौ प्रस्तावे। एवं अस्य पृथग्गणनवतू। एकवरिषयत्वेति। एतौ च मालारूपकनिष्ठौ धर्मौं। सावयवानेकविषयकं परस्पर- सापेक्ष चेति बोध्यम्। शारदायाः सरस्त्याः। साक्षादिति। अप्रतिहतशक्तित्वादिति १ यदि संघातात्मकं रूपकं तद्गणनायां न गण्येत तहिं मालोपमायाः (उपमासंघाता- त्मिकायाः) अपि उपमाभेदेषु गणनं न कर्तव्यं स्यादित्युपपत्तिः । २ चमत्कारविशेषजनकत्वात् मौक्तिकालंकृतिभेदेषु संघातात्मक-मौक्तिकमअ्जर्यादयो यथा गण्यन्ते तथा संघातात्मकं सावयवरूपकमपि रूपकभेदेषु गणनीयमेवेत्याशयः ।

Page 371

रूपकम् ] रसगङ्गाघर:। ३०९

एकविषयकनानापदार्थारोपरूपत्वान्मालारूपमिदम्। परस्परसापेक्ष- त्वविरहाच् निरवयवम् । यत्र चारोप एवारोपान्तरस निमित्तं तन्परम्परितम् । तत्रापि समर्थकत्वेन विवक्षितस्यारोपस श्रेपमूलकत्वे श्िष्टपरम्परितम् ॥ यथा- 'अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य। तस्य कुतो हि भयं स्यादखिलामपि मेदिनीं चरतः ॥' अत्र द्वयोरप्यारोपयोः समर्थ्यसरमर्थकभावस्य वस्तुतस्तुल्यत्वेऽप्यहि- तानामपकरणमेवाहीनां तापकरणमिति न्लेपमूलकेनारोपेण राजनि भेपजतादात्म्यारोपस्य समर्थनीयतया कवेरभिप्रायः । अत एव भङ्गश्नेष- निवेदितोऽहिभयाभावोऽपि संगच्छते। इदमेव मालारूपं यथा- 'कमलावासकांसारः क्षमाधृतिफणीश्वरः । अयं कुवलयस्येन्दुरानन्दयति मानवान्।।' शुद्धपरम्परितं केवलं यथा- 'देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता- देवं जल्पन्ति तावस्प्रतिभटपृतनावर्तिनः क्षत्रवीराः ।

भावः। एकेति। राजेतर्थः। दयोर पीति। अहिसंबन्धितापकरणमेषजारोपयोरित्यर्थः। 'समर्थनीयतायाम्' इति पाठः । कवेरिति। प्राधान्यादिति भावः । अन एव तस्य तात्मर्यविषयलेन समर्थनीयतन तद्वेद्यलादेव। भङ्गेति। पदच्छेदेलर्थः। इदमेव शिष्टप- रम्परितमेव। कमलेति। कमलानामावासः । कमलाया वासः । पृथ्वीधृतिः क्षान्ति- धृतिः । पृथ्वीमण्डलस्य कुमुदस्य च। अयं वर्ण्यो राजा। अत्र समर्थककमलावा- साद्यारोपस्य श्लेषमूलकस्य चन्द्रारोंपे निमित्तलाद्राज्ि कासाराद्यनेकपदार्थारोपरूपलाच्च मालाश्लिष्टपरम्परितरूपकता। पूर्वदेवा दैत्याः । 'समिति' इति 'क इह' इति द्विः पाठः । १ अहितानामपकरणमेव अहीनां तापकरणमिति रूपकं समर्थकम्, भेषजतादात्म्यारोपश्च समर्थनीय इति कवेरभिप्रायः । २ त्वं भेषजमसि अत एव अहिभयाभाव इत्यर्थः । ३ कमलाया वास एव कमलानाम् आवास: तत्कृते कासार: (सरोवरम्), एवंप्रकारेण सर्वत्र परम्परितता समर्थनीया।

Page 372

३१० काव्यमाला। [द्वितीयानने-

यात्रन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंग: ।।' अन्नापि भुजंगारोपो दुग्धारोपसमर्थ्यत्वेनाभिमतः । तदेव मालारूपं यथा- 'प्राची संध्या समुद्यन्महिमदिनमणेर्मानमाणिक्यकान्ति- ज्वोलामाला कराला कवलितजगतः क्रोधकालानलस्य। आज्ञा कान्तापदाम्भोरुहतलविगलन्मझुलाक्षारसानां क्षोणीन्दो संगरे ते लसति नयनयोरुड्रटा शोणिमश्रीः।।' यद्यपि सावेयवेऽप्यारोपे आरोपान्तरस्योपायस्तथापि तत्रारोपाति- रिक्तेन कविसमयसिद्धसादृश्येनाप्यारोपान्तरसिद्धिः संभवति। यथा प्रागुक्ते 'सुन्दरि राकासि नात्र संदेहः' इत्यत्र मौक्तिकादीनां तारात्वाद्या- रोपं बिनाप्यौजवल्यमात्रेणापि सुन्दर्या राकारोपसिद्धेः, इह तु नयन- शोणित्नि ज्वालाद्यारोपोऽनलसमारोपं नियमेनापेक्षते। एवं 'कारुण्यकुसु- माकाशः खलः' इत्यन्राकाशखलयोः सादृश्यस्याप्रसिद्धतयारोपसिद्ध्यर्थ- मारोप एवोपाय इति वैलक्षण्यम्। कश्चित्तु बह्वारोपात्मकात्सावयवादारोपद्वयात्मकमेवास्य वैलक्षण्ये वीजमित्याह।

व्याख्यातमिदम्। दुग्घारोपेति। अनेन परम्परितत्वमुक्तम्। श्रलेषमालयोरभावाच्छुद्ध- केवलले। तदेव शुद्धपरम्परितमेव। प्राचीति। अपिना मालारूपकपरिग्रहः । 'तत्र सावयवे सिद्धिः' इति पाठः । अनलसमारोपमिति। राज्ीति शेषः । कश्चित्विति।

१ कान्तापादलाक्षारसानाम् आज्ञा, तव नयनयोः शोणता लाक्षारसानामाज्ञेव शोण- तासंपादयित्रीत्याशयः । २ मकेनारोपेण अपरस्यारोपस्य समर्थने उभयत्र समानेऽपि सावयवरूपकात्परम्परितस्य को भेद इति जिश्ासायामाह-सावयवे रूपके-आरोपे एकस्मिन् आरोपे सति, द्वितीयस्य आरोपस उपायो भवतीत्यर्थः । ३ अ्रमोरय नागेशमहोदयस्य, क्रोधे इति वाच्यम्।

Page 373

रूपकम् ] रसगङ्गाघर: । ३११

'काव्यं सुधा रसज्ञानां कामिनां कामिनी सुधा। घनं सुधा सलोभानां शान्तिः संन्यासिनां सुधा ।।' अत्र विषयमालाकृतो न कश्चिच्चमत्कारविशेष इति न पृथग्भेद्गणनायां गण्यते। आरोप्यमाणमाला तु चमत्कारविशेषश्ञालित्व्राद्गण्यत एव। अथ कथं नाम छ्िष्टपरम्परिते 'कमलावासकासारः' इत्यादावेकस्या- रोपस्यारोपान्तरोपायत्वम्। यतः श्पेण कमलानामावासस्य कमलाया वासस्य चाभेदमात्रमत्र प्रतीयते, नैकन्नान्यारोपः । तस्य स्वतत्रविषय- निर्देशापेक्षत्वान्। न च शुद्धाभेदप्रत्यय एवारोपः। विषयनिगरणात्मि- कायामतिशयोक्तावपि तत्प्रसङ्गान्। न च शुद्धाभेदप्रत्ययेनात्रार्थः यत्संब- न्धिनि यत्संवन्ध्यभेदस्तस्मिस्तदभेद इति 'कमलावासकासारः' इत्यादौ राजनि कासारारोपो राजसंबन्धिनि लक्ष्म्याश्रयत्वे कासारसंबन्धिसरोजा- श्रयत्वाभेदारोपेण समर्थयितुं शक्यः। शपेण तु पुनर्लक्ष्म्याश्रयत्वसरोजा- श्रयत्वयोरभिन्नत्वेन प्रत्ययाद्भिन्नधर्मनिवन्धनो राजकामारयोर्यभेद- प्रत्ययः स्यात्, न तु राजनि विपये कासारविषयिकस्यारोपस्य प्रकृतस्य सिद्धिः। इमावभिन्नावित्याद्याकारस्य शुद्धाभेदप्रत्ययस्याप्रकृतत्वात्प्रागुक्त आरोपो मृग्यः । स च न श्रेपसाध्य इति। सत्यम्। श्रेपेण शुद्धाभेद-

अन्रारुचिबीजं तु प्रागुक्तरीला निर्वाह इति। विषयमालाकृत इति। एकम्योपमेयस्य नानोपमानकृत इत्यर्थः । या माला। तस्यैकत्रान्यारपस्य नानुपपत्तिरिति। अत्रेदं चिन्त्- म्-कमलावासेनायं राजा कासार इत्यादौ चथा शेषमूलकानेदाध्यवसानेनैनं साधार- णधर्ममादाय राजकासारयो रूपकस्य गाम्भीर्येण समुद्रोऽयमित्यादाविव संभवत्तद्वत्कम- लावासकासार इत्यादावपि संभवात्किमर्थडयं क्रेशः। साधारणधर्मज्ञानस्य चाभेदारो- पप्रयोजकल्वात्। इदमेव चास्योपायलमारोपे एतन्मूलीभूतसाधारणधर्मसंपत्तिः । साधारणधर्मसंपत्तिः आरोपेणवेत्वन्र न किंचिन्मानम् । समर्थके रूपकत्वत्यवहारस्तु भाक्तः । तदापि ्रिलिषेषु सादृश्यमूलकत्वाभावादावश्यकः । एवं च 'कारुण्यकुसुमाकाशः १ 'सत्यम्' एतत्पर्यन्तस्य पूर्वपक्षस्येदं विशदीकरणम्-'कमलावासकासारः' अत्र कमलाया वासे कमलानामावासत्वस्य आरोपः (रूपकम्), राजनि कासारत्वस्य आरोपे उपायभूनः । अत एव हि परम्परितत्वव्यपदेशः । इति कथनं कथं संगच्छते? क्वेषेण कमलाया वासस्य कमलानामावासस्य च परस्परममेदः प्रतीयेत कामम्, परम् एकत्र (कमलाया वासे) अन्यस्य (कमलानांम् आवासस्य) आरोपो न सिध्यति। आरोपे स्वतत्रस्य (पृथक्शब्दसूचितस्)

Page 374

३१२ काव्यमाला। [द्वितीयानने-

प्रतीतौ सर्या प्रकृतारोपसमर्थनायान्तरा मानसस्य राजसंबन्धिनि कासारसंवन्ध्यभेदारोपस्य कल्पनान्नानुपपत्तिः। कर्थं तर्हि परम्परितरूपके 'सोतन्यचन्द्रिकाचन्द्रो राजा' इत्यादौ रूपकत्वम्, अभेदारोपस्य सक्वेऽपि तस्य सादृश्यमूलकत्वाभावात्। इति चेत्, न । समर्थकारोपेण धर्मक्यसंपादने सादृश्यस्ये निष्प्रत्यूहत्वात्। स्यादेतत्। सौजन्यचन्द्रि-

खलः' इत्यादौ वक्ष्यमाणान्योन्याश्रयोऽपि न। खलाकाशरूपकोपयुक्तकारुण्यकुसुमयो- रमेद प्रत्ययस्येच्छाधीनाहार्यस्य संभवेन तावतवोपपत्तः। न तु समर्थकारोपे सादृश्यमूल- कक्मावश्यकमित्यनुपदमेवोक्तम्। एतेन स्यादेतदित्यादिना सौजन्यचन्द्रिकाचन्द्र इल्य- त्रत्यपूर्वपक्षसमाधाने परास्ते। अस्मदुक्तरीत्या पूर्वपक्षस्यैवाभावादिति। समर्थकारोपेण विषय(उपमेय)निर्देशस्याऽपेक्षितत्वात्। शुद्धः (साक्षात्, इतरामिश्रितः) अभेदप्रत्यय एव तु नाऽडरोप( रूपक)पदवाच्यः, अतिशयोक्तावपि तदुपलम्भात्। ननु शुद्धाभदप्रत्ययस् अयमथों यत्-यस्य (राज्ः) संबन्धिनि (कमलाया वासत्वे लक्ष्म्या- श्रयत्वे) यस्य (कासारस्य) संबन्धिनः कमलानामावासत्वस्य (सरोजाश्रयत्वस्य)अभेदः, तस्मिन् (राजि) तस्य (कासारस्य) अभेद इति। अर्थात् ययोर्धर्मिणो: संबन्धिपदार्थानाम् (धर्माणाम्) परस्परमभेदः, तयोरधर्मिणोरपि परस्परमभेदः सिध्यति। ततश् धर्मयोः (लक्ष्म्यावास-सरोजा- श्रययो:) अभेदेन धर्मिंणो राज-कासारयोरप्यभेद: स्यात, तेन च राजनि कासाराऽडरोपोपि स्यादिति चेत्। न। श्ेयमूलकेन धर्मयोरभेदेन धर्मिणोरप्यभेद एव सिध्येत् न त्वेकस्मिन्नन्या- रोपः। इमौ द्वावपि पदार्थों अभिन्नौ इति शुद्धः अभेदप्रत्ययस्तु न प्रकृतः (प्रकृतकायोंपयोगी), अपि तु राजनि कासारारोप एव प्रकृतः । स चारोपः अन्वेषणीयः (साधनीयः) एव, नाधुनाप्युपपन्नः । आरोपस्य श्रेषसाध्यत्वाभावात्। इति पूर्वपक्ष: । १ दयो: शुद्धाभेदप्रत्यये सति, राजसंबन्धिनि पदार्थे कासारसंबन्धिनः पदार्थस्याडमेदा- रोपो मानसः कल्प्यते। अर्थात् श्रषेण द्योरभेदः, अभेदोत्तरं परस्परमारोपस्तु मनसा (साथनेन) कल्प्यते, इत्युत्तर: पक्षः । २ अर्थात् साजन्य-चन्द्रिकयोरमेदे संपादिते सचन्द्रिकत्वं द्वयोनिष्प्रतिबन्धम्। ३ अंशमातं स्वीकृत्य अंशान्तरे शङ्कते-'सौजन्यमेत्र चन्द्रिका' इति षष्ठीतत्पुरुषावयवे समानाधिकरणतत्पुरुषे उत्तरपदार्थप्राधान्यात् विशेष्यभूतायां चन्द्रिकायां सौजन्याडमेदोऽन्वि- न्यात्। ततश्च सौजन्याभेदे सति चन्द्रिका सौजन्यरूपा परिणमेत्। चन्द्रिकायाः सौजन्यात्म- कत्वं तु न राजनि चन्द्रात्मकत्वं (रूपकम्) साधयेत्। 'यत्(चन्द्र)संबन्धिनि (चन्द्रि- कायाम्) यत्संबन्धिनः (राजसंबन्धिनः) सौजन्यस्याडभेदः, तस्मिन् (चन्द्रे) तस्य (राजः) अमेद:' इति न्यायेन चन्द्रे राजाडमेदः सिध्येत्। अभिप्रेतस्तु राजि चन्द्राडमेदः । ननु चन्द्रिकायां सौजन्याडमेदः सौजन्ये वा चन्द्रिकाऽमेदो द्वयमपि समानवित्ति-(एकरूपेण साधनेन, एकविभक्तिकतया संसर्गत्वेन) बोध्यम्। अत एव इच्छानुसारं चन्द्रिकायां सौजन्याभेद इव

Page 375

रूपकम् ] रसगङ्गाघरः । ३१३

काचन्द्र इत्त्र तत्पुरुपावयवे समानाधिकरणतत्पुरुषे चन्द्रिकायामभेदसं- सर्गेण सौजन्यन्य विशेषगत्वात्मतीवमानञ्चन्द्रिकागतः सौजन्याभेदो न राजनि चन्द्राभेदात्मकं रूपके समर्थयिनुं प्रभवति, यत्संबन्धिनि यत्सं- वन्ध्यभेद इत्यादिप्रागुक्तन्यायान्। अपि तु मौजन्ये विपये चन्द्रिकाभेद्ः। यथा-'सौजन्यं ते वराधीश चन्द्रिका त्वं सुधानिधिः।'सच दुरुपपाद एव। न चानचोः समानविनिवेद्यत्वान्नानुपपत्तिरिति शक्यं वक्तुम्, प्रात्यक्षिके हि सामध्यास्तुल्यत्वातन्। न तु गान्दबोधे व्युत्पत्तितिवैचित्र्य- निय्रिते। एवनन्यत्रापि क्थं समासगनशुद्धपरम्परिते द्वयोरारोपयो- निर्वाह्यनिर्वाहकभावः ? कथं च झशिपुण्डरीकमित्यादौ पुण्डरीकरूपक- मुच्यते ? पुण्डरीकाभेदात्मकस्य पुण्डरीकताद्रूप्यस्याभानान् । शश्य- भेदप्रत्ययाच् पुण्डरीकं शशीत्यत्रत शशिरूपकमुच्यताम्। एवं नीलिम- दिच्यतोये तागवलीमुकुलमण्डलमण्डिते पोडशकलादलमङ्कभृङ्गमित्यत्रा- प्युत्तरपढार्थे पूर्वपदार्थाभेदस्येव भानात्पूर्वपदार्थरूपकापनिः । तथा- 'सुविमलमोकिकनारे धवलांशुकचन्द्रिकाचमत्कारे। वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेहः ।।' इत्यत्र सुन्दर्या विपयभूतायां राकातादात्म्यावगसात्स्फुटमेव तावद्राका- रूपकम्। तत्र चरणत्रयगतानि राकारूपकाण्यनुगुणतयोपात्तान्यपि नानुगु-

चन्द्रिकायां सौजन्याभेदारोपेण। चन्द्रिका5भेद इति। तदात्मकरूपकं समर्थयितुं ग्रभ- वतीत्यस्यानुषङ्गः । सच सतु, सौजन्यचन्द्रिकेत्यत्र। अनयोरमेदयोः। तत् तुत्यवित्तिवेद्य- खम्। अन्यत्रापि उदाहृतातिरिक्तस्थलेऽपि। उदाहृतस्थल एव शङ्कते-कथं चेति। सौजन्ये चन्द्रिकाSमेदोपि शक्यते ग्रहीतुम् इति चेन्। न। प्रत्यक्षविषये तुल्यसानग्रीकत्व- मादाय समानवित्तिवेद्यत्वं स्वीक्रियते। शाब्दबोधे नेदं मन्तुं युज्यते। ततश्च-शशिपुण्डरीकम्, नील्मिदिव्यतोये, सुविमलमौत्तिकतारे, इत्यादौ सर्वत्र तत्पुरुषघटिते उत्तरपदार्थे पूर्वपदार्थ- स्याडमेद: प्रतीयेत, अथीत् तारादिपु मौक्तिकादीनामभेदः प्रतीयेत । न चायम् (मौक्तिका- भेद:) सुन्दर्या राकानादात्म्यं साधयेत्, अपि तु मौक्तिकादिषु तारादीनामभेद एव राकाडनेदं साधयितुं शक्कयात। इति 'अत्र वदन्ति' इत्यतः प्राक् पूर्वपक्षः । १ 'सुविरल' इति काशीपुस्तकपाठः । २७ रस०

Page 376

३१४ काव्यमाला। [द्वितीयानने-

भिन्नत्वे सिद्वेऽपि न सुन्दर्या राकातादात्म्यं सेदुमीष्टे। प्रत्युत विपरीतं राकायां सुन्दरीनाद्रूप्यम्, तेपां राकासंबन्धित्वात्सर्वमेव व्याकुलमिति। अत्र वदन्ति-अभेदस्तावद्विशेषणस्य संसर्गो भवति। स च यधा मुख्ं चन्द्र इत्यादौ वाक्यगते रूपके स्वप्रतियोगिनश्चन्द्रस्य खवानुयोगिनि मुखे विशेषणताया निर्वाहकस्तथैव समासगते मुखचन्द्र इत्यादो रूपके स्वानुयोगिनो मुखस्य प्रतियोगिनि चन्द्रे विशेषणतायाः। एवं चोभयत्रापि वस्तुतश्चन्द्राभेद एक संसर्गः । क्वचिद्नुयोगित्वमुखः, क्वचिच्च प्रतियोगि- त्वैमुखः, विशेपणविशेष्यभाववैचित्र्यात्। न तु मुखचन्द्र इत्यत्र मुखाभेदः संसर्ग: । तथा सति चन्द्ररूपकानापत्तेः, मुखरूपकापत्तेश्र। स्वप्रतियोगि- काभेद एव विशेषणसंसर्गो न तु स्वानुयोगिकाभेद इति तु दुराग्रहः। एवं च सौजन्यचन्द्रिकेत्यादौ वस्तुतः सौजन्याभेदो न सौजन्यस्य चन्द्रि- काविशेषणस्य संसर्ग:, अपि तु चन्द्रिकाऽभेद एव। तथा च सौजन्य- निष्ठाभेदप्रतियोगिनी चन्द्रिकेति पर्यवसितेऽर्थे, भङ्ग्यन्तरेणे सौजन्ये चन्द्रिकाऽभेदसिद्धौ जातायां राजनि चन्द्राभेदोऽपि निष्पद्यतेइति

चस्चर्थे। ईष्टे तदभिन्नलमिति शेषः। सुन्दरीताद्रप्यं तदभिन्नतवं सेड्ुमीष्टे इत्यस्यानु- पङ्ः। क्वचित्समासगते क्वचिच्च वाक्यगते। एवंव्याव्त्यमाह-न त्विति। इतन्न १ वाक्ये-'मुखं चन्द्रोस्ति' इत्यभेदः स्वप्रतियोगिनः (चन्द्रस्य) अनुयोगिनि (मुखे) विशेषणताया निर्वाहकः । समासे-'मुखचन्द्रः' अत्र तु स्वानुयोगिनो मुखस्य प्रतियोगिनि चन्द्रे विशेषणताया निर्वाहकः । उभयत्रापि चन्द्रस्यैवाडमेद इत्याशयः । २ समासे-स्वानुयोगिनो मुखस्य प्रतियोगिनि चन्द्रे अभेद इति सोऽयमभेद: अनुयोगित्व- मुखः । अनुयोगित्वं मुखे आदौ यस्य । ३ वाक्ये-सवप्रतियोगिनश्चन्द्रस्य स्वानुयोगिनि मुखे अमेद इति प्रतियोगित्वमुखः । ४ अर्थात् प्रतियोगित्वमुख एव विशेषणस्य संसर्गों भवति, न तु अनुयोगित्वमुख इति तु हठ एवेत्यर्थः । ५ सौजन्यमेव चन्द्रिका इत्युत्तरपदविशेष्यतासूचकस्य विग्रहस्य दृष्टया मा भूत्कामम्। परम् अमेदो विशेषणस्य संसर्ग: (अर्थात् एकं विशेषणीकृत्य अपरस्मिन्नकीकरोति)। वाक्ये प्रतियोगी (चन्द्रादिः) विशेषणम्, समासे अनुयोगी (सुखादि) विशेषणम्। परं वस्तुतश्च- न्द्रस्यवाडमेद उभयत्र ।

Page 377

रूपकम् ] रसगङ्गाघर: ।

परम्परिते नानुपपत्तिः। शशिपुण्डरीकमित्यादावपि इशिनिष्ठाभेदप्रनियोगि पुण्डरीकमिति पर्यवसितेऽये पुण्डरीकामेदस्य भानाुण्डरीकम्पकमव्चा- हृतम्। एवमन्येष्वप्यवयवरूकेपु वोध्यम। एवं सुविमलमाँक्तिकतारे इत्यादावपि ताराद्यभेढ एव मौनििकादिगनो मौकिका्दानां तारादि- विशेपणानां संसर्गीभवन्राकारपकस्य समर्थको भवतीति सर्व सुस्धम्। सोडयमभेदो यन्रानुयोगित्वमुन्नस्तत्र रपकस्य विधेयता। यत च प्रतियोगित्वमुखस्तत्रानुवाद्यत्वमिति दिक। तत्र 'प्राची संध्या समुदन्महिमदिनमगेः' इन्यत्ारोप्यमाणयोः

सनासगने। सुखाभेदो मुखप्रतियोगिकानेदः। नानुपपत्तिरिति। रूपकत्वम्यच्यादिः। सर्व सुस्थमिति। अन्ये तु "तुत्यविनिवेधनया चन्द्रामेदस्यापि सुखे प्रतीतेर थं चन्द्रन्पकम्। शब्द व्यले। एवं मुखानेदस्य सनासशास्त्रपवृत्युपयोगिनया रीवारे जनचवात्यविषयचाल तमादाय सुखरपकत्यवहारः। किं चात्र पुर्वरदार्यप्धाननयुत्कम- कादिसमामेन चन्द्रपुण्डरीकाद्यमेदर्स्येव मुखशदयादो भानान दोकः। अन कप 'विश्ञे- व्यस्य पूर्वनिपातार्थमिदम्' इति भाष्ठकृतः । एवं च वाच्यनापि चन्द्ररूपकस्य" इल्याहुः। अपरे तु "चन्द्रनिष्ठामेदक्न्द्रप्रतियोगिकानेदय्व रूपकम्। अन एव 'तद्रूरकमनेदो य उपमानोपमेययोः' इत्युक्तं प्रकशी। वद्वा विपविनिष्ठाभेदप्रतियोगितया यत्र विषयस्य रज्जनमिलेव लक्षणार्थः। एवं च मुखनतयोगिकामेदवांश्वन्द्र इत्येवंबोधेऽपि न क्षतिः"इत्याहुः। तत्र पदार्थरूपकाण मध्ये। परस्पमिचन्य नध्यमनिन्यायेनोभयत्रा- १ मुसचन्द्र इति समासे मुखं चन्द्र इति ववये ने क चन्दानियगिक पवानेदो भव्रतो, न तु मुखप्रतियोगिकः । कचित् अनुयोगी आव न्वनि, कचित्मतियोगी, इति वेचिव्यना- नन्। एवं साधिते-सौजन्यचन्द्रिकेत्वादी नर्वत्र समामगनरूपकसले आपातत मव विशेन- णत्य सौजन्यादेरभेदः प्रतीयते, वास्तवे दु चन्द्रिकाया मवानेदः। एवं च सौजन्यनिषठो यो5 भेदस्तत्प्रतियोगिनी चन्द्रिका इत्यादिरेव सर्वत्र बेधः पर्यवसीयते। नथा च-आपानतश्चन्ति- कार्यां सौजन्याभेदप्रतीतावपि वस्तुतः मौजन्ये चन्द्रिकाडमेदसिद्धौ (पूर्वोक्तयुक्त्या) जानाया तत्सनर्थिनो राजनि चन्द्राभेदः (रूपकम्) निष्परतिबन्धः। एवं शशिपुण्डरीकं सुविमलमँक्त- कतारे इत्यादौ सर्वत्र समासगतरूपके बोध्यन्। २ दिनमणेररुणतार्थ सन्ध्या अनुकूलेति आरोपविषययोः (महिम-नयनारुणिमश्रियोः) आरोप्यमाणयोः (दिनमणि-सन्ध्ययोः) च परस्परमानुकूल्ये अनुग्राहकेण समर्थकेन (महि- मनि दिनमणित्वरूपकेण) अनुग्राह्यं समर्थनीयं (नयनशोणिमश्नियः प्रातःसन्व्यात्वरूप- कम्) इति आनुकूल्ये परम्परितरूपकम् !

Page 378

३१६ काव्यमाला । [द्वितीयानने-

प्राति कूल्ये यथा- 'आनन्दमृगदावाभनिः शीलशाखिमदद्विपः । ज्ञानदीपमहावायुरयं खलसमागमः ।।' चथा वा- 'कारुण्यकुसुमाकाशः शान्तिशत्यहुताशनः। यश:सौरभ्यलशुनः पिशुनः केन वण्यते ॥' एकत्र नाश्यनाशकभावरूपमपरत्र चात्यन्तिकसंसर्गशून्यतारूपं प्राति- कूल्यसुपमानयोस्तथवोपमेययोश्च। अनुग्राह्यानुग्राहँकभावः पुनरारोपयोर- विशिष्ट एव। तथा- 'अयं सज्जनकार्पासरक्षणैकहुताशनः । परदुःखामनिशमनमारुतः केन वर्ण्यते॥' अन्र रक्षणशमनपढे विरोधिलक्षणया विपरीतार्थबोधके। एवं पदार्थरूपकं लेशतो निरूपितमेव। वाक्यार्थे विपये वाक्यार्थान्तरस्वारोपे वाक्यार्थरूपकम् । यथाहि विशिष्टोपमायां विशेषणानामुपमानोपमेयभाव आर्थस्तथात्रापि वाक्यार्थघटकानां पदार्थानां रूपकमर्थावसेयम्।

न्वयः । लक्ष्यान्तरदाने बीजमाह-एकत्रेति। आद्े इत्यर्थः। अयं पिशुनः । अर्था- १ दावाशिना यथा मृगस्तथा खलसमागमेन आनन्दो नाश्यते, एवं च दावािर्यथा मृगार्थ प्रतिकूलस्तथा आनन्दकृते खलसमागम इत्यादिरूपे प्रातिकूल्ये परम्परितरूपकम् [आानन्दमृगेत्यादिपधे ]। २ आकाशे यथा कुसुमस्य तथा खले कारुण्यस्य सरवथा संसर्गों नेत्यादिरूपे प्रातिकूल्ये परम्प० [कारुण्येत्यादिपदे ]। ३ आनन्दे मृगरूपकेणैव खलसमागमे दावाशनिरूपकं समर्थ्यने, इत्यादिकः । ४ डुवाशनक्तकं कार्पासकर्मकं रक्षणं यथा बाधितं तथा पिशुनकर्तृकं सज्जनरक्षणं वाचितमिति रक्षणपदस्य (नाशने) लक्षणा। एवं शमनपदस्य वर्धने। ५ एकसिगिन् पदार्थे (विषये) अपरपदार्थस्य (विषयिणः) आरोपः ।

Page 379

रु.पकम् ] रसगङ्गाघर:। ३१७

'आत्मनोऽस्य तपोदानेनिर्मलीकरणं हि यन्। क्षालनं भास्करम्वेदं सारमेः मलिलोत्करैः ।।' अत्रात्मनि तपोदानेपु चारोपविषयविशेषणतया बिम्बभूतेपु, भास्करस्य सलिलक्षालनादानां च विषयिविशेषणत्वेन प्रतिविम्बानां रूपकं गम्यमानं प्रधानीभूतविशिष्टरूर्पकाङ्गम्। 'नेदं रूपकम्। रूपके च बिम्बप्रतिबिम्त्र- भावो नास्ति' इति केनाप्यालंकारिकंमन्येन प्रतारितस्व दीर्घश्रवस उक्तिर- श्रद्धेयैव। ययोरिवादिशव्दप्रयोगे उपमा तयोरेकत्रान्यारोपे रूपक्रमिति निर्यमान्। अत्र यदि रूपकं नाङ्गीकुरुपे, मैत्राज्गीकुरु, तहि तत्रेवयथादि- शच्दप्रयोगे उपमामपि। एवं 'त्वयि कोपो महीपाल सुधांशाविव पावकः' इत्यादौ स्वकल्पितेन विशिष्टेन धर्मिणा सादश्यस्य प्रत्ययादुपमां अूषे

वनेयनार्थिकम्। एनल्लश्ष्यमाह-आत्मन इति। सारसैः सरःसंबन्धिभिः । 'सलिलो- त्करादीनां च' इति पाठः। नेदमिति। किं तु निदर्शनेत्यर्थः । चोऽप्यर्थे। दीघश्रवसो लम्बकर्णस्य। दरविउस्याप्पयदीक्षितस्य। तयोरिति। तदभावे इति शेषः । युक्लन्र- माह-एवमिति। बालत्रः। शोगात्र इत्यर्थः । विषयिगश्चन्द्राधिकरणकामिरूपोपमा- १ अत्र प्रधानीभूनं विशिष्टं रूपकम् 'यन् निर्मलीकरणम् (विषयः), इदं क्षालनम् विषय)' इति। प्रधानेऽस्मिन् रूपके आरोपविषवस्य (निर्मलाकरणम् इत्येतस्) आत्- तनोदानानि विशेषणानि विम्बभूनानि । नास्कर-सलिलोत्करादीनि च आरोपविषयिण: (क्षा- लनम् इत्येतस्य) विशेषणानि, अतः प्रतिविन्वानि। ननश्च निर्नलीकरणे क्षालनारोपरूपं प्रधानं रूपक यथा वाच्यम्, तथा विम्बभृनेपु आत्न-तमोदानेपु प्रतिबिन्बानां भारकर-सलि- लोत्करादीनामारोपरूपन् अङ्गभूतं रूपकं व्यज्यमाननस्तीताशयः। २ अर्थात् उपमायान् श्व-वधाविवाचकरव्दप्रयोग:, रूनके च एकस्मिन् अन्यारोप: असाधारणः। अन्या सर्वापि सामग्री (बिम्बप्रतिबिन्बभावापन्नसाधारणधर्मादिप्रयोगरुमा) उनमा-रूपकयो: समाना भवतीत्यालंकारिकाणां नियमः । ३ उपमामपि मा अङ्गीकुरुष्तेत्यनुपङ्गः । अर्थात् तत्र (आत्मनोऽस्येतिपधे) इवादिशब्द- प्रयोगे उपमा भवेत्। यथा-'तपोदान: आत्मनो निर्मलीकरणं सरःसलिलोत्करैर्भास्करस्य क्षाल नमिव' इति। ततश्च विम्बप्रतिविम्बभावापन्नसाधारणधर्मादिका सामग्री उपमा-रूपकयोः साधारणीति सिद्धम्। एवं च रूपके बिम्नप्रतिबिम्बभावो नास्तीति कथनमनुपपन्नमेवेत्याशयः । ४ त्वत्पदार्थ(महीपाल, रूपविशेपणविशिष्टे धर्मिणि कोपे, स्वकल्पितेन सुधांशुरूपविशे- यणविशिष्टेन धर्मिणा पावकेन सह सादृश्यस्य प्रत्ययात् उपमाम् (बिम्बप्रतिविम्बभावविशि- ष्ाम्) ब्रूषे, तहिं-तत्रैव (त्वयि कोपः इत्युदाहरणे) इवस्य निरासे महीपालविशेषणविशिष्टे धर्मिणि कोपे, सुधांशुरूपविशेषणविशिष्टस्य (विशेष्यस्य) स्वकत्पितस्य धर्मिणो हृव्यवाहनस्य आरोपे सति (विशिष्टम्) रूपकमपि ब्रहि इति योजना।

Page 380

३१८ काव्यमाला-1 [ द्वितीयानने-

तर्हि तत्रैवेवस्य निरासे 'त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः' इन्यादी रूपकमपि। तथा- 'कुङ्कुमद्रवलिप्ताङ्ग: काषायवसनो यतिः। कोमलातपबालाभ्रः संध्याकालो न संशयः ।।' इत्यादावपि विशिष्टरूपकं बोध्यम्। त्वयि कोप इत्यत्र विषयिण: ख्वबुद्धिकल्पितत्वात्कल्पितं विशिष्टरूपकम् । इह तुन तथेति विशेषः । न चैवमादौ प्रतीयमानोत्प्रेक्षा वक्तुं शक्या, अभेदस्य निश्चीयमान- त्वात्। उत्प्रेक्षायां च सत्यां संभाव्यमानता स्ात्। अन्यथा मुखं चन्द्र इत्यादावपि प्रतीयमानोत्प्रेक्षापत्या रूपकविलोपापतेः । अथ बोधो विचार्यते- तन्न प्ाञ्ः-"विषयिवाचकपदेन विषयिवृत्तिगुणवतो लक्षणया सारोपयोपेस्थितौ, विषये तस्याऽभेदेन संसर्गेण विशेषणतयान्वयः । एवं च सुखं चन्द्र इत्यत्र चन्द्रवृत्तिगुणवद्भिन्नं मुखमिति धीः । अत एवालंकारभाष्यकार: 'लक्षणापरमार्थ यावता रूपकम्' इत्याह। न च चन्द्रसदृशं मुखमित्युपमातोऽस्य को भेदः। बोधवैलक्षण्याभावेन विच्छि- त्तिवैलक्षण्याभावात्। वृत्तिमात्रवैलक्षण्यस्याप्रयोजकत्वादिति वाच्यम्। लाक्षणिकबोधोत्तरं जायमानेन प्रयोजनीभूतेनाभेदबोधेनैव वैलक्षण्यात्।

नस्य। इह तु कुङ्कम इवेत्यत्र तु। एवमादौ आत्मनोऽस्येत्यादौ। इवाद्यप्रयोगादाह- प्रतीयेति। अन्यथा तस्य संभाव्यमानले इष्टापत्तौ। तत्र बोधविषये। द्वयोरुपादा- नादाह-सारोपेति। उपस्थितौ सत्यामिति शेषः । विषये तस्याभेदेनेति। विषय- तावच्छेदकावच्छिन्नविषये पूर्वोपस्थितस्येत्यर्थः । वृत्तीति । शक्तिलक्षणान्यतरेत्यर्थः । १ 'यति; (विषयः ) सन्ध्याकाल: (विषयी)' इति प्रधानम् अङ्गि रूपकम्। अस्मिन् रूपके कुङ्गमद्रवलेपः काषायवसनं चेति विषयविशेषणतया बिम्बभूते। बिम्बभूतयोरेतयोः (सप्तमी) यथाक्रमं कोमलातप-शोणाभ्रयोः विषयिविशेषणयोः प्रतिबिम्बभूतयोरारोपः, इति

विषयिणि (चन्द्रादौ) वर्तमाना ये गुणास्तद्वतः सारोपया लक्षणया विषयिवाचकपदेन उपस्थिता सत्यामिति योजना ।

Page 381

रूपकम् ] रसगङ्गाघर:। ३१९

निरूढलक्षणातिरिक्ताया लक्षणायाः प्रयोजनवत्तानियमात्। अभेदबुद्धेश्च वृत्त्यन्तरवित्तिभाव्यत्वेन न वाधबुद्धिप्रतिबध्यत्वम्" इत्याहुः । नव्यास्तु-"नामार्थयोरभेदसंसर्गेणान्वयस्य व्युत्पत्तिसिद्धत्वाचन्द्रा- भिन्नं मुखमिति लक्षणां विनैव बोधः। फलस्यान्यथैवोपपत्तेर्लक्षणाकल्प- नस्यान्याय्यत्वात्। किं च यदि च रूपके लक्षणा स्ान्मुखनन्द्र श्यत्रो- पमितविशेषणसमासयोरुत्तरपदस्य लाक्षणिकत्वाविशेषादेकस्योपमात्वम- न्यस्य रूपकत्वमिति व्याहतं स्यान्। अपि च मुखं न चन्द्रसदशमपि तु चन्द्र इत्यादौ सादृश्यव्यतिरेकमिश्रिते सादृश्यबुद्धेरयोगात्। एवं देव- दृत्तमुखं चन्द्र एव, यज्ञदत्तमुखं तुन तैथा, अपि तु चन्द्रसदशमित्यादौ नव्र्थस्य लक्ष्यमाणचन्द्रसदशान्वयित्वात् 'न चन्द्रसदशश्रन्द्रसदशम्' इति बोधकदर्थनापत्तेश्र। नहि नञः फलीभूतज्ञानविषयेणाभेदेनान्वयो

वृत्त्यन्तरवित्तीति। व्यञ्ञनाज्ञानेत्यर्थः। आहुरिति। एतन्मते ह्वेवं रूपकलक्षणम्- अनिह्वुतविषयकं पुरस्कृतविषयतावच्छेदकं वा आहार्याभेदप्रतीतिफलकोपमानबोधकपद- जन्यप्रतीतिविषयीभूतं साध्म्यमिति। फलस्याभेदवुद्धेः। अन्यथैव, उक्तप्रकारेण। न तथा, न चन्द्रः। सदश इति । मुखपदार्थ इति शेषः। ननु खमते बाधसत्त्वेन कथमभेद-

१ मुखं चन्द्र इवेत्युपमितसमासे अश्रयमाणवाचकशब्दत्वात् सादृश्यार्थस्य प्रतीतये चन्द्र- सदृशे लक्षणा भवति। इदानीं विशेषणसमासे (मयू०) रूपकेऽपि लक्षणायां स्वीकृतायामुभय- विधसमासेऽपि उत्तर(चन्द्र)पदस्य लाक्षणिकत्वाSविशेषः । २ तथा अर्थात् चन्द्रो न, अपि तु चन्द्रसदृशम्। रूपके लक्षणास्वीकारे तु 'चन्द्रः' इत्यस्य 'चन्द्रसद्टशम्' इत्यर्थः स्यात। ततश्र-'तथा न, अपि तु चन्द्रसदृशम्' इत्यस्य 'चन्द्रसदृशं न अपि तु चन्द्रसदृशम्' इत्यर्थे सति बोधस्य रपष्ट कदर्थनेत्याशयः । ३ ननु नञः 'तथा'पदबोध्येन चन्द्रेण (लक्षणया चन्द्रसदृशेन) नात्रान्वयः, अपि तु लक्षणायाः फलीभूतं यज ज्ञानम् (मुखं चन्द्राभिन्नमिति) तद्विषयेण अभेदेन सह नजोS- न्वयः । तथा च-'मुखस्य चंद्रेण अभेदो न, अपि तु मुखं चन्द्रसद्ृशम्' इत्यर्थे सति न कान्वित्कदर्थनेति चेत्। न । वाक्यार्थबोधोत्तरं प्रत्येयस्य अभेदस्य पदार्थान्वयकाले अनु- पस्थितेः । अत एव हि फलत्वव्यपदेशः । फलं हि बोधोत्तरमेव स्यान्न तु पदार्थान्वयकाले।

Page 382

३२० काव्यमाला। [ द्वितीयानने-

युक्त:, एतदन्वयवेलायां तस्यानुपस्थिते: । तादृशाभेद्बोधस्य चाहार्यत्वान्न बाधवुद्धिप्रतिबध्यत्वम्। यद्वा आहार्यान्यत्वस्येव शाब्दान्यत्वस्यापि बाघ- निश्चयप्रतिबध्यतावच्छेदककोटौ निवेशः । सति च बाधनिश्चये तद्वत्ता- शाब्दवुद्धेरनुत्पादः, योग्यताज्ञानविरहात्। सति च कचिदाहार्ये योग्य- ताज्ञाने तदूद्वेरिष्टत्वात्। अत एव योग्यताज्ञानस्य बाधनिश्चयपराहतस्यापि शाब्दधीहेतुत्वम्। तस्मादेतदन्यतरप्रकारेण काव्ये सर्वत्र बोधोपपत्ति:। अपि च तद्रतधर्मवत्त्ववुद्धेः कथं तद्भेदबुद्धि: फलं स्ात्। नहि

धीरत आह-तादृशति। इदं च शाब्दे तस्याः प्रतिबन्धकत्वमूरीकृत्य। वस्तुतस्तदेव, नेत्याह-यद्वति। नन्वेवं सति बाधनिश्चये तदभावो नोपपद्येतात आह-सति चेति। बुद्धेरनुत्पाद इति। इदं तु चिन्त्म्। शाब्दबोधो हि भवतेव। अत एवं वह्निना सिञ्चतीति वाक्यप्रयोक्तुरद्रवेण वहिना कथं सेकं ब्रवीषीत्युपहासः संगच्छते। अबोधे हि एतदर्थकद्रविडभाषाश्रवणोत्तरं पाश्चात्यस्येव मूकतैव स्यात्। ननु पदार्थस्म- रणमेव न शाब्दबोध इति चेत्, किमनेन श्रद्धाजाड्यन। बाधज्ञानादीनां च तद्वो- व्येऽप्रामाण्यज्ञानजननद्वारा प्रवृत्तिप्रतिबन्धकलम्, योग्यताज्ञानादीनां च तज्जनकलमेव

१ तादृशामेदबोधस्येत्यारभ्य-सर्वत्र बोधोपपत्तिरेतत्पर्यन्तस्येदं विशदीकरणम्-अयं च द्वयो: (नामार्थयोः) अमेदबोधः आहार्यः (बाधे सत्यपि इच्छया कल्पितः)। अत एव नार्य बाधबुद्धा प्रतिबध्यः । अथवा-आहार्योडमेदबोधो यथा 'बाधनिश्चयेन न प्रतिबध्यः तथा शाब्दोऽपि (शब्दमात्रेण कल्पितः, न तु वास्तवः) । तथा च-मुखं चन्द्र इत्यादौ आहार्य- त्वाऽस्वीकारेSपि शाब्दतवेन कार्यनिर्वाहः। आहार्य-शाब्दयोर्बाधनिश्चयाSप्रतिबध्यत्वे उप- पत्तिमाह-सति च बाधनिश्चयेति०-अर्थात् यत्र यद्वत्ताबुद्धे: बाधनिश्चयो भवति तत्र तद्वत्ताशाब्दबुद्धिर्नोत्पद्यते। अत्र तु कल्पितं योग्यताज्ञानं स्वीकृत्य तद्त्ताबुद्धिरुत्पद्यत एव, न प्रतिबध्यते। तस्मात्-अन्यतर(आह्ार्योडमेदबोधः शाब्दो वा स्वीकार्यः)प्रकारेण सुखं चन्द्र इत्यादौ बोधोपपत्तिः, न लक्षणाजन्यं गौरवमिति नव्यानामाशयः। अयं विषयो गौणसारोपलक्षणाप्रसङ्गे पूर्वमप्युपपादितः । २ रूपकस्थले-अभेदज्ञानमाहार्य स्वीकार्यम् [ आहार्यात् अन्यत् (अनाहार्य सत्यम्) ज्ञानमेव बाधबुद्धया प्रतिबध्यं भवति। आहार्यस्य तु बोधे न बाध इत्यर्थः ] अथवा बोधोपपत्तये योग्यताज्ञानमेव आहार्यम् (कल्पितम्) स्वीकार्यम्, पतदन्यतरप्रकारेण बोध इत्याशयः । ३ सदृशलक्षणया तद्गत( चन्द्रगत)साधारणधर्म(आह्लादकत्व)वत्वबोधे सति चन्द्रा- भन्रत्व फल कर्थ स्यात? साधारणधर्मवता (वस्तुना) सह अभेदस्य ज्ञाने सति साधारणं- धर्मजदमेदो गहयत, न खलु तत्तदसाधारणधर्मवतः।

Page 383

रूपकम् ] रसमङ्गाघर: । ३२१

साधारणधर्मावच्छिन्नाभेद्ज्ञानस्य तत्तदसाधारणधर्मावच्छिन्नाभेदज्ञाने हेतुत्वं क्काप्यवगतम्। घटपटयोर्द्रव्यत्वेनाभेदग्रहेपि घटत्वादिना भेद्ग्रहात्। तैदभिन्नत्वेन ज्ञानस्य पुनसतद्वर्मप्रतिपत्तिः फलं स्यात्। प्रवाहाभिन्नज्ञानस्येव शैत्यपावनत्वादिप्रतिपत्तिः । अत एव- 'कृपया सुधया सिञ्न हरे मां तापमूच्छतम्। जगज्जीवन तेनाहं जीविष्यामि न संशयः ।' इत्यादावमृताभिन्नत्ववोधे सत्येव कृपायाः सेके करणत्वेनान्वयः । तादृशसेकस्य जीवने हेतुत्वेन इति दिक्। अथ कथं 'गाम्मीर्येण समुद्रोऽयं सौन्दर्येण च मन्मथः' इत्यत्र बोधः। शृणु-प्राचां तावल्लक्ष्यमाणकदेशे सादृश्ये प्रयोज्यताया अभे-

गाम्भीर्याभिन्नसमुद्रवृत्तिधर्मवद्भिन्नोऽयमिति वा धीः। लक्षणां विनैव अभेदसंसर्गेणान्वयवादिनां पुनरित्थम्-कविना स्वेच्छामात्रादुपकल्पिता असन्तोऽप्यन्तःकरणपरिणामात्मका अर्था उपनिबध्यन्ते मुखचन्द्रादयः। तेषु च सार्धारणधर्माणामरत्येव प्रयोजकत्वम्, तद्दर्शनाधीनत्वात्तत्नि

नेति रमणीयः पन्थाः। अभेद्ग्रहेऽपीति। अन्ये तु चमत्कारिसाधारणधर्मरूपसाह- श्यज्ञान एव फलबलात्तथाशक्तिकल्पने नायं दोष इत्याहुः। सेके करणत्वेनेति। न तु सदृशलनेत्यर्थः । ज्ञाने तत्सदशात्तत्कार्योत्पत्तेरनुभवविरुद्धत्वादिति भावः। नन्वेवमन्ध- १ अभेदज्ञाने सति तु तत्तदसाधारणधर्मप्रतीतिः फलं स्यात्। अयं भाव :- लक्षणया सादृश्यबोधे सति साधारणधर्मवदभिन्नस्य लक्ष्यस्य बोधः स्यात् न तु असाधारणधर्मवतः साक्षात्तद्वस्तुन एवाडमेदो गृह्येत । द्वयोः (नामार्थयोः) अभेदे तु गृहीते असाधारणधर्म- वदभेदोऽपि फलतया प्रतीयते। एवं च-'कृपया सुधया सिञ्न' अत्र लक्षणायां सुधासदृश्या कृपया सिञ्चेत्यर्थे सुधासदृश््या सेचनमनुभवविरुद्धम्। द्योरभेदे तु सुधाऽभिन्नया कृपया सेचन- मुचितमेव। एवं च रूपके न लक्षणा, अपि तु नामार्थयोरभेदेनैवोपपत्तिरिति नव्यमतम्। २ अर्थात केवलमभेदान्वयेनैव न निर्वाहः, अपि तु यावत्कालं साधारणधर्माः प्रयोजका न स्युस्तावत न रूपकोपपत्तिः । मुखचन्द्रयोः तत्(साधारणधर्म)दर्शनादेव हि तत (मुखचन्द्र इत्यादिरूपक)निर्मितिर्भवति [उक्तमिदं सारोपगौणलक्षणाप्रसङ्गे नव्यमतालोच- नायाम् 'अत्रेदं विचार्यते' इत्यादिना ]।

Page 384

३२२ काव्यमाला। [ द्वितीयानने-

मितेः। एवं च गाम्भीर्यादिप्रयोज्यसंमुद्राद्यभिन्न इति बुद्धिरप्रत्यूहेति। यद्वा ज्ञानजन्य-ज्ञानप्रकारत्वं तृतीयार्थः, वह्निमान्धूमादित्यादौ पञ्चम्यर्थ- तया तस्य कल्पनात्। एवं च गाम्भीर्यज्ञानेजन्यज्ञानप्रकारसमुद्राभिन्न इत्यादिर्बोधः । तदिदं रूपकं विषयविषयिणोः सामानाधिकरण्ये अपदार्थतया संसर्गः। यथा 'बुद्धिर्दीपकला'- इत्यादौ। वैयधिकरण्ये च शब्दार्थतया कचिद्विशेष्यम्। यथा- 'कैशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तना- वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया। आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहां किं चासीदमृतस्य भेद्विगमः साचिस्मिते तात्त्विकः ।।' अत्र शशाङ्कता-तादात्म्य-भेद्विगमशब्दैरभिधीयमानं रूपकं प्रथ- मान्तविशेष्यतावादिनां मते विशेष्यॅम्। क्रियाविशेष्यतावादिनां तु तत्रैव किंचिव्यत्ासेन निष्ठान्तक्रियोदाने।

कवेस्तन्निर्मितिने स्यादत आह-यद्वति। यद्ा तज्ज्ञानस्य प्रयोजकलेऽपि तस्यातत्त्वा- दाह-तस्येति। ज्ञानजन्यज्ञानप्रकारत्वस्यान्यैः कल्पितत्वादित्यर्थः । क्वचिद्विशेष्य- मिति। वाक्यार्थमुख्यविशेष्यमित्यर्थः । आयातीति सप्तम्यन्तं वयोविशेषणम् । तन्व्यास्तनाविति मध्यमणिन्यायेनान्वेति । आगामीति। शक्ता लक्षणया वेति भावः । किंचिदिति । 'कि चासीत्' इत्यस्य स्थाने 'संपन्नो हि' इति पाठे इत्यर्थः । १ गाम्भीर्यज्ञानेन जन्यं यज ज्ञानम् (समुद्रविषयकम्) तस्मिन् प्रकारीभूतो यः समुद्रस्तदभिन्नः । २ 'मुखं चन्द्रः अस्ति' 'बुद्धिः दीपकला' इत्युक्तौ समानविभक्तिकतयैव द्वयोरभेदः (रूपकम्) प्रतीयते इति सोयमभेडः कस्यचन पदस्य नाऽर्थः । अत एव संसर्गरूपः सः । ३ असमानविभक्तिकतायां तु केनचन शब्देन प्रतिपादः सः (अभेदः) । शब्दप्रतिपाद्यः अभेद: क्वन्विद्विशेष्यं क्कचिच्च विशेषणं भवतीत्यग्रे उदाहरणाभ्यां स्पष्टीकृतम्। ४ तथा च 'आस्ये पूर्णशशाङ्कता आसीत्' अत्र आस्यनिष्ठाऽभेदप्रतियोगित्वप्रकारकान- च्यतनभूतकालिकभवनानुकूलकृतिमान् पूर्णशशाङ्क इति प्रथमान्तविशेष्यतावादिनाम् (नैया- यिकादीनाम्) मते शाब्दबोधः । .५ 'कि चासीत' अस्य स्थाने 'संपन्नो हि' इति निष्ठा(क्ता)न्तक्रियादाने [लिङ्गविप- रिणामेन च पूर्णशशाङ्कतादिभि: सहान्वये ] क्रियाविशेष्यतावादिनामपि मते रूपकं विशेर्ष्य भवतीत्यन्वयः । कृदन्तक्रियायां तेषामपि प्रथमान्तस्यैव विशेष्यत्वात्।'

Page 385

रूपकम् ] रसगङ्गाघर:। ३२३

क्कचिच्च विशेषणम्। यथा- 'अविचिन्त्यशक्तिविभवेन सुन्दरि प्रथितस्य शम्वररिपोः प्रभावतः । विधुभावमञ्च्तितमां तवाननं नयनं सरोजद्लनिर्विशेषताम् ।।' इह द्वितीयार्थे विशेपणीभूतं विधुत्वादि विध्वभेदात्मकतया रूपकम्। एवं मुखचन्द्र इत्यादावुपमितसमासे तावदुपमैव। विशेषणसमासे तु रूपकम्। बोधश्च शशिपुण्डरीकमित्यादाविव प्राक्प्रतिपादितदिशा बोध्यः। 'मीनवती नयनाभ्यां करचरणाभ्यां प्रफुल्लकमलवती। शैवालिनी च केशैः सुरसेयं सुन्दरीसरसी ।।' इत्यादौ तृतीयाया अभेदार्थकत्वात्तस्य च प्रागुक्तदिशा प्रतियोगि- त्वमुखस्यार्थवशादन्वये, नयननिष्ठाभेदप्रतियोगिमीनवतीति बोधः । मीनवत्त्वं च स्वाभिन्नद्वारकम् । एतत्स्फोरणायैव नयनाभ्यामित्युक्त्म्। मीनाभिन्ननयनवतीति तु पर्यवसितम्। नयनाभेदे तु मीनेषु गृह्यमाणे सरसीरूपकापोषणादित्युक्तमेव।

विभवेनेति प्रख्याने हेतुः । शम्बररिपोः कामस्य। द्वितीयार्थे कमणि। विध्वमेदेति। लक्षणयेति भावः । विशेषणसमासे त्व्िति । चिन्त्मिदम्। चन्द्रमुखमत्यस्यापतत:। परिणामालंकारोदाहरणे तु विशेषणसमास उचितः । अत्र तु मयूरव्यंसकेति समासे लितयु- चितम्। प्रतीति। मीनप्रतियोगिकाभेदस्य नयने अर्थवशात्सरसीरूपकानुरोघेनान्वये इत्यर्थः । स्वाभिन्नति । मीनाभिन्ननयनेत्यर्थः । नयनाभेदे तत्प्रतियोगिकामेदे। १ विधुभावः (विधुत्वम्) आनने न संघटते इति विधुत्वस्य लक्षणया विध्वमेदोऽर्थः ॥ अमेदो हि रूपकम्। स चामेदः (अर्थात् रूपकम् ) द्वितीयार्थ (कर्मणि) विशेषणीभूनः । अतो रूपकमत्र विशेषणीभूतमिति व्यमदेशः । आननं विधुभावमञ्चनीत्यस्य विधुप्रतियोगिका- भेद (विधुभाव) कर्मकाञ्चनानुकूलकृतिमत् आननमिति बोधः । २ प्रकृत्यादित्वाद् या तृतीया जाता तस्या अभेदोऽर्थः । नयनशब्दादेव तृतीयाविधानाव अयममेदो नयनरूपप्रतियोगित्वमुख एव यद्यपि अ्हीतुमापतितस्तथापि प्रागुक्त्दिशा (सौज- न्यचन्द्रिकाचन्द्रः, सुविमलमौक्तिकतारे, इत्यादौ चन्द्रादिरूपकानुरोेन चन्द्रादिप्रतियोगि- कस्यैवाSमेदस्योपपत्तिर्दशिता) अन्रापि अर्थवशात् (सरसीरूपकानुरोधात्) वाक्यगामितया प्रतियोगित्वमुखस्य अभेदस्य (अर्थात् मीनप्रतियोगिकाभेदस्य) नयनेऽन्वये सति। ३ ननु सामान्यसरस्यां मीनवत्त्वं संभवेत् सुन्दरीरूपायां तु तस्यां कथमित्याह-मीन- वत्वमिति। स्वाभ्याम् (मीनाभ्याम्) अभिन्ने ये नयने तद्ारकम्। अर्थात् तस्या मीनामिन्न नयने स्तः, अत एव तद्वारा मीनवती सा।

Page 386

३२४ काव्यमाला। [द्वितीयानने-

साधारणधर्मश्रान्राप्युपमायामिव क्वचिदनुगामी कचिद्विम्बप्रति- विम्वभावमापन्नः कचिदुपचरितः क्कचिच्च केवलशब्दात्मा। सोऽपि क्वचिच्छव्देनोपात्तः, कचित्प्रतीयमानतया नोपाचः । उपात्तोऽनुगामी यथा- 'जडानन्धान्पङ्गन्प्रकृतिबधिरानुक्तिविकला-

निलिम्पैरनिर्मुक्तानपि च निरयान्तर्निपततो नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥' अत्र त्रातुमिति तुमुन्नन्तेन शब्देनोपात्तं जडान्धादित्राणं भेषज- भागीरध्योः । अयमेवानुक्तो यथा- 'समृद्धं सौभाग्यं सकलवसुधायाः किमपि त- न्महैश्वर्य लीलाजनितजगतः खण्डपरशोः। श्रुतीनां सर्वस्वं सुकृतमथ मूर्त सुमनसां सुधासाम्राज्यं ते सलिलमशिवं नः शमयतु ॥' अत्र सौभाग्यभागीरथ्योः स्वाभावव्यापकदौर्भाग्यत्व-परमोत्कर्षा- धायकत्वादिरनुपात्तः प्रतीयमानो धर्मः । एवमीश्वरासाधारणधर्मत्व-

क्षमत्वं चोत्तरोत्तरारोपेष्वनुगामीति । बिम्बप्रतिबिम्बभावमापन्नो विशिष्टरूपकप्रसङ्गे निरूपितः ।

निलिम्पा देवाः। निरयो नरकः । अम्ब गङ्गे। भेषजभागीरथ्योः। अनुगामी धर्म इति शेषः । समृद्धमिति। गङ्गास्तुतिरेव। सौभाग्यभागीरथ्योः सौभाग्यभागीरथीजलयोः खप- दैन विषयविषयिपरामर्शः । सुधासाम्राज्यमित्यत्राह-आपामरेति। निरूपित इति। 'कुङ्कुमद्रवलिप्ताङ्गः काषायवसनो यतिः । कोमलातपशोणाभ्रः संध्याकालो न संशयः' ॥ १ 'सुधासोदर्य' इति पाठः । २ स्वस्याऽभावे व्यापकं दौर्भाग्यं यस्य यस्याश्च, [यदि सौभाग्यम्, भागीरथी वा न अवेत्ताहैं दौभांग्यं व्यामुयात् ], तत्त्वम्। स्वपदं तात्पर्यंग्राहकमेव। २ यंथाक्रमं धर्मानुगमनम्। ऐश्वयें भागीरथीजले च ईश्वरासाधारणधर्मत्वम्, श्रुतिसर्वस्वे गंङ्गासलिले च परमगोप्यत्वम्, सुकृते जाह्वीजले च निरतिशयसुखजनकत्वम्, सुधासाम्राज्ये गङ्गाम्भसि च आपामरसकलजर।मृत्युद्दरणक्षमत्वं चानुगामी धर्मः (अनुपासः )।

Page 387

रूपकम् ] रसगङ्गाघर: । ३२५

उपचरितो यथा- 'अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम्। अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका।।' अत्रामृतरूपके विषये वचस्युपचरितो मधुरिमातिशयः श्देनोपाचः । अम्बुनिध्यादिरूपके च गाम्भीर्याद्यनुपात्तम्। केव लशब्दात्मको यथा- 'अङ्कितान्यक्षसंघातैः सरोगाणि सदैव हि। शरीरिणां शरीराणि कमलानि न संशयः ।।' अत्र सरोगशब्दादिरुपात्त एव प्रतीयते न ुप्तः । आद्यो ह्यमग्रो द्वितीयस्तु भग्न: । अयमेव साधारणो यत्र युक्तिरूपेणोपन्यस्यते तद्धेतुरूपकम्। यथा- 'पञ्शाखरः प्रभो यस्ते शाखा सुरतरोरसौ। अन्यथानेन पूर्यन्ते कथं सर्वमनोरथाः ।।' एवम्- 'प्राणेशविरहक्ान्तः कपोलस्तव सुन्दरि। मनोभवव्याधिमत्त्वान्मृगाङ्क: खलु निर्मलः ॥।' इह श्ेषेण रसचन्द्रयोः कपोले ताद्रूप्यप्रत्ययाद्विरूपकं निरवयवम् । हेतुस्तु त्रिषु श्लिष्ट एव । एवमन्येऽपि प्रकारा ज्ञेयाः ।

इत्यादाविति भावः । चन्दिरेति। चन्द्रेत्यर्थः । उपेति। वस्तुतो मधुरिमातिशयस्य तत्रासत्त्वात्। एवमग्रेऽपि। अनुपात्तमिति। उपचरितमिति शेषः । अङ्गितानीति। च्याख्यातमिदम्। उपात्त एवेति । एवं चैक एव मेदोऽस्य तदाह-लुप्त इति। अनुपात्त इत्यर्थः । अभ्न: पदावान्तरभङ्गशून्यः। भग्नस्तदुक्तः। अस्य मेदान्तरमाह- अयमेवेति। केवलशब्दात्मक एवेत्यर्थः । यथेति। राजानं प्रत्युक्तिः । हे राजन्, ते पश्चशाखः पश्चाङ्गुलिहस्तोऽसौ कल्पवृक्षस्य शाखवेत्यर्थः । मृगाङ्ग: श्रेषेण चन्द्रो रस- विशेषश्च। तदाह-इहेति। निरवयवमिति। मिथोऽवंयवावयविभावाभावादिति भाव: । हेतुर्मनोभवेत्याति बोध्यः । त्रिषु उपमानद्वये उपमेये चेत्यर्थः । न्विष्ट एवेति। १ आद्यः 'अक्षसंघात' रूपो धर्म: अभङ्गक्ेषोत्थः, द्वितीय: सरोग, सरो-ग इति भङ्गश्रषमूलः। २ उपपत्तिरूपेण अर्थात् विषयविषयिसाधारणोयं केवलशब्दात्मक्ो धर्मो यत्र आरोपस्य उपपादक: स्यातू। यथा हस्तः सुरतरुशाखा, यतो मनोरथपूरकः । २८ रस०

Page 388

३२६ काव्यमाला। [ द्वितीयानने-

'उल्लासः फुल्लपङ्गरुहपटलपतन्मत्तपुष्पधयाना निस्तारः शोकदावानलविकलहदां कोकसीमन्तिनीनाम्। उत्पातस्तामसानामुपहृतमहसां चक्षुषां पक्षपातः. संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ।' अत्रोपमेय उपमानस्य नारोपः, अपि तु कारणे कार्यस्येति रूपकं न भवतीति प्राश्चः । एतन्मतानुसारेणैवास्माभिरपि लक्षितम् । उच्छृङ्खलाः पुनरारोपमात्रं रूपकं वदन्त इहापि रूपकमेवाचक्षत इति प्रागेव निरूपितम्। ननु- 'यशःसौरभ्यलशुनः शान्तिशैत्य हुताशनः । कारुण्यकुसुमाकाशः पिशुनः केन वर्ण्यते ॥' इत्यत्र लशुनहुताशनाकाशैः पिशुनस्य किं साधर्म्यम्, येन तेषामस्मिन्रू- पकमुच्यत इति चेत्, यशःसौरभ्ययोः शान्तिशैत्ययो: कारुण्यकुसुमयोश्च ताद्रूप्ये शब्दादुपस्थापितेऽनन्तरमुपस्थितं यशोरूपसौरभ्याद्येभाववत्त्वमे- तत्। एवमपि लशुनखलयोस्ताद्रूप्यसिद्धौ सत्यां लशुनरूपखलावृत्तित्वेन यशःसौरभ्ययोस्ताद्रूप्यं सिद्ेत्, यशःसौरभ्ययोस्ताद्रप्यसिद्धौ च यशो- रूपसौरभ्यशून्यत्वेन लशुनखलयोस्ताद्रूप्यम्, इत्यन्योन्याश्रयो नाशङ्क- नीयः। सकलसिद्धेः कल्पनामयत्वेन, कल्पनायाश्च स्वप्रतिभाधीनत्वात्। शिल्पिभिः परस्परावष्टम्भमात्राधीनस्थितिकाभिः शिलेष्टकाभिर्गृहदिशेष- निर्माणाच्च।

मनसिजातमदनसंबन्धिविशिष्टाघिमत्वं दयितायाम्, मनोभवव्याधिरुपक्षयमन्थक्लवं रसे, मनोभवसंबन्धिराजयक्ष्मरूपव्याधिमत्त्वं चन्द्रे इति भावः। उल्लास इति। तद्वे- तुरिलर्थः। सूर्योदयवर्णनम्। तेषां लशुनादीनाम्। अस्मिन्पिशुने। चस्तरये। नन्वन्योन्याश्रयस्योत्पत्ताविव ज्ञानेऽपि प्रतिबन्कत्वात्कथं तथा खप्रतिभाऽत आह- १ अर्थांत् उपमेये निश्चीयमानमुपमानतादात्म्यमिति रूपकलक्षणे उपमानोपमेयभावो दर्रित: । २ लशुनो हि सौरभ्याभाववान्। खलेपि यशःसौरभ्याभावे सिद्धे लशुनत्वमुपपन्नमेव ।. एवं हुताशनत्वाद्यपि। ३ अभ्योन्याश्रयो लौकिकघटनासु प्रतिबन्धकः, कविप्रतिभोत्थितकल्पनासु नेत्याशयः । द्धयोरेकस्य ताद्रूप्यस्य कल्पनया निष्पत्तौ सुखमन्योन्याश्रयभङ्ग इत्यर्थः ।

Page 389

रूपकम् ] रसगङ्गाघर:। ३२७

अथास्य ध्वनि :- तत्र शब्दशक्तिमूलो यथा- 'विज्ञत्वं विदुषां गणे सुकवितां सामाजिकानां कुले माङ्गल्यं स्वजनेपु गौरवमथो लोकेपु सर्वेष्वपि। *दुवृत्त शनितां नृलोकवलये राजत्वमव्याहतं मित्रत्वं च वहन्नकिंचनजने देव त्वमेको भुवि ॥' अत्र शक्तिनियत्रणेऽपि बुधत्वशुऋत्वादीनि बुधाद्यभेदरूपाणि राजनि व्यज्यन्ते। यथा वा- 'अविरल विगलद्दानोदकधाराऽSसारसिक्तधरणितलः । धनदाग्रमहितमूर्तिर्देव त्वं सार्वभौमोऽसि ॥' अर्थशक्तिमूलो यथा- 'कस्तूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम्। प्रौढिं भजन्तु कुमुदानि मुदामुद्दारा- मुल्लासयन्तु परितो हरितो मुखानि॥' अत्र त्वदीयमाननं कलङ्क-चन्द्रिका-विशिष्टचन्द्राभिन्नमिति रूपकं कुमु- दविकासादिना ध्वन्यते, न तु भ्रान्तिमान्। कुमुदानां हरितां चाचेतन- त्वात्। ने चाचेतनेषु मुदामसंभवादवश्यं कुमुदादिषु चेतनत्वारोपेण भा- व्यम्, तेन च भ्रान्तिसिद्धिरिति वाच्यम्। मुत्पदस्य विकासे लाक्षणिकत्वात्।

शिल्पिभिरिति । विज्ञेति । अत्र विज्ञादयः पण्डितानामिव बुधादीनामपि वाचकाः। नानार्थतात्। विज्ञतं पण्डितत्वं बुधलं च । सुकवितां काव्यकर्तृतं शुकलं च। माहल्यं शोभनलमङ्गारकतवं च। गौरवं श्रेष्ठत्वं बृहस्पतितं च। दुवृत्ते शनितां अशनितां च । वज्रतं मन्दतं चेत्यर्थः । राजतं नृपलं चन्द्रतं च। मित्रत्- माप्ततवं सू्येतं च। नियन्र्रणेति । प्रकरणादिति भावः । धारासारेत्यन्न 'स कीचकेः' इतिवदासारपदं संपातमात्रपरम्। व्याख्यातमिदम्। पूर्व विशेषणेष्वेव ध्वनिः, अत्र तु विशेष्येऽमीति पूर्वतो भेदः। सार्वभौमश्चक्रवर्ती दिग्गजश्च। सौधमौलिं गृहशिखरम्। सुदां विकासानाम्। उदारामतिशयिताम्। हरितो दिशः कत्यः। विविक्तं भ्रन्तिमद- १ अभेदश्च रूपक्म् । २ काशीपुस्तके त्वयं पूर्वपक्षस्तत्समाधानं च नास्ति।

Page 390

३२८ काव्यमाला। [ द्वितीयानने-

इदं वा विविक्तमुदाहरणम्- 'तिमिरं हरन्ति हरितां पुरः स्थितं तिरयन्ति तापमथ तापशालिनाम्। वदनत्विषस्तव चकोरलोचने परिसुद्रयन्ति सरसीरूहश्रियः ॥' इहापि वदनं चन्द्र इति गम्यते। आनन्दवरधनाचार्यास्तु- "प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विद्ध्या- न्निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि। सेतुं बभ्नाति भूयः किमिति च सकलद्वीपनाथानुयात- स्त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयोधेः ॥' अत्र रूपकाश्रयेण काव्यचारुत्वव्यवस्थापनाद्रूपकध्वनिः" इत्याहुः ॥ तच्चिन्त्यम्। अत्र च जलधिकम्पहेतुत्वेन विकल्पत्रयं कल्प्यते। तच्च प्रकृते राजविशेष्यिकां जलनिविगतामनाहार्येविष्णुतादात्म्यज्ञानरूपां भ्रान्तिमेवाक्षिपति, न रूपकम्। तज्जीवातोराहार्यविष्णुतादात्म्यनिश्चयस्य कम्पाजनकत्वात्। केविजलधिगतत्वेन वैयधिकरण्याच्च। अज्ञातमेव केवलं

मिश्रितम्। तज्जीवातो रूपकजीवातोः । वैयधीति। कम्पो जलधौ, आहार्यविष्णुता- दात्म्यनिश्चयस्तु कवाविति न तस्य तज्जनकलम्। सामानाधिकरण्याभावात्। केवल- मित्यस्यैव व्याख्याऽज्ञातमेवेति। चन्द्रालोके तु-'यत्रोपमानचित्रेण सर्वथाप्युपरज्यते। उपमेयमयी भित्तिस्तत्र रूपकमिष्यते। समानधर्मयुक्साध्यारोपात्सोपाधिरूपक्म्।' १ राजा विशेष्यो यस्याः, राजविषयिकामित्यर्थः । अयमत्रत्यः सारः-राजविषये 'विष्णुरयम्' इति जलनिधेर्विष्णुतादात्म्यज्ञानरूपो भ्रमो जातः । अत एव मन्थसेतुबन्धादि- विषयको विकल्पः, तज्जनितभयेन कम्पश्च जलघेर्जातः । रूपके तु अभेदनिश्चयः आहार्य: (कल्पितः) भवति। स्वकल्पितया मिथ्याकल्पनया [अयं वास्तवे विष्णुर्न, किन्तु आरोपितो विष्णुः इत्यांकारिकया ] न कस्यच्विन्द्रयं भवेत् । ततश्च अनाहार्यविष्णुतादात्म्यभ्रममूलकस्यः आ्रान्तिमत एव ध्वनिरुचितः, न तु आरोपिताभेदमूलकस्य रूपकस्येत्याशयः। २ कृपया सुधया सिञ्चेत्यत्र सेचनवत् आहार्याभेदतोपि भयादिकं काव्यवर्णित स्यादेत- दिति उपपत्यन्तरं वैयधिकरण्यमाह- ३ यत् तादात्म्यं कवेरेव ज्ञातम्, अत एव सः 'विकल्पान् दधत इव पयोधेः कम्प आभाति" इति विष्णुतादात्म्यं वर्णयति। न तु जलघेस्तादृशं ज्ञानम्। अत एव अज्ञातं तादृशं तादात्म्यं न भयं (कम्पम्) जनयितुमलमित्यर्थः ।

Page 391

परिणाम: ] रसगङ्गाधर: । ३२९

विष्णुतादात्म्यं जलघेः कम्पेऽनुपयुक्तमेव । चमत्कारिण्यपि चात्र भ्रान्तिरेवेति ध्वनिरपि तस्या एव युक्त: । अथास्यापि कविसमयविरुद्धतया चमत्कारापकर्षका लिंङ्गभेदादयो दोषा: संभवन्ति। यथा- 'बुद्धिरब्धिर्महीपाल यशस्ते सुरनिम्रगा। कृतयस्तु शरत्कालचारुचन्दिरचन्द्रिका ।।' अत्र विषयविषयिणोर्लिङ्गादिकृतं वैलक्षण्यं तयोस्ताद्रप्यवुद्धौ प्रतिकूलम्। क्वचित्कविसमयसिद्धतया चमत्कारहानिराहित्ये तु नामी दोषाः । यथा 'संतापशान्तिकारित्वाद्वदनं तव चन्द्रमाः' इत्यादौ हेतुरूपके। इति रसगङ्गाधरे निरूपितं रूपकप्रकरणम् । अथ परिणाम :- विषयी यत्र विषयात्मतयैव प्रकृतोपयोगी न स्वातत्रयेण, स परिणामः ॥ अत्र च विषयाभेदो विषयिण्युपयुज्यते। रूपके तु नैवमिति रूपका- दृस्य भेद: ।

उत्सिक्तक्षितिभृल्लक्षपक्षच्छेदपुरंदरः ॥' साधारणधर्मविशिष्टोपमानस्य यत्रारोप इत्यर्थः । 'पृथक्कथितसादृश्य दृश्यसादृश्यरूपक्रम्। उल्लसत्पञ्चशाखोऽयं राजते भुजभूरुहः ॥ स्याद- ङयष्टिरित्येवंविधमाभासरूपकम्। अङ्गयष्टिधतुर्वल्लीत्यादि रूपितरूपकम् ॥' इत्यपि दृश्यते॥ इति रसगङ्गाधरे मर्मप्रकाशे रूपकप्रकरणम् ॥ परिणामं लक्षयति-अथेति। विषयी उपमानम् । विषयेति। उपमेयेत्यर्थः । एवव्यावर्त्यमाह-न स्वातवयेणेति। खसरूपेणेत्यर्थः । तत्रेति शेषः । स विषयामेदः। अत्र च परिणामेच। नैवमिति। किं तु विपरीतमिति भावः । रूपकादस्य भेद इति। वयं तु ब्रूम :- उपमानप्रतियोगिकाभेदो रूपकम्। उपमेयप्रतियोगिकामेदः परिणामः प्रतीपवत्। तत्राभेदे उपमेय प्रतियोगिकत्वतात्पर्यग्राहकं प्रकृतकार्योपयोगः । न तु तच्छ रीरेऽस्य प्रवेशः । एवं च यत्रोपमानस्य स्वात्मनैव प्रकृतकार्योपयोगो यत्र चोदासीनता १ आदिपदेन वचनभेदो गृह्यते। यथा ह्यन्र 'कृतयः चन्द्रिका' इति विषयो बहुवचनान्तः, विषयी एकवचनान्त इति।

Page 392

३३२ काव्यमाला। [ द्वितीयानने-

भूपणान्यपेक्षत इति नद्ा आरोप्यमाणशेखररूपतयैवोपयोग: न स्वरू- पेण। एवं छशोऽपि तिलकरूपतयेति रूपकमेव शुद्धं भवितुमर्हति। ननु परिणामे विपयाभिन्नत्वेन विपय्यवतिष्ठत इत्युक्तम, प्रकृते च विषय- वाचकेभ्यो नद्यादिशव्द्वेभ्यः परस्यास्तृतीयाया अभेदार्थकत्वाच्छेखरादेश् तदन्वयित्वात्कथ नात्र परिणाम इति चेत्, न । विषयाभिन्नत्वेन विष- यिणो भानेऽपि तेन रूपेण तस्यानुपयोगात्। द्विर्भावः पुष्पकेतोरिति पद्येऽपि कोविदानन्दजनन-जगदुत्कर्षो कथ्येते राजो नृसिंहस्य। तन्न कोविदानन्दजनकत्वमपि राज् आरोप्यमाणद्वितीयमन्मथादिताद्रप्येण यथा संभवति न तथा केवलस्वरूपेण। तथाहि-अहो नयनानामस्मदीयानां साफल्यं यद्यमपरो मन्मथोऽस्माभिरालोक्यत इति मन्यमानानां तेषां नयनानन्दस्तावत्पुष्पकेतुनैवोपपादते, न तु राज्ञा। एवमपरोऽयं कल्पतरु- श्विन्तामणिर्द्वितीयः कर्ण इन्द्रश्च भूगतोऽयमन्यो दारिद्यमस्माकं परिहरि- ष्यति। हरिः खल्वयं संसारं हरिष्यतीत्यभिमानाज्ायमानस्तेषामानन्दो- डप्यारोप्यमाणैः कल्पवृक्षादिभिरेवेति न विषयात्मना विषयिण उपयोगः, अपि तु स्वात्मनैवेति कुन्नास्ति परिणामः ?। अलंकारसर्वस्वकारस्तु-'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः, इति सूत्रयित्वा 'आरोप्यमाणं रूपके प्रकरणोपयोगित्वाभावात्प्रकृतोपर-

कैलासेन। कोविदानां पण्डितानाम्। शुद्धं परिणामामिश्रम्। तदन्वयीति। तृतीया- र्थामेदान्वयितादित्यर्थः । कथ्येते इति। शत्रन्तलडन्ताभ्यामिति भावः । तत्र द्वयो- र्मध्ये। द्विर्भावः पुष्पकेतोरित्यर्थमाह-द्वितीयमन्मथेति। विबुधेति वाक्यार्थमाह- अपरोऽयं कल्पतरुरिति। विटपिनामिति बहुवचनं कल्पभेदाभिप्रायेण। विकल्प-

बोध्यः। तपनेत्यादेरर्थमाह-कर्ण इति। वासवेत्यर्थमाह-इन्द्रश्चेति । भूगत इत्यनेन प्रसिद्धेन्द्राद्यतिरेकः सूचितः। द्वैतं देवस्येत्याद्यर्थमाह-हरिरिति। प्रकरणो- पेति। प्रकृतोपेत्यर्थः । प्रकृतोपरञ्जकत्वेनेति। तस्य खोपरक्तबुद्धिविषयी करणेने- १ अर्थात् 'विषयात्मतयैव प्रकृतोपयोगी' इत्युत्तया परिणामे 'विषयाSमेदः, प्रकृतोपयोगः' इति द्वावंशौ, तत्र प्रथमसत्वेपि न द्वितीय इत्याशयः । २ दैत्याधिपविध्वंसनेन धर्ममर्यादापालकस्य हरेरारोपेण संसार(जननमरणादिसंसरण)- हारकत्वं कोविदानामाशास्यमित्याशयः ।

Page 393

परिणाम: ] रसगङ्गाघरः । ३३३

अकत्वेनैव केवलेनान्वयं भजते। परिणामे तु प्रकृतात्मतयारोप्यमाण- स्योपयोग इति प्रकृतमारोप्यमाणतया परिणमति' इति व्याख्यातवान्। अन्नापि चिन्त्यते-आरोप्यमाणस्य प्रकृतोपयोग इत्यस्य प्रकृतकार्ये उपयोग आहोस्वित्प्रकृतविषयात्मतया उपयोगोऽर्थः ? न तावदाद्यः । 'दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये। उद्यत्कठोरपुल काङ्करकण्ट काग्रै- यत्खिद्यते तव पदं ननु सा व्यथा मे ॥' इति तदुदाहृतरूपकोदाहरणे आरोप्यमाणानां कण्टकानां प्रकृतखेदव्यथा- रूपकार्ये उपयोगेनातिप्रसङ्गात्। न द्वितीयः । 'अथ पक्त्रिमतामुपेयिवद्गिः सरसैर्वक्त्रपथाश्रितैर्वचोभिः । क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाद्यैः ॥' इत्यत्र स्वोक्तव्यधिकरणपरिणामोदाहरणासंगत्यापत्तेः । यतो राजसंघटने ह्युपायनस्यारोप्यमाणस्य स्वात्मनैवोपयोगः, न तु विषयवचोरूपतया। वचसां तु विषयाणामारोप्यमाणोपायनरूपत्वेन परमुपयोग इति प्रत्युत

त्यर्थः। उपयोग इति। वक्ष्यमाणार्थपदस्यात्राप्यपकर्षः । दासे इति। नायिकां प्रति सापराधस्यानुभूततत्पादप्रहारस्य नायकस्योक्तिरियम्। नायि कासंबन्धात्पुलकोदयः। पुलकाङ्कुरा एव कण्टकाग्राणीत्यर्थः । तदुदेति। अलंकारसर्वखकृदुदाहृतेलयर्थः। एवमग्रे डपि। आरोप्येति। पुलकेष्वित्यादिः । प्रक्वतेति। प्रकृतो यः खेदस्तत्संबन्धिनी या व्यथेत्यर्थः । पक्त्रिमतां पक्तम्। तत्परतस्तदनन्तरम्। राजसंघटने राजमेलने। उपाय- नस्य 'भेट, नजर' इत्यादिभाषाप्रसिद्धस्य। आरोप्येति। वचसीत्यादिः। प्रत्युत विप- रीति। अन्रेदं चिन्त्यम्-यत्किंचिद्रूपोपायनस्य राजसंघटनानुपायल्वात्, विलक्षण-

१ रिक्तहस्तो न वीक्षेत राजानमित्याद्युत्तया राजदर्शने उपायनमपेक्षितम्। ततश्च-आरो- ध्यमाणमुपायनं स्वात्मना (आरोप्यमाणोपायनंत्वेनैव) उपयोगि, न तु विषय(वच्चन)रूप- तया। अयं भाव :- वचनेषु उपायनत्वं यदा आरोपितं तदैव तेषां प्रकृतोपयोगित्वं जातम् । वचनरूपत्वे तु न तेषां प्रकृतोपयोगः । इति पण्डितराजतात्पर्य 'वचन-तुरंगमरूपस्य तस्य यथावत् (कस्य उपायनस्य?) [उपायनस्य (आरोप्यमाणस्य) एव यदा स्वयसुपयोगस्तदा कुत्र परिणाम: ? ] तदुपायत्वात्' इति स्वलेखेनोद्विरतोपि नागेशस्य 'चिन्त्यम्' इति फल्गुफुंकारमात्रम्।

Page 394

३३४ काव्यमाला [ द्वितीयानने-

चिपरीनम्। तम्मादस्मदुक्त्तमेव व्यधिकरणपरिणामस्योदाहरणं साधु। इदं तु पुनर्र्यधिकरणरूपकं भविदुमहति। तृतीयार्थाभेदोऽपि मीनवती नयनाभ्यामित्यत्रेव प्रक्ृृत्यर्थानुयोगिको वोध्यः। केचित्तु "कचित्केवलो विषयः स्वात्मना न प्रकृतोपयोगीत्ययमारो व्यमाणाभिन्नतयाव तिष्ठते, तत्रारोप्यमाणपरिणामः।यथा-'वदनेनेन्दुना तन्वी शिशिरीकुरुते दशौ'। अत्र वदनमिन्द्वभिन्नतयावतिष्ठते, केवलस्य वदनस्य दक्छिशिरीकारकत्वायोगात्। क्वचिच्चारोप्यमाणः स्वात्मना न प्रकृतकार्योपयोगीत्ययं विषयाभिन्नतयावतिष्ठते, तन्र विषयपरिणामः । यथा-'वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति'। अन्रेन्दुर्वदनाभिन्न- तयावतिष्ठते, केवलस्येन्दोः स्मरतापापनोदकत्वायोगात्। एवं च परिणामद्वयात्मकसिदं रूपकमेव भवितुमर्हति । विपयतावच्छेदक-विष- यितावच्छेदकान्यतरपुरस्कारेण निश्चीयमानविषयिविषयान्यतरत्वस्य तल्लक्षणत्वात् । अत एवोक्तम्-'तद्रूपकमभेदो य उपमानोपमेययोः' इति। तस्मान्न रूपकात्परिणामोSतिरिच्यते" इति वदन्ति। अथ बोध :- हरिनवतमाल इत्यत्र भगवदभिन्नतमाल इति निर्विवादैव घीः । तथा श्रावं आ्रावं वचःसुधामित्यत्र विशेषणसमासगतपरिणामे वचनाभिन्नां सुधामिति, पायं पायं वचःसुधांमिति रूपके तु वचोनिष्ठामेदुप्रतियोगिनीं वचनतुरंगमादिरूपस्यैव च तदुपायलात्, एवं च राजसंघटनोपयोगितं तुरंगमादिरूपे- णैवोपायनस्यैतदुक्तिरेव विपरीतेति। अग्रिममवधारणमिदं वित्यादयुक्त च चिन्त्मिति बोध्यम्। वदनस्येति। तस्य जलभिन्नतादिति भावः। इन्दोरिति। तस्योद्दीपकलेन तज्जनकलादिति भावः । तल्लक्षणेति। रूपकलक्षणेत्यर्थः । तदेवाह-अत एवेति,। उक्त मम्मटेनेति भावः । केचिद्वदन्तीत्याभ्यामरुचिः सूचिता। चमत्कृतिनिदानलेनालं- कारभेद इति सिद्धान्तनादन्यन्रेवात्रापि भेद एवोचित इति। परिणामे वचःसुधामित्यंश १ प्रकृत्यथों नयने, ते अनुयोगिनी यत्र। अर्थात् नयनयोः (विषययोः) मीनयोरभेदः । तेन नयननिष्ठाभेदप्रतियोगिमीनवतीति बोधः । २ विषयतावच्छेदकं (मुखत्वम्) पुरस्कृत्य निश्चीयमानं विषयि(चन्द्र)त्वम्, विषयिताव- च्छेदकं (चन्द्रत्वम्) पुरस्कृत्य निश्चीयमानं विषय(मुख)वम् वा [मुखे (विषये) विषयिणः (चन्द्रस्य) अभेदः, विषयिणि (चन्द्रे) विषयस्य (मुखस्य) अमेदो वा] रूपकमित्याशयः । ३ तमालनिष्ठाभेदप्रतियोगी हरिरित्याशयः । ४ सुधानिष्ठाभेदप्रतियोगीनि वचांसि।

Page 395

परिणाम: ] रसगङ्गाघर:। ३३१

सुधामिति बुद्धिः । एवं च 'चदनेनेन्दुना तन्वी स्मरतापं विलुम्पति' इति व्यस्तपरिणामे 'वदनेनेन्दुना तन्वी शिशिरीकुरुते द्शा' इति व्यस्तरूपके च बोधवैलक्षण्यम्। तथा- 'शान्तिमिच्छसि चेदाशु सतां वार्गमृतं श्रृणु। हृदये धारणाद्यस्य न पुनः खेदसंभवः ।।' इति परिणामे, शण्तिति विहाय पिवेति कृते तत्रेव रूपके, विद्धा मर्मणि वाग्वणघूर्णन्ते साधवः खलैः। सद्धिर्वचोमृतैः सिक्ताः पुनः स्वस्था भवन्ति ते ।।' इति रूपके च बोधव्यवस्थितिः । तथा 'अहीनचन्द्रा लसताननेन ज्योत्स्नावती चापि शुचिस्मितेन' इति व्यधिकरणपरिणामेऽभेदस्य तृती- यार्थत्वाल्लसदाननाभिन्नहीनेतरचन्द्रयुक्तेति घीः। मीनवती नयनाभ्या- मित्यत्र तु सरसीतादात्म्यारोपो वाधकाभावात्तावत्सिद्धः । तस्य च मीनयोनयनाभेदारोपेणासमर्थनान्नयनयोर्मीनाभेदारोपो मृग्यः।स च दृतीयायाः प्रकृत्यथाभिदार्थकतायां न संभवतीति यथाकथंचित्तस्या:

इत्यर्थः । सुधामितीत्यत्र धीरित्यस्यानुषङ्गः । एवमिति। प्राग्वदित्यर्थः। वोधवैलेति। अनुयोगित्तमुखत्-प्रतियोगित्वमुखत्वकृतमिति भावः । एवमग्रेऽपीलाह-तथेति । यस्य वागमृतस्य। स्थलान्तरे बोधनाह-तथेति ! तावत् आदौ। तस्य च सुन्दर्या सरसीतादात्म्यस्य। प्रकृत्यर्थाभेदेति। प्रकृत्यर्थ प्रतियोगिकाभेदेत्यर्थः। विभ- क्त्या संसर्गबोधनस्य प्रक्ृत्यर्थप्रतियोगिकम्यैव व्युत्पत्तिसिद्धलेन तदसंभवादाह-यथा कथचिदिति। अत्र मीनवती नयनाभ्यामित्यत्र। उत्तप्रकारेणायमेव बोधोऽन्यत्रे- १ अनुयोगित्वमुखत्वेन-इन्दुनिष्ठाभेदप्रतियोगिना वदनेनेति बोधः ।

३ वागभिन्नममृनम्, अर्थात् अमृतनिष्ठाSमेदप्रतियोगिनीं वाचम् इति परिणामे। ४ पिबेति पाठं कृत्वा रूपके तु-वाङनिष्ठाभेदप्रतियोगि अमृतम्, इति। ५ बाणाभिन्नाभिर्वाग्भिः, अर्थात् वाडनिष्ठाभेइप्रतियोगिभिर्वाणैरिति बोधः । ६ शाब्दबोधपर्यन्तस्यास्य मीनवतीतिरूपकप्रसङ्गस्येवं विशदीकरणम्-'सुन्दरीसरसी' इति आरोपे (रूपके) न किञ्चिद् बाधकमिति प्रधानं (विशेष्यम्) इदं रूपकं प्रथमतः सिध्यति। ततो विशेषणरूपके नयनाभ्यामित्यभेदार्थकतृतीयाश्रवणात् यद्यपि प्रकृत्यर्था(नयना)भेदः

Page 396

३३६ काव्यमाला। [द्वितीयानने-

प्रकृत्यर्थनिष्ठाभेदप्रतियोगित्वार्थकत्वं वाच्यम्। तेन नयननिष्ठाभेदप्रति- योगिमीनयुक्तेति घीः। एवं चारोप्यमाणे विषयप्रतियोगिकाभेदस्याभानान्न परिणानः, अपि तु रूपकमेव । इयमेव सरणिः 'नद्ा शेखरिणे दशा तिलकिने-' इति प्रागुक्ताप्पयदीक्षितदत्तोदाहरणे, 'वचोभिरुपायनं चकार-' इत्यलंकारसर्वस्वोदाहरणे च बोध्या। यदि पुनरारोप्यमाणे यथा- कर्थचिद्विषयाभेदप्रत्ययमान्नात्परिणामतोच्यते, नाद्रियते च प्रकृतोपयोग- स्तदा 'प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम्' इति तदुदाहृत- रूपकस्य परिणामतापत्तिः, प्रेमलतिकामिति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणायामभेदेन विशेषणत्वादिति दिक।

त्याह-इयमेवेति। उदाहरणे च बोध्येति। परेतु "पूर्वपदार्थप्रधानमयूरव्यंसकादिसमा- सेन सुध प्रतियोगिकाभेदवद्वच इत्येव बोधः। रूपके मीनवती नयनाभ्यामित्यत्र सुन्दर्या सरसीतादात्म्यरूपं रूपकं मुख्यवाक्यार्थः । तत्र च मीनवत्त्वादिः साधारणो धर्मः । तस्य च सुन्दर्यामभावात्प्राप्तबाधवुद्धिस्थगनाय नयनाभ्यां मीनवतीति सुन्दरीविशेषणम्। सरस्यां च मीनवत्त्वं प्रसिद्धमेव। एवं च सुन्दर्या मीनवत्त्वसंपादनरूपप्रकृतकार्योपयो- गिता मीनानां नयनात्मतापत्त्यैवेति तदंशे परिणाम एवेति नयनप्रतियोगिकाभेदवन्मीन- वतीत्येव बोध इति दिक। 'पादाम्बुजं भवतु नो विजयाय मञ्जु' इत्यादौ रूपकोपमयोः संदेह एव" इति प्राहुः। तदाह-दिगिति। दूषितमित्यस्य चन्द्रात्मनेतीत्न्तेनान्वयः।

अर्थात् नयनप्रतियोगिकोडमेदः प्राप्तः, कि तु नयनाभदे तस्य (सरसीरूपकस्य) समर्थनं न भवति। अत एव नयनयोर्मीनाडमेइः अर्थात् मीनप्रतियोगिकोडमेदः मृग्यः (यत्नविशेषेणाडपि स्वीकार्यः) । स चायं मीनाभेदो यतविशेषं बिना न संभवति। यतो हि प्रकृत्यादित्वाद् या तृतीया कृता सा प्रकृत्यर्थस्य (तृतीयाप्रकृतिभूतस्य नयनार्थस्य) अभेदं बोधयेत्, न तु मीनयोः। तथापि सरसीरूपकानुरोधन तृतीयाकृतायाः प्रकृत्यर्थाभेदबोधकतायाः स्थाने प्रकृत्यर्थनिष्ठाभेदप्रतियोगित्ववोधकता वाच्या स्ात्। अनेन यलेन-प्रकृत्यर्थे (नयनयोः) निष्ठो यः अभेदस्तत्र प्रतियोगित्वं मीनयोरेव सिद्धन्। अर्थात् नयने विषयौ कृत्वा मीनयोर्वि- षयिणोरभेदः संपन्नो येन नयननिष्ठाभेदेत्यादिके मूलोक्ते बोधे सिद्धे सरसीरूपकसमर्थनं निर्बाधम्। १ बोधस्तु-नदीनिष्ठाभेदप्रतियोगिशेखरयुक्तायेति । एवमेव वचोभिरुपायनमित्यत्रापि। तथा च-नैतेषु परिणामः, अपि तु रूपकमेवेत्याशयः । २ अर्थात् अत्र लतिकायां विशेषणीभूतस्य प्रेम्णः (विषयस्य) अभेदः प्रतीतः। अत एव प्रकृतोपयोगाभ/वेऽपि परिणामत्वं स्यात्।

Page 397

परिणाम: ] रसगङ्गाघरः। ३३७

अथ परिणामध्वनिर्विचार्यते-

"तथाहि- तत्र यत्तावदप्पयदीक्षितैविद्याघरोक्तं ध्वन्युदाहरणमनूद्य दूषितम्-

'नरसिंह धरानाथ के वयं तव वर्णने। अपि राजानमाक्रम्य यशो यस्य विजुम्भते ।।' अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्रमणरूप- कार्योपयोगिन: प्रतीते: परिणामो व्यज्यते इति, तदयुक्तम्। तन्र ह्यारोप्य- माणस्य नृपस्य नृपात्मनैवाक्र्कमणोपयोगः, न चन्द्रात्मना" इति॥ तद्सत्। अन्न विज़म्भणं नाम न केवलं प्रागल्भ्यमात्रं कवेरभिप्रेतम्, येन यशःक- रतृकाक्रमणे नृपस्य नृपात्मनैव कर्मतारूप उपयोगः स्यात्। अपि तु निर- तिशयनैर्मल्यगुणवत्तायां स्वसमानजातीयद्वितीयराहित्यप्रयुक्त: प्रौढिवि- शेष:। आक्रमणं तु न्यग्भाव एव। एवं चैवंविधविजम्भणे चन्द्रकर्मकमे- वाक्रमणसुपयुज्यते, न तु नृपकर्मकमिति विषयितया व्यज्यमानस्यापि

अत्र प्रागुक्तपदे। एवं च विजम्भणाकमणयोरुक्तरूपले च। गुणवत्तायां तद्रपसा- १ प्रोक्तस्य निर्गलितार्थस्त्वयम्-'राजानमाक्रम्य यस्य (राज्ः) यशो विजम्भते' इत्युक्कौ कबे: क्विष्टपदप्रयोगसंरम्भात् 'प्रतिस्पर्धिनं राजानमाक्रम्य यथायँ राजा विजुम्भते, तथा अन्येषां राज्चां यश उपमानत्वेन प्रसिद्धं राजानम् (चन्द्रम्) आक्रन्य (न्यकृत्य) अस्य यशोपि विजम्भते' इति प्राकरणिकेऽर्थे पर्यवसिते चन्द्रपदेन राजरूपोऽप्यर्थों व्यअ्षनया बुध्यते। एवं च चन्द्रवाचके राजनि (विषये) नृपवाचकस्य राशः (विषयिणः) अभेदः परिकल्पयते। अन्र हि आक्रमणरूपे नृपोचितकार्ये आरोप्यमाणस्य नृपस्य नृपत्वेनैवाक्रमणकर्मतासंपादनरूप उपयोग इति दीक्षितोक्तिः । विजम्भते इत्यस्य न परस्परसंवर्षविषयकशौर्यमात्रमथों यत्र हि कर्मभूतस्य नृपस्यैवोप- पयोगः । अपि तु निर्मलतायां निजनिष्प्रतिद्वन्द्विताप्रयुक्त्त: कश्चित्प्रौढिविशेषोर्थः, यत्र हि [ चारित्र्यादिनैर्मल्येन नृपस्तु स्वल्पमेवोपयुज्यते ] विश्रविश्रुतविशदस्वच्छेन निजमहसा चन्द्र एवाधिकमुपयुज्यते। अत एव भवत्ययं परिणामध्वनिरिति पण्डितराजाशयः । २ अर्थात् अत्र विषयवाचकश्चन्द्ररूपार्थस्तु (यशोवर्णनप्रकरणात्) राजशब्देनोपस्थितः, नृपरूपार्थस्तु प्रसङ्गसूचितयाडर्थपरिपाट्यव व्यज्यते। अत एव हि सोयं परिणामो व्यज्यमान इत्यर्थः । मूलनिर्मूलनाय यत्किञ्चिच्चेष्टाव्रती नागेशस्तु-शक्तिसंकोचकं प्रकरणाद्येव नास्तीति राजपदेन अर्थद्वयमपि शक्तिबोध्यमित्याह। मदुक्कदिशा प्रकरणे प्रतीते नागेशस्य सोयं फुंकार: कियत्फले ग्रहिरिति सुधियो विमृशन्तु। २९ रस०

Page 398

३३८ काव्यमाला। [ द्वितीयानने-

नृपस्य चन्द्रात्ननैवाक्र्कमणोपयोग इति रमणीयमेव विद्याधरेणोक्तं परि- णानव्यङ्गयतायामुदाहरणम्। यद्पि तैरेव परोकितं दूषयित्वा स्वयं परिणामस्य व्यङ्गयतायामुक्तम्- 6-चिराद्विषहसे तापं चित्त चिन्तां परित्यज। नन्वस्ति शीतलः शौरेः पादाब्जनखचन्द्रमाः ।।' अत्र चिरतापातं प्रति हरिपादनखचन्द्रसद्भावप्रदुर्शनेन तमेव निषेवसव तन्निषेवणादयं तव तापः शान्तिमेष्यतीति परिणामो व्यज्यते" इति, तत्तु- च्छम्। 'आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योपयोगे परिणामः' इति स्वयमेवोक्तम्। तत्र प्रकृतकार्योपयोगमात्रं न परिणामशरीरम्।अपि तु विषयिगतायाः प्रकृतकार्योपयोगिताया अवच्छेदकीभूतं विषयताद्रूप्यम्।

धारणधमें। रमणीयमेवेति। अत्रेदं चिन्त्म्-राजशब्दस्यानेकार्थलातू, विजम्भ- तेश्च प्रागल्भ्यतदुक्तार्थोभयपरलात्, प्रकरणादेश्व शक्तिसंकोचकस्याभावात्, तन्रेण व्क्तैव तुल्यतयार्थद्वयोपस्थितौ 'सर्वदो माधवः पातु' इतिवत् श्रलेष एवायम्, क्व परिणामः क वा नृपस्य व्यज्यमानतेति प्रकृतनरसिंहराजोत्कर्षस्य च चन्द्रकर्मकाक्रमणेनेवेतरनृपाक्र मणेनापि सूपपादलात्। न च द्योरपि राजपदार्थयोरितरक्रियान्वये राजानाविति द्विव- चनं स्यादिति वाच्यम्। 'न ब्राह्मणं हन्यात्' इतिवदुपपत्तेः । समाहारद्वन्द्वविषयेऽप्ये- कशेषस्य कैश्विद्वैयाकरणरङ्वीकाराच्च। अस्तु वारोपः, तथापि नृपस्यैवारोप्यमाणतं चन्द्रस्यैव विषयत्वमित्यत्न नियामकाभावः। अन्रैव च दीक्षिततात्पयेम्। अपि च प्राग ल्भ्यस्यापि विजुम्भत्यर्थलेन प्रकृतकार्योपयोगिता नृपतेनापि नृपस्य संभवति। अत एव विद्याधरेणापि विषयिणः स्वरूपेण प्रकृतकार्यानुपयोगिले तदुपयोगाय विषयिणो विषयात्मना परिणत्यपेक्षायामेव परिणाम इत्युक्तम्। यदाह-'तं परिणामं द्विविधं कथय- न्तारोप्यमाणविषयतया। परिणमति यत्र विषयी प्रस्तुतकार्योपयोगाय ।' इति। ननु तात्पर्यविषयीभूतप्रकृतकार्यानुपयोगितमस्त्येवेति चेत, तस्यैव तात्पर्यविषयत्े मानं सिभावयेति । तैरेव अप्पयदीक्षितैरेव। परोकिं विद्यानाथोकतिम्। तापार्त चित्तमिति १ विषयि(आरोप्यमाण)गता या प्रकृतकायोपयोगिता तस्या अवच्छेदकीभूतम् (असाधा- णधर्मीभूतम्) विषयताद्गूप्यम् (अभेदः) । अयं भाव :- आरोप्यमाणो विषयात्मकः सन यत्र प्रकृतकार्योंपयोगी तत्र परिणामः, इति लक्षणे विषयिगतं विषयताद्रूप्यं तस्य प्रकृतोपयो- गश्च परिणामशरीरम्। ततश्च परिणामस्य व्यङ्क्यत्वार्थ विषयिणो विषयताद्रूप्यस्य तद्गत- अकृतकायोपयोगस्य चेत्युमयोर्व्यङ्गयत्वमपेक्षितम् 1 अत्र कार्योपयोगस्य व्यञ्ञत्वेपि संसारता- ववतंपस्य भगवन्नखाभिन्नश्चन्द्र एव शैतत्यजनक इति आरोप्यमाणचन्द्रस्य विषयताद्रूप्यमभिधया फुटमुकम् (वैयाकरणसीत्या) कविना। (नैयायिकरीत्या)-शक्यो यो नखाभिन्नश्चन्द्रस्तस्य संसर्गरूपं तदेतत्ताद्रूप्यमिति वाच्यतास्पर्शान्न व्यञ्ञयत्वमुन्चितमिति सर्वस्याशयः ।

Page 399

परिणाम: ] रसगङ्गाघरः । ३३९

एवं चात्र नखचन्द्रसद्भावप्रदर्शनेन तन्निपेवणादयं तव तापः शान्तिमेष्य- तीति प्रकृतोपयोगिताया व्यङ्ञयत्वेऽपि तदवच्छेदकीभूतस्य विपयिणि विषयताद्रूप्यरूपस्य परिणामस्य वाक्यवाच्यत्वात् शक्यसंसर्गत्वाद्वा सर्व- थैव न व्यङ्ग्यत्वं वक्तुमुचितम्। इदं तूदाहरणं युक्तम्- 'इन्दुना परसौन्दर्यसिन्धुना वन्धुना विना। ममायं विषमस्ताप: केन वा शमयिष्यते ।' अत्र वक्तुर्विरहितया व्यज्यमानरमणीवदनाभिन्नत्वेनेन्दुरभिप्रेतः।तेन रूपेणैव तस्य प्रकृतविरहसंतापशमनहेतुत्वात्। न चात्र विपयनिगरण- त्मिकातिशयोक्तिर्वक्तुं शक्या, तस्यां ह्यारोप्यमाणाभिन्नत्वेन विषयस्य प्रत्य- यात्। यथा 'कमलं कनकलतायाम्' इत्यादौ कनकलताऽभिन्नायां वनितायां कमलाभिन्नं मुखमिति। इह तु मुखस्य चन्द्राभिन्नत्वेन प्रत्यये न पुनर्विरह- तापशमनरूपप्रकृतकार्येसिद्धिरिति चन्द्रस्यारोप्यमाणस्य मुखरूपविषया- भिन्नत्वं भृग्यम्। तच्च व्यङ्ग्यतायामेव भवतीति परिणामध्वनिरेवायम्, नातिशयोक्तिः । अयं त्वर्थशक्तिमूलः । शब्दशक्तिमूलपरिणामध्वनिर्यथा- 'पान्थ मन्दमते किं वा संतापमनुविन्दुसि। पयोधरं समाशास्व येन शान्तिमवापुयाः ।।'

शेषः । वैयाकरणमतेनाह-वाक्येति। नैयायिकमतेनाह-शक्येति। परेति। उत्कृष्टेत्यर्थः । बन्धुना विनेति। तादशेन्दुरूपेण बन्धुनेत्यर्थः । तेनेति। तस्योद्दीप-

१ इन्दुपदस्य चन्द्रेऽभिधेयेSपि विरहिप्रकरणवशात् विरहृतापशमकरमणीवदने एव चन्द्र- त्वमारोप्यते। आरोप्यमाणश्चन्द्रश्च विषय(वदन)ताद्रूप्येणैव प्रकृत(विरहृशमन)का्योंपयोगी।' इन्दोर्वदनताद्रूप्यं च व्यञ्क्यमेवेति परिणामध्वनिरित्याशयः । २ कामनीयमित्याशयः । ३ 'झगाशास्वर' इति काशीपुस्तकपाठस्तु शोधकबुद्धिवैभवम्। ग्रन्थे 'झगिति' अर्थवि- शदीकरणमात्रम्, न पद्यपदलापनम्। पण्डितराजसूकतिगङ्गायामिदं झगाशास्वरेति नूनं झषमारणमेव।

Page 400

३४० काव्यमाला। [ द्वितीयानने-

अत्र झगिति तापशमनहेतुत्वेनोपस्थिते पश्चान्मन्दबोधनीयविशेष्यक- स्मरतापवत्तावैशिध्यवुद्धौ सत्यां सहद्यस्य ताहशतापशामकरमणीस्तन- रूपविषेय ताद्रप्यबुद्धिर्भवति। दोषाश्चान्रापि पूर्ववदुन्नेयाः । इति रसगङ्काधरे परिणामप्रकरणम्। अथ ससंदेह :- सादृश्यमूला भासमानविरोधका समवला नानाकोव्यवगाहिनी धी रमणीया ससंदेहालंकृति: ॥ 'अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य बान्धवानाम्। परिणेष्यति वा न वा युवायं निरपायं मिथिलाधिनाथपुत्रीम्।' अन्र मिथिलास्थजनोक्तौ तच्चिन्ताभिव्यञ्जके संशयमात्रेSतिव्याप्तिवा- रणाय सादृश्यमूलेति। सादृश्यज्ञानरूपदोषजन्येत्यर्थः । तेन 'सिंहवत्प्रा- न्तरं गच्छ गृहं सेवस्व वा श्ववत्' इत्युपमाविकल्पे वाकारप्रतीतविरोधक-

कलेन स्वरूपेण तस्य तापजनकत्ादिति भावः । अयं तु इन्दुनेत्युदाहृतः । झगिति आदो। आतपादिकृतसंतापशामकमेघलेन तस्योपस्थितेरिति भावः।दोषाश्चेति। लिङ्गमेदादय इत्यर्थः ॥। इति रसगङ्गाधरमर्मप्रकाशे परिणामप्रकरणम् ॥ संशयं लक्षयति-अथेति। धी रमणीयेति। तादृशधीवृत्तिसंशयत्प्रकारकज्ञान- विषया साऽलंकार इत्यर्थः । सादृश्यमूलेत्यस्य व्यावर्त्यमाह-अधीति। हन्तेति खेदे। बान्धवानां विश्वामित्रादीनाम्। निरपायं निष्प्रतिबन्धकम्। क्रियाविशेषणमेतत्। तदिति । तादृशजनेत्यर्थः । मात्रपदेनालंकारतव्यवच्छेदः । यद्यप्यधिरोप्येति पद्ये संशयस्य न सादृश्यमूललमिति यथाश्रुतेनैव वारणं संभवति, तथाप्यन्यत्नाप्यदोषायाह- सादृश्येति। तद्यावर्त्यमाह-तेनेति। तथार्थविवक्षणेनेत्यर्थः । प्रान्तरमरण्यम् । यथाश्रुतेऽतिप्रसङ्गमाह-वाकारेति। अपिः प्रागुक्तसमुच्चायकः। तेनेत्यस्यार्थमाह- १ अयमाशय :- अत्र साधारणतः संतापशामकतया पयोधरपदस्य झटिति मेघरूपोऽर्थः शच्या चेतस्युदेति। परं 'मन्द !' इति संबोधनाऽडकूतेन संतापपदात् स्रतापानुसंधाने वादशतापशामकरमणीस्तन एवार्थों व्यञ्जनया उपतिष्ठते। तथा च पयोधरे (रमणीस्तने) पयोधरस्य (मेघस्य) आरोपः । आरोप्यमाणः पयोधरश्च स्तनाडभिन्न एव वक्तुरभिप्रेत:, तस्यैव स्मरसंतापनिर्वापकत्वात्। 'पयोधर'पदमपरिवृत्तिसहमिति शब्दशक्तिमूलोयं ध्वनिः । २ 'सादृश्यमूला' इत्यस्य यथाश्चुतार्थत्वे-भासमानविरोधके समचमत्कारे नानाकोट्यव- गाहिनि उपमाविकल्पेSस्िन्नतिप्रसङ्ग: सादृश्यमूलत्वादुपमायाः । 'साटृश्यज्ञान(रूपदोष) जन्या' इत्यर्थे तु-उपमा सादृश्यज्ञानरूपा भवति, न सादृश्यज्ञानजन्येति निरासः ।

Page 401

ससंदेह: ] रसगङ्गाघर:। ३४१

प्रान्तरगमन-गृहसेवन-रूपनानाधर्मावगाहिनि सादश्यविषयकेऽपि नाति- प्रसङ्गः। तस्य सादश्यज्ञानरूपत्वान्। मालारूपकातिप्रसङ्गवारणाय भासमानविरोधकेति। उत्प्रेक्षाव्यावृत्तये समवलेति समानभासकसाम- त्रीत्वार्थकम् । एतद्विशेपणद्वयप्राप्तस्वैवानेकत्वस्य स्फुटत्वार्थ नानेति। स्थाणुर्वा पुरुपो वेति लोकिकसंशयनिवृत्तये रमणीयेति, चमत्कारिणीत्यर्थः । एतच् विशेपणं सामान्यालंकारलक्षणप्राप्तमेव । एवमुपस्कारकत्वमपि बोध्यम्। एतद्विशेपणद्वयस्य सादृश्यमूलत्वस्य चाभावे संशयमात्रमेव। यद्वा 'सादृश्यहेतुका निश्चयसंभावनान्यतरभिन्ना वी रमणीया संशयालंकृतिः'।

सा च शुद्धा निश्चयगर्भा निश्चयान्ता चेति त्रिविधा।

तस्येति। उपमाविकल्पन्वेत्र्थः । मालारूपकेति । 'धर्मस्यात्मा भागघेयं क्षमायाः सारः सृष्टेः' इत्यादावित्यर्थः । ननु कोट्योः समबलत्वविशेषणेन कथमुत्प्रेक्षाव्यावृत्तिः, तन्नापि तयोस्तुल्यवलल्स्य सत्त्वादत आह-समानेति। तत्र तु विधेयांशे भासक- सामग्री उत्कटेवि भावः । नन्वेवं नानेतिमात्रं व्यर्थमत आह-एतदिति। भासमा- नेति। समबलेत्येतदित्यर्थः । अनेकेति। अनेकधर्मकस्य संशयस्येत्र्थः। एतदिति। रमणीयलोपस्कारकत्वद्वयेत्यर्थः । ननु संशये विरोधो न भासते। मानाभावात् । किं वविरोधित्वज्ञानाभावविशिष्टनानाकोटिकज्ञानमेव संशय इति कथमुक्तलक्षणमत आह- यद्वेति। अन्यतरत्रोभेयभेदसत्त्वात्तथोक्तों तन्रातिप्रसङ्गापत्तेराह-अन्यतरेति। तथा च संभावनाभिन्नले सति निश्चियभिन्नल्वमित्यर्थलाभान्न रूपकोत्प्रेक्षादावतिप्रसङ्ग इति भावः। तत्रालिर्नेत्रं वेति वाक्याद्विरोधभानवादिमतेSलितवानयमलित विरुद्धनेत्रलवा- निति विशिष्टवैशिष्यन्यायेन, एकत्र द्वयमिति न्यायेन वा बोधः। अलिशब्दस्य च वाशब्दसमभिव्याहारे उभयन्रान्वयः । व्युत्पत्तिवैचित्र्यात्। केचित्तु वाशब्दद्वयब- लादलिलविरुद्धनेत्रत्ववानयं नेत्रतवविरुद्धालितवानिति बोधमाहुः। तदभानवादे तु अलित्ववानयं नेत्रत्ववानिति बोधः । समुच्चये लेतन्मतेSविरोधभानमङ्गीकार्यम ति िक्

१ समानं भासते तादृशी। भासनविषयकसामग्री समाना भवेदित्याशयः । उत्प्रेक्षायां विधेयकोटि: प्रबला भवति । यथा धूमस्तोमं तमः शङ्के अत्र धूमतमसोः समाने भासनेपि धूमकोटेरुत्कटत्वम्। २ केवलो निश्चयः केवला संभावना वा निश्चयसंभावना (उभय)भिन्ना वक्तुं शक्यते इत्याशयः ।

Page 402

३४२ काव्यनाला [द्वितीयानने-

आद्या यथा 'मरकम्नमणमेदिनीघरो वा तरुणतरस्तरुरेष वा तमालः । रघुपतिनवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे॥' द्वितीया यथा- 'तरणितनया कि स्यादेषा ने तोयमयी हि सा मरकतमणिज्योत्स्ा वा स्यान्न सा मधुरा कुतः । इति रघुपतेः कायच्छायाविलोकनकौतुकै- र्वनवसतिभिः कैः कैरादौ न संदिदिहे जनैः ॥।' तृतीया यथा- 'चपला जलदाचयुता लता वा तरुमुख्यादिति संशये निमग्नः । गुरुनिःश्वसितैः कपिर्मनीषी निरणैषीदथ तां वियोगिनीति ॥' एघु संशयेपु मञ्जूषादिगतकटकादिष्विवालंकारव्यपदेशः। एवं च- 'तं दष्टवान्प्रथममद्भतवैर्यवीर्य- गाम्भीरयमक्षणविमुक्तसमीपजानिम्। वीक्ष्याथ दीनमबलाविरहव्यथार्तं रामो न वायमिति संशयमाप लोकः ॥l' इत्यन्नापि सत्यपि चमत्कारे सादशयमूलेत्वाभावान्न संशयस्यालंकार- त्वम्। एवमारोपमूलोडयं संदेहालंकारः । अध्यवसानमूलोऽपि दृश्यते।

मरकतेति। व्याख्यातं प्राक्। इति पूर्वार्धोक्तः। प्रपेदे प्राप्तः । तरणीति। कालि- न्दीत्यर्थः । सा तज्योत्सना। इयं तु मधुरेति भावः । वसतिर्वासः । अन्र निश्चयस्य [विना] मध्ये प्रतिपादनात्तद्भलम्। अत एव तृतीयाद्गेदः । कपिर्हनूमान्। वियो- गिनीति। श्रीरामचन्द्रवियुक्ता सीतेत्यर्थः। नन्वेषूदाहरणेषु संशयस्यैव प्राधान्येनान्या- जुपस्कारकत्वात्कथमलंकारतवमत आह-एष्विति। तथा च तद्वत्तयोग्यतामात्रेण गौण- स्व्यवहार इति भावः । एवं च उक्तरीत्या संशयलक्षणपर्यवसाने च। तं श्रीरामम्। प्रथमं संयोगदशायाम्। अद्भुतेति बहुव्रीहिः। अक्षणेति। न क्षणं विमुक्ता समीप- प्रदेशाजाया सीता येनेत्यर्थः । अथ रावणकृतसीतापहारोत्तरम्। अस्य संशयस्य विप्रलम्भपोषकत्त्वादाह-सत्यपीति। त्रिविधस्याप्यस्य द्वैविध्यमाह-एवमिति।

ादि: सर्चत्रार्थः। १ इयं किं कालिन्दी ? इति संशये, न अर्थांत् इयं यमुना न, हि (यतः) सा तोयमयी-

२ रामव्यक्तरेकत्वान्नात्र सादृश्यं मूलं संदेहे, इत्याशयः ।

Page 403

ससंदेह: ] रसगङ्गावर: । ३४३

यथा- 'सिन्दूरै: परिपूरितं किमथवा लाक्षारसैः क्षांलितं लिमं वा किमु कुङ्कनद्रवभरेरेतन्महीमण्डलम्। संदेहं जनयन्नणानिति परित्रानत्रिन्ोकस्त्वियां त्रातः प्रातरुपातनोतु भवतां भव्यानि भासांनिधे: ।।' अयं च संशयः सवितृविपयककविरतिपरिपोपकतया कामिनीकरगतक- ङ्कणादिरिव सुख्यतयालंकृतिव्यपदेश्यः । अत्र च विवक्षितविवेचने क्रिय- माणे किरणत्राते सिन्दूरत्वादिकोटिकेः संशयः पर्यवस्वति।सचन सारोप:। विषयविषयिणोस्तदनुकूलविभक्तेरभावान्। अतः सिन्दूरत्वादिना संशयवर्मी किरणत्रातोऽध्यवसीयत इति। अत्र विचार्यते-सिन्दूरै परि- पूरितं किमथवेति पद्ये तावत्सिन्दूरादिकरणकपरिपूरित्तत्वादिकोटिको जग- न्मण्डलधरमिक: संशयः शब्दात्प्रतीयते। तस्मिंश्च संशये किमिदं सिन्दूररजो वा स्यान्, आहोस्विल्लाक्षारसः उताहो कुङ्कमद्रव इति सूर्यकिरणधर्मिकं संशयान्तरमानुगुण्यमाधत्ते। यथा पुरोवर्तिनि तुरगे स्थाणुर्वा पुरुपो वेति संशयो भूतलमिदं स्थाणुमत्पुरुपवद्वेति संशये। एवं च सूर्यकिरणधर्मिक: संशयो गुणीभूतो व्यञ्जनागम्यत्वाद्विपय विपयिणोरारोपानुकूलविभक्तिकतां नापेक्षते। अपेक्षते च साक्षाच्छव्द्ववेद्यतायामिति कुत्राध्यवसानमूलता संशेयस्य ? एतेनाध्यवसानमूलतां संशयस्य निरुपयतो विमर्शिनीकार- स्योक्तिरपास्ता।

द्वयोरुपादानादिति भावः । भासांनिधेः सूर्यस्य। पूर्वतो मेदान्तरमाह-अयं चेति। नन्वत्र महीमण्डलस्योपादानात्सारोपलमेवात आह-अत्र चेति। विवेति। तात्प- र्यार्थेत्यर्थः । नन्वेवमपि किरणव्रातस्योपादानात्सारोपलमेवात आह-विषयेति । तदिति। आरोपेत्यर्थः । तथा च तत्त्वेनानुपादानमिति भावः । उपसंहरति-अत इति। तावदादौ। इदं किरणजातम्। अनपेक्षल हेतुमाह-व्यञ्ञनेति। तर्हि कुत्र तदपेक्षा तत्राह-अपेक्षते चैति। एवं च रूपकमूल एवायमित्ध्यवसानमूल: संशयः १ किरणत्रातो वा सिन्दूर-लाक्षादिकं वेत्याकारकः । २ सर्वसंदर्भस्यायं भाव :- यत्रारोपमूलः संशयस्तत्र विषयविषयिणोरारोपानुकूल विभक्ति: (प्रथमादिः) दृश्यते। यथा-रघुपतिर्वा (विषयः) मरकतमणिमेदिनीधरो वा तमालो वा (विषयिणौ), रघुपतिकायच्छाया वा, तरणितनया वा मरकतज्योत्ला वा, वियोगिनी वा

Page 404

३४४ काव्यमाला [ द्वितीयानने-

अप्पयदीक्षितास्तु- अन्याः सर्गविधौ प्रजापतिरभूचन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्यं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिद रूपं पुराणो मुनिः ।।' इत्यत्र चन्द्रादीनां संदेहधर्मिणामेवानेकत्वम्। प्रकारस्तु वर्णनीयवनिता- स्रषृत्वमेकमेवेत्यनेककोटिकत्वाभावाद्विरोधेन परस्परप्रतिक्षेपकतया निब- द्धानेककोट्यवगाहित्व रूपस्य संशयलक्षणस्याव्याप्तिमाहुः । तन्न। अत्र हि अस्याः सर्गविधा यः प्रजापतिरभूत्स किं नु चन्द्रः, किं नु मदनः, किं वानु वसन्त इति संशयः प्रजापतिधर्मिकश्चन्द्रत्वादिनानाकोटिक एवेति

खपुष्पायमाण इति भावः । तदाह-कुत्रति। अस्या इति। मौलतीमाधवे मालती- वर्णनमिदम्। मासो वसन्तः वनितास्त्रष्टृत्वं प्रजापतिशब्दबोध्यम्। अभावादित्यव्याप्ती हेतुः । संशयलक्षणमाह-विरोधेनेति। हि यतः। अस्या मालत्याः। तदुपपादन

चपला वा लता वा, इत्यादिः । अत्र तु संशयधमीं किरणव्रातः प्रथमान्तः, सिन्दूर-लाक्षा- रसादिकास्तु प्रकारास्तृतीयान्ताः । एवं च नायमारोपमूलः संशयः । अपि तु किरणन्रातः (संशयधमी) एव सिन्दूर-लाक्षारसत्वादिना अध्यवसीयते (भासते)। अत एवाध्यवसानमूलः। इति साधारणद्ृष्टिः । विवेचने तु-सिन्दूरैरित्यादिः संशयो नाध्यवसानमूलः सिध्यति। यत्तावदुच्यते आरोपे अनुकूला विभक्तिरपेक्ष्यते इति। नेदं विचारसहम्। अत्र हि महीमण्डलधर्मिकः संशयः [ एतत् महीमण्डलं सिन्दूरेण परिपूरितं वा लाक्षारसक्षालितं वा कुङ्कमलिपं वा ] शब्दवेद्यः। भतत्संसयान्तर्गतोऽन्यः संशयः-किरणव्रातो वा सिन्दूररजो वा इत्यादिकः (प्रधानं प्रति गुणीभूतः) व्यञ्जनया गम्यते। अत एव अशब्दबोध्ये(व्यज्जनागम्ये)Sस्िन् न विभक्तरपेक्षा। तथा च सिन्दूरैरित्यादिपद्े आरोपोऽपि वक्तुं शक्यत एवेति। १ भासमानविरोधकः समबलो नानाकोव्यवगाही संदेहस्तन्नामालंकार इति लक्षणमत्र न घटत इत्यर्थः । २ विवादवेतालाविष्टतया साहित्यसौधे बलादुद्वमानस्य महाभागस्य पुनः परिचीयतां काव्यमार्मिकत्वं येन हि कालिदासस्यापि कविता न कदाच्चित्परिच्चिता। इंदं हि विक्रमोर्वशीयं (प्रथमाङ्के) पदयं काव्यप्रकाशे साहित्यदर्पणे अन्येष्वपि च साहित्यनिबन्घेषूदाहृतमपि।

Page 405

ससंदेह: ] रसगङ्गाघर:। ३४५

कुत्राव्याप्तिः। न चात्र चन्द्रादिवर्मिकः संशयो युक्तो वक्तुम्। एवं च प्रजापतेः प्रथमोद्देशो न स्थान्। यद्पि, 'साम्यादप्रकृतार्थस्य या धीर- नवधारणा' इति प्राचां लक्षणं महता प्रवन्धेन त एव दूपितवन्तः, तद्पि न। साम्यनिमित्ता निश्चयसंभावनान्यतरभिन्ना या धीरिति तदर्थ- करणे दोपाभावात्। निश्चयत्वं तु संशयाघटितमेव निर्वेचनीयम्। डक्तेपूदाहरणेषु सोऽयं संशयालंकार: स्वशब्दवेद्यत्वाद्वाच्यः । लक्ष्यो यथा- 'साम्राज्यलक्ष्मीरियमृष्यकेतोः सौन्दर्यसृष्ठेरधिदेवता वा। रामस्य रामामवलोक्य लोकैरिति स्म दोला रुरूहे तदानीम् ।' अन्न पर्यायेणोभयकोव्यालम्वनतया दोलासादश्यात्संशयोडत दोला- शब्देन लक्ष्यते। व्यज्ञयोऽयं यथा- 'तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकासम् । आलोक्य धावत्युभयत्र सुग्धा मरन्दलुळ्धालिकिशोरमाला ।।' अत्र कमलधर्मिकोऽभेदेन संसर्गेण पुरोवर्तिव्यक्तिद्वयप्रकारक: कमल-

खण्डयति-न चात्रेति। एवं चेति। चो ह्यथे।यत एवं सतीत्यर्थः । विधेयस्य पाश्चा- त्यलमिति नियमादिति भावः । त एव अप्पयदीक्षिता एव। अनवधारणेत्यस्य तात्पर्यार्थ- माह-निश्चयेति। नन्वेवमन्योन्याश्रयापत्तिरत आह-निश्चयत्वं त्विति। ऋष्य- केतोश्चन्द्रस्य। ऋष्यः कुरङ्गः। रुरुहे आरूढा। आलम्बनतया एतद्रूपधर्मेण। तीर इति। व्याख्यातं प्राक्। मिलदिति। सविकासमित्यर्थः। इदं पदार्थेति। इदलेने- १ प्रघट्कस्यायं सार :- 'चन्द्रो मदनो वसन्तो वा अस्याः प्रजापतिः' इति संशयस्य धर्मिणः (आधाराः) एवानेके [ चन्द्रो वा प्रजापतिः मदनो वा प्रजापतिरितिरूपेण ] प्रजा- पतिरूपा कोटि: (यस्य संदेहो भवति) तु एकैवेति दीक्षितदृष्टिः । पद्ये प्रजापतेः, (उद्देश्यस्य) पूर्व प्रयोगात् 'अस्याः सर्गें यः प्रजापतिः स चन्द्रो वा मदनो वा वसन्तो वा) इति संशया- कारात धर्मी प्रजापतिरेक:, चन्द्रमदनादयः कोटय(प्रकाराः) स्त्वनेका एव्रेति स्पष्ट एवायं संशय इति पण्डितराजः। २ कामस्य, साम्राज्यसर्वस्वमित्यर्थः । चन्द्रस्येति टीकयतो नागेश- देवस्य तु कोष-साहित्यज्ञानं लोकातीतमेव। 'ब्रह्मसूर्भष्यकेतुः स्वात्' इति पाठोऽमरेपि प्रसिद्धः । अचलितपुस्तकेष्वयमेव पाठः प्रायो दृश्यते। हरिणवाहनं चन्द्रं प्रचारयद्भिः पञ्चाङगन्वित्रैरेव व्यामोहितोऽयं महाभागो यत् वृषकेतुरिव ऋष्यकेतुश्चन्द्रश्चित्रितः । अस्तु. सामान्यतोपि सहृदय- संप्रदाये स्मर एव सम्राट समीर्यते। सुरभि-सुधाकरयोस्तु सच्चिवता समुदीरिता, समुचिता चापि। ३ एकदा साम्राज्यलक्ष्मीरित्यूह्यते, पुनस्तं पक्षं परित्यज्य सौन्दर्याधिदेवतेति वितर्क्यते इत्याशयः।

Page 406

३४६ काव्यमाला। [द्वितीयानने- मिदमिदं वेति भ्रमरगतः संशयो वैयज्यः। न च कमलाभेदवुद्वेर्भ्रमर- प्रवृत्त्यु नायतयापेक्षणादिदंपदार्थाभेदवु्द्धिर्निरर्थिकेतित् वाच्यम्। एकपदा-

कमलाभेद्वोधसाम्राज्यात्। कमलत्वमेतदृत्ति तदृत्ति वेति संशयाकारः । सोऽयं संशयध्वनिः । 'आज्ञा सुमेषोरविलङ्गनीया किं वा तदीया नवचापय्टिः । वनस्थिता किं वनदेवता वा शकुन्तला वा मुनिकन्यकेयम्।' यद्यप्यत्रापि वाचकशव्दाभावाव्यङ्ञ्य एव भवितुमहृति संशयः, तथापि विषयनिरूपणेन स्फुटमावेदितत्वान्न ध्वनिव्यपदेशस्य हेतुः । अपि तु गुणीभूतव्यङ्ग्यप्रभेदव्यपदेशस्य। अनुगामी चात्र प्रतिप्रकारं पृथगेव दंपदार्थेत्यर्थः । तथा चेदमिदं वा कमलमित्योचिलयेनानेककोटिकलाभावान्नायं संशय इति भावः। ननु प्रवृत्यन्यथानुपपतत्या तथा कल्प्यम्, सा चान्यथासिद्वेत्याह-एकेति। कमलेत्यर्थः । अपरेति । इदंपदार्थः । पर्यवसितमाह-कमलत्वमिति। ध्वनेरुदाह- रणान्तरं खण्डयति-आज्ञेति। सुमेषुर्मंदनः । सुमं पुष्पम्। तदीया मदनीया। इयं सीता। विषयेति। आज्ञादीत्यर्थः । व्यङ्गयेति। व्यङ्ञ्यरूपो यः प्रभेदस्तद्व्यपदेश- स्येत्यर्थः । प्रतिप्रकारं प्रतिसंदेहम्। तत्र ह्याज्ञासंदेहेSविलङ्गनीयत्ं वनंदेवतासंदेहे वन- १ पुरोवर्ति व्यक्तियम् (वदन-सरोजरूपम्) दृष्ट 'अभेदसंसर्गेण इदं कमलम्? अथवा इदम् ?' इत्याकारात कमलरूपे एकस्िन् धर्मिणि 'इदं वा इदं वा' इति व्यक्ति(कोटि)दयस्य प्रकारत्वात्संशयः । इदमिदं वेत्यस्याऽशब्दवेद्यत्वाच्च व्यङ्गयत्वमित्यर्थः । २ शङ्कासमाधानयोरिदं विशदीकरणम्-ननु इदंपदार्थे कमलाभेद एव साधनीयो न तु कमले इदंपदार्थाडमेदः । यतो हि कमलाडभिन्नं दृष्टैव भ्रमरः प्रवर्तते। अतः कमलाभेद एव अ्रमरस्य प्रवृत्तौ कारणम्, इदंपदार्थाभेदस्तु भ्रमरार्थ निरर्थक इति शङ्का। अभेदो हि द्विसंवद्धः । अत एव कमले यदा इदंपदार्थाभेदः साध्यते तदा भ्रमरप्रवृत्ति- प्रयोजक: इदंपदार्थे कमलाभेदोपि स्वतः फलतीति तत्समाधानम्। इदानीं 'कमलत्वम् एत- दृत्ति तदृत्ति वा' इति संशयाकारः । ३ वाचकशब्दाभावोत्र विमर्शनीयो मार्मिकाणाम्। 'इयं शकुन्तलास्ति, किं वा आज्ञा, किं वा चापयष्टिः ?' इत्युक्तौ संदेहस्य स्फुटं वाच्यत्वात्। उदाहरणपद्यवत् 'संशयः प्रपेदे' 'संदिदिहे' 'संशये निमन्नः' इत्याद्युक्तावेव वाच्यत्वमिति यदि पण्डितराजाशयः, तर्ह्यपि विचारावसरः । 'कि तारुण्यतरोरियं रसभरोद्धिन्ना नवा मज्जरी' इत्यादौ सवैंरेव ससंदेहत्वमङ्गी- कृतम्ँ। संशय-संदेहादिव्यपदेशाभावेऽपि 'अस्याः सर्गविधौ' इति पद्ये प्रकाशेन प्रोक्तः संदेहः, यो है पण्डितराजेनापि सोत्साहं समर्थितः। ४ आज्ञा-वनदेवतयोरनुगामी धर्मों दर्शितो नागेशेन। चापयष्टेस्तु 'नवा' इति धर्मों बोध्यः ।

Page 407

ससंदेह: ] रसगङ्गाघर:।

निर्दिष्टः। यत्तु चित्रमीमांसायां संशयध्वन्युदाहरणप्रसङ्गे अप्पयर्दाक्षिता :- "'कांचित्काव्वनगौराङ्गीं वीक्ष्य साक्षादिव श्रियम् । वरदः संशयापन्नो वक्षःस्थलमवैक्षत ।।' अन्र संशयस्य शव्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात्तदलंकार- ताप्रयोजकस्य वक्षःस्थले स्थितैव लक्ष्मीस्तोऽवतीर्य पुरस्तिष्ठतीत्येवं संश- याकारस्य वक्षःस्थलमवैक्षतेत्यनेन व्यञ्ञयत्वात्संदेहालंकारध्वनिरत्रेति ।

यथा- 'दुर्पणे च परिभोगदर्श्िनी पृष्ठतः प्रणयिनो निपेदुपः । वीक्ष्य विम्बमनु विम्वमात्मनः कानि कान्यपि चकार लज्जया॥' इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थ लज्जाशव्द्रप्रयोगेऽपि तस्याः स्वविभावानुभावाभ्यां रसानुगुणाभिव्यक्ति- रूपो व्वनिः" इत्याहुः, तदेतद्कनितत्वविज्ञैरुपहसनीयमेव। -- तथाहि संशयाविष्ट इत्यत्र संशयपदेनैकस्मिन्पदार्थे विरुद्धनानापदार्थ- संबन्धावगाहि ज्ञानं साक्षादेव निवेदते। तत्र कोऽसौ विरुद्धो नानार्थ इति विशेषाकाड्डायां वक्षःस्थलावेक्षणेन वक्षःस्थलस्थैव लक्ष्मीस्ततोऽवतीर्य किं पुरस्तिष्ठतीत्यादिरर्थो व्यञ्जनाव्यापारेण वोध्यमान: शक्त्ा संशयशब्द- निवेदितज्ञानविशेषणीभूतेन सामान्यार्थेन साकमभेदेन पर्यवस्वति। एवं च संशयमात्रस्य शक्ता बोधनाद्वक्ष:स्थलस्थितेवेत्यादिविषयभागस्यापि

स्थिततवं च पृथगुपात्तमिति भावः । कांचिदिति। इदं पद्यमप्पयदीक्षितमूलपुरुषवक्ष :- स्थलाचार्यकृतवरदराजवसन्तोत्सवस्थम्। वरदः काच्चीदेवता विष्णुः। तदित्ति। संश- येत्यर्थः । तत्र सामान्यज्ञाने। अवेक्षणेनेति । व्यक्ञ्यार्थवृत्तिरपीति भावः । संशय- मात्रस्य सर्वस्य संशयस्य। अर्थत्वेन सामेति । एतद्रूपसामान्याकारेणेत्यर्थः ।

१ तदलंकार(ससंदेहालंकार)नाप्रयोजकस्य संशयाकारस्य व्यङ्ञ्यत्वादित्यन्वयः । २ कानि कान्यपीति चेष्टितानां सामान्यतो निर्देशेऽपि नायं विशेपः प्रतीयते यदिमार्नि रज्जाया अनुभावा इति तत्प्रतीत्यर्थ लज्जाशब्दप्रयोग: ।

Page 408

३४८ काव्यमाला। [द्वितीयानने-

विरुद्धनानार्थत्वेन सामान्याकारेणावलीढतया तयैव कवलीकरणाद्वाच्यार्थ- संशयपर्यवसायकत्वाच्च न कस्यापि ध्वनिव्यपदेशहेतुत्वं युक्तम्। सर्वथा वाच्यवृत्त्यचुम्वितस्यैव तथात्वमिति ध्वनिमार्गप्रवर्तकैः सिद्धान्तितत्वात्। तथा च द्वितीयोद्दयोते- "शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनः यत्राविष्क्रियते सवोक्त्ा सान्यैवालंकृतिर्ध्वनेः ॥" इति सूत्रयित्वा "संकेतकालमनसं विटं ज्ञात्वा विद्ग्धया। हसन्नेत्रार्पिताकूतं लीलापदमं निमीलितम्॥" अत्र संकेतकालमनसं ज्ञात्वा लीलापद्मं निमीलितमिति वदता कविना लीलापद्मनिमीलनस्य प्रदोषाभिव्यञ्ञकत्वं स्वोक्तैव निवेदितमिति ध्वनि- मार्गादयमपर एव गुणीभूतव्यङ्गयस्य मार्गः ।

अवलीढेति। बोध्यतयेत्यर्थः। तयैव शक्तैव। कवलीति। बोधनादित्यर्थः। नन्वेवमपि विशेषरूपेण व्यज्ञयलमेवात आह-वाच्यार्थेति। विशेषसंशयस्येत्यादिः । तदाह- कस्यापीति। विशेषस्यापीत्यर्थः । सर्वथा केनापि प्रकारेण। तथातं ध्वनितम्। संके- तेति। को वाऽऽवयो रतिकालस्तत्संकेतं ब्रूहि इत्यत्र दत्तचित्तमित्यर्थः । हसदिति क्रिया- विशेषणम्। इति वदतेति । क्वान्तवाक्यविशिष्टं वदतेत्यर्थः । अन्यथा क्लान्तवा- क्येनवार्थात्तदभिव्यज्कलवे सिद्धे कान्तवाक्यानर्थक्यं स्पष्टमेव। तदाह-स्वोक्त्येति। १ तत्र कोसौ विरुद्ध इत्यादिप्रघट्टकस्येदं विशदीकरणम्-कोसौ विरुद्धोर्थ इति विशेषा- काह्ानिवृत्तये व्यञ्ञनावोध्योऽप्यर्थः शक्तिद्वारा संशयशब्दनिवेदिते श्ञाने विशेषणीभूतात् सामान्यार्थात् अभिन्नः पर्यवसाने सिद्धयति । अयं भाव :- व्यङ्गयोऽप्यथों विशेषाकाङ्लापूर्तये अभिधाबोध्यसामान्यार्थरूपो भवति। एवं च संपूणेपि संशयशरीरे अभिधाबोध्ये जाते 'वक्ष :- स्थलस्था लक्ष्मी: किं पुरस्तिष्ठति' इति विशेषरूपेण व्यञ्जनाबोध्योऽपयर्थः सामान्यज्ञानस्य (सामान्यसंशयात्मकख्व) विरुद्धनानाकोटिपूर्वये विरुद्धनानार्थरूपो भवतीति सोडपि (व्य- जयोपि) अभिधाबोध्यस्य सामान्यस्य (संशयस्य) अङ्गत्वेन सामान्येनावलीढ: (सामान्या- क्रान्तः, बोध्यः) भवति । अत एव अभिधया सोपि कवलीक्रियते (बोध्यत इत्याशयः) इति न तत्र व्यञ्क्यताविश्रमः । ननु विशेषरूपेण वक्षःस्था लक्ष्मीः इत्याद्याकारेष तु अयमथों व्यञ्ञ्य इत्यपि न शक्यते वक्तुम्। अयं व्यङ्गयोपि सामान्यार्थपूर्तये उपयुज्यते इति सोयं व्यक्योपि संशयमाविष्ट इत्यस्य वाच्यार्थे संशये पर्यवसितो भवतीति न कस्यापि (सामान्य- संशयस्य विशेषस्य वा) ध्वनिसंशाहेतुत्वम्।

Page 409

ससंदेह: ] रसगङ्गाधरः । ३४९

यथा वा- 'अम्वा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र। अस्मिन्पापाह्मेका कतिपयदिवसप्रोपित प्राणनाथा पान्थायेत्थं तरुण्या कथितमत्रसरव्याहृतिव्याजपूर्वम् ।।'

जत्वं त्रुवता कविना स्फुटं स्वोक्त्या निवेदित इत्ययमपि न ध्वनेमार्गः" इत्याहुरानन्दवर्धनाचार्याः । तृतीयोद्दधोते च गुणीभूतव्यङ्गयनिरूपणे 'व्यङ्गयस्थार्थस्य यदि मना- गप्युक्त्या प्रकाशनं तदा गुणीभाव एव शोभते। तस्माद्यन्रोक्तिं विना व्यङ्गयोऽर्थस्तात्पर्थेण ग्रतीयते तत्र तस्य प्राधान्याद्गनित्वम्' इति तद्युक्ति- विवेचनेऽभिनवगुप्रपादाचार्याः । एवं चैवंविधेपु विधयेपु व्यञ्जकत्वस्य व्यङ्ग्यस्य वा मनागुक्तिसंस्पर्श- मात्रेण ध्वनित्वं निराकुर्वाणाः 'कांचित्काञ्चनगौराङ्गीं-' इति पद्ये शब्दा- भिहितव्यङ्ग्ये व्वनित्वं कथमिव स्वीकुर्वीरन्। एतेन 'दर्पणे च परिभोग- दर्र्िनी' इति प्रागुक्तदे लज्जाध्वनित्वं यद्ीक्षितैरभ्यधीयत तदप्यपास्त- मिति दिक्। अस्मिंश्च संशये नानाकोटिपु क्वचिदेक एव समानो धर्मः । क्वचित्पृ- थक्। सोऽपि कचिदनुगामी, कचिद्विम्बप्रतिविम्बभावमापन्नः, क्कचिदनि- र्दिष्टः, क्कचिन्निर्दिष्टः । तत्र 'मरकतमणिमेदिनीघरो वा' इति प्रागुदाहत- पद्ये श्यामाभिरामत्वं धर्मिणो रामस्य कोट्योश्च तमालमरकतभूधरयोरेक एवानुगामी धर्मः प्रतीयमानत्वादनिर्दिष्टः ।

कव्ान्तवाक्येनेत्यर्थः । अत्र गृहप्रदेशविशेषे। एवमग्रेऽपि । कुम्मेति पान्थसंबोधनमित्ति कश्चित्। तन्नामिक्रा दासीत्यन्यः। जलाद्याहरणार्थ दासी, न क्रीडादासीति तु तत्त्वम्। वियोगात्पापालम्। कतिपयेत्यनेन द्रुतमागमनाभावः सूचितः। अवसरे समये उक्तेर्व्या- जपूर्वमित्यर्थः । पूर्वोदाहरणाशयेनाह-व्यक्षकेति । द्वितीयाशयेनाह-व्यङ्ग्येति। तत्र तेषां धर्माणां नध्ये। शयामेति। तद्विशिष्टाभिरामलमित्यर्थः। स एव अनुगाम्येव। १ 'संशयम् आविष्टः' अत्र शब्दनिवेदितस्य विरुद्धनानाकोटिकश्ञानरूपस्य संशयस्य जिज्ञासापूर्त्यर्थ व्यङ्ञयोऽर्थः (किं वक्षःस्थितव लक्ष्मीः पुरस्तिष्ठनीति) सहायको भवति, ततश्चं सोक्तया सोयमपि व्यङ्गयोर्थ आविष्कृतो भवतीति नास्य ३० रस०

Page 410

३५० काव्यमाला। [ द्वितीयानने-

स एव निदिद्वो चथा- 'नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम्। सरोजं चन्द्रविम्वं वेत्यखिलाः समशेरत ॥' अत्र नेत्राभिरामत्वरूपस्त्रिष्वेक एवानुगामी धर्मो निर्दिष्टः। पृथगनु- गामी निर्दिष्टो यथा प्रागुदाहते 'आज्ञा सुमेषोः' इत्यादौ। यथा वा- 'संपश्यतां तामतिमात्रतन्वीं शोभाभिराभासितसर्वलोकाम्। सौदासिनी वा सितयामिनी वेत्येवं जनानां हृदि संशयोऽभूत्।' अन्रातिमात्रतनुत्वं सौदामिन्या, शोभाभिराभासितसर्वलोकात्वं च सितयामिन्या सह कान्तायाः पृथगनुगामी समानो धर्मः । अत्रैव पूर्वाधगतविशेषणद्वयत्यागे स एवानिर्दिष्टः । विम्बप्रतिबिम्बभावमापन्नो यथा 'तीरे तरुण्या वदनं सहासं-' इत्यादौ प्रागुक्ते। यथा वा- 'सपह्लवा किं तु विभाति वल्लरी सफुल्लपझ्मा किमियं नु पझ्मिनी। समुल्लसत्पाणिपदां स्मिताननामितीक्षमाणैः समलम्भि संशयः ॥' अन्र पल्लवफुल्लपद्मे पाण्याननयोः प्रतिबिम्बकोट्योः पृथङ् निर्दिष्टे। 'इदमुदधेरुदरं वा नयनं वात्रेरुतेश्वरस्य मनः । दशरथगृहे तदानीमेवं संशेरते स्म कवयोऽपि।' अन्र तदानीमिति प्रकरणसाहाय्यवशादशरथगृहेण धर्मिणाक्षिपस्य

नेत्रेति। तयोरभिराममित्यर्थः । समेति। संशयं कृतवन्तः। एवमग्रेऽपि। पृथगिति। उपपादितमिदं प्राक्। सौदामिन्येति। सह कान्तेत्यत्रान्वेति। वल्लरी लता। पाणि- पदां स्मितेति। पादप्रतिबिम्वानिर्देशान्यूनतात्र। अत एव पाण्याननयोरित्यग्रिमोक्ति: संगच्छते। वस्तुतस्तु फुल्लपझ्म पाणिवत्पादयोरपि प्रतिबिम्ब इति न दोषः । व्याख्यानं तूपलक्षणलेन योज्यमिति वोध्यम् । कोट्योः वल्लरीपझ्मिन्योः । बिम्बप्रतिबिम्बभावा- पन्नस्य निर्दिष्टस्योदाहरणं दत्त्वाऽनिर्दिष्टस्य तदाह-इदमिति। चन्द्रस्य त्रिधोत्पत्तिः, समुद्रादत्रिनेत्रात्पर मेश्वरमनसश्चति भावः । तदानीं रामोत्पत्तिसमये। तदानीमिति। १ बिम्बभूतस्य पाणेराननस्य च प्रतिबिम्बकोट्योर्मध्ये पह्लवफुल्पझे पृथङ निर्दिष्टे इत्यर्थः । पाण्याननयोर्बिम्बयो: पल्लवफुललपझे इति प्रतिबिम्बौ पृथगुपाच्तावित्याशयः ।

Page 411

ससंदेह: ] रसगङ्गाधर: । ३५१

तत्कालजातस्य भगवतो रामस्य जलध्युद्दरादिसंशयकोटित्रयाक्षिपः साधरेणश्चन्द्रः प्रतिविम्यः । इमौ च विम्वप्रतिबिम्चावनिर्दिष्टावपि प्रतीयमानौ सादश्यं प्रयोजयतः । एतेन 'अनुगाम्येव धर्मो लप्तः संभवति, न तु विम्बितः' इति वढन्तः परास्ताः । इति दिक्। अयं च कचिदनाहार्यः, क्वचिदाहायः । यत्र हि कविना परनिष्ठः संशयो निबध्यते प्रायशस्तत्रानाहार्यः । यथा 'तीरे तरुण्याः', 'मरकत- मणिमेदिनीघरो वा' इत्यादिषु प्रागुदाहतेपु पद्येपु। तत्र भ्रमरादीनां संशेयानानां ग्राह्यनिञ्चयाभावान्। यत्र च स्वगत एव तत्राऽडहार्थः । यथा- 'अलिमृगो वा नेत्रं वा यत्र किंचिद्विभासते। अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ।।' अन्न वक्तुः कवेस्तत्त्वज्ञतया संशयावाहार्यावेव। परम्पैरितोऽपि चायं संभवति-

प्रति । प्रतिपाद्यप्रकरणेलथः । इनौ राम-चन्द्रौ। अयं च संशयः । परनिष्ठ इति। सभिन्ननिष्ठ इत्यर्थः । कचिद्यभिचारादाह-प्रायश इति। अनाहायलमुपपा- दयति-तत्रेति। 'संशयानानां' इति पाठः । अ्रमरादिविशेषणमेतत्। एवंन परनिष्ठत्व- व्यवच्छेदः । यत्र मुखरूपवस्तुनि। इदमेवाग्रे इदंपदार्थः । प्रत्यासत्तिन्यायेनाह-कवे- रिति। परम्परितोऽपीति। अन्रारोपस्यारोपमात्रोपायलेन परम्परितलम्, नतु संश- १ बिम्बभूतस्य रामस्य, चन्द्रः केटित्रयसाधारणः (कोटित्रयेऽपि समानः) प्रतिबिम्ब इत्यथैः । २ संशयकर्तृणाम् (येषां संशयो जातस्तेषाम्) भ्रमरादीनां ग्राह्यविषयः क आसीदिति तत्त्वनिश्चयाSभावात अयं संशय अनाहार्य: (अनारोपितः, वास्तवः) इत्याशयः । ३ यत्र (यस्मिन् मुखे) इदं नेत्रं वा अलिमृगो वा इत्येकः संशयः । तदिदन् (यत्र अलिमृंगो वेति संशयो जातः) मुखमर्ति, अथवा अरविन्दं चन्द्रो वा, इति द्वितीयः संशयः । मुखे अरविन्दसंशये नेत्रे अलिसंशयः, चन्द्रसंशये च तन्मध्यसंस्थस्य मृगस्य संशय इत्याशयः । ४ विदुषां दारिश्यमेव तमः (रूपकम्), तस्य कृते अयं सूर्य: [अथवा वैरीन्द्रवंशस्य कृते दवाभिः, अथवा दुग्धाम्बुधिः इत्यादिप्रकारकः संशयः ]। अत्र हि दारिव्वादिषु तम- रत्वादेरारोपो राजनि सूर्यत्वाद्यारोपस्य निमित्तमत एव परम्परितत्वम्। न तु पूर्वोप्यारोप: संशय इत्यादि टीकायां द्रष्टव्यम्।

Page 412

३५२ काव्यमाला। [ द्वितीयानने-

'विद्वद्दैन्यतम स्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवी- दावाभि: किमहो महोज्वलयशःशीतांशुदुग्धाम्वुधिः ।

केषामेघ नराधिपो न जनयत्यल्पेतरा: कल्पनाः ॥।'

अन्राप्याहाये: । क्वचित्परनिष्ठोऽपि कविना निबध्यमान आहार्यो भवति।

यथा- 'गगनादलितो गभस्तिमानुत वाडयं शिशिरो विभावसुः । मुनिरेवमरुन्धतीपतिः सकलज्ञः समशेत राघवे॥' अत्र मुनेर्वसिष्ठस्य सर्वज्ञत्वेनोपात्तस्य संशय आहार्य एव। यद्यप्यत्र 'मुनीनां च मतिभ्रमः' इत्युक्त्या तस्यानाहार्य एव संशयो वक्तुं शक्यः, तथापि कोटितावच्छेदकयोः शिशिरत्वगगनगलितत्वयोर झनिसूर्यरूपकोटि- द्वये आहार्यबोधस्यैवावश्यवाच्यतया पुरोवर्तिन्यभेदेन कोटिद्वयाभेदां- शेऽपि तस्यैव न्याय्यत्वात्। इह च कोट्योधेमिसादृश्यदार्ढ्यायो-

यस्य संशयोपायलेन । दैन्यादीनां तमस्त्ादिसंदेहाविषयलादिति बोध्यम्। त्रिमूर्ति: ऋग्यजुःसामात्मकः सविता। वैरीन्द्रेति। वैरिश्रेष्ठा एव वंशारण्यमित्यर्थः। जीवातुर्जीव- नोषधम्। अल्पेतरा बहवः । कल्पनाः संशयाः । खगत एवेत्यवधारणमयुक्तमत्याह- कचित्परनिष्ठोऽपीति। यद्यपि विद्वद्दैन्येत्युदाहतोऽपि परनिष्टो भवति तथापि केषा- मिति सामान्येन निर्देशात्खवनिष्ठोऽपि भवतीत्यत उदाहरणान्तरमाह-गगनादिति। विभावसुरभनिः । मुनिर्वसिष्ठः। समशेत संशयं कृतवान्। अन्न गगनादितिपदे। चोऽन्य समुचायकः । तस्य वसिष्ठस्य। पुरोवर्तिनि श्रीरामे। वर्तिन्यमेदेनेति चिन्तम्। तस्यैव

१ अर्थात् अयं गभस्तिमान् वा विभावसुर्वा इति सूर्य-अभिरूपकोटिद्वये कोटितावच्छेद- क्रस्य (कोटेविशेषणस्य) गगनगलितत्वस्य शिशिरत्वस्य च आहार्य एव बोधोऽवश्यं वाच्यः [यतो हि न स वास्तवः ]। ततश्च अस्मिन्नंशे आह्यार्यों बोधो यदि स्वीकृतस्तहि पुरोवर्तिनि (रामे) अमेदसंसर्गेण सूर्यों वा अ्निवा इति कोटिद्वयप्रकारकः संशयबोधोपि आहार्य एव न्याय्य इत्याशय: ।

Page 413

भ्रान्तिमान् ] रसगङ्गाघरः । ३५३

ष्णेत्वगगनगतत्वरूपवैधर्म्यनिरासक्रमविद्यमानमपि गगनगलितत्त्वं शि- शिरत्वं चारोप्यते वक्रा। एतमादयोऽन्येपि प्रकाराः सुधीभिः स्वयमुन्नेयाः । इति रसगताधरे मसंदेहप्रकरणम्। अथ भ्रान्तिमान् सदृशे धर्मिणि तादात्म्येन धम्येन्तरप्रकारकोऽनाहार्यो निश्चयः सादृश्यप्रयोज्यश्चमत्कारी प्रकृते भ्रान्तिः । सा च पश्चुपक्ष्यादिगता यसिमिन्वाक्संदर्भऽनूदयते स भ्रान्तिमान् । अत्र च भ्रान्तिमात्रमलंकारः । भ्रान्तिमानलंकार इति व्यवहार- स्त्वौपचारिकः । तथा चाहु :- 'प्रमात्रन्तरधीभ्रान्तिरूपा यस्मिन्ननूद्यते। स भ्रान्तिमानिति ख्यातोऽलंकारे त्वौपचारिकः ॥' इति। लक्षणे भीलित-सामान्य-तद्रुण-वारणाय धर्मिग्रहणद्वयम्। रूपकवित्ति- वारणायानाहार्य इति कविभिन्नगत इति वा। संशयवारणाय निश्चय इति। इदं रजतमिति रङ्गविशेष्यकबोधवारणाय चमत्कारीति। कविप्रतिभानिर्व- र्तित इत्यर्थः। रङ्गे रजतमिति बुद्धेलोंकिकतया न कविप्रतिभानिर्वर्तितत्वम्। आहार्यबोधस्यैव। ससंदेह इति व्यवहारस्त्वौपचारिकः, भ्रान्तिमानितिवत् ।। इति रसगङ्गाधरमर्मप्रकाशे ससंदेहप्रकरणम् । अथ भ्रान्तिमन्तं लक्षयति-अथेति । अन्यन्न नैवमिल्याह-प्रकृत इति। आदिना मनुष्यग्रहणम्। प्रतिज्ञाविरोधाभावायाह-अत्रेति। औपचारिक इति। भ्रान्तिनिष्ठालंकारत्वस्य तद्त्यारोपात्। आ्रान्तितद्वतोरमेदारोपाद्वेति भावः । ससंदेह इति व्यवहारोऽप्येवमेवेति प्रागुक्तम्। प्रमेति। कविभिन्नेत्यर्थः । अलंकारे अलंकाराणां मध्ये। आर्षमेकवचनं वा। अनुरोधेनाह-कवीति। ननु तन्रापि चमत्कारोऽस्त्ये- १ अयमाहायों वोध:, अत एव राजैकधर्मिकस्य सूर्यासिकोटिकस्य संशयस्य मूलभूत यत्सादृश्यं (अलौकिकतेजःशालित्वरूपन्) तद्दा्ढ्याय कोटिभूते सूर्ये गगनगतत्वरूप यद् वैधर्म्य तन्निवर्तकम्, असौ च उष्णत्वरूपं यद्वैधर्म्य तन्निवर्तकं च असदेव गगनगलितत्वं शिशिरत्वं चारोप्यत इत्याशयः । २ मीलितादिषु उक्तविशेषणविशिष्टोऽनाहार्यों निश्चयो भवति, परं स एकस्मिन्धमें धर्मा- न्तरस्य। यथा मीलिते-चरणगतसहजरक्तिमनि लाक्षागतरक्तिस्ो निश्चयः । एवं सामान्य-तद्- गुणयोरपि बोध्यः । न तेषु एकस्मिन् धर्मिणि धर्म्यन्तरस्य निश्चय इत्यर्थः । ३ रूपके अमेदवोध आहायों भवति, अत एव कविनिष्ठोऽसौ।

Page 414

३५४ काव्यमाला। [द्वितीयानने-

'अकरुणहृद्य प्रियतम सुख्जामि त्वामितः परं नाहम्। इत्यालपति कराम्बुजमादायालीजनस्य विकला सा।।' इत्यत्र नायिकासंदेशहरस्योक्तौ व्यज्यमानस्योन्मादस्य वारणाय सादृश्यप्रयोज्य इति। न चात्रोन्मादस्य प्राधान्यात्सकलालंकारसाधारणे- नोपस्कारकत्वविशेषणेनैव वारणमिति वाच्यम्। तस्यापि पार्यन्तिकवि- पलम्भोपस्कारकत्वात्। यद्वा संदेशहरात्संदेशं श्रुतवतो नायकस्य स्वमित्रं प्रति यदेदं वाक्यं 'अकरुणहृदय-' इत्यादि, तदास्मिन्नेव पद्ये सेति पद्व्यङ्ञ्यायाः स्मृतेरुपस्कारके उन्मादे तथाप्यतिप्रसङ्गापत्तेः सादृश्य- प्रयोज्यत्वमावश्यकम्। लक्षणे चात्रैकत्वं विवक्षितम्। अन्यथा वक्ष्य- माणानेकग्रहीतृकानेकप्रकार कैकविशेष्यकभ्रान्तिसमुदायात्मन्युल्लेखेSतिप्र- सङ्गापत्तेः । अत एवैकवचनमपि सार्थकम् । उदाहरणम्- 'कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया। चपलायुतवारिद्भ्रमान्ननृते चातकपोतकैर्वने।।' अन्र चातकगतहषोपस्कारकतया तद्गता भ्रान्तिरलंकारः । अत्रैव यदि 'परिफुल्लपतत्रपल्लवैर्मुमुदे चातकपोतकैर्वने' इत्युत्तरार्ध निर्मीयते तदायमेव भ्रान्तिध्वनिः । यच्चाप्पयदीक्षितैलेक्षणमुक्तम्- 'कविसंमतसादृश्याद्विषये पिहितात्मनि। आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥।' इति। 'तत्र कविसंमतसादृश्यप्रयोज्ये विषये आरोप्यमाणानुभवो यत्र वाक्सं-

वात आह-कवीति। उक्तौ नायकं प्रतीति शेषः । उन्मादस्येति । 'विप्रलम्भ- महापदादिजन्मा अन्यस्मिन्नन्यावभास उन्मादः' इति मतेनेदम्। नन्वत्र विप्रलम्भ- जन्यत्वेनोन्मादस्य कथं तदुपस्कारकत्वमत आह-यद्वति। अत एव निश्चय इत्यत्रैक- १ अनेके अहीतारो यस्मिन् ईदटशः, अनेकप्रकारक एकविशेष्यकश्च यो आ्रन्तिसमुदाया- त्मक उल्लेखस्तस्मिन् 'एकस्मिन् धर्मिंणि एकधमिंप्रकारक एव निश्चयः' इत्येकवचनविवक्षातो नातिव्याप्तिरित्याशयः। तत्र हि अनेकग्रहीतृवशादेकस्मिन्वस्तुन्यनेकप्रकारको बोधः (भ्रमात्मकः) ।

Page 415

भ्रान्तिमान् ] रसगङ्गाघर:

दर्भे स भ्रान्तिमान्' इति भ्रान्तिमतो लक्षणं विधाय रूपकव्यावृत्त्यर्थ पिद्ि- तात्मनीत्युच्यते। न चैतयुक्तम् । नहि रूपकवाक्ये आरोप्यमाणस्यानु- भवो वर्ण्यते, किं तु तस्माजायते। न चात्रानुभवान्तं भ्रान्तेर्लक्षणमग्रिमं च भ्रान्तिमतः । तत्र भ्रान्तिलक्षणे रूपकेऽतिव्याप्े्वरिणाय विपये पिहि- तात्मनीति विशेपणमिति वाच्यम्। अनुभवत्वघटिनस्य भ्रान्तिलक्षण- स्यानुभूयमानाभेदात्मके रूपके कथमप्यप्रवृन्नेः । यदि च रूपकपदं रूपक- बुद्धिपरमिति ग्रन्थसामञ्जस्वं विधीयते, तदापि विपयनावच्छेदेकानवगा- हिनि 'मरकतमणिमेदिनीवरो वा तरुगतरस्तमरेप वा तमालः' इति संशयेSतिपरसङ्गान्, 'कमलमिति चञ्चरीकाश्चन्द्र इति चकोरास्त्वन्मुख- मनुधावन्ति' इति भ्रान्तिससुदायात्मन्युल्खेऽतिव्यापेश्च। अत्र भ्रान्त्या संकीर्ण उल्लेख इति चेन्, नह्येतावतोल्लेखांशातिव्याप्िर्न दोषः । नहि दुग्धभागजलभागानां व्यामिश्रतास्तीति दुग्वलक्षणं जलांशातिव्याप्निकं कर्तु युक्तम्। यच्ापि भिन्नकर्त कोत्तरोत्तरभ्रान्तावुदाहनम्- सविवक्षणादेव। उच्यत इति। अयं भावः-तद्विशेषणेनारोप्यमाणानुभवस्य खार- सिकस्य कविप्रतिभया कलपनं विवक्षितम्। नस्येव विषयपिधानसानर्थ्यादिति। अग्निमं चेति। यत्रेत्याद्युक्तमित्र्थः। तत्रेति। तद्वाक्यजाऽनुभवस्य तत्रापि सत्वादिति भावः। कथमपीति। ज्ञानविषययोभदेन ज्ञानवृत्तिधर्मस्य विषयेऽसत्त्वादिति भावः । ननु न नाम संशयेऽतिप्रसङ्गः, विषयस्थप इति प्रतिपादनादत आह-कमलमिति। अत एव वक्ष्यति भ्रान्त्या संकीर्ण इति। अतिव्यातश्चेति। उल्लेस्तवभ्रान्तित्वयोरत्र संकीर्ण- लम्। बाधकाभावात्। भूतत्मूर्तत्योरिव नरैत्रीरगतिप्रदेव्वत्रोह्ेखलस्य, कनकद्रवे- त्यत्र भ्रान्तिलस्य सावकाशलादिति कश्चित्। वनितेति वदन्लेतां लोका इति लदुदाड-

व्याप्तिस्तवाप्यस्ति। एवं तत्तदलंकारसंकीरणे तत्तदलंकारलक्षणस्य सा दुर्वारेति चिन्त्- १ रूपके अभेदानुभवः (पूर्वसिद्धः) न भवति, अपि तु तदैव सोऽमेदोऽनुभूयमानो भवति। अत एव विषय्यभेदानुभवात्मकस्य भ्रान्त्यलंकारलक्षणस्य नातिव्याप्तिः । भ्रान्तिरनुभवः, अनुभवे उपगतोऽभदश्च रूपकम्, ततः कर्थं तत्रातिव्याप्तिः ? २ विषयतावच्छेदकस्य (रघुपतौ रघुपतित्वस्य) परामर्शों यत्र न। अर्थात् विषये (रघु- पतौ) आरोप्यमाणयोः (मरकतभूधर-तमालयोः) एव अनुभवः (प्रतीतिः) तत्राप्यस्तीति भ्रान्तिलक्षणस्यातिव्याप्तिः । ३ संकीर्णत्वेपि एकलक्षणमन्यस्मिन् नातिव्यापयितुं योग्यम्। दुग्धस्य जलमिश्रितत्वेपि दुग्धलक्षणं जलातिव्याप्ं केन क्रियेत ?

Page 416

३५६ काव्यमाला। [ द्वितीयानने-

'शिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै- सुन्रासोहासलीला: किसलयमनसा पाणयः कीरदष्टाः । तह्लोपायालपन्त्यः पिकनिनद्धिया ताडिता: काकलोकै- रित्थं चोलेन्द्रसिंह त्वद्रिमृगद्शां नाप्यरण्यं शरण्यम्।' इति। तत्र विचार्यते-स्तनकलशयुगे हि न तावन्मञ्जरीसादृशयं कविसम- यसिद्धम्, येन तन्मूला चञ्चरीकाणां भ्रन्तिरुपनिबध्येत। दोषान्तरमूला तु सा नालंकार इत्यनुपद्मेव निरूपितम्। अपि च धर्मिणि कलशरूप-

द्यानाम्। नहि सादृश्यमूलैकालंकारावच्छिन्ने सादृश्यमूलमलंकारान्तर शोभते। यथा 'मुखकमलं तव चन्द्रवत्प्रतीमः' इति प्रागेव निवेदनात्। प्रत्युत कलशरूपकेण मञ्जरीसादृश्यतिरस्काराच्। 'तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः' इत्यत्र विधेयाविमर्शाद्विधेयान्तरमा- काङ्ितम्। कीरैदष्टा इति तु भाव्यम्। जाता इत्यध्याहारेऽपि विवक्षित- स्याविधेयत्वमविवक्षितस्य च विधेयत्वं प्रसज्येत। एवं 'तल्लोपायालपन्त्यः पिकनिनदधिया ताडिता: काकलोकैः' इत्यत्र न तावत्पिकनिनदास्ताडन- योग्या: काकानाम्, येन तद्धिया आलपन्त्यस्तैस्ताड्येरन्। नापि पिकेनि- नदभ्रम आलपन्तीषु संभवति। संभवन्वा न सादश्यमूलः । पिकनिक- रधियेति तु भाव्यम् । अथ तदालापेषु पिकनिनदबुद्धेरपि तासु पिक- बुच्धुत्पादनद्वारा संभवत्येव ताडनोपयोग इति प्रयोज्यत्वार्थकतृतीयया

मिदमित्यपरे। तावदादौ उपेति। वर्ण्येतेत्यर्थः। ननु यथाकर्थचित्सादृश्यमप्यस्तीत्यत आह-अपि चेति। धर्मिणि स्तनरूपे। मुखकमलमिति रूपकम्। अभ्युपेत्याह- प्रत्युतेति। एवमादे दोषमुक्ला द्वितीये दोषमाह-तत्रासोलति। भ्रमरभयजनन- जातचेष्टा इत्यर्थः । विधेयाविमर्शादिति। विधेयस्याकथनादित्यर्थः । उद्देश्यकोटिप्र- विष्टं सर्वमिति भावः। पाणीनुद्दिश्य विशिष्टस्य कीरकर्तृकदष्टत्वस्य विधेयले को दोष इति चिन्त्यमिदम्। विवेति। दष्टत्स्येत्यर्थः । तृतीये तमाह-एवमिति। तल्लोपाय करणाय। तावदादौ। दोषमूलः संभवतीत्याह-संभवन्वेति। शब्दप्रयो- १ आलपन्तीषु (धर्मिंषु) निनदस्य (धर्मस्य) भ्रमः कथमिति भावः । २ अखिलासु इति काशीपाठः ।

Page 417

भ्रान्तिमान् ] रसगङ्गाघर: । ३१७

पिकनिनद्धीप्रयोज्यकाककर्तृकताडनकर्मत्वमालपन्तीनां सुप्रतिपादमेवेति चेन्, नैवम् । तथाप्रतीतेरसिद्धेः । 'चोरवुद्ध्या हतः साधुः' इत्यादौ चोरवुद्धिहननयोः सामानाधिकरण्येन हेतुहेतुमद्भावगमकत्वव्युत्पत्तेः। एवं 'दन्तिवुद्ध्या हनः शूरेर्वराहो वनगोचरः' इत्यत्रापि विशेष्यतया वराहवृत्तर्दन्तिवुद्धेर्वराहेव्नत्तिहननहेतुभावावगमः । त्वदुक्तरीत्या दन्तवु- ज्येतिकृते बोधकदर्थनैव। किं च पिकानां हि कूजितादिशब्दैरेव शब्दो वर्ण्यंते, न तु निनदादिशब्दैः सिंहदुन्दुभ्यादिशव्द्प्रयोगयोग्यैः । तथा प्रथमद्वितीयचरणस्थयोः सनपाण्योर्यथाकरथंचिव्यवहितमपि जातान्वयमपि त्वद्रिमृगद्शामिति षध्ठ्यन्तमन्वेतुं शक्ुयान्, न तु तृतीयचरणस्थे आल- पन्त्य इत्यस्मिन्विशेषणे विशेष्यभावेनेति तासां ताटस्थ्यमेव स्यात्। विभक्तिविपरिणतावपि प्रकरमभङ्गासंप्ुलत्वाभ्यां स्थितमेवेति पद्यमव्युत्पन्न- निर्मितमेव। दीक्षितैस्तु भ्रान्त्यलंकारांशमात्रमादायोदाहतमिति दिक्। यत्वलंकारसर्वस्वकृता लक्षितम्, 'साहश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान्' इति, ज्ञन्न। प्रागुक्ते संशयालंकारे वक्ष्यमाणायामुत्प्रेक्षायां चातिप्रसङ्गान्। प्रतीतिपदस्य निश्चयपरत्वे रूपकवित्तावतिप्रसङ्गात्। विपयतावच्छेदकान- वगाहित्वेन निश्चयो विशेषणीय इति चेन, विशेष्यताम्। तथाप्यतिशयो- क्तिवित्तावतिप्रसक्तिरवारितैव। अनाहार्यत्वेन निश्चयविशेषणत्वे पुनरस्म दुक्क एव पर्यवसितिः, मतुवर्थासंगतिञ्च। तत्र 'कनकद्रवकान्तिकान्तया' गेति। शब्दे प्रयोगेत्यर्थः । आसत्त्याकाङ्गयोः स्वारतिकयोरभावादाह-यथाकर्थं- चिदिति। जातान्वयेति। नाप्यरण्यं शरण्यमिति संनिहितेनेति भावः। न त्विति। विभिन्नविभक्तितात्खस्मिन्खभेदाभावाच्चेति भावः । ननु विभक्तिविपरिणामेनामेदान्वयः सुलभोऽत आह-विभक्कीति । ग्रक्रमेति । नन्वेवं दीक्षितैः कथमुदाहृतमत आह-दीक्षितैरिति। निश्चयपरत्व इति। तथा च संशयसंभावनारूपयोस्तयो- नातिप्रसङ्ग इति भावः । वित्तौ तज्ज्ञाने। अनाहार्यत्वेनेति। नन्वेवमपि कथमति- शयोक्तावतिव्याप्तिवारणम्। तस्यामनाहारयाभेदज्ञानस्यैव सर्वसंमतलात्प्रागुक्तताच्चति चेत्, चिन्त्यमेतत्। मतुबिति। भ्रान्तिमानिति मतुबित्यर्थः । अन्न धर्मभेदमाह- १ अर्थात् पूर्व तदालापेषु पिकनिनदबुद्धिः । तादृशबुद्धया च तास्वपि पिकबुद्धिः । पिक- बुद्धया च तासु ताडनमिति प्रयोज्यार्थकतृतीयया सोयमर्थः सुप्रतिपाद इति शङ्का। २ वराहे वर्तमाना दन्तिबुद्धिर्वराहवृत्तिहननस्य हेतुरित्याशयः । ३ पिकधिया ताडिता इत्यस्य स्थाने पिकनिनदधिया ताडिता इति प्रयोज्यत्वार्थकतृतीयया यथा भवता प्रयोक्तुं शक्यते तथा दन्तिबुद्धया इत्यस्य स्थाने दन्तवुद्धया इत्यपि कर्तु शक्यतया बोधकदर्थनैवेत्याशयः ।

Page 418

३५८ काव्यमाला। [द्वितीयानने-

इत्यत्र सीतातडितोर्विन्त्रप्रतिबिम्वभावः। युतत्वमिलितत्वयोश्च शुद्ध- सामान्यरूपता । 'रामं स्त्निग्वतरश्यामं विलोक्य वनमण्डले। धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः ॥'

अथोल्लेख :- इति रसगङ्गाघरे भ्रान्तिमत्प्रकरणम्।

एकस्य वस्तुनो निमित्तवशाददनेकैग्रहीतृभिरनेकप्रकारकं ग्रहणं तदुललेख: । 'अधरं विम्बमाज्ञाय मुखमव्जं च तन्वि ते। कीराश्च चञ्चरीकाश्च विन्दन्ति परमां मुदम् ॥' अत्र कीरचञ्रीकाभ्यामधरवदनयोर्विम्बत्वेन पद्मत्वेन च ग्रहणे भ्रान्तिरूपेऽतिप्रसङ्गवारणायैकस्य वस्तुन इति। 'धर्मस्यात्मा भागधेयं

बहुत्वकं ग्रहणविशेषणम्। 'नृत्यत्त्वद्वाजिरा जिप्रखर खुर पुट प्रोद्धतैधूलिजा लै- रालोकालोकेभूमीधरमतुलनिरालोकभावं प्रयाते। विश्रान्ति कामयन्ते रजनिरिति धिया भूतले सर्वलोका: कोका: कन्दन्ति शोकानलविकलतया किं च नन्दन्त्युलूकाः॥' अत्र धूलिजालरूपस्यैकस्य वस्तुनोऽनेकैलोककोकोलूकैगरहीतृ भिरेकेनैव रजनीत्वरूपेण प्रकारेण ग्रहणमिति तत्रातिप्रसङ्गवारणायानेकप्रकारक-

तत्रेति। उक्तोदाहरणानां मध्य इत्यर्थः। वारावरो मेघः । शिखावला मयूराः ॥ इति रसगङ्गाधरमर्मप्रकाशे भ्रान्तिमत्प्रकरणम् ।। उल्लेखं लक्षयति-अथोल्लेख इति । ग्रहणं ज्ञानम्। कीराः शुकाः। चश्च- रीका भ्रमराः। नन्वेवं बहुवचनात्रिप्रमृत्येव स्यात्, द्वयोने स्यादत आह-अवि- वक्षितेति। नृत्यदिति। राजानं प्रति कवेरुक्तिः । अतुलेति। आलोकालोकम्। लोकालोकस्य किंचिदंशे प्रकाशः किंचिदंशेऽप्रकाशः । धूल्याक्रान्तले तु सवाशेनाप्रका- १ लोकालोकभूधरपर्यन्तं भूतले अतुलनिरालोक(अत्यन्तनिष्प्रकाश) भावं प्रयाते सति।

Page 419

उल्लेख: ] रसगङ्गाधर:ः । ३५९

मिति। ग्रहणमिति ग्रहणसमुदायो विवक्षितः । एकत्वं जाती। अनेक- ग्रहीतृकस्यैकस्य ग्रहणस्याप्रसिद्वेः। तेन द्वयोबहूनां वा ग्रहणं निमित्त- वशादिति तु वस्तुकथनमात्रम्। उदाहरणम्- 'नरैर्वरगतिप्रदेत्यथ सुरैः स्वकीयापगे-

हरेस्तनुरिति श्रिता मुनिभिरस्तसङ्गैरियं तनोतु मम शं तनो: सपदि शन्तनोरङ्गना।।' अत्र च लिप्सारुचिभ्यां निमित्ताभ्यामस्त्यनेकप्रहीकवरगतिप्रदा- त्वाद्यनेकप्रकारकग्रह्णसमुदायो गङ्गाविपयकरतिभावोपस्कारकः । शुद्ध एवात्रायमुललेखालंकार:, रूपकाद्यमिश्रणान्। संकार्णोडपि शयते। यथा- आलोक्य सुन्दरि मुखं तव मन्दहास नन्दन्तमन्दमरविन्दधिया मिलिन्दाः। किं चालि पूर्णमृगचञ्छनसंभ्रमेण चञ्रपुटं चट्ठलयन्ति चिरं चकोराः ॥'

शतं गत इत्यर्थः। नन्वैवं बहुवचनौचिलन कथमेकचमन आह-एकत्वमिति । अनेकेति। एकस्य वस्तुनोऽनेकप्रकारस्येत्यादिः। बहुवचननविवक्षितमित्युक्तलादाह- दयोरिति। नन्वेवमपि निमित्तवशादित्यविकमत आह-निमित्तति। न च 'कीतौं विस्फृर्तिमत्यां ते मृणालक्षीरशड्विनः । द्वयेऽपि नागास्तन्वन्ति जिह्वान्तोहोलनं मुहुः ॥' इति ञ्रान्तिमदुदाहरणे एकस्या एव कीर्तेरनेकेन कुज्रभुजंगरूपेण ग्रहीत्रा मृणालक्षीर- रूपत्वानेकप्रकारेणोल्लेखनमस्तीति तन्नातिव्याप्तिनिरासाय निमित्तभेदादित्यर्थकं निमित्त वशादित्यावश्यकम्। तत्र कीर्तिगतं धावल्यमेकमेवोल्लेखद्वयेऽपि निमित्तमिति वाच्यम्। स्वस्प्रियाहारलिप्सारूपनिमित्तभेदस्यापि तत्र सत्त्वेन संग्राह्यतवादिति भावः । वरेति। ब्रह्मसुखाप्तीत्यर्थः । स्वकीयेति । मन्दाकिनीत्यर्थः । उदारेति । उत्कृष्टतरेत्यर्थः । शन्तनो राज्ञः स्त्री गज्गा मम तनोः शं कल्याणं सपदि तत्कालं तनोवित्र्थः। लिप्सा लाभेच्छा। तस्यालंकारतायाह-गङ्गेति। कविनिष्ठेत्यादिः। अन्रेति। पद्य इत्यर्थः। उक्त इति शेषः । सुन्दरीति आलीति च संबोधने। नायिकां प्रति सख्या नायकस वोकि:। चिरं चकोरा इति। खखप्रियाहारलिप्सा च निमित्तम्। एतां नायिकां

Page 420

३६० काव्यमाला। [ द्वितीयानने-

अत्रैकैकग्रहणरूपया भ्रान्त्या समुदायात्मक उल्लेखः संकीर्णः । 'वनितेति वदन्तेतां लोकाः सर्वे वद्न्तु ते। यूनां परिणता सेयं तपस्येति मतं मम ॥' अत्र विषयतावच्छेदकस्य परसंभतत्वेन निषेध्यतयोपन्यासादपहुत्या संकीर्णः । अप्पयदीक्षितास्तु-"एवमपि यदि- 'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे। वक्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम् ।' इत्यपह्नवोदाहरणविशेपेऽतिव्याप्तिः शङ्या, तदानीमनेकधोल्लेखनं निषेधास्पृष्टत्वेन विशेषणीयम् । तत्राद्योल्लेखनद्वयं परमतत्वोपन्याससाम- थ्याद्म्यमाननिषेधमिति नातिव्याप्तिः" इत्याहुः । तन्न। 'द्विविधश्चाय- मुलेखः शुद्धोऽलंकारान्तरसंकीर्णश्र' इत्युक्त्वा "श्रीकण्ठजनपदवर्णने, 'यस्तपोवनमिति मुनिभिरगृह्यत' इत्यादौ शुद्धः, 'यमनगरमिति शत्रुभिः, वञ्रपञ्जरमिति शरणागतैः' इत्यादौ भ्रान्तिरूपकादिसंकीर्णः" इति स्वय- मेवोक्तत्वात्। इहाप्यपह्नुत्या संकीर्ण उल्लेख इत्यस्य सुवचत्वात्। यदि चैवंविधापन्नुतिवारणाय निषेधारपृष्टत्वं विशेषणमुच्यते तदा- 'कपाले मार्जारः पय इति करांल्लेढि शशिन- स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति। रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तञ्चन्द्रो जगदिदमहो विभ्रमयति ॥'

नायकोक्तिरियम्। अवच्छेदकस्य वनितात्स्य। निषेध्येति। आर्थिकेत्यादिः। एव- मपि उक्तविशेषणदानेऽपि। गम्येति। बहुव्रीहिः। श्रीकण्ठेति। शुद्धस्यैकमुदाहरणं सोपपादनमुक्तान्यदाह-यथा वा हर्षचरिते इत्यादिः। यस्तपोवनमित्यादिगद्यम्। अग्रृह्य- वेत्यस्य सर्वत्र संबन्धः। यच्छब्दार्थः श्रीकण्ठजनपदः । शुद्ध इति। तत्र तपोवना- दिभूनिष्ठत्वादिति भावः। यमनगरतादीनां ताद्रूप्यानुभवगोचरतयान्वये आह- भ्रान्तीति। यदि तेषामुपरञ्जकतामात्रेणान्वयस्तदाह-रूपकेति। एवंविधेति. १ अर्थात् केच्विज्जनाश्रन्द्रं विदुः, अहं न वेझ्यि इति निषेधस्य गम्यमानतया निषेधाडस्पृष्ट लाभावादपहुतौ नातिव्यापि: ।

Page 421

उल्लेख: ] रसगङ्गाघरः । ३६१

इति त्वदुदाहनभ्रान्तावतिप्रसङ्गः कथ नाम वार्येत। मार्जाराद्यनेक- ग्रहीतृकानेकधोल्लेखनस्य तत्रापि सच्वान। स्वस्प्रियाहार लिप्सारूपनिमि- त्तभेदाच्च। तस्मात्संकीर्णनिवारणाय यन्नोऽनर्थक एव। संशयसंकीणा यथा- *भानुरग्निर्यमो वायं बलिः कर्णोऽथवा शिविः। प्रत्यर्थिनश्चार्थिनश्र विकल्पन्त इति त्वयि॥' अत्र द्वयोग्रहणयोः प्रत्येकं संशयत्व्रम्। समुदायस्य तूहेखता। अयं च स्वरूपमात्रोल्वेखे स्वरूपोल्लखः प्रागेव निरूपितः । फलानामुहेखे फलोलेखो यथा- 'अर्थिनो दातुमेवेति त्रातुमेवेति कातराः । जातोऽयं हन्तुमेवेति वीरास्त्वां देव जानते ।।' हेतूनामुल्लेखे हेतलेखः । यथा- 'हरिचरणनखरसङ्गादेके हरमूर्धसंस्थितेरन्ये। त्वां प्राहुः पुण्यतमामपरे सुरतटिनि वस्तुमाहात्म्यान् ।।' अथ प्रकारान्तरेणाप्युल्लेखो दृश्यते-यत्रासत्यपि ग्रहीत्रनेकत्वे विषयाश्रयसमानाधिकरणादीनां संबन्धिनामन्यतमानेकत्वप्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारत्वम्। अयमपि द्विविधः, शुद्धोऽलंकारान्तरसंकीर्णश्र।

विलक्षणेत्र्थः । त्वदुदेति। तया प्रथमं सुखयत वेनोदाहृतेत्यर्थः। तादृशभ्रान्तिविशेष- स्यापि वारणावश्यकलान्। अन्यथा संकीण तत्कथमादावुदाहृतम्। तद्विविक्तविषयस्यैवा- दाबुदाहर्तुमोचित्यातू। अन्यथालंकारभेदो न स्यादिति भावः । अनेकधेति। पयस्ता- दीत्यर्थः। उपसंहरति-तस्नादिति। शिबिस्तन्नामको राजा। अत्र दयोरिति। प्रथ- मपादद्वितीयपादप्रतिपाद्ययोरित्यर्थः । उत्प्रेक्षावद्भेदमाह-अयं चेति। उल्लेखश्वेत्र्थः। उल्लेखे सतीति शेषः । एवमग्रेऽपि। अ्थिन इति। राजानं प्रति कव्युक्तिः । हरीति। गङ्गास्तुतिः । नखरेति। नखेत्यर्थः । वस्तुमाहात्म्यादिति। सस्रूपस्यैव माहा- न्यादित्यर्थः । पूर्वोदाहरणे एकस्यैव राज्ञो दातृत्वत्रातृत्वहन्तृत्वप्रकारेणोल्ेखः । अन्र 'रस्य पुण्यतमात्वस्य हरिपदसङ्गादिहेतुकत्वेनोल्लेखः । प्रकारस्य फलतहेतुत्वाभ्यां -इलोलेखलादिव्यवहार इति बोध्यम्। संबन्धिनामिति। विषयरूपाश्रयरूपैकाधिकर- प्ृत्तिलेन प्रतीयमानरूपाक्च ये संबन्धिनः । विषयाश्रयसहचरादिरूपा ये संबन्धिन इति ३१ रस०

Page 422

३६२ काव्यमाला। [ द्वितीयानने

शुद्धो चथा- 'दीनत्राते दयार्दा निखिलरिपुकुले निर्दया किं च मृद्वी काव्यालापेपु तर्कप्रतिवचनविधौ कर्कशत्वं दधाना। सुच्धा धर्मेष्वलु्धा वसुनि परविपद्दर्शने कांदिशीका राजन्नाजन्मरम्या स्फुरति बहुविधा तावकी चित्तवृत्तिः ॥' अत्र दीनत्रातादीनां विषयाणामनेकत्वाच्चित्तवृत्तेरनेकविधत्वम्। राज- विपयकरतिभावोपस्कारकोऽयमुलेखः । यदपि चित्तवृत्तिव्यंक्तीनामत्रैक्यं नास्ति, तथापि तदीयचित्तवृत्तित्वेन सामान्येन तासामेकत्वं विवक्षितम्। यथा वा- 'कातराः परदुःखेपु निजदुःखेष्वकातराः । अर्थेष्वलोभा यशसि सलोभाः सन्ति साधवः ॥' अत्रापि साधवः सन्तीत्यनेन मृता अपि न मृतास्ते, इतरे पुनरमृता अपि मृता एवेत्यर्थाभिव्यक्तिद्वारा व्यड्यमाने साधूत्कर्षविशेपे उपस्कार- कोडयम्। यथा वा- 'तुषारास्तापसव्राते तामसेपु च तापिनः । दगन्तास्ताडकाशत्रोर्भूयासुर्मम भूतये॥' पूर्वपद्ययोरविषयानेकत्वप्रयुक्तम्, इह त्वाश्रयानेकत्वप्रयुक्तमनेक्तविधत्वं दगन्तानाम्।

यावत्। तेषां मध्ये यस्य कस्यचिद्यदनेकलवं तत्प्रयुक्तमित्यर्थः । व्राते समूहे मृद्वीति। काव्योक्तिषु कोमलेत्यर्थः। काव्यालापेपूक्तिमात्रेषु मृद्दीका द्राक्षारूपा। मधुरेति। यावदिति कश्चित्। तर्केति। तर्कस्य प्रतीत्यर्थः । वसुनि द्रव्ये। परेति। परस्य परा वेत्यर्थः । कांदिशीति। कस्यां दिशि गन्तव्यमिति धीविशिष्टेत्यर्थः । राजानं प्रति कव्युक्तिः । अस्यालंकारत्वायाह-राजेति। कविनिष्ठेत्यादिः। नास्तीति। तथा चैकस्य वस्तुन इत्यंशाभावान्नेदं लक्ष्यमिति भावः । तथा लक्षणे विवक्षाया अभावादाह-यथा वेति। अत्र परदुःखादीनां विषयाणामनेकत्वात्साधूनामनेकविधतं स्पष्टमुपेक्ष्यालंकारान्तरत्वमुप- पादयति-अत्रापि साधव इति। एवं विषयानेकतप्रयुक्तमुदाहृत्याश्रयानेकत्वप्रयुक्त- मुदाहरति-यथा वेति। ताडकाशत्रोः श्रीरामस्य। समानाधिकरणानेकतवं प्रत्युदाह- १ चित्तवृत्ते: (ग्राहिकायाः) एकत्वेपि।

Page 423

उल्लेख: ] रसगङ्गावर: ।

'विद्वत्सु विमलज्ञाना विरक्ता वतिपु स्थिताः । स्वीयेपु तु गरोद्वारा नानाकारा: क्षितौ खलाः ।।' अत्र विद्वढ़ादिसहचरभेद्प्रयुक्त वलानामनेकविधत्वम्। एवमन्येपां संबन्धिनां भेदेऽप्यूह्यम् । संकीर्णो यथा- 'गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले। पृथिव्यां सागरायन्ते भूपाल तव कीर्तयः ॥' अत्रोपमया आपाततः प्रतीयमानया पर्यवसितया चोत्प्रेक्षया। 'उपरि करवालवाराकाराः कूरा भुजंगमपुंगवात्। अन्तः साक्षाद्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥।' अत्रोपमाव्यतिरेकाभ्यां तयोः समुचयेनोत्प्रेक्षया च संकीर्णः । 'यम: प्रतिमेहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्टिरो धनपतिर्धनाकाड्डिणाम्। गृहं शरणमिच्छतां कुलिशकोटिभिनिर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥' अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण, विप- क्षभूपालादीनामेतस्मिन्नायाते यमत्वादिना भ्रान्तिरपि संभवतीति

रति-विद्वदिति। यथा वेतादि। यतिपु मिदु। गरोदरा विषोदाराः। आदिपदा- र्थमाह-एवमिति। उपमानात्क्यडो विधानादाह-अत्रोपमेति। तत्रातात्पर्या- दाह-पर्यवेति। उत्प्रेक्षयेति। संकीण इति शेप: । भुजंगमेति। सर्पश्रेष्ठादित्यर्थः। सप्तमीसमासः कर्मधारयो वा। द्राक्षेति। द्राक्षाया या माधुयेदीक्षा तस्या गुरव इत्यर्थः । करवालेत्यत्रोपमा। क्ूर इत्यन्न व्यतिरेकः । तयोरुपमाव्यतिरेकयोः । गुरव इत्यत्राह-उत्प्रक्षया चेति। द्वयोरुल्लेखयोः संकरमादिपदग्राह्यसंबन्धिभेद प्रयुक्तलंच दर्शयितुमुदाहरति-यम इति। तन्नीवृतां प्रतिपक्षराजजनपदानाम् । कुलिशं वज्रम्। राजानं प्रति कव्युक्तिः। यमत्वादिना भ्रान्तिरपीति। शरणेच्छूनां भ्रान्तिवर्णने राजो- १ आर्यापूर्वायें 'नेह भवति विपमे जः' इति नियमादत्र च विषमे सप्तमस्थाने जगणस्य सत्वाच्छन्दोभङ्गदूषित मेतदार्यांपूर्वार्धमिति ज्ेयम्। २ प्रतिपक्षभूपानाम् ।

Page 424

३६४ काव्यमाला। [ द्वितीयानने-

नात्म्रागुक्तोल्लेखप्रकारेण च सह संकीणोंयं संचन्धिपष्ठ्यन्तभेदप्रयुक्त- वर्ण्यानेकविधत्वक उल्लेखः । अन्रेदं वोध्यम्-प्रथमनिरूपितोललेखप्रकारे 'यं महाविष्णुरिति वैष्णवाः, शिव इति शैवाः, यज्ञपुरुष इति याज्ञिकाः, स्वभाव इति लौकायतिकाः, ब्रह्मेत्यौपनिषदा वदन्ति सोऽयमादिपुरुषो हरिः' इत्यादौ तत्तङ्रहीतृकतत्तत्प्रकारकज्ञानसमुदायस्य चमत्कारजनकताया अनुभवसि- द्धत्वेनालंकारत्वम्। द्वितीये तु प्रकारे 'यः शिष्टेषु सदयो दुष्ेषु करालः' इत्यादौ तत्तद्विषयभेदभिन्नस्य प्रकारसमुदायमात्रस्य तथात्वम्। न तु विद्यमानस्यापि ज्ञानांशस्य, चमत्कारित्वेनाननुभवात्। चमत्कारनिबन्धनो ह्यलंकारभाव उपमादीनाम् । अत एवास्माभि: 'विषयाद्यन्यतमानेकत्व- प्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारत्वम्' इति द्वितीय उल्लेखो लक्षितः । एवं च 'लक्षणद्वयान्यतरत्व मुललेखसामान्यलक्षणतावच्छेदकम्' इत्याहुः। परे तु 'प्रकारद्वयेऽपि वर्ण्यवृत्तित्वेन भासमानप्रकारसमुदाय एवोललेखः' इत्यपि वदृन्ति। अथोहेखस्य ध्वनि :-

त्कर्षविरोधीति चिन्त्यमिदम्। प्रागुक्तोलेखेति। इदमपि चिन्त्यम्। ज्ञानस्यानिबन्धने च ज्ञानपर्यन्तस्य पूर्वोल्लेखस्य कथमप्यत्रासत्त्वात्। नियतव्यञ्जकसामय्यभावेनाऽऽर्थस्यापि तस्यासत्त्वच्चति दिक्। इतोऽपि भ्रान्तिरपि संभवतीति चिन्त्यमिति बोध्यम्। विषया- श्रयसहचराणां संबन्धिनामन्रासत्त्वादाह-संबन्धिषश्चन्तेति। षध्यन्तार्थसंबन्धी- त्यर्थः । क्वचित्तथैव पाठः। यं प्रकृतं राजानम्। एवमग्रेऽपि। जनकताया इति। इदं ज्ञानं चमत्कारीत्यनुभवाकारः । 'भिन्नप्रकार' इति पाठः । भिन्नतं प्रकार विशेषणमात्रव्य- वच्छेदयमाह-न त्विति । अन्यतरत्वस्य गुरुलाद्दु्ज्ञेयत्वाच्चाह-परे त्विति ।

१ अनेकैर्ग्रहीतृमिरेकस्यैव बहुधोल्लेखनरूपे-यं महाविष्णुरित्यत्र ज्वानसमुदायस्य चमत्कार- कत्वादलकारत्वम्। २ एकस्यैव वस्तुनो विषयाश्रयादीनामनेकत्वप्रयुक्तम् यदनेकप्रकारकमुललेखनं तद्रूपे-यः शिष्टेष्वित्यत्र विषयाणां भेदेन भिन्नस्य प्रकारससुदायमात्रस्य चमत्कारकतया अलंद न तु ज्नांशस्य। अनेकधा ज्ञानम्, अनेकप्रकारकत्वं चेति द्यमप्युललेख इत्याशयः ।

Page 425

उह्लेख: ] रसगङ्गाघर:। ३६५

यथा- 'अनल्पतापाः कृतकोटिपापा गढ़ैकशीर्णा भवदुःखजीर्णाः । विलोक्य गङ्गां विचलत्तरङ्गाममी समस्ताः सुखिनो भवन्ति ॥' अत्र पूर्वार्धोदीरितार्ना चतुर्णा विलोकनकर्तुणां सुखित्वोक्ता क्रमेण तापपापरोगभवनाशकत्व्रप्रकारकाणि त्रहणान्याक्षिप्यन्ते। अयं च शुद्धस्यो- लेखस्य ध्वनिः । संकीर्णस्य यथा- 'स्मयमानाननां तत्र तां विलोक्य विलासिनीम्। चकोराश्चञ्च्रीकाश्च सुदं परतरां ययुः ।।' अत्र ध्वन्यमानया एकैकग्रहणरूपया भ्रान्त्या तदुभयसमुदायात्मा उल्लेखः संकीर्णः । न चात्र भ्रान्तेरेव चमत्कार इति शक्यापह्नव उल्लेखः । अनेककर्तृकानेकधाग्रहणस्थालंकारान्तरविविक्तविपयस्य चमत्कृतेरिहापि सत्वात्। द्वितीयस्योह्लेखस्य ध्वनिर्यथा- 'भासयति व्योमगता जगदखिलं कुमुदिनीर्विकासयति। कीर्तिस्तव धरणिगता सगग्सुतायासमफलतां नयते।।' अन्राधिकरणभेदप्रयुक्तमेकस्यामेव कीर्ता चन्द्रिकात्वसागरत्वरूपाने- कविधत्वं रूपेकसंकीर्ण ध्वन्यते। इति रसगङ्गाघर उल्लेखप्रकरणम् ।

अनल्पेति। बहुतापा इत्यर्थः । गदैकेति। रोगप्रधानेत्यर्थः । समासः प्राग्वत् । विचलदिति। 'विवलत्' इति पाठान्तरम्। अर्थस्तु तुल्यः। स्मयेति। सख्युक्तिर्ना- यकोत्तिर्वा। एकैकेति। चन्द्रलेन पद्मलेन च ग्रहणेत्यर्थः । शक्येति। नैवात्रोल्ले- खोस्तीत्यर्थः । विपयस्य चमदिति। जन्यतं षध्यर्थश्रमत्कृतावन्वेति। व्योमेति गतिकर्म। कुमुदिनीश्रेत्यर्थः । सगरेति । सगरसुतप्रयासमित्यर्थः। सागरकार्यस्य कीलैंव संपादितलादिति भावः । रूपकेति। चन्द्रसागररूपकेत्यर्थः ॥ इति रसगङ्गाधर- ममप्रकाश उल्लेख प्रकरणम् ॥ १ अनव्पता नस्तापनाशिकां कृतपापाः पापनाशिकामित्याद्यनेकप्रकारेण मकामेव गङ्गां गृह्णन्तीत्युलेखो व्यङ्गय इत्यर्थः । २ कीतिश्चन्द्रः, कीर्तिः सागरः, इत्येककग्रहणं 'रूपकम्'। तेन संकीणों व्योम-धरणी- त्यधिकरणमेदकृतेन एकस्या एव कीतेंरनेकप्रकारकोलेखेन च द्वितीयोलेखो व्यड्ञ्य इत्याशयः।

Page 426

३६६ काव्यमाला। [ द्वितीयानने-

अथापह्नुलि :-

दात्म्यमपहनुतिः । रूपकवारणाय तृतीयान्तम्। अस्यां चोपमेयतावच्छेदकस्य निषेधा- दुपमेयतावच्छेदकोपमानतावच्छेदक्योर्विरोधो गम्यते। रूपके तु तयोः सामानाधिकरण्यप्रत्ययात्स निवर्तते। उदाहरणम्- 'स्मितं नैतत्कं तु प्रकृतिरमणीयं विकसितं मुखं ब्रूते मूढः कुमुद्मिद्सुद्यत्परिमलम्। स्तनदवन्द्वं मिथ्या कनकनिभमेतत्फलयुगं लता रम्या सेयं भ्रमरकुलनम्या न रमणी ॥' इय चानुग्राह्यानुग्ाहकभावापन्नावयवकसंघातात्मकतया सावयवा। निरवयवेयं यथा- 'श्यामं सितं च सुदृशो न छशोः स्वरूपं किं तु स्फुटं गरलमेतद्थामृतं च। नो चेत्कथं निपतनादनयोस्तदैव मोहं मुदं च नितरां दधते युवानः ।' अत्र प्रतिज्ञातार्थवैपरीते बेधकोपन्यासाद्वेत्वपह्नुतिः । अस्यां च नञा- दिभिः साक्षात्, परमतसिद्धत्वाद्युपन्यासैश्च किंचिव्यवधानेन विषयस्य अपहुति लक्षयति-अथेति। छेदकेति। तस्य निवेदयेत्यर्थः । रूपकवारणायेति भ्रान्त्यादेरप्युपलक्षणम्। तदुपपादयति-अस्यां चेति। स विरोधः । भ्रमरकुलन- न्येत्येतदंशेSतिशयोक्तिरिति प्रक्रमभज्गोऽत्र काव्य इति वोध्यम्। अन्र स्पष्टलाल्लक्षणस- मन्वयमुपेक्ष्य भेदमाह-इयं चेति। उदाहृता चेत्यर्थः। वयवकेति। बहुव्रीहिणा संघा- तविशेषणम्। शयाममिति। अंशभेदेनेति भावः । कव्युक्तिरियम्। विपक्षे बाधक- माह-नो चेदिति। अनयोर्दशोः । तदैव पतनकाल एव। 'सदैव' इति पाठान्तरम्। अन्न निरवयवत्वस्य सत्त्वात्प्राग्वदाह-अत्रेति। किंचिदिति । आ्रान्त्यादीत्यर्थः । १ अङ्गभूतया स्मिताद्यपह्नुत्या अङ्गिभूता रमण्यपह्गुतिः समर्थ्यंत इति। २ यदि गरलममृतं च न स्यात्तदा गरलकार्य मोहः, अमृतकार्य मोदश्च न स्यादिति गरलामृतसाधनाय मोह-मोदरूपहेतूपन्यासाद्वेत्वपह्रुतिः । ३ नजादिभि: साक्षान्निषेधे बोध्यमाने, परे एवं वदन्ति (नाहमेवं वदामि) इत्याद्यनु- वादेन च किञ्चिद्व्यवधानेन निषेधे बोध्यमाने इत्यर्थः ।

Page 427

अ रसगङ्गाघर: ३६७

निपेधे वोध्यमाने प्रायशो वाक्यस्य भेदः । मिपच्छलच्छद्मकपटव्याज- वपुरात्मादिशव्दैस्तु तस्मिंस्तम्यैक्यम्। क्वचिदपह्रवपूर्वकत्वं कवचिच्चारोपपूर्व-

कचिदुभयोः शाव्दृत्वमथोभयोरार्थतवं विधेवैत्वननुचधत्वं चेति। एवम- नेके प्रकारा: संभवन्नि। परं तुन ते वैंचित्र्यविशेषमावहन्तीत्यगण- नीयाः। एवमपि दिङ्मात्रमुपदश्यते-तन्र प्रागुक्क्ायां सावयवापहुतौ प्रथमावयवेSपह्न वपूर्वकत्वमुभयोः शाव्दत्वं विधेयत्वं वाक्यभेदश्र। द्विती- चावयवे तु वक्तगतमूढतोक्ता तहतभ्रान्तिप्रतिपत्तिध्चवहहिता निषेधप्रति- पत्तिरिति निषेध आर्थः । ताद्ूप्यं शाव्दम्। विधेयत्ववाक्यमेदापह्नव- पूर्वकत्वानि पूर्ववत्। चतुर्थावयवे पुनरारोपपूर्वकोऽरह्वः । उभयोः शाव्दृत्वविधेयत्वे वाक्यभेदश्च प्रथमवदेव। बढने विनिवेशिता भुजंगी पिशुनानां रसनानिषेण बात्रा। अनया कथमन्यथावलीडा न हि जीवन्ति जना मनागमत्राः ।।' अन्नैकवाक्यत्वं निपेधताद्ृव्ययोरार्थत्वं विधेयत्वं च, निवेशनस्य विधेयत्वात्। एवमन्यद्प्यूद्यम्। अत्र च लक्षणे आरोप्यमाणमित्यस्या-

तस्मिन् तन्निषेधे। तस्य वाक्यस्य। निपेधयोरिति। नव्य इति शेपः । अथेति। क्वचिदित्यर्थः । अनुवाद्यत्वं चेति। उभयोरप्यनुवाद्यत्ं विधेयत्वं चेतर्थः । क्वचिदि- त्यस्यानुपङ्ग: । असतेव(१)निरासायाह-एवमपीति। चम-कारित्ाभावेऽपीतर्थः । दश्यत इति। उत्तप्रकारजातमिति शेपः । तत्र तेषां मध्ये। प्रथमेति। सिितमिति पादप्रतिपाद्य इत्यर्थः । अपह्नवेति। निपेवस्य प्रागुह्लेखादिति भावः । उभयोस्ताद्रूप्य- निषेधयोः : अस्य त्रिष्वन्वयः । एतत्पदार्थस्योद्देश्यत्वादाह-विधेयेति। द्वितीयेति। मुखमिति पादप्रतिपाद्य इत्यर्थः। तुरुत्तवैलक्षण्ये। तदेवाह-वक्तृगतेति। सनद्वन्द्व- मिति पादप्रतिपाद्यतृतीयावयवस्य द्वितीयेन तुल्यलात्तमुपेक्ष्याह-चतुर्थति।लतेति पाद- प्रतिपाद्य इत्यर्थः। पुनःशब्दो वैलक्षण्ये। वाक्यैक्यस्योदाहरणं सप्रकारभेदमाह-वदन इति। अनया रसनया। अमन्त्रा जीवनोपायशून्याः । 'आर्थत्मनुवाद्यतं च' इत्येव युक्तः पाठः । 'विधेयत्वं च' इत्यपपाठः। अत एवाह-निवेशनेति। आहार्यतनिवे- शफलमाह-तेनेति। तैर्नाशितमध्यभागेन यद्विवर तस्मादुन्मीलन्प्रकाशमान आकाश- १ विधेयत्वमर्थात् प्रधानत्वम्, नानुवाद्यकोटौ प्रविश्य गुणीभूतत्वमित्यर्थः ।

Page 428

३६८ काव्यमाला। [ द्वितीयानने-

अङ्गारप्टखरैः करैः कवलयन्सद्यो जगन्मण्डलं मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः ॥' अन्न विरहजनवाक्ये नायं शशाङ्कः, अपि तु सच्छिद्रो मार्तण्ड इति तु च्छायामात्रमपहुतेः, न त्वपहुत्यलंकारः । तज्ज्ञानस्य दोषविशेषजन्य- त्वेनानाहार्यत्वात्, किं तु भ्रान्त्यलंकार एव। 'अलिमृगो वा नेत्रं वा यत्र किंचिद्विभासते। अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः।।' इत्यत्र मुखमरविन्दुं वेति कविनिष्ठाहार्यसंशये मुखनिषेधसामानाधि- करण्येन विषयीभवतोऽरविन्दतादात्म्यस्य निश्चयविषयत्वाभावान्न संग्रहः। न चात्र विषयनिषेधस्यापदार्थत्वं शङ्यम्, वाशव्दार्थत्वात्। यत्तु कुवल- यानन्दाख्ये संदर्भे अप्पयदीक्षितैरपक्षुतिप्रभेदकथनप्रस्तावे पर्यस्तापह्नत्याख्यं भेदं निरूपय द्विरभिहितम्- 'अन्यत्र तस्यारोपार्थः पर्यस्तापह्नुतिस्तु सः। नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥' इति। अत्र चिन्त्यते-नायमपह्नुतेभेदो वक्तुं युक्तः, अपहु तिसामान्यलक्षणा- नाक्रान्तत्वात् । तथा हि-'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः' उपमेयमसत्यं कृत्वा उपमानं सत्यतया यत्स्थाप्यते सापहनतिः' इति काव्यप्रकाशोक्तलक्षणबहिर्भावस्तावत्स्फुट एव। एवं 'विषयापह्नुवे वस्त्व- न्तरप्रतीतावपह्नुतिः' इत्यलंकारसर्वस्वोक्तं लक्षणमपि नात्र प्रवर्तते। 'प्रकृतस्य निषेधेन यद्न्यत्वप्रकल्पनम् । साम्यादपह्नुतिवाक्यभेदाभेदवती द्विधा।'

नैल्यगुणो यस्येत्यर्थः । अङ्गारतीक्ष्णकिरणैरित्यर्थः । छायामात्रं सादृश्यमात्रम्। निश्चय- लनिवेशफलमाह-अलिरिति। व्याख्यातमिदम्। अपदार्थतं कथमपि पदाप्रतिपाद्य- लम्। वाशब्देति। विकल्पद्वारा वाशब्दव्यङ्ञयत्वादित्यर्थः । एवं चार्थिको निषेध इति भावः । स कारिकाकारः स्वीयव्याख्यानमाह-उपमेयमसत्यमिति। अत्र हयुपमे- यपदं पदार्थोपलक्षणमावश्यकमित्यतद्विरोधश्चिन्तय इत्यग्रे स्फुटं निरूपयिष्यते। प्रतीता- विति। तत्रैव प्रत्यासत्तेरिति भावः । एवं पूर्वत्रापि बोध्यम्। साम्यात्सादृश्यमूलकमू।

Page 429

अपह्नुति: ] रसगङ्गाधरः । ३६९

इति चित्रमीमांसागतं तन्निमिंतमपि लक्षणमिह तथव । तस्मान् 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र दढारोपं रूपकमेव भवि- तुमहति, नापह्नुतिः । उपमेयतोपमानतावच्छेद्कयोः सामानाधिकरण्यस्य निष्परत्यूहं भानान्। तदुक्त्ं विमर्शिन्याम्-"न विपं विपमित्याहु्न्नह्मसवं विपसुच्यते'। अत्र विपस्य निषेधपूर्व ब्रह्मस्वविपये आरोप्यमाणत्वाद्टृढा- रोपं रूपकमेव, नापह्नुतिः" इति। यदि च प्राचीनमतमुपेक्ष्यालंकाररन्नाकरे- णेव मयाप्ययं प्रकारोऽपह्नुतिमध्ये गणित इत्युच्यते, तदा आहार्यताद्रव्य- निश्चयस्य समानत्वाद्रूपकभेद एवापह्नुतिरित्यप्युच्यताम । निरस्यनां च प्राचीनमुखदाक्षिण्यम्। एवमपि चित्रमीमांसागतत्वन्निर्मिनापहुतिलक्षण- स्यात्राव्याप्तिः स्थितैव। अपि च यदि 'नायं शुधांशुः किं त्हिं सुधांशु: प्रेयसीमुखम्' इत्यत्र पर्यस्तापह्नुतिरित्युच्यते, तदा तस्यामेव त्वत्कृत- चित्रमीमांसागतस्य-

तथैव न प्रवर्तते। उपसंहरति-तस्मादिति। दृढारोपमारोपदाव्यसंपादकन्। न विषमिति। अत्रेदं चिन्लेम्-नेदं मुखं चन्द्र इति प्रतिद्धापन्रनयुदाहरणेऽपि मुखनि- षेधस्य चन्द्रारोपदार्व्वसंपादकत्वस्य वत्तुं शक्यलेनानुभवसिद्धलेन चापह्ुतिमात्रस्यो- च्छेदापत्ते: । यदि तु निषेधपूर्वकारोपे चमत्कार विशेषस्यानुभवसिद्धलवादलंकारान्तरवं तर्हि प्रकृतेऽपि तुल्यमिति। प्राचीनेति । प्रकाशकारादीलर्थः । एवमग्रेऽपि। दृष्टान्तोल्लेखेन तदनुरोधेनायं गणित इति सूचितम्। अपह्रुतिः तत्वावच्छिन्नम्। ननु निषेधपूर्वकारोपे चमत्कारविशेषस्यानुभवसिद्धलेन कथनपलापः, अतो दोषान्रमाह- एवमपीति। उक्तरीत्या तथाङ्गीकारेऽपि। दोषान्तरमाह-अपि चेति। तस्यामेव १ अन्रापि विरोधे यत्किञ्चिद्क्तव्यमित्येव नागेशस्य परिकरवन्धः । 'नेदं सुखम्, किन्तु चन्द्रः' इति प्रसिद्धापह्वुत्युदाहरणे 'मुखं न' इति विषयतावच्छेदकपुरस्कारेण विषयस्य (मुखस्य) निषेधः स्पष्ट एव । 'विषये यद्यनिह्ठुते' इति दीक्षितलक्षणानुसारमपि विषयस्य निषेधो रूपके विरुद्धः। एवं चात्र रूपकसाधनं दुराग्रहमात्रम्। निषेधो रूपकदाद्धनंपादक इत्युक्तिरपि प्रतिपक्षिचक्षुषोरुद्लनमात्रम् । 'मुखं न' इति विपयनिषंधे कृते 'उपमेयतावच्छे दकपुरस्कारेण उपमेये शब्दान्निश्चीयमानमुपमानतादात्म्यम्' एव न सिध्यतीति आरोप एव दूरापास्तः, का पुनस्तस्य दार्ढ्यसंपादनाशा? तदिदं गगनकुसुमैः शिरःशेखरनिर्माणेन विवाहसमारोहसाधनं नाम। 'नायं सुधांशुः कि तहि सुधांशुः प्रेयसीमुखम्' अत्र तु 'प्रेयसी मुखं सुधांशुः' इति रूपक वादिप्रतिवादिविधया स्फुटमेव सिध्यति, 'नायं सुधांशुः' इति गगनस्थस्य चन्द्रस्य कृते निषेधः प्रकृतारोपदार्ढ्यायैवेत्यकामेनाप्यभ्युपगन्तव्यमेवेति मार्मिका विमृशन्तु।

Page 430

३७० काव्यमाला। [ द्वितीयानने-

निन्ध विशिष्टे निदिष्ठे विपये चद्यनिह्ुते। उपरक्जकतामेति विपयी रूपकं तदा ।।' इति रूपकलक्षणस्यातिव्याप्तिर्वञ्तलेपायिता स्यात्, विपयिणो निह्न- वेऽपि विषयस्यानित्षुतत्वात्। अथापि चित्रमीमांसारयां प्राचीनमतानुसारेण रूपकलक्षणम्, कुवलयानन्दे च र्नाकराद्यनुसारेणापह्नुतित्वोक्तिरिति यथाकर्थंचित्सामञ्जस्यं विधेयमिति दिक। 'अनल्पजाम्वूनददानवर्ष तथैव हर्ष जनयञ्जनेषु। दारिव्रघर्मक्षपणक्षमोऽयं धाराधरो नैव धराधिनाथः ।।' सावयवारोपेयमपह्नुतिः । आरोपमात्रोपायत्वे परम्परिताप्येपा संभवति। यथा- 'मनुष्य इति मूढेन खलः केन निगद्यते। अयं तु सज्जनाम्भोजवनमत्तमतङ्गजः ।।' अस्याश्च ध्वनिरयथा- 'दयिते रदनत्विषां मिपादयि तेऽमी विलसन्ति केसराः। अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽलयः ।।' अन्न 'नैता रदनत्विपः, किं तु किंजल्कपरम्पराः । न चैतेऽलकाः, अपि त्वलयः' इति पूर्वोत्तरार्धाभ्यां द्वे अपह्ुती तावत्प्राकट्येनैव निवेदिते। ताभ्यां च 'न त्वं नारी, किं तु कमलिनी' इति तृतीयापह्नुतिव्येञ्जन-

पर्यस्तापहुतावेव। रत्नाकरादीति। आदिना दण्डिग्रहणम्। इत्थं हि काव्यादर्शे (२३०४) तेनोक्तम्-'अपह्ुतिरपह्रुत्य किंचिदन्यार्थसूचनम्' इति। यथाकथंचि- त्सामख्जस्यमिति। एतदनन्तरमत्र किंचित्पतितम्। तत्सर्वपुस्तके दुर्लभमेव। अनन्तरं 'विधेयमिति दिक्' इति ग्रन्थः । अवयवरूपकसंकीर्णमुदाहरति-अनल्पेति। दानवर्षयो रूपकम्। दारि्वरूपस्योष्मणो नाशने समर्थ इत्यर्थः । सावयवारोपेति। अवयवारोपसहितेत्यर्थः । तद्रूपकसहितेति यावत्। आरोपेति। आरोपस्येत्यादि: । द्यित इति। व्याख्यातमिदं प्राक्। तावत् आदौ। अप्राधान्ये ध्वनिताभावादाह-

Page 431

अपहुति: ] रसगङ्गाधर: । ३७१

व्यापारेण प्राधान्येन निवेदते, तत्संतन्धिवस्तुनिपेधारोपयोस्तन्निपेधा- रोपनिवेदकत्वस्य न्याय्यत्वान्। तुल्ययोगिता तु गुणतचा स्थिता।

"-त्वदालेख्ये कौनृहळ्तरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णीसुतमपि।

करे पोष्पं चापं सकरसुपरिष्ठाच् लिखति।' इत्यादावपत्नुतिध्वनिरुदाहर्तव्यः । अत्र हि चक्रसुपर्गलेख्वनेन 'नायं साधारण: पुरुपः, किं तुपुण्डरीकाक्षः' इति कयाचिव्वञ्चितम्। अन्यया तु तस्याप्येताहशं रूपं न संभवतीत्याशयेन 'नायं पुण्डरीकाक्षोऽपि, किं तु मन्मथः' इति तदुभयमपसृड्य पुप्पसायकमकरध्वजलेखनेन व्यञ्जि। नम्" इति। तदेतदापातरमणीयम्। यत्तावदुच्यते-'चक्रसुपर्गलेखनेन नायं साधारणः पुरुपः, किं तु पुण्डरीकाक्षः' इति कथाचिव्यञ्जितमिति। तन्रापह्नुतेद्वी भागौ-उपमेयनिपेधः, उपमानारोपश्चेति। तयोस्तावदुपमा- नारोपभाग: पुण्डरी काक्षोऽयमित्याकारश्चकरमुपर्णलेखवनेनाभिव्यङ्कुं शक्य:,

प्राधान्येनेति। तदिति। अवयवीत्र्थः । नतु विलास-स्ृहयाललकपकरियागुणरूप- धर्मैक्यस्य प्रकृताप्रक्ृतयोः सत्त्वेन तुत्ययोगितवेयमन आह-तुत्येति। त्वदालेख्य इति। लत्प्रतिकृतिभूतचित्र इलर्थः। नायकं प्रति समखयुक्तिः। एका तन्वी सखी। चक्रं सुदर्शनम्। सुपर्णीसुतं गरुडम्। अपि अथ। क्रचित्तथेव पाठः। अपमाजनयो- ग्यलाय हेतुगर्भ विशेषणम्-स्विद्यत्पाणिरिति। अपरा तत्सखी। तस्वापि पुण्ड- रीकाक्षस्यापि। तदुभयं चक्रसुपर्णद्वयम्। इत्याशयेन तथा लेखनेन। इति व्यजतितम- त्यन्वयः । तत्रति । उच्यत इति शेपः। एवनग्रेऽपि भागोऽभिव्यक्ञं शक्य इत्यनुष-

१ अधयवयो: रदनत्विट्-अलकयोर्निषेधः, किजल्कत्व अलेश्वारोपश्च अवयविभूत-

रदनकान्ति-अलकयोः, अप्रकृतयो: केसर-अलिनोश्च विलसन्तीतिनिवेविलासक्रिया-स्पृह- यालुत्वरूपगुणवर्मक्याद् या तुल्ययोगिता प्रतीयते सा गुणाभूता, व्यज्यनाना अपहुतिरेवात्र प्रधानमित्याशयः ।

Page 432

३७२ काव्यमाला। [द्वितीयानने-

चक्रसुपर्णयोस्तत्मंचन्धित्वात्। न तु नायं साधारणः पुरुष इत्युपमेय- निपेधभागोपि, व्यञ्जकस्यारोपमात्रव्यञ्ञनसमर्थस्य तादशनिषेधव्यञ्जने सामर्थ्याभावान। नाप्यनुभवसिद्धः सः, येन तव्यञ्ञनायोपायो गवेष्येत। नापि गवेष्यमाणोऽपि तव्यञ्जनोपायः शब्दोर्ऽर्थो वा उपलभ्यते, येना- नुभवर्कलहोऽपि स्यात्। न च साधारणपुरुषनिषेधमन्तरेण पुण्डरीका- क्षतादात्म्यारोपो दुर्घट इति सोऽपि व्यज्यत इति वाच्यम्, रूपकोच्छेदा- पत्तेः। मुखं चन्द्र इत्यादौ सुखनिपेधमन्तरेण चन्द्रत्वं दुरारोपमित्यस्यापि सुवचत्वात्। तत्रापि मुखनिषेधावगमे जितमपह्नुत्या। अथ मुखं चन्द्र इति रूपके मुखत्वसामानाधिकरण्येन चन्द्रताद्रूप्य- स्यारोप्यमाणतया न मुखनिषेधापेक्षेति चेत्, प्रकृतेऽपि तर्हि ताद्ृश- साधारणपुरुनत्वसामानाधिकरण्येन पुण्डरीकाक्षतादात्म्यारोपरूपमसौ राजा पुण्डरीकाक्ष इत्याकारकरूपकमेव भवितुमीष्टे, नापह्नुतिः । यद्पि चोच्यते 'नायं पुण्डरीकाक्षः, अपि तु मन्मथः' इत्यादि। तत्र यद्यपि चक्रसुपर्णदूरीकरणेन नायं पुण्डरीकाक्ष इति निषेधः, पुष्पचाप-ध्वजगत- मकरयोर्लेखनेन च मन्मथोऽयमित्युपमानारोपश्च व्यङ्ग्यो भवितुमहृति, तथापि नासावपहवतिः। 'प्रकृतस्य निषेधेन यद्न्यत्वप्रकल्पनम्' इति

ज्यते। व्यक्ञकेति । चक्रसुपर्णलेखनस्येत्यर्थः। ननु कथं तदनुभवोऽत आह-ना- पीति। स तादृशनिषेधभागः । उक्तपद्य इति शेषः। गवेष्येत अन्विष्येत। ननु विनि- गमनाविरहोऽत आह-नापीति। लभ्यत इति। प्रकृतपद्य इति शेषः। दुर्घट इति। तज्ज्ञानस्य तत्र प्रतिबन्धकत्वादिति भावः । सोऽपि निषेधभागोऽपि। अन्य- थानुपपत्त्येति भावः । ननु तत्रापि तत्खीकारोत आह-तत्रापीति। रूपकेऽपी- त्यर्थः। एवं च तदुच्छेदापत्तिरिति भावः। बाधज्ञानमाहायज्ञाने न प्रतिबन्धकमित्या- शयेनाह-अथेति। सामेति। न लवच्छेदकावच्छेदेनेति भावः। आरोप्येति। आहार्यज्ञानविषयी क्रियमाणतयेत्यर्थः। तदाकारमाह-असाविति। चस्तर्थे। द्विती- यश्चो व्यङ्ञयत्वसमुच्चये। ननु निषेधसामानाधिकरण्येनोपमानतादात्म्यारोपसत्त्वात्कथं

१ ताहृशनिषेधव्यञ्ञनस्योपायभूतः शब्दः अर्थो वा उपलभ्येत चेत्त अन्नोपमेयनिषेध- स्यानुमवो भवतीति विवादोप्युत्तिष्ठेदित्याशयः ।

Page 433

अपह्नुति: ] रसगङ्गाघर: । ३७३

त्वत्कृतलक्षणस्याप्यत्रासत्त्वात् । अत्र हि निषेध्यस्य भगवतः पुण्डरीका- क्षस्यावर्ण्यत्वेनाप्रकृततया प्रकृतनिपेधाभावात्। नहि पूर्वारोपिततामात्रेण प्रकृतत्वं वक्तुं शक्यम्। प्रकृतपदस्यारोपविषयपरताया 'निषिद्य विषय'- मित्यादिना क्त्वाप्रत्ययफलं त्रुवता भवतैव तत्र स्फुटीकरणात्। काव्य- प्रकाशकृतापि 'प्रकृतं यन्निपिध्यान्यत्साध्यते सा त्वपह्नुतिः' इति सूत्रं व्याचक्षाणेन 'उपमेयमसत्यं कृत्वा' इत्यादिना प्रकृतपद्स्योपमेयपरतयैव व्याख्यानाच्च। प्राचीनमतसिद्धेयमपह्नुतिव्यक्गयत्वेनास्माभिरिहोच्यत इत्यपि कुशकाशावलम्बनमात्रम्, 'प्रकृतस्य निपेधेन' इत्यादिलक्षणं कुर्वता भवतैव तस्या वहिःकरणात्। एवमप्युक्तपद्ये कोऽलंकारो व्यङ्गय इति चेत् ? विच्छित्तिवैलक्षण्येSति- रिक्तः, अन्यथा त्वपह्नुतिरेवास्तु। लक्षणं तु तदा प्रसक्तयत्किंचिद्वस्तु-

तदभावोऽत आह-अत्र हीति। ननु पूर्वमारोपितलात्प्रकृत एव सोडत आह-न- हीति। निषिध्य विषयमित्यादिनेति। "-निषिद्व विषयं साम्यादन्यारोप' इति तु क्लाप्रत्ययेन लक्षणं नोक्तम्। वक्ष्यमाणोदाहरणे आरोपपूर्वकापह्ववेऽव्याप्तिप्रसज्गात्" इति तैरुक्तम्। फलं क्वचिदव्याप्तिरूपमनिष्टं फलम्। तत्र चित्रमीमांसायाम्। अपि- सूचितं दोषान्तरमाह-काव्येति। पुण्डरीकाक्षस्तूपमानमिति भावः । प्राचीनेति । आगुक्तदण्डिमतेत्यर्थः । इह चित्रमीमांसायाम्। कुशति। ससारकाष्ठाद्यवलम्बनमेवो- चितं न कुशादेरिति तथा सर्वसिद्धससारमतावलम्बनमेवोचितं नैकदेशिमतस्येत्यर्थः । तदेवाह-प्रकृतेति । एवः प्रत्यासत्तिबोधकः । अन्यलक्षणबहिर्भावोऽपिबोध्यः । विच्छित्तिश्चमत्कृतिः । अतिरिक्तोऽपह्ुत्यन्यो रूपकाख्यः । अन्यथा तु विच्छित्तिविशेषा- भावे। ननु प्रागुक्तसर्वमतसिद्धापह्ठुतिसामान्यलक्षणानाक्रान्तत्वात्कथ तत्त्वमत आह- लक्षणं त्विति। तदेति। तत्रापह्ुतिलाङ्गीकर्तृदण्ड्यादिमत इल्यर्थः । प्रसक्तेति। प्रसक्तलं च यथाकर्थंचित्, न तु प्रकृतलवापेक्षेति भावः । अस्तु तदेत्याभ्यामस्यानभिमततवं

१ प्रकृतपदम् आरोपविषयपरमिति भवतैव स्फुटीकरणादिति योजना। अयं भाव :- आरोपस्य विषयः प्रकृतः । विषयश्च वर्ण्यतया उपमेयमेव भवति। अत्र तु वण्यों नायकः (राजादि:) । ततश्च पुण्डरीकाक्षस्य पूर्वारोपितत्वेपि वस्तुतो वर्ण्यत्वाभावात् तस्य निषेये प्रकृतस्य निषेधो न सिध्यतीत्याशयः । ३२ रस०

Page 434

३७४ काव्यमाला। [ द्वितीयानने-

निषेघसामानाविकर ्चेन क्रियमाणवस्त्वन्तरारोपत्वमेव। तस्मात्सर्व- सेवेदमहद्यंगमं सहृदयानाम् ।

अथोत्प्रेक्षाप्रकरणम्- तद्भिंन्नत्वेन तद्भाववत्वेन वा प्रमितस्य पदार्थस्य रमणीयत- सूचितम्, अतः खसिद्धान्तरी त्योपसंहरति-तस्मादिति। दीक्षितोक्तं यथाकर्थंचित्त- त्समर्थनं चेत्यर्थः । अहृद्यंगममिति। अत्रेदं चिन्त्यम्-दीक्षितैर्हि "दण्डी लपहुतेः साधर्म्यमूललनियममनादृत्य 'अपहुतिरपह्रुत्य किंचिदन्यार्थसूचनम्' इति लक्षयित्वा उदा- जहार-'न पञ्चेषुः स्मरस्तस्य सहस्रं पत्रिणां यतः। चन्दनं चन्द्रिका गन्धो गन्धवा- हश्र दक्षिणः II' इत्याद्युपक्रम्य 'लदालेख्ये' इत्याद्युक्मिति। तेदनुसारेणैव तत्रापहुति- ध्दनिरुदाहृत इति न किंचिदहृदयंगमम्। प्रकाशविरोधोऽपि न। तत्रोपमेयपदस्य पदा- र्थोपलक्षणलात्। अन्यथा 'केसेसु बलामोडिअ' इत्यन्न 'सयं न प्रपलाय्य गतास्तद्वैरि- जोऽपि तु ततः पराभवं संभाव्य तान् कंदरा न त्यजन्तीत्यपहुतिव्यज्यते-" इति प्रकाश- अ्न्थासंगतिः स्यादिति बोध्यम् ॥ इति रसगङ्गाधरमर्मप्रकाशेऽपह्ुतिप्रकरणम् ॥ उत्प्रेक्षां लक्षयति-अथोत्प्रक्षेति । विनिगमनाविरहादन्योन्याभावात्यन्ताभावघ- १ तद्भिन्नत्वेन प्रमितस्य (ज्ञातस्य) पदार्थस्य रमणीयतद्वृत्तितद्धर्मसंबन्धनिमित्तकम् [अर्थात् तसििन्पदार्थे वर्तमानश्चमत्कारजनको यस्तत्संबन्धी धर्मः तादृशधर्म निमित्तीकृत्य ] तत्वेन संभा- वनम् उत्प्रेक्षा (एका कोटि:)। संभावनं च अयोग्यत्वाभावानुसंधानविषयीकरणम् (मुखे चन्द्रत्वयोग्यताया अभावो न, अपि तु तादृशयोग्यता अस्तीत्यनुसंधानम्) । तदभाववत्वेन अ्मितस्य पदार्थस्य रमणीयतत्समानाधिकरणतद्धर्मसंबन्धनिमित्तकं तद्वच्वरेन संभावनं वा उत्प्रेक्षा (द्वितीया कोटि:) । अयं भाव :- तव्भिन्ने अर्थात् अतस्मिन्नपि पदार्थे तत्वेन चन्द्रभिन्नपि मुखे चन्द्रत्वेन ] संभावनम् उत्प्रेक्षा, तदिदं संभावनं तादात्म्य(अभेद)संबन्धेन । संभावने च-तस्मिन् (संभावनाविषयीभूते) पदार्थ वर्तमानश्चमत्कारकस्तद्मेंः आह्लादक- त्वादि: निमित्तम्, सेयं धर्म्युत्प्रेक्षा। तदभाववति अर्थात् यो धर्मस्तस्मिन् पदार्थे नास्ति ईद्ृशे पदार्थे तद्वत्वेन संभावनम् [ यथा निधिं लावण्यानामिति पद्े ब्रह्मणि (धर्मिणि) मोहो नास्ति सथापि मोहवत्वेन संभावनम् ]। तदिदं संभावनं तादात्म्येतरेण समवायादिसंसगेण। अत्र च अनिमित्तं तत्समानाधिकरणः (उत्प्रेक्ष्यमाणधर्मसहवासी) धर्मः ।[ यथा निधिं लावण्यानामि- .त्यत्र मोहस्य ब्रह्मणि समवायसंबन्धेन संभावनम् । निमित्तं च मोहसमानाधिकरणः अवि- चार्यकारित्वरूपो धर्म: ], सेयं धर्मोत्प्रेक्षा। २ हन्त नागेशस्यान्नापि प्रतारणपाटवमिति खदेन वक्तव्यं स्यात् । 'त्वदालेख्ये' इत्याध्यु- दाहरणं दण्डिमतानुसारमिति स समाधत्ते । किन्तु चित्रमीमांसायां 'साधर्म्यसूला त्वपह्ुति- सेवि तेन व्याहता' अन्रैव दण्डिमतानुवादः समाप्यते। तवदालेख्ये इत्युदाहरणं दत्त्त्वां 'इत्यादावपह्ुतिध्वनिरुदाहर्वव्यः' इति दीक्षितानां स्वमतमिदम्। अन्यथा सर्वेष्वलंकारेषु यथा चचदलंकारध्वनिरपि दीयते तद्दपद्दुतावकृते प्रकरणपूर्तिरेव न सिध्येदिति विचार्य सुधीभिः।

Page 435

उत्प्रेक्षा ] रसगङ्गाघर: । ३७५

त्वेन वा संभावनमुत्प्रेक्षा।। 'लोकोत्तरप्रभाव त्वां मन्ये नारायणं परम्' इत्यत्र तादशप्रभावस नारायणत्वव्याप्यतासंभावनादशायां सामग्रयभावेनानुमित्यनुदयाजायमा- नायां नारायणेनानेन प्रायशो भवितव्यमिति संभावनायामतिप्रसङ्गवार- णाय तद्गिन्नत्वेन पमितस्येति संभावनायामाहार्यतां गमयति। एतेन 'रामं स्त्निग्धतरश्यामं विलोक्य वनमण्डले। प्रायो धाराधरोऽयं स्यादिति नृत्यन्ति केकिनः ।।' इत्यत्र संभावनायाम्, 'धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः" इत्यत्र भ्रान्तौ च नातिप्रसङ्ग: । 'वदनकमलेन बाले स्मितसुपमालेशमावहसि यदा। जगदिह तदैव जाने दशार्धवाणेन विजितमिति॥' अत्र जगज्यसंभावनायामतिप्रसङ्गवारणाय रमणीयतद्धर्मनिमित्तेक-

टितं लक्षणद्वयं युगपदाह-तद्भिन्नत्वेति। लोकोत्तरेति । राजानं प्रत्युक्तिः। तादृशति। लोकोत्तरेत्यर्थः । सामग्री निश्चयरूपव्याप्तिज्ञानादिरूपानुमितिसामग्री- त्यर्थः । ननु कथमेतासां वारणमत आह-संभावनेति। इदंचेलादिः। संभाव- नायां लक्षणघटकीभूतायाम्। तथा चोक्तसंभावनाऽनाहार्येति नातिप्रसङ्ग इति भावः अस्य फलान्तरमाह-एतेनेति। धाराधरो मेघः। भ्रान्तिरपीयमनाहार्या। अन्यथा कार्याभावापत्तेः । स्मितेति। हास्यशोभालेशमित्यर्थः । तदेति पूर्वान्वयि। दशेति । पञ्चबाणेन मदनेनेत्यर्थः । जगजयेति। जगति जयसंभावनायामित्यर्थः । तद्धमेति। १ संभावनाया आहार्यत्वस्वीकारेण-असामान्ये राजनि अलौकिकप्रभाववशाद या अनाहार्या (सत्या) नारायणत्वसंभावना [नारायणत्वं काममसत्यं परं तत्त्वसंभावना तु सत्यैव ], तस्यामुत्प्रेक्षात्वं न प्रसक्तन्। एवमेव अयं धाराधरः स्यादिति केकिनां संभावना, 'धाराधरोयम्' इति तेषां ्रान्तिश्च, अनाहाया। अत एव तु नृत्यरूपकार्यजननम्। ततश्रवं- विधायां संभावनायामुत्प्रेक्षालंकारस्य न प्रसक्तिरिति बोध्यम्। २ 'तद्धर्मनिमित्तकं' संभावनम्, इति लक्षणे निवेशात् संभावनं यन्निष्ठ तद्धर्मनिमित्तकत्व- मपेक्षितम्। अर्थात् तस्मिन् संभावने विषय-विषयिगतो यो धर्मः स निमित्तं स्यात्। अत्र तु स्मितं संभावनाया उत्थापकमवश्यम्, परं तत् (स्मितम्) तद्धर्म: अर्थात् विषयः (जगत्), विषयी (विजितम्, यतो विजितत्वं संभाव्यते), अनयोर्धर्मः (एतन्निष्ठः) नास्तीति नातिव्याप्तिरित्यर्थः

Page 436

३७६ काव्यमाला। [ द्वितीयानने-

मिति। स्मितस्य संभावनोत्थापकत्वेऽपि जगद्विजितरूपविषयविषयि- साधारणत्वाभावान्न दोष: । एतेन- 'प्रायः पतेह्यौः शकलीभवेद् ग्लौः सहाचलैरम्वुधिभिः रखलेद्रौः। नूनं ज्वलिष्यन्ति दिशः समस्ता यद् द्रौपदी रोदिति हा हतेति।' अन्रापि रोदनकार णीभूतकशग्रहणादिजन्यपापनिमित्तोत्थापितायां स्वर्ग- पतनसंभावनायां नातिप्रसङ्गः । आ्रयः स्थाणुनानेन भवितव्यम्, नूनं पुरुषेणानेन भाव्यम्, दूरस्थोऽयं देवदत्त इवाभाति, इत्यादौ निश्चलत्व- चञ्चलत्वादिसाधारणधर्मनिमित्तायां संभावनायामतिप्रसङ्ग: स्यात्, अतो रमणीयत्वं धर्मगतमुपात्तम् । रूपकवित्तावतिप्रसङ्गवारणाय संभावन- मिति। अन्र च तादात्म्येन संसर्गेण धर्म्युत्प्रेक्षायाः, संसर्गान्तरेण धर्मोत्प्रेक्षायाश्र संग्रहायैकोक्त्या लक्षणद्वयं विवक्षितम्। सा चोत्प्रेक्षा द्विविधा-वाच्या, प्रतीयमाना च। इव, नूनम्, मन्ये, जाने, अवेमि, ऊहे, तर्कयामि, शङ्के, उत्प्रेक्षे, इत्यादिभि: क्यडाचारक्किबा- दिभि: प्रतिपाद्कैः सहिता यत्रोत्प्रेक्षासामग्री, तत्र वाच्योत्प्रेक्षा। यत्र च प्रतिपादकशब्दरहितं तत्सामग्रीमात्रम्, तत्र प्रतीयमाना। यत्र तत्सामग्रीरहितं प्रतिपादकमात्रम्, तत्र संभावनामान्रमेव, नोत्प्रेक्षा। सापि प्रत्येकं त्रिविधा-स्वरूपोत्प्रेक्षा, हेतूत्पेक्षा, फलोत्प्ेक्षा चेति। तत्र जातिगुणक्रियाद्रव्यरूपाणां तद्भावरूपाणां च पदार्थानां तादात्म्ये- नेतरेण वा संबन्धेन जातिगुणक्रियाद्रव्यात्मकैर्व्यस्तैः समुच्चितैरुपाचैर-

तद्धर्मसंबन्घेत्यर्थः । ननु स्मितरूपधर्मनिमित्तकलमस्तेवात आह-स्मितेति । हास्यस्य तत्सहकारित्वादिति भावः। जगदिति। जगद्विजितरूपौ यौ विषयविषयिणौ तन्निष्ठत्वाभावादित्यर्थः । अस्य प्रत्युदाहरणान्तरमाह-एतेनेति । ग्लौश्रन्द्रः । गौः पृथ्वी। भूतत्वं केशग्रहणादिविशेषणम् । पापस्य द्यौः पतेदित्यादिविषयविषयिसा- धारणताभावादिति भावः । स्थाणुना वृक्षेण। यथाक्रमेण धर्मानाह-निश्चलेति। आदिना विलक्षणाकारतपरिग्रहः। रमणीयत्वमिति। तत्वं च कविप्रतिभानिर्वर्ति- तत्वमिति भावः । ननु ज्ञानमित्येवास्तु अत आह-रूपकेति। नन्वेवमपि तदभावव- च्वेनेत्यायिकमत आह-अत्र चेति। उक्तलक्षणवाक्य इत्यर्थः। अलंकारसर्वखवरीत्या इमा विभजते-सा चोत्पेक्षेति। यत्रोत्प्रेक्षासामग्रीति। सा च रमणीयतद्धर्म- संबन्धादिरूपा। सापीति। एवं च द्वादरा मेदाः संपन्ना इति भावः। तत्र तासां

Page 437

सत्प्रेक्षा ] रसगङ्गाघर: । ३७७

जुपात्तैर्निष्पन्नैर्निष्पादयैर्वा निमित्तभूतैधमैर्यथासंभवं जातिगुणक्रियाद्रव्या- त्मकेषु विपयेपूत्प्रेक्षणं स्वरूपोत्प्रेक्षा। तत्राभेदेन संसर्गेण धर्मिस्वरूपोत्प्रेक्षा, संसर्गान्तरेण धर्मस्वरूपोत्प्रेक्षेति चोच्यते। उक्तविधेषु पदार्थेषु प्रागुक्त- पकाराणां पदार्थानां तथाविधैरेव निमित्तैर्यथासंभवं हेतुत्वेन फलत्वेन च संभावनं हेतूत्प्रेक्षा फलोत्प्रेक्षा चोच्यते। एताश्च क्वचिन्निष्पन्नशरीराः क्वचिन्निष्पाद्यशरीराश्चेत्येवमाद्यनल्प- विकल्पा: संपद्यन्ते। तथापि दिञ्जात्रमुपद्र्शर्यते। आख्यायिकायां जात्यवच्छिन्नस्वरूपोत्प्रेक्षा यथा- 'तनयमैनाकगवेषणलम्वीकृतजलधिजठर प्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी' इति। अत्र भागीरथ्यां द्रव्ये जातौ वा हिमगिरिसंबन्धी भुजत्वजात्यवच्छिन्नस्तादात्म्येनोत्पेक्ष्यते। तत्र च भागीरथीगतानां श्वैत्यशैत्यलम्वत्वजलधिजठरप्रविष्टत्वानां धर्माणां निमित्ततासिद्ये विपयिहिमगिरिभुजगतत्वमवश्यं संपादनीयम्। तेपां च मध्येऽनुपात्तयो: श्वैत्यशैत्ययोर्हिम गिरिसंबन्धित्वादेव भुजगतत्वं संपन्नम्। इतरयोरपि संपादनाय तनयमैनाकगवेषणं फलमुत्प्रेक्षितम्, तत्साधनता- ज्ञानस्य लम्बत्वजलधिजठरप्रवेशानुकूलयत्नजनकत्वात्। एवं च विषयि- गततादशगवेषणफलकलम्बत्व जलधि जठरप्रविष्ठत्वाभ्यां विषयगतयोः साहजिकलम्बत्वजलधिजठर प्रविष्टत्वयोरभेदाध्यवसानातिशयोक्तया सा-

तिसणां मध्ये। द्रव्येति। संज्ञाशब्दाभिप्रायमिदम्। एवमग्रेऽपि। उक्तमेव विशद- यति-तत्रेति। तासां स्वरूपोत्प्रेक्षाणां मध्य इत्यर्थः । हेतूत्प्रेक्षाफलोत्प्रेक्षे आह- उक्केति। जात्यादिष्वित्यर्थः । एवमग्रेऽपि। अनल्पेति । बह्नित्यर्थः । तनयेति । हिमगिरेरित्यादिः। लम्बतप्रविष्टले भुजविशेषणे। द्रव्ये जाता वेति। संज्ञाशब्दवाच्या- यां जातिशब्दवाच्यायां वेत्यर्थः। तेषां च उक्तधर्माणाम्। इतरयोरपि उपात्तयोर्लम्बलतत्प्र- विष्टतयोरपि। तत्साधनतेति। गवेषणसाधनतेत्यर्थः। यत्नेति। अन्यथा गवेषणाऽसं- भवादिति भावः । विषयिगतेति। विषयिहिमगिरिभुजगताभ्यामित्यर्थः। तादृशति। १ जातिगुणादीन् निमित्तीकृत्य जातिगुणादिषु विषयेषु जातिगुणादिरूपाणां विषयिणां संभावनं स्वरूपोत्प्रेक्षेति वाक्यस्य सारम्, अवशिष्टानि तत्तषां विशेषणानीति बोध्यम्। २ जातिगुणादिपु पदार्थेषु जात्यादिभिर्निमित्तैः जातिगुणादिकस्य पदार्थस्य हेतुत्वेन फल- लेन च संभावनम्, जात्यादिरूपः पदार्थों जात्यादिरूपं पदार्थ प्रति हेतुः फलं वा यत्र संभाव्यते तत्र हेतुफलोत्प्रेक्षे-इत्याशयः । ३ 'तद्धर्मसंबन्धनिमित्तकम्' इत्यत्र तद् (विषय-विषयिगत)धर्मस्यैव गृहीतत्वाव्।

Page 438

३७८ काव्यमाला। [द्वितीयानने-

धारण्यसंपत्तौ निमित्तता। न चात्र फलस्वाप्युत्प्रेक्षणात्फलोत्प्रेक्षेति बक्तुं अक्यम्। उत्प्रेक्ष्यमाणेफलनिष्पादितनिमित्तोत्थापितायां स्वरूपोत्प्रेक्षायामेव विधेयत्वाच्मत्कृतेर्विश्रमात्, उत्प्रेक्षाप्रतिपादकस्य प्रत्ययस्य फलेनानन्व- याब, तयैवात्र व्यपदेशो युक्तः । अनिगीर्णविषया चेयमुपात्तानुपात्तगुण- क्रियात्मकनिमित्ता निष्पादयविशिष्टशरीरा जात्युत्प्रेक्षा हिमगिरिभुजस्य -कविनैव निष्पादितत्वात्। तादात्म्येन गुणस्वरूपोत्प्रेक्षा यथा- 'अम्भोजिनीवान्धवनन्दनायां कूजन्बकानां समजो विरेजे। रूपान्तराक्रान्तगृहः समन्तात्पुञ्जीभवञ्रशुक्क इवाश्रयार्थी।।' अन्रैकाधिकरण्यापन्ने कूजनविशिष्टे वकत्वजात्यवच्छिन्ने विषये पुञ्जी- भवनविशिष्टः शुक्कगुणस्तादात्म्येनोत्प्रेक्ष्यते। तत्र बकगतानां कूजननैर्म- व्यपुञ्जीभवनानां शुकगुणगतत्वर्मैन्तरेण बकशुक्कयोरभेदस्य दुरुपपादत्वा- न्तत्सिद्धये तेषां विषयिगतत्वं साध्यम् । तत्र नैर्मल्यस्यानुपात्तस्य यथा- कथंचिदुत्प्रेक्ष्यमाणे विषयिणि सिद्धत्वात्कूजनपुञ्जीभवनयोर्निष्पादनाथ

तनयमैनाकेत्यर्थः । विषयेति। भागीरथीत्यर्थः । विनिगमनाविरहादाह-उत्प्रेक्षेति। प्रत्ययस्य क्यङः । उपसंहरति-तयवेति। एवं चेत्यादिः। स्वरूपोत्प्रेक्षयैवेत्यर्थः। क्कचित् तथैव' इति पाठः सोऽप्युक्तार्थक एव। अत्र भेदानुपपादयति-अनिगीणेति। भागी- रथ्या उपादानात्। उपान्तेति। इदं च यथासंभवं बोध्यम्। न तु यथासंख्यम् । निष्पाद्यले हेतुमाह-हिमेति । एवं चैकदेशस्य सिद्धलेऽपि विशिष्टस्य निष्पाद्यलं स्पष्टमेवेति भावः । अम्भोजिनीति । सूर्यकन्यायां यमुनायामित्यर्थः । समजः संघः । रूपान्तरेति। नीलादीत्यर्थः। ऐकाधिकरण्यापन्न इति। समुदायापन्न इत्यर्थः। तत्र तयोर्मध्ये। तत्सिद्धये शुकगुणगततवसिद्धये। तेषामुक्तधर्माणाम्। विष- ्यीति । शुकगुणेत्यर्थः । यथाकथंचिदिति। नन्वेवं हेतूत्प्रेक्षैवेयं कुतो नात १ उत्प्रेक्ष्यमाणेन गवेषणफलेन निष्पादिते ये निमित्ते (लम्बत्व-जलधिप्रविष्टत्वे) तङ्- स्थापितायाम्) २ प्राधान्यात्। ३ क्रियात्मके लम्बत्वप्रविष्टत्वे उपात्ते, श्वैत्यशैत्य गुणात्मके चानुपात्ते। अत्र, यथासंभव- सिति नागेशटीका। क्रियात्मकस्य प्रविष्टत्वस्य (लम्बत्वस्यापि) उपात्ततया यथासंख्यत्वं न सटते इति तस्याशयः । ४ विना।

Page 439

उत्प्रेक्षा ] रसगङ्गाघर:। ३७९

रूपान्तराक्रान्तगृहैत्वमाश्रयार्थित्वं च हेतुत्वेनोत्मेक्षितम्। इहापि प्राग्व- ऐसाहजिकयोः कल्पिताभ्यामभेदाध्यवसानात्साधारण्यम्। एवमन्यत्राप्यू- ह्यम्। पूर्व हि यथा फलस्योत्मरेक्षणेऽपि न फलोत्प्रेक्षा तथेहापि हेतोरिति। क्रियास्वरूपोत्प्रेक्षा यथा- 'कलिन्दजानीरभरेऽर्धमग्ना वकाः प्रकाम कृतभूरिशब्दाः । ध्वान्तेन वैराद्विनिगीर्यमाणाः क्रोशन्ति मन्ये शशिनः किशोराः॥" अत्र प्रथमान्तविशेष्यकबोधवादिनामभेदसंसर्गेण कलिन्दजानीरार्धम- अं-कृतभूरिशब्दोभय विशिष्टेपु बकेषु विषयेपु ध्वान्तकर्तकवैरहेतुकनिग- रणकर्माभिन्नोत्प्रे क्षित शशिकिशोरतादात्म्योत्प्रेक्षणपूर्वकं कोशनकर्तत्वं धर्म उत्प्रेक्ष्यते । तत्र तादात्म्योत्प्रेक्षणे धर्म्युत्प्रेक्षायां साधारणो धर्मः, संवन्धान्तरेणोत्प्रेक्षणे धर्मोत्प्रेक्षायां तत्समानाधिकरणो धर्मश्च विपयगतो निमित्तमिति स्थिते प्रकृते क्रोशनकर्तृत्वरूपधर्मोत्प्रेक्षायां तर्त्समानाधिकर- णनिगरणकर्मत्वरूपधर्मस्य विषयगतत्वसिद्धयेऽनुवाद्यतया शशिकिशोर-

आह-पूर्व हीति। कृतभूरीति। यो निमज्जति स शब्दं करोतीति लौकिकम् । वादिनामित्यस्य धर्म उत्प्रेक्ष्यत इत्यन्रान्त्रयः। शानजर्थमाह-कर्मेति। तदभिन्नले- नोत्प्रेक्षितेत्यर्थः । अत्रोत्प्रेक्षितेत्यधिकम्। तयोरमेदस्य सारतिकलात्। तत्र उत्प्रेक्ष- योर्मध्ये। पूर्वामाह-तादेति। द्वितीयामाह-संबन्धेति। विषयेति। बकेतर्थः। तत्कृतचमत्काराभावादाह-अनुवाद्येति। उत्प्रेक्ष्यते। वकेष्विति शेषः । नन्वेवमपि १ अन्याकान्तगृहा हि शब्दं कुर्वन्ति पुञ्जीभवन्ति च । एवं ह्याश्रयार्थिनोपि शब्दायन्ते संघीभवन्ति च । २ स्वाभाविकयोः पुश्जीभवननैर्मल्ययोः (अर्थात् बकनिष्ठयोः) कल्पिताभ्यां (शुक्कगुण -* गताभ्याम्) पुज्जीभवननर्मल्याभ्यां सह अमेदाध्यवसानमित्यर्थः । ३ ध्वान्तकर्तृकं वैरहेतुकं यद् निगरणं (गलाधःकरणम्).तस्य कर्माभिन्नत्वेन (कर्मत्वेन) उत्प्रेक्षिता ये शशि किशोरास्तत्तादात्म्योत्प्रेक्षणपूर्वकम्, अर्थात् बकेषु विषयेषु विषयिणां शशि- किशोराणां तादात्म्येन (अभेदसंसर्गेण) संभावनमिति पूर्व (मूलभूतोत्प्रेक्षा) धर्म्युत्प्रेक्षा। तद- नन्तरं 'मन्ये क्रोशन्ति' इतिप्रतिपाद्ा धर्मोत्प्रेक्षा, इत्याशयः। ४ क्रोशनं यत्र (शशिकिशोरेषु) तिष्ठति तदधिकरणको यो निगरणकर्मत्वरूपो धर्मः तस्य विषय(बक)गतत्वसिद्धये। अयं भाव :- निगरणं शशिन एव भवति न बकानाम्, वतश्च बकानां निगरणकर्मतासिद्धये शशिकिशोरतादात्म्यमुत्प्रेक्ष्यते इत्याशयः ।

Page 440

३८० क़ाव्यमाला। [ द्वितीयानने-

तादात्म्यमनुपात्तश्वैत्यनिमित्तकमुत्प्रेक्ष्यते। तत्र यथा विशिष्टोपमायामुप- मानोपमेयविशेषणतद्विशेषणानामार्थमौपम्यम्, एवमन्नापि विषयवकवि-

विशेषणतद्विशेषणाभ्यां निगरणध्वान्ताभ्यामभेद आर्थः। ततश्च ध्वान्त- कर्तृकनिगरणे सिद्धे मुख्योत्प्रेक्षानिर्वाहः। क्रोशनशव्दयोरपि विम्बप्रति- बिम्बभावेनाभेदः । तेन कलिन्दजानीरारधमग्नकृतभूरिशब्दोभयाभिन्ना बका ध्वान्तनिगीर्यमाणशशिकिशोरोभयाभिन्नाः कोशनक्रियानुकूलव्या- पारवन्त इवेति बोधाकारः। आख्याते भावप्राधान्ये त्वभेदेन क्रोशन- क्रियोत्प्रेक्षा। तैन्र शाब्दे वृत्ते बकविशेषणतया प्रतीयमानमपि शब्दनं साधारणधर्माभावात्कथ प्रधानोत्प्रेक्षानिर्वाहोऽत आह-तत्रेति। तस्मिन्सतीत्यर्थः । मूलोत्प्रेक्षेति। मूलोत्प्रेक्षाया विषयी यः शशिकिशोर इत्यादयर्थः। क्रियोत्प्रेक्षोपपा- दकत्वात्तस्या मूलोत्प्रेक्षालम्। सिद्ध इति। बकानामित्यादिः। मुख्योत्प्रेक्षेति। क्रियोत्प्रेक्षेत्यर्थः । प्रकारान्तरेणापि साधारण्यं धर्मस्याह-करोशनेति। शशिकिशोरो- भयानुकूलकोशेतिः । 'निगीर्यमाणाभिन्नशशिकिशोराभिन्नाः कोशनक्रियानुकूल-' इति युक्त: पाठ•। एवं नैयायिकमतेन बोधमुक्ला वैयाकरणमतेनाह-आख्यात इति। नन्वभेदेन बके तदुत्प्रेक्षा बाधिता अत आह-तत्रेति। उत्प्रेक्ष्यमाणकोशनक्रियाया- १ विषयभूता ये बकास्तद्विशेषणम् अर्धमज्जनम्। तस्य (अर्धमज्जनस्य) विशेषणं यमु- नाजलम्, एतयोदयो :- मूलोत्प्रेक्षायाः (प्रधानभूतक्रियोत्प्रेक्षोपपादकतया मूलभूतायाः) विषयिभूतानां शशिकिशोराणां विशेषणं निगरणम् तस्य (निगरणस्य) विशेषणं ध्वान्तम् ताभ्यां सह अभेद: । २ शशिकिशोराभेदेन बकानामपि ध्वान्तकर्तृकनिगरणे सिद्धे मुख्योत्प्रेक्षायाः क्रोशनो- स्प्रेक्षाया निर्वाहः, यतो हि यो निगीर्यमाणो भवति स तद्दुःखात्क्रोशति। ३ बकेषु ध्वान्तनिगरणसिद्धया निगीर्यमाणत्वस्य शशिकिशोरत्वस्य चेत्युभयोरभेद इति बोध्यम्। ४ ननु भावप्रधानमाख्यातमिति वैयाकरणानां मते शब्दनक्रियायां क्रोशनक्रियाया- स्तादात्म्येन संभावनमिति धर्म्युत्प्रेक्षा सेयमित्युच्यते। किन्तु शब्दनम् (विषयः) नात्र पृथङ निर्दिष्टम्। अपि तु 'कृतभूरिशब्दाः (बकाः)' इति बकानामेव विशेषणीभूतं तत्। एवं च शब्दने (विषये) कथं क्रोशनतादात्म्योत्प्रेक्षा इति शङ्का। मश्नाः क्रोशन्तीत्यत्र मञ्चषु विषयिषु मञ्जस्थानां यथा अभेदाध्यवसानम् तथा शब्दकर्तृष्वेव शब्दनस्याध्यवसानं कृत्वा, तस्मिन् शब्दने (विषये) क्रोशनक्रियाया उत्प्रेक्षा साध्यते इति तत्समाधानम्। शाब्दे बोधे निष्पन्ने इलनेन सूच्चितं ग्रन्थकृता यत् शाब्दबोधस्तु पूर्वोंक्त एव, वैयाकरणानां मते केवलम् आर्थी सेयं कोशनक्रियोत्प्रेक्षेत्याशयः । अत एव 'क्रोशनक्रियायां च ताटृशबका विशेषणम्' इत्यादयुक्तम्। अन्यथा कोशनरूपव्यापारप्राधान्ये शशिकिशोराणामेव शब्दमर्यादया विशेषणता स्यादिति बोध्यंम्।

Page 441

उत्प्रेक्षा ] रसगङ्गाघर: । ३८१

विषयतयावा, अध्यवसानवशात्। क्ोशनक्रियायां च ताहशबका विशेषणम्, तादृशबकेषु चाभेदेन ताहशशशिकिशोरा:, न तु शशिकिशोर एव साक्षात्क्रियायाम् । एवं च वकानामनन्वयापत्तेः । विषयविषयि- विशेषणानां प्राग्वदेव बिम्वप्रतिविम्बभावेनाभेदप्रतिपत्तिः । तथा- 'राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः । सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ।।' अन्ापि चन्द्रे विषये तादशलेपनकर्तृत्वरूपधर्मोत्प्नेक्षेत्येकं दर्शनम्। किरणत्यापने विषये चन्द्रकर्तृकसुधाकरणकलेपनस्य तादात्म्येनोत्प्रेक्षण- मिति द्वितीयम्। तत्र प्रथमे मते धवलीकारकत्वरूपनिमित्तानुपादानादनुपा- त्तनिमित्ता, विषयस्योपादानादुपात्तविषया। द्वितीयेSपि तस्यैव निमित्तंस्या- नुपादानादनुपात्तनिमित्ता, विषयस्य निगीर्णतयानुपात्तविषयेति विशेषः । तादात्म्येन द्रव्यस्वरूपोत्प्रेक्षा यथा- 'कलिन्दशैलादियमा प्रयागं केनापि दीर्घा परिखा निखाता। मन्ये तलस्पर्शविहीनमस्यामाकाशमानीलमिदं विभाति।।' अत्र यमुनायां नीलत्वदीर्घत्वनिमित्तकमाकाशतादात्म्योत्प्रेक्षणम्।

मित्यर्थः । वृत्ते बोधे निष्पन्ने वा। अध्यवसानेति। अध्यवसानं च मश्चाः कोशन्ती- त्यादिवद्विषयिवाचकशब्देनेति बोध्यम् तादशेति । विशेषणद्वयविशिष्टेत्यर्थः । एव- मग्रेऽपि। तादृशेति। एकविशेषणविशिष्टेत्यर्थः । क्रियायां करोशनेत्यादिः । एवं च एवं सति। एवं च तादृशशशिकिशोराभिन्नकतृकं कोशनमिति बोध्यम्। अस्या उदाहरणान्तरमाह-तथेति। शम्वरस्येति। मदनस्येत्यर्थः । प्राग्वदत्रापि मतमे- दमाह-अत्रापीति। तादृशेति। सुधाकरणकजगन्मध्यकर्मकेत्यर्थः । चन्द्रेति। तदभिन्नेत्यर्थः । करणकेति। जगन्मध्यकर्मकेत्यपि बोध्यम्। विषयस्य चन्द्रस्य । तस्यैव धवलीकारकत्वस्यैव। विषयस्य किरणव्यापनस्य। निगीर्णेति। सुधाभिलि- म्पतीत्यनेनेति भावः । कलिन्देति। तदाख्यपर्वतादित्यर्थः । इयं दृश्या गर्तरूपा। आ प्रयागं प्रयागमभिव्याप्य। अस्यां परिखायाम्। इदं दृश्यं यमुनारूपम्। ननु प्राग्व- जात्युत्प्रेक्षेयं कुतो न, अत आह-आकाशति। इदं च मज्जूषायां मतं स्पष्टम् । १ विषया बकाः तद्विशेषणस्य अर्धमज्जनस्य [एवं विशेषणस्यापि विशेषणस्थ यसुनाजलस्य च ], विषयिण: शशिकिशोरा: तद्विशेषणस्य निगरणस्य [एवं विशेषणस्यापि विशेषणस्य ध्वान्तस्] च विम्बप्रतिबिम्बभावेनाडभेद इत्याशयः ।

Page 442

३८२ काव्यमाला। [द्वितीयानने-

आकाशत्वस्य स्वरूपात्मकेत्वाइ्रव्योत्प्रेक्षेयम्। अत एवाकाशपदाच्छव्द्वाश्रय- त्वाद्यनुपस्थितिदशायामप्याकाशधीः । नीलत्वरूपनिमित्तस्य विषयिणि सिद्धयर्थ तृतीयचरेणोपादानम्। दीर्घत्वरूपनिमित्तसिच्च्र्थ च पूर्वार्धम्। जात्यादीनामभावोत्प्रेक्षा यथा-

'वाहुजानां समस्तानामभाव इव मूर्तिमान्। जयत्यतिबलो लोके जामद्य्यः प्रतापवान्॥' अन्र जात्यवच्छिन्नाभावो विरोधित्वनिमित्तेन तादात्म्येनोत्प्रेक्ष्यते। विनाश इवेत्युक्तौ तु ध्वंसः। 'समस्तलोकदुःखानाम्' इति प्रथमचरणे कृते गुणाभावः । 'दौरञ्ञनकाली भिर्जलदालीभिस्तथा वत्रे। जगदखिलमपि यथासीन्निर्लोचनवर्गसर्गमिव ।।'

नन्वाकाशतं शब्दाश्रयत्वादिरूपमिति कुतः स्वरूपात्मकमत आह-अत एवेति। तस्य स्वरूपात्मकत्वादेवेत्यर्थः। आदिना शब्दसमवायिकारणतपरिग्रहः । विषयिणि आकाशे। तृतीयेति। तलस्पर्शे सति प्रतिबिम्बासंभव इति भावः । सिद्र्थ चेति। आकाश एवेति शेष: । गर्तोपरितनाकाशस्य तद्दीघेतारोपादिति भावः । बाहुजानां क्षत्रियाणाम्। जामदश्यः परशुरामः । जातीति। क्षत्रियतेत्यर्थः । विरोधित्वेति। जात्यवच्छिन्नेत्यादि। अभावोऽत्यन्ताभावः। अभावप्रदत्यागेनाह-विनेति। क्रिया- भावोत्प्रक्षोदाहरणमाह-धौरिति। कज्लवच्छ्याममेघपङ्गिभिस्तथाच्छादितेत्यर्थः ।

१ घटपटादिु धटत्वपटत्वादिकं यथा जातिर्भवति तथा आकाशत्वं जातिरन, अपि तु आकाशस्व रूपमेव। शब्दाश्रयत्वमाकाशत्वमिति ये न जानन्ति तेषामपि आकाशत्वस्य स्वरूपा- त्मकत्वादाकाशस्य बोधो भवति। अत एव कलिन्दशैलादित्यत्र पधे द्रव्योत्प्रेक्षेत्याशयः । २ तलस्पशें (तल्दर्शने) सति तलगतस्य वर्णान्तरस्यापि प्रतीतिर्जातु स्याद्। तदभावे तु निम्नतया नीलतैव प्रतिभासेतेत्याशयः । 'तलस्पशे सति प्रतिबिम्बस्य संभवो न' इति नागेशविज्ञानं तु लोकोत्तरमेव, कतिपयाङ्कुलिनिम्नेष्वपि जलपात्रेषु प्रतिबिम्बदर्शनाद्। ३ जामदश्यः क्षत्रियजातेविरोधी । ततश्च विरोधित्वेन निमित्तेन जामदझये (द्रव्ये) ।क्षत्रियत्वजातेरभावस्तादातम्येन संभाव्यत इति जात्यभावधर्म्युत्प्रेक्षा सेयमित्याशयः।

Page 443

उत्प्रेक्षा ] रसगङ्गाघर: । ३८३

अत्रापि चाकुपज्ञानसामान्यशून्यत्वेन निमित्तेन पार्यन्तिक: क्रियाभावो धर्मः । एवं द्रव्याभावोत्प्रेक्षापि स्वयमूह्या। मालारूपाप्येषा संभवति यथा- 'द्विनेत्र इव वासवः केरयुगो विवस्वानिव द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव। नराकृतिरिवाम्बुधिरगुरुरिव क्षमामागतो नुतो निखिलभूसुरैजयति कोऽपि भूमीपतिः।।' अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोध- निवर्तनाय विषयिषु वासवादिष्वारोपेण साधारणीकरणम्। न चात्रोपमा शक्यनिरूपणा, द्विनेत्रत्वादीनामुक्तेर्निष्प्रयोजनकत्वापत्तेः । न चोपमाया निष्पादकं तेपां साधारण्यम्, तद्भावेऽपि परमैश्वर्यादिभिः प्रतीय- मानेस्तस्या निष्पत्तः। असुन्दरत्वादुपमानिष्पादकत्वेन कवेरनभिप्रेत- त्वाच्। नह्यन्न द्विनेत्रत्वादिभिर्धमैर्वासवादिसादृश्यं राज्ञः कवेरभिप्राय-

नेत्रशून्यजनसमूहसृष्टिरिवेत्र्थः । निमित्तनेति। अनुपात्तेनेति भावः। पार्यन्तिक इति। यद्यपि सगमिति नपुंसकोक्ता ततिक जगदन्तरमिवतजगदिति पूर्व वोध: तथापि तादृशजगदन्तराप्रसिध्धा अभावोत्प्रेक्षाबाधापत्त्या चात्रैव धर्मिणि जगति लोचनवर्गस्य सर्गो दानं संसर्ग: प्रसरणं वा यत्र दर्शने तदभावो निरा बोध्यते इति दर्शनक्रियाभावरूपो धर्म उत्प्रेक्ष्यते पश्चादित्यर्थः । तदाह-क्रियाभावो धर्म इति। एघा उत्प्रेक्षा। करयुगो भुजद्वयम्। क्षमां भूमिम्। 'अध्यारोपेण' इति पाठः । आरो- पेणेति तदर्थः । 'अतियुक्त'पाठे तु स एवार्थः। स आरोपेणेत्यग्रे योज्यः । ननूपमै- वात्रास्तु इत्याशङ्कते-न चेति। साधेति। उत्तरीतयेति भावः । तस्या उपमायाः । ननूपात्तवमोभावे प्रतीयमानादरोऽत आह-असुन्दरेति । विच्छित्त्यजनकत्वादि- त्यर्थः। उक्तधमस्येति। उक्तमेव विशद्यति-एवमिति। राजसदशस्य द्विती- १ पर्यन्ते (पश्चात्) क्रिया (दर्शना)भावो धर्मः उत्प्रेक्ष्यते इत्यनुपङ्गः । अयं भाव :- अत्र हि पूर्वम् 'लोचनवर्गसष्टिरहितजगदिव इदम् (वर्तमानं सचक्षुष्कम्) जगत्' इति द्रव्योत्प्रेक्षैव प्रनीयवे । विचारे कृने तादृशजगतोऽभावात्-पर्यन्ते-लोचनवर्गस्य संसर्ग: प्रसरणं वा नास्ति [अत एव तु पदार्थानां दर्शनं न भवति ] इति जगति (द्रव्ये) दर्शन- रूपक्रियाया अभावः प्रतीयते इत्याशयः । २ करयुगम् अस्यास्तीति करयुगः, अर्शआद्यच्। करयोर्युगं यस्येति वैयाकरणनिकु- ख्वितो व्यधिकरणबहुन्रीहिवा। नागेशटीका त्वत्र नागेशटीकैव। ३ द्विनेत्रत्वादीनि राजनि तु सन्त्येव, परं संभावनाया विषयिपु वासवादिषु तान्यारोप्यन्े येन प्रकृताप्रकृतयोः साम्यं संघटने।

Page 444

३८४ काव्यमाला। [द्वितीयानने-

विषयः । एवं द्वितीयत्वादीनां चन्द्रादिष्वारोपोऽप्युपमायां सत्यामनर्थक एव स्यात्। अभेदप्रतिपत्तौ तु सहस्रनेत्रेण सहस्रकरेण विधिसृष्टावेकेन वपुर्विहीनेन जलाकारेण स्वर्गगतेन च तेन तेन कथमस्याभेदः स्यादिति अतिकूलधियमपसारयतां विषयिगतानां द्विनेत्रेत्वद्यारोपाणामस्त्ेवो- पयोगः । अन्नैवेवशव्दस्याभावे दढारोपं रूपकम्। विषयिगतविशेषण- नामभावे उपमा। उभयेषामेकतरस्याप्यभावे शुद्धरूपकमिति विवेक: । एवं स्वरूपोत्प्रेक्षादिगुपदर्शिता। अथ हेतूत्प्रेक्षा। यथा- 'त्वत्प्रतापमहादीपशिखाविपुलकज्जलैः । नूनं नभस्तले नित्यं नीलिमा नूतनायते ।।' अत्र नीलिमसामानाधिकरण्येनोत्प्रेक्षितस्य हेतुत्वेनोत्प्रेक्षेणम्। 'कज्ल- लेपनैः' इति कृते इयमेव क्रियाहेतूत्प्रेक्षा।

यस्य सत्त्वाद्राज्ञि सारसिकं द्वितीयतमित्याशयेनाह-चन्द्रादीति। ननूत्प्रेक्षा- पक्षेऽपि तदुक्तिवैय्थ्यमत आह-अभेदेति। वासवादीत्यादिः । करेण किरणेन। तेन तेन वासवादिना। अस्य राज्ञः। उभयाभावस्यैकस्मिन्नपि सत्त्वादाह-एकतरेति। उपसंहरति-एवमिति । त्वदिति । राजानं प्रति कव्युक्तिः। उत्प्रेक्षितस्य कज्जलस्य। हेतुत्वेनेति। नूतनीकरण इति भावः । हेतूत्प्रक्षेति। नीलिम्रः १ अर्थात् वासवः संभाव्यते परं द्विनेत्रः, एवं विवस्वान् परं द्विकरः इत्यादि। २ इवशब्दस्याभावे राजा द्विनेत्रो वासवः इत्यादिभिः आरोप्यमाणेषु (वासवादिषु) द्विनेत्रत्वं विहाय अन्यविधसमग्रसादृश्यसूचनात् राजतादात्म्यटृढीकरणेन रूपके दाढ्य संपाद्यत इत्यर्थः । ३ द्वयोर्मध्ये एकस्याऽप्यभावे, द्वयोरप्यभावे इति यावद्। ४ इह निमितभूतेन नीलिमरूपेण समानाधिकरणेन धर्मेण [यतो हि एकस्मिन्नधिकरणे (आकाशे) नीलिमा कज्जलं च वर्ण्येते] आकाशे प्रतापरूप-दीपशिखाजनितकज्जलरूपजाति- पदार्थस्य धर्मस्वरूपोत्प्रेक्षा। ५ तदनन्तरं नीलिम्नो नित्यनूतनीभवनक्रियां प्ति उत्प्रेक्षितस्यास्य कज्जलस्य हेतुत्वेनो- स्प्रेक्षणमत्रोदाहरणतयाडभिप्रेतम्। 'नूतनीकरणम्' इति नागेशकृतस्त्वर्थो वैयाकरणैर्विचार्य एव। नूतन इवाचरति (नूतन इव भवति) इतिस्थाने नूतनं करोति इति व्यपदेशे तत्क- रोतीति णिच्प्रसङ्गात्। ६ 'लेपनैः' इति क्रिया नीलिमनुतनीभवने हेतुरित्यर्थः ।

Page 445

उत्प्रेक्षा ] रसगङ्गाघर:। ३८५

गुणहेतूत्प्रेक्षा यथा- 'परस्परासङ्गसुखान्नतभ्रुवः पयोधरौ पीनतरौ वभूवतुः। तयोरमृध्यन्नयमुन्नतिं परामवैमि मध्यस्तनिमानमख्ठति ॥' अत्र पूर्वार्धे सुखस्य गुणस्य हेतुत्व्रं तावत्पञ्च्म्यैव निर्दिष्टम्। अपरांधे धर्मिविशेषणतया अनूद्यमानस्य गुणाभावस्य त्वार्थम्। यथा 'भोक्ता भुञ्जानो वा तृप्यति' इत्यादौ भोजनादेः। यथा वा- व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतामाकर्ण्य स्तुतिमुद्दयत्रपातिरेकात्। आभूमीतलनतकंधराणि मन्येऽरण्येSस्मिन्नवनिरुहां कुटुम्बकानि ।।' क्रियाहेतूत्प्रेक्षा यथा- 'महागुरुक लिन्दमहीधरोदरविदारणाविरभवन्महापातकाव लिवेह- नादिव श्यामलिता' इति। द्रव्यहेतूत्प्रेक्षा यथा- 'वराका यं राकारमण इति वल्गन्ति सहसा सरः स्वच्छं मन्ये मिलद्मृतमेतन्मखभुजाम्।

प्रतिदिनोपचीयमानतं निमित्तम्। अश्वति गच्छति। अपरार्ध इति। उत्त- रार्ध इत्यर्थः । क्वचित्तथैव पाठः । आर्थले हेतुगभे विशेषणमाह-धर्मीति। मध्येत्यर्थः। गुणाभावस्य नर्षणाभावस्य। भोक्तेत्यत्र कालसामान्यप्रतीतेर्विशेषो- दाहरणमाह-भुञ्जानो वेति। नैयायिकोक्तगुणस्यैव ग्रहणमिति त्रमनिरासायो- दाहरणान्तरमाह-यथा वेति। उदयदिति । उदयन्ती आविर्भवन्ती या लज्जा तस्याः संबन्धात्, आधिक्याद्वेतर्थः । भूमिमभिव्याप्य नम्रा: कंधराः शाखा येषां तानि। वृक्षाणां समूहरूपाणीत्यग्रिमार्थः। अत्रापि लज्जारूपगुणस्य हेतुलं स्पष्टमेव। वेहनात्तत्संबन्धात्। अत्र वेल्लनं क्रियेति स्पष्टमेव। श्यामलिता संजातश्यामा। वराका: कृपणाः । य चन्द्रम् । मिलदमृतमिति । 'लसदमृतम्' १ अर्थात मध्यस्य तनिमानं प्रति स्तनगतोन्नतिमर्षणरूपगुणाभाव एव हेतुः । ननु मर्ष- णाभावस्तु नात्र पृथड निर्दिष्टो यस्य हेतुत्वं श्ञायेत, अत्र हि 'अमृष्यन् (मध्यः)' इति मध्यस्य विशेषणीभूत एव स इति शङ्कायामाह-'आर्थम्' इति। शब्दतोऽनुक्तमपि हेतुत्वम् अर्थवशात्प्रतीयत इत्यर्थः । यथा 'भोक्ता तृप्यति' अत्र भोक्तुर्धर्मिणो विशेषणस्यापि भोजनस्य तृप्ता हेतुत्वमर्थतो बुध्यते। २ अवगच्छन्ति, सर्वे गत्यर्था ज्ञानार्था इति। ३३ रस०

Page 446

३८६ काव्यमाला। [ द्वितीयानने-

अमुष्मिन्या कापि द्युतिरतिघना भाति मिषता- मियं नीलच्छायादुपरि निरपायाद्गगनतः ।।' अन्नामृतसरोरूपत्वेनोत्परेक्षिते चन्द्रमसि नीलत्वेनाध्यवसिते कलक्के उपरिवर्तिनभोहेतुकत्वमुत्प्रेक्ष्यते। एतेन द्रव्यस्य हेतुत्वेनोत्प्रेक्षणं नास्तीति आचां प्रवादो निरस्तः ।

एषामेवाभावानां हेतुत्वोत्प्रेक्षा यथा- 'नितान्तरमणीयानि वस्तूनि करुणोज्झितः । काल: संहरते नित्यमभावादिव चक्षुषः ।।'

अत्र कालस्य साहजिके संहारकत्वे चक्षुरभावस्य हेतुत्वेनोत्प्रेक्षा। 'निःसीमशोभासौभाग्यं नताङ्ग्या नयनद्वयम्। अन्योन्यालोकनानन्दविरहादिव चञ्चलम् ।'

अत्र गुणाभावस्य । 'जनमोहकरं तवालि मन्ये चिकुराकारमिदं घनान्धकारम् । वद्नेन्दुरुचामिहाप्रचारादिव तन्वङ्गि नितान्तकान्तिकान्तम्।'

-इति पाठान्तरम्। मखभुजां देवानाम्। अमुष्मिन्सरसि। इयं द्युतिनैल्यरूपा । मिषतां पश्यताम्। उपरि। वर्तमानादिति शेषः। निरपायादनश्वरात्। नील- त्वेनेति । द्युतिरित्यनेनेति भावः । एषामेव जात्यादीनामेव। करुणोज्झित इति। त्यक्तकरुण: । आहितान्यादित्वान्निष्ठान्तस्य परनिपातः। इदं जात्यवच्छिन्ना- भावहेतुलोत्प्रेक्षोदाहरणम्। गुणाभावहेतुत्वोत्प्रेक्षोदाहरणमाह-निःसीमेति। गु- णेति। आनन्दरूपेत्यर्थः । हेतुत्वेनोत्प्रेक्षेति शेषः । एवमग्रेऽपि। क्रियाभावहेतुलोत्प्रे- क्षोदाहरणमाह-जनेति। हे कृशाद्गि आलि, इह चिकुरे तद मुखचन्द्रकान्तीनाम- संबन्धादिव इदं दृश्यं केशसमूहरूपं चिकुरवदाकारो यस्य तादशं जनमोहकर निबिडा-

१ अमुष्मिम् चन्द्ररूपे सरसि अतिघना नीला द्युतिर्या मिषतान् (पश्यताम्) जनानां भाति, सा उपरि वर्तमानात नीलादू गगनात् अर्थात् तत्प्रतिबिम्बहेतुकास्तीत्यर्थः। अत्र कलकं प्रति गगनरूपद्रव्यस्य हेतुत्वमित्युदाहरणाशयः ।

Page 447

उत्प्रेक्षा ] रसगङ्गाघर:। ३८७

इह द्वितीयार्धे क्रियाभावस्य प्रथमार्ध जात्यवच्छिन्नस जात्यवच्छिन्नाभावस्य वा स्वरूपोत्प्रेक्षेव। 'न नगाः काननगा यहुद्ृतीपु त्वदरिभूपसुदतीपु। शकलीभवन्ति शतधा शङ्क श्रवणेन्द्रियाभावात् ।।' इह श्रोत्रत्वस्य जातिगुणक्रियाभ्योऽतिरिक्तस्य विवेके क्रियमाणे आका- शस्वरूपतया तदवच्छिन्नाभावस्य द्रव्याभावस्य हेतुत्वेनोत्प्रेक्षा। निमित्तं क्रियाभावः। एवं हेतूत्प्रेक्षादिक। अथ फलोत्प्रेक्षा- दिवानिशं वारिणि कण्ठदन्ने दिवाकराराधनमाचरन्ती। वक्षोजतायै किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्वुजपङ्किरेषा ।' अन्र वक्षोजत्वमेवयववृत्ति। जातिस्तलप्रत्ययार्थः । त्वतलोः प्रकृतिप्रवृ-

न्धकारमहं मन्य इत्यर्थः। यदाशयेनोदाहृतं तमाह-इहेति। प्रचारस्य क्रियालादिति भावः । तुरुक्तवैलक्षप्ये। एतेन प्रासङ्िकत्मस्य सूचितम्। अत एव व्युत्कमेणोकि:। अन्धकारोऽतिरिक्तः पदार्थ इति मतेनाह-जात्यवच्छिन्नेति। तेजोभाव एव स इति मतेनाह-जात्यवच्छिन्नाभावेति। क्कचिद्वैपरीलेन पाठः। द्रव्याभावहेतुलो- त्प्रेक्षोदाहरणमाह-न नगा इति। शष्कुत्यवच्छिन्ननभसः श्रोत्रत्वादाह-विवेक इति। भावस्येत्यस्य व्याख्या द्रव्याभावस्येति। तस्य तत्त्वेनोत्प्रेक्षणे निमित्तमिति । क्रियेति । शकलीभवनरूपेत्यर्थः । उपसंहरति-एवमिति। उत्तप्रकारेणेलर्थः। दिगिति। उपदर्शितेति शेषः। अथ क्रमप्राप्तां फलोत्प्रेक्षामाह-अथेति। तत्रादौ जातिफलोत्प्रेक्षामाह-दिवेति। कण्ठदन्ने कण्ठप्रमाणे। अवयवेति। स्तनेत्यर्थः ।

१ पूर्वार्धोदितोत्प्रेक्षां प्रति 'अप्रचारात्' इति प्रचाररूपक्रियाभावो हेतुत्वेनोत्प्रेक्षितः । पूर्वोत्प्रेक्षातः असंमिश्रतायां तु अप्रचारादिति नितान्तकान्तत्वं प्रति (इन्दुरुचामप्रचारः अत एव 'निबिडनीलकान्तिमान्) हेतुर्योज्यः । इदं क्रियाभावोदाहरणमेव प्रक्रान्तम्। २ चिकुरं घनान्धकारं मन्ये इति चिकुरे घनान्धकारस्य (जातिपदार्थस्य, अन्धकारस् तेजोऽभावरूपत्वे तु जात्यवच्छिन्नाभावस्य) तादात्म्येन स्वरूपोत्प्रेक्षा। ३ श्रोतरत्वं कर्णशष्कुल्यवच्छिन्नाकाशस्वरूपम्, अत एव द्रव्यरूपम् । तथा च-वृक्षाणाम्. (शैलानां वा) श्रोत्ररूपद्रव्याभावस्य शतघा शकलीभवनरूप-क्रियाभावं प्रति हेतुत्वम्। ४ जातिफलोत्प्रेक्षात्वसाधनाय यावत्सु स्तनरूपेष्ववयवेषु वर्तमाना वक्षोजत्वं जातिरित्याह। ५ प्रकृतिभूतस्य वक्षोजस्य प्रवृत्तिनिमित्तं वक्षोजत्वं तद्रूपे भावे त्वतलोविधानात्।

Page 448

३८८ काव्यमाला । [द्वितीयानने- त्तिनिमित्ते भावे विधानान्। स एव चात्र तपश्चरणक्रियायाः साहजिक- जलावस्थानाभिन्नतयाध्यवसितायाः फलत्वेनोत्प्रेक्ष्यते। न चात्र प्रप्ति- क्रियामन्तरेण जातेः शुद्धाया अफलत्वाक्क्रियाया एव फलत्वमिति वाच्यम्। प्राप्तेः संसर्गतया तह्ारैव जात्ादेः फलत्वोपपत्तेः । अन्यथा फलत्वबोधकचतुर्थ्या अनुपपत्तेः । अत एव-'व्राह्मण्याय तपस्तेपे विश्वामित्र: सुदारुणम्' इत्याद्यः प्रयोगाः । गुणफलोत्प्रेक्षा यथा- 'वियोगवह्निकुण्डेडस्मिन् हृदये ते वियोगिनि। प्रियसङ्गसुखायेव मुक्ताहारस्तपस्यति ॥' क्रियाफलोत्प्रेक्षा यथा- 'हालाहलकालानलकाकोदरसंगति करोति विधुः । अभ्यसितुमिव तदीयां विद्यामद्यापि हरशिरसि [गतः ]।।' अत्र विरहिवाक्येऽभयसनक्रियायास्तुमुना फलत्वं लभ्यते। एवं लक्ष्यानुसारेण यथासंभवमन्यदप्युदाहार्यम्। इह जात्यादयो हि भेदा: प्राचामनुरोधादुदाहताः। वस्तुतस्तु नैषां चमत्कारे वैलक्षण्यमस्तीत्यनुदाहार्यतैव। चमत्कारवैलक्षण्यं पुनर्हेतुफल-

स पवेति। जातिरूपतलर्थ एवेत्यर्थः । अफलत्वादिति । तस्यानित्यल्ादिति भाव: । क्रियायाः प्राप्तेः । संसर्गतयेति। तथा च लक्षणा नेति भावः । अन्यथा यथाकर्थंचित्फललानङ्गीकारे। उक्तार्थ द्रढयति-अत एवेति। वियोगेति। अत्र सुखरूपगुणस्य फलत्वेनोत्प्रेक्षणं स्पष्टमेव । हालेति। विषभालनेत्रसर्पाणां संगतिमि- त्यर्थः । तदीयां विषादीयाम्। प्राचामलंकारसर्वखवकारादीनाम्। मेवेत्यस्य बोध्यमिति १ प्रकृतिसिद्धं जलावस्थानमेव तपश्चरणक्रियात्वेनाध्यवसीयते । तस्याश्च क्रियाया वक्षो- जत्वजातिरूपं फलमुत्प्रेक्ष्यते। २ ननु वक्षोजत्वप्राप्तिरेव फलं युज्यते, ततश्च वक्षोजतापदेन लक्षणाश्रयायाः क्रियाया एव फलत्वोत्प्रेक्षा सेयं न जातेरिति शङ्का। ३ अत्र प्राप्तिक्रिया संसर्गविधया प्रतीयते [ तथा च न लक्षणेति बोध्यम् ] इत्यानुषङ्गिकी, अर्थात सावश्यं प्रतीयते। तह्वारैव च जात्यादेः फलत्वमुपपद्यते। आनुषङ्गिकी सा फलं न भवितुमहृति। जात्यादीनां फलत्वे ब्राह्मण्यायेत्यादि प्रमाणम्।

Page 449

सत्प्रेक्षा ] रसगङ्गाधर:। ३८९

स्वरूपात्मकानां त्रयाणां प्रकाराणामेवेति। प्रागुदाहृतेष्वेव पद्येषु वाचका- नामिवादीनां त्यागे प्रतीयमाना, अर्थसामर्थ्यावसेयत्वात्। न तु व्यङ्ग्येति भ्रमितव्यम्, तस्याः प्रकृते प्रसङ्गाभावान्। धर्मस्वरूपोत्प्ेक्षा यथा- 'निधिं लावण्यानां तव खलु मुखं निर्मितवतो महामोहं मन्ये सरसिरुहसूनोरुपचितम्। उपेक्ष्य त्वां यस्माद्विघुमयमकस्मादिह कृती कलाहीनं दीनं विकल इव राजानमतनोन्।।' पूर्वार्धोत्प्रेक्षितमोहरूपधर्मसिद्धये द्वितीयार्वेSविचार्यकारित्वं तत्सा- मानाधिकरण्येनोपात्तम् । अस्यां च स्वरूपस्य विषयित्वे निमित्तभूतो धर्म उपमायामिव विम्तप्रतिबिम्वभावादिभिर्भिन्न उपात्तोऽनुपात्तश्च। हेतुफल- योर्विषयित्वे तु यं प्रति हेतुफले निरूँपिते स धर्मः कल्प्यमानोऽपि शेषः । एवं वाच्याप्रपञ्चनुक्ता प्रतीयमानामाह-प्रागिति । एवं धमिखरूपो- त्प्रेक्षामुक्ला धर्मस्वरूपोत्प्रेक्षामाह-धमेति । सरसिरुह्सूनोव्रह्मणः । इह जगति । कलाहीनं क्षीणकलम्। विकल इवेलंशे उपमा। पूर्वार्धोत्प्रक्षितेति। ब्रह्मरूपे धर्मिणीति भावः। उपात्तमिति। अकस्मादित्यनेनेति भावः । निमित्तांशे प्रागनुक्त विशेषमाह-अस्यां चेति। उत्प्रेक्षालावच्छिन्नायामित्यर्थः। सवरूपस्य धर्मिस्वरूपस्य धर्मस्वरूपस्य वा। भावादिभिरिति । आदिना अनुगामित्वादिपरिग्रहः । एवं च १मोहाभाववति सरसिरुहसूनौ (ब्रह्मणि) मोहवत्त्वस्य (मोहस्य) समवायसंवन्धेन (आत्मधर्म: आत्मनि समवायेन तिष्ठताति) संभावनमिति धर्मोत्प्रेक्षा। धर्मोत्मक्षायां च समानाधिकरणो धर्मों निमित्तमिति पूर्वानुगमानुसारभ् अविचार्यकारित्वं निमित्तम् । यसिन् अधिकरणे (ब्रह्मणि) मोहस्तत्रैव अविचार्यकारित्वमपीति तदिदं समानाधिकरणमित्यर्थः । २ भिन्नः विम्बप्रतिबिम्बभावापन्नत्वानुगामित्वादिभेदविशिष्टः । ३ यथा-त्वत्प्रतापमहादीप० इत्यत्र हेतूत्प्रेक्षायान्-नभस्तलगतस्य यं नीलिमधम प्रति प्तापरूपदीपकज्जलं हेतुर्निरूपितः स नीलिमधर्मः कज्जलजनिततया कल्प्यमानोऽपि नभस्त- लगतस्वाभाविकनीलिमाऽभिन्नतया अध्यवसीयते। स एव च नीलिमा कज्जलस्य हेतुत्वो- त्प्रेक्षणं प्रति निमित्तं भवति। स च (नीलिमा) सर्वदोपात्त एव भवति। अन्यथा [ तस्यानु- पात्तत्वे] कं प्रति हेतोरन्वयः स्यात्, अर्थात् नीलिम्नः शब्दोपात्तत्वाभावे कज्जलरूपहेतोर- न्वयः कथं स्यात्। एवं फलोत्प्रेक्षायामपि-यस्यास्तपश्चरणक्रियायाः फलत्वेन वक्षोजता(प्राप्तिः) उत्प्रेक्ष्यते सोऽयम् (तपश्चरणरूपः) धर्मः स्वभावसिद्धजलावस्थानाभिन्नतया अध्यवसीयते। स एव च उत्प्रेक्ष्यमाणां वक्षोजतां प्रति निमित्तं भवति। इदं निमित्तम् (तपश्चरणम्) यद्य- जुपात्तं स्यात्तहि वक्षोजताप्राप्तिरूपं फलं प्रति अस्य (निमित्तस्य) अन्वयः कथं स्यादित्याशयः ।

Page 450

३९० काव्यमाला। [द्वितीयानने-

विषयगतसाहजिकधर्माभिन्नतयाध्यवसीयमानो निमित्तं संपद्यते। स चोपात्त एव भवति। अन्यथा कं प्रति हेतुफलयोरन्वयः स्यादिति संक्षेप:। अन्न च प्राचामर्वाचां चानेकधा दर्शनं व्यवस्थितम्। तत्र प्राचामि- त्थम्-सर्वत्राभेदेनैव विषयिणो विषये उत्प्रेक्षणम्, न संबन्धान्तरेण। तथा हि धर्मिस्वरूपोत्प्रेक्षायाम् 'मुखं चन्द्रं मन्ये' इत्यादौ तावद्विषयिण- ऋन्द्रस्याभेदो विषये मुखे स्फुट एव, नामार्थयोर्भदेन साक्षादन्वयस्या- व्युत्पत्ते:। उपात्तविषया चेयम्। एवम् 'अस्यां मुनीनामपि मोहमूहे' इत्यत्र नैषधपदये (७९४) धर्मस्वरूपोत्प्रेक्षायामपि सुनिसंबन्धिनि धर्मान्तरे विषये दमयन्तीविषयकमोहस्य विषयिणोऽभेदेनैवोत्रेक्षा। उत्प्रेक्षायाश्च साध्यवसानत्वाद्विषयस्यानुपादानं संगच्छते। निमित्तधर्मश्च तत्तदङ्गा- सक्तवृत्तित्वम्। एवम् 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः' इत्यादौ

चतुर्विध इत्यर्थः । तदाह-भिन्न इति। अपिः स्ाभाविकसमुच्चायकः। अत्र च उत्प्रेक्षाविषये। अर्वाचामाधुनिकानाम्। दर्शनं मतम्। तत्र तयोर्मध्ये। विषय इति। एतौ च धर्मस्रूपौ धर्मिस्वरूपौ वेति भावः। तावदादौ। अस्यां दम- यन्लाम्। धर्मस्वरूपोत्प्रेक्षायामपि धर्मान्तरे दर्शनादिरूपे। नन्वेवं कथ विषयस्यानुपा- दानमत आह-उत्प्रक्षेति। एवं धर्मिसरूपोत्प्रेक्षायां तत्त्वमुक्ता धर्मस्वरूपोत्प्रेक्षा- मप्युपपादयति-एवमिति। कस्यापि पद्ये इत्यनेन खीयलं निरस्तम्। वैया-

१ सुनिसंबन्धिनि दमयन्तीकर्मके विलोकने (विषये) मोहृस्य (विषयिणः) तादात्येनो- व्प्ेक्षेत्यर्थः । २ अर्थात् उत्प्रेक्षायाम् अध्यवसानम् [ विषयिवाचकपदोच्चारणेSपि-विषयस्य विषयि- रूपतया आहार्यों निश्चयः ] अवश्यं भवति। अत एवात्र विषयिवाचक( मोह)पदोच्चारणेन अनुपात्तेऽपि दर्शनादौ (विषये) मोहस्य (विषयिणः) अभेदो नानुपपन्नः । ३ अर्थात् मुनिकर्तृकविलोकनादौ (विषये) मोहस्य तादात्म्योत्प्रेक्षायाम्-'भृगुः कुचशीली बातः, मुखं नारदमनोहार्यभवत्, व्यासः श्रितोरुः' इति कुचाद्यङ्गासक्तच्वित्तवृत्तित्वं निमि- स्मित्यर्थः । पूर्णपद्यं तु- 'अस्यां सुनीनामपि मोहमूहे मगुर्महान् यत्कुचशैलशीली। नानारदाहादि मुखं श्रितोरुर्व्यांसो महाभारतसर्गयोग्यः ।।'

Page 451

उत्प्रेक्षा ] रसगङ्गाघर: । ३९१

कस्यापि पद्ये न प्रथमान्तार्थ कतरि लेननकर्तृत्वादेरुत्प्रेक्षणम्, तस्याख्या- तार्थविशेषणत्वेनकदेशत्वान्। नापि लेपनादिकर्तुरभेदेन, तस्य क्रियाविशेष- णत्वेनाप्राधान्यात्। किं तु तमःकर्तकमङ्गकर्मकं लेपनमुत्प्रेक्ष्यते, तमः- कर्तृकमञ्जनकर्मके वर्षणं च। उत्प्रेक्ष्यमाणाम्यां च ताभ्यां विपयस्य तमः- कर्तृकव्यापनस्य निगीर्णत्वादनुपादानम् । अत एव एवमादावियमनुपात्त- विषयोच्यते। निमित्तधर्मश्च इ्यामीकारकत्वादिरनुपात्त एव। अत एव 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' इति लक्षणं विधायोक्तम् 'व्यापनादि लेपनादिरूपतया संभावितम्' इति मम्मटभट्टैः । एवम्। 'उन्मेपं यो मम न सहते जातिवैरी निशाया- मिन्दोरिन्दीवरदलहशा तस्य सौन्दर्यदर्पः। नीतः शान्तिं प्रसभमनया वक्रकान्त्येति हर्षा- ह्ग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ।।'

करणरीत्या आह-तस्येति । प्रथमान्तार्थकर्तुरित्यर्थः । तथा च पदार्थः पदार्थेनेति न्यायप्रसरः । कर्तृत्वादि तु क्रियारपतया प्रधानमेवेति भावः । एवमग्रेऽपि। अभेदे- नेति । प्रथमान्तार्थे उत्प्रेक्षणमित्यस्यानुपङ्गः। तस्यति। लेपनादिकर्तुरिल्यर्थः । वर्षणं चेत्यस्य उत्प्रेक्ष्यत इति शेषः। ननु कुत्र साअत आह-उत्प्रेक्ष्येति। अत एव निगीर्णलादनुपादानादेव। एवमादौ इत्यायुदाहरणे। अन्न संमति प्रकाशकृत आह- अत एवेति। एवमिति। उन्मेषमिति। विकसनमित्यर्थः । नायिकां प्रति नाय- कोकिः। यश्चन्द्रः । मम पद्मस्य। हेतूत्प्रेक्षायामपि तत्त्वेनाभिमतायामपि। इदं च

१ शूद्धकप्रणीतमृच्छकटिकस्य प्रथमेडङ्क पद्यमेतत्। 'असत्पुरुषसेवेव दृष्टिपिंफलतां गता' इत्यस्योत्तरार्थम्। २ तमसि लेपनकर्तृत्वस्य भेदेन नोत्प्रेक्षा । 'पदार्थः पदार्थेनान्व्रेति न तु वदेकदेशेन' इति न्यायात लिम्पतीत्याख्यातस्यैकदेशः कर्ता [लिम्पतीत्याख्यातेन लेपनं (क्रिया) तत्कर्ता चेत्युभयं प्रतिपाद्यते, इति कर्ता आख्यातार्थविशेषणीभूततया एकदेशः ] इवपदस्यार्थे संभा- वनायां नान्वेतुमहतीत्याशयः । ३ अयं भाव :- 'तमः लेपनकर्तृ' इति तमसि विषये लेपनकर्तुः विषयिणस्तादात्म्येन नोत्प्रेक्षा, 'भावप्रधानमाख्यातम्' इति यास्कोक्ततेरनुसारमत्र लेपनरूपा क्रिया प्रधानम्, कर्ता तु तद्विशेषणीभूतः । ततश्च प्रधानस्यैव (क्रियायाः) उत्प्रेक्षायामन्वय उच्चितो न तु गुणीभूतस्य कर्तुरित्याशयः ।

Page 452

३९२ काव्यमाला। [द्वितीयानने-

इत्यादौ प्राचीननद्े हेतूत्प्रेक्षायामपि न हर्परूपं हेतुमात्रमुत्प्रेक्ष्यते लक्ष्मी- रूपे विपये, किं तु तद्वेतुकं कार्य लगनादिरूप विषयि तादात्म्येन साह जिकलगनादौ विषये। कार्यस्य निमित्ततावादिनापि विषयगततत्स- मानजातीयेनाभेदाध्यवसानस्यावश्यवाच्यत्वात्। अन्यथा हेतुरूप- विषयिधर्मसमानाधिकरणधर्मस्य कार्यरूपस्य विषयावृत्तित्वादुत्प्रेक्षैव न स्यात् । एवम् 'चोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः। अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ।'

तादात्म्यं परमतेऽप्यावश्यकमित्याह-कार्यस्येति। लक्ष्मीरूपविषये हर्षरूपहेतुमात्रो- त्प्रेक्षायां कार्यमेव निमित्तं वाच्यम्। तस्य तत्त्वसिद्धिरुभयसाधारण्यं विनानुपपन्नेत्यभे- दाध्यवसानमावश्यकमिति भावः। समानजातीयेन साहजिकलगनेन। तदेव व्यतिरेक- मुखेनोपपादयति-अन्यथेति। हेतुरूपेति। हर्षरूपेत्यादिः। धर्मस्य कार्यरूप- स्यति। वास्तवहर्षाधिकरणचेतनवृत्तितत्कार्यस्य लगनादेः पद्मलक्ष्म्यामवृत्तेरिति भावः । फलोंत्प्रेक्षायां तत्त्वमाह-एवमिति। चोलस्येति। चोलनृपस्येत्यर्थः । वनान्ता वनप्रदेशाः । अनुभविष्यतीति पलायितश्चेत्स इति भावः । अक्षराणि भालस्थानि । १ अयं भाव :- लक्ष्मीरूपे विषये 'हर्षात्' इति पञ्चम्या हर्षरूपो हेतुः विषयी [लक्ष्म्याः हर्षो जातः । अत एव कृतश्ञतावशात् सा पादयोः पतिता इति ] नोत्प्रेक्ष्यते, अपि तु युवत्याः स्वभावसिद्धे पझ्मलक्ष्मी(रक्तता)कर्तके पादलगने (विषये) हर्षहेतुकं पादलगनम् (विषयि) तादात्म्येनोत्प्रेक्ष्यते। अर्थात् इदं सहजलगनं हर्षहेतुकं लगनमस्तीति अन्नापि अभेदेनैवोत्प्रे- क्षेति प्राचामाशयः । २ अर्थात् येषां नवीनानां मते-लक्ष्मीरूपे विषये हर्षमात्रं हेतुरुतप्रेक्ष्यते, न तु तादातम्येन लगने लगनम्, तदनुसारमपि तत्संमतहेतुत्वोत्प्रेक्षणे पादलगनरूपं कार्यमेव निमित्तं वक्तव्यं स्यात। तादृशं च पादपतनम्-अर्थात् हेतुरूपः (पादपतनस्य हेतुरूपः) यो विषयी धर्मः (हर्ष:), तत्समानाधिकरण: [हर्षः पादपतन चेत्युभयमपि पझ्मलक्ष्म्यां तिष्ठतीति समाना- धिकरणता ] हर्षस्य कार्यरूपो धर्मः पादपतनं, विषये पद्मलक्ष्म्यां न वर्तते। यतो हि पझ्म- लक्ष्मीरचेतना। अत एव तत्र निजवैरिपराभवजनितह्र्षहेतुकं पादलगनं न संभवति। तत्र तु प्राकृतं लगनं वर्तते। ततश्च यावत्कालं पादलगनम् (निमित्तम्) पझ्मलक्ष्म्यां न संभवेत चावत् तन्निमित्तजनिता हेतुत्वोत्प्रेक्षेव नोपपद्येत। अतः स्वाभाविकपादलगनेन सह हर्षहेतु- कपादलगनस्याभेदाध्यवसानं स्वीकृत्य विषय(पझ्मलक्ष्मी)गतता तस्य (निमित्तस्य) उपपा- दनीया स्याद। तथा च-न प्राचीनैरेव अभेदः स्वीकृतः, अपि तु एवंविधस्थले भेदेनोत्प्रे- क्षावादिनाप्युक्तरीत्या अभेदाध्यवसानमङ्गीकर्तव्यं स्यात [प्राचीनमतोपन्यासः, पूर्वपक्ष: ]।

Page 453

उत्प्रेक्षा] रसगङ्गाघर: । ३९३

इत्यादिपरपद्ये फलोत्प्रेक्षायां कण्टकिषु वनान्तेषु विषयेपु न केवलं भालत्व- ग्विपाटननिमित्तं ललाटाक्षरद्शनं फलमुत्प्रेक्ष्यते। किंतु तत्फलकं भालत्व- ग्विपाटनादिरूपं विषयि कण्टकेजविपाटनादौ विपये तादात्म्येनेति सर्वत्रा- भेदेनैव विपये विषयिण उत्प्रेक्षणमिति दर्शनम्। तत्र विचार्यते-न सर्वत्राभेदेनैवोत्प्रेक्षणमिति नियमे किंचिदस्ति प्रमाणम्, लक्ष्येषु भेदेनाप्युत्प्रेक्षणस्य दर्शनान्-'अस्यां मुनीनामपि मोह- मूहे' इत्यादौ। न च मुनिसंबन्धिनि धेर्मविशेपे मोहस्याभेदेनोत्प्रेक्षणमिति वाच्यम्। भेदेनोत्प्रेक्षणे वाधकाभावेनेद्दशकल्पनाया निरर्थकत्वात्। नह्य- भेदेनैवोत्प्रेक्षणमिति वेदेन बोधितम्, यदर्थमयमाग्रहः स्यात्, लक्षणनिर्मा- णस्य पुरुपाधीनत्वात्। 'लिम्पतीव तमोऽङ्गानि' इत्यत्रापि लेपनादिकर्तृत्वं तमआदिपु विपयेपूत्प्रेक्ष्यत इत्येव युक्तम्। अनुकूलव्यापारात्मकस्य कर्तृत्व- स्यवाख्यातार्थत्वान्। तस्य च प्रथमान्ते विशेष्ये आश्रयतासंसर्गेणान्वयान्न

फलोत्प्रेक्षायां तत्त्वेनाभिमतायाम्। विपाटनेति। तस्य तत्कर्तृकल्वादिति भावः । दर्शनात्सरसतया प्रतीतेः । प्रागुक्तं तदीयप्रकारं खण्डयति-न चेति । ननु लक्ष- णानुरोधेन तथोच्यतेऽत आह-लक्षणेति। नन्वेवमपि लिम्पतीवेल्ादो नान्यथा निर्वाह इति प्रागुक्तमत आह-लिम्पतीवेति । फलमात्रस्य घालर्थत्ादाह-अनुकूल- व्यापारेति। यत इत्यादिः । अन्यथा कृतीतेवोक्तं स्यात्। एवेन धर्मिव्यवच्छेदः । आख्यातेति। तिडित्यर्थः। प्रथमान्ते तदर्थे। नन्वेवं यास्कोक्तिविरोधोऽत आह-

१ कण्टकजनिते स्वाभाविके विपाटनादौ (विषये) तत्फलकं (ललाटाक्षरदर्शनफलकम्) भालत्वग्विपाटनादि (विषयि) तादात्येनोत्प्ेक्ष्यते, अर्थात् इदं द्ुमकर्तृकं भालत्ग्विपाटनं ललाटाक्षरद शनफलकं विपाटनमस्तीति-सर्वत्राप्यभेदेनैवोत्प्रेक्षणमित्याशयः। २ दर्शनादौ, पूर्व प्रतिपादितमिदम्। ३ अयं भाव :- आख्यातेन अत्र तिड् गृह्यते। तिङ्श्च कर्तृत्वमर्थः । कर्तृत्वम् (कृतिः ) च लिम्पतीत्यत्र लेपनानुकूलव्यापारात्मकमेव । तस्य (कर्तृत्वस्य अर्थात् व्यापारस्य) आश्रय- तासंबन्धेन विशेष्ये प्रथमान्ते (तमसि) अन्वयः । ततश्च 'तमः अङ्गानां लेपनकर्तृ इद' [अङ्गकर्मकलेपनव्यापाराश्रय इव ] इति तमसि (विधये) भेदेन लेपनकर्तृत्वस्योत्प्रेक्षे- त्याशयः ।

Page 454

३९४ काव्यमाला। [ द्वितीयानने- दोप:। 'भावप्रधानमाखैँयातम्' इत्यस्य 'भावो व्यापारस्तदर्थकमाख्यातं तिङ्' इत्यर्थकरणान्न विरोधः । 'सत्त्वप्रधानानि नामानि' इत्युत्तरवाक्य- गतस्य प्रधानशब्द्रस्याभिधेयपरत्वात्। फलेमात्रार्थस्यापि धातोराख्यातार्थ- व्यापारव्यधिकरणत्वसमानाधिकरणत्वाभ्यामर्थगताभ्यां सकर्मकाकर्म- कत्वव्यवहारः। नामार्थयोर्भेदेनान्वयाभावाच्च भावकृदर्थव्यापारस्य न भावेति। नाम्र: प्रातिपदिकस्य द्रव्यमान्रार्थत्वेन तत्प्राधान्यमुक्तम्। अर्थद्वयसत्त्व

व्योपारावाचकत्वे सकर्मकत्वाकर्मकत्वविभागोच्छेदापत्तिरत आह-फलेति। व्यापा- रस्योभयत्रान्वयः । अर्थेति। चस्तर्थे। अन्वय इति । आश्रयतासंसर्गेणेति भावः । १ ननु पूर्व भावप्रधानमाख्यातम् [ व्यापारप्रधानम् आख्यातं तिडन्तम् ] इति स्वीकृत्य कर्तुरप्रधानत्वमेकदेशत्वं चोक्तम्। इदानीं प्रथमान्तस्य प्राधान्यं कथमुच्यते, इति पूर्वसुपन्य- स्तस्य भावप्रधानमाख्यातमित्यस्यार्थान्तरमाह-अर्थात् 'सत्वप्रधानानि नामानि' इत्युत्तर- वाक्ये 'प्रातिपदिकानि द्रव्यार्थकानि' इति प्रधानपदस्य अर्थ(अभिधेय)मात्रमर्थः, न तु प्रमुखत्वम्। ततश्च पूर्ववाकयेSस्मिन्नपि प्रधानपदस्याभिधेयार्थकत्वं स्वीकृत्य आख्यातं व्यापारवाचकम् अर्थात् तिडन्तस्थले तिङ एव व्यापारोऽर्थः स्वीकार्य इत्याशयं प्रकाशयति २ ननु फलमात्रमेव यदा धातोरर्थः, न व्यापारस्तर्हि फलसमानाधिकरण-व्यधिकरण- व्यापारवाचकत्वे यथाक्रममकर्मकत्वं सकर्मकधातुत्वं च न स्यादित्याह-फलमात्रार्थस्यापी ति० । आख्यातार्थस्य व्यापारस्य व्यधिकरणः अर्थः (फलम्) यस्य तत्त्वं सकर्मकत्वम्, एवं यापारसमानाधिकरणार्थत्वमकर्मकत्वमिति धातोर्व्यापाराSवाचकत्वेपि निष्पन्नमित्यर्थः । ३ ननु व्यापारात्मकस्य कर्तृत्वस्य प्रथमान्ते तमसि (विशेष्ये) यथा आश्रयतासंसर्गेणा- व्वयः [ लेपनानुकूलकृत्याश्रयः तमः ] पूर्वमुक्तः, तथा भावे विहितस्य कृत्प्रत्ययस्य (घञादेः) अ्थों यो व्यापारस्तस्यापि आश्रयतासंसर्गेंण नामार्थेऽन्वयमाशंक्याह-नामार्थ०। पाकः इत्यादि- र्नामार्थः। अत एवास्य नामार्थेन (द्वितीयेन प्रातिपदिकेन) भेदेनाऽन्वयो न। अपि तु सिद्धा- वस्थापन्नक्रियाया अस्याः, 'भवति' इत्यादिसाध्यावस्थापन्नक्रिययैव भेदेनान्वय इत्याशयः । ननु 'अनुकूलव्यापारात्मकस्य कर्तृत्वस्यैवाख्यातार्थत्वात्' इति पूर्वोत्तयनुसारं 'लः क- र्मणि०' इत्यत्र 'कर्तरि'पदप्रतिपाद्यस्य कर्तृत्वस्य व्यापार एवाथों यदि स्वीक्रियते तहिं 'कर्तरि कृत्' इतिसूत्रेपि कर्तृत्वस्य स एवार्थः स्यात, कर्तरीत्यस्य तत एवानुवृत्तेरिति शङ्कायामाह। अत एव कर्तरि०। अयं भाव :- कर्तरि कृदित्यत्र व्यापारविशिष्टे (व्यापाराश्रये) लोकप्रसिद्धे कर्त्येंव कर्तृत्वस्य शक्तिः । ल: कर्मणीति सूत्रे तु कर्तृपदस्य कतरि विशेषणीभूते व्यापारे शक्तिः। यदि हि लः कर्मणीत्यत्र अनुवृत्ति दृष्टा 'कर्तरि कृत' अत्रापि कर्तृपदस्य व्यापारे एव शक्ति: सवीक्रियेत तहिं 'कर्तरि कृत' अर्थात् कर्तरि व्यापारे कृत्प्रत्यया भवन्तीति सामान्यतः कृत्प्रत्ययानां व्यापारे (भावे) विधाने सिद्धे 'भावे' इति सूत्रेण घनादिप्रत्ययानां भावे विधानं व्यर्थ स्यात्। अतः कर्तरि कृदित्यत्र कर्तृत्वस्य व्यापारविशिष्टे एव शक्तिरित्याशयः ।

Page 455

उत्प्रेक्षा ] रसगङ्गाघर:। ३९५

नामार्थेऽन्वयः । अत एव च 'कर्तरि कृत्' इत्यनेन विशिष्टशक्तिबोधकेन न घवादिषु भावग्रहणस्य विशेषणशक्तिवोधकस्य गतार्थत्वम्। शब्दानु- वृत्तिपक्षस्वीकाराच् 'कर्तरि कृत्' इत्यत्र धर्मिपरस्यापि कर्तृग्रहणस्य 'ल: कर्मणि-' इत्यत्र धर्मपरतायामपि न दोषः । यद्ा आस्तां फलव्यापारौ धातोः, आश्रयश्च तिडोऽर्थः। परं तु देवदत्तः पचमान इत्यादाविव देवदत्त: पचतीत्यादिष्वपि प्रथमान्तार्थ एव तिडर्थस्याभेदेन विशेषणत्वं युक्तम्, न तु भेदेन धात्वर्थभावनायाम्। सर्वजनसिद्धस्योद्दरय विधेयभावस्य भङ्गा- पत्तेः। सत्यां हि गतौ 'प्रत्ययार्थे प्रकृत्यर्थो विशेपणम्' इत्यस्योत्सर्गस्या-

ननु 'कर्तरि कृत्' इत्यतः कर्तरीति 'लः कर्मणि-' इत्यत्रानुवर्तते। तत्र तस्यानुकूलव्या- पारार्थकत्वे कृद्विधायकेऽपि तर्थेव स्यात्। पाचको देवदत्त इत्यादो सामानाधिकर- ध्यनिर्वाहस्तु लक्षणयेत्याशङ्कापनोदायाह-अत एवेति। तथा सति भावे इति पदं घजादिविधायकस्थं व्यर्थ स्यात्, अधिकारसूत्रस्थकर्तरीलयनेनेव सिद्धरिति भावः। नन्वेवं लकारविधायकेऽपि तदर्थकत्वापत्तिरत आह-शब्दानुवृत्तीति । चस्तर्थे। शब्दाधिकारस्वीकारजगौरवादाह-यद्दति । तिडर्थस्य कर्तुः। अे- देनेति। सामान्यविशेषयोरभेदान्वयादिति भावः । भङ्गापत्तेरिति । एकपदोप- स्थाप्ययोस्तत्त्वे एकप्रसरताभङ्गापनरिति भावः । युक्तन्तरमाह-सत्यां हीति। विशेषणमिति। प्रकृतिप्रत्ययौ सहार्थ त्रूतः । तयोः प्रत्ययार्थस्य प्राधान्यमिति व्युन्प-

१ अर्थात् क्तरि कृदित्यतः 'कर्तरि' इति पदमात्रस्यानुवृत्तिः । अनुवृत्तस्य तस्यार्थस्तु पृथगित्याशयः । २ पूर्वस्मिन् पक्षे व्यापारस्तिडर्थः, फलमात्रं धातोरर्थः । इदानी पक्षान्तरमाह। यद्वेति०- ३ अर्थात् तिडर्थस्य कर्तुः प्रथमान्ते विशेष्ये (तमत्ति ) विशेषणत्वं युक्तम्, न तु भाव- नायाम् (व्यापारं प्रति) कर्तुर्विशेषणतवम्। धात्वर्थमुख्यविशेष्यकः शाब्दबोधो नोचित इत्या- शयः । ततश्च 'तमः लिम्पतीव, लेपनकर्तृ इव (लेपनानुकूरुव्यापाराश्रय इव)' इति कर्तृत्व- स्ये वरोत्प्रेक्षणं प्रतिपादं न तु लेपनस्योत्प्रेक्षणम्। ४ देवदत्तः पचतीत्यत्र देवदत्तमुद्दिश्य पाककर्तृत्वं विवीयते। 'तमो लिन्पतीव' अत्रापि प्रथमान्तार्थ: (तमः) उद्देश्यम्, लिम्पतीति क्रियापदार्थो विधेयः । एवं च तिङ्वाच्यस्य कर्तु- रेव प्राधान्यं स्वीकार्य न व्यापारस्येति भावः । ५ प्रत्ययस्य तिङः अर्थे (कर्तरि) प्रकृतेः (घातोः) अर्थो व्यापारः विशेषणम्। ततश्च प्रथमान्तविशेष्यकशाब्दबोवे एव उक्तव्युत्पत्ते: पालनं भवतीत्याशयः।

Page 456

. १६ काव्यसाला। [ द्वितीयानने-

प्यनुग्रह एव न्याय्य:। 'भावप्रधानमाख्यातम्' इत्यस्य 'भावनार्थको धातुः' इत्यर्थकरणान्न विरोधः। न च वैयाकरणमतविरोधो दूषणमिति वाच्यम्, स्वतत्रत्वेनालंकारिकतत्रस्य तद्विरोधस्यादूषणत्वात्। प्रपञ्न्यिष्यते चैत- दृधिकमुपरिष्ठादिति प्रकृतमनुसरामः । एवं च 'लिम्पतीव-' इत्यादौ भेदेनाभेदेन वा तिडर्थस्यैव प्रथमा- न्तार्थ एवोत्प्रेक्षणम्। न तु धात्वर्थस्य स्वनिगीर्णे व्यापनादौ, सर्वजन- सिद्धाया ईवार्थस्य विधेयताया अनुपपत्तेः। तमःकेर्तृकं लेपनमिवेत्यस्मादपि

त्तेरिति भावः । प्राग्वदत्रापि मते निरुक्तविरोधं प्रकारान्तरेण परिहरति-भावेति। पूर्वमाख्यातपदेन तिड् ग्रहीतः, इदानीं धातुरिति विशेषः। ननु वैयाकरणमतरीत्या तथा प्रागुक्तमिति तद्विरोधोऽत आह-न चेति। पूर्वमतेनाह-भेदेनेति। द्विती- यमतेनाह-अभेदेनेति। क्रमेणैव द्वयव्यवच्छेद्यमाह-न त्विति। इवार्थस्य विधेयताया इति । विषयनिष्ठोद्देश्यतानिरूपितमिवार्थसंभावनाविषयिणो लेपनादे: प्रतीयमानं यद्विधेयत्वं तस्य भङ्गापत्तरित्यर्थः । विषयस्य विषयिवाचकेन तव मते निगीर्णब्वादिति भावः । ननु निगीर्णमेव गृहीत्वा तदभङ्गोऽत आह-तम इति।

१ प्रथमान्तार्थे तमसि लेपनकर्तृत्वस्य धर्मस्य समत्रायेन (भेदेन) संभावनम् (उत्प्रेक्षणम्) इति प्रथमे मते तिडर्थस्य कर्तृत्वस्य (धर्मस्य) भेदेनोत्प्रेक्षणम्। < प्रथमान्तार्थे तमसि लेपनकर्तुः (लेपनकर्तृत्वस्य) तादात्म्येन [ तमः लेपनकर्तृ इव ] उत्प्रेक्षणमिति द्वितीयमते अभेदेनोत्प्रेक्षणमित्याशयः । ३ इवार्थस्य अर्थात् संभावनायाः [वास्तवे तु संभावनाविषयिणो लिम्पतीत्यादिक्रिया- र्थस्य ] विधेयताया अनुपपत्तिः । अयं भाव :- विषयसुद्दिश्य विपयिणो लिम्पतीत्यादिपदप्रति- पाद्यस्य लेपनादे: इवपदविहिता संभावना (उत्प्रेक्षा) विधेया (तात्पर्यविषया) अन्नास्तीति सार्वजनीनप्रतीतिः । कस्यच्चिद्विधेयत्वं च उद्देश्यं पुरस्कृत्यैव भवति। अत्र तु भवदभिप्रेत- मुद्देश्यं व्यापनं निगीर्णम्। अत एव उद्देश्यवोधकशून्यतया विधेयताया भङ्ग:ः स्याद्। ४ निगीर्णत्वेपि (उद्देश्यबोधवशून्यत्वेपि) विधेयताप्रतीतिस्वीकारे 'तमःकर्तृकं लेपन- मिव' इति वाक्यादपि विधेयताप्रतीतिः स्वीकार्या आपध्ेतेत्याशयः ।

Page 457

उत्प्रेक्षा ] रसगज्जाघर: । ३९७

उद्देश्यवोधकशून्यवाक्यादुत्प्रेक्षाप्रतीत्यापच्तेश्च। यंदि च विषयिसंवन्धिना लेपनादिना विषयसंबन्धिनो व्यापनादेर्निमित्ततासंपत्तये स्वताद्रप्यसंपाद्- नेन निगीर्णत्वादनुपात्तविषयत्वमध्यवसानमूलत्वं चोच्यते तदा रूपकेड- व्यनुपात्तविषयत्वमुच्यतामध्यवसानमूलत्वं च । 'लोकान्हन्ति खलो विषम्' इत्यादौ खलसंब्रन्धिनो दुःखदानादेर्विपसंवन्धिहननात्मनाध्यव- सानात्। तस्मान्निमित्तांशेऽतिशयोक्तिरेव। एवम् 'उन्मेषं यो मम न सहते' इत्यत्र लक्ष्मीरूपे विपये लगनहेतुत्वेन हर्ष उत्प्रेक्ष्यते। तत्र साहजिकसंबन्धे तादात्म्येनाध्यवसितं लगनमेव निमित्तम् । तथा-

अनुवादपुरःसरं दोषान्तरमाह-यदि चेति। विषयीति । विषयिणा तमः- संबन्धिनेत्वर्थः । एवं विषयसंबन्धिन इत्यपि व्याख्येयम् । स्वेति। लैपनेतर्थः । रूपकेऽपीति। प्रनिद्वरूपके मुखचन्द्र इल्यादावपीतर्थः । विषयानुपादानेनेति भावः । मूलत्वं च। लोकानिति। इत्यादो तन्मूलतं चोच्यतामित्यर्थः । अत्र हेनुमाह- खलेति। उपसंहरति-तस्मादिति। हेतूत्प्रेक्षायामाह-एवमिति। तत्र तस्या- मुत्प्रेक्षायाम्। संबन्धे शोभासंबन्धे। लगनमेव। हषहेतुकं लगनमित्यर्थः । उदाहरणा- १ ननु अनुपात्तविपयवाचकमदतया उद्देश्यवोधकपदशून्यत्वमिदं कारणवशादस्ति। यतो. हि उत्प्रेक्ष्यमाणं तमःसंबन्धि लेपनं प्रति नमःसंवन्धि व्यापनं निमित्तन् । तादृशनिमित्तता तावन्न प्रतीयते यावत् (व्यापनस्य) स्व( लेपन)तादात्म्यं न भवति। लेपनतादात्म्यं च व्यापनस्य निगीर्णत्वे एव संपद्यते। ततश्चैवंभूतनिमित्ततासंपत्तये सेयमनुपात्तविषयता, अध्य- वसान(विषयस्य विषयिरूपतया आहार्यनिश्चय)मूलता चास्तीति पूर्वपक्षिणः उक्तौ आह- यदि चेत्यादि०-अर्थात् नेदं वक्तुं शक्यते। रूपकेऽ्येवमापत्तेः । यतो हि खलसंबन्धिदुःख- दानादि: विषय एव विषसंबन्धिहननरूपविषयितयाऽध्यवसीयते। एवं प्रसिद्धरूपके मुख- चन्द्र इत्यादौ मुखसंबन्ध्याह्लादकत्वादिर्गुणः चन्द्रसंबन्ध्याह्लादकत्वेनाध्यवसीयते। तथा च रूपकेपि अनुपात्तविषयत्वमध्यवसानमूलत्वं च स्वीकार्य स्याद्। २ अर्थात् लिम्पतीव० इत्यादौ तमसि लेपनकर्तृत्वस्यैव भेदेन अभेदेन वा उत्प्रेक्षणं स्वीका- र्यम्, न व्यापने लेपनस्य। परं लेपनकर्तृत्वस्य संभावनायां यदिदमङ्गकर्मकं व्यापनं निमित्तं तदिह नोपात्तम्। अपि तु लेपनरूपेण विषयिणा निगीर्णम्, अतो निमिच्तांशे अतिशयोक्तिरेव, नोत्प्रेक्षा। इदमिह तत्त्वम्-प्राचीनैः स्वरूपोत्प्रेक्षायां ये व्यापनलेपने उत्प्रेक्षाया विषय-विष- यितया स्वीकृते ते वास्तवे विषयविषयिणोः (तमो-लेपनकर्तृत्वयोः) धर्मों न तु स्वयं विषय- विषयिणौ। अतस्तदंशे अतिशयोक्तिरेव, नोत्मेक्षा। ३ अर्थात् अत्र हर्षहेतुकेन पादाधिकरणकलगनेन स्वाभाविको रक्तिमसंबन्धो निगीर्णतया निह्ुत इति निमित्तविषये अतिशयोक्तिरेवेत्याशयः। ३४ रस०

Page 458

३९८ काव्यमाला। [द्वितीयानने-

'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं सया नूपुरमेकमुर्व्याम् ! अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्।।' अन्रापि मौनहेतुत्वेन नूपुरे विश्रलेषदुःखमुत्प्रेक्ष्यते। तत्र निश्चलत्वनि- मित्तकनिःशब्दत्वाध्यवसितं मौनं निमित्तम्, विश्रेषदुःखसमानाधिकर- णत्वे सति नूपुरवृत्तित्वात्। न तु निश्चलत्वनिमित्तके निःशब्दत्वे विषये विश्लेषदुःखहेतुकमौनमभेदेन। उत्प्रेक्षायामिवशब्दान्वितस्योत्प्रेक्ष्यताया उत्सर्गसिद्धत्वात्। विषयस्य निगीर्णतया विषयिणो विधेयत्वानुपपत्तेश्च। निमित्तान्तरगवेषणापत्तेश्र। यद्यप्येककालप्रभवत्वादिरस्ति साधारणो धर्मो निमित्तम्। तथापि तस्याचमत्कारित्वादुपमायामिवोत्प्रेक्षायामप्य- प्रयोजकत्वात्। एवं फलोत्प्रेक्षायामपि बोध्यम्। एतेन 'यद्वा हेतुफल-

नतरमाह-तथेति। सैषेति। लङ्गात अयोध्यागमनावसरे सीतां प्रति श्रीरामचन्द्रो- किः। भ्रष्टमिति। पतितमित्यर्थः । तवेति शेषः । मौनं द्विविधम्-निश्चलत्हेतुकं दुःखहेतुकं च। तयोरभेदमाह-तत्रति। निःशब्दत्वाध्यवसितमिति । निः- शब्दले तादात्म्येनाध्यवसितमित्यर्थः । तस्योभयनिष्ठत्वमाह-विश्लेषेति । नन्वा- काह्कादिना तन्नैवान्वयोऽस्तु, अत आह-विषयेति। ननु निगीर्णमादायैव तदत आह-निमित्तान्तरेति। उत्प्रेक्षेतीत्यस्य यदुक्तमित्यत्रान्वयः। द्रविडश्रेष्ठनाप्पयदी- १ तत्र (विश्रेषदुःखे) निश्चलतायाः कारणेन यन्निःशब्दत्वं तत् निमित्तम्, किन्तु तत् (निःशब्दत्वम्) निगीर्य तत्स्थाने मौनमुपात्तमिति निमित्तांशे सेयमतिशयोक्तिरिति पूर्ववदत्रापि स्वीकार्यमित्याशयः । - २ अर्थात विषयिणः (मौनस्य). विघेयतोपपादनाय उद्देश्यस्य (विषयस्य) पूर्वनिर्देश आवश्यकः । उद्देश्यम् (विषयवाचकं निःशब्दत्वादि) तु त्वन्मते निगीर्णमत एव विधेयता-

३ मौने यहुःखं हेतुरुत्प्रेक्ष्यते तत्र निश्चलताहेतुकं निःशब्दत्वं निमित्तम् । तद्धि निःश- व्दत्म् (यन्निगीर्णम्) सांप्रतं भवता उत्प्रेक्षाया विषयत्वेनोपादीयते। ततश्च उत्प्रेक्षायामेत- दतिरिक्ततं कि्विदन्यन्निमित्तमन्वेषणीयं स्यात्। यतो हि प्राचीनानां मते एवंविधस्थले सर्वदैव निमित्तमनुपात्तमेव संभवेत्। ४ यस्मिन् काले विश्रेषस्तस्मिन् काले एव नूपुरस्य दुःखहेतुकं मौनम्, निश्चलत्वहेतुकं निःशब्दत्वं च भवति। अत एव तदिदं (समानकालप्रभवत्वम्) निमित्तमादाय निःशब्दत्वे विषये (निगीणे)मौनस्याडमेदेन संभावनापि नोपपादयितुं शक्या, एककालप्रभवत्वस्याSच- मत्कारित्वात्। उपमायां यथा चमत्कारिण एव धर्मत्वं तथात्रापीत्यर्थः ।

Page 459

उत्प्रेक्षा ] रसगङ्गाघर:। ३९९

धर्मस्वरूपोत्प्रेक्षोदाहरणेष्वपि तादात्म्येनैवोत्प्रेक्षा' इति प्राचा मतमनुसरता द्रविडपुंगवेन यदुक्त्ं तदपि परास्तम् । अलंकारसर्वस्वकृता तावदुत्प्रेक्षाया लक्षणमित्यं निगदितम्-"विष- यिनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः। स च द्विविध :- सिद्धः, साध्यञ् । तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्ये उत्प्रेक्षा इति ।" अस्यार्थ :- सिद्धत्वं निगीर्णविपयत्वम्। साध्यत्वं च निगीर्यमाणविषय- त्वम्। यत्र हि सिद्धत्वं तत्राध्यवसितप्राधान्यम्-यथातिशयोक्त्यादौ। यत्र साध्यत्वं तन्र व्यापारस्याध्यवसानक्रियायाः आधान्ये उत्प्रेक्षा इति। एवमभेदैगर्भमुत्प्रेक्षालक्षणं विधाय "'सैपा स्थली यत्र' इत्यत्र नूपुरगतस्य मौनित्वस्य हेतुत्वेन दुःखं गुण उत्प्रेक्ष्यते। तत्र मौनित्वमेव नपुरगतनिः- शब्दत्वाभेदेनाध्यवसितं निमित्तम्।" इत्युक्तम्। एवं 'यत्र धर्म एव धर्मि- गतत्वेन' इत्यादिना धर्मोत्प्रेक्षाप्रसङ्गे "लिम्पतीव तमोऽ्ङ्गानि इत्यत्र लेप- नक्रियाकर्तृत्वोत्प्रेक्षणे व्यापनादि निमित्तम् ।" इत्युक्तम्। तदेतत्सर्व परस्परविरुद्धम्। नहि दुःखगुणोत्प्रेक्षायामभेद्गर्भोऽध्यवसायोऽस्ति । मौनांशे सन्नप्यध्यवसायः सिद्धत्वादतिशयोक्तेरेव विषयो भवितुमर्हति,

क्षितेनेत्यर्थः । अर्वाचां मतमाह-अलंकारेति। तत्र तयोमध्ये। एवमग्रेऽपि। तन्र दुःखरूपगुणोत्प्रेक्षायाम्। अध्यवसाय इति। निःशब्दलाभेदेल्यादिः । अध्यवसा-

१ युङ्गवपदस्य वाच्यं श्रष्ठत्वं यथा प्रतीयते तथा ध्वन्यमान आक्षेपार्थोडपि न विस्मरणीयः । २ अयमाशय :- अतिशयोत्तयादौ विषयी चन्द्रादिरेव विषय( मुखादि)तया अध्यवसित इति तत्र विषचिण: (उपमानस्य) प्राधान्यम्। यथा-'चन्द्रे इन्दीवरद्वयम्' इत्यतिशयोक्तौ। यत्र साध्यत्वन् अर्थात् अध्यवसानं सिद्ध नाऽभवत् किन्तु साध्यम् [सिद्धत्वाय विषयनिगरण- क्रिया प्रवर्तनाना ] तन्र तादृशक्रियायाः प्राधान्यम्। अत एव हि तत्र विषयस्य विषयिणि निगरणं न सिद्धमुपलभ्यते, अर्थात् विषयवाचकपदस्य पृथगुपलम्भो भवति। यथा-'मन्ये मुखं चन्द्रः' इत्युत्प्रेक्षायाम्। ३ द्वयोरनयोरलंकारयोर्मेंदेऽपि अध्यवसायः उभयत्र परिगृहीतः । अध्यवसायगमें च अमेदप्रतिपत्तिरनुप्रविष्ा [ 'विषयनिगरणेनामेदप्रतिपत्तिरविषयिणोऽव्यवसायः' इति पूर्वमुक्त लात]। अत एवोत्प्रेक्षालक्षणममेदगर्भम्।

Page 460

४०० काव्यमाला। [ द्वितीयानने-

नोत्प्रेक्षायाः। त्वन्मते मौनस्य निमिच्तत्वेनातुत्प्रेक्ष्यत्वाच। एवं 'लिम्प- तीव' इत्यन्न लेपनांशाध्यवसायोऽपि। तस्यापि व्यापनरूपतया स्थितस्य त्वया कर्तृत्वोत्प्रेक्षानिमित्तत्वेनोक्तत्वाच्च। 'व्यापनादौ तृत्प्रेक्षाविपये निमि- त्तमन्यदन्वेष्यं स्यात्' इति त्वयैव बाधकोपन्यासात्। निमित्तांशा- ध्यवसानं तूपमादावपि स्थितम्। किं च, 'नूनं मुखं चन्द्रः' इत्यादौ कुत्राध्यवसायः, विपयस्य जागरूकत्वात्। न च सिद्धेऽध्यवसाये विष- यस्य जठरवर्तित्वम्, साध्ये तु निगीर्यमाणत्वात्पृथगुपलन्धिरिति वाच्यम्, साध्याध्यवसाने मानाभावात्। अन्यथा रूपकादेरप्यध्यवसानगर्भत्वापत्तेः। किं च, अध्यवसानं लक्षणाभेदः। न चात्र विधेयांशे लक्षणासिति। अभेदा-

योऽपीति। सिद्धत्वादित्याद्यहेतीत्यन्तानुषङ्गः। प्राग्वदाह-तस्यापीति । ननु मया तथोक्तमपि नेदं खण्डितमित्युपलक्षणत्वेनोह्यमत आह-व्यापनादाविति । इदम- न्यत्रापि दृष्टमित्याह-निमित्तांशेति। लक्षणाभेद इति। साध्यवसाना सारोपा

१ 'मौनित्वमेव नपुरगतनिःशब्दत्वाSभेदेनाध्यवसितं निमित्तम्' इति पूर्वं मौनस्य निमि- ततत्वमुक्तम्। ततश्च एतन्मौनं नोत्पेक्ष्यं भवितुमहति। भवन्मते तु यस्योत्प्रेक्षा तत्रैव अभेदप्रति- पत्तिरावश्यकीति स्पष्टमसंगतिः । २ उत्प्रेक्षायामिवशब्दान्वित एव स्वभावतः उत्प्रेक्ष्यो भवति, ततश्च 'लिम्पतीव' इत्युक्त्या तमसि लेपनकर्तृत्वस्योत्प्रेक्षा। न तु व्यापने (विषये) लेपनस्योत्प्रेक्षा। लेपने व्यापनस्याध्य- वसायस्तु सिद्धः न साध्यः, अत एव न विधेयः । ततश्च सोयमतिशयोक्तेरेव विषयः । तदिदं व्यापनरूपतया स्थितं लेपनं तु तमसि लेपनकर्तृत्वोत्प्रेक्षायां निमित्तम्। अत एव नोत्प्रेक्ष्यम्, इदं व्यापनादि यदि उत्प्रेक्षायाम् विषयत्वेन परिगृह्यत तहिं लेपनकर्तृत्वोतप्रेक्षायां निमित्तम- न्यदन्वेषणीयं स्यादू। अयं भाव :- नूपुरे दुःखस्योत्प्रेक्षायाम्, तमसि लेपनकर्तृत्वस्योत्प्रेक्षायां वाडभेदोऽध्यवसानं वा नास्ति। निमित्तांशे [ मौने, लेपने वा] यदध्यवसानं तत्तु अतिशयोक्तेर्विषयः, नोत्प्रे- क्षायाः। अत एव सर्वमिदं विरुद्धमित्याशयः । ३ 'मुखं चन्द्र इवाह्लादयति' अत्र निमित्तमाह्लादकत्वं चन्द्रे मुखे च भिन्नं भिन्नम्, तथापि द्योस्तयो: केनच्ित्सादृश्ये नैक्यं संपाद समानधर्मत्वं तस्योपपा्दं भवतीत्याशयः । ४ विषयवाचकपदस्य पृथगुपलब्धावपि यदि साध्यमध्यवसानं स्वीक्रियेत तर्हिं 'मुखं चन्द्रः' इति रूपकेपि तत्प्रसक्ति: ।

Page 461

उत्प्रेक्षा ] रसगङ्गाघर:। ४०१

दिसंसर्गैराहार्यवोधस्यैव स्वीकारात्। तस्मात्प्राचीनानामाधुनिकानां चोक्तयो न क्षोदक्षमाः । एवं प्राप्ते ब्रूम :- तत्र तावद्वर्म्युत्प्रेक्षानिष्कर्पः प्राचीनमतपरीक्षावसरे कृत एव । हेतूत्प्रेक्षायां पञ्चम्यर्थो हेतुः, अभेदश्र प्रकृतिप्रत्ययार्थयोः संसर्ग इति पक्षे विश्रेपदुःखाभिन्नहेतुः पञ्चम्यन्तार्थः । तस्य च प्रयोज्य- तासंसर्गेणोत्प्रेक्षणमिवादिना वोध्यते। प्रयोज्यत्वं पञ्चम्यर्थ इति दर्शने निरूपितत्वं प्रकृतिप्रत्ययार्थयोः संसर्गः । आश्रयतासंसर्गेण चोत्प्रेक्ष- णँम्। उभयथापि पञ्चम्यर्थ एवोत्प्रेक्ष्यः, तेनैवेवाद्यर्थान्वयात्। उत्प्रेक्ष्य- तावच्छेदकसंवन्धेनोत्प्रेक्ष्यसमानाधिकरणश्च धर्मोSतिशयोक्त्या मौनाभि- न्नत्वेनाध्यवसितनिश्चलत्वादिर्निमित्तम्। बद्धमौनं च विषयः । मौनद्वारकं

चेति भेदकरणादिति भावः । अत्र उत्प्रेक्षायाम्। परीक्षेति। विचारेत्यर्थः । उत्प्रे- क्ष्यतावच्छेदकसंवन्धेनेति। स च प्रयोज्यलादिः। आदिना निःशब्दलपरिग्रहः । १ उत्प्रेक्षायाम् अभेद-समवायादिसंसर्ग: आहार्य: (काल्पनिकः ) बोध एव सर्वातुमतः, न लक्षणा। २ अर्थात्तत्र अभेदसंबन्धेनोत्प्रेक्षेति सर्वेषां मतेनापि निर्विवादम्। ३ विश्रेषदुःखाभिन्नो यो हेतुस्तत्प्रयोज्यमिव मौनं नूपुरस्वेत्यर्थः । ततश्च-[ हेतुः पद्नम्यर्थ इति पक्षे ] त्वच्चरणविश्रेषदुःखाभिन्नहेतुप्रयोज्य(मौन)संभावनाविषयः मत्कर्तकानदयतन- भूतकालिकदर्शनानुकूलव्यापारप्रयोज्यफलाश्रयो नूपुरः इति वोधः । (विश्रेषदुःखादिवेत्यु- कावपि अनेन प्रकारेण उत्प्रेक्ष्यतया दुःखस्यान्वयो न प्रतीयत इति विचार्यमेव)। ४ ततश्च-[प्रयोज्यत्वं पञ्चन्यर्थ इति पक्षे ] विश्रेषदुःखनिरूपितप्रयोज्यताश्रय(मौन)- संभावनाविषयो नूपुर इति बोधः । ५ अयमाशय :- पञ्चम्यर्थः [ प्रयोज्यत्वं हेतुर्वा ] यदा उत्प्रेक्ष्यस्तदा उत्मेक्ष्यतावच्छेदक- संबन्ध: प्रयोज्यत्वम् आश्रयता वा स्यात्। यतो हि निमित्तभूतस्य धर्मस्य हेतुना स एव संबन्धो भवति यो हेतोरुत्प्रेक्षया भवति। ततश्च प्रयोज्यतासंबन्धेन (पक्षान्तरे-आश्रयतासंब- न्वेन) उत्प्रेक्ष्यस्य हेतोः (विश्रेषदुःखस्य) समानाधिकरणः अर्थात् मकाश्रयः (सहवासी) यो धर्म: निश्चलत्वहेतुकनिःशब्दत्वम् (यो हि अतिशयोक्या मौनाभिन्नत्वेनाध्यवसितः) स चोत्प्रेक्षायां निमित्तम्। ६ बद्धमौनं वस्तु (नूपुरम्) विषयः (उत्प्रेक्षाया इत्यर्थः ) । ७ मौनद्वारा मौनेन निमित्तेन बद्धमौनस्य (नूपुरस्य) प्रयोज्यत्वं (सिद्धत्वम्) संभाव्यते उत्प्रेक्ष्यते। अर्थात् दुःखरूपेण हेतुना प्रथमं मौनसुत्प्रेक्ष्यते, ततो मौनेन हेतुना (निमित्तेन) मौनयुक्तस्य (पदार्थस्य नूपुरस्य) सिद्धत्वं संभाव्यते।

Page 462

४०२ काव्यमाला। [ द्वितीयानने-

च बद्धमौनस्य प्रयोज्यत्वं संभाव्यते। एवं प्रयोज्यधर्मके धर्मिणि सर्व- तापि धर्मद्वारक एव पञ्चम्यर्थान्वयः । यत्र तु धर्म एव किंचिद्धर्माभिन्न- त्वेनाध्यवसितः साक्षाद्विपयस्तत्र विषयतावच्छेदकधर्मो निमित्तम्। यथा तत्रैव 'विश्लेषदुःखादिव मौनमस्य' इति निर्माणे मौनत्वम्। एवं तृती- यार्थेऽपि बोध्यम्। फलोत्प्रेक्षायां तुमुन्नादेरर्थः फलम्। प्राग्वत्प्रकृत्यर्थप्रत्ययार्थयोरभेदः सं- सर्गः। तच्च साधनतासंसर्गेणान्वेतीति तेनैव संसर्गेणोत्प्रेक्ष्यैते, यत्र चोलगर- क्ष्यते तदंशे विशेषणतया भासमानो धर्मो निमित्तम्। स च धर्मिणि विषये अभिन्नत्वेनाध्यवसितो धर्मः, तथाभूते च धर्मे विषये तद्विशेषणीभूतोऽन्ये

तृतीयार्थेपीति। हेताविति शेषः । प्राग्वत् प्रागुक्तप्रथमपक्षवत्। तच्च फलं च। तथाभूते च विषयतावच्छेदकधर्माभिन्नलेनाध्यवसिते च। तद्विशषेति। विषयताव- १ यस्य धर्म: उत्प्रेक्षया प्रयोज्यः (यथात्र निःशब्दत्वाभिन्नत्वेनाध्यवसितं मौनं पूर्व संभाव्यते) एवंविधे धर्मिणि (यथात्र बद्धमौने नूपुरे) पश्चम्यर्थस्य हेतोरन्वयः धर्म (मौन)- द्वारा भवति। उत्प्रेक्ष्यस्य हेतोः पूर्व धर्मेऽन्वयः, ततस्तादृशधर्मस्य धर्मिण्यन्वय इत्यर्थः । २ अत्र हि उत्प्रेक्ष्यस्य हेतोः (दुःखस्य) अन्वयः साक्षात् धर्मे (मौने) भवति, अत मवात्र उत्प्रेक्षाया निमित्तं विषयः मौनं तदवच्छेदकधर्मः मौनत्वं भवतीत्याशयः । ३ ततश्च अक्षरदर्शनाभिन्नफलसाधनताप्रयोजक(ललाटचर्मविपाटन)संभावनाविषयाः ललाट- चर्मविपाटनानुकूलकृत्याश्रयाः वनान्ता इति बोधः । ४ यत्र अंशे फलोत्प्रेक्षा भवति तस्मिन् (अंशे) विषयस्य विशेषणतया भासमानो धर्मों निमित्तम्। यथा-चोलस्येति पद्ये वनान्तानाम् (विषयभूतानाम्) ललाटत्वग्विपाटनरूपं विशेषणं 'द्रष्टमिव' इति फलोत्प्रेक्षाया निमित्तम्। ५ अयं भाव :- हेतूत्प्रेक्षावत् फलोत्प्रेक्षायामपि धर्मी धर्मश्चेत्युभयमपि उत्प्रेक्षाया विषयो भवति। यत्र धर्मी विषयो भवति तन्र विषयिणो धर्मस्य अभिन्नत्वेनाध्यवसित: विषयस्य धर्मों निमित्तम्। यथा-'द्रष्टुमिवाक्षराणि' अन्र वनान्तेषु ललाटाक्षरदर्शनं फलमुत्प्रेक्ष्यते। तथा च- वनान्ता इति धर्मी विषयः, अक्षरदर्शनं विषयि, वनान्तस्य (विषयस्य) धर्मः स्वभावतो लला- टत्वग्विपाटनम्। अक्षरदर्शनस्य (विषयिणः) धर्मः अक्षरदर्शनफलकं त्यग्विपाटनम्। अत्र हि साहजिकं विपाटनम् अक्षरदर्शनफलकविपाटनादभिन्नत्वेनाऽध्यवसितम्, तदेव चात्रोत्मे- क्षाया निमित्तम्। यत्र तु फलोत्प्रेक्षायां धमों विषयः स्यात्तत्र विषयस्य विशेषणीभूतोऽन्यो धर्म: (अर्थात् अवच्छेदकधर्मः, यथा हेतूत्प्रेक्षायां 'मौनमस्य' इति पाठे मौनत्वम्) निमित्तम्।

Page 463

उत्प्रेक्षा ] रसगङ्गाघर: । ४०३

इति विवेकः। एवं चं यत्र समासप्रत्ययगुणीभूते विषये हेतुफलान्वयो न साक्षात्संभवति तत्र प्रधान एव विपये तादशविशेषणद्वारकप्रयोज्यत्व- प्रयोजकत्वाभ्यां संसर्गाभ्यां हेतुफलयोरुत्प्रेक्षा वोध्या। यद्यपि विशेषणे- डपि यथाकरथंचिद्वेतुफलयोरन्वयाद्विशेपणस्यापि विषयत्वमुचितम्। तथापि विषयविपयिणोरुद्देश्यविधेयभावप्रत्ययस्यानुरोधादियं सरणिराश्रिता। यदि च तस्य नास्त्येवानुरोधस्तदा प्राचां दर्शनमेव रमणीयं स्यात्। किं च प्राचां मते हेतुफलोत्प्रेक्षास्थले तद्धेतुकतत्कलकयोः कार्यकारण- योरेव निगीर्णे विषये उत्प्रेक्षणात्स्वरूपस्योत्प्रेक्षायामेव पर्यवसानम्, न हेतु- फलयोः। एवं च विभागश्चिरंतनानामुच्छिन्नः स्ात्। अथ स्वरूपतादात्म्या- विशेपेऽपि हेतुफलाविशेषणकशुद्धस्वरूपोत्प्रेक्षाया हेतुफलविशेषणकस्वरू- पोत्प्रेक्षायामस्ति हेतुफलकृत एव भेद इति चेत् 'तनयमैनाकगवेषणलम्वी- कृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरध्याः सखी'

च्छेदकधर्म इत्यर्थः । समासेति। समास प्रत्ययाभ्यां गुणीभूते इत्यर्थः । यथाकथंचि- द्वेतुफलयोरिति। 'खर्गो ध्वस्तः' इत्यादाविव, 'नीलरूपवान् जातः' इत्यादाविव चेति भावः । तस्य तयोरुद्देश्यविधेयभावप्रत्ययस्य। ननु त्कोटिप्रविष्टत्वेऽपि तस्य न

१ प्रयोज्यधर्मके धर्मिणि धर्मद्वारको हेतन्वयो यथा पूर्वसुक्तत्तथा समासप्रत्ययगुणीभूते विषये विशेषणद्वारा हेतुफलान्वय इत्याह। एवं चेति०। अयं भाव :- समासादेः कारणात् अन्यपदस्य, प्रत्ययस्य वार्डथों यत्र प्रधानं स्वान् विषयवाचकपदस्यार्थश्च तस्यैकदेशो भवेत्तत्र विषयेण सह हेतुफळयोः साक्षादन्वयो नोपपद्यमानः प्रधानम् (अन्यपदार्थम्, प्रत्ययस्यार्थम्) एव उत्प्रेक्षाया विषयं विदधाति। विषयतायोग्यं तद्विशेषणं च द्वारीकृत्य प्रयोज्यतासंसगेंण हेतोः, प्रयोजकतासंसर्गेण च फलस्योत्प्रेक्षा भवति। २ विषयस्योद्देश्यत्वं विषयिणश्च विधेयत्वं प्रतीयते, न तदेकदेशयोः (विशेषणयोः) इत्यनुरोधादित्याशयः । ३ सः (वर्ण्यमान:) हेतुः यस्य (कार्यस्य), तत् (वर्ण्यमानम्) फलं यस्य (कार- णस्य), तयोरेव निगीणें (अध्यवसिते) विषये उत्प्रेक्षणात। यथा-सैषा स्थलीति हेतूत्प्रेक्षायाँ हेतो: (विक्रेषदुःखस्य) नूपुरे (विषये) नोत्प्रेक्षा स्वीक्रियते प्राचीनैः, अपि तु विश्रेषदुःखस्य कार्यभूते (निगीणे) निःशब्दत्वे मौनस्य (विश्रेषदुःखरूपहेतोः कार्यभूतस्य) । एवं फलो- त्प्रेक्षायामपि। ततश्च सेयं स्वरूपोत्पेक्षेव परिणमेदित्याशयः ।

Page 464

४०४ काव्यमाला [ द्वितीयानने-

इति प्रागुदाहनायां स्वरूपोत्प्रेक्षायां तनयमैनाकगवेषणरपस्य फलस्योत्गे- कष्यविशेषणकोटिप्रविष्वत्वात्फलोत्प्रेक्षात्वापत्तेः, उत्प्रेक्ष्ये साक्षाद्विशेषण- ताया अप्रयोजकैत्वात्। इत्यलं स्वगोत्रकलहेन। उत्प्रेक्षयमाणेष्वपि यस्य विषयिण उत्प्रेक्षा विधेयतया भासते तदीयो- त्प्रेक्षयैव व्यपदेशः, प्राधान्यात्। तेन 'विश्लेषदुःखादिव बद्धमौनम्' इत्यत्र नूपुरगतत्वेन दुःखस्योत्प्रेक्षणेऽपि न तदुत्प्रेक्षया व्यपदेशो न्याय्यः, तस्या अङ्गत्वेनानुवाद्यत्वात्। किं तु पञ्चम्यर्थोत्प्रेक्षया, तस्या एव इव- शब्दवेद्यत्वेन विधेयत्वात्। तथा 'चोलस्य' इति पद्येपि वनान्तगतत्वेन न ललाटाक्षरदर्शनोत्प्रेक्षयापि, अपि तु तुमुन्नर्थोत्प्रेक्षया। एवं 'तनयमैनाक-' इत्यादिगद्ये न फलोत्प्रेक्षया व्यपदेशः। नापि 'कलिन्दजानीरभरेऽर्घमआा' इत्यत्र शशिकिशोरतादात्म्योत्प्रेक्षया, तदुत्थापितया ध्वान्तकर्तृकवैरहेतुक- निगरणकर्मतादात्म्योत्प्रेक्षया वा, प्रागुक्तादेव हेतोरिति दिक्। द्विविधो हि तावद्धर्मोऽपि-स्वत एव साधारणः, साधारणीकरणो-

तत्र साक्षाद्विशेषणतमत आह-उत्प्रेक्ष्ये इति। 'यस्य विषयिणः' इति पाठः । तस्या नूपुरगतदुःखोत्प्रेक्षायाः। पञ्चम्यर्थत्प्रक्षयेति । व्यपदेश इत्यस्यानुषङ्गः । एवमग्रेऽपि। प्रागुक्तादेवेति। अङ्गलेनानुवाद्यत्वादित्यस्मादेवेत्यर्थः । द्विविधो हीति। हि यतः सत एवेत्यादि द्वैविध्यं प्राप्तोऽतस्तावद्धर्मोऽपि द्विविध इत्यर्थः ।

१ अथ स्वरूपतादात्म्येत्यारभ्य अलंपर्यन्तस्य प्रघट्टकस्येदं विशदीकरणम्-ननु प्राचां मते तिसृष्वपि उत्प्रेक्षासु स्वरूपस्यैव तादात्म्यम् (अभेदः) समानम्, अर्थात् सर्वत्रैव अभेदेनो- स्प्रेक्षणं भवतीत्यविशेषात् उत्प्रेक्षाविभागो न सिध्यतीति नायं दोषः। अस्त्येवं विभाग :- हेतुफले यत्र विशेषणीभूते न भवेतामीदृशी स्वरूपोत्प्रेक्षा। यत्र च हेतु-फले विशेषणीभूते, क्रमशस्ते हेतुफलोत्प्रेक्षे इति चेत्, न, तनयमैनाकेत्यादिगदये गङ्गायां भुजस्वरूपोत्प्रेक्षणे तनयमैनाकगवेषणरूपफलस्य विशेषणकोटिप्रविष्टतया सेयमपि फलोत्प्रेक्षात्वेन व्यपदेष्टुमा- पद्येत [फलं यत्र विशेषणीभूतं सा फलोत्प्रेक्षा इति विभाजनात ]। ननु उत्प्रेक्ष्यस्य सुजस्य गवेषणम् (फलम्) साक्षाद्विशेषणं नास्ति। यत्र साक्षाद्विशेषणता तत्रैव फलोत्प्रेक्षात्वम् (एवं हेतावपि ज्ञेयम्)। इति कथनं त्वप्रयोजकम्, अर्थात अत्र अनुकूलस्तकों नास्तीति न किश्चिदेतव। २ उत्प्रेक्षाणां सांकर्ये कया उत्प्रेक्षया व्यपदेश इति प्रवट्टकमारभते-उत्प्रेक्ष्यमाणेष्विति।

Page 465

उत्प्रेक्षा ] रसगङ्गाघर: । ४०५

पायेनासाधारणोऽपि साधारणीकृतञ्च। स चोपायः क्वचिद्रूपकं क्वचिच्छ्रपः क्वचिदपहनुतिः क्वचिद्िम्तप्रतिविम्बभावः क्वचिदुपचार: कचिदभेदाध्यवसायरूपोSतिशयः । यथा- 'नयनेन्दिन्दिरानन्दमन्दिरं मिलदिन्दिरम्। इदमिन्दीवरं मन्ये सुन्दराङि तवाननम् ॥' अत्र प्रथमार्वगतः प्रथमो धर्मो रूपकेण विपयविषयिसाधारणीकृतः । द्वितीयेश्च विलक्षणशोभयोरभेदाध्यवसायेन। केवलशव्दात्मकोऽप्ययं संभवति। 'अङ्गितान्यक्षसंघातैः सरोगाणि सदैव हि। शङ्के पङ्केरुहाणीति शरीराणि शरीरिणाम् ।' अयमुपात्त एव भवति। अर्थमयोऽनुपात्तश्चापि भवति। यथा 'द्विनेत्र इव वासवः' इत्यादौ जगदीश्वरत्वादिः। न चात्र द्विनेत्रत्वादिरूप उपात्त एव साधारणो धर्मः । साधारण्यार्थमेव तस्य विषयिण्यारोपादिति वाच्यम्। तस्यारोपेण साधारणत्वे कृतेSपि असुन्दरत्वेनोत्प्रेक्षोत्थापकत्व्व- विरहात्। साधारणीकरणं तु प्रतिवन्धेकनिरासार्थमित्युक्तमेव ।

इन्दिन्दिरा भ्रमराः। इन्दिरा शोभा। प्रथम इति। नयनेन्दिन्दिरानन्दमन्दिरत्वरूप इत्यर्थः । द्वितीयश्चेति। मिलदिन्दिन्दिरतरूप इतर्थः । सायेनेति। विषयेल्ाद्यनु- षज्यते। अयं केवलशब्दात्मा। अयमिति। प्रागुक्तोऽर्थमय इत्यर्थः । नन्वेवं तस्य साधारणतकरणं व्यर्थमत आह-साधारणीति। निरासार्थमिति। इवशब्दस्य १ अ्रमरानन्दमन्दिरत्वरूपो धर्मः नयनेषु भ्रमरत्वरूपणेन आनने इन्दीवरे च साधारणी- कृत इत्यर्थ: । २ मिलन्ती इन्दिरा (शोभा) यस्मिन्निति द्वितीयो धर्मः वास्तवे भिन्नयोरपि शोभयोः अमे- दाध्यवसायेन (अतिशयेन) विषये मुखे विषयिणि इन्दीवरे च साधारणीकृतः । ३ अक्षसंघाताङ्कितत्व-सरोगत्वे अर्थभेदेऽपि समानानुपूर्वीघटिते, अत एव विषय-विष- यिणो: साधारणधर्मस्थानीये इत्याशयः । ४ द्विनेत्रत्वादयो धर्मा इन्द्रादितादात्म्योत्प्रेक्षाया विरोधिनः [यतो हि द्विनेत्रत्वादीनि वासवादिषु न सन्ति ], अतः विरोधनिवर्तनाथ इन्द्रादिष्वपि आरोपात् द्विनेत्रत्वादिधर्माणां साधारणीकरणमिति पूर्वमुक्तम्।

Page 466

४०६ काव्यमाला। [ द्वितीयानने-

'दृष्टिः संभृतमङ्गला बुधमयी देव त्वदीया सभा काव्यस्याश्रयभूतमास्यमरुणाधारोऽघर: सुन्दरः । क्रोधस्तेशनिभूरनल्पधिषण स्वान्तं तु सोमास्पदं राजन्नूनमनूनविक्रम भवान्सर्वग्रहालम्वनम् ।' अत्रोत्प्रेक्ष्यमाणस्य सर्वग्रहालम्वनस्य धर्मेषु तत्तद्रहाश्रिताङ्गकत्वेपु विशेपणीभूतैस्तत्तद्रहैविषयस्य राज्ञो धर्मेषु कल्याणाश्रयत्वादिषु विशेष- णानां कल्याणादीनां श्रेषेण तादात्म्यसंपादनद्वारा तादशवर्माणां साधा रेणतासंपत्ति: । यथा वा- 'विभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः । कपोलपालिं तव तन्वि मन्ये नरेन्द्रकन्ये दिशमुत्तराख्याम् ॥।'

संभावनार्थकलाय चेत्यपि बोध्यम्। श्ेषोदाहरणमाह-दृष्टिरिति। राजानं प्रति कव्युक्तिः । मङ्गलपदेन भूमिजः शुभं च । वुधः पण्डितः सौम्यश्च। काव्यं पद्यं शुक्रश्च। अरुण: सूर्य आरुण्यं च। शनिरशनिश्च। धिषणो गुरुर्धिषणा वुद्धिश्च। सोमास्पद- मिति। उमया सहितः सोमश्रन्द्रश्च। यद्वा 'चन्द्रमा मनसो जातः' इतिश्रुतेर्जनकतासं- बन्धेन मनसि सोमास्पदत्वमुत्प्रेक्ष्यते। तेन चेश्वरत्मपि व्यङ्ग्यमित्याहुः । पूर्वमुपात्तोदा- हरणं पश्चादनुपात्तोदाहरणमित्यत्र विशेषः । उत्प्रक्षेति । विषयिण इति शेषः । कल्याणेति। कल्याणाश्रिताङ्गकतवादिष्वित्यर्थः । श्लवेषस्यैवोदाहरणान्तरमाह-यथा

१ अत्र हि राजनि (विषये) अभेदसंबन्धेन सर्वग्रहालम्बनस्य (विषयिणः) उत्प्रेक्षा। सर्वग्रहालम्वनस्य (विषयिणः) धर्माः तत्तद्यहाश्रिताङ्गकत्वानि [यथा दृष्टेः संभृतमङ्गल- (भौम)त्वम्, सभाया बुध(बुधग्रह)मयत्वमित्यादीनि ]। एषु धर्मेषु विशेषणीभूतानां तत्त- द्ग्हाणाम् [मङ्गल-बुध-काव्यादीनाम् ] राज्ो धर्मेषु कल्याणाश्रयत्वादिषु विशेषणीभूतैः कल्याणादिभि: सह श्रेषेण (एकपदेन अनेकार्थोपस्थापनरूपेण) तादात्म्यम् (अभेदः) संपा- झते। अत एव तत्तदूयहाश्रिताङ्गकत्वं विषय-विषयिसाधारणधर्मों जात इति तद्द्वारा उत्प्रे- क्षासिद्धिः। अयं भाव :- मङ्गलबुधादिग्रहाणां राश्ो धर्मेषु वस्तुतो यद्यपि न प्रवेशस्तथापि शुभार्थको मङ्गलशब्दः श्रेषद्वारा भौमग्रहार्थकाऽभिन्नो जातः। एवंप्रकारेण विशेषणानाममेदे सति तादृशविशेषणघटितधर्माणाम् (संभृतमङ्गलत्व-बुधमयत्वादीनाम्) अपि अभेदेन साधा

Page 467

उत्प्रेक्षा ] रसगङ्गाघरः । ४०७

इहापि विषयविषयिधर्मविशेषणयोरलकालक्रयोः श्रवणवैश्रवणयोश्च श्लेपेणाभेदे धर्मस्य साधारण्यम्। यथा वा- 'नासत्ययोगो वचनेषु कीर्तो तथार्जुनः कर्मणि चापि धर्मः । चित्ते जगत्प्राणभवो यदास्ते वशवदास्ते किमु पाण्डुपुत्राः ।।' अत्र पाण्डुपुन्रेषु विपयेषु राजवशंवद्तादात्म्योत्प्रेक्षायां राजाश्रितत्व्- रूपो विपयिधर्मः श्ेषेण विषयाणां तदाश्रितानां चासत्याभावशुक्कगुण- पुण्यपरमेश्वराणामभेदसंपादनद्वारा विषयसोधारणीकृतः । 'स्तनान्तर्गतमाणिक्यवपुर्वहिरुपागतम्। मनोऽनुरागि ते तन्वि मन्ये वह्लभमीक्षते।।' अत्र वल्लभेक्षणस्य मनस्युत्प्रेक्षायां तन्निमित्तमन्तःप्रदेशाद्वहिरागमन- मपेक्ष्यम्। तञ्च वहिःप्रदेशसंवन्धरूपं माणिक्यमात्रवृत्ति मनसो न

वेति। अलकः अलका च। श्रवणः कर्णः वैश्रवणः कुबेरश्र। राजकन्यां प्रति कव्यु- किरियम्। प्राग्वदाह-यथा वेति। राजानं प्रत्युक्तिरियम्। नासत्यौ नकुलसह- देवौ असत्याभावश्च। अर्जुनः किरीटी श्वैतं च। धर्मो युविष्ठिरो विध्यर्थश्च। जग- दिति। वायुपुत्रो भीमो हनूमांश्च। यद्वा पश्चम्यर्थबहुव्रीहिणा वायुजनकः परमेश्वरः। राजवशंवदेति। विषयिणो वर्णनीयराजवशंवदा ये राजानस्तत्तादात्म्येत्र्थः । विष- याणां पाण्डुपुन्नाणाम्। तदाश्रितानां चेति। राजाश्रितानां चेल्र्थः। विषयेति। पाण्डपुन्नेत्यर्थः । अपह्वोदाहरणमाह-स्तनेति । स्तनमध्यगतमाणिक्यस्वरूपेण बहि- १ विपय( कपोलपालि)संबन्धिधर्मविशेपणयोः अलक-श्रवणयोः, विषय( उत्तरदिकू)- संबन्धिधर्मविशेषणाभ्याम् अलकापुरी-कुबेराभ्यां सह श्रषेणाडमेदे सिद्धे धर्मस्यापि साधार- गतासिद्धिरित्यर्थः । २ ते (राजः) वशंवदा इति राजाश्रितत्वरूपो विषयिणः (उत्प्रेक्ष्यमाणस्य) धर्मः विषयाणाम् (पाण्डुपुत्राणाम्) साधारणीकृतः । कथम् ? तदाह-विप्याणां पाण्डुपुत्राणाम्, तदाश्रितानां राजाश्रितानां च असत्याभावादीनां क्रेषेण अभेदसंपादनद्वारा। अर्थात् न-असत्यमिति असत्याभाव: नासत्य( नकुलसहदेव)रूपः, अर्जुनः श्वेतः अर्जुनात (पार्थात्) अभिन्नः कृतः । इत्येवमादिना। अत्र 'चित्ते यत् जगत्प्राणभवः आस्ते' इत्यस्य राजपक्षे 'जगतां प्राणभूतः भवः शिवः' इत्यर्थः । 'हनूमान्' इति नागेशटीका तु परमेश्वरार्थ अ्रवतो ग्रन्थकृतो विरुद्धा। चायुजनकः परमेश्वर इत्येपि चङ्गमणमेव।

Page 468

४0८ काव्यमाला। [ द्वितीयानने-

संभवतीति मागिक्यापत्नत्या मनोगतं क्रियते। बिम्बप्रतिबिम्वभावस्तु 'कलिन्दजानीरभरेऽर्धमग्ना' इत्यत्रैव निरूपितः । 'माधुर्यपरमसीमा सारस्वतजलधिमथनसंभूता। पिघतामनल्पसुखदा वसुधायां ननु सुधा कविता॥' अन्र कवितायां माघुर्यपानयोर्मुख्ययोरसंभवादास्वाद्श्रवणयोरसुख्य- योरुपचारेण मुख्याभ्यां साधारणीकरणम्। लक्षणया शक्याभेदेन लक्ष्यबोधेनात्। अभेदाध्यवसायमात्रं यथा प्रागुदाहृतायां हेतूत्प्रेक्षायाम्। 'व्यागु- अ्ञन्मधुकरपुञ्जमञ्नुगीताम्' इत्यत्र शाखानीचत्व-कंधरानमनयोरभेदा- व्यवसाय एव त्रपाहेतूत्प्रेक्षानिमित्ततयोपात्तस्य कंधरानमनस्य नीचशाख- नतकंधरोभयसाधारण्ये वीजम्।

रागतमित्यर्थः । नायिकां प्रति सख्युक्तिः । बिम्बप्रतिबिम्बोदाहरणमाह-बिम्बेति । उपचारोदाहरणमाह-माधुर्येति। राजानं प्रत्युक्तिः। या माधुर्यस्य परमसीमाSडधा- रभूता सारसतरूपसमुद्रमथनजा भुवि तां बहुसुखदां सुधारूपकवितां नतु निश्चयेन पिबे- त्यर्थः। उपचारेण लक्षणया। मुख्याभ्यामिति। सहाभेदसंपादनद्वारा तयोर्धर्मयो- रिति शेष: । ननूपचारेऽमुख्यस्यैव प्रतीत्या मुख्याप्रतीत्या दोषस्तदवस्थ एवात आह- लक्षणयेति। मात्रपदेन पौनरुक्त्यं परिहृतम् । पूर्व रूपकमिश्र उक्त इति भावः ।

१ माणिक्यं वपुः (स्वरूपम्) यस्य, माणिक्यमिषाद्वहिरुपागतमित्याशयः । २ अननिर्माणवक इत्यादौ अग्निरूपमुख्यार्थद्वारा अभनिसदृश इत्यमुख्यार्थ एव लक्षणया प्रतीयते। अत्र तु तद्विपरीतम् अमुख्यार्थ(आस्वाद-श्रवण-)द्वारा मुख्यार्थ(माधुर्य-पान)- बोधनमिति कथमुपपद्येतेति शङ्का। लक्षणया अमुख्यार्थस्य (लक्ष्यस्य) प्रतीति: शक्यार्थाडमेदेन भवति, एवं च मुख्यार्थस्य प्रतीतिरपि न दुःसंभवेति समाधानम्। अत्र पिवतामिति कविसंमतषष्ठयन्तार्थान्वये 'या अस्ति तां पिव' इति अगतिकगतेराक्षेपस्य कल्पना जाह्नवीजलेऽवकरप्रक्षेप इव नागेशमहाभागस्येति प्रशस्यतां साहित्याक्रमणपराक्रमन- ऋत्वममुष्येत्यलम्। ३ नीचा शाखा यस्य, नता कन्धरा यस्य, पतयोरुभयोः साधारण्ये।

Page 469

उत्प्रेक्षा ] रसगङ्गाघरः । ४०९

एवं सर्वत्र हेतुफलयोरुत्प्रेक्षणे यस्य हेतुः फलं वोत्प्रेक्ष्यते सोडनेन प्रकारेण साधारणीकृतो निमित्तमित्यसकृदावेदितम् । एवं कचिदुपात्तो धर्मो विषयविषयिसाधारण्याभावादसुन्दरत्वाद्वा स्वयमुत्प्रेक्षणं साक्षादुत्थापयितुमसमर्थोऽपि तदुत्थापनक्षमधर्मान्तरोत्था- पनेनानुकूल्यविधानादुपयुज्यते। यथा 'दौरञ्जनकालीभिः' इति प्रागुदाहते पद्ये दिवो जलदालीसमावृतत्वरूपो धर्म उपात्तो जगतो निर्लोचनवर्ग- सर्गत्वोत्प्रेक्षायां वैयधिकरण्यादप्रयोजकोऽपि स्वप्रयोज्यनिविडान्धकार-

. विषयोऽप्युपात्तो निरूपित एव। कचिदयमपह्नुतोऽपि भवति। यथा- 'जगदन्तरममृतमयैरंशुभिरापूरयन्नयं नितराम् । उद्यति वदनव्याजात्किमु राजा हरिणशावनयनायाः ।।' इति रसगङ्गाधर उत्प्रेक्षाप्रकरणम्।

साधारण्यसत्त्वेऽप्याह-असुन्दरेति। उपयुज्यत इति। एवं च तदानर्थक्यं नेति भावः। तत्रादोदाहरणमाह-यथेति। तथाविधोत्प्रेक्षेति। जगतो निर्लोचन वर्गसग- त्ोत्प्रेक्षेत्यर्थः । अयं विषयः । जगदन्तरं जगन्मध्यम् । राजा चन्द्रः । विषयापह्नवश्रात्र राजतादात्म्यसंभावनादार्ळ्यायेति बोध्यम्।। इति रसगङ्गाधरमर्मप्रकाश उत्प्रेक्षाप्रकरणम्।

१ यथा नूपुरे विश्रेषदुःखं मौनस्य हेतुत्वेनोत्प्रेक्ष्यते, अत एव तन्मौनं निःशब्दत्वाभेदेन निमित्तं संपद्यते। २ जगति निर्लोचनवर्गसर्गत्वम् [पर्यन्ने तु दर्शनक्रियाऽभावः ] उत्प्रेक्ष्यते। अस्यामुत्प्रे- क्षारयां जलदालीसमावृतत्वरूप उपात्तो धर्मः स्वयं निमित्त न भवितुमर्हति, व्यविकरण- त्वात [यत्र जगति उत्प्रेक्षा क्रियते तत्र जलदालीसमावृतत्वं नास्ति, अपि तु दिवि ] । तथापि तादृशोत्प्रेक्षायां निमित्तभूतस्य स्व(जलदावृतत्व)जनितनिविडान्धकारप्रयुक्तचाक्षुषज्ञा- नशून्यत्वरूपधर्मस्योत्थापनेन (यदा जलदावृतत्वं जातं तदैव चाक्षुषज्ञानशून्यता उत्पन्ना) । [उपात्तोयं धर्म उपयुज्यते उत्प्रेक्षायामिति पूर्ववाक्यानुषङ्गः ]। ३ धर्म (निमित्त)वत् उत्प्रेक्षाया विषयोऽपि शब्दोपात्तः पूर्वोदाहरणेषु ['तनयमनाके'त्यत्र उत्प्रेक्ष्यस्य हिमगिरिभुजस्य (विषयिणः) विषयो भागीरथी उपात्तः, 'अम्भोजिनीबान्धवे'त्यन्न शुक्कगुणस्य विषयिणो विषयः बकानां समज उपात्तः, एवमादि: ] निरूपित एव। अयं (विषयः) ककच्विदपह्नुतोऽपि भवतीत्याह। कन्विदयमिति०-। ४ 'मन्ये वदनं राजा' इति वक्तव्ये वदनव्याजादित्युत्त्या विषयोऽपहुन इत्याशयः । ३५ रस०

Page 470

४१० काव्यमाला। [ द्वितीयानने-

अथातिशयोक्ति: विषयिणा विषयस्य निगरणमतिशयः । तस्योक्ति: ॥ तन्च स्ववाचकपदेन शक्यतावच्छेदकरूपेणैवान्यस्य बोधनम्। अत्र च विपये विषयिवाचकपदस्य लक्षणायाः शक्यतावच्छेदकमात्रप्रकारक- लक्ष्यविशेष्यकबोधत्वं कार्यतावच्छेदकम्। अतः शक्यासाधारणधर्मस्य लक्ष्यासाधारणधर्मस्य च भानाभानयोन विरोधः। परे तु 'मात्रविशेषणं न देयम्। तेन लक्ष्यासाधारणोऽपि धर्मो भासते' इत्याहुः । केचित्तु 'लक्षणया लक्ष्यासाधारणधर्मप्रकारेणैव बोधः। अनन्तरं च व्यापारान्त-

अथातिशयोक्तिं निरूपयति-अथेति। योगरूढं तदित्याह-विषयीति। निग- रणपदार्थमाह-तच्चति। स्वाचकपदेनेति। लक्ष्यतावच्छेदकं च मुख्यतमे- वेति प्रागेव निरूपितं मूले। ननु रूपकादभेदस्तन्नाह-अत्र चेति। अतिशयोक्ता- वित्यर्थः । एतावानेव विशेष इति भावः। अनन्तरं च लक्ष्यार्थबोधोत्तरं च। व्यापा- रेति। व्यअ्ञनयेत्यर्थः । एतानि मतानि पूर्व निरूपितानि। ननु बाधज्ञानसत्त्वात्कथं १ 'तमाल: मम श्रमान् हरतु' अन्र विषयिवाचक(तमाल)पदेन शक्यतावच्छेदकरूपेण, [शक्यस्तमालार्थः तदवच्छेदकं तमालत्वम्, तथा च तमालत्वेन रूपेण ] अन्यस्य (लक्ष्यार्थस्य) अर्थात् भगवतो बोधनं भवति। अयं भाव :- अत्र तमालपदेन लक्षणया भगवतः श्रीकृष्णस्य बोधो भवति परं तमालत्वेन [शक्यतावच्छेदकरूपेण ], न तु श्रीकृष्णत्वेन। यतो हि अत्र शक्यतावच्छेदक(तमालत्व)मात्रं प्रकारीकृत्य लक्ष्यविशेष्यकः [लक्ष्यः भगवदर्थः विशेष्यं प्रधानं यत्र ] ईद्ृशो बोधो लक्षणायाः कार्यम्। अर्थात् विशेष्यतया लक्ष्यस्य श्रीकृष्णस्य बोधो भवति परं तमालत्वमात्र(शक्यतावच्छेदक)प्रकारकतया, न तु (लक्ष्यतावच्छेदक)- कृष्णत्वप्रकार कतया, प्रकारतायां मात्रपदनिवेशात्। २ अर्थात् मात्रनिवेशात्। शक्यासाधारणधर्मेस्य तमालत्वस्य भानम्, लक्ष्यासाधारण- धर्मस्य श्रीकृष्णत्वस्य अभानम्। विरुद्धया तमालत्वभानसामऊरया स्व(श्रीकृष्णत्व)वर्मस्य भाननि- वारणमुच्चितमेव। उक्तत पूर्व साध्यव लक्षणाप्रकरणे 'निवार्यत एव विरुद्धभानसामयर्या स्वधर्मस्य भानम्, रजतत्वभानसामय्र्या शुक्तित्वस्य अभानात' । ३ मात्रविशेषणाभावे लक्ष्यस्य श्रीकृष्णस्यापि असाधारणधर्मेः (कृष्णत्वम्) तत्र प्रकारतया भासते। उत्तं, पूर्व साध्यव० लक्षणाप्रकरणे 'मुखत्वेनोपस्थापितस्यापि सुखादेः शाब्दबो- धश्चन्द्रत्वादिना भवति' [पदोपस्थितिशाब्दबोधयोः समानाकारत्वस्य लाक्षणिकबोधातिरिक्त विषयतायाः स्वीकाराव् ]। ४ उपस्थितिशाब्दबोधयोः समानाकारत्वमङ्गीकुर्वतां मते-लक्षणया लक्ष्याऽसाधारण- धर्म (श्रीकृष्णत्व) प्रकारेणैव बोधः । अनन्तरं व्यज्जनया शक्य(तमाल)तावच्छेदकप्रकारेण बोधः। उक्तं पूर्वम्-'व्यज्जनया एकशब्दोपात्तत्वप्रादुर्भूतया चन्द्रत्वेन बोधः।

Page 471

अतिशयोक्ति: ] रसगङ्गाधर: । ४११

रेण शक्यतावच्छेदकप्रकारेण लक्ष्यबोधः ।' इत्याहुः । बाघज्ञानस्य च यथा न प्रतिबन्धकत्वं तथोक्तं प्राक्। अत्र चैकपदोपात्तत्वा्नोद्वेश्यविधे- यभाव:। उदाहरणम्- 'कलिन्दंगिरिनन्दिनीतटवनान्तरं भासय- न्सदा पथि गतागतक्कुमभरं हरन्प्ाणिनाम्।

ममाशु हरतु श्रमानतितमां तमालद्रुमः ॥।' अन्र तमालेन भगवतो निगरणे कलिन्दनन्दिनीत्यादीनि त्रीणि चरण- त्रयगतानि विशेषणानि तदनुग्रहार्थ विषयविषयिणोः साधारणधर्मतया साक्षादुपात्तानि। चतुर्थमपि चतुर्थचरणगतमवैयाकरणानां दर्शने। वैयाक- रणोनां तूपात्तया तमालाभिन्नकर्तकया श्रमहरणक्रिययोन्नीतं तादशक- तृत्वं तथा तयो: स्थितम्। द्वितीये चरणे चोचावचयोनिसंचरणस्य पथ्या-

व्यज्नया तथा बोधोऽत आह-वाघज्ञानेति। एवं चाहायामेदवुद्धिः । बाधकबुद्धि- कालिकस्यैवाहार्यलादिति भावः । प्राश्चस्तु 'कमलमनम्भसि- इत्यादावाह्वादकल्वा- दिकं लक्ष्यतावच्छेदकम्। तेन रूपेण प्रथमतो बोधे तद्वर्मावच्छिन्ने कमलामेदप्रत्ययो व्यज्नयानाहाय: । तद्धर्मावच्छिनने कमलानेदवाधवुद्धेरभावात्। अत एव 'गौणसाव्य- वसानायां सर्वथैवाभेदावगमः' इति प्रकाशकृतः । रूपके लाहाये एव। अयमेव रूपका- दस्या विशेषः" इत्याहुः । वनान्तरं वनमध्यम्। गतागतेति। गमनागमनक्केशेत्यर्थः । तदनुग्रहार्थ तेन तन्निगरणानुग्रहार्थम्। दर्शन इति। तदर्थं तयोस्तत्वेन साक्षादुपात्तमिति शेषः । तैः प्रथमान्तार्थविशेष्यकवोधाङ्गीकारादिति भावः । वैयाकरणानां त्विति। दर्शन इत्यनुषज्यते। तथा तदर्थ तयोस्तत्वेन साक्षात्तथा अनुपात्तम् । उच्चति। १ लक्षणायां नव्यमतवर्णने 'बावनिश्चयप्रतिबध्यतावच्छेदककोटौ०' इत्यादिना। २ नैयायिकादीनां मते प्रथमान्तार्थविशेष्यकशाब्दबोधे 'श्रमान् हरतु' इतीदं 'प्रार्थना- विषयीभूतश्रमकर्मकइरणाश्रयः' इति कर्तु( तमाल)बोधकतया कृष्णतमालयोः साधारणधर्मी- भवत् चतुर्थमपि विशेषणं (साक्षादुपात्तमिति पूर्वानुषङ्गः) । ३ 'तमालाभिन्नकर्तृका श्रमहरणक्रिया' इति शाब्द्रबोधोत्तरम् उपात्तया अनया क्रियया कर्तृत्वं संनिहितयोरनयोः (हरि-तमालयोः) अनुमितं भवतीति (अनुमितमिदं कर्तृत्वम्) तयो: (इरितमालयो:) तथा (साधारणधर्मतया) स्थितम्।

Page 472

४१२ काव्यमाला। [द्वितीयानने-

दिना, तृतीयेऽपि लताभिरगोपीनां निगरणम्, तस्मिन्नेवानुग्राहकतया। एवं च सावयवेयमतिशयोक्तिः । यत्र चानुग्राहकं न निगरणान्तरं किं तु शुद्धं साधारणवर्मादि, सा निरवयवा। यथा- 'नयनानन्दसंदोहतुन्दिलीकरणक्षमा। तिरयत्वाशु संतापं कापि कादम्बिनी मम ॥' अत्र भगवतो मूर्तिर्निगीर्णा। नामार्थयोरभेदसंसर्गेण विशेष्यविशेष- णभावस्य व्युत्पन्नतया रूपके तावदुचितो विषयविषयिणोस्तेन संसर्गेण विशेष्यविशेषणभावः, नःतु प्रकृते। विषयितावच्छेदकरूपेण विषयस्यैव भानादभेदससर्गस्याप्रसक्तेः। अभेदप्रधानातिशयोक्तिरिति प्रवादस्तु प्रागुक्ते संसर्गारोपरूपेक इव विषयितावच्छेदकस्यैव भेदाभावरूपतया निर्वाह्यः । तच्व विषयितावच्छेदकं क्वचित्प्रकृते निगरणदाढ्याय विषय-

हीनोत्तमयोनिजन्मत्यर्थः। तस्मिन्नेवानुग्राहकतयेति। भगवतो निगरणे। तदा वेह्लनकर्मततद्धरणकर्तृलखरूपे साधारणधमौं। साधारणत्संपाद् नमे वा नुग्रा हाकत्मित त भावः। यत्र च यत्र तु। रूपकतो भेदान्तरमाह-नामार्थेति। एवेन विषयिव्या- वृत्तिः। विषयीति। तमाललादेरित्यर्थः । भेदाभावरूपतयेति। 'आस्ये पूर्णश- शाङ्कता' इत्यादावन्योन्याभावस्य प्रतियोगितावच्छेदकधर्मरूपतायाः सर्वतन्त्रसिद्धल्वा- १ अमेदसंसर्गेण विषय-विषयिणोस्तत्रैव विशेष्यविशेषणभावः यत्र द्योः पृथक्तया प्रतीतिः । अतिशयोक्तौ तु विषयस्यव (हरेरेव) विषयितावच्छेदक( तमालत्व)रूपेण भानात इ्योरप्रतीत्या नाडमेद इत्याशय: । २ 'मुखं चन्द्रः' इत्यादिषु द्वयोः समानविभक्तिकतायां तु अभेदः (रूपकम्) संसर्गरूप- तया स्पष्टं प्रतीयते। किन्तु 'आस्ये पूर्णशशाङ्कना' इत्यादिस्थलेषु 'शशाङ्कता' इति शब्देनाभि- धीयमानं विपयितावच्छेदकम् (शशाङ्कत्वम्) एव अभेदरूपं स्वीकृत्य अभेदात्मकरूपकं यथा व्यपदिश्यते तथा अतिशयोक्तिस्थले [ तमालो मम श्रमान् हरतु ] इत्यादावपि विषयितावच्छेदकम् (तमालत्वादि) एव भेदाभाव(अभेद)रूपतया उपलभ्यत इति अभेदप्रधानताव्यपदेश इत्याशयः । ३ अर्थात् विषयितावच्छेदकं विषयमात्रवृत्तियों धर्मः, स्वम् (विषयितावच्छेदकम्) तत्समानाधिकरण: (अर्थात् विषयिमात्रवृत्तिः ) च यो धर्मः, उभाभ्यां शून्यं स्यात्। अर्य भाव :- विषयितावच्छेदकरूपेण विषयस्य यद्धानं भवति तत्र विषयितावच्छेदकधर्म ईदशो- इपेक्षितो यो हि सामानाधिकरण्यसंबन्धेन विषय-विषयिमात्रवृत्तिधर्मशून्यो भवेत्। अर्थात् तत्सहवासी धर्मः उभयसाधारणो भवेत नैकतरसाधारणः। यथा कलिन्दगिरीत्यत्र तमालत्वं

Page 473

अतिशयोक्ति: ] रसगङ्गाघर:। ४१३

मात्रवृत्तिधर्म-सवसमानाधिकरणधर्मशून्यत्वाभ्यां प्रसिद्धम्। यथा 'कलि- न्दगिरिनन्दिनी' इत्यादौ तमालत्वादि। कचिदप्रसिद्धमपि कल्पितोपमा- दावुपमानमिव कविना स्वप्रतिभया कल्पितम्, धर्मिण इव धर्मस्यापि कल्पनाया अविरुद्धत्वान्। यथा-'स्मृतापि तरुणातपम्'। यथा वा- 'जगजालं ज्योत्स्ामयनवसुधाभिर्जटिलय- ज्जनानां संतापं त्रिविधमपि सद्यः प्रशमयन्। श्रितो वृन्दारण्यं नतनिखिलवृन्दारकनुतो मम स्ान्तध्वान्तं तिरयतु नवीनो जलधरः ॥'

दिति भावः । स्वेति। विषयिमान्नवृत्तिघर्मेत्यर्थः । धर्मशून्यत्वाभ्यामिति। धर्म- द्यशून्यतं च सामानाधिकरण्यसंबन्धावच्छिन्नप्रतियोगिताकम् । 'नवीनो जलवरः' इत्यत्र च भगवद्दत्तिलोको त्तरत्वतत्समानाधिकरणनवसुधाकरणकव्याप्तिकतृले जल धर लवे ना - Sसमानाधिकरणे, सामानाधिकरण्यसंबन्धेन तदुभयविशिष्टजलधरतं कविकल्पितम्। क्कचिदप्रसिद्धमपीति। सामानाधिकरण्यसंबन्धेन तादृशधर्मद्यविशिष्टतया अप्र- सिद्धमपीत्यर्थः । अपूर्वश्चन्द्र इत्यादावप्येवम्। मुखमपूर्वश्चन्द्र इत्यादौ कविकल्पितवि- शिष्टचन्द्रेणाहार्या मेदप्रतीते रूपकम् । केचित्तु 'कविकल्पिततादृशचन्द्रत्वस्य मुखत्वेन विरोधाभावादनाहायेव विषयितावच्छेदकप्रकारघीः, रूपकलक्षणे चाहार्यत्वं न देयम् । अतिशयोक्तिरनाहायैव । रूपके लाहायाँ अनाहार्या च घीः' इत्याहुः। अन्ये तु 'प्रस्तुतस्य सामानाधिकरण्यसंबन्धेन विषय(भगवत्)विषयि(तमाल)मात्रवृत्तिर्मशून्यम्। यतो हि विष- चितावच्छेदकेन (तमालत्वेन) समानाधिकरण: कालिन्दीतटकर्मकभासनाश्रयत्व-कुमहारकत्व- कनककान्तिलतावेष्टितत्वरूपो धर्मों न केवले विषये (हरौ) न वा विषयिणि (तमाले) वर्तते, अपि तूभयसाधारणः । अनेनेदमेव निगरणदार्ढ्य यत् विषयितावच्छेदकसमानाधिकरणोडयं धर्म: उभय(विषयविषयि)बोधनक्षम इति निगरणमिदमभीष्टार्थबोधने दृढम्।

पद्रुमाश्रयकत्वरूपधर्मेः समानाधिकरणं कादम्विनीत्वं कविकल्पितम्, न लोके प्रसिद्धम्। यतो हि कादम्बिनी वर्षणद्वारा तापहारिणी, भङ्गशीलतनुकान्तिविद्युता (एकया) वेष्टिता, विय- दाश्रया च । तथा च कल्पितोपमायाम् (स्तनाभोगे पतन्०) उपमानम् (शशाङ्कबिम्बापादा- नकलम्बनाश्रय उरगः) यथा, कल्पितं तथाडत्र तादृशधर्मविशिष्टस्य विषयितावच्छेदकस्य कल्पनमपि नानुपपद्यमानमित्याशयः ।

Page 474

४१४ काव्यमाला। [द्वितीयानने-

अत्र विषयधर्नविशिष्टैतया कल्पितेन लोकोत्तरजलधरत्वेन रूपेण भगवतः प्रतिपादने तत्समानाविकरणत्वेन कल्पितानां विशेषणानामानु- गुण्यम्। एवं च निगरणे सर्वत्रापि विषयितावच्छेदकधर्मरूपेणैव विप- चस्य भानम्, ने विषय्यभिन्नत्वेनेति स्थिते 'रूपकातिशयोक्ति: स्यान्निगी- र्याध्यवसानतः' इत्युक्त्वा 'अत्रातिशयोक्तौ रूपकविशेषणं रूपके दर्शि- तानां विधानामिहापि संभवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम्। तेनात्राप्यभेदा- तिशयोक्तिस्ताद्रप्यातिशयोक्तिरिति' कुवलयानन्दे तन्निरस्तम्" इति नव्याः। रूपक इवात्रापि विषय्यभेदो भासते। परं तु

यदन्यत्वेमित्यतिशयोक्तिरेषु प्रकृतस्य विविक्ताकारवस्तन्तरत्वेनान्यवस्तुत्वेन वाऽध्य- वसानमिति तदर्थः । अस्ति प्रकृतस्य मुखस्य चन्द्रत्वेनाध्यवसानम्। आहार्यता- भावाच्च न रूपकम्' इत्याहुः । विषयधर्मेति। लोकोत्तरतेत्यर्थः । सामानाधिकर- ण्यसंबन्धेन तद्वैशिष्ट्यं बोध्यम्। एवं चेत्यस्य निरस्तमित्यत्रान्वयः । विधानां प्रकारा- णाम्। अतिदेशेनेति । अन्यत्रान्यशब्दप्रयोग इति न्यायादिति भावः। अत्रापि अतिशयोक्तावपि। तन्निरस्तमिति। अन्रेदं चिन्त्म्-काव्यप्रकाशादिरीत्या तदु- कमू। निर्बाधकलवात्। किं च त्याप्यभेदप्रधानातिशयोक्तिरिति प्राचीनव्यावहारसं- गमनाय विषयितावच्छेदकमेवाभेद इत्यवश्यं वक्तव्यम्। एवं च तथैवाभेदातिशयोक्ति- रिति व्यवहारो मयापि सूपपादः । 'कोऽयं गलितहरिणः-' इत्यादी प्रसिद्धविष- यितावच्छेदकप्रकारकबोधस्य बाधवुद्धिपराहतत्वात्कोडयमित्नेन निरस्तत्वाच्चावश्यं चन्द्रकार्यकारित प्रकारकबोधोऽड्ीकार्यः । एषैव च ताद्रूप्यातिशयोक्तिः। अन्रापि विष- यितावच्छेदकप्रकारकधीराहायैव। तद्धर्मविशिष्टे शक्यसंबन्धाग्रहोऽपि तथैव। तद्ू-

१ नवसुधाकरणकव्याप्तिकर्तृत्वादिरूपो धर्मो विषये (भगवति) एव संभवेत् न जलधरे। ततश्च विषयधर्मविशिष्टतया जलधरत्वस्य (विषयितावच्छेदकस्य) उक्तिः कविकल्पनैव। अत एव हि नवीनत्वोक्तिः । एवंविधनवीनत्वसाधनाय च जलधरत्वसमानाधिकरणानां सुधाकरणकव्या- सिकर्तृत्वादिविशेषणानामानुकूल्यमेव, तत एव च प्रसिद्धजलघरासाध्यं ध्वान्ततिरस्करणमपि समज्जसमेवेत्याशयः । २ अर्थात् कलिन्दगिरि० अत्र लक्षणया हरेबोंधो भवति परं तमालत्वेन रूपेण, न तु तमालाsभिन्नत्वरूपेण। विषयस्य निगरणात्। ३ विषय्यमेदो यदा न प्रतीयते तदा अभेदातिशयोक्तिरिति व्यपदेशो नोपपद्यत इत्यर्थः । अत एव हि 'विषयितावच्छेदकरूपेण विषयस्यैव भानादभेदसंसर्गस्यांSप्रसक्तेः' इति पूर्वमुक्तम्।

Page 475

अतिशयोक्ति: ] रसगङ्गाघरः। ४१५

निगीणें विपये इति रूपकादस्या विशेषः । अध्यवसायस्य सिद्धत्वेना- आधान्यान्निश्चयात्मकत्वाच् साध्याध्यवसानायाः संभावनात्मकोत्प्रेक्षाया वैलक्षण्यम्' इत्याहुः। कर्थ तर्हि 'कमलमिदमनम्वुजातं जयतितमां कनक- लतिकायाम्' इत्यादाविदंत्वादेविपयतावचछेदकस्योलेखान्निगरणमिति चेतू, न। इदमित्यस्य कमलत्वविशिष्ठे विशेपणत्व एवातिशयोक्तिः, उद्देश्यताव- च्छेदकत्वे तु रूपकमेव। एवं 'गौरयम्', 'आयुरेवेदम्' इत्यादावपि बोध्यम्। अत एवातिशयोक्तावभेदोऽनुवाद्य एव, न विधेय इति प्राचामुक्ति: संगच्छते। एवमेकः प्रकारोऽतिशयस्य, यत्र भेदेऽप्यभेद्ः । अथ प्रकारान्तरम्-यत्राभेदेऽपि भेदो लोकोत्तरत्वप्रतिपत्त्यर्थः, इदमेव प्रस्तुतस्यान्यत्वमित्यनेनोक्तम् । उदाहरणम्- अन्या जगद्वितमयी मनसः प्रवृत्ति- रन्यैव कापि रचना वचनावलीनाम्।

र्मवैशिध्यमपि लक्ष्यस्यारोपितमेवेनि बोध्यम्। अस्या विशेष इति। आहार्यलाना- हार्यतकृतो विशेष इत्यर्थः । उत्प्रेक्षातोऽत्र वैलक्षण्यमाह-अध्यवेति। इदमिति। यत इत्यादि। अत एव सर्वथा विषयानुपादानेऽस्या अज्गीकारादेव। एवमिति। उक्त अ्कारेणेत्यर्थः । निरूपित इति शेषः। इदमेव। प्रकारान्तरमेव। उक्तमिति। प्रकाश- कृतेति शेषः । अन्या जगदिति । विद्वद्वर्णनमिदम्। कृतिश्वेष्टा। आर्यह्द्या आकृतिः १ अतिशयोक्ती अध्यवसानं सिद्धन्, अर्थात विषयो निणीणों न तु निगीर्यमाणो भवति। अध्यवसितस्य (विषयिणः) च प्राधान्यं भवति। उत्प्रेक्षायां तु अध्यवसानं साध्यम् अर्थात् विषयो निगीर्यमाणो भवति। अध्यवसानक्रियायाश्च तत्र प्राधान्यमिति उत्प्रेक्षायामलंकारसर्व- स्वलक्षणप्रसङ्गे पूर्वसुक्तम्। ततश्च निगीणे विषये अध्यवसायः (विषयिणोऽमेदप्रतिपत्तिः) भवतीति रूपकाद्विशेषः । २ अतिशयोक्तौ-'अनम्बुजातमिदं कमलं जयति' इत्यत्र इदमिति पदं कमलत्वविशिष्टस विषयिण एव विशेषणं न तु 'इदन् (सुखम्), अनम्बुजातं कमलम्' इति विषयस्य विशेषणम्। उद्देश्यतावच्छेदकत्वे अर्थात् इदं मुखमुद्दिश्य कमलत्वस्य विधेयत्वे तु रूपकमेव स्यादित्याशयः । ३ अर्थात अभेद: पूर्वसिद्धो भवति। सिद्धं तमनूद्य (उददिश्य) विषयिणा विषयस्य निगरणं विधेयं भवतीत्याशयः ।

Page 476

४१६ काव्यमाला। [ द्वितीयानने-

लोकोत्तरा च कृतिराकृतिरार्यहृद्या विद्यावतां सकलमेव चरित्रमन्यत् ।।' एवमन्य: प्रकार :- यत्रासंबन्धेSपि संवन्धो वर्ण्योत्कर्षार्थः । यथा- 'धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः । उन्मद्वारणवुद्ध्या मध्येजठरं समुच्छलति ॥' अत्र सिंहीवचने समुच्छलनाऽसंबन्धेऽपि समुच्छलनसंबन्धोक्ति: शौर्यातिशायिका। यथा वा- 'गिरं समाकर्णयितुं यदीयां सदा रसश्ञैरनुभावनीयाम्। समीहते नित्यमनन्यचेता नभख्वदात्मंभरिवंशनेता ।।' यथा वा- 'तिमिरशारदचन्दिरतारकाः कमलविद्रुमचम्पककोरकाः। यदि मिलन्ति कदापि तदाननं खलु तदा कलया तुलयामहे।' पूर्वत्र निर्णीयमानः, इह तु संभाव्यमान इति विशेषः । तथान्यः प्रकार :- यत्र संबन्धेऽप्यसंबन्धः । यथा- 'पीयूषयूषकल्पामल्पामपि ते गिरं निपीतवताम्। तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेकः ॥' अत्र तोषसंबन्घेऽप्यसंबन्धः । एवमेवान्योऽपि प्रकार :- यत्र प्रयोजकस्य प्रयोज्यस्य च पौर्वापर्यविपर्य- य्यः।स च द्वयोः सहभावात्, प्रयोजकस्य प्रयोज्यानन्तरभावाद्वेति द्वेधा।

शरीरावयवसंस्था च लोकोत्तरेत्यर्थः । चरित्रं व्यवहारः। मध्येजठरमिति। 'पारेमध्ये- षध्या वा' इति समासः। यदीयामिति । प्रकृतवर्णनीयराजकीयामित्यर्थः। नभखः दिति। नभखता वायुना आत्मानं बिभ्रति ये सर्पास्तेषां वंशस्य कुलस्य नेता नायकः, शेष इत्यर्थः। अत्र तदाकर्णनसमीहाऽसंबन्धेऽपि तदुक्तिस्तद्वैदुष्यातिशायिका। चन्दि: रेति। चन्द्रेत्यर्थः । मिलन्ति एकत्र तिष्ठन्ति। तदाननं तस्या वर्ण्याया नायिकाया मुखम्। कलया न तु सर्वांशेन। पूर्वत्र पूर्वयोः । इह त्विति। यदीत्यस्य संभावना- बोधकत्वादिति भावः । यथेति। पीयूषममृतमेव यूषो मण्डविशेषस्तेन ईषन्यूनाम्। ते:

Page 477

अतिशयोक्त: ] रसगङ्गाघर: । ४१७

आद्यो यथा-'प्रतिखुरनिकर शिलातलसंघट्टसमुच्छलद्विद्युदलीकृत- विस्फुलिङ्गच्छ्टापटलानां वाजिनाम्' इति हयवर्णने समुच्छलनविद्युद्वल्ली- करणयो: सहोत्पत्तिर्गम्यते। द्वितीयो यथा- 'पुरः पुरस्तादरिभूपतीनां भवन्ति भूवह्लभ भस्मशेषाः । अनन्तरं ते भ्रुकुटीविटङ्कात्स्फुरन्ति रोषानलविस्फुलिङ्गाः ।।' अत्र भेदद्वये प्रयोजकातिशयकृतः प्रयोज्यशैळ्यातिशयो गम्यः ।

प्राचीनाः । अन्ये तु-'संबन्धेऽसंबन्धः, असंबन्धे संवन्ध इति भेदद्वयं नातिश- योक्तिः। एतादृशातिशयस्य रूपकदीपकोपमापहुत्यादिषु स्वभावोक्तिभिन्नेषु

वर्णनीयस्य राज्ञः। समुच्छलनेति । विस्फुलिद्गानामित्यादिः। सहोत्पत्तिरिति। शतृप्रत्ययेनेति भावः । 'शत्रा समुच्छलन' इति पाठे तु ततः प्रागन्नेति शेषः। वस्तुतः समुच्छलनं तत्र हेतुरिति बोध्यम्। पुर इति। राजवर्णनमिदम्। हे भूवल्भ, पुरः पुरस्तात् पूर्व पूर्व शत्रुरूपाणां राज्ञां भस्मरूपाः शेषा अवशेषा भवन्ति। पश्चात्तव भ्रुकुट्येव विटङ्कं कपोतपालिका तस्मात्कोधरूपान्नेविस्फुलिङ्ाः स्फुरन्तीत्यर्थः । अन्र मेददये बाधि- तत्वं परिहरति-अत्रति। सभावोक्तौ सर्वथा तदसत्त्वादाह-स्भावोक्तीति। १ संघर्षेण समुच्छलताम् (विस्फुलिङ्गानाम्) विद्युद्लीकृतं छटापटलं वस्तेषाम् (वाजि- नाम्)। पूर्व विसफुलिद्गानां समुच्छलनं भवति ततस्तेषां विद्यदल्ी( विद्यन्मयी लता)रूपेण संपादनं भवति। किन्त्वत्र द्योः सहभावः । २ हे भूवल्भ, पुरस्तात् प्रथमं अरिभूपतीनां शत्रुनृपाणां पुरो नगर्यो भस्मशेषाः (भसैव अवशिषटांशो यासां ताः) भवन्ति, अनन्तरं ते भ्रुकुटीविटङ्कात (विटद्कमिव विटङ्कगम्, उन्नत- अदेशस्तस्मात) रोघाग्निविस्फुलिङ्गाः स्फुरन्तीत्यर्थः । अत्र पुरःपुरस्तादित्येकपदमङ्गीकृत्य पूर्व- पूर्वमिति नागेशकृतं व्याख्यानं वैयाकरणानामतीव हास्यास्पदम्। 'सर्वस्य द्वे' इति सूत्रेण 'पुरःपुर' 'पुरस्तात पुरस्तात' इति वा दविर्भावो युक्त्तः, न तु असूप्रत्ययान्त-अस्तातिप्रत्ययान्त- पदयोः, असांप्रदायिकत्वात्। एवं 'राज्ञां भस्मरूपाः शेषा भवन्ति' इति व्याख्यानमप्यसंग- तमेव। यतो हि राज्ञामिति षष्ठयाः शेवा इत्यत्रान्वये, शेषा इत्यस्य चोद्देश्यसमर्पकत्वे 'राज्ञां शेषा: कीदृशा भवन्ति' इति जिज्ञासायां विधेयसमर्पकपृथवपदाभावात वाक्यार्थानिष्पत्तिः । तस्मादेवंविधं व्याख्यानं व्याख्यातुः साहित्यसौधे हठाक्रमणमिव पिशुनयतीत्यलं मार्मिकेपु। ' ३ मुखं चन्द्र इति रूपके मुखे चन्द्राडमेदस्य संबन्धो नास्ति तथापि स वर्ण्यते। एवम- न्यत्रापि ज्चेयम्।

Page 478

४१८ काव्यमाला। [द्वितीयानने-

प्रायशः सर्वेध्वलंकारेयु सत्वात्। नहि यथास्थितवस्तूक्तावस्ति काचिद्वि- च्छित्तिः। कार्यकारणपौर्वापर्यविपर्ययस्यापि तेनैवे व्याप्तया भेदान्तर- तानापचेश्र। तस्माद्विषयिणा निगीर्याध्यवसानं विषयस्य, तस्यैवान्यत्वम्, यद्यादिशव्दैरसंभ विनोऽर्थस्य कल्पनम्, कार्यकारणपौर्वापर्यविपर्ययश्चेत्येत- दन्यतमत्वेमतिशयोक्तित्वम्' इत्याहुः । नव्यास्तु-'निगीर्याध्यवसानमेवातिशयोक्तिः। प्रभेदान्तरं त्वनुगतरू- पाभावादलंकारान्तरमेव। ननु प्रस्तुतान्यत्वभेदे-भेदेनाभेदस्य, असंबन्धे संवन्ध इति भेदे-संबन्धेनासंबन्धस्य, संवन्धेSसंबन्ध इति भेदे-असं- बन्धेन संबन्धस्य, कार्यकारणपौर्वापर्यविपर्यये च तेनैवानुपूर्व्यस्य च

अन्यत्रापि क्रचिदसत्त्वादाह-प्रायश इति। सत्वादिति। तथा च तेषामप्य- तिशयोक्तित्वापत्तिरिति भेदेन तत्कथनासंगत्यापत्तिरिति भावः। ननु तर्हि तत्र कोडलं कारोऽन आह-नहीति। अभ्युपेत्याह-कार्येति। तेनैव प्राचीनोक्तमेदद्वये- नैव। अमेदस्येत्यादिषध्यन्तानां वक्ष्यमाणनिगरणेऽन्वयः । विपर्यये च विपर्यय इति १ संबन्धेऽसंबन्ध इत्यादिमेदद्वयेनैव। अर्थात् कार्यकारणपौर्वापर्यवैपरीत्यस्य असंबन्धेपि संबन्धो वर्ण्यते। यथा पूर्व रोपविरफुलिङ्गाः स्फुरन्ति तदनन्तरमेव अरिपुराणं नाशो वास्तवः । किन्तु कार्यशैध्यातिशयसूचनाय तादृशमलंकृत(अवास्तव)वर्णनम्। २ काव्यग्रकाशे ये भेदा वर्णतास्त एव वास्तवा इत्याशयः । ३ ेदेन अभेदस्य निगरणम्। अर्थात् अभिन्नापि मनसःप्रवृत्तिभिन्नत्वेन वर्णितेति भिन्नया (मनसःप्रवृत्त्या) अभिन्ना सा स्थगितेति भेदेन अभेदस्य निगरणं जातम्। ततश्च निगीर्याध्य- वसानमत्रापि सिद्धम्। एवम् असंबन्धे संबन्ध इति भेदे संबन्धेन असंबन्धस्य निगरणं भवति। यथा धीरध्वनिभिरित्यत्र गर्में समुच्छलनस्याSसंबन्धेपि संबन्धो वर्णितः । अर्थात् वस्तुतः असंबन्धो वर्णनीय आसीत्तत्र संबन्धो वर्णित इति संबन्धेन असंबन्धो निगीर्ण इति फलति। ततश्चात्रापि निगीर्याध्यवसानं सिद्धमिति स्यादियमप्यतिशयोकिः । एवं संबन्धे असंबन्ध इति भेदे-असंबन्धेन संवन्धस्य निगरणं वोध्यम्। कार्यकारणपौर्वापर्यविपर्ययः (वैपरीत्यम्) इति भैदे तेनैव कार्यकारणपौर्वापर्यविपर्येयेण आनुपूर्व्यस्य निगरणं जातन्। अर्थात् पूर्व कारणं ततः कार्यमिति इ्वयो: पूर्वांपरभावो वर्णनीय आसीत्किन्तु पुरःपुरस्तादिति पद्ये पूर्व भस्मीभवनं कार्यमुक्त तदनन्तरं रोषानलोदयो वर्णित इति पौर्वांपर्यवैपरीत्येन आनुपूर्व्यम् (कारणकार्ययोः समुच्चित: पूर्वापरीभावः) निगार्णमित्यत्रापि निगीर्याध्यवसानं जातमतो नव्यानामपि मते भेद- चतुष्टयमतिशयोक्तौ संनिविष्टमिति पूर्वपक्षः ।

Page 479

अतिशयोक्ति: ] रसगङ्गाघर: । ४१९

निगरणं रक्नाकरविमार्शनीकारायुक्तप्रकारेण संभवतीति चेतू, न । अन्यत्वादिभिरनन्यवस्तुप्रतीतेरेव चमत्कारित्वम, न त्वनन्यत्वादिभिः। तेषामनुभवासंगतेः। न चान्यतमत्वेमनुगतमिति शक्यते वक्तुम्। विच्छि- त्तिवैलक्षण्ये सत्यन्यतमत्वस्याप्रयोजकत्वान्। अन्यथोपमारूपकादिकति- पयान्यतमत्वं सकलान्यतमत्वं वा तल्लक्षणम्, उपमादयश्च तद्गेदा इत्येव किं न ब्रूयाः। अलंकारान्तरत्वे गौरवमित्यपि न वाच्यम्। न हैत्राकृप्पदार्थ- कल्पनं येन गौरवं स्यात्। प्रधानोत्कर्षकतारूपस्यालंकारत्वस्य त्वयापि सवीकारान्। अलंकारविभाजकोपाधिपरिगणनस्य च पुरुपपरिकल्पित- त्वान्।' इत्यपि वदन्ति।

भेदद्वये च । तेनैव कार्यकारणपौर्वापर्यविपर्ययेणैव। न। अनन्यत्व दिभिरिति। तथा च तेन रूपेण कदापि बोधाभावेन तद्रूपस्याभेदस्य मेदेन लढुक्तं निगरणमसं- गतमिति भावः । तेषामननुगतलादिति निगीर्य प्रकृतस्य समेनाध्यवसानं भेदेना- मेदस्य संवन्धेनासंबन्धस्येत्यादिसकलसाधारणस्यैकस्य धर्मस्याभावादतिशयोक्तिलक्ष- णस्याननुगतत्वापत्तिरिति भावः। वैलक्षण्ये सतीति। तथा च भिन्नभिन्न एवा- लंकार इति भावः । अभ्युपेत्याह-अन्यथोपमेति। प्रागुक्तरीत्या आह-कति- पयेति । यस्य कस्यचिदतिशयस्य सर्वत्र सत्त्वादाह-सकलेति । तह्क्षणमति- शयोक्तिलक्षणम्। तङ्ेदा अतिशयोक्तिमेदाः। ननु गौरवादाधिक्यं नात आह- अलंकारान्तरेति। कप्तलमेवाह-प्रधानोत्कषेति । ननु सामान्यतोऽलंकारत- सत्त्वेऽपि तद्विभाजकोपाधिमध्येऽपाठादाधिक्येन गौरवं तदवस्थमेवात आह-अलं- १ अनन्यत् (तद्रूपन्) वस्तु यदि अन्यत्वेन न वर्ष्यते, अपि तु अनन्यत्वेनव (तद्रूपत्वे- नव) वर्ण्यते तर्हिं कश्चमत्कारः ? यथा हि-अभिन्नाया मनसः प्रवृत्तेः भिन्नतवेन वर्णनमकृत्वा तद्रूपत्वेनेव वर्ण्यते का वा नवीनता? एवं च भेदेन अभेदस्य निगरणाभावे अभिन्नं वस्तु निन्नं न प्रतीयेत, किन्तु तद्रूपमेव प्रतीयेत। ततश्च जायमानश्चमत्कारानुभवोऽसंगतः स्यात्। तस्मादिदं निगरणं स्वतःप्राप्तमेव न नवीनतयाSलंकारस्थानीयम्। एवमेव संबन्धे असंबन्ध- निगरणादिष्वपि बोध्यम्। अत एवंविवं निगरणमलंकारेषु न गणनाईमित्युत्तर: पक्षः । २ ननु निगीर्याध्यवसानं विहाय अवशिष्टं भेदचतुष्टयम् (अभेदेपि भदः, असंबन्वेपि संबन्ध इत्यादि) अतिशयोक्तरनुगतलक्षणाSनाक्रान्तत्वात नातिशयोक्तिः । अपि त्वलंकारान्त- रमेवेति पूर्वमुक्तम् । किन्तु निगीर्याध्यवसानादिपश्चकान्यतमत्वमतिशयोक्तिरित्युक्तो तु अनु- गमः स्यादिति चेत्, न। भिन्नभिन्नालंकारत्वसिध्धर्थ प्रत्येकविलक्षणा विच्छित्तिरस्ति, ततो- इन्यतमत्वोक्तिमात्रेण नानुगम: सुकर इति हेतोः। ३ प्रधानोत्कर्षकत्वमलंकारत्वं पूर्व स्वीकृतम्। ततश्च चतुष्टयस्यास्य अलंकारकतया कृप्तस्यैव कल्पनमिति न गौरवमित्याशयः ।

Page 480

४२० काव्यमाला। [ द्वितीयानने-

गगनचरं जलबिम्बं कथमिव पूर्ण वदन्ति विद्वांसः। दशरघचत्वरचारी हृज्वरहारी विधुस्तु परिपूर्णः ।।' इत्यादौ विपयिणः स्वाभाविकस्थाननिह्नवेन छढाध्यवसानातिशयोकति:। यत्तु कुवलयानन्दे- 'यदपह्नवगर्भत्वं सैव सापह्ुवा मता त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यन्ति तां विधौ।।' इत्यत्र पर्यस्तापह्नुतिगर्भामतिशयोक्तिमाहुस्तचचिन्त्यम्। पर्यस्तापहुतेर- पह्नतित्वं न प्रामाणिकसंमतमिति प्रागेवावेदनात्। यदपि तैरेवोक्तम्- 'संबन्धातिशयोक्ति: स्यादयोगे योगकल्पनम्। सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम् ॥' इति। न। अन्रैव 'स्पृशन्तीवेन्दुमण्डलम्' इति कृते कोऽलंकार: ? उत्प्रे- क्षेति चेत्, तर्हीवादेरभावाद्गम्योत्प्रेक्षेयमुचिता। इवादिसत्वे या वाच्यो- त्प्रेक्षा सैवेवाद्यभावे गम्योत्प्रेक्षेति नियमस्य सर्वसंमतत्वात्। 'त्वत्की- र्तिभ्रमणश्रान्ता विवेश स्वर्गनित्रगाम्' इति त्वदुक्तगम्योत्प्रेक्षायाः 'सौधाग्राणि' इत्यस्य चोत्प्रेक्षांशे विशेषानुपलम्भात्। तथा हि 'त्वत्कीर्तिर्' इत्यादौ बहुदूरगमने स्वर्गगमने वा खर्गङ्गाप्रवेशतादत्म्योत्प्रेक्षेति नये

कारेति। दृडाव्यवसानातिशयोक्त्युदाहरणमाह-गगनेति । गगनगामीत्यर्थः । जलबिम्बं चन्द्ररूपम्। विधुस्तु श्रीरामचन्द्रस्तु। स्वाभाविकेति। गगनरूपेत्यर्थः । निह्नवेनेति। कथमिवेत्यनेनेति भावः। मूल एव कुठार इत्याह-पर्यस्तेति। तैरेव अप्पयदीक्षितैरेव। तद्पि नेति। सिद्धान्तविरोधादिति शेषः । तमेवाह-अ- त्रैवेत्यादिना। नन्वन्यसंमतत्वेऽपि तथा न मम संमतमत आह-त्वत्कीर्तिरिति। इत्यस्य चेति। उत्परेक्षाया इति। षष्ठीति भावः । ननु तस्या भूमण्डले बहुदूर- गमनेऽपि खवर्गज्ञाप्रवेशतादात्म्योत्प्रेक्षा तत्र न संभवतीत्यत आह-स्वगेति। विशे-

१ अत्र रामचन्द्रो विषयः, विधुर्विषयी। तस्य स्वाभाविकं स्थानम् (गगनम्) कथमिवे- त्युक्त्या प्रतिषिध्यते। २ अभेदसंबन्धेनैवोत्प्रेक्षेति प्राचीनमतानुसारम्।

Page 481

अतिशयोक्ति: ] रसगङ्गाघर:। ४२१

स्वर्गसंबन्धित्वरूपानुपात्तवर्मनिमित्तेयम्। कीर्तो खर्गङ्गाकर्मकप्रवेशकर्तृ- त्वोत्प्रेक्षेति नये तादृशगमनरूपानुपात्तधर्मनिमित्ता। विशेषणीभूतभ्रम-

वेशरूपोपात्तधर्मनिमिन्तेति सर्वथा गम्यैव। 'सौधाग्राणि-' इत्यत्र परमो- धर्वदेशसंयोगे चन्द्रमण्डलस्पर्शतादात्म्योत्प्रेक्षायां परमोर्ध्वदेशवृत्तित्वरू- पानुपात्तधर्मनिमित्ता। तादशस्पर्शकर्तृत्वोत्प्रेक्षायां तु परमोर्ध्वदेशसंयोग- रूपानुपात्तवर्मनिमित्तेति इयमपि गम्योत्प्रेक्षैव। तस्मादुत्प्रेक्षासामग्री यत्र नास्ति तादृशमुदाहरणसुचितम्। यथास्मदीयं 'धीरध्वनिभिट्-' इत्यादि। सुन्दरत्वे सत्युपस्कारकत्वमलंकारसामान्यलक्षणमिहापि न विस्मरणीयम्। इयं चातिशयोक्तिर्वेदेऽपि दृश्यते। यथा- 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्रन्नन्यो अभिचाकशीति ।।' स्मृतौ च- 'या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥।'

षेति कीर्तावित्यादिः। तादृशति। खर्गगमनेत्यर्थः । परमोर्ध्वेति। गहाग्राणा- मित्यादिः। इयमपि गम्योत्प्रेक्षैवेति। अत्रेदं चिन्तम्-'नूनं मुखं चन्द्रः' इत्यादो नूनंपदाभावे प्रतीयमानस्य रूपकस्यानापत्तेरुतप्रेक्षाया आपत्तेश्र । 'वत्कीर्तिर्भ्रमण- श्रान्ता' इत्यन्न तु बहुदूरगमने स्वर्गगमने वा खर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षा कीर्तौ स्वर्गज्वाप्रवेशकर्तृतोत्प्रेक्षा वावश्यं स्वीकार्या। अन्यथा भ्रमणश्रान्तत्वरूपविशेषणवैयर्थ्या- पत्तेः । तद्वत्प्रकृते उत्प्रेक्षासाधकं नास्ति येन तथा स्यात्। भ्रमणश्रान्तत्वरूपहेतूत्प्रे- क्षायां तु न कश्षिद्दोषः । स्वर्गसंबन्धितं सवर्गगमनं खवर्गङ्ञाप्रवेशरूपोपात्तो वा धर्मो निमित्तमिति बोध्यम्। उदाहरणमिति। संबन्धातिशयोककेरिति भावः । दुःखयोरि- १ भेदसंबन्धेनाऽप्युत्प्रेक्षेति ग्रन्थकृन्मतानुसारम्। २ स्वर्गगमनमेव स्वर्गक्ञाप्रवेशाभिन्नमित्यध्यवसितम्। उपातं तदेव च उत्प्रेक्षायां निमि- स्तमित्याशयः । ३ पूर्वार्धे-निशेति विषयिणा (उपमानेन) परमार्थचिन्ताडभावरूपः, जागरणेन (विष- यिणा) च प्रमादाभावरूपो विषयो निगीर्णः। उत्तरायें-जागरणेन (विषयिणा) वैषयिक प्रवृत्तिः, निशेत्यनेन तटस्थतया निवृत्तिश्च विषयो निगीर्ण इति बोध्यम्। ३६ रस०

Page 482

४२२ काव्यमाला। [ द्वितीयानने-

अथास्या ध्वनि :- 'देव त्वदर्शनादेव लीयन्ते पुण्यराशयः। किं चादर्शनतः पापमशेषमपि नश्यति ॥' पुण्यपापयो: सुखदुःखभोगमात्रनाश्यतया दर्शनाऽदर्शनाभ्यां तज्जन्य- सुखदुःखयो राश्यशेषशन्दाभ्यां च जन्मशतोपभोग्ययोस्तयोरेवाक्षेपाद- प्रिमाभ्यां पूर्वयोर्निगरणं व्यज्यते। न च पूर्वाभ्यामग्रिमयोरेव निगरणं किं न स्यात्, इति वाच्यम्। नाशोक्तिसामञ्जस्याय नाशकतावच्छेदकाव- च्छिन्नत्वेन प्रत्ययस्यावश्यकतया तन्निगरणासंभवात्। उपमानेन महता क्षुद्रस्योपमेयस्य महत्त्वाधानाय निगरणस्यौचित्याच्च। एतेन 'तदप्राप्ति- महादुःख-' इत्यादिकाव्यप्रकाशो व्याख्यातः ।

त्यस्याक्षेपादित्यत्रान्वयः । तयोरेव सुखदुःखयोरेव। अग्रिमाभ्यां पूर्वयोरिति । जन्मशतोपभोग्यसुखदुःखाभ्यां देवदर्शनाऽदर्शनजन्यसुखटुःखयोरित्यर्थः । न च पूर्वा- भ्यामिति। दर्शनादर्शनजन्यसुखदुःखाभ्यामेव जन्मशतोपभोग्यसुखदुःखयोरित्यर्थः । नाशकतावच्छेदकेति । पुण्यराशिनाशकत्वपापराशिनाशकतरूपकार्यतावच्छेदकाव- च्छिन्नकारणतावच्छेदकं सकलजन्मोपभोग्यसुखत्वादिकमेव। न तु दर्शनजन्यसुख- लादिकम्। तत्तत्सुखानां सखफलोपहितपुण्यनाशकताया एव ककृप्तत्वादिति भावः । उपेति। जन्मशतोपभोग्यसुखदुःखे उपमानम्। महत्त्वात्। दर्शनादर्शनजन्ये च ते उपमेये। क्षुद्रलात्। ध्वनितं चात्र प्राचीनरीत्या बोध्यम् ।। इति रसगङ्गाधरमर्मप्रका- शेऽतिशयोक्तिप्रकरणम् ॥

१ अयं भाव :- पुण्यानि सुखभोगेन, पापानि च दुःखभोगेन नाश्यन्ते, इति पुण्य-पाप- नाशं प्रति सुखदुःखभोगयोरेव कारणता कप्ता। ततश् नश्यतीति नाशप्रत्यायनाय दर्शनाऽद- र्शनजन्यसुखदुःखनाशकस्य (कारणभूतस्य) जन्मशतोपभोग्यपुण्यपापजन्यसुखदुःखभोगस्य ब्रोध आवश्यक एव, न त्वस्य निगरणमुन्चितम्। एवं च पुण्य-पापजन्यसुखदुःसभोगद्वारा दर्शना- दर्शनजन्यसुखदुःखभोगस्यव निगरणमुच्ितम्, न तु एतद्विपरीतमित्याशयः ।

Page 483

तुल्ययोगिता ] रसगङ्गाघर:। ४२३

अथ तुल्ययोगिता- प्रकृतानामेवाप्रकृतानामेव वा गुणक्रियादिरूपैकधर्मान्वयस्तु- ल्ययोगिता।। औपम्यं चात्र गम्यम्, तत्प्रयोजकस्य समानधर्मस्योपादानात्। वाच- काभावाच्च। अत एवालंकारिकाणामपि सादश्यं पदार्थान्तरम् न तु साधा- रणधर्मरूपमिति विज्ञायते। अन्यथा औपन्यस्यात्र गम्यत्वोकरनुपपत्तेः। केचित्तु-'सादृश्यभाव एवातिरिक्तः। सादृश्यं तु तत्तत्साधारणधर्मा- त्मकमेव। स चेवादिपदानां शक्यतावच्छेदकः। तत्तत्साधारणधर्मवाच- कैस्तु तत्तत्साधारणधर्मस्य स्वशक्यतावच्छेदकतत्तद्धर्मरूपेण बोधनेऽपि सादृश्यभावरूपेण बोधो व्यञ्जनसाध्य एव' इत्यपि वदन्ति।

तुल्ययोगितां निरूपयति-अथेति। विनिगमनाविरहादाह-अप्रकृतेति । ननु नायं नियमोऽत आह-वाचकेति। अत एव औपम्यस्यात्र गम्यतादेव। अपिना वैयाकरणादिसमुच्चयः। निरूपितं चेतत्कुवलयानन्दव्याख्यायां मञ्जषायां च। सादृश्य- भाव: सादृश्यलम्। स च सादृश्यभावश्च। केचिदिति । अरुचिबीजं तु '्अन्ते

१ अयं सर्वस्याशयः-वक्ष्यमाणे 'प्रिये विषादम्०' इत्युदाहरणे अश्रु-मानयोरौपम्यस्य प्रयोजिका (कारणभूता) विगलनक्रिया समानधर्मत्वेनोपात्ता। वाच्येन चानेन साधारणधर्मेण 'लोचनाभ्यामश्रुधारेव मनसो मानो विजगाल' इति द्योरुपमा (सादृश्यम्) व्यङ्चया। अत्र हि गम्यं सादृश्यमस्तीत्युक्त्या सादृश्यं पदार्थान्तरमेव, न समानधर्मरूपमिति विज्ञायते। यदि े साधारणवर्मरूपमेव तत् स्यात्तहि 'विगलन'रूपसमानधर्मस्य शब्दवाच्यत्वेपि औपम्यस्य गम्यत्वकथनमसंगतं स्यात्। २ तत्तत्साधारणधर्मरूपे सादृश्ये वर्तमानं सादृश्यत्वमेवातिरिक्तम्, यद्धि इवादीनां शक्योऽ्थों यत्सादृश्यं तदवच्छेदकरूपमस्ति। ३ यथा प्रिये विषादम्० इत्यत्र 'विजगाल' इति पदेन विगलनक्रियारूपसाधारणधर्मस्य (सवं साधारणधर्मवाचकं बिजगालेति पदं तस्य शक्योऽर्थः विगलनम्, तदवच्छेदकं विगलन- त्वम् तद्रूपेण) बोधनेपि सादृश्यत्वरूपेण बोधनं नार्ति। सादृश्यत्वरूपेण अभिधया बोधनं तत्रैव भवति यत्र इवादीनामुपादानं स्यात्। ततश्रात्र सादृश्यस्य समानधर्मरूपत्वाङ्गीकारेपि इवादयभावात् औपम्यस्य गम्यत्वोक्ति: संगच्छते। अस्मिन्पक्षेऽरुचिस्तु-अतिरिक्तस्य स्वीकारोSत्रापि जात एव, तर्हि सादृश्यमेव पृथवपद्रार्थः किमिति न स्वीकर्तव्य इति। ४ 'अन्ते रण्डाविवादश्चेदादावेव कुतो नहि' इति।

Page 484

४२४ काव्यमाला। [द्वितीयानने-

उदाहरणम्- 'प्रिये विषादं जहिहीति वाचं प्रिये सरागं वद्ति प्रियायाः । वारामुदारा विजगाल धारा विलोचनाभ्यां मनसञ्च मान: ।।' अन्र मानिन्या वर्ण्यत्वात्तदीयत्वेन प्रकृतयोः कर्त्रोरश्ुमानयोर्विंगलन- क्रिया समानधर्मत्वेनोपात्ता, विलोचनमनसोरपादानयोश्च। कारकाणां सर्वेषामपि क्रियान्वयस्य तुल्यत्वात्। एवं चतुर्णा क्रियारूपधर्मैक्येSपि द्वयोद्वयोरेवौपम्यं प्रतीयते न परस्परं चतुर्णाम्। तदपादानत्वतत्कर्तृत्वरूपे विशेषे सामान्यस्य पर्यवसानात्। शेषसुपरिष्टाद्वोध्यम्। 'न्यख्ति वयससि प्रथमे समुदव्व्ति किं च तरुणिमनि सुदृशः । उल्लसति कापि शोभा वचसां च हशां च विभ्रमाणां च।।' अन्न गुणः। यदि च 'विलसन्त्यहमहमिकया वाचो गतयश्च विभ्रमाश्च

रण्डा-' इति न्यायविरोधापत्तिरिति। वदतीति सप्तम्यन्तम्। प्रियाया नेत्राभ्यां हृदश्ष जलानां बही धारा मानश्च च्युत इत्यर्थः । विलोचनेति । उक्तरीत्या प्रकृतयोरि- त्यादिः। दानयोश्चेति। विगलनेत्याद्यनुषज्यते। ननु कत्रोंः क्रियान्वयात्तथा संभ- वेऽपि कथमपादानयोस्तथा। तत्रान्वयस्यैवाभावात् । अत आह-कारकेति । द्वयोरद्वयोरेवौपम्यं प्रतीयत इति। तत्प्रतीतावपि नात्र तत्कृतश्वमत्कारोऽनुभवसिद्धः । किं तु तत्सहकृतैकधर्मान्वयकृत एवेति पृथगलंकारता। न च गम्योपमयैव निर्वाहः। विद्यमानस्यापि सादृश्यस्यासुन्दरसाधारणधर्मकत्वेनासुन्दरत्वादिति बोध्यम्। सामा- न्यस्य क्रियान्वयित्रूपकारकत्वस्य। प्राचां मतेनेदं क्रियोदाहरणमुक्ता गुणोदाहरण- माह-न्यश्चतीति। तिरोभूते सतीत्यर्थः । गुण इति। शोभारूप इत्यर्थः । आदिपद्ग्राह्योदाहरणमाह-यढीति। ननु केवलस्यैव तत्त्वं कुतो नात आह- १ अयं सर्वस्याशय :- क्रियान्वयित्वं कारकत्वमिति स्वीकरणात विगलनक्रियया सह कत्रों: अश्रुमानयोर्यथा अन्वयः, तथा विलोचन-मनसोरपादानयोरपि [मनसो विजगाल (मानः), विलोचनाभ्यां विजगाल (अश्रुधारा), इति ]। एवं च चतुर्णाम् एकक्रियासंबन्धे समानेऽषि अश्रु-मानयोः, विलोचन-मनसोरेव परस्परम् औपम्यं व्यअ्जनया प्रतीयते, न तु अश्रु-विलो- चनयोः, मान-मनसोवा। यतो हि विगलनरूपैकक्रियासंबन्धरूपसमानधर्मतायाः सच्वेऽषि अश्रुणि कर्तृत्वम्, विलोचनयोश्चापादानत्वम् (एवं मानमनसोरपि) इति परस्परं विशेषोप- लम्भात्समानधर्मत्वाभाव इति। २ अत्र गुणः प्रकृतानां समानधर्मत्वेनोपात्त इत्यनुषङ्गः। एवमग्रेडपि ।

Page 485

तुल्ययोगिता ] रसगङ्गाघरः । ४२५

भृशम्' इत्युत्तरार्ध तदा क्रिया। यदि 'दधति स्म मधुरिमाणं वाचो गत- यश्च विभ्रमाश्च भृश्म्' इति क्रियते तदा गुणविशिष्टा क्रिया। केवलगुणेन साक्षात्संबन्धाभावान् केवलक्रियायाश्चाहृद्यत्वात्। अप्रकृतानामेव यथा- 'न्यञ्वति वाल्ये सुदृशः समुदव्जति गण्डसीम्रि पाण्डिमनि। मालिन्यमाविरासीद्राकाधिपलव लिकनकानाम्।।' अत्र गुणः, आविर्भावक्रियायाः साक्षाद्धर्मिभिरनन्वयात्। 'न्यव्नति राकाधिपतिर्लवली पुरटं च पुण्डरीकं च'इति कृते क्रिया। 'धवली- भवत्यनुदिनं लवली कनकं कलानिधिश्चायम्' इति कृते गुणविशिष्टक्रिया। 'त्वयि पाकशासनसमे शासति सकलं वसुंधरावलयम्। विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि ॥'

ध्यवसानेन पिण्डीकृतोऽर्थो वा। यत्वलंकारसर्वस्वकृता, तदनुगामिना कुवलयानन्दकृता च 'गुण- क्रियाभिः संबद्धत्वे गुणक्रियारूपैकधर्मान्वयः' इति चोकं तदापाततः ।

केवलेति। कारकाणां मिथः क्रियाद्वारकसंबन्धादाह-साक्षादिति । लवलिः 'हरफारेवडी'। गुणो मालिन्यरूपः । धर्मिभिश्चन्द्रादिभिः। तेषामकारकलवात्। पुरटं सुवर्णम्। आदिसंग्राह्यान्तरोदाहरणमाह-त्वयीति। पाकेति। इन्द्रतुल्य इत्यर्थः । वर्षन्ति वर्षणं कुर्वन्ति। संवत्सरवदाचरन्तीतर्थः। उभयेति। नेत्रादीत्यर्थः । शब्दमा- त्रमिति। वर्षन्तीति शब्दमात्रमित्यर्थः । तस्य तदुभयवृत्तिताभावादाह-श्ेषेति। पपिण्डीकृत एकीकृतः । यथाक्रमनाह-गुणेति। यद्वा जातिक्रियाद्रव्यातिरिकतं धर्ममात्रं गुण इति वैयाकरणमतेनेदम्। किं च 'न मनागपि निश्चिन्ते' इत्यन्न चिन्ता- १ विलसनरूपा। २ माधुर्यगुणविशिष्टा धारणक्रिया। ३ ननु प्रत्यर्थ शब्दनिवेश इति नियमेन जलवर्षणेडर्ये वत्सरसमभवने च भिन्नभिन्नेडर्ये भिन्नभिन्नशब्दप्रयोग: स्यादित्याह। शरषमूलेनेति०-एकपदोपस्थाप्यत्वरूपेणाSमेदेन वर्षणयोः (जलस्रवण-वर्षसमभवनयोः) ऐक्यं जातम्। ततश् एकीभूतस्य वर्षणस्य (अर्थस्य) समान- धर्मतया उभयत्र संबन्ध इत्यर्थः ।

Page 486

४२६ काव्यमाला। [ द्वितीयानने-

शासति त्वयि हे राजन्नखुण्डावनिमण्डलम्। न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥' इत्यत्राभावरूपस्यैव धर्मस्यान्वयात्। गुणक्रियेत्युपलक्षणं वा धर्म- मात्रस्य । एवम् 'एकरत्वं दानशीलोऽसि प्रत्यर्िषु तथार्थिषु' इत्यादावपि दानशीलरूपैकान्वयाहक्षणप्रवृत्तिः, यथाकर्थंचिद्नेकत्रैकान्वयस्य चमत्का- रिणोऽपेक्षितत्वात्। एतेन- 'हिताहिते वृत्तिताल्यमपरा तुल्ययोगिता । प्रदीयते पराभूतिर्मित्रशात्रवयोः समा ॥' इत्यादिना तुल्ययोगितायाः प्रकारान्तरं यत्कुवलयानन्दकृता लक्षित- मुदाहृतं च तत्परास्तम्। अस्या अपि 'वर्ण्यानामितरेषां वा धर्मैक्यं तुल्य- योगिता।' इति पूर्वलक्षणाक्रान्तत्वात्। एकानुपूर्वीबोधितवस्तुकर्मकदानपा- त्रत्वस्य, परम्परया तादृशशब्दस्य, प्रागुक्तमार्गणार्थस्य, वा धर्मस्यैक्यात्।

भीववद्भेदस्य चिन्तानतिरिक्ततया गुणस्यैव साधारणधर्मतमित्यपि वक्तुं शक्यम्। दानेति। द्रव्यस्य पराभवस्य वेति भावः । एतेनेत्यस्यार्थमाह-अस्या अपीति। पूर्व- लक्षणाक्रान्तत्वादिति। अन्नेदं चिन्त्यम्-हिताहितविषयकतुल्यव्यवहारकतृत्वप्रती- तिकृतचमत्कारे एषा। यथोक्तवर्मिणामेकधर्मान्वयकृत एव यन्र चमत्कारस्तत्राद्येति भेदात्। 'प्रदीयते पराभूतिः' 'यश्च निम्बं- इत्यनयोः पद्ययोने तादृशधर्मान्वयमात्र- कृतश्रमत्कारः । किंतु राजनिम्बयोर्हिताहितविषयक-शुभाशुभान्यतरैकजातीयकर्तृक- व्यवहारकृत एवेति सहृदयहृदयमेवात्र प्रमाणम्। अत एव 'जगाल मानो हृदयादसुष्या विलोचनाभ्यामिव वारिधारा' इत्यत्र न तुल्ययोगिता। चन्द्र इव सुन्दरं मुख इत्यत्र १ अयंभाव :- अस्मत्कृतलक्षणे 'गुणक्रियादिरूपैकधर्मान्वयः' इति आदिपदेन गुणविशिष्ट- क्रिया-शब्द-अभाव-दानशीलेत्यादिविशेषणादीनामन्येषां च संभवतां संग्रहो भवितुमर्हति। 'गुणक्रियाभि: संवद्धत्वे' इत्युक्तो तु चिन्ताडभाव इत्यादीनां गुणक्रियात्वाभावात्तुल्ययोगितायां संग्रहो न स्यादित्याशयः । २ पराभूतिरूपम् । ३ दानपात्रत्वस्य, पराभूतिरूपशब्दमात्रस्य, श्रेषमूलकेनाडमेदाध्यवसायेनेकीकृतस्याडर्थस्य वा, धर्मैक्यं वर्तत इति त्रिभि: प्रकारैः पूर्वलक्षणाक्ान्तत्वसाधनम्। ४ च्िन्ताऽभावस्याऽभावः चिन्तारूपः स्यात, न तु च्िन्ताऽभाववतो. धर्मिणोऽभावः । किंच चिन्तारूपधर्मस्य 'शत्रुमित्रयोः मण्डले' इति मण्डलाभ्यां धर्मिभ्यामभेदान्वयो दुर्घट इति तदिदं नागेशकृतं समाधानमाभासरूपमेव।

Page 487

तुल्ययोगिता ] रसगङ्गाधरः ।

'यक्ष निम्बं परशुना यश्चैनं मधुसर्पिषा। यश्च्चैनं गन्धमाल्यादैः सर्वस्य कटुरेव सः ॥' इत्यत्रापि कटत्वविशिष्टस्य निम्बस्यैव परम्परया छेदकसेचकपूजक- वैर्मत्वसंभवात्। न चात्र वृत्तिनियामकसंन्धेन धर्मिवृत्तित्वं विवक्षितं

अथ चन्द्र इव सुन्दरं मुखमित्याद्युपमायां चन्द्रमुखयोरेकधर्मान्वया- दुतिव्याप्तिः। न चात्र प्रकृतानामेवाप्रकृतानामेवेत्युक्तत्वान्न तथेति वाच्यम्। आ्गुक्ते 'प्रिये विपादं-' इति पद्ये 'जगाल मानो हृदयादमुष्या विलोच- नाभ्यामिव वारिधारा।' इत्युत्तरार्धे कृते प्रकृतयोर्मानवारिधारयोरुपमायां तथाप्यतिव्यापेः। चन्द्र इव सुन्दर मुखमित्यत्रापि वक्ष्यमाणदीपकलक्षणा- तिव्याप्ेश्च। न चौपम्यस्य गम्यत्वे सतीत्यपि विश्ञेषणीयमिति वाच्यम्। 'चन्द्रांशुनिर्मलं वारि चन्द्रो हंससमयुतिः। हंसास्तु शरदि स्मेरपुण्डरीकमनोरमाः ॥।'

न दीपकम्। तत्र सादृश्यप्रतीतिकृतचमत्कारस्यैव सत्त्वात्। नन्वेवमलंकारान्तरत- मेव वक्तुं युक्तम्। इति चेतू सत्यम्। अत एवास्वरसात्कुवलयानन्दकृता 'इयं सरखती- कण्ठाभरणोक्ता' इत्युक्तम् । न च तुल्ययोगितायां सादृश्यस्य गम्यतया गम्योपमयैव निर्वाहः। तावन्मात्रकृतचमत्काराभावात्। एकवर्मान्वयकृतस्यापि सत्त्वात्। प्रतीयमा- नस्यापि सादृश्यस्यासुन्दरसाधारणधर्मकत्वेनासुन्दरलादिति बोध्यम्। परस्परया छेदकेति। खकर्मकक्रियाश्रयत्वरूपयेत्यर्थः। वक्ष्यमाणकारकेति। 'वसु दातुं यशो धातुमतीव निपुणो भवान्' इत्यादावित्यर्थः। वक्ष्यमाणदीपकेति। प्रकृताप्रकृ- तत्वसत्त्वादिति भावः। इवस्य सत्त्वान्नोक्तदोषद्वयमित्याशयेनाह-न चेति। चन्द्रां- शुनिर्मलमिति। अन्र द्वितीयचरणे नातिप्रसङ्गविषयः, समशब्दस्य सत्त्वाद्। तदंशे १ छेदके सेचके पूजके च कटत्वविशिष्टो निम्व एवैको धर्मतया अन्वेति (छेदकस्य कटः, सेचकस्य कटः, इत्यादिरूपेण) इत्यर्थः । २ ननु धर्मिणामेकधर्मान्वयसाधनाय छेदकादि व्यापारजन्यछेदनादिरूपफलभोक्तृत्वसंबन्धेन निम्बश्छेदकादीनां संबन्धी व्यपदेषं शक्यः, किन्तु अत्र धर्मः स एव विवक्षितः यस्य वर्तमानता वृत्तिनियामकसंबन्धेन [वर्तमानताया नियामको यः संबन्धः, अर्थात् 'अनेन संबन्धेन अयं धर्म: धर्मिणि वर्तते' इति ] आधाराधेयभावेन स्यात् (यथा प्रिये विषादम्० अत्र विलोचनयो: अश्रु)। निम्बस्तु एवंसंबन्धेन छेदकादिषु न वतते इति शङ्का। धर्मस्यवंवृत्तित्वस्वीकारे वस दातुमित्यादिवक्ष्यमाणोदाहरणेडपि-दानादिक्रिया: आधाराधेयभावेन वर्ण्ये राज्ि न वर्तन्ते। ततश्च तत्राव्याप्तिप्रसङ्गादेवंसंबन्धेन वृत्तित्वं न स्वीकर्तु शक्यमिति समाधानम्।

Page 488

४२८ काव्यमाला । [द्वितीयानने-

इत्यत्र वाचकाभावाह्म्योपमायां तथाप्यतिप्रसङ्गात्। यदि चात्र न व्यङ्या उपमा, किं तु समाससे वाच्या, पूर्वपदस्य लक्ष्या चेति सूक्ष्ममीक्ष्यते, तथापि 'हंसास्तु मानसभुवश्चन्द्रा एव न संशयः' इत्यादिरूपकादि- ध्वतिप्रसङ्गः । न ह्यत्रापि चन्द्रादिसादृश्यविशिष्ट चन्द्रादिपदानां लाक्ष- णिकत्वादुपमा लक्ष्यैवेति शक्यते वक्तुम्। रूपके लक्षणा नास्तीति प्रागेव प्रतिपादनात् इति चेत्, न। यत्र यथोक्तानां धर्मिणां यथोक्तधर्मान्वय एव चमत्कारी, तत्र तुल्ययोगिता, दीपकं वा। यत्र तादशधर्मान्वयप्र- युक्तं सादृश्यमभेदो वा, तत्रोपमारूपकादिकमेवालंकारताप्रयोजकम्। सुन्दरत्वे सत्युपस्कारकत्वमित्यसकृदावेदनात्। अन्यथा सादश्यस्यात्र प्रत्ययात्तदादायोपमाव्यवहारस्याप्यापत्तेरिति दिकू। एवं च- 'दुधीचिव लिकर्णेषु हिर्महेमाचलाब्धिषु। अदातृत्वमधैर्य च दृष्टे भवति भासते ।।'

प्रक्रमभङ्गश्च काव्यदोषो बोध्यः । अतिप्रसङ्गादिति । तुल्ययोगिताया इत्यादिः । शरहतुवर्णने सर्वेषां प्रकृतत्वात्। एवमग्रेऽपि बोध्यम्। वैयाकरणमतेनाह-समास- स्येति। नैयायिकमतेनाह-पूर्वेति। यथोक्तानामिति। प्रकृतानामेवाप्रकृता- नामेव वा प्रकृताप्रकृतानां वेत्यर्थः। यथोक्तेति। गुणादीत्यर्थः । इत्यसकृदिति । इत्यस्यासकृदित्यर्थः । अन्यथा उत्तव्यवस्थानङ्गीकारे। अत्र तुल्ययोगितायाम्। प्रत्य- याद्रम्यमानलात्। अपिना सांकर्य सूचितम्। एवं च अस्या अतिरिक्तत्वे च।

१ चन्द्रांशुरिव निर्मलम् (वारि), पुण्डरीकाणीव मनोरमाः (हंसाः), इत्यादौ 'उपमानानि सामान्यवचनः' इति विहितः समास एव परस्परसादृश्यस्य (उपमायाः) वाचकः । अथवा- चन्द्रांशु इत्यादिपूर्वपदस्यैव तत्सदृशे लक्षणा। ततश्च नात्र व्यड्च्या उपमेति न तुल्ययोगिता- Sतिप्रसङ्ग इति पूर्वपक्षिणः समाधानम्। २ नव्यानां मते। ततश्च उपमा लक्ष्या न स्यात्, अपि तु 'हंसाश्चन्द्रा एव' इत्यत्र अभेदस्य वाच्यत्नेन उपमा (सादृश्यम्) व्यङ्गयैवेति 'हंसाः चन्द्रा एव' इति रूपके तुल्ययोगि- वाडतिप्रसङ्ग: स्यादेवेति पूर्वपक्षः संपन्नः । ₹ चमत्कारीति पूर्वानुषङ्गः । ४ हिमाचलहेमाचलाब्धिष।

Page 489

सुल्ययोगिता ] रसगङ्गाघर: । ४२९

इत्यादौ रशनारूपैषा यथासंख्यावष्टन्घा। 'हष्टः सदसि चेदुग्राश्चन्द्रचन्दनचन्द्रिकाः । अथ त्वं संगरे साम्याः शेषकालानलाब्धयः ।।' इत्यत्र च स्वरूपद्वयेन राजविषयकरतिभावभूषणतया स्थिता। यत्र च प्रकृतानामेवाप्रकृतानामेव वा क्रियाणामेककारकान्वयः सा कारकतुल्ययोगिता।

यथा- 'वसु दातुं यशो धातुं विधातुमरिमर्दनम्। त्रातुं च सकलां पृथ्वीमतीव निपुणो भवान् ।।' अत्र राज्ः स्तावकवाक्ये प्रकृतानां क्रियाणामेकेन कत्रा साधारणेन धर्मेणौपम्यम्। यथा वा- 'दूरीकरोति कुमतं विमलीकरोति चेतश्चिरंतनमघं चुलुकीकरोति। भूतेषु किं च करुणां बहुलीकरोति सङ्ग: सतां किमु न मङ्गलमातनोति ॥'

रशनारूपषेति। दधीचिरिव बलिर्बलिरिव कर्ण इत्यादिप्रतीतेरिति भावः । यथासं- ख्येति। बल्यादिष्वदातृत्वं हिमालयादिष्वधैर्यमिति भावः । राजवर्णनमिदम्। दष्ट इति। इदमपि राजवर्णनम्। हे राजन्, लवं सभायां दृष्टश्रेच्चन्द्रादय उग्रा दृश्यन्ते। अथ तं रणे दृष्टश्चेच्छेषादयः सौम्या दृश्यन्त इत्यर्थः । स्वरूपद्वयेनेति। शान्तोग्ररु पेणेत्यर्थः। रतीति। कविनिष्ठेत्यादि। धातुं संपादयितुम्। विधातुं कर्तुम्।

१ इदं विशेषणं काशीपुस्तके नास्ति। २ इदं काशी पुस्तके नास्ति। ३ परस्परमापम्यमाप्तासु सर्वासु क्रियासु एक एव कर्ताऽन्वेतीति कर्तैव साधारणधर्मस्था- नीयः । यथा भवान् वसुदाने निपुणस्तथा यशोधानादिषु इति।

Page 490

४३० काव्यमाला। [ द्वितीयानने-

अत्रार्थान्तरन्यासान्विता। 'केऽपि स्मरन्त्यनुसरन्ति च केचिदन्ये पश्यन्ति पुण्यपुरुषाः कति च स्पृशन्ति । मावर्मुरारिचरणाम्वुजमाध्वि गङ्गे भाग्याधिकाः कतिपये भवतीं पिबन्ति ॥' अत्रैकं कर्म क्रियाणां साधारणम्। व्यङ्गयैषा यथा-

न्कथा यत्रोदञ्चत्यतुलबलधैर्यस्य भवतः । अयं को वा तन्न प्रसृमरफणाकोणनिहित- क्षितिः शेषः श्रीमान्कमठकुलचूडामणिरपि ।।' अत्र को वा इत्यनेन वाच्यलक्ष्यव्यतिरिक्तस्यागणनीयत्वस्य शेषक- मठाभ्यामप्रकृताभ्यामन्वयः प्रतीयते।

इति रसगज्ाधरे तुल्ययोगिताप्रकरणम् ।

करोति नाशयति। न्यासान्वितेति। कारकतुल्ययोगितेति शेषः । विशेषस्य सामा- न्येन समर्थनात्तन्मिश्रत्वमिति भावः । अम्वुजमाध्वि कमलमकरन्दरूपे। अये इति। श्रीरामवर्णनमिदम्। अत एव तयोरकृतलम्। हे राम, यत्र स्थले तव कथा निःस- रति तत्र शेष: कूर्मश्च भूधारकः को वा। न कोऽपीत्यर्थः । इत्यनेनेति । व्यज्य- मानस्येति शेषः । अत एव वाच्येति । इति रसगङ्गाधरमर्मप्रकाशे तुल्ययोगिताप्र- करणम् ।।

१ कुमतिदूरीकरणादीनां प्रकृतानां क्रियाणाम् एकेन कर्त्रा (सङ्गेन) साधारणधर्मस्थानीये- औपम्यम्-यथा सत्सङ्ग: कुमति दूरीकरोति तथा चेतो विमलीकरोतीत्यादि। २ प्रकृतानां स्मरणादिक्रियाणामेकेन कर्मणा (गङ्गया) साधारणधर्मेणान्वयः परस्परमौपम्यं न-भाग्याधिकाः गङ्गां यथा स्मरन्ति तथा भाग्याधिका गङ्गामनुसरन्ति, पश्यन्तीत्यादि। ३ को वा इति पदेन व्यज्यमानस्य नकिञ्चिद्गणनीयत्वरूपस्य धर्मस्य अप्रकृतयोः शेष+ कमठयो: अन्वय इति धर्मस्य व्यज्यत्वाद व्यङ्ञया तुल्ययोगितेत्याशयः ।

Page 491

दीपकम् ] रसगङ्गाघर:। ४३१

अथ दीपकम्- प्रकृतानामप्रकृतानां चैकसाधारणधर्मान्वयो दीपकम्। प्राग्वदेवात्राप्यौपम्यस्य गम्यत्वम्। प्रकृतार्थमुपात्तो धर्मः प्रसङ्गादप्रकृ- तमपि दीपयति प्रकाशयति सुन्दरीकरोतीति दीपकम्। यद्वा दीप इच दीपकम्, संज्ञायां कन्। दीपसाहश्यं च प्रकृताप्रकृतप्रकाशकत्वेन बोध्यम्।

उदाहरणम्- 'अमृतस्य चन्द्रिकाया ललितायाञ्र्ापि कवितायाः । सुजनस्य च निर्माणं जनयति नहि कस्य संतोषम् ।।'

यथा वा- 'सुधायाश्चन्द्रिकायाश्च संजीविन्या महौषधेः। द्यादष्टेश्च ते राजन्विश्वसंजीवनं गुणः ।।'

यथा वा- 'मृतस्य लिप्सा कृपणस्य दित्सा विमार्गगायाश्र रुचिः स्वकान्ते। सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ नहि दष्टपूर्वा ।।'

अन्राभावः साधारणो धर्मः

अथ दीपकं निरूपयति-अथेति। अत्राव्यौपम्यस्येति। परंतु प्रकृतमुपमेय- मप्रकृतमुपमानमिति बोध्यम्। योगरूढं दीपकपदमित्याह-प्रकृतेति। प्रकाशनासं- भवादाह-सुन्दरीति। नन्वेवमचा भाव्यमत आह-यद्वति। 'संज्ञायां कन्' इति कनू। अमृतस्येति। अन्र ललितत्वविशेषणोक्ते: कवितायाः प्रकृतलवं बोध्यम्। इर्द गुणस्योदाहरणम्। क्रियोदाहरणमाह-सुधाया इति। अत्र राजवर्णनेन दयादृष्टेरेव प्रकृतत्म्। अभावोदाहरणमाह-मृतस्येति । विमार्गेति। परपुरुषगामिन्या

१ अमृतादिकर्मकं संबन्धि वा निर्माणम्।

Page 492

४३२ काव्यमाला। [द्वितीयानने-

कस्यचित्प्रकतत्वे दीपकम्, अन्यथा तुल्ययोगितैव। यत्र क्रिया साधारणो धर्मस्तन् यावतां कर्त्रादिकारकाणां संनिधानं तेषां स्वसजातीये- नान्येन सह तुल्ययोगिता, दीपकं वा पृथकपृथग्भवति, औपम्यस्यापि प्ृथगेव भासमानत्वात्। यथा- 'सुजनाः परोपकारं शूराः शस्तरं धनं कृपणाः। कुलवत्यो मन्दाक्षं प्राणात्यय एव सुख्रन्ति ॥' अत्र कर्तृकर्मणोः । एवं वक्ष्यमाणे 'लावण्येन प्रमदा-' इत्यत्र कर्तृ- करणयोः। 'दिवि सूर्य-' इत्यत्र कर्त्रधिकरणयोः। अमुनैव न्यायेनानेकासां क्रियाणामेककारकान्वये कारकदीपकम्। यथा- 'वसु दातुं यशो धातुं विधातुमरिमर्दनम्। त्रातुं च मांदशान्राजन्नतीव निपुणो भवान् ।' अत्र वृत्तिहीनस्य कस्यचिद्दीनस्य वचने वसुदान-स्वत्राणलक्षणयोः क्रिययोः प्रकृतयोः, अरिमर्दनस्य चाप्रकृतस्य, यशोधानस्य चोभयात्मनः साधारणं कतृकारकम्।

इत्यर्थः । अत्राह-कस्यचिदिति। प्रकरणादिनेति भावः । कर्त्रादीति। आदिना कर्मकरणाधिकरणानि ग्राह्याणि । मन्दाक्षं लजाम्। वृत्तीति । जीवनेत्यर्थः ।

१ अयं सर्वस्याशयः-तत्र यावन्ति कर्तृ-कर्मादिकारकाणि संनिहितानि भवन्ति तेषां सवस- जातीयेन अर्थात् कर्तृकारकस्य अन्येन कर्तकारकेण सह, एवं कर्मणः अन्येन कर्मणा सह तुल्ययोगिता (यदि तानि प्रकृतान्येव अप्रकृतान्येव वा स्युः), दीपकं वा (यदि प्रकृताप्रकृतानि स्युः) पृथक्पृथक्परिगण्यते । यथा-सुजनाः शूराः कृपणाः कुलवत्यश्चेति कर्तकारकाणां मोचनरूपैकक्रियासंबन्धात्तुल्ययोगिता (सर्वेषां प्रकृतत्वे अप्रकृतत्वे एव वा), कस्चचित्प्रकृतत्वे अन्येषां चाप्रकृतत्वे दीपकं वा व्यपदिश्यते। यतो हि कर्तुरौपम्यं कत्रैंव, एवं कर्मण औपम्यं कर्मणैवेति औपम्यस्य पृथगेव भासमानतया कर्त-कर्मादीनां तुत्ययोगिता-दीपकालंकारव्यप- देशोंपि पृथक्पृथगेव भवतीति २ प्रकृताऽप्रकृतानामित्यर्थः ।

Page 493

दीपकम् ] रसगङ्गाघर:। ४३३

यथा- 'वासयति हीनसत्त्वानतिसत्वानुद्धतान्विवासयति। त्रासयति सकलशत्रुन्नीति विदामग्रणीर्नराघिपतिः।।' अत्र कस्यचिद्धीनसत्त्वस्य, सत्त्वाविकमसहमानस्य वा, शत्रुपरि- पीडितस्य वा कस्यचिद्राजानं कंचित्प्रत्युक्तौ सामान्यविशेषरूपायामप्रस्तुत- प्रशंसायामेकस्याः क्रियायाः प्रकृतायाः इतरयोञ्चापकृतयोः साधारणं तत्। यदि तु प्रागुक्तव क्तभिन्नस्य कस्यचिद्रा जस्तोतुर्नीतिमात्रवोधकस्य चेयमुक्ति- स्तदा क्रियाणां प्रकृताप्रकृतरूपत्वाभावात्तुल्ययोगितैव। यचु- 'सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम्। सैव क्रियासु बह्वीपु कारकस्येति दीपकम् ।।' इति लक्षणमुक्त्वा- 'स्विद्यति कूणति वेहृति विवलति निमिषति विलोकयति तिर्यक्। अन्तर्नन्दृति चुम्नितुमिच्छति नवपरिणया वधू: शयने ।' इति द्वितीयं दीपकमुदाहृतं काव्यप्रकाशकृद्गिः । तत्र विचार्यते- प्रथमार्धगतलक्षणेनैव दीपकद्वयस्यापि संग्रहाद्वितीयं लक्षणं व्यर्थम्। गुणिनां कारकाणां च गुणक्रियारूपधर्मस्येव क्रियाणामपि कारकरूपधर्मस्य सकृदृत्ते: साम्राज्यात्। न च क्रियाणां प्रकृताप्रकृतात्मताविरहेऽपि

पद्यक्रमेणोक्तिक्ममाह-अत्रति । अप्रस्तुतप्रशंसाया अनेकविधलादाह-सामा- न्येति। पूर्वार्धेन सामान्यतो राजस्तुतिः, उत्तरार्घेन विशेषत इति भावः। एकस्या इति। यदीयोक्तिस्तदीयाया इत्यर्थः । तत्कर्तृकारकम्। नीतिविदामग्रणीरित्युक्तलादाह- नीतीति । धर्मस्य क्रियादेः। प्रकृताप्रकृतात्मनां कारकाणाम्। सैव सकृद्वृत्तिरेव। १ निवासरहितान् करोति। २ प्रस्तुतं राजविशेपं प्रति सेयमुक्तिः । तत्प्रसङ्गे सामान्यतो राजप्रशंसनात अप्रस्तुतसा- मान्येन प्रस्तुतविशेषाख्यानपराSप्रस्तुतप्रशंसा वाक्यार्थः । तिसृरणां क्रियाणाम् (प्रकृताऽ- प्रकृतानाम्) एकेन कर्तृकारकेणाऽन्वयात्कारकदीपकम्। प्रकृताप्रकृतत्वाभावे तु तुल्ययोगिता। इति सर्वस्याशयः । पूर्वार्धेन उत्तरार्घेंनेत्यादिका नागेशोक्तिस्तु भ्रामिकव। ३ अनेकेपां गुणिनां गुणरूपैकधर्मसंबन्धात, अनेकेषां कारकाणां क्रियारूपैकथर्मसंबन्धा- त्प्रथमलक्षणलक्षित दीपकं यथा प्रसज्यते तथा अनेकक्रियाणां कारकरूपैकधर्मसंबन्धात् प्रथम- लक्षितं दीपकं स्यादेव, पुनः किं फलं द्वितीयलक्षणस्येति सर्वस्याशयः । ३७ रस०

Page 494

४३४ काव्यमाला। [ द्वितीयानने-

शुद्धप्रकृतत्व्ने शुद्धाप्रकृतत्वेऽपि वा कारकस्य सक्रद्वत्तेर्दीपकत्वैम्, क्रिया- भिन्नानां तु प्रकृताप्रकृतात्मतायामेव क्रियादेर्धर्मस्येति वैलक्षण्याल्लक्षण- द्वयमिति वाच्यम्। कारकतुल्ययोगितोच्छेदापत्तेः । सकलालंकारिकसि- द्वान्तविरोधापत्तेश्र। लक्षणद्वयस्याननुगतत्वाच्च। तादृशलक्षणद्वयान्यतर- वत्वस्य लक्षणत्वे गौरवादुपप्टर्वेप्रसङ्गाच्च।एवं च 'स्विद्यति कूणति-'इत्या- युदाहरणमपि न संगच्छते, क्रियाणां शुद्धप्रकृतत्वात्। किं च दीपकतुल्य- योगितादौ गन्यमानमौपम्यं जीवातुरिति सर्वेषां संमतम्। न चात्र स्वेदनकू- णनादीनामेककारकान्वितानामप्यौपम्यं कविसंरम्भगोचरः । तस्मात्समुच्च- यालंकारच्छायाSत्रोचिता। अस्मदुदीरितानां वसुदानादीनां हीनसत्त्व-

कूणति संकुचति। वेहवति ष्िष्यति। क्रियाभिन्नानामिति। गुणिनां कारकाणां चेत्यर्थः । धर्मस्येति । सकृद्वृत्तेदींपकत्वमित्यर्थः । उच्छेदापत्तेरिति। लद्रीत्या कारकदी- पकेनैव तत्र भाव्यमिति भावः। इष्टापत्तावाह-सकलेति। तत्रापीष्टापत्तावाह- लक्षणेति। अनुगमसतवान्नायं दोषोऽत आह-तादृशेति। नन्वगत्या गौरवस्वी- कारोडत आह-उपप्ुवेति। प्रागुक्तरीत्यान्यतमवत्त्वेन सर्वेषामैक्ये उपमाद्युच्छेदाप- त्तेरित्यर्थः । एवं च उक्तमेदानङ्गीकारे च। प्रकृताप्रकृतत्वे एव तदङ्गीकारादाह-क्रि- याणामिति। कविसंरम्भगोचर इति। केवलं तादृशनायिकास्वभाववर्णनस्यैव तत्त्वादिति भावः । चकाराभावादाह-छायेति । अन्न खिविद्यतीत्यादौ। नन्वेवं खदुदाहरणेऽप्यापम्यस्य तदविषयत्वात्कथमेतदुदाहरणलमत आह-अस्मदिति।

१ कारकस्य सकृद्वृते:, अर्थात् अनेकक्रियाणां कारकरूपैकधर्मसंबन्धात् कारकदीपकत्व- मित्याशयः । २ अनेकासां क्रियाणां प्रकृतत्वे, अप्रकृतत्व्रे एव वा, कारकरूपैकधर्मसंबन्धात्कारकतुल्य- योगिताSद्यावधि सर्वैरङ्गीकता। इदानी लक्षणद्वयसंगत्यर्थ क्रियाणां शुद्धप्रकृतत्वे, अप्रकृतत्वेऽपि वा यदि कारकदीपकमेवाSऽख्यायेत (न तुव्ययोगिता) तहिं कारकतुत्ययोगिताया उच्छेद: स्यादित्याशयः । ३ उमे अपि लक्षणे एकस्िन् दीपकस्वरूपे अनुगामिनी (अनुगते) भवेतामेवं दीपकस्वरूप नास्ति। तत्कथमिदं भेदद्वयं दीपकस्येत्यवगम्यतामित्यर्थः । ४ लक्षणद्दयान्यतरवत्त्वं दीपकत्वं यथा भवताSडख्यायते तथा उपमारूपकादिलक्षणान्यत- मखवं दीपकत्वमिति प्रतिपक्षिणा प्रोक्ते, सर्वेषासुपमा-रूपकाद्यलंकाराणां च दीपकभेदत्वसाघने अन्यालंकाराणां व्यपदेशोच्छेद: स्यादित्याशयः ।

Page 495

दीपकम् ] रसगङ्गाघर:। ४३५

वासनादीनां च राजकर्तृकाणां पद्यद्वयगतानामौपम्यप्रतीतौ सहृदयहदय- मेव प्रमाणमिति न प्रतिचन्दिदानावसरः। यदि तु खेदनादीनामौपम्यं प्रतीयत एवेत्याग्रहस्तथापि क्र्रयाणां शुद्धप्रकृतत्वात्तुल्ययोगिता स्यादपि, न तु दीपकमित्यास्तां तावत्। यद्पि विमर्शनीकृतोदाहतम्- "आलिङ्गितुं शशिमुखीं च सुधां च पातुं कीति च साधयितुमर्जयितुं च लक्ष्मीम् । त्वद्गक्तिमद्भुतरसां हृदये च कर्तु मन्दादरं जनमहं पशुमेव मन्ये ॥ अत्रालिङ्गनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष् इत।"तदपि चिन्त्म्। आलिङ्गनादीनां क्रियाणां मन्दादरत्वेनैकाश्रयकत्वस्यावश्यक- त्वेऽपि परस्परमेकाश्रयकत्वस्यानावश्यकत्वात्। यः शशिमुखीमालिङ्गितुं यश्च सुधां पातुं योऽपि कीति साधयितुं यश्च लक्ष्मीमर्जयितुं यश्चापि त्व्र- ददक्तिं कर्तु मन्दादरस्तं सर्वमपि जनं पशुं मन्ये इति तुमुन्नन्तानां भिन्नकर्तृ- त्वेऽप्युपपत्तेरेककारकान्वयकृतं क्रियाणामौपम्यं चमत्कारीति न शक्यते वक्तुम्। किं तु शशिमुखीसुधाकीर्तिलक्ष्मीत्वद्धक्तीनां विम्वप्रतिविम्बभाव- कृतम्। नापि चात्रैककर्तृत्वे काचिदर्थस्यास्ति परिपुष्टिः । प्रत्युत प्रातिकू- ल्यम्। सर्वेषां पशुत्वोक्त्यपेक्षया सकलतादशक्रियाकरणमन्दादरस्यैकस्य पशुत्वोक्तेररमणीयत्वात्। यदि तु विमर्शिनीकारोक्तिरवश्यं समर्थनीयेत्या- ग्रहस्तदेत्थं समर्थ्यताम्-क्रियाणां कर्तुरेकत्वाभावेऽपि कर्तृतावच्छेदकस्य

आलिङ्रितुमिति। ईश्वरं प्रति भक्तोकिः। इदं सर्व कर्तु यो मन्दादरस्तं जनमहं पशु- मेव मन्ये इत्यर्थः । आवश्यकत्वेऽपीति । मन्दादरत्वस्य सर्वत्र विशेषणला १ अयं सर्वस्याशय :- आलिङ्गनादिक्रियाणां सर्वासां कर्तृरूप एकाश्रयो नास्ति। 'यः आलिङ्गितुं मन्दादर: तं पशचुं मन्ये, यः सुधां पातुं मन्दादरस्तं पशुं मन्ये' इत्यादिरूपेण कर्तृणां भिन्नत्वेपि पद्यार्थस्योपपत्तेः । प्रत्युत एककर्तृत्वापेक्षया, पृथकूपृथक्कतणामेवंविधानां सवेषामेवानौचित्यसूचनाय सर्वेषामेव पश्चुत्वोक्तिररथपरिपोषकरी। ततश्च अनेकासां क्रियाणा- मेकेन कर्तृकारकेणाऽन्वयो नोपपादयितुं शक्यः। सर्वासां क्रियाणां मन्दादरत्वरूप एकाश्र- योSवश्यमस्ति परं स कर्ता नास्ति, अपि तु कर्तृविशेषणम्। तथा च कारकदीपकोदाहरणताडस्य न संगच्छते। २ 'यः आलिङ्रितुं मन्दादरः, यः पातुं मन्दादर इत्यादिरूपेण मन्दादरत्वं सर्वत्र कर्तु- विशेषणमिति तस्यैवैक्येन सकृद्ृत्तिनिर्वाह्येत्याशयः ।

Page 496

४३६ काव्यमाला। [द्वितीयानने-

मन्दादरत्वस्यैक्यात्तस्वैव च परम्परासंबन्धेनाने कक्रियासाधारणवर्मस्य सकृद्टत्तिरस्तीति न दोषः। कारकस्येव कारकविभाजकोपाध्यवच्छेद कस्यापि सकृद्टत्ते: कारकदीपकत्वेन परिभापितुं शक्यत्वात्। कारकसकृद्दत्तेसत्व- स्माभिरुक्तमे वोदाहरणमनुसर्तव्यम्। अन्नेदं वोध्यम्-तुल्ययोगितातो दीपकं न पृथग्भावमर्हति, धर्मसकृद्द- त्तिमूलाया विच्छित्तेर विशेषात्। विच्छित्ति वैल क्ष ण्य स्यै वालंकार विभागहेतु- त्वात्। न च धर्मस्य सकृद्वत्तेरविशेषेडपि धर्मिणां प्रकृतत्वाप्रकृतत्वाभ्यां प्रकृताप्रकृतत्वेन च तुल्ययोगिताया दीपकस्य विशेष इति वाच्यम्। तर्वोपि तुल्ययोगितायां धर्मिणां केवलप्रकृतत्वस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकारद्वैतापत्तेः। श्रेपेऽपि द्वैतापत्तेश्र। सर्वेषामप्य- लंकाराणां प्रभेदवैलक्षण्याद्वैलक्षण्यापत्तेश्च। न च दीपके वास्तवमौपम्यं गम्यम्, उपमानोपमेययोः प्रकृताप्रकृतरूपयोस्तत्र सत्वात्। तुल्ययोगि- तायां च वैवक्षिकम्, उपमानोपमेयस्वरूपाभावात्। अतो वैलक्षण्यमिति

भावः । नन्वेवमपि कारकस्य सकृद्व तेरभावात्क्थं तत्त्वमत आह-कारकस्येवेति। कारकशब्द उभयपर इति भावः । तर्हि कारकदीपकस्य किमुदाहरणमत आह-का- रकेति। क्रमेणाह-प्रकृतत्वेति। न केवलमन्नैव दोषोऽपि लन्यत्रापीत्ाह-झ्े- वेजपीति । भग्गाभङ्गभेदादिति भावः । न केवलमेतावदित्याह-सर्वेषामिति।

१ तुल्ययोगितायां धर्मिणाम् (गुणिनां कारकाणां च) प्रकृतत्वमेव अप्रकृतत्वमेव वा, दीपके तु प्रकृताप्रकृतत्वमेवेति तुल्ययोगितायाः (तुल्ययोगितातः, तुल्ययोगितापेक्षया इत्यर्थः) दीपकस्य विशेष इति पूर्वपक्षः । २ यत्किञ्चिद्विशेषमादाय व्यपदेशसाधने तु-कुत्रचिद्धर्मिणां प्रकृतत्वमेव, कुत्रचित्तु अप्रकृन- लमिति तुल्ययोगितायामपि अलंकारद्वयत्वव्यपदेशापत्तिरिति तत्समाधानम्। ३ अयं भाव :- दीपके 'सुधायाश्चन्द्रिकायाश्च०' इत्यत्र राजदयादृष्टिः प्रकृता उपमेया। अप्रकृताभि: सुधा-चन्द्रिकादिभि: सह अस्याः सादृश्यं च वस्तुत एव गम्यम्। प्रकृतस्य अप्रकृतेन सह उपमाया औच्ित्यात। तुल्ययोगिता तु-केवलप्रकृतानां केवलाप्रकृतानामेव वा भवति। तत्र एकस्यां प्रकृतकोटौ एव, अप्रकृतकोटौ एव वा उममानोपमेयभावो वक्तुरिच्छयैव कल्पनीय: स्यान्न वास्तव इति तुल्ययोगितादीपकयो: परस्परं विशेष: किं न स्यादिति शङ्का।

Page 497

दीपंकम् ] रसगङ्गाघर: ४३७

वाच्यम्। उपमेयोपमानत्वयोः प्रकृताप्रकृतरूपत्वे मौनाभावात्। 'खमित जलं जलमिव खम्' इत्यादुपमेयोपमायां प्रतीपे चौपम्यानापत्तेश्र। तस्मा- तुल्ययोगिताया एव त्रैविध्यमुचितम् । प्रकृतानामेव धर्मस्य सकृद्टत्तिः, अप्रकृतानामेव, प्रकृताप्रकृतानां चेति। एवं च प्राचीनानां तुल्ययोगितातो दीपकस्य पृथगलंकारतामाचक्षाणानां दुराग्रह्मात्रमिति नव्याः । अमुं चालंकारं धर्मस्य गुणक्रकियाद्यात्मकस्यादिमध्यावसानगतत्वेन त्रिविधमामनन्ति। यथा- 'न भाति रमणीयोऽपि वैराग्येण विना यतिः । वैदुष्येण विना विप्रो नरलोकस्त्वया विना।' 'लावण्येन प्रमदा मदातिरेकेण वारणाधिपतिः । भाति विभवेन भवकान्राजन्भवता च वसुमतीवलयम्।।' 'आखण्डलेन नाक: कुण्डलिकुलकुण्डलेन पातालम्। नरमण्डन रिपुखण्डन भवता भूमण्डलं विभातितमाम् ।।' एवं तुल्ययोगितायामप्यूह्यम् । वस्तुतस्तु धर्मस्यादिमध्यान्तगतत्वेऽपि चमत्कारवैलक्षण्याभावा- त्रैविध्योक्तिरापातमात्रात्। अन्यथा धर्मस्योपाद्युपमध्योपान्त्यगतत्वे ततो- डपि किंचिन्न्यूनाधिकदेशवृत्तित्वे चानन्तभेदप्रसङ्गात्। एवं केवलानुगामिसाधारणधर्मतायां दर्शितं दीपकम्। बिम्बप्रति- विम्बभावेनाप्येतत्संभवति। यथा-

नापत्तेश्च्ेति । वैपरीत्यादिति भावः । गतत्वेन निष्ठत्वेन । रमणीयोऽपि श्रुताचारसं- पन्नोऽपि। यतिः संन्यासी। राजवर्णनमिदम्। एवमग्रेऽपि। मदेति। मदोत्कर्षेणे- त्यर्थः । वारणेति। गजेन्द्र इत्यर्थः । भवकानित्यकच्प्रत्ययः। भवानित्वर्थः । 'भग- वान्' इत्यपपाठः । कुण्डलीति। सर्पसमूहकुण्डलेनेत्यर्थः । नरेत्यादि संबोधनद्वयम् । आमनन्तीति सूचितामरुचिमाह-वस्तुतस्त्विति। अन्यार्थवैलक्षण्याभावेऽपि मेदा- जीकारे। उपादीत्यादि। आदिसमीपेत्यादर्थः । उपसंहरति-एवमिति। इद- १ प्रकृतमुपमेयम्, अप्रकृतमुपमानमिति नियमे न मानम्। खमिव जलमित्याद्युपमेयोप- मायाम्, सुवर्ण तवाङ्गवर्णमिति प्रतीपे च (यत्र हि उपमेयमेव उपमानं भवति) पूर्वोक्तनियमवै- परीत्याच्चति समाधानम्। २ दीपकम्।

Page 498

४३८ काव्यमाला। [ द्वितीयानने-

'शीलभारवती कान्ता पुष्पभारवती लता। अर्थभारवती वाणी भजते कामपि श्रियम् ।' 'लता कुसुमभारेण शीलभारेण सुन्दरी। कविता चार्थभारेण श्रयते कामपि श्रियम् ॥' इदमेच लतादिष्वन्यतमस्य प्राकरणिकत्वे दीपकस्योदाहरणम्, अन्यथा तुल्ययोगितायाः। अन्न विम्बप्रतिबिम्बतार्यां न केवलं क्रियारूपमनुगामि- मात्रं चमत्कारकारणम्, अपि तु कुसुमादिबिम्बप्रतिबिम्बकरम्बितम्। इयांस्तु विशेष :- यत्केवलविम्बप्रतिबिम्बभावेनाप्युपमादीनां भवति निष्पत्तिः। यथा 'कोमलातपबालाभ्र-' इत्यादौ। प्रकृते तु न तथा, अनु- गामिनं विना धर्मस्वरूपस्यैवानिष्पत्तेः। न हि विम्वप्रतिबिम्बमात्रेण धर्मस्व सकृद्वृत्तिः संभवति। तथा 'मृतस्य लिप्सा-' इत्यादिप्रागुक्ते मृतादीनाम्, कारकदीपके कारकतुल्ययोगितायां च 'वसु दातुं-' इत्यादौ क्रियाणां धर्मित्वात्तद्विशेषणानां वस्वादीनां च विम्बप्रतिबिम्बता बोध्या। उत्तरोत्तरस्मिन्पूर्वपूर्वस्योपकारकतायां मालादीपकम्। यथा- 'आस्वादेन रसो रसेन कविता काव्येन वाणी तया लोकान्त:करणानुरागरसिक: सभ्यः सभा चामुना।

मेव उदाहरणद्वयमेव। बिम्बेति। विलक्षणशोभाश्रयणानामित्यादिः । तुल्ययोगि- तायां चेति । अस्याग्रेऽन्वयः । वस्वादीनां चेति। चेन मृतादीनां समुचयः । १ वाण्यादिषु यस्याः कस्याश्चन प्रकृतत्वे प्रकृता उपमेयभूता। तदितरयोः कान्तालताद्योश्चो- पमानत्वम्। एतद्विशेषणीभूतस्यार्थादेस्तु बिम्बत्वम्, शीलादेश्च प्रतिनिम्बत्वं बोध्यमित्याशयः । २ गुणरूपस्य क्रियारूपस्य वा एकस्य धर्मस्य अनेकेषु गुणिषु कारकेषु वा यावत अनुगमनं न प्रकटीक्रियते तावत् अनेकत्र एकधर्मसंबन्धः (यो हि तुल्ययोगितादीपकयोः स्वरूपाधायकः) कथं प्रतीयेत ? ततश्चानुगामिना धर्मेण (यथात्र 'श्रयते कामपि श्रिय'मिति शोभाश्रयणरूपेण) सहकृत एव विम्बप्रतिविम्बभावोऽत्र चमत्कारीत्याशयः । ३ लिप्सा-दित्सादयो धर्मिणः (येषु एकधर्मसंबन्धो विवक्षितः), मृत-कूपण-कुलटादयश्च तद्विशेषणानि। अत एवं तेषां विम्बप्रतिबिम्बभावः । एवं 'वसु दातुम्०' इत्यत्र केवलप्रकृतानों तुल्ययोगितायाम्, प्रकृताप्रकृतानां दीपके वा दान-धानादिक्रियाः धर्मिणः । तद्विशेषणानां वसु- यशोऽरिमर्दनादीनां च बिम्बप्रतिबिम्बभावो बोध्य इत्याशयः ।

Page 499

दीपकम् ] रसगङ्गाघर: । ४ ३.९

क्षोणीनाथ तया भवांश्र भवता भूमण्डलं भासते। एतच्च प्राचामनुरोधादस्माभिरिहोद्वाहतम्। वस्तुतस्त्वेतद्दीप रुमेव न शक्यं वक्तम्, साहश्यसंपर्काभावान्। किं त्वेकावलीप्रभेद इति वक्ष्यते। अस्मिंश्चालंकारइये क्रियादेधर्मस्यैकरूप्येण धर्मिष्वनैन्व्रय दोपः । यथा प्रागुक्ते पद्ये 'रसिकाः सामाजिकास्तैः सभा' इति कृते एकवचना- न्तैधेमिभिरैकरूप्येणान्वयेडपि सामाजिकैरनन्वयान्। वचनवपरणामे- नान्वये उपमायासिव स्यादेव दोप: । एवं जहल्िङ्गनामार्थस्य धर्मस्य सकृदृत्तौ लिङ्गभेदोऽपि दोप: । यथा- 'जगति नरजन्म तस्मिन्वैदुष्यं तत्र सत्कविता। कवितायां परिणामो दुष्प्रापः पुण्यहीनेन ।।' यदि तु 'तपसा नाल्पेन शक्यते लब्धुम्' इत्याख्यातान्तं क्रियते तदा लिङ्गभेदो न दूषणम् । एवमजहल्लिङ्गनामार्थस्य सवृदृत्तावपि न दोष:। यथा- 'फलमतिशयितं तपस्यायाः' इति चतुर्थचरणनिमाणे। एवं पुरुषस्यैकरूप्याभावे दोषः । यथा- 'दिवि सूर्यो भुवि त्वं च पाताले पन्नगाग्रणीः ।

उपमायामिव स्यादेवेति। तेन धर्मेगोपमा गम्या न स्यादिति भावः । लिङ्ग- मेदोऽपीति। धर्मिणामिति शेषः । एवमग्रेऽपि। जगतीति। अत्र दुष्प्राप इवि नामार्थो धर्मः । स च जहल्िङ्गः । तस्य सर्वलिङ्गलात्। न दूषणमिति। तस्य तत्रान्वयसंभवादिति भावः। एवमग्रेऽपि बोध्यम्। एवमुक्तप्रकारेण। एवं लिङ्गभेददो-

१ धर्मिषु (गुणिपु कारकादिषु वा) धर्मस्य (गुणस्य क्रियादेवां) एकरूपेण यद्यन्वयो न भवति, अर्थात् एक-द्विवचन-लिङ्गादीनां भेदेन सर्वेष्वपि धर्मिषु एकरूपेणान्वयो यदि नोम- पद्ते, तहिं दोष इत्याशयः । २ बहुवचनान्तैः सह भासते इत्येकवचनान्तक्रियारूपधर्मस्येत्याशयः । ३ विशेष्यनिन्नतया सर्वलिङ्ग इत्यर्थः ।

Page 500

४४० काव्यमाला। [ द्वितीयानने-

विक्षु दिक्ालवर्गश्च राजपुंगव रांजते।।' चदि त्व मेत्यत्र भवानिति क्रियते तदा न दोष:। एवं कालभेदेऽप्यू- ह्यम् । एतेन - 'सङ्गामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्। कोदण्डेन शरा: शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरमला कीर्त्या च लोकन्रयम्।' इति प्राचीनानां पद्यं दीपकोंशेऽपि सदोषमेव। इति रसगङ्गाधरे दीपकप्रकरणम् । अथ प्रतिवस्तूपमा- तत्र तावत्साहश्यस् यत्र चमत्कारिता तत्रोपमेत्युक्तम्।तस्यां च साधा- रणधर्मस्य सर्वेऽपि प्रकारा यथासंभव निरूपिताः । सादृश्योपस्कृतस्य वस्त्वन्तरस्य चमत्कारितायां भेदाभेदान्यतरप्रधाना अन्येऽलंकाराश्च। तेष्वपि साधारणधर्माणां यथावसरं यथ संभवं च स्थिति: प्रदर्शितैव। इदा- नीं वस्तुप्रतिवस्तुर्भावापन्नसाधारणधर्मोत्था ता वाक्यार्थगता प्रतिवस्तूपमा

षवत्। एवमुक्तप्रकारेण। अन्यांशेऽपि दोषस्य प्रागुक्तवादाह-अपीति ॥ इति रस- गङ्गाधरमर्म प्रकाशे दीपकम् ॥ प्रतिवस्तूपमां निरूपयति-अथेति। अथात्र विशेषं वत्तुं प्रागुक्तं सर्व संग्रहेणानु- वदति-तत्रेति। निरूपणीयायां तस्यामित्यर्थः । अलंकाराश्चेति। निरूपिता १ सूयों राजते, पन्नगाग्रणी: राजते, इत्याद्यन्वयोपपत्तावपि, 'त्वं राजसे' इति स्यान्न तु राजते इति। ततश्च धर्मस्य न सर्वेष्वेकरूपेणान्वय इत्याशयः । २ सादृश्यसंपर्काभावान्नेदं दीपकम्, किन्त्वेकावलीप्रभेदः, इति 'आस्वादेन रसः' इति पद्यप्रसङ्गे प्रोक्तमेव । किन्तु दीपकांशेपि नेदं पदं निर्दोषम्, शराः अरिशिरः भूमण्डलमित्या- दीनां समासादितमित्यनेन सह वचन-लिङ्गभेदाद्विपरिणामं विना नाऽन्वयः । विपरिणामेनान्वये उपमायामिव स्यादेव दोष इत्याशयः । ३ भेदप्रधाना दीपकतुव्ययोगितादयः । अभेदप्रधाना रूपकपरिणामभ्रान्तिमदुल्लेखादयः । दीपकादिषु प्रकृताप्रकृतयोरेकधर्मान्वयादय एव चमत्कारकाः, गम्यं सादृश्यं हि उपस्कारकमा- त्रमित्यर्थः ।' ४ आश्रयभेदाद्भित्नयोरपि वस्तुत एकरूपयोर्धर्मयोः पृथकपदाभ्यां निर्देशो वस्तुप्रतिवस्तु- माव:, तदापन्नेन साधारणधर्मेणोत्थापिता। अर्थात् एक एव धर्मः उपमानोपमेयवाक्ययोः पृथवपदाभ्यां निर्दिष्टो यस्यामीदृसी।

Page 501

प्रातवस्तूपमा ] रसगङ्गाघर: । ४४१

निरूप्यते। न चास्या वाक्यार्थगतत्वेनैवोपमातो भेद इति भ्रमितव्यम्। 'दिवि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि' इत्यादौ वाक्यार्थेऽपयुपमायाः संभवात्। अत एव भिन्नशब्दोपात्तैकधर्मकत्वेनापि न वैलक्षण्यं वक्तुं शक्यम्। प्रकृते भातिभ्राजतिभ्यां धर्मस्यैकस्यैव प्रतिपत्तेः । तस्माल्लक्षणा- नुसारेणालंकारान्तरेभ्यो वैलक्षण्यमस्या बोध्यम्। अथ किमस्या लक्षणम्-'वाक्यार्थगतोपमात्वम्' इति चेत, प्रागुक्त वाक्यार्थोपमायामतिव्याप्ेः । न चार्थत्वेन तद्विशेषणीयमिति वाच्यम्। दष्टान्तालंकारे तथाप्यतिप्रसङ्गात्। वस्तुप्रतिवस्तुभावापन्नसाधारणवर्म- कत्वेनापि तद्विशेषणीयमिति चेत्। तथापि 'तावत्कोकिल विरसान्यापय दिवसान्वनान्तरे निवसन्। यावन्मिलदलिमाल: कोऽपि रसाल: समुल्लसति॥' इत्यप्रस्तुतप्रशंसायामतिप्रसङ्गादिति । मैवम्। अप्रस्तुनप्रशंसायां वस्तुप्रतिवस्तुभावस्य भिन्नशब्दोपात्तैकप्रतिपाद्यरूपस्यासंभ वा्त् । एवं च -

इत्यनुषज्यते। भिन्नति। अस्या इत्यादिः । अत एवेत्यस्यार्थमाह-प्रकृत इति। प्रागुक्ते 'दिवि भाति' इत्यादावित्यर्थः । तत् वाक्यार्थगतोपमालम् । एवमग्रेऽपि । तथापि यथातथाशब्दस्य तद्वाचकस्य सत्वात्तत्र दोषाभावेऽपि। तथा दतान्ते बिम्ब- प्रतिबिम्बभावापन्नसाधारणधर्मकत्वेन दोषाभावेऽपि। यापय अतिक्रमय। एवं च १ अर्थात् आर्थ वाक्यार्थगतोपमात्वं प्रतिवस्तूपमात्वम्। 'दिवि भाति यथा भानु:' इत्या- दिपूर्वनिर्दिष्टवाकयार्थोपमायां यथातथा इत्युवादानात् शब्दमेवोपमात्वनिति आर्थत्वविशेषणे न तत्रातिव्याप्तिरिति पूर्वपक्षिणः शङ्का। 'सत्पूरुषः खलु' इति दृषननेऽपि द्वयोर्वाक्याधैयोरार्थ- स्यापम्यस्य सत्वात्तत्रातिव्याप्ति: स्यादिति तत्समाधानम्। २ वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकम् आर्थमौपम्यं दृष्टान्तः, इतिरूपेणेत्यर्थः । दृष्टान्ते वस्तुप्रतिवस्तुभावतो विपरीतः (भिन्नयोर्धर्मयोः सादृश्यवशादैक्यरूपः) बिम्बप्रतिविम्बभावो भवतीति नातिव्याप्तिः स्यादिति तदाशयः । ३ भिन्नभिन्नशब्दाभ्यामुपात्तः एक: प्रतिपाद्यः (वाच्यो धर्मः) यस्मिन् एवंरूपस्य । अर्थात् यत्र अप्रस्तुतस्यव मुखतः कीर्तनं भवति, प्रस्तुतं तु व्यञ्जनया प्रतीयते तस्यामेक एव धमों भिन्नभिन्नशब्दाभ्यां न निर्देषं शक्यते, द्वयोर्वाच्यत्वे एव तथानिर्देशस्य शक्यन्ात्। ततश्च वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकम् (आर्थम् औपग्यम्) इति विशेषिते अप्रस्तुत- प्रशंसायां नातिव्याप्तिः। एवं सति वस्तुप्रतिवस्तुभावापन्नेत्यादिविशेषणदानोत्तरमपि - तथापी त्यादिना 'तावत्कोकिल०' इत्यत्र मूले अतिव्याप्तिशङ्का लक्षणस्यावतरणिकारूपैवेति बोध्यम्।

Page 502

४४२ काव्यमाला। [ दतायानने-

वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकवाक्यार्थयोरार्थमौपम्यं प्रति- वस्तूपमा।i 'आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम्। भ्रमद्धूमरसंभारं स्मरामि सरसीरुहम् ॥' इत्यत्र स्मरणालंकारेSतिप्रसङ्गवारणाय वाक्यार्थगतमिति। अत्रौपम्य- स्यार्थत्वेऽपि पदार्थगतत्वमेव, न तु वाक्यार्थगतत्वम्, स्मरणस्य तेद्संपर्कात्। पदान्तरकृत्यं तूक्तमेव।

अप्रस्तुतप्रशंसायास्तेनैव वारणे च। वस्तुप्रतिवस्तुभावापन्नेति । तद्विशेषणानां तापचापादीनां बिम्बप्रतिबिम्बभावे 'तापेन त्राजते' इत्यादौ क्वचित्सत्यपि साक्षादुपमा- नोपमेयवृत्तिधर्मो वस्तुप्रतिवस्तुभावापन्न एव। दृष्टान्ते तु साक्षात्तद्ृृत्तिधर्मस्यापि बिम्ब- प्रतिब्रिम्बभाव इति दृष्टान्ताद्विशेषः। अत एव वस्तित्यादिना दृष्टान्तवारणम्। एक- स्यैव धर्मस्य पृथक्छव्दाभ्यामुपादानं वस्तुप्रतिवस्तुभावः । 'दिवि भाति यथा भानु- स्तथा लं भासि वे भुवि' इत्यादौ वाक्यार्थोपमायामतिव्याप्तिवारणायार्थमिति। तद्- ववनयन्वक्ष्यति-पदान्तरेति। सरणस्य तदसंपर्कादिति। यथा वाक्यार्थोप- मायां गगनाधिकरणकभानुकतृकशोभाविशिष्टभूम्यधिकरणक-त्वत्कर्तृकशोभेति बोधः। वै- शिष्यनियामकसंबन्धश्च स्वकर्तृसदृशकर्तृकत्वमेव। संबन्धविशेषतात्पर्यग्राहकौ च यथा- तथाशब्दौ। नैवं प्रकृते स्मरणान्तर्भावेणोपमानोपमेयभावः । किं तु तादृशपझ्मसदशं तादृशमाननमित्येव। न च वाक्यार्थोपमायां तादृशशोभाश्रयभानुसदश ईदशशोभाश्रय- स्वमिति बोधः, क्रियाविशेषणस्य प्रथमान्तार्थस्योपमानत्वेनान्वयायोगात्। प्रतिवस्त- पमायां तु ताटशसंबन्धद्योतकपदाभावाङ्गम्यतैवापम्यस्येति विशेषः । यद्ा वाक्यार्थोप- मायां तादशसंबन्धोऽपि यथातथापद्द्योत्यलवात्प्रकार एव। 'यत्र वाक्यद्वयगतानां पदा-

१ सरसीरुहं सरामीत्युक्त्या सरसीरुहपदार्थेनैव स्मरणस्य संबन्धो नतु वाक्यार्थेनेत्या- शयः । नागेशस्त्वत्र तदसंपर्कादितिप्रसङ्गे वाक्याथोंपमायाम् 'गगनाधिकरणकभानुकर्तृकशो- भासदृशी भूम्यविकरणकत्वत्कर्तृकशोभा' इति बोधमनुकत्वा यथातथापइयोः संबन्धविशेषा- नतरितमुपमानोपमेयभावादिकं जल्पन् वक्तव्यविषयं सुधैव खवनामसदूशं वक्रयामास। 'यथा लतायाः स्तबकानतायाः' इत्यत्र यथातथापदयोरुपमानोपमेयभाववाचकत्वस्य पूर्व स्वयमू- रीकरणात 1 २ 'भासि वै' इति तु नागेशस्य भ्रम एव। 'भासि' इत्युभयदलपाठे पृथक्शब्दाभ्या- युपादानाभावाद्वसतुप्रतिवस्तुभाव एव न स्ात्। ततश्वात्र तद्वारणार्थम् 'आर्थ' विशेषणपर्यन्त- मनुधावनं व्यर्थ स्यात्। तसमात् 'तथा'पदसंबद्धे उपमेयदले 'भ्राजसे' इत्यव पठितव्यम्।

Page 503

प्रतिवस्तूपमा ] रसगङ्गाघर:। ४४३

उदाहरणम्- 'आपदतः खल महाशयचक्रवर्ती विस्तार थत्यकृतपूर्वमुदारभावम्। कालागुरुदहनमध्यगतः समन्ता- होकोत्तरं परिमल प्रकटीकरोति।।' अत्र विस्तारप्रकटने वस्तुन ऐकरप्येणाभिमते।

यथा वा- विश्वाभिरामगुणगौरवगुम्फितानां रोपोडपि निर्मलधियां रमणीय एव। लोकंपृणैः परिमलैः परिपूरितस्य कालागुरो: कठिनतापि नितान्तरम्या ।'

र्थानां सर्वेपां परस्परसाम्यं तत्र प्रतिवस्तपमा' इति शरदागमक्नः। आपद्गत इति। अत्रोदाहरणे आपहतः मन्पुरुषोऽूरवीदार्यवान स्वकीतितादित्यर्थविशेपरूपे न कालागुरो- रदृष्टान्तता। यथा पर्वत एतद्वड्विनान् एतद्नात् इत्यन्न महानसस्य। तस्मात्कालागुरु-

धयोः' इति न्यायेन पूर्वोक्तविशेषनियमसिद्धिः। उपना चापह्नः सत्पुरुपो दहनमध्यग- तकालागुरुसदश इति। साधारणवर्मेश्र विम्व प्रतिविन्वभावापन्नानूर्वादार्यलोकोत्तरपरिम- लविशेषणकं विस्तारणम्। न वस्तुप्रतिवस्तुनावापन्नम्। एवं वैयधिकरण्येऽपि व्यति- रेक आक्षिप्यते। तत्र च पूर्वोत्तरीत्या एकविशेषेऽपरविशेषस्य दृष्टान्तलाभावात्तदृत्ति- सामान्यावच्छिन्नव्यतिरेक आक्षिप्यते। सिद्धे च तस्मिंस्तद्विपरीतदृष्ान्तेन तादशसा- मान्यावच्छिन्नान्वयनियमसिद्धौ यत्सामान्ययोरिति न्यायेन तादृशविशेषावच्छिनकाव्यो- कान्वयनियमसिद्धिरिति बोध्यम्। विश्वाभिरामेति । जगद्रमणीयेत्यर्थः । गुम्फि-

१ अत्र 'आपद्गतः' 'दहनमध्यगतः' इति उपनेयोपमानविशेषणे। मवद्विशेपणविशेषणयोः आपद्दहनयोर्बिम्बप्रतिबिम्बभावः । किंतु उपमेये (महाशयचक०), उपमाने (कालागुरा) च साक्षादर्वमानौ विस्तारण-प्रकटनात्मकक्रियारूपधर्मो परस्परं वस्तुप्रतिवस्तुभावापनी। तवश् वस्तुप्रतिवस्तुभावापन्नः साधारणधमो यत्र ईदशयोः 'आपन्नो नहाशयवरः तथा औदार्य प्रकट्यति यथा दग्धः कालागुरुः परिमलं प्रकव्यति' इति वाक्यार्थयोरथगम्यमौषम्यमस्तीनि पतिवरतूपमालक्षणसंगतिः। ऐवं द्वितीयोदाहरणेडपि ।

Page 504

४४४ काव्यमाला। [द्वितीयानने-

वैधम्येणाप्येषा संभवति- 'वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥' यथा वा- 'गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम्। अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति।।' अत्र शान्देन दष्टान्तेन तद्गतः सामान्यावच्छिन्नव्यतिरेकसहचार आ- क्षिप्यते। तेन च सामान्यावच्छिन्नान्वयनियमसिद्धिद्वारा प्रकृतो विशेषा- वच्छिन्नान्वयनियम: सिध्यतीति प्रायशः सर्वत्र वैधर्म्ये स्थितिः। एवम- न्वयेन प्रतिवस्तूपमायामपि नियमविशेषस्य प्रकृतवाक्यार्थत्वेऽन्वयदष्टान्तेन

तानां रचितानाम्। लोकंपृणैर्लोकपूरकैः। वंशभव इति। महिमाभावव्याप्यतुम्बी- फलरहितवीणादण्डसदशः सङ्गविशेषाभावव्याप्यपूज्यतवाभाववान्पुरुष इत्युपमाकोरोऽन् बोध्यः, एवमग्रेऽपि। अत्र उदाहरणद्वये । प्रतिपादितमिदं सर्वमनुपदमेव । मनक्षत्रैः। १ अन्र व्यतिरेकघटितो दृष्टान्तः शाब्दोस्ति। तेन च प्रकृतकोटौ (पूर्वार्धे) अपि सामा- न्यावच्छिन्नयोः अर्थात् 'पुरुषः' इत्यादिव्यक्तिविशेषं विहाय सामान्यतः संगविशेष-पूजा- त्वावच्छिन्नयोरयों व्यतिरेकौ (अभावौ) तयोः सहचारः (व्याप्तिः) आक्षिप्यते। अर्थात् उत्तरार्धंगतशब्दोपात्तव्यतिरेकद्ृष्टान्तेन पूर्वार्धगतप्रकृतकोटावपि [यत्र पूजाभावः तत्र सङ्ग- विशेषाभाव: ] इति व्यतिरेकः अर्थबलात्प्रतीयते। तेन (सहचारेण) च सामान्यावच्छिन्नयोः [ सामान्यतः सङ्गविशेषपूजयोः ] अन्वयनियम( व्याप्ति)सिद्धिः [यत्र सङ्गविशेषः तत्र पूजा इति ]। एतत्सिद्धिद्वारा च विशेषावच्छिन्नयोरपि नियम: (व्याप्तिः) सिध्यति। अर्थात् यदा सामान्यतः सङ्गविशेषेण सह पूजाया व्याप्तिः सिद्धा तदा 'पुरुषः' इत्यादिव्यक्तिविशेषेऽपि सङ्गविशेषं दृष्टा पृजायाः सहचारे न बाधकमित्याशयः। २ एवमेव 'आपद्गतः०' इत्यादौ यत्र अन्वयप्रतिवस्तूपमा तत्रापि सामान्यतः आपद्- गतमह्ांशयेन सह औदार्यप्रकटनस्य व्याप्तिगृंह्यते। महाशयचक्रवतिरूपव्यक्तिविशेषं प्रति तु कालागुरोने दृष्टान्तता घटेत [पर्वत एतद्वह्विमान् एतद्धमात् इत्यत्र महानसस्य यथा ]। दवं च सामान्यतः आपद्गतमहाशयस्य औदार्यस्य च व्याप्तिः परिगृह्यते। ततश्च 'आपद्गतः०' इत्यादिस्थले महाशयचकवर्तिरूपं प्रकृतं व्यक्तिविशेषं पक्षकोटौ, कालागुरुरूपम् अप्रकृतं व्यक्ति- विशेपं च दृष्टान्तकोटौ निवेश्य सामान्यतः अन्वयव्याप्तिसिद्धि :- 'आपद्गतोपि महाशयचक्रवर्ती अपूर्वौदार्यवान् तादशकीर्तिमत्वात, यथा दहनमध्यगतोपि अ्लागुरुः अतिशयितसौगन्ध्यवान्' इति। एवं सामान्यतोऽन्वयव्याप्निसिद्ौ सत्यां महाशयव्यक्तिविशेषेऽपि आपद्गतत्वे सत्यपि गभीराशयत्ववशात् औदार्यप्रकटनस्य व्याप्ति: सिद्धा अर्थात् अन्वयविशेषव्याप्तिः सिद्धा ।

Page 505

प्रतिवस्तूपमा ] रसगङ्गाघर:। ४४५

सामान्यान्वयनियमसिद्धिद्वारा तत्सिद्धिः । नियमविशेषरहितकेवलार्थ- मात्रस्य प्रकृतत्वे त्वप्रकृतवाक्यार्थनिरूपितमौपम्यमात्रं गम्यम्, न तु नियम:, अप्रयोजकत्वात्। यथा 'भैरभ्रे भासते चन्द्रो भुवि भाति

ननु कथमस्मिन्नलंकारे सर्वत्रौपम्यं गम्यमित्युच्यते। यावता प्रागु- पदर्शितायां वैधर्म्यप्रतिवेस्तूपमायां वाक्यार्थयोरौपम्यस्य बाधात्। नहि पचतिनपचतीति वाक्यार्थयोः पाकक्रियामात्रसाम्यादौपम्यं गम्यते। निषेधप्रतियोगित्वेनोत्तरवाक्यार्थे तस्या अप्ररोहादिति चेत्, न। अप्रकृत्वाक्यार्थाक्षिप्स्य स्ववैपरीत्यस्यैवौपम्याश्रयत्वात्। न च वाक्यार्थ- योरौपम्यमिति यदुक्त्तं तत्कथं संगच्छतामिति, वाक्यवेद्यस्यैव प्रक्ृते वाक्यार्थत्वेनेष्ठत्वात्। तथा हि-

वाक्यार्थयोविधिनिषेधयोः । नचेत्यस्य एवमिति शेषः । वेद्यस्यैवेति। यथाकर्थंचि- १ ये तु मन्यन्ते यद् 'आपद्गतः' इत्यादिप्रतिवस्तूपमोदाहरणेषु व्याप्तिविशेषे न तात्पर्यम्, किन्तु 'यः महाशयो भवति स आपद्गतोपि औदार्यमेव प्रकट्यति' इत्यर्थमात्रे तात्पर्थम्, तेषां मते आपद्गतमहाशय-औदार्ययोः नियमः (व्याप्तिः) न गम्यः, अप्रयोज- कत्वात् (तथा तात्पर्यस्वीकारे प्रयोजनं नास्ति)। किन्तु प्रकृताप्रकृतयोरौपम्यमात्रं गम्यम्-'आप- दू्गतमहाशयः तथा औदार्य प्रकटयति यथा दग्धोपि कालागुरुः सौगन्ध्यम्'। यथा वा-भुवि बुधैस्त्वं तथा भासि यथा अम्रे नक्षत्रैश्चन्द्रः इति। [अत्र हि सादृश्ये तात्पर्य न व्यापौ ]। २ अयं भाव :- 'गुणवान् संगविशेषेण पूज्यते' इति पूर्ववाक्याथों विधिघटितः । 'वीणा- दण्डो महिमानं न प्रयाति' इत्युत्तरवाक्यार्थस्तु निषेधघटितः, अनयोरौपम्यं कथं स्यात? नहि पचति न पचतीत्यनयोः केवलां पाकक्रियामेव सामान्यमादाय औपम्यं वत्तुं शक्यम्। प्रत्युत उत्तरवाक्यार्थे न पचतीति निषेध उपात्त इति तस्याः (पाकक्रियायाः) प्ररोहो न भवतीति तत्क्रियासाम्येन कथं द्वयोरौपम्यम्? एवमेव 'पुरुषः पूज्यते' वीणादण्डो महिमानं न प्रयाति (न महीयते, न पूज्यते), अनयोर्वाक्याथयोर्या उपमा प्रतिफलितासीत्तस्या उत्त- रवाक्यार्थधृतनकारेण निषेधः स्यादिति शङ्का। 'न हि तुम्बीफल' इति वाक्यार्थेन सह पूर्ववाक्यार्थसंगत्यर्थम् 'तुम्बीफलसहितो वीणादण्डो महिमानं प्रयाति' इति वाक्यार्थ आक्षिप्यते। तेनैव पूर्ववाक्यार्थस्य औपम्यम् 'यथा तुम्बीफलसहितो वीणादण्डो महिमानं याति तथा सङ्गविशेषेण पुरुषः पूज्यते' इति तत्समाधानम्। ३ ननु वाक्यार्थयोः औपम्यमिति प्रतिज्ायते। ततश्च उत्तरवाक्यार्थेन 'न महिमानं प्याति' इत्यनेन सह क्वौपम्यम्? अत्र हि 'न महिमानं प्रयाति' इति वाक्यार्थद्वाराSSक्षिप्तो योऽन्यो वाक्यार्थः [तुम्बीफलसहकारेण यथा वीणादण्डो महिमानं प्रयाति इति ] तेनैव सह औपम्यं, न प्रकृतवाक्यार्थेन सहेति शङ्का। वाक्यार्थद्वारा वेद्यः (आक्षेप्यः) अपि अत्र वाक्यार्थशब्देन व्यपदिश्यत इति समाधानम्। ३८ रस०

Page 506

४४६ काव्यमाला। [ द्वितीयानने-

'तत्वं किमपि काव्यानां जानाति विरलो भुवि। मार्मिक: को मरन्दानामन्तरेण मधुव्रतम् ।' अत्र विरलो जानातीति विधिमुखोऽपि प्रकृतवाक्यार्थः 'पुरुषविशेषं विना न सर्वे जानन्ति' इत्यर्थविशेषमादायैव पर्यवसितो भवतीति निषेध- रूपवाक्यार्थस्य तादृशेनैव द्वितीयवाक्यार्थेन सह गम्यते साहश्यं स्फुटमेव। यत्र तु 'वंशभवः' इत्यादौ प्रागुदाहते प्रकृतवाक्यार्थो विधिरूपः सङ्गविशेष- हेतुकत्वस्य पूजनादौ विधेयत्वादवेसीयते, तत्रापि हेतुताघटकव्यतिरेकस्य गुणतया प्रतीयमानस्यौपम्यं निर्बाधमिति न दोषः । इयं च वाक्यार्थयोः सामान्यविशेषभावानापन्नयोर्भवति, तत्रैवौपम्यस्य गम्यत्वात्। सामा- न्यविशेषयोस्त्वौपम्याप्रतीतेः समर्थ्यसमर्थकयोरर्थान्तरन्यासो वक्ष्यते। यत्तु कुवलयानन्दकृता वैधम्यमुदाहृतम्- 'विद्वानेव हि जानाति विद्वज्जनपरिश्रमम् । नहि वन्ध्या विजानाति गुवी प्रसववेदनाम् ।।'

द्वाक्यजन्यप्रतीतिविषयस्यैवेत्यर्थः । तत्त्वमिति । अन्रापि मधुव्रतातिरिक्तज्ञानविषय- तत्त्वकमकरन्दसदृशं साधारणसकलपुरुषज्ञानाविषयतत्त्वककाव्यमित्युपमाकारो बोध्यः।

१ 'मधुन्रतं विना मरन्दानां मार्मिक: कोपि नास्ति' इति निषेधरूपवाक्यार्थस्य 'काव्यानां तत्वं पुरुषविशेषं विना न सरवें जानन्ति' इति तादृशेनैव (पर्यवसितनिषेधरूपेणैव) सादृश्यं स्फुटमेव गम्यते इत्याशयः । २ 'गुणवानपि सङ्गविशेषेण पूज्यते' इति विधिरूपो वाक्यार्थः प्रकृतत्वेन पर्यवसीयते। यतो हि पूजनादौ सङ्गविशेषस्य हेतुत्वं विधेयम् (तात्पर्यविषयः), तत्र विधिरूपमेव। एवं च विधिरूपस्यास्य प्रकृतवाक्यार्थस्य 'न हि महिमानं प्रयाति' इति निषेधरूपेण अप्रकृत- वाक्यार्थेन औपम्यं कथं स्यादिति तदुपायमाह-हेतुताघटकव्यतिरेकस्येत्यादिना। अयं भाव :- पूजां प्रति सङ्गविशेषस्य हेतुत्े प्रधानतया यथा अन्वयो घटकः [यत्र सङ्गविशेषो भवति तत्रैव पूज्यत्वम्, इति], एवं व्यतिरेकोपि [ यत्र सङ्गविशेषो न भवति तत्र पूज्यत्वं न भवति इति ] गौणतया घटकः। एवं च गौणतया प्रतीयमानेन व्यतिरेकेणैव निषेधरूपस्य अप्रकृतवाक्यार्थस्य औपम्यम् [तुम्बीफलरहितो वीणादण्डो यथा महिमानं न याति तथा सङ्गविशेषेण रहितो न पूज्यते ] निर्बाधमिति। ३ विशेषस्य सामान्याद् भेदाभावेन सामान्यविशेषभावे सति उपमैव न संघटते इत्याशयः ।

Page 507

अतिवस्तूपमा ] रसगङ्गाघर: ।

'यदि सन्ति गुणाः पुंसां विकसन्त्येव ते खयम्। नहि कस्तूरिकामोद: शपथेन विभाव्यते ॥' इति। तत्र 'विद्वानेव हि जानाति' इति पद्यं भवतु नाम यथाकर्थंचिद्वैधर्म्यस्यो- दाहरणम्, 'यदि सन्ति' इति तुन युक्तम्। वैधम्योदाहरणं हि प्रस्तुत- वर्भिविशेषोपारूढार्थदार्ढ्याय स्वाक्षिप्स्वव्यतिरेक्तसमानजातीयस्य धर्म्य-

इयं च प्रतिवस्तूपमा च। यथाकरथंचिद्वैधर्म्यस्येति। अत्रेदं चिन्त्यम्-यद्यपि 'विद्वानेव-' इत्यस्य एवकारबलेन अविद्वान्न जानातीत्यप्यर्थः । तस्य चोत्तरवाक्यार्थः सधर्मा एव। तथापि भूतल एव वन्ध्यापुत्र इत्यादिप्रयोगवारणय भावान्वयस्यापि विवक्षितलमस्त्येवेति न दोषः । नहि वन्ध्येत्यनेनाक्षिप्तस्य प्रसवित्र्येव जानातीत्यस्य वाक्यार्थस्योपमानत्वेन विवक्षणाद्वैधर्म्य बोध्यम्। आक्षिप्तव्यति रेकसजातीयार्थनिबन्धने वैधर्म्यस्यैवोपात्तसवस्वव्यतिरेकयोः। स्वव्यतिरेकसजातीयार्थस्यैव निबन्धने तदाक्षिप्ततद्य तिरेकेणोपात्तस्योपमाया गम्यत्वेऽपि तत्वौचित्यात्। तत्राप्युपात्तभावरूपार्थस्य नहि वन्ध्येत्याक्षिप्तनोपमाप्रतीतेः सत्त्वात्। यदि सन्तीत्यत्रापि गुणाः ख्यमेव प्रकाशन्ते इति भावान्वयविधर्मभूते कस्तूरिकामोदः शपथेन न ज्ञायते इति वाक्यार्थस्तदाक्षिप्तेन खय- मेव प्रकाशन्ते इति वाक्यार्थेन भावान्वयवाक्यार्थ एवौपम्यं बोध्यम्। यद्वा यदि सन्ती- त्यन्न एवकारस्य क्रियासमभिव्याहृतत्वादत्यन्तायोगव्यवच्छेद एवार्थः । परतो न प्रका- शन्त इत्येतदाक्षेपलभ्यभेव। तत्र हि द्वितीयार्घेन सतः प्रकाशन्त एवेत्येतत्समानजाती- यार्थवर्णनम्। किं तु परतो नेत्येतत्समानजातीयस्यैव। यत्तु शपथेन न प्रकाशन्ते किं तु स्वत एवेत्यर्थवर्णनं तत्र खत एवेत्यंशो न वाच्यः । किं वाक्षेपलभ्यः। आक्षेपेण च मार्मिक: को मरन्दानाम्', इति भवदुदाहृतेऽपि मधुव्रतं विना को जानाति, मधु्रत एव जानातीत्यर्थप्रतीतेवैयधिकरण्योदाहरणलं न स्यात्। अस्तु वा एवकारापकर्षणेन न परत इति प्रस्तुतवाक्यार्थः । तथापि व्यति रेकसजाती यार्थनिबन्धनादन्वयसजातीयार्था- निबन्धनाच्च विद्वानेवेत्यादिवदस्यापि वैधर्म्योदाहरणपरता । न खाक्षिप्तव्यतिरेकसजा- तीयार्थानिबन्धन एव वैधर्म्योदाहरणतमिति राजाज्ञास्ति। तस्माद्युक्तमित्यन्तं सर्वमयु- १ प्रस्तुतो यो धर्मिविशेषः [यथा 'तत्वं किमपि' इत्युदाहरणे विरल: ] तदुपारूढस्य अर्थस्य (विरल एव काव्यानां तत्त्वज्ञ इत्यस्य) दाढ्याय स्वेन ('मार्भिकः कः' इत्यादिप्रकृत- वाक्यार्थेन) आक्षिप्तो यः स्वव्यतिरेकसमानजातीयः (प्रकृतार्थप्रतिद्वन्द्वी) धर्म्यंन्तरारूढः अप्रकृतार्थ: (मधुव्रतं विना अन्यो मार्मिंको नास्ति इति) तस्य कथनम्। अर्थात् धर्मिविशे- षविषयकम् अन्वयसंबद्धं प्रकृतार्थ दृढीकर्तुम् (स्पष्टतया बुद्धौ उपारोहयितुम्) अन्वयसंबद्ध- पकृतार्थेन आक्षिप्स्य स्वव्यतिरेक( अभाव)संबन्धिनोऽर्थस्य यत्कथनं तदेव वैधम्येंणोदाहरण- मित्याशयः ।

Page 508

४४८ काव्यमाला। [द्वितीयानने-

न्तरारूढस्याप्रकृतार्थस्य कथनम्। प्रकृते च यदि सन्ति तदा खयमेव प्रकाशन्त इत्यर्थस्य प्रस्तुतस्य व्यतिरेकस्तु असन्त उपायान्तरेणापि न प्रकाशन्त इति। नह्यन्र द्वितीयार्घेन तत्सजातीयोऽर्थो निबध्यते। निबध्यते च स्वयं प्रकाशन्ते, न परेणेत्यस्य प्रस्तुतस्यैव सजातीयः। शपथेन न विभाव्यते, किं तु स्वयमेवेति प्रकृतार्थानुरूपतयैव पर्यवसानात्। नहि वैध्म्ये प्रकृतानु- रूप्यं जातुचिदटते, व्याघातात्। तस्मात्साधर्म्येणवेदमुदाहरणं संगतम्, ने वैधर्म्येण। न चोपायान्तरनिवृत्त्यघटितप्रस्तुतवाक्यार्थेन कथं नाम तद्टित उत्तरवाक्यार्थः साधर्म्यमरहतीति वाच्यम्। स्वयमित्यत्राकृष्टेन एवकारेणैवोपायान्तरनिवृत्तेः प्रस्तुतवाक्यार्थे निवेशितत्वात्। अत्यन्तायोग- व्यवच्छेदस्योत्तरवाक्यार्थाननुगृहीतत्वेन क्रियासमभिव्याहारायोगात्।

कमिति बोध्यम्। अयुक्ततमेवोपपादयति-वैधर्म्योदाहरणं हीति। जातुचित् कदाचित्। नन्वेवकारस्यात्यन्तायोगव्यवच्छेदार्थकत्वेन कथमाकर्षणमत आह-अत्य-

१ न हि शपथेनेत्युत्तरार्द्धस्य कस्तूरिकामोदः शपथेन न विभाव्यते (प्रतीयते), अपि तु 'स्वयमेव प्रतीयते' इति पर्यवसितोऽर्थः । 'स्वयमेव प्रतीयते' इत्यन्वयघटितोयमर्थः अन्वयघ- टितस्य (गुणाः स्वयं विकसन्त्येव) प्रस्तुतार्थस्यैव सजातीयः, न तु व्यतिरेकसजातीयः । व्यतिरेकसमानजातीयस्तु तदा भवेत यदा असन्तः उपायान्तरेणापि न प्रतीयन्ते (प्रकाशन्ते), इत्युच्येत। ततश्च नेदं वैधम्योंदाहरणमिति सर्वस्याशयः । २ अयं भाव :- 'यदि सन्ति इत्यादिपूर्व(प्रस्तुत)वाक्यार्थे उपायान्तरनिवृत्तेः (अन्यो- पायनिषेधस्य) घटना नास्ति। यतो हि 'गुणाः स्वयमेव प्रकाशन्ते' इत्यनेन तेषां प्रकाशने यदन्यत्साधनं तस्य निषेधो न कृतः । उत्तरवाक्ये तु 'शपथेन न विभाव्यते' इति आमोदस्य प्रकाशने शपथरूपस्य उपायान्तरस्य निषेधोपि कृत इति पूर्वोत्तरवाक्यार्थयोवेषम्यात् दीक्षितोदा- हरणमिदं साधर्म्येंणैवेति कथमुच्यते इति शङ्का । 'स्वयं प्रकाशन्ते' अर्थात् 'अन्य उपायो नावश्यकः' इत्युपायान्तरनिवृत्तिः 'विकसन्त्येव' इति पूर्वत आकृष्टात एवकाराल्लभ्यत इति समाधानम्। ३ 'विकसन्त्येव' अर्थात् विकासेन सह कदाच्विदपि गुणानाम् अयोगो न भवतीति अत्यन्ता- योगव्यवच्छेदार्थकः क्रियासमभिव्याहृतः सोयमेवकारः परत्राकृष्टः स्वयमित्यनेन कथमन्वितः स्यादिति शङ्का। एवकारस्य अत्यन्तायोगव्यवच्छेदेडर्थेंडड्गीकृते उत्तरवाक्यार्थस्य संगतिन, अपि तु 'स्वयमेव' इत्यर्थेऽङ्गीकृते एव, 'आमोदः शपथेन न अनुभाव्यते अपि तु स्वयमेव' इत्यर्थस्यैवा- जुकूलत्वात। तस्मादत्र एवकारस्य क्रियया समभिव्याहारो न घटत इति समाधानम्।

Page 509

प्रतिवरस्तूपमा ] रसगङ्गाघर: । ४४९

'सन्तः स्वतः प्रकाशन्ते गुणा न परतो तृणाम्ं। आमोदो नहि कस्तूर्याः शपथेनानुभाव्यते॥। अत्र स्वतोऽनुभूयत इत्यत्र पर्यवसितेनोत्तरवाक्यार्थेन पूर्ववाक्यार्थस्य यथा साधर्म्यमेव, न वैधर्म्यम्, तथा 'यदि सन्ति-' इति पद्येऽपीति नञ्ूमात्राश्रयणादेव वैध्म्य जगदे, न तु निपुणतरं निरीक्षितमायुष्मता। यदि तु 'यदि सन्ति-' इति पद्यस्य 'नहि कस्तूरिका-' इत्यादुत्तरार्थ दूरीकृत्य 'वाचा वाचस्पतेव्योत्नि विलसन्ति न वल्लयः' इति क्रियते, तदा वैधर्म्य प्रकृत विपरीतार्थघटनाद्युक्तम्। अथ- 'खलास्तु कुशला: स्वीयहितप्रत्यूहकर्मणि। निपुणाः फणिनः प्राणानपहर्तु निरागसाम् ॥' इत्यत्रासंक्ठुलवाक्यार्थेSतिप्रसङ्ग:, कुशलनिपुण पदाभ्यामे.कस्यैव धर्मस्यो- पादानात्। न चात्रौपम्यं न गम्यमिति वक्तुं शक्यम्। निपुणकुशलपदाभ्यां प्रतिपादितेन शब्दसामान्यात्मना धर्मेण खलफणिनोरौपम्यर्स्य प्रत्ययात्। नतेति। साधम्येणैवेदमुदाहरणमित्युक्तृष्टान्तपूर्व द्रढयति-सन्त इति। विद्यमाना इत्यर्थः। कथं तर्हि तैस्तथोक्तमत आह-नजिति। जगदे कथितवान्। आयुष्मता अप्पयदीक्षितेन। वाचेति । बृहस्पतेरुक्त्ापीत्यर्थः । सवसिद्धान्ते आक्षिपति- अथेति। सवीयहितेति। खीयानां यानि हितानि तत्प्रतिबन्धकर्मणीत्यर्थः।नापी- १ अयं सर्वस्याशय :- 'सन्तः स्वतः०' इति पाठे योर्थः स एव 'यदि सन्ति०' अत्र। 'सन्त:०' इत्यादिपाठे च गुणाः स्वतः प्रकाशन्ते परतः (अन्योपायेन) न, कस्तूर्याः आमोदः शपथेन न अनुभाव्यते अपि तु स्वयमेव अनुभाव्यते' इति वाक्यार्थे-पूर्वाधें अन्वयघटितो यः प्रकृतोर्थों वर्णितस्तत्सजातीयस्यैवोत्तराद्वें ग्रहणं न आक्षिप्तव्यतिरेकसजातीयस्य। केवलं नञू- शब्दश्रवणादेव वैधर्म्य (भ्रमात्) प्रोक्तं न तु निपुणं विचारितं दीक्षितेनेति। २ पूर्वाध परिगृहीतात् 'गुणा: स्वयं विकसन्ति' इति विधिरूपात्म्रकृतार्थात् 'वाचस्पतेर्वाचा व्योम्नि लताः न प्रसरन्ति' इति निषेधरूपोर्थः स्पष्ट विपरीत इत्याशयः। वाक्ययोईयोरर्थसा- मञ्जस्यं तु प्रकृतवाक्यार्थात् आक्षिप्ेन व्यतिरेकेण (स्वयं विकसन्ति, परतो न विकसन्ति इति) पूर्वमुक्तमेवेति बोध्यम्। ३ असंछुल: मिथोवैषम्यादरुच्चिरः, 'ऊटपटाँग' इति भाषा।

सर्पाः' इति। ४ 'स्वजनोपकारप्रतिबन्धने कुशला यथा खलाः, निरपराधप्राणहरणे निपुणास्तथा

५ कर्मवाच्यक्रियाया धन्येयं व्याख्या।

Page 510

४५० काव्यमाला। [द्वितीयानने-

नापि धार्िणोरौपम्येऽपि विशिष्टवाक्यार्थयोस्तन्न तथेति वाच्यम्, अव- यवद्वारा तयोरपि तस्य तथात्वात्। स्वभावसिद्धत्वेनोतुपात्तधर्मेणौपम्यस्य गम्यत्वाच्चेति चेत्, मैवम्। साधारणधर्मस्य वस्तुप्रतिवस्तुभावोक्त्या तदितर- पदार्थानां बिम्बप्रतिबिम्बभावो घटनाया आनुरूप्यं च विवक्षितम्। प्रकृते च खलफणिनोः प्राणिहितयोश्च सत्यपि बिम्बप्रतिबिम्बभावे हरण- प्रत्यूह करणयोर्नांश-प्रागभावपर्यवसितयोराननुरूप्यान्न बिम्बप्रतिबिम्बै- भाव इति न दोष:। यद्वा अस्त्वत्र प्रतिवस्तूपमा। परं त्वसंघ्ठुलतारूपस्य वाक्यार्थसामान्यदोषस्य सतत्वादचमत्कारिणी, दुष्टोपमादिवत्। वाक्यार्थो

मर्थेरेव कविभी रचितः कामपि कमनीयतामाधत्ते, नेतरः।

त्यस्य वाच्यमित्यत्रान्वयः । तन्न तथेति। औपम्यं गम्यमित्यर्थः । तयोरपि विशिष्ट- वाक्यार्थयोरपि। तंस्येति। औपम्यस्य गम्यत्वादित्यर्थः । स्वभावसिद्धत्वेनानु- पात्तति। एतद्रूपानुपात्तधर्मेणेत्यर्थः । तादृशौपम्यस्यैकधर्मस्य सबन्धिभेदेन द्विरुपा- दानरूंपवस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकल्वाभावान्न प्रतिवस्तूपमोपयोगितेति चिन्त् मिदम्। विवक्षितम् अन्रेति शेषः। ननु तयोरभावत्वेनानुरूप्यादस्त्येव बिम्बप्रतिबिम्ब- भावोऽत आह-यद्वति। घटना अननुरूपेति भावः । असंछुलतारूपस्येति। पूर्ववाक्यार्थघटकहितप्रत्यूहकर्मणीति नामार्थविभक्त्यर्थाँदीनामुत्तरवाक्यार्थघटके प्राणा- १ ननु धर्मिंणो: खलफणिनोरेवाSत्र औपम्यं गम्यम्, धर्मिविशिष्टयोर्वाक्यार्थयोः तत् (औपम्यम्) तथा (गम्यम्) न, इति शङ्का। अवयवयोर्यदा औपम्यं सिद्धं तथा अवयवद्वारा अवयविनोरपि तत् सिद्धमेवेति समाधानम्। २ उपात्तेन शब्दरूपसामान्यधर्मेणैव नात्रापम्यम्, अपि तु अनुपात्तेनापि धर्मेणेत्याह- स्वभावसिद्धत्वेनेति०। सर्पांणां निरपराधप्राणहरणं यथा स्वभावसिद्धं तथा खलानां स्वजनहित- अ्तिबन्धनम्, इति। ३ अस्त्यत्र कुशलनिपुणरूपस्य साधारणधर्मस्य वस्तुप्रतिवस्तुभावः । किन्तु तदितरेषां खल- फणि, प्राणि-हितादीनां सर्वेषां बिम्बप्रतिविम्बभावो नास्ति। न घटते हरण-प्रत्यूहकरणयो- बिम्बप्रतिबिम्बते त्याह। ४ प्राणापहरणस्य प्राणनाशः (ध्वंसः) प्रत्यूद्करणस्य च प्रागभावः [ अर्थात् हितस्योत्पत्तेरेव प्रतिबन्धनम् ] पर्यवसानेऽर्थः स्यादिति मिथः सादृश्याभावान्न विम्बप्रतिबिम्बभाव इत्याशयः। ५ उपमानोपमेययोर्जत्या प्रमाणेन लिङ्गसंख्याभ्यां चाननुरूप्यादिदोषकृतापकर्षाद्यथा उपमा अचमत्कारिणी भवति, तथा वाक्यार्थविसंछ्ठुलतादोषादियमित्याशयः । ६ रचनायां तत्परिवृत्तौ च।

Page 511

प्रतिवस्तूपमा ] रसगङ्गाघरः । ४५१

तथा हि- 'उपासनामेत्य पितुः स्म रज्यते दिने दिने सावसरेषु बन्दिनाम् । पठत्सु तेषु प्रतिभूपतीनलं विनिद्ररोमाजनि शृण्वती नलम् ।' अस्मिन्नैषधीयपदे (१। ३४) द्वयोः क्रिययोरुद्देश्यविधेयभावेन गुण- प्रधानभावमकुर्वता, बन्दिनः षध्यन्ततया सप्तम्यन्ततया च द्विः परा- मृशता कविना वाक्यार्थः क्मेलकवदसंघुलतां प्रापितः। यदि च स एत वाक्यार्थः प्रकारान्तरेण निर्मीयते- 'उपासनार्थ पितुरागतापि सा निविष्टचित्ता वचनेषु बन्दिनाम्। प्रशंसतां द्वारि महीपतीनलं विनिद्ररोमाजनि शृण्त्रती नलम् ॥' इति, तदा ललनाङ्गसंनिवेश इव कीछशीं कमनीयतामार्वहेदिति सहृद- थैराकलनीयम्। एवम्- 'तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति। स्थितेSरविन्दे मकरन्दनिर्भरे मधुब्रतो नेक्षुरकं हि वीक्षते ।।' इति कुवलयानन्दोदाहते आलुवन्दारुस्तोत्रपद्ये वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानर्हत्वादिच्छापूर्वकवीक्षणप्रतिषेधस्य च 'सविशेषणे हि-' इति न्यायेनेच्छाप्रतिषेधधमेपर्यवसायितया यद्यपि धर्मक्यं सुसंपादम्।

नपहर्तुमित्यत्राभावादसंष्ुलतेति भावः । क्रमेलकवत् उष्टवत् । तवेति । शिवं प्रति भक्तोक्तिः। इश्षुरकं 'तालमखाना' इति प्रसिद्धौषधीपुष्पम् काशपुष्पमिति कश्चित्। गोक्षुरमित्यन्यः। आलुवन्दारुस्तोत्रति। अवर्जनीयेति। अनिष्टेऽपि ससामग्री- वशाजायमानस्येत्यर्थः । वातोरिच्छापूर्वकवीक्षणे लक्षणया आह-इच्छापूर्वेकेति। सुसंपादमिति । तथा च प्रतिवस्तूपमोदाहरणतोक्तिस्तेषां संगतेति भावः । १ निविष्टच्चित्ता० इत्यादिपाठे-पितुरुपासनार्थमागतानां द्वारि राजसामान्यं प्रशंसत- बन्दिनां वचस्सु निविष्टचचित्ताम् (दमयन्तीम्) उद्दिश्य विनिद्ररोमत्वं वर्णितमिति द्योः क्रियां योरुद्देश्यविधेयतया शुणप्रधानभावः संपन्न इति वाक्यार्थस्य न विसंछ्ठलता। नैषवीयपाठे तु 'सा बन्दिनामवसरेपु रज्यते' 'नलं शण्वती विनिद्ररोमाऽजनि' इति द्वयोरवाक्ययोः स्वतत्र- त्वान्न गौणमुख्यभाव इत्याशयः । २ सविशेषणे (विशेष्ये) जातो धर्मसंबन्धो विशेषणेऽपि प्रतिफलतीत्यनुगमात् इच्छापूर्वक- (विशिष्ट)वीक्षणे संबद्धः प्रतिषेधः (अभावः) विशेषणभूतायामिच्छायामपि पर्यवसितः । तथा च 'न इच्छति' इति पूर्ववाक्यार्थेन सह 'न वीक्षते' इत्युत्तरवाक्यार्थस्यैक्यं संपन्नमित्ये- कदेशिन: समाधानम्।

Page 512

४५२ काव्यमाला । [द्वितीयानने-

अस्तुं वा दष्टान्तालंकारः । तथापि पादपङ्कजे निवेशितात्मेत्याधारसप्तम्याः स्थितेSरविन्दे इति सतिसप्तमी वस्तुप्रतिवस्तुबिम्बप्रतिबिम्बभावयोरन्यतरे- णापि प्रकारेण नानुरूपा, इत्यसंघुलता स्थितैव। 'स्थितोऽरविन्दे मंकर- न्दनिर्भरे' इनि चेत्क्रियते तदा तु रमणीयम्। तस्मादेवंजातीयकेष्वलंकारेषु पूर्ववाक्यार्थघटकनामार्थानुरूपैर्नामार्थैस्त- दूटकविभक्त्यनुरूपाभिर्विभक्तिभिस्तदन्वयानुरूपेण चान्वयेन भाव्यमिति सहृद्यहृदयं प्रष्टव्यम्। 'वहति विषधरान्पटीरजन्मा शिरसि मषीपटलं दधाति दीपः । विधुरपि भजतेतरां कलङ्कं पिशुनजनं खल बिभ्रति क्षितीन्द्राः ।।' अत्र वहनाधानभजनभरणानां वस्तुत ऐकरूप्यात्प्रतिवस्तूपमेयं मालारूपा। इति रसगङ्गाधरे प्रतिवस्तूपमाप्रकरणम्। अथ दष्टान्तालंकार :- प्रकृतवाक्यार्थघटकानामुपमानादीनां साधारणधर्मस्य च विम्ब- प्रतिविम्बभावे दृष्टान्त: ।।

उक्तप्रकारेण धर्मैक्यानादरे वाह-अस्तु वेति। इति सतिसप्तमीति। इति सत्सप्तमीत्यर्थः । रमणीयमिति । तत्राप्याधारसप्तमीसंपत्तेरिति भावः। घटनाया आनुरूप्यं सर्वथा अपेक्षितमित्युपसंहरति-तस्मादिति। मालारूपप्रतिवस्तूपमामुदा- हरति-वहतीति। पटीरजन्मेति। मालारूपेति। पटीरजन्मेव दीप इत्यादिप्रती- तेरित्यर्थः । इति रसगङ्गाधरमर्मप्रकाशे प्रतिवस्तूपमाप्रकरणम्॥ दृष्टान्तं निरूपयति-अथेति । बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मादिकं वाक्या-

१ धर्मैक्यासंपादने वस्तुप्रतिवस्तुभावाभावात् यदि प्रतिवस्तूपमा न स्यात्तथापि दृष्टान्तः स्यादिति पक्षान्तरमाह-अस्तु वा० इति। २ पूर्ववाक्यार्थस्य अवयवभूता ये नामार्थ-विभक्ति-अन्वयाः, उत्तरवाक्यार्थेपि तदनुरूपा एव नामार्थविभत्तयन्वयाः कर्तव्या इति भावः । ३ वहनादीनां धर्माणां यथा वस्तुप्रतिवस्तुत्वं तथा विषधर-चन्दन, दीप-मषीपटल, विधु-कलक्क, क्षितीन्द्र-पिशुनजनानां बिम्वप्रतिबिम्बत्वमिति विवेकः ।

Page 513

दष्टान्त: ] रसगङ्गाधर: 1 ४५३

तदुक्तम्-'दष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्' इति। उदाहरणम्- 'सत्पूरुष: खलु हिताचरणैरमन्द- मानन्द्यत्यखिललोकमनुक्त एव। आराधितः कथय केन करैरुदारै- रिन्दुर्विकासयति कैरविणीकुलानि ।' अत्रानन्दनविकासयोरपि बिम्बप्रतिबिम्बभावः । अस्य चालंकारस्य प्रतिवस्तूपमया भेदकमेतदेव यत्तस्यां धर्मो न प्रतिबिम्बितः, किं तु शुद्धसामान्यात्मनैव स्थितः । इह तु प्रतिबिम्बितः । विमर्शिनीकारस्तु-'प्रतिवस्तूपमायामप्रकृतार्थोपादानं तेन सह प्रकृता- र्थस्य सादृश्यप्रतिपत्त्यर्थम् । दृष्टान्ते तु तदुपादानमेताद्शोऽर्थोऽन्य- त्रापि स्थित इति प्रकृतार्थप्रतीतेर्विशदीकरणमात्रार्थम्, न तु साह- शयप्रतिपत्त्यर्थम्। अतः सादृश्यप्रतीत्यप्रतीतिभ्यामनयोरलंकारयोर्भेदः' इत्याह। तन्न। प्रकृताप्रकृतवाक्यार्थयोरुपादानस्यालंकारद्वयेऽप्यवि- शिष्टत्वादेकन्र सादृश्यप्रत्ययः, अन्यत्र नेत्यस्याSडज्ञामात्रत्वात्। वैपरी- त्यस्यापि सुवचत्वाच्च। एतादशोरऽर्थोऽन्यन्नापि स्थित इति प्रकृता- र्थप्रतीतिविशदीकरणस्य त्वदभिहितस्य सादृश्यापरपर्यायत्वाच। अत

र्थयोरार्थमौपम्यं दृष्टान्त इति निष्कर्षो बोध्यः । करैः किरणैः । कुलानि समूहान्। अपिना इन्दुपुरुषादिसंग्रहः । प्रतिबिम्बित इत्यस्य इतीति शेष:। तदुपेति । अप्रकृता- रथोपादानमित्यर्थः । स्थित इति । इत्यस्य विशदीकरणेऽन्वयः । स्पष्टार्थ मात्रपदव्य- वच्छेद्यमाह-न त्विति। अभ्युपेत्याप्याह-वैपरीत्येति। इष्टापत्तावाह-एताहश इति । अत एव उक्तरीत्या दृष्टान्ते सादृश्यप्रतीतेरेव । क्वचित्तदभावेऽपि न क्षतिरि-

१ यथा 'आपद्गतः' इत्युदाहरणे उपमेयोपमानोभयकोट्योरपि विस्तारण-प्रकटनयोः शुद्ध- साधारणधर्मत्वमेव, न विम्बप्रतिबिम्बत्वम्। २ प्रतिवस्तूपमायां प्रकृतार्थविशदीकरणार्थ, दृष्टान्ते तु सादृश्यप्रतीत्यर्थमित्यपि कामं वकुं शक्यमित्यर्थः ।

Page 514

४५४ काव्यमाला। [ द्वितीयानने-

एव प्रायशः सत्कविनिर्मितेपु लक्ष्येषु प्रकृतवाक्यार्थघटकप्रकृतिप्रत्यया- थानुरूपत्रकृतिप्रत्ययार्थघटित एवाप्रकृतवाक्यार्थों दृश्यते। न च भवदु- क्तमपि वैलक्षण्यं नानयो: पृथगलंकारतायां प्रयोजकम्। औपम्याख्यसा- मान्यलक्षणाक्रान्ततया उपमाभेदवदेकालंकारभेदत्वापत्तेरिति वाच्यम्। तवापि दीपकतुल्ययोगितयोरेकभेदत्वापत्तेः । इष्टापत्तिरिति चेत्सैवात्रापि दृश्यताम्। प्राचीनविभागस्य भवतैव शिथिलीकृतत्वात्। औपम्यरूप-

लालंकारिकसिद्धान्तभङ्गप्रसङ्गाच्। "-अव्धिलेङ्गित एव वानरभटैः-' इत्यादिमुरारिपद्ये यद्यपि ज्ञानार्थ एको धर्मो निर्दिष्टस्तथापि नैतन्निबन्धनमौ- पम्यं विवक्षितम्। यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्गनादावस्त्ेव दिव्य- वागुपासनादिना प्रतिबिम्बनम्" इति त्वन्मूलग्रन्थविरोधाच्च।न च यन्निब-

त्याह-प्रायश इति। सदित्यनेनासत्कविव्यावृत्तिः । तथा च तत्र तदभावेऽपि न क्षतिरिति भावः । ल्क्ष्येष्वति। दष्टानते्ािः भवदुक्त्कमपीति । धर्मस्य प्रतिबि- म्बिनत्ाप्रतिबिम्बितत्वकृतमिति भावः । एकालंकारेति। उपमालंकारेत्यर्थः । एक- भेदुत्वेति। एकालंकारत्वेत्यर्थः । अलंकारभेदो न स्यादिति यावत्। सैव इष्टापत्ति- रेव। नन्वेवं प्राचीनविभागोच्छेदापत्तिरत आह-प्राचीनेति। दीपकतुल्ययोगिता- स्थल इति भाव: । एवं प्रतिबन्दीमुक्खा दोषमाह-औपम्येति। बहूनां अनन्वयादी नाम्। तन्नापीष्टापत्तावाह-अन्धिरिति। ज्ञानरूपोऽर्थ इत्यर्थः । यद्यप्येकत्र ज्ञानमे कत्र संस्पर्श इति भेदस्तथापि बिम्बप्रतिबिम्बभावेनाभेद इति भावः। यन्निबन्धन- मिति। अब्धिलङ्गनादिप्रयुक्तमित्यर्थः । औपम्यमित्यस्यानुषङ्गः । त्वन्मूलेति। अलं- १ तथा च दृष्टान्तेपि स्पष्टा सादृश्यप्रतीतिरिति भावः । २ दृष्टन्तेऽपि सादृश्यप्रतीतेः स्वीकारे साधारणधर्मकृनमिथोविशेषेऽपि उभयत्र (प्रतिवस्तू- पमा-दृष्टान्तयोः) औपम्यं गम्यमिति समानलक्षणत्वादेकालंकार(उपमा)प्रभेदत्वं द्वयोः स्याद। यथा साधर्म्यरूपसमानलक्षणशालित्वादुपमाप्रमेदाः सर्वे एकालंकारमेदाः ख्यायन्ते, इति शङ्का। दीपकतुत्ययोगितयोरौपम्यस्य गम्यत्वं त्वयाप्यभिमतमिति त्वन्मतेप्यनयोरेकालं कारत्वं स्यादिति औपम्यगम्यत्वरूपं समानलक्षणं नैकालंकारताप्रयोजकमिति समाधानम्। ३ दृष्टान्ते न सादृश्यप्रतीतिरिति त्वया प्रतिशायते । किन्तु दृष्टान्तोदाहरणे अब्धिर्लङ्गितः इत्यत्र "ज्ञानार्थ एको धर्मों निर्दिष्ट इति साधर्म्यमादाय न द्वयोरौपम्यम्, किन्तु 'वाग्देवीं बहव उपासते' 'वानरभटैबदुभिरब्धिर्लेङ्गितः' इति द्वयोर्बिम्बप्रतिबिम्बरूपं साधारणधर्ममादाय द्वयोरौंपम्यम्" इति वदता दृष्न्तस्थले सादृश्यप्रतीतिस्त्वयापि स्पष्ट स्वीकृतेति तवैव स्वमूल- अन्थस्य विरोधः (पूर्वापरविरोधः) इत्याशयः ।

Page 515

दष्टान्त: ] रसगङ्गाधरः । ४५५

न्धनं च विवक्षितमित्यत्रार्थालंकारत्वं विशेष्यं शेषपूरणेन योज्यम्, न पुनरौपम्यमिति वाच्यम्। औपम्यं न विवक्षितमित्यत्रैकवारं निष्ठया परामृ- ष्टस्यैव पुनस्तया परामर्शस्य व्युत्पत्तेः 'न चैत्रार्थमोदनः पक्कः, यदर्थ च पक्क: स मैत्रः' इत्यादौ द्वितीयपक्कादिशब्दानामध्याहतशाकादिपरत्वे असं- गते: स्फुटत्वात्। तस्मादस्मदुक्तनैव पथा प्राचीनैर्विहितोSलंकारयोरनयो- र्विभाग: संगमनीयः। यदि तुन तेषां दाक्षिण्यं तदैकस्यैवालंकारस्य द्वौ भेदौ-प्रतिवस्तूपमा, दष्टान्तश्च। यच्चानयोः किंचिद्वैलक्षण्यं तत्प्रभेदताया एव साधकम्, नालंकारताया इति सुवचम्। वैधर्म्येणायं यथा- 'जनयन्ति परप्रीतिं नराः सत्कुलसंभवाः । नहि कारस्करः क्वापि तापनिर्वापणक्षमः ।।' यथा aा- 'तापत्रयं खलु नृणां हृदि तावदेव यावन्र ते वलति देव कृपाकटाक्षः ।

कारसर्वस्वेत्यर्थः । तया निष्ठया। तत्र हेतुमाह-न चैत्रार्थमिति। असंगतेरिति। कव्यभिप्रायाप्रतिपादनादिति भावः। उपसंहरति-तस्मादिति। पथा मार्गेण। तेषां प्राचीनानाम्। एकस्यैवेति। उपमारूपस्येवेत्यर्थः । प्रभेदेति। उपमाप्रभेद- ताया एवेत्यर्थः । परप्रीतिं परेषां प्रीतिम्। कारस्करः [ 'कुचला' इति प्रसिद्धो वृक्षः । ]

१ अयं भाव :- अत्र 'औपभ्यं विवक्षितम्' इति न अनुषङ्गः। किन्तु 'अर्थालंकारत्वं विव- क्षितम्' इत्यन्वयः। ततश्च दृष्टान्ते औपम्यस्वीकाररूपः पूर्वापरविरोधः कथ स्यादिति पूर्वप- क्षिण: समाधानम्। पूर्वत्र न 'विवक्षितम्' इति निष्ठया' (क्तप्रत्ययेन) यत् 'औपम्यम्' परा- भृष्टम्, अग्रेपि तस्यैव परामर्श उचितो न अर्थालंकारत्वस्येति सिद्धान्तिना तन्निरासः कृतः । २ 'यदर्थ च पक्कः' इति द्वितीयभागेपि पक्कशब्देन पूर्वत्र परामृष्टः ओदन एव संबध्यते, -न त्वध्याहृतः शाकादिरित्याशयः । ३ प्रतिवस्तूपमायासुपमानादीनां बिम्न्प्रतिबिम्बभावापन्नत्वेऽपि साधारणधर्मस्य वस्तुप्रति- वस्तुभावापन्नत्वम्। दृष्टान्ते तु सर्वेषामेव बिम्बप्रतिबिम्बभवापन्नत्वमिति। ४ तेषाम् (प्राचीनानाम्) विभागकरणे यदि न चातुर्य तदा द्वयोरेव उपमाप्रभेदत्वं चक्तव्यं स्यादिति भावः ।

Page 516

४५६ काव्यमाला। [द्वितीयानने-

प्राचीललाटपरिचुम्बिनि भानुबिम्बे पङ्केरुहोदरगतानि कुतस्तमांसि।।' प्रीतिजनन-तापनिर्वापणाभावयोः, तापत्रयावस्थान-तमोदूरीकरण- योश्च वैधर्म्येणात्र बिम्बप्रतिबिम्बभावः । इति रसगङ्गाधरे दृष्टान्तप्रकरणम्। अथ निदर्शना- उपात्तयोररथयोरार्थाभेद औषम्यपर्यवसायी निदर्शना। अतिशयोक्त्यादीनां ध्वन्यमानरूपकस्य च वारणाय उपात्तयोरिति। वाच्यरूपकवारणाय ऑर्थ इति। आर्थत्वं च प्राथमिकान्वयबोधा- विषयत्वम्। यदि च विशिष्टोपमायां विशेषणयोरभेदः प्रतीयते तदा

तापत्रयमाध्यात्मिकादिदुःखत्रयम्। वलति प्रविशति। वैधर्म्येणेति । उपपादितमिद- मधस्तात्। इति रसगङ्गाधरमर्मप्रकाशे दृष्टान्तप्रकरणम् ॥। अथ निदर्शनां लक्षयति-अथेति। औपम्यपर्यवसायी औपम्यमूलः। नन्वतिश- योक्तादौ नार्थद्वयमत आह-ध्वन्यमानेति। नन्वार्थतमर्थसंबन्धितम्। तथा च वाच्यरूपके दोषस्तदवस्थः । अत आह-आर्थत्वं चेति। प्रतीयत इति। तथा च

१ कारस्केतरे अन्ये वृक्षास्तापनिर्वापणम् (प्रीतिम्, सुखम्) कुर्वन्तीति स्वाक्षिपेन सह बिम्बप्रतिबिम्बभावादौपम्यसंगतिरिति पूर्वम् (प्रतिवस्तूपमायाम्, 'वैधर्म्येणाप्येषा संभवत्या- दिना') उक्तम्। नृणां कमलानाम्, हृदयस्य कमलोदरस्य, तापत्रयस्य तमसाम्, कृपाकटा- क्षस्य भानुबिम्बस्य तु बिम्बप्रतिबिम्बत्वं विदितमेव सहृदयानाम्। २ वाक्यार्थयोः पदार्थयोश्वति द्वयो: संग्रह्ः । ३ चन्द्रे इन्दीवरद्वयम् इत्यतिशयोक्ता, 'कस्तूरिकातिलकम्' इत्यादिरूपकध्वनौ घ मुख-चन्द्र-इन्दीवरनेत्रादीनामभेदोऽवश्यमर्थतोऽनुसंघीयते, तथाप्यत्र उपमानमात्रं शब्दो- पात्तम्, उपमेयं तु लक्षणाद्वाराऽवसेयमिति नोपात्तत्वमित्यर्थः । ४ सुखं चन्द्र इत्यादौं वाच्ये रूपके एकविभक्तिनिर्देश्य एवाभेद इति स शाब्दः । ५ प्राथमिके अन्वयबोघे (शाब्दबोधे) तु अभेदो न प्रतीयते पश्चादर्थानुसंधाने तत्प्रती- 'तिरित्यरथः । यथा 'त्वामन्तरा०' इत्युदाहरणे 'परिशोधयन्तः गवेषयन्ति' इति कत्रोरेव शाब्दोडमेद: प्रथमतः प्रतीयते, पश्चादर्थानुसंधाने-'अन्तरात्मानं विहाय तीर्थेंषु ते परिशो- धनं कण्ठतटमदृष्टा धूलिषु चिन्तामणेर्गवेषणरूपम्' इति क्रिययोरेवामेदे वक्तस्तात्पर्य बुध्यते। निसगंतो भिन्नयोश्वाभेदः पर्यवसाने उपमां व्यनक्तीति लक्षणसंगतिः ।

Page 517

निदर्शना ] रसगङ्गाघरः । ४५७

बिम्बप्रतिबिम्बभावानापन्नत्वमपि प्रधानविशेषणम्। तद्विशेषणानां तु बिम्बप्रतिबिम्बभावो न निवार्यते। इदं च श्रौत्या निदर्शनाया लक्षणम्। आर्थीसाधारणं लक्षैणं तु ललितालंकारप्रकरणे वक्ष्यते। उदाहरणम्- 'त्वामन्तरात्मनि लसन्तमनन्तमज्ञा- स्तीर्थेषु हन्त मदनान्तक शोधयन्तः । विस्मृत्य कण्ठतटमध्यपरिस्फुरन्तं चिन्तामणिं क्षितिरजःसु गवेषयन्ति ।।' अत्र तवान्यत्र परिशोधनं कण्ठस्थस्य चिन्तामणेर्भूपांसुषु गवेषणं चाभिन्नमिति तत्सादृश्यमूला घी:। यथा वा- 'अन्यैः समानममरैर्जगदन्तरात्म- न्ये चन्द्रशेखर वदन्ति भवन्तमज्ञाः । ते किं न हन्त तुलयन्ति नभो निरन्तं वातायनोदरगतैर्विवरान्तरालैः ।।' पूर्वत्रैकवैक्यगतः, इह तु भिन्नवाक्यगतः। पूर्वत्र वस्तुमात्रयोरौपम्यमू- तत्रातिव्याप्तिरिति भावः। प्रधानविशेषणमिति। तद्विशेषणानां तु प्रधान विशेषणानां तु। त्वामिति । ईश्वरं प्रति भक्तोक्तिः । एवमग्रेऽपि। कण्ठ एव तटं तन्मध्ये लभ्यं तमित्यर्थः । तव शिवस्य । विवरेति । तद्रूपैरन्तरालैरित्यर्थः। एकवाक्येति। क्रिययोरैक्यात्। भिन्नति। तद्गेदात्। भेदान्तरमाह-पूर्वत्रति। इह त्वौपस्य- १ ननु उपात्तयोरर्थयो: (प्रकृताप्रकृतयोः) आर्थोडभेदः, 'कोमलातपशोणाभ्र०' इत्यादि- विशिष्टोपमायामप्यतिप्रसक्तः, यतो हि कोमलातप-कुङ्कमालेपयोः, शोणाभ्र-काषायवसन- योश्च अर्थतोऽमेदः । अत एव हि साम्येन द्वयोरुपमा सिध्यति। अत आह विम्बप्रतिबिम्ब- भावानापन्नत्वमिति । अत्र अभेदपर्यवसानेऽपि प्रधानयोः प्रकृताप्रकृतयोबिम्बप्रतिबिम्बभावा- पन्नत्वमेवेति नातिप्रसङ्ग इत्याशयः । २ प्रधानयोः (विशेष्ययोः) बिम्बप्रतिबिम्बभावोऽत्र वर्जितः । प्रधानविशेषणानां न सः (बिम्ब० ) घर्जितः । तथा च 'त्वामन्तरा०' इत्यादा अन्तरात्म-कण्ठतटयोः, तीर्थ-रजसोः, शिव-चिन्तामण्योः, इति विशेषणानां मिथो विम्बप्रतिबिम्बभावापन्नत्वेपि प्रधानयोः शोधन- गवेषणयोः क्रिययोर्बिम्बप्रतिबिम्बभावाभावान्न दोष इत्याशयः । ३ व्यवहारद्वयवद्धर्म्यभेदप्रतिपादनाक्षिप्ो व्यवहारद्वयाऽमेदो निदर्शनेति। अग्रेऽनुसंवेयम्। ४ शोधयन्तो गवेषयन्तीति द्योररधयोरेकवाकयत्वात्। ५ शोधन-गवेषणयोः । ३९ रस०

Page 518

४५८ काव्यमाला। [द्वितीयानने- लोडभेदः, इह त्वौपम्ययोरौपम्यमूलः स इति विशेषः। एषा वाक्यार्थनिद्- ्शनेत्युच्यते। विशिष्टार्थयोः प्रक्ृतैकधर्मिगेतयोरार्थाभेदे वाक्यार्थनिदर्शना- या इष्टेः । अस्यां च घटकपदार्थानां बिम्बप्रतिबिम्बभाव आवश्यकः । पदार्थनिदर्शना यथा- 'अगण्यैरिन्द्राधैरिह परमपुण्यैः परिचितो जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुण: N

दगन्तस्ते मन्दं मम कलुषवृन्दं दलयतु॥' अन्न दगन्ताम्बुधिलहरिलीलयोराश्रैयभेदाद्विन्नयोरपि सादश्यमूल- स्ताद्रूप्याभिमानः । आरोपो वा दगन्ते लहरिलीलायाः । यथा वा- 'पाणौ कृतः पाणिरिलासुतायाः सस्वेदकम्पो रघुनन्दनेन। हिमाम्बुमन्दानिलविह्वलस्य प्रभातपद्मस्य बभार शोभाम् ।' अन्न हिमाम्बुजनितविह्वलता हिमकणाकीर्णतारूपा वातजनितविह्वलता

योरिति। तज्ज्ञानयोरित्यर्थः । सः अभेदः । परिचितोऽनुभूतः। जगदिति। जगदु- त्पत्तिस्थितिसंहारकारक इत्यर्थः । अत्र दगन्ताम्बुधीति। दृगन्तसमुद्रलहर्योयें लीले तयोरित्यर्थः। दृगन्तलीलाप्रतिपादकशब्दाभावेन तथा दुर्वचमत आह-आरोपो वेति। पाणौ कृत इति। सीताविवाहवर्णनम्। श्रीरामचन्द्रेण खहस्ते कृतः स्वेद- कम्पाभ्यां युक्तो भूसुतायाः सीतायाः पाणिर्हिमाम्बुमन्दवायुभ्यां विह्वलस्य कमलस्य शोभां १ 'अन्यैः समानम्' अत्र औपम्ययोः (अन्यैः अमरैः समानतायाः, विवरान्तरालैः सह नभसः तुलनायाश्च, इति द्योरौपम्यज्ञानयोः) अमेदः । २ प्रकृताप्रकृतयोद्योरभेदेऽपि प्रकृते धर्मिणि यथा त्वामन्तरा अत्र शिवे तात्पर्यविषयता। ३ अवयवपदार्थानाम्, यथा त्वामन्तरा० अत्र अन्तरात्म-कण्ठतटादीनाम्। ४ दृगन्तलीला दृगन्ताश्रिता, अम्बुधिलहरिलीला अम्बुधिलहयाश्रिता अत एव भिन्नयो- रपि उज्जृम्भणकृतं सादृश्यमादाय द्योरमेदः। स चा्डडर्थः । शब्दतस्तु दगन्ताम्बुधिलहयों: (उपमेयोपमानयोः) एवाभेदः । परम् अर्थतस्तात्पर्य लीलयोरभेदे एवेति।

Page 519

निदर्शना ] रसगङ्गाघर: । ४५९

च विधुतिरूपा। एताभ्यां च सस्वेदता-सोत्कम्पितत्वयोः प्रतिबिम्ब्नमिति पूर्वस्मादुदाहरणाद्गेदः । प्रभातपद्सांनिध्याच्च पद्मस्येषद्विकासमुद्रणयोः प्रत्ययात्पाणावपि तत्सिद्धिः। अस्यां चोपमानोपमेयगतधर्मयोरार्थाभेद- प्रतिपत्तिः। अतः पदार्थनिदर्शनोच्यते। बिम्बप्रतिबिम्बभावस्तूपमानोप- मेययोः सविशेषणत्वे भवति, अन्यथा तुन इति विवेकः। ननु वाक्यार्थनिदर्शनायां विशिष्टवाचकेशब्दाभ्यां विशेषणयोरप्युपादा- नात् अस्तु नाम उपात्तयोरार्थोऽभेदः। पदार्थनिदर्शनायां तूपमानशोभादेर- न्यतरस्यैवोपात्तत्वम्, न द्वयोरिति चेत्। शोभाशव्देन शोभात्वेन द्वयोरप्यु- पोत्तत्वात्। नह्युपमानोपमेयतावच्छेदकरूपेणोपात्तत्वं विवक्षितं येना- व्याप्तिः स्यात्। यद्वा प्रागुक्तलक्षणं वाक्यार्थनिदर्शनाया एव, न पदार्थ- निदर्शनायाः । अस्यास्तु उपमानोपमेययोरन्यतरधर्मस्यान्यतरत्रारोपो

दधावित्यर्थः । विधुतिरूपा कम्पररूपा। चस्तथे। तत्सिद्धिः ईषद्विकासमुद्रणयोः सिद्धिः॥ अस्यां च पदार्थनिदर्शनात्वेनोदाहृतायां च। शोभादेरिति। आदिना लीलापरिग्र- हः। उपमेयतावच्छेद केति। तद्विशेषणतयेत्यर्थः। तथा च विवक्षायामाह-यद्वेंति। अस्यास्तु पदार्थनिदर्शनायास्तु। उपमानोपमेयेति । 'आस्ये पूर्णशशाङ्कता' १ यथा प्रभातपझमं नीहारकणाकीर्ण प्राभातिकवायुना चान्दोलितं तथा सस्वेदः सोत्कम्पश्च सीतापाणिरिति पूर्वोंक्तविह्वलत्ाभ्यां सह सस्वेदत्वस्य सोत्कम्पत्वस्य च विम्बप्रतिबिम्बत्वम्। २ पूर्वत्र (दृगन्तस्ते०) केवलमभेदः, अत्र तु बिम्बप्रतिबिम्बभावसहकृतः स इति। ३ यथा 'अन्यैः समानममरैः' इति पद्ये घटकपदार्थानाम् अमर-विवरान्तरालानाम्, चन्द्रशेखर-नभसोश्च बिम्बप्रतिबिम्बत्वम्। यथा वा 'पाणौ कृतः' अत्र विह्वलत्वयोः सस्वेदत्व- सोत्कम्पत्वाभ्याम्। ४ अयं भाव :- वाक्यार्थनिदर्शनायां कर्तृवाचकपदयोः अमेदः शब्दोपात्तो भवति। यथा-'शोधयन्तः गवेषयन्ति' अन्र शोधनक्रियाविशिष्टस्य गवेषणक्रियाविशिष्टस्य च कर्तु- रुपादानं शब्दतः । विशिष्टस्योपादाने विशेषणस्योपादानमपि भवति। अतः शोधनक्रियायां गवेषणत्रियाया अभेदः उपात्तयोरभेद इति प्रतिपत्तुं शक्येत। पदार्थनिदर्शनायां तु शोभा-लीला- दिपदार्थयोर्मध्ये एकतरस्यैवोपादानं भवति। ततश्च विषयवाचकपदोपादानसापेक्ष: अभेद: कथं तत्र व्यपदिश्यतामिति शङ्का। ५ अन्यतरोपादानेपि शोभात्वेन लीलात्वेन वा उपमेयनिष्ठशोभाया लीलाया अप्युपादानं सिध्यतीति तत्समाधानम्। ६ उपात्तयोरर्थयोरार्थोडभद इत्यादिकम्।

Page 520

४६० काव्यमाला। [द्वितीयानन- लक्षणमस्तु। नन्वेवमपि वाक्यार्थनिदर्शनायां रूपकध्वनिना, पदार्थनिदर्श- नायां च निगीर्याध्यवसानरूपयातिशयोक्त्ा गतार्थतेति चेतू, न। वाक्या- र्थनिदर्शनायां रूपकस्य गुणीभूतत्वेन तद्धनित्वायोगात्। अन्यथा गुणीभूत- योपमया रूपकस्यापि गतार्थतापत्तेः। किं च अस्याश्च शरीरं तादशपदार्थयोः परस्पराभेदमात्रमुभयत्र विश्रान्तम्। रूपकस्य तूपमेयगत उपमानाभेदैः, अतिशयोक्तेश्च। निगरणानिगरणाभ्यां च तयोर्विशेष इत्यन्यत्। एवं च स्फुटमेवास्या रूपकातिशयोक्तिभ्यां वैलक्षण्यम्। अत एव त्वा- मन्तरात्मनि-' इति पद्ये गवेषयन्तीत्यत्र गवेषयन्त इत्यनूद्य शोधयन्त इत्यत्र इति भवदुक्तरूपकोदाहरणे इदमतिव्याप्तमिति चिन्त्म् रूपकस्य गुणी- भूतत्वेनेति । क्त्रभेदरूपवाच्यसिद्धङ्गलेनेतर्थः। तङ्चनित्वेति। रूपकध्व- नितेत्यर्थः । द्वितीयशङ्कायां समाधत्ते-किं चेति। अस्याश्च पदार्थनिदर्श- नायाक्ष। तादृशति । उपमानोपमेयेत्यर्थः । अतिशयोक्तेश्चेति। उपमेयगत उपमानाभेदः शरीरमित्यर्थः। नन्वेवं रूपकातिशयोक्त्योरैक्यापत्तिरत आह- निगरणेति। तयोविशेष इति । रूपकातिशयोक्त्ोर्विशेष इत्यर्थः । उपसंहर- ति-एवं चेति। अस्यां निदर्शनातवावच्छिन्नायाम्। अत एव उक्तरीत्या ताभ्यां १ 'विशञत्वं विदुषां गणे०' इत्यादिरूपकध्वन्युदाहरणेषु-विद्वत्-कवि-मङ्गलादिषु बुध- शुक्र-भौमादीनाममेदो यथा व्यज्यते, तथाSत्रापि वाक्यार्थ-निदर्शनायाम्-'त्वामन्तरा०' इत्यादुदाहरणेषु शोधनादौ गवेषणादेरमेद: प्रतीयमानोडस्ति। ततश्च रूपकध्वनिनव गतार्थत्वे किमित्ययमलंकार: पृथक् स्वीकार्यः । एवं पदार्थनिदर्शनायामपि-'पाणौ कृत:०' इत्याद्यु- दाहरणेषु प्रभातपन्मरूपस्योपमानस्य शोभया उपमेय(पाणि)शोभा निगीर्णा। उपमान- गतशोभायामेव उपमेयशोभाया अपि अध्यवसानमिति सेयमतिशयोक्तिरेव। अनया पदार्थ- निदशना गतार्था। इति शङ्का। २ यथा रूपके उपमा गुणीभूता भवति [मुखं चन्द्र इत्यत्र चन्द्रसादृश्यस्य प्रतीयमान- त्वात्] । एवमत्रापि रूपकं गुणीभूतम्। अयं भाव :- 'शोधयन्तः गवेषयन्ति' 'समानं व्रदन्त: तुलयन्ति' इत्यादिरूपेण शब्दोपात्ं कर्तरोरभेदं द्वारीकृत्य क्रिययोः (शोधन-गवेषणाद्योः) अभेदस्तात्पर्यविषयो भवति। अत एव शाब्दाडभेदजीवातू रूपकं तत्र गुणीभूतं भवतीति वक्तु शक्यते। गुणीभूतस्य च ध्वनित्वव्यपदेशो न संभवी । इति प्रथम( वाक्यार्थनिद- र्शना रूपकध्वनिना गतार्थेति) शङ्कासमाधानम्। ३ पदार्थनिदर्शनायाम्-शोभादित्वेन द्वयोरुपादानपूर्वकम् [अर्थात् उपमानगतशोभाया उपादानेपि शोभात्वेन उपमेयशोभाया अप्युपादानम् ] परस्परस्याभेदः परस्परं विश्रान्तो भवति। रूपके अतिशयोक्तौ चापि उपमेये उपमानाभेदः (मुखं चन्द्र इत्यत्र मुखे चन्द्राभेदप्रत्ययात्, चन्द्रे इन्दीवरद्यम् अन्नापि मुखाद्युपमेयनिगरणात् उपमेये उपमानाभेद: ], इति निदर्शनयोः रूपकातिशयोक्त्योश्च परस्परं भदान्नातिशयोत्तया गतार्थत्वम्। इति द्वितीयशङ्कासमाधानम्।

Page 521

निदर्शना ] रसगङ्गाघर: । ४६१

शोधयन्तीति विधाने, अर्धयोः पौर्वापर्ये च न सौन्दर्यहानिः। रूपकादौ तूच्यमाने व्यङ्ग्यकक्षोद्देश्यविधेयभावस्यापि वाच्यकक्षोद्देश्यविधेयभावा- जुसारितया उपमाने उपमेयाभेदसिद्धावसामञ्जस्यापच्तेरिति सुधीभिराकल- नीयम्। अलंकारसर्वस्वकारस्तु- 'त्वत्पादनखरत्नानां यदलक्तकमार्जनम्। इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ।।' इति पद्यं वाक्यार्थनिदर्शनायामुदाजहार। आह च-'चत्र तु प्रकृतवा- क्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्ति- मूला निदर्शनैव युक्ता' इति। तन्न। वाक्यार्थरूपकस्य दत्तजलाञ्जलित्वा- पत्तेः। न चेष्टापत्तिः। वाक्यार्थनिदर्शनैव निर्वास्यताम्, स्वीक्रियतां च वाक्यार्थरूपकमिति पर्यनुयोगस्यापि तुल्यत्वात्। युक्तं चैतत्। पदार्थरूपके वैलक्षण्यसत्त्वादेव। अर्धयोः पूर्वोत्तरार्वयोः। रूपकादौ तूच्यमाने इत्यस्य असामञ्स्या- पत्तेरित्यनेनान्वयः । आदिना अतिशयोक्तिपरिग्रहः । उच्यमाने इत्यस्य तथेत्यादिः। असामअ्जस्यापत्तौ हेतुर्व्यङ्गयेत्यादि तृतीयान्तम्। उपमेयाभेदसिद्धाविति। निदर्श- १ 'चिन्तामणिं रजस्सु गवेषयन्तस्त्वां तीर्थेपु शोधयन्ति' इत्यादिवाक्यार्थस्थापनेपि निद- र्शनायां न दोषः । रूपकध्वनौ तु उद्देश्यविधेयभावव्यत्यासे कृते गवेषणे (उपमाने) शोध- नस्याभेदो वक्तव्यः स्यात्, यो हि वाच्यरूपकात्स्पष्टं विरुद्धः । वाच्ये हि 'तीर्थेषु शोधयन्तो रजर्सु गवेषयन्ति' इत्युत्त्या शोधने (उपमेये) गवेषणस्याभेदः प्रतीयते। यतो हि रूपकस्थले उपमेये (उद्देश्ये) उपमानस्याभेदो भवति। उत्त च पूर्वम् (रूपकप्रकरणे) 'अभेदस्य श्रीत- त्वार्थत्वाभ्यामुद्देश्यविवेयभावालिङ्गनानालिङ्गनाभ्यां च रूपकनिदर्शनयोवैंलक्षण्येन' इति। ततश्च रूपके उद्देश्यविधेयभावो नियतो भवति अत्र तुनस इति व्यत्यासे कृते स्पष्टमेवा- Sसामअस्यम्। इति रूपकनिदर्शनयोरयमपि परस्परं विशेष इत्याशयः । २ इत आरभ्य प्रघट्टकसमाप्तिपर्यन्तस्यायमाशय :- रूपके मुखं चन्द्र इत्यादौ शाब्दोडमे- दारोपो नियतत्वेन दृष्टः । निदर्शनायां न तथा, प्रत्युत 'इन्दुशोभाम्' इत्यादिपदार्थनिदर्शना- याम् उपमानशोभामात्रस्येवोपादानात् विषयविषय्युभयोपादानसापेक्षः अभेदारोपो नात्र कप्त इति वक्तुं शक्यम्। ततश्च 'निदर्शनायामभेदारोपोपजीवनं नावश्यकम्, रूपके त्वभेदारोपो जीवातुः' इति सिद्धे 'त्वत्पादनखरलानाम्' इत्यत्र वाक्यार्थे वाक्यार्थस्याडमेदारोपदर्शनादू रूपकमेव वक्तुमर्हम्, न वाक्यार्थनिदर्शना। ननु रूपके विम्बनं न भवति, अत्र तु (त्व- त्पाद०) बिम्बनं दृश्यते इति कथमिदं रूपकमुच्यत इत्याह-रूपके विम्बनं नास्तीत्यादि० । रूपकप्रकरणे 'रूपके बिम्बप्रतिबिम्बभावो नास्तीति, केनाप्यालंकारिकंमन्येन प्रतारितोऽसि' इत्यादिना पूर्व निराकृतम्। विम्शिन्यनुसारम् 'कंदर्पद्विपकर्णकम्बु०' इत्यादिरूपके विम्बप्रति- बिम्बभावोदाहरणमपि दत्तमिति पूर्वग्रन्थोऽनुसंघेयः ।

Page 522

४६२ काव्यमाला ! [द्वितीयानने-

मुखं चन्द्र इत्यादौ कृपस्य श्रौतस्याभेंदारोपस्य रूपकजीवातुत्वकल्पनाया औचित्यात्। 'इन्दुशोभां वहत्यास्यं' इत्यादिपदार्थनिदर्शनायामभेदारोपस्या- भावात् तज्जीवातुत्वायोगाच्च। रूपके बिम्बनं नास्तीति तु शपथमात्रम्, युक्तभावात्। अस्मदुक्तोदाहरणे वाक्यार्थनिदर्शनायाः सावकाशत्वाच्। यत्तु तेनैव लक्षणं निर्मितम्-'संभवता असंभवता वा वस्तुसंबन्धेन गभ्यमानमौपम्यं निदर्शना' इति। तद्पि न। रूपकातिशयोक्त्यादिष्वति- व्यापनात्। यत्त्वलंकारसर्वस्वकारानुसारिणा कुवलयानन्दकृतोक्तम्- 'वाक्यार्थयोः सदशयोरैक्यारोपो निदर्शना। यददातुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता ॥' इति। तत्तु तन्मतदूषणेनैव निवेदितरहस्यमिति न पुनराकुलीक्रियते।

नायां तथाभावे तु बीजं चिन्त्यम्। पर्यनुयोगस्य आक्षेपस्य। कल्पनाया इति । वाक्यार्थरूपकस्थले इति भावः। ननु तस्य निदर्शनाबीजलमेव कुतो न अत आह- इन्दुशोभामिति। तजीवातुत्वेति । निदर्शनाजीवातुत्वेत्यर्थः । ननु निदर्श- नायां बिम्बप्रतिबिम्बभावः, न रूपके इति कथं तेनास्या निरासोऽत आह-रूपके इति। अस्मदुक्तोदेति। लामन्तरात्मनीत्यत्रेत्यर्थः । रूपकस्य तत्र विषयाभावात् वाक्यार्थद्वयाभावात्। एवं च रूपकविषयभूतं वाक्यार्थनिदर्शनायां यदुदाहृतं यच्चोपपा- दितं तदसंगतम्। तद्विविक्तोदाहरणसंभवादिति भावः । तेनैव अलंकारसर्वस्वकारेणैव । अतिव्यापनादिति। प्रागुक्तरीत्येति भावः। तत्तु तन्मतदूषणेनैवेति। अत्रेदं चिन्त्यम्-लामन्तरात्मनि लसन्तमिति भवदुदाहृतेऽपि गम्यरूपकेणैव निर्वाहे निदर्श- नाया उच्छेदापत्तिः। अन्यथा वाक्यार्थरूपकोच्छेदवद्गम्यवाक्यार्थरूपकोच्छेदापत्तिश्च। न चैवं मुखमिव चन्द्र इति वाच्योपमा, मुखं चन्द्र इति गम्योपमैव स्यादिति रूपकोच्छेद इति वाच्यम्। तत्राभेदप्रतीतिकृतचमत्कारस्यैव सत्त्वात्। सादृश्यकृतस्य तस्याभा- वाच्च। किंच लदुदाहते कत्रों रूपकमेवास्तु। प्रतीयमानोऽपि क्रिययोरभेदो विशिष्ट- रूपके विशेषणामेदवन्नालंकारान्तरम्। अन्यथा अलकावृतकामिनीमुखं भ्रमन्भ्मरसंभारं पद्ममित्यादौ अलकभ्रमरयोरभेदस्याप्यलंकारान्तरत्वं स्यात्। तस्माद्गम्यतामात्रेणा- लंकारान्तरतेति रिक्त वचः। ननु प्राचीनैरलंकारान्तरलेन परिगणनात् गम्यत्वेऽ- यम्, वाच्यत्वे रूपकमित्युच्यते तर्हि प्राचीनसेतुविघटनं व्यर्थमेवेति बोध्यमिति।

Page 523

निदर्शना ] रसगङ्गाधर: ४६३

यदि तु 'त्वत्पादनखरत्नानि यो रञ्जयति यावकैः। इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥' इति पद्यं निर्मीयते तदा निदर्शना युक्ता। न चास्मदुक्क्ा वाच्या निद- शेना, इयं तु प्रतीयमानेति वाच्यम्। 'सुखं चन्द्र इव' इति वाच्योपमा 'मुखं चन्द्रः' इति प्रतीयमाना, न त्वलंकारान्तरम्। इत्यस्यापि सुवच- त्वात्। एवं चारोपाध्यवसानमार्गबहिर्भूत आर्थ एवाभेदो निदर्शना- जीवितम्। स च कत्राद्यभेदप्रतिपादनद्वारा प्रतिपाद्यते वाक्यार्थनिदर्श- नायाम्। अत एव मम्मटभट्टैरुदाहृतम्- 'क सूर्यप्रभवो वंशः क चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सौगरम् ॥' इति। नन्वत्र निदर्शना नैव संगच्छते। विषयिण उपादानेऽपि विषर्यस्यानुपा- त्तत्वात्। उभयोपादानं हि तन्रावश्यकम्। अतो ललितालंकार उचित इति चेत्, ललितालंकारनिराकरणावसर एवैतव्यक्तमुपपादयिष्यामः ।

यावकैरलक्तकैः । प्रतीयमानेति। उपमेत्यस्यानुषङ्गः। उपसंहरति-एवं चेति । अत एव अस्यास्तदुभयबहिर्भूतनिमित्तकत्वेन प्रागुक्तभवदीयोदाहरणासंभवादेव। तत्र १ वाक्यार्थयोः सदृशयोरित्याद्याकारिका अस्माभिरुक्ता वाच्येत्याशयः । २ अर्थात् यत्र शाब्द आरोपः (यथा सुखं चन्द्र इति। यथा वा-पादनखानां यद् अल- क्तकमार्जन तत् श्रीखण्डेन विधो: पाण्डुरीकरणम्। यथा वा-या दातुः सौन्यता, सा पूणे- न्दोरकलङ्गता) तत्र रूपकमेव। एवमेव यत्र अध्यवसानम् (यथा-चन्द्रे इन्दीवरद्यम्) तत्रा- तिशयोक्तिरेव। इतो विभिन्नो मार्गः अर्थात् यत्र कर्त्ोरभेदः शाब्दः । यथा यो यावकै रजयति स चन्दनेन इन्दुं पाण्डुरीकरोति। यथा वा-शोधयन्तः गवेषयन्तीत्यादि। रख्जन-पाण्डुरी- करणादिक्रिययोरभेदस्तु अर्थतोऽवसेयः (तात्पर्यविषयः) भवति, तत्र निदर्शना। उक्कमिदं भूर्वम् (रूपकप्रकरणे 'बिम्बाविशिष्टे०' इत्यादिदीक्षितोक्तलक्षणखण्डने)। ३ अल्पमत्या सूर्यवंशवर्णकस्य, उडडुपेन सागरतितीषेश्चति कर्त्रोरभेद: शाब्दः। वंशव र्णन-सागरतरणयोश्चाभेदस्तु अर्थावसेयः । अत एवात्र निदर्शनेति मम्मटमनीषितम्। ललित- पकरणे विस्तरेणेदं द्रष्टव्यम्। ४ अर्थात् अत्र उडुपकरणकसागरतरणेच्छारूप आरोपस्य विषयी एवोपातः । अल्प- मतिकरणकवंशवर्णनेच्छारूपो विषयो नोपात्त इति शङ्का। एतत्समाधानं ललितप्रकरणे प्रोक्तम्-'अप्रकृतायास्तादशेच्छायाः कथनेन प्रकृताया अपि स्वतो बोधो भवतीति वंशवर्णनेच्छा- रूपो विषयोप्युपात्त एवेति' तदाशयः ।

Page 524

४६४ काव्यमाला। [ द्वितीयानने-

परे तु 'त्वत्पादनखरत्नानां-' इत्यत्र दष्टान्तालंकारमाहुः। तद्प्यसत्। विम्बप्रतिविम्बभावापन्नपदार्थघटितस्य निरपेक्षवाक्यार्थद्वयस्यैव दष्टान्त- त्वात्। तस्मात् 'त्वत्पादनखरत्नानां-' इत्यन्न वाक्यार्थरूपकमेव, न निदर्श- नेति स्थितम्। एवमसंभवर्द्वस्तुसंबन्धनिबन्धना पदार्थ-वाक्यार्थनिदर्शना दर्शिता। 'चूडामणिपदे धत्ते योऽम्बरे रविमागतम्। सतां कार्यातिथेयीति बोधयन्गृहमेधिनः॥।' अत्र 'कारीषोऽग्निरध्यापयति' 'भिक्षा वासयन्ति' इतिवदानुकूल्ये णिचः प्रयोगात् गिरेश्च सूर्योदयदेशार्वेच्छिन्नशिस्कतारुपस्य गरृहमेधिगतसदा तिथ्यकरणविषयकबोधानुकूलाचरणस्य संभवात् मया इवान्येनाप्यतिथि- सेवा कार्या इत्यौपम्यसद्भावाच्च संभवद्वस्तुसंबन्धमूलापि निदर्शना संभवति।

निदर्शनायाम्। 'अन्र' इति पाठ उचितः । पदे खथाने। य उदयाचलः । अत्रेति। बोधयन्नित्यत्रेति शेषः । ननु गिरौ आनुकूल्याचरणं कथमत आह-गिरेश्चेति। देशेति। सूर्योदयप्रदेशावच्छिन्नशिखर तेत्यर्थः। नन्वेवमप्यापम्याभावोऽत आह-मया १ शाब्दान्वये ययो: परस्परं नापेक्षा, बिम्बप्रतिबिम्बभावेनैव ययोरयोंग ईदृशौ वाक्याथौं दृष्टान्त इत्यर्थः । २ एतदवधिप्रोक्तोदाहरणेषु प्रकृताप्रकृते स्वतब्रे। परस्परं तयोः संबन्धः अभवन्नपि विच्छित्त्यर्थ कविकल्पितोस्ति। यथा तीर्थेषु शिवस्यान्वेषणमन्यत्। रजस्सु चिन्तामणेर्गवेषणम- न्यत्। अत्र एकस्मिन्नन्यस्यारोपः कविकल्पितः । ३ ननु अचेतनस्योदयपर्वतस्य चेतनसाध्यं बोधनकर्तृत्वं कथमित्याह-आनुकूल्ये णिच:० इति । शीतकाले अग्निरध्यापने तथा आनुकूल्यं संपादयति येन 'अभिनिरध्यापयति' इति कृतश्ञतावशात्प्रोच्यते । एवमेवात्रापि गिरिकर्तकं शिखराधिकरणकं सूर्यस्थापनम् आतिथ्यो- पदेशने तथा आनुकूल्यं संपादयति यथा उदयाचलः आतिथ्यकरणं बोधयतीति वक्तव्यमभूदि- त्याशयः । ४. सूर्योदयस्थानसंबद्धं शिरः (शिखरं)यस्य (गिरेः) तत्तारूपस्य । ५ सताम् आतिथ्य० । ६ 'बोधयन् धत्ते' इति कर्त्रोरमेदे शब्दतः प्रोक्तेऽपि 'शिरसा रविधारणं गृहमेधिकर्सक- बोधनाभिन्नस्।' इति क्रिययोरमेदः आर्थः। औपम्ये पर्यवसानं चेति निदर्शना। शिरसा धारणरूपस्वनिदर्शनेन आतिथ्योपदेशनं गिरे: संभवति इष्ट चेति संभवद्वस्तुसंबन्धनिबन्धना

Page 525

निदर्शना ] रसगङ्गाघर: । ४६५

न च बोधयन्निव बोधयन्निति प्रतीयमानेयमुत्प्रेक्षा 'व्यालिम्पति तमो- ङ्ानि नभो वर्षति कज्जलम्' इत्यादाविवेति वाच्यम्। वस्तुनः संभेवेनैव तस्या अप्रसक्ते: इत्याहुः। इदं चे 'धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते' इत्युक्तपथेन धातूपा- त्तव्यापाराश्रयत्वं कर्तृत्वमिति मते संगच्छते। यदि तु कृताकृतविभागा- सुपपत्तर्यत्नाथकात्कृवस्तृचि सविषयार्थकधातूत्तरकतृ प्रत्ययस्याश्रयत्वे निरू- ढलक्षणया यत्नाश्रयः कर्तृपदार्थः, स एव च कर्तृप्रत्ययानां मुख्यार्थः, अचेतनस्तु भाक्त इति नयपथेन निरीक्ष्यते तदा बोधयन्नित्यत्र प्रतीय- मानोत्प्रेक्षा संभवत्येव। अमुमेव चाशयं मनसिकृत्य मम्मटभट्टैः 'स्वस्वहेत्वन्वयस्योक्ति :- ' इत्यादिलक्षणं निदर्शनान्तरस्य कृत्वा उदाहृते- 'उन्नतं पदमवाप्य यो लघुर्लीलयैव स पतेदिति ध्रुवम्। शैलशेखरगतो दृषत्कणश्चारुमारुतधुतः पतत्यध: ।।'

इवेति। तस्या: प्रतीयमानोत्प्रेक्षायाः। वैयाकरणमतमाह-इदं चेति। नित्यमित्यस्य कर्तृतेत्यत्रान्वयः । कर्तृतैवेति तदर्थः । कृताकृतेति। नैयायिकमतमिदम्। नन्वेवं रथो गच्छतीत्यादौ दोषोऽत आह-अचेतनस्त्विति। भाक्तो गौणः। बोधयन्नित्यत्र प्रतीयमानोत्प्रक्षेति। सुखार्थविषया। तत्रापि मते लाक्षणिकार्थपरले त्वियमेवेति बोध्य- म्। अमुमेवेति। नैयायिकरीत्या प्रतीयमानोत्प्रेक्षायास्तन्र तत्सत््वेन संभवरूपमित्यर्थः । १ लोके न यस्य संभवः, किन्तु संभावनम् (अयोग्यत्वाभावानुसंधानविषयीकरणम् अर्थात् अमुकपदार्थे अमुकधर्मस्य योग्यता असंभविनी नास्तीति निर्धारणम्) भवति तत्रवोत्प्रेक्षा। अत्र तु वस्तुनः स्वत एव संभव इति नोत्प्रेक्षाया विषय इत्याशयः । २ इदं चेत्यादिना आरब्धस्य प्रघट्टकस्यायमाशयः-धातूपात्तव्यापाराश्रयत्वं कर्तृत्वमिति वैयाकरणानां मते आनुकूल्ये णिचः प्रयोगात् पूर्वोक्तविधया बोधनानुकूलव्यापाराश्रयतया गिरेरपि बोधनकर्तृत्वं संभवतीति शिरसा रविधारणे सताम् आतिथ्यकरणविषयकबोधनस्या- भेदः आर्थः संपन्न इति 'चूडामणिपदे' इत्यत्र संभवद्वस्तुसंबन्धनिबन्धना निदर्शना संग तैव । कृञ्धातोर्यलोऽर्थः, कर्तृप्रत्ययस्य (तृचः) आश्रयत्वे निरूढा लक्षणा। ततश्च यता- श्रयः कर्तेति नैयायिकानां मते अचेतनस्य गिरे: बोधनानुकूलयताश्रयत्वं न घटत इति 'चूडा- मणि०' इति पद्ये बोधयन्निव बोधयन्निति प्रतीयमानोत्प्रेक्षा संभवत्येव। (बोधनकर्तृत्वं स्वतो न संभवि इति उत्प्रेक्षाया विषयो जात इत्याशयः)।

Page 526

४६६ काव्यमाला। [द्वितीयानने-

इति पद्ये इतिपदोत्तरं बोधयन्बोधयितुं वा इत्यस्याभावादुत्पेक्षाया असंभवे वोधननिदर्शना युक्ता। 'हालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिषति प्रकामम् । व्यालाधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वशयितुं कुरुते मनीषाम्॥' यथा वा- 'व्योमनि बीजाकुरुते चित्रं निर्माति सुन्दर पवने। रचयति रेखाः सलिले यस्तु खले चरति सत्कारम् ॥' बीजाकरणं बीजप्रक्षेपपूर्वकं कर्षणम्। इदं चापरं बोध्यम्- 'यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा। तिर्यग््रीवं यदद्राक्षीत्तन्निष्पत्राकरोज्गत् ।।' अत्र 'भावप्रधानमाख्यातं' इति यास्कोक्तरीत्या क्रि्याविशेष्यकबोधवा- दिनां शाब्द एवाभेदारोपः क्रिधयोगिति मुखं चन्द्र इत्यादाविव रूपकमु-

अन्यथा वैयाकरणरीत्या तत्सत्त्वेऽपि तदप्रसक्त्या तथोत्त्यसंगति: स्यादिति भावः । क्ला न्तयोरुदाहृते इत्यत्रान्वयः । प्रकाममत्यन्तम्। प्रक्षेपेति । प्रक्षेपस्य पूर्वकमित्यर्थः । तत्फलकम्। तेन सहेति यावत्। 'कृो द्वितीय-' इति डाचू । भेदान्तरमाह-इद १ अत्र 'पतेदिति बोधयन् दृषत्कणः पतति' इति कर्त्रोरमेदे -शाब्देऽपि 'शैलशिखरगत- मारुतविधूत-दृषत्कणकर्तकं पतनम् उन्नतपदप्राप्तावपि लघुत्वे सति पतनं भवतीति बोधना- डभिन्नम्' इति क्रिययोरभेद आर्थः, औपम्यपर्यवसायी चेति निदर्शना। ननु बोधनं विषयी नात्र शब्दोपातः, ततश्च विषयविषयिद्वयोपादानसापेक्षाSमेदजीवातुनिंदर्शना कथं स्यादिति तु न शङ्यम्। अर्थतोऽवसेयेऽस्मिन्नभेदे विषयविषयिणोरप्यर्थानुसारमेव स्वतोऽवसेयत्वात्। यथा 'क सूर्यप्रभवः०'-अत्र विषयस्य प्रतिपत्तिः अर्थबलादेव भवति। २ मधुरे शङ्गाररसेऽपि झय्धटितसंयोगपरह्स्वस्य, रेफघटितसंयोगपरह्स्वस्य सवर्णझय्- छयघटितसंयोगस्य चाप्यसकृत् प्रयोगो गुम्फनसमीक्षामार्मिकस्य पण्डितराजस्य मनाग् विचार्य एव। अथवा तिर्यगगीवं दर्शनेन योऽयं जगतः संहारसमारम्भस्तदुन्वितान्येवान्यमून्यक्षरा- णीत्यलं महाभाग्यस्य कृतौ पौरोभाग्येन।

Page 527

व्यतिरेक: ] रसगङ्गाघरः । ४६७

चितम्। प्रथमान्तविशेष्यकबोधवादिनां त्वार्थः स इति निदर्शनेति भेदः। निष्पत्राकरणं च सपुङ्गशरस्यापरपार््व निर्गमनात्पत्रराहित्यकरणम्। इति रसगङ्गाधरे निदर्शनाप्रकरणमू। अथ व्यतिरेक :- उपमानादुपमेयस्य गुणविशेषवत्वेनोत्कर्षो व्यतिरेकः ॥ प्रतीपादिवारणाय तृतीयान्तं वैधर्म्यपरम्। तत्र चोपमानतामात्रकृत एवोत्कर्षः, न वैधर्म्यकृतः, साधर्म्यस्यैव प्रत्ययात्। अधिकगुणवत्त्वमा- त्रम्, उपमानगतापकर्षमात्रं वा न व्यतिरेकस्वरूपम्, तयोरुपमेयोत्कर्षा- क्षेपमन्तरेणासुन्दरत्वात् । अत एव न सादश्याभावमात्रम्। उपमा-

चेति। सः क्रिययोरभेदः। पत्रराहित्येति। खार्थे ष्यञ्। बहुन्रीहिः। पत्ररहितकरण- मित्यर्थः । 'सपत्र-' इति डाचप्रत्ययः ॥ इति रसगङ्गाधरमर्मप्रकाशे निदर्शनाप्रकरणम् ॥ व्यतिरेक निरूपयति-अथेति। ननु गुणविशेषवत्त्वेनेत्युक्तावपि तन्नातिप्रसङ्ग एव। उपमेयस्योपमानत्वरूपगुणविशेषवत्त्वेनोत्कर्षस्य सत्त्वात्। अत आह-वैधम्येति। तथा च ततस्तस्य वैधर्म्येणोत्कर्षः स इति लब्धम्। नैवमतिप्रसङ्ग इत्याह-तत्र चेति। प्र- तीपादौ चेत्यर्थः । उपमेयस्येति शेषः । मात्रपदेनोत्कर्षव्यावृत्तिः। तयोः अधिकगुणवत्त्वो- थमानगतापकर्षयोः। मात्रं न व्यतिरेक इत्यनुषज्यते। अत एवेत्यस्यार्थमाह-उपमा- १ प्रघट्टकस्यास्यायमाशयः 'हालाहलम्०' इत्यादिषु त्रिष्वपि पद्ेषु 'यो दुर्जनं वशयितु- मिच्छति स हालाहलं पिपासति' इत्यादिरूपेण कत्र रभेदे शाब्देऽपि, 'दुर्जनवशीकरणेच्छा, हालाहलपानेच्छाडभिन्ना' इत्यादिक्रिययोरमेदः आर्थः प्रतीयते इति निदर्शना समन्वेति, इति हि प्रथमान्तमुख्यविशेष्यकबोधवादिनां नैयायिकानां मते। यतस्तेषां मते हालाहलं पिपा- सतीत्यादौ 'हालाहलकर्मकपानेच्छाश्रयः सः' इत्यादिबोधेन कर्त्रोरभेद एव शाब्दः । क्रिययोर- भेदसत्वर्थावसेय इति निदर्शना घटते। भावप्रधानबोधवादिनां वैयाकरणानां तु मवे क्रिययो- रभेदस्यैव शब्दबोध्यत्वेन आर्थाडभदस्यानुपलब्ध्या न निदर्शना, अपि तु रूपकमिति । २ उपमानापेक्षया वैधर्म्येणोपमेयस्योत्कर्षों व्यतिरेक इति फलितम् । प्रतीपादौ उपमाना- पेक्षया उपमेयस्य यद्यप्युत्कर्षः प्रतीयते । यथा 'किं जत्पसि मुग्धतया हन्त ममाङ्गं सुवर्ण- वर्णम्' इति। अत्र हि उपमानातसुवर्णादङ्गस्व वर्णाधिक्यरूप उत्कर्षः प्राप्यते परं तत्र दवयो: साम्यमेवेति न तत्रातिप्रसङ्ग इत्याशयः । ३ उपमेयस्याधिकगुणत्वम्, उपमेयापेक्षया उपमानस्यापकर्षों वा यत्र स्यात्तत्रापि उपमे- यस्योत्कर्ष: अर्थबलेनाक्षिप्यते (अर्थात् उपमेयस्य केवलमधिकगुणत्वमेव न स्यात्प्रत्युत उप्- मानापेक्षया तस्य वास्तवोऽतिशयः स्यात्), तदैव तत्र चमत्कारोपलब्धिः ।

Page 528

४६८ काव्यमाला। [द्वितीयानने

नादुपमेयस्यापकर्षेऽपि तत्संभवात्, तस्य च वास्तवत्वेनासुन्दरत्वात्। उपमेयोत्कर्षविशिष्टत्वेन सादृश्याभावविशेषणे तस्यैवालंकारत्वौचित्यात्। उदाहरणम्- 'अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते। निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम् ॥'

दानाभ्यामेकतरानुपादानेन च तावच्चतुर्धा। सोऽप्युपमायाः श्रौतीत्वार्थी- त्वाक्षिप्तात्वैर्द्वादशविधो भवन्सश्लेषनिःश्लेषत्वाभ्यां चतुर्विशतिप्रकार इति

उदाहरणम्- 'कटु जल्पति कश्चिदल्पवेदी यदि चेदीद्शमत्र किं विदृध्मः । कथमिन्दुरिवाननं त्वदीयं सकलङ्कः स कलङ्कहीनमेतत् ।' अन्रोभयोरुपादानम्। उपमा च श्रौती। अन्रैव 'कथमिन्दुरिवाननं तवेदं द्युतिभेदं न दधाति यत्कदापि' इति कृते, द्युतिभेदं खलु यो दधाति नित्यम्' इति वा कृते एकतरानुपादानम्। सा च। 'कथमिन्दुरिवाननं मृगाक्ष्या भवितुं युक्तमिदं विदन्तु सन्तः' इति कृते हेतुसामान्यानुपादानम्। सा च। हेतुद्वये हि यस्यैवानुपादानं तस्याक्षेपेणावगतिः । उभयोरप्यनुपा-

नादिति। तत्संभवात्। सादृश्याभावसंभवात्। इष्टापत्तावाह-तस्य चेति। वास्तव- त्वेनेति। हीनगुणस्योपमेंयत्वादिति भावः। विशेषणे तस्य विशेषताकरणे। तस्यैव उ- पमेयोत्कर्षस्यैव। अधिकनिवेशे प्रयोजनाभावादिति भावः । संमदिन इति। सर्वदा नैत्रयो रमणीयया शोभया हेतुना हर्षयुक्तस्य तव मुखस्य रात्रौ निःशोभं कमलं अंशेनापि कथं तुल्यं कुर्म इत्यर्थः । नायकं प्रति तद्वयस्योक्तिः। अत्र सर्वदा सशोभलेन हृष्टतं वैध- मर्यम्। तन्र रात्रौ तदभाव इति भावः। सोऽपि चतुर्विधोऽपि। कद्विति। नायिकां प्रति नायकोक्तिः। चेच्छब्दः शङ्कायाम्। ईदशं तवाननमिन्दुतुल्यमित्येवंरूपम्। अत्र उक्त- भाषणविषये। विदध्मः कुर्मः । स इन्दुः । एतत् आननम्। उभयोः सकलङ्कलतद्धी- नत्वरूपवैधम्ययोस्तादशयोः । सा च श्रौती च। एवमग्रेऽपि। ननूभयानुपादाने उत्कर्षा- प्रतीत्या कथमयं तद्भेदोऽत आह-हेतुद्वये हीति। तयोर्मध्ये इत्यर्थः । हि यतः । १ अर्थात् उपमेयोत्कर्षविशिष्टः सादृश्याभावः [उपमेयस्य अधिकगुणवत्त्वं वा, स्यात्, उपमानस्य न्यूनगुणत्वं वा स्यात, न.द्यो: समता स्यादित्याशयः ] व्यतिरेक इति ।. २ मम्मट-विश्वनाथादय :. ।

Page 529

व्यतिरेक: ] रसगङ्गाघर: । ४६९

दाने तथैव न त्वनवगतिः, व्यतिरेकस्योत्कर्षापकर्षरूपत्वात् तयोश्र प्रयोजकज्ञानमन्तरेणानवबोधात्। एवम्- 'नयनानि वहन्तु खञ्जनानामिह नानाविधमङ्गभङ्गभाग्यम्। सदशं कथमाननं सुशोभं सुदृशो भङ्गुरसंपदाम्बुजेन ।।' अत्रोभयोपादानम्। आर्थी च। 'वदनं तु कथं समानशोभं सुदृशो भङ्गुरसंपदाम्बुजेन' [इति ], 'शाश्वतसंपद्म्वुजेन' इति च कृते एकतरा- नुपादानम्। सा च। 'सदशं कथमाननं मृगाक्ष्या भविता हन्त निशा- धिनायकेन' इति कृते उभयानुपादानम्। सा च। पूर्वारधे तु निदशनैव। 'कतिपय दिवसविलासं नित्यसुखासङ्गभङ्गलसवित्री। खर्वयति स्वर्वासं गीर्वाणधुनीतटस्थितिर्नितराम् ।।' अत्रेवादेः सादृश्यमात्रशक्तस्य सदशादेश्च तद्विशिष्टशक्तस्य शब्दस्याभा- वाच्छुत्यर्थमार्गोल्लद्विनी खर्वीकरणेनाक्षिप्तैवोपमा। अत्रैव 'निःसङ्गैरभिल- षिता' इत्याद्यचरणनिर्माणे 'संपातदुरन्तचिन्तयाकुलितम्' इंति द्वितीय- चरणनिर्माणे वा एकतरानुपादानम् । सा च । 'सर्वानर्वाचीनान्निर्वास्य मनोरथाननन्यजुषाम्' इति पूर्वार्धे तद्नुपादानमिति।

तत्रेत्थमत उभयोरुपादानेऽपि तथवेत्यर्थः । सर्वथा अबोधो नेत्याह-न त्विति। उ- ्कषैति। अपकर्षनिरूपितोत्कषरूपल्वादित्यर्थः । प्रयोजकेति। वैधर्म्येत्यर्थः। श्रौती- मुदाहृत्यार्थीमुदाहरति-एवमिति। इह भूवलये नायिकानां नयनानि खज्जरीटानाम- नेकप्रकारमङ्गसंबन्धिमोटनसंबन्धिरचनाप्रकारं वहन्तु, परंतु अस्याः सुदृशो नायिकायाः समीचीनशोभं मुखमनियतशोभेन कमलेन क्थं सदृशमित्यर्थः । 'भज्गीम्' इत्युचित: पाठ इति केचित्। आर्थीति। इवादेरभावादिति भावः । शाश्वतेति। आननवि- शेषणमिदम्। सा च आर्थी च। एवमग्रेऽपि। आर्थीमुक्ला आक्षिप्तामाह-कतीति। इदं स्वर्वासविशेषणम्। गीर्वाणधुनी देवनदी। गङ्गातीरस्थितिविशेषणमाह-नित्येति। श्रुत्यर्थेति। श्रुत्यर्थयोयों मागौं तदुल्लङ्िनीत्यर्थः। अत एवैवोक्तिरग्रे यथासंख्येनात्र पूर्वयोरन्वयः । निःसङ्गैर्योगिभिः । संपातेति । खर्गाद्भंशेत्यर्थः । सा च आक्षिपा १ 'शाश्वतसंपत् सुदृशो वदनम् अम्बुजेन कथं समानशोभम्' इति। अत्र हि शाश्वत- संपदिति उपमेयोत्कर्षमात्रस्योपादानम्, उपमानापकर्षस्य त्वनुपादानमित्यर्थः । २ न श्रीती न वा आर्थीत्यर्थः । ४० रस०

Page 530

४७० काव्यमाला। [द्वितीयानने-

'क्रसत्त्वाकुलो दोषाकरभूस्तोयधिर्यथा। न तथा त्वं यतो भूप स्थिरधीरसि निर्मलः ॥' अत्रोपमा श्रौती। श्लेषस्तु स्फुट एव। 'राजन्प्रचण्डमार्तण्डमण्डलोइण्डशासन। कथमक्रसत्त्वस्त्वं पयोधिरिव गीयसे ।' इति, 'कथं वार्धिरिवासि त्वं यतः स विषभागयम्' इति वा कृते एकतरातुपादानम् । 'महेन्द्रतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयामः । भवान्सहस्त्रैः समुपास्यमान: कथं समानस्त्रिदशाधिपेन ।।' अत्रार्थी। त्रिर्देश त्रिदशास्त्रिंशत्, तेषामधिपः। 'संख्ययाव्ययासन्ना- दूराधिकसंख्याः संख्येये' इति बहुव्रीहौ, 'बहुव्रीहौ संख्येये-' इति डचि च तत्पुरुषः । वृत्तौ गतार्थत्वात्सुचो न प्रयोगः । त्रयो वा दश वा इति बहुव्रीहिवा। 'भवान्सदा रक्षितगोत्रपक्षः समानकक्षः कथमस्य युक्तः' इति, 'कथं निरस्ताखिलगोत्रपक्षः समानकक्षस्तव युज्यते सः' इति वा कृते एकतरानुपादानम् ।

च। अर्वाचीनान् ऐहिकानू। अनन्यजुषां सान्यासेवकानाम्। पूर्वार्धे कृते इति शेषः । तद्नुपेति। उभयानुपादानमित्यर्थः । आक्षिप्ा चेत्यपि बोध्यम्। इतिरेतद्वेदसमात्तौ । सश्ळषमुदाहरति-क्ररेति । सत्त्वानि जलजन्तवः । दोषाकरश्रन्द्रः । हे भूप, ं तथा दोषस्थानं क्रूरप्राणिव्याप्तश्च न यत इत्यादर्थः । 'अन्तःसत्त्वा' इति पाठः क्वचित्। तत्रान्तः अभ्यन्तरे सत्त्वैयादोभिराकुलः । अन्यत्र सत्त्वगुणः । तेनाकुलश्चेत्यर्थः। श्राती। तादशयथाशब्दसत्त्वात्। प्रचण्डसूयेमण्डलवदप्रतिहताज्ञः। यतः सोऽयं वा- विर्विषभागित्यर्थः । यद्वा यतोऽयं सविषं क्रूरतं भजति तदेत्यर्थः । एकतरेति। उपमानेतीत्यादि तु प्राग्वत्। आथ्युपमाकसश्रेषमुदाहरति-महेन्द्रेति । परमैश्वर्य- वत्तुल्यमित्यर्थः । सहस्रैर्जनः । त्रिदृशति। इन्द्रेणेत्यर्थः । आर्थी, तुल्यशब्द प्रयोगात्। त्रिदशा देवाः। श्लेषेण द्वितीयार्थमाह-त्रिरिति। तत्पुरुष इति। तेषानधिप इत्युक्तरूप इति भावः । सुजर्थान्तर्भोवेण बहुव्रीह्यङ्वीकारादाह-वृत्ताविति। तद- नन्तभावजलाघवादाह-त्रयो वा दश वेति। प्रक्रिया पूर्ववत्। अग्रे तत्पुरुषोऽपि प्रागवत्। आद्ये गोत्रपक्षः स्वंशपक्षः । द्वितीये गोत्रपक्षा: पर्वतपक्षाः। प्राश्च इत्यनेन १ त्रिः दश इति विग्रहे त्रिशब्दादुत्तरं श्रयमाणो यः सुचू, सिद्धे बहुन्नीहौ तस्य न

Page 531

व्यतिरेक: ] रसगङ्गाधरः । ४७१

इदं तु बोध्यम्-इहोभयानुपादानभेदैत्रयं दुरुपपादम्। वैधर्म्यातुपा- दाने हि किमाश्रयः श्ेषः स्यात् ? न च यत्र द्विजसुरालयमातरिश्वादि- शब्दवेद्येषूपमानोपमेयेषु स्वशब्दोपात्त एव श्रेषो व्यतिरेक्ोत्थापकस्तत्रैत- दुदाहरणं सूपपादमिति वाच्यम्। तन्र स्वशब्दवेद्यस्यैव वैधर्म्यस्य संभवात्। इत्थं च चतुर्विशतिर्भेदा इति प्राचामुक्तिर्विपुलोदाहरणाभि- ज्ञैर्यथाकथंचिदुपपादनीया। किं चोपमाप्रभेदाः सर्व एवात्र संभवन्तीत्यलं चतुर्विशतिभेदगणनया। नन्वस्यालंकारस्य वैधर्म्यमूलस्योपमाप्रतिकूलत्वमेवोचितम्, न तूप- मागर्भत्वम्। तस्याः साधर्म्यमूलकत्वात्। अस्य च तन्निषेधरूपेणैव प्रवृत्तेः। न चेष्टापत्तिः। सिद्धान्तभङ्गप्रसङ्गात्। सत्यम्। यहुणपुरस्कारेण यस्य यत्सा- दृश्यनिषेध उत्कर्षपर्यवसायी तस्य तह्गुणपुरस्कारेण तत्सादृश्यस्याप्रतिष्ठा- नेडपि गुणान्तरेण सादृश्यप्रत्ययस्य दुर्वारत्वात्। यदि च तत्सादृश्यसामा- न्यनिषेधो विवक्षितः स्यात् गुणविशेषपुरस्कारोऽनर्थक: स्यात्। धनेनाय-

सूचितामरुचिमाह-इदं तु वोध्यमिति। इह प्रागुक्तमेदानां मध्ये। अनुपादान- भेदेति । अनुपादानरूपभेदत्रयमित्यर्थः । तन्निषेधेति । साधर्म्यनिषेधेत्यर्थः । गुणान्तरेण सादृश्यप्रत्ययस्य दुर्वारलादिति। अन्रेदं चिन्तम्-'कथमिन्दुरिवाननं लदीयं' इति पद्ये कलङ्कवत्त्वेन तद्राहित्येन वा सादृश्यं न अ्सिद्धमुपपत्तिविषयो वा, यस्य निषेधे कर्थंशब्देन प्रतिपादिते गुणान्तरसादृश्यं प्रतीतिपथमवतरेत्। किं खन्यधमेण प्रसिद्धसादृश्यस्यैवेद्टशाधिक्यन्यूनत्प्रतिपादनद्वाराभावः प्रतिपाद्यते। अप- कर्षो वा। स चाविशेषात्सर्वधर्मप्रयुक्तस्यैवेति गुणान्तरेण सादृश्यप्रत्यय इति रिक वचः । 'कथं तुलयामः कलयापि पङ्कजम्' इत्यादौ सर्वथैव सादृश्यनिषेधप्रतीतेश्च। १ सक्लेषं श्रौत-आर्थ-आक्षिपोपमाकं व्यतिरेक(वैधर्म्य)प्रयोजकानुपादानरूपं भेदत्रयमित्यर्थः । २ अयं भाव :- द्विज: [पक्षी, ब्राह्मणादिश्च], सुरालयः [नाकः, मद्यगृहं च ] इत्यने- कार्था द्विजादिशब्दाः । एषामर्थद्वयमध्ये यथेच्छमेकस्योपमेयत्वमन्यस्योपमानत्वम्। अत्र च पक्षी-ब्राह्मणश्चेति विजातीयार्थोंपस्थापकत्वात् श्रेषो व्यतिरेकस्योत्थापक इति वक्तुं शक्यम्। ततश्च स्व(उपमानोपमेयवाचक)शब्दोपात्ते श्रेषे 'किमाश्रयः '्हषः' इति वक्तुमनवकाशादू भेदत्रयमिद सूपपादमेवेति पूर्वपक्षी। एवं सति वैधर्म्यमपि द्विजादिशब्दोपात्तमेव। ततश्च वैधर्म्यानुपादानस्ेदं भेदत्रयं कथं व्यपदेश्यं स्यादिति सिद्धान्ती।

Page 532

४७२ काव्यमाला। [ द्वितीयानने-

मस्सादधिक इत्युक्ते विद्यया रूपेण कुलेन च सम इति सर्वजनीनप्रत्ययात्। एवं च प्रतीयमानमपि सादृश्यं गुणान्तरकृतनिषेधोत्थापितेनोत्कर्षेण हत- अ्रभमिव बन्दीकृतमिव न चमत्कारविशेषमाधातुं प्रभवतीति प्राचामाशयः। अन्न चालंकारे कचिच्छाब्दसादृश्यनिषेधाक्षिप्ावुपमेयोत्कर्षोपमानाप-

कचित्तादशेनोपमानापकर्षेणाक्षिप्तावुपमेयोत्कर्ष-तदभावौ तथा। तत्रादः आचीनरीत्या सभेद उदाहृतः । द्वितीयतृतीयावपि प्रायशस्तावद्वेदावेव। तन्र दिख्ात्रमुदाहियते-

सादृश्यं पर्यवस्यतीत्येतावतैवोपमागर्भत- व्यवहारः, सोऽपि 'कुमुदादतिरिच्यते मुखं' इत्यादौ व्यति रेकस्यालंकारलाभावाय। किं च व्यतिरेके गुणान्तरे कथिते गुणान्तरसादृश्यमपि चमत्कारि। यथा देवदतेन सदृशो यज्ञदत्तः, धनमस्याधिकमित्यादौ। तत्र विद्यादिकृतसादृश्यस्यापि चमत्कारि- ला। उत्कटविद्यलेन देवदत्तस्य प्रसिद्धलात् इति बोध्यम्। गुणान्तरकृतनि- षेधोत्थापीति। गुणान्तरकृतसादृश्यनिषेधोत्थापीत्यर्थः । अत्र चालंकारे इति। व्यतिरेकालंकार इत्यर्थः । तादृशेन शाव्देन। तदभावौ सादृश्याभावौ। तथा चमत्कृ तिजनकौ। तत्र तेषां मध्ये। तावद्भेदावेव चतुर्विशतिभेदावेव। केषांचिदसंभवादुक्तं १ नन्वित्यादिप्रघट्टकस्यायमाशयः-वैधर्म्य हि साधर्म्यात्प्रतिकूलम्। व्यतिरेकश् वैधर्म्यमूलः । ततश्च व्यतिरेकः साधर्म्यमूलाया उपमायाः प्रतिकूल इति कथमस्याऽलंकार स्योपमागर्भत्वम्? 'मास्तु उपमागर्भत्वम्' इति तु न शक्यं वक्तुम्, सर्वेषामप्यालंकारिकाणां मते व्यतिरेकस्य औपम्यगर्भत्वस्वीकारात्। इति शङ्का। यं गुणमादाय येन सह यस्य सादृश्यनिषेधः उत्कर्षार्थ- सुपादीयते [ यथा-'कथमिन्दुरिवाननम्०' अत्र निष्कलङ्गत्वमादाय मुखस्य चन्द्रमसा सादृश्यं निषिध्यते ] ततश्च निष्कलङ्कत्वेन द्वयोः सादृश्यं यद्यपि न प्रतीयेत, किन्तु गुणान्तरेण तत्सादृ- श्यमवश्यं प्रतीयेत [यथा अत्रैव शोभाविशेष-आह्लादकप्रकाशशालित्वादिना इन्द्राननयोः ]। तथा च साधर्म्यप्रत्ययोऽस्त्येवेति तत्समाधानम्। ननु तहिं वैधर्म्यमूलोऽयमलंकार इति न व्यपदेष्टव्यं स्यात्। भवदुपपत्या साधर्म्यस्य प्रत्ययात्, इति तु न शङ्काऽवसरः । गुणान्तरेण (निष्कल क्कत्वादिना) सादृश्यस्य निषेधे [ चन्द्रः सकलङ्कः, मुखं तु निष्कलङ्कमिति कथ द्वयोः समा- नता ?] यश्चमत्कारस्तदग्रे (गुणान्तरेण) साधर्म्यकृतचमत्कारस्य सहदयहृदयेष्वप्ररोहात्। २ शाब्देन सादृश्यनिषेधेन यत्र आक्षित्तौ उपमेयोत्कर्ष-उपमानापकर्षौ। यथा-'कर्थ तुलयाम: कलयापि पङ्गजम्' 'कथमिन्दुरिवाननं त्वदीयम्न' इत्यादिषु शाब्दः सादृश्यनिषेधः । ेन च उपमेयस्य (मुखस्य) उत्कर्षः, उपमानस्य (पङ्कजस्य, इन्दोश्च) अपकर्षश्चाक्षिप्येते। ३ शाब्देन उपमेयोत्कर्षेंण उपमानापकर्षः, द्वयोः सादृश्याभावश्च यत्राक्षिप्यते (द्वितीयः)। शाब्देन उपमानापकर्षेण यत्र उपमेयोत्कर्षः सादृश्याभावश्चाक्षिप्यते (तृतीयः)।

Page 533

व्यतिरेक: ] रसगङ्गाघर: । ४७३

निशाकरादालि कलङ्कपङ्गिलाद्गुणाधिकं निर्मलमाननं ते। अनल्पमाघुर्यकिरोऽधरादिमा गिरोऽधरा गुप्तरसाः कवीनाम् ॥' अत्र पूर्वार्धे उपमेयोत्कर्षः शाव्दः । उपमानापकर्ष-सादृश्याभावावा- कषितौ। द्वितीयार्धे उपमानापकर्षः शाव्दः। उपमेयोत्कर्ष-सादृश्याभावा- वाक्षितौ। एवं क्वचिदयोस्त्रयाणां वा शाब्दत्वं संभवद्पि नातीव हृद्य- मिति नोदाहृतम्। कचिच्च त्रयमप्याक्षिप्मेव।

यथा- 'अपारे किल संसारे विधिनैकोऽर्जुनः कृतः । कीर्त्या निर्मलया भूप त्वया सर्वेऽर्जुना: कृताः ॥' 'अशीतलोग्रश्चण्डांशुरनुग्रशिशिरः शशी। उग्रशीतस्त्वमेकोऽसि राजन्कोपप्रसाद्योः ॥' यथा वा- 'स तु वर्षति वारि वारिदस्त्वमुदाराशय रत्नवर्षणः । स कुहूरजनीमलीमसस्त्वमिहान्तर्बहिरेव निर्मलः ॥' अन्नोपमान-तद्विशेषणोपादानसामर्थ्यादाक्षिप् एव व्यतिरेकः, न तु व्यङ्ग्य इति कदापि भ्रमितव्यम्। सत्यनुपपत्तिलेशे व्यञ्जनाया अप्ररोहात्।

प्यश इति। तत्र तयोविषये। आलीति संबोधनम्। नायिकां प्रति वयस्योक्तिः । गुप्तरसाः कवीनामिमा गिरसे बहुमाधुर्येवर्षकादधरादघराः । अपकृष्टा इत्यर्थः। शाब्द इति। गुणाधिकमित्युक्तेरिति भावः । शाब्द इति । अधरा इत्युक्तेरिति भावः। एवं उक्तप्रकारेण। त्रयमपि उपमेयोत्कर्षोपमानापकर्षसादृश्याभावरूपम्। अर्जुनाः श्वेताः। उग्रशीत इति। यथासंख्यमन्वयः । उदाराशयेति संबोधनम्। कुहूरजनी अमारात्रिः। एवव्यावर्त्यमाह-न त्विति। व्यङ्गय इति तु कदापि न भ्रमितव्यमि-

१ व्यतिरेकस्य स्वरूपघटकाः ये उपमेयोत्कर्ष-उपमानापकर्ष-सादृश्याभावाः तेऽत्र 'वारिदः वारि वर्षति' इति उपमान-तद्विशेषणाभ्याम् रतवर्षकस्य (उपमेयस्य) उत्कर्षः, रतानामय्रे वारिणो वर्षकस्य (उपमानस्य) अपकर्षः, [ अत एव ] इयो: सादृश्याभावः, अर्थसामर्थ्यांदाक्षिप्यन्ते। अत मवात्र आक्षिप्तो व्यतिरेकः, न तु व्यङ्ग्य इति व्यपदेश्य इत्याशयः ।

Page 534

४७४ काव्यमाला [ द्वितीयानने-

नृपोत्कर्पमन्तरेणानुपपत्तेर्जगरूकत्वात्। यत्र तूपमानतद्विशेषणोपादानम- नतरेणैवोपमेयविशेषणैः 'सुन्दरो देवदत्तः' इत्यादाविव वस्तुस्थितिप्रकाश- नेन कृतार्थैरप्याकृतविशेषेण स्वविलक्षणविशेषणविशिष्टधर्म्यन्तरापेक्षया वर्ण्यस्योत्कर्षः प्रतीयते स व्यञ्जनाविषयः । यथा- 'न मनागपि राहुरोषशङ्का न कलङ्कानुगमो न पाण्डुभावः । उपचीयत एव कापि शोभा परितो भामिनि ते सुखस्य नित्यम्। अयं व्यतिरेकध्वनिरर्थशक्तिमूलः । यत्त्वलंकारसर्वस्वकार उपमानादुपमेयस्य न्यूनत्वेऽपि व्यतिरेकमाह। वैलक्षण्यमात्रस्यैव व्यतिरेकत्वात्। उदाजहार च- 'क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम् ॥V विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु।।' यच्च तव्याख्याता विमर्शिनीकार: सपूर्वपक्षसिद्धान्तं व्याचख्यौ, तथा- हि-'नन्वत्रोपमानादुपमेयस्य न्यूनत्वं व्यतिरेक इति न युक्तम्। तस्य हि वास्तवत्वेनाहृद्यत्वात्। यौवनस्य चास्थिरत्वे प्रतिपाद्े चन्द्रापेक्षयाधिकगु- णत्वमेव विवक्षितम्-यदेतचन्द्रवद्यातं सन्न पुनरायातीति। यतोSन्र चन्द्र- वद्गतं सदयोवनं यदि पुनरागच्छेत्तत्प्रियं प्रति चिरमीर्ष्याद्यनुबन्धो युज्येत। तर्थः। उपमानतद्विशेषणोपादानस्येति । 'उपमानतद्विशेषणस्य' इति पाठे- डप्ययमेवार्थः । नृपोत्कर्ष तद्वोधनम्। आकृतेति। अभिप्रायेत्यर्थः । स्वेति। उप- मेयविशेषणेत्यर्थः । मात्रपदेन विशिष्य प्रतियोग्यनुयोगिनिवेशव्यवच्छेदः। यातं गतम्। सिद्धान्तमाह-असदिति। अत इति। तत्तदा युज्येतेति। कालान्तरेऽपि १ अयमाशयः-'स तु वर्षति०' पद्ये रत्नवर्षणेति विशेषणं वर्ण्यस्य राजः स्तुत्यर्थसुपात्त- मित्युपपत्तिः । 'वारिदो वारि वर्षति' इति तु पुनरुक्ततया व्यर्थप्रायमुपमानविशेषणं किमिति कबिना उपात्तम् ? इति शङ्कायाम्-उपमेयस्य (राज्ः) उत्कर्षार्थम् (स वारि वर्षति, त्वं तु रत्ानि वर्षसि, इति) इदमुपमानविशेषणमुपात्तमित्येवोपपत्तिदीयेत । तथा च उपमेयस्योत्कर्षः (वैधर्म्यकृतः) यो हि व्यतिरेकस्वरूपभूतः स यदाऽक्षिप्यते तदैव वाच्यस्य (उपमानविशे- षणस्य) उपपत्तिरिति कुतो ध्वनित्वम्? 'न मनागपि०' अत्र तु उपमानं चन्द्रः, तद्विशेषणँ वा किव्चिन्नोपात्तम्। राहुआसाभाव-निष्कलङ्कत्व-कमलसवर्णत्वेन पाण्डुताSभावादीनि उप- मेयस्य (मुखस्य) विशेषणान्यपि न स्तुत्यर्थमुपात्तानि, अपि तु यथार्थपरिस्थितिप्रकाशकानीति राडुगस्त-सकलङ्क-पाण्डिमाक्रान्त-चन्द्रापेक्षया वर्ण्यस्य मुखस्योत्कर्षः स्वतः प्रतीतो भवतीत्यत्र व्यतिरेको व्यञ़्स एव।

Page 535

व्यतिरेक: ] रसगङ्गाधरः । ४७५

इद पुनर्हतयौवनं यातं सत्पुनर्नागच्छतीतीर्ष्याद्यन्तरायपरिहारेण निरन्तर- तयैव प्रियेण सह जनुः सफलयितव्यम्। विगीर्ष्याम्। त्यज प्रियं प्रति मन्युम्। कुरु प्रसादम्। इति प्रियवयस्योपदेशे प्रियं प्रति कोपोपशमाय चन्द्रापेक्षया यौवनस्यापुनरागमनं न्यूनगुणत्वेन विवक्षितमिति न्यूनत्वमपि व्यतिरेकः । रसपोषकतया चास्यापि हृद्यत्वम्' इति। तदुभयमप्यसत्। अस्मिन्हि प्रियहितकारिण्या वचने चन्द्रादप्यधिकगुणत्वमेव विवक्षिनम्, न न्यूनगुणत्वम्। चन्द्रो हि पुनःपुनरागमनेन लोके सुलभः । अत एव न तादृशमाहात्म्यशाली। इदं च पुनर्यौवनमपुनरागमनेनातिदुर्लभतरत्वाद- त्युत्कृष्टमिति मानादिभिरन्तरायैः शठजनश्लाघनीयैर्विदग्धया भवत्या सुधा गमयितुमसांप्रतमिति तावदुपात्तगुणकृतसुत्कृष्टत्वं स्फुटमेव। सकलसुख- निदानत्वाद्यनुपात्तगुणकृतोऽप्युत्कर्षोSत्र वाक्यार्थपरिपोपाय सहृदयहृदय- सरणिमवतरति। अन्यथा किमित्यस्य कदर्ययौवनस्य कृते मया मानाद्वि- रंस्यते, यातु नाम यौवनमिति प्रतिकूलेनार्थेन प्रकृतार्थस्यापुष्टतापत्तेः। किं च यत्र क्वापि शाव्द उपमेयस्यापकर्षस्तत्रापि स तस्य वाक्यार्थपर्य- वसायितयोत्कर्षात्मना परिणमति। यथा-

य्यौवनस्य प्रियावलोकनादिना सफलीकारः स्यादिति भावः । हतेति। दुर्भाग्येत्यर्थः । उक्तहेतोरिति भावः । गुणलेन तत्त्वेनैव। गमयितुं यौवनमित्यस्यानुषङ्गः। असांप्रतम- युक्तम्। निदानत्वाद्यनुपात्तति। निदानत्वादिरूपो योऽनुपात्तो गुणस्तत्कृत इत्यर्थः । अन्यथेति। उपात्तानुपात्तगुणकृतोत्कर्षानङ्गीकार इत्यर्थः। अस्य पुष्टता- पत्तेरित्यत्रान्वयः । स तस्येति। उपमेयस्योत्कर्ष इत्यर्थः । 'वाक्यार्थपरिपोषकनयो- १ नन्वित्यादिनाऽडरभ्यमाणस्य प्रघट्टकस्यास्यायमाशयः-उपमेयस्य न्यूनगुणत्वमहृद्यम्। ततश्च यौवनस्य (वर्ण्यस्य) चन्द्रापेक्षया अधिकगुणत्वं विवक्षितम्, वक्तुसुचितं च। इह तु न्यूनगुणत्वमेव वर्ण्यस्य प्रोक्तम्, यतो हि चन्द्रः (उपमानम्) क्षीणोपि पुनर्वर्धंते। इदं तु क्षीणं न पुनर्निवर्तते इति पुनरभिवृद्धेरभावानन्यूनगुणत्वमेवेति विमर्शिनीकारस्य शङ्का। अपु- नरागमनरूपा गुणकृतन्यूनतापि रसपरिपोषकतया हद्यैवेति न्यूनत्वेSपि व्यतिरेक उच्चित एवेति तत्समाधानम्। इदमपुनरागमनं न गुणन्यूनता, अपि तु यौवनं न पुनः पराव्तीति अतिदुर्लभतया अत्यन्तं कामनीयत्वेनाऽत्युत्कृष्टत्वमेव : अत एव न्यूनगुणत्वकथनम्, एकमसत्। एतादृशं न्यूनगुण- त्वमेव रसपरिपोषाय, इत्यपि न। अनुपात्तः सुखनिदानत्वादिगुणैरपि यौवनस्योत्कर्षों रसस्य परिपोषायेति, द्वितीयमसत्। इति पण्डितराजाशयः ।

Page 536

४७६ काव्यमाला [ द्वितीयानने-

'द्रोहो निरागसां लोके हीनो हालाहलादपि। अयं हन्ति कुलं साग्रं भोक्तारं केवलं तु सः ॥'/ अन्र हीन इत्यपकर्षो दारुणताधिक्यरूपोत्कर्षात्मना परिणमति। एवम् 'इन्दुस्तु परमोत्कृष्टो यः क्षीणो वर्धते मुहुः। धिगिदं यौवनं तन्वि क्षीणं न पुनरेति यत् ।।' V इत्यादावुपात्तस्यापुनरावर्तित्वस्य तद्धर्मस्य मानप्रतिकूलतया द्वेषेणैव धिक्कारादिकथनम्, न तु वास्तवापकर्षेण, दुर्लेभत्वस्य प्रियसमागमोल्लास- कत्वस्य चोत्कर्षस्य स्फुटत्वात्। यदपि कुवलयानन्दकृतालंकारसर्वसोक्तार्थानुवादकेन न्यूनतायामु- दाहतम्- "-'रक्त्तस्त्वं नवपल्लवैरहमपि श्राध्यैः प्रियाया गुणै- स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि। कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वं तुल्यमशोक केवलमहं धात्रा सशोक: कृतः॥' अत्र सशोकत्वेनाशोकापेक्षयापकर्षः पर्यवस्यति" इति, तद्पि चिन्त्म्। रत्याद्यनुकूलतया कुतश्चिद्ङ्गान्दूषणापसारणं यथा शोभाविशेषाय भवति, एवं प्रकृते उपमालंकारदूरीकरणमात्रमेव रसानुगुणतया रमणीयम्, न

त्कर्षात्मना' इति पाठः । अयं द्रोहः । स हालाहलः । हालाहलोऽस्त्री' इति कोषा- त्पुंस्तमपि। तद्धर्मस्य यवनधर्मस्य। रक्त इति। सीतापहारोत्तरं श्रीरामस्याशोक- तरुं प्रतीयमुक्तिः । रक्तो रक्तवर्णः अनुरक्तश्व। शिलीमुखा बाणा भ्रमराश्च। कान्ता- पादेति। कामिनीपादाघातेनाशोकस्य पुष्पोद्रम इवि प्रसिद्धिः । नायके तु पद्माख्य- बन्धाभिप्रायेण । तदुक्तम्-'धृतैकपादा जघने कुर्वत्यन्यपदाहतिम्। शनैः शनै्निधु- वने पद्मबन्धस्तदा मतः ॥' इति। रत्याद्यनुकूलतयेति। अन्रेदं चिन्तम्-उपमा- नाध्ुपमेये वर्ण्यमानं वैलक्षण्यमेव गुणाधिक्यकृतं व्यतिरेकः । तच्च क्वचिदुपमेयोत्कर्ष- पर्यवसायि, क्वचित्तदपकर्षपर्यवसायि, क्वचित्तदनुभयपर्यवसायि,। आधिक्यन्यूनल-

१ निरपराधानां द्रोहः ।

Page 537

व्यतिरेक: ] रसगङ्गाघर: । ४४७

व्यतिरेकः । अत एवासमालंकारं प्राञ्ो न मन्यन्ते। अन्यथा तवा- लंकारान्तरतया तत्स्वीकारापत्तेः। यथा- 'भुवनत्रितयेऽपि मानवैः परिपूर्णे विवुधैश्च दानवैः। न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम् ।' अत एव ध्वनिकृता सहृदयधुरन्धरेण 'सुकविस्तु रसानुसारेण कचि- दलंकारसंयोगं क्वचिदलंकारवियोगं च कुर्यात्' इत्युक्त्वा 'रक्तस्त्वं-' इति पद्यं सादश्यदूरीकरणे उदाजहे। अत एव च मम्मटभट्टैः 'आधि- क्यमात्रं व्यतिरेक:' इत्युक्तम्। निरस्तं च न्यूनत्वं व्यतिरेके इति। तस्मा- डुपमानादुपमेयस्योत्कर्ष एव व्यतिरेकालंकारः, नापकर्ष इति स्थितम्। यदि तु न्यूनत्वमपि व्यतिरेक इत्याग्रहस्तदेदमुदाहार्यम्- जगत्रयत्राणधृतव्रतस्य क्षमातलं केवलमेव रक्षन् कथं समारोहसि हन्त राजन्सहस्रनेत्रस्य तुलां द्विनेत्रः।।' अत्र धर्मद्वयेनैव न्यूनोऽसि धर्मान्तरेण तुसम इति प्रतीतिकृतविच्छि- त्तिविशेषादलंकारता। एवं च लक्षणेऽपकर्षोऽप्येवंजातीयो देयः। यदुपि कुवलयानन्दकृतानुभयपर्यवसायिनो व्यतिरेकस्योदाहरण- मुक्तम्-

शब्दावप्युत्कर्षापकर्षपरावेव। तत्रापकर्षपर्यवसायि रकतस्त्मित्यत्र। अन्नोपमेये सशो- कल्ादिगम्यचेतनलसहृदयत्ादिभिः शोकरहिततशोकसहितलाभ्यां च तत्तदुणाधिक्य- प्रतीतावपि शोकस्य स्वरूपेणापकृष्टत्वाद्विरहिवाक्यत्वाच्च वरमचेतनमेव सम्यकू् । न पुनः प्रियावियोगादिजन्यशोकास्पदचैतन्यादीति प्रतीतिपर्येवसानात् विरहानुगुणक- विनिबद्धतात्पर्यविषयकोऽपकर्षः पर्यवस्यति। अत एव प्रियावियोगाद्यपि तुल्यमित्यर्थक- मावयोः सर्व तुल्यमिति वाक्यं चरितार्थमू। एतेन रत्याद्यनुकूलेत्यादि उदाजहे इत्यन्त- मपास्तम्। सशोकत्ववर्णनेऽपि रक्तलादिधमैंः सादृश्यस्य विप्रलम्भपरिपोषकतया चम- त्कारिणः सत्त्वेन तदपह्ववस्य कर्तुमशक्यलात्। अन्यथा औन्नत्यादिकृतसादृश्यस्यापि प्रतीत्यनापत्तैः। अलंकारवियोगोदाहरणं तु भुवनत्रितयेSपीत्यादि बोध्यमिति बोध्यम्। अन्यथा। उपमादूरीकरणस्याहृद्यले। एवंजातीयः धर्मान्तरकृतसाम्यसमानाधिकरणः । १ उपमाया अभावमात्रेऽपि रक्तस्त्वमित्यत्र यथा व्यतिरेकालंकारस्य स्वीकारस्तथा असमोपि स्वीकर्तव्यः स्यात्। मम तु मते उपमाऽभाव एव शोभायै, न पृथगलंकारत्वमिति।

Page 538

४७८ काव्यमाला। [ द्वितीयानने-

'दढतरनिवद्धमुष्टेः कोषनिषण्णस्य सहजमलिनसय। कृपणस्य कृपाणस्य च केवलमाकारतो भेदु: ।।' तन्न निपुणं निरीक्षितमायुष्मता। तथा हि-किमत्रोपमानादुत्कर्षरूपो व्यतिरेकोऽनुभयपर्यवसायी; आहोस्वित्सर्वस्वकाराद्युक्तदिशापकर्षरूपः। नादः। उत्कर्षप्रयोजकधर्मस्यात्रानुपस्थितेः। न च श्ेषेण दीर्घाक्षरस्योप- स्थितिरस्त्ेवेति वाच्यम्। तस्योपमानवृत्तित्वेनोपमेयानुत्कर्षकत्वात्। अर्था-

न तु प्रागुक्तः साधारण इति भावः । दढतरेति। कृपणस्य दानकथाशन्यस्य। कृपा णस्य च खङ्गस्य। आकारतः तद्रूपदीर्घवर्णोत् आकृतेश्व केवलं भेदो वैलक्षण्यम्। प्रकारान्तरेण तु साम्यमेव। तदेवाह दृढतरेत्यादिविशेषणत्रयेण। धनव्ययवैमुख्येन दृढतरं निबद्धा मुष्टिर्येन मुष्टिग्राह्यो भागो यस्येति च। कोषो भाण्डागारः पिधानं च। निषण्णस्योपविष्टस्य स्थितस्य च। सहजेन स्वभावेन मलिनस्य मलिनवेषस्य, अनु- ज्वलस्येति यावत्। कृष्णवर्णस्य च। अत्रेदं वैलक्षण्यं न न्यूनत्पर्यवसायि नाप्या- धिक्यपर्यवसायि किं तु स्ववैचित्र्यमात्रविश्रान्तमिति भावः। आयुष्मतेति। अत्रेदं चिन्तयम्-शेषेऽपि नात्राभेदाध्यवसायः सर्वदोमाधव इतिवत्। किं तु परस्परान्वितये दीर्घाक्षरादवयवसंस्थानाच्च भेद इत्यर्थद्वयमितरान्वयि। कि चाभेदाध्यवसायेऽपि नास्य साधारण्यम्। भेदशब्देन तस्य तिरस्कारेणोपमानिष्पादकलवाभावेन सकलकलमित्या दिवलक्षण्यात्। यदपि तस्योपमानवृत्तित्वेनेत्यादि, तदपि न। उपमानतं हि सादृश्य प्रतियोगिलम्। तच्च प्रतीपालंकारविधया कृपाणस्यास्त्ेव। दीर्घोक्षर त्रूपगुणस्या- धिक्यस्य तदन्यस्मिन्कृपाणे सत्त्वाच्च। अकलङ्गमुखसदृशो न सकलङ्कश्चन्द्र इत्यादौ व्यतिरेकस्यैवमेव निर्वाह्यलात। यदप्यनुभयपर्यवसायिनो व्यतिरेकस्योदाहरणमित्यादि, तदपि न। उत्कर्षापकर्षोभयापर्यवसायीत्यर्थकानुभयपर्यवसायीति तङ्रन्थपाठात्। अनु- भयपर्यवसायिलेन चैतदेवोच्यते यत्प्रकृतानुगुणोत्कर्षापकर्षपर्यवसायित्वाभावेन विद्यमा- नस्यापि व्यतिरेकस्य नालंकारलम्, किं तु वस्तुतामान्रमिति । अलंकारश्वात्र गम्यो- पमैव, कूपणकृपाणयोः श्रेषलब्धाकृतेः दीर्घाक्षराच् भेदेऽपि इतरत्स्वं तुल्यमेवेति पर्य- वसानात्। तत्कृतचमत्कारस्यैव सत्त्वाच्चति बोध्यम्। उपमेयानुत्कर्षेति। उपमे- योत्कर्षप्रयोजकलाभावादित्यर्थः ।अर्थान्तरेणेति । तस्येत्यस्यानुषङ्गः । स निर्भेरः । · १ 'षवशाद् आकृति(अवयवसंस्थान)रूपं द्वितीयार्थ वहतो दीर्घाक्षरस्योपस्थित्या उपमेयस्य (कृपणस्य) उत्कर्ष: (अवयवसंस्थानतः कृपणो भिन्नः अन्यथा सर्वापि खङ्गसमानता, इति) स्यादिति पूर्वपक्षी।

Page 539

व्यतिरेक: ] रसगङ्गाघर:। ४७९

न्तरेणाकृतिरूपेण सह श्लेषमूलकाभेदाध्यवसायेन साधारणीकरणाच। अन्यथा श्लेषमूलकोपमोच्छेदापत्तेः । 'चन्द्रबिम्वमिव नगरं सकलकलम्' इत्यादावपि कलकलसहितत्व-कलासाकल्ययोर्वस्तुतो वैधर्म्यरूत्वात् । न च सकलकलमित्यत्रोपमायामेव कवेनिर्भरः, प्रकृते तु भेदशब्दोक्त्या वैलक्षण्ये स इति भ्रमितव्यम्। यद्यत्रोपमाविघटनरूपो व्यतिरेको निर्भे- रसहः स्यात् आकारशव्दश्ेषोऽनर्थकः स्यात्। कृपणस्य कृपाणस््र भेदो दीर्घाक्षरादेवेत्येव ब्रूयात्। न ह्यत्र व्यतिरेके श्ेषोऽनुकूलः । प्रत्युत प्रति- कूल एव। उपमायां पुनरनुकूलः । प्रतिकूलस्य दीर्घाक्षररूपवैधर्म्यस्य साधारणीकरणात् आकृतिभेदस्य चोपमानोपमेययोरपि सत्वात्। एवं हि कवेराशयः-यत्कृपणकृपाणयोस्तुल्यतैव। दृढतरेत्यादिविशेषणसा- म्यात्। अक्षरभेदस्त्वाकारभेदत्वादविरुद्ध एवेति सहृद्यैराकलनीयम्। न द्वितीयः । तस्योक्तिमात्रेणाप्यसंगतेः, अहृद्यत्वाच्च। तस्मादुत्र गन्योपमैव सुप्रतिष्ठितेत्यास्तां कूटकार्षापणोद्वाटनम् । प्रकृतमनुसरामः । अलंकारान्तरोत्थापितोप्ययं संभवति। यथा-

उपमायामिति। अत्रेत्यस्यानुषङ्गः । कूटेति। मिथ्याकार्षापणेलर्थः। अलंकारा- न्तरोत्थापीति। शलेषान्यालंकारोत्थापितोऽपीत्यर्थः । अयं व्यतिरेकः । अत्रति ।

१ ननु 'आकारतः' इति उत्कर्पप्रयोजको धर्मः उपमान(कृपाण)वृत्तिः । कथमनेन उपमे- योत्कर्ष इति पूर्व समाधातुं चेष्टितम्। दृश्यता मा कृतिरूपो धर्मस्तु उपमेयवृत्तिरेव। ततश्च स्यादनेन उपमेयोत्कर्ष इति चेत्। समाधत-शेषमूलकामे०-इत्यादि। अयं भाव :- आकारपदेन ऋषवशात् आकृति: दीर्घाक्षरं चेत्युभयं गृह्यते। ततश्च श्रेषमूलकेन अभेदाध्यवसायेन दीर्घा- क्षररूपोऽर्थः आकृतिरूपार्थेन सह अभिन्नत्वेनाध्यवसितः । एवं च उपमेयोपमानधर्मयोः साधारणतया उत्कर्षप्रयोजकधर्मस्य उपमेयनिष्ठता कथं वक्तुं शक्या? २ यदि श्रेषमूलकोऽभेदाध्यवसायो न स्वीक्रियेत तर्हि 'सकलकलम्' इत्यादौ विजातीययो- रर्थयो: साधारणधर्मत्वाभावे उपमा कथं स्यात्। ३ उभयोर्मेंदबोधनार्थ केवलं दीर्घाक्षरादित्येव वक्तव्यं पर्याप्तम् । 'आकृतिः दीर्घाक्षरं च' इति श्रषस्तु उपमायामेवानुकूलः । यतो हि 'आकारतः' इति पदेन दीर्घाक्षरम्, आकृतिश्चेत्यु- भयं गृह्यते। तत्र अवयवसंस्थानं तु उभय(उपमानोपमेय)निष्ठमस्त्येव। दीर्घाक्षरं तु ऋ्ेषमूल- काभेदाध्यवसायेन पूर्वविधया साधारणीकृतमित्युपमासिद्धिः ।

Page 540

४८० काव्यमाला। [ द्वितीयानने-

ईश्वरेण समो ब्रह्मा पिता साक्षान्महेश्वरः। पार्वत्या सेदृशी लक्ष्मीर्माता मातु: समा भुवि॥ पितास्य काष्ठसदशः स्वयं पावकसंनिभ: ।।' अन्र रूर्पेकानन्वयोपमा उपमेयोत्कर्षस्योपमा एवोपमानापकर्षस्य च

अस्य चालंकारस्य सादृश्यगर्भत्वात् सादृश्यस्य च त्रिविधधर्मोत्थापि- तत्वात् अन्रापि तत्प्रकारानुगमो बोध्यः। तत्रानुगामिनि धर्मे यथा- 'अरुणमपि विद्रुमद्ठुं मृदुलतरं चापि किसलयं बाले। अधरीकरोति नितरां तवाधरो मधुरिमातिशयात्।।' अत्रारुण्यम्रदिमानावनुगामिनौ। बिम्बप्रतिबिम्बभावापन्ने यथा-'जलजं ललितविकासं सुन्दरहासं तवाननं हसति'। अत्र हासविकासयोर्बिम्बप्रतिबिम्बभावः, लालित्यसौन्द- र्ययो: शुद्धसामान्यता। श्रेषोपात्तं जडजत्वं स्वाश्रयापकर्षहेतुः।

रूपकोपमा आद्यार्वे उपमेयस्य पितुरुत्कर्षिका। द्वितीयार्घेऽनन्वयोपमा तादशमा- नुस्तथा। तृतीयार्धे शुद्धोपमैव तादृशस्य पितुः स्वस्य चापकर्षिकेत्यर्थः। उपमा एवेति। एवेन रूपकादिव्यावृत्तिः । त्रिविधेति । अनुगामिविम्बप्रतिबिम्बभावापन्न- शुद्धसामान्यरूपेत्यर्थः । तृतीयस्यापीदमेवोदाहरणमित्याह-लालित्यति । साश्र-

१ ब्रह्मा तु ईश्वर(शिव)सादृश्यवाही एव, पिता तु साक्षात् शिवः । इति वण्यें (पितरि) उत्कर्षः, उपमाने (ब्रह्मणि) चापकर्ष इति संभूय व्यतिरेकः । २ लक्ष्म्यां तु पार्वत्याः सादृश्यं वर्दते, माता तु अनुपमेति वर्ण्याया मातुरुत्कर्षः, उप- मानस्य (लक्ष्म्याः) अपकर्ष इति व्यतिरेकः । ३ अस्य पिता काष्ठसदशः, स्वयमयं तु पावकसदशः, अन्र उपमेयस्य (पितुः स्वस्य च) उत्कर्षः, उपमानस्य (काष्ठस्य पावकस्य च) अपकर्षः । ४ उपरिप्रोक्तस्य समन्वयमाह-अन्र त्रिषु पद्यार्धेषु अन्तिमेष्वष्टाक्षरेषु यथाऋममुपात्ताः रूपकम्, अनन्वयः, उपमा चेति (श्रषान्यालंकारा:) उपमेयोत्कर्षस्य हेतवः । आदिमेष्वष्टा- क्षरेषु परिगृहीता उपमाश्च उपमानापकर्षस्य हेतवः, इति। अत्र नागेशटीका तु मूलविसंवादा-

Page 541

व्यतिरेक: ] रसगङ्गाघर: । ४८१

एवं सादश्यनिषेधालीढो व्यतिरेको निरूपितः । अभेदालीढोऽप्येष संभवति यथा- 'निष्कलङ्क निरातङ्क चतुःषष्टिकलाघर। सदापूर्ण महीप त्वं चन्द्रोऽसीति मृषा वचः॥।' इति रसगज्गाधरे व्यतिरेकप्रकरणम्। अथ सहोक्ति :- गुणप्रधानभावावच्छिन्नसहार्थसंबन्धः सहोक्तिः॥ हृद्यत्वं चालंकारसामान्यलक्षणागतं सकलालंकारसाधारणमेवेत्यसकृ- दुक्त्म्। तच्चात्र कार्यकारणपौर्वापर्यविपर्ययात्मिकया शरेषभित्तिकाभेदाध्य- वसानात्मिकया केवलाभेदाध्यवसानात्मिकया चातिशयोक्त्याऽनुप्राणने भवतीति वैदन्ति। *अनुकूलभावमथवा पराख्मखत्वं सहैव नरलोके। अन्योन्यविहितमत्रौ विधिदिल्लीवल्लभौ वहतः ॥l' इत्यादावतिप्रसङ्गवारणायावच्छिन्नान्तम्। उदाहरणम्- 'केशैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम्। त्वया रणे निष्करुणेन राजंश्रापस्य जीवा चकृषे जवेन।।' येति। कमलेत्यर्थः । 'अमेदनिषेघालीढोऽपि' इति पाठः । यथेति। चन्द्रस्तु सकलङ्क: उपरागे सातङ्कः षोडशकलः सदा न पूर्ण इति व्यतिरेकः ॥ इति रसगङ्गावरमर्मप्रकाशे व्यति रेकप्रकरणम् । सहोक्तिं लक्षयति-अथेति। गुणेति । गुणप्रधानभावावच्छिन्नयोरर्थयोः सहार्थ- संबन्ध इत्यर्थः । तच् हृद्यतं च ऋ्लषेति। श्लेषमूलकेत्यर्थः । केवलेति । निगीर्या- ध्यवसानरूपयेत्यर्थः । अतिशयोक्त्या तत्सहकारेण। अन्वयानुयोगिना इति शेषः । अनु- प्राणने पोषणे। अन्योन्येति। अन्योन्यं विहितो मन्न्रो विचारो याभ्यां तौ। अदृष्टदि- ल्ीशावित्यर्थः । अत्र तादृशार्थसंबन्धसत्त्वेऽपि तयोः समप्राधान्येन गुणप्रधानभावाभाव इति भावः । प्रतिभूपतीनामित्यस्य त्रिषु संबन्धः। जीवा प्रत्यश्चा। ननु विपर्येय एव १ पूर्वेषु उदाहरणेषु (अरुणोऽपि विद्रुमद्रुमः तवाधरसदृशो नास्तीति) सादृश्यनिषेध- संबद्धोयम्। 'निष्कलङ्ग०' इत्यादौ तु निष्कलङ्कनिरातङ्कचतुःषष्टिकलाधराभिन्नस्त्वम्। अत एव तद्धर्मरहितचन्द्राभिन्नस्त्वमिति अभेदसंबद्धोयं भवतीत्याशयः। २ प्राचीनानामिदमभिमतं न ममेत्यग्रे करिष्यमाणं खण्डनं मण्डयति। ३ कुत्रच्वित्पुरुषे अनुकूलभावं क्रन्विच्च पराङ्मुखत्वं द्वावपि सहैव वहत इति योजना। ४१ रस०

Page 542

४८४ काव्यमाला। [द्वितीयानने-

व्यवहारा आ पामरसुललसन्ति। तद्भावरूपे चाप्रधानत्वे डप्रधाने' इति शास्त्रेण तृतीयाया: शक्तबोधनात्तस्य कथमशाब्दत्वम्। न च सहार्थेन युक्त वस्तुतोऽप्रधाने तृतीयेति तस्यार्थः न त्वप्रधानेऽर्ये वाच्ये इति। तथा च नोक्तार्थसिद्धिरिति वाच्यम्। एवं चाप्रधानग्रहणवैयर्थ्या- पत्तेः। 'पुत्रेण सहागतः पिता' इत्यादौ पित्रादिभ्योऽन्तरङ्गत्वात्प्रथमो- त्पत्तेरेवौचित्यात् । 'पुत्रेण सह पितुरागमनम्' इत्यादौ कारकविभक्तेः आवल्याच्च। अन्यथा 'षेष्ठी शेषे'इत्यत्रापि विशेषणग्रहणापत्तेः। तस्मादयथा

इति पाठः । 'अप्रधानलेऽप्राधान्यलेन सह' इत्यपपाठ । वक्ष्यमाणग्रन्थविरोधात्। नन्वेवमपि प्रथमाया अविषये दोष एव। अत आह-पुत्रेणेति। कारकेति। षध्या इत्यर्थः । नन्वेवमप्युक्तार्थतात्पयोग्राहकलेन तदावश्यकमत आह-अन्यथेति। एव- मपि तदजीकारे। आपत्तेरिति । विशेष्ये षष्ठीवारणतात्पर्येग्राहकलेनेवि भावः । उपसंहरति-तस्मादिति। तत्र हेतुतृतीयायाम्। नन्वप्रधाने इत्युक्ते: समप्रधानले १ मुख्यत्वाभावरूपे अप्रधानत्वे 'सहयुक्ते०' इत्यनेन तृतीया विधीयते [तृतीयायाः शक्तिरबोध्यते ], इत्यप्रधानत्वस्य बोधिका तृतीया विभक्कतिरिति अप्रधानत्वं शाब्दम् (शब्द- बोध्यम्) एव संपन्नमिति समाधानम्। २ अप्रधाने पुत्रादौ [अप्रधान(पुत्रादि)शब्दोत्तरम् ] तृतीया स्यादित्यर्थः, न त्वप्रधानेऽथें वाच्ये इति। एवं च तृतीया विभक्तिः अप्रधानत्वस्य शक्तेबोंधिकेति न वक्तुं शक्यमिति पूर्वपक्षः । ३ यद्ययमर्थः स्यात्तर्हि सूत्रे अप्रधानग्रह्दणं व्यर्थम्। ननु 'सहयुक्त (तृतीया)' एतावन्मा- त्रोक्तौ सहार्थाऽन्विते पित्रादौ तृतीया मा भूदिति अप्रधानग्रह्णम्। किन्तु पित्रादिशब्देभ्यः अन्तरङ्गत्वात प्रथमव स्यात, न तृतीयेति प्रधाने तृतीयावारणाय अप्रधानग्रहणं व्यर्थ स्यात्। तस्मात् 'अप्रधानत्वेऽयें वाच्ये तृतीया' इत्येव तदर्थ इति तत्समाधानम्। ४ ननु प्रधाने पित्रादौ यत्र अन्तरङ्गत्वात्प्रथमाप्राप्तिस्तत्र निर्वाहेऽपि 'पुत्रेण सह पितुराग- मनम्' अत्र प्रथमाविभक्तरविषयात् अप्रधानग्रहणाभावे प्रधाने पित्रादौ तृतीया केन वार्यता- मित्याह-कारकविभक्ते:०-सहार्थतृतीया उपपदविभक्तिः, कर्तकर्मणोरिति षष्ठी च कारक- विभक्तिरिति प्राबत्यात् (उपपदविभक्तः कारकविभक्तिर्बलीयसी) पितृशब्दात् कारकविभक्ति: (षष्ठी) एव स्यादिति तत्राप्यर्थसिद्धिः । ५ अप्रधानग्रहणस्य वैयर्थ्यभयात् 'अप्रधानत्वे वाच्ये तृतीया' इत्यर्थकल्पना तावन्न सिध्येत् । पूर्वोक्तार्थे तात्पर्यग्राहकतयैव अप्रधानग्रहणस्य सार्थक्यम्, न तु तद्वयर्थमिति चेदाह-षष्ठी शेषे० अयं भाव :- संबन्धो द्विनिष्ठो भवति। ततश्च 'राजः पुरुषः' इत्यादौ विशेषणात् राजादिपदादेव षष्ठी भवेत, न तु विशेष्यात पुरुषादिपदात् इति तात्पर्यग्राहकतया अ्रत्र सूत्रेपि विशेषणग्रहणं कर्तव्यं स्ात्। तस्मात्तातपर्यग्राहकतया 'अप्रधान'गहणमिति समा- थानाभासो न फलेग्रहिरित्याशयः।

Page 543

सहोक्ति: ] रसगङ्गाघर: । ४८५

'हेतौ तृतीया' इत्यादिशास्त्रं हेतुशक्तिग्राहकमेवं 'सहयुक्तेSप्रधाने' इत्य- प्रधानशक्तिग्राहकम्। यथैव तत्र प्रकृत्यर्थस्याभेदेन विभक्तर्थऽन्वयस्त- थेहापि शक्यो वक्तम्। धर्मिशेक्तावपि कर्मत्वादीनामिवाप्राधान्यस्यापि शाब्दत्वमव्याहतमेव। षष्ठीस्थले तु विशेषणशव्दाभावान्नैवमिति स्फुटमेव चैलक्षण्यम्। एतेन 'अप्रधानग्रहणं शक्यमकर्तुम्' इति वदन्तो मनोरमा- कारा: परास्ताः । उक्तप्रकारेण सार्थक्यसिद्धौ मुनिवचनस्य वैयर्थ्यकल्प- नाया अन्याय्यत्वात्। 'न च पुत्रेण सहागतः पिता' इत्यादौ पुत्राभिन्नाप्रधानसहित इति बोधस्याप्रामाणिकत्वान्नोक्तार्थसिद्धिरिति वाच्यम्। 'दण्डेन घटः' इत्यादौ दुण्डजन्यतावान् घट इति हि सर्वजनीने वोधे 'हेतौ तृतीया' इति सुनिवचनावलम्बेन दण्डाभिन्नहेतुको घटः इति बोधं वदता भवतैवास्याः सरणेदारशिितत्वात्। 'भावप्रधानमाख्यातं' इत्याद्यनेकैरमुनिवचनसतत्र तत्र त्वत्कृतबोधवैपरीत्यस्यानुपपत्तेश्चेति कृतमप्रसक्तविचारेण। शक्तिरिति धर्मिणः शाब्दलं न तस्येति प्रागुक्तं विरुध्येत अत आह-षष्ठीति। एवे- नेत्यस्यार्थमाह-उक्तेति। कृतमिति। अन्नेदं सर्व चिन्त्यम्। अप्रधानग्रहणप्रत्या- ख्यानपरभाष्यविरोधापत्तेः अप्रधानभृत्यैः सह गतो राजेत्यत्र तृतीयानापत्तेश्र। राज्ञा सह सेना गच्छतीत्यादौ तृतीयापत्तेश्च अन्तरङ्गतस्य दुर्वचलेन तथोक्तेरसांगत्याच्च। बोधस्या-

१ तथा च 'अध्ययनेन वसति' इत्यादौ 'अध्ययनाभिन्नहेतुको वासः' इत्यादिर्बोधः । 'पुत्रेण सहागतः पिता' अन्र तु 'पुत्राऽभिन्नाप्रधानसहितो भूतकालिकागमनानुकूलव्यापार- श्रयः पिता' इति बोधः । २ ननु अप्रधाने तृतीया इत्युक्त्या अप्रधाने (धर्मिणि) तृतीयायाः शक्त्तेबोंधः, न तु अप्रधानत्वे (धर्मे)। भवता च पूर्वमुक्तम्-"अप्रधानत्वे-'सहयुक्तऽपधाने' इति शास्त्रण तृतीयायाः शक्तेबोंधनात्तस्य (अप्रधानत्वस्य) कथमशाब्दत्वम्" इति। चेदाह-धर्मि- शक्तावपीति। ३ ननु अत्र 'अप्रधाने अर्थे वाच्ये तृतीया' इति यथा अर्थस्तथा षष्ठीस्थलेऽपि 'विशेषणे षष्ठी भवती'त्यस्य विशेषणत्वे वाच्ये षष्ठी भवतीत्यर्थेन विशेषणस्य शाब्दत्वं व्यपदिश्यतामिति शङ्कायामाह-षष्ठीस्थले० । अत्र यथा 'अप्रधाने' इति शब्दोपात्तस्तथा तत्र विशेषणशब्दों नोपात्तः, अपि तु अर्थाक्षेप्य एवेति न साम्यमित्याशयः । ४ अस्मद्दर्शितबोधस्याSप्रामाणिकत्वमत्राSSशङ्गयते, किन्तु सथाने स्थाने भवद्द्शितबोध- वैपरीत्यं मुनिवचनेभ्य इति प्रतिबन्दिविधयाSSह-'भावप्रधानमाख्यातम्०'।

Page 544

४८६ काव्यमाला [द्वितीयानने-

प्रकृतत्वाप्रकृतत्वे प्रायेणोपमेयतोपमानतयोर्निर्णायके इत्युक्तत्वादिह न ताभ्यां तयोनिर्णयः, पकृतयोरपि साहित्यसंभवात्। किं प्राधा- न्याप्राधान्याभ्यामिति । हृद्यत्वं चास्या अतिशयोक्तिकृतमित्युक्तम्। यत्र तु सा नास्ति तन्र 'पुत्रेण सहागतः पिता' इत्यादो न सहोक्तिरलंकारः। अन्न विचार्यते-'केशैर्वधूनां' इत्यादौ पौर्वापर्यविपर्ययानुप्राणिता सहोक्तिरलंकार इति न युक्तम्। अतिशयोक्तेरेवात्र चमत्कृत्याधायकत्वेन सहोक्तेर्नाममात्रत्वात्। 'तव कोपोSरिनाशश्च जायते युगपन्नृप' इत्यस्मा- दृतिशयोक्त्यलंकारात् 'तव कोपोSरिनाशेन सहैव नृप जायते' इत्यत्र गुण- भावमात्रकृतवैलक्षण्येपि विच्छित्तेरविशेषात् तस्यैव चालंकारविभाजक- त्वात्। न च सादृश्यानुप्राणितस्य रूपकादेरप्यपृथग्भावापत्तिः। 'निशाकर- समानोऽयमयं साक्षान्निशाकरः' इत्यादौ विच्छित्तिवैलक्षण्यस्य जागरूक- त्वात्। अन्यथा तत्प्रयुक्तस्य व्यतिरेकस्यानुत्थानापत्तेः। अपि च सादृश्यप्र- युक्तरूपकादिषु सादृश्यस्य गुणत्वाच्चमत्कृतिविश्रान्तिधामभ्यो रूपकादिभ्यो यथा न पृथग्व्यपदेश्यत्वं तथा सहभावोक्ताविर्भूतायाः कार्यकारणपौर्वाप- र्थविपर्ययात्मिकाया अतिशयोक्ते: सकाशादस्याः सहोक्तरपृथग्भाव एवोचित: । नन्वेवं सति सहोक्तेनिर्विषयत्वं स्यात्। सहोक्त्यन्तरस्याप्यभेदाध्यवसा- नरूपातिशयेन कवलीकारादिति चेत्, न। अभेदाध्यवसानमूलायां हि

न्यथा इष्यमाणलाच्च। सहोक्तिलक्षणं च यत्रकस्य शाब्द: क्रियान्वयोऽपरस्य सहार्थबला- दार्थ: सा सहोक्तिरिति काव्यप्रकाशकृतामेवमेवोक्तिः। स्पष्टं चेदं सर्व मख्जूषायाम्। संभ- वादिति अत एव प्रायेणेत्युक्तम्। किं तु प्राधान्यति। प्रधानमुपमेयमप्रधानसुपमानमिति बोध्यम्। इतीत्यस्य बोध्यमिति शेषः । अस्याः सहोकेः। सा अतिशयोक्तिः। अतिशयो- क्ेरिति। उक्तरूपेत्यादिः। एवमग्रेऽपि । विच्छित्तेश्वमत्कृतेः । तस्यैव विच्छित्ति- विशेषस्यैव। अपृथगिति। उपमात इत्यादिः । इत्यादाविति। मिथ इति शेषः । अन्यथा तद्वलक्षण्यऽप्यपृथग्भावे। तत्प्रयुक्तस्य व्यतिरेकस्येति। निशाकरसमान- लेन. वर्णितापेक्षया साक्षान्निशाकरलन वर्णिते भासमानस्य साक्षान्निशाकरतववर्णनप्रयु- कस्य व्यतिरेकस्येत्यर्थः। सहभावोक्त्याविरिति। अनेनास्य गुणतं दर्शितम्। अ- भेदाध्यवसानेति। इदमुपलक्षणं श्लेषमूला मेदाध्यवसानस्यापि। हि यतः। उपस्क्रियते १ सादृश्यप्रयुक्त्त रूपकादौ यथा सादृश्यस्य अलंकारतया न पृथग्व्यपदेश्यत्वम्, एवं सहभावोक्तिवशादुत्पन्नायाः अतिशयोक्ते: सकाशात्सहोक्तेरप्यपृथकत्वमेवोचितमित्याशयः।

Page 545

सहोक्ति: ] रसगङ्गाघर: । ४८७

सहोक्तावभेदाध्यवसानेन सहोक्तिरुपस्क्रियत इति न गुणेन प्रधानस्य तिर- स्कारः। अपि तु प्रधानेन गुणस्येत्युक्तदिशा सावकाशैव सहोक्तिः । गुण- अधानभावश्च निराग्रहैः सूक्ष्मदशावधानीयः। किंच परस्पराभेदाध्यव- सानमात्रमतिशय एव; नातिशयोक्तिः । तस्य श्ेषादावपि सत्त्वात्। सा तूपमानेनोपमेयस्य निगरणम्। एवं च 'वर्षन्ति, उन्मीलन्तो निमीलन्तः' इत्यादिष्वेकेनापर निगरणाभावान्नातिशयोक्तिगन्धोऽपि। अतिशयमान्नं तु प्रयशः साधारणधमाशे वहूनामलंकाराणासुपस्कारकम्। नहि 'शोभते चन्द्रवन्मुख' इत्यादौ चन्द्रसुखशोभयोर्वस्तुतो भिन्नयोरभेदाध्यवसानमन्त- रेणोपमा समुल्लसति। तस्मात् 'कार्यकारणपौर्वापर्यविपर्ययमूलः सहोक्तेरेकः प्रकार:' इति सर्वस्वकारादीनामुक्तिराग्रहमूलैव। अभेदाध्यवसानमूलस्तु अकारो भवतु नाम सहोक्तेर्विषयः। यदि तु दीपके तुल्ययोगितायां चोपमा- नोपमेययो: प्राधान्येन क्रियादिरूपधर्मान्वयः' इह तु गुणप्रधानभावेनैवेति विशेषः सन्नपि विच्छित्तिविशेपानाधायकतया नालंकारान्तरताप्रयोजकः, अपि तु तद्वान्तरभेदतायाः इति विभाव्यते, निरस्यते च प्राचीनमुखदा-

संस्क्रियते। ननु स्यादेवं यदि सहोक्ते: प्राधान्यमतिशयोक्तेव्व गुणं निश्चितं स्यात्। तदेव तु न वैपरीत्यस्यापि संभवात्। अत आह-गुणेति। श्लेषमूलाभेदाध्यवसा- नमूलायामपि सावकाशतमाह-किं चेति। तस्य मिथोऽमेदाध्यवसानस्य। सा तु अतिशयोक्तिस्तु। ऋषोदाहरणमाह-वर्षन्तीति। केवलमेदाध्यवसानोदाहरण- माह-उन्मीलन्त इति। एकेनेति। उपमानेनोपमेयस्येत्यर्थः । गन्धोऽपि लेशो- पि। नैवमत्रैव किं लन्यत्रापीत्याह-अतीति । क्वचिदनुगामिन्यभावादाह-प्रा- यश इति। उपसंहरति-तस्मादिति। निर्विषयत्वं परिहरति-अभेदेति। इद- सुपलक्षणं प्राग्वत्। इह तु सहोक्तौ तु। तद्वान्तरेति। अलंकारावान्तरेत्यर्थः । १ 'गिरिगहनेSरिवधूनां दिवसैः सह लोचनानि वर्षन्ति' इत्यादौ दिवसा अपि वर्षन्ति (वर्ष- वदाचरन्ति) लोचनान्यपि वर्षन्ति इति सहभाव एव चमत्कारकतया विश्रान्तिधाम। वर्षण- वर्षवदाचरणयोरमेदाध्यवसानं तु सहोक्तिसाधनीभूततया अप्रधानमिति स्पषट स्थूलदृशामपि। २ अस्माभि: पौर्वापर्यविपर्ययमूलायाः सहोक्तरतिशयोक्तावेवान्तर्भावो यथा दर्शितस्तत्प्राति- द्वन्द्वयेन भवतापि सहोक्तेदींपके तुल्ययोगितायां वा अवान्तरभेदतयाऽन्तर्भावश्चिकीर्ष्यते तहिं। ३ प्राचीनानुरोधादेव विषमोयमङ्गीकृतः पन्थाः । यदि तु प्राचां संकोचः शिथिली- क्रियते तहिं।

Page 546

४८८ काव्यमाला। [ द्वितीयानने-

क्षिण्यं तदा निविशतामियमप्युक्तालंकारेष्वेव। किंचिद्वैलक्षण्य मात्रेणैवा- लंकारभेदे वचनभङ्गीनामानन्त्यादलंकारानन्त्यप्रसङ्गादिति। सत्यम्, गुणप्रधानभावालिङ्गितस्य सहभावस्यालंकारान्तराद्विच्छित्तिविशेषमनु- भवन्तः प्राचीना एव सहोक्तेः पृथगलंकारतायां प्रमाणम्। अन्यथा एवं जातीयोपप्रवेन बहु व्याकुलीस्यात्। नैव प्रमाणीकुर्महे वयं मृषा मुकुलितविलोचनान्प्राचः, निवेश्यतां चेयमलंकारान्तरभवनोदरं वराकी इति तु प्रभुतैव केवला। न सहृद्यत्वम्। एवं क्रियायाः साधारणधर्मत्वे इयमुदाहता। गुणस्य तथात्वे यथा- 'मान्थर्यमाप गमनं सह शैशवेन रक्तं सहैव मनसाधरबिम्बमासीत्। किं चाभवन्मृगकिशोरदशो नितम्बः सर्वाधिको गुरुरयं सह मन्मथेन ।।' अत्र यद्यपि क्रियापि गुणेन सेह समानधर्मतामनुभवति तथापि तस्या नान्तरीयकत्वेनासुन्दरत्वाद्गुणस्यैव पर्यवसाने समग्रभरसहिष्णुत्वम् । शोणत्वाSSसक्तत्वाभ्यामधिकभारत्वोपदेशकर्तृत्वाभ्यां च भिन्नयोरप्युप-

निरस्यते त्यज्यते। दाक्षिण्यं संकोचः । इयमपि अवशिष्टा द्विविधापि। किंचिदिति। उक्तरीत्या अन्वयितेत्यर्थः । वचनभङ्गीनां वचनरचनानाम्। प्राचीना एवेति। एवं च एतदनुभवबलेनैव गुणप्रधानभावकृतविच्छित्तिविशेषमाश्रित्य सर्वस्वकारादयुक्ः कार्यकारणपौर्वापर्यविपर्ययमूलोऽपि सहोकेः प्रकार आश्रयणीय इति तत्खण्डनं प्रागुक्त चिन्त्यमिति बोध्यम्। अन्यथा तदनुभवप्रामाण्यानङ्गीकारे। व्याकुलीति। प्रागुपपा- दितमिदम्। तथाले साधारणधर्मले। मान्थर्यं मन्दलम्। क्रियापीति। प्राह्यादिरि- त्यर्थ: । एवं च गुणस्य तथात्ोदाहरणलोक्तिरयुक्तेति भावः। नान्तरीयकत्वेनेति। तां विना वाक्यार्थासमाप्तेरिति भावः । समग्रति। विच्छित्त्याधायकतेत्यादिः । नन्वे- वमपि मान्थयाँशे तथात्वेऽपि रक्तावंशे धर्मयोर्भेदात्कथं तत्त्वमत आह-शोणत्वेति। अधरे शोणलं मनस्यासक्तत्वं नितम्बेऽधिकभारत्वं कामे उपदेशकर्तृतमिति बोध्यम्। • १ पौर्वापर्यविपर्ययमूला तु निरस्तैव पूर्वम्। अवशिष्टा द्विविधा (श्रेषमूलकाडमेदाध्यवसान- सूला, केवलामेदाध्यवसानात्मिका च) इयमपि उक्तालंकारेधु (दीपकतुल्ययोगितादिषु) एव अवा- न्तरमेदतया निविशतामिति भावः । २ यथा गुणः साधारणधर्मस्तथा प्राप्यादिक्रियापि साधारणधर्म इत्याशयः ।

Page 547

सहोक्ति: ] रसगङ्गाघरः । ४८९

मेयोपमानगतयोर्निरुक्तगुणयोः श्रेषेण पिण्डीकरणात्सहभावोपपत्तिः । एवं श्रलेषाभावेऽपि केवलाध्येवसानेन बोध्यम्। यत्रैकमेवोपमेयं विलक्षणसहोक्यालम्वनं सा मालासादृश्यान्मालास- होक्तिः। वैलक्षण्यं च सहोक्तः खसमानाधिकरणसहोक्त्यन्तरापेक्षया बो- ध्यम्। 'केशैर्वधूनां' इत्यत्र केशैः सह कोषै सह प्राणैः सहेत्युपमानभेदेन साहित्यस्यानेकत्वेऽपि कर्षणैक्यात्सहोक्तेरभेदः। सति वा यथाकर्थचिद्गेदे न वैलक्षण्यम्, धमैक्यात्। धर्मोपमानोभयकृतवैलक्षण्यस्य चात्र विवक्ष- णात्। 'उन्मीलन्तो निमीलन्तः' इत्यत्र च धर्मवैलक्षण्येSप्युन्मीलनधर्मो- त्थापितसहोक्तिघटकोपमानानां पद्मपत्रादीनामेव निमीलनधर्मोत्थापिता- यामपि सहोक्तौ घटकत्वान्न मालारूपत्वम्। 'भाग्येन सह रिपूणां-' इति तूदाहरणमेव। यथा वा- 'उन्मूलितः सह मदेन बलादवूलारे- रुत्थापितो बलभृतां सह विस्मयेन । नीलातपत्रमणिद्ण्डरुचा सहैव पाणौ धृतो गिरिधरेण गिरि: पुनातु ॥'

तृतीयमेदेऽप्येवमेव पिण्डीकरणमिल्याह-एवमिति। ननु प्रागुक्तसहोक्तपेक्षया न वै- लक्षण्यमत आह-वैलक्षण्यं चेति। तथा च विलक्षणेत्यस्य मिथो भिन्नेत्यर्थः सूचितः। नन्वेवं केशैरित्यन्नापीयं भवेदत आह-केशैरिति। ननु धर्मैक्येऽपि तद्भेदेनेयं स्यादे- वात आह-सतीति। सत्यपीत्यर्थः। यथाकथंचिदिति । धर्मोपमानान्यतर- रूपेणेत्यर्थः । प्रकृताभिप्रायेणाह-धर्मैक्यादिति। अत्र मालासहोक्तिलक्षणे।

तर्हि किमस्या उदाहरणमत आह-भाग्येनेति। तन्न धर्मोपमानयोर्भेदादिति भावः।

२ उन्मीलन्तो निमीलन्त इत्यादा उन्मीलनादिपदार्थभूत-प्रकटत्वादिरूपैकोपाधिवैशिष्ट्ये- नाडभेदाव्यवसानमित्याशयः । ३ अयं भाव :- उन्मीलनं निमीलनं चेति धर्मभेदे सत्यपि पत्मपत्र-नेत्र-त्रिलोकीश्रियादीनि यानि उन्मीलन्ति तान्येव निमीलन्ति इति अलंकारघटकोपमानानामैक्यान्न मालात्वम्। धर्मों- पमानभेदे एव तत्स्वीकारात्।

Page 548

४९० काव्यमाला। [द्वितीयानने-

अत्र नीलातपत्रमणिदण्डरुचो गिरिधारणोत्तर कालिकत्वादुत्तरार्धगता पौर्वापर्यबिपर्ययानुप्राणितैव सहोक्तिर्निदर्शनानुप्राणिता च । पूर्वार्धगते तु प्रकारेद्वयेनापि संभवतः ।

इति रसगज्गाधरे सहोक्तिप्रकरणम्। अथ विनोक्ति :- विनार्थसंबन्ध एवं विनोक्ति: । हृद्यत्वं चानुवर्तते। तच विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वा- भ्यां भवति। अरमणीयत्वे यथा- 'संपदा संपरिष्वक्तो विद्यया चानवद्यया। नरो न शोभते लोके हरिभक्तिरसं विना॥'

उन्मूलितः समूलं खण्डितः । बलारेरिन्द्रस्य। एवेन श्लेषादिप्रकारद्वयव्यावृत्तिः । निद- शनेति। सदृशवाक्यार्थयोरैक्यारोपादिति भावः । गते तु सहोक्ती इति शेषः । प्रकारद्वयेनेति। श्लेषभिन्नप्रकारद्वयेनेत्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे सहोक्ति प्रकरणम् ॥ विनोकिं लक्षयति -- अथेति । 'विनार्थसंबन्ध एव' इति पाठः। तच्व हृद्यत्वं च। १ 'गिरिधरेण मणिदण्डकान्त्या सह गिरिः पाणौ धृतः' अर्थात् गिरिरपि पाणौ धृतः मणि- दण्डकान्तिरपि पाणौ धृता। अङ्गुल्युपरि गिरिधरणकाले ऊर्ध्वीकृत: कान्तिशाली बाहुस्तथा शोभते सम यथा उपरि विस्तारितस्य छत्रस्य मणिदण्डो भवेदित्याशयः । एवं च बाहौ मणिदण्ड- कान्तिरपि स्थिता गिरिश्चापि। किन्तु मणिदण्ड़कान्तिर्मणिदण्डे तिष्ठेत्, सा कथं पाणौ प्राझुया- दिति अन्य(उपमान)धर्मस्य अन्यत्र (उपमेये) आरोपात्पदार्थनिदर्शनेति पण्डितराजाशयः । सटटशवाक्यार्थयोरक्यारोपान्निदर्शनेति नागेशटीका तु आलंकारिकैरुपहसनीयत्वात फल्गु- फुंकारकल्पा। एवमेवास्मिन्पदे 'उन्मूलितः' इति पदस्य 'समूलं उत्खातः' [उत्(उत्खात)मूलं करोतीति उन्मूलयति, णिच् ] इति व्याख्या उच्चिता, 'समूलं खण्डितः' इति व्याख्या तु लोकोत्तर आविष्कारः । गोविन्देन गोवर्धनः खण्डित इति क्वापि पुराणे नाद्यावधि श्रुतम्। अहो महाशयत्वमेतस्य । २ पूर्व गिरिरुत्खातः ततः पुरंदरदर्पपरिहार इति क्रमो लङ्गित इति पौर्वापर्यविपर्ययमूला। मदस्योन्मूलनं मूलतः प्रध्वंसः, गिरेरुन्मूलनं मूलदेशादुत्खननम्। भिन्नयोरप्यनयोः स्वस्था- नत्यागादिना अभिन्नीकृतयोरुपादानमिति केवलाध्यवसानात्मिका। ३ न तु शब्दोच्चारणम्। संबन्ध्येवेति पाठस्तु 'सहार्थसंबन्धः सहोक्तिः' इति प्रक्रमविरुद्धः ।

Page 549

विनोक्ति: ] रसगङ्गाघर: । ४९१

यथा वा- 'वदनं विना सुकवितां सदनं साध्वीं विना वनिताम्। राज्यं च विना धनितां न नितान्तं भवति कमनीयम्।।' रमणीयत्वे यथा- पङ्कैर्विना सरो भाति सद: खलजनैर्विना। कटुवणर्विना काव्यं मानसं विषयैर्विना।' पूर्वा तु केवला, इयं तु दीपकानुकूला। मिश्रिता यथा- 'रागं विना विराजन्ते मुनयो मणयस्तु न। कौटिल्येन विना भाति नरो न कबरीभरः॥' अत्र प्रतिवस्तूपमानुकूला। 'त्रासैर्विना विराजन्ते शूराः सन्मणयो यथा। न दानेन विना भान्ति नृपा लोके द्विपा इव ।।' अत्र श्रेषमूलोपमानुकूला। 'यथा तालं विना रागो यथा मानं विना नृपः । यथा दानं विना हस्ती तथा ज्ञानं विना यति: ।।' पूर्व क्रियागुणादिसंबन्ध आवश्यकः इह तूपमामाहात्म्यादवगते स इति न तथा।

उद्देशकमवैपरीत्येनारमणीयत तावदुदाहरति-यथेति। सदः सभा। मानसमन्तः- करणस्। पूर्वा अरमणीयत्वोदाहृतलावच्छिन्ना। तयोरनरराजयोर्वर्णनेन तदीयत्वेन सर्वेषां प्रकृतलात्। इयं रमणीयत्वोदाहता। मिश्रिता यथेति। विनाकृतस्य वस्तुनो रम- णीयल्ारमणीयल्ाभ्यां मिश्रितेत्यर्थः । रागमनुरागं लौहित्यं च । कौटिल्येन वक्रान्तःक- रणेन वक्रतया च। त्रासो भयं दोषश्र। दानं वितरणं मदजलं च। द्विपा गजाः । अत एवाह-अत्रेति। इदं पूर्वोदाहरणेऽपि बोध्यम्। दीपकासंसष्टं विषयं प्रदर्शयन्नरमणी- यत्वे उदाहरति-यथेति। न शोभते इति सर्वत्र बोध्यम्। तालः संगीतशास्त्र प्रसिद्धो ध्वनिविशेषः । यतिः संन्यासी। सः क्रियादिसंबन्धः । तथेति। नावश्यक इत्यर्थः ।

Page 550

४९२ काव्यमाला। [द्वितीयानने-

इयं च न केवलं विनाशव्दस्य सत्त्व एव भवति, अपि तु विनाशब्दा- र्थवाचकमात्रस्य। तेन नञ्-निर्-वि-अन्तरेण-ऋते-रहित-विकल इत्यादिप्रयोगे इयमेव। 'निर्गुणः शोभते नैव विपुलाडम्बरोऽपि ना। आपातरम्यपुष्पश्रीशोभितः शाल्मलिर्यथा ।' अलंकारभाष्यकारस्तु 'नित्यसंबन्धानामसंबन्धवचनं विनोक्तिः' इत्याह। तस्य मते तु नैतान्युदाहरणानि। इदं तूदाहरणम्- मृणालमन्दानिल चन्दनानामुशीरशैवालकुशेशयानाम्। वियोगदूरीकृतचेतनाया विनैव शैत्यं भवति प्रतीतिः ।।' अत्र शैत्यस्याविनाभावेडपि विनाभावो निबद्धः । यथा वा- 'शैत्यं विना न चन्द्रश्रीरन दीपः प्रभया बिना। न सौगन्ध्यं विना भाति मालतीकुसुमोत्करः।l' अलंकारान्तरसमालिङ्गनाविभूतमेवास्या हृद्यत्वम्, न स्वतः । तेनालंकारान्तरत्वमपि शिथिलमेवेत्यपि वदन्ति । अथास्या ध्वनि :- यथा- 'विशालाभ्यामाभ्यां किमिह नयनाभ्यां फलमसौ न याभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यक्कार: श्रवणयुगलस्य त्रिपथगे यदन्तर्नायातस्तव लहरिलीलाकलकलः ।।' अन्न त्वददर्शनं विना नयनयोः, त्वल्लहरिकोलाहलश्रवणं विना

अयमेव पूर्वतो विशेष इत्यर्थः । इयं च विनोक्तिश्। आदिना ऊनादिसंग्रहः । निर्गुण इति। बह्वाडम्बरोऽपि ना पुरुषः निर्गुणः सन्नैव शोभत इत्यर्थः । चेतना बुद्धिः, तस्याः शैत्यं विनैव तेषां प्रतीतिर्भवतीत्यर्थः । शैत्यस्येति। मृणालादिभिः। सहेति शेषः । एवं रमणीयत्वे उदाहरणं दत्त्वा अरमणीयत्वे उदाहरति-यथेति। आलीढा दृष्टा। न्यका- रस्तिरस्कारः। यदन्तरिति । श्रवणयुगलान्तरित्यर्थः । लद्दर्शनं भागीरथीदर्शनम् ।

Page 551

समासोक्ति: ] रसगङ्गाघर: । ४९३

श्रवणयोश्चारमणीयत्वं फलप्रश्न-धिक्काराभ्यां व्यज्यते। तस्य च भारवं- ध्वन्यनुग्राहकत्वेऽपि ध्वनिव्यपदेश्यत्वमव्याहतम्। अन्यथानुग्राहकत्व- लक्षणसंकरोच्छेदापत्ते: । एवं च- 'निरर्थकं जन्म गतं नलिन्या यया न दष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन॥' इति कस्यचित्कवेः पद्यं विनोक्तिध्वनिरेव। परंतु परस्परविनोक्तिवशा- द्वैलक्षण्यशालि। इति रसगझ्ाधरे विनोक्तिप्रकरणम्। अथ समासोक्ति :- यत्र प्रस्तुतधर्मिको व्यवहार: साधारणविशेषणमात्रोपस्थापि- ताप्रस्तुतधर्मिकव्यवहाराभेदेन भासते सा समासोक्ति: ॥

भासमानप्रकृतधर्मिकव्यवहारत्वमिति चैकोकिः । शब्दशक्तिमूलध्वनि- वारणाय मात्रेति। तन्र विशेष्यस्यापि श्िष्टतया प्रकृतेतरधम्युपस्थापन- द्वारा तादशधर्मिकव्यवहारोपस्थापकत्वात्। एवमपि

तस्य च व्यज्यमानारमणीयतस्य च। भावेति । कविनिष्ठगभ्ञाविषयक्ेत्यादिः। अन्यथा अनुग्राहकत्वात्तव्यपदेशानङ्गीकारे। एवं च तस्य तद्यपदेश्यत्वे च। वैलक्षण्येति। पूर्वोदाहरणापेक्षयेति भावः ॥ इति रसगङ्गाधरमर्मप्रकाशे विनोक्तिप्रकरणम् ।। समासोक्ति निरूपयति-अथेति। वाक्येनोक्तमर्थ सामस्त्येनाह-साधारणेति। मात्रपददानफलमाह-शब्देति। तत्र शब्दशक्तिमूलध्वनौ। अपिना विशेषणसमु- १ अयं भाव :- कविनिष्ठगङ्गाविषयकरतिभावध्वनिः प्रधानम्। तस्य पोषकोयं विनोक्ति- ध्वनिः । पोषकत्वेपि अस्याः (विनोक्तेः) ध्वनित्वं न व्याहन्यते। यदि पोषकत्वेन ध्वनित्वं व्या- हन्येत तहिं ध्वन्योः परस्परमनुग्राह्यानुग्राहकभावरूपः संकरः उच्छिद्ेत (न पृथकपरिगण्येत), भवद्रीत्या अनुग्राहकत्वे सति व्बनित्वाभावात् ध्वन्योः संकरत्वेन व्यपदेशानवसराद। २ वाञ्छनीयसहयोगयो: कयोश्चिंदसहयोगे तौ प्रत्यमर्षादिभावध्वनिः प्रधानम्। तस्य पोषकोयं विनोक्तिध्वनिः । पोषकत्वेपि चास्य भावध्वनित्वं न व्याहतम्। अत एव-एवं चेत्या- दिना समुदाहृतम्। ३ यथा 'सज्ञो मत्प्रतिकूलात्०' अत्र व्यङ्गयार्थगोपनार्थमप्रकृतं धर्मिणम् (नृपम्) उप- स्थापयदेव राजेति विशेष्यम् अप्रकृतधर्मिकं व्यवहारम् [ राजा (चन्द्रः) ये प्रतिकूल: अत एव तन्द्यं वारय, (उपभोगं देहि) ] उपस्थापयतीति विशेष्यमपि ्रिष्टमित्यर्थः। ४२ रस०

Page 552

४९४ काव्यमाला। [ द्वितीयांनने-

'आवभ्नास्यलकान्निरस्यसितमां चोलं रसाकाङ्या- लङ्कायावशतां तनोषि कुरुषे जङ्गाललाटक्षतम् । प्रेत्यङ्गं परिमर्दनिर्द्यमहो चेतः समालम्बसे वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमत्यद्भुतम् ।।'

प्रस्तुताप्रस्तुतत्वे धर्मिविशेषणतयोपाच्ते। व्यवहारविशेषणत्वेन तयोरुपा-

स्थित एवात्र प्रकृतो वीरवृत्तान्त इति स्यादेवातिप्रसङ्गः । न चात्र राज्ञो वर्णनस्य प्रस्तुतत्वात्तदृतयोद्वयोरपि वृत्तान्तयोः प्रस्तुतत्वमिति कथमति- प्रसङ्ग इति वाच्यम्। न स्यादतिप्रसङ्ग:, यदि वर्णनमात्रं प्रस्तुतं स्यात्। तत्सङ्गामादौ वीरतामात्रवर्णनप्रस्तावे तु स्यादेवातिप्रसङ्ग: ।

च्चयः । तादृशेति । अप्रकृतेत्यर्थः । अलकाः केशाः, अलका कुबेरपुरी। चोलः कश्चुकः, देशश्र। साकाङ्कयेति पूर्वान्वयि। रसः शङ्गारः, वीरश्च। अलं कायस्यावशताम्, लङ्काया वशतां च। जङ्गाललाटसमाहारक्षतम्, जङ्घाल-लाटदेशयोरनोशं चेत्यर्थः । अहो इत्या- श्रर्ये। हे नृपेन्द्र, भवतः परिमर्दनिर्दयं चेतः प्रत्यङ्गं प्रत्यवयवं अङ्गमङ्गदेश च समाल- म्बते। वामानां सुन्दरीणाम्, वक्राणां शत्रूणां च। प्रकृतेति। राजेतर्थः। तयोः प्रस्तुतल्वाप्रस्तुतत्वयोः । तत्सङ्गामादौ राजसङ्गामादौ। मात्रवर्णनेति। वर्णनमात्रे १ प्रत्यङ्गं प्रत्यवयवं परिमर्दनिर्दयं चेतः वहसे (शृङ्गारे), अङ्गम् (अङ्गदेशम्) प्रति परितः प्रपीडननिष्ठुरं चेतः करोषीति (वीरव्यवहारे) नागेशकृतोऽर्थस्तु स्वारस्यतो मूलपाठतश्च चिरुद्धत्वादुपेक्ष्य एव। २ अत्र धर्मी(नृपेन्द्रः) पकृतः । तद्वारा प्रकृतस्य संग्रामविषयकव्यवहारस्य, अप्रकृतस्य शृङ्गारविषयकव्यवहारस्य च श्रषेणोपस्थितिः। यदि प्रकृताप्रकृतत्वे व्यवहारविशेषणे स्याताम् (अर्थात् प्रकृतव्यवहारे साधारणविशेषणमात्रबलेन उपस्थितस्य अप्रकृतव्यवह्दारस्य समारोपः समासोक्ति: इत्यर्थः स्यात्) तहिं अन्नापि प्रकृते वीरताव्यवहारे अप्रकृतस्य श्रृङ्गारवृत्ता- न्तस्य अभिन्नतया भासमानत्वमस्तीति स्यात्समासोक्तरतिप्रसङ्गः । 'प्रकृतधर्मिके व्यवहारे अप्रकृतधर्मिकस्य व्यवहारस्य समारोपः' इत्युक्तौ तु उभयवृत्तान्तयोः प्रकृतधर्मिणैव संबद्धतया (अप्रकृतधर्मिणोऽनुपस्थित्या) नातिप्रसङ्गसंभव इत्याशयः । ३ राजवर्णनप्रस्तावे द्वावपीमौ राजवृत्तान्तौ प्रस्तुतौ। ततश्च अस्तुते अप्रस्तुतस्य (व्यव- ह्यारस्य). अभिन्नतया भासनं क्वास्तीति शङ्का। राजवर्णनमात्रस्य न प्रस्तुतत्वम्, किन्तु वीर- तावर्णनमात्रस्येति तत्समाधानम्।

Page 553

समासोकि: ] रसगङ्गाघर: । ४९५

'मलिनेऽपि रागपूर्णा विकसितवद्नामनल्पजल्पेडपि। त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि॥' इत्याद्यप्रस्तुतप्रशंसायामप्रकृतव्यवहार: साक्षादुपात्तत्वाद्विशेष्येणाष्यु- पस्यापित एवेति न तत्रातिव्याप्तिः । यदि तु जलक्रीडादौ भ्रमरवृत्तान्त एव प्रस्तुतस्तदा भवत्येवेयँ समासोक्ति: ।

त्यर्थः। क्वचित्तथैव पाठः । मलिनेSपीत्यादिसप्तम्यन्तानि लयीत्यस्य विशेषणानि। उपा- त्ततं विशेष्ये अन्वेति। विशेष्येणापीति। अपिना विशेषणपरिग्रहः । तथा च विशे- षणमात्रोपस्थापितलवाभावान्नातिप्रसङ्ग इति मात्रपदस्यैव कृत्यमिति भावः । ननु तर्हि किमिति द्वितीयमिदं दत्तमत आह-यदि त्विति। समासोक्तावप्रस्तुतवृत्तान्तसमारोप एव चारुताहेतुरिति प्राश्चः। तेषामयमाशयः-अयमन्द्रीत्यादौ श्िष्टविशेषणप्रतीतप्रस्तु- ताप्रस्तुतवृत्तान्तयोः श्लेषभित्तिकाभेदाव्यवसायेनाभिन्नयोः प्रस्तुतचन्द्रादिवृत्तिता। तत्र तयोरवृत्तान्तयोः परस्परं विशेष्यविशेषणभावे कामचारेऽपि प्रस्तुतवृत्तान्तो विशेष्यः। त- द्वोधकबोध्याप्रस्तुतस्तु अभेदेन तद्विशेषणम्। एवं चाप्रस्तुताभिन्नप्रस्तुतस्य चन्द्रेणान्वयः। तत्र यद्यपि प्रस्तुतस्य सवासाधारणधर्मेण चन्द्रेऽन्वययोग्यतास्ति तथाप्यप्रस्तुताभेदमाप- नस्य न सास्तीति तद्रूपावच्छिन्नस्य तस्याप्रकृते धर्मिण्यारोपः। एवं चाप्रस्तुतव्यवहारस- मारोपपदेन प्रस्तुतव्यवहारसमारोपपदेन च प्रस्तुतव्यवहारतादात्म्यापन्नसमारोप उच्यते। न च तत्तादात्म्यापन्नलेऽपि विशेष्यतायाः प्रस्तुते एव सत्त्वेनारोपं विनाप्यन्वययोग्य- तेति वाच्यम्। दगब्जेन वीक्षते इत्यादौ विशेष्यस्य स्वरूपेणेतरान्वयायोग्यस्येतरतादा- तम्यापत्या तद्योग्यत्ववत्स्तोऽन्वययोग्यस्यापीतरतादात्म्यापत्त्या तदयोग्यत्वस्यापि सत््वात्। न च रूपकवत्समासोक्तावपि प्रस्तुतेऽप्रस्तुतरूपसमारोप एव चारुताहे- तुरस्तु। तद्वाचकपदसमभिव्याहाराभावेन तस्यासंभवात्। न चाक्षिप्तनायकादिना आक्षि- सरूपकं भवतु। 'निरीक्ष्य विद्युन्नयनैः पयोदः' इत्यन्न पयोदे द्रष्टपुरुषरूपकाक्षेपकनि- रीक्षणवदाक्षेपकाभावात्। न च विशेषणसाम्यप्रतीताप्रकृतवृत्तान्त एवाक्षेपकोऽस्तु। अप्रस्तुतस्य प्रस्तुते विशेषणतया तस्य प्राधान्याभावेनानाक्षेपकलवात्। एतेनाक्षेपासंभवे- डपि परनायिकामुखचुम्बनस्य श्लेषमयोदया प्रतीतस्य प्रकृतधर्मिणि चन्द्रे आरोप्यमा- णस्य जारासाधारणधर्मलेन प्रकृतधर्मिणि जारत्व्यञ्ञकता सुवचा। न च चन्द्रे जार- लारोपमन्तरेणापि जारव्यवहारारोपसिद्धिरनुपपत्त्यभावान्न जारत्वं गमयेदिति वाच्यम्। १ अप्रस्तुतस्य भ्रमरस्य वर्णनमिदं प्रणयिन्यनुगम्यमानचपलनायकवृत्तान्तपरतया अप्र- स्तुतप्रशंसा। २ यदि तु जलक्रीडादौ संमुखोपस्थितं भ्रमरमालम्ब्य चपलनायकपरतया तदिदम- भ्यधीयत तर्हि तु प्रस्तुतो धर्मी (भ्रमरः) यत्र ईदृशोयं व्यवहारः मलिन-रागादिसाधारणवि- शेषणोपस्थिताSप्रस्तुतधर्मिक(नायक)व्यवहाराभिन्नतया प्रतीयत इति समासोक्तिरेवेत्याशयः।

Page 554

४९६ काव्यमाला। [द्वितीयानने-

व्यक्जनाया अनुपपति विनापि प्रसरात्। 'गतोऽसतमर्क' इत्यादौ तथैव दर्शनात्। अन्यथा अर्थापत्या गतार्थलेन व्यञ्ञनावयर्थ्यप्रसङ्गादित्यपास्तम् । किं चैवं सति वाच्यार्थ- बोधोत्तरं तद्यक्न्यप्रतीतिः । सापि न केवलव्यवहारमात्रात्। अपि तु तादृशनायक नायिकासंबन्धविशिष्टव्यवहारज्ञानात्। एवं च वाच्यार्थबोधकालिकचमत्कारबीजमात्र- म्र निरूप्यते इत्यदोषः । अपि च तादृशव्यङ्ञयस्याधिकचमत्कारकारित्वेन ध्वनिव्यव- हारयोग्यता नालंकारशरीरघटकता। एवं च समासोक्तेस्ताद्दशध्वन्युपस्कारकतयाधिक चमत्कार कारितमलंकारत्वं च। न चैवं समासोक्तौ रूपकध्वनिनैव निर्वाहे पृथगलंकारखं न स्यादिति वाच्यम्। वाच्यार्थबोधकालिकचमत्कारस्यापह्रोतुमशक्यलेनालंकारत्वस्य दुर- पह्वलाद। विपरीतं नायकत्वारोपव्यञ्जनस्य समासोक्तन्तभोवं वदतो ध्वनितस्य दुर्वारताच्च। तद्यङ्ञयस्याधिकचमत्कारकारित्वेन प्रधानलात्। न च श्लिष्टशब्दोपस्थापि- तयोर्वृत्तान्तयोः परस्परमभेदेनान्वये मानाभावः । सहृदयहृदयस्यैव प्रमाणलात्। अत एव 'आगत्य संप्रति वियोगविसंष्ठुलाङ्गीम्' इत्यत्रार्थशक्तिमूलो नायकनायिकावृत्तान्तो वाच्यरविकमलिनीवृत्तान्ताध्यारोपेणैव स्थित इदि प्रदीपकृतः। प्राचीनानुभवमपलप्यापि यद्येकत्र द्वयमिति रीत्या प्रस्तुताप्रस्तुतवृत्तान्तयोर्विशेष्येणैवान्वयः स्वीक्रियते एवमपि वाक्यार्थबोधकाले प्रस्तुते धर्मिणि नाप्रस्तुतजारतारोपप्रत्याशा। तथाहि यद्यप्यनयोर्भि- नपदोपात्तविशेषणयोरिव विशेष्येणैव साक्षादन्वयात्समप्राधान्यमस्तीति स्ीक्रियते तथाप्य- प्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुतेऽप्रस्तुतरूपसमारोपः। प्रस्तुतेऽप्रस्तुतवृत्तान्तारोपे- णैव सिद्धेः। अप्रस्तुतरूपसमारोपेऽपि प्रस्तुतवृत्तान्तान्वयायोग्यतायास्तदवस्थलाच्च। नन्वेवं सति विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिरिति प्राचीनलक्षणासंगतिः । अप्रस्तुतधर्मव्यञ्जनस्य त्यानपेक्षणादिति चेतू, न। स्वरूपतोऽप्रस्तुतवृत्तान्तारोपस्याच- मत्कारितमू किं तप्रस्तुतकामुकादिसंबन्धितेनावगम्यमानस्यैव तस्यारोपः । अतः श्ेषा- दिमहित्रा विशेषणपदः सरूपतः समर्पितेन चुम्बनादिना ऐन्द्री चन्द्र इत्येतद्रतस्त्रीलिङ्ग- पुंलिज्वसहकृतेन तत्संबन्धिनि कामुकादावभिव्यक्ते पुनस्तदीयत्ानुसंधानात्। विशेषण- साम्येन वाच्योपस्कार कस्याप्रस्तुतव्यञ्ञनस्याक्षेपणात्। अप्रस्तुतस्येत्यस्याप्रस्तुतव्यवहार स्ये- त्यर्थों वा। एतेन वदनचुम्बनस्य पुत्रादिसाधारण्यात्कथं कामुकाभिव्यञ्जकल्वम्। किं च 'अहर्मुखं चुम्बति भानुबिम्बम्' इत्यन्नापि नायकाद्यभिव्यक्त्यापत्तिरित्यपास्तम् । यत्तु चन्द्रऐन्द्रीपद्गतलिङ्गाभ्यामभिव्यक्तनायकयोः स्वव्यञ्ञकपदोपस्थापिताभ्यामभेदेनैवा- न्वय उचितः समानपदोपात्तत्वप्रत्यासत्तेरिति, तन्न। एवं हि वदता व्यवहारावच्छेदकत्वं तयो: सवीक्रियते न वा। आद्ये एकस्यार्थस्योभयत्रान्वयोऽव्युत्पत्तिग्रस्तः । अन्त्ये रसान- नुगुणलम्। यद्यप्यैन्द्यादौ नायिकालाभाने केवलं व्यवहारावच्छेदकतमात्रस्वीकारे बाधः। नायिकालानालीढकेवलैन्द्रीमुखचुम्बनरूपस्य व्यवहारस्य नायकासंबन्धिलात्। नहि दिक्तादात्म्यं विना नायिकाया: पृथड्ुखं विशेषयितुं सामर्थ्यमस्तीति, तदपि न। मुख- शब्दश्लेषसामर्थ्येन ऐन्द्रीमुखमित्यस्य समस्तत्वेऽपि ऐन्दंशे मोषेण केवलमुखचुम्बनस्यो- पस्थितेः। तदेतदुक्तं कुवलयानन्दे-शलेषादिमहित्रा स्वरूपतः समर्पितेन वदनचुम्बना- दिनेति। नह्यैन्द्रीपदशब्दार्थेन दिग्रूपेण वदनरूपमुखपदार्थस्यान्वयो वकुं शक्यः सहृदयैः।

Page 555

समासोक्ति: ] रसगङ्गाघर:। ४९७

तत्र तावत्- 'विबोधयन्करस्पर्शैः पद्मिनीं सुद्रिताननाम् । परिपूर्णानुरागेण प्रातर्जयति भास्करः ॥।'

नन्वेतादृशकुसृष्टिकल्पनापेक्षया विशेषणसाम्यमहित्रा प्रतीतोSप्रकृतवाक्यार्थः स्त्रीलिङ्गपुं- लिङ्गाभ्यामभिव्यक्तनायिकाद्यभिन्नचन्द्रादिघटित प्रकृतवाक्यार्थे स्वावयवतादात्म्यापन्नतद- वयवोऽवतिष्ठते इत्येव कल्पयितुं युक्तम्। एवं च नायिकाभिन्नइन्द्रदिशासंबन्धिवदनाभिन्न- प्रारम्भकर्मकचुम्बनरूपसंवन्धाश्रयो नायकाभिन्नश्चन्द्र इति बोध इति चेत्, न। एवं हि ऐन्द्रां नायिकाभेदप्रतीतौ सुखचुम्बना दो वदनचुम्बनाद्यमेदप्रतीतावपि वदनचुम्बने साक्षा- न्नायिकार्थसंबन्धाप्रतीत्या रसोद्वोधानापत्तेः । न च व्यञ्ञनया तत्प्रतीतिरस्त्येव, यस्मिन् यदभेदः तत्संबन्धिनि तत्संबन्ध्यभेद इति न्यायेन वा मानसिकी तत्प्रतीति: तत एव चम- त्कार इति वाच्यम्। तदपेक्षया साक्षाच्मत्कारोपपादकवाच्यार्थबोधव्युत्पादनस्यैवाचि- लातू। ननु व्यञ्ञनया अप्रकृतार्थबोधः । शक्त: प्रकरणादिना नियन्नणात्। ततो व्यज्ञन- माहात्म्यादेव प्रकृतवाक्यार्थतादात्म्येनावतिष्ठते इति चेत्, तर्हि वैयञ्जनिकोSप्रकृतार्थबोधो नायिकाद्यविशेषितो विशेषितो वा ? नायः। रसाननुगुणलात्। अन्त्ये सपदोपस्थापिताभ्यां लिज्ञाभ्यां नायिकाद्यभेदबोधो व्यर्थोऽसंभवी च। नायिकाविशेषणकव्यवहारबोधनेन कृतार्थलात्। अपि च तथा सति जारकर्तृकसानुरागपरनायिकामुखचुम्बनाभिन्नप्राचीप्रा- रम्भसंयोगाश्रयो जाराभिन्नश्चन्द्र इति बोधकदर्थनमेव स्यात्। तस्माद्यञ्जनया शक्त्ा वा उपस्थिताप्रस्तुतवृत्तान्तेन व्यञ्ञनयोपस्थितनायका दिसंबन्धिलेन गृहीतेनाभेदमापन्नः प्रस्तु- तवृत्तान्तारोपः । प्रकृतविशेष्ये नव्यमते श्लेषस्थलेऽप्रकृतोपस्थितेः शक्तैव व्यवस्थापयि- ष्यमाणत्वेन तन्मते शक्तैवाप्रकृतार्थोपस्थितिः । प्राचां तु व्यञ्जनयेत्येतावान्विशेषः । एवं च वाच्यार्थबोधोत्तरं यदि चन्द्रादौ नायकत्वादिप्रतीतिरपि सहृदयानुभवसाक्षिकी तदास्तु इत्युपपादितभेव प्राक्। एतेन 'निर्लक्ष्मीकाभवत्प्राची प्रतीचीं याति भास्करे। प्रिये विपक्षरमणीरक्ते का मुदमश्चति ॥' इत्यत्र पूर्वार्वगतायां समासोक्तौ नायकत्वाप्रतीता- वुत्तरार्धे प्रियत्वादिना समर्थनायाः सर्वथवानुपपत्तिरिति परास्तम्। प्रस्तुतप्राचीवृत्तान्ते आरोप्यमाणाप्रस्तुतखण्डितनायिकाविशषवृत्तान्तसमर्थनाय तस्यावश्यकत्वाच्च। एवं च सानुरागपरनायिकामुखचुम्बनाभिन्नप्राची प्रारम्भसंयोगाश्रयश्चन्द्र इतेव बोधः । एतेन अयमैन्द्रीत्यादौ शक्तिव्यञ्ञनाभ्यां प्राचीप्रारम्भसंबन्धाश्रयश्चन्द्रो जारसंबन्धिसानुरागपर- नायिकामुखचुम्बनाश्रय इति बोधः। अप्रस्तुतवृत्तान्ताभिन्नत्वेनाध्यवसितस्य प्रस्तुतवृत्ता- न्तस्य तादात्म्येनाप्रस्तुतारोपविषये प्रस्तुतधर्मिण्यन्वय इति मते तु सानुरागपरनायिका- मुखचुम्बनाभिन्नप्राची प्रारम्भसंयोगजाराभिन्नश्चन्द्र इति बोध इत्यपास्तम्। समासोकिर्गु- णीभूतव्यक्कयेति व्यवहारस्तु प्रकृतव्यवहारेSप्रकृतव्यवहाराभेदस्य व्यञ्ञनया प्रतीतेर्निर्बाध एवेति दिक्। तन्र उदाहरणीयसमासोक्तौ। तावतू आदौ। अस्य इत्यत्रेत्यनेना-

Page 556

४९८ काव्यमाला। [द्वितीयानने-

दभिन्नो भास्करो जयतीति वाक्यार्थः शक्तैव तावत्प्रतीयते। हस्तस्पर्श- करणक-नायिकाविशेषकर्मकानुनयानुकूलव्यापारवद्भिन्न इत्यादिश्चा- परोऽर्थ उभयत्रानुषक्तया तयैव शक्त्ा, शक्त्न्तरेण व्यक्त्ा वा सर्वथैव प्रतीयत इत्यत्र सहृदया एव प्रमाणम्। एवं च द्वाविमौ वाक्यार्थौ सव्ये- तरगोविषाणवदृत्यन्तासंसृष्टौ यदि स्यातां तदा भगवतो भास्करस्य कामु- कत्वं कमलिन्या नायिकात्वं च सकलप्रतीतिसिद्धं विरुद्धं स्यात्। द्विप्रंधा- नत्वेन वाक्यभेदृ्चापद्येत। यदि चापरोऽर्थः प्रकृतकर्तर्यारोप्यते तदा कमलिनीविकासकर्ता नायिकानुनयकर्ता च सूर्य इत्येकन्र द्वयमिति विष- यताशाली बोधः स्यात्, न तु पूर्वोक्तानुपपत्तिपरिहारः। यदि च श्रलेष- मूलाभेदाध्यवसानेन कमलिन्यादीनां नायिकात्वादिप्रत्यय उपपादते तथा- व्यश्लिष्टपदोपस्थितो भगवान्नायकत्वानाघ्रात एव। पद्मिनीशब्दस्थाने नलि- नीशब्दोपादाने सापि नायिकात्वेन कथ नाम प्रतीतिपथमियात्?। तस्मा- द्विशेषणसाम्यमहिस्रा प्रतीतोSप्रकृतवाक्यार्थः स्वानुगुणं नायिकादिमर्थमा- क्षिप्य तेन परिपूर्णविशिष्टशरीरः सन् प्रकृतवाक्यार्थे स्वावयवतादात्म्या-

न्वयः । नैयायिकमतेनाह-किरणेति । तावत्प्रतीयते आदौ प्रतीयते। नायि- काविशषेति। खण्डितेत्यर्थः । आदिना नायकपरिग्रहः। अनुषक्तया संबद्धया। तयैव पूर्वार्थबोधिकयैव। तस्य नियन्रणादाह-शक्त्यन्तरेणेति। अस्यापि दुर्वचत्ा- दाह-व्यक्त्या वेति। व्यज्नयेत्यर्थः। एवं च उभयप्रतीतौ च। वैयाकरणमतेनाह -द्विप्रधानेति। वाक्यभेदमुद्धरति-यदि चेति। बोधः स्यादिति। तथा च न वाक्यभेद इति भावः । एवमपि प्रथमदोषानुद्धार एवेतयाह-न त्विति। तमप्यु- द्धरति-यदि चेति। अन्विष्टति । भास्करेतीत्यर्थः । भगवान्सूर्यः । दोषान्तर- माह-पद्मिनीति। पद्मिनीशब्दवन्नलिनीशब्दस्याश्िष्टत्वादिति भावः । तेनेति। आक्षिप्तनायिकादर्थेन। यतः परिपूर्णमत एव विशिष्टं शरीरं यस्यत्यर्थः । १ पृथक् पृथक् सूर्य-नायकोभयतात्पर्यवत्तया वाक्यद्वयं कल्प्येतेत्यर्थः २ यदि वाक्यार्थौं परस्परमसंसृष्टौ स्यातां तदा सूर्य-कमलिन्योः नायक-नायिकात्वप्रती- तिर्न स्यादित्येको दोषः । वाक्यमेदापत्तिरिति द्वितीयः । 'एकत्र दयम्' (सूर्यें एव कमलिनी- विकासकतृत्वम्, नायिकानुनयकर्तृत्वं चारोप्यते) तदा वाक्यमेदरूपस्य द्वितीयदोषस्य परि- द्ारेपि सूर्यांदेर्नायकत्वाद्यप्रतीतिरूप: प्रथमदोषस्तदवस्थ छवेत्याशयः ।

Page 557

समासोक्ति: ]- रसगङ्गाघर:। ४९९

पन्नतद्वयवोऽभेदेनावतिष्ठते। स च परिणाम इव प्रकृतात्मनैव कार्यो- पयोगी, स्वात्मना च रसादुपयोगी। अन्न चाप्रकृतार्थस्य पृथक्शव्दातु- मादानाद्रूपकाद्वाक्यार्थसंबन्धिनो वैलक्षण्यम्, पदार्थरूपकात्तु स्फुटमेवं। आक्षिप्तार्थघटितत्वाच्च वाक्यार्थश्लेषात्। एवं चात्र शक्त्याक्षेपाभ्यां सर्वार्थनिर्वाह इति भामहोद्भटप्रभृतीनां चिरंतनानामाशयः । 'निशामुख चुम्बति चन्द्र एषः' इत्यादौ निशाचन्द्रशब्दयोरश्लिष्ठत्वान्मुख- स्वेति। अप्रकृतवाक्यार्थेत्यर्थः। एवमग्रेऽपि तदिति । प्रकृतवाक्यार्थेत्यर्थः । सच अप्रकृतवाक्यार्थश्च। स्वात्मना चेति। चस्तरथे। रूपकाद्भेदकं प्राह-अत्र चेति समासोक्तौ चेत्यर्थः। स्फुटमेवेति। अस्या वाक्यार्थनिष्ठत्वादिति भावः । वैलक्षण्य- मित्यस्यानुषङ्गः । एवमग्रेऽपि । उपसंहरति-एवं चेति। उक्तदोषे चेत्यर्थः । क्वचित् ऋलषाभावेऽपि। प्रकारान्तरेण, न विशेषणसाम्यात्तदर्थप्रतीतिः, तत्राक्षेपाभावेनानिवाहो भामहादीनां मते इति सूचयितुमाह-निशेति। कादाचित्कसंभवादाह-नियतेति। १ वाक्यार्थसंबन्धिनो रूपकाद्वैलक्षण्यमित्यन्वयः । वाक्यार्थरूपके अप्रकृतार्थः (उपमानम्) पृथकूशब्दोपात्तो भवति, यथा 'त्वत्पादनखर लानि०' इत्यादौ। २ मुखचन्द्र इत्यादौ एकसिमिन् पदार्थे अपरपदार्थस्यारोप इति पदार्थरूपकं पदार्थनिष्ठम् । समासोक्तिस्तु वाक्यार्थनिष्ठेति। ३ तन्मतस्यायं सार :- विशेषण[ यथा 'विबोधयन्०' अत्र विबोधन-करस्पर्श- नलिनी-मुद्रिताननादि ]साम्येन अप्रकृतवाक्यार्थस्य [खण्डितानुनयकर्तृ-नायकवृत्तान्तस् ] प्रतीतिः। प्रतीयमान: अप्रकृतवाक्यार्थश्च रसानुगुण्यानुरोधेन स्वानुकूलं विशेष्यम् (धर्मिणम्, नायकनायिकादिकम्) आक्षिपति। ततश्च करस्पर्शकरणकं बोधनं नायक-नायिकासंवन्धित्वेन गृह्यते। अर्थात् प्रकृतवाक्यार्थावयवाः [ सूर्य-पझमिनी-करादयः ] अप्रकृतवाक्यार्थावयवाSभिन्नाः (नायक-नायिका-हस्तादिरूपाः) प्रतीयन्ते। प्रतीयमान: अप्रकृतवाक्यार्थः प्रकृतवाक्यार्थाभिन्नः परिणमतीति निष्कर्षः । अप्रकृतवाक्यार्थश्च प्रकृतवाक्यार्थरूपत्वेन कार्योपयोगी (वाच्यार्थनिर्वाह- कः) । स्वस्वरूपेण (अप्रकृतत्वेन) तु रसादिप्रत्यायकः, नायक-नायिकावृत्तान्तस्यैव शरङ्गार प्रत्या यकत्वात्। एवं च 'हस्तस्पर्शकरणक-नायिकाविशेषकर्मकानुनयानुकूल व्यापार वन्नायकाभिन्नः किरणस्पर्शकरणक-मुकुलितपझ्मिनी कर्मकानुनयानुकूलव्यापाराश्रयो भास्करः' इति बोधः। ४ अस्मिन् भामहादीनां मते-'श्रिष्टविशेषणैः अप्रकृतवाक्यार्थस्य अ्तीतिः। अग्रकृतवा- क्यार्थ: (मुखचुम्बनादिः) च रसानुगुण्येन नायक-नायिके आक्षिपति। ततश्च अप्रकृतवा- क्यार्थ: प्रकृतवाक्यार्थात्मको भवति'। किन्तु क्रषाभावस्थले ('निशामुखम्' इत्यादौ) न निर्वाहः । तस्मात् 'स्त्रीत्व-पुंस्त्वाभ्याम् (टाप-प्रथमाविभक्तिभ्याम्) नायक-नायिकात्वाभि- व्यक्तिर्भवतीति व्यञ्जनाव्यापारेणव (न तु आक्षेपेण) अप्रकृतार्थप्रतीतिः । प्रकृतवाक्यार्थश्च अप्रकृतवाक्यार्थात्मको भवति' इति संशोधनमुपस्थापयति-'निशामुखं चुम्बति०' इत्यादिना ।

Page 558

काव्यमाला। [द्वितीयानने-

चुम्बनमात्रस्य च पुन्रादिसाधारण्येन कथं तावन्नियतनायकाक्षेपकत्वम्, कथं वाऽडक्षिप्रस्यापि नायकादेर्निशाचन्द्रयोरेवाभेदेनान्वयः, न भेदेन चुम्बनादौ। तथात्वे च तयोर्नायकताताटस्थ्ये रसानुद्वोधापत्तेः । तस्मात् 'निशामुखं चुम्बति चन्द्रिकैषा', 'अहर्मुखं चुम्बति चण्डभानु:' इत्यादा- वप्रतीयमानं नायकत्वं प्रकृते टाप्प्रथमाभ्यां प्रतिपादितेन प्रक्ृृत्यर्थगतेन स्त्रीत्वेन पुंस्त्वेन च स्वाधिकरण एवाभिव्यज्यते। एवं च निशाशशिनोर्नाय- कत्वसिद्धिः श्िष्टविशेषणैः, व्यञ्जनव्यापारेणैवाप्रकृतार्थबोधनम्, शक्ते: प्रकरणादिना नियत्रणात्। तदित्थं व्यञ्ञनमाहात्म्यादेवाप्रकृतवाक्यार्थ- तादात्म्येन प्रकृतवाक्यार्थोऽवतिष्ठते। गुणीभूतव्यङ्गयभेदश्चायमिति तु रमणीयः पन्थाः । अलंकारसर्वस्वकारस्तु-'विशेषणसाम्याद्वि प्रतीयमानमप्रस्तुतं प्रस्तु- तवच्छेदकत्वेन प्रतीयते। अवच्छेदकत्वाच्च व्यवहारसमारोपः, न तु रूपसमारोपः । रूपसमारोपे त्ववच्छादितत्वेन प्रकृतरूपरूपित्वाद्रूपकमेव स्यात्' इत्याह। तदेतदुक्तिमात्ररमणीयम्। अप्रकृतव्यवहारः प्रकृतकर्तरि नायकादिकस्वकर्तृविशेषित आरोप्यते तद्विशेषितो वा ? नादः । एवं च सति चन्द्रादेनायकव्यवहाराश्रयत्वेन नायकसाम्यं सिध्येत्। तच् श्रेषादि- ननु कादाचित्क एवास्तामत आह-कथं वेति। आक्षिप्स्याक्षेपकेणैवान्वयनियमादिति भाव:। इष्टापत्तिं निराचष्टे-तथात्वे चेति । भेदेन मुखचुम्बनादावन्वये चेत्र्थः । तयोः निशाचन्द्रयोः। नायकेति। 'सत्रीपुंवच्च' इत्येकशेषः। एवमग्रे सर्वत्र। व्यतिरेकं दशयति-निशामुखेति। स्वाधीति। स्त्रीलपुंस्त्वाधिकरण एवेत्यर्थः। नन्वेवं क्वचिदाक्षेपेण क्वचिद्यज्नया निर्वाह इति वैरुप्यं स्यादत आह-श्विष्टेति। तैरपी- त्यर्थ: । एवेनाक्षेपव्यावृत्तिः । ननु शक्तैव कुतो नात आह-शक्तरिति। शक्तन्तरं तु दुर्वचमिति भावः । इदं मतमुपसंहरति-तदिति। एवः प्राग्वत्। व्यङ्ञयाप्रकृतवा- क्यार्थस्य प्रकृतपरिपोषकत्वादाह-गुणीति। तुर्भामहादिमतवैलक्षण्यसूचकः । स्वेति। अप्रकृतव्यवहारेत्यर्थः । चो ह्यथे। यत इति तदर्थः । व्यवहाराश्रयत्वे- नेति। सजातीयव्यवहाराश्रयलेनेत्यर्थः । तदाश्रयत्वस्य ब्रह्मणापि दुर्वचत्वादिति भावः । अत एवाह-नायकसाम्यमिति। तच्ब साम्यं च। विशेषणले सतीति शेषः । एवं १ प्रस्तुतस्य असाधारणधर्मरूपेण। अर्थात् अप्रस्तुतव्यवह्दारावच्छिन्नं प्रस्तुतम् (नायक- व्यवहारावच्छिन्नो भास्करः) प्रतीयत इति यावत्। २ नायकादिरूपो यः स्वस्य (अप्रकृत- व्यवहारस्य) कर्ता तेन विशेषितः विशेषणयुक्तः (कर्तृविशेषणकः)?। ३ नायकव्यवहारा- त्रयो नायक एव भवेत, न चन्द्रः । ततश्च नायकसदृशव्यवहाराश्रयश्चन्द्रः इति वक्तर्व्य स्यातू। एवं च चन्द्रे नायकसाम्यं संपन्नमित्याशयः ।

Page 559

समासोक्ति: ] रसगङ्गाघर: । ५०१

भित्तिकाभेदाध्यवसायेन व्यवहाराभेदं प्रतिपिपाद्यिषतः कवेरनभिप्रेत- मेव। अभिप्रेतं तु नायकत्वम् । तच्च नायकस्य व्यवहारविशेषणत्वे न सिध्यति। किं च 'निशामुखं चुम्वति चन्द्रः' इत्यत्र चन्द्रे नायकव्यव- हारसमारोप एव, न नायकत्वारोप:। एवमेव निशायामपि न नायिका- त्वारोपः, तुल्यन्यायत्वात्। एवं च मुखचुम्बनमात्रस्य नायिकानिर्मु- कस्यासुन्दरत्वान्नायकासाधारणव्यवहारत्वायोगाच्च किमारोपेण? यदि च निशायां स्त्रीलिङ्गव्यङ्गयं नायिकात्वमिति निरीक्ष्यते तदा चन्द्रगतपुंलिङ्ग- व्यङ्गयं नायकत्वेमपि निरीक्ष्यताम्। न द्वितीयः । नायकसंबन्धित्वेना- ज्ञातस्य मुखचुम्बनमात्रस्याहृद्यत्वात्। 'तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्' इति निदर्शनातो वैलक्षण्यायास्मदुक्तवैधर्म्यस्यैवास्थेयत्वाच्च। शिष्टमनुपद्मेव वक्ष्यामः । यन्तु सर्वस्वकाराज्ञानुवर्तिना कुवलयानन्दकृता सपूर्वपक्षसिद्धान्तमु- क्तम्-"अत्न च विशेषणसाम्यात्सारूप्याद्वा यद्प्रस्तुतवृत्तान्तस्य प्रत्यायनं

सति व्यवहारसमारोपः क्वचिद्यर्थः स्यादित्याह-किं चेति। व्यवहारसमारोप एवे- ति। तया वाच्य इति शेषः । एवव्यावर्त्यमाह-न नायकेति। रूपसमारोपस्य तया- नङ्गीकारादिति भावः । तथा सति दोषमाह-एवं चेति। व्यवहारमात्रारोपे चेत्यर्थः। नायिकेति। नायिकाऽसंबद्धस्येत्र्थः । नायकासाधारणेति। मुखचुम्बनस्य पुत्रा- दिसाधारण्यादिति भावः । इमं दोषमुद्धरति-यदि चेति। निरीक्ष्येति। तथा च रूपसमारोपो नेति लदुक्तिरसंगतेति भावः । असमदुक्तति। अन्र चाप्रकृतेत्यादिनोक्ते- त्यर्थः । अत्र समासोक्ती च। विशेष्ये चन्द्रादौ। सर्वथैव आरोपानारोपान्यतरविधया।

१ भवता नायकव्यवहारः समारोप्यते, न नायकत्वम्। नायिकानिर्मुक्तं मुखचुम्बनमात्रं न नायकस्यासाधारणो धर्मः । ततश्च यावन्नायकनायिकात्वप्रतीतिर्न भवेत्तावद्रसप्रतीति: कुतः स्यात् ?। २ नायिकात्वारोपवत् नायकत्वमप्यारोप्यतामित्याशयः । ३ निदर्शनायां शब्दोपात्तयोईयो: (पदार्थ-वाक्यार्थयोः) आथोडमेदः । समासोक्तौ तु. एक: (प्रकृतवाक्यार्थः) शब्दोपात्तः, अन्यो न। अनयोरभेदः । इति निदर्शना-समासोत्तयो- वैलक्षण्यम्। तथा च समासोक्तौ रूपसमारोपस्वीकारेपि 'रूपके द्योरुपात्ततवम्, समासोक्तौ तु प्रकृतस्यवोपात्तत्वमिति' द्वयोवैंधर्म्य स्वादित्याशयः ।

Page 560

५०२ काव्यमाला। [द्वितीयानने-

तत्प्रकृते विशेष्ये तत्समारोपार्थम्। सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भ गोचरत्वायोगात्। तत्च समासोक्ताव प्रस्तुतव्यवहारसमारोपश्चारुता- उुः । न तु रूपक इव प्रस्तुते अप्रस्तुतसमारोपोऽस्ति। 'मुखं चन्द्रः' इत्यत्र मुखे चन्द्रत्वारोपहेतुचन्द्रशब्दसमभिव्याहारवत् 'रक्तश्चुम्बति चन्द्रमाः' इत्यादौ समासोक्त्युदाहरणे चन्द्रादौ जारत्वाद्यारोपहेतोस्तद्वा- चकपद्समभिव्याहारस्याभावात्। न चेह 'निरीक्ष्य विदुन्नयनैः पयोदो मुखं निशायामभिसारिकायाः' इत्यत्र निरीक्षणानुगुणनयनोपादानं यथा पयोदस्य द्रष्टपुरुषत्वस्य गमकं तथा किंचिज्जारत्वस्यास्ति। न वा 'त्वय्या- गते किमिति वेपत एष सिन्धुस्त्वं सेतुमन्थकृदतः किमसौ बिभेति' इत्यत्र सेतुमन्थकृतत्वं विष्णोः कार्य यथा राज्ञो विष्णुत्वस्य तथा किंचिद्- स्ति। तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारुताहेतुः। यद्यपि विशेषणसमर्पितयोद्वयोरप्यर्थयोरविशिष्टं प्राधान्यम्, तथाप्य- न्यतराश्ये धर्मिण्यन्यतरारोपस्यावश्यकत्वे, श्रुते प्रकृतव्यवहारधर्मिण्ये- वाप्रकृतव्यवहारस्यारोप उचितः । तस्य च स्वरूपतो ज्ञातस्यारोपे चारुत्वा-

रोप:। कामुकादेश्च पदादनुपस्थितस्यापि चुम्बनादिना व्यञ्जितस्य व्यव- हारविशेषणत्वम् । तस्मात् 'अयमैन्द्रीमुखं पश्य रक्त्तश्चुम्बति चन्द्रमाः' इत्यत्र जारसंबन्धिताहशचुम्बनरूपव्यवहाराश्रयश्चन्द्र इत्येव बोधः"इति।

कविसरम्सेति। सप्रतीत्युद्देश्यकशब्दसंदर्भरूपकविव्यापारेत्यर्थः । फलितमाह-तत- श्चेति। अप्रस्तुतेति। अप्रस्तुतसंबन्धिव्यवहारेत्यर्थः । अप्रस्तुतेति। अप्रस्तुतरू मेत्यर्थः । तद्वाचकेति। जारवाचकेत्यर्थः । एतेन शाब्द आरोपो न संभवतीत्युक्तम्। नन्वाक्षिपनायकादिना आक्षिप्रूपकं भवतत आह-न चेहेति। अस्तीत्यत्रान्वयः । इह रक्त इत्युदाहरणे। जारेत्यस्य गमकमित्यस्यानुषङ्गः। एवमग्रेऽपि विनिगमकमाह- श्रुते इति। तथा च श्रुतप्रस्तुतार्थोपस्कारकतया विच्छित्तिविशेषशालिलमिति १ राज्ो विष्णुत्वस्य यथा गमकं तथा न किंच्िदस्तीत्यनुषङ्गः । २ अप्रकृतव्यवहाराश्रये धर्मिणि (अप्रस्तुते) प्रकृतव्यवहारस्य, प्रकृतव्यवहाराश्रये धर्मिणि (प्रस्तुते) अप्रकृतव्यवहारस्य वा आरोप आवश्यकः। अनारोपेण कस्याप्यन्वयां भावे तु असंबद्धाभिधानप्रसङ्गापत्तेरित्यर्थः ।

Page 561

समासोक्ति: ] रसगङ्गाघर: । ५०३

तद्गेतत्सर्वमसंगतम्। यत्तावदुच्यते 'मुखं चन्द्रः' इत्यत्र मुखे चन्द्रत्वा- रोप इति, तन्न। नामार्थयोरभेदेनैवान्वयान्मुखे चन्द्रतास्यारोपः, न चन्द्रत्वस्य चन्द्रविशेषणस्य। यदप्युच्यते जारादिपदसमभिव्याहारस्य हेतो- र्विरहान्न चन्द्रादौ जारत्वारोप इति। तन्न श्रौतारोपे तादृशसमभिव्याहा- रस्य हेतुत्वम्, न त्वार्थारोपे। अन्यथा रूपकैध्वनेरुच्छेदापत्तेः । न च रूपकध्वनावारोप्य माणासाधारणधर्मोक्तिरारोप्यमाणतादात्म्यव्यञ्जिका, न चेह तथा किंचिदस्तीति वाच्यम्। इहापि परनायिकामुखचुम्बनस्य श्रलेष- मर्यादया व्यञ्जनमर्यादया वा प्रतीतस्य प्रकृतधर्मिणि चन्द्रे आरोप्यमाणस्य जारासाधारणधर्मत्वेन जारत्वव्यञ्जकताया: स्फुटत्वात्। एतेन 'विद्युन्न- यनैः' इत्यत्र 'त्वं सेतुबन्धनकृत्' इत्यत्र च यथा द्रष्टत्व-विष्णुत्वगमकं तथेह नास्तीति निरेस्तम्। न च जारत्वस्य चन्द्रादावारोपमन्तरेणापि जारव्यवहारारोपः सिध्यन्ननुपपत्तेरभावान्न जारत्वं गमयेदिति वाच्यम्। गमकं हि द्विविधम्-आक्षेपकं व्यञ्जकं च। तत्राक्षेपकमनुपपद्यमानमेव गमयति। व्यञ्जकं तु नानुपपत्तिमपेक्षते। 'गतोऽस्तमर्कः' इत्यादौ तथैव दर्शनात्। अन्यथा अर्थापत्या गतार्थत्वेन व्यञ्जनावैयर्थ्यप्रसङ्गात्। किं च त्वयापि हि जारादेरप्रकृतधर्मिणः प्रतीतिरवश्यं वाच्या आरोप्य-

भावः । स्वरूपतः अप्रकृतव्यवहारलेन। चन्द्रविशेषणस्येति। तादात्म्येन चन्द्रारोपें तादात्म्यस्यापि संबन्धविधया आरोपविषयलात् तस्य चन्द्रलानतिरेकातू चन्द्रलारोपे- त्युक्त्तम्। न तु प्रकारतया चन्द्रतारोपः। अन्यत्र विशेषणत्वेनोपस्थितस्यान्यत्र प्रकारतया आरोपायोगादिति तदाशयाचचिन्त्यमिदम्। भामहादिमतेनाह-श्ेषेति। खमतेनाह- व्यक्षनेति। इदं सर्वं पूर्वभेव दूषितम्। जारेति । सिध्यन् जारव्यवहारारोप इत्यर्थः। दर्शनादिति। अनुपपत्ति विनापि नानार्थव्यञ्जनदर्शनादित्यर्थः । अन्यथा अनुपपत्तेस्त- द्वेतुत्वे। अन्यथा तदप्रतीत्या तद्विशेषणलानङ्गीकारे। एवं च तदर्थ तत्प्रतीतौ च सचि- वाभ्यां सहिताभ्याम्। अन्यथा ताभ्यां न व्यञ्ञनम् किं तु केवलचुम्बनेन तदङ्ीकारे। १ रूपकध्वनौ आरोपे सत्यपि तादृशविषयिवाचकपदस्यासंनिधानम्, (व्यञ्चयत्वात) । २ परनायिकामुखचुम्बनं जारताया गमकमिहाप्यस्तीति भावः । ३ जारत्वस्य आरोपं विना यदि जारव्यवहारारोपः न उपपद्येत तहि अनुपपद्यमानो जार- व्यवहारो जारत्वं गमयेत। अत्र तु चन्द्रे जारत्वस्यारोपं विनापि जारव्यवहारारोपः (मुख- चुम्बनादिः) ऋेषमर्यादया (आदिभागसरशोपि ऋ्रेषवशाञ्ुम्बनमेव) उपपद्यते। अत एव अनुपपत्तिर्नास्ति। अनुपपद्यमान एव हि गमको धर्मो गम्यं गमयति। इह तु न गमयेदिति शङ्का।

Page 562

५०४ काव्यमाला। [द्वितीयानने-

माणव्यवहारविशेषणार्थम्। अन्यथा स्वरूपतो ह्यप्रकृतव्यवहारारोपे चा- रुतानापत्तेः। एवं चावश्योपस्थाप्यस्य जारादेस्ताद्ृशचुम्बनकर्तरि चन्द्रा- दावेव तादात्म्येन विशेषणत्वमुचितम्, न तु व्यवहारे भेदेने । चन्द्रस्य जारभिन्नतावगमे परनायिकावद्नचुम्बनस्याहृद्यत्वात्। अपि च 'निशामुखं चुम्बति चन्द्र एषः' इत्यत्र स्त्रीलिङ्गपुंलिङ्गाभ्यां मुखचुम्बनरूपार्थसचिवाभ्यां नायिकात्वं नायकत्वं च व्यज्यत इति हि नि- रविवादम्। अन्यथा 'निशामुखं चुम्बति चन्द्रिकैषा', 'अहर्मुखं चुम्बति भानुबिम्बम्' इत्यत्रापि नायकप्रतीत्यापत्तेः । एवं च सामानाधिकरण्येनैव संसर्गेण व्यज्यमानं नायकत्वं निशाशशिनोर्नायर्केत्वारोप एव पर्यवस्यति। "अपरित्यक्तस्वरूपयोर्निशाशशिनोर्नायकताख्यधर्मविशिष्टयोः प्रतीतेः" इति त्वदुपजीव्यग्रन्थविरोधश्च। 'अविनाभावादप्रकृतव्यवहारेणाक्षिप्तेन धर्मिणैव प्रस्तुतो धर्म्यवच्छिद्यते' इति तट्टीकाविरोधेश्च। किं च "चुम्बना- दिव्यवहारेणाभिव्यक्तस्य नायकस्य व्यवहारविशेषणत्वमेव, न त्वभेदेन चन्द्रादिविशेषणत्वम्। चन्द्रादिपद्समानाधिकरणपदानुपस्थापितत्वात्"

एवं च अतिप्रसङ्गभङ्काय तत्सहिताभ्यां तदङ्गीकारे च। सामानेति। स्त्रीतपुंस्तेत्यादिः। पर्यवसितार्थानङ्गीकारे आह-अपरीति। त्वदुपजीव्येति। कुवलयानन्दोपजीव्यालं- कारसर्वखेत्यर्थः । अत एव तदाज्ञानुवर्तिनेति प्रागुक्तम्। अविनाभावात् नियतसंबन्धात्। तट्टीकेति। अलंकारसर्वखटीका विमर्शिनीत्यर्थः । तदुक्त्न्तरं खण्डयति-किं चेति। १ उक्त च त्वया पूर्वम्-'तस्य (अप्रकृतव्यवहारस्य) च स्वरूपतो ज्वातस्यारोपे चारुत्वा- भावात्कामुकाद्यप्रस्तुतधर्मिसंबन्धित्वेनावगम्यमानस्य रसानुगुणत्वात्' इति। २ भवन्मते व्यवहारस्य विशेषणं कामुकादिः, अर्थात् कामुकसंबन्धिमुखचुम्बनादिव्यव- हारः। ततश्च भेदेनैवान्वयः स्ात्। धर्मिणः (जारादेः) प्रतीतिस्वीकारे तु चन्द्रेण सह तस्याडमेदेनान्वयः स्यात्। ३ नायिका च नायकश्च नायकौ, तयो: प्रतीतिः । ४ स्त्रीत्वपुंस्त्वयोरधिकरणभूतौ यौ निशाशशिनौ तत्रैव यथाक्रमं नायिकात्वं नायकत्वं चाभिव्यज्यते। एवंविधायाश्चाभिव्यक्त: निशा-शशिनोर्नायकत्वारोपे एव पर्यवसानम्। ततश्च 'व्यवहारसमारोप एव चारुताहेतुः, न तु रूपसमारोपः' इति त्वदुक्तिः स्पष्टमसंगतेत्याशयः। ५ अलंकारसर्वस्व-तट्टीकयोर्नायकवारोपे एव तात्पर्थम्। ततश्च स्पष्टमुपजीव्यविरोधः । यकवाचकपदानुपस्थापितत्वादित्यर्थः ।

Page 563

समासोक्ति: ] रसगङ्गाधर: । ५०५

इत्युक्त्तं तत्र तुल्यन्यायत्वान्निशायामपि न नायिकात्वारोपः, अपि तु नायकवद्भिव्यक्ताया नायिकाया अपि व्यवहारसंबन्धित्वेनैवावस्थान- मिति वक्तव्यम्। तच्च वाधितम्। नायिकात्वानालीढकेवलरात्रिमुख- चुम्बनरूपस्य व्यवहारस्य नायकासंबन्धित्वात्। नहि रात्रितादात्म्यं विना नायिकायाः पृथङ् मुखं विशेषयितुमस्ति सामर्थ्यम्। अपि च। 'निर्लक्ष्मीकाऽभवत्प्राची प्रतीचीं याति भास्करे। प्रिये विपक्षरमणीरक्ते का मुदमञ्च्ति ॥' इत्यत्र पूर्वार्धगतायां समासोक्तौ भास्करादीनां नायकत्वाप्रतीतावुत्तरार्घे प्रियत्वादिना समर्थनायाः सर्वथैवानुपपत्तेः । अन्यच्च-अप्रकृतव्यवहारः प्रकृतविशेष्ये प्रकृतव्यवहारेताटस्थ्येनारोप्यते, तदभिन्नतया वा ? नादः। एवं च प्रकृतविशेष्ये प्रकृताप्रकृतव्यवहारयोरेकत्र द्वयमिति विषयताशाली बोधः स्यात्। स चासिद्ध इत्युक्तमेव। न द्वितीयः। इतोऽपि प्रकृतव्यव- हार एवाप्रकृतव्यवहारस्याभेदेनारोपो वरीयान, न तु भेदसंसर्गेण प्रकृ- तविशेष्ये, अभेदांशे व्यवहारांशे चारोपसवीकारप्रसङ्गात्। मम त्वभेदांश-

यदपीत्यर्थः । तदनालीढलादेव केवललम् । दोषान्तरमाह-अपि चेति। यातीति सप्तम्यन्तम् । अश्चति प्राप्रोति। आदिना प्राच्यादिपरिग्रहः। नायकत्वेति। एकशेषात्त्वः । दोषान्तरमाह-अन्यच्चेति। एवं चेति । यत एवं सतीत्र्थः । स चासिद्ध इति । अप्रकृतव्यवहारस्य प्रकृतासंबन्धित्वादिति भावः । प्रकृतव्यवहाराभि- पन्नाप्रकृतव्यवहारस्य भेदसंसर्गेण प्रक्तविशेष्ये समारोपे प्रकारतया अमेदांशे, विशेष्यतया व्यवहारांशे आरोप इति गौरवादाह-वरीयानिति । उपसंहरति।

१ अचेतनाया रात्रेर्मुखमप्रसिद्धम् । अत एव रात्रितादात्म्यं कृत्वा नायिकाया विशेषणडं भवेन्मुखमित्यर्थः । २ प्रकृतव्यवहारात्पृथग्भूतस्य अप्रकृतव्यवहारस्यारोप इत्यर्थः। एवं च ताटस्थ्यस्वीकारे प्रकृताSप्रकृतव्यवहारसंबन्धिविषयताद्वयं वक्तव्यं स्यादित्याशयः । ३ प्रकृते (धर्मिणि) अप्रकृतव्यवहारस्य भेदेनाsऽरोपो भवता स्वीक्रियते। ततश्च प्रका- रतया अभेदांशे, विशेष्यतया च व्यवहारांशे आरोमो वक्तव्यः स्यादिति उभयथाऽडरोपो गौरवमित्याशयः । ४३ रस०

Page 564

५०६ काव्यमाला। [ द्वितीयानन-

मात्र इति स्फुट एव विशेषः । तस्मादप्रकृताभिन्नतया व्यवसितः प्रकृत- व्यवहार: सवविशेष्ये तद्विशेष्याभिन्नतयावस्थिते भासते। तत्राप्रकृतार्थ उपस्कारकतया गुण इति प्रकार एव रमणीयः । स च न वाक्यार्थरू- पके 'त्वत्पादनखरत्नानां' इत्यत्रेव विशिष्टस्य विशिष्ट। समासोक्तौ तयोः पृथक्छब्द्वेद्यत्वाभावात्। किं तु प्रकृतवाक्यार्थघटकाः पदार्थास्तादात्म्ये- नाप्रकृतघटकपदार्थालीढा एव वैशिष्यमनुभवन्तो महावाक्यार्थरू- पेण परिणेमन्तीति सूक्ष्ममीक्षणीयम्। अतिशयोक्ताविवाप्रकृतेन प्रकृतस्य निगरणं तु न वाच्यम्। तस्य शब्दवाच्यत्वात्। अथास्या: केचन भेदा निगद्यन्ते- विशेषणसाम्यं श्लेषेण भवति शुद्धसाधारण्येन वा, तद्पि धर्मान्तरपुर-

तस्सादिति। रमणीय इत्यत्रास्यान्वयः । स्ेति। अप्रकृतव्यवहारविशेष्ये अप्रकृत इत्यर्थः । तदिति। प्रकृतव्यवहारविशेष्यप्रकृतेत्यर्थः । तत्र प्रकृते। स च आरोपक्च। चाक्यार्थरूपकमेवाह-त्वत्पादेति । तयोः प्रकृताप्रकृतवाक्यार्थयोः । वैशिष्ट्यस्यैव चाक्यार्थता। तदाह-वैशिष््यमिति। अवान्तरवाक्यार्थयोर्भिन्नलादाह-महेति। तस्यति। प्रकृतस्य विशेषणसाम्यप्रतिपाद्यलादित्यर्थः । तदपि द्विधा, तत्साम्यमपि।

१ यथा-'विबोधयन्०' अत्र तस्य (प्रकृतव्यवहारस्य) विशेष्यम् (यः भास्करः) तद- भिन्नतया अवस्थिते स्वस्य (अप्रकृतव्यवह्ारस्य) विशेष्ये (अप्रकृते नायके) [ भास्कराभि- न्नतया प्रतीते खण्डितानुनयकर्तरि नायके इति यावत्], प्रकृत( भास्कर)व्यवहार: अप्रकृत- (नायक)व्यवह्ाराभिन्नतया भासते। २ सर्वस्य वक्तव्यस्यायमाशय :- विशिष्टस्य [अप्रकृतवाक्यार्थधर्मि(नायक) विशिष्टस्य व्यवहारस्य ] विशिष्टे (प्रकृतवाक्यार्थविशेष्यविशिष्टे प्रकृतवाक्यार्थे) आरोपो न भवति, वाक्यार्थरूपके (त्वत्पाद) इत्यत्र यथा भवति। किन्तु प्रकृतवाक्यार्थावयवीभूताः पदार्थाः सूर्य- -नलिनी-किरणादयः अप्रकृतवाक्यार्थावयवीभूनपदार्थ( नायक-नायिका-इस्तादि)रूपाः सन्तः तद्वैशिष्ट्यमनुभवन्तो महावाक्यार्थरूपा भवन्ति। अयं भाव :- समासोक्तौ शब्दतः प्रकृतवाक्यार्थघटकानां पदार्थानां प्रत्ययो यद्यपि भवति परं ते (सूर्य-नलिन्यादयः पदार्थाः) अप्रकृतवाक्यार्थावयवनायक-नायिकादिपदार्थाभिन्नतया प्रतीयन्ते। एवं पकृतव्यवद्वारबोधकः प्रकृतवाक्यार्थबोधः पृथग् भवति, अप्रकृतव्यवहारबोधकः अप्रकृतवाक्यार्थबोधश्च पृथग् भवति। परं तौ अवान्तरवाक्यार्थपदवाच्यौ। प्रकृताSप्रकृतवाक्यार्थयोः संमिलितबोधस्तु मद्दावाक्या- र्थरूपेण भवति।

Page 565

समासोक्ति: ] रसगङ्गाधर: । ५०७

स्कारेण कार्यपुरस्कारेण वेति प्रत्येकं द्विविधम्। तत्र 'विबोधयन्करस्पशैः" इत्यत्र धर्मान्तरपुरस्कारेण श्रेषे समुदाहृतमपि विशेषणसाम्यं पुनरुदा- हियते- 'उत्सङ्गे तव गङ्गे पायं पायं पयोऽतिमधुरतरम्। शमिताखिलश्रमभरः कथय कदाहं चिराय शयिताहे।।' अत्र शिशुजननीवृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्तः । श्िष्टकार्यपुर- स्कारेणाप्युदाहृतं 'संगृह्लास्यलकान्निरस्यसि-' इत्यत्र। शुद्धसाधारण्येन धर्मान्तरपुरस्कारेण यथा- 'अलंकर्तु कणौं भृशमनुभवन्त्या नवरुजां ससीत्कारं तिर्यग्वलितवदनाया मृगदशः । कराब्जव्यापारानतिसुक्ृतसारान्रसयतो जनु: सर्वश्लाध्यं जयति ललितोत्तंस भवतः ।।' अत्र नवकान्तया क्शेन कर्णे क्रियमाणस्योत्तंसस्य वृत्तान्तः प्रत्यग्रख- ण्डिताधरकामुकवृत्तान्ताभेदेन स्थितः। यथा वा- 'अन्धेन पातभीत्या संचरता विषमविषयेषु। दृढमिह मया गृहीता हिमगिरिशृङ्गादुपागता गङ्गा ।।' अत्र गिरिशृङ्गप्रभववेणुयष्टिव्यवहाराभेदेन। कार्यसाधारण्येन यथा-

धर्मान्तरेति। कार्यातिरिक्तधर्मपुरस्कारेणेत्यर्थः । कार्यातिरिक्तधर्मप्रतिपादकविशेष- णसाम्येनाप्रकृतार्थोपस्थापनम्, कार्यरूपधर्मप्रतिपादकतत्साम्येन वेति ध्यामात भावः। उत्सङ्गे ऊरौ मध्ये च। पायं पायं पीला पीला। पयो जलं दुग्धं च। शयिताहे इति लुडुत्तमपुरुषस्यैकवचनम्। रुजाशब्दष्टाबन्तः । तिर्यग्वलितेति। अतिवक्रीकृतेत्यर्थः। अतिसुकृतेति। अतिपुण्यसाररूपानित्यर्थः । रसयतोऽनुभवतः । हे रमणीकर्णभूषण, सर्वस्तुत्यं तव जन्म जयतीत्यर्थः । नवकान्तया नवोढया। प्रत्यग्रति। इदानीमेव खण्डितोऽधरो येनेत्यर्थः । अन्घेन चक्षुहींनेन अज्ञानिना च। पातः पतनं नरकपातश्च। विषयेषु देशेषु नायिकादिषु च । दृढमिति क्रियाविशेषणम्। व्यवहाराभेदेनेति । गङ्गावृत्तान्तः स्थित इति भावः । कार्येति । कार्यरूपधर्मकृतशुद्धसाधारण्येनेत्यर्थः ॥

Page 566

५०८ काव्यमाला। [ द्वितीयानने-

देव त्वां परितः स्तुवन्तु कवयो लोभेन, किं तावता स्तव्यस्त्वं भवितासि, यस्य तरुणेश्चापप्रतापोडधुना। क्रोडान्त: कुरुतेतरां वसुमतीमाशाः समालिङ्गति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि।' कार्यधर्मान्तरयोः संकरेण साधारण्यं यथा- 'उति्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यकृताः पादाम्भोजयुगं रुषा परिहता दूरेण चेलाञ्जलम्। गृह्ृन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां यान्तीनां गहनेषु कण्टकचिता: के के न भूमीरुहाः ॥' अत्र कण्टकचितत्वेन कबरीग्रहणादि संकीर्णम्। समासोक्तो व्यज्यमा- नस्याप्रकृतव्यवहारस्योपस्कारकत्वमेव, न प्राधान्यम्। तदुपस्कृतवाच्य- स्यैव तु प्राधान्यमित्युक्तम्। तत्र यदि व्यङ्ग्यस्यैव प्राधान्यं स्यात्, न वाच्यस्य, तदा 'देव त्वां परितः स्तुवन्तु-' इति प्रागुदाहृतपद्ये निन्दा- व्याजेन स्तुतौ पर्यवसानं न स्यात्। स्तुतिनिन्दयोः प्रकृताप्रकृतव्यवहारा- श्रयत्वादिति ध्येयम् ।

देवेति। राजानं प्रति कव्युक्तिः । भवितासि ? अपि तु न। दुराचारसंबन्धिलात्। तदेवाह-यस्यति। 'न ना क्रोडो" भुजान्तरम्'। आशा दिशः । अगम्यामपि। अम- रावतीमपीत्यर्थः । उत्क्षिप्ता इति । ऊर्ध्व क्षिप्ता इत्यर्थः । विवलिता वकीकृताः । न्यक्कता अधःकृताः । के के न गृह्नन्ति। अपि तु सर्वेऽपीत्यर्थः । अत्र कण्टकचितलं कार्योऽन्यधर्मः । रोमाश्चव्याप्तत्वं कण्टकयुतत्वं च तस्यार्थः । कबर्यादिग्रहणं कार्यरूपो धर्मः । तस्यैव प्रतिपाद्यलात्। आदिना पार्श्वद्वयग्रहणादिसंग्रहः । एवं पूर्वोदाहरणेष्वपि यथा- १ लोभेन कवयः स्तुवन्ति, तावता किं त्वं स्तोतव्यो भवितासि ? अपि तु नेत्याशयः । २ प्रभावशालितया सर्वदा नवीनः । अप्रकृतपक्षे तु-प्रगाढयौवनतया कामान्धत्वात्सर्व- स्त्रीप्रसक्त् इति ध्वन्यते। ३ अत्र हि व्यङ्ग्यस्य अप्रकृतव्यवहारस्य निन्दायाम्, वाच्यस्य प्रकृतस्य (राज्ः) च स्तुतौ तात्पर्यम्। व्यञ्यस्य प्राधान्यस्वीकारे निन्दायां पर्यवसानं व्यपदिश्येत, न स्तुतौ। वाच्यस् आधान्ये तु स्तुतौ पर्यवसानं सम्यगेवेत्याशयः । ४ कोड इति पुंपाठस्तु नागेशस्याद्भुतं पाण्डित्यं सूचयति, 'न ना' इत्यमरे, 'न पुमा- नङ्डरक्षसोः' इति कोषान्तरेषु च मुखतो निषेधाद्।

Page 567

समासोक्ति: ] रसगङ्गाघर: । ५०९

"-'तन्वी मनोहरा वाला पुष्पाक्षी पुष्पहासिनी। विकासमेति सुभग भवददर्शनमात्रतः ।।' अत्र तनुत्वादिविशेपणसाम्याल्ोलाक्ष्यां लताव्यवहारप्रतीतिः । तत्र लतैकगामिविकासाख्यधर्मसमारोप: कारणम्। अन्यथा विशेषण- साम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः । विकासञ्च प्रकृते उपचरितो यः' इत्यलकारसर्वस्वकार आह, तत्र विचार्यते-नात्र विशेषण- साम्यमात्रेण लताव्यवहारप्रतीतिः, अपि तु लतारूपाऽप्रकृतासाधारण- विकासाSSरोपमहिन्नेति भवतैवोक्तम्। तथा च विशेषणसाम्यादप्रस्तुतस्य गम्यत्वमिति त्वदुक्तसमासोक्तिलक्षणस्य कथमत्र प्रवृत्तिः ? न च लक्षणे विशेषणसाम्यमात्रगम्यत्वं न विवक्षितम्, अपि तु विशेषणसाम्यगम्य- त्वम्। प्रकृते च विकासस्याप्यधिकस्य गमकत्वम्, न त्वेतावता विशेषण साम्यस्य गमकताहानिरिति वाच्यम्। श्ेषेऽतिव्यात्यापत्तेः । न च विशेषणमात्रसाम्यगम्यत्वं विवक्षितम्। एवं च न श्रेषेऽतिव्याप्तिः । नापि 'तन्वी मनोहरा' इत्यत्र लक्षणस्यावर्तनमिति वाच्यम्। 'तन्वी मनोहरा' इत्यत्र समासोक्तेरेवाभावात्। यत्र साधारणविशेषणमहित्राSप्र- कृतस्य स्फूर्तिस्तत्र समासोकतिः । यत्र त्वसाधारणमहित्रा, तत्र व्यङ्गय- रूपकमिति विषयव्यवस्थापनात्। एवं च प्रकृते साधारणविशेषण- सत्त्वेऽपि न तन्महित्रा लतायाः स्फूर्तिः, अपि तु विकासमहित्नेति च्यङ्गयरूपकमुचितम् । यथा- 'चकोरनयनानन्दि कहाराह्ादकारणम्। तमसां कदनं भाति वदनं सुन्दरं तव ।।' यथं बोध्यम्। तत्र तयोर्मध्ये। तत्र तद्यवहारप्रतीतौ। अन्यथा तत्समारोपस्याकारणले। विशेषणेति। तेषामन्यसाधारण्यादिति भावः। कादाचित्कस्य संभवादाह-नियतेति। श्रेषेऽतिव्यास्यापत्तेरिति । तत्र विशेष्यस्य ्लिष्टतेऽपि विशेषणसाम्यस्याक्ष- तेरिति भावः । विशेषणमात्रेति। मात्रपदेन विशेष्यसाम्यव्यावृत्तिन धर्मान्तरविकासा- देरिति भावः। न श्लेष इति। तत्र विशेष्यस्यापि श्िष्टत्वादिति भावः । समासोक्तेरे- वेति। सर्वखग्रन्थसिद्धान्तात्प्रकृतेSप्रकृतलताप्रतीतावपि क्रियारूपतद्यवहारस्य कस्यचि- दप्रतीतेर्नान्र समासोत्तिरित्यपि बोध्यम्। एतेन यदपीत्याद्यपि सर्वस्वग्रन्थः परास्त इति दिक्। एवं च उत्तव्यवस्थाङ्गीकारे च। उक्तमेव सदष्टान्तमाह-यथेति। तन्र हि अन्घे- १ मात्रपदेन विशेष्यसाम्यस्य व्यावृत्तिः, न धर्मान्तरस्य विकासादेः । एवं च विशेष्यस्य अश्विष्टत्वात् 'तन्वी०' अत्र लक्षणस्य समन्वय इत्यर्थः ।

Page 568

५१० काव्यमाला। [ द्वितीयानने- इत्यादौ सुन्दरमिति साधारणविशेषणसत्वेऽपि रूपकमेव, तथेहापि। कचिद्गुणीभूतं क्चित्प्रधानमित्यन्यदेतत्। साधारण्येन विशेषणसाम्य- मूलाया: समासोक्तेस्तु 'अन्घेन पातभीत्या संचरता-' इत्यादि: प्रागस्मा- भिरुदाहतो विषय इति न निरवकाशत्वम्। तत्र ह्यसाधारणधर्मारोप- मन्तरेण साधारणविशेषणमहित्रैवाप्रकृतप्रतीतेः । एतेन 'तदेवं साधार-

तव्यवहारप्रतीतिर्न भवति' इति विमर्शिनीकृता यदुक्तं तन्निरस्तम्। तस्मादेवं संभवति विषयविभागे 'तन्वी मनोहरा-' इत्यन्न समासोक्ति- वचनमहृद्यम्। यदपि "औपम्यगर्भत्वेनापि विशेषणसाम्यं संभवति। यथा- 'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ।I' अत्र हरिणेक्षणामात्रवृत्तेः सुवेषत्वस्य विशेषणस्य महित्ना दन्तप्रभा- सदशानि पुष्पाणीत्यादियोजनां विहाय दन्तप्रभा: पुष्पाणीवेत्याद्युपमित- समासाश्रयेण कृते योजने प्रकृतार्थसिद्धौ सत्यां वृत्त्यन्तरेण त्यक्ताया एव योजनायाः पुनरुज्जीवने पुष्पपल्लवालिवृन्दैरुपमेयैराक्षिप्ताया लतायाः प्रत्ययान्न तव्यवहारारोपः। एवं सुवेषेत्यपहाय परीतेति कृते उपमारूप- नेत्यत्र हि। धर्मकार्येति। धर्मकार्ययोः समारोपमित्यर्थः । अयं तदीय उपसंहारग्रन्थः। उपरसहरति-तस्मादिति। प्रकृतार्थेति। सुवेषलरूपेत्यर्थः । वृत्त्यन्तरेण व्यजनया। योजनाया 'उपमानानि' इति समासरूपायाः । तद्यवहारेति। लताव्यवहारेत्यर्थः । उपमेति। यथासंख्यमन्वयः । पूर्वोक्तरीत्येति । वृत्त्यन्तरेणेत्याद्युक्तरीत्येत्यर्थः । नन्वेवं कर्थ विशेषणसाम्यमर्थभेदादत आह-समासेति। हरिणेक्षणांशे आक्षिप्तलेना- शान्दलादाह-एकदेशेति। अत्र उक्तपदे। एवमग्रेपि। तेनैव अलंकारसर्वखकारे- णेव : तुत्ययुक्त्या आह-दन्तप्रभा इति। तथोकतं तदा समासोक्तिरित्युक्तम्। स्यं ₹ 'तन्वी०' अत्र व्यञ्ञयं रूपकं गुणीभूतम्, 'चकोरनयना०' अत्र प्रधानमित्याकूतम्। २ अयं भाव :- हरिणेक्षणामात्रवृत्तिसुेषत्वविशेषणानुरोधेन 'दन्तप्रभाः पुष्पाणीव' इत्यादिसमासाश्रयणे कृते प्रकृतार्थस्य (नायिकार्थस्य) सिद्धिः । वृत्त्यन्तरेण (व्यञ्जनया) तु स्काया योजनायाः ('दन्तप्रभासदृशानि पुष्पाणि' इत्याद्याकारिकायाः) पुनरुज्जीवनेपि नात्र नायिकायां कताव्यवहारारोप: (अर्थात् न समासोक्तिः) । विशेषणसाम्यमात्रेण अप्रकृतस्य स्फूर्तावेव समासोकते: स्वीकारात। अत्र तु उपमेयैः अप्रकृतस्य (लतायाः) आक्षेपः । इति ।

Page 569

समासोक्ति: ] रसगङ्गाघर:। ५११

कसाधकबाधकप्रमाणाभावात्तदुभयसंशयरूपसंकराश्रयेण कृते योजने पश्चात्पूर्वोक्तरीत्या लताप्रतीतेः समासोक्तिरेव। समासभेदेनार्थभेदेऽपि शब्दैक्यमादाय श्लिष्ठमूलायामिव विशेषणसाम्यं बोध्यम्। आदावन्ते वा रूपकाश्रयेण दन्तप्रभा एव पुष्पाणीति योजने कृते तु हरिणेक्षणांसे आक्षिप्तलतातादात्म्यकेनैकदेश विवर्ति रूप केणैवाप्रकृतार्थप्रत्ययोपपत्तेनार्थ: समासोक्तेरत्र" इति तेनैवोक्तम्, तदपि न विचारसहम्। दन्तप्रभाः पुष्पाणीवेत्युपमागर्भत्वेनाप्यादौ योजने कृते हरिणेक्षणांशे आक्षिप्तल- तोपमानिकया एकदेशविवर्तिन्या उपमयैव गतार्थत्वात्समासोक्तेरानर्थ- क्यादन्नाप्रेसक्तेः। न चोङ्गटमते एकदेशविवर्तिनोरुपमासंकरयोरस्वीका- रत्तथोक्तमिति वाच्यम्। अनुपदमेव स्वयं तेन तत्स्वीकारात्। हालाहलसमो मन्युरतुकम्पा सुधोपमा। कीर्तिस्ते चन्द्रसदशी भटास्तु मकरोद्ठटा: ।।' इत्यादौ गत्यन्दराभावात्तेनाप्येकदेशवर्त्युपमाया एव स्वीकरणीयत्वाच्च अवश्यक्कृप्ेनोपपत्तौ भेदान्तरकल्पनानौचित्यात्। तस्मादौपम्यगर्भ- विशेषणोत्थापितः समासोक्तिप्रकारो न संगच्छते। यत्र छ्िष्टविशेषणेन शुद्धसाधारणविशेषणेन वा सहचरितमौपम्यगर्भविशेषणं तन्न यद्यप्यस्ति समासोक्तिस्तथापि नासावौपम्यगर्भविशेषणोत्थापितस्तृतीयः प्रभेदो भवितुमीष्टे, स्वतब्रविषयत्वाभावात्। यथा-

अलंकारसर्वस्वकृता। तदिति । उपमासंकरयोरित्यर्थः । हालाहलेति। राजानं प्रति कव्युक्तिः । हे राजन्, तवेति शेषः । मकरेति। मत्स्यविशेषेत्यर्थः । तेनापि उद्भटेनापि। राज्ि रत्नाकरसाम्यस्याशब्दलादाह-एकेति। ननु हालाहलेत्यत्र तदा- चश्यकलवेऽपि तन्वी मनोहरेत्यत्र समासोक्तिरेव तादृश्यास्तामत आह-अवश्येति। उपमाभेदेनेत्यर्थः। भेदान्तरेति। समासोक्तिरित्यादिः। क्कचित्संभवोऽस्तीत्याह-यत्रेति। स्वतन्त्रति। तथा चोक्तान्तर्भाव एवेति भावः। अम्बरं वस्त्रमाकाशश्च। तारका नक्षत्रा- १ एकदेशविवर्तिरूपकेण प्रतीयमानस्य अप्रकृतार्थस्य (लतारूपस्य) उपपत्तिः स्ादेव, अत एव समासोक्तिस्वीकारो नावश्यक इत्यर्थः । २ यथा एकदेशविवर्तिरूपकेण प्रतीयमानस्य अप्रकृतार्थस्योपपत्तौ समासोक्तिनिरासः, तथा अत्रापि एकदेशविवत्युपमया तन्निरास पवोच्चित इत्याशयः ।

Page 570

५१० काव्यमाला। [ द्वितीयानने-

इत्यादौ सुन्दरमिति साधारणविशेषणसत्वेऽपि रूपकमेव, तथेहापि। कचिह्ुणीभूतं कचित्प्रधानमित्यन्यदेतत्। साधारण्येन विशेषणसाम्य- मूलाया: समासोक्तेस्तु 'अन्धेन पातभीत्या संचरता-' इत्यादि: प्रागस्मा- भिरुदाहतो विषय इति न निरवकाशत्वम्। तत्र ह्यसाधारणधर्मारोप- मन्तरेण साधारणविशेषणमहित्रैवाप्रकृतप्रतीतेः । एतेन 'तदेवं साधार- ण्येन समासोक्तेर्विशेषणसाम्येSपयप्रकृत संबन्धिधर्मकार्यसमारोपमन्तरेण तव्यवहारप्रतीतिन भवति' इति विमर्शनीकृता यदुक्ततं तन्निरस्तम्। तस्मादेवं संभवति विषयंविभागे 'तन्वी मनोहरा-' इत्यत्र समासोक्ति- वचनमहृद्यम्। यदृपि "औपम्यगर्भत्वेनापि विशेषणसाम्यं संभवति। यथा- 'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ।।' अत्र हरिणेक्षणामात्रवृत्तेः सुवेषत्वस्य विशेषणस्य महिम्रा दन्तप्रभा सदशानि पुष्पाणीत्यादियोजनां विहाय दन्तप्रभा: पुष्पाणीवेत्याद्युपमित- समासाश्रयेण कृते योजने प्रकृतार्थसिद्धौ सत्यां वृत्त्यन्तरेण त्यक्ताया एव योजनायाः पुनरुज्जीवने पुष्पपल्लवालिवृन्दैरुपमेयैराक्षिप्ाया लतायाः प्रत्ययान्न तव्यवहारारोपः। एवं सुवेषेत्यपहाय परीतेति कृते उपमारूप- नेतयत्र हि। धर्मकार्येति। धर्मकार्ययोः समारोपमित्यर्थः । अयं तदीय उपसंहारग्रन्थः। उपसंहरति-तस्मादिति। प्रकृतार्थेति। सुवेषलरूपेत्यर्थः । वृत्त्यन्तरेण व्यज्नया। योजनाया 'उपमानानि' इति समासरूपायाः। तव्यवहारेति। लताव्यवहारेत्यर्थः । उपमेति। यथासंख्यमन्वयः । पूर्वोक्रीत्यति। वृत्त्यन्तरेणेत्याद्युक्तरीत्येत्यर्थः । नन्चेवं कथं विशेषणसाम्यमर्थमेदादत आह-समासेति। हरिणेक्षणांशे आक्षिप्तलेना- शाब्दलादाह-एकदेशेति। अत्र उक्तपदे। एवमग्रेऽपि। तेनैव अलंकारसर्वखकारे- णैव। तुल्ययुक्तया आह-दन्तप्रभा इति। तथोकं तदा समासोक्तिरित्युक्त्तम्। स्यं १ 'तन्वी०' अत्र व्यक्ष्यं रूपकं गुणीभूतम्, 'चकोरनयना०' अत्र प्रधानमित्याकूतम्। २ अयं भाव :- हरिणेक्षणामात्रवृत्तिसुवेषत्वविशेषणानुरोधेन 'दन्तप्रभाः पुष्पाणीव' इत्यादिसमासाश्रयणे कृते प्रकृतार्थस्य (नायिकार्थस्य) सिद्धिः । वृत्त्यन्तरेण (व्यअ्नया) तु त्यक्ाया योजनायाः ('दन्तप्रभासदृशानि पुष्पाणि' इत्याधाकारिकायाः) पुनरुज्जीवनेपि नात्र नायिकायां लताव्यवहारारोप: (अर्थात् न समासोक्तिः) । विशेषणसाम्यमात्रेण अप्रकृतस्थ स्फूर्तावेव समासोक्ते: स्वीकारात। अत्र तु उपमेयैः अप्रकृतस्य (लतायाः) आक्षेपः । इति ।

Page 571

समासोक्ति: ] रसगङ्गाघर: । ५११

कसाधकबाधकप्रमाणाभावात्तदुभयसंशयरूपसंकराश्रयेण कृते योजने पञ्चात्पूर्वोक्तरीत्या लताप्रतीते: समासोक्तिरेव। समासभेदेनार्थभेदेऽपि शब्दैक्यमादाय शिविष्टमूलायामिव विशेषणसाम्यं बोध्यम्। आदावन्ते वा रूपकाश्रयेण दन्तप्रभा एव पुष्पाणीति योजने कृते तु हरिणेक्षणांसे आक्षिप्तलतातादात्म्यकेनैकदेश विवर्ति रूप केणैवाप्रकृतार्थप्रत्ययोपपत्तेनार्थः समासोक्तेरत्र" इति तेनैवोक्तम्, तदृपि न विचारसहम्। दन्तप्रभा: पुष्पाणीवेत्युपमागर्भत्वेनाप्यादौ योजने कृते हरिणेक्षणांशे आक्षिप्तल- तोपमानिकया एकदेशविवर्तिन्या उपमयैव गतार्थत्वात्समासोक्त्ेरानर्थ- क्यादन्राप्रेसक्तेः। न चोङ्गटमते एकदेशविवर्तिनोरुपमासंकरयोरखवीका- सत्तथोक्तमिति वाच्यम्। अनुपद्मेव स्वयं तेन तत्सीकारात्। 'हालाहलसमो मन्युरनुकम्पा सुधोपमा। कीर्तिस्ते चन्द्रसदशी भटास्तु मकरोड्टा: ।।' इत्यादौ गत्यन्तराभावात्तेनाप्येकदेशवर्त्युपमाया एव स्वीकरणीयत्वाच्च अवश्यक्कपेनोपपत्तौ भेदान्तरकल्पनानौचित्यात्। तस्मादौपम्यगर्भ- विशेषणोत्थापितः समासोक्तिप्रकारो न संगच्छते। यत्र श्िष्टविशेषणेन शुद्धसाधारणविशेषणेन वा सहचरितमौपम्यगर्भविशेषणं तत्र यद्यप्यस्ति समासोक्तिस्तथापि नासावौपम्यगर्भविशेषणोत्थापितस्तृतीयः प्रभेदो भवितुमीष्टे, स्वतत्रविषयत्वाभावात्। यथा- अलंकारसर्वसवकृता। तदिति। उपमासंकरयोरित्यर्थः । हालाहलेति । राजानं प्रति कव्युक्तिः । हे राजन्, तवेति शेषः । मकरेति। मत्स्यविशेषेत्यर्थः । तेनापि उद्भटेनापि। राज्ि रक्नाकरसाम्यस्याशाब्दत्ादाह-एकेति। ननु हालाहलेत्यत्र तदा- वश्यकलऽपि तन्वी मनोहरेत्यत्र समासोक्तिरेव तादृश्यास्तामत आह-अवश्येति। उपमाभेदेनेत्यर्थः। भेदान्तरेति। समासोक्तिरित्यादिः। कचित्संभवोऽस्तीत्याह-यत्रेति। स्वतन्त्रेति। तथा चोक्तान्तर्भाव एवेति भावः । अम्बरं वस्त्रमाकाशश्च। तारका नक्षत्रा- १ एकदेशविवर्तिरूपकेण प्रतीयमानस्य अप्रकृतार्थस्य (लतारूपस्य) उपपत्तिः स्यादेव, अत एव समासोक्तिस्वीकारो नावश्यक इत्यर्थः । २ यथा एकदेशविवर्तिरूपकेण प्रतीयमानस्य अप्रकृतार्थस्योपपत्तौ समासोकतिनिरासः, तथा अन्रापि एकदेशविवर्त्युपमया तन्निरास मवोचचित इत्याशयः ।

Page 572

५१२ काव्यमाला। [द्वितीयानने-

'निर्मलाम्बररम्यश्रीः किंचिद्दर्शिततारका। हंसावलीहारयुता शरद्विजयतेतराम् ।।' अन्र पूर्वार्धगतश्िष्टविशेषणोत्थापितैव समासोक्तिरुत्तरार्धगतेनौपम्य- गर्भविशेषणेन विद्व दुत्थापिता युक्तिस्तदनुगामिना मूर्खेणेवातुमोद्यते। एवं 'दत्तानन्दा समस्तानां प्रफुल्लोत्पलमालिनी' इति पूर्वार्धे कृते शुद्धसाधार- णविशेषणोत्थापितैव। एवं च- 'परिफुल्लाब्जनयना चन्द्रिकाचारुहासिनी। हंसावलीहारयुता शरद्विजयतेतराम् ।।' इत्यत्रोपमारूपकयो: साधकस्य बाधकस्य चाभावात्संकरालंकारखीकर्तनये तदुभयसंशयात्मक एकदेशविवर्ती संकरालंकार एव। तदस्वीकर्तृनये च यदोपमित समासस्फूर्तिस्तदैकदेश विवर्तिन्युपमा, विशेषणसमासस्फूर्तौ त- थाविधमेव रूपकमिति प्रथमयोजनयैवाप्रकृतार्थावगतेर्द्वितीययोजनायाः 'परिफुल्लाब्जानीव नयनानि' इत्युपमागर्भाया वैयर्थ्यादनुत्थानमेव । यदा तु 'शरद्वर्षासखी बभौ' इति चतुर्थचरणं निर्मीयते तदा तु शरन्मात्र-

ण्यक्षिकनीनिकाश्च। एवेनौपम्यगर्भविशेषणव्यवच्छेदः । विशेषणेन हारसदशहंसपङ्कियुते- त्यनेन। अनुमोदने द्ृष्टान्तमाह-विद्वदिति। श्रिष्टविशेषणोत्थापितामुक्ता साधारण- विशेषणोत्थापितां तामाह-एवं दत्तानन्देति। अत्रापि व्यवहारस्य कस्यचिन्निबन्ध- नाभावात्कथं समासोक्तिरिति चिन्त्यमिदम्। एतादृशस्थले व्यङ्चयरूपकमुपमा वेति तु युक्त्त- सेव प्राग्वत्। एवं च उभयान्तर्भावेन तृतीयमेदानङ्गीकारे च। उपमेति। यथासंख्य- मन्वयः । तदिति । संकरालंकारेत्यर्थः । चस्तर्थे । विशेषणेति। मयूरव्यंसकेती- त्यर्थः । तथाविधमेव एकदेशविवर्येव। 'चरणोऽस्त्रियाम्' इत्युक्तेनपुंसकत्वम्। तुरुक्तवैल- १ विद्वदुत्थापिता युक्ति: यथा विद्दनुगामिना मूर्खेणाप्यनुमोद्यते, तदनुमोदनं च मूर्खसंब- न्ध्येव यथा व्यपदिश्यते, तथा छिष्टविशेषणोत्थापिता समासोक्तिः औपम्यगर्भविशेषणेनाप्यनु- मोदिता, न तन्मात्रोत्थापिता। मूर्खानुमोदनेन विद्वदुत्थापितत्वं यथा न व्याहन्यते तथा छिष्ट- विशेषणोत्थापितत्वं न निरुध्यत इत्याशयः । २ क्रिष्टैः शुद्धसाधारणैरवा विशेषणैरप्रकृतार्थावगतिरेका योजना। औपम्यगर्भविशेषणैरवग- तिर्द्वितीया। तत्र प्रथमयैव अप्रकृतार्थप्रत्ययोपपत्तौ सिद्धायां द्वितीययोजनापर्यन्तमनुधावनमेव न भवतीति तस्या अनुत्थानमेवेत्याशयः ।

Page 573

समासोक्ति: ] रसगङ्गाघर: । ५१३

वृत्तेर्वर्षास त्वस्योपादानादृब्ज चन्द्रिकाहसप्रधानस्योपमितसमासस्याव- श्यकत्वात्प्रथमप्रादुर्भूतया नयनहासहाराक्षिप्कामिनीरूपोपमानिकया अत एवैकदेशविवर्तिन्योपमयैव निर्वाह इति निवेदितमपि सहृद्यप्रीतये पुनर्निवेदितम् । 'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा। कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ।।' इति कस्यचित्पद्ये प्रावृष एकदेशविवर्तिरूपकेणाङ्गनात्वसिद्धिरिति नोत्तरा- धगतार्थान्तरन्यासानुपपत्तिः । प्रथमचरणे तूपगूहनसाम्यादस्तु नाम समासोक्तिः । यत्तु कुवलयानन्दे "सारूप्यादपि समासोकिर्दश्यते। यथा- 'पुरा यत्र स्नोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम्। बहोरदष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रठयति॥' अन्न वनवर्णने प्रस्तुते तत्सारूप्यात्कुटुम्बिषु धनसंतानादिसमृद्धसमृद्धि- विपर्यासं प्राप्तस्य तत्समाश्रयस्य आ्रमनगरादेव्टत्तान्तः प्रतीयते" इत्युक्तम्, तद्सत्। समासोक्तिजीवातोविशेषणसाम्यस्यान्नाभावेन समासोक्तिताया एवानुपपत्तेः । न च विशेषणसाम्यात्सादृश्याद्वा यत्राप्रस्तुतव्यवहारः प्रस्तुतेन व्यज्यते सा समासोक्तिरिति लक्षणं निर्मास्यत इति वाच्यम् । समासोक्तौ हि प्रकृतवृत्तान्तोSप्रकृतवृत्तान्ताभेदेन स्थित इति सर्वसंमतम्। त्वयापि च 'प्रकृतधर्मिण्यप्रकृतव्यवहार आरोप्यते' इत्युक्तम्। एवं स्थिते क्षण्ये। एकदेशविवर्तीति । शान्ततडित्कटाक्षेत्यत्रत्ेनेत्र्थः । उपगूहनेति। आलिङ्गनेत्यर्थः । सारूप्यात् सादश्यात्। पुरेति। उत्तरराघवे सीतात्यागानन्तरं कदा- चिद्नं गतस्य श्रीरामस्योक्तिरियम्। क्षितिरुहां तरूणाम्। वनवर्णने वनवृत्तान्ते। तत्सा- रूप्यात् वनसादश्यात्। ग्रमादौ वनसादश्यमाह-कुटुम्बिष्विति। कुटुम्बिगतो यो धनसंतानादिसमृज्समृध्योर्विपर्यासस्तं प्राप्तस्येत्यर्थः । तत्समाश्रयस्य तादृशकुटुम्बिसमाश्र- यस्य। जीवातोरिति। चिन्त्यमिदम्। विशेषणसाम्यगम्यसादृश्यगम्यलेऽपि तत्वानपा- १ नयनहासहारान् दृष्टा कामिन्यर्थः स्फुरति, किन्तु शरत्प्राधान्यानुरोघेन कामिनीव शरदिति उपमानाक्षेपादेकदेशविवरतिनी उपमा।

Page 574

५१४ काव्यमाला। [ द्वितीयानने-

नह्यत्र स्रोतोवृक्षादिविपर्यासो धनसंतानविपर्यासयभेदेन प्रतीयते। नापि वनादौ धनसंतानविपर्यास इति समासोक्त्यन्तैरात्सत्यपि वैलक्षण्ये यद्यसौ समासोक्तिरिति शपथः क्रियते तदा अलंकारान्तरमपि समासोक्ति- कुक्षावेव निक्षिप्यताम्। एवं तर्हि 'पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां' इत्यत्र कोऽलं- कार: ? । अप्रकृतेन वाच्येन प्रकृतव्यवहाराभिव्यक्तिरूपाया अप्रस्तुतप्र- शंसाया अन्नासंभवात्प्रकृतस्यैव वाच्यत्वादिति चेत्, साधु पृष्टमायुष्मता। समाधानमस्य सप्रपञ्चमप्रस्तुतप्रशंसाप्रकरण एव निवेदयिष्याम इति। किं चालंकारसर्वस्वकृता 'सादृश्यगर्भविशेषणोत्थापिता सादृश्यमूला समा- सोक्तिः' इत्युक्तम्। तन्र हि विशेषणसाम्यसत्त्वादुक्तिसंभवोऽप्यस्ति, न वु तवदुक्तायामिति मूलग्रन्थानवबोधस्तद्विरोधो वा स्फुट एवेति दिक्। सेयं लौकिके व्यवहारे लौकिकस्य व्यवहारस्य, शास्त्रीये शास्त्री- यस्यारोपेण, एतद्विपर्ययेण च चतुर्धा। तत्राद्या प्रागभिहितैव। द्वितीया यातू। नह्यत्र स्रोतोवृक्षादिविपर्यास इति। न प्रतीयत इत्यत्र शपथातिरिक्तं प्रमा- णमन्विष्यतामिति चिन्त्यमिदम्। विपर्यास इति। प्रतीयत इत्यस्यानुषङ्गः । निक्षि- व्यतामिति। तथा च बहुव्याकुली स्यादिति भावः। समाधानमस्येति। अप्रस्तुत- प्रशंसैवात्रालंकारः। अप्रस्तुतस्य प्रशंसेति न तदर्थः, किंत्प्रस्तुतेन प्रस्तुतस्य प्रशंसेति। एवं च वाच्येन व्यक्तेन वाऽप्रस्तुतेन वाच्यं व्यक्तं वा प्रस्तुतं यत्र प्रशस्यते सादृश्याद्यन्यतमप्रकारेण साऽप्रस्तुतप्रशंसेति। न तु वाच्येनैव व्यञ्ञ्यमेवेतीति भावः । चिन्त्यमिदम् । युक्त्यसह- लात्। तथा हि प्रशंसनमत्र किमुत्कर्षाधानं प्रतीतिमात्रं वा। नादः। प्रतीयमानार्थानध्या- रोपविषयेष्वप्रस्तुतप्रशंसोदाहरणेष्वव्याप्तेः । नहि ताटस्थ्येनावस्थितोऽप्यर्थ उत्कर्षकर इति युक्तम्। नान्त्यः । प्रकृतेऽभावात्। नह्यन्राप्रस्तुतेन प्रस्तुतस्य प्रतीतिः । वाच्यलात्। न चान्यतरलेनानयोः संग्रहः । समासोक्तेरेवान्यतरत्वघटितलक्षणकरणे बाधकाभावात्। अतिशयोक्तयादौ कृप्लाच्च। किंचेत्यादिना सर्वस्वकारादिविरोधोद्भावनमप्यसंगतमेव। तच्छिक्षकल्वात् । ईदृशाप्रस्तुतप्रशंसाया अपि तैरनङ्गीकारेण तवापि तद्विरोधस्य सत्त्वाच्च, प्राचामाशयस्य प्रागुक्तत्वाच्चेति दिक्। सेयं चतुर्विधा समासोक्तिः । १ प्रकृतव्यवहारे अप्रकृतव्यवहाराभेद इति सर्वसंमत्यनुसारम्। २ प्रकृतधर्मिणि अप्रकृतव्यवहारस्यारोप इति त्वदुत्तयनुसारम्। ३ तैस्तैराचायेः उदाहियमाणा या याऽन्या समासोक्तिरद्यावधि दृषटा तस्याः अपेक्षया। ४ 'स्थलविशेषे वृत्तान्तद्वयमपि प्रस्तुतं भवति [एकमतात्पर्यविषयत्वेपि पुरः स्थितत्वात्, द्वितीयं वाच्यविधया अवर्ण्यत्वेपि वर्णने मुख्यतात्पर्यविषयीभूतत्वात्] तत्र पुरः स्थिततया पकृतकोटो गणनीयेनापि मुख्यतात्पर्यविषयीभूतत्वाभावाद्वस्तुतोSप्रस्तुतेन अथेंन यत्र स्वसदटशं प्स्तुतं गम्यते सापि समासोकतिरिति।

Page 575

समासोक्ति: ] रसगङ्गाघर:। ५१५

यथा- 'गुणवृद्धी परे यस्मिन्नैव स्तः प्रत्ययात्मके। बुधेषु सदिति ख्यातं तड्ह्म समुपास्महे ।।' अन्न वेदान्तशास्त्रसिद्धव्यवहारे व्याकरणसिद्धस्य शतृशानज््यवहा- रस्य। लौकिके शास्त्रीयस्य यथा- 'परार्थव्यासङ्गादुपजहृदथ स्वार्थपरता- मभेदैकत्वं यो वहति गुणभूतेषु सततम् । स्वभावाद्यस्यान्त: रफुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ।।' अत्र समर्थसूत्रगतमहाभाष्यार्थस्य। तत्र हि 'अथ ये वृत्ति वर्तयन्ति किं त आहुः' इत्यादिना जहत्सार्था वृत्तिरजहत्स्वार्था वृत्तिरिति पक्षद्वयं निरूपितम्। तत्रैवोपसर्जनार्थे अभेदैकत्वसंख्यापि ध्वनिता। प्रकटीकृता च हरिणा- 'यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते तां संख्यां तादशी विद्ुः ॥।' इति। सामर्थ्यमप्येकार्थीभावबोधकतारूपं तत्रैवोक्त्तम्। शास्त्रीये लौकिकस्य यथा- 'कृत्वा सूत्रैः सुगूढार्थेः प्रकृतेः प्रत्ययं परम्। आगमान्भावयन्भाति वैयाकरणपुंगवः ।।' अन्न राजव्यवहारस्य। एवं शास्त्रान्तरव्यवहारेऽपि बोध्यम्। इयं चालंकारान्तरेषु बहुष्वानुगुण्येन स्थिता। यथा-

यस्मिन् शतृशानज्रपे आनन्दरूपे च । प्रत्ययसंज्ञके चिद्रूपे च परत उत्कृष्टे च। अदे- डादेच। सत्त्वादिगुण-वर्धने च देवेषु वैयाकरणेषु च। सत्संज्ञकं सद्रूप च ब्रह्म शब्द- रूपमर्थरूपं चेत्यर्थः । वर्तयन्ति निष्पादयन्ति। एकार्थीभावबोधकतेति। एका- र्थीभावापन्नार्थबोधकतारूपमित्यर्थः । प्रकृतेः प्रातिपदिकादितः अविद्यायाश्च। परमग्रिम भिन्नं च। प्रत्ययं तत्संज्ञकं ज्ञानरूपं च कृत्वा। आगमान् तत्संज्ञकान उपनिषदश्चा- १ गहनप्रयोजनैः कार्यबीजैः (सूत्रैः) प्रजायाः (प्रकृतेः) विश्वासं जनयित्वा धनागमान् साधयन् भातीति राजव्यवहारेऽर्थः ।

Page 576

५१६ काव्यमाला। [ द्वितीयानने-

'स्थितेSपि सूर्ये पग्मिन्यो वर्तन्ते मधुपैः सह। अस्तं गते तु सुतरां स्त्रीणां कः प्रत्ययो भुवि ।' अत्र समर्थ्यत्वेन स्थितार्थान्तरन्यासानुगुण्यमाधत्ते। 'उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते। राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ।।' इह समर्थकेत्वेन। 'वयागुञ्जन्मधुकर पुञ्जमखजुगीतामाकर्ण्य स्तुतिमुदयत्रपातिरेकात्। आभूमीतलनतकंधराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ।।' अन्न हि परकृतनिजस्तुत्याकर्णनकंधरानमनादिविशेषणसाम्योत्थापि- तया समासोक्या सज्जनव्यवहाराभिन्नतया स्थित एव तरुव्यवहारे भूशाखासंवन्वाभेदाध्यवसितमस्तकमूलनमननिमित्तोत्थापिता त्रपारूप- हेतूत्प्रेक्षा संभवति। अन्यथा कितवकृतग्रीवानमनस्यापि त्रपोत्थापकता- पत्तेः । इत्युत्प्रेक्षानुर्गुणा समासोकिः। एवम्- 'राज्याभिषेकमाज्ञाय शम्वरासुरवैरिण: । सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः । इत्यत्रापि स्वामिसेवकव्यवहारमूला सुधालेपनोत्प्रेक्षा। अमुयैव दिशा अचेतनव्यवहारे प्रकृते चेतनव्यवहारसंबन्धिस्वरूप-हेतु-फलोत्प्रेक्षा- याम्, चेतनव्यवहारे प्रकृते चाचेतनव्यवहारसंबन्धिस्वरूपहेतुफलोत्प्रे- क्षायां च समसोक्तिरेव मूलम्। इति रसगङ्गाधरे समासोक्तिप्रकरणम्।

दर्थः । राजपक्षे लर्थ ऊह्यः । प्रत्ययो विश्वासः । राजप्रियाश्चन्द्रप्रियाः । दिशा रीत्या। स्वरूपहेतुफलानां त्रयाणामुत्प्रेक्षायामित्यर्थः । एवमग्रेपि ॥ इति रसगङ्गाधरमर्मप्रकाशे समासोक्तिप्रकरणम् । १ समासोक्तिः । २ राजप्रिया: इत्यादिः समासोकतिः उत्तमानाम् इत्यादेः सामान्यस्य समर्थिकेति अर्था- न्तरन्यासानुगु्यमाधत्ते। ३ भुवः शाखानां च मिथः संयोगः, भूपर्यन्तलुठच्छाखत्वमित्यर्थः । ४ प्रस्तुततरुधर्मिको व्यवहारः विशेषणसाम्यवशात् अप्रस्तुतसज्जनधर्मिकव्यवहाराभि- न्रतया भासते इति पूर्व समासोक्तिनिष्पत्तौ सत्यां त्रपारूपहेतूत्प्रेक्षा संभवति इत्युत्प्रेक्षानुकूला। ५ स्मरसुधाकर(प्रकृत)व्यवहारे स्वामिसेवकव्यवहाराभेद इत्यर्थः ।

Page 577

समासोक्ति: ] रसगङ्गाघरः । ५१७

अथ परिकर :- विशेषणानां साभिप्रायत्वं परिकरः ॥ तच्च प्रकृतार्थोपपादकचमत्कारिव्यङ्गयकत्वम्। अत एवास्य हेत्वलं- काराद्वैलक्षण्यम्, तत्र व्यङ्गयस्यानावश्यकत्वात्। उपपादकता चोपस्का- रक-निष्पादकसाधारणी। व्यङ्गयस्य गुणत्वाच्च न ध्वनित्वं व्यपदिश्यते। यथा- 'मत्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतग्रावभिः । वीचिक्षालितकालियाहितपढे खवर्लोककल्ोलिनि त्वं तापं तिरयाधुना भवभयव्यालावलीढात्मनः ।।' अन्नात्मनो भागीरथीकरतृकस्य भवव्यालदंशजनिततापदूरीकरणस्याशं- सनं हि वाक्यार्थः । तत्र भगवत्या भवतापनाशिकात्वस्य सुप्रसिद्धत्वात्परि- णामेने भवरूपविषयतादात्म्यापत्त्या व्यालजनितसंतापनाशिकात्वं ताव- त्सूपपौदमेव। 'स्थास्तुजङ्गमसंभूतविषह्ञ्रय नमो नमः' इत्याद्यागमबलाच

परिकर लक्षयति-विशेषणेति। तच्च साभिप्रायलं च। अत एवेत्यस्यार्थमाह- तत्रेति। हेललंकार इत्यर्थः। ध्वनावतिव्याप्तिवारणाय प्रकृतार्थोपपादकेति। परिकराङ्क- रेऽतिव्याप्तिवारणाय विशेषणेति। मीलितं निमीलितम्। स्नस्तं गलितम्। गरुडसंब- नयुपलै रक्तमणिभिश्च। वीचिभि: क्षालितौ कालियाख्यसर्पेशत्रुकृष्णपादौ यया तत्संबोध- नम्। खवगेङ्क। संसाररूपसर्पेदष्टात्मन इत्यर्थः । 'प्रार्थने लोट्' इत्याशयेनाह-आशंस- नमिति। तन्र वाक्यार्थे। परिणामेन तदलंकारेण। तथा च मयूरव्यंसकादिलात्समासो बोध्यः । तादात्म्यापत्त्या व्यालरूपविषयिणीति शेषः। आगमेति।पुराणेत्यर्थः। आधा-

१ हेत्वलंकारे व्यञ्क्यसत्ता नानिवार्या। परिकरे तु प्रकृतार्थोपपादकस्य व्यञ्ञयस्याबश्य- कत्वमित्याशयः । २ ननु रूपके उत्तरपदार्थस्य व्यालस्य प्राधान्ये, संसाररूपव्यालजनिततापनाशकत्वं गङ्डाया आशंसनीयं स्यात्। किन्तु संसारतापनाशिकात्वमेव गङ्गायाः प्रसिद्धम्, न सर्पताप- नाशकत्वम्। अत मवाह-परिणामेन इत्यादि। विषयी व्याल: भवरूपविषयात्मकः सन् तापहरणकार्यें कर्मतया उपयोगं प्राप्नोति। अर्थात् विषयी व्याल: विषयस्य भवभयस्यैकात्मा जातः । भवभयनाशकत्वं तु गङ्गाया उपपन्नमेवेत्याशयः । ४४ रस०

Page 578

५१८ काव्यमाला। [द्वितीयानने-

विषयतादात्म्यं विनापि शुद्धव्यालजनितसंतापनाशिकात्वमपि स्वभाव- सिद्धमेव। एवं वाच्यार्थस्य सत्यामपि निष्पत्तौ सौन्दर्यविशेषाधानाय साकूतं विशेषणं वीचिक्षालितेत्यादि। अन्र नामान्तरस्य सत्वेऽपि कालि- याहितशब्दोपादानसामर्थ्याद्दगवतश्चरणे फणागणनृत्यनिःसारीकृतकालिये लोकोत्तर विषहरणशक्तिरुत्पत्तिसिद्धैवासीत्। सा च तयोवीचिभि: क्षाल- नादङ्गायां स्वाश्रयरेणुद्वारा संक्रान्तेति गम्यते। न च शक्त: पूर्वमेव क्षालनात्कथं चरणेनार्वाक्कालियस्य विषहरणं शक्तिरहितेन संभवतीति वाच्यम्। क्षालितावशिष्टा लेशरूपा शक्तिश्चरणे काचित्स्थतासीत् यया संप्रति कालियस्य विषमहारीत्यप्याकृतान्तर्गतमेवेति नानुपपत्तिः । एवं हि वाच्योपस्कारकतयात्र गुणीभावः, न वाच्यसिद्धङ्गतया। यथा वा- 'मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव तावकम्। धृतशार्ङ्गगदारिनन्दक प्रतिकर्षन्ति कथं न वीक्षसे ।।' अन्नाप्युपेक्षानौचित्यस् तावकशब्दप्रतिपादितेन स्वामिभृत्यभावेनैव निष्पन्नशरीरस्य प्रकर्षकं घृतशाङ्गेत्यादिविशेषणममोघशस्त्रास्त्रसंपन्नस्य समक्षमेव रिपुभिः कृष्यमाणं दासमुपेक्षमाणस्याकीर तिभवित्री तवेत्याकूत-

विशेषणं दोषाभावमात्रं कष्टत्वाद्यभाववद्भवितुमहृति, न त्वलंकार इति। नाय तत्करणाय। नामान्तरेति। वीचिक्षालितवासुदेवचरणे इत्यादेरित्यर्थः। सा शक्तिः। तयोः पादयोः। खशन्देन नाशनशक्तिः। पूर्वमेव कृष्णावतारात्प्रथममेव। अर्वाक् कृष्ण- जन्मानन्तरम्। एवमग्रेऽपि। उपसंहरति-एवं हीति। प्रकारान्तरेण सिद्धायास्तस्या विशेषणेन पोषणे हीत्यर्थः । मदेति। विष्णुं प्रति भक्तोकिः। लत्पुर एव तदग्र एव। तावकं माम्। अरिशब्देन चक्म्। अपुष्टाथति । अपुष्टार्थतेत्यर्थः । एवमग्रेऽपि। कष्टत्वादीति । यथा कष्टलाद्यभावो दोषाभावमान्रं न ललंकारस्तथेत्यर्थः । अत्र १ यया पूर्व कालियविषह्ारकस्य चरणप्रक्षालनं कृतमवश्यं तया चरणगता विषहरणशक्ति- रुपलब्धा। अत एव भवव्यालव्यालीढात्मनस्तापहरणे साऽवश्यं समर्थेति चमत्कारि व्यङ्गयं अकृतार्थोंपपादकमित्याशयः । : २ विषयम् अहारि, लेशमात्रेणापि ताटृग विषहरणसामर्थ्य व्यञ्चयातिशयः । ३ निष्यन्नशरीरस्य उपेक्षानौचित्यस्येत्यन्वयः । समर्थः स्वामी शत्रुभिः समक्षे त्रास्यमानस्य वनिजभृत्यस्य स्वापमानजनिकामुपेक्षां कथ वा कर्तुमर्हेदित्यर्थः ।

Page 579

परिकर: ] रसगङ्गाधर: । ५१९

अत्र विमार्शनीकारादय आहु :- 'विशेषणानां बहुत्वमत्र विवक्षितम्। साभिप्रायविशेषणगतबहुत्वकृत एव चात्र वैचित्र्यातिशयः। एकविशेषणं तु दोषाभावमात्रस्यावकाशः' इति। तदसत्। विशेषणानेकत्वं हि व्यङ्गया- विक्याधायकत्वाद्वैचित्र्यविशेषाधायकमस्तु नाम, न तु प्रकृतालंकारशरी- रमेव तदिति शक्यं वक्तुम्। वीचिक्षालितकालियाहितपदे इति प्रागुक्त्ते एकस्यव विशेषणस्य चमत्कारिताया अनपह्नवनीयत्वात्। 'अयि लावण्यजलाशय तस्या हा हन्त मीननयनायाः । दूरस्थे त्वयि किं वा कथयामो विस्तरेणालम् ।' अत्रैकैकविशेषणमात्रेणैव सकलवाक्यार्थसंजीवनाच्। यत्त कुवलयानन्दकार आह-"'शेषयमकादिष्वपुष्टार्थदोषाभावेन तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषसद्भावा- त्परिकरत्वोपपत्तिः । यथा-'क्षितिभृतैव सदैवतका वयं वनवतानवता किमहिद्रुहा' इति गोवर्धनपर्वतविषयके नन्दादीन्प्रति भगवद्वाक्ये" इति। तद्प्यसत्। यो हीममलंकारं दोषाभावान्त:पातितयालंकारमध्याद्वहिर्भाव- यति, स किं त्वदुक्तश्लेषयमकादिशब्दचित्रातिरिक्तस्थले साभिप्रायविशे-

परिकरलक्षणे। चो हेतौ। अन्र परिकरे। हि यतः । तत् विशेषणानेकतम्। अयीति। नायिकावृत्तान्तं नायकं प्रति कश्चिद्वक्ति-अभावेनेति। तावतैव साफल्येन श्लेषादेस्त- दपवादलादिति भावः । विशषाभावादिति। तदापत्तेरित्यर्थः। जायमानतदर्थ तद्वि- न्यासस्यावश्यकत्वं तन्रेतीति शेषः । परिकरेति । परिकरस्यालंकारत्वोपपत्तिरित्यर्थः । उद्भटालंकारसंपत्त्या सहृदयवैमुख्यरूपदूषकताबीजाभावादिति भावः । 'साभिप्रायस्य विन्यासे विच्छित्तिविशेषसद्भावात्' इति क्वचित्पाठः। क्षितीति। यमकोदाहरणमिदम्। १ त्वं लावण्यस्य जलाशय इति तस्याः त्वदनुप्राणितनयनाया उपसार्य एव त्वमित्येक- विशेषणेन वाक्यार्थोपस्करणम्। किश्न-लवणं शीतलं (जडम्) भवति (यतो हि संतापा- धिक्ये शीतलीकरणाय लवणजलमासिच्यते)। अत एव दृढानुरागायास्तस्या विरहवैकल्यं जडाशयरत्वं न यथावदवगन्तुं शक्कोषि। किंवा-स्वयं शीतलहृदयस्त्वं विरहानलदन्दह्यमा- नस्य जनस्य कर्थंकारं वा हृदयव्यथां परिजानीयाः? इत्युपालम्मेनापि वाक्यार्थस्य विच्छित्तिः । एवमेव-मीनो जलं विना न कर्थच्चिदपि यथा जीवितुं शक्रुयात्तथा तन्नयने त्वददूरीभावे न कर्थंच्चिदपि जीवेतामिति एकेनैव मीननयनात्वविशेषणेन नायिकागतमखिलमाकृतमाविष्कुर्वता वाच्यमिदं चमत्क्रियते।

Page 580

५२० काव्यमाला। [द्वितीयानने-

षणेषु विच्छित्तिविशेषं मन्यते, न वा ? आदे' दोषाभावमात्रेण विच्छि- त्तिवि शेष स्यालंकारप्रयोज्यस्थालंकारमन्तरेणानिष्पत्तेः सिद्धं सर्वत्र परिक- रस्यालंकारत्वम् । द्वितीये अन्यत्रेव यमकादिष्वपि विच्छित्तिविशेषो नास्तीति तेन सुवचत्वात्। तथा हि- 'अनापदि विना मार्गमनिशायामनातुरः। मृत्तिकाशौचहीनस्तु नरो भवति किल्बिषी ।।' इत्यत्र पर्युद्स्तेऽप्यापत्कालादौ यथा केनचिन्मृत्तिकाशाचादि क्रियमाणं न

प्रशस्तवनयुक्तेन गोवर्धनेन। अरक्षकेणेन्द्रेणेत्यर्थः । 'अहिर्त्टत्रासुरे सर्पे' इति विश्वः । यमकादीति। तद्रूपशब्दचित्रेत्यर्थः । सर्वत्र श्लेषादौ तदन्यत्र च। तेन सुवचत्वा दिति। अन्नेदं चिन्त्यम्-दोषाभावमध्ये एनमन्तर्भावयता एकविशेषणे चमत्कारविशे-

कचमत्कारोऽस्ति, वाद्यनज्गीकारस्तप्रयोजक इत्युच्यते, तर्हि समं प्रकृतेऽपि। किं च अपि तु पोषायेति वदता भवतापि श्लेषयमकादिषु विशेषणस्य चमत्कारिताभ्युपेतैव। चमत्कारातिशयजनकतारूपाया एव पुष्टेः काव्ये सवीकारातू। यदि तु विवक्षितार्थबोध एव पोष: विवक्षितार्थबाधप्रयोजकानुपादानत् च पुष्टतम्, तथाप्यापत्कालेऽक्रियमाणं मृत्तिकाशौचादि यथा न दोषाय नापि लोकनिन्दायै, क्रियमाणं चाधिकस्तुतयेऽधिकफ- लाय च भवति, तथा यमकादिषु पुष्टतमक्रियमाणं न दोषाय, क्रियमाणं तवधिकचमत्का- रायेति वक्तुं शक्यम्। न च कवेः स्तुतये भवतु, न चमत्कारायेति वाच्यम्। नित्ये फलस्यापि सवीकारेण तदतिशयस्य तेन जननवदुपपत्तेः इह तु फलं चमत्कार एव। अयि लावण्येत्यत्र तु पुष्टत्वमक्रियमाणं दोषाय, क्रियमाणं तु विवक्षितार्थाबाधरूपपोषा- यैव, नाधिकचमत्काराय। यथाऽनापद्यक्रियमाणं मृच्छौचादि दोषाय, क्रियमाणं तु नाधिकफलायेत्यतो यमकपर्येन्तानुधावनम्। वस्तुतः संध्याद्यकरणस्य दोषलेऽपि तदभावो न दोषाभावमान्रम्, अपि तु फलायापि, एवं यमकाद्यतिरिक्तेऽपि साभिप्रायैकविशेषणो- पादाने दोषलाभावश्चमत्कारश्वेत्यलंकारखम्। किं च यथा तत्र दोषाभावस्याङ्गवैकल्ये- पि सिद्धे साङगतत्करणं फलातिशयायैव, एवं दोषाभावस्य विशेषणानुपादानेऽपि संभ-

१ आद्े (श्र्वेषाद्यतिरिक्तस्थले साभिप्रायविशेषणविन्यासे विच्छित्तिविशेषं चेन्मन्यते तहिं) विच्छित्तिविशेष: अलंकारप्रयोज्य: (अलंकारहेतुकः), अत एव अलंकारं विना दोषाभावमात्रेण तस्य (विच्छित्तिविशेषस्य) निष्पतिर्न भवितुमहति। अत एव सिद्धं सर्वत्र परिकरस्यालंकारत्वम्। इति योजना। २ आपत्कालादौ मृत्तिकाशौचस्य पर्युंदासः (अपवादः) वतते, तथापि यदि केनचित् आपत्कालादौ मृत्तिकाशौचं क्रियते तरहि न तस्य निषेधः (करणे प्रत्यवायः) इत्यर्थः ।

Page 581

परिकर: ] रसगङ्गाधरः । ५२१

केनापि प्रतिषिध्यते, कर्तुः सामर्थ्यगमकं च भवति, तथा प्रकृतेऽपि दोषनिषेधविधौ पर्युदस्तेऽपि यमकादौ पुष्टतारूपदोषाभावः कविना संपाद्यमानो न दोषाय भविष्यति, अपि तु रसपोषायैवेति। यदि च यमकेऽनुभवं विच्छित्तिविशेषे प्रमाणं ज्रूषे, ब्रूहि तदान्यत्नापि तमेव प्रमा- णमिति यमकपर्यन्तानुधावनं निरर्थकमेव। तस्मात्पुष्टार्थतारूपेण दोषाभावेन परिकरालंकारस्य विषयविभागो दुःशक इति प्राप्ते त्रूमः । सुन्दरत्वे सत्यु- पस्कारकत्वमलंकारत्वम्। चमत्कारापकर्षकाभावत्वं च दोषाभावत्वम् । तदेतद्वर्मद्वयं विविक्तविषयं यदि दैवादेकस्मिन्विषयविशेषे समाविशेत्तदा का हानि: स्यात् ?। उपघेर्येसंकरेऽप्युपाध्यसंकरात्। यथा ब्राह्मणस्य मूखत्वं दोषः, विद्या तु दोषाभावश्च भवति गुणश्च, तथेहाप्युपपत्तिः । न च दोषाभावतया प्राप्तस्यापि परिकरस्य किमित्यलंकारेषु गणनागौरवमिति वाच्यम्। उभयात्मकत्वेनेतरवैलक्षण्यज्ञापनार्थतया गणनोपपत्तेः । यथा गुणीभूतव्यक्नयभेदतया संगृहीतापि समासोक्तिरलंकारगणनायां

वेन साभिप्रायैकविशेषणनिबन्धनोऽपि चमत्कारो दुरपह्रव इति बोध्यम्। तदेतदपि चैकपदार्थहेतुकमित्यादिना ग्रन्थेन कुवलयानन्दे स्फुटमिति दिक। इत्यत्र भृत्तिकाशौचा- भावनिषेधविधौ। पर्युदस्तेऽपि दोषाभाववत्तया प्रतिपादितेऽपि। सामर्थ्यावगमं च साम- थ्यगमकं च । क्वचित्तथैव पाठः। दोषनिषेधेति। अदोषं काव्यमित्यत्र। पुष्टतेति। तद्रूपो यो दोषाभाव इत्यर्थः । उपसंहरति-तस्मादिति। विविक्तेति । परिकरा- तिरिक्ते सामानाधिकरण्याभावादिति भावः । एकस्मिन् परिकरे। यथेति । विद्यायां गुणत्वदोषाभावतयोः समावेशेऽपि तयोरसांक्र्य यथेत्यर्थः । उभयेति। अलंकारदो- षाभावरूपत्वेनेत्यर्थः । इतरेति । परिकरान्यालंकारत इत्यर्थः । अस्याग्रेऽप्यन्वयः । अत एवाह-यथेति। महाभाष्यकारोक्तं दृष्टान्तमाह-प्रासादेति। ऊर्घ्वदेशेत्यर्थः।

१ अपुष्टार्थतारूपस्य दोषस्याभावं कृत्वा पुष्टतैव यदि संपाद्यते तहिं। २ अलंकारत्वं दोषाभावत्वं चेति उपाधिद्यं पृथक्, नानयो: संकरः । एकत्र स्थले (परिकरे) यदि द्वयोरनयोः समावेशस्तहि पृथक साधितयोरुपाध्योन संकरः, किन्तु उपघेय- योरेव। यथा विप्रस्य मूर्खत्वं दोषः, विद्या च गुणः । कुत्रचित्स्थले (अवसरविशेषे) विद्याया दोषाभावत्वमपि, गुणत्वमपि च यदि प्रसज्यते तहिं नोपाध्योः (दोषाभाव-गुणत्वयोः ) संकर इति सर्वस्याशयः ।

Page 582

५२२ काव्यमाला। [ द्वितीयानने-

पुनर्गण्यते। यथा वा प्रासादवासिषु गणितोऽ्युभयवासी भूवासिगण- नायां पुनर्गण्यते तथेहापीति न कश्चिद्दोषः । अन्यथा प्राचां काव्य- लिङ्गमप्यलंकारो न स्यात्। तस्यापि निर्हेतुरूपदोषाभावात्मकत्वात्। 'द्विजराज कलाधार विश्वतापनिवारण। कथं मामबलां क्ूरैः करैर्दहसि निर्दय ।।' इत्यादौ विशेषणाधिक्याव्यङ््याधिक्ये चमत्काराधिक्यम्।

भवन् व्यङ्ग्यस्य वाच्यायमानत्व-तद्विपर्ययाभ्यां चतुर्धा। आद्यो यथा- 'विहाय संसारमहामरुस्थलीमलीकदेहा दिमिलन्मरीचिकाम्। कृपातरङ्गाकुल मन्मनोमृगो विगादुमीश त्वयि गाढमीहते।।' अत्र गाहनसिद्यङ्गं कृपेत्यादेः सेमुद्ररूपं व्यङ्गयं वाच्यायमानम्। द्वितीयो तथा- 'खर्वीकृतेन्द्रगर्व त्वरया चक्रेण भिन्ननक्रमुख। लीलात्तकोलमूर्ते मामुद्धर्तु कथं न शक्तोऽसि ।' अन्न गोवर्धनगजेन्द्रवसुंधराणामुद्धारो वाच्यतास्पर्शशून्य एवोपालम्भ-

विपक्षे बाधकमप्याह-अन्यथेति। एवं सत्यपि तस्य तत्त्वानज्गीकार इत्यर्थः । अत एवापि: प्रयुक्तः। अनेकविशेषणानां साभिप्रायले उदाहरति-द्विजेति। चन्द्रं प्रत्यु- क्तिरियम्। परिकरस्य भेदमाह-अयं चेति। कोलेति। वराहेत्यर्थः । वाच्यता- स्परशेति। वाच्यायमानतेत्यर्थः । अत एव स्पर्शपदसार्थक्यम्। तद्रमकाभावात्तस्य गूढतमिति भावः ॥ इति रसगङ्गाधरमर्मप्रकाशे परिकरप्रकरणम् ॥

१ वाच्यसिद्धयङ्गं व्यङ्गयं गमे यस्य, तत्त्वेन । २ समुद्ररूपं व्यङ्गयं विना गाहनरूपस्य वाच्यस्य सिद्धिर्न भवति, ततश्च सोयं परिकरो वाच्यसिद्धयङ्गव्यङ्ञयगरभः । व्यङ्ञयं (समुद्ररूपम्) न केवलं काव्यभावनापरिपक्कमतिभिरेव, अपि तु साधारणैरपि परिज्ञातुं शक्यमिति वाच्यायमानम्। ३ विशेषणानां व्यड्यैविना उपालम्भस्य सिद्धिर्न भवति इति वाच्यसिद्धयङ्गम्। किन्तु स्फुटगमकाभावाद् व्यञ्यस्य वाच्यायमानत्वं नास्ति। (तद्विपर्यय इत्यर्थः)।

Page 583

श्लेष: ] रसगङ्गाघर:। ५२३

सिद्धयङ्गम्। तृतीयस्तु 'घृतशार्ङ्गदारिनन्दक' इत्यन्र, चतुर्थः 'वीचिक्षालि- तकालियाहितपढे' इत्यत्र च बोध्यः। इति रसगङ्गाधरे परिकरालंकारप्रकरणम्। अथ श्रलेष :-

तच्च द्वूधा। अनेकधर्मपुरस्कारेणैकधर्मपुरस्कारेण च। आद्यं द्वेवा। अनेकशब्दप्रतिभानद्वारा एकशव्दप्रतिभानद्वारा चेति त्रिविर्धः श्लेषः । तत्रौद्यः सभङ्गो द्वितीयो हभङ इति वदन्ति। तृतीयस्तु शुँद्ध: । एवं त्रिविधोऽप्ययं प्रकृतमात्राप्रकृतमात्रप्रकृताप्रकृतोभयाश्रितत्वेन पुनस्त्रि- विधः । अत्राद्ये भेदे द्वितीये च विशेष्यस्य श्िष्टतायां कामचारः । तृतीयभेदे तु विशेषणवाचकस्यैव श्िष्टत्वं न विशेष्यवाचकस्य। तथात्वे तु शब्दशक्तिमूलध्वनेरुच्छेद एव स्यात्। विशेषणमात्रश्िष्टतायामपि प्रकृता- प्रकृतधर्मिणोरुपादान एव श्लेषः। प्रकृतधर्मिमात्रस्योपादाने तुसमासोक्तेरेव विषयः। तदित्थं प्रकृतमात्रविशेष्यकानेकार्थविशेषणं यत्र स एकः । एवम-

श्लेषं लक्षयति-अथेति । तत्र आद्यमेदयोर्मध्ये। अत्र एषां भेदानां मध्ये। आद्ये प्रकृतमात्राश्रिते। द्वितीये अप्रकृतमात्राश्रिते। तृतीयमेदे उभयाश्रिते। तथात्वे त्विति। विशेष्यस्यापि श्िलिष्टत्वे हीत्यर्थः । अत्र विशेष्यस्य श्ष्टलेऽपि श्लेषाङ्गीकारे शब्दशक्तिमूलध्वन्युच्छेदापत्तिरित्यखण्डार्थः । तृतीये विशेषमाह-विशेषणेति । विशेषणस्यैव शरिलिष्टतायामित्यर्थः । ेदानुपसंहरति-तदित्थमिति। अनुगतं लक्षण- १ उपस्कारकव्यङ्गयगभ:, व्यङ्गयस्य (अमोघशस्त्रास्त्रसंपन्नस्य तव समक्षं रिपुभिः कृष्य- माणं दाससुपेक्षमाणस्य तवाऽकीतिरित्यस्य) वाच्यायमानत्वं च, स्फुटबोध्यत्वात्। २ उपस्कारकव्यङ्यगर्भ:, व्यङ्ग्यस्य न स्फुटप्रत्येयत्वम्। ३ एकेन वर्णानुपूर्वीश्रवणेन। ४ अनेकधर्मपुरस्कारेण [ अनेकशब्दप्रतिभानद्वारा, एकशब्दप्रतिभानद्वारा चेति ] द्विविधः । एकधर्मपुरस्कारेण चैकविध इति संहत्य त्रिविध इत्यर्थः । ५ तत्र द्वितीयमेदयोः (अनेकशब्दप्रतिभान-एकशब्दप्रतिभान-द्वारा चेति) मध्ये आद्यः (अनेकशब्दप्रति०) सभङ्गः । एकशब्दप्रतिभा० अभङ्गपदवाच्य इत्यर्थः। "आद्यमेदयोः (आचौ हि मेदौ अनेकधर्मपुर०, एकधर्मपुर०) मध्ये" इति नागेशटीका तु अज्ञानमूलिका। सभद्गा- Sभङ्गौ द्वावपि अनेकधर्मपुरस्कारेणैव भवतः । यथा अभङ्गे-करकलितचक्र० इत्यत्र करकलित० इत्याद्यानुपूर्व्या अनेकधर्म (भिन्नभिन्नधर्म) पुरस्कारेणैव अर्थद्यम्। अहो धन्या टीका !! ६ अर्थर्ेष इति यावत्। एकधर्मपुरस्कारेणानेकार्थप्रतिपादनरूपः ।

Page 584

५२४ काव्यमाला। [द्वितीयानने-

तृतीयः । एतद्न्यतमत्वं च लक्षणं पर्यवसितम्। क्मेणोदाहरणानि- 'संभूत्यर्थ सकलजगतो विष्णुनाभिप्रपन्नं यन्नालं स त्रिभुवनगुरुर्वेदनाथो विरिध्चिः । ध्येयं धन्यालिभिरतितरां स्वप्रकाशस्वरूपं पद्माख्यं तत्किमपि ललितं वस्तु वस्तुष्टयेऽस्तु ।।' अन्नाशी:प्रकरणे तुष्टिजननसमर्थत्वेन लक्ष्मी-भगवन्नाभिकमलयोरु- भयोरपि प्रकृतत्वात्प्रकृतमात्राश्नितोऽयमेकया श्रुत्या पदद्वयप्रतिभानद्वारा भिन्नधर्मपुरस्कारेणानेकार्थप्रतिपादनात्सभङ्गः । विशेष्ययोरश्विष्टत्वेऽ्ययं संभवति। यथात्रैव 'पायादादं कमलमथवा योगमायास्वरूपम्' इति तुरीयचरणनिर्माणे। अयमेवाभङ्गात्मको यथा- 'करकलितचक्रघटनो नित्यं पीताम्बरस्तमोSरातिः । निजसेविजाड्यनाशनचतुरो हरिरस्तु भूतये भवताम् ।'

माह-एतदिति। संभूत्यर्थमिति। संभूतिरुत्पत्तिः सम्यगैश्वर्यं च । विष्णुनामिं प्राप्तम्, विष्णुना अभिप्रपन्नं प्राप्तं च। स तादृशो ब्रह्मापि यस्य कमलस्य नालं नाल- दण्डः, यस्मादलं समर्थो न च। धन्यैर्रमरैः, धनिकपङ्किभिश्च। पद्माख्यं कमलसंज्ञकं कमलासंज्ञकं च। अयं प्रकृतमान्राश्रितः । एवमग्रेऽपि । आदयं भगवन्नाभिसंबन्धि । करकलितेत्यादि। करो हस्तः किरणश्च। चक्रं सुदर्शनं कालचक्रं च। अम्बरमा- काशो वस्ं च। तमो राहुरन्धकारश्च। जाड्यमज्ञानं मूर्खेतं च। हरि: सूर्यो विष्णुश्च। अयं प्रकृताप्रकृतोभयाश्रितः । जाड्यति । निजसेवीत्यस्येत्यादिः । समर्थ इत्यग्रे शेषो १ 'विष्णुनाभिप्रपन्नम्, इत्यादिर्वर्णानुपूर्वीश्रुतिरेकैव। किन्तु अर्थानुसारम् 'विष्णुनाभि- अपन्नम्' 'विष्णुना अभिप्रपन्नम्' इति पदद्वयप्रतिभानं तु पृधक्। अत्र हि लक्ष्मी-भगवन्नाभि- कमलेत्यनेकार्थप्रतिपादने धर्मा भिन्ना भिन्नाः । यथा-विष्णुनाभिप्रपन्नम् इति नाभिकमलार्थ- प्रतिपादने भगवन्नाभिदेशप्राप्तत्वं धर्मः । लक्ष्मीरूपार्थप्रतिपादने तु भगवत्प्राप्तत्वं धर्मः । एवं सर्वत्र पदेषु बोध्यम्। २ अयमेवेत्येवकारेण 'अभङ्गात्मकत्वमेवात्र विशेषः । प्रकृतमात्रा- श्रितत्वं तु पूर्ववत् (आशीःप्रकरणे-भूत्यर्थसत्ताशालितया विष्णुसूर्ययोरुभयोरेव प्रकृतत्वात)' इति ग्रन्थकर्तुराशयः । 'अयं प्रकृताप्रकृतोभयाश्रितः' इति नागेशटीका तु नागेशटीकैव। 'एते त्रयोपि प्रकृतविषयाः'। इति स्वयं ग्रन्थकृताऽये स्पष्टीकृतत्वेप्यनवधारणात्। ३ निजसेविनां जाड्यस्य हिमकृंतगात्रपिण्डीभावस्य नाशने चतुरः सूर्यः। जाड्यस्य अज्ञानस्य नाशने चतुरो विष्णुः। 'जाड्यमज्ञानं मूर्खत्वं च' इति नागेशकृतोऽर्थस्तु विज्ञानवेद्य एव।

Page 585

श्लेष: ] रसगङ्गाघर: । ५२५

विशेष्ययोर्िष्टत्वे यथा 'जाड्यहरणो विष्णुः सूर्यश्र वः पातु' इति तस्यैव शेषे कृते। अर्थश्रलेषो यथा- 'अर्जुनस्य गुरुर्मायामनुजः परमः पुमान्। गुआपुञ्जधरः पायादपायादिह कोऽपि वः ॥' एवमेते त्रयोऽपि प्रकृतविषया एव भेदाः । 'हरिकरसङ्गादधिकं रमणीयाप्यतुलरागसंवलिता। सुन्दरि तवाननागे कमलाभा विगलितप्रतिभा॥' अयमप्रकृतमात्रविषयः । प्रकृतस्याननस्य श्रेषाविषयत्वात्। कमला- भेति विशेष्यांश, अधिकमिति विशेषणांशे च सभङ्गः, अन्यत्राभङ्ग: । अप्रकृतयोर्विशेष्ययोरश्िष्टत्वे यथात्रैव 'कमलायाः कमलस्य च शोभा गलिता तवाननस्याग्रे' इत्युत्तरार्धनिर्माणे। प्रकृताप्रकृतोभय विषयो यथा- 'अलं हिमानीपरिदीर्णगात्रः समापितः फाल्गुनसंगमेन। अत्यन्तमाकाङ्कितकृष्णवर्त्मा भीष्मो महात्माजनि माघतुल्यः ।।'

वति तृतीयो भेदः। परं तूपमया संकीर्णः । यदि च 'माघो महात्माजनि

बोध्यः। शुद्धश्लेषं तृतीयमुदाहरति-अर्थति। अर्जुनस्य गुरुरित्यत्र च गुरुपदं श्िलिष्टं पर्यायपरित्ृत्तिसहं च शिक्षकादिपदोपादानस्यापि संभवादिति बोध्यम्। एवं च गुरुरुप- देष्टा बृहस्पतिश्व । उपसंहरति-एवमिति। अप्रकृतविषयमुदाहरति-हरीति । हरिर्विष्णुः सूर्यश्च। करो हस्तः किरणश्च। अधि अतिशयेन के इत्यधिकम्। अव्ययीभावः । जले इत्यर्थश्च। सङ्गादिति पश्चम्यन्तमतुलरागेत्यन्नाप्यन्वेति। कमलाभा कमलकान्तिर्लेक्ष्मी- कान्तिश्च। विगलितप्रतिभा निःसारा। अन्यत्र हरिकरादौ। अन्नैव उक्तपद्य एव। अल- मिति। अलमत्यन्तम्। हीति निश्चयेन। मानी अभिमानी अत्यन्तं हिमसंहत्या परिदी- र्णानि गात्राणि येन स च। फाल्गुनोऽर्जुनो मासश्च। अत्यन्तमाकाद्ितः कृष्णस्य मार्गो येन अत्यन्तमाकाह्ितः कृष्णवर्त्मान्निर्यस्मिन्स च भीष्मो गाङ्गेयः। माघो मासः।संकीर्ण इति। तुल्यपदोक्तेरिति भावः। पूर्व भीष्मस्योद्देश्यत्वं तत्तुल्यत्वस्य विधेयलम्, अधुना तद्वैपरी-

Page 586

५२६ काव्यमाला। [द्वितीयानने-

हन्त भीष्म:' इत्यप्रकृतांशमपि श्ेषप्रस्तं कृत्वा रूपकं क्रियते, तथापि प्रकृत- विशेष्यस्य माघस्याश्िष्ठत्वादखण्डित एव ग्लेषः। न चात्र समासोक्तिरिति भ्रमितव्यम्, अप्रकृतधमिणोऽपि शब्दवाच्यत्वात् । यत्र त्वप्रकृतव्यव- हार एव शब्दशक्तिं सहेतापि, न त्वप्रकृतधर्मी, तत्र समासोक्तेरिष्ठेः । अत्र विचार्यते-अयं चालंकार: प्रायेणालंकारान्तरस्य विषयमभि- निविशते, तन्न किमस्य बाधकत्वं स्यादाहोस्वित्संकीर्णत्वमुताहो बाध्यत्व- मिति। अत्राहुरुद्भटाचार्या :- "-'येन नाप्राप्ते य आरभ्यते तस्य स बाधकः' इति न्यायेनालंकारान्तरविषय एवायमारभ्यमाणोऽलंकारान्तरं बाधते। न चास्य विविक्तः कश्चिदस्ति विषयो यत्र सावकाशो नान्यं बाधेत। तथाहि अप्रकृतमात्रयोः प्रकृतमान्रयोर्वा तावत्तुल्ययोगितैव जागर्ति। प्रकृतापकृतयोस्तु दीपकम्। तद्नुमोदिता उपमाद्यश्च। न च 'देव त्वमेव पातालमाशानां त्वं निबन्धनम्। त्वं चामरमरुूदूमिरेको लोकत्रयात्मकः ।।' इत्यादिकाव्यप्रकाशोक्तौ विविक्तो विषय इति वाच्यम्। रूपकस्यैवान्न

तयेनाह-यदीति। श्ेषेति। गाङ्गेयवद्धयानकस्यापि प्रतीतेरिति भावः । अखण्डि- त एव श्लेष इति। शब्दशक्तिमूलध्वनिना न खण्डित इत्यर्थः । क्व तर्हि समासोक्ति- रत आह-यत्रति । अपिः संभावनायाम्। अन्न श्लेषविषये। अत एवाह-अयं चेति। शलेष इत्यर्थः । विविक्तविषयस्यापि वक्ष्यमाणतादाह-प्रायेणेति। अभीति। व्याप्नोतीत्यर्थः । उताहो अथवा । येनेति। प्राप्त इति भावे क्तः । येनेति कर्तरि तृतीया। नञ्दूयस्य प्रकृतदार्व्यबोधकत्वम्। तथा च यत्कर्तृकावश्यप्राप्ती य आरभ्य- माण: स तस्य बाधक इत्यर्थः । तदप्राप्तियोग्येऽचारितार्थ्य हि बाधकताबीजम्। एवन्य वच्छेदं स्पष्टार्थमाह-न चेति। नहीत्यर्थः । तावदादौ। अलमत्यन्तम् । पाता रक्षिता, पाताललोकश्च। आशानां मनोरथानाम्, दिशां च। अमराणां देवानां मरुद्र- १ माघवर्णने अप्रकृतं भीष्मपदं श्िष्टम्, भयंकरत्वस्य गाङ्गेयत्वस्य च प्रत्यायकत्वात्। २ अत्र तु अप्रकृतो धर्मी (भीष्मः) शब्दशक्ति सहते, अर्थात् अनेकार्थः । इति नात्र समासोकतिरित्याशयः । ३ तेन दीपकेन अनुमोदिताः । दीपकाश्रिता उपमादयो व्यज्ञया भवन्तीत्याशयः ।

Page 587

श्लेष:] रसगङ्गाघर: । ५२७

स्फुटत्वात्। श्रेषोपस्थापितपातालाद्यर्थस्याभेदारोपमन्तरेण लोकत्रयात्मक- त्वस्य दुरुपपादत्वात्। करथ तर्हि 'नदीनां संपद बिभ्रद्राजायं सागरो यथा' इत्यादावुपमायाः प्रत्ययः?। कथं वा तत्रैव यथाशब्दस्थाने किमुश- व्दृदाने उत्प्रेक्षायाः?। अपर इति कृते च रूपकस्येति चेतु, न। अन्र हि उपमादीनां प्रतिभानमान्रं न तु वास्तवी स्थितिः । नहि श्वैतेन शुक्ता रजतत्वं प्रतीयमानमपि वस्तुतोऽस्ति। तस्मादुपमादिप्रतिभोत्पत्तिहेतुः श्रलेष एव स्वविषये सर्वत्रालंकारः" इति। एतच्चापरे न क्षमन्ते। तथा हि यत्तावदुच्यते येन नाप्राप्त इत्यादि, तन्र प्रागुदाहते 'पद्माख्यं तत्किमपि ललितं' इत्यस्मत्पद्ये, 'सर्वदोमाधवः पातु यो गङ्गां समदीधरत्' इत्यादिपरकीयपद्ये च श्लेषातिरिक्तः कोडलं- कार :? । तुल्ययोगिता तु सादृश्यप्रत्ययनियता कथमत्र शक्यते वक्तुम्? नहि लक्ष्मीकमलयोर्हरिहरयोर्वा प्रकृते सादृश्यं प्रतिपिपादयिषितम्। नापि चात्रैकश्रुत्यार्थद्वयोपादानं विनान्यत्किंचिच्चमत्कारजनकं येनालंकारान्तर-

णानां च भूमि: स्वर्गः, चमरसंबन्धिपवनाश्रयश्च। अभेदेति। प्रथमोपस्थितार्थ इति भावः। तस्माच्छेषस्य सर्वबाधकतवं सिद्धम्। तत्राक्षिपति-कथं तहीति। दीनां खल्पां संपद न बिभ्रत, नदीनां गङ्गादीनां संपदं बिभ्रच्। तन्नव प्राचोक्तनदीनामित्यत्रैव। प्रत्ययपदस्याग्रे उभयत्रानुषङ्गः। प्रतिभानेति । तथा च प्रातिभासिकत्वं तेषामिति भावः । तदेवोपपादयति-नहीति। उद्भटाचार्योक्तं खण्डयति-एतच्चेति। तत्रे- त्यस्य उच्यत इति शेषः । एवमग्रे सर्वत्र बोध्यम्। सर्वदा उमाधवः । सर्वप्रदो माध- वश्च। गङ्गां अग गां च । वस्तुतः सादृश्यसत्त्वेऽप्याह-प्रत्ययेति। ननु तत्प्रतीतिरपि कुतो नात आह-नहीति। नन्वलंकारान्तरमस्तत आह-नापीति। नन्वेकश्रुत्या- १ राज्ि लोकत्रयात्मकतासाधनाय पातालादिरर्थः ('त्वं पाताललोकः' इत्याद्याकारक:) रूपकेणैवोपपद्यते। ततश्चात्रापि रूपकमेव आक्रामकं जातम्। एवं च शषस्य न विविक्तों विषय इति सर्वालंकारबाधकः श्रषः । २ यदि निरवकाशतया श्रेषः सर्वालंकारबाधकस्तहि श्रेषस्थले कथमलंकारान्तरस्य प्रतीति- रित्याशङ्कते-कथं तहींति० । ३ श्वैत्यवशात् शुक्तौ यथा रजतस्य प्रतिभास एव, न तु वास्तवी स्थितिः, तथा 'नदी- नामू०' इत्यादौ उपमादयलंकाराणां प्रतिभानमात्रम, न वास्तवी स्थितिः । वास्तवे तु तत्र ऋेष पवेति-समाधानम्।

Page 588

५२८ काव्यमाला। [द्वितीयानने-

मभ्युपगच्छेम। एकश्रुत्यार्थद्वयोपादानं तु श्लेष एव। एवं च सावकाश- त्वाच्छेषस्यालंकारान्तरापवादकत्वं न युक्तम् । अत एवोपमादीनां प्रति- भानमात्रमिति यदुक्तं तद्पि न संगतम्। गुणक्रियादेरिव शब्दमात्रस्यापि समानधर्मत्वेनोपमायां तावदवाधकाभावात्। एवमेवालंकारान्तरस्थापि श्लेष विषये पारमार्थिक्येव सत्ता न प्रातिभासिकी। प्रत्युत श्रलेषस्यैव प्रतिभा- नमात्रमिति वक्तुं युक्तम्। पूर्णोपमाया विषयस्य सर्वस्यापि त्रिविधश्लेषेणाक्रा- न्तत्वान्निरवकाशतयास्य सावकाशस्य सवविषये बाधौचित्यात्। तथा 'समरा- र्चितोऽप्यमरार्चितः' इत्यादौ श्लेषस्य तैमिरिकचन्द्रद्वयवत्प्रतिभानमात्रमेव, न त्वलंकारत्वम्। तज्जीवातोर्द्वितीयार्थस्याप्रतिष्ठानात्। विरोधस्य त्वाभास- रूपस्याप्यलंकारत्वम्, न तुश्लेषस्येति स्फुटमेव। तस्मादेवमादौ श्र्लेषप्रतिभ-

्ंद्वयोपादानेऽप्यन्यालंकारः कुतो नात आह-एकेति। उपसंहरति-एवं चेति। अलंकारान्तराभावे चेत्यर्थः। क्रियादेरिवेति। तदुपमानधर्मवदित्यर्थः । बाधकाभा- वादिति। बाधकताबीजस्य निरवकाशतस्याभावादित्यर्थः । शलेषस्येति शेषः । उत्प्रेक्षा- दावाह-एवमेवेति। प्रत्युत वैपरीत्येन। उुप्नोपमायां सर्वत्र तदसंभवादाह-पूर्णो- पमेति। तथा च तद्विषये इदमुच्यते, न तु सर्वत्रेति भावः । त्रिविधेति। प्रकृतत्वा- देवेति भावः। तया पूर्णोपमया। अन्यत्राप्येवमित्याह-तथेति। समरे सङ्गामे। तेन वार्चितोऽप्यमरै्देवैरचितः । न मा उपमा यस्य तादृशो राः धनं येषां तैरर्चितः । अनु- पमधनार्चितश्चेत्यर्थः । तैमिरिकेति। तिमिराख्यनेत्ररोगकृतेत्यर्थः । अप्रतिष्ठाना- दिति। सरलतयाऽप्रतीतेरित्यर्थः । नन्वाभासत्वे शलेषवद्विरोधस्याप्यलंकारतं न स्यादत आह-विरोधस्य त्विति। अपिर्वास्तवतत्समुच्चायकः। नन्वेवं तर्हि समराचीत्यादौ कोलंकारोऽत आह-तस्मादिति। उक्तहेतोरित्यर्थः । एवमादौ समरार्चीत्यादौ। एवं सावकाशत्वेन न्यायाविषयत्मुक्ला सामान्यचिन्तापक्षेSसंभवाद्विशेषचिन्तापक्षेऽतिव्या-

१ उपमा निरवकाशा, अयम् (श्रेषः) तु सावकाशः, अत एव स्वस्य (उपमायाः) विषये सावकाशस्य ऋ्रेषस्य बाघाचित्यमित्यर्थः । २ अमरप्रातिद्वन्द्वयेन समर(मरणेन सहित)स्य द्वितीयार्थस्य (श्रवेषजीवनभूतस्य) या उप- स्थिति: सा विरोधे प्रतिसंधानार्थमापाततो भवति। वास्तवे तु समरपदेन संग्रामरूपस्यै- वार्थस्य । ततश्च द्वितीयार्थस्य अप्रतिष्ठानान्न रेषः 1 विरोधरूपस्यार्थस्य तु चमत्कारकतया चैतसि प्रतिष्ठानाद्विरोध शवेत्याशयः ।

Page 589

श्लेष:] रसगङ्गाघर:। ५२९

योत्पाद्यो विरोध एवालंकारः, न तु विरोधप्रतिभयोत्पाद्यः श्रेषः। किं च प्रत्येकं तैत्तदरूपपुरस्कारेण कस्याप्यलंकारस्य नास्ति श्लेषविषये नाप्राप्त- त्वम्, अलंकारान्तरत्वपुरस्कारेणेति चेत्, एवं तर्हि बाध्यसामान्यचि- न्तया स्वविषये प्राप्तस्य सर्वस्यापि वाधापत्तौ श्िष्टपरम्परितरूपकस्य छ्िष्टसमासोक्तेश्रोच्छेद एव स्यात्। तस्माच्छ्ृषस्य नापवाद्कत्वम्, संकीर्णत्वं तु स्यात् इति। अन्ये तु-"अलंकारा हि प्ाधान्येन चमत्काराधायकाः स्वां स्वामाख्यां लभन्ते। त एव परोपकारकतया वर्तमानास्तां त्यजन्ति। यथा-'रराज भूमौ वदनं मृगाक्ष्या नभोविभागे हरिणाङ्कविम्वम्' इत्यत्र प्रकृताऽप्रकृ- तात्मनामेकधर्मसंबन्धो दीपकाख्यां भजते, त्यजति च 'राजते वदनं तन्व्या नभसीव निशाकरः' इत्यत्र। अत एवोच्यते-'प्राधान्येन व्यप- देशा भवन्ति' इति। एवं चालंकारान्तरोपस्कारकतया स्थितः श्रेषः

प्रेश्व न न्यायविषय इत्याह-किं चेति। तत्तदूपेति। उपमात्वरूपकलादीत्यर्थः । विषये तद्विषयत्वावच्छिनने। एवं च बाध्यविशेषचिन्तापक्षे तदसंभवः। सामान्यचिन्ता- पक्षे आह-अलमिति। ननु मास्त्वस्य तदपवादलं परंतु तदग्रिमयोः पक्षयोः को- डभिमतोऽत आह-संकीर्णत्वमिति । तृतीयपक्षाशयेनाह-अन्ये त्विति। हि यतः । अत एव, तेषामेव तदाख्यत्वादेव। तां स्वीयाख्याम्। नभोविभागे नभःप्रदेशे। एकधर्मेति। राजनरूपेत्यर्थः । नभसीवेति। अत्रोपमया वर्ण्यपुष्टिः। उक्तार्थे प्राची- नसंमतिमाह-अत पवेति। ईदृशव्यवस्थाङ्गीकारादेवेत्यर्थः । नन्वेतावता प्रकृते किं सिद्धमत आह-एवं चेति । उत्तव्यवस्थाङ्गीकारे चेत्यर्थः । कथंकारं कथंकृत्वा। १ उन्भटभट्टोद्ृतोयम् (येन नांप्राप्ते य०) न्यायो वाध्य-वाधकयोः सावकाशत्वनिरव- कांशत्वे, सामान्यविशेषभावे च प्रवर्तते। तत्र वाधकस्य श्रेषस्य निरवकाशत्वं निरस्तमिति प्रथमप्रकारेण न्यायाSविषयत्वं तु साधितमेव। सामान्यविशेषभावेन (द्वितीयप्रकारेण) अप्यस्य न्यायस्य नायं विषय इत्याह-'किं च प्रत्यकं तत्तद्रूपेति'। अयं भाव :- उपमात्वं रूपक- त्वमिति तत्तत् स्वविशेषरूपं पुरस्कृत्य अलंकारान्तराणि श्रेषविषये न प्रसज्यन्ते, संभवाभावात्। 'ऋरषस्थले निजनिज विशेष रुपं प्रकाशयन्तपमदयो नसंभवन्त्यवे्र्थः) श्रेषाद् भिन्नानि अलंकारान्तराणीति बाध्यसामान्यविचारेण यदि अलंकारान्तराणां ऋ्रेषविषये प्रवृत्तिरङ्गीक्रियते तर्हि श्रेषविषये ऋरषभिन्नस्य सर्वस्याप्यालंकार सामान्यस्य वाधेन 'श्िष्टपरम्परितरूपकस्य' 'किष्टस- मासोक्तेः' च प्रलोपः स्यात [श्रेषेण बाधे सति तत्सहकृतयो: रूपकसमासोक्तीति व्यपदेशाडसं- भवात्]। ततश्च बाध्यसामान्यच्चिन्तापक्षोपि दुरुपपादः । तस्मात् सावकाशनिरवकाशत्व-सामा- न्यविशेषभावरूपः कतमोपि न्यायस्य विषयो नास्तीत्यर्थः । ४५ रस०

Page 590

६३० काव्यमाला। [ द्वितीयानने-

कथंकारं स्वगृहस्थ इव श्रलेषालंकारव्यपदेशं वोडुमीष्टामिति बाध्यप्राय एव" इत्यप्याहुः। तदित्थं संक्षेपेण श्रेषस्य दिक्प्रदर्शिता। यत्र तु प्रकृताप्रकृतोभयवि- शेष्ययोरपि श्लिष्टपदोपात्तत्वं स तु ध्वनेर्विषय इत्युक्तम्। स च यथा- 'अविरलविगलद्दानोद्कधारासारसिक्तधरणितलः। धनदाग्रमहितमूर्तिजेयतितरां सार्वभौमोऽयम्।।' अन्न राजनि प्रस्तुते उद्ग्दिग्गजोऽप्रस्तुतोऽपि व्यञ्जनमर्यादया प्रतीयते। तत्राप्रस्तुताभिधानं मा प्रसाङ्कीदिति प्रस्तुताप्रस्तुतयोरुपमानोप- मेयभावे तात्पर्य कल्प्यते। इमं च शब्दशक्तिमूलानुरणनरूपं ध्वनिमाहुः। उदाहृतश्च ध्वनिकारै :- 'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तस्याः कें न चक्रेडभिलाषिणम् ।।' मम्मटभट्टैश्व- 'भद्रात्मनो दुरधिरोहतनोर्विशाल- वंशोन्नतेः कृतशिलीमुखसंग्रहस्य ।

च्यतिरेके दृष्टान्तः बाध्यप्राय एवेत्यप्याहुरिति। सर्वदो माधव इत्यादावलंकारा- न्तरसंभावनारहिते सावकाशस्य श्रलेषस्यालंकारान्तरेण स्विषये बाध्यत्वमेवेत्यर्थः। प्रति- भामात्रत्वात्प्राय इति। अपिर्विशेषणसमुच्चायकः। अविरलेति। व्याख्यातमिद्ं प्राक्। तत्र तत्प्रतीतौ सत्याम्। उन्नत इति। महानुचैश्। प्रोल्लसन्ती धारा यस्य सः। प्रोल्लसन्हारो यत्र च। कालागुरुवन्मलीमसः श्यामः, कालागुरुणा श्यामश्च। मेघस मूहः, स्तनभारश्च। भटटश्चति। उदाहृतमित्यस्यानुषङ्गः । भद्रेति । अत्र यच्छब्दः प्राकरणिकराजपरः । तत्पक्षे यस्य प्रकृतस्य राज्ञः करः पाणिर्निरन्तरं दानार्थगृहीताम्बुसे- कशोभनोऽभूतू। भद्रात्मनः, कल्याणरूपस्य। दुरधीति। अनभिभवनीयशरीरस्य। वंशः कुलं तत्रोन्नतिराधिक्यं यस्य। कृतः शिलीमुखानां नाराचानां संग्रहोऽभ्यासदान्यं • १ अन्यालंकारोपस्कारकः सन् श्रलषो यदा उपस्करणकार्यें वर्तते तदा प्रधानतया उपस्का- रकस्य(अलंकारस्य) व्यपदेशं कथं लभताम्? प्रधानस्योपस्कारको हि उपस्करणे उपकारकमा- त्रत्वादप्रधानमेव। स्वगृहे स्थितः अन्यमुपस्कुर्वन् न स्वयमेव प्रधानव्यपदेश लभते।

Page 591

श्ेष: ] रसगङ्गाघरः । ५३१

यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत्॥' कुवलयानन्दकारस्तु-"यद्त्र प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्ति- मूलध्वनिमिच्छन्ति प्राञ्चस्तत्तु प्रकृताप्रकृताभिधानमूलस्योपमादेरलंकारस्य व्यङ्गयत्वाभिप्रायं न त्वप्रकृतार्थस्यैव व्यङ्ग्यत्वाभिप्रायम्। अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्याभिधेयत्वेन व्यक्त्नपेक्षत्वात्। यद्यपि प्रकृतार्थे प्रक- रणवशाज्झटिति बुद्धिस्थिते सत्येव पश्चान्नृपतितद्राह्यघनादिवाचिनां

प्रकृतार्थ: स्फुरेत्, नैतावता तस्य व्यङ्गयत्वम्। शक्ता प्रतिपाद्यमाने सर्वथैव व्यक्तनपेक्षणात्। पर्यवसिते प्रकृतार्थाभिधाने स्फुरति चेत्कामं गूढ श्रषोऽस्तु। अस्ति चान्यत्रापि गूढः श्रेषः । यथा-

येन। अनुपेति। अवाधितज्ञानस्य अवारितगतेवा अदुष्टहितकर्तुर्वा। परेति। शत्रुनिवा- रकस्य। गजपक्षे भद्रजातीयस्य। अत्युच्चलाद्दुःखाधिरोह्यशरीरस्य। विशाला वंशस्य पृष्ठ- दण्डस्योन्नतिर्यस्य। कृतभ्रमरसंग्रहस्य अनुद्धतघीरगमनस्य। परस्योत्कृष्टस्य वारणस्य गजस्य। करः छुण्डादण्डः । मदजलसेकसुभगोऽभूदित्यर्थः । अत्र राजा वाच्यो हस्ती प्रतीयमान:। ननु प्रकरणेनाभिधाया नियमनादप्रकृतार्थस्य व्यङ्ञयत्वमेवेति कर्थं श्लेषोऽत आह-यदत्रति। मूलस्य मूलकस्य। अलंकारस्येति। इदमुपलक्षणं वस्तु- ध्वनेरपि। शनिरशनिरित्यादौ शनिविरुद्धरूपेSप्रस्तुतेऽशनिशब्देनाभिधया प्रतीयमानेऽपि तन्मूलकस्य 'विरुद्धावपि लदनुवर्तनमेकं कार्य कुरुतः' इति वस्तुध्वनेरशनिशब्दशक्तिमू- लस्य संभवात्। एतेन शब्दशक्तिमूलवस्तुध्वनेरुच्छेद इत्यपास्तम्। अत एव विवक्षि- तार्थमाह-न त्विति। अभिधेयत्वेति। वाच्यलावश्यकत्वेनेत्यर्थः । 'अभिधाया अवश्यंभावेन' इति क्वचित्पाठः। झटितीति। एवं च प्रकरणादीनां प्राथमिकबोध- लमेव प्रतिबध्यतावच्छेदकमिति भावः। नृपतितङ्राह्यति । नृपतिनृपतिग्राह्ेत्यर्थः । यथासंख्येनास्य राजकरयोरन्वयः । 'असावुदयमारूढः कान्तिमान्रकमण्डलः । राजा हरति सर्वस्वं मृदुभिर्नूतनैः करैः ॥' इत्यादाविति भावः । अन्योन्यसंनिधानेति । परस्परार्थसंबन्ध्यर्थवाचकशब्दसमभिव्याहार रूपशब्दान्तरसंनिधीत्यर्थः । तद्विषयेति। प्रकृतार्थविषयेत्यर्थः। नैतावतेत्यस्य तथापीत्यादिः । एतावता पूर्वापरभावमात्रेण तस्य अप्रकृतार्थस्य पश्चादिति। अप्रकृतार्थ इत्यनुषज्यते। काममिति । अप्रकृतस्य द्विती- यस्य शीघ्रमप्रत्ययाद्गूढतम्। तदसंभवशङ्कां निरस्यति-अस्ति चेति। चो ह्र्थे। १ सर्वस्वकरणपाठो नागेशस्यैव विदितः । कुवलयानन्दे तु'लोकस्य हृदयं मृदुलैः' इत्येव पाठः।

Page 592

५३२ काव्यमाला। [द्वितीयानने-

'अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः । सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥' अत्र हि समासोक्त्युदाहरणे वृद्धवेश्यावृत्तान्तः प्रतीयते। तत्राभङ्ग- श्लेष इति सर्वेषामभिमतम्। एवं चाप्रकृतार्थों न व्यङ्गयः ।" इत्याह। तन्न विचारयाम :- यत्तावदुच्यते उपमादेरलंकारस्यैव व्यङ्गयत्वं आ्चीनानामभिप्रेतं न त्वप्रकृतार्थस्येति। एवं सति 'अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते। संयोगाधैरवाच्यार्थधीकृव्यापृतिरञ्जनम् ।' इत्यादिस्तेषां ग्रन्थः कथमायुष्मता समर्थितः १। उपमादेर्व्यङ्गयत्वस्य वाचकतानियत्रणाऽनपेक्षत्वात्। नह्यनेकार्थस्यापि शब्दस्योपमादिवाचकर्त्व प्रसक्तं येन तन्नियत्रणाय संयोगाद्यनुसरणमर्थवत्स्यात्, द्वितीयार्थवाचक- तायामनियन्नितायामप्युपमादेर्व्यड्गयत्वस्य निष्प्रत्यूहृत्वात्। तस्मात्तङ्गन्था- नाकलननिबन्धनं तदभिप्रायवर्णनमिति स्फुटमेव । यदप्युच्यते अप्रकृतार्थस्यापि शक्त्ा प्रतिपाद्यस्येत्यादि। तत्र कथमप्र-

अन्यत्रापि उदाहरणान्तरेऽपि। अयमतीति । माघे रैवतकवर्णनम्। अयं रैवतक- गिरि: कठिना: अत्यन्तमहतीः महाविलम्बमानमेघव्याप्ताः निरन्तरं प्राणिनामगम्यख्- रूपा: परिणतास्तिर्यग्दन्तप्रहारिणो दिक्करिणो दिग्गजा यासु तास्तटीर्बिभर्तीत्यर्थः । 'तिर्यग्दन्तप्रहारी यो गजः परिणतस्तु सः' इति हलायुवः । वृद्धवेश्यापक्षे तु-अयं राजा अतिप्रवयसो जीर्णा महाविलम्बमानस्तनसंबद्धाः सततं कदापि प्राणिनां संगमायोग्यख्- रूपा:। गमने प्राणिनां मरणमेवेति भावः । परिणते दिग्वर्तुलाकारं दशनक्षतं करिका नखक्षतं च यासां तास्तटीस्तत्त्वेनाध्यवसिता वृद्धवेश्या बिभर्तीत्यर्थः । 'दिग्दष्टं वर्तुलाकारं करिका नखरेखिका' इति यादवः। ननु तत्र श्लेष एव नात आह-तत्रति । अयम- तीत्यत्रेत्यर्थः । उपसंहरति-एवं चेति। तेषां प्राचीनानाम्। दोषान्तरमाह-द्विती- १ उपमाधलंकारस्य यद्यञ्ञत्वं जातं न किल तत् वाचकतानियत्रणमपेक्ष्य। वाचकता- नियत्रणे सति न तज्जातमित्यर्थः । २ अनेकार्थस्यापि 'रामलक्ष्मणौ' इति रामपदस्य प्रसक्तः परशुरामादिरथों निषिध्यते, दाशरथिरेव च यथा नियन्न्यते तथा अनेकार्थस्य शब्दस्य उपमावाचकत्वं न प्रसक्तमासीत यस्य नियत्रणाय संयोगो विप्रयोगश्चेति नियत्रकाणामाश्रयणं कृतम्। अर्थात् उपमाव्यङ्गय- अनेकार्थनियत्रणग्रन्थोद्धरणस्य तदैव सार्थकत्वं स्याद यदा अनेकार्थशब्दानासुप- माचाचकतवं प्रापतं स्यात् यद्धि संयोगादिभिनियश्रितं स्यात्।

Page 593

श्ेष:] रसगङ्गाघर:। ५३३'

कृतार्थस्य शक्त्या प्रतिपादनम्?। तद्विषये शक्तेरनियन्नणस्य तैरेवोक्तत्वात्। अथ नियत्रणं नाम प्रथमं बोधजननमात्रं न तु चरममपि। एवं च प्रकृत- शक्ता प्रकृतार्थबोधे जाते सत्यकतार्थया द्वितीयशक्त्या प्रकृतेतरार्थबोधे न किंचिद्वाधकमिति चेत्। न । प्रथमं ह्यप्रकृतार्थबोधस्याजननमेव कस्य हेतोः ? प्रकरणादिज्ञानेन प्रतिबन्धादिति चेत्, प्रकृतार्थवोधोत्तरं सा प्रतिबन्धकता केनापहता प्रकरणादिज्ञानस्य ?। न च ज्ञानस्याशुविना- शित्वात्तदानी प्रकरणज्ञानमेव नष्टमिति वाच्यम्। ज्ञानान्तरस्योत्पत्तौ बाघकाभावात्। सैव ज्ञानव्यक्ति: प्रतिबन्धिकेति तु तत्तव्यक्तिसहस्त्रगतप्र- तिवन्धकत्वसहस्त्रकल्पनागौरवग्रस्तमेव। तद्पेक्षयान्यत्र कृप्व्यञ्जनाख्य- व्यापारस्यैव कल्पयितुं युक्तत्वात्। 'जैमिनीयमलं धत्ते रसनायां महामतिः' इत्यादौ बाधितार्थबोधस्य शक्त्या दुरुपपादत्वाच्च। यदि तु यथाकथंचिदुप- पत्तिः स्यादेवमपि तस्य देवदत्तादौ तत्पुन्नवाक्यादप्रादुर्भावस्तच्छयालका-

तिभामात्रहेतुत्वादिति प्राचामाशयः। तत्र किसुच्यते अप्रकृतार्थस्य शक्ता प्रतिपादनमिति।

यार्थेति। तैरेव प्राचीनैरेव। अकृतार्थया अचरितार्थया। सा पूर्व विद्यमाना। आश्विति। त्रिक्षणावस्थायित्वादिति भावः । ज्ञानमेवेति। एवं चाश्रयस्यैवाभावा- त्प्रतिबन्धकत्वं दुर्वचमिति भावः । लाघवादाह-तद्पेक्षयेति । अन्यन्न गतोऽस्त- मर्क इत्यादौ। व्यज्ञनानङ्गीकर्तृमते गौरवाङ्गीकारस्यावश्यकत्वादाह-जैमिनीयेति। बाधितार्थेति। जैमिनीयसंबन्धिविष्ठामित्यर्थः । यथाकर्थंचित् तत्र व्युत्पत्त्यन्तरा- जीकारादिति भाव: । तस्य 'महामतिर्जिह्वायां जमिनीयसंबन्धिविष्ठां धत्ते' इति बाधि- तार्थस्य। तत्पुत्रेति। तत्र तु स तस्यां जैमिनीयं शास्त्रं अलमत्यन्तं धत्ते इत्यर्थप्रती- तिरिति भावः। ननु वक्तृबोद्धव्यादिवैशिष्यात्तथेत्यत आह-वक्रिति । मात्रपदेन शक्यप्रतिभानिरासः । तथा चावश्यकव्यज्ञनयैव तत्प्रतीतिरिति भावः । अत एवाह- तत्र किमुच्यते अप्रकृतार्थस्य शक्त्या प्रतिपादनमिति। अन्नेदं चिन्तम्- १ महामतेर्द्विजस जिह्वायां विषठाया धारणं बाधितम् (अनुपपन्नम्)। अत एव बाधिता- थबोधः शक्त्या न प्रतिपादयितुं शक्यः । व्यञ्ञना तु बाधितार्थस्यापि बोधिकेति धमिग्राह- कमानसिद्धमिति पूर्वम् (द्वितीयाननारम्भे) प्रोक्तम्।

Page 594

५३४ काव्यमाला। [ द्वितीयानने-

यच्चाप्युच्यते "'अयमतिजरठाः'-इत्यादिसमासोक्ताविव गूढश्ेषो- डस्तु" इति, तदपि गर्भस्रावेण गलितम्। श्िष्टविशेषणाय, समासोक्तावपि व्यक्तैवाप्रकृतार्थप्रतीतिस्वीकारात् । अत एव ध्वनिकृता 'गुणीभूतव्य- डवयभेद: समासोक्ति:' इत्युक्तम्। 'समासोक्त्ा श्रलेषो बाध्यते' इत्युद्गट- अभृतिभिश्च। बाधो हि श्लेषस्य तन्रापवृत्तिमात्रम्। ्लिष्टशब्दप्रयोगस्तु तत्रोभयार्थतामात्रेणोपपादनीय इति न किंचिदेतत्। वयं तु ज्रम :- अनेकार्थस्थले ह्यप्रकृताभिधाने शक्तरुक्तिसंभवोऽ- व्यस्ति। योगरूढिस्थले तु सापि दूरापास्ता। यथा-

तत्र झटितीत्युक्त्या प्राथमिकबोधतमेव प्रतिबन्धतावच्छेदकमिति बोधितमित्युक्तमेव। एवं चान्योन्यसंनिधानबलादित्यनेनोक्तार्थकेनेदं बोधितं यत्प्रकृतार्थ नियामकद्वयसत्त्वात्प्र- थममुपस्थितिः । द्वितीयेऽपि शब्दान्तरसंनिधिरूपनियामकमात्रसत्त्वेन तस्याप्युपस्थिति: किं तु पश्चादिति। सुरभिमांसं भुङ्क इत्यादेः पुत्रादिप्रयुक्तान्नाश्ठीलबोधः। श्यालकादिप्रयु- क्तादेव च तद्वोध इति व्यवस्थापि वक्तृतात्पर्याग्रहतद्रहाभ्यां सूपपादा। यद्वा वक्तृबो- द्धव्यादिवेश्िष्यस्य फलबलेन नियन्त्रितशकत्युल्लासेऽपि हेतुतकल्पनान्न दोषः । एता- वान्विशेष :- यत्र वक्तृवैशिध्यादिज्ञानं विलम्बेन, प्रकरणज्ञानं च शीघ्रं, तत्र वक्कवै- शिध्यादीनां नियन्त्रितशक्त्युल्लासकतम्। यत्र तु युगपदेवोभयं तत्र नियन्नणप्रतिब- न्धकतोत्तेजकतैव तेषाम्। व्यज्ञनावादिनापि तेषां व्यङ्ञय प्रतिभाहेतुतमवश्यमङ्गीकार्य- मेव। तद्ूरं व्यज्ञनामनज्ीकृत्य तेषां शक्त्युल्लासादिहेतुतकल्पनमेव। एवं योगरूढप- दानां यत्र योगार्थमात्रघटितार्थान्तरबोधकतेष्टा, तत्र तेषां रूढिप्रतिबन्धकतापि, सवीकार्या, उत्तेजकता वा। एतेन वयं तु ब्रूम इत्याद्युक्तिरप्यपास्ता। किं च शब्दशक्तिमूलध्वनिस्थले संबन्धविशेषरूपव्यञ्ञनाया बोधजनकत्वकल्पनापेक्षया कृप्तश- क्तेस्तत्त्वकल्पनमेवोचितम्। लाघवात्। एवं चाश्लिष्टसाधारणविशेषणायां समासोक्ता- वेव गुणीभूतव्यक्च्यत्वम्, श्िष्टविशेषणायामप्यारोपांशमादाय वा तत्त्वमिति दीक्षिताशयः। वस्तुतस्तु द्वितीयार्थस्य व्यङ्ग्यलेऽपि न तमादाय ध्वनितमुचितम्। उपमानादिवि- वक्षया तस्यापि प्रकृतोपस्कारकलेन गुणलात्। अन्यथा समासोक्तावपि गुणीभूतव्यञ्ञय- लोक्तिरसंगता स्यादित्यलंकारव्यञ्ञयत्वमादायव ध्वनितवमुक्तमिति बोध्यम्। एतेन यदप्युच्यते अयमतीत्यादि, तदपास्तमिति बोध्यम्। अपिना साधारणविशेषणसमुच्चयः। एवेन शक्तिनिरासः। अत एव व्यत्तयैव तदगीकारादेव। प्रभृतिभिश्चेति। उक्तमित्य- स्यानुषङ्गः । ननु प्रागुक्तरीत्या तत्र श्लेषस्यैवाभावेन कर्थ बाध्यत इत्युक्तिरत आह-बा- धो हीति। तत्र सामासोक्तौ। नन्वेवं ्िष्टेतिशब्दप्रयोग: कथमत आह-स्लिष्टेति।

Page 595

ऋेष: 1 <सगङ्गाघरः । ५२५

'चा्ल्ययोगि नयनं तव जलजानां श्रियं विपिनेऽतिचञ्चलानामपि च मृगाणां कथं। तांहरति॥' अत्र नैवाश्चर्यकारी चाञ्ल्यगुणरहितानां कमलानां चाव्नल्यगुणा- विकेन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकारी तु हरिणानां तहुणयुक्तानां तिरस्कार इति वाच्यार्थे पर्यवसन्नेडपि रूढिनिर्मुक्तकेवलयो- गमर्यादया-मूर्खपुत्राणां धनहरणं नेतृभिश्चौरैः सुशकं न तु गवेप- काणामिति जलज-नयन-मृग-शब्देभ्यः प्रतीयमानोऽर्थः कथं विना व्यञ्ञ- नाव्यापारमुपपादयितुं शक्यते?। यतो योगशक्ते रूढ्या दढनिगडनियन्रि ताया नास्ति स्वातकयम्। अत एव पङ्कजादिपदेभ्यः पङ्कजनिकर्तृत्वेन कुमुददशैवलादिवोधो लक्षणयैव। ताहशशक्तिज्ञानानां पद्मत्वप्रकारकवोध- स्यैव कार्यतावच्छेदकत्वादित्युक्तं नैयायिकैः। अत एव च 'ईशानो भूत- व्यस्य स एवाद्य स उ श्वः' इति वेदान्तवाक्ये किमैश्ववर्यविशिष्टः कश्चि- जीवः प्रतिपाद्य ईश्वरो वेति संशये प्राप्ते 'शब्दादेव प्रमितः' इति सूत्रि- तमुत्तरमीमांसाकारैर्व्यासचरणैः। तस्मात्प्रागुक्तपद्येऽप्रकृतचोरव्यवहारो न शक्तिवेद्यः, अपि तु व्यक्तिवेद्य एव। मुख्यार्थवाधाद्यभावाल्लक्ष्योऽपि न शक्यो वक्तुम्। तात्पर्यार्थबाधस्तु तात्पर्यार्थबोधोत्तरबोध्यः । स एव तु कथं स्यादिति व्यञ्जनैव शरणीकरणीया। नहि चोरव्यवहारोऽत्र वक्तुर्विवक्षित इति ज्ञाने श्रोतुः कश्चिदुपायोऽस्ति ऋते सहृद्यतोन्मि- षितादस्माव्यापारात्। इदं पुनरिहावधेयम्-'रागावृतो वल्गुकराभिमृष्टं श्यामामुखं चुम्बति चारु चन्द्रः' इत्यादौ तावत्समासोक्तिरिति निर्विवादम्। चन्द्रपदस्थाने राजेति कृते तु शब्दशक्तिमूलो ध्वनिरिति च। तद्त्रोभयत्रापि श्िलिष्टविशे- षणमाहात्म्यादप्रकृतव्यवहारस्य प्रतीयमानस्य तुल्यत्वात्कथमेकत्र गुणी- भावोऽन्यत्र प्राधान्यं च स्यात् । प्रकृतस्य प्राधान्याद्प्रकृतस्य तु तदुप-

व्यक्तिव्येञ्ञना। अस्मात् व्यञ्ञनाख्यात्। वल्गु सुन्दरम्। इति च निर्विवादम्। एकत्र १ विशेष्यस्यापि क्रिष्टत्वे शब्दशक्तिमूलध्वनिरिति पूर्व स्थिरीकृतत्वाव।

Page 596

५३६ काव्यमाला। [द्वितीयानने-

स्कारकत्वेनोभचत्रापि गुणभावौचित्यात्। नहि विशेष्यस्य श्िष्टतामात्रेण व्यङ्गयस्य प्राधान्यम्, अश्लिष्टत्वे चाप्राधान्यं शक्यं संपाद्यितुम्। नाय- कत्वप्रतीतिरपि क्वचिदर्थशक्तिमूलेन व्यञ्जनेन, कचिच्छ्दशक्तिमूलेन तुल्यैव। यैरपि समासोक्तौ प्रकृतधर्मिणि नायकत्वादेः प्रत्ययो नाभ्युपेयते, अपि तु नायकादिव्यवहारस्यैव, ध्वनौ चाभ्युपेयते, तेषामपि व्यङ्गयस्यै- कत्र गुणत्वमन्यत्र प्राधान्यं च कस्य हेतोः स्यात्?। प्रकृताप्रकृतयोरौ- पम्यं गम्यमुच्यतामभेदो वा, सर्वथैव तस्य प्रकृतोपस्कारकत्वाहुणीभाव एवोचितो न प्राधान्यम्। अन्यथा समासोक्तावपि व्यङ्ग्यस्य प्राधान्या- पत्तेः। तस्साच्छ्रिष्टाश्रिष्टविशेष्या समासोक्तिरेवेयम्। पराङ्गरूपगुणीभूत- व्यञ्ञ्यभेद इत्यपि शक्यते वक्तं यदि प्राञ्च्ो न कुप्यन्ति। सोडयं श्ेष: सभङ्गोऽभङ्गश्वार्थालंकार एवेत्यौद्धटाः। उभावप्येतौ शब्दा- लंकारौ, शब्दस्य परिवृत्त्यसहत्वादन्वयव्यतिरेकाभ्यां तदाश्रितत्वावधार- णातू। तृतीयेस्त्वर्थालंकारः, अर्थमात्राश्रितत्वात्। इति मम्मटभट्टाः । अन्वयव्यतिरेकाभ्यां हि हेतुत्वावगमो घट प्रति दण्डादेरिवास्तु, न त्वा- श्रयत्वावगमः । स तु पुनस्तद्वृत्तित्वज्ञानाधीनः । इह हि सभङ्गश्लेषस्य शब्दद्वयवृत्तित्वं जतुकाष्ठन्यायेन, अभङ्गस्य चार्थद्वयवृत्तित्वमेकवृन्तगत- फलद्वयवच्च स्फुटमेवेत्येकस्य शब्दालंकारत्वमपरस्यार्थालंकारत्वम्। यद्यपि द्वितीयस्यापि 'प्रतिप्रवृत्तिनिमित्तं शब्दभेदः' इति नये शब्दद्वयवृत्तित्वाच्छ- व्दालंकारत्वमुचितम्, तथापि शक्ततावच्छेदकानुपूर्व्यभेदादभेदाध्यवसा-

आद्ये। अन्यत्र अन्त्ये। एवमप्रेऽपि। कस्य कस्मात्। सर्वस्वकारमतमाह-अन्व-

१ अप्पयदीक्षितादिभि: समासोक्तौ रूपसमारोपो नाभ्युपेयते, अपि तु व्यवहारसमारोपः । २ एकधर्मपुरस्कारेण यो भेद: शुद्धाख्यः, यः 'अर्जुनस्य गुरुर्मायामनुजः' इत्यादिना पूर्वमुदाहृतः । ३ अयं भाव :- 'करकलितचक्रः' इत्याद्यमङ्गस्थले सूर्य-विष्णुरूपार्थद्वय-बोधार्थ 'हरि' पद्सेंकस्यैव काममावृत्तिरस्तु, परम् उभयत्र 'हरिः' इत्यानुपूर्वी मकैवास्ति। अत एव अभङ्स्य शब्द्रद्वयवृत्तितासाधनं न सुशकम्।

Page 597

अप्रस्तुतप्रशंसा ] रसगङ्गाघर: ५३७

नाच्छब्दद्वयवृत्तित्वज्ञानं दुःशकम्। अन्यथा 'प्रत्यर्थ शब्दनिवेशः' इति नये पराभिमतोरऽर्थश्लेषोऽपि शब्दालंकार एव स्यात्। इत्यलंकारसर्वस्व- कौरादयः । अयं चोपमेव स्वतत्रोऽपि तत्र तत्र सकलालंकारानुग्राहकतया स्थितः सरस्वत्या नवं सौभाग्यमावहन्नानाविधेषु लक्ष्येषु सहृदयैर्विभावनीय इति। इति रसगद्गाधरे श्लेषप्रकरणम्। अप्रस्तुतेन गम्येन वाच्यस्य प्रस्तुतस्योपस्करणे समासोक्तिरुक्त्ता। तद्वैपरीत्येनाप्रस्तुतप्रशंसोच्यते- अप्रस्तुतेन व्यवहारेण सादृश्यादिवक्ष्यमाणप्रकारान्यतमप्रकारेण प्रस्तुतव्यवहारो यत्र प्रशस्यते साप्रस्तुतप्रशंसा ।। अ्शंसनं च वर्णनमात्रम्, न तुस्तुतिः । 'विक्तालस्योन्नततां यस्य च्छायापि नोपकाराय ।' इत्यादावव्यात्यापत्ते: । इयं च पञ्नधा-अप्रस्तुतेन स्वसदशं प्रस्तुतं गम्यते यस्यामित्येका । कार्येण कारणमित्यपरा। कारणेन कार्यमिति तृतीया। सामान्येन विशेष इति चतुर्थी। विशेषेण सामान्यमिति पञ्चमी। आद्या यथा- 'दिगन्ते श्रयन्ते मदमलिनगण्डाः करटिनः करिण्य: कारुण्यास्पदमसमशीलाः खलु मृगाः । इदानीं लोकेSस्मिन्ननुपमशिखानां पुनरयं नखानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपतिः ।।' येति। एकस्य आद्यस्य। अपरस्य द्वितीयस्य। अयं च श्लेषश्च । इतिः समाप्तौ॥ इति रसगङ्गाधरमर्मप्रकाशे श्रलेषप्रकरणम् ॥ अथ वक्तव्याप्रस्तुतप्रशंसायाः संगतिमाह-अप्रस्तुतेनेति। १ अयमाशय :- अन्वयव्यतिरेकाभ्यां शब्दहेतुकत्वस्य अर्थहेतुकत्वस्य वा प्रत्ययः स्यात्। अयं श्रलेषः शब्दाश्रयः, अर्थाश्रयो वा? इति तु बोधः 'अयं श्रेषः शब्दवृत्तिरर्धवृत्तिर्वा' इति ज्ञाने सत्येव भवेत। इदानीं दृश्यताम्-सभङ्गः शब्ददये वतेते ['संभूत्यर्थम्०" अत्रोदाहरणे 'विष्णुनाभिप्रपन्नम्' अत्र 'विष्णु-नाभिप्रपन्नम्' 'विष्णुना अभिप्रपन्नम्' इति शब्दद्वयप्रतिभानं भवति] ततश्च शब्दद्वयाश्रितत्वात् शब्दालंकारोऽयम्। अभङ्गे तु अर्धदवय- स्यैव प्रत्ययः, शब्दस्त्वेक एव [ यथा-करकलितचक्र इत्युदाहरणे शब्दस्यैकस्यैव प्रतिभानम्, अर्थस्तु विष्णु-सूर्योभयाश्रयः ] अत एव अर्थात्रितत्वादर्थालंकारोयम्।

Page 598

५३८ काव्यमाला। [द्वितीयानने-

यथा वा- 'यस्मिन्खेलति सर्वतः परिचलत्कल्लोलकोलाहलै- र्मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्यूथाधिपाः पेदिरे। सोऽयं वुङ्गतिमिङ्गिलाङ्गगिलनव्यापारेकौतूहलः क्रोडे क्रीडतु कस्य केलिरभसत्यक्तार्णवो राघवः ।।' यथा वा- 'पुरा सरसि मानसे विकचसारसालिस्खल- त्परागसुरभीकृते पयसि यस्य यातं वयः । स पल्वलजलेऽधुना मिलदनेकभेकाकुले मरालकुलनायक: कथय रे कथं वर्तताम्।।' छ्लिष्टविशेषणाप्येषा दृश्यते- नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः । अत्यन्तसरसहृद्यो यतः परेषां गुणग्रहीतासि ॥ समासोक्तिरत्रानुग्राहिकेति तु न वक्तव्यम् । तस्याः प्रकृतालंकारवि- रुद्धात्मिकात्वेनानुग्राहिकात्वायोगात्। यत्तु "-'येनास्यभ्युदितेन चन्द्र गमितः क्रान्ति रवौ तत्र ते युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः' इत्यत्र समासोक्तेरनुग्ाहिका" इति मम्मटभट्टैरुक्तं तन्र विचार्यते-अन्र विशेषणसाम्यमहित्रा प्रतीयमान: कापुरुषवृत्तान्तः किं प्रस्तुत आहोस्वि- दुप्रस्तुतः ?। आद्ये समासोक्तेर्विषय एव नास्ति। 'परोक्तिर्भेदकैः : समासोक्ति:' इति समासोक्तेर्लक्षणस्य तैरेवाभिधानात्। परस्या-

हरिदिति इन्द्रादय इत्यथेः विकचेति। विकसितकमलपङ्कीत्यर्थः । मेको मण्डकः ।

१ लोकपाला: पेदिरे प्रापुः । २ गिलनव्यापार: कौतूहदलं यस्य। ३ 'श्रिष्टैर्विशेषणैः अप्रकृतस्य कथनं समासोक्तिः'। अन्र तु कापुरुषवृत्तान्तः प्रस्तुत इति भवता स्वीक्रियते, ततः कथं समासोक्तिः ?।

Page 599

अप्रस्तुतप्रशंसा ] रसगङ्गाघर:। ५३९

प्रकृतस्येति तदर्थात्। द्वितीयेडप्रस्तुतप्रशंसाया नास्ति विषयः, 'अप्रस्तुत- प्रशंसा सा या सैव प्रस्तुताश्रया' इति तल्लक्षणात्। प्रस्तुत आश्रयः प्रधानं यस्या इति तदर्थात्। तस्माच्छ्रिष्टविशेषणोपक्षिप्तद्वितीयार्थमात्रं समासोक्तिरित्यभिप्रायेण यथाकथंचित्संगमनीयम्। इयं च सादृश्यमूलाप्रस्तुतप्रशंसोच्यते। अस्यां च वाक्यार्थः क्वचित्प्र- तीयमानार्थताटस्थ्येनैवावतिष्ठते-यथोक्तोदाहरणेपु । क्वचिच्च स्वगतवि- शेषणान्वययोग्यतामासाद्यितुं प्रतीयमानाभेदमपेक्षते। यथा- 'समुपागतवति दैवादवहेलां कुटज मधुकरे मागाः । मकरन्दतुन्दिलानामरविन्दानामयं महामान्यः ।।' यथा वा- 'तावत्कोकिल दिवसान्यापय विरसान्वनान्तरे निवसन्। यावन्मिलदलिमाल: कोऽपि रसाल: समुल्लसति॥' अत्र वृक्षपक्षिणोः संोधनानुपपत्त्या प्रतीयमानांशतादात्म्यमपेक्ष्यते। 'मलिनेSपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि। त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥' अन्र त्यागानौचित्यहेतुत्वेन कमलिन्याः स्तुतिरूपं विशेषणमुपात्तम्। तच्च न संभवति। नहि भ्रमरे श्यामत्वादिर्दोषः, कमलिन्याः शोणत्वा- दिर्वा गुणः, येन स्तुतिः स्यात्। अतो वाच्यार्थस्य प्रतीयमानतादात्म्यं विशेष्यांशे विश्ेषणांशे चापेक्ष्यते। पूर्वत्रांशेने, इह तु साकल्येनेति विशेषः । क्वचिच्च प्रतीयमानमपि किंचिदंशे वाच्यतादात्म्यम्, वाच्यं च किंचिदृंशे प्रतीयमानतादात्म्यमपेक्षते। यथा- अलिभ्रमरः। मम्मटोक्तिमाह-समेति। इयं श्िष्टविशेषणा। अस्यामप्रस्तुतप्रशंसायाम्। यथोक्तेति। दिगन्त इत्यादिष्वित्यर्थः । विशेष्यांश विशेषणांश चेति। संबोधना- १ अत्र कापुरुषवृत्तान्तः अप्रस्तुतः अर्थात् न वर्णनीयः [प्राधान्येन वर्णनीयश्चन्द्र पवे- त्याशय: ] एवं स्थितौ कथमप्रस्तुतप्रशंसा? 'प्रस्तुतार्थप्रतिपत्तिपरा अप्रस्तुतवर्णना अप्रस्तुत- प्रशंसा' इति लक्षणानुसारम् अप्रस्तुतं वर्णयित्वा प्रस्तुतं बोधयितुभेष्यते तत्राप्रस्तुतप्रशंसा। अत्र तु अप्रस्तुतः कापुरुषस्तस्य वर्णनमेव नेष्यते!। २ विशेष्यस्य भ्रमरादेः संबोधनस्योपपत्तिमात्रं प्रयोजनमित्याशयः । विशेषणांशे तु सर्वोपि वाच्याथों नोपपद्यत इति साकल्येन।

Page 600

५४० काव्यमाला। [द्वितीयानने-

'सरजस्कां पाण्डुवर्णा कण्टकप्रकराङ्किताम्। केतकीं सेवसे हन्त कथं रोलम्ब निरप: ।।' अन्र यथा सरजस्कत्वं वाच्यप्रतीयमानयोरपि सेवनानौचित्ये निमित्तम्, न तथा पाण्डुवर्णत्वकण्टकितत्वे। यतः पाण्डुवर्णत्वं केतक्यां न दोष:, प्रत्युत गुण एवेति पाण्डुरत्वांशे केतक्या नायिकातादात्म्यम- पेक्ष्यते। नायिकायां च कण्टकितत्वांशे केतकीतादात्म्यम्। पुलकितत्वस्य कामिनीत्यागाननुगुणत्वात्प्रत्युत तत्सेवनानुगुणत्वात्। कार्यण कारणं गम्यं यथा- 'किं ब्रूमस्तव वीरतां वयममी यस्मिन्धराखण्डल क्रीडाकुण्डलितभ्रु शोणनयने दोर्मण्डलं पश्यति। नानाभूषणरत्नजालजटिलास्तत्कालमेवाभव- न्विन्ध्यक्ष्माधर-गन्धमादनगुहासंबन्धिनो भूरुहाः ॥ अत्र विन्ध्यारण्यतरुभूषणेनारिपलायनं गम्यते। यदि तु वक्ष्यमाण- रीत्या पर्यायोक्तालंकारस्यायं विषय इत्युच्यते, तदेदं विविक्तमुदाहरणम्- 'नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि। यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्वानाम् ।' अ्र पह्लवादितिरस्कारेण कार्येण तदङ्गानां सौकुमार्यातिशयः कारणम्। कार्यकारणभावश्रेह ज्ञानयोः। तेन पारुष्यस्य मृणालगतत्वेन ज्ञायमानस्य स्वरूपतस्तदङ्गसौकुमार्याजन्यत्वेऽपि न क्षतिः । कारणेन कार्य गम्यं यथा- 'सृष्टिः सृर्षटिकृता पुरा किल परित्रातुं जगन्मण्डलं त्वं चण्डातप निर्दयं दहसि यज्वालाजटालै: करैः । नुपपत्त्या विशेष्यांशे, श्यामत्वादेर्विशेषणलाद्युपपत्तये विशेषणांशे चेत्यर्थः। रोलम्बो भ्रमरः। १ शोणनयनतया किञ्चिदमषोंदयोत्तरम्, उद्दीपितशौर्यतया भुजमण्डलं पश्यति सति। २ विन्ध्यमहीधरस्य गन्धमादनस्य च गुहासंबन्धिनः । ३ नायिकाङ्गसौकुमार्येण (कारणेन) मृणाले पारुष्यम् (कार्यम्) नोत्पाद्यते, अपि तु नायिकाङ्सौकुमार्यज्ञानोत्तरं मृणाले पारुष्यस्य ज्ञानं भवतीत्याशयः । ४ सष्टिकारक( विधातृ)कर्तृका सष्टिः, तद्वारा इत्यर्थः । ५ प्रचण्डः आतपो यस्य तत्संबुद्धौ हे चण्डकिरण !।

Page 601

अप्रस्तुतप्रशंसा ] रसगङ्गाघरः । ५४१

संरम्भारुणलोचनो रणभुवि प्रस्थातुकामोऽधुना जानीमो भवता न हन्त विदितो दिल्लीधरावल्लभः ॥' अत्र राजवर्णनाङ्गत्वेन रवेर्भयोत्पादने वर्ण्यत्वेन प्रस्तुते साक्षात्तद्- ननुगुणत्वादप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं रिपुकर्तृकसूर्यमण्डलभेदनं गम्यते। यदि चात्र कारणं यथाकर्थचित्प्रस्तुतमेवेत्युच्यते, तदेदमुदा- हरणम्- 'आनम्य वल्गुवचनैविनिवारितेऽपि रोषात्प्रयातुमुदिते मयि दूरदेशम्।

क्रीडाविडालशिशुनाशु रुरोर्धे मार्गम् ।।' अत्र प्रवासान्निवृत्तोऽस्मीति प्रस्तुतमप्रस्तुतेन कारणेन गम्यते। सामान्ये विशेषो यथा- 'कृतमपि महोपकारं पय इव पीत्वा निरातङ्कः । प्रत्युत हन्तुं यतते काकोदरसोदर: खलो जगति ॥' अत्र सामान्यार्थेन प्रस्तुतो विशेषो गम्यते। उपमाप्यस्या आनुगुण्येन स्थिता। विशेषेण सामान्यं यथा- 'पाण्डित्यं परिहृत्य यस्य हि कृते बन्दित्वमालम्बितं दुष्प्ापं मनसापि यो गुरुतरैः क्ेशैः पदं प्रापितः । १ अत्र सूर्यस्य भयोत्पादनं वर्णितम् [ भवता दिल्ीशो न दृष्टः, अन्यथाडयं ते गर्वो न भवेदिति ] अत एवेदं प्रस्तुतम्। अनेन सह राजप्रस्थानस्य साक्षादानुगुण्यम् (गुणसंबन्धेना- नुकूल्यम्) नास्तीति राजप्रस्थानमप्रस्तुतम्। अप्रस्तुतेन राजप्रस्थानरूपेण कारणेन [रिपु- कर्तृकसूर्यमण्डलभेदनं प्रति राजप्रस्थानमेव कारणम् यतो हि युद्धाय प्रस्थिते एव दिल्लीशे शत्रवो त्रियन्ते ] सूर्यमण्डलभेदनं कार्य प्रस्तुतम् [प्रस्थानेन सह सूर्यमण्डलभेदनस्य गुणद्वारा- SSनुकूल्यमस्ति ] व्यज्यते। २ सूर्यमण्डलभेदनं यदि प्रस्तुतं तर्हि तत्कारणभूतं प्रस्थानमप्यनुगुणतया प्रस्तुतमेवेति यद्युच्यते। ३ मधुरवचनद्वारा प्रस्थानान्निवर्तितेपि रोषवशान्मयि पुनरपि प्रस्थातुसुद्यते सति। ४ मार्जारद्वारा मार्गभेद: कुशकुनमित्याशयः । ५ कविगौरवं त्यक्त्वा बन्द्रिवत् चाटस्तुतिपाठकतम्। ४६ रस०

Page 602

.५४२ काव्यमाला। [ द्वितीयानने-

रूढस्तत्र स चेन्निगीर्य सकलां पूर्वोपकारावलीं दुष्टः प्रत्यवतिष्ठते तद्धुना कस्मै किमाचक्ष्महे॥' अत्र दुष्टेषु कृत उपकारः परिणामे न सुखं जनयतीति प्रस्तुतं विशे- षेण सामान्यं गम्यते। यथा वा- 'हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः । लेढि जिघ्रति संक्षिप्य करोत्युन्नतमाननम् ।।' अत्र मर्कटवृत्तान्तेनाप्रस्तुतेन प्रस्तुतमनभिज्ञेषु रमणीयवस्तुसमर्पणं नाशाय भवतीति सामान्यं गम्यते। एवं पञ्चप्रकारेयमप्रस्तुतप्रशंसा प्रा- चामनुसारेण निरूपिता । वस्तुतस्तु प्रथमस्याप्रस्तुतप्रशंसाप्रकारस्य नानाविधत्वं संभवति। यत्रा- त्यन्तमप्रस्तुतेन वाच्येन प्रस्तुतं गम्यते स प्रकारो निगदित एव। यत्र च स्थलविशेषे वृत्तान्तद्वयमपि प्रस्तुतं सोऽप्येकः । यथा जलक्रीडाप्रकरणे भ्रमरकमलिन्यादिषु पुरःस्थितेषु, नायके च सवनायिकायामननुरक्ते पा- श्र्ववर्तिनि, नायिकासख्या: कस्याश्चिदुक्तौ 'मलिनेऽपि रागपूर्णा-' इत्या- दिप्रागुदाहते पद्ये। अथात्र कथमप्रस्तुतप्रशंसा ?। वाच्यार्थस्य प्रस्तुतत्वे- नैतहक्षणानालीढत्वादिति चेत्। न। अप्रस्तुतशब्देन हि मुख्यतात्पर्यविषयी- भूतार्थातिरिक्त्तोऽर्थो विवक्षितः। स च क्वचिदत्यन्ताप्रस्तुतः, कचित्प्रस्तुत- श्चेति न कोऽपि दोषः। न च ध्वनिमात्रस्याप्रस्तुतप्रशंसात्वापत्तिरिति वाच्यम्। अत एव तत्र सादृश्याद्यन्यतमप्रकारेणेति विशेषणमुपात्तमिति विभावनीयम्। १ 'मलिनेपि' अन्र सुख्यतात्पर्यविषयीभूतः अनुरक्तायामप्यननुरागी नायकः [यतो हि -नायक एवोपालम्भविषयः, न तु मनुष्यभाषाऽनभिज्ः तिर्यंड भ्रमरः ] भ्रमरस्तु तदतिरिक्त इति अप्रस्तुतपदव्यपदेश्यः । अप्रस्तुतस्यास्य वृत्तान्तेन नायकवृत्तान्तः प्रख्यायते। सोयं भ्रमरो मुख्यतात्पर्यविषयीभूतातिरिक्ततया अप्रस्तुतोऽपि संमुखोपस्थिततया प्रस्तुतः । इति द्वयो: प्रस्तुतत्वेऽपि पूर्वोक्तविधया अप्रस्तुतप्रशंसेत्याशयः । २ मुख्यतात्पर्याऽविषयेण वाच्येन मुख्यतात्पर्यविषयोऽर्थो यत्र गम्यते ईद्टशस्थले यद्य- प्रस्तुतप्रशंसैव स्यात [यथा-मलिनेपि० इत्यत्र प्रतिपादितम् ] तर्हि वाच्यद्वारा व्यङ्ञयप्रतिबो- धकं सर्व ध्वनिकाव्यमप्रस्तुतप्रशंसा स्यादिति शङ्का। ३ ध्वनौ परिभाषितपञ्चप्रकारै: वाच्येन (अप्रस्तुतेन) प्रस्तुतं न प्रशस्यत इति नातिप्रसङ्ग इति तत्समाधानम्।

Page 603

अप्रस्तुतप्रशंसा ] रसगङ्गाघर: । ५४३

एतेन 'दयोः प्रस्तुतत्वे प्रस्तुताङ्करनामान्योऽलंकारः' इति कुवलयान-

ङ्ीनामानन्त्यादलंकारानन्त्यप्रसङ्ग इत्यसकृदावेदितत्वात्। इद तु बोध्यम्- अत्यन्ताप्रस्तुतस्य वाच्यतायां तस्मिन्नपर्यवसितया अभिधया प्रतीयमाना- र्थस्य बलादाकृष्टत्वेन ध्वनित्वं न निर्वाधम्। द्वयोः प्रस्तुतत्वे तु ध्वनित्वं निर्विवादमेव। एवं सादृश्यमूलप्रकारे द्वैतम्। कार्यकारणभाव-सामान्य- विशेषभावमूलास्तु चत्वारः प्रकारा गुणीभूतव्यङ्गयस्यैव भेदाः । अभि- धादिस्पर्शलेशशून्यस्य केवलागूरणमात्रस्य ध्वनित्वप्रयोजकत्वात्। अथ 'आपेदिरेऽम्बरपथं परितः पतङ्गा भृङ्गा रसालमुकुलानि समाश्रयन्त।

मात्रं कात्र्ये। अत एवेत्यस्य यत इत्यादिः। उपेक्षणीयमिति। अत्रेदं चिन्त्यम्-अप्रस्तुतशब्देन मुख्यतात्पर्यविषयीभूतार्थातिरिक्तो ग्रह्यते इत्यत्र मुख्यलं नाम यदि प्रस्तुतत्वं तदा तदुभयोरपि तुल्यमर्थोद्देश्यतम्। एवमपि प्राचामप्रस्तुतेनेति पदवैयर्थ्यापत्तिः। एतावता विशेषेणालंकारान्तरलानङ्गीकारे साधारणविशेषणमहित्रा प्रस्तुतस्य स्फूरत्या समासोक्तिः । असाधारणविशेषणमहित्रा तत्स्फूर्तो व्यङ्रयरूपकमिति

पत्तिश्चेति। प्रस्तुतत्वे तु ध्वनित्वमिति। इदमपि चिन्त्यम्-'मलिनेऽपि राग- पूर्णा' इत्यादौ प्रतीयमानार्थारोपमन्तरेण भ्रमरसंबोधनस्य तस्य तद्ृत्तिश्यामलवादौ दोषा-

१ यथा-'नितरां नीचोस्मि' इत्यादौ अचेतनस्य कूपस्य वाच्यं सान्त्वनं नितरामप्रस्तु -- तम्। अत एव अभिधा तत्र न पर्यवसिता भवतीति तत्पर्यवसानार्थम् अवमानखिन्नस्य सरस- हृदयस्य परगुणग्राहकस्य सुजनस्य (प्रतीयमानस्य) आकर्षों भवतीति व्यज्यस्य वाच्यवृत्त्याSS- लिद्गितत्वात् ध्वनित्वं न व्यपदेष्टुं शक्यम्। मलिनेऽपि रागपूर्णाम्० इत्यादौ तु भ्रमरस्याप्युप- स्थिततया प्रस्तुतत्वात् अभिधायां पर्यवसितायां नायकवृत्तान्तस्य (वास्तवेन प्रस्तुतस्य) व्यज्- नयैव प्रतीतिरिति ध्वनित्वं निर्बाधमेवेत्याशयः । ध्वनित्वे कथमलंकारेषु गणना? इत्यस्योत्तरं तु समाप्ती ग्रन्थकृतैव दत्तम्। २ अत्यन्ताप्रस्तुतस्य कार्येस्य कारणस्य वा, सामान्यस्य विशेषस्य वा, वाच्यतायां प्रतीय- मानार्थस्य (कारणादेः) आकर्ष विना कार्यकारणोभयज्ञानसाध्या अभिधा न पर्यवसिता भवति। अत एव व्यञ्ञ्यस्य अभिधाSडलिङ्गितत्वान्न व्वनित्वम्, अपि तु गुणीभूतव्यङ्गयत्वम्।. ३ ध्वननमात्रस्य (सूचनमात्रस्येति यावत्)।

Page 604

५४४ काव्यमाला। । [ द्वितीयानने-

संकोचमञ्ति सरस्त्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु।' अत्र क्षीणराजादितदेकावलम्बपुरुषादिवृत्तान्ते प्रस्तुतेSप्रस्तुतप्रशंसैवेति निर्विवादम्। यदा तु सरोवृत्तान्तो राजवृत्तान्तञ्चेत्युभयं प्रस्तुतं तदापि आ्रागुक्तदिशा सैव। यदा तु सरोवृत्तान्त एव प्रस्तुतस्तदा गुणीभूतराज- वृत्तान्तरूपव्यङ्गयेऽस्मिन्पद्ये कोडलंकार: ?। न तावदियम्। ्रस्तुतस्यैव प्रशंसनात्। नापि समासोक्ति: । तज्जीवातोविशेषणसाम्यस्य सकलालं कारिकसंमतस्यात्राभावात्। न च विशेषणसाम्यप्रकार इव शुद्धसादृश्य- मूलोऽपि तस्या एव प्रकारो वाच्यः । एकधेर्मालीढत्वमन्तरेणैकालंकारत्वे

देर्वाच्यस्यानुपपद्यमानतया व्यङ्ञयेनैव तदुपपत्तेश्च गुणीभूतव्यङ्गयताया एवौचित्यात्। प्रस्तुताङ्कुरलक्षणं तु मुख्यतात्पर्यविषयीभूतप्रस्तुतस्यातादृशेन प्रस्तुततं प्रापितेन ध्वनन- मिति बोध्यम्। अथेति शङ्कायाम्। इयमप्रस्तुतप्रशंसा। जीवातोस्तस्यास्तादृशाप्रस्तुत- प्रशंसायाः । प्रकारो भेदः । एकधर्मालीढत्वमिति । अत्रेदं चिन्त्यम्-अतिश- योक्त्ादिवत्, प्रकृते सादृश्याद्यन्यतम प्रकारनिवेशवच्चान्यतर हेतुकाप्रस्तुतवृत्तान्तारोपत- रूपैकधर्मालीढल्संभवेन समासोक्तेरेवात्राङ्गीकारे बाधकाभावः। कि चाप्रस्तुतेन प्रस्तुतं प्रशस्यत इत्यस्य कोऽर्थः?। यद्युत्कर्षाधानं तर्हि प्रतीयमानार्थानध्यारोपविषयेधु दिगन्ते श्रूयन्त इत्याद्युदाहरणेष्वव्याप्तिः। नहि ताटस्थ्येन स्थितोऽप्यर्थो वाच्योत्कर्षक इति युक्त सहृदयसंमतं वा। यदि प्रतीतिमात्रं तर्हि न प्रकृते। न ह्यन्राप्रस्तुतेन प्रस्तु- तस्य प्रतीतिः। अप्रस्तुतेन प्रस्तुतार्थप्रतीतिमात्रकृत एव चमत्कार इति तन्मतेऽलं

१ सरः इति संबोधनम्। २ धनादिक्षीणो राजादिरेव एकमात्रावलम्बनं यस्य पुरुषस्य पतदादेर्वत्तान्ते। ३ मलिनेऽपि० इति पद्यवत्। ४ यत्र विशेषणसाम्येन (साधारणैर्िशेषणैः) अप्रस्तुतव्यवहारः प्रस्तुतेन व्यज्यते तत्र यथा समासोक्ति: स्वीक्रियते, तथव सादृश्यादपि यत्र अप्रस्तुतव्यवहारः प्रतीयते तत्रापि समासोक्ति- भवतीति स्वीकरिष्यते। ततश्च सादृश्यादप्रस्तुतप्रतीत्याSत्र समासोत्तयलंकारव्यपदेश, इति शङ्का। ५ एकस्य (असाधारणस्य) धर्मस्य (लक्षणस्य) आलीढत्वे (युक्कतत्वे) एकालंकारत्वं तत्तद- लंकारत्वं भवति। तत्तदलंकाराणां जीवातुभूतस्य तत्तदसाधारणलक्षणस्य समन्वये एव तत्तद- लंकारत्वं भवतीत्यर्थः । तद्विनैव तत्तदलंकारत्वस्वीकारे सर्वेप्येकालंकारान्तर्गताः स्युः । अत एव विशेषणसाम्यं विना, सादृश्यमात्रेण न स्यात्समासोक्तिरिति समाधानम्।

Page 605

अप्रस्तुतप्रशंसा ] रसगङ्गाघर: । ५४५

सर्वेषामेकालंकारत्वापत्तेः । व्यवस्थापकैस्तद्वेदताया अनुक्तेश्र । अत एवालंकारसर्वस्वकारा दिभिर्विशेषणवाचिशंदसाम्यं संरक्ष्यैव समासान्त- राश्रयेण सादृश्यमूलत्वं प्रदर्शितम्, न तु तदुपेक्ष्येति चेन्। उच्यते-अप्रस्तुतप्रशंसैवात्रालंकारः। अप्रस्तुतस्य प्रशंसेति न तदर्थः। किं त्वप्रस्तुतेनेति। सा चार्थात्प्रस्तुतस्यैव। एवं च वाच्येन व्यक्तेन वा अप्रस्तुतेन वाच्यं व्यक्तं वा प्रस्तुतं यत्र सादश्याद्यन्यतमप्रकारेण प्रशस्यते साSप्रस्तुते प्रशंसेति। न तु वाच्येनैव व्यङ्ग्यमेवेति। स्यादेतत्। 'कमलम- नम्भसि कमले च कुवलये तानि कनकलतिकायाम्' इत्यादाविवात्रापि निगीर्याध्यवसानेनैवोपपत्तिः शक्या कर्तुम्। तच्च पदार्थन पदार्थस्य, वाक्यार्थेन वाक्यार्थस्य वा इत्यन्यदेतत्। अन्वयानुपर्पेत्तिरपि लक्षणावी- जम्। एवं चातिशयोक्त्यैवोपपत्तौ किं सादृश्यमूलाप्रस्तुतप्रशंसयेति ! ननु निगीर्याध्यवसानं हि न तावदत्र संभवति। तन्न हि वाच्यतावच्छेदकरू- पेण लक्ष्यस्य प्रतीतिः, इह तु वाच्यताटस्थ्येनार्थान्तरस्येति विशेषान्।

कारान्तरता सूपपादेति। व्यक्तेन व्यश्ञयेन। तच्व निगीर्याध्यवसानं च। अन्वयानुपप- त्तेर्लक्षणाबीजस्यात्राभावादाह-अन्वयेति। कि सादृश्येति। अन्रायं समाधि :- वाक्ये शक्त्यभावेन लक्षणा वक्तुमशक्या। किं च लक्षणायां गङ्गायां घोष इत्यादाविव वाच्या- मेदप्रती त्यापत्तिः । सा चानिष्टा। ताटस्थ्येनैव प्रस्तुतार्थप्रतीतेः सहृदयानुभवसिद्धल्वात्। तृतीयस्य लक्षणाहेतोरभावादिति शङ्कां द्रदयितुं शङ्कते-नन्विति। तन्र हि रूपका- तिशयोक्त्युदाहरणे कमलमित्यादौ हि। इह तु अप्रस्तुतप्रशंसोदाहरणविशेषे प्रागुक्ते। १ शुद्धसादृश्यमूलस्य प्रकारस्य तद्भ्रेदतायाः समासोक्तिमेदताया अनुक्तरित्यर्थः । २ आपेदिरे० अन्र व्यक्तेन अप्रस्तुतेन राजवृत्तान्तेन वाच्यं प्रस्तुतम् (सरोवृत्तान्तः) पशस्यते इत्यर्थः । ३ अत्र सरोविषयकवाक्यार्थेन (विषयिणा) राजविषयकवाक्यार्थः (विषयः) निगीर्णः अभिन्नतयाऽध्यवसित इत्यर्थः । ४ क्षीणराजैकावलम्बं पुरुषं हृदि कृत्वा, मुख्यतात्पर्यविषयत्वात्संसुखोपस्थिततया प्रस्तुतस्य सरोमात्रावलम्बनस्य मीनस्य वृत्तान्तोडत्र प्रस्तूयते। ततश्च राजवृत्तान्तस्य सरोवृत्तान्तस्य च परस्परमन्वयो नोपपद्यत इत्यर्थः । ५ कमलमनम्भसि० अत्र कमल-कुवलय-कनकलतादीनि मुख-नयन-नायिकाद्यभिन्नतया अजीयन्ते। अन्र तु वाच्यात् (सरोवृत्तान्तात) व्यञ्ञयस्य (राजरूपार्थान्तरस्य) ताटस्थ्यम्, अर्थात् सरोवृत्तान्तः पृथक्, राजवृत्तान्तः पृथगिति विशेष इत्यर्थः ।

Page 606

५४६ काव्यमाला। [ द्वितीयानने-

यत्र तु श्लेपादिना विशेषणसाम्यं तत्र तन्माहात्म्यादस्तु नामाभेदाध्यवसाय इति चेत्, इहापि वाच्यव्यवहोराभिन्नतयैव च प्रस्तुतव्यवहारप्रत्यय इत्यवैलक्षण्यमेवेति सत्यम्। 'यस्मिन्खेलति', 'दिगन्ते श्रूयन्ते' इत्यादौ वाच्यार्थताटस्थ्येनैव व्यङ्ग्यस्य प्रतीतेः सर्वसहृद्यसंमतत्वात्। क्वचित्तु संबोधनस्य तत्तद्विशेषणस्य चानुपपत्त्या अभेदांशोऽप्यपेक्ष्यते, न तावता सर्वत्राभेदेन प्रतीतिः । किं चाप्रस्तुतप्रशंसायां प्रस्तुतं व्यङ्ग्यमिति निर्वि- वादम्। निगीर्याध्यवसाने तु लक्ष्यं स्यात्। अपि च यत्र वाच्यस्यात्यन्ता- प्रस्तुतत्वं तत्राभिधाया अपर्येवसानात्स्यादपि कदाचिल्लक्षणाया अवकाशः। यदा तु द्वयोरप्यर्थयोः प्रागुक्तदिशा प्रस्तुतत्वं तदा तु बाधलेशास्फुरणाल्- क्षणागन्वोऽपि नास्ति। कुतः पुनर्निगरणं लक्षणैकदेशः ? किं त्वागूरण- मेवेति। तत्राप्रस्तुतप्रशंसायाः सादृश्यमूलाया आवश्यकत्वाद्न्यत्रापि तज्जातीयस्थले सैवोचिता। यदि तु प्रकारस्यास्य ध्वनिप्रभेदत्वात् ध्वने- श्वालंकार्यस्यालंकारत्वानुपपत्तिरिति सूक्ष्ममीक्ष्यते, तदाप्रस्तुतप्रशंसाया भेदान्तरमेव विषय इत्यपि वदुन्ति। इति रसगङ्गाधरेSप्रस्तुतप्रशंसाप्रकरणम् ।

रदान्तरमेवेति। सादश्यमूलातिरिक्तमेदा एवत्यर्थः । वस्तुतस्तु प्रागुक्त- मेवेतीदमयुक्तमित्यरुचिर्वदन्तीत्यनेन सूचिता।। इति रसगङ्गाधरमर्मप्रकाशेऽप्रस्तुत- प्रशंसाप्रकरणम् ॥ १ यस्यामप्रस्तुतप्रशंसायां ्िष्टानि विशेषणानि, यथा नितरां नीचोस्मि० इति पद्ये। अन्र द्वयोरभेदाध्यवसायः संभवेत। यत्र तु न तथा, तत्र ताटस्थ्यमेवेत्यर्थः । २ वाच्यो यः सरोव्यवहारः तदभिन्नतया प्रस्तुतस्य हृदये मुख्यतात्पर्यविषयीभूततया प्रस्तुतस्य राजव्यवहारस्य प्रत्यय इत्याशयो यथाकर्थंच्चिदुपपादः । अन्यथा राजवृत्तान्तः प्रस्तुन- पदेन नात्र शक्यो व्यपदेष्टम् । "यदा तु सरोवृत्तान्त एव प्रस्तुतस्तदा .. कोऽलंकारः" इति पूर्वपक्षमुखभागे सरोवृत्तान्तमात्रस्यैव प्रस्तुतत्वोक्तेः । ३ अतिशयोत्तयैव अर्थोपपत्तिः, अप्रस्तुतप्रशंसया किं फलमिति पूर्वपक्षः एतावत्पर्यन्तम्। ४ यथा-मलिनेपि० इत्यादौ। ५ अतिशयोक्तौ विषयिवाचकपदस्य विषयार्थे लक्षणेति स्वीकारात्। ६ पूर्वपक्षमुखभागे 'यदा तु सरोवृत्तान्त एव प्रस्तुत' इत्येवकारेण राजवृत्तान्तस्य प्रस्तु- •तत्वं निरस्तम् । अ्र तु मलिनेऽपि इतिवत् दयोरपि प्रस्तुतत्वं स्वीक्रियत इति विशेषः । ७ 'पुरा यत्र स्रेतः' इत्यादौ। ततश्च 'पुरा यत्र स्रोत०' इत्यत्र कोडलंकार इत्यस्य अप्रस्तु- नतम्र शंसाअसङ्गे उत्तरदान प्रतिशञाSत्र निरूढेति ज्ञेयम्। ८ सादृश्यमूलातः अन्ये कार्यकारणभावमूलादय इत्यर्थः ।

Page 607

पर्यायोक्तम् ] रसगङ्गाघरः । ५४७

अथ पर्यायोक्तम्- विवक्षितस्यार्थस्य भज्न्तरेण प्रतिपादनं पर्यायोक्तम् । येन रूपेण विवक्षितोऽर्थस्तदतिरिक्त: प्रकारो भङ्गयन्तरम्। आक्षेपो वा। यथा- त्वां सुन्दरीनिवहनिष्ठुरवैर्यगर्व- निर्वासनैकचतुरं समरे निरीक्ष्य। केपामरिक्षितिभृतां नवराज्यलक्ष्मीः स्वामित्रतात्वमपरिस्खलितं वभार ।।' अत्र सर्वापि शत्रूणां राज्यसंपत्त्वां प्राप्तेति विवक्षितोऽर्थो न ताद्रूप्येणा- भिहित, अपि तु रखलितपातिव्रत्या बभूवेत्याकारेण। यथा वा- 'सूर्याचन्द्रमसौ यस्य वासो रञ्जयतः करैः। अङ्गरागं सृजत्यग्निस्तं वन्दे परमेश्ववरम् ।।' अत्रापि गगनाम्बर इति सूर्येचन्द्रकररज्यमानवस्त्र इत्याकारेण, भस्माङ्गराग इत्यग्निसृज्यमानाङ्गराग इत्याकारेण च निरूपितः । 'अस्यां च गम्यस्य येनाकारेण गम्यता तद्तिरिक्त्ताकारेण वाच्यता। तेन पर्यायेण भङ्ग्यन्तरेणोक्तमभिहितं व्यङ्गयं यत्रेति प्राचीनैनिर्मितं लक्षणं व्यङ्ञयत्ववाच्यत्वयोविरोधादसंगतमिति नाशङ्कनीयम्। एकस्यैव

विवक्षितार्थस्य भङ्गयन्तरेणेति। केनचिद्रूपेण व्यञ्ञनया लभ्यस्यार्थस्य ततो- डपि चारुतररूपेण यदभिधया प्रतिपादनं तत्पर्यायोक्तमित्यर्थः । मम्मटमतमाह- १ व्यज्जनाद्वारा येन रूपेण अर्थों विवक्षितः (प्रतिपाइयितुमिष्टः) तमाद्पादतिरिक्तेन चारुतरेण रूपेण (प्रकारेण) आक्षेपेण वा प्रतिपादनम् (अभिधया कथनम्) पर्यायोक्तन्। यथा सर्वापि शत्रूणां संपत्वां प्राप्ता इत्येवंरूपेण व्यञ्जनया प्रतिपादयितुमिष्टोर्थः तथा नोकः। किन्तु तस्मात (व्यञ्जनापरिगृहीतात) रूपात् अतिरिक्तेन अभिधाद्वारा प्रोक्तम्-'सुन्दर त्वां वीक्ष्य राज्यलक्ष्मी: स्खलितपातिव्रत्या बभूव' इति। २ 'पर्यायेण उक्त व्यङ्गयं यत्र' इति हि स्पष्टमसंगतम्। यद्धि उक्तम् (अर्थात् अभिधना अतिपादितम्) तद् व्यजयं कथम्? व्यङ्गयस्यार्थस्य अभिधया अप्रतिपाद्यतवात्। इति शङ्का।

Page 608

५४८ काव्यमाला। [ द्वितीयानने-

प्रकारभेदेन वाच्यत्वव्यज्ञयत्वयोरविरोधात्। यथा यावकमहारजनदाडि मीजपाकुसुमादिरूपाणां रक्तत्वादिना वाच्यत्वेऽपि तत्तद्वैजात्यरूपेण प्रत्य- क्षत्वमेव न तु वाच्यत्वम्, एवमिहापि' इति मम्मटभट्टाः । अलंकारसर्वस्वकारस्तु-'गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्या- योक्तम्। गम्यस्यैव सतः कथमभिधानमिति चेत्, कार्यादिद्वारेण' इत्याह। तस्यायमाशय :- 'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य। आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ।।' इति प्राचीनपद्ये राहुशिरश्छेद कारीति व्यङ्गयं राहुवधूजनसंबन्धिचुम्ब- नमान्नावशिष्टरतोत्सवनिर्मातृत्वेन रूपेण प्रकारान्तरेणाभिधीयत इत्यस्या- पि विवेचने क्रियमाणे राहुशिरश्छेदकर्तृत्वरूपो धर्मः खसमानाधिकरणेन तादृशरूपान्तरेण साक्षादुपात्तेन गम्यत इत्येव पर्यवस्यति। भगवतस्तु पूर्वप्रकान्तत्वाद्यच्छव्देनाभिहितत्वाच् न व्यङ्ग्यत्वम्। एवम्- 'यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता। मदेनैरावणमुखे मानेन हृदये हरेः ।l'

१ यद् व्यङ्गयं तद् वाच्यं न भवतीति वाच्यत्व-व्यङ्गयत्वयोः परस्परं स्यात्स्वरूपतो भेदः । परम् एकस्यैवार्थस्य एकेन प्रकारेण वाच्यत्वम्, तद्धिन्नेन प्रकारेण व्यङ्गयत्वं संभवति। यथा-यावक(अलक्तक)महारजन(कुसुम्भ)-दाडिमी-जपाकुसुमानां रूपं रक्तमिति शब्देन वयं वदाम:। परं सूक्ष्मेक्षिकया एतेषां रूपे (रक्तिमनि) स्प्ष्ट वैजात्यम् (यादशं रक्त रूपं याव- कस्य न तादृशं कुसुम्भस्य) पश्यामः । किन्तु तत्पश्याम एव। रक्त रूप नास्तीति बक्तुं नं प्रभवामः । ततश्च दर्शने पतेषां वैजात्यरूपः प्रकारः । कथने च 'रक्तं रूपम्' इति सर्वेषा- मेकरूपो भिन्नः प्रकारः । एवमेव एकस्यैव वस्तुनः प्रकारभेदेन वाच्यत्वं व्यञ्ञयत्वं च संभव- वीति दृष्टान्ताशयः । पूर्वशङ्कायाः समाधानम्। २ भगवान् राडुशिरश्छेदकारीति राडुशिरश्छेदकर्तृत्वं यद् व्यञ्ञयमासीत तत् स्वस्य (शिर- ऋछेदकर्तृत्वस्य) समानाधिकरणेन (एकाधिकरणवासिना, सहवासिना) साक्षादुपात्तेन (चुम्बनमात्रशेषं चकार इत्यनेन) गम्यते अर्थात अभिधया कथ्यते।

Page 609

पर्यायोक्तम् ] रसगङ्गाधरः । ५४९

इति प्राचीनपदयेऽपि शक्रैरावणौ मानमदमुक्तौ जाताविति व्यङ्गयमपि मानमद्मोकमात्रस्य व्यङ्गयत्वे पर्यवस्यति, धर्म्यशस्याभिधागोचरत्वात्। एवं च यो व्यङ्गयांशः स न कदापि रूपान्तरपुरस्कारेणाभिधीयते, यश्चा- भिधीयते धर्मी स तु तदानीमभिधाश्रयत्वाव्यञ्जनव्यापारानाश्रय एवेति व्यङ्गयस्य प्रकारान्तरेणाभिधानमसंगत मेव। तस्मात्कार्यादिमुखेनोक्तमिव पर्यायोक्तम्। तेनाक्षिप्तमित्येवार्थः । प्राचीनैर्धर्मिणोSपि यव्ङ्गयत्वमुक्तं तद्वैयञ्ञनिकबोधविषयस्य समस्तवाक्यार्थस्यैव व्यङ्गयत्वमित्यभिप्रायेण। तन्र च विवेके क्रियमाणे केचिद्भिधामान्नस्य गोचराः पदार्थाः, केचिच्च व्यक्तिमात्रगोचरा

अभिनवगुप्तपादाचार्यास्तु-'पर्यायेण वाच्यादतिरिक्तप्रकारेण व्यङ्गथे-

अस्यां चेति। पर्यायोक्तों चेत्यर्थः । हरिरिन्द्र इत्याह-शक्ररेति। प्रकारा न्तरेणाभिधानमसंगतमेवेति। अन्राहु :- औपाधिकमेदेन घटाकाशादिषु मेद- धर्मिणोऽपि मेदाद्यङ्ग्यस्याभिधाविषयत्मस्तेव

१ धर्मिंणौ यौ इन्द्रैरावणौ तौ तु श्रोके अभिघया प्रोक्तावेव, अतो धर्मस्य मान-मदमोचन- मात्रस्य व्यङ्गयत्वम्। २ राडुशिरश्छेदकर्तृत्वम् (कारणम्) [ यद्धि व्यञ्ञयमस्ति ], राहुवधूसंबन्धिना चुम्बन- मात्रावशिष्टरतोत्सवरुपकार्येण गम्ये अिधया कथ्ते इत्यर्थः। अयं भावः-कारणमत्र व्यङ्गयमेव। परं तस्य कार्यम् अभिधया प्रोक्तमिति स व्यङ्ञ्यः कार्यद्वारा उच्यत इत्याशयः । ३ सर्वस्वकारमतस्यायं निष्कर्षः-यो गम्यः (व्यङ््यः) तस्य कथनं कथ संभवति? ततश्र भङ्गयन्तरेण प्रकारान्तरेण धर्मादिद्वारेण तस्याभिधानमिति तस्यार्थः । यथा हि राहुवधूशिर- शछेदकर्तृत्वम् (कारणम्) व्यञ्ञयमस्ति परं तस्य विशिष्ट( चुम्बनमात्रशेष)रतोत्सवरूप- कार्यद्वारा अभिधानं कृतमिति पर्यायोक्तलक्षणस्य समन्वयः। धार्मणोत्र व्यड्यत्वं नास्ति, सतु सर्वत्र वाच्यः ['चक्राभिघात०' इत्यत्र 'यः' इति पदेन अभिधया प्रोक्तः। 'यं प्रेक्ष्य०' इत्यत्र च् हयैरावणौ इति शब्देन प्रोक्तः ] । प्राचीनैः समस्तस्यापि वाक्यार्थस्य व्यञ्जनाबोधविषयत्व- अभिप्रेत्य वाक्यार्थान्तर्गतस्य धर्मिणोपि व्यङ्ञ्यत्वमुक्तम्। अन्यथा अस्मिन् वाक्यार्थें धर्मी पदार्थ: अभिधामात्रगोचरः, तदितराणि कार्यादीनि व्यञ्ञनामात्रगोचरा इति।

Page 610

५५० काव्यमाला। [द्वितीयानने-

नोपलक्षितमुक्तमभिहितं पर्यायोक्तम्' इति योगार्थ लक्षणं चाहुः। तेषामयमाशयः-यदि पर्यायशब्देन प्रकारान्तरं धर्मान्तरमुच्यते तदा विवक्षितार्थतावच्छेदकातिरिक्तधर्मपुरस्कारेणाभिहितमिति योगार्थः स्यात्। तथा च 'दशवद्ननिधनकारी दाशरथिः पुण्डरीकाक्षः' इत्यादौ रामत्वातिरिक्तधर्मपुरस्कारेण रामस्यैवाभिधानात्पर्यायोक्तप्रसङ्ग:। न च व्यङ्गयं यत्र तेन प्रकारेणोक्त्तं तत्पर्यायोक्तमिति वाच्यम्। व्यङ्गयस्य योगार्थानन्तर्गतत्वात् । न च योगार्थानन्तर्गतत्वेऽपि लक्षणान्तर्गतत्वं तस्येति वाच्यम्। एवं तर्हिं व्यङ्गयस्य लक्षणप्रवेशवश्यकत्वे पर्यायशब्देन व्यङ्गयस्यैव ग्रहीतुमुचितत्वात्। व्यङ्गयेन ह्युपलक्षित-

यद्ा व्यक्क्यतावच्छेदकापेक्षया वाच्यतावच्छेदकं यत्र चारुतरमिति लक्षणतात्पर्यम्। प्राप्ताप्राप्तविवेकेन तथैव तात्पर्योन्नयनादिति । अतिरिक्तप्रकारेणेत्यस्य व्याख्या व्यङ्गये- नेवि। न च व्यङ्डं यत्र तेनेति । व्यङ्ञ्यतावच्छेदकातिरिक्तधर्मपुरस्कारेण वाच्य- मित्यर्थः । प्रकृते च पुण्डरीकाक्षपदस्य भगवति योगरूढत्वेन तस्य न व्यङ्ग्यत्वमिति भाव:। व्यङ्ञ्यस्यैव ग्रहीतुमुचितत्वादिति। सर्वस्वकृदाशयवर्णनावसरो-

१ पर्यायेण (उपलक्षितं सत्) उक्तं पर्यायोक्तम्। पर्यायेण प्रकारान्तरेण [विवक्षित- प्रकारात अभिधाव्यापारादन्येन व्यञ्ञयेन ] उपलक्षितम् (विशिष्टम) सत् यत उक्तं कथ- नमू। यथा-दशवदन० इत्यत्र वाच्योर्थः (रामः) विवक्षितप्रकारात् अभिधाजनितात राम- त्वरूपात् भिन्नेन व्यड्येन [राम: पुण्डरीकाक्षः साक्षाद्विष्णुः इत्यनेन ] उपलक्षितः सन् अभिहितः । व्यड््योपलक्षितस्य वाच्यस्याभिधानं पर्यायोक्तमिति सारम्। एवं चात्र उक्तम् (अभिधानम्) वाच्यस्यैव ग्रह्यते किन्तु तद् व्यङ्गयोपलक्षितस्येति निर्गलितार्थः । २ ननु पर्यायेण प्रकारान्तरेण [व्यञ्जनाव्यापारादतिरिक्तेेन अभिधाव्यापारेण ] उक्तम् [अर्थात् व्यङ्गयम् ] यत्रेत्यर्थ कृत्वा 'व्यङ्गयस्य भङ्गयन्तरेण वाच्यता यत्र' इति लक्षणमस्तु, इति शङ्का। 'पर्यायेण [विवक्षितप्रकारादन्येन प्रकारेण ] उत्तम्' इति योगलभ्ये अर्थे 'उक्त'- पदेन व्यञ्क्यस्य अर्थों नोपलभ्यते, अपि तु 'वच' धातुना वाच्यस्यैवार्थः समुचितः इति 'समाधानम् । ३ यदि लक्षणे व्यङ्गयस्य प्रवेश इष्स्तहिं पर्यायशब्देन तत्संग्रहं कृत्वा 'पर्यायेण [ प्रका- रान्तरेण अर्थात् व्यङ्गयेन (उपलक्षितम्) ] उक्तम्' इत्यस्मददर्शितः पूर्वोंक्तार्थ एव समुच्चित इत्याशयः ।

Page 611

पर्यायोक्तम् ] रसगङ्गाघर: । ५५१

मुंक्तं प्रकारान्तरेणैव भवतीति प्रकारान्तरग्रहणं नात्यावश्यकमिति। अत एवास्माभिराक्षेपो वेति पक्षान्तरमप्युक्तम्। इदं पुनरवशिष्यते-'वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्' इति मकलप्रसिद्धध्दन्यु- दाहरणेऽधमनिकटगमननिषेधरूपेण तन्निकटगमनविशिष्याः, अधम- त्वेन रूपेण वा दूतीसंभोगकर्तुरभिधानात्पर्यायोक्तप्रसंगः प्राचीनपक्ष इवास्मिन्नपि पक्षे भवति। स च व्यङ्गयविशेषग्रहणेन तैरिवैतैरपि निरसनीयः । मध्यस्थपक्षे तु नेदमपि दूषणम्। तदेवं पक्षाणां निष्कर्षे स्थिते यदस्मिन्प्रकरणे कुवलयानन्दकारेणोक्त तत्सर्वमविचारितरमणीयमेव। तथा हि यत्तावदुच्यते -"-'नमस्तस्मे कृतौ येन सुधा राहुवधूस्तनौ'। अत्र भगवान्वासुदेवः स्वासाधारणरूपेण गम्यो राहुवधूकुचवैयर्थ्यकारकत्वेन रूपान्तरेणाभिहितः" इति, तन्न। अत्र हि

क्तानुपपत्तिपरिहारायेत्यर्थः । व्यङ्गयेन ह्युपलक्षितमिति। अन्यत्र हि वाच्यं केव- लमेव प्रतीयते। तदपेक्षयेदं प्रकारान्तरं यन्नियतव्यङ्गयवैशिष्यमित्यर्थः। प्राचीनपक्षे मम्मटोक्तपक्षे। अस्मिन्नपि पक्षे अभिनवगुप्तोक्तपक्षे। तैरिवैतैरपीति। विशेषश्च वक्तृवैशिध्यादिसहकारिकारणानपेक्षलम् । किं च तत्र व्यङ्कयापेक्षया वाच्ये चारतर-

१ 'व्यङ्गयेन (उपलक्षितम्) उत्तम् पर्यायोक्तम्' इत्यर्थे पर्यायशब्दग्रहणस्य न स्वारस्यम्। अत एव लक्षणे लक्षित द्वितीयपक्षमुत्थापयति-'अस्ाभिः आक्षेपो वेति पक्षान्तरमप्युक्तमिति'। विवक्षितस्यार्थस्य आक्षेपेण प्रतिपादनं पर्यायोक्तम्, अर्थात्, व्यङ्गयस्याक्षेपं कृत्वा स्वाभीष्टार्थस्य परिष्करणमित्याशयः । २ मम्मटमते अभिनवगुप्तमते च 'निःशेषच्युत०' इति ध्वन्युदाहरणे पर्यायोक्त्तस्य अति- प्रसङ्ग: स्यात्, तथा च ध्वनेरपि गुणीभूतव्यङ्गयत्वं मध्यमकाव्यत्वं स्यात्। यतः नायकनि- कटगमनविशिष्टाया अपि दूत्याः भङ्गयन्तरेण निषेधरूपेण अभिधानम्, अथवा दूतीसंभोगकर्तुः नायकस्य भङ्गयन्तरेण अधमत्वेन रूपेण अभिधानमस्ति, इति मम्मटमते-तस्याधमस्यान्तिकं न गतासीति निषिद्धनिकटगमनाया अपि 'तस्यान्तिकं रन्तुं गतासि' इति व्यङ्गयोपलक्षितमभि- धानम्, इति अभिनवगुप्तमते च अतिप्रसङ्गः, इति शक्का। ३ पर्यायोक्ते यादृशो व्यङ्ग्यो विवक्षितस्तदपेक्षया निःशेषेतिपद्ये व्यङ्ग्यो विलक्षण इति कृत्वा नात्र तद्तिप्रसङ्ग इति समाधानाशयः । ४ सर्वस्वकारमते कार्यादिद्वारा गम्यस्याभिधानमिति तथात्वाभावान्नातिप्रतङ्ग इत्याशयः।

Page 612

५५२ काव्यमाला। [ द्वितीयानने-

राहुवधूकुचौ येन मुधा कृतावित्यभिहितेन राहुवधूकुचवैयर्थ्यकारि- त्वेन राहुशिरश्छेदकारित्वं व्यज्यत इति तावन्निर्विवादम्। भगवद्वासु- देवत्वं तु विशेषणमर्यादालभ्यं न काव्यमार्गीयव्यङ्गयकक्षामारोढुं प्रभवति। अन्यथा 'नमो राहुशिरश्छेदकारिणे दुःखहारिणे' इत्यत्रापि भगवद्वासुदे- वत्वव्यङ्गयताप्रयुक्तं पर्यायोक्तमलंकार: स्यात्। विशेषणमर्यादालभ्यस्य च धर्मस्य किंचिन्यङ्गयतास्पर्शः सन्नपि न स काव्यमार्गे गण्यते। असु- नदरत्वात्। अन्विताभिधाने अतिविशेषवपुष इव सामान्यरूपाणां पदा- र्थानामन्वये। किं च 'राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः' इत्यत्र भग- वतः स्वशब्देनाभिधेयस्य स्वासाधारणरूपेणाप्यगम्यत्वाद्राहुशिरश्छेदका-

खाभावस्य सहृदयसंमतत्वेनाक्षतेः । व्यञ्ञयमेव हितत्र वाच्याच्चारु। मध्यस्थपक्षे अलंकारसर्वकृदुक्ते प्रकृते। अन्यथा नमो राहुशिरश्छेदेति। चिन्त्मिदम् । व्यङ्ञ्थापेक्षया चमत्कारित्वे इष्टापत्तेः । अतत्वे तु चारुतरेण विशेषणेन व्यावृत्तेः । नासी काव्यमार्गे गण्यत इति राजाज्ञामात्रमेतत्। मदेनैरावणमुखे इत्यादिप्रकाशोदा-

१ 'राहुशिरश्छेदकारिणे' इति विशेषणेन भगवद्वासुदेवत्वं व्यज्यते (यतो हि राहुशिर- इछेदकारी वासुदेव:), किन्त्वेतस्य व्यङ्गयकक्षानधिरोहान्न पर्यायोक्तत्वम्। २ अन्विताभिधानवादिनो मते-अपरपदार्थान्विताSSनयनत्वादिसाधारणधर्मेण सामान्य- रूपाणाम् आनयनादिपदार्थानां गवादिना अन्वये, अपरपदार्थान्वितानयनादेः अगत्या गवा- द्यन्वितानयनादिविशेषरूपोर्थ: कदान्चित् स्यात्, किन्तु गवानयनत्वादिना गवानयनादिरूपोऽति- विशेषभूतोऽर्थस्तु असंकेतितत्वादवाच्य एत्र भवति। ततश्च अतिविशेषवपुषः (वाक्यगम्यस्य गवानयनादिरूपस्यार्थस्य) व्यङ्चयतास्पर्शः सन्नपि असुन्दरत्वात् यथा काव्यमार्गे न गण्यते तथात्रापीति दृष्टान्ताशयः। उक्तं काव्यप्रकाशे (पञ्चमोल्लासे) "तेपामपि मते सामान्यविशेष- रूप: पदार्थः संकेतविषयः इत्यतिविशेषभूतो वाक्यार्थान्तर्गतोऽसंकेतितत्वादवाच्य एव यत्र पदार्थः प्रतिपद्यते"। ३ अत्र पर्यायोक्तं सर्वस्यापि संमतम्। परं भगवांस्तु स्व (हरि ) शब्देनैव वाच्यो जातः । अत एव स्वस्य असाधारणरूपेण तुसः अगम्य एव। ततश्च पर्यायोक्तत्वसिद्धये राहुशिरश्छेद- कारित्वेन रूपेणव तस्य व्यञ्ञयत्वं वक्तव्यं स्यात् [एवं च स्वासाधारणरूपेण गम्य इति दीक्षि- तोक्तिरसंगते त्याशय: ]।

Page 613

पर्यायोक्तम् ] रसगङ्गाघर: । ५५३

रित्वेनैव व्यङ्गयत्वमेष्टव्यम्, न स्वासाधारणधर्मरूपेण। न चात्र पर्यायोकं नास्तीति कस्यापि संमतम् । यद्प्युक्तम् 'सर्वस्वकारस्य लोच- नकर्तुश्च सर्वोडप्ययं क्रेशः किमिति न विद्यः' इति, तत्र यदर्थ तेषां केश- स्तत्तु तन्मतनिष्कर्षावसर एव निरूपितम् । यद्प्युक्तम् "-'चक्राभिघात- प्रसभाज्या-' इति प्राचीनोदाहरणे यद्राहुशिरश्छेदावगमनं तत्र आागु- क्तरीत्या प्रस्तुताङ्कुरे एव। यत्तु प्रस्तुतेन राहो: शिरोमात्रावशेषेणालिङ्गन- वन्ध्यत्वाद्यापादनरूपे वाच्ये भगवतो रूपान्तरे उपपादिते भगवद्रूपेणाव- गमनं तत्पर्यायोक्तस्य विषयः" इति, तद्पि न। यदि राहुशिरश्छेदाव- गमनं त्वत्कल्पितस्य प्रस्तुताङ्करस्य विषयः स्यात्तदा किं पर्यायोक्तेन ? भगवद्रूपेणावगमनं तु विशेषणमर्यादालभ्यत्वेनासुन्दरम् 'नमो राहुशिर- शछेदकारिणे' इत्यादाविव न कस्याप्यलंकारस्य विषय इत्युक्तमेव ।

हरणे तादृशव्यङ्ग्यस्यैव सत्त्वाच्च। न च नहि। चकाभिघातमिति णमुलन्तम्। चक्र्मभि- हत्येत्यर्थः । यत्त्वित्यस्यावगमनेऽन्वयः । असुन्दरमिति । चिन्त्ामदम् । इष्टापत्तेः । व्यङ्गयसौन्दर्यस्याविवक्षितलात् व्यञ्ञापेक्षया वाच्यस्यवात्र चारुतरत्मिति स्पष्ट तदुकः अत्रैवालंकारे व्यङ्ञयं वाच्यपरमिति ध्वनिकृतः । तादृशविशेषणं हि व्यङ्ञयमादायै- वोपपद्यत इति तदाशयः । 'राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः' इत्यत्र राहुशिरश्छे- १ अत्रालंकार चन्द्रिकाकृतं समाधानमपि वीक्षणीयम्-'यत्त भगवद्रूपेणावगमनं विशेषण- मर्यादालभ्यत्वेनासुन्दरं न पर्यायोक्तस्य विषय इति तदविचारितरमणीयम्। न हि पर्यायोक्ते व्यङ्गयसौन्दर्यकृतो विच्छित्तिविशेषः किं तु भङ्गयन्तराभिधानकृत एव। व्यङ्ञयं तु भङ्गयन्तरा- भिधानतोऽसुन्दरमेव प्रायशो दृश्यते। यथा इहागन्तव्यमिति विवक्षिते व्यङ्गये अयं देशो- लंकरणीयः, सफलतामुपनेतव्य इत्यादौ। अतस्तदसुन्दरतोन्भावनमकिञ्चित्करमेव। अलंकार- सर्वस्वकारग्रन्थविरोधोन्भावनं तु तच्छिक्षाकारिणं प्रति न शोभते। उपजीव्यत्वोन्भ्ावनमपि

विस्तरेण।' २ प्रस्तुतेन तादशरतोत्सवरूपेण कार्येण प्रस्तुतस्य राडुशिरश्छेदरूपकारणस्य द्योतनात्। ३ शिरोमात्रावशेषतया अधःकायाभावादालिङ्गनवन्व्यत्वं जातमित्यवर्णयित्वा 'येन राडु- स्त्रीजनस्य रतोत्सव एतादृशः कृतः' इति भगवतो रूपान्तरे वर्णिते, तेन (रूपान्तरेण) च भगवतः स्वरूपेण यत् अवगमनं व्यञ्जनं तत्पर्यायोक्तस्य विषयः । अर्थात् व्यज्ञनया गम्यस्य भगवत्स्वरूपस्य 'यो राङुस्त्रीरतोत्सवं चुम्बनमात्रशेषमकार्षीत्' इति व्यङ्गयापेक्षयापि चारुतरेण प्रकारान्तरेणाभिधानात्पर्यायोक्तस्य विषय इति। ४७ रस०

Page 614

५५४ काव्यमाला। [द्वितीयानने-

प्रस्तुताङ्करस्य प्राचीनरखवीकाराच्च। स्वीकारे वा प्रस्तुतेन स्वसदशो वाक्यार्थ: प्रस्तुत एव यत्र व्यज्यते, स तस्य विषयोऽस्तु। न तु कार्येण अ्रस्तुतेन कारणावगमनम्। अन्यथा 'ह्यप्रस्तुतेन कार्येण प्रस्तुतकारणाव- गमने अप्रस्तुतप्रशंसैव। प्रस्तुतेन कार्येण प्रस्तुतस्यैव कारणस्यावगमन तु पर्यायोक्तस्य विषयः' इत्यलंकारसर्वस्वकारादिभिः प्राचीनैः कृतो विषयविभाग उच्छिन्न एव स्यात्। 'राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेद: कारणरूपो गम्यते। एवमन्यन्नापि पर्यायोक्तं ज्ञेयम्' इति त्वदुपजीव्यग्रन्थविरोधाच्च। तस्मादुत्र राहुशिरश्छेदकारित्वेनावगमः पर्यायोक्तस्य विषयः, न तु भगवद्रपेणेति सहृद्यैराकलनीयम्। अस्मिंश्चालंकारे व्यङ्ग्यं वाच्यपरम्। अप्रस्तुतप्रशंसायां तु वाच्यं व्य- डयपरम्। तेनायमलंकारो वाच्यसिद्धयङ्गगुणीभूतव्यङ्गयभेद इति ध्वनि- कारानुयायिनः । यत्तु- ".स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम्। उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा।।' इत्युक्तयुक्त्या लक्षणाद्वयाश्रितत्वादनयोरवान्तरोऽपि विषयभेदोऽस्ति" इति

दरूपकारणमात्रावगमने प्रस्तुताङ्कुरः । राहुशिरश्छेदकारिलेन भगवतोऽवगमने पर्या- योक्तमपि। एतेन नम इत्याद्यग्रिममपि प्रस्तुताङ्कुराभावप्रतिपादकमपास्तम्। राजा- ज्ञामान्रलात। किं च मुख्यार्थतात्पर्यविषयीभूतार्थेन वाच्येन व्यड्गयेन वा वाच्यं व्यर्क्त वा प्रस्तुतं यत्र सादृश्याद्यन्यतमप्रकारेण प्रशस्यते साप्रस्तुतप्रशंसेत्यप्रस्तुतप्रशंसालक्षणस्य भवतानुपदोक्तस्य राहुशिरश्छेदकारित्वरूपव्यङ्ञ्यांशे सत्त्वेनाप्रस्तुतप्रशंसयैव निर्वाहे किं पर्यायोक्त्ेनेति नियोगे उत्तरं विभाव्यताम्। न चात्र द्वयोरपि मुख्यतात्पर्यविषय- तेति वाच्यम्। एवं तर्हि 'आपेदिरेऽम्बरपर्थ' इत्यत्रापि यदा द्वयोमुख्यतात्पर्यविषयता तदा कोऽलंकार इत्यत्रोत्तरं विभाव्यताम्। अस्मन्मते तु प्रस्तुताङ्कर एव। भवतापि तत्स्वीकारे प्रकृते तेनैव गतार्थता स्पष्टैव। न चास्मिन्नलंकारे व्यङ्षयं वाच्यपरमप्रस्तुत- प्रशंसायां तु वाच्यं व्यञ्ञयपरमतः सा नेति वाच्यम्। 'कस्तं भोः-' इत्यादावप्रस्तुतप्रशं-

१ सवसदृशः समानस्वरूपः, न तु कार्येण कारणावगमस्वरूपः ।

Page 615

पर्यायोक्तम्] रसगङ्गाधर: । ५५५

खवमूलग्रन्थाशयं वर्णयता विमार्शनीकारेणोक्तम्, तन्न। नहि 'चक्राभि- घातप्रसभाज्ञयैव-'इति पद्ये चुम्बनमात्रशेषरतोत्सवांशे वाधोऽसि्ति, येन लक्षणा स्यात्। एवमप्रस्तुतप्रशंसायामप्यप्रस्तुतस्य प्रस्तुते न लक्षणा, किं तु व्यञ्जनैवेति सर्वसंमतम्। अन्यथा पर्यायोक्ते वाच्यस्य प्राधान्यम्, अप्रस्तुतप्रशंसायां तु गम्यस्येति सिद्धान्तस्य भङ्गः स्यात्। लक्षणायां हि लक्ष्य स्यैव प्राधान्यं स्यात्, न वाच्यस्य। 'यत्र वाच्योऽथोऽर्थान्तर स्ो- पस्कारकत्वेनागूरयति तत्र पर्यायोक्तम्। यत्र स्वात्मानमेवाप्रस्तुतत्वात्प्रस्तु- तमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुप्रशंसा' इति तन्मूलेग्रन्थविरोधाच्च। नहि लक्षणा आगूरणं भवति। तस्मात्पर्यायोक्ते वाच्यस्य प्राधान्यम्, अप्रस्तुतप्रशंसायां तु नेति तन्मूलग्रन्थस्य तात्पर्यम्। इदं तु बोध्यम्-ध्वनिकारात्प्राचीनैर्भामहोङ्गटप्रभृतिभिः स्वग्रन्थेषु कुत्रापि ध्वनिगुणीभूतव्यङ्गयादिशब्दा न प्रयुक्ता इत्येतावतैव तैर्ध्वन्यादयो न स्वीक्रियन्त इत्याधुनिकानां वाचोयुक्तिरयुक्तैव। यतः समासोक्तिव्याज- स्तुत्यप्रस्तुतप्रशंसाद्यलंकार निरूपणे कियन्तोSपि गुणीभूतव्यङ्गय भेदास्तैरपि निरूपिताः । अपरश्च सर्वोऽपि व्यङ्गयप्रपञ्नः पर्यायोक्तकुक्षौ निक्षिप्ः। न ह्यनुभवसिद्धोऽर्थो बालेनाप्यपह्नोतुं शक्यते। ध्वन्यादिशब्दैः परं व्यवहारो

सारयां व्यङ्ञयस्य वाच्याङ्गलेन तस्या भेदकल्वात्। आ्चीनग्रन्थविरोधस्तु तत्र तदूषण- प्रवृत्तस्य भूषणमेव । एवं च सर्वसलोचनकृतः क्ेशो व्यर्थो दुष्टश्चेत्यपि सम्यगेवेति। कश्चित्तु-"यच्छब्दस्य बुद्धिस्थलं शक्यतावच्छेदकमिति मते 'नमस्तस्मै-'इत्युदाहरणम्, तत्तद्रूपेण सर्वनाम्रां शक्तिरिति मते तु 'निवेदतां हन्त- इत्यादि" इत्याह। तैर्भामहा-

१ त्वद्रीत्या लक्षणास्वीकारे इत्यर्थः । भवद्रीत्या अप्रस्तुतप्रशंसायामपि लक्षण(स्वसमर्पण- रूपलक्षणलक्षणा)स्वीकारे व्यज्जनायाश्राभावे 'गम्यस्य प्राधान्यम्' इति सिद्धान्तस्य स्पष्टो भङ्ग इत्याशयः । २ तस्याः (टीकायाः) यो मूलग्रन्थः (अलंकारसर्वस्वम्) तस्य। ३ अप्रस्तुतप्रशंसायां तु वाच्यस्य न प्राधान्यम् । एतेन 'सादृश्यमूला अप्रस्तुतप्रशंसा ध्वनिभेदः' इति पू्वोंपपादितं स्वाभिमतं समर्थयति।

Page 616

५५६ काव्यमाला। [द्वितीयानने-

न कृतः । नह्ेतावतानङ्गीकारो भवति। प्राधान्यादलंकार्यो हि ध्वनिर- लंकारस्य पर्योयोक्तस्य कुक्षौ कथंकारं निविशतामिति तु विचारान्तरम्। अयं चालंकार: कचित्कारणेने वाच्येन कार्यस्य गम्यत्वे, क्वचित्कार्येण कारणस्य, क्वचिदुभयोदासीनेन संबन्धिमात्रेण संबन्धिमात्रस्य चेति विपुलविषयः । तत्र 'त्वां सुन्दरीनिवह- इति पद्ये पातिव्रत्यस्खलनेन कारणेन तं प्रति प्राप्तिः कार्य गम्यते। समासोक्तिरत्रोत्थापिका। एतेन

कारोक्तमपास्तम् । 'अपकुर्वद्धभिरनिशं धृतराष्ट्र दवात्मजैः । उप्यन्ते मृत्युवीजानि पाण्डुपुत्रेषु निश्चितम् ।' अन्र बीजवापेन कारणेन कुलक्षयः कार्यरूपो गम्यते। कार्येण कारणस्य गम्यत्वे यथा- 'त्वद्विपक्षमहीपालाः स्र्बालाधरपल्लवम्। पीडयन्तितरां तीव्रदारुणैर्दशनक्षतैः ।।' अत्र वैरिणां सुरवधूसंभोगेन कार्येण मरणं कारणं गम्यते। तदुभयोदासीनेन यथा-'सूर्याचन्द्रमसौ यस्य-' इति पूर्वोदाहते पद्ये सूर्यचन्द्रकररज्यमानवस्त्रत्वेन न कार्येण, नापि कारणेन, केवलं सहचरितेन गगनाम्बरत्वं गम्यते। एवम्- 'यश्चरणत्राणीकृतकमलासनपन्नगेन्द्रलोकयुगः । सर्वाङ्गावरणपटीकृतकनकाण्डः स वामनो जयति ।'

दिभिः। एवम्रेऽपि। यत इति पाठः। परं केवलम्। तेन तदुत्थापिततत्कृतचमंत्कार- सत्वेन। अन्न च 'अयं चालंकार: क्वचित्' इत्यादिः 'अन्वेष्टव्या' इत्यन्तो ग्रन्थश्चिन्त्य प्रस्तुतेन प्रस्तुतस्येत्यर्थः । अप्रस्तुतेन प्रस्तुतस्य गम्यत्वे तु अप्रस्तुतप्रशंसेति पूर्व द्यो- र्भेंद स्योक्तत्वात। २ चरणत्राणीकृतम् कमलासन(ब्रह्म)लोकः पन्नगेन्द्रलोकः (पातालम्)च इति युगं येन। उपरि प्रहितस्य चरणस्य ब्रह्मलोकः, अधः प्रहितस्य पातालम् उपानत्स्वरूपं जातमित्यर्थः । ३ पटीकृतं हैमं ब्रह्माण्डं येनेत्यर्थः ।

Page 617

व्याजस्तुति: ] रसगङ्गाघर: । ५५७

इत्यत्र च्विप्रत्ययेय तद्गेदावगमाद्रूपकासंभवेन पर्यायोक्तं भवितुमर्हति।

तदेवं संक्षेपतस्त्रिविधः । वाग्भङ्गीनां तु पर्यालोचने एकस्मिन्नेव विष- येऽनन्तप्रकार: संपद्यते, किमुत विषयभेदे। यथा-'इह भवद्भिराग- न्तव्यम्' इति विषये 'अयं देशोऽलंकर्तव्यः' इति, 'पवित्रीकर्तव्यः इति, 'सफलजन्मा कर्तव्यः' इति, 'प्रकाशनीयः' इति, 'देशस्यास्य भाग्यान्यु- जीवनीयानि' इति, 'तमांसि तिरस्करणीयानि' इति, 'अस्मन्नयनयोः संतापो हरणीयः' इति, 'मनोरथः पूरणीयः' इत्यादिः । कार्यादीनां त्वारोपेण निष्पत्तिरन्वेष्टव्या। एवं च पर्यायोक्तस्य कार्यरूपाप्रस्तुतप्रशंसया विषयापहारमाशङ््य कार्य- कारणयोरपि प्रस्तुतत्वे पर्यायोक्तम्, कार्यस्याप्रस्तुतत्वे कारणस्य च प्रस्तु- तत्वे कार्यरूपाप्रस्तुतप्रशंसेति विषयविवेकः सर्वस्वकृता कृतः। तत्र न्यूनवि- षयया कार्यरूपाप्रस्तुतप्रशंसया बहुविषयस्यास्य विषयापहारो न सङ्गच्छत एव। परं त्वनेन तस्या विषयापहारमाशङ्य विषयविभागः कर्तुसुचितः । इति रसगज्गाधरे पर्यायोक्तप्रकरणम्।

अथ व्याजस्तुति :- आमुखप्रतीताभ्यां निन्दास्तुतिभ्यां स्तुतिनिन्दयोः क्रमेण पर्य- चसानं व्याजस्तुतिः । तृतीयातत्पुरुष-कर्मधारयाभ्यां योगार्थद्वयेन द्वयोरपि शब्दार्थत्वम्।

इति कुवलयानन्दे ध्वनितं तट्टीकायां स्पष्ट तत एव बोध्यमिति दिक्॥ इति रसगङ्गाध- रमर्मप्रकाशे पर्यायोक्तप्रकरणम् ।। आमुखेति। शब्दतो वृत्त्या प्रथमप्रतीताभ्यामित्यर्थः । तदाह-आमुखेत्या- १ चरणत्राणीकृतेत्यादिवाच्येन [न कार्येण, नापि कारणेन] अन्तर्व्याप्रचरणकत्वम् (अन्तर्व्याप्तौ चरणौ यस्य तत्वम्), अन्तर्व्याप्ताङ्गकत्वं च गम्यते, इत्यर्थः । २ 'व्याजेन स्तुतिः' इत्यनेन आमुखप्रतीतया निन्दया स्तुतौ, 'व्याजः (व्याजभूता) स्तुतिः' इत्यनेन आमुखप्रतीतया स्तुत्या निन्दायां पर्यवसानं सूच्चितमित्यर्थः ।

Page 618

५५८ काव्यमाला। [ द्वितीयानने-

आमुखेत्या दिविशेषणेन तथो: पर्यवसानाभावं वदन्वाधितत्वमभिप्रैति। अत एव नास्या ध्वनित्वम्। ध्वनौ हि निर्बाधेन वाच्येनाSडगूरणमहि- सार्थान्तरमवगम्यते। न चैवं प्रकृते। आद्या यथा- उर्वीं शासति मय्युपद्रवलवः कस्यापि न स्यादिति प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम्। प्रत्यक्षं भवतो विपक्षनिवहैर्द्यामुत्पतद्गिः क्रुधा यद्युष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ॥।' अन्न राजवर्णनप्रस्तावे निन्दा बाधिता स्तुतौ पर्यवस्यति। द्वितीया यथा- 'किमहं वदामि खल दिव्यमते गुणपक्षपातमभितो भवतः । गुणशालिनो निखिलसाधुजनान्यदहर्निशं न खलु विस्मरसि ॥' अत्र दुश्चरितोत्कीर्तनप्रस्तावे स्तुतिस्तथाभूता निन्दायाम्। अत्र चैक एवार्थ: केनचिदाकारेणादौ स्तुतेर्निन्दाया वा विषयो भूत्वा प्रकरणादिमहित्रा प्रकारान्तरेण निन्दायाः स्तुतेर्वा विषयो भवति। तन्र यावानंशो बाधितस्तावानेवाऽन्यथात्वेन पर्यवस्यति। अंशान्तरं तु स्वभावेनैवावतिष्ठते। इयं चालंकारान्तरसंकीर्णा यथा- 'देव त्वां परितः स्तुवन्तु कवयो लोभेन, किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना ।

दीति। अस्या व्याजस्तुतेः । न च नहि । राजेति। सूर्यवंशेत्यादिः। तथाभूतबो- घिता निन्दायां पर्यवस्यति। अत्र च उभयत्र च। प्रकारान्तरेणेति। वस्तुमाहा- त्म्यादेतद्टकपदानां लक्षणया आक्षेपाद्वेत्यर्थः । तावानेवान्यथात्वेनेति । तत्र च लक्षणैव । एवं च स्तुतेर्लेक्ष्यतात्तामादाय ध्वनितम्। लक्षणायाः प्रयोजनीभूतः स्तुत्य- १ आदावेव निन्दास्तुत्योः प्रतीतिः, पर्यवसाने तु न तयोः प्रतीतिः, प्रत्युत विपरीता प्रतीतिः । ततश्च पर्यवसानप्रतीतया स्तुत्या सह आमुखप्रतीताया बाधितत्वम्। एवम् आमुख- अ्रवीतायां स्तुतावपि ह्वेयम्। व्याजस्तुतौ बाघवशात् पर्यवसाने स्तुत्यादेः प्रतीतिः । ध्वनौ तु आगूरण(ध्वनन)महिम्नेति द्योभेंद इत्याशयः।

Page 619

त्याजस्तुति: ] रसगङ्गाधरः । ५५९

क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ।' अत्र चापप्रतापस्य समासोक्त्या विटधौरेयव्यवहाराश्रयत्वप्रतीतिः । तन्मूला च निन्दा स्तुतौ पर्यवस्यति। यथा वा- 'अये राजन्नाकर्णय कुतुकमाकर्णनयन रफुरन्ती हस्ताम्भोरुहि तव कृपाणी रणमुखे। विपक्षाणां वक्षस्यहह तरुणानां निपतति प्रगल्भा: श्यामानामनुपरतकामाः प्रकृतयः ॥' अन्रार्थान्तरेन्यासपोषिता। ननु कथमत्र व्याजस्तुतिः । वाच्याभ्या- मेव निन्दास्तुतिभ्यां स्तुतिनिन्दयोर्ग्यत्वे तस्या अभ्युपगमात्। नह्यत्र चापप्रतापस्य केवलस्य केवलवसुमत्याद्यालिङ्गनं वाच्यभूतं निन्दासपद्ं भवति। समासोक्त्ा त्वाविर्भूतो विटव्यवहारो निन्दास्पद्मपि न वाच्यः, अपि तु गम्य इति चेत्, आमुखप्रतीतपदेन हि प्रतीतावपर्यव- सितत्वमात्रमत्र विवक्षितम्। न तु वाच्यत्वपर्यन्तम्, गौरवात्। प्रकृते

तिशयादिः । व्यञ्ञ्यमादाय ध्वनितवे इष्टापत्तिरेव। एवं च 'उपकृतं बहु नाम-'इत्या- दावप्ययमेवालंकार इत्याहुः। अत्रार्थान्तरेति। समासोचिरप्यत्रेति बोध्यम्। एवं

१ तरुणानां विपक्षाणां वक्षसि। २ श्यामानां स्त्रीणाम् (श्यामायितहृदां च) अनिवारितमदनाः प्रकृतयः (स्वभावाः) प्रगल्भा: धृष्टा इति। ३ प्रस्तुतराजव्यवहारबोधोत्तरं व्यञ्ञ्यस्य विटव्यवहारस्य बोधे सति निन्दा प्रतीयते। प्रती- यमाना तु सा निन्दा न वाच्या। एवं च वाच्यया निन्दया स्तुतेर्गम्यत्वाभावात्कथ व्याज- स्तुतिरिति शङ्का। ४ कामं स समासोक्तिलभ्योथों वाच्यमर्यादागम्यो न स्वात्तथापि समासोक्तिपर्यन्ते राज- विषयकेऽथे निन्दैव प्रतीयते। प्रतीतेः अपर्यवसानपदेन च निन्दायाः प्रथमं प्ररूढता विव- क्ष्यते। एवं चात्रापि समासोक्तिार्यन्तं निन्दायाः प्रथमं प्रतीतिः । स्तुतेश्च पश्चादिति न कोपि दोष इति तत्समाधानम्।

Page 620

५६० काव्यमाला। [द्वितीयानने-

च किं तावता स्तव्यसत्वमित्यादिना निन्दाया एवोपोदूलनात्समासोकिसा- चिव्येन सैव प्रथमं प्ररूढा पश्चाच्च स्तुतिरिति न कोऽपि दोषः। एवं च 'भाग्यं ते शाल्मलितरो वद किं परिकथ्यते। द्विजैः फलाशया युक्तैः सेव्यसे यदहर्दिवम् ।।' इत्यत्रास्तुतप्रशंसासंकीर्णाप्येषा भवति। एतेन 'किं वृत्तान्तैः परगृहगतैः, किं तु नाहं समर्थ- स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । देशे देशे विपणिषु तथा चत्वरे पानगोध्या- मुन्मत्तेव भ्रमति भवतो वल्लभा देव कीर्तिः॥' इत्यन्न प्राचीनपद्ये "प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा कीर्तिरिति भणि- होन्मूलिता, न तु प्ररोहं गमिता" इति यत्सर्वस्वकृतोक्तम्। यच्चापि तव्या- ख्यायां विमर्शिन्याम् 'अनुदाहरणमेवैतत्पययं व्याजस्तुतेः' इति ध्वन्यालोच- नकारोक्तिं कटाक्षेण लक्ष्यीकृत्योक्तं तन्निरस्तम्। 'किं वृत्तान्तैः' इत्यादिना निन्दाया एव प्रथममुन्नयनात्समासोक्तेरुद्रतेर्वा च्यत्वस्यातन्रत्वात्। अन्व- यक्रमेणादौ वल्लभयैवान्वये तस्याश्च कीर्त्यभिन्नत्वेनावस्थाने सति पश्चात्प्रक-

च अस्या: समासोक्त्यादिपोषितले च। द्विजैः खगैः । विपणिषु हदेषु। समयः संकेतः

१ अत्र अप्रस्तुतप्रशंसापर्यन्तम् [यद्यपि अप्रस्तुतप्रशंसापर्यन्तं गम्यः सर्वोप्यर्थो वाच्यो नास्ति, प्रस्तुतार्थस्य गम्यत्वात्, किन्तु आमुखपदेन अपर्यवसितत्वमात्रं विवक्षितम् ] स्तुतिः प्रतीयते, पश्चान्निन्देति व्याजस्तुतिः । २ 'हन्त कीतिरिति भणित्वा' इति काशीपुस्तकपाठः । ३ अर्थात् वल्लभापदस्य राजमहिषीरूपार्थेन या स्तुतिपर्यवसायिनी निन्दा प्रकान्तासीत्सा अन्ते कीर्तिरित्यक्षरः स्फुटीकृता। अर्थात् कीर्तिरेव सर्वत्र भ्रमतीति प्रथमप्ररूढा सा निन्दा उन्मूलिता, साकृतैरक्षरैन प्ररोहं गमिवेत्यर्थः । ४ समासोक्तर्या उद्गतिः (आविर्भूतिः, स्फूर्तिः) तस्या वाच्यत्वं हेतुतया नात्र परि- गृद्यते। अर्थात् समासोक्ततेर्गम्यत्वेपि प्रथमप्रतीतस्य निन्दाधर्थस्य अपर्यवसानमात्राद्वयाजस्तु- तित्वं नात्र हीयते इत्याशयः ।

Page 621

व्याजस्तुति: ] रसगङ्गाघर: ५६१

क्तमुदाहरणं संगतमेव। इयं च व्याजस्तुतिर्यस्यैव वस्तुनः स्तुतिनिन्दे प्रथममुपक्रम्येते तसैव चेन्निन्दास्तुत्योः पर्यवसानं भवेचदा भवति। वैयधिकरण्ये तुन, इति प्राचामलंकारशास्त्रप्रवर्तकानां समयः । अत एव यत्र शब्देनाभिधीय- माना स्तुतिर्निन्दा वा बाघितस्वरूपा निन्दायां स्तुतौ च स्वसमर्पणेन पर्यवस्यतीति तैस्तन्र तत्र स्वग्रन्थेषूपनिवद्धम्। एवं च 'परोपसर्पणानन्तचिन्तानलशिखाशतैः । अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः ॥' इत्यादिषु सांसारिकजननिन्दापर्यवसायिन्यामपि पादपस्तुतौ न व्याज- स्तुतित्वम्, प्रथमप्रतीयमानस्तुतेरबाधितत्वात्। एवं निन्दया स्तुतेर्गम्य- त्वेऽपि। तथा अन्यस्य स्तुत्यान्यस्तुतौ, अन्यनिन्दायां वान्यनिन्दायां गम्यमानायां नास्या अलंकृतेविषयः । पूर्वोक्तादेव हेतोः । यथा- 'ये त्वां ध्यायन्ति सततं त एव कृतिनां वराः। मुधा गतं पुराराते भवदन्यधियां जनुः ।l' अत्र पूर्वोत्तरार्धगताभ्यां ध्यातृस्तुतिनिन्दाभ्यां ध्येयस्तुतिनिन्दयोरव- गम:। एवं स्थिते कुवलयानन्दकर्त्रा स्तुतिनिन्दाभ्यां वैयधिकरण्येन निन्दा- स्तुत्यो: स्तुति निन्द्योर्वावगमे प्रकार चतुष्टयं व्याजस्तुतेर्यदधिकमुक्तं तद्पा- स्तम्। यदि तु प्राचीनसंकेतसेतुं निर्भिद्य स्वरुचिरमणीया सरणिराद्रियते १ सर्वस्व-विमर्शिन्यो: खण्डनेन द्विधा समर्थनं लोचनकारोक्तेः । तथा हि-कीर्तिव्यवहारे स्वैरिणीव्यवहारामेदप्रतीत्या (समासोक्त्या) आमुखप्रतीता निन्दा विस्तार्यत एव, न उन्मू- ल्यते। समासोक्तर्गम्यं तु न प्रतिबन्धकमिति पूर्वमुक्तमेवेत्येकं समर्थनम्। 'वल्लभा देव कीर्तिः' अत्र वल्लभापदस्य प्रथमं श्रवणेन 'वल्लभा'पदस्य महिषीरूपार्थप्रतीत्या या स्तुतिपर्यवसायिनी निन्दा प्ररूढा, सा अन्ते 'वल्लभा (अभीष्टा) कीर्तिः' इत्यर्थसंपत्त्या स्तुतिपर्यवसायित्वेपि व्याजस्तुतित्वं लभत एव, प्रथमप्ररूढनिन्दात्वस्य व्याजस्तुतिबीजस्य अक्षतत्वात्। इति द्वितीयं समर्थनम्। २ प्रथमं प्रतीयमाना या पादपानां स्तुतिर्न सा बाविता। स्तुतिर्वाधिता सत्येव व्याज- स्तुति प्रयोजयतीत्यर्थः ।

Page 622

५६२ काव्यमाला। [द्वितीयानने-

तदा निवेश्यन्तां सर्वेऽपि व्यङ्गयप्रकारा गुणीभूतव्यङ्गप्रकारा वा अलं- कारोदरेषु। निवेश्यतां वा व्याजस्तुतिरपि योगार्थालीढत्वादप्रस्तुतप्रशं- सायाम्। निरस्यतां च कार्यकारणादिविषयकत्वदुराग्रहस्तस्या इति बहु- व्याकुली स्यात्। एवं तर्हिं पूर्वोक्तं प्रकारचतुष्टयं कुत्रान्तर्भवतु? इति चेत्, व्यङ्गयभेदेष्विति गृहाण। नहि व्यङ्ग्यभेदाः सर्वेऽ्यपरिमिता अलंकारप्रकारगोष्पदे अन्तर्भावयितुं शक्यन्ते। यच्चापि कुवलयानन्दकृता निन्दाया गम्यत्वे उदाहृतम्- "-'अर्ध दानववैरिणा गिरिजयाप्यर्ध शिवस्याहृतं देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति। गङ्गा सागरमम्बरं शशिकला नागाधिप: क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत्त्वाम्, मां च भिक्षाटनम् ।।' अत्र सर्वज्ञः सर्वेश्वरोऽसीति राज्ञ: स्तुत्या व्याजरूपया मदीयवैदु- ष्यादि दारिद्वादि जानन्नपि बहुप्रदानेन रक्षितुं शक्तो मह्यं किमपि न ददासीति निन्दा व्यज्यते" इत्युक्तं च। तन्न। 'साधु दूति पुनः साधु कर्तव्यं किमतः परम् । यन्मदर्थे विलूनासि दन्तैरपि नखैरपि ॥' इत्यनुपदमेव त्वदुदाहृतपद्येनास्यातितमां वैलक्षण्यात्। तत्र हि साधु किमतः परं कर्तव्यमिति वर्णैरुदीरिता साधुकारिणीत्वरूपा स्तुतिः श्रुतमा- त्रैव बाधिता सती विपरीतेऽर्थे स्वात्मसमर्पणेन पर्यवस्यति। इह तुसर्व- ज्ञत्वमधीश्वरत्वं च न तथा। राजवर्णनप्रस्तावे राजगताऽज्ञत्वपामरत्वयोर- विवक्षितत्वात्। अत एव सर्वज्ञोऽपि मां न रक्षितवानसि इत्युपालम्भरूपापि निन्दा नात्र विवक्षिता। सर्वज्ञस्य समर्थस्य तव दरिद्रोऽहं रक्षितुं योग्य

तैः प्राचीनैः । व्यङ्ग्यभेदेष्विति गृहाणेति। अत्रेदं चिन्तम्-व्यङ्गय मेदेष्वप्यप्र- स्तुतप्रशंसापर्यायो क्ताद्यलंकारस्वी कारवदत्राप्यलंकारले बाधकाभावात्। न चाप्रस्तुतप्र- शंसेवास्ताम्। विनिगमकाभावात्। नहि लक्ष्य एव व्याजस्तुतिर्न व्यङ्ग्य इत्यत्र शप- थातिरिक प्रमाणमस्ति। गुणीभूतव्यङ्ञयल्वाच्च न ध्वनिलम् । प्राचीनग्रन्थविरोधस्त-

Page 623

आक्षेप: ] रसगङ्गाघरः। ५६३

इति खविज्ञापनाया एव प्रत्युत विवक्षितत्वात्। अस्तु वा त्वदुक्तोपाल- म्भरूपा निन्दात्र गम्या। तुष्यतु भवानेवमपि। 'साधु दूति पुनः साधु' इति पद्ये साधुकारिणीत्वमिव नास्मिन्पद्ये सर्वज्ञत्वमधीश्वरत्वं च विद्युद्ध- ङ्ुरप्रतिभमिति शक्यं वक्तम्। उपालम्भरूपाया निन्दाया अनुत्थानापत्तेः प्रतीतिविरोधाच्चेति सहृद्यैराकलनीयं किमुक्त्तं द्रविडपुंगवेनेति। इति रसगङ्गाधरे व्याजस्तुति प्रकरणम् ।

अथाक्षेप :-

धर्यमुपमानाधिक्षेपरूपमाक्षेपे;।' इति केचिदाहुः। तन्मते चेत्थमुदाहरणं निर्माणीयम्- 'अभूदप्रत्यूहः कुसुमशरकोदण्डमहिमा विलीनो लोकनां सह नयनतापोऽपि तिमिरैः ।

किंचित्कर इत्यसकृदावेदितम्। द्रविडपुंगवेनेति । अतिचिरकालं कृतया सेवया दुःखितस्य ततोSप्राप्तधनस्य मिक्षो राजसेवां त्यक्तुमिच्छत ईदृशवाक्ये वक्तृवैशिध्या- दिसहकारेणापातप्रतीयमानस्तुतेर्निन्दापर्यवसायितया विद्युद्गङ्गरप्रतिभत्वमस्त्ेवेति सम्य- गेवोकं द्रविडशिरोमणिना। पूर्वोक्तरीत्या स्वस्य भिक्षाटनोक्ता चकारेण च तत्त्व- स्यानुभवसिद्धलवात। साधु दूतीत्युदाहरणेऽपि दूत्या दुश्वरितलवादिवेशिष्टयं प्रमाणा- न्तरेण प्रागेव जानतां वाच्यार्थे बाधज्ञानं स्पष्टमेव। 'कस्त्वं वानर' इत्यन्नाप्यतिश- यितवीरलेन प्रसिद्धहनुमतो निन्दा स्वात्मन्यपर्यवस्यन्ती इतरस्तुतिमादायैव पर्यवस्यति। इतरस्तुतेबलादाक्षिप्तलान्न ध्वनिलमिति दिक् । इति रसगङ्गाधरमर्मप्रकाशे व्याज- स्तुति प्रकरणम् ॥ शिष्यावधानाय प्रतिजानीते-अथेति। उपमेयस्योपमेति। अमुमाक्षेपं प्रतीपं

१ साधु दूति० इत्यत्र यथा पर्यवसाने साधुकारिणीत्वमपगच्छति 'दूतिकाधर्मविरुद्धकारिणीं धिकू त्वाम्' इत्येतावत्पर्यन्तं च पर्यन्ते वक्तव्यं भवति, तथा सर्वश्ञत्वमीश्वरत्वं चापि झटिति विद्युद्विलायं लीयते इति न शक्यं वक्तुम् । तथा सति अजं पामरं च प्रति 'दारिद्वादि जानन्नपि बहुदानेन रक्षितुं शक्तो न किमपि ददासि' इत्युपालम्भस्य अनुत्थानात्। २ परमतानुवाद इति नास्मिन्प्रकरणे लक्षणानि स्थूलाक्षराणि।

Page 624

५६४ काव्यमाला। [ द्वितीयानने-

तवास्मिन्पीयूषं किरति परितस्तन्वि वदने क्ुतो हेतोः श्वेतो विधुरयमुदेति प्रतिदिनम् ॥' यथा वा- 'वसुधावलयपुरंदर विलसति भवतः कराम्भोजे। चिन्तामणिकल्पद्रुमकामगवीभि: कृतं जगति।' आद्ये उपमानप्रयोजननिष्पादनं शाब्दम्, द्वितीये त्वार्थमिति भेदः । अपरे तु- 'पूर्वोपन्यस्तस्यार्थस्य पक्षान्तरालम्बनप्रयुक्तो निषेध आक्षेपः ।' इत्याहुः । तेषां मते इदमुदाहरणीयम्- 'सुराणामारामादिह झगिति झव्झानिलहताः पतेयुः शाखीन्द्रा यदि तद्खिलो नन्दति जनः । कि मेभिर्वा कार्य शिव शिव विवेकेन विकलै- श्विरं जीवन्नास्तामधिधरणि दिल्लीनरपतिः ॥' अत्र किमेभिरित्युत्तरार्घेन पूर्वार्धोक्तपक्षप्रतिक्षेपमात्रं पक्षान्तरालम्ब- नेन क्रियते। यथा वा- 'किं निःशङ्कं शेषे शेषे वयसि त्वमागतो मृत्युः । अथवा सुखं शयीथा जननी जागर्ति जाह्नवी निकटे ।।' अन्ये तु- "निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया। वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ॥' विशेषं व्यङ्गयरूपमर्थविशेषं वक्तुं विवक्षितस्य प्रकृतार्थस्य निषेधो निषेधसदशः कथनादिप्रत्याख्यानरूपः। स वक्ष्यमाणविषय उक्तविषय- श्चेति द्विविधः" इत्याहुः। तेषां मते इत्थमुदाहार्यम्-

१ अर्थात् मदनविजृम्भणादिप्रयोजनका गुणास्तु तन्वीवदनगुणैरेव गतार्थाः, संप्रति केव्रल- मयं श्वेतमात्रश्चन्द्र इत्याशयः । २ कल्पवृक्षाः ।

Page 625

आक्षेप: ] रसगङ्गावर:। ५६५

रीतिं गिराममृतवृष्टिकिरां त्वदीयां तां चाकृतिं कृतिवरैरभिनन्दनीयाम्। लोकोत्तरामथ कृति करुणारसाद्रा ज्ञातुं न कस्यचिदुदेति मनःप्रसारः ॥।' अत्र करिष्यमाणस्य मनःप्रसारस्य निषेधो वर्णनीयस्यानिर्वाच्यतां बोधयितुम् । 'श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः। तस्या: सुभग कथेयं तिष्ठतु तावत्कथान्तरं कथय ॥' अलंकारसर्वस्वकारादयस्तु- "प्राकरणिकस्यार्थस्य निषेधोऽप्रतिष्ठितत्वादाभासमान्नरूपः कस्यचिद- र्थविशेषस्य विधानं व्यनक्ति स एकः । यश्चाप्राकरणिकस्य विधिस्तार्हश एव सन्निषेधे पर्यवस्यति सोऽपर इत्युभयविधोऽप्ययमाक्षेप: । तत्र निषेधाभासरूप आक्षेपस्तावद्विविधः-उक्तविपयो वक्ष्यमाणवि- षयश्चेति। उक्तविषयोऽपि द्विविध :- कचिद्वस्तुमात्रनिषेधात्कचिद्वस्तुक- थननिषेधात्। वक्ष्यमाणविषयस्तु वस्तुकथननिषेधात्मक एव सामान्यध- मार्वच्छिन्नप्रतियोगिताकः शब्दात्समर्प्यमाणोSपि विशेषरूपेष्टनिषेधात्मना स्थितो निषिध्यमानगतं विशेषान्तरमाधत्ते। सोऽपि द्विविध :- सामान्याश्रययत्कंचिद्विशेषनिरूपणानिरूपणाभ्याम्। तत्र निरूपितेषु यत्किंचिद्विशेषेषु प्रयोजनाभावादप्रवर्तमानो निषेधो वक्ष्यमाणेष्टविषय एव संपद्यते। अनिरूपितेषु तु सुतराम्। चतुर्विधेऽप्यस्मिन्नाक्षेपे इष्टोऽर्थः, तस्य

केचिदाहुः। सोऽपि द्विविध इति। वक्ष्यमाणविषयोऽपीत्यर्थः। व्यनक्तीत्यस्याग्रे

१ अमृतवृष्टिविक्षेपिणीनां गिरां वाणीनाम्। कियू। २ तव वचनरीत्यादिकं वर्णयितुमशक्यमिति वर्णनाय ज्ञातुं न कत्यापि मनः प्रसरतीत्यर्थः । 'मनःप्रसाद:' इति काशीपुस्तकपाठः । ३ उक्तविषयस्योदाहरणमिदम्। श्रासादिकं सर्वसुवत्वापि वक्तुमशक्यतासूचनाय तन्नि- बेधात्। ४ अप्रतिष्ठितत्वात् आभासरूपः । ४८ रस०

Page 626

५६६ काव्यमाला। [ द्वितीयानने-

च निषेधः तस्याप्यसत्यत्वम्, अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुप- युज्यते। तेन नात्र निषेधविधिः। न वा विहितनिषेधः । अपि तु निषेधेनासत्येन विधेराक्षिप्यमाणत्वाद्योगार्थादाक्षेपः। स च प्रागुक्तदिशा

विधिना त्वसत्येन निषेधस्याक्षेपे अपरोऽयमाक्षेपः । अत्रापि अनि- ष्टोऽर्थः, तस्य विधिः, तस्याप्याभासत्वम्, अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते।" इत्याहुः। एतेषां मते चेत्थमुदाहरणं निर्माणीयम्- 'न वयं कवयस्तव स्तवं नृप कुर्वीमहि यन्मृषाक्षरम्। रणसीत्नि तवावलोकने तरुणार्कों दिनकौशिकायते।।' 'मां पाहीति विधिर्विधेयविषयो वाच्यः स्वतत्रे कथं नोपेक्ष्यो भवतास्मि दीन इति गी: श्राध्या न संख्यावताम्। एवं दोषविचारणाकुलतया देव त्वयि प्रोन्मुखे वक्तव्यप्रतिभादरिद्रमतयः किंचिन्नहि ब्रूमहे ।।' 'रे खल तव खलु चरितं विदुषामग्रे विविच्य वक्ष्यामि। अलमथवा पापात्मन्कृतया कथयापि ते हतया ।।' 'श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः। तस्याः किं वा पृच्छसि निर्दय तिष्ठत्वसौ हता वार्ता।।' तत्राद्यपद्ये कवेरुक्तौ कवित्वनिषेधो बाधितो मिध्यावादित्वनिषेधात्मना १ अयं सर्वस्याशय :- आक्षेपस्तावत् निषेधाभास-विध्याभासरूपत्वेन द्विविधः । निषेधा- भास: उक्तविषयो वक्ष्यमाणविषयश्चेति प्रथमं द्विविधः । उक्तविषयोपि द्विविधः [ वस्तुमात्र- निषेधात्, वस्तुकथननिषेधात्]। एवं वक्ष्यमाणविषयोपि द्विविधः [सामान्याश्रययत्किश्चिद्वि- शेषनिरूपणात, अनिरूपणात ]। एवं संहृत्य निषेधाभासरूप आक्षेपश्चतुर्विधः । 'न वयम्' इत्यादीनि चत्वारि पद्यानि क्रमशश्चतुर्णामुदाहरणानि। विध्याभासरत्वेकविधः, यस्य 'तपो- निधे०' इत्युदाहरणम्। २ 'मां पाहि' इति विधेय(अधीन)विषयको विधिः (प्रवर्तनावाक्यम्) स्वतत्रे त्वयि कथं वाच्यः? 'एवं कुरु' इति विधिः वशंवदे एव वक्तुं योग्यो न स्वतत्ने त्वयीति भावः । 'अर्ह नोपेक्ष्यः' इति वाणी संख्यावतां (विवेकशीलानां पण्डितानाम्) कृते न श्राध्या। ते स्वयं स्वकर्तव्यं विदन्ति, तेभ्य इदं बोधनं नोच्ितमित्यर्थः। एवं वक्तव्यप्रतिभा(व्युत्पत्ति)शून्य- तया वयं न किञ्रिद्वदामः । अत्र हि अभीष्टत्वेपि वस्तुकथनस्य निषेधो बाधितः सन् रक्षण- दानयो: अवश्यानुष्ठेयतां व्यनक्ति। 'मां पाहि' इति स्थाने 'मा याहि' इति काशीपुस्तकपाठः ।

Page 627

आक्षेप: ] रसगङ्गाघर:। ५६७

पर्यवस्यन्नुत्तरार्धगतस्यार्थस्य सत्यत्वरूपं विशेषं व्यनक्ति । एवं द्वितीय- पद्ये रक्षणदानयोः कथनस्येष्टत्वान्निषेधो बाधितस्तयोर्विवक्षितत्वे पर्य- वस्यन्नवश्यानुष्ठेयताम्। तृतीये खलसंबन्धिवृत्तान्तकथनत्वेन सामान्य- रूपेण प्रकृतपैशुन्यादिवृत्तान्तकथनस्य वक्ष्यमाणस्य निषेधः कथ्यमान- स्तस्य चिन्तितदुःखप्रदताम्। चतुर्थे कंचन तत्संबन्धिन्या वार्ताया अंशं श्वासतानवादिकं कथयित्वा क्रियमाणो निषेधो वक्ष्यमाणमरणवार्ताविषयः संस्तस्या मुखादनिःसरणीयताम्। एषु निषेधस्याप्रतिष्ठानान्न विहितनिषेधः, नापि निषेधविधि: । 'तपोनिधे कौशिक रामचद्रं निनीषसे चेन्नय कि विकल्पैः । निरन्तरालोकनपुण्यधन्या भवन्तु वन्या अपि जीवभाजः ।।' अत्र पुत्रस्नेहाकुलस्य दशरथस्य वाक्ये नयेति विधिर्बाधितो मा नयेति निषेधे पर्यवसितोऽन्यथा तु मम प्राणवियोगो भविष्यतीत्यर्थ व्यनक्तीति विध्याभासरूपोऽयमाक्षेपः। एवमुदाहरणेषु स्थितेषु प्राचीन- मतानुसारीण्याक्षेपोदाहरणान्येतेषां मतेऽनुदाहरणान्येव । इत्थं च प्राथमिकमंतसिद्ध आक्षेपः प्रतीपप्रभेदः । द्वितीयमेतसिद्धस्तु विहित- निषेध एव, न पुनराक्षेपः । तन्न निषेधस्यानाभासरूपत्वात् । इति तदाशयः। इतरे तु- "-'निषेधमात्रमाक्षेपः ।' चमत्कारित्वं चालंकारसामान्यलक्षणप्राप्तमेव। तच्च व्यङ्गयार्थे सति संभवतीति सव्यङ्ग्यो निषेधः सर्वोऽप्याक्षेपालंकारः । एवं चोपमेयकृतो-

योश्च संग्रहः" इत्यप्याहुः । अथाक्षेपध्वनिस्तन्मतानुसारेणोदाहियते- 'त्वामवश्यं सिसृक्षन्यः सृजति स्म कलाधरम्। किं वाच्यं तस्य वैदुष्यं पुराणस्य महामुने: ॥' त्रिष्वनुषङ्गः । वैदुष्यं पाण्डित्यम् । १ उपमानाधिक्षेपरूपम् उपमानकैमर्थ्यमित्यर्थः । २ पूर्वोपन्यस्तस्य पक्षान्तरालम्बनप्रयुक्तो निषेध इत्यर्थः ।

Page 628

५६८ काव्यमाला। [द्वितीयानने-

अन्र येषामुपमानकैमर्थ्यमाक्षेपस्तेषां त्वयि सति किं कलाधरेणेत्यंशमा- दाय, येषां च निषेधमात्रमाक्षेपस्तेषां वृद्धस्य व्रह्मणो वैदुष्यं नास्तीतंशमा- दाय च ध्वनिः। ननु किं वाच्यं तस्य वैदुष्यमिति वैदुष्योक्तेः सबाधाया झटिति वैदुष्याभावे पर्यवसानात्, उपमानकैमर्थ्यस्यापि झगित्येव प्रतीते- र्वाच्यकल्पत्वात्कथं नाम ध्वनित्वं स्यादिति?। नैष दोषः । ब्रह्मणो हि त्वां सिसृक्षतः करणपाटवसंपत्त्यर्थमादौ पाण्डुलेखवदिन्दुं निर्मितवतः किं वैदुष्यं वाच्यमिति वैदुष्योक्तेर्निर्बाधत्वादादौ सत्यां विश्रान्तौ पश्चादवशयं पुराणस्येत्येतदर्थपर्यालोचनेन वैदुष्याभाव-चन्द्रकैमथ्ययोः पर्यवसान- मिति न ध्वनित्वस्खलनम्। येषां त्वाभासरूप एव निषेध आक्षेपस्तेषां न प्रागुक्त आक्षेपध्वनिः, अपि त्वयम्- 'त्वां गीर्वाणगुरुं सर्वे वदन्तु कवयस्तु ते। समानकक्षस्तेनासीत्येषोऽर्थस्तु मतो मम ॥' अत्र कवेर्वाक्ये बाधितत्वादाभासरूपो नाहं कविरिति निषेधो गम्य- मानो मिथ्यावादित्वाभावरूपेण पर्यवस्यन्ुत्तरार्घार्थस्य सत्यतारूपं विशेषं गमयति। इत्थं स्वस्वाभिमानभेदादाक्षेपाणां भेदात्तज्नीनां स्थिते विवेके- 'स वक्तुमखिलाञ्शक्तो हयग्रीवाश्रितान्गुणान्। योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोद्घेः॥' इति पद्य ध्वनिकारैराक्षेपध्वनित्वेनोदाहृतं 'स्वाभिमताक्षेपानभिव्यक्तर-

१ येन पूर्व पाण्डुलिपि: कृता, पश्चादतियलेन त्वत्सष्टिरकारि, अवश्यं तस्य ब्रह्मणश्चातुर्य- मिति ब्रह्मणो वैदुष्योक्तिर्बाधितैव नास्ति, अपि तु सा युज्यतेऽपि। ततश्च वैदुष्योक्तेझटिति वैदुष्यभावे न पर्यवसानमिति वाच्यायमानत्वं ध्वनेर्नास्ति। एवं चन्द्रकैमर्थ्यस्यापि झटिति प्रतीतिर्नार्ति, किन्तु 'त्वां सिसक्षता येन अभ्यासपाटवार्थ पाण्डुलिपिरूपेण चन्द्रः कृत' इति पूर्वार्धर्थपर्यालोचनोत्तरं पुराणस्येत्येतदर्थपर्यालोचनावसरात्क्रमशः चन्द्रकैमर्थ्यस्य पर्यवसान- मिति ध्वनित्वे न बाध इत्याशयः । २ त्वामवश्यमित्यादिपद्यं नाक्षेपव्वनिः, तत्र आभासरूपनिषेधस्याभावात्। अपि तु 'त्वां गीर्वाणगुरुम्०' इति वक्ष्यमाणपद्यमाक्षेपध्वनिरित्याशयः । ३ स्वस्य स्वस्य योडभिमान: अभिमति: संमतिस्त्मेदातू।

Page 629

आक्षेप: ] रसगङ्गाघर:। ५६९

नुदाहरणमेवैतत्' इति निर्युक्तिकं वदन्नलंकारसर्वस्वकृत्परास्तः । नह्याभा- सरूप एव निषेध आक्षेप इत्यस्ति वेदस्याज्ञा। नापि प्राचामाचार्याणाम्। न चापि युक्तिः । येन ध्वनिकारोक्तमुपेक्ष्य त्वदुक्तं श्रद्दधीमहि। प्रत्युत वैपरीत्यमेवोचितम्। ध्वनिकृतामालंकारिकसरणिव्यवस्थापकत्वात्। न- ह्यस्मिञ्शास्त्रे आक्षेपादिशव्दसंकेतग्राहकं प्रमाणान्तरमस्ति, ऋते प्राचीन- वचनेभ्यः । अन्यथा सकलविपर्यासापत्तेः । यतु- 'नरेन्द्रमौले न वयं राजसंदेशहारिणः । जगत्कुटुम्बिनस्तेऽद्य न शत्रु: कश्चिदीक्ष्यते ।।' इति पद्यमलंकारसर्वस्वकारमतेनोदाहृत्येत्थमुक्तं कुवलयानन्दकृता-'अन्न संदेशहारिणामुक्तौ न वयं संदेशहारिण इति निषेधोऽनुपपन्नः संधिकालो- चितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्सर्वजगतीपालकस्य तव न कश्चिदपि शत्रुभावेनावलोकनीयः किंतु सर्वेडपि राजानो भृत्यभा- वेन संरक्षणीया इति विशेषमाक्षिपति' इति। तन्न । त्वदुक्तस्य विशेषस्य निषेधाव्यञ्ञयत्वात्। नहि न वयं राजसंदेशहारिण इत्युक्ते तव न कश्चिद्पि शत्रुभावेनावलोकनीयः किंतु सर्वेऽपि राजानो भृत्यभावेन सं- रक्षणीया इति विशेषोऽवगम्यते। अवगम्यते च जगत्कुटुम्बिन इत्यादुत्त- रार्े प्रयुक्त्त। यो हि निषेधमात्रसामर्थ्याक्षिप्तो विशेषसं निषेध आक्षि- पतीति युक्तं वक्तुम्, न तु परकीयं विशेषम्। तथा हि राजसंदेशहारिणा

सर्वस्वकार: परास्त इति। तदुणवक्ता नास्तीति निषेधस्य गुणापरिमितत्व- व्यङ्गयसहितस्याक्षेपरूपस्य व्यङ््यस्य सत्त्वादिति भावः। अलंकारसर्वस्वकारस्तु- निषेधाभास आक्षेपः । 'नाहं दूती तनोस्तापस्तस्याः कालानलोपमः' इत्युदाहर- गमिति। तस्यायं भाव :- यो निषेधो बाधितः सन्नर्थान्तरपर्यवसितो विशेषाक्षे- पके कस्मिंश्चिद्विशेषे आक्षेप्तव्ये साहाय्यकं करोति स आक्षेप इति तदर्थः । नाहं दूती- त्यस्य दूत्या उक्तौ बाधितलादृतीपदेन मिथ्यावादित्विशिष्टा लक्ष्यते। तन्निषेधश्च सत्य- वादिले पर्यवस्यति। एवं च तद्वोध्यसत्यवादित्वसहकृतं तनोस्ताप इति वाक्यमिदानीमे- १ ध्वनिकारादिप्राचीनवचनान्येव आक्षेपादि(अलंकार)शब्दानाम् अयमर्थ इति संकेत- ग्रहकाणि प्रमाणानि, नान्यत्प्रमाणान्तरमित्यर्थः । २ 'अनुपपन्नो निषेधो यत्र विशेषमाक्षिपति (व्यनक्ति) तत्रैव (सर्वस्वकारमतानुसारम्) आक्षेपः' इति त्वयैव पूर्वमुक्तम्। अत्र च सोयं विशेषो न निषेधेन आक्षेप्यः।

Page 630

५७० काव्यमाला। [द्वितीयानने-

प्रयुक्ते न वयं राजसंदेशहारिण इति वाक्ये स्वस्मिन्खनिषेधस्य वाधाद्राजसं- देशहारिपदेन लक्षणया राजसंदेशहारिनिष्ठकैतववचनप्रयोक्तृत्वादिधर्मवन्त उपस्थाप्यन्ते। प्रयोजनं च तन्निषेधे सति सवगतस्य सत्यवक्तत्वादेः, सव- चनगतस्य सत्यत्वादेवाँ प्रत्ययः । अयमेव च विशेषस्याक्षेपः । एवं स्थिते किमुच्यते तव न कश्चिदृपि शत्रुभावेनेत्यादि। यदि तु पूर्वोक्तादेव बाधा- द्राजपदस्र शत्रुलक्षणया न वयं शत्रुसंदेशहारिण इति प्राप्तेनार्थेनास्मतस्वा- मिनः शत्रव एव न भवन्ति किं तु भृत्यभावेन पालनीया इति विशेषो- डवगम्यत इत्युच्यते, तदा तृतीयकक्ष्यारूढो नास्मत्स्ामिन इति निषेध आक्षेपः स्यात्, न तदुत्थापकस्त्वदुक्तो यथाश्रुतनिषेधः, यदि तु परम्परया यथाकर्थंचिद्विशेषोत्थापकोऽप्याक्षेप इत्युच्यते, तथापि 'संधिकालोचितकै- तववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्' इत्यादेस्त्वद्वच नस्यासंगति- रेव। नहि यथार्थवादित्वेन केवलेन त्वदुक्तो विशेष आक्षेपुं शक्यते, किं तूत्तरार्धेनाक्षिप्त: परिपोष्टम्। तस्माद्यन्र त्वया निषेधस्य पर्यवसानमुक्तं स एव विशेषस्तस्याक्षेप्यः, न तु विशेषान्तरम् । अत एव "-'बालक नाहं दूती-' इत्यत्र दूतीत्वस्य वस्तुनो निषेधेन वस्तुवादित्वादिर्विशेषो व्यज्यते" इत्यलंकारसर्वस्वकृतोक्तं संगच्छते। इति रसगज्गाघरे आक्षेपप्रकरणम्। वागत्योजीवयेति विशेषमाक्षिपति। अन्यथा संघटनमात्रप्रयोजनकत्वावगम एव तस्य स्यादिति तत्कालोचितकैतववचनत्वे वाक्यसंभावना स्यादिति । यत्तु सत्यवादित्वरूपवि- शेषमादायैवाक्षेपलमिति, तन्न। तस्याचमत्कारिलात्। तनोस्ताप इत्यादिनोक्तविशेषे व्यञ्ञनीये सहकारितं तु तस्यास्तीत्यनुभवसिद्धम्। तं विना तेनापि तस्यानाक्षेपात्। एतेन 'नरेन्द्रमौले' इति कुवलयानन्दोक्तमपि व्याख्यातम्। एवं 'यत्तु नरेन्द्रमौले' इत्यादि, 'नतु विशेषान्तरम्' इत्यन्तग्रन्थोपि चिन्त्य एवेत्याहुः। तवेलादि षष्ठी कर्तुः शेषले ।। इति रसगङ्गाधरममेप्रकाशे आक्षेपप्रकरणम् ॥। १ अर्थात् न वयं राजसंदेशहारिणः इत्यस्य 'न वयं कैतववचनप्रयोक्तारः' इति लाक्षणि- कार्थबोधोत्तरम् 'वयं सत्यवादिन: स्मः, अस्मद्वचनं च सत्यम्' इति तत्प्रयोजमीभूतव्यङ्गयरूपो विशेष एव आक्षेप्तव्यो भवेत्। 'न कश्चिदपि शत्रुभावेनावलोकनीयः। सर्वें राजानो भृत्यभावेन संरक्षणीयाः' इति तु विशेषो न निषेधेनाक्षेप्यः । अपि तु उत्तरार्धे प्रयुक्त गम्य इत्याशयः । २ एवं स्थिते अस्मत्स्वामिनः शत्रव एव न भवन्ति (अपि तु भृत्यभावेन पालनीयाः) इति निषेधस्य आक्षेपालंकारत्वं जातम् । त्वया तु 'न वयं राजसंदेशहारिणः' इति निषेधस्य आक्षेपत्वमुदाहतम्। तदेतदसंगतमित्यर्थः ।

Page 631

विरोध: ] रसगङ्गाघरः । ५७?

अथ विरोधमूलालंकारा :- एकाधिकरणसंबद्धत्वेन प्रतिपादितयोरर्थयोर्भासमानैकाधिकरणा- संबद्धत्वम्, एकाधिकरणासंवद्धत्वभानं वा विरोध:।। यद्वा- एकाधिकरणासंबद्धत्वेन प्रसिद्धयोरेकाधिकरणसंबद्धत्वेन प्रतिपा- दनं सः॥। स च प्ररूढोऽप्ररूढश्च। प्ररोहश्च बाधबुद्यनभिभूतत्वम्। तद्वैपरीत्यम- प्रोहः । तत्राद्यो दोषस्य विषयः, द्वितीयश्चालंकारस्य। अत एवेमं विरो- धाभासमाचक्षते। आ ईषद्धासत इत्याभासः। विरोधश्चासावाभास- श्रेति। आमुख एव प्रतीयमानो झगिति जायमानाविरोधबुद्धितिरस्कृत इति यावत्। तत्रापि कार्यकारणादिबुद्नालीढो विरोधाभासो विरोधा- लंकारः । तदालीढस्तु विभावनादिर्वक्ष्यमाणः । अस्य च जातिगुणक्रिया- द्रव्याणां पदार्थानां मध्ये जातेर्जातिगुणक्रियाद्रव्यैः, गुणस्य गुणक्रिया- द्रव्यैः, क्रियायाः क्रियाद्रव्याभ्याम्, द्रव्यस्य द्रव्येणेत्यपुनरुक्ता दश भेदाः। क्रिया चात्र न वैयाकरणानामिव शुद्धा भावना। नापि नैयायिकानामिव स्पन्दरूपा। किं तु तत्तद्वातुवाच्या विशिष्टव्यापाररूपा ।

प्राग्वदाह-अथेति। संबद्धत्वेन प्रतीति। शनिरशनिश्चेत्यादिवारणायेद- मिति कश्चित्। विनिगमनाविरहादाह-एकाधीति। तयोस्तत्त्वेन भाने भ्रममूलक- ादाह-यद्वेति। विषय इत्यस्याग्रेऽप्यनुषङ्गः। १ कगोश्चित्पदार्थयोः एकेन आधारेण सह संबद्धत्वे कविना प्रतिपादितेऽपि तयोः एका- धाराSसंबद्धत्वप्रतीतिरविरोधः । यथा-'कुसुमानि शराः' इत्युक्तया कुसुमत्वं शरत्वं च कविना एकत्र प्रतिपादितं किन्तु तयोरेकाश्रयसंबन्धित्वं न कुत्रच्िद् दृष्टम्। २ विरोधो हृदि ईद्ृशो दृढीभूतो योडग्रे बाधबुद्धया न निवारितो भवेत् स वास्तविको विरोधो दोषः । आपाततः प्रतीयमानः, पश्चाच्च अविरोधबुद्धा तिरस्कृतो विरोधस्तु अलंकार इत्याशयः । ३ यथोत्तरं पूर्वपूर्वस्य त्यागेन अपुनरुक्तत्वं बोध्यम्। यथा-यदि गुणस्य विरोधोदाहरणेषु जातेरपि ग्रहणं स्यात्तर्हि-गुणेन सह जातेर्विरोधो जातिविरोधमेदेषु प्रदर्शित एव। यथा- मृणालजालानि कालायसकर्कशानीति। ततश्च पूर्वपूर्वस्य अपरित्यागे पुनरुक्तत्वं स्यादित्याकूतम्।

Page 632

५७२ काव्यमाला। [द्वितीयानने-

उदाहरणम्- 'कुसुमानि शरा मृणालजालान्यपि कालायसकर्केशान्यभूवन्। सुदशो दहनायते स्म राका भवनाकाशमथाभवत्पैयोधिः॥ अत्र पुरः स्फुरन्नपि जात्यादीनां विरोधो विरहिणीदुःखजनकत्व- विमर्शनान्निवर्तते। 'त्वयि दृष्टे त्वयो दृष्टे भवन्ति जगतीतले। महान्तोऽव्यणवो राजन्नणवश्च महत्तराः ।।' 'खलानामुक्तयो हन्त कोमलाः शीतला अपि। हृदयानीह साधूनां छिन्दन्तथ दहन्ति च।।' 'विचारिते महिमनि त्वदीये नित्यनिर्मले। परमात्मन्गगनमप्याधत्ते परमाणुताम्।।' 'हर्षयन्ति क्षणादेव क्षणादेव दहन्ति च । यून: स्मरपराधीनान्निर्दया हन्त योषितः ।।' 'कान्तारे विलपन्तीनां त्वदरातिमृगीद्शाम्। देवनानि समाकर्ण्य हरिद्भिरपि चुक्षुभे ।।' इत्यादि स्वयमूह्यम्। अत्र जात्यादिरिति धर्ममात्रं विवक्षितम्, उपलक्षणपरत्वात्। तेन 'यः किल बालकोऽपि पुराणपुरुषः', 'विशुद्धमूर्तिरपि नीलाम्बुदनिभः', जगद्वि- तकृदृपि जगदहितकृत्', 'अगोद्धारकोऽपि नागोद्धारक:', इत्यादौ सखण्डो-

कालायसं लोहम्। देव राजन्। हरिद्िदिग्भिः । न च नहि। १ पद्येडस्मिन्-कुसुमत्व-शरत्वजात्योविरोथः । मृणालजातेः कार्कश्येन गुणेन। राका- ज्ातेः दहनक्रियया। पयोधित्वजातेः आकाशद्रव्येणेति जातेविरोधस्योदाहरणानि । एवमग्रे त्वयि दृष्टे० इत्यादीनि गुणादीनां विरोधोदाहरणानि स्वयं बोध्यानि। २ तव दृष्टिपाते सति अणवः (लघुतराः) अपि पदार्था महत्तरा भवन्ति । दृष्टे इति भावे प्रत्ययः । ३ जगतः अहितम् अकल्याणम्, अहितान् शत्रून् वा कृणत्ति सः । ४ अगस्य गोवर्धनस्य उद् हारकोपि न अगोद्धारक इति विरोधः । नागस्य कालियस्य कुवलयापीडस्य वा उद्धारकर्ता इति तु तत्परिहारः। ५ बालकः, विशुद्धमूर्तिरित्यादिः । अभाव :- हितकृत् 'अहितकृत्। अगोद्धारकः, न अगोदारक: इति।

Page 633

विरोध: ] रसगङ्गाधर: ५७३

म्ाधेरभावस्य च परिग्रहः । वस्तुतो जात्यादिभेदानामहद्यत्वाच्छुद्धत्वश्रलेष- मूलत्वाभ्यां द्विविधो ज्ञेयः । ननु 'हितकृदप्यहितकृत्', 'अगोद्वारकोऽपि नागोद्वारक ः ' इत्यादौ विरोधस्य प्रतिभामात्रम्, श्लेष एव त्वलंकारः । तस्य स्वविषये प्रायशः सवालकारापवादकत्वादिति चेत्, कविः शृणोति। इदं तु बोध्यम्- यत्रापि शब्दादिर्विरोधस्य द्योतकस्तत्र विरोध: शाब्दः, अन्यत्र त्वार्थ इति तावत्प्राचां सिद्धान्तः । तत्र शाब्दत्वं शब्दकरणकप्रतीतिगोचरत्वं विरो- धस्य न घटते। 'त्रयोऽप्यत्रयः' इत्यादौ नियतेषु विशेषणविशेष्यसंसर्गेषु विरोधस्य कुत्राप्यसमावेशात्। न च तद्धिकरणावृत्तित्वमिव तत्प्रैतियो- गिकत्वमपि विरोधः । तथा च प्रकृते नवर्थोत्तरपदार्थयोः प्रतियोगित्वस्य संसर्गत्वात्संसर्ग एव विरोधस्य समावेश इति वाच्यम्। 'सुप्तोऽपि प्रबुद्धः' इत्यादौ तथाप्यसमावेशात्। नहि सुप्तः सुप्तत्वविरुद्धप्रबुद्धत्ववद्भिन्न इति शाब्दधीरनुभवसिद्धा, येन लक्षणादिकुसृष्टौ यतेमहि। अत्राहु :- 'सुप्नोऽपि प्रबुद्धः', 'त्रयोऽप्यत्रयः' इत्यादिषु विरोधोदाहरणेषु शब्दद्वयेन शयितत्व्र- जागरितत्वादिधर्मद्वयस्यादावुपस्थितौ संबन्धिज्ञानादपिशब्दसाचिव्यात्त- १ शब्दद्वारा (शब्दश्रवणोत्तरम्) या प्रतीतिः तद्गोचर(विषय)त्वं विरोधस्य नोपपद्यते। यदि हि शब्दद्वारा विरोधस्य प्रतीतिः प्रतिपद्येत तहिं विरोधप्रतीतिविषययोद्वयोः (विशेष्य- विशेषणयोः यथा कुसुमं विशेषणं शरा विशेष्यम्) कश्चन मिथः संसगोऽवश्यं स्यात्। परं विशेष्यविशेषणयोः ये ये संसर्गा नियतास्तेषु 'त्रयः अपि अत्रयः' इति विरोधस्य न समावेश इति शङ्का। २ तदधिकरणावृत्तित्वम् [ तस्य यत अधिकरणं तत्र अवर्तमानत्वम्। यथा बालकत्वस्य अधिकरणं बालकः, तत्र पुराण(वृद्ध)त्वस्य अवृत्तिः इति बालकत्व-वृद्धत्वयोविरोध: ] एवमेव तत्प्रतियोगित्वम् (तत्प्रतिद्वन्द्वित्वम् तद्विरुद्धत्वम्) अपि विरोधः । ३ सुप्तोपि प्रबुद्ध इत्यादौ सुप्तत्वं च प्रबुद्धत्वं च एकत्र प्रतीयते, न तु सुप्तत्वस्य विरुद्धं यत् प्रबुद्धत्वं तद्वदभिन्न इति बोधः । एवं सति सुप्तत्वविरुद्धस्य प्रबुद्धत्वमात्रस्यव तत्र प्रतीतिः स्यान्न तु सुप्तत्वस्यापि। अनुभवसिद्धा चोभयोरेकत्र प्रतीतिः । विरोधालंकारलक्षणेपि च तथैव सूच्चितमित्याशयः । ४ यदि तादृशी (सुप्तत्वविरुद्धप्रबुद्धत्ववदभिन्न इति) प्रतीतिरनुभवसिद्धा स्यात्तदैव तदुप- पत्यर्थ लक्षणाद्यगतिकगतिरवलम्बितव्या भवतीत्यर्थः । ५ इमौ द्वावपि मिथः अतिद्वन्द्वितासंबन्धिनौ इति ज्ञानात्, अपिशब्दस्य च सहकारात।

Page 634

५७४ काव्यमाला। [द्वितीयानने-

द्वतो विरोधोऽपि स्मर्यते। अनन्तरं च प्रतिबन्धकज्ञानसामग्रया बलवत्त्वा- द्विरुद्धाविमौ धर्माविति मानसे वैयञ्जनिके वा विरोधबोधे जाते तेन

द्वितीयार्थमादायान्वयबोधः, न तु विरुद्धार्थम्। विरोधधीश्र शिथिलमूला निवर्तमानापि कविसंरम्भगोचरतया चमत्कारकारणमिति प्राचां निष्कर्षः । नव्यास्तु-'अर्थद्वयप्रादुर्भावं बिना विरोधाभास एव न संभवति। तत्रको विरोधस्योल्लासकः द्वितीयञ्चान्वयबोधविषय इति तत्सत्यम्। परं तु अन्वयबोधविषये द्वितीयार्थे विरोधोल्लासकोऽप्यर्थो भेदेऽपि श्लेषभित्ति- काभेदाध्यवसाय इत्युक्तदिशा अभिन्नतर्या भासते। एवं चाविरुद्धं द्विती- यार्थमादायान्वय-बोधे सत्यपि स्वास्पदीभूतस्य विरुद्धार्थस्य निःशेषतया निवृत्तेरभावादर्घमृतः श्वसन्निव विरोधोपि मानसं बोधान्तरमारोहति। अत एव चमत्कारीत्युच्यते। नहि निःशेषतया निवृत्तश्चमत्कारं जनयितु- मीष्टे। न चान्तरेण चमत्कारजनकतामलंकारो भवति। तस्माद्विरोधघियो नातीव शिथिलमूलत्वम्, नापि चात्यन्तिकी निवृत्तिः' इत्याहुः ।

निवृत्तिरित्याहुरिति । वयं तु ब्रूम :- सुप्नोऽपि प्रबुद्ध इत्यादौ समानाधि करणविभक्त्र्थयोरभेदः । अपिशब्देन च समभिव्याहृतैकपदार्थतावच्छेदकविरुद्ध- खमपरपदार्थतावच्छेदके दयोत्यते। तत्र गमकद्वयसत्त्वात्प्रकरणादेनियामकस्याभावा- चार्थद्वयमपि युगपदवभासते। तत्राभेदस्य मुख्यवाक्यार्थतात्तदयोग्यार्थस्य विरुद्धा- १ अयं सार :- शयितोपि प्रबुद्ध इत्यादौं प्रबुद्धपदस्य जागरितार्थग्राहिकया एकया शक्तया परस्परविरुद्धार्थस्य बोधे जाते द्वयोरभेदबुद्धि: प्रतिरुध्यते । परम् प्रबुद्धपदस्य ज्ञानवदर्थविष- यिण्या द्वितीयया शक्तया ज्ञानवदर्थबोधे जाते सुप्तत्वस्य ज्ञानशालित्वरूपद्वितीयार्थेन समन्वयः [ऐकाधिकरण्यम् ] संघटते, न तु पूर्वजातेन विरुद्धार्थेन (जागरितत्वरूपेण) समन्वयः । उपनिबन्धकस्य कवेस्तत्रैव चमत्कारकतयाडभिनिवेश इति निवर्तमानापि सा विरोधबुद्धिरेव चमत्कारिणीत्यलंकारत्वव्यपदेशहेतुः । २ अर्थात् प्रबुद्धपदस्य परस्परसमन्वयकारकेण ज्ञानवदर्थेन सह एकपदोपस्थाप्यतारूपस्य अभेदाध्यवसायस्य बलात् विरोधोल्लासकः जागरितत्वरूपोऽर्थोपि अभिन्नतया भासते [ यतो हि सुप्तोपि प्रबुद्ध इत्यत्र द्वयोरप्यर्थयोः अ्बुद्धपदेनैव प्रतीति: ]। समन्वयेन द्वयोरविरोधे जातेऽपि सहोद्दूता अंशतोडवशिष्टा विरोधबुद्धिरपि स्वकार्य संपादयत्येव। प्राचां मते-विरोधवीः शिथिलमूला निवरतते। नव्यानां मते-न तस्याः शिथिलमूलत्वम्, न चापि निःशेषं निवृत्तिरिति भेदः ।

Page 635

विरोध: ] रसगङ्गाघर: । ५७५

ननु अपिशब्दादीनां प्रयोगे शाब्दो विरोधो भासत इति तथाप्यसंग- तम्। निपातानां शाब्दिकनये शक्तेरस्वीकारादिति चेत्, न । निरूढलक्ष- णाया इव निरूढद्योतनाया अपि शक्तिसमकक्षत्वात्। अथ जातयोर्द्रव्य- योश्च विरोधालंकारो भवितुमीष्टे। 'कुसु मानि शराश्चन्द्रो वाडवो दुःखिते हृदि' इत्यादावारोपमूलस्य रूपकस्यैवोल्लासात्। यदि च सत्यप्यारोपे विरोधाभास उच्यते, उच्यतां तर्हि 'मुखं चन्द्रः' इत्यन्नापि स एव। न च रूपकविषयस्य सर्वस्यापि विरोधेनाक्रान्तत्वान्निर्विषयत्वापत्या खवविषये रूपकं विरोधस्य गुणादौ सावकोशस्यापवाद इति वाच्यम्। 'कुसुमानि शराः', 'मृणालवलयादि दवदहनराशिः', 'चन्द्रो वाडवः', 'शंकरचूडा- पगा का लिन्दी' इत्यादौ त्वदभीष्टविरोधैस्यासिद्विप्रसङ्गादिति चेतू, सत्यम्। इह हि अलंकारवर्गे यो यत्र सहृद्यचमत्कृतिपथमवतरति स एव तत्रालंकार इति निर्विवादम्। एवं च रूपके 'मुखं चन्द्रः' इत्यादौ यद्यप्यस्ति विरोध- स्तथापि न स तत्र प्रतिपिपाद्यिषितः। अपि तु चन्द्रनिष्ठाह्लाद्कत्वादिस-

र्थश्लेषभित्तिकाभेदाध्यवसायेन विशेषणत्ं विरुद्धार्थस्य तत्रेति युक्तम्। एवं च स्वापविरुद्धजागरणाभिन्नविशिष्टज्ञानाश्रय इति बोधः । यत्र वपिशब्दाभावस्तत्र प्रथ- मतः शाब्दान्वयबोधे जाते सहृदयतावशाद्वितीयार्थोपस्थितौ विरहाद्युद्वोधकसहककृतैक- संबन्धिज्ञानविधया विरोधोपस्थितौ व्यज्ञनयैव तादृशबोधः। अतएवापिशब्दाभावे विरोधो व्यक्ष्य इत्याहुः। विरोधस्याभासतं चाहायेबोधविषयत्वात्कार्यनिष्पादकत्वाभा-

१ अपिशब्दस्य विरोधवाचकत्वं यदि स्यात्तदैव अपिशब्दप्रयोगे विरोधः शाब्द इति चक्तुं शक्येत। न तथा। निपातानां द्योतकत्वात्। इति शङ्का। निरूढलक्षणावत् निरूढद्योत- नावशात् अपिशब्दस्य विरोधबोधकत्वं शाब्दमिति तत्समाधानम्। २ 'कोमलाः शीतला अपि खलानामुक्तयः साधूनां हृदयं छिन्दन्ति दहन्ति च' इत्यादौ न रूपकातिप्रसङ्ग: [एकस्मिन्नन्यस्यारोपाभावात ], इति सावकाशो विरोध इत्यर्थः । ३ अभीष्टस्तु विरोधालंकारः किन्तु पूर्वोक्तयुत्तया अपवादतया रूपकं स्यात्ततश्र स्पष्टमन- भीष्टतेत्यर्थः ।

Page 636

५७६ काव्यमाला। [द्वितीयानने-

कलगुणानां सुखे प्रतिपत्त्यर्थ चन्द्राभेद एवेति स चमत्कारी, न विरोधः। अत्युत सन्नपि विरोधो विवक्षितार्थाननुगुणत्वानुदूषित इति नालंकार:, विद्यमानताया अकिंचित्करत्वात्। 'कुसुमानि शराः' इत्यादा तु विरहि- श्यादीनामवस्थाया अत्यद्भुतत्वस्य विवक्षितत्वात्तदानुगुण्यायान्तर्गर्भितो- डप्यार्थो विरोधः समुल्लसतीति स एवालंकारः। न चैवमपि रूपकस्थले विरोधोऽविवक्षितत्वान्मा नामाभूदलंकारः, विरोधस्थले तु 'कुसुमानि शराः' इत्यादौ विरोधोत्थापनार्थमभेदस्यावश्यं विवक्षणीयत्वाद्रूपकापत्ति- रिति वाच्यम्। विरोधविवक्षानालिङ्गितत्वस्य रूपकलक्षणे निवेश्यत्वात्। यद्वा अभेदस्यात्र विरोधोत्थापनार्थमुपात्तस्याचमत्कारित्वाद्रूपकालंका- रत्वमयुक्तम्। तत्तदलंकारलक्षणेषु अलंकार सामान्यलक्षणे वा चमत्कारित्व- स्योक्तत्वात्। यदि तु विरहिण्याद्यवस्थाया अत्यद्भुतत्वादि न विवक्षितम- व्यर्थश्र न गर्भीकृतः, किं तु पीडाजनकत्व-श्यामत्वाद्यतिशयमान्रं विव- क्ष्यते, तदात्र रूपकमेव। यदि वा नगरविशेषस्थितेरद्भुतत्वविवक्षया यत्र हि नारीणां मुखं चन्द्र इत्युच्यते, तदा विरोधाभास एवेति ध्येयम्। ननु 'सुप्तोऽपि प्रबुद्धः' इत्यादौ यथैकेनार्थेन विरोधस्योत्थापनमपरेण च निवृत्तिः, एवम् 'गङ्गायां घोषः', 'मञ्ा: क्रोशन्ति', 'कुन्ताः प्रवि- शन्ति' इत्यादावपि शक्येन तस्योत्थानं लक्ष्येण च निवृत्तिरिति विरोधाभा- सप्रसङ्गः । न च दृष्टान्ते विरोधोत्थापक-निवर्तकयोरर्थयोः शक्त्ैवोप-

वैनेति। तदनिवेशजलाघवादाह-यद्वेति। अत्र कुसुमानीत्यत्र। ननु तर्हि गौरवं तत्प्रयुक्तमस्त्येवात आह-तत्तदिति। इतोऽपि लाघवादाह-अलंकारेति। श्याम- त्वाद्यतिशयेति। शंकरचूडापगेत्यत्रेत्यर्थः । एवेति व्येयमिति। एवं च 'विरो- धानुपपत्तिश्चेद्गणद्रव्यक्रियादिषु । अमन्दचन्दनस्यन्दः स्वच्छन्दं दहतीह माम् ।।' १ प्रतिपिपादयिषित इति पूर्वोणानुषङ्गः । २ विवक्षितोर्थः चन्द्रगुणानां मुखे स्थापनार्थ द्वयोरमेदः । तदपेक्षया अननुगुणो विरोधः यो हि द्वयोविरुद्धतां सूचयित्वा चन्द्रनिष्ठगुणप्रतीति प्रतिबभनाति। ३ विरोधविवक्षाशून्यस्थले एव रूपकं भवतीत्यर्थः । कुसुमानि शरा इत्यादौ तु विरोध- विवक्षाया जागरूकत्वान्न रूपकमित्याशयः । ४ प्रबुद्धपदस्यानेकार्थतया द्योरप्यर्थयोः शक्त्यवोपस्थितिरित्यर्थः ।

Page 637

विरोध: ] रसगङ्गाघरः । ५७७

स्थितिः, दार्ष्टान्तिके तु पृथग्वृत्त्येति वैलक्षण्यमिति वाच्यम्। सत्यपि वैलक्षण्ये त्वदुक्तविरोधाभासलक्षणातिप्रसङ्गस्यानिवारणात् । नहि लक्षणे वा विवक्षितम्। तथा सति 'कुसुमानि शराः' इत्यादौ प्राचीनरीत्ाऽव्या- प्तिप्रसङ्गादिति चेत्, विरोधस्यान्र प्रतिभानेऽपि कविसरम्भागोचरत्वेना- चमत्कारित्वात्। अयं च विरोधालंकार: कुवलयानन्दकृता उत्प्रेक्षाशिरस्कोऽप्युदाहृतः। यथा- प्रतीपभूपैरिव किं ततो भिया विरुद्धधमैरपि भेततृतोज्झिता। अमित्रजिन्मित्रजिदोजसा स यद्विचारदक्चारद्ृगप्यवर्तत ।।' इति। विरोधप्रतीत्यनन्तरं यत्रार्थान्तरप्रतिपत्या विरोधस्य समाधानं तत्र विरोधाभास इष्यते। यथा-'रिपुराजिरसभावभञ्जनोऽप्यरिपुराजिरस- भावभञ्जनः' इत्यादौ। इह तूत्प्रेक्षया विरोधसमाधानात्मिकया मुखस्थि- तया विरोधस्योत्थानमेव भग्नमिति कथमनुत्तिष्ठन्नेव विरोघश्चमत्कार- मूलमलंकारभावं वहेत्। इति रसगङ्गाधरे विरोधप्रकरणम्।

इति जयदेवोक्तो विरोधो विरोधाभास एवेति बोध्यम्। अलंकारभावं वहेदिति। अन्रेदं चिन्त्म्-प्रतीपभूपैरित्यत्र हि विरुद्धधर्मगततया साश्रयभेदकतवत्यागोत्प्रेक्षायां विरुद्धतयावभासमानपदार्थानां श्लेषभित्तिकाभेदाध्यवसायेनाविरुद्धतादात्म्यापन्नानां सह- वासो निमित्तम्। निमित्तप्रतिपादकं चोत्तरारधेम्। विरोधभानमन्तरेण विरुद्ध धर्मैरपी- त्याद्युत्प्रेक्षाया अनुत्थानाच्च। एवं च निमित्तांशे विरोधालंकारमुपजीव्यैव विरोधत्यागो- त्प्रेक्षा अर्थान्तरानुग्ृहीता। पश्चात्तत्साधनत्वेन स्थितेत्युत्प्रेक्षाङ्गमत्र विरोध इति। इति रसगङ्गाधरमर्मप्रकाशे विरोधप्रकरणम् ॥

१ प्चीनानां मते रूपकादिषु लक्षणा। अत एव शरपदस्य शरसदृशे लाक्षणिकतया विरोधनिवर्तकस्य (शरसद्ृशार्थस्य) वृत्त्यन्तरवेधत्वात् विरोधलक्षणस्य अव्याप्तिरित्यर्थः । २ रिपुराजेः रसभावौ भनक्ति, राज्यश्रीहारित्वात्। ३ विरोधपरिहारस्तु-अरेः पुराणाम् अजिराणाम् सभानां च अवभञ्जन इति। ४९ रस०

Page 638

५७८ काव्यमाला। [ द्वितीयानने-

अथ विभावना- कारणव्यतिरेकसामानाधिकरण्येन प्रतिपाद्यमाना कार्योत्पत्ति- र्विभावना ॥ तदुक्त्तम्-'क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना' इति। क्रियाशव्देनात्र कारणं विवक्षितम्। अत्र कारणव्यतिरेकसामानाधिकर- ण्येन कार्योत्पत्तौ निबध्यमानायामापाततो विरोधः प्रतिभासमानोSपि तदितरकारणकल्पनया निवर्तते। यथा- 'विनैव शस्त्रं हृदयानि यूनां विवेकभाजामपि दारयन्त्यः । अनन्तमायामयवल्गुलीला जयन्ति नीलाब्जदलार्येताक्ष्यः ।।' अत्र हि दारणे शस्तरं कारणम्। तद्भावेऽपि दारणसुपनिबध्यमानमा- पाततो विरुद्धमपि कामिनीविलासरूपहेतुकतया पर्यवस्यति । नन्वत्र यस्य कार्यस्योत्पत्तिर्निबध्यते नहि तदीयकारणत्वेनावगतस्य व्यतिरेकः प्रतीयते। यदीयकारणव्यतिरेकश्च प्रतीयते नहि तस्य कार्य- स्योत्पत्तिर्निबध्यते। दारणं चेह पीडाविशेषो विवक्षितः, न तु द्विधा- भावः। शखं च न कामपीडायाः कारणम्, अपि तु द्वैधीकरणस्येति १ कारणाभावसमानाधिकरणायाः कार्योत्पत्तः (कारणाभावः स्यात्तथापि कार्योत्पत्तिः स्यात्) प्रतिपादनं विभावनेत्यर्थः । २ अर्थात् कारणं विना कार्यस्योत्पत्तिरिति विरोधस्य प्रथमम् आभासो भवति, परम् तत्कार्य प्रति प्रसिद्धस्य वस्तुनः कारणत्वाभावेऽपि अन्यस्य वस्तुनः कारणत्वकल्पनात्तस्य (विरोधस्य) निवृत्तिः । यथा-'शस्त्रं विनैव यूनां हृदयानि दारयन्त्य इन्दीवराक्ष्यो जयन्ति' अत्र दारणं प्रति शस्त्रं कारणं प्रसिद्धम्, अस्याडभावेपि दारणरूपं कार्य भवतीति विभावना। इह हि कारणं विना कार्योत्पत्तिरिति आपाततो विरोधस्य प्रतिभास एव। परं तु प्रसिद्धं कार- गम् (शरम्) विहाय कामिनीविलासानां हृदयदारणे कारणत्वकत्पनात (कारणसत्तयैव कार्योत्पत्तिसाधनात) तन्निवृत्तिरित्याशयः । ३ अनेकमाया('जादू' इति भाषाप्रसिद्धा)मय्यः मधुराः लीलाः (विलासाः) यासां ताः । ४ इन्दीवरदीर्घाक्ष्यः । - ५ अयं भाव :- 'विनैव शस्त्रम्०' अत्र कामजनितपीडाविशेषं प्रति इन्दीवराक्षीणाम् कारणत्वं साधितम्, तादृशकार्य प्रति तादृश(स्त्रीरूप)कारणस्य अभावः क्वास्ति? अपि तु इन्दीवराक्ष्यः स्वयं शब्दोपात्ता एव। यादृशस्य शस्त्ररूपकारणस्य च अभाबः अत्र प्रतीयते, न तत्(शस्त्र) कृतकार्यस्य (द्वैधीभावरूपस्य) अत्र उत्पत्तिर्वर्णिता । अपि तु कामजनितपीडावि- शेष स्यैवेति कारणाभावः कथम्१ इति शङ्का।

Page 639

विभावना ] रसगङ्गाघर:। ५७९

चेत्, न । मुख्यं हि दारणं द्विधाभावनम्। गौणं च कामादिजनितपी- डाविशेष: । तयोगौणमुख्ययोर्दारणयोः सादृश्यमूलेनाभेदाध्यवसानरूपे- णातिशयेन सति भेदस्थगने, द्विधाभावनकारणमपि शस्त्रं कामपीडाकारणं संपद्यते। तदभावे चात्र कार्याभिन्नतयाध्यवसितस्य पीडाविशेषस्योपनि- बन्धनान्न दोष: । एवं चास्मिन्नलंकारे सर्वत्रापि कार्याशे अभेदाध्यवसा- नरूपातिशयोक्तिरनुप्राणकतया स्थिता। तया च पायसादिपिण्डवदेकीकृ-

करण्येनापरावयवमादाय पर्यवसानं भवति । तत्र च कार्यांशः कारणाभावरूपविरोधिनो बाध्यतयैव स्थितः, न बाधकतया। कार्याशस्य कल्पितत्वात्कारणाभावस्य च स्वभावसिद्धत्वात्। अत एव कार्यांशो रूपान्तरेण पर्यवस्यति। अत एव च समबलविरोधि- द्वयघटिताद्विरोधालंकारादस्य वैलक्षण्यम्। तथा चोक्तम्-

प्राग्वदाह-अथेति। सादश्यमूलेनेति। शेषमूलेनेतपि बोध्यम्। कार्या भिन्नतयेति। शत्रकार्यद्विधाभावेनाभिन्नतयेत्यर्थः । वस्तुतः सदृशवस्तुद्वय- स्येति। इदं षध्यन्तं पर्यवसानमित्यत्रान्वेति। तन्र सामानाधिकरण्येनेत्यन्तं हेतुः। १ अर्थात् अमेदाध्यवसानेन गौण-मुख्ययोद्वयोः कार्ययोः, तत्कारणयोश्च अभेदबुद्धिर्भ- वति। ततश्च गौणकारणमपि प्रधानकारणात् (शसात) अभिन्नमध्यवसितम् । तादृशस्य (प्रसिद्धस्य) कारणस्याऽभावेपि द्वैधीभवनादभिन्नस्य कामपीडाविशेषरूपस्य कार्यस्योपनिबन्धन- मत्र कृतमिति कारणाभावे कार्योत्पत्तिदर्शनाद्विभावनालक्षणस्य समन्वय वेति तत्समाधानम्। २ अर्थात् अतिशयोक्ति: गौणं कार्यमपि प्रधानाभिन्नं दर्शयति। यथा-'विनैव शस्त्रम्०' अत्र कामजनितपीडाविशेषमपि शस्त्रजनितद्वैवीभवनरूपं प्रत्याययति। अत एव विनैव शर्त्रं दारयन्त्य इत्युक्तिर्घटते। ३ अयं भाव :- सदशे द्वे वस्तुनी संयोज्य यथा एकीक्रियेते [ यथा पयोनिमित 'खोआ'- 'मावा' द्विविधपिण्डौ एकत्र संयोज्येते] तथा अत्र द्विविधे अपि कायें [गौण-सुख्ये, यथा विनैव शस्त्रम्० अत्र गौणं कामपीडाविशेष:, प्रधानं द्विधाभावनम्] अभेदाध्यवसानातिश- योत्तया एकीकृते। तत्र कारणाभावकोटौ प्रधानकार्यसंबन्धिकारणाभावो गृह्यते। कार्योत्प- च्िश्च गौणस्य कार्यस्य। यथा विनैव शस्त्रम्० अत्र कार्यस्य तु कामजनितपीडाविशेषस्य गौण- स्योत्पत्तिः । कारणाभावावगमनकाले तु मुख्यकार्यस्य (द्विधाभावनस्य) यत्कारणम् (शस्त्रम्) तस्याभावो बुद्धिस्थो भवति। अत एव शस्त्रं विनापि दारणं जनयन्त्यः कमललोचना इति प्रत्ययो भवति।

Page 640

५८० काव्यमाला। [ द्वितीयानने-

'कारणस्य निषेधेन बाध्यमान: फलोदयः । विभावनायामाभाति, विरोधोऽन्योन्यबाधनम् ॥' इत्याहुः । अथातिशयोक्तिन सर्वस्यां विभावनायामनुप्राणिका। किं तु क्रचित्। 'निरुपादानसंभारमभित्तावेव तन्वते। जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने।।' इत्यत्र विभावनायाम तिशयोक्तेरव्यवसानमूलाया अननुप्राणकेत्वादिति। ननु कारणाभावे कार्योत्पत्तिरसंभवन्ती कविना अभिप्रायविशेषेण निब- ध्यमाना हि विभावना। न चात्रोपादानान्तराभावे जगत उत्पत्तिः परमे- श्वराद्संभवन्ती येन विभावना स्यात्। 'नासदासीत्', 'सदेव सोम्येद- मग्र आसीत्', 'आत्मा वा इद्मेक एवाग्र आसीत्', 'असद्वा इदमग्र आसीत्ततो वै सदजायत' इत्यादिश्रुतिभ्यः, 'अहमेवासमेवान्रे नान्यद्यत्स- दसत्परम्' इत्यादिस्मृतिभ्यश्च सृष्टिकाले भगवद्तिरिक्तवस्तुजातप्रतिषेधा- वगमात्। तस्मादत्र विभावनाया एव संभावना नास्ति कव पुनरतिशयो- क्तयनुप्राणितत्वव्यभिचार इति चेत्, न । अत्र हि भगवतः सकाशात्के-

१ 'तत्र कार्याश:०' इत्यादेः संदर्भस्येदं विशदीकरणम्-विभावनायां कारणाभाव- कार्ययोरविरोध: प्रतीयते (विना कारणं कार्योत्पत्तेविरुद्धत्वात्)। तत्र कार्यांशो बाध्यः (दुर्बलः) कारणाभावो बाधकः । यतो हि कार्यमत्र गुणीभूतं गृह्यते (यथा हि विनैव शस्त्रम् अत्र कामजनितपीडाविशेष:), ततश्च कल्पितत्वाद्वाध्यम् । कारणं तु मुख्यं प्रतीतिगम्यं भवति। अत एव कारणकोटिर्वाधिका। एवं च विभावनायां द्योर्मध्ये एकं बाध्यम् अन्यो बाधकः इति दुर्बल-सबलयोविरोधः । विरोधालंकारे तु समबलयोः (अत एव वाध्यबाधकत्वाव्यपदे श्ययो: विरोध इति द्वयोवैलक्षण्यम्। विभावनायां कारणस्य निषेधेन अभावेन फलोदय: (कार्योत्पत्तिः) बाध्यमान: आभातीति कारणस्य निषेधेनेति पद्येऽन्वयः । २ च्ित्ररूपं कार्य प्रति उपकरणसंभारस्य भित्तेश्च कारणत्वम्। तद्विनापि चित्रजननकार्यो- त्पत्तिरूपायामस्यां विभावनायां कार्याशे (चित्रे) अमेदाध्यवसानस्य नावश्यकतेत्यर्थः। ३ जगदुत्पत्तौ ज्ह्मैवोपादानम्। ब्रह्मण एव जगद्रूपतया परिणमनात्। पतदुपादानातिरि कमू अन्यत् उपादानं नास्तीत्यर्थः । एवं च ज्रह्मोपादानकस्य जगतोऽनित्यत्वं वदन्तो विचार्या एव। अमकल्पितस्य संसारस्य त्ववश्यमनित्यत्वमित्यलं प्रसक्त्तानुप्रसक्त्तेन।

Page 641

विभावना ] रसगङ्गाघरः । ५८१

वलस्य जगत उत्पत्तिन कवेरभिप्रेता। येन तस्या उपादानान्तरव्यतिरेकेऽपि भगवतः सकाशात्संभवादसंभवमूला विभावना न स्यात्। किं तु जग- द्रूपस्य चित्रस्य। चित्रस्य च केवलस्योपादानानां मषी-हरितालादीनामा- धारस्य भित्त्यादेश्चाभावे केवलाकाशे जागर्त्येवोत्पत्तेरसंभवः ।स च तस्य जगद्रूपतानुसंधानात्तत्कारणतदाश्रयव्यतिरेक्मादाय निवर्तत इति 'निरुपादानसंभारम्' इत्यत्र निष्प्रत्यूहैव विभावनेति भवत्यतिशयोक्त्नु- आ्णितत्वव्यभिचारः । एतेन 'विभावनायां सर्वत्रातिशयोक्तिरनुप्राणिका' इति सर्वस्वकारोक्तिरपास्ता। तथा "-निरुपादानसंभारम्' इत्यत्र विभा- वनाया एवाभावात्कुत्र व्यभिचारः" इति वदन् विमर्शिनीकारोऽपि प्रत्युक्त इति। उच्यते-मा स्म भूत्सर्वत्र विभावनायामतिशयोक्तिरनुप्राणिका। आहार्याभेद्बुद्धिमात्रमेवानुप्राणकम्। तच्च क्वचिद्तिशयोक्त्या, क्वचिच्च रूपकणेति न दोषः । यत्त-"कारणं विना कार्योत्पत्तिरेका विभावना। कारणानामसम- अत्वे द्वितीया। सत्यपि प्तिबन्धके कार्योत्पत्तिस्तृतीया। अकारणात्का- र्योत्पत्तिश्चतुर्थी। विरुद्धात्कार्यजन्म पञ्चमी। कार्यात्कारणजन्म षष्ठी। कमेणोदाहरणानि- 'अप्यलाक्षारसासिकं रक्तं तन्व्या: पदाम्बुजम् ।' 'अस्तनैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः ।' 'सातपत्रं दहत्याशु प्रतापतपनस्तव।' 'शङ्गाद्वीणानिनादोऽयमुदेति महद्द्ुतम्।' 'शीतांशोः किरणा हन्त दहन्ति सुदृशो हशौ।' 'यश:पयोधिरभवत्करकल्पतरोस्तव।" १ उत्पत्ते: असंभवः जागत्येव (स्पष्टं प्रकाशत एव)। २ तस्य चित्रस्य जगद्रूपतानुसंधानात्। अर्थात् इदं केवलं चित्रं न, अपि तु जगद्रुपन्। ३ तस्य जगतः कारणम् (उपादानसंभार:), तस्य जगतः आश्रयः (अन्य आधारः), अनयोरभावेपि जगतः सृष्टिः परमेश्वरेण अनिर्वचनीयसामर्थ्यात्कृतेति असंभवस्य निरासः । ४ निरुपादानसंभारम्० अत्र जगच्चित्रमिति रूपकेण आहार्याभेदबुद्धिरित्याशयः । ५ चन्द्रकिरणा: सुद्टशः (सुनयनायाः) दृशौ नेत्रे दहन्तीत्यर्थः ।

Page 642

५८२ काव्यमाला। [द्वितीयानने-

इति पटूप्रकारां विभावनामुदाजहार कुवलयानन्दकृत्। तत्रेदं वक्तव्यम्- 'कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिबन्धके।' 'अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना ।।' इत्यादिभिर्विभावनाप्रकारानालक्षयता विनापि कारणं कार्योत्पत्तिरित्यप्ये- को विभावनाप्रकार इत्युक्तं भवति। अन्यथा चतुर्थीत्वाद्यसंगतेः । एवं च यथा-'सादृश्यमुपमा भेदे', 'तद्रूपकमभेदो य उपमानोपमेययोः' इत्यादिभिर्लक्षितस्योपमा-रूपकादिसामान्यस्य पूर्णादयेः सावयवाद्यश्च भेदा उक्तास्तथेह किं तद्विभावनासामान्यलक्षणम्? यललक्षितस्य विभावना- सामान्यस्यामी भवतोक्ताः प्रकारा उपपद्येरन्। कारणं विना कार्योत्पत्ते- स्तु प्रकारान्त:पातित्वात्। अथातिशयोक्तादिष्विव तादशसकलप्रकारा- न्यतमत्वं सामान्यलक्षणमुन्नेयमिति चेत्, एवमपि प्रथमप्रकाराद्वितीयप्र- कारस्य वैलक्षण्यं दुरुपपादमेव। कारणाभावेऽपि कार्योत्पत्तिरित्यत्र कारण- तावच्छेदकसंबन्धेन कारणतावच्छेदकावच्छिन्नप्रतियोगिताकाभावस्य वि- वक्षितत्वात्। प्रकारान्तरख्वीकारापेक्षया तादृशविवक्षाया एवं लघुत्वात्। एवं प्रतिबन्धकमपि कारणाभाव एव। प्रतिबन्धकाभावस्य कारणत्वात्। इति तृतीयोऽपि भेदो न विलक्षणः । चतुर्थेऽपि भेदे कारणाभाव आर्थः।

१ अर्थात् 'विनापि कारणं कार्योत्पत्तिः' इति यदि 'प्रथमः प्रकारः' इति कृत्वा न गण्यते तहि अकारणात्कार्यजन्मेति प्रकारस्य चतुर्थत्वं नोपपद्यत इत्यर्थः । २ पूर्णा लुप्ता इति उपमायाः, सावयव-निरवयवादयो रूपकस्य भेदा इत्यन्वयः । ३ अर्थात् पूर्व विभावनासामान्यस्य लक्षणं वक्तव्यं यस्य हि कारणाभावे कार्योत्पत्त्यादयः प्रकारा: संभवेयुः । ४ अर्थात् अत्र कारणाभावपदेन ताटशः अभावो विवक्षितः यस्य प्रतियोगिता कारणताव- च्छेदकसंबन्धेन (अर्थात् कारणत्वरूपमसाधारणं धर्ममादाय) कारणतावच्छेदकाडवच्छित्ना भवति। यद् यद हि कारणत्वावच्छिन्नम् (कारणपदेन व्यपदेषठं शक्यम्) सर्वविधस्यापि तस्य कारणस्याभाव इत्याशयः। ततश्च कारणानामसमग्रत्वम् [समग्रत्वे सत्येव कारणमुच्यते, अत एव असमग्रत्वेपि कारणाभाव एव फलति ] प्रतिबन्धकमपि कारणाभाव एव [प्रतिबन्ध- काभावे कार्यंजननेन कारणत्वस्य दर्शनात् ] इति 'कारणत्वावच्छेदकावच्छिन्नप्रतियोगिता- काभावे कार्योत्पत्तिविभावना' इति लक्षणे सवेंपि प्रकारा एकस्मिन्नेवान्तर्भवन्तीति सिद्धम्।

Page 643

विभावना ] रसगङ्गाघर:। ५८३

'शङ्गाद्वीणानिनादोऽयम्' इत्युक्ते वीणां विनैवेति प्रत्ययादवैलक्षण्यम्। तस्मादाद्येन प्रकारेण प्रकारान्तराणामालीढत्वात्षट्प्रकारा इत्यनुपपन्नमेव। यदि तु यथाकरथंचित्कुवलयानन्दोक्ति: समर्थनीयेत्याग्रहस्तदेत्थं समर्थ्यता- मू-तथा हि विनापि कारणं कार्यजन्मेति विभावनायाः सामान्यलक्षणम्। इयं च तावद्वेधा-शाब्दी, आर्थी च। शाब्दी त्निविधा-प्रतिबन्धका- तिरिक्तकारणव्यक्तिप्रतियोगिकाभावोक्तिपूर्विका, सत्यामपि कारणव्यक्तों यदवच्छिन्नत्ववैकल्यप्रयुक्त: कार्याभावस्तद्वैकल्योक्तिपूर्विका, स च कारण- तावच्छेदकधर्मः क्वचित्कारणतावच्छेदकसंबन्धश्च, प्रतिबन्धकोक्तिपूर्विका चेति। आ्थ्यपि त्रिविधा-प्रकृतकार्यसमानजातीयकार्यान्तरस्य कारणात्। प्रकृतकार्यविरुद्धकार्यस्य कारणात्। स्वकार्याद्वा प्रकृतकार्यस्योत्पत्तिरिति एतदर्थकमेव ह्यकारणादित्यादि। इयं च विभावना द्विविधा-उक्तनिमित्तानुक्तनिमित्ता च। तत्रानुक्त- निमित्ता 'विनैव शस्त्रं' इत्यत्र दशर्िता। विलासानां मन्मथपीडाजनका- नामनुपात्तत्वात् । उक्तनिमित्ता यथा- 'यद्वधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः । दहनं विनैव तद्वधि यूनां हृदयानि दह्यन्ते।।'

शाब्दी आर्थी चेति। अन्र केचित्-शब्दत्वे आद्या। आर्थत्वे उत्तराः पञ्च। तन्न द्वितीये कारणे कारणतावच्छेदकगुणादिवैकल्यदर्शनेन तदवच्छिन्नकारणाभावप्रतीति- रार्थी। अस्तु वा शाब्दी। तथापि स्वरूपतः कारणभावकथनात्कारणगतधर्मवैकल्यद्वा- रेण तद्विशिष्टकारणाभावकथने विच्छित्तिविशेषात्। एतेन प्रथमप्रकाराद्वितीयप्रकारस्य

१ कारणव्यक्तिः (कारणपदार्थः) प्रतियोगिनी यस्य तादृशोऽभावः (अर्थात् कारणाभावः.) कीदृश: ? यत्र प्रतिबन्धकस्योक्तिन। 'अनेन अलाक्षारसासिकं चरणं रक्तम्' अत्र लाक्षारूप- कारणव्यक्त्यभावस्योकतिरिति समन्वयः । २ अस्तैरतीक्ष्णकठिनैरत्र अस्रेषु कारणेषु सत्स्वपि तीक्ष्णत्वकठिनत्वरूप( कारणतावच्छे- दकधर्म)वैकल्ये (अभावे) सति कार्याभावो भवति, अत एव तादृशधर्म(तीक्ष्णत्वकठिनत्व)- वैकल्योक्तिपूर्विका अत्र विभावना। ३ प्रकृतकार्य वीणानिनादः तत्समानजातीयं कार्यान्तर शङ्गनादः, तादृशकार्यान्तरस्य कारणात् (शङ्कात्) कार्यजन्मेति चतुर्थी लक्षिता समन्विता च।

Page 644

५८४ काव्यमाला। [ द्वितीयानने-

अन्र हि उपात्ते यौवने दाहहेतुत्वं पर्यवस्यति। यत्तु- "असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य। कामस्य पुष्पव्यतिरिक्त्तमस्त्रं बाल्यात्परं साऽथ वयः प्रपेदे ।' अत्र द्वितीयचरणे आसवाभावेऽपि मदस्य प्रतिपादनादयौवनस्य चोक्त त्वादुक्तनिमित्ता विभावना। न तु प्रथमतृतीयचरणयोः, संभरणपुष्पयोर्म- ण्डनमस्त्रं च प्रत्यहेतुत्वात्।" इत्यलंकारसर्वस्वकारादिभिरुक्तं तत्र विचार्य- ते-विरोधमूला हि विभावनादयलंकाराः। विरोधस्यैव विद्युत्प्रभावदापा- ततः प्रतिभासमानस्य चमत्कारबीजत्वात्। अत्र ह्यासवभिन्नत्वविशिष्टं मदकारणत्वं यौवनस्योक्तम्। एवं च यौवनस्य मदकारणतायाः शब्देनै- वोपात्तत्वात् यागे व्रीहियवयोरिव मढे यौवनासवयोः परस्परनिरपेक्षका- रणत्वावगतेर्विरोधस्य लेशतोऽप्यप्रतिभानाद्विभावनैव नास्ति। कुतः पुनरुक्तनिमित्त विभावना ?। न चासवस्य प्रसिद्धमद्कारणत्वात्तेन विना मदोत्पत्तिवर्णने विरोधप्रतिभा भवत्येवेति वाच्यम् । भवेत्सा, यदि यौवनस्य मद्कारणत्वं कविना साक्षान्न प्रतिपाद्येत। प्रतिपादिते तु तस्मिन्प्रसिद्धकारणातिरिक्ततया कविना प्रतिपादितमिद्मपि प्रसिद्धकारण- मिव कारणान्तरं भविष्यतीति वैकल्पिककारणताप्रतिभानान्न विरोध- प्रतिभानं भवितुमहृति । तस्मादत्र प्रथमतृतीयचरणयोन्यूनाभेदरूपकम् । द्वितीयचरणे तु प्रतीयमानोत्प्रेक्षेति विवेकः । अस्मन्निर्मिते तूदाहरणे दहनस्यैव प्रसिद्धदाहकारणत्वाद्यौवनस्य दाहकारणताया अश्रुतत्वाद्दहन- मन्तरेण दाहोत्पत्तिवर्णने विरोध आपाततः प्रतीयत एवेति सहृदयैरा- कलनीयम्। वैलक्षण्यं नेत्यपास्तम्। तृतीये प्रतिबन्धकाभावस्य कारणलनये तदभावकथनं शाब्दम्।

इत्यर्थः । आद्ये भावोक्तेति पूर्वस्माद्विशेषः । चतुर्थ्या प्रकृतसजातीय कार्यान्तरस्य कारण- भिन्नात्कथनमिति कारणाभाव आर्थ एव। पश्चम्यां च प्रकृतकार्यविरुद्धकार्यस्य कारणा- त्कथनमिति स आर्थ एव। षष्यां तु कार्यात्कारणस्येति स एवेलयाहुः ॥ इति रसगज्गाध- रमर्मप्रकाशे विभावनाप्रकरणम् ॥। १ 'वयः आसवभिन्नं मदस्य करणन्' इति शब्देनोक्तत्वात्कारण(वयः)द्वारैद मदस्य जननमिति क विरोध प्रतीतिरित्याशयः । २ अस्मिवेति भर्थे तात्पर्याव।

Page 645

विभावना ] रसगङ्गाघर: । ५८५

अथ 'लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति' इत्यत्र विभाव- नापत्ति: ?, नन्वस्तु, किं नश्छिन्नमिति चेत्। आलंकारिकैरत्र तस्या अन- ड्गीकारात्। ननु कारणतावच्छेदकरूपावच्छिन्नप्रतियोगिताकत्वेन कारणा- भावो विशेषणीयः । प्रकृते च कारणत्वावच्छिन्नप्रतियोगिताकः प्रसिद्ध- कारणत्वावच्छिन्नप्रतियोगिताको वाडभावो न तादशरूपावच्छिन्नप्रतियो- गिताक इति चेत्, 'खला विनैवापराधं भवन्ति खलु वैरिणः' इत्यत्र तथाप्य- तिव्यापनात्। अपराधाभावस्य तथात्वात्। न च कार्यांशोडतिशयोक्त्याली- ढत्वेनाभेदनिश्चयालीढत्वेन वा विशेषणीय इति वाच्यम्। 'खला विनैवाप- राधं दुहन्ति खल सज्जनान्' इत्यादौ तथापि दोषानुद्धारादिति चेत्। मैवम्।

१ अयं भाव :- 'मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम्। लुब्धकवीवरपिशुना निष्कारणवैरिणो जगति ॥' इति पद्ये 'निष्कारणम्' कारणरूप-कारणाभावेऽपि (कारणपूर्वकस्यैव वैरस्य प्रसिद्धत्वात्) वैररूपकार्यजननाद्विभावना स्यादित्यापच्िः । 'अस्त्वत्र विभावना। काड स्माकं हानिः' इति तु न वाच्यम्। आलंकारिकैरत्र तस्या अननुमतत्वादिति पूर्वपक्षः ।

२ ननु पतावत्पर्यन्तस्येदं विशदीकरणम्-'निष्कारणम्' इति कारणाभावे प्रतियोगि कारणम्। ततश्च प्रतिथोगिता कारणत्वावच्छिन्ना जाता इति कृत्वा सोयमभावः कारणतावच्छिन्नप्रतियोगिताकस्तु वत्तुं शक्यः। कि तु अत्र कारणपदमुच्चायैव कारणाभावः प्रोक्त इति अस्मिन्कारणाभावे कारण- तावच्छेदकं रूपं कारणत्वमेवोच्येत। तथा च कारणतावच्छेदकरूपेण (कारणत्वेन) अवच्छिन्ना प्रतियोगिता यस्य अभावस्य इत्युक्ता कारणत्वस्य अवच्छेदकं कारणत्वमेव जातमिति स्वस्य स्वावच्छिन्नत्वाSस्वीकारादत्र कारणतावच्छेदकं रूपमेव किञ्चित न संभदतीति अत्र स्थले विभावनावारणेऽपि 'विनैवापराधं वैरिणः' इत्युदाहरणनिर्माणे, वैरे कारणमपराधः प्रसिद्धः । ततश्चाऽस्मिन्कारणाभावे कारणतावच्छेदकं रूपम् अपराधत्वम्, तेनावच्छिन्ना प्रतियोगिता यस्य ईदृशस्याभावस्य सत्तायामपि वैररूपकार्यजननाद्विभावना स्यात्। तद्वारणाय कार्यपदेन अतिशयोत्तयालीढम्. (अर्थात् अन्याडभिन्नत्वेन अध्यवसितम्) गृह्यते। अन्र च वैररुपं कार्य साक्षादेवास्ति, न तु अन्याभिन्नत्वेनाध्यवसितम्। एवं तहिं 'विनैवापराधं दहन्ति' अत्र पीडा दाहाभिन्नत्वेनाध्यवसितेति 'कारणतावच्छेदकरूपावच्छिन्नप्रतियोगिताकाभावेऽपि कार्यस्य (अति- शयोत्तयालीढस्य) उत्पत्तिरत्र जातेति विभावनातिप्रसङ्गः स्यादिति पूर्वपक्षः ।

Page 646

५८६ काव्यमाला। [ द्वितीयानने-

कार्याशे यद्विषयितावच्छेदकं तदवच्छिन्नकार्यतानिरूपितायाः कारणताया अवच्छेदकमिह ग्राह्यम्। दाहत्वं चेह विषयितावच्छेदकम्। तदवच्छि- न्नाभिन्नत्वेन पीडाया अध्यवसानात्। नहि दाहत्वावच्छिन्नकार्यतानि रूपितकारणताया अवच्छेदकमपराधत्वम्। अपि तु दाहत्वावच्छिन्ना- भिन्नत्वेनाध्यवसिता या पीडा तन्निष्ठकार्यतानिरूपितकारणताया इति तदवच्छिन्नप्रतियोगिताकाभावसामानाधिकरण्येन कार्योत्पत्तिवर्णनेSपि नात्र विभावनाप्रसङ्गः । यदि तु 'खला विनैव दहनं दहन्ति जगती- तलम्' इति क्रियते तदा भवत्येव विभावना। एवम्- 'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्। सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्।' इति परकीयपद्येऽतिशयोक्त्युदाहरणेडप्यस्त्येव विभावना। परंतु 'कमलमनम्भसि' इत्यंशे शाब्दी। 'कमले' च' इत्यादौ त्वार्थीति संक्षेपः । इति रसगङ्गाधरे विभावनाप्रकरणम्।

अथ विशेषोक्ति :- प्रसिद्धकारणकलापसामानाधिकरण्येन वर्ण्यमाना कार्यानुत्पत्ति- र्विशेषोक्ति: ॥

१ अयं भाव :- अत्र हि पीडारूपे विषये दाहः (विषयी) आरोप्यते। अत एवात्र विषयी दाहः, विषयितावच्छेदकं दाहत्वम्। तादृशदाहत्वावच्छिन्ना या कार्यता तन्निरूपितायाः कारणताया अवच्छेदकं अपराधत्वं नास्ति, अपितु दाहाभिन्नत्वेन अध्यवसिता या पीडा (वास्तवे तु दाहो भवत्येव न, अपितु मर्मान्तिकपीडैव दाहत्वेनाध्यवसीयते) तादृशकार्यस्य कारणं योऽपराध: तन्निष्ठकारणताया अवच्छेदकम्। एवं च अपराधत्वस्य साक्षाद्दाहरूपकार्ये वानिरूपित कारणतावच्छेदकत्वाभावान्न विभावनातिप्रसङ्ग इति समाधानम्। २ कमले अर्थात बिना जलमेव कुवलये स्तः, इति अर्थाक्षेप्यत्वादार्थी। दीक्षितादीनां मते तु-कमलरूपात अकारणात्कार्योत्पत्तिरूपा चतुर्थी विभावना।

Page 647

विशेषोक्ति: ] रसगङ्गाधर: । ५८७

तत्र सत्यपि कारणसमवधाने कार्यस्यानुत्पत्तौ विरोधः प्रतिभासमान: असिद्धेतरकारणवैकल्यधिया निवर्तते। यथा- उपनिषद्ः परिपीता गीतापि च हन्त मतिपथं नीता। तद्पि न हा विधुवदना मानससदनादवहिर्याति।।' यथा वा- 'प्रतिपलमखिलांल्लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि। हा हतकं चित्तमिदं विरमति नाद्यापि विषयेभ्यः॥।' अत्रोपनिषदर्थविमर्शे सकललोकानित्यत्वज्ञाने प्रसिद्धविरतिहेतौ सत्यपि विरत्यनुत्पत्तिवर्णनाद्रागाधिक्यरूपं प्रतिबन्धकं प्रतीयते। इयमनुक्त- निमित्ता। विरत्यनुत्पत्तिनिमित्तस्य प्रतिबन्धकस्यानुपात्तत्वात्। अत्रैव 'रागान्धं चित्तमिद्म्' इति निर्माणे उक्तनिमित्ता। केचिदचिन्त्यनिमिर्त्ता तृतीयामामनन्ति। उदाहरन्ति च- 'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः। हरतापि तनुं यस्य शंभुना न बलं हतेम्।।' अनुक्तनिमित्तायां निमित्तं निमित्ततावच्छेदकरूपेण चिन्त्यमानं प्रती- यते। इह तु न तथा। किं तु भविष्यति किंचिन्निमित्तमित्याकारेणेत्यनु- क्तनिमित्तातोSचिन्तनिमित्ताया भेद इति ह्येषामाशयः। अन्ये तु- १ कारणसांनिध्येपि कार्यस्यानुत्यत्तिरिति आपाततो विरोधः प्रतिभासते, परंतु प्रसिद्धस्य कारणस्य समवधानं कामं स्यात्, परम् अप्रसिद्धं कारणम् (यद्ारा कार्यस्योत्पत्तिः संभवति) नास्ती- त्युचितैव कार्यानुत्पत्तिरिति विरोधो निवर्तते । यथा-'उपनिषदः०' अत्र उपनिषदर्थविम- शजन्यमनित्यत्वज्ञानरूपं प्रसिद्धम् उपरामकारणमस्ति, तथापि विरतिरूपस्य कार्यस्यानुत्पत्तिरिति विरोधमूलिका विशेषोकिः [प्रसिद्धकारणसत्तायामपि अप्रसिद्धं रागाधिक्य रूपप्रतिबन्धकाभावरुपं नास्ति, अपि तु रागाधिक्यं प्रतिबन्धकमस्तीति उच्चितैव कार्यानुत्पत्तिरिति विरोधसमाधानम् ]। २ तनुहरणरूपकारणे सत्यपि बलहरणरूपं कार्य न जातम्। अत्र हि किमिति बलहरणं न जातमित्यस्य निमित्तं बुद्धिगम्यमित्यर्थः । ३ 'उपनिषदः०' अत्र अनुक्तमपि रागाधिक्यरूपं निमितं निमित्ततावच्छेदकरूपेण चिन्त्य- मानं वर्तते (मार्मिकाणां मनसि स्वयं प्रतिभातं भवति)। अचिन्त्यनिमित्तायाम् ('स एकस्त्रीणि० अत्र) तु निमित्ततावच्छेदकरूपेण निमितं चिन्त्यमानं न भवति। 'अपि तु भविष्यति किश्चित्नि- मित्तम्' इत्याकारेण। इति द्योभेंद इति तात्पर्यम्।

Page 648

५८८ काव्यमाला। [द्वितीयानने-

'नानुक्तनिमित्तायां चिन्त्यत्वं निमित्तविशेषणम्, भेदान्तरकल्पनागौरव- प्रसङ्गात्। किं तु चिन्त्मचिन्तं चेति द्विप्रकारकमपि निमित्तं यत्र नोकं सानुक्तनिमित्ता। तेनाचिन्तनिमित्ता अनुक्तनिमित्तातो न पृथग्भावमहति' इत्याहुः । अत्र च कारणसमवधानं कार्यानुत्पत्तेवा्यमिति बहवः। वस्तुतस्तु कार्यानुत्पत्तिरेवास्मिन्नलंकारे बाध्या। 'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने। नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे।।' 'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि ततुं यस्य शंभुना न बलं हतम् ।।' इति प्राचीनप्रसिद्धोदाहरणेषु कारणसमवधानस्य कामशरीरनाशरूपस्य प्रमाणसिद्धत्वेन बाध्यत्वायोगात्। यतः कामस्य शरीरनाशेऽपि शक्ति- बलयोर्नाशः कुतो न जात इत्येव सर्वजनीनः प्रत्ययः, न तु शक्तिबलयोः सतो: कथं शरीरनाश इति। 'दृश्यतेऽनुदिते यस्मिन्नुदिते नैव दृश्यते। जगदेतन्नमस्तस्मै कस्मैचिद्ोधभानवे।।' इत्यत्रोद्याभावे जगद्र्शनस्य, उदयसत्त्वे दर्शनाभावस्य वर्णनेऽपि न विभावनाविशेषोक्ती । नह्यत्र साहजिकसूर्योदयो वर्ण्यंते। येन तयो: प्रसङ्ग: स्यात्। तथात्वे तूक्तिसंभव एव न स्यात्। कि तु ब्रह्मात्मैक्य- बोधसूर्योदयः । तस्य च जगद्दर्शनमेव कार्यम्। न तु जगद्दर्शनम्।

१ कारणसांनिध्यं कार्यानुत्पत्तिरिति परस्परं विरोधिनौ। अनयोर्मध्ये कारणसमवधानं दुर्बलत्वात् कार्यानुत्पत्या बाध्यत इति बहूनां मतम्। कार्यानुत्पत्तिरेव बाध्या, कारणसमव- धानं तु प्रबलमिति ग्रन्थकृन्मतम्। २ यदि वास्तवसूर्यस्योदयो वर्ण्यः स्यात्तह 'अनुदिते सूर्ये जगद दृश्यते, उदिते तु न दृश्यते' इत्युक्तिरेव न संभवतीत्यर्थः। ३ ब्रह्मण: आत्मनश्च ऐक्यबोध एव सूर्यस्तदुदयः ।

Page 649

विशेषोक्ति: ] रसगङ्गाघर:। ५८९

तथात्वे तु सूर्योद्यस्येवास्याप्युक्तिसंभवो न स्यात्। अत एव व्यतिरे- कोहासस्तादूप्य रूपेकालीढे संगच्छते। कारणाभाव-कार्याभावयोर्यत्र प्रतियोगितावच्छेदकविशिष्टवैशिष्चेन श्रुत्या प्रतिपादनं तत्र विभावनाविशेषोक्तोः शाव्दत्वम्। यथा- 'भगवद्वदनाम्भोजं पश्यन्त्या अप्यहर्निशम्। तृष्णाधिकमुदेति स्म गोपसीमन्तिनीदशः ।।' लोके ह्वसंनिकर्षस्तृष्णाकारणम्। तदभावे संनिकर्षेऽपि तृष्णोपनि- बद्धा। तथा संनिकर्षस्तृप्तिकारणम्। तस्मिन्सत्यपि तृप्त्यभावो बोधितः । परंतु कारणाभाव-कार्याभावयोन प्रागुक्तप्रकारेण प्रतिपादनमित्यार्थत्वमेव तदुभयसंशयसंकरस्य। अमुमेव चार्थ मनसिकृत्य मम्मटभट्टैः 'यः कौमा- रहरः' इति पद्यमुदाहृत्योक्तम्-'अत्र स्फुटो न कश्चिद्लंकारः' इति। वामनस्तु-'एकगुणहानिकल्पनायां साम्यदाढ्य विशेषोक्तिः' इत्याह। उदाजहार च-'दतं हि नाम पुरुषस्यासिंहासनं राज्यम्' इत। अन्न हि द्यते राज्यं तादात्म्येनारोप्यते। त्र सिंहासनरहितं हि द्यूतं सिंहास- नसहितराज्यतादात्म्यं कथं वहेदित्यारोपोन्मूलकैयुक्तिनिरासायारोप्यमाणे

प्राग्वदाह-अथेति। ताद्रूप्यरूपकालीढ इति। वैधर्म्यस्य शब्दोपात्तला- दभेदस्य प्रतीत्यसंभवादचमत्कारिताच्च तद्ृृत्तिधर्मवत्त्वस्यैव प्रतीतेरस्य ताद्रप्यरूपकल्व- व्यवहार इति दिक्। न प्रागुक्तप्रकारेणेति। प्रतियोगितावच्छेदकवैशिष्ट्येन श्रुत्या प्रतिपादनाभावादित्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे विशेषोक्तिप्रकरणम् ॥

१ ब्रह्मणा सह आत्मक्ये उदिते 'जगद् दृश्यते' इत्युक्तिरेव न संभवतीत्यर्थः । २ बोध एव भानुरिति ताद्रूप्यरूपकान्विते पद्येऽस्मिन् प्रसिद्धभानो: (उपमानस्य) अपेक्षया उपमेये सोयं विशेष इति व्यतिरेकस्योल्लास इत्यर्थः । ३ प्रतियोगितावच्छेदकविशिष्टस्य (प्रतियोगिन:) वैशिष्टयेन (अर्थाद् वैशिष्ट्यपूर्वकम्) यत्र शब्दतः कारणाभावः कार्याभावश्च प्रतिपाद्ते तत्र तयोः शाब्दत्वमित्यर्थः । ४ 'पश्यन्त्या अपि अतृप्तिः' इत्यादिप्रकारेण यद्युक्त स्यात्तर्हि तु तृप्यभावः प्रतियोगिता- वच्छेदकविशिष्टस्य (तृप्तेः) वैशिष्ट्यपूर्वकमेव 'अतृप्तिः' इति शब्दद्वारा उपात्त इति शाब्दी विभावनाSत्राभविष्यत्। एवं विशेषोक्तिरपि। ५ 'असिंहासनम्' इति यावन्नोच्यते तावद धूते सिंहासनस्यारोप उन्भूलितो भवति। ५० रस०

Page 650

५९० काव्यमाला। [ दवतायानने- राज्येडपि सिंहासनराहित्यं कल्प्यते। तेन ढारोपं रूपकमेवेदम्, न विशेषोक्तिः। एवं च- 'अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शंभुर्भगवान्बादरायणः ।।' इति पौराणपद्ेऽपि रूपकमेव। तथा गुणाधिक्यकल्पनायामपि तदेवं। यथा-'धर्मो वपुष्मान्भुवि कार्तवीर्यः' इत्यादौ । एतेन 'एकगुणहान्यु- पचयादिकल्पनायां साम्यदार्ढ्य विशेषणम्' इति विशेषालंकारं लक्षय- न्तोऽपि प्रत्युक्ताः। इति रसगङ्गाधरे विशेषोक्तिप्रकरणम्। अथासंगति :- विरुद्धत्वेनापाततो भासमानं हेतुकार्ययोर्वैयधिकरण्यमसंगतिः॥ 'स्पृशति त्वयि यदि चापं स्वापं प्रापन्न केऽपि नरपालाः । शोणे तु नयनकोणे को नेपालेन्द्र तव सुखं स्वपितु ।' अन्न चापस्पर्श-नयनशोणिम्नोरहैत्वोः खापनाशरूपकार्यवैयधिकरण्ये- Sतिप्रसङ्गवारणाय विरुद्धेत्यादि। इह च विभिन्नदेशस्थयोरेव तयोः कार्यप्रयोजकतया विरोधानवकाशात्। ननु शोणिमाभिव्यक्तस्य रोषस्य कालिकसंबन्वेन हेतुत्वादस्तु नाम कार्यभिन्नदेशत्वम्। चापस्पर्शस्य तु ीलया कृतस्य स्वरूपतो हेतुत्वाभावात्तज्ज्ञानं खापनाशे हेतुत्वेनाभ्युपग-

प्राग्वदाह-अथेति। वैयधिकरण्यं भिन्नदेशलम्। प्रयोजकेति। यत इत्यादिः। १ मालारूपोत्प्रेक्षाप्रसङ्ग पूर्व प्रोक्तम्। २ अत्र हि चापस्पर्शः (कारणम्) नेपालेन्द्रे, सापनाशरूपं कार्य वैरिष्विति भिन्नदेशत्वेपि तदिदं भिन्नदेशत्वं न विरुद्धन्, अपि तु मिन्नदेशतयैवानयोः प्रसिद्धिरिति वैयधिकरण्यस्य विरुद्धत्वेन भासमानत्वाभावान्नात्र 'असंगतेः' अतिप्रसङ्गसंभवः । ३ नेपालेन्द्रेण चापस्पशों लीलयापि क्रि्यते, ताद्ृटशात्तु न भयं राज्ञाम् । अत एव स्वरू- पतश्चापस्पशों न स्वापभङ्गं प्रति हेतुः, अपि तु चापस्पर्शद्वारा 'नेपालेन्द्रस्य रोषो जातः' इति ज्ञानं हेतुः । ज्ञानं च राज्ञामेवेति कारण-कार्ययोरेकाधिकरणत्वमेवेति शङ्का। हेतुपदेन प्रयोजकमप्युच्यते। अत्र च 'नेपालेन्द्रस्य रोषो जातः' इति भ्रमात्मकरोषानुमानं प्रति चाप- स्पर्श: प्रयोजकः । स च नेपालेन्द्रे, स्वापभङ्गश्व राजसु, इति वैयधिकरण्यमेवेति समाधानन्।

Page 651

असंगति: ] रसगङ्गाघरः । ५९१

न्तव्यम्। एवं च तस्य कथं वैयधिकरण्यमिति चेत्, न । प्रयोजक स्यापि हेतुपदेनात्र ग्रहणाददोषः । प्रयोजकत्वं च चापस्पर्शस्य भ्रमात्म- करोषानुमितिलिङ्गत्वात्। उदाहरणम्- 'अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति। प्रहरति हि कुसुमबाणो जगतीतलवर्तिनो यूनः ।।' यथा वा-

सुच्यन्ते बन्धनात्केशा विचित्रा वैधसी गतिः ॥' अत्राद्योदाहरणे शुद्धा, द्वितीये तु श्ेषोपवृंहितेति विशेषः । प्रहरती- त्यन्नाभेदाध्यवसायलक्षणेनातिशयेनापराध निमित्त कताडनरूपतया वस्थिते कामपीडने विषय्यंशमालम्ब्य तं प्रति समानाधिकरणतया प्रसिद्धस्य हेतोरपराधरूपस्य वैयधिकरण्यज्ञानात्पुरः स्फुरन्विरोधो विषयांशविम- रशोत्तरं तं प्रति कुसुमश्रीहरणाभिव्यक्तशोभाविशेषस्य भावनोपनीतस्य तद्भावनाया वा हेतुत्वस्य प्रतिसंधानान्निवर्तत इत्यभेदाध्यवसानमनुप्राण- कम्, विरोधाभासञ्चोत्कर्षकः । एवमन्यत्रापि बोध्यम्। अस्यां च 'विभावनायामिव कार्याशेऽविशयोक्त्यनुप्राणनमावश्यकम्। अन्यथा विरोधो दुष्परिहर एव स्यात्', इत्यलंकारसर्वस्वकारादीनां मतम्।

अ्रमात्मकरोषानुमितीति । लीलया करणाद्द्रमात्मकलवम्। श्रेषोपबृंहितेति।

१ अयं भाव :- अत्र यूनां वास्तवं ताडनं नाभिप्रेतम्, अपि तु कामपीडारूपोडर्थः । ततश्च कामपीडारूपे विषये अपराधनिमित्तकताडन रूपविषयिणोडध्यवसानमत्र भवति। एवं च अमे- दाध्यवसानमस्मिन्नलंकारे उत्थापकम्। यस्यापराधस्तस्य दण्डः, इति कारणकार्ययोः समाना विकरणत्वं प्रसिद्धम्। किन्त्वत्र कुसुमश्रीहरणमपराधः अङ्गानाम्, ताडनं च यूनामिति वैय- धिकरण्यरूप: अग्रे स्फुरन् विरोधः अस्मिन्नलंकारे चमत्कारोत्कर्षकः। आपाततो विरोधप्रती तावपि पर्यन्ते तु वास्तविकः श्रीहरणरूपः अपराध एवात्र नास्ति। अपि तु कुसुमशोभातिर स्कारक: युवकभावनोपनीतः शोभाविशेष एवाभिप्रेतः। एवं च 'नायिकाङ्गानां शोभाविशेष भावयन्तो युवकाः कामपीडिता भवन्ति' इत्यर्थानुसंधाने सति स विरोधो निवर्तते।

Page 652

५९२ काव्यमाला। [द्वितीयानने-

तच्च 'टष्टिर्मृगीशः' इत्यस्मन्निर्मितोदाहरणे व्यभिचारादसंगतम्। नहि 'मुच्यन्ते बन्धनात्केशाः' इत्यत्र केशबन्धनमुक्तंशेऽतिशयोक्तिरस्ति। किं तु श्रेषभित्तिकाभेदाध्यवसानमात्रम्। तस्माद्येन केनापि प्रकारेण कार्यांशेSभेदाध्यवसानमावश्यकमिति तु संगतम् । यद्यपि 'दष्टिमृगीदशः' इत्यादौ कारणांशेऽपि श्रलेषादिनाSभेदाध्यवसायः संभवति, तथापि नासौ तदंशे नियतः । 'खिद्यति सा पथि यान्ती कोमलचरणा नितम्बभारेण। स्विद्यन्ति हन्त परितस्तद्रूपविलोकिनस्तरुणाः ॥' इत्यादौ भारजनितखेदांशे तदभावात्। न च तन्नापि जलपूर्णघटादि- भारजनितखेदेन सह नितम्बभारजनितखेदस्याभेदाध्यवसायोऽस्त्येवेति वाच्यम्। नितम्बभारजनितखेदस्य स्वस्वरूपेणापि खेदजनकत्वेन भारान्त- रजनितखेदाध्यवसायानपेक्षणात्। 'सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातरा:' इति प्राचीनानां पद्ये बालात्वसत्ीत्वादयंशे तल्लेशस्याप्यसंभवाच्च। यत्तु 'विरोधालंकारे ह्वेकस्मिन्नधिकरणे द्वयोः संबन्धाद्विरोधप्रति- भोनम्, असंगतौ त्वधिकरणद्वय इति तस्मादस्य वैलक्षण्यम्' इति विमार्शिनीकार आह, तदसत्। इहापि तत्तत्कार्यतावच्छेदकधर्मतत्तत्का-

धप्रतिभानोत्पत्तेः । तस्माद्विरोधालंकारे उत्पत्तिविमर्श विनैव विरोधप्रति-

१ श्रुत्यन्त( कर्णान्त-वेदान्त)परिशीलिनी, अत्र कारणांशे (यतो हि श्रुत्यन्तपरिशीलनं. कारणम्, बन्धमुक्ति: कार्यम्) अपि अभेदाध्यवसायोस्ति, किन्तु सोयमत्रैव यदृच्छया संभूत: । अस्मिन्नलंकारे कारणांशे नियमेनास्यावस्थितिस्तु नास्तीत्याशयः । २ यथा-'कुसुमानि शराः' अत्र एकत्राधिकरणे कुसुमत्वं शरत्वं च। ३ 'अझै: सुकुमारतरः' अत्र यस्यापराधस्तस्य दण्ड इत्यकस्मिन्नेव अधिकरणे संबन्धे उचि- तेडपि अन्यस्यापराधः, अन्यस्य दण्ड इति पृथगधिकरणयोईयोः संबन्धेन विरोधप्रतिभानम्। ४ एकस्मिन् कार्ये कार्यतावच्छेदकं कारणसामानाधिकरण्यं च भवति [अर्थात् कार्यरूपे अधिकरणे कार्यतावच्छेदकं कारणं च एकत्र भवति]। असंगतौ तु कार्यतावच्छेदकधर्मः कारण- वैयषिकरण्यम् [अर्थात् कार्य तु भवति परं कारणं द्वितीयस्मिन्नधिकरणे भवेत] इति विरोध- प्रतिसंधानम्।

Page 653

असंगति: ] रसगङ्गाघर:। ५९३

भानम्। इह तूत्पत्तिविमर्शपूर्विकैव विरोधप्रतिभोत्पत्तिः इति वैलक्षण्य- मिति। वस्तुतस्तु-व्यधिकरणत्वेन प्रसिद्धयोः समानाधिकरणत्वेनोप- निबन्धने विरोधालंकारः । समानाधिकरणत्वेन प्रसिद्धयोर्द्वयोवैयधिकर- ण्येनोपनिबन्धनेSसंगतिः । प्रागुक्त्तासंगतिलक्षणे हेतुकार्ययोरिति च समानाधिकरणमात्रोपलक्षणम्। तेन 'नेत्रं निरञ्जनं तस्याः शून्यास्तु वयमद्भुतम्' इत्यत्र निरञ्जनत्वशून्यत्वयोरुत्पादकभावलक्षणसंबन्धानन्त- र्भावेण शुद्धसमानाधिकरणत्वेन प्रसिद्धयोरष्यसंगतिः संगच्छते। यथा- ध्रुते तु सा न सात्। इत्थं च स्फुट एव विरोधालंकारादसंगतेर्भेदः। यस्तु पुनर्विरोधालंकारादतिरिक्त्तः शुद्धविरोधांशो विरोधमूलेषु सर्वेष्वप्यलंकारेष्वनुस्यूतः, औपम्यांश इवोपमामूलेषु, सोऽलंकाराणां कतिपयानां निर्वर्तकः, नतु स्वयं पृथगलंकारास्पदम्, अलंकाराणां भणितिविशेषमात्ररूपत्वात्। एवं च विमर्शिनीकारोक्तमपि पद्यमनयैव दिशा नीयते तदा न दोष: । यत्तु- "-अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा। अन्यत्कर्तु अवृत्तस्य तद्विरुद्धकृतिस्तथा ॥ अपारिजातां वसुधां चिकीर्षन्द्यां तथाSकृथाः। गोत्रोद्धारप्रवृत्तोऽपि गोन्रोद्वेदं पुराऽकरो:।।' अत्र श्रीकृष्णं प्रति शक्रस्योपालम्भवाक्ये भुवि चिकीर्षिततया तत्र १ अर्थात् ययो: उत्पाद्योत्पादकभावसंबन्धो भवति तयोः कार्य-हेत्वोरेव वैयधिकरण्ये असंगतिर्भवतीति न, अपि तु ययो: समानाधिकरणत्वं प्रसिद्धं तयोर्ययोः कयोश्चिदपि वैयधि- करण्ये सति असंगतिर्भवति। तेन निरजनत्व-शृत्यत्वयोरपि वैयधिकरण्ये असंगतिः सिध्यति। २ यदि हेतु-कार्ययोरित्यस्य उपलक्षणता न स्वीक्रियेत तहि उत्पाद्योत्पादकसंबन्धाSनन्त- भृतयोरसंगतौ समावेशो नें स्यादित्यर्थः । ३ व्यधिकरणत्वेन प्रसिद्धयोः सामानाधिकरण्येनोपनिबन्धने विरोधः, समानाधिकरण- त्वेन प्रसिद्धयोवैयधिकरण्येनोपनिबन्धे असंगतिरिति। ४ शुद्धो विरोधांशः [परस्परं विसंवादरूपः ] विरोधालंकारादतिरिक्तः ।स हि विरो- थमूलानां सर्वेषानेवालंकाराणाम् [विरोधविभावनाऽसंगतिविषमादीनाम्] एकवर्गीकरण- कारणम्, यथा सादृश्यांशः उपमामूलालंकाराणान् [ उपमाऽनन्वयाSसमोदाहरणस्रण- निदर्शनादीनाम् ]।

Page 654

५९४ काव्यमाला। [द्वितीयानने-

पीयमपारिजातत्वं दिवि कृतमित्येकाऽसंगतिः । पुरा गोत्राया उद्धारे अवृत्तेन वराहरूपिणा तद्विरुद्धं गोत्राणां दलनं खुरकुट्टनैः कृतमिति द्वितीया। यथा वा-

भूषा भवन्त्यभिनवा सुवनैकवीर। नेत्रेषु कंकणमथोरुषु पत्रवल्ली चोलेन्द्रसिंह तिलकं करपल्लवेषु ।।' 'मोहं जगत्रयभुवामपनेतुमेत- दादाय रूपमखिलेश्वर देहभाजाम्। निःसीमकान्तिरसनीरधिनामुनैव मोहं प्रवर्धयसि सुग्धविलासिनीनाम् ॥' अत्राद्योदाहरणे कंकणादीनामन्यत्र करणीयत्वं प्रसिद्धमिति नोपन्य- स्तम् । भवतिना भावनारूपान्यत्र कृतिराक्षिप्यते इति लक्षणानुगतिः" इति कुवलयानन्दकृताऽसंगतेरन्य्वेदद्वयं लक्षयित्वोदाहतम्, तन्न। तन्न तावत् 'अपारिजातां वसुधां चिकीर्षन्द्यां तथाकृथाः' इत्यन्न पारिजातरा- हित्यचिकीर्षया कारणभूतया सह पारिजातराहित्यस्य कार्यस्य विरुद्धवैय- धिकरण्योपनिबन्धात्, 'विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः' इति आथमिकाSसंगतितो वैलक्षण्यानुपपेत्तेः। आलम्बनाख्यविषयतासंबन्धेन

बन्धनशब्दे श्रेषः । गोत्रायाः पृथिव्याः। गोत्राणां पर्वतानाम्। १ व्याध्यादिजनितदौर्वल्यवशात् नेत्राणि परितः कंकणसदृशः श्यामरेखापरिवेषो भवतीत्य- थः। दौर्वल्ये नेत्रयोः परितः प्रसिद्धमायुवेदे मण्डलनम्। ऊरुषु च पत्रयुक्ता वली, भयादरण्ये धावन्तीनां तासां पत्राणि वहयश्च ऊरुषु विलयाः सत्यः पत्ररचनारूपभूषणायिता भवन्ती- त्यर्थ:। करपल्लवेषु तिलकम्, श्रमस्वेदप्रो्छने मुखगतं तिलकं हस्तेषु भूषणायितं भवतीत्या- शयः । 'नेत्रेषु कंकणं जलकणमेव कंकणं भवति,' 'करपल्लवेषु तिलकं तिलयुक्तं कं जलमेव ललाटभूषणमिति' अलंकारचन्द्रिकार्थस्तु सहृदयस्तुलनीयः। २ कार्यमात्रं प्रति विषयतासंबन्धेन (आलंबनापरनास्ना) चिकीर्षा कारणम् (यत्किञ्चि- द्विषयिणी कर्तुमिच्छा यदि भवेत्तदैव तत्कार्यमुत्पघेत)। एते द्वे (चिकीर्षा कार्य च) समाना- धिकरणे भवतः। 'अपारिजाताम्' अत्र तु पारिजातराहित्यस्य चिकीर्षा वसुधालम्बना, पारि- जातराहित्यं कार्य तु दिवि, इति चिकीर्मारूप-हेतोः कार्यस्य च मिन्नदेशत्वात् प्रथमलक्षितया असंगत्यैव गतार्थतेत्याशयः।

Page 655

असंगति: ] रसगङ्गाघर:। :५९५

चिकीर्षायाः सामानाधिकरण्येन कार्यमात्रं प्रति हेतुत्वस्य प्रसिद्वेः । न च पारिजातराहित्यस्याभावरूपस्य नित्यत्वात्कारणाप्रसिद्धिरिति वाच्यम्। आलंकारिकनये तस्यापि जन्यत्वस्येष्टेः। लक्षणे कार्यकारणपद्योरुपलेक्ष- णत्वस्योक्तत्वाच्च। 'गोत्रोद्धारप्रवृत्तोऽपि' इत्युदाहरणे तु 'विरुद्धात्कार्यसं- पत्तिर्दृष्टा काचिद्विभावना' इति पञ्चमविभावनालक्षणाSSक्रान्तत्वाद्विभा- वनयैव गतार्थत्वादसंगतिभेदान्तरकल्पनानुचिता। गोत्रोद्धारविषयकप्रवृत्ते- रगोत्रोद्गेदरूपकार्ये विरुद्धत्वात्। सिद्धान्तेऽपि विभावनाविशेषोक्तोः संकर एवात्रोचितः । 'नेत्रेषु कंकणं' इत्यादौ कंकणत्व-नेत्रालंकारत्वयोर्व्यघिकर- णत्वेन प्रसिद्धयोः सामानाधिकरण्यवर्णनाद्विरोधाभासत्वमुचितम्। एवं मोहनिवर्तकत्व-मोहजनकत्वयोरपीति। ननु तवापि विरोधाभासेनैवोपप- न्तेर्विभावनादिकल्पनानर्थक्यमिति चेत्, न। दत्तोत्तरतवात्।

जन्यत्वस्येष्टेरिति। जन्यत्वेऽपि चिकीर्षायाः कृत्याऽन्यथासिद्धतया कार्यजनकत्वे मानाभावः । अधिकरणान्तर्भावेण चिकीर्षाया अहेतुलात्। अन्यन्र चिकीर्षितस्यापि ्मादादिनान्यत्र करणे व्यभिचारात्। एवं च वैयधिकरण्यं विरुद्धमेव न। किं चात्र न तत्कार्यकारणवैयधिकरण्यकवतचमत्कारः, अपि लन्यत्र कर्तव्यस्यान्यत्र करणप्रयुक्त एवेत्यर्थस्य सर्वसंमतलेन ततो भेदौचित्यात। किं च पूर्वोदाहरण इवानयोः कार्यकारण- योर्विरोधस्य दुःसमाधानत्वेन नात्र सः। आपाततो विरुद्धत्वेन भासमानमेवेति तत्पूर्वासं- गतिरिति चिन्त्यम्। पञ्चमविभावनेति। विरुद्धत्वेन प्रसिद्धयोरेव सेति केचित्। किं चोपालम्भरूपेऽस्मिन्वचसि विरुद्धकृतिभानकृत एव चमत्कारः, तत्र तु विरोधनिवृत्तिक- तोऽपीति महान्विशेषः । विरोधाभासत्वमुचितमिति। समानविभक्तिकाभावात्सामा- नाधिकरण्यस्य शब्दादप्रतीतेर भेदस्याभानाच्च चिन्त्यमिदम्। ययोर्विरोध प्रतीतिस्तयोरर्थान्त- रमादायापि सामानाधिकरण्यप्रतीतेश्च । इति रसगङ्गाधरमर्मप्रकाशेSसंगतिप्रकरणम् ॥। १ अभावो नित्य इति तस्य कारणमप्रसिद्धमिति शङ्का। तस्यापि अनित्यत्वमिष्टमिति समाधानम्। २ कार्य-हेत्वोरिति समानाधिकरणमात्रोपलक्षणमिति पूर्वमुक्तत्वात अत्र उत्पाद्योत्पादक- मात्रसंबन्धी विचारो नोचित इत्यर्थः । ३ कार्यं प्रति तद्विषयकप्रवृत्तिः कारणम्। गोत्रोद्धारविषयिका प्रवृत्तिः (कारणम्) गोत्रो द्व्ेदकार्याद्विरुद्धा। ततश्च विरुद्धकारणात्कार्यसंपत्तिरिति पञ्चमी विभावनैवेयमित्यर्थः । ४ विरोधे तु समबल्योई्योविरोधः । विभावनायां तु कारणाभावेन बाध्या कार्योत्पत्तिरि- त्यादि वैलक्षण्यं पूर्वसुक्तम्।

Page 656

५९६ काव्यमाला। [ द्वितीयानन=

अथ विषमालंकार :- अननुरूपसंसर्गो विषमम्॥ अनुरूपमिति योग्यतायामव्ययीभावः । अनुरूपं यत्र न विद्यत इंति विगरृहीतेन बहुव्रीहिणा योग्यतारहितमुच्यते। योग्यता च युक्तमिदमिति लौकिकव्यवहारगोचरता। संसर्गश्च तावद्विविध :- उत्पत्तिलक्षणः संयोगादिलक्षणश्च। तत्रोत्पत्तिलक्षणस्य संसर्गस्यायोग्यत्वं कारणत्स्व गुण विलक्षणगुणकार्योत्पत्त्या। इष्टसाधनतया निश्चितात्कारणादनिष्टका- र्योत्पत्तिभिः संयोगादिलक्षणस्ापि। संसर्गिणोरन्यतरगुणस्वरूपतिरस्का- र्यान्यतरगुणस्वरूपतया अयोग्यत्वम्। एवं चाननुरूपसंसर्गत्वेन सामा- न्येनोक्ता वक्ष्यमाणाश्च सर्वे प्रभेदाः संगृद्यन्ते। क्रमेणोदाहरणानि- 'अमृतलहरीचन्द्रज्योत्सार मावद्नाम्बुजा- .

न्यधरितवतो निर्मर्यादप्रसादमहाम्बुधेः। उद्भवदयं देव त्वत्त: कथं परमोल्बण- प्रलयद्हनज्वालाजालाकुलो महसां गणः ।।' अन्र माधुयशैत्याह्लादकत्व प्रसादाद्यने कगुणयुक्तात्कारणात्तद्विरुद्धगुण- युक्तस्य प्रतापस्योत्पत्तिरित्यननुरूपः कार्यकारणभावः । अभेदाध्यवसान- लक्षणेनातिशयेन समवायिकारणरूपतया स्थिते निमित्तकारणे समवेत- कार्यरूपतया स्थिते निमित्तिकार्ये वा विषयांशमालम्व्य स्फुरितो विरोधो विषय्यंशविमर्शोत्तरं निवर्तत इतीहाप्यभेदाध्यवसानस्यानुप्राणकत्वम्,

प्राग्वदाह-अथेति। तन्रान्तरप्रसिद्धार्थनिरासायाह-योग्यता चेति। द्विती-

१ सर्वस्यायमाशयः-रूपमनु अनुरूपम्। 'अनुरूपम् (अर्थात् योग्यता, 'युक्तमेतत्' इति लोकव्यवहारविषयता) यत्र न विद्यते तौ अननुरूपौ'। अननुरूपयोई्योः संसर्ग: (कारणा मेक्षया विलक्षणगुणशालिनः कार्यस्योत्पत्तिः उत्पत्तिलक्षणः, इष्टसाधकात् अनिष्टकार्योत्पत्ति: सरयोगादिलक्षण :; इति द्विविध:) दयोः संसर्ग्िणोर्मध्ये एकतरस्य गुणानां स्वरूपस्य च इत- रस्य गुण-स्वरूपैः तिरोधानमेव संसर्गस्याडयोग्यत्वम्।

Page 657

विषम: ] रसगङ्गाघरः । ५९८

तदुत्थापितविरोधाभासस्य च परिपोषकत्वम्। अयमेव चांशोऽन्र कविप्रतिभानिर्मितत्वादलंकारताबीजम्। इष्टसाधनतेया ज्ञातात्कारणादनिष्टकार्योत्पत्तिभिरित्यत्रकशेषघटित एकशेषो बोध्यः। न इष्टमनिष्टं अनर्थः । तादृशकार्योत्पत्तिश्च। न इष्ट- कार्योत्पत्तिरनिष्टकार्योत्पत्तिः सा चेत्यनिष्टकार्योत्पत्ती। ते च अनिष्टका- र्योत्पत्तिश्च अनिष्टकार्योत्पत्तयः ताभिरिति। अनेनेष्टकार्यानुत्पत्त्यनिष्ठ- कार्योत्पत्ती मिलिते एको भेदः। प्रत्येकं च भेदद्वयम्। इति त्रयो भेदाः संगृहीता भवन्ति । इष्टंच-स्वस्य किंचित्सुखसाधनवस्तुप्राप्तिर्दुःख- साधनवस्तुनिवृत्तिश्च परस्य दुःखसाधनवस्तुप्रापणं सुखसाधननिवृत्ति- श्चेति चतुर्विधम्। तेनेष्टाप्राप्तिघटिते भेदद्वयेऽपि चातुर्विध्यम्। अनिष्ठं

यस्य तदाह-इष्टति। एवं सत्याह-संसर्गिणोरिति। तमेवाह-अनेत्यादि। अनिष्टकार्योत्पत्तिश्चेति। आदे नञा इष्टकार्योत्पत्तिशब्देन समासः, द्वितीये इष्टश-

१ प्रतापस्य समवायिकारणं हि परे, यत्समवेतम् अभिभवन( दमन)रूपं कार्यसुत्पद्यते। किन्त्वत्र निमित्तकारणे (राजनि) समवायिकारणेन अमेदः अध्यवसीयते। अत एव राजव समवायिकारणम् (राज एव प्रतापस्योत्पत्तिः) इत्यमेदाध्यवसानोत्तरम् विषयस्य (आरोप- विषयस्य निमित्तकारणस्य) अंशम् आलन्व्य विरोधस्य स्फूरतिर्भवति, अर्थात् 'राजा तु माधुर्य- प्रसादादिगुणयुक्तः तसमात, एवं तीव्रः प्रतापः कथमुत्पन्नः ?' इति विरोधो हृदि जागर्ति। अनन्तरं तु आरोपविषयिणः (समवायिकारणस्य, अभिभवनीयपरसमूहस्य) अंशे विचारिते स विरोधो निवर्तते-'समवायिकारणभूताः शत्रव एवंभूता एव। अत एव उच्चितैव एतादृ- शकार्योत्पत्तिः' इति। एक: पक्षः । निमित्तिकायें (निमित्तकारणसंबन्धिनि कार्ये) समवेतकार्यस्य अभेदाध्यवसाने जाते- विषयांशमालम्ब्य स्फुरितो विरोधो विषय्यंशविमशें निवर्तते (इति पूर्ववत्), इति द्वितीयः पक्षः । एवं च इहापि (अस्मिन्नलंकारेऽपि) अतिशयोक्तिरुत्थापिका, विरोधश्च चमत्कारपरिपो- षक् इति सर्वस्याशयः । २ उत्पत्तिलक्षणं प्रथमं संसर्ग विविच्य संयोगादिलक्षणं द्वितीयं संसर्ग विवृणोति 'इष्टसा- धनतया ज्ञातात' इत्यादिना। ३ अनर्थभूतकार्योत्पत्तिश्च इष्टकार्यानुत्पत्तिश्चेत्यर्थबोधिके ते (अनिष्टकार्योत्पत्ती) च अनि- ष्टकार्योत्पत्तिश्च इति अनिष्टकार्योत्पत्तयः इति पूर्व तिसृणामेकशेष उक्तः । तत्र 'ते च' इति द्विवचनेन मिलितयोरेको भेद इति सूच्चितम्।

Page 658

५९८ काव्यमाला। [द्वितीयानने-

च-स्वस्य दुःखसाधनवस्तुग्राप्तिः, परस् सुखसाधनवस्तुप्राप्तिः, दुःखसाधनवस्तुनाशश्च्ेति त्रिविधम्। स्वस्येष्टाप्राप्तिस्तु गणितेति नानिष्ठे गण्यते। तेनानिष्टप्राप्तिघटिते भेदद्वयेऽपि त्रैविध्यम्। दिव्ञात्रं तूपदर्श्यते-उदाहरणम्- 'दूरीकर्तुं प्रियं बाला पद्मेनाताडयट्रुषा। स बाणेन हतस्तेन तामाशु परिषखजे॥।' अन्न प्रियदूरीकरणरूपेष्टार्थ प्रयुक्तेन पद्मताडनरूपेण कारणेन प्रिय- दूरीकरणं तु दूरापास्तम्, प्रत्युत तत्कर्तृकपरिष्वङ्गरूपानिष्ठस्योत्पत्तिः । यथा वा- 'खञ्जनद्ृशा निकुञ्जं गतवत्या गां गवेषयितुम्। अपहारिताः समस्ता गावो हरिवद्नपङ्कजालोकात् ।' पूर्वोदाहरणे वास्तवमेवानिष्टम्, इह तु सकलेन्द्रियहरणं यद्यपि लोकेनिष्टप्रायमेव तथापि तत्पुरस्कारेणेह चमत्कृतिराहित्याद्ोहरणपुर- स्कारेणैव चमत्कारात् श्रेषमूलकाभेदाध्यवसाने सकलसुरभिहरणरूपानि- ष्टात्मना स्थितं तदिति विशेषः । गवेष्यमाणगवीरूपेष्टाप्राप्तरनुक्तत्वात्केव- लानिष्टप्राप्तेरिदमुदाहरणम्, पूर्व तूभयस्येति विशेषो ने वाच्यः । समस्त गवीहरणेन सामान्येन गवेष्यमाणाया अपि गोरपहारस्य प्रत्ययात्।

व्देनेति। सुखसाधनवस्तुनाशश्चेतीति । अत्रापि परस्येत्येव बोध्यम्। गाव १ 'इष्टकार्यानुत्पत्ति' गणनायाम् इष्ाऽप्राप्तिरन्तर्भूतैवेत्यर्थः । २ मदनवाणायितेन तेन (पझ्मेन) हतः सः (प्रियः)। ३ पूर्वोंदाहरणे-अभीष्टं प्रियदूरीकरणं तु दूरे, प्रियपरिष्वङ्गस्य अनिष्टस्याऽवाप्तिरिति वास्तवमेवानिष्टम्। अत्र तु क्रेषमूलाडमेदेनाऽनिषटं यतो हि 'एकस्या गोः आनयनार्थ गतायाः सकलगवी( धेनु)हरणं जातम्' इत्येव काव्यमागे चमत्कारकम्, न तु इन्द्रियहरणम् । किन्तु वास्तवे गोप्या न सकलधेनवो हारिताः, अपि तु इन्द्रियाण्येव । अत एव अत्र श्रेषमूलाभेदा- व्यवसानवशात् गोपदेन उभयार्थबोधो भवतीति आरोपितानिष्टप्राप्तिरित्याशयः । ४ दूरीकर्तुमिति पद्ये प्रियदूरीकरणस्य इष्टस्य अनवाप्तिः, अनिष्टस्य (परिष्वङ्गस्य) प्राप्ति- श्चेति उभयमुक्तम्। अत्र तु सकलगवीहरणरूपस्य अनिष्टस्यैवातिः, न तु गवेष्यमाणगवीरूपस्य इष्टस्य अनवाप्ति: प्रतीयते इति द्वयोरुदाहरणयोमिंथो भेद इति पूर्वपक्षः । अत्राप्युभयं प्रती- यते इति तंत्समाधानम्।

Page 659

विषम: 5] रसगङ्गाघर: । ५९९

एवामेष्टाप्रात््यनिष्टप्राप्युभयकृता संसर्गस्याननुरूपता सामान्येनोक्ता । पूर्वोक्तचतुर्भेदाया इष्टाप्राप्तेः पूर्वो क्तत्रिभेदेनानिष्टन संसष्टावियमे द्वदश- विधा। तत्र स्वस्य सुखसावनवस्त्वप्राप्ति-दुःखसाधनवस्तुप्राप्तिरूप उभयभेदस्तावदुदाहृतः । स्वस्य दुःखसाधनवत्त्वनिवृत्ति-दुःखान्तरसा- धनावाप्तिरूपद्वयं यथा- 'रूपारुचिं निरसितुं रसयन्त्या हरिमुखेन्टुलावण्यम् । सुदृशः शिव शिव सकले जाता सकलेवरे जगत्यरुचि: ॥' अत्र यद्यपि ब्रह्मदर्शनोत्तरं जातायामपि जगति वैराग्यलक्षणायामरुचौ भगवद्वदनलावण्यदर्शनाद्रूपारुचिर्विलक्षणा या काचित्सा निवृत्तैवेति वकतु शक्यते, तथापि जगदरुचित्वेन सकलारुचीनामभेदाध्यवसायाद्रपारुचिनि- वृत्तेरप्रत्यय एव। अन्यथा सुखह्ेतोवेराग्यलक्षणाया अरुचेर्दुःखान्तरसा- धनत्वं दुरुपपादं स्यादिति भवत्युभयोदाहरणम्। परस्य दुःखसाधनानवापि: स्वस्य दुःखान्तरसाधनप्राप्तिरित्युभयं यथा- 'पुरो गीर्वाणानां पुलकितकपोलं प्रथयतो भुजप्रौढिं साक्षाद्भगवति शरं संमुखयितुम् । स्मरस्य स्वर्बालानयनसुममालार्चितमहो वपुः सदो भालानलभसितजालास्पदमभूत्।।' परस्य सुखसाधनाऽनिवृत्ति: स्वस्य दुःखसाधनप्राप्तिरित्युभयं यथा- 'न मिश्रयति लोचने सहसितं न संभाषते कथासु तव किं च सा विरचयत्यरालां भ्रुवम्।

१ दुःखदवस्तुनः अनिवृत्तिः दुःखान्तरसाधनावाप्तिश्चेत्युभयस्योदाहरणमिति प्रतिज्ञा। किन्तु यदा वैराग्यरूपाSरुचिर्जाता तदा वैराग्यवशाद् रूपाडरुच्चिरनि निवृत्तैव। एवं च रूपा- Sरुचिरूपस्य दुःखदवस्तुनः अनिवृत्तिः कथमिति शङ्का। 'जगत्यरुचिर्जाता' इति कथने अरु- चित्वेन सकलानामरुचीनामुत्पत्तिरेव प्रतीयते, न तु रूपाऽरुचेर्निवृत्तिः । एवं च 'एका रूपा- Sरुचिस्तु निवृत्तैव न, स्वकलेवरसहिते सकले जगति अरुचि: (ततोप्यधिका) जाता' इति उभयो दाहरणता घटते एवेति तत्समाधानम्।

Page 660

६०० काव्यमाला। [द्वि :ने-

विपक्षसुद्ृशः कथामिति निवेद्यन्त्या पुरः प्रियस्य शिथिलीकृत: स्वविषयोऽनुरागग्रहः ।।' अन्न कयाचित्परौढनायिकया सपत्यां प्रियेणाज्ञातयौवनात्वेनेदे- तायां तदनुरागप्रतिबन्धार्थं प्रियस्य पुरस्तदीयदुर्गुणानावेदयन्तया ेगो- र्षितोऽर्थो न संपादितः, स्वस्मिन्ननुरागक्षतिश्च संपादितेति सुखसाधननिवृत्तेर्दुःखसाधनरूपत्वान्न पृथग्गणनोचिता, तथापि :-?- साधननिवृत्तौ सुखस्येव सुखसाधननिवृत्तौ प्रतिनियतकारणं जन्यतवे स्यानैयत्यात्प्ृथगुपादानम्। एवमष्टावन्येऽप्युभयभेदा ऊह्याः । के :- प्राप्तिर्यथा- 'प्रभातसमयप्रभां प्रणयिनि हुवाना रसा- दसुष्य नयनाम्बुजं सपदि पाणिनामीलयत्। अनेन खलु पद्मिनीपरिमलालिपाटच्चरैः समीरशिशुकैश्चिरादनुमितो दिनेशोदयः ॥' अन्न प्रियतमकर्तृकप्रभातविषयकज्ञानाभावः कामिन्याः सुखसाध येष्ठः। स च तया साध्यमानोऽपि न सिद्ध इतीष्ठाप्राप्तिरेव। यद्वा तौछ ज्ञानं तस्या दुःखसाधनम्, तन्निवृत्तिरूपं चेष्टं साध्यमानमपि न तैथेम सैव। एवं च द्विप्रकारापीष्टाप्राप्तिरेवात्र संभवति। प्रकारान्तरं चाल अप्यूह्यम्। केवलानिष्टप्राप्तिर्यथा- 'मुककुलितनयनं करिणो गण्डं कण्डूयतो विषद्रुतटे। उद्भूदकाण्डदहनज्वालाजालाकुलो देहः ।।'

१ प्रौढया सपल्नया अनुरागप्रतिबन्धार्थ दुर्गुणबुद्धया 'न मिश्रयति लोचने' इत्यादिकं नवो- ढाचेष्टितमुक्तम्। किन्तु नवोढायाः सुखसाधनस्य (प्रियप्रेम्णः) निवृत्तिस्तु न जातैव, प्रत्युत तामश्ञातयौवनां ज्ञात्वा तस्यां प्रेमप्रकर्षः प्रौढायां चानुरागशैथिल्यं जातमिति स्वस्य दुःखसा- धनप्राप्तिरधिकप्रतिकूला जातेत्याशयः । २ दुःखसाधननिवृत्तौ यथा सुखं नियतम्, तथा सुखसाधननिवृत्तौ दुःखस्य नैयत्यं नेत्याशयः । ३ नयनेन्द्रियव्यापारस्थगने अपरेन्द्रियस्य प्रणस्य प्रावल्यात अनेन (प्रियेण) समीर- शिशुकै: बालपवनैः (हेतुभिः) सूर्योदयोऽनुमित इत्यर्थः । ४ प्रियस्य प्रभाताविषयकम्। ५ न सिद्धमिति पूर्वांनुषङ्गः ।

Page 661

विषम: ] रसगङ्गाघरः । ६०१

अत्र नेष्टप्राप्तिः। मुकुलितनयनमित्यनेन कण्डूयनजन्यसुखस्य प्रात्तेः किं त्वनिष्टप्राप्तिरेव। अस्या अपि भेदद्वयं यथायथमूद्यम्। ग्रन्थविस्तर- भयान्नेहोदाहियते। एते चेष्टसाधनत्वेन निश्चितात्कारणादनिष्टकार्योत्पत्तीनां सर्वेडपि प्रभेदा वक्ष्यमाणविषादनालंकारसंकीर्णा एवेति तत्प्रकरणे निरूपयिष्यामः । यत्तु-'अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात्' इति विषमभेदल- क्षणं निर्माय 'अपिशब्दसंगृहीततया इष्टानवाप्तिश्चेति प्रत्येकमपि विषम- पदेनान्वयः' इत्युक्तं कुवलयानन्दकृता, तन्न । अव्युत्पत्तेः । अस्मिन्प्रामे देवदत्तस्य द्रव्यस्यापि लाभोऽस्तीत्यादौ द्रव्यशब्दोत्तरापिशब्दसमुच्चितस्य विद्यादेर्द्रव्यान्वयिन्येवान्वयाड्व्यस्य लाभो विद्यायाश्च लाभ इति धीरिति निर्विवादम्। प्रकृते त्वनिष्टस्याप्नोतिनान्वयः, इष्टानवाप्ेश्च तच्छन्दपरा- मृष्टेन विषमेणेति वैषम्यात्। प्रत्युत लक्षणवाक्येSपिशब्दोऽनिष्टां धियमु- त्पाद्यति । अनिष्टस्यावाप्तिरिष्टस्य चेति प्रतीतेः। चकारसमुच्चितया इष्टानवाहया अनिष्टावापेरेकवारं मिलितायास्तत्पदपरामृष्टेन विषमेणान्वया- द्वाक्यावृत्त्या वारान्तरे च प्रत्येकमन्वयाद्जेदत्रयसंग्रह इति तु स्यादपि। न त्वपिशब्देविकत्थनम्। यद्पि तेनैवोदाहृतम्-'भक्ष्याशयाऽहिमञ्जूषां इन्द्रियाणि। न त्वपिशब्दविकत्थनमिति। अपिशब्दस्यावाप्तिप दोत्तरमुत्कर्षेणान्वये १ सुखस्य प्राप्ते: परिवर्ते अनिष्टप्राप्तिरेवेत्याशयः । २ सर्वस्यापि खण्डनप्रघट्टकस्यायमाशय :- 'इषटार्थसमुद्यमात् अनिष्टस्यापि अवाप्तिः तत् अर्थात् विषमम्' अत्र अपिना इष्टस्य अनवापतरपि यत्संग्ृहते नेदं व्युत्पत्तिलभ्यम्। अपि- शब्देन संगृहीतस्य (आक्षिप्तस्य ) अर्थस्य तत्रैवान्वयो भवति, वाक्ये अपिशब्दोत्तरं पठितस्य पदार्थस्य यत्रान्वयो भवति। यथा 'अत्र देवदत्तस्य द्रव्यस्यापि लाभः' इति वाक्ये अपिशब्देन विद्यादेः समुच्चयोऽवश्यं भवति परं तस्यान्वयस्तत्रैव भवति यदग्रेऽयमपिशब्दः पठितस्तस्य यत्र भवति। अत्र हि 'द्रव्यस्यापि लाभः' इति अपिशब्दः द्रव्यशब्दोत्तरं पठितः । द्रव्यश- वदस्य च देवदत्तनान्वयः । ततश्च 'देवदत्तस्य द्रव्यस्य विद्यादेश्च लाभः' इत्यर्थबोधः । अकृते तु अपिशब्देन इष्टानवाप्तिः संगृह्यतेऽवश्यम् । किन्तु, 'प्रत्येकमपि विषमपदेनान्वयः' अर्थात् दयोरपि विषमपदेनान्वयः क्रियते यो नोचितः । यतो हि अपिशब्दः अनिष्टशब्दोत्तरं पठितः । ततश्च अपिना इष्टानवाप्ते: संग्रहेऽपि 'अनिष्टस्य अवाप्तिः इष्टस्य च अवाप्तिः (विष- मम्)' इति प्रतिकूलोऽर्थः कामं स्यात्। तस्मात् अपिशब्दविकत्थनम् (अपिशब्देन इष्टावासेः संग्रह इति मिथ्याभिशंसनम्) त्यक्त्वा 'अवाप्तिश्च' इति चकारेण इष्टानवासि संगृद्य वाक्य- भेदेन आकाद्ितोऽर्थः (विषमस्य भेदद्वयप्रतिपादनम्) संपादनीयः । यथा-'इषटार्थससुद्यमात अनिष्टस्यावाप्तिर्विषमम्' 'इष्टार्थसमुद्यमात् इष्टस्यानवाप्तिश्च विषमम्' इति। ५१ रस०

Page 662

६०२ काव्यमाला। [द्वितीयानने-

दष्टाऽडखुस्तेन भक्षितः' इति। अत्र क्त्वाप्रकृतिक्रियाकर्तृकर्तृकोत्तरकाल- वर्तिक्रियान्तरस्याप्रयुक्तत्वाद्गम्यमानत्वाच्च प्रविष्ट इति पदाकाङ्कितया न्यूनपदत्वम्। यद्पि केवलेष्टानवापा तेनैवोदाजह- 'खिन्नोऽसि मुञ् शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः। भरभुग्नविततबाहुषु गोपेषु हसन्हरिर्जयति ।।' इति। तद्पि न रमणीयम्। अन्न भरसुग्नविततेत्यादिना बाहुगतास्थिसं-

स्फुटं गम्यमानत्वात्कथ मिष्टाप्राप्तिमात्रमित्युच्यते। एतेन 'शैलपतनरूपानि- ष्टवाप्तिस्तु भगवत्कराम्बुजस्पर्शमहित्रा न ज्ञाता' इति यदुक्तम्, तदप्यसार- मेव। अनिष्ठानामुक्तत्वात्। एवमुत्पत्तिलक्षणसंसर्गस्यानतुरूपत्वं निरूपितम्। संयोगादिलक्षण- संसगस्याननुरूपत्वं यथा-

'वनान्तः खेलन्ती शशकशिशुमालोक्य चकिता भुजप्रान्तं भर्तुः श्रयति भयर्हर्तुः सपदि या।

तु न किंचिदधिकम्। क्रियान्तरस्याप्रयुक्तत्वादिति। तेन भक्षित इत्यन्वये, िदं चिन्त्यम्। अत्रति। यत इत्यादिः । वाहुगतास्थिसंधीति। तस्याऽधालर्थलातू, भगवत्करस्पर्शमहिम्रा तस्याप्यजातलाच्च नेदं युक्तम्। यन्तु कुटिलीभवनं तत्रातर्कितोत्क- टपर्वतधारणे तस्य संभावितलेन तदङ्गीकृतलात, गर्वेण गोपानामप्रवृत्तेश्र। खिन्नोऽसी- त्युक्त्या तथव लाभाच्च। इति रसगङ्गाधरमर्मप्रकाशे विषमप्रकरणमृ ।

१ क्त्वाप्रत्ययप्रकृतिभूतायाः क्रियायाः ('दष्टा' इति दंशनक्रियायाः) यः कर्ता आखुः तत्कर्तृकस्य उत्तरकालवतिनः क्रियान्तरस्य (दष्टा अर्थात् पूर्व दंशनं कृत्वा तदुत्तरकालं 'प्रविष्टः') इत्यादेः अप्रयुक्तत्वात्-अस्य गम्यमानतापि नास्ति अर्थात् आक्षेपोपि न भवितुं शक्कोति, ततो न्यूनपदत्वं दोष इत्याशयः । अत्र 'अनिष्टस्याप्यवाप्तिः' इत्यत्र अपिर्भिन्नक्रमः । 'भक्ष्याशयाऽहि०' अन्र 'प्रविष्टः' इति 'गम्यमानः' इत्यलंक्ारचन्द्रिकाया यथाकर्थंच्चित्समा- धानं सुधीभिरवघेयम्।

Page 663

विषम: ] रसगङ्गावर: । ६०३

अहो सेयं सीता शिव शिव परीता श्रुतिचल- त्करोटीकोटीभिर्वसति खल रक्षोयुवतिभिः॥' अत्र सतीशिखामणेर्भगवत्या राघवधर्मपत््याः परमप्रभावयुक्तत्वाद्रा-

तियोगेन स्वरूपस्य रक्षोदर्शनेन सौन्दर्यसौकुमार्यादीनां गुणानां च नाश्यत्वेन विरुद्धत्वात्समानाधिकरणसंयोगरूपः संसर्गोऽननुरूपः । नु- 'क शुक्तयः क वा मुक्ताः क पङ्कः क च पङ्कजम्। क मृगा: क च कस्तूरी धिग्विधातुर्विदुग्धताम्।।' इत्यादौ वस्तुकथनमात्रे विषमालंकारप्रसङ्गः । न चेष्टापत्तिः। वस्तुवृत्तस्य लोकसिद्धत्वेनालंकारत्वायोगात्। यतो बहिरसन्तः कविप्रतिभामात्रकल्पिता अर्थाः काव्येडलंकारपदास्पदम्। नच 'यथा पदमं तथा मुखम्' इत्यादौ सादृश्यस्य लोकसिद्धत्वात्कविप्रतिभानुत्थापितत्वेऽपि कथमलंकारत्वमिति वाच्यम्। सादृश्यरूपे सादृश्योत्थापके वा अभिन्नधर्मेडभेदांशस्य कविप्र- तिभामात्राधीनत्वात्। नहि पद्ममुखयोः शोभारूपो धर्मो जात्यादिवद्वस्तुत एकोडस्ति। यो हि जात्यादिरूपो वस्तुत एकस्तदुत्थापितं सादृश्यमलंकार- बहिभूतमेव। यथा-'पद्ममिवास्या मुखं द्रव्यम्' इत्यादौ। एवं च 'व- नान्त: खेलन्ती' इति पद्यप्रतिपाद्यायाः सीता-राक्षसवधूसंसर्गाननुरूपताया लौकिकीत्वेन कविप्रतिभानपेक्षत्वान्नालंकारत्वम्। एतेन-

  • १ श्रुत्यो: कर्णयोर्मध्ये चलन्त्यः (कम्पमानाः) करोटीकोटयः शिरोऽस्थिकोणा यार्सा ताभि: । २ रक्ष:कर्तृकनाशस्वरूपयोग्यतावच्छेदकभूता (अर्थात् मनुष्यत्वजातौ राक्षसनातिद्वारा कर्तु शक्यस्य नाशस्य स्वरूपतो योग्यता वर्तत इति रक्षःकर्तकनाशस्य स्वरूपेण योग्यो यः मनुष्यस्तदवच्छेदकभूता) या मनुष्यत्वजातिः तस्या योगेन सीतायाः स्वरूपं गुणाश्च नाश- यितुं शक्या इति सीता-राक्षस्योः समानेऽिकरणे संयोगः अननुरूप इत्याशयः । .३ सादृश्यप्रयोजके अभिन्ने धर्में (समाने धमें) अभेदांशः अर्थात् द्वयोरभिन्नतास्थापनं कवेः कार्यम्। पद्मशोभा-मुखशोभयोभिन्नत्वेपि हि कविना अभिन्नत्वं स्थाप्यते। ततश्च लोके यत्सादृश्यं प्रसिद्धं तन्मूलभूतस्याभेदांशस्य कविप्रतिभावीनत्वादलंकारत्वे न बाधकमित्याशयः ।

Page 664

६०४ काव्यमाला। [द्वितीयानने-

'अरण्यानी क्ेयं धृतकनकसूत्रः क स मृग: क मुक्ताहारोडयं क च स पतगः क्केयमबला। क्क तत्कन्यारत्नं ललितमहिभर्तुः क्क च वयं स्वमाकूतं धाता कमपि निभृतं पल्लवयति॥' इत्यलंकारसर्वस्वकृतोदाहृतमपि प्रत्युक्तम् । इयमेव च पद्यान्तरेऽपि कवि- प्रतिभानुत्थापितार्थके सरणिरिति। सत्यम्। एवं तर्हि 'क सा कुसुमसाराङ्गी सीता चन्द्रकलोपमा। क् रक्ष:खदिराङ्गारमध्यसंवासवैशसम्।।' इति पद्यमुदाहरणं गृहाण। अन्र हि केवलसीतायाः केवलराक्षसीनां च संसर्गस्याननुरूपतायां सत्यामपि न सा कवेविवक्षिता। किं तु या कुसुम- सारखदिराङ्गारसंसर्गस्याननुरूपता 'सेति स्फुटमेवास्यामलौकिकत्वात्कवि- प्रतिभापेक्षित्वम् । इति रसगङ्गाधरे विषमालंकारप्रकरणम्।

अथ समालंकार :- अनुरूपसंसर्ग: समम् ॥ संसर्ग: पूर्ववद्विविधः। तत्रोत्पत्तिलक्षणस्य संसर्गस्यानुरूपत्वं कारणा- त्ससमानगुणकार्योत्पत्त्या, यादृशगुणकवस्तुसंसर्गस्तादशगुणोत्पत्त्या, य- िंकंचिदिष्टप्रात्यर्थ प्रयुक्तात् कारणात्ततप्राप्या च । उत्कटेष्टान्तरप्राप्तौ तु प्रहर्षणं वक्ष्यते। संयोगादिलक्षणस्यापि संसर्गिणोरन्यतरगुणसरूपानु- ग्राह्यान्यतरगुणस्वरूपतयाऽनुरूपत्वम्। एवं चानुरूपसंसर्गत्वेन सामान्य- लक्षणेन सर्वे भेदा: संगृहीता भवन्ति । यथा- 'कुवलयलक्ष्मीं हरते तव कीर्तिस्तत्र किं चित्रम्। यस्मान्निदानमस्या लोकनमस्याङ्गिपङ्कजस्तु भवान् ।।'

:१ सा विवक्षितेत्यनुषङ्गः । २ ऋधपासौ समस्, वाञ्छितादप्यधिकप्रास्तौ प्रदर्षणमित्याशयः।

Page 665

सम: ] रसगङ्गाघर: । ६०५

यथा वा- 'मन्नार्पितह विर्दीप्तहुताशनतनूभुवः। शिखास्पर्शेन पाञ्ाल्याः स्थाने दग्धः सुयोधनः ॥' पूर्व कारणकार्यधर्मयोः श्ेषेणैक्यसंपादनम्, इह तु मरण-दाहयोर- भेदाध्यवसानरूपेणातिशयेनेति विशेष:। द्वितीयो भेदो यथा- 'वडवानलकालकूटलक्ष्मीमकरव्यालगणैः सहैधितः । रजनीरमणो भवेन्नृणां न कथं प्राणवियोगकारणम्।।' लक्ष्मीरप्यत्र मारकत्वेनैव कवेर्विवक्षिता। तृतीयो यथा- 'नितरां धनमापुमर्थिभिः क्षितिप त्वां समुपास्य यत्नतः । निधनं समलम्भि तावकी खल सेवा जनवाञ्छितप्रदा ।।' [अत्र मरण-बहुधनयोः श्लेषेणैक्ये बहुधनरूपेष्ठात्मना वाञ्छितार्था- प्रिरूपसमालंकारचमत्कारः ।] अत्र व्याजस्तुतौ मुखे धनप्राप्तिरूपस्तुति- स्फूर्तिदशायां समालंकारस्तावदप्रत्यूह एव। मरणप्राप्तिप्रतीतिदशायां तु व्याजस्तुतेरेव पूणाङ्गतया तया विषमालंकारो बाध्यते। -

प्राग्वदाह-अथेति। स्थाने युक्तम्। मुखे प्रारम्भे। अत्रेति। यत इत्यादिः।

१ लोकवन्दनीयचरणकमलाज्जनिता कीर्ति: कुवलय(लोक)लक्ष्मी हरेदेव। कुवलयेत्यत्र शेष: । २ अतिशयेन कारण-कार्यधर्मयोरैक्यसंपादनमित्यनुषङ्गः। कारणस्य हुताशनस्य शिखा- स्पर्शेन यथा दाहः (दाहजनितं मरणम्), तथव तत्कार्यस्य (तज्जनितायाः पाञ्चाल्याः) शिखा(वेणी)स्पर्शेन मरणमिति गुणसाम्यात्समम्। ३ 'अत्र मरण-' इत्यादेकस्मिन्नेव पुस्तके समुपलभ्यते। ४ आमुखे स्तुतेः प्रतीतिः पर्यवसाने तु निन्दाया इति व्याजस्तुतिर्यदान्र स्वीकृता तदा मरणप्राप्तिप्रतीतिरपि निन्दात्मकतया व्याजसतुवेरेवाङ्ञम् [पर्यवसाने तस्या अपेक्षितत्वात् ] अत वात्र मरणप्रतीत्या पूर्णाङ्गया व्याजस्तुत्या विषमाळंकारो बाच्यते।

Page 666

६०६ काव्यमाला। [द्वितीयानने-

यत्तु कुवलयानन्दकृता- 'उच्नैरग जैरटनमर्थयमान एव त्वामाश्रयन्निह चिरादुषितोडस्मि राजन्। उच्चाटनं त्वमपि लम्भयसे तदेव मामद्य नैव विफला महतां हि सेवा ।।' इत्युदाहृत्य, 'अत्र व्याजस्तुतौ यद्यपि स्तुत्या निन्दाभिव्यक्तिविवक्षायां विष मालंकार:, तथापि प्राथमिकस्तुतिरूपवाच्यकक्षायां समालंकारो न निवार्यते' इत्युक्तम् तत्रोदाहरणे मामुचाटनं लम्भयसे इति द्विकर्मकत्वं कथम् ? 'गति-' आदिसूत्रस्य प्राचीनरीत्या नियमविधित्वपक्षे लभेरण्य- न्तकर्तुः कर्मत्वस्य व्यावर्तनात्। यदा तु- परत्वादन्तरङगत्वादुपजीव्यतयापि च । प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेर्विधितोचिता ।।' इति नवीनरीत्या अपूर्वविधित्वमुच्यते, श्रौतं णिजन्तार्थक्रियायाः प्राधान्य-

अपवादस्यैव न्याय्यत्वादिति। अन्रेदं चिन्त्यम्-महतां सेवा विफला नेति स्तुतिः। ततो दूरनिरसनप्रापणरूपार्थान्तरपरिग्रहेण विषमावस्फूर्तिपूर्वकनिन्दायां पर्यवसानम् ।

१ 'हरि: शत्रन् स्वर्गमगमयत्' इत्यादौ प्रयोजककर्तुः (इरे:) व्यापारस्य शाब्दं प्राधा- न्यम् (प्रेरणार्थस्य णिचः श्रवणात्) अन्यानधीनत्वरूपमार्थमप्यस्तेवेति ताद्ृशव्यापारजन्यस्य फलस्याअयभूतानां शत्रूणां कर्तुरीप्सिततमं कर्मेत्यनेनव कर्मसंज्ञायां सिद्धायां गतिबुद्धीतिसूत्रं नियमविधायकम्-'णिजर्थेनाप्यमानस्य प्रयोज्यकर्तुर्यदि कर्मत्वं भवति तहि गत्यादीनामेव' तेन 'पाचयति देवदत्तेन' इत्यादौ न कर्मत्वम्। ततश्च गत्याद्यर्थत्वाभावादत्र पद्ये (मां लम्भयन् इत्यत्र) कर्मत्वमनुपपन्नमेव। नवीनानां मते-शत्रूनगमयदित्यादौ कर्तुरीप्सितेति कर्मसंज्ञां बाधित्वा परत्वात् अन्तरङ्गत्वात उपजीव्यत्वात् (कर्तृसंश्ञायां सत्यां कर्मत्वं भवति) च शत्रू- माम् (प्रयोज्यकर्तृणाम्) कर्तृत्वमेव स्यादिति अप्राप्ताया द्वितीयायाः सिद्धये गतीत्यादिसूत्रस्य विधायकत्वं स्वीक्रियते। अर्थात् प्रयोजककर्तुः प्रेरणव्यापारस्य शाब्दमपि प्रधान्यं तिरस्कृत्य प्रयोज्यकर्तणां शत्रूणामार्थमपि पूर्वजातं व्यापारप्राधान्यं बह्डमन्यते [तदैव व्यापाराश्रयाणां कर्तृसंशा स्याव] तदा (गतिसूत्रस्य विध्यर्थत्वे) 'उच्चाटनं मां लम्भयसे' इति लमेरण्यन्ताव्र- स्थायाः कर्तुः कर्मत्वस्य अप्रसक्तिरेवेत्याशयः।

Page 667

सम: ] रसगङ्गाधर:। ६०७

सुत्सज्याऽडर्थ पूर्वक्रियाया एव प्राधान्यमनुरुध्यते तदा त्वप्रसक्तिरेवेति। उच्चाटनं मया लम्भयसे इति तु भाव्यम्। एवमपि लभेर्यथाकथंचिद्वृत्य- र्थतां संपाद्य प्रयोग उपपादते, तथापि 'प्राथमिककक्षायां समालंकारो न निवार्यते' इत्यनेन 'द्वितीय कक्षायां विषमालंकारोऽस्तु नाम' इत्यागूरितम- सदेव। तादशवैषम्यस्य निन्दारूपस्य व्याजस्तुतिविषयत्वेन तयापवादस्यैव न्याय्यत्वात्। न च वैपरीत्यमे, परिपूर्णचमत्कारभूमेव्याजस्तुतेस्त्वया- व्यनपह्नवात्। संयोगादिलक्षणस्यानुरूपता द्वेधा-स्तुतिपर्यवसायिनी, निन्दापर्यव- सायिनी च। आद्या यथा- 'अनाथः सनहार्द्रा विगलितगतिः पुण्यगतिदां पतन्विश्वोद्धत्री गदविद्लितः सिद्धभिषजम् । तृषार्तः पीयूषप्रकरनिधिमत्यन्तशिशुक: सवित्रीं प्राप्तरत्वामहमिह विदृध्याः समुचितम् ॥' अनाथत्वादिविशिष्टस्य स्नेहार्द्रत्वादिविशिष्टेन संसर्गस्यानुरूपता भागी- रथीस्तुतिपर्यवसायिनी। द्वितीया यथा- 'युक्तं सभायां खलु मर्केटानां शाखास्तरूणां मृदुलासनानि। सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखाग्रैश्च विपाटनानि ॥'

परस्परविषयपरिहारेण यथाकथचिदत्यर्थतामिति । 'नवेति विभाषा' इति सूत्रे हरति भारमित्यन्नाप्राप्तौ 'हको-' इति 'विभाषा' इति भाष्योक्तर्यथाकर्थंचिद्त्यर्थानां तत्राग्रहाच्चिन्त्यमिदम्। उच्चाटनं मां लम्भयसे इति तु संयोगानुकूलव्यापारानुकूलव्यापारा- र्थकवहसमानार्थकत्वात् ण्यन्तलभेः 'अकथितं च' इति सूत्रेण बोध्यम्.। संयोगानुकूल- व्यापारो हि लभेरर्थः । गत्यादिनियमश्च पाचयत्योदनं देवदत्तेनेत्यादिव्यावृत्त्या चरितार्थः। द्वयोः सावकाशतात्संकर एवोचितश्वेति। गदेति। रोगसहित इत्यर्थः ॥ इति रसगज्गा- धरमर्मप्रकाशे समालंकारप्रकरणम् ॥ १ उच्चै: (गजः) अटनस्य स्थाने उच्चाटन(स्वस्थानान्निरसन)रूपं वैषम्यं निन्दापर्यव- सायकत्वाद्याजस्तुतेरङ्गम् (आमुखे प्रतीता स्तुतिनिन्दापर्यवसायिनी यत्र, तत्र व्याजस्तुतिः)। ततश्च अपवादतया विषसं बाधित्वा व्याजस्तुत्यैव व्यपदेश उचित इत्यर्थः । २ अर्थात् विषम पवास्तु, मा भूद्धयाजस्तुतिरिति शङ्का। पूर्णचमत्कारशालिन्या व्याजस्टु- तेरपह्ववस्त्वयापि न साध्य इति तत्समाधानम्।

Page 668

६०८ काव्यमाला। [द्वितीयानने- अन्रा प्रस्तुतगतत्वेन स्थिता निन्दा तदाक्षिप्ते प्रस्तुते पर्यवस्यति। एवं यथा विषमालंकारस्त्रिभेदस्तथा तद्विपरीतभेदत्रययुक्तः समालंकारोSपि प्रपश्चितः। यत्तु-'विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम्' इति विषमालंकारं लक्षितवता, 'तद्विपर्ययः समम्' इति समालंकारं लक्षयि- त्वा-"तत्पदेनात्र विषमालंकारसंबन्धी विरूपसंघटनारूपश्चरम एव भेदो गृह्यते। तद्विपर्ययस्यैव चारुत्वात्। न त्वाद्यभेदद्वयम्। तद्विपर्ययस्य का- रणाद्नुरूपकार्योत्पत्तिरूपस्य, वाळ्छितार्थप्राप्तिरूपस्य च वस्तुसिद्धतया चारुताविरहात्। एवं चानुरूपसंघटनात्मक एव समालंकार: । न तु वि- षमालंकार इव भेदृत्रयात्मकः"इत्यलंकारसर्वस्वकृतोक्तम्। विवेचितं च विमर्शिनीकृता-'कारणादनुरूपकार्योत्पत्तिर्हि लोकप्रसिद्धा। नहि तस्या उपनिबन्धश्चारुतामावहति' इति। तदुभयमसत्। वस्तुतोऽननुरूपयोरपि कार्यकारणयोः श्रलेषादिना धर्मैक्यसंपादनद्वाराऽनुरूपतावर्णने, वस्तुतो- Sनिष्टस्यापि तेनैवोपायेनेष्टैक्यसंपत्ताविष्टप्राप्तिवर्णने, च चारुताया अनुप- दुमेव दर्शितत्वात्। तस्मात्सममपि त्रिविधमेव। इति रसगङ्गाधरे समालंकारप्रकरणम्। अथ विचित्रालंकार :- इष्टसिद्धयर्थमिष्टैषिणा क्रियमाणमिष्टविपरीताचरणं विचित्रम्।। विपरीतत्वं च प्रतिकूलत्वम्। यथा- 'बन्धोन्मुक्तै खलु मखमुखान्कुर्वते कर्मपाशा- नन्तःशान्त्यै मुनिशतर्मताऽनल्पचिन्तां वहन्ति। विचित्राधिकालंकारौ स्पष्टौ। १ यादृशाः कपयस्तादृशमेव तेषां सत्करणमित्यनुरूपसंसर्गेण आपाततः अप्रस्तुतानां मर्क- टानां निन्दा, किन्तु तेषां तात्पर्यविषयत्वाभावात्प्रस्तुतेषु ('पञ्चायत्त' सभायां कलहपरेषु मद्य- शयवरेधु)' सा पर्यंवस्यति। २ अनिष्टस्यापि क्रषादिना उपायेन यत्र इष्टैक्यम् (इषाडमेद:, इषत्वम्) संपाद्यते तत्र वास्तवे अननुरूपयोरपि अनुरूपता अलंकारत्वास्पदमिति कृत्वा 'समं' भवतीत्याशयः । ३ यश्ञप्रभृतीनू। ४ सुनिशतमतानाम् अनत्पां चिन्ताम्।

Page 669

विचित्रम् ] रसगङ्गाघरः । ६०९

तीर्थे मज्जन्त्यशुभजलधेः पारमारोदुकामाः सर्वं प्रामादिकमिह भवभ्रान्तिभाजां नराणाम्।।' अत्र प्रथमचरणगतं विचित्रं रूपकानुप्राणितम्, यज्ञादिकर्मकरणस्य यज्ञादीनां पाशत्वासिद्धौ बन्धमुक्तिविपरीतत्वासंगतेः । द्वितीयचरणगतं तु शुद्धम्, शान्तौ चिन्तायाः स्वरूपेणैव विपरीतत्वात्। यदि तु इष्टैषिणो भ्रान्तत्वाभिव्यक्तेस्तुल्यत्वात्स्वतः सिद्धे इष्टे तदनु- कूलाभासप्रयोगोऽपीष्टैषिकर्तको विचित्रमित्युच्यते, लक्षणे च विपरीतप- दस्थानेऽननुकूलपदं न्यस्यते तदा इदमप्युदाहरणम्। यथा- 'विष्वद्रीचा भुवनमखिलं भासते यस्य धान्ना सर्वेषामप्यहमैयमिति प्रत्ययालम्बनं यः । तं पृच्छन्ति सवहृद्यगैतावेदिनो विष्णुमन्या- नन्यायोडयं शिव शिव नृणां केन वा वर्णनीयः ।।' अत्र जीवरूपेण सकललोकप्रत्यक्ष सिद्धस्य परमेश्वरस्य प्रतिपत्त्यर्थ परा- न्प्रति प्रश्नोऽनुकूलाभासः। मुख्यमनुकूलं तु सहृद्यमेव। 'यत्साक्षादपरो- क्षात्' इति वचनात्। न च कारणाननुरूपं कार्यमिति विषमभेदोऽयं वाच्यः,

१ यश्प्रभृतिकर्मसु पाशत्वाSडरोपे एव बन्धोन्सुत्तिरूपस्य इष्टस्यापेक्षया विपरीताचरणं मुसु- भुकर्तृकं पाशायितानां कर्मणामनुष्ठानं संगतं भवतीति रूपकमत्रोपजीव्यमित्यर्थः । २ अयं भाव :- इष्टैषिणो आ्रन्तत्वसूचनाय स्वयलद्वारा इष्टस्य साधनार्थ तदनुकूलाभास. प्रयोग: (वास्तवे स प्रयोग इष्टसाधनानुकूलो नास्ति, किन्त्वस्माकं तथा भासते) 'विचित्रम्' इति लक्षणे पूर्व निर्दिष्टः । इदानी (स्वयलं विनापि) स्वतः सिद्धेडपीट्टे, इष्टेच्छुककृतः तद- नुकूलाभासप्रयोगोऽपि विच्चित्रमित्युच्यते। यतो हि उभयत्र इष्टेच्छुकस्य आ्न्तत्वसूचनं समा- नम्। एवं सति लक्षणे 'इष्टाडननुकूलाचरणं विचित्रम्' इत्युन्चितम्। ३ विष्वक सर्वतः अव्नति प्रसरति तत् विष्वध्ङ्ध तादृशेन (सर्वतो व्यापिना) यस्य तेजसा। ४ अस्मदिदंपदार्थाभेदरूपस्य प्रत्ययस्य (बोधस्य) य आश्रयः । ५ स्वहृदयगतं न विदन्ति तच्छीला नराः । तं विष्णुम (व्यापकम्) अन्यान् पृच्छन्ति। ६ जीवरूपेण स्थितस्य परमेश्वरस्य प्रत्यक्षरूपमिष्टं स्वतःसिद्धम्। तदर्थमनुकूलप्रयोगः स्वहृदयान्वेषणम्। तद्विहाय अन्यान् प्रति प्रश्नः अनुकूलाभासप्रयोग इत्याशयः ।

Page 670

६१० काव्यमाला। [द्वितीयानने-

विषमे पु: रनपेक्षणात्। कार्यकारणगुणवैलक्षण्येनैव तद्गेदनिरूपणाच्च इति रसगड्गाधरे विचित्रालंकारप्रकरणम्।

अथाधिकालंकार :-

त्वकल्पनमधिकम् ॥ यथा- 'लोकानां विपदं धुनोषि, तनुषे संपत्तिमत्युत्कटा- मित्यल्पेतरजल्पितैजेडधियां भूपाल मा गा मदम्। यत्कीर्तिस्तव वल्लभा लघुतरव्रह्माण्डसझोदरे पिण्डीकृत्य महोन्नतामपि तनुं कष्टेन हा वर्तते ।' अत्र ब्रह्माण्डस्यातिसूक्ष्मत्वकल्पनेन कीर्तेराधेयायाः परममहत्त्वं फलि तम्। तेन च व्याजस्तुतिः परिपोष्यते। 'गिरामविषयो राजन्विस्तारस्तव चेतसः । सावकाशतया यत्र शेते विश्वाश्रयो हरिः ॥'

अन्न सावकाशतयेत्यनेन कल्पितया आधेयन्यूनतया आधारस्य महत्त्वं पर्यवस्यति। यदि तु सावकाशतयेति विशेषणं विश्वाश्रय इत्यत्नापि

'ब्रह्माण्डमण्डले नान्ति न ये पिण्डीकृता अपि। परस्परापरिचिता वसन्ति त्वयि ते गुणाः ।'

१ तत्र कार्यकारणभावः प्राकृतः, न पुरुषसबन्धजनितः । अत्र तु कल्पितः । किञ्च तन्न कार्यकारणयोमिथो गुणवैलक्षण्यमेव विषयः । अत्र तु इष्टसाधनाय विपरीता कृतिः । २ आधेयो हरिर्हदयापेक्षया संकुच्चितः, अत एव हृदये भूयान् अवकाशोऽवशिष्टः। ३ संपूर्णविश्वस्य आक्षयदानेपि अवकाशोऽवशिष्ट इति हरिरूपस्याधारस्याधिक्यम्। स हरिहरृदये सांवकाश शेते इति हृदयस्याधिक्यमिति परस्परं संबन्धात्।

Page 671

अधिकम् ] रसगङ्गाघर:। ६११

अन्रोभयविधस्याप्यलंकारस्य सामानाधिकरण्यम्। लक्षणे कल्पनमि- त्यनेन यत्राधाराधेययोरन्यतरस्य न्यूनत्वमधिकत्वं च वास्तवं तत्र नाति- प्रसङ्गः । एवं च- 'काहं तमोमहृदहंखचरामिवार्भू- संवेष्ठिताण्डघटसप्तवितस्तिकायः ।

वाताध्वरोमविवरस्य च ते महित्वम् ।।' इति श्रीभागवतद्शमस्कन्ध (१४।११) गतं ब्रह्मस्तुतिपद्यमस्यालंका- रस्यानुदाहरणमेव । दिक्कालानवच्छिन्नस्य पारमेश्वरस्य भूम्र: सर्ववेदसि- द्वत्वेन कविप्रतिभानुल्लिखितत्वात्। एतेन- 'धौरत्र कचिदाश्रिता, प्रविततं पातालमत्र क्वचि- त्काप्यत्रैव धरा धराधरजलाधारावधिर्वर्तते। स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेभि: स्थितै- र्दूरे पूरणमस्तु शून्यमिति यन्नामापि नासतं गतम् ।।' इत्यलंकारसर्वस्वकारेण यदुदाहृतं तद्पि प्रत्युक्तम्। इति रसगङ्गाधरेऽधिकालंकारप्रकरणम् ।

१ पूर्वाधें आधेयानाम् (गुणानाम्) आधिक्यम् । उत्तराथ आधारस्य (राज्ः)। २ ननु ब्रह्माण्डशरीरस्य तव (ब्रह्मणः) अपि इश्रवरत्वमिति शङ्कायामाह-क्काहमिति। तमः प्रकृतिः । महान् महत्तत्त्वम् । अह्महंकारः । खम् आकाशः । चरो वायुः । अभनि: । वार जलम्। भूश्च। एभि: संवेष्टितः अण्डाकारः सोयं घट एव सप्वितस्तिपरिमितः (स्व. स्ववितस्तिभिः) कायो यस्य ईदशः अहम् (ब्रह्मा) क? ते मह्त्वं च क्क? कथंभूतस्य ते। ईदृग्विधानि अविगणितानि यान्यण्डानि तान्येव परमाणवः, तेषां चर्या परिभ्रमणम् तदर्थ वाताध्वान: गवाक्षायितानि (गवाक्षे यथा वायुरवारितो भ्रमति तथा त्वद्रोमविवरेषु अगणि- तानि ब्रह्माण्डानि भ्रमन्ति) रोमविवराणि यस्य। अहमेकतमब्रह्माण्डरूपः कदाचित् स्यां किन्तु तव विष्वग्व्यापिनः शरीरस्य अनन्तानां रोम्णाम् अनन्तेषु विवरेषु न जाने कियन्ति ईदृग्विधानि ब्रह्माण्डानि भ्रमन्ति। ततस्तवैश्वर्यस्याग्रे कोऽहमित्याशयः । *३ आकाशस्यान्तःस्थितैः एभिः (द्यवादिभिः) तत्पूरणस्य का कथा, अद्यापि आकाशं 'शून्यम्' इति व्यपदेशो न विरमतीत्याशयः ।

Page 672

६१२ काव्यमाला। [ द्वितीयानने-

अथान्योन्यालंकार :- द्वयोरन्योन्येनान्योन्यस्य विशेषाधानमन्योन्यम्। विशेषश् क्रियादिरूपः । यथा- 'सुदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया। अलिकेन च हेमकान्तिना विद्धे कापि रुचि: परस्परम् ॥' अन्न गुणरूपविशेषाधानम्, रुचेर्गुणत्वात्। न च विधानरूपक्रिया- त्मकविशेषाधानमिह शङ््यम्। भावनासामान्यरूपस्य विधानस्याचमत्कारि- त्वेनाविशेषत्वात्। 'परपूरुषदृष्टिपातवञ्राहृतिभीता हृदयं प्रियस्य सीता। अविशत्पर कामिनीभुजंगीभयतः सत्वरमेव सोऽपि तस्याः ।।' अत्र क्रियारूपविशेषाधानम्। यत्त- "-'यथोर्ध्वाक्षः पिबत्यम्बु पथिको विरलाङ्कुलिः। तथा प्रपापालिकापि धारां वितनुते तनुम् ॥' अत्र प्रपापालिकायाः पथिकेन स्वासक्त्या पानीयदानव्याजेन बहुकालं स्वमुखावलोकनमभिलषन्त्या विरलाङ्गुलिकरणतश्चिरं पानीयपानानुवृत्ति- संपादनेनोपकारः कृतः । तथा प्रपापालिकयापि स्वमुखावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्चिरं पानीयदानानुवृत्तिसंपादनेनोपकार: कृतः।" इति कुवलयानन्दकार आह। तन्न। तावदियं पदरचनैवायुष्मतो ग्रन्थ- कर्तुर्व्युत्पत्तिशैथिल्यमुद्धिरति। तथा हि-सवमुखावलोकनमभिलषन्त्या इत्यत्र स्वशब्दस्य्र प्रपापालिकाविशेषणघटकत्वेन प्रपापालिकाबोधकत्वमे न्याय्यम्, न पान्थबोधकत्वम्। एवं स्वमुखावलोकनमभिलषत इत्यत्रापि पान्थबोधकत्वमेव, न त्वदिष्टप्रपापालिकाबोधकत्वम्। एवं स्थितेऽर्थासंगतिः स्पष्टैव। न च सर्वनाम्रां बुद्धिस्थप्रकारावच्छिन्ने शक्तत्वादिष्टबोधोपपत्ति- रिति वाच्यम्। तदिदमस्मद्युष्मदादिष्विव तत्तद्विशेषव्युत्पत्तेरपि कल्पनीय- १ विधानं क्रिया। अत एव भावना(क्रिया)सामान्यरूपमिदम्, यस्यान्योन्यं संघटने न चमत्कारः । क्रियाविशेषस्तु (यथा अग्रे 'अविशत्') चमत्कारकः । २ तत्इदंशब्दादिषु यथा विशेषव्युत्पत्तिः कल्प्या (न बुद्धिस्थप्रकारा०) तथात्रापि कल्पनस्यावश्यकतेत्यर्थः ।

Page 673

अन्योन्यम् ] रसगङ्गाघर:। ६१३

त्वात्। सा च प्रकृते यद्विशेषणघटकत्वेन खवनिजाद्यः शब्दा उपाचास्त- द्वोधका इत्येवंरूपा । तेन 'सवदाररतानां विप्राणामहं भक्तः, देवदत्तस्य पुत्रः खमातृभक्तः' इत्यादौ मदीयदाररतानामिति, देवदत्तमातृभक्त इति च न कस्याप्यभ्रान्तस्य स्वरसवाहिनी प्रतीतिः । अत एव-'निजतनुस्व- च्छलावण्यवापीसंभूताम्भोजशोभां विद्धद्भिनवो दण्डपादो भवान्याः' इत्यन्न 'दण्डपाद्गता तनुः प्रतीयते। भवानीगता तु सा अपेक्षिता' इति व्युत्पन्नशिरोमणिभिर्मम्मटभट्टैः काव्यप्रकाशेऽभिहितम्। न चेदं श्रुतिका- टवादिवत्काव्यमात्रविषयं दूषणमिति वाच्यम्। शाब्दव्युत्पत्तौ काव्यस्या- नन्तर्भावात्। मदीयदाररतानामिति, देवदत्तमातृभक्त इति च तात्पर्येण प्रागुक्तवाक्यप्रयोक्तुरनुपहसनीयतापत्तेश्च। किं च परस्परोपकारो हि स्वव्य-

प्राग्वदाह-अथेति। अनुपहसनीयतापत्तेश्चेति । अन्रेदं चिन्त्म्-खश-

१ अत्र हि 'स्व'शब्दस्य न काव्ये प्रयोगः । अपि तु लक्षणसमन्वयवचनिकायाम्। तथा न नात्र दोषप्रसक्तिरिति पूर्वपक्षी। शाब्दव्युत्पत्तौ काव्यं न अन्तर्भवति अर्थात् शाब्दी व्युत्पत्तिरपि काव्ये एव अनुरोद्धव्या, तस्या उल्लङ्गने सति काव्यमात्रे दोषः, अन्यत्र न। इति नायं नियमः । सर्वत्रैव तस्याः अनुरोध्यत्वादित्येकं समाधानम् । 'सवदाररतानां विप्रा- णामहं भक्तः' इत्यादिवाक्यदयं 'मदीयदाररतानाम्' इत्यादितात्पर्येणोच्चारितं स्पष्टमुपहस- नीयमेव प्रशावताम्। किन्तु काव्यमात्रदूषणतास्वीकारे तु वाक्यद्वयम् अनुपहसनीयं स्यादिति द्वितीयं समाधानम्। २ किं चेत्यादे: प्रघट्टकस्येदं विशदीकरणम्-परस्परोपकारो हि स्वस्मात् (उपकारात) व्यधिकरण: (विरुद्धे आधारे स्थितः) यो व्यापारस्तत्साध्य एव चमत्कारी। अर्थात् प्रपापा- लिकाकृतेन व्यापारेण पथिकस्योपकारो वण्यों न प्रपापालिकायाः। एवं पथिककृतेन व्यापारेण प्रपापालिकाया एव उपकारश्चमत्कारको न पथिकस्य। स्वव्यापारेण स्वोपकारस्तु तुषारस्य शिशिरीकरणमिव स्वतःसिद्धतया नान्यव्यापारमपेक्षते। अत्र तु विरलाङ्कलिता (कराङ्गुलीनां परस्पराद्विश्रिष्टता) संपादनद्वारा पथिकेन प्रपापालिकाया उपकारः कृतः, एवं धारातनूकरणेन प्रपापालिकया पथिकस्योपकारः कृत इत्युदाहियते। किन्तु पानीयपानव्याजेन सुन्विरं सुन्दरी- मुखावलोकनमिच्छता पथिकेन विरलाङ्गुलितया आत्मकर्तृकच्चिरदर्शन एव उपकारः कृतः, न अपापालिकाकर्तके आत्मकर्मकन्विरदर्शने । एवमेव प्रपापालिकयापि धारातनूकरणेन आत्मा- भिलाषसाधन एव उपयोग: कृतो नान्यस्य। किन्तु अन्योन्यालंकारस्य समन्वयस्तदैव भवेद यदा एकस्य व्यापारेण अपरस्योपकारः स्यान्तस्मादनुदाहरणमेवैतदित्याशयः। ५२ रस०

Page 674

६१४ काव्यमाला। द्वतायानने-

धिकरणव्यापारसाध्य एव चमत्कारित्वाल्लक्षणघटकः, नतु खसमाना- विकरणतत्साध्योऽपि। तत्र हि तुषारशिशिरीकरणन्यायेनान्यव्यापारस्या- नावश्यकतया, चमत्कारिताविरहात्। इह हि धारातनूकरणाङ्गुलिविरली- करणयोः कर्तृभ्यां स्वस्वकर्तृकचिरकालदर्शनार्थ प्रयुक्तयोस्तत्रैवोपयोगश्च- मत्कारी, नान्यकर्तृकचिरकालदर्शन इत्यनुदाहरणमेवैतदस्यालंकारस्येति सहृदया विचारयन्तु।

अथ विशेषालंकार :- प्रसिद्धमाश्रयं विना आधेयं वर्ण्यमानमेको विशेषप्रकारः। यच्चै- कमाधेयं परिमितयत्किंचिदाधारगतमपि युगपदनेकाधारगततया वर्ण्यते सोऽपरो विशेषप्रकारः। युगपदिति विशेषणाद्वक्ष्यमाणे पर्याये नातिव्याप्तिः। एवं च ग्रन्था- न्तरग्तानि लक्षणान्यतिप्रसक्तान्येव । "यच्च किंचित्कार्यमारभमाणस्यासभाविताशक्यवस्त्वन्तरनिर्वर्तनं स तृतीयो विशेषप्रकारः। एवं चैतद्न्यतमत्वं विशेषालंकारसामा- न्यलक्षणभ्" इति प्राञ्ः। तत्र प्रथमः प्रकारो द्विविध :- आधारान्तरगतत्वेनाधेयं वर्ण्यमानम्, निराधारत्वेन च । क्रमेणोदाहरणानि-

ब्दादयो यद्विशेषणघटकास्तद्विशेष्यान्विततद्विशेष्येतराबोधका इति व्युत्पत्तेः समभिव्या- हृतपदार्थे तद्वोधकत्वव्युत्पत्तेरेव चानुभवबलेन स्वीकारः। नहि पथिकस्तद्विशेष्यान्वित इति। अनुदाहरणमेवैतदिति। खखोपकारसत्त्वेऽपि परस्परोपकारोऽप्यस्तेव। स न चमत्कारकारीति तु रिक्तं वचः । कि च यथातथाशब्दव्यत्यासेन पूर्वोत्तरार्धव्यत्यासेन चास्य पुनः पाठे परस्परोपकारस्यैव चमत्कृतस्य प्रतीतेस्तदभिप्रायेणोदाहरणलमेव। अपि च प्रकरणादिसहायेनापि परस्परोपकारप्रतीतिश्चमत्कृतैवेति चिन्त्यमिति दिक्॥ इति रसगङ्गाधरमर्मप्रकाशेऽन्योन्यालंकारप्रकरणम् ।। प्राग्वदाह-अथेति। १ पर्यायेऽपि एकमाधेयमनेकेषु आधारेषु वर्ण्यंते। किन्तु न समकालम्, अप्रि तु क्रमेण।, २ अर्थात स्वकीयमाधारं त्यक्त्वा अन्यस्मिन्नाधारे। यथा नृपाधारा कीर्तिः दिङ्मौलिगतत्वेन।

Page 675

विशेष: ] रसगङ्गाघर: । ६१५

अगे राजन्नाकर्णय कुतुकमाकर्णनयन त्वदाधारा कीर्तिर्वसति किल मौलौ दशदिशाम्। त्वदेकालम्बोऽयं गुणगणकद्म्बो गुणनिधे मुखेषु ग्रौढानां विलसति कवीनामविरतम्।।' अत्र दिख्ौलिगतत्वेन। 'युक्तं तु याते दिवमासफेन्दौ तदाश्रितानां यद्भूद्विनाशः । इदं तु चित्रं भुवनावकाशे निराश्रया खेलति तस्य कीर्तिः॥' द्वितीयः प्रकारो यथा- 'नयने सुदृदशां पुरो रिपूणां वचने वश्यगिरां महाकवीनाम्। मिथिलापतिनन्दिनीभुजान्तःस्थित एव स्थितिमाप रामचन्द्रः ।' तृतीयः प्रकारो यथा-

रामं दष्टवतां रणे दशमुखप्राणापहारोद्यतम्। दुर्दशोऽपि नृणामभूदुरुमरुद्वेगप्रचण्डीकृत- ज्वालाभिर्जगतीतलं कवलयन्कालानलो गोचर: ॥' अन्न रामदर्शनं कुर्वतां कालानलदर्शनरूपाशक्यवस्त्वन्तरनिर्वर्तनम्। ननु- 'लोभाद्वराटिकानां विक्रेतुं तक्रमानिशमदन्त्ा। लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥।' इति वक्ष्यमाणप्रहर्षणविषमालंकारयोगे तृतीयप्रकारस्यातिव्यापिः । दधिविक्रयमारभमाणाया नीलमणिप्राप्तिवर्णनादिति चेत्, न। अत्र चाश- क्यवस्त्वन्तरनिर्वर्तने तद्भेदाध्यवसाननिबन्धनत्वं विशेषणम्। 'काला- नलो वीक्षितः' इत्यनुपद मुदाहृते विशेषालंकारे यथा अशक्यवस्त्वन्तररूप- १ सुदृशां नयनादिषु स्थितिमापेत्यन्वयः । २ काण्डमण्डलं वाणसमूद्दः । ३ उरुणा महता मरुद्वेगेन वायुवेगेन प्रचण्डीकृताभिः । ४ आनिशम् रात्रिं यावत्। 'अविरतमटन्त्या' इति भामिनीविलासे पाठः ॥ ५ प्रहर्षण-विषमालंकारयोयोंगे (संकरे) :

Page 676

६१६ काव्यमाला। [द्वितीयानने-

कालानलवीक्षणं राम-कालानलयोस्तदर्शनयोवा अभेदाध्यवसानेन निर्व- र्तितम्, न तथा 'दधि विक्रेतुमटन्त्या' इत्यत्र महेन्द्रनीलमणिदर्शनमित्य- दोष:। न च भगवति नीलमण्यभेदाध्यवसानेन निर्वर्तितमेव तदिति वाच्यम्। किंचित्कार्यमारभमाणस्येत्यन्न यत्कार्यं विशेषणतया प्रविष्टं तेन सहाशक्यवस्त्वन्तरस्याभेदस्य विवक्षितत्वात्। प्रकृते च तक्रविक्रयेण सह नीलमणेरभेदस्यानध्यवसानात्। न चातिशयोक्त्या विशेषालंकारतृतीय- प्रकारस्य गतार्थत्वं वाच्यम्। एतदुदाहरणे रामस्य विषयस्य कालानलेन विषयिणा निगरणाभावात्। नापि रूपकेण। विषयविषयिणोः सामाना- धिकरण्यविरहेणारोपासिद्धेः। न च स्मृत्या। कालानलस्य वीक्षणकर्मत्व- श्रवणेन स्मृतिकर्मत्वासिद्धेः । तस्मादशक्यवस्त्वन्तरकरणं विशेषालंकार- स्यैव प्रभेद इति प्राचामाशयः । अत्र विचार्यते-विशेषालंकारस्यायं प्रभेद इति कथं विज्ञायते। नहि रूपकादिवदलंकारस्यास्य किंचित्सामान्यलक्षणमस्ति, येन तदाक्रान्तत्वे- नाशक्यवस्त्वन्तरकरणत्वस्य तत्प्रकारतामभ्युपगच्छेम। न चान्यतमत्व- मेव तथाविधमस्तीति वाच्यम्। अनेनैव प्रकारेणेतरालंकारभेदत्वस्यापि सुवचत्वात्। अनुगतलक्षणं विना प्राचीनोक्तिराज्ञामात्रमेव राज्ञामिंति तद्- पेक्षया पृथगलंकारतोक्तिरेव रमणीया। अपि च 'येन दष्टोऽसि देव त्वं तेन दृष्टो हुताशनः,' 'तेन दृष्टा वसुंधरा' इत्यादौ वस्त्वन्तरस्य हुताशन- वसुधादर्शनादेरशक्यासंभावितत्व योर भावात्प्रकृतालंकारासंभवेन निदशना स्वीक्रियते यदि, तदा 'येन दष्टोऽसि देव त्वं तेन दष्टः सुरेश्वरः' इत्यादौ विशेषालंकारेऽपि सैव शरणीक्रियताम्। नहि हुंताशन इत्यत्र सुरेश्वर इत्यत्र च विच्छित्तिभेदोऽस्ति। एवं च प्राचीनानुसारेण 'कोदण्डच्युत- १ सर्वस्याऽयमाशय :- विशेषालंकारे रामदर्शनमेव कालानलदर्शनाSभिन्नत्वेनाध्यवसीयते। यतो हि अलंकारलक्षणे 'प्रकृतकार्याSSरभणे एव अन्यकार्यनिर्वर्तनम्' इत्यनेन प्रकृतकार्ये अशक्यकार्यस्याडमेदो विवक्षितः । 'दधिविक्रयं कुर्वत्या नीलमणिर्लब्धः' अत्र तु दधिविक्रये नीलमणेनाभेदाध्यवसायः । इति न प्रसङ्गस्तृवीयप्रकारातिप्रसक्तेः। २ एतदन्यतमत्वमितिवत् प्रतिपक्षिणा उपमा-रूपकादयन्यतमत्वं दिप्रभेदत्वमस्य स्यादित्यर्थः । शेषत्वमित्युक्ता उपमा-

३ 'तेन दृष्टो हुताशनः' इत्यादौ वर्णनकृतो योऽतिशयः स एव 'दृष्टः सुरेन्द्रः' अत्रापि। उपमानोपमेयभावकृतचमत्कारस्य समानत्वाद।

Page 677

व्याघात:]। रसगङ्गाघर: । ६१७

यदस्माभिरुदाहतं तद्पि न विशेषसरणिमारोदुमीष्टे। एतेन 'त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम्' इत्यादि कुवलयानन्दोक्तमुदाहरणं गतार्थम्। तस्मादिदमुदाहरणम्- 'किं नाम तेन न कृतं सुकृतं पुरारे दासीकृता न खलु का भुवनेषु लक्ष्मीः । भोगा न के बुभुजिरे विबुधरलभ्या येनार्चितोऽसि करुणाकर अत्र यावत्रिवर्गप्राप्तिरशक्यकरणम्। नह्यन्र भगवदर्चनेन सुकृतकर- णादीनां सादश्यं विवक्षितम्, येन निदर्शनादि संभाव्येत। किं तु कार्य- कारणभावः। एवं चेदानीमशक्यवस्त्वन्तरनिर्वर्तने अभेदाध्यवसाननिब- न्धनत्वं न विशेषणम्। न च 'दधि विक्रेतुमटन्त्या' इत्यत्रातिव्याप्तिः । द्वयो: संकरस्य तेत्रेष्टेरिति वद्न्ति। इवि रसगज्नाधरे विशेषालंकारप्रकरणम्।

अथ व्याघात :- यत्र ह्ेकेन कर्त्रा येन कारणेन कार्य किंचिन्निष्पादितं निष्पि- पादयिषितं वा तदन्येन कर्त्रा तेनैव कारणेन तद्विरुद्धकार्यस्य निष्पा- दनेन निष्पिपादयिषया वा व्याहन्यते स व्याघातः ।। अत्र व्याघाते पूर्वकर्त्रपेक्षया कर्त्रन्तरस्य वैलक्षण्यप्रत्ययाव्यतिरेक- सिद्धि: फलम्। कर्तृत्वं चेह कार्योद्देशेन प्रवर्तमानत्वम्। प्रयोजनं चा- स्या विवक्षाया अनुपद्मेव वक्ष्यामः। उदाहरणम्-

उदाहरण गतार्थमिति। अशक्यवस्त्वन्तरकरणकृताधिकचमत्कारसत्त्वादिदं चिन्तम् ॥ इति रसगङ्गाधरमर्मप्रकाशे विशेषालंकारप्रकरणम् ॥ प्राग्वदाह-अथेति। व्याहन्यते बाध्यते। लुंब्धो न विसृजतीत्युदाहरणे तात्का- १ 'कि नाम०' इति पद्ये त्रिषु चरणेषु यथाक्रमं धर्मार्थकामानां वर्णनमित्याशयः। २ ३षत्वादित्यर्थः । प्रहर्षणेन सह विशेषालंकारस्यापि सांकर्यमित्यभ्युपगमः कृत इत्याशयः । ३ त् कार्यम् अन्येन व्याहन्यते स व्याघात इत्यर्थः ।

Page 678

६१८ काव्यमाला L [ द्वितीयानने- 'दीनद्रुमान्वचोभि: खलनिकरैरनुदिनं दलितान्। पल्लवयन्त्युल्लसिता नित्यं तैरेव सज्जनधुरीणाः ।।' इह श्रुतिप्रतिपादितवचनत्वरूपैकधर्मपुरस्कारेणाभिन्नीकृतयोः परुष मधुरवचनयोरेकत्वाध्यवसानातपुरः रफुरन्विरोधः प्रातिस्विरिकरूपेण तत्त- त्कार्यहेतुताविमर्शान्निवर्तत इति विरोधमूलत्वम्। इदं तु नोदाहरणम्- 'पाण्डित्येन प्रचण्डेन येन मादयन्ति दुर्जनाः। तेनैव सज्जना रूढा यान्ति शान्तिमनुत्तमाम् ।।' अत्र दुर्जनसज्जनयोर्मद-शमकर्तृत्वेऽपि न तदुद्देशेन प्रवृत्तिरिति लक्ष- णगतकर्तृविशेषणेनासंग्रहः। न चास्य व्याघातोदाहरणत्वे को दोष इति वाच्यम्। आश्रयविशेषसवभावसाचिव्येनैकस्यैव कारणस्य विरुद्धकार्यद्वय- जनने बाधकविरहाव्याहतेरेवाभावादुदाहरणत्वासंगतेः। नहि लोकसिद्धो- डर्थः काव्यालंकारास्पदं भवितुमहति। अपरो व्याघातो यथा- 'विमुञ्सि यदि प्रिय प्रियतमेति मां मन्दिरे तंदा सह नयस्व मां प्रणययत्रणायत्रितः । अथ प्रकृतिरभी रुरित्यखिलभीतिभङ्गक्षमा- न्न जातु भुजमण्डलादवहितो बहिर्भावय ।।' १ दीना एव दुमाः तान्। खलसमूहैः (कर्तृभिः) वचोभिः (करणैः)। २ परुषवचन-मधुरवचने यद्यपि परस्परं, भिन्ने किन्त्वत्र 'वचोभिः' 'तैरेव' (वचोभिरेव) इति उभयत्र वचनत्वरूपस्य एकस्यैव धर्मस्योपादानादमेदाध्यवसायः । तथा च 'वचोभिरेव दलनम्, वचोभिरेव च पल्लवनम्' इति प्रथमं विरोधस्य स्फूर्तिः । ततः 'परुषं वचनं भिन्नं यस्य कार्य दलनम्, मधुरं च भिन्नं यस्य कार्यं पल्लवाद्यु्गेदनम्' इति विमशे स निवर्तते। इत्यस्याप्यलंकारस्य विरोधमूलकत्वम्। ३ सवभावतो मादन-शमनजनकत्वेपि अत्र तदुद्देशेन न तयोः प्रवृत्तिः। लक्षणे च 'कर्तृत्वं कार्येद्दिशेन प्रवृत्तत्वम्' गृंह्यते, इति नात्रा लंकारत्वप्रसक्तिरित्यर्थः । ४ एक्रमेव कारणं स्वाश्रयस्य (यस्मिन्नाधारे तत् कारणं तिष्ठति) स्वभावसहकारात परस्परविरुद्धमपि कार्यद्वयुसुत्पादयितुं शक्रोतीति बाधाडभावे व्याघातत्वमेव नेत्याशयः । ५ पूर्वे निष्पादितस्य व्याहननम्, द्वितीये व्याघाते निष्पादयितुमिष्टस्येति भेदः ।

Page 679

व्याघात: ]3 रसगङ्गाघर:। ६१:९ इदं दण्डकां प्रविविक्षुं भगवन्तं दाशरि प्रति भगवत्या जानक्या वाक्यम्। उभयविधेऽप्यस्मिन्व्यावाते पूर्वकर्तुरभीष्टव्याहननं तुल्यमिति प्राचां सिद्धान्तः । तथा च तेषामुदाहरणम्- चशा दुग्धं मनसिजं जीवयन्ति दशैव या: । विरूपाक्षस्य जयिनीस्त: स्तुवे वामलोचनाः ॥' इति। अत्र विचार्यते-व्यतिरेक एवात्रालंकारः। जयिनीर्विरूपाक्षस्य वाम- लोचना इति तस्यैव प्रकाशनात्। न चात्र व्यतिरेकोत्थापकतया व्याघातः स्थित इति वाच्यम्। एवमपि तस्यालंकारताया असिद्विः । न हयलंकारो- त्थापकेनालंकारेणैव भवितव्यमित्यस्ति नियमः। 'आननेनाकलङ्वेन जय- तीन्दुं कलङ्किनम्' इत्यादाविव वस्तुमात्रेणापि व्यतिरेकोत्थापनोपपत्तेः । नह्यस्योक्तप्रकारव्यतिरेकनिर्मुक्तो विषयोऽस्ति येन स्वातक्र्यमभ्युपगच्छेम। तस्मादलंकारान्तराविना भूतालंका रान्तर वदिहाप्यवान्तरोडस्ति विच्छित्तिवि- शेषोऽलंकारभेदक इति प्राचामुक्तिरेवात्र शरणम् । यत्तु 'लुब्धो न विसृजत्यर्थ नरो दारिघ्यशङ्कया। दातापि विसृजत्यर्थ तयैव ननु शङ्कया।।2 इति कुवलयानन्द उदाहृतम्, तन्न। १ अभीष्टव्याहननस्य तुल्यत्वान्न प्राचां मते निष्चादन-निष्पिपादयिषणकृतो भेद इत्याशयः। २ अयं सर्वस्याशय :- व्यतिरेक एवात्रंालंकारः । व्यतिरेकोत्थानस्य मूलं व्यावातो भव- न्नपि नालंकारपदवाच्यः स्यात्, अलंकारोत्थापकः अलंकार एव भवेदिति नियमाSभावात्। इति पूर्वपक्षः । व्याघातालंकारस्थले नियमेन व्यतिरेकः फलंभूतो भवेदिंति पूर्वसुक्तम्। ततश्च-यथाऽन्ये अलंकाराः अलंकारान्तरसंबद्धा अपि पृथग्विच्छित्तिविशेषवशात् पृथग्व्यप- देशभागिन: '[ यथा अनन्वयाडसमौ] तथा अत्रापि उत्थापकस्य व्याघांतस्य अवान्तरविच्छित्ति- वशात् प्राचामभिमतमलंकारत्वम्। इति सिद्धान्तः । ३ लुब्धस्य 'मम दारिद्रय मा: भूदिति' तात्कालिकदारिद्रयस्य शङ्का। दातुस्तु 'अग्निम- जन्मनि दारिद्रयं मा भूदिति', जन्मान्तरीयदारिद्रयस शङ्का। इति कारणभेदान्न व्याघातप्रस- कक्िरिति अन्थकृत् । द्योरि अभेदाध्यवसानात व्याघातलक्षणस्य समन्वय एवेत्वलंकार- चन्द्रिकाकारः ।

Page 680

६२० काव्यमाला। [ द्वितीयानने- एवं श्रषातिशयोक्त्ाययुपायोन्मीलितेन किंचिदंशाभेदाध्यवसानेनामुख एव प्रादुर्भावितो यो विरोधो विच्छित्तिमात्रात्मा क्षणप्रभावद्ननुवर्तमा- नस्तन्मूलका विरोधाभासादयो व्याघातान्ता अलंकारा निरूपिता: । ते च नानारूपं वैचित्र्यं भजन्तो विरोधाभासस्यैव प्रभेदाः, न तु ततोऽति- रिक्ता:, काञ्चनस्येव कङ्कणादय इत्येके 1 रूपकदीपकादीनामौपम्यगर्भाणा- सुपमाभेढत्वापनेर्नेट व्याकुली स्यादिति परस्परच्छायामात्रानुसारिणो भिन्नविच्छित्तयो भिन्ना एवेत्यपरे। इति रसगङ्गाधरे व्याघातप्रकरणम्।

अथ शृङ्गलामूला अलंकारा :- तत्र, पङ्किरूपेण निवद्धानामर्थानां पूर्वपूर्वस्योत्तरोत्तरसिमिन्, उत्तरो- त्तरस्य वा पूर्वपूर्वस्मन्संसृष्टत्वं शृङ्खला ।। तच्च कार्यकारणता-विशेषणविशेष्यतादिनानारूपम्। इयं च न स्वत- श्रोऽलंकारः, वक्ष्यमाणप्रभेदैर्गतार्थत्वात्। नह्यस्यास्तैर्विना विविक्तो विष- योस्ति। यथा हि रूपकादिष्वनुप्राणकतया स्थितोऽप्यभेदांशः समानध- मांशो वा न पृथगलंकार: एवं प्रकृतेऽपीत्याहुः। तदपरे न क्षमन्ते। सावे- यवादिभेदै रूपकस्य, पूर्णाछप्तादिभिरुपमायाश्च गतार्थत्वात्स्वतत्रालंकारता न स्यात्। नहि विशेषनिर्मुक्तं सामान्यमस्ति येन विविक्तो विषयः स्यात्। तस्माच्छृङ्गलाया एव कारणमालादयो भेदा इति। मतयोरनयोस्तत्त्वमु- परिष्टाद्विवेचयिष्यामः।

लिकजन्मान्तिरीयदारिद्यशङ्योरमेदाध्यवसानान्न लक्षणाSसमन्वय इत्याहुः ॥ इति रस- गङ्गाधरमर्मप्रकाशे व्याघातप्रकरणम् ।। १ अर्थात् आसुखे एव क्षणप्रभायाः (विद्युतः) इव आभासितस्य विरोधस्य विच्छित्ति- (शोभाचमत्कार ) विशेष एव स्वरूपमवशिष्यते, न स स्वयमग्रेऽनुवर्तत इत्यर्थः । २ सांक्यव-निरवयव-परम्परितादिभेदेभ्यो यथा रूपकसामान्यं पृथक्परिगण्यते तथा कार णमालादिमेदेभ्यः पृथक शङ्लालंकारस्य गणनेत्यपरेषां मतम्।

Page 681

1 रसगङ्गाघर:। ६२१

सैव शङ्ला आनुगुण्यस्य कार्यकारणभावरूपत्वे कारणमाला ॥ तत्र पूर्व पूर्व कारणं परं परं कार्यमित्येका। पूर्वं पूर्व कार्य परं परँ कारणमित्यपरा। यथाक्रमेण यथा- 'लभ्येत पुण्यैर्गृहिणी मनोज्ञा तया सुपुत्राः परितः पवित्राः। स्फीतं यशस्तैः समुदेति नूनं तेनास्य नित्यः खलु नाकलोक: ॥' 'स्वर्गापवगौ खल दानलक्ष्मीदोनं प्रसूते विपुला समृद्धिः । समृद्धिमल्पेतरभागघेयं भाग्यं ञ्ञ शंभो तव पादभक्ति: ।।' इह च यद्यादौ कारणोक्तिरेव स्तूयते तदा पुनस्तस्य कारणं तस्यापि कारणमिति, तत्कस्यचित्कारणं तद्पि कस्यचिदिति वा कारणमाला युक्ता। यदा तु कार्योकिस्तदा तस्य कार्यं तस्यापि कार्यमिति, तत्कस्यचि- त्कार्यं तद्पि कस्यचिदिति वा युक्ता। सर्वथैव यः शब्द: कार्यकारणतोप- स्थापक आदौ प्रयुक्त: स एव निर्वाह्यः । एवंक्रमेण निबन्धनमाकाङ्कानु- रूपत्वाद्रमणीयम् । अन्यथा तु भग्नप्रक्मं स्यात् । यथा आचीनानां पद्यम्- 'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणाधिके ुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥' अन्न जितेन्द्रियत्वं विनयस्य कारणं श्रुत्वा जितेन्द्रियत्वस्यापि किं कारणमिति, विनयः कस्य कारणमिति वा आकाङ्कोदेति। कारणस्यैव श्रुतिवशात्पूर्वसुपस्थितेः । कारणं तु ज्ञातम्, कार्यं पुनरस्य किमिति क्वचिदाकाड्डा तु कार्यत्व-कारणत्वयोः संबन्धिपदार्थत्वात्कारणश्रुत्युत्तर- मेकसंबन्धिज्ञानाधीनकार्यत्वोपस्थित्या संगमनीया। न त्वसौ सार्वत्रिकी। एवं च विनयः कस्य कारणमित्याकाड्कायां गुणप्रकर्षो विनयादवाप्यत

कारणमाला स्पष्टा ॥

१ कार्यकारणभावानुगुणा (अनुकूला) शृङ्खला कारणमालेत्यथैः । २ एकसंबन्धिज्ञानमपरसंबन्धिनः स्मारकमित्यनुगमानुसारं कारणरूपस्य एकस्य संबन्धिनः श्रवणानन्तरम् अपरस्य संबन्धिनः कार्यस्याप्युपस्थितिरित्यर्थः ।

Page 682

६२२ काव्यमाला। [द्वितीयानने-

इति वाक्यं यद्यमि फलतः परिपूरकं भवति, तथापि न साक्षादित्यहृद- यंगममेव। तथा गुणप्रकर्षात्किमाप्यत इत्याकाड्डायां गुणाधिके पुंसीति च। अन्न च कथितपदत्वं न दोषः। प्रत्युत पदान्तरेण तस्यार्थस्योक्तौ रूपान्तरेण स्थितस्य नटस्येव प्रत्यभिज्ञाप्रतिरोधकत्वाद्विवक्षितार्थसिद्धेर- कुण्ठितत्व विरहाद्दोष: स्यात्। शब्दादुपस्थितेऽर्थे प्रवृत्तिनिमित्तमिव शब्दोSपि विशेषणतया भासते। तथा चोक्तम्-'न सोडस्ति प्रत्ययो लोके यः शब्दानुगमाद्दते' इति। तत्तच्छब्दस्य विशिष्टश्चार्थः स्वरूपेणाभिन्नोऽपि विशेषणभेदाद्विलक्षणः प्रतीयते कुण्डगोलकादिवत्। ननु कुण्डगोलकादि- पदेषु मृतामृतभर्तृकत्वादिरूपविशेषणघटितं प्रवृत्तिनिमित्तमित्यस्तु भिन्ना- कारः प्रत्ययः । ताम्रः शोणो रक्त इत्यादौ तु ताम्रादिशब्दानां शक्तत्वेन शक्यतानवच्छेदकत्वाच्छक्यतावच्छेदकस्य च गुणगतजातिविशेषस्या- भिन्नत्वादभिन्नाकारः प्रत्यय एवोचित इति चेत्, सत्यम् ।

१ प्रतीतिरूपेण फलेन परिपूरकं भवति, साक्षात्परिपूरकं न, इत्यहृदयंगमभ्। साक्षात्प- रिपूरकं हि 'विनयो गुणप्रकर्षस्य कारणम्' इति वाक्यम्। 'गुणप्रकर्षों विनयादवाप्यते' इति तु फलबलात्परिपूरकमित्याशयः । २ गुणाधिके पुंसीति वाक्यं फलतः परिपूरकं भवति, न साक्षादित्यहृदयंगममेवेत्यनुयङ्ग: । साक्षात्परिपूरकं तु 'गुणप्रकर्षाज्जनानुरागः (अवाप्यवे)' इति। ३ प्रत्यभिज्ञायाः 'इदमेव तत्' इति परिचयस्य प्रतिरोधवशात् विवक्षितार्थसिद्धेः कुण्ठित- त्वाभावो न भवति अर्थात् विवक्षितार्थसिद्धिः कुण्ठिता भवतीति दोषः स्यात्। ४ 'गौः' (अस्ति) इत्यस्यार्थे प्रवृत्तिनिमित्तं गोत्वं यथा विशेषणं तथा गोशब्दोऽपीत्यर्थः । ५ पर्यायशब्दांनां तिमिणेण: स्वरूपत: एक: (एकरूपः) प्रतीयतां नाम, किन्तु विशे- पणस्य (विशेषणभूतस्य तत्तत्पर्यायशब्दस्य) भेदाद्विलक्षणः प्रतीयते। यथा कुण्डगोलकौ द्वावपि जारजवाचिनौ तथापि कुण्ड-गोलकेति शब्दरूपविशेषणभेदाद् द्वयोरथों विलक्षण एव। ६ नन्वित्यादे: संदर्भस्यायमाशय :- कुण्डशब्दस्याथें 'जीविते भर्तरि जारजातत्वम्' प्रवृ- त्तिनिमित्तम्। गोलकार्ये तु-'मृते भर्तरि जारजातत्वम्' ['अमृते जारजः कुण्डो मृते भर्तरि गोलकः' इत्यमरः ] इति प्रवृत्तिनिमित्तभेदाद्विन्नाकारः अर्थबोध उचित एव। ताम्रः शोण इत्यादौ तु ताम्रादयः शब्दाः शक्ताः । अत एव शब्दभेदे शक्तानां (शब्दानाम्) भेदः स्यात्। शक्यतावच्छेदकम् [रक्तगुणगतो जातिविशेष: ] तु एकमेव [ शक्तं पदम्। अर्थः शक्यः । प्रवृत्िनिमित्तभूतस्तदसाधारणधर्मः गोत्वादि शक्यतावच्छेदकम् ] इति शक्यताव- च्छेदकमेदाभावात् एक एव अर्थबोध उचित इति पूर्वपक्षः ।

Page 683

कारणमोलां ] रसगङ्गाघर:। ६२३

'उदेति सविता ताम्रस्ताम्र एवास्तमेति च। संपत्तौ च विपत्तौ च महतामेकरूपता ।।' इत्यत्न वैलक्षण्यशून्यतारूपस्यैकरूप्यस्य यथा प्रत्ययः, न तथा 'उदेति सविता ताम्रो रक्त एवास्तमेति च' इत्यत्र, इति सकलानुभवसिद्धम् । एवं च प्रवृत्तिनिमित्तभिन्नस्यापि शव्दस्य यदि शक्यविशेषणत्वं वैलक्षण्या- न्यथानुपपत्त्यानुभववलेन चसिद्धं तदा तद्नुगुणैव व्युत्पत्ति: शब्दानां कल्प्यते। सा च वृत्तिसंबन्धेनार्थविशिष्टशाब्दज्ञानत्वेन शब्दविशिष्टार्थो- पस्थितित्वेन च सामान्यकार्यकारणभावरूपा। घटत्वादितत्तत्प्रवृत्तिनिमित्त- प्रकारकबोधत्वेन तु वृत्तिसंबन्धेन घटविशिष्टपद्ज्ञानत्वादिना च विशे- षतोऽपर: कार्यकारणभावः । विशेषसामग्रीसहिताया एव सामान्यसा- मगर्या जनकतेति न कश्चिद्दोषः। यद्वा वृत्तिसंबन्धेन घटादिविशिष्टपद- १ 'उदेति सविता ताम्रस्ताम्र स्वास्तमेति च' इत्यत्र 'उदेति सविता ताम्रो रक्त एवास्तमेति च' इत्यत्र च अर्थबोधे मिथो वैलक्षण्यस्य अन्येन प्रकारेण उपपत्तिर्न भवतीति प्रवृत्तिनिमित्तम् (गोत्वादि) तु शक्यस्य विशेषणं मन्यत एव परं प्रवृत्तिनिमित्तादू भिन्नः शब्दोपि शक्यं प्रति विशेषणं भवतीति सिद्धमित्याशयः । २ वृत्तिसंबन्धेन अर्थविशिष्टं शब्दज्ञानं कारणम्, वृत्तिसंबन्धेन शब्दविशिष्ट अर्थोपस्थितिश्च कार्यम् [वृत्तिसंबन्धेनेति विशेषणस्य तात्पर्य, तु शब्दार्थयो्वेंशिष््यं वृत्ति(वर्तमानतां)संब- न्धेन बोध्यमित्यर्थें]। अर्थात् अर्थवृत्ति (अथे वर्तमानम्) शब्दज्ञानम्, एवं शब्दविशिष्टा अर्थोपस्थिति: अर्थात् शब्दे वर्तमाना अर्थोपस्थितिरिति सामान्यतः शब्दत्वस्य अर्थत्वस्य च निवेशात्सोयं सामान्यकार्यकारणभावः । ३ घटत्वादि तत्तत्प्रवृत्तिनिमित्तं प्रकार (विशेषण)भूतं [ शक्यार्थबोधे शक्यतावच्छेदकं धटत्वादिरूपं प्रवृत्तिनिमित्तं विशेषणं भवति ] यत्र ईदृशः कम्बुग्रीवादिमद्व्यक्तिरूपशक्यस्य (अर्थस्य) बोध: कार्यम्, वृत्तिसंबन्धेन (अर्थात् घटार्थें वर्तमानं पदज्ञानम्) घटरूपशक्य- विशिष्टं पदज्ञानं कारणम्। इति विशेषतः कार्यकारणभावः । ४ अर्थात तत्तद्विशेषसामग्रीबोधे उपयोगायैव सामान्यबोधसामत्रया उपयोगः 'निर्विशेषं न सामान्यम्' इत्याशयः । ५ पूर्वबोध घटादिपदस्यैव विशेषणतया निवेशः, न घटत्वादिशक्यतावच्छेदकस्येत्युभय- संग्रहार्थमाह। यद्वेति०-वृत्तिसंबन्धेन घटादिरूपशक्यार्थविशिष्टं पदज्ञानं कारणम्। घटादि- पदम्, घटत्वम् (प्रवृत्तिनिमितं शक्यतावच्छेदकम्), चेत्युभयं प्रकारभूतं यत्र, वटरूप; शक्यश्च विशेष्यभूतो यत्र ईदशी पदार्थोंपस्थिति: कार्यम्। इति। पदार्थोषस्थितौ यदा वटादिपदं विशेषणं तदा शाब्दबोधेडपि घटादिपदस्य विशेषणत्वं स्वीकार्यमेवेत्यर्थः ।

Page 684

६२४ काव्यमाला।

कार्यकारणभावः। पदार्थोपस्थितिशाब्दबोधयोः समानाकारत्वाच्छाव्द- बोधेऽपि पद्भानम्। अनुभवबलाच्च प्रामाणिकं गौरवं न दोषाय। एत- दभिसंधायैवोक्तम्-'न सोऽस्ति' इत्यादि। इवि रसगङ्गाघरे कारणमालाप्रकरणम्।

अथैकावली- सैव शङ्खला संसर्गस् विशेष्यविशेषणभावरूपत्वे एकावली।। सा च पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वे विशेषणत्वे चेति द्विधा। तैत्राद्ये उत्तरोत्तरविशेषणस्य स्थापकत्वापोहकत्वाभ्यां द्वैविध्यम्। स्वसं- बन्धेन विशेष्यतावच्छेदकनियामकत्वं स्थापकत्वम्। स्व्यतिरेकेण विशे- व्यतावच्छेदकव्य तिरेकबुद्धिजनकत्वमपोहकत्वम्। उदाहरणम्- 'स पण्डितो यः स्वहितार्थदर्शी हितं च तद्यन्न परानपक्रियाः । परे च ते ये श्रितसाधुभावाः सा साधुता यत्र चकास्ति केशवः॥।'

अत्र स्थापकम् । 'नार्यः स यो न सवहितं समीक्षते न तद्धितं यन्न परानुतोषणम्। न ते परे यैनहि साधुताSडश्रिता न साधुता सा नहि यत्र माधवः।।'

प्राग्वदाह-अथेति। परानपेति । परानपकार इत्यर्थः । तेषां शङ्कलावयवानां

१ विशेष्यत्वे। पूर्वपूर्वस्य यत्र विशेष्यत्वम्, उत्तरोत्तरस्य च यत्र विशेषणत्वं तत्र तदि- शेषणं स्थापकम् (स्वस्य संयोगे सति विशेष्यतावच्छेदकस्य अर्थात् स्वासाधारणधर्मस्य स्थिरी- करणं भवति)। यथा-'स पण्डितो यः सवहितार्थदशी', अन्र पण्डित इति पूर्व विशेष्यम्। उत्तरं 'स्वहितार्थदर्शी' इति विशेषणम् (स्थापकम्)। यतो हि स्वहितार्थदशी इति विशेषणस्य संबन्धो यदा भवति तदैव विशेष्यतावच्छेदकस्य माण्डित्यस्य स्थापनम् (हितार्थदरशी एव पण्डितः, नान्यः इति) । अपोहकं तु-स्वस्य (विशेषणस्य) व्यतिरेके (अभावे) विशेष्य- तावच्छेदकस्यापि अभावबुद्धेर्जनकं भवति। यथा-'नार्यः स यो न स्वहितं समीक्षते' अत्र पूर्वस्य आर्यस्य विशेष्यत्वम्। उत्तरं 'यो नं हितं समीक्षते' इति विशेषणम् (अपोहकम्)। यतो हि स्वस्य(स्वहितसमीक्षणरूपविशेषणस्य) अभावे विशेष्यतावच्छेदकस्य आर्यत्वस्यापि अभावबुद्धिरुदेति (यो हितसमीक्षको नास्ति स आयों नास्तीति)।

Page 685

एकावली ] रसगङ्गाघरः । ६२५

अन्रापोहकं पूर्वपूर्वस्योत्तरोत्तरम्। यद्यपि स्थापकेऽप्यपोहकत्वं गम्यते यो न स्वहितार्थदर्शी स न पण्डित इत्यादि, तथा अपोहकेऽपि स्थापकत्वम्, यो हित समीक्षते स आर्य इत्यादि, तथापि शब्देन नोच्यत इत्यदोष: । 'धर्मेण बुद्धिस्तव देव शुद्धा बुद्ध्या निबद्धा सहसैव लक्ष्मीः । लक्ष्म्या च तुष्टा भुवि सर्वलोका लोकैश्च नीता सुवनेषु कीर्तिः ॥' इह पूर्वेण पूर्वेण स्वाव्यवहितमुत्तरोच्रं विशेष्यते। अस्मिंश्चैकावल्या द्वितीये भेदे पूर्वपूर्वैः परस्य परस्योपकारः क्रियमाणो यद्ेकरूपः स्यान्त- दायमेव मालादीपकशव्देन व्यवह्ियते प्राचीनैः । तथा चोक्तम्-'माला- दीपकमादयं चेद्यथोत्तरगुणावह्म्' इति। तत्र मालाशब्देन शृङ्गलोच्यते दीपकशब्देन दीप इवेति व्युत्पतत्या एकदेशस्थं सर्वोपकारकमुच्यते। तेनैकदेशस्थसर्वोपकारकक्रियादिशालिनी शृङ्गलेति पदद्वयार्थः । एवं च दीपकालंकारप्रकरणे प्राचीनैरस्य लक्षणाद्दीपकविशेषोऽयमिति न भ्रमित- व्यम्, तस्य सादृश्यगर्भतायाः सकलालंकारिकसिद्धत्वात्। इह च शृङ्धलावयवानां पदार्थानां सादश्यमेव नास्तीति कर्थंकारं दीपकतावाचं श्रद्दधीमहि। तेषां प्रकृताप्रकृतात्मकत्वविरहाच। विवेचितं चेदं सोदाह- रणं दीपकप्रकरणेSस्माभिरिति नेहातीवायस्यते। एतेन 'दीपकैकावली- योगान्मालादीपकमिष्यते' इति यदुक्तं कुवलयानन्दकृता तद्धान्तिमात्रवि- लसितमिति सुधीभिरालोचनीयम्। इति रसगङ्गाधर एकावलीप्रकरणम्।

पदार्थानाम्। तन्द्ान्तिमात्रेति। तन्रापि दीपकशब्दस्योपकारकपरलम्। अत एव

प्रकाश एकावलीप्रकरणम् ॥ १ पूर्वपूर्वस्य विशेषणत्वमुदाहरति-धर्मेण बुद्धिरिति। २ अर्थात पूर्वपूर्वम (विशेषणम्) उत्तरोत्तरस्य (विशेष्यस्य) एकरूपेण उपकारकम्। यथा-संत्रामाङगणमागते नेत्यादिपद्े 'कोदण्डेन शरा आसादिताः, शरैः अरिशिरः आसादि- तम्', इत्यादौ पूर्वस्य कोदण्डादिविशेषणस्य उत्तरं शरादिं विशेष्यं प्रति आसादनरूपेण एकेन प्रकारेण उपकारिता। ३ यथा-कोदण्ड-शर-अरिशिरः- भूमण्डलादीनां न मिथः सादृश्यमित्यर्थः । ५३ रस०

Page 686

६२६ काव्यमाला। [ द्वितीयानने-

अथ सार :- सैवं संसर्गस्ोत्कृष्टापकृष्टभावरूपत्वे सारः।। तन्नापि पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षापकर्षाभ्यां द्वै विध्यम् । 'संसारे चेतनास्तत्र विद्वांसस्तत्र साधवः। साधुष्वपि स्पृहाहीनास्तेषु धन्या निराशयाः ॥' इमं चालंकारमेकानेकविषयत्वेन पुनर्द्विविधमामनन्ति। एकविषयता- यामवस्थादिभेदाश्रयणमावश्यकम्। उत्कषापकर्षयोर्भेदनियतत्वात्। नह्य- वस्थादिभेदकं विना किंचिद्पि वस्तु स्वापेक्षया स्वयमधिकं न्यूनं वा भवितुं अभवति। एकविषय उत्तरोत्तरोत्कर्षो यथा- 'जम्बीरश्रियमतिलङ्म्य लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ। नीलाम्भोरुहेनयनेऽघुना कुचौ ते स्पर्धेते खलु कनकाचलेन सार्धम्।।' अन्र पूर्वपूर्वावस्थाविशिष्टाभ्यां कुचाभ्यामुत्तरोत्तरावस्थाविशिष्टयोस्तयो- रेवोत्कर्ष इत्येकविषयत्वम्। यद्यपि परिमाणभेदेन द्रव्यभेदोऽपि मतविशेषे शक्यते वक्तुम्, तथापि कुचत्वेनाभेदाश्रयणेन तत्राप्येकविषयत्वं सूपपा- दम्। यदि च वक्ष्यमाण एकाश्रये क्रमेणानेकाधेयस्थितिरूप: पर्यायोऽत्र प्रतीयते तदा सोऽप्यस्तु । नहि तेन पूर्वपूर्वांपेक्षयोत्तरोत्तरोत्कर्षरू प : सारोऽन्यथासिद्धः शक्य: कर्तुम् । अनेकविषयः स एव यथा- 'गिरयो गुरवस्तेभ्योऽपयुर्वी गुर्वी ततोऽपि जगद्ण्डम् । जगदुण्डादुपि गुरवः अ्लयेऽव्यचला महात्मानः ।।' वेदेऽव्ययमलंकारो दृश्यते-

प्राग्वदाह-अथेति। तत्रापि पुरुषेऽपि। इति रसगङ्गाधरममप्रकाशे सारप्रकरणम्॥ १ शङ्गलैव । २ संबोधनम्। ३ पूर्वपूर्वावस्थाविशिष्टकुचापेक्षया उत्तरोत्तरावस्थाविशिष्टौ कुचौ उत्कृष्टौ इत्यर्थः । एक- स्यैव कुचपदार्थस्य अवस्थाभेदेन उत्तरोत्तरोत्कर्ष इति सारालंकारः ।

Page 687

सार: ] रसगङ्गाधर: । ६२७

'महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ।।' पूर्व तु गुणकृत उत्कर्षः, इह तु स्वरूपमात्रकृत इति विशेष: । न चात्र गुणकृत उत्कर्षो वाच्यः। पुरुषस्य निर्गुणत्वेनाभ्युपगमात्। न च तत्रापि विनाशरहितत्वादिर्गम्यमानो गुण उत्कर्षक इति वाच्यम्। तस्य तादृशाधिकरणभिन्नत्वे मानाभावात्। अनयैव दिशापकर्षोऽप्युद्ाहार्य:। इदं तु बोध्यम्-एकविषये शृङ्धलाया अचारुत्वात्तदनुप्राणितः सारों न चारुतां धत्ते। तस्याः स्वाभाविकभेदापेक्षित्वेनावस्थादिकृतभेदेऽनुल्ला- सात्। अत एवास्मिन्विषये वर्धमानकालंकारोऽन्यैरङ्गीकृतः । तल्लक्षणं च 'रूपधर्माभ्यामाधिक्ये वर्धमानकम्' इति कृतम्। तस्मात्कारणमालादिर्यथा शृङ्गलैकविषयः, न तथा सारः शक्यो वक्तम्, एकविषयेलंका- रान्तराभ्युपगमप्रसङ्गात् । 'गुणस्वरूपाभ्यां पूर्वपूर्ववैशिष्ने सारः' इति तु लक्षणं सारस्य युक्म् । स च कचिच्छङ्कलानुप्राणितः, कवचित्स्व- तब्र इत्यनेकविषयत्वमेकविषयत्वं च सुस्थम्। एवं शृङ्गलाविषयाणाम- लंकाराणां विच्छित्तिवैलक्षण्यस्यानुभवसिद्धत्वात्पृथगलंकारत्वे सिद्धे शृङ्ध- लाया विरोधाऽभेदसाधर्म्यादिवदनुप्राणकतैवोचिता, न पृथगलंकारता। तथात्वेऽभेदादीनामपि पृथगलंकारतापत्तेः । पूर्णालप्ादौ तुन विच्छित्ति- वैलक्षण्यम्, अपि तूपमाविच्छित्तिरेवेति संप्रदायः। ननु केयं विच्छित्तिः ?

१ विनाशरहितत्वं गुणः स्वाधिकरणात्पुरुषाद् भिन्नो न अविनाशिनः पुरुषात् स गुण: (विनाशराहित्यम्) अभिन्नः तद्रूप इत्यर्थः । २ अवस्थाभेदेन एकस्योत्कषें। ३ एकस्य अवस्थाभेदेन उत्कर्षे वर्धमानकं भवति, न शृङ्गला। शृङ्गलाविषयास्त्वलंकारा: सदा शृङ्धलारूपा एव भवन्ति नान्यथेत्याशयः । ४ एवं लक्षणे कृते शृङ्मलामात्रविषयत्वाभावे (वर्धमानकत्वे) व्यभिचारो नायातीत्यर्थः । ५ अङ्गत्वेपि यदि पृथगलंकारत्वं स्यात्तदा। ६ शृङ्धलापेक्षया शृङ्गलाविषयाणामेकाववयाद्यलंकाराणां विच्छित्तिवैलक्ष्या पृथगलंकार ता । शुङ्कलायास्त्वनुप्राणकत्वमात्रम्। पूर्णा उप्ता इत्यादीनां तु न विच्छित्तिवैलक्षण्यमिति न पृथ- गलंकारत्वम्। अपि तु उपमाकृतविच्छित्या उपमाप्रभेदत्वमेवेत्याशयः ।

Page 688

५२८ काव्यमाला। [ द्वितीयानने-

उच्यते-अलंकाराणां परस्परविच्छेदस्य वैलक्षण्यस्य हेतुभूता जन्यतासंस- र्गेण काव्यनिष्ठा कविप्रतिभा, तज्जन्यत्वप्रयुक्ता चमत्कारिता वा विच्छित्तिः। इति रसगङ्गाधरे सारप्रकरणमू। अथ काव्यलिङ्गम्- अनुमितिकरणत्वेन सामान्यविशेषभावाभ्यां चानालिङ्गितः प्रकृ- तार्थोपपादकत्वेन विवक्षितोऽर्थः काव्यलिङ्गम् । उपपादकत्वं च तन्निश्चयजनकज्ञानविषयत्वम्। अनुमानार्थान्तरन्यास- योर्वारणायानालिङ्गितान्तम्। उपमादिवारणायोपपादकत्वेनेत्यन्तम्। पञ्च- म्यादिशब्दप्रतिपादितहेतुत्वकस्य हेतोरेव वारणायोपपादकत्वेन विव- क्षित इति। न तु शब्दात्तेन रूपेण बोधित इत्येतदर्थफलकम्। तेन 'भयानकत्वात्परिवर्जनीयो दयाश्रयत्वादसि देव सेव्य:' इत्यादौ नायमलं- कारः । गम्यमानहेतुत्वकस्यैव हेतोः सुन्दरत्वेनालंकारिकैः काव्यलिङ्गता- भ्युपगमात्। तच्च सुबन्ततिङन्तार्थत्वाभ्यां तावह्विविधम् । आद्यमपि श्रब्दान्तरार्थविशेर्षितशरीरम्, शुद्धैकसुबन्तार्थरूपं चेति द्वेधा। अत्राप्यादयं साक्षात्परम्परया वा वाक्यार्थविशेषितम्, सुबन्तार्थमात्रविशेषितं चेति द्विभेदम्। तिङन्तार्थभूतमपि साक्षात्परम्परया वा वाक्यान्तरार्थविशेषि- तम्, सुबन्तार्थमात्रविशेषितं चेति द्विप्रकारम्। शुद्धभेदस्तु तिङन्तार्थस्य न संभवति, क्रियायाः कारकविशेषितत्वावश्यंभावात्। शिष्टमग्रे निरू- पयिष्यते। उदाहरणम्- प्राग्वदाह-अथेति। तच्च काव्यलिक्गम्। अन्नापि अनयोरपि। व्रातं समूहः । १ परस्परविच्छेदहेतु( जन्यतासंसर्गेण)काव्यनिष्ठप्रतिभाजन्यत्वहेतुका चमत्कृतिरित्यर्थः । २ प्रकृतार्थोंपपादकतया वक्तुमिष्टः (नतु हेतुतया शब्देन प्रतिपादितः) अर्थः (हेतु- रूप:) काव्यदि थः ३ हेतलंकारे हेतुत्वं पञ्चम्यादिशब्दैः प्रतिपादितं भवति। अत्र तु उपपादकहेतुत्वं गम्य- मानमेव भवति न तु शब्दप्रतिपाद्म्। तस्मात् हेत्वलंकारवारणाय 'प्रकृताथोंपपादकत्वेन विव- क्षितः' (अर्थात् यस्य उपपादकत्वं न शब्देनाभिद्दितम्, अपि तु स उपपादकतया वक्तुमिष्टः) इत्युक्ति: । तेन च 'भयानकत्वात०' इत्यादौ हेतुत्वस्य पञ्चम्या उक्तत्वात् न कान्यलिङ्गा- लंकारत्वमिति सर्वस्याशयः । ४ केवलमेकं सुबन्तरूपमेव हेतुर्न, तत्र अन्यशब्दार्था अपि विशेषणभूता: स्युरिति।

Page 689

काव्यलिङ्गम् ] रसगङ्गाघर: । ६२९

'विनिन्दान्युन्मत्तैरपि च परिहार्याणि पतितै- रवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः । हरन्ती लोकानामनवरतमेनांसि कियतां कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे।।' अत्र ह्वनन्यसाधारणतया प्रतिपादितस्य भगवत्या भागीरथ्या उत्कर्ष-

रणः श्रमाभावः सुवन्तमात्रार्थविशेषितः सुवन्तार्थो विशेषवपुहेतुत्वे- नोपात्तः। 'त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धतिविधौ करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः । इमं तं मामम्ब त्वमथ करुणाक्रान्तहदये पुनाना सर्वेषामघमथनदर्प दलयसि ॥।' अत्र सकलदेवतीर्थदुर्पदलनस्य सिद्धये स्वात्मपवित्रीकरणं वक्रा निब- द्धम्। तच्च क्षुद्रत्वात्तादशसिद्दसमर्थ विशेषकान्तरमाकाङ्कतीति तीर्थेकर्त- कत्रपाकरणम्, कपालिप्रभृतिकर्तृककर्णमुद्रणं चेति वाक्यार्थद्वयं स्वात्म- रूपकर्मद्वारा विशेषकमुपात्तम्। तद्विशिष्टं च तादशपवित्रीकरणं भागी- रथ्युपारूढं तादशकार्योपपादनसमर्थमिति भवति हेतुः । 'पद्मासनप्रमुखनिजरचित्तवृत्ति- दुष्पापदिव्यमहिमन्भवतो गुणौघान्। तु्टषतो मम नितान्तविशृङ्धलस्य मन्तु शिशोः शिव न मन्तुमिहासि योग्यः ।।' १ अन्र 'अश्रान्ता' इति विशेषवपुः सर्वांपेक्षया विशिष्टः सुबन्ताथों हेतुत्वेनोपातः, यो हि 'एवंभूतानि एनांसि हरन्ती' इत्यादिसुबन्तमात्रारथैः (न तु कुत्रच्वित्तिङन्तार्थों मिश्रितः) विशेषितः । २ एकमात्रस्य आत्मनः (जगन्नाथकवेः) पवित्रीकरणं तादृश( सकलदेव-तीर्थदर्पदलन)- सिद्धये असमर्थम्। अत एव विशेषकान्तरम् (विशेषयति विशिनष्टि वा यत् ईदशमन्यत्)। ३ साक्षात्परम्परया वा वाक्यार्थ(तीर्थत्रपाकरण-कर्णमुद्रण)विशेषितः स्वात्मपवित्री- करणरूप: सुबन्ताथेः सकलदेव-तीर्थदर्पदलनोपपादकहेतुत्वेनोपाच् इत्युदाहरणम्। ४ निर्जराणां चित्तवृत्त्या दुष्प्रापो दिव्यमहिमा यस्य तत्संबुद्धौ। ५ मन्तुम् (अपराधम्) मन्तुं योग्यो नाऽसि।

Page 690

६३० काव्यमाला। [द्वितीयानने-

अन्न शिशुत्वं शुद्धैकसुबन्तार्थोऽपराधक्षमाकरणे हेतुः। तथा दिव्यम- हिमत्वमचिन्त्यमाहात्म्यं सुबन्तार्थविशेषितसुबन्तार्थरूपं ब्रह्मादिचित्तदुष्प्रा- पत्वे। एवं तादशपरमेश्वरगुणकर्मकस्तवो मन्तौ। तादशस्तवे च विशृङ्गल- त्वमिति शुद्धसुबन्तार्थोदाहरणे विशिष्टसुबन्तार्थस्याप्युदाहरणम्। 'तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा मया सर्वेऽवज्ञापुरपथमनीयन्त विबुधाः। इदानीमौदास्यं यदि भजसि भागीरथि तदा निराधारो हा रोदिमि कथय केषामिह पुरः ॥' अत्र निराधार इत्यादिनाभिव्यक्ते वक्तनिष्ठसकलकर्तृकद्वेषे आत्मकर्तृका- वज्ञापुरपथनयनरूप: सुबन्तार्थविशेषितस्तिङन्तार्थ उपपादकः । 'विश्वास्य मधुरवचनैः साधून्ये वञ्चयन्ति नम्रतया। तानपि द्धासि मातः काश्यपि यातस्तवापि च विवेकः ॥' अन्नापि पृथिवीविवेकनाशोपपादने तिङन्तार्थस्य धारणस्य सुबन्तार्थ- विशेषितस्य तस्यैव जनधारणात्मनो वा असामथ्यात्साधुवञ्नरूपपूर्ववा- क्यार्थविशेषितं धारणं हेतुः । विशेषणत्वं च कर्मणि विशेषणत्वात्परम्प- रया बोध्यम्। एते च भेदाः प्राचीनकल्पितपदार्थ-वाक्यार्थभेदद्वयवच्चातुर्य- मात्रेण कल्पिताः, न तु वैचित्र्यविशेषेण। अथानुमानादस्य को विशेष: ? ननु व्याप्यत्व-पक्षधर्मत्वाभ्यां ज्ञाय- मानमेवार्थसाधकमनुमानम्, स्वरूपेण ज्ञायमानं प्रकृतार्थोपपादकं काव्य-

१ तादृशपरमेश्वरस्य गुणाः कर्मभूता यत्र ईदृशः स्तवो मन्तौ हेतुरित्यर्थः । एवमग्रेऽपि विशृङ्गलत्वं हेतुरित्यनुषङ्गो बोध्यः । २ वक्तरि (कवौ) तिष्ठति पतादृशे सकलदेवकर्तृके द्वेषे 'तव आलम्बात् अवज्ञापथम्' इत्यादिसुबन्तार्थविशेषितः 'अनीयन्त' इति तिङन्तार्थः । ३ 'पृथिवि तव विवेको यातः' इति विवेकनाशोपपत्तौ 'दधासि' इति धारणरूपकेवल- तिडन्तार्थस्य, 'तान् जनान् दधासि' इति सुबन्तार्थविशेषितस्य तिङन्तार्थस्य वा सामर्थ्य नास्ति [जनानां धारणं पृथिव्याः स्वभाव एव अतो जनधारणेन न विवेकहीनत्वं सिद्धयति ]। अतः 'ये साधून् विश्वास्य वञ्चयन्ति तान् खलजनान् दधासि' इति पूर्ववाक्यार्थविशेषितं तिडन्तार्थरूपं धारणमत्र हेतुरित्यर्थः ।

Page 691

काव्यलिङ्गम् ] रसगङ्गाघर:। ६३१

लिङ्गमिति विशेप इति चेत् न, उपपादकं हि सत्यां युक्तौ। सा तु सति व्यर्भिंचार-पक्षावृत्तित्वयोरन्यतरस्यापि ज्ञाने न संभवति। यथा 'विनि- न्ययान्युन्मत्तैः' इत्युदाहृतपदये ताद्शश्रमाभाव उत्कर्षव्यभिचरितो भागीर- थ्यवृत्तिर्वेति ज्ञाने जात्वपि न सर्वोत्कर्षः सेडुमीष्टे। सेड्ुमीष्टे च सर्वो- त्कर्षाव्यभिचरितो भागीरथीवृत्तिश्चेति ज्ञाने। एवं हेतोः सर्वत्राप्युपपाद्या- व्यभिचरितज्ञान एवोपपत्तिः । अन्यथा तु इद्मेवमनेवं वा स्यादिति संदेह एव। तस्मादुपपत्ति-समर्थनादिविलक्षणशब्दप्रयोगा आलंकारिकाणाम- नुमितिसरणिमेवाभिनिविशन्ते। न च समर्थना दृढप्रत्ययः, न त्वनुमितिरिति वाच्यम्। स हीन्द्रियसंनिकर्षाभावान्न प्रात्यक्षिकः। अनुमितिसामग्रया बलवत्त्वान्न शव्दः । अत एव न मानसोऽपीति। सत्यम्, काव्यलिङ्गं. प्रकृतार्थोपपादकम्। उपपत्तिश्चानुमितिरेव। व्यभिचारित्वेऽपि हेतोस्तदानीं व्यभिचारास्फूर्तेः । तथापि नानुमानालंकारस्यात्र विषयः । श्रोतुर्यल्लिङ्ग- कार्नुमितिबुबोधयिषया कविः काव्यं निर्मिमीते तल्लिङ्गमनुमानालंकृतेर्वि- षयः, काव्यव्यापारगोचरीभूतानुमितिकरणमिति निष्कर्षः । काव्यलिङ्ग- ज्ञानजानुमितिस्तु न कविना श्रोतुर्वुबोधयिषिता। अत एवासौ न काव्य- व्यापारगोचरः । श्रोतुः केवलं कारणवशञाजजायत इति नास्त्ेवात्र जाय- मानायामप्यनुमितावनुमानालंकृतेर्विषयः। 'तस्मिन्मणिव्रातमहान्धकारे' इति वक्ष्यमाणपद्ये तु बुबोधयिषितैवानुमितिरित्यस्त्यनुमानविषयः । अपि च कविनिबद्धप्रमान्रन्तरनिष्ठा ह्यनुमितिरनुमानालंकृतिं प्रयोज- यति। श्रोतृनिष्ठा महावाक्यार्थनिश्चयानुकूला तु काव्यलिङ्गमिति

१ व्यभिचार: (हेतु-साध्ययोरव्याप्िः), पक्षे (पर्वतादौ) अवृत्तित्वम्, अनयोर्मध्ये अन्यतरस्य (एकस्य) अपि ज्ञाने न संभवति। २ हेतुः उपपाधन (यस्यार्थस्य उपपादनं क्रियते तेन) सह अव्यभिचरितत्वश्ञाने अर्थांत् उपपाद्यस्य हेतोश्च व्याप्ति: (सहचारः ) इति ज्ञाने एव। ३ शाब्दे प्रत्यये शब्दसामग्री प्रबला स्यात्। एवमेव मानसेSपि आन्तरिकसामगी। ४ यत् लिङ्गं यस्याम् ईदृशी याऽनुमितिस्तस्या बोधयितुमिच्छया। अर्थात् यं पदार्थ काव्य- व्यापारजनितायामनुमितौ कविर्हेतुं करोति स हेतुः [काव्यव्यापारगोचरीभूताया अनुमिते: करणम् (असाधारणकारपम्) ] अनुमानालंकारस्य विषय इत्यर्थः ।

Page 692

६३२ काव्यमाला। [द्वितीयानने-

मेहान्विशेष: । एवं च काव्यलिङ्गातिप्रसङ्गवारणायानुमानलक्षणप्रवि- ष्टातुमितौ काव्यव्यापारगोचरत्वं विशेषणं देयम्। यतु 'समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थकम्' इति कुवलयानन्दकारो लक्षणमकार्षीत्तदृपि सामान्यविशेषभावानालिङ्गितत्वविशेषणरहितं चेद- र्थान्तरन्यासे स्यादेवातिप्रसक्तम्। यद्पि, "-यत्वन्नेन्नसमानकान्ति सलिले ममनं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी। येपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ।।' 'मृग्यश्च दर्भाङ्करनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम्। व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि॥' पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूपश्चतुर्थपादार्थ हेतुः । उत्तरत्र तु संबोधने व्यापारयन्त्य इति मृगीविशेषणत्वेनानेकपदार्थो हेतुरुक्तः" इत्य- लंकारसर्वस्वकृतोक्तम्, अनुमोदितं च कुवलयानन्दकृता। तदुभयमसत्। अनुमानार्थान्तरन्यासविषये हेत्वलंकारो नेति तावत्सर्वसंमतम्। अन्यथा तयोरुच्छेदापत्तेः। अयं चानुमानस्यैव विषयः। चतुर्थचरणे दैवरूपे पक्षे नायिकाङ्गसादृश्य दर्शनजन्यसुखासहिष्णुत्वरूपसाध्यस्य चरणत्रयवेद्येन

मात्रमवधारणे। उपसंहरति-एवं चेति। अन्विति। यत इत्यादिः। न्यासे स्या- देवातिप्रसक्तमिति। प्राचीनमते समर्थनीयेत्यनेनैव वारणात्। मतान्तरे तु सामा- न्यविशेषभावानालि्ञिततवं विशेषणं देयमित्यर्थान्तरन्यासप्रकरणे तद्रन्थ एव स्फुटम्। १ अयं सर्वस्याशयः-अनुमानालंकारे अनुमिति: (हेतुद्वारा पक्षे साध्यस्य निश्चयरूपो व्यापार:) काव्यव्यापारगोचरत्वात् (काव्यरचनायां निबद्धत्वात्) कविद्वारा श्रोतृणां बोधयि- तुमिष्टा भवति । एवंविधाया अनुमितेलिंङ्गम् अनुमानालंकारस्य विषयः । काव्यलिङ्गे तु कारणसामग्रीवशादनुमितिर्जायमानापि न सा कवेः श्रोतृभ्यो बोधयितुमिष्टा भवति। तादृश्याः (काव्यव्यापारस्य अविषयीभूतायाः, कविना बोधयितुं नाभिलषितायाः) अनुमितेः (उपपत्ति- समर्थनादिपदवाच्यायाः) हेतुः काव्यलिङ्गस्य विषयः । किञ्न-अनुमाने काव्यश्रोतृभ्यो- इतिरिक्तः अन्योऽपि प्रमाता (अनुमानजन्यज्ञानाश्रयः) मध्ये भवति, यथा 'तस्मिन्मणि- व्रात०' इत्यत्र कोकाः । काव्यलिङ्गे तु श्रोतैव केवलः उपपादकहेतुना अर्थ समर्थयति।

Page 693

काव्यलिङ्गम् ] रसगङ्गाधरः । ६३३

तत्तदङ्गसादृश्याधारविघटकत्वेन हेतुना सिद्धे: स्फुटत्वात्। दैवं नायिका- ङसादृश्यदर्शनजन्य-मदिष्टसुखासहिष्णु, तचन्नायिकाङ्गसादृश्याधारवि- घटकत्वात्, मदीयश्नन्ुभूतयज्ञदत्तादिवदिति च प्रयोग: । मृग्यञ्चेति द्वितीयपद्ये यद्यपि संबोधने वक्तनिष्टे मृगीनेत्रव्यापारो ज्ञायमान उत्पादकः, तथापि नासावुत्पादकता अनुमितिकरणताया अतिशेत इत्यनुमानालंकोर एव युक्तः। इर्यास्तु विशेष :- यत्पूर्वपद्येऽनुमितिर्गम्या, इह पुनर्बु- ध्यतेर्वाच्या। मृग्यो दक्षिणानिलसंपर्कवत्यः, दक्षिणाभिमुखविलक्षणनेत्र- व्यापारवत्त्वादिति च प्रयोगः । वैलक्षण्यं चोत्पक्ष्मेत्यादिनोक्तं बोध्यम्। अत्र वदन्ति-काव्यलिङ्गं नालंकारः। वैचित्र्यात्मनो विच्छित्तिवि- शेषस्याभावात्। स हि जन्यतासंसर्गेण कविप्रतिभाविशेष:, तन्निर्मितत्व- प्रयुक्तश्चमत्कृतिविशेषो वेत्युक्तम्। न चानयोरन्यतरस्याप्यत्र संभवः हेतुमद्भावस्य वस्तुसिद्धत्वेन कविप्रतिभानिर्वत्यत्वायोगात् । अत एव चमत्कृतिरपि दुर्लभा। श्रेषादिसंमिश्रणेन विच्छित्तिविशेषोSत्राप्यस्तीति तुन वाच्यम्। तस्य श्रलेषादयंशप्रयोज्यत्वेन काव्यलिङ्गस्यालंकारताया- स्तथाप्यसिद्धेः। यत्र तूपस्कारकवैचित्र्याद्विलक्षणं तदुंपस्कार्यवैचित्रयं तत्रास्तु नामोपस्कारकादुपस्कार्यस्य पृथगलंकारत्वम्। यथातिशयोक्तेर्हेतुफलोत्प्रे- क्षयोः । यत्र तूपस्कारकवैचित्रय एव विश्रान्तिस्तत्रोपस्कार्यमनलंकार

इह पुनर्बुध्यतेर्वाच्येति । अत्रेदं चिन्त्यम्-एवं हि काव्यलिङ्गमात्रे गम्यातुमा- नस्य सत्त्वेन तदुच्छेदापत्ते: । तस्मादनुमितेरबोधने गम्यल चेदमिति व्यवस्थाश्रयणान्न

१ अयं भाव :- मृग्यश्चेत्यत्र सहृदयद्वारा श्वायमानो मृगीणां नेत्रव्यापार: रामनिष्ठ-सम्य- गूबोधनरूपकार्यस्य (फलस्य) उत्पादकः । ततश्च नासौ अनुमानस्य विषयः। अनुमानस्य विषयो हि ज्ञाप्य-शञापक(साध्यसाधक)भावः । न पुनः कार्यकारणभावः । इति पूर्वपक्षः । इयं वास्तविकी उत्पादकता नास्ति, अपि तु अनुमापकतैवेति समाधानम्। २ अर्थात् समबोधयन्निति 'बुध' धातुना अभिधीयवे। ३ हेतूत्प्रेक्षायाः फलोत्प्रेक्षायाश्च अतिशयोक्तिद्वारैव उपस्करणम् (अहेतुरपि हेतुत्वेना- ध्यवसीयते) । किन्तु उपस्कारक(अतिशयोक्ति)वैच्वित्र्यापेक्षया उपस्कार्यस्य (उत्प्रेक्षायाः) वैत्वित्यं पृथक अनुभूयते इति पृथगलंकारत्वमित्याशयः ।

Page 694

६३४ काव्यमाला। [ द्वितीयानने-

एव। यथा प्रककते। एवं तर्हिं बहूनामलंकारत्वेन प्राचीनैरूरीकृतानामन- लंकारतापत्तिरिति चेत्, अस्तु। किं नश्छिन्नम् । तस्मात् 'निर्हेतुरूपदोषा- भाव: काव्यलिङ्गम्' इत्यपि वदन्ति। इति रसगङ्गाघरे काव्यलिङ्गप्रकरणम्। अथार्थान्तरन्यास :- सामान्येन विशेषस्य विशेषेण सामान्यस्य वा यत्समर्थनं तद- र्थान्तरन्यास:।। समर्थनं चेदमेवमनेवं वा स्यादिति संशयस्य प्रतिबन्धक इदमित्थमेवेति दृढप्रत्ययः। निश्चय इति यावत्। तन्र प्रकृतयोः सामान्यविशेषयोः सम- थर्त्वम्, अप्रकृतयोर्विशेषसामान्ययोः समर्थकत्वं प्रायशो दृश्यते। तच्च तावत्साधर्म्यवैधर्म्याभ्यां द्विविधम्। उदाहरणम्- 'करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः। कथमालि शृणोषि सादरं विपरीतग्रहणा हि योषितः ॥' अन्र संबोध्यकर्तृकस्य तदीयकुचवृत्तिकरिकुम्भतुलासादरश्रवणस्यानौ- चित्यं प्रतिपादयते। तच्च तस्यानिष्टसाधनत्वे संगच्छते। अनिष्टसाधनत्व- मपि तादशश्रवणमिष्टसाधनमिति बुद्या श्रवणं कुर्वाणायाः कान्ताया भ्रान्तात्वं विना दुरुपपादमिति स्त्रीत्वेन भ्रान्तात्वं प्रतिपादते। तच्च संबोध्यस्त्रीविशेषभ्रान्तत्वरूपस्य विशेषस्य सामान्यं समर्थकं च। 'उपकारमेव कुरुते विपद्गतः सह्गुणो नितराम्। मूच्छां गतो मृतो वा रोगानपहरति पारदः सकलान्।'

दोषः । अत्र मनं अन्तरितः गता इति क्रिया अन्तर्भावितण्यर्थाः । तादृशक्रियाकर्मी- भूतेन्दीवरादयो दैवनिष्ठलात्तत्सादृश्यदर्शनजन्यसुखासहिष्णुलोपपादकाः । मज्जितलाद्यु- पपादकानि तन्नेत्रसमानकान्तीत्यादिकानीति बोध्यम् । इवि रसगङ्गाधरमर्मप्रकाशे काव्यलिङ्गप्रकरणम् ॥

१ समर्थकहेतुविन्यासो हि काव्यलिङ्गमुपस्करोति। अत्र हि उपस्कारकस्य ताद्ृशहेतुवि- न्यासस्यव वैन्चित्र्यम्, न उपस्कार्यें काव्यलिङ्गे। इत्यनलंकारतैवाSस्येत्यर्थः ।

Page 695

अर्थान्तरन्यास: ] रसगङ्गाघरः । ६३५

अत्र विपद्गतसहुणकर्तृकोपकारस्य सामान्यस्य प्रकृतस्य मूर्च्छितमृतपा- रद्कर्तृकं रोगापहरणं विशेषः, उदाहरणतया समर्थकं च। पारदवृत्तान्ते प्रकृते तु पूर्वारधोत्तरावयोर्व्यत्यासे कृते सामान्यस्य विशेषसमर्थकताप्यत्रैव संभवति- 'अहन्नेको रणे रामो यातुधानाननेकशः । असहाया महात्मानो यान्ति कांचन वीरताम् ।।' अत्र विशेषस्य सामान्यं समर्थकम्। वैपरीत्ये तु सामान्यस्य विशेषः। 'असहाया-'इत्यादयुत्तरार्थमपास्य 'नूनं सहायसंपत्तिमपेक्षन्ते बलोज्झिताः' इति कृते विशेषो वैधर्म्येण सामान्यस्य। अर्धवैपरीते दुर्बलवृत्तान्ते प्रकृते तु वैपरीत्यम्। अस्मिन्नलंकारे समर्थ्यसमर्थकभाव आर्थः शाब्दश्चालंकार- ताप्रयोजकः। न तु काव्यलिङ्गे हेतुहेतुमद्भाव इवार्थ एव। हि यत् यतः इत्यादेः प्रतिपादकस्याभावे आर्थः। स तु कथितः 'मूच्छां गतो मृतो वा' इत्यत्र। तत्सत्त्वे शाब्द: । सोऽपि 'विपरीतग्रहणा हि' इत्यत्र । यथा वा- भवत्या हि व्रात्याधमपतितपाखण्डपरिष- त्परित्राणस्नेहः श्रथयितुमशक्यः खल यथा। ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति स्वभावोऽयं सवैरपि खल यतो दुष्परिहरः ॥' अत्र भगवत्या भागीरथ्याः स्तोतुश्च वृत्तान्तयोर्विशेषयोः समर्थकस्य चतुर्थचरणप्रतिपाद्यस्य सामान्यस्य समर्थकता यत इत्यनेनोच्यते। ननु सामान्यार्थो विशेषार्थसमर्थक इत्यस्य सामान्यव्याप्तिज्ञानं विशेषा-

१ अर्थात् पूर्वारधोत्तरावयोर्व्यंत्यासोत्तरं 'नूनं सहाय०' इत्यादिपरिवर्तने कृते 'महावलास्तु न अपेक्षन्ते' इति निषेधात्मकतया वैधर्म्येण (पूर्वतो वैपरीत्येन) विशेषः उत्तरार्धगतः ('एको रामोडहन्०' इति), पूर्वार्धगतस्य सामान्यस्य समर्थक इत्यर्थः । २ अर्थांत् 'नूनं सहायसंपत्ति०' इति यथावस्थितमुत्तरायें कृते 'अहन्नेक०' इति पूर्वाधे स्थापिते तु वैपरीत्यम् अर्थात् प्रकृतस्य विशेषस्य सामान्यं वैध्म्येंण समर्थकम्। ३ अर्थात् सामान्यं व्याप्तिज्ञानम् 'यत्र यत्र धूमस्तन्र तत्र वहिः' इति विशेषभूताया अनु- मितेः 'अस्मि पर्वते वह्निः' इत्यस्याः प्रयोजकम्।

Page 696

६३६ काव्यमाला। [द्वितीयानने-

नुमितिप्रयोजकमित्येवार्थः पर्यवस्यति। अन्यथा स्वभावादेर्दुष्परिहरत्वा- दिव्यभिचारज्ञानदशायां तादशार्थस्य समर्थकत्वाप्रतिपत्तेः। प्रतीतिविशदी- करणं समर्थकेन क्रियते, नानुमानमिति प्राचीनप्रवादस्त्वविचारितरमणीय इति नायं भेदोऽनुमानादतिशेते। अतिशेते च विशेषार्थेन सामान्यार्थ- समर्थनरूपोऽधि करणविशेषारूढ सहचार ज्ञानाहित व्याप्तिज्ञानदार्ढ्यात्मेति चेत्, कविः शृणोति। न चैवमपि विशेषेस्य सामान्यसमर्थनं नार्थान्त- रन्यासभेदो भवितुमीष्टे। प्रागुक्तोदाहरणालंकारेणैव गतार्थत्वादिति वा- च्यम्। इवादिप्रयोगाभावस्यैवान्र ततो वैलक्षण्यात्। एवमपि वाचका- भावादार्थोऽयमुदाहरणालंकारोऽस्तु, न त्वर्थान्तरन्यांसभेद इति चेत्, इद- मस्ति वैलक्षण्यम्-सामान्यार्थसमर्थकस्य विशेषवाक्यार्थस्य द्वयी गतिः। अनुवाद्यांशमात्रे विशेषत्वम्, विधेयांशस्तु सामान्यगत एवेत्येका। अनुवा- द्यविधेयोभयांशेऽपि विशेषत्वमित्यपरा। तत्रादा उदाहरणालंकारस्य विषयः, द्वितीया त्वर्थान्तरन्यासभेदस्य। एवं च 'मूच्छा गतो मृतो वा निद- शनं पारदोऽत्र रसः' इत्युदाहरणालंकारगते विशेषे उपकारमेव कुरुत इति १ अधिकरणविशेषे आरूढं यत् सहचारज्ञानम् [ यथा पारदे-'मूरच्छा-विपद्गतत्वेपि सद्गुण: पारदः उपकारसहचरित एव' इति] तेन आहितस्य व्याप्तिज्ञानस्य दार्ढ्यात्मकः अर्थात् विशेषस्थले सहचारं दृष्टा सामान्यस्थले व्याप्तिज्ञानं दृढीभवति यथा पारदे (विशेषे) सद्गुणोपकारयोः सहचारं दृष्ट्ा (सामान्यस्थले) 'सद्गुणशाली विपद्गतोपि उपकारक एव' अर्थात् सद्गुणोपकारयोः संकटदशायामपि सहचरितत्वम् (व्याप्तत्वम्) एवेति दार्ढ्य भवति। एवंविधं विशेषद्वारा सामान्यस्य समर्थनमेव नवीनम्, यतो हि अनुमाने व्याप्तिज्ञानं सामान्यं भवति। अत्र तु विशेष इति। २ विशेषेण सामान्यस्य समर्थनमर्थान्तरन्यासः (सामान्येन विशेषसमर्थनं त्वनुमाना- लंकार:) इति पूर्वं स्थापिते, न चवम् इत्यादिना तस्यापि उदाहरणेऽन्तर्भावं शङ्कते। विशेषकर्तृकं सामान्यकर्मकं समर्थनम् (विशेषद्वारा सामान्यस्येत्याशयः) इति तदर्थः । ३ 'उपकारमेव कुरुते विपद्गतः सद्ुणो नितरान्। मूच्छी गतो मृतो वा निदर्शनं पारदोऽत्र रसः इत्युदाहरणालंकारे मूर्च्छादिगतं पारदसुद्दिश्य उपकारकारकत्वं विधीयते। तथा च अनुवाद्यांशः पारदो विशेषः। उपकारकारकत्वं तु सद्गुणशालिनि पुरुषें सामान्ये यदासीत्तदेव। अर्थान्तरन्यासे तु 'उपकारमेव कुरुते विपद्गतः सद्गुणो नितराम्। मूच्छा गतो मृतो वा रोगानपहरति पारदः सकलान् ।' इत्यत्र मूर्च्छादिगतं पारदमनूद रोगापहार- कत्वं विधीयते। ततश्च पारदः रोगापहरणं चेत्युभयस्यापि विशेषत्वमेवेत्याशयः ।

Page 697

अर्थान्तरन्यास: ] रसगङ्गाघर: । ६३७

प्ाचीनसामान्यार्थगतैव यथोक्तरूपेण क्रिया विधेया। 'रोगानपहरति पारदः सकलान्' इत्यर्थान्तरन्यासगते तु पृथगुपात्तविशेषरूपेणेति। लक्षणे त्वस्य विशेषेणेत्यत्रोभयांशविशेषो ग्राह्यः । तेनोदाहरणालंकृतौ नाति- प्रसङ्ग:। यदि चायमल्पो विशेषो नास्योदाहरणालंकारात्पृथगलंकारतां साधयितुं प्रभवति, अपि तु तद्विशेषतामित्युच्यते, तदा उदाहरणालंका- रोऽर्थान्तरन्यासस्य, दष्टान्तस्य अ्तिवस्तूपमा, रूपकस्यातिशयोक्तिश् विशेषः । उपमैव चार्थी स्मरणभ्रान्तिमत्संदेहा इत्यपि सुवच स्यात्, तत्रापि विशेषस्याल्पत्वात्। किं चोदाहरणालंकारो न प्राचां मनःसंतोष- मावहृति, उपमयैव तैस्तस्य निरासात्। अतस्तेषां विशेषेण सामान्यस्य समर्थनमर्थान्तरन्यासं बिना नान्यत्र प्रवेष्टुमीष्ट इति। अत्र हि प्रतिज्ञा-हेत्ववयवयोरिवाकाङ्काकमप्राप्तं समर्थ्यसमर्थकवा- क्ययोः पौर्वापर्यमिति न मन्तव्यम्। नह्यन्र समर्थकं समर्थ्यांनुपपत्त्युत्था- पितायामाकाड्डायां सत्यामेवाभिधीयत इत्यस्ति नियमः। अनुपपत्तेरभावेऽपि प्रतीतिवैशदयार्थ कविभिस्तस्याभिधानात् । एवं च वैपरीत्येऽपि न दोषः । यथा-

'दीनानामथ परिहाय शुष्कसस्यान्यौदार्य वहति पयोधरो हिमाद्रौ। औन्नत्यं विपुलमवाप्य दुर्मदानां ज्ञातोऽयं क्षितिप भवादशां विवेक: ॥' प्राग्वदाह-अथेति । कविः शृणोतीति । कविनिबद्धप्रमात्रन्तरनिष्ठा ह्यनु- मितिरनुमानालंकारस्य विषय इत्यादिना काव्यलिङ्गालंकारे दत्तोत्तरत्वादिति भावः ।

१ अनुवादे विधेये च उभयत्र यत्र, विशेषस्तत्रैवार्थान्तरन्यासः, तेन उदाहरणे नातिप्रसङ्गः (विशेषद्वारा यत्र सामान्यस्य समर्थनं तत्रार्थान्तरन्यासः इति स्थापितमेतत्पर्यन्तम्)। २ अर्थात् उदाहरणालंकारस्यैवायम् (अर्थान्तरन्यासः) प्रभेद इत्युच्यते। ३ ततश्च दृष्टान्त-प्रतिवस्तूपमादिषु परस्परं विशेषस्याल्पत्वेपि दृष्टान्तादेः प्रतिवस्तूपमादयो न प्रमेदा: सिद्धयन्ति तथात्रापि उदाहरणालंकारस्य अर्थान्तरन्यासो न विशेषः किन्तु पृथग- लंकार एवेत्याशयः । ४ अनुमाने यथा 'पर्वतो वह्विमान्' इति प्रतिज्ञावाक्यं पूर्वम्, 'धूमात्' इत्यादीनां हेतु- तदवयववाक्यानां पश्चान्निर्देशः तथा अर्श्रान्तरन्यासे नास्तीत्यर्थः। ५४ रस०

Page 698

६३८ काव्यमाला । [द्वितीयानने-

अन्र दानेनासँभावितस्य विदुषो राजानं प्रति कोपवचने पूर्वार्धगतो विशेष उत्तरार्धगते सामान्ये प्रस्तुते समर्थकः । एवमप्रकृतैः प्रकृतस्य समर्थनमुदाहृतम्। प्रकृतेन प्रकृतसमर्थनं यथा- 'कस्तृप्येन्मार्मिकस्तन्वि रमणीयेषु वस्तुषु। हित्वान्तिकं सरोजिन्याः पश्य याति न षट्पदः ।।' जलक्रीडायां दूर गच्छेति वदन्तीं कामिनीं प्रति नायकस्योक्तिरियम्। अस्यां वृत्तान्तद्वयमपि प्रकृतम्। क्वचित्प्रकृतेनाप्रकृतस्य समर्थनं संभ- वति। परंतु तदप्रकृतं प्रान्ते प्रकृतपर्यवसन्नं भवति। आपाततस्तु तस्या- प्रकृतत्वम्, सर्वथैवाप्रकृतस्य समर्थनाऽप्रसक्तः। यथा- 'प्रसुरपि याचितुकामो भजेत वामोरु लाघवं सहसा। यद्हं त्वयाधरार्थी सपदि विमुख्या निराशतां नीतः ।।' अन्न कामुकयोः प्रक्ान्तेन वृत्तान्तेन विशेषेण दातृयाचकवृत्तान्तोऽप्र- स्तुतः सामान्यात्मा समरथ्यते। यन्तु 'कारणेन कार्यस्य कार्येण वा कारणस्य समर्थनम्' इत्यपि भेद- द्वयमर्थान्तरन्यासस्यालंकारसर्वस्वकारो न्यरूपयत्, तन्न। तस्य काव्य- लिङ्गविषयत्वात्। अन्यथा 'वपुःप्रादुर्भावात्-' इति सकलालंकारिक- सिद्धं काव्यलिङ्गोदाहरणमसंगतं स्यात्। अपरार्धे वाक्यार्थद्वर्यस्य कार- णत्वेनार्थान्तरन्यासोदाहरणतापत्तेः । यद्पि विमर्शिनीकार आह- "विशेषेणापि सामान्यसमर्थने यत्र सामान्यवाक्यार्थस्योपपादनापेक्षत्वं तत्रार्थान्तरन्यासः । यत्र पुनः स्वतःसिद्धस्यैव विशदीकरणार्थं तदेकदेश- भूतो विशेष उपादीयते तत्रोदाहरणालंकारः । यथा 'निमज्जतीन्दोः किरणेष्विवाङ्क:' इत्यत्र" इति। तद्पि न । 'निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम्। पश्यति पित्तोपहतः शशिशुभ्रं शङ्गमपि पीतम् ॥' १ अप्रकृतस्यापि दातृ-याचकवृत्तान्तस्य 'बलादघरं ग्रहीतुं प्रभुरपि त्वद्वशीकृतत्वात तवा- ग्रेडहं याचकः' इति प्रकृते पर्यवसानं भवति, अप्रकृतस्य समर्थनाऽनावश्यकत्वादिति बोध्यम्। २ अपराधद्वयरूपं कार्य प्रति 'पूर्वजन्मनि नाहं प्रणतंवान्' 'संप्रति नमन् जन्मान्तरेऽशरीर- चया अनतिमान् स्याम्' इति वाक्यार्थदवयं कारणमित्यर्थः।

Page 699

अर्थान्तरन्यास: ] रसगङ्गाघर:। ६३९

इति प्राचीनसंमतोदाहरणे सामान्यवाक्यार्थस्यासंदिग्धत्वेनोपपादनान- पेक्षत्वात्। नहि दोषेण भ्रमो भवतीत्यर्थे पामरस्याप्यस्ति संशय:, येनोपपादनापेक्षा स्यात्। अस्तेव तर्कस्थल इवाहार्योSत्रापि संशय इति चेत्, त्वदुक्तोदाहरणालंकारेSपि तस्य साम्राज्यात्। तस्मादस्मदुक्ेव व्यवेस्थातुसर्तव्या। कुवलयानन्द्कारस्तु-"-'यस्मिन्विशेषसामान्यविशेषाः स विक- स्वरः' 'अनन्तरत्नप्रभवस्य- इत्यादि। 'कर्णारुंतुदमन्तरेण रणितं गाहस्व काक स्वयँ माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम्। धन्यानि स्थलसौष्ठटवेन कतिचिद्वस्तूनि कस्तूरिकां नेपालक्षितिपालभालतिलके न शङ्कत कः ॥' पूर्वसुपमारीत्या इह त्वर्थान्तरन्यासरीत्या विकस्वरालंकारः" इत्याह। तद्पि तुच्छम्। 'उपकारमेव कुरुते' इत्युदाहरणालंकारोक्तास्मदुदाहरणे प्राथमिकविशेषस्याभावात्वदुक्तो विकस्वरालंकारो न संभवतीति कश्चिद्- लंकारस्त्वयापि वाच्यः । एवं चार्थान्तरन्यासस्य तर्स्य चार्थान्तरन्यासप्र- भेदयोश्च संसृष्टयैवोदाहरणानां त्वदुक्तानां गतार्थत्वे नवीनालंकारस्वी- कारानौचित्यात्। अन्यथोपमादिप्रभेदानामनुग्राह्यानुग्राहकतया संनिवे-

प्रमेदयोश्च संसृष्यैवेति। शृङ्गलाकृतचमत्कारस्याधिकस्य सत्त्वाच्चिन्त्यमिदम् ।

१ आहार्य: संशयस्तत्रापि संभवत्येवेत्याशयः । २ यत्र अनुवाद्यांशमात्रे विशेषत्वं तत्रोदाहरणम्। यत्र तूभयत्र विशेषस्तन्रार्थान्तरन्यास इति। ३ अत्र 'विपद्गतः सद्गुणः उपकारमेव कुरुते' इति प्रथमं सामान्यम्, न विशेष इत्यर्थः । किन्तु विकस्वरे कोटित्रयम्-पूर्वं विशेषः, ततः सामान्यम्, पुनर्विशेषः, इति । पण्डितराजोदाहरणे तु-'उपकारमेव कुरुते' इति सामान्यम्, "अन्र (अस्मिन्नर्थे) मूच्ंछितो मृतो वा पारदो निदर्शनम् (एकदेशः)' इति विशेषः, इति कोटिद्वयमेवेति विचार्य विवेचकैः । ४ तस्य उदाहरणस्य। अर्थात् अर्थान्तरन्यासस्य उदाहरणस्य च संसृष्या, अर्थान्तरन्या- सप्रभेदयोः उदाहरणस्य च संसष्टैव गतार्थत्वे इत्याशयः ।

Page 700

६४० काव्यमाला। { द्वितीयानने-

शेऽलंकारान्तरकल्पनापत्तेः । 'वीक्ष्य रामं घनश्यामं ननृतुः शिखिनो वने' इतन्राप्युपमापोषितायां भ्रान्तावलंकारान्तरत्वप्रसङ्गाच।

अथानुमानालकार :- अनुमितिकरणमनुमानम् ॥ अनुमितिश्चानुमितित्ववती। अनुमितित्वं चानुमिनोमीति मानससा क्षात्कारसाक्षिको जातिविशेषः । व्याप्तिप्रकारकपक्षधर्मतानिश्चयजन्य- ज्ञानं वानुमितिः । तस्याश्च करणं व्याप्तिप्रकारकलिङ्गनिश्चय इत्येके। व्याप्यत्वेन निश्चीयमानं लिङ्गमित्यपरे। इदं च साधारणमनुमानम्। अस्य च कविप्रतिभोल्लिखितत्वेन चमत्कारित्वे काव्यालंकारता। यथा- 'तस्मिन्मणिव्रातहतान्धकारे पुरे निशालोपविधानदक्षे। सदो वियुक्ता दिवसावसानं कोका: सशोका: कथयन्ति नित्यम् ॥' अत्र कथनं स्फुटबोधः । स चानुमित्यात्मकः कोकवियोगरूपस्य लिङ्गस्ये व्याप्यत्वेन निञ्चयात्करणादुत्पद्यते । तत्र चान्धकारविशे-

प्राग्वदाह-अथेति । विनिगमनाविरह्दादाह-व्यापीति। साधारणं तन्नान्त

१ 'घन इव श्यामः' इत्युपमा। विकस्वरो यथा पृथक्, तथात्रापि पृथगलंकारत्वं प्रसज्येत न तु उपमापोषितभ्रान्तिमत्त्वमित्यर्थः । २ मनुष्यत्वं यस्मिन् स मनुष्यः, तथा अनुमितित्वं जातिर्यस्यां साऽनुमितिरित्यर्थः । ३ व्याप्तिम् (साध्य-हेत्वोः सहचारम्) विशेषणीकृत्य पक्षस्य (पर्वतादेः) धर्मोऽयमिति (धूम: पर्वतेस्ति ततस्तद्व्याप्यो वह्विरपि साधयितुं शक्यः) निश्चयाज्जनितं 'वह्िमान्' इत्यादि ज्ञानम्। ४ आसाधारणं कारणम् । i ५ यदा यदा कोकवियोगो भवति तदा तदा दिवसावसानं दृश्यते इति इति कोकवियोगस्य लिङ्गस्य दिवसावसानव्याप्यत्वनिश्चयः । एतद्रूपात् लिङ्गात (हेतोः) 'संप्रति दिनावसानम्, कोकयोः सशोकत्वात् (वियोगात्)' इति स्फुटबोधो जात इत्यलंकारः ।

Page 701

अनुमानम् ] रसगङ्गाघर:। ६४१

धाभावस्य तत्सामान्याभावत्वेनाध्यवसाने सति निशालोपविधानदक्षता- सिद्धौ दिवसावसानसिद््यभावप्रयुक्ता दिवसावसानानुमितिरित्यस्ति कवि- प्रतिभोल्लिखितत्वम्। वक्ष्यमाणमुन्मीलितमिति न मन्तव्यम् । तस्याप्य- नुमानताया एव स्थापयिष्यमाणत्वात्। यथा वा- 'अम्लायन्यदरातिकैरवकुलान्यग्लांसिषुः सत्वरं दैन्यध्वान्तकदम्वकानि परितो नेशुस्तमां तामसाः । सन्मार्गा: प्रसरन्ति साधुनलिनान्युल्लासमातन्वते तन्मन्ये भवतः प्रतापतपनो देव प्रभातोन्मुखः।।' पूर्वत्र लिङ्गलिङ्गिनोः शुद्धत्वम्, इह तु रूपकानुप्राणितत्वमिति वि- शेषः । कविप्रतिभोल्लिखितत्वं पुनः स्फुटमेव। इह यत्र लिङ्गलिद्गिनोः सत्त्वं तत्र मन्ये शङ्के अवैमि जाने इत्यादिपदानामनुमितिबोधकत्वम्, यत्र तु सादृश्यादिनिमित्तसद्भावस्तन्रोत्प्रेक्षाबोधकतेति विवेकः। तेन 'मन्मथामात्यमायान्तमहं मन्ये महा्मेहम्। चक्षुश्चमत्कृति धत्ते यदहो किल कोकिलः ॥।' इत्यादावनुमैव, नोतपेक्षा।

रादिसाधारणम् शङ्कते-वक्ष्येति । इह अनुमानालंकारे। पुनस्त्र्ये। उभयत्रेति १ मणिभिरन्धकारविशेष न सर्व:, किन्त्वत्र मणिनाशितान्धकारविशेषे सामा- न्यतोऽन्धकारत्वमध्यवसाय तदभावे अन्धकारसहचरिताया निशाया अप्यभावेन दिवसाव- सानज्ञानस्य नास्त्युपायः । ततश्च कोकवियोगरूपस्य लिङ्गस्य दिवसावसानव्याप्यत्वनिश्चये सति एतद्रूपात्कारणात् दिवसावसानस्य अनुमिति: (लक्ष्या, कथयन्तीति लक्षकपदोपादानात्) । अन्यस्मिन् अन्यस्याभेदाध्यवसानात् कविप्रतिभाकृतचमत्कृतिरित्यलंकारत्वमस्येत्याशयः। 1 २ तमःसंबन्धिनः पदार्था उलूकादयः ।

मिति बोध्यम्। ३ अरातिकरवकुलम्लानतादे: लिङ्गस्य, प्रताप-तपनव्याप्यत्वनिश्चयरूपात्कारणादनुमान-

४ महान् उत्सवो यत्र। कामामात्यो वसन्तः । ५ अन्र उपमानोपमेययोः सादृश्यनिमित्त नास्ति। तत्तु यथा-'लगना मन्ये ललिततनु े प्रादयोः पझ्मलक्ष्मीः', यथा वा-'अस्या दोहदशालिन्या मुखमापाण्डरप्रभम्। सत्यं राजेति मन्येडद यद्ुवं भोक्तुमिच्छति ।I' इत्यादिषु द्योः सादृश्यं सूच्यते (पूर्वत्र पझ्मस्य पादस्य च, उत्तरत्र मुखस्य राजपर्यायस्य चन्द्रस्य च। द्वितीयोदाहरणे राजपदेन नृपरूपोप्युत्प्रेक्ष्योडर्थः । राजा पृथिवीं भुङ्के पालयत्येव। गर्भिण्या सुखमपि भुवं (मृत्तिकाम्) भोक्तुमिच्छतीति सादृश्याद)।

Page 702

६४२ काव्यमाला। [ द्वितीयानने-

अत्रेदं वोध्यम्-मन्ये इत्यादिवाचकपदोपादाने वाच्यमनुमानम्। यथानन्तरोक्ते । वक्तिकथयतीत्यादिलक्षकपदोपादाने लक्ष्यम्। यथा 'कोकाः सशोकाः' इत्यादौ। तदन्यतरानुपादाने साध्याक्षिपायामनुमितौ प्रतीयमानम्। यथा 'अम्लायन्-' इति पद्ये 'तद्भावी तव देव संप्रति महोमार्तण्डविम्बोदयः' इति चतुर्थचरणनिर्माणे। साध्यस्याप्यनुपादाने लिङ्गमात्रोपादानेन यत्रागूर्यमाणं साध्यं तत्र ध्वन्यमानम्। यथा- 'गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम्। आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥' अत्र शरदागमस्य साध्यस्यानुमानं ध्वन्यते। एवमेषा व्यवस्था न प्रागुक्ते करणमनुमानमिति नये संगच्छते। करणस्य ज्ञायमानलिङ्गत्वपक्षे वाच्यतायाः केवलाया आपत्तेः। लिङ्गज्ञानत्वपक्षे वाच्यत्वलक्ष्यत्वयोरना- पत्ते:। अतोऽनुमितिरेवानुमानम्। तस्याश्च वाच्यत्वलक्ष्यत्वप्रतीयमान- त्वध्वन्यमानत्वानां साम्राज्यम्, ल्युटश्च करण इव भावेऽपीति। इति रसगङ्गाधरेऽनुमानप्रकरणम्।

अथ यथासंख्यम्- उपदेशक्रमेणार्थानां संबन्धो यथासंख्यम्। पदार्थानतिवृत्तिरूपे येथार्थेऽव्ययीभावः । संख्याया अनतिवृत्तिश्च

भाव:।भावेऽपीति। विधिरिति शेषः ॥ इति रसगङ्गाधरमर्मप्रकाशेऽनुमानप्रकरणम् ॥

१ ज्ञायमानं लिङ्गम् अनुमितेः करणम् (कारणम्) इति स्वीकारे हेतु( लिङ्ग)वाचकप- दोपादाने अनुमानं वाच्यमित्येव व्यपदेशः स्यात्, लक्ष्यव्वादेन प्रतीतिः । लिङ्गज्ञानम् अनु- मिते: करणम् इति पक्षे ज्ञानं न वाचकं न च लक्षकमिति वाच्यत्व-लक्ष्यत्वयोरनापत्तिः । एवं च करणमनुमानमित्युभयथापि न समज्सम्। अनुमितिरनुमानमिति स्वीकारे तु मन्ये इत्याद्युपादाने वाच्यत्वम्, वक्तीत्याद्युपादाने लक्ष्यत्वमित्यादिव्यवस्थया अनुमितेर्वाच्यत्व-ल- क्ष्यत्वादीनि सम्यक् संभवन्तीति सर्वस्याशयः । ल्युटश्च यथा करणे (अनुमीयते अनेनेति) -साम्राज्यं तथा भावेपीति पूर्वानुषङ्गः । 'विधि: इति शेषः' इति नागेशटीका तु तत्वानवबोधा- दविधिरेव, असंबद्धाक्षेपस्य पण्डितराजमीमांसामार्गे कुत्राप्यरपर्शात। २ संख्यामनतिक्रम्य यथासंख्यम्।

Page 703

चर्थासंख्यम् ] रसगङ्गाघर: ६४३

प्रथमस्य प्रथमेनैव द्वितीयस्य द्वितीयेनैवेत्यादिक्रमेण संबन्धे भंवतीति योगार्थ एव लक्षणम्। यथा- 'यौवनोद्गमनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः । संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्निय: ।।' अत्र यौवनोद्गमनितान्तशङ्गिताः संकुचन्ति, शौर्यवलकान्तिलोभिता विकसन्तीति प्रथमद्वितीयक्रिययोः क्रमेण प्रथमद्वितीय विशेपणावच्छिन्नेन कन्नान्वयः । सच शब्दः, समासाभावेन शव्दानामप्यन्वयात्। भावसंविञ्चात्र प्रधानम्। यथा वा- 'दुमपङ्कजविद्वांसः सर्वसंतोषपोषकाः । मुधैव हन्त हन्यन्ते कुठारहिमदुर्जनैः ॥' इह दीपकानुप्राणकम्। यथा वा- 'वृन्दापितृगहनचरौ कुसुमायुधजननहननशक्तिधरौ। अरिशूललाञ्छितकरौ भीति मे हरिहरौ हरताम् ॥' इहोभयत्राऽडर्थः । पूर्व समासेन समासान्वयेऽवयवानामन्वयस्य पार्ष्टिकत्वात्। इत्यादिरपरिमितोऽस्य विषयः । अथ क्रमेणान्वयबोधे कि नियामकम्। अन्न केचित्-"योग्यताज्ञानमेव नियामकम्। तथाहि 'वृन्दापितृगहनचरौ' इत्यत्र हरौ इमशानचारित्वस्य, हरे वृन्दावनचारि- त्वस्य च बाधितत्वादन्वयबोधाभावे हरौ वृन्दावनचारित्वस्य, हरे शमशा- नचारित्वस्य च योग्यत्वादन्वयबोधो जायमानः क्रमिकान्वयबोवे पर्यवस्यति। एवमन्यत्रापि" इत्याहुः। अन्ये तु-"योग्यताज्ञानस्य नियामकत्वे क्रमभङ्गस्य दोषता न स्यात्। 'कीर्तिप्रतापौ भातस्ते सूर्याचन्द्रमसाविव' इत्यादौ कीर्तौ चन्द्र- सादृश्यस्य प्रतापे सूर्यसादृश्यस्य च व्युत्क्मोक्तस्यापि योग्यतावशादेव प्तीत्युपपत्तेः । नहि क्रमिकमेव योग्यम्, अपक्रममयोग्यम्, येन तव

प्राग्वदाह-अथेति। संबन्धे सतीति शेषः । पूर्वतो विशेषमाह-इहेति। वृन्दा तदाख्यं वनम्। पितृगहनं शमशानम्। अरिः सुदर्शनः । आर्थविषये शङ्कते-अथेति। १ शङ्गौत्सुक्यभावयोरित्यर्थः । प्रधानस्थ तस्य यथासंख्यमिदमलंकारकमित्याशयः ।

Page 704

६४४ काव्यमाला। [द्वितीयानने-

मुख्यार्थहृतिः स्यात्। भवति चानुभवसिद्धा सा। तस्मादन्वयिसमसं- ख्यपदार्थज्ञानस्य यथासंख्यान्वयबोधत्वं कार्यतावच्छेदकं वाच्यम्। एवं च 'कीर्तिप्रतापौ' इत्यत्र च यथाश्रुतानां यथासंख्यान्वयबोधो बाधनिश्च- यपराहत इति मुख्यार्थहतिसद्द्ावात्क्रमभङ्गस्य दोषत्वसाम्राज्यम्। नन्व- न्वयिसमसंख्यपदार्थानां यदि यथासंख्यान्वयबोधो व्युत्पत्तिसिद्धस्तदा 'यथासंख्यमनुदेश: समानाम्' इति सूत्रं व्यर्थ स्यात्। तदुदाहरणेषु 'लोमादिपामादिपिच्छादिभ्यः शनेलचः' इत्यादिषु लौकिकसामग्रीबलादेव यथासंख्यान्वयबोधोपपत्तेः । योग्यतामात्रबलात् तथाबोधोपपादकमते तु शास्त्रमात्रचक्षुष्कैः प्रकृतिविशेषप्रत्यय विशेषसंबन्धरूपाया योग्यताया अज्ञा- नात्तेषां यथासंख्यान्वयबोधार्थ 'यथासंख्यं' इति सूत्रमिति चेत्, न। ममापि प्रागुक्तव्युत्पत्तिरहितानां तादृशबोधार्थ सूत्रसार्थक्यात्" इत्याहुः। इदं तु बोध्यम्-यथासंख्यान्वयबोधो यथातथास्तु नाम। नात्रागृ- हवीमः। यथासंख्यमलंकारपद्वीमेव तावत्कथमारोढुं प्रभवतीति तु विचा- रणीयम्। नह्यस्मिंललोकसिद्धे कविप्रतिभानिर्मितत्वस्यालंकारताजीवातोर्लेशतो डप्युपलब्धिरस्ति, येनालंकारव्यपदेशो मनागपि स्थाने स्यात्। अतोSS- पक्रमत्वरूपदोषाभाव एव यथासंख्यम्। एवं चोद्धर्टमतानुयायिनामुक्तय: १ ये पदार्था: अन्विन: (अन्यैः सह अन्वयं लभन्ते ) परस्परं च समसंख्याः तेषां पदार्थानां ज्ञानरूपस्य कारणस्य (समसंख्यपदार्थज्ञाने सत्येव यथासंख्यमन्वयो भवति), यथासंख्यमन्वयबोधः कार्यम् (अन्वयबोधत्वं च कार्यतावच्छेदकम्)। २ अर्थात् शास्त्रणैव येषां शब्दसाधुत्वग्रहस्तेषां मते लोमादीनां 'श'प्रत्ययस्यैव योग्यता पामादीनां 'न'प्रत्ययस्यैव योग्यतास्तीति ज्ञानस्याभावात् यथासंख्यान्वयार्थ यथासंख्यसूत्र मित्यर्थः । ३ नन्वित्यादेः शङ्कासमाधानप्रघट्टकस्यायमाशयः-अन्ये त्विति मतानुसारं यदि व्युत्पत्ति- सिद्ध एव यथाक्रमान्वयस्तर्हि व्युत्पत्यनुसारं लोकप्रसिद्धत्वादेव यथासंख्यान्वये सिद्धे पाणिनि- सूत्रस्य वैयर्थ्य स्यात्। अस्मन्मतानुसारं तु योग्यताज्ञानमेव यथासंख्यान्वये नियामकमिति स्वीकारे तु शास्त्रैकचक्षुषां शास्त्रं विना नेदं ज्ञानसुपपद्यते यत् लोमादीनां 'श'प्रत्ययस्यैव योग्यता इत्यादि। ततश्च सूत्रं विना यथासंख्यान्वयस्य अनुपपन्नत्वाद्यथासंख्यसूत्रं चरितार्थ- मिति 'केच्वित्'मतानुसारिणां पूर्वपक्षः । येषाँ तादृशव्युत्पत्तेर्शानं नास्ति तदर्थमस्मन्मतेपि सफलं सूत्रमिति 'अन्य'मतानुयायिनां समाधानम्। ४ यथा,संख्यस्यालंकारतावादिनां तेषां कथनं कूटकार्षापण(अनृतरजतरूप्य)वदित्याशयः ।

Page 705

पर्याय: ] रसगङ्गाघरः । ६४५

कूटकार्षापणवदरमणीया एव। एतेन यथासंख्यमेव क्मालंकारसंज्ञया व्यवहरतो वामनस्यापि गिरो व्याख्याताः इति तु नव्याः । इति रसगङ्गाधरे यथासंख्यप्रकरणम्।

अथ पर्याय :- कमेणानेकाधिकरणमेकमाधेयमेकः पर्यायः । क्रमेणानेकाधेयक- मेकमधिकरणमपरः॥ एतदन्यान्यत्वं च सामान्यलक्षणम्, न तु योगार्थमात्रम् । अतिप्र- सक्तेः । 'परावनुपात्यय इणः' इति पाणिनिस्मृत्या अनुपात्ययमात्रस्य घन्ने- पाधित्वेनोक्तेः । नाप्यन्यत्। अन्यतरत्वाघदितस्य निर्वक्तमशक्यत्वात्। अत्राद्यलक्षणे प्रागुक्तविशेषालंकारद्वितीयभे देऽतिप्रसङ्गवारणाय क्रमेणेति। तत्र चाधेयस्य युगपदनेकाधारसंबन्धान्नातिप्रसङ्ग: । द्वितीयलक्षणे वक्ष्य- माणसमुच्चयालंकारातिव्याप्तिवारणाय तैदिति विवेक:। उदाहरणम्- 'आयाता कमलासनस्य भवना्षटुं त्रिलोकीतलं गीर्वाणेषु दिनानि कानिचिद्थो नीत्वा पुनः कौतुकात्। भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे राजन्संप्रति सत्यधामनि गिरां देवी सुखं वर्तते ॥'

स्थाने युक्तः। नव्या इति। वस्तुतस्तु यथासंख्यसूत्रबलात्पाणिनीयप्रयोगे पार्ष्ठिकत- यान्वयबोधे द्वन्द्वादेः साधुतेऽपि नान्यत्र साधुलम्। कि तु समुदितान्वयबोधमात्र एवेति तदभिप्रायकास्ते प्रयोगा असाधव एव। अलंकारस्तु द्वितीयरीत्या व्यस्ते चरितार्थ इति बोध्यम् । इति रसगङ्गाधरमर्मप्रकाशे यथासंख्यप्रकरणम्। प्राग्वदाह-अथेति। १ एकमाधेयं क्रमेण अनेकेष्वधिकरणेषु स्यात्स प्रथमः, एकस्मिन्नधिकरणे क्रमेण अनेकान्या- धेयानि इति द्वितीयपर्याय इत्याशयः । २ अर्थात् परि उपसर्गपूर्वात् 'इण्'धातोः घन्प्रत्ययविधौ निमित्तम् अनुपात्ययः (क्रम- प्राप्तस्य अनतिक्रमणम्)। तथा च योगार्थमात्रे पर्यायलक्षणे स्वीकृते क्रमप्राप्त सर्वत्रापि पर्या- वयत्वं प्रसज्येतेत्यर्थः । ३ अन्यतरस्य (अनेकेषु एकमाघेयं पर्याय इत्यादेः) पर्यायत्वं तु न वक्तुं शक्यम्, तदि तोऽपरस्य (एकस्मिन्नधिकरणे क्रमादनेकाघेयानि इत्यादेः) अपि पर्यायस्य सत्वादित्याशयः । ४ अर्थात् क्रमेणेति। समुच्चये हि युगपदेव एकस्मिन्ननेकक्रियादयो भवन्ति।

Page 706

.६४६ काव्यमाला। [द्वितीयानने-

अन्न प्रथसचरणगतमधिकरणमार्थम्। विश्लेषावधिपञ्म्यां विश्रेषस्यो-

नस्य भवने स्थित्वा आयातेति ल्यब्लोपपञ्चेम्यामपि ल्यबन्तार्थक्रियाधि- करणे पञ्चम्या लाक्षणिकत्वादवाच्यतैव। 'ल्यब्लोपे कर्मण्यधिकरणे च' इति वार्तिकस्य निरूढ़लक्षणासमर्पकतेति राद्वान्तात्। इतरचरणत्रयगतं वु शाब्दम्। यथा वा- मकरालयस्य स्थित्वा सदनेऽमृताशिनां च चिरम्। संप्रति निर्दोषे ते राजन्वदनाम्बुजे सुधा वसति ।' पूर्वमवरोह: इह त्वारोहः, पूर्वपूर्वत्यागेSरुचिवीजोपादानं चेति विशेष: । अपरः पर्यायो यथा- .- 'विदूरादाश्चर्यस्तिमितमथ किंचित्परिचया- दुदश्च्चाञ्न्ल्यं तदनु परितः स्फारितरुचि। गुरूणां संघाते सपदि मयि याते समजनि त्रपाघूर्णत्तारं नयनयुगमिन्दीवरदशः ।।' अंत्र कचिदनपावृते स्थलविशेषे गुरूञ्शुश्रषमाणायाश्चिरप्रोषितमसंभा- वितागमनं प्रियमकस्मादालोकितवत्याः कस्याश्चिन्नयनयुगरूप एकस्मिन्नधि- करणे विशेषणीभूतानां स्तिमितत्वादीनामाधेयानां युगपद्संभवात्कारणक्- भवशाच् कमिकत्वम्। यथा वा- १ विश्रेषस्य योऽवधि: (भवनमिति) तस्मात्कृतायां पञ्चम्यां 'विभागः संयोगं विना नोपपद्यते' इति 'पूर्व कमलासनस्य भवने आसीत्' इति भवनरूपः औपक्रेषिक आधारः अर्थबलालम्य इत्यर्थः । २ ननु भवनादिति नापादाने पञ्चमी येन विभागात्संयोग आक्षिप्येत, अपि तु ल्यब्लोप- पश्चमी। तत्रापि अधिकरणस्य आर्थत्वम् अर्थाद् वाच्यत्वाभावमाह। अयं भाव :- व्यब्लोपे इति वार्तिकं "भवनात्' इत्यादिपञ्चम्याः 'भवने स्थित्वा', कर्मणि तु 'भवनं दृष्टा' इत्यादर्थे लक्षणा" इत्यर्थबोधकं, न पञ्नमीविधायकम्। तथा च भवने इत्याधारार्थस्य लक्षणयैव ्लाभ इत्यवाच्यत्वमेव तस्य। ३ अवरोहः उपरितो नीचैरागमनम्। आरोहो नीचैस्तः उपरिगमनम्। अरुचिस्तु- करा मकराः सन्तीति तत्त्यागोत्तरं देवानां समीपे आगमनम्। तेपि अमृताशिन इति स्वस्य अशनेन समापनमेव स्यादिति भयान्निर्दोषे मुखे आगमनम्। ४ प्रसारिता रुच्चिः कान्तिर्यस्य तत्, विकासितमिति यावत्।

Page 707

बर्याय: ] रसगङ्गाघर: । ६४७

'प्रथमं श्रितकञ्जकोरकाभावथ शोभामनुभूय कन्दुकानाम्। अधुना श्रयितुं कुचौ यतेते दयिते ते करिशावकुम्भलीलाम् ॥' अन्नापि कुचत्वेनैकीकृते कुचरूपेऽधिकरणे परिमाणविशेषाणाम्। यदि च कुचयोः पूर्वपूर्वस्वरूपापेक्षया उत्तरोत्तरस्वरूपस्योत्कर्षः प्रतीयते तदा एकविषयः सारोऽ्यस्तु, विषयभेदाच्च न बाध्यवाधकभावः। यनु- बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमददश्यत। अधुना मृगशावाक्षि हृदयेऽप्येष दृश्यते।।' इति कुवलयानन्दकृता विकासपर्यायो निजगदे, तच्चिन्त्यम्। एकसंवन्ध- नाशोत्तरमपरसंबन्धे सत्येव पर्यायपदस्य लोके प्रयोगात्, 'श्रोणीवन्धस्त्य- जति तनुतां सेवते मध्यभागः' इति काव्यप्रकाशोदाहते, 'प्रागर्णवस्य हृदये-' इत्यादिसर्वस्वकारोदाहते च तथव दष्टत्वाच्च अस्मिन्नलंकारलक्ष- णेऽपि क्रमपदेन तादृशविवक्षाया औचित्यात्। तस्मादन्रैकविषयः सारा- लंकार उचितः, यं रत्नाकरादयो वर्धमानकालंकारमामनन्ति स चायुष्मता नोटटङ्कित एव। इदं तु वोध्यम्- 'प्रथमं चुम्बितचरणा जङ्गाजानूरुनाभिहृद्यानि। आश्लिष्य भावना मे खेलतु विष्णोर्मुखाब्जशोभायाम्।।' अत्र न तावत्पर्यायः, उत्तरोत्तरसंबन्धस्य पूर्वपूर्वत्यागपूर्वकत्वाविवक्ष- णात्। यतोऽन्र मुखविषयकभावनायाः सर्वाङ्गविषयकत्वं वक्तुरभिप्रतम्, न तु मुखमान्रविषयकत्वम्। अत एव खेलत्वित्युक्तम्, न तु मज्जत्विति। तथा- पूर्वं नयनयोर्लआा ततो मग्ना मनस्यभूत्। अथ सैव प्रियस्यासीत्सर्ववेदनगोचरा।।' इत्यत्रापि। नापि सारः, उत्तरोत्तरस्योत्कर्षापकर्षयोरभावात्। तस्मादेव- मादौ शुद्धक्रमालंकारोऽतिरिक्त इत्यप्याहुः।

वस्तुतो द्विलादाह-कुचत्वेनेति । विशेषणानामुक्तरीत्या क्रमिकत्वमिति शेषः । सारालंकार उचित इति। अत्रेदं चिन्त्यम्-भेदप्रतीतौ सत्यामेव सार इत्यस्य प्राचीनसंमतलेन तदभावात। अन्न हि रागयोः श्वेषेणाभेदाध्यवसायात्। वर्ध- मानकरूपालंकासन्तरस्वीकारापेक्षया पर्योयपदार्थस्य साधारण्यमाश्रित्यानेन संग्रह- स्यैवोचितलाचच। अत एव प्रकाशकृतापीदं पद्यं पर्याय उदाहृतम्। इत्य-

Page 708

६४८ काव्यमाला। [ द्वितीयानने-

इहान्यदप्यवधेयम्-यत्राधारावेयतत्संबन्धकमेषु क्वचिदपि कविक- ल्पनापेक्षा तत्रैवायमलंकारः। यत्र तु सर्वांशे लोकसिद्धत्वं न तत्र कश्चि- दलंकारः । अत एव 'श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पन्नां सुक्तास्तरलगतयः संश्निता लोचनाभ्याम्' इति काव्यप्रकाशकृता, 'प्रागर्ण- वस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम्' इति सर्वस्वकृता च निदर्शितम्। अत्रोभयत्राप्याधारभेदाद्भिन्न आधेय: कविना एकताध्यवसानेनैकी कृतः । अस्मद्दत्तोदाहरणेषु तु क्रमोऽपि कल्पितः। नहि ब्रह्मलोकस्थया देवतया, पयोधिस्थया सुधया च, वाचो वाडाघुर्यस्य चाभेदो लोकसिद्धस्तादृशः क्मो वा। एवं स्थिते 'अधुना पुलिनं तत्र यत्र स्रोत: पुराभवत्' इति कुवलयानन्दगतमुद्दाहरणं 'यत्र पूर्व घटस्तत्राधुना पटः' इति वाक्यवल्लौकिकोक्तिमात्रमित्यनुदाहार्यमेव। इति रसगङ्गाधरे पर्यायप्रकरणम्।

अथ परिवृत्ति :- परकीययत्किंचिद्वस्त्वादानविशिष्ट परसै स्वकीययत्किंचिद्स्तु- समर्पणं परिवृत्तिः॥ करय इति यावत्। सा च तावद्विविधा-समपरिवृत्तिर्विषमपरिवृ- च्तिश्चेति। समपरिवृत्तिरपि द्विविधा-उत्तमैरुत्तमानां न्यूनैर्न्यूनानां चेति। विषमपरिवृत्तिरपि तथा-उत्तमैर्न्यूनानां न्यूनैरुत्तमानां चेति। क्रमेणो- दाहरणानि- 'अङ्गानि दत्वा हेमाङ्गि प्राणान्क्रीणासि चेन्नणाम् । युक्तमेतन्न तु पुनर्लोचनाम्बुरुहृद्वयम् ।' अ्र पूर्वाध एव समपरिवृत्तिः, उत्तरार्धे तु विषमैव।

त्रापि। नोक्तरीत्या पर्याय इति शेषः। लौकिकोक्तिमात्रमिति। अन्नेद चिन्त्म्- गभीरजलस्य स्रोतस्लेनाल्पजलविद्यमानतायां सुशकगमनलेन कविना पुलिनलारोपे उदाहरणतं सम्यगेव ।। इति रसगङ्गाधरमर्मप्रकाशे पर्योयप्रकरणम् । प्राग्वदाह-अथेति। तथा द्विधा। १ चरणस्था तरलगतिः (शीघ्रपदविन्यासः) भिन्ना, लोचनयोस्तरलत्वम् (अधीरत्वम्) च मिन्नं तथापि एवमादीना मेकत्वाध्यवसानमित्याशयः।

Page 709

परिवृत्तिः ] रसगङ्गाधर: । ६४९

'अस्थिमालामयीं दत्त्वा मुण्डमालामयीं तनुम्। गृहतां त्वैत्पुरस्थानां को लाभ: स्मरशासन ।।' 'गरिमाणमपयित्वा लघिमानं कुचयुगात्कुरङ्गदशाम्। स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥' 'किमहं कथयामि योषितामधरं बिम्बफलं समर्प्य याः । सुरसानि हरन्ति हन्त हा विदुषां पुण्यफलानि सत्वरम् ॥' एषु दानादानव्यवहार: कविकल्पित एव, न तु वास्तवः । यत्र वास्तव- स्तत्र नालंकारः । यथा-'क्रीणन्ति प्रविकचलोचनाः समन्तान्मुक्ताभि- बदरफलानि यत्र बालाः ।' इदं चापरं बोध्यम्-अत्र परस्मै स्वकीययत्किंचिद्वस्तुसमर्पणमित्येता- वत्पर्यन्तं लक्षणे विवक्षितम्, न तु स्वकीययत्किंचिद्वस्तुत्यागमान्रम्। 'कि- शोरभावं परिहाय रामा बभार कामानुगुणां प्रणालीम्' इत्यत्रातिव्यास्या- पत्तेः। न चेदं लक्ष्यमेवेति वाच्यम्। पूर्वावस्थात्यागपूर्वकमुत्तरावस्थाग्रह- णस्य वास्तवत्वेनानलंकारत्वात्। एवं स्थिते 'विनिमयोऽन्र किंचित्त्यक्त्वा कस्यचिदादानम्' इत्यलंकारसर्वस्वकृता यल्लक्षणं परिवृत्तेः कृतम्, यच्च 'किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्' इत्युदा- हतमू, तदुभयमप्यसदेव। इति रसगङ्गाधरे परिवृत्तिप्रकरणम्।

बिम्बफलं तत्सदृशम्। प्रविकचेति। प्रविकसितेत्यर्थः। प्रणाली मार्गः । यौवनोद्रम- रूपा ॥ इति रसगङ्गाधरमर्मप्रकाशे परिवृत्तिप्रकरणम् ॥

१ त्वत्पुरं काशी। २ कर्मण: शेषत्वे षष्ठी। ३ अधरम् (अपकृष्टम्) समर्प्य सुरसानि फलानि, अथवा अधरम् नास्ति घरा यत्र तादृग दत्त्वा सुष्ठ रसा (भूमि:) यत्र तादृशानि पुण्यफलानि हरन्तीति न्यूनैरुत्तमानां परिवृत्तिः । ४. अर्थात् स्वकीययत्किञ्चिद्वस्तुत्यागोत्तरं परसै स्वकीययत्किश्चिद्स्तुसमर्पणे सत्येव परिवृत्तिः। ५ अत्र परस्मै न दानं न परस्यादानम्। ५५ रस०

Page 710

६५० काव्यमाला। [द्वितीयानने-

अथ परिसंख्या- सामान्यतः पप्तस्यार्थस्य कस्माच्चिद्विशेषाव्यावृत्ति: परिसंख्या ॥ नियमोऽ्यस्मिन्दर्शने निरुक्तलक्षणाक्रान्तत्वात्परिसंख्यैव। पाक्षिकप्रा-

मते परिसंख्यापि नियमशब्देनोच्यते। तथा हि-'कृत्तद्धितसमासाश्च' इत्यत्र समासग्रहणं नियमार्थमिति हि तेषां सिद्धान्तः । तत्र हि समासे पाक्षिक्या: पतिपदिकसंज्ञायाः प्राप्तेरभावात्कथं नाम पराभिमतो नियम, उपपद्यते। युगपद्धि समास-समासेतरपदसंघातयोः 'अर्थवत्'-सूत्रं, प्राप्तमिति परिसंख्या भवितुमर्हति। पूर्वतत्रे तु नियमपरिसंख्ययोर्भेदेन, परिभाषणम्। यदाहु :- 'विधिरत्यन्तमप्राप्त, नियम: पाक्षिके सति। तत्र चान्यत्र च प्राप्ते परिसंख्येति गीयते।।'

प्राग्वदाह-अथेति। न्यूनतां निराचष्टे-नियमोऽपीति। अस्मिन्नलंकार- शास्त्रे। पूर्वतन्त्रे पूर्वमीमांसायाम्। यदाहुवार्तिककाराः ।

१ आरम्भतः प्रघट्टकस्यास्येदं विशदीकरणम्-सामान्यतः प्राप्तस्यार्थस्य कस्मान्चिद्विशे- षात् (अर्थात् कंत्विद्विशेषं हेतूकृत्य, तद्विशेषात्) व्यावृत्तिः (निषेधः) परिसंख्या, इति लक्षण- व्याप्तत्वान्नियमस्यापि 'परिसंख्या'न्तर्भुक्तत्वमेवेति पृथक् नियमालंकाराSप्रदर्शनकृतं न्यूनत्वं नाSडशङ्कनीयम्। ननु द्वयो: कथमैक्यम् १ पाक्षिकप्राप्तौ नियमः, युगपत्प्राप्तौ परिसंख्या, इति पूर्वमीमांसादर्शनम्। तत्रोच्यते-अवान्तरो विशेषो नात्र विवक्षितः । अस्माकमेव न, वैयाकरणानामपि मते नियम-परिसंख्ययोन भेदः । यतो हि कृत्तद्धितेतिसूत्रे समासग्रह्णं नियमार्थम्। अयमाशय :- राजपुरुष इति समुदायस्य अर्थवत्त्वात् धातु-प्रत्यय-प्रत्ययान्त- मिन्नत्वाच्च अर्थवत्सूत्रेणैव प्रातिपदिकत्वे सिद्धे नियमार्थ समासग्रह्णम्-'यत्र संघाते पूर्वों भाग: पदं तस्य चेद्द्वति तहिं समासस्यैव'। अत एव राशः पुरुष इति वाक्यस्य अर्थवत्वेन आप्ावपि समासस्यैवेति नियमात्प्रातिपदिकत्वं नेत्यर्थः। यदि तु मीमांसावत् पाक्षिकपास्तौ ('नियम: पाक्षिके सति') एव नियमत्वं स्यात्त समासे प्रातिपदिकसंश्ञाया न वैकल्पिकी (पाक्षिकी) प्राप्तिः, ततः कथं समासग्रहणस्य नियमत्वं व्यपदिश्येत। अस्माकमिव वैयाकरणा- नामपि तत्रे नियमपरिसंख्ययोरैक्ये तु राजपुरुष इति समासे, राजः पुरुष इति वाक्ये च सामान्यतः प्राप्तस्य अर्थवदिति प्रातिपदिकसंश्ञारूपस्यार्थस्य समासग्रहणरूपादिशेषादू व्यावृत्तिः क्रियते, अत एव सोयं नियमोपि परिसंख्या।

Page 711

रिसंख्या ] रसगङ्गाघर: । ६५१

विधि :- 'स्वर्गकामो यजेत' इत्यादिः । यागादेः प्रकारान्तरेणाप्राप्तेः। नियम :- 'व्रीहीनवहन्ति, समे देशे यजेत' इत्यादिः। पुरोडाशनिर्माण- फलोपधायकतावच्छेदककोटिप्रविष्ठाया वितुषतायाः संपादकत्वेनावहन- नस्य प्राप्तेनेखविद्लनसमवधानकालावृत्तित्वेन, यागाधिकरणतया समदे- शत्राप्तिविष मदेशसमवधानकालावृत्तित्वेन, च पाक्षिकत्वात्। परिसंख्या- 'इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते', 'पञ्च पञ्चनखा भक्ष्याः' इत्यादिः । रशनाग्रह्णलिङ्गेनाश्वाभिधानीगर्दभाभिधान्योरादानस्य युग- पत्प्राप्तत्वात् इत्यलमप्रकृतचिन्तया। इयं च तावह्िविधा-शुद्धा प्रश्नपूर्विका च। द्विविधाप्यार्थी शाब्दी चेति चतुर्विधा। यथा- 'सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यतां चिन्तायामसि सस्पृहं यदि चिरं चक्रायुधश्चिन्त्यताम्। आलापं यदि काङ्से मधुरिपोर्गाथा तदालप्यतां स्वापं वाञ्छसि चेन्निरर्गलसुखे चेतः सखे सुप्यताम्।।' अन्र यदिघटितवाक्यैनिवेदितस्य रागप्राप्तस्य सेवादेः कर्मतायाः परमेश्वरे विषयान्तरे च प्राप्तत्वेन लोडर्थघटितवाक्यार्थवैयर्थ्यप्रसङ्गाद्वि- षयान्तरं न सेव्यतामित्यादिरूपा विषयान्तरे तत्तत्क्रियाकर्मत्वव्यावृत्ति- स्तात्पर्यविषयतया कल्प्यमानत्वादाथा च।

द्वितीये आह-यागेति।

१ अवहननेनापि वितुषता संपद्यते नखविदलनेनापि। 'व्रीहीनवहृन्ति' इत्युक्त्या अव- हुननस्य प्राप्तिः, नखविदलनस्यापि यदा समवधानं तदा तस्या अवृत्तितया पाक्षिकत्वम्। एवं समे देशे इत्यन्नापि वोध्यम्। २ अयं भाव :- सेवनकर्मता रागप्राप्ता (यतो हि संसारे वर्तमानेन निसर्गतः किश्चिदा- सेव्यते एव)। एवं च सेवनकर्मत्वं सामान्यतो लक्ष्मीपतावपि प्राप्तमेव। पुनः 'लक्ष्मीपतिः सेव्यताम्' इति लोटा विधानं किंफलकम्? ततश्च-तद्वैयर्थ्यनिवारणरूपाद्विशेषात् सामान्यतः आप्तस्य विषयादीनां सेवनकर्मत्वस्य व्यावृत्तिः क्रियते, इति परिसंख्या। एवं द्वितीयचरणा दिष्वपि संगमनीयम्। लक्ष्मीपतिः सेव्यतामित्यनेन विषयान्तरं न सेव्यतामित्यर्थतो बुध्यते, न मुखतः प्रोच्यते। तथा च सा व्यावृत्तिरारथी। प्रश्नपूर्वकत्वाभावात् शुद्धा। इत्याशयः ।

Page 712

६५२ काव्यमाला। [ द्वितीयानने-

"किं तीर्थ हरिपादपद्मभजनं किं रत्नमच्छा मतिः किं शासरं श्रवणेन यस्य गलति द्वैतान्धकारोदयः किं मित्रं सततोपकाररसिकं तत्त्वावबोध: सखे कः शत्ुर्वद खद्दानकुशलो दुर्वासनासंचयः ।।' अत्र हरिपादृभजनादिकमेव तीर्थादिकं नान्यदित्यर्थस्तात्पर्यमर्यादया अतीयत इत्यार्थी प्रश्नपूर्विका च। तीर्थ गङ्गा तदितरदपां निर्मलं संघमात्रं देवो तस्याः प्रसवनिलयौ नाकिनोऽन्ये वराकाः । सा यत्रास्ते स हि जनपदो मृत्तिकामात्रमन्य- त्तां यो नित्यं नमति स बुधो बोधशून्यस्ततोऽन्यः॥' अन्र मोत्रादिपदैस्तीर्थत्वादिव्यावृत्ति: प्रतीयत इति शाब्दी शुद्धा। 'किं मित्रमन्ते सुकृतं न लोका: किं ध्येयमीशस्य पदं न तोकाः । किं काम्यमव्याजसुखं न भोगा: किं जल्पनीयं हरिनाम नान्यत् ।' अन्न शाब्दी प्रश्नपूर्विका चेति प्राचां मतम्। अन्ये तु 'व्यावृत्ते- रार्थत्व एव परिसंख्यालंकारः, अन्यथा तु शुद्धा परिसंख्येव। यथा हेतुत्वस्यार्थत्व एव ह्वेत्वलंकार:, अन्यथा हेतुमात्रम् । अतो भेदद्वय- मेवास्याः' इत्याहुः । अपरे तु "व्यावृत्तेरार्थत्वेऽपि नालंकारत्वम्। 'पञ्न पञ्चनखा भक्ष्या,

एवं सति पूर्वविरोधं परिहरति-प्राचीनेति॥ इति रसगङ्गाधरमर्मप्रकाशे परिसंख्या- प्रकरणम् ॥

१ तस्याः (गङ्गायाः) यौ प्रभव-स्थानभूतौ तावेव देवौ। अन्ये नाकिनो देवाः वराकाः दीनाः । २ 'अपां संघमात्रम्' इति मात्रपदेन 'इतरत् तीर्थ न' इति व्यावृत्तिर्बोध्यते। एवम् 'अन्ये वराकाः' इत्यनेन 'अन्ये देवा न' इति व्यावृत्तिः प्रतीयते। ततश्च शब्दबोध्यत्वात्सेयं शाब्दी। अप्रश्नपूर्वकत्वात् शुद्धा। २ पञ्चनखाः पञ्च (शशकी शल्की गोधादयः) भक्ष्याः, इत्यनेन अन्ये पञ्चनखा न क्ष्याः इति व्यावृत्तिः प्रतीयते इति अन्रापि परिसंख्यालंकारः स्यात्।

Page 713

अथापत्ति: ] रसगङ्गाघरः । ६५३

समे यजेत, रात्सस्य' इत्यादावपि तदापत्तेः। किं तु कविप्रतिभानिर्मिता या तादशव्यावृत्तिस्तस्याः । यथा-'यस्मिञ्शासति वसुमतीपाकशासने महानसेषु संताप:, शरधिहृद्येषु सशल्यता, मञ्जीरेषु मौखर्यम्, भेरीषु ताडनम्, कामिनीनां कुन्त्लेषु कौटिल्यम्, गतिषु मान्यम्' इत्यादौ। अत्र हि प्रथमान्तार्थः कविप्रतिभया एकीकृत इति तद्वारा तत्प्रतियोगिक- व्यावृत्तिर्निर्मिता। एवं च 'सेवायां यदि साभिलाषमसि' इत्यत्र नान्यः सेव्य इत्यर्थस्य प्रतीतेः परिसंख्यास्तु, न तु परिसंख्यालंकारः । व्यावृत्ते- र्वास्तवत्वेन कविप्रतिभानपेक्षणात्। 'किं तीर्थ हरिपादपद्मभजनम्' इत्यत्र तु प्रश्नपूर्वकं दढारोपरूपकम्। अन्यथा 'न विषं विषमित्याहुर्व्रह्मस्वं विष- मुच्यते' इत्यत्रापि परिसंख्यापत्तेः । 'किं शास्तं' इत्यंशे तु परिसंख्यामात्रम्। 'तीर्थ गङ्गा तदितरदपां निर्मलं संघमात्रम्' इत्यन्रापि परिसंख्यैव शुद्धा। प्रागुक्ताद्वेतोरनार्थत्वात्। तस्मात् 'महानसेषु संतापः' इत्यादिकमेवास्या उदाहरणम्" इत्याहुः । इति रसगङ्गाधरे परिसंख्याप्रकरणम्। अथार्थापत्ति :-

न्यायश्च कारणम् । सा च प्रकृतेन प्रकृतस्य, अप्रकृतेनाप्रकृतस्य, प्रकृतेनाप्रकृतस्य, अप्रकृतेन प्रकृतस्येति तावच्चतुर्भेदा प्रत्येकमर्थान्तरस्य साम्यन्यूनाधिक्यैद्वादशविधा। ततो भावत्वाभावत्वाभ्यां चतुविशति- भेदा। दिव्मात्रेणोदाहियते-

विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेद्वालिशाः। आग्वदाह-अथेति।

१ आर्थत्व पवालंकारत्वमिति पूर्वानुषङ्गः । २ महानसे ताप: पृथक्, मनःसु च तापोऽन्यः, इति द्वयोः पार्थक्येपि अमेदाध्यवसानेन एकीकरणादतिशयकृतश्चमत्कारः। महानसे तापः इत्यनेन मनःसु न ताप इति बोधादार्थीव्यावृत्तिः । ३ हेतुत्वस्य आर्थत्वे यथा हेत्वलंकारस्तथा व्यावृत्तेरार्थत्व एव परिसंख्या, अन्र तु शब्दतः प्रोक्तिरित्यर्थः । ४ आपतनम् उपस्थितिरिति यावत।

Page 714

६५४ काव्यमाला 1 [द्वितीयानने-

अदय श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः सिंहानां च सुखेन मूर्धनि पदं धास्यन्ति श्ालावृकाः ॥' अन्र प्रकृतेनाप्रकृतस्यापाद्यमानस्य साम्यं मालारूपता च। 'यदि ते चरणाम्बुजं हदा वहतो मे न हतो विपद्णः । अथ चण्डकरेण मण्डिते दिनमध्येऽपि जितं तमोगणैः ।।'

तार्थस्य सर्वोत्कर्षेण वर्तनरूपेस्याधिक्यम्। न चात्र विपद्गणस्यावस्थानमा- त्रेण तमोगणानामवस्थानमापाद्यितुसुचितम्, न तु जयः अनानुरूप्यात्, इति शाङ््यम्। भगवच्चरणसंनिधाने यद्येकस्य विपद्गणस्य स्वास्थ्यं तदा समुचित एव बहूनां तमोगणानां सूर्यसंनिधाने जय इति न दोषः। 'सदैव स्नहार्द्रे सुरतटिनि निष्किञ्चनजने यदि त्वं नाधत्से सुरभिरिव वत्से मय्रि कृपाम्। तदा चिन्तारत्नत्रिदशप तिभूमी रुहसुखा ददीरन्नर्थिभ्यः किमिति कणभिक्षामपि जडाः ।।' अन्राभावेनाभावापादनम्। स्नेहार्द्रजाह्नवीरूपप्रकृतार्थापेक्षया चिन्ता- र्नादीनां जडत्वेन न्यूनत्वं चैतेष्वापाद्यमानमप्रककृतम्। 'मामनुरक्तां हित्वा यदि राजन्पुरुषसिंह यातोऽसि। मुक्त्वा वैनमिदमेष्यति वनलक्ष्मीमत्र किं चित्रम् ।।'

१ असाधारणधियामग्रे बालिशानां चापल्यं यदि भवति तर्हि फणिनामय्रे पक्षिशावकाना- मपि चापल्यमग्रे भविष्यतीति प्रकृतेन बुद्धिमद्दत्तान्तेन अप्रकृतस्य फण्यादिवृत्तान्तस्य उप- स्थितिरिति अर्थापत्तिः। असामान्यबुद्धीनामय्रे मूर्खाणां चापल्यं फणिनामये विह्गशिशूना- मिवेति द्योः साम्यम्। अप्रकृतानि बहूनि निर्दिष्टानि (फणि-शकुन्तौ, दन्तावल-शशौ, सिंह-शृंगालौ) इति मालारूपतेत्यर्थः । २ अयं भाव :- प्रकृते तु 'न हतः' अर्थात् विद्यमान एवेति विद्यमानत्वमात्रं प्रतिपा- घते, आपाद्यमाने (तुल्यन्यायत्वादूद्यमाने) अप्रकृते तु 'जितम्' इत्युच्यते। अत एव कप्रकृषे आधिक्यमित्यर्थः ।

४ इदं वनम् (कर्तृ) वनलक्ष्मीं त्यक्त्वा ए्यति गमिष्यति इत्यर्थः ।

Page 715

अर्थापत्ति: ] रसगङ्गाघर:। ६१५:

इयं राज्ञा नलेन मुक्ताया अरण्ये दमयन्त्या ध्यानोपनीतं तमेव प्रत्युक्ति:। अन्नापाद्यमानो वनवृत्तान्तोऽपि संनिहितत्वात्प्रकृत एवेति द्वयमपि ग्रकृ- तम्। पुरुषसिंहापेक्षया वनस्य नपुंसकत्वान्न्यूनत्वम्। अत एव ्किं चित्रमित्युक्तम्। 'उदुम्बरफलानीव त्रह्माण्डान्यत्ति यः सदा। सर्वगर्वापहः कालस्तस्य के मशका वयम् ॥' अन्राप्रकृतेन व्रह्माण्डादनेन समस्तभूतानामनित्यत्वं कमुतिकन्यायेन प्रकृतं प्रतिपादयते। 'न भवानिह मे लक्ष्यः क्षत्रवर्णविलोपिनः । के वा विटपिंनो राम कुलाचलभिदः पवेः॥' रामं प्रति जामदस्यस्येयमुक्तिः । अन्र प्रतिवस्तूपमा महावोक्यार्थः । तस्याश्च दलद्वयमुपमेयवाक्यार्थ उपमानवाक्यार्थश्च। तत्रोपमेयवाक्यार्थ- mp नवाक्यार्थगतायां त्वप्रकृताविति। अनया दिशान्यदप्यूद्यम्। अत्र विचार्यते-नेयं वाक्यवित्संमतायामर्थापत्तौ निविशते। आपा- दकस्यार्थस्यापतितमर्थ विनानुपपत्तेरत्रांभावात्। नाप्यनुमाने। आपततोS- र्थस्यापादकासमानाधिकरणत्वेन व्याप्यत्व-पैक्षधर्मत्वयोर्दूरापास्तत्वात्। न

तत्र अर्थापत्त्यलंकारे। १ ज्ह्माण्डानाम् अदनेन भक्षणेन। २ 'क्षत्रलोपिनो मे भवान् न लक्ष्यः' इति प्रकृतवाक्यार्थः 'अचलभेदकस्य वज्रस्याग्रे वृक्ष: किम्' इत्यप्रकृतवाक्यार्थः । अकिव्चिद्णनीयत्वरूपस्य एकस्यैव धर्मस्य भिन्नशब्दाभ्यां प्रतिपादनाद्वस्तुप्रतिवस्तुभावः, द्योश्च आर्थमौपम्यमिति प्रतिवस्तूपमा महावाक्यार्थरूपेत्याशयः । ३ क्षत्रवर्णस्य विलोपेन भवतोपि विलोपः स्यादित्यर्थ आपादयते। अन्र आपाद्यमानो राम- विलोपरूपोऽर्थ:, तन्निमित्तभूतश्च क्षत्रविलोपरूपः पतौ द्वावपि जामदस्योक्तौ प्रकृतौ। अचल- भेदेन वृक्षमेदनमापादयते इति उपमानगता अर्थापत्तिरिति बोध्यम्। ४ यथा रात्रिभोजनं विना पीनत्वस्याऽनुपपत्तिः । ५ साध्यमानो वहिः साधकस्य धूमस्य सहचरित एव (यत्र धूमस्तत्र वहिः) उपलभ्यते। अत्र तु आपतन् (आपाद्मानः) अर्थः आपादकस्य असमानाधिकरणो भवतीति नानुमान- मित्यर्थः ।

Page 716

६५६ काव्यमाला।: [द्वितीयानने-'

च येन कारणेनैकार्थसिद्धिस्तेनैव लिङ्गेनापरार्थानुमानमिति वाच्यम्। अर्थान्तरसिद्धेरनुमित्यात्मकताविरहात्। यतोऽयमर्थोऽपि भवितुमर्हतीति बुद्धेराकारः, न तु भवत्येवेति। नापि यद्यर्थातिशयोक्तौ। तस्या विपरी- तार्थ एव द्वयोर्विश्रान्तेः । न चेह तथा, आपादकस्य सिद्धत्वादापततञ्च संभाव्यमानत्वाद्यथाश्रुत एव विश्रान्तेः । तस्माद्येन न्यायेनैकोऽर्थः सिद्ध- स्तेनैव न्यायेनापरोऽप्यर्थः सेड्ुमर्हतीत्येवंरूपेयमर्थापत्तिः । अस्यां चार्था- न्तरं लोकेSविद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा यद्यापादते तदा- लंकारत्वम्। यथा 'फणिनां शकुन्तशिशवः' इत्यादौ। अन्यथा तु कैमु- तिकन्यायतामात्रम्। यथा 'उदुम्बरफलानीव' इत्यादौ। प्राचीनरीत्या तु प्रागिदमुदाहतमस्माभिः । अत एव तत्र कैमुतिकन्यायेनेत्युक्तम् । एवं च 'कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः', 'अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोविधौ वक्रे मूर्ति स्थितवति वयं के पुनरमी' इत्यादि सर्वस्वकृता यदुदाहृतं तन्नातीव हृदयंगमम्। ~यत्तु-'कैमुत्येनार्थसंसिद्धि: काव्यार्थापत्तिरिष्यते' इति कुवलयानन्द- कृता अस्या लक्षणं निर्मितं, तदसत्। कैमुतिकन्यायस्य न्यूनार्थविषयत्वेना- धिकार्थापत्तावव्याप्तेः । यथा- 'तवाग्रे यदि दारिदं स्थितं भूप द्विजन्मनाम्। शनैः सवितुरप्यग्रे तमः स्थास्यत्यसंशयम् ॥' १ यथा कंचिदर्थ कारणीकृत्य कश्चिदर्थः साध्यते (आपाद्यते ) तथा लिङ्गीकृतेन तेन अन्योडर्थोनुमीयतेपि। अर्थात् एकेन अर्थेन अर्थापादनं अनुमानं च स्यादितिशङ्का। एवमर्थ- सिद्धिः (अर्थापत्तिः) नानुमितिरूपा । यतो हि अर्थापत्तिरूपाया बुद्धे: 'अयमर्थोपि भवितु- महति' इत्याकारः । अनुमितेस्तु 'भवत्येव' इति निश्चयपर्यवसायी आकार इति न द्वयोरैक्य- मिति समाधानम्। २ मम्मटादिसंमता यातिशयोक्तिस्तस्यां द्वयोः (प्रकृताप्रकृतयोः) उक्तविपरीतेडये एव विश्रान्तिः, यथा-'राकायामकलक्कं चेदमृतांशोर्भवेद्पुः । तस्या मुखं तदा साम्यपराभवमवा- झुयात् ।।' अत्र चन्द्रस्य अकलक्कं वपुर्न भवति, अत एव तदानुगुण्येन मुखं साम्यपराभवं नाप्ोति इत्येव कवेस्तात्पर्यम्। ३ नतु अनुमितिरूपा, तस्या भवत्येवेति निश्चयात्मकत्वात्। ४ कैमुतिकन्यायसिद्धत्वेन कविप्रतिभाकल्पितत्वाभावादित्यर्थः ।

Page 717

विकल्प: ] रसगङ्गाधर: 1 ६५७

अन्र शनैःशब्दमहित्रा राजाय्े दारिद्यस्थित्यपेक्षया सूर्याग्रे तमोऽवस्थानं दुःशकमेवेत्यवगतमपि न्यायसाम्यादापाद्यते, न तु कैमुतिकन्यायेनेति।

अथ विकल्प :- विरुद्धयोः पाक्षिकी प्रप्तिर्विकल्प: ।। एकस्मिन्धर्मिणि स्वस्वप्रापकप्रमाणप्राप्तयोरत एव तुल्यबलयोर्विरुद्ध- योर्विरुद्धत्वादेव युगपत्प्राप्तेरसंभवात्पाक्षिक्येव प्राप्तिः पर्यवसन्ना। अयं च समुच्चयस्य प्रतिपक्षभूतो व्यतिरेक इवोपमायाः । अन्न च विकल्प्य- मानयोरौपम्यमलंकारतावीजम्, तदादायैव चमत्कारस्योह्लासात्। अन्यथा तु विकल्पतामात्रम्। यथा 'जीवनं मरणं वास्तु नैव धर्म त्यजाम्यहम्' इत्यादौ। अत्र जीवनमरणयोनौंपम्यस्य प्रतीतिः । उदाहरणम्- 'प्राणानर्पय सीतां वा गृधांस्तर्पय वा द्विजान्। यमं भजस्व रामं वा यथेच्छसि तथाचर ।।'

न तु कैमुतिकन्यायेनेति। अत्रेदं चिन्तते-तवाग्रे यदीत्यत्र वक्ष्यमाणसंभावना

लम्। इह लापादकस्य सिद्धत्वादापाद्यस्य संभाव्यमानतमिति विशेष इति वाच्यम्। न्यूनलाधिक्यादिभिरर्थापत्तिमेदस्य तया कल्पनवत्तस्या एव तथाविधमेदस्य कल्पने क्षत्य भावात्। न च कैमुत्येन सिद्धिरपि तद्भेद एवास्तु। प्राचामनुरोघेन भिन्नतयोक्तेः ।[ न च ] कैमुत्यकृतश्वमत्कारोऽपि तङ्गेदकताया एव साधकोऽस्तिति वाच्यम्। तत्कृतचमत्कारस्या- लंकारभेदजनकताया दुरपह्ववाच्चेति दिक्॥ इति रसगङ्गाधरमर्मप्रकाशेऽर्थोपत्तिप्रकरणम् ॥ प्राग्वदाह-अथेति। सा च न शाब्दीत्याह-एकस्मिन्निति । भजनेषु त-

१ अस्मल्लक्षणे 'न्यायसाम्यात्' अर्थात्कारणसाम्यादित्युक्तम्। तथा च 'तवाग्रे यदि द्विजन्मनां दारिद्रयं स्थितं तहिं सूर्यस्याय तमोपि स्थास्यति' इत्यसंभूतमपि तवाय्े दारिव्स्थि तिरूपकारणसाम्यात् आपाधते। कैमुतिकन्यायेन तु न्यूनमेव (आखुभिर्यदि दण्डो भक्षित- स्तहि कोमलानामपूपानां भक्षणं किम्, इति) आपाद्यते न अधिकम्।

Page 718

।६५८ काव्यमाला। [द्वितीयानने-

अन्रार्पणतर्पणभजनेषु मानरक्षणंप्रमाणेन यथाकमं कर्मतया प्राणगृधय- मानाम्, जीवनरक्षणप्रमाणेन सीताद्विजरामाणां प्राप्तानां यौगपद्यासंभ- वात्पर्यायेण प्राप्तिः। कर्मणोः क्रियाफलेनैव समानधर्मेणौपम्यम्। नन्वन्र यथार्पि-तर्प्यादिघात्वर्थफलरूपधर्मैक्यात्कर्मणोरौपम्यं गम्यते, तथा 'जीवनं मरणं वा' इत्यादौ सत्तारूपधर्मैक्याज्ीवनमरणयोः कर्त्रोरपि तद्गन्तुं युज्यत इति चेत्, युज्यते, न तु गम्यते। अथ तत्कुतो हेतोः ? कविता- त्पर्यविरहादिति गृहाण। नह्यत्र मरणं जीवनं च समानमिति कवेरभि- प्रेतम्। किं तु 'विषं भुदक्ष्व, मा चास्य गृहे भुङथाः' इतिवत् धर्माद्वेतो- र्मरणमपि ज्यायः, न तु धर्मत्याग इति निषिद्धगतद्वेषाधिक्यम्। तैदर्थ च मरणस्योपात्तत्वादविवक्षिताधिकरणकतया औपम्यस्यानिष्पत्तिरेव। क्वचिल्लुप्तं समानधर्ममादायाप्यौपम्यस्य गम्यत्वेऽयमलंकारः। यथा भगवद्गीतासु 'हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम्' अत्र महीभोग-स्वर्गप्राप्त्योरुत्तमत्वेनौपम्यं विवक्षितम्। तथा च धात्वर्थयोरयं विकल्प इत्येके। आख्यातार्थयोरित्यपरे। सर्वथैव न महीसवर्गयोरिति स्थितम्। तयोः कारकत्वेनैव क्रियान्वयं विना विकल्पासंगतेः । न च' धात्वर्थयोरेकस्य कर्तृरूपसाधारणधर्मस्योक्तत्वात्कथं लुप्ततेति वाच्यम्। १ यदि मानरक्षणं तेभीष्टं तहिं प्राणान् अर्पय, गृधान् तर्पय (स्वमांसेन), यर्म भजस्व। यदि जीवनरक्षणं ते प्रमाणं तहि सीताम् अपय, द्विजान् तर्पय, रामं भजस्व। प्राण-सीतयोः, गृभ्न-द्विजयोः, यम-रामयोश्च अर्पयेत्यादिक्रियाकर्मभूतयोः परस्परमौपम्यम्, अत एव चमत्कारादलंकारत्वम्। अर्पण-तर्पणादिव्यापारजन्यमन्यसात्करणादिक्रियाफलं द्वयोः (प्राण-सीतयोः) मिथः समानत्वमित्यौपम्यमित्याशयः । २ धात्वर्थभूतं यत्फलम् (फल-व्यापारौ धात्वर्थ इति सिद्धान्तात्) तद्रूपस्य धर्मस्यक्यात। ३ तत् औपम्यं गन्तुं प्रतीतिविषयीभवितुं युज्यते। ४ अर्थात् धर्मत्यागस्य द्वेषाधिक्यसूचनार्थमेव मरणस्योपादानं किन्तु 'मरणं जीवनं वा अस्तु' इति समानकोटिकतया साम्येन द्वयोरधिकरणम् (अधिकृतिः, स्वीकारः) न विव- क्षितम्। (न विवक्षितम् अधिकरणं ययोस्तौ अविवक्षिताधिकरणकौ, तत्तया) । ५ महीकर्मको भोगः, स्वर्गकार्मका प्राप्तिश्च धात्वर्थः। महीकर्मकभोगाश्रयः स्वर्गकर्म- कप्राह्याश्रयः इति आख्यातार्थः। स्वर्गमह्योः कर्मकारकतया कारकाणां च क्रियान्वयस्याव+ श्यकत्वातं क्रियान्वये सत्येव विकव्पत्वं, न तयोः केवलयोरित्याशयः । ६ लुपं समानधर्ममादाय औपम्यमिति कथमुक्तम्? इति शङ्का।

Page 719

विकल्प: ] रसगङ्गाघर:। ६५९ कर्तरूपसाधारणधर्ममादायौपम्यस्यात्र सुन्दरस्यानिष्पत्तेः। अन्यथा 'हतो वा नरकं गन्ता जित्वा वा भोक्ष्यसे महीम्' इत्यत्राप्यौपम्यप्रत्ययापत्तेः । यत्तु- "-भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीतेहितप्राप्तये। लावण्यस्य महानिधी रसिकतां लक्ष्मीद्शोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरे:॥।' अत्र विकल्पः । उत्तमत्वाच्च तुल्यप्रमाणश्लिष्टत्वम्" इत्यलंकारसर्व- स्वकृतोक्तम्। तच्चिन्त्यम् । भवार्तिशमने तनु-नेत्रद्वन्द्वयोर्द्वयोरपि युग- पत्कर्तृत्वे विरोधाभावाद्विकल्पानुत्थानात् । 'विरोधे विकल्पः' इति हि तेनैवोक्तम्। न च तनुमध्ये नेत्रयोः प्रविष्टत्वात्पृथगभिधानानौचित्येऽपि यत्पृथगभिधानं तद्वक्तुस्तनु-नेत्रद्वन्द्वयोर्विरोधमभिप्रेतं गमयतीति वाच्यम्। वास्तवस्यैव विरोधस्य विकल्पोत्थापकत्वेन वैवक्षिकस्याप्रयोजकत्वात्। विकल्पस्यान्नासुन्दरत्वाच्च। वस्तुतस्तु 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव' इत्यादाविवान्रापि श्लेषमूलोपमैवालंकार: । तनुर्वेति तनुरिवेत्यर्थः । 'वा स्याद्विकल्पोपमयोः' इति वाशव्दस्येवार्थकत्वाभिधा- नात्। न च लिङ्गवचनभेद उपमायां दोष इति वाच्यम्। साधारणधर्म- स्योपमानसामानाघिकरण्ये उपमेयसामानाधिकरण्ये च यत्र वैरूप्यं तत्रैव लिङ्गवचनभेदस्य दोषताया अभ्युपगतेः । यथा-'हंसीव धवलश्चन्द्रः सरांसीवामलं नभः' । अत्र हंसी धवला, चन्द्रो धवलः, सरांस्यमलानि, नभो ह्यमलमिति साधारणधर्मस्योपमाने उपमेये च द्वैविध्येनैव प्रतीते- रुपमायाः सम्यगनिष्पत्तेः । नन्वेवं सति 'सरांसीव नभः' इत्यादौ

द्विषयो मानोऽहंकारः। तत् औपम्यम्। तत् अगमनम्। लुप्तोपेति धर्मेत्यादि: । दिगर्थोऽन्यतोऽवसेयः ॥ इति रसगङ्गाधरमर्मप्रकाशे विकल्पप्रकरणम् ॥ १ भवार्तिशमनं प्रति द्वयो: कर्तृत्वं वास्तवे तु न विरुद्धम् । द्वयोः पृथगभिधानेन विरोधो, विवक्षितः । तथा च विवक्षया कल्पितस्य विरोधस्य विकल्पोत्थापने न प्रयोजकत्वम्। अर्थात् कल्पितो विरोधो विकल्पं प्रति न कारणमित्याशयः । २ भगवदङ्गेषु एकमात्रस्य शरणीकरणं द्वितीयस्य विरोधोद्धावनं न सुन्दरमित्याशयः ।

Page 720

६६० काव्यमाला। [द्वितीयानने-

लुप्तोपमायां कथं वचनभेदो दोष इति चेतू, तत्रापि प्रतीयमानसाधारण- धर्मस्य वैरूप्यादेवेत्यभ्युपगमात्। न च प्रतीयमानस्य धर्मस्य स्वशब्दा- नालिङ्गिततया सुतरां लिङ्गानालिङ्गनेन नास्ति वैरूप्यमिति शङ्क्यम् । शब्दालिङ्गितस्यैवार्थस्य प्रतीतेरिष्टेः । यदाहु :- 'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाद्वते' इति। यद्वा श्रुतार्थापत्तावभ्युपगम्यमानायां शब्द एव कल्प्यते, अर्थस्तु तेनाभिधीयत इत्यस्ति वैरूप्यम्। एवं स्थिते राजते भासते इत्यादितिङन्तप्रतिपादे साधारणधर्मे यथा लिङ्गवचनभेदो न दोषस्तथात्रांपीति। अत एव 'यस्मिन्नतिसरसो जनो जनपदोश्च' इति तुल्ययोगितापि संगच्छते। अन्यथा उपमागभेत्वात्तस्या उपमाया दुष्टत्वे दुष्टतापत्तेः । श्रिष्टे धर्मलिङ्गसंख्याभेदादि नैव दूषणमिति प्रतिप्रसवा- च्चति दिक्। इति रसगज्गाधरे विकल्पप्रकरणम्।

अथ समुच्चय :- युगपत्पदार्थानामन्वयः समुच्य:॥

प्राग्वदाह-अथेति।

१ नन्वत्र अमलमिति पदम् उपमेयमात्रसंबद्धम् । साधारणधर्मस्तु लुप्तः, आक्षेपगम्य इत्यर्थः । ततश्च धर्मसामानाधिकरण्ये कथं वैरूप्यदोष इति शङ्का। आक्षिप्तस्यापि धर्मस्य 'सरांसि' इति बहुवचनेन, 'नभः' इति एकवचनेन च सहसमावेशे वैरूप्यमेवोत्पधेतेति स दोष एव। इति समाधानम्। २ यत्र प्रतीयमानो धर्मस्तत्र प्रतीयमानसाधर्म्यसामप्रया उपमानिष्पत्तिर्भवति, नतु तत्र धर्म- वाचकशब्दस्य साक्षाद्योगो येन तत्संबन्धिलिङ्गकृतवैरूप्यस्यावसरः स्यादिति शङ्का। अर्थस्य प्रतीति: (शाब्दबोध:) शब्दरूपं विशेषणमादायैव भवति, नान्यथेति समाधानम्। ३ श्रुतात् शब्दात् यत्रार्थस्य आपादनं यथा 'द्वारन्' इति शब्दात् 'पिघेहि' क्रियांपदस्य, (शब्दाध्याहार इत्यर्थः ) । ४ नेत्रे, तनुः इत्यत्र 'भक्तिप्रह्वविलोकनप्रणयिनी' इति नपुंसकलिङ्गद्विवचनं स्त्रीलि झैकवचनं चापीत्यनयो: सामानाधिकरण्यं संपद्यत इति लिङ्गवचनभेदो न दोषायेत्याशयः । ५ अतिशयितानि सरांसि येषु वे अतिसरस इत्यर्थः ।

Page 721

समुच्चय: ] रसगङ्गाघर: । ६६१

युगपदिति क्रमव्यावृत्त्यर्थम्, न त्वेकक्षणप्रतिपत्त्यर्थम्। तेन किंचि- त्कालभेदेऽपि न समुचयभङ्ग: । स तावह्टिविधः-धर्मिभेद-धर्म्यैक्या- भ्याम्। धर्म्यैक्येऽपि द्वैविध्यम्-कारणत्वातिरिक्तसंबन्घेनैकधर्म्यन्वये, कारणतया एकधर्म्यन्वये चेति। एवं त्रिविधेऽस्मिन्नद्ययोर ेदयोर्गुणानां क्रियाणां गुणक्रियाणां च, तृतीये रमणीयानामरमणीयानां रमणीयारम- णीयानां समन्वयः । न चास्मिन्वक्ष्यमाणसमाध्यलंकारत्वमाशङ्कयम्। समाधौ हि एकेन कार्ये निष्पाद्यमानेऽप्यन्येनाकस्मिकमापतता कारणेन सौकर्यादिरूपोSतिशयो यत्र संपाद्ते स विषयः। अस्मिंस्तु समुच्चयप्रभेदे यत्रैककार्यं संपादयितुं युगपदनेके खले कपोता इवाहमहमिकया संपतन्ति, कार्यस्य च न कोऽप्यतिशयः सः । कमेणोदाहरणानि- 'प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभः । रक्त च पथिकहृदयं कपोलपाली मृगीदश: पाण्डु: ।।' 'उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण। मुदितं च सकलयुवजनचूडामणिशासनेन मदनेन ।I' अन्नाद्ये गुणानां द्वितीये क्रियाणां च यौगपद्येन भिन्नधर्म्यन्वयः। 'आताम्रा सिन्धुकन्याधव चरणनखोल्लासिकान्तिच्छटाभि- ज्योत्स्नाजालैर्जटानां त्रिपुरविजयिनो जातजाम्बूनदश्रीः।

पायादायासजालादमरसैरिद घव्रातजातश्रमान्नः।।' 'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोडधुना। क्रोडान्त: कुरुतेतरां वसुमतीमाशाः समालिङ्गति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यरगम्यामपि।।' सिन्धुकन्याधवो लक्ष्मीपतिः । १ पदार्थानामन्वये क्र्मिकत्वं न स्यादित्येव व्यावर्त्यते, न त्वेकस्मिन्नेव क्षणे सर्वेषां पदा- र्थानामन्वयः स्यात्तदैव समुच्चयो भवतीति विवक्ष्यते इत्यर्थः । २ धर्मिभेद-कारणत्वातिरिक्क- संबन्धेन एकधर्म्यन्वययोः। ३ कारणतासंबन्धेन एकधर्म्यन्वये। ४ अमरसरित् आयासानां जालो यस्मिन् ईद्टशात् अवम्रातजातात् श्रमात् नः पायादित्यन्वयः। ५ वसुमतीक्रोडा- भ्यन्तरीकरण-दिक्समालिङ्गनादीनां क्रियाणामेकस्मिन् धर्मिंणि चापप्रतापेऽन्वयात्समुच्चयोडय- सुदाहृतः । अस्य हि पर्यन्ते व्याजस्तुतौ पर्यवसानमिति द्वयोः संकरः। यथात्रव पद्ये तापप्रतापस्य विटव्यवहारप्रतीत्या समासोक्त्तरपि संकर: पूर्वमुदाहृतः (व्याजस्तुतौ)। ५६ रस०

Page 722

६.६२ क्राव्यमाला। [ द्वितीयानने-

अ्राद्ये गुणानां द्वितीये क्रियाणामेकधर्म्यन्वयः। यद्पि हरिचरणनख- संसर्गसमये नास्ति हरजटासंसर्ग इति रक्तपीतवर्णयोर्योगपद्यस्यासंभवः, तथापि साहजिकश्व्वैत्येन सह तयोः प्रत्येकं तस्य संभवोऽस्त्ेवेति न दोषः। 'समुत्पत्तिः पझ्मारमणपद्पद्मामलनखा- न्निवास: कंदुर्पप्रतिभटजटाजूटभवने। अथायं व्यासङ्ग: पतितजननिस्तारणविधे- ने कस्मादुत्कर्षस्तव जननि जागर्ति जगतः ।।' अंत्र त्रिष्वेकेनाप्युत्कर्षजननसंभवे त्रयोऽप्युत्कर्षजननार्थ स्पर्धयेवापतन्तो रमणीया:। 'पाटीरद्रुभुजंगपुंगवमुखोद्धूता वपुस्तापिनो वाता वान्ति दहन्ति लोचनममी ताम्रा रसालदुमाः । श्रोत्रे हन्त किरन्ति कूजितमिमे हालाहलं कोकिला बाला बालमृणालकोमलतनुः प्राणान्कथं रक्षतु।' अन्नापि त्रयोऽपि जीवनाशार्थमापतन्तोऽरमणीयाः। 'जीवितं मृत्युना लीढं संपद: श्वासविभ्रमाः । रामाः क्षणप्रभारामाः शल्यान्येतानि देहिनाम् ॥' अन्र जीविताद्यः साभाव्याद्रमणीया इति निःसारयितुमशक्याः विशेष- णमाहात्म्याच्चारमणीया इति दुःखजनकाश्च, अत एव शल्यतुल्याः । रम- णीयाSरमणीयशब्दे कर्मधारेय आश्रीयते, न द्वन्द्वः, सहचरभिन्नत्वदो- षापत्तेः । एवमरमणीयरमणीयानामप्येककार्यजननार्थमापततां समुच्चयः संभवति ।

तयो रक्तपीतवर्णयोः । प्रतिभटः शत्रुः शिवः। पाटीरद्ुश्चन्दनवृक्षः। हालाहलरूपं कूज़ितम्। १ उत्कर्षजननरूपकार्यात्मकेएकस्मिन धर्मिणि कारणभूतानां तादृशोत्पत्ति-निवास-न्या- संङ्गानां सुगपदन्वय इति तृतीयः (कारणतासंबन्धात्मकः) भेद इत्यर्थः । २ रमणीयाश्च ते अरमणीयाः अर्थात् रमणीयाः सन्तोपि ये अरमणीयाः संपद्यन्ते यथा जीवितादयो निसर्गात रमणीया: अपि मरणभयंसंस्पृष्टत्वादिविशेषणसंबन्धास् :अरमणीयाः संपधन्ते इत्याशयः ।1,

Page 723

समुच्चय: ] रसगङ्गाघर:। ६६३

'शरीरं ज्ञानजननं रोगो विष्णुस्मृतिप्रदः । विपद्वैराग्यजननी त्रयं सुखकरं सताम् ।।' शरीरादयो हि स्वाभाव्यादरमणीया अपि भेदकमाहात्म्याद्रमणीयाः । न च रमणीयानां समुच्चये अरमणीयानां च समालंकारेण, रमणीयारमणी- यानां च विषमालंकारेण च संकीर्णत्वान्नैते प्रभेदा युक्ताः समुच्चयस्य। संकरस्य प्रभेदृताप्रयोजकत्वविरहात्। अन्यथा सर्वेषामलंकाराणामनन्त- भेदत्वापन्तेरिति वाच्यम्। 'समुत्पत्तिः पझ्मारमण-' इत्यत्र, 'पाटीरदु- भुजंग-' इत्यन्न च समालंकारस्याविवक्षितत्वाम्। नहि हरिचरणनखस- भूति-हरजटाजूटनिवास-पतितनिस्तारणव्यासङ्गानां परस्परं योगो योग्य इति कवेरभिप्रेतम्। किं तु भगवत्या भागीरथ्या उत्कर्ष जनयितुं त्रयो- डपि जागरूका इति। नापि मलयानिलरसालट्रुमकोकिलकूजितानाम्। कि तु त्रयोऽपि बालायाः प्ाणनाशार्थ वद्धपरिकरा इति। अत एव हन्तेति खेद उपपद्यते। समालंकारस्याभिप्रेतत्वे तु त्रयाणां योगस्य युक्तत्वात्खे- दोऽनुपपन्न एव स्यात्। अथ वालाया मारकत्रितययोगोऽननुरूप इति विषमाभिप्रायेण खेदोपपत्तिरिति चेत्, एवमपि त्रयाणां योगांशे समालंका- रंस्यात्यन्तर्मे प्रतीतेर्विषमस्य च बाह्यबालांशमादाय प्रतिष्ठानात्समुच्चयस्यासं- कीर्णतैव। एवं 'जीवितं मृत्युना लीढम्' इत्यादौ जीवितादे रमणीयस्य मृत्यु- लीढत्वादिना अरमणीयत्वेऽपि न मृत्यवालीढत्वादिकमयुक्तमिति कवेरिह भेदकं विशेषणम्। समुचये इत्यस्याग्रेऽप्यनुषङ्गः ॥ इति रसगङ्गाधरमर्मप्रकाशे समुचय- प्रकरणम् ॥ १ एघु सम-विषमालंकारयोर्मिश्रणं भवति, तथा च समत्वेन विषमत्वेन चैव व्यपदेशो युक्तः, न तु समुच्चयप्रभेदस्य (रमणीयानाम्, अरमणीयानां वा समुच्चय' इत्यादेः) पृथकस्वीकारगौरवं सोढव्यम्। ननु यत्र समविषमयोः संकरः समापतति स नवीनः प्रभेद इति चेतू, एवं संक- रसमापातेन सर्वत्रानन्तभेदप्रसक्तिः । तस्मात् समो वा विषमालंकारो वाडस्तु इति पूर्वपक्षः । २ त्रितयस्य बालाकर्मकमारणे यदि योगस्तहि त्रयाणामनुरूपसंसर्गमादाय समालंकारत्व- मपि स्यात्, किन्तु समालंकारो नात्र सहृदयैः प्रतीयते। 'बालाया मारकत्रितययोगोऽननु- रूप:' इति विषमस्तु समुच्चयस्य ये ये घटकास्तद्बहिर्भूतं 'बाला'रूपमंशमादाय संभवति। अयं भाव :- प्राणनाशं प्रति मलयानिलादीनामेकत्रान्वये समुचयः । तथा च 'प्राणनाशरूप कार्यम् मलयानिलादीनि कारणानि' समुच्चयस्य घटकाः । 'बालाया मारकत्रितययोगोऽननु- रूप:' इति विषमे 'बाला' समुच्चयघटकेभ्योऽतिरिक्ैवेति द्वयोर्घटकभेदात्संकराभाव एवेत्याशयः।

Page 724

६६४ काव्यमाला। [द्वितीयानने-

विवक्षितम्। रमणीयानाभचिरस्थायित्वस्योत्सर्गतः सिद्धेस्तस्य च स्वाभि- लषिताननुगुणत्वाच्छल्यत्वप्रयोजकत्वम् । अतस्तृतीयप्रभेदस्यापि न विषमसकीर्णत्वेनान्यथासिद्धिः। एतेन 'सद्योगासद्योगसद्सद्योगैन समुच्चय: प्रभेदवान् । समविषमसंकरेणैवान्यथासिद्धः' इति रत्नाकरोक्त- मपास्तम् । इति रसगङ्गाधरे समुच्चयप्रकरणम् । अथ समाधिः- एककारणजन्यस्य सौकर्य समाधि:॥ तच्च कार्यस्यानायासेन सिद्ध्या साङ्गसिद्धा च। पूर्वापेक्षया विशेष- स्तूक्त एव। उदाहरणम्- 'आयातैव निशा मनो मृगदशामुन्निद्रमातन्वती मानो मे कथमेष संप्रति निरातक्कं हृदि स्थास्यति। ऊहापोहमिमं सरोजनयना यावद्विघत्तेतरां तावत्कामनृपातपत्रसुषमं बिम्बं बभासे विधो: ।।' अत्र रात्रिसंनिधानादृपि सिद्यतो मानविनाशस्य चन्द्रोदयादनायासेन सिद्धिः । यथा वा- 'स्मरदीपदीप्तदृष्टेर्घेनान्धकारेऽपि पतिगृहं यान्त्याः । झटिति प्रादुरभूवन्सख्यादिव चञ्च्लाः परितः ॥' इहाकस्मिके निष्पत्यूदृपतिगृह्यानस्य कारणान्तरसमवधाने हेतोरुत्प्रेक्षणा- दुत्प्रेक्षालीढः । पूर्वस्तु शुद्धः । 'नवप्रसङ्गं दयितस्य लोभादङ्गीकरोति स्म यदा नताङ्गी। <. ऋथं तदालिङ्गनमप्यकस्माद्वनो निनादैर्घनतां निनाय ।' अत्र घनध्वनिभिरालिङ्गनस्य साङ्गतासिद्धिः । पूर्वपद्यद्वये त्वनायासेन कार्यसिद्धिः।

निबिडताम् । प्राग्वदाह-अथेति। सुषमा परमा शोभा। चञ्चला विद्युतः। घनो भेघः। घनता

१. 'रमणीयस्य जीवितस्य मृत्युलीढत्वम् अयुक्तम्' इति विवक्षायामेव विषमो भवेदित्यर्थः । २ समवधानेन आहितं सौकयं समाधिरित्यर्थः ।

Page 725

प्रत्यनीकम् ] रसगङ्गाघर: । ६६५

'कथय कथमिवाशा जायतां जीविते मे मल्यभुजगवान्ता वान्ति वाताः कृतान्ताः। अयमपि बत गुज्जत्यालि माकन्दमौलौ मनसिजमहिमानं मन्यमानो मिलिन्दः ।।' अन्न जीवितनाशं प्रति वातवान-चञ्च्रीकगुञ्ञितयोरहमहमिकया हेतुत्वा- देकस्याकस्मिकत्वाभावान्न प्रकृतालंकारस्य विषयः । किं तु कर्तृरूपभिन्न- धर्मिकेण वानगुञ्जनक्रिययोः समुच्चयेन जीवितनाशरूपैककार्यात्मकैकध- र्म्िकस्तयोरेव कारणयोः समुच्चयः 'संकीर्णः । इवि रसगङ्गाधरे समाधिप्रकरणम्।

अथ प्रत्यनीकम्- प्रतिपक्षसंबन्धिनस्तिरस्कृतिः प्रत्यनीकम् ॥ अनीकेन सदशं प्रत्यनीकम् । सादृश्यस्य यथार्थत्वेनैव संग्रहे पुनः सादृश्यग्रहणाद्गुणीभूतेऽपि सादृश्येऽव्ययीभावः । लोके प्रतिपक्षस्य तिर- स्कारायानीकं प्रयुज्यते। तद्शक्तौ प्रतिपक्षसंबन्धिनः कस्यचित्तिरस्कार: क्रियते। स चानीकसद्ृशतया प्रयुज्यमानत्वात्प्रत्यनीकमुच्यते। अत्र च

माकन्दश्चूतः ॥। रसगङ्गाधरमर्मप्रकाशे समाधिप्रकरणम् ॥ प्राग्वदाह-अथेति। अनीकं सैन्यं व्यूहरचनाकारम्। संबन्धी प्रतिपक्षेत्यादिः । १ जीवितनाशरूपे कार्यात्मके एकस्मिन्धर्मिणि वान-गुज्नकारणयोर्युगपदन्वय इति (का- रणतया एकधर्म्यन्वयरूपः) एक: समुचयः । तेन सह वान-गुअनक्रिययोः एकत्र जीवित- नाशे अन्वयरूपः समुंच्चयः (यस्य हि कर्तृरूपौ धर्मिणौ भिन्नौ स्तः) संकीर्णः । भिन्नधर्मिकेण एकधर्र्िकः समुच्चयः संकीर्ण इति दयोः समुच्चययोः संकर इत्याशयः । २ अनीकेन सैन्येन सदृशं प्रत्यनीकम्, अव्ययीभावः । अनीकेन (सन्येन) यथा प्रति भक्षस्य तिरस्कारः क्रियते तथा इदं साक्षात्प्रतिपक्षतिरसकारे असमर्थतया प्रतिपक्षसंबन्धिनः (प्रतिपक्षोपजीव्य-मित्रादेः) तिरस्कारः प्रत्यनीकमित्याशयः । ननु 'अनीकेन सदशस्' इत्यव्ययीभावः सादृश्ये कथं व्यपदिश्यते? 'सद्ृशम्' इत्युक्तौ सादृश्यवतः आ्धान्यं भवति, नतु सादृश्यस्य, तस्य गुणीभूतत्वात। अत उच्यते-'गुणीभूतेपि सादृश्येऽव्ययीभावः' इति। अयमाशय :- अव्ययं विभक्तीतिसूत्रे यथार्थषु सादृश्यस्य संग्रहे जाते, पुनः 'सादृश्य'ग्रहणेन गुणीभूतेपि सादृश्ये अव्ययीभावो भवति । अत एव 'सट्ृशः सख्या ससखि' इत्युदाहियते। इति पूर्वोक्तस्य सारः ।

Page 726

६६६ काव्यमाला।: [ द्वितीयानने-

प्रतिपक्षगतं वलवत्वम्, आत्मगतं दुर्बलत्वं च गम्यते। संबन्धी च तदुपजीव्योपजीवकमित्रादिभेदादनेकविधः। यथा- 'रे रे मनो मम मनोभवशासनस्य पादाम्बुजद्वयमनारतमामनन्तम् । किं मां निपातयसि संसृतिगर्तमध्ये नैतावता तव गमिष्यति पुत्रशोक: ।।' जित मौक्तिकसंपदां रदानां सहवासेन परां मुदं ददानाम्। विरसादधरीकरोति नासामधुना साहसशालि मौक्तिकं ते।।' पूर्वत्रोपजीव्यस्य, इह तूपजीवकस्य तिरस्काराद्वरस्यार्थत्व-शाब्दत्वाभ्यां च वैलक्षण्यम्। एवमन्यदप्यूह्यम्। अन्न विचार्यते-हेतूत्प्रेक्षयैवे गतार्थत्वान्नेदमलंकारान्तरं भवितुमहृति। तत्र द्वितीयोदाहरणे तावद्वेत्वंशः शाब्दः उत्प्रेक्षांशमान्रमार्थम्। प्रथमो- दाहरणे तु द्वयमप्यार्थम्। पुत्रमारकसेवकत्वेन कारणेन वैरस्य तस्य स्वात्म- कर्मकगर्तमध्यनिपातनेन कार्येण हेतुतायाश्च स्फुटं प्रतीतेः । अस्मिन्नलं- कारे हेतुत्वं निश्चीयमानम्, हेतूत्प्रेक्षायां तु संभाव्यमानमित्यस्ति विशेष इति चेत्, प्रतीयमानहेतूत्प्रेक्षाया अनुत्प्रेक्षात्वापत्तेः। वाचकस्येवादेरभा- वाद्धेतुत्वस्य निश्चीयमानतायास्तत्रापि वक्तुं शंक्यत्वात्। 'यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रह्यः। कान्तवक्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ।।'

१ मनोभव(स्वपुत्र.)वैरिणि शिवे प्रतिकर्तुमप्रभवत् मनः शिवस्मरणकर्तुः (स्रणोप- जीव्यस्य) तिरस्कार करोति। अत्र हि 'मनोभवशासने'त्यर्थानुसंधानान्मनसः शिवेन सह वैरं गम्यते इत्यार्थम् । स्व(मौक्तिक)पराजयकारिणां दन्तानां प्रतीकारे असमर्थ मौक्तिक दन्तशोभोपजीविनीं नासां तिरस्करोति। 'जितमौक्तिके'ति वैरं शाब्दमिति सर्वस्याशयः । २ अर्थात् पूर्वाक्तोदाहरणद्दये 'पुत्रमारकस्मर्ताय' मित्यादिना हेतुनैव 'गर्ते पातयती'त्यादि- कल्पनांस्तीत्याशयः । ३ अर्थात यत्र प्रतीयमाना हेतूत्प्रेक्षा भवति तुत्र हि संभावनावाचकस्य इवादेरभावः, वं.च निश्चीयमानं भवति।इदानी .. तत्स्थाने :(प्रतीयमानहेतूत्प्रेक्षास्थाने) निश्चीयमान : प्रत्यनीकं स्यादित्याशयः ।

Page 727

प्रतीपम् ] रसगङ्गाघर:।

इत्यलंकारसर्वस्वकृतोदाहते प्राचीनपद्येऽपि भगवद्वैरानुबन्धादिव भगवद्व- कसदृशमिन्दुं राहुबाधत इति प्रतीतेरुत्प्रेक्षैव गम्यमाना। 'मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रविष्टहृदयेयमिति। त्वयि मत्सरादिव निरस्तद्यः सुतरां क्षिणोति खलु तां मदन: ॥' इति कुवलयानन्दकारेणोदाहते तु पद्ये हेत्वंश उत्प्रेक्षांशश्चेत्युभयमपि शाब्दमिति कथंकारमस्यालंकारस्योदाहरणतां नीतमिद्मायुष्मतेति ने विद्यः । प्रतिपक्षगतबलवत्व-स्वात्मगतदुर्बलत्वयोः प्रतीतेर्हेतूत्प्रेक्षान्त- रादस्य वैलक्षण्यम्। नैतावता हेतूत्प्रेक्षाया बहिर्भवितुमिदमीष्टे, तद्विना- भावित्वात्। किं तु तद्वान्तरविशेषीभवितुम्। नहि पृथिव्यवान्तरभेदा- द्ूटात्पटो विलक्षण इति पृथिव्या बहिर्भवतीत्यपि वदन्ति। इति रसगज्ाधरे प्रत्यनीकप्रकरणम्।

अथ प्रतीपम्- प्रसिद्धौपम्यवैपरीत्येने वर्ण्यमानमौपम्यमेकं प्रतीपम्॥ तद्वैपरीत्यं च तदुपमानोपमेययोरुपमेयोपमानत्वकल्पनया, न प्रकारान्तरेण।

'तत्प्रतिपक्षशङ्कितेऽस्मिन्निति चेत्, न' इति पाठः। न विद इति। मत्सरादिवेति हेतूत्प्रेक्षासत्वेऽपि तद्धेतुकप्रतिपक्षीयबाधेनैतद्विषयत्वाचिन्त्यमिदम् ॥ इति रसगङ्गाधरम- मेप्रकाशे प्रत्यनीकप्रकरणम् ।। प्राग्वदाह-अथेति। १ स्थाने स्थाने अविकलं निःशब्दमपहरन्नपि नागेशो यां स्वविसंडुलभाषयाऽघरीकरोति साऽलंकारचन्द्रिका तु प्रतिवदितुं अयतते-'अत्र मत्सरादिवेति हेत्वंशे उत्प्रेक्षासत्त्वेपि तद्वेदुक- प्रतिपक्षिसंबन्धिबाधनं प्रत्यनीकालंकारस्य विविक्तो विषय इति बोध्यम्। अत एव मम्मटभट्टैरपि-'त्वं विनिजिंतमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता। पञ्नभियुगपदेव शरैस्तां तापयत्यनुशयादिव कामः ॥' इत्युदाहृतम्। एवं च हेतूत्प्रेक्षयैव गतार्थत्वान्नेदमलंकारा- न्तरं भवितुमहतीति कस्यन्विद्वचनमनादेयम्।' २ अर्थात् उपमानस्य उपमेयत्वम्, उपमेयस्य चोपमानत्वमिति कल्पनपूर्वकं वर्ण्यमानभ् औपम्यम् (सादृश्यमं) प्रथमं प्रतीपम्।

Page 728

६६८ काव्यमाला। [द्वितीयानने-

उपमानोपमेययोरन्यतरस्य किंचिद्ुणप्रयुक्तमद्वितीयतोत्कर्ष परि- हर्तुं द्वितीयप्रदर्शनेनोल्लास्यमानं सादृश्यमपरं द्विविधम्॥ = उपमानस्य सादृश्यविघटनं पञ्चमम्।। तन्राद्ये प्रभेदे प्रसिद्धौपम्ये यदुपमेयं तस्यैवोपमानत्वादाधिक्यस्य, च्चोपमानं तस्योपमेयत्वान्न्यूनत्वस्य च प्रत्ययः फलम्। इदमेव चौपम्य- स्याविशेषेऽप्युपमालंकारादस्य वैलक्षण्ये बीजम्। औपम्यप्रतिष्ठानं च

यदेकस्याधिक्यमपरस्य न्यूनत्वं च गम्यते तत्कस्य हेतोरिति चेत्, शृणु। उपमाने हि सौधारणधर्मसंबन्धोऽनूदयोपमेये विधीयत इति तावन्निविवा- दम्। विध्यनुवादौ च साध्यत्वसिद्धत्वाभ्याम्। ते च क्रमेण न्यूनत्वाधिक्ये उपमानोपमेययोः प्रयोजयतः । लोकेऽपि निश्चितविद्यो यथा पूज्यते तथा नानिश्चितविद्य इति स्फुटमेव। ते च साध्यत्वसिद्धत्वे वक्तविवक्षाधीने

ननु ते अप्युपमावदेवात्रात आह-ते च साध्यत्वेति। १ सादृश्यं निषिध्य यो व्यतिरेकः (विशेषः) दर्श्यंते तस्मादेव द्वयोरौपम्यं स्थिरीभवति। यदा हि एकस्मादपरस्य कश्चन विशेषः प्रदर्श्यंते तदा प्रतीयते यत् अयं विशेष एव विशेष:, अन्यत्सर्व साम्यमिति। यथा 'कि जल्पसि०' अन्र सुवर्णे अन्निपातनकृत एव विशेषः, अन्यत्तु अङ्ग-सुवर्णयोः साम्यमेवेति पतीयते। २ 'चन्द्र इव मुखं चमत्करोति' इत्यादौ यथा चन्द्रश्चमत्करोति तथा मुखं चमत्करोति इति प्रत्ययेन साधारणधर्मस्य (चमत्कारस्य) संबन्धः पूर्वसुपमाने। अत पवायं संबन्धः सिद्ध इत्युच्यते। ततः 'तथा मुखं चमत्करोति' इति चन्द्रादनूदितः स संबन्धो मुखे विधीयते, अत एव साध्यः । सिद्धो यत्र धर्मस्तस्य उत्कृष्टत्वम्, साध्यो यत्र तस्य तदपेक्षया अपकृष्ट- त्वम् इति स्थितिः । अ्थमप्रतीपे मुखमिव चन्द्रश्चमतकरोतीत्यत्र मुखे अनूदितश्चमत्कृतिधर्मः उपमेये चन्द्रे (प्रतीपत्वात्) विधीयते। अत एव ते साध्यत्व-सिद्धत्वे एव क्र्मेण अर्थाल् उपमानतया अन्यत्र असिद्धस्य चन्द्रस्य न्यूनत्वम् उपमेयतया प्रसिद्धस्य मुखस्य आधिक्यं पयोजयतः (उत्पादयतः) । साधारणधर्मस्य साध्यत्वं सिद्धत्वं वा वक्ता यथेच्छति तथव प्रयुङ्के। ततश्च-सादृश्यं हि द्योः समानं भवति, कथमेकस्याधिक्यमेकस्य न्यूनतेति 'ननु' इत्यादिनय शक्का। पूर्वोक्तपकारेण साध्यत्व-सिद्धत्ववशादाधिक्यं न्यूनत्वमिच्छावशात्संभव- सीति तर्समाधानम् इति प्रघट्टकाशयः ।

Page 729

अ्रतीपम् ] रसगङ्गाघर: । ६६९

इति नात्र दोष: । द्वितीयतृतीययोभेदयोस्तु फलं स्फुंटमेव। चतुर्थस्य तु निषिध्यमानवस्तुगतसकलगुणवत्त्वप्रतिपत्तिः । पञ्चमस्य प्रथमवदिति। उदाहरणम्- किं जल्पसि मुग्धतया हन्त ममाङं सुवर्णवर्णमिति। तद्यदि पतति हुताशे तदा हताशे तवाङ्गवर्ण स्यात्।।' अत्र पूर्वाधोपमागम्यं सुवर्णवर्णाधिक्यं तिरस्कृत्य द्वितीयार्घे प्रतीपं बालाङ्गवर्णस्याधिक्यं गमयति। हुताशपातं विना प्रतीपमपि दुर्लभम्, उपमा तु स्वप्नेपि न संभवतीति मुग्धत्वहताशत्वाभ्यां गम्यते। 'माहात्म्यस्य परोऽवधिर्निजगृहं गम्भीरतायाः पिता रक्नानामहमेक एव भुवने को वापरो मादशः । इत्येवं परिचिन्तय मा स्म सहसा गर्वान्धकारं गमो दुग्धाब्घे भवता समो विजयते दिल्लीधरावल्लभः ॥' निभाल्य भूयो निजगौरिमाणं मा नाम मानं हृदये विधासीः। गृहे गृहे पश्य तवाङ्गवर्णा सुग्धे सुवर्णावलयो लुठन्ति ॥' उपमानकैमर्थ्यस्य तूदाहरणमाक्षेपप्रकरण एव गदितम् 'अभूदप्रत्यूहः' इत्यादि। पञ्चमो यथा- 'करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्धलैः। कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः ।।' अत्र कर्थं शृणोषीत्यनेन तुलैव न संभवतीति गम्यते। अर्थान्तरन्या- सोऽप्यमुमेवार्थ पुष्णाति ! तदेवं पञ्चविधं प्रतीपं प्राचामनुरोधान्निरूपितम्। वस्तुतस्तु-आ- द्यास्त्रयोऽप्युपमायामेवान्तर्गता भेदाः। चतुर्थः केषांचिदाक्षेपः । पञ्चम- स्तवनुक्तवैधर्म्ये व्यतिरेके। तथाहि-निष्पद्यमानं सुन्दरं वा सादृश्य- १ अद्वितीयतागर्वनिवारणपूर्वकं तिरस्कारः । २ अर्थात् उपमेयस्याधिक्यम्, उपसानस्य न्यूनत्वमिति प्रत्ययः । अत एव असमानतया द्वयोः सादृश्यं विघटितमिति वचनावसरः । ३ अङ्गं सुवर्णवर्णम् अर्थात् सुवर्णसदृशमिति। ४ व्यतिरेकेपि उपमेयस्योत्कर्षः, केवलं वैधर्म्यकथनमधिकम्। इहापि उपमेयस् तथा उत्कर्षों यथा उपमेयस्यात्युत्कर्षवशात्साम्यमपि विघटितं भवति।

Page 730

६७० काव्यमाला। [द्वितीयानने-

सुपमा। नह्ादये प्रतीपे 'मुखमिव कमलम्' इत्यादौ सादृश्यस्यानिष्पत्तिर- सौन्दर्य वास्ति येनोपमातो बहिर्भावः स्यात, सौन्दर्यविशेषस्य त्वयाप्य- भ्युपगमात्। विशेषस्य सामान्यानिवारकत्वात्। न च प्रसिद्धकमलादि- प्रतियोगिकमेव सादृश्यमुपमेति राज्ञामाज्ञासति। न चोपमाविरुद्धवाचिनः प्रतीपशब्दुस्य माहात्म्यादेव तादशं सादृश्यमुपमेति शक्यं वक्तुम्, उपमा- विशेषविरुद्धवाचकत्वेनापि तदुपपत्तेः । एवं चाद प्रतीपं प्रसिद्धोपमाव्नदु- पमाविशेष एव । अत एव द्वितीयतृतीयावपि भेदावुपमाविशेषावेव। उपमानोपमेययोस्तिरस्कारस्तूपमान्तराद्वैलक्षण्यं प्रयोजयेत्, न तूपमासा- मान्यात्, तद्नुस्यूँतत्वेनैव तत्प्रतीतेः। नहि द्राक्षा माधुर्यातिशयेन पार्थि- वान्तराद्विलक्षणेत्यपार्थिवी भवति। अपि च यद्युपमानोपमेययोस्तिरस्का- रोऽलंकारताप्रयोजकः स्यात्, पुरस्कारोऽपि तथा स्यात्। यथा- 'एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिना- मित्येवं परिचिन्त्य मा स्म मनसि व्याधानुतापं कृथाः । भूपानां भवनेषु किं च तिमलक्षेत्रेषु गूढाशयाः साधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षाः खलाः ॥'

तत्सुवर्णम्। अक्कप्नेतिन्यायेनाह-प्रतीपेति।

१ उपमेये मुखे आधिक्यम् (विशिष्टं सौन्दर्यम्) इति त्वयापि प्रतीपे स्वीकृतमित्यर्थः । २ अर्थात् कमलादि(उपमान)प्रतियोगिकम्। अयं भावः-उपमाविरुद्धवाची प्रतीपशब्दः अस्मिन्नलंकारे गृहीतः, अत एव अस्मादलंकाराद्विपरीतं कमलादि(उपमान)प्रतियोगिकं सादू- इयमेव उपमायां आ्रह्यमिति पूर्वपक्षः । प्रसिद्धोपमाविशेषस्य (यत्र हि कमलादिप्रतियोगिकमेव साटृ- इयं गृह्यते) प्रतिद्वन्द्वीभूतोऽयमलंकार इत्यनेनापि प्रतीपशब्दग्रहणस्य स्वारस्यं सफलीभवति। तथा च प्रतीपशब्दमात्रबलादेवं कल्पना न भवितुमद्दति यत् कमलादिप्रतियोगिकं सादृश्यमेव उपमा, विवक्षानुसारं मुखप्रतियोगिकं कमलानुयोगिकं सादृश्यमप्युपमा संभवतीति सिद्धान्ते समाधानम्। ३ ननु द्वितीयतृतीययोः न केवलसुपमैव, अपि तु तिरस्कारोऽप्यधिकः प्रतीयते। अत- एव कथसुपमायामन्तर्भाव इति शङ्कायामाह-उपमानोपमेययोस्तिरस्कारस्तु०। " ४ उपमानुस्यूत एव तत्र तिरस्कारः प्रतीयते, अर्थात्प्रतिद्वन्द्विनस्तिरस्कारेण सहकृतापि सा उपमैव नालंकारान्तरमित्यर्थः ।

Page 731

प्रौढोकि: ] रसगङ्गाधरः। ६७१

अन्रौपम्यप्रदर्शनस्य नोपमानतिरस्कारः फलम्, तस्य गर्वितत्वेनाविव- क्षणात्। किं तु तदनुतापनाशः । एवं च फलवैलक्षण्यमात्रेणालंकारान्त- रत्वं ब्रुवता अस्याप्यलंकारान्तरत्वमभ्युपेयं स्यात्, प्रतीपषष्ठप्रभेदत्वं वा। किं च त्वदुक्तप्रतीपभेदानामपि परस्परवैलक्षण्येन पृथक्पृथगलंकारत्वं स्यात्, न प्रतीपप्रभेदत्वम्। प्रतीपस्य सकलप्रभेदसाधारणसामान्यलक्ष- णाभावात् । अन्यतमत्वंतु दूषणसहस्त्रग्रस्तत्वादलक्षणमेवेत्यसकृदुक्तम् । उपमालक्षणं तु सकलसाधारणम्। चतुर्थः प्रभेदस्तु येषां मते नाक्षेपस्ते- षामस्तु नाम प्रतीपालंकारः । पञ्चमस्य तु गतिरुक्तैवे प्रभेदस्य। इति रसगङ्गाधरे प्रतीपप्रकरणम्।

अथ प्रौढोक्ति :- कसिंिदथे किंचिद्धर्मकृतातिशयप्रतिपिपादयिषया प्रसिद्धतद्ध- र्मवता संसर्गसोद्भावनं प्रौढोक्ति: ।। संसर्गश्च सन्नसन्वा साक्षात्परम्परया वा। 'वल्मीकोदरसंभूतकपिकच्छूसहोदराः। हा पीडयित्वा निन्नन्ति सज्जनान्दुष्टदृष्टयः ।' अन्र कपिकच्छूसहोदरत्वेन मारकत्वं न प्राप्ोति, अपि तु पीडाजनकत्व- मात्रम्। कवेस्तु पीडां जनयित्वा मारयन्तीत्येवंरूपोSतिशयो विवक्षितः ।

लक्षणाभावादिति । चिन्तयमिदम्। तिरस्कार फलकोपमानापकर्षबोधानुकूलव्यापारस्य प्रतीपसामान्यलक्षणत्संभवात्। स च वाच्यो व्यङ्यो वेत्यन्यत् ।। इति रसगङ्गाधरम- रथंप्रकाशे प्रतीपप्रकरणम् ॥ प्रास्वदाह-अथेति। कपिकच्छूतृेश्चिकः। १ अर्थात् एवमेव प्रतिपक्षिणा उपमाद्यन्यतमृत्वं प्रतीपत्वमित्युक्त उपमादयः सर्वेंडस्य अभेदाः स्युरित्यापत्िः। २ अनुक्तवैध्म्ये व्यतिरेकेऽन्तर्भाव इत्यर्थः । ३ यथा कपिक्रच्छाम् ('कौछ'इति ख्यातायामौषध्याम्। वृश्चिक इति नागेशटीका तु विवादैकपण्डितानां पदार्थश्ञानस्य सुन्दर निदर्शनमात्रम्। एवं लवली 'राय आँवळे' इत्यपि) मारकतारूपातिशयप्रतिपादनेच्छया मारकतयां प्रसिद्धेन सर्पेण सह 'वल्मीकोदरसं- भूत' इति विशेषणतया संसर्गस्योन्भावनम्।

Page 732

६७२ काव्यमाला। यानने-

अतो वल्मीकोदरसंभूतत्वं सर्पाधिकरणवृत्तितारूपं कपिकच्छविशेषणं मारकतावच्छेदकत्वेन खवप्रतिभया कविना कल्पितम्। यथा वा- 'मन्थाचलभ्रमणवेगवशवदा थे दुग्धाम्बुधेरुद्पतन्नणवः सुधायाः। तैरेकतामुपगतैर्विविधौषधीभि- धाता ससर्जे तव देव दयादगन्तान्।।' अत्र दगन्तेषु न केवलं संजीवकत्वाद्योऽमृतमात्रगुणा एव कवेर्बु- बोधयिषिताः, अपि तु निखिलजनवशीकारत्वाद्योऽन्येSपीति सुधाकणे- 6वौषधीसंसर्गो विशेषणतयातिशयार्थमुपात्तः। उत्पाद्योत्पाद्कभावश्चात्र न लोकसिद्धः, अपि तु कविमात्रनिबद्धः । यथा वा- 'त्वद्ङ्गणसमुद्धूता सिक्ता कुङ्कमवारिभिः । त्वद्ङ्गतुलनां याति कदाचिल्लवलीलता ।।' अत्र केवलाया लवल्या उपमानताभरसहनसामध्यस्याभावात्तस्य सिद्धये नायिकासामानाधिकरण्य-कुङ्कमजलसंयोगयोरुपादानम्। अत्र च धर्मिविशेषसंसर्गादृतिशयो धर्म्यन्तरगतो यद्यागूरणविषयस्तदैवायम- लंकारः । वाच्यवृत्त्या तत्तत्प्रयुक्तत्वेनाभिहितश्चेत्समालंकारस्यैव विषयः । यथा- त्वत्तो जन्म हिमांशुशेखरतनुज्योत्स्नानिम म्नात्मनो दुग्धाम्भोनिविमुग्धवीचिवलयैः साकं परिक्रीडनम्। संवासः सुरलोकसिन्धुपुलिने वाद: सुधांशो: करैः कस्मान्नोजव लिमानमञ्च्तितमां देव त्वदीयं यश: ।' अत्र यशसो धवलतातिशयस्तत्तद्वर्मिसंबन्धप्रयुक्तत्वेन कथित इति तदंशे सम एवालंकारः । अंशुकृतश्चन्द्रे चन्द्रकृतश्च भगवति भगवत्कतो राज- नीत्येवमुत्तरोत्तरसुपचीयमानो राजगतस्त्वनुक्तत्वात्प्रौढोक्तेरेव विषयः ।

लवली 'रायआंवळे' 'हरफारेवडी'। इति प्रसिद्धा। आगूरणं व्यज्ञनम्। १ सर्पस्य अधिकरणम् (आधारः) यद् वल्मीकं तस्मिन् वर्तेमानतारूपम्। २ त्वदङ्गणे समुद्भतेति। १ शिवतनुज्योत्सायां निमझ्ः आत्मा यस्य तस्पष्।

Page 733

औ्रढोक्ति: ] रसगङ्गाघरः । ६७३

एवं च 'शशशृङ्गधतुलेसत्करा गगनाम्भोरुहमालिकाघराः । तनयैः सह भाविजन्मनां तव खेलन्ति नरेन्द्र वैरिणः ।।' इत्यादावेकस्य मिथ्यात्वेसिद्वर्थ मिथ्याभूतवस्त्वन्तरकल्पनं मिथ्याध्यव- सित्याख्यमलंकारान्तरमिति न वक्तव्यम्, प्रौढोक्तैव गतार्थत्वात्। 'केशाः कलिन्दजातीरतमालस्तोममेचकाः' इत्यादौ प्राचीनकृतप्रौढोक्त्युदाहरणे यथा तमालेषु श्यामत्वातिशयार्थ श्यामत्वाधिकरणीभूतकालिन्दीसंबन्ध उद्धाव्यते, तथा वैरिष्वपि मिथ्यात्वसिद्धये मिध्यात्वाधिकरणशशशृङ्गा- दिसंबन्ध इत्यस्यापि सुवचत्वात् । तत्र श्यामत्वातिशयः इह तु मिथ्यात्व- मात्रं न तु तस्यातिशयः सिद्यतीति वैलक्षण्यं तुन वाच्यम्। तमाल स्तोमे प्रमाणान्तरेण सिद्धेऽपि श्यामत्वे कालिन्दीसंसर्गोद्भावनं पुनः श्यामत्वसाधनेनातिशयागूरकमेव स्यात्। वैरिषु तु मिथ्यात्वस्यासिद्ध- त्वाच्छशशङ्गादिसंबन्धैर्मिथ्यात्वस्य सिद्धिरित्यार्थसमाजाधीनेयमतिशय- सिद्धिर्वैलक्षण्यं न प्रयोजयति। चत्तु 'वेश्यां वशयेत्खस्रजं वहन्' इति कुवलयानन्दकृता मिथ्याध्यवसितेरुदाहरणं निर्मितं तत्तु निदर्शनयैवे गतार्थम्। निदर्शनागर्भात्र मिथ्याध्यवसितिरिति तुन युक्तम्। मिथ्या- ध्यवसितेरेव मिथ्यात्वात्। यदि च मिथ्याध्यवसितिरेवालंकारान्तरं स्यात्, सत्याध्यवसितिरपि तथा स्यात्। यथा- 'हरिश्चन्द्रेण संज्ञप्ताः प्रगीता धर्मसूनुना। खेलन्ति निगमोत्सङ्गे मातर्गङ्ग गुणास्तव ।।' अत्र हरिश्चन्द्रयुधिष्ठिरनिगमसंबन्धाङ्गुणानां सत्यत्वं प्रतीयते। एवम्

शङ्कते-तत्रति । तमालेति । यत इत्यादिः। शङ्कते-निदर्शनेति। अत्र वेश्यामित्यत्र। युक्त्यन्तरमप्याह-यदि चेति। धर्मसूनुर्युधिष्ठिरः। १ ये इदानीं न जाताः अपि तु येषां जन्म अग्रे भविष्यति तेषां पुत्रः सह। २ अस्ामान्यप्रभावशालिनो राज्ञो वैरिण एव न सन्ति इति सिद्धयर्थ शशशरृङ्गादिधारणं क्रीडनं च मिथ्याकल्पनम्। ३ सिद्धे तस्मिन् (यथात्र शयामत्वे) पुनर्यत् साधनं तत् अतिशयव्यज्ञनाय। वैरिषु त मिथ्यात्वं प्रमाणान्तरेणाSसिद्धम्, अत एव तत्र मिथ्यात्वमेव साध्यते नातिशय इत्युभयोवें लक्षण्योन्भावनं न प्रयोजनाय, आर्थसमाजाीना उभयत्रवातिशयसिद्धिरिति समाधानाशयः । ४ खस्रगवहन-वेश्यावशीकरणयोर्वक्यार्थयोः औपन्यपर्यवसायी आर्थोडभेद इति। ५७ रस०

Page 734

६७४ काव्यमाला। [ द्वितीयानने-

'मध्ये सुधासमुद्रस्य सितामयगृहोदरे। पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥' अन्रापि सुधासमुद्रादिसंबन्धादुक्तिषु माधुयातिशयः प्रतीयमान: कस्या- लंकारस्य गोचरः स्ात् ? अतोऽलंकारान्तरं स्यात् । मम तु प्रौढोक्त्यैव गतार्थतेत्यास्तां तावत्। इति रसगङ्गाधरे प्रौढोक्तिप्रकरणम्।

अथ ललितम्- प्रकृतधर्मिणि प्रकृतव्यवहारानुल्लेखेन निरूप्यमाणोऽप्रकृतव्य- वहारसंबन्धो ललितालंकारः ।। 'आददान: परद्रव्यं विषं भक्षयसि ध्रुवम्' इत्यादिनिदर्शनावारणाय तृतीयान्तम्। अप्रस्तुतप्रशंसावारणाय प्रकृतधर्मिणीति। यथा- 'क वा रामः कामप्रतिभेटललाटंतपबल- स्तव कामी वीरा रणशिरसि धीरा मखँभुजाम्। दिधक्षोसत्रैलोक्यं पलयशिखिन: पद्ममर्थन- प्रगल्भैः प्रालेयैः प्रशममसि कर्तु व्यवसितः ॥।' अत्र प्रकृते धर्मिणि रावणे परदत्तपुरोडाशादिकमश्नतां देवानामग्रे वीरैः कुम्भकर्णादिभिवीरैभगवतो रामस्य पराभवमिच्छत्नित्येवं कण्ठरवेण ताद्-

आस्तां तावदिति। चिन्त्यमिदम्। मिथ्यातकल्पनकृतचमत्कारस्यानपह्ववनीयलेन परृथगलंकारतासिद्धेः । किं च कविप्रतिभामात्रकल्पिता अर्थाः काव्येलंकारपदभाज इति तव सिद्धान्तात्सत्यत्प्रतीत्यर्थ कल्पितस्याप्यर्थस्य तत्कल्पितलाभावेन शब्दमात्रा- दलंकारलासंभवादिति दिक्॥ इति रसगङ्गाधरमर्मप्रकाशे प्रौढोक्तिप्रकरणम् ॥ प्राग्वदाह-अथेति। १ अत्र प्रकृतधर्मिणि (वर्ण्यमानपुरुषे) विषभक्षणरूपाऽप्रकृतव्यवहारसंबन्धोडस्ति पर स्र परद्रव्याSSदानरूपप्रकृतव्यवहारोल्लेखपुरस्सरमिति नातिव्याप्िः । २ कामप्रतिभटः शम्भुः । ३. मखभुजां रणशिरसि धीराः तव वीराः क्केत्यन्वयः । ४ पभानामेव संहारे समथैः प्रालेयैः हिमैः ।

Page 735

ललितम् ] रसगङ्गाधर:। ६७५

शेच्छारूपं प्रकृतव्यवहारं विषयमनुक्तवैव तादृशप्रालेयकरणकतादशाभनि- प्रशमनव्यवसायरूपोSप्रकृतव्यवहारो विषय्युपात्तः। विषयोपादाने तु निदर्शनैव। यथा वा- 'नान्यास्ति किं भूमितले सुरूपा सीतैव वा किं भवतोऽनुरूपा। आकर्षता चन्दनशाखिशाखां प्रबोधितोऽयं भवता फणीन्द्रः ।।' अत्रापि राघवसंबन्धिनायिकाहरणप्रयुक्तं तदीयक्रोधोद्वोधमनुक्त्वैव चन्दनसंबन्धिशाखाकर्षणप्रयुक्तं फणीन्द्रप्रबोधनमुपन्यस्तम्। न चात्र भेदेऽप्यभेद इत्यतिशयोक्त्या गतार्थतेति वाच्यम्। तत्र हि पदार्थेन पदार्थस्यैवाभेदाध्यवसानं 'कनकलतायां विराजते चन्द्रः' इत्यादौ दष्टम्, न तु व्यवहारेण व्यवहारस्येत्यविषय एवायमतिशयोक्ते । नापि साह- शयमूलयाप्रस्तुतप्रशंसया। धर्म्यशेऽप्रस्तुतत्वविरहात्। नापि निदर्शनया। एकधर्मिगतव्यवहारद्वयोपादान एव तस्या इष्टेः । अत एव 'उपात्तयोः' इति तल्लक्षणे विशेषणमुक्तम्। प्रकृते च प्रकृतव्यवहारस्यानुपात्तत्वाद- लंकारान्तरमेव। एवं च 'क सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीपुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ।' इत्यत्र काव्यप्रकाशकारो यन्निदर्शनामुदाहार्षीत्तदसंगतमेव। ललितस्याव- श्याभ्युपगम्यत्वान्निदर्शनाया अन्रापाप्तेश्च। तदित्थं ललितस्यालंकारान्त- रत्वमुरीकुर्वतामाशयः।

प्रशंसया गतार्थता इत्यस्यानुषङ्गः। एवमग्रेऽपि। एवं चेत्यस्यार्थ स्पष्टयति-ललितेति। पदं स्थानम्। पुनस्तर्थे। १ निदर्शनायां शब्दोपात्तयोर्व्यवहारयोर्मध्ये एकस्मिन्नन्यारोपः । यथा-'तीर्थेषु त्वां शोधयन्तः कण्ठगं चिन्तामणि रजस्सु गवेषयन्ति' अन्न शोधन-गवेषणयोदयोरेवोपात्तत्वम्। ललिते तु 'प्रालेयैः प्रलयाभेः प्रशमं प्रच्विकीर्षसि' इत्यप्रकृतव्यवहार एवोपात्तः । 'दुर्बलाना देवानामग्रे वीरायमाणैनिशाचरैरसामान्यवीरस्य राघवस्य पराभवमिच्छसि' इति प्रकृतव्यवहा- रस्तु नोपात्तः । केवलं प्रकृतधर्मी (रावणः) अवश्यमुपात्त इत्याशयः । २ 'मन्मत्या सूर्यवंशवर्णनम् उड्डुपेन सागरतरणमिव' इति निदर्शनाशरीरं स्यात्किन्तु 'मन्मत्या सूर्यवंशवर्णनम्' इति प्रकृतव्यवहारो नात्रोपात इत्याशयः ।

Page 736

६७६ काव्यमाला। [द्वितीयानने-

अन्ये तु "ललितं नालंकारान्तम्, निदर्शनयैव गतार्थत्वात्। नन्वे- कधर्मिंगतप्रस्तुताप्रस्तुतव्यवहारद्वयोपादानजीविता निदर्शना कथमप्रस्तु- तव्यवहारमात्रोपादाने पदमाधत्तामिति चेत्, श्रयतामायुष्मता। इह तावदलंकारा: प्रायशः श्रौता आर्थाश्च संभवन्ति। तत्र श्रतेभ्य आर्था न पृथगलंकारत्वेन गण्यन्ते। किंतु पृथग्भेदत्वेन, तद्लंकारसामान्य- लक्षणेन क्रोडीकरणात्। इद पुनर्वाक्यार्थनिदर्शनास्वरूपम्-व्यवहार- द्यवैद्धर्म्यभेदप्रतिपादनाक्षितो व्यवहारद्वयाभेदः। तत्र व्यवहारद्वयवद्ध- म्यभेदस्य प्रतिपादनं श्रौतमेवापेक्षितमिति न नियमः। किं तु प्रतिपादन- मात्रम्। तेन 'परद्रव्यं हरन्मर्त्यो गिलति क््वेडसंचयम्' इत्यन्र व्यवहार- द्वयवद्धर्मिणोरभेदस्य श्रुत्या प्रतिपादन इव 'धिक्परस्वं तथाप्येष गिलति

णोरार्थाभेदस्य प्रतिपादनेऽपि वाक्यार्थनिदर्शनात्वमक्षतम्। एकत्र श्रौती- त्वमपरत्रार्थीत्वमिति तु विशेषो न वार्यते। पदार्थनिदर्शनास्वरूपं तूपमा- नोपमेयधर्मयोरभेदाध्यवसायमूछ उपमेय उपमानधर्मसंबन्ध इति पृथ- गेव। एतदुभयान्यतरत्वं च प्राचीनरीत्या सामान्यलक्षणम्। यदि तु ललितं पृथगलंकार: स्यात् लप्तोपमादिररेप्युपमादे: पृथक्स्यात्, त्वदुक्तयु- क्तेस्तुल्यत्वात्। नन्वतिशयोक्तिरेवं सति रूपक एव'विलीयेत। विषय- १ व्यवहारद्वयवन्तौ यौ धर्मिंणौ तदभेदप्रतिपादनेन आक्षिप्तो व्यवहारद्वयस्य परस्परमभेदः । यथा 'त्वामन्तरा०' अत्र धर्मिणौ शिव-चिन्तामणी। तयोरमेदेन 'तीर्थेपु शिवकर्मकशोधनम्' 'रजस्सु च्चिन्तामणिकर्मकगवेषणम्' इति व्यवहारद्वयस्य परस्परम् अभेदः आक्षिप्पते इति। २ आर्थ(अर्थावसेय) प्रकृतव्यवहारवान् धर्मी च, श्रीताऽप्रकृतव्यवहारवान् धर्मी चति द्वन्द्वः । तयोधैर्मिणोरार्थस्य अभेदस्य। अन्र 'गिलति क्ष्ेडसंचयन्' इत्यप्रकृतो धर्मी एव श्रुत्या (शब्देन) प्रतिपादितः । 'परद्रव्यं हरन्' इत्येवंरूपेण प्रकृतो धर्मी तु शब्देन नोपात्त:, अपि तु अर्थावसेयः । तथापि वाक्यार्थनिदर्शनात्र भवतीत्याशयः । ३ यथा इन्दीवरलीला-नेत्रलीलयोभिंन्नत्वेपि दयोरभेदमध्यवसाय (आहार्यरूपेण निश्चीय) रपमेये (नेत्रे) उपमानधर्मस्य इन्दीवरलीलायाः संबन्धः। एवं च एवंविधवाक्यार्थ-पदार्थान्यतर- स्वरूपशालिनी निदर्शनेति लक्षणं पर्यवसन्नमित्यर्थः । ४ क्व सूर्यप्रभव इत्यादौ प्रकृतव्यवहारस्य अर्थावसेयत्वमात्रेण यदि निदर्शना न, किन्तु पृथगलंकार: एवं त्हिं 'कमलमिव मुखम्' अन्रापि मनोज्ञत्वादिर्धमों न श्रौतः अपि त्वर्थाव- सेयः । एवं च नेयमप्युपमा स्यात, अपि तु पृथगलंकार इत्याशयः ।

Page 737

ललितम् ] रसगङ्गाधर:। ६७७

विषयिणोद्वयोरप्युपादाने श्रौतं रूपकम्, विषयिमात्रोपादाने त्वार्थ- मित्यस्यापि सुवचत्वात्। सत्यम्। यत्र ह्यलंकारशरीरमुभयत्राप्यविल- क्षणं तत्रैकालंकारव्यपदेशो युक्तः । यथा सादृश्यं निष्पाद्यमानमुपमा- शरीरं लुप्तोपमादिष्वविलक्षणमेवेति तत्राप्युपमयैव व्यपदेशो न्याय्यः, नालंकारान्तरेण। लुप्तत्वपूर्णत्वादिस्तु न तच्छरीरनिविष्ट इति स्वयं व्याव- र्तेमानोऽपि नोपमात्वव्यावर्तकः, तथान्यन्नापीति स्थितिः । एवं च विष- यतावच्छेदकेरूपेण भाते विषये विषयितावच्छेदकावच्छिन्नाभेदस्य रूप- कशरीरस्य विषयितावच्छेदकरूपेणाSSभासमानविषयात्मकादतिशयोक्ति- स्वरूपाद्विलक्षणत्वेन द्वयोरेकालंकारत्वं न युक्तम्। निदर्शनाललितयोस्तु स्वरूपावैलक्षण्यं प्रदर्शितमित्येकालंकारत्वमेव" इत्याहुः । 'आहार्यनिश्चयविषयीभूँतो विषये विषय्यभेदो रूपकस्वरूपसुच्यते। न निवेश्यते च विषयतावच्छेदकादि, गौरवात्। एवं चातिशयोक्तेर्निगी- र्याध्यवसानरूपाया रूपकभेदत्वमस्तु नाम। का नो हानिः । एवमपह्नुते- रपि। विषयतावच्छेदकनिह्नवानिह्वव निगरणानि रूपकस्यैवावान्तरविशेषाः' इति तु नव्याः । एतन्मतरीत्या तु ललितस्य निदर्शनातः पृथगलंकारत्वं मनोरथललितमेवेति। एवं च 'तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्'

१ निष्पाद्यमानं सादृश्यम् (सादृश्यं सुन्दरं वाक्यार्थोंपस्कारकमुपमा) उपमायाः शरी- रम्। तच् लुप्तादिध्वपि समानमेवेति पूर्णा-उुप्तादिषु न भेदः । २ यथा मुखं चन्द्र इत्यत्र विषयो मुखमिति विषयतावच्छेदकरूपेण मुखत्वावच्छेदकरूपेण (अर्थात. मुखत्वेन) भाते (प्रतीते) मुखे विषयितावच्छेदकं चन्द्रत्वं तदवच्छिन्नस्य चन्द्र- स्याभेद इति रूपकशरीरम्। विषयितावच्छेदकरूपेण अर्थात् चन्द्रत्वेन आभासमानो विषयो यत्र तदात्मकमतिशयोक्तिशरीरम् । विषयी (चन्द्रः) एव विषयत्वेन (सुखत्वेन) भासते इत्यर्थः । ३ विषये विषयिण आहार्य: अमेदनिश्चयो रूपकम्। विषयतावच्छेदकरूपेण प्रतीते विषये विषयिणः अमेदो रूपकमित्यादिरूपेण विषयतावच्छेदकादिनिवेशस्तु गौरवान्न करियते इत्यर्थः । रूपके यथा विषयिणोडमेदः एवमतिशयोक्तावपि, इति रूपकस्यैव प्रभेद: अतिश- योक्तिः । एवम् अपह्नुतावपि विषये विषय्यभेदः (विषयतावच्छेदकस्य निह्नवादयस्तु अवान्तर- भेदताख्यापकाः)। एवं च अतिशयोत्तयपहनुत्यो रूपकस्यैव प्रभेदत्वमिति नव्यानामाशयः ।

Page 738

६७८ काव्यमाला । [द्वितीयानने-

इत्यत्र निदर्शना साधु संगच्छते। क सूर्येत्यादिना स्वमति-सूर्यप्रभववंश-

कथनेन तादशमतिकरणकवर्णनेच्छायाः प्रकृतायाः अ्रतिपत्तेः । यन्तु-"'अनायि देशः कतमस्त्वयादय वसन्तमुक्तस्य दशां वनस्य' इति पद्ये कतमो देशस्त्वया परित्यक्त इति प्रस्तुतार्थमनुपन्यस्य वसन्तमु- कस्य वनस्य दशामनायीति तत्प्रति विम्बभूतार्थमात्रोपन्यासाल्वलितालं- कारः" इति कुवलयानन्दकार आह। तद्त्यन्तमसंगतम् । अन्न कथ- मन्यस्य दशामन्यो नेतुं शक्य इति वसन्तमुक्तवनदशां निःश्रीकत्वल- क्षणामनायीति हि पर्यवसन्नोऽर्थः। तत्र निःश्रीकत्वरूपकार्यद्वारा कार- णस्य राजकर्तृकत्यागकर्मत्वस्याभिधानं पर्यायोक्तेर्विषयः। दशयोरेकत्वा- ्यवसानं तु पदार्थनिदर्शनोया अतिशयोक्तेर्वेत्यन्यदेतत्। एवं च पदा- र्थनिदरशनोपवृंहितस्य पर्यायोक्तस्यैवात्र विषयः, न ललितस्य। किंच त्वदुक्तं ललितालंकारलक्षणमपि नात्र संभवति । तच्च "-प्रस्तुते वर्ण्य- वाक्यार्थप्रतिबिम्बस्य वर्णनम्' प्रस्तुते धर्मणि वर्णनीयं वाक्यार्थमवर्ण- यित्वा कस्यचिदप्रस्तुतस्य वाक्यार्थस्य वर्णनं ललितम्" इत्यादिना ग्रन्थेन भवता विवेचितम्। इह च प्रस्तुते धर्मिणि देशविशेषे राजकर्तृकत्यागक- र्मत्वरूपस्य वर्ण्यस्यार्थस्यावर्णनेऽप्यप्रस्तुतस्य वसन्तकर्तृकत्यागकर्मत्वस्या- व्यवर्णनात्कथं संगच्छताम् । यदि पुनः 'अकारि देशः कतमस्त्वयाद्य निरस्तचन्द्र: कठिनाशयेन' इति पद्यं स्यात्तदा स्यादपि तव मनोरथः । न च ताहशवनद्शाया अप्रस्तुताया देशविशेषे वर्णनमस्त्येवेति वाच्यम्।

१ अर्थात् उपात्तया उडुपकरणकसागरतरणेच्छया अनुपात्ताया अपि मतिकरणकवंशव- गेनेच्छाया अर्थबलात् प्रत्येयत्वमिति निदर्शनात्वमेवेत्याशयः । २ पदार्थनिदर्शनात एव एकत्वाध्यवसानं अन्थकर्तुरभीष्टम्, अग्रे 'पदार्थनिदर्शनोपबृंहितस्य पर्यायोक्तस्य' इति सिद्धान्तितत्वात्। ३ अयं भाव :- राजरूपेण कर्त्रा स्वाध्युषितो देशविशेषः (कर्मभूतः) परित्यक्तः इति प्रकृतमवर्णयित्वा तत्परिवर्ते 'वसन्तेन कतमो देशः परित्यक्तः' इत्यप्रकृतस्य वर्णनमभविष्यत्तहि रक्षणसमन्वयोऽभविष्यत। अत्र तु 'वसन्तमुक्तस्य वनस्य दशामनायि' इति उच्यते। अर्थात् अप्रकृतस्यापि त्यागविषयकं वर्णनं नोपात्तम्। ततः कर्थ लक्षणस्यानुगम इत्याशयः ।

Page 739

ललितम् ] रसगङ्गाघर: । ६७९

दशाशव्देन तद्दशासदशस्य दशान्तरस्य लक्ष्यत्वेन तस्याप्रस्तुतत्वायोगात्। अन्यथा पदार्थनिदर्शनोच्छेदापत्तेः । एवम् 'रामो विजयते यस्य क्षणात्सामर्षवीक्षणात्। दावाग्निद्ग्धकान्तारलीलां लङ्गापुरी दधौ ।।' इत्यादौ ललितस्यालंकारान्तरतामभ्युपगच्छतामपि मते न तस्य विषयः, किं तु निदर्शनायाः । अत एव 'उद्यति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधान्नि याति चास्तम्। वहृति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ।।' इति प्राचां निदर्शनोदाहरणमपि संगच्छते। तव तु रश्मिरज्ुनियब्रित- पार्श्वद्वयसंलस्नसूर्यचन्द्रोऽयं गिरिरित्येवं प्रकृतधर्म्यारूढतया प्रकृतार्थानु- यादानाल्ललितमेव स्यात्। प्रकृतव्यवहारस्य लेशतोऽप्यकीर्तने केवलं पक्त- रणादिना गम्यत्वे ललितम्, अन्यथा निदर्शनेति चेत् 'क सूर्यप्रभवः' इत्यस्मात्कथं निदर्शना तर्हि निर्वासितेति सर्वमसमञ्जसमेव। इति रसगङ्गाधरे ललितालंकारप्रकरणम्।

ललितमेवेति। न तुर(?)संभावितमपीत्र्थः । कथं निदर्शना तहि निर्वा- सितेति। वसन्तकर्तृकत्वात्कर्मत्वस्यावर्णनेऽपि तादृशवनदशारूपस्याप्रस्तुतस्यावर्ण- नात्। घटकतया तस्यापि वर्णनाच्च। निदर्शनायामुभयोरुपादानं नियतम्, अत्र तु नेति मेदः । अत एव क्व सूर्य इत्यादौ वाक्यार्थनिदर्शना। वेति दिक्॥ इति रसगज्गा- धरमर्मप्रकाशे ललितालंकारप्रकरणम्॥

१ देशदशा वनदशा न भवितुमर्ईति, द्वयोभिन्नत्वात्। ततश्च अत्र दशापदेन वनदशा- सदृशी दशा (देशगता) लक्षणया विवक्षिता। एवं च सादृश्यवशात् वनदशाऽपि बुद्धिविषया भवतीति न सा अप्रस्तुतपदवाच्येत्याशयः । २ पदार्थनिदर्शनास्थले-प्रकृते धर्मिणि (नेत्रयुगले) प्रकृतलीलायाः परिवर्तें नीलाम्बु- जन्नन: अप्रकृतस्य लीला (व्यवहारः ) दर्ण्यंते इति ललितप्रसत्तया निदर्शनोच्छेद इत्याशयः । ३ रामो विजयते० अत्र यदि निदर्शना, तहि अनायि देशः अन्रापि सा। दशा-लीलापद- अ्हणेन द्वयोः साम्यात्। यधेवंविधेषु न पदार्थनिदर्शना तहिं तस्या उच्छेद एवेत्याशयः।

Page 740

६८० काव्यमाला। [द्वितीयानने-

अध प्रहर्षेणन्- साक्षात्तदुद्देश्यकयत्नमन्तरेणाप्यभीष्टार्थलाभः प्रहर्षणम्। इदं च सामान्यलक्षणं त्रिविधप्रहर्षणसाधारणम्। तत्राकस्मादभी- प्सितार्थलाभ इत्येका विधा, वाञ्छितार्थसिद्ध्यर्थ यत्ने क्रियमाणे ततोऽप्य- घिकतरार्थलाभ इत्यपरा। उपायसिद्धर्थाद्यत्ात्साक्षात्फलस्य लाभ इति तृतीया। अस्यामेवाव्याप्तिनिरासार्थ लक्षणे साक्षादित्युक्तम्। क्रमेणो- दाहरणानि- तिरस्कृतो रोषवशात्परिष्वजन्प्रियो मृगाक्ष्या शयितः पराखुखः । किं मूच्छितोऽसाविति कांदिशीकया कयाचिदाचुम्ब्य चिराय सस्वजे।।' अत्र यत्नसामान्यशून्यस्यापीष्टलाभः । 'केलीमन्दिरमागतस्य शनकैरालीरेपास्येङ्गितैः सुप्ायाः सरुषः सरोरुहद्दशः संवीजनं कुर्वतः । जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममाधीयत।' अत्र भामिन्या रोषनिवारणाय यत्ने क्रियमाणे रोषनिवारणादप्यधि- कतरसुखप्रदः कामुकस्य भामिनीकर्तृकः सवकरकेर्मकस्तत्कुचाधिकरणक आसङ्ग: । न चात्र तृतीयभेद: शङ््यः । व्यजनवीजनसमये कामुकस्य माननिवारणस्यैव मुख्योद्देश्यत्वेन तदुपेयकुचस्पर्शादिफलान्तरस्यानुप- स्थितेः । यथा वा- 'लोभाद्वराटिकानां विक्रेतुं तक्रमानिशमटन्त्या। लब्धो गोपकिशोर्यां मध्येरथ्यं महेन्द्रनीलमणिः ।।' अन्र प्रहर्षणद्वितीयभेद: स्फुट एव। अननुरूपसंबन्धमादाय विष-

प्राग्वदाह-अथेति। तत्र तयोर्मध्ये। यथासंख्येनाह-विधेति। मात्रस्यानु- १ इङ्गितैः आली: अपास्येत्यन्वयः । २ स्वकरः कर्म यस्मिन्, कुचौ अधिकरणं यत्र, ईदृशः आसङ्गः । भामिन्या प्रियकरः स्वकुचयोरासजितः (आहितः) इत्यर्थः । ३ तक्रार्थमाहिण्डमाना बलववल्लभा क, महान् इन्द्रनीलमणिश्च क्केति।

Page 741

प्रहर्षणम् ] रसगङ्गाघरः । ६८१

मालंकारश्च। तत्र महेन्द्रनीलमणिरित्यतिशयोक्त्यालीढयोर्विषय विपयि- णोरुभयोरपि ग्रहर्षणेनुगुणत्वम्। वाञ्छिताधिकार्थत्वस्य मणि-भगवदु- भयसाधारणत्वात्। विषमे तु नीलमणिरूपस्य विषयिमात्रस्य। यतो वराटिकार्थिनो यथा महेन्द्रनीलमणेः कोटिमूल्यस्य संसर्गोऽननुरूपो न तथा भगवत्संसर्गो भवितुं प्रभवेति। न चाज्ञानिनां भगवत्संसर्गोऽननु- रूप एवेति वाच्यम्। एवं तहिं तकरविक्रयकर्तृत्वेनैवाज्ञानित्वलाभे वरा- टिकालोभरूपहेतूपन्यासस्यानतिप्रयोजनकत्वापत्तेः । यादशवाञ्छितसि- द्व्यर्थ यत्न: क्रियते तादृशवाञ्छितसिद्धौ तु समालंकार एव। 'तद्दर्शनोपायविमर्शनार्थ मया तदालीसदनं गतेन। तत्रैव सालक्ष्यत पक्ष्मलाक्षी दाक्षायणीमचेयितुं प्रयाता ।' अत्र तद्दर्शनोपायसिच्धर्थ प्रयुक्तात्तत्सखीसदनगमनयत्नात्साक्षादेव तदर्शनलाभः । यत्तु- 'चातकस्त्रिचतुरान्पयःकणान्याचते जलघरं पिपासया। सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता।' इति पद्यम् 'वाञ्छिताद्धिकार्थस्य संसिद्धिश्च प्रहर्षणम्' इति प्रहर्षणद्विती- यप्रभेदं लक्षयित्वोदाहतं कुवलयानन्दकृता। तदसत्। वाञ्छितादधि- कार्थस्य संसिद्धिरिति लक्षणे संसिद्धिपदेन निष्पत्तिमात्रं न वकतुं युक्तम्। सत्यामपि निष्पत्तौ वाञ्छितुस्तल्लाभकृतसंतोषानतिशये प्रहर्षणशब्दयोगा- र्थासंगत्या तद्लंकारत्वायोगात्। किं तु लाभेन कृतः संतोषातिशयः । एवं च प्रकृते चातकस्य त्रिचतुरकणमात्नार्थितया जलद्कर्तृकजलकरणक- विश्वपूरणेन हर्षाधिक्याभावात्प्रहर्षणं कथंकारं पदमाघत्ताम्। वाञ्छिता-

गुणलम् । विमर्शनं विचारः सिद्धिर्वा। चाञिछतादिति। यत इत्यादि। पर्द १ इन्द्रनीलमणिपदेन विषयिण: इन्द्रनीलमणेः, आरोपविषयस्य भगवतः श्रीकृष्णस्य चोभ- योरपि बोधोऽनुगुणः, उभयोरपि वाञ्छितार्थाधिकत्वादित्याशयः । २ दीनानामपि भगवत्संसर्गस्यानुरूपत्वादित्यर्थः । ३ अर्थात् अधिकलाभेन वाञ्छितु: संतोषोऽ्यधिकः स्यात्तदैव द्वितीयं प्रहर्षणम्। अत्र तु चातकस्य न कश्चिदधिकः संतोष उपलभ्यते, तस्य त्रिचतुरकणमात्राथित्वादित्याशयः ।

Page 742

६८२ काव्यमाला। [ द्वितीयानने-

दधिकप्रदत्नेन दातुरुत्कर्पो भवंत्तु न वार्यते। अत एव हन्द हन्तेत्यादिनार्थान्तरन्यासेन स एव पोष्यते। लोभाद्वराटिकानामित्यस्मदीये

इति रसगड्ाधरे प्रहर्षणप्रकरणम्।

अथ विषादनम्- अभीष्टार्थविरुदलाभो विषादनम्॥ अस्य चाभीष्टार्थलाभार्थ कारणप्रयोगो यत्र न कृतः केवलमिच्छैव कृता जातश्च विरुद्धार्थलाभः सः, यत्र चेष्टार्थ प्रयुक्तेऽपि कारणे तस्मान्न विरुद्धार्थलाभः, अपि तु स्वकारणवशात्स च विविक्तो विषयः । यत्र स्विष्टार्थ प्रयुक्तात्कारणादेव विरुद्धार्थलाभस्तन्र तादशकारण-विरुद्धार्थयो- रुत्पादकोत्पाद्यभावलक्षणसंसर्गस्याननुरूपत्वाद्विषमम्, इष्यमाणविरुद्धार्थ- लाभसत्त्वाच्च विषादनमिति संकीर्णतैव। एवं चास्य विषमभेदैर्गतार्थतेति नाशङ्गनीयम्, विषमरहित स्याप्येतद्विषयस्य दर्शयिष्यमाणत्वात्। यथा- 'स्वस्वव्याप्टतिमन्नमानसतया मेत्तो निधृत्ते जने चञ्चकोटिनिराकृतार्गल इतो यास्याम्यहं पञ्जरात्। एवं कीरवरे मनोरथमयं पीयूषमास्वादय- त्यन्तः संप्रविवेश वारणकराकार: फणिग्रामणीः ।।' अत्र हि विषमप्रभेदस्य नास्ति विषयः, इष्टार्थ कारणप्रयोगाभावात्।

स्थानम्। चिन्त्यामदम्। चातकवृत्तान्तस्याप्रस्तुतत्वात्तद्यङ्ञयदातृयाचकवृत्तान्ते पर्यव- सानेन संतोषातिशयस्य दुर्वारलात्।। इति रसगङ्गाधरमर्मप्रकाशे प्रहर्षणप्रकरणम् ॥ प्राग्वदाह-अथेति । अस्य चेतस्य विषय इत्यन्रान्वयः । वारणकरो गजशुण्ड :- दण्डः । एकस्य विषादनस्य ॥ इति रसगङ्गाधरमर्मप्रकाशे विषादनप्रकरणम् ॥ १ इष्टार्थ प्रयुक्तात्कारणान्न विरुद्धार्थलाभः, अपि तु विरुद्धार्थलाभोपयुक्तकारणादेव, तत्र न विषादनमित्यर्थः । २ मत्सकाशात्। ३ निराकृतार्गलो यास्यामि इति विचार एव कृतः, निस्सरणार्थ यत्षप्रयोगस्तु न कृतः, अत एव न विषमम्। किन्तु अभीष्टार्थविरुद्धलाभ इति विषादनमेवेत्याशयः ।

Page 743

उल्लास: ] रसगङ्गाघर: । ६८३

इष्टार्थप्रयुक्तकारणेन सह विरुद्धार्थस्योत्पाद्योत्पादकभावलक्षणसंसर्गस्याननु- रूपत्वं हि तच्छरीरम्। तस्माद्विषादनमेवाप्रस्तुतप्रशंसाघटकतयावस्थितम्। 'चेलाञ्चलेनाननशीतररिंम संवृण्वतीनां हरिदेश्वरीणाम्। गोपाङ्गनानां स्मरजातकम्पादकाण्डसंपातमियाय नीवी।।' अत्रेष्टस्याननगोपनस्य विरुद्धोरऽर्थो नीविस्खलनम्, कारणीभूतत्रपा- संधानपरिपन्थित्वात्। त् सातत्विककम्परूपात्सवकारणादेवोत्पन्नम्, न तु गोपनानुकूलयन्नात्। नापीष्टसाधनत्वेन प्रयुक्तात्कारणादिष्ठानुत्पत्तिरत्रा- स्ति। चेलाञ्लावरणेनाननगोपनरूपस्येष्टस्योत्पत्तेः । अतो विषाद्नमे- वात्र, न विषमम्। अत्रेदं बोध्यम्-इष्टसाधनत्वेन निश्चितादनिष्टोत्पत्तिरिति यो विष- मस्य भेद: आक्प्रत्यपादि सोऽनेन विषादनेन अस्तत्वादस्यैव प्रभेदो भवितुमीष्टे, न तु विपमस्येति कश्चिद्दि ब्रूयात्स प्रष्टव्यः-न विषमस्येति यदुक्तं तत्कस्य हेतोः ? विपादनेनेव विषमेणापि कार्यकारणसंसर्गाननु- रूपतालक्षणेन ग्रस्तत्वात्। न चात्रैकस्यान्यापवाद्कत्वं युक्तम्। द्वयोरपि सावकाशत्वात्, भिन्नविपयत्वाच्च। विरुद्धलाभांशो विषादनस्य, विरुद्ध- लाभेष्टार्थप्रयुक्तकारणयोः संसर्गाननुरूपतांशश्च विपमस्य विषय इत्यवो- चाम। तस्मात्तत्र किंचिदंशे विषमम्, किंचिदंशे विषादनमित्युभयोरपि समावेशो बोध्यः । इति रसगङ्गाघरे विषादनप्रकरणम्।

अथोल्लास :- अन्यदीयगुणदोषप्रयुक्तमन्यस्य गुणदोषयोराधानमुल्लासः ।। तच्च गुणेन गुणस्य, दोषस्य वा । दोषेण गुणस्य, दोषस्य वेति चतुर्धा। आधानं च तद्वत्ताबुद्धिः। क्रमेणोदाहरणानि-

प्राग्वदाह-अथेति। १ अप्रकृतेन शुकवृत्तान्तेन प्रकृतस्य भन्नाशपुरुषस्य वृत्तान्तो बुबोधयिषितः अत एव अप्रस्तुतप्रशंसाया विषादनमिदं घटकम् (अवयवभूतम्)। २ हरेदर्शनवर्त्रीणाम्। वन्नन्तात् स्त्रियां डीप्। ३ तत्र 'अभीष्टार्थविरुद्धलाभ' रूपविषादनलक्षणमुपलभ्यते। अनोडनेन अ्रस्तत्वं ततश्च विषादनस्य स प्रभेद इत्यर्थः ।

Page 744

६८४ काव्यमाला। [ द्वितीयानने-

'अलभ्यं सौरभ्यं हरति सततं यः सुरमनसां क्षणादेव प्राणानपि विरहृशस्त्रक्षतहदाम्। त्वदीयानां लीलाचलितलहरीणां व्यतिकरा- त्पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ।।' अत्र लहरीणां पावनत्वातिशयेन पवमानस्य पावनत्वगुणान्तरं वर्णितम् । 'विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं न याभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यक्कारो जननि मनुजस्य श्रवणयो- र्ययोर्नान्तर्यातस्तव लहरिलीलाकलकलः ॥।' अत्र श्रीभागीरथीरमणीयत्वगुणेन तद्रूपेशब्दविमुखयोर्नयनयोः श्रवणयोश्च नैष्फल्यधिक्काररूपौ दोषौ। यथा वा- 'हिंसाप्रधानैः खलु यातुधानैरयाऽनीयताSपावनता सदैव। रामाङ्रियोगादथ सापि वन्या विन्ध्यस्य धन्याऽस्त सुनेः सतीव।।' अत्र दोषेण दोषः पूर्वार्धे, द्वितीयार्धे तु गुणेन गुण इति विशेष: । यथा वा- 'भूषितानि हरेर्भ क्तेर्दूषितानि पराङाखैः। स्वकुलं नगरं देशो द्वीपं सर्वा च मेदिनी ॥' अत्रोत्तरोत्तरव्यापकतया तैथेति विशेषः ।

व्यतिकर: संबन्धः । पवमानो वायुः । न्यक्वारो धिकारः । वन्या वनसमूहः । मुने- रिति। गौतमस्याहल्येवेत्यर्थः । १ पुष्पाणां सौरम्यं हरति अन एव क्षणादेव विरहरूपेण शस्त्रेण आहृतहृदयानां वियो- गिनां प्राणानपि हरति, ईद्वशोपि वायुस्त्वल्लहरीणां संबन्धात्रिभुवनं पुनातीत्यर्थः । २ तस्याः भागीरथ्याः रूपे शब्दे च विमुखयोः । ३ या विन्ध्यस्य वन्या (वनसमूहः) यातुधानैः सदैव अपावनताम् अनीयत सापि (वन्या) मुनेः सतीव (अहल्येव) रामचरणसंयोगात् धन्या आस्त अभवदित्याशयः । ४ कुलात् नगरं नगरादेश इत्येवमुत्तरोत्तरव्यापकतया तथा अर्थात् हरिभक्तानां गुणैः भूषणरूपगुणाधानम्, पराङमुखानां दोषेण च दोषाधानमित्याशयः।

Page 745

अवज्ञा] रसगङ्गाघर:। ६८५

'शवपाकानां व्रातैरमितविचिकित्साविचलितै- विमुक्तानामेकं किल सदनमेन:परिषदाम्। मुदा मामुद्धर्तु जननि घटयन्त्या: परिकरं तव श्राघां कर्तु कथमिव समर्थो नरपशुः ॥।' अन्न वक्तृगतपापरूपदोषप्रयुक्तस्तदुद्धत्र्याः श्रीगङ्गायाः श्राध्यत्वं गुणः । यथा वा- 'श्ववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनं कुतर्केष्वभ्यासः सततपरपैशुन्यमननम् । अपि श्रावंश्रावं मम तु पुनरेवंविधगुणा- नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ॥' इहापि प्राग्वदेव। किं तु व्यङ्गयः स इति विशेषः । 'काव्यलिङ्गेन गतार्थोऽयम्, नालंकारान्तरत्वभूमिमारोहति' इत्येके। 'लौकिकार्थमय- त्वादनलंकार एव' इत्यपरे। इति रसगङ्गाधर उल्लासप्रकरणम् ।

अथावज्ञा- तद्विपर्ययोऽवज्ञां॥ तस्योल्लासस्य विपर्ययोऽभावः। अन्यस्यान्यदीयगुणदोषप्रयुक्तगुणदोषा- SSघानाभाव इति पर्यवसितोऽर्थः । यथा- 'निष्णातोऽपि च वेदान्ते वैराग्यं नैति दुर्जनः । चिरं जलनिधौ मग्नो मैनाक इव मार्दवम् ॥'

छ्वपाकाश्चण्डालाः । परिकरं कटिबन्धनम्। श्ववृत्तिः सेवा। लत् लाम्। भूमिं स्थानम् ॥ इति रसगङ्गाधरमर्मप्रकाश उल्लासप्रकरणम् ।॥। प्राग्वदाह-अथेति। १ श्वपाकवृन्दैरपि त्यक्तानाम् एनःपरिषदाम् पापसमष्टीनां सदनम् । २ वक्तृगतदोषप्रयुक्तं तदुद्धर्वर्या श्राध्यत्वगुणाधानम् । श्वपाकानामिति पद्ये 'शाघां कर्तु कथ समर्थः' इति गुणाधानं वाच्यम् । इह तु 'त्वदृते को निरीक्षेत' इत्यनेन 'घोरपातकिष्वपि दयालोस्तव श्राघा अशक्या' इत्यादिरूपेण व्यञ्ञयमित्यर्थः । ५८ रस०

Page 746

६८६ काव्यमाला। [द्वितीयानने-

अन्र पूर्वार्धे प्रपञ्चानित्यत्ववोधकतारूपवेदान्तशास्त्रगुणप्रयुक्तस्य खले वैराग्यरूपगुणाधानस्य, उत्तरार्धे द्रवत्वरूपजलनिधिगुणप्रयुक्तस्य मैनाके मार्दवरूपगुणाधानस्य च विपरयेयो वर्णितः । 'मध्येगलं विहरतां गरलं निकामं नागाधिप: शिरसि, भाळतले हुताशः। ध्याता भवज्वलनमध्यगतैस्तथापि तापं तदैव हरते हर ते तनुश्रीः।।' अत्र तापकतारूपगरलादिदोषप्रयुक्तस्य भगवन्मू्तों क्रूरत्वादिदोषाधान- स्याभावः। न चात्रातद्गुणो वक्ष्यमाणोSलंकार इति वाच्यम्। यतो यमुना- जलस्थराजहंसादेरयथा यमुनाजलगतश्यामत्वाग्रहणं न तथा भगवन्मूर्ते- गरलादिगतकरत्वाग्रहणं विवक्षितम्। अपि तु तादशकूरत्वप्रयुक्तस्य क्रूर- त्वान्तरस्यानाविष्करणमित्यस्ति विशेष: । 'निष्णातोऽपि-' इत्यादौ तु

'मद्वाणि मा कुरु विषाद्मनादरेण मात्सर्यमन्दमनसां सहसा खलानाम्। काव्यारविन्दमकरन्दमधुव्रताना- .. मास्येषु यास्यसि सतां विपुलं विलासम् ।।' अत्र पूर्वार्घेऽनादररूपखलदोषप्रयुक्तस्य कविवाण्यां विषादरूपदोषस्य निषिध्यमानत्वादप्रतिष्ठानेनाभावः शाब्दः, वाणीगतरमणीयतारूपगुणप्र- युक्तस्य खले संतोषरूपगुणाधानस्याभावः पुनरार्थ इत्युभयविधाप्यवज्ञा। उत्तरार्धे तु सहृद्यंगुणेन सरसंतारूपेण वाण्या उल्लासरूपगुणाधानमित्यु- ल्रास एव। विशेषोक्तैव गतार्थत्वादवज्ञा नालंकारान्तरमित्यपि वदन्ति। इति रसगङ्गाधरेऽवज्ञाप्रकरणमूं।

विहरतामित्यस्याग्रेऽपि यथायथमनुषङ्गः । भवेति । संसारानिदग्धैरित्यर्थः । पुन- तवर्थे ।। इति रसगङ्गाधरमर्मप्रकाशेऽवज्ञाप्रकरंणम्। १ विहरतु, लोट्र। २ दयया अद्रवीभावस्य ।

Page 747

तिरस्कार: ] रंसगङ्गाघर: । ६८७

अथानुज्ञा- उत्कटगुणविशेषलालसया दोषत्वेन अ्रसिद्धस्यापि वस्तुनः प्रार्थ- नमनुज्ञा॥ यथा- 'प्रणिपत्य विधे भवन्तमद्धा विनिबद्धाञ्जलिरेकमेव याचे। जनुरस्तु कुले कृषीवलानामपि गोविन्दपदारविन्दुभाजाम् ।।' अत्र हरिभक्तिलालसया कृषीवलकुलजन्मनः प्रार्थनम्।

अथ तिरस्कार :- एवम्- दोषविशेषानुबन्धाद्ुणत्वेन प्रसिदधस्यापि द्वेषस्तिरस्कारः । यथा- श्रियो मे मा सन्तु क्षणमपि च माद्यदजघटा- मदभ्राम्यड्वङ्गाव लिमधुरसंगीतसुभगा:। निमआ्नानां यासु द्रविणरसपर्याकुलहृदां सपर्यासौकर्य हरिचरणयोरस्तमयते।' अन्न हरिचरणभजनच्युतिभयाद्राज्यसुखस्य तिरस्कारः । अमुं च तिरस्कारमलक्षयित्वाऽनुज्ञां लक्षयत: कुवलयानन्दकृतो विस्म- रणमेव शरणम्। अन्यथा 'भवद्भवनदेहली-' इति तदुदाहृतपद्ये 'किमि- त्यमरसंपद:' इत्यंशे तिरस्कारस्य स्फुरणानापत्तेः । ननु कथमनयोरलंका- रयोः संभवः ? यावता प्रार्थनमिच्छा तिरस्कारश्र द्वेषः । तत्र दोषे इष्टसाधनताज्ञानरूपकारणाभावादिच्छा न युक्ता। गुणे च द्विष्टसाधनता-

प्राग्वदाह-अथेति । अद्धेति स्फुटावधारणयोः । तत्त्वातिशययोरित्येके ॥ [ इति

१ राजलक्ष्मीषु निमझ्नानां धनरसप्रचलितचित्तानां जनानाम्। २ सामअ्जस्याभावादुपपत्तिरेव नास्तीत्यर्थः ।

Page 748

६८८ काव्यमाला। [द्वितीयानने-

ज्ञानाभावाद्वेषोऽपि तथा। वैपरीत तु कारणसत्वादुचितमिति चेतू, मै- वम्, दोषगुणयोगुणदोषांशमादायेष्ट-द्विष्टसाधनताज्ञानयोः सत्त्वात्वदुक्तं कारणं तावदव्याहतम्। उत्कटद्विष्ठाननुबन्धीष्टसाधनताज्ञानस्योपायेच्छां प्रति, उत्कटेष्टाननुबन्धिद्विष्टसाधनताज्ञानस्य चोपायद्वेषं प्रति कारणत्वस् वाच्यत्वाद्वैपरीत्यमपि नोचितम्। अन्यथा सुखदुःखोभयसाधनेषु चान्द्रा- यणकलञ्जभक्षणादिषु हरीतकी-दधित्रपुसभक्षणादिषु चेच्छाद्वेषयोरनियम एव स्यात्। अन्न च पुरुषकालप्रवेश आवश्यकः । उत्कटतत्पुरुषीयता-

तथा न युक्तः । शङ्कते-वैपेति। दोषेति। यत इत्यादिः। यथासंख्यमत्र । दधियुक्त त्रपुसं 'फूट' इति प्रसिद्धम् । 'दधित्रपुसं प्रत्यक्षो ज्वरः' इति महाभाष्योक्तेः । अत्र चेति। उक्तकार्यकारणभावे पुरुषकालयोरित्यर्थः । १ अर्थात् दोषे अनिष्टसाधनताश्ञानसत्त्वाद द्वेषः (त्यागः), गुणे च इष्टसाधनताज्ञान- सत्त्वात्प्रार्थनमुच्चितमित्याशयः । २ अयं भाव :- संसारे न किमपि वस्तु सर्वथा दुष्टम्, नापि सर्वथा गुणविशिष्टम् अपि तु सर्वत्र कश्चन गुणः कश्चन दोषश्चावश्यं भवति। तदनुसारं दोषेपि यो गुणांशः, गुणेपि च यो दोषांशस्तमादाय दोषे इष्टसाधनताज्ञानस्य, गुणे च द्विष्ट( अनिष्ट)साधनताज्ञानस्य सत्त्ात् प्रार्थनादेः कारणमव्याहतमित्याशयः । ३ वैपरीत्यम् (दोषस्य तिरस्कारो गुणस्य प्रार्थनमिति) तु उच्वितमिति सांग्रतं खण्डयति, उत्कटद्विष्टेत्यादि०। उत्कटद्विषटं पदार्थ न अनुबन्नाति अर्थात् उत्कटद्विष्टे अवर्तमानस्य इष्ट- साधनताज्ञानस्य [उपायेच्छां प्रति कारणत्वं वाच्यमित्यादिना अग्रेऽनुषङ्गः ]। अयं भाव :- चान्द्रायणव्रतात् सुखमपि (परिणामे) भवति, दुःखमपि (अनुष्ठानवेलायाम्)। एवं कलअ्(विषास्त्रहृतमृगादिमांस)भक्षणात् सुखमपि (आदौ) भवति, दुःखमपि (परिणामे)। एवमेव हरीतकीभक्षणात् सुखमपि (परिणामे), दुःखमपि (आदौ)। दवित्रपुसभक्षणात सुखमपि (आदौ), दुःखमपि (परिणामे) । किन्तु चान्द्रायण-हरीतक्यादिविषये इच्छैव, कलञ्ज-दधित्रपुसादिविषये द्वेष एव नियतः । यतो हि चान्द्रायणादीनामुपायेच्छां प्रति इष्टसाधनताशानं कारणम्। एवं कलज्जभक्षणादीनामुपायद्वेषं प्रति अनिष्टसाधनताज्ञानं कारणम्। सवमेव दोषे यो गुणांशस्तमादाय इष्टसाधनताज्ञानसत्वात्प्रार्थनम्, गुणे यो दोषांशस्तमादाय द्विष्टसाधनताज्ञानसत्वात्तिरस्कार उपपद्यते। अतो वैपरीत्ं नोच्ितमित्याशयः । ४ ननु समयानुरोधेन इच्छाद्वेषौ भवतः । करिमिंश्चित्समये इष्टमप्यनिष्टम्, कलिश्चिच्च समये अनिष्टमपीष्टं भवति। एवं आ्हकवशादपि। कस्यच्चित्किञ्चिदिष्टम्, कस्यचिच्च तदेवा- निष्टम्। अत एव इच्छाद्वेषयोः कारणताविषये कालपुरुषयोरनिवेश आवश्यक इत्याह-'अन्र च पुरुष-कालग्रवेश आवश्यकः' इति।

Page 749

तिरस्कार: ] : रसगङ्गावर:। ६८९

तत्पुरुषीयोपायेच्छां प्रति कारणम्। एवमुत्कटतत्पुरुषीयतात्कालिकेष्टान- नुबन्धितत्पुरुषीयतात्कालिकद्वषविषय फलसाधनताज्ञानं तत्पुरुषीयोपाय- द्वेषं प्रति। तेन पुरुषान्तरीयं कालान्तरीयं च द्विष्टमिष्टमादाय न दोषः। इदं तु बोध्यम्-फले उत्कटेच्छया उपायेऽप्युत्कटेच्छैव जायते। एवं फले उत्कटद्वेषेणोपायेऽपि द्वेष एवं। एवं च सुखदुःखोभयसाधनेषु चान्द्रायणादिषु यदि स्वसामग्रीवशात्प्रथमं सुखे उत्कटेच्छा तदा तत्सा- धनेषु चान्द्रायणादिष्वपि सैव। अथ स्वसामग्रीवशात्प्रथमं दुःखे उत्क- टद्वेषस्तदा चान्द्रायणादिषु स एव, उत्कटसामग्र्या बलवत्त्वकल्पनात्। उत्कटत्वं च प्रकृते इच्छाद्वेषगतो विषयिताविशेषः । एकसाधनजन्ये इष्टानिष्टरूपे फलदवये एककालावच्छेदेनैकत्रोत्कटेच्छा अपरत्रोत्कटद्वषश्च न संभवति। तथा सति चान्द्रायणादिष्वेकस्मिन्नव समये इच्छाद्वेषयोद्व- योरप्यापत्तेः। एवं च वलवद्निष्टाननुबन्धित्वं बलवदिष्टाननुबन्धित्वं चोपायेच्छाद्वेषयोः कारणतावच्छेदके न देयमेवेत्याहुः। अन्ये तु फलेच्छा-फलसाधनताज्ञानयोद्वयोरुपायेच्छां प्रति, फलद्वेष- फलासाधनताज्ञानयोरुपायद्वेषं प्रति च कारणत्वम्। उत्कटसामग्र्या बलवत्त्वाच्चेष्टानिष्टोभयसाधने न दोष इत्यपि वदन्ति। एवं चेष्टानिष्टोभय-

प्रति कारणमित्यस्यानुषङ्गः । इति रसगङ्गाधरमर्मप्रकाशे तिरस्कारप्रकरणम् ॥

१ अयं सर्वस्याशयः-केचन इच्छां प्रति बलवदनिष्टाननुबन्धित्वम् (अर्थात् इष्टसाधक- खवम्), एवं द्वेषं प्रति बलवदिष्टाननुबन्धित्वम् (अनिष्टसाधकत्वम्) कारणमाहुः । इद न घटते। चान्द्रायणादिषु सुखजनकतया अनिष्टाननुबन्धित्वज्ञानस्य, दुष्करसाधनतया इषाननु- बन्धित्वज्ञानस्य च सत्त्वादेककालावच्छेदेन इच्छाद्वेषयोई्योरपि संभवः स्ात्। न च भवति। तस्मात् बलवदनिष्टाननुबन्धित्वादि न कारणतावच्छेदकम्। किन्तु सामय्या उत्कटत्वम् इच्छां द्वेषं प्रति च कारणम्। यदि सुखरूपे फले उत्कटेच्छा तदा तदुपायेषु चान्द्रायणादिषु उत्क- टेच्छा। यदि च दुःखरूपे फले उत्कटद्वेषस्तदा तदुपायेषु चान्द्रायणादिष्वपि उत्कटद्वेष इति।

Page 750

६९० काव्यमाला। [द्वितीयानने-

साधने दोपे गुणे च गुणेन दोषेण च मिश्रिते सहृद्यानामिच्छाद्वेषयोरु- चितैवोत्पत्तिः, हरितकीकदलैभक्षणयोरिवेति। [इवि रसगङ्गाधरे तिरस्कारप्रकरणम्। ]

अथ लेश :- गुणस्यानिष्टसाधनतया दोषत्वेन, दोषस्येष्टसाधनतया गुणत्वेन च वर्णनं लेशः ॥ यथा- 'अपि बत गुरुगर्व मा स्म कस्तूरि यासी- रखिलपरिमलानां मौलिना सौरभेण। गिरिगंहन गुहायां लीनमत्यन्तदीनं स्वजनकमसुनैव प्राणहीनं करोषि।।' 'नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम्। शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनदरुमाः ॥।' पूर्वत्र गुणस्य दोषत्वेन वर्णनमात्रम्, उत्तरत्र तु दोषस्य गुणत्वेन वर्णनमर्थान्तरन्यासानुविद्धम्। 'स्खलन्ती स्वलोकादवनितलशोकापहृतये जटाजूटग्रन्थौ यद्सि विनिबद्धा पुरभिदा। अये निर्लोभानामपि मनसि लोभं जनयतां गुणानामेवायं तव जननि दोष: परिणतः ॥।' अत्र दोषोऽपराधः। तथा चापराधत्वेन गुणानां दोषत्वमुक्तं भवति। न चायमलंकारो व्याजस्तुत्या उभयरूपया गतार्थ इति शङ््यम्। मुखप्र- तिपादितार्थवैपरीतेनात्र सर्वत्र पर्यवसानाभावात्। नहि 'अपि बत गुरु-

प्राग्वदाह-अथेति। उभयेति न्दारूपयेत्यर्थः। मुखं प्रारम्भः । सा- १ हरीतक्यां विस्वादतारूपे दोषे संत्यपि कोष्ठशोधनगुणवशादिच्छा। एवं कदलीफले स्वादुतारूपगुणे सत्यपि विष्वम्भकतादोषाद् द्वेष उपपद्यत इत्याशयः ।

Page 751

लेश: ] रसगङ्गाघर: । ६९१

गव' इत्यत्र कस्तूर्याः स्तुतौ कवेस्तात्पर्यम्, अपि तु जनकप्राणापहारित्वेन निन्दायामेव। अत एवाप्रस्तुतर्कस्तूरीवृत्तान्ताभिव्यक्ते प्रस्तुतवृत्तान्तेऽपि तस्यामेव विश्रान्ति: । एवं 'नैर्गुण्यमेव साधीयः' इत्यत्र शाख्यन्तराणां निन्दा न विवक्षिता, किं तु सुखावस्थानम्। गुणिनः स्वगुणैदुःखितस्य वाक्येऽस्मिन्निर्गुणानां निन्दाया अवक्तव्यत्वात्, प्रत्युत स्तुतेरेव वाच्य- त्वात् । 'रखलन्ती स्वर्लोकात्' इति पद्ये भागीरथीस्तुतिप्रकरणपठिते यद्यस्ति भागीरथीस्तुतौ तात्पर्य तदा व्याजस्तुतिरप्यस्तु। तस्याः साव- काशत्वेनैत द्वाधकत्वायोगात्। 'रवितुरगदिग्गजेषु स्वर्णाचलजलधिधनद्कोषेषु । सत्स्ेव राजपुंगव किं दातास्मीति गर्वमावहसि ॥।' अन्र पर्यन्ते प्रतीयमानस्य रवितुरगादिपरिसंख्यातपदार्थातिरिक्तसकल- वस्तुदानरूपस्य गुणस्य दोषत्वेनावर्णनात्, तत्त्वेन वर्ण्यमानस्य च रवि- तुरगाद्यदानस्या गुणत्वाद्गुणदोषयोर्भिन्नविषयत्वेनावस्थानेन लेशस्पर्शलेशर हिता व्याजस्तुतिरिति स्फुटमेव सावकाशत्वम्। अत एत् लेशोऽपि न च्याजस्तुतेर्बाधक इति प्रागुक्तजाह्नवीस्तुतौ द्वयोरपि समावेशः । इति रसगङ्गाधरे लेशप्रकरणम्।

वकाशलमेवाह-रवीति। अत एव भिन्नविषयत्वादेव'। इति रसगङ्गाधरमर्मप्रकाशे लेशप्रकरणम् ॥ १ अप्रस्तुत( कस्तूरी)वृत्तान्ते तु निन्दायां पर्यवसानमस्तयेव । किन्तु प्रस्तुतेपि (यत्र हि स्वगुणेन स्वोपजीव्यस्य हानिजायते तत्रापि) निन्दायाभेव पर्यवसानमित्यर्थः । २ स्वर्णाचलेन (सुमेरुणा) रविः प्रकटित इति रवेः कोषः, जलधिः तुरगस्य (उच्चःश्रव- सः), धनदः दिग्गजस्येति स्वर्णाचल-जलधि-धनदाः कोषाः (उत्पादकाः) येषाम् ईदृशेषु रवितुरगदिग्गजेषु सत्स्वेव 'अहं दातास्मि' इति गर्व किं वहसि। स्वर्णाचलादिभी रवितुरगा- दयः पदार्था लोकाय विती्णां इति पश्यतोपि तव ग्वो वृथेति वाच्याया निन्दाया रवि-तुर गातिरिक्ता: अन्ये सर्वेपि पदार्थास्त्वया लोकाय दत्ताः, स्वर्णाचलादिभिस्तु केवलं रव्यादय एव पदार्था इति राजप्रशंसायां पर्यवसानाद्याजस्तुतिः । अत्र लेशस्तदैव स्यात् यदा राजकर्तृकस्य सकलवस्तु(रवितुरगातिरिक्त ) वितरप्पस्य दोषत्वम्, सूर्योच्चःश्रवःप्रभृतीनामदानरूपदोषस्य गुणत्वं वर्णितं स्यात। किन्त्वत्र न तथा। अत एव लेशालंकाररहिता शुद्धा व्याजस्तुतिः । ततश्च अन्यत्रान्यत्र लब्धावकाशाया व्याजस्तुते: लेशसहिते रखलन्ती इति पद्ये यदि संभव- स्तदा हयो: समावेश एव न तु बाध्यबाधकभाव इति सर्वस्याशयः।

Page 752

६९२ काव्यमाला। [द्वितीयानने-

अथ तहुण :- स्वगुणत्यागपूर्वक सवसंनिहितवस्त्वन्तरसंबन्धिगुणग्रहणं तहुणः ।। यथा- 'नीतो नासान्तिकं तन्व्या मालत्याः कुसुमोत्करः। वन्धूकभावमानिन्ये रागेणाधरवर्तिना।।' यथा वा- 'अधरेण समागमाद्रदानामरुणिम्ना पिहितोऽपि शुद्धभावः। हसितेन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप जातपक्षः ।।' अत्राद्ये मालतीकुसुमोत्करस्याधररागरक्ततया बन्धूकभावोपपत्तेस्तद्रुणः। द्वितीयेऽपि पूर्वार्े स्पष्ट एव तह्ुणः। परं तूत्तरार्धगतेन प्रतिप्रसवतुल्येन हासेनापोह्यमानत्वाद्गङ्कुरः । यदि तु हासेनाधरसितीकरणद्वारा तदरुणि- त्रो बाधस्तदा तत्रा्यपरस्तह्ुणः। इमं केचित्पूर्वरूपमामनन्ति। यद्यप्यु- ल्वासे Sप्यन्यदीयगुणेनान्यस्य गुणाधानमस्ति, तथापि तन्रान्यदीयगुणप्रयुक्त गुणान्तरं चूर्णादिक्षारताप्रयुक्त हरिद्रादेः शोणत्वमिवाधीयते। प्रकृते तु जपाकुसुमलौहित्यं स्फटिक इवान्यदीयगुण एवान्यनेति ततोऽस्य भेद:। इति रसगङ्गाधरे तहुणप्रकरणम्।

प्राग्वदाह-अथेति। पूर्वरूपं तदाख्यम् । इति रसगङ्गाधरमर्मप्रकाशे तह्ुणप्रक- रणम् ॥

१ जाता पक्षपुष्टिः (उपोद्वलनम्) यस्य सः । २ यावत्कालम् अरुणिमजनकस्य अधरस्य श्वैत्यं न भवेत्तावत् रदानां शुद्धभावो न संभवी। अत एव अधरस्यापि श्रैत्यं जनयित्वा हासेन रदानां श्वैत्यमुत्पादितम्। ततश्चात्रापि अधरेण (अरुणीभूतैर्दन्तैश्च) स्वगुणं त्यक्त्वा हासस्य श्वैत्यगुणो गृहीत इति तद्गुण पवेत्याशयः। ३ उल्लासे अन्यदीयगुणसंबन्धेन गुणान्तरस्याधानम्, यथा क्षारसंबन्धेन हरिद्रायामारु- ण्यम्। तद्गुणे तु पूर्ववस्तुनो गुण एव वस्त्वन्तरे संक्रामति यथा जपालौहित्यं स्फटिके। इति पण्डितराजाशयः । उल्लासावज्ञालंकारयोर्मध्ये गुणशब्दो दोषप्रतिपक्षवाची। तद्गुणातद्- गुणयोस्तु गुणशब्दो रूपरसगन्धादिगुणवाचीति अप्पयदीक्षितादिभिरपरोपि द्वयोभेंदो दर्शितः ।

Page 753

अतद्गुण: ] रसगङ्गाघरः। ६९३

अथातङ्गुण :- तद्विपर्ययोऽतहुणः ॥ यथा- 'कुचाभ्यामालीढं सहजकठिनाभ्यामपि रमे न काठिन्यं धत्ते तव हृदयमत्यन्तमृदुलम्। मृगाङ्गानामन्तर्जननि निवसन्ती खलु चिरं न कस्तूरी दूरीभवति निजसौरभ्यविभवात्।।' अत्र पूर्वार्धे परगुणाग्रहणं शाब्दम्, स्गुणत्यागाभावस्त्वार्थः । ऊ रार्धगते दृष्टान्ते तु स्वगुणत्यागाभावः शाब्द:, परगुणाप्रहणं त्वार्थम्। न चायमवज्ञाया नातिरिच्यते। उल्लासविपर्ययो ह्यवज्ञा। तद्गुणविपर्ययश्चात- द्ुण इति प्रतियोगिभेदादेव भेदस्य सिद्धेः । 'अत्र गुणाग्राह्कापेक्षया संनिहितस्य गुणवत उत्कृष्टत्व-समत्वाभ्यां द्वैविध्यम्' इति सर्वस्वकारः । तस्यायमाशय :- इपकृष्टसंबन्धिगुणाग्रहणस्य साहजिकत्वेन वैचित्र्या- नाधायकत्वादनलंकारतैवेत्यपकृष्टत्वेन तृतीयविधा तुन संभवतीति। अन्ये तु-'अवान्सरचमत्कारविशेषस्याभावाह्वैविध्यमपि न' इति वद- न्ति। अन्ये तु-'सति गुणग्रहणहेतावुत्कष्टगुणवस्तुसंनिधाने तद्गुणग्रह- णरूपकार्याभाकात्मकोऽयमतद्गुणो विशेषोक्तेरवान्तरभेद:, न त्वलंकारा- न्तरम्। कार्यकारणभावो नात्र विवक्षितः । किं तु संनिधानेऽपि तद्गुण-

प्राग्वदाह-अथेति उक्तस्वरूपात्सरूपान्तरमाह-सतीति । शङ्गते-का- रयेति।

१ अङ्गानां सौरभ्याभावस्य गुणस्य अग्रहणमित्यर्थः । २ येन (वस्तुना) परकीयगुणो न गृहीतः तदपेक्षया यस्य गुणो न गृहीतस्तस्य उत्कृ- छत्व-समत्वभेदेन अतद्गुणेऽपि भेदद्वयमित्याशयः । ३ उत्कृष्टत्व-समत्वकृतः अवान्तरचमत्कारविशेषो नोपलभ्यत इत्याशयः ।

Page 754

६९४ काव्यमाला। [द्विंतीयानने-

ग्रह्णाभाव इत्येतावन्मात्रम्। अतो विशेषोक्तेरतद्रुणो भिन्न इति तुन युक्तन्। संनिधानेऽपीयपिना विरोधोऽपि विवक्षित इति गम्यते। अन्यथा जीवातोरभावादलंकारतैव न स्यात्। स च कार्यकारणभावाविवक्षणे न भवतीति कथमुच्यते न विवक्षित इति' इत्यप्याहुः। इति रगङ्गावरेतहुणप्रकरणम् ।

अथ मीलितम्- स्फुटसुपलभ्यमानस्य कस्यचिद्वस्तुनो लिङ्गैरतिसाम्याद्भिन्नत्वेना- गृह्यमाणानां वस्त्वन्तरलिङ्गानां स्वकारणाननुमापकत्वं मीलितम्।। संग्रहश्च- 'भेदाग्रहेण लिङ्गानां लिङ्गै: प्रत्यक्षवस्तुनः । अप्रकाशो ह्यनध्यक्षवस्तुनस्तन्निमीलितम् ॥' सामान्यवारणाय अनध्यक्षेति। तत्राध्यक्षस्यैव वस्त्वन्तरस्याग्रहणम्। गे वस्त्वन्तरगुणानां भिन्नत्वेनाग्रहणेऽपि वस्त्वन्तरस्य अ्रहणमस्त्ेवेति न तत्र प्रसङ्ग: । उदाहरणम्-

सतीत्यस्य यत इत्यादिः । स च विरोधश्च ॥ इति रसर्गङ्गाधरमर्मप्रकाशेऽतह्गुणप्र- करणम् ॥ प्राग्वदाह-अथेति मीलितप्रकरणम् ॥। १ अतद्गुणे कार्यकारणभावो न विवक्षितः, किन्तु संनिहितस्य गुणग्रहणाभावः । अतः कार्यकारणभावसापेक्षायां विशेषोक्तौ नास्यान्तर्भावः, अपि तु अतद्गुणः पृथक् इति पूर्वपक्षी। अपिना बोध्यो विरोधः कार्यकारणभावस्वीकारे एव (उत्कृष्टगुणस्य वस्तुनः संनिधानं कारण- मस्ति तथापि गुणग्रहणरूपं कार्य न जातम्) संपद्ते, नान्यथेति 'अपरे'षां समाधानम्। २ स्फुटप्रतीयमानस्य वस्तुनो लिङ्गेषु (अनुमापकच्चिह्वेषु) अस्फुटवस्तुनो लिङ्गानि साग्य- वशान्निलीनानीव, अतस्तानि लिङ्गानि स्वकारणं नानुमापयन्ति। यथा अप्रत्यक्षस्य सुरतस्य सूचकानि स्वेदश्वासादीनि लिङ्गानि प्रत्यक्षस्य जलकुम्भानयनश्रमस्य लिङ्गेषु (सवदादिषु) मिलितानि, अतः सुरतलिङ्गानि स्वेदादीनि स्वकारणं सुरतं नानुमापयन्तीत्याशयः ३ मीलिते अप्रत्यक्षवस्तुनो लिङ्गैन ग्रहणम्, सामान्ये तु (बलवत्सजातीयमिश्रणेन) प्रत्यक्ष- स्यापि वस्तुनो न ग्रह्दणमिति भेद: ।

Page 755

सामान्यम् ] रसगङ्गाधरः। ६९५

'जलकुम्भमुम्भितरंसं सपदि सरस्याः समानयन्त्यासे। तटकुञ्जगूढ सुरतं भगवानेको मनोभवो वेद।।' अत्र सुरतगमकानां स्वेदकम्पनिःश्वासानां जलकुम्भानयनत्वराजनितै- स्तैर्भेद स्याग्रहात्सुरतस्याप्रकाशः । यथा वा- 'सरसिरुहोदर सुरभावधरितविम्बाधरे मृगाक्षि तव। वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥' अत्र प्रियेण ताम्बूलं कुतो न गृहासीत्युक्ते एतावन्तं समयं ताम्बूलानि समागतास्मीत्युक्तवतीं प्रति तस्येयमुक्ति:। पूर्वोदाहरणे प्रत्यक्षव- स्तुलिङ्गान्यागन्तुकानि, अत्र तु साहजिकानीति विशेष: इति रसगङ्ाधरे मीलितालंकारप्रकरणम्।

अथ सामान्यम्- प्त्यक्षविषयस्यापि वस्तुनो बलवत्सजातीयग्रहणक्कतं तद्िमत्वे- नाग्रहणं सामान्यम्॥ मीलिते तु निगूद्यमानवस्तु न प्रत्यक्षविषय इति न तत्रातिव्याप्तिः । उदाहरणम् -.. 'यस्मिन्हिमानीनिकरावदाते चन्द्रांशुकैव्ल्यमिव प्रयाते। पुच्छाश्रयाभ्यां विकला इवाद्रौ चरन्ति राकासु चिरं चमर्यः ॥'

प्राग्वदाह-अथेति। निलयनं गोपनम्। तासां निलयनं च विच्छित्तिश्चम-

१ पूरितजलमित्यथैः । २ अधरितबिम्बः (अत्यरुणः ) अधरो यस्मिन्नीदृशे (वदने)। ३ पूर्वत्र कुम्भानयनकाले श्वासादीनि जातानि, अत्र तु अधररागः स्वाभाविक एव्रेत्या- शय ४ चन्द्रांशुभि: सह अद्वैतभावं प्रयाते यस्मिन् पर्वते (हिमालये) पुच्छेन आश्रयेण (आधारेण पर्वतेन) च रहिता इव चरन्ति । हिमाचल चमरीपुच्छे प्रत्यक्षभूते तथापि बलवता सजातीयेन चन्द्रिकारूपेण ते स्वान्तर्गृहीते इति चन्द्रिकाभिन्नत्वेन तयोरग्रहणमित्यर्थः । सामान्यमुत्प्रेक्षाया अङ्गमिति इ्योरङ्गाङ्गिभाव इत्यर्थः ।

Page 756

६९६ काव्यमाला। [ द्वितीयानने-

अन्र चन्द्रिकान्तः पृथक्त्वेन हिमाचल-चमरीपुच्छयोरदर्शनादुत्प्रेक्षो- त्पत्तिरिति तस्यां सामान्यं गुणः । केचित्तु-"प्रागुक्तलक्षणे 'भिन्नत्वेनाग्रहणं' इत्यपहाय 'भिन्नजातीय- त्वेनाग्रहणं' इति वक्तव्यम्। तेन व्यक्तिभेद्ग्रहेडपि सामान्यमेवालंकारः । यथा-

वृतमुयवनमेवासीदरिमहिलानां महावनं भवतः ॥।' अत्र महावनमिति महावनकार्यस्य निलयनस्य संपादनात्। तच् तासां प्रत्यक्षेण त्वदीयैर्भैटैर्लताभि: सह तत्तव्यक्तितया भिन्नत्वेन ग्रहेऽपि भिन्न- जातीयत्वेनाग्रहणान्निष्पद्यते। पूर्वमते त्वत्रालंकारान्तरमभ्युपेयं स्यात्" इत्याहुः । ननु भेदाग्रह एव मीलित-सामान्य-तद्गुण-साधारण एकोऽलंकारोडस्तु। किमलंकारत्रयेण ? मीलिते तावत्प्रकृताप्रकृतधर्मिगुणानां भेदाग्रह उपपा- दित एव। सामान्ये केषांचिद्ुणगुणिभेदाग्रहः, केषांचित्कचिद्यं क्वचि- ज्जातिमात्रभेदाग्रहश्च। तह्गुणेऽपि रक्तगुणे रञ्जकगुणभेदाग्रहः। न चावा- न्तरभेदसत्त्वान्नकालंकारत्वमुपपद्यत इति वाच्यम्।लप्तोपमादितः पूर्णो- पमादेः पृथगलंकारतापत्तेः । तस्माद्वेदाग्रहस्य त्रयो मीलिताद्योऽवान्तर- भेदा इति युक्तम्, न तु पृथगलंकारा इति चेत्, उच्यते-एवं तर्ह्यभेदोऽ- प्येकोऽलंकारः। तद्वान्तरभेदा रूपकपरिणामाद्यतिशयोक्तिप्रमुखा इत्यपि शक्यते वक्तुम्। विच्छित्तिभेदस्तु प्रकृतेऽपि तुल्यः । १ लतासु महिलासु च पृथग्व्यक्तित्वस्य भानं भवति, परम् इमा अपि लता एवेति लताभिन्नजातीयत्वेनाग्रहणमित्यर्थः । २ अयम् अर्थाद् गुणगुणिभेदाग्रहः । कचिच्च व्यक्तिभेदग्रहेपि भिन्नजातीयत्वेनाग्रहणं यथा लतासु महिलासु च। ३ यो रजितो भवति तस्य गुणेषु रज्जनकारिणो गुणानामभेदः । यथा-नीतो नासान्तिकम्। अत्र मालत्याः शुङ्कगुणेन सह अधरस्य रक्तिमगुणस्याभेदग्रहात् रक्तत्वप्रतिभासनम्। *४ यदा पूर्णा-लप्तयोरेकालंकारत्वं तदा अवान्तरभेदेन पृथगलंकारत्वं न भवतीति सिध्यति, इत्याशयः।

Page 757

सामान्यम् ] रसगङ्गाघर:। ६९७

यत्तु-"मीलितरीत्या भेदाग्रहे प्राप्ते केनचिद्धेतुना भेदज्ञाने सति मीलितप्रतिद्वन्द्व उन्मीलितम्। सामान्यरीत्या जातिभेदामहे प्राप्ते केन- चिद्धेतुना सति वैजात्यग्रहे सामान्यप्रतिद्वन्द्व विशेषकं चेत्यलंकारद्वयम् । यथा- 'हिमाद्रिं त्वद्यशोमृष्ट सुराः शीतेन जानते। लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ।।'-" इति कुवलयानन्दकृदाह। तन्न। अनुमानालंकारेणैव गतार्थत्वादनयोर- लंकारान्तरत्वायोगात्। न चात्र प्रत्यक्षसामग्र्या बलवत्वेनानुमितेरनुद- यात्नानुमानालंकृति: शक्यनिरूपणेति वाच्यम्। व्याप्तिविशिष्टपक्षधर्मता- ज्ञानजन्यज्ञानस्यैवानुमानालंकारलक्षणवाक्यगतेनानुमितिपदेन अहणात्। अत एव तत्रास्माभि: पक्षान्तरमुक्तम्। प्रकृते च विशेषदर्शनहेतुकस्य प्रत्यक्षस्यैव तथात्वात्। नहि प्रमाणविभाजकानां नैयायिकानामिवालंका- रिकाणामपि सरणिः, येन प्रत्यक्षत्वानालिङ्गितामनुमितिं परिभाषेमहि। न चैवंविधे विषये नानुमितिपदप्रयोगोऽभ्यर्हितानामिति वाच्यम्। तथाष्यु- न्मीलितादिवत्परिभाषाया अनिर्वारणात्। अस्तु वानुमितित्वजा। वानुमितिः । तथा्ि प्रकृते प्रतिबन्धकवशाच्तस्या अनुद्येऽपि तत्क-

त्कारः। गतार्थत्वादिति। चिन्त्यमिदम्। नयायिकादि संमतानुमितित जात्याक्रान्त- स्यैव निबन्धनेऽनुमानालंकारस्वीकारात्। प्रकृते च भेदविशेषस्फूरत्योरविशेषदर्शनहेतुप्रत्य- १ 'मग्न'मिति कुवलयानन्दस्थः पाठः । २ साध्य-हेत्वोः सहचारज्ञानेन सह पक्षधर्मतायाः (अयं पक्षस्य पर्वतादेरपि धर्मोस्तीति) ज्ञानाव जातं यद् वह्िमत्त्वस्य ज्ञानं तदेव अनुमानालंकारलक्षणे अनुमितिपदेन ग्राह्यमित्यर्थः । ३ अनुमानत्वात्। शीतगुणरूपविशेषदर्शनहेतुकम् (अर्थात् शीतगुणरूपं विशेषं दृष्टा) यशसः सकाशात् हिमाद्रेर्यंत अतिरिक्तताज्ानं (प्रत्यक्षम्) तदेवात्र अनुमानपदेन गृद्यते, न तु नैयायिकपरिभाषितमिदमनुमानम्। नैयायिकस्वीकृते एवानुमाने प्रत्यक्षसामग्री प्रतिब- न्धिका। अतिरिक्तताप्रत्यक्षरूपे अस्मत्परिभाषिते अनुमाने तु प्रत्यक्षं न प्रतिबन्धकमिति अनु- मानेनैव गतार्थत्वमित्याशयः । ४ 'उन्मीलितम्' इत्यादयः परिभाषाः (संज्ञाविशेषाः) यथा क्रियन्ते तथा अनुमानमित्यपि आलंकारिकाणां परिभाषेत्यर्थः । तथा च नात्र नैयायिकानामविकला अनुसृतिरित्यानयः । ५९ रस०

Page 758

६९८ काव्यमाला। [ द्वितीयानने-

रणस्याप्रत्यूहृत्वेनानुमानत्वमव्याहतम्। नहि सत्यप्यग्नौ मणिमत्रादिभिः प्रतिवद्धो दाहो न भवतीति दाहकरणमग्निर्नेति वक्तुं शक्यम्। फलायोरगेव्य- वच्छेद्स्तु न करणतायाः प्रयोजकः अपि तु व्यापार एवेति। एतेन 'विशेषदर्शनस्य कोट्यन्तरभानप्रतिबन्धकत्वेन चक्षुःसंयोगादिरूपस्वसाम- ग्रीवशादेवोत्पन्ने तादृशप्रत्यक्षे हेतुतायां मानाभावात्पारिभाषिक्यप्यत्र नानु- मितिः। अतस्तत्करणमनुमानं कथं नाम स्यात्' इति परास्तम्। यदप्युक्तम्- "तद्रुणरीत्यापि भेदानध्यवसायप्राप्तावुन्मीलितं दृश्यते। यथा- 'नृत्यद्भगाद्टहासप्रसरसहच रैस्तावकीनैर्यशोभि- र्धावल्यं नीयमाने त्रिजगति परितः श्रीनृसिंहक्षितीन्द्र। नेहेग्यद्येष नाभीकमलपरिमलप्रौढिमासादयिष्य- देवानां नाभविष्यत्कथमपि कमलाकामुकस्य प्रबोधः ॥'-" इति। १ अनुमितिकरणमनुमानमिति स्वीक्रियते। अनुमितेरनुदयेऽपि अनुमितेः करणस्य (असा- धारणकारणस्य शीतादेः) अक्षतत्वादनुमानं स्ादेवेत्यर्थः । २ अर्थात् फलेन नित्यसंबद्धता यदा भवति तदैव करणता भवति, एवं च दाहरूपं फलं यत्र न भवति तत्र अझनेः करणतापि न भवतीति तु न शक्यते वत्तुम्। व्यापार एव (अर्थात् फलजनकव्यापारवत्तैव) करणत्वं प्रयोजयति। व्यापारवतत्वं तु अझ्यादेरस्त्येवेति 'करण'त्वसिद्धौ न प्रतिबन्धकं किश्चिदित्यर्थः । ३ अयं भाव :- मुखे पझ्मापेक्षया चन्द्रोदयेडप्यमुद्रणरूपं विशेषं चक्षुःसंयोगेन दृष्ट्रा कोट्य- न्तरस्य (पझ्मस्य) प्रतिबन्धनं भवति। ततश्च तादृशचक्षुःसंयोगीशिरूपप्रत्यक्षसामय्यैव मुख- त्वस्य प्रत्यक्षं जातम्, अमुद्रणरूपेण हेतुना नात्र अनुमानं साधितम्। यदा चाऽनुमानं न, तदा तत्करणमनुमानं कथं स्यादिति पूर्वपक्षः। पूर्वविधया फलस्याऽजननेऽपि व्यापारवत्त्वस्य वर्तमानत्वेन करणत्वं यदा अक्षतं तदा अनुमानमपि स्यादेवेति तस्योत्तरम्। ४ अन्यदीयगुणेन स्वगुणाभिभवाद्यत्र द्वयोगुणयोभेदाSनिश्चयप्राप्तौ केनचिद्धेतुना भेदज्ञाना- दुन्मीलितम्। यथा धावल्यगुणेन श्रीकृष्णगतनीलतास्फूतौं भेदाग्रहे प्राप्ते परिमलेन वैशिष्ट्य- ज्ञानादुन्मीलितम्। ५ ईटृकू अर्थात् कीर्तिवत शुक्क एष कमलापतिः (श्रीकृष्णः) नाभिकमलगतस्य परिमलस्य औढिम् अत्यन्तसमृद्धिं यदि न आसादयिष्यत् तर्हि देवानां मध्ये कमलापतेः परिज्ञानं नाडभ- विष्यत, सर्वदेवेषु सोपि संमिलितोऽभविष्यत् इत्यर्थः । अत्र स्वस्य नीलगुणं त्यक्त्वा संनि- हितस्य यशसो धावल्यगुणः श्रीकृष्णेन गृहीत इति तद्गुणेन द्वयोः (यशःश्रीकृष्णयोः) भेदाSस्फूतों जातायां परिमलेन यशसोऽपेक्षया श्रीकृष्णस्य वैशिष्ट्यज्ञानादुन्मीलितमिति अप्प- यदीक्षितमतम्। तद्गुणविधया नीलगुणस्य धावल्यगुणेन सह योडमेदो जातः (गुणयोभेदाS- निश्चयः तद्गुण:) स परिमलेन कथं निवार्येत (परिमलेन गन्धकृतो विशेषः स्थाप्येत न तु वर्णनिवृत्तिः) ततंश्च तत्प्रतिद्वन्द्विता अर्थात् तद्गुणप्रतिद्वन्द्विता उन्मीलितस्यात्र कथमिति पण्डि- तराजकृतं तत्खण्डनम्।

Page 759

सामान्यम् ] रसगङ्गाधर:। ६९९

तद्पि न। तहुणे हि गुणयोर्भेदानध्यवसायः, न तु वस्तुनोरिति निर्वि- वाद्म्। अत्र नाभीकमलपरिमलेन भगवत्त्वेन भगवज्ज्ञाने जातेऽपि तदीयगुणे नीलिमनि यशोगुणधावल्यभेदानव्यवसायरूपस्य तह्गुणस्य निर्बाधत्वात्कथंकारं तत्प्रतिद्वन्द्विता उन्मीलितस्योच्यते ? यदि चैकस्मिन्व- स्तुनि तथाप्यत्र तह्ुणो निर्वाधः। भगवतः श्वेतभिन्नत्वेन ज्ञानस्योपायशून्यत्वे- नायोगात्। न च नीलेत्वव्याप्यभगवत्त्वज्ञानमेवोपायः । प्राङ्नीलोऽपि कारणविशेषमहित्ना संप्रति श्वेतो आत इति बुद्धेः प्रत्यक्षानुगृहीतायास्त- थाप्यनपायात्। अत एव त्वदुपजीव्येनालंकारसर्वस्वकृता उन्मीलितविशे- षकयोश्चचैव न कृता। अतः प्राचीनैः कृतविभागेष्वलंकारेष्विदंप्रथमोत्प्रे- क्षितस्य यावदलंकारस्य शक्योऽन्तर्भावः कर्तुम्। न तावत्पृथगलंकारत्व-

दैरायैरिति। वाचोयुक्त्ा विगलितशृङ्गलत्वमात्मनो नाटयितुं सांप्रतं मर्यादावशंव-

यत्तुँ- 'वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि। भृङ्गा: सहेलं यदि नापतिष्यन्कोऽवेद्यिष्यन्नवचम्पकानि ॥'

क्षरूपलात्तादृशप्रत्यक्षस्य चक्षुःसंयोगादिरूपस्वसामग्रीवशादेवोत्पत्तेस्तत्र पक्षधर्मताज्ञानजन्यतवाभावाच। वशवदैरायैरिति। नह्यन्र तद्ुणरीत्येलनेन तह्ुणो व्याप्तिविशिष्ट-

नास्तीत्युच्यते। किं तु तद्रीत्या देवान्तरेभ्यो विष्णोरभेंदानध्यवसायप्राप्तौ केनापि निमि- त्तेन भेदाध्यवसाय इत्येतावन्मान्रमिति न कश्चिद्दोषः । इति रसगङ्गाधरमर्मप्रकाशे सामान्यालंकारप्रकरणम् ॥ १ अर्थात् गुणयोरभेदः तद्गुणो न, अपि तु एकस्य वस्तुनः गुणवता (वस्तुना) सह अभेद:, (अर्थात् गुणिनोरभेदस्तद्गुणः)। अत्र तु गुणयोरभेदः, न तु गुणिन इति पूर्वपक्षी। भगवान् श्वेतभिन्न इति ज्ञानम् उपायशून्यम् अर्थात् श्वेतभिन्नत्वज्ञानस्य न कश्चिदुपाय इति गुणिनोरभेदस्य तद्गुणत्वस्वीकारेऽपि न तन्निवृत्तिरिति सिद्धान्ती। २ यत्र यत्र श्रीकृष्णत्वं तत्र तत्र नीलत्वं ततश्च भगवत्त्वज्ञाने सति नीलत्वमप्यवगम्ये- तेति शङ्का। नीलोपि कारणविशेषात् श्वेतो जात इति परस्तान्निश्चयादिति समाधानम्। ३ नवीनतया कल्पिताः सवेंऽप्यलंकाराः प्राचीनाङ्गीकृतेष्वलंकारेषु अन्तर्भावयितुं शक्या इत्यर्थः । ४ मर्यादावशंवदैः आयः आत्मनो विश्ृङ्खलत्वम् नाटयितुं न साम्प्रतं न युज्यते इत्यर्थः । ५ सामान्यालंकारप्रसङ्गेन तद्विषये काव्यप्रकाशोकतं खण्डयति-'यत्त'. इत्यादिना।

Page 760

७०० काव्यमाला। [द्वितीयानन-

इत्यत्र सामान्यमुदाहृत्य काव्यप्रकाशे 'निमित्तानतरजनितापि नानात्व- प्रतीति: प्रथमप्रतिपन्नमभेदं न व्युदसितुमुत्सहते। प्रतीतस्य त्यागायो- गात्' इत्युक्तम्। अत्रोत्तरप्रतिपत्त्या तिरस्कृतत्वात्पूर्वप्रतीतेने चमत्कारि- त्वम्, किं तूत्तरप्रतीतेरेवेति तयैव व्यपदेशो न्याय्यः । अन्यथा व्यतिरेके Sप्युपमापत्ेः । विरोधाभासस्तु पूर्वोत्तरप्रतीतिद्वयात्मक इति भवति चमत्कारी। इति रसगज्ाधरे सामान्यालंकारप्रकरणम्।

अथोत्तरालंकार :- प्रश्नप्रतिबन्धकज्ञानविषयीभूतोऽर्थं उत्तरम् ॥ प्रश्नश्च ज्ञीप्सा । भावे नडो विधानात्। सा ज्ञानविषयेच्छा । सा चोत्तरवाक्याद्विषयीभूते ज्ञाने जाते निवर्तते। ननु जिज्ञासा ज्ञानेष्टसाधन- ताज्ञानसाध्या। जाते हि ज्ञानेष्टसार्धनताज्ञाने तद्रूपस्यैव विषयीभूत- ज्ञानस्य सिद्धत्वात्कथमुत्पन्तुमर्हतीति। मैवम् । 'किमेकं दैवतं लोके' १ वेत्रत्वग्वर्णसद्ृशगौरवणेन सह चम्पकपुष्पस्य वर्णोडभिन्नो जातः, इदानी भृङ्गपातरूपे मेदनिमित्ते सत्यपि अमेदो न निवृत्तः । अपि तु भृङ्गपातजनितः सांप्रतिको भेद एव द्रढयति यत्पूर्वमभेदो जात इति। पूर्वमुत्पन्नस्य (अभेदस्य) इदानीमनुत्पाद: कथं स्याद ? अत एव भेदनिमित्ते उपस्थितेपि अभेदो न व्युदस्यते। इति काव्यप्रकाश्नाशयः। उत्तरकालिक्या भेदप्रतीत्या पूर्वबुद्धिस्तिरोहिता। अत एव पूर्वबुद्धेर्न चमत्कारिता। चमत्कारेण च व्यपदेशः । अत एव भेदप्रतीतिरेव न्याय्येति पण्डितराजाशयः । २ शैला श्वोन्नता इत्यादौ सज्जन-शैलयोरुन्नतत्वेन सादृश्यबुद्धि: प्राक्कालिकी। सज्जनेषु, कोम लत्वरूपा भेदबुद्धिस्तु परकालिकी। यदि उत्तरप्रतीत्या पूर्वप्रतीतिर्नापनीयेत तर्हि उपम- यैव व्यपदेशः स्यादित्यर्थः । विरोधाभासे तु द्वे अपि प्रतीती स्वीक्रियेते यथा "विनापि तन्वि०" अत्र हाररहितत्व-हारित्ववुद्धी। अतस्तन्र परबुद्धा पूर्वबुद्धस्तिरस्कारावसर एव नेत्याशयः । ३ ज्ञानं विषयो यस्या: ईदृशी इच्छा, जिज्ञासेति यावत्। ४ ज्ञानस्य इष्टसाधनवाज्ञानेन (इदं ज्ञानं मे इष्टसाधनमिति) ज्ञानेन साध्या। ज्ञानस्य इष्टसाधनताश्ञाने जाते जिज्ञासाविषयीभूतस्य ज्ञानस्यैव सिद्धिर्जाता, अतः जिज्ञासा (प्रश्नः) एव नोदयेत। अयं भाव :- जिश्ञासा कस्यचन विषयस्य ज्ञातुमिच्छा। अस्यां जिश्ञासायाम् (प्रश्ने) प्रवृत्तिस्तदैव भवेद यदा अयं जिज्ञास्यो विषयो मे इष्टसाधनमिति ज्ञानं भवेत (यतो हि इष्टसाधनताज्ञानमेव प्रवृत्तौ प्रयोजकम्)। जिश्ञास्यस्य परिज्ञानोत्तरमेव च 'इदमिष्टसाधनं न वा' इति ज्ञानं भवति। तथा च यदा ज्ञानस्ेष्टसाधनताज्ञानं संपन्न तदा विषयीभतस्य ज्ञानस्यापि सिद्धिजाता इति स्वीकर्तव्यं स्याद। एवं च प्रक्षविषयीभूतस्य ज्ञानस्य सिद्धौ सत्यां प्रश् पढ प्रतिबद्ध इति शङ्का।

Page 761

उत्तरम् ] रसगङ्गाधरः । ७०१

इत्यादिप्रश्नवाक्यादेकदैव तत्वव्याप्यधर्मप्रकारकं ज्ञानमिष्टसाघनमिति ज्ञान- जन्या प्रयोक्तृगता तादशं ज्ञानं मे जायतामितीच्छानुमीयते। सा च प्रषुः कुतश्चिदैवतत्वप्रकारकोपस्थितावेकसंबन्धिज्ञानाधीनायां दैवतत्व- व्याप्यधर्मत्वेन रूपेण तादशधर्मोपस्थितौ च सत्यां तस्यां गृहीतेन दैवत- त्वव्याप्यधर्मप्रकारकज्ञानत्वेन सामान्येन भाविन्युत्तरवाक्यजन्यज्ञाने इष्टसाधनताज्ञानादुतद्यते। तस्याश्च तादृशप्रकारकज्ञानत्वेन सामान्यरूपेण

प्राग्वदाह-अथेति। तादृशति। तधाप्येत्यर्थः। इतीति। व्यज्ग्यामत्यस्था- १ एकदैवतत्वव्याप्यो धर्मः (शिवत्व-विष्णुत्वादिविशेषधर्मः) प्रकारो यत्र [अर्थात् एकं दैवतं किम् इति प्रश्नात्मकबोधे एकदैवतत्वव्याप्यो धर्मः (विष्णुत्वादिः) प्रकार: दैवतज्ञानं च विशेष्यम्] ईदृशं ज्ञानं मे इष्टसाधनमिति ज्ञानेन जन्या (अर्थात् पतादृशज्ञानोत्तरम्) तादृशम् (एकदैवतत्वव्याप्यधर्मप्रकारकम्) ज्ञानं मे जायतामितीच्छा 'किमेकं दैवतं लोके' इति प्रश्न- वाक्यादनुमीयते [यदीदृशीच्छा नाऽभविष्यत्तहि किमित्यमुं प्रश्नमकरिष्यत्?)। सा चेच्छा (एकदैवतजिज्ञासा) कुतश्चित् अर्थात् कस्माचिदाप्तात् एकसंबन्धिज्ञानाधीनायाम् [एकसंब- न्धिज्ञानमपरसंबन्धिस्ारकमिति संबन्धिज्ञानात् दैवतत्वप्रकारिकायाम् उपस्थितौ (स्मृतौ) जातायाम् अर्थात् दैवतविषयके ज्ञाने जाते], एवमेव दैवतत्वव्याप्याः शिवत्व-विष्णुत्वाद- योऽपि सन्तीति दैवतत्वव्याप्यधर्मत्वेन रूपेण व्याप्यधर्माणामप्युपस्थितौ (स्मृतौ) जातायाम्, एतादृश्या उपस्थितेर्मध्ये परिज्ञातं यत् दैवतत्वव्याप्यधर्मप्रकारकज्ञानत्वेन रूपेण सामान्यज्ञानं (यद्धि उत्तरभूतवाक्यात् 'विष्णुदैवतम्' इत्याद्याकारेण जनिष्यते) तस्िन् इष्टसाधनताबुद्धी सत्यां सा उत्पद्यत इत्यर्थः । अयमाशयः-एकं दैवतं किम् इति प्र्ने दैवतत्वव्याप्यस्य एकस्य (प्रधानस्य ) धर्मस्य (विष्णुत्वादेः) ज्ञानं मे इष्टसाधनमिति सामान्यतो दैवतत्वव्याप्यधर्म- प्रकारकशाने इष्टसाधनताबुद्धौ सत्यामपि जिज्ञासा उत्पन्त शक्रोति। अर्थात्-सामान्यतो दैवतत्वव्याप्यैकधर्मप्रकारकश्ञाने इष्टसाधनताबुद्धौ जिज्ञासाया उत्पत्तिः । 'विष्णुर्दैवतम्' इति दैवतत्वव्याप्यविशेषधर्मप्रकारकश्ञाने जाते च सा निवर्तते इति निष्कृष्टार्थः । २ ननु यद्विषयक: प्रश्नः तद्विषयकमेवोत्तरमुन्चितम्। अत्र तु दैवतत्वव्याप्यधर्मप्रकारकं सामान्यज्ञानं विषयीकृत्य प्रश्नः । विष्णुर्दैवतमिति विशेषधर्मज्ञानं विषयीकृत्य उत्तरमिति शङ्कां यामाह-तस्याश्वत्यादि। तस्याः (जिश्ञासायाः) विष्णुदैवतम् शिवो दैवतम् इत्यादीनि ज्ञाना- न्येव [येषां ज्ञानानां दैवतत्वव्याप्यधर्माशे प्रकारता अवच्छिन्ना नास्ति (अर्थात् विष्णुत्वं शिवत्वं वा प्रकार इति धर्माशे परिमाणं न शक्यते कर्तुं यतो हि दैवतत्वव्याप्यधर्मा अनन्ताः)] तादृश( दैवतत्वव्याप्यधर्म)प्रकारकज्ञानत्वेन सामान्यरूपेण विषयः (विषयभूतानि) भवन्ति। ततश्च तैरेव (विष्णुर्दैवतमित्वादिभिर्ज्ञानैरेव) सा जिज्ञासा प्रतिबध्यते। अयं भाव :- एकं दैवतं किम् इति जिश्ासायां विष्णुर्दैवतम्, शिवो दैवतम्, इत्यादीनि विशेषज्ञानान्यन्तर्भूतानि यतस्तस्याः तान्येव विषयाः । अतः उत्तरवाक्यगतस्तैरेव तस्याः शान्तिर्जायते। ततश्च एक एव जिज्ञासा-उत्तरयोर्विषयो जात इति पूर्वशङ्कायाः समाधानम्।

Page 762

७०२ काव्यमाला। [द्वितीयानने-

विष्णुदैवतमित्यादीनि ज्ञानान्येव दैवतत्वव्याप्यधमाशे निरवच्छिन्नप्रकार- ताभाज्जि विषय इति तैरेवोत्तरवाक्यादुत्पन्नैः सा प्रतिबध्यते। जनकीभूत- ज्ञानं विषय एव तस्या न भवतीति न तत्सिद्धि: प्रतिबन्धिकेति न दोषः । तच्चोत्तरं द्विविधम्-उन्नीतप्रश्नम्, निबद्धप्रश्नं च। क्रमेणोदाहणानि- 'त्वमिव पथिकः प्रियो मे विटपिस्तोमेषु गमयति क्वेशान्। किमितोऽन्यत्कुशलं मे संप्रति यत्पान्थ जीवामि ॥।' अत्र कस्यचित्पान्थस्य पुरंध्याः कंचित्पथिकान्तर प्रत्युत्तरेण तत्कर्तृक: कुशलप्रश्नोऽनुमीयते कुशलमपृष्टाया: कुशलोक्तेरयोगात्। 'किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तैः। कथय तथापि मुदे मम कथयिष्यति याहि पान्थ तव जाया ।।' अन्नाद्यप्रश्नस्य हेतुं चेद्वदसि तदा प्रतिकरिष्यामीति व्यङ्यम्। उत्तरस्य तु-न मया पतिव्रतया हेतुर्वक्तुं परपुरुषं प्रति योग्यः, न च त्वया प्रति- कतु शक्य इति। द्वितीयप्रश्नस्य त्वलं पातित्रत्येनाविद्ग्धजनहठमात्रविल- सितेन। सपरसंतोष एव संसारसार इति। द्वितीयोरत्तरस्य तु-या मम दशा सैव तव जायाया अपि दशास्ति। सैव प्रतिक्रियताम्। नहि (स्वकीयं सदनं दह्यमानमुपेक्ष्य कश्चित्परसदनामनिं प्रतिकरोति। अथ यदि परोपकारः स्वकीयां क्षतिमपि सोढ़ा करणीय इत्यस्ति मनीषा, तदा तवैवंविधोपकारे प्रवृत्तस्य जायायाः केनचिदन्येन भवादृशेनोपैकार: करणीय इति त्वयैव तस्या ममेव परपुरुषपराडमुख्या विरहो दूरीकर्तव्य इति। १ 'विषयीभूतज्ञानस्य सिद्धत्वाज्जिज्ञासैव नोत्पद्येत' इति शङ्काया निष्कृष्टमुत्तरमाह- जनकीभूतज्ञानमित्यादि०। जिज्ञासाया जनकीभूतं श्ञानम् (इष्टसाधनताज्ञानम्) तस्याः (जिज्ञासायाः) विषय एव न, अपि तु विष्णुर्दैवतमित्यादीनि ज्ञानानि तस्या विषयः। अत एव तेषां ज्ञानानां सिद्धिरेव तस्याः प्रतिबन्धिकेत्यर्थः । २ प्रवासिन: कस्यच्वित् साध्व्याः स्त्रिया इत्यर्थः । ३ कथय तथापि मुदे ममेत्यस्य । ४ याहि, तव जाया कथयिष्यतीत्यस्य। ५ त्त्सदशोऽन्यः पान्थस्तव जायायाः संतोषं करिष्यतीत्यर्थः ।

Page 763

उत्तरम् ] रसगङ्गाधर:। ७०३

उन्नीतप्रश्ने सकृदुत्तरस्य चारुत्वम्, निबद्धप्रश्ने तु प्रन्नोत्तरयोरंसकृदु- पन्यासे तदिति प्राञ्चः । अयं चोत्तरालंकारो द्विविधोऽपि प्रश्नोत्तरयोर- न्यतरस्योभयोश्च साभिप्रायत्वेन निरभिप्रायत्वेन च चतुर्विध इत्यष्टघा। 'प्रियो हृदयवर्ती मे न मां सुश्ति जातुचित्। उत्तरे नावकाशोऽस्ति दूरतस्ते मनोरथः ॥।' अन्र केनचित्पान्थेन कांचित्साध्वीं प्रति कुत्न तव प्रियोऽस्तीति कृतः प्रश्न उन्नीतः प्रियनैकट्ये तद्वञ्वनेन तदनैकट्ये च स्वाच्छन्धेनावयो- र्विलासो मान्मथो भविष्यतीत्यभिप्रायगर्भितः । अन्यथा 'दूरतस्ते मनो- रथः' इत्यस्यासंगत्यापत्तेः। उत्तरं तु स्फुटत्वात्तद्गभितम्। 'सुवर्णस्य कृते तन्वि देशं देशमटाम्यहम्। तस्य दुष्प्रापताहेतोश्चिन्ताक्र्ान्तं मनो मम ॥' अत्र कस्य हेतोश्चिन्ताक्रान्तं ते मन इति कस्याश्चित्सफुटार्थे ग्रामी- णायाः प्रश्ने कस्यचिन्नागरिकस्योत्तरं 'रूपं यदि दृदासि तदा मम चिन्ता गमिष्यती'त्यभिप्रायगर्भम् । 'रोगस्य ते चिकित्सां निदानमालोच्य सुन्दरि करिष्ये। मा हन्त कातरा भू रसक्रियायां नितान्तनिपुणोऽस्मि ॥' अत्र 'नापृष्टः कस्यचिद्रयात्' इत्यादिनीत्या वैद्यकर्तृकप्रतिज्ञोन्नीतः प्रश्नो-'वैद्य, रोगस्य मे चिकित्सां करिष्यसि ?' इत्याकारो विद्ग्धनायि- कारूपाया वक्त्या वैशिष्यात्संभोगरूपेणाभिप्रायेण गर्मितः । उत्तरमपि तेनैवाभिप्रायेण गर्भितम् । प्रश्नोत्तरयोद्वयोरपि निरभिप्रायत्वे 'त्वमिव पथिकः' इति कथितमेवोदाहरणम्। एते ह्युन्नीतप्रश्नभेदाः। एवं निव- द्धप्रश्नभेदा अप्युदाहार्याः। 'किमिति कृशासि' इति पद्यमपि चतुर्णा निबद्ध- अ्रश्नभेदानामुदाहरणभावमहृति वक्तवैदग्ध्यावैदग्ध्यव्यवस्थयेति। अत्राहुः-अलंकारे ह्यस्मिन्प्रश्नोत्तरगतमसकृदुपनिबद्धत्वं जीवातुः । तथैव चमत्कारोदयात्। तेन सकृत्प्रश्नस्य सकृदुत्तरं नालंकारस्य भूमिः ।

Page 764

७०४ काव्यमाला [ द्वितीयानने-

व्येकत्वादिति वाच्यम्। प्रश्नगतमुन्नीतत्वमत्रोत्तरेणाSSक्षिप्तत्वं न विवक्षि- तम्। किं तु प्रश्नोत्तरपरम्परायां प्राचीनोत्तरश्रवणजन्यत्वमात्रम्। यथा- 'श्यामं यज्ञोपवीतं तव किमिति मषीसंगमात्कुत्र जातः सोडयं शीतांशुकन्यापयसि कथमभूत्तज्लं कज्जलाक्तम्। व्याकुप्यन्नरदीनक्षितिरमणरिपुक्षोणिभृत्पक्ष्मलाक्षी- लक्षाक्षीणाश्रुधारासमुदितसरितां सर्वतः संगमेन ।।' अन्न 'कुत्र जातः' इत्यादिप्रश्नो 'मषीसंगमात्' इत्यादयुत्तरश्रवणादुद्गत इत्युन्नीत उच्यते। आद्यप्रश्नस्त्वतुन्नीतोऽप्युत्तरोत्थापनार्थं निबद्ध इति। एवं चास्मिन्मते प्राग्दर्शितान्युन्नीतप्रश्नोदाहरणान्यनुदाहरणान्येव। अलं- कारस्यास्य द्वैविध्यमपि न प्रश्नस्योन्नीतत्व-निबद्धत्वाभ्याम्। तत्वा- नुन्नीतत्वाभ्यां ज्ञेयम्। वस्तुतस्तु-प्रश्नोत्तरयोराकृतगभत्वे तावतैव चम- त्कारान्नासकृदुपादानापेक्षा। आकृतविरहे त्वसकृदुपादानकृतश्चमत्कारोड- पेक्ष्यते निबद्धप्रश्ने। आक्षिप्तप्रन्ने तु प्रश्नाक्षेपकृतं चमत्कारं यदि मन्यन्ते सहृद्यास्तदा सकृदुपादानेऽप्यलंकारत्वमस्तु। प्रकारान्तरेणाप्यस्य भेदा: संभवन्ति। पद्यान्तर्वतित्वेन पद्यबहिर्वर्ति-

नुषङ्गः । एवमग्रेऽपि । कृते तत्प्राप््यर्थम्। सुवर्णपदार्थमाह-रूपमिति। कात- रादीनां प्रश्नगतमिति मत इत्यादि। आकृतमभिप्रायः । इति शिवम् ॥

१ अर्थात्प्रश्नस्तत्र उपनिबद्धो न भवति, अपि तून्नेयः । उन्नीतोपि च स एक: इति प्रश्नस्य असकृत्वाभावात् उपनिबद्धत्वाभावाच्च नायमलंकार: स्यादिति शङ्का। २ उत्तरेण प्रश्नस्यानुमानरूपमुन्नीतत्वं नेष्यते (यथा त्वमिव पथिकः० इत्यत्र) । अपि तु पूर्वप्रश्नोत्तरयोरनन्तरम् उत्तरं श्ुत्वा यो द्वितीयः प्रश्न उत्थितो भवति स उन्नीत उच्यते (यथा श्यामं यज्ञोपवीतम्०) अत्र। ततश्च बडुषु प्रश्नोत्तरेष्वेव अस्यालंकारस्य प्रवृत्तिरित्याशयः । ३ नर्मदा। ४ 'नूरदीन' इत्यकमरसूनोर्जहांगीरशाहस्य नामान्तरम्। ५ पकमलाक्षीणां यलक्ष तस्य या अक्षीणा अश्रुधारा।

Page 765

उत्तरम् ] रसगङ्गाघर: । ७०५

पुनर्द्वैविध्यम् । पद्यान्तर्वर्ति-पद्यबहिर्वर्तिनो्द्वयोरप्युत्तरयोः सकृच्छन्द- श्रुतिपर्याप्तत्वेन शब्दावृत्तिपर्याप्तत्वेन, अनेकेषां प्रश्नानामेकपद्निवेदितो- त्तरत्वेन प्रकारान्तरैश्च बहुप्रभेदत्वम्। दिव्वात्रेणोदाह्नियते- दरिद्राः कासारवती धरा मनोज्तरा। कोपावनस्त्रिलोक्या I1

१ एकवारं शब्दश्ुतिरेव पर्याप्ता यत्र। २ 'दरिद्राः किं कुर्वते ?' इति प्रश्नः । तस्य पद्यान्तर्वर्ति अभिन्नवाक्योद्गीर्णम् (प्रश्नवा- क्येनैवोत्पन्नम्) च उत्तरम्-"'किम्' (भवदाशसं किं कार्य करोमि?) इति कुर्वते" अर्थात् किकरतां कुर्वते इति। ३ का सारवती ? इति प्रश्नः । कासार (सरः)वतीत्युत्तरम् । ४ कः अपावनः ? इति प्श्नः । कोपावनः कोपरक्षक इत्युत्तरम्। ५ हन्त ! पतावानेवायं अ्रन्थः समुपलभ्यते नागेशटीकाप्येतावतो ग्रन्थस्यैव प्राप्यते।

दौभांग्यादसमस्तोऽपि प्रशस्तोडयं प्रबन्धराद। एष खण्डावशेषोपि राकेशो रमयेन्मनः ॥। १॥। रसो यन्र व्यक्तो विलसति विविक्तो गुणगणो लभन्तेऽलंकारा अपि च विकलङ्गामिह रुचम्। पटु-प्रौढ-स्फीताक्षरभरपरीता प्रतिपदं विमशेव्यासङ्गाजयति रसगङ्गाधरगिरा॥२ ॥ पुरा प्रविश्याऽन्र निजप्रसङ्गादन्ये व्यजम्भन्त बुधाः कदाचिद्। अद्याऽनया पण्डितराजशक्त्या स्वसाधि साहित्यमभेद्यदुर्गम्॥। ३॥ यत्र प्रसङ्गपतितान्यपि मान्यकाव्या- न्यालोचना निकषमाप्य भवन्त्सन्ति । न ज्ञायते यदिह दोषनिरूपणे तु का: का: कवीन्द्रकृतयोऽद्युतयोऽभविष्यन्।।४॥ प्रागेव जिह्य-जटिलोडप्यथ मुद्रणादि-

अदयाऽनया सरलया तु निषेव्यमाणो विद्यार्थिनामपि भवेदवबोधगस्यः ।। ५।। 1 नैषधीयचरितादीन्यपि आलोचनया 'असंछुल'तां प्राप्तुवन्ति (प. ४५१) । यदि तु दोषप्रकरणमप्यत्र पूर्णमभविष्यत्तहिं न शायते काः काः कविकृतयः अद्युतयः (अशञोभनाः) अभविष्यन्?। इत्याशयः ।

Page 766

७०६ काव्यमाला। [ द्वितीयानने-

सरलानिमातु: परिचयः ।

देवर्ष्यवटङ्कवहो वंशो भूपालपूजितो जयति॥ ६ ॥ तस्मिन्वंशे श्रीमान् श्रीकृष्णः कविकलानिधिर्जांतः ।

'वाणी'-'भारति'-बिरुदस्तत्तनयो द्वारकानाथः। माधवसिंहमहीन्द्रादेष कवीन्द्राधिपो ययौ मानमू॥८ ॥ तत्तनयो व्रजपालः प्रतापभूपालमाननीयो यः। नवसंगीतग्रन्थं विधाय समियाय भूरिसंमानम्॥९॥ तत्तनयानां ज्येष्ठो मण्डनमिव मण्डनो2 बभूव विदाम्। कवितातोषिनरेन्द्रा भूरिगजेन्द्रान्ददुर्यस्मै॥ १०॥ प्रज्ञाचक्षुर्लक्ष्मणभट्टोऽभूत्ततसुतः सुदक्षतमः ।

मथुरानाथः सोयं दत्तकपौन्रोऽभवत्तस् ॥। १२॥ येन हि 'जयपुरवैभव'मथ किल 'साहित्यवैभव' सृजता। 'कवितानिकुश्ज'महिता नवछन्दोबन्धरीतिराकलिता ॥ १३ ॥ येन 'प्राकृतगाथासप्शती' गुम्फिता निलिम्पगिरा। तट्टीकापि च रचिता, सृजता 'संस्कृतसुबोधिनी'प्रभृतीन्॥ १४ ॥ यस्य कलानाथो ह्यथ कमलानाथेति तनयौ दौ। यस्य 'धवन्यालोके' लोचनटीका 'कनीनिका' भाति॥१५॥ जयपुरसंस्कृतविद्यालये महाध्यापकत्वमावहता। सुकविशिरोमणिपदकं दधता सन्सज्ञुनाथपरनास्ना ॥ १६॥

1 आबेराधीशेन जयसिंहभूपालेन। 2 श्रीकृष्णभट्टमण्डनप्रभृतीनामेषां कवितादिपरिचयस्तु 'साहित्यवैभव'तः प्राप्यः । 3 कवितानिकुञ्जस्य तदिदं भागद्वयम्। प्रथमे-जयपुरराजवंश-नगर-उद्यान-नागरिक- महोत्सवादिवर्णन संस्कृतकवित्तादिछन्दर्सु नवीनरीत्या सचित्रमस्ति। द्वितीये-तैरेव छन्दोभि:

रिसप्तशतीप्रभृतयो नानाविषयाः सन्ति। सच्चित्रमिदं 'निर्णयसागरे' मुद्रितम्। 'मथुरानाथशास्त्री रेसिडेन्सीरोड, जयपुर'तः प्राप्यमिदम्। 4 व्यञ्गयसर्वकषाख्यव्याख्यया सहिता संस्कृतगाथासप्नशती 'निर्णयसागर, मुंबई'तः प्राप्या । 5 भागद्वयात्मकं प्रारम्भिकसंस्कृतशिक्षा पुस्तकमिदं जयपुरे अ्रन्थकारतः प्राप्यम्।

Page 767

उपसंहार: ] रसगङ्गाधर: । ७०७

निगमनिधिनन्द्चन्द्र (१९९४) प्रसिते विक्रममहीपतेर्वषें। रसगङ्गाधरटीका प्रकटीकार्याsभवत्तेन॥ १७ ॥ 'कोदम्बरीचषक' 'लिपिललन्तिका' 'प्राक्त नार्यगीर्गरिमा'। 'भारतवैभव' 'निबन्धविद्या' 'कविताकला'दिरचयित्रा॥ १८ ॥ संपादयता 'संस्कृतरत्नाकर' पत्रमत्र जयनगरे। शिक्षोपयोगिनूतन 'कथानिकुआ्ज'दिनिर्मात्रा ॥ १९॥ मुद्रणदोषेदुंग्रहमथ मूलं यत्नतः सुपरिशोध्य। निजविस्तृतटीकातष्टीका संक्षिप्य कलितेयम्॥ २० ॥

रसगङ्गाघरटीका सरला परिलाल्यतां विबुधैः॥ २१॥ वष्ठं संस्करणम् तेन हि बाल्येऽप्यतिमतितनयकलानाथसाहाय्यात्। द्वयधिकद्विसहस्राब्दे (संव. २००२) षष्ठमिर्द व्यरचि संस्करणम् ॥। २२ ॥

नाथोपनामक-कविशिरोमणिसाहित्यवारिधि देवर्षि-भट्श्रीमथुरा- नाथशास्त्रिसाहित्या चार्यनिर्मिता रसगङ्गाघरटीका सरला समाप्तिमगात्।

1 सिद्धचन्द्रभानुचन्द्रटीकोपरि दत्तमिदं टिप्पणं, कादम्बरीकथासारः, उपोद्र्घानक्ष 'निर्णय सागर'तः प्राप्यः । 2 वेदभाष्यनिर्मातृसायण-भोजतनयादिसामयिकशिलालेखकाव्यानां सटीक-संग्रहरूपा 'शिला- लेखललन्तिका' सेयं जयपुरसाहित्यशास्त्रिपरीक्षायां पाठ्यत्वेन नियता। 'निर्णयसागर, ई' तः प्राप्या । मूल्यम्, अष्टाणकाः ।

Page 769

रसगङ्गाधर उदाहृत श्रोकानां सूची ।

अकरुण मृषाभाषा १०६ अपारिजातां वसुधां ५९३ अलं हिमानी परि ५२५ अकरुणहृदय ११०,३५४ अपारे किल संसारे ४७३ अलंकर्तु कर्णो मृश ५०७ अगण्यैरिन्द्राय्यैरिह ४५८ अपारे संसारे विष ३३० अलकाः फणिशाव ८७ अगाधं परितः पूर्ण २९६ अपि तुरगसमीपा २८८ अलभ्यं सौरभ्यं अङ्कायमानमलिके २२७ अपि बत गुरुगव ६८४ ६९० अलिमृगो वा ३५१,३६८ नं. १९४,४०५ अपि बहलदहनजालं ५१ अवधौ दिवसावसान १५ अङ्गितान्यक्षसंघा ३२५ अपि वक्ति गिरां ५० अवाप्य भङ्ग खलु १०९ अद्गानि दला हेमा ६४८ अबलानां श्रियं हला १४४ अविचिन्त्यशक्तिवि ३२३ अङगैः सुकुमारतरैः ५९१ अभिरामतासदन २६४ अविरतचिन्तो लोके २६४ अचतुर्वदनो व्रह्मा ५९० अभूदप्रत्यूह: कुसुम ५६३ अविरतपरोपकरण २२६ अतिमात्रबलेषु २८२ अमितगुणोऽपि २८२ अविरतं परकार्य ३२५ अत्युच्चा: परितः २९० अमृतद्रवमाधुरी २२७ अविरलविगल २४५,५३० अन्नानुगोदं मृगया २९१ अमृतलहरीचन्द्र ५९६ अविरलविगल ३२७ अथ पत्रिमतामुपे ३३३ अमृतस्य चन्द्रिका ४३१ अशीतलोग्रश्चण्डांशु ४७३ अथोपगूढे शरदा ५१३ अम्बरत्यम्बरं २७३ असंभृतं मण्डन ५८४ अद्य या मम गो २७६ अम्बा शेतेऽत्र वृद्धा ३४९ अस्थिमालामयीं -६४९ अद्वितीयं रुचा २३७,२४६ अम्भोजिनीबान्धव ३७८ अस्या: सर्गविधौ २४४ अधरद्युतिरस्तपल्लवा १०१ अम्लायन्यदराति ६४१ अहं लताया: सदशी २६६ अधरं बिम्बमाज्ञाय ३५८ अयं सज्जनकापोस ३१६ अहनको रणे रामो ६३५ अधरेण समागमा ६९२ अयमतिजरठाः ५३२ अहितव्रतपापा १९७ अधिरोप्य हरस्य ३४० अयाचितः सुखं ७७ अहितापकरण :३०९ अनन्तरत्नप्रभवस्य २८५ अयि पवनरयाणं ११२ अहीनचन्द्रा लसता ३३० अनल्पजाम्बूनद ३७० अयि मन्दस्मित ८८ आखण्डलेन नाक: ४३७ अनल्पतापा: कृत ३६५ अयि लावण्यजला ५१९ आगतः पतिरिती· २५७ अनाथः सहाद्रा ६०७ अये राजनाकर्णय ५५९ आज्ञा सुमेषोरवि ३४६ अनापदि विना मार्ग ५२० अये राजन्ाकर्णय ६१५ आताम्रा सिन्धु -६६१ अनिशं नयनाभि ४६८ अये लीलाभम्न, ४३० आत्मनोऽस्य तपो ३१५

अनुकूलभावमथ ४८१ अरण्यानी क्केयं ६०४ आननं मृगशावा ४४२

अन्घेन पातभीत्या ५०७ अरुणमपि विद्रमद्रं ४८० आनन्दनेन लोकाना २१५ अन्या जगद्वितमयी ४१५ अर्जुनस्य गुरुर्माया ५२५ आनन्दमृगदावा ३१६ अन्यैः समानममरै ४५७ आर्थनो दातुमेवेति ३६१ आनम्य वल्गुवच, ५४१ अपकुर्वद्भिरनिशं ५५६ अर्थिभिश्छिद्यमानो २८४ आपद्रतः खल महा ४४३ अपहाय सकल ४३ अर्ध दानववैरिणा ६० रस०

Page 770

आंबभ्नास्यलका ४९४ उपकारमस्य साधो २९३ कलिन्दगिरिनन्दि ४११ आ मूलादनसानो १०४ उपकारमेव कुरुते २८२ कलिन्दजा नीरभरे ३७९ आयाता कमला ६४५ उपकारमेव कुरुते ६३४ कलिन्दशैलादियमा ३८१ आयातैव निशा निशा ९० उपनिषदः परि ५८७ कलेव सूर्यादमला २५० आयातैव निशा मनो ४३५ उपरि करवाल ३६३ कस्तूरिकातिलक ९०,३२७ आलिङ्विंतुं शशिमुखी ४३५ उपासनामेत्य पितुः ४६० कस्तृप्येन्मार्मिक आलिङ्वितो जलघि २२९ उपासनार्थ पितु ६३८ ४५१ कस्मै हन्त फलाय १७१ आलीषु केलीरभसेन १०५ उर्वी शासति मथ्यु ५५८ कांचित्काश्चनगौरा ३४७ आलोक्य सुन्दरि ३५९ उल्लासः फुल्लपक्के २५,३२६ कातराः परदुःखेषु ३६२ आविर्भूता यद्वधि ५० उषसि प्रतिपक्ष १२८ कान्तारे विलपन्ती ५७२ आ सायं सलिलभरे ८८ ऋतुराजं भ्रमरहितं आखादेन रसो २९६ कान्त्या चन्द्र विदु: ४३८ एकीभवत्प्रलय ३६० २८७ कारुण्यकुसुमाकाश: ३१६ आहादिनी नयनयो २४० एको विश्वसतां हरा इत एव निजालयं ६७० कालागुरुद्रवं सा २८८ एतावति प्रपच्चे सुन्द २७४ काव्यं सुधा रस ३११ इदं लताभि: स्तबका २९३ एतावति प्रपच्चेऽस्मि ५६० इदमप्रतिमं पश्य २७३ किं वृत्तान्तैः परगृ २९४ एतावति महीपाल इदमुदघेरुदर वा ३५० एवंवादिनि देवर्षो २५८ किं कुर्वते दरिद्राः ७०५ १३० किं ज़ल्पसि सुग्धत ६६९ इन्दुना परसौन्दर्य ३३९ इन्दुस्तु परमोत्कृष्टो ४७६ कटु जल्पति क १७. किं तीर्थ हरिपाद ४६८ किं नाम तेन न ६५२ ६१७ इयति प्रपूश्चविषय २७१ कतिषयदिवसवि ४६९ किं निःशङ्कं शेषे ५६४ ता ८८ कथय कथमिवाशा ६६५ किं खूमस्तव वीरतां ५४० ईंश्ररेण समो ब्रह्मा ४6० कंदर्पद्विपकर्णकम्बु ७० उचग जरटतसथ ६०६ कनकद्रवकान्ति ३०१ किं ख्रूमस्तव वीरतां

उत्क्षिप्ता: कबरीस६९,५०८ कपाले मार्जारः पय ३५४ कि मित्रमन्ते सुकृतं ६५२ ५५.८ उत्तमानामपि स्र्री ५१६ कमलति वदन ३६० किमहं वदामि खल २४१ किमहं कथयामि ६४९ उस्सजे तव गज़े ५०७ कमलमनम्भसि ५८६ किमिति कृशासि ७०२ सदयति विततो ६७९ कमलावासकासार: ३०१ कियदिदमधिकं ४६ उदिलं मण्डलमि १७१,६६१ करकलितचक्र ३१८ उदुम्बर फलानीन ६५५ करतलनिर्गलद १५७ कुचकलशयुगान्त उदेति सचिता ६२३ करिकुम्भतुला ६३४,६६९ कुचकलशेष्वबला २१९ उत्तः प्रोह्लसद्वार: ५३० कर्णारुंतुदमन्तरेण ६३९ कुचाभ्यामालीढं ६९३ सचते पदमवाष्य ४६५ कर्पूर इव दग्धो ५८६ कुण्डलीकृत को दण्ड ५८

पग्येपं यो मम ४८९ कलाधरस्येव कला २१६ कुत्र, शैवं धनुरिदं ११५ ८v कुलिशमिव कठिक

Page 771

कुवलयलक्ष्मी हरवे ६०४ सलानामुक्त्यो ५७२ चराचरजगजाल कुसुमानि शरा ५७२ खलास्तु कुशला: ४४९ चराचरोभयाकार २९२ कृतक्षुद्राघौघानथ २७१ खिद्यति सा पति ५१२ चलङ्गङ्गमिवाम्भोज १२९ कृतं त्वयोन्नतं कृत्य १७५ खिन्नोऽसि मुञ्च ६०२ चाश्चल्ययोगि ब १४५,५३५ कृतमपि महोपकारं ५४१ गगनचरं जलबिम्बं ४२० चातकसत्रिचतुरान्प ६८१ कृत्वा सूत्रैः सुगूढा ५१५ गगनादलितो गभस्ति ३५२ चित्रं महानेष तवा ५२ कृपया सुधया सिश्च ३२१ गगने चन्द्रिकायन्ते ३६३ चिन्तामीलितमानसो कृष्णपक्षाधिकरुचि: १६२ गज्गा हृद्या यथा २७२ चिराद्विषहसे तापं ३३८ केऽपि स्मरन्तयनुस ४३० गणिकाजामिलमु ७७ चूडामाण पदे भत्ते केलीमन्दिरमागतस्य ३८० गन्वेन सिन्धुर २७४ चेलाच्चलेनानन ६८३ तधूनामथ ४८१ गरिमाणमपयित्रा ६४९ चोलस्य यद्धीतिपला ३९२ कशोरे वयसि क्रमेण ३२२ गाढमालिङ्गय सकलां १०८ जगजालं ज्योत्सा ४१३ कोदण्डच्युतकाण्ड ६१५ गाम्भीर्येणातिमात्रे २६९ जगति नरजन्म ४३९ कोपेऽपि वदनं तन्वि २१७ गाहितमखििलं विपिनं २१८ जगत्रयत्राणघृत ४७७ कोमलातपशोणा२०७,२५३ गिरं समाकर्णयितुं ४१६ जगदन्तरममृत ४०९ कौमुदीव भवती २६३ गिरयो गुरवस्तेभ्यो ३२४

ऋ्रूरसत्त्वाकुलो दोषा विषयो राज ६१० जनमोहकरं तवालि ३८६ क्वचिदपि कार्ये मृदुलं २९६ गीर्भिगुरूणां परु ४४४ जनयन्ति परत्रीततिं ४५५

के वा राम: काम १८० जम्बीरश्रियमति ६१६

क शुक्तय: क्क वा ६०३ गुजन्ति मजजु १६५,६४४ जलकुम्भमुम्भित ६९४

क्व सा कुसुमसाराङ्गी ६०४ गुणवृद्धी परे यस्मि ५१५ जितमौक्तिकसंपदा ६६६ क सूर्यप्रभवो ४६३,६७५ गुरुजनभयमद्विलो २०९ जितेन्द्रित्वं विन ६२१ काहं तमोमहदहं ६११ ुरुमध्यगता मया १४ जीवितं मृत्युना ६६२ क्षमापणैकपदयोः १२८ गुरुमध्ये कमलाक्षी ७५ ज्योत्त्नाभमज्जुहसिता २४१ क्षीण: क्षीणोऽपि सशी ४७४ ग्रीष्मचण्डकरमण्डल २१४ ढुँढुणन्तो हि मरीहि २१६ खअ्नदृशा निकु ५९८ चकोरनयनानन्दि ५०९ दुण्ढुलन्तो मरीहसि २७९ खण्डितानेत्रकजालि ७६ चक्र्काभिघातप्रस ५४८ तत्त्वं किमपि का ४४६ खर्वीकृतेन्द्रगर्व ५२२ चन्द्रांशुनिर्मल ४२७ तदवधि कुशली १७१ खल: कापय्यदोषेण २३२ चपला जलदाच्युता ३४२ तद्दशनोपायविमशे

Page 772

तळूपकममेदोय २९८ लत्तो जन्म हिमांशु ६७२ दीनम्राते दयाद्री ३६३ तद्दल्गुना युगपदु २६७ लत्पादनखरत्ना २९९,४६३ दीनानामथ परि ६३७ तं दृष्टवान्प्रथम ३४२ तवत्पादनखरला २०१,४६१ दूरीकरोति कुमति ४२१ तन्मञ्ु मन्दहसितं ९५ वत्प्रतापमहादीप ३८४ दूरीकर्तु प्रियं बाला ५९८ तन्वी मनोहरा बाला ५०९ लद्ङ्गणसमुद्भूता ६७२ दृढतरनिबद्धमुष्टेः ४७८ तपस्यतो मुनेर्वक्रा ७७ लदालेख्ये कौतूहल ३७१ दशा दग्वं मनसिजं ६१९ तपोनिधे कौशिक रा ५६७ लद्विपक्षमहीपाला: ५५६ दश्यतेऽनुदिते ५८८. तया तिलोत्तमीयन्त्या २२० तमिव पथिक: ७०२/ दष्टः सदसि चेदुग्रा ४२९

तरणितनया किं ३४२ तयि कुपिते रिपु ४८२ दृष्टिः संभृतमङ्गला ४०९ तल्पग़तापि च सुतनुः १५ तयि दृष्ट या ५७२ दृष्टिमृगीदृशो ५९१. तवाग्ने यदि दारि "६५६ लयि पाकशासन ४२५/देव लद्दर्शनादेव ४२२ तवामृतस्यन्दिनि ४५१ खरया याति पा ७५ देव लमेव पाताल ५२६ तवालम्बादम्ब ६३० लां सुन्दरीनिवह ५४७ देव लां परितः ५०८,५५५ तस्मिन्मणिव्रात ६४० लां गीर्वाणगुरुं सर्वे ५६८ ६६१ तां तमालतरुकान्ति ८० लामन्तरात्मनि ४५७/ देवाः के पूर्वदे १७२,३०९ वापत्रयं खलु नृणां ४५५ लामवश्यं सिसृक्षन्यः ५६ दोदेण्डद्वयकुण्डली २८६ वारानायकशेखराय ३३१ दधीचिबलिकर्णे ४२८ दौरञनकालीभि ३८२ तावत्कोकिल ४४१,५३९ दन्तप्रभापुष्पचिता ५१० धौरत्र क्वचिदाश्रिता ६११. तिमिरं हरन्ति ३२८ दयितस्य गुणा ननु ११० द्राक्षेव मधुरं वाक्यं २५६ तिमिरशारदचन्दिर ४१६ दयिते रदनलिि १७३,३७ दुमपङ्गजविद्वांस: ६४३ तिरस्कृतो रोषवशा ६८० दरानमत्कंधर ९७,२८८ द्रोहो निरागसां ४७६ तीरे, तरुण्या वदनं ३४५ दर्पणे च परिभोग ३४७ द्वा सुपर्णा सयुजा ४२१, तीर्थ गङ्गा तदितर ६५२ दशाननेन दतेन २३० द्विजराज कलाधार ५२२. तुलामनालोक्य निजा ८८ दासे कृतागसि भव ३३३ द्विनेत्र इव वासवः ३८३: तुषारास्तापसन्राते ३६२ दिगन्ते श्रूयन्ते ५३७ द्विर्भाव: पुष्पकेतो ३३१: तृष्णालोलविलोचने ११५ दिवानिशं वारिणि ३८७ धनुर्विदलनध्वनि ४५ त्रपन्ते तीर्थानि ६२९ दिव्यानामपि २८९ धर्मस्यात्मा भाग ३०८. त्ासर्विना विराजन्ते ४९१ दिवि सूर्यो भुवि ४३९ धर्मेण बुद्धिस्तव ६२५ नत्खजखण्डित . : ५९४ दीनद्वमान्वचोभि: ६१८ धीरध्वनिभिरलं ४१६

Page 773

न कपोतकपोतकं ४९ निखिलां रजनीं ११४ न्यश्वति बाल्ये ४२५ न कपोत भवन्त ४९ निखिले निगम २६३ न्यन्त वयसि ४२४ नख किरणपरम्परा २७० निजदोषावृतमन ६३८ पङ्कर्विना सरो भाति ४९१ नसैर्विदारितान्रराणां ५५ नितरां हितयाद्य १०७ पच्चशाखः प्रभो . ३२५ नगरान्तर्महीन्द्रस्य २४२ नितरां धनमाप्त ६०५ पद्मपत्रैर्नृणां नेत्रैः ४८२ नगेभ्यो यान्तीनां २७८ नितरां नीचोऽस्मी ५३८ पझमासनप्रमुखनिर्जर ६२९ नदन्ति मदद १६९,२८६ नितरां परुषा ७१,५४० परपूरुषदृष्टिपात ६१२ न धनं न च राज्य ११८ नितान्तं यौवनोन्मत्ता ६२ परस्परासङ्गसुखा ३८५ न नगाः कानन ३८७ नितान्तरमणीयानि ३८६ परार्थव्यासन्कादुप ५१५ न. भवानिह मे लक्ष्यः ६५५ निधिं लावण्यानां ३८९ रिफुल्लाब्जनयना ५१२ न भाति रमणीयोऽपि ४३७ निपतद्वाष्पसंरोध ११३ परिहरतु धरां फणि ५१ न मनागपि राहु १६९,४७४ निभाल्य भूयो निज ६६९ रोपसर्पेणानन्त ६६१ न मिश्रयति लोचने ५९९ निरपायं सुधापायं २१८ पाटीरद्रुभुजंगपुंग ६६२ नयनाश्चलावमर्श ४३ निरर्थकं जन्म गतं ४९३ पाणौ कृतः पाणि ४५८ नयनानन्दसंदोह ४१२ निरुद्य यान्तीं ९८ पाण्डित्यं परिहृत्य ५४१. नयनानि वहन्तु ४६९ निरुपादानसंभा १६२,५८० पाण्डिलेन प्रचण्डेन ६१८ नयनेन्दिन्दिरानन्द ४०५ निर्गुणः शोभते नैव ४९२ पान्थ मन्दमते किं वा ३३९ नयने सुदृशां पुरो ६१५ निर्भिद्य क्ष्मारुहाणा १७० पापं हन्त मया १२६ नरसिंह धरानाथ ३३७ निर्मलाम्बररम्यश्रीः ५१२ पीयूषयूषकल्पाय ४१६. नरेन्द्रमौले न वयं ५६९ निर्माणे यदि मार्मिको ७९ पुरः पुरस्तादरि ४१७ नरैर्वरगतिप्रदे ३५९ निर्लेक्ष्मीकाभवतप्राची ५०५ पुरा यत्र स्नोतः ५१३ नवप्रसङ्गं दयितस्य ६६४ निर्वासयन्तीं धृवि १२९ पुरा सरसि मानसे ५३८ न वयं कवयस्तव ५६६ निशाकरादालिक ४७३ पुरो गीर्वाणानां ५९९ नवाङ्गनेवाङ्गणेपि २६१ निष्कलङ्क निरातङ्क ४८१ पूर्णमसुरै रसातल २८१: नवोच्छलितयौवन ४५ निष्णातोऽपि च वेदा ६८५ पूर्व नयनयोर्लेा ६४४ नष्टो मोहः स्मृतिर्लब्धा १०७ नीतो नासान्तिकं ६९२ पृष्टाः खलु परपुष्टाः २७७:

नान्यास्ति किं भू ६७५ नीलाच्चलेन संवृत्त २५९ प्रणिपत्य विधे भव ६८७ नारिकेलजलक्षीर १२७ नीवीं नियम्य शि २३६ तिपलमखिलां ५८७: नार्यः स यो न ६२४ तृणां यं सेवमानानां २२४ प्रतीपभूपैरिव ५७७ नासत्ययोगो वच ४०७ नृत्यत्वद्वाजिराजि ३५८ प्रत्युद्गता सविनयं ६० निःसीमशोभासौभाग्यं ३८६ तृत्यद्भगोट्टहासप्रसर ६९८ प्रथमं चुम्बितच ६४७ निखिलजगन्मह २१५ नेत्राभिरामं रामाया ३५० प्रथमं श्रितकज ६४७ निख़िलं जगदेव १०५ नर्गुण्यमेव साधीयो ६९० प्रफुल्लकह्वारनिभा . २५.६

Page 774

प्रभातसमयप्रभा ६०० भानुरग्नियेमो वायं ३६ ४७० प्रभुरपि याचितु ६३८ भासयति व्योमगता ३६९ मा कुरु कर्शा कराब्जे १०६ प्रमोदभरतुन्दिल ७२ भास्करसूनावस्त ११ माधुर्येपरमसीमा ४०८ प्रसङ्गे गोपानां १०९ भुजगाहितप्रकृतयो ८° मान्थर्येमाप गमनं ४८८ प्रहरविरता मध्ये २२ भुजपञ्जरे गृहीता १२२ मामनुरक्तां हिला ६५४ प्राचीसंध्या समुद ३१० भुजभ्रमितपद्टिशो २८ प्राणानर्पय सीतां मां पाहीति विधि ५६६ ६५७ भुजो भगवतो भाति २० माहात्म्यस्य परो ६६९ प्राणापहरणेनासि २१४ भुवनत्रितयेऽ २७९,४७ मित्रात्रिपुरनेत्राय २४ प्राणेशविरहक्कान्तः ३२५ भूधरा इव मत्तेभा २४५ मीनवती नयनाभ्यां ३२३ प्रादुर्भवति पयोदे ६६१ भूमीनाथ शहाब २७ मुकुलितनयनं ६०० प्राप्तश्रीरेष कस्मा ३२८ भूषितानि हरेभेक्कत ६८४ मुञ्चसि नाद्यापि रुषं १२४ प्रायः पतेइ्यौः शकली ३७६ मकरप्रतिमैमहा त्रिये विषादं जहि २४२ मुनिः श्ववंदयं भाति २५६ ४२५ मकरालयस्य ६४६ मृगतां हरयन्मध्ये २४३ प्रियो हृदयवर्ती ७०३ मदकामविमोह ५१८ मृग्यश्च दर्भाक्कुर ६३२ बधान द्रागेव द्रढिम १७६ मद्राणि मा कुरु बन्धोन्मुक्त्ै खलु मख ६०८ मधुरतरं स्मयमान: ६८६ मृणालमन्दानिल ४९२

४८२ मधुरसान्मधुरं हि १०२ मृतस्य लिप्सा कृप ४३१ बहु मन्यामहे राज ३८२ मध्येगलं विहरतां १०३ मृद्धीका रसिता सिता १६६ बहुजानां समस्ता बिम्बोष्ठ एव राग ६८६ मोहं जगत्रयभुवा ५९४ ६४७ मध्ये सुधासमुद्रस्य बुद्धिरब्धिर्महीपाल ३२९ मनुष्य इति मूढेन ६७४ यच्चोराणामस्य च २२१

बुद्धिदांपकला लोके ३०८ मन्नार्पितह विरदीप्त ३७० यत्त्वन्नेत्रसमान

६६ मन्त्रैमीलितमोषधै ६०५ यथा तवाननं चन्द्र ६३२ ब्रह्मन्नध्ययनस्य ५१७ यथा तालं विना रागो ४९१ २३५

६१० मन्थाचलभ्रमण भक्तिप्रह्व विलोकन ६५९ ६७२ यथा यथा तामरसा ८३ भगवद्वदनाम्भोजं ५८९ मन्मथामात्यमा ६४१ यथा लताया: स्तबका २३३ भद्रात्मनो दुरघि मम रूपकीर्तिमह ५३० ६६७ यथोर्ध्वाक्ष: पिब ६१२ मयि खदुपमाविधौ भम धम्मिअ वीसत्थो १६ मरकतमणिमेदिनी २८० यथौषधिरसाः सर्वे ५१५ भवग्रीष्म प्रौढातप ३०७ मलयानिलकाल ३४२ यदवधि दयितो विलो ११४

भवत्या हि व्रात्या ६२५ मलयानिलमनली ४३ यदवधि विलास ५८३ भवद्ारि कुध्यजय २१७ यदि ते चरणाम्बुजं ६५४ ११८ मलिनेऽपि राग ४९५,५३९ ।दि लक्ष्मण सा भवनं करुणावती १२१ महतः परमव्यक्त ११८ ४४७ भाष्यं ते शाल्मलि ६२७ यदि सन्ति गुणा: ५६० मंहर्षेव्याँसपुत्रस्य भावमेन सह रिपूणा ४८२ महीभतां खल गणे ३३० यदि सा मिथिलेन्द्र १११ २४३ यद्भक्त्ानां सुखमय: २२५

Page 775

यद्यनुष्णो भवेद्दहिः १९७ रामं स्न्निग्धतरश्यामं ३७५ वाचा निर्मलया सुधा ८२ यम: प्रतिमहीभृतां ३६३ रामायमाणः श्रीराम: २७२ वाचो माङलिकीः ४२ यं प्रेक्ष्य चिररूढा ५४८ रामो विजयते यस्य ६७९ वामाकल्पितवामाङ्गो २५६ यशःसौरभ्यलशुन: ३२६ रीतिं गिराममृत ५६५ वारिघिराकाशसमो २६४

यश्च निम्बं परशुना ४२७ रूपजला चलनयला ३०७ वासयति हीनसत्त्वा ४३३

यश्चरणत्राणीकृत रूपयौवनलावण्य ५५६ रूपवत्यपि च क्रूरा २२५ विचारिते महिम ५७२

यस्मिन्खेलति सर्वतः ५३८ रूपारुचि निरसितु २३३ विज्ञलं विदुषां गणे ३२७ ५९९ ६४६ थस्मिन्हिमानीनि ६९५ रे खल तव खलु ५६६ विद्धा मर्मणि वाग्बाणे ३३५ यस्य किंचिदप ६६६ रे रे मनो मम मनो ६६६ विद्वत्सु विमलज्ञाना ३६३ यस्य तुलामधि २१५ रोगस्य ते चिकित्सां ७०३ ३५२

यस्योद्दामदिवानि ४७ लङ्कापुरादतितरां २७३ विद्वानेव हि जानाति ४४६ या निशा सर्वभूतानां ४२१ लता कुसुमभारेण ४३८ विधत्तां निःशङ्कं ७५

यान्ती गुरुजनैः लभ्येत पुण्येगृहिणी १०३ ४६६ लावण्येन प्रमदा ६२१ विधाय सा मद्दना

युक्तं सभायां खल ६०७ लीलया विहितसिन्धु ४३७ विधिरत्यन्तमप्राप्त ६५० ११३ विधिवच्चितया मया ९९ युक्ततं तु याते दिव ६१५ लीलालुण्ठितशा ये त्वां व्यायन्ति ६५३ विनिन्दान्युन्मत्त ६२९ ५६१ लुब्धो न विसजत्य ६१९ विनेव शस्त्र हृदया ५७८ यौवनोद्गमनिता १२५,६४३ लोकानां विपदं ६१० विबोधयन्करस्पशैः ४९७ रक्तस्वं नवपल्लवै ४७६ लोभाद्वराठि ६१५,६८० विभाति यस्यां ललिता ४०६ रजोभि: स्यन्दनो २६८ लोलालकाव लिवल ८६ विमलतरमतिबभीरं २४५

रणाङ्गणे रावण १७ लोहितपीतैः कुसुमः २७० विमुञ्चसि यदि प्रिय ६१4 रणे दीनान्देवान्दश ४९ वंशभवो गुणवान ४४४ वियोगवहनि० ३६६ अ. अ, अ,

स्मणीयस्तबकयुता २६३ वक्षोजाग्रं पाणिना १०८ विरहेण विकलहृदया २०६ रम्यहासा रसोललासा वचने तव यत्र ८७ विलसत्यानन तस्या १७४ वडवानलकालकूट ६०५ विशालाभ्यामा ४९२,६८४ रराज राजराजस्य २५७ वदनं विना सुकवि ४९१ विश्वाभिरामगुण ४४३ रवितुरगदिग्गजे ६९१ वदनकमलेन बाले ३७५ विश्वास्य मधुर ६३० रागं विना विराजन्ते ४९१ वदने विनिवेशिता ३६७ विष्णुवक्ष:स्थितो २५६ राघव विरहज्वाला २१ वनान्तः खेलन्ती ६०२ विष्वद्रीचा भुवन ६०९ राजन्प्रचण्डमार्तण्ड ४७० वनितेति वदन्त्येतां ३६० विहाय संसारमहा ५२२

राजा दुर्योधनो २४४ वराका य राका ३८५ वीक्ष्य वक्षसि विपक्ष १२५

राजा युधिष्टिरो २४३ वल्मीकोदरसंभूत ६७१ वृन्दापितृगहनच ६४३

राजेव संभृतं कोषं वसु दातुं यशो धातुं २५८ वसु दातुं यशो धातुं ४२९ वेन्रतचा तुल्यरु ६९९ १२३ रज्ञो मत्प्रतिकूलान्ते १६३ वसुधावलयपुरंदर ४३२ व्यत्यस्त लपति क्षणं ५६४ व्यागुज्न्मधु ३८४,५१६ राज्याभिषेकमा ३८१,५१६ वहति विषधरान्प ४५२ व्यानम्राश्चलिताश्चैव १२२ रामं स्न्रिग्धतरश्यामं ३५८ वागिव मधुरा २४५ व्योमनि बीजाकुरुते ४६६

Page 776

व्योमाङ्गणे सरसि ३० सन्त्येवास्मिञ्जगति २९३ सुविमलमौक्ति ३०६,३१३ शतकोटिकठिनचि २३ स पण्डितो यः खहि ६२४ सूर्याचन्द्रमसौ यस्य ५४७ शतेनोपायानां कथ १२ सपदि विलयमेतु ५० सृष्टिः सृष्टिकृता शयिता शैवलशयने ५४० ९ सपल्लवा किं नु ३५० सेवायां यदि साभि शयिता सविधेऽप्यनी ६५१ १ समुत्पत्ति: पझ्मा शरदिन्दुरिवाह्लाद २२९ ६६२ सैषा स्थली यत्र

शरीरं ज्ञानजननं समुपागतवति ३९८

६६ समृद्धं सौभाग्यं ५३९ सौमित्रे ननु सेव्यतां २८९

शशशङ्गधतुलेस ६७ संपदा संपरिष्वक्तो ३२४ र्खलन्ती खर्लोका ४९० ६९०

शान्तिमिच्छसि चेदा ३३' ४०७

शासति लयि हे संपश्यतां तामति स्तनान्तर्गतमाणि

४२ शिञ्ञानैर्मज्जरीति संभूत्यर्थ सकल ३५० स्तनाभोगे २०६,२११,२७१ ५२४ ६१६ शिशिरेण यथा सरो ३५६ सरजस्कां पाण्ड ५४० स्थितेऽपि सूर्ये पझ्मिन्यो५१६ २२ शीलभारवती कान्ता ४३८ सरसिजवनबन्धु ७६ स्पृशति लयि० ५९०

छुण्डादण्डं कुण्डली सरसि प्रवदाभावि २५६ स्मयमानाननां तत्र ३६५ शून्यं वासगृहं सरसिरुहोदरसुर ६९५ स्मरदीदीपप्तदृष्ट ६६४ शैतं विना न चन्द्र ४९२ सरोजतामथ सतां शोणाधरांशुसंभिन्ना सर् ५२४ स्मितं नततिकंतु ३६६

२१ सर्पे इव शान्तमूर्ति: ७३ श्यामं यज्ञोपवीतं ७० सर्वेऽ्पि विस्मृतिपथं २३५ सर्गनिर्गत निरर्गल १२३ स्वर्गापवर्गी खल ६२१ श्यामं सितं च सुद्द ३६६ स वक्तुमखिला ५६ स्वस्व्यापृतिमम ६८२ श्यामलेनाङ्गिंत भा २३२ सविता विधवति संसारे चेतनास्तन्न २६ स्विद्यति कूणति ४३२ श्येनमम्बरतलाडु ६२६ स्वेदाम्बुसान्द्रकण ७१ श्रियो मे मा सन्तु ६८७ साधु दूति पुनः ५६ स्वेदाम्बुसान्द्रकण ८१ श्रीतातपादैर्विहिते ५३ सानुरागाः सानुकम्पा ८६ हतकेन मया वनान्तरे १०० श्वपाकानां व्रातै ६८५ साब्धिद्वीपकुलाचलां ४७ रिः पिता हरिरमाता ७४ श्ववृत्तिव्यांसङ्गो निय ६८५ सा मदागमनबृंहितं १०४ हरिकरसङ्गादधि ५२५ श्वासोऽनुमानवेद्य: ५६५ साम्राज्यलक्ष्मीरिय श्वासोऽनुमानवेदयः ५६६ साहंकारसुरासुरा ७३,१७२ ३४५ हरिचरणकमल २१५ इरिचरणनखर० २६१ स एकत्रीणि संकेतकालमलसं ५८७,५०८ सिन्दूरारुणवपुषो ८४ ३४८ २३२ हरिणीप्रेक्षणा यत्र हरिमागतमाकर्ण्य ११६ सङ्गरामाङ्गणमागते सिन्दूरैः परिपूरितं ३४३ ४४० सुजना: परोपकारं हरिश्चन्द्रेण संज्ञ ६७३ सङ्गामाङ्गणसंमुखा ३६७ ४३२ हर्षयन्ति क्षणादेव ५७२ स तु- वर्षति वारि ४७३ सुदृशो जितरत्नजाल ६१२ ५४२ सत्पूरुष: खल हिता ४५३ सुधासमुद्र तव २६९ हारं वक्षसि के ३८८ सदसद्विवेकरसिके २८१ घायाश्चन्द्रिका ४३१ हालाहलकालानल

सदा जयानुषज्ञाणा ८४ सुधेव वाणी वसु २१७ हालाहल खलु ४६६

सदशी तव तन्वि सुरस्त्रोतखििन्याः ४४ हालाहलसमो मन्यु ५११ २६२ हिंसाप्रधानै: खलु ६८४ स्रदेव लेहार्दे सुर ५९ हिमादिं लद्यशो ५६४ हीरस्फुरद्रदनशुभ्रि ६९७ सन्त: स्तः प्रकाश ४४९/ - राणामारामा संतापयामि हृदयं ६१ सुवर्णस्य कृते तन्वि ७०३ हृदये कृतशैवलानु ८ ६ १०५