1. Rasa Gangadhara Jagannatha Tika Nagesh Bhatta Mathurnath Sastri Nirnaya Sagar Press KM 12 1916
Page 2
ATAP )LLEGE S RI LIBRARY.
Class Nh. $91.261
No. J24R
Accession No .- 4145
Page 4
KÂVYAMÂLÂ. 12.
THE
RASAGANGADHARA
OF
JAGANNÂTHA PANDIT. WITH The Commentary of Nages'a Bhatta.
EDITED BY MAHÂMAHOPADHYÂYA PANDIT DURGÂPRASÂD AND VÂSUDEVA LAXMAN SHÂSTRÎ PANAS'IKAR.
Third Revised Edition.
PUBLISHED BY TUKÂRÂM JÂVAJÎ,
PROPRIETOR OF THE " NIRNAYA-SAGAR " PRESS. Bombay:
Price 34 Rupees.
Page 5
( All rights reserved by the publisher. )
Publisher :- Tukaram Javaji, the Nirnaya-sagar Press, Printer :- Ramchandra Yesu Shedge, J 23, Kolbhat Lane, Bombay.
Page 6
काव्यमाला. १२.
महाकविश्रीजगन्नाथपण्डितराजविरचितो
रसगङ्गाधरः ।
नागेशभट्टकृतया टीकया समेतः ।
जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना महामहोपाध्याय- पण्डितश्रीदुर्गाप्रसादेन, मुम्बापुरवासिना पणशीकरो- पाह्वविद्वद्वरलक्ष्मणशर्मात्मजवासुदेवशर्मणा च संशोधितः ।
तृतीयं संस्करणम्।
स च मुम्बय्यां तुकाराम जावजी श्रेष्ठिभिः सवीये निर्णयसागराख्यमुद्रणयन्त्रालये सवायसाक्षरैर्मुद्रयित्वा प्रकाशितः । शाक: १८३७, सि्िस्ताब्दः १९१६. (अस्य अन्थस्य पुनर्मुद्रणादिविषये सवथा निर्णयसागरमुद्रायन्नालय।घिपते- रेवाधिकार: ।)
मूल्यं सार्ध रूप्यकत्रयम्।
Page 8
जगन्नाथपण्डितराजः । - "जगन्नाथपण्डितस्तैल ङ्गदेशाजजयपुरे समागत्य पाठशालां स्थापितवान्, पराजित- वांश्च विवादे तत्र दिल्लीनगरादागतं 'काजी'ति प्रसिद्धं कंचन यवनपण्डितं सत्वरमेव तन्मतग्रन्थानधीत्य. ततश्च 'काजी' मुखात्तद्विदावुद्धिचमत्कारमाकर्ण्य परितुष्यता दि लीनरेन्द्रेण पण्डितो जयपुरात्समाहूतः, सभाजितश्र. तत्र च कस्यांचन येवनकन्या- यामासक्तो वादशाहानुग्रहेण तां परिणीय तया सह सुखेनातिवाहितवान्यौवनं बादशाह- समाश्रय एव. वार्धके च वाराणस्यां गतो 'यवनीसंसर्गदूषितोऽयम्' इत्यप्पदीक्षितादि- पण्डितैस्तिरस्कृतो ज्ञातिवहिष्कृतश्र गङ्गातटे गला सोपानपक्विशिखरे समुपविष्ठस्ततक्ष- णनिर्मितैर्भक्तिभरितैः पद्यैर्गङ्गां स्तोतुमुपचक्रमे. भक्तवत्सला गङ्गापि प्रतिश्लोकमे- कैकं सोपानमधिरोहन्ती द्वापच्चाशन्मिते लोके प्रणीते प्राप्तवती पण्डितराजोपकण्ठम्, प्लावितवती च सत्वरमेव यवनीसमेतमेनम्. ततश्वासूयामत्सराभ्यां दूषिता वाराण- सेयाः पण्डितास्तादृशं पण्डितराजप्रभावमालोक्यातीव विलक्षा बभूवुः" इत्येके वदन्ति. अपरे त्वेवं कथयन्ति-"दिल्हीनरेन्द्रकृपापात्रतां प्राप्तस्य तत्प्रसादाल्ब्धश्रियस्तारु- प्यतिमिरतिस्कृतविवेकालोकस्य जगन्नाथपण्डितस्य वभूव कस्यांचन यवनयुवल्यामा- सक्तिः. सा च कियत्कालानन्तरं पेश्चत्वं गता. ततस्तद्विरहातुरः पण्डितोऽपि दिल्ली परि- त्ज्य वाराणस्यामागतस्तदाचरणमाकर्णितवद्भिस्तन्नत्यैः पण्डितैरनादतो दुराचरणानु- १. जयपुरे तु महाराष्ट्रदेशस्थब्राह्मणः सम्राड्जगन्नाथपण्डितो भिन्न एवासीत्, यत्सं- ततिरद्यापि जयपुरसमीपे ब्रह्मपुर्या वर्तते, यश्च महाराजसवाईजयसिंहाज्ञया १७३१ स्त्रि- स्ताब्दे सिद्धान्तसम्राजम्, सिद्धान्तकौस्तुभम्, पञ्चदशाध्यायात्मकस्य 'ग्रीक'भाषा- निवद्धस्य 'यूक्ीड'प्रणीतस्य ग्रन्थस्य रेखागणितनामकं संस्कृतानुवादं च विरचित- वान्. महाराजसवाईजयसिंहस्तु १६८८ स्त्रिस्ताव्दे जन्म लेमे, १७०० स्त्रिस्ताव्दे राज्यसिंहासनमिरूटः, १७१४ स्रिस्ताव्देऽश्वमेधयागं कृतवान्, १७२८ स्त्रिस्ताव्दे च परलोकं जगामेति जयपुरेतिहासे समुपलभ्यते. २. 'यवनीरमणी विपदः शमनी क- मनीयतमा नवनीतसमा। उहिऊहिवचोऽमृतपूर्णमुखी स सुखी जगतीह यदङ्कगता ।।', 'यवनी नवनीतकोमलाङ्गी शयनीये यदि नीयते कदाचित्। अवनीतलमेव साधु मन्ये न वनी माघवनी विनोदहेतुः ॥','न याचे गजालि न वा वाजिराजिं न वित्तेषु चित्तं मदीयं कदापि। इयं सुस्तनी मस्तकन्यस्तहस्ता लवड्ी कुरन्रीदगज्ीकरोतु ।।' इल्यादाः प- ण्डितराजप्रणीता यवन्यासक्तनुमापकाः शोकाः सन्तीति केचिद्वदन्ति, परमेते पण्डि- तराजग्रन्थेष्वस्मदृष्ेषु नोपलभ्यन्ते. ३. सैव स्तुतिरधुना 'गङ्गालहरी'नाम्रा प्रसिद्धा सर्वत्र भागीरथीभक: पठ्यते. ४. अत्र भामिनीविलासस्य तृतीयो विलासः प्रमाण- मिति वदन्ति, तैस्तु रसगद्गाधरे करुणप्रकरणे समुदाहृतात् 'अपह्याय सकलवान्धव- चिन्तामुद्दास्य गुरुकुलप्रणयम्। हा तनय विनयशालिन्कथमिव परलोकपथिकोऽभूः ॥' इत्यस्मात्पद्यात्पण्डितस्य पुत्रमरणमपि कुतो नानुमीयते?
Page 9
२ काव्यमाला। शयेन तिरस्कारेण प्रियतमाविरहानलेन च दूयमानमनाः कुत्रापि निर्तृतिमलभमानः स्वकृतां गन्गालहरीं पठन्प्रावृषि प्रवृद्धे गज्गाप्रवाहे झम्पामदत्त, निममज् च तत्रैव." ए- बमन्या अपि नानाविधाः पण्डितराजविषयिण्यो जनश्रुतयः श्रूयन्ते. एताः सर्वी अपि प्रभाणशून्या इत्युपेक्ष्य पण्डितराजप्रणीतग्रन्थेम्यो यद्वगतं यच्चानुमितं तदेवात्र सप्र- माणमस्माभि: पुरस्क्रियते- आसीत्तैलेद्गाभिजनो वेगिनाडकुलोत्पन्नः पेरुभट्टाख्यो महीसुरसत्तमः, यो वारा- णस्यां ज्ञानेन्द्रभिक्षोर्वेदान्तशास्त्रम्, महेन्द्रपण्डितान्यायवैशेषिकदर्शने, खण्ड देवात्पूर्वमी- मांसाम्, शेपोपाह्ववीरेश्वरपण्डिताच्च महाभाप्यमधीतवान्. तस्माल्लक्ष्मीनामिकायां तद्ध- मंपत्यां जगन्नाथो जन्म लेमे, पठितवांश्च निखिलानि शास्त्राणि प्रायः सवपितुरेव. प्रा- प्रयौवनश्ाश्रयेच्छया दिल्ीनगरे समागत्य शकोपमवैभवस्य शाहजहानाभिवयवनसार्व- भौमस्य संसदि प्रवेशं लव्धवान्. अधिगतवांश्च निजविद्याचमत्कारपरितोषितात्तस्मा- देव पण्डितराजपदवीम्. स्थितश्र मध्यमे वयसि प्रायस्तत्रैव तत्समीपे तत्सूनोदाराशि- कोहस्य समीपे च. शाहजहानमहिपतिस्तु १६२८ स्त्निस्ताव्दे राजसिंहासनमधिरूढः, १६५.८ स्त्रिस्ताव्दे औरङ्गजेवनाम्रा स्वपुत्रेण कारागारे निवेशितः, १६६६ स्त्रिस्ताव्दे च पश्चत्वं गतः. दाराशाहस्तु प्रागेव दुर्दशामनुभाव्य औरङ्वजेबेन घातितः. पण्डित- राजोऽपि वार्धके काश्यां मथुरायां वा गल्ा परमेश्वराराधनेन वयःशेषं नीतवान्. तस्मा- तिव्रस्ताव्दीयसप्तदशशतकमध्यभागे पण्डितराज आसीदिति सुव्यक्तमेव. १. 'तैलज्वान्वयमइ्वलालय-' इत्यादि प्राणाभरणसमाप्तिस्थे पद्ये, अग्रे समुद्दते आसफविलासप्रारम्भस्थे गद्ये च स्फुटमस्य तैलनलम्. २. केषुचिद्भामिनीविलासपुस्तकेषु समाप्तौ 'इति श्रीमदखिलान्ध्रवेगिनाडिकुलावतंस-' इत्यादि समुपलभ्यते. ३. पेरुभदृस्य पेरमभट्ट इत्यपि नामान्तरं प्राणाभरणान्ते समुपलभ्यते. ४. सिद्धान्तकौमुदीटीकाया- स्तत्त्ववोधिन्याः कर्तायं ज्ञानेन्द्रभिक्षुः स्यात्. ५. स्वपितुर्गुरोः शेषोपाह्ववीरेश्वरपण्डिता- दपि किंचिदधीतवानिति मनोरमाकुचमर्दनारम्भे समुपलभ्यते. ६. 'अथ सकललो- कविस्तारविस्तारितमहोपकारपरम्पराधीनमानसेन प्रतिदिनमुद्यदनवद्यगद्यपद्याद्यनेकवि- द्याविद्योतितान्तःकरणैः कविभिरुपास्यमानेन कृतयुगीकृतकलिकालेन कुमतितृणजाल- समाच्छादितवेदवनमार्गविलोकनाय समुद्दीपितसुतर्कदहनज्वालाजालेन मूर्निमतेव नव्वा- बासफखानमनःप्रसादेन द्विजकुलसेवाहेवाकिवाऊयनःकायेन माथुरकुलसमुद्रेन्दुना राय- मुकुन्देनादिष्टेन सार्वभौमश्रीशाहजहांप्रसादादधिगतपण्डितराजपदवीविराजितेन तैलज्- कुलावतंसेन पण्डितजगन्नाथेनासफविलासास्येयमाख्यायिका निरमीयत। सेयमनुग्रहेण सहृदयानामनुदिनमुल्लासिता भवतात् ।' एतद्वद्यमासफविलासप्रारम्भे समुपलभ्यते. ७. 'दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः' इति भामिनीविलासान्ते वर्तते. ८. जगदाभरणे दाराशाहस्यैव वर्णनं कृतमस्ति. ९. भामिनीविलासान्ते 'संप्रत्य- न्धकशासनस्य नगरे तत्त्वं परं चिन्त्यते' इत्यस्ति. केषुचित्पुस्तकेषु 'संप्रत्युज्झितवासनं मधुपुरीमध्ये हरि: सेव्यते' इत्यपि पाठः समुपलभ्यते. तत्रान्धकशासनस्य नगरं काशी, मधुपुरी च मथुरेति ज्ञेयम.
Page 10
जगन्नाथपण्डितराजः । ३
अद्यावधि ज्ञाताः पण्डिराजप्रणीता ग्रन्थास्त्वेते- (१ ) अमृतलहरी-यमुनास्तुतिरूपोडयं ग्रन्थ: काव्यमालायां मुद्रित :. (२ ) आसफविलास :- अत्र नव्वावासफखरानस्य वर्णनमस्ति. रसगद्गा- धरेऽपि पद्यद्वयमासफनामाङ्कितं समुपलभ्यते, तच्चास्मादेव समुद्धतं स्यात्. ग्रन्थोऽय- मद्यापि नास्माभिरुपलब्धः. केवलं पूर्व टिप्पण्यामुद्गतं गद्यमलवरमहाराजाध्रितप- ण्डितभवानन्दोदयानन्दरामचन्द्रशर्मभिर्लिखिला पूर्वतरे वर्षे प्रहितमासीत्. अस्मत्स- मीपेऽप्ययं ग्रन्थः संपूर्णो नास्तीत्यपि तैरुक्त्तम्. (३ ) करुणालहरी-विष्णुस्तुतिरूपा काव्यमालायां मुद्रिता. (४) चित्रमीमांसाखण्डनम्-अन्राप्पदीक्षितकृतचित्रमीमांसाया दूषणानि संकलितानि सन्ति. काव्यमालायां मुद्रितम्. (५) जगदाभरणम्-अत्र शहाजहानसूनोर्दाराशिकोहस्य स्तुतिरस्ति. किंतु प्राणाभरणसमानमेवैतत्काव्यम्. प्रायः प्राणनारायणनामस्थले दाराशाहस्य नाम न्यस्तमस्ति. अस्यैकं पुस्तकं समीपे दृष्टमासीत्. (६) पीयूषलहरी-इयं गद्गालहरीनाम्ना सुप्रसिद्धा सदाशिवचतुर्भुजराम- चन्द्रादिकृतकतिपयटीकासमेता सुलभा मुद्रिता च. (७) प्राणाभरणम्-अत्र कामरूपदेशाघिपतेः प्राणनारायणमहीभृतो व- र्णनमस्ति. मुद्रितं चैतत्काव्यमालायाम्. एतट्टिप्पणमपि पण्डितराजकृतमेवास्ति. (८) भामिनीविलास :- अयं पण्डितराजप्रणीतपद्यसंग्रहरूपो ग्रन्थः सर्वत्र सुलभ एव, मुद्रितश्र बहुवारम्. मोडकोपाह्वपण्डिताच्युतरायप्रणीता भामिनीविलास- टीका समूला निर्णयसागरयत्त्रालये मुद्रिता. (९) मनोरमाकुचमर्दनम्-अयं ग्रन्थो भटोजिदीक्षितप्रणीताया मनोर- मायाः खण्डनरूपो विरलप्रचार एव. तत्रास्माभिरुपलव्धस्य पुस्तकस्य प्रारम्भे- "लक्ष्मीकान्तपदाम्भोजमानम्य श्रेयसां पदम् । पण्डितेन्द्रो जगन्नाथः स्यति गर्व गुरु्दुहाम् II' इह केचिन्निखिलविद्वन्मुकुटमयूखमालालालितचरणकमलानां गीर्वाणगण- गौरवग्राममांसलमहिममण्डिताखण्डमहीमण्डलानां शेषवंशावतंसानां श्रीकैण्णपण्डि- तानां चिरायाचितयोः पादुकयोः प्रसादादासादितशव्दानुशासनास्तेयु च पारमेश्वरं पदं प्रयातेपु कलिकालवशंवरदीभवन्तस्तन्रभवद्धभिरुलासितं प्रेक्रियाप्रकाशमाशयान- ववेधनिवन्धनिवं(नववोधनिवन्धनै)दूषणेः सयं निर्मितायां मनोरमायामाकुल्यकार्पुः । १. भटटोजिदीक्षितानाम्. २. भटोजिदीक्षिताः. ३. अयमेव शेपश्रीकृष्णपण्डितः कंसवध-पारिजातहरणयोः कर्नेति भाति, यतः कंसवधप्रस्तावनायामप्यात्मनो वैयाकर- णतां प्रकटयति' अथ च समयेऽपि साम्यमस्तीति सुधीमिर्विचारणीयम्. ४. शेषश्री- कृष्णैः ५. प्रक्रियाप्रकाशः प्रक्रियाकीमुदीटीका.
Page 11
४ काव्यमाला। सा च प्रक्रियाप्रकाशकृतां पौत्रैरखिलशास्त्र महार्णवमन्थाचलायमानमानसानामस्मद्गुरुप- ण्डितवीरेश्वराणां तनयैर्दृषितापि स्वमतिपरीक्षार्थ पुनरस्मामिर्निरीक्ष्यते। तत्र ताव- त्सार्वधातुकमपिदिति सूत्रगकौस्तुमे-इत्वादिना संख्यावद्भिरुपह्सनीयमर्थ निरूप- यताम्, तथाणुदित्सूत्रगतकौस्तुमे-इत्यर्थस्य निर्णयेन विलक्षणं स्वव्युत्पत्तिपाट- वमुद्विरताम्, भवतेर इति सूत्रगतमनोरमायां-शपः प्रवृत्ति समर्थयमानानां गुरुद्वेपदूषितमतीनां यद्यपि पुरुषायुषेणापि न शक्यन्ते गणयितुं प्रमादास्तथापि दिड्यात्रेण कानपि कुशाग्रीयघिषणेषु निरूपयामः ।" इत्यादि वर्तते. (१०) यमुनावर्णनम्- गद्यनिवद्धोऽयं ग्रन्थो नाद्याप्युपलव्ध :. रसगङ्गावर उदाहृतानि द्वित्राणि गद्यान्यस्य समुपलभ्यन्ते. (११) लक्ष्मीलहरी-काव्यमालायां मुद्रितव. (१२) सुधालहरी-काव्यमालायां मुद्रितैव. (१३) रसगङ्गाधर :- अयं पण्डितजगन्नाथस्य मुख्यो ग्रन्थः, किंतु सर्वत्रा- समाप्त एव लभ्यते. अद्यावधि दष्टेष्वस्माभिर्नवसु पुस्तकेष्वेकमप्युत्तरालंकारप्रकरणं नातिकरामति. पण्डितराजात्स्ल्पकालानन्तरं समुत्पन्नेन नागेशभट्वेनाप्ययं ग्रन्थ उत्त- रालंकारप्रकरणान्तमेव प्राप्तः, यतस्तत्प्रणीता रसगङ्गाधरटीकाप्युत्तरालंकारप्रकरणपर्य- न्तमेवास्ति. अतः पञ्चाननात्मकः संपूर्णोऽयं ग्रन्थः कदाचिदुपलप्स्यत इति दुराशा- मात्रम्. ग्रन्थसमाप्तिं कर्तुमपारयन्मध्य एव पण्डितराजः परलोकं गत इत्यपि वक्तुं न युज्यते. यतश्चित्रमीमांसाखण्डनमनेन रसगङ्गावरानन्तरं प्रणीतमिति तत्प्रारम्भे स्फु- टमस्ति. केवलमेतावदनुमीयते-अप्पदीक्षितद्वेषेण चित्रमीमांसानुकरणप्रवृत्तः पण्डित- राजोऽपि स्वग्रन्थं चित्रैमीमांसावदसमाप्तमेव स्थापितवान्. चित्रमीमांसा तु बुद्धिपूर्वमे- वाप्पदीक्षितेन समाप्ति न नीतेति तत्समाप्तिस्थश्लोकतो ज्ञायते. एवं त्रयोदशग्रन्थाः पण्डितराजप्रणीता ज्ञायन्ते. शशिसेना, पण्डितराजशतकं चेत्य- न्यदपि ग्रन्थद्वयं पण्डितराजप्रणीतमस्तीति कैश्चिदुच्यते. (१) अेश्वधाटी-रतिमन्मथ-वसुमतीपरिणयकर्ता तजौरनगरवासी जगन्नाथः, (२) १. मनोरमा. २. पुस्तकपञ्चकमस्माभिः साक्षादृष्टम्, पुस्तकचतुष्टयस्य लन्तिमा पङ्गिरस्मन्मित्रै: काश्यादि नगरेभ्यो लिखिता प्रहिता दृष्टा. ३. 'नामंनामं घनश्यामं धाम तामरसेक्षणम् । पण्डितेन्द्रो जगन्नाथशर्मा निर्माति कौतुकम् ॥', 'रसगङ्गाधरे चित्रमीमांसाया मयोदिताः । ये दोषास्तेऽत्र संक्षिप्य कथ्यन्ते विदुषां मुदे ॥', 'सूक्ष्मं विभाव्य मयका समुदीरितानामप्पय्यदीक्षितकृताविह दूषणानाम् । निर्मत्सरो यदि समुद्धरणं विदध्यादस्याहमुज्ज्वलमतेश्वरणौ वहामि ।I' इति चित्रमीमांसाखण्डनप्रारम्भ- शलोकाः. ४. 'अप्यर्धचित्रमीमांसा न मुदे कस्य मांसला। अनूरुरिव तीक्ष्णांशोरर्धे- न्दुरिव धूर्जटे: ॥' अयं चित्रमीमांसासमाप्तौ श्रोक: ५. काव्यमालाया द्वितीयेऽके प्राणाभरणप्रारम्भटिप्पणेऽश्वधाटी रतिमन्मथं वसुमतीपरिणयं चेति प्रन्थत्रयं पण्डित- राजप्रणीतग्रन्थनाममालायां भ्रमेण लिखितमासीदिति ज्ञेयम्.
Page 12
जगन्नाथपण्डितराजः । ५
रेखागणितादिकर्ता सम्राड्जगन्नाथः, (३) विवादभङ्गार्णवकर्ता जगन्नाथतर्कपञ्चाननः, (४) अतन्द्रचन्द्रिकनाटककर्ता जगन्नाथमैथिलः, (५) अनङ्गविजयभाणकर्ता श्रीनिवाससूनु- जगन्नाथपण्डितः, (६) सभातरङ्गकर्ता जगन्नाथमिश्रः, (७) अद्वैतामृतकर्ता जगन्नाथ- सरखती, (८) समुदायप्रकरणकर्ता जगन्नाथसूरिः, (९) शरभराजविलासकर्ता जैगन्नाथः, (१०) ज्ञानविलासकाव्यकर्ता नारायणदैवज्ञसूनुर्जगन्नायः, ( ११) अनुभोगकल्पतरुकर्ता जगन्नाथः, इत्याद्या वहवो जगन्नाथनामान: पण्डिताः समभूवन्, ते सर्वेऽपि पण्डितराजा- द्वित्रा इति ज्ञेयम्.
१. अयं जगन्ाथोऽपि तऔीरनगरवास्तव्य आसीदिति रतिमन्मथादिप्रणेतुर्न मित्र इति भाति•
Page 13
नागेशभट्टः।
सूनुर्नागेशभट्टः काइयां कस्मिन्समय आसीदिति विचारे मनोरमाकुचमर्दन-शब्दरत्न-म- ूषादिग्रन्थविलोकनेनेत्थं पुरुपपरम्परावगता- शेषश्रीकृष्ण: I
भट्टोजिदीक्षितः (शिष्यः) शेषवीरेश्वरः (पुत्रः) - - वीरेश्वरदीक्षितः (पुत्रः) पण्डितराजगन्नाथः (शिष्यः) -o I हरिदीक्षित: (पुत्रः) 1 I नागेशभट्टः (शिष्यः) अत्र पण्डितराजाद्वितीयः पुरुषो नागेश आसीदिति ज्ञायते. पूर्वनिर्णीते आसन्ने जगन्नाथपण्डितराजसमये १६६६ सित्रिस्ताब्दे पुरुषद्वयपर्याप्तानि चत्वारिशदवूर्षाणि यो- ज्यन्ते चेत्तदा १७०६ स्त्रिस्ताव्दोऽयमासन्नो नागेशसमयः समायाति अथ च "ज- यपुरमहाराजाः श्रीसवाईजयसिंहवर्माणोSश्रमेधप्रसन्ने नागेशभट्टाय निमन्त्रणपत्रं प्रहित- वन्तः. तदा नागेशेन 'अहं क्षेत्रसंन्यासं गृहीला काश्यां स्थितोऽस्मि, अतस्तां परि- त्यज्यान्यत्र गन्तुं न शक्रोमि' इत्युत्तरं प्रहितम्" एषा किंवदन्ती जयपुरेऽधुनापि प्रसि- द्वास्ति. श्रीजयसिंहमहाराजाश्च १७१४ स्नरिस्ताव्देऽश्रमेधं कृतवन्त इत्युक्तमेव प्राक्, अयमश्रमेधसंवत्सरोऽपि पूर्वलिखित १७०६ स्रिस्तसंवत्सरासन्न एवेति सित्रिस्ताव्दीया- टादशशतकप्रथमतुरीयांशे नागेशभट्ट आसीदिति व्यक्तमेव. केचितु स्ित्रिस्ताव्दीयाष्टादश- शतकपूर्वाधानन्तरं नागेशसत्तां कथयन्ति.
१. 'अधीत्य फणिभाष्यान्धि सुधीन्द्रहरिदीक्षितात्। न्यायतत्रं रामरामाद्वादिरक्षो- प्ररामतः ॥ याचकानां कल्पतरोररिकक्षहुताशनात्। शृङ्गवेरपुराधीशरामतो लब्धजी- विकः ॥ वैयाकरणनागेशः स्फोटायनऋषेर्मतम्। परिष्कृत्योक्त्तवांस्तेन प्रीयतामुमया शिवः ॥ दृढस्तर्केऽस्य नाभ्यास इति चिन्त्यं न पण्डितैः । दृषदोऽपि हि संतीर्णाः पयो- धौ रामयोगतः ॥I' एते श्लोका मजूषादिसमाप्ती वर्तन्ते. २. बिसेनवंशजलधौ पूर्णः शीत- करोऽपरः ।-नाम्ना हिम्मतिवर्माभूद्वैर्येण हिमवानिव।-तस्माज्ातो रामदत्तश्- न्द्राचान्द्रिरिवापरः ।-तेन श्रीरामभक्तेन सर्वाविद्याः प्रजानता। शुङ्गवेरपुरेशेन रिपु- कक्षदवामिना॥ अर्थिनां कल्पवृक्षेण विद्वज्जनसभासदा। भट्टनागेशशिष्येण वध्यते रामव-
Page 14
नागेशभट्टः । ७
पाह्व्धजीविनो बहून्ग्रन्थान्प्रणीतवान्, तत्राद्यावधि ज्ञाता ग्रन्थास्त्वेते-(१) काव्य प्रदीपोद्दयोतः, (२ ) परमलघुमज्जूषा, (३) परमार्थसारविवरणम्, (४) परिभाषे- न्दुशेखरः, (५) प्रायश्चित्तेन्दुशेखरः, (६) वृहच्छव्देन्दुशेखरः, (७) वृहन्मज्नपा, (८) भाष्यप्रदीपोद्दयोतः, (९) योगसूत्रवृत्तिः, (१०) रसगन्गाधरमर्मप्रकाशः, (११) रसतरङ्गिणीटीका, (१२) रसमज्रीटीका, (१२) लघुमज्जूषा, (१४) लघु- शब्देन्दुशेखरः, (१५) वृत्तिसंग्रहः, ( १६) वेदान्तसूत्रवृत्ति:, (१७) सप्तशतीस्तो- त्रटीका, (१८) सांख्यसूत्रवृत्ति:, ( १९ ) सापिण्ड्यनिर्णय :. काव्यप्रकाशोद्दयोतः, न्यायसूत्रवृत्तिः, मीमांसासूत्रवृत्तिः, वैशेषिकसूत्रवृतिः, एतद्र- न्थचतुष्टयमन्यदपि नागेशप्रणीतमस्तीति केचिद्वदन्ति. खगुरोर्हरिदीक्षितस्य नाम्रा श- व्दरत्म्, खप्रभोः शङ्गवेरपुराधीशरामस्य नाम्राध्यात्मवाल्मीकीयरामायणयोष्टीकादूयं च नागेशभट्टेनैव प्रणीतमित्यपि प्रसिद्धिरस्ति.
मंणा ॥-सेतुः परोपकृतयेऽध्यात्मरामायणाम्बुधी।' एते शलोका अध्यात्मरामायण- टीकाप्रारम्भे सन्ति. ३. शङ्गवेरपुरं गङ्गातीरे वर्तत इति वाल्मीकीयरामायणेऽयोध्या- काण्डे पवाशन्मिते सर्गेऽस्ति. अध्यात्मरामायणेऽयोध्याकाण्डे पश्चमे सर्गे च 'गङ्गातीरं समागच्छच्छृत्निवेराविदूरतः ।' इत्यादि (६०) शोकटीकायां 'शङ्गिवेरं शङ्गिऋष्याश्रमः। तदविदूरतस्तत्पूर्वभागे।' इत्यस्ति. कोलब्रुक (H. T. Colebrooke) पण्डितोऽपि 'मिस्सेलेनिअस् एस्सेस्' (Miscellaneous Essays) नामकग्रन्थे (द्विती- यभागे १३ पृष्ठे टिप्पणे) 'शङ्वेरपुरं गङ्गातटोपरि सिंघोरनाम्रा ख्यातं प्रयागादुप- रिभागे वर्तते' इति वदति. १. शब्दरलने नागेशस्य तत्कृतशेखरमशूपयोश्र नाम समुपलभ्यते.
Page 15
८ काव्यमाला।
'पण्डितराजजगन्नाथकृतो रसगङ्गाधरः सत्वरमेव प्रसिद्धिं प्रापणीयः' इति नानादेश- वासिभिर्बहुभिमिंत्रै: प्रोत्साहिताः, विशेषतश्र मान्यवर्यभाण्डारकरोपाह्वरामकृष्णशम- भिर्विद्वन्मूर्धरत्नैः समादिष्टा वयं काव्यमालायामेतन्मुद्रणे प्रवृत्ताः स्मः. तत्रास्मन्मुद्र- णाधारभूतानि पुस्तकान्येतानि सन्ति- १ जयपुरीयराजगुरुपर्वणीकरनारायणभट्टानां मूलमात्रमुत्तरालंकारप्रकरणान्तं ना- तिशुद्धम्. २ जयपुरीयराजगुरुभट्टलक्ष्मीद त्तसूनुभट्टश्रीदत्तानां तादृशमेव. ३ जयपुरीयराजगुरुकथाभट्टचन्द्रेश्वराणां मूलमात्रमप्रस्तुतप्रशंसाप्रकरणान्तमशुद्धमेव प्रायः. ४ पूर्वोक्तविशेषणविशिष्टनारायणभटैरेव ग्वाह्ेरनगरादानायितं मूलमात्रमपह्वुतिप्र- करणान्तं प्रायः शुद्धम्. ५ जयपुरीयजैनपाठशालाप्रवानाध्यापकद्रविडकाशिनाथशास्त्रिणां टीकामात्रं प्रा- यः शुद्धम्. ६ पूर्वो क्तविशेषणविशिष्टभट्टश्रीदत्तानां टिप्पेणमात्रं शुद्धमेव. अत्र मूलपुस्तकचतुष्टयेऽप्यशुद्धतामपहाय प्रायो नास्ति पाठमेदः. अत एव पाठा- न्तरप्रदर्शनाय न यतितम्. विहिते चानेकपुस्तकावलम्बेनापि मुद्रणे मानुष्यसुलभात्प्र- मादाद्वयुत्पत्तिशैथिल्यादक्षरयोजकादिदोषाद्वा संजाता क्वचित्कचिदशुद्धतेति स्थूलदृध्या मूलग्रन्थशोधनपत्रं विधाय अ्रन्थान्ते निहितम्. अतस्तत्साहाय्येन प्रथमं अन्थशोधनं कृत्वा विद्वद्धि: पठनपाठनादि विधेयमस्य ग्रन्थस्येति शिवम्.
१. एतट्टिप्पणं तु केनचिन्नागेशकृतरसगङ्गाधरटीकात एव समुद्ृतम्. २. टीकाया एकमेव पुस्तकं समुपलब्धमिति बहुषु स्थलेषु संदेहो वर्तते. अत एव टीकायाः शो- धनपत्रमपि कर्तु न पारितम्.
Page 16
काव्यमाला। 49
पण्डितराजश्रीजगन्नाथविरचितो रसगङ्गाधरः ।
नागेशभट्टकृतया गुरुमर्मप्रकाशाख्यव्याख्यया समेतः ।
प्रथममाननम् । स्मृतापि तरुणातपं करुणया हरन्ती नृणा- मभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्। कलिन्द गिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी । नत्वा गज्ञाधर मर्मप्रकाशं तनुते गुरुम् । रसगङ्गाधरमणेरतिगूढार्थसंविदे ॥ याचकानां कल्पतरोररिकक्षहुताशनात्। नागेशः शृङ्गवेरेशरामतो लब्धजीविकः । प्रारिप्सितप्रतिबन्धकदुरितशमनाय शङ्गारालम्बनादिविभावतया तद्देवतात्वेन च समुचितस्वेष्टदेवतावस्तुनिर्देशरूपं मङ्गलमाचरज्शिष्यशिक्षायै व्याख्यातृश्रोतणामनुषङ्गतो मङ्गलाय च निवभ्राति-स्मृतापीति। कादम्बिनी मेघपक्वित्वेनाध्यवसिता कृष्णमूर्तिः। विलक्षणश्यामल्वात्सकलमेघकार्यकरलाच। अत एव मेघत्वेनाध्यासः। कापीत्यनेनात्र तद्धर्मसत्वेऽपि ततोऽधिककार्यकारित्वेन प्रसिद्धकादम्विनीतो व्यतिरेकस्तत्र बोध्यते। मतिचुम्बिनी मतिविषयः । भवत्विति प्रार्थने लोट्। व्यतिरेकपोषकं विशेषणत्रयम् । प्रसिद्धा सा तु दष वर्षणद्वारा स्पृष्टा वा स्वाभाव्याद्वृषस्थभान्वातपान्यतापं केपांचिन्न तु सर्वेषां भूतभविष्यद्वर्तमानभेदेन हतवती। इयं तु स्मृतापि। दृष्टादिसमुच्चायकोऽपिः। तरुणातपम्। तमपि करुणया न तु यथाकथंचित्। नृणां सर्वेषां न तु केषांचित्। हरन्ती न तु जहार हरिष्यति वा। किं च सा भक्शीलतनुकान्तिविद्युता वेषटिता। इयं तु चिरकालस्थायिशरीरकान्तीनां विद्युता तत्वेनाध्यवसितानां गोपाज्नानां शतैर्न त्वेकद्वित्र्यादिभिर्वलयिता वेष्टिता। यद्वा 'धान्येन धनवान्' इतिवत्तृतीया। तदभिन्नसंजा- तवलया। कलिन्दाख्यमह्दीधरोत्पन्नयमुनातीरे सुरहमा नीपाः। तेषां तत्वं तु हरिप्रिय-
Page 17
२ काव्यमाला।
श्रीमज्ज्ञानेन्द्रभिक्षोरघिगतसकलब्रह्म विद्याप्रपञ्चः काणादीराक्षपादीरपि गहनगिरो यो महेन्द्रादवेदीत्। देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं शेषाङ्कप्राप्तशेषामलभणितिरभूत्सर्वविद्याधरो यः ॥ पाषाणादपि पीयूषं स्यन्दते यस्य लीलया। तं वन्दे पेरुभट्टार्यं लक्ष्मीकान्तं महागुरुम् ॥ निमसेन क्लेशैर्मननजलघेरन्तरुदरं मयोन्नीतो लोके ललितरसगङ्गाघरमणिः । हरन्नन्तर्ध्वान्तं हृदयमधिरूढो गुणवता- मलंकारान्सर्वानपि गलितगर्वान्रचयतु ।।
त्वात्। 'मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे' इति लिद्गाञ्च वोच्यम्। यद्वा तीरमेव सुरद्रुमास्तत्त्वेन प्रसिद्धाः पश। तदाश्रयिका। सा तु वियत्सरण्याश्रयिकेति भावः । यद्वा कादम्बिनीत्वेनाध्यवसिता काली। सा च कृष्णमूर्तिः । वृन्दावनाधिष्ठात्री देवता राधा वा। विद्युत्त्वेनाध्यवसितास्तत्परिचारकदेव्यः । तृतीयविशेषणार्थस्तु स्पष्ट एवेति वोध्यम्। अत्र व्यतिरेकरूपकातिशयोक्त्योरङ्गाङ्गिभावाख्यः संकरः ॥ सवोक्तेः कल्पितत्वनिरासाय खविद्यायाः सांप्रदायिकत्वसूचनाय च गुरुनति द्वाभ्या- माह-श्रीमदिति। श्रीः सरस्वती ब्रह्मवर्चसं वा। ज्ञानेन्द्राख्ययतेः सकाशादित्यर्थः । पूर्वार्धे य इत्युभयत्रान्वेति। उत्तरार्घे य इति त्रिषु। प्रपश्वे निखिलत्वोक्त्या लेशतोऽपि तदत्यागः सूचितः । कणादाक्षपादाभ्यां प्रोक्ता गम्भीरवाण्यः। न्यायवैशेषिकशात्त्राणीति यावत्। देवादेव। एवः प्रसिद्धी। खण्डदेवादेवेत्यर्थः । स्मरेति। काश्यां जैमिनिप्रोक्ं शास्त्रम्। शेष इत्यङ्क उपनाम यस्य तस्माद्वीरेश्वरपण्डितात्प्राप्ता शेषस्य पतज्जलेश्मला भणितिर्महाभाध्यरूपा येन तादृशः । उपसंहरति-सर्वेति। एतेन तदितरशास्त्रवेदादि- ज्ञातृत्वं सूचितम् । अत्र य इत्यस्य तमित्युत्तरश्लोकेनाम्वयः ॥ पाषाणादपीति । यच्चेष्टाविशेषेण जडादष्यमृतस्रावश्वेतनादिति तु किमु वाच्यम्। इत्यनेन महामहिमशालिता वर्णिता। तेन तन्मुखश्रवणमात्रेण पाषाणतुत्यसवस्य सक- लविद्याविर्भावोऽनायासेन सूचितः । लक्ष्मीति त्पत्नीनाम। यद्वा लक्ष्मीकान्तं विष्णु- स्वरूपम्। सर्वविद्यानामेकस्मादेव लाभात्तत्र महत्त्वम् ॥ ततः किमत आह-निमग्नेनेति। युक्तिहेतुकानुचिन्तनरूपोदष्युदरमष्ये न तु यत्र क्वचित्। क्लेशैर्न तु क्लेशेन। नितरां न तु यथाकर्थंचित् । मभ्नेन मया जगन्नाथेन लोके भूलोक उन्नीत आनीतो ललितो रमणीयो रसगज्गाधर एव मणिर्गुणवताम्। अनेन तद्रहितानामनादरेऽपि न क्षतिरिति सूचितम् । हृदयमधिरूढः खान्तं प्रविष्ठः । असा-
Page 18
रसगङ्गाघरः । ३
परिष्कुर्वन्त्वर्थान्सहृदयधुरीणा: कतिपये तथापि क्केशो मे कथमपि गतार्थों न भविता। तिमीन्द्राः संक्षोभं विदधतु पयोधेः पुनरिमे किमेतेनायासो भवति विफलो मन्दरगिरेः ॥ निर्माय नूतनमुदाहरणानुरूपं काव्यं मयात्र निहितं न परस्य किंचित् । किं सेव्यते सुमनसां मनसापि गन्धः कस्तूरिकाजननशक्तिभृता मृगेण ।। मननतरितीर्णविद्यार्णवो जगन्नाथपण्डितनरेन्द्रः । रसगङ्गाधरनाम्नीं करोति कुतुकेन काव्यमीमांसाम् ॥ धारणधर्ममाह-अन्तरिति। ग्रन्थपक्षे साहित्यविपयमज्ञानम्। मणिपक्षे तु स्पष्टमेव। अलंकारान्भूपणानि तच्छात्त्राणि वा । सर्वानपि न. तु कांश्चित्। गलितः खवयमेव च्युतो नष्टो गर्वो येषां तान्रचयतु। करोत्वित्यथः ॥ ननु तादृशार्षप्रन्थेनैव निर्वाहे किमित्वपूर्वोऽयं अ्रन्थोऽत आह-परीति। केचन काव्यवासनावासितान्तःकरणश्रेष्ठा अर्थानार्षानलंकारादीन्परिष्कुर्वन्तु, तथापि तैस्तथा कृतेऽपि मे क्लेशो रसगज्जाधररचनरूपः कथमपि स्वल्पतोऽपि गतार्थश्चरितार्थो न भ- विता। भविष्यतीति वाच्ये भवितेत्यनेनेदं सूचितम्, खग्रन्थकरणकाले खतुत्यपण्डि- तसत्वेन तेषां गतार्थत्वेऽप्यग्रिमाणामल्पवुद्धीनां न गतार्थत्वम्। अत एव केचन सह- दयधुरीणा इत्युक्तमिति। उक्तमर्थमर्थान्तरोपन्यासेन द्रढयति-तिमीन्द्रा मत्स्यविशेष- श्रेष्ठाः पुनर्भूयः सम्यङ् न तु यथाकथंचित्क्षोभमालोडनं कुर्वन्तु। एतेन तत्कर्तृकेन तेन मन्दराचलप्रयासो विफलो निष्फलः किं भवति। अपि तु नेति। तिमीन्द्राणं तन्नत्य- रक्लाभेऽपि देवानां तदलाभात्तत्कारणेन साफल्यमिति भावः । इतरग्रन्थतो विशेषान्तरमाह-निर्मायति। उदेति। तत्तदलंकारादिलक्ष्यत्योग्यं काव्यं भामिनीविलासाख्यम्। अत्र रसगद्गाधरग्रन्थे। लेशतोऽपि परकीयत्वाभावा- याह-न परस्येति। निहितमित्यस्यानुषङ्ः। पूर्ववदाह-किमिति। सुमनसां पुष्पा- णाम् । गन्ध आमोदः । कस्तूरिकावतेति वाच्ये जननशक्तीलनेन सूचितम्, कदापि परकीयग्रहणं न तजननशक्तिसत्त्वेन यावदपेक्षितोत्पादनसंभवादिति॥ प्रतिजानीते-मननेति। मननरूपनौकापारंगतविद्यारुपोदधिर्जगन्नाथा्यपण्डित- श्रेष्ठः । पण्डितो नरेन्द्रः पृथ्वीशो येन वा। नरेन्द्रस्य पण्डित इति वा। पण्डितश्वासौ नरेन्द्रश्च तत्तुल्यत्वादिति वा। वस्तुतस्तु जगन्नाथपण्डितराज इति पृथ्वीपतिदत्तनामा- मिळापोऽयम्। कुतुकेनेत्यनेन स्वस्य ग्रन्थकरणे क्वेशाभावः सूचितः। मीमांसा विचारः ॥
Page 19
काव्यमाला। x
रसगङ्गाधरनामा संदर्भोडयं चिरं जयतु। किं च कुलानि कवीनां निसर्गसम्यञ्चि रज्जयतु । तत्र व्युत्पत्ते: कविसहृदययोरावश्यकतया गुणालंकारादिभिर्निरूपणीये त- स्मिन्विशेप्यतावच्छेदकं तदितरभेदबुद्धौ साधनं च तल्लक्षणं तावन्नि- रूप्यते- रमणीयार्थप्रतिपादकः शब्द: काव्यम् ॥ रमणीयता च लोकोत्तराह्वादजनकज्ञानगोचरता। लोकोत्तरत्वं चा- ह्रादगतश्चमत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेषः । कारणं च तदवच्छिन्ने भावनाविशेषः पुनःपुनरनुसंधानात्मा । 'पुत्रस्ते जातः', 'धनं ते दास्यामि' इति वाक्यार्थधीजन्यस्याह्वादस्य न लोकोत्तरत्वम्। अतो न तस्मिन्वाक्ये काव्यत्वप्रसक्तिः । इत्थं च चमत्कारजनकभावनाविषयार्थप्र-
प्राधयते-रसेति। अयं वुद्धिस्थः संदर्भः पश्चाङ्गकं वाक्यं चिरं चिरकालं जयतु सर्वोत्कर्षेण वर्तताम्। कि च स एव निसर्गसम्यश्चि स्वभावरमणीयानि। एतेन कृ- त्रिमरमणीयनिरासः । कवीनां कुलानि वंशान्समूहान्वा रअ्जयत्वनुरक्तान्करोतु ।। तत्र करणीये ग्रन्थे। परमाह्लादो विगलितवेद्यान्तरानन्दः । आदिना द्रव्यलाभादिः । कवि: काव्यकर्ता। सहृदयस्तदनुभववान्। कवेरनुभवश्चेत्सहृदयतवेनैव न तु कवित्वेन। गुणेति। विशेषणैरित्यर्थः। आदिना रसादिपरिग्रहः । तस्मिन्काव्ये। निष्ठत्वं सप्तम्यर्थः । तस्य विशेष्यतायामन्वयः । तल्लक्षणं काव्यलक्षणम्। इष्टतावच्छेदकं च तदेव । तत्प्र- कारकज्ञानस्य प्रवर्तकत्वादिति बोध्यम्। तावदादौ। रमणीयेति। कटाक्षादिवारणाय शब्द इति। व्यङ्रयादिसंग्रहाय वाचक इत्यनुकत्वा प्रतिपादक इत्युक्तम्। रमणीयश- व्दप्रतिपादके व्याकरणादिरपेऽतिव्याप्तिवारणायार्थेति। 'घटमानय' इत्यादिवाक्यवार- णाय रमणीयेति। ननु रमणीयस्याननुगतत्वात्तत्रापि तत्त्वमस्त्येवेलत आह-रमणी- यता चेति। ननु लोकोत्तरत्वं यथाक्थंचिच्चेदुक्तदोषः। आलयन्तिकं चेद्रह्मानन्द ए- वात आह-लोकोत्तरत्वं चेति। अनुभवसाक्षिक इल्यनेन तदन्यप्रमाणनिरातः । स चानुभवः सहृदयानामेव। एवं च नोककतदोष इति भावः। ज्ञानं च भावनारूपमेव ना- न्यदित्याह-कारणं चेति। तदवच्छिन्ने चमत्कारत्वापरपर्यायलोकोत्तरत्वरूप. जात्यवच्छिने। विशेषोनतु सामान्यम्। अत एव तत्स्रूपमाह-पुनरिति। लोकोत्तरेति विशेषणकृत्यमाह-पुत्रस्ते इत्यादि। अत्र वाक्यार्द्वयम् । तथा सति परिष्कृतं लक्षणमाह-इत्थं चेति। उक्तार्थसिद्धौ चेत्यर्थः । फलितमित्यत्रान्वयः। यत्किंचि-
Page 20
रसगङ्गाघर: ।
कशव्दत्वम्, यत्प्रतिपादितार्थविषयकभावनात्वम्, चमत्कारजनक- तिपाद दकं तत्त्वम्। खविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेण तावच्हे रत्ववत्त्वमेव वा काव्यत्वमिति फलितम्। यतु प्राश्चः 'अदोपी चमत्क सालंकारौ शब्दार्थौ काव्यम्' इत्याहुः, तत्र विचार्यते-शब्दार्थ- सगुण न काव्यशव्दवाच्यम्। मानाभावात् । काव्यमुच्चैः पठ्यते, का- युगलं ैडवगम्यते, काव्यं श्रुतमर्थों न ज्ञातः, इत्यादिविश्वजनीनव्यवहा- व्याद प्रत्युत शब्दविशेषसयैव काव्यपदार्थत्वप्रतिपत्तेश्। व्यवहार- रतः पात्रे लक्षणयोपपादनीय इति चेत्, स्यादप्येवम्, यदि काव्यपदा- शब्द पराभिमते शब्दार्थयुगले काव्यशव्दशक्ते: प्रमापकं दृढतरं कि- र्थतय पमाणं स्यात्। तदेव तु न पश्यामः । विमतवा्क्य त्वश्रद्वेयमेव। मपि वासति काव्यशन्दस्य शव्दार्थयुगलशक्तिग्राहके प्रमाणे प्रागुक्ता- इत्थं रतः शव्दविशेषे सिद्धन्तीं शक्तिं को नाम निवारयितुमीष्टे। द्यव विनिगमनाभावादुभयत्र शक्तिरिति प्रत्युक्तम्। तदेवं शब्दविशेष- एते काव्यपदार्थत्वे सिद्धे तस्यैव लक्षणं वक्तुं युक्तम्, न तु सवकल्पि- स्यैव
हरजनकज्ञाने समूहालम्बनविधया भासमानान्यार्थप्रतिपाद्कशब्दे काव्यलवार चमर ज्ञानेत्यपहाय भावनेत्युक्तम्। शब्दलमित्यस्य काव्यलमित्यन्नान्वयः। धारावा- णाय हिक गनुपूर्वी प्रतिपादितार्थविषय कत्वविशिष्टभावनालं तजनकतावच्छेदकं तादशा नुपूर्वी- याह मित्यर्थः। तेन नोक्तदोपः। लाघवादाह-स्वेति। सं चमत्कारलम्। जनकता- मत्व दकार्थेति। अर्थ भावनानिष्टजनकतावच्छेदकता विषयतासंवन्धेन बोध्या। लक्ष्य- वच्छ च्छेदकं चैतत्समानाधिकरणं काव्येत्याय्यनुग व्य वहरेण स्वा द् ज् नकतया च सिद्- ता ेविशेषरूपमुपाधिरपं वा काव्यलं वोध्यम्। प्राश्चः प्रकाशकृदादयः। नन्वास्वाद- जा कलस्योभयत्राविशेष एव मानमत आह-काव्यमिति। प्रत्युत वैपरीत्येन। व्य देना काव्यं पटिनमित्यादिसंग्रहः। इत्यादीति। इत्यादि सावजनीनव्यवहारात्। सार्व- आ क्तिकस्तसिः। विशेपपदेन प्रागुक्तार्थकत्वसूचनम्। एवमग्रेऽपि। एवेनार्धनिरासः । वि पत्तेश्र निर्णयाच्चेलन्वयार्थों। परेति। प्रकाशकृदादीत्यर्थः। प्रलायकं निश्चयाकम्। म्रति प्तेति। प्रकाशकृदित्यर्थः। उपसंहरति-इत्थं चेति। तस्याश्रद्वेयत्वे चेलथः। चि दस्येत्यस्योभयत्र शक्तावन्वयः । एतेन व्यवहाररूपविनिगमकसत्वेन। प्रकरणार्थसुप- श रति-तदेवमिति। एवमुक्तप्रकारेण। तस्यैव शब्दविशेपरुपस्यैव। म्रासतिक- सं
Page 21
६ काव्यमाला।
तस्य काव्यपदार्थस्य। एपैव च वेदपुराणादिलक्षणेष्वपि गतिः। अन्यथा तत्रापीयं दुरवस्था स्यात्। यत्त्वास्वादोद्वोधकत्वमेव काव्यत्वप्रयोजकं तच्च शब्दे चार्थे चाविशिष्टमित्याहुः, तन्न। रागस्यापि रसव्यञ्जकताया ध्वनि- कारादिसकलालंकारिकसंमतत्वेन प्रकृते लक्षणीयत्वापत्तेः । किं बहुना नाट्याज्वानां सर्वेषाभपि प्रायशस्तथात्वेन तत्त्वापत्तिर्दुर्वारैव। एतेन रसोह्ो- धसमर्थस्यैवात्र लक्ष्यत्वमित्यपि परास्तम्। अपि च काव्यपदप्रवृत्तिनिमितं शब्दार्थयोर्व्यासक्तम्, प्रत्येकपर्यापं वा। नाद्यः । एको न द्वाविति व्यवहार- स्येव श्लोकवाक्यं न काव्यमिति व्यवहारस्यापत्तेः । न द्वितीयः । एकस्मि- न्पद्ये काव्यद्वयव्यवहारापत्तेः। तस्माद्वेदशास्त्रपुराणलक्षणस्येव काव्यलक्षण- स्यापि शब्दनिष्ठतैवोचिता। लक्षणे गुणालंकारादिनिवेशोऽपि न युक्तः । 'उदितं मण्डलं विधोः' इति काव्ये दूत्यभिसारिकाविरहिण्यादिसमुदीरिते- डभिसरणविधिनिषेधजीवनाभावादिपरे 'गतोऽस्तमर्कः' इत्यादौ चाव्या- स्यापत्तेः । न चेदमकाव्यमिति शक्यं वदितुम् । काव्यतया पराभिम-
माह-एषैव चेति। अन्यथा वेदतादेरुभयत्राङ्गीकारे दुरवस्था व्यवहारोच्छेदापत्ति- रूपा। लक्षणीयत्वेति। तथा च तत्रातिव्याप्तिरिति भावः । सर्वेषामपि चेष्टादी- नामपि। क्वचित्तदभावादाह-प्रायश इति। तथात्वेन रसव्यज्जकत्वेन। तत्त्वापत्तिः काव्यत्वापत्तिः। मतत्रयसाधारणं दोषमाह-अपि चेति। व्यासकं व्यासज्यवृत्ति।
तावच्छेदकधर्मवत्त्वरूपस्यानुपहसनीयकाव्यलक्षणस्य प्रकाशाद्युक्तलक्ष्यतावच्छेदकस्यो- भयवृत्तित्वाच्च काव्यं पठितम्, श्रुतं काव्यम्, बुद्धं काव्यमित्युभयविधव्यवहारदर्शनाच्च काव्यपदप्रवृत्तिनिमित्तं व्यासज्यवृत्ति । अत एव वेदत्वादेरुभयवृत्तित्वप्रतिपादकः 'तद- धीते' इत्यादिसूत्रस्थो भगवान्पतअलिः संगच्छते। लक्षणयान्यतरस्मिन्नपि तत्त्वादेको न द्वावितिवन्न तदापत्तिः। तेनानुपहसनीयकाव्यलक्षणं प्रकाशोकं निर्बाधम्। एवमा- स्वादादौ वैलक्षण्यनिवेशादुक्तलक्षणद्वयमपि निर्बाधमिति नान्यमतमपि दुष्टमित्युच्यते तर्त्यस्तु तथा। सामान्यलक्षणं त्वदोषादिपदाघटितमेव तेषामपि मते। एवं च न कोऽपि दोष इति वोध्यम्। तदाह-लक्षण इति। काव्यसामान्यलक्षण इत्यर्थः । आदिना सख्यादिपरिग्रहः । यथासंख्यमन्वयः । आदिना पतिप्राप्यादिपरिग्रहः । इदं च मध्यम- णिन्यायेनोभयान्वयि। अव्याप्यापत्तेरिति । गुणालंकारयोरभावादिति भावः । तथा अकाव्यमितीति। ननु काव्यजीवितं चमत्कारितं तत्रास्तीत्यत आह-काव्येति।
Page 22
रसगङ्गाधरः । ७
तस्यापि तथा वक्तुं शक्यत्वात्। काव्यजीवितं चमत्कारित्वं नायशि- ष्टमेव। गुणत्वालंकारत्वादेरननुगमाच्च। दुष काव्यसिति व्यवहारम्य वाधकं विना लाक्षणिकत्वायोगाच्च। न च संयोगाभाववान्वृक्षः संयोगी- तिवदंशभेदेन दोषरहितं दुष्टमिति व्यवहारे बाधकं नास्तीति वाच्यम्। 'मूले महीरुहो विहंगमसंयोगी न शाखायाम्' इति प्रतीतेरिवेदं पद्यं पूर्वार्धे काव्यमुत्तरार्धे तु न काव्यमिति स्वरसवाहिनो विश्वजनीनानुभवस्य विरहादव्याप्यवृत्तिताया अपि तस्यायोगात्। शौर्यादिवदात्मधर्माणां गुणानाम्, हारादिवदुपस्कारकाणामलंकाराणां च शरीरघटकत्वानुपपततेश्र। यत्तु 'रसवदेव काव्यम्' इति साहित्यदर्पणे निर्णीतम्, तन्न। वस्त्वलंकारप्र- धानानां काव्यानामकाव्यत्वापत्तेः । न चेष्टापत्तिः । महाकविसंप्रदाय- स्याकुलीभावप्रसङ्गात्। तथा च जलप्रवाह्वेगनिपतनोत्पतनत्रमणानि कविभिर्वर्णितानि कपिवालादिविलसितानि च। न च तत्रापि यथाकरथं- चित्परम्परया रसस्पर्शोऽस्त्येवेति वाच्यम्। ईदृशरसस्पर्शस्य 'गौश्वलति',
ननु विलक्षणचमत्कारितं तत्रैवेति नोक्तदोषोऽत आह-गुणत्वेति। ननु काव्यध- र्मलं रसधर्मत्वं वा गुणतम्, काव्यशोभाधायकत्वं काव्यधर्मतं वालंकारतमित्यनुगम ए- वेति चेत्सत्यम्। तथापि गुणालंकारादीव्यादिपदेनादोषाविति विशेषणमयुक्तमित्यभिमत- म्। युक्ततं चैतत् । दोपसामान्याभावनिवेशे काव्यव्यवहारस्य विरलविषयतापत्तेः । इदं काव्यं दुष्टमिति व्यवहारानापत्तेश्र। न चादोषपदेन स्फुटदोषराहित्यं विवक्षितम् । स्फुटतं च शाव्दवोधप्रतिबन्धकत्वम्। तेन निराकाह्ुलानासन्नत्वे गृह्ेते। अन्यथा रसादिदोषाणां त्यागे वीजानापत्तिः। नत्यदोषी शव्दार्थावित्युक्ते रसादिदोषाभावः प्रतीयत इति वाच्यम्। अर्थशव्देन रसस्यापि अ्रहादिति भावः। तदाह-दुए- काव्यमितीति। एवं च तेपामपि मते तादृशकाव्यलक्षणेऽदोषाविति मात्रस्यानि- वेश इति बोध्यम्। स्वरसेति। खारसिकस्येत्यर्थः। विशर्वेति । सर्वजनीनेत्यर्थः । अपि: प्रागुक्त्तरीतिसमुचायकः। ननु सामान्यलक्षणस्यादोषपदाघटितल्ात्तथा व्यवदा- रोपपत्तिरत आह-शोर्यादिति। उत्कर्षाधायकत्वेन साम्यत्वम्। एवं च विशेषल- क्षणे तेपां निवेशेऽपि सामान्यलक्षणे तेषां न निवेश इति न कोऽपि दोप इति भावः। वस्त्विति। प्रधानपदस्योभयत्रान्वयः । आकुलीति। उच्छेदेत्यर्थः । संप्रदायमे- वाह-तथा चेति। विलसितानि चेति वर्णितानीत्यस्यानुपतषः। न च तत्र रसो- उस्तीति भावः। यथाकथंचिदित्यस्यैव व्याख्या परम्परयेति। परम्परामेवाह-अ- थेति। सर्वस्यार्थस्येत्यर्थः ॥
Page 23
काव्यमाला। V
'मृगो धावति' इत्यादावतिप्रसक्तत्वेनाप्रयोजकत्वात् । अर्थमात्रस्य वि- भावानुभावव्यभिचार्यन्यतमत्वादिति दिक्। तस्य च कारणं कविगता केवला प्रतिभा। सा च काव्यघटनानु- कूलशब्दार्थोपस्थितिः । तद्गतं च प्रतिभात्वं काव्यकारणतावच्छेदकतया सिद्धो जातिविशेष उपाधिरूपं वाखण्डम् । तस्याश्च हेतुः क्वचिददेवता- महापुरुषप्रसादादिजन्यमदृष्टम् । क्वचिच्च विलक्षणव्युत्पत्तिकाव्यकरणा- भ्यासौ। न तु त्रयमेव। वालादेस्तौ विनापि केवलान्महापुरुषप्रसादादपि प्रतिभोत्पत्तेः । न च तत्र तयोर्जन्मान्तरीययोः कल्पनं वाच्यम्। गौर- वान्मानाभावात्कार्यस्यान्यथाप्युपपत्तेश्च । लोके हि वलवता प्रमाणेनाग- मादिना सति कारणतानिर्णये पश्चादुपस्थितस्य व्यभिचारस्य वारणाय जन्मान्तरीयमन्यथानुपपत्या कारणं धर्माधर्मादि कल्प्यते। अन्यथा तु व्यभिचारोपस्थित्या पूर्ववृत्तकारणतानिर्णये भ्रमत्वप्रतिपत्तिरेव जायते। नापि केवलमदष्टमेव कारणमित्यपि शक्यं वदितुम्। कियन्तं चित्कालं काव्यं कर्तुमशक्कुवतः कथमपि संजातयोर्व्युत्पत्त्यभ्यासयोः प्रतिभायाः प्रादुर्भावस्य दर्शनात्। तत्राप्यटृष्टस्याङ्गीकारे प्रागपि ताभ्यां तस्याः
तस्य च काव्यस्य। केवलेत्यनेनन निपुणतादिव्यावृत्तिः । शब्दार्थोपति। शब्दा- र्थोभयेत्यर्थः । उपाधिर्वेति। उपाधितपरित्यागेन तत्त्वाङ्गीकारे बीजमित्यर्थः । नील- घटत्वादिवत्सखण्डोपाधिरेवेति वार्थः । 'अखण्डम्' इति पाठस्तु चिन्त्य एव। तस्याः प्रतिभायाः । आदिना तपआदिपरिग्रहः । व्युत्पत्तीति। लोकशास्त्रादिविषयेत्यथः । न तु त्रयमेवेति। प्रतिभात्वावच्छिन्नं प्रति मिलितं त्रितयमेव कारणमिति नेत्यर्थः । एवकारेण क्वचित्रितयस्यापि कारणत्वमिति ध्वनयति । विलक्षणत्रितयजन्यप्रतिभा चातिविलक्षणा। तज्जन्यं काव्यं चातिविलक्षणमेवेति न दोष इति दिक्। दोषान्तर- माह-मानेति। ननु कार्यान्यथानुपपत्तिरेव मानमत आह-कार्येति। केवलाद- षादपीतर्थः । तदेव विशदयति-लोके हीति। लोकशव्दः प्रकृतेतरपरः। आगमः श्रुतिः । आदिना स्मृत्यादिपरिग्रहः । अत एव बलवत्वम्। अन्यथा तु बलवतागमा- दिना तदनिर्णये तु। एवेन प्रमात्वव्यावृत्त्या कार्यासाधकत्वं सूचितम्। केवलपदं स्प- ष्टार्थम्। प्रतिभां प्रतीति शेषः । कथमपि केनापि प्रकारेण। व्युत्पत्त्यभ्यासयोः सतो- रिति शेषः । ताभ्यां व्युत्पत्त्यभ्यासाभ्याम्। तस्याः प्रतिभायाः। तत्र व्युत्पत्त्यभ्या- सप्राक्कालिकादृष्टविषये। एवं च तदानीं सा न। अनन्तरं कथमपि प्रतिबन्धकनाशे
Page 24
रसगङ्गाधरः ।
प्रसक्तेः । न च तत्र प्रतिभायाः प्रतिबन्धकमदृष्टान्तरं कल्प्यमिति वा- च्यम्। तादृशानेकस्थलगतादृष्टद्वयकल्पनापेक्षया कृप्तव्युत्पत्त्यभ्यासयोरेव प्रतिभाहेतुत्वकल्पने लाघवात्। अतः प्रागुक्तसरणिरेव ज्यायसी। ताद- शादृष्टस्य तादृशव्युत्पत्त्यभ्यासयोश्च प्रतिभागतं वैलक्षण्यं कार्यतावच्छे- दकम्, अतो न व्यभिचारः। प्रतिभात्वं च कवितायाः कारणतावच्छेदकं प्रतिभागतवैलक्षण्यमेव वा विलक्षणकाव्यं प्रतीति नात्रापि सः । न च सतोरपि व्युत्पत्त्यभ्यासयोर्यत्र न प्रतिभोत्पत्तिस्तत्रान्वयव्यभिचार इति वाच्यम्। तत्र तयोस्तादृशवैलक्षण्ये मानाभावेन कारणतावच्छेदकानव- च्छिन्नत्वात्। पापविशेषस्य तत्र प्रतिबन्धकत्वकल्पनाद्वा न दोषः । प्रतिवन्धकाभावस्य च कारणता समुदितशक्तयादित्रयहेतुतावादिनः श- क्तिमात्रहेतुतावादिनश्चाविशिष्टा। प्रतिवादिना मन्त्रादिभि: कृते कतिप- यदिवसव्यापिनि वाक्स्तम्भे विहितानेकप्रवन्धस्यापि कवेः काव्यानुदयस्य दर्शनात्। तच्चोत्तमोत्तमोत्त ममध्य माध मभे दा च्च तुर्धा । शब्दार्थौ यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यङ्स्तदाद्यम्।।
सा भवत्येवेति भावः । कप्तेति। प्रतिबन्धकादृष्टादि नाशकतयेति भावः । एतेनोक्तदव- यव्यावृत्तिः। नन्वेवं प्रतिभाकार्यककार्यकारणभावे व्यभिचारोऽत आह-सादृशेति। केवलेत्यर्थः । तथा च विजातीयप्रतिभां प्रति तत्कारणं विजञातीयप्रतिभां प्रति ताविति न दोष इति भावः । नन्वेवमपि प्रतिभाकारणककार्यकारणभावे व्यभिचार एवात आह-प्रतिभात्वं चति। प्रागुक्तं सामान्यरूपमित्यर्थः । नन्वेवमप्येकप्रतिभातोऽपर- मषि काव्यं स्यादत आह-प्रतिभागतेति। अत्रापीति। द्वितीयकार्यकारणभावेऽपि न व्यभिचार इत्यर्थः। ननु वैलक्षण्यमदृष्टासहकृतत्वरूपमेवोक्तं तच्च तत्रास्लेवेल्यत आाह-पापेति। नन्वेवमिदमेव गौरवमत आह-प्रतीति। एवं च कार्यमात्रं प्रति प्रतिबन्धकाभावस्य कारणतायाः कप्तत्वेन काव्यं प्रति यथोभाभ्यां खवीक्रियते तथात्रा- पीति न मेऽधिककल्पनजगौरवमिति भावः। समुदितहेतुवादिमते तत्स्वीकार आवश्यक इत्याद-प्रतिवादीति। विहितेति। कृतानेककाव्यस्यापीलर्थः ॥ तच्चेति। काव्यं चेलर्थः । शब्दार्थाविति। गुणीभावितात्मानौ शब्दार्थों यत्र कमप्यर्थमभिव्यङ्क इतन्वयः । भूर्मि निदानम् । व्यक्जयपदस्योभयत्र संबन्धः । एवममे-
Page 25
१० काव्यमाला।
कमपीति चमत्कृतिभूमिम्। तेनातिगूढस्फुटव्यङ्गययोर्निरासः । अ- पराङ्गवाच्यसिद्धङ्गव्यन्ञस्यापि चमत्कारितया तद्वारणाय गुणीभाविता- त्मानाविति स्वापेक्षया व्यञ्चघप्राधान्याभिप्रायकम् । उदाहरणम- 'शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान्। दयिता दयिताननाम्वुजं दरमीलन्नयना निरीक्षते ।।' अत्रालम्बनस्य नायकस्य, सविधशयनाक्षिप्तस्य रहःस्थानादेरुद्दीपनस्य च विभावस्य, तादृशनिरीक्षणादेरनुभावस्य, त्रपौत्सुक्यादेश्च व्यभिचा- रिणः, संयोगाद्रतिरभिव्यज्यते। आलम्बनादीनां स्वरूपं वक्ष्यते। न च यद्ययं शयितः स्यात्तदास्याननाम्बुजं चुम्वेयमिति नायिकेच्छाया एव व्यङ्गचत्वमत्रेति वाच्यम् । मनोरथान्सफलीकर्तुमसमर्थेत्यनेन मनोरथाः सर्वेडस्या हृदि तिछ्ठन्तीति प्रतीतेः । सवशव्देन मनोरथपदेन सामान्या- कारेण तादृशेच्छाया अपि निवेदनात्। न च मनोरथपदेन मनोरथत्वा- कारेण सामान्येच्छाया अभिधानेऽपि चुम्बेयमिति विषयविशेषविशिष्ट- च्छात्वेन व्यञ्यत्वे किं वाधकमिति वाच्यम् । चमत्कारो न स्यादित्य- स्यैव वाधकत्वात्। न हि विशेषाकारेण व्यञ्नयोऽपि सामान्याकारेणा- भिहितोऽर्थः सहृदयानां चमत्कृतिमुत्पादयितुमीष्टे। कथमपि वाच्यवृत्त्य-
पपि। निरास इति। असुन्दरस्येत्यपि वोध्यम्। गुणीभावितात्मानावित्वनेनाप्यस्य निरास इति ध्वनयितुं द्वयोरेवोक्तिः । एवं संदिग्धप्राधान्यतुत्यप्राधान्यकाक्काक्षिप्ताना- मपि वोध्यम्। स्वापेक्षया शब्दार्थापेक्षया। सविधेऽर्याहयितस्य। कारणसत्त्वेऽपि का- र्याभावादहो इत्याश्चर्ये। रह एकान्तम्। त्रपौरसुक्यादेरिति । दरेल्यनेन त्रपा व्यक्षया, निरीक्षणेन चौत्सुक्यमिति बोध्यम्। संयोगात्संबन्धात्। रतिरिति। नायि- काया इति शेषः । शयित इति। कर्तरि भूते कः। 'तदास्याननाम्वुजम्' इति पाठः। एव उक्तव्यवच्छेदे। स्वशब्देनेत्यस्य व्याख्या मनोरथेति। सामान्येति। मनोरथत्वे- त्यर्थः । तथा च वाच्यस्याव्यज्कयत्वमिति भावः । सामान्येनेत्यस्य व्याख्या मनोरथेति। यद्वा सामान्येनेच्छात्वेन । अवच्छिन्नत्वं तृतीयार्थः। चमत्काराभावे हेतुमाह-नहीति। तत्र हेतुमाह-कथमपीति। सामान्यरूपेण विशेषरूपेण चेत्यर्थः । एवं च ध्वनिवि- शेष एवैतद्वोध्यम् । स्पष्टश्वायमर्थों गूढाख्यगुणीभूतव्यअ्रयनिरूपणे पश्चमोल्लासो रसदो-
Page 26
रसगक्राधरः । ११
नालिङ्गितस्यैव व्यन्नथस्य चमत्कारित्वेनालंकारिकैः स्वीकारात्। चुम्ब- नेच्छाया रत्यनुभावतयैव सुन्दरत्वेन तदव्यअ्जने चुम्बयामीति शब्दबला- च्चम्बनेच्छावदचमत्कारित्वाच। एवं त्रपाया अपि न प्राधान्येन व्यन्नय- त्वम्। अनुवाद्यतावच्छेदकतया प्रतीतायां तस्यां मुख्यवाक्यार्थत्वायो- गात्। न च दरमीलल्नयनत्वविशिष्टनिरीक्षणं विधेयमिति नानुवाद्यताव- च्छेदकत्वं तस्या इति वाच्यम्। एवमपि नयनगतदरमीलनस्य तत्कार्य- त्वेऽपि दरमीलन्नयनात्वविशिष्टनिरीक्षणस्य रतिमात्रकार्यत्वात्। त्रपाया एव मुख्यत्वेन व्यम्नयत्वे निरीक्षणोक्तेरनतिप्रयोजनकत्वापत्तेः । वाच्य- वृत्त्या रतेरनुभावे निरीक्षणे त्रपाया अनुभावस्य दरमीलनस्येव व्यञ्जनया तस्यां तस्या अपि गुणीभावप्रत्ययौचित्यात्। यथा वा- 'गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम् । दरकुण्डलताण्डवं नतभ्रूलतिकं मामवलोक्य घूर्णितासीत् ।।' अत्र घूर्णितासीदित्यनेनासमीक्ष्यकारिन्किमिदमनुचितं कृतवानसीत्यर्थसंव- लितोSमर्षश्चर्वणाविश्रान्तिघामत्वात्प्राधान्येन व्यज्यते। तत्र शब्दोऽर्थश्च गुणः । षनिरूपणे सप्तमोल्लासे च। व्यज्तथस्य वाच्यीकरणे वमनास्यदोष इति प्राश्चः। नन्वन्न पक्षे यदेवोच्यते तदेव व्यक्रयं यथा तु व्यक्र्यं न तथोच्यत इत्यादि पर्यायोक्तप्रकरणस्थमू- लग्रन्थविरोघोऽत आह-चुम्बनेच्छाया इति। संशयालंकारनिरूपणे च स्फुटतरं निरूपयिष्यत एव ग्रन्थकृता। एवस्तदन्यथात्वेन तत्त्वव्यवच्छेदे। तदव्यअने रत्यव्य- अने। एवमिच्छाया इव। यथाकथंचित्तत्त्वसत्वादाह-प्राधान्येनेति। तस्यां त्रपा- याम्। एवमग्रेऽपि। मुख्येति । मुख्यतया वाक्यतात्पर्यविषयत्वायोगादित्यर्थः । तत्कार्येति। त्रपाकार्येत्यर्थः । मात्रपदेन तदन्यव्यवच्छेदः । ननु मीलन्नयनात्वमेव विधेयमास्तामत आह-त्रपाया इति। त्रपाजनकतया निरीक्षणस्योपयोगादाह-अ- नतीति। ननु वैपरीत्येन निरीक्षणविशिषदरमीलम्रयनात्वमेव विधेयमास्तामत आह- वाच्येति। भावप्रधानमाख्यातमिति सिद्धान्तादिति भावः। तस्यां रतौ। तस्यास्त्रपायाः। गुरुमध्येति। श्वश्वादिसमीपप्रदेशोपविष्टा। कमलमुकुलेन मन्दं नितरां हता। अत एव घूर्णनं भ्रमणं तादृशी सा मामवलोक्य दरेति नतेति च यथा स्यातथा घूर्णितासीदित्य- न्वयः। मन्दत्वफलं दरेति। गुरुमध्यगतत्वाभतेति। नायकोफकिरियं सखायं प्रति। कु-
Page 27
१२ काव्यमाला।
यथा वा- तल्पगतापि च सुतनुः श्वासासङ्गं न या सेहे। संप्रति सा हृदयगतं प्रियपाणि मन्दमाक्षिपति ॥ इदं च पद्यं मन्निर्मितप्रबन्धगतत्वेन पूर्वसाकाङ्कमिति दिस्मात्रेण व्याख्या- यते-या नववधूः पत्यक्कशयिता श्वासस्यासङ्गमात्रेणापि संकुचदङ्गलति- काभृत्सा संप्रति प्रस्थानपूर्वरजन्यां प्रवत्स्यत्पतिका। प्रियेण सशङ्केन समर्पितं हृदि पाणि नववधूजातिसवाभाव्यादाक्षिपति। परं तु मन्दम्। अत्र शनैः स्वस्थानप्रापणात्मना मन्दाक्षेपेण रत्याख्यः स्थायी संलक्ष्य- क्रमतया व्यज्यते। उपपादयिष्यते च स्थाय्यादीनामपि संलक्ष्यक्रमव्य- ज्यत्वम्। अमुमेव च प्रभेदं ध्वनिमामनन्ति। यत्तु चित्रमीमांसायामप्प- य्यदीक्षितैः 'निःशेषच्युतचन्दनम्' इति पद्यं ध्वन्युदाहरणप्रसङ्गे व्याख्या- तम्-'उत्तरीयकर्षणेन चन्दनच्युतिरित्यन्यथासिद्धिपरिहाराय निःशे- षग्रहणम्। ततश्चन्दनच्युतेः स्नानसाधारण्यव्यावर्तनेन संभोगचिहोद्धा- टनाय तटग्रहणम्। सनाने हि सर्वत्र चन्दनच्युतिः स्यात्, तव तु स्तनयो- स्तट उपरिभाग एव दृश्यते। इयमाश्लेषकृतैव। तथा निर्मृष्टरागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बात्प्राचीनरागस्य किचिन्मृष्टतेत्यन्यथासिद्धिप- रिहाराय निर्मृष्टराग इति रागस्य निःशेषमृष्टतोक्ता। पुनः स्नानसा- धारण्यव्यावर्तनेन संभोगचिहोद्धाटनायाधर इति विशिष्य अहणम्। उत्तरोष्ठे सरागेऽधरोष्ठमात्रस्य निर्मृष्टरागता चुम्बनकृतैव, इत्यादिना, इदमपि ध्वनेरुदाहरणम्, इत्यन्तेन संदर्भेण तटादिघटिता वाक्यार्थाः
तवानसीत्यर्थेति। अस्याप्यमर्ष प्रति गुणतैव। तत्कार्यलात्। संवलितो विशिष्टः। चर्व- णेति। पार्यन्तिकाखादश्रयत्वादित्वर्थः। तत्रामर्षे। अयमेव पूर्वोदाहरणाद्विशेषः। तल्पं शय्या। असहे हेतुगर्भ विशेषणं सुतनुरिति। सवहृदयस्थितं शनैः सवस्थानं प्रापयतीत्यर्थः । प्रबन्धो भामिनीविलासाख्यः। नवोढाप्रकरणादाह-नवेति। आङ्ईषदर्थे। संप्रतीत्य- स्यार्थमाह-प्रस्थानेति। प्रकरणादाह-प्रवदिति। सशङ्केनेति। सुतनुत्वान्नाश- शङ्केति भावः । मन्दमिति। भाविविरहृशक्कयेति भावः । संलक्ष्येति। व्यक्षथव्यअ्ञ- कयो: कमः संलक्ष्यो यत्र तयेत्यर्थः । अयमेव पूर्वतो विशेषः। ननु स्थाय्यादीनामसंल- क्ष्यक्रमव्यङ्गयत्वमेव प्राचीनैरुक्तमत आह-उपेति। अमुमुत्तमोत्तमम्। व्याख्यानमे-
Page 28
रसगङ्गाधरः । १३
स्नानव्यावृत्तिद्वारा संभोगाङ्गानामाश्लेषचुम्बनादीनां प्रतिपादनेन प्रधानव्य- मयव्यन्जने साहायकमाचरन्ति' इति, तदेतदलंकारशास्त्रतत्वानववोध- निबन्धनम्। प्राचीनसकलग्रन्थविरुद्धत्वादुपपत्तिविरोधाच्च। तथा हि- पञ्चमोललासशेषे 'निःशेषेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतोऽपि भवन्ति । यतश्चात्रैव सानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानीत्यनैकान्तिकानि' इति काव्यप्रकाशकृतोक्तम्। तथा तत्रैव तेन 'भम धम्मिअ वीसत्थो सो सुणओ अज्ज मालिदो तेण। गोलाणइकच्छकुडङ्गवासिणा दरिअसीहेण ॥' इत्यादौ लिङ्गजलिङ्गज्ञानरूपेणानुमानेन व्यक्ति गतार्थयतो व्यक्तिविवेक- कृतो मतं प्रत्याचक्षाणेन व्यभिचारित्वेनासिद्धत्वेन च संदिह्यमानादपि लिङ्गाद्यञ्जनमभ्युपगतम्। इत्थमेव च ध्वनिकृतापि प्रथमोद्योते। एवं च व्यक्जकानां साधारण्यं प्रतिपादयतां प्रामाणिकानां अ्रन्थैः सहासाधारण्यं प्रतिपादयतस्तव ग्रन्थस्य विरोध: स्फुटः । कि च यदिदं निःशेषेत्याद्यवा- न्तरवाक्यार्थानां वापीस्ानव्यावृत्तिद्वारेण व्यड्चयासाधारण्यं संपाद्यते
वाह-उत्तरीयेत्याद्याच रन्ती त्यन्तेन। इत्यादीत्यादिना प्रातर्दत्तमअ्जने कालविलम्बेन किचिद्विलुप्तमित्यन्यथासिद्धिपरिहाराय दूरमिति। अत्यर्थमित्यापाततोऽर्थः । एतेन का- लान्यथासिद्धिनिरासः । पुनः स्रानसाधारण्यव्यावर्तनेन संभोगचिह्वोद्वाटनाय दूरे प्रान्त इति हृदयस्थितोऽर्थः । कालतः स्रानेन सर्वतोऽजनलोपः स्यात्तव तु लोचनयोः क्वचित्प्रान्त एवानञनत्वमिदं चुम्बनकृतमेवेत्यादि परिग्रहः। वाक्यार्था विशेषणवाक्यार्थाः। प्रधान- व्यङ्गयं संभोगः । तत्र भ्रन्थविरोथमाह-पञ्चमोल्लासेति। अस्योक्तमित्यत्रान्वयः। गमकेति। संभोगेत्यादिः । अत्रैव निःशेषेत्यादावेव। प्रतिबद्धानि जन्यतया न तत्रैव संबद्धानि। अनैकान्तिकानि साधारणानि। तन्नैव पश्चमोल्लास एव। तेन प्रकाशकृता। अभ्युपगतमित्यत्रान्वयः। भ्रमेति। '्रम धार्मिक विश्रव्धः स शुनकोऽ्य मारितस्तेन। गोदानदीकच्छनिकुअवासिना दप्तसिहेन ॥' कुसुमावचयार्थ कुज्जे धार्मिकपरित्रमणेन खण्डितसंकेतायास्तन्निवारणोक्तिरियम्। अत्र वाच्येन भीरुस्वभावस्य गृहे श्वनिवृत्त्या भ्रमणेन निकुजे सिहोपलब्ध्या भ्रमणनिषेधो व्यङ्गथः । इत्थमेवेति। उक्त स्वीकृतं चे- त्यर्थः । ननु तैः साधारण्ये व्यअने स्वीकृतेऽसाधारण्ये सुतरामद्गीकृतम्, प्रकृते च तथा संभवान्मयोपपादितमिति कस्तविरोध इति चेत्सत्यम्, अत एवोपपत्तिविरोधोऽपरो दो- २
Page 29
१४ काव्यमाला।
तत्किमर्थमिति पृच्छामः । व्यङ्गयस्य व्यञ्जनार्थमिति चेन्न। व्यञ्जकग- तासाधारण्यस्य व्यञ्जनानुपायत्वात्। 'औणिहं दोव्बहं चिन्ता अलसन्तणं सणीससिअम्। मह मन्दभाअणीए केरं सहि तुह वि परभवइ ।' इत्यादौ साधारणानामेवौन्निदादीनां वक्रादिवैशिष्टयवशादर्थविशेषव्यञ्ज- कताया अभ्युपगतेः । प्रत्युतासाधारण्यस्य व्याप्यपरपर्यायस्यानुमानानुकू- लतया व्यक्तिप्रतिकूलत्वाच्च। अथ तटादिघटितत्वेऽपि न निःशेषेत्यादिवा- क्यार्थानामसाधारण्यम्। सलिलार्द्रवसनकरणकप्रोञ्छनादिनापि तत्संभ- वादिति चेत्तर्हि वापीस्नानव्यावर्तनेन कः पुरुषार्थः । एकत्रानैकान्तिक- त्वस्येव बहुप्वनैकान्तिकताया अपि ज्ञाताया अनुमितिप्रतिकूलत्वाद्य- क्तिप्रतिकूलत्वाच्च। अपि चात्र हि तदन्तिकमेव रन्तुं गतासीति व्यङ्गय- शरीरे तदन्तिकगमनं मरणरूपफलांशश्रेति द्वयं घटकम्। तत्र तावत्तद- न्तिकं गतासीत्यंशस्य त्वन्मते व्यड्ञयत्वं दुरुपपादम्। त्वदुक्तरीत्या विशेषणवाक्यार्थानां निःशेषेति प्रतिपाद्यानां वाच्यार्थे वापीस्ाने वाधित-
गतेति शब्दाभ्यां विरोधिलक्षणया निषेधस्य विधेश्च प्रतीतेरुपपत्तेः । नहि मुख्यार्थवाधेनोन्मीलितेऽर्थे व्यक्तिवेद्यतोचिता। यथा 'अहो पूर्ण सरो यत्र लुठन्तः स्ान्ति मानवाः' इत्यत्र कर्तृविशेषणानुपपत्त्यधीनोल्लासे
षोऽभिहितस्तमुपपादयति-किं चेत्यादि। व्यङ्गघेति। व्यङ्गयसंभोगं प्रत्यसाधारण्य- मित्यर्थः । अनुपायत्वे हेतुमाह-औणिद्दमिति। 'औन्निद्ं दौर्व्यं चिन्तालसत्वं सनिः- श्वसितम्। मम मन्दभागिन्याः कृते सखि लवामपि परिभवति ॥' कृतकामुकसंभोगां दू्ती प्रत्युपभोगचिहैस्तं ज्ञातवत्या नायिकाया इयमुक्तिः । साधारणानां रोगादितोऽपि तत्संभ- वात्। यथात्रैव नायिकायास्तद्वियोगतः । वक्रादीति । आदिना बोद्धव्यपरिग्रहः। ननु तस्य तदनुपायत्वेऽपि सति संभवे तत्प्रतिपादनमित्युक्तमेवात आह-प्रत्युतेति।व्य- क्तीति। व्यञ्जनेत्यर्थः । एवमप्रेऽपि। एवं च व्यअनासिद्धिरेव न स्यादिति भावः । त- टादीत्यस्य वापीस्नानव्यावर्तनायेत्यादि। आदिना जलबिन्दुपातादिपरित्रहः । 'जातायाः' इति पाठः। नन्वत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येनाधमपदेन व्यज्यत इति प्रका- शकाराद्युक्कतवात्स्नानव्यावृत्तिर्मया कृतात आह-अपि चेति। लन्मत इत्यनेन तेषां
Page 30
रसगद्गाधरः । १५
पूर्णत्वाभावे। अथ तदन्तिकगमनस्य लक्षणावेद्यत्वेऽपि रमणस्य फलांशस्य लक्ष्यशक्तिमूलध्वननवेद्यत्वमव्याहतमेवेति चेत्, 'अधमत्वमप्रकृष्टत्वं तच्च जात्या कर्मणा वा भवति। तत्र जात्यापकर्ष नोत्तमनायिका नायकस्य वक्ति' इत्यादिना संदर्भेण भवतैवार्थापत्तिवेद्यतायाः स्फुटं वचनात्। अ- न्यलभ्यस्य च शब्दार्थताया अस्वीकृतेः । अन्यच्च यथाकर्थंचिदङ्गीकुरु वात्र व्यज्जनाव्यापारं तथापि न तवेष्टसिद्धिः। वाच्यानां निःशेषच्युतच- न्दनस्तनतटत्वादीनामधमत्वस्य च त्वदुक्तरीत्या प्रकारान्तरेणानुपपद्य- मानतया दूतीसंभोगमात्रनिप्पाद्यत्वेन गुणीभूतव्यङ्गयत्वप्रसङ्गात्। एवं चोपपत्तिविरोधोऽपि स्फुटतर एव। तस्माद्वाच्यार्थसाधारण्यमेवोचित- मतिविदग्धनायिकानिरूपितानां विशेषणवाक्यार्थानाम्। तथा हि 'अयि बान्धवजनस्याज्ञातपीडागमे स्वार्थपरायणे स्न्नानकालातिकमभयवशेन नदीमदीयप्रिययोरन्तिकमगत्वैव वापीं स्नातुमितो ममान्तिकाद्गतासि न पुनस्तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम्। यतो निः- शेषच्युतचन्दनं स्तनयोस्तटमेव नोरःस्थलम्। वापीगतबहुलयुवजनत्रपा- पारवश्यादंसद्वयलसनाग्रस्वस्तिकीकृतभुजलतायुगलेन तटस्यैवोन्नततया मु- मते तत्सूपपादमिति सूचितम्। त्वदुक्ेति। तटादिघटितत्वरूपयेत्यर्थः । निषे- धस्यति । यथाक्रममन्वयः । उन्मीलिते प्रकटिते। कर्तृविशेषणं लुउन्त इति । तदनुपपत्त्यधीन उल्लासो यस्य विरोधिलक्षणया पूर्णत्ाभावस्य तत्र यथा न व्यअ्जनावे- द्यतेत्यर्थः । लक्ष्येति। लक्ष्यं तदन्तिकगमनं तस्य या शक्तिः सामर्थ्य तन्मूलं यद्यअनं तद्वेद्यलमित्यर्थः । आदिना 'नापि स्वापराधपर्यवसायि दूतीसंभोगादिहीन कर्मातिरिक्ेन कमणा तादशं हि दूतीप्रेषणात्प्राचीनं सर्वे सोढमेवेति नोद्वाटनार्हम्, अन्यथा स्वयं दूतीसं प्रेषणानुपपत्तेः' इत्यादिपरिग्रहः । तस्यापि रमणस्यापि। ननु तद्वेदत्वेऽपि व्यञ्जना कुतो नात आह-अन्येति। 'अनन्यलभ्यो हि शब्दार्थः' इति न्यायादिति भावः। यथा- कर्थचिदिति। अर्थापत्तिप्रमाणस्यातिरिक्त्तस्याभावादिति भावः । अत्र रमणे। सं- भोगमात्रेति। तदन्येन वाच्यस्य सिद्धेरेवाभावादिति भावः । उपसंहरति-एवं चेति। उक्तरीत्या गुणीभूतव्यक्षयत्वप्रसन्गे चेत्यर्थः। एवं चात्र तदनुरोधेन तथोक्तावुपपत्तिविरो- धवत्तत्र तदनुरोधत्यागेनासाधारण्यप्रतिपादनं तद्विरुद्धमेव तदाह-अपीति। कथं तर्हि तस्या व्यङ्जयत्वं प्रकाशादुक्तमाह-तस्माद्वाच्यार्थेति। वापीस्न्नानेत्यर्थः। निरूपि- तेति। बोधितेत्यर्थः । गमे इत्यन्तव्याख्या स्वार्थेति। अन्तिकमि त्यत्र गतासीत्यनुपङ्गः।
Page 31
१६ काव्यमाला।
हुरामर्शात्। एवं त्वरया सम्यगक्षालनेनोत्तरोष्ठो न निर्मृष्टरागोऽधरस्तु तदपेक्षया गण्डूषजलरदनशोधनाङ्गुल्यादीनामधिकसंमर्दमावहतीति तथा। किं च सम्यगक्षालनेन नेत्रे जलमात्रसंसर्गाहूरमुपरिभाग एवानज्जने । शीतवशात्तानवाच्च तव तनुः पुलकितेति। एवं तस्या विदग्धाया गूढता- त्पयैवोक्तिरुचिता। अन्यथा वैदग्ध्यभङ्गापत्तेः। एवं साधारणेष्वेषु वा- क्यार्थेषु मुख्यार्थे वाधाभावात्तात्पर्यार्थस्य झटित्यनाकलनात्कुतोऽत्र लक्ष- णावकाशोऽनन्तरं च वाच्यार्थप्रतिपत्तेर्वक्तृबोद्धव्यनायकादीनां वैशिष्टस्य प्रतीतौ सत्यामधमपदेन खवप्रवृत्तिप्रयोजको दुःखदातृत्वरूपो धर्मः साधारणात्मा वाच्यार्थदशायामपराधान्तरनिमित्तकदुःखदातृत्वरूपेण स्थितो व्यञ्जनाव्यापारेण दूतीसंभोगनिमित्तकदुःखदातृत्वाकारेण पर्यवस्यतीत्या- लंकारिकसिद्धान्तनिष्कर्षः । एतेन 'अधमत्वमपकृष्टत्वं तच्च जात्या कर्मणा वा भवति। तन्र जात्यापकर्ष नोत्तमनायिका नायकस्य वक्ति। नापि स्वापराधपर्यवसायिदूतीसंभोगादिहीनकर्मातिरिक्त्तेन कर्मणा। तादशं च दूतीसंप्रेषणात्प्राचीनं सोढमेवेति नोद्धाटनार्हमितीतरव्यावृत्त्या संभोग- रूपमेव पर्यवस्यति' इति यदुक्तम्, तदपि निरस्तम्। विदग्घोत्तमनायि- कायाः सरीसमक्षं तदुपभोगरूपस्य खनायकापराघस्य स्फुटं प्रकाशयितु-
एवं त्रपापारवश्यात्। तथा निर्मृष्टरागः । तन्वीत्यस्यार्थमाह-तानवाच्ेति। कृशला- चेत्यर्थः । उपसंहरति-एवमिति। उक्तप्रकारेत्यर्थः । प्रागुक्तलक्षणापत्तिदोष इह नेत्याह-एवमिति। मुख्यार्थे वापीस्नाने। अनन्तेति। वाच्यार्थप्रतिपत्तेरनन्तरं चे- त्यर्थः । वक्री विदग्धोत्तमनायिका। बोद्धव्या दुःशीला दूती। नायकस्तादृशः। आदिना काक्कादिपरिग्रहः । अधमपदेनेति । बोधित इति शेषः । स्वेति। अधमपदप्रत्ृ- त्तिनिमित्तमित्यर्थः । साधारणेति। तादृशकर्मान्तरसाधारणेत्यर्थः । दातृत्वरूपेण स्थित इति। अधमपदप्रवृत्तिनिमित्तस्य सकलाधमसाधारणस्यैकस्याभावात्तत्तद्व्मास्तन्र तत्र प्रवृत्तिनिमित्ततया खीकार्याः । प्रकृते तु दुःखदातृत्वरूपो धर्मः । तत्र च वाच्य- कक्षायां दुःखत्वेन रूपेणापराधान्तरनिमित्तं दुःखं प्रकरणादिवशाद्धटकीभूय भासते। व्यक्चयकक्षायां तु दूतीसंभोगनिमित्तदुःखत्वेन दूतीसंभोगनिमित्तकं दुःखमिति भावः। तदभिप्रायेणोच्यते स्थितः पर्यवस्यतीति चेति। स्वापेति। खं नायिका। दूतीसंभोगादि- रूपं यद्धीनकर्मेत्यर्थः । एतेनेत्यस्यार्थमाह-विदेति। तदुपेति। दूत्युपेत्यर्थः । अति-
Page 32
रसगङ्गाघरः । १७
मतितमामनौचित्येन प्राचीनानामेव सोढानामप्यपराधानामसह्यतया दूतीं प्रति प्रतिपिपादयिषितत्वादिति दिक्। यत्र व्यङ्ग्मप्रधानमेव सच्चमत्कारकारणं तद्वितीयम्॥ वाच्यापेक्षया प्रधानीभूतं व्यङ्ञयान्तरमादाय गुणीभूतं व्य्नयमादायाति- व्याप्तिवारणायावधारणम्। तेन तस्य ध्वनित्वमेव । लीनव्यङ्गयवाच्य- चित्रातिप्रसङ्गवारणाय चमत्कारेत्यादि । यत्तु 'अतादृशि गुणीभूतव्य- न्रयम्' इत्यादि काव्यप्रकाशगतलक्षणे चित्रान्यत्वं टीकाकारैर्दत्तम्, तन्न । पर्यायोक्तसमासोक्त्यादिप्रधानकाव्येष्वव्याप्यापत्तेः । तेषां गुणीभूतव्य- ङ्गतायाश्चित्रतायाश् सर्वालंकारिकसंमतत्वात्। उदाहरणम्- 'राघव विरहज्वालासंतापितसह्यशैलशिखरेषु। शिशिरे सुखं शयानाः कपयः कुप्यन्ति पवनतनयाय ॥' इति। अत्र जानकीकुशलावेदनेन राघवः शिशिरीकृत इति व्यङ्ञयमाकस्मिक- कपिकर्तृकहनूमद्विषयककोपोपपादकतया गुणीभूतमपि दुर्दैववशतो दास्य- मनुभवद्राजकलत्रमिव कामपि कमनीयतामावहति। नन्वेवं प्रागुक्तमाक्षेप- गतं मान्द्यमपि नववधूप्रकृतिविरोधादनुपपद्यमानं व्यक्गयेनवोपपाद्यत इति कथमुत्तमोत्तमता तस्य काव्यस्येति चेत्, न। यतो ह्यनुदिनसख्यु- पदेशादिभिरनतिचमत्कारिभिरप्युपपद्यमानं मान्दयमिदं प्रथमचित्तचुम्बिनीं
तमामत्यन्तम्। प्राचीति। दूतीसंप्रेषणादित्यादिः । अन्यथा वैदग्ध्यादिभङ्गापत्तिः । दोषान्तरमपि प्रागुक्कत तदाह-दिगिति। द्वितीयमुत्तमम्। वाच्येति। वाच्यार्थतः प्रधानमन्यव्यक्यादप्रधानं यद्यङ्गयं तदादायेत्यर्थः। अपराङ्गोदाहरणे 'अयं सरशनोत्कपी' इत्यत्रापि वाच्यापेक्षया शङ्गारस्य न प्राधान्यम्। शोकोत्कर्षकतया शङ्गाररुपव्यक्षयापे- क्षया वाच्यस्यैव चमत्कारितात्। एवं सर्वत्रापराङ्गोदाहरणेघूहयम्। अवधारणे एवः । तस्य सांप्रतमुक्त्स्य। लीनव्यङ्गयेति बहुव्रीहिः। शब्दचित्रे तदभावादाह-वाच्येति। तत्रोत्तमत्वादि प्रसङ्गेत्यर्थः । उदेति। लक्षितद्वितीयकाव्योदाहरणमित्यर्थः। राघवविर- हेति। सीतावियोगकृतरामविरहानलज्वालासंतापितसत्यनामकाद्रिशिख रेषु शिशिर तौं सुखं यथा तथा शयाना इत्यादिरथः । कोपो वाच्यः। प्रागुक्त ध्वनितृतीयलक्ष्ये 'तल्पग- तापि च' इति पद्ये उक्तम्। व्यङ्गयेनैव रत्याख्यस्थायिनैव। एवोऽन्यव्यवच्छेदे। प्रथ-
Page 33
१८ काव्यमाला।
विप्रलम्भरतिमप्रकाशयन्न प्रभवति स्वातन्येण परनिर्वृतिचर्वणागोचरता- माधातुम् । इत्थमेव निःशेषच्युतचन्दनमित्यादिपद्येष्वधमत्वादीनि वा- च्यानि व्यङ्ग्यातिरिक्तेनार्थेनापाततो निष्पन्नशरीराणि व्यञ्जकानीति न तत्रापि गुणीभावः शङ्कनीयः । अनयोर्भेदयोरनपहवनीयचमत्कारयोरपि प्राधान्याप्राधान्याभ्यामस्ति कश्चित्सहृदयवेद्यो विशेषः । यत्तु चित्रमीमां- साकृतोक्तम्- 'प्रहरविरतौ मध्ये वाह्वस्ततोऽपि परेण वा किमुत सकले याते वाहि प्रिय त्वमिहैप्यसि। इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सवाप्पगलज्जलैः ॥ इत्यत्र सकलमहः परमावधिस्ततः परं प्राणान्धारयितुं न शक्रोमीति व्यङ्गचं प्रियगमननिवारणरूपवाच्यसिद्धङ्गमतो गुणीभूतव्यञ्ञ्यम्' इति। तन्न। सबाप्पगलज्जलानां प्रहरविरतावित्याद्यालापानामेव प्रियगमननिवा- रणरूपवाच्यसिद्धङ्गतया व्यञ्ञयस्य गुणीभावाभावात्। आलापैरिति तृती- यया प्रकृत्यर्थस्य हरणक्रियाकरणतायाः स्फुटं प्रतिपतेः । न च व्यन्नय- स्यापि वाच्यसिद्धङ्गतात्र संभवतीति तथोक्तमिति वाच्यम्। निःशेषच्यु- तचन्दनमित्यादाविवाधमत्वरूपवाच्यसिद्धङ्गताया दूतीसंभोगादौ संभ- वाद्गुणीभावापत्तेः । अस्तु वा ततः परं प्राणान्धारयितुं न शक्रोमीति ममेव। चित्तारूढामित्यर्थः । अप्रेति । अव्यञ्जयन्। स्वेति। मन्दत्वमात्रेणेत्यर्थः । परेति। परमसुखास्वादविषयतामित्यथः । अर्थेनापराधान्तरनिमित्तकदुःखदातृत्वरूपेण। तत्र तात्पर्याभावादाह-आपातत इति। ननूक्तमेदयोश्षमत्कृतेस्तौल्यादैक्यमेवास्ता- मत आह-अनयोरिति।प्रहरविरताविति। हे प्रिय, त्वं किं प्रहरसमाप्तौ दिनमध्ये याते वा मध्याह्वादषि परेण तृतीयप्रहरेण यातेन वा सर्वदिने गते वेह मत्समीपे उत निश्चयेनैष्यस्यागमिष्यसि। इत्येवं प्रकारेण। आलापेऽ्स्यान्वयः। अग्रे स्पष्टम्। शतश- ब्दोऽनियतसंख्यावाची । एवमुक्तव्यक्कथव्यवच्छेदे। व्यङ्गयस्य शक्रोमीत्यन्तस्य । ननु विनिगमनाविरहोऽत आह-आलापैरिति। प्रकृत्यर्थस्य तादृशालापस्य। अपिरुक्तकस- मुचये। ननु सवाष्पगलज्जलतदुक्तालापानां गमनोत्तरचिरकालावस्थितिनिवारकतयाप्यु- पपत्तेर्व्यअ्गयसहितानामेव गमननिवारणसामर्थ्यमत आह-अस्तु वेति। आन्तरा- लिकव्यङ्गयमादायैव ध्वनिगुणीभूतत्र्यक्ञयादिव्यवहारस्योपपद्यमानतया विप्रलम्भेन ध्व-
Page 34
रसगङ्गाधरः । १९
व्यङ्गयस्य वाच्यसिद्यङ्गतया गुणीभावस्तथापि नायकादेर्विभावस्य वाप्पा- देरनुभावस्य चित्तावेगादेश्च संचारिणः संयोगादभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत्। यत्र व्यङ्गयचमत्कारासमानाधिकरणो वाच्यचमत्कारस्तत्ततीयम् ।
मगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी' इति। अत्रोत्प्रेक्षा वाच्यैव चमत्कृतिहेतुः । श्वैत्यपातालतलचुम्बित्वादीनां चमत्कारो लेशतया सन्नप्युत्प्रेक्षा चमत्कृतिजठरनिलीनो नागरिकेतरनायि काकल्पितका- इमीरद्रवाङ्गरागनिगीर्णो निजाङ्गगौरिमेव प्रतीयते। न ताद्ृशोऽस्ति कोऽपि वाच्यार्थों यो मनागनामृष्टप्रतीयमान एव स्वतो रमणीयतामा- धातुं प्रभवति। अनयोरेव द्वितीयतृतीयभेद योर्जागरूकाजागरू कगुणी- भूतव्यन्नययोः प्रविष्टं निखिलमलंकारप्रधानं काव्यम्। यत्रार्थचमत्कृत्युपस्कृता शब्दचमत्कृतिः प्रधानं तदधमं चतुर्थम्।। यथा- 'मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे। गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नमः ॥' इति।
नित्वं को निवारयेदिति चिन्त्यम्। अन्यथा 'ग्रामतरुणम्' इत्यादिगुणीभूतव्यङ्गयीयप्रका- शाद्युक्तोदाहरणानामप्य संगत्यापत्ता व्याकुली स्यात्। तत्रापि व्यङ्षयसंकेतभग्वेन वाच्यमु- खमालिन्यातिशय रूपानुभावमुखेनैव विप्रलम्भाभासपोषणं न केवलेन संकेतभज्ञेन। त- स्याकतव्यतवुद्यापि संभवादिति वोष्यम्। व्यङ्गथेति। तदसमानाधिकरणतं चास्फुट- तया वोध्यम्। हिमाचलस्य मैनाकः पुत्रः । लम्बीकृतत्वप्रविष्टत्वे भुजविशेषणे। तदूदा- चरिता। 'उपमानादाचारे' इति क्यड्। सखी यमुना वाच्यैव। तदर्थ क्यडः सत्त्वात्। अत्र श्वेतपातालतलगामिनी भागीरथी तादृशविशिष्टभुजत्वेनोत्प्रेक्ष्यते। एवव्यावर्ल व्यझ्यमाह-श्वैत्येति। व्यक्कयानामिति शेषः। नागेति। आ्मीणेत्र्थः । अत एव सम्यग्लेपनात्स्ाऊगौरत्व निगरणम् । काशमीरद्रवः केसररसः। सन्नपीत्यनेन व्यक्षयास- मानाधिकरणत्वमित्येव कुतो नोक्तमित्यस्य निरासः। तदाह-न तादृश इति। मना- गिति। ईपदस्पृष्टव्यङ्गय एवेत्यर्थः । उपस्कृतत्वं पोषिततम् । अत एव तस्याः प्राधा- न्यम्। गोत्रात्र इति तृजन्तस्य चतुर्थ्यन्तम्। शिवाय विष्णवे वा। सूर्याचन्द्रनेत्राय। न्रयी वेदत्रयी तत्र शात्रवं शत्रत्वं यस्य मदनस्य, येपां वा दैत्यानाम्, तच्छत्रवे। गोत्रारि-
Page 35
२० काव्यमाला।
अत्रार्थचमत्कृतिः शब्दचमत्कृतौ लीना। यद्यपि यत्रार्थचमत्कृतिसामा- न्यशून्या शब्दचमत्कृतिस्तत्पश्चममधमाधममपि काव्यविधासु गणयितु- मुचितम्। यथैकाक्षरपद्यार्धावृत्तियमकपद्मबन्धादि । तथापि रमणी- यार्थप्रतिपादकशब्दतारूपकाव्यसामान्यलक्षणानाक्रान्ततया वस्तुतः काव्य- त्वाभावेन महाकविभिः प्राचीनपरम्परामनुरुन्धानैस्तत्र तत्र काव्येषु निबद्धमपि नास्माभिर्गणितम्। वस्तुस्थितेरेवानुरोध्यत्वात्। केचिदिमा- नपि चतुरो भेदानगणयन्त उत्तममध्यमाधमभावेन त्रिविधमेव काव्यमाच- क्षते। तत्रार्थचित्रशब्दचित्रयोरविशेषेणाघमत्वमयुक्तं वक्तुम्। तारतम्यस्य स्फुटमुपलब्घेः । को ह्येवं सहृदयः सन् 'विनिर्गतं मानदमात्ममन्दिरात्', 'स च्छिन्नमूल: क्षतजेन रेणुः' इत्यादिभि: काव्यैः 'स्च्छन्दोच्छलद्' इत्यादीनां पामरश्लाध्यानामविशेषं ब्रूयात् । सत्यपि तारतम्ये यद्येकभे- दत्वं कस्तर्हि ध्वनिगुणीभूतव्यङ्गययोरीषदन्तरयोर्विभिन्नभेदत्वे दुराग्रहः। यत्र च शब्दार्थचमत्कृत्योरकाधिकरण्यं तत्र तयोर्गुणप्रधानभावं पर्या- लोच्य यथालक्षणं व्यवहर्तव्यम्। समप्राधान्ये तु मध्यमतैव । यथा- 'उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानां निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम्।
रिन्द्रस्तद्रोत्जा देवास्तद्रक्षकायेत्यर्थः । लीनेति। अप्रधानत्वेनास्फुटत्ादिति भावः । न्यूनता परिहरति-यद्यपीति। विधासु भेदेषु। महत्त्वेन तथा निबन्धे योग्यता सू चिता। परम्परामित्यनेनान्धपरम्परावदविचारः सूचितः। काव्येषु तत्र तत्र स्थलवि- शेषे। प्राचीनोक्तेः सूचितासांगत्य हेतुमाह-वस्त्विति। केचित् प्रकाशकारादयः। एवं तारतम्यज्ञत्वेन । 'विनिर्गतं मानदमात्ममन्दिराद्गवत्युपश्रुत्य यदच्छयापि यम्। ससंत्रमे- न्द्रदुतपातितार्गला निमीलिताक्षीव भियामरावती ।' इति प्रकाशायुक्त्म्। 'स च्छित्र- मूल: क्षतजेन रेणुस्तस्योपरिश्ठत्पवनावधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवावभासे ॥' इत्यप्पयदीक्षितोक्तम् । काव्यैः । अर्थचित्रैरिति शेषः । 'स्वच्छन्दोच्छ- लदच्छकच्छकुहरच्छातेतराम्भश्छटामूच्छन्मोहमहर्षि हर्षविहितस्ानाहिकाह्वाय वः। भि- न्यादुद्यदुदारदर्दुरदरीदैर्ध्यादरिद्रद्मद्रोहोद्रेकमयोमिमेदुरमदा मन्दाकिनी मन्दताम् ।।' इति प्रकाशाद्युक्तम्। पामरेति। शब्दचित्रत्ादिति भावः । ईषद्न्तरेति । प्राधा- न्याप्राधान्यकृतेत्यर्थः । उल्लास इति। रविवर्णनम्। उदयाचलप्रान्तभागादयं कोऽपि
Page 36
रसगङ्गाघरः । २१
उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत ॥' अत्र वृत्त्यनुप्रासप्राचुर्यादोजोगुणपकाशकत्वाच् शव्दस्य प्रसादगुण- योगादनन्तरमेवाधिगतस्य रूपकस्य हेत्वलंकारस्य वा वाच्यस्य चम- त्कृत्योस्तुत्यस्कन्धत्वात्सममेव प्राधान्यम् । तत्र ध्वनेरुत्तमोत्तमस्यासंख्यभेदस्यापि सामान्यतः केऽपि भेदा निरू- प्यन्ते-द्विविधो ध्वनिः, अभिधामूलो लक्षणामूलश्च। तत्राद्यस्त्रिविधः । रसवस्त्वलंकारध्वनिभेदात्। रसध्वनिरित्यलक्ष्यत्रमोपलक्षणाद्रसभावतदा- भासभावशान्तिभावोदयभावसंधिभावशबलत्वानां ग्रहणम्। द्वितीयश्च द्विविधः । अर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्च। एवं पञ्चा- त्मके ध्वनौ परमरमणीयतया रसध्वनेस्तदात्मा रसस्तावदभिधीयते- समुचितललितसंनिवेशचारुणा काव्येन समर्पितैः सहृदयहृदयं प्रविष्टैस्तदीयसहृदयतासहकृतेन भावनाविशेपमहिस्रा विगलितदु-
देश्यैः शकुन्तलादिभिरालम्नकारणैश्चन्द्रिकादिभिरुद्दीपनका- रणैरश्रुपातादिभि: कार्यैश्चिन्तादिभिः सहकारिभिश्च संभूय ग्रा- दुर्भावितेनालौकिकेन व्यापारेण तत्कालनिवर्तितानन्दांशावरणा-
विलक्षणो धाम्रां तेजसां समूहः प्रादुर्भवति। तत्र रूपकं चतुर्धा। विकसित कमलसमू- हमध्यावधिकनिःसरणयुतरसपानजोन्मादव्ग्रमराणामुल्लासः । तादृशकोकीनां निस्तारो दुःखोद्धर्ता। नाशिततेजसां तामसानां तमःसमूहानामुत्पातो नाशकः। नेत्राणां पक्षपातः सदकारी। 'आवृत्तवर्ण संपूर्ण वृत्त्यनुप्रासवद्चः । ओजः स्यात्प्रौढिरर्थस्य संक्षेपो वाति- भूयसः ॥ यस्मादन्तःस्थितः सर्वः स्पष्टमर्थाऽवभासते। सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ॥' इति तल्लक्षणानि बोध्यानि। रूपकस्योल्लासाद्यभेदरूपकस्य। ननूलासा- दीनां तत्कार्यलात्कथं रूपकमत आह-हेत्वलमिति। 'हेतोर्हेतुमता सार्ध वर्णनं हेतु- रुच्यते' इति तल्लक्षणम्। तत्न चतुर्णा मध्ये। त्रैविध्योपपत्तये आह-रसेति। एते- नाधिक्यात्रैविध्यमनुपपन्नमित्यपास्तम् । तदाभासेति । रसाभासभावाभासेत्यर्थः । एतेषां स्वरूपाण्यग्रे स्फुटीभविष्यन्ति। एवमुक्तप्रकारेण। घटकत्वं सप्तम्यर्थः । रसध्वने: परमरमणीयतयेत्यर्थः । तदात्मा ध्वन्यात्मा । समुचितेति। तत्तदससमुचितेत्यर्थः । अत एव ललित इति बोध्यम्। सहकारिभिश्चेत्यस्य चर्व्यमाणैरिति शेषः। आनन्दां-
Page 37
२२ काव्यमाला।
ज्ञानेनात एव प्रमुष्टपरिमितप्रमातृत्वादिनिजधर्मेण प्रमात्रा स्व- प्रकाशतया वास्तवेन निजस्वरूपानन्देन सह गोचरीक्रियमाणः प्राग्विनिविष्टवासनारूपो रत्यादिरेव रसः ।। तथा चाहु :-- 'व्यक्तः स तैर्विभावादैः स्थायीभावो रसः स्मृतः' इति। व्यक्तो व्यक्तिविषयीकृतः । व्यक्तिश्च भगनावरणा चित् । यथा हि शरावा- दिना पिहितो दीपस्तन्निवृत्तौ संनिहितान्पदार्थान्प्रकाशयति, स्वयं च प्रकाशते। एवमात्मचैतन्यं विभावादिसंवलितान्रत्यादीन् । अन्तःकर- णधर्माणां साक्षिभास्यत्वाभ्युपगतेः । विभावादीनामपि स्वन्नतुरगादीनामिव रङ्गरजतादीनामिव साक्षिभास्यत्वमविरुद्धम् । व्यञ्जकविभावादिचर्वणाया आवरणभङ्गस्य वोत्पत्ति विनाशाभ्यामुत्पत्तिविनाशौ रसे उपचर्येते। वर्ण- नित्यतायामिव व्यञ्जकताल्वादिव्यापारस्य गकारादौ विभावादिचर्वणाव- धित्वादावरणभङ्गस्य निवृत्तायां तस्यां प्रकाशस्यावृतत्वाद्विद्यमानोऽपि स्थायी न प्रकाशते। यद्वा विभावादिचर्वणामहित्रा सहृदयस्य निजस- हृदयतावशोन्मिषितेन तत्तत्स्थाय्युपहितसवररूपानन्दाकारा समाधाविव योगिनश्चित्तवृत्तिरुपजायते। तन्मयीभवनमिति यावत्। आनन्दो ह्ययं न
शेति। आनन्दांशस्यावरणरूपमज्ञानं यस्येति बहुव्रीहिः। प्रमातृविशेषणमिदम्। अत एव। आवरणनिवृत्तेरेवेत्यर्थः । सकलविषयज्ञानसंभवादिति भावः । प्रमात्रेत्यस्य गोचरी- क्रियमाण इत्यत्रान्वयः। आहुर्मम्मटभट्टाः। रत्यादीनित्यत्र प्रकाशयति स्वयं च प्रकाशत इत्यस्यानुषङ्गः । ननु भासनारूपरत्यादीनां तद्भास्यत्वेऽपि विभावादीनां कथं तद्भास्य- लम्। असाहित्येनासंवन्धादत आह-अन्तःकरणति। तथा च परम्परासंवन्ध इति भावः । हेतोरविरुद्धमि लत्नान्वयः । सवप्रदृष्टान्तमुक्त्वा जाग्रद्ृष्टान्तमाह-रङ्गेति। न- न्वेवमुत्पन्नो नष्टो रस इति व्यवहारो न स्यात्, चैतन्यरूपत्वात्, अत आह-व्यअ्ज- केति। बहुपरम्पराभयादाह-आवरणेति। उत्पत्तीति। हेतौ पञ्चमी। उत्पत्तिवि- नाशयोः सत्त्वादित्यर्थः । व्यापारस्योत्पतत्यादेः। ननु विभावादिचर्वणानाशेऽपि स्थायिप्र- काशः कुतो नात आह-विभेति। तस्यां तच्चर्वणायाम्। विद्येति। सूक्ष्मरूपत- येति भावः। मध्ये व्यापारकल्पनजलाघवायाह-यद्वेति। सहृदयस्येत्यस्य चित्तवृत्ति- रित्यत्रान्वयः। आनन्दाकारा तद्विषया। समाधौ सविकल्पकसमाधौ। निर्विकल्पके तद- नङ्गीकारादिति वोध्यम्। चित्तवृत्तिरिति। सा च काव्यव्यज्जनामूलेति वोध्यम्। त- नमयीति। आनन्दविषयतया तत्प्रचुरेत्यर्थः। अस्य लौकिकत्वादाह-सुखान्तरेति।
Page 38
रसगङ्गाधरः । २३
लौकिकसुखान्तरसाधारणः । अनन्तःकरणवृत्तिरूपत्वात् । इत्थं चाभिनयगु- समम्मटभट्टादिग्रन्थसारस्येन भग्नावरणचिद्विशिष्टो रत्यादिः स्थायीभावो रस इति स्थितम्। वस्तुतस्तु वक्ष्यमाणश्रुतिस्वारस्येन रत्याद्यवच्छिन्ना भग्नावरणा चिदेव रसः। सर्वथैव चास्या विशिष्टात्मनो विशेषणं विशेप्यं वा चिदंशमादाय नित्यत्वं सवप्रकाशत्वं च सिद्धम्। रत्याद्यंशमादाय त्वनित्यत्वमितरभास्यत्वं च । चर्वणा चास्य चिद्गतावरणभङ्ग एव प्रागुक्ता, तदाकारान्तःकरणतृ- ततिर्वा। इयं च परमव्रह्मास्वादात्समाधेरविलक्षणा। विभावादिविषयसंवलि- तचिदानन्दालम्बनत्वात्। भाव्या च काव्यव्यापारमात्रात्। अथास्यां सुखांशभाने किं मानमिति चेत्समाधावषि तद्धाने किं मानमिति पर्यनुयो- गस्य तुल्यत्वात् । 'सुखमात्यन्तिकं यत्तहुद्विग्राह्यमतीन्द्रियम्' इत्यादि: शब्दोडस्ति तत्र मानमिति चेदस्त्यत्रापि 'रसो वै सः, रसं ह्येवायं ल- ठध्वानन्दी भवति' इति श्रुतिः, सकलसहृदयप्रत्यक्षं चेति प्रमाणद्वूयम् । येयं द्वितीयपक्षे तदाकारचित्तवृत्यात्मिका रसचर्वणोपन्यस्ता सा शब्द- व्यापारभाव्यत्वाच्छान्दी। अपरोक्षसुखालम्वनत्वाच्चापरोक्षात्मिका । तत्त्वं वाक्यजबुद्धिवत् । इत्याहुरभिनवगुप्ताचार्यपादाः । भट्टनायकास्तु "ताटस्थ्येन रसप्रतीतावनास्वाद्यत्वम्। आत्मगतत्वेन तु प्रत्ययो दुर्घटः । शकुन्तलादीनां सामाजिकान्प्रत्यविभावत्वात्। विना विभावमनालम्ब- नस्य रसादेरप्रतिपत्तेः । न च कान्तात्वं साधारणविभावतावच्छेदकमत्रा-
अनन्तःकरणेति। अन्तःकरणवृत्त्य वच्छिन्नाचैतन्यरूपत्वादित्वर्थः । अस्या वृत्तेर्निरव- च्छिन्नविषयकत्वादिति भावः । उपसंहरति-इत्थं चेति । स्थितमित्यनेन सूचितश्रुति- विरोधरूपारुचिसिद्धान्तमाह-वस्त्विति। वक्ष्येति। 'रसो वैसः' इत्यादीति भावः। सर्वथैव चेति। उभयथापीत्यर्थः । मतक्रमादाह-विशेषेति। चर्व्यमाणो रस इति प्राचीनव्यवहारोपपत्तये आह-चर्वणा चास्येति। यद्वेति मतेनाह-प्रागुक्तेति। इयं चेति। रसचर्वणा चेत्यर्थः । परेति बहुन्रीहिः। समाधेः सविकल्पकात्। विष- येति। सा च विषयासंवलितशुद्ध्रह्मालम्बनेति भावः । काव्यव्यापारो व्यजना। मा- त्रपदेन तत्कारणश्रवणादिनिरासः। शाब्दत्वापरोक्षतयोन विरोध इत्याह-तत्वेति। ताटस्थ्येन रसेति। स्वसंबन्धराहित्येनेत्यर्थः । विभावं विनैवास्तामत आह-वि- नेति। अनालम्बनस्य निराधारस्य। अत्रापि वेषेऽपि। अनालिद्गितत्वं ज्ञानविशेषम्।
Page 39
२४ काव्यमाला।
प्यस्तीति वाच्यम्। अप्रामाण्यनिश्चयानालिङ्गितागम्यात्वप्रकारकज्ञानवि- रहस्य विशेष्यतासंबन्धावच्छिन्नप्रतियोगिताकस्य विभावतावच्छेदकको- टाववश्यं निवेश्यत्वात्। अन्यथा स्वस्रादेरपि कान्तात्वादिना तत्त्वापत्तेः । एवमशोच्यत्वकापुरुषत्वादिज्ञानविरहस्य तथाविधस्य करुणरसादौ। तादृशज्ञानानुत्पादस्तु तत्प्रतिबन्धकान्तरनिर्वचनमन्तरेण दुरुपपादः । स्वात्मनि दुष्यन्ताद्यभेदवुद्धिरेव तथेति चेत्, न। नायके धराधौरेयत्वधी- रत्वादेरात्मनि चाधुनिकत्वकापुरुषत्वादेवैधर्म्यस्य स्फुटं प्रतिपत्तेरभेदबोध- स्यैव दुर्लभत्वात्। किं च केयं प्रतीतिः। प्रमाणान्तरानुपस्थानाच्छाब्दीति
अप्यहृद्यत्वापत्तेः । नापि मानसी। चिन्तोपनीतानां तेषामेव पदार्थानां मानस्या: प्रतीतेरस्या वैलक्षण्योपलम्भात् । न च स्मृतिः । तथा प्रागननु- भवात्। तस्मादभिधया निवेदिताः पदार्था भावकत्वव्यापारेणागम्यात्वादि- रसविरोधिज्ञानप्रतिबन्धद्वारा कान्तात्वादिरसानुकूलधर्मपुरस्कारेणवस्थाप्य- न्ते। एवं साधारणीकृतेषु दुप्यन्तशकुन्तलादेशकालवयोवस्थादिषु पङ्गौ पूर्वव्यापारमहिमनि तृतायस्य भोगकृत्त्वव्यापारस्य महित्रा निगीर्णयो रजस्तमसोरुद्रिक्तसत्वजनितेन निजचित्सभाव निर्वृतिविश्रान्तिलक्षणेन सा- क्षात्कारेण विषयीकृतो भावनोपनीतः साधारणात्मा रत्यादिः स्थायी रसः । तत्र भुज्यमानो रत्यादिः, रत्यादिभोगो वेत्युभयमव रसः । सोडयं
विशेष्यतासंबन्धः समवायः। आवश्यकत्वमुक्तं द्रढयितुं विपक्षे बाधकमाह-अन्य- थेति। एवमुक्तरीत्या। तथाविधस्य विशेष्यतासंबन्धावच्छिन्नप्रतियोगिताकस्य। रसा- दावित्यम्य विभावतावच्छेदककोटाववश्यनिवेश्यतमिति शेपः। तादशेति। अप्रामा- ण्य निश्चयानालित्वितत्वर्थः । 'धराधौरेय' इति पाठः। विशिष्टोऽ धर्म उभयत्र। प्र० मेति। प्रत्यक्षादीत्यथः । शब्दान्तरेति। काव्यान्यव्यवहारसाधकशब्देत्यर्थः । वृत्ता- न्तति। वृत्तान्तज्ञानानामित्यर्थः । अस्या अपि। उक्तशव्दाप्रतीतेरित्यर्थः । अगम्य- त्वादीति। तत्प्रकारकं रसावरोधि यज्ज्ञानं तत्प्रतीत्यर्थः । कान्तेति। कान्तालादी रसानुकूलो यो धर्मस्तद्वशिष्टयेनेत्यर्थः । एवमुक्तव्यापारेण। तावतैव साफल्येनाह-प- ङ्गाविति। सतिसप्तमी। तमसोरित्यत्राप्येवम् । उद्रेकश्च खेतरावभिभूयावस्थानम्। साधारणेति। संबन्धिविशेषानवच्छिन्नेत्यर्थः। विनिगमनाविरहादाह-तत्रति। वि-
Page 40
रसगङ्गाघरः । २५
भोगो विषयसंवलनाड्गह्मासवादसविधवर्तीत्युच्यते। एवं च त्रयोंडशाः काव्यस्य। "अभिधा भावना चैव तद्भोगीकृतिरेव च" इत्याहुः। मतस्यैतस्य पूर्वस्मान्मताद्भावकत्वव्यापारान्तरसीकार एव विशेषः । भोगस्तु व्यक्तिः । भोगकृत्वं तु व्यञ्जनादविशिष्टम् । अन्या तु सैव सरणिः । नव्यास्तु 'काव्ये नाट्ये च कविना नटेन च प्रकाशितेपु विभावादिपु व्यञ्जनव्यापारेण दुप्यन्तादौ शकुन्तलादिरतौ गृहीतायामनन्तरं च सहृदयतोल्लासितस्य भावनाविशेषरूपस्य दोषस्य महिम्रा कल्पितदुप्यन्तत्वावच्छादिते स्ा- त्मन्यज्ञानावच्छिन्ने शुक्तिकाशकल इव रजतखण्डः समुत्पद्यमानोऽनि- र्वचनीयः साक्षिभास्यशकुन्तलादिविषयकरत्यादिरेव रसः । अयं च कार्यो दोषविशेषस्य। नाश्यश्च तन्नाशस्य। सवोत्तरभाविना लोकोत्तराह्वादेन भेदाग्रहात्सुखपदव्यपदेश्यो भवति। सवपूर्वोपस्थितेन रत्यादिना तदग्र- हात्तद्रतित्वेनैकत्वाध्यवसानाद्वा व्यज्नयो वर्णनीयश्चोच्यते। अवच्छादकं दुप्यन्तत्वमप्यनिर्वचनीयमेव। अवच्छादकत्वं च रत्यादिविशिष्टवोधे विशेष्यतावच्छेदकत्वम् । एतेन दुप्यन्तादिनिष्ठस्य रत्यादेरनास्वाद्य- त्वान्न रसत्वम् । सवनिष्ठस्य तु तस्य शकुन्तलादिभिरतत्संबन्धिभिः कथमभिव्यक्तिः । स्वस्मिन्दुप्यन्ताद्यभेद्वुद्धिस्तु वाघबुद्धिपराहतेत्यादि- कमपास्तम्। यदपि विभावादीनां साधारण्यं प्राचीनैरुक्तं तदपि काव्येन शकुन्तलादिशब्दैः शकुन्तलात्वादिप्रकारकबोधजनकैः प्रतिपाद्यमानेपु श- कुन्तलादिपु दोषविशेषकल्पनं विना दुरुपपादम् । अतोऽवश्यकल्प्ये दोषविशेषे तेनैव खवात्मनि दुप्यन्ताद्यभेदवुद्धिरपि सूपपादा। नन्वेव- मपि रतेरस्तु नाम दुप्यन्त इव सहृदयेऽपि सुखविशेषजनकता, करुण- रसादिपु तु स्थायिनः शोकादेर्दुःखजनकतया प्रसिद्धस्य कथमिव सह- शिश् इत्यर्थः । भोगश्च सत्त्वगुणोद्रेकात्प्रकाशते य आनन्दस्तत्खरूपानन्यालम्बना या संवित्तत्सवरूपो लौकिकसुखानुभव विलक्षणः । सत्त्वरजस्तमसां गुणानामुद्रेकेण क्रमात्सु- खदुःखमोहाः प्रकाश्यन्ते। सविधेति। न तुस एवेति भावः । अंशा व्यापाराः। सैवेति। प्रागुक्त एव मार्ग इत्यर्थः । तन्नाशेति । दोपविशेषनाशेत्यर्थः । स्वपूर्वो- पेति। दुष्यन्तादौ गृहीतशकुन्तलारत्यादिनेत्यर्थः। तदग्रहादिति। भेदाग्रहादित्यर्थः। नन्वेवमपि कथं तद्धमलाभोऽत आह-तद्रतीति। एतेनेति। उक्तरीत्या सर्वोपपाद- ३
Page 41
२६ काव्यमाला।
दयाह्लादहेतुत्वम्। प्रत्युत नायक इव सहृदयेऽपि दुःखजननस्यैवौचि- त्यात्। न च सत्यस्य शोकादेर्दुःखजनकत्वं कृप्तं न कल्पितस्येति नाय- कानामेव दुःखम्, न सहृदयस्येति वाच्यम्। रज्जुसर्पादेर्भयकम्पाद्यनुत्पा- दकतापत्तेः । सहृदये रतेरपि कल्पितत्वेन सुखजनकतानुपपत्तेश्चेति चेत्। सत्यम्। शृङ्गारप्रधानकाव्येभ्य इव करुणप्रधानकाव्येभ्योऽपि यदि के- वलाह्लाद एव सहृदयहृदयप्रमाणकस्तदा कार्यानुरोधेन कारणस्य कल्पनी- यत्वाल्लोकोत्तरकाव्य व्यापारस्यैवाह्ाद प्रयोजकत्वमिव दुःखप्रतिवन्धकत्व- मपि कल्पनीयम् । अथ यद्याह्राद इव दुःखमपि प्रमाणसिद्धं तदा प्रति- वन्धकत्वं न कल्पनीयम्। स्वस्वकारणवशाच्चोभयमपि भविष्यति। अथ तत्र कवीनां कर्तुम्, सहृदयानां च श्रोतुम्, कथं प्रवृत्तिः । अनिष्टसाधन- त्वेन निवृत्तेरुचितत्वात् । इति चेत्। इष्टस्याधिक्यादनिष्टस्य च न्यूनत्वाच्च- न्दनद्रवलेपनादाविव प्रवृत्तेरुपपत्तेः । केवलाह्ादवादिनां तु प्रवृत्तिरप्रत्यू- हैव। अश्रुपातादयोडपि तत्तदानन्दानुभवस्वाभाव्यात्। न तु दुःखात्। अत एव भगवद्भक्तानां भगवद्वूर्णनाकर्णनादश्रुपातादय उपपद्यन्ते। न हि तत्र जात्वपि दुःखानुभवोऽस्ति। न च करुणरसादौ सात्मनि शो- कादिमद्दशरथादितादात्म्यारोपे यद्याह्लादस्तदा खम्नादौ संनिपातादौ वा स्वात्मनि तदारोपेऽपि स स्यात्, आनुभविकं च तत्र केवलं दुःखमिती- हापि तदेव युक्तमिति वाच्यम्। अयं हि लोकोत्तरस्य काव्यव्यापारस्य महिमा, यत्प्रयोज्या अरमणीया अपि शोकादयः पदार्था आह्लांदमलौ- किकं जनयन्ति। विलक्षणो हि कमनीयः काव्यव्यापारज आस्वादः प्रमाणान्तरजादनुभवात् । जन्यत्वं च खजन्यभावनाजन्यरत्यादिविषय-
नेनेत्वर्थः । तस्य रत्यादेः । रजुसर्पादेरिति। तद्रूपसर्पादेरित्यर्थः। केवलेति। दुः- खामिश्रेत्यर्थः। दुःखप्रतिवन्धेति। सुरतकालिकदन्ताद्याघातस्येवेत्यर्थः। प्रमाणेत्यस्य सहृदयेत्यादिः । तत्र करुणप्रधानकाव्ये। द्वितीयमतेनेदमुक्ततं नाद्यमतेनेत्याह-केव- लेति। न चाद्यमतेऽश्रुपातादयो न स्युः, तेषां दुःखकार्यत्ादत आह-अश्रुपाताद- योऽपीति। नेदं क्वचिदृष्टमत आह-अत एवेति। जातपीषदपि। तदारोपेऽपि शोकादिमद्दशरथादितादात्म्यारोपेऽपि। स आह्वादः । तत्र खप्नादौ। इहापि करुणरसा- दावषि। तदेव दुःखमेव। यत्प्रयोज्याः काव्यव्यापारप्रयोज्याः । प्राचीनोक्त्दोषमुद्ध-
Page 42
रसगङ्भाधरः । २७
कत्वम्। तेन रसाख्ादस्य काव्यव्यापाराजन्यत्वेऽपि न क्षतिः। शकु- न्तलादावगम्यात्वज्ञानोत्पादस्तु खात्मनि दुष्यन्ताभेदबुद्या प्रतिवध्यते' इत्याहुः । परे तु 'व्यञ्जनव्यापारस्यानिर्वचनीयख्यातेश्चानभ्युपगमेऽपि प्रागुक्तदोषमहिन्ना स्वात्मनि दुष्यन्तादितादात्म्यावगाही शकुन्तलादि- विषयकरत्यादिमदभेदवोधो मानसः काव्यार्थभावनाजन्मा विलक्षणविषय- ताशाली रसः। खाप्नादिस्तु तादृशबोधो न काव्यार्थचिन्तनजन्मेति न रसः । तेन तत्र न तादृशाह्वादापत्तिः । एवमपि स्वस्मिन्नविद्यमानस्य रत्यादेरनुभवः कथं नाम स्यात्। मैवम्। नह्ययं लौकिकसाक्षात्कारो रत्यादेः, येनावश्यं विषयसद्भावोऽपेक्षणीयः स्यात्। अपि तु भ्रमः । आस्वादनस्य रसविषयकत्वव्यवहारस्तु रत्यादिविषयकत्वालम्बनः' इ- त्यपि वदन्ति। एतैश्च सवात्मनि दुप्यन्तत्वधर्मितावच्छेदकशकुन्तलादि- विषयकरतिवैशिष्ठावगाही, स्वात्मत्वविशिष्टे शकुन्तलादितिपियकराति- विशिष्टदुष्यन्ततादात्म्यावगाही, सवात्मत्वविशिष्टे दुप्यन्तत्वशकुन्तला- विषयक्रत्योवेशिश्षावगाही, वा त्रिविधोऽपि बोधो रसपदार्थतयाभ्यु- पेयः । तत्र 'रतेर्विशेषणीभूतायाः शब्दादप्रतीतत्वाद्यञ्जनायाश्च तत्प्रत्या- यिकाया अनभ्युपगमाच्चेष्टादिलिङ्गकमादौ विशेषणज्ञानार्थमनुमानमभ्यु- पेयम्। मुख्यतया दुप्यन्तादिगत एव रसो रत्यादिः कमनीयविभावाद्य- भिनयप्रदर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नटे समारोप्य साक्षात्क्रियते' इत्येके। मतेऽस्मिन्साक्षात्कारो दुप्यन्तोऽयं शकुन्तलादिविषयकरतिमानि- त्यादि: प्राग्वद्धम्यैशे लौकिक आरोप्यांशे त्वलौकिकः । 'दुप्यन्तादिगतो रत्यादिर्नटे पक्षे दुप्यन्तत्वेन गृहीते विभावादिभिः कृत्रिमैरप्यकृत्रिमतया गृहीतैर्मिन्ने विपयेऽनुमितिसामत्रया वलवत्वादनुमीयमानो रसः' इत्यपरे। रति-शकुन्तलादाविति। प्रागुक्तोषमुद्धरति-स्वाप्नादिस्त्विति। नन्वेवं वो- धस्यैव सत्वेन कथमास्वादे रसविषयकत्वव्यवहारोऽत आह-आस्वादेति। एतैक् 'परे तु' इतिवादिभिश। अभ्युपेय इति। विनिगमनाविरहादिति भावः । रस इति। रत्यादिरूपो रस इत्यन्वयः । दुष्यन्ताद्यनुकर्तरीति। श्रत्यकाव्ये तु काव्यपाठक इति बोध्यम्। मतेऽस्मिन्निति। अस्मिन्मते इत्यादिः साक्षात्कारस्तत्र लोकिकोऽन्यत्रा- लौकिक इत्यन्वयः । मतान्तरमाह-दुप्यन्तादीति। कतिपये केचन। त्रिषु विभा-
Page 43
२८ काव्यमाला। 'विभावादयस्त्रयः समुदिता रसाः' इति कतिपये। 'त्रिषु य एव चमत्कारी स एव रसोऽन्यथा तु त्रयोऽपि न' इति बहवः । 'भाव्यमानो विभाव एव रसः' इत्यन्ये । 'अनुभावस्तथा' इतीतरे । 'व्यभिचार्येव तथा तथा परिणमति' इति केचित्। तत्र 'विभावानुभावव्यभिचारिसंयोगा- द्रसनिष्पत्तिः' इति सूत्रं तत्तन्मतपरतया व्याख्यायते-'विभावानुभाव- व्यभिचारिभिः संयोगाद्यञ्जनाद्रसस्य चिदानन्दविशिष्टस्थाय्यात्मनः स्था- य्युपहितचिदानन्दात्मनो वा निष्पत्तिः स्वरूपेण प्रकाशनम्' इत्यादे। 'विभावानुभावव्यभिचारिणां सम्यक्साधारणात्मतया योगाद्भावकत्वव्यापारे- ण भावनाद्रसस्य स्थाय्युपहितसत्त्वोद्रेकप्रकाशितस्वात्मानन्दरूपस्य निप्प- त्तिर्भोगार्येन साक्षात्कारेण विषयीकृतिः' इति द्वितीये। 'विभावानुभाव- व्यभिचारिणां संयोगाद्भावनाविशेष रूपाद्दोषाद्रसस्यानिर्वचनीयदुष्यन्त- रत्याद्यात्मनो निप्पत्तिरुत्पत्तिः' इति तृतीये। 'विभावादीनां संयोगाज्ज्ञा- नाद्रसस्य ज्ञानविशेषात्मनो निष्पत्तिरुत्पत्तिः' इति चतुर्थे। 'विभावादीनां संबन्धाद्रसस्य रत्यादेर्निष्पत्तिरारोपः' इति पञ्चमे। 'विभावादिभिः कृत्रि- मैरप्यकृत्रिमतया गृहीतैः संयोगादनुमानाद्रसस्य रत्यादेर्निप्पत्तिरनुमिति- र्नटादौ पक्ष इति शेषः' इति षष्ठे। 'विभावादीनां त्रयाणां संयोगात्समुदा- याद्रसनिष्पत्ती रसपदव्यवहारः' इति सप्तमे। 'विभावादिषु सम्यग्योगा- चमत्कारात्' इत्यष्टमे। तदेवं पर्यवसितस्त्रिषु मतेषु सूत्रविरोधः। विभा- वानुभावव्यभिचारिणामेकस्य तु रसान्तरसाधारणतया नियतरसव्यञ्जकता-
वादिषु। तथा भाव्यमानोऽनुभावस्तथा रस इतीतरे इत्यर्थः । तथा भाव्यमानो व्यभि- चारिभाव एव तथा रसरूपतया परिणमतीत्यर्थः। उक्तार्थानां समूलत्माह-तत्रेति। उक्तपक्षसिद्धर्थमित्यर्थः । संयोगादित्यस्य व्याख्या व्यञ्ञनादिति। विनिगमनाविरहा- दाह-स्थाय्युपेति। निष्पत्तिरित्यस्य व्याख्या स्वरूपेणेत्यादि। आद्येऽभिनवगुप्तमते। संयोगादित्यस्य विच्छिद्यार्थमाह-सम्यगिति। द्वितीये भट्टनायकमते। तृतीये नव्य- मते। चतुर्थे परे वितिमते। पञ्चमे इत्येके इतिमते। अनुमितिरित्यन्तोऽर्थः। अग्रे शेषपूरणम्। षष्ठे इत्यपरे इतिमते। सप्तमे इति कतिपये इतिमते। अष्टमे इति बहव इतिमते। उपसंहरति-तदेवमिति। त्रिपु मतेषु भाव्यमान इत्यादिष्वग्रिमेषु । ननु तत्रैव त्रयाणां किमित्युपादानं येन मतत्रये सूत्रविरोधोऽत आह-विभावेति। निर्धारणषष्टीयम्। रसान्तरेति। तदुक्तम्-'व्याघ्रादयो विभावा भयानकस्येव
Page 44
रसगङ्गाघरः । २९
नुपपत्ते: सूत्रे मिलितानामुपादानम्। एवं च प्रामाणिके मिलितानां व्यञ्जकत्वे यत्र क्वचिदेकस्मादेवासाधारणाद्रसोद्वोधस्तत्रेतरद्वयमाक्षेप्यम्। अतो नानैकान्तिकत्वम्। इत्थ नानाजातीयाभिः शेमुषीभिर्नानारूपतया- वसितोऽपि मनीषिभि: परमाह्ादाविनाभावितया प्रतीयमानः प्रपश्वेऽस्मि- त्रसो रमणीयतामावहतीति निर्विवादम्। स च 'शृङ्गारः करुणः शान्तो रौद्रो वीरोऽद्भुतस्तथा। हास्यो भयानकश्चैव बीभत्सश्चेति ते नव ।I' इत्युक्तेर्नवधा। मुनिवचनं चात्र मानम्। केचितु- 'शान्तस्य शमसाध्यत्वान्नटे च तदसंभवात्। अष्टावेव रसा नाट्ये न शान्तस्तत्र युज्यते ।।' इत्याहुः । तच्चापरे न क्षमन्ते। तथाहि-नटे शमाभावादिति हेतुर- संगतः । नटे रसाभिव्यक्तेरसवीकारात्। सामाजिकानां शमवत्त्वेन तत्र रसोद्वोधे वाधकाभावात्। न च नटस्य शमाभावात्तदभिनयप्रकाशकत्वा- नुपपत्तिरिति वाच्यम्। तस्य भयक्रोधादेरप्यभावेन तदभिनयप्रकाशक- ताया अप्यसंगत्यापत्ेः । यदि च नटस्य क्रोधादेरभावेन वास्तवतत्का- र्याणां वधबन्धादीनासुत्पत्त्यसंभवेऽपि कृत्रिमतत्कार्याणां शिक्षाभ्यासादित उत्पत्तौ नास्ति वाधकमिति निरीक्ष्यते, तदा प्रकृतेऽपि तुल्यम्। अथ
रौद्राद्ुतवीराणाम्। अध्रुपातादयोऽनुभावाः शङ्गारस्येव करुणभयानकयोः। चिन्तादयो व्यभिचारिणः शप्नारस्येव करुणवीरभयानकानाम्' इति। एवं च उक्तहेतोस्तदनुप- पत्तौ च । यत्र क्वचिदिति । 'परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभि: क्रियासु। कलयति च हिमांशोर्निष्कलद्वस्य लक्ष्मीमभिन- वकरिदन्तच्छेदपाण्डुः कपोलः ॥' इल्यादावित्यर्थः । परमप्रकृतमुपसंहरति-इत्थ- मिति। उत्तप्रकारैरित्यर्थः । शेमुपीभिर्मतिभिः । अविनेति । तन्नियतसंवन्धित- येत्यर्थः। तद्ेदमाह-स चेति। अन्नाप्नामाण्यशङ्टां निराचषटे-मुनीति। 'व्ञार- हास्यकरुणरौद्रवीरभयानकाः । वीभत्साद्भुतशान्ताथ्ष काव्ये नव रसाः स्मृता ः ॥' इतीत्यर्थः । शमसाध्यत्वाच्छमस्थायिकत्वात् । नाट्ये इत्यस्येतीति शेषः । प्रकृ- तेऽपि तुल्यमिति। न शान्तस्य रोमाश्वादिराहिलेनानभिनेयत्ात्कर्थ नाट्ये स
Page 45
३० काव्यमाला।
नाट्ये गीतवाद्यादीनां विरोधिनां सत्त्वात्सामाजिकेप्वपि विषयवैमुख्यात्मनः शान्तस्य कथमुद्रेक इति चेत्, नाट्ये शान्तरसमभ्युपगच्छद्भि: फलवला- त्तद्गीतवाद्यादेस्तस्मिन्विरोधिताया अकल्पनात्। विषयचिन्तासामान्यस्य तत्र विरोधित्वस्वीकारे तदीयालम्वनस्य संसारानित्यत्वस्य तदुद्दीपनस्य पुराणश्रवणसत्सञ्पुण्यवनतीर्थावलोकनादेरपि विषयत्वेन विरोधित्वापतेः । अत एव च चरमाध्याये संगीतरल्नाकरे- 'अष्टावेव रसा नाट्येप्विति केचिदचूचुदन् । तदचारु यतः कंचिन्न रसं खदते नटः ॥' इत्यादिना नाट्येऽपि शान्तो रसोऽस्तीति व्यवस्थापितम्। यैरपि नाट्ये शान्तो रसो नास्तीत्यभ्युपगम्यते तैरपि वाधकाभावान्महाभारतादिप्रय- न्धानां शान्तरसप्रधानताया अखिललोकानुभवसिद्धत्वाच्च काव्ये सोऽवश्यं स्वीकार्यः । अत एव 'अष्टौ नाट्ये रसाः स्मृताः' इत्युपक्रम्य 'शान्तोऽपि नवमो रसः' इति मम्मटभट्टा अप्युपसमहार्षुः । अमीषां च 'रतिः शोकश्र निर्वेदक्रोधोत्साहाश्र विस्मयः । हासो भयं जुगुप्सा च स्थायिभावाः क्रमादमी ।' रसेभ्यः स्थायिभावानां घटादेर्घटाद्यवच्छिन्नाकाशादिव प्रथमद्वितीययोर्म- तयोः, सत्यरजतस्यानिर्वचनीयरजतादिव तृतीये, विषयस्य (रजतादेः) ज्ञानादिव चतुर्थे भेदो बोध्यः । तत्र आ प्रबन्धं स्थिरत्वादमीषां भावानां स्थायित्वम्। न च चित्तवृत्तिरूपाणामेषामाशुविनाशित्वेन स्थिरत्वं दु- र्लभम्, वासनारूपतया स्थिरत्वं तु व्यभिचारिप्वतिप्रसक्तमिति वाच्यम्।
इति वाच्यम्। सर्वचेष्टाराहित्वरूपेणैव तदभिनयसंभवादिल्याहुः। अत एव च उक्तरीत्या तत्र तस्य रसत्वादेव च। व्यवस्थापितमित्यत्रान्वयः । कंचित्कंचिदपि। नाट्येऽपि शान्तो रस इति। अत एव प्रबोधचन्द्रोदयस्य नाटकतवं स्वीकृतं सवैंः। अभ्युपे- त्याह-यैरपीति। अत एव काव्ये आवश्यकत्ादेव। उपसमहार्षुरुपसंहारं कृत- वन्तः। तथा च तेषां नवत्वे न विवाद इति भावः । अमीपां च शङ्गारादीनां च। मतयोरभिनवगुप्तभट्टनायकोक्तयोः । तृतीये नव्यमते। चतुर्थे परे लिति मते। ननु पार- मार्थिकस्थिरत्वाभावात्कथं स्थायित्वमत आह-तत्रेति। काव्यादावित्वर्थः। नयतीलत्र
Page 46
रसगङ्गाधरः । ३१
वासनारूपाणाममीषां मुहुर्मुहुरभिव्यक्तेरेव स्थिरपदार्थत्वात्। व्यभिचा- रिणां तु नैव, तदभिव्यक्तेर्विद्युद्योतप्रायत्वात्। यदाहु :- 'विरुद्वैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः । आत्मभावं नयत्याशु स स्थायी लवणाकरः ॥ चिरं चित्तेऽवतिष्ठन्ते संध्यन्तेऽनुबन्धिभिः । रसत्वं ये प्रपद्यन्ते प्रसिद्धाः स्थायिनोऽत्र ते ।।' चिरमिति व्यभिचारिवारणाय। अनुबन्धिभिर्विभावाद्यैः । तथा- 'सजातीय विजातीयैरतिरस्कृतमूर्तिमान्। यावद्रसं वर्तमानः स्थायिभाव उदाहृतः ॥' इति। केचित्तु रत्याद्यन्यतमत्वं स्थायित्वमाहुः। तन्न। रत्यादीनामे कस्मिन्प्र- रूढेऽन्यस्याप्ररूढस्य व्यभिचारित्वोपगमात् । प्ररूढत्वाप्ररूढत्वे वह्वल्पवि- भावजत्वे। तदुक्तं रत्नाकरे- 'रत्यादयः स्थायिभावाः स्युर्भूयिष्ठविभावजाः । स्तोकैर्विभावैरुत्पन्नास्त एव व्यभिचारिणः ॥' इति। एवं च वीररसे प्रधाने क्रोधो रौद्रे चोत्साहः शरृङ्गारे हासो व्यभिचारी भवति, नान्तरीयकश्च। यदा तु प्रधानपरिपोषार्थ सोऽपि बहुविभावजः क्रियते तदा तु रसालंकार इत्यादि बोध्यम्। तत्र स्त्रीपुंसयोरन्योन्यालम्बनः स्थायिभाव:।। विभावादीनितिशेपःलचणेति। लवणाकर इवेत्यर्थः। वह्वल्पविभावजत्वे इति। वहु विपुलम्। विभावशच्दो वा साहचर्याद्विभावानुभावव्यभिचारिपरः। अ एव रत्नाकरे बहुवचनम्। एवं च एकस्य प्ररूढत्वेऽन्यस्य तत्वाङ्गीकारे च। नान्तरीयेति । क्ो- धादिं बिना तदसंभवादिति भावः । सोऽपि क्रोधादिरपि। रसालंकार इति। रसव-
Page 47
३२ काव्यमाला।
गुरुदेवतापुत्राद्यालम्बनस्तु व्यभिचारी। पुत्रादिवियोगमरणादिजन्मा वैक्कव्याख्यश्चित्तवृत्तिविशेषः शोकः ॥ स्त्रीपुंसयोस्तु वियोगे जीवित्वज्ञानदशायां वैक्कव्यपोषिताया रतेरेव प्राधान्याच्छृङ्गारो विप्रलम्भाख्यो रसः । वैक्कव्यं तु संचारिमात्रम् । मृत- त्वज्ञानदशायां तु रतिपोषितस्य वैक्कव्यस्येति करुण एव। यदा तु सत्यपि मृतत्वज्ञाने देवताप्रसादादिना पुनरुज्जीवनज्ञानं कथंचित्स्यात्, तदा- लम्वनस्यात्यन्तिकनिरासाभावाच्चिरप्रवास इव विप्रलम्भ एव नस क- रुण:। यथा चन्द्रापीडं प्रति महाश्वेतावाक्येषु । केचित्तु रसान्तरमेवात्र करुण विप्रलम्भाख्यमिच्छन्ति । नित्यानित्यवस्तुविचारजन्मा विषयविरागाख्यो निर्वेदः। गृहकलहादिजस्तु व्यभिचारी। गुरुबन्धुवधादिपरमापराधजन्मा प्रज्वलनाख्यः क्रोधः । अयं च परविनाशादिहेतुः । क्षुद्रापराधजन्मा तु परुषवचनासंभाषणा- दिहेतुः । अयमेवामर्षाख्यो व्यभिचारीति विवेकः । परपराक्रमहानादिस्मृतिजन्मा औन्नत्याख्य उत्साहः ॥ अलौकिकवस्तुदर्शनादिजन्मा आश्चर्याख्यो विस्मयः ॥ वागङ्गादिविकारदर्शनजन्मा विकासाख्यो हासः।। व्याघ्रदर्शनादिजन्मा परमानर्थविषयको वैक्कव्याख्यः स भयम् ॥ परमानर्थविषयकत्वाभावे तु स एव त्रासो व्यभिचारी । अपरे तु औ- त्पातिकप्रभवस्त्रासः, स्वापराधद्वारोत्थं भयमिति भयत्रासयोर्भेदमाहुः ।
दलंकार इत्यर्थः । तान्क्रमेण लक्षयति-तत्र तेषां मध्ये। आदिना नृपादिपरिग्रहः । शोकं लक्षयति-पुत्रादीति। पुत्रादीत्युक्तिफलमाह-स्त्रीपुंसेति । वियोग उक्ला मरण आह-मृतत्वेति। वैक्कव्यस्येति। प्राधान्यमिति शेषः। एवादावादिनेत्यस्य पु- नरुजीवनेऽत्यन्वयः । कथंचित्केनापि प्रकारेण। एव न सइति। विप्रलम्भ एव सः, न करुण इत्यर्थः । अत्र पुनरुजीवनस्थले। उत्तरीत्यैव निर्वाहेऽधिकतत्सीकारो वृथेत्यरुचिः केचिदित्यनेन सूचिता। वधादीति। वधादिरूपो यः परमापराधस्तज्ज इत्यर्थः । परमा- नर्थेति। मरणादिसंपादकेत्यर्थः । स चित्तवृत्तिविशेषः । त्रासस्तदाख्यः । विभावादी-
Page 48
रसगङ्गाधरः ।
कदर्यवस्तुविलोकनजन्मा विचिकित्साख्यश्चित्तवृत्तिविशेपो जु- गुप्सा।। एवमेषा स्थायिभावानां लोके तत्तन्नायकगतानां यान्यालम्त- नतयोद्दीपनतया वा कारणत्वेन प्रसिद्धानि तान्येषु काव्यनाट्य- योर्व्यज्यमानेपु विभावशब्देन व्यपदिश्यन्ते ।। विभावयन्तीति व्युत्पत्तेः । यानि च कार्यतया तान्यनुभावशब्देन।। अनु पश्चाद्भाव उत्पत्तिर्येषाम् । अनुभावयन्तीति वा व्युत्पत्ते: । यानि सह चरन्ति तानि व्यभिचारिशब्देन।। तत्र शृङ्गारस्य स्त्रीपुंसावालम्बने। चन्द्रिकावसन्तविविधोपवनपवनरहः- स्थानादय उद्दीपनविभावाः । तन्मुखावलोकनतद्गुणश्रवणकीर्तनादयोऽन्ये सात्त्विकभावाश्चानुभावाः । स्मृतिचिन्तादयो व्यभिचारिणः । करुणस्य बन्धुनाशादय आलम्बनानि। तत्संवन्धिगृहतुरगाभरणदर्श- नादयस्तत्कथाश्रवणाद्यश्चोद्दीपकाः । गात्रक्षेपाश्रुपातादयोऽनुभावा ग्लानि- क्षयमोहविषादचिन्तौत्सुक्यदीनताजडतादयो व्यभिचारिणः। शान्तस्यानित्यत्वेन ज्ञातं जगदालम्बनम्। वेदान्तश्रवणतपोवनतापस- दर्शनादयुद्दीपनम्। विषयारुचिशत्रुमित्राद्यौदासीन्य चेष्टाहानिनासाग्रदक्ाद- योऽनुभावाः । हर्षोन्मादस्मृतिमत्यादयो व्यभिचारिणः । रौद्रस्यागस्कृत्पुरुपा दिरालम्बनम्। तत्कृतोऽपराधादिरुद्दीपकः । वधब- न्धादिफलको नेत्रारुण्यदन्तपीडनपरुषभाषणशस्त्रग्रहणादिरनुभावः । अमर्ष- वेगौग्यचापलादयः संचारिणः । एवं यस्याश्चित्तवृत्तेर्यों विषयः स तस्या आलम्चनम् । निमिचानि चोद्दीपकानीति बोध्यम्। लक्षयति-एवमिति। स्थायिभाववदित्र्थः। एषु स्थायिभावेषु। कार्यतया स्थायि- भावानां प्रसिद्धानीत्यस्यानुपत्गः । शव्देन, व्यपदिश्यन्त इत्यनुषङ्गः । एवमग्रेऽपि। ला० घवादाह-अनुभावयन्तीति। तत्र तेपां मध्ये। तन्मुखेति। अन्योन्यमुखेत्यर्थः। एवमप्रेऽपि। अन्ये साच्चिकेति। क्षेपस्त्यागः । चेश्ाहानिर्निश्रेष्टतम्। आगस्कृदप-
Page 49
३४ काव्यमाला।
तत्र शृङ्गारो द्विविधः । संयोगो विप्रलम्भश्च । रतेः संयोगकालाव- च्छिन्नत्वे प्रथमः । वियोगकालावच्छिन्नत्वे द्वितीयः । संयोगश्च न दं- पत्योः सामानाधिकरण्यम्। एकतल्पशयनेऽपीर्प्यादिसद्भावे विप्रलम्भस्यैव वर्णनात्। एवं वियोगोऽपि न वैयधिकरण्यम्। दोषस्योक्तत्वात्। तस्मा- द्वाविमौ संयोगवियोगाख्यावन्तःकरणवृत्तिविशेषौ। यत्संयुक्तो वियुक्त- श्रास्मीति धीः । तत्राद्यो यथा 'शयिता सविधेऽप्यनीश्वरा' (१० पृष्ठे) इत्यत्र निरूपितः । यत्तु चित्रमीमांसायाम्-'वागर्थाविव संपृक्तौ इत्यत्र रसध्वनिः । निरतिशयप्रेमशालिताव्यञ्जनात्' इति, तद्धनिमार्गानाकलननिबन्धनम्। पार्वतीपरमेश्वरविषयककविरतौ प्रधाने निरतिशयप्रेम्णो गुणीभावात्। न हि गुणीभूतस्य रत्यादे रसध्वनिव्यपदेशहेतुत्वं युक्तम्। 'भिन्नो रसाद्यलं- कारादलंकार्यतया स्थितः' इति सिद्धान्तात्। द्वितीयो यथा- 'वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्पं जने केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्वुजा। निःश्वासग्लपिताधरोपरि पतद्वाष्पार्द्रवक्षोरुहा बाला लोलविलोचना शिव शिव प्राणेशमालोकते ।' अत्राप्यालम्बनस्य नायकस्य, निःश्वासाश्रुपातादेरनुभावस्य, विषादचि- न्तावेगादेश्च व्यभिचारिणः, संयोगाद्रतिरभिव्यज्यमाना वियोगकालाव- च्छिन्नत्वाद्विप्रलम्भरसव्यपदेशहेतुः । यथा वा- 'आविर्भृता यदवधि मधुस्यन्दिनी नन्दसूनोः कान्तिः काचित्निखिलनयनाकर्षणे कार्मणज्ञा।
राधकृत्। उत्तन्यायेन वीरादिष्वपि वोध्यमित्याह-एवमिति । एकतल्पेति । एकखट्टायां निद्रायामपीत्यर्थः । एवमित्यस्यार्थमाह-दोपेति। ईर्ष्याद्यभावे वैयधिकरण्ये- ऽपि संभोगस्थैव वर्णनादित्वर्थः । यद्यस्मात्। तन्नाद्ः शयितेति पाठः । यथेति पाठे तथेति शेप: । मानलिकीर्मद्लफलकाः । मारुतेति। गवाक्षविवर इत्यर्थः। निःश्वासैग्लपितो
Page 50
रसगक्काधरः । ३५
श्वासो दीर्घस्तदवधि मुखे पाण्डिमा गण्डयुग्मे शून्या वृत्तिः कुलमृगद्दशां चेतसि प्रादुरासीत् ।।' यथा वा- 'नयनाञ्चलावमर्शै या न कदाचित्पुरा सेहे। आलिद्गितापि जोषं तस्थौ सा गन्तुकेन दयितेन ।' इहापि सहजचाश्चत्यनिवृत्तिर्जडता चानुभावव्यभिचारिणौ। इमं चपञ्- विधं प्राञ्चः प्रवासादिभिरुपाधिभिरामनन्ति। ते च प्रवासाभिलाषविरहे- थ्याशापानां विशेषानुपलम्भान्नास्माभिः प्रपश्चिताः । करुणो यथा- 'अपहाय सकलवान्धवचिन्तामुद्वास्य गुरुकुलप्रणयम् । हा तनय विनयशालिन्कथमिव परलोकपथिकोऽभू: ॥' अत्र प्रमाततनय आलम्बनम्। तत्कालावच्छिन्नबान्धवदर्शनाद्युद्दीपनम्। रोदनमनुभावः । दैन्यादयः संचारिणः । शान्तो यथा- 'मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः । श्वपचात्मभुवोर्निरन्तरा मम जाता परमात्मनि स्थितिः ।' अत्र प्रपञ्चः सर्वोऽप्यालम्बनम् । सर्वत्र साम्यमनुभावः । मत्यादयः संचारिणः । यद्यपि प्रथमार्धे उत्तमाधमयोरुपक्रमाद्वितीयार्धेऽघमोत्तमवचनं
ग्लापितोऽवरोष्ठो यस्य प्राणेशस्य तत्र। शिव शिवेति खेदातिशये। यदवधि यहिनादा- रभ्य। मधुस्यन्दिनी मधुस्राविणी। तदाकर्षणविषयकं यत्कार्मणं मन्रतन्त्रादि तज्ज्ञा । नयनेति। लोचनपक्ष्मस्पर्शमित्यर्थः । जोषं तूष्णीम्। गन्तुकेन गन्तुकामेन। इमं च विप्रलम्भं च। ते च प्रवासादुपाधयः । पध्न्तपाठे चैवम्। अग्रे प्रथमान्नपाठे उपाधय इत्येवार्थः । प्रवासाभिलाषेति। प्रवासः प्रसिद्धः । अनादिसक्गाभावेऽपि गुणश्रवणा- दिजन्याभिलापे इच्छारपे सति तदप्राप्तौ यः सोऽभिलाषहेतुक उच्यते। गुरुजनादिल- जादितः संगमप्रतिबःधो विरहः। ईर्ष्या असूयादिशव्देन मानहेतुक उच्यते। प्रिये सपल्नीरते कोप ईरष्या। तत्कृतो गुणेपु दोपारोपोऽसूया। शापाद्था शकुन्तलादेर्दुर्वा- सस इति प्राचामाशयः । प्रमीतो मृतः । तत्कालेति। मृतिकालेत्यर्थः । भोगिभोग: सर्पफणा। श्वपचेति। चण्डालज्ञानिनोरित्यर्थः । निरन्तरा तारतम्यशून्या। प्रपञ्च
Page 51
३६ काव्यमाला।
क्रमभङ्गमावहति, तथापि वक्तुर्व्रह्मात्मकतयोत्तमाधमज्ञानवैकल्यं संपन्न- मिति द्योतनाय क्रमभङ्गो गुण एव। इदं पुनर्नोदाहार्यम्- 'सुरस्रोतस्विन्याः पुलिनमधितिष्ठन्नयनयो- र्विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान्। विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा निमस्ः स्यां कस्यांचन नवनभस्याम्बुदरुचि ।।' अत्रापि यद्यपि विषयगणनालम्वनः सुरस्रोतख्विनीतटाद्युद्दीपितो नयननि- मीलनादिभिरनुभावितः स्थायी निर्वेदः प्रतीयते, तथापि भगवद्वासुदेवाल- म्बनायां कविरतौ गुणीभूत इति न शान्तरसध्वनिव्यपदेशहेतुः। इदं च पद्यं मन्निर्मितायां भगवद्भक्तिप्रधानायां करुणालहर्यामुपनिबद्धमिति तत्प्र- धानभावप्राधान्यमेवार्हति। शान्तरसाननुगुणश्चायमोजसवी गुम्फ इति चानुदाहार्यमेवैतत्। पूर्वपद्ये तु 'परमात्मनि स्थितिः' इत्यनेन तत्ताद्रप्यावग- माद्रतेरप्रतिपत्तिः । रौद्रो यथा- 'नवोच्छ लितयौवनस्फुरदखवर्वगर्वज्वरे मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति। अयं पततु निर्दयं दलितदप्तभूमृद्गल- स्खलद्रुधिरघस्मरो मम परश्वधो भैरव: ॥' अत्र तदानीं रामत्वेनाज्ञातो गुरुकार्मुकभञ्जक आलम्वनम्। अत एव विशेष्यानुपादानम्। गुरुदुहो नामग्रहणानौचित्यात् । क्रोधाविष्काराद्वा। ध्वनिविशेषानुमितो निःशङ्कधनुर्भङ्ग उद्दीपकः । परुषोक्तिरनुभावः । गर्वो- ग्रत्वादयः संचारिणः । एषा च धनुर्भङ्गध्वनिभस्नसमाधेर्भार्गवस्योक्तिः ।
इति। अनित्यत्वेन ज्ञात इत्यर्थः। क्रमभङ्गमिति। तथा चाक्रमत्वदोषाद्ुष्टं काव्यमिति भावः । गुण पवेति। तथा चादुष्टमिति भावः । पुलिनमिति। 'अधिशीङ्-' इति कर्म। सपदि तत्कालम्। गुम्फो रचनाविशेषः । इति च इत्यतोऽपि। नन्वेवमुदाहृत- पद्येऽप्येवं स्यादत आह-पूर्वेति। तदानीं क्रोधसमये। गुरुः शिवः। अत एवेत्यस्या-
Page 52
रसगङ्गाघरः । ३७
वृत्तिरप्यत्र महोद्धता रौद्रस्य परमौजस्वितां परिपुष्णाति। अन्यत्र गुरुस्मरणे सत्यहंभावविगमस्यावश्यकतया प्रकृते चाजहत्सार्थलक्षणामूल- ध्वननेन मदीयेत्यनेन गर्वोत्कर्षस्यैव प्रकाशनात्स्फुटं गम्यमानेन विवेकशू- न्यत्वेन क्रोधस्याधिक्यं गम्यते। इदं तु नोदाहार्यम्- 'धनुर्विदलनध्वनिश्रवणतत्क्षणा विर्भव- न्महागुरुवधस्मृतिः श्वसनवेगधूताधरः । विलोचनविनिःसरद्वहलविस्फुलिङ्गत्रजो रघुप्रवरमाक्षिपञ्जयति जामदम्यो मुनिः ॥' अत्राप्यपराधास्पदेन रघुनन्दनेनालम्बितो धनुर्विदलनध्वनिश्रवणेनोद्दी- पितो निःश्वासनेत्रज्वलनादिभिरनुभावितो महागुरुवधस्मृतिगर्वोग्रत्वादि- भिश्र संचारितः क्रोघो यद्यपि व्यज्यते, तथाप्यसौ तत्प्रभाववर्णनबीजभू- तायां कविरतौ गुणीभूत इति न रौद्ररसध्वनिव्यपदेशहेतुः। काव्यप्रका- शगतरौद्ररसोदाहरणे तु 'कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकम्' इति पद्ये रौद्ररसव्यञ्जनक्षमा नास्ति वृत्तिः, अतस्तत्कवेरशक्तिरेव। वीरश्चतुर्धा। दानदयायुद्धधर्मैस्तदुपाधेरुत्साहस्य चतुर्विधत्वात्। तत्राद्यो यथा- 'कियदिदमधिकं मे यद्विजायार्थयित्रे कवचमरमणीयं कुण्डले चार्पयामि। अकरुणमवकृत्य द्राक्कपाणेन निर्य- द्वहलरुधिरधारं मौलिमावेदयामि ।' एषा द्विजवेषायेन्द्राय कवचकुण्डलदानोद्यतस्य कर्णस्य तद्दानविस्मितान्स-
र्थमाह-गुर्विति। धनुरित्यस्य श्रीरामकृतशिवेत्यादिः । अन्यत्र कोधाभावे । लक्ष्मणेति। लक्ष्यतावच्छेदक चैकविशतिवारनिःक्षत्नियवसुमतीकारकतवम्, पित्रा- ज्ञया मातृवधकारित्वं वा। तत्प्रभावेति। जामदग्न्यप्रभावेत्यर्थः । निर्यन्निःसरत्।
Page 53
३८ काव्यमाला।
भ्यान्प्रत्युक्तिः । अत्र याचमान आलम्बनम् । तदुदीरिता स्तुतिरुद्दी- पिका। कवचादिवितरणं तत्र लघुत्वबुद्यादिकं चानुभावः । मे इत्यर्था- न्तरसंक्रमितवाच्यध्वन्युत्थापितो गर्वः स्वकीयलोकोत्तरपितृजन्यत्वादिस्म- तिश्च संचारिणौ। वृत्तिरप्यत्र तत्तदर्थानुरूपोद्गमविरामशालितया सहृद- यैकचमत्कारिणी। तथा हि-उत्साहपोषकं कवचकुण्डलार्पणयोर्लघुत्व- निरूपणं विधातुं पूर्वार्घे तदनुकूलशिथिलबन्धात्मिका । उत्तरार्धे तु मौ- लितः प्राग्वक्तृगतगर्वोत्साहपरिपोषणायोद्धता। ततः परं ब्राह्मणे सविन- यत्वं प्रकाशयितुं तन्मूलीभूतं गर्वराहित्यं ध्वनयितुं पुनः शिथिलैव। अत- एवावेदयामीत्युक्तम्। न तु ददामि वितरामीति वा। इदं तु नोदाहरणीयम्- 'यस्योद्दामदिवा निशार्थिविलसद्दानप्रवाहप्रथा- माकर्ण्यावनिमण्डलागतवियद्वन्दीन्द्रवृन्दाननात्।
त्पीयूषप्रकरैः सुरेन्द्रसुरभिः प्रावृट्पयोदायते॥' अत्रेन्द्रसभामध्यगतसकलनिरीक्षकालम्बनः अवनिमण्डलागतवियद्वन्दी- न्द्रवदनविनिर्गतराजदानवर्णनोद्दीपितः, ऊधःप्रस्तनुतपीयूषप्रकरैरनुभावितः, असूयादिभिः संचारिभिः परिपोषितोऽपि कामगचीगत उत्साहो राजस्तु- तिगुणीभूत इति न रसव्यपदेशहेतुः ।
याचमान इन्द्रः । अरमणीयपदार्थमाह-तत्र लघुत्वेति। मे इत्यर्थान्तरेति । अनेकशो रणेषु क्षतजर्जरीभूतकलेवरत्वं लक्ष्यतावच्छेदकम्, सकलराज्यकोषादिदा- तृत्वं वा, रविकुन्तीसुतत्वं वा। स्वकीयलोकोत्तरेति । इदमेव च शक्यतावच्छे- दकम्। तत्तदिति। तप्तदर्थानुरूपौ यावुद्रमविरामौ प्रारम्भसमाप्ती तच्छालितयेत्यर्थः। मौलितो मौलिमित्यतः । वक्ता कर्णः। ब्राह्मणे तद्वेष इन्द्रे। तन्मूलीभूतं सविनयतमू- लीभूतम् । सुरेन्द्रसुरभि: कामधेनुः । यस्य राजः स्तुतिस्तामाकर्ण्य तैः प्रावृट्पयोदायते वर्षामेघायते। वन्दीन्द्राः स्तुतिपाठकेन्द्राः। व्यावल्गन्मधु(न्थ)रम् । कोपोऽमर्ष इत्यन- र्थान्तरम्। ईर्ष्याक्षमा, गुणेषु दोषारेपोऽसूयेति भेदः। असूयादिभिरिति। ईर्ष्याज- निका चासूयेति व्यक्रयत्वमेवास्या इति भावः । कामगवी कामधेनुः । अत एव गुणी-
Page 54
रसगङ्गाधरः । ३९,
अत एवेदमपि नोदाहरणम्- 'सान्धिद्वीपकुलाचलां वसुमतीमाक्र्कम्य सप्तान्तरां सर्वा द्यामपि सस्मितेन हरिणा मन्द समालोकितः । प्रादुर्भूतपर प्रमोद विदलद्रोमाञ्चितस्तत्क्षणं व्यानम्रीकृतकंधरोऽसुरवरो मौलिं पुरो न्यस्तवान् ।।' इह च भगवद्वामनालम्बनः, तत्कर्तृकमन्दनिरीक्षणोद्दीपित;, रोमाञ्चा- दिभिरनुभावितः, हर्षादिभिः पोषितः, उत्साहो व्यज्यमानोऽपि गुणः । प्रागन्यगतस्येव प्रकृते राजगतस्यापि तस्य राजस्तुत्युत्कर्षकत्वात्। एतेन 'त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः' इति श्रीवत्सलाञ्छनोक्तमु- दाहरणं परास्तम् । तस्य गुणीभूतव्यन्ञयत्वेन रसध्वनिप्रसङ्गेऽनुदाहरणी- यत्वात्। ननु 'अकरुणमवकृत्य-' इत्यत्रापि प्रतीयमानस्य दानवीरस्य कर्णस्तुत्यङ्गत्वात्कथं ध्वनित्वमिति चेत्, सत्यम्। अत्र कवेः कर्णवचनानु- वादमात्रतात्पर्यकत्वेन कर्णस्तुतौ तात्पर्यविरहात्, कर्णस्य च महाशयत्वे- नात्मस्तुतौ तात्पर्यानुपपत्तेः स्तुतिरवाक्यार्थ एव। परं तु वीररसप्रत्ययान- न्तरं तादृशोत्साहेन लिङ्गेन स्वाधिकरणे सानुमीयते। राजवर्णनपद्ये तु राजस्तुतौ तात्पर्याद्वाक्यार्थतैव तस्याः । द्वितीयो यथा- 'न कपोत भवन्तमरावपि स्पृशतु श्येनसमुद्भवं भयम्। इदमप्यद्य मया तृणीकृतं भवदायुःकुशलं कलेवरम् ।।'
भूतत्ादेव। सप्तान्तरां सप्तप्राकाराम्। अत एव सर्वो द्याम्। छलेन द्वाभ्यां सर्वप्र- हणान्मन्दत्वम् । पर उत्कृष्टः । असुरवरो वली दैत्यः । हर्षादिभिरिति । प्रमोदः सुखं तदंशावरणभअकक्चित्तवृत्तिविशेषो हर्षः । अतो न वाच्यता व्यभिचारिण इत्यवघे- यम्। प्रागन्येति। सामानाधिकरण्यवैयधिकरण्यप्रयुक्तमेदेऽप्युपकारकत्वं तस्य समान- मिति भावः। त्यागः सप्तेति । 'उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरुवीर्य तत्र न मद्विरामनुपमं व्यक्तं हि तत्कर्मभिः। त्यागः सप्तसमुद्रमुद्रितमहीनित्र्याजदा- नावधि: सत्यन्रह्मतपोनिधेर्भगवतः किं कि न लोकोत्तरम् ॥' इतीत्यर्थः । एतेनेत्यस्यार्थ- माह-तस्येति। ननु स्वकर्तृकैव स्तुतिरास्तामत आह-कर्णस्येति। तादृशोत्साहे- नेति। विभावाद्यभिव्य कोत्साहेनेत्यर्थः । सा स्तुतिः। अर्थिनस्तद्विषयकार्थित्ववतः । १. काव्यप्रकाशटीकायाः सारवोधिन्याः कर्ता श्रीवत्सलाञ्छनः,
Page 55
४0 काव्यमाला।
अथवैवं विन्यास :- 'न कपोतकपोतकं तव स्पृशतु श्येन मनागपि स्पृहा । इदमद्य मया समर्पितं भवते चारुतरं कलेवरम् ॥' एषा शिवेः कपोतं श्येनं प्रति चोक्तिः । अत्र कपोत आलम्बनम्। तद्गतं व्याकुलीभवनमुद्दीपनम्। तस्य कृते स्वकलेवरार्पणमनुभावः । न चात्र शरीरदानप्रत्ययाद्दानवीरध्वनित्वापत्तिरिति वाच्यम् । श्येनकपो- तयोर्भक्ष्यभक्षकभावापन्नत्वेन शिबिशरीरस्यार्थिनोऽभावात्तदप्रतिपत्तेः। श्येन- शरीरनिवेदनस्य कपोतशरीरत्राणोपाधिकतया विनिमयपदवाच्यत्वात्। तृतीयो यथा- 'रणे दीनान्देवान्दशवदन विद्राव्य वहति प्रभावप्रागल्भ्यं त्वयि तु मम कोडयं परिकरः । ललाटोद्यज्ज्वाला कवलित जगज्जाल विभवो भवो मे कोदण्डच्युतविशिखवेगं कलयतु ।' एषा दशवदनं प्रति भगवतो रामस्योक्तिः । इह भव आलम्बनम् । रणदर्शनमुद्दीपनम्। दशवदनावज्ञानुभावः । गर्वः संचारी। वृत्तिरत्र देवानां प्रस्तावे तद्तकातर्यप्रकाशनद्वारा वीररसानालम्बनत्वावगतयेऽनुद्धतैव । दशवदनप्रस्तावे तु देवदर्पदमनवीरत्वप्रतिपादनायोद्धतापि तस्यावज्ञया रामगतोत्साहानालम्बनत्वेन तदालम्बनस्य रसस्याप्रत्ययान्न प्रकर्षवती । भगवतो भवस्य तु परमोत्तमालम्वनविभावत्वात्तत्प्रस्तावे तदालम्बनस्यौ- जस्नो वीररसस्य निष्पत्तेः प्रकृष्टोद्धता। चतुर्थो यथा- 'सपदि विलयमेतु राज्यलक्ष्मीरुपरि पतन्त्वथवा कृपाणधाराः । अपहरतु तरां शिरः कृतान्तो मम तु मतिन मनागपैति धर्मात् ।।' तद्प्रेति। शरीरदानाप्रतिपत्तेरित्यर्थः । नन्वेवं किमित्यर्पितमत आह-श्येन इति। निरुपाधिकस्थल एव दानप्रतीतिरिति भावः। परिकरो गात्रबन्ध आरम्भो वा। कल- यतु जानात्वज्गीकरोतु वा। तद्गतेति। देवगतेत्यर्थः । देवदर्पेति। तददर्पदमनं यद्वीरत्वं तत्प्रेत्यर्थः । तस्य रावणस्य । तत्प्रस्तावे भवप्रस्तावे। तदालम्बनस्य भवाश्रयकस्य।
Page 56
रसगङ्गाधरः । ४१
एषाधर्मेणापि रिपुर्जेतव्य इति वदन्तं प्रति युधिष्ठिरस्योक्तिः । अत्र धर्मविषय आलम्बनम्। 'न जातु कामान्न भयान्न लोभाद्धर्म त्यजेजीवि- तस्यापि हेतोः' इत्यादिवाक्यालोचनमुद्दीपनम्। शिरश्छेदादयङ्गीकारो- डनुभाव: । धृतिः संचारिणी। इत्थं वीररसस्य चातुर्विध्यं प्रपश्चितं प्राचा- मनुरोधात्। वस्तुतस्तु बहवो वीररसस्य श्रृङ्गारस्येव प्रकारा निरूपयितुं श- क्यन्ते। तथा हि-प्राचीन एव 'सपदि विलयमेतु' इत्यादि पद्ये 'मम तु मतिर्न मनागपैतु सत्यात्' इति चरमपादव्यत्यासेन पद्यान्तरतां प्रापिते सत्यवीरस्यापि संभवात्। न च सत्यस्यापि धर्मान्तर्गततया धर्मवीररस एव तद्वीरस्याप्यन्तर्भाव इति वाच्यम्। दानदययोरपि तदन्तर्गततया तद्वीरयोरपि धर्मवीरात्पृथग्गणनानौचित्यात्। एवं पाण्डित्यवीरोऽपि प्रतीयते। यथा- 'अपि वक्ति गिरां पतिः स्वयं यदि तासामधिदेवतापि बा। अयमस्मि पुरो हयाननस्मरणोल्लङ्वितवाञ्मयाम्वुधिः ॥' अत्र वृहस्पत्याद्यालम्बनः सभादिदर्शनोद्दीपितो निखिलविद्वत्तिर- स्कारानुभावितो गर्वेण संचारिणा पोपित उत्साहो वक्तुः प्रतीयते। ननु चात्र युद्धवीरत्वम् । युद्धत्वस्य वादसाधारणस्य वाच्यत्वात् । इति चेत्, क्षमावीरे किं ब्रयाः । यथा- 'अपि बहलदहनजालं मूर्ननि रिपुर्मे निरन्तरं धमतु । पातयतु वासिधारामहमणुमात्रं न किंचिदाभाषे ।।' क्षमावत उक्तिरियम् । बलवीरे वा किं समादध्याः ।
तदन्तरिति। धर्मान्तर्गततयेत्यर्थः। तद्वीरेति। दानदयावीरयोरपीत्यर्थः। तासा- मधीति। गिरामधिष्ठात्री देवता। सरस्वतीतयर्थः। ह्याननो हयग्रीवः। ता धराम्। हे
Page 57
४२ काव्यमाला।
यथा- 'परिहरतु धरां फणिप्रवीरः सुखमयतां कमठोऽपि तां विहाय। अहमिह पुरुहूत पक्षकोणे निखिलमिदं जगदक्कमं वहामि ॥' पुरुहूतं प्रत्येषा गरुत्मत उक्तिः। ननु 'अपि वक्ति-' 'परिहरतु धराम्-' इति पद्यद्वये गर्व एव नोत्साहः । मध्यस्थपद्ये तु धृतिरेव ध्वन्यते इति भावध्वनय एवैते न रसध्वनय इति चेत्, तर्हि युद्धवीरा- दिष्वपि गर्वादिध्वनितामेव किं न ब्रूयाः । रसध्वनिसामान्यमेव वा किं न तद्यभिचारध्वननेन गतार्थयेः । स्थायिप्रतीतिर्दुरपह्नवा चेत्तुल्यं प्रकृते- डपि। अनन्तरोक्तपद्ये तु नोत्साहः प्रतीयते। दयावीरादिषु प्रतीयत इति तु राज्ञामा(राजा)ज्ञामात्रम्। अद्भुतो यथा- 'चराचर जगज्जालसदनं वदनं तव। गलद्गगनगाम्भीर्य वीक्ष्यास्मि हृतचेतना ।।' कदाचिद्धगवतो वासुदेवस्य वदनमालोकितवत्या यशोदाया इयमुक्तिः। अत्र वदनमालम्बनम्। अन्तर्गतचराचरजगज्जालदर्शनमुद्दीपनम् । हृतचे- तनत्वम्, तेन गम्यं रोमाञ्चनेत्रस्फारणादि चानुभावः । त्रासादयो व्यभि- चारिणः। नैवात्र विद्यमानापि पुत्रगता प्रीतिः प्रतीयते। व्यञ्षकाभावाद्। प्रतीतायां वा तस्यां विस्मयस्य गुणत्वं न युज्यते। एवं कश्चिन्महापुरु- षोडयमिति भक्तिरपि तस्याः पुत्रो ममायं बाल इति निश्चयेन प्रतिबन्धा- दुत्पत्तुमेव नेष्टे। अतस्तस्यामपि विस्मयस्य गुणीभावो न शङ्यः ।
पुरुहूत, खपक्षैकदेशे। 'निखिलमिद जगदण्डक वहामि' इति पाठः। वीररसध्वन्यु- च्छेद मुक्त्वा तुल्ययुक्त्या सामान्योच्छेदमाह-रसेति। स्थायीत्यस्य तत्रेत्यादिः । दया- वीरादिषु प्राचीनोदाहृतेषु। गलन्नष्टम्। तेन गम्यमिति। तद्वोधकशव्दाभावादिति भावः । अत्र भावध्वनित्वं निराचष्टे-नैवेति। प्रतीतायां वेति। प्रकरणादिपर्या- लोचनयेति भावः । विस्मयस्य गुणत्वमिति। विस्मयस्योत्कटत्वेन तस्या एव गु- णत्वमनुत्कटत्वात्। हृतचेतनेत्यनेन तस्यैव प्राधान्यप्रकटनाच्चेति भावः। अन्यथापि संभा- विततवं निराचष्टे-एवमिति। तस्या इत्यस्य मध्यमणिन्यायेनान्वयः। अत उपपत्त्यभा- वादेव। तस्यामपि भक्तावपि। कथंकारं कथं कृत्ा। अस्य विस्मयस्य । तत्र दृष्टान्त-
Page 58
रसगङ्गाघरः । ४३
यच्च सहृदयशिरोमणिभिः प्राचीनैरुदाहृतम्- 'चित्रं महानेष तवावतारः क्व कान्तिरेषाभिनवैव भङ्गिः । लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतिर्नूतन एष सर्गः ॥' इति, तत्रेदं वक्तव्यम्-प्रतीयतां नामात्र विस्मयः, परं त्वसौ कथंकारं [अद्भुतरस]ध्वनिव्यपदेशहेतुः । प्रतिपाद्यमहापुरुषविशेषविषयायाः प्र- वानीभूतायाः स्तोतृगतभक्तेः प्रकर्षकत्वेनास्य गुणीभूतत्वात्। यथा महा- भारते गीतासु विश्वरूपं दष्टवतः पार्थस्य 'पश्यामि देवांस्तव देव देहे सर्वोस्तथा भूतविशेषसङ्गान्' इत्यादौ वाक्यसंद्भे। इत्थं चास्य रसालंका- रत्वमुचितम्। भक्तिनैवात्र प्रतीयत इति चेद्दरमुकुलितलोचनं विदांकु- र्वन्तु सहृदयाः । हास्यो यथा- 'श्रीतातपादैर्विहिते निबन्धे निरूपिता नूतनयुक्तिरेषा। अङ्गं गवां पूर्वमहो पवित्रं न वा कथं रासभधर्मपत्याः ॥।' तार्किकपुत्रोऽत्रालम्वनम्। तदीया निःशङ्कोक्तिरुद्दीपिका। रदनप्र- काशादिरुद्वेगादयश्चानुभावव्यभिचारिणः । अत्राहु :- 'आत्मस्यः परसंस्थश्चेत्यस्य भेद द्यं मतम् ।् आत्मस्थो द्रष्ठुरुत्पन्नो विभावेक्षणमात्रतः । हसन्तमपरं दृष्ट्रा विभावश्चोपजायते। योऽसौ हास्यरसस्तज्ज्ैः परस्थः परिकीर्तितः ॥ उत्तमानां मध्यमानां नीचानामप्यसौ भवेत्। व्यवस्थः कथितस्तस्य षड्भेदाः सन्ति चापरे॥ माह-यथेति। पार्थस्यार्जुनस्य। इत्यादिरूपवाक्यसंदभे। तस्य तत्र त्वंप्रथेत्यर्थः । अस्य प्राचोक्तपद्यस्य। एवमग्रेऽपि। ईषन्मुकुलितलोचनमिति क्रियाविशेषणम्। विहिते कृते। गौर्गर्दभी च तु्येति भावः। रदनेति। दन्तेत्यर्थः । यथासंख्यमन्वयः। अत्र दास्यविषये। आहुः प्रा्चः। तदेवाह-आत्मेत्यादिमतमितीत्यन्तेन। अस्य हास्यस्य। त्रयवस्थ उक्तप्रकारेण त्रिधावस्थः । तस्योक्तविधस्य। पण्णां कमेण लक्षणान्याह-ईप-
Page 59
४४ काव्यमाला।
स्मितं च हसितं प्रोक्तमुत्तमे पुरुपे बुधैः। भवेद्विहसितं चोपहसितं मध्यमे नरे ॥ नीचेऽपहसितं चातिहसितं परिकीर्तितम् । ईपत्फुल्लकपोलाभ्यां कटाक्षैरप्यनुल्वणैः ॥ अदृश्यदशनो हासो मधुरः स्मितमुच्यते ।
किंचिललक्षितदन्तश्च तदा हसितमिप्यते। सश्दं मधुरं कालगतं वदनरागवत् । आकुश्चिताक्षि मन्द्रं च विदुर्विहसितं बुधाः ।
उत्फुल्लनासिको हासो नाम्नोपहसितं मतम् । अस्थानजः साश्रुदृष्टिराकम्पस्कन्धमूर्धजः ॥ शार्ङ्गदेवेन गदितो हासोऽपहसिताहयः । स्थूलकर्णकटुध्वानो वाप्पपूरप्ठुतेक्षणः ।। करोपगूढपार्वेश्च हासोऽतिहसितं मतम् ॥' इति। भयानको यथा- 'श्येनमम्बरतलादुपागतं शुष्यदाननविलो विलोकयन्। कम्पमानतनुराकुलेक्षणः स्पन्दितुं नहि शशाक लावकः ॥' अत्र श्येन आलम्वनम् । सवेगापतनमुद्दीपनम्। आननशोषादयो- डनुभावाः । दैन्यादयः संचारिणः । बीभत्सो यथा- 'नखैर्विदारितान्राणां शवानां पूयशोणितम्। आननेष्वनुलिम्पन्ति हृष्टा वेतालयोषितः ।' दिति। अनुल्वणैरवृद्वैः।दशना दन्ताः। 'कालगतम्' इतयपाठः। 'कायगतम्' इति पाठः। वदनेति। तल्लौहित्य विशिष्टिम्। जिह्मेति। व्यधिकरणपदबहुव्रीहिः। आकम्पौ कम्प- मानौ स्कन्धमूर्धजौ यस्मिन्। स्थूल: कर्णकटुर्ध्वानः शब्दो यत्र। कराभ्यामुपगूढे व्याप्ते पार्श्रे यत्र। शुष्यदाननमेव बिलं यस्य। लावकः पक्षिविशेषः । सवेगेति। वेगसहि- तमापतनमित्यर्थः । पूयेति समाहारद्वन्द्वः । आननेत्यस्य खवेत्यादिः। तत्र तयोः। ननु
Page 60
रसगनाधरः । ४५
शवा इहालम्वनम्। आन्त्रविदारणाद्युद्दीपनम्। आक्षिप्ा रोमाश्चने- त्रनिमीलनादयोऽनुभावाः। आवेगादयः संचारिणः। ननु रतिकोधोत्साह- भयशोकविस्मयनिर्वेदेपु प्रागुदाहृतेषु यथालम्बनाश्रययोः संप्रत्ययः, न तथा हासे जुगुप्सायां च। तत्रालम्बनस्यैव प्रतीतेः । पद्यश्रोतुश्च रसा- सादाधिकरणत्वेन लौकिकहासजुगुप्साश्रयत्वानुपपत्तेरिति चेत्। सत्यम्। तदाश्रयस्य द्रष्टपुरुषविशेषस्य तत्राक्षेप्यत्वात्। तदनाक्षेपे तु श्रोतुः खवीयकान्तावर्णनपद्यादिव रसोद्वोधे बाधकाभावात्। एवं च संक्षेपेण निरूपिता रसाः। एषां प्राधान्ये ध्वनिव्यपदेशहे- तुत्वम्, गुणीभावे तु रसालंकारत्वम्। केचित्तु 'प्राधान्य एवैषां रसत्वमन्य- थालंकारत्वमेव। रसालंकारव्यपदेशस्त्वलंकारध्वनिव्यपदेशवत्। ब्राह्म- णश्रमणन्यायात् । एवमसंलक्ष्यक्रमतायामेव । अन्यथा तु वस्तुमात्रम्' इत्याहुः । एते चासंलक्ष्यक्रमव्यन्नयाः । सहृदयेन रसव्यक्तौ झगिति जायमानायां विभावानुभावव्यभिचारिविमर्शक्रमस्य सतोऽपि सूचीशतप- प्रपत्रशतवेधक्रमस्येवालक्षणात्। न त्वक्रमव्यङ्याः । व्यक्तेस्तद्वेतूनां च हेतुहेतुमद्भावासंगत्यापत्तेः । अथ कथमेत एव रसाः। भगवदालम्बनस्य रोमाञ्चाथ्यपातादिभिरनुभावितस्य हर्षादिभिः परिपोषितस्य भागवता- दिपुराणश्रवणसमये भगवद्धक्तैरनुभूयमानस्य भक्तिरसस्य दुरपह्नवत्वात् । भगवदनुरागरूपा भक्तिश्चात्र स्थायिभावः । न चासौ शान्तरसेऽन्तर्भा- वमर्हति। अनुरागस्य वैराग्यविरुद्धत्वात्। उच्यते-भक्तेर्देवादिविषयर- तित्वेन भावान्तर्गततया रसत्वानुपपत्तेः । पद्यथोतैवाथ्रयोऽत आह-पद्येति। रसस्त्वलौकिक इति भावः। तदेति। हासाश्रय- स्येत्यर्थः । तत्र हासजुगुप्सयोः । तुरप्यर्थे। पद्यादिवेति। तत इति शेषः। एवं चे- त्यस्य हेतुतादावन्वयः । एतेन रसत्वव्यवच्छेदः। प्राचोक्तिविरोधं परिहरति-रसालं- कारेति। भूतपूर्वगत्येति भावः । प्रकारान्तरेणाह-एवमिति। असंलक्ष्यताया- मेवेति। रसत्मेपामिति शेषः। अन्यथा तु संलक्ष्यकमतायां तु। केचिदित्यरुचिवीजं क्षणा दित्यत्रान्वयः । रसव्यक्तौ रसाभिव्यक्तौ। अक्रमेति बहुव्रीहिः। विभावादिविशेषणा- पत्तेरिति। हेतुहेतुमद्धावस्य क्रमनियतत्वादिति भावः। भगेति बहुन्ीहिः। अनुभूयेति। तथा चानुभवापलापः कर्तुमशक्य इति भावः। नन्वेवमपि स्थायिभावाभावान्नाधिक्यमत ५
Page 61
४६ काव्यमाला।
'रतिर्देवादिविपया व्यभिचारी तथाज्जितः । भावः ग्रोक्तस्तदाभासा ह्यनौचित्यप्रवर्तिताः ॥' इति हि प्राचां सिद्धान्तात्। न च तर्हि कामिनीविषयाया अपि रतेर्भावत्वमस्तु, रतित्वाविशेषात्, अस्तु वा भगवद्धक्तेरेव स्थायित्वम्, कामिन्यादिरतीनां च भावत्वम्, विनिगमकाभावात्, इति वाच्यम्। भरतादिमुनिवचनानामेवात्र रसभावत्वादिव्यवस्थापकत्वेन स्वातन््ययोगात्। अन्यथा पुत्रादिविषयाया अपि रतेः स्थायिभावत्वं कुतो न स्यात्, न स्याद्वा कुतः शुद्धभावत्वं जुगुप्साशोकादीनाम्, इत्यखिलदर्शनव्याकुली स्यात्। रसानां नवत्वगणना च मुनिवचननियन्त्रिता भज्येत, इति यथा- शास्त्रमेव ज्यायः । एतेषां परस्परं कैरपि सहाविरोघः कैरपि विरोधः । तत्र वीरशृङ्गा- रयोः, श्रृङ्गारहास्ययोः, वीराद्गुतयोः, वीररौद्रयोः, शृङ्गाराद्वुतयोश्चा- विरोधः । शृङ्गारबीभत्सयोः, शृङ्गारकरुणयोः, वीरभयानकयोः, शान्तरौ- द्रयोः, शान्तशृङ्गारयोश्च विरोधः । तत्र कविना प्रकृतरसं परिपोष्ठका- मेन तदभिव्यञ्जके काव्ये तद्विरुद्धरसाङ्गानां निबन्धनं न कार्यम्। तथा हि सति तदभिव्यक्तौ विरुद्धः प्रकृतं वाधेत। सुन्दोपसुन्दन्यायेन चोभ- योरुपहतिः स्यात्। यदि तु विरुद्धयोरपि रसयोरेकत्र समावेश इष्यते तदा विरोधं परिहृत्य विधेयः । तथा हि-विरोधस्तावट्टविविधः । स्थि- तिविरोधो ज्ञानविरोधश्च। आद्यस्तदधिकरणावृत्तितारूपः । द्वितीयस्त- ज्ज्ञानप्रतिबद्धज्ञानकत्वलक्षणः । तत्राधिकरणान्तरे विरोधिनः स्थापने
आह-भगेति। अजजितोऽभिव्यक्तो व्यभिचारिभावः। तथाशब्दश्वार्थे। प्राचां प्रकाश- कृताम्। अतिप्रसक्वं दत्त्वा वैपरीत्यमाह-अस्तु वेति। अत्र शास्त्रे। अन्यथा तद्वच- नानामव्यवस्थापकत्वे। शुद्धेति । स्थायिभावलानालिङ्वितव्यभिचारिभावत्वमित्यर्थः । दर्शनं शास्त्रम्। भक्तिरसस्यातिरिक्तत्वाज्गीकारे दोषान्तरमाह-रसानामिति। निय- त्रिता नियमिता। एतेपां रसानाम्। विरोध इति। अन्ये तूदासीनाः। यथा शा- न्ताद्भुतौ, वीरवीभत्सावित्यादीति बोध्यम्। तदभीति। विरुद्धरसाङ्गाभीत्यर्थः । तस्य वाधकत्वे नियामकाभावादाह-सुन्दोपेति। एकत्र काव्ये। तत्र तयोर्मध्ये। विरो-
Page 62
रसगङ्गाधरः । ४७
प्रथमो निवर्तते। यथा नायकगतत्वेन वीररसे वर्णनीये प्रतिनायके भया- नकस्य। रसपदेनात्र प्रकरणे तदुपाधिः स्थायिभावो गृह्यते। रसस्य सामाजिकवृत्तित्वेन नायकाद्यवृत्तित्वात् । अद्वितीयानन्दमयत्वेन विरोधा- संभवाच्च। उदाहरणम्- 'कुण्ड ली कृतकोदण्डदोर्दण्डस्य पुरस्तव। मृगारातेरिव मृगा: परे नैवावतस्थिरे॥' रसान्तरस्याविरोधिनः संधिकर्तुरिवान्तरालेऽवस्थापने द्वितीयोऽपि निवर्तते। यथा मन्निर्मितायामाख्यायिकायां कण्वाश्रमगतस्य श्वेतकेतो- महर्षे: शान्तिरसप्रधाने वर्णने प्रस्तुते 'किमिदमनाकलितपूर्व रूपम्, को- डयमनिर्वाच्यो वचनरशनाया मधुरिमा इत्यद्धुतस्यान्तरवस्थापनेन वरव- णिनी प्रत्यनुरागवर्णने। यथा वा- 'सुराङ्गनाभिराश्रिष्टा व्योम्नि वीरा विमानगाः । विलोकन्ते निजान्देहान्फेरुनारीभिरावृतान् ।' अत्र सुराङनामृतशरीरालम्बनयोः श्रृङ्गारबीभत्सयोरन्तः सवर्गलाभा- क्षिप्तो वीररसो निवेशितः । अन्तर्निवेशश्च तदुभयचर्वणाकालान्तर्वर्ति- कालगतचर्वणाकत्वम्। तच्च प्रकृतपद्ये प्रथमार्ध एव शृङ्गारचर्वणोत्तरं वीरस्य चर्वणादनन्तरं च द्वितीयार्धे वीभत्सस्येति स्फुटमेव। 'भूरेणुदि- ग्धान्' इत्यादि काव्यप्रकाशगतपद्यकदम्वेपु तु प्रथमश्चतवीभत्ससामग्रीव-
धिनः । रसस्येति शेषः । प्रथमः स्थितिविरोधः। भयानकस्य। स्थापने इति शेपः। रसस्य मुख्यरसस्य। अत एवाह-अद्वितीयेति। उदेति। उक्तरीला आद्यविरोधाभा- वोदाहरणमित्यर्थः । कुण्डलीति। बहुत्रीहिदूयम्। मृगारातेः सिंहस्य। परे शत्रवः । अन्तराले विरुद्धरसयोमध्ये। वरवर्णिनीं तदाख्यनायिकाम्। व्योत्रि विमानगा इतन्वयः। फेरुनारीभिर्जम्युकस्त्रीभिः। अत्र सुराङेति। यथासंख्यमन्वयः। स्वर्गलाभश्च पूर्वा- धेन प्रतिपादितः। तदुभयेति। विरुद्वरसद्वयेत्यर्थः। चर्वणात्। क्रमेण पादद्वयेनेति भावः । वीभत्सस्य चर्वणादित्यस्यानुपक्ञः। तच्ेत्यस्य स्फुटमेवेत्यत्रान्वयः। चर्वणे।
Page 63
४८ काव्यमाला।
वीरस्य चर्वणे शृङ्गारचर्वणेति विवेकः । इत्थं चोदासीनचर्वणेन प्रतिबन्ध- कज्ञाननिवृत्तौ निष्प्रत्यूहः प्रतिवध्यचर्वणोदय इति फलितोऽर्थः । अङ्गा- ङ्विनोरङ्गिन्यन्यस्मिन्नङ्गयोर्वा न विरोधः । अङ्गत्वानुपपत्तिप्रसङ्गात्। यथा- 'प्रत्युद्धता सविनयं सहसा सखीभिः स्मेरैः स्मरस्य सचिवैः सरसावलोकैः । मामद्य मच्जरचनैर्वचनैश्च वाले हा लेशतोडपि न कथं वद सत्करोपि ।' इयं च पुरो निपतितां प्रमीतां नायिकां प्रति नायकस्योक्तिः । इह नायिकालम्बना, अश्रुपातादिभिरनुभावैरावेगविपादिभिः संचारिमिश्च व्य- ज्यमाना नायकगता रतिस्तुल्यसामग्र्यभिव्यक्ते प्रकृतत्वात्प्रधानीभूते तद्गत एव शोके प्रकर्षकत्वादङ्गय्। यदि तु नायकगता रतिर्नात्र प्रती- यते, किं तु निरुक्तसामग्र्या शोक एव प्रकृतत्वादित्यागृद्यते तदा नाय- कालम्बना प्रत्युद्धमाद्यनुभाविता हर्षादिभि: पोषिता नायिकाश्रया रतिरेव तत्राङ्गमस्तु । नायिकागतरतेर्नायकशोकप्रकर्षहेतुतायाः सर्वसंमतत्वात्। न च नायिकाया नाशात्तद्वताया रतेरसंनिधानात्कथमङ्गतेति वाच्यम्। संनिधानस्याङ्गतायामतन्त्रत्वेन स्मर्यमाणायास्तस्या अङ्गत्वोपपत्तेः । अङ्गयोर्यथा- 'उत्क्षिप्ताः कवरीभरं विवलिताः पार्दवयं न्यक्कृताः पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाच्लम्।
सतीति शेषः। विवेको भेदः। द्वितीय विपयमुपसंहरति-इत्थं चेति। उक्तप्रकारेण चेत्यर्थः । उदेति मध्ये इत्यादिः। निवृत्तौ। ज्ञानस्य त्रिक्षणावस्थायित्वादिति भावः । प्रकारान्तरेण विरोधं परिहरति-अङ्गाङ्गिनोरिति। पुनरन्यथा तं परिहरति-अ- द्विनीति। अङ्गत्वेति। एकाङ्विनिरूपितेत्यादिः। तत्रादोदाहरणमाह-प्रत्युद्गतेति। प्रमीतां मृताम् । तुल्यसामग्रीति। उक्तसामग्रीसजातीयेत्यर्थः । तद्गते एव नायकगते एव। नात्रेति। नैवात्रेत्यर्थः । निरुक्तेति। नायिकालम्बनेत्यादिनेति भावः। आगृ- ह्यते आग्रहः क्रियते। तत्र शोके। नायकशोकेति। नायकनिष्ठशोकेत्यर्थः । अतन्र्र- त्वेनाकारणत्वेन। अज्ञयोरित्यस्यैकस्मिन्नजिनीलादिः । उत्क्षिप्ता उन्नतीकृताः। विच-
Page 64
रसगङ्गाधरः । ४९
गृह्रन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरूहाः ॥' अत्र समासोक्त्यवयवाभ्यां तरुकामिकर्तृकरिपुकामिनीकबर्यादिग्रह- णरूपाभ्यां प्रकृताप्रकृतव्यवहाराभ्यां व्यक्तयोः करुणशृङ्गारयो राज- विषयकरतिभावाङ्गत्वम् । किं च प्रकृतरसपरिपुष्टिमिच्छता विरोधिनो- डपि रसस्य वाध्यत्वेन निबन्धनं कार्यमेव। तथा हि सति वैरिविजयकृता वर्ण्यस्य कापि शोभा संपद्यते। वाध्यत्वं च रसस्य प्रवलैर्विरोधिनो रस- स्याङ्गैर्विद्यमानेष्वपि स्वाङ्गेषु निप्पत्तेः प्रतिबन्धः । व्यभिचारिणो बाध्यत्वं तु तदीयरसनिप्पत्तिप्रतिबन्धमात्रात् । न त्वनभिव्यक्त्या। अभिव्यक्तौ वाधकाभावात्। न च विरोध्यङ्गाभिव्यक्त्या प्रतिबन्धान्नाभिव्यक्तिरिति वाच्यम्। तद्यञ्जकशब्दार्थज्ञानसमये विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञान- स्यासंनिधानात्। प्रतिबध्यप्रतिबन्धकभावकल्पने मानाभावात्। भावश- वलताया उच्छेदापत्तेश्च। रसनिष्पत्तेः प्रतिबन्धस्त्वनुभवसिद्ध इति तां प्रत्येव विरोध्यङ्गानां बलवतामभिव्यक्त: प्रतिवन्धकत्वं न्याय्यम्। अपि च यत्र साधारणविशेषणमहिम्रा विरुद्धयोरभिव्यक्तिस्तत्रापि विरोधो निवर्तते। यथा- 'नितान्तं यौवनोन्मत्ता गाढरक्ता: सदाहवे। वसुंधरां समालिन्न शेरते वीर तेऽरयः ॥'
लिता वक्रीकृताः । न्यक्कता अधःकृताः । ग्रहणे हेतुगर्भ विशेषणं कण्टकचिता इति। कण्टकव्याप्ता इत्यथः। तरुकामीति। एतदुभयकर्तृकेत्यर्थः । रतिभावेति। कविनि- षेत्यादिः। एकत्र काव्ये। पुनः प्रकारान्तरेण विरुद्धत्वाभिमतयोर्निवन्धे न दोष इ- त्याह-किं चेति। इच्छतेति। कविनेति शेषः । काप्यनिर्वचनीया। रसस्येत्यस्य पूर्वत्रेव निष्पत्तेरित्यत्राप्यन्वयः । तदीयेति। व्यभिचारभावीयेत्यर्थः । अनभीत्यस्य व्यभिचारिभावस्येत्यादिः । एवमग्रेऽपि। विरोध्यङ्गेति। विरोधिनो रसस्यान्वेत्यर्थः। तद्यक्षकेति। व्यभिचारिभावव्यअकेतयर्थः । असंनिधानानट्टलात्। ननु संस्कारस्थैव तत्त्वमास्तामत आह-भावेति। नन्वेवं रसनिष्पत्तिप्रतिवन्धोऽपि न स्यादत आद- रसेति। पुनरन्यथा तं परिहरति-अपि चेति। अन्न रक्त्तं रुघिरम्, अनुरागक्ष, इति
Page 65
५० काव्यमाला।
इत्थमविरोधसंपादनेनापि निवध्यमानो रसो रसशन्देन शरृङ्गारादिश- बैर्वा नाभिधातुमुचितः । अनास्वाद्यतापत्तेः । तदास्वादश्च व्यञ्जनमात्र- निप्पाद्य इत्युक्तत्वात्। यत्र विभावादिभिरभिव्यक्तस्य रसस्य स्वशब्दे- नाभिधानं तत्र को दोप इति चेत्, व्यञ्घस्य वाच्यीकरणे सामान्यतो वमनाख्यदोषस्य वक्ष्यमाणत्वात्। आसाद्यतावच्छेदकरूपेण प्रत्ययाजन- कतया रसस्थले वाच्यवृत्तेः कापेयकल्पत्वेन विशेषदोषत्वाच्च। एवं स्था- यिव्यभिचारिणामपि शब्दवाच्यत्वं दोषः । एवं विभावानुभावयोरसम्यक्प्र- त्यये विलम्वेन प्रत्यये वा न रसास्वाद इति तयोर्दोपत्वम्। समवलप्रवलप्र- तिकूलरसाङ्गानां निबन्धनं तु प्रकृतरसपोषप्रातीपिकमिति दोषः । प्रबन्धे प्रकृतस्य रसस्य प्रसङ्गान्तरेण विच्छिन्नस्य पुनर्दीपने सामाजिकानां न सामग्रयेण रसास्वाद इति विच्छिन्नदीपनं दोषः । तथा तत्तद्रसप्रस्तावनान- हैडवसरे प्रस्तावः । विच्छेदानर्हे च विच्छेदः। यथा संध्यावन्दनदेव- यजनादिधर्मवर्णने प्रसक्ते कयापि कामिन्या सह कस्यचित्कामुकस्यानु- रागवर्णने। [यथा वा] समुपस्थितेषु महाहवदुर्मदेपु प्रतिभटेषु मर्मभिन्दि- वचनान्युद्विरत्सु नायकस्य संध्यावन्दनादिवर्णने चेत्युभयमनुचितम् । एवमप्रधानस्य प्रतिनायकादेरनानाविधानां चरितानामनेकविधायाश्च संपदो नायकसंबन्धिभ्यस्तेभ्यो नातिशयो वर्णनीयः । तथा सति वर्णयितुमिष्टो नायकस्योत्कर्षो न सिद्धेत् । तत्प्रयुक्तो रसपोषश्च न स्यात्। न च प्रतिनायकोत्कर्षस्य तदभिभावकनायकोत्कर्षाङ्गत्वात्कथमवर्णनीयत्वमिति साधारणतं विशेषणस्य। तद्वलात्करुणशङ्गारयोरभिव्यक्तिः । एवमविरोधानुक्ता दोषा- नाह-इत्थमिति। उक्तप्रकारैरित्यर्थः । शङ्कते-यत्रेति। सामान्यदोषमुक्ता विशे- पदोपमाह-आस्वाद्येति। कापेयेति। वानरचेष्टिततुत्यलेनेत्यर्थः। एवं रसवत्। दो- पान्तरमाह-एवमिति।उक्तदोषवदित्यर्थः। तयोदोषत्वमिति। तद्विषयकासम्यकप्र- त्ययविलम्बप्रत्यययोरित्यर्थः । दोषान्तरमाह-समवलेति। रसाङ्गविशेषणम्। प्राती- तिकं प्रतिकूलतासंपादकम्। विरुद्धमिति यावत्। दोष इति। तदेव दोप इत्यर्थः । दोषान्तरमाह-प्रवन्ध इति। सामगर्येण साकल्येन। दोषान्तरद्वयमाह-तथेति। द्वितीयमुदाहरति-समुपेति। इतः प्राग्यथा वेलयपपाठः। दोपान्तरमाह-एवमिति। तेभ्यो नानाचरितादिभ्यः। तत्प्रयुक्त उत्कपप्रयुक्तः। तद्भीति। तत्तिरस्कारकारी-
Page 66
रसगङ्गाधरः । ५१ वाच्यम्। यादृशस्य प्रतिनायकोत्कर्षवर्णनस्य तदभिभावकनायकोत्कर्पा- ङतासंपादकत्वं तादृशस्येष्टत्वात्। तद्विरोधिन एव निषेध्यत्वात्। न च प्रतिपक्षस्य प्रकृतापेक्षया वर्ण्यमानोऽप्युत्कर्षः सवाश्रयहन्तृतामात्रादेव प्रकृतगतमुत्कर्षमतिशाययेत्, अतो न दोषावह इति वाच्यम्। एवं हि सति महाराजं कमपि विषशरक्षेपमात्रेण व्यापादितवतो वराकस्य शवर- स्येव प्रकृतस्य नायकस्य न कोऽप्युत्कर्षः स्यादिति। तथा रसालम्ब- नाश्रययोरनुसंधानमन्तरान्तरा न चेद्दोपः । तदनुसंधानाधीना हि रसप्रतिप- त्तिधारा तदननुसंधाने विरता स्यात्। एवं प्रकृतरसानुपकारकस्य वस्तुनो वर्णनमपि प्रकृतरसविरामहेतुत्वाद्दोष एव। अनौचित्यं तु रसभङ्गहेतु- त्वात्परिहरणीयम्। भङ्गश्व पानकादिरसादौ सिकतादिनिपातजनितेवारु- न्तुदता। तच्च जातिदेशकालवर्णाश्रमवयोवस्थाप्रकृतिव्यवहारादेः प्रपञ्चजा- तस्य तस्य तस्य यह्ोकशास्त्रसिद्धमुचितद्रव्यगुणक्रियादि तद्वेदः । जात्यादेरनुचितं यथा-गवादेस्तेजोबलकार्याणि पराक्रमादीनि, सिंहादेश्च साधुभावादीनि। सवर्गे जराव्याध्यादि, भूलोके सुधासेवनादि। शिशिरे जलविहारादीनि, ग्रीप्मे वहिसेवा। ब्राह्मणस्य मृगया, वाहुजस्य प्रति- ग्रहः, शूद्रस्य निगमाध्ययनम् । ब्रह्मचारिणो यतेश्च ताम्बूलचर्वणम्, दारोपसंग्रहः । वालवृद्धयोः स्त्रीसेवनम्, यूनश्च विरागः । दरिद्राणामा- ढ्याचरणम्, आढ्यानां च दरिद्राचारः । प्रकृतयो दिव्याः, अदिव्याः, दिव्यादिव्याश्च । धीरोदात्तधीरोद्धतधीरललितवीरशान्ता उत्साहक्रोध- त्यर्थः । ननु सर्वत्रोत्कर्षसंपादकत्वं नोक्तवैषम्यमित्याशयेन शक्ते-न चेति। स्वाथ्र- विपेति। तत्संबद्धवाणेत्र्थः । वराकस्य दीनस्य। दोपान्तरमाह-तथेति। रसस्या- लम्बनाथ्रययोरित्यर्थः। अन्तरान्तरा मध्येमध्ये। तदुपपादयति-तदन्विति। तयोस्ताट- शान्वित्यर्थः। दोपान्तरमाह-एवमिति। दोपान्तरमाह-अनौचीति। तुरुक्तप्रका- रव्यवच्छेदाय। तदाह-रसति। अत एवाह-भङ्गश्चेति। अरुन्तुदता मर्मच्छेदिता। तच्चानौचिलं च। प्रपञ्चजातस्य प्रपव्वसमूहस्य। बाहुजस्य क्षत्रियस्य। निगमो वेदः। संग्रहः संप्रहश्। प्रकृत्यन्तरमाह-धीरोदान्तेति। धिरोदात्तादीनां चतुर्णो चतारि यथासंख्येनाह-उत्साहेति। प्रकृत्यन्तरमाह-उत्तमेति। तत्र तासां मध्ये। सर्वत्र
Page 67
५२ काव्यमाला।
कामिनीरतिनिर्वेदप्रधाना उत्तममध्यमाधमाश्च। तत्र रत्यादीनां भया- तिरिक्तस्थायिभावानां सर्वत्र समत्वेऽपि रतेः संभोगरूपाया मनुष्येष्विवो- त्तमदेवतासु स्फुटीकृतसकलानुभाववर्णनमनुचितम्। क्रोधस्य च लोकभ- स्मीकरणपटोर्दिनरात्रिव्यत्ययाद्यनेकाश्चर्यकारिणो दिव्येप्विवादिव्येपु - आलम्बनगताराध्यत्वस्यानुभावगतमिथ्यात्वस्य च प्रतीच्या रसानुल्लासा- पत्तेः। न च साधारणीकरणादाराध्यत्वज्ञानानुत्पत्तिरिति वाच्यम्। यत्र सहृदयानां रसोद्वोधः प्रमाणसिद्धस्तत्रैव साधारणीकरणस्य कल्पनात्। अन्यथा समातृविषयकस्वपितृरतिवर्णनेऽपि सहृदयस्य रसोद्वोधापत्तेः । जयदेवादिभिस्तु गीतगोविन्दादिप्रबन्धेपु सकलसहृदयसंमतोडयं समयो मदोन्मत्तमतङ्गजैरिव भिन्न इति न तन्निदर्शनेनेदानींतनेन यथा वर्णयितुं सांप्रतम्। तथा विद्यावयोवर्णाश्रमतपोभिरुत्कृष्टैः स्वतोऽपकृष्टेपु न संव- हुमानेन वचसा व्यवहर्तव्यम्। व्यवहर्तव्यं चापकृष्टैरुत्कृष्टेषु । तत्रापि तत्रभवन्भगवन्नित्यादिभि: संबोधनैर्मुनिगुरुदेवताप्रभृतय एव न राजादयः, जात्योत्तमैर्द्विजैरेव नाधमैः शूद्रादिभिः, परमेश्वरेत्यादिसंवोधनैश्चकवर्तिन एव न मुनिप्रभृतयः संबोध्याः । तथा चाहु :- 'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ॥' इति।
सर्वासु प्रकृतियु। स्फुटीकृतेति। स्फुटीकृताः सकलानुभावा यस्मिन्कर्मणि यथा- तथेति क्रियाविशेषणमेतत्। अदिव्येषु वर्णनमनुचितमित्यस्यानुषन्गः। साधारणीति। यथा चैतत्तथा प्राक्प्रतिपादितम् । अन्यथा सर्वत्र साधारणीकरणे। समयः संकेतः । तन्निदर्शनेन तदृशन्तेन। मदोन्मत्तेति। दृष्टान्तोल्वेखेन भेदने उन्माद एव कारणम्, न तु युक्तिरिति सूचितम् । अत एव सांप्रतं तदनाध्रयणमिति भावः । एवं प्रकृत्यन्तानौचि- त्यमुक्ता व्यवहारानौचित्यमाह-तथेति । खतः स्वेन रूपेणैवेत्यर्थः । संबह्निति। सभ्यग्बहुमानो यत्र वचसि तेनेत्यर्थः । 'सवहु' इति पाठे तत्सहितेनेत्यर्थः । व्यवेति। तादृशेन वचसेति भावः । व्यवहर्तृनियममाह-जात्योत्तमैरिति। व्राह्मणक्षत्रियवैश्यै- रित्यर्थः । अनौचित्यं लित्याद्युक्तऽर्थे संमतिमाह-तथा चाहुरिति। परोत्कृष्टा। उपनिषदिव यथा सा त्रह्मणः प्रतिपादिका तथायं रसस्येति भावः। तत्र विशेषमाह-
Page 68
रसगङ्गाघरः । ५३
यावता त्वनौचित्येन रसस्य पुष्टिस्तावत्तु न वार्यते। रसप्रतिकूलस्यैव तस्य निषेध्यत्वात्। अत एव 'ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं वहिः स्थीयतां स्वल्पं जल्प बृहस्पते जडमते नैषा सभा वज्रिणः । वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो सीतारल्लकभल्लभग्नहृदयः सस्थो न लङ्केश्वरः ॥' इति कस्यचिन्नाटकस्य पद्ये विप्रलम्भशृङ्गाराङ्गीभूतवीररसाक्षेपकपर- मैश्वर्यपरिपोषकतया स्थितदौवारिकवचनस्य ब्रह्माद्यधिक्षेपपरस्यानौचित्यं न दोषः । एवमेव 'अले ले सद्दः समुप्पाडिअहरियकुसग्गन्थिमयाच्छमा- लापइवित्तिविस्सम्भिअवालविह्वन्दःकअणा बम्हणा' इत्यादिविदूषकवच- नेऽपि रेशन्दादिप्रयोगस्य तत्तथा हास्यानुगुणत्वात्। एषा हि दिगु- पदर्शिता। अनया सुघीभिरन्यदप्यूह्यम्। रसेषु चैतेषु निगदितेपु माधुर्योज: प्रसादाख्यांस्त्रीन्गुणानाहुः । तत्र 'शृङ्गारे संयोगार्ये यन्माधुर्य ततोऽतिशयितं करुणे ताभ्यां विप्रलम्भे तेभ्योऽपि शान्ते। उत्तरोत्तरमतिशयितायाश्चित्तद्रुतेर्जननात्' इति केचित्। 'संयोगशृङ्गारात्करुणशान्तयोस्ताभ्यामपि विप्रलम्भे' इत्यपरे। संयोग- शृङ्गारात्करुणविप्लम्भशान्तेष्वतिशयितमेव न पुनस्तत्रापि तारतम्यम्' इत्यन्ये । तत्र प्रथमचरमयोर्मतयोः 'करुणे विप्रलम्भे तच्छान्ते यावतेति। तस्यानौचित्यस्य। अत एव पोषकस्य तस्यावार्यत्ादेव। न दोष इत्यत्रा- स्यान्वयः । ब्रह्मन्निति। रावणद्वारि समागतान्त्रह्मादीन्प्रति दौवारिकस्येयमुक्तिः । बहिस्तूण्णी स्थीयताम्। बहुभाषित्वादेव जडमतितम्। स्तुतीत्याद्युत्तरान्वयि। स्रीताया रष्लकः सीमन्तसरणिरेव भहो वाणस्तेन भग्रं हृदयं यस्य सः । 'शिरःसिन्दूरसरणिः स्त्रीणामारल्लकं स्मृतम्' इति हलायुधः । विप्रलम्भेति। सीताविषयेत्यादिः । उदाहर- णान्तरमाह-एवमेवेति। तत्तथेत्यत्रान्वयः । अले ले इति। 'अरे रे सदयः समुत्पा- त्याद्ि प्राकृतार्थः। तदनौचितयं तथा न दुषम्। हास्यान्विति। तत्पोषकत्वादित्यर्थः । नेदं परिगणनम्, किं तूपलक्षणमित्याह-पपेति । दिग्रीतिः । अनया दिशा। निरतीति। नितरामतिशयितमित्यर्थः । तत्रापि करुणाविप्रलम्भशान्तेध्वपि। तन्माधुर्यम्। नन्वेक- ६
Page 69
५४ काव्यमाला ।
चातिशयान्वितम्' इति प्राचां सूत्रमनुकूलम्। तस्योत्तरसूत्रगतस्य क्रमेणेति पदस्यापकर्षानपकर्षाभ्यां व्याख्याद्वयस्य संभवात्। मध्यस्थे तु मते करुणशान्ताभ्यां विप्रलम्भस्य माधुर्यातिशये यदि सहृदयाना- मनुभवोऽस्ति साक्षी तदा स प्रमाणम् । वीरबीभत्सरौद्रेष्वोजसो यथोत्तरमतिशयः । उत्तरोत्तरमतिशयितायाश्चित्तदीप्तेर्जननात् । अद्भतहा- स्यभयानकानां गुणद्वययोगित्वं केचिदिच्छन्ति। अपरे तु प्रसादमात्रम्। प्रसादस्तु सर्वेषु रसेषु सर्वासु रचनासु च साधारणः । गुणानां चैषां द्रुति- दीप्तिविकासाख्यास्तिस्त्रश्चित्तवृत्तयः क्रमेण प्रयोज्याः । तत्तद्गुणविशिष्टरस- चर्वणाजन्या इति यावत्। एवमेतेषु गुणेषु रसमात्रधर्मेषु व्यवसितेषु मधुरा रचना, ओजसी बन्ध इत्यादयो व्यवहारा आकारोऽस्य शूर इत्यादिव्यवहारवदौपचारिका इति मम्मटभट्टादयः । येडमी माधुर्यौजःप्र- सादा रसमात्रधर्मतयोक्तास्तेषां रसधर्मत्वे किं मानम्, प्रत्यक्षमेवेति चेत्, न । दाहादेः कार्यादनलगतस्योष्णस्पर्शस्य तथा भिन्नतयानुभवस्तथा द्रुत्यादिचित्तवृत्तिभ्यो रसकार्येभ्योऽन्येषां रसगतगुणानामननुभवात् । तादृशगुणविशिष्टरसानां द्रुत्यादिकारणत्वात्कारणतावच्छेदकतया गुणा- नामनुमानमिति चेत्, प्रातिस्विकरूपेणैव रसानां कारणतोपपत्तौ गुणक- लपने गौरवात्। शृङ्गारकरुणशान्तानां माधुर्यवत्त्वेन द्रुतिकारणत्वं प्राति- स्विकरूपेण कारणत्वकल्पनापेक्षया लघुभूतमिति तु न वाच्यम्। परेण
तोऽथंद्वय प्रतीत्यभावेन कथं तयोस्ततो लाभोऽत आह-तस्योत्तरेति। 'दीस्यात्मवि- स्तृतेहेतुरोजो वीररसस्थितिः । वीभत्सरौद्ररसयोस्तस्याधितयं क्र्रमेण तु ॥'इत्युत्तरसू- त्रेत्यर्थः। यदीत्यनेन तदभावः सूचितः । एवं त्रयाणां रसानां माधुर्यमुक्त्वा त्रयाणामो- जोगुणमाह-वरेति। मात्रपदेनान्यगुणव्यावृत्तिः। एवं सति प्रसादोऽन्ययोरनेति भ्रम- निवारणायाह-प्रसादस्त्विति। रचनासु चेति। एताः स्फुटीभविष्यन्ति। प्र- योज्याः, न तु जन्याः । तदेवाह-तत्तदिति। चर्वणास्ादः। व्यवेति। निश्चितेष्वि- त्यर्थः। उक्तमतं दूषयन्समतमाह-येSमीत्यादि माहशाः इत्यन्तेन। तादृशेत्यस्य न तित्यादिः ।इति चेत्, न' इति पाठः। प्रातिस्विकेति। शङ्गारत्वादिनेति भावः । गुणेति। उक्तरीत्या तदन्यगुणकल्पन इत्यर्थः। शङ्कते-शृङ्गारेति। लघुभूतमिति। एककार्यकारणभावात्। तत्र तुत्रयमिति भावः। परेण मम्मटभटादिना। पृथकपार्थक्येन।
Page 70
रसगङ्गाघरः । ५५
मधुतरादिगुणानां माधुर्यवत्त्वेन कारणताया गड्डुभूतत्वात्। इत्थं च प्रातिस्विकरूपेणैव का- रणत्वे लाघवम्। कि चात्मनो निर्गुणतयात्मरूपरसगुणत्वं माधुर्यादीना- मनुपपन्नम्। एवं तदुपाधिरत्यादिगुणत्वमपि। मानाभावात्, पररीत्या गुणे गुणान्तरस्यानौचित्याच्च। अथ शृङ्गारो मधुर इत्यादिव्यवहारः कथमिति चेत्, एवं तर्हि द्रुत्यादिचित्तवृत्तिप्रयोजकत्वम्, प्रयोजकतासंबन्धेन द्रुत्या- दिकमेव वा माधुर्यादिकमस्तु। व्यवहारस्तु वाजिगन्धोष्णेतिव्यवहारवद- क्षतः। प्रयोजकत्वं चादृष्टादिविलक्षणं शब्द र्थरसरचनागतमेव ्र्राहम्। अतो न व्यवहारातिप्रसक्तिः । तथा च शब्दार्थयोरपि माधुर्यादेरीदृशस्य सत्त्वादुपचारो नैव कल्प्य इति तु मादृशाः । जरत्तरास्तु- 'क्लेषः प्रसादः समता माधुर्य सुकुमारता। अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाघयः ॥' इति दश शब्दगुणान्, दशैव चार्थगुणानामनन्ति। नामानि पुनस्ता- न्येव, लक्षणं तु भिन्नम् । एवं च विशिष्य प्रयोज्यप्रयोजकभावेनैव निर्वाहे सामान्यकार्यकारणभावस्तुरीयो निष्फ- लल्ाद्रडस्थानापन्न इति तदङीकारे विपरीतं गौरवमिति भावः। तदाह-इत्थं चेति। तुरीयकार्यकारणभावाङ्गीकारे चेत्यर्थः । नन्वेवं तथैवास्तां तावतापि गुणसिद्धिरत आह-किं चेति। एवं रसवत्। गुणतमप्यनुपपत्नमित्यस्यानुषङ्गः। अथेति। तेषां तदुभयगुणताभावे इति भावः। लाघवादाह-प्रयोजकेति। ननु प्रयोजकत्वस्यादृष्टा- दिसाधारण्यात्तत्रापि माधुर्यादिव्यवहारापत्तिरत आह-प्रयोजकत्वं चेति। आदिना कालादिपरिग्रहः । शब्दार्थति चतुर्णा द्वन्द्वः। अतो न व्यवेति। इदमपरमत्र वो- ध्यम्। अह्रादकत्वरूपमाधुर्य स्याह्नादकरूपे रसे स्थितिः कथ वक्तुं युक्ता। शब्दवृत्तितानये गुणालंकारयोरभेदस्त्वेवम्-काव्यशोभाकारिणो गुणाः, तदतिशयहेतवोऽलंकारा इति। अत एव वामन :- 'युवतेरिव सर्वमतकाव्यं सदते शुद्धगुणं तदप्यतीव। विहितप्रणयं निरन्तराभिः सदलंकारविकल्पकल्पनाभिः ॥' इति। तथा सति फलितमाह-तथा चेति। जरत्तरास्तित्यस्याहुरित्यप्रेतनेनाप्यन्वयः । लक्षणं त्विति। प्रत्येकाभिप्राय-
Page 71
५६ काव्यमाला।
तथा हि- शब्दानां भिन्नानामप्येकत्वप्रतिभानप्रयोजकः संहितयैकजाती- यवर्णविन्यासविशेषो गाढत्वापरपर्यायः श्रेषः ।। यदाहु :- 'श्रिष्टमस्पष्टशैथित्यम्' इति। तथा-'अनवरतविद्वद्रुम- द्रोहिदा रिद्यमाद्यद्विपोद्दामदर्पौघविद्रावण प्रौढपञ्चाननः' इति। गाढत्वशैथिल्याभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसाद: ।। यथा- 'किं ब्रूमस्तव चीरतां वयममी यस्मिन्धराखण्डल- कीडाकुण्डलितम्रुशोणनयने दोर्मण्डलं दृश्यति। माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्रोत्करै- र्विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः ।।' अत्र यस्मिन्नित्यन्तं शैथित्यम्, भ्रूशव्दान्तं गाढत्वम्, पुनर्नयनेत्यन्तं प्रथममित्यादि बोध्यम्। उपक्रमादा समाप्ते रीत्यभेद: समता॥ यथा वक्ष्यमाणमाधुर्योदाहरणे। तत्र ह्युपनागरिकयवोपकमसंहारौ। संयोगपरहस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुर्यम् । मेकवचनम्। तत्रादौ शब्दगुणलक्षणानि सोदाहरणान्याह-शब्दानामित्यादि। संहितया परसंनिकर्षेण। श्िष् श्लेषः । न स्पष्ट शैथिल्यं भेदो यत्रेत्यर्थः । विद्वांस एव द्रुमास्तेषां निरन्तरं द्रोहकारिणो ये दारिद्यरूपा मादन्तो द्विपा गजास्तेषामुत्कृष्टदर्पस- मूहनाशने समर्थः सिंहस्तमिति राजवर्णनम्। व्युत्कमेणादौ शैथिल्यमप्रे गाढतम्। हे पृथ्वीन्द्र, यस्मिस्तयि कीडया तस्यां वा कुण्डलिते भ्रवौ शोणनयने च यस्य तस्मिन्सति। दोर्मण्डलं दोर्युग्मं पश्यति च सति। तत्कालं तस्मिन्नेव समये। रकतम- िसमू हकान्ति मिश्रितैर्भूषणानन्तसमूहै विन्ध्याद्रेर्वनगुहागृहवृक्षाश्चलार उल्लासिताः । अ- तस्तव वीरताममी वयं किं ब्रूम इत्यर्थः। क्रीडायां तथाकृतं श्रुत्ा शत्रवः पलाय्य विन्ध्यप्रदेशे संगता इति भावः । आसमाप्तेः समाप्तिपर्यन्तम्। रीत्यभेद इति। रीत- यश्चोपनागरिका परुषा कोमला च। एता एव क्रमेण वैदर्भीगौडीपाश्चाल्य उच्यन्ते। माधुर्यव्यअ्ञकवर्णयुताद्या। ओजोव्यजकवर्णयुता द्वितीया। माधुयौंजोव्यज्जकवर्णातिरि- ककेवलप्रसादयुक्ताक्षरान्त्येति विवेकः। अन्त्याया एव ग्रम्येति संज्ञा केषांचित्। वक्ष्य- माणेत्यस्यानुपदमित्यादिः। संयोगपरेति। संयोगश्वात्र परसवर्णानिष्पत्रहलघटित एव
Page 72
रसगन्गाघरः । ५७
यथा- 'नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि। यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ।' अपरुषवर्णघटितत्वं सुकुमारता ॥ यथा- 'स्वेदाम्बुसान्द्रकणशालिकपोलपालि- दोलायितश्रवणकुण्डलवन्दनीया। आनन्दमङ्कुरयति स्मरणेन कापि रम्या दशा मनसि मे मदिरेक्षणायाः ।।' अत्र पूर्वार्घे। उत्तरार्घे तु माधुर्यमपि । झगिति प्रतीयमानार्थान्वयकत्वमर्थव्यक्तिः ॥ यथा 'नितराम्' इत्यादौ। कठिनवर्णघटनारूपविकटत्वलक्षणोदारता ॥ यथा- 'प्रमोदभरतुन्दिलप्रमथदत्ततालावली- विनोदिनि विनायके डमरुडिण्डिमध्वानिनि। ललाटतटविस्फुटन्नवकृपीटयोनिच्छटो हठोद्धतजटोद्भटो गतपटो नटो नृत्यति ॥' 'पदानां नृत्यत््रायत्वं विकटता' इति काव्यप्रकाशटीकाकारा व्याच- क्षते। उदाहरन्ति च 'स्वचरणविनिविष्टैर्न पुरैर्नर्तकीनां झटिति रणितमा- सीत्' इत्यादि। तत्र तेषामेतादृशीं विकटत्वलक्षणामुदारतामोजस्यन्तर्भा-
प्राह्यः। स्पषटं चेदमत्रैवाग्रे। पृथक्पदलम्। पदानि भिन्नान्यपेक्षितानि, न तु श्ेषवत्। विचारेति। अङ्गवन्मृणालानि न वेति विचारेऽपि समर्थानि नेत्यर्थः । अङ्गकानामित्य- त्रानुकम्पायां कन्। दष्टेति शेषः। नायिकां प्रति नायकोक्तिः। सवेदेति। नायकोकिः। श्रवणकुण्डलं कर्णताटङ्टः। अत्र स्मृत्युपष्टब्धशङ्वारः पूर्वारधे। अपरुषवर्णघटितत्वरूपा सुकुमारतेति शेषः । अपिनास्या अपि समुचयः । झगिति द्राक्। प्रतीयमानलमन्वय- विशेषणम् । आकाह्लादिसकलकारणसामप्रीसत्त्वादिति भावः। प्रमथा गणाः । डमरु- डिण्डिमेति। उमरुढंकृति तन्वतीत्यर्थः । गतपटो दिगम्बरः । तत्रोक्तेऽर्ये। तेषां
Page 73
५८ काव्यमाला।
वयन्काव्यप्रकाशकारः कथमनुकूल इति त एव जानन्ति। नह्यत्रौजसो वैपुल्येन प्रतिभानमस्ति। 'विनिविष्टैर्नृपुरैरनर्त-' इत्यत्र सन्नप्योजसो लवो न चमत्कारी। नापि तत्र नृत्यत्प्रायत्वं वर्णानामनुभवन्ति सहृदयाः । अंशा- न्तरे तु माधुर्यमेव। संयोगपरह्ृस्वप्राचुर्यरूपं गाढत्वमोजः ।। यथा- 'साहं कार सुरासुराव लिकराकृष्टभ्रमन्मन्दर- क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वैकषाः । तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता भूमीभूषण भूषयन्ति भुवनाभोगं भवत्कीर्तयः ॥' यथा वा 'अयं पततु निर्दयम्' इत्यादिप्रागुदाहते। अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्य- मानेषु पदेषु लोकोत्तरशोभारूपमौज्ज्वल्यं कान्ति: ।। यथा 'नितराम्' इत्यादि प्रागुदाहते। बन्धगाढत्वशिथिलत्वयोः क्रमेणावस्थापनं समाधिः ॥ अनयोरेव प्राचीनैरारोहव्यपदेशः कृतः । क्रम एव हि तयोः प्रसादादस्य भेदकः । तत्र हि तयोर्व्युत्क्रमेण वृत्तेः । यथा-
केवलामृतमुचां वचनानां यस्य लास्यगृहमास्यसरोजम् ॥' अत्रारोहः प्रथमेडघे। तृतीयचरणे त्ववरोहः । गङ्गेत्यादौ माधुर्यस्य व्यञ्जकेषु वर्णेषु सत्सपि दीर्घसमासान्तःपातितया न तस्य प्ररोहः । उत्त- रार्घे तु सोडपि। एते दश शब्दगुणाः ।
टीकाकाराणाम्। अनुकूलत्वाभावमेवाह-नहीति। अत्र खचरणेति पद्ये। वैपुल्येन सर्वोशेन। लवो लेशः । अत एव न चमत्कारित्वम्। तत्रौजसो लवांशे। साहमिति। हे भूमीभूषण। आभोगो विस्तारः। अनयोर्गाढत्वशिथिलत्वयोः। प्रसादात्समाधेभेंदमाह- कम पवेति। तयोर्गाढत्वशिथिलत्वयोः क्म एव हीत्यर्थः । वृत्तेः प्रवृत्तेः। स्वर्गेति। यस्यास्यसरोजं तेषां लास्यगहं भवतीत्यर्थः । तृतीयचरण इति बहुव्रीहिः। द्वितीयेऽर्षे
Page 74
रसगङ्गाघरः । ५९
एवं क्रियापरम्पराया विदग्धचेष्टितस्य तदस्फुटत्वस्य तदुपपाद- कयुक्ेश्र सामानाधिकरण्यरूपः संसर्गः श्लेषः ।I यावदर्थकपदत्वरुपमर्थवैमल्यं प्रसादः ॥ यथा-'कमलानुकारि वदनं किल तस्याः' इत्यादि। प्रत्युदाहरणं तु 'कमलकान्त्यनुकारि वक्त्रम्' इत्यादि। प्रकरमाभङ्गेनार्थघटनात्मकमवैषम्यं समता ॥ यथा- 'हरिः पिता हरिर्माता हरिर्त्राता हरिः सुहृत् । हरिं सर्वत्र पश्यामि हरेरन्यन्न भाति मे ॥' अत्र विष्णुर्भ्रातेत्यादिनिर्माणे प्रक्रमभङ्गात्मकं वैषम्यम्।
धुर्यम्। एकस्या एवोक्तेर्भङन्तरेण पुनः कथनात्मकमुक्तिवैचित्रयं मा-
यथा- 'विधत्तां निःशङ्कं निरवधिसमाधिं विधिरहो सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः । कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः सवित्री कामानां यदि जगति जागर्ति भवती॥'
इत्यर्थः । तस्य माधुर्यस्य। पृथक्पदत्वस्य तत्र निविष्टत्वेन तदभावादिति भावः । सोऽपि माधुर्यप्ररोहोऽपि। तथा च सांकर्यमिति भावः। एवं शब्दगुणानां प्रपथ्चमुक्त्वार्थ- गुणानां तमाह-एवमिति। उक्त्वदित्यर्थः । विदग्धचेष्टितस्येति । यथा 'दृष्ट्व- कासनसंस्थिते प्रियतमे' इत्याद्यमरुपद्यादौ। अत्रैकामतिक्रम्यान्याचुम्बनं विदग्धचे- ष्टितम्। तस्यास्फुटत्वमन्यया तदज्ञानात्। तत्नोपपत्तिश्च नयनपिधानपूर्वकं करीडानु- वन्धः। एषां च पक्चादागमननयनपिधानक्रीडाकरणादिक्ियापरम्परया सामानाधि- करण्यं काव्ये निवद्धम्। इदं च 'क्रियापरम्परया' इति तृतीयान्तपाठे बोष्यम्। षध्य- न्तपाठे तु तस्य तेषां च सामेत्यादर्थः । यावदिति। अर्थान्यूनाधिकपदवत्वेत्यर्थः । प्रत्युदाहरणे कान्तीत्यधिकम् । प्रक्रमेति। उपक्रमाभज्ञेनेत्यर्थः । शब्दबोधे शब्दस्यापि प्रकारतया भानस्य न, सोऽस्ति 'न सोऽस्ति' इत्यादिना हरिणा प्रतिपादितत्वादिति भावः। भक्यन्तरेण रीत्यन्तरेण । विधत्तामिति। देवीं प्रति भक्तोक्तिः। कामानां मनोरथानां सवित्री निष्पादिका। एषोऽर्थ इत्यस्यैक एवेति शेषः। अन्यथा तथैव प्रत्येकमुक्त्तौ।
Page 75
६० काव्यमाला।
अत्र विध्यादिभिर्नास्ति किमपि प्रयोजनमित्येषोऽर्थः समाघिविधाना- दिप्रेरणारूपेणोक्तिवैचित्रयेणाभिहितः । अन्यथा नवीकृतत्वापचेः । अकाण्डे शोकदायित्वाभावरूपमपारुष्यं सुकुमारता ।। यथा-'त्वरया याति पान्थोडयं प्रियाविरहकातरः'। 'प्रियामरणकातरः' इत्यत्र शोकदायिनो मरणशव्दस्य सत्त्वात्पारु- व्यम्। इदं चाश्रीलतादोषव्याप्यम्। वस्तुनो वर्णनीयस्यासाधारणक्रियारूपयोर्वर्णनमर्थव्यक्तिः ॥ यथा- 'गुरुमध्ये कमलाक्षी कमलाक्षेण प्रहर्तुकामं माम् । रदयन्त्रितरसनागरं तरलितनयनं निवारयांचक्रे ।।' अयमेवेदानींतनैः सभावोक्त्यलंकार इति व्यपदिश्यते। 'चुम्बनं देहि मे भार्ये कामचाण्डालतृप्तये' इत्यादिग्राम्यार्थप- रिहार उदारता।। एकस्य पदार्थस्य बहुभि: पदैरभिधानं बहूनां चैकेन, तथैकस्य वाक्यार्थस्य बहुभिर्वाक्यैर्बहुवाक्यार्थस्ैकवाक्येनाभिधानं विशेष- णानां साभिप्रायत्वं चेति पश्चविधमोजः ।। यदाहु :- 'पदार्थे वाक्यरचना वाक्यार्थे च पदाभिधा। प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ।।' इति। पूर्वार्धप्रतिपादं द्वयं व्याससमासौ चेति चतुष्प्रकारा प्रौढिः, साभिप्रा- यत्वं चेति पञ्चप्रकारमोज इत्यर्थः । प्रौढिः प्रतिपादनवैचित्र्यम्।
अनवीति। दोषोऽयम्। अकाण्डेडनवसरे। मार्गे विवक्षितदेशप्राप्तेरुद्वेश्यत्वे नावसर इति शोकस्यानवसरः । प्रत्युदाहरणमाह-प्रियेति। ननु शोकदायित्वरूपं पारुष्यं न दोषेषु गणितमत आह-इदं चेति। तदन्तःपात्यमङ्गलरूपत्वादिति भावः । रूपं स्वरूपम्। कमलाक्षीति स्वरूपम्। रदेत्यादि करिया। अयमेव अर्थव्यक्त्याख्यगुण एव। उक्तक्रमेणैवाह-पदार्थ इति। व्यासेति। तथेत्यादिनोक्तौ। अस्य विशेषणस्य। प्रौ- ढिपदार्थमाह-प्रतीति। क्रमेणोदाहरणान्याह-यथेत्यादिना। इत्याद्यग्रेऽपीति।
Page 76
रसगद्गाधरः। ६१
यथा- 'सरसिजवनबन्धुश्रीसमारम्भकाले रजनिरमणराज्ये नाशमाशु प्रयाति। परमपुरुषवक्त्रादुद्गतानां नराणां मधुमधुरगिरां च प्रादुरासीद्विनोदः ।।' अत्रोषसीत्येकपदार्थस्याभिधानाय प्रथमचरणः । इत्याद्यग्रेऽपि बो- ध्यम्।
मण्डिताखिलदिक्प्रान्ताश्चण्डांशोर्भान्ति भानवः ।।' अत्र 'यस्याः पराङ्गनागेहात्पतिः प्रातर्गृहेऽञ्वति' इति वाक्यार्थे सर- ण्डितापदाभिधानम्। 'अयाचितः सुखं दत्ते याचितश्च न यच्छति। सर्वसं चापि हरते विधिरुच्छृङ्खलो नृणाम् ।' अत्र दैवाधीनं सर्वमित्येकस्मिन्वाक्यार्थे नानावाक्यरचनात्मको व्यासप- दवाच्यो विस्तरः । 'तपस्यतो मुनेर्वक्त्राद्वेदार्थमधिगत्य सः । वासुदेवनिविष्टात्मा विवेश परमं पदम् ।।' अत्र मुनिस्तपस्यति तद्वक्त्रात्स वेदार्थमधिगतवान्, तदनन्तरं वासुदेवे परब्रह्मणि मनः प्रावेशयत्, ततश्च मुक्तोऽभूदिति वाक्यार्थकलापः शतृ-क्त्वा- बहुव्रीहिभिस्तिडन्तेन चानुवाद्य विधेयभावेनैकवाक्यार्थीकृतः । साभिप्रा- यत्वं च प्रकृतार्थपोषकता ।
द्वितीयचरणोऽपि तदर्थे। तृतीयचरणेन ब्राह्मणानामित्यर्थलाभः । ईशमुखजत्वात्तेषाम्। उद्गतानामित्यस्य गिरां चेत्यत्रापि संवन्धः । अत एव च वेदानामित्यर्थलाभः । द्विती- योदाहरणमाह-खण्डीति। कजजं कमलम्। सूर्यस्य किरणाः । खण्डितानेत्ररजक्त्वं तु तदा प्रियदर्शनेनेवि वोध्यम्। अव्ति गच्छति। तृतीयोदाहरणमाह-अयाचीति। उच्छृह्वलो निर्मर्यादः। तुर्योदाहरणमाह-तपति। सः परमभक्तः कक्चित्। अत्रेत्य- स्यादाविति शेषः । तद्वक्त्रादित्यस्य तत इत्यादिः । आत्मश्दार्थमाह-मन इति। ७
Page 77
६२ काव्यमाला।
यथा 'गणिकाजामिलमुख्यानवता भवता बताह्मपि। सीदन्भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः ।।' अत्रोपेक्षाभावे करुणामूर्तित्वं पोषकम् । पापिष्ठत्वात्करुणाया अभावे प्रकृतेऽस्याः संपादनाय गणिकेत्यादि सीदन्निति च। दीप्तरसत्वं कान्ति: ।। तच्च स्फुट प्रतीयमानरसत्वम्। उदाहरणं च वर्णितमेव। रसप्रकरणे वर्णयिष्यते च। अवर्णितपूर्वोऽयमर्थः पूर्ववर्णितच्छायो वेति कवेरालोचनं स- माधिः ।। ज्ञानस्य विषयतासंबन्धेनार्थनिष्ठत्वादर्थगुणता। आद्यो यथा-'तनयमैनाकगवेषण-'(१९ पृष्ठे) इत्यादौ, द्वितीयस्तु प्रायशः सर्वत्रैवेत्याहुः। अपरे त्वेषु गुणेषु कतिपयान्प्रागुक्तैस्त्रिभिर्गुणैर्व- क्ष्यमाणदोषाभावालंकारैश्च गतार्थयन्तः, कांश्विद्वैचित्रयमात्ररूपतया क्वचि- द्दोषतया च मन्यमाना न तावतः सवीकुर्वन्ति। तथाहि-लेषोदारताप्र- सादसमाधीनामोजोव्यञ्जकघटनायामन्तर्भावः । न च क्लेषोदारतयोः सर्वाशे गाढबन्धात्मनोरोजोव्यञ्जकघटनान्तर्भावोऽस्तु नाम, प्रसादसमाध्योस्तु गाढशिथिलात्मनोरंशेनौजोव्यञ्जकान्तर्भावेऽप्यंशान्तरेण कुत्रान्तर्भाव इति वाच्यम्। माधुर्याभिव्यञ्जके प्रसादाभिव्यञ्जके वेति सुवचत्वात्। माधुर्य तु परेपामस्मदभ्युपगतमाघुर्यव्यञ्जकमेव। एवं च सर्वत्र व्यञ्जके व्यङ्गयश- यथेति। गणिका चाजामिलश्र तौ मुख्यौ येषां तान् । गणिका पिङ्गला। अजामिलो राजा। भागवते प्रसिद्धोयमर्थः । वतेति खेदे। भव एव मरुगर्तस्तत्र सीदन्दुःखी। प्रकृते मयि। मुख्यदीप्तत्वाभावादाह-तञ्चेति। रसेत्यस्य पूर्वान्वयः। छायस्तत्सदृशः। नन्वालोचनं ज्ञानं तच्चात्मगुणो नार्थगुण इत्यत आह-ज्ञानस्येति। खोक्तौ तथाभा- वादाह-प्रायश इति। दोषाभावेति। द्वयोर्बहुवचनान्तानां द्वन्द्वः। तावतो दश। तत्रादौ शब्दगुणानां तेषामन्तर्भावायाह-श्ेषोदेति। घटनायां वर्णरचनायाम्। त- दंशे सर्वत्र माधुर्यसत्त्वे मानाभावात्। प्रसादस्य सर्वरससाधारण्याच्ाह-प्रसादाभीति। प्रतिपाद्येति । प्रतिपाद्यस्य यदुद्भटत्वमनुद्भटत्वं च ताभ्यामित्यर्थः। प्राम्यत्वकष्टत्व-
Page 78
रसगङ्गाधरः । ६३
न्दप्रयोगो भाक्तः । समता तु सर्वत्रानुचितैव। प्रतिपाद्योद्भटत्वानुद्धटत्वा- भ्यामेकस्मिन्नेव पद्ये मार्गभेदस्येष्टत्वात्। यथा- 'निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रव- न्मृद्दीका मधुमाधुरीमदपरीहारोद्धराणां गिराम्। काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशां नो चेद्दुष्कृतमात्मना कृतमिव स्ान्ताद्वहिर्मा कृथाः ॥' अत्र पूर्वार्धे तृतीयचरणे च लोकोत्तरनिर्माणप्रतिपादके यो मार्गो न स चतुर्थचरणे कदर्यकाव्यप्रतिपादक इति वैषम्यमेव गुणः । ग्राम्य- त्वकष्टत्वयोस्त्यागात्कान्तिसौकुमार्ययोर्गतार्थता। प्रसादेन चार्थव्यक्ते- रिति। अर्थगुणेष्वपि श्रेषः । ओजस आद्याश्चत्वारो भेदाश्च वैचित्र्यमा- त्ररूपा न गुणान्तर्भावमर्हन्ति । अन्यथा प्रतिश्लोकमर्थवैचित्र्यवैलक्षण्या- द्रुणभेदापत्तेः । अनधिकपदत्वात्मा प्रसादः, उक्तिवैचित््यवपुर्माधुर्यम्, अपारुष्यशरीरं सौकुमार्यम्, अग्राम्यरूपोदारता, वैषम्याभावलक्षणा समता, साभिप्रायत्वात्मकः पश्चम ओजसः प्रकारः, स्वभावस्फुटत्वात्मि- कार्थव्यक्ति:, स्फुटरसत्वरूपा कान्तिश्च, अनवीकृतत्वामङ्गलरूपाक्लील- आ्रम्यभग्नप्रक्रमापुष्टार्थरूपाणां दोषाणां निराकरणेन स्वभावोक्त्यलंकारस्य रसध्वनिरसवदलंकारयोश्च स्वीकरणेन च गतार्थानि। समाधिस्तु कविगतः काव्यस्य कारणं न तु गुणः । प्रतिभाया अपि काव्यगुणत्वापत्तेः । योस्त्यागादिति । अत्रेदं चिन्त्यम्-कषटत्वमोजोव्यञ्जकवर्णलम्, सुकुमारलं माधुर्य- व्यञ्तकवर्णलम्। तथा चानयोः परस्पराभावलाभावात्कथं तेनान्यस्यान्यथा सिद्धिरिति। अर्थव्यक्तरित्यस्य गतार्थतेत्यस्यानुषन्ञः । इतिः शव्दगुणान्तर्भावादिसमाप्तौ। अन्यथा वैचित्र्यमात्ररूपत्वेऽपि गुणान्तर्भीवे गुणभेदापत्तेरिति। एतेन चमत्कारानुगुणत्रूपस्य वैचित्र्यस्य गुणत्साधकतेत्यपास्तम्। कान्तिश्वेत्यस्यैतानीति शेषः । अनधिकपदेत्यार- भ्योक्तानीति तदर्थः । क्रमेणाह-अधिकेति।अर्थव्यक्ते: संग्रहायाह-स्वभाविति। कान्तेराह-रसेति। प्राधान्ये रसतमन्यथा रसवदलंकारतमिति भावः । समाधि- स्त्विति। ज्ञानरूप इत्वर्थः । तस्यात्मगुणत्वादिति भावः । तदाह-कवीति। नतु गुण इति। अर्थस्य तत्कारणमिति शेपः। प्रतीति। तस्या अपि विषयतासंबन्धेन
Page 79
६४ काव्यमाला।
अतस्त्रय एव गुणा इति मम्मटभट्टादयः । तत्र टवर्गवर्जितानां वर्गाणां प्रथमतृतीयैः शर्भिरन्तस्थैश्च घटिता, नैकट्वेन प्रयुक्तैरनुखारपरसवर्णेः शुद्धानुनासिकैश्च शोभिता, वक्ष्यमाणैः सामान्यतो विशेषतश्च निषिद्धैः संयोगाद्यैरचुम्बिता, अवृत्तिर्मृदुवृत्तिर्वा रचनानुपूर्व्यात्मिका माधुर्यस्य व्यञ्जिका । द्वितीयचतुर्थास्तु वर्ग्या गुणस्यास्य नानुकूला नापि प्रतिकूलाः, दृरतया संनिवेशिताश्चेत् । नैकट्येन तु प्रतिकूला अपि भवन्ति । यदि तदायत्तोऽनुप्रासः । अन्ये तु वर्गस्थानां पञ्चानामप्यविशेषेण माधुर्यव्य- अजकतामाहुः। उदाहरणम्- 'तां तमालतरुकान्तिलङ्गिनीं किंकरीकृतनवाम्बुदत्विषम् । स्वान्त मे कलय शान्तये चिरं नैचिकीनयनचुम्बितां श्रियम् ।।' यथा वा-
रन्तःस्मितालसविलोकनवन्दनीया। आनन्दमङ्करयति स्मरणेन कापि रम्या दशा मनसि मे मदिरेक्षणायाः ।' प्रथमे पद्येऽतिशयोक्त्यलंकृतस्य भगवद्यानौत्सुक्यस्य भगवद्विपयक- रतेर्वा ध्वन्यमानायाः शान्त एव पर्यवसानात्तद्गतमाधुर्यस्याभिव्यज्जिका
तद्वदर्धवृत्तित्वादिति भावः। उपसंहरति-अत इति। अथ यासु रचनाखन्तर्भाव उक्तस्ता रचना आह-तत्रेत्यादिना। तत्र तासो मध्ये। शर्भिः शपसैः। 'अन्तः- स्थाभिश्च' इति पाठः । यरलवैरिति तदर्थः । वक्ष्यमाणैरित्यस्यानुपदमित्यादि। अतृ- त्तिर्वृत्तिसामान्याभाववती। वाधादाह-मृदुवृत्तिर्वेति । गुणस्यास्य माधुर्यस्य। नैकट्येन संनिवेशिताश्चेदित्यस्यानुषङ्गः । अपिनानुकूलत्वसमुच्चयः। तदेवाह-यदीति। तदायत्तस्तदधीनः । वर्गेत्यस्य टवर्गान्येत्यादिः । अत्रारुचिवीजमुक्त्तमेव। उदेति। उदाहरणमित्यर्थः । तामिति। हे स्वान्त मनः, तां थ्रियं कृष्णमूर्तिशोभां शान्तये मे चिरं कलयेत्यर्थः । नैचिक्यो गावस्तन्नेत्रचुम्वितामित्यर्थः । स्वेदाम्व्विति। गतोऽयं श्लोक:(५७पृष्ठे)। यद्यपि पाल्यग्रे 'दोलायितश्रवणकुण्डल' इति तत्र पाठः, तथापि टवर्गस्य वर्ज्यत्वादाह-'अन्तःस्थितालस विलोकन'इति। अत एवानयोर्मध्ये 'यथा वा-स्मृतापि' इति क्वाचित्कोऽपपाठ इति बोध्यम्। अत एवाह-प्रथमे इति। तामित्यत्रेत्र्थः ।
Page 80
रसगङ्गाधरः । ६५
रचनेयम्। द्वितीये तु स्मृत्युपष्टब्धशृङ्गारगतस्य नैकट्येन द्वितीयचतुर्थव- र्गवर्णटवर्गजिह्वामूली योपध्मानीय विसर्गसकार बहुलैरवर्णैर्घटितो झयरेफान्यतर- घटितसंयोगपरह्स्वैश्च नैकट्येन प्रयुक्त्तैरालिङ्गितो दीर्घवृत्त्यात्मा गुम्फ ओजसः । अस्मिन्पतिताः प्रथमतृतीयवर्ग्या गुणस्यास्य नानुकूला नापि प्रतिकूला: संयोगाद्धटकाश्चेत्। तद्धटकास्त्वनुकूला एव। एवमनुस्ारपर- सवर्णा अपि। यथा-'अयं पततु निर्दयं दलितदप्-' (३६पृष्ठे) इत्यादौ प्रागुदाहते। श्रतमात्रा वाक्यार्थ करतलबदरमिव निवेदयन्ती घटना प्रसादस्य। अयं च सर्वसाधारणो गुणः । उदाहरणान्यत्र प्रायशो मदी- यानि सर्वाण्येव पद्यानि। तथापि यथा- 'चिन्तामीलितमानसो मनसिजः सख्यो विहीन प्रभाः प्राणेश: प्रणयाकुलः पुनरसावास्तां समस्ता कथा। एतत्त्वां विनिवेदयामि मम चेदुक्तिं हितां मन्यसे मुग्धे मा कुरु मानमाननमिदं राकापतिर्जेष्यति ।।' अत्र सर्वावच्छेदेन प्रसादाभिव्यञ्जकत्वमंशभेदेन तु माधुयाजोभिव्यञ्ज- कत्वमपि। मनसिजान्तस्य मा कुर्वादेश्च माधुर्याभिव्यक्तिहेतुत्वात्। सख्य इत्यादेरोजोगमकत्वात्। नन्वत्र श्रृङ्गाराश्रयस्य माधुर्यस्याभिव्यक्तये तद- नुकूलास्तु नाम रचना, ओजसस्तु कः प्रसङ्गो यदर्थ तदनुकूलवर्णविन्यास विनिगमनाविरहादाह-भगवदिति। तद्गतेति। शान्तगतेत्यर्थः । द्वितीये स्वेदा- म्ध्विति पद्ये। स्मृत्युपेति। तद्विषयेत्यर्थः । गतस्येत्यस्य माधुर्येत्याद्यनुपङ्गः। प्रसाद- स्थल आह-नैकस्येनेति। 'टवर्गजिह्ः' इति पाठः। 'टवर्गझय्' इत्यपपाठः। गुम्फो रचनाविशेषः । व्यक्षक इति शेषः । बहुलैरित्यनेनान्येषामपि सत्ता सूचिता। तदाह- अस्मिन्निति । वर्ग्या वर्गसंवन्धिवर्णाः । अस्य ओजसः। चेदन्तं पूर्वान्वयि। सवर्णा अपीति। गुणस्येत्यादेः सर्वस्यानुषङ्गः । ओजसो लक्षणमाह-यथेति। मात्रपदेन वर्णविशेषनियमादिव्यवच्छेदः । घटना रचना। व्यजजिकेति शेषः । उदैत्यस्य यद्यपी- त्यादिः । अत्र प्रसादे। तथापि यथेति । विशिष्योदाहरणमित्यर्थः । चिन्तेति। 'एतत्त्वां विनि-' इति पाठः । जेष्यति पीडादानेन। मानमलीमसत्वन्मुखसादृश्यस्य खस्मिन्संपादनेन वा। अत एव राकापतिरित्युक्तम्। राका पूर्णिमा। अन्यदा तु
Page 81
६६ काव्यमाला।
इति चेत्। नायिकामानोपशान्तये कृतानेकयत्नायास्तदीयं हितमुपदिश- न्त्याः सख्याः सक्रोधत्वस्य व्यञ्जनीयतया तथाविन्यासस्य साफल्यात्। किं बहुना रसस्यौजख्िनोऽमर्पादेर्भावस्य चाविवक्षायामपि वक्तरि कुद्धतया प्रसिद्धे वाच्ये वा क्रूरतरे आख्यायिकादौ प्रबन्धे वा परुषवर्णघटनेप्यते। यथा वा- 'वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदा- स्तां स्वम्नेऽपि न संस्पृशाम्यहमहंभावावृतो निस्त्रपः । इत्याग:शतशालिनं पुनरपि स्वीयेषु मां बिभ्रत- स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तः परः ॥' अत्र गुणान्तरासमानाधिकरणः प्रसादः । इदानीं तत्तद्गुणव्यञ्जनक्षमाया निर्मितेः परिचयाय सामान्यतो विशेष- तश्च वर्जनीयं किंचिन्निरूप्यते-वर्णानां स्वानन्तर्य सकृदेकपदगतत्वे किंचिदश्रव्यम् । यथा-'ककुभसुरभिः, विततगात्रः, पललमिवाभाति' इत्यादौ। असकृच्चेदधिकम् ॥ यथा-'वितततरस्तरुरेष भाति भूमौ।' एवं भिन्नपदगतत्वेऽपि । यथा-'शुक करोषि कथं विजने रुचिम्' इत्यादौ। असकृद्धिन्नपदगतत्वे ततोऽप्यधिकम् । यथा-'पिक ककुभो मुखरीकुरु प्रकामम्'। एवं स्वसमानवर्ग्यानन्तर्य सकृदेकपदगत्वे किंचि- दश्रव्यम्। यथा-'वितथस्ते मनोरथः' । असकृच्चेदधिकम्। यथा- 'वितथतरं वचनं तव प्रतीमः' । एवं भिन्नपदगतत्वे। यथा-'अथ तस्य वच: श्रत्वा' इत्यादौ। असकृद्धिन्नपदगतत्वे तु ततोऽप्यधिकम्। 'अथ तथा कुरु येन सुखं लभे'। एतच्च वर्गाणां प्रथमद्वितीययोस्तृतीयचतुर्थयोरान- न्तर्यम्। प्रथमतृतीययोर्द्वितीयतृतीययोर्वानन्तर्य तु तथा नाश्राव्यम्। किं
चन्द्रे सर्वथा साम्याप्रसिद्धिरिति भावः । तथा ओजोनुकूलवर्णेत्यर्थः । रसस्य वीररौ- द्रवीभत्सात्मकस्य। भावस्य च व्यभिचारिभावस्य च। प्रसादस्योदाहरणान्तरमाह- यथा वेति। उदाहरणान्तरदाने बीजमाह-अत्रेति। खानन्तर्य खाव्यवहितोत्तर- त्वम्। किंचिदीषत्। एवं वर्णानां स्वानन्तर्य सकृतिकचिच्छव्यमित्यर्थः । एवमप्रेऽपि। अत एवाग्रे ततोऽप्यधिकमित्युक्तम्। एतञ्चेति। खसमानवर्ग्यानन्तर्य चेत्र्थः। तेषां
Page 82
रसगङ्गाधरः । ६७
त्वीषन्निर्माणमार्मिकैकवेद्यम्। एतदप्यसकृच्चेत्ततोऽधिकत्वात्साधारणैरपि वे- द्यम्। 'खग कलानिधिरेष विजम्भते' । 'इति वदति दिवानिशं धन्यः'। पञ्चमानां मधुरत्वेन स्ववर्ग्यानन्तर्य न तथा। यथा-'तनुते तनुतां तनौ'। स्वानन्तर्य त्वश्रव्यमेव । यथा-'मम महती मनसि व्यथाविरासीत्'। एतानि चाश्रव्यत्वानि गुरुव्यवाये नापोद्यन्ते । 'संजायतां कथंकारं काके केकाकलस्वनः' । यथा वा- 'यथा यथा तामरसायतेक्षणा मया सरागं नितरां निषेविता। तथा तथा तत्त्वकथेव सर्वतो विकृष्य मामेकरसं चकार सा ।।' इदं तु दीर्घव्यवाये। संयोगपरव्यवाये तु- 'सदा जयानुषङ्गाणामङ्गानां संगरस्थलम् । रङ्गाङ्गणमिवाभाति तत्ततुरगताण्डवैः ।।' इदं तु बोध्यम्-गुरुर्ययोर्व्यवघायकस्तयोरेव वर्णयोरानन्तर्यकृतमश्र- व्यत्वमपवदति। तेनात्र थकारतकारानन्तर्यकृतदोषापवादेऽपि तकारथका- रानन्तर्यकृतमश्रव्यत्वमनपोदितमेव । एवं तर्यादीनां संयोगोऽपि प्राये- णाश्रव्यः । 'राष्ट्रे तवोष्ट्र्यः परितश्चरन्ति' इत्येवमादयः श्रुतिकाटवभेदा अन्येऽप्यनुभवानुसारेण वोध्याः । अथ दीर्घानन्तर्य संयोगस्य भिन्नपदग- तस्य सकृदप्यश्रव्यम् । असकृत्तु सुतराम् । 'हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते। सेवितं सर्वसंपद्भिरपि तद्भवनं वनम् ।' तयोरानन्तर्ये बोध्यमित्यन्वयः। ईषत्पदार्थमाह-निर्मणति। साधारणैरपि निर्माणमा- मिंकभिन्नैरपि। आद्योदाहरणमाह-खगेति। द्वितीयोदाहरणमाह-इतीति। चतुर्णा गतिमुक्त्वा पञ्चमानामाह-पञ्चेति । न तथा नाश्रव्यम्। स्वानन्तर्यमिति। पञ्चमानामित्यस्यानुषङ्गः । एतेषामपवादमाह-पतानीति। गुर्विति। गुरुवर्णव्यव- धानेनेत्यर्थः । 'काक' इति पाठे संवोधनम्। तं प्रत्युक्किः। युक्तस्तु सप्तम्यन्तपाठः । तत्त्वकथा ब्रह्मकथा। सर्वस्माद्विषयादाकृष्य। एकरसं स्वमयं ब्रह्ममयं च। गुरुर्द्वेधा, दीर्घ: संयोगपरश्च। तत्राद्योदाहरणमुक्तम्,अन्त्यस्योच्यत इत्याह-इदं त्वित्यादि। गुरु- व्यवायेन तदंशे दोषाभावो न सर्वोशे इत्याह-इदं त्विति।प्रायेणेति। श्रत्यकटुत्वे तु न तथेति भावः। उपसंहरति-एवमाद्य इति। आद्योदाहरणं हरिणीत्यभिप्रायम्।
Page 83
६८ काव्यमाला।
एकपदगतस्य तु तथा नाश्रव्यम् । यथा-'जाग्रता विचितः पन्थाः शात्रवाणां वृथोद्यमः' । परसवर्णकृतस्य तु संयोगस्य सर्वथा दीर्घाद्धिन्नप- दगतत्वाभावान्मधुरत्वाच्चानन्तर्य न मनागप्यश्रव्यम्। यथा-'तां तमा- लतरुकान्ति-' इत्यादिपदये (६४ पृष्ठे)। अत्र तामित्यत्र नीमित्यत्र च परस- वर्णस्य पूर्वपदभक्ततया न संयोगो भिन्नपदगतः । प्रत्येकं संयोगसंज्ञेति पक्षेऽपि भिन्नपदगतः संयोगो न दीर्घादव्यवहितपरः । नवाम्वुदेत्यत्र त्वे- कादेशस्य पदद्वयभक्ततया दोर्घाद्भिन्नपद्गतत्वे सत्यव्यवहितोत्तरत्वं यद्य- पि परसवर्णकृतसंयोगस्य भवति तथाप्यत्र भिन्नपदगतत्वमेकपद्गतभिन्न- त्वं विवक्षितमित्यदोषः । असकृतु सुतराम्। यथा-'एषा प्रिया मे क्व गता त्रपाकुला'। इदं चाश्रव्यत्वं काव्यस्य पङ्गुत्वमिव प्रतीयते। अथ स्वेच्छया संध्यकरणं सकृदप्यश्रव्यम्। यथा-'रम्याणि इन्दुमुखि ते कि- लकिञ्चितानि'। प्रगृह्यताप्रयुक्तं त्वसकृदेव। 'अहो अमी इन्दुमुखीविलासाः' एवमेव च य-व-लोपप्रयुक्तम् । 'अपर इषव एते कामिनीनां दृगन्ताः'। कथं तर्हि- 'भुजगाहितप्रकृतयो गारुडमन्न्रा इवावनीरमण । तारा इव तुरगा इव सुखलीना मन्त्रिणो भवतः ।।' इति भवदीयं काव्यमिति चेदकृत्वैव यलोपं पाठान्न दोषः । एवं रोरु-
गतस्येत्यस्य संयोगस्य दीर्घानन्तर्यमिति शेषः। न दीर्घाद्व्यवेति। परसवर्णेनैव व्यवधानादिति भावः । समस्ते पदे विशेषमाह-नवाम्वुदेति । अदोष इति । वस्तुत एकपदगतत्वेन तत्त्वाभावादिति भावः। असकृत्तु सुतरामिति। भिन्नपद- गतस्य संयोगस्य दीर्घानन्तर्यमसकृच्चेत्तर्हि सुतरामश्रव्यमित्यर्थः । अश्रव्यत्वमंशे इति शेषः । काव्यस्य पङ्गुत्वमिवेत्यन्वयः । रसाद्प्रतीतेस्तत्त्वमिति भावः । किलकिच्चितानि हावविशेषा इत्यर्थः । प्रयुक्तं तु संध्यकरणमित्यनुषङ्गः । एवमग्रेऽपि। असकृदेवेति। अन्यथा शास्त्रानर्थक्यं स्यादिति भावः । यवलोपे 'लोपः शाकल्यस्य' इति। तत्र यलो- पोदाहरणमाह-अपर इति । इषव इति 'इव त' इति पाठान्तरम्। भुजगेति। हे पृथ्वीनाथ, तवामात्या गारुडमत्र्रा इव भुजगाहितप्रकृतयः, तारा इव तुरगा इव सुखलीना इत्यन्वयः । भुजगानां सर्पाणां विटानां चाहिता प्रकृतिर्येषाम्। सुखेष्वा- सक्ताः । सुष्ट खे आकाशे लीनाः । सुष्ट खलीनं येषां ते तादृशाश्वेत्यर्थः। उपसंहरति- एवमिति। उक्तप्रकारेणेत्यर्थः । सर्वेऽपि वर्णानां स्ानन्तर्यमित्यादिनोक्ताः । तत्र
Page 84
रसगङ्गाघरः । ६९
त्वस्य हलि लोपस्य यण् गुणवृद्धिसवर्णदीर्घपूर्वरूपादीनां नैकट्येन बाहु- त्यमश्रव्यताहेतुः । एवमिमे सर्वेऽप्यश्रव्यभेदाः काव्यसामान्ये वर्जनीयाः । अथ विशेषतो वर्जनीयाः। तत्र मधुररसेषु ये विशेषतो वर्जनीया अनु- पदं वक्ष्यन्ते त एवौजखिविप्वनुकूलाः, ये चानुकूलतयोक्तास्ते प्रतिकूला इति सामान्यतो निर्णयः । मधुररसेषु दीर्घसमासं झय्घटितसंयोगपरह्न- स्वस्य विसर्जनीयादेशकारजिह्वामूलीयोपध्मानीयानां टवर्गझयां रेफह- कारान्यतरघटितसंयोगस्य हलां ल-म-न-भिन्नानां खात्मना संयोगस्य झय्- द्वयघटितसंयोगस्य चासकृत्प्रयोगं नैकट्येन वर्जयेत्। सवर्णझय्द्वयघटि- तसंयोगस्य शर्भिन्नमहाप्राणघटितसंयोगस्य सकृदपीति संक्षेपः । दीर्घसमासो यथा- 'लोलाल कावलिवलन्नयनारविन्द- लीलावशंवदितलोक विलोचनायाः । सायाहनि प्रणयिनो भवनं व्रजन्त्या- श्रेतो न कस्य हरते गतिरङ्गनायाः ॥' झय्घटितसंयोगपरहस्वानां प्राचुर्य नैकट्वेन यथा- 'हीरस्फुरद्रदनशुभ्रिमशोभि किं च सान्द्रामृतं वदनमेणविलोचनायाः । वेधा विधाय पुनरुक्तमिवेन्दुबिम्वं दूरीकरोति न कथं विदुषां वरेण्यः ।।' अत्र भ्रिशब्दपर्यन्तं शृङ्गाराननुगुणम्। शिष्टं तु रमणीयम्। उत्त- रार्धे ककारतकाररूपझय्द्वयसंयोगस्य सत्त्वेऽपि प्राचुर्याभावान्न दोषः । तेपां मध्ये। ये चेत्यादी यथाकमं सप्तम्यन्तद्वयानुषङ्गः। समासमित्यस्य वर्जयेदित्यत्रा- न्वयः । अग्रिमसर्वषध्यन्तानामसकृत्प्रयोगमित्यत्रान्वयः। सचर्णेति। 'तुल्यास्य' मिति स्रवर्णसंज्ञकेत्यर्थः । अपिना सकृत्समुच्चयः। नैकट्येन प्रयोगं वर्जयेदित्यस्यानुष्गः। 'चलन्' इति पाठेऽपि स एवार्थः । वशंवदितानि सवाधीनीकृतानि। सायाहनि सायंकाले। हीरेति। हीरैद्दरिवद्वा स्फुरन्तो ये रदना दन्तास्तेपां शुभ्रिम्णा शुभ्रत्वेन शोभते तच्छीलम् । सान्द्रं घनममृतं यस्मिस्तत्। यद्वा नन् काक्काम्। अपि तु दूरीकरो-
Page 85
७० काव्यमाला।
यदि तु 'दन्तांशुकान्तमरविन्दरमापहारि सान्द्रामृतं' इत्यादि क्रियते तदा सर्वमेव रमणीयम् । विसर्गप्राचुर्य यथा- 'सानुरागा: सानुकम्पाश्चतुराः शीलशीतलाः । हरन्ति हृदयं हन्त कान्तायाः स्वान्तवृत्तयः ॥' अत्र शकारद्वयसंयोगान्तं पूर्वार्ध माधुर्याननुगुणम्। जिह्रामूलीयप्राचुर्य यथा- 'कलितकुलिशघाताः केऽपि खेलन्ति वाताः कुशलमिह कथं वा जायतां जीविते मे। अयमपि वत गुञ्जन्नालि माकन्दमौलौ चुलुकयति मदीयां चेतनां चश्चरीकः ।।' अत्र द्वितीयजिह्वामूलीयपर्यन्तमननुगुणं माधुर्यस्य। यदि च 'कथय कथामिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः' इति विधीयते, तदा नायं दोषः । उपध्मानीय प्राचुर्य यथा- 'अलकाः फणिशावतुल्यशीला नयनान्ताः परिपुङ्ितेषुलीलाः । चपलोपमिता खल सयं या बत लोके सुखसाधनं कथं सा ।।' अत्र द्वावुपध्मानीयावेव न शान्तानुगुणौ।
त्येव। परिवेषच्छलेनेति भावः। यदि त्विति। दन्तकिरणरम्यं कमलशोभापहारी- त्यर्थः । हरन्ति। ममेति शेषः। नायकोक्तिरियम्। पूर्वार्ध तदवयवभूतम्। जिह्वेत्यस्य विसर्गादेशेत्यादिः । एवमग्रेऽपि। कलितेति। नायिकोक्ति: सखीं प्रति। कलितः कृतः कुलिशवद्वूज्रवद्वातो यैस्तादृशाः केऽपि विलक्षणा वाताः खेलन्ति क्रीडां कुर्वन्ति। अत इह देशे मम जीविते कुशलं कथं जायताम्। वाशब्दः पादपूरण इवार्थे वा। कारणान्तरमाह-अयमिति। हे आलि, माकन्दतरुमौलावाम्रतरुमस्तके गुजन्नयमपि चञ्रीको भ्रमरः। वतेति खेदे। मदीयां चेतनां चुलुकयति। चुलुकवदापिबतील्र्थः। मलयाचलस्थतरुस्थितसर्पमुखनिःसता इत्यर्थः । अत एव कृतान्ताः । अन्र सकृ- त्सत्वेऽपि प्राचुर्याभावः । अलका इति। यस्या इति शेषः। पुङ्गयुक्तवाणसदृश-
Page 86
रसगङ्गाधरः । ७१
रवर्गझयां प्राचुर्यै यथा- 'वचने तव यत्र माधुरी सा हृदि पूर्णा करुणा च कोमलेऽभूत्। अधुना हरिणाक्षि हा कथं वा कटुता तत्र कठोरताविरासीत् ।' 'अधुना सखि तत्र हा कथं वा गतिरन्यैव विलोक्यते गुणानाम्' इति त्वनुगुणम् । रेफघटितसंयोग स्यासकृत्प्रयोगो यथा- 'तुलामनालोक्य निजामखर्व गौराङ्गि गर्व न कदापि कुर्याः । लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेपु ॥' यदि तु 'तुलामनालोक्य महीतलेऽस्मिन्' इति निर्मीयते तदा साधु। हलां ल-म-न-भिन्नानां खात्मना संयोगस्यासकृत्पयोगो यथा-'विग- णय्य मे निकाय्यं तामनुयातोऽसि नैव तन्न्याय्यम्।' ल-म-नानां खवात्म- ना संयोगस्तु न तथा पारुष्यमावहति यथा- 'इयमुल्लसिता मुखस्य शोभा परिफुल्लं नयनाम्वुजद्वयं ते। जलदालिमयं जगद्वितन्वन्कलितः क्वापि किमालि नीलमेघः ॥।' झय्द्यघटितसंयोगस्य यथा- 'आ सायं सलिलभरे सवितारमुपास्य सादरं तपसा। अधुनाव्जेन मनाक्तव मानिनि तुलना मुखस्याप्ता ।।' अत्र द्वितीयार्धमरम्यम् । 'सरसिजकुलेन संप्रति भामिनि ते मुखतु- लाधिगता' इति तु साधु।
लीलाः । चपला विद्युत्। एतेनान्यत्सर्वै रमणीयमिति सूचितम्। वचन इति। हे कोमले, तब यत्र वचने सा माधुरी, स्वान्ते पूर्णा करुणा चाभूम्। हे हरिणाक्षि, अ- धुना। हेति खेदे। कथमिव तत्र यथाक्रमं कटता कठोरता चाविरासीदित्यर्थः। अत्रो- त्तराधे टवर्गझयां नैकट्येन प्राचुर्य वोध्यम्। अत एवाह-अधुनेति। अखर्व गर्व- मिलन्वयः । गहनं काननम्। साध्विति। एकत्र सत्त्वेऽपि प्राचुर्याभावः। हकारघटि- तसंयोगस्यासकृत्प्रयोगोदाहरणं ब्रुटितमत्र । निकाय्यं निवासम्। तां सपत्नीम्। नायिकोक्तिर्नायकं प्रति। वहतीति । अतस्तदन्यतं निवेशितमिति भावः । इय-
Page 87
७२ काव्यमाला।
झय्द्वयघटितसंयोगस्य सकृत्प्रयोगो यथा- 'अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाकुरुषे। अधुनैव कलय शमितं राकारमणस्य हन्त साम्राज्यम् ।।' नन्वत्र ककारद्वयसंयोगस्य हलघटितखवात्मसंयोगत्वेनैव निषेधात्क- खसंयोगस्य महाप्राणसंयोगनिषेधविषयत्वात्तृतीयसंयोगस्य चासंभवात्स- वर्णझयद्वयसंयोगनिषेधो निरवकाश इति चेत्, न । सकृत्प्रयोगविषयत्वे- नास्य पार्थक्यात्। अन्यथा मनाक्करुष इति निर्दोषं स्यात्। महाप्राणघटितसंयोगो यथा- 'अयि मृगमदबिन्दुं चेद्भाले बाले समातनुषे।' उत्तरार्ध तु प्राचीनमेव । एवं त्वप्रत्ययं यङन्तानि यङ्लुगन्तान्यन्यानि च शान्दिकप्रिया- ण्यपि मधुररसे न प्रयुञ्जीत। एवं व्यक्कयचर्वणातिरिक्तयोजनाविशेषापेक्षा- नापाततोऽधिकचमत्कारिणोऽनुप्रासनिचयान्यमकादींश्च संभवतोऽपि क- विर्न निबन्नीयात्। यतो हि ते रसचर्वणायामनन्तर्भवन्तः सहृदयहृदयं स्वाभिमुखं विदधाना रसपराडमुखं विदधीरन्। विप्रलम्भे तुसुतराम्। यतो मधुरतमत्वेनास्य निर्मलसितानिर्मितपानकरसस्येव तनीयानपि सवातन्रयमा- वहन्पदार्थः सहृदयहृदयारुंतुदतया न सर्वथैव सामानाधिकरण्यमर्हति। यदाहु :- 'ध्वन्यात्मभूते शरृङ्गारे यमकादिनिवन्धनम्। शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ।I'
मिति। अधुना द्वितीयेऽहि। अयीति। अयि तन्वङ्गि, यदि वदनं मनाक् मन्दस्मि- तमधुरं कुरुषे तर्हि अधुनैव । न तु कालान्तरे। हन्तेति हर्षे। चन्द्रस्य साम्राज्यं शमितं कलय। जानीहीत्यर्थः । कखेति। खादिधातुपाठे इति भावः । व्यङ्ग्येति। व्यङ्नयास्वादान्यो यो योजनाविशेषः । पदार्थानां तदपेक्षा नेत्र्थः। यतो हीति। निपातसमुदायो हेतौ। सुतरामिति। पूर्वोक्तसर्वानुषङ्गः। तनीयानपि पदार्थो रजःकणः पदार्थैकदेशक्ष स्वातन्त्रयं त्ाभिमुखतं कुर्वन्नित्यर्थः । निबन्धनं शक्तावपि प्रमादित्वरूपं
Page 88
रसगफ्ञाधरः । ७३
ये तु पुनरक्िष्टतयानुन्नतस्कन्घतया च न पृथग्भावनामपेक्षन्ते, किं तु र- सचर्वणायामेव सुसुखं गोचरीकर्तु शक्याः,न तेषामनुप्रासादीनां त्यागो युक्तः। यथा- 'कस्तूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम्। प्रौढिं भजन्तु कुमुदानि मुदामुदारा- मुल्लासयन्तु परितो हरितो मुखानि ॥' इत्थमेते प्रसङ्गतो मधुररसाभिव्यञ्जिकायां रचनायां संक्षेपेण निरू- पिता दोषाः । 'एभिर्विशेषविषयैः सामान्यैरपि च दूषणै रहिता । माधुर्यभारभङ्गुरसुन्दरपदवर्णविन्यासा॥ व्युत्पत्तिमुद्धिरन्ती निर्मातुर्या प्रसादयुता । तां विबुधा वैदर्भी वदन्ति वृत्ति गृहीतपरिपाकाम् ॥' अस्यामुदाहृतान्येव कियन्त्यपि पद्यानि। यथा वा- 'आयातैव निशा निशापतिकरैः कीर्ण दिशामन्तरं भामिन्यो भवनेपु भूषणगणैरुल्लासयन्ति श्रियम् । वामे मानमपाकरोषि न मनागद्यापि रोषेण ते हा हा बालमृणालतोऽप्यतितमां तन्वी तनुस्ताम्यति ।' अस्याश्च रीतेर्निर्माणे कविना नितरामवहितेन भाव्यम्। अन्यथा तु परिपाकभङ्गः स्यात्।
भवतीत्यर्थः । अनुन्नतेति । अनुन्नतविस्तारतया चेत्यर्थः । सुसुखमत्यन्तसुखं यथा तथा। क्वचित् 'सुखम्' इत्येव पाठः। सौधमौलिं सुधानिर्मितप्राकारोर्ध्वप्रदेशम्। मुदां प्रौढिमित्यन्वयः । उपसंहरति-इत्थमिति। प्रसभ्गाद्वृत्ति निरूपयति-एभिरिति। माधुर्यभारेण भह्ठुरोऽत एव सुन्दरः पदानां वर्णानां च विन्यासो रचना यस्यां सा। निर्मातुर्व्युत्पत्तिमुद्धिरन्तीत्यन्वयः। प्रसादगुणेन युता । गरहीतः परिपाको रसचर्वणा यस्यां सा । कीर्णे व्याप्तम्। श्रियं शोभाम्। तन्वी कृशा। अस्या वैदर्भ्याः । भङ्गमुदा- v
Page 89
७४ काव्यमाला।
यथामरुकक विपद्ये- 'शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्। विस्रव्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता वाला चिरं चुम्विता ।' अत्रोत्थाय किंचिच्छनैरित्यत्र सवर्णझय्द्वयसंयोगस्तत्रापि नैकट्ेनेति सुतरामश्रव्यः । एवं झय्घटितसंयोगपरहस्वस्यापि। तथा शनैर्निद्रेत्यत्र, निर्वर्ण्य पत्युर्मुखमित्यत्र च रेफघटितसंयोगस्य, झय्घटितसंयोगपरह्नसवस्य च प्राचुर्यम्। विस्रव्धमित्यत्र महाप्राणघटितस्य, लज्जेत्यत्र स्वात्मसवर्ण- झय्द्वयघटितस्य, मुखी प्रियेणेत्यत्र भिन्नपदगतदीर्घानन्तरस्य संयोगस्य, तथा क्त्वाप्रत्ययस्य पञ्चकृत्वः, लोकतेश्र धातोर्द्विः प्रयोगः कवेर्निर्माणसा- मग्रीदारिद्ं प्रकाशयति। इत्यलं परकीयकाव्यविमर्शनेन । इति संक्षेपेण निरूपिता रसाः । अथ भावध्वनिर्निरूप्यते- अथ किं भावत्वम्। विभावानुभावभिन्नत्वे सति रसव्यञ्जकत्वमिति चेत् । रसकाव्यवाक्येऽतिव्याप्यापतेः । अर्थद्वारा शव्दस्यापि व्यञ्ज- कत्वात्। द्वारान्तरनिरपेक्षत्वेन व्यञ्जकत्वे विशेषिते त्वसंभवः प्रसज्येत । भावस्यापि भावनाद्वारैव व्यञ्जकत्वात्। भावनायामतिव्याप्यापत्तेश्र । अत एव च विभावानुभावभिन्नत्वस्येव शब्दभिन्नत्वस्यापि तद्विशेषणत्वे न निस्तारः । प्रधानध्वन्यभानभावे रसव्यञ्जकताभावादव्यास्यापत्वेश्च । न च तत्रापि प्रान्ते रसोऽभिव्यज्यत एवेति वाच्यम्। भावध्वनिविलोप-
हरति-यथेति। अत्र लज्जेति पृथक्पदम्। तेन समानकर्तृकत्वोपपत्तिः। एवमिति। उक्तस्थल एवेत्यर्थः । नैकट्येनासकृत्प्रयोगोऽश्रव्य इति भावः । प्राचुर्यमिति। तथा चाश्रव्यमिति भावः। स्वात्मेति। सवात्मघटितः सवर्णझयद्वयघटितश्वेति दोषद्व- यम्। घटितस्येति। द्वयस्य संयोगस्येत्यत्रान्वयः । सकृदिति तस्य शेषः । तस्य च प्रयोग इत्यत्रान्वयः । एवमश्रेऽपि। तस्य प्रकाशने कर्तृत्म्। निर्माणेत्यस्य काव्येत्यादिः। अथ रसनिरूपणानन्तरम्। भावना पुनः पुनरनुसंधानम्। अत एव च भावनायामति-
Page 90
रसगङ्गाघरः । ७५
प्रसङ्गात्। भावचमत्कारप्रकर्षाद्धावध्वनित्वम्। रसस्तु तत्र व्यज्यमानो- ड्यचमत्कारित्वान्न ध्वनिव्यपदेशहेतुरित्यपि न शक्यं वदितुम्। चम- त्काररहितरसव्यक्तौ मानाभावात्। रसे हि धर्मिग्राहकमानेनानन्दांशावि- नाभावस्य प्रागेवावेदनात्। अस्तु वा प्राधान्येन ध्वन्यमानस्यापि भावस्य प्रान्ते रसाभिव्यञ्जक- त्वम्। तथापि देशकालवयोवस्थादिनानापदार्थघटिते पद्यवाक्यार्थे तथा- प्यतिव्याप्तिः । तस्य विभावानुभावभिन्नत्वे सति रसाभिव्यञ्जकत्वात् । नापि रसाभिव्यञ्जकचर्वणाविषयचित्तवृत्तित्वं तत्त्वम्। भावादिचर्वणा- यामतिप्रसङ्गवारणाय चर्वणाविषयतेति चित्तवृत्तिविशेषणमिति वाच्यम्। 'कालागुरुद्रवं सा हालाहलवद्विजानती नितराम्। अपि नीलोत्पलमालां बाला व्यालावलिं किलामनुते ॥' ·इत्यत्र हालाहलसदृशत्वप्रकारज्ञाने अतिव्याप्तेः । तस्य विप्रलम्भानु- भावत्वेन रसाभिव्यञ्जकचर्वणाविषयत्वात्, चित्तवृत्तित्वाच्च। नाप्यखण्डम्। तत्त्वे मानाभावात्। अत्रोच्यते- विभावादिव्यज्यमानहर्षाद्यन्यतमत्वं तत्वम् । यदाहु :- 'व्यभिचार्यञ्जितो भावः' इति । हर्षादीनां च सामाजिकग- तानामेव स्थायिभावन्यायेनाभिव्यक्तिः, सापि रसन्यायेनेति केचित्।
व्याप्तरेव च। तद्विशेषणत्वे व्यज्जकत्वविशेषणत्वे। अस्तु वा प्राधान्येनेति। रसं प्रति गुणीभूतत्वेऽपि वाच्यातिशायित्वात्तद्धनित्वं राजानुगम्यमानविवहनप्रतृत्तमृत्यस्येव रसापेक्षयापि हि अस्य प्राधान्यमस्ति। अत एव न भावध्वनिविलोप इति भावः । तथापि उक्तस्थलेऽव्याप्यापत्त्यभावेऽपि। तथापि विभावानुभावभिन्नत्वे सति [शब्द- भिन्नत्वे सति] रसव्यअ्जकत्वमित्युक्तावपि। भिन्नत्वे सतीत्युपलक्षणं शब्दभिन्नत्वे सती- त्यस्यापि। नापीत्यस्य वाच्यमित्यत्रान्वयः । चर्वण आस्वादः । चर्वणायामतीति। रसाभिव्यजकचित्तवृत्तितस्य तस्यां सत्त्वादिति भावः । कालागुरुदरवं नितरां हालाह- लवद्विजानती सा वाला नीलोत्पलमालामपि व्यालावलि किलामनुत इत्यन्वयः । तस्य ज्ञानस्य। चित्तवृत्तित्वाच्चेति। अन्नैवानुभावभिन्नत्वे सतीति विशेषणदाने को दोष इति चिन्त्यम्। अखण्डं भावतमिति शेषः। तत्त्वे अखण्डले। विशेष्यमात्रोक्ती तेपां शब्दवाच्यत्वे तत्वापत्तिः। अतः विभावादीति। तावन्मात्रोकौ रसेऽतिप्रसङ इति समु- दितमुपात्तम्। अजितोऽभिव्यक्तो व्यभिचारी भाव इत्यर्थः । स्थायिभावेति। प्रति-
Page 91
७६ काव्यमाला। व्यङ्गयान्तरन्यायेनेत्यपरे मन्यन्ते। विभावानुभावौ चात्र व्यञ्जकौ । न त्वेकस्मिन्व्यभिचारिणि ध्वन्यमाने व्यभिचार्यन्तरव्यञ्जकतयावश्यमपे- क्ष्यते। तस्यैव प्राधान्यापत्तेः । वस्तुतस्तु प्रकरणादिवशात्प्राधान्यमनु- भवति कसि्मिंश्चिद्धावे तदीयसामग्रीव्यङ्गयत्वेन नान्तरीयकतया तनिमान- मावहतो व्यभिचार्यन्तरस्याङ्गत्वेऽपि न क्षतिः । यथा गर्वादावमर्स्य, अमर्षादौ वा गर्वस्य। न चैवं सति गुणीभूतव्यङ्भयत्वापत्तिः । पृथग्विभा- वानुभावाभिव्यक्तस्य, अत एव नान्तरीयकस्य भावस्य [भावान्तरगुणी- भूतस्यैब] गुणीभृतव्यङ्ञयव्यपदेशहेतुत्वात् । विभावस्त्वत्र व्यभिचारिणो निमित्तकारणसामान्यम्। न तु रसस्येव सर्वथैवालम्बनोद्दीपने अपेक्षिते। यदि तु क्वचित्संभवतस्तदा न वारयेंते। हर्षादयस्तु-हर्षस्मृतिव्रीडा- मोहधृतिश क्काग्लानिदैन्य चिन्तामदश्रमगर्वनिद्रामतिव्याधित्राससुप्तविबोधाम- र्षावहित्थोग्रतोनमादमरणवितर्क विषादौत्सुक्यावेगजड तालस्यासूयापस्मारचप- लता: प्रतिपक्षकृतधिक्कारादिजन्मा निर्वेदश्चेति त्रयस्त्रिंशद्यभिचारिणः। गुरु- देवनृपपुत्रादिविषया रतिश्चेति चतुस्त्रिंशत् । एतेन वात्सल्याख्यं पु- त्राद्यालम्बनं रसान्तरमिति परास्तम् । उच्छृङ्खलताया मुनिवचनपराह- तत्वात्। तत्र इष्टप्राप्यादिजन्मा सुखविशेषो हर्षः ॥
पादितमेतदधस्ताद्वन्थकृता । सापि तद्गतानां तेषां तथाभिव्यक्तिरपि। व्यङ्गया- न्तरेति। रसापेक्षया भिन्नं यद्यङ्गयं वस्त्लंकारादि तद्रीत्येत्यर्थः । तथा च रसापे- क्षयापकर्षः सूचितः । अत्र भावे। तस्यैव व्यभिचार्यन्तरस्य। प्रकरणादीनां तात्पर्ये नियामकत्वेन न तदापत्तिरित्याशयेन सिद्धान्तमाह-वस्तुतस्त्विति। तदीयेति। प्रधानभावीयेत्यर्थः । नान्तरीयकत्वे हेतुरयम्। अत एवाग्रे 'अत एव नान्तरीयकस्य' इति वक्ष्यति। तनिमानमिति। कशिमानमित्यर्थः । विनिगमनाविरहादाह-अम- षादौ वेति। एवं सति व्यभिचार्यन्तरस्य प्रधानभावेऽङ्वत्वे सति। भावशरीरनिवि- षहर्षादीनाह-हर्षादय इति। एतेन पुत्रादिविषयरतेर्मुनिना भावत्वगणनेनेत्यर्थः । तदाह-उच्छृङ्गलेति। तत्र हर्षादीनां मध्ये। देवेत्यादि उत्पत्त्यन्तो विभावो यत्र
Page 92
रसगङ्गाधरः । ७७
तदुक्तम्- 'देवभर्तृगुरुख्वामिप्रसादः प्रियसंगमः । मनोरथाप्तिरप्राप्यमनोहरधनागमः ॥ तथोत्पत्तिश्च पुत्रादेर्विभावो यत्र जायते। नेत्रवक्त्रप्रसादश्च प्रियोक्तिः पुलकोद्गमः । अश्रुखेदादयश्चानुभावा हर्ष तमादिशेत् ॥' इति। उदाहरणम्- 'अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना । अवलोक्य समागतं तदा मामथ रामा विकसन्मुखी बभूव ।।' अत्रावधिकाले प्रियागमनं विभावः । मुखविकासोऽनुभावः । संस्कारजन्यं ज्ञानं स्मृतिः॥ यथा- 'तन्मज्जु मन्दहसितं श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः । अद्यापि मे हृदयमुन्मदयन्ति हन्त सायंतनाम्बुजसहोदरलोचनायाः ।।' चिन्ताविशेषोऽत्र विभावः । भ्रून्नतिगात्रनिश्चलत्वादय आक्षेपगम्या अनुभावाः । यद्यप्यत्रास्या एव स्मृतेः संचारिण्या नायिकारूपस्य वि- भावस्य हन्तपदगम्यस्य हृदयवैकल्यरूपानुभावस्य संयोगाद्विप्रलम्भर- साभिव्यक्ते रसध्वनित्वं शक्यते वक्तुम्। तथापि स्मृतेरेवात्र पुरःस्फूर्तिक- त्वाच्चमत्कारित्वाच्च तद्धनित्वमुक्तम्। तदादेर्बुद्धिस्थप्रकारावच्छिन्ने शक्ति- रिति नये वुद्धेः शक्यतावच्छेदकानुगमकतया न वाच्यतासंस्पर्शः । बुद्धिस्थत्वं शक्यतावच्छेदकमिति नयेऽपि स्मृतित्वेन स्मृतेर्व्यक्तिवेद्यतैव।
जायते, नेत्रेत्याद्युक्ता अनुभावा यत्र जायन्ते तं हर्षमादिशेदित्यर्थः। तदा अवधिकाले। अथ हर्षानन्तरम्। श्रीरित्यम्रे चेति शेषः । तद्धनितवं भावध्वनिलम् । पूर्वमते स्मृति- त्वेन स्मृतेर्वाच्यलात्कथं भावध्वनित्वमत भाह-बुद्धेरिति। शक्यतावच्छेद कतावच्छे- दकस्येत्यर्थः । द्वितीयमते बुद्धिस्थलस्य वाच्यत्वेऽपि न स्मृतितस्य तत्वमित्याद्द-स्मृ-
Page 93
७८ काव्यमाला।
तस्याश्वात्र वाक्यवेद्यत्वेऽपि पदस्यैव कुर्वद्रृपत्वात्पद्ध्वनिविषयत्वम्। एतेन भावानां पदव्य्गयत्वे न वैचित्र्यमिति परास्तम्। सायंतनाम्वुजोप- मानेन नयनयोरुत्तरोत्तराधिकनिमीलनोन्मुखत्वध्वननद्वारा तस्या आनन्द- मझताप्रकाशः ।
अनल्पनिःश्वासभरालसाङ़गं स्मरामि सङ्गं चिरमङ्गनायाः ॥' इत्यत्र स्मृतिर्न भावः । सशन्देन निवेदनादव्यञ्गयत्वात्। नापि स्म- रणालंकारः । सादृश्यामूलकत्वात्। सादृश्यमूलकस्यैव स्मरणस्यालंकार- त्वम्, अन्यस्य तु व्यञ्जितस्य भावत्वमिति सिद्धान्तात् । किं तु विभाव एव सुन्दरत्वात्कथंचिद्रसपर्यवसायी। स्त्रीणां पुरुषमुखावलोकनादे: पुंसां च प्रतिज्ञाभङ्गपराभवादेरु- त्पन्नो वैवर्ण्याधोमुखत्वादिकारणीभूतश्चित्तवृत्तिविशेपो त्रीडा॥ यथा- 'कुच कलशयुगान्तर्मामकीनं नखाङ्कं सपुकलतनु मन्दं मन्दमालोकमाना। विनिहितवदनं मां वीक्ष्य वाला गवाक्षे चकितनतनताङ्गी सझ सदो विवेश ।I' अत्र प्रियस्य दर्शनं तेन नायिकाकर्तृकतत्कुचान्तर्वर्तिप्रियनखवक्षतावलो- कनजन्यहर्षावेदकतत्पुलकादेर्दर्शनं च विभावः । सद्यः सदनप्रवेशोऽनुभावः ।
तित्वेन स्मृतेरिति। व्यक्तिर्व्यज्ना। 'व्यञ््यस्य कथमपि वाच्यवृत्त्यनालिङ्गितस्यैव चमत्कारित्मित्यालंकारिकसमयः' इति पूर्वतनग्रन्थेन विरोधाच्चिन्त्मेतत्। व्यङ्ग्यता- वच्छदकतया भासमानजात्यादिरूपेण यत्र वाच्यता तत्रैवाचमत्कारिता । पूर्वोदाहरणे हि मनोरथत्वेच्छातयोर्घटत्वकलशत्वदेकतया तेन रूपेणैव वाच्यतास्तीति न दोष इत्यपि कश्चित्। तस्या नायिकायाः । विभाव एव नायिकारूप एव । कथंचित्साम- व्यन्तराभावकृतः कलेशः । सपुलकतन्विति क्रियाविशेषणम्। गवाक्षे विनिहितवदनमि- त्यन्वयः । चकितेत्यत्र कर्मधारयद्वयम्। तेनेति। प्रियेणेत्यर्थः। तत्कर्तृकमिति यावत्। पुलकादेर्दर्शनमित्यत्रान्वयः । तत्कुचेति। नायिकाकुचेत्यर्थः । एवमग्रेऽपि। सझश-
Page 94
रसगङ्गाधरः । ७९
यथा वा- 'निरुद्य यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो ददाने। मयि स्मितार्द्र वदनारविन्दं सा मन्दमन्दं नमयांबभूव ।।' पूर्वत्र त्रास इवात्रापि हर्षो लेशतया सन्नपि त्रीडाया अनुगुण एव। प्रियकर्तृकं कपोतस्याग्रे कपोत्याः समर्पणं विभावः । वदननमनमनुभावः । भयवियोगादिप्रयोज्या वस्तुतत्वानवधारिणी चित्तवृत्तिर्मोहः। 'अवस्थान्तरशबलिता सा तथा' इति तु नव्याः । उदाहरणम्- 'विरहेण विकलहृदया विलपन्ती दयित दयितेति। आगतमपि तं सविधे परिचयहीनेव वीक्षते बाला ।।' अत्र कान्तवियोगो विभावः । इन्द्रियवैकल्यं लज्जाद्यभावश्चानुभावः । यथा वा- 'शुण्डादण्डं कुण्डलीकृत्य कूले कल्लोलिन्याः किंचिदाकुश्चिताक्षः । नैवाकर्षत्यम्वु नैवाम्वुजालिं कान्तापेतः कृत्यशून्यो गजेन्द्रः ।।'
शेषो धृतिः।। उदाहरणम्- 'संतापयामि हृदयं धावं धावं धरातले किमहम् । अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः ॥' अत्र विवेकश्रुतसंपत्त्यादिर्विभावः । चापलाद्युपशमोऽनुभावः । ननु चो- त्तरार्धे चिन्ता नास्तीति वस्तुनोऽभिव्यक्ते: कथमस्य धृतिभावध्वनित्वमिति चेत्, तस्य धृत्युपयोगितयैवाभिव्यक्तेः ।
व्दार्थमाह-सद्नेति। तरसा शीघ्रम्। स्मितेनार्द्रमिव नमयांवभूव नमयांचकार। अम्बुजालिं कमलपक्विम्। जनितश्वासावुपप्नवश्च। उपद्रवश्वेत्यर्थः । धावं धावं धाविला धाविला। कथमिति। वस्तुध्वनित्वस्यैवौचित्यादिति भावः । तस्य चिन्ता-
Page 95
८० काव्यमाला।
किमनिष्टं मम भविष्यतीत्याकारश्चित्तवृत्तिविशेप: शङ्का ।। उदाहरणम्- 'विधिवञ्चितया मया न यातं सखि संकेतनिकेतनं प्रियस्य। अधुना बत कि विधातुकामो मयि कामो नृपतिः पुनर्न जाने ।।' अत्र राजापराधो विभावः । मुखवैवर्ण्यादय आक्षेप्या अनुभावाः । इयं तु भयाद्युत्पादनेन कम्पादिकारिणी, न तु चिन्ता। आधिव्याधिजन्यवलहानिप्रभवो वैवर्ण्यशिथिलाङ्गत्व दग्भ्रमणा- दिहेतुर्दुःखविशेषो ग्लानिः ॥ यथा- 'शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव। प्रियमागतमपि सविधे सत्कुरुते मधुरचीक्षणैरेव ।' अत्र प्रियाविरहो विभावः। मधुरवीक्षणैरेवेत्येवकारेण बोध्यमाना प्र- त्युद्गमचरणनिपतना्लेषादीनां निवृत्तिरनुभावः । न चात्र श्रमः शङ्यः । कारणाभावात्। केचित्तु व्याध्यादिप्रभवबलनाशं ग्लानिमाहुः । तेषां मते चित्तवृत्त्यात्मकेषु भावेषु नाशरूपाया ग्लानेः कथं समावेश इति ध्येयम्। यद्यपि 'बलस्यापचयो ग्लानिराधिव्याधिसमुद्भवः ।' इति लक्षणवा- क्यादपचयशब्देन नाश एव प्रतीयते, तथापि प्रागुक्तानुपपत्त्या बलनाश- जन्यं दुःखमेव बलापचयशब्देन विवक्षिम्। दुःखदारिद्यापराधादिजनितः स्वापकर्पभापणादिहेतुश्चित्तवृत्ति- विशेषो दैन्यम्॥ उदाहरणम्- 'हतकेन मया वनान्तरे वनजाक्षी सहसा विवासिता। अधुना मम कुत्र सा सती पतितस्येव परा सरखती ।।' भावरूपवस्तुनः । उपयोगिता पोषकता। विधिदैवम्। इयं तु शङ्का। तुरेवार्थे। सुषमा शोभाविशेषः । श्रमस्तदाख्यो भावः । कारणेति। तच् स्फुटीभविष्यति। लक्षणेति। मुन्युक्तेत्यादिः। अनुपपत्तिरसमावेशरूपा। विवक्षितमिति। एवं तु क्वचिद्वन्थो- डपि सुयोज इति भावः। इतकेन हतसदृशेन । भाग्यरहितेनेति यावत् । वनजाक्षी जलजाक्षी। सहसा कारणं विनैव। परा उत्कृष्टा सरखती। श्रुतिरित्यर्थः । विनिगम-
Page 96
रसगञ्गाघरः । ८१
सीतां परित्यक्तवतो भगवतः श्रीरामभद्रस्येयमुक्तिः । अत्र सीताप- रित्यागरूपोऽपराधस्तज्जन्यं दुःखं वा विभावः। पतितसाम्यरूपस्वापकर्ष- भाषणमनुभावः । यदाहु :- 'चिन्तौत्सुक्यान्मनस्तापाद्दौर्गत्याच्च विभावतः । अनुभावात्तु शिरसोऽप्यावृत्तेर्गात्रगौरवात्।। देहोपस्करणत्यागाद्दैन्यं भावं विभावयेत् ।।' इति। 'दौर्गत्यादेरनौजस्यं दैन्यं मलिनतादिकृत्।' इति च। अत्र हतकेन मया विवासिता न तु विधिनेत्येतस्यार्थस्य पतितोपम- यैव परिपोषः, न तु शूद्राद्युपमया। यतः शूद्रस्य जात्यैव श्रतिदौर्लभ्यं विधिना कृतम्। पतितस्य तु ब्राह्मणादेर्विधिना श्रुतिसुलभत्वे स्वभावेन कृतेऽपि तेनैव तथाविधं पापमाचरता स्वतः श्रुतिर्दूरीकृतेति तस्य पति- तेन साम्यम्। तस्याश्च श्रुत्येत्युपमालंकारो दैन्यमेवालंकुरुते। तथा मयेति सेति चोपादानलक्षणामूलध्वनिभ्यां कृतप्नत्वकृतज्ञात्वनिर्दयत्वदयावतीत्वा- द्यनेकधर्मप्रकाशनद्वारा तदेव परिपोष्यते । सेति स्मृत्या च लेशतः प्रतीयमानया।
काभावादाह-तजन्यमिति। चिन्तौत्सुक्यादिरूप विभावत्रयतः, शिरसोऽप्या(भ्या)- वृत्त्यादिरूपानुभावत्रयतो दैन्यं भाव जानीयादित्यर्थः । वचनान्तरमाह-दौर्गत्यादे- रिति। अनौजस्यमोजोगुणाभावः । सर्वे वाक्यं सावधारणमिति न्यायलभ्यमर्थमाह- न तु विधिनेति। जात्यैव खभावेनैव। तेनैव पतितेनैव। तथाविधं पातित्यजनकम्। तस्य रामस्य। तस्याः सीतायाः। साम्यमित्यस्यानुषङ्गः। पवालमिति। अलंकुरुत एवेत्यथः। न तु स्वयं प्रधान येन गुणीभूतव्यक्चयत्वापत्तिरिति भावः। उपादानलक्षणा- मूलध्वनिभ्यामिति। सार्थमुपादायेतरार्थलक्षणमुपादानलक्षणा। लक्ष्यतावच्छेद कं चातिक्ेशे तदत्य क्ततवं मत्पदस्य। वनवासससत्रीतमित्यादि च तत्पदस्य। व्यङ्गयार्थमाह- कृतघ्नत्वेत्यादि। यथाक्रममन्वयः। तदेवेति। दैन्यं परिपोष्यत एवेत्यर्थः । न तु प्राथान्यं येन दैन्यध्वनितोच्छेद इति भावः। सेतीति। यतस्तेन तद्वर्मप्रकाशोतो लेशतोऽक्तः प्रतीयमानया सेति स्मृत्या च दैन्यं परिपोष्यत एवेत्यस्यानुषङ्गः। न तु प्राधान्यं येन स्मृतिध्वनित्वं स्यात्, न दैन्यध्वनित्वमिति भावः। यत्र चिन्तायाम्।
Page 97
८२ काव्यमाला।
इष्टाप्राप्यनिष्टप्राप्यादिजनिता ध्यानापरपर्याया वैवर्ण्यभूले-
यदाहु :- 'विभावा यत्र दारिद्यमैश्व्र्यभ्रंशनं तथा। इष्टार्थापहृतिः शश्चच्छ्रासोच्छासावधोमुखम् ।। संताप: स्मरणं चैव कार्श्यै देहानुपस्कृतिः । अधृतिश्चानुभावाः स्युः सा चिन्ता परिकीर्तिता ।। वितर्कोऽस्या: क्षणे पूर्वे पाश्चात्ये वोपजायते ॥' इति। 'ध्यानं चिन्ता हितानाप्तेः संतापादिकरी मता।' इति च। उदाहरणम्- 'अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्गिनी। अकृतप्रतिमा तनुः कृता विधिना कस्य कृते मृगीदृशः ॥' अत्र तदप्राप्तिर्विभावः । अनुतापादय आक्षेप्या अनुभावाः । न चा- त्रौत्सुक्यध्वनिरिति वाच्यम्। कस्य कृत इत्यनिर्धारितधर्म्यालम्बनाया- श्विन्ताया एव प्रतीयमानतया सतोऽप्यौत्सुक्यस्यैतद्वाक्येन प्राधान्येनाव- बोधनात्। मद्याद्युपयोगजन्मा उल्लासाख्यः शयनहसितादिहेतुश्चित्तवृत्ति- विशेषो मद: ।। यदाहु :- 'संमोहानन्दसंदोहो मदो मद्योपयोगजः ।' इति। तत्रो- त्तमे पुरुषे स्वापोऽनुभावः । मध्यमे हसितगाने। नीचे तु रोदनपरुषो-
अथ विभावकथनानन्तरम्। 'अस्याः' इति पाठे चिन्ताया इत्यर्थः । एवमग्रेऽपि। तथा चेतः प्राक्तनाविर्भावः। अस्या इत्यस्यानुभावा इत्यनेनान्वयात्। देहानुपस्कृतिर्देहाप्रसा- धनम्। वितर्को वक्ष्यमाणस्वरूपः। अस्तपल्लवेति पञ्चम्यरथे बहु्रीहिः । पल्वपदेन तच्छोभा। अकृतप्रतिमेति। उपमानमित्यर्थः । कृता मृगीदृश इत्यनयोः सर्वत्र संबन्धः। तदप्राप्तिस्तादृशनायिकाऽप्राप्तिः। प्रतीयेत्यस्य द्राकप्राधान्येनेत्यादिः। उपयोगः प्राशनम्। संमोहेति । अनयोः समूहो यत्रेत्यर्थः । तत्र शयनादीनां मध्ये। उत्तमे पुरुषे इति। 'उत्तमसत्त्वः प्रहसति गायति तद्वच्च मध्यमप्रकृतिः। पुरुषवचनाभिधायी
Page 98
रसगञ्काधरः । ८३
कत्यादि। अयं च मदस्त्रिविधः। तरुणमध्यमाधमभेदात्। अव्यक्ता- संगतवाक्यैः सुकुमारस्खलद्गत्या च योऽभिनीयते स आद्यः। भुजाक्षे- पस्ख लित घूर्णितादिभिर्मध्यमः । गतिभङ्गस्मृतिनाशहिक्काछर्यादिभिरधमः । उदाहरणम्- 'मधुरतरं स्मयमान: सवस्मिन्नेवालपञ्शनैः किमपि। कोकनदयंस्त्रिलोकीमालम्बनशून्यमीक्षते क्षीबः ।I' अत्र मादकद्रव्यसेवनं विभावः । अव्यक्तालापाद्यनुभावः । अत्र मत्त- स्वभाववर्णनस्य तन्निष्ठमदव्यञ्जनार्थत्वान्मदभाव एव प्रधानमिति न सव- भावोक्त्यलंकारस्य प्राधान्यम्, अपि तु तद्धन्युपस्कारकत्वमेव। इदं वा पुनरुदाहरणम्- 'मधुरसान्मधुरं हि तवाधरं तरुणि मद्ूदने विनिवेशय। मम गृहाण करेण कराम्बुजं पपपतामि हहा भभभूतले ।।' अन्नापि स एव विभावः । अधिकवर्णोच्चारणादिरनुभावः। पूर्वार्धगता आम्योक्तिरुत्तरार्धे च तरुणीकरेऽम्बुजोपमेयतया निरूपणीये खवकरस्य तदुपमेयतया निरूपणं च मदमेव पोषयतः । बहुतरशारीरव्यापारजन्मा निःश्चासाङ्गसंमर्दनिद्रादिकारणीभूतः खेदविशेषः श्रम: । यदाहु :- 'अध्वव्यायामसेवादयैर्विभावैरनुभावकैः । गात्रसंवाहनैरास्यसंकोचैरङ्गमोटनैः ।। शेते रोदित्यधमसत्त्वः ॥I' इति प्रदीपविरुद्धमेतत्। अव्यक्तेति। अस्पष्टाक्षरासंबद्ध- वाक्यैरित्यर्थः । सुकुमारेति कर्मधारयद्वयम्। शनैरित्यनेनाव्य कलं किमपीत्यनेनासंगत- लम्। त्रिलोकीं कोकनदयन्। आलम्वनेति क्रियाविशेषणम्। तन्निष्ठेति। मत्तनि- ष्ठेत्यर्थः । तद्टन्युपेति । मदभावध्वन्युपेत्यर्थः । ननु क्षीवपदेन विशेषणविधया वा- च्यस्य मदस्य क्थं ध्वनितास्पदत्वम्, कथमपि वाच्यवृत्त्यनालिद्वितस्यैव व्यङ्गयस्य चम- त्कारित्वमिति स्वयमेव प्रागावेदनात्। एवं च खभावोत्तयलंकार एवायमत आह- इदं वा पुनरिति। हि यतो मधुरसान्मधुरं तव खस्य। स एव मादकद्रव्यसेवनरूपः प्रागुक्त एवेत्यर्थः । अधिकेति। पपहद्दाभभेत्यर्थः। पणं चेत्यस्योभे इति शेषः। अध्वेति त्रयाणां द्वन्दगर्भो बहुव्रीहिः। अनुभावकैरित्यस्याग्रेतनैरन्वयः । संवाहनं सेवनम्। मो-
Page 99
८४ काव्यमाला।
निःश्वासैर्जम्भितैर्मन्दैः पादोत्क्षेपैः श्रमो मतः ॥' इति। 'श्रमः खेदोऽध्वगत्यादेर्निद्राश्वासादिकृन्मतः।' इति च। अयं च सत्यपि बले जायते। शारीरव्यापारादेव च जायते। न तु ग्लानिः । अतो ग्लाने: श्रमस्य भेदः । उदाहरणम्- 'विधाय सा मद्ददनानुकूलं कपोलमूलं हृदये शयाना । चिराय चित्रे लिखितेव तन्वी न स्पन्दितुं मन्दमपि क्षमासीत् ।।' अत्र विपरीतसुरतरूपः शारीरव्यापारो विभावः । स्पन्दराहित्यशय- नादयोऽनुभावाः । न चात्र निद्राभावध्वननेन गतार्थतेति शङ््यम्। सुषु- पौ हि ज्ञानराहित्येनैव यत्नराहित्यान्मन्दमपि स्पन्दितुं न क्षमासीदित्य- स्यानतिप्रयोजनकत्वापत्तेः । शीङाभिहिततया तस्या व्यञ्नयत्वानुपपत्तेश्च । श्रमे त्वानुगुण्यमुचितम् । रूपधनविद्यादिप्रत्युक्तात्मोत्कर्षज्ञानाधीनपरावहेलनं गर्वः ।। उदाहरणम्- 'आ मूलाद्रत्नसानोर्मलयवलयितादा च कूलात्पयोधे- र्यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशक्कं वदन्तु। मृद्वीका मध्य निर्यन्मसृणरसझरीमाधुरीभाग्यभाजां वाचामाचार्यतायाः पदमनुभवितुं कोडस्ति धन्यो मदन्यः ॥' अत्र स्वकीयकविताया अनन्यसाधारणताज्ञानं विभावः । पराधिक्षेप- परैतादृशवाक्यप्रयोगोऽनुभावः । इमं चासूयापि लेशतः पुष्णाति। उत्सा- हप्रधानो गूढगर्वो हि वीररसध्वनिः, अयं तु गर्वप्रधान इति तस्मादस्य विशेषः । तथा हि वीररसप्रसङ्गे प्रागुदाहृते 'यदि वक्ति-'इत्यादि पद्े टनं मोडनमिति भाषाप्रसिद्धम् । मन्दैरित्युत्तरान्वयि। अतो ग्लानेरिति। उक्तहेतु- द्वयाद्ग्लानेः सकाशादित्यर्थः । दृष्टान्तेन सुषुप्तेरेव लाभः, न तु खप्नस्येत्याशयेनाह- सुषुप्तौ हीति। नैवेति। यक्षं प्रति तस्य कारणलादिति भावः । ननु स्पष्टार्थमेव तदस्तु, अत आह-शीडेति। प्राकारतयेति भावः। तस्या निद्रायाः। रक्नसानुः सुमेरुः । मृद्वीका द्राक्षा। निर्यन्निःसरनू। झरी प्रवाहः। तस्माद्वीररसध्वनेः । मदन्य
Page 100
रसगङ्गाधरः । ८५
गीष्पतिना गिरामधिदेवतयापि साकमहं वदिष्यामीति वचनेनाभिव्यक्त- स्योत्साहस्य परिपोषकतया स्थितः सर्वेभ्यः पण्डितेभ्योऽहमधिक इति गर्वः। न तु प्रकृतपद्य इव नास्त्येव महीतले मदन्य इति स्फुटोदितेन सोलुण्ठवचनेनानुभावेन प्राधान्येन प्रतीयमानः । श्रमादिप्रयोज्यं चेतःसंमीलनं निद्रा ।। नेत्र निमीलनगात्रनिष्क्रियत्वादयोऽस्यानुभावाः। उदाहरणम्- 'सा मदागमनबृंहिततोषा जागरेण गमिताखिलदोषा। बोधितापि बुबुधे मधुपैर्न प्रातराननजसौरभलुब्घैः ॥' रात्रिजागरणश्रमोऽत्र विभावः । मधुपैर्बोधाभावोऽनुभावः । शास्त्रादिविचारजन्यमर्थनिर्धारणं मतिः ॥ अत्र निःशङ्कतदर्थानुष्ठानसंशयोच्छेदादयोऽनुभावाः । उदाहरणम्- 'निखिलं जगदेव नश्चरं पुनरस्मिन्नितरां कलेवरम्। अथ तस्य कृते कियानयं क्रियते हन्त मया परिश्रमः ॥' 'शरीरमे. तज्जलबु हुदोपमं-' इत्यादिशास्त्रपर्यालोचनमत्र विभावः । ह- न्तपदगम्या स्वनिन्दा राजसेवादिविरतिर्वितृष्णता चानुभावः । झगिति मते- रेव चमत्काराद्दनिव्यपदेशहेतुता, न शान्तस्य । विलम्बेन प्रतीतेः । रोगविरहादिप्रभवो मनस्तापो व्याधि: ॥ गात्रशैथिल्यश्वासादयोऽत्रानुभावाः । यदाहु :- 'एकैकशो द्वन्द्वशो वा त्रयाणां वा प्रकोपतः । वातपित्तकफानां स्युर्व्याधयो ये ज्वरादयः । इह तत्प्रभवो भावो व्याघिरित्यभिधीयते ।।'
इतीति गर्वाकारः। सोल्ण्ठं साभिप्रायम्। वचनेन आ मूलादित्यादि मदन्य इत्य- न्तेन । दोषा रात्रिः। ये ज्वरादय इति। लोके इति शेषः। इह शास्रे। तत्प्र.
Page 101
८६ काव्यमाला।
उदाहरणम्- 'हृदये कृतशैवलानुषङ्गा मुहुरङ्गानि यतस्ततः क्षिपन्ती। तदुदन्तपरे मुखे सखीनामतिदीनामियमादधाति दृष्टिम् ।' विरहोडत्र विभावः । अङ्गक्षेपादिरनुभावः । भीरोर्घोरस त्वदर्शनस्फूर्जथुश्रवणादिजन्मा चित्तवृत्तिविशेषस्त्ासः॥। अनुभावाश्चास्य रोमाञ्चकम्पस्तम्भभ्रमादयः । यदाहु :- 'औत्पात्तिकैर्मनःक्षेपस्त्रासः कम्पादिकारकः।' उदाहरणम्- 'आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती। आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमामयासीत् ।' अत्र पत्या स्ववचनाकर्णनं विभावः । पलायनमनुभावः । न चात्र ल- जाया व्यञ्च्यत्वमाशङ्कनीयम्। शैशवेनैव तस्या निरासात्। इदं वा विविक्तमुदाहरणम्- 'मा कुरु कशां कराने करुणावति कम्पते मम स्वान्तम्। खेलन्न जातु गोपैरम्ब विलम्वं करिष्यामि ।' एषा भगवतो लीलागोपकिशोरस्योक्तिः । निद्राविभावोत्थज्ञानं सुप्म् ॥ स्वप्न इति यावत्। अस्यानुभावः प्रलापादिः। नेत्रनिमीलनादयस्तु निद्राया एवानुभावा न त्वस्य। अनिदंजन्यत्वात्। यत्तु प्राचीनैः 'अस्या-
भवो ज्वरादिप्रभवः । तदुदन्तेति। नायकोदन्तेत्यर्थः । मुखे इत्येकवचनेनैकवारतैव सर्वाभिरुच्यत इति ध्वनितम्। तदलाभादैन्यं दृष्टौ। भीरोर्भयशीलस्य। सत्त्वं प्राणी । स्फृर्जथुर्वञ्रनिर्घोषः । औत्पातिकैरुत्पातसूचकैर्घोर सत्त्वदर्शनादिभिः । मनःक्षेपश्चित्तत्ृ- त्तिविशेषः । केलीरभसेन क्रीडाराभस्येन। नायकोक्तिरियम्। आराहूरम्। ततोऽचिर- स्थायित्वेन विद्युच्छोभालाभः । पत्या तत्कर्तृकम्। 'शब्दानुशासनमाचार्येण' इति- वत्प्रयोगः । शैशवेनैवेति। वालापदवोध्येनेत्यर्थः । तस्या लज्जायाः । एवं च मूले कुठारात्र तदाशह्केति भावः । ननु बालापरद न शैशवबोधकम्, किंतु विशेषबोधकमत आह-इदं वेति। कशां ताडनरजम्। वस्तुतस्तत्वाभावादाह-लीलेति। अनि-
Page 102
रसगङ्गाधरः । ८७ नुभावा निभृतगात्रनेत्रनिमीलनं-' इत्याद्युक्ततं तदन्यथासिद्धानामपि तेपामे- तद्भावव्यापकत्वादिति ध्येयम्। उदाहरणम्- 'अकरुण मृषाभाषासिन्धो विमुञ्च ममाश्चलं तव परिचितः स्नेहः सम्यङ्मयेत्यनुभाषिणीम्। अविरलगलद्वाष्पां तन्वीं निरस्तविभूषणां क इह भवतीं भद्रे निद्रे विना विनिदेदयेत् ।' एषा प्रवासगतस्य सवप्नेऽपि प्रियामेवंभाषिणी दृष्टवतो निद्रां प्रति कस्यचिदुक्तिः । यद्यप्येवंभूतायाः प्रियतमावस्थाया निवेदनेन निद्रे मम भवत्या महानुपकारः कृत इति वस्तु, विप्रलम्भशृङ्गारश्षात्र प्रतीतिपथ- मवतरति, तथापि पुरः स्फूर्तिकतया खन्नध्वननमत्रोदाहृतं न प्रान्ते तयो- धर्वननं निरोद्धुमीष्टे। निद्रानाशोत्तरं जायमानो बोधो विवोध: ।। निद्रानाशश्च तत्पूर्तिखम्नान्तवलवच्छन्दस्पर्शादिभिर्जायत इति त एवा- त्र विभावाः। अक्षिमर्दनगात्रमर्दनादयोऽनुभावाः। तत्र संक्षेपेणोदाहरणम्- 'नितरां हितयाद्य निद्रया मे बत यामे चरमे निवेदितायाः । सुदृशो वचनं शृणोमि यावन्मयि तावत्प्रचुकोप वारिवाहः ॥' अत्र गर्जितश्रवणं विभावः । प्रियावचनश्रवणोल्लासनाशोऽनुभावस्तू- न्नेयः । केचिद् विद्याध्वंसजन्यमप्यमुमामनन्ति। तेषां मते 'नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत। स्थितोऽस्मि गतसंदेहः करिप्ये वचनं तव ।।' इति गीतापद्यमुदाहार्यम्। न तु वारिवाहविषयाया असूयाया एवात्र दंजन्यत्वादिति । एतज्न्यताभावादित्यथः । खप्नजन्यत्वाभावादिति यावत्। अ- न्यथेति। निदयेत्यर्थः । पतदिति। खप्नेत्यर्थः । मृषेति। मिथ्याभाषिन्। इह प्र- वासे। प्रियतमेति। नायिकेत्यर्थः । अत्रोदाहृतमिति ॥ अस्यापि वाच्यातिशा- यित्वादेतद्धनिव्यवहारोऽपि। तथा च सांकर्यमिति भावः । तत्पूर्तिर्निद्रापूर्तिः । वारिवाहो मेघः। अमुं विबोधम्। सिंहावलोकनन्यायेनासूयाध्वनित्वं निराचष्टे-न त्विति।
Page 103
८८ काव्यमाला।
वाक्यार्थतेति शङ््चम्। विबोधप्रतीतौ हि सत्यां तस्मिन्ननौचित्यावगमे सत्यनुचितविोधजनकत्वेन वारिवाहेऽसूयाया विलम्बेन प्रतीतेः परमु- खनिरीक्षकत्वात्। स्यादपि तस्या अपि प्राधान्यम, यदि वारिवाहे निष्क- रुणत्वादिबोधकं किचिदपि स्यात्। नापि सवप्नस्य। वारिवाहनादेन तन्नाशस्यैव प्रतिपत्तेः । अस्तु वा स्वम्नभावप्रशमेनासूयया च सहास्य संकरः । इदं तु नोदाहार्यम्- 'गाढमालिङ्चय सकलां यामिनीं सह तस्थुषीम् । निद्रां विहाय स प्रातरालिलिङ्गाथ चेतनाम् ।।' विबोधस्य चेतनापदवाच्यत्वात्। यथा कश्चित्सत्यप्रतिज्ञो द्वाभ्यां ना- यिकाभ्यां द्वौ कालावुपभोगार्थ दत्त्वा यथोचिते काल एकामुपभुज्य काला- न्तरे प्रवृत्ते तां विहायापरां भुङ्के, तथैवायं रात्रौ निद्रां प्रातश्चेतनामिति समासोक्तेरेवेह प्रकाशनात्। परकृतावज्ञादिनानापराधजन्यो मौनवाक्पारुष्यादिकारणीभूत-
प्राग्वत्कारणानां कार्याणां च क्र्मेण विभावानुभावत्वम्। उदाहरणम्- 'वक्षोजागं पाणिनामृप्य दूरे यातस्य द्रागाननाअं प्रियस्य । शोणाग्राभ्यां भामिनी लोचनाभ्यां जोषं जोषं जोषमेवावतस्थे ।।' इह त्वाकस्मिकस्तनाग्रस्पर्शो विभावः । नयनारुण्यनिर्निमेषनिरीक्षणे
हि यतः । तस्मिन्विबोधे। तस्या अप्यसूयाया अपि। स्वप्नस्य वाक्यार्थतेति शङ्कयमि- त्यस्यानुषन्ञः। जलाहरणकर्तृत्वेन बोधकवारिवाहशव्दस्य सत्त्वात्, अत आह-अस्तु वा स्वप्नभावेति। इदं वक्ष्यमाणम्। सकलां यामिनीमभिव्याप्य सह स्थितवर्ती निद्रां गाढमालिज्गयाथ च प्रातस्तां विहाय स चेतनामालिलिह्वेलन्वयः। नन्वेवं विवोध- भावध्वनित्वाभावेऽपि कस्येदमुदाहरणम्, अत आह-यथेत्यादि। प्राग्वद्विोधवत्। कारणानां परकृतावज्ञादीनाम्। कार्याणां मौनादीनाम् । आमृष्य संस्पृश्य। जोषं जोषमिति। निर्निमेषं टृष्टा दृष्ट्रेत्र्थः। जोषमेव तूष्णीमेव। भामिनी कत्रा। अन्नादि- संग्राह्यविभावानुभावयोः सत्वमित्याह-इह त्विति। इदं च निर्निमेषनिरीक्षणं सेवा-
Page 104
रसगक्गाधरः । ८९
अनुभावौ। ननु क्रोधामर्षयोः स्थायिसंचारिणोर्भावयोः किं भेदकमिति चेत्, विषयतावैलक्षण्यमेवेति गृहाण। तत्र तु गमकं झटिति परविनाशादौ प्रत्ृ- त्तिर्वचनवैमुख्यादिकं चेति कार्यवैलक्षण्यम्। त्रीडादिभिनिमित्तैर्हर्पा्द्यनुभावानां गोपनाय जनितो भावविशे- पोऽवहित्थन् ।। तदुक्तम्- 'अनुभावपिधानार्थेऽवहित्थं भाव उच्यते । तद्विभाव्यं भयव्रीडाधार्श्र्यकौटिल्यगौरवैः ।' यथा- 'प्रसक्गे गोपानां गुरुपु महिमानं यदुपते- रुपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः । विषज्वालाजालं झगिति वमतः पन्नगपतेः फणायां साश्चर्य कथयतितरां ताण्डवविधिम् ।।' अत्र त्रीडा विभावः । तादृशकालियकथाप्रसङ्गोऽनुभावः । एवं भया- दिप्रयोज्यमप्युदाहार्यम्। अधिक्षेपापमानादिप्रभवा किमस्य करोमीत्याद्याकारा चित्तवृ- त्तिरुग्रता॥ यदाहु :- 'नृपापराधोऽसद्दोपकीर्तनं चोरधारणम्। विभावाः स्युरथो बन्धो वधस्ताडनभर्त्सने।। एते यत्रानुभावास्तदौग््यं निर्दयतात्मकम् ॥' इति। र्थंकजुषा णमुला च गम्यं तदाह-निर्निमेपेति। इदमुपलक्षणम्। मौनमप्यनुभावो बोध्यः । किं भेदकमिति। उक्तकारणकार्ययोस्तु ऐक्यमेवेति भावः । तत्र तु विपय- तावैलक्षण्ये तु। कार्येति। क्रोधामषयोर्यथाक्रममित्यादिः । हर्षाद्यनुभावानामि- ति। हर्षादिजन्यानुभावानामित्यर्थः । भावविशेषोऽभिप्रायविशेषः । अनुभावेत्यस्य ह- र्षादिजन्येत्यादिः। तदवहित्थम्। भयादिभिर्विभाव्यं जन्यमित्यर्थः । गुरुपु तत्समीपे। गोपानां प्रसक्ने इत्याद्यन्वयः । पत्नगपतेः कालियस्य। आश्चर्यमाश्चर्येण सहितम्। ताण्डव- विधिं यदुपतेरिति भावः । तादृशेति । विषवमनकत्रित्यर्थः । असदिति ।
Page 105
काव्यमाला।
यथा- 'अवाप्य भङ्गं खलु सङ्गराङ्गणे नितान्तमङ्गाधिपतेरमङ्गलम्। परप्रभावं मम गाण्डिवं धनुर्विनिन्दतस्ते हृदयं न कम्पते ।।' एपा वणन पराभूतं गाण्डिवं निन्दन्तं युधिष्ठिरं प्रति धनंजयस्योक्तिः । युधिष्टिरकर्तृका गाण्डिवनिन्दात्र विभावः । वधेच्छानुभावः । न चामर्षो- ग्रतयोर्नास्ति भेद इति वाच्यम् । प्रागुदाहृतेऽमर्षध्वनावुग्रताया अप्रतीतेः। नाप्यसौ क्रोधः । तस्य स्थायित्वेनास्याः संचारिणीत्वेनैव भेदात्।
शुक्तिरजतादिज्ञानव्यावृत्तये जन्मान्तम् । उदाहरणम्- 'अकरुणहृदय प्रियतम मुन्वामि त्वामितः परं नाहम् । इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ।' एषा प्रवासगतं सवनायिकावृत्तान्तं पृच्छन्तं नायकं प्रति कस्याश्चित्सं- देशहारिण्या उक्तिः । प्रियविरहोऽत्र विभावः । असंबद्धोक्तिरनुभावः । उन्मादस्य व्याधावन्तर्भीवे संभवत्यपि पृथगुपादानं व्याध्यन्तरापेक्षया वै- चित्र्य विशेषस्फोरणाय। रोगादिजन्या मूर्च्छारूपा मरणप्रागवस्था मरणम् ॥ न चात्र प्राणवियोगात्मकं मुख्यं मरणमुचितं ग्रहीतुम् । चित्तवृत्त्या- त्मकेषु भावेषु तस्याप्रसक्तेः । भावेषु च सर्वेषु कार्यसह्वर्तितया शरीरप्रा- णसंयोगस्य हेतुत्वात्।
अविद्यमानदोषकथनमित्यर्थः । अङ्गाधिपतेः कर्णत्। परेति। उत्कृष्टेत्यर्थः। पराभू- तमिति युधिष्टिरविशेषणम् । न चामर्पोग्रेति। कारणाधिक्यादिति भावः । अप्र- तीतेरिति। अस्यां वधादीच्छापि न। तस्मिन्नित्यनुभावभेदादिति भावः । असावु- ग्रता। भेदादिति। गुरुबन्धुवधादिजन्यः स्थायी, वागपराधादिजन्यः संचारीति भेद इत्यपरे। व्यावृत्तय इति। ज्ञानस्योन्मादत्वव्यावृत्तय इत्यर्थः। तस्याप्रसक्तेरिति। मुख्यमरणस्यान्तर्भावासंभवादित्यर्थः । तत्र हेतुमाह-भावेषु चेति। अज्गीकुरुते
Page 106
रसगङ्गाघरः । ९१
उदाहरणम्- 'दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत्। अधुना खलु हन्त सा कृशाङ्गी गिरमङ्गीकुरुते न भाषितापि ।' प्रियविरहोऽत्र विभावः । वचनविरामोऽनुभावः । हन्तपदस्यात्रात्य-
भावस्य पदव्यङ्कयतायां नात्यन्तं वैचित्र्यमिति परास्तम्। दयतस्य गु- णाननुस्मरन्तीत्यनेन व्यज्यमानं चरमावस्थायामपि तस्या दयितगुणविस्म- रण नाभूदिति वस्तु विपलम्भस्य शोकस्य वा चरममभिव्यक्तस्य पोप- कम्। अयं च भावः स्वव्यञ्जकवाक्योत्तरवर्तिना वाक्यान्तरेण संदर्भघटकेन नायिकादे: प्रत्युज्जीवनवर्णने विप्रलम्भस्य, अन्यथा तु करुणस्य पोषक इति विवेकः । कवयः पुनरमुं प्राधान्येन न वर्णयन्ति । अमङ्गलप्रायत्वात्। संदेहाद्यनन्तरं जायमान ऊहो वितर्कः । स च निश्चयानुकूलः । 'यदि सा मिथिलेन्द्रनन्दिनी नितरामेव न विद्यते भुवि। अथ मे कथमस्ति जीवितं न विनालम्वनमाश्रितस्थितिः ।।' स्वात्मनि भगवतो रामस्यैपोक्तिः । भुवि सीताम्ति न वेति संदेहोऽत्र विभावः । भ्रूक्षेपशिरोङ्गुलिनर्तनमाक्षिप्तमनुभावः । न चासौ चिन्तेति शक्यं वदितुम् । चिन्ताया नियमेन निश्चयं प्रत्यप्रयोजकत्वात्। किं भविप्यति कथं भविष्यतीत्याद्याकारायाश्चिन्ताया इदमित्थं भवितुमर्हृति प्रायश इत्याकारस्य वितर्कस्य विषयवैलक्षण्योपलम्भाच्च। न विनेत्यादिनोक्तोऽर्था- न्तरन्यासोऽप्यस्मिन्नेवानुकूलः । न। न प्रतिवदतीलथः । अन्न मरणे हन्तपदस्य दुःखातिशयबोधकत्वादिति भावः । प्रकृतेऽनुपदं वक्ष्यमाणरील्या विप्रलम्भासंभवादाह-शोकेति। करुणस्थायीभावस्ये- त्यर्थः। अस्य पुरोऽनभिव्यक्तेराह-चरममिति। अत एवैतद्दनित्म्। तदेवाह-अयं चेति। नन्वस्य प्रधानोदाहरणं कुतो न दत्तमत आह-कवय इति। पुनःशब्दो हि- शब्दार्थे। आदिना विपर्ययपरिग्रहः।आलम्बनमाधारभूतम्। ननु नियमे तदभावेऽि लक्ष- णे तदनिवेशात्प्रकृते तत्संभव एवात आह-कि भविष्यतीति। ननु न विनेत्यादि- नार्थान्तरन्यासस्य प्रतीतेः कर्थ ध्वनितमत आह-न विनेत्यादीति। सामान्येन
Page 107
९२ काव्यमाला।
इष्टासिद्धिराजगुर्वाद्यपराधादिजन्योऽनुतापो विपाद: । उदाहरणम्- 'भास्करसूनावस्तं याते जाते च पाण्डवोत्कर्षे। दुर्योधनस्य जीवित कथमिव नाद्यापि निर्यासि ॥' अत्र स्वापकर्षपरोत्कर्षयोर्दर्शनं विभावः। जीवितनिर्याणाशंसा, तदा- क्षिप्तं वदननमनादि चानुभावः । अस्मिन्नेव च विषादध्वनौ दुर्योधनस्येत्य- र्थान्तरसंक्रमितवाच्यध्वनिर्नुग्राहकः । न चात्र त्रासभावध्वनित्वं शङ््यम् । परवीरस्य दुर्योधनस्य त्रासलेशस्याप्ययोगात्। नापि चिन्ताध्वनित्वम्। युद्धा मरिप्यामीति तस्य व्यवसायात्। नापि दैन्यध्वनित्वम्। सकलसै- न्यक्षयेSपि विपदस्तेनागणनात् । न वा वीररसध्वनित्वम्। मरणस्य श- रणीकरणे परापकर्षजीवितस्योत्साहस्याभावात्। इदं पुनरत्र नोदाहार्यम्- 'अयि पवनरयाणां निर्दयानां हयानां शलथय गतिमहं नो संगरं द्रष्टुमीहे। श्रुतिविवरममी मे दारयन्ति प्रकुप्य- ड्ुजगनिभभुजानां बाहुजानां निनादाः ।।' अत्र त्रासस्यैव प्रतीयमानत्वेन विषादस्याप्रतीतेः, लेशतया प्रतीतौ वा त्रास एव। आनुगुण्यौचित्येन ध्वनिव्यपदेशायोग्यत्वात्। अधुनैवास्य लाभो ममास्त्वितीच्छा औत्सुक्यम्।
विशेषसमर्थनमत्र बोध्यम्। भास्करसूनौ कर्णे । दुर्योधनस्य जीवितेति संबुद्धिः। हे वीरेत्यर्थः । इवशव्दो वाक्यालंकारे। निर्यासि गच्छसि। विपादध्वनितं द्रढयति- अस्मिन्नेवेति। वाच्यध्वनिरिति। लक्ष्यतावच्छेदकं च कर्णदर्शनावधिजीवित्वम्, एकादशाक्षौहिणीपतिवन्धलम्, प्रतापेनागणितपाण्डवतेजस्तम्, पाण्डवानां वनवासादि- दातृत्वं वा अतिदुःखितं व्यक्गयम्। परेति । उत्कृष्टेत्यर्थः । युद्धेति। तथा च किं भविष्यतीत्याद्याकारायास्तस्या असंभव इति भावः । तेनागेति। तथा च तद्विभाव- स्याभाव इति भावः । परेति। बहुब्रीहिस्तृतीयातत्पुरुषो वा। परापकर्षस्यैवाभावा- दिति भावः । उत्साहस्येति। तत्स्थायिभावस्येति भावः । अयीति कोमलामन्र्रणे। 'अमी मे' इति पाठः। बाहुजानां क्षत्रियाणाम्। अस्य पदार्थस्य। निपतदिति।
Page 108
रसगन्जाधरः । ९३
इष्टविरहादिरत्र विभावः । त्वराचिन्तादयोऽनुभावाः । यदाहु :- 'संजातमिष्टविरहादुद्दीसं प्रियसंस्मृतेः । निद्रया तन्द्रया गात्रगौरवेण च चिन्तया। अनुभावितमाख्यातमौत्सुक्यं भावकोविदैः ॥' इति। उदाहरणम्- 'निपतद्वाप्पसंरोधमुक्त चाञ्चल्यतारकम् । कदा नयननीलाजमालोकेय मृगीदृशः ।।' अनर्थातिशयजनिता चित्तस्य संभ्रमाख्या वृत्तिरावेगः ॥ उदाहरणम्- 'लीलया विहितसिन्धुबन्धनः सोऽयमेति रघुवंशनन्दनः । दर्पदुर्विलसितो दशाननः कुत्र यामि निकटे कुलक्षयः ।' एषा स्वात्मनि मन्दोदर्या उक्तिः । रघुनन्दनागमनमत्र विभावः । कुत्र यामीत्येतद्यज्ञयस्थैर्याभावोऽनुभावः । न चात्र चिन्ता प्राधान्येन व्यज्यत इति शक्यते वक्तुम्। कुत्र यामीति स्फुटं प्रतीतेन स्थैर्याभावेनो- द्वेगस्येव चिन्ताया अप्रत्यायनात्। परं त्वावेगचर्वणायां तत्परिपोषकतया गुणत्वेन चिन्तापि विषयीभवति।
र्थप्रतिसंधानविकला चित्तवृत्तिर्जडता ।। इयं च मोहात्पूर्वतः परतश्च जायते। यदाहु :- 'कार्याविवेको जडता पश्यतः शृण्वतोऽपि वा। तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा ॥
निपतद्वाष्पसंरोधेन मुक्तचाव्चल्यास्तारका यस्येत्र्थः । आलोकेय। लिडो रूपम्। उद्धे- गस्येवेति। उद्देगावेगौ पर्यायौ। चिन्तोत्कण्ठेति। 'चिन्तोत्कर्ष' इति पाठान्त- रम्। इष्टानिष्टेति। प्रियानिष्टेत्यर्थः । तद्विभेति। जडताविभावा इत्यर्थः । रुजा
Page 109
९४ काव्यमाला।
अनुभावास्त्वमी तृष्णींभावविस्मरणादयः । सा पूर्व परतो वा स्यान्मोहादिति विदां मतम् ॥' उदाहरणम्- 'यदवधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतोऽभूत् । तद्वधि शिथिलीकृतो मदीयैरथ करणैः प्रणयो निजक्रियासु ॥' प्रियविरहोऽत्र विभावः । करणैश्चक्षुःश्रवणादिभिः क्रियासु तत्तत्प्र- मितिपु प्रणयस्य शिथिलीकरणमनुभावः । मोहे चक्षुरादिभिश्चाक्षुषादेरज- ननम्, इह तु प्रकारविशेषवैशिष्टेन बाहुल्येनाजननमिति तस्मादस्य विशेषः । अत एवोदाहरणे शिथिलीकृत इत्युक्तम्, न तु त्यक्त इति। अतितृप्तिगर्भव्याधिश्रमादिजन्या चेतसः क्रियानुन्मुखतालस्यम्।। अत्र च नासामर्थ्यम्। नापि कार्याकार्यविवेकशून्यत्वम्। तेन कार्या- करणरूपस्यानुभावस्य तुल्यत्वेऽपि ग्लानेर्जडतायाश्चास्य भेदः । उदाहरणम्- 'निखिलां रजनीं प्रियेण दूरादुपयातेन विबोधिता कथामिः । अधिकं नहि पारयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा ।' एषा हि प्रियागमनद्वितीयदिवसे मुहुर्निशावृत्तान्तं पृच्छन्तीं सखीं प्रति रजनिजागरणजनितालस्यायाः कस्याश्चिदुक्तिः । अत्र रजनिजाग- रणं विभावः। अधिकसंभाषणाभावोऽनुभावः। जडतायां मोहात्पूर्ववर्ति- त्वमुत्तरवर्तित्वं वा नियतम्, न त्वत्रेत्यपरो विशेषः । गोपनीयविषयत्वा- द्यदि कथाभिरित्यविवक्षितवाच्यं तदा श्रमोऽस्तु परिपोपकः । श्रमजन्ये रोगश्वेत्यर्थः। वाशव्दः समुच्चये। विदामर्थाद्रसज्ञानां मतमिष्टम्। दूरतो दूरे। करणै- रिन्द्रियैः । प्रणयः स्न्नेहः । अन्यासामसंभवादाह-तत्तत्प्रेति। चाक्षुषादिरूपास्वि- तर्थः । चाक्षुषादेरिति । सामान्यनेति भावः। प्रकारेति। तत्तत्प्रकारेणेत्यथः । अत एव वाहुल्येन। अत एव सर्वथात्यागादेव। अस्यालस्यस्य तुल्यत्वेऽपि ग्लान्या- दाविति शेषः। यथासंख्यमन्वयः । पारयामि शक्रोमि। आयसी लोहमयी। रसज्ञा जिह्वा। प्रियेति। प्रियस्यागमनं यस्मिन्दिने ततो द्वितीयेत्यर्थः। जडतातो भेदान्तर- माह-जडेति। वाशब्दश्चार्थे। अत्रालस्ये। कथाभिरित्यविवक्षितेति। कथा- भिरिति सुरतपरं तत्त्वमेव लक्ष्यतावच्छेदकम्। अतिश्रमयुक्तत्वं व्यङ्गयम्। श्रम इत्स्य
Page 110
रसगङ्गाधरः । ९५
ह्यालस्ये श्रमस्य पोषकताया अवार्यत्वात्। अतितृप्यादिजनिते त्वालस्ये श्रमाद्विविक्तविषयत्वं बोध्यम्। परोत्कर्षदर्शनादिजन्यः परनिन्दादिकारणीभूतश्चित्तवृत्तिविशे- षोडस्या।। इमामेवासहनादिशन्दैर्व्यवहरन्ति। यथा- 'कुत्र शैवं धनुरिदं क्व चायं प्राकृतः शिशुः । भङ्गस्तु सर्वसंहर्त्रा कालेनैव विनिर्मितः ।I' एषा भग्रहरकार्मुकस्य भगवतो रामस्य पराक्रममसहमानानां तत्र- त्यानां राज्ञामुक्तिः । अत्र च श्रीमद्दाशरथिबलस्य सर्वोत्कृष्टताया दर्शनं विभावः । प्राकृतशिशुपदगम्या निन्दानुभावः । 'तृप्णालोल विलोचने कलयति प्राचीं चकोरव्रजे मौनं मुश्चति किं च कैरवकुले कामे धनुर्धुन्वति। माने मानवतीजनस्य सपदि प्रस्थातुकामेडधुना धातः किं तु विधौ विधातुमुचितो धाराधराडम्बरः ।' अत्रापि यद्यपि तदीयोच्छृङ्कलतादिदर्शनजन्या अनुचितकारित्वरू- पनिन्दाप्रकाशानुभाविता कविगता विधात्रालम्बनासूया व्यज्यत इति शक्यते वक्तुम्, तथापि कार्यकारणयोस्तुत्यत्वादभिव्यक्तेनामर्षेण शबलि-
व्यङ्गयेत्यादिः। परिपोषक इत्यनेन श्रमध्वनितवं निरस्तम्। ननु तस्य तत्त्वे प्रकृते गौर- वमत आह-श्रमेति। नन्वेवं सर्वत्र तत्सत्वेन विभावभेदोक्तिरयुक्तात आह-अ- तीति। प्राकृत इति : क्षत्रियोद्गव इत्यर्थः । तत्रत्यानां सीतापरिणयनार्थ जनकगहे समागतानां सदस्युपविश्नाम्। शिशुपदेति। एतदुभयपदेत्यर्थः । तृष्णालोलेत्युदाह- रणदाने वीजं कथयितुमाह-तृष्णेति। कलयतीत्यादि सतिसप्तम्यन्तम्। कलयति चन्द्रि- कापानार्थ स्वीकुर्वति। चकोरव्रजे तत्समूहे। कुलं समूहः । धुन्वति टंकारयति। विधौ चन्द्रे। धाराधरेति। मेघाच्छादनमित्वथः । तदीयेति। घात्रीयेत्र्थः। प्रकाशेल- नेन तस्या वाच्यलं सूचितम्। वक्तुमिति। तथा चेदमप्यस्या उदाहरणमिति भावः । कार्यकारणयोस्तुल्यत्वादिति । असूयाकार्यकारणयोरिवामर्षकार्यकारणयोरपि विद्यमानतादित्यर्थः । असौ असूया प्रतीयत इत्वत्रान्वयः। एवव्यवच्छेद्यमाह-नेति।
Page 111
९६ काव्यमाला।
तैवासौ न विविक्ततया प्रतीयते। नहि विधातुरपराध इव भगवतो राम- स्यापराधोऽस्ति येन कवेरिव वीराणामप्यमर्पोऽभिव्यज्येत। स्वभावो हि महोन्नतक्रियानिप्पादनं वीराणाम्। अत्राप्रस्तुतचन्द्रवृत्तान्तेन प्रस्तुत- राजकुमारादिवृत्तान्तस्य ध्वननान्नास्त्यसूयाध्वनित्वमिति तु न वाच्यम्। एकध्वनेध्वन्यन्तराविरोधित्वात् । अन्यथा महावाक्यध्वनेरवान्तरवाक्य- ध्वनिभिः, तेषां च पदध्वनिभिः सह सामानाधिकरण्यं कुत्रापि न स्यात् ।
धिविशेषोऽपस्मारः ॥ व्याधित्वेनास्य कथनेऽपि विशेषाकारेण पुनः कथनं वीभत्सभयानक- योरस्यैव व्याधेरङ्ग्त्वं नान्यस्येति स्फोरणाय। विप्रलम्भे तु व्याध्यन्त- रस्यापि च । उदाहरणम्- 'हरिमागतमाकर्ण्य मथुरामन्तकान्तकम् । कम्पमान: श्वसन्कंसो निपपात महीतले ।' अत्र भयं विभावः । कम्पनिःश्चासपतनादयोऽनुभावाः । अमर्पादिजन्यवाक्पारुष्यादिकारणीभूता चित्तवृत्तिश्चपलता ॥ यदाहु :- 'अमर्षप्रातिकूल्येर्प्यारागद्वेषाश्च मत्सरः । इति यत्र विभावाः स्युरनुभावस्तु भर्त्सनम् ॥ वाक्पारुप्यं प्रहारश्च ताडनं वघबन्धने। तच्चापलमनालोच्य कार्यकारित्वमिष्यते ।।' इति।
भेदेन नेत्यर्थः । अत इदं नोदाहृतमिति भावः । ननु पूर्वोदाहरणेऽपि शबलिततमत आह-नहीति। ननु रामस्य कुतो नापराधोऽत आह-स्वभावो हीति। अप्र- स्तुतप्रशंसैवात्रेति मतं निराचष्टे-अत्राप्रेति। तेषां च अवान्तरवाक्यध्वनीनां च। अस्य अपस्मारस्य। विशेपेति। अपस्मारत्वेनेत्यर्थः। बीभत्सेत्याद्युक्तिखार स्यमाह- विप्रेति। अस्यापि च अपस्मारस्यापि। अङ्गत्वमित्यस्यानुषङ्गः । कम्पमान: श्वस- त्निति। श्वासजन्यकम्पवानित्यर्थः । च मत्सर इति। मत्सरश्वेत्यर्थः । अहितेति ।
Page 112
९७
उदाहरणम्- 'अहितव्रत पापात्मन्मैवं मे दर्शयाननम्। आत्मानं हन्तुमिच्छामि येन त्वमसि भावितः ॥।' एषा भगवदनुरक्तिविघटनोपायमपश्यतः प्रह्लादं प्रति हिरण्यकशिपो- रुक्तिः । भगवद्वेपोत्थापितः पुत्रद्वेषोऽत्र विभावः । आत्मवधेच्छा परुष- वचनं चानुभावः । न चामर्ष एवात्र व्यज्यत 'इति वाच्यम्। सदैव भगवदनुरागिणि प्रह्लादे हिरण्यकशिपोरमर्षस्य चिरकालसंभृतत्वेनात्मव- धेच्छाया इदंप्रथमतानुपपत्तेः । इदंप्रथमकार्यस्य चेदंप्रथमकारणप्रयोज्यतया प्राचीनचित्तवृत्तिविलक्षणाया एव चपलताख्यचित्तवृत्तेः सिद्धेः । न चा- मर्षप्रकर्ष एवात्मवधेच्छादिकारणमभिव्यज्यतामिति वाच्यम् । प्रकर्ष- स्यापि स्वाभाविकविलक्षणलक्षणताया आवश्यकतया तस्यैव चपलता- पदार्थत्वात्।
नादिभिः, उत्तमेषु त्ववज्ञादिभिर्जनिता विषयद्वेषाख्या रोदनदी- र्धश्वासदीनमुखतादिकारिणी चित्तवृत्तिर्निर्वेदः ॥ उदाहरणम्- 'यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति। अमुना जडजीवितेन मे जगता वा विफलेन कि फलम् ।' नित्यानित्यवस्तुविवेकजन्यत्वाभावान्नासौ रसव्यपदेशहेतुः । देवादि- विषया रतिर्यथा- 'भवद्वारि कुध्यज्जयविजयदण्डाहतिदल- त्किरीटास्ते कीटा इव विधिमहेन्द्रप्रभृतयः ।
न हितं व्रतं भगवदनुरक्तिरूपं यस्य तत्संवुद्धिः। अत एव पापात्मन्प्रह्राद। भावित इति। उत्पादित इत्यर्थः । अवज्ञादिभिरिति । आदिना विरहादयः । यदीति । भगवतो रामस्येयमुक्तिः । सा सीता। जडेति। अचेतनजीवितेनेत्यर्थः । विफलेन विरुद्वफलेन। नन्वत्र निर्वेदस्थायिकशान्तरसध्वनित्वमेवात आह-नित्येति। असौ निर्वेदः। भवदिति। विष्णुं प्रति भक्तोकिः । हे क्षपितमुर मुरजित्, जयविजयौ १०
Page 113
९८ काव्यमाला।
वितिष्ठन्ते युष्मन्नयनपरिपातोत्कलिकया वराका: के तत्र क्षपितमुर नाकाधिपतयः ।' अत्रापमानसह नभगव द्वारनिषेवणभगवत्कटाक्षपाताभिलाषादिभिर्रह्मादि- गता भगवदालम्बना रतिर्नाभिव्यज्यते। अपि तु भगवदैश्वर्यमवाञ्मनसगो- चर इति चेत्तथापि तादृशभगवदैश्वर्यवर्णनानुभावितया कविगतभगवदा- लम्वनरत्या ध्वनित्वमक्षतमेव । इदं वोदाहरणम्- 'न धनं न च राज्यसंपदं नहि विद्यामिदमेकमर्थये। मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥' अत्र धनाद्यपेक्षाशून्यस्य भगवद्दृगन्तपाताभिलाषो हि भगवत्यनुरक्तिं व्यनक्ति। एवं संक्षेपेण निरूपिता भावाः ।। अथ कथमस्य संख्यानियमः । मात्सर्योद्वेगदम्भेर्ष्याविवे कनिर्णयक्लैव्य- क्षमाकुतुकोत्कण्ठाविनयसंशयधार्थ्ादीनामपि तत्र तत्र लक्ष्येपु दर्श- नात् इति चेत्, न । उक्तेप्वेवैषामन्तर्भावेण संख्यान्तरानुपपत्तेः । अ- सूयातो मात्सर्यस्य, त्रासादुद्वेगस्य, अवहित्थाख्याद्भावाद्दम्भस्य, अमर्षा- दीर्ष्यायाः, मतेर्विवेकनिर्णययोः, दैन्याक्लैव्यस्य, धृतेः क्षमायाः, औत्सु- क्यात्कुतुकोत्कण्ठयोः, लज्जाया विनयस्य, तर्कात्संशयस्य, चापलाद्धा- श्र्यस्य च वस्तुतः सूक्ष्मे भेदेऽपि नान्तरीयकतया तदनतिरिक्तस्यैवाध्य- वसायात्। मुनिवचनानुपालनस्य संभव उच्छृङ्कलताया अनौचित्यात्। एपु च संचारिभावेषु मध्ये केचन केषांचन विभावा अनुभावाश्च भवन्ति। तथा हि-ईर्प्याया निर्वेदं प्रति विभावत्वम्, असूयां प्रति चानुभावत्वम्। चिन्ताया निद्रां प्रति विभावत्वम्, औत्सुक्यं प्रति चानुभावतेत्यादि सयमूह्यम्।
द्वारपालौ। ते अनिर्वचनीयप्रभावास्ते भवद्वारि भवन्रेत्रपातोत्कण्ठया कीटा इव विति- प्न्त इत्यन्वयः । वराका दीनाः। नाभिव्यज्यत इति। धनादयभिलाषेणापि तदुपपत्ते. रिति भावः। इतीत्यस्याभिव्यज्यत इत्यत्रानुषङ्ञः । चेतु यद्यपि। नन्वस्या अप्राधान्येन कथं तत्त्वमत आह-इदं वेति। अस्य भावस्य। अन्तर्भावे हेतुमाह-असूयात इति। ननु सूक्ष्मभेदप्रयुक्त्भेद: कुतो नात आह-मुनीति। संचारीति षघ्यर्थे
Page 114
रसगक्काघरः । ९९
अथ रसाभास :- तत्र अनुचितविभावालम्बनत्वं रसाभासत्वम् ॥ विभावादावनौचित्यं पुनर्लोकानां व्यवहारतो विज्ञेयम्। यत्र तेषाम- युक्तमिति धीरिति केचिदाहुः । तदपरे न क्षमन्ते। मुनिपत्यादिविषयक- रत्यादेः संग्रहेऽपि बहुनायकविषयाया अनुभयनिष्ठायाश्च रतेरसंग्रहात्। तत्र विभावगतस्यानौचित्यस्याभावात्। तस्मादनौचित्येन रत्यादिर्विशेष- णीयः । इत्थं चानुचितविभावालम्बनाया बहुनायकविषयाया अनुभयनिष्ठा- याश्र संग्रह इति। अनौचित्यं च प्राग्वदेव। तत्र रसाद्याभासत्वं रसत्वा- दिना न समानाधिकरणम्। निर्मलस्यैव रसादित्वात् । 'हेत्वाभासत्वमिव हेतुत्वेन' इत्येके। 'नह्यनुचितत्वेनात्महानिः, अपि तु सदोषत्वादाभास- व्यवहारः । अश्वाभासादिव्यवहारवत्' इत्यपरे। उदाहरणम्- 'शतेनोपायानां कथमपि गतः सौधशिखरं सुधाफेनस्वच्छे रहसि शयितां पुष्पशयने। विबोध्य क्षामाङ्गीं चकितनयनां स्मेरवदनां सनिःश्वासं श्रिप्यत्यहह सुकृती राजरमणीम् ।' अत्रालम्बनमनुचितप्रणया राजरमणी। रहोरजन्याद्युद्दीपनम्। साह- सेन राजान्तःपुरे गमनम्, प्राणेषूपेक्षा, निःश्वासाश्लेषादयश्चानुभावाः। शङ्का- दयः संचारिणः। निपिद्धालम्वनकत्वाच्चास्या रतेराभासत्वं रसस्य। न सप्तमी। तत्र निरूपणीये रसाभासे। यत्र विभावादौ। तेषां लोकानाम्। आदिना गुरुपत्न्यादिसंग्रहः । तत्र तयोः । तस्मादिति। तथा चानुचितविभावालम्बनकरतितं तत्त्वं ज्ञेयम् । आदिना हासादिपरिग्रहः। इत्थं च तथाविशेषणे च। इतिरपरमतसमाप्तौ। चस्लर्थे। तत्र रसाभासेषु। आदिना भावपरिग्रहः । निर्मलस्य निर्दुष्टस्य। हेतुत्वेने- त्यस्य न समानाधिकरणमित्यस्यानुषङ्गः। नन्वत्र मते दुष्टो हेतुरितिवद्दुष्टो रस इत्या- दिव्यवहारानुपपत्तिरतो मतान्तरमाह-नहीति । आत्महानिः स्रूपहानिः। अ- श्वाभासेति। अश्वेइति भावः । सौधेति। सुधानिर्मितराजगृहोपरितनप्रदेशमित्यर्थः। फेनस्यात्यन्तस्वच्छलादुचिः। पुष्पशयने पुष्पशध्यायाम्। अहहेति शङ्गायाम्। अनु- चितेति। अनुचितः प्रणयो यस्यामित्यर्थः। यस्या इति वा। इदमाद्योदाहरणमित्याह- निषिद्धेति । अस्या नायकनिश्याः परेत्यस्य विवोव्येति। बोधितेत्यादिः ।
Page 115
१०० काव्यमाला।
चात्र चकितनयनामित्यनेन परपुरुषस्पर्शत्रासाभिव्यक्त्या रतेरनुभयनिष्ठते- त्याभासताहेतुर्वाच्यः । अस्याश्च चिराय तस्मिन्नासक्ताया अन्तःपुरे परपु- रुषागमनस्यात्यन्तमसंभावनया क एष मां बोधयतीत्यादावुचित एव त्रासः । अनन्तरं च परिचयाभिव्यक्त्या सोडयं मत्प्रियो मदर्थ प्राणानपि तृणीकृत्या- गत इति ज्ञानादुत्पन्नं हर्षमभिव्यञ्जयत्स्मेरवदनामिति विशेषणं रति तदीया- मपि व्यनक्ति। परं तु प्राधान्यं नायकनिष्ठाया एव रतेः। सकलवाक्यारथत्वात्। यथा वा- 'भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेषु। तरुणेषु विलोचनाजमालामथ बाला पथि पातयांबभूव ।।' अत्र कुतश्चिदागच्छन्त्याः पथि तदीयरूपयौवनगृहीतमानसैर्युवभिरनु- गम्यमानायाः कस्याश्चिद्धवनप्रवेशसमये निजसेवासार्थक्यविज्ञानाय गमना- ज्ञापनरूपलाभलालसेषु तेषु परमपरिश्रमस्मरणसंजातकरुणाया गमनाज्ञादा- ननिवेदकस्य विलोचनाम्वुजमालापरिक्षेपस्यानुभावस्य वर्णनादभिव्यज्य- माना रतिर्बहुवचनेन बहुविषया गम्यत इति। भवत्ययमपि रसाभासः । यथा वा- 'भुजपञ्जरे गृहीता नवपरिणीता वरेण वधूः । तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ।।' अत्र रतेर्नववध्वा मनागप्यस्पर्शादनुभयनिष्ठत्वेनाभासत्वम्। तथा चोक्तम्- 'उपनायकसंस्थायां मुनिगुरुपलीगतायां च। बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् ।।' इति।
स्पर्शेति। स्पर्शकृतत्रासेत्वर्थः। अनुभयेति। नायके सत्त्वेऽपि नायिकायामभावादिति भावः । हेतुरिति। तथा च तृतीयोद।हरणमेतन्नाद्स्येति भावः। समाधत्ते-अ- स्याश्चेति। चो यत इत्यर्थ। व्यनक्तीत्यत्रास्यान्वयः । रतिमिति। नायिकासंबन्धिनीं रतिमपीत्यर्थः । हषसमुच्ायकोऽपिः। नन्वेवं विनिगमनाविरहोऽत आह-परं त्विति। नायिकानिष्टा तु स्मेरेति पदमात्रव्यङ्गयत्वान्न वाक्यार्थः । तथा चाद्योदाहरणतास्य सुस्थेति भावः । द्वितीयोदाहरणमाह-यथा वेति। भवनं खगहम्। विज्ञानाय तदङ्गीकाराय। तेषु तरुणेषु। करुणायामन्वयः । परमेत्यस्य तरुणसंवन्धीत्यादिः। बह्निति। तरुणेष्विति वह्नित्यर्थः । तृतीयोदाहरणमाह-यथा वेति। भुजेति रूपकम्। उपेति। आभासत्व-
Page 116
रसगङ्गाघरः । १०१
अत्र मुनिगुरुशब्दयोरुपलक्षणपरतया राजादेरपि अ्हणम्। अथात्र किं व्यङ्ग्यम्- 'व्यानम्राश्चलिताश्चैव स्फारिताः परमाकुलाः । पाण्डुपुत्रेषु पाञ्चाल्याः पतन्ति प्रथमा दृशः ॥' अत्र व्यानम्रतया धर्मात्मताप्रयोज्यं युधिष्ठिरे सभक्तित्वम्, चलिततया स्थूलाकारताप्रयोज्यं भीमसेने सत्रासत्वम्, स्फारिततया अलौकिकशौर्यश्र- वणप्रयोज्यमर्जुने सहर्षत्वम्, परमाकुलतया परमसौन्दर्यप्रयोज्यं नकुलसह- देवयोरौत्सुक्यं च व्यञ्जयन्तीभिर्दग्भिः पाञ्चाल्या बहुविषयाया रतेरभि- व्यञ्जनाद्रसाभास एवेति नव्याः । प्राश्चस्त्वपरिणेतृबहुनायकविषयत्वे रते- राभासते त्याहुः । तत्र शृङ्गाररस इव शरृङ्गाराभासोऽपि द्विविधः । संयोग- विप्रलम्भभेदात् । संयोगाभासस्त्वनुपदमेवोदाहृतः । विप्रलम्भाभासो यथा- 'व्यत्यस्तं लपति क्षणं क्षणमथो मौनं समालम्बते सर्वस्मिन्विदधाति कि च विषये दृष्टिं निरालम्बनाम्। श्वासं दीर्घमुरीकरोति न मनागङ्गेपु धत्ते धृतिं वैदेहीकमनीयताकवलितो हा हन्त लङ्केश्वरः ।' अत्र सीतालम्वनेयं लङ्केशगता विप्रलम्भरतिरनुभयनिष्ठतया जगद्गु- रुपत्नीविषयकतया चाभासतां गता, व्यत्यस्तं लपतीत्यादिभिरुक्तिभिर्व्य- ज्यमानैरुन्मादश्रममोहचिन्ताव्याधिभिस्तथैवाभासतां गतैः प्राधान्येन परि- पोप्यमाणा ध्वनिव्यपदेशहेतुः । एवं कलहशीलकुपुत्राद्यालम्बनतया वीत- मिति शेषः। प्रथमोदाहरणसंग्रहायाह-अत्रेति। अत्र वक्ष्यमाणोदाहरणे किं रसो वा तदाभासो वेत्यर्थः । स्फारिता विस्तृताः । प्रथमा इत्यनेन पूर्वे दर्शनाभावः सूचितः। सभक्तित्वमित्य।दिद्वितीयान्तानां व्यज्ञयन्तीभिरित्यनेनान्वयः । भास एवेत्यस्य व्यञ्ञ इति शेषः । एवेन रसव्यवच्छेदः। प्राश्चस्त्विति। अत्रारुचिवीजं तु रत्यनौचित्यस्या- परिणीते इवात्रापि सत्वम्। नहि लक्षणे तथा निवेशोऽस्तीति। तत्र रसाभासानां मध्ये। एकं क्षणमिति पूर्वान्वयि। अपरमुत्तरान्वयि। ननु सीतायास्तदभावेऽपि लक्केशे तत्सत्त्वमत आह-जगदिति। उक्तिभिरिति। यथाक्रममिति शेषः । तथैव जग- हुरुपन्नीविषयकतयैव। प्राधान्येनेति। तथा च न तद्भावाभासध्वनित्वमिति भावः । कलहशीलेति। अवीतरागादिविषयमिदम् । अत एवाह-वीतेति। कदयो
Page 117
१०२ काव्यमाला।
रागादिनिष्ठतया च वर्ण्यमानः शोकः, ब्रह्मविद्यानधिकारिचाण्डालादिग- तत्वेन च निर्वेदः, कदर्यकातरादिगतत्वेन पित्राद्यालम्वनत्वेन वा क्रोधो- त्साहौ, ऐन्द्रजालिकाद्यालम्वनत्वेन च विस्मयः, गुर्वाद्यालम्बनतया च हास:, महावीरगतत्वेन भयम्, यज्ञीयपशुवसासृड्मांसाद्यालम्वनतया वर्ण्य- माना जुगुप्सा च रसाभासाः । विस्तृतिभयाच्चामी नेहोदाहृताः सुधीभिरु- न्नेयाः । एवमेवानुचितविषया भावाभासाः । यथा- 'सर्वेडपि विस्मृतिपथं विषयाः प्रयाता विद्यापि खेदकलिता विमुखीत्रभूव। सा केवलं हरिणशावकलोचना मे नैवापयाति हृदयादधिदेवतेव ।।' गुरुकुले विद्याभ्याससमये तदीयकन्यालावण्यगृहीतमानसस्यान्यस्य वा कस्यचिदतिप्रतिषिद्धगमनां स्मरतो देशान्तरं गतस्येयमुक्तिः । अत्र च स्वात्मत्यागात्यागाभ्यां स्क्चन्दनादिपु विषयेषु चिरसेवितायां विद्यायां च कृतन्नत्वम्, अस्यां च लोकोत्तरत्वमभिव्यज्यमानं व्यतिरेकवपुःस्मृतिमेव पुष्णातीति सैव प्रधानम्। एवं च त्यागाभावगतं सार्वदिकत्वं व्यञ्जयन्त्य- धिदेवतोपमापि। एषा चानुचितविषयकत्वादनुभयनिष्ठत्वाच्च भावाभासः । यदि पुनरियं तत्परिणेतुरेवोक्तिस्तदा भावध्वनिरेव। अथ भावशान्ति :- भावस्य प्रागुक्तस्वरूपस्य शान्तिर्नाशः ।। स चोत्पत्त्यवच्छिन्न एव ग्राह्यः । तस्यैव सहृदयचमत्कारित्वात्। उदाहरणम्- 'मुञ्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय। इति तन्व्याः पतिवचनैरपायि नयनाब्कोणशोणरुचिः !' निन्धः। कातरो भीतः। एवमेव रसाभासवदेव। खेदकलिता खेदव्याप्ता। विनिगम- नाविरहादाह-अन्यस्येति। अत्र च स्वात्मत्यागेति विषय विद्योभयकर्तृकखत्यागेन विषयविद्ययोः कृतन्नत्म्, नायिकाकर्तृकरवीयात्यागेन चास्यां नायिकायां लोकोत्तरत्व- मित्यर्थः । एवं स्मृतिमेव पुष्यतीत्यर्थः । स च नाशश्वोत्पत्त्यवच्छिन्न एवोत्पत्तिकाला-
Page 118
रसगङ्गाघरः । १०३ इह तादृशप्रियवचनश्रवणं विभावः। नयनकोणगतशोणरुचेर्नाशः, तदभिव्यक्तः प्रसादो वानुभावः । उत्पत्तिकालावच्छिन्नो रोपनाशो व्यङ्यः । तथा- भावोदयो भावस्योत्पत्तिः ।। उदाहरणम्- 'वीक्ष्य वक्षसि विपक्षकामिनीहारलक्ष्म दयितस्य भामिनी। अंसदेशवलयीकृतां क्षणादाचकर्ष निजवाहुवल्लरीम् ।।' अत्रापि दयितवक्षोगतविपक्षकामिनीहारलक्ष्मदर्शनं विभावः । प्रियां- सदेशवलयीकृतनिजबाहुलताकर्षणमनुभावः । रोषादयो व्यङ्याः । य- दयपि भावशान्तौ भावान्तरोदयस्य, भावोदये वा पूर्व भावशान्तेरावश्य- कत्वान्नानयोर्विविक्तो व्यवहारस्य विषयः, तथापि द्वयोरेकत्र चमत्कार- विरहात्, चमत्काराधीनत्वाच्च व्यवहारस्य, अस्ति विषयविभागः । एवम्-
नाधिकरण्यम्।। भावसंधिरन्योन्यानभिभूतयोरन्योन्याभिभावनयोग्ययोः सामा-
उदाहरणम्- 'यौवनोद्गमनितान्तशक्किताः शीलशौर्यवलकान्तिलोभिताः । संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥' अत्र भगवद्दाशरथिगतस्य लोकोत्तरयौवनोद्गमस्य, तादृशस्यैव शील- शौर्यादेश् दर्शनं विभावः । नयनगतसंकोचविकासावनुभावः । त्रीडौ- त्सुक्ययो: संधिर्व्यन्रयः । भावशवलत्वं भावानां वाध्यवाधकभावमापन्नानामुदासीनानां वा तथा-
व्यामिश्रणम् । एकचमत्कृतिजनकज्ञानगोचरत्वमिति यावत्। वच्छिन्न एव। मुदिरालिर्मेधपककिः। नाशस्य साक्षात्तत्कार्यत्ाभावादाह-तदभीति। ननु ततः किमत आह-चमत्कारेति। एवं च यत्कृतो यत्र चमत्कारस्तत्र तद्य- वहार इति भावः। सामानाधिकरण्यमिति। एकदेशवृत्तितवविशिटटैककालवृत्तित- रूपमित्यर्थः । सूक्ष्मभेदस्तकिंचित्कर इति भावः। शवलतायां त्वेकदेशवृत्तितरूपमेव्र सामानाधिकरण्यमिति विशेषः । तादृशस्यैव लोकोत्तरस्यैव। एकेति। एकं यत्तादृशं
Page 119
१०४ काव्यमाला।
उदाहरणम्- 'पापं हन्त मया हतेन विहितं सीतापि यद्यापिता सा मामिन्दुमुखी बिना बत वने किं जीवितं धास्यति। आलोकेय कर्थं मुखानि कृतिनां किं ते वदिप्यन्ति मां राज्यं यातु रसातलं पुनरिदं न प्राणितुं कामये ।।'
भावजन्मनां शबलता। यत्तु काव्यप्रकाशटीकाकारैः 'उत्तरोत्तरेण भा- वेन पूर्वपूर्वभावोपमर्दः शबलता' इत्यभ्यधीयत, तन्न। 'पश्येत्कश्चिचल च- पल रे का त्वराहं कुमारी हस्तालम्वं वितर हहहा व्युत्कमः कासि यासि' इत्यत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यम त्यौत्सुक्यानामुपमर्दलेशशून्यत्वेऽपि शवलताया राजस्तुतिगुणत्वेन पञ्चमोल्लासे मूलकृतैव निरूपणात्। स्ोत्त- रविशेषगुणेन जायमानस्तु नाशो न व्यञ्ञयः । न वोपमर्दपदवाच्यः । नापि चमत्कारी। तस्मात् 'नारिकेलजलक्षीरसिताकदलमिश्रणे। विलक्षणो यथा सवादो भावानां संहतौ तथा ।।' अत्रेदं बोध्यम्-य एते भावशान्त्युद्यसंधिशबलताध्वनय उदाह- तास्तेऽपि भावध्वनय एव । विद्यमानतया चर्व्यमाणेप्विवोत्पत्त्यवच्छिन्न- त्वविनश्यद्वस्थत्वसंधीयमानत्वपरस्परसमानाधिकरणत्वैः प्रकारैश्चर्व्यमाणेषु भावेप्वेव प्राधान्यस्यौचित्यात्, चमत्कृतेस्तत्रैव विश्रान्तेः । यद्यप्युत्पत्ति-
ज्ञानं महावाक्यार्थबोधस्तद्विषयत्वमिल्वर्थः। पापमिति। अत्र पापमित्यनेन मतिः, हन्ते- त्यादिनासूया, सीतापीत्यादिना विषादः, सेलनेन स्मृतिः, मामित्यादिना वितर्कः, आलो- केयेत्यादिना व्रीडा, किं त इत्यादिना शङ्का, राज्यमित्यादिना निर्वेद:, इति बोध्यम्। पशयेत्कश्चिदिति शङ्का । चल चपल रे इत्यसूया । का त्वरेति धृतिः । अहं कुमारीति स्मृतिः । हस्तालम्वं वितरेति श्रमः । हृहहेति दैन्यम्। व्युत्कम इति दैन्यम्। क्वासीति मतिः। यासीत्यौत्सुक्यम्। औत्सुक्यानामिति । मध्ये पूर्वपूर्वस्योत्तरोत्तरेणेति शेषः। मूलकृतैव प्रकाशकृतैव। तत्त्वेऽप्याह-न वेति। तत्त्वेऽप्याह-नापीति। अत्र च सहृदयहृदयमेव प्रमाणमिति भावः । उपसंहरति-तस्मादिति। चूर्णिकेयम्। संहतौ मिश्रणे। भावशान्त्युदेति। भावसंवन्धिशान्त्यादीनां ध्वनय इत्यर्थः। स्थितौ
Page 120
रसगङ्गाधरः । १०५ विनाशसंधिशबलतानां तत्संबन्धिनां भावानां च समानायां चर्वणाविषय- तायां न प्राधान्यं विनिगन्तुं शक्यते। तथापि स्थितौ भावेषु प्रधानतायाः कृप्तत्वात्, भावशान्त्यादिप्वपि तेप्वेव शान्तिप्रतियोगित्वादिभिर्व्यज्यमा- नेषु तस्याः कल्पयितुमौचित्यात्। किं च यदि भावशान्त्यादौ भावो न प्रधानम्, कि तु तदुपसर्जनकशान्त्यादिरेवेत्यभ्युपेयते तदा व्यज्यमानभा- वेष्वभिहिततत्प्रशमादिषु काव्येषु भावप्रशमादिध्वनित्वं न स्यात् । तथाहि। 'उषसि प्रतिपक्षना यिकासदनादन्तिकमश्चति प्रिये। सुदृशो नयनाज्जकोणयोरुदियाय त्वरयारुणद्युतिः ।।' अत्रोत्पूर्वकेणैतिना भावोदयस्य वाच्यतयैव प्रत्यायनात्, उदयस्य वाच्यत्वेऽपि भावस्यावाच्यत्वाद्धनित्वं सुस्थमिति चेत्, प्रधानस्य व्यपदे- शानौपयिकत्वेSप्रधानकृतव्यपदेशानुपपत्तेः । अस्मन्मते तूत्पत्तेर्वाच्यत्वे- डप्युत्पत्त्यवच्छिन्नस्यामर्षस्य प्रधानस्यावाच्यत्वाद्युक्त एव भावोदयध्वनि- व्यपदेशः । एवं व्यज्यमानभावप्रतियोगिकस्य प्रशमस्य वाच्यत्वे भावशा- न्तिध्वनित्वं न स्यात् । यथा- 'क्षमापणैकपदयोः पदयोः पतति प्रिये। शेमुः सरोजनयनानयनारुणकान्तयः ।।' ननु शब्दवाच्यानां प्रशमादीनामरुणकान्त्यैवान्वयात्, अरुणकान्ति- प्रशमादेरेव वाच्यत्वं पर्यवसितम् । न तु तादृशप्रशमादिव्यञ्ञयस्य रोष- वाच्यीभूतप्रशमाद्यन्वय इति वाच्यम्। वाच्यव्यञ्ञयप्रतीत्योरानुपूर्व्येण सि- तद्विपये। तेष्वेव भावेष्वेव। तस्याः प्रधानतायाः । ननु तत्र तत्कृतश्चमत्कारः, अन्न त्वेतत्कृत इति वैषम्यमत आह-किं चेति। सामान्येनोक्तमर्थ विशिष्योपपादयति- तथा हीति। अश्वतीति सप्तमी। उत्पूर्वकेणैतिनेति । उदुपसर्गपूर्वकेणेण्धातुने- त्यर्थः। शङ्गते-उद्येति। अनौपथिकत्वेऽप्रधानेत्यत्राकारप्रश्लेषः। उदयस्थले दोषं दत्त्वा शान्तिस्थले तमाह-एवमिति। एकपदयोरसाधारणस्थानयोः । पततीति स- समी। उभयत्र शङ्कते-नन्विति। वाच्यान्वयेति। सकलपदानामिति शेषः।
Page 121
१०६ काव्यमाला।
द्धतया वाच्यान्वयबोधवेलायां वाच्यैः सह व्यञ्नयान्वयानुपपत्तेः । अ- न्यथा 'सुदृशो नयनाञ्जकोणयोः' इत्यस्यान्वयो न स्यात्। मैवम् । एवमपि- 'निर्वासयन्तीं धृतिमङ्गनानां शोभां हरेरेणदृशो धयन्त्याः । चिरापराधस्मृतिमांसलोऽपि रोषः क्षणप्राघुणिको वभूव ।।' इत्यादावपि भावप्रशमध्वनित्वापत्तेः । भावस्य वाच्यत्वेऽपि प्रधानस्य तत्प्रशमस्य व्यङ्गयत्वात् । उभयोरप्यवाच्यत्वमपेक्षितमिति चेत्, प्रागुक्त- पद्यद्वये शमत्वोदयत्वाभ्यां शमोदययोर्वाच्यत्वादनुदाहरणत्वापत्तेः । इष्टा- पत्तिस्तु सहृदयानामनुचितैव। तस्माद्भीवप्रशमादिप्वपि प्राधान्येन भावा- नामेव चमत्कारित्वम्, प्रशमादेस्तूपसर्जनत्वमतो न तस्य वाच्यतादोषः । इदं पुनर्भावध्वनिभ्यो भावशान्त्या दिध्वनीनां चमत्कारवैलक्षण्ये निदानम्- यदेकत्र चर्वणायां भावेषु स्थित्यवच्छिन्नामर्पादित्वम्, अमर्षादित्वमेव वा प्रकारः । अन्यत्र तु प्रशमावस्थत्वादिरपीति । रसस्य तु स्थायिमूलक- त्वात्प्रशमादेरसंभवः, संभवे वा न चमत्कारः, इति न स विचार्यते। सोडयं निगदितः सर्वोऽपि रत्यादिलक्षणो व्यञ्ञप्रपञ्चः । स्फुटे प्रकरणे झगिति प्रतीतेषु विभावानुभावव्यभिचारिपु सहृदयत- मेन प्रमात्रा सूक्ष्मेणैव समयेन प्रतीयत इति हेतुहेतुमतोः पौर्वापर्यक्रम-
वाच्यैः प्रशमादिभिः । व्यङ्गयान्वयेति। आरुण्यव्यङ्गयरोषान्वयेत्थः । अन्यथा तदजीकारे। न स्यात्। रोपोदये सुदृवत्वस्य वाधात्। तथा च रोषप्रशमादिध्वनित्वं सुस्थमिति भावः। निर्वासयन्तीं दूरीकुर्वतीम्। मांसलः पुष्टः। क्षणप्राघुणिकोऽतिथिः । शबकते-उभयोरपीति। एवमेव उक्तदोषद्वयाभावेऽषि । प्रधानाप्रधानयोरपीत्वर्थः । पद्यदूये 'उषसि-' 'क्षमाप-' इत्यत्रेत्यर्थः। सहृदयानामिति। अत्र शास्त्रे तेषामेव मुख्यप्रमाणत्वेनोरीकारादिति भावः । अषिर्भावस्थितिसमुचचायकः। नन्वेवं वैलक्षण्याना- पत्या भेदेनोक्तसंगत्यापत्तिरत आह-इदं पुनरिति । यदेकत्र शुद्धभाव्वनौ। - अन्यत्र भावशान्त्ादिध्वनौ। इतिर्निदानसमाप्तौ। ननु भावशान्त्यादिवद्रसशान्ल्ादिः कुतो नोदाहतोऽत आह-रसस्येति। असंभव इति। तत्वे स्थायित्ानुपपत्तेरिति भावः। नन्वभिव्यक्तिनाशादिरेव प्रशमादिरत आह-संभवे वेति। रत्यादिलक्षणो
Page 122
रसगक्गाधरः । १०७
स्यालक्षणादलक्ष्यक्रमो व्यपदिश्यते। यत्र तु विचारवेदं प्रकरणम्, उन्नेया वा विभावादयस्तत्र सामग्रीविलम्बाधीनं चमत्कृतेर्मान्थर्यमिति संलक्ष्य- क्मोऽप्येष भवति। यथा-'तल्पगतापि च सुतनुः' इति प्रागुदाहृते (१२ पृष्ठे) पद्ये 'संप्रति' इत्येतदर्थावगतिर्विलम्बेन। न खलु धर्मिग्राहक- मानसिद्धं रत्यादिध्वनेरलक्ष्यक्रमव्यन्गयत्वम् । अत एव लक्ष्यक्रमप्रसङ्गे- "एवंवादिनि देवर्षो पार्श्चे पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती ।। इत्यत्र कुमारीस्वाभाव्यादप्यधोमुखत्वविशिष्टस्य लीलाकमलपत्रगण- नस्योपपत्त्या मनाग्विलम्वेन नारदकृतविवाहादिप्रसङ्गविज्ञानोत्तरं त्रीडा- याश्चमत्करणाल्लक्ष्यक्रमोऽयं ध्वनिः" इति प्राहुरानन्दवर्धनाचार्याः । "रसभावादिरर्थो ध्वन्यमान एव, न वाच्यः । तथापि न सर्वो लक्ष्यक्र- मस्य विषयः" इति चाभिनवगुप्तपादाचार्याः । स्यादेतत्, यद्ययं रसादिः संलक्ष्यक्रमस्य विषयः स्यात् । अनुरणनभेदगणनप्रस्तावे "अर्थशक्ति- मूलस्य द्वादशभेदाः" इत्यभिनवगुप्तोक्तिः, "तेनायं द्वादशात्मकः" इति मम्मटोक्तिश् न संगच्छेत । वस्त्वलंकारात्मना द्विविधेन वाच्येन खतः- संभवित्वकविप्रौढोक्ति निष्पन्नत्व कविनिब द्धवक्तृपौढोक्तिनिप्पन्नत्वैस्त्रिभिरु- पाधिभिस्त्रैविध्यमापन्नेन पडात्मना वस्त्वलंकारयोरिव रसादेरप्यभिव्यञ्जना- दष्टादशत्वप्रसङ्गात्। अत्रोच्यते-प्रकटैर्विभावानुभावव्यभिचारिभिरलक्ष्यक्रमतयैव व्यज्य- मानो रत्यादि: स्थायिभावो रसीभवति। न संलक्ष्यक्रमतया। रसीभावो हि नाम झगिति जायमानालौकिकचमत्कारविषयस्थायित्वम् । संलक्ष्यत्रम- तया व्यज्यमानस्य रत्यादेस्तु वस्तुमात्रतैव, न रसादित्वमिति तेषामाश- रत्वादिस्वरूपः । समयेन कालेन। हेत्विति। विभावादिशत्याद्ैरित्यर्थः । प्रकरणस्य स्फुटत्वेऽप्याह-उन्नेया वेति। अत एव तन्मात्रताभावादेव। अस्योभयत्रान्वयः। देवर्ो नारदे। पितुर्हिमालयस्य। तथापि ध्वन्यमानतमात्रत्वेऽपि। अनुरणनभेदेति। ध्वनिभेदेत्यर्थः । तदेत्यादिः। रसीभवत्यरसो रसः संपद्यते। एवव्यवच्छेद्यमाह-न संलक्ष्येति। एवमश्रेऽपि। तेषामभिनवगुप्तादीनाम्। वर्णनेन। व्याख्याकारैरिति शेषः ।
Page 123
१०८ काव्यमाला।
यस्य वर्णनेन न तदुक्तीनां विरोघः । उपपत्तिस्त्वर्थेऽस्मिन्विचारणीया । रसभावादिरर्थ इत्यत्र रसादिशब्दो रत्यादिपरः । तदित्थं निरूपितस्यास्य रसादिध्वनिप्रपञ्चस्य पदवर्णरचनावाक्यप्रबन्धैः पदैकदेशैरवर्णात्मकै रागा- दिभिश्चाभिव्यक्तिमामनन्ति। तत्र वाक्यगतानां पदानां सर्वेषामपि स्वार्थो- पस्थितिद्वारा वाक्यार्थज्ञानोपायत्वे समानेऽपि कुर्वद्रूपतया चमत्कारायोग- व्यवच्छिन्नत्वेन कस्यचिदेव ध्वनिव्यपदेशहेतुत्वम् । यथा 'मन्दमाक्षिपति' (१२ पृष्ठे) इत्यत्र मन्दमित्यस्य। रचनावर्णानां तु पदवाक्यान्तर्गतत्वेन व्यञ्जकतावच्छेदककोटिप्रविष्टत्वमेव न तु व्यञ्जकत्वमिति यद्यपि सुवचम्, तथापि पदवाक्यविशिष्टरचनात्वेन, रचनाविशिष्टपदवाक्यत्वेन वा व्यञ्जक- त्वमिति विनिगमनाविरहेण घटादौ दण्डचक्रादेः कारणत्वस्येव प्रत्येक- मेव व्यञ्जकतायाः सिद्धिरिति पाञ्चः । वर्णरचनाविशेषाणां माधुर्यादिगुणाभिव्यञ्जकत्वमेव न रसाभिव्यञ्जक- त्वम्। गौरवान्मानाभावाच्च। नहि गुण्यभिव्यञ्जनं विना गुणाभिव्यञ्जकत्वं
उपपत्तिस्त्वर्थे इति। विभावादिप्रतीते रसप्रतीतेश्व विद्यमानस्य सूक्ष्मकालान्तरत- रपस्य क्रमस्य सहृदयेनाकलने तस्य विगलितवेद्यान्तरत्वानापत्त्या रसतभङ्गापत्तिः। वि- गलितवेद्यान्तरत्वं च सकलसहृदयानुभवसाक्षिकमिति तवापि संमतमिति तटुपपत्तिर्वोध्या। नव्यास्तु-वक्तवैशिष्ट्यप्रकरणदिज्ञानसहितस्यैव व्यक्षकत्वात्तत्सहित विभावादिज्ञानोत्तरं जायमानरसप्रतीतेविभावादिज्ञानापेक्षया विद्यमानक्रमालक्षणेन चालक्ष्यक्मत्वम्। तच् प्रकरणाद्विज्ञानविलम्बेन विभावादिज्ञानविलम्बेऽपि पूर्वोदाहरणेऽक्षतमेव। नहि विभा- वादिज्ञानस्य तज्जनकस्य च क्रममादायालक्ष्यकमत्वम्। अपि तु तज्न्यस्य। एतदेवा- भिप्रेल्य 'अर्थशक्तिमूलस्य द्वादशभेदाः' इत्यभिनवगुप्तोक्तिर्यतिकचिद्वाच्यार्थापेक्षया कमोऽपि गरृह्यत इत्यभिप्रेल्य लक्ष्यक्रमत्वोक्तिर्यथाकथंचित्नेया। नहि विभावादिप्रतीति- रहितयत्किचिद्वाच्यार्थमात्रप्रतीतौ विगलितवेद्यान्तरता सहृदयानुभवसाक्षिका। येन तत्क्मग्रहणेऽपि रसत्वहानिः स्यादित्याहुः। रसभावादिरर्थ इत्यत्रेति। अभिनव- गुप्तवाक्य इत्यर्थः । अन्यथा तदसंगतिः स्पष्टैवेति भावः । कस्यचिदेव पदस्य। यथेति। प्रतिपादितमधस्तात्। अभ्यर्हितत्ाद्रचनाशव्दस्य पूर्वनिपातः। कोटीति। रचनावि- शिष्टपदत्वादिना व्यञ्जकत्वमिति भावः । इति इत्यत्र। घटादाविति। दण्डविशिष्टच- कादेश्षकादिविशिष्टदण्डादेर्वा कारणत्वमित्यत्र विनिगमनाविरहेण यथा कारणतायाः प्रत्येकपर्याप्तिस्तथात्र व्यज्जकताया इति भावः । नव्यमतमाह-वर्णेति । मन्नीति।
Page 124
रसगङ्गाधरः । १०९ नास्तीत्यस्ति नियमः । इन्द्रियत्रये व्यभिचारात्। इत्थं च स्वस्वव्यञ्ज- कोपनीतानां गुणिनां गुणानामुदासीनानां च यथा परस्परोपक्लेषेणौदासी- न्येन वा तत्तत्प्रमितिगोचरता तथा रसानां तद्रुणानां चाभिव्यक्तिविषय- तेति तु नव्याः । उदाहरणं तु 'तां तमाल' इत्यादि प्रागुक्तमेव (६४ पृष्ठे) वाक्यस्य व्यञ्जकतायामपि 'आविर्भूता यदवधि' इत्यादि च (३४ पृष्ठे) । प्रबन्धस्य तु योगवासिष्ठरामायणे शान्तकरुणयोः, रत्नावल्यादीनि च शृङ्गारस्य व्यञ्ञकत्वान्निदर्शनानि प्रसिद्धानि। मन्निर्मिताश्च पञ्च लहर्यो भावस्य। पदैकदेशस्य च 'निखिलमिदं जगदण्डकं वहामि' (४२ पृष्ठे) इति करूपतद्धितो वीररसस्य प्रागेवोदाहृतः । एवं रागादिभिरपि व्यङ्गयत्वे सहृदयहृदयमेव प्रमाणम्। एवमेषां रसादीनां प्राधान्येन निरूपितान्यु- दाहरणानि। गुणीभावे तु वक्ष्यन्ते, नामानि च। तत्र प्राधान्य एवैषां रसादित्वम्। अन्यथा तु रत्यादित्वमेव । नामनि रसपदं तु रत्यादिपर- मित्येके। अस्त्येव रसादित्वं किं तु न ध्वनिव्यपदेशहेतुत्वमित्यपरे॥
सूरे: सूनुना पण्डितराजजगन्नाथेन निर्मिते रसगङ्गाधरे रसनिरूपणात्मकं पूर्वमाननम्।
भावस्य तद्यक्षय संवन्धिप्रवन्धादिरूपव्यज्ञकस्य। उदाहरणानीति शेपः । पदैकदेशस्य चेति। चस्तरथे। उदाहरणमिति शेपः । वीररसस्येत्यस्य व्यञ्क इति शेषः। रागा- दिभिरपीति। रसस्येति शेषः। वक्ष्यन्ते इत्यत्र उदाहरणानीत्यस्यानुषङ्गः, तस्य चाग्रे नामानीति। रसवदित्यत्रेत्यर्थः ॥
इति प्रथमाननप्रकाशः ।
Page 125
११० काव्यमाला।
द्वितीयमाननम्। अथ संलक्ष्यक्रमध्वनिर्निरूप्यते- स च तावद्विविधः, शब्दशक्तिमूलोऽर्थशक्तिमूलश्च । तत्राद्यो द्विविधः, व्यङ्गयस्य वस्तुत्वालंकारत्वाभ्यां द्वैविध्यात्। द्वितीयोऽपि वस्त्वलंकारा- त्मना लोकसिद्धेन तथाभूतेनैव प्रतिभामात्रनिर्वर्तितेन च व्यञ्जकेनार्थेन च- तुर्विधेन वस्त्वलंकारात्मनो द्विविधस्य व्यन्नयस्य प्रत्येकं व्यञ्जनादष्टमूर्तिः । प्रतिभानिर्वर्तितत्वाविशेषाच्च। कवितदुम्भितवक्तप्रौढोक्तिनिप्पन्नयोरर्थ- योर्न पृथग्भावेन गणनोचिता । उम्भितोम्भितादेरपि भेदान्तरप्रयोजकता- पत्तेः। न च तस्यापि कव्युम्भितत्वानपायात्तत््रयोज्यभेदान्तर्गतत्वमेवेति वाच्यम्। प्रथमोम्भितस्यापि लोकोत्तरवर्णनानिपुणत्वलक्षणकवित्वानपाया- त्पृथग्भेदप्रयोजकतानुपपत्तेः । एवं साकल्येन दशभेदोऽयम्। तत्र केचि- दाहु :- नानार्थस्य शब्दस्य सर्वेप्वर्थेषु संकेतग्रहस्य तुल्यत्वाच्छ्रुतमात्र एव तस्मिन्सकलानामर्थानामुपस्थितौ, शब्दस्यास्य कस्मिन्नर्थे तात्पर्यमिति संदेहे च सति, प्रकरणादिकं तात्पर्यनिर्णायकं पर्यालोचयतः पुरुषस्य सति तन्निर्णये, तदात्मकपदज्ञानजाया एकार्थमात्रविषयायाः पुनः पदार्थो- पस्थितेरनन्तरमन्वयबोध इति नये द्वितीयायाः पदार्थोपस्थितेः प्राथमिक्या इव न कुतो नानार्थगोचरतेति प्रकरणादिज्ञानस्य तदधीनतात्पर्यनिर्णयस्य वा पदार्थोपस्थितौ प्रतिवन्धकत्वं वाच्यम्। अन्यथा शाब्दवुद्धेरपि नाना- र्थविषयत्वापत्तिः । अत एवोक्तम्-'अनवच्छेदे विशेषस्मृतिहेतवः' इति। अनवच्छेदे तात्पर्यसंदेहे। विशेषस्मृतिरेकार्थमात्रविषया स्मृतिः ।
तथाभूतेनैवेति। वस्तवलंकारात्मनेत्वर्थः । अन्येषां भेदानां संग्रहायाह-प्रति- भेति। तदुम्भितेति। तन्निवद्धेत्यर्थः । तस्यापि उम्भितोम्भितस्यापि । प्रतिबन्धा समाधत्ते-प्रथमोम्भीति। पृथग्भेदेति। वृद्धोक्तिविषयाच्छिशूक्तिविषय इव कव्यु-
प्रतिनिधानसाध्यप्रतीतिकतया चमत्कारस्थगनान्नोम्भितोम्भितादेः पृथग्गणनेति तु नव्याः । साकल्येन मिलिखा। अयं संलक्ष्यक्रमध्वनिः । तन्निर्णये तात्पर्यनिर्णये। तदा- त्मकपदेति। तात्पर्यज्ञानात्मकपदेत्यर्थः । तस्य नष्टत्वादाह-तद्धीनेति। द्विती-
Page 126
रसगङ्गाघरः । १११
इत्थं च सुरभिमांसं भक्षयतीत्यादेर्वाक्याज्जायमाना द्वितीया प्रतीतिर्गवाद्यु- पस्थितेरभावात्कथं स्यादिति तदुपस्थित्यर्थ व्यञ्जनव्यापारोऽभ्युपेयः । अथै- कया शक्त्या प्राकरणिकार्थोपस्थितेरनन्तरं द्वितीयया शक्त्या द्वितीया- र्थोपस्थितिस्तथापि स्यादिति चेत्, न। स्यादेव, प्रकरणादिज्ञानस्य प्रति- बन्धकस्यानुपरमात्। अन्यथा प्राकरणिकार्थोपस्थितावेवाप्राकरणिकस्या- प्यर्थस्य विषयत्वं स्यात्। न च प्रकरणादिज्ञानस्य तादृशपद्जन्यार्थोप- स्थितिसामान्य एव प्रतिबन्धकत्वाद्यक्त्यापि कथमर्थान्तरोपस्थितिरिति शङ्यम्। धर्मिग्राहकमानेनाप्राकरणिकोपस्थापकतयैव तादृशव्यक्तेरुल्ला- सात्तदजन्योपस्थितिं प्रत्येव प्रकरणादिज्ञानस्य प्रतिबन्धकत्वकल्पनात् । व्यक्तिज्ञानस्योत्तेजकत्वकल्पनाद्वा। एतदेव सर्वमभिसंधायोक्तम्- 'अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगादयैरवा च्यार्थधीकृद्यापृतिरञ्जनम् ॥' यन्त्रणमपरार्थोपस्थापनप्रतिबन्ध इति। अपरे त्वाहुः-नानार्थशब्द- जशाब्दबुद्धौ तात्पर्यनिर्णयहेतुताया अवश्यकल्प्यत्वात्प्रथमं नानार्थशब्दा- दनेकार्थोपस्थानेऽपि प्रकरणादिभिस्तात्पर्यनिर्णयहेतुभिरुत्पादिते तस्मिन्यत्र तात्पर्यनिर्णयस्तस्यैवार्थस्यान्वयबुद्धिर्जायते, नान्यस्येति सरणावाश्रीयमा- णायां नैकमात्रगोचरस्मृत्यपेक्षा, नाप्यपरार्थोपस्थानप्रतिबन्धकत्वकल्पनम्।
येति। गवादिविषयेत्यर्थः । प्रतिबन्धकसत्त्वादिति भावः । तदाह-गवादीति। नानाशक्तिरिति मताभिप्रायेण शहते-अथेति। तथापि प्रतिबन्धकसत्त्वेऽपि। तस्य पूर्वशत्त्या पुनरनुपस्थितौ चारितार्थ्यात्। तथा च व्यज्नाव्यापारो निष्फल इति भावः। ज्ञानस्येत्युपलक्षणं तात्पर्येनिर्णयस्यापि । एवमग्रेऽपि। अनुपरमादनाशात्। सत्त्वादिति यावत्। शक्त्तेनानात्वे न मानम्, सत्त्वेऽपि वा तत्संकोच एवेति भावः । अन्यथा तत्सत्वेि। तदङ्गीकारे व्यज्ञनाज्गीकारेऽप्यनिर्वाह इति शङ्ते-न चेति। तादृशेति। द्वितीयेत्यर्थः । व्यक्त्यापि व्यज्ञनयापि। तादृशेति। अर्थान्तरोपस्थाप- केत्यर्थः। तद्जन्येति। व्यज्नाख्यवृत्त्यजन्येलर्थः। विनिगमनाविरहादाह-व्यक्ति- ज्ञानस्येति। बोधकताविशेषः शक्तिः, तद्विशेषो लक्षणा, तद्विशेष एव च व्यज्ञने- त्यालंकारिकसमयः । तज्ज्ञानं च शाब्दवोधे हेतुरित्यभिप्रायः। उक्कम् । काव्यप्रकाश- कृतेति भावः। प्रथमं तात्पर्यनिर्णयात्पूर्वम्। तस्मिस्तात्पर्यनिर्णये। इतिः पूर्वोक्तार्थ स्या-
Page 127
११२ काव्यमाला। एवं च प्रागुपदर्शितनानार्थस्थले प्रकरणादिज्ञानावीनात्तात्पर्यनिर्णया- त्प्राकरणिकार्थशान्दबुद्धौ जातायामतात्पर्यार्थविषयापि शान्दवुद्धिस्तस्मा- देव शब्दाज्जायमाना कस्य व्यापारस्य साध्यतामालम्बताम्, ऋते व्यञ्ञ- नात्। न च शक्तिसाध्या सेति वाच्यम्। तदधीनबोधं प्रति तात्पर्य- निर्णयस्य हेतुत्वात्। व्यक्त्यधीनवोधस्तु नावश्यं तात्पर्यज्ञानमपेक्षते। नन्वेकमात्रगोचरस्मृतेस्तच्छाव्दबुद्धावनपेक्षितत्वे 'विशेषस्मृतिहेतवः' इति प्राचां ग्रन्थः कथं संगच्छते। कथं वा प्रकरणादिज्ञानस्यापरार्थो- पस्थानप्रतिबन्धकत्वविरहे संयोगादैरनेकार्थस्य शब्दस्य वाचकताया नियन्त्रणोक्तिश्रेति चेत्, इत्थम्-स्मृतिशब्दस्य निश्चयपरतया वि- शेषस्मृतिशब्देन विशेषविषयस्तात्पर्यनिर्णयो गृह्यते । संयोगादयैर्वाचक- ताया नियन्त्रणं चैकार्थमात्रविषयकतात्पर्यनिर्णयजननद्वारा शाब्दबुद्य- नुकूलत्वम्। अवाच्यार्थोऽतात्पर्यार्थः । एवं च न अन्थासंग- तिरित्यपि वदन्ति। अथ प्राकरणिकार्थवोधानन्तरं तादृशपद- ज्ञानस्योपरमात्कथं व्यक्तिवादिनाप्यर्थान्तरवीः सूपपादेति चेत्। मैवम्। प्रथमार्थप्रतीतेर्व्यापारस्य सत्त्वाददोष इत्येके। अर्थप्रतीतौ शक्यतावच्छेदकस्येव पदस्यापि विशेषणतया भानात्प्राथमिकश- क्यार्थबोधस्यैव पदज्ञानत्वादित्यपरे । आवृत्त्या पदज्ञानं सुलभमित्यपि कश्चित्। तदित्थं नानार्थस्थलेऽनुरणनीयं व्यञ्ञनं शब्दशक्तिमूलम्। श- न्दस्य परिवृत्त्यसहत्वादिति ध्वनिकारानुयायिनो वर्णयन्ति। अन्ये त्वत्र प्रत्यवतिष्ठन्ते। यत्तावदुक्तमेकार्थमात्रविषया पदार्थोपस्थितिस्तदन्वयवो-
ग्रिमनिषेधद्वये हेतुत्वबोधकः । नावश्यमिति । न नियमेनेत्यर्थः । व्यङ्गयानेकस्थले वपेक्षवेति भावः। तात्पर्यज्ञानमपेक्षते इति। धर्मिग्राहकमानेन तस्यास्तथैव सिद्धे- रिति भावः । इतिरपरमतसमाप्तौ। उक्तिश्वेत्यस्य कथं संगच्छत इत्यत्रानुषङ्गः। इत्यपि वदन्तीति। अपरे इति भावः । तादृशेति । तात्पर्यज्ञानात्मकेत्वर्थः । सत्वादिति। तथा च तेन संवन्धेन तत्सत्त्वमिति भावः। पदस्यापीति। 'न सो- डस्ति प्रत्ययो लोके यः शव्दानुगमाहते। अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ॥' इति हर्युक्तेरिति भावः । परिवृत्तीति । पर्यायान्तरेण बोधनादिति भावः। अत्र मतदूये। तत्राद्यमते आह-यत्तावदिति। ननु तात्पर्यज्ञानस्य तत्रैवोपयोग इति
Page 128
रसगङ्गाघरः । ११३
धेडपेक्ष्यत इति तदसारम्। नानार्थादर्थद्वयोपस्थितावपि प्रकरणादिज्ञाना- धीनतात्पर्यज्ञानमहिम्नैव विवक्षितार्थशाब्दवोधोपपत्तेः, एकार्थमात्रोपस्थि- त्यपेक्षायां मानाभावात्। अपरारथोपस्थापकसामग्रयाः पदज्ञानस्य तत्वेन तदुपस्थितेरप्यौचित्याच्च। न च प्रकरणादिज्ञानं तदधीनतात्पर्यज्ञानं वा परार्थोपस्थाने प्रतिबन्धकमिति शक्यं वक्तुम्। संस्कारतदुद्वोधकयोः सत्त्वे स्मृते: प्रतिबन्धस्य क्वाप्यदष्टत्वात्। अत्रैव स्मृतावयं प्रतिबध्यप्रतिबन्ध- कभावः कल्प्यते, न स्मृत्यन्तरे इत्यप्यहृदयंगमम्। तादृशकल्पनाया नि- ष्फलत्वात्, अनुभवविरुद्धत्वाच्च। तथा हि नानार्थशक्तिविषयकदृढसंस्का- रशालिनां प्रकरणज्ञानवतामपि पयो रमणीयमित्यादेर्वाक्यात्प्रथममर्थद्वयो- पस्थितिरनुभवसिद्धा। अत एव पयो रमणीयमित्या दिवाक्यमकस्मादप्या- कर्णितवद्धि: प्रकरणाद्यभिज्ञैरप्रकरणज्ञाः पांसुरपादा वक्तुस्तात्पर्य बोध्यन्ते, नूनमस्य दुग्धे तात्पर्य शब्दस्य, न तु जल इति। यदि च प्रकरणादि- ज्ञानं नानार्थशब्दाज्ायमानामप्राकरणिकार्थोपस्थिति प्रतिवध्नीयात्तत्कथ- मेते तदानीमनुपस्थितजलाः प्रकरणज्ञा जलतात्पर्य निषेधेयुरित्यहृदयंगम एवायमप्राकरणिकार्थोपस्थापनप्रतिबन्धकभावः प्रकरणादिज्ञानस्य । यद- प्युच्यते प्रकरणादिज्ञानात्प्राकरणिकेऽर्थे तात्पर्यविषयतया निर्णीते तदी- यशाब्दवोधानन्तरमतात्पर्यविषयीभूतार्थबोधो जायमानो व्यञ्जनव्यापार- साध्य इति। तत्र किमयं नानार्थस्थले सर्वत्रैव व्यञ्जनोल्लासः, आहोस्वि- त्कचिदेवेति संमतम् । नाद्यः । प्राकरणिकाप्राकरणिकयोरर्थयोः शाब्द- बुद्धौ सर्वत्राभ्युपगम्यमानायां तात्पर्यज्ञानकारणतायाः कल्पनस्य नैरर्थ- क्यापत्तेः। न च शक्तिजबोधे सा कल्प्यते। व्यक्तिजवोधस्तु तात्पर्यज्ञानं विनापि भवतीति तत्स्थाने शक्तिजबोधवारणाय तत्कल्पनमिति वाच्यम्।
तदावश्यकलमत आह-अपरेति। तदुपस्थितेरपि अपरार्थोपस्थितेरपि। शङ्कते- अत्रैवेति। ननूपाय स्योपायान्तरादूषकत्वात्साप्युचितात आह-अनुभवेति। प्रक- रणेति। प्रकरणादीत्यथः । अपिना तदज्ञानिसमुच्चयः । अत एव तस्या अनुभवसि- द्वत्वादेव। विपक्षे वाधकमाह-यदि चेति। अनुपस्थितजला इति हेतुगर्भ विशेष- णम् । तदुपस्थितेरेवाभावादिति भावः । तत्स्थाने व्यक्तिजबोधस्थाने। तत्कल्पनं तात्पर्यक्षानकारणताकल्पनम्। कार्यकारणभावानङ्गीकारे नियमभज्गमाह-अन्यथेति।
Page 129
११४ काव्यमाला। अतात्पर्यार्थबोधस्य सार्वत्रिकत्वे तस्य शक्तिजतायामपि वाधकाभावात्। अथ नानार्थशब्दादर्थद्वयोपस्थितौ सत्यां प्रकरणादिना सत्येकस्मिन्नर्थे तात्पर्यनिर्णये तस्यैवार्थस्य प्रथमं शान्दबुद्धिर्जायते, नापरस्यार्थस्येति नियमरक्षणाय शक्तिजतदर्थशाब्दबुद्धौ तदर्थतात्पर्यज्ञानं हेतुरिप्यते । अन्यथा तात्पर्यविषयतया निर्णीतस्यार्थस्येवातथाभूतस्यापरस्याप्यर्थस्य प्रथमं शाब्दवी: स्यात्। अनन्तरं तु तात्पर्यविषयार्थबोधादतात्पर्यविषयार्थ विष- यापि शाब्दधीरिप्यत इति तज्जन्यतावच्छेदककोटौ शक्तिजत्वं निवेश्यत इति चेत्। मैवम्। 'सोऽव्यादिष्टभुजंगहारवलयस्त्वां सर्वदो माधवः' इत्यादौ श्रेषकाव्य इव प्रकृतेऽपि प्रकृताप्रकृतयोरर्थयोर्बोघस्य स्वीकारे वाधकाभावात्। न च दृष्टान्तेऽर्थद्वयेऽपि प्रकरणसाम्यात्तात्पर्यज्ञानमस्तीति युगपद्ूयोबोध उपपद्येत । दार्ष्टान्तिके त्वेकत्रैव प्रकरणादिवशात्तदिति न युगपदर्थद्वयबोधोपपत्तिरिति वाच्यम्। तात्पर्यज्ञानकारणताया एवासि- द्धत्वेन युगपदर्थद्वयबोधानुपपत्तिवाचोयुक्तेररमणीयत्वात्। तादृशज्ञानहेतु- तासिद्धौ तु शक्येतापीत्थ वक्तुम्। तर्हि तात्पर्यज्ञानस्य कुत्रोपयोग इति चेत्। अस्मिन्नर्थेडयं शब्दः प्रमाणमयमर्थः प्रमाणवेद्य इत्यादिनिर्णये प्रवृत्त्याद्युपयोगिनीति गृहाण । इत्थं च नानार्थस्थलेऽपि तात्पर्यधियः कारणतायां शिथिलीभवन्त्यामतात्पर्यार्थ विषयशान्दबुद्धिसंपादनाय व्यक्ति- स्वीकारोऽनुचित एव । शक्त्यैव वोधद्वयोपपत्तेः । नापि द्वितीयः । हेतो- रभावात्। व्यङ्यार्थविषयककवितात्पर्यज्ञानं तथेति चेत्। न। व्यक्ति- जबोधे तात्पर्यज्ञानकारणतायास्त्वयानभ्युपगमात्। यत्राश्कीलं दोषस्तत्रा- प्राकरणिकेऽर्थे सकलानुभवसिद्धे कवितात्पर्यस्य विरहात्तज्ज्ञानस्य तादृशबु- द्विहेतुताया व्यभिचारदूषितत्वाच्च। अथ श्रोतुः शक्तिविशेषो व्यक्तेरुल्ला- अतथाभूतस्यातात्पर्य विषयस्य। अनन्तरं त्विति। बोधादित्यग्रेऽन्वेति। युगपदिति शेषो वोधस्येत्यस्य बोध्यः । तत्तात्पर्यज्ञानम्। वाच इति । तद्रूपवाचोयुक्केरित्यर्थः । द्वितीय इति। नानार्थस्थले क्वचिदेव व्यजनोल्लास इतीत्यर्थः । शङ्कते-व्यङ्गयेति। तथा हेतुः। नन्वेवमपि फलबलात्स्वीक्रियतेऽत आह-यत्रेति। विरहादिति। दोष- प्रतिपादने तात्पर्यादिति भावः । तज्ज्ञानस्य कवितात्पर्यज्ञानस्य। तादृशेति। व्यक्तिजे- त्यर्थः । व्यभिचारेति। व्यतिरेकव्यभिचारेत्यर्थः । शक्तिविशेष इति। बुद्धिश-
Page 130
रसगङ्गाधरः । ११५
से हेतुः, स च फलवलाच्चमत्कारिण्येवार्थे व्यक्तिमुल्लासयति नाचमत्कारि- णीति सिद्धं व्यञ्जनोल्लासस्य क्वाचित्कत्वमिति चेत् । न । हन्तैवं स नियन्त्रि- तशक्तेरेवोल्लासकोऽस्त्विति कृतं नानार्थस्थले व्यक्तिकल्पनया। किं च 'उ- ल्लास्य कालकरवालमहाम्बुवाहम्' इत्यादि नानार्थव्यञ्जकस्थलेऽगृहीतद्विती- यार्थशक्तिकस्य गृहीतविस्मृतद्वितीयार्थशक्तिकस्य वा पुंसः सर्वथैव व्यञ्जनया द्वितीयार्थबोधानुदयात्तत्र तया तदापत्तिस्तव दुर्वारा। न च येन शब्देन योऽर्थो व्यज्यते तस्य शब्दस्य तदर्थगतशक्तिज्ञानं तदर्थव्यक्तेरुल्लासे हे- तुरिति वाच्यम्। 'निःशेषच्युत-' इत्यादौ रमणव्यक्त्यनापत्तेः । न- ह्यधमपदस्य कस्यचिद्रमणे शक्तिग्रहोऽस्ति । सति वा तस्मिस्तेनैवोप- पत्तौ व्यक्तिकल्पनवैयर्थ्यापत्तेश्च । न च नानार्थव्यञ्जनस्थल एवैवंजाती- यक: कार्यकारणभावः कल्प्यते। तत्र च शक्तेर्नियन्त्रितत्वेन तद्रहस्या- प्रयोजकतया व्यक्तिकल्पनौचित्यादिति वाच्यम्। नवीनकार्यकरणाभाव- कल्पने गौरवप्रसङ्गात्। नियन्त्रणस्य पूर्वमेव दूषितत्वेन तद्धेतोरेवेति न्यायावताराच्। अथास्त्वप्राकरणिकोऽप्यर्थः शक्तिवेद्य एवान्वयधीगोचरः, परंतु यत्र न वाधितः स्यात् । यत्र तु बाधितस्तत्र 'जैमिनीयमलं धत्ते रसनायामयं द्विजः' इत्यादौ जुगुप्सितोऽर्थः, वहिना सिञ्चतीत्यादौ वहि- करणकसेक इवाबोधोपहत एव स्यात्। बाधनिश्चयस्य तद्वत्ताज्ञानं प्रति प्रतिबन्धकतायाः सर्वजनसिद्धत्वात् । व्यक्तेस्तु बाधितार्थबोधकत्वं धर्मि- ग्राहकमानसिद्धमिति व्यक्तिवादिनामदोष इति। मैवम्। 'गामवतीर्णा सत्यं
किविशेष इत्यर्थः । सः शक्तिविशेषः । नियन्त्रितेत्यस्य प्रकरणादिनेत्यादिः । अभ्यु- पेल्याह-किं चेति। विनिगमनाविरहादाह-गृहीतेति । सर्वथैव सर्वप्रकारेणैव। सिद्धान्ते इत्यादिः। तयेति। व्यज्नयेत्यर्थः । तदापत्तिर्द्वितीयार्थवोधापत्तिः । एतद्दो- पोद्ाराय शह्कते-न चेति। रमणेति। नायककर्तृकरतीतयर्थः । सति वेति। नाय के तच्छक्तिग्रहसत्वादिति भावः । तेनैवेति। शक्तिग्रहेणैव बोधोपपत्तावित्यर्थः । एवंजातीयको येन शव्देनेत्याद्युक्तः । तथा च निःशेषेत्यादौ न दोष इति भावः । नन्व- न्यथानुपपत्त्या गौरवं सुसहमत आह-नियन्त्रणेति। तद्धेतोरिति। व्यक्त्युल्लास- हेतोस्तदर्थगतशककिज्ञानस्यैव तदर्थबोधजनकलमस्तु, किं व्यकत्युल्लासजनकत्वेनेत्यर्थः । अपिः प्राकरणिकार्थसमुच्चायकः । तत्रेत्यस्येत्यादावित्यनेनान्वयः। जैमीति। जैमि- निप्रोक्तं पूर्वमीमांसाशास्त्रं अलं परिपूर्ण धत्ते इतयेकोऽर्थः । जैमिनिप्रोक्शास्त्राध्येतृणां मलं विष्टां धत्ते इत्यपरोरऽर्थो निन्दितः । गामिति सौधानामिति च भिन्नपद्यार्थ।
Page 131
११६ काव्यमाला।
सरस्वतीयं पतञ्जलिव्याजात् ।', 'सौधानां नगरस्यास्य मिलन्त्यर्केण मौ- लयः ।' इत्यादौ वाच्यार्थान्वयवोधोपपादनायानुसरणीयेन यत्नेन नानार्थस्थ- लेऽपि वाधितार्थवोधस्योपपत्तिः स्यात् । अन्यथा प्रायशः सर्वेप्वप्यलंकारेपु वाच्यार्बोधोपपत्तये व्यञ्जनाङ्गीकरणीया स्यात्। तस्मान्नानार्थस्याप्राक- रणिकेऽथें व्यञ्जनेति प्राचां सिद्धान्तः शिथिल एव । प्राकरणिकाप्राकर- णिकयोरर्थयोरुपमायां तु सा कदाचित्स्यादपीत्यत्रास्माकं प्रतिभाति । एवमपि योगरूढिस्थले रूढिज्ञानेन योगापहरणस्य सकलतन्त्रसिद्धतया रूढ्यनधिकरणस्य योगार्थालिङ्गितस्यार्थान्तरस्य व्यक्तिं विना प्रतीतिर्दु- रुपपादा । यथा- 'अबलानां श्रियं हृत्वा वारिवाहैः सहानिशम् । तिष्ठन्ति चपला यत्र स काल: समुपस्थितः ॥' अत्राशक्तानां द्रव्यमपहृत्य जलवाहकैः पुरुषैः सह पुंश्चत्यो रमन्त इत्यर्थान्तरं न तावदबलावारिवाहचपलाशन्दैर्योगरूढ्या शक्यते बोधयि- तुम्। मेघत्वविद्युत्त्वाद्यघटितस्यैव तस्यार्थस्य प्रतीतेः । अन्यथा चमत्कारो न स्यात्। अत एव न योगशक्त्यापि केवलया। रूढ्यर्थासंवलितार्थबोध- कत्वस्य तस्या रूढिसमानाधिकरणाया असंगतेः । पुंश्चलीत्वादेः सर्वथैव तदविषयत्व्रात्। एवं यौगिकरूढिस्थलेऽपि बोध्यम्।
गामित्यस्य यत इत्यादि। यत्नेनेति। वाधज्ञानं शाव्दज्ञाने न प्रतिबन्धकम्। अयो- ग्यतानिश्चयश्च। एवं योग्यताज्ञानमपि न कारणम्। आहार्यो वा बोध इत्यादि यत्नो- डये मूल एव स्फुटः । अन्यथा तत्रैव यत्नानुसरणाभावे। सर्वेप्विति। गामितत्र व्याजोकिकिः। सौधानामित्यत्र संबन्धातिशयोक्तिः । एवमन्यत्रापि बोध्यम्। नानार्थस्य शब्दस्य। सा व्यञ्जना। तया चोपमा व्यक्रयेति भावः । स्यादपीत्यसंदिग्धे संदिग्धव- चने। वेदाः प्रमाणं यदीतिवत्। तादशद्वितीयार्थमादाय वाक्यार्थस्यासंबद्धार्थकत्वं मा भूदिति कल्प्यमानोपमाया अर्थापत्तिवेद्यत्वस्यापि संभव इत्यत उक्तं कदाचिदिति। अपहरणं वाधः। योगार्थेति। योगशक्तीत्यर्थः । अबलेति। विद्युतो मेघैः सह ना- यिकानां शोभामपहृत्य यत्र तिष्ठन्ति स काल: समागत इति वाच्यार्थः । तस्यार्थान्त- रस्य। अन्यथा तदप्रतीतौ। तदघटितस्यैव प्रतीताविति यावत्। अत एवेत्यस्यार्थमाह- रूढ्यर्थेति। तस्या इति। योगशकेरित्यर्थः । ननु फलवलात्तथा कल्प्यतेत आ-
Page 132
रसगङ्गाधरः ! ११७
यथा वा- 'चाश्चल्ययोगिनयनं तव जलजानां श्रियं हरतु । विपिनेऽतिचञ्चलानामपि च मृगाणां कथं हरति ।।' अत्र नैवाश्चर्यकारी चाश्चल्यगुणरहितानां कमलानां चाश्चल्यगुणाधि- केन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकृतु हरिणानां तद्गुणयु- क्तानां तस्याः स इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयोगम- र्यादया मूर्खपुत्राणामत एव प्रमत्तानां नेतृमिश्चोरादैः श्रियो धनस्य ह- रणं सुशकम्, न तु गवेषकाणामत एवाप्रमत्तानामिति जलजनयनमृगश- व्देभ्यः प्रतीयमानोऽर्थः कथं नाम व्यञ्जनाव्यापारं विनोपपादयितुं श- क्यते। अत एव पङ्कजादिपदेभ्यः पङ्कजनिकर्तृत्वेन कुमुदाद्युपस्थितिर्लक्ष- णयैवेति नैयायिका मन्यन्ते। अत एव च 'ईशानो भूतभव्यस्य स एवाद्य स उश्वः' इति वेदान्तवाक्ये किमैश्वर्यविशिष्टः कश्चिज्जीवोऽत्र प्रतिपा- द्यत उतेश्वर इति संशये जीव एवेति पूर्वपक्षे च 'शब्दादेव प्रमितः' इति सूत्रितमुत्तरमीमांसाकारैर्बादरायणचरणैः (ब्रह्मसूत्रे १।३।२४)। तस्मा- दर्थान्तरमिह न शक्तिवेद्यम्। अपि तु व्यक्तिवेद्यमेव। यथाश्रुतार्थस्यैवो- पपत्तेर्वोधाभावेन लक्ष्यमित्यपि न शक्यं वक्तुम्। तात्पर्यार्थबोधस्तु तदर्थ- ह-पुंश्चलीति। आदिना पुरुषत्रतितपरिग्रहः। योगरूढस्योदाहरणान्तरमाह- यथा वेति। तहुणेति। चाश्वल्यगुणाधिक्येत्यर्थः । तस्याः स इति। शोभाया- स्तिरस्कार इत्यर्थः। जलजनयनमृगेति । डलयोरैक्याज्डजलेन मूर्खपुत्राण- मित्यस्य, नयतीति नयनमित्यनेन नेतृलेन चौराधैरित्यस्य, मृगयन्तीति मृगा इत्यनेन गवेषकाणामित्यस्य लाभः । 'मृग अन्वेषणे' इतदन्ताचुरादेः पचादच्। अत एव योगशक्तया अलाभादेव। एवमग्रेऽवि। ईशान इत्यस्य 'अङ्ष्ठमात्रः पुरुषो ज्योतिरि- वाधूमकः' इत्यादिः। कठवलीस्थमिदम्। (चतुर्थवह्ी। १३) अद्य वर्तमानकाले स एवास्ति। श्रो भविष्यत्काले स एव भवितेत्यर्थः। जीव एवेति। 'अद्गुष्टपरिमाणस्य लिङ्गस्य ब्रह्मण्यसंभवादिति भावः । सूत्रितमिति। सिद्धान्तार्थमिति शेषः । स चे- त्थम्-परमात्मात्र प्रतिपाद्यः प्रमितः । कुतः । शब्दादेव। ईशानो भूतभव्यस्येत्यत्रे- शानशब्दात्। नहि जीवे ईशानशब्द आज्जसः । लिन्वश्ृत्योर्विरोधे श्रुतेः प्रावल्यात्। एतत्सूचनार्थमेवैवकारः। अद्ठष्ठमात्रत्वं तु अद्भष्टमात्रजीवानुवादेन व्रह्माभेदप्रतिपादना- दनुपपन्नमिति। ननु शत्त्यवेद्यत्वेऽप्यन्यत्र लक्षणावेद्यत्वमेवास्तामत आह-यथेति। तथा च मुख्यार्थबाधरूपलक्षणाबीजाभावान्न सेति भावः। नन्वेवं तथापि कथं निर्वा-
Page 133
११८ काव्यमाला।
बोधोत्तरं बोध्यः । स एव तु कथं स्यादित्युपायोऽयं विचिन्त्यते। नह्यप- हर्तृव्यवहारो वक्त्रा विवक्षित इति श्रोतुर्वोधे कश्चिदुपायोऽसिति। ऋते स- हृदयहृदयोन्मिषितादस्माद्यापारात्। एवमन्यत्राप्यूह्यम्। तादृशार्थप्रतिप- त्तिरेव नास्तीति तु गाढतरशब्दार्थव्युत्पत्तिमसृणीकृतान्तःकरणैर्न शक्यते वक्तुम् । तथा चेत्थं संग्रह :- 'योगरूढस्य शब्दस्य योगे रूढ्या नियन्त्रिते। धियं योगस्पृशोऽर्थस्य या सूते व्यञ्जनैव सा ।' एवं स्थिते नानार्थस्थलेऽप्युपमायाः प्राकरणिकाप्राकरणिकार्थगतायाः प्रतिपत्तयेऽवश्यं वाच्यया व्यञ्जनयैवाप्राकरणिकस्याप्यर्थस्य प्रतिपत्तावलं क्िष्टकल्पनयेत्याशयेन प्राचीनैरुक्तं नानार्थव्यञ्जकत्वमपि न दुप्यति। तत्र नानार्थशक्तिनियमनाय तैः संयोगादयो निरूपिताः- 'संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधि: ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' इति। तत्र संयोगो नानार्थशब्दशक्यान्तरवृत्तितया अप्रसिद्धत्वे सति तच्छ- क्यवृत्तितया प्रसिद्ध: संबन्ध: ॥ यथा-'सशङ्कचक्रो हरिः' इत्यत्र शङ्गचक्र्योः संयोगो भगवन्मात्र- निष्ठतया प्रसिद्धो भगवति हरिशब्दस्याभिधाया नियमेनावस्थापकः । न त्वायुधत्वेनायुधसामान्यसंयोग:, पाशाङ्कुशादिसंयोगो वा। दलद्वया- होऽत आह-तात्पर्यार्थेति। ननु यत्र तद्वाक्येन तदर्थान्वयवोधात्प्राकप्रकारान्तरेण तदर्थे वक्तुस्तात्पर्यत्रहस्तत्रास्तु नाम 'काकेभ्यो दधि रक्ष्यताम्' इत्यादौ तात्पर्यानुप- पत्या लक्षणा, प्रकृते तु न तथेत्याह-नह्यपहर्तृव्यवहार इति। अस्माद्यञ्जनरूपात्। तादृशेति। अन्येत्यर्थः । अवश्यं वाच्ययेति। अर्थापत्तेः प्रमाणान्तरत्वे मानाभावा- दिति भावः । क्विष्टेति। पूर्वोक्तेत्यर्थः । तत्र निरूपितायां व्यज्नायाम्। तैः प्राचीनैः। तत्र संयोगादीनां मध्ये। मात्रपदेन विशेषणदलसत्ता सूचिता। भगवति विष्णौ।
Page 134
रसगङ्गाघरः । ११९
भावात्। न चासौ लिङ्गान्तर्गत इति मन्तव्यम्। शक्यान्तरे नियमेनावृ- त्तेरेव प्रकृते लिङ्गत्वात्। शङ्गचक्र्योस्त्विन्द्रादिनापि कदाचिद्धारण- संभवात्। विप्रयोगो विश्लेषः ।। यथा-'अशङ्गचक्रो हरिः' इत्यत्र तयोरेव विश्लेषस्तथा। अत्र हि विल्लेषनियतपूर्ववर्तिनः संक्लेषस्य प्रागुक्तदलद्वयाक्रान्तत्वमपेक्ष्यते। तेना- युधसामान्यविभागः, पाशाङ्कशादिविभागो वा न तथा। यद्यप्यत्र गु- णतया वर्तमानस्तादृशसंयोग एवाभिधानियमनायालम्, तथापि गुणप्रधा- नयोः संनिपाते प्रधानानुरोध एव न्याय्य इत्याशयेन विप्रयोगस्य निया- मकत्वमुक्तम्। यद्वा संयोगस्यैव केवलत्वेन, विश्लेषगुणीभूतत्वेन च द्वैवि- ध्यप्रदर्शनाय तथोक्तम्। साहचर्यमेकस्मिन्कार्ये परस्परापेक्षित्वम्।॥ यथा-'रामलक्ष्मणौ' इत्यत्र रामे लक्ष्मणसाहचर्य रामशब्दस्य। अथ किमिदं परस्परापेक्षित्वं यत्किंचित्कार्ये, सर्वेषु कार्येषु वा। नाद्यः। घटा. द्यव्यावर्तनाद्टसाह चर्यस्यापि रामपदशक्तिनियामकतापत्तेः । न द्वितीयः । लक्ष्मणसाहचर्यस्यापि निवारणापत्तेः । पक्षद्वयेऽपि रामायोध्ये रघुरामा- वित्यत्रानियमापच्ेश्च। न च नानार्थपदसमभिव्याहृतपदान्तरार्थस्य प्रसिद्ध: संबन्धस्तत् । स चैकजन्यत्वदांपत्यजन्यजनकभावस्वामिभृत्यभावस्वस्वामि- भावादिरनेकविधः । तेन रामलक्ष्मणौ, सीतारामौ, रामदशरथौ, रामहनू-
क्रमेण दलद्वयकृत्यमाह-न त्वायुधेति। असौ संयोगः। लिन्गत्वात्तत्वेन ग्रहणात्। तथा च विशेषणदले नियमेनेति पूरणीयमिति भावः । तयोरेव शह्कचक्रयोरेव। तथा अभिधानियामकः। एवमग्रेऽपि। अतिप्रसङ्गवारणायाह-अन्रेति। तेन संश्लेपपूर्वकस्यैव तस्य ग्रहणमिति नातिप्रसङ्गः । प्राग्वत्तत्कृत्यमाह-तेनेति। गुणतया प्रकारतया। ता दृशेति। दलद्वयाक्रान्तेत्यर्थः । अलं समर्थः । विश्लेषस्य नियामकत्वकल्पनजगौरवा- दाह-यद्वेति। केवलत्वेन शुद्धसंयोगत्वेन। रामशब्दस्य राघवेऽभिधानियामकमति शेषः। निवारणेति। सर्वकार्ये तदभावादिति भावः । पक्षद्वयेऽपीति । कार्यमात्रे तयोस्तदभावात्। अद्येऽसंभवात्, अन्त्ये तदा रघोरसत्त्वादिति भावः । प्रसिद्ध इति। नानार्थपदार्थे इति शेषः । तत्साहचर्यम्। उक्तसंवन्धानां क्रमेणोदाहरणान्याह-ते-
Page 135
१२० काव्यमाला।
मन्तौ, रामायोध्ये, इत्यादौ साहचर्यनियामकमिति वाच्यम्। लक्ष्मणा- दिसंबन्धापेक्षया चक्रादिसंबन्धस्याविशिष्टतया सशङ्कचक्र इत्यत्रापि सा- हचर्यस्यैव नियामकतापत्तेः। न च सशङ्गचक्र इत्यादौ यत्र संबन्धः संयोग- रूपस्तत्राद्यस्य, यत्र च संबन्धान्तरं तत्र तृतीयस्यावकाश इति वाच्यम्। संयोगस्यैव पृथक्वारे बीजाभावात्। न च यत्र संयोगः शब्दोपात्तस्तत्र स एव नियामकः, यत्र तु संबन्धिमात्रं न तु संबन्धस्तत्र साहचर्यम्, अत एव सशङ्गचक्र इति संयोगस्य, रामलक्ष्मणाविति च साहचर्यस्योदाहरणमिति वाच्यम्। सलक्ष्मणो रामो विलक्ष्मणो राम इत्यत्र संयोग विभागयोर्गुणयो- रप्रतीत्या साहचर्योदाहरणतायां प्रसक्तायां सशङ्गचक्र इत्यादेरपि तदुदा- हरणताया एवौचित्यादिति चेत्। उच्यते-संयोगशब्दस्य संबन्धसामा- न्यपरतया यत्र शब्दोपातं प्रसिद्धं संबन्धसामान्यं शक्तिनियामकं तदा- द्यस्य, यत्र तु द्वन्द्वादिगतः संबन्ध्येव केवलस्तथा तत्साहचर्यस्योदाहर- णमिति प्राचामाशयात्। इत्थं च सगाण्डिवोऽर्जुनः इति संयोगस्य, गाण्डिवार्जुनाविति साह चर्यस्योदाहरणम्। विरोधिता प्रसिद्धं वैरम्। सहानवस्थानं च ।। तत्राद्यस्य 'रामार्जुनौ' इत्युदाहरणं प्राश्चो वदन्ति। यत्त्वप्पय्यदी- क्षितो वृत्तिवार्तिके प्राचामुदाहरणं निराकुर्वन्नाह-'रामार्जुनपदयोर्वध्यघा- तकभावविरोधाद्भार्गवकार्तवीर्ययोरभिधा नियम्यत इत्येतदयुक्तम्। रामपद- स्वाभिधानियमने सति तद्विरोधप्रतिसंधानेनार्जुनपदस्य कार्तवीर्येडभिधानि- यमनम्, तस्मिंश्च सति तद्विरोधप्रतिसंधानेन रामपदस्येत्यन्योन्याश्रयापत्तेः । तस्मादन्यतरपदस्य व्यवस्थितार्थत्व एव स्मृततद्विरोधप्रतिसंधानान्नानार्थ-
नेति। यत्र सशङ्गचक इत्यादावित्यन्वयः । आद्यस्य संयोगस्य। यत्र च रामलक्ष्मणा- वित्यादौ। संवन्धान्तरमेकजनकजन्यत्वादिरूपम्। तृतीयस्य साहचर्यस्य। संबन्धिमात्रं शब्दोपात्तमित्यनुपज्यते। मात्रपदव्यवच्छेद्यमाह-न त्विति। गुणयोरप्रतीत्येति। असंभवादिति भावः। कि तु साहित्यतदभावयोः प्रतीत्येति शेषः । आद्यस्य संयोगस्य। संवन्ध्येवेति। द्वन्द्वादिघटकः केवलः संबन्ध्येव तथा प्रसिद्धः शब्दोपात्त इत्यर्थः । भावेति। भावरूपविरोधादित्यर्थः । तत्परशुरामेत्यर्थः । त्स्मिंश् सति कार्तवीर्येऽभिधा- नियमने सति। तत्कार्तवीर्येत्यर्थः । रामपदस्य परशुरामेऽभिधानियमनमिति शेषः । व्य- वस्थितेति। निश्चितेत्यर्थः । नियामकत्वस्येत्यस्योदाहरणमित्यत्रान्त्रयः। एवं स्थितेऽरपि
Page 136
रसगङ्काघरः । १२१
पदस्याभिधानियमनमिति रामरावणयोरित्युदाहरणं भवितुमर्हति' इति। तत्र तावद्रामरावणयोरिति व्यवस्थितार्थान्यतरपदक्तमुदाहरणं विरोधिताया नियामकत्वस्य न युक्तम्। रामलक्ष्मणयोरित्यत्रेवात्रापि साहचर्यस्यैव नियामकत्वात्। न च लक्ष्मणसाहचर्ये रामस्य प्रसिद्धम्, न तु रावणसाह- चर्यमिति वाच्यम्। प्रसिद्धतत्संबन्धकस्यैव तत्साहचर्यपदार्थत्वात्। पितृ- भ्रातृजायापत्यभृत्यनगरीणां संबन्धस्येव रिपोः संवन्धस्यापि लोकप्रसि- द्धत्वात्। एवं स्थितेऽपि विरोधितायाः पृथग्गणने मित्रत्वादेरपि तथागण- नापत्तेः । तस्मात्प्राचीनोदाहरणमिव त्वदुक्तमुदाहरणमप्यशुद्धमेव । 'अन्यतरपदस्य व्यवस्थितार्थत्व एव' इत्याद्यप्यसंगतमेव। हरिनागस्येत्या- दावुभयोरव्यवस्थितार्थत्वेऽप्येकवद्भावाभिव्यक्तेन विरोधेन धर्मिविशेषाविशे- षितेनापि युगपद्धर्मिविशेषद्वयेऽभिधाया नियन्तुं शक्यत्वात्। यदपि 'रामार्जुनगतिस्तयोरिति शब्दान्तरसंनिधेरुदाहरणम्' इति स एवाह। तद- प्यसत्। त्वया निरूपिते शब्दान्तरसंनिधेरुदाहरणे 'निषधं पश्य भूभृतम्', 'नागो दानेन राजते', इत्यत्र चाभिधाया नियतविषयतां विनान्वयस्यैवानुप- पत्त्या, प्रकृते च रामार्जुनगतिस्तयोरित्यत्रार्थान्तरविषयत्वेऽप्यन्वयानुप- पत्तेरभावान्महृति वैलक्षण्ये शब्दान्तरसंनिध्युदाहरणत्वायोगात्। एवमपि काव्यप्रकाशगतस्य रामार्जुनगतिस्तयोरिति विरोधितोदाहरणस्यासंगतिः स्थितैवेति चेत्। न। तयो: कयोश्चित्प्रसिद्धविरोधयो रामार्जुनगती रामार्जु- नसदृशी गतिराचरणमिति तदर्थवर्णने विरोधेन प्रस्ताववशात्त्रतीतेन युगपद्धार्गवकार्तवीर्ययो रामार्जुनशब्दाभिधाया नियमनस्योपपत्तेः ।न च साहचर्यस्य नियामकत्वसंभवेऽपि। तथा पृथक्। लदुक्तमप्पय्यदीक्षितोक्तम्। तत्सि- द्वान्तं खण्डयति-अन्यतरेति। हरीति। 'येषां च विरोधः शाश्वतिकः' इति समा- हारकवद्भावः । अत एवाह-एकवन्भावाभीति । स एवाप्पय्यदीक्षित एव। भूभृतमित्यत्रेति। निषधपदसांनिध्याद्धूभृत्पदस्य राजि, दानपदसांनिध्यान्नागपदस्य गजेऽभिधानियमनम्। अर्थान्तरविषयत्वेऽपीति। रामार्जुनवत्पराक्रमशालितमि- न्यायर्थान्तरम्। एवमपि दीक्षितोक्तसांगत्येऽपि। स्थितैवेति। दीक्षितोद्भावितान्यो- न्याश्रय स्यानुद्धारादिति भावः । तद्र्थेति। उदाहरणार्थेत्यर्थः । प्रस्तावः प्रकरणम्। युगपदिति। तथा च नान्योन्याश्रय इति भावः। नियमाधीति। तन्नियमाश्रयस्य १२
Page 137
१२२ काव्यमाला।
प्रकरणादविशेषः । विरोधस्य प्रक्रान्तत्वेऽपि भार्गवकार्तवीर्ययोः शक्ति- नियमाधिकरणयोरप्रक्रान्तत्वात् । सहानवस्थानलक्षणा विरोधिता तु छाया- तपावित्यादौ बोध्या। अर्थः प्रयोजनं चतुर्थ्याद्यभिधेयम्। यथा-'स्थाणुं भज भवच्छिदे' इत्यादौ भवच्छेदनादि स्थाणुपदस्य भवे। नन्वर्थस्य लिङ्गात्को भेदः । न च लिङ्गमनन्यसाधारणस्तद्धर्मः, अ- र्थस्तु तद्धजनादेः कार्यम्, न तु तद्गतो धर्म इति स्फुट एव भेद इति वा- च्यम् । भवच्छेद्जनकभजनकर्मत्वस्य काष्ठावृत्तिभवधर्मत्वादिति चेत्। अत्राहुः-उक्तस्य विशिष्टधर्मस्य शाब्दबोधोत्तरभाविमानसबोधविषय- त्वेन प्रकृतशाब्दबोधाविषयत्वाल्लिङ्गतो वैलक्षण्योपपत्तिरिति । लिङ्गं त्वेकप- दार्थ: कोपादिः। अनन्वित एव यः पदार्थान्तरेण प्रकृतशक्यधर्मतां शक्या- न्तरव्यावृत्ततां च भजते। उक्तधर्मस्तु न तथेत्यपि केचित् । प्रकरणं वक्तृश्रोतृवुद्धिस्थता । यथा-राजानं संबोध्य केनचिद्धृत्येनोक्ते 'सर्व जानाति देवः' इति वाक्ये देवपदस्य युप्मदर्थे। लिङ्गं नानार्थपदशक्यान्तरावृत्तिरेकशक्यगतः साक्षाच्छब्दवेद्यो धर्मः ॥ यथा-'कुपितो मकरध्वजः' इत्यत्र कोपो मकरध्वजपदस्य ।
प्रक्रान्तत्वे एव प्रकरणस्य नियामकत्वमिति भावः । द्वितीयविरोघितोदाहरणमाह-स- हेति। आदिना तुमुनादिपरिग्रहः । छेदनादीत्यस्य प्रयोजनमिति शेषः । भवे। अभि- धानियामकमिति शेपः । अत्र तच्छव्दाः शिवपराः । काष्ठावृत्तीत्यनेनानन्यसाधारणत्वं सूचितम्। उक्तस्य भवच्छेदजनकभजनकर्मत्स्य। शाब्देति। भवच्छेदफलकचैत्रा- भिन्नकर्तृकस्थाणुकर्मकभजनमत्यस्यैव शाव्दबोधतादिति भावः। प्राचीनाशयसूचकं म- तान्तरमाह-लिङ्गं त्विति। एकपदार्थ इत्यस्य विवरणं पदार्थान्तरेणानन्वित एवेति। एवं चासमस्ताखण्डैकपदार्थो लिङ्गमिति फलितम्। भवच्छेदनादिकं च भजनादिरूप- भिन्नपदार्थान्वितमेव भवधर्म इति भावः । कोपादिरिति। कुपितो मकरध्वज इ- त्यादौ। उक्तेति। भवच्छेदजनकभजनकर्मत्रूपस्तु भजनादिरूपभिन्नपदार्थान्वित एव भवधर्मो नानन्वित इत्यर्थः । अत्रारुचिः स्फुटीभविष्यत्यनुपदमेव। युष्मदर्थे। शक्ति-
Page 138
रसगङ्गाघरः । १२३
शब्दस्यान्यस्य संनिधिर्नानार्थपदैकार्थमात्रसंसर्ग्यर्थान्तरवाचक- पदसमभिव्याहारः।। यथा-'करेण राजते नागः' इत्यत्र करपदस्य नागपदमादाय, नाग- पदस्य च करपदमादाय शुण्डायां गजे च। न चात्रैकशब्दशक्तिनियमन- मपरशब्दशक्तिनियमोऽपेक्षते, येनान्योन्याश्रयः स्यात्। किं तु करनाग- शब्दयोरर्थान्तरग्रहणेऽन्वयानुपपत्त्या युगपदेव शक्तिर्नियम्यते। देवस्य पुरारातेरिति प्राचामुदाहरणे सुरत्वभूपत्वाभ्यां देवपदान्नगरारित्वासुरविशे- षारित्वाभ्यां पुरारातिपदाच्चोपस्थितेरुभयोरपि नानार्थत्वादर्थान्तरखीकारे- डप्यन्वयोपपत्तेश्च कथं शक्तेरनियम: स्यात्। न च पुरारातिपदं योगरूढम्। तथा च रूढेरयोगापहारितया शिवत्वेनैव तस्य बोधकत्वाद्देवपदशक्तिनियाम- कतेति वाच्यम्। पुरारातिपदस्य रूढौ मानाभावात्। अथ 'देवस्य त्रिपु- रारातेः' इति पाठस्तथापि पदान्तरोपस्थापितस्य त्रिपुरासुरवैरित्वस्य लि- ङतया लिङ्गोदाहरणत्वमेवास्य स्यात्। न तु शब्दान्तरसंनिध्युदाहरणत्व- मिति वदन्ति। तत्रैकपदार्थः कोपादिः पदार्थान्तरेणानन्वित एव यः प्र- कृतशक्यधर्मताम्, शक्यान्तरव्यावृत्ततां च भजते स लिङ्गपदेनात्रोक्त इति प्राचामाशये तु नोक्तदोषः । यत्तु 'शब्दस्याव्यभिचरितस्य संनिधिः सा- मानाधिकरण्यम्' इति काव्यप्रकाशटीकाकारैरुक्तम्। 'तत्तु करेण राजते नागः' इत्यादावव्यापनात्तन्नियामकान्तरस्य गवेषणे गौरवात्, 'कुपितो म- करध्वजः' इति तन्मूलोक्ते लिङ्गोदाहरणेऽतिव्यापनाच्चोपेक्ष्यम्। नियमनमिति शेषः । एवमग्रे सर्वत्र। न चेति। नहीत्यर्थः । अर्थान्तरेति। हस्तस- रपेत्य्थः । प्राचोक्तं खण्डयति-देवस्येत्यादि। वदन्तीत्यन्तेन। अर्थान्तरेति। भूप- नगरादिरूपेत्यथः । तस्य पुरारातिपदस्य। देवेति। पुरेत्यादिः। पदान्तरेति। त्रि- पुरारातेरितीत्यर्थः । अस्य देवस्य त्रिपुरारातेरित्यस्य । वदन्तीति सूचितामरुचि- माह-तत्रेति। 'देवस्य त्रिपुरारातेः' इति पाठे इत्यर्थः। प्रकृते च वैरित्वं त्रिपुरासुरा- न्वितमेव शक्यान्तरव्यावृत्तमतो न दोष इति भावः । वस्तुतस्तु त्रिपुरारातिपदस्य यो- गरूढत्वेन रूढ्यर्थान्वितत्रिपुरासुरवैरित्वस्य तत्पीड्यमानभूभृत्खपि सत्त्वेन शक्यान्तर- व्यावृत्तलाभावाच्च। एवं चैकपदार्थ इत्यस्य यथाश्रुतत्वमेवास्तिति बोध्यम्। नोक्तदोष
Page 139
१२४ काव्यमाला।
सामर्थ्य कारणता। यथा-'मधुना मत्तः कोकिलः' इत्यत्र कोकिलमदजनकता मधुश- व्दस्य वसन्ते। अत्र कोकिलमादने मधोरेव शक्तिर्न तु मधुनः । माद- कत्वं मधुन्यपीति न लिङ्गमिति वदन्ति। तत्र सामर्थ्य लिङ्गान्तर्गतमेव कुतो न स्यात्, इति शह्काया: कथमेतदुत्तरं संगच्छते। न च मादनसाम- थर्यस्य सुराधृत्तितया नासाधारणधर्मतारूपं लिङ्गत्वमिति वाच्यम्। माद- नसामर्थ्यस्य सुरावृत्तित्वेऽपि कोकिलमादनसमर्थस्य वसन्तासाधारण- तया लिङ्गस्य दुर्वारत्वात्। न च प्राणिमात्रमादनसामर्थ्यस्य मधुनः को- किलमादनसामर्थ्यमप्यस्तीति वाच्यम्। एवं सति सामर्थ्यस्य वाचकतानि- यामकत्वमसंगतं स्यात्। न तु मधुन इति खोक्तिविरोघश्च भवेत्। प्रसिद्धा- श्रये पुनर्लिङ्गत्वमप्रच्युतम्। शाब्दत्वाशाब्दत्वाभ्यामेकानेकपदार्थत्वांभ्यां वा विशेषस्तु स्यात् । औचिती योग्यता।। यथा-'पातु वो दयितामुखम्' इत्यत्र दयितामुखकर्तृकरक्षणकर्मत्वा- क्षिप्तकामार्तानां संबोध्यपुरुषाणां त्राणं हि तस्याः सांमुख्येनैव भवति। न तु मुखमात्रेण। वैमुख्ये तेन त्राणायोगात्। अतस्त्राणार्हत्वं वदनसांमु- रव्योभयप्रत्यायकस्य मुखशब्दस्य । देशो नगरादि:।। यथा-'भात्यत्र परमेश्वरः' इत्यादौ परमेश्वरादिशन्दस्य राजादौ। तस्य नगरादिसंबन्धतदभावयोः संभवेनाभावव्यावृत्त्यर्थमधिकरणकीर्तनस्य त्यायकस्य। गवेषणेऽन्वेषणे। तन्मूलोक्ते प्रकाशकारोक्ते। मधुनो मद्यस्य। वदन्तीति सू- चितामरुचिमाह-तत्रेति। मधुनेत्युदाहरणविषयभूतमित्यर्थः । मादने करणे ल्युद। वाचकतेति। शक्तीत्यर्थः । असाधारणतवाभावादिति भावः। इष्टापत्तावाह-न त्विति। अप्रच्युतमिति। कोकिलमादनसामर्थ्यस्य वसन्त एव प्रसिद्धेरिति भावः। शाब्दत्वाशाब्दत्वाभ्यामिति। मधुकरणकमदाश्रयः कोकिल इति हि तत्र बोधः शाब्दः । कुपितो मकरध्वज इत्यत्र तु कोपाश्रयाभिन्नः इत्येव तथेति भावः। एवं भेदस्य प्रागनुक्ततवात्तत्रापि कोपसाधनोल्लेखस्य सुवचलाच्चाह-एकानेकेति। आ- क्षिप्तति। विशेषरूपेण क्षिप्तेत्यर्थः। सांमुख्येन संमुखत्वेन। तेन मुखेन। तदुक्तीति।
Page 140
रसगङ्गाधरः । १२५
सार्थक्यात्। परमात्मनस्तु सर्वगस्य व्यावर्त्याभावात्तदुक्तिवैयर्थ्यापत्तेः । एवं 'वैकुण्ठे हरिर्वसति' इत्यत्रापि बोध्यम्। एकत्रार्थान्तरोपग्रहेऽधिकर- णोक्तिवैयर्थ्यम्, अपरत्र तु तदधिकरणत्वाप्रसिद्धिरिति विशेषः । कालो दिवसादि:।। 'चित्रभानुर्दिने भाति' इत्यादौ चित्रभान्वादिपदानां सूर्यादिषु। एवं 'चातुर्मास्ये हरिः शेते'। व्यक्ति: स्त्रीपुंनपुंसकलिङ्गानि॥ यथा-'मित्रो भाति', 'मित्रं भाति' इत्यत्र मित्रशब्दस्य पुंनपुंसके सुहृत्सूर्ययोः । एवं 'नभो भाति', 'नभा भाति' इत्यत्रापि। स्वर उदात्तादि:।। यथा-'इन्द्रशत्रुः' इत्यत्र समासान्तोदात्तत्वमिन्द्रशत्रुशब्दस्येन्द्रस्य शत्रौ। पूर्वपदप्रकृतिखरप्राप्तमाद्युदात्तत्वं तिविन्द्रशत्रुके। आदिना- भिनयादिपरिग्रहः । यथा-'एद्दहमेत्तत्थणिआ' इत्यादौ। इहार्थ- सामर्थ्यौचितीनामुदाहरणेषु चतुर्थ्याद्यैस्तृतीयादयैरर्थसामर्थ्येन च वो- ध्यमानकार्यकारणभाव एव नियामकः । न तु वस्त्वन्तरम् । बोधकवैचि- त्र्याच्च नियामकस्य वैचित्र्येणोक्ति: प्राचाम्। वस्तुतस्तु संयोगादीनामर्था- न्तरसाधारणत्वे नानार्थशव्दस्यार्थविशेषे शक्तेः संकोच एव न संभवति। नियामकानामसंकुचितत्वात्। अथ प्रसिद्धत्वादिना तेषामसाधारणता वुद्धिर्य-
अधिकरणोक्तीत्यर्थः । एकत्र आदे। अर्थान्तरेति। परमात्मवानरादीत्र्थः । आ- दिभ्यां रात्रिवह्यादिपरित्रहः। शेते इत्यत्येत्यन्नापि बोध्यमिति शेषः । पुंनपुंसके पुंन- पुंसकत्वे। सुहत्सूर्ययोरिति । सूर्यसुहृदोरिति क्रमो बोध्यः। पाठ एव वेत्थम्। नभाः श्रावणः । पद्हेति। 'एद्दहमेत्तत्यणिआ एद्दहमेत्तेहिं अच्छिवत्तेहिं। एद्दहमे- त्तावत्था एद्दहमेत्तेहिं दिअएहिं ॥' 'एतावन्मान्रस्तनिका एतावन्मात्रैरक्षिपत्रैः । एता- वन्मात्रावस्था एतावन्मात्रैर्दिवसैः ॥' [इति च्छाया ।] अर्थस्रामर्थ्येन अर्थयोग्यतया। यथासंख्यमन्वयः । वोधकवैचित्येऽपि पदार्थयोर्यः कार्यकारणभावस्तद्वोधकेत्यर्थः । नियामकस्य अर्थादेः। वैचित्र्येण भेदेन । प्राचामिति सूचितामरुचिमाह-वस्तुत- स्त्विति । साधारणत्वे सतीति शेषः। स्वारसिकत्वाभावादाह-यथाकथंचि- दिति। प्रागुक्तरीत्यार्थादीनामसंग्रहादाह-प्रायश इति। तेषामप्यन्तर्भावसंभवा-
Page 141
१२६ काव्यमाला।
थाकथंचिदुपपाद्यते, तदा प्रायशो लिङ्गभेद एव। एतेन तु सर्वथैव ततः स्वतत्र इति बोध्यम्। तत्र शन्दशक्तिमूलालंकारस्य ध्वनिर्यथा- 'करतलनिर्गलद विरलदानजलोल्लासितावनीवलयः । धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोडयम् ॥।' अत्र राजप्रकरणे करदानदसार्वभौमशब्दानां शक्तौ संकोचिताया- मपि तन्मूलकेन ध्वननेन प्रतीयमानस्यार्थान्तरस्याप्रस्तुतस्याभिधानं मा मृदिति प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कल्प्यत इत्युपमालंकारध्वनिः । अथ क्रिष्टविशेषणायां समासोक्तौ व्यङ्नयस्या- प्यप्रकृतव्यवहारस्य प्रकृतधर्मिण्यारोप्यमाणस्य प्रककृतोपस्कारकतया यथा गुणीभूतव्यञ्ञ्यत्वमेवमिहाप्युचितम् । न चोपमा प्रकृतार्थोपस्कारिका न भवतीति शक्यं वदितुम्। 'उल्लास्य कालकरवालमहाम्वुवाह्म्', 'भद्रात्मनो दुरधिरोहतनोः' इत्यादौ प्राचीनानां पद्ये 'करतल-' इत्यादि प्रागुदाहृत- पद्ये च व्यङ्ञयोपमया प्रकृतस्य राज्ञः प्रकर्षस्य सकलानुभवसिद्धत्वात्। अनुभवापलापे तु समासोक्तावप्यप्रकृतव्यवहारस्य प्रकृतोपस्कारकत्वं नेति सुवचत्वात्। ननु समासोक्तावत्र चास्ति विशेषः । यत्तत्र व्यवहा- रिणो नानार्थशब्दानुपस्थाप्यत्वम्, इह तु तदुपस्थाप्यत्वम्, इति चेत्, किं चातो नहि व्यवहारिणो नानार्थशब्दोपस्थाप्यतामात्रेणाप्रकृतधर्मिनिरू-
दाह-सर्वथैवेति। ततः लिङ्गात्। तत्र त्रयोदशभेदानां मध्ये। अलंकारस्येत्यस्यो- पमेत्यादिः । अविरलेति। संततेत्यर्थः । अवनीवलयः भूमण्डलः । धनदानामग्रे आदौ महिता पूजिता मूर्तिर्यस्य सः। अत्रेति। हस्तवितरणदातृजनभूपेष्विति भावः। तन्मू- लकेन शब्दशक्तिमूलकेन। अर्थान्तरेति । इन्द्रवृत्तान्तेत्यर्थः । षष्ट्चर्थे बहुत्रीहिद्वयम्। करतलमैरावतशुण्डागण्डस्थलम्। धनदः कुबेरः । अप्रस्तुतस्यासंव- द्वस्य। श्विष्टेति। 'अयमैन्द्रीमुखं पश्य' इत्यादौ। व्यवहारस्य मुखचुम्बनादिरूपस्य । आरोप्येति। अन्यथा असंवद्धाभिधानं स्यादिति भावः । इहापि करतलेत्यादावपि। तथा च मध्यमकाव्यत्वम्, नोत्तमकाव्यत्वमिति भावः । व्यञ्ञयोपमेति। व्यङ्गयरूपो- पमयेत्यर्थः । समासोक्तावपि उक्तरूपायाम् । अत्र च करतलेत्यादौ । एवमग्रेऽपि। व्यवहारिणो जारादेः । तदुपेति। सार्वभौमेति नानार्थपदोपेत्यर्थः । स्वभावसुन्द-
Page 142
रसगङ्गाधरः । १२७
पिताया उपमायाः प्रकृतधर्म्युपकारकत्वं वार्यते। येन गुणीभूतव्य- जथत्वं न स्यात्। न चात्रोपमादीनामलंकाराणां स्वभावतः सुन्दरत्वात्का- व्यप्रवृत्त्युद्देश्यतया च वस्तुमात्रे गुणीभावो न संभवति। यथा वस्तुमात्रे- णाभिव्यक्तानामलंकाराणाम् । तुल्यन्यायत्वात्। अप्रकृतव्यवहारस्य तु समासोक्त्यवयवस्य निरलंकारतया वस्तुन्युपस्कारकत्वं समासोक्ताव विरुद्ध- मिति वाच्यम्। एवमपि 'बाघेऽदढेऽन्यसाम्यात्किं दृढेऽन्यदपि वाध्य- ताम्' इति न्यायेनोक्तयुक्ते: शिथिलत्वात्, अपराङ्गताया दुरपह्ृवत्वात्। अथोच्यते-उपमानमुपमेयं साधारणो धर्म इति ह्युपमाशरीरघटकम्। न तु ततः पृथग्भूतम्। तैर्विना तस्या अनिप्पत्तेः । इत्थं चोपमेयस्य साद- श्यांशेनोपस्कारेऽप्युपमाया नापराङ्गत्वम्। उपमेयस्यापरत्वाभावात् । यथा समासोक्तावप्रकृतव्यवहारेण प्रकृतस्योपस्करणेऽपि न समासोक्तेर- पराङ्गत्वम् । प्रकृताप्रकृतघटितत्वात् । एवमिहापि स्यादिति। तथापि स- मासोक्तेरिवास्यापि प्रभेदस्य गुणीभूतव्यञ्ञयत्वापतेः, अस्यैव वा समासो-
रस्यापि शद्गारादेः क्वचिद्ुणभावदर्शनादाह-काव्यप्रवृत्त्युद्देश्यतया चेति । अ- न्यथा नानार्थशब्दघटितकाव्यकरणरूपकविप्रयासानर्थक्यापत्तिरिति भावः । वस्तुमात्रे प्रकृतार्थे। यथा वस्तुमात्रेति। 'वीररु्द्रभटान्टृ्टा जयलक्ष्मीसमावृतान्। रणे कर्थे- न्त्यरिवधूकेशांस्ते कण्टकिद्ठमाः ॥' इत्यादाविति भावः । तुल्येति। उक्तहेतोस्तुल्यत्वा- दित्यर्थः । अनलंकारत्वेऽवयवलवं हेतुः । अदढे इति च्छेदः। सादृश्यांशेन तद्रपोपमान्े- नोपमानेन। उक्त्मेवार्थ विशदयति-यथेति। गुणीभूतव्यक्गयत्वापत्तेरिति। अयं भाव :- विशिष्टस्योपमाशरीरत्वेऽपि उपमेयांशस्य न व्यक्ञयत्वम्। शक्लैव तहाभात्। एवं च तद्वूटकव्यज्ञयांशस्य तदघटकवाच्यादनतिशायित्वेन गुणीभूतव्यद्गयत्वं दुर्वार- मिति। अत्र वदन्ति-अलंकाराणामुद्दीपन विधया रसादयुपयोगित्वेनालम्बनोपेक्षयोद्दीपने- डधिकचमत्कारित्वस्य सर्वानुभवसिद्धतया करतलेतिपदवाच्यालम्वनविभावापेक्षयातिशा- यिलाद्धनितवमव्याहतमेव। रसाद्यपेक्षया गुणीभूतव्यङ्गयत्वं त्विष्टमेव। समासोक्तौ तु 'आगत्य संप्रति वियोगविसंप्रुलाग्गीम्' इति सखीशिक्षावाक्येSप्रकृतनायकवृत्तान्ताध्यारोपं विना तदनुपपत्तेर्गुणीभूतव्यज्ञयत्वं स्पष्टमेव। यत्र तु तस्यापि रसाद्युपस्कारकतया वा- च्यादतिशयितत्वं प्रागुक्तरीत्या तत्रास्तु नाम ध्वनितं तस्याः । न चैत्रमप्युपमाकृतोत्कर्प- मादायास्तु ध्वनितम्, अलंकारध्वनिररिति तु कथमिति वाच्यम्। अलंकारकृतोत्कर्षध्व- नावेवालंकारध्वनिरिति व्यवहारादिति विनिगमनाविरहात्। अस्यैव वेति। प्रभेदस्यैवे-
Page 143
१२८ काव्यमाला।
क्तेरपि ध्वनिव्यपदेश्यत्वापत्तेः । अन्यच्-केपे हि ऋ्लेषभित्तिकमभेदा- ध्यवसानं द्वयोरर्थयोरिति सकलालंकारिकनिबद्धम्, अनुभवसिद्धं च। तत्र नूलान्वेषणे विधीयमाने एकपदोपात्तत्वान्न शक्यते मूलमन्यन्निर्वक्तुम् । एकपदोपात्तो ह्यनेकोऽप्यर्थाडभिन्नतयैव भासते। इत्थं च 'उल्लास्य कालकरवाल-' इत्यादावप्येकपदोपात्ततया द्वयोरर्थयोरभेदाध्यवसानस्य युक्तत्वेनाभेदस्यैव व्यङ्गयत्वमुचितम्, नोपमायाः। क्लेषे द्वयोरर्थयोर्वाच्यत्वम्, एककालत्वं च । इह त्वेकस्य वाच्यत्वम्, अपरस्य व्यङ्गयत्वम्, भिन्नकालत्वं चेति। एतावन्मात्रेणैवैकपदोपात्तत्वप्रयुक्तमभेदाध्यवसानं न शक्यं त्यक्तुम्। व्यङ्ग्यताया भिन्नकालत्वस्य चाभेदप्रतिपत्ताववाधकत्वात्। एतेन 'रूपक- स्योपमाज्ञानाधीनज्ञानत्वेन प्रथमोपस्थिततया तस्या एव संबन्धत्वं कल्प्यम्' इति काव्यप्रकाशटीकाकारैरुक्तं नातीव श्रद्धेयमिति। प्रकृतमनुसरामः । एवमलंकारान्तरमपि शब्दशक्तिमूलानुरणनस्य विषयः। यथा यमुना- वर्णने-'रविकुलप्रीतिमावहन्ती नरविकुलप्रीतिमावहति। अवारितप्रवाहा सुवारितप्रवाहा।' इह नराणां वीनां च कुलस्य प्रीतिमावहतीति प्रक्ृ- तेडर्थे सिद्धे रविकुलप्रीति नावहतीति द्वितीयोऽप्रकृतोऽर्थः विरोधश्च। एव- मन्यत्रापि। यदि तु रविकुलप्रीतिमावहन्त्यपि न रविकुलप्रीतिमावहति। अवारितप्रवाहापि सुवारितप्रवाहा इत्यपिरन्तर्भाव्यते तदा विरोघांशस्या- पिनोक्तत्वाद्वितीयार्थस्य च तदाक्षिप्तत्वान्न ध्वनित्वम्। निपातानां द्योत- कतानयेऽपि स्फुटद्योतितस्य तदाक्षिप्तस्य च वाच्यकल्पत्वान्न तथात्वम् । त्यर्थः । प्राचोक्तमुपमालंकारध्वन्युदाहरणं खण्डयति-अन्यञ्चेति। किं चेत्यर्थः। इलेष- भित्तिकं तन्मूलकम्। विधीयमान इति। क्रियमाणा इत्यर्थः । एकपदोपात्तलादन्य- दित्यन्वयः । इह तु 'उल्लास्य-' इत्यादौ तु । इतिः पूर्वग्रन्थसमाप्तौ। अलं- कारान्तरमिति । उपमातिरिक्तमपीत्वर्थः । रवीति । सूर्यवंश्रीति मनुष्य- पक्ष्युभयसमूहप्रीति च। अवारीति। अप्रतिबद्धप्रवाहा। शोभनं वार्जलं तत्संजातं यस्य तादृशः प्रवाहो यस्याः सा। विरोधश्चेति । अलंकारो ध्वन्यत इति शेषः । द्वितीयार्थस्य चाप्रकृतार्थस्य च। तदेति । अपिवोध्यविरोधेत्यर्थः। ननु निपातानां द्योतकत्वेनो कतत्वाभावाद्धनित्वमेवात आह-निपातानामिति। तथा च द्योतकत्वं विलक्षणमिति भावः। न तथात्वं न ध्वनित्वम्। प्राचीनोदाहरणे शङ्कते- नन्विति ।
Page 144
रसगङ्गाधरः । १२९
ननु 'मृणालवलयादि दवदहनराशिः' इत्यत्र विरोधाभासस्य कथं वाच्या- लंकारत्वम्। विरोघांशस्य शब्दवाच्यताविरहेण व्यञ्ञयताया एवाभ्युपग- न्तव्यत्वात्। न च विरोधविशिष्टाभेदस्य संसर्गत्वाद्वाच्यार्थबोधविषयतया विरोधस्य वाच्यत्वमिति वाच्यम्। विरोधाभेदयोः परस्परविरुद्धत्वेनैककाला- वच्छेदेनैकसंसर्गत्वस्यानुपपत्तेः। नानार्थयोरभेदस्यैव संसर्गतया विरोधस्यापि संसर्गत्वे मानाभावाच्च। पर्यन्ते दवदहनराशिपदस्य सदृशलाक्षणिकतया विरोधांशस्य तिरोघानाच्च। मैवम्। उक्तपद्यस्य विरोधोदाहरणतामात्रे तात्प- र्यात्। व्यङ्नयत्वेऽपि तथात्वस्यानपायात्। वाच्यविरोधोदाहरणतायां त्व- पिरन्तर्भाव्यः । केचित्तु-'विरोधांशस्य व्यङ्गयत्वेऽपि विरोधिद्वयस्य वा- च्यतामात्रेण विरोधाभासस्य वाच्यालंकारव्यपदेशोपपत्तिः । इत्थमेव चांशा- न्तरस्य व्यञ्न्यत्वेऽप्येकांशमादाय समासोक्त्यादीनामपि वाच्यालंकार- व्यपदेशः' इत्याहुः । यथा वा- 'कृष्ण पक्षाधिकरुचिः सदासंपूर्णमण्डलः। भूयोऽयं निष्कलङ्कात्मा मोदते वसुधातले।' अत्र भगवत्पक्षाघिकप्रीत्यादिलक्षणे प्रकृतभूपोपयोगित्वात्प्रकृतेऽर्थे श- क्त्या प्रतीतिपथमवतीर्णे द्वितीयोऽर्थोऽप्रकृतो वैधर्म्यात्मा तत्प्रयुक्तो व्यतिरे- कश्च। न चात्र व्यतिरेकस्य कविगतराजविपयकरतिभावोत्कर्षकतया गुणीभू- तस्य कथं ध्वनिव्यपदेशहेतुत्वम्, प्रधानस्यैव ध्वनिव्यपदेशहेतुत्वादिति वा- ननु तादात्म्यवदुपपत्तिः स्यादत आह-नानार्थयोरिति। संसर्गत्वे तद्वटकत्वे। तादात्म्यस्य संसर्गत्वं तु तत्रान्तरे प्रसिद्धमिति भावः । ननु प्रतीत्यन्यथानुपपत्तिरेव मानमत आह-पर्यन्त इति। पर्यवसान इत्यर्थः । मात्रपदेन वाच्यत्वनिरासः । अन्तर्भाव्यः मृणालेत्यादी। शव्दशक्तिमूलालंकारान्तरध्वनिमुदाहरति-यथा वेति। भगवत्पक्षेऽधिका प्रीतिर्यस्य । सद्िरा समन्तात्परिपूर्ण मण्डलं यस्य। निष्कलङ्गः पवित्र आत्मा यस्य सोडयं भूपो भुवि मोदत इति प्रकृतोऽर्थः । कृष्णपक्षेऽसितपक्षेऽवि- करुचिः। सदा सर्वकाले संपूर्णमण्डलः । निष्कलङ्गः कलद्वशून्य आत्मा यस्य सोऽयं भुवि मोदत इति चन्द्रवैधर्म्यात्मा प्रकृतोऽर्थः । यद्वा कृष्णपक्षे पापकर्मण्यधिकरुचिः । सदा सं(?) यथा तथा पूर्ण मण्डलं यस्य। निष्कलट्टोऽत्यन्तकलढ्व आत्मा यस्य सोऽय- मित्यप्रकृतोऽर्थः । तत्प्रेति । अप्रकृतार्थप्रयुक्तव्यतिरेकालंकार इत्यर्थः । व्यज्यत इति
Page 145
१३० काव्यमाला।
च्यम्। उदासीने वक्तरि तत्त्वार्थकथनपरस्यास्य पद्यस्य वक्तगतरतिव्यञ्ज- कत्वासंगतेः, गुणीभूतस्यार्थस्य वाच्यार्थापेक्षया प्रधानतया ध्वनिव्यपदेशहे- तुतायाः प्राचीनैः स्वीकाराच। अन्यथा- 'निरुपादानसंभारमभित्तावेव तन्वते। जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ।।' इत्यत्र व्यतिरेकध्वनित्वं तैरुक्तमसंगतं स्यात्। व्यतिरेकस्य भगवद्वि- षयकरतिभावाङ्गताया अनुभवसिद्धत्वात्। शब्दशक्तिमूलव स्तुध्वनिर्यथा- 'राज्ञो मत्प्रतिकूलान्मे महद्धयमुपस्थितम् । बाले वारय पान्थस्य वासदानविधानतः ।I' अत्रोपभोगं देहीति वस्तु राजपदशक्तिमूलानुरणनविषयः । राजपदा- च्चन्द्रोपस्थितावेव चन्द्रजनितभयवारणकारणत्वेनोपभोगस्याभिव्यक्ते: । न चात्र नृपचन्द्रयोरुपमानोपमेयभावः, भेदापोहरूपं रूपकं वा तथास्त्विति वाच्यम्। इह नृपरूपस्यार्थस्य चन्द्ररूपार्थगोपनमात्रार्थमुपात्तत्वेन युग- पदुल्लसितोपमानोपमेयकयोरुपमारूपकयोस्तात्पर्यविषयताया अयोगात् । न चासंसष्टार्थद्वयबोधने वाक्यभेद इति वाच्यम्। तु्यकक्षतया द्वयोरसं- सृष्टयोरर्थयोः प्रतिपिपादयिषितत्व एव तस्याभ्युपगमात्। इह त्वाच्छाद- कप्रतीतिसमये आच्छाद्याप्रतीतिः, आच्छाद्यप्रतीतौ चाच्छादकन्यग्भाव एवेति नास्ति तुल्यकक्षता। शेषः । उदासीने रतिरोषोभयानाविष्टे सतीति शेषः। अन्यथा तथानङ्गीकारे। निरु- पेति। उपादानसंभार उपकरणसमूहस्तूलिकादिकं तद्रहितं यथा स्यात्तथा अभित्तावेव शून्य एव चित्रं नानाकारं जगत्तन्वते तस्मै अनिर्वचनीयस्वरूपाय, कला चन्द्रस्य पोडशो भागस्तेन श्रलाध्याय शूलिने महादेवाय नमः। पक्षे चित्रमालेख्यम् । कला आलेख्य- क्रिया कौशलं च। तैः प्राचीनैः। राज इति। हे वाले, त्वं मत्प्रतिकूलाद्राजः सकाशादु- पस्थितं महत्पान्थस्य मम भयं वासदानविधानतो वारयेतन्वयः। वासश्च दानं चेत्यर्थः । भेदापोहेति। अभेदेत्यर्थः । तथास्तु अनुरणनविषयोऽस्तु। तथा च तादृशालंकारध्वनेरे- वोदाहरणम्, न वस्तुध्वनेरिति भावः । युगपदुल्लसिते उपमानोपमेये ययोस्तयोरित्वर्थः । तस्य वाक्यभेदस्य। आच्छादकेति। नृपरूपार्थेत्यर्थः। आच्छाद्येति। चन्द्ररूपार्थे- तर्थः । शक्तिनियमेनेति भावः । अत्र बाले इति पदेन व्यज्ञयस्य वाच्यादुपमानताकर-
Page 146
रसगङ्गाघरः । १३१
काव्यप्रकाशे तु-'शनिरशनिश्च तमुचैः' इत्यादिकमुदाहृत्य 'अत्र वि- रुद्धौ द्वावपि त्वदनुवर्तनार्थमेकं कार्य कुरुत इति ध्वन्यते' इत्युक्तम्। तच्च 'द्ौ शन्यशनी उदारानुदारौ चैकं कार्य हननं भानं च' इति व्याख्यातृ- भिर्व्याख्यातम् । तत्र शन्यशन्योर्हननक्रियाकर्तृत्वान्वयेऽप्युदारानुदार- योर्भानकर्तृतत्पदार्थविशेषणयोस्तत्प्रकार विशेषणयोर्वा साक्षाद्धानकर्तृत्वान्व- याभावात्कथमेककार्यकारित्वं संगतं स्यात् । अतो विरुद्धौ द्वावित्यादि प्रथमार्धविषयम्। द्वितीयार्धे तु विरोधाभास एव। कर्तर्यभेदेनान्वयमात्रेण कुरुत इत्यस्योपपत्तिश्चेत्, अस्तु। द्वितीयार्घेऽपि विरुद्धौ द्वावित्यादि वस्तु व्यङ्गयम्। परं त्वर्धद्वयेऽपि विरोधाभासालंकारशबलितमेव । शत्रु- विरुद्धस्य शत्रुत्वासंभवादेकस्य शन्यशनिकर्तृकहननकर्मत्वायोगेनाद्यार्थे,
टत्वात्। अर्थशक्तिमूलानुरणनं यथा- 'गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम्। आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥' अत्र मधुव्रतकर्तृकमञ्जुगुञ्जनाद्यैर्वस्तुभिः कविकल्पितत्वविरहेण खतः णादयोग्यमेतत्। शनिरिति। शनिर्ग्रहः, अशनिर्वज्रं च। पुनस्तर्थे। उदार उद्भटः। अनुदार अनुगतदारः। नृपदत्तैश्वर्येणाप्रवासात् । न उदारो यस्मादिति वा। पक्षे- डशनिः शनिविरोधी। नञो असुरादाविव विरोध्यर्थकत्वाव। अनुदार उदारादन्यः । शवलितमेव । उक्तवस्तुव्यक्क्यमित्यनुषङ्गः । तदलंकारसत्त्वे हेतुमाह-शत्रुवि - रुद्धस्येति। विरोधिशत्रोर्विरोध्यन्तरमित्रत्वादेकस्य विरोविद्वयकर्तृकहननकर्मत्वायोगेन तादशहननकर्मत्योरपि विरोधादिति भावः। राजो विहताजतमादाय कोपस्यातिशयि- तत्वमादाय वा तत्परिहारः । अशनिरित्यत्र नञ् विरुद्धार्थक इत्युक्तम्। न चैवं विरो- धेऽस्य कथं व्यक्ञयता। तन्मूलकहननकर्मत्वयोर्विरोधस्य व्यक्रयत्वेनाक्षतेः । तमादायैव च विरोधाभासाः । तस्यैव समाधानात् । न लनयोर्विरोधस्यास्य समाधानमस्ति। एतेनैकधर्मिगतंत्वे एव विरोधस्यालंकारत्वान्नात्र विरोधालंकार इति परास्तम्। ताटशक- मैत्वयोरेकधर्मिगतत्वस्य स्पष्टत्वात्। अन्ये तु विरोधिनोरप्येकशत्रुसंभवान्न ताद्ृशहनन- कर्मतयोर्विरोध इत्याहुः। द्वितीयार्धे चानुगतदार इत्यर्थेन तत्परिहार उक्त एवेति दिक्। रणनं यथेति। सतः संभविवस्तुना वस्तुध्वनिर्यथेत्यर्थः । संमुखमिति। सरस्या
Page 147
१३२ काव्यमाला।
संभविभिरासन्नसरसिजोत्पत्तिध्वननद्वारा शरदागमनैकट्यरूपं वस्तु व्य- ज्यते। काव्यप्रकाशे तु-'अरससिरोमणि धुत्ताणं अग्गिम-' इत्या- द्युदाहृत्य 'ममैवोपभोग्य इति वस्तु व्यज्यते' इत्युक्तम्। तत्र केन वस्तु- नेदं वस्तु व्यज्यते ! न तावदलसशिरोमणित्वादिकान्तविशेषणैः । तेषां धात्यादिवृद्धसत्रीनिरूपितत्वेन तवैवोपभोग्य इत्यादिरूपेणैव व्यञ्गयस्य वक्तव्यतापत्तेः । विशेषणानां कामिनीनिरूपितत्वे तु ममैवेत्यादि व्यज्नया- कार: स्यात्। नापि परिफुल्लविलोचनत्वेन। तस्य हर्षभावानुभावत्वेन ह- र्पव्यञ्जकताया एव कृप्तत्वात्। मदुपभोग्यत्वं हि हर्षभावस्य विभावः । नह्यनुभावैर्भावो व्यज्यत इति तद्विभावव्यञ्जनं शक्यं वक्तुम्। केवलस्य परिफुल्लविलोचनत्वस्य ममैवेत्यादि व्यज्गयव्यञ्जने सामर्थ्याभावात्। पु- त्रागमनधनप्राह्यादिविभावकेऽपि हर्षभावे परिफुल्लविलोचनताया अनै- कान्तिकत्वादिति । सत्यम् । 'इयभणिम्मि' इत्यादर्थवशप्रापितालसशि-
इति भावः। आसन्नेति। शीघ्रभाविनी या कमलानामुत्पत्तिस्तद्वयज्नेत्यर्थः । अर- सेति। 'अलसशिरोमणिर्धूर्तानामग्रणी: पुत्रि धनसमृद्धिमयः । इति जल्पितेन नताङ्गी प्रफुल्लविलोचना जाता ॥' पतिवरां प्रति धात्र्याः प्ररोचनोक्तिः पूर्वार्धम्। उत्तरार्ध तु कविवाक्यम्। हे पुत्रि, अयं वरः निरुद्योगिश्रेष्ठो धूर्तश्रेष्टः प्रचुरधनसमृद्धिः, इति भाषि- तेन लज्या नताङ्वी काचित्कन्या हर्षविकसितलोचना जातेत्वर्थः । अत्रालसत्वेन नायि- कान्तरागमनं सूच्यते। धूर्तत्वेन रतेष्वनादृतगुणतम्, धनिकत्वेन कृपणतयादातृत्वं च सूचितं सत् अन्यासामनाकर्षणीयत्वं मदुपभोग्यत्वं च व्यनक्ति। तद्विषयकं च कुमार्या ज्ञानं प्रफुल्लनयनत्ववत्त्वेन वस्तुना खवहेतुहर्षव्यज्जनद्वारेण तत्कारणीभूतं सामाजिकेषु व्य- ज्यते। केचित्तु-'अलसत्वेन धनिकत्वेन चाप्रवासित्वम्,धूर्तत्वेन संभोगेष्वतृप्तत्वम्,धनि- कत्वेन नानाधनदातृत्वमपि नताङ्गित्वेन नमस्कारः तेन सवस्याप्यमानिनीत्वम्, प्रफुल्लनयन- त्वेन हर्षः तेन ममैवोपभोग्यो नाविदग्धाया इति वस्तुव्यज्जनम्' इत्याहुः। तेषां विशेषणानां निरूपितत्वेन कथितत्वेन । एवमग्रेऽपि। परीति । अस्य कामिनीनिष्टत्वादिति भावः । तस्येति । परिफुल्लविलोचनात्वस्य हर्षाख्यव्यभिचारिभावकार्यत्वेनेत्यर्थः । कार्येण कारणानुमानस्य प्रसिद्धत्वादिति भावः । विभावः कारणम् । तत्सत्व एव हर्षोदयात्। नहीत्यस्य वक्तुं शक्यमित्यत्रान्वयः । तद्विभावेति। भावविभावेत्यर्थः। हिसूचितमश- क्यत्वे हेतुमाह-केवलस्येति। विशिष्टस्य तत्त्वस्य सिद्धान्ते वक्ष्यमाणत्वादिदं विशे- पणम्। विलोचनताया इति । सत्त्वेन तस्या इति शेषः । अनैकान्तिकत्वाद्व्यभि- चरितत्वात्। इयभणीति । इति भणितेनेत्याद्युत्तरार्धस्य योऽ्र्थस्तदुद्देशेन प्रापितो
Page 148
रसगङ्गाघरः । १३३
रोमणित्वादि विशेषणश्रवणविशिष्टप्रफुल्लविलोचनत्वेन मदुपभोग्यत्वलक्षण- विभावाभिव्यक्तिद्वारा हर्षभावोऽभिव्यज्यते । तत्र द्वारीभूतविभावाभि- व्यक्तिमादाय काव्यप्रकाशग्रन्थसंगतिः । न च भावध्वनेः संलक्ष्यक्रमत्वा- पत्तिः, द्वारस्य संलक्ष्यक्रमत्वादिति वाच्यम्। इष्टापत्तेः । न चापसि- द्धान्तः । तस्य प्रागेवोद्धारात् । 'मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः । तत्त्वं त्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता कृष्णेत्यक्षरयोरयं मधुरिमोद्वारः क्वचिल्लक्षितः ॥'
संघातात्मकास्मत्पदवोध्यकर्तृकप्रश्नविषयेणार्थेन वस्तुना तथाभूतेन भग-
सायरूपातिशयोक्तिर्व्यज्यते। अथ प्रश्नविषयस्यात्र नानाजन्मगतवृ- त्तान्तरूपतया तज्ज्ञं प्रत्येव प्रष्टुमौचित्येनानभिज्ञं स्वजीवं प्रति प्रष्टुमयो- ग्यत्वात्प्रश्नान्यथानुपपत्त्या आक्षिप्ता वाच्यसिद्धङ्गत्वेन गुणीभूतव्यन्न- रूपा वा प्रागुक्तातिशयोक्तिरिह कथं ध्वनिव्यपदेशहेतुः स्यात्। इत्थमेव च 'तदप्राप्तिमहादुःख-' इत्यत्राप्यतिशयोक्त्तेरर्थापत्तिविषयत्वं गुणीभृत-
क्म्। विभावेति । हर्पभावविभावेत्यर्थः । भावध्वनेर्र्षभावध्वनेः । द्वारस्य तद्वि- नाभावाभिव्यक्तिरूपस्य। तस्येति । अपसिद्धान्तत्वस्येत्यर्थः । तथा च सिद्धान्त एवायमिति भावः । मृद्वीकेति। सवतःसंभविवस्तुनालंकारध्वनिर्यथेत्यादिः। मृद्वीका द्राक्षा। सिता खण्डशर्केरा। खवर्यातेन खर्ग प्रति गतेन। अपेः समु्ेयमाह-रम्भेति। भूयः पुनः । अयं सांप्रतमनुभूयमानः । निष्कृष्टेति । परिदृश्यमानैतच्छरीरादि पृथ- क्ृत्येत्यर्थः। तत्वं च तस्य भवता मदीयेत्याभ्यामाविष्कृतम्। अर्थेन मधुरिमोद्गारलक्षण- रूपेण तथाभूतेन स्वतः संभविना। नाम्र इत्यस्य तादात्म्याध्यवसायेत्यत्रान्वयः। अनेक- जन्मस्ववृत्तान्तप्रत्यक्षीकरणे कारणभूतो यो योगाभ्यासजन्यसिद्धिविशेष इत्यर्थः । अर्थापत्तेर्मानान्तरल्वाभावादाह-वाच्येति। तदेति। 'तैदप्राप्तिमहादुःखविलीनाशे- १. शलोकदूयं विष्णुपुराणे पव्चमांशे त्रयोदशेऽध्याये (२१।२२) वर्तते. उदाहृतं च काव्यप्रकाशे चतुर्थोल्लासे. १३
Page 149
१३४ काव्यमाला।
व्यञ्ञघत्वं वा युक्तम्। अनेकजन्मोपभोग्यदुःखसुखराशिभ्यां तदप्राप्ति-
नुपपत्तेः । तत्त्हुःखसुखानां सवस्फलोपहितपापपुण्यनाशकताया एवा- न्यत्र कप्तत्वात् । निगरणे तु तयोस्तन्नाशकताबुद्दुपपत्तिः । न च वम्तुमात्राभिव्यक्तस्यालंकारस्य न गुणीभूतव्यज्नयत्वम्। 'व्यज्यन्ते वस्तुमात्रेण यदालंकृतयस्तया। ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात् ।।' इति सिद्धान्तादिति वाच्यम्। बाधके दृढे सिद्धान्तमात्रेणात्र ध्वनि- त्वस्य स्थापयितुमशक्यत्वादिति चेत्। सत्यम्। यादृशव्यञ्ञथप्रतिपत्ति विना यत्र वाच्यस्य सर्वथाप्यनुपपत्तिस्तत्र तद्वाच्यसिद्धङ्गम्। यत्र च प्रकारान्तरेणापि तस्योपपत्तिः शक्या कर्तु न तत्र तथा। अन्यथा हि 'निःशेषच्युतचन्दनं स्तनतटम्' इत्यत्राधमत्व्रसिद्धङ्गत्वाद्दतीरमणस्य वाच्य- सिद्धङ्गगुणीभूतव्यङ्ञयत्वापत्तेः । प्रकृते च भगवन्नाम्नि योगसिद्धितादा- त्म्याध्यवसायरूपामतिशयोक्ति विनापि भगवन्नामोच्चारणमाहात्म्यप्राप्त- सार्वज्ञबुद्धावपि प्रश्नोपपत्तेर्न गुणीभूतव्यञ्जयत्वम्। एतेनासंबन्धे संबन्ध- रूपाति शयोक्तिर्नामोच्चारणमाहात्म्यप्रभवसार्वज्ञाध्यवसायेऽपि स्थितेति स दोषस्तदवस्थ इति परास्तम्। भगवन्नामोच्चारणस्याचिन्त्यमाहात्म्यतायाः पुराणप्रसिद्धत्वात् । अथ वा मास्तु प्रागुक्तमुदाहरणं वस्तुनोऽलंकारव्यञ्ज- कतायाः, इदं तु भविप्यति-
पपतका। तचिन्ताविपुलाह्लादक्षीणपुण्यचया तथा ॥ चिन्तयन्ती जगत्सूर्ति परव्रह्म- स्वरूपिणम्। निरुच्छासतया मुक्ति गतान्या गोपकन्यका II' जगत्सूति श्रीकृष्णम्। तत्संभोगाप्राप्त्या महादुःखम्। तचिन्तया विपुलाह्वादः । 'नास्य प्राणाः समुत्कामन्ति अत्रैव समवलीयन्ते' इति श्रुतेर्मोक्षकाले निरुच्छ्वासता। चयशव्दार्थमाह-पुञ्जेति। स्वस्वेति। तत्तद्ुःखसुखरूपफलजनकेत्यर्थः । तासामलंकृतीनाम्। अत्र प्रकृतलक्ष्ये। तथा च सिद्धान्तोऽन्यविषयक इति भावः । तथा वाच्यसिद्धङ्गम्। वाच्येति। वाच्य- सिध्धज्ञरूपं यद्गुणीभूतव्यङ्गयं तत्त्वापत्तेरित्यर्थः । यथा चात्र प्रकारान्तरेणाधर्मत्सिद्धि- स्तथा स्पष्टमधस्तात्। सार्वज्ञेति। सर्वज्ञतेत्यर्थः । स्थितेति। सर्वज्ञत्वासंबन्धे तत्कल्पनादिति भावः । स दोषो गुणीभूतव्यङ्गयत्वापत्तिरूपदोषः । पुराणेत्युपलक्षणं श्रु- त्यादेरपि। तथा च वस्तुतस्तत्सत्तैव, न कल्पनमिति न संबन्धातिशयोक्तिरिति भावः। अभ्युपेत्याप्याह-अथवेति। अनुगमः संबन्धः । पाण्डभावः पाण्डलम्। उपचीयते
Page 150
रसगङ्काधरः । १३५
'न मनागपि राहुरोषशक्का न कलङ्कानुगमो न पाण्डुभावः । उपचीयत एव कापि शोभा परितो भामिनि ते मुखस्य नित्यम् ।।' 'नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः। इदं तद्वधि प्रभो यद्वधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणद्युतिः ।।' अत्र युगान्तदहनोपमया यदैव तव कोपोदयस्तदैव रिपूणां संपदो भस्मसाद्भविष्यन्तीति वस्तु व्यज्यमानं राजविषयकरतिभावेऽङ्गमपि वाच्यापेक्षया सुन्दरत्वाद्धनिव्यपदेशहेतुः । न च भस्मीकरणपटुत्वरूपस्य उपात्तशोणत्वरूपसाधारणधर्मेणापि तन्निप्पत्तेः संभवात्। उपमेयीभूतशो-
यथा वा- 'निर्भिद्य क्ष्मारुहाणामतिघनमुदरं येषु गोत्रां गतेषु द्राघिष्ठस्वर्णदण्डभ्रमभृतमनसो हन्त धित्सन्ति पादान्। यैः संभिन्ने दलाग्रप्रचलहिमकणे दाडिमीबीजबुद्या चञ्चूचाश्चत्यमश्चन्ति च शुकशिशवस्तेंऽशवः पान्तु भानोः ॥I' वर्धते। नदन्तीति। खतः संभव्यलंकारेण वस्तुनो यथेत्यादिः । मदशब्दे अशआ- दच्। बिरुदावलीं स्तुतिपरम्पराम्। अहितमन्दिरे शत्रुगृहे। तदवधि तावत्पर्यन्तम्। एवमग्रेऽपि। उपमयेति। वाच्ययेति शेषः । व्यङ्गयस्येति। तच्छरीरनिविष्टत्वादिति भावः । तन्निष्पत्तेरुपमानिष्पत्तेः । विनिगमनाविरहेऽप्याह-उपमेयीभूतेति । उपमाया वाच्यत्वेन तदवस्थायां यदुपमेयं तद्रतवर्मस्यैव तन्निष्पादकत्वम्। न तूपमेयभू- तोपमाव्यङ्ञयरूपकोपगतस्य तद्धर्मस्य। तदा तस्यानुपस्थितेः । तथा च यस्य तन्निष्पाद- कत्वं न तस्य व्यक्षयत्म्, यस्य तत्त्वं न तस्य तत्त्वम्। सोऽनुपात्त इत्यन्यदस्योदाहर- णान्तरमाह-यथा वेति। ते रविकिरणा युष्मान्पान्तु। के। येषु तरूणामतिनिवि- मन्तःप्रदेशं विदार्य भूमि गतेष्वतिदीर्घसुवर्णदण्डसंबन्धि त्रमेण भृतं पोषितं मनो येषां
Page 151
१३६ काव्यमाला।
अत्र भ्रान्तिभृतां तिरश्चामप्येवमानन्दं जनयतीति जगदानन्दहेतुर्भगवा- निति व्यज्यते। एवंरूपाया भ्रान्तेर्लोकेऽपि संभवात्स्वतःसंभवित्वम्। 'उदितं मण्डलमिन्दोरुदितं सदयो वियोगिवर्गेण। मुदितं च सकलललनाचूडामणिशासनेन मदनेन ।I' अत्र समुच्चयेन क्रियायौगपद्यात्मना कार्यकारणपौर्वापर्यविपर्ययात्मि- कातिशयोक्तिः । एषु स्वतःसंभवी व्यञ्ञकः । 'तदवधि कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकः। यदवधि न पदं दधाति चित्ते हरिणकिशोरदृशो दृशोर्विलासः ।।' अत्र कामिनीदग्विलासे चेतसि पदमर्पितवति विवेकस्य नास्ति कुशल- मिति वस्तुना दृग्विलासकर्तृकपदार्पणस्य लोकसिद्धत्वाभावात्कविप्रौढोक्ति- निप्पन्नत्वेन सुनिषण्णे तस्मिन्का कुशलचर्चा विवेकस्थेति वस्तु व्यज्यते। 'कस्मै हन्त फलाय सज्जन गुणग्रामार्जने सज्जसि स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय। ये भावा हृदयं हरन्ति नितरां शोभाभरैः संभृता- स्तैरेवास्य कले: कलेवरपुषो दैनंदिनं वर्तनम् ॥' इह यद्यपि रमणीयाः पदार्थाः कलेर्नित्यमदनीया इति वस्तुना प्रौढ़ो- क्तिसिद्वेन मर्तु कामयसे चेद्रुणप्राप्तौ यतखवेति वस्तु व्यज्यते, तथापि तस्य पर्यायोक्तात्मनो वाच्यापेक्षया सुन्दरताविरहाद्गुणीभूतत्वमेव। अलं-
ते जनाः । हन्तेत्याश्चर्यम्। पादान्किरणान्धित्सन्ति धर्तुमिच्छन्ति। किं च शुकवा- लका यै: संभिन्ने मिश्रिते तरुपत्राग्रनिष्टचञ्वलहिमकणे या दाडिमीवीजस्य बुद्धिस्तया चश्वा चाश्त्यं ग्रहणार्थ व्यापारमश्चन्ति। कुर्वन्तीत्यर्थः । अत्र भ्रान्तिमानलंकारः । न- व्यङ्गयमाह-अत्रेति। अपिना अतिरश्ाम्। उदितमिति। तादृशालंकारेणालं- कारस्य यथेत्यादिः । तदवधीति । कविप्रौढोक्तिनिष्पन्नवस्तुना वस्तुनो यथेत्यादिः । तदवधि तावत्पर्यन्तम्। एवमग्रेऽपि। निष्पन्नेन वस्तुनेत्यन्वयः। व्यज्ञयमाह-सुनीति। दृग्विलासे सुस्थित इत्यर्थः । अस्योदाहरणाभासं खण्डयति-कस्मा इति। उपस्कर- णाय भूषणाय। भावाः पदार्थाः। वर्तनं वृत्तिः। जीवनमिति यावत्। उत्तरार्धथमाह- रमेति। अदनीया भक्षणीया। अस्य नियमेन लोकसिद्धत्वाभावादाह-प्रौढो- क्तीति। कवीत्यादिः । गुणेति। सज्जनेत्यादिः । तस्य व्यङ्गयभूतवस्तुनः । पर्या-
Page 152
रसगक्ञाघरः । १३७
कारा हि वाच्यसौन्दर्यसाराः प्रायशः सान्तगतं प्रतीयमानं पृष्ठतः कु- र्वन्ति । 'देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता- देवं जल्पन्ति तावत्प्रतिभटपृतनावर्तिनः क्षत्रवीराः । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंगः ।।' अत्र कविप्रौढोक्तिसिद्धेन रूपकेण त्वय्युद्यतकरवाले सति का परेषां जीवनस्याशेति वस्तु व्यज्यते। 'साहंकारसुरासुराव लिकराकृष्ट्रमन्मन्दर- क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसवैकषाः । तृप्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता भूमीभूषण भूषयन्ति भुवनाभोगं भवत्कीर्तयः ।' अत्र कीर्तेः सानन्दालोकनेन वस्तुना कविकल्पितेन दुग्धभ्रान्तिस्ता- पसगता व्यज्यते। न च सानन्दालोकनस्यैव चाक्षुषभ्रान्तिरूपतया व्य- ज्थव्यञ्जकयोरविवेको व्यक्ष्यत्वानुपपत्तिश्चेति वाच्यम्। वस्तुन एक- वलोकनत्वेन च व्यज्न्यव्यञ्जकविवेकस्य व्यञ्ञयतावच्छेदकरूपेण वा- च्यताया अभावाद्यङ्ञयत्वस्य चोपपत्तेः । तथा चाहुः-'यदेवोच्यते तदेव व्यञ्ञ्यम् । यथा तु व्यङ्नयं न तथोच्यते' इति। योक्तेति। 'पर्यायोक्तं तु गम्यस्य वचो भञ्ञयन्तराश्रयम् ।' इत्युक्ेति भावः । हि यतः । देवा इति । कविप्रौढोक्तिनिष्पन्नालंकारेण वस्तुनो यथेत्यादिः । के इति मध्यमणिन्यायेनान्वेति। पूर्वदेवा असुराः । समिति सङ्गरामे। मम पुरस्तादित्यन्वयः । नर इति जसन्तम्। मुग्धेति। मुग्धरूपशत्रुसंबन्धिप्राणरूपदुग्धभोजनकृतव्रिग्व का - न्तिरित्यर्थः । रूपकेण खङ्गसर्परूपकेण। साहंकारेति। कविप्रौढोक्तिनिष्पत्रवस्तुना अलंकारस्य यथेत्यादिः । व्याख्यातमिदमधस्तात्। अविवेकोऽभेदः । इदं च व्यङ्गयत्व- मभ्युपेत्य वस्तुनस्तदेव नेलाह-व्यङ्गयत्वेति। वाच्यत्वात्तस्येति भावः । कीर्तीति। यथासंख्यमन्वयः । उपपत्तरिति। 'शयिता सविधे-' इत्यत्र । 'व्यक्गयतावच्छेदके- ' च्छात्व रूपजातिरूप' इति पाठः । तेन रूपेणैव मनोरथपदेन बोधनान्न पूर्वग्रन्थविरोधः।
Page 153
१३८ काव्यमाला।
'दयिते रदनत्विषां मिषादयि तेऽमी विलसन्ति केसराः । अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽलयः |।' अत्र पूर्वोत्तरार्धवर्तिनीभ्यामपद्दुतिभ्यां न त्वं नारी किं तु नलिनीति तृतीयापह्नुतिर्व्यज्यते। एषु प्रौढोक्तिनिष्पन्नो व्यञ्जकः । यद्यपि शब्दशक्तिमूलकत्वमर्थशक्तिमूलकत्वं चेत्युभयमपि सकलव्य- ज्यसाधारणम्, शब्दार्थयोरनुसंधानं विना व्यञ्ञ्यस्यैवानुल्लासात्, त- थापि परिवृत्त्यसहिप्णूनां शब्दानां प्राचुर्ये तत्प्रयुक्तात्राधान्यात्सत्या अप्यर्थशक्तेरप्राधान्याच्च व्यङ्गयस्य शब्दशक्तिमूलकत्वेनैव व्यपदेशः । परिवृत्तिसहिष्णूनां तु प्राचुर्येऽर्थशक्तेरेव प्राधान्यात्सत्या अपि शब्द- शक्ते: प्रधानानुगुण्यार्थतया मल्लग्रामादिवत्प्रधानेनैव व्यपदेशः । यत्र तु काव्ये परिवृत्ति सहमानानामसहमानानां च शब्दानां नैकजातीयप्राचुर्यम्, अपि तु साम्यमेव। तत्र शब्दार्थोभयशक्तिमूलकस्य व्यन्नघस्य स्थिति- रिति द्वयुत्थो ध्वनिः । न चायं शब्दशक्तिमूलकतयैवार्थशक्तिमूलकतयैव वा व्यपदेष्टं शक्यः । विनिगमकाभावात्। नापि शब्दशक्तिमूलकार्थ- शक्तिमूलकयोः संकरेण गतार्थयितुम्। व्यङ्गयभेद एव संकरस्येष्टेः । इह तु व्यङ्गयस्यैक्येन तस्यानुत्थानात्। उदाहरणम्- 'रम्यहासा रसोल्लासा रसिकालिनिषेविता। सर्वाङ्गशोभासंभारा पझ्मिनी कस्य न प्रिया ॥' अयं च वाक्यमात्रे। पदसमूहृश्च वाक्यम्। तेनास्य नानार्थानानार्थ-
मनोरथत्वेच्छात्वयोर्घटत्वकलशत्ववदेकत्वात्। इह तु भ्रान्तित्वसानन्दावलोकनत्वयो- रव्याप्यव्यापकभावेन भेदादिति बोध्यम्। यथा तुयेन रूपेण। एवमग्रेऽपि। दयितेति। कवि प्रौढोक्तिनिष्पन्नालंक।रेणालंकार स्य यथेत्यादिः। पूर्वोत्तरेति। लोकसिद्धत्वाभावेन कविप्रौढोकिनिष्पन्नाभ्यामित्यादिः। अनुसंधानं ज्ञानम्। तत्प्रयुक्कात्तदसहिष्णुशब्दप्रा- चुर्यप्रयुक्तात्। प्रधानेति। तदुपकारकतयेत्यर्थः । च शव्दानामिति निर्धारणे षष्टी। अयं द्वधुत्थो ध्वनिः। एवमग्रेऽपि। विनिगमनाविरहादाह-अर्थेति। गतार्थयितुमिति शक्योऽयमित्य स्यानुषङ्गः। उदेति। द्वयत्थध्वनेरित्यादिः । अत्र हासरसालिपद्मिनी- शब्दास्तदसहाः, अन्ये तत्सहा इति साम्यम्। तेन पदसमूहरूपवाक्यनिष्ठत्वेन। अस्य द्यृत्थ.
Page 154
रसगङ्गाधरः । १३९
घटितसमासविषयत्वेपि न विरोधः । न तु शुद्धैकपदे तस्मिन्नानार्थाना- नार्थयोरसमावेशात्। अन्ये तु-'अर्थशक्तिमूलकत्वव्यपदेशे नानार्थप्र- काशकशब्दशक्त्युल्लास्यत्वसामान्यशून्यत्वं तन्त्रम् । विषयप्राचुर्यात् । शब्दशक्तिमूलकत्वव्यपदेशे तु नार्थशक्त्युल्लास्यत्वसामान्यशून्यत्वं तथा। विषयदौर्लभ्यापत्तेः । नहि नानार्थशब्दमात्रघटितं पद्यं प्रचुरविषयम् । अतः शब्दशक्तिमूलकत्वेनैवायं शक्यव्यपदेशो ध्वनिः' इत्यप्याहुः । इत्थ- मभिधामूलस्त्रिविधोऽपि संक्षेपेण निरूपितो ध्वनिः । निरूपयिष्यते चां- शतो यथावसरम्। लक्षणामूलस्तु निरूप्यते- तत्र वक्ष्यमाणलक्षणायां लक्षणायां प्रयोजनवत्याः पड़डिधायाः सारो- पसाध्यवसानाभ्यां गौणीशुद्धाभ्यां च विभक्तानां भेदानां चतुर्णामलंकारा- त्मना परिणतत्वाह्ौ भेदौ ध्वन्याश्रयतया स्थितौ, जहृत्सार्था अजह- रस्वार्था चेति। तन्मूलौ च द्वौ ध्वने: प्रभेदौ। तयोर्जहत्खार्थामूलो यथा- 'कृतं त्वयोन्नतं कृत्यमर्जितं चामलं यशः । यावज्जीवं सखे तुभ्यं दास्यामो विपुलाशिषः ।।' इयं कस्यचिदपकारिणं प्रत्युक्तिः । त्वया कृतेऽप्यपकारे परमखेद- हेतौ मधुरमेव यो भाषेय, न परुषं तस्मिन्नेवंजातीयके मयि पापमाचरत- स्तव पापिष्ठत्वं कथं शक्यते वक्तुमिति व्यङ्ञथम्।
ध्वनेः। न विरोध इति। तस्याप्यवान्तरपदत्वमादाय पदसमूहृत्वादिति भावः । मा- त्रपदव्यावर्त्यमाह-न त्विति। सामान्यशून्यत्वमिति। सामान्याभाव इत्यर्थः । तथा तन्त्रम्। कारणमिति तदर्थः । अत इति। तथा वक्तुमशक्यत्वेन। तद्भिन्नत्व एव त- न्वस्यावश्यवक्तव्यत्वादित्यर्थः । अयं धुत्थो ध्वनिः। उक्तरीत्या भेदसंभव एवात्रारुचिः । उपसंहरति -इत्थमिति। तत्र निरपणीये तस्मिन्। वक्ष्यमाणेति। वक्ष्यमाणं लक्षणं यस्यास्तस्यामित्यर्थः । सत्यामिति शेषः। अलंकारात्मनेति। रूपकातिशयोक्ति- हेत्वलंकारात्मनेत्यर्थः । जहत्स्वार्था अजहत्सार्था चेति। अनयोरेवोपादानलक्षण- लक्षणेति व्यवहारः कथं कीदृशम्। अत्रोन्रतादिपदानां सार्थत्यागेनाधमादौ लक्षणा।
Page 155
१४० काव्यमाला।
अपरामूलो यथा- 'बधान द्रागेव द्रढिमरमणीयं परिकरं किरीटे बालेन्दुं नियमय पुनः पन्नगगणैः । न कुर्यास्त्वं हेलामितरजनसाधारणधिया जगन्नाथस्यायं सुरधुनि समुद्धारसमयः ॥' अत्र जगन्नाथस्येत्यनेन शक्य एवानेकपापविशिष्टत्वेन लक्ष्यते। पा- पानां पदान्तरेणानिर्वाच्यत्वं व्यङ्गयम्। कुन्ताः प्रविशन्तीत्यादौ तु वाच्य- गततैक्ष्ण्यादिलक्ष्यम्। तदेवमेते प्रागुक्ता द्वयुत्थातिरिक्ताः सर्वेडपि ध्वनय एकस्मिन्वाक्ये यद्येकपद्मात्रगतास्तदा पदध्वनितया व्यपदिश्यन्ते। ना- नापदगततायां तु वाक्यध्वनितयेति। अथ केयमभिधानाम यन्मूलः प्रथमं निरूपितोऽयं ध्वनिप्रपञ्चः । उच्यते- शक्त्याख्योऽर्थस्य शब्दगतः, शब्दस्यार्थगतो वा संबन्धवि- शेषोऽभिधा।। सा च पदार्थान्तरमिति केचित् । 'अस्माच्छन्दादयमर्थोऽवगन्तव्य इत्याकारेश्वरेच्छैवाभिधा। तस्याश्च विषयतया सर्वत्र सत्वात्पटादीनामपि घटादिपदवाच्यता स्यात्। अतो व्यक्तिविशेषोपधानेन घटादिपदाभिघात्वं वाच्यम्' इत्यपरे । 'एवमपीश्वरज्ञानादिना विनिगमनाविरहः स्यात्, अतः प्रथममतमेव ज्यायः' इत्यपि वदन्ति। यत्तु वृत्तिवार्तिके-'शक्त्या प्रतिपादकत्वमभिधा' इत्यप्यदीक्षितैरुक्तं तत्तुच्छम्। उपपत्तिविरोधात् । तथाहि-इह शब्दाज्जायमानायामर्थोपस्थितौ कारणीभूतं यदीयज्ञानं सा शब्दवृत्तिरभिधाख्या। लक्ष्यतया च प्रस्तुताप्रतिपादकत्वस्य प्रतिपत्ति- हेतुत्वरूपस्य शब्दगतस्य न ज्ञानं प्रतिपत्तौ कारणम्। अतः कथं
अपरेति। अजहत्स्वार्थेत्यर्थः । द्रढिमेति तृतीयातत्पुरुषः । नियमय बधान। शक्य पवेति। जगन्नाथत्वेनेति शेषः । अनेनाजहत्खार्थत्वं प्रकटितम्। पदान्तरेण जगन्नाथ- पदातिरिकेन। तैक्ष्ण्यादिलक्ष्य इति। वाच्यार्थगतं यत्तैक्ष्ण्यादि तलक्ष्यतृत्तितया व्यञ्रयमित्यर्थः । उपसंहरति-तदेवमिति। विनिगमनाविरहादाह-शब्द- स्येति। केचित, वैयाकरणमीमांसकादयः । अपरे, नैयायिकाः । एवमपि उक्त्री-
Page 156
रसगङ्गाघरः । १४१
नाम प्रतिपादकत्वमभिधेत्युच्यते। अथ प्रतिपादकत्वं प्रतिपत्त्यनुकूल- व्यापाररूपं ज्ञातं सदेवोपयुज्यते प्रतिपत्तौ, इत्युच्येत, एवमपि शक्त्ये- त्यनेन शब्दगतार्थगता वा काचिच्छक्ति: प्रतिपत्तिहेतुतया विवक्षिता। सैवाभिधेति 'अभिधया प्रतिपादकत्वमभिधा' इति लक्षणं पर्यवसन्नम् । तथा च स्फुटैवासंगतिरात्माश्रयश्च । न चाभिधातः शक्तिरतिरिक्ता शब्दजन्यप्रतिपत्तिप्रयोजिका काचिदस्तीत्यत्र प्रमाणमस्ति । सेयमभिधा त्रिविधा-केवलसमुदायशक्तिः, केवलावयवशक्तिः, समुदायावयवशक्तिसंकरश्रेति । आद्याया डित्थादिरुदाहरणम्। तत्राव- यवशक्तेरभावात्। द्वितीयायास्तु पाचकपाठकादिः । तत्र धातुप्रत्ययश-
समुदायशक्तेरभावात् । तृतीयायाः पङ्कजादिः । इह धातूपपदप्रत्यय- रूपावयवशक्तिवेद्यानां पङ्कजननकर्तृणामाकाह्कादिवशादन्वये प्रकाशमा- नात्पङ्कजनिकर्तृरूपादर्थादतिरिक्तस्य पद्मत्वविशिष्टस्य प्रत्ययेन तदर्थ स- मुदायशक्तेरपि कल्पनादुभयोः संकरः । एता एव विधा रूढि-योग-यो- गरूढिशन्दैर्व्यपदिश्यन्ते। यत्तु 'अखण्डशक्तिमात्रेणैकार्थप्रतिपादकत्वं रूढिः। अवयवशक्तिमात्रसापेक्षं पदस्यैकार्थप्रतिपादकत्वं योगः । उभ- यशक्तिसापेक्षमेकार्थप्रतिपादकत्वं योगरूढिः।' इति वृत्तिवार्तिकेऽप्प- दीक्षितैरुक्त्तम्, तन्न । अभिधालक्षणोक्तदूषणानामिहापि दुर्वारत्वात् । अथ अश्वगन्धा-अश्वकर्ण-मण्डप-निशान्त-कुवलयादिशब्देषु का शक्ति- रिति। अत्र केचित् 'अश्वगन्धारसं पिवेत्' इत्यादिषु विषयविशेषे केव- लसमुदायशक्तिः । अश्वगन्धा वाजिशाला, इत्यादिषु तु केवलयोगश- क्तिः। समुदायावयवशक्त्योरुभयोरेकश्दाश्रयत्वे कथं केवलत्वविशेषित- त्यातिप्रसङ्गवारणेऽपि। विवक्षितेति। शक्त्येति। तृतीयाश्रुतेरिति भावः। खज्ञाने स्वज्ञानापेक्षत्वेनात्माश्रयस्य स्पष्टत्वादसंगतिमुपपादयति-न चेति । नहीलथः । प्रमाणमस्तीति। प्रकृत्यादित्ाद्वान्येन धनवानित्यादिवत्तृतीयाया अभेदार्थकतवेन न कश्चिद्दोष इति चिन्त्यमेतत्सर्वम्। निरूपिताभिवां विभजते-सेयमिति। धातूप्रेति पङ्कादिभिर्यथासंख्येनान्वयः। उभयोः समुदायावयवशत्तयोः। विधाः प्रकाराः। दूषणानां प्रतिपादकत्व निष्ठत्वात्संभवासंगतिरात्माश्रयाणाम्। विषयविशेष इति। ओषधीरूपे- र्थः। शङ्कते-समुददेति। अनन्वयेन मिथ इत्यादि। पदान्वयायोग्येति। एवं च
Page 157
१४२ काव्यमाला।
योराद्यद्वितीयभेदयोः प्रसक्तिरिति तु न शङ्यम्। समुदायावयवशक्ति- वेद्ययोरर्थयोरनन्वयेन तादृशशक्त्योः कैवत्यस्य साम्राज्यात्। इदमेव हि केवलत्वमिह विवक्षितम्, यदन्वयायोग्यार्थबोधकत्वम्। संकरस्त्वन्वययो- ग्यार्थबोधकयोरेवेति न तस्यात्र प्रसक्तिः' इत्याहुः । अन्ये तु-'अश्व- कर्णादिशन्देपु नाभिधायाः प्रथमद्वितीययोर्विधयोः प्रसक्तिः। कैवल्य- विरहात् । परंतु संकरस्य द्वौ भेदौ-योगरूढियौगिक रूढिश्चेति। तत्राद्यस्योदाहरणं पङ्कजादिशन्दाः । द्वितीयस्य त्वश्वकर्णादयः' इत्याहुः। 'चतुर्थ एवायमभिधाया भेदः' इत्यप्यन्ये। 'अखण्डा एव हि शब्दाः । तत्र समासेपु पदानां कृत्तद्धिततिङन्तेषु च प्रकृतिप्रत्ययानां विभाग: काल्पनिक एवेति कुत्रास्ति योगशक्तिः । विशिष्टस्य विशिष्टार्थे रूढेरे- वाभ्युपगमात्' इत्यपि वदन्ति। अथ 'गीप्पतिरप्याङ्विरसो गदितुं ते गुणगणान्सगर्वो न। इन्द्रः सहस्नयनोऽप्यद्ुतरूपं परिच्छेत्तुम् ।।' इत्यादौ रूढ्यर्थमादाय पुनरुक्त्यापत्तिः। न चैवंविधपदद्वयसमभि- व्याहारस्थले योगरूढपदस्यावयवार्थमात्रबोधकत्वम्। तावन्मात्रस्यैव प्रकृतोपयोग्यतिशय विशेषसमर्पकत्वात्, इति वाच्यम्। एवमपि योग- रूढपदस्य रूढिशक्तेरनियन्त्रणेन योगार्थमात्रप्रतिपादकताया अनुपपाद- नादुक्तदोषस्यानुवृत्तेः । एकेनैव पदेन योगार्थरूढ्यर्थयोरुभयोरप्यावश्य-
योग बोध्यार्थान्वयायोग्यार्थप्रतिपादकत्वं रूढे: केवलत्वम्। रूढिबोध्यार्थान्वया योग्या- र्थप्रतिपादकत्वं योगस्य केवलत्वम्। परस्परप्रतिपाद्ययोरन्वययोग्यत्वे संकर इति फलितम्। बोधकयोरेवेतीति। भेदयोरित्वर्थः । 'तादृशकैवल्यविवक्षायां मानाभावादाह-अन्ये त्विति। संकरस्य योगरूढिशव्देनैव प्रसिद्धेर्मतान्तरमाह- चतुर्थ एवेति। एवेनाभिधापदसंबद्धेन संकरभेदनिरासः । तथा चाभिधा चतुर्विधेति भावः। सिद्धान्तमाह-अखण्डा इति। हिस्तये। तत्र अखण्डानां मध्ये। तथा चाभिधाया रूढ्याख्य एक एव भेद इति भावः । अत्र शङ्कते-अथेति । गीष्पति- रिति। राजवर्णनमिदम्। अतिशयेति । राजनिष्ठगुणाद्यतिशयेत्यर्थः । अनियन्त्रणेन असंकोचेन। प्रकरणादिसंकोचकाभावादिति भावः । प्रकरणादिसत्वे आह-एकेनै-
Page 158
रसगङ्गाधरः । १४३
कयोरर्थयोरुपस्थितिसंभवेन द्वितीयपदप्रयोगस्य नैरर्थक्यापत्तेश्च, इति चेत्, अत्राहुः-'एकपदोपात्तत्वादन्तरङ्गाकाह्वावशेन प्रथमं योगार्थरू- ढ्यर्थयोरन्वये सति समुल्लसितस्य विशिष्टार्थस्यैव पदान्तरार्थेनान्वयः । न तु तयोरेव विशकलितयोरिति यद्यपि न्यायसिद्धोऽर्थः, तथापि शक्त्यार्थस्य प्रतिपादने स्यादेवम्। लक्षणायां तु योगरूढेन योगार्थमात्र- प्रतिपादनेन न किंचिद्वाधकमस्ति। नापि द्वितीयपदप्रयोगस्य नैरर्थ- क्यम्। तथा सति रूढ्यर्थवोधनेन गतार्थेन योगरूढशव्देन प्रतिपाद्य- मानस्य योगार्थस्य पङ्कजाक्षीत्यादाविव नान्तरीयकत्वशङ्कया कुर्वद्रूप- ताया अपहतौ प्रकृतोपयोग्यतिशयविशेषव्यञ्जनस्य पाक्षिकत्वापत्तेः । द्वितीयपदयोगे तु तेनैव रूढ्यर्थप्रतिपादने सिद्धे योगरूढपदप्रतिपाद्यस्य योगार्थस्य नान्तरीयकत्वशङ्काया अयोगात्कुर्वद्रूपत्वेन व्य्नयविशेषव्य- ज्जकत्वं नियमेन सिद्धति । एषा पदद्वयोपादानस्थले गतिरुक्ता। यत्र तु 'पुष्पधन्वा विजयते जगत्त्वत्करुणावशात्' इत्यादावेकेनैव पदेन रूढ्यर्थोपस्थितिर्योगार्थद्वारा निःसारत्वाद्यवगमश्च भवति, तत्र कविकृतम-
गार्थे कुर्वद्रपताधानं बोध्यम्। तदित्थं द्वितीयपदस्योपादानेऽनुपादाने वा न क्षतिः । एवं जात्यन्तरविशिष्टवाचकपदसमभिव्याहारेऽपि । 'दिशि दिशि जलजानि सन्ति कुमुदानि' इत्यत्रापि जलजादिपदानां लक्षणया योगार्थमात्रबोधकत्वम्। योगशक्त्युल्लासितस्य तु तादृशार्थस्य रूढ्य- र्थोपक्रिष्टत्वेन स्वातन्त्र्येण कुमुदादावन्वयायोगात्। इत्थमभिधा निरूपिता। अनया यः शब्दो यमर्थ बोधयति स तस्य वाचकः । इयं च यस्य वेति। आवश्यकयोरिति। पदद्वयोल्वेखेनो क्तातिशयव्यज्ञनाथमिति भावः । एकपदो- पेति। अन्तरतत्वादौ हेतुरयम्। तयोः योगार्थरूव्यर्थयोः। विशकलितेति। पदा- न्तरार्थेनान्वय इत्यस्यानुषङ्गः। एवं योगार्थमात्रवोधकत्वानुपपादनमाद्यदोषमुद्धत्य द्विती- यदोषमुद्धरति-नापीति। तथा सति द्वितीयपदानुपादाने सति। नान्तरीयकत्वे- ति। मुख्यतात्पर्याविषयत्वेत्यर्थः । शङ्टाया अभावे त्विष्टार्थसिद्धिरत आह-पाक्षि- केति। अत एवाग्रे नियमेनेति वक्ष्यति। जगत् कर्म। कविकृतत्वमुपादानेऽन्वेति। प्रतिसंधानेन श्रोतुरिति शेषः । इत्यत्रापि इत्यादावपि। शक्त्या न निर्वाह इत्याह-
Page 159
१४४ काव्यमाला।
शब्दस्य यस्मिन्नर्थेऽस्ति तस्य सोऽर्थोऽभिधेयः । स च जातिगुणक्रियाया- दृच्छिकात्मकः । तत्र जातिर्गोत्वादिः संस्थानविशेषाभिव्यज्ञया प्रत्यक्ष- सिद्धा गवादिपदानामभिधेया। अनुमानसिद्धा च भ्राणरसनत्वादिर्घाणर- सनादिपदानाम्। आनन्त्याद्यभिचाराच्च व्यक्तीनामभिधेयताया अकल्प- नात्। न च ज्ञातगोत्वादिरूपया गोत्वादिज्ञानरूपया वा प्रत्यासत्त्या प्रत्य- क्षेण परिकलितासु सकलतदीयव्यक्ति्वभिधायाः के ्ति दोष इति वाच्यम्। सामान्यप्रत्यासत्तेर्निराकरणात्। गौरवदोषस्यानुद्धाराच्। एतेन शक्तिग्रहपदार्थोपस्थितिशाब्दवोधानां समानप्रकारकतयैव हेतुहेतुमद्भावा- दगृहीतसंकेतानामपि व्यक्तिविशेषाणामन्वयबोधविषयताया उपपादनेऽपि न निस्तारः। व्यक्तीनां प्रत्ययस्त्वाक्षेपाल्लक्षणया वेत्यन्यदेतत्। अयं च जातिरूपः शब्दार्थप्राणद इत्युच्यते । प्राणं व्यवहारयोग्यतां ददाति संपादयतीति व्युत्पत्तेः । तदुक्तम्-'ग: स्वरूपेण न गौर्नाप्यगौः, गोत्वाभिसंबन्धाद्गौः' इति । अस्यार्थ :- गौः सास्रादिमान्धर्मी स्वरूपेण अज्ञातगोत्वकेन धर्मिस्वरूपमात्रेण न गौः न गोव्यवहारनिर्वाहकः । नाप्यगौः नापि गोभिन्न इति व्यवहारस्य निर्वाहकः । तथा सति दूरादन- भिव्यक्तसंस्थानतया गोत्वाग्रहदशायां गवि गौरिति गोभिन्न इति वा व्यवहारः स्यात्। स्वरूपस्याविशेषाद्धटे गौरिति गवि चागौरिति वा व्यवहार: स्यादिति भावः । गोत्वाभिसंबन्धाद्गोत्ववत्तया ज्ञानाद्गौर्गोश- व्दव्यवहार्य इति। योगेति । प्रत्यक्षेति। गवादीनां प्रत्वक्षत्ादिति भावः । अनुमानेति। घ्राणेन्द्रि- यादीनामतीन्द्रियत्वादिति भावः। आनन्त्यादिति । अनन्तशक्तिकल्पन जगौरवा- दित्यर्थः। ज्ञायमानं सामान्यं प्रत्यासत्तिरितिमतेनाह-ज्ञातगोत्वादीति । सामान्यज्ञानं प्रत्यासत्तिरितिमतेनाह-गोत्वादिज्ञानेति । प्रत्यक्षेण अलौकिकेन। गौरवदोषस्येति। द्वितीयदोषोद्धारेऽप्याद्यदोषस्येत्यर्थः । एतेन गौरवदोषानुद्धा- रेण। एवकारेण समानविशेष्यकत्वादिव्यवच्छेदः । तदुक्तमिति । प्रकाशकृतेति शेषः । एवमग्रेऽपि । तथा सति धर्मिस्वरूपमात्रेण व्यवहारनिर्वाहकलाङ्गीकारे। गौरिति व्यवहारे इष्टापत्या आह-गोभिन्न इतीति । अविशेषादिति । व्यक्तिस्वरूपाणां सवतोऽव्यातृत्ततादिति भावः । गौरित्यत्र विशेषणज्ञानविधया तस्यो- पयोगेऽपि नाप्यगौरित्यनेन व्यवहारमात्रं धर्मज्ञानसाध्यमित्युच्यते। अभावज्ञानेऽपि
Page 160
रसगप्गाघरः । १४५
गुणः शुक्कादिः शुक्कादिपदानामभिधेयः । क्रिया चलनादिश्चलादिश- ब्दानाम्। शुक्कादीनां चलनादीनां च प्रतिव्यक्तिभेददर्शनादानन्त्यव्य- भिचाराभ्यां व्यक्तिशक्तिवाददोषाभ्यामिहापि कलुषीकरणमिति चेत्, तेषां लाघवात्प्रत्यभिज्ञाबलाच्चैकताया अभ्युपगमात्। तदुक्तम्-'गुणक्रियाय- दच्छानां वस्तुत एकरूपाणामाश्रयभेदाद्वेद इव लक्ष्यते' इति। तथा च भेदप्रतीतिर्भ्रम एवेति भावः । इदमुपलक्षणम् । उत्पत्तिविनाशप्रतीतिरपि तथैव। वर्णनित्यतावादे गकारादयुत्पत्तिविनाशप्रतीतेर्श्रमत्वस्य सवीकारात्। यादृच्छिकस्तु वक्रा स्वेच्छया डित्थादिशब्दानां प्रवृत्तिनिमित्तत्वे संनिवे- शितो धर्मः । स च 'परम्परया व्यक्तिगतश्चरमवर्णाभिव्यज्ञथोऽखण्डः स्फोटः' इत्येके। 'आनुपूर्व्यवच्छिन्नो वर्णसमुदायः' इत्यपरे । 'केवला व्यक्तिरेव' इतीतरे । तत्राद्यमतद्वये विशेषणज्ञानाद्विशिष्टप्रत्ययः । तृ- तीयमते च निर्विकल्पकात्मकः प्रत्ययः । तदित्थं चतुष्टयी शब्दानां प्रवृत्तिरिति दर्शनं व्यवस्थितम् । सर्वेषां शब्दानां जातिरेवार्थः । गुणक्रि- याशब्दानां गुणक्रियागतायाः, यदच्छाशब्दानां च बालवृद्धशुकाद्युदी- रिततत्तच्छन्दवृत्तेस्तत्तत्समयभिन्नार्थवृत्तेर्वा जातेरेवाभिधेयतासंभवात् । इति जातिशक्तिदर्शनम्। अथ केयं लक्षणा, यन्मूलश्चरमं निरूपितो ध्वनिः । उच्यते- शक्यसंबन्धो लक्षणा ।। तस्याश्चार्थोपस्थापकत्वे मुख्यार्थतावच्छेदके तात्पर्यविषयान्वयिताव- च्छेदकताया अभावो न तन्त्रम्। शक्यतावच्छेदकरूपेण लक्ष्यभानस्य स्वीकारात्। किं तु तात्पर्यविषयान्वये मुख्यार्थतावच्छेद करूपेण मुख्या- र्थप्रतियोगिकताया अभावो रूढिप्रयोजनयोरन्यतरच्च तन्त्रम् । मुख्या- प्रतियोगितावच्छेदकविशिषज्ञानस्य प्रतियोगितावच्छेदकज्ञानस्य वा हेतुत्वादित्याहुः। शङ्ुते शुक्कादीनामिति । इददापि गुणक्रिययोरभिधेयत्वेऽपि। चेदित्यस्य तत्रेति शेषः । एकताया इति। तथा च नित्यत्वमपि सिद्धमिति भावः । तथैव श्रम एव। व्यक्किगतोऽर्थव्यककिगतः। अतिरिक्तस्फोटानीकारे फलाभावादाह- आनुपूर्व्येति। वर्णानां जन्यत्वेन समुदायासंभवादाह-केवलेति। दर्शनं मतम्। मतान्तरमाह-सर्वेषामिति । जातिगुणक्रियायदच्छाशव्दानामित्यर्थः । शब्दवृत्तेः परम्परया तन्निष्ठत्वकल्पने गौरवादाह-तत्तत्समयेति। वालत्वयुवत्वपृद्धत्वरूपे- १४
Page 161
१४६ काव्यमाला। र्थान्वयानुपपत्तेः । तन्त्रत्वे तु 'काकेभ्यो दधि रक्ष्यताम्' इत्यत्र लक्षणो- त्थानं न स्यात्। 'गङ्गायां घोषः' इत्यत्र सामीप्यम्, 'मुखचन्द्रः' इत्यादौ सादृश्यं, व्यतिरेकलक्षणायां विरोधः । 'आयुर्धृतम्' इत्यादौ कारणत्वाद- यश्च संवन्धा यथायोगं लक्षणाशरीराणि। इयं तावद्विविधा, निरूढा प्रयोजनवती च । तत्रापि द्वितीया द्वि- विधा, गौणी शुद्धा च। तत्राद्या सारोपा, साध्यवसाना चेति द्वि- विधा। अन्त्या चतुर्विधा-जहत्खार्था, अजहत्सार्था, सारोपा, साध्य- वसाना चेति प्रयोजनवती षड्विधा संपद्यते। तत्र निरूढलक्षणाया अनु- कूलप्रतिकूलानुलोमप्रतिलोमलावण्यादय उदाहरणम्। नीलाद्यश्च घ- र्मस्य। 'अयमनुकूलः' इत्यादौ मुख्यार्थस्य कूलानुगतत्वादेर्वाधात्। अ- नादिप्रयोगप्रवाहवशादेकवस्तुप्रवणत्वात्मना कूलानुगतादिरूपशक्यस्य सा- दृश्येन संबन्धेनानुकूलादिशन्दैरनुगुणादयो लक्ष्यन्ते । एवं नीलादिप- दानां लाघवाङ्गुणगतजातेरेव शक्यतावच्छेदकतया गुणद्रव्ययोः 'नीलो घटः' इत्यादौ सामानाघिकरण्येनान्वयस्यानुपपत्तेः । समवायात्मना गुण- रूपशक्यस्य संबन्धेन नीलादिशव्दैर्गुणिनो लक्ष्यन्ते। तत्राद्यवर्गे साद- श्यसंबन्धेन द्वितीयवर्गे च तदितरसंबन्धेन लक्षणायाः प्रवृत्तेः । निरूढा- यामपि गौणीत्वशुद्धत्वाभ्यां द्वैविध्यमामनन्ति । विषयविषयिणोः पृथङ्नि- र्द्िष्टयोरभेद आरोपः । अपृथङनिर्दिष्टे विषये विषय्यभेदोऽध्यवसानम्। तत्राद्येन सहिता सारोपा। द्वितीयेन तु साध्यवसाना। उदाहरणानि च 'मुखं चन्द्रः' इत्यादीनि गौण्याः सारोपायाः। 'पुरेऽस्मिन्सौघशिखरे च- न्द्रराजी विराजते' इत्यादीनि च तस्याः साध्यवसानायाः । अत्राद्यायां विषयिप्रतिपादकैश्चन्द्रादिशब्दैर्लक्षणयोपस्थापितानां चन्द्रादिसदृशानाम- त्यर्थः । तन्र्रं कारणम्। व्यतिरेकलक्षणेति। 'उपकृतं बहु नाम-' इत्यादौ । यथायोगं यथासंभवम्। लक्षणाशरीराणीति। लक्षणाज्ञानकार्यतावच्छेदकं च ता- दृशशक्य संबन्धप्रकारकलक्ष्यविशेष्यकशाब्दवुद्धित्वमिति प्राचीनालंकारिकमतम्। तदन- न्तरं व्यञ्जनया तादृशशक्यतावच्छेदकप्रकारकलक्ष्यबोध इति च। एकप्रवणतं तदेकस- कत्वम्। विषयविषयिणोरिति। उपमेयोपमानमोरित्यर्थः । आदयेनारोपेण । द्वि- तीयेन त्विति। अध्यवसानेत्यर्थः। सहितेत्य स्यानुषकः। तस्या इति। गौण्या इत्यर्थः ।
Page 162
१४७
- सादृश्यरूपधर्मलक्षणायां तु तेन सह मुखादीनामन्वयो न स्यात्। ना- मार्थयोरभेदातिरिक्तसंसर्गेण विशेष्यविशेषणभावस्यानुपपत्तेः । नन्वेवं सति बोधावैलक्षण्याच्चन्द्रसदृशं मुखमित्युपमातो मुखं चन्द्र इति रूपकस्य कथं भेदः । न च सदृशविशेषणचन्द्रसंबन्धिसंबन्धाभ्यामिति वाच्यम् । बोधस्य वैलक्षण्यमात्रेण पृथगलंकारताया असिद्धेः । अन्यथा मुखं चन्द्र इवेत्यत्र चन्द्रसदृशमित्येतद्वतात्पृथगलंकारतापत्तिरिति चेत्, अत्र के- चित्-"रूपकस्योपमातः स्वरूपसंवेदनांशमादायावैलक्षण्येऽपि लक्षणा- फलीभूतताद्रूप्यसंवेदनमादाय वैलक्षण्यं निर्बाधम् । ताद्रूप्यसंवेदनं च वि- षये मुखादौ विषयितावच्छेदकस्य चन्द्रत्वादेः संप्रत्ययः । ननु लक्षणा- प्रयोज्यादपि तत्सदृशबोधात्कथं नाम ताद्रूप्यप्रत्ययः स्यात्। उपायस्या- भावाद्गेदज्ञानेन प्रतिवन्घाच्च। अन्यथा चन्द्रसदृशं मुखमित्यत्रापि ताद्रूप्य- ननु गौरवात्सदृशरूपधर्मिलक्षणा न युक्ता अत आह-सादश्येति। तेन साटश्येन। न स्यात्कथमपि न स्यात्। अतिरिक्तति। अभेदेन तु वाधान्नेति भावः। एवं सति धर्मिलक्षणयाभेदेनान्वयाङ्गीकारे सति। धर्मलक्षणया व्युत्पत्तिसंकोचमज्गीकृत्य भेदा- न्वये तु स्याद्वैलक्षण्यमिति भावः। बोधावैलेति । उपमायामप्यभेदेनैव बोधादिति भावः । सदृशविशेषणचन्द्रसंबन्धिसंबन्धाभ्यामिति। सदशे विशेषणभूतो यश्चन्द्रस्तरसं- वन्धतदसंबन्धाभ्यां संसर्गतया भासमानाभ्यामित्यर्थः । बोधवैलक्षण्यमिति शेषः । मुखं चन्द्र इत्यत्र चन्द्रपदस्य तत्सदृशे लाक्षणिकत्वेन तस्यैकपदार्थत्वात्संसर्गस्यापि लक्ष्यघ- टकतया चन्द्रसदशयोः संबन्धस्य संसर्गविधया भानम्। चन्द्रसदृशमित्यत्र तु तयो- भिंन्नपदार्थत्वेन संसर्गस्य तत्वेन भानमावश्यकमेवेति भावः । अन्यथा बोधवैलक्षण्यमात्रे- णालंकारभेदाजीकारे। मुखं चन्द्र इवेत्यत्रेति। इत्यस्यामुपमायामित्यर्थः । इवस्य द्योतकत्वेन रूपकरीत्या संसर्गस्य तत्त्वेनाभानात्। तादृश्यवाचकत्वेऽपि तेन सह प्रति- योगित्वं संबन्धः । चन्द्रसदशमित्यत्र तु तत्प्रतियोगिकाश्रये लाक्षणिकतया अभेदस्य संबन्धत्वमिति स्पर्षट वैलक्षण्यम्। सदृशवाचकत्वेऽपि स्वप्रतियोगिकाश्रयत्वम्। चन्द्र इ- वेत्यत्न संवन्धः, तत्र तुस एवेति स्पशे भेद इति भावः। एतद्रतादिति। उपमालं कारादिति शेषः। ताद्रूप्यसंवेदनमिति। तादृप्यमात्रसंवेदनमित्यर्थः । एतेन भेदा- भेदोभयप्रधानोपमा असाधारणरूपेणोपमानोपमेययोमेंदः। साधारणरूपेण लभेद इत्यलं- कारसर्वस्वकृद्धन्थविरोध इत्यपास्तम्। उपायस्येति । शक्तिलक्षणान्यतरस्येत्यर्थः । तत्रापि लक्षणास्तु, अत आह-भेदेति। अन्यथा तस्याप्रतिवन्धकतवे। इत्यत्रापीति। उपमायामपि। ताद्रूप्येति। ताद्रृप्यमात्रेत्यर्थः । एवमुपायमुक्ला द्वितीयहेतुं खण्ड-
Page 163
१४८ काव्यमाला। प्रत्ययप्रसङ्ग इति चेत्, मैवम्। श्रेषस्थल इवात्राप्येकशन्दोपादानोत्थस्य
न्द्रतत्सदृशयोरेवैकपदोपात्तत्वाच्चन्द्रसदशे चन्द्रताद्रूप्यस्य प्रत्ययो यथा- कर्थंचिदस्तु, न तु मुखत्वविशिष्टे मुखे। अनुभवसिद्धश्च सर्वेषाम् 'वक्रे चन्द्रमसि स्थिते किमपरः शीतांशुरुज्जुम्भते' इत्यादौ विषये विषयिता- द्रुप्यस्य प्रत्यय इति। सत्यम्। सताद्रूप्यवदभेदबुद्या सवताद्रूप्यस्य सुबोधतया तस्मिन्नपि तस्य सिद्धेः" इत्याहुः । अन्ये तु-"चन्द्रादिप- देभ्यो लक्षणया चन्द्रसदृशत्वेनापि रूपेणोपस्थितानां मुखादीनां चन्द्रत्वेन रूपेणैव मुखादिपदोपस्थापितैः सहामेदान्वयबोधो जायते। तत्तत्पदलक्ष- णाज्ञानस्य तत्तत्पदशक्यतावच्छेदकप्रकारकलक्ष्यान्वयवोधत्वावच्छिन्नं प्रति हेतुतायाः पदार्थोपस्थितिशाब्दबोधयोः समानाकारत्वस्यानुभवसाक्षिकवै- लक्षण्यकलाक्षणिकबोधातिरिक्तविषयतायाश्च कल्पनात्। अत एव ग- क्वायां घोष इत्यत्र तटत्वेनाप्युपस्थितस्य तटस्य गञ्गात्वेनान्वयवोधस्त- त्प्रयोज्यः शैत्यपावनत्वादिप्रत्ययश्च संगच्छते । प्रकृते तु विषयिचन्द्रा- दिनिष्ठासाधारणगुणवत्त्वप्रत्ययः फलम् । नहि चन्द्रत्वप्रतीति विना मुखे चन्द्रत्वनियतगुणवत्त्वधीः शक्योपपादयितुम्। ताद्रूप्यपदेन तदसाधारण- गुणवत्त्वमेव प्राचीनैरुक्तम् । इत्थं च स्वरूपसंवित्तिकृतः फलीभूतसंवि- यति-वैयञ्जनीति। एतेन मुखत्वविशिष्टमुखव्यवच्छेदः । तदेवाह-न त्विति। रूपान्तरेण मुखोपस्थितेः सत्त्वादाह-मुख्यत्वेति। इष्टापत्ति खण्डयति-अनुभव- श्चेति। खतादवप्यवदिति। चन्द्रताद्रूप्यवत्सदृशाभेदेत्यर्थः । तस्मिन्विषये। तस्य ताद्रू- प्यप्रत्ययस्य । केचिदित्यनेनारुचिः सूचिता। तद्वीजं तु स्रूपसंवेदनकृतवैलक्षण्यस्यापि संभवेन तावत्पर्यन्तगमनं व्यर्थमिति। अत एव मतान्तरमाह-अन्ये त्विति। अ- पिर्मुखत्वसमुच्चायकः । रूपेणैवेत्यस्याभेदान्वयेत्यत्रान्वयः । उपस्थापितैरित्यस्य मुखत्वा- मुखत्वादिभिरिति शेषः । ननु लक्षणाज्ञानकार्यतावच्छेदक प्राचीनसंमतं प्रागुक्तमिति कथं तया बोधोऽत आह-तत्पदेति। नन्वेवमपि तदुपस्थितिबोधयोः समानप्रकार- लनियमभज्गोऽत आह-पदार्थोपेति। कल्पनाया आवश्यकतामाह-अत एवेति। अपिना समीपत्वसमुच्चयः। ननु प्रकृते फलाभावोऽत आह-प्रकृते त्विति। नन्वेवं प्राचीनविरोधः । ताद्रूप्यसंवेदनस्य फलत्वस्य तैरुक्तत्वादत आह-ताद्रूप्येति । तद्साधारणेति। विजातीयाह्लादकत्वेत्वर्थः । इत्थं चेति। रूपके तथा वोधे तथा
Page 164
रसगङ्गाधरः । १४९
त्तिकृतश्चोपमातो रूपकस्य भेद: स्फुट एव" इति वदन्ति। अपरे तु- "भेदकरम्बितं सादृश्यमुपमाजीवातुभूतम्, भेदाकरम्बितं च गौणसारोप- लक्षणाया इति स्फुटे भेदे कृतं फलकृतवैलक्षण्यपर्यन्तानुधावनेन। प-
मीष्टे, इत्यनुपपत्ति परिहर्तुमायासोऽपि नापततीत्यपरमनुकूलम्" इत्य- प्याहुः। तदित्थं प्राचामाशयो मतभेदेन वर्णितः । नव्यास्तु-"मुखं चन्द्रः, वाहीको गौः, इत्यादौ चन्द्रादीनां मुखादि- भिः सह संभवति लक्षणां विनैवाभेदसंसर्गेणान्वयबोधः । बाधनिश्चय- प्रतिबध्यतावच्छेदक कोटावनाहार्यत्वस्येव शाब्दान्यत्वस्यापि निवेश्यत्वात्। अत एव 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' इति प्राचां प्रवादोऽपि संगच्छते। न च वहिना सिश्चति इत्यतो वाक्यादपि शाब्दबोधापत्तिः । योग्यताज्ञानविरहात् । मुखं चन्द्रः, गौर्वाहीक:, इ- त्यादौ त्विष्टचमत्कारप्रयोजकताज्ञानाधीनाया इच्छायाः सत्त्वादाहार्ययो- ग्यताज्ञानसाम्राज्यम्। अत एव शाब्दबोधे योग्यताज्ञानस्य कारणत्वोक्ति: प्राचां संगच्छते। आहार्य एव वा भेदान्वयबोधोऽस्तु। मास्तु बाघबुद्धि- प्रतिबध्यतावच्छेदककोटौ शाब्दान्यत्वम्। मा चास्तु शाब्दबुद्धौ योग्य- ताज्ञानस्य कारणत्वम्। आहार्य प्रात्यक्षिकमेवेति नियमश्चावश्यं मुख- फलेऽम्ीक्रियमाणे चेत्यर्थः। उपमातो रूपकस्येति। उपमायां तथा बोधाभावात्सा- धारणस्यैव गुणस्य प्रतीतेश्वेति भावः । अन्रापि पक्षेऽरुर्चि सूचयन्मतान्तरमाह-अपरे त्विति। करम्वितं विशिष्टम्। सादृश्यस्य धर्मरूपत्वेSतिरिक्तत्वे च भेदागर्भलादिति भावः। जीवातुर्जीवनौषधम्। स्फुटे भेद इति। उपमायां चन्द्रभिन्नं चन्द्रसदशमिति बोधः । रूपके तु चन्द्रसदृशमित्येवेति भावः । पक्षेऽस्मिन्नित्यस्यापरमित्यनेनान्वयः । ननु मुखं न चन्द्र इत्यादि वाधज्ञानसत्वेन कथ तथा बोधोऽत आह-बाधेति। अना- हार्येति। तत्सत्वेSपीच्छा रूपात्तेजकवशादाहार्यस्य जायमानत्वादिति भावः न चेत्यस्यैव- मिति शेषः। शाव्दान्यत्वनिचेशे इति तदर्थः । नन्वेवं प्रकृतेऽपि योग्यताज्ञानाभावात्कथं बोधोऽत आह-मुखमिति। अत एवाहार्ययोग्यताज्ञानसत्त्व।देव। शाव्दवोधे शान्द- बोधत्वावच्छिन्ने। लाघवान्मतान्तरमाह-आहार्य एव वेति। मा चास्त्विति। वहिना सिश्चतीत्यादावप्याहार्यज्ञानस्येष्टत्वादिति भावः । अस्योभयत्रान्वयः। उक् दव्यति-अवश्यं चेत्यादिना। अभेदेत्यस्याहार्येंत्यादिः। एवव्यवच्छेद्यमाह-न
Page 165
१५० काव्यमाला।
चन्द्र इत्यादौ पराभिमतसारोपलक्षणोदाहरणे वाच्यार्थयोरेवाभेदान्वयो- डभ्युपगन्तव्यः । न तु वाच्यलक्ष्ययोः । अन्यथा 'राजनारायणं लक्ष्मी- स्त्वामालिङ्गति निर्भरम्', 'पादाम्बुजं भवतु मे विजयाय मल्जुमन्जीरशिज्जि- तमनोहरमम्बिकायाः' इत्यादौ क्रमेणोपमारूपकयोरुपमितविशेषणसमा- साधीन योर्लक्ष्मी कर्तृ का लिङ्गन मञ्जुमञ्जीरशिञ्जितम नोहरत्वयोरनुपपत्ति निर्णा- यिका रूपकोपमयोः प्राचीनैस्तत्र तत्रोपनिबद्धा विरुद्धा स्यात्। आद्य- पद्ये उपमाया इव रूपकस्यापि स्वीकारे बाधकस्य तुल्यतया तन्निर्णा- चकताया असंगतेः । द्वितीयपद्ये रूपकस्यापि स्वीकारे बाघकाभावेन तन्निवर्तकताया अयोगात्। न च मुखचन्द्रादौ समासे कचिदस्तु नाम प्रागुक्तरीत्या लक्षणां विनापि वोधोपपत्तिः, व्यासे तु लक्षणाया नास्ति बाधकमिति वाच्यम् । 'कृपया सुधया सिश्च हरे मां तापमूर्चछतम्' इत्यादौ व्यासेऽप्यनुपपत्तेः । न च सिश्चतेरपि विषयीकरणे लक्षणया ना- - लक्षणायां बीजाभावादनुभवविरोधाच्च। अपि चोपमानवाचकस्य चन्द्रा- दिपदस्य रूपके उपमानसदृशे लक्षणा इति हि प्राचां समयः । तत्र च लक्ष्यतावच्छेदकं सादृश्यम् । तच्च समानधर्मरूपम् । स च लक्ष्यांशे सुन्दरत्वत्वादिना (?) विशेषरूपेण प्रतीयते, उताहो सामान्यरूपेण । नादः। सुन्दरं मुखं चन्द्र इत्यादौ पौनरुक्त्यापतेः। न चैवमादावुपात्तधर्मके रूपके तद्धर्मातिरिक्तो धर्म एव लक्ष्यतावच्छेदकीभूतसादृश्यरूप इति वाच्यम्। अनुभवविरोषाद्।
त्विति। अन्यथा वैपरीत्यान्गीकारे। विरुद्धेत्यत्रास्यान्वयः। उपमितविशेषणेति। 'उपमित व्याघ्रादिभिः'। 'मयूरव्यंसकादयश्च' इतीत्यर्थः । तत्र तयोः खवीकारे या तदनु पपत्ति: सा वैपरीत्ये निर्णायिकेत्यखण्डार्थः (?)। बाधकस्य तत्कर्तृकालिवनासंभवस्य। बाधकाभावेन तादशामनोहरलासंभवाभावेन। प्रागुक्तेति। प्राचीनोकेत्यर्थः । ना- स्ति बाधकमिति। प्राचानुक्कतवादिति भावः । सिञ्चतेरिति । अपिरेवार्थः । उत्प्रेक्षेति। अत्र तु यथा सलक्षणा तथा स्फुटीभविष्यति। विनिगमनाविरहादाह- अनुभवेति। तत्र विसंवादादाह-अपि चेति।स च समानधर्मश्च। एवमादौ इ- त्यादावित्यर्थः । अन्नादिशब्दस्य प्रकारार्थत्ात्तत्प्रयोजकधर्ममाह-उपात्तेति । तद्ध-
Page 166
रसगङ्गाधरः । १५१
'अक्कितान्यक्षसंघातैः सरोगाणि सदैव हि। शरीरिणां शरीराणि कमलानि न संशयः ॥।' इत्यादौ श्लेषभित्तिकाभेदाध्यवसितधर्म विना धर्मान्तरस्य सर्वथैवास्फृ- र्तेश्च । नान्त्यः । सादृश्यस्य शब्दोपात्तत्वेनोपमात्वापत्तेः । न च सा- दृश्यस्य वाच्यतायामेवोपमाव्यपदेशः । 'नलिनप्रतिपक्षमाननम्' इत्यादौ तदभावापतेः । किं च 'विद्वन्मानसहंस-' इत्यादौ क्रिष्टपरम्परितरू- पके श्लेषनिप्पत्तौ श्लेषभित्तिकाभेदाध्यवसानेन मानसवासित्वरूपे भूपहंसयोः सादृश्ये सिद्धे सदृशलक्षणामूलस्य भूपे हंसरूपकस्य सिद्धिः । तस्यां च सत्यां सरोमनोरूपार्थद्वयाभिघानलक्षणस्य श्लेषस्य निप्पत्तिरिति परस्प- राश्रयः । नहि रूपकास्फूतौ सरोरूपेऽथें मानसशब्दस्य तात्पर्य वेद- यितुं किंचित्प्रमाणमवतरति। स्फुरिते तु रूपके तद्धटकसादृश्यान्यथानु- पपत्तिरूपेण प्रमाणेनार्थद्वयाभेदबोधफलकस्य तदुभयप्रतिपादनात्मनः क्रे- षस्य निष्पत्तिः । अतो नामार्थयोरभेदान्वयसरणिरेव रूपकस्थले रम- णीया। सदृशलक्षणायाः फलं रूपके ताद्रूप्यप्रत्यय इत्यपि न हृदयं- गमम्। तत्सदृश इति शब्दात्सादृश्यप्रत्यये सत्यपि ताद्रूप्यप्रत्यया- पत्तेः" इत्याहुः ।
मेंति। उपात्तधर्मान्याह्लादकत्वादिरित्यर्थः। तानुभवे विसंवादादाह-अङ्गितानीति। अक्षाणीन्द्रियाणि, अक्षा: पद्माक्षाश्। तत्समूहैर्व्याप्तानि। रोगसहितानि,' सरोगामी- नीत्यर्थः। श्लेषति। शन्दश्लेषनिमिसको यो विशेषणारथयोरभेदाध्यवसायस्तद्विपयी- भूतो यो धर्मस्तव्याप्तत्वसरोगत्वरूपस्तमित्यर्थः । एवमप्रेऽपि। एवं चात्र पौनरुकत्यं दृढमिति भावः। शब्दोपान्तेति। लक्षणयेति भावः । तथा च रूपकोच्छेदापत्ति- रिति भावः। वाच्यतायामेवेति। शक्त्येति भावः । तद्भावेति। प्रतिपक्षश- व्दस्य न सादृश्ये शक्किः । किं तु लक्षणेति भावः । इषापत्तावाह-किं चेति। वि- द्वदिति। 'विद्वन्मानसहंस वैरिकमलासंकोचशीतदुते दुर्गामार्गणनीललोहित समित्सी- कारवैश्वानर। सत्यप्रीतिविधानदक्ष विजयप्राग्भारभीम प्रभो साम्राज्यं वरवीर वत्सर- शतं वैरिश्चमुचैः क्रियाः ॥'इत्यादावित्यर्थः । अन्र मानसमेव मानसमित्यादिश्लेषः । त- स्यां रूपकसिद्धौ। तद्धटकेति। लक्ष्यतावच्छेदकेत्यर्थः । अर्थद्येति। सरोमनोरू- पेत्यादिः। प्राचोक्तमन्यत्खण्डयति-सशेति। नास्तिलक्षणेतीति। मासतु लक्षणा।
Page 167
१५२ काव्यमाला।
अत्रेदं विचार्यते-यत्तावदुच्यते नामार्थयोरमेदान्वयबोधेनैवोपपत्तौ रूपके नास्ति लक्षणेति तत्र चमत्कारिसाधारणधर्मानुपस्थितिदशायामुप- मालंकारस्येव रूपकालंकारस्यापि नास्ति निप्पत्तिश्चमत्कारो वेति सकल- हृदयसिद्धम्। कथमन्यथा 'भारतं नाकमण्डलम्', 'नगरं विधुमण्डलम्' इत्यादिवाक्यश्रवणानन्तरमनुन्मिषन्त्या रूपकप्रतिपत्तेः सुपर्वालंकृतसक- लकलादिशन्दश्रवणोत्तरमेव समुन्मेष: सर्वेषाम्। इत्थमेव च मुखं चन्द्र इत्यादिप्रसिद्धोदाहरणेऽपि। इयांस्तु विशेष :- यदेकत्र साधारणो धर्मः प्रसिद्धतया नियमतः स स्ववोधकश्चुति नापेक्षते। इतरत्र त्वप्रसिद्धतया तथा। एवं स्थिते साधारणधर्मवत्त्वरूपं सादृश्यं यदि रूपकमध्यं न प्रविशेत्तदा कथमिव धर्मविशेषानुपस्थितिदशायां रूपकं न पर्यवस्येत् । चमत्कारं वा न जनयेत्। उपमानोपमेययोराहार्याभेदवुद्धेरनन्यापेक्षपर्य- वसानायाः साम्राज्यात्। न चाहार्यपदार्थद्वयाभेदबुद्धौ तच्चमत्कारे वा साधारणधर्मविशेषज्ञानं प्रयोजकमिति शक्यं वक्तुम्। 'यद्यनुप्णो भवेद्वह्निर्यद्यशीतं भवेज्जलम् । मन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक्।' इत्यादौ साधारणधर्मस्याप्रत्ययेऽपि वहघनुष्णत्वादीनामभेदप्रत्ययोपगतेः । न चोपमानोपमेयस्थल एवायं नवीनो विशेष इति वाच्यम्। ईद्शविशे- नामार्थयोश्वाभेदान्वय एवास्तु। न च बाधज्ञानं प्रतिवन्धकम्। सादृश्यज्ञानरूपदोषस्यो- त्तेजकलात्। एतज्ज्ञानं च प्रसिद्धसादृश्यकस्थले साधारणधर्मानुपादाने एकसंबन्धिज्ञा- नादपरसंबन्धिस्मरणन्यायेन। साधारणधर्मस्मृतौ दोष विशेषसहकारेण शब्दादभेदप्रत्वयः शब्ध पीतलाभावनिश्चये काचकामलादिदोषेण तत्पीतत्वप्रत्यक्षवत्। रूपके आहार्यवुद्धि- रिति प्राचीनव्यवहारे बाधवुद्धिकालिकाकालिकलवमात्रे आहार्यपदं लाक्षणिकम्। इव- शब्दादिसमभिव्याहारे तु तेन भेदगर्भसादृश्य स्यैवोपस्थापनान्नाभेदप्रतीतिरिति मम प्रति- भाति। तत्र दोषं वक्तुमाह-तत्रेत्यादिना। चमत्कारी यः साधारणधर्मस्दनुपे- त्यर्थः। उभयत्र क्रमेण साधारणधर्ममाह-सुपर्वेति। देवालंकृतत्वं पण्डितालंकृ- तत्वं सकलकलातवं चेत्यर्थः। कला षोडशो भागः कौशलंच । एकत्र प्रसिद्धोदाहरणे। इतरत्राप्रसिद्धोदाहरणे तु। तथेति। नियमेन खवबोधकश्रुतिमपेक्षत इत्यर्थः । कथ- मिव कथमपि। अनन्यापेक्षेति। रूपकस्य तु धर्मविशेषोपस्थित्यपेक्षं पर्यवसानमिति भावः । विशेषज्ञानमिति। तथा च तदभावादभेदवुद्धिरपि न स्यादिति भावः । वहयनुष्णेति। वहयादावनुष्णाद्यभेदप्रतीतेरित्यर्थः । न चोपमेति। वह्यनुष्णा-
Page 168
१५३
षकल्पने मानाभावात्। साधारणधर्मानुपस्थितिदशायामपि 'मुखं यदि चन्द्रः स्यात्तदा भूम्यवस्थितं न स्यात्' इत्यादौ तादृशप्रतीत्युपगमाच्च। ननु रूपकप्रतीतेरुपमानाभेदविषयत्वविरहे 'सिंहेन सदृशो नायं कि तु सिंहो नराधिपः' इत्यादौ निषेध्यविधेययोरसंगतिरिति चेत्, न । अनुपदमेव प्राचीनमतद्वयेऽपि रूपके ताद्रूप्यप्रतिपत्तेः स्वीकारस्य प्रतिपादनात्। अथ विधेयकोटौ प्राचां मते सादृश्यस्यापि प्रविष्टतया तन्निषेधानु- पपत्तिस्तथापि स्थितैवेति चेत्, भेदघटितसादृश्यरूपाया उपमाया एव निषेध्यत्वात् तिरोभूतभेदसादृश्यलक्षणस्य रूपकस्य विधेयत्वाच्च नानु- पपत्तिः । यदप्युक्तं रूपके लक्षणास्वीकारे 'राजनारायणम्' इत्यत्र 'पादा- म्बुजम्' इत्यत्र चोपमारूपकयोर्वाधकतया रूपकोपमयोनिर्णायकतया च
द्धा स्यादित्यादि, तदपि न। रूपके उपमानतावच्छेदकरूपेण तत्सदृश- प्रत्ययस्योपपादितत्वेन 'राजनारायणम्' इत्यादौ विशेषणसमासायत्तस्य रूपकस्य स्वीकारे प्रधानीभूतोत्तरपदार्थस्य नारायणसद्दशस्यापि नारा- यणत्वेनैव प्रतीतेर्लक्ष्मीकर्तृकालिङ्गनकर्मताया अनुपपत्तेरभावात्। उपमाया उपमितसमासायत्तायाः सवीकारे तु प्रधानीभूतपूर्वपदार्थस्य राज्ञो राजत्वे- नैव प्रत्ययात्तादृशकर्मताया अनुपपत्तेः । 'पादाम्बुजम्' इत्यादावपि रूप- कस्य स्वीकारे प्रधानीभूतोत्तरपदास्यार्थस्याम्बुजसदृशस्याम्बुजत्वेनैव प्रतीते-
दीनां तु नोपमानोपमेयत्वम्। अत एव तत्र रूपकादिकं न। अभेदबुद्धिस्तु तत्रास्तीति भावः।न लन्यथानुपपत्तिरेव मानं तत्राह-साधारणेति। ताटशेति। उपमानोपमे- ययोश्षन्द्रमुखयो रूपकसत्त्वेनाभेदप्रतीत्यद्गीकारादित्यर्थः । तस्मादभेदवुद्धौ तस्य प्रयोज- कतस्य दुर्वचतया सैव स्यात्। रूपकं न पर्यवस्येत्। अतस्तदुपस्थित्यर्थ लक्षणावश्यम।- श्रयणीयेति भावः। तत्र शह्ते-ननु रूपकेति। बिरहे इति। नामार्थयोरभेदान्वय इति सरण्यनज्गीकारे इत्यर्थः । विधेयकोटाविति। 'सिंहो नराधिपः' इत्यादावि- त्यर्थः । तथापि ताद्रूप्यप्रतिपत्त्यन्वीकारेऽपि। एवेन सादृश्यस्य विधिनिषेधव्यावृत्तिः । तिरोभूतभेदेति बहुत्रीहिः। सादृश्येति। सादृश्यरूपस्येत्यर्थः । विशेषणसमासेति। मयूरव्यंसक इति समासेतर्थः। उपमितसमासेति। 'उपमितं व्याघ्रादि-'इति समा- सेत्यर्थः । तादृशेति। लक्ष्मीकर्तृकालिन्गनेत्यर्थः । तस्या इति। मज्जुमऔरशिजितम-
Page 169
१५४ काव्यमाला।
र्मज्जुमञ्जीरशिञ्जितमनोहरताया अनुपपत्तेः । उपमितसमासायत्तोपमायां तु प्रधानस्य पादस्य पादत्वेनैव प्रतीतस्य नास्ति तस्या अनुपपततिरिति न कोऽपि दोषः । न चोपमितसमासे पूर्वपदार्थस्योपमेय स्योपमेयतावच्छेदक- तयैव प्रतीतिरिति न युक्तम् । 'वक्रे चन्द्रमसि' इति प्रागुक्तरूपक इवोपमानताद्रप्यवदभेदबुद्द्ा तत्ताद्रूप्यस्यात्रापि प्रतिपत्तुं शक्यत्वाल्लक्ष- णायास्तुल्यत्वादिति वाच्यम् । उपमितसमासे भेदघटितसादृश्यस्य लक्ष्य- कोटिप्रविष्टतया वैलक्षण्यस्य वक्ष्यमाणत्वात्। यदप्युक्तं सादृश्यस्य शब्देनोपादानादुपमात्वापत्तिरिति, तदपि न । भेदाकरम्वितसादृश्यविशि- ष्टस्य रूपके लक्ष्यत्वादुपमाव्यपदेशस्याप्रसक्तेः । 'सादृश्यमुपमा भेदे' इति तत्सिद्धान्तात्। ननु यत्र भेदघटितसादृश्यवति वक्रा लक्षणया मुखं चन्द्र इति प्रयुक्तं तत्र तथाप्युपमालंकारापत्तिः स्थितैवेति चेत्, भेदघटित- सादृश्यप्रतिपिपादयिषाकाले लक्षणया तद्वति शब्दप्रयोगस्य विरुद्ध- त्वात्। लक्षणायास्ताद्रप्यप्रतिपिपाद्यिषाधीनत्वात् । नहि प्रयोजन- मनुद्दिश्य रूढिव्यतिरिक्तया लक्षणयार्थ प्रतिपादयन्त्यार्याः । भेदताद्रू- प्ययोर्विप्रतिषिद्धत्वेन युगपत्प्रतिपत्तुबुद्धयुपारोहासंभवाच्च। अथोपमितस- मासे पुरुषव्याघ इत्यादावुत्तरपदस्य स्वार्थसदृशे लक्षणैवोपगन्तव्या । अन्यथा बोधकाभावेन समासे सादृश्यप्रत्ययो न स्यात्। न च व्याघ इवेतीवशब्दस्तद्वोघक इति वाच्यम्। तस्य समासे संवन्धाभावात्। सति च संबन्धे तन्निवृत्तेरयोगात्। निवर्तकशास्त्रस्याभावात्। विग्रहवाक्यगत- स्त्विवशब्दः स्वघटितवाक्यस्योपमाप्रतिपादकत्वं संपादयितुमीष्टे, न वा- क्यान्तरस्य। तस्य विवरणत्वानुपपत्तेश्च । नहि विवरणीयवाक्यगतश- नोहरताया इत्यर्थः । उपमानतादवप्येति। उपमानसदृशयोरेकपदोपात्तत्वेनोपमान- ताद्रूप्यवत्सहशाभेदवुद्या उपमेये उपमानताद्रूप्यस्योपमायामपि ज्ञातुं शक्यलादित्वर्थः । तत्र हेतुमाह-लक्षणेति। रूपके इवोपमितसमासे वाचकेवशव्दस्याभावेन लक्षणा- सत्त्वेन तस्याः समत्वादित्यर्थः। भेदाकरम्बीति। भेदाविशिष्टेत्यर्थः । दोषान्तरमाह- भेदेति। संबन्धाभावादिति। द्योरेव पदयोः समासादिति भावः। अभ्युपेत्याह- सति चेति।उपमाप्रतीति। उपमालंकारप्रतीत्यर्थः। वाक्यान्तरस्य समासवाक्यस्य। ननु समासे मास्तु सादृश्यप्रतीतिरत आह-तस्येति। विग्रहवाक्यस्येत्यर्थः। इत्थं च
Page 170
रसगक्ाधरः । १५५
ब्दाप्रतिपाद्यस्यार्थस्य विवरणं युज्यते। इत्थं च लक्षणाया एवाभ्युपग- म्यतया सत्यां च तत्प्रयोजनीभूतताद्रूप्यप्रतिपत्तौ कथमुपमा द्विलुप्ता तत्र प्राचीनैरुक्ेति चेत्, अत्रोच्यते-उपमितसमासस्य भेदघटितोपमान- सादृश्यविशिष्टोपमेये शक्तेस्तद्वटकीभूतोपमानशब्दस्य भेदघटितसादृश्य- विशिष्टे निरूढलक्षणाया वा सवीकाराददोषः । इयमेव निपातानामिवा दीनां द्योतकतानये मुखं चन्द्र इवेत्यादौ वाचकलुप्तायामुपमायां च गति- रनुसरणीया। वाचकलोपस्तूपमानाद्यकरम्बितसादृश्यतद्विशिष्टान्यतरप्र- तिपादकशब्दशून्यत्वादुपपादनीयः । यच्च 'विद्वन्मानस-' इत्यत्र दू- षणमभिहितं तद्रूपकप्रकरणे परिहरिष्यते। यदप्युक्तं रूपके सदशलक्ष- णायाः फलं ताद्रूप्यप्रत्ययो न युज्यते। तत्सदृश इति शब्दजबोधानन्त- रमपि तथा प्रत्ययापत्तेरिति, तन्न। तत्सदृश इत्यत्र लक्षणाया अभावेन ताद्रूप्यप्रत्ययस्यापादानायोगात् । ताद्रूप्यप्रत्ययो लक्षणायाः फलमिति प्राचां समयः । महाभाष्यादिग्रन्थानामस्मिन्नवानुकूलत्वाच्च। नव्यनये तु तेषामाकुलीभावः स्यादिति दिक्।
उक्कदोषे चेतयर्थः । द्विलुप्तेति। उक्करीत्या धर्मवाचकयोः सत्वेन कथ धर्मवाचकलुप्तो. केत्यर्थः। विशिष्टशक्तौ गौरवादाह-तद्धटकीति। भेदघटितेति। तथा च साथा. रणधर्माभानद्ध र्मलुप्तत्वं सुस्थम्। नन्वेवमपि ताद्रूप्यप्रतीत्या कथं धर्मलप्तत्वमत आह- निरूढलक्षणेति। इयमेवेति। उक्तेव गतिरित्यर्थः। धर्मलुप्तोदाहरणमाह-मुखंचन्द्र इवेति। वाचकलुप्तायामिति। तडिद्वौरीत्यादावित्यर्थः। नन्वेवमपि सादृश्यवाचकस्यो- पमानशब्दस्येव सत्त्वात्कथं वाचकलुप्तत्मत आह-वाचकेति। वाक्ये इवानुपादाने वाचकलुप्तत्वात्सादृश्येति (?)। स्रमसदृशाद्प्रयोगे तत्वायाह-तद्विशिष्टेति। सादश्या- विशिष्टेत्यर्थः । परिहरिष्यत इति। अयं भावः-उपमेयोपमानयोरभेद एव रूप- कमिति मते सादृश्यज्ञानमूलकाभेदप्रतीतिविषय एव सः । एवं च 'पौरुषाब्धेस्तरङ्गः । प्रत्यर्थिवंशोल्वणविजयकरिप्रौढ दानाम्बुपट्टः खभ्गो मालवस्य' इत्यादौ खन्नशब्दात्प्रतीय- मानदानाम्वुपटटाभेदे प्रत्यथिषु वंशाभेदप्रतीतिमूलकतज्जातिसंबन्धितरूपं साधम्ये मूलम्। प्रत्यर्थिषु वंशाभेदे च खन्गे दानाम्बुपह्टभेदप्रतीतिमूलकत द्रज्यमानत्वम्। तस्मादवश्यं रूपके लक्षणा। तथेति। ताद्रप्येत्यर्थः । रूपके लक्षणा। अत्र युत्त्यन्तरमाह- महाभाष्यादीति। तथा च 'पुंयोगादाख्यायाम्'इति सूत्रे भाष्यम्-'भिन्नानामभेदा- भावात्, 'कथं पुनस्तस्मिन् स इत्येतद्रवति'। चतुर्भिः प्रकारैस्ताद्रप्य मारोप्यते, न तु मुखष्यम्। तात्स्थ्यात्, ताद्धर्म्यात्, तत्सामीप्यात्, तत्साहचर्यात्, इति। तास्थ्याद्यथा
Page 171
१५६ काव्यमाला।
"साध्यवसानायां च 'चन्द्रराजी विराजते' इत्यादौ चन्द्रादिशन्दै- र्लक्षणया मुखत्वेनोपस्थापितस्यापि मुखादेः शाब्दवोधश्चन्द्रत्वादिना भवति, लक्षणाज्ञानस्यैव माहात्म्यात्" इत्येके। "लक्षणया मुखत्वेन मुखादेः शाब्दबोधे वृत्ते व्यञ्जनयैकशव्दोपात्तत्वप्रादुर्भूतया चन्द्रत्वेन बोधः" इत्यपरे। मतद्वयेऽप्यस्मिन्मुखादौ चन्द्रत्वभानसामग्र्या मुखत्वादेः स्वध- र्मस्य भानं न निवार्यते। इत्थं चैकस्मिन्धर्मिणि चन्द्रत्वादीनां मुखत्वादी- नां च साक्षाद्धानमेव सारोपातोऽस्या विच्छेदकम्। अपरे तु "निवार्यत एव विरुद्धभानसामत्र्या स्वधर्मस्य भानम्। रजतत्वभानसामग्रयां शुक्ति- त्वस्याभानात्" इति वदन्ति। मतेऽस्मिन्विषयतावच्छेदकास्फूर्तिस्तथा । वस्तुतस्तु साध्यवसानायां विषयतावच्छेदकधर्मभानं यदि सहृदयहृद्यप्रमा- णकं तदा तद्वारणाय कारणकल्पनानुचितैव । शुक्तिरजतभानस्थले तु शुक्तित्वेन भाते पुरोवर्तिनि रजतत्वभानस्य सर्वथैव विरुद्धत्वाद्रजतत्वभा- नसमये शुक्तित्वभाननिवारणमावश्यकम् । न चेहापि तथा। अनुभवविरु- द्धत्वात्। यदि तु तन्न प्रामाणिकं तदा सोचितैव। अथास्य प्रागभिहितलक्षणस्य काव्यात्मनो व्यक्यस्य रमणीयताप्रयो- जका अलंकारा निरूप्यन्ते-
मश्ा हसन्ति। ताद्धर्म्याद्यथा-जटी ब्रह्मदत्तः । ब्रह्मदत्ते यानि कार्याणि जटिन्यपि तानि क्रियन्ते तत्सामीप्याद्यथा-गङ्गायां घोषः । तत्साहचर्याद्यथा 'कुन्तान्प्रवेशय' इति। लक्षणाभाववादिनापि कथमन्योन्याश्रयः परिहार्यः । किमर्थ वा श्लिष्टपर्यन्तानु- धावनं नवीनैदीक्षितैः कृतमिति चिन्त्यमिति। अयमेव दिगर्थ इति बोष्यम्। माहा- त्म्यादिति। समानप्रकारकत्वनियमस्य लाक्षणिकबोधान्यवोधविषयकत्वस्य प्रागुक्त- त्वादिति भावः । नियमाङ्गीकर्तृमतमाह-लक्षणेति । इदमपि प्रागुक्त्म्। मुखत्वा- दीनां चेति। एकपदोपस्थाप्यानामिति बोध्यम्। साक्षादिति। सारोपायां तु चन्द्रत्वस्य चन्द्रसदृशे भानद्वारा तत्र भानमिति परम्परया तद्भानमिति भावः । अस्या इति।साध्यवसानाया भेदकमित्वर्थः। एकधर्म्यधिकरणकोभयभानं तु समानमिति भावः । विषयतावच्छेदकेति। लक्ष्यतावच्छेदकेत्वर्थः । क्वचित्तथैव पाठः। लक्ष्यतावच्छे- दकं च साधारणधर्मरूपमाह्रादकत्वाद्येवैतन्मते बोध्यम्। तथेति। ततो भेदिकेत्यर्थः । अथोपमा-काव्यात्मन इति। भेदे षष्ठीयम्। काव्यात्मनो यद्यज्रयं तस्येत्यर्थः । यद्वा काव्यात्मन इत्यलंकारा इत्यनेनान्वेति। तत्सामान्यलक्षणमाह-व्यङ्वस्य रमणीय-
Page 172
रसगङ्गाघरः । १५७
तत्रापि विपुलालंकारान्तर्वर्तिन्युपमा तावद्विचार्यते- सादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुपमालंकृतिः ॥ सौन्दर्य च चमत्कृत्याधायकत्वम् । चमत्कृतिरानन्दविशेषः सहृदय- हृदयप्रमाणकः । अनन्वये च 'गगनं गगनाकारम्' इत्यादौ सादृश्यस्य द्वितीयसन्रह्मचारिनिवर्तनमात्रार्थमुपात्तत्वेन स्वयमप्रतिष्ठानादचमत्कारि- तैव। अत एव तस्यान्वयाभावादनन्वयं तमाहुः । व्यतिरेके 'तवाननस्य तुलनां दधातु जलजं कथम्' इत्यादौ चमत्कारिणो निषेधस्य निरूपणाय प्रतियोगिन: सादृश्यस्य निरूपणमचमत्कारकमेव। एवमभेदप्रधानेष्वपि रूपकापह्ुतिपरिणामभ्रान्तिमदुल्लेखादिषु, भेदप्रधानेषु दृष्टान्तप्रतिवस्तू- पमादीपकतुल्ययोगितादिषु चमत्कारिषु तत्तन्निष्पादकतयावस्थितस्यापि सादृश्यस्य चमत्कारिताविरहेण नास्त्युपमालंकृतित्वम्। मुखमिव चन्द्र इति प्रतीपे, चन्द्र इव मुखं मुख इव चन्द्र इत्युपमेयोपमायां च सादृश्य- स्य चमत्कारित्वान्नातिप्रसङ्गः शङ्कनीयः । तयोः संग्राह्यत्वात्। ननु तेत्यादि। तत्रापि तेष्वपि। विपुलेति। वहित्यर्थः। वाक्यार्थोपस्कारकमित्यलंकारस्म। सुन्दरमित्यस्य व्यावर्त्यमाह-अनन्वये चेति। सामान्यलक्षणप्राप्तम्। सब्रह्मचा- रीति। सदृशेत्यर्थः । स्वयमिति। सस्यापर्यवसानादित्यर्थः । अत एव सार्थबोधने तात्पर्याभावादेव। तस्य सादृश्यस्य। द्वितीयं तदाह-व्यतिरेक इति । अन्यदपि तदाह-पवमिति। अनन्वयव्यतिरेकयोरिवेत्यर्थः। तत्तन्निष्पादकेति। अभेदा- पह्वादिनिष्पादकेत्यर्थः । तयोस्तादृशप्रतीपोपमेयोपमानयोः । संग्राह्यत्वादिति। चित्रमीमांसोक्ोप मालक्षणदूषणावसरे इति भावः। नव्यास्तु "यत्र चन्द्राद्युपमानप्रति-
स्वसादृश्यवुद्धिकृतः सः, किं तु निरुपमतवुद्धिकृत इति नोपमातम्। उपमेयोपमाया- मपि न परस्परसादृश्यवुद्धिकृतः सः, किं लनयोरेव साम्यं न तृतीय एतत्सदृश इति बुद्धिकृत इति तस्थामपि न तत्त्वम्। मुखमिव चन्द्र इति प्रतीपेऽपि मुखादौ सादृश्य- प्रतियोगिकत्ववुद्धिकृत एव सः, न तदनुयोगिकतवुद्धिकृत इति तत्रापि न तत्त्वम्। 'अह्मेव गुरु :- ' इति प्रतीपेऽपि उपमानतिरस्कृतत्वकृत एव सः, न तु सादृश्यवुद्धि- कृत इति न तत्रापि तत्त्वम्। अलंकारभेदे च चमत्कारनिदानभेद एव निदानम्। रूपकोत्प्रेक्षादौ तथा कृप्तलात्, सहृदयानुभवसाक्षिकत्वाच्च। एतेन सादृश्य स्याप्रतिष्ठाने यदि सादृश्याप्रतीतिस्तर्व्यनुभवविरोधः । यदि भेदगर्भे तदप्रतीविस्तदा भेदांशनिवेशेन तद्विवरणे किं फलम्। उपमेयोपमावत्तस्याप्यवस्तूपमात्वमित्यपास्तम्" इत्याहुः। उपमा- १५
Page 173
१५८ काव्यमाला।
'त्वयि कोपोपमा भाति सुधांशाविव पावकः' इत्यादावुपमानस्यात्यन्तमसं- भावितत्वात्सादृश्यमेव न तावत्प्रतिपत्तुं शक्यम्, चमत्कारस्तु पुनः केन स्यादिति चेत्, कविना हि खण्डशः पदार्थोपस्थितिमता सेच्छया संभा- वितत्वेनाकारेण चन्द्राधिकरणकमनलं प्रकल्प्य तेन सह साम्यस्यापि कल्पने बाधकाभावात्। कल्पितमसत्सादृश्यं कथं चमत्कारजनकमिति तु न वाच्यम्। परमसुकुमारीभवत्कनकनिर्मिताङ्गया मणिमयदशनकान्तिनि- र्वासितध्वान्तायाः कान्ताया भावनया पुरोऽवस्थापिताया आलिङ्गनस्या- ह्रादजनकत्वदर्शनात् । उपमानोपमेययोः समत्वस्य लक्षणे प्रवेशाभावा- न्नात्र दोषलेशोऽपि । अत एव 'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । शशाङ्कविम्बतो मेरौ लम्बमान इवोरगः ॥l' इत्यादावपि नानुपपत्तिः । परे तु अस्याः कल्पितोपमाया उपमानान्त- राभावफलकत्वेनालंकारान्तरतामाहुः । तन्न। सादृश्यस्य चमत्कारितयो- पमान्तर्भावस्यैवोचितत्वात्। संनिरूपितत्वस्य लक्षणे प्रवेशाभावात्। उ- पमानान्तराभावफलकत्वं ह्यपमाविशेषत्वे साधकम् । न तूपमाबहिर्भावे। अथ 'विलसत्याननं तस्या नासाग्रस्थितमौक्तिकम् । आलक्षितबुधाक्लेषं राकेन्दोरिव मण्डलम् ।' इत्यादौ साधारणघर्मस्याभावात्कथमुपमानिप्पत्तिः । बुधमौक्तिकयोरेकै- कमात्रवृत्तित्वात्। न चात्र यदि नासाग्रस्थितमौक्तिकं तस्या आनन-
नस्य चन्द्राधिकरणकानलस्य। असंभावितत्वेन न तु सत्वेन रूपेणेति भावः। कल्पित- मिति। यतः कल्पितमत एवासदित्यर्थः । नन्वेवं भवतु तादृशस्यापि सादृश्यस्य चमत्कृतिजनकत्वं तथापि लक्षणे उपमानोपमेययोर्निवेशेन तयोः सत्यलस्यापेक्षितत्वेन कथमुक्तस्थलेनिर्वाहोऽत आह-उपमानोपेति। भावफलकत्वमिति।उपमानान्त- राभावस्य फलत्वेऽपि कविकल्पितसादृश्यकृत एव चमत्कार इति नव्यमतेऽपि दोषः । आलक्षितेति। आलक्षिताश्िष्टवुधमित्यर्थः। तथा पाठस्तूचितः । अत एव वक्ष्यति- बुधमौक्तिकयोरिति। कथमिति।तद्धर्मोपस्थितेः कारणतस्य तत्र प्रागभिहितत्वा-
Page 174
रसगङ्गाधरः । १५९
मालक्षितबुघाश्लेषं राकेन्दोर्मण्डलमिव विलसतीति तादृशराकेन्दुमण्डलनि- रूपितसादृश्यप्रयोजकविलासाश्रयस्ताद्दशमाननमिति तात्पर्य तदा विपू- र्वकलसत्यर्थशोभाविशेष एव समानो धर्मः । यदि च तादृशमिन्दुमण्डल- मिव यत्तादृशमाननं तद्विलसतीति तादृशसादृश्यावच्छिन्नमाननमुद्दिश्य विलासाश्रयत्वं विधेयतया विवक्ष्यते तदास्या लुप्तोपमात्वात्पझमिव मुखमित्यादाविवाह्लादकत्वादिधर्म उन्नेय इति वाच्यम्। उपमानोपमेयशो- भयोरपि वस्तुतोऽसाधारणत्वात्। 'कोमलातपशोणाभ्रसंध्याकालसहोदरः । कषायवसनो याति कुङ्कमालेपनो यतिः ।।' इत्यादौ धर्मान्तरस्यापि प्रतिभानादसुन्दरत्वाच्च कोमलातपादीनामसा- धारणत्वात्कथमुपमेति चेत्, अत्राहुः-उपमेयगतानामुपमानगतानां चा- साधारणानामपि धर्माणां सादृश्यमूलेनाभेदाध्यवसायेन साधारणत्वकल्पना- दुपमासिद्धिः । न च अ्रमात्मकेनाहार्याभेदबोधेन कथं नाम कुङ्कुमालेपको- मलातपादीनां वस्तुतो भिन्नानां साधारणत्वसिद्धयेऽत्यन्तमसन्नभेद: सेद्वुं शक्कुयात् , भ्रमेणार्थसिद्धेरभावादिति वाच्यम्। प्रागुक्तेऽपि 'कोपोपमा भाति सुधांशाविव पावकः' इत्यादावुपमानोपमेययोरत्यन्तासत्यत्वेऽपि कल्पनामा- त्रतो यथा निष्पत्तिस्तथैव प्रकृते साधारणधर्मस्यापीति व्यक्तमुपपादयि- प्यामः । अयमेव बिम्बप्रतिबिम्बभाव इति प्राचीनैरभिधीयते।
दिति भावः । ताटशराकेन्दुमण्डलेति। तद्विशिष्टराकेन्द्वित्यरथः । एवमग्रेऽपि। तथा वक्तं तु युक्तम्। आद्ये दूषणमाह-उपमानोपेति । द्वितीयरीत्योक्तप्रसिद्धोदाहरणे निर्वाहेऽप्यप्रसिद्धोदाहरणे दोषमासाद्य साधारणमाह-कोमलेति। कोमलातपत्वं शोणाभ्रतं च बहुत्रीहिणा संध्याकालविशेषणम्। अत एव कोमलातपादीनामिति वक्ष्यति। अभेदाध्यवसायेनेति। न चैकधर्मवरवमिवोपमानवृत्तिधर्मसदृशधर्मवत्त्व- मप्युपमाप्रयोजकमस्तु किममुना भेदाध्यवसायेनेति वाच्यम्। साधारणधर्मेणोपमानोप- मेययोरभेदप्रतीतिकृतचमत्कारस्योपमायामिष्टस्य धर्मयोरभेदाध्यवसानं विनानुपपत्तेः। तथा चोक्तमलंकारसर्वस्वकृता-'भेदाभेदप्रधानोपमेतीति बोध्यम्' । प्रागुक्त इति। यत इत्यादिः। अयमेव सादृश्यमूलाभेदाध्यवसाय एव। प्राचीनैविम्वप्रतिबिम्बभाव इत्यभिधीयत इत्यर्थः । एवं उक्तोदाहरणे उपमासिद्धिवत् । भगवतः कृष्णस्य। चश्वनू
Page 175
१६० काव्यमाला।
एवम् 'भुजो भगवतो भाति च्चचाणूर चूर्णने। जगन्मण्डलसंहारे वेगवानिव धूर्जटिः॥' अत्र धूर्जटिभगव्गुजयोराकारेण सादृश्यस्याभावात्प्रकारनिर्मुक्तस्य केवलभानस्याप्रयोजकतया चाणूर चूर्णननिमित्तक चाञ्चत्यवत्त्वजगन्मण्डल- संहारनिमित्तकवेगवत्त्वयोर्भानप्रकार योरभेदाध्यवसानेना भिन्नधर्म प्रकारकभा- नविशेष्यत्वस्य साधारणधर्मस्य सिद्धेरुपमासिद्धिः । तत्र चाणूरजगन्म- ण्डलयोर्वस्तुतो भिन्नयोर्महाकायत्वादिना सादृश्याद्विम्बप्रतिविम्बभावः ।
तैवेति वस्तुप्रतिवस्तुभावः । इत्येवं निरूपितमुपमालक्षणम् । अथेयमुदाहियते- 'गुरुजनभयमद्विलोकनान्तः समुदयदाकुलभावमावहन्त्याः । दरदलदरविन्दसुन्दरं हा हरिणद्दशो नयनं न विस्मरामि ॥' अत्र दलदरविन्दशब्दस्योपमानवाचकस्य सुन्दरशब्देन सामान्यवच- नेन समासे प्रतीयमानोपमा सकलवाक्यार्थस्य विप्रलम्भशृङ्गारस्य स्मृत्यु- पस्करणद्वारोपस्कारकतयालंकारः । न चात्र स्मृतिः प्रधानतया ध्वन्यत इति वक्तुं शक्यम्। न विस्मरामीति स्मृत्यभावनिषेधमुखेन स्फुटमावेद- नात्। नापि पूर्वार्धगतत्रासौतसुक्ययोः परस्पराभिभवकामयोः संधिः प्रधा- नम्। तस्य नायिकागतत्वेनानुवाद्यत्वात्। उत्तरार्धगतस्मृत्यङ्गत्वाच्च। तस्मा- द्धावसंध्युपमालंकाराभ्यामुपस्कृता स्मृतिर्हापदगम्यः संतापोऽनुभावश्च वि- प्रलम्भमेवोपस्कुरुत इति तस्यैवात्र प्राधान्यम्।
चाववत्यवान्। धातूनामनेकार्थलात्। चाणूरो दैलयः । तत्र धमयोर्मध्ये । वस्तुप्रति- वस्तुभाव इति। तत्र चूर्णनसंहारयोराश्रयभेदजभेदप्रत्ययस्तत्संबन्धिचाणूरजगन्म-
एकनिमित्तकत्वेनाभेदमादाय साधारणतेति वोध्यम्। समासे इति । 'उपमानानि-' इति सूत्रेणेति भावः। अत एव न श्रौतीत्याह-प्रतीपेति। सकलवाक्यार्थस्य सक- लवाक्यतात्पर्यविषयभूतस्य । शआारस्येत्यस्योपस्कारकतयेत्यत्रान्वयः । त्रासेति । गुरुजनभयमद्विलोकनपद्बोध्ययोर्गुरुजनभयमद्विलोकनयोर्मध्ये व्याकुललोदयेन द्वयोरपि
Page 176
रसगङ्गाधरः । १६१
अप्पदीक्षिताः पुनश्चित्रमीमांसायाम्-'उपमितिक्रियानिप्पत्तिमत्सा- दृश्यवर्णनमदुष्टमव्यङ्गमुपमालंकारः । स्वनिषेधापर्यवसायि सादृश्यवर्णनं वा तथाभूतं तथा' इति लक्षणद्वयमाहुः । तचिन्त्यम् । वर्णनस्य विलक्षणश- ब्दात्मकस्य विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविरहेणार्थालंकारताया दि वर्णनविषयीभूतं तादृशसादृश्यमुपमेत्युच्यते तदा यथा गौस्तथा गवय इत्यत्रोपमालंकारापत्तेः । एवं 'कालोपसर्जने च तुल्यम्' इत्यादावपि। अ- शिष्यत्वादिना प्रधानप्रत्ययार्थवचनसादृश्यस्यात्रापि प्रतिपादनात्। न चात्र वचनभेदस्य दोषस्य सत्त्वाददुष्टत्वविशेषणेन वारणं भविष्यतीति वाच्यम्। एतद्वाक्योपप्ठुतवाक्यान्तरप्रतिपादितैकोपमेयके सादृश्ये तथा- प्यतिप्रसङ्गात्। न चात्रोपमितिक्रियाया निष्पत्तावपि न सादृश्यवर्णनम्। विषयस्याचमत्कारित्वात्। चमत्कारिविषयककविव्यापारस्यैव वर्णनपदा- र्थत्वादिति वाच्यम् । एवं हि चमत्कारित्वस्य लक्षणेऽवश्यं निवेश्यत्वेनो- पमितिक्रियानिप्पत्तिविशेषणस्य वैयर्थ्यात्। नह्यनिष्पन्नमापाततः प्रतीय- मानं सादृश्यं चमत्कृतिमाघत्ते। एवं द्वितीयलक्षणेऽपि निषेधापर्यवसा- यित्वं निरर्थकम्। व्यतिरेके कमलादिसादृश्यनिषेधस्यान्वये च सर्वथा सादृश्यनिषेधस्य चमत्कारितया तदर्थ सादृश्यस्य निरूपणमिति प्रागेवा- भिधानात्। किं च । 'स्तनाभोगे पतन्भाति कपोलात्कुटिलोडलकः । शशाङ्कविम्बतो मेरौ लम्बमान इवोरगः ॥।'
तुल्यकक्षलम्। अत आह-परस्परेति। तस्य संघेः। पुनःशब्दार्थे शब्दस्य शब्द- वाच्यतमते नायं दोषोऽत आह-विलक्षणज्ञानेति। अव्यक्यतवाद्यक्यलवाभावात्। तादृशेति। अदुष्टाव्यङ्गयाद्यविशेषणद्वयान्यतरेत्यर्थः । इत्यादावपीति। उपमालं. कारापत्तिरित्यस्यानुषङ्गः । आदिसंग्राह्यं चिन्त्यम् । अत्रापि कालोपसर्जनयोरपि । अत्र 'कालोपसर्जने च तुत्यम्' इत्यत्र। द्विवचनोपादानादिति भावः। एतदर्थमेव द्वितीयदोषोक्तिः । उपप्रुतेति । कल्पितेत्यर्थः । प्रधानप्रत्ययार्थवचनवत्काल इत्या- दीति भावः । तदाह-एकोपमेयेति। अन्रेति। यथा गौरित्यादावित्यर्थः।व्यतिरे- क इति। तवाननस्येत्यादाविच्यर्थः । कमलादिसादृश्येति। कमलादिनिष्ठसादृश्ये- त्यर्थः । ननु वर्णनपदस्य चमत्कारजनकज्ञानविषयीभूतानुयोगिकत्वार्थे तात्पर्यग्राहकमि- वम्, न तु लक्षणशरीरपदकमिति चेत, तत्राह-किं चेति। वाक्यार्थत्वेनेति। तथा
Page 177
१६२ काव्यमाला।
इत्यादौ मुख्यवाक्यार्थत्वेनानलंकारभूतायामुपमायामतिव्याप्तिः । उप- मितिक्रियानिप्पत्तिमत्सादृश्यवर्णनस्यादुष्टाव्यञ्ञयत्वस्य चात्रापि सत्त्वात्। न चेयमप्युपमा लक्ष्येति वाच्यम्। ध्वन्यमानोपमानिवारणप्रयासस्य वैयर्थ्यापत्तेः । नह्यत्राभेदप्रधानोत्प्रेक्षा शक्या वक्तुम्। कल्पितोपमाया निविषयत्वप्रसङ्गात्। 'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः । क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ।।' इति स्वकृतसूत्रेऽलंकारभूतोपमाया एव लक्ष्यत्वेनाभिघानात्। अलं- कारभूतोपमालक्षणत्वे तदेवादुष्टाव्यञ्ञत्वविशेषितमिति तत्रैव पुनरभि- धानाच्च। नह्यत्रोपमानोपमेयसादृश्यादुपमास्वरूपादस्ति कश्चिदतिरिक्तो वाक्यार्थः, येनोपमा तमलंकुर्यात् । अपि च लक्षणे सादृश्यविशेषणं निरर्थकम् । 'उपमितिक्रियानिष्पत्तिमद्वर्णनमुपमा' इत्येतावतैव स्वाभी- ष्टार्थलाभात्। एवम् 'स्वतःसिद्धेन भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकगोपमा ।।' इति विद्यानाथोक्ततं लक्षणमपास्तम् । व्यतिरेके निषेधप्रतियोगिनि सा- दृश्येऽतिव्याप्तेः । एवम् 'उपमानोपमेयत्वयोग्ययोरर्थयोद्वयोः । हृद्यं साधर्म्यमुपमेत्युच्यते काव्यवेदिभि:॥' इति प्राचामपि लक्षणं प्रत्युक्तम् । हृद्यतामात्रेण निर्वाहे विशेषणा- न्तरवैयर्थ्यात्। एवं काव्यप्रकाशोक्तमपि 'साधर्म्यमुपमा भेदे' इति
च न वाक्यार्थोपस्कारकत्वमिति भावः। तदाह-अनलमिति। ननु अलंकरोतीति यो गवोधितोपस्कार कत्व स्यालंकारसामान्यस्वरूपत्वेन विशेषलक्षणेषु तदनिवेशेऽपि क्षत्यभा- व इत्यत आह-अपि चेति । अत एव चित्रभूतोपमालक्षणं लिति तैनोक्तम्। पूर्वव- दस्यापि तात्पर्यत्राहकत्वादिदमपि चिन्त्यम्। अव्यक्यतवं च तल्लक्षणे प्राधान्येनाव्यज्गयतं वोध्यमिति दिक्। एवपदार्थमाह-व्यतीति। तवाननस्येत्यादावित्यर्थः । एवमग्रेऽपि यथासंभवम् । एवमर्थमाह-हृद्यतेति। ननु तत्रैव तात्पर्यप्राहकं तदत आह-काव्ये-
Page 178
रसग्गाधरः । १६३
लक्षणं नातीव रमणीयम्। व्यतिरेके निषेधप्रतियोगिनि सादृश्येSतिव्या- पनात्। न च पर्यवसितत्वेन साध्म्यै विशेषणीयमिति वाच्यम्। अनन्व- यस्थसादृश्यस्यापर्यवसायित्वेनैव वारणे भेदविशेषणवैयर्थ्यापत्तेः । का- व्यालंकारप्रस्तावे करणानौचित्याच्च। अत एव 'भेदाभेदतुत्यत्वे साधर्म्यमुपमा' इत्यलंकारस- र्वस्वोक्तमपि लक्षणं तथैव। एवं 'प्रसिद्धगुणेनोपमानेनाप्रसिद्धगुणस्योपमे- यस्य सादृश्यमुपमा' इत्यलंकाररल्ाकरोक्तमपि न भव्यम्। श्लेषमूलको- पमायां तादृशशब्दात्मकस्य धर्मस्य कविनैव कल्पनात्। तेन रूपेणो- पमानस्याप्रसिद्धेश्र इत्यलं परकीयदूषणगवेषणया । प्रकृतमनुसरामः । अस्याश्चोपमायाः प्राचामनुसारेण केचिद्वेदा उदाहरियन्ते। तथाहि- उपमा द्विविधा, पूर्णा लुप्ता च । पूर्णा तत्र-श्रौती, आर्थी चेति द्विघा भवन्ती वाक्यसमासतद्धितगामितया षोढा । लुप्ता च- उपमानलुप्ता, धर्मलुप्ता, वाचकलुप्ता, धर्मोपमानलुप्ता, वाचकधर्मलप्ता, वाचकोपमेयलुप्ता, धर्मोपमानवाचकलुप्तेति तावत्सप्तविघा । तत्रोपमान- लुप्ता-वाक्यगा, समासगा चेति द्विविधा। धर्मलुप्ता-समासगता- श्रौती, आर्थी। वाक्यगता-श्रौती, आर्थी। तद्धितगता च-आर्थ्येव, न श्रौती। इति प्चविधा। वाचकलुप्ता-समासगता, कर्मक्यज्गता, आ- धारक्यज्गता, क्यङ्गता, कर्मणमुल्गता, कर्तृणमुल्गता चेति षड्डिधा। धर्मोपमानलुप्ता-वाक्यगता, समासगता चेति द्विविधा। वाचकधर्मलुप्ता किळ्गता, समासगता चेति द्विविधैव। वाचकोपमेयलुप्ता त्वेकविधा। धर्मोपमानवाचकलुप्ता तु समासगतैकविधा। इति। एवं साकल्येनैकोनविं- शतिर्लुप्ताभेदा: पूर्णाभेदैः सह पश्चविशतिः क्रमेणोदाहरियन्ते। तत्र पूर्णा श्रौती वाक्यगता यथा- 'ग्रीष्मचण्डकरमण्डलभीष्मज्वालसंसरणतापितमूतेंः । प्रावृषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः ।।' ति।अत एवेति। प्रकाशग्रन्थे। उक्त्दोषगणादेवेत्यर्थः। तथैव नातीव रमणीय मित्यर्थः । एवमिति। व्यतिरेकेऽतिव्यापनादित्यर्थः। ननु पर्यवसितत्वेन विशेषणान् दोपोऽत आह- श्लेपेति। प्राचां प्रकाशकारादीनाम्। तत्र तयोर्मध्ये। तत्र तासां सप्तानां मध्ये। तन्र पञ्चविशतीनां मध्ये। ग्रीष्मेति। मण्डलस्य भीष्मा ज्वाला यत्र तत्र देशे यत्संसरणं ग-
Page 179
१६४ काव्यमाला।
अन्र प्रावृषेण्य इत्यनेन वारिधरविशेषणेन नैराकाङ्वयात्, इवेन समासः। एषा चोपमानोपमेययोर्वारिधरभगवतोर्वेदनाहरणकर्तृत्वस्य साधारणवर्मस्य सादृश्यबोधकस्येवशव्दस्य चाभिधानात्पूर्णा । सादृश्यस्य श्रुत्याबोध- नाच्छौती। पूर्णा आर्थी वाक्यगता यथा- 'प्राणापहरणेनासि तुल्यो हालहलेन मे। शशाङ्क केन मुग्धेन सुधांशुरिति भाषितः ।।' पूर्णा श्रौती समासगा यथा- 'हरिचरणकमलनखगणकिरणश्रेणीव निर्मला नितराम्। शिशिरयतु लोचनं मे देवव्रतपुत्रिणी देवी ।।' अत्रेवेन समासः । पूर्णा आर्थी समासगा यथा- 'आनन्दनेन लोकानामातापहरणेन च। कलाधरतया चापि राजन्निन्दूपमो भवान् ।।' पूर्णा श्रौती आर्थी च तद्धितगा यथा- 'निखिलजगन्महनीया यस्याभा नवपयोधरवत्। अम्बुजवद्विपुलतरे नयने तङ्डह्म संश्रये सगुणम् ।' अत्र पूर्वार्धे वतेः 'तत्र तस्येव' इति सादृश्ये विधानाच्छौती। उत्त- रार्धे 'तेन तुल्यं-' इति विधानात्सादृश्यवदर्थकतया आर्थी। मनं तेनेत्यर्थः । वृष्णिवरेण्यः कृष्णः । वाक्यगत्वमाह-अत्रेति। इवेन समास इति 'सुप्सुपा' इत्यस्यानित्यत्वेनास्य तत्प्रपश्चलात्। एवं च वैकल्पिकत्वात्तदभाव इति भावः। पूर्णातमाह-पषेति। श्रुत्येति। इवेनेत्यर्थः। विशेष्यतयेति भावः। प्राणापेति। अत्र समासाभावाद्वाक्यगतम्। विषचन्द्रयोः प्राणापहारकत्वरूपधर्मस्य तुल्यशव्दस्य चोपादा- नात्पूर्णात्वम्। तुल्यशव्दस्य सदृशार्थकत्वेऽपि प्राधान्येनेवशव्दवत्सादृश्यबोध कत्वाभावा- दार्थत्वम्। हरीति। देवैव्रतेन पुत्रिणी। पुत्रवतीत्यर्थः। अन्नापि चतुर्णामिवास्य चोपादा- नात्पूर्णात्वं श्रौतीत्वं च । समासगात्वमाह-अत्रेति। आनन्दनेनेति। करणे ल्युद। लोकानामिति मध्यमणिन्यायेनान्वेति। आ समन्तात्तापेत्यर्थः । इन्दूपमो भवानिति। अत्र समासस्य धर्मिशक्तत्वात्कर्मसाधनेनोपमाशब्देन समासाद्वा आर्थीत्वं समासगतवं च। पूर्णात्वं तु स्पष्टमेव। सगुण ब्रह्म कृष्णरूपम्। कुसुमकुलानां तरूणां तिलकं श्रे- १. देवव्रतो भीष्मः, तेन पुत्रवती गङ्गा.
Page 180
रसगङ्गाधरः। १६५
उपमानलुप्ता वाक्यगा यथा- 'यस्य तुलामधिरोहसि लोकोत्तरवर्णपरिमलोद्गारैः । कुसुमकुलतिलक चम्पक न वयं तं जातु जानीमः ।l' यत्तुलनामधिरोहसीत्याद्यचरणनिर्माणे इयमेव समासगा। उपमाभा वेन सादृश्याभावस्य पर्यवसानात्सादृश्यपर्यवसानस्य चोपमाजीवितत्वा- दलंकारान्तरमेवात्र नोपमानलुप्तेति नाशङ्कनीयम् । यस्य तुलामारोहसि न तं वयं जानीम इत्युक्त्या अस्माकमसर्वज्ञत्वादस्मदगोचरः कोऽपि तवोपमानं भविष्यतीति सादृश्यपर्यव सानमस्तीत्युपमानलुप्तैवेयमुपमा, नालं- कारान्तरम् । एतेन 'ढुँहुँणन्तो हि मरीहिसि कण्टककलिआइँ केअइवणाइं। मालइकुसुमसरिच्छं भमर भमन्तो न पावहिसि ।।' इत्यत्रासमालंकारोऽयमुपमातिरिक्त इति वदन्तोऽलंकाररलाकरादयः परास्ताः । धर्मलुप्ता श्रौती वाक्यगता यथा- 'कलाधरस्येव कलावशिष्टा विलूनमूला लवलीलतेव। अशोकमूलं परिपूर्णशोका सा रामयोषा चिरमध्युवास ।' 'ग्रीष्मचण्डकरमण्डल-' इति प्रागुदाहृते पूर्णाया उदाहरणे प्रावृ- षेण्यो वारिघर इव यो वृष्णिवरेण्यः स मे वेदनां हरत्विति वृष्णिवरेण्य- मात्रगतत्वेन वेदनाहरणकर्तृत्वं विवक्षितम् । वारिघरसादृश्यं च श्यामत्वा- दिना यदि तदा तत्राप्येषा बोध्या। इयांस्तु विशेष :- यत्पूर्णायां वृष्णिवरेण्यमात्रमुद्दिश्य प्रावृषेण्यवारिधरसादृटश्यप्रयोजकं तादृशवारिधर- ष्टेति चम्पकविशेषणम्। यत्तुलनामिति। यस्य तुलनां यत्तुलनामित्यर्थः । शङ्कते- उपमानेति। यस्येति। यत इत्यादिः। इत्युक्त्येति।सनास्तीत्युक्तिरन्यथा स्यादि- ति भावः। एतेनेति। उक्तरीत्या सादृश्यपर्यवसानेनेत्यर्थः । अन्नापि तत्प्राप्तिस्तव दुर्ल- भेत्युकं न तु स नास्तीति भावः। 'ढुं दुं कृत्वा हि मरिष्यसि कण्टककलितानि केतकीव- नानि। मालतीकुसुमसदृक्षं भ्रमर भ्रमन्न प्राप्स्यसि ॥' लवलीलता 'हरफारेवडी' इति माषया प्रसिद्धा। अशोकमूलमिति। 'उपान्व-'इत्याधारः कम। इयामत्वादिनेति। विवक्षितमित्यनुषभ्ः। सादृश्यस्यातिरिक्त्वे आह-प्रावृषेण्येति। धर्मरूपत्वे आह-
Page 181
१६६ काव्यमाला।
सादृश्याभिन्नं वा वेदनाहरणकर्तृत्वं विधेयमित्युपमाविधेयिका धीः। धर्म- लुप्तायां तु वारिधरसादृश्यावच्छिन्नवृष्णिवरेण्यमुद्दिश्य वेदनाहरणकर्तृत्व- मात्रं विधेयमित्युपमोद्देश्यतावच्छेदिका । धर्मलुप्ता आर्थी वाक्यगता यथा- 'कोपेऽपि वदनं तन्वि तुल्यं कोकनदेन ते। उत्तमानां विकारेऽपि नापैति रमणीयता ।।' धर्मलुप्ता समासगा श्रौत्यार्थी तद्धितगार्थी च यथा- 'सुधेव वाणी वसुधेव मूर्तिः सुधाकरश्रीसदृशी च कीर्तिः । पयोधिकल्पा मतिरांसफेन्दोर्महीतलेऽन्यस्य नहीति मन्ये ॥' ईषदसमाप्तिरपि भङ्गयन्तरेण सादृश्यमेव। वाचकलुप्ता समासगा-'दरदलदरविन्दसुन्दरं' इति प्रागुदाहृते पदे। कर्माघारक्यज्गता क्यङ्गता च यथा- 'मलया निलमनलीयति मणिभवने काननीयति क्षणतः । विरहेण विकलहृदया निर्जलमीनायते महिला ॥' अत्रानलमिवाचरतीत्यर्थेऽनलशन्दात् 'उपमानादाचारे' इति सूत्रेण, कानन इवाचरतीत्यर्थे काननशब्दाच्च तत्सूत्रस्थेन 'अधिकरणाच्च' इति वार्तिकेन क्यच् । निर्जलमीनशब्दाच्च 'कर्तुः क्यङ् सलोपश्च' इति क्यङ्। आचारमात्रार्थकतया क्यच्क्यडो: प्रकृत्यैव लक्षणया स्वस्ार्थसादृश्यप्र- तिपत्तिरिति नये सादृश्यवाचकाभावाद्वाचकलुप्ता। अनलीयतीत्या दिसमु- दायस्यैवानलादिसादृश्यप्रयोजकाचरणकर्तृशक्तत्वमिति नयेऽपि सादृश्य- सादृश्यविशिष्टान्यतरमात्रवाचकाभावाद्वाचकलुप्ता ।
तादृशेति। प्रातृषेण्येत्यर्थः । अवच्छेदिकेत्यस्येतीति शेषः । सादृश्यमेवेति। तथा च तद्विशिष्टार्थप्रतिपादकत्वादाथी। कर्माधारेति। वाचकलप्तेत्यादिः। नन्वेवमाचार- वत्सादृश्यस्यापि क्यजादिना बोधनात्कर्थं वाचकलुप्तात्वमत आह-आचारेति। साह- इयवाचकाभावादिति। शक्लेति भावः। ननु नेदं युक्तम्। अन्न मते इवादीनां द्योतक- तानये सर्वत्रैववाचकाभावाद्वाचकलुप्तात्वापत्तेः। चन्द्रप्रतिपक्षमाननमित्यत्रापि वाचक- लप्ताल्वापत्तेश्। तत्र हि प्रतिपक्षपदेन सादृश्यं लक्ष्यमेव । तस्मात्सादृश्यसादृश्यविशि- षान्यतरमात्रबोधकाभाव एव वाचकलोप इति तत्वम्। अत आह-अनलीयतीत्या- १. नबाब आसफखान इति नाम्ना प्रसिद्धस्य.
Page 182
रसगङ्गाधरः । १६७
कर्तृकर्मणमुल्गता यथा- 'निरपायं सुधापायं पयस्तव पिबन्ति ये। जहुजे निर्जरावासं वसन्ति भुवि ते नराः ।' अत्र सुधापायमिति सुधामिव निर्जरावासमिति निर्जरा इवेति 'उप- माने कर्मणि च' इति कर्मणि चकारात्कर्तर्युपमान उपपदे णमुल। धर्मोपमानलुप्ता वाक्यगा समासगा च यथा- 'गाहितमखिलं विपिनं परितो दृष्टाश्च विटपिनः सर्वे। सहकार न प्रपेदे मधुपेन तथापि ते समं जगति ॥' 'तथापि ते समं' इति हित्वा 'भवत्समं' इति यद्यार्या शुद्धैव विधीयते तदेदमेवोदाहरणं समासगायाः । वाचकधर्मलुप्ता किव्गता यथा- 'कुचकलशेष्ववलानामलकायामथ पयोनिधेः पुलिने। क्षितिपाल कीर्तयस्ते हारन्ति हरन्ति हीरन्ति ॥' अत्र हारहरहीरशब्दा आचारार्थके कविपि लुप्ते धातवः । तत्र हारा- दिशब्दा लक्षणया हारादिसादृश्यं बोधयन्ति। लुप्तोऽपि स्मृतः क्किवा- चारमिति पक्षे वाचकधर्मलोपः स्पष्ट एव। हारादिशन्दा एव लक्षणया तादृशसादृश्याभिन्नमाचारमिति पक्षे सादृश्यस्येव धर्मस्यापि तन्मात्रबोध- काभावाल्लोप एव। वाचकधर्मलुप्ता समासगा यथा- 'शोणाधरांझुसंभिन्नास्तन्वि ते वदनाम्बुजे। केसरा इव काशन्ते कान्तदन्तालिकान्तयः ॥' अत्र वदनाम्वुजयोरभेदविवक्षया विशेषणसमासे दन्तालिकान्तीनां के-
दीति। गाहितमिति। यद्यपीत्यादिः। तथापि हे सहकार, जगति तव तुल्यं वस्तु भ्रम- रेण न प्राप्तमित्वर्थः । शुद्धवेति। आर्यासामान्यलक्षणाक्रान्तत्वात्। सा तु मिश्रितेति भावः । धातव इति। तथा च हारन्वीत्यादि प्रयोगसिद्धिरिति भावः । तत्र उक्तप्रयो- गेपु। आचारमिति। बोधयतीति शेषः । स्पष्ट एवेति । सादृश्यस्य शक्तिप्रतिपा- द्यल्लात्क्विपो लुप्तत्वाच्चेति भावः । ताटशेति । हारादीत्यर्थः । तदित्युचितम् । अभिन्नमिति। तस्य धमरूपत्वादिति भावः । संभिन्ना मिश्राः। कान्ताक्ष ते दन्ता- श्वेत्यर्थः । विशेषणेति। मयूरव्यंसकेतीत्यर्थः । अधिकरणेति। वदनाम्बुजे इत्यत्र-
Page 183
१६८ काव्यमाला।
सरसादृश्योक्तिरसंगता स्यात्। यतो ह्यम्वुजतादात्म्यसाधकं दन्तालिका- न्तीनां केसरतादात्म्यं न तु केसरसादृश्यम्। उपमितसमासे तु वदना- म्वुजयोर्घर्मिणोरौपम्ये केसरदन्तालिकान्तीनामपि तद्वर्माणामौपम्योक्ति- रुचितैव। अतोऽधिकरणतावच्छेद कोपमामादाय वाचकधर्मलुप्तोदाहता। विधेयतावच्छेदिका तु पूर्णैव। वाचकोपमेयलुप्ता क्यज्गता धर्मोपमानवाचकलुप्ता समासगा च यथा- 'तया तिलोत्तमीयन्त्या मृगशावकचक्षुषा। ममायं मानुषो लोको नाकलोक इवाभवत् ।।' तिलोत्तमीयन्त्येति तिलोत्तमामिवात्मानमाचरन्त्येत्याचारार्थके क्यचि तिलोत्तमापदस्य तिलोत्तमासादृश्ये लाक्षणिकतया वाचकस्य स्फुटत्वेन प्रतीयमानतया आत्मन उपमेयस्य चानुपादानाल्लोपः । स्वयं तु सा नो- पमेया। आचारकर्मण उपमानस्य तिलोत्तमारूपस्य तत्क्त्र्यामुपमेयाया- मुपमानत्वासंगतेः । अत आत्मैवात्रोपमेयतयोन्नेयः । मृगचक्षुपेति मृगस्य चक्षुषी इव चक्षुपी अस्या इति 'सप्तम्युपमानपूर्वस्य' इति समासोत्तर- पदलोपौ। मृगपदस्य मृगचक्षुःसदृशलाक्षणिकत्वपक्षे वृत्तेर्विशिष्टार्थता- वाचकतापक्षेऽपि स्वस्वमात्रवोधकपदाभावात्रयाणां लोपः । इति पञ्चविंश- तिरुपमाभेदाः । इहान्यानपि भेदानन्ये निगदन्ति-वाचकलुप्ता पड्डिधोपवर्णिता। 'कर्तर्युपमाने' इति णिनौ सप्तम्यपि दृश्यते। कोकिल इवालपति को- किलालपिनीति । तथाष्टम्यपि-'इवे प्रतिकृतौ' इति कनि 'लुम्मनुष्ये' इति लुपि चश्चेवेत्यर्थे 'चञ्चा पुरुषः सोडयं यः स्वहितं नैव जानीते' इत्यत्र। नवम्यपि-आचारक्किपि पदान्तरेण प्रतिपादिते समाने धर्मे दृश्यते। 'आह्रादि वदनं तस्या शरद्राकामृगाङ्कति' इत्यादौ।
त्यामित्यर्थः । वच्छेदिका त्विति। उपमेति शेषः । कान्तयः केसरा इव काशन्ते इ- त्यत्रत्वेति भावः। वाचकस्येति। इवशव्दस्ेत्यर्थः । उपमेयानुपादाने हेतुमाह- स्फुटत्वेनेति। स्वयं त्विति। तिलोत्तमीयन्तीति बोष्येत्यर्थः। तत्कर्त्र्यामाचारकर्त्र्याम्। तयोः समानरूपस्य तत्र तत्रत्वादिति भावः। शरद्राकेति। शारदपूर्णिमाचन्द्र इवा-
Page 184
रसगङ्गाघरः । १६९
उपमानलुप्ता वाक्यसमासयोर्द्विविधोपवर्णिता तृतीयापि दृश्यते- 'यच्चोराणामस्य च समागमो यच् तैर्वधोऽस्य कृतः । उपनतमे तदकस्मादासीत्तत्का कतालीयम् ।।' इत्यत्र काकतालशब्दयोर्लक्षणया काकागमनतालपतनबोधकयोरिवार्थे 'समा- साच्च तद्विषयात्' इति ज्ञापकात्समासे काक इव ताल इव काकतालमिति काकतालसमागमसदृदशश्चोराणामस्य च समागम इत्यर्थः। ततः काकतालमि- वेति द्वितीय इवार्थे पूर्वोक्तेनैव सूत्रेण छप्रत्यये तालपतनजन्यकाकवघसद- शश्चोरकर्तृको देवदत्तवध इत्येवं स्थिते प्रत्ययार्थोपमायामुपमानस्य तालप- तनजन्यकाकवधस्यानुपादानादुपमानलुप्ता । वाचकोपमानलुप्ता तु नाम्नैव निर्दिष्टा। साप्यत्र प्रकृत्यर्थे दृश्यते। धर्मोपमानलुप्ता वाक्यसमासयोर्द्विविधैवोक्ता। सा चात्रापि तृतीयचर- णोक्तधर्मनिरासे प्रत्ययार्थे दृष्टा। वाचकघर्मलुप्ता क्विप्समासयोर्द्वयोरेव कथिता। सापि 'चञ्चा पुरुषः सोडयं योऽत्यन्तं विषयवासनाधीनः' इत्यत्र स्वहिताकरणरूपस्य धर्मस्या- नुपादाने कनो लोपे विलोक्यते। एवं च द्वात्रिशद्धेदा। अत्रेदमवघेयम्-कर्माधारक्यचि क्यडि च वाचकलुप्ोदाहरणं प्राचा- मसंगतमिव प्रतीयते। धर्मलोपस्यापि तत्र संभवात्। न च क्यजाद्यर्थ आचार एव साधारणधर्मोडस्तीति वक्तव्यम्। धर्ममात्ररूपस्याचारस्योप- माप्रयोजकत्वाभावात्। 'नारीयते सपत्नसेना' इत्यादौ वृत्त्यन्तरनिवेदितैः कातरत्वादिभिरभिन्नतयाध्यवसितस्याचारस्योपमानिष्पादकत्वात्। यदि
चरतीत्यर्थः । पूर्वोक्तेन 'समासाच्च-' इत्यनेन। स्थिते इत्यस्यार्थे इत्यादिः । तृतीयचर - णोक्तेति। 'उपनतमेतदकस्मात्' इत्यस्य स्थाने चरणान्तरनिर्माण इत्यर्थः । धर्मलोप- स्यापीति। 'उपमानादाचारे' इत्यत्रोपमानमाचारनिरूपितमेव गरह्यते। उदाहरणे च पुत्रपदस्य पुत्रकर्मकाचारसदृशे लक्षणेति वैयाकरणमते च सुतरां धर्मलोपः । न चैत- न्मते 'त्रिविष्टपं तत्खलु भारतायते' इत्यत्र क्यचोऽनुपपत्तिः। भारताचारसदृशाचारस्य त्रिविष्टपवृत्तेरप्रसिद्धे: । 'सुपर्वभिः शोभितम्' इत्यस्य श्ेषेणाभेदाध्यवसाय एव, न सादृश्यावसाय इति वाच्यम्। एकशब्दोपात्तत्वेनाभेदवुद्धेरिव शब्दरूपसाधर्म्येण साद- श्यवुद्देरप्युपपत्तेः। इत्याहुः। ननु नारीयते इत्यादौ तस्य तत्त्वमस्तीत्यत आह-नारीति। १६
Page 185
१७० काव्यमाला। च क्यडर्थ आचारमात्रमुपमानिप्पादकं स्यात्तदा 'त्रिविष्टपं तत्खलु भार-
तस्ैव च 'सुपर्वभिः शोभितमन्तराश्रितैः' इति चरणान्तरनिर्माणे तस्या निप्पत्तेः क्यडाद्यर्थः साधारणोऽपि नोपमां प्रयोजयति। उपमाप्रयोजक- तावच्छेदकरूपेण साधारणधर्मवाचकशून्यत्वस्यैव धर्मलोपशव्देनाभिधा- नात्। अन्यथा 'मुखरूपमिदं वस्तु प्रफुल्लमिव पङ्कजम्' इत्यादौं पूर्णोप- मापत्तेरिति दिक्। यच्चाप्पदीक्षितैरस्मिन्नेव प्रस्तावे "धर्मलुप्ता वाक्यसमासतद्धितेषु दर्शिता द्विर्भावेऽपि दृश्यते। 'पटुपटुर्देवदत्तः' इत्यत्र 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविघानात्" इति निगदितं तत्तुच्छम् । अत्र च वा-
धर्मलुप्तायाम् । धर्ममात्रलुपाया एव धर्मलुप्ताशन्देन तैर्विवक्षणात् । अन्यथा एकलुप्ताखवेव द्विलुप्तानां त्रिलुप्तायाश्च ग्हणात्पृथगुपादानमसंवद्ध- मेव स्यात्। न चात्र वाचकस्य द्विर्भावस्यैव सत्वान्नास्ति लोपः, अपि तु धर्ममात्रस्येति वत्तुं शक्यम्। द्विर्भावस्य सादृश्यवाचकत्वोक्तर्भाष्यकैयटा- दिविरुद्धत्वात्। तदुक्तं कैयटेन 'प्रकारे गुणवचनस्य' इति सूत्रे सिद्ध त्विति प्रतीकमुपादाय 'द्विर्वचनस्य प्रकृतिः स्थानी इति तदर्थो विशेष्यते न तु प्रकारः । तत्र सर्वस्य गुणवचनत्वाद्यभिचाराभावात् । तङ्रहणाद्गुणवचनो यः शब्दो निर्ज्ञातस्तस्य सादृश्ये द्योत्ये द्वे भवत इति सूत्रार्थः' इति।
वृत्त्यन्तरेति। मात्रपदेन किचिदभिन्नतयाध्यवसितत्वव्यवच्छेदः । तस्यैव पद्यस्य। तस्या उपमालंकृतेः । साधारणोऽपि उभयनिष्टोऽपि। ननु क्यडाद्यर्थाचारमात्रस्यो- पमाप्रयोजकत्वाभावेऽपि साधारणत्वेनोभयधर्मत्वात्तत्सत्त्वाच् कथं तलोपसंभवोऽत आह-उपमेति। अत्र चेति। चोह्यर्थे। सूत्रार्थ इति। द्विर्भावस्य सादृश्यद्योतक- त्वेऽपि शक्कत्वरूपवाचकत्वाभावाद्वाचकलोप इति तव हृदयम्। तत्तु इवादेर्दोतकता- नये चन्द्र इव मुखमित्यत्र, चन्द्रसुहन्मुखमित्यन्न च वाचकलुप्ताव्यवहाराभावाय साह- श्यतद्विशिष्टान्यतरबोधकाभावस्यैव वाचकलप्ताव्यवहारप्रयोजकत्वस्य वाच्यत्वेन द्योतक- स्यापि बोधकत्वानपायेन नास्ति वाचकलोप इति तदाशयादबोधमूलकमिति चिन्त्य-
Page 186
रसगङ्ाघरः । १७१
इदं चान्यत्तस्मिन्नेव प्रस्तावे चित्रमीमांसाकृद्भिरभ्यधीयत- "नृणां यं सेवमानानां संसारोऽप्यपवर्गति। तं जगत्यभजन्मर्त्यश्रञ्चा चन्द्रकलाधरम् ।।' अत्र किप्कनोर्लोपे प्रत्येकं वाचकधर्मलोप उभयत्रापि," तदरमणीय- मेव। कनो वाचकस्य लोपेऽपि तं चन्द्रकलाघरमभजन्निति चन्द्रकलाधर- भजनराहित्यरूपस्य धर्मस्य चश्चामर्त्यसाधारणस्योक्तत्वात्कथं तावद्धर्मस्य लोपः। न चोपमेयमर्त्यविशेषणतयोपात्तस्य चन्द्रकलाधरभजनराहित्यस्य सादृश्योपसर्जने चञ्चायामनन्वयान्न साधारण्यमिति वाच्यम्। "यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति। तं शंभुमभजन्मर्त्यश्चञ्चैवात्महिताकृतेः ॥' इति पाठे धर्मश्रवणमप्युभयत्रापि संभवति" इति स्वोक्तेरसंगतत्वापत्तेः। इहाप्युपमेयसंसारविशेषणतयोपात्तस्य सुखमयत्वस्य सादृश्योपसर्जने- Sपवर्गेऽन्वयाभावात्कथंकारं धर्मस्य साधारण्यम्। उपमेयगतत्वेनोपमा- नगतत्वेन वोपात्तस्य धर्मस्य शाब्द उभयान्वये सत्यपि वस्तुत उभ- यवृत्तित्वज्ञानमेव साधारणतया नियामकमिति चेत्, चन्द्रकलाधरर्भंजन- राहित्येऽपि दीयतामेवमेव दृष्टिः । यदि चोपमेयतावच्छेदकतयैव चन्द्र- कलाधरभजनराहित्यं मम विवक्षितम्, साधारणधर्मश्च स्वात्महिताकरणरूपः स चात्र लुप्त एवेति शपथेन स्वाभिप्रायः प्रकाश्यते तदा निवारितोऽयं दोषः । तुप्यतु भवान् । इदमप्यन्यत्तैरेव वाचकोपमेयलुप्तायामुदाहरणं निरमीयत- 'रूपयौवनलावण्यस्पृहणीयतराकृतिः । पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ।' इदं च पद्यमपशब्ददुष्टमवैयाकरणतां कर्तुः प्रकाशयति। तथा हि पुरत इति नगरवाचिनः पुरशब्दात्तसिलि हरिणाक्षीणां नगरादित्यर्थस्यासंगतेः । मिदम्। इद चान्यदिति । वक्ष्यमाणमन्यच्ेत्यर्थः । क्विब्लोपे तथो केर्युक्तत्वेऽपि कन्लोपेऽयुक्त्तत्वमित्याह-कन इति। तामुपपादयति-इहापीति। क्थंकारं कर्थ कृत्वा। पाठान्तरवादी स्वाशयमाह-उपमेयेति। एवमेवेति। एवं च तुल्यतेति भावः । प्रकारान्तरेण स स्वाशयमाद्य-यदि चेति। इदमप्यन्यदिति। वक्ष्यमाणमि- व्यर्थः । तसिलीति । इदं चिन्त्यम् । तदप्राप्तेः। आद्यादित्वात्तसावित्युचितम्।
Page 187
१७२ काव्यमाला।
नहि पूर्ववाचकः पुरशन्दः क्ापि श्रूयते। पूर्वशब्दात्तु 'पूर्वाघरावराणामसि पुरधवश्चैषाम्' इत्यसौ पुरादेशे च पुर इति भाव्यम्। न तु पुरत इति। अत एव 'अमुं पुरः पश्यसि देवदारुम्' इति प्रायुङ्क महाकविः। एवमेव "मुखस्य पुरतश्चन्द्रो निप्प्रभः' इत्यप्रस्तुतप्रशंसा" इति द्वितीयप्रकरणारम्भेऽप्यप- शब्दितं तैः । तथा चाहुर्वैयाकरणा :- "पत्या पुरतः परतः', आत्मीयं चरणं दधाति पुरतो निन्नोन्नतायां भुवि', 'पुरतः सुदती समागतं माम्' इत्यादयः सर्वेऽपि व्याकरणाज्ञानमूला अपशब्दाः" इति। इयं चैवंभेदोपमा वस्त्वलंकाररसरूपाणां प्रधानव्यन्गयानां वस्त्वलंकार- योर्वाच्ययोश्चोपस्कारकतया पञ्चधा। तत्र व्यज्कयवस्तूपस्कारिका यथा- 'अनवरतपरोपकरणव्यग्रीभवदमलचेतसां महताम्। आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ।।' अत्र तादंशि वचनान्यर्थद्वारा सेवमानस्य मनागप्यक्षुभ्यतः परिणामे परमं सुखं भवतीति प्राधान्येन व्यञ्ञयस्य वस्तुन उपस्कारिका भेषजोपमा ।
'अङ्कायमानमलिके मृगनाभिपङ्कं पङ्केरुहाक्षि वदनं तव वीक्ष्य बिम्रत्। उल्लासपल्लवितकोमलपक्ष मूला- श्रञ्चूपुटं चपलयन्ति चकोरपोताः ।I'
महाकविः कालिदासः । तैः अप्पदीक्षितैः । इदं चिन्त्म्। "पुरत इति निपाताङ्गी- कारात् । अत एव 'इयं च तेऽन्या पुरतो विडम्वना' इति कालिदासः, 'पश्यामि ता- मित इतः पुरतश्च पश्चात्' इति भवभूतिश्व संगच्छते" इति केचित्। अन्ये तु "दक्षि- णोत्तराभ्यामतसुच्' इत्यत्र तसुचैव पुंवद्गावेन सिद्धेऽतसुज्विधानमन्यस्मादपीति ज्ञाप- नाय। तेन पचाद्यजन्तात्पुरशव्दात्तस्मिन्निष्टसिद्धिः ।" इत्याहुः । वस्तुतस्तु-'पुर अग्रगमने' इति चौरादिकाण्णिजभावे इगुपधलक्षणे के 'सार्वविभक्तिकस्ततिः' इति बोध्यम्। वैयाकरणा इति। प्राश्च इत्यादिः। एवंभेदा वक्ष्यमाणप्रकारभिन्ना। तदेव विशिष्याह-वस्त्विति। आपातेति । प्रागनुभूयमानकटुत्वकानीत्यर्थः । तादृंशि आपातकाटवानि। प्राधान्येन व्यङ््यस्येति । तेनापातकाटवानीति पदव्यञ्ञस्ये-
Page 188
रसग्गाधरः । १७३
अत्र प्राधान्येन व्यन्नथे आरोप्यमाणचन्द्रके भ्रान्तिमत्यलंकारे उप-
मूलकत्वादुपमात्रालंकारः । रसोपस्कारिका तु 'दरदलदरविन्द-'इत्यत्र प्रागेवोदाहता। रसप- देनासंलक्ष्यक्रमस्योप लक्षणाद्धावाद्युपस्कारि काप्यत्रैवान्तर्ाव्या्। यथा- 'नैवापयाति हृदयादधिदेवतेव', 'वन्यकुरङ्गीव वेपते नितराम्' इत्यादिषु प्रागुदाहृतेषु। वाच्यवस्तूपस्कारिका यथा- 'अमृतद्रवमाधुरीभृतः सुखयन्ति श्रवसी सखे गिरः । नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव ।।' अत्र नयनशिशिरीकरणरूपे वस्तुनि वाच्ये मुखस्य शरदिन्दूपमोप- स्कारिका। वाच्यालंकारोपस्कारिका यथा- 'शिशिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम्। न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम् ।।' अत्र वाच्यस्य दीपकस्योपमोपस्कारिका। रसादिस्तु न वाच्य इति प्रागेवाभिहितम्। अथ कथमलंकारस्यालंकारान्तरोपस्कार्यत्वमुच्यते। प्रधानस्यैवालंका- र्यत्वादिति चेत्, मैवम्। अलंकारस्योपमादेर्ध्वन्यमानतायां प्राधान्याद्र- सादिवदलंकारान्तरोपस्कार्यत्वे न कोऽपि तावदस्ति विरोधः । एवमेव मुख्यतया वाच्यतायामपि। यथा ह्यापणादौ विक्रीयमाणतायां कनकताट- क्स्य रत्नाद्यलंकारान्तरोपस्कार्यत्वे तस्ैव च कामिनीकर्णालंकरणतायां पुनः प्रधानान्तरसांनिध्याचाटक्कस्य तद्गतरत्नानां च साक्षात्परम्परया च कर्णादिशोभोपस्कारकतया यथा तदलंकारत्वम्, एवमेव रसादिसांनिध्ये रूपकादेस्तदुपस्कारकस्यालंकारान्तरस्य च रसाद्यलंकारतेति। त्यर्थः। नन्वत्रोपमालंकारो नैवात आह-अत्र प्राधान्येनेति। व्यङ्गये इति।वाक्य- व्यक्षये इत्यर्थः । अलंकारे सतीति शेषः । उपपादकेत्यस्य तस्येत्यादिः । अत्रालंकार इति। तथा च तटुपस्कारकतवमस्याः स्पष्टमिति भावः । ननु वस्तलंकारयोरिव रस- स्यापि वाच्यत्वेन षोढा वक्तुमुचितेयमत आह-रसादिरिति। प्रधानस्यैवेति।
Page 189
१७४ काव्यमाला।
एवं च प्राचां मते पश्चविशतिभेदायाः पुनः पश्चविधतायां सपादशतं भेदाः । द्वान्रिशद्भेदवादिनां तु षष्टयुत्तरं शतम् । इतश्चान्येऽपि प्रभेदाः कुशाग्रीयधिषणैः स्वयमुद्धावनीयाः । तत्र क्वचिदनुगाम्येव धर्मः । कचिच्च केवलं विम्वप्रतिबिम्भावमापन्नः । क्वचिदुभयम् । कचिद्वस्तुप्रतिवस्तुभा- वेन करम्वितं बिम्बप्रतिबिम्बभावम् । कचिदसन्नप्युपचरितः । क्वचिच्च केवलशब्दात्मकः । तत्राद्यो यथा- 'शरदिन्दुरिवाह्रादजनको रघुनन्दनः । वनस्रजा विभाति स्म सेन्द्रचाप इवाम्बुदः ।।' अत्र पूर्वार्घे सकृन्निर्देशाद्धर्मोऽनुगामी। केवलबिम्बप्रतिबिम्बभावापन्नः 'कोमलातपशोणाम्र-' इत्यत्र बोध्यः । द्वितीयार्घे तूभयम् । तृतीयोऽपि वस्तुप्रतिवस्तुभावेन करम्बितः । तत्राद्यो यथा- 'चलद्ृङ्गमिवाम्भोजमधीरनयनं मुखम् । तदीयं यदि दृश्येत काम: क्रुद्धोऽस्तु कि ततः ॥' अत्र चलनाधीरत्वयोर्विशेषणयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनोपा- दानाद्वस्तुप्रतिवस्तुभावः । तद्विशेषणकयोश्च भृङ्गनयनयोर्बिम्वप्रतिबिम्ब- भावः । इति तत्करम्बिितोऽयमुच्यते । तत्र द्वितीयो यथा- 'आलिङ्गितो जलधिकन्यकया सलीलं लग्नः प्रियंगुलतयेव तरुस्तमालः । देहावसानसमये हृदये मदीये देवश्चकास्तु भगवानरविन्दनाभ: ।।'
अलंकारस्तप्रधानमेवेति भावः। वाच्यतायामपि विरोध इत्यनुषङ्ञः। उभयं अनुगामितवं विम्बप्रतिबिम्बभावं च । अयं चोककान्तर्गतो नातिरिक्तो भेदः । अत एव वक्ष्यति- तृतीयोऽपि त्रिविध इति। षछ्ठ इति च। वनस्रजा आपादतलावलम्बिमालया।
Page 190
१७५
धिकन्याप्रियंगुलतयोर्विम्बप्रतिबिम्बभावः । इत्ययमपि तत्करम्बित एव। तत्र तृतीयो यथा- 'दशाननेन दप्तेन नीयमाना बभौ सती। द्विरदेन मदान्धेन कृप्यमाणेव पझ्मिनी ।।' अत्र विशेषणयोर्द्टप्तत्वमदान्धत्वयोर्विशेव्ययोश्च नीयमानत्वकृप्यमा- णत्वयोर्वस्तुप्रतिवस्तुभावेनोभयतः संपुटितो दशाननद्विरदयोर्बिम्बप्रति- बिम्बभावः । इत्ययमपि तत्करम्बितः । 'विमलं वदनं तस्या निष्कलक्कमृगाङ्कति' इत्यत्र वैमल्यनिप्कलङ्कत्व- योर्वस्तुत एकरूपयोर्विम्बप्रतिबिम्बभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्नयो- रुपमानिप्पादकत्वं यद्यस्ति तदा शुद्धं वस्तुप्रतिवस्तुभावमापन्नोऽप्येष षष्ठो धर्मः । न च 'कोमलातपशोणाभ्रसंध्याकालसहोदरः' इत्यादौ यति- संध्याकालयोरुपमायां धर्मान्तरस्यानवगमात्कुङ्कुमालेपकषायवसनयोः को- मलातपशोणा्रयोश्च विम्बप्रतिबिम्बभावो यथावश्यमभ्युपेयः, प्रकृते तु न तथा वस्तुप्रतिवस्तुभावः । वदनमृगाङ्कयोः सौन्दर्यरूपसाधारणधर्मस्य प्रतीयमानत्वेन धर्मान्तरानपेक्षणादिति वाच्यम्। एवं तर्हि 'यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या' इति भवभूतिपद्ये- डपि प्रतीयमानेन सौन्दर्येणैव सामान्येन निर्वाहे कंधरावृन्तयोर्िम्बप्रति- विम्बभावस्य वलितत्वावृत्तत्वयोर्वस्तुप्रतिवस्तुभावस्य च सकलैरालंकारिकैः स्वीकारो विरुद्धः स्यात्। अतो यथास्थितमेव साधुः । द्वितीयार्धे तु 'कषायवसनो याति' इत्यादौ। यद्यस्ति तदेत्यनेनारुचिः सूचिता। तद्वीजं तु-एकोऽप्यर्थो भिन्नशव्देनोपात्तो भिन्न इव प्रतीयते। अत एवं 'उदेति सविता ता स्रस्ताम्र एवास्तमेति च' इत्यादौ 'रक्त एवास्तमेति च' इति पाठे दुष्टतेति प्राश्चः। प्रकृते संबन्धिभेदादपि भेदप्रत्ययस्तयोः । भिन्नरूपेण प्रतीयमानस्य च न साधारणता। साधा- रणीकरणस्य च न कश्चिदुपायः, विना विम्प्रतिविम्वभावापन्नैकधर्मसंबन्धित्वम् । तथा च शब्दाद्वेदेन प्रत्यये संवन्धिभेदाच भेदप्रत्यये विम्वप्रतिविम्बभावापन्नैकधर्म- संबन्धित्वेन तयोरभेदाध्यवसाये साधारणतस्थेति कथं शुद्धस्योपमानिष्पादकत्वम्। अत एव प्राश्चः विम्वप्रतिविम्बभावकरम्वित एवायमित्याहुरिति । प्रकृते तु
Page 191
१७६ काव्यमाला।
उपचरितो यथा- 'शतकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः । येनाकारिषि मित्रं स विकलहृदयो विधिर्वाच्यः ॥।' एषा सीतां विवासितवतः स्वात्मगता रामस्योक्तिः । अत्र काठिन्यं पार्थिवो धर्मश्चित्ते उपचरितः । केवलशब्दात्मको यथा- 'यत्र वसन्ति सुमनसि मनुजपशौ च शीलवन्तः सर्वत्र समाना मन्त्रिणो मुनय इव।' अत्रोपमानोपमेयगतस्यार्थस्यैकस्याभावाच्छब्द एव धर्मः । एवमेतेषां घर्माणां व्यामिश्रणं च संभवति। यथा- 'श्यामलेनाङ्ितं भाले वाले केनापि लक्ष्मणा।
अत्र मुखं तवान्तरासुप्तभृङ्गफुल्लाम्वुजायते ।।' भालगताङ्कप्रसुप्तभृङ्गौ विम्बप्रतिविम्वभावमापन्नौ क्यडर्थे आचारेऽनुगामिन्यभेद्मापद्य स्थितौ। यथा वा- 'सिन्दूरारुणवपुषो देवस्य रदाङ्कुरो गणाधिपतेः । संध्याशोणाम्बरगतनवेन्दुलेखायितः पातु ॥' अत्र सिन्दूरसंध्याभ्यां गणाधिपगगनाभ्यां च बिम्बप्रतिबिम्वभावमा- पन्नाभ्यां [धर्माभ्यां] संपादिताभेदेन विशिष्टधर्मेणाभेदेनावस्थितः क्यङ- र्थोऽनुगामी।
न तथेति। तथा तु प्रकृते नेत्यर्थः। गणाधिपगगनाभ्यामिति। गणाधि- पगगनयोर्विम्वप्रतिविम्बभावे च विम्वप्रतिबिम्बभावापन्नसिन्दूरसंध्याविशेषणकारुणत- शोणत्वे वस्तुप्रतिवस्तुभावापन्ने एव साधारणधर्म इति तयोरभेदेन विशिष्टधर्मेणेत्युक्तिरि- ति भावः । क्यऊ्थोऽनुगामीति। यद्यपि प्रसिद्धौज्ज्व ल्यशोभाविशेषादिकमादाया- प्याचारोऽनुगामी कर्तु शक्यते तथापि कवितात्पर्यविषयतास्यैवेति वोध्यम्। तादृशशो-
Page 192
रसगञ्काधरः । १७७
क्वचिद्धेतुहेतुमद्भावेन। यथा- 'खल: कापट्यदोषेण दूरेणैव विसज्यते। अपायश क्विभिलोंकैर्विषेणाशीविषो यथा।' अत्र कापट्यं विषं च विम्बप्रतिबिम्बतां गतं दूरतो विसर्जनेऽनुगामि- नि हेतुः । यथा वा- 'रूपवत्यपि च क्रूरा कामिनी दुःखदायिनी। अन्तः काटवसंपूर्णा सुपकेवेन्द्रवारुणी ।I' अत्र रूपवत्त्वदुःखदायित्वयोरद्वयोरनुगामिनोर्मध्ये कौर्यकाटवे बिम्ब- प्रतिबिम्बभावापन्ने दुःखदायित्वेन सह हेतुहेतुमद्भावेन मिश्रिते। अपरेण तु शुद्धसामानाधिकरण्येन। एवमन्यैरपि व्यामिश्रणं बोध्यम् । प्रकारा- न्तरं च लक्ष्यानुसारेण सुघीभिः सयमुन्नेतुं शक्यम् । यथा- 'यथा लतायाः स्तबकानतायाः स्तनावनम्रे नितरां समासि । तथा लता पल्लविनी सगर्वे शोणाधरायाः सदृशी तवापि ॥' अत्र स्तनावनम्राहं स्तबकानताया लताया उपमानमस्मीति गर्व मा विदध्याः । यतः शोणाधराया उपमेयायास्तवापि पल्लविनी लतोपमानं भवतीति वाक्यार्थे यथातथापदप्रतिपाद्या कान्तोपमानिका लतोपमेयिको- पमा निष्पादिका । अस्यां चोपमायां निरूपकतासंबन्धेनोपमानोपमेयगते द्वे उपमे समसदृशशब्दाभ्यां प्रतिपादिते बिम्बप्रतिविम्बभावमापन्ने साधारणधर्मतया स्थिते। तत्र निरूपकतासंवन्धेन प्रधानीभूतोपमोपमान-
भाविशेषयोरैक्य प्रतिपत्तये वानयोर्विम्बप्रतिबिम्बभाव आवश्यक इत्याहुः केचित्। अनु- गामिनि हेतुरिति। तयोर्विम्बप्रतिबिम्बभावंविना भिन्नप्रकरणकत्वेन दूरविसर्जने भेद- प्रतीत्यानुगामित्वमेव न स्यादिति भावः। उपमा निष्पादिकेति। एवं च वाक्या- र्थोपस्कारिकेयमुपमेत्यर्थः । विम्वप्रतिविम्बभावमापन्ने इति। यद्यपि समसदृशश- व्दाभ्यां प्रतिपादितोपमयोर्वस्तुप्रतिवस्तुभाव एव, तथापि तद्विशेषणयोः शोणाधरना- िकास्तवकावनम्रलतयोर्विम्बप्रतिविम्बभाव आवश्यक इति भावः । तयोश्ष विम्बप्रति- बिम्बभावे सादृश्यानुयोगित्वमेव साधारणो धर्म इति ध्येयम्। तत्र तयोरुपमयोर्मध्ये।
Page 193
१७८ काव्यमाला।
कान्तागतायामुपमायां प्रतिविम्बभूतायां गुच्छस्तनयोर्वस्तुप्रतिवस्तुभावा-
त्वम्। एवं तेनैव संबन्धेन लतारूपोपमेयगतायां विम्बभूतायामुपमायाम- धरपल्लवयोः । न च तेन सदृश इत्यादौ तन्निरूपितसादृश्याश्रयस्योपमे- यस्य, तस्य सदृश इत्यादौ च तत्संवन्धिसादृश्याश्रयस्योपमानस्य प्रतीते: सिद्धत्वात्प्रकृते च सदृशीति शब्दान्निवेद्यमानेऽप्युपमानभावे कथं नाम लताया उपमेयतेति वाच्यम्। सदृशशब्दप्रतिपाद्यधर्मभूतोपमायामुपमान- त्वेडपि यथातथाशब्दवेद्योपमायां लताया उपमेयत्वे वाधकाभावात्। एव- मन्येऽपि प्रकाराः । 'यथा तवाननं चन्द्रस्तथा हासोऽपि चन्द्रिका। यथा चन्द्रसमश्चन्द्रस्तथा त्वं सदृशी तव ।।' एभिर्मेदैः प्रागुक्तानां सधर्माणां भेदानां यथासंभवं गुणने बहुतरा भेदा भवन्ति । तथा धर्माणां वाच्यतायां वाच्यधर्मा बहुवोक्ता व्यङ्गयत्वे व्यङ्गयधर्मा धर्मलोपे गदितैव । लक्ष्यतायां यथा- 'सर्प इव शान्तमूर्तिः श्वेवायं मानपरिपूर्णः । क्षीव इव सावधानो मर्कट इव निप्क्रियो नितराम् ।' इत्यत्रोपमानमहिस्रा शान्तमूर्त्यादिशन्दैविरुद्धा धर्मा लक्ष्यन्ते। इयं चोपमा मुख्यार्थस्य क्वचित्साक्षादुपस्कारिणी क्वचिच्चोपस्कारका- न्तरोपस्करणद्वारा। तत्र साक्षादुपस्कारिणी प्राग्बहुधोदीरिता ।
निरूपकतेति। प्रतियोगितेत्यथः । तेनैव संवन्धेनेति। प्रतियोगितासंबन्धेनेत्यर्थः। अधरपल्लवयोरिति। कान्तालताविशेषणयोर्विम्वप्रतिविम्बभावमापन्नयोः सावारणध- मतमित्यर्थः । तन्निरूपितति। तत्प्रतियोगिकेत्यर्थः । सादृश्याश्रयस्य तत्प्रतियोगिन इत्यर्थः। सधर्माणां भेदानामिति। साधारणधर्मभेदसहितानां पूर्णालुप्तादिभेदाना- मित्यर्थः । व्यङ्गयत्वे इति। धर्माणामित्यस्यानुषङ्गः। लक्ष्यतायामिति। धर्माणामि- त्यादिः । महिस्नेति। तेषु शान्तमूर्तितादेरभावादिति भावः। धर्मा लक्ष्यन्त इति। लक्ष्यतावच्छेदकेऽपि लक्षणेति मतेनेदम्। इयं चेति। उपमेत्र्थः । तत्र नाभौ।
Page 194
रसगञ्गाधरः । १७९
परम्परया यथा- 'नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः । इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणद्युतिः ।।' अत्र मुख्यार्थस्य राजविषयायाः कविरतेरुपस्कारकस्य यदैव तव कोपोदयस्तदैव रिपूणां संपदो भस्मसाद्भविव्यन्तीति वस्तुन उपस्कारि- का नयनकोणशोणद्युतेर्युगान्तदहनोपमा। इयं चेवयथावादिशब्दैर्वा- चकैः प्रतिपादिता वाच्यालंकारः । लक्ष्यापि चालंकुर्वाणा दृश्यते। यथा- 'नीवीं नियम्य शिथिलामुषसि प्रकाश- मालोक्य वारिजदृशः शयनं जिहासोः । नैवावरोहति कदापि च मानसान्मे नाभेर्निभा सरसिजोदरसोदरायाः ॥' अत्रैकोदरप्रभवत्वरूपस्य मुख्यार्थस्य बाघात्तदीयशोभालक्षणसमानां- शहरत्वस्य प्रयोजनस्य सत्त्वात्सोदरपदेन सदृशो लक्ष्यते। आर्थी च तत्रोपमा प्रतीयमाना। अवरोहृतिलक्ष्यस्य विषयतया स्मृतिशून्यीभवनस्य निषेधनेन प्रतीयमानायाः स्मृतेरुपस्कारिका। एवं प्रतिभटप्रतिमल्लादिश- व्दानां तदीयन्यग्भवनतदीयशोभारूपसर्वस्वापहरणादे: प्रयोजनस्य सत्त्वात्सादृश्यवति लक्षणैव, न व्यज्जना । मुख्यार्थस्य बाधात्। प्रयोजने पुनर्व्यञ्जनैवेति। क्वचिद्यन्नयापि चेयमुपमालंकारः । यथा- 'अद्वितीयं रुचात्मानं मत्वा कि चन्द्र हृष्यसि । भूमण्डलमिदं मूढ केन वा विनिभालितम् ।।' कस्यचिद्विदेशस्थितस्य किरणैरात्मानं संतापयन्तं चन्द्रं प्रत्येषोक्तिः । अत्र च अस्ति मम प्रियायाः कदापि वहिरनिर्गतायाः, अत एव त्वया- अवरोहतिलक्ष्यस्येति। एतत्पदलक्ष्य स्येत्यर्थः । व्यञ्जनैवेति। इत्यस्य बोध्यमिति शेषः । विनिभालितमिति विशेषेण दृष्टमित्यर्थः । अत्र चेति। प्रतीयमाने त्यत्रा-
Page 195
१८० काव्यमाला।
प्यदृष्टाया आननं त्वत्सदृशमिति प्रतीयमाना उपमा मूढपदेन ध्वन्यमा- नायां चन्द्रविषयायां वक्तगतायामसूयायामलंकारः। एतेनाप्पदीक्षितै- रुपमालक्षणे दत्तमव्यन्वयत्वविशेषणमयुक्तमेव। नहि व्यन्नयत्वालंकार- त्वयोरस्ति कश्चिद्विरोधः । प्राधान्येन व्यञ्ञ्यतायां तु प्रधानत्वालंकार- त्वयोर्विरोधादलंकारलक्षणं तत्र मातिप्रसाङ्कीदित्युपस्कारकत्वेन पुनर्विशेष- णीयम्, न त्वव्यञ्ञयत्वेन । प्रागुक्तायामसूयालंकारोपमायामव्याप्यापत्तेः । विशिष्टोपमादिस्थले विशेषणाद्युपमानां वाच्यसिद्धङ्गतया गुणीभूतव्य- ङ्यत्वम्, सिद्धार्थस्योपस्करणाभावात्तु नालंकारत्वमिति न काप्यसंगतिः । यच्चापि "सेयमुपमा संक्षेपतस्त्रिविधा-क्वचित्स्ववैचित्रयमात्रविश्रान्ता । यथा 'स च्छिन्नमूल: क्षतजेन रेणुः' इत्यादौ । कचिदुक्तार्थोपपादनपरा। यथा 'अनन्तरत्नप्रभवस्य' इत्यादौ" इति तैरेव द्रविडशिरोमणिभिरभ्य- धीयत। तदप्यहृद्यमेव। 'नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव,' इति वाच्यवस्तूपस्कारिकायाः शरदिन्दूपमाया अक्रोडीकरणात्। अलंकारभूतोपमासु स्ववैचिञयमात्रविश्रान्ताया उपमायाः संग्रहे को नाम ध्वन्यमानायास्तस्या - महदेवेद्मन्याय्यम्-यदलक्षणीयाया संग्रहः, लक्षणीयायाश्चासंग्रह इति। प्राचीनानां तूपमासामान्यं लक्षयतां ध्वन्यमानाया इवास्या अपि संग्रहो नानुचितः । न तु स्वस्य यतेन ध्वन्यमानोपमां निरस्य कण्ठर- वेणालंकारभूतोपमालक्षकस्य। यदि च प्रवन्धव्यक्गयोपस्कारकत्वेनेयं संगृह्यत इत्युच्यते तदा 'स्ववैचित्रयमात्रविश्रान्ता' इति सवोक्तिर्विरुद्धा स्यान्वयः। प्रतीयमाना उपमति। अत्रोपमानस्योपमेय त्वकल्पनात्मकप्रतीपस्यैव व्यङ्गयत्वम् । मूढपदस्वारस्यात् । चमत्कारातिशयाच। किं हृष्यसीत्ेतत्स्वारस्याच्चेति केचित्। एतेनेति। एतेनापीत्यर्थः । अपिना प्रागुक्तदूषणसमुचयः। तरेवेति।अप्प- दीक्षितैरेवेत्यर्थः । स्वस्येति । तवेत्यर्थः । नानुचित इत्यस्यानुषङ्गः। इयं स्ववैचित्र्य- मात्रविश्रान्ता। विरुद्धा स्यादिति। वस्तुतस्तु उपमासामान्यलक्षणस्यापि। प्रकृतत्वे- नोपमासामान्यस्यैवायं विभागः। उपमानोपमेयतावच्छेदकयोर्भेदाच्चास्तेवोपमितिनि- प्पत्तिः । अत एव सेयमुपमेत्येवोक्तम्, न ललंकार इति। 'नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव' इत्यत्र तु उक्तार्थोपपादनपरैव मुखकर्तृकनयनकर्मकशिशिरी- करणस्य कव्युक्त्तस्येन्दूपमयैवोपपत्तेः। उक्तार्थोपपादनेत्यस्य चोक्तार्थस्योपपादनमुक्तार्थे
Page 196
रसगङ्गाधरः । १८१
स्यात्। 'अनन्तरत्नप्रभवस्य' इत्यत्र गुणसमूहसमानाधिकरणे एको दोषो दोषत्वेन न स्फुरतीत्यस्यार्थस्य पूर्वार्धप्रतिपादितार्थसमर्थनात्मकस्य सामान्य- रूपस्य विशेषरूपोदाहरणप्रदर्शनमन्तरेण सम्यगनाकलनादिन्दुकिरण- समानाघिकरणेऽङ्क उदाहृतः, न तूपमानतया निर्दिष्टः । सामान्याद्विशे- घस्य भेदाभावेनोपमितिक्रियाया अनिप्पत्त्या उपमालंकृतेरत्रानवतारा- दुदाहरणालंकारोऽयमतिरिक्तः । यथा 'इको यणचि' इति वाक्यार्थस्य सामान्यस्य विज्ञानायोकारे दध्युदकेकारस्येवेति वाक्यान्तरेण तद्विशेष उदाहियते तद्वदत्रापीति तत्प्रसक्के विवेचयिप्यामः । यच्चाप्पदीक्षितैः 'लुप्तायां तु नैवं भेदाः । तस्यां साधारणधर्मस्यानु- गामितानियमात्' इत्युक्तम्, तन्न। 'मलय इव जगति पाण्डुर्वल्मीक इवा- धिधरणि धृतराष्ट्रः' इत्यत्रानुगामिधर्मस्याप्रत्ययाचन्दनानां पाण्डवानाम्, सर्पाणां दुर्योधनादीनां च विम्बप्रतिबिम्वभावस्यैव प्रतिपत्तेः । न च शब्दे- नोपात्तत्वं बिम्बप्रतिविम्बभावे तत्र्रमित्याग्रहो विदुषामुचितः। श्रौतत्वा- र्थत्वाभ्यां विम्बप्रतिविम्बभावस्य द्वैविध्यौचित्यात्। अत एवाप्रस्तुतप्रशं- सादौ प्रकृताप्रकृतवाक्यार्थयोरौपम्यमवयवविम्बप्रतिबिम्बभावमूलं संग- च्छते। इयमपि रूपकवत्केवलनिरवयवा, मालारूपनिरवयवा, समस्तव- स्तुविषयसावयवा, एकदेशविवर्तिसावयवा, केवलश्किष्टपरम्परिता, मालारूपश्रिष्टपरम्परिता, केवलशुद्धपरम्परिता, मालारूपशुद्धपरम्परिता
वोपपादनमित्यर्थद्वूयम्। विनिगमनाविरहात् । इति न दोष इति चिन्त्यमिदमिति वोध्यम्। उक्तार्थोपपादनपरोपमायास्तदुक्कमुदाहरणं दूषयति-अनन्तेति। 'अनन्त- र्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमजजतीन्दोः किरणेष्विवाङ्कः ॥' इत्यत्रेत्यर्थः । स्फुरतीत्यस्यार्थस्य तृतीयचरणप्रति- पाद्स्य। तत्त्वेनानिर्दिष्टत्वे हेतुमाह-सामान्येति। अनवतारादिति। अग्रे तथा चेति शेपः। अलंकारोऽयमतिरिक्त इति। 'अदत्वा मादशो मा भूदत्वा त्वं लादृशो भव' इत्यभिन्नधर्मिकोपमायामुपमानतावच्छेद कोपमेयतावच्छेदकभेदेनोप मिति क्रियानिष्पत्तेरु- पमालंकारव्यवहारस्य च सर्वसंमतत्वेन तद्वूदिहापि सामान्यधर्मविशेषधर्मयोस्तयोभेदेन तन्निष्पत्तेः संभवादुदाहरणालंकारो मास्लतिरिक्त इति तदाशयाचचिन्त्यमेतत्। 'उदको- कारे दधीकारस्य य' इति पाठः। तत्प्रसङ्गे उदाहरणालंकारप्रसङ्गे। अत एव १७
Page 197
१८२ काव्यमाला।
चेत्यष्टधा। तत्रोपमायां केवलत्वं मालानन्तर्गतत्वं निरवयवत्वं चोपमा- न्तरनिरपेक्षत्वम् । इयं च शतशः प्रागेवोदाहता। मालारूपनिरवयवा यथा- 'आह्रादिनी नयनयो रुचिरैन्दवीव कण्ठे कृतातिशिशिराम्वुजमालिकेव। आनन्दिनी हृदि गता रसभावनेव सा नैव विस्मृतिपथं मम जातु याति ।।' यथा वा- 'कलेव सूर्यादमला नवेन्दोः कृशानुपुज्जात्प्रतिमेव हैमी। विनिर्गता यातुनिवासमध्यादध्यावभौ राघवधर्मपत्नी ।I' पूर्वमनुगामिना धर्मेण भिन्नदेशकालावच्छेदेन, अत्र तु विम्वप्रतिवि- म्वभावमापन्नेनैकदेशकालावच्छेदेनेति विशेषः। अत्राधिकदीप्तिरूपे वाक्यार्थे उपमे उपस्कारिके। आत्यन्तिकविनाशहेतुत्वेन देदीप्यमानत्वेन च साधारण्येन सूर्यमण्डलस्य, निष्कलक्कताभिव्यञ्जकत्वेन भस्मीभवनहे- तुत्वेन कृशानुपुञ्जस्य च लङ्काप्रतिबिम्बिता। मालारूपत्वं चात्रैकोपमेय- कानेकोपमासामानाघिकरण्यात्। समस्तवस्तुविषया सावयवा यथा- 'कमलति वदनं यस्या मलयन्त्यलका मृणालतो वाहू। शैवालति रोमावलिरद्दुतसरसीव सा बाला ।।' यथा वा- 'ज्योत्साभमन्जहसिता सकलकलाकान्त [कान्त]वदनश्रीः । राकेव रम्यरूपा राघवरमणी विराजते नितराम् ।।'
तस्य द्वैविध्यादेव। इयमपि उपमापि। तत्र तासां मध्ये। इयं च केवलनिरवयवा च। पन्दवीति। ऐन्दवी रुचिरिवेत्यर्थः । यातुनिवासेति। राक्षसनिवासेत्यर्थः। द्वितीये तमुपपादयति-अत्रेति। द्वितीयपद्य इत्यर्थः। सूर्यमण्डलस्येति। लड्डाप्रतिबिम्बते- त्यन्नान्वयः। अमायां रावणवधे सति प्रतिपदि सीतानिर्गम इत्येकदेशकालावच्छिन्नत्वं वोध्यम्। सामानाधिकरण्यादिति। उपमान्तरनिरपेक्षतान्निरवयवत्वमित्यपि बो- ध्यम्। कमलतीति। अत्र चतुर्षु उपमानादाचारे किपू। ज्योत्सेति। ज्योत्स्नाभं
Page 198
रसगङ्काघरः। १८३
अत्र सर्वेषामुपमानानां शब्दैरेवाभिधानात्समस्तवस्तुविषया अङ्गोपमा- भिनिष्पाद्यमानत्वाच्च साङ्गा भवति। एकदेशविवर्तिनी सावयवा यथा- 'मकरप्रतिमैर्महाभटैः कविभी रत्नसमैः समन्वितः ॥ कवितामृतकीर्ति चन्द्रयोस्त्वमिहोर्वीरमणासि कारणम् ।।' अत्रोत्तरार्धे उपमितसमास एव। विशेषणसमासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात्। राज्ञो जलधेरुपमा शव्देनानभिहिताप्यङ्गोपमाभिरा- क्षिप्ता प्रतीयते। इत्येकदेशविवर्तनादेकदेशविवर्तिनी। केवलश्चिष्टपरम्परिता यथा- 'नगरान्तर्महीन्द्रस्य महेन्द्रमहितश्रियः । सुरालये खल क्षीवा देवा इव विरेजिरे।।' अत्र क्रेषोपस्थापितेन सुमेरुणा मदिरागारस्योपमा क्षीवानां देवोप- माया उपाय इति श्रिष्टपरम्परिता। अन्योन्योपायतारूपस्यैव परम्प- रितत्वस्येह परिभाषणात्, मालारूपताविरहाच्च। केवला मालारूपश्रिष्टपरम्परिता यथा- 'महीभृतां खलु गणे रत्नसानुरिव स्थितः । त्वं काव्ये वसुधाधीश वृषपर्वेव राजसे ।।' मज्ज हसितं यस्याः । सकलः पूर्णकलः कलाकान्तश्वन्द्रस्तद्वद्वदनश्रीर्यस्याः । अत्र उदाहरणद्वये। सर्वेषामवयवरूपाणामवयविरूपाणां च। तथा च तेषां तदभिधेयतमेव समस्तवस्तुविषयत्वमिति भावः । अङ्गोपमेति। अवयवोपमेत्यर्थः । एवमग्रेऽपि। साङ्गा सावयवा। तथा चोपमानां सापेक्षत्वं सावयवत्मिति भावः । मकरा मत्स्याः । कविता अमृतमिव । कीर्तिश्चन्द्र इव। विशेषणेति। मयूरव्यंसकेतीत्यथः । नगरान्तरिति। महेन्द्रवत्पूजिता श्रीर्यंस्य तस्य राज्ञो नगरमध्ये सुरालये मत्ता देवा इव खलु विरेजिरे इत्यर्थः । गारस्योपमेति। सुरालये इतीति भावः । नन्वेवं ्ििष्टत्वेऽपि कर्थ परम्प- रितत्मत आह-अन्योन्योपायतारूपस्यैवेति। सावयवायां परस्परसमर्थकत्वेऽपि नोपायता। ज्योत्न्ायां हसितलारोपं विनापि औज्वल्यादिना सीतायां राकासाम्य- सिद्धेः। इह तु मदिरागारेषु सुमेरुपमां विना क्षीवेषु देवोपमायां न किंचित्साधर्म्यम्। तस्मिंश्व तादृशसादृश्यप्रतीतिमूलाभेदमापन्नसुरालयवृत्तिलमेव तथा। मदिरागारेषु सु- गेरूपमायां च क्षीवेषु देवोपमां विना न साधारणधर्म इत्यन्योन्योपायता। अन्योन्या-
Page 199
१८४ काव्यमाला।
अत्र क्लेषोपस्थापिताभ्यां पर्वतशुक्ाभ्यां राजकाव्ययोरुपमे मेरुवृषप- र्वभ्यां राज्ञ उपमयोरुपायः । नन्वत्र पर्वतानामिव राज्ञां शुक्र इव कवि- त्वे इत्येवंरूपा उपमा कथं प्रत्येतुं शक्या। उपमानोपमेयशब्दयोः पार्थ- क्याभावादिति चेत्, श्लेषे ह्ेकशब्दोपात्तत्वेन रूपेणाभेदाध्यवसानस्येव तेनैव साधर्म्येण सादृश्याध्यवसानस्यापि सुवचत्वात्, तस्यैव च प्रकृते प्रयोज्योपमानुकूलत्वात्। केवलं शुद्धपरम्परिता यथा- 'राजा युधिष्ठिरो नाम्ना सर्वधर्मसमाश्रयः । द्रुमाणामिव लोकानां मधुमास इवाभवत् ।' मालारूपशुद्धपरम्परिता यथा- 'मृगतां हरयन्मध्ये वृक्षतां च पटीरयन्। ऋक्षतां सर्वभूपानां त्वमिन्दवसि भूतले ।I' उपमानयो: परस्परमुपमेययोश्चानुकूल्ये उपमेययोरेषोपायता निरूपिता। प्रातिकूल्ये उपायता यथा- 'राजा दुर्योधनो नाम्ना सर्वसत्त्वभयंकरः । दीपानामिव साधूनां झञ्झावात इवाभवत् ।।' साधुदुर्योधनयोः प्रतिकूल्येऽप्युपमयोः परस्परमानुकूल्यादुपायतैव।
श्रयपरिहारस्तु रूपकप्रकरणे वक्ष्यते। चस्त्र्थे केवलपदोत्तरं वा योज्यः। महीभृतां पर्वतानां राजां च। गणे समूहे। रत्नसानुः सुमेरुः। काव्ये शुके कवित्वे च । वृषप- वैव दैलराज इव। तेनैव एकशब्दोपात्तत्वेन साधर्म्येण। मधुमास इव चैत्रमास इव । अत्र मालारूपताविरहात्केवलत्वम्, श्लेषाभावाच्छुद्धलवम्, अन्योपायतारूपत्वात्परम्परि- तत्वमिति वोध्यम्। मृगतामिति। मृगा इवाचरतां सर्वभूपानां मध्ये हरयन्मिह इवाचरन्वृक्षा इवाचरतां तेषां मध्ये पटीरयंश्चन्दनद्वरिवाचरंस्त्वं ऋक्षतां नक्ष- न्राणीवाचरतां तेषां मध्ये भूतले चन्द्रवदाचरसीतर्थः। आनुकूल्ये इति।अनुकूलता- ख्यगुणे सतीत्यर्थः । मृगतां हरयन्नित्यत्रापि मृगाधिपत्वादानुकूल्यमेवेति वोध्यम्। एवं प्रातिकूल्ये शुद्धपरम्परितामुदाहरति-एवमिति। कमलवदाचरतां सतां मध्ये शिशि- ररतुवदाचरतानेन राज्ञा अधुना दर्भवदाचरतां सर्वधर्माणां मध्ये विदर्भदेशवदाचरितमि-
Page 200
रसगङ्गघरः । १८५
. एव म्- 'सरोजतामथ सतां शिशिरर्तवताधुना । दर्भतां सर्वधर्माणां राज्ञानेन विदर्भतम् ।।' इत्यादौ मालारूपतायामपि। उपमेयानां सवस्वोपमानानुपमानानां रशनोपमा। यथा- 'वागिव मधुरा मूर्तिरमूर्तिरिवात्यन्तनिर्मला कीर्तिः। कीर्तिरिव जगति सर्वस्तवनीया मतिरमुष्य विभो: ॥' इयं धर्मभेदे। धर्मैक्ये तु- 'भूधरा इव मत्तेभा मत्तेभा इव सूनवः । सुता इव भटास्तस्य परमोन्नतविग्रहाः ॥।' घर्मलोपे तु तस्येत्यस्यानन्तरम् 'भटा इव युधि प्रजाः' इति बोध्यम् इयमेवंभेदा प्राचीनैर्मेदर्गुणने वागगोचरं भूमानं भजमाना नेयत्तामर्हतीति दिक्। एषैव च यदा सकलेन वाक्येन प्राधान्येन ध्वन्यते तदा परिहृतालं- कारभावा ध्वनिव्यपदेशहेतुः । अस्यां चालंकारव्यपदेशः कदाप्यलंका- रभावमप्राप्तेषु मञ्जूपादिगतेषु कटकादिप्विवालंकुर्वाणगतघर्ममात्रसंस्पर्श- निबन्धनः । क्वचिदसौ शब्दशक्तिमूलानुध्वननविषयः । क्चिदर्थशक्तिमू- लानुध्वननविषयः । आद्यो यथा- 'अविरलविगलद्दानोदकधारासारसिक्तधर णितलः। धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम् ॥
त्यर्थः। स्वस्वोपमानानुपमानानामिति। इदं विशेषणमुपमेयोपमायामतिव्याप्तिवा- रणार्थम्। भूधरा इति। परमोन्नतविग्रहृत्वमेकोऽत् धर्मः। एपैव च उपमैव।परीति। त्यक्कालंकारत्वकेत्यर्थः । नन्वेवं कर्थं तत्रालंकारव्यवहारोऽत आह-अस्यां चेति। धर्ममात्रेति। उपमात्वेत्यर्थः । मात्रपदेनालंकारत्वव्यवच्छेदः। अविरलेति। अयं राजा सार्वभौमः सर्वभूमीश्वरः । उदग्दिग्गजक्ष। वारापदं व्यर्थमिति केचित्। 'स कीचकै :- ' इतिवत्प्रयोग इत्यन्ये। धनदातृणामग्रे पूजितमूर्तिः । कुबेराग्रे पूजितमूर्तिक्ष।
Page 201
१८६ काव्यमाला।
यथा वा- 'विमलतरमतिगभीरं सुपवित्रं सत्त्ववत्सुरसम् । हंसावासं स्थानं मानसमिह शोभते नितराम् ।।' अत्रानेकार्थानामपि शब्दानां प्रकरणेन कृतेऽपि शक्तिसंकोचे तन्मू- लकेन ध्वननेन प्रतीयमानस्य सरोवररूपस्यार्थान्तरस्याप्रस्तुतस्याभिधानं मा भूदिति प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कल्प्यते। द्वितीयो यथा- 'अद्वितीयं रुचात्मानं दृष्टा कि चन्द्र दृप्यसि । भूमण्डलमिदं सर्वे केन वा परिशोघितम् ।। अत्र मूढादिपदाप्रयोगादसूयादेरप्रत्ययान्सुख्यतयोपमैव व्यन्नया। अथात्र सादृश्यस्य पदार्थान्तरत्वे बोधो विचार्यते-अरविन्दसुन्दर- मित्यत्रारविन्दनिरूपितसादृश्यप्रयोजकं लक्ष्यते । तच्च सुन्दरपदार्थैकदे- शेन सौन्दर्येणाभेदसंसर्गेणान्वेति। तेनारविन्दनिरूपितसादृश्यप्रयोजका- भिन्नसौन्दर्यवदभिन्नमिति घीः। निपातातिरिक्तनामार्थयोर्भेदेनान्वयस्या- व्युत्पन्नत्वादभेदानुसरणम्। एकदेशान्वयस्तु देवदत्तस्य नप्तेत्यादाविवा- त्राप्यभ्युपेयः । 'समासस्यैव विशिष्टार्थे शक्तिः' इत्येके। 'अरविन्दपद- मेव लक्षणया सर्वार्थबोधकं सुन्दरपदं तु तात्पर्यग्राहकम्' इत्यपरे। तथा अरविन्दमिव सुन्दरमित्यत्रेवार्थे सादृश्येSरविन्दस्य निरूपितत्व- संसर्गेणान्वयः । तस्य च प्रयोजकतासंसर्गेण सौन्दर्ये। एवं चारविन्द- निरूपितसादृश्यप्रयोजकसौन्दर्यवदभिन्नमिति । अरविन्दमिवेत्यत्र त्वर- विन्दनिरूपितसादृश्यवदिति निपातजन्योपस्थितिप्रयोज्यप्रकारतानिरूपित-
सत्वं प्राणी बलं च। रसो जलं शृद्गारादिश्व। हंसः पक्षी परमात्मा च। अन्रेति। उदाहरणद्वये इत्यर्थः। अद्वितीयमिति। वाशव्दो हेतर्थः। असूयादेरप्रत्ययादिति। अन्न मूढादिपदाप्रयोगेऽपि किं चन्द्र दृप्यसीत्याक्षेपेणासूया व्यज्गया न वेति सहृदयैर्विभा- व्यम्। लप्स्य(क्ष्य)त इति। अरविन्दपदेनेति शेषः। अभेदानुसरणमिति। प्रयोज- कसौन्दर्ययोरिति भावः। ननु नित्यसाकाह्वस्थले तथाङ्गीकारेऽप्यत्र न तथेति चेदत एव म- तान्तरमाह-समासेति। अत्र मते गौरवान्मतान्तरमाह-अरविन्देति।तथेति। समस्तवद्यस्तेऽपीत्यर्थः । ननु विशेष्यतया नामार्थप्रकारकारकबोधे विशेष्यतया विभक्ति-
Page 202
१८७
विशेष्यतानिपातजन्योपस्थिति प्रयोज्य विशेष्यतान्यतरभिन्नविशेष्यतासंस- गेण नामार्थप्रकारकबोध एव विशेष्यतया विभक्तिजन्योपस्थितेर्हैतुत्वा- दिवार्थस्य नञर्थस्येव भेदसंसर्गेण नामार्थविशेष्यत्वे विशेषणत्वे च न दोषः । अरविन्दमिव भातीत्यत्रारविन्दनिरूपितसादृश्यस्य प्रकारतासंब- न्घेन धात्वर्थेऽन्वयादरविन्दसादृश्यप्रकारकधीविशेष्य इति। तत्रैव सौन्दर्येणेति धर्मोपादाने तृतीयार्थः प्रयोज्यत्वं घात्वर्थे भाने इवार्थे सादृश्ये वान्वेति। तेन सौन्दर्यप्रयोज्यारविन्दनिरूपितसादृश्यप्रकारकधीविशेष्य इति। तथा गज इव गच्छति, पिक इव रौतीत्यादावुपमानपदानां तत्क- र्तृकक्रियायां लक्षणया गजादिगमनादिसदृशगमनाद्यनुकूलकृतिमानिति । ननु घटो न पश्यतीत्यत्र घटान्विताभावस्य दर्शने कर्मतासंसर्गेणान्वयवा- रणाय घात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंसर्गेण शाब्दबोधं प्रति वि- शेप्यतया विभक्त्यर्थोपस्थितेर्हेतुत्वम्। एवं च गज इव गच्छति, पिक इव रौतीत्यादौ नैवाद्यर्थस्य सादृश्यस्य घात्वर्थेऽन्वयः संभवति। तस्माद्गजादि सा- दृश्यस्य गमनादिकर्तर्येवान्वयः सवगमनादिसदृशगमनादिकर्तृत्वेन समानध- मेण। इत्थमेव चाख्यातवादशिरोमणिव्याख्यातृभिरपि सिद्धान्तितमिति चेत्, नैवम्। गज इव गच्छतीत्यत्र सादृश्यस्य विधेयतया प्रतीतेरपलापापतेः । गज इव यः पुरुषः स गच्छति, पुरुषो यः स गज इव गच्छतीति वाक्याभ्यां भिन्नप्रतीत्योरानुभविकत्वात्। एवं वनं गज इव गृहं देवदत्तो गच्छतीत्यादौ वनादेः सर्वथैवानन्वयापत्तेश्र। एवं बिम्वप्रतिबिम्बभूतस्य कारकमात्रस्यानन्वयो बोध्यः। तस्माद्गजनिरूपितसादृश्यप्रयोजकगमना- आह-निपातेति। उक्तोदाहरणे इवार्थसादृश्ये प्रकारताविशेष्यतान्यतरत्सत्वादन्य- तरभिन्नत्वविशेषः। एवेनोककार्यकारणभावव्यवच्छेदः। धात्वर्थमाह-धीति। तत्रैवेति। अरविन्दमिव भातीति वाक्प एवेत्यर्थः । तृतीयार्थाभिन्नं प्रयोज्यत्वम्। अन्वये कर्तृभा- नस्य तत्प्रयोज्यत्वाभावादाह-इवार्थ इति।कर्तयेवेति। एवेन लक्षणादिव्यवच्छेदः। समानधर्मेणेत्यस्य पूर्वत्रान्वयः । ननु तस्य तत्त्वेन प्रतीतावेव मानमत आह-गज इचेति। अनन्वयो वोध्य इति। वस्तुतस्तु वनं गज इव रणभूमि शूरो गच्छतीत्यादौ वनकर्मकगमनानुकूलकृतिमद्गजसदृशः समरभूमिकर्मकगमनानुकूलकृतिमाञ्शूर इत्यादि वोधः । इवशव्देन च विम्बप्रतिबिम्वभावापन्नवनसमरभूमिविशेषणकगमनमेव धर्मत्वेन बोध्यते। इवादयक्च धर्मत्वेनैव बोधका इति सर्वसंमतम्। गज इव यः पुरुषः स ग-
Page 203
१८८ काव्यमाला।
श्रय इत्येव गज इव गच्छतीत्यत्र धीः। कारकोपादाने तूपमानपदानां तत्क- र्तृकक्रियायां लक्षणेत्येव साधु। न च प्रागुक्तकार्यकारणभावस्य धात्वर्थ- निवृत्त्यादेर्व्यभिचारः । तस्यानङ्गीकारात्। अङ्गीकारे च तूष्णीमारात्पृथ- गित्याद्यर्थानां धात्वर्थान्वयोऽनुभवसिद्धोऽपलपनीयः स्यात्। कथं तर्हि घटो न पश्यतीत्यादौ घटाभावं पश्यतीति नान्वयवोघः । धात्वर्थनिष्ठवि- शेप्यतानिरूपितप्रकारतासंसर्गेणान्वयबोधं प्रति नञ्जन्योपस्थितिमात्रस्य प्रतिबन्धकत्वकल्पनात्। धात्वर्थस्य नामार्थभिन्नत्वेन विशेषणं तु द्वयो- स्तुल्यम् । तेन पाको न याग इत्यादौ न व्यभिचारः । इत्यलमप्रसक्त- विचारेण। अथारविन्दतुत्यो भातीत्यत्र कथं धीः । तुल्यपदार्थस्य निपातभिन्न- नामार्थत्वेन घात्वर्थे भेदेनान्वययोगात्। तादृशतुल्यत्वादेर्भानोद्देश्यतावच्छे- दकत्वे भानमात्रविधेयतायां विवक्षितार्थाप्रतीतिः । न च तुल्यपदेन तुल्य- त्वप्रकारको लक्षणयोपस्थापितो ह्यमेदेन घात्वर्थेऽन्वेष्यतीति वाच्यम्। क्रियाविशेषणत्वेनारविन्दतुत्यशब्दस्य नपुंसकत्वापत्तेरिति चेत्, व्याकर- णस्य सिद्धानुवादकत्वेन स्तोकं पचतीत्यादिमात्रविषयत्वेन क्रियाव्ययवि- शेषणानां क्वीवतेष्यते इत्यस्योपपत्तेः । धातोरेव लक्षणया सकलार्थबोध- कत्वमितरस्य तात्पर्यग्राहकतेत्यपि केचित्। अरविन्दवत्सुन्दरमित्यत्र
चछतीत्यत्र चेवेन गमनान्वित एव शूरत्वादिधर्मत्वेन बोध्यते। पुरुषो यः स गच्छती त्यत्र तु गमनमेव तथेति तयोविशेषोऽप्युपपद्यत एव। उपमाया विधेयत्वं चैतदेव यद्विधे- यस्यैव धर्मत्वेनोपमावोधकवोध्यत्वमिति चिन्त्यमिदम्। वैयाकरणनये तु क्रिययोरेवोपमा- नोपमेयभावः । गच्छतीत्यस्य चावृत्त्योभयत्रान्वयः। गजादिपदानां स्वकर्तृकक्रियायां लक्षणा वेति दिक। कारकोपेति। कर्त्रादीत्यर्थः । अद्गीकारे दोषमाह-अङ्गीति। उक्तदोषमुद्धरति-कथमिति। मात्रपदेनेतरनिपातव्यवच्छेदः। कथमिति। भे देना- भेदेन वेत्यर्थः । तत्र नाद इत्याह-तुल्येति। उक्तव्युत्पत्तेरिति भावः । नाप्यभेदेने- लाह-न चेति। घात्वर्थे भानरूपे। उपपत्तेरिति। तथा चोक्तरीया अभेदेनैवा- न्वय इति भावः। मतान्तरमाह-धातोरेवेति। तथा च तस्य तादृशो विशिष्ट एवार्थ इति नो क्तव्युत्पत्त्यवसर इति भावः। इत्यपि केचिदिति। वस्तुतस्तु उपमाविधेयकबोधे तात्पर्ये अरविन्दतुल्यमित्येव साधु, न तुल्य इति। यदि तु विधेयस्य धर्मत्वेनोपमा बोधकवोध्यत्वमेव विधेयत्वमुपमाया इति विभाव्यते तर्हि अरविन्दतुल्यविषयकं भानं भानविषयोऽरविन्दतुल्य इति वा वोधेऽपि भानस्य धर्मत्वेन भानादुपमाया अविधेयत्व-
Page 204
रसगङ्गाधरः । १८९
वतेः 'तेन तुल्यम्-' इति विहितस्य सादृश्यवदर्थकस्य सादृश्ये लक्षणा तस्य सुन्दरपदार्थैकदेशेन सुन्दरत्वेनान्वयादरविन्दमिव सुन्दरमित्यत्रेव बोघः । एकत्र शक्त्यापरत्र लक्षणया च सादृश्यप्रतिपादनाच्छौत्यार्थी चेति। अरविन्दवन्मुखमित्यत्र त्वरविन्दनिरूपितसादृश्यवदभिन्नमिति। अर- विन्दवत्सौन्दर्यमस्येत्यत्रार विन्दशब्दस्यारविन्दसौन्दर्यलाक्षणिकतयारविन्द- सौन्दर्यनिरूपितसादृश्याधिकरणमेतत्संबन्धिसौनदर्यमिति मुखारविन्दसौ- न्दर्ययोः सादृश्यबोघे शाव्दे तयोरभेदाध्यवसायादभिन्नधर्ममूला पश्चा- न्मुखारविन्दयोरपि सादृश्यधीः । अरविन्देन तुत्यमित्यत्र तृतीयार्थो निरूपितत्वम् । तस्य च सादृश्येऽन्वयादरविन्दनिरूपितसादृश्याश्रयाभिन्न- मिति। तत्रैव सौन्दर्येणेति धर्मनिर्देशे तृतीयार्थः प्रयोज्यत्वम् । तेनारवि- न्दनिरूपितसौन्दर्यप्रयोज्यसादृश्यवदभिन्नमिति। अरविन्दमाननं च सम- मित्यत्र प्रथमं शब्दात्सादृश्यवदभिन्नमिति बोधे पश्चान्मानसी वैयञ्जनिकी वा परस्परनिरूपितसादृश्यस्य प्रतीतिः प्रसिद्धा निरूपितसादृश्यस्य वा। मेव। धर्मान्तरस्य तथा भाने तु अरविन्दतुल्य इत्येव प्रयोग: सर्वसंमतः। उपमाया उद्दे- श्यतावच्छेदकत्वं चेति ध्येयम्। अरविन्दमिव सुन्दरमित्यत्रेवेति। वस्तुतस्तु क्रिया- यास्तुत्यत्वे एव 'तेन तुल्यम्-' इति वतिविधानादरविन्दमिव सुन्दरमित्यादिवत्कथं बोध इति चिन्त्यमिदम्। अत एव ब्राह्मणवदधीते इत्यन्न व्राह्मणकर्तृकाध्ययने ब्राह्मणपदस्य लक्षणेति महाभाष्यकारादयः । अरविन्दवत्सुन्दरं मुखमित्यत्र च भवतिक्रियाध्याहार्या। अरविन्दपदेन च सुन्दरारविन्दभवनं लक्ष्यते। तथा च सुन्दरारविन्दभवनसदृशं सुन्दरं मुखभवनमिति शाव्दे बोधे वृते अरविन्दमुखयोः सौन्दर्यधर्मकृतसादृश्यं व्यज्जनया बुध्यते। एवमरविन्दवन्मुखमित्यत्रापि अरविन्दभवनसदृशं मुखभवनमित्येव वोधो युक्त्त इति बोध्यम्। एकत्र अरविन्दमिवेत्यत्र। अपरत्र अरविन्दवदित्यत्र। सादृश्यवद- भिन्नमितीति । बोध इत्यस्यानुपङ्गः । लक्षणा नेति भावः । अत एव तुः प्रयुक्त: । सौन्दर्यलाक्षणिकतयेति। तत्र तस्येवेति वतेरिवार्थे विहितत्वेन सादृश्यार्थकस्य तत्प्रयोजके लक्षणयारविन्दसादृश्यप्रयोजकमेतत्संबन्धिसौन्दर्यमिति बोधे उपपन्ने अरवि- न्दपदस्यारविन्दसौन्दर्यलक्षणा किंफला किंप्रमाणा चेति चिन्त्यमिदम्। शाब्दे इति। वृत्ते इति शेपः । तयोर्भुखारविन्दसौन्दर्ययोः । अभेदेत्यस्य सादृश्यमूलेत्यादिः । अभिन्नधर्मेति। सौन्दर्यरूपेत्यर्थः । सादृश्ये तुल्यपदार्थैकदेशे । अभिन्नमितीलस्य बोध इति शेषः । एवमग्रेऽपि। निरूपितप्रयोज्यते सादृश्यविशेषणे। अभिन्नमिति। अरविन्दमाननं चेति शेषः। परस्परेति। मुखसादृश्यस्य कमले, कमलसादृश्यस्य मुखे इत्यर्थः । विनिगमनाविरहादिति भावः । प्रसिद्धत्वस्य गमकत्वादाह-प्रसिद्धेति।
Page 205
१९० काव्यमाला। बिम्बप्रतिबिम्बभावापन्ने तु- 'कोमलातपशोणाभ्रसंध्याकालसहोदरः । कुङ्कमालेपनो याति काषायवसनो यतिः ।।' इत्यादौ कुङ्कमालेपनादिविशिष्टो यतिः कोमलातपादिविशिष्टसंध्या- कालसदृशाभिन्न इति शक्त्या बोधे पश्चात्सादृश्यप्रयोजकधर्माकाङ्कायां श्रुतानां कोमलातपादीनामुपमानोपमेयविशेषणानां सादृश्यमूले तादात्म्या- ध्यवसाने साधारणत्वनिप्पत्तिः । कुङ्कुमालेपकषायवसनाभ्यामयं यतिरि- त्यत्र कुङ्कुमालेपकषायवसनयोरसाधारणयोरपि साधारणत्वज्ञानजननद्वारा कल्पनीयसादृश्यनिष्पत्तिप्रयोजकत्वात्प्रयोज्यत्वेन सादृश्येऽन्वयः / एक- देशान्वयः पुनरेषु पक्षेष्वगतिकतयाश्रीयत इत्युक्तमेव। सादृश्यस्य समा- नधर्मरूपत्वे तु अरविन्दसुन्दरं वदनमित्यत्र लक्षणयारविन्दवृत्तिसमान- धर्मः प्रतीयते। तस्य चाभेदेन सुन्दरपदार्थकदेशेन सुन्दरत्वेनान्वयः । अरविन्दमिव सुन्दरमित्यत्रारविन्दपदार्थ आधेयतया संसर्गेण इवपदार्थेन समानधर्मेणान्वेति। शेषं प्राग्वत्। सौन्दर्येणारविन्देन सममित्यत्र सौन्दर्योत्तरतृतीयया धान्येन धनीत्यत्रेव अभेदार्थिकया अन्यया च निरू- पितत्वार्थिकया सौन्दर्याभिन्नमरविन्दनिरूपितं यत्सादृश्यं तद्वदभिन्न- मिति घीः । क्यडर्थाचारो धर्ममात्रम्। तस्य चोपमानपदेन लक्षणयो- पस्थितं तन्निरूपितसादृश्यं प्रयोजकतासंसर्गेणाभेदेन वा विशेषणम्। विशेष्यं चाश्रयतयोपमेयम्। क्यजर्थाचारश्चानुरूपक्रियादिरिति दिक्।
अरविन्देलयर्थः । सादृश्यस्य वेति। प्रतीतिरित्यस्यानुषङ्गः। पन्ने त्विति। तदापन्न- धर्मके वित्यर्थः। सहोदरशब्दार्थमाह-सदृशेति। तादात्म्येति। अभेदेलर्थः । लक्ष्यान्तरमाह-कुङ्कमालेपेति। साधारणत्वेति। सादृश्यमूलाभेदाध्यवसानेनेला- दिः। कल्पनीयेति। यतिरित्यस्य यतिरिवेत्यर्थः । अन्यत्र अन्यशव्दप्रयोगादिति भावः। लक्षणयेत्यस्यार विन्दपदस्येत्यादिः। शेषमिति। तस्य चाभेदेनेत्यादीत्यर्थः । अन्यया चेति। अरविन्दपदोत्तरया चेत्यर्थः । एकदेशान्वयः प्राग्वदेवेत्याह-सादृश्यमिति। उप्तास्थले बोधमाह-क्यड्थेति। सादृश्यस्यातिरिक्तत्वे आह-प्रयोजकतेति। धर्मरूपत्वे आह-अभेदेति। विशेष्यमिति। अस्य चेत्ादिः। तत्र सादृश्ये। ननु
Page 206
रसगङ्गाधरः । १९१
तत्र वादीनां द्योतकत्वमेव न वाचकत्वम्। निपातत्वादुपसर्गवत् द्योतकत्वं च सवसमभिव्याहृतपदान्तरेण शक्त्या लक्षणया वा तादृशार्थबो। धने तात्पर्यग्राहकत्वेनोपयोगित्वमिति वैयाकरणाः । उपसर्गाणां द्योतक- त्वमावश्यकम् । अन्यथा उपास्यते गुरुः, अनुभूयते सुखम्, इत्यादौ गुर्वा- देर्लेनाभिधानं न स्यात्। धात्वर्थकर्मताविरहात्। इवादीनां तु वाचकत्वम्। वाधकाभावात्। प्रागुक्तहेतुस्त्वप्रयोजकत्वान्न साधकः । अन्यथा अव्य- यत्वादिति हेतुना अव्ययमात्रस्यैत द्योतकतापत्तिरिति नैयायिकाः । अथास्याश्चमत्कारस्यापकर्षकं यावत्तत्सर्वमपि दोषः कविसमयप्रसि- द्विराहित्यम्। उपमानोपमेययोर्जात्या प्रमाणेन लिङ्गसंख्याभ्यां चाननुरू- प्यम् । विम्बप्रतिबिम्बभावे धर्माणामुपमानोपमेयगतानां न्यूनाधिक्यम्। अनुगामितायामनुपपद्यमानकालपुरुषविध्याद्यर्थकत्वम्। एवमादि । क्रमेण यथा- 'प्रफुल्लकह्वारनिभा मुखश्री रदच्छदः कुङ्कुमरम्यरागः । नितान्तशुद्धा तव तन्वि वाणी विभाति कर्पूरपरम्परेव ।।' 'मुनिः श्ववदयं भाति सततं पर्यटन्महीम्। विनिवृत्तक्रियाजातः श्वापि लोके शुकायते ।' 'सरसि प्वदाभाति जम्बीरं सुपचेलिमम् । आदिकारणतोयौघ इव ब्रह्माण्डमण्डलम् ।।' न दोतकत्वं साध्यम्। अनर्थकनिपातेषु निपातत्ववत्सु द्योतकत्वाभावेन व्यभिचारात्। अत एव दोलं साध्यमाह-न वाचकत्वमिति। तथा च वाचकलाभावे साध्ये नो- क्तव्यभिचार इति भावः। नानार्थभिन्नस्थले शक्ता बोधने तात्पर्यग्राहकानपेक्षणादाह- लक्षणयेति। लेन लकारेण। अप्रयोजकत्वादिति । 'साक्षात्कियते दयिता' इत्यादो लेन दयितादेरभिधानसिद्धये निपातत्वे द्योतकतावच्छेदकता कल्प्यत इति चिन्त्यमेततू। द्योतकतापत्तिरिति। न चेष्टापत्तिः। खरादीनां खातन्त्र्येण प्रयोगा- नापत्तेरिति भावः । अस्याः प्रकृतोपमायाः । समयः संकेतः । अननुरूप्यमिति। नञ्समासोत्तर भावप्रत्ययः । कालो भूतादिः। पुरुषः प्रथमादिः। प्रफुल्लेति। अत्र कहारमुखयोः केसरौष्टयोः कर्पूरवाण्योक्ष तत्वं तत्संकेताप्रसिद्धम्। कह्वारः पुष्पविशेषः। रदानां दन्तानां छदोऽपवारकः पश्रवः । ओष्ठ इति यावत्। विनीति। विशेषेण निवृत्तक्रियासमूददः । अत्र श्वमुन्योः शुकशुनोक्च जात्याननुरूप्यम्। हवचवलम्।
Page 207
१९२ काव्यमाला। एतस्यैव किंचित्पद्व्यत्यासे ब्रह्माण्डस्योपमेयतायां चायमेव दोषः । 'द्राक्षेव मधुरं वाक्यं चरितं कौमुदी यथा। सदैवार्द्राणि चेतांसि सुधेव सुमहात्मनाम् ।।' 'वामाकल्पितवामाङ्गो भासते भाललोचनः । शम्पया संपरिष्वक्तो जीमूत इव शारदः ।।' अत्र जीमूतगतो भालस्थलोचनप्रतिबिम्बो नोपाच इति न्यूनत्वम् । 'भगवान्भवः' इति कृते तु बिम्वस्यैवाभावान्न प्रतिबिम्बापेक्षेति साधुः । 'विप्णुवक्षःस्थितो भाति नितरां कौस्तुभो मणिः । अञ्कारक इवानेकतारके गगनाङ्गणे॥' अत्र तारकाणां बिम्बाभावादाधिक्यम् । 'विष्णोर्वक्षसि मुक्तालिभा- सुरे भाति कौस्तुभः' इत्यर्थे तु न दोषः । अत्र विशेषण विशेषणयोर्मुक्ता- लितारकागणयोर्विम्वप्रतिविम्बभावेन वक्षोगगनाङ्गणयोर्विशेषणयोर्विम्वप्र- तिबिम्बभावः । तन्मूला चोपमा। 'रराज राजराजस्य राजहंस: करस्थितः । हस्तनक्षत्रसंसक्त इव पूर्णो निशाकरः ॥' अत्र रराजेति प्रतिपादे भूतकालावच्छिन्नक्रियाविशेषे राजहंसस्या- न्वय इव न निशाकरस्येत्यनुपपद्यमानकालघटितत्वं धर्मस्य । 'रणाङ्गणे रावणवैरिणो विभोः शराः समन्ताद्वलिता विरेजिरे। निदाघमध्यंदिनवर्तिनोडम्बरे सहस्रभानो: प्रखराः करा इव ॥'
सुपचेलिमं अत्यन्तपक्कम्। आदिकारणेति। 'अप एव ससर्जादौ तासु वीजमवा- सृजत्' इति श्रुतेस्तत्वमिति भावः । अत्र प्रमाणत अनानुरूप्यम् । तयोरत्यन्तवैलक्ष- ण्यात् एतत्पोषकमपि सुपचेलिममिति विशेषणम्। पक्कस्यात्वन्तसूक्ष्मत्वात्। किंचि- . त्पदेति । इवश्तवत्पदयोरित्यर्थः । 'सरसीव समाभाति उरवद्रह्माण्डमण्डलम्' इति चावत्। अयमेव प्रमाणतोऽननुरूपताख्य एव। द्राक्षेति। अत्र पूर्वार्ध लिग्गोदाहरणम्। उत्तरार्धं लिङ्गसंख्योदाहरणम्। वामेति। वामया पार्वत्या कल्पितं स्वीकृतं वामाऊ्रं यस्य सः। शम्पया विद्युल्लतया। जीमूतो मेघः । राजराजस्य कुबेरस्य। न निशाक- रस्येति। तदीयक्कियाविशेषस्य वर्तमानत्वात्। निशाकरस्याकस्पस्थायित्वात्। एवमग्रे- डपि वोध्यम्। धर्मस्य क्रियाविशेषस्य। अस्यैवोदाहरणान्तरमाह-यथा वेति। एव-
Page 208
रसगङ्गाधरः । १९३
यथा वा- 'आगतः पतिरितीरितं जनैः शृण्वती चकितमेत्य देहलीम्। कौमुदीव शिशिरीकरिप्यते लोचने मम कदा मृगेक्षणा ।' अत्र शृण्वतीति शत्रा प्रत्यायितेन श्रवणसमकालमेव प्रियाया दे- हल्यागमनमित्यर्थेनातिशयोक्त्यात्मना गमितस्त्वरातिशयस्तद्गतमौतसुक्या- तिशयं पुष्णाति। कौमुद्युपमा तु तत्परिपोषितं प्रधानीभूतं प्रियगतमौ- त्सुक्यम्। चकितमित्यागमनविशेषणमपि वस्तुतो विचार्यमाणमीक्षणविशे- षणीभव त्तस्यैवानुकूलम्। इति स्थिते भविप्यत्कालावच्छिन्नशिशिरीकरणस्य साधारणधर्मस्योपमेयान्वितत्वमिव नोपमानान्वितत्वम् । 'एतावति महीपालमण्डलेऽवनिमण्डन। तारकापरिषन्मध्ये राजन्राजेव राजसे ।।' अत्र क्रियायां संबोध्योपमेयान्वय इव नोपमानान्वयः । 'राजेव संभृतं कोषं केदारमिव कर्षकः । भवन्तं त्रायतां नित्यं भयेभ्यो भगवान्भवः ।।' अत्र प्रार्थ्यमानत्राणकर्तृत्वमुपमेये भव इवोपमानयो राजकर्षकयो- र्नास्ति। तयोस्त्राणकर्तृत्वस्य सिद्धत्वात् । यदि तु त्रायत इति प्रार्थना- निर्मुक्तं त्राणकर्तृत्वमुच्यते तदा धर्मस्य साधारणत्वान्न दोषः । अथ त्रा- यत इति प्रार्थ्थमानतानिर्मुक्तेऽपि त्राणकर्तृत्वेन साधारणत्वम्। प्रार्थ्य- मानताया इव विधेयतानुवाद्यत्वयोर्भेदकत्वादिति चेत्। सत्यम्। इह हि मग्रेऽपि। विभो: श्रीरामस्य । वलितास्तीक्ष्णाः । ईरितमिति । वच इति शेषः । तद्तं नायिकागतम्। तत्परिपोषितं नायिकागतौत्सुक्यातिशयपोषितम्। औत्सुक्य- मिति । पुष्णातीत्यस्यानुषङ्गः । तस्यैवेक्षणस्यैव। नोपमानान्वितत्वमिति । तथा चानुपपद्यमानकालार्थकत्वं सर्वत्र बोध्यम्। एपु सर्वेषु भूतभविष्यतत्तत्पदा- थीनामेवोपमानीकरणेनान्वयस्य संभवोस्त्येवेति चिन्त्यान्येतान्युदाहरणानि । 'त्य- क्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमि पितुराज्ञयेव' इत्यादि तूदाहर्तुमुचितम्। राजेव चन्द्र इव। नोपमानेति। तथा चानुपपद्यमानपुरुषार्थकत्वमत्र बोध्यम् । विध्यादी- त्यादिपदग्राह्यप्रार्थनोदाहरणमाह-राजेवेति।नास्तीति। विशेषणाभावप्रयुक्तविशि- शभावोऽत्र। तदाह-तयोरिति। त्रायते इतीति। लडन्तमिति भावः। लडन्तपक्षे शहते-अथेति। विधेयतेति। उपमाननिष्टे तत्रानुवाद्यत्वमुपमेयनिष्ठे तत्र विधे- १८
Page 209
१९४ काव्यमाला।
धर्मलोपरहितायामुपमायां धर्मवाचकशब्दप्रतिपादैः प्रार्थना । भूतभविष्य-
भावान्नोपमानिप्पत्तिरिति निर्विवादम् । तत्र विधेयत्वानुवाद्यत्वाभ्यां श- व्देनानिवेदिताभ्यां विषयताभ्यां विशिष्टस्य धर्मस्य यदि नास्ति साधा- रण्यं मास्तु नाम। नहयुदासीनैर्विशेषणैर्विशिष्टस्य धर्मस्य साधारण्यम- पेक्षितम् । अपि तु धर्मवाचकशन्दनिवेदितैः । एवं चन्द्रवत्सुन्दरं मुख- मित्यत्रापि सुन्दरत्वस्योपमानेऽनुवाद्यत्वे उपमेये च विधेयत्वेऽपि न सा- धारण्यहानिः । ननु 'नीलाञ्चलेन संवृतमाननमाभाति हरिणनयनायाः । प्रतिविम्बित इव यमुनागभीरनीरान्तरेणाङ्कः ।।' इत्यत्रोपमाने चन्द्रे योगमर्यादया भासमान एणरूपोडक्क आननरू- पोपमेयविशेषणस्वविम्वाभावात्कस्य प्रतिबिम्बः स्यात् । अत आधिक्यापा- दकतया दोषः। न च हरिणनयनसदशस्य नयनस्योपादानात्तस्यैव विम्वस्य प्रतिविम्बः स्यादिति वाच्यम्। तादृशनयनस्य बहुव्रीह्यर्थकान्ताविशेष- णतया आननाविशेषणत्वेन बिम्वत्वाभावादिति चेत्, भैवम्। शब्देनानन- विशेषणत्वेन तादृशनयनस्याप्रतिपादनेऽपि कान्ताविशेषणत्वेनैवाननवृत्ति- त्वस्यापि प्रतिपत्तेः । नह्याननमविषयीकृत्य कान्तां विशेषठुमीष्टे नयनम्। अनुभवविरोधात्। तथापि समभिव्याहारविशेषमापन्नेन शब्देनाप्रतिपाद- यतमिति भावः। प्राथ्यमानताया इवेत्यस्य प्रार्थ्यमानतातदभावयोरित्यर्थः । साधारण्या- भावे सतीति शेषः । प्रयोजकेति। सादृश्यप्रयोजकसाधारणधर्माभावादित्यर्थः । तत्र तस्यामुपमायाम्। उदासीनैः शव्दाप्रतिपायैः । प्रसिद्धोदाहरणेऽप्येवमेवेत्याह-एव- मिति। तथा च तत्कृतभेदेऽपि तस्यानपेक्षितस्य तत्त्वसत्त्वाल्लडन्तपाठे न दोष इत्युक्तं युक्तमेवेति भावः । प्रतीति । यमुनागभीरजलमध्ये प्रतिबिम्बितश्चन्द्र इवेत्यर्थः । योगेति। बहुत्रीहीत्यर्थः । स्वेति । अङ्केत्यर्थः । तादृशेति । हरिणनयनसदृशेत्यर्थः । एवमग्रेऽपि। ईष्टे इति। नयनस्याननमात्रसंवन्धित्वादिति भावः । तदाह-अनुभ- वेति। शङ्कते-तथापीति । तद्दत्तित्वस्यार्थिकप्रतिपत्तावपीत्यर्थः । समभीति। नयनरूपेत्यर्थः । शब्देन हरिणनयनशव्देन। अप्रतीति । नयने आननवृत्तित्वस्ये- त्यादिः। विषयता त्रिविधा-प्रकारता, विशेष्यता, सांसर्गिकी च । तत्राद्योरभावे-
Page 210
रसगङ्गाघरः । १९५
नाच्छाब्दें बोधे नाननस्य नयनविशिष्टत्वेन विषयत्वमिति चेत्, संसर्गत्वे बाधकाभावात्सविशिष्टाननसंसर्गेण तादृशनयनस्य कान्ताविशेषणत्वात्। यथाकथंचिदुपमेयवृत्तिताज्ञानस्य बिम्बताप्रयोजकत्वात्। यद्वा कान्ता- विशेषणतया तादृशनयनयोः शाब्दे बोधे वृत्ते पश्चादाननस्य तद्विशेष्य- तया वैयञ्जनिके मानसे वा बोधे बाधकाभावात्। एवं च तादृशवाक्यप्र- योज्ये ज्ञाने उपमेयविशेषणतया भातस्य तादृशनयनस्य बिम्बस्य स- त्वात्तदर्थ च चन्द्रगतस्यैणरूपस्याक्कस्य प्रतिविम्वतयोपादानमावश्यकमे- वेति नाधिक्यं दोपः। कविसमयसिद्धतया चमत्कारापकर्षकत्वाभावेन लिङ्गभेदोऽपि नात्र दोषः । एवं च कविसमयसिद्धतया प्रकारान्तरेण वा प्रागुक्तानां दोषाणां चमत्कारानपकर्षकत्वे नास्त्येव दोषत्वम्। यथा- 'नवाङ्गनेवाङ्गणेऽपि गन्तुमेष प्रकम्पते। इयं सौराष्ट्रजा नारी महाभट इवोद्भटा ।I' एवमन्यत्रापि ज्ञेयम्। शेषं स्मरणालंकारप्रकरणे विकल्पप्रकरणे च वक्ष्यामः । इत्युपमानिरूपणसंक्षेपः ॥ इति रसगज्गाधरे उपमाप्रकरणम्। उप्यन्त्या सुवचेत्याह-संसर्गत्व इति। आननस्येत्यादिः तदेवाह-स्वविशिष्टेति। नयन विशिष्टेत्यर्थः । नन्वेवमपि प्रकारतया विशेष्यतया वा उपमेयवृत्तित्वज्ञानस्य विम्ब- ताप्रयोजकत्वात्कथं विम्वत्वमत आह-यथाकथंचिदिति। न तूक्तरीत्ैव। तथा च संसर्गतया तत्त्वसत्त्वात्तत्वं सुवचम्। नन्वेवमप्यतिप्रसङ्गापत्तिः । नहि संसर्गतया भासमानस्य शाब्दत्वमत आह-यद्वेति। तादृशेति । हरिणीयतनायकीयत्विशि- षेत्यर्थः। तद्विशेष्येति। नयन विशेष्येत्यर्थः। तादृशेति। कान्ताविशेषणत्वेन नयनवो- धकेत्यर्थः । साक्षात्तजन्यत्वाभावादाह-प्रयोज्ये इति। ज्ञाने वैयज्ञनिकादौ। तदर्थ तत्प्रतिबिम्बाकाङ्वाशान्त्यर्थम्। एवमाधिक्यदोपं परिहृत्य नीलाव्वलेनेत्यत्र लिजभेददो- षमुद्धरति-कवीति। एवमन्यत्राप्यपवादमाह-एवं चेति। तदभावसिद्धौ चेतयर्थः। तन्नादौ कविसमयसिद्धतयेत्यस्य लक्ष्यमाह-यथेति। ननु किं तत्प्रकारान्तरं येनादुष्ट- त्वमत आह-शषमिति । परम प्रकृतमुपसंहरति-इत्युपमेति। चन्द्रालोके तु-'अनेकस्यार्थयुग्मस्य सादृश्ये स्तवकोपमा। त्रितोऽस्मि चरणौ विष्णोर्भृङ्गस्तामरसौ यथा॥ स्यात्संपूर्णोपमा यत्र द्वयोरपि विधेयता। पद्मानीव विनिद्राणि नेत्राण्यासन्नहर्मुखे।।' इति भेदद्वयमधिकमुक्त्तम् । इति रसगङ्गाधरमर्मप्रकाशे उपमाप्रकरणम्॥
Page 211
१९६ काव्यमाला। अथास्या एव भेद उपमेयोपमा निरूप्यते- तृतीयसदृशव्यवच्छेदबुद्धिफलकवर्णनविपयीभूतं परस्परमुपमा- नोपमेयभावमापन्नयोरर्थयोः सादृश्यं सुन्दरमुपमेयोपमा । 'तडिदिव तन्वी भवती भवतीवेयं तडिल्लता गौरी' इत्यत्र परस्परोप- मायामतिव्याप्तिवारणाय भूतान्तम् । अत्र तानवगौरिमभ्यामनुगामिध- र्मभ्यां प्रयोजितमुपमाद्वयं न तृतीयं सदृशं व्यवच्छिनत्ति । एकेन धर्मे- णैकप्रतियोगिके परानुयोगिके सादृश्ये निरूपितेऽपरप्रतियोगिकस्यैका- नुयोगिकस्यापि तेन धर्मेण सादृश्यस्यार्थतः सिद्धतया शन्देन पुनस्त- दुक्तिः खवनैरर्थक्यपरिहाराय तृतीयसदृशव्यवच्छेदमाक्षिपति। प्रकृते चै- केन तानवरूपेण धर्मेण तडित्प्रतियोगिके कामिन्यनुयोगिके सादृश्ये नि- रूपिते तेनैव धर्मेण कामिनीप्रतियोगिकस्य तडिदनुयोगिकस्य सादृश्य- स्यार्थतः सिद्धावपि न गौरत्वेन धर्मेण सिद्धिरिति तदर्थमुपात्तस्य द्वितीय- सादृश्यवचनस्य न तृतीयसदृशव्यवच्छेदफलकत्वम्। सदृशी तव तन्वि निर्मिता विधिना नेति समस्तसंमतम्। अथ चेन्निपुणं विभाव्यते मतिमारोहति कौमुदी मनाक्।' इति तृतीयस दृशव्यवच्छेदफलकवर्णनविषये सादृश्येऽतिव्याप्तिवारणाय परस्परमिति। लिङ्गवचनभेदादिदुष्टसादृश्यवारणाय सुन्दरमिति । अथेयमुदाहियते- 'कौमुदीव भवती विभाति मे कातराक्षि भवतीव कौमुदी। अम्बुजेन तुलितं विलोचनं लोचनेन च तवाम्वुजं समम् ॥' उपमाद्वयमिति। यतोऽतः पुनर्वर्ण्यमानमिति शेषः । एकेनेत्यस्य यत इत्यादिः । तदर्थ तेन धर्मेण सादृश्यसिद्ध्र्थम्। सदृशीति। व्यक्तिरित्यरथः । समस्तेति। सर्वे- त्यर्थः। विभाव्यते विभावनाविषयीक्रियते। मतिमिति। तदेत्यादिः। तदैवं वुद्धारूढं भवति कौमुदी ईषत्तव सदृशीतीत्यर्थः । अत्र कौमुदीभिन्ने कान्तासादृश्यनिषेधस्य शब्दतः कथनादीषत्सादृश्यस्य चन्द्रिकायां कथनात्तृतीयसदृशव्यवच्छेदः फलितस्तदाह- तृतीयेति। परस्परमिति। कौमुदीसादृश्योकेस्तत्राभाव इति भावः। दुषटेति। घट इव पटः, पट इव घटः, इत्यादेस्तु सामान्यप्राप्तालंकारत्वेनैव निरास इति भावः । तवाम्बुजं सममिति। अत्र तुलितं सममित्युपमावाचकवैलक्षण्यं वक्ष्यमाणक्किप्-
Page 212
रसगङ्गाधरः । १९७
इयं च तावह्विविधा-उक्तधर्मा व्यक्तधर्मा च। उक्तधर्मा तावदनु- गाभ्यादिभि: प्रागुक्तैर्धमैरनेकधा। अनुगामी धर्मो यथा- 'निखिले निगमकदम्वे लोकेष्वप्येष निर्विवादोऽर्थः । शिव इव गुरुर्गरीयान्गुरुरिव सोडयं सदाशिवोऽपि तथा ॥' विम्बप्रतिविम्बभावमापन्नो यथा- 'रमणीयस्तवकयुता विलसितवक्षोजयुगलशालिन्यः । लतिका इव ता वनिता वनिता इव रेजिरे लतिकाः ॥।' अत्र रमणीयत्वविलसितत्वाभ्यां विशेषणाभ्यां युतत्वशालित्वाभ्यां च विशेष्याभ्यां परस्परं वस्तुप्रतिवस्तुभावमापन्नाभ्यां पुटितः स्तवकस्त- नरूपः परस्परं विम्बप्रतिविम्बभावापन्नो धर्मः । उपचरितो यथा- 'कुलिशमिव कठिनमसतां हृदयं जानीहि हृदयमिव कुलिशम् । प्रकृतिः सतां सुमधुरा सुधेव हि प्रकृतिरिव च सुधा ।' केवलशब्दात्मको यथा- 'अविरतचिन्तो लोके वृक इव पिशुनोऽत्र पिशुन इव च वृकः । भारतमिव सच्चित्तं सच्चित्तमिवाथ भारतं सकृपम् ।।' व्यक्तधर्मो यथा- 'वारिधिराकाशसमो वारिधिसदृशस्तथाकाशः । सेतुरिव स्वर्गङ्ा स्वर्गङ्गेवान्तरा सेतुः ।।' अत्रापारत्वादिर्व्यज्यमानो धर्मः। एपा सर्वापि स्फुटे वाक्यभेदे प्रपश्चिता।
क्यडादिवैलक्षण्यमिव दुष्टमिति चिन्त्यमिदम्। व्यक्तेति। व्यजजितेत्यर्थः। निगमेति। वेदसमूहे इत्वर्थः । तथा गरीयान्। विशेषणेति । स्तबकवक्षोजयुगलेत्यादिः । एव- मप्रेपि। वस्त्विति। वस्तुतस्तयोरेकत्वादिति भावः । पुटितः संपुटितः । कुलिश- मिति । अन्र पृथिवीनिष्टकठिनलस्य मनसि सुधानिष्टमाधुर्यस्य प्रकृतावुपचारः। अवीति। निरन्तरं चित्ततस्य विशुनवृत्तित्वेऽपि वकावृत्तित्ात्सकृपतस्य साधुचित्त- वृत्तित्वेऽपि भारतग्रन्थावृत्तित्वाच्छव्द एव समानोऽन धर्मः । न चोपचरितत्वं शङ्कयम्। एकनिष्ठस्यान्यत्रारोपे तत्वेऽपि प्रकृते तत्त्वेनाप्रसिद्धत्वात्। अन्तरा आकाशमध्ये, समु- द्रमध्ये च। आदिना दुर्घटत्वं सेतुस्वर्गकयोः संगृह्यते। व्यक्तपदार्थ सूचयितुमाह-
Page 213
१९८ काव्यमाला आर्थे तु वाक्यमेदे- 'अभिरामतासदनमम्बुजानने नयनद्वयं जनमनोहरं तब। इयति प्रपश्चविषयेऽषि वैधसे तुलनामुदञ्चति परस्परात्मना ।।' अत्र परस्परात्मना तुलनामुदञ्चतीति संक्षिप्ताद्वाक्यादिदमेतेनैतच्चानेन तुलनामुदञ्चतीति वाक्यद्वयं विचारकमुल्लसते। एवं पूर्णालुप्तादयोऽप्यस्या उपमाया इव प्रायशः सर्वेडपि भेदाः संभवन्ति। ते चामुयैव दिशा सुु- द्विभिरुन्नेतुं शक्या इति नेह निरूप्यन्ते। चित्रमीमांसाकृतस्तु प्राचीनं लक्षणमव्याह्यतिव्याप्यादिभिर्दृषयित्वा 'अन्योन्येनोपमा वोध्या व्यक्त्या वृत्त्यन्तरेण वा। एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥' इति स्वयं लक्षणमाहुः । अस्यार्थः संक्षेपेण सपदकृत्यस्तदुक्तरीत्या सहृदयानां सौकर्यायोच्यते-अन्योन्येनेति । अन्योन्यप्रतियोगिकत्ववि- शिष्टाव्यक्त्या व्यञ्ञनाव्यापारेण वृत्त्यन्तरेण शक्त्या वा वोध्या वेद्या एकधर्माश्रया एकधर्मप्रयोज्या या उपमा सा उपमेयोपमा मतेत्यन्वयः । अन्योन्येनेति विशेषणादिदं तच्च सममित्युभयविश्रान्तोपमाया निरासः । अत्रान्योन्यप्रतियोगिकत्वस्य व्यञ्जनव्यापारमात्रगम्यत्वेनोपमायाश्च श- क्तिवेद्यतया परस्परनिरपेक्षेणैकेन व्यापारेणान्योन्यप्रतियोगिकत्वविशिष्टा- यास्तस्या अबोधनात्, परस्परनैरपेक्षस्यात्र वाकारेणाभिधानात्, एकध-
व्यज्येति। वाक्यभेद इति।उदाहियत इति शेषः। वैधसे विधातृनिर्मिते। उदव्वति प्रकाशयति। परस्परात्मना परस्पररूपतया। इद नयनम्। एतेन नयनेन । एवम- ग्रेऽपि। विचारकमिति। विवरणरूपमित्यर्थः । एवमनुगाम्यादिधर्मभेदवत्। अस्या उपमेयोपमायाः । असंभावितभेदवारणाय प्रायश इति। दिशा रीत्या। प्राचीनेति। 'उपमानोपमेयत्वं दवयोः पर्यायतो यदि। उपमेयोपमा सा स्याद्विविवैषा प्रकीर्तिता ।।' इत्यर्थः । अव्याप्तीति । 'तदूल्गुना युगपदुन्मिवितेन तावत्' इत्यत्राव्याप्तिः । 'रजोभि: स्यन्दनोद्गूतैः' इत्यत्रातिव्याप्तिरिति भावः । तृतीयार्थः प्रतियोगित्वमित्याशयेनाह- अन्योन्यप्रतीति। लक्षणाया असंभवादाह-शक्त्येति। इवादिसत्त्वे इति भावः। विश्रान्तेति। उभयत्र पर्यवसिता न श्रौती तस्यामित्यर्थः । शक्कीति । सपदे- त्यादिः। ननु मिथो निरपेक्षत्वं न निविष्टमत आह-परस्परेति। अन्यथा पक्षान्त-
Page 214
रसगङ्गाधरः । १९९
र्माश्रयेति विशेषणात् 'रजोभिर्भूरिव द्यौर्घनसंनिभैर्गजैश्र द्यौरिव भूः' इति कस्यचित्पद्यस्यार्थे परस्परोपमायां नातिव्याप्तिः । तत्रोपमा प्रयो- जकधर्मैक्याभावाद्भतलोपमानिकायां प्रयोजकस्य रजसामनुगामिधर्मस्य नभस्तलोपमानिकायां प्रयोजकस्य घनसदृदशगजानां बिम्बप्रतिबिम्बभावा- पन्नधर्मस्य च भेदात्। व्यक्त्येति च विशेषणं व्यङ्नयोपमेयोपमासंग्रहा- र्थमितीद मुपमेयोपमात्वप्रयोजकं लक्षणमिति, तन्न । अहं लतायाः सदृशीत्यखर्व गौराङ्गि गर्वे न कदापि यायाः । गवेषणेनालमिहापरेषामेषापि तुल्या तव तावदस्ति ।' अत्रान्योन्यप्रतियोगिकत्वविशिष्टाया उपमायास्तनुत्वादिरूपैकधर्मा- श्रयाया वृत्त्यन्तरेण शक्त्या बोधनादुपमेयोपमात्वापत्तेः । न चात्रान्यो- न्यप्रतियोगिकत्वमुपमायां न प्रतीयते। लतादिसंबन्धिसादृश्याश्रयत्वस्यै- वास्मत्पदार्थेऽन्वयादिति वाच्यम् । 'मुखस्य सदशश्चन्द्रश्चन्द्रस्य सदृशं मुखम्' इत्युपमेयोपमायामव्याप्तेः। नह्यहं लताया इत्यत्रोपमेयोपमा भ- वितुमर्हति। गर्वमात्र निरासपरत्वेनोत्तराधोपमायास्तृतीय सदृशव्यवच्छेदाप्र- तिपत्तेः । अत एव अन्यान्यपि तव सदृशानि सन्त्येव तेषां गवेषणेन किं- फलमित्येतदर्थकं गवेषणेनेत्युत्तरार्ध संगच्छते। तृतीयसब्रह्मचारिव्यव- रकथनासंगतेरिति भावः । अर्थे इति । अर्थरूपायां तस्यामित्यर्थः । रजसामिति। प्रयोजकीभूतर जोभिन्नानुगामिवर्मस्येत्यर्थः । समानविभक्तिकत्वस्येव समानवचनत्वस्याभे- दान्वये न तन्र्रत्वमिति भावः । एवमग्रेऽपि। घनगजयोरभेंदेन साधारणत्वे कथमत आह-विम्वेति । प्रयोजकमिति । अनुगतानतिप्रसक्तलक्षणमात्रं तु 'सदृशस्य तृतीयस्य व्यवच्छेदाय यद्योः । अन्योन्येनोपमेयतमुपमेयोपमा मता ॥' इति द्रष्व्यम्। अत्रान्योन्येनेति विशेषणम् 'अह्मेव गुरुः सुदारुणानाम्' इति प्रतीप विशेषव्यावृत्त्यर्थमिति भावः । अहमिति । लतानुयोगिकसादृश्यश्रयाहमित्यर्थः । अखर्वे महान्तम् । एषा पीति। तदनुयोगिकसादृश्यप्रतियोगिकेत्वर्थः । अत्रेत्यस्य इतीत्यादिः। तनुत्वेत्यस्य अनुपात्तेत्यादिः। लतादीति। लताद्यनुयोगिकसादृश्य प्रतियोगिकत्व स्थैवेत्यर्थः । एवेन सादृश्यव्यवच्छेदः । सादृश्यादिपदानां वर्भिबोधकत्वात्। एवं च सादृश्यस्य तत्रान्वये इयं न तु तत्रेति भावः। मुखस्येति। अत्रापि सदृशपदसत्त्वेन तत्तुत्ययोगक्षेमत्वादिति भावः। नन्वेवं तथा दुर्वचमिति यथैतत्संग्रहस्तथाह-लताया इति। अस्यापि संग्रह इष् एवेत्यतिव्याप्तिर्नात आह-हहमिति । ननु तन्मान्रपरत्व एव किं वीज- मत आह-अत एवेति। तत्परत्वेन तस्याः साफल्यादेवेत्यर्थः । उत्तरार्ध तदेकदेशः।
Page 215
२०० काव्यमाला।
च्छेदो हयुपमेयोपमाजीवितमित्यालंकारिकसिद्धान्तात्। अन्यथा 'भुवस्त- लमिव व्योम कुर्वन्व्योमेव भूतलम्' इत्यत्राप्युपमेयोपमात्वनिवारणप्रया-
च्यम्। विशेषणान्तरवैयर्थ्यापत्तेः । विशेषणव्यावर्त्यानामाधुनिकविशेष- णेनैव वारणात्। अन्योन्यप्रतियोगिकत्वविशिष्टा उपमा एकवृत्तिमात्रवेद्ये- त्यप्ययुक्तमेव। 'खमिव जलं जलमिव खम्' इत्यादौ खजलयोः सादृश्यान्वये प्रतियोगित्वस्य संसर्गत्वेन वृत्त्यविषयत्वात्। वृत्तिवेद्यानां पदार्थानां संसर्गो वृत्त्यवेद्य इत्यभ्युपगमात् । अन्यथा प्रकारतापत्तेः । यदप्यलंकारसर्वसव- कृतोक्तम् 'दयो: पर्यायेण तस्मिन्नुपमेयोपमा । तच्छाव्देनोपमानोपमेयत्व- प्रत्यवमर्शः । पर्यायो यौगपद्याभावः । अत एवात्र वाक्यभेदः' इति, तन्न। अत्र द्वयोरिति व्यर्थम्। एवस्योपमानोपमेयात्मकत्वे 'गगनं गगनाकारम्' इत्यादौ वाक्यभेदाभावेन पर्यायाभावादेवाप्रसक्तेः । यदि च स्फुटत्वार्थ-
प्रसिद्धिस्फोरणार्थ वा द्वयोरिति ग्रहणं स्यात्, अथापि प्रागुदीरिते 'अहं लतायाः सदृशीत्यखर्वम्' इति पद्ये प्रतिपाद्यायामुपमायामतिव्याप्तेः । 'तद्ल्गुना युगपदुन्मिपितेन ताव- त्सद्यः परस्परतुलामधिरोहतां द्वे। अन्यथा तुर्यचरणेनैवेष्टार्थलाभे मव्ये एतत्कथनानर्थक्यं स्पष्टमेवेति भावः । नन्वेवमपि तृनीयसदृशत्यवच्छेदप्रतीतावेवेयमित्वत्र किं विनिगमकमत आह-तृतीयेति । सव्रह्मेति। सदृशेत्यर्थः । एवमग्रेऽपि वोध्यम् । 'सिद्धान्त' इति पाठः । 'सिद्धान्तात्' इत्यपपाठः । अन्यथा तस्य तज्नीवितत्वानङ्गीकारे। वाच्यमिति । 'अहं लतायाः' इत्यत्रातिव्याप्तिवारणायेदानीं वक्तव्यमित्वर्थः । विशेषणान्तरेति। अन्योन्येनेत्यादी- त्र्थः । नन्वेनं कथमुक्तदोपनिरासोऽत आह-विशेषणेति। विशेषणान्तरेत्वर्थः। तदु- कमन्यहूषयति-अन्योन्येति। प्रतियोगित्वस्येति । अनुयोगित्वविशिष्टेत्यादिः । ननु तस्य वृत्तिविषयत्वं कुतो नेल्याह-वृत्तीति। उक्तम्रन्थस्यैकवृत्तिमात्रवेद्यत्वे न तात्पर्य किं तु वृत्तिद्वयवेद्यत्वाभावे। यद्वा तज्जन्यप्रतीतो यथाकर्थचिद्भासमानत्वमेव तन्मान्न- वेद्यत्वम् । अस्ति च 'समिव जलम्' इत्यादौ। नास्ति च तत्रेति तन्निरास इत्याश- येनादोषाचिन्त्यमिदम् । द्वयोरिति। द्वयोः पर्यायेण तस्मिन्सतीत्यर्थः । अत्रेत्वस्यात इत्यादिः। ननु स्फुटार्थत्वेऽ्न्येषामपि निवेशः कुतो नात आह-उपमेति। तद्गेदेऽपि तद्योग्यतायाः सत्वादाह-कवीति। इषटापत्त्या नातिव्याप्तिरत आह-तदिति।
Page 216
रसगङ्काघरः । २०१
प्रस्पन्दमानपरुषेतरतारमन्त- श्रक्षुस्तव प्रचलितभ्रमरं च पद्मम् ।।' इति कालिदासपदे प्रतिपाद्यायमुपमानोपमेययोर्युगपदुपमेयोपमानभावा- यामुपमेयोपमायां वाक्यभेदाभावादव्याप्तेश्र। न चात्रापाततः शब्दैक्येऽपि पर्यवसितो वाक्यभेदोऽस्तीति वाच्यम्। तथापि- 'सविता विघवति विधुरपि सवितरति दिनन्ति यामिन्यः । यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥' इति कस्यचित्कवेः पद्ये परस्परोपमायामतिव्याप्तेः । न चेयमुपमेयोप- मेति शक्यते वक्तुम्। सुखसमये दुःखदोऽपि सुखयति। दुःखसमये च सुखदोऽपि दुःखयति इत्येतावन्मात्रस्यार्थस्य विवक्षितत्वात्तृतीयसदृदशव्य- वच्छेदापत्तेः । एवम्- 'रजोभि: स्यन्दनोद्धृतैर्गजैश्व घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ।।' इत्यत्र परस्परोपमायामतिव्याप्तिः । सदृशान्तरव्यवच्छेदफलकत्वेन वि- शिष्यमाणे तु तस्मिन्नस्मदुक्त एव पर्यवसानम्। यच्च विमर्शिनीकारेणोक्तम् "स च वाक्यभेदः शाब्द आर्थश्च। तत्र शाब्दो यथा-'रजोभिः स्यन्दनोदूतैः' इत्यादिः । अस्याश्चोपमानान्तरति- रस्कार एव फलम्। अत एवोपमेयेनोपमेत्यन्वर्थाभिधत्वम्" इति, तत्तु- च्छम् । न हि 'रजोभि: स्यन्दनोद्गृतैः' इत्यत्रोपमानान्तरतिरस्कारः प्रती- यते। द्वयोरुपमयोरेकधर्मकत्वाभवात्, आद्याया उपमाया अनुगामिधर्म- भावायामिति । उपमेयोपमानात्मिकायामित्यर्थः । विधवतीत्यादीन्याचार क्विबन्तानि। यथासंख्यमन्वयः । न चेति । नहीत्यर्थः । तथा च लक्ष्यत्वान्नातिव्याप्तिरिति भावः । मात्रपदव्यवच्छेदं स्फुटत्वायाह-तृतीयेति। सदृशान्तरेति। तृतीयसदृशेत्यर्थः । विशीति। विशेषविषयीकृते त्वित्यर्थः । तम्मिनुपमानोपमेयत्वे । अस्मदिति। तृतीयसदृशव्यवच्छेदेत्याद्युक्ते एवेत्यर्थः । विमर्शिनीति। अलंकारसर्वस्व्याख्याकारे- णेत्यर्थः । सचेति। मूलीयत्वेन प्रागुक्त इत्यर्थः । अस्या उपमेयोपमायाः । उपमाना- न्तरेति। तृतीयसदृशेत्यर्थः । हि यतः । अनुगामीति। रजोरूपेत्यर्थः । विम्वेति ।
Page 217
२०२ काव्यमाला। प्रयोज्यत्वात्, द्वितीयायाश्च बिम्बप्रतिविम्बभावापन्नधर्मप्रयोज्यत्वात् । यदपि 'परस्परमुपमानोपमेयत्वमुपमेयोपमा' इति लक्षणं विधाय 'सविता विधवति- इत्यादि प्रागुक्तपद्यं रलाकरेणोदाहारि, तच्च तदीयेनैव 'स चोपमानान्तरनिषेधार्थः' इति ग्रन्थेन विरुद्धम्। न ह्यस्मिन्पद्ये उपमाना- न्तरनिषेध: प्रतीयत इति प्रागेवावेदनात्। प्रतीयत एवेति चेत्, पुनरपि पृच्छ हृदयमेव स्वकीयम्। इत्यलं विवादेन। इयं चोपमेयोपमा यदि कस्याप्यर्थस्योत्कर्षाधायिका तदालंकारः । अन्यथा तु स्ववैचित्र्यमात्रपर्यवसितेति। एवमलंकारान्तरेSपि ज्ञेयम्। अथ ध्वन्यमानेयमुदाहियते- 'गाम्भीर्येणातिमात्रेण महिन्रा परमेण च । राघवस्य द्वितीयोऽव्घिरम्वुधेश्वापि राघवः ।' द्वितीयशब्दस्य सादृश्यविशिष्टे शक्त्यभावाद्यक्तिरेव। यदि तु लक्षणा तदेदमुदाहरणम्- 'सुधासमुद्रं तव रम्यवाणी वाचं क्षमाचन्द्र सुधासमुद्रः । माधुर्यमध्यापयितुं दधाते खर्वेतरामान्तरगर्वमुद्राम् ।' अत्र वागादिकर्तृकस्य परस्पराध्यापनस्य बाधान्माधुर्यसंक्रान्तिविशे- षस्य लक्षणया वुध्यमानस्य प्रयोजनं सवप्रयोज्यान्योन्योपमानोपमेयभावः । अथ दोषा :- तत्र तावत्प्रागुक्ता यावन्त उपमाया दोषाः, अनुक्ताश्च विस्तृतिभयात्,
वनगजेत्यर्थः । स च मिथ उपमानोपमेयभावश्च। हिः पूर्वहेतुत्वपरामर्शकः। इतीति। अस्य वोध्यमिति शेषः । अतिमात्रेणातिशयितेन। व्यक्तिरेव व्यअ्जनैव। इदं वक्ष्यमा- णम्। सुधेति। राजानं प्रति कव्युक्तिः । हे क्षमाचन्द्र, तव रम्यवाणी सुधासमुद्रश्व सुवासमुद्रं माधुर्यमध्यापयितुं संक्रामयितुं तव वाचं माधुर्यमध्यापयितुं च महती मान- सिकगर्वसूचकाकारव्यक्ति धत्त इत्यर्थः । लक्षणयेत्यस्याध्यापयितुमिति यदेत्वादिः। एवं मुख्यार्थबाधतद्योगावुक्त्वा प्रयोजनवतीत्वमाह-प्रयोजनमिति। सं लक्षणा। तत्प्रती- तिश्च वैयअनिक्येवेति भावः । दोषा इति। अस्या इत्यादि उच्यन्त इति शेषः । तन्न वक्तव्यानां तेषां मध्ये प्रागुपमायामुक्ता यावन्तो दोपा इत्यन्वयः । न तत्परिगणनमि- त्याह-अनुक्ताश्चेति। ननूपमादोषा अत्र कथमत आह-उपमात्वेति। अत ए-
Page 218
रसगङ्काघरः । २०३
ते सर्वेऽप्युपमात्वाक्रान्तत्वादस्यामपि बोध्याः । अयं पुनरन्योऽपि दोप :- य देकोपमावैलक्षण्यमपरस्यामुपमायाम्। यथा-'कमलमिव वदनमस्या व- दनेन समं तथा कमलम्' अत्र श्रौत्यार्थीकृतं वैलक्षण्यम् । 'कमलति वदनं तस्याः कमलं वदनायते जगति' किपूक्यङ्कृतमत्र वैलक्षण्यम्। एवम- त्रैव 'पदमं वदनायते' इति निर्माणे 'वक्रायते' इति वा उपमानोपमेयवा- चकवैलक्षण्यम्। एवं प्रकारैरनेकैर्वैलक्षण्यं यदि सहृदयोद्वेजकं तदा दोष: । इति रसगज्गाधरे उपमेयोपमाप्रकरणम्।
अथानन्वय :- द्वितीयसदृदशव्यवच्छेदफलकवर्णनविपयीभूतं यदेकोपमानोपमे- यकं सादृश्यं तदनन्वयः ॥ स च कस्याप्युपस्कारत्वेऽलंकारः । अन्यथा तु शुद्धः । 'लोहितपीतैः कुसुमैरावृतमाभाति भूमृतः शिखरम् । दावज्वलनज्वालै: कदाचिदाकीर्णमिव समये ॥' अत्र लोहितपीतकुसुमावृतं भूभृतः शिखरं खेनैव कसमिश्चित्समये दा- वज्वालाकीर्णेनोपमीयते। इति तत्सादृश्यवारणाय भूतान्तम्। इद वा प्रत्युदाहरणम्- 'नख किरणपरम्पराभिरामं किमपि पदाम्बुरुहुद्वयं मुरारेः । अभिनवसुरदीर्घिकाप्रवाहप्रकरपरीतमिव स्फुटं चकासे ।।' अत्रापि नखकिरणपरम्पराभिरामं हरे: पदाम्वुजं स्वात्मनैव सुरदीर्घि- काप्रवाहप्रकरपरीतेनोपमीयते। संप्रति सुरदीर्घिकाप्रवाहेण भगवत्पादा- म्वुरुहस्य संबन्धाभावात्सुरनिन्नगोत्पत्तिकालावच्छिन्नस्य तस्योपमानताव- वास्या एव भेद इति प्रतिज्ञावाक्ये उक्तम्। तदवृ्त्त्यत्र दोपमाह-अयं पुनरिति। इति वेति। कमलमित्यादिः। निर्माणे इत्यस्यानुषङ्गः। उपसंहरति-एवमिति। यदीत्यनेन तदभावेऽदुष्टत्वमेवेति सूचितम् ॥ इति रसगङ्गाथरमर्मप्रकाश उपमेयोपमाप्रकरणम् ॥ शुद्ध इति। सववैचित्र्यमात्रविश्रान्त इत्यर्थः । भूमृतः पर्वतस्य । कदाचित्समये तैराकीणे खमिवेत्यर्थः । स्फुटत्वाय प्रत्युदाहरणान्तरमाह-इदं वेति। अत एवाह- अन्नापीति। खात्मनैव पदाम्युजद्वयेनैव। संप्रति वर्णनकाले। तस्य प्रवाहस्य अन्न
Page 219
२०४ काव्यमाला।
गमायाभिनवेति प्रवाहविशेषणम् । नह्यत्र सादृश्यवर्णनस्य फलं द्वितीय- सब्रह्मचारिव्यवच्छेदः तस्याप्रतिपत्तेः । 'स्तनाभोगे पतन्भाति कपोलात्कुटिलोडलकः । सुधांशुबिम्बतो मेरौ लम्वमान इवोरगः ।I'
अत्रासत उपमानस्य कल्पनया सदुपमानं नास्तीति द्वितीयसदृशव्यवच्छे- दस्यास्ति प्रतीतिः । उदाहरणममृत(पीयूष)लहर्यार्ये मदीये गङ्गास्तवे- 'कृतक्षुद्राघौघानथ सपदि संतप्तमनसः समुद्धरतु सन्ति त्रिभुवनतले तीर्थनिवहाः । अपि प्रायश्चित्तप्रसरणपथातीतचरिता- न्नरानूरीकर्तु त्वमिव जननि त्वं विजयसे ।।' यथा वा- 'इयति प्रपञ्चविषये तीर्थानि कियन्ति सन्ति पुण्यानि। परमार्थतो विचारे देवी गङ्गा तु गङ्गेव ।।' पूर्वपद्ये वाच्योऽनुगामी धर्मः । इह तु व्यन्न इति विशेषः । तु- शब्दोडयं तीर्थान्तरेभ्यो वैलक्षण्यं प्रतिपाद्यंस्तत्प्रयोजकं भगवद्वासुदेवा-
प्रत्युदाहरणद्वये। द्वितीयसव्रह्मेति। द्वितीयसदशेतर्थः । अनन्वय्यर्थनिवन्धनवशाद्धि द्वितीयसदृशव्यवच्छेदः फलति। नहि धर्मान्तरावच्छिन्नत्वस्य धर्मान्तरावच्छिन्नतवेन साधम्यमनन्वयि। अत एवोपमेयतावच्छेदकोपमानतावच्छेदकयोर्भेद एव साधर्म्य- घटको न तु वर्मिणो: इत्युक्तं प्राक्। एवं चानन्वव्यर्थनिबन्धनप्रयोज्यद्वितीयसदृशव्य- वच्छेदफलकसादृश्यवर्णनमनन्वयः। एकोपमानोपमेयकत्वविशेषणं चात्रैवार्थे तात्पर्यग्राह- कम्। अन्यथा धर्मिभेदादेव तन्र वारणेन तंद्वयर्थ्य स्पष्टमेवेति भावः। तदाह-त- स्येति। तक्व्यवच्छेदस्येत्यर्थः। असत इति।तथा च धर्मिभेदःस्प्टोऽन्र। नास्तीति। अन्यथा तावत्पर्यन्तधावनं व्यर्थ स्यादिति भावः । अथ अल्पपापकरणानन्तरम्। सपदि तत्कालमेव। न तु कालान्तरे। प्राक्त्नसुकृतोद्रेकादिति भावः। अपीति। प्रायश्चित्त- प्राप्तिविषयत्वातिक्रान्ताचरणकानपीत्वर्थः । नरानिति पूर्वारधेऽरपि विशेष्यम्। निष्पा- पत्वेन स्वीकर्तुम्। जननि गङ्गे। उदाहरणान्तरदाने बीजमाह-पूर्वेति। विजयसे इति वाच्यः सर्वोत्कर्षरूप इत्यर्थः । इह तु इति। स एवानुगामीति शेषः । पूर्ववदत्र स्पष्टवैलक्षण्याभावादाह-तुशब्दोऽयमिति।'तुशन्दोऽत्र'इति पाठान्तरम्। रतीति।
Page 220
रसगङ्गाधरः । २०५
त्मकत्वं धर्म श्रीगङ्गायां व्यनक्ति। उभयत्रापि श्रीगङ्गाविषयकरत्युप- स्कारकत्वादलंकारोऽयम् । बिम्बप्रतिबिम्बभावापन्नो धर्मस्त्वत्र नास्ति। तस्मिंश्र सति किंचिद्धर्मावच्छिन्नेन सवेन सादृश्यस्य धर्मान्तरावच्छिन्ने स्वस्मिन्नन्वये बाधकाभावात्सदृशान्तरव्यवच्छेदापपत्तेश्चानन्वय एव न स्यात्। स च पूर्णो लुप्तश्चेति तावद्विविधः । पूर्णस्तूपमावत्पडिघोऽपि संभवति। यथा- षगङ्गा वदा यथा गङ्गा गङ्गा गङ्गेव पावनी। हरिणा सदृशो बन्धुर्हरितुल्यः परो हरिः ॥ गुरुवद्गुरुराराध्यो गुरुवद्गौरवं गुरोः ।' लुप्तेऽपि धर्मलुप्तः पञ्चविघोऽपि संभवति। प्रागुक्ते सार्धपद्े धर्मवा- चकपदमपहाय पदान्तरदाने। तथा वाचकलुप्तः। 'रामायमाणः श्रीरामः सीता सीतामनोहरा। ममान्तःकरणे नित्यं विहरेतां जगद्गुरू ।।' इत्यत्र क्यङ्समासयोः ।
कविनिष्टेत्यादिः । अत्र उभयत्र। वाधकाभावादिति। चो वाक्यालंकारे, हेतौ वा। सदृशान्तरव्यवच्छेदाप्रतिपत्तावन्वये बाधकाभावे हि हेतुः । स च अनन्वयक्ष। षद्ि- धोऽपीति। श्रौतार्थयोस्तयोः प्रत्येकं वाक्यसनासतद्धितगामित्वेनेति भावः। गङ्गेति। अन्नाद्यपादे श्रीतो वाक्यगः पूर्णः। द्वितीयपादे समासगः श्रौतः पूर्णः। तृतीयपादे आर्थो वाक्यगः पूर्णः । तुर्यपादे समासग आर्थः पूर्णः । पश्चमपादे 'तेनतुत्यं-' इति वतेः सत्वा- दार्थ: स तद्धितगः पूर्णः । पष्ठपादे 'तत्र तस्येव' इति वतेः सत्त्वाच्छ्रौतस्तद्धितगः पूर्ण इति ध्येयम्। 'लुप्तेष्वपि' इति पाठः । भदेष्विति शेषः । निर्धारणे एकवचनासंगतेः । पञ्चविधोऽपीति। श्रौतो वाक्यगः, आर्थो वाक्यगः, श्रीतः समासगः, आर्थः समासगः, आर्थस्तद्धितगश्वेत्येवमित्यर्थः । पूर्व तेषामेवोदाहृततादिति भावः। पदान्त- रेति। 'गड्ा राजन्यथा गङ्गा गङ्गा गद्ेव सर्वदा। हरिणा सदशो विष्णुर्विष्णुतुल्यः सदा दरि:॥ गुरुवद्गुरुरास्तेऽस्मिन्मण्टले गुरुवद्गुरोः ॥' इति न्यास इत्यर्थः । कर्मणमुल्गतमुदा-
Page 221
२०६ काव्यमाला।
एवम्- लङ्कापुरादतितरां कुपितः फणीव निर्गत्य जातु पृतनापतिभिः परीतः । कुद्धं रणे सपदि दाशरथिं दशास्यः संरव्धदाशरथिदर्शमहो ददर्श ।।' एवं कर्तृणमुलादावप्यूह्यम्। 'अम्बरत्यम्बरं यद्वत्समुद्रोऽपि समुद्रति। विक्रमार्कमहीपाल तथा त्वं विक्रमार्कसि ॥' अत्र वाक्यार्थावयवेष्वनन्वयेषु धर्मवाचकयोर्लोपः । मुखवाक्यार्थ- स्त्वनन्वयफलेन निरुपमत्वेन समानधर्मेण प्रयोजितो मालोपमैव। एषा च ज्ञानसौकर्यायात्रैव निरूपिता। 'एतावति प्रपञ्चेऽस्मिन्सदेवासुरमानुषे। केनोपमीयतां तज्ज्ञै रामो रामपराक्रमः ॥' अत्र वाचकधर्मोपमानानां लोपः । अत्र चोपमानलुप्तादयोऽन्ये भेदा असंभवादहृद्यत्वाच्च नोदाहताः । यत्तु-"तेन तदेकदेशेनावसितभेदेन वोपमानतया कल्पितेन सा- हृश्यमनन्वयः । उपमेयेनैवोपमानतया कल्पितेनोपमेयस्यामुखावभासमा- नसाधर्म्यापादनमेकोऽनन्वयः । उपमेयैकदेशस्य तथैवोपमानताकल्पनम- परः । उपमेयस्यैव प्रतिविम्बत्वादिनाभेदेनावसितस्य तत्त्वकल्पनं तृतीयः । आद्यो यथा-'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापः' इत्यादि। हरति-एवं लङ्केति। ईदृशो दशास्यो रणे कुद्धं सपदि दाशरथ संरव्धदाशरथितुल्यं ददर्शत्यर्थः । संर्धदाशरथिरिव दृश्यते इति कर्मणि णमुल। धर्मवाचकलप्तमुदाहरति- अस्वेति । अत्र सर्वत्राचारे क्किपू। अम्वरमाकाशम्। ननु कोडसौ वाक्यारथों यदवयवास- योऽनन्वया अत आह-मुख इति । मुख्य इत्यर्थः । 'मुख्य' इति पाठस्तूचितः। ननु मालोपमा नैवास्ति पूर्वमनुक्तत्वादत आह-पषा चेति। मालोपमा चेत्र्थः। अत्रैव अनन्वयप्रकरण एव। वाचकधर्मोपमानलप्तमुदाहरति-एतेति। तज्ज्ञै रामस्वरूपजैः। न्यूनतां निराचष्टे-अत्र चेति। संभवेऽप्याह-अहृद्येति। तेनेत्यस्यार्थमाह- उपेति।अमुखेति। अमुख्येत्यर्थः। तदेकदेशेनेत्यस्यार्थमाह-उपेति। तथैव उपमेय- वत्। अवसितभेदेनेत्यस्यार्थमाह-उपेति। प्रतिबिम्बोऽत्र लौकिकः। अवसितस्य निश्चि-
Page 222
२०७
द्वितीयो यथा- 'एतावति प्रपश्चे सुन्दरमहिलासहस्त्रभरितेऽपि। अनुहरति सुभग तस्या वामार्ध दक्षिणार्धस्य ॥' तृतीयो यथा- 'गन्धेन सिन्धुरधुरंधरवक्रमैत्री- मैरावणप्रभृतयोऽपि न शिक्षितास्ते। तत्त्वं कथं त्रिनयनाचलरल्नभित्ति- स्वीयप्रतिच्छविषु यृथपतित्वमेषि ।।' एषूपमानान्तरविरहस्त्रिष्वपि भेदेषु गम्यते। इत्यनन्वयस्त्रिविधः ।" इति रत्नाकरेणोक्तम्। तन्न। उपमानान्तरविरहप्रतीतिमात्रादेवानन्वयत्वे 'स्तनाभोगे पतन्भाति-' इत्यत्रोपदर्शितायाः कल्पितोपमाया अपि त- थात्वापत्तेः । यद्यर्थातिशयोक्तावतिप्रसक्तेश्व। तादृशप्रतीतिफलकैकोप- मानोपमेयकसादृश्यस्य तत्त्वे पुनः कथं नाम वामार्घदक्षिणार्धयोर्मिन्नयोः सादृश्ये तद्भेदत्वोपन्यासः ।न च स तदेकदेशस्तत्प्रतिबिम्बश्चेत्येतदन्य- तमप्रतियोगिकसादृश्यमनन्वयः इति क्वातिव्याप्तिरव्याप्तिर्वेति वाच्यम्। नास्त्यन्वयोऽस्येति योगार्थविरहेण तदेकदेशसादृश्यस्यानन्वयपदार्थत्वासं-
तस्य। तत्वेति। उपमानत्वेत्यर्थः । महिला स्त्री। दक्षिणार्धस्येति कर्मणः शेषत्ववि- वक्षायां षष्टी। अत्रोपमेयं समुदिता नायिका। गन्धेनेति। हे सिन्धुरधुरंधरवक्र गज- श्रेष्ठमुख गणपते, ऐरावणप्रभृतयोऽप्यैरावतादयोऽपि ते त्वया गन्धेन सुगन्धेन मैत्रीं न शिक्षिताः । यद्वा गन्धेन संबन्धेन लेशेन गर्वेण वा। अपिर्गन्वपदोत्तरं मैत्रीपदोत्तरं वा योज्यः । तत्तस्मात्कारणात्त्वं कैलासाचलरत्नखचितभित्त्याधारकसवप्रतिबिम्वेषु यूथ- पतित्वं दिग्गजत्वं कथमेषीत्यर्थः । उपमानान्तरविरह इति। तत्राध्ये स्फुट एव। द्वितीये तदवयवस्य तदवयवान्तरोपमया तस्यां निरुपमत्वं सिद्ध्ति। अन्यथा तत्सदृश- पदार्थावयवेनवैतदवयवस्योपमां दद्यात्। तृतीयेऽपि प्रतिबिम्वस्योपमानत्कल्पनयान्य- स्योपमानस्याभावो गम्यते। तथात्वेति। अनन्वयत्वेत्यर्थः। इपत्तावाह-यद्यर्थेति। तादृशेति। उपमानान्तरविरहेत्यर्थः । सादृश्यविशेषणमुभयत्र। तत्वे अनन्वयत्वे। पुनःशब्दखुशब्दाथे। भिन्नयोरिति। तथा च द्वितीयविशेषणाभाव इति भावः । तन्द्ेदत्वेति। अनन्वय विशेषत्वेत्यर्थः। सेति। उपमेयेत्यर्थः । इदानीमाद्यविशेषणं न देयम्। तद्विरहस्य नान्तरीयकत्वादिति भावः। विरहेणेति। अवाधितत्वादिति भावः।
Page 223
2०८ काव्यमाला। भवात्। अपि चानन्वये 'गगनं गगनाकारम्' इत्यादावुपमेयस्यैवोपमानत्वे- नोपन्यासादुपमेयातिरिक्तोपमानविरहप्रतीतिद्वारा निरुपमत्वमुपमेयगतं सि- द्यति। अत्र च वामार्घस्योपमेयस्य दक्षिणार्घरूपोपमानकथनेन निरुपमत्वं विरुद्धमेव। कान्तागतनिरुपमत्वप्रत्ययस्तु नानन्वयस्य फलं भवितुमर्हति। तस्या अनुपमेयत्वात्। यदपि चालंकारसर्वस्वकृता 'अनन्वयध्वनित्वमत्र भविष्यति । अन्य- थालंकारध्वनेर्विपयापहारः स्यात्' इत्युक्तम्, तदपि तुच्छम्। अस्य ह्युप- माननिषेधफलकमभिन्नोपमानोपमेयकं सादृश्यं स्वरूपमित्युक्तम्। प्रकृते च वामार्धदक्षिणार्धयोस्तद्वाधितमित्युक्तमेव । कान्तायाः पुनरुपमाननिषे- धस्य व्यन्नवत्वेऽपि अभिन्नोपमानोपमेयकसादृश्यस्य स्वरूपस्याप्रत्य- यात्। नहि निरुपमत्वप्रतीतिषु सर्वास्व्रभिन्नोपमानोपमेय कसादृश्यप्रती- तिपूर्वकत्वमिति नियमोऽस्ति । कल्पितोपमातिशयोक्त्योरसमालंकारध्वनौ च व्यभिचारात्। तस्मान्नास्त्येवात्रानन्वयगन्धोऽपि । यच्च "अयमनन्वयो व्यङ्गयोऽप्यस्ति। यथा 'अद्य या मम गोविन्द जाता त्वयि गृहागते। कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ।।' अत्र गृहागतं श्रीकृप्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवप्रीति- र्वहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत् नान्येन, इत्युक्तिभन्गया ननु रूढमेवानन्वयपदमत आह-अपि चेति। अत्र द्वितीयभेदे च। निरुपमत्वं एषूपमा- नान्तरेत्यादिना प्रतिपादितम्। ननु तेन ग्रन्थेन कान्तायां निरुपमत्वं प्रतिपादितं न तत्रात आह-कान्तेति।अनन्वयध्वनित्वमिति। तद्वामार्थ दक्षिणार्धमनुहरतीत्युच्यता सोऽनुहरतीति व्यद्गयमिति भावः । एवं चास्य हीत्यादिना किमुच्यते तद्विचार्य सहृदयैः। ईदृशव्यङ्यव्यअने उपायाभाव इत्यपि कश्षित्। अत्र द्वितीयलक्ष्ये । हि यतः। अस्यानन्वयस्येदं स्वरूपमित्यु क्मतस्तत्तुच्छ मित्यर्थः । तदुपपादयति-प्रकृते चेति। तत् अभिन्नोपमानोपमेयकं सादृश्यं तयोभेदात्। ननु कान्तागतनिरुपमत्वस्य व्यङ्गयत्वेन तस्या एवोपमेयाया उपमानतवकल्पनेन तादृशसादृश्यप्रतीतिस्तयोस्तस्य वाधितलेऽप्य- स्त्येवात आह-कान्ताया इति। सादृश्येऽप्यन्वयः । कल्पितोपेति। स्तनाभोगे इत्यत्रेत्यर्थः। अतीति। यद्यपीतीत्यर्थः । उपसंहरति-तस्मादिति। सैव तदागमन-
Page 224
रसगङ्गाधरः । २०९
त्वदागमनप्रभवप्रीतेः सैव सदृशी न त्वितरप्रभवा इति व्यज्यते" इत्यप्प- दीक्षितैरभिहितम्, तदपि न। अमुष्यास्त्वदागमनप्रभवायाः प्रीतेवारान्त- रत्वदागमनप्रभवा प्रीतिः सदृशीति प्रत्ययस्य सर्वजनसिद्धतया श्रीकृप्णा- गमनजन्यप्रीतिसामान्यावयवयोद्वयोः प्रीतिव्यक्त्योः सादृश्यस्याबाधित- त्वाद्योगार्थाभावेनानन्वय एव नायं भवितुमर्ति । 'स्वस्मिन्सादृश्यस्या- न्वयाभावादनन्वयः' इत्युपमाप्रकरणे स्वयमेवाभिधानात्। उपमेयस्य प्रीतिव्यक्तिविशेषस्य सदृशान्तरव्यवच्छेदे वाधात्तादृशप्रीतिसामान्यस्य वावयविनो निरुपमतया प्रतीयमानस्यानुपमानस्यानुपमेयत्वात्पूर्वोदाहरण- तुल्यमेवैतत्। क्वचिदवयवयोरुपमाप्यवयविगतनिरुपमत्वव्यञ्जिकेति स्थिते सामान्यस्य श्रीकृष्णागमनजन्यप्रीतेः सैव सदृशीति मध्ये स्वसादृश्यप्र- त्ययकल्पनं पुनर्न सहृदयहृदयमारोढमीष्टे। रत्नाकरोक्तस्यैवानन्वय प्रका- रस्यात्र व्यञ्जतेत्यपि न युक्तम्। तस्य प्रागेव दूषितत्वात् । प्रकृते वा- च्यत्वात्स्यमनन्वयप्रकरणे तस्य प्रतिपादनविरहाच। इदं पुनरनन्वयध्वन्युदाहरणम्- 'पृष्टाः खलु परपुष्टाः परितो दष्टाश्र विटपिनः सर्वे। भेदेन भुवि न पेदे साधम्यै ते रसाल मधुपेन ।' अत्र भेदेनेत्युक्त्याभेदे सादृश्यमनन्वयात्मकं तु पेदे इति ध्वन्यते।
प्रभवैव। अमुष्या इति। यत इत्यादिः। व्यक्त्ोदितभेदेनेति शेषः। योगार्थेति। अनन्वयपदयोगार्थेत्यर्थः । ननु रूढमेवानन्वयपदमभिमतमत आह-स्वस्मिन्निति । व्यवच्छेदे वाधादिति। तस्य व्यवच्छेदकरणेSसामर्थ्यादित्यर्थः। कालान्तरस्थप्रीति- व्यक्तिविशेषस्य सदृशस्य सत्वादिति भावः । तादृशेति । श्रीकृष्णागमनजन्येचर्थः । पूर्वोदाहरणेति। अनुहरतीत्युदाहरणेत्यर्थः । नन्ववयविनो निरुपमत्वप्रतीतिवन्मध्ये सादृश्यप्रतीतिरप्यस्तु अत आह-कचिदिति। पूर्वोदाहरण इत्यर्थः । सैव श्रीकृष्णा- गमनजन्यप्रीतिरेव। मध्ये वाच्यव्यक्कयार्थयोर्मध्ये। ननूक्तरीत्या न व्यङ्यत्वं किंतु रत्ना- करोक्रीत्येति नोक्तदोपोऽत आह-रत्नेति। तस्य प्रकारस्य प्रकृतेऽवाच्यत्वात्। अ- वाच्यत्वे हेतुः प्रागेव दूपितत्वादिति। ननु त्वया दूपितोऽपि न मया दूषितस्तत्राह- स्वयमिति। 'अन्यथालंकारध्वनेर्विषयापहारः स्यात्' इति रत्नाकरोकि खण्डयितु- माह-इदं पुनरिति। परपुषाः कोकिलाः । हे आम्रवृक्ष, तव भुवि भेदेन सादृश्यं भ्र-
Page 225
२१० काव्यमाला।
यथा वा- 'नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तु: सुरधुनि कपर्दोऽधिरुरुहे। कया वा श्रीभर्तुः पदकमलमक्षालि सलिलै- स्तुलालेशो यस्यां तव जननि दीयेत कविमि: ॥' अत्र कया वा त्वदितरया श्रीभर्तुः पदं सलिलैरक्षालि यस्यामितरस्यां कविभिस्तव तुलालेशोऽपि दीयेतेत्यर्थेन त्वयि पुनः सलिलक्षालितश्रीर- मणचरणायां तव तुला दीयेतैवेत्यर्थोऽनन्वयात्मा श्रीगङ्गागतनिरुपमत्वपर्य- वसायी इतरपदमहिम्रा व्यज्यते। इति रसगद्गाधरेSनन्वयप्रकरणम् । सर्वथैवोपमानिषेधोऽसमाख्योऽलंकारः ।। अयं चानन्वये व्यङ्गयोऽपि तच्चमत्कारानुगुणतया रूपकदीपकादा- चुपमेव न पृथगलंकारव्यपदेशं भजते। वाच्यतायां तु खातन््येण चम- त्कारितया पृथग्व्यपदेशभाक्। यथा- 'भूमीनाथ शहावदीन भवतस्तुल्यो गुणानां गणै- रेतद्भूतभवप्रपञ्चविषये नास्तीति किं ब्रूमहे। धाता नूतनकारणैर्यदि पुनः सृष्टिं नवां भावये- न्न स्यादेव तथापि तावकतुलालेशं दधानो नरः ॥।'
मरेण न पेदे। न गृहीतमित्वर्थः । नगेभ्यः पर्वतेम्यः । कपर्दो जटाजूटः । अत्र पूर्वार्धे तादृशव्यजकाभावादाह-अत्र कया वेति। पूर्वोदाहरणे भेदेनेत्युक्त्या तादृशव्यङ्गस्य स्फुटं प्रतीतिः । अत्र त्वस्फुटा। अत एवोदाहरणान्तरदानं ध्वनयन्नाह-इतर- पद्महिस्नेति॥ इति रसगङ्गाधरमर्मप्रकाशेऽनन्वयप्रकरणम् । उपमानिषेध इति। साक्षात्परम्परया वेत्यादिः। तञ्चमत्कारेति। तन्निपेधकृ- तचमत्कारपरिपोषकतयेत्यर्थः । पृथगिति। पृथगलंकारेत्यर्थः । शहावदीनेति राजञो नाम। एतद्भूतेति। अनेन कारणान्तरस्याप्यादौ निर्माणेन तेनाग्रिमसष्टिकरणयोग्यता सूचिता। अन्यथा तेषामेवासत्त्वादसंगतिः स्पष्टैव। तदाह-नूतनेति। प्रतिद्धपध्भू- तातिरिक्तखनिर्मितकारणैरित्यर्थः । अत एव सृष्टेरपि न तत्वम्। न स्यादेवेत्यर्थ इतीति
Page 226
रसगङ्गाधरः । २११
यथा वा- 'भुवनत्रितयेऽपि मानवैः परिपूर्णे विवुधैश्च दानवैः। न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम् ।' राजस्तुत्युत्कर्षकत्वादत्रासमालंकारः । आत्यन्तिकः क्वाचित्कश्च सद- शनिषेधोऽसमोपमानलुप्तयोर्विषयः । सर्वथैवोपमाननिषेधेन सादृश्यस्याप्र- तिष्ठानान्नोपमागन्धोऽपि। यत्तु- "ढु्ढुलन्तो मरीहसि कण्टककलिआइं केअइवणाइं। मालइकुसुमसरिच्छं भमर भमन्तो न पावहिसि ॥' इति। नेयमुपमानलुप्तोपमा, तस्याः संभवदुपमानानुपादानविपयत्वात् । अपि त्वसमालंकारः" इति रत्नाकरेणोक्तम्, तदसत्। मालतीकुसुमसदशं भ्रमर भ्रमन्नपि न प्राप्स्यसीत्युक्त्या वर्ततां नाम तत्सदृशं क्वापि, त्वया तु दुप्प्रापमेवेति प्रत्ययादात्यन्तिकोपमाननिषेधाभावादुपमानलुप्तोपमैवेयं भवितुमर्ति, नासमालंकारः । अन्यथा मालतीकुसुमसदृशं नास्तीत्येव ब्रूयात्, न तु प्राप्स्यसीति। अथासमालंकारध्वननेनैव चमत्कारोपपत्तेरन- न्वयस्य पृथगलंकारता कथमिति चेत्, सत्यम्। दीपकादेरप्युपमाभिव्य- क्त्यैव चमत्कारोपपत्तौ कथं नाम पृथगलंकारत्वमिति तुल्यम् । न च दी- पकादावुपमाया व्यन्नयत्वेऽपि गुणाभावात्प्रकृते तु स्वसादृश्यस्य खव- स्मिन्नतितमां तिरस्कारेणासमालंकारस्यैव मुख्यतया ध्वननाद्वैपम्यमिति वाच्यम्। यथा हि दीपकसमासोक्त्यादौ गुणीभूतव्यजयसत्त्वेऽप्यलंकारत्वं शेषः । नृपेति संवोधनम्। पदं स्थानं चिह्नं वस्तु वा। आद्ययोर्भेदसंबन्धः । अन्त्ये- डभेदः । कालत्रयासत्त्वमुक्तोदाहरणाद्विशेषः । ननूदाहरणद्वयेऽपि निषेधस्य प्राधान्यात्क- थमलंकारत्वमत आह-राजेति । अत्र उदाहरणद्ये। ननूपमानलुप्तयैव गतार्थोऽयमत आह-आत्यन्तिक इति। यथासंख्यमन्वयः। नन्वात्यन्तिकनिषेधेऽपि कुतो नोपमा- नलुप्तात आह-सर्वथैवेति। निषेधाभावादिति। संभवदुपमानत्वाच्चेत्यपि वोध्यम्। अन्यथा तस्येटले। एवं वाच्यतायां निषेधस्यासमालंकारे सिद्धेऽनन्वये निषेधस्य व्यक्षथ- त्वे वासमालंकारस्य ध्वननाङ्ीकारे चमत्कारस्तत एवास्तु नानन्वयकृत इत्यनेवैव गतार्थः स इल्याशयेन शङ्कते-अथेति। प्रतिबन्धा समाधत्ते-सत्यमिति। अत एव पूर्व दृष्टान्तोकिः। दीपकादेरित्यस्य पृथगलंकारत्वमित्यत्रान्वयः । हि यतः । सच्वेऽपीति।
Page 227
२१२ काव्यमाला।
न हीयते एवमनन्वये प्रधानव्यङ्गयसत्त्वेऽपीति न किंचिद्विरुद्धम् । अ- नन्वयशरीरस्य स्वसादृश्यमात्रस्य वाच्यत्वेन वाच्यालंकारव्यपदेशोऽपि सुस्थ एव । दीपकाद्यलंकारकाव्ये गुणीभूतस्य व्यङ्गयस्य सत्त्वादस्तु नाम गुणीभूतव्यन्ञयत्वम् । ध्वनित्वं पुनर्न क्ाप्यलंकृतिकाव्ये दष्टमिति चेत्, पर्यायोक्तसादृश्यमूलाप्रस्तुतप्रशंसादिकाव्ये ध्वनित्वस्य स्फुटत्वात्। प्राश्चस्तु नेदमलंकारान्तरमित्यप्याहुः । अयं चासमालंकारो व्यज्यमानो यथा- 'मयि त्वदुपमाविधौ वसुमतीश वाचंयमे न वर्णयति मामयं कविरिति कुधं मा कृथाः। चराचरमिदं जगज्जनयतो विधेर्मानसे पदं नहि दघेतरां तव खलु द्वितीयो नरः ॥' अत्र य एतावन्तं समयं विधातुर्मानसं नाधिरूढः सोडग्रेऽपि माना- भावान्नारोहेत्, अतः सर्वथैव नास्तीति गम्यते। एवं च व्यज्यमानोऽप्य- समोऽत्र प्रधानीभूतराजस्तुत्युत्कर्षकतयालंकार एव। मुख्यतया ध्वन्यमानोडयं यथा- 'सदसद्विवे करसिकैरालोक्य समस्तलोकमथ कविभिः । गणिता गगनलतादेर्गणनायां तन्वि तव सदृशी ।।' अयं क्वचिदुपमानस्य निषेधात्कचिच्च साक्षादुपमाया एव। आद्यस्तू- पदर्शितः ।
अलंकारतं न हीयते इत्यस्यानुषङ्गः । एवमलंकारत्वव्यपदेशे साधिते वाच्यालंकारव्यप- देशं तस्य साधयति-अनन्वयेति।शङ्गते-दीप काद्यलंकारेति। बहुत्रीहिः। अलं- कृतीति। तद्युक्तकाव्य इत्यर्थः । तथा चैवमिलाद्युक्तिरयुक्कतेति भावः। अप्रस्तुतप्रशं- साया अनेकविधत्वादाह-सादृश्येति। अंलकारान्तरमिति।अत्रोपपत्तिर्व्य तिरेका- लंकारप्रकरणे स्फुटीभविष्यति। त्वदिति। त्वदुपमावर्णनविषये। वाचंयमे मौनन्रतवति। पदं चरणम्। द्वितीयः सहायः । सदृश इति यावत्। ननु निषेधस्य वाच्यत्वेन कथ तस्य व्यक्नयत्वम्, किं च लिटा भूतनिषेधप्रतिपादनेनात्यन्तिकनिषेधाप्रतीत्या कथमयमत आह-अन्रेति। पद्ये इत्यर्थः। एवं च पदधारणनिषेधस्य शाव्दत्वेऽप्युपमाननिषेधस्य व्यङ्गयत्वमेवेति भावः । प्राग्वदाह-एवमिति । अथ अनन्तरम्। हे तन्वि, तब तुल्या असत्पदार्थगणनायां गणिता। एवं च त्वत्तुल्या असतीति प्राधान्येन ध्वन्यते।
Page 228
रसगङ्गाधरः । २१३
द्वितीयो यथा- 'पूर्णमसुरै रसातलममरैः स्वर्गो वसुंधरा च नरैः । रघुवंशवीरतुलना तथापि खलु जगति निरवकाशैव ।।' एवं पूर्णतया लुप्ततया चास्यापि यथासंभवं भेदा उन्नेयाः ॥
सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेशं निरूप्य तयोरवयवावयविभाव उच्यमान उदाहरणम् । अर्थान्तरन्यासवारणायोच्यमान इति वचनम्। वा-इव-यथा-निदर्शन- दृष्टान्तादिशब्दैः काव्येषु स्फुटम्। न च इवयथाशब्दयोः सादृश्यवच- नयोरवयवावयविभावे विशेषसामान्यात्मके नास्ति वृत्तिरिति वाच्यम्। लक्षणायाः साम्राज्यात्। अन्यथा द्युतपेक्षाबोधकतापि दुर्घटा स्यात्। उदाहरणम्- 'अमितगुणोऽपि पदार्थों दोषेणैकेन निन्दितो भवति। निखिलरसायनराजो गन्धेनोग्रेण लशुन इव ॥।' न चात्र पदार्थलशुनयोरुपमा शक्या वक्तुम्। तयोः सामान्यविशेष- भावेन सादृश्यस्यानुल्लासात्। तथात्वे तु इवादिशब्दानामिव सदृशादि- शब्दानामप्यलंकारेऽस्मिन्प्रयोग: स्यात् । यथा वा- 'अतिमात्रवलेषु चापलं विदधानः कुमतिर्विनश्यति । त्रिपुरद्विषि वीरतां वहन्नवलिपः कुसुमायुधो यथा ।'
इति ध्वनिरयम्। नालंकारः। निरवेति। निष्प्रसरेत्यर्थः । निराधारेति यावत्। एवं उक्तभेदवत्। अस्याप्यसमालंकारस्यापि । इति रसगज्गाधरमर्मप्रकाशेSसमालंकार- प्रकरणम् ।। सुखेति। दततरं वुद्ारूढत्वाय। तयोः सामान्यैकदेशयोः। अवयवावयविभावख्- रूपमाह-विशेषेति। अन्यथा लक्षणानङ्गीकारे। अनुल्लासादिति। मिथो भेदाभा- वेन स्फुटमप्रतीतेरित्यर्थः। तथात्वे तु सादृश्योल्लासे तु। अस्योपपत्तिरग्रेऽत्रैव स्फुटीभवि- ष्यति। इवयुतोदाहरणमुक्त्वा यथाघटितमुदाहरणमाह-यथा वेति। गुणेति। कुत्सि-
Page 229
२१४ काव्यमाला।
अत्र त्रिपुरद्विद्दीरते अतिमात्रवलचापलयोर्विशेषो। अवलेपकुसुमा- युधौ च कुमतिरित्यत्र गुणप्रधानयोः । यथा वा- 'उपकारमेव कुरुते विपद्गतः सद्गुणो नितराम्। मूच्छी गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥।' दृष्टान्तो वा। इवादिशव्दप्रयोगे सामान्यार्थप्राधान्यं वाक्यैक्यम्, निदर्शनादिशब्दपयोगे तु विशेषप्राधान्यं वाक्यभेदश्चेति विशेषः । तत्र तावत् 'अमितगुण :- ' इति पद्ये क्रियाप्रधानमाख्यातमिति नयेऽमितगु- णपदार्थकर्तृकमेकदोपहेतुकं निन्दाविपयीभवनं निखिलरसायनराजलशुन- कर्तृकोग्रगन्धहेतुकनिन्दाविषयीभवनावयवकमिति धीः । प्रथमान्तविशे- प्यकबोधवादिनां तूग्रगन्धहेतुकनिन्दाविपयीभवनाश्रयतादृशलशुनावयव- कस्तादृशपदार्थ एकदोपहेतुकनिन्दाविषयीभवनाश्रय इति। तत्रापि विशेषवाक्यार्थे क्रियान्वयो मृग्यते हेत्वन्तरान्वयार्थम्। अन्यथा तादृशलशुनावयवके ताद्ृशपदार्थ एव क्रियान्वये नोपपत्तिः स्यात् । एवं यथाशव्दस्थलेऽपि। उपकारमेवेत्यत्र तु विपद्गताभिन्नः सद्गुण उप- कारानुकूलकृतिमानिति पूर्ववाक्यार्थः । अत्रास्मिन्नर्थे मूच्छी गतो मृतो वा पारदो निदर्शनमेकदेश इत्युत्तरवाक्यार्थे गुण इति केषांचित्। इतरेषां तु तादृशकर्तृका तादृशक्रियेति पूर्ववाक्यार्थे तादृशः पारद एकदेश तमतितद्विशेष्ययोरित्यर्थः। विशेषा वित्य स्यानुषत्वि कनिदर्शनपदघटितमाह-यथा वेति। सहुणो विपद्गतोऽपीलर्थः। दृष्टान्तपद्घटित स्यापीदमेवोदाहरणमिति ध्वनयितुं निदर्शनप- दस्थाने पाठान्तरमाह-दष्टान्तो वेति । वाशब्द एवारयें। इवेत्स्य तत्रेलादिः। सामान्यार्थप्राधान्यमिति। तस्यापि प्राधान्यमिलथः । तमेव विशेषं प्रदर्शयति- तत्रेत्यादिना। तत्र तेषां मध्ये। तादृशेति। निखिलरसायनराजेलर्थः । तादृशेति। अमितगुणेत्यर्थः । एवमत्रेपि धीरित्यस्यानुषन्ञः । ननु निन्दितो भवतीत्यादेरेकत्नैवोपा- दानात्कथमुभयत्र बोधोऽत आह-तत्रापीति। हेत्वन्तरान्यतमेति। उप्रगन्धादि- रूपहेत्वन्तरेत्यर्थः । अन्यथा तदनन्वये। नोपपत्तिरिति। उपपत्तिर्न स्यादित्यर्थः । पद्यस्थात्रेत्वस्यार्थमाह-अस्मिश्निति। केषांचिन्नैयायिकानाम् । इतरेषां च वैयाकर-
माह-पूर्ववाक्यार्थ इति। मू्च्छी गतादिरूपः पारदः पूर्ववाक्यार्थस्यावयव इत्यर्थः।
Page 230
रसगङ्गाघरः । २१५
इति। प्रधानावयवस्येव गुणावयवस्यापि विशिष्टार्थावयवत्वात्।घटमा- नयेत्यत्र नीलघटवत्। 'अर्थिभिश्छिद्यमानोऽपि स मुनिर्न व्यकम्पत। विनाशेऽप्युन्नतः स्थैर्य न जहाति द्रुमो यथा ॥' अत्र दधीच्यालम्बनायां तदीयलोकोत्तरचरितस्मरणोद्दीपितायामेतत्प- द्यप्रयोगानुभावितायामेतत्पद्यनिर्मातृगतायां रतौ प्रधानीभूतायामर्थ्याल- म्वनस्तत्कृतयाच्चाश्रवणोद्दीपितो गात्रच्छेदाभ्यनुज्ञानानुभावितो धृत्या संचारिभावेन पोषितो मुनिगत उत्साहो गुणः । तत्र चाध्यर्धतृतीयचर- णगतस्यार्धान्तरन्यासस्योत्कर्षतया स्थितस्य विवेचनद्वारालंकरणम् । चतुर्थचरणशकलगतमुदाहरणम्। एवमेव- 'अनन्तरत्नप्रभवस्य यस्य हिम न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेप्विवाङ्कः ।' इति कालिदासपद्येऽपि बोध्यम्। असि्मिंश्चालंकारेऽवयवावयविभाव- बोधकस्येवशब्दादेः प्रयोगः सामान्यविशेषयोरेकरूपविधेयान्वयश्चार्था- न्तरन्यासभेदाद्वैलक्षण्याधायक इति तत्प्रकरणे निपुणतरसुपपादयिष्यामः । प्राश्चस्तु "नायमलंकारोऽतिरिक्तः । उपमयैव गतार्थत्वात्। न च सा- मान्यविशेषयोः सादृश्यानुल्लासात्कथमुपमेति वाच्यम्। 'निर्विशेषं न सामान्यं-' इति सामान्यस्य यत्किंचिद्विशेषं विना प्रकृतत्वायोगात्ताह- शविशेषमादाय विशेषान्तरस्य सादृश्योल्लासे वाधकाभावादिवादिभि- ननु क्रियारूपस्य पूर्ववाक्यार्थस्य कथं द्रव्यरूपः पारदोऽवयव इलयत आह-प्रधानेति। घटमानयेति। कर्मणः सर्वमते गुणत्वादित्यर्थः। नीलघटवदिति चिन्त्यमिति कक्चित्। अत्रोदाहरण एकवाक्यतासत्वेऽपि वाक्यैकवावयता पूर्वस्माद्विशेषः । पूर्वत्र तु पदैकवा- क्यतैवेति वोध्यम्। स दधीचिः। नन्वेवं कथमलंकारत्वमत आह-तत्र चेति। रतावित्यर्थः । उत्कर्षकतयेत्यत्रास्यान्वयः । अध्यरधेति। अर्धाधिकस्तृतीयचरणो यस्मि- स्तद्रतस्येत्यर्थः। अत एव वक्ष्यति-शकलेति। विवेचनेति। बुद्धारोहेणेलथः । यस्य हिमाचलस्य। कुमारसंभवस्थं पद्यम्। नन्वेवं सांकर्येण तद्विशेषत्त्रस्यैवात्र संभवे न कथ- मलंकारान्तरत्वमत आह-अस्मिंश्चेति। भेदाद्विशेपात्। तत्प्रकेति । अर्थान्तर- न्यासप्रकरण इत्यर्थः । अयमुदाहरणरूपः। नन्वेवमप्यत्रेवादीनां सामान्यविशेषभावा
Page 231
२१६ काव्यमाला।
रामुखे प्रतीयमानस्यापि सामान्यविशेषभावस्य परिणामे सादृश्य एव विश्रान्तेः ॥" इत्यप्याहुः ॥ इति रसगद्गाधर उदाहरणप्रकरणम्। सादृश्यज्ञानोद्वुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालंकारः ।। यथा- 'दोर्दण्डद्वय कुण्डलीकृतलसत्कोदण्डचण्डध्वनि- ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम्। वल्गद्वाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव- भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥' यथा वा-
भवन्तमरिमण्डलक्रथन पश्यतः संगरे। अमन्दकुलिशाहतिस्फुट विभिन्नविन्ध्याचलो न कस्य हृदयं झगित्यधिरुरोह देवेश्वरः ॥' अनयोः पद्ययोः प्रधानीभूताया राजविषयकविनिष्ठरतेरुत्कर्षकतया स्मरणमलंकारः । आद्ये वाच्यम्, द्वितीये तु लक्ष्यमिति विशेषः। वीर- रसोडपि चात्र प्रधानोत्कर्षकतयालंकार एव। 'एकीभवत्प्रलयकालपयोधिकल्प- मालोक्य संगरगतं कुरुवीरसैन्यम्। सस्मार तल्पमहिपुंगवकायकान्तं निद्रां च योगकलितां भगवान्मुकुन्दः ।।' त्मकावयवावयविभावबोधकत्वेन कथं तदुलासोऽत आह-इवेति। आमुखे आदौ।। इति रसगक्वाधरमर्मप्रकाश उदाहरणप्रकरणम् ॥ त्वां प्रकृतं राजानम्। मध्येरणमिति । रणमध्ये इत्यर्थः । वलन्मनोहरम् । पाण्डवमर्जुनम्। दन्तावलो हस्ती। अरिमण्डलक्रथनेति संबोधनम्। अमन्देति । तीक्ष्णेत्यर्थः । 'कराल' इति द्विः पाठः । झगिति झटिति। देवेश्वर इन्द्रः। रतेर्भावस्य। लक्ष्यद्वयदाने बीजमाह-आद्ये इति। स्मरणमित्यस्यानुपङ्गः। लक्ष्यमिति। अधिरो- हतेर्लक्ष्यमित्यर्थः। नन्वेवमपि वीररसस्यानयोः प्राधान्येन राजनिष्ठस्य सत्वात् ध्वनित्वमे- वात आह-वीरेति। प्रधानोत्कर्षेति। कविनिष्ठरत्युत्कर्षेत्यर्थः । अलमिति। रस
Page 232
रसगङ्गाधरः । २१७
अत्र तल्पनिद्रयोः स्मरणं यद्यपि न तल्पनिद्रासादृश्यदर्शनोहुद्धसं- स्कारप्रयोज्यम्, तथापि सैन्यगतपयोधिसादृश्यदर्शनोहुद्धपयोधि विषयकसं- यतिंकचित्सादृश्य दर्शनोहुद्वसं- स्कारप्रयोज्यम्। नहि सादृश्ये स्मर्यमाणसंबन्धित्वं विवक्षितम्। एवं वाच्ययोस्तल्पनिद्रास्मरणयोरेतत्कारणतया आक्षिप्तस्य पयोधिस्मरणस्य चाविशेषेण संग्रहाय लक्षणे जन्यत्वमपहाय प्रयोज्यत्वमुपात्तम्। केचितु सदृशज्ञानोहुद्धसंस्कारजन्यं सदृशविषयकमेव स्मरणमलंकारः । भुजगे- न्द्रनिद्रादिस्मृतिस्तु नालंकार इत्याहुः । 'इत एव निजालयं गताया वनिताया गुरुभिः समावृतायाः । परिवर्तितकंधरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ॥' अत्र स्मरणं चिन्तोहुद्धसंस्कारप्रयोज्यत्वान्नालंकारः । व्यन्नयत्ववि- रहाच् न भाव: । एवम्-
अनल्पनिःश्वासभरालसाङ्गयाः स्मरामि सङ्गं चिरमङ्गनायाः ॥' इहापि स्मृतिर्न भावो नाप्यलंकारः । व्यञ्ञयस्यैव व्यभिचारिणो भा- वत्वात्। यथा 'सा वै कलङ्कविधुरा मधुराननश्रीः'। अयं चालंकारि- काणां संप्रदायो यत्सादृश्यमूलकत्वे स्मरणं निदर्शनादिवदलंकारः । त- स्याभावे व्यञ्ञ्यतायां भावः । तयोरभावे तु वस्तुमात्रम् । वदलंकार इत्यर्थः । विवक्षितं लक्षणे इति शेषः । एवमिति। वैधर्म्ये दृष्टान्त एतदिति। तल्पनिद्रास्मरणकारणतयेत्यर्थः । संग्रहाय एतल्क्ष्यलाय । केचित्विति । अत्र मते जन्यत्वनिवेशसादृश्ये स्मर्यमाणसंवन्धिनिवेशश्वेति पूर्वतो भेदः। भुजगेन्द्रेति। एकसं- बन्धीति न्यायेन तल्पादिस्मरणस्य पयोधिस्मरणजन्यत्वेऽपि तादृशसंस्कारजन्यत्ादसह- शविषयकत्वाच्च पयोधिस्मरणं तु तथेति भवति स इति भावः । अत्रारुचिबीजं तु सा- दृशये स्मर्यमाणसंबन्धित्वनिवेशस्यैवं सति फलाभावः। नहि तादृशसंस्कारजन्यं स्मरणं विसदृशविषयकं संभवति। तथा पयोधिस्मरणस्य सदृशज्ञानत्वेन। तेन तल्पादिस्मरणानुकू- लसंस्कार स्योद्दोधनसंभवेन तज्जन्यलसत्त्वादलंकारत्वमेव तस्येति। सादृश्यज्ञाननिवेशफ- लमाह-इत एवेति। गुरुभिः श्श्वादिभिः । परिवर्तितेत्यादिद्वयं स्मयमानक्रियाविशे- षणम्। इहापि इत्यन्रापि। ननूक्तरीत्यानलंकारत्वेऽपि भावत्वं कुतो न। अव्यञ्ञयत्व- स्याप्रतिबन्धकलात्। अत आह-व्यङ्गयेति । तस्य सादृश्यमूलकत्वस्य। व्यक्कयतायां २०
Page 233
२१८ काव्यमाला। अप्पयदीक्षितास्तु- "स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया । स्मरणालंकृतिः सा स्यादव्यङ्गयत्वविशेषिता ।' यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार। सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥' यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम्। उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्तीमस्मार्षीज्जलनिधिमन्थनस्य शौरिः।।' एकत्र सदृशदर्शनात्तत्सदृशकर्मिका स्मृतिः । इतरत्र सदृशदर्शना- त्तत्सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः। उभयत्रापि साद- श्यमूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदृदशासदृशसाधार- ण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत् । 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति। वत्सैतद्विदितं कथं नु भवता घत्ते कुरङं यतः क्वासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि।।' अत्र श्रुतकुरङ्गसंबन्धिनस्तन्नयनस्य स्मरणात्तत्सदृशसीतानयनस्मृति- सत्याम् । तयोर्व्यङ्ग्यत्वसादृश्यमूलकत्वयोः । अपीति। रघुवंशे दशरथमृगयावर्णनम्। स दशरथः। सादृश्यबोधकं केशपाशस्य विशेषणद्वयम्। दिव्यानामिति। माघे जल- कीडावर्णनम्। अम्भस्तो जलात्। मन्थनस्येति 'अधीगर्थ-' इति कर्मणि शेषे षष्ठी। लक्ष्यद्वयदाने वीजमाह-एकत्रेति। आद्य इत्यर्थः । इतरत्र अन्त्ये। सदृशेति। ल क्षमीसदृशनायिकेत्यर्थः। लक्षणं संगमयति-उभयत्रेति। तथा च द्वितीय लक्ष्यसंग्रह एव वस्तन्तरसमाश्रयेति विशेषणफलमित्याह-अत एवेति। द्वितीयस्य लक्ष्यत्व।देवे- त्यर्थः । सदृशासदृशेति। स्मृतेः सदृशासदृशान्यतर विषयकत्वलाभार्थतयेत्यर्थः । अ- व्यज्गयत्वविशेषणफलमाह-सौमित्रे इति। हनुमन्नाटके सीतावियोगे श्रीरामचन्द्रस्य लक्ष्मणं प्रत्युक्तिरियम्। ननु निश्चयेन। चण्डांगु: सूर्यः। तन्नयनेति। कुरङनयने-
Page 234
रसगङ्गाधरः । २१९
स्तत्संबन्धिसीतास्मृतिश्चेति। किं त्वेषा व्यन्नया अलंकार्यभूता च। तद्या-
'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ।।' अत्र स्तूयमानभूसंबन्धिनो भूभृतः स्मृतिर्न सादृश्यमूलेति नात्र स्मरणालंकारः। किं तु स्मृतेः संचारिभावस्य भूभृद्विपयरतिभावाङ्गत्वा- त्प्रेयोलंकारः । एतद्यावृत्तये सादृश्यमूलेति विशेषणम्।" इत्याहुः । तदेतत्सर्वमरमणीयम्। यत्तावदुच्यते सदृशासदृशयोः केशपाशज- लनिधिमन्थनयोः संग्रहाय लक्षणे वस्त्वन्तरत्रहणमर्थवदिति तत्र साह- श्यमूला स्मृतिः स्मरणालंकार इत्येतावतैव केशपाशस्मरणस्येव जलनि- धिमन्थनस्मरणस्यापि संग्रहाद्वस्त्वन्तरसमाश्रयत्वविशेषणमनर्थकम्। ए- कत्र सादृश्यदर्शनोहुद्धसंस्कारजन्यत्वेन, अपरत्र च सादृश्यदर्शनोहुद्ध- संस्कारजलक्ष्मीस्मरणोहुद्धसंस्कारजन्यत्वेन च सादृश्यमूलत्वस्याविशेषात्। नहि सादृश्यमूलेत्युक्ते सदृशविषयेति लभ्यते, येन जलनिधिमन्थनस्मृ- तेरसंग्रहः स्यात्। यदषि 'सौमित्रे ननु सेव्यतां-' इत्यत्र स्मृतिर्व्यङ्कया अलंकार्यभूता च। तद्यावृत्तयेऽव्यङ्गयत्वविशेषणमित्युक्तम्। तत्र नेयं त्यर्थः । तत्सदृशेति नयनविशेषणम्। इतिभूता चेत्यग्रे योज्यः। एषा सीतास्मृतिः। अलं- कारसामान्यलक्षणमपि नास्तीत्याह-अलमिति। सीतास्मृतेः प्राधान्यादिति भावः । अत्युच्चा इति। भुव प्रत्युक्तिरियम्। प्रस्तौमि करोमि। इमां भुवम्। न सादृश्येति। किं त्वेतिकसंवन्धीति रित्येति भावः (?)। रतिभावेति। कविनिष्ठेत्यदिः । अरमणी- यमिति। वक्ष्यमाणदोषादिति भावः । तमेव दार्व्यायानूदाह-यत्तावदिति। तत्र उच्यमाने तस्मिन्। ब्रूम इति शेषः । तदाह-सादृश्येति। एवमग्रेऽपि। केशेति। तस्य सदृशत्वेन दृष्टान्तत्वमिति भावः । स्यादिति। इतीति शेषः । सादृश्यपदस्य निय- मसंबन्धिकतया संबन्ध्य।काङ्वायामुपस्थितस्मर्यमाणस्यैवान्वयापत्तिः । नहि जनकतव- मूला पूज्यत इत्युक्ते पुत्रजनकत्वेन भार्या पूज्यते। अतो वस्तन्तरसमाश्रयेत्यावश्यकमिति चिन्त्यमिदम्। नेयं स्मृतिरलंकार्यभूतेति। अत्र स्मृतेः हा क्वासीत्यादि पदगम्य- त्वेन विवहनप्रवृत्तराजानुगम्यमानभृत्यवत्। 'शठेन विधिना निद्रादरिद्रीकृतः' इत्यादौ शठादिपद गम्यासूया बुद्धा। तस्या एव प्राधान्यादलंकार्यत्वम्। अनुपस्कारकत्वान्च वि-
Page 235
२२० काव्यमाला। स्मृतिरलंकार्यभूता। कि तु जानक्यालम्वनो निशासमयोद्दीपितः संता- पादिनानुभावित उन्मादेन संचारिणा परिपोषितो विप्रलम्भः प्रधानत्वेना- लंकार्यः । तस्य च स्मृतिरुत्कर्षसेतुत्वादलंकार एव । अतो नितरां त-
योर्विरोध इति वक्तुं शक्यम्। नित्यव्यङ्गयानां रसभावादीनामपि पराङ्ग- तायामलंकारत्वाभ्युपगमात्। प्रधानव्यङ्ञयव्यावृत्त्यर्थ पुनरुपस्कारकत्वं सर्वेष्वलंकारलक्षणेषु देयमिति प्रागेवावेदितम्। यदप्युक्तम् 'अत्युच्चाः परितः स्फुरन्ति गिरयः' इत्यत्र स्मृतेः संचारिभावस्य भूमृद्विपयरतिभा- वाङ्गत्वात्रेयोलंकार इति, तन्न। भावस्य हि भावाद्यङ्गतायां प्रेयोलंका- रत्वम्। नह्यत्र स्मृतिर्भावः । तस्याः स्मरतिना वाचकेनाभिधानात्। नहि वाच्यस्य व्यभिचारिणो भावत्वं वक्तुं युक्तम्। 'व्यभिचार्यञ्जितो भावः' इति सिद्धान्तविरोधात्। तथा चोक्ततं सर्वस्वकृता- "प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः । तत्रापि विभावाद्यागूरितत्वे यथा 'अहो कोपेऽपि कान्तं मुखम्' इति। न तु स्वस्वशन्दनिवेद्यत्वे। यथा- 'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखवेदः । रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ।।' इत्यादाविति।" ननु भावाद्यङ्गीभूतभावत्वं न प्रेयोलंकारलक्षणम्। अपि तु भावाद्यङ्गीभूतसंचारित्वमात्रम् । तथा च प्रकृते स्मरणस्य स्व- शब्दनिवेद्यत्वेन भावत्वविरहेऽपि संचारित्वानपायात्प्रेयोलंकारत्वं विरुद्ध- प्रलम्भस्यैव तत्त्वाच्चेति चिन्त्यम् । विप्रलम्भः श्रीरामचन्त्रनिष्ठः। नितरामित्वस्यानौचि- त्येऽन्वयः । तदाशयं खण्डयति-नहीति। नित्येति। सर्वथेत्यर्थः । कदाप्यवाच्यल- क्ष्येति यावत्। नन्वेवं प्राधान्येऽप्यलंकारत्वापत्तिरत आह-प्रधानेति। सर्वेषु न तवत्रैव। तथा चालंकारसामान्यलक्षणप्राप्तत्वात्तस्य नातिप्रसङ्ग इति भावः। सिद्धा- न्तेति। मम्मटभदादीनामिति शेषः। तद्रन्थमाह-प्रेयोलमित्यादि इतीत्यन्तेन। तत्रापि तदुक्कस्यापि न स्मृतिष्वपि। आगूरितत्वे आविष्कृतत्वे। अन्नेति। पुष्पकेण लक्ठातोऽयोध्यां गच्छतः श्रीरामस्य सीतां प्रत्युक्तिरियं रघुवंशे। अनुगोदं गोदासमीपे। वानीरेति। तृणधान्यतृणेत्यर्थः । सुप्तं स्वापः। इष्टापत्तिं परिहरति-एवं चेति।
Page 236
२२१
मेवेति चेत्, एवं तर्हीतरा्गीभूतस्थायित्वमात्रं रसालंकारत्वम्, न तु व्य- ज्यमानत्वविशिष्टम्, इत्यस्यापि सुवचत्वात्। एवं च- 'चराच रोभयाकार जगत्कारण विग्रहम्। कल्पान्तकालसंक्रुद्धं हरं सर्वहरं नुमः ।।' इत्यत्र क्रोधस्य स्वशब्दनिवेदितत्वेऽपि देवताविषयकरतिभावाङ्गीभूतस्था- यित्वानपयाद्रसालंकारता स्यात् । न चेष्टापत्तिः । अपसिद्धान्तात्। तस्माद्यज्यमानस्यैव स्थायिनः पराङ्गत्वे यथा रसालंकारत्वमेवं व्यज्य- मानस्यैव संचारिणो भावाद्यङ्गतायां प्रेयोलंकारत्वमिति नात्र स्मृतिमा- दाय प्रेयोलंकारता वाच्या, किं तु भूविषयकरतेः पूर्वार्धव्यन्नयाया उत्तरार्धव्यञ्कयभूभृद्विषयरतिभावाङ्गत्वाद्युक्ता प्रेयोलंकारता वक्तुम्। उक्तं च मम्मटभट्टै :- 'अत्र भूविषयो रत्याख्यो भावो राजविषयरतिभावस्य' इति। अपि च महदिदमाश्चर्य यः सेनैव निर्मितः कुवलयानन्दार्यः संदर्भो विस्मृतः । उक्त्तं च तत्र-'विभावानुभावाभ्यामभिव्यज्जितो निर्वे- दादिर्भावः स यत्रापरस्याङ्गं स प्रेयोलंकारः' इति। यदपि 'सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम्' इत्यलंकारसर्वस्वरल्ना- करयो: स्मरणालंकारलक्षणमुक्तम्, तदपि न। सदृशस्मरणादुद्ुद्धेन सं- स्कारेण जनिते स्मरणे अव्याप्तेः । यथा- 'सन्त्येवास्मिञ्जगति बहवः पक्षिणो रम्यरूपा- स्तेषां मध्ये मम तु महती वासना चातकेषु। यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भि: स्मृत्यारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ।।' अत्र च चातकदर्शनादेकसंबन्धिज्ञानादुत्पन्नेनापरसंबन्धिनो जलधरस्य तथा सुवचत्वे चेस्यर्थः। स्वशब्देति। क्ुद्धामितीतर्थः। रतिभावेति। कविनिष्ठेत्यादि। स्मृतिमादायेत्युक्तिफलमाह-किं त्विति। एवं च प्रेयोलंकारसत्त्वेऽपि त्वत्कृतं तदुप- पादनं चित्रमीमांसास्थमयुक्तमिति भावः । भावस्येति। अङ्गमिति शेषः। स्वेनैव अप्प- दीक्षितेनैव। तत्र कुवलयानन्दे। निवेदादिस्त्रयस्तिरिंशत्। अपरस्य भावादेः। [अलंकारस-
Page 237
२२२ काव्यमाला। भगवत्सद्दशस्य स्मरणेन जनितं भगवतः स्मरणं भगवद्विषयरतिभावा- ङ्रम् । यदि च 'सदृशानुभवात्' इत्यपहाय 'सदशज्ञानात्' इति लक्षणे निवेश्यते तदा भवत्यस्यापि संग्रह इति दिक्। अथास्य ध्वनिः । यथा- 'इदं लताभि: स्तबकानताभिर्मनोहरं हन्त वनान्तरालम्। सदैव सेव्यं स्तनभारवत्यो न चेद्युवत्यो हृदयं हरेयुः ॥' अत्र स्तबकानताभिर्लताभिः स्तनभारवतीनां युवतीनां स्मरणमलंकार्य- स्यान्यस्याभावादनुपसर्जनम्, स्तनस्तबकरूपस्य बिम्बप्रतिबिम्बभावमाप- न्नस्य साधारणधर्मस्य वाच्यत्वेऽपि तत्प्रयोजितसादृश्यमूलकस्य सवस्य शब्दवाच्यत्वविरहाद्यन्नयं च । युवत्य इति च 'सर्वतोऽक्तिन्नर्थात्' इति डीषि साधुः । यथा वा- 'इदमप्रतिमं पश्य सरः सरसिजैर्वृतम्। सखे मा जल्प नारीणां नयनानि दहन्ति माम् ।' अत्रापि सरसिजज्ञानाधीनतत्सदृशनयनस्मृतिः प्राधान्येन ध्वन्यते। अथास्मिन्स्मरणालंकारे उपमादोषाः प्रायशः सर्व एव दोषाः। विशेषतश्च नियमेनास्मिन्व्यज्यमानसादृश्यके सादृश्यस्य शब्दवाच्यतायां दोषः । यथा 'उपकारमस्य साधोर्नैवाहं विस्मरामि जल स्य । दृष्टेन येन सहसा निवेद्यते नवघनश्यामः ।।' वस्रत्ना]करयोर्ग्रन्थयोः । अध्यक्षैः प्रत्यक्षैः । अथ प्रत्यक्षानन्तरम् । अनुपसर्जन- मिति। प्रधानमित्यर्थः। एवमलंकारत्वं निरस्य ध्वनित्वमुपपादयितुमाह-स्तनेति। सवस्य स्मरणस्य। व्यञ्ञयं च स्मरणमिति पूर्वत्रान्वयः । ङीपि साधुरिति यौतेः शत्र- न्तात् डीष्यपि साधुत्वं भवति। 'सर्वतः-' इत्येतत्पर्यन्तानुधावनं व्यर्थ दुष्टं चेति प्रप- श्वितमन्यत्र। व्यज्येति। अर्थाप्रतीयमानसादृश्यक इत्यर्थः । अत्र स्मरणालंकारे। अ. स्योपादानादावेवान्वयः । दानयोः सतोरिति शेषः । अन्रापि स्मरणालंकारेऽपि। स्पष्ट- लाय पुनरुकिः। प्रतीयमानो गम्यमानः । साक्षादुपमानोपमेयविशेषणत्वेन। यथेति।
Page 238
२२३
अत्र स्मृत्यैव घनसादृश्यं भगवतः प्रतीयमानं वाच्यवृत्त्या कदर्थितं निवेदते। देवकीतनय इति तु साधुः । अत्र सादृश्यप्रयोजकस्य साधारणधर्मस्य साक्षादुपादानानुपादानयो- रुपमायामिवात्रापि व्यवस्था। तथा हि उपमायां तावत्कचिद्धर्मो निय- मेन प्रतीयमान: साक्षान्नोपादेय एव। यथा 'शङवत्पाण्डुरच्छविः' इ- त्यत्र पाण्डुरत्वम्। 'शङ्ङवत्पाण्डुरोऽयम्' इत्यादौ तु नानाविधेषु धर्मेष्व- नेनैव धर्मेण सादृश्यमित्यस्य दुरवगमत्वात्। सर्वत्रोपमानोपमेयसाधार- णस्य श्रिष्टशन्दात्मकस्यान्यस्य वा स्वानभिप्रेतस्य साधारणधर्मस्यो- पमाप्रयोजकत्वसंभवाचद्वारणाय पाण्डुरत्वादिधर्मो वाच्यतां नीयते । यथा वा 'अरविन्दमिव सुन्दरं मुखम्' इत्यादौ सुन्दरत्वादिः। न नीयते च क्वचित्। वक्तुरन्यस्यानुपस्थानात्प्रसिद्धेः प्राबत्यात्। यथा 'अर- विन्दमिव मुखम्' इत्यादौ स एव। अप्रसिद्धश्च धर्मोऽवश्यं साक्षादुपा- देयः । अन्यथा तस्याप्रतिपत्तौ कवेस्तदुपमानिर्माणप्रयासवैयर्थ्यापत्तेः। यथा 'नीरदा इव ते भान्ति बलाकाराजिता भटाः' इत्यादौ श्िष्टशब्दा- त्मकः । इत्थं च कश्चित्साधारणो धर्मः साक्षादनुपादेय एव। कश्चिदु- पादेयानुपादेयश्च। कश्चिदुपादेय एवेति सहृदयसंमतः समयः । एवमे- वोपमाजीवातुकेस्मिन्स्मरणालंकारेपि बोध्यम्। तत्रानुगामिनि धर्मे 'स्मृत्यारूढं भवति किमपि' इत्यादौ पद्ये निवेदितमेव स्मरणम् । विम्ब- प्रतिबिम्बभावापन्नेऽपि धर्मे 'भुज्रमितपट्टिश-' इत्यादि पद्ये निरूपितम् । कुलिशपट्टिशयोर्भूघरदन्तावलयोश्र बिम्वप्रतिबिम्बभावात्। उपमेय विशेषणच्छवि विशेषणतयोपस्थित पाण्डुरत्वस्यैव प्रत्यासत्त्या तत्र गम्यमानत्वादिति भावः। ननु धर्मान्तरस्योपमाप्रयोजकत्वाभावादेव नैव सादृश्यं खगतमत आह-सर्व- त्रेति। अस्य द्वितीयमुदाहरणं विशेषं वक्तुमाह-यथा वेति। न नीयते चेति। वाच्यतामित्यस्यानुषङ्गः। अनुपस्थितौ हेतुमाह-प्रसिद्धेरिति। स पवेति। सुन्दर- त्वादिरित्यर्थः । बलाकाराजिता इति। बलाका वकपङ्गिस्तया राजिताः। वलाकारा- भ्यामजिता इत्यर्थः । उपसंहरति-इत्थं चेति। यथोपमायामिति शेषः। जीवातुर्जीव- नौषधम्। तत्र अनुपादेयादिधर्माणां मध्ये। स्मृत्यारूढमिति। अत्रानुगामी श्यामत्व- धर्मोऽनुपात्तः। निरूपितं स्मरणमित्यस्यानुषभ्ः। एवम्रेऽपि। अत्रोक्तहे तोस्तस्योपादा- नमित्याह-कुलिशेति। स पवनात्मज इत्यन्वयः । अत्रानयोः। आदिना कठिनत्वागा-
Page 239
२२४ काव्यमाला।
उपचरितं यथा- 'क्वचिदपि कार्ये मृदुलं क्वापि च कठिनं विलोक्य हृदयं ते। को न स्मरति नराधिप नवनीतं किं च शतकोटिम् ।।' यथा वा- 'अगाधं परितः पूर्णमालोक्य स महार्णवम्। हृदयं रामभद्रस्य सस्मार पवनात्मजः ।I' अत्र मृदुलत्वादयो धर्मा हृद्युपचरिताः । इयांस्तु विशेष :- यदेकत्ना- नुभूयमाने हृदये स्मर्यमाणनवनीतादेः सादृश्यस्य सिद्धिः, अपरत्र तु स्म- र्यमाणे हृदयेऽनुभूयमानसमुद्रस्येति। सादृश्यस्योभयाश्रयत्वात्। केवलशब्दात्मके यथा- 'ऋतुराजं भ्रमरहितं यदाहमाकर्णयामि नियमेन। आरोहति स्मृतिपथं तदैव भगवान्मुनिर्व्यासः ।।' अत्र भ्रमरहितशब्दो व्यासवसन्तयोः साधारणः। एवमन्येऽपि प्र- भेदा: सुधीभिरुन्नेयाः। इह पुनर्दि्मात्रमुपदर्शितम्। इति रसगज्जाधरे स्मरणालंकारनिरूपणम्। अथाभेद प्रधानेषु रूपकं तावन्निरूप्यते- उपमेयतावच्छेदकपुरस्कारेणोपमेये शब्दान्निश्चीयमानमुपमान- तादात्म्यं रूपकम् । तदेवोपस्कारकत्वविशिष्टमलंकारः ।। उपमेयतावच्छेदकपुरस्कारेणेति विशेषणादपह्दुतिभ्रान्तिमदतिशयोक्ति- निदर्शनानां निरासः। अपहुतौ सेच्छया निषिध्यमानत्वात्, भ्रान्तिमति च धत्वादिपरिग्रहः । द्वितीयोदाहरणदाने बीजमह-इयानिति। एकत्र आद्ये। अपरत्र द्वितीये। समुद्रस्येतीति। सादृश्यस्य सिद्धिरित्यस्यानुषङ्गः। उभयाश्रयत्वादुभय- निरूप्यत्वात्। ऋतुराजं वसन्तम्। भ्रमराणं हितम्। नानापुष्पविकासद्वारा मधुप्राप- कत्वात्। व्यासपक्षे भ्रमेण रहितमित्यर्थः । नियमेनेत्युत्तरान्वयि । इति स्मरणम् ॥ इति रसगङ्गाधरमर्मप्रकाशे स्मरणालंकारनिरूपणम् ॥ प्रधानेष्वलंकारेषु। एवं च पूर्व भेदाभेदोभयप्रधाना निरूपिताः, इदानीं बह्नलंका- रव्यापित्वेन प्रसिद्धतया प्राधान्येन च रूपकनिरूपणमिति भावः। उपमेयतावच्छेदक- मात्रप्रकारकप्रतीतिजनकशब्दवोधे विषये इत्यर्थः । तेनातिशयोक्तौ चन्द्रादिपदान्मुख-
Page 240
२२५ तज्जनकदोषेणैव प्रतिबध्यमानत्वात्, अतिशयोक्तिनिदर्शनयोश्च साध्यवसा- नलक्षणामूलकत्वात्, उपमेयतावच्छेदकस्य नास्ति पुरस्कारः । शब्दादिति विशेषणात् 'मुखमिदं चन्द्रः' इति प्रात्यक्षिकाहार्यनिश्चयगोचरचन्द्रता- दात्म्यव्यवच्छेदः। निश्चीयमानमिति विशेषणात्संभावनात्मनो 'नूनं मुखं चन्द्रः' इत्याद्युत्प्रेक्षाया व्यावृत्तिः । उपमानोपमेयविशेषणाभ्यां साह- श्यलाभात् 'सुखं मनोरमा रामा' इत्यादिशुद्धारोपविषयतादात्म्यनि- रासः । सादृश्यमूलकमेव च तादात्म्यं रूपकमामनन्ति । तथा चाहु :- 'तद्रूपकमभेदो य उपमानोपमेययोः ।' 'उपमैव तिरोभूतभेदा रूपकमुच्यते।' इति। तच्च यत्र विषयविषयिणोरेकविभक्त्यन्तत्वेन निर्देशस्तत्र संसर्गः, अ- न्यत्र तु शब्दार्थतया क्वचिद्विशेषणं विशेष्यं चेति विवेचयिष्यते। यत्तु सादृश्यप्रयुक्तः संबन्धान्तरप्रयुक्तो वा यावान्भिन्नयोः सामाना- धिकरण्यनिर्देशः स सर्वोडपि रूपकम्। सारोपलक्षणामूलकत्वस्य तुल्य- त्वेन सादृश्यप्रयुक्तस्य तादात्म्यस्येव संबन्धान्तरप्रयुक्तस्यापि तादा- त्म्यस्य संग्रहीतुमौचित्यात्। तस्मात् "दुराग्रह एवायं प्राचाम्-'उप- मानोपमेययोरभेदो रूपकम्, न तु कार्यकारणयोः" इति रत्नाकरेणोक्ततं तन्न। अपहुत्यादौ भिन्नयोः सामानाधिकरण्यस्य सत्त्वात्तत्रातिव्याप्तेः । किं च 'सादृश्यमूलकं स्मरणं स्मरणालंकारः, न तु चिन्तादिमूलम्' इति भवतैव पूर्वमुदितम्। तत्र यदि सादृश्यामूलकस्यापि कार्यकारणादिकयोः कल्पितस्य ताद्रूप्यस्य रूपकत्वमभ्युपेयते तदा सादृश्ययामूलकस्य चिन्ता- त्वादिना मुखोपस्थितिरिति मतेऽपि नातिव्याप्तिरिति बोष्यम्। तज्जनकेति। भ्रान्ति- जनकेत्यर्थः । उपमेयतेति। मध्यमणिन्यायेनोभयत्रान्वयोऽस्य। संभावनात्मनस्तद्रू- पायाः उत्प्रेक्षाया वस्तूत्प्रेक्षायाः। उपमानोपमेयेति। एतद्रूप विशेषणाभ्यामित्यर्थः । उपमानत्वोपमेयत्वयोः सादृश्यनियतत्वादिति भावः । आहुरिति। मम्मटभट्टादय इत्यर्थः । अन्रार्थ मम्मटीयम्। अर्धमन्यदीयम्। तथा च भिन्नं लक्षणद्वयमिदम्। त- श्चेति। उक्तरूपतादात्म्यं चेत्यर्थः। संसर्ग इति । अपदार्थत्ादिति भावः । विनि- गमकाभावादाह-कचिदिति। भिन्नयोरिति। न तूपमानोपमेययोरित्यर्थः । किं २१
Page 241
२२६ काव्यमाला।
दिमूलस्य स्मरणस्याप्यलंकारत्वमभ्युपेयताम्। न च स्मरणस्य भावत्वमु च्य- मानं निर्विषयं स्यादिति वाच्यम्। तस्य व्यज्यमानविषयत्वेनोपपत्तेः । अप्पदीक्षितास्तु- "बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिहुते। उपरञ्जकतामेति विषयी रूपकं तदा ।।' अत्र बिम्बाविशिष्ट इति विषयविशेषणात् 'त्वत्पादनखरत्नानां यदलक्तकमार्जेनम्। इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधो:।।' इति निदर्शनाया निरासः । तत्र विषयस्य मार्जनस्यालक्तकादिरूप- बिम्बविशिष्टत्वात्। निर्दिष्ट इति विशेषणान्निगीर्णविषयायाम् 'कमलमन- म्भसि कमले च कुवलये तानि कनकलतिकायाम्' इत्याद्यतिशयोक्तौ ना- तिव्याप्तिः । अनिहुते निषेधास्पष्ट इति विशेषणादपह्ुतौ नातिव्याप्तिः। उपरञ्ज कतामाहार्यता द्रूप्यनिश्चयगोचरतामेतीत्यनेन ससंदेहोत्प्रेक्षासमासो-
वात्। समासोक्तिपरिणामयोर्विषयिताद्रूप्यस्यागोचरत्वात् । समासोक्तौ व्य- वहारमात्रसमारोपात्। परिणामे चारोप्यमाणस्यैव विषयताद्रूप्यगोचरत्वात्। भ्रान्तिमति च सतः कल्पितस्य वा प्रवृत्त्यादिपर्यन्तिकस्वारसिकभ्रमस्यैव नि- बन्धनेन तस्यानाहार्यत्वात्।" इत्याहुः । तन्न। 'त्वत्पादनखरल्नानां' इत्यादिनिदर्शनाव्यावृत्त्यर्थ बिम्बाविशिष्टत्वं विषयविशेषणं तावदयुक्तमेव। यद्यत्र 'मुखं चन्द्रः' इत्यादि रूपकान्तर इव सत्यपि श्रौतारोपे नेदं रूप- चेति। यत इति शेषः । निर्विषयमिति। सर्वस्यैवालंकारत्वेन तदन्यत्वाभावादिति भावः । व्यज्यमानेति। व्यज्यमानस्मरणविषयत्वेनेत्यर्थः । नखरत्नानामिति रूपकम्। विम्चेति। अयं भाव :- यथा चन्द्रः सतः शुभ्रत्वादनासज्जनीयधावल्यस्तथा नखाः सतोऽरुणत्वादनासज्जनीयारुणा इति सादश्येन नखानां चन्द्रस्य च बिम्बप्रतिविम्ब- भावः । अलक्तकचन्दनयोरन्यत्र स्ववर्णासञ्नकत्वेन सः। तथा च बिम्बप्रतिविम्वभावो यत्र नखालक्तकविशिष्ट एव रजजने तत्प्रतिविम्बभूतचन्द्रचन्दनविशिष्टं पाण्डुरीकरणमुप- रजकमिति। निर्दिष्ट इति। उच्चारित इत्यर्थः । तत्र येन यस्य व्यावृत्तिस्तत्क्रमेणा- ह-सममिति। अगोचरत्वे क्रमेण हेतू आह-समेति। अत्र त्वत्पादेत्यत्र। दा-
Page 242
रसगङ्गाधरः । २२७
कमपि तु निदर्शनेत्युच्यते तदा 'मुखचन्द्रः' इत्यपि निदर्शनेत्युच्यताम्। निरस्यतां च रूपकदाक्षिण्यकौपीनम्। कि च 'त्वत्पाद-' इत्यत्र किं पदार्थनिदर्शना आहोखििद्वाक्यार्थनिदर्शना। नाद्यः । बिम्बप्रतिवि- म्बभावापन्नपदार्थघटित विशिष्टार्थयोरेवात्राभेदप्रतीतेः । कुवलयानन्दगत- निदर्शनाप्रकरणे त्वयोक्तमार्गेण धर्म्यन्तरे पदार्थे तदवृत्तिघर्मस्य पदार्थस्य भेदेनारोपस्याभावाच्च । न द्वितीयः । वाक्यार्थरूपकोच्छित्त्यापत्तेः । इ- ष्टापत्तौ वैपरीत्यस्य सुवचत्वाच्च। अस्माभिर्निदर्शनाप्रकरणे वक्ष्यमाणया सरण्या अभेदस्य श्रौतत्वार्थत्वाभ्यामुद्देश्यविधेयभावा लिङ्गनानालिङ्गनाभ्यां च रूपकनिदर्शनयोर्वैलक्षण्येन सकलव्यवस्थोपपत्तेः । तस्मादत्र वाक्या- र्थरूपकमेव, न वाक्यार्थनिदर्शना। तस्याश्चैवमुदाहरणं निर्मातव्यम्- 'त्वत्पादनखरत्नानि यो रज्जयति यावकैः । इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥' अत्र कर्त्रोरभेदस्य शाब्दत्वेऽपि क्रिययोरभेदस्याशान्दत्वात्तस्यैव च समग्रभरसहि ष्णुत्वान्निदर्शनैव। ननु यदीदमुदाहरणं निदर्शनायां न स्यात्तदा कथमलंकारसर्वस्वकृता तत्प्रकरण उदाहृतमिति चेत्, भ्रान्तिनैव प्रतारितोऽसि। नहि प्रामाणिकेन भवता कदापि परेणानुक्तं किंचिदु- च्यते। यदपि रूपके बिम्बप्रतिबिम्बभावो नास्तीत्युक्तं तदपि भ्रान्त्यैव। तथा च सर्वखटीकायां विमर्शिन्यामुदाहृतं बिम्वप्रतिबिम्बभावेन रूपकम्- 'कंदर्पद्विपकर्णकम्वु मलिनैर्दानाम्बुभिर्लाञ्छितं संलभनाञ्जनपुञ्ज कालिमकलं गण्डोपधानं रतेः ।
क्षिण्येति। रूपकमुख संकोचरूपकौपीनमित्यर्थः। निर्लज्त्वादिति भावः । विशिष्टार्थयोः वाक्यार्थयोः । त्वदुक्त्पदार्थनिदर्शनालक्षणमपि नास्तीत्याह-कुवलयेति । वैप- रीत्यस्य वाक्यार्थनिदर्शनोच्छित्तेः । खमते न कस्याप्युच्छेद इत्याह-अस्माभिरिति श्रौतत्वेति । यथासंख्येनान्वयः। नन्वेवं तर्हि तस्याः किमुदाहरणमत आह-तस्या- श्चेति। वाक्यार्थनिदर्शनाया इत्यर्थः । यावकैः अलक्तकरसैः । ननु क्त्रोरभेदमादाय वाक्यार्थरूपकमेवास्तिवत्वत आह-तस्यैव चेति। क्रिययोरमेदस्यैव चेत्यर्थः । सम- ग्रेति। मुख्यत्वादित्यर्थः । इदं दीक्षितोक्त्तम् । भ्रान्तिनैवेति । भ्रान्तेनैवेति मुख्य- पाठः। कंदर्पद्विपेति। सर्वत्र षष्ठीतत्पुरुषः । कम्वुः शङ्गः । कलं रमणीयम्। अनोः
Page 243
२२८ काव्यमाला।
व्योमानोकहपुष्पगुच्छमलिभि: संछाद्यमानोदरं पश्यैतच्छशिनः सुधासहचरं बिम्बं कलङ्काङ्कितम् ।।' अत्र कलङ्कस्य दानाम्ब्वादिभि: प्रतिबिम्बनम्, लाञ्छितत्वाक्कितत्वयोः शुद्धसामान्यरूपत्वमित्युक्तं चेत्यास्तां तावत्। तथा निर्दिष्टे शव्देनाभि- हिते इत्यस्य येनकेनचिद्रूपेण शब्देनाभिहित इत्यर्थः, उताहो उपमेय- तावच्छेदकरूपेण शब्देनाभिहिते। आद्ये 'सुन्दरं कमलं भाति लता- यामिदमद्भुतम्' इत्यत्रातिप्रसङ्गः । सुन्दरपदेन सुन्दरत्वेन रूपेण इदं- पदेन च विषयस्याननस्य प्रतिपादनात्। न चात्र सुन्दरपदार्थस्यारोप्य- माणकमलान्वय एव, न तु वदनरूपविषयान्वय इति वाच्यम् । कमल- पदेन कमलताद्रप्येणाननस्यैव लक्षणयोपस्थानात्तत्रैव सुन्दरादिपदार्था- न्वयो युक्तः, न तु विशेषणीभूते कमले। अथ तादृशं विषयमुद्दिश्य विषयिताद्रप्यं यत्र विधीयते इत्यपि लक्षणवाक्यार्थः । प्रकृते च सुन्द- रत्वावच्छिन्नमुद्दिश्य कमलताद्रूप्यस्याविधानान्नातिप्रसङ्ग इति चेत्। न। 'मुखचन्द्रस्तु सुन्दरः' इत्यादि रूपके समासगतयोर्विषयविषयिणोः पृथ- ग्विभक्तिमन्तरेणोद्देश्य विधेयभावाभावादव्याह्यापत्तेः । द्वितीये त्वनिहुत इति विशेषणवैयर्थ्यम्। अपहुतावुपमेयतावच्छेद्यस्य निषिध्यमानतया तेन रूपेण विषयस्यानिर्दिष्टत्वादेव लक्षणस्याप्रसक्तेः । निश्चयगताहार्य-
कहः कुटः शालः। शुद्धसामान्येति। अनयोर्वस्तुप्रतिवस्तुभावापन्नत्वादिदं चिन्त्यम्। उक्तं चेति। चकार उदाहृतसमुच्चायकः । द्वितीयविशेषणं दूषयति-तथेति। उताहो अथवा। इत्यत्र रूपकातिशयोक्तिविषयेऽन्वय एवेति। तत एव चमत्कारात्सां- निध्याच्चेति भावः । रूपकातिशयोकति ध्वनयितुमाह-कमलेति। तत्रैव आनन एव। न त्विति। पदार्थः पदार्थेनेति न्यायादिति भावः । तादृशं येनकेनचिद्रपेण शब्देना- भिहितम् । इत्यपि उद्देश्य विधेयभावघटितोऽपि। अविधानादिति। तादशमाननमु- दिश्य भानक्रियाया एव विधेयत्वादिति भावः । यद्वा सुन्दरत्वादेः कमलत्वादिविशिष्टे विशेषणत्वमेवोद्देश्यतावच्छेदकत्वम्। इयांस्तु विशेष :- यदतिशयोक्त्तावुपमेयधर्मस्योद्दे- श्यतावच्छेदकत्वाभाव एव। रूपके त्वनियम इतीति भावः । अत एवाह-मुखचन्द्र- स्त्विति। पृथगिति। उद्देश्यविधेयभावेन बोधे भिन्नविभक्तिजन्योपस्थि तेस्तन्रत्वात्। तथा च व्यस्ते तथा प्रतीतिः, न समासे इत्यत्राव्याप्तिरिति भावः । ननूपमेयतावच्छे- दकरूपेण शब्देनाभिहिते इति तदर्थेन न प्रागुक्तदोषोऽत आह-द्वितीये त्विति। अपहुतौ 'नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम्' इत्यत्र। अनिर्दिष्टत्वादेवेति।
Page 244
रसगङ्गाघरः । २२९
त्वविशेषणवैयर्थ्य च। भ्रान्तिमति दोषविशेषेण प्रतिबध्यमानतया ना- स्त्युपमेयतावच्छेदकसंस्पर्श इति तावतैव वारणात् । अपि च 'नायं सु- धांशु: किं तर्हि सुघांशुः प्रेयसीमुखम्' इति कुवलयानन्दे त्वयोक्ताया- मपहुतावतिप्रसङ्गः। अत्र सुधांशैौ सुधांशुत्वनिहवेऽप्यारोपविषयस्यानि- हवात्। न चेदं रूपकमेवेति वाच्यम्। त्वदुक्तिविरोधापत्तेः । यच्चाप्यु- क्तमव्यङ्यत्वविशेषणाच्चेदमेवालंकारभूतस्य रूपकस्य लक्षणमिति, तदपि न। नहि व्यञ्ञयत्वालंकारत्वयोर्विरोधोऽस्ति। प्रधानव्यङ्गयरूपकवार- णाय पुनरुपस्कारकत्वं विशेषणमुचितमित्यसकृदावेदनात्। अनलंकार- त्वस्य तुल्यतया प्रधानव्यङ्गयरूपकस्येव प्रधानवाच्यरूपकस्यापि वार- णीयत्वेन तद्वारकविशेषणाभावेन तत्रापि प्रसङ्गाच्च। यच्च 'तदरूपकमभेदो य उपमानोपमेययोः' इत्यादि प्राचीनैरुक्त्तं तच्चिन्त्यम्। अपहुत्यादावुप- मानोपमेययोरभेदस्य प्रतीतिसिद्धतया तत्रातिप्रसङ्गात्। अथोपमानोपमे- ययोरित्युक्त्या उपमेयतावच्छेदकं पुरस्कृत्योपमानतावच्छेदकावच्छिन्ना- अत्र निषेधप्रतियोगिविधया निर्दिष्टत्वादिदं चिन्त्यम्। न च तथा निर्दिष्टत्वेऽपि पुर- स्काराभावः। तर्हि तावत्पर्यन्तविवक्षाबोधनार्थमेवानिद्ुते इति विशेषणसाफल्यादिति बोध्यम्। तावतैव उक्तार्थकनिर्दिष्टे इति विशेषणेनैव। इदं चिन्त्यम्। आहार्यतविशे- षणस्य निर्दिष्टे इति विशेषणलव्धार्थकथनतात्पर्यकत्वात्। अतिशयोक्तौ लक्षणमाहा- त्म्याज्ायमानज्ञानस्यानाहार्यस्यैव जानमानत्वेन तावतैव वारणात् शक्यतावच्छेदकल- क्ष्यतावच्छेदकयोर्भानमिति लल्विखितमतान्तरेऽपि युगपदेवोभयोर्भानेन बाधस्यैवानुप- स्थिततान्न तद्ुद्वेराहार्यलम् । किं च चन्द्रवृत्तिगुणवत्त्वलक्ष्यतावच्छेदकस्य चन्द्रत्वस्य च मिथो विरोधाभावेन न वाधप्रतिसंधानम्। मुखत्वेन मुखं लक्ष्यत इति लश्रद्वेयमेव। रूपके तु वाधस्य स्फुटमुपस्थितत्वेन साक्षाद्यजनया वा जायमाना ताद्रूप्य प्रतिपत्तिरा- हारयवेति दीक्षिताशय इति दिक्। अपह्वतौ पर्यस्तापह्वुतौ । विषयस्य सुधांशोः । इद- मपि चिन्त्यम्। उपमेयोपमादीनां वैचित्र्यविशेषणालंकारान्तरत्ववदिहाप्युपपत्तेः । मता- न्तरेऽप्यभेदादिकृते चमत्कारे रूपकम्, निहवादिकृते तस्मिस्तु सेति विषयविभागसं- भवात्। चमत्कारित्वस्यालंकारसामान्यलक्षण प्राप्तत्वात्समुदितस्यालंकारत्वेनांशे रूप- कत्वे इशपत्तेश्वति दिक्। चित्रमीमांसायामप्पदीक्षितोक्तमन्यदपि खण्डयति-यञ्चा- पीति। इदमेव प्रागुक्तत रूपकलक्षणमेव। नन्वेवं कथमतिप्रसङ्गनिरासोऽत आह-प्र- धानेति। नन्वेवमपि विनिगमनाविरहात्तथोकिरत आह-अनलमिति। मन्मते तु तेनैवोभयोर्वारणमिति भावः । प्रकाशोकि खण्डयति-यश्चेति। तथापि उक्तार्थाङ्गी-
Page 245
२३० काव्यमाला।
भेद इत्यर्थलाभादपहुतौ चोपमेयतावच्छेदकम्य पुरस्काराभावान्नतिप्रसङ्ग इति चेत्। न। 'नूनं मुखं चन्द्रः' इत्याद्युत्प्रेक्षायां तथाप्यतिप्रसक्तेः । न च- 'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपहुतिः ।' 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् ।' इत्याद्यपह्नुत्युत्प्रेक्षादीनां वाधकत्वात्तत्परिगृहीतविषयातिरिक्तो 'मुखं चन्द्रः' इत्यादिर्विषयः स्यात् । यथा 'शरमयं बर्हिः' इत्येतद्वि- रूपकस्य
षयातिरिक्तः 'कुशमयं बर्हिः' इत्यस्य। यथा वा क्सादेशविषयाति- रिक्तो विषयः सिचः । लोकेऽपि यथा ब्राह्मणेभ्यो दधि देयम्, तक्रं कौ- डिन्याय इत्यत्र तक्रसंप्रदानातिरिक्तं दभ्नः संप्रदानमिति वाच्यम् । वै- षम्यात्। विशेषशास्त्रं हि सवविषयातिरिक्तं विपयं ग्राह्यत्सामान्यशा- स्त्रस्य बाधकमित्युच्यते। प्रकृते च रूपकस्य लक्षणं धर्मः ।स यद्युत्प्रे- क्षादिवृत्तिः स्यात् कस्तमस्माद्विषयान्निरस्य विषयान्तरं ग्रह्येत्। नहि घटत्वं स्वाधिकरणात्पृथिवीत्वं द्रव्यत्वं वा निरस्य विषयान्तरं ग्राहयितु- मीष्टे। तस्मादतिप्रसक्तिर्लक्षणेऽस्मिन्दोषः । ननु संभावनात्मिकोत्प्रेक्षा, कथं तस्यामभेदत्वात्मकरूपकलक्षणातिप्रसक्तिरिति चेत्। न। विनिगमका- भावेन संभाव्यमानाभेदस्याप्युत्प्रेक्षास्वरूपत्वात्। विषयसंभावनाभ्यामु- स्ेक्षायालंकारद्वयव्यवहारापत्तेश्र। निश्चीयमानत्वेनाभेदो विशेषणीय इति चेदस्मदुक्त्त एव तर्हि पर्यवसितिरिति दिक्। तदिदं रूपकं सावयवं निरवयवं परम्परितं चेति तावत्रिविधम् । तत्राद्ं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधम् । द्वितीयमपि के- वलं मालारूपकं चेति द्विविधम्। तृतीयं च श्रिष्टपरम्परितं शुद्धपरम्परितं चेति द्विविधं सत्प्रत्येकं केवलमालारूपत्वाभ्यां चतुर्विधमित्यष्टविधमाहुः ।
कारेऽपि। अत्र तस्य पुरस्कारोऽस्तीति भावः। मुखं चन्द्र इति। अत्र गमकाभा- वात्तदुभयं न तत्र जैमिनीयं दृष्टान्तमाह-यथा शरेति। अभिचारिके कर्मणि वि- शेषविहित मिदम् । व्याकरणोंकं तमाह-यथा वा क्सेति। 'शल इग्-' इति वि- हितः। आ्राह्यत न त्वग्राह्यत्। तस्यैव तद्वीजत्वात्। धर्मः अभेदत्वरूपः । संभावनै- वोत्प्रेक्षेति पक्षे आह-विषयेति। अलंकारदयेति।रूपकोत्प्रेक्षेतीत्यर्थः। नहि प्रधा- नत्वं तद्विशेषणम्। तत्वस्यैव भज्गापत्तेः । तावतू आदौ। आहुः प्रकाशकारादयः। ए-
Page 246
रसगङ्गाधरः । २३१
परस्परसापेक्षनिष्पत्तिकानां रूपकाणां संघातः सावयवम्॥ तत्र-
तत्रापि- समस्तानि वस्तून्यारोप्यमाणानि शब्दोपात्तानि यत्र तत्समस्त- वस्तुविषयम् । यत्र च कचिद्वयवे शब्दोपात्तमारोप्यमाणं कचिच्चार्थसामर्थ्या- क्षिप्तं तदेकदेशे शब्दानुपात्तविपयिके अवयवरूपके विवर्तनात्खख- रूपगोपनेनान्यथात्वेन वर्तनादेकदेशविवर्ति॥ यद्वा - एकदेशे उपात्तविषयिके अवयवे विशेपेण स्फुटतया वर्तनादेक- देशविवर्ति।। समस्तवस्तुविषयं सावयवं यथा- 'सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे। वदनपरिपूर्ण चन्द्रे सुन्दरि राकासि नात्र संदेहः ॥I' अत्र समुदायात्मकस्य सावयवरूपकस्यावयवानां सर्वेषामपि वस्तुतः समर्थ्यसमर्थकभावस्य परस्परं तुल्यत्वेऽपि कवे राकारूपस्यैव समर्थ्यत्वे- नाभिप्रेतत्वात्समर्थकतयोपादानमितरेषामिति गम्यते। एवं स्थिते समर्थ- करूपकाणां विषयविषयिणोः पृथग्विभक्तेरश्रवणादनुवाद्यत्वेऽपि समर्थ्य- रूपकस्य तयोः पृथग्विभक्तिश्रवणाद्विधेयतया तदादाय संधातात्मकस्य सावयवरूपकस्यापि विधेयत्वमत्र व्यपदिश्यते । भटसंघातान्तर्गतस्य मु- ख्यस्य कस्यापि भटस्य जयपराजयाभ्यां भटसंघातो जितः पराजितश्रे- त्युच्यते। तत्सूचितारुचिस्त्वग्रे स्फुटीभविष्यति। यत्र च यत्र तु संघातात्मकसावयवरूपके। अव- यवरूपके इति। रूपकसंघातस्यावयविनोऽवयवे कस्मिश्चिद्रूपक इत्यर्थः। विवर्तना- दिति। विरुद्धतया वर्तनादित्यर्थः। विरुद्धत्वमेवाह-खवेति। विनिगमन।विरहादाह- यद्वेति। अवयवे अवयवरूपके। अवयवानां मुक्त्तानक्षत्रवस्त्रज्योत्स्नामुखचन्द्रनायिका- पूर्णिमारूपाणाम्। अभिप्रेतेति। विधेयत्वेन वर्ष्यत्वादिति भावः । तयोरविषयविष- यिणोः । तदादाय तदीयविधेयत्वमादाय। अत्र पद्ये। अन्यधर्मेणान्यत्र व्यपदेशे मान-
Page 247
२३२ काव्यमाला।
'व्योमाङ्गणे सरसि नीलिमदिव्यतोये तारावलीमुकुलमण्डलमण्डि तेऽस्मिन्। आभाति षोडशकलादलमङ्कभृङ्गं सूराभिमुख्यविकचं शशिपुण्डरीकम्।।' अस्य तु सावयवरूपकस्यानुवाद्यत्वमेव । अत्र वर्ण्यस्य पूर्णचन्द्रस्य सूर्याभिमुख्यं ज्योतिःशास्त्रसिद्धम् । तेन सूर्याभिमुख्ये चन्द्रस्य कथं वि- कास इति न शङ्कनीयम्। एकदेशविवर्ति सावयवं यथा- 'भवग्रीष्मप्रौढातपनिवह संतप्तवपुषो बलादुन्मूल्य द्राङ्रिगडमविवेकव्यतिकरम्। विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे विगाहन्ते दूरीकृतकलुषजालाः सुकृतिनः ॥' अत्र सहचरैर्निगडादिरूपकैः सुकृतिषु गजरूपकमाक्षिप्यते। यथा वा- 'रूपजला चलनयना नाभ्यावर्ता कचावलिभुजंगा। मज्जन्ति यत्र सन्तः सेयं तरुणीतरङ्गिणी विषमा ॥' पूर्व तु कवेः समर्थ्यत्वेनाभिमतस्य रूपकस्याक्षेपः, इह तु समर्थकत्वे- नाभिमतस्य नयनयोर्मीनरूपकस्येति विशेषः । अत्र च चमत्कारविशेषजन- कतया रूपकसंघातात्मकमपि सावयवरूपकं रूपकालंकृतिभेदगणनायां गण्यते। यथा मौक्तिकालंकृतिभेदगणनायामेकं नासामौक्तिकमिव संघाता- त्मकमौक्तिकमञ्जर्यादयोऽपि गण्यन्ते। अन्यमालारूपस्योपमादेस्तद्भेदग-
माह-यथेति। लक्ष्यान्तरमाह-व्योमेति। लक्ष्यान्तरदाने विशेषमाह-अस्य त्विति। अत्र क्वापि पृथग्विभक्केरश्रवणान्मिथ उद्देश्यविधेयाभावेन सर्वमुद्दिश्याभाया एव विधेयत्वादिति भावः । स्पृष्टत्वादितरदुपेक्ष्याह-अत्रेति । प्रौढातवेत्यत्र कर्मधा- रयः। व्यतिकरः संबन्धः। सहचरैरित्यनेनाक्षेपकत्वयोग्यता, गजरूपकस्य प्राधान्यं च सूचितम्। लक्ष्यान्तरदाने बीजमाह-पूर्व त्विति। रूपकस्य गजेत्यादि। मीनेति। सन्त इत्यस्य तु साधवः सुहृदश्वेत्यर्थद्वयमिति भावः । जनकतयेति गणनायां हेतुः । गण्यत इति। पृथगिति शेषः । लोकदष्टान्तेन सिद्धमर्थे प्रतिपाग व्यतिरेकमुखेन द्रढ- यति-तन्द्रेदेति। उपमालंकारभेदेत्यर्थः। प्रस्तुतौ प्रस्तावे। एवं अस्य पृथग्गणनवत्।
Page 248
रसगङ्गावरः । २३३
णनेऽगणनप्रसङ्गात्। एतेन गवां संघातो गोभेदानां कपिलादीनां गणनायां यथा न गण्यते तथा रूपकभेदगणनाप्रस्तुतौ न तत्संघातात्मकं सावयवं गणनीयम्' इति परास्तम्। एवमस्मात्संघातात्मकात्सावयवान्मालारूपकस्य
न्विशेषः । निरवयवं केवलं यथा- 'बुद्धिर्दीपकला लोके यया सर्वे प्रकाशते। अबुद्धिस्तामसी रात्रिर्यया किंचिन्न भासते ॥।' अत्र रूपकद्वयमपि सापेक्षरूपकसंघातात्मकत्वविरहान्निरवयवम् । मालात्मकत्वविरहाच्च केवलम् । निरवयवं मालारूपकं यथा- 'धर्मस्यात्मा भागघेयं क्षमायाः सारः सृष्टेर्जीवितं शारदायाः । आज्ञा साक्षाङ्गह्मणो वेदमूर्तेरा कल्पान्तं राजतामेष राजा ।।' एकविषयकनानापदार्थारोपरूपत्वान्मालारूपमिदम्। परस्परसापेक्ष- त्वविरहाच्च निरवयम्। यत्र चारोप एवारोपान्तरस्य निमित्तं तत्परम्परितम् । तत्रापि समर्थकत्वेन विवक्षितस्यारोपस्य श्रेषमूलकत्वे श्िष्टपरम्परितम् ॥ यथा- 'अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य । तस्य कुतोऽहिभयं स्यादखिलामपि मेदिनीं चरतः ॥l' अत्र द्वयोरप्यारोपयोः समर्थ्यसमर्थकभावस्य वस्तुतस्तुल्यत्वेऽप्यहि- तानामपकरणमेवाहीनां तापकरणमिति श्लेषमूलकेनारोपेण राजनि भेषज- तादात्म्यारोपस्य समर्थनीयतया कवेरभिप्रायः । अत एव भङ्गश्लेषनि- वेदितोऽमयाभावोऽपि संगच्छते। एकविषयत्वेति। एतौ च मालारूपकनिष्ठौ धर्मो। सावयवत्वानेकविषयकं परस्पर- स्रापेक्षं चेति बोध्यम्। शारदायाः। सरखत्याः साक्षादिति। अप्रतिहृतशक्कित्वादिति भावः। एकेति। राजेत्यर्थः । द्योरपीति। अहिसंबन्धतापकरणभेषजारोपयोरित्यर्थः। 'समर्थनीयतायाम्' इति पाठः। कवेरिति। प्राधान्यादिति भावः। अत एव तस्य ता- २२
Page 249
२३४ काव्यमाला।
इदमेव मालारूपं यथा- 'कमलावासकासारः क्षमाधृतिफणीश्वरः । अयं कुवलय स्येन्दुरानन्दयति मानवान् ।।' शुद्धपरम्परितं केवलं यथा- 'देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता- देवं जल्पन्ति तावत्प्रतिभटपृतनावर्तिनः क्षत्रवीराः । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंग: ।।' अन्रापि भुजंगारोपो दुग्धारोपसमर्थ्यत्वेनाभिगतः । तदेव मालारूपं यथा- 'प्राचीसंध्यासमुद्यन्महिम दिनमणेर्मानमाणिक्यकान्ति- ज्वालामाला कराला कवलितजगतः क्रोधकालानलस्य। आज्ञा कान्तापदाम्भोरुहतलविग लन्मञ्जुलाक्षारसाभा क्षोणीन्दो संगरे ते लसति नयनयोरुद्भटा शोणिमश्रीः ।।' यद्यपि सावयवेऽप्यारोपे आरोपान्तरस्योपायस्तथापि तत्रारोपाति- रिक्तेन कविसमयसिद्धसादृश्येनाप्यारोपान्तरसिद्धि: संभवति। यथा प्रागुक्ते 'सुन्दरि राकासि नात्र संदेहः' इत्यत्र मौक्तिकादीनां तारात्वाद्यारोपं विनाप्यौज्ज्वल्यमात्रेणापि सुन्दर्या राकारोपसिद्धेः, इह तु नयनशोणिम्नि ज्वालाद्यारोपोऽनलसमारोपं नियमेनापेक्षते। एवं 'कारुण्यकुसुमाकाशः खलः' इत्यत्राकाशखलयोः सादृश्यस्याप्र- सिद्धतयारोपसिद्धर्थमारोप एवोपाय इति वैलक्षण्यम्। त्पर्यविषयत्वेन समर्थनीयत्वेन तद्वेद्यत्वादेव। भङ्गेति। पदच्छेदेत्यर्थः। इदमेव श्लिष्टप- रम्परितमेव। कमलेति। कमलानामावासः । कमलाया वासः । पृथ्वीधृतिः । क्षा- न्तिधृतिः । पृथ्वीमण्डलस्य कुमुदस्य च। अयं वर्ण्यो राजा। अत्र समर्थककमलावा- साद्यारोपस्य श्रेषमूलकस्य चन्द्रारोपे निमित्तत्वाद्राजि कासारादयनेकपदार्थारोपरूपत्वाच्च मालाश्छिष्टपरम्परितरूपकता । पूर्वदेवा दैत्याः । 'समिति' इति 'क इह' इति द्विः पाठः । व्याख्यातमिदम्। दुग्धारोपेति। अनेन परम्परितत्वमुक्त्तम्। श्लेषमालयोरभावाच्छु- द्धकेवलत्वे। तदेव शुद्धपरम्परितमेव। प्राचीति । अपिना मालारूपकपरिप्रह्दः।
Page 250
रसगङ्गाधरः । २३५
कश्चित्तु बहारोपात्मकात्सावयवादारोपद्वयात्मकमेवास्य वैलक्षण्ये बीजमित्याह। 'काव्यं सुधा रसज्ञानां कामिनां कामिनी सुधा। धनं सुधा सलोभानां शान्तिः संन्यासिनां सुधा ।' अत्र विषयमालाकृतो न कश्चिच्चमत्कारविशेष इति न पृथग्भेदग- णनायां गण्यते । आरोप्यमाणमाला तु चमत्कार विशेषशालित्वाद्ग- ण्यत एव। अथ कथं नाम छ्विष्टपरम्परिते 'कमलावासकासारः इत्यादावेकस्यारो- पस्यारोपान्तरोपायत्वम्। यतः श्लेपेण कमलानामावासस्य कमलाया वासस्य चाभेदमात्रमत्र प्रतीयते। नैकत्रान्यारोपः । तस्य स्वतन्त्रविष- यनिर्देशापेक्षत्वात्। न च शुद्धाभेदप्रत्यय एवारोपः । विषयनिगरणा- त्मिकायामतिशयोक्तावपि तत्प्रसङ्गात्। न च शुद्धाभेदप्रत्ययेनात्रार्थः यत्सं- बन्धिनि यत्संबन्ध्यभेदस्तस्मिस्तदभेद इति । 'कमलावासकासारः' इत्यादौ राजनि कासारारोपो राजसंबन्धिनि लक्ष्म्याश्रयत्वे कासारसंबन्धिसरोजा- श्रयत्वाभेदारोपेण समर्थयितुं शक्यः । श्लेषेण तु पुनर्लक्ष्म्याश्रयत्वसरोजा- श्रयत्वयोरभिन्नत्वेन प्रत्ययादभिन्नधर्मनिबन्धनो राजकासारयोरप्यभेदप्र- त्ययः स्यात्। न तु राजविषये कासारविषयिकस्यारोपस्य प्रकृतस्य सिद्धिः । इमावभिन्नावित्याद्याकारस्य शुद्धाभेदप्रत्ययस्याप्रकृतत्वात्प्रागुक्त आरोपो मृग्यः । स च न श्षसाध्य इति सत्यम्। श्रेषेण शुद्धाभेद- प्रतीतौ सत्यां प्रकृतारोपसमर्थनायान्तरा मानसस्य राजसंबन्धिनि कासा-
'तत्र सावयवे सिद्धिः' इति पाठः । अनलसमारोपमिति। राजीति शेषः। कश्चित्विति। अत्रारुचिवीजं तु प्रागुक्तरीय्या निर्वाह इति। विषयमालाकृत इति। एकस्योपमेयस्य नानोपमानकृत इत्यर्थः । या माला। तस्यैकत्रान्यारोपस्य नानुपपत्तिरिति । अत्रेदं चि- न्त्यम्-कमलावासेनायं राजा कासार इत्यादौ यथा श्लेपमूलकाभेदाध्यवसानेनैनं साधार- णधर्ममादाय राजकासारयो रूपकस्य गाम्भीर्येण समुद्रोऽयमित्यादाविव संभवस्तद्वत्कम- लावासकासार इत्यादावपि संभवात्किमर्थोडयं क्लेशः। साधारणधर्मज्ञानस्य चाभेदारो- पप्रयोजकत्वात्। इदमेव चास्योपमानत्वमारोपे एतन्मूलीभूतस्राधारणधर्मसंपत्ति: (साधारणधर्मसंपत्तिः) आरोपेणवेत्यत्र न किंचिन्मानम्। समर्थके रूपकत्वव्यवहारस्तु भाक्क: तदापि श्रिषेषु सादृश्यमूलकत्वाभावादावश्यकः । एवं च 'कारुण्यकुसुमाकाशः
Page 251
२३६ काव्यमाला। रसंबन्ध्यभेदारोपस्य कल्पनान्नानुपपत्तिः । कथं तर्हि परम्परितरूपके 'सौजन्यचन्द्रिकाचन्द्रो राजा' इत्यादौ रूपकत्वम्। अभेदारोपस्य सत्त्वेऽपि तस्य सादृश्यमूलकत्वाभावात्। इति चेत्, न। समर्थकारोपेण धर्मैक्यसंपादने सादृश्यस्य निष्प्रत्यूहत्वाम। स्यादेतत्। सौजन्यचन्द्रिका- चन्द्र इत्यत्र तत्पुरुषावयवे समानाधिकरणतत्पुरुषे चन्द्रिकायामभेदसंसर्गेण सौजन्यस्य विशेषणत्वात्प्रतीयमानश्चन्द्रिकागतः सौजन्याभेदो न राजनि चन्द्राभेदात्मकं रूपक समर्थयितुं प्रभवति। यत्संवन्धिनि यत्संबन्ध्यभेद इत्यादि प्रागुक्तन्यायात्। अपि तु सौजन्ये विषये चन्द्रिकाभेदः। यथा- 'सौजन्यं ते धराधीश चन्द्रिका त्वं सुधानिधिः ।' स च दुरुपपाद एव। न चानयोः समानवित्तिवेद्यत्वान्नानुपपत्तिरिति शक्यं वक्तुम् । प्रात्य- क्षिके हि सामग्रयास्तुत्यत्वात्तत् । न तु शाब्दवोधे व्युत्पत्तिवैचित्र्यनिय- ्त्रिते। एवमन्यत्रापि कथं समासगतशुद्धपरम्परिते द्वयोरारोपयोर्निर्वाह्य- निर्वाहकभावः । कथं च शशिपुण्डरीकमित्यादौ पुण्डरीकरूपकमुच्यते। पुण्डरीकाभेदात्मकस्य पुण्डरीकताद्रूप्यस्याभानात्। शश्यभेदप्रत्ययाच्च पुण्डरीकं शशीत्यत्रेव शशिरूपकमुच्यताम्। एवं नीलिमदिव्यतोये तारावलीमुकुलमण्डलमण्डिते षोडश कलादलमङ्कभृङ्गमित्यत्राप्युत्तरपदार्थे पूर्वपदार्थाभेदस्यैव भानात्पूर्वपदार्थरूपकापत्तिः । तथा- 'सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे। वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेहः ।' इत्यत्र सुन्दर्या विषयभूतायां राकातादात्म्यावगमात्स्फुटमेव तावद्रा- कारूपकम्। तत्र चरणत्रयगतानि राकारूपकाण्यनुगुणतयोपाचान्यपि खलः' इत्यादौ वक्ष्यमाणान्योन्याश्रयोऽपि न। खलाकाशरूपकोपयुक्तकारुण्यकुसुमयो- रभेद प्रत्ययस्येच्छाधीनाहार्यस्य संभवेन तावतैवोपपत्तेः । न तु समर्थकारोपे सादृश्यमूल- कत्वमावश्यकमित्यनुपदमेवोक्तम्। एतेन स्यादेतदित्यादिना सौजन्यचन्द्रिकाचन्द्र इत्य- त्रत्यपूर्वपक्षसमाधाने परास्ते। अस्मदुक्तरीत्या पूर्वपक्षस्यैवाभवादिति। समर्थकारोपेण चन्द्रिकायां सौजन्याभेदारोपेण चन्द्रिकाभेद इति। तदात्मकरूपकं समर्थयितुं प्रभवती- त्यस्यानुषङ्गः । स च स तु सौजन्यचन्द्रिकेत्यत्र। अनयोरभेदयोः । यत्तुल्यवित्तिवेद्य- त्वमू। अन्यत्रापि उदाहृतातिरिक्कस्थलेऽपि। उदाहृतस्थल एव शङ्कते-कथं चेति।
Page 252
रसगङ्काधरः । २३७
नानुगुण्यमाचरन्ति। ताराचन्द्रिकापूर्णचन्द्राणां मौक्तिकधवलांशुकवदना- भिन्नत्वे सिद्धेSपि न सुन्दर्या राकातादात्म्यं सेद्रुमीष्टे। प्रत्युत विपरीतं राकायां सुन्दरीताद्रूप्यम्। तेषां राकासंबन्धित्वात्सर्वमेव व्याकुलमिति। अत्र वदन्ति-अभेदस्तावद्विशेषणस्य संसर्गो भवति। स च यथा मुखं चन्द्र इत्यादौ वाक्यगते रूपके सवप्रतियोगिनश्चन्द्रस्य खानुयोगिनि मुखे विशेषणताया निर्वाहकस्तथैव समासगते मुखचन्द्र इत्यादौ रूपके खानुयो- गिनो मुखस्य प्रतियोगिनि चन्द्रे विशेषणतायाः। एवं चोभयत्रापि वस्तुतश्च- न्द्राभेद एव संसर्गः । क्वचिदनुयोगित्वमुखः क्वचिच्च प्रतियोगित्वमुखः । विशेषणविशेष्यभाववैचित्र्यात्। न तु मुखचन्द्र इत्यत्र मुखाभेदः संसर्गः । तथासति चन्द्ररूपकानापत्तेः, मुखरूपकत्वापत्तेश्च। खप्रतियोगिकाभेद एव विशेषणसंसर्गो न तु खानुयोगिकाभेद इति तु दुराग्रहः । एवं च सौजन्यचन्द्रिकेत्यादौ वस्तुतः सौजन्याभेदो न सौजन्यस्य चन्द्रिकाविशे- षणस्य संसर्ग:, अपि तु चन्द्रिकाभेद एव। तथा च सौजन्यनिष्ठाभेदप्रति- योगिनी चन्द्रिकेति पर्यवसितेऽर्थे भङ्ग्यन्तरेण सौजन्ये चन्द्रिकाभेदसि- द्वौ जातायां राजनि चन्द्राभेदोऽपि निष्पद्यते इति परम्परिते नानुपपचिः । शशिपुण्डरीकमित्यादावपि शशिनिष्ठाभेदप्रतियोगि पुण्डरीकमिति पर्यव- सितेडर्थे पुण्डरीकाभेदस्य भानात्पुण्डरीकरूपकमव्याहतम् । एवमन्येष्व- प्यवयवरूपकेषु बोध्यम् । एवं सुविरलमौक्तिकतारे इत्यादावपि ताराद्य- भेद एव मौक्तिकादिगतो मौक्तिकादीनां तारादिविशेषणानां संसर्गीभवन्रा- कारूपकस्य समर्थको भवतीति सर्वै सुस्थम्। सोडयमभेदो यत्रानुयोगित्वमुखस्तत्र रूपकस्य विधेयता। यत्र च प्रतियोगित्वमुखस्तत्रानुवाद्यत्वमिति दिक्। तत्र 'प्राचीसंध्यासमुद्यन्महिमदिनमणेः' इत्यत्रारोप्यमाणयोः परस्पर- सारोपविषययोश्चानुकूल्ये रूपकयोरनुग्राह्यानुग्राहकभावो दर्शितः ।
चस्त्वर्थे। ईष्टे तदभिन्नत्वमिति शेषः । सुन्दरीताद्रूप्यं तदभिन्नतवं सेद्ुमीष्टे इत्यस्यानु- षङ्गः । क्वचित्समासगते। क्वचिच्च वाक्यगते। एवव्यावर्त्यमाह-न त्विति। इत्यत्र समासगते। मुखाभेदो मुखप्रतियोगिकाभेदः। नानुपपत्तिरिति। रूपकत्वस्येत्यादिः। सर्वे सुस्थमिति। अन्ये तु "तुल्यवित्तिवेद्यतया चन्द्राभेदस्यापि मुखे प्रतीतेरार्थ चन्द्ररूपकम् । शाब्दं व्यस्ते। एवं मुखाभेदस्य समासशात्त्रप्रवृत्युपयोगितयाङ्गीकारे-
Page 253
२३८ काव्यमाला।
प्रातिकूल्ये यथा- 'आनन्दमृगदावाभिः शीलशाखिरिमदद्विपः । ज्ञानदीपमहावायुरयं खलसमागमः ।।' यथा वा- 'कारुण्यकुसुमाकाशः शान्तिशैत्यहुताशनः । यश:सौरभ्यलशुनः पिशुनः केन वर्ण्यते ॥' एकत्र नाश्यनाशकभावरूपमपरत्र चात्यन्तिकसंसर्गशून्यतारूपं प्रातिकूल्यमुपमानयोस्तथैवोपमेययोश्च। अनुग्राह्यानुग्राहकभावः पुनरारो- पयोरविशिष्ट एव। तथा- 'अयं सज्जनकार्पासरक्षणैकहुताशनः । परदुःखाग्निशमनमारुतः केन वर्ण्यते ॥' अत्र रक्षणशमनपदे विरोधिलक्षणया विपरीतार्थबोधके। एवं पदार्थरूपकं लेशतो निरूपितमेव। वाक्यार्थे विषये वाक्यार्थान्तरस्यारोपे वाक्यार्थरूपक्रम्। यथाहि विशिष्टोपमायां विशेषणानामुपमानोपमेयभाव आर्थस्तथात्रापि वाक्यार्थघटकानां पदार्थानां रूपकमर्थावसेयम्। 'आत्मनोऽस्य तपोदानैर्निर्मलीकरणं हि यत्। क्षालनं भास्करस्येदं सारसैः सलिलोत्करैः ।।' अत्रात्मनि तपोदानेषु चारोपविषयविशेषणतया बिम्बभूतेषु भास्करस्य उप्यतात्पर्य विषयत्वान्न तमादाय मुखरूपकव्यवहारः। कि चात्र पूर्वपदार्थप्रधानमयूरव्यंस- कादिसमासेन चन्द्रपुण्डरीकाद्यभेदस्यैव मुखशश्यादौ भानान्न दोषः। अत एव 'विशे- व्यस्य पूर्वनिपातार्थमिदम्' इति भाष्यकृतः । एवं च वाच्यतापि चन्द्ररूपकस्य" इत्याहुः। अपरे तु "चन्द्रनिष्ठाभेदश्चन्द्रप्रतियोगिकाभेदश्च रूपकम् । अत एव 'तद्रूपकमभेदो य उपमानोपमेययोः' इत्युक्तं प्रकाशे। यद्वा विषयिनिष्ठाभेदप्रतियोगितया यत्र विषयस्य रज्जनमित्येव लक्षणार्थः । एवं च मुखप्रतियोगिकाभेदवांश्वन्द्र इत्येवंबोधेऽपि न क्षतिः" इत्याहुः। तत्र पदार्थरूपकाणां मध्ये। परस्परमित्यत्रस्य मध्यमणिन्यायेनोभयत्र- न्वयः । लक्ष्यान्तरदाने बीजमाह-एकत्रेति। आद्े इत्यर्थः । अयं पिशुनः । अर्था- वसेयमार्थिकम्। एतलक्ष्यमाह-आत्मन इति। सारसैः सरःसंबन्धिभिः । 'सलिलो-
Page 254
रसगङ्गाघरः । २३९
सलिलक्षालनादीनां च विषयिविशेषणत्वेन प्रतिबिम्बानां रूपकं गम्य- मानं प्रधानीभूतविशिष्टरूपकाङ्गम्। 'नेदं रूपकम्। रूपके च बिम्बप्र- तिविम्बभावो नास्ति' इति केनाप्यालंकारिकंमन्येन प्रतारितस्य दीर्घश्रवस उक्तिरश्रद्धेयैव। ययोरिवादिशब्दप्रयोगे उपमा तयोरेकत्रान्यारोपे रूपकमिति नियमात्। अत्र यदि रूपक नाङ्गीकुरुषे मैवाङ्गीकुरु, तर्हि तत्रेवयथादिशब्दप्रयोगे उपमामपि। एवं 'त्वयि कोपो महीपाल सुधांशा- विव पावकः' इत्यादौ स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्यया- दुपमां ब्रूषे त्रूहि तर्हि। तत्रैवेवस्य निरासे 'त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः' इत्यादौ रूपकमपि । तथा 'कुङ्कमद्रवलिप्ताङ्गः कषायवसनो यतिः । कोमलातपबालाभ्रः संध्याकालो न संशयः ॥' इत्यादावपि विशिष्टरूपकं बोध्यम्। त्वयि कोप इत्यत्र विषयिणः सबुद्धिकल्पितत्वात्कल्पितं विशिष्टरूपकम् । इह तुन तथेति विशेषः । न चैवमादौ प्रतीयमानोत्प्रेक्षा वक्तुं शक्या। अभेदस्य निश्चीयमान- त्वात्। उत्प्रेक्षायां च सत्यां संभाव्यमानता स्यात्। अन्यथा मुखं चन्द्र इत्यादावपि प्रतीयमानोत्प्रेक्षापत्त्या रूपकविलोपापतेः। अथ वोधो विचार्यते- तत्र प्राञ्चः-"विषयिवाचकपदेन विषयिवृत्तिगुणवतो लक्षणया सारोपयोपस्थितौ विषये तस्या भेदेन संसर्गेण विशेषणतयान्वयः । एवं च मुखं चन्द्र इत्यत्र चन्द्रवृत्तिगुणवदभिन्नं मुखमिति घीः । अत एवालंकार- भाष्यकारः 'लक्षणापरमाथ यावता रूपकम्' इत्याह। न च चन्द्रसददशं त्करादीनां च' इति पाठः। नेदमिति। कि तु निदर्शनेत्यर्थः । चोऽप्यर्थे। दीर्घश्रवसो लम्बकर्णस्य। द्रविडस्याप्पदीक्षितस्य। तयोरिति। तदभावे इति शेषः। युक्त्यन्तर- माह-एवमिति। वालाभ्रः। शोणात्र इत्यर्थः। विषयिणक्न्द्राधिकरणकािरूपोपमा- नस्य। इह तु कुङ्ुम इवेत्यत्र तु। एवमादौ आत्मनोऽस्येत्यादौ। इवादयप्रयोगादाह- प्रतीयेति। अन्यथा तस्य संभाव्यमानत्वे इष्टापत्तौ। तत्र बोधविषये। द्वयोरुपादा नादाह-सारोपेति। उपस्थितौ सत्यामिति शेषः। विषये तस्या भेदेनेति। विषय-
Page 255
२४० काव्यमाला।
मुखमित्युपमातोऽस्य को भेदः । बोधवैलक्षण्याभावेन विच्छित्तिवैलक्षण्या- भावात् । वृत्तिमात्रवैलक्षण्यस्याप्रयोजकत्वादिति वाच्यम् । लाक्षणिकवो- घोत्तरं जायमानेन प्रयोजनीभूतेनाभेदबोधेनैव वैलक्षण्यात्। निरूढलक्षणा- तिरिक्ताया लक्षणायाः प्रयोजनवत्तानियमात्। अभेदवुद्धेश्च वृत्त्यन्तरवि- त्तिभाव्यत्वेन न बाधबुद्धिप्रतिबध्यत्वम्" इत्याहुः । नव्यास्तु-"नामार्थयोरभेदसंसर्गेणान्वयस्य व्युत्पत्तिसिद्धत्वाच्चन्द्रा- भिन्नं मुखमिति लक्षणां विनैव बोधः। फलस्यान्यथैवोपपत्तेर्लक्षणाकल्प- नस्यान्याय्यत्वात्। किं च यदि च रूपके लक्षणा स्यान्मुखचन्द्र इत्यत्रो- पमितविशेषणसमासयोरुत्तरपदस्य लाक्षणिकत्वाविशेषादेकस्योपमात्वम- न्यस्य रूपकत्वमिति व्याहतं स्यात् । अपि च मुखं न चन्द्रसदृशमपि तु चन्द्र इत्यादौ सादृश्यव्यतिरेकमिश्रिते सादृश्यवुद्धेरयोगात्। एवं देवदत्त- मुखं चन्द्र एव, यज्ञदत्तमुखं तुन तथा अपि तु चन्द्रसददशमित्यादौ न- अर्थस्य लक्ष्यमाणचन्द्रसदृशान्वयित्वान्न चन्द्रसदृशश्रन्द्रसदृश इति बोध- कदर्थनापत्तेश्र । नहि नञः फलीभूतज्ञानविषयेणाभेदेनान्वयो युक्तः । एतदन्वयवेलायां तस्यानुपस्थितेः । तादृशाभेदबोधस्य चाहार्यत्वान्न वा- धबुद्धिप्रतिबध्यत्वम्। यद्वा आहार्यान्वयस्येव शाब्दान्वयस्यापि बाघनि- श्रयप्रतिबध्यताकोटौ निवेशः । सति च बाधनिश्चये तद्वत्ताशाब्दवुद्धेर- नुत्पादः। योग्यताज्ञानविरहात्। सति च क्वचिदाहार्ये योग्यताज्ञाने त-
तावच्छेद का विच्छिन्नविषये पूर्वोपस्थितस्येत्यर्थः । वृत्तीति। शक्तिलक्षणान्यतरेत्यर्थः । वृत्त्यन्तरवित्तीति। व्यज्जनाज्ञानेत्यर्थः। आहुरिति। एतन्मते ह्येवं रूपकलक्षणम्- अनिहुतविषयकं पुरस्कृतविषयतावच्छेदकं वा आहार्याभेदप्रतीतिफलकोपमानबोधकप- दजन्यप्रतीतिविषयीभूतं साध्म्यमिति। फलस्याभेदवुद्धेः। अन्यथैवोक्तप्रकारेण। न तथा न चन्द्रः सदृश इति। मुखपदार्थ इति शेषः। ननु समते बाधसत्वेन कथमभेदधी- रत आह-तादृशेति। इदं च शाब्दे तस्याः प्रतिबन्धकत्वमूरीकृत्य वस्तुतस्तदेव नेत्याह-यद्वेति। नन्वेवं सति बाधनिश्चये तदभावो नोपपद्येतात आह-सति। चेति। बुद्धेरनुत्पाद इति। इदं तु चिन्त्यम्। शाब्दबोधो हि भवत्येव। अत एव वहिना सिश्वतीति वाक्यप्रयोक्तुरद्रवेण वहिना कथं सेकं ब्रवीषीत्युपहासः संगच्छते। अबोधे हि एतदर्थकद्रविडभाषाश्रवणोत्तरं पाश्चात्यस्येव मूकतैव स्यात्। ननु पदार्थस्म- रणमेव न शब्दबोध इति चेत्, किमनेन श्रद्धाजाब्येन। बाधज्ञानादीनां च तद्वो- ध्येSप्रामाण्यज्ञानजननद्वारा प्रवृत्तिप्रतिबन्धकत्वम्, योग्यताज्ञानादीनां च तज्जनकत्वमेव
Page 256
रसगङ्गाधरः । २४१
हुद्धेरिष्टत्वात् । अत एव योग्यताज्ञानस्य बाधनिश्चयपराहतस्यापि शाब्दधीहेतुत्वम् । तस्मादेतदन्यतरप्रकारेण काव्ये सर्वत्र बोधोपपत्तिः । अपि च तद्गतधर्मवत्त्ववुद्धेः कथं तदभेदवुद्धि: फलं स्यात्। नहि साधा- रणधर्मावच्छिन्नभेदज्ञानस्य तत्तदसाधारणधर्मवच्छिन्नाभेदज्ञाने हेतुत्वं क्वाप्यवगतम्। घटपटयोर्द्रव्यत्वेनाभेदग्रहेऽपि घटत्वादिना भेदग्रहात् । तदभिन्नत्वेन ज्ञानस्य पुनस्तद्धर्मप्रतिपत्तिः फलं स्याद्। प्रवाहाभिन्नज्ञा- नस्येव शैत्यपावनत्वादिप्रतिपत्तिः । अतएव- 'कृपया सुधया सिञ्च हरे मां तापनृ्च्छितम्। जगज्जीवन तेनाहं जीविष्यामि न संशयः ।' इत्यादावमृताभिन्नत्वबोधे सत्येव कृपायाः सेके करणत्वेनान्व्रयः । तादृशसेकस्य च जीवने हेतुत्वेनेति दिक्। अथ कथं 'गाम्भीर्येण समुद्रोऽयं सौन्दर्येण च मन्मथः' इत्यत्र बोधः। शृणु-प्राचां तावलक्ष्यमाणैकदेशे सादृश्ये प्रयोज्यताया अभेदस्य वा
न्नसमुद्रवृत्तिधर्मवदभिन्नोऽयमिति वा धीर्लक्षणां विनैव। अभेदसंसर्गेणा- न्वयवादिनां पुनरित्थम्-कविना स्वेच्छामात्रादुपकल्पिता असन्तो- डप्यन्तःकरणपरिणामात्मका अर्था उपनिवध्यन्ते मुखचन्द्रादयः । तेपु च साधारणधर्माणामस्त्येव प्रयोज्यकत्वम् । तद्दर्शनाधीनत्वात्तन्निर्मितेः । एवं च गाम्भीर्यादिप्रयोज्यसमुद्राद्यभिन्न इति बुद्धिरप्रत्यूहेति । यद्वा ज्ञान- जन्यज्ञानप्रकारत्वं तृतीयार्थः । वह्निमान्धूमादित्यादौ पञ्चम्यर्थतया तस्य कल्पनात्। एवं च गाम्भीर्यज्ञानजन्यज्ञानप्रकारसमुद्राभिन्न इत्यादिर्वोधः । तदिदं रूपकं विषयविपयिणोः सामानाधिकरण्ये अपदार्थतया संसर्गः । नेति रमणीयः पन्थाः। अभेदग्रहेऽपीति। अन्ये तु चमत्कारिसाधारणधमेरूपसाह- श्यज्ञान एव फलवलात्तथाशक्तिकल्पने चायं दोप इत्याहुः। सेके करणत्वेनेति। न तु सदृशत्वेनेत्यथः। ज्ञाने तत्सदृशात्तत्कार्योत्पत्तेरनुभवविरुद्धत्वादिति भावः । नन्वेवमन्ध- कवेस्तन्निर्मितिर्न स्यादत आह-यद्वेति। यद्वा तज्ज्ञानस्य प्रयोजकत्वेऽपि तस्यातत्त्वा- दाह-तस्येति। ज्ञानजन्यज्ञानप्रकारतवस्यान्यैः कल्पितत्वादित्यर्थः । क्वचिद्विशेष्य- २३
Page 257
२४२ काव्यमाला।
यथा 'बुद्धिदीपकला'- इत्यादौ। वैयधिकरण्ये च शब्दार्थतया क्कचिद्विशेप्यम्। यथा- 'केशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तना- वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया। आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहां किं चासीदमृतस्य भेदविगमः साचिस्मिते तातत्विक: ॥' अत्र शशाङकतातादात्म्यभेदविगमशन्दैरभिवीयमानं रूपकं प्रथमा- न्तविशेष्यतावादिनां मते विशेष्यम्। क्रियाविशेष्यतावादिनां तु तत्रैव किंचिद्यत्यासेन निष्ठान्तक्रियादाने। क्कचिच्च विशेषणम्। यथा- 'अविचिन्त्यशक्तिविभवेन सुन्दरि प्रथितस्य शम्बररिपोः प्रभावतः । विधुभावमञ्चतितमां तवाननं नयनं सरोजदलनिर्विशेपताम् ।' इह द्वितीयार्थे विशेषणीभूतं विधुत्वादि विध्वभेदात्मकतया रूपकम् । एवं मुखचन्द्र इत्यादावुपमितसमासे तावदुपमैव। विशेषणसमासे तु रूपकम्। वोधश्च शशिपुण्डरीकमित्यादाविव प्राक्प्रतिपादितदिशा बोध्यः। 'मीनवती नयनाभ्यां करचरणाभ्यां प्रफुल्लकमलवती। शैवालिनी च केशैः सुरसेयं सुन्दरीसरसी ॥' इत्यादौ तृतीयाया अभेदार्थकत्वात्तस्य च प्रागुक्तदिशा प्रतियोगित्व- मुखस्यार्थवशादन्वये नयननिष्ठाभेदप्रतियोगिमीनवतीति बोधः । मीनवत्त्वं च स्वाभिन्नद्वारकम्। एतत््फोरणायैव नयनाभ्यामित्युक्तम्। मीनाभि-
मिति। वाक्याथमुख्यविशेष्यमित्वर्थः। आयातीति सप्तम्यन्तं वयोविशेषणम्। तन्व्या- स्तनाविति मध्यमणिन्यायेनान्वेति। आगामीति । शक्ता लक्षणया वेति भावः । किचिदिति। 'कि चासीत्' इत्यस्य स्थाने 'संपन्नो हि' इति पाठे इत्यर्थः। विभवे- नेति प्रख्याने हेतुः । शम्बररिपोः कामस्य । द्वितीयाथें कर्मणि । विध्वभेदेति। लक्षणयेति भावः। विशेषणसमासे त्विति। चिन्त्मिदम्। चन्द्रमुखमित्स्यापत्तेः। परिणामालंकारोदाहरणे तु विशेषणसमास उचितः। अत्र तु मयूरव्यंसकेति समासे त्वि- त्युचितम्। प्रतीति। मीनप्रतियोगिकाभेदस्य नयने अर्थवशात्सरसीरूपकानुरोधेनान्वये इत्यर्थः । स्वाभिन्नेति । मीनाभिन्ननयनेत्यर्थः । नयनाभेदे तत्प्रतियोगिकाभेदे। नि०
Page 258
रसगङ्गाघरः । २४३
न्ननयनवतीति तु पर्यवसितम्। नयनाभेदे तु मीनेपु गृह्यमाणे सरसीरूप- कापोषणादित्युक्तमेव । साधारणधर्मश्ात्राप्युपमायामिव क्वचिदनुगामी क्वचिद्विम्तप्रतिबिम्ब- भावमापन्नः क्वचिदुपचरितः क्वचिच्च केवलशव्दात्मा । सोऽपि कवचिच्छ- व्देनोपातः । क्वचित्प्रतीयमानतया नोपात्तः । उपात्तोऽनुगामी यथा-
न्ग्रह ग्रस्तानस्ताखिलदुरितनिस्तारसरणीन्। निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततो नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥' अत्र त्रातुमिति तुमुन्नन्तेन शव्देनोपात्तं जडान्धादित्राणं भेषजभागी- रथ्योः । अयमेवानुक्तो यथा- 'समृद्धं सौभाग्यं सकलवसुधायाः किमपि त- न्महैश्वर्य लीलाजनितजगतः खण्डपरशोः । श्रुतीनां सर्वसं सुकृतमथ मूंत सुमनसां सुघासाम्राज्यं ते सलिलमशिवं नः शमयतु ॥' अत्र सौभाग्यभागीरथ्योः स्वाभावव्यापकदौर्भाग्यत्वपरमोत्कर्षाधायक- त्वादिरनुपाचः प्रतीयमानो धर्मः । एवमीश्वरासाधारणधर्मत्वपरमगोप्यत्वनि- रतिशयसुखजनकत्वान्यापामरसकलजनजरामृत्युहरणक्षमत्वं चोत्तरोत्तरा- रोपेष्वनुगामीति । बिग्वप्रतिविम्वभावमापन्नो विशिष्टरूपकप्रसङ्गे निरूपितः ॥
लिम्पा देवाः। निरयो नरकः। अम्ब गहे। भेषजभागीरथ्योः। अनुगामी धर्म इति शेपः समृद्धमिति। गद्गास्तुतिरेव । सौभाग्यभागीरथ्योः सौभाग्यभागीरथीजलयोः खप- देन विषयविषयिपरामर्शः । सुधासाम्राज्यमित्यत्राह-आपामरेति। निरूपित इति। 'कुङ्कुमद्रवलिप्ताज्ः काषायवसनो यतिः । कोमलातपशोणात्रः संध्याकालो न संशयः' ॥ .
Page 259
२४४ काव्यमाला।
उपचरितो यथा- 'अविरतं परकार्यकृतां सता मधुरिमातिशयेन वचोऽमृतम्। अपि च मानसमम्तुनिधिर्यशो विमलशारदचन्दिरचन्द्रिकां ॥' अत्रामृतरूपके विपये वचस्युपचरितो मधुरिमातिशयः शब्देनोपात्तः । अम्बुनिध्यादिरूपके च गाम्भीर्याद्यनुपात्तम् । केवलशब्दात्मको यथा- 'अ्कितान्यक्षसंघातैः सरोगाणि सदैव हि। शरीरिणां शरीराणि कमलानि न संशयः ॥' अत्र सरोगशब्दादिरुपात्त एव प्रतीयते न लुप्तः । आद्यो ह्यभग्रो द्वितीयस्तु भम्न: । अयमेव साधारणो यत्र युक्तिरूपणोपन्यस्यते तद्धेतुरूपकम्। यथा- 'पञ्चशाखः प्रभो यस्ते शाखा सुरतरोरसौ। अन्यथानेन पूर्यन्ते कथं सर्वमनोरथाः ॥' एवम्- 'प्राणेशविरहक्कान्तः कपोलस्तव सुन्दरि। मनोभवव्याधिमत्त्वान्मृगाङ्कः खलु निर्मलः ॥' इह क्ेषेण रसचन्द्रयोः कपोले ताद्रूप्यप्रत्ययाद्विरूपकं निरवयवम्। हेतुस्तु त्रिषु क्िष्ट एव । एवमन्येऽपि प्रकारा ज्ञेयाः ।
इत्यादाविति भावः । चन्दिरेति। चन्द्रेल्यर्थः । उपेति। वस्तुतो मधुरिमातिशयस्य तत्रासत्त्वात् । एवमप्रेऽपि। अनुपात्तमिति। उपचरितमिति शेषः । अङ्कितानीति। व्याख्यातमिदम्। उपात्त एवेति। एवं चैक एव भेदोऽस्य। तदाह-लुप्त इति। अनुपात्त इत्यर्थः । अभग्नः पदावान्तरभज्गशून्यः। भग्नस्तद्युक्तः। अस्य भेदान्तरमाह- अयमेवेति। केवलशव्दात्मक एवेत्र्थः । यथेति। राजानं प्रत्युक्तिः । हे राजन्, ते पञ्चशाखत्र: पञ्चाहगुलिर्हस्तोऽसौ कल्पत्ृक्षस्य शाखैवेत्यर्थः । मृगाङ्गः शलेषेण चन्द्रो रस- विशेषश्च। तदाह-इहेति। निरवयवमिति । मिथोऽवयवावय विभावाभावादिति भावः । हेतुर्मनोभवेत्यादि बोध्यः। त्रिषु उपमानद्वये उपमेये चेलर्थः। श्िष्ट पवेति। मनसिजातमदनसंवन्धिविशिष्टाधिमत्वं दयितायां मनोभवव्याधिरूपक्षयमन्थकत्वं (?)
Page 260
रसगङ्गाधरः । २४५
'उल्लास: फुल्लपङ्करुहपटलपतन्मत्तपुप्पंधयानां निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम्। उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥' अत्रोपमेय उपमानस्य नारोपः । अपि तु कारणे कार्यस्येति रूपकं न भवतीति प्राञ्चः। एतन्मतानुसारेणैवास्माभिरपि लक्षितम्। उच्छृङ्कलाः पुन- रारोपमात्रं रूपकं वदन्त इहापि रूपकमेवाचक्षत इति प्रागेव निरूपितम्। ननु- 'यशःसौरभ्यलशुनः शान्तिशैत्यहुताशनः । कारुण्यकुसुमाकाशः पिशुनः केन वर्ण्यते ॥' इत्यत्र लशुनहुताशनाकाशैः पिशुनस्य किं साधर्म्यम्, येन तेपाम- स्मिन्रूपकमुच्यत इति चेत्, यशःसौरभ्ययोः शान्तिशैत्ययोः कारुण्यकुसु- मयोश्च ताद्रूप्ये शब्दादुपस्थापितेऽनन्तरमुपस्थितं यशोरूपसौरभ्याद्यभा- ववत्त्वमेतत्। एवमपि लशुनखलयोस्ताद्रृप्यसिद्धौ सत्यां लशुनरूपखला- वृत्तित्वेन यशःसौरभ्ययोस्ताद्रप्यं सिद्धेत्, यशःसौरभ्ययोस्ताद्रप्य- सिद्धौ च यशोरूपसौरभ्यशून्यत्वेन लशुनखलयोस्ताद्रूप्यम्, इत्यन्यो- न्याश्रयो नाशङ्कनीयः । सकलसिद्धेः कल्पनामयत्वेन। कल्पनायाश्च स्वप्रतिभाधीनत्वात् । शिल्पिभिः परस्परावष्टम्भमात्राधीनस्थितिकाभिः शिलेष्टकाभिर्गृहविशेषनिर्माणाच्च। अथास्य ध्वनिः- तत्र शब्दशक्तिमूलो यथा- 'विज्ञत्वं विदुषां गणे सुकवितां सामाजिकानां कुले माङ्गल्यं स्वजनेपु गौरवमथो लोकेपु सर्वेष्त्रपि। रसे मनोभवसंवन्धि राजयक्ष्मरूपव्याधिमत्त्वं चन्द्रे इति भावः। उल्लास इति। तद्वे- तुरित्यथः । सूर्योदयवर्णनम्। तेषां लशुनादीनाम्। अस्मिन्पिशुने। चस्त्वर्थे। नन्वन्यो- न्याश्रयोत्पत्ताविव ज्ञानेऽपि प्रतिबन्धकत्वात्कथं ( तथास्त्रप्रतिवन्धकत्वात्कथं) तथा सव- प्रतिभात आह-शिल्पिभिरिति। विज्षेति। अत्र विज्ञादयः पण्डितानामिव वुधा- दीनामपि वाचकाः। नानार्थत्वात्। विज्ञत्वं पण्डितत्वं बुधत्वं च। सुकवितां काव्यकर्तृत्वं
Page 261
२४६ काव्यमाला। दुर्व्ृत्ते शनितां नृलोकवलये राजत्वमव्याहतं। मित्रत्वं च बहन्नकिंचनजने देव त्वमेको भुवि॥' अत्र शक्तिनियन्त्रणेऽपि वुधत्वशुकत्वादीनि वुधाद्यभेदरूपाणि राजनि व्यज्यन्ते। यथा वा- 'अविरल विगलद्दानोदकधारासारसिक्तधरणितलः । धनदाग्रमहितमूर्तिर्देव त्वं सार्वभौमोऽसि ॥' अर्थशक्तिमूलो यथा- 'कस्तूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम्। प्रौढिं भजन्तु कुमुदानि मुदामुदारा- मुल्लासयन्तु परितो हरितो मुखानि ॥' अत्र त्वदीयमाननं कलङ्कचन्द्रिकाविशिष्टचन्द्राभिन्नमिति रूपकं कु- मुदविकासादिना ध्वन्यते। न तु भ्रान्तिमान् । कुमुदानां हरितां चाचेत- नत्वात्। न चाचेतनेषु मुदामसंभवादत्यवश्यं कुमुदादिपु चेतनत्वारोपेण भाव्यम्, तेन च भ्रान्तिसिद्धिरिति वाच्यम्। मुत्पदस्य विकासे लाक्षणिक- त्वात्। इदं वा विविक्तमुदाहरणम्- 'तिमिरं हरन्ति हरितां पुरः स्थितं तिरयन्ति तापमथ तापशालिनाम्। वदनत्विषस्तव चकोरलोचने परिमुद्रयन्ति सरसीरुहश्रियः ॥' इहापि वदनं चन्द्र इति गम्यते।
शुकत्वं च। माङ्गल्यं शोभनत्वमङ्गारकत्वं च। गौरवं श्रेष्ठत्वं वृहस्पतित्वं च। दुर्वटत्ते शनितां अशनितां च । वज्रत्वं मन्दत्वं चेत्यर्थः । राजत्वं नृपत्वं चन्द्रत्वं च । मित्रत्व- माप्तत्वं सूर्यत्वं च । नियन्त्रणेति। प्रकरणादिति भावः । धारासारेत्यत्र 'स कीचकैः' इतिवदासारपदं संपातमात्रपरम्। व्याख्यातमिदम्। पूर्व विशेषणेष्वेव ध्वनिः, अत्र तु विशेष्येऽपीति पूर्वतो भेदः । सार्वभौमश्चक्रवर्ती दिग्गजश्च। सौधमौलिं गृहशिखरम्। मुदां विकासानाम्। उदारामतिशयिताम्। हरितो दिशः कतर्यः । विविकं भ्रान्तिमद-
Page 262
रसगङ्गाधरः । २४७
आनन्दवर्धनाचार्यास्तु- "प्राप्तश्रीरेप कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या- त्निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतुं बभ्नाति भूयः किमिति च सकलद्वीपनाथानुयात- स्त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयोधेः ॥' अत्र रूपकाश्रयेण काव्यचारुत्वव्यवस्थापनाद्रूपकध्वनिः" इत्याहुः । तच्चिन्त्यम् । अत्र च जलधिकम्पहेतुत्वेन विकल्पत्रयं कल्पते। तच्च प्रकृते राजविशेष्यकां जलनिधिगतामनाहार्यविष्णुतादात्म्यज्ञानरूपां भ्रान्तिमेवाक्षिपति, न रूपकम्। तज्जीवातोराहार्य विप्णुतादात्म्यनिश्चयस्य कम्पाजनकत्वात्। कविजलधिगतत्वेन वैयधिकरण्याच्च। अज्ञातमेव केवलं विष्णुतादात्म्यं जलधेः कम्पेऽनुपयुक्तमेव। चमत्कारिण्यपि चात्र आ्रान्तिरेवेति ध्वनिरपि तस्या एव युक्तः । अथास्यापि कविसमयविरुद्धतया चमत्कारापकर्षका लिङ्गभेदादयो दोषा: संभवन्ति। यथा- 'वुद्धिरर्चिर्महीपाल यशस्ते सुरनिन्नगा। कृतयस्तु शरत्कालचारुचन्दिरचन्द्रिका ।' अत्र विषयविषयिणोर्लिङ्गादिकृतं वैलक्षण्यं तयोस्ताद्रूप्यबुद्धौ प्रतिकूलम् । क्कचिस्कविसमयसिद्धतया चमत्कारहानिराहित्ये तु नामी दोषाः । यथा 'संतापशान्तिकारित्वाद्वदनं तब चन्द्रमाः' इत्यादौ हेतुरूपके। इति रसगज्गाधरे निरूपितं रूपकप्रकरणम् । मिथ्रितम्। तजजीवातो रूपकजीवातोः। वैयधीति। कबौ जलधौ। आहार्यविष्णुता- दात्म्यनिश्रयस्तु कवाविति न तस्य तज्जनकत्वम्। सामानाधिकरण्याभावात्। केवल- मित्यस्यैव व्याख्या ज्ञातमेवेति। चन्द्रालोके तु-'यत्रोपमानचित्रेण सर्वथाप्युपरज्यते। उपमेयमयी भित्तिस्तत्र रूपकमिष्यते ।। समानधर्मयुक्साध्यारोपात्सोपाधिरूपकम्। उत्सिक्कतक्षिति भृल्लक्षपक्षच्छेदपुरंदरः ॥' साधारणधमविशिष्टोपमानस्य यत्रारोप इत्यर्थः । 'वृथक्कथितसादृश्यं दृश्यसादृश्यरूपकम्। उलसत्पश्चशाख्रोऽयं राजते भुजभूरुहः ॥ स्या- दअ्यष्टिरित्येवंविधमाभासरूपकम् । अङ्गयष्टिधनुर्वल्लीत्यादि रूपितरूपकम् ॥' इत्यपि ट- श्यते। इति रसगन्गाघरे मर्मप्रकाशे रूपकप्रकरणम्॥
Page 263
२४८ काव्यमाला।
अथ परिणाम :- विपयी यत्र विपयात्मतयैव प्रकृते प्रकृतोपयोगी न स्वातत्येण स परिणामः ॥ अत्र च विपयाभेदो विषयिण्युपयुज्यते। रूपके तु नैवमिति रूपका- दस्य भद: । अयमुदाह्ियते- 'अपारे संसारे विषमविषयारण्यसरणौ मम भ्रामं भ्रामं विगलितविरामं जडमतेः । परिश्रान्तस्यायं तरणितनयातीरनिलयः समन्तात्संतापं हरिनवतमालस्तिरयतु ॥' भगवदात्मतयैव तमालस्य संसारतापनिवर्तनक्षमत्वम्। मार्गश्रान्तजन- संतापहारकत्वाद्रमणीयशोभाधारत्वाच्च तमालो विषयितयोपात्तः। अयं समानाधिकरणो वाक्यगः ।
परिणामं लक्षयति-अथेति। विषयी उपमानम्। विपयेति। उपमेयेल्र्थः । एवव्यावर्त्यमाह-न स्वातन्येणति। स्वस्रूपेणेत्वर्थः। तत्रेति शेषः। स विषयाभेदः। अत्र च परिणामे च। नैवमिति। किंतु विपरीतमिति भावः। रूपकादस्य भेद इति। वयं तु ब्रूम :- उपमानप्रतियोगिकाभेदो रूपकम्। उपमेयप्रतियोगिकाभेदः परिणामः । प्रतीपवत् तत्रामेदे उपमेय प्रतियोगिकतवतात्पर्यग्राहकं प्रकृतकार्योपयोगः। न तुतच्छरीरे- ऽस्य प्रवेशः। एवं च यत्रोपमानस्य स्वात्मनैव प्रकृतकार्योपयोगो यत्र चोदासीनता तत्र रूपकमेव। एवं च परिणामो विशेषणसमासायत्तः रूपकं मयूरव्यंसकादि समासायत्तं मुखचन्द्र इत्यादौ। यदि तु चन्द्रमुखमिति विप्रयुज्यते तदा विशेषणसमासायत्तमपि रूपकमिति। परे तु "उपमानोपमेयपदानामुपमानप्रतियोगिकाभेद संसर्गेण बोधकानां 'मयूरव्यंसकादयश्र' इति समासेन विशेषणसमासबाधाच्चन्द्रमुखमिति प्रयोग एव न" इत्याहुः। भ्रामं भ्रामं ध्रान्ला भ्रान्ला। एवमग्रेऽपि। विगलितेति क्रियाविशेषणम् । हरिरेव नवतमालः । भक्तोक्तिरियम्। भगेति। अत्रेत्यादिः। ननु हरेविषयित्वेन रूप- कमेवेदमत आह-मार्गेति। महषेरिति। शुकदेवस्येत्यर्थः। श्रावं श्रावं वचःसुधा- मिति विशिष्टं समस्तमेकं पदम् । मयूरव्यंसकादिलात्। स्नाल्ाकालक इतिवत्। प्रकृतकार्योपयोगित्वपर्यन्तस्य परिणामशरीरलात्। अत एव तिरयतुपदस्यासमस्तत्वात्पू र्वोक्तस्य वाक्यगत्मित्याहुः । क्वचित्तु 'हरिरिह तमालः' इति पाठः। तत्र वाक्यगत्वं स्पष्टमेव। तदा वचःसुधामित्येव। श्रावं श्रावमिति भिन्नं पदमिति बोध्यम्। उप(अभि)-
Page 264
रसगङ्गाघरः । २४९
समासगो यथा- 'महर्षेर्व्यासपुत्रस्य श्रावंश्रावं वच:सुधाम् । उप(अभि)मन्युसुतो राजा परां मुदमवाप्तवान् ।।' व्यधिकरणो यथा- 'अहीनचन्द्रा लसताननेन ज्योत्सावती चापि शुचिस्मितेन। एषा हि योषा सितपक्षदोषा तोषाय केषां न महीतले स्यात् ।' अत्र सर्वेषामेव तोषाय स्यादित्यनेन विरहिजनतोषजनकत्वमपि लभ्यते। तच्चारोप्यमाणशुक्कपक्षरजन्याः स्वात्मनाबाधितं योषारूपेण तु संगच्छत इति भवति परिणामः । स च परस्परसापेक्षबहुसंघात्मकतया सावयवः । तत्राद्यार्धगतौ द्वाववयवौ व्यधिकरणौ द्वितीयार्धगतश्चैकः समानाधिकरणः । यच्चाप्पदीक्षितैवैयधिकरण्येन परिणामे उदाहृतम्- 'तारानायकशेखराय जगदाधाराय धाराधर- च्छायाघारककंधराय गिरिजासङ्गैकश्ृङ्गारिणे। नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कक्कणिने नगेन गृहिणे नाथाय सेयं नतिः ।।'
मन्युसुतः परीक्षितः । आननेनेति च्छेदः । एषा कामिनी शुक्कपक्षयामिनीत्यथेः । अत्र नव् काक्काम्। तल्व्धमर्थमाह-अत्रेति। आरोप्येति। यो मायामित्यादिः। तस्या उद्दीपकत्वेन तत्तापजनकत्वादिति भावः । नन्वेवं समानाधिकरण एवायमिति कथं विपरीतप्रतिज्ञा अत आह-स चेति। उक्तप्रधानपरिणामप्रकरणे । 'इदं वैय- विकरण्यं रूपकेSपि दृश्यते' इत्युक्ला तारानायकशेखरायेत्यादयुदाहृतम्। तत्र को दोषः। किं च नद्ा शेखरिणे इत्यंशे विषयात्मतयैव प्रकृतोपयोगाभावात्परिणामाभावेऽपि वाच्यमार्थ वा रूपकमपि न वाच्यम्। उपमानप्रतियोगिकाभेदस्योपमेयेऽभानात्। किं च शद्गारितोपपादकं शेखरादीत्यप्ययुक्तम्। नारायणेनस्त्रिणे इत्यस्य तदुपपादकत्वाभा- वात्। किं तु नमस्यतासंपादकशिवनिष्ठोत्कर्षबोधकानीमानि विशेषणानि। तदुपपाद- कता च शेखरस्य नदीतादात्म्यापत्त्येति परिणाम एवायम्। शेखरस्य नीचजनसाधार- णत्वात् । इत एवास्वरसाद्विर्भावः पुष्पकेतोरिति पद्यान्तरमुदाहृतं तैः । तस्मात् 'यच्च' इत्यादि 'कुन्नास्ति परिणामः' इत्यन्तं चिन्त्यमिति बोध्यम्। तारेति। चन्द्रशेखराये- त्यर्थः । धाराधरेति। नीलग्रीवायेत्यर्थः । नद्या गङ्गया । दृशा भालचक्षुषा। नगेन २४
Page 265
२५० काव्यमाला।
यथा वा- 'द्विर्भावः पुप्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प- श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः । द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व- न्नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ।I' इति। अत्र चिन्त्यते-तारानायकशेखरायेति पद्ये गिरिजासङ्गैकशृङ्गारिणि भवे कविकर्तृका नतिः प्रक्रान्ता । श्रृङ्गारिता च शेखरादीनि भूषणा- न्यपेक्षत इति नद्या आरोप्यमाणशेखररूपतयैवोपयोगः न स्वरूपेण। एवं दृशोऽपि तिलकरूपतयेति रूपकमेव शुद्धं भवितुमर्हति । ननु परि- णामे विपयाभिन्नत्वेन विषय्यवतिष्ठत इत्युक्तम्, प्रकृते च विषयवाच- केभ्यो नद्यादिशन्देभ्यः परस्यास्तृतीयाया अभेदार्थकत्वाच्छेखरादेश्च तदन्वयित्वात्कथं नात्र परिणाम इति चेत्, न । विषयाभिन्नत्वेन विष- यिणो भानेऽपि तेन रूपेण तस्यानुपयोगात्। द्विर्भावः पुप्पकेतोरिति पद्येऽपि कोविदानन्दजननजगदुत्कर्षो कथ्येते राजो नृसिंहस्य। तत्र कोविदानन्दजनकत्वमपि राज्ञ आरोप्यमाणद्वितीयमन्मथादिताद्रूप्येण यथा संभवति न तथा केवलस्वरूपेण। तथाहि-अहो नयनानामस्मदीयानां साफल्यं यदयमपरो मन्मथोस्माभिरालोक्यत इति मन्यमानानां तेषां नयनाननदस्तावत्पुष्पकेतुनैवोपपाद्यते, न तु राज्ञा। एवमपरोडयं कल्पत रुश्चिन्तामणिर्द्धितीयः कर्ण इन्द्रश्च भूगतोऽयमन्यो दारिद्यमस्माकं परि- हरिप्यति। हरिः खल्वयं संसारं. हरिष्यतीत्यभिमानाज्जायमानस्तेषामान- न्दोऽप्यारोप्यमाणैः कल्पवृक्षादिभिरेवेति न विषयात्मना विषयिण उप- योगः, अपि तु स्वात्मनैवेति कुत्रास्ति परिणामः ।
केलासेन। कोविदानां पण्डितानाम्। शुद्धं परिणामामिश्रम्। तदन्वयीति। तृती- यार्थाभेदान्वयित्वादित्यर्थः । कथ्येते इति। शत्रन्तलडन्ताभ्यामिति भावः । तत्र दवयो- मध्ये द्विर्भावः पुष्पकेतोरित्र्थमाह-द्वितीयमन्मथेति। विवुधेति वाक्यार्थमाह- अपरोऽयं कल्पतरुरिति। विटपिनामिति बहुवचनं कल्पभेदाभिप्रायेण। विकल्प-
बोध्यः। तपनेल्यादेरर्थमाह-कर्ण इति। वासवेत्यर्थमाह-इन्द्रश्चति। भूगत इत्यनेन प्रसिद्धेन्द्राद्व्यतिरेकः सूचितः। द्वैतं देवस्येत्यादर्थमाह-हरिरिति। प्रकरणो-
Page 266
रसगङ्गाघरः । २५१
अलंकारसर्वसवकारस्तु-'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति सूत्रयित्वा 'आरोप्यमाणं रूपके प्रकरणोपयोगित्वाभावात्प्रकृतोपर- ञ्जकत्वेनैव केवलेनान्वयं भजते । परिणामे तु प्रकृतात्मतयारोप्यमाणस्यो- पयोग इति प्रकृतमारोप्यमाणतया परिणमति' इति व्याख्यातवान्। अत्रापि चिन्त्यते-आरोप्यमाणस्य प्रकृतोपयोग इत्यस्य प्रकृतकार्ये उप- योग आहोख्वित्प्रकृतविषयात्मतया उपयोगोऽर्थः । न तावदाद्यः । 'दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये। उद्यत्कठोरपुलका ङ्करकण्ट काऔै- र्यत्खिद्यते तव पदं ननु सा व्यथा मे ॥' इति तदुदाहृतरूपकोदाहरणे आरोप्यमाणानां कण्टकानां प्रकृतखे- दव्यथारूपकार्ये उपयोगेनातिप्रसङ्गात्। न द्वितीयः । 'अथ पक्त्रिमतामुपेयिवद्धिः सरसैर्वक्त्रपथाश्रितैर्वचोभिः । क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमादयैः ॥' इत्यत्र स्वोक्तव्यधिकरणपरिणामोदाहरणासंगत्यापत्तेः । यतो राजसं- घटने द्वयुपायनस्यारोप्यमाणस्य स्वात्मनैवोपयोगः । न तु विषयवचोरूप- तया। वचसां तु विषयाणामारोप्यमाणोपायनरूपत्वेन परमुपयोग इति प्रत्युत विपरीतम्। तस्मादस्मदुक्त्तमेव व्यधिकरणपरिणामस्योदाहरणं साधु। इदं तु पुनर्व्यधिकरणरूपकं भवितुमर्हति । तृतीयार्थाभेदोऽपि मी- पेति। प्रकृतोपेत्यर्थः । प्रकृतोपरञ्जकत्वेनेति। तस्य स्वोपरक्तवुद्धिविषयीकरणेने- त्यथः। उपयोग इति। वक्ष्यमाणर्थपदस्यात्राप्यपकरषः । दासे इति। नायिकां प्रति सापराधस्यानुभूततत्पादप्रहारस्य नायकस्योक्तिरियम्। नायिकासंबन्धात्पुलकोदयः। पुलकाङ्करा एव कण्ट काग्राणीत्यर्थः । तदुदेति। अलंकारसर्वख्कृदुदाहृतेत्यर्थः। एवमग्रे- डपि। आरोप्येति। पुलकेष्वित्यादिः। प्रकृतेति। प्रकृतो यः खेदस्तत्संबन्धिनी या व्यथेत्यर्थः । पकत्रिमतां पक्कत्वम्। तत्परतस्वदनन्तरम्। राजसंघटने राजमेलने। उपाय- नस्य 'भेट, नजर' इत्यादिभाषाप्रसिद्धस्य। आरोप्येति। वचसीत्यादिः। प्रत्युत विप- रीति। अत्रेदं चिन्त्यम्-यत्किंचिद्रूपोपायनस्य राजसंघटनानुपायत्वात्, विलक्षण- वचनतुरंगमादिरूपस्यैव च तदुपायत्वात्, एवं च राजसंघटनोपयोगित्वं तुरंगमादिरूपे- णैवोपायनस्यैतदुक्तिरेव विपरीतेति। अग्रिममवधारणमिदं त्वत्याद्युकं च चिन्त्मिति
Page 267
२५२ काव्यमाला।
नवतीनयनाभ्यामित्यत्रेव प्रकृत्यर्थानुयोगिको बोध्यः । केचित्तु "कचित्के- वलो विषयः स्वात्मना न प्रकृतोपयोगीत्ययमारोप्यमाणाभिन्नतयावतिष्ठते तत्रारोप्यमाणपरिणामः । यथा-'वदनेनेन्दुना तन्वी शिशिरीकुरुते दशौ'। अत्र वदनमिन्द्वभिन्नतयावतिष्ठते। केवलस्य वदनस्य दक्छिशि- रीकारकत्वायोगात् । क्वचिच्चारोप्यमाणः खात्मना न प्रकृतकार्योपयो- गीत्ययं विषयाभिन्नतयावतिष्ठते। तत्र विषयपरिणामः । यथा-'वदने- नेन्दुना तन्वी स्मरतापं विलुम्पति'। अत्रेन्दुर्वदनाभिन्नतयावतिष्ठते। केवलस्येन्दोः स्मरतापापनोदकत्वायोगात्। एवं च परिणामद्वयात्मकमिदं रूपकमेव भवितुमर्हति । विषयतावच्छेदकविषयितावच्छेदकान्यतरपुर- स्कारेण निश्चीयमानविषयिविषयान्यतरत्वस्य तल्लक्षणत्वात् । अत एवो- क्तम्-'तद्रूपकमभेदो य उपमानोपमेययोः' इति। तस्मान्न रूपकात्प- रिणामोऽतिरिच्यते" इति वदन्ति। अथ बोध :- हरिनवतमाल इत्यत्र भगवदभिन्नतमाल इति निर्विवादैव धीः। तथा श्रावं श्रावं वचःसुधामित्यत्र विशेषणसमासगतपरिणामे वचनाभिन्नां सुधामिति, पायं पायं वचःसुधामिति रूपके तु वचोनिष्ठाभेदप्रतियो- गिनीं सुधामिति बुद्धिः। एवं च 'वदनेनेन्दुना तन्वी स्मरतापं विलु- म्पति' इति व्यस्तपरिणामे 'वदनेनेन्दुना तन्वी शिशिरीकुरुते दशौ' इति व्यस्तरूपके च बोघवैलक्षण्यम् । तथा- 'शान्तिमिच्छसि चेदाशु सतां वागमृतं शृणु। हृदये धारणाद्यस्य न पुनः खेदसंभवः ।।' बोध्यम्। वदनस्येति। तस्य जलभिन्नत्वादिति भावः । इन्दोरिति। तस्योद्दीपकत्वेन तज्जनकत्वादिति भावः । तल्लक्षणेति। रूपकलक्षणेत्यर्थः । तदेवाह-अत पवेति। उक्तं मम्मटेनेति भावः । केचिद्वदन्तीत्याभ्यामरुचिः सूचिता। चमत्कृतिनिदानत्वेनालं- कारभेद इति सिद्धम्। तेनान्यत्रेवात्रापि भेद एवोचित इति। परिणामे वचःसुधामि- त्यंश इत्यर्थः। सुधामितीत्यत्र धीरत्वस्यानुषङ्गः। एवमिति। प्राग्वदिच्यर्थः । बोधवै- लेति। अनुयोगित्वमुखत्वप्रतियोगित्वमुखत्वकृतमिति भावः। एवमग्रेऽपीत्याह- तथेति। यस्य वागमृतस्य। स्थलान्तरे बोधमाह-तथेति। तावदादौ। तस्य च
Page 268
रसगङ्गाधरः । २५३
इति परिणामे शृण्विति विहाय पिघेति कृते तत्रैव रूपके, 'विद्धा मर्मणि वाग्बाणैरधूर्णन्ते साधवः खलैः । सद्भिर्वचोमृतैः सिक्ताः पुनः स्वस्था भवन्ति ते ।।' इति रूपके च बोधव्यवस्थितिः । तथा 'अहीनचन्द्रा लसताननेन ज्योत्स्ावती चापि शुचिस्मितेन' इति व्यधिकरणपरिणामेऽभेदस्य तृती- यार्थत्वाल्लसदाननाभिन्नहीनेतरचन्द्रयुक्तेति धीः, मीनवती नयनाभ्यामित्यत्र तु सरसीतादात्म्यारोपो बाधकाभावाचावत्सिद्धः । तस्य च मीनयोर्न- यनाभेदारोपेणासमर्थनान्नयनयोर्मीनाभेदारोपो मृग्यः । स च तृतीयायाः प्रकृत्यर्थाभेदार्थकतायां न संभवतीति यथाकर्थंचित्तस्याः प्रकृत्यर्थनिष्ठा- भेदप्रतियोगित्वार्थकत्वं वाच्यम्। तेन नयननिष्ठाभेदप्रतियोगिमीनयुक्तेति घीः। एवं चारोप्यमाणे विषयप्रतियोगिकाभेदस्याभानान्न परिणामः, अपि तु रूपकमेव । इयमेव सरणिः 'नद्या शेखरिणे दृशा तिलकिने-' इति प्रागुक्ताप्पदीक्षितदत्तोदाहरणे 'वचोभिरुपायनं चकार-' इत्यलंका- रसर्वखोदाहरणे च बोध्या। यदि पुनरारोप्यमाणे यथाकथंचिद्विषया- भेदप्रत्ययमात्रात्परिणामतोच्यते, नाद्रियते च प्रकृतोपयोगस्तदा 'प्रवृ- त्तोऽस्या: सेक्तुं हृदि मनसिजः प्रेमलतिकाम्' इति तदुदाहृतरूपकस्य परिणामतापत्तिः प्रेमलतिकामिति समासे प्रेम्णो विषयस्य लतिकायामारो- प्यमाणायामभेदेन विशेषणत्वादिति दिक।
मुन्दर्यो सरसीतादात्म्यस्य। प्रकृत्यर्थाभेदेति। प्रकृत्यर्थप्रतियोगिकाभेदेत्यर्थः । वि- भक्त्या संसर्गवोधनस्य प्रकृत्यर्थप्रतियोगिकस्यैव व्युत्पत्तिसिद्धत्वेन तदसंभवादाह-य- थाकथंचिदिति । अन्र मीनवती नयनाभ्यामित्यत्र। उक्तप्रकारेणायमेव बोधोऽन्यत्रे- त्याह-इयमवेति। उदाहरणे च बोध्येति। परेतु "पूर्वपदार्थप्रधानमयूरव्यंसकादिसमा- सेन सुधाप्रतियोगिकाभेदवद्वच इत्येव बोधः। रूपके मीनवती नयनाभ्यामित्यत्र सुन्दर्या सरसीतादात्म्यरूपं रूपकं मुख्यवाक्यार्थः । तत्र च मीनवत्त्वादिः साधारणो धर्मः । तस्य च सुन्दर्यामभावात्प्राप्तवाधवुद्धिस्थगनाय नयनाभ्यां मीनवतीति सुन्दरीविशेषणम्। सरस्यां च मीनवत्त्वं प्रसिद्धमेव । एवं च सुन्दर्या मीनवत्वसंपादनरूपप्रकृतकार्योपयो- गिता मीनानां नयनात्मतापत्यैवेति तदंशे परिणाम एवेति नयनप्रतियोगिकाभेदवन्मीन- वतीत्येव बोध इति दिक्। 'पादाम्वुजं भवतु नो विजयाय मज्ु' इत्यादौ रूपकोपमयोः
Page 269
२५४ काव्यमाला।
अथ परिणामध्वनिविचार्यते- तत्र यत्तावदप्पदीक्षितैर्विद्याधरोक्तं ध्वन्युदाहरणमनूद्य दूषितम्- "तथाहि- 'नरसिंह धरानाथ के वयं तव वर्णने। अपि राजानमाक्रम्य यशो यस्य विजम्भते ॥I' अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्र्कमण- रूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यते" इति, तदयुक्तम्। तत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्र्कमणोपयोगः, न चन्द्रात्मनेति तदसत्, अत्र विजम्भणं नाम न केवलं प्रागल्भ्यमात्रं कवेरभिप्रेतम्, येन यशःक- र्तृकाक्रमणे नृपस्य नृपात्मनैव कर्मतारूप उपयोगः स्यात्। अपि तु निरतिशयनैर्मल्यगुणवत्तायां सवसमानजातीयद्वितीयराहित्यप्रयुक्तः प्रौढिवि- शेषः । आक्रमणं तु न्यग्भाव एव। एवं चैवंविधविजृम्भणे चन्द्रकर्मकमेव क्मणमुपयुज्यते, न तु नृपकर्मकमिति विषयितया व्यज्यमानस्यापि नृपस्य चन्द्रात्मनैवाक्रमणोपयोग इति रमणीयमेव विद्याघरेणोक्तं परिणाम-
संदेह एव" इति प्राहुः। तदाह-दिगिति। दूपितमित्यस्य चन्द्रात्मनेतीत्यन्तेनान्वयः। अत्र प्रागुक्तपदे। एवं च विजुम्भमाणाक्रमणयोहक्तरूपत्वे च। गुणवत्तायां तद्रूपसा- धारणधर्मे। रमणीयमेवेति। अत्रेदं चिन्त्यम्-राजशब्दस्यानेकार्थत्वात्, विजृम्भ- तेश्च प्राग्भ्यतदुक्तार्थोभयपरत्वात्, प्रकरणादेश् शक्तिसंकोचकस्याभावात्, तन्र्रेण श- क्तैव तुल्यतयार्थद्वयोपस्थितौ 'सर्वदो माधवः पातु' इतिवत् श्लेष एवायं क्व परिणामः क् वा नृपस्य व्यज्यमानतेति प्रकृतनरसिंहराजोत्कर्षस्य चन्द्रकर्मकाक्र्मणेनेवेतरनृपाक्रमणे- नापि सूपपादत्वात्। न च द्वयोरपि राजपदार्थयोरितरक्रियान्वये राजानाविति द्विव- चनं स्यादिति वाच्यम्। 'न ब्राह्मणं हन्यात्' इतिवदुपपत्तेः । समाहारद्वन्द्वविषयेऽप्ये- कशेषस्य कैश्चिद्वैयाकरणैरङ्वीकाराच्च। अस्तु वारोपः, तथापि नृपस्यैवारोप्यमाणत्वं चन्द्रस्यैव विषयत्वमित्वत्र नियामकाभावः । अत्रैव च दीक्षिततात्पर्यम्। अपि च प्राग- ल्भ्यस्यापि विजुम्भत्यर्धत्वेन प्रकृतकार्योपयोगिना नृपत्वेनापि नृपस्य संभवति। अत एव विद्याधरेणापि विषयिणः स्वरूपेण प्रकृतकार्यानुपयोगित्वे तदुपयोगाय विषयिणो वि- षयात्मनोपरिगत्यपेक्षायामेव परिणाम इत्युक्त्तम्। यदाह-'तं परिणामं द्विविधं कथय- न्त्यारोप्यमाणविषयतया। परिणमति यत्र विषयी प्रस्तुतकार्योपयोगाय ।' इति। ननु तात्पर्यविषयीभूतप्रकृतकार्यानुपयोगितमस्त्येवेति चेत्, तस्यैव तात्पर्यविषयत्वे मानं
Page 270
रसगङ्गाधरः । २५५
व्यङ्ग्यतायामुदाहरणम् । यदपि तैरेव परोकिं दूषयित्वा स्वयं परिणामस्य व्यङ्गयतायामुक्तम्- "चिराद्विपहसे तापं चित्त चिन्तां परित्यज। नन्वस्ति शीतल: शौरेः पादाव्जनखचन्द्रमाः ॥' अत्र चिरतापार्ते प्रति हरिपादनखवचन्द्रसद्भावप्रदर्शनेन तमेव निषेवसव तन्निषेवणादयं तव तापः शान्तिमेष्यतीति परिणामो व्यज्यते" इति त- तुच्छम् । 'आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योपयोगे परिणामः' इति ख्वयमेवोक्तम्। तत्र प्रकृतकार्योपयोगमात्रं न परिणामशरीरम्, अपि तु विषयिगतायाः प्रकृतकार्योपयोगिताया अवच्छेदकीभूतं विषय- ताद्रूप्यम्। एवं चात्र नखचन्द्रसद्धावप्रदर्शनेन तन्निषेवणादयं तव ताप: शान्तिमेष्यतीति प्रकृतोपयोगिताया व्यङ्ञयत्वेऽपि तद्वच्छेदकीभूतस्य विषयिणि विषयताद्रप्यरूपस्य परिणामस्य वाक्यवाच्यत्वात् शक्यसंसर्ग- त्वाद्वा सर्वथैव न व्यज्गयत्वं वक्तमचितम्। इदं तूदाहरणं युक्तम्- 'इन्दुना परसौन्दर्यसिन्धुना बन्धुना विना। ममायं विषमस्ताप: केन वा शमयिष्यते ॥' अत्र वक्तुर्विरहितया व्यज्यमानरमणीवदनाभिन्नत्वेनेन्दुरभिप्रेतः । तेन रूपेणैव तस्य प्रकृतविरहसंतापशमनहेतुत्वात् । न चात्र विषयनिगरणा- त्मिकातिशयोक्तिर्वक्तुं शक्या। तस्या ह्यारोप्यमाणाभिन्नत्वेन विषयस्य प्रत्ययात् । यथा 'कमलं कनकलतायाम्' इत्यादौ कनकलताभिन्नायां वनितायां कमलाभिन्नं मुखमिति। इह तु मुखस्य चन्द्राभिन्नत्वेन प्रत्यये पुनर्विरहृतापशमनरूपप्रकृतकार्यसिद्धिरिति चन्द्रस्यारोप्यमाणस्य मुख- रूपविषयाभिन्नत्वं मृग्यम् । तच्च व्यञ्ञयतायामेव भवतीति परिणामध्व- निरेवायम्, नातिशयोक्तिः । अयं त्वर्थशक्तिमूलः ।
विभावयेति। तैरेव अप्पदीक्षितैरेव। परोकि विद्यानाथोकिम्। तापार्ते चित्तमिति शेषः। वैयाकरणमतेनाह-वाक्येति। नैयायिकमतेनाह-शक्येति। परेति। उत्कृष्टेत्यर्थः । वन्धुना विनेति। तादृशेन्दुरूपेण बन्धुनेत्वर्थः। तेनेति। तस्योद्दीप-
Page 271
२५६ काव्यमाला ।
शब्दश क्तिमूलपरिणामध्वनिर्यथा- 'पान्थ मन्दमते किं वा संतापमनुविन्दसि । पयोधरं समाशाखव येन शान्तिमवामुयाः ॥' अत्र झगिति तापशमनहेतुत्वेनोपस्थिते पश्चान्मन्दवोधनीयविशेष्यक- न्मरतापवत्तावैशिश्नवुद्धौ सत्यां सहृदयस्य तादृशतापशामकरमणीस्तन- रू.पविपयताद्रप्यवुद्धिर्भवति। दोषाश्चात्रापि पूर्ववदुन्नेयाः । इति रसगद्गाधरे परिणामप्रकरणम्। अथ ससंदेह :- सादृश्यमूला भासमानविरोधका समवला नानाकोट्यवगाहिनी धी रमणीया ससंदेहालंकृतिः । अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य वान्धवानाम्। परिणेप्यति वा न वा युवायं निरपायं मिथिलाधिनाथपुत्रीम् ।।' अत्र मिथिलास्थजनोक्तौ तच्चिन्ताभिव्यञ्जके संशयमात्रेऽतिव्याप्तिया- रणाय सादृश्यमूलेति। सादृश्यज्ञानरूपदोषजन्येत्यर्थः । तेन 'सिंह्वत्प्रा- न्तरं गच्छ गृहं सेवस्व वा श्रवत्' इत्युपमाविकल्पे वाकारप्रतीतविरोधक- प्रान्तरगामनगृहसेवनरूपनानाधर्मावगाहिनि सादृश्यविषयकेऽपि नातिप्र- सङ्ग: । तस्य सादृश्यज्ञानरूपत्वात्। मालारूपकातिप्रसङ्गवारणाय भास-
कत्वेन स्वरूपेण तस्य तापजनकत्वादिति भावः। अयं तु इन्दुनेत्युदाहृतः। झगिति आदौ। आतपादिकृतसंतापशामकमेघत्वेन तस्योपस्थितेरिति भावः। दोषाश्चेति। लिन्गभेदादय इत्यर्थः ॥ इति रसगज्गाधरमर्मप्रकाशे परिणामप्रकरणम्॥ संशयं लक्षयति-अथेति। धी रमणीयेति। तादृशधीवृत्तिसंशयत्वप्रकारकज्ञान- विषया सालंकार इत्यर्थः । सादृश्यमूलेल्यस्य व्यावर्त्यमाह-अधीति। हन्तेति खेदे। वान्धवानां विश्वामित्रादीनाम्। निरपायं निष्प्रतिबन्धकम् । क्रियाविशेषणमेतत्। तदिति। तादृशजनेत्यर्थः । मात्रपदेनालंकारत्वव्यवच्छेदः । यद्यप्यधिरोप्येति पद्ये संशयस्य न सादृश्यमूलत्वमिति यथाश्वतेनैव वारणं संभवति, तथाप्यन्यन्नाप्यदोषायाह- सादृश्येति। तद्यावर्त्यमाह-तेनेति। तथार्थविवक्षया नेत्यर्थः । प्रान्तरमरण्यम्। यथाध्रुतेऽतिप्रसन्ञमाह-वाकारेति । अपिः प्रागुक्तसमुचचायकः। तेनेत्यस्याथमाह- तस्येति। उपमाविकल्पस्येत्यर्थः । मालारूपकेति। 'धर्मस्यात्मा भागधेयं क्षमायाः सारः सष्टेः' इत्यादावित्यर्थः । ननु कोय्योः समवलस्वविशेषणेन कथमुत्प्रेक्षाव्यावृत्तिः,
Page 272
रसगङ्ाघरः । २५७
मानविरोघकेति। उत्प्रेक्षाव्यावृत्तये समबलेति समानभासकसामग्रीत्वार्थ- कम्। एतद्विशेषणद्वयप्राप्तस्यैवानेकत्वस्य स्फुटत्वार्थ नानेति। स्थाणुर्वा पुरुषो वेति लौकिकसंशयनिवृत्तये रमणीयेति । चमत्कारिणीत्यर्थः । एतच्च विशेषणं सामान्यालंकारलक्षण प्राप्तमेव । एवमुपस्कारकत्वमपि बोध्यम्। एतद्विशेषणद्वयस्य सादृश्यमूलत्वस्य चाभावे संशयमात्रमेव। यद्वा 'सादृश्यहेतुकानिश्चयसंभावनान्यतरभिन्ना घी रमणीया संशयालंकृतिः'। सा च शुद्धा निश्चयगर्भा निश्चयान्ता चेति त्रिविधा। आद्या यथा- 'मरकतमणिमेदिनीघरो वा तरुणतरस्तरुरेष वा तमालः । रघुपतिमवलोक्य तत्र दूरादृपिनिकरैरिति संशयः प्रपेदे ॥' द्वितीया यथा- 'तरणितनया किं स्यादेषा न तोयमयी हि सा मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुतः । इति रघुपतेः कायच्छायाविलोकनकौतुकै- र्वनवसतिभि: कै: कैरादौ न संदिदिहे जनैः ॥I'
तत्रापि तयोस्तुल्यवलस्य सत्त्वादत आह-समानेति। तत्र तु विधेयांशे भासकसा- मग्री उत्कटेति भावः। नन्वेवं नानेतिमात्रं व्यर्थमत आह-एतदेति। भासमानेति सम- वलेत्येतदित्यर्थः । अनेकेति। अनेकधर्मकस्य संशयस्येत्यर्थः । एतदिति। रमणीय- लोपस्कार कत्वद्वयेत्यर्थः । ननु संशये विरोधो न भासते। मानाभावात्। किं तविरो- धित्वज्ञानाभावविशिष्टनानाकोटिकज्ञानमेव संशय इति कथमुक्तलक्षणमत आह- यद्वेति। अन्यतरत्रोभयभेदसत्त्वात्तथोक्तौ तत्रातिप्रसङ्गापत्तेराह-अन्यतरेति। तथा च संभावनाभिन्नत्वे सति निक्षयभिन्नत्वमित्यर्थलाभान्न रूपकोत्प्रेक्षादावतिप्रसङ्ग इति भावः । तत्रालिरनेत्नं वेति वाक्याद्विरोधभानवादिमते Sलित्व वानयम लित्व विरुद्धने त्रत्ववा- निति विशिष्टवैशिष््यन्यायेन, एकत्र दयमिति न्यायेन वा बोधः । अलिशव्दस्य च वाशव्दसमभिव्याहारे उभयत्रान्वयः । व्युत्पत्तिवैचित्र्यात्। केचित्त वाशव्दद्वयव- लादलित्वविरुद्धनेत्रत्ववानयं नेत्रत्वविरुद्धालित्ववानिति बोधमाहुः। तदभानवादे तु अलित्ववानयं नेत्रत्ववानिति बोधः। समुच्चये त्वेतन्मतेSविरोधमानमङ्गीकार्यमिति दिक्। मरकतेति। व्याख्यातं प्राक्। इति पूर्वारधोंकतः। प्रपेदे प्राप्तः । तरणीति। कालि- न्दीत्यर्थः । सा तज््योत्स्ना। इयं तु मधुरेति भावः। वसतिर्वासः । अत्र निश्चयस्य
Page 273
२५८ काव्यमाला।
तृतीया यथा- 'चपला जलदाच्युता लता वा तरुमुख्यादिति संशये निमझः । गुरुनिःश्वसितैः कपिर्मनीषी निरणैपीदथ तां वियोगिनीति ।' एपु संशयेपु मञ्जूपादिगतकटकादिष्विवालंकारव्यपदेशः । एवं च- 'तं दृष्टवा्प्रथममद्भुतधैर्यवीर्य- गाम्भीर्यमक्षणविमुक्तसमीपजानिम्। वीक्ष्याथ दीनमबलाविरहव्यथार्थ रामो न वायमिति संशयमाप लोक: ।l' इत्यत्रापि सत्यपि चमत्कारे सादृश्यमूलत्वाभावान्न संशयस्यालंकार- त्वम् । एवमारोपमूलोडयं संदेहालंकारः । अध्यवसानमूलोऽपि दृश्यते। यथा- 'सिन्दूरैः परिपूरितं किमथवा लाक्षारसैः क्षालितं लिपं वा किमु कुङ्कमद्रवभरैरेतन्महीमण्डलम्। संदेहं जनयन्नृणामिति परित्रातत्रिलोकस्त्विषां प्रातः प्रातरुपातनोतु भवतां भव्यानि भासांनिधे: ॥' अयं च संशयः सवितृविषयककविरतिपरिपोषकतया कामिनीकरगत- कङ्कणादिरिव मुख्यतयालंकृतिव्यपदेश्यः । अत्र च विवक्षितविवेचने क्रियमाणे किरणन्राते सिन्दूरत्वादिकोटिकः संशयः पर्यवस्यति। स च न सारोपः। विषयविषयिणोस्तदनुकूलविभक्तेरभावात् । अतः सिन्दूरत्वा-
विना मध्ये प्रतिपादनात्तद्र्भत्वम्। अत एव तृतीयाद्भ्ेदः । कपिर्हनूमान्। वियो- गिनीति। श्रीरामचन्द्रवियुक्त्ता सीतेत्यर्थः । नन्वेषूदाहरणेघुं संशयस्यैव प्राधान्येनान्या- नपस्कारकत्वात्कथमलंकारत्वमत आह-पष्विति। तथा च तद्वत्तदोग्यतामात्रेण गौ- णस्तव्यवहार इति भावः। एवं च उक्तरीत्या संशयलक्षणपर्यवसाने च। तं श्रीरामम्। प्रथमं संयोगदशायाम् । अद्भुतेति बहुव्रीहिः। अक्षणति। न क्षणं विमुक्ता समीप- प्रदेशाज्ाया सीता येनेत्र्थः । अथ रावणकृतसत्रीतापहारोत्तरम्। अस्य संशयस्य विप्रलम्भरोषवत्त्वादाह-सत्यपीति। त्रिविधस्याप्यस्य द्वैविध्यमाह-एवमिति। द्वयोरुपादानादिति भावः । भासांनिधेः सूर्यस्य। पूर्वतो भेदान्तरमाह-अयं चेति। नन्वत्र महीमण्डलस्योपादानात्सारोपत्वमेवात आह-अत्र चेति। विवेति। तात्प- र्यार्थेत्यर्थः । नन्वेवमपि किरणव्रातस्योपादानात्सारोपत्वमेवात आह-विषयेति। तदिति। आरोपेत्यर्थः । तथा च तुल्यत्वेनानुपादानमिति भावः । उपसंहरति-अत
Page 274
रसगङ्गाघरः । २५९
दिना संशयधर्मी किरणव्रातोऽध्यवसीयत इति। अत्र विचार्यते-सिन्दूरैः परिपूरितं किमथवेति यद्येतावत्सिन्दूरादिकरणकपरिपूरितत्वादिकोटिको जगन्मण्डलधर्मिकः संशयः शब्दात्प्रतीयते तसिमिंश्च संशये किमिदं सिन्दू- ररजो वा स्यात्, आहोखिल्लाक्षारसः, उताहो कुङ्कमद्रव इति सूर्यकिरणघ- मिक संशयान्तरमानुगुण्यमाधत्ते। यथा पुरोवर्तिनि तुरगे स्थाणुर्वा पुरुषो वेति संशयो भूतलमिदं स्थाणुमत्पुरुषवद्वेति संशये। एवं च सूर्यकिर- णधर्मिक: संशयो गुणीभूतो व्यञ्जनागम्यत्वाद्विषयविषयिणोरारोपानुकूल- विभक्तिकतां नापेक्षते। अपेक्षते च साक्षाच्छन्दवेद्यतायामिति कुत्राध्य- वसानमूलता संशयस्य । एतेनाध्यवसानमूलतां संशयस्य निरूपयतो विमर्शिनीकारस्योक्तिरपास्ता। अप्पदीक्षितास्तु- 'अस्याः सर्गविधौ प्रजापतिरभूचचन्द्रो नु कान्तिप्रदः शरृङ्गारैकरसः स्यं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजड: कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥।' इत्यत्र चन्द्रादीनां संदेहधर्मिणामेवानेकत्वम्। प्रकारस्तु वर्णनीयव- नितास्रष्टृत्वमे कमेवेत्यनेककोटि कत्वाभावाद्विरोधेन परस्परप्रतिक्षेपकतया निवद्धानेककोट्यवगाहित्वरूपस्य संशयलक्षणस्याव्याप्तिमाहुः । तन्न । अत्र हि अस्याः सर्गविधौ यः प्रजापतिरभूत्स किं नु चन्द्रः, किंनु मदनः, किं वा नु वसन्त इति संशयः प्रजापतिधर्मिकश्चन्द्रत्वादिनाना- कोटिक एवेति कुत्राव्याप्तिः । न चात्र चन्द्रादिधर्मिकः संशयो युक्तो वक्तुम्। एवं च प्रजापतेः प्रथमोद्देशो न स्यात् । यदपि, 'साम्यादप्रकृ-
इति। तावदादौ। इदं किरणजातम्। अनपेक्षत्वे हेतुमाह-व्यञ्ञजनेति। तर्हि कुत्र तदपेक्षा तत्राह-अपेक्षते चेति। एवं च रूपकमूल एवायमित्यध्यवसानमूलः संशयः खपुष्पायमाण इति भावः। तदाह-कुत्रेति। अस्या इति। भालतीमाधवे मालतीव- रणनमिदम्। मासो वसन्तः । वनितास्त्रषृत्वं प्रजापतिशब्दवोध्यम्। अभावादित्यव्याप्तौ हेतुः । संशयलक्षणमाह-विरोधेनेति। हि यतः । अस्या मालत्याः। तदुपपादनं ख- ण्डयति-न चात्रेति। एवं चेति। चो हर्थे। यत एवं सतीत्यर्थः। विधेयस्य पाश्चा- १. विक्रमोवंशीये प्रथमेड्क्वे उर्वशीवर्णनमिदम्.
Page 275
२६० काव्यमाला।
तार्थस्य या धीरनवधारणा' इति प्राचां लक्षणं महता प्रबन्धेन त एव दूपितवन्तः, तदपि न । साम्यनिमित्तनिश्चयसंभावनान्यतरभिन्ना या धीरिति तदर्थकरणे दोषाभावात्। निश्चयत्वं तु संशयाघटितमेव निर्वचनी- यम्। उक्तेषूदाहरणेषु सोडयं संशयालंकारः स्वशब्दवेद्यत्वाद्वाच्यः । लक्ष्यो यथा- 'साम्राज्यलक्ष्मीरियमृप्यकेतोः सौन्दर्यसृष्टेरधिदेवता वा। रामस्य रामामवलोक्य लोकैरिति स्म दोला रुरुहे तदानीम् ।।' अत्र पर्यायेणोभयकोट्यालम्बनतया दोलासादृश्यात्संशयोSत्र दोला- शब्देन लक्ष्यते। व्यन्नथोडयं यथा- 'तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकासम्। आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमाला ॥' अत्र कमलधर्मिकोडभेदेन संसर्गेण पुरोवर्तिव्यक्तिद्वयप्रकारकः कम- लमिदमिदं वेति भ्रमरगतः संशयो व्यञ्गयः । न च कमलाभेदवुद्धेर्भ्रमरप्र- वृत्त्युपायतयापेक्षणादिदंपदार्थाभेदबुद्धिर्निरर्थिकेति वाच्यम् । एकपदार्थ- धर्मिका परपदार्थाभेद बुद्धेरपरपदार्थधर्मिकैक पदार्थाभेदबोधप्रयोजकत्वेन कम- लाभेदवोधसाम्राज्यात् । कमलत्वमेतद्वृत्ति तद्ृत्ति वेति संशयाकारः । . सोडयं संशयध्वनिः । 'आज्ञा सुमेषोरविलङ्गनीया किं वा तदीया नवचापयष्टिः । वनस्थिता किं वनदेवता वा शकुन्तला वा मुनिकन्यकेयम्।' त्यमिति नियमादिति भावः । त एव अप्पदीक्षिता एव। अनवधारणेत्यस्य तात्पर्यार्थ- माह-निश्चयेति। नन्वेवमन्योन्याश्रयापत्तिरत आह-निश्चयत्वं त्विति।ऋष्य- केतोश्षन्द्रस्य । ऋष्यः कुरङ्गः। रुरुहे आरूढा। आलम्बनतया एतद्रूपधर्मेण। तीर इति। व्याख्यातं प्राक्। मिलदिति। सविकासमित्यर्थः । इदंपदार्थेति। इदंत्वेने- दंपदार्थेत्र्थः । तथा चेदमिदं वा कमलमित्यौचित्येनानेककोटिकत्वाभावान्नायं संशय इति भावः। ननु प्रवृत्यन्यथानुपपतत्या तथा कल्प्यम्, सा चान्यथा सिद्धेत्याह-एकेति। कम लेत्यर्थः । अपरेति। इदंपदार्थः । पर्यवसितमाह-कमलत्वमिति। धवनेरुदाह- रणान्तरं खण्डयति-आक्षेति। सुमेषुर्मदनः। सुमं पुष्पम्। तदीया मदनीया। इयं
Page 276
रसगङ्गाधरः । २६१
यद्यप्यत्रापि वाचकशन्दाभावाद्यङ्नय एव भवितुमर्हति संशयः, तथापि विषयनिरूपणेन स्फुटभावोदितत्वान्न ध्वनिव्यपदेशस्य हेतुः । अपि तु गुणीभूतव्यङ्ञथप्रभेदव्यपदेशस्य । अनुगामी चात्र प्रतिप्रकारं पृथगेव निर्दिष्टः । यत्तु चित्रमीमांसायां संशयध्वन्युदाहरणप्रसक्के अप्पदीक्षिता :- "कांचित्काञ्चनगौराङ्गीं वीक्ष्य साक्षादिव श्रियम्। वरदः संशयापन्नो वक्षःस्थलमवैक्षत ।I' अत्र संशयस्य शब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात्तदलं- कारताप्रयोजकस्य वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य पुरस्तिष्ठती- त्येवं संशयाकारस्य वक्षःस्थलमवैक्षतेत्यनेन व्यङ्गयत्वात्संदेहालंकारध्व- निरत्रेति। यथा 'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनु विम्बमात्मनः कानि कान्यपि चकार लज्जया ।।' इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थ लज्जाशब्दप्रयोगेऽपि तस्याः स्वविभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिः" इत्याहुः, तदेतद्धनितत्त्वविज्ञैरुपहसनीयमेव। तथाहि संशयाविष्ट इत्यत्र संशयपदेनैकस्मिन्पदार्थे विरुद्धनानाप- दार्थसंबन्धावगाहि ज्ञानं साक्षादेव निवेदते। तत्र कोऽसौ विरुद्धो नानार्थ इति विशेषाकाङ्वायां वक्षःस्थलावेक्षणेन वक्षःस्थलस्थैव लक्ष्मीस्ततोऽवतीर्य किं पुरस्तिष्ठतीत्यादिरर्थो व्यञ्जनाव्यापारेण बोध्यमानः शक्त्या संशयश- व्दनिवेदितज्ञानविशेषणीभूतेन सामान्यार्थेन साकमभेदेन पर्यवस्यति।
सीता। विषयेति। आज्ञादीत्यर्थः । व्यङ्गयेति। व्यङ्रयरूपो यः प्रभेदस्तद्रव्यव्यपदेश- स्येत्यर्थः । प्रतिप्रकारं प्रतिसंदेह्म्। तत्र त्याज्ञासंदेहेSविलद्वनीयतं वनदेवतासंदेहे वन- स्थितत्वं च पृथगुपात्तमिति भावः । कांचिदिति। इदं च पद्यमप्पदीक्षितमूलपुरुषवक्ष :- स्थलाचार्यकृतवरदराजवसन्तोत्सवस्थम्। वरदः काश्चीदेवता विष्णुः । तदिति। संश- येत्यर्थः । तत्र सामान्यज्ञाने। अवेक्षणेनेति। व्यज्नार्थवृत्तिरपीति भावः । संशय- २५
Page 277
२६२ काव्यमाला।
एवं च संशयमात्रस्य शक्त्या बोधनाद्वक्षःस्थलस्थितैवेत्यादि विषय- भागस्यापि विरुद्धनानार्थत्वेन सामान्याकारेणावलीढतया तयैव कवली- करणाद्वाच्यार्थसंशयपर्यवसायकत्वाच्च न कस्यापि ध्वनिव्यपदेशहेतुत्वं युक्तम्। सर्वथा वाच्यवृत्त्यचुम्बितस्यैव तथात्वमिति ध्वनिमार्गप्रवर्तकैः सिद्धान्तितत्वात्। तथा च द्वितीयोद्दयोते- शब्दार्थशक्त्याक्षिप्तोऽपि व्यक्चयोऽर्थः कविना पुनः । यत्राविष्क्रियते सवोक्त्या सान्यैवालंकृतिर्ध्वनेः ॥' इति सूत्रयित्वा "संकेतकालमनसं विटं ज्ञात्वा विदग्घया। हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ।।' अत्र संकेतकालमनसं ज्ञात्वा लीलापझ्मं निमीलितमिति वदता कवि- ना लीलापद्मनिमीलनस्य प्रदोषाभिव्यञ्जकत्वं खवोक्त्यैव निवेदितमिति ध्वनिमार्गादयमपर एव गुणीभूतव्यङ्जयस्य मार्गः । यथा वा- 'अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र। अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ।।'
मात्रस्य सर्वस्य संशयस्य । अर्थत्वेन सामेति । एतद्रूपसामान्याकारेणेत्यर्थः । अवलीढेति। बोष्यतयेत्यर्थः । तथैव शक्तैव। कवलीति। बोधनादित्यर्थः। नन्वेव- मपि विशेषरूपेण व्यङ्गयत्वमेवात आह-वाच्यार्थेति। विशेषसंशयस्येत्यादिः।तदाह- कस्यापीति। विशेषस्यापीत्यर्थः । सर्वथा केनापि प्रकारेण। तथातं ध्वनित्वम्। संके- तेति। को वावयो रतिकालस्तत्संकेतमित्यत्र दत्तचित्तमित्यर्थः हसदिति क्रिियाविशेष- णम्। इति वद्तेति।क्त्वान्तवाक्यविशिष्टं वदतेत्यर्थः । अन्यथा क्त्वान्तवाक्येनैवार्था- तदभिव्यञ्जकत्वे सिद्धे कान्तवाक्यानर्थक्यं स्पष्टमेव। तदाह-स्वोक्त्यैवेति। क्त्वा- न्तवाक्येनेत्यर्थः। अत्र गृहप्रदेशविशेषे। एवम्रेऽपि। कुम्भेति पान्थसंबोधनमिति क- श्चित्। तन्नामिका दासीत्यन्यः । जलादयाहरणार्थ दासी, न क्रीडादासीति तु तत्त्वम्। वियोगात्पापात्वम्। कतिपयेत्यनेन दतमागमनाभावः सूचितः । अवसरे समये उक्केर्व्या-
Page 278
२६३
जत्वं ब्रुवता कविना स्फुटं स्वोक्त्या निवेदित इत्ययमपि न ध्वनेर्मार्गः" इत्याहुरानन्दवर्धनाचार्याः । तृतीयोद्दचोते च गुणीभूतव्यञ्ञयनिरूपणे 'व्यन्नवस्यार्थस्य यदि मना- गप्युक्त्या प्रकाशनं तदा गुणीभाव एव शोभते। तस्माद्यन्रोक्तिं विना व्यन्नयोऽर्थस्तात्पर्येण प्रतीयते तत्र तस्य प्राधान्याद्दनित्वम्' इति तद्यु- क्तिविवेचनेऽभिनवगुप्तपादाचार्याः । एवं चैवंविधेषु विषयेषु व्यञ्जकत्वस्य व्यन्नघस्य वा मनागुक्तिसंस्प- र्शमात्रेण ध्वनित्वं निराकुर्वाणाः 'कांचित्काञ्चनगौराङ्गीं-' इति पद्ये शब्दा- भिहितव्यन्नथे ध्वनित्वं कथमिव सवीकुर्वीरन् । एतेन 'दर्पणे च परिभो- गदर्शिनी' इति प्रागुक्तपद्ये लज्जाध्वनित्वं यह्दीक्षितैरभ्यधीयत तदप्यपा- स्तमिति दिक्। अस्मिंश्र संशये नानाकोटिषु क्वचिदेक एव समानो धर्मः । कवचित्पृ- थक्। सोऽपि क्चिदनुगामी, क्वचिद्विम्बप्रतिविम्बभावमापन्नः, कचि- दनिर्दिष्टः, कचिन्निर्दिष्टः । तत्र 'मरकतमणिमेदिनीधरो वा' इति प्रागुदाहृतपद्ये श्यामाभिरामत्वं धर्मिणो रामस्य कोट्योश्च तमालमरकतभू- घरयोरेक एवानुगामी धर्मः प्रतीयमानत्वादनिर्दिष्टः । स एव निर्दिष्टो यथा- 'नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम् । सरोजं चन्द्रविम्बं वेत्यखिलाः समशेरत ॥' अत्र नेत्राभिरामत्वरूपस्त्रिष्वेक एवानुगामी धर्मो निर्दिष्टः। पृथगनु- गामी निर्दिष्टो यथा प्रागुदाहृते 'आज्ञा सुमेषोः' इत्यादौ। यथा वा- 'संपश्यतां तामतिमात्रतन्वीं शोभाभिरामासितसर्वलोकाम् । सौदामिनी वा सितयामिनी वेत्येवं जनानां हृदि संशयोऽभूत् ।'
जपूर्वमित्यर्थः । पूर्वोदाहरणाशयेनाह-व्यञ्जकेति। द्वितीयाशयेनाह-व्यङ्गयेति। तत्र तेषां धर्माणां मध्ये। इयामेति। तद्विशिष्टाभिरामत्वमित्यर्थः । सएव अनुगाम्येव। नेत्रेति। तयोरभिराममित्यर्थः। समेति। संशयं कृतवन्तः । एवमग्रेऽपि। पृथगिति।
Page 279
२६४ काव्यमाला।
अत्रातिमात्रतनुत्वं सौदामिन्या, शोभाभिरामासितसर्वलोकात्वं च सितयामिन्या सह कान्तायाः पृथगनुगामी समानो धर्मः । अत्रैव पूर्वार्ध- गतविशेषणद्वयत्यागे स एवानिर्दिष्टः । बिम्बप्रतिविम्वभावमापन्नो यथा 'तीरे तरुण्या वदनं सहासं-' इत्यादौ प्रागुक्त्े। यथा वा- 'सपल्लवा किं नु विभाति वल्लरी सफुल्लपझ्मा किमियं नु पझिनी। समुल्लसत्पाणिपदां स्मिताननामितीक्षमाणैः समलम्भि संशयः ॥' अत्र पल्लवफुल्लपझ्मे पाण्याननयोः प्रतिबिम्बकोट्योः पृथङ् निर्दिष्टे। 'इदमुदधेरुदरं वा नयनं वात्रेरुतेश्वरस्य मनः । दशरथगृहे तदानीमेवं संशेरते स्म कवयोऽपि ॥' अत्र तदानीमिति प्रकरणसाहाय्यवशाद्दशरथगृहेण धर्मिणाक्षिप्तस्य तत्कालजातस्य भगवतो रामस्य जलध्युदरादिसंशयकोटित्रयाक्षिप्तः साघारणश्चन्द्रः प्रतिविम्बः । इमौ च बिम्वप्रतिबिम्बावनिर्दिष्टावपि प्रती- यमानौ सादृश्यं प्रयोजयतः । एतेन 'अनुगाम्येव धर्मो लुप्ः संभवति, न तु बिम्बितः' इति वदन्तः परास्ताः । इति दिक्। अयं च क्चिदनाहार्यः, कचिदाहार्यः । यत्र हि कविना परनिष्ठः संशयो निबध्यते प्रायशस्तत्रानाहार्यः । यथा 'तीरे तरुण्याः', 'मरकत- मणिमेदिनीधरो वा' इत्यादिषु प्रागुदाहृतेषु पद्येषु। तत्र भ्रमरादीनां संशयानानां ग्राह्यनिश्चयाभावात् । यत्र च सवगत एव तत्राहार्यः ।
उपपादितमिदं प्राक्। सौदामिन्येति। सहकान्तेत्यत्रान्वेति। वल्री लता। पाणि- पदां स्मितेति। पादप्रतिबिम्वानिर्देशान्र्यूनतात्र। अत एव पाण्याननयोरित्यग्रिमोकिः संगच्छते। वस्तुतस्तु फुल्लपद्मं पाणिवत्पादयोरपि प्रतिविम्ब इति न दोषः । व्याख्यानं तूपलक्षणत्वेन योज्यमिति बोध्यम् । कोट्यो वल्लरीपद्मिन्योः। बिम्वप्रतिविम्बभावाप- न्नस्य निर्दरिष्टस्योदाहरणं दत्त्वानिर्दिष्टस्य तदाह-एवमिति। चन्द्रस्य त्रिघोत्पत्तिः, स- मुद्रादत्रिनेत्रात्परमेश्वरमनसश्चेति भावः । तदानीं रामोत्पत्तिसमये। तदानीमिति। प्रेति । प्रतिपाद्यप्रकरणेत्यर्थः । इमौ रामचन्द्रौ। अयं च संशयः । परनिष्ठ इति। खभिन्ननिष्ठ इत्यर्थः । क्वचिद्यभिचारादाह-प्रायश इति। अनाहार्यलमुपपा- दयति-तत्रेति। 'संशयानानां' इति पाठः। भ्रमरादिविशेषणमेतत्। एवेन परनिष्टत्व-
Page 280
रसगङ्गाधरः । २६५
यथा- 'अलिर्मृगो वा नेत्रं वा यत्र किंचिद्विभासते। अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदशः।' अत्र वत्तुः कवेस्तत्त्वज्ञतया संशयावाहार्यावेव। परम्परितोऽपि चायं संभवति- 'विद्वद्दैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवी- दावाभि: किमहो महोज्वलयशःशीतांशुदुग्धाम्बुधिः । किं वानङ्गभुजंगदष्टवनिताजीवातुरेवं नृणां केषामेष नराधिपो न जनयत्यल्पेतराः कल्पनाः ॥' अत्राप्याहार्यः । क्वचित्परनिष्ठोऽपि कविना निबध्यमान आहार्यो भवति। यथा- 'गगनाद्गलितो गभस्तिमानुत वायं शिशिरो विभावसुः । मुनिरेवमरुन्धतीपतिः सकलज्ञः समशेत राघवे ॥' अत्र मुनेर्वसिष्ठस्य सर्वज्ञत्वेनोपात्तस्य संशय आहार्य एव। यद्यप्यत्र 'मुनीनां च मतिम्रमः' इत्युक्त्या तस्यानाहार्य एव संशयो बक्तुं शक्यः, तथापि कोटितावच्छेदकयोः शिशिरत्वगगनगलितत्वयोरमनिसूर्यरूपको- टिद्धिये आहार्यवोधस्यैवावश्यवाच्यतया पुरोवर्तिन्यभेदेन कोटिद्वयाभेदां- शेऽपि तस्यैव न्याय्यत्वात्। इह च कोट्योर्धर्मिसादृश्यदार््यायोष्णत्व-
व्यवच्छेदः । यत्र मुखरूपवस्तुनि। इदमेवाग्रे इदंपदार्थः । प्रत्यासत्तिन्यायेनाह-कवे- रिति। परम्परितोऽपीति। अत्रारोपस्यारोपमात्रत्वेन परम्परितलम्, न तु संशयस्य संशयोपादेयत्वेन। दैन्यादीनां तमस्तादिसंदेहाविषयलादिति बोध्यम् । त्रिमूर्तिः ऋग्य- जुःसामात्मकः सविता। वैरीन्द्रेति। वैरिश्रेष्ठा एव वंशारण्यमित्यर्थः । जीवातुर्जीवनौ- पधम्। अल्पेतरा बहवः । कल्पनाः संशयाः । खगत एवेत्यवधारणमयुक्तमित्याह- कचित्परनिष्टोऽपीति। यद्यपि विद्वहैन्येत्युदाहृतोऽवि परनिष्टो भवति तथापि केपा- मिति सामान्येन निर्देशात्खनिष्टोऽपि भवतीत्यत उदारहणान्तरमाह-गगनादिति। विभावसुरभिः । मुनिर्वसिष्टः। समशेत संशयं कृतवान्। अन्न गगनादिपद्ये। चोऽन्य- समुचायकः। तस्य वसिष्ठस्य। पुरोवर्तिनि श्रीरामे। वर्तिन्यभेदेनेति चिन्त्यम्। तस्यैव
Page 281
२६६ काव्यमाला। गगनगतत्वरूपवैधर्म्यनिरासकमविद्यमानमपि गगनगलितत्वं शिशिरत्वं चारोप्यते वक्रा। एवमादयोऽन्येऽपि प्रकारा: सुधीभिः स्वयमुन्नेयाः। इति रसगज्गाधरे ससंदेहप्रकरणम् । अथ भ्रान्तिमान् सदृशे धर्मिणि तादात्म्येन धर्म्यन्तरप्रकारकोऽनाहार्यो निश्चयः सादृश्यप्रयोज्यश्चमत्कारी प्रकृते भ्रान्तिः । सा च पश्चुपक्ष्यादिगता यस्मिन्वाक्संदर्भेऽनूद्यते स भ्रान्तिमान् ।। अत्र च भ्रान्तिमात्रमलंकारः । भ्रान्तिमानलंकार इति व्यवहारस्त्वौ- पचारिकः । तथा चाहु :- 'प्रमात्रन्तरधीर्भ्रान्तिरूपा यस्मिन्ननूद्यते। स भ्रान्तिमानिति ख्यातोऽलंकारे त्वौपचारिकः ॥' इति। लक्षणे मीलितसामान्यतद्रुणवारणाय धर्मिग्रहणद्वयम् । रूपकवि- त्तिवारणायानाहार्य इति कवभिन्नगत इति वा। संशयवारणाय नि- श्रय इति। इदं रजतमिति रङ्गविशेष्यकबोधवारणाय चमत्कारीति । कविप्रतिभानिर्वर्तित इत्यर्थः । रके रजतमिति बुद्धेलौंकिकतया न कवि- प्रतिभानिर्वर्तितत्वम् । 'अकरुण हृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् । इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ।।' इत्यत्र नायिकासंदेशहरस्योक्तौ व्यज्यमानस्योन्मादस्य वारणाय सा- दृश्यप्रयोज्य इति। न चात्रोन्मादस्य प्राधान्यात्सकलालंकारसाधारणे- नोपस्कारकत्वविशेषणेनैव वारणमिति वाच्यम्। तस्यापि पार्यन्तिक-
आहार्यवोधस्यैव। ससंदेह इति व्यवहारस्त्वौपचारिकः । भ्रान्तिमानितिवत् । इति रसगज्ञाधरममेप्रकाशे ससंदेहप्रकरणम् ॥। अथ ध्रान्तिमन्तं लक्षयति-अथेति । अन्यत्र नैवमित्याह-प्रकृत इति । आदिना मनुष्यग्रहणम्। प्रतिज्ञाविरोधाभावायाह-अत्रेति। औपचारिक इति। भ्रान्तिनिष्ठालंकारत्वस्य तद्वत्यारोपात्। भ्रान्तितद्वतोरभेदारोपाद्वेति भावः । ससंदेह इति व्यवहारोऽप्येवमेवति प्रागुक्तम्। प्रमेति। कविभिन्नेत्यर्थः । अलंकारे अलंकाराणां मध्ये। आर्षमेकवचनान्तानुरोधेनाह-कवीति। ननु तत्रापि चमत्कारोऽस्त्ये- बात आह-कवीति। उक्तौ नायकं प्रतीति शेषः । उन्मादस्येति। 'विप्रलम्भ-
Page 282
रसगङ्गाधरः । २६७
विप्रलम्भोपस्कारकत्वात्। यद्वा संदेशहरात्संदेशं श्रुतवतो नायकस्य स्मित्रं प्रतिपद्येदं वाक्यं 'अकरुणहृदय-' इत्यादि तदास्मिन्नेव पद्ये सेति पदव्यङ्मयायाः स्मृतेरुपस्कारके उन्मादे तथाप्यतिप्रसञ्गापत्तेः सादृश्य- प्रयोज्यत्वमावश्यकम्। लक्षणे चात्रैकत्वं विवक्षितम्। अन्यथा वक्ष्यमा- णानेकग्रहीतृकानेकप्रकारकैकविशेष्य कभ्रान्तिसमुदायात्मन्युल्लेखेडतिप्रस- ड्वापत्तेः । अत एवैकवचनमपि सार्थकम्। उदाहरणम्- 'कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया। चपलायुतवारिदभ्रामान्ननृते चातकपोतकैर्वने ।।' अत्र चातकगतहर्षोपस्कारकतया तद्गता भ्रान्तिरलंकारः । अत्रैव यदि 'परिफुल्लपतत्रपल्लवैर्मुमुदे चातकपोतकैर्वने' इत्युत्तरार्ध निर्मीयते वदायमेव भ्रान्तिध्वनिः । यच्चाप्पदीक्षितर्लक्षणमुक्तम्- 'कविसंमतसादृश्याद्विषये पिहितात्मनि। आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ।।' इति। 'तत्र कविसंमतसादृश्यप्रयोज्ये विषये आरोप्यमाणानुभवो यत्र वा- क्संदर्भे स आ्रान्तिमान्' इति भ्रान्तिमतो लक्षणं विधाय रूपकव्यावृत्त्यर्थ पिहितात्मनीत्युच्यते। न चैतद्युक्तम् । नहि रूपवाक्ये आरोप्यमाण- स्यानुभवो वर्ण्यते, किं तु तस्माज्जायते। न चात्रानुभवान्तं भ्रान्तेर्लक्षण- मग्रिमं च भ्रान्तिमतः । तत्र भ्रान्तिलक्षणे रूपकेऽतिव्याप्तेर्वारणाय वि- षये पिहितात्मनीति विशेषणमिति वाच्यम्। अनुभवत्वघटितस्य भ्रा- न्तिलक्षणस्यानुभूयमानाभेदात्मके रूपके कथमप्यप्रवृत्तेः । यदि च रूप- कपदं रूपकवुद्धिपरमिति अन्थसामञ्जस्यं विधीयते, तदापि विषयताव-
महापदादिजन्मा अन्यस्मिन्रन्यावभास उन्मादः इति मतेनेदम्। नन्वत्र विप्रलम्भ- जन्यत्वेनोन्मादस्य कथं तदुपस्कारकत्वमत आह-यद्वेति। अत एव निश्चय इत्यत्रैक- लविवक्षणादेव। उच्यत इति। अयं भाव :- तद्विशेषणेनारोप्यमाणानुभवस्य स्वार- सिकस्य कविप्रतिभया कल्पनं विवक्षितम्। तस्यैव विषयपिधानसामर्थ्यादिति। अग्निमं चेति। यत्रेत्याद्युक्त्कमित्यर्थः । तत्रेति। तद्वाक्यजानुभवस्य तत्रापि सत्त्वादिति भावः ।
Page 283
२६८ काव्यमाला। च्छेदकानवगाहिनि 'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तं- मालः' इति संशयेऽतिप्रसङ्गात्, कमलमिति चञ्चरीकाश्चन्द्र इति चको- रास्त्वन्मुखमनुधावन्ति' इति भ्रान्तिसमुदायात्मन्युल्लखेऽतिव्याप्तेश्च। अत्र भ्रान्त्या संकीर्ण उल्लेख इति चेत्, नह्येतावतोलेखांशातिव्याप्तिर्न दोषः । नहि दुग्धभागजलभागानां व्यामिश्रतास्तीति दुग्धलक्षणं जलांशातिव्या- प्तिकं कर्तु युक्तम्। यच्चापि भिन्नकर्तृकोत्तरोत्तरभ्रान्तावुदाहृतम्- 'शिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चश्चरीकै- स्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै- रित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ।' इति। तत्र विचार्यते-स्तनकलशयुगे हि न तावन्मञ्जरीसादृश्यं कविसम- यसिद्धम्, येन तन्मूला चश्चरीकाणां भ्रान्तिरुपनिवध्येत। दोषान्तरमूला तु सा नालंकार इत्यनुपदमेव निरूपितम् । अपि च धर्मिणि कलशरूपका- नुवादेन मञ्जरीभ्रान्तिरूपमलंकारान्तरमुपनिवध्यमानमुद्वेजकमेव सहृद- यानाम्। नहि सादृश्यमूलैकालंकारावच्छिन्ने सादृश्यमूलमलंकारान्तरं शोभते। यथा 'मुखकमलं तव चन्द्रवत्प्रतीमः' इति प्रागेव निवे- दनात्। प्रत्युत कलशरूपकेण मञ्जरीसादृश्यतिरस्काराच्च । 'तत्रासो- लासलीला: किसलयमनसा पाणयः कीरदष्टाः' इत्यत्र विधेयाविमर्शा- ननु नामसंशयेऽतिप्रसङ्गः। विषयस्यैवेति प्रतिपादनादत आह-कमलमिति। अत एव वक्ष्यति भ्रान्त्या संकीर्ण इति। अतिव्याप्तेश्च्ेति। उल्लेखत्वभ्रान्तित्वयोरत्र संकीर्ण- तम्। बाधकाभवात्। भूतत्वमूर्तत्वयोरिव। नरैर्वरगतिप्रदेत्यत्रोल्लेखलस्य, कनक इवे- त्यन्न भ्रान्तित्वस्य सावकाशत्वादिति कश्चित् वनितेति वदन्त्येतां लोका इति त्वदुदाह- तापह्वुतिसंकीर्णोल्लेखे उपमेयतावच्छेद क निषेधसामानाधिकरण्येनोत्थाप्यपहुतिलक्षणाति- व्याप्तिस्तवाप्यस्ति। एवं तत्तदलंकारसंकीर्णे तत्तदसंकरलक्षणस्य सा दुर्वारेति चिन्त्य- मिदमित्यपरे। तावदादौ। उपेति। वर्ण्येतेत्यर्थः। ननु यथाकर्थंचित्सादृश्यमप्यस्तीलत आह-अपिचेति। धर्मिणि स्तनरूपे। मुखकमलमिति रूपकम्। अभ्युपेत्याह- प्रत्युतेति। एवमादे दोषमुक्त्वा द्वितीये दोषमाह-त्रासोललेति। त्रमरभयजनन- जातचेष्टा इत्यर्थः । विधेयाविमर्शादिति। विधेयस्याकथनादित्यर्थः । उद्देश्यकोटिप्र- विष्टं सर्वमिति भावः । पाणी उद्दिश्य विशिष्टस्य कीरकर्तृकदष्टत्वस्य विधेयत्वे को दोष
Page 284
रसगङ्गाघरः । २६९
द्विधेयान्तरमाकाह्ितम्। कीरैर्दष्टा इति तु भाव्यम्। जाता इत्यध्याहा- रेऽपि विवक्षितस्याविधेयत्वमविवक्षितस्य च विधेयत्वं प्रसज्येत। एवं 'तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैः' इत्यत्र न ताव- त्पिकनिनदास्ताडनयोग्याः काकानाम्, येन तद्धिया आलपन्त्यस्तैस्ताड्ये- रन्। नापि पिकनिनदभ्रम आलपन्तीषु संभवति। संभवन्वा न सादृश्य- मूलः । पिकनिकरधियेति तु भाव्यम्। अथ तदालापेषु पिकनिनदबुद्धे- रपि तासु पिकबुद्धचुत्पादनद्वारा संभवत्येव ताडनोपयोग इति प्रयोज्य- त्वार्थकतृतीयया पिकनिनद्धीप्रयोज्यकाककर्तृकताडनकर्मत्वमालपन्तीनां सुप्रतिपादमेवेति चेत्, नैवम्। तथाप्रतीतेरसिद्धेः। 'चोरुद्या हतः साधुः' इत्यादौ चोरबुद्धिहननयोः सामानाधिकरण्येन हेतुहेतुमद्भावगमकत्वव्यु- त्पत्तेः । एवं 'दन्तिबुद्या हतः शूरैर्वराहो वनगोचरः' इत्यत्रापि विशेष्य- तया वराहवृत्तेर्दन्तिबुद्धेर्वराह्वृत्तिहननहेतुभावावगमः । त्वदुक्तरीत्या दन्तवुद्धेतिकृते वोधकदर्थनैव। कि च पिकानां हि कूजितादिशब्दैरेव शब्दो वर्ण्यते, न तु निनदादिशब्दैः सिंहदुन्दुभ्यादिशब्दप्रयोग- योग्यैः । तथा प्रथमद्वितीयचरणस्थयोः स्तनपाण्योर्यथाकथंचिद्यव- हितमपि जातान्वयमपि त्वदरिमृगदृशामिति षध््यन्तमन्वेतुं शक्कयात्, न तु तृतीयचरणस्थे आलपन्त्य इत्यस्मिन्विशेषणे विशेष्यभावेनेति तासां ताटस्थ्यमेव स्यात्। विभक्तिपरिगतावपि प्रक्रमभङ्गासंघ्ुलत्वाभ्यां स्थित- मेवेति पद्यमव्युत्पन्ननिर्मितमेव। दीक्षितैस्तु आ्रान्त्यलंकारांशमात्रमादायो- दाहृतमिति दिक्। यत्त्वलंकारसर्वस्वकृता लक्षितम्, सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान्' इति, तन्न। प्रागुक्ते संशयालंकारे वक्ष्यमाणायामुत्प्रेक्षायां चातिप्रसङ्गात्। प्र- इति चिन्त्यमिदम्। विवेति। दष्टत्वस्येत्यर्थः । तृतीये तमाह-एवमिति। तह्ोपाय कीरदूरीकरणाय। तावदादौ। दोषमूलः संभवतीत्याह-संभवन्वेति। शब्दप्रयो- गेति। शब्दे प्रयोगेत्यर्थः । आसत्त्याकाह्मयोः खारसिकयोरभावादाह-यथाकर्थं- चिदिति। जातान्वयेति। नाप्यरण्यं शरण्यमिति संनिहितेनेति भावः। न त्विति। विभिन्नविभक्तित्वात्खस्मिन्खभेदाभावाच्चेति भावः । ननु विभक्तिविपरिणामेनाभेदान्वयः सुलभोऽत आह-विभक्तीति। प्रक्रमेति । नन्वेवं दीक्षितैः कथमुदाहृतमत
Page 285
२७० काव्यमाला। तीतिपदस्य निश्चयपरत्वे रूपकवित्तावतिप्रसङ्गात्। विषयतावच्छेदकान- वगाहित्वेन निश्चयो विशेषणीय इति चेत् , विशेष्यताम्। तथाप्यतिश- योक्तिवित्तावतिप्रसक्तिरवारितैव। अनाहार्यत्वेन निश्चयविशेषणत्वे पुनर- स्मदुक्त एव पर्यवसितिः । मतुवर्थासंगतिश्च। तत्र 'कनकद्रवकान्तिका- न्तया' इत्यत्र सीतातडितोर्विम्बप्रतिबिम्बभावः। युतत्वमिलितत्वयोश्च शुद्धसामान्यरूपता । 'रामं स्न्निग्घतरश्यामं विलोक्य वनमण्डले। घाराधरघिया धीरं नृत्यन्ति स्म शिखावलाः ।' अत्र स्न्निग्धत्वश्यामत्वयोरनुगामित्वम् । इति रसगद्गाधरे भ्रान्तिमत्प्रकरणम्। अथोल्लेख :- एकस्य वस्तुनो निमित्तवशाददनेकैर्ग्रहीतृभिरनेकप्रकारकं ग्रहणं तदुलेखः ॥ 'अधरं बिम्वमाज्ञाय मुखमव्जं च तन्वि ते। कीराश्र चञ्चरीकाश्च विन्दन्ति परमां मुदम् ॥' अत्र कीरचञ्चरीकाभ्यामधरवदनयोर्बिम्वत्वेन पद्मत्वेन च ग्रहणे भ्रा- न्तिरूपेऽतिप्रसङ्गवारणायैकस्य वस्तुन इति। 'धर्मस्यात्मा भागघेयं क्ष- मायाः' इत्यादि मालारूपके प्रसङ्गवारणायानेकैर्ग्रहीतृभिरित्यविवक्षितव- हुत्वकं ग्रहणविशेषणम्। 'नृत्यत्त्वद्वा जिरा जिप्रखरखुरपुट प्रोद्धतैर्धू लिजालै- रा लोकालोकभूमीधरमतुलनिरालोकभावं प्रयाते। आह-दीक्षितैरिति। निश्चयपरत्व इति। तथा च संशयसंभावनारूपयोस्तयो- र्नातिप्रसङ्ग इति भावः । वित्तौ तज्ज्ञाने। अनाहार्यत्वेनेति। नन्वेवमपि कथमति- शयोक्तवतिव्याप्तिवारणाय। तस्यामनाहार्याभेदज्ञानस्यैव सर्वसंमतत्वात्प्रागुक्तत्वाच्चेति चेत्, चिन्त्यमेतत्। मतुबिति। भ्रान्तिमानिति मतुबित्यर्थः । अत्र धर्मभेदमाह- तत्रेति। उक्तोदाहरणानां मध्य इत्यर्थः । धाराधरो मेघः । शिखावला मयूराः ॥इति रसगङ्गाधरमर्मप्रकाशे भ्रान्तिमत्प्रकरणम् ॥ उल्लेखं लक्षयति-अथोल्लेख इति । भ्रहणं ज्ञानम् । कीराः शुकाः । च- ञ्रीका भ्रमराः । नन्वेवं बहुवचनात्रिप्रभृत्येव स्यात्, द्वयोन स्यादत आह-अवि- वक्षितेति। नृत्यदिति। राजानं प्रति कवेरुक्िः । अतुलेति। आलोकालोकम्।
Page 286
रसगङ्गाघरः । २७१
विश्रान्ति कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः कोकाः कन्दन्ति शोकानलविकलतया किं च नन्दन्त्युलूकाः ॥' अत्र धूलिजालरूपस्यैकस्य वस्तुनोऽनेकैर्लोककोकोलकैर्ग्रहीतृभिरे- केनैव रजनीत्वरूपेण प्रकारेण ग्रहणमिति तत्रातिप्रसङ्गवारणायानेकप्रका- रकमिति। ग्रहणमिति ग्रहणसमुदायो विवक्षितः । एकत्वं जातौ । अ- नेकग्रहीतृकस्यैकस्य अ्हणस्याप्रसिद्धेः । तेन द्वयोर्बहनां वा ग्रहणं नि- मित्तवशादिति तु वस्तुकथनमात्रस् । उदाहरणम्- 'नरैर्वरगतिप्रदेत्यथ सुरैः स्वकीयापगे- त्युदारतरसिद्धिदेत्यखिलसिद्धसंघैरपि। हरेस्तनुरिति श्रिता मुनिभिरस्तसङ्गैरियं तनोतु मम शं तनो: सपदि शन्तनोरङ्गना ।I' अत्र च लिप्सारुचिभ्यां निमित्ताभ्यामस्त्यनेकग्रहीतृकवरगतिप्रदा- त्वाद्यनेकप्रकारकग्रहणसमुदायो गङ्गाविषयकरतिभावोपस्कारकः । शुद्ध एवात्रायमुल्लेखालंकारः । रूपकाद्यमिश्रणात् ।
लोकालोकस्य किंचिदंशे प्रकाशः किंचिदंशेऽप्रकाशः । धूल्याक्रान्तत्वे तु सर्वोशेनाप्रका- शत्वं गत इत्यर्थः। नन्वेवं बहुवचनौचित्येन कथमेकत्वमत आह-एकत्वमिति। अने- केति। एकस्य वस्तुनोऽनेकप्रकारस्येत्यादिः। बहुवचनमविवक्षितमित्युक्तत्वादाह- द्वयोरिति। नन्वेवमपि निमित्तवशादित्यधिकमत आह-निमित्तेति। न च 'कीतौं विस्फृर्तिमत्यां ते मृणालक्षीरशट्टिनः । द्वयेऽपि नागास्तन्वन्ति जिह्वान्तोल्ोलनं मुहुः ॥' इति भ्रान्तिमदुदाहरणे एकस्या एव कीर्तेरनेकेन कुजरभुजंगरूपेण अहीत्रा मृणालक्षीर- रूपत्वानेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्तिनिरासाय निमित्तमेदादित्यर्थकं नि- मित्तवशादित्यावश्यकम्। तत्र कीर्तिगतं धावल्यमेकमेवोल्लेखद्वयेऽपि निमित्तमिति वा- च्यम्। सखप्रियाहारलिप्सारूपनिमित्तमेदस्यापि तत्र सत्त्वेन संग्राह्यत्वादिति भावः । वरेति। ब्रह्मसुखाप्तीत्यर्थः । स्वकीयेति। मन्दाकिनीत्यर्थः । उदारेति। उत्कृष्टतरे- त्यर्थः । शन्तनो राजः स्त्री गन्ञा मम तनोः शं कल्याणं सपदि तत्कालं तनोत्वित्यर्थः। लिप्सा लाभेच्छा। तस्यालंकारत्वायाह-गङ्गेति। कविनिष्ठेत्यादिः । अत्रेति। पद्य इत्यर्थः। उक्क इति शेषः । सुन्दरीति आलीति च संबोधने। नायिकां प्रति सख्या नाय
Page 287
२७२ काव्यमाला। संकीर्णोऽपि दृश्यते। यथा- 'आलोक्य सुन्दरि मुखं तव मन्दहासं नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः। किं चालि पूर्णमृगलाञ्छनसंभ्रमेण चख्नपुटं चटुलयन्ति चिरं चकोराः ।।' अत्रककग्रहणरूपया भ्रान्त्या समुदायकात्मक उल्लेखः संकीर्णः । 'वनितेति वदन्त्येतां लोकाः सर्वे वदन्तु ते। यूनां परिणता सेयं तपस्येति मतं मम ॥' अत्र विषयतावच्छेदकस्य परसंमतत्वेन निषेध्यतयोपन्यासादपह्दुत्या संकीर्णः । अप्पदीक्षितास्तु-"एवमपि यदि- 'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे। वक्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम् ।।' इत्यपह्नवोदाहरणविशेषेतिव्याप्तिः शङ््या । तदानीमनेकधोल्लेखनं निषेधास्पृष्टत्वेन विशेषणीयम्। तत्राद्योल्लेखनद्वयं परमतत्वोपन्याससाम- थ्याद्गम्यमाननिषेधमिति नातिव्याप्तिः" इत्याहुः । तन्न। 'द्विविधश्चायमु- लेख: शुद्धोऽलंकारान्तरसंकीर्णश्र' इत्युक्त्वा "श्रीकण्ठजनपदवर्णने, 'य- स्तपोवनमिति मुनिभिरगृह्यत' इत्यादौ शुद्धः, 'यमनगरमिति शत्रुभिः, वज्रपञ्जरमिति शरणागतैः' इत्यादौ भ्रान्तिरूपकादिसंकीर्णः" इति स्वय- मेवोक्तत्वात्। इहाप्यपहुत्या संकीर्ण उल्लेख इत्यस्य सुवचत्वात् । यदि चैवं विधापहुतिवारणाय निषेधास्पृष्टत्वं विशेषणमुच्यते तदा वस्य वोकतिः। चिरं चकोरा इति। स्वरप्रियाहारलिप्सा च निमित्तम्। एतां ना- यिकां नायकोक्तिरियम्। अवच्छेदकस्य वनितात्वस्य। निषेध्येति। आर्थिकेत्यादिः। एवमपि उक्तविशेषणदानेऽपि। गम्येति। बहुव्रीहिः। श्रीकण्ठेति। शुद्धस्यैकमुदाह- रणं सोपपादनमुक्त्वान्यदाह हर्षचरिते। इत्यादौ यस्तपोवनमित्यादिगये। अगृह्यते- त्यस्य सर्वत्र संबन्धः। यच्छन्दार्थः श्रीकण्ठजनपदः । शुद्ध इति । तत्र तपो- वनादिभूनिष्ठत्वादिति भावः । यमनगरत्वादीनां ताद्रूप्यानुभवगोचरतयान्वये आह- भ्रान्तीति। यदि तेषामुपरअकतामात्रेणान्वयस्तदाह-रूपकेति। एवंविधेति।
Page 288
रसगङ्गाधरः । २७३
'कपाले मार्जारः पय इति करांल्लेढि शशिन- स्तरुच्छिद्रपोतान्बिसमिति करी संकलयति। रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्रन्द्रो जगदिदमहो विश्रमयति ॥' इति त्वदुदाहृतभ्रान्तावतिप्रसङ्ग: कथं नाम वार्येत । मार्जाराद्यनेकग्र- हीतृकानेकघोल्लेखनस्य तत्रापि सत्त्वात्। स्वसप्रियाहारलिप्सारूपनिमि- चभेदाच्च। तस्मात्संकीर्णनिवारणाय यत्नोऽनर्थक एव। संशयसंकीर्णो यथा- 'भानुरमिर्यमो वायं बलिः कर्णोऽथवा शिविः । प्रत्यर्थिनश्चार्थिनश्च विकल्पन्त इति त्वयि ॥' अत्र द्वयोर्ग्रहणयोः प्रत्येकं संशयत्वम्। समुदायस्य तूलेखता। अयं च स्वरूपमात्रोल्लेखे स्वरूपोल्लेखः प्रागेव निरूपितः । फलानामुल्लेखे फलोलेखो यथा- 'अर्थिनो दातुमेवेति त्रातुमेवेति कातराः । जातोऽयं हन्तुमेवेति वीरास्त्वां देव जानते ।।' हेतूनामुल्लेखे हेतूलेखः । यथा- 'हरिचरणनखरसञ्गादेके हरमूर्धसंस्थितेरन्ये। त्वां प्राहुः पुण्यतमामपरे सुरतटिनि वस्तुमाहृातम्यात् ।।'
विलक्षणेत्यर्थः । त्वदुदेति। त्वया प्रथमं मुख्यत्वेनोदाहृतेत्यर्थः । तादृशभ्रान्तिविशेष- स्यापि वारणावश्यकत्वात्। अन्यथा संकीणे तत्कथमादावुदाहृतम्। तद्विविक्तविषयस्यै- वादावुदाहर्तुमौचित्यात्। अन्यथालंकारभेदो न स्यादिति भावः । अनेकधेति। पय- स्तादीत्यर्थः । उपसंहरति-तस्मादिति। शिविस्तन्नामको राजा। अत्र द्वयोरिति। प्रथम पादद्वितीय पादप्रतिपाद्ययोरित्यर्थः। उक्कवद्गेदमाह-अयं चेति। उल्ेखश्वेत्यथः। उल्लेखे सतीति शेषः । एवमग्रेऽपि। अर्थिन इति। राजानं प्रति कव्युक्तिः । हरीति। गङ्गासतुतिः। नखरेति। नखेत्यर्थः । वस्तुमाहात्म्यादिति। सस्रूपस्यैव माहा- त्म्यादित्यर्थः । पूर्वोदाहरणे एकस्यैव राज्ञो दातृत्वत्रातृत्वहन्तृत्वप्रकारेणोल्ेखः । अत्र रवेकस्य पुण्यतमात्वस्य हरिपदसन्गादिहेतुकत्वेनोलेखः। प्रकारस्य फलत्वहेतुत्वाभ्यां रस० २६
Page 289
२७४ काव्यमाला।
अथ प्रकारान्तरेणाप्युल्लेखो दृश्यते-यत्रासत्यपि ग्रहीत्रनेकत्वे विषयाश्रयसमानाघिकरणादीनां संबन्धिनामन्यतमानेकत्वप्रयुक्तमेकस्य व- स्तुनोऽनेकप्रकारत्वम् । अयमपि द्विविधः, शुद्धोऽलंकारान्तरसंकीर्णश्च । शुद्धो यथा- 'दीनव्राते दयार्द्रा निखिलरिपुकुले निर्दया किं च मृद्वी काव्यालापेषु तर्कप्रतिवचनविधौ कर्कशत्वं दधाना । लुब्धा धर्मेप्वलुब्धा वसुनि परविपद्दर्शने कांदिशीका राजन्नाजन्मरम्या स्फुरति बहुविधा तावकी चित्तवृत्तिः ।।' अत्र दीनव्रातादीनां विषयाणामनेकत्वाच्चित्तवृत्तेरनेकविधत्वम्। रा- जविषयकरतिभावोपस्कारकोऽयमुल्लेखः । यद्यपि चित्तवृत्तिव्यक्तीनाम- त्रैक्यं नास्ति, तथापि तदीयचित्तवृत्तित्वेन सामान्येन तासामेकत्वं विवक्षितम्। यथा वा- 'कातराः परदुःखेपु निजदुःखेष्वकातराः । अर्थेप्वलोभा यशसि सलोभाः सन्ति साधवः ॥' अत्रापि साघवः सन्तीत्यनेन मृता अपि न मृतास्ते, इतरे पुनरमृता अपि मृता एवेत्यर्थाभिव्यक्तिद्वारा व्यज्यमाने साधूत्कर्षविशेषे उपस्का- रकोऽयम् । फलोल्ेखत्वादिव्यवहार इति वोध्यम्। संबन्धिनामिति। विषयरूपाश्रयरूपैकाधिकर- णत्ृत्तित्वेन प्रतीयमानरूपाश्च ये संवन्धिनः । विषयाश्रयसहचरादिरूपा ये संन्धिन इति यावत्। तेषां मध्ये यस्य कस्यचिद्यदनेकत्वं तत्प्रसक्तमित्यर्थः । ब्राते समूहे। मृद्वीति। काव्योक्तिषु कोमलेल्यर्थः । व्यालापेषूक्तिमात्रेषु मृद्वीका द्राक्षारूपा। मधुरेति यावदिति कश्चित्। तर्केति। तर्कस्य प्रतीत्यर्थः । वसुनि द्रव्ये। परेति । परस्य परा वेत्यर्थः । कांदिशीति। कस्यां दिशि गन्तव्यमिति धीविशिष्टेत्यर्थः । राजानं प्रति कव्युक्तिः। अस्यालंकारतायाह-राजेति। कविनिष्ठेत्यादिः। नास्तीति। तथा चैकस्य वस्तुन इत्यंशाभावान्नेदं लक्ष्य मिति भावः । तथा लक्षणे विवक्षाया अभावादाह-यथा वेति। अन्न परदुःखादीनां विषयाणामनेकत्वात्साधून।मनेकविधत्वं स्पष्टमुपेक्ष्यालंकारान्तरत्वमु- पपादयति-अन्रापि साधव इति। एवं विषयानेकत्वप्रयुक्तमुदाहृत्याश्रयानेकत्वप्रयुक्त-
Page 290
रसगङ्गाधरः । २७५
यथा वा- 'तुषारास्तापसव्राते तामसेषु च तापिनः । हगन्तास्ताडकाशत्रोर्भूयासुर्मम भूतये ।।' पूर्वपद्ययोर्विषयानेकत्वप्रयुक्तम्, इह त्वाश्रयानेकत्वप्रयुक्तमनेक विधत्वं दृगन्तानाम् । 'विद्वत्सु विमलज्ञाना विरक्ता यतिषु स्थिताः । स्वीयेषु तु गरोद्वारा नानाकारा: क्षितौ खलाः ॥' अत्र विद्वदादिसहचरभेदप्रयुक्तं खलानामनेकविधत्वम्। एवमन्येषां संवन्घिनां भेदेऽप्यूह्यम्। संकीर्णो यथा- 'गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले। पृथिव्यां सागरायन्ते भूपाल तव कीर्तयः ॥' अत्रोपमया आपाततः प्रतीयमानया पर्यवसितया चोत्प्रेक्षया। 'उपरि करवालधाराकाराः ऋरा भुजंगमपुंगेवात्। अन्तः साक्षाद्वाक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥।' अत्रोपमाव्यतिरेकाभ्यां तयोः समुच्चयेनोत्प्रेक्षया च संकीर्णः । 'यम: प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनपतिर्घनाकाङ्किणाम् । मुदाहरति-यथा वेति। ताडकाशत्रोः श्रीरामस्य। समानाधिकरणानेकत्वं प्रत्युदाह- रति-विद्वदिति। यथा वेत्यादि। यतिपु भिक्षुषु। गरोद्वारा विषोद्ाराः। आदिपदा- र्थमाह-पवमिति। उपमानात्क्यडो विधानादाह-अत्रोपमेति। तत्रातात्पर्या- दाह-पर्यवेति। उत्प्रेक्षयेति। संकीर्ण इति शेषः। भुजंगमेति। सर्पश्रेष्ठादित्यर्थः। सप्तमीसमास: कर्मधारयो वा। द्राक्षेति। द्राक्षाया या माधुर्यदीक्षा तस्या गुरव इत्यर्थः । करवालेत्यत्रोपमा । कूरा इत्यत्र व्यतिरेकः । तयोरुपमाव्यतिरेकयोः । मुख इत्यत्राह-उत्प्रेक्षया चेति। द्वयोरुलेखयोः संकरमादिपदग्राह्यसंबन्धिभेदे प्रयुक्ततवं च दर्शयितुमुदाहरति-यम इति। तन्नीवृतां प्रतिपक्षराजजनपदानाम्। कुलिशं वज्रम्। राजानं प्रति कव्युक्तिः। यमत्वादिना भ्रान्तिरपीति शरणेच्छूनां भ्रान्तिवर्णने राजोत्क- १. आर्यापूर्वार्घे 'नेह भवति विषमे जः' इति नियमादत्र च विषमे सप्तमस्थाने ज-
Page 291
२७६ काव्यमाला।
गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ।' अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण वि- पक्षभूपालादीनामेतस्मिन्नायाते यमत्वादिना भ्रान्तिरपि संभवतीति भ्रा-
त्प्रागुक्तोललेखप्रकारेण च सह संकीर्णोयं संबन्धिषष्ठ्यन्तभेदप्रयुक्तव- पर्यानेकविधत्वक उल्लेखः । अत्रेदं बोध्यम्-प्रथमनिरूपितोल्लेख प्रकारे 'यं महाविष्णुरिति वै- ष्णवाः, शिव इति शैवाः, यज्ञपुरुष इति याज्ञिकाः, खभाव इति लो- कायतिकाः, ब्रह्मेत्यौपनिषदा वदन्ति सोऽयमादिपुरुषो हरिः' इत्यादौ तत्तद्रहीतृकतत्तत्प्रकारकज्ञानसमुदायस्य चमत्कारजनकतयानुभवसिद्धत्वे नालंकारत्वम्। द्वितीये तु प्रकारे 'यः शिष्टेषु सदयो दुष्टेपु करालः' इत्यादौ तत्तद्विषयभेदभिन्नस्य प्रकारसमुदायमात्रस्य तथात्वम् । न तु विद्यमानस्यापि ज्ञानांशस्य चमत्कारित्वेनाननुभवात् । चमत्कारनिबन्धनो ह्यलंकारभाव उपमादीनाम् । अत एवास्माभिः 'विषयाद्यन्यतमानेकत्व- प्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारत्वम्' इति द्वितीय उल्लेखो लक्षितः । एवं च 'लक्षणद्वयान्यतरत्वमुल्लेखसामान्यलक्षणतावच्छेदकम्' इ- त्याहुः। परे तु 'प्रकारद्वयेऽपि वर्ण्यवृत्तित्वेन भासमानप्रकारसमुदाय एवोललेखः' इत्यपि वदन्ति ।
पविरोधीति चिन्त्मिदम्। प्रागुक्तोललेखेति। इदमपि चिन्त्यम्। ज्ञानस्यानिवन्धने च ज्ञानपर्यन्तस्य पूर्वोह्लेखस्य कथमप्यत्रासत्त्वात्। नियतव्यअ्जकसाम्यभावेनार्थस्यापि तस्यासत्त्वाच्चेति दिक्। इतोऽपि भ्रान्तिरपि संभवतीति चिन्त्यमिति वोध्यम्। विषया- श्रयसहचराणां संबन्धिनामत्र सत्त्वादाह-संबन्धिषष्ठयन्तेति। षध्यन्तार्थसंबन्धी- त्यर्थः । क्वचित्तथैव पाठः। यं प्रकृतं राजानम्। एवम्रेऽपि। जनकतयेति। इदं ज्ञानं चमत्कारीत्यनुभवाकारः । 'भिन्नप्रकार' इति पाठः । भिन्नत्वं प्रकारविशेषणमात्रव्य- वच्छेद्यमाह-न त्विति। अन्यतरत्वस्य गुरुत्वाद्दुर्जेयत्वाच्चाह-परे त्विति।
Page 292
रसगङ्गाघरः । २७७
अथोल्लेखस्य ध्वनि :- यथा- 'अनल्पतापाः कृतकोटिपापा गदैकशीर्णा भवदुःखजीणाः । विलोक्य गङ्गां विचलत्तरञ्ञाममी समस्ताः सुखिनो भवन्ति ॥' अत्र पूर्वार्धोदीरितानां चतुर्णो विलोकनकर्तृणां सुखित्वोक्त्या क्रमेण तापपापरोगभवनाशकत्वप्रकारकाणि ग्रहणान्याक्षिप्यन्ते । अयं च शुद्ध- स्योललेखस्य ध्वनिः । संकीर्णस्य यथा- 'स्मयमानाननां तत्र तां विलोक्य विलासिनीम्। चकोराश्चश्चरीकाश्च मुदं परतरां ययु: ।।' अत्र ध्वन्यमानया एकैकग्रहणरूपया आ्रान्त्या तदुभयसमुदायात्मा उल्लेखः संकीर्णः । न चात्र आ्रन्तेरेव चमत्कार इति शक्यापह्व उ- लेखः। अनेककर्तृकानेकधाग्रहणस्यालंकारान्तरविविक्तविषयस्य चमत्क- तेरिहापि सत्त्वात्। द्वितीयस्योल्लेखस्य ध्वनिर्यथा- 'भासयति व्योमगता जगदखिलं कुमुदिनीर्विकासयति। कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते ।' अत्राधिकरणभेदप्रयुक्तमेकस्यामेव कीर्तौ चन्द्रिकात्वसागरत्वरूपानेक- विधत्वं रूपकसंकीर्ण ध्वन्यते। इति रसगज्गाधर उल्लेखप्रकरणम् ।
अनल्पेति। बहुतापा इत्यर्थः । गदैकेति। रोगप्रधानेत्यर्थः समासः । प्राग्वत् । विचलदिति। 'विवलत्' इति पाठान्तरम् । अर्थस्तु तुल्यः। स्मयेति । सख्युक्तिना- यकोक्तिवा। एकैकेति। चन्द्रत्वेन पद्मत्वेन च ग्रहणेत्यर्थः । शक्येति। नैवात्रोल्वे- खोऽस्तीत्यर्थः । विपयस्य चमदिति। जन्यत्वे षध्यर्थश्वमत्कृतावन्वेति । व्योमेति गतिकर्म । कुमुदिनीश्षेत्यर्थः । सगरेति। सगरसुतप्रयासमित्यर्थः । सगरकार्यस्य कीर्लैव संपादितत्वादिति भावः । रूपकेति। चन्द्रसागररूपकेत्यर्थः ॥ इति रसगग्गा- धरमर्मप्रकाश उद्लेखप्रकरणम् ॥
Page 293
२७८ काव्यमाला।
अथापहुतिः उपमेयतावच्छेद कनिपेधसामानाधिकरण्येनारोप्यमाणमुपमानता- दात्म्यमपहुतिः।। रूपकवारणाय तृतीयान्तम्। अस्यां चोपमेयतावच्छेदकस्य निषेधा- दुपमेयतावच्छेदकोपमानतावच्छेदकयोर्विरोधो गम्यते। रूपके तु तयोः सामानाधिकरण्यप्रत्ययात्स निवर्तते। उदाहरणम्- 'स्मितं नैतत्किं तु प्रकृतिरमणीयं विकसितं मुखं ब्रूते मूढः कुमुदमिदमुद्यत्परिमलम्। स्तनद्वन्द्वं मिथ्या कनकनिभमेतत्फलयुगं लता रम्या सेयं भ्रमरकुलनम्या न रमणी ॥।' इयं चानुग्राह्यानुग्राहकभावापन्नावयवकसंघातात्मकतया सावयवा। निरवयवेयं यथा- 'श्यामं सितं च सुदृशो न दृशो: स्वरूपं किं तु स्फुटं गरलमेतदथामृतं च। नो चेत्कथं निपतनादनयोस्तदैव मोहं मुदं च नितरां दधते युवानः ।।' अत्र प्रतिज्ञातार्थवैपरीत्ये बाधकोपन्यासाद्धेत्वपहुतिः । अस्यां च न- जादिभि: साक्षात्परमतसिद्धत्वाद्युपन्यासैश्र किंचिद्यवधानेन विषयस्य निषेधे बोध्यमाने प्रायशो वाक्यस्य भेदः । मिषच्छलच्छद्मकपटव्याजव- पुरात्मादिशब्दस्तु तस्मिस्तस्यैक्यम्। कवचिदपहवपूर्वकत्वं कचिच्चारोपपू-
अपहुति लक्षयति-अथेति। छेदकेति। तस्य निबन्धेत्यर्थः । रूपकवारणायेति ध्रान्त्यादेरप्युपलक्षणम्। तदुपपादयति-अस्यां चेति। स विरोधः । भ्रमरकुलन- म्येत्येतदंशेSतिशयोक्तिरिति प्रक्रमभग्गोSत्र काव्य इति बोष्यम् । अत्र स्पष्टत्वाल्लक्षणस- मन्वयमुपेक्ष्य भेदमाह-इयं चेति। उदाहता चेत्यर्थः। वयवकेति। बहुव्रीहिणा सं- घातविशेषणे। इयाममिति। अंशभेदेनेति भावः । कव्युक्तिरियम्। विपक्षे बाधक- माह-नो चेदिति। अनयोदशीः । तदैव पतनकाल एव। 'सदैव' इति पाठान्तरम्। अन्न निरवयवलस्य सत्त्वात्प्राग्वदाह-अत्रेति। किंचिदिति। त्रान्त्यादीत्यर्थः । त-
Page 294
रसगङ्गाधरः । २७९
र्वकत्वं कचिद्विषयिताद्रप्यविषयनिषेधयोरेकस्य शाब्दत्वमेकस्यार्थत्वं क्व- चिदुभयोः शाब्दत्वमथोभयोरार्थत्वं विधेयत्वमनुवाद्यत्वं चेति। एवम- नेके प्रकाराः संभवन्ति। परं तुन ते वैचित्र्यविशेषमावहन्तीत्यगण- नीयाः। एवमपि दिव्लात्रमुपदर्श्यते-तत्र प्रागुक्तायां सावयवापह्ुतौ प्रथमावयवेऽपहवपूर्वकत्वमुभयोः शाब्दत्वं विधेयत्वं वाक्यभेदश्च। द्विती- यावयवे तु वक्तृगतमूढतोक्त्या तद्गतभ्रान्तिप्रतिपत्तिव्यवहिता निषेधप्रति- पत्तिरिति निषेध आर्थः । ताद्रूप्यं शाब्दम् । विधेयत्ववाक्यभेदापह्ववपूर्व- कत्वानि पूर्ववत्। चतुर्थावयवे पुनरारोपपूर्वकोऽपहवः । उभयोः शाब्दत्व- विधेयत्वे वाक्यभेदश्च प्रथमवदेव। 'वदने विनिवेशिता भुजंगी पिशुनानां रसनामिषेण धात्रा। अनया कथमन्यथावलीढा नहि जीवन्ति जना मनागमन्त्राः ।।' अत्रैकवाक्यत्वं निषेधताद्रूप्ययोरार्थत्वं विधेयत्वं च। निवेशनस्य विधेयत्वात् । एवमन्यदप्यूद्यम् । अत्र च लक्षणे आरोप्यमाणमित्यस्याहार्य- निश्चयविषयीक्रियमाणमित्यर्थः । तेन 'सङ्गमाङ्गणसंमुखाहृत कियद्विश्वंभराधीश्वर- व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा।
स्मिन् तन्निषेधे। तस्य वाक्यस्य। निषेधयोरिति। मध्य इति शेषः । अथेति। क- चिदित्यर्थः । अनुवाद्यत्वं चेति। उभयोरप्यनुवाद्यत्वं विधेयत्वं चेत्यर्थः । क्वचिदि- त्यस्यानुषङ्गः । असतेव(?)निरासायाह-एवमपीति । चमत्कारिताभावेऽपीत्यर्थः । दर्श्यत इति। उक्तप्रकारजातमिति शेषः । तत्र तेषां मध्ये। प्रथमेति। स्मितमिति पादप्रतिपाद्य इत्यर्थः । अपहवेति। निषेधस्य प्रागुल्लेखादिति भावः। उभयोस्तद्रूपा- निषेधयोः । अस्य त्रिष्वन्वयः। एतत्पदार्थस्योद्वेश्यतादाह-विधेयेति। द्वितीयेति। मुखमिति पादप्रतिपाद्य इत्यर्थः । तुरुक्त्तवैलक्षण्ये। तदेवाह-वक्तृगतेति। स्तनद्वन्द्वमि- ति पाद प्रतिपाद्यतृतीयावयवस्य द्वितीयेन तुल्यत्ात्तमुपेक्ष्याह-चतुर्थेति। लतेति पाद- प्रतिपाद् इत्यर्थः। पुनःशब्दो वैलक्षण्ये। वाक्यैक्यस्योदाहरणं सप्रकारभेदमाह-वदन इति। अनया रसनया। अमन्रा जीवनोपायशून्याः । 'आर्थतमनुवाद्यत्वं च' इत्येव युक्क: पाठः । 'विधेयत्वं च' इत्यपपाठः । अत एवाह-निवेशनेति। आहार्यत्वनिवे- शफलमाह-तेनेति। तैर्नाशितमध्यभागेन यद्विवरं तस्मादुन्मीलन्प्रकाशमान आकाशनै-
Page 295
२८० काव्यमाला।
अङ्कारप्रखरैः करैः कवलयन्सद्यो जगन्मण्डलं मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः ।।' अत्र विरहिजनवाक्ये नायं शशाङ्कः, अपि तु सच्छिद्रो मार्तण्ड इति तु च्छायामात्रमपहुतेः । न त्वपहुत्यलंकारः। तज्ज्ञानस्य दोषविशेषजन्य- त्वेनानाहार्यत्वात् । किं तु भ्रान्त्यलंकार एव । 'अलिमृगो वा नेत्रं वा यन्न किंचिद्विभासते। अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः।।' इत्यत्र मुखमरविन्दं वेति कविनिष्ठाहार्यसंशये मुखनिषेधसामानाधि- करण्येन विषयीभवतोऽरविन्दतादात्म्यस्य निश्चयविषयत्वाभावान्न सं- ग्रहः । न चात्र विषयनिषेधस्यापदार्थत्वं शङ््यम्। वाशब्दार्थत्वात् । यत्तु कुवलयानन्दाख्ये संदर्भे अप्पयदीक्षितैरपह्ुतिप्रभेदकथनप्रस्तावे प- र्यस्तापहुत्याख्यं भेदं निरूपयद्भिरभिहितम् । 'अन्यत्र तस्यारोपार्थः पर्यस्तापह्रुतिस्तु सः । नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ।' इति। अत्र चिन्त्यते-नायमपहुतेर्भेदो वक्तुं युक्तः । अपह्ुतिसामान्यलक्ष- णानाक्रान्तत्वात् । तथा हि-'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वप- द्ुतिः, उपमेयमसत्यं कृत्वा उपमानं सत्यतया यत्स्थाप्यते सापह्वतिः' इति काव्यप्रकाशोक्तलक्षणवहिर्भावस्तावत्स्फुट एव। एवं 'विषयापहवे वस्त्वन्तरप्रतीतावपह्नुतिः' इत्यलंकारसर्वखोक्तं लक्षणमपि नात्र प्रवर्तते। 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् । साम्यादपह्नुतिर्वाक्यभेदाभेदवती द्विधा ।।'
ल्यगुणो यस्येत्यर्थः । अङ्गारतीक्ष्णकिरणैरित्यर्थः । छायामात्रं सादृश्यमात्रम्। निश्चयत्व- निवेशफलमाह-अलिरिति। व्याख्यातमिदम्। अपदार्थत्वं कथमपि पादप्रतिपाद्य- त्वम्। वाशव्देति। विकल्पद्वारा वाशब्दव्यङ्गयत्वादित्यर्थः । एवं चार्थिको निषेध इति भावः । स कारिकाकारः खीयव्याख्यानमाह-उपमेयमसत्यमिति। अत्र हाप- मेयपदे पदार्थोपलक्षणमावश्य कमित्येत द्विरोधश्विन्तय इत्यग्रे स्फुटं निरूपयिष्यते। प्रतीता- चिति। तन्नैव प्रत्यासत्तेरिति भावः । एवं पूर्वत्रापि बोध्यम्। साम्यात्सादृश्यमूलकम्।
Page 296
रसगङ्गाघरः । २८१
इति चित्रमीमांसागतं तन्निर्मितमपि लक्षणमिह तथैव। तस्मात् 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र दढारोपं रूपक- मेव भवितुमर्हति, नापह्नुतिः । उपमेयतोपमानतावच्छेदकयोः सामाना- धिकरण्यस्य निष्प्रत्यूहं भानात्। तदुक्तं विमर्शिन्याम्-"न विषं विष- मित्याहुर्ब्रह्मस्वं विषमुच्यते'। अत्र विषस्य निषेधपूर्व ब्रह्मखवविषये आरो- प्यमाणत्वादृढारोपं रूपकमेव, नापह्नुतिः" इति । यदि च प्राचीनम- तमुपेक्ष्यालंकाररल्नाकरेणेव मयाप्ययं प्रकारोऽपह्नुतिमध्ये गणित इत्युच्यते, तदा आहार्यताद्रूप्यनिश्चयस्य समानत्वाद्रपकभेद एवापह्नुतिरित्यप्युच्य- ताम्। निरस्यतां च प्राचीनमुखदाक्षिण्यम्। एवमपि चित्रमीमांसागत- त्वन्निर्मितापह्नुतिलक्षणस्यात्राव्याप्तिः स्थितैव । अपि च यदि 'नायं सु- धांशुः किं तर्हि सुघांशुः प्रेयसीमुखम्' इत्यत्र पर्यस्तापहुतिरित्युच्यते, तदा तस्यामेव त्वत्कृतचित्रमीमांसागतस्य 'बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिह्दुते। उपरञ्जकतामेति विषयी रूपकं तदा ।।' इति रूपकलक्षणस्यातिव्याप्तिर्वज्जलेपायिता स्यात् । विषयिणो नि- ह्ृवेऽपि विषयस्यानिह्नुतत्वात्। अथापि चित्रमीमांसायां प्राचीनमता- नुसारेण रूपकलक्षणम्, कुवलयानन्दे च रत्नाकराद्यनुसारेणापह्नुतित्वो- क्तिरिति यथाकथंचित्सामञ्जस्यं विधेयमिति दिक्।
तथैव न प्रवर्तते। उपसंहरति-तस्मादिति। दृढारोपमारोपदार्व्यसंपादकम् । न विषमिति। अत्रेदं चिन्त्यम्-नेदं मुखं चन्द्र इति प्रसिद्धापहुत्युदाहरणेपि मुखनि- षेधकस्य चन्द्रारोपदार््यसंपादकत्वस्य वक्तुं शक्यत्वेनानुभवसिद्धत्वेन चापह्वुतिमात्रस्यो- च्छेदापत्तेः। यदि तु निषेधपूर्वकारोपे चमत्कारविशेषस्यानुभवसिद्धत्वादलंकारान्तरत्वं तर्हि प्रकृतेऽपि तुल्यमिति। प्राचीनेति। प्रकाशकारादीत्यर्थः । एवमग्रेऽपि । इति दृष्टान्तोलेखेन तदनुरोधेनायं गणित इति सूचितम्। अपह्गुतितत्त्वावच्छिन्नम्। ननु नि- षेधपूर्वकारोपे चमत्कारविशेषस्यानुभवसिद्धत्वेन कथमपलापः, अतो दोषान्तरमाह- एवमपीति। उक्तरीत्या तथाङ्गीकारेऽपि। दोषान्तरमाह-अपिचेति। तस्यामेव पर्यस्तापह्वुतावेव। रत्नाकरादीति । आदिना दण्डिग्रहणम्। इत्थं हि काव्यादर्शे (२३०४) तेनोक्तम्-'अपह्वुतिरपहुत्य किंचिदन्यार्थसूचनम्' इति। यथाकथंचि- त्सामअ्स्यमिति। एतदनन्तरमत्र किंचित्पतितम्। तत्सर्वपुस्तके दुर्लभमेव। अ-
Page 297
२८२ काव्यमाला।
'अनल्पजाम्बूनददानवर्ष तथैव हर्ष जनयञ्जनेषु। दारिद्यघर्मक्षपणक्षमोडयं धाराघरो नैव घराधिनाथः ॥' सावयवारोपेयमपह्ुतिः । आरोपमात्रोपायत्वे परम्परिताप्येषा संभवति । यथा- 'मनुष्य इति मूढेन खलः केन निगद्यते। अयं तु सज्जनाम्भोजवनमत्तमतङ्गजः ।' अस्याश्च ध्वनिर्यथा- 'दयिते रदनत्विषां मिषादयि तेऽमी विलसन्ति केसराः । अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽलय: |।' अत्र 'नैता रदनत्विषः, किं तु किंजल्कपरम्पराः । न चैतेऽलकाः, अपि त्वलयः' इति पूर्वोत्तरार्धाभ्यां द्वे अपहुती तावत्प्राकट्येनैव निवेदिते। ताभ्यां च 'न त्वं नारी, किं तु कमलिनी' इति तृतीयापह्नुतिर्व्यञ्जनव्यापारेण प्राधान्येन निवेदयते। तत्संबन्धिवस्तुनिषेधारोपयोस्तन्निषेधारोपनिवेदकत्वस्य न्याय्यत्वात्तुल्ययोगितानुगुणतया स्थिता।
'त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णीसुतमपि। अपि स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति ॥'
नन्तरं 'विधेयमिति दिक्' इति ग्रन्थः । अवयवरूपकसंकीर्णमुदाहरति-अनल्पेति। दानवर्षयो रूपकम्। दारिद्यरूपस्योष्मणो नाशने समर्थ इत्यर्थः । सावयवारोपेति। अवयवारोपसहितेत्यर्थः । तद्रूपकसहितेति यावत्। आरोपेति। आरोपस्येत्यादि: । दयित इति। व्याख्यातमिदं प्राक्। तावदादौ। अप्राधान्ये ध्वनित्वाभावादाह- प्राधान्येनेति। तदिति । अवयवीत्यर्थः । ननु विलासस्पृहयालत्वरूपक्क्ियागुणरूप- धर्मैक्यस्य प्रकृताप्रकृतयोः सत्वेन तुल्ययोगितैवेयमत आह-तुल्येति। त्वदालेख्य इति । त्वत्प्रतिकृतिभूतचित्र इत्यर्थः । नायकं प्रति खसख्युक्तिः । एका तन्वी सखी। चक्रं सुदर्शनम्। सुपणीसुतं गरुडम् । अपि अथ। क्वचित्तथैव पाठः । अथ मार्जनयो- ग्यत्वाय हेतुगर्भ विशेषणम्-स्विद्यत्पाणिरिति। अपरा तत्सखी। तस्यापि पुण्ड-
Page 298
रसगङ्गाधरः । २८३
इत्यादावपह्नुतिध्वनिरुदाहर्तव्यः । अत्र हि चक्रसुपर्णलेखनेन 'नायं साधारण: पुरुषः, किं तु पुण्डरीकाक्षः' इति कयाचिद्यञ्जितम्। अन्यथा तु तस्याप्येताद्ृशं रूपं न संभवतीत्याशयेन 'नायं पुण्डरीकाक्षोऽपि, किं तु मन्मथः' इति तदुभयमपमृज्य पुष्पसायकमकरध्वजलेखनेन व्यञ्जितम्" इति तदेतदापातरमणीयम्। यत्तावदुच्यते-'चत्र्सुपणलेखनेन नायं सा- धारण: पुरुषः, किं तु पुण्डरीकाक्षः' इति कयाचिद्यज्जितमिति तत्रापह्न- तेर्द्वौ भागौ-उपमेयनिषेधः, उपमानारोपश्चेति। तयोस्तावदुपमानारोप- भाग: पुण्डरी काक्षोऽयमित्याकारश्चकसुपर्णलेखनेनाभिव्यक्तुं शक्यः । च- क्रसुपर्णयोस्तत्संबन्धित्वात्। न तु नायं साधारणः पुरुष इत्युपमेयनिषे- घभागोऽपि। व्यञ्जकस्यारोपमात्रव्यञ्जनसमर्थस्य तादृशनिषेधव्यञ्जने सा- मर्थ्याभावात्। नाप्यनुभवसिद्धः सः येन तद्यञ्जनायोपायो गवेप्येत। नापि गवेष्यमाणोऽपि तद्यञ्जनोपायः शब्दोरऽर्थो वा उपलभ्यते। येना- नुभवकलहोऽपि स्यात्। न च साधारणपुरुषनिषेधमन्तरेण पुण्डरीका- क्षतादात्म्यारोपो दुर्घट इति सोऽपि व्यज्यत इति वाच्यम्। रूपकोच्छे- दापत्तेः । मुखं चन्द्र इत्यादौ मुखनिषेधमन्तरेण चन्द्रत्वं दुरारोपमित्य- स्यापि सुवचत्वात्। तत्रापि मुखनिषेघावगमे जितमपह्नुत्या। अथ मुखं चन्द्र इति रूपके मुखत्वसामानाधिकरण्येन चन्द्रताद्ूप्यस्यारोप्यमाणतया न मुखनिषेधापेक्षेति चेत्' प्रकृतेऽपि तर्हि तादृशसाधारणपुरुषत्वसामान- धिकरण्येन पुण्डरीकाक्षतादात्म्यारोपरूपमसौ राजा पुण्डरीकाक्ष इत्या-
रीकाक्षस्यापि। तदुभयं चक्रसुपर्णद्वयम्। इत्याशयेन तथा लेखनेन। इति व्यज्जितमि- त्यन्वयः । तत्रेति। उच्यत इति शेषः । एवमग्रेऽपि भागोऽभिव्यङ्गुं शक्य इत्यनुष- ज्यते। व्यक्षकेति। चक्रसुपर्णलेखनस्येत्यर्थः । ननु कथं तदनुभवोऽत आह-ना- पीति। स तादृशनिषेधभागः । उक्तपद्य इति शेपः । गवेष्येत अन्वेष्येत । ननु विनि- गमनाविरहोऽत आह-नापीति। लभ्यत इति। प्रकृतपद्य इति शेषः । दुर्घट इति। तज्ज्ञानस्य तत्र प्रतिबन्धकत्वादिति भावः । सोऽपि निषेधभागोऽपि । अन्य- थानुपपत्येति भावः। ननु तत्रापि तत्सीकारोऽत आह-तत्रापीति। रूपकेऽपी- त्यर्थः। एवं च तदुच्छेदापत्तिरिति भावः। वाधज्ञानमाहार्यज्ञाने न प्रतिबन्धकमित्या- शयेनाह-अथेति। सामेति। न त्ववच्छेदकावच्छेदेनेति भावः। आरोप्येति। आहार्यज्ञान विषयीक्रिय माणतयेत्र्थः । तदाकारमाह-असाविति। चस्त्वर्ये। द्वि-
Page 299
२८४ काव्यमाला।
काररूपकमेव भवितुमीष्टे नापह्रुतिः । यदपि चोच्यते 'नायं पुण्डरी- काक्षः, अपि तु मन्मथः' इत्यादि, तत्र यद्यपि चक्रसुपर्णदूरीकरणे नायं पुण्डरीकाक्ष इति निषेधः पुष्पचापध्वजगतमकरयोर्लेखनेन च मन्मथोऽयमि- त्युपमानारोपश्च व्यङ्नथो भवितुमर्हति । तथापि नासावपह्नुतिः । 'प्रकृ- तस्य निषेधेन यदन्यत्वप्रकल्पनम्' इति त्वत्कृतलक्षणस्याप्यत्रासत्त्वात्। अत्र हि निषेध्यस्य भगवतः पुण्डरीकाक्षस्यावर्ण्यत्वेनाप्रकृततया प्रकृ- तनिषेधाभावात्। नहि पूर्वारोपिततामात्रेण प्रकृतत्वं वक्तुं शक्यम् । प्रकृतपदस्यारोपविषयपरतया निषिध्य विषयमित्यादिना कत्वाप्रत्ययफलं ब्रुवता भवतैव तत्र स्फुटीकरणात्। काव्यप्रकाशकृतापि 'प्रकृतं यन्नि- पिध्यान्यत्साध्यते सा त्वपहनुतिः' इति सूत्रं व्याचक्षाणेन 'उपमेयमसत्यं कृत्वा' इत्यादिना प्रकृतपदस्योपमेयपरतयैव व्याख्यानाच्च। प्राचीन- मतासिद्धेयमपह्नुतिर्व्यन्ञयत्वेनास्माभिरिहोच्यत इत्यपि कुशकाशावलम्वन- मात्रम् । 'प्रकृतस्य निषेधेन' इत्यादिलक्षणं कुर्वता भवतैव तस्या वहिः- करणात्। एवमप्युक्तपद्ये कोडलंकारो व्यञ्नय इति चेत्, विच्छित्तिवैल- क्षण्येडतिरिक्तः, अन्यथा त्वपह्नुतिरेवास्तु। लक्षणं तु तदा प्रसक्तय
तीयश्चो व्यङ्ज्यत्वसमुच्चये। ननु निषेधसामानाधिकरण्येनोपमानतादात्म्यारोपसत्त्वात्कथं तदभावोऽत आह-अत्र हीति। ननु पूर्वमारोपितत्वात्प्रकृत एव सोऽत आह-न- हीति। निषिध्य विषयमित्यादिनेति। 'निषिष्य विषयं साम्यादन्यारोप' इति तु क्त्वाप्रत्ययेन लक्षणं नोक्तम्। वक्ष्यमाणोदाहरणे आरोपपूर्व कापह्ववेऽ्त्याप्तिप्रसङ्गा- दिति तैरुक्त्म्। फलं क्वचिदव्याप्तिरूपमनिष्टं फलम्। तत्र चित्रमीमांसायाम् । अपि- सूचितं दोषान्तरमाह-काव्येति। पुण्डरीकाक्षस्तूयमानमिति भावः । प्राचीनेति। प्रागुक्तदण्डिमतेत्यर्थः । इह चित्रमीमांसायाम्। कुशेति। संसारकाष्टाय्यवलम्बनमेवो- चितं न कुशादेरिति यथा तथा सर्वसिद्धसंसारमतावलम्बनमेवोचितं नैकदेशिमतस्येत्यथः । तदेवाह-प्रकृतेति। एवः प्रत्यासत्तिवोधकः । अन्यलक्षणवहिर्भावोऽपि वोध्यः । विच्छित्तिश्वमत्कृतिः । अतिरिक्त्ोऽपहुत्यन्यो रूपकाख्यः । अन्यथा तु विच्छित्ति विशेषा-
लक्षणं त्विति। तदेति। तत्रापहुतित्वाङ्गीकर्तृदण्ड्यादिमत इत्यर्थः । प्रसक्तेति। प्रसकत्वं च यथाकर्थचित्। न तु प्रकृतत्वापेक्षति भावः।अस्तुतदेत्याभ्यामस्यानभिमत-
Page 300
रसगङ्गाघरः । २८५
क्कंचिद्वस्तुनिषेघसामानाधिकरण्येन क्रियमाणवस्त्वन्तरारोपत्वमेव। तस्मा- त्सर्वमेवेदमहृदयंगमं सहृदयानाम्। इति रसगज्गाधरेSपह्ुति प्रकरणम्। अथोत्प्रेक्षाप्रकरणम्- तद्भिन्नत्वेन तदभाववच्वेन वा प्रमितस्य पदार्थस्य रमणीय-
द्वच्वेन वा संभावनमुत्प्रेक्षा।। 'लोकोत्तरप्रभाव त्वां मन्ये नारायणं परम्' इत्यत्र तादृशप्रभावस्य नारायणत्वव्याप्यतासंभावनादशायां सामग्र्यभावेनानुमित्यनुदयाज्जायम- नायां नारायणेनानेन प्रायशो भवितव्यमिति संभावनायामतिप्रसङ्गवा- रणाय तद्भिन्नत्वेन प्रमितस्येति संभावनायामाहार्यतां गमयति। एतेन 'रामं स्त्िग्घतरश्यामं विलोक्य वनमण्डले। प्रायो धाराघरोऽयं स्यादिति नृत्यन्ति केकिन: ॥' इत्यत्र संभावनायाम्, 'धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः' इत्यत्र आ्रान्तौ च नातिप्रसङ्गः ।
वं सूचितम्, अतः खसिद्धान्तरीत्योपसंहरति-तस्मादिति। दीक्षितोक्ते यथाकथंचि- त्तत्समर्धनं चेत्यर्थः। अहृद्यंगममिति।अ्रेद चिन्त्यम्-दीक्षितैर्हि "दण्डी त्वपहुतेः साधर्म्यमूलत्वनियममनादृत्य 'अपह्नुतिरपह्वुत्य किंचिद न्यार्थसूचनम्' इति लक्षयित्वा उदा- जहार-'न पश्चेषुः स्मरस्तस्य सहसरं पत्रिणां यतः। चन्दनं चन्द्रिका मन्दो गन्धवा- हृथ्ष दक्षिणः ॥' इत्यादयुपक्रम्य 'त्वदालेख्ये' इत्याद्युक्त्कमिति। तदनुसारेणैव तत्रापह्ति- ध्वनिरुदाहृत इति न किंचिदहृदयंगमम् । प्रकाशविरोधोऽपि न। तत्रोपमेयपदस्य पदा- र्थोपलक्षणलात। अन्यथा 'केसेसु वलामोडिअ' इत्यत्र 'सयं न प्रपलाय्य गतास्तद्वैरि- णोऽपि तु ततः पराभवं संभाव्य तान् कंदरा न त्यजन्तीत्यपह्तिर्व्यज्यते" इति प्रकाश- ग्रन्थासंगतिः स्यादिति वोध्यम् । इति रसगक्ञाधरमर्मप्रकाशेऽपहुतिप्रकरणम्॥। उत्प्रेक्षां लक्षयति-अथोत्प्रेक्षेति। विनिगमना विरहादन्योन्याभावात्यन्ताभावघ- टितं लक्षणद्वयं युगपदाह-तद्द्िन्नत्वेनेति। लोकोत्तरेति। राजानं प्रत्युक्तिः । तादशेति। लोकोत्तरेत्यर्थः । सामग्रीनिश्चय रूपव्याप्तिज्ञानादि रूपानु मि तति सत्ा मरी त्यर्थः। ननु कथमेतासां वारणमत आह-संभावनेति। इंदं चेत्यादि संभाव- नायां लक्षणघटकीभूतायाम्। तथा चोक्तसंभावनानाहार्येति नातिप्रसङ्क इति भावः । अस्य फलान्तरमाह-एतेनेति। धाराधरो मेघः। भ्रान्तिरपीयमनाहार्या। अन्यथा रस० २७
Page 301
२८६ काव्यमाला।
'वदनकमलेन वाले स्मितसुषमालेशमावहसि यदा। जगदिह तदैव जाने दशार्धबाणेन विजितमिति ॥' अत्र जगज्जयसंभावनायामतिप्रसङ्गवारणाय रमणीयतद्धर्मनिमित्तक- मिति। स्मितस्य संभावनोत्थापकत्वेऽपि जगद्विजितरूपविषय विषयि- साधारणत्वाभावान्न दोपः । एतेन 'प्रायः पतेद्यौः शकलीभवेद् ग्लौः सहाचलैरम्वुधिभिः स्खलेद्गौः । नूनं ज्वलिप्यन्ति दिशः समस्ता यद्ररौपदी रोदिति हा हतेति ॥' अत्रापि रोदनकारणीभूतकेशग्रहणादिजन्यपापनिमित्तोत्थापितायां र्गपतनसंभावनायां नातिप्रसङ्गः । प्रायः स्थाणुनानेन भवितव्यम्, नूनं स्व- पुरुपेणानेन भाव्यम्, दूरस्थोडयं देवदत्त इवाभाति, इत्यादौ निश्चलत्व- चञ्चलत्वादिसाधारणधर्मनिमित्तायां संभावनायामतिप्रसङ्गः स्यात्, अतो रमणीयत्वं धर्मगतमुपात्तम्। रूपकवित्तावतिप्रसङ्गवारणाय संभावनमिति। अत्र च तादात्म्येन संसर्गेण धर्म्युत्प्रेक्षायाः, संसर्गान्तरेण धर्मोत्रेक्षायाश्च संग्रहायैकोक्त्या लक्षणद्वयं विवक्षितम्। सा चोत्प्रेक्षा द्विविधा-वाच्या, प्रतीयमाना च। इव, नूनम्, मन्ये, जाने, अवैमि, ऊहे, तर्कयामि, शङ्के, उत्प्रेक्षे, इत्यादिभि: क्यडाचारक्कि- बादिभि: प्रतिपादकैः सहिता यत्रोत्प्रेक्षासामग्री, तत्र वाच्योत्प्रेक्षा। यत्र च प्रतिपादकशव्दरहितं तत्सामग्रीमात्रम्, तत्र प्रतीयमाना। यत्र तत्सामग्रीरहितं प्रतिपाद्कमात्रम्, तत्र संभावनामात्रमेव नोत्ेक्षा। कार्याभावापत्तेः । स्मितेति। हास्यशोभालेशमित्यर्थः । तदेति पूर्वान्वयि। दशेति। पञ्चवाणेन मदनेनेत्यर्थः । जगजयेति। जगति जयसंभावनायामित्यर्थः। तद्धर्मेति। तद्वर्मसंबन्धीत्यर्थः । ननु स्मितरूपधर्मनिमित्तकत्वमस्त्येवात आह-स्मितेति। हा- स्यस्य तत्सहकारित्वादिति भावः । जगदिति। जगद्विजितरूपौ यौ विषय विषयिणौ तन्निष्टतवाभावादित्यर्थः । अस्य प्रत्युदाहरणान्तरमाह-एतेनेति । ग्लौश्न्द्रः । गौ: पृथ्वी। भूतत्वं केशप्रहणादिविशेषणम्। पापस्य दौः पतेदित्यादि विषयविषयिसा- धारणत्वाभावादिति भावः । स्थाणुना वृक्षेण। यथाक्रमेण धर्मानाह-निश्चलेति। आदिना विलक्षणाकारत्वपरिग्रहः । रमणीयत्वमिति। तत्त्वं च कविप्रतिभानिर्वर्ति- तत्वमिति भावः । ननु ज्ञानमित्येवास्तु अत आह-रूपकेति। नन्वेवमपि तदभावव- त््वेनेत्यायधिकमत आह-अत्रचेति। उक्तलक्षणवाक्य इत्यर्थः । अलंकारसर्वस्वरीत्या इमा विभजते-सा चोत्प्रेक्षेति। यत्रोत्प्रेक्षासामग्रीति। सा च रमणीयतद्वर्म-
Page 302
रसगङ्काघरः । २८७
सापि प्रत्येकं त्रिविधा-स्वरूपोत्प्रेक्षा, हेतूत्प्रेक्षा, फलोत्प्रेक्षा चेति। तत्र जातिगुणक्रियाद्रव्यरूपाणां तदभावरूपाणां च पदार्थानां ता- दात्म्येनेतरेण वा संबन्धेन जातिगुणक्रियाद्रव्यात्मकैर्व्यस्तैः समुच्चितै- रुपात्तैरनुपात्तैर्निष्पन्नैर्निष्पाद्ैर्वा निमित्तभूतैरधर्मैर्यथासंभवं जातिगुणक्रिया- द्रव्यात्मकेषु विषयेषूत्प्रेक्षणं स्वरूपोत्प्रेक्षा। तत्राभेदेन संसर्गेण धर्मि- स्वरूपोत्प्रेक्षा, संसर्गान्तरेण धर्मस्वरूपोत्प्रेक्षेति चोच्यते। उक्तविधेषु पदार्थेषु प्रागुक्तप्रकाराणां पदार्थानां तथाविधैरेव निमित्तैर्यथासंभवं हेतु- त्वेन फलत्वेन च संभावनं हेतृत्प्रेक्षा फलोत्प्रेक्षा चोच्यते। एताश्च क्वचिन्निष्पन्नशरीराः क्वचिन्निष्पाद्यशरीराश्रेत्येवमाद्यनल्पविक- रपाः संपद्यन्ते । तथापि दिख्लात्रमुपदर्श्यते। आख्यायिकायां जात्यवच्छिन्नस्वरूपोत्प्रेक्षा यथा- 'तनय मैना कगवेषणलम्बी कृतजलधि जठरप्रविष्टहिमगिरिभु जायम ना य ।ा भगवत्या भागीरथ्याः सखी' इति। अत्र भागीरथ्यां द्रव्ये जातौ वा हिमगिरिसंबन्धी भुजत्वजात्यवच्छिन्नस्तादात्म्येनोतपेक्ष्यते। तत्र च भागीरथीगतानां श्वैत्यशैत्यलम्बत्वजलधिजठरप्रविष्टत्वानां धर्माणां नि- मित्ततासिद्धये विषयिहिमगिरिभुजगतत्वमवश्यं संपादनीयम्। तेषां च मध्येऽनुपाचयोः श्वैत्यशैत्ययोर्हिमगिरिसंबन्धित्वादेव भुजगतत्वं संप- न्नम्। इतरयोरपि संपादनाय तनयमैनाकगवेषणं फलमुत्प्रेक्षितम्। तत्साधनताज्ञानस्य लम्बत्वजलधिजठरप्रवेशानुकूलयलजनकत्वात्। एवं च विषयिगततादृशगवेषणफलकलम्बत्वजलधिजठरप्रविष्टत्वाभ्यां विष-
संवन्धादिरूपा। सापीति। एवं च द्वादश भेदाः संपन्ना इति भावः । तत्र तासां तिसटणां मध्ये। द्रव्येति। संज्ञाशब्दाभिप्रायमिदम्। एवमग्रेऽपि। उक्तमेव विशद- यति-तत्रेति। तासा स्वरूपोत्प्रेक्षाणं मध्य इत्यर्थः । हेतूत्प्रेक्षाफलोतप्रेक्षे आह- उक्ेति। जात्यादिष्वित्यर्थः । एवमग्रेऽपि। अनल्पेति । बहित्यर्थः । तनयेति। हिमगिरेरित्यादिः। लम्वतप्रविष्त्वे भुजविशेषणे। द्रव्ये जाती वेति। संज्ञाश्दवाच्या- यां जातिशब्दवाच्यायां वेत्यर्थः। तेषां च उक्तधर्माणाम्। इतरयोरपि उपात्तयोर्लम्यत्वतत्प्र- विष्त्वयोरपि। तत्साधनतेति। गवेषणसाधनतेत्यर्थः । यत्नेति। अन्यथा गवेषणासं- भवादिति भावः । विषयिगतेति। विषयिहि मगिरिभुजगताभ्यामित्यर्थः । तादृशेति।
Page 303
२८८ काव्यमाला।
क्त्या साधारण्यसंपत्तौ निमिचता। न चात्र फलस्याप्युत्प्रेक्षणात्फलो- त्प्रेक्षेति वक्तुं शक्यम्। उत्प्रेक्ष्यमाणफलनिप्पादितनिमित्तोत्थापितायां प्रत्य- यस्य फलेनान्वयाच्च तयैवात्र व्यपदेशो युक्तः । अनिगीर्णविषया चेयमुपात्तानुपात्तगुणक्रियात्मकनिमित्ता निष्पाद्यविशिष्टशरीरा जात्यु- त्प्रेक्षा। हिमगिरिभुजस्य कविनैव निष्पादितत्वात्। तादात्म्येन गुणस्वरूपोत्प्रेक्षा यथा- 'अम्भोजिनीबान्धवनन्दनायां कूजन्बकानां समजो विरेजे। रूपान्तराक्रान्तगृहः समन्तात्पुल्जीभवञ्शुक इवाश्रयार्थी।' अत्रैकाधिकरण्यापन्ने कूजनविशिष्टे वकत्वजात्यवच्छिन्ने विषये पुञ्जी- भवनविशिष्टः शुक्कगुणस्तादात्म्येनोत्प्रेक्ष्यते। तत्र बकगतानां कूजननैर्म- त्यपुञ्जीभवनानां शुक्कगुणगतत्वमन्तरेण वकशुक्कयोरभेदस्य दुरुपपादत्वा- त्तत्सिद्धये तेपां विषयिगतत्वं साध्यम्। तत्र नैर्मल्यस्यानुपात्तस्य यथा- कर्थंचिदुत्प्रेक्ष्यमाणे विषयिपिि सिद्धत्वात्कूजनपुञ्जीभवनयोर्निप्पादनाय रू- पान्तराक्रान्तगृहत्वमाश्रयार्थित्वं च हेतुत्वेनोत्प्रेक्षितम् । इहापि प्राग्व- त्साहजिकयोः कल्पिताभ्यामभेदाध्यवसानात्साधारण्यम्। एवमन्यत्राप्यू- ह्यम्। पूर्व हि यथा फलस्योत्प्रेक्षणेऽपि न फलोत्प्रेक्षा तथेहापि हेतोरिति।
तनयमैनाकेत्यर्थः । विषयेति। भागीरथीत्यर्थः। विनिगमनाविरहादाह-उत्प्रेक्षेति। प्रत्ययस्य क्यडः। उपसंहरति-तयैवेति। एवं चेत्यादि। स्वरूपोत्प्रेक्षयैवेत्यर्थः। कचित् 'तथैव' इति पाठः सोऽप्युक्तार्थक एव। अत्र भेदानुपपादयति-अनिगीर्णेति। भागी- रथ्या उपादानात्। उपान्तेति। इदं च यथासंभवं वोध्यम्। न तु यथासंख्यम्। निष्पाद्यत्वे हेतुमाह-हिमेति। एवं चैकदेशस्य सिद्धत्वेऽपि विशिष्टस्य निष्पाद्यत्वं स्पष्टमेवेति भावः । अम्भोजिनीति । सूर्यकन्यायां यमुनायामित्यर्थः । समजः संघः । रूपान्तरेति। नीलादीत्यर्थः । ऐकाधिकरण्यापन्न इति। समुदायापत्र इत्यर्थः । तन्र तयोर्मध्ये। तत्सिद्धये शकगुणगतत्वसिद्धये। तेषामुक्तधर्माणाम्। विष- यीति। शुक्लगुणेत्यर्थः । यथाकथंचिदिति । नन्वेवं हेतूत्प्रेक्षैवेयं कुतो नात
Page 304
रसगङ्गाघरः । २८९
क्रियास्वरूपोत्प्रेक्षा यथा- 'कलिन्दजा नीरभरेऽर्घमन्ना वकाः प्रकामं कृतभूरिशब्दाः । ध्वान्तेन वैराद्विनिगीर्यमाणाः क्रोशन्ति मन्ये शशिनः किशोराः ।।' अत्र प्रथमान्तविशेष्यकबोधवादिनामभेदसंसर्गेण कलिन्दजानीरार्ध- मग्नकृतभूरिशब्दोभयविशिष्टेपु बकेषु विषयेषु ध्वान्तकर्तृकवैरहेतुकनि- गरणकर्माभिन्नोत्प्रेक्षितश शिकिशोरतादात्म्योत्प्रेक्षणपूर्वकं करोशनकर्तृत्वं धर्म उत्प्रेक्ष्यते। तत्र तादात्म्योत्प्रेक्षणे धर्म्युत्प्रेक्षायां साधारणो धर्मः, संबन्धान्तरेणोत्प्रेक्षणे धर्मोत्प्रेक्षायां तत्समानाधिकरणो धर्मश्र विषयगतो निमित्तमिति स्थिते प्रकृते क्रोशनकर्तृत्वरूपधर्मोत्प्रेक्षायां तत्समानाधि- करणनिगरणकर्मत्वरूपधर्मस्य विषयगतत्वसिद्धयेऽनुवाद्यतया शशिकि- शोरतादात्म्यमनुपात्तश्वैत्यनिमित्तकमुत्प्रेक्ष्यते। तत्र यथा विशिष्टोपमा- यामुपमानोपमेय विशेषणतद्विशेषणानामार्थमौपम्यम्, एवमत्रापि विषयबक- विशेषणतद्विशेषणयोरर्धमज्जनयमुनाजलयोर्मूलोत्प्रेक्षा विषयिशशिकिशोर- विशेषणतद्विशेषणाभ्यां निगरणध्वान्ताभ्यामभेद आर्थः । ततश्च ध्वान्त- कर्तृकनिगरणे सिद्धे मुख्योत्प्रेक्षानिर्वाहः । क्रोशनशब्दयोरपि बिम्बप्र- तिबिम्बभावेनाभेदः । तेन कलिन्दजानीरार्धमम्नकृतभूरिशब्दोभयाभिन्ना बका ध्वान्तनिगीर्यमाणशशिकिशोरोभयाभिन्नाः क्रोशनक्रि्ियानुकूलव्या- पारवन्त इवेति वोधाकारः । आख्याते भावप्राधान्ये त्वभेदेन क्रोशनक्रि-
आह-पूर्वे हीति। कृतभूरीति। यो निमज्जति स शब्दं करोतीति लौकिकम् । वादिनामित्यस्य धर्म उत्प्रेक्ष्यत इत्यत्रान्वयः । शानजर्थमाह-कर्मेति । तदभिन्नत्वे- नोत्प्रेक्षितेत्यर्थः । अत्रोत्प्रेक्षितेत्यधिकम् । तयोरभेदस्य स्वारसिकत्वात्। तत्र उत्प्रेक्ष- योर्मध्ये। पूर्वामाह-तादेति। द्वितीयामाह-संवेति । विषयेति। वकेत्यर्थः । तत्कृतचमत्काराभावादाह-अनुवाद्येति । उत्प्रेक्ष्यते। वकेष्विति शेषः। नन्वेवमपि साधारणधर्माभावात्कथं प्रधानोत्प्रेक्षानिर्वाहोऽत आह-तत्रेति। तस्मिन्सतीत्यर्थः । मूलोत्प्रेक्षेति। मूलोत्प्रेक्षाया विषयी यः शशिकिशोर इत्यादयर्थः । क्रियोत्प्रेक्षोपपा- दकत्वात्तस्या मूलोत्प्रेक्षात्वम् । सिद्ध इति। वकानामित्यादिः । मुख्योत्प्रेक्षेति। क्रियोत्प्रेक्षेत्यर्थः। प्रकारान्तरेणापि साधारण्यं धर्मस्याह-कोशनेति। शशिकिशोरो- मयानुकूलकोशेति। 'निगीर्यमाणाभिन्नशशिकिशोराभिन्नाः क्रोशनक्रियानुकूल-' इति युक्तः पाठः। एवं नैयायिकमतेन बोधमुक्ला वैयाकरणमतेनाह-आख्यात इति।
Page 305
२९० काव्यमाला।
योत्प्रेक्षा। तत्र शाब्दे वृत्ते वकविशेषणतया प्रतीयमानमपि शब्दनं विषयतयावतिष्ठते। अध्यवसानवशात्। क्रोशनक्रियायां च तादृशचका विशेषणम्, तादृशवकेषु चाभेदेन तादृशशशिकिशोराः, न तु शशिकि- शोरा एव साक्षात्क्रियायाम् । एवं च बकानामनन्वयापत्तेः विषयविपयि- विशेषणानां प्राग्वदेव बिम्बप्रतिविम्बभावेनाभेदप्रतिपत्तिः। तथा- 'राज्याभिपेकमाज्ञाय शम्बरासुरवैरिणः । सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ।।' अत्रापि चन्द्रे विषये तादृशलेपनकर्तृत्वरूपधर्मोत्प्रेक्षेत्येकं दर्शनम्। किरणव्यापने विषये चन्द्र कर्तृकसुधाकरणकलेपनस्य तादात्म्येनोत्प्रेक्षणमिति द्वितीयम्। तत्र प्रथमे मते धवलीकारकत्वरूपनिमित्तानुपादानादनुपा- त्तनिमित्ता, विषयस्योपादानादुपात्तविषया। द्वितीये पि तस्यैव निमित्तस्या- नुपादानादनुपात्तनिमित्ता, विषयस्य निगीर्णतयानुपात्तविषयेति विशेषः । तादात्म्येन द्रव्यस्वरूपोत्प्रेक्षा यथा- 'कलिन्दशैलादियमा प्रयागं केनापि दीर्घा परिखा निखाता। मन्ये तलस्पर्शविहीनमस्यामाकाशमानीलमिदं विभाति ॥' अत्र यमुनायां नीलत्वदीर्घत्वनिमित्तकमाकाशतादात्म्योत्प्रेक्षणम् ।
नन्वभेदेन बके तदुत्प्रेक्षा वाधिता अत आह-तत्रेति। उत्प्रेक्ष्यमाणक्रोशनक्रियाया- मित्यर्थः । वृ्ते बोधे निष्पन्ने वा। अध्यवसानेति। अध्यवसानं च मश्चाः कोशन्ती- त्यादिवद्विषयिवाचकशब्देनेति बोध्यम्। तादृशेति। विशेषणद्वय विशिष्टेत्यर्थः । एव- मग्रेपि। तादशेति । एकविशेषणविशिष्टेत्वर्थः । क्रियायां क्रोशनेत्यादिः । एवं च एवं सति। एवं च तादृशशशिकिशोराभिन्नकर्तृत्वं क्रोशनमिति बोध्यम्। अस्या उदाहरणान्तरमाह-तथेति। शम्वरस्येति। मदनस्येत्यर्थः । प्राग्वदत्रापि मतभे- दमाह-अत्रापीति। तादशेति । सुधाकरणकजगन्मध्यकर्मकेत्यर्थः । चन्द्रेति। तदभिन्नेत्यर्थः । करणकेति। जगन्मध्यकर्मकेत्यपि बोष्यम्। विषयस्य चन्द्रस्य । तस्यैव धवलीकारकत्वस्यैव। विषयस्य किरणव्यापनस्य। निगीर्णेति। सुधाभिर्लि- म्पतीत्यनेनेति भावः । कलिन्देति। तदाख्यपर्वतादित्यर्थः । इयं दृश्या गर्तरूपा । आ प्रयागं प्रयागमभिव्याप्य। अस्यां परिखायाम्। इदं दृश्यं यमुनारूपम्। ननु प्राग्व- जात्युत्प्रेक्षेयं कुतो न अत आह-आकाशेति। इदं च मजूषायां मतं स्पष्टम् ।
Page 306
रसगङ्गाघरः । २९१
आकाशत्वस्य स्वरूपात्मकत्वाद्गव्योत्प्रेक्षेयम्। अत एवाकाशपदाच्छव्दा- श्रयत्वाद्यनुपस्थितिदशायामप्याकाशधीः । नीलत्वरूपनिमित्तस्य विष- यिणि सिद्धर्थ तृतीयचरणोपादानम् । दीर्घत्वरूपनिमित्तसिद्धर्थ च पूर्वार्धम्। जात्यादीनामभावोत्प्रेक्षा यथा- 'बाहुजानां समस्तानामभाव इव मूर्तिमान्। जयत्यतिवलो लोके जामदम्यः प्रतापवान् ।' अत्र जात्यवच्छिन्नाभावो विरोधित्वनिमित्तेन तादात्म्येनोत्प्रेक्ष्यते । विनाश इवेत्युक्तौ तु ध्वंसः । 'समस्तलोकदुःखानाम्' इति प्रथम चरणे कृते गुणाभावः ।
जगदखिलमपि यथासीन्निर्लोचनवर्गसर्गमिव ।।' अत्रापि चाक्षुषज्ञानसामान्यशून्यत्वेन निमित्तेन पार्यन्तिकः क्रिया- भावो धर्मः । एवं द्रव्याभावोत्प्रेक्षापि सवयमूद्या । मालारूपाप्येषा संभवति यथा- 'द्विनेत्र इव वासवः करयुगो विवखानिव द्वितीय इव चन्द्रमा: श्रितवपुर्मनोभूरिव ।
नन्वाकाशत्वं शब्दाश्रयत्वादिरूपमिति कुतः स्वरूपात्मकमत आह-अतपवेति । तस्य स्वरूपात्मकत्वादेवेत्यर्थः । आदिना शव्दसमवायिकारणत्वपरिग्रहः। विषयिणि आकाशे। तृतीयेति। तलस्पर्शे सवि प्रतिबिम्बासंभव इति भावः । सिद्ध्यर्थ चेति। आकाश एवेति शेषः । गर्तोपरितनाकाशस्य तद्दीर्घत्वारोपादिति भावः। बाहुजानां क्षत्रियाणाम्। जामदम्यः परशुरामः। जातीति। क्षत्रियत्वेत्यर्थः । विरोधित्वेति। जात्यवच्छिन्नेत्यादि । अभावोऽत्यन्ताभावः । अभावपदत्यागेनाह-विनेति। क्रिया- भावोत्प्रेक्षोदाहरणमाह-द्यौरिति । कज्जलवच्छयाममेघपत्चिभिस्तथाच्छादितेत्यर्थः । नेत्र शून्य जनसमूहसृष्टिरिवेत्यर्थः । निमित्तेनेति। अनुपात्तेनेति भावः । पार्यन्तिक इति। यद्यपि सर्गमिति नपुंसकोक्त्या तत्कं(?) जगदन्तरमिवैतज्जगदिति पूर्व बोध: तथापि तादृशजगदन्तराप्रसिद्धा अभावोत्प्रेक्षाबाधापत्या चात्रैव धर्भिणि जगति लोचनवर्गस्य सर्गों दानं संसर्ग: प्रसरणं वा यत्र दर्शने तदभावो निराबोष्यते इति दर्शनक्रियाभावरूपो धर्म उत्प्रेक्ष्यते। पश्चादित्यर्थः। तदाह-क्रियाभावो धर्म इति। एषा उत्प्रेक्षा। करयुगो भुजद्वयः । क्षमां भूमिम् । 'अध्यारोपेण' इति पाठः । आ-
Page 307
२९२ काव्यमाला।
नराकृतिरिवाम्बुधिर्गुरुरिव क्षमामागतो नुतो निखिलभूसुरैर्जयति कोडपि भूमीपतिः ।।' अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरो- धनिवर्तनाय विषयिषु वासवादिप्वारोपेण साधारणीकरणम्। न चात्रो- पमा शक्यनिरूपणा । द्विनेत्रत्वादीनामुक्तेर्निष्प्रयोजनकत्वापत्तेः । न चोपमाया निप्पादकं तेपां साधारण्यम्। तदभावेऽपि परमैश्वर्यादिभि: प्रतीयमानैस्तस्या निप्पत्तेः । असुन्दरत्वादुपमानिप्पादकत्वेन कवेरनभि- प्रेतत्वाच्च। नह्यत्र द्विनेत्रत्वादिभिर्धमैर्वासवादिसादृश्यं राज्ञः कवेरभिप्रा- यविषयः । एवं द्वितीयत्वादीनां चन्द्रादिप्वारोपोप्युपमायां सत्यामनर्थक एव स्यात्। अभेदप्रतिपत्तौ तु सहस्रनेत्रेण सहस्रकरेण विधिसृष्टावे- केन वपुर्विहीनेन जलाकारेण स्वर्गगतेन च तेन तेन कथमस्याभेदः स्या- दिति प्रतिकूलधियमपसारयतां विषयिगतानां द्विनेत्रत्वाद्यारोपाणामस्त्ये- वोपयोगः । अत्रैवेवशव्दस्याभावे दृढारोपं रूपकम् । विषयिगतविशेष- णानामभावे उपमा। उभयेषामेकतरस्याप्यभावे शुद्धरूपकमिति विवेकः । एवं स्वरूपोत्प्रेक्षा दिगुपदर्शिता। अथ हेतूत्प्रेक्षा। यथा- 'त्वत्प्रतापमहादीपशिखा विपुलकज्जलैः । नूनं नभस्तले नित्यं नीलिमा नूतनायते ।।' अत्र नीलिमसामानाधिकरण्येनोत्प्रेक्षितस्य हेतुत्वेनोत्प्रेक्षणम्। 'कज्ज- ललेपनैः' इति कृते इयमेव क्रियाहेतूत्प्रेक्षा। रोपेणेति तदर्थः । 'अतियुक्त्' पाठे तु स एवार्थः । स आरोपेणेत्यग्रे योज्यः । ननूपमै- वात्रास्तु इत्याशङ्कते-न चेति। साधेति। उक्तरीत्येति भावः । तस्या उपमायाः । ननूपात्तधर्माभावे प्रतीयमानादरोऽत आह-असुन्दरेति । विच्छित्त्य जनकत्वादि- त्यर्थः। उक्तधर्मस्येति। उक्तमेव विशदयति-एवमिति। राजसदृशस्य द्विती- यस्य। सत्त्वाद्राज्ञि स्वारसिकं द्वितीयत्वमित्याशयेनाह-चन्द्रादीति। ननूत्प्रेक्षा- पक्षेऽपि तदुक्तिवैयर्थ्यमत आह-अभेदेति। वासवादीत्यादिः । करेण किरणेन । तेन तेन वासवादिना। अस्य राजः। उभयाभाव स्यैकस्मिन्नपि सत्त्वादाह-एकतरेति। उपसंहरति-एवमिति। त्वदिति । राजानं प्रति कव्युक्तिः । उत्प्रेक्षितस्य कज्जलस्य। हेतुत्वेनेति। नूतनीकरण इति भावः । हेतूत्प्रेक्षेति । नीलिम्र:
Page 308
रसगप्नाघरः। २९३
गुणहेतूत्पेक्षा यथा- 'परस्परासङ्गसुखान्नतभ्रुवः पयोधरौ पीनतरौ बभूवतुः । तयोरमृष्यन्नयमुन्नति परामवैमि मध्यस्तनिमानमञ्चति ॥' अत्र पूर्वार्धे सुखस्य गुणस्य हेतुत्वं तावत्पश्चम्यैव निर्दिष्टम्। अप- रार्धे धर्मिविशेषणतया अनुद्यमानस्य गुणाभावस्य त्वार्थम्। यथा 'भोक्ता भुञ्जानो वा तृप्यति' इत्यादौ भोजनादेः । यथा वा- 'व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतामाकर्ण्य स्तुतिमुदयत्रपातिरेकात्। आभूमीतलनतकंधराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥' क्रियाहेतूत्प्रेक्षा यथा-'महागुरुकलिन्दमहीधरोदर विदारणाविर्भव- न्महापातकावलिवेल्लनादिव श्यामलिता' इति। द्रव्यहेतूत्प्रेक्षा यथा- 'वराका यं राकारमण इति वल्गन्ति सहसा सरः स्च्छं मन्ये मिलदमृतमेतन्मखभुजाम्। अमुष्मिन्या कापि द्युतिरतिघना भाति मिषता- मियं नीलच्छायादुपरि निरपायाद्गगनतः ।l' अत्रामृतसरोरूपत्वेनोत्प्रेक्षिते चन्द्रमसि नीलत्वेनाध्यवसिते कलकके उपरिवर्तिनभोहेतुकत्वमुत्प्रेक्ष्यते। एतेन द्रव्यस्य हेतुत्वेनोत्प्रेक्षणं नास्तीति प्राचां प्रवादो निरस्तः । प्रतिदिनोपचीयमानत्वं निमित्तम् । अव्वति गच्छति । अपरार्ध इति। उत्त- रार्ध इत्यर्थः । क्वचित्तथैव पाठः । आर्थत्वे हेतुगर्भ विशेषणमाह-धर्मीति। मध्येत्यर्थः । गुणाभावस्य मर्षणाभावस्य। भोक्तेत्यत्र कालसामान्यप्रतीतेर्विशेषो- दाहरणमाह-भुञ्जानो वेति। नैयायिकोक्तगुणस्यैव ग्रहणमिति भ्रमनिरासायो- दाहरणान्तरमाह-यथा वेति । उद्यदिति । उदयन्ती आविर्भवन्ती या लब्ा तस्याः संबन्धात्, आधिक्याद्वेत्यर्थः । भूमिमभिव्याप्य नम्राः कंधराः शाखा येषां तानि। वृक्षाणां समूहरूपाणीत्यग्रिमार्थः । अत्रापि लज्ारूपगुणस्य हेतुत्वं स्पष्टमेव। वेल्लनात्तत्संबन्धात्। अत्र वेल्नं क्रियेति स्पष्टमेव। इ्यामलिता संजातश्यामा । वराका: कृपणाः । यं चन्द्रम् । मिलदमृतमिति । 'लसदमृतम्' इति पाठान्तरम्। मखभुजां देवानाम्। अमुष्मिन्सरसि। इयं द्युतिनैल्यरूपा । मिषतां पश्यताम्। उपरि। वर्तमानादिति शेपः। निरपायादनश्वरात्। नी-
Page 309
२९४ काव्यमाला।
एषामेवाभावानां हेतुत्वोत्प्रेक्षा यथा- 'नितान्तरमणीयानि वस्तूनि करुणोज्झितः । काल: संहरते नित्यमभावादिव चक्षुषः ।।' अत्र कालस्य साहजिके संहारकत्वे चक्षुरभावस्य हेतुत्वेनोत्प्रेक्षा। 'निःसीमशोभासौभाग्यं नतान्ञ्या नयनद्वयम् । अन्योन्यालोकनानन्दविरहादिव चञ्चलम् ।' अत्र गुणाभावस्य । 'जनमोहकरं तवालि मन्ये चिकुराकारमिदं घनान्धकारम्। वदनेन्दुरुचामिहाप्रचारादिव तन्वङ्गि नितान्तकान्तिकान्तम् ।' इह द्वितीयार्घे क्रियाभावस्य। प्रथमार्षे तु जात्यवच्छिन्नस्य जात्य- वच्छिन्नाभावस्य वा स्वरूपोत्प्रेक्षैव । 'न नगाः काननगा यद्रुदतीपु त्वदरिभूपसुदतीषु। शकलीभवन्ति शतधा शक्के श्रवणेन्द्रियाभावात् ।।' इह श्रोत्रत्वस्य जातिगुणक्रियाभ्योऽतिरिक्तस्य विवेके क्रियमाणे आ- काशस्वरूपतया तदवच्छिन्नाभावस्य द्रव्याभावस्य हेतुत्वेनोत्प्रेक्षा । नि- मित्तं क्रियाभावः । एवं हेतूत्प्रेक्षादिक्।
लत्वेनेति। युतिरित्यनेनेति भावः । एषामेव जात्यादीनामेव। करुणोज्झित इति। त्यक्तकरुणः । आहितान्न्यादित्वान्निष्ठान्तस्य परनिपातः । इंदं जात्यवच्छिन्ना- भावहेतुत्वोत्प्रेक्षोदाहरणम्। गुणाभावहेतुत्वोत्प्रेक्षोदाहरणमाह-निःसीमेति । गु. णेति। आनन्दरूपेत्यर्थः । हेतुत्वेनोत्प्रेक्षेति शेषः। एवमग्रेऽपि। क्रियाभावहेतुत्वोत्प्रे- क्षोदाहरणमाह-जनेति। हे कृशात्ञि आलि, इह चिकुरे तव मुखचन्द्रकान्तीनाम- संबन्धादिव इदं दृश्यं केशसमूहरूपं चिकुरवदाकारो यस्य तादृशं जनमोहकर निबिडा- न्धकारमहं मन्य इत्यर्थः । यदाशयेनोदाहृतं तमाह-इहेति । प्रचारस्य क्रियात्वादिति भावः । तुरुक्तवैलक्षण्ये । एतेन प्रासङ्ञिकत्वमस्य सूचितम्। अतएव व्युत्क्मेणोकिः। अन्धकारोऽतिरिक्त्ः पदार्थ इति मतेनाह-जात्यवच्छिन्नेति। तेजोभाव एव स इति मतेनाह-जात्यवच्छिन्नाभावेति। क्वचिद्वैपरीत्येन पाठः । द्रव्याभावहेतुत्वो- त्प्रेक्षोदाहरणमाह-न नगा इति। शष्कुल्यवच्छिन्ननभसः श्रोत्रत्वादाह-विवेक इति। भावस्येत्यस्य व्याख्या द्रव्याभावस्येति। तस्य तत्त्वेनोत्प्रेक्षणे निमित्तमिति । क्रियेति। शकलीभवनरूपेत्यर्थः । उपसंहरति-एवमिति । उक्तप्रकारेणेत्यर्थः ।
Page 310
रसगङ्गाधरः । २९५
अथ फलोत्प्रेक्षा- 'दिवानिशं वारिणि कण्ठदन्ने दिवाकराराधनमाचरन्ती। वक्षोजतायै किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुजपक्किरेषा ।' अत्र वक्षोजत्वमवयववृत्ति । जातिस्तलप्रत्ययार्थः । त्वतलोः प्रकृति- प्रवृत्तिनिमित्ते भावे विधानात् । स एव चात्र तपश्चरणक्रियायाः साह- जिकजलावस्थानाभिन्नतयाध्यवसितायाः फलत्वेनोत्प्रेक्ष्यते। न चात्र प्राप्तिक्रियामन्तरेण जातेः शुद्धाया अफलत्वात्क्ियाया एव फलत्वमिति वाच्यम् । प्राप्तेः संसर्गतया तद्वारैव जात्यादेः फलत्वोपपत्तेः । अन्यथा फलत्वबोधकचतुर्थ्या अनुपपत्तेः । अत एव-'ब्राह्मण्याय तपस्तेपे वि- श्वामित्र: सुदारुणम्' इत्यादयः प्रयोगाः । गुणफलोत्प्रेक्षा यथा- 'हालाहलकालानलका कोदरसंगर्ति करोति विधुः । अभ्यसितुमिव तदीयां विद्यामद्यापि हरशिरसि [गतः] ।' अत्र विरहिवाक्येऽभ्यसनक्रियायास्तुमुना फलत्वं लभ्यते। एवं लक्ष्यानुसारेण यथासंभवमन्यदप्युदाहार्यम्। इह जात्यादयो हि भेदाः प्राचामनुरोघादुदाहृताः । वस्तुतस्तु नैषां चमत्कारे वैलक्षण्यमस्तीत्यनुदाहार्यतैव। चमत्कारवैलक्षण्यं पुनर्हेतुफल- स्वरूपात्मकानां त्रयाणां प्रकाराणामेवेति। प्रागुदाहृतेप्व्रेव पद्येषु वाचका- नामिवादीनां त्यागे प्रतीयमाना। अर्थसामर्थ्यावसेयत्वात्। न तु व्य- क्न्यति श्रमितव्यम् । तस्याः प्रकृते प्रसङ्गाभावात्। दिगिति। उपदर्शितेति शेषः । अथ क्रमप्राप्तां फलोत्प्रेक्षामाह-अथेति। तत्रादौ जातिफलोत्प्रेक्षामाह-दिवेति । कण्ठदप्ने कण्ठप्रमाणे। अवयवेति। स्तनेत्यर्थः । स एवेति। जातिरूपतलर्थ एवेत्यर्थः । अफलत्वादिति । तस्यानित्यत्वादिति भावः । क्रियायाः प्राप्तेः। संसर्गतयेति। तथा च लक्षणा नेति भावः । अन्यथा य- थाकथंचित्फलत्वानह्गीकारे। उक्तार्थ द्रढयति-अत पवेति। (वियोगेति।) अत्र सु- स्वरूपगुणस्य फलत्वेनोत्प्रेक्षणं स्पष्टमेव। हालेति । विषभालनेत्रसर्पाणां संगतिमि- त्यर्थः । तदीयां विषादीयाम्। प्राचामलंकारसर्वस्वकारादीनाम् । मेवेत्यस्य वोध्यमि- ति शेषः । एवं वाच्याप्रपश्वमुक्त्वा प्रतीयमानामाह-प्रागिति । एवं धर्मिख्वरूपो-
Page 311
२९६ काव्यमाला।
धर्मस्वरूपोत्प्रेक्षा यथा- 'निधिं लावण्यानां तव खलु मुखं निर्मितवतो महामोहं मन्ये सरसिरुहसूनोरुपचितम् । उपेक्ष्य त्वां यस्माद्विधुमयमकस्मादिह कृती कलाहीनं दीनं विकल इव राजानमतनोत् ।।' पूर्वार्धोत्प्रेक्षितमोहरूपधर्मसिद्धये द्वितीयार्धेऽविचार्यकारित्वं तत्सामा- नाधिकरण्येनोपात्तम् । अस्यां च स्वरूपस्य विषयित्वे निमित्तभूतो धर्म उपमायामिव विम्बप्रतिबिम्बभावादिभिभिन्न उपात्तोऽनुपात्तश्च । हेतुफ- लयोर्विषयित्वे तु यं प्रति हेतुफले निरूपिते स धर्मः कल्प्यमानोऽपि विषयगतसाहजिकधर्माभिन्नतयाध्यवसीयमानो निमित्तं संपद्यते। स चोपात्त एव भवति। अन्यथा कं प्रति हेतुफलयोरन्वयः स्यादिति संक्षेपः। अत्र च प्राचामर्वाचां चानेकधा दर्शनं व्यवस्थितम्। तत्र प्राचा- मित्थम्-सर्वत्राभेदेनैव विषयिणो विषये उत्प्रेक्षणं न संबन्धान्तरेण । तथा हि धर्मिस्वरूपोत्प्रेक्षायाम् 'मुखं चन्द्रं मन्ये' इत्यादौ तावद्विषयिण- श्रन्द्रस्याभेदो विषये मुखे स्फुट एव। नामार्थयोर्मेदेन साक्षादन्वयस्या- व्युत्पत्तेः । उपात्तविषया चेयम् । एवम् 'अस्यां मुनीनामपि मोहमूहे' इत्यत्र नैषधपदे (७। ९४) धर्मस्वरूपोत्प्रेक्षायामपि मुनिसंबन्धिनि धर्मा- न्तरे विषये दमयन्तीविषयकमोहस्य विषयिणो भेदेनैवोत्प्रेक्षा। उत्प्रेक्षा-
तप्रेक्षामुक्त्वा धर्मस्वरूपोत्प्रेक्षामाह-धर्मेति । सरसिरुहसूनोर्व्रह्मणः। इह जगति। कलाहीनं क्षीणकलम्। विकल इवेत्यंशे उपमा। पूर्वार्धोत्प्रेक्षितेति। ब्रह्मरूपे ध- र्भिणीति भावः । उपात्तमिति। अकस्मादित्यनेनेति भावः । निमित्तांशे प्रागनुकं विशेषमाह-अस्यां चेति। उत्प्रेक्षात्वावच्छिन्नायामित्यर्थः । स्वरूपस्य धर्मिखरूपस्य धर्मस्वरूपस्य वा। भावादिभिरिति। आदिना अनुगामित्वादिपरित्रहः । एवं च चतुर्विध इत्यर्थः । तदाह-भिन्न इति । अपिः स्वाभाविकसमुच्चायकः । अत्र च उत्प्रेक्षाविषये। अर्वाचामाधुनिकानाम्। दर्शनं मतम् । तत्र तयोर्मध्ये। विषय इति। एतौ च धर्मस्वरूपौ धर्मिस्वरूपौ वेति भावः । तावदादौ। अस्यां दम- यन्त्याम्। धर्मस्वरूपोत्प्रेक्षायामपि धर्मान्तरे दर्शनादिरूपे। नन्वेवं कथं विषयस्यानुपा- दानमत आह-उत्प्रेक्षेति। एवं धर्मिस्वरूपोत्प्रेक्षायां तत्त्वमुक्त्वा धर्मस्वरूपोत्प्रेक्षा-
Page 312
रसगङ्गाघरः । २९७
याश्र साध्यवसानत्वाद्विषयस्यानुपादानं संगच्छते। निमित्तधर्मश्च तत्त- दङ्गासक्तवृत्तित्वम् । एवम् 'लिम्पतीव तमोऽ़ञ्वानि वर्षतीवाञ्जनं नभः' इत्यादौ केस्यापि पद्ये न प्रथमान्तार्थे कर्तरि लेपनकर्तृत्वादेरुत्प्रेक्षणम्, तस्याख्यातार्थविशेषणत्वेनैकदेशत्वात्। नापि लेपनादिकर्तुरभेदेन, तस्य क्रियाविशेषणत्वेनाप्राधान्यात्। कि तु तमःकर्तृकमङ्गकर्मकं लेपनमुत्पे- क्ष्यते। तमःकर्तृकमञ्जनकर्मकं वर्षणं च। उत्प्रेक्ष्यमाणाभ्यां च ताभ्यां विषयस्य तमःकर्तृकव्यापनस्य निगीर्णत्वादनुपादानम् । अत एव एवमा- दावियमनुपात्तविषयोच्यते। निमित्तधर्मश्च श्यामीकारकत्वादिरनुपात्त एव । अत एव 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' इति लक्षणं विधायोक्तम् 'व्यापनादिलेपनादिरूपतया संभावितम्' इति मम्मटभट्टैः । एवम् 'उन्मेषं यो मम न सहते जातिवैरी निशाया- मिनदोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः । नीतः शान्ति प्रसभमनया वक्रकान्त्येति हर्षा- ल्मा मन्ये ललिततनु ते पादयोः पझ्मलक्ष्मीः ॥' इत्यादौ प्राचीनपदये हेतूत्प्रेक्षायामपि न हर्षरूपं हेतुमात्रमुत्प्रेक्ष्यते ल- क्ष्मीरूपे विषये। किं तु तद्वेतुकं कार्य लगनादिरूपं विषयितादात्म्येन
यामप्युपपादयति-एवमिति। कस्यापि पद्ये इत्यनेन स्वीयत्वं निरस्तम्। वैया- करणरीत्या आह-तस्येति। प्रथमान्तार्थकर्तुरित्यर्थः । तथा च पदार्थः पदार्थनेति न्यायप्रसिद्धकर्तृत्वादि तु क्रियारूपतया प्रधानमेवेति भावः । एवमग्रेऽपि। अभेदे- नेति । प्रथमान्तार्थे उत्प्रेक्षणमित्यस्यानुषङ्गः । तस्येति । लेपनादिकर्तुरित्यर्थः । वर्षेणं चेत्यस्य उत्प्रेक्ष्यत इति शेषः। ननु कुत्र सा अत आह-उत्प्रेक्ष्येति। अत एव निगीर्णत्वादनुपादानादेव। एवमादौ इत्यादुदाहरणे। अत्र संमति प्रकाशकृत आह- अत एवेति। एवमिति। उन्मेषमिति। विकसनमित्यर्थः । नायिकां प्रति ना- यकोकिः । यश्चन्द्रः। मम पद्मस्य । हेतूत्प्रेक्षायामपि तत्त्वेनाभिमतायामपि। इदं च
१. शुद्धकप्रणीतमृच्छकटिकस्य प्रथमेऽड्टे पद्यमेतत. 'असत्पुरुषसेवेव दृष्टिर्विफलता गता' इत्यस्योत्तरार्धम्. रस० २८
Page 313
२९८ काव्यमाला।
साहजिकलगनादौ विषये। कार्यस्य निमित्ततावादिनापि विषयगततत्स- मानजातीयेना भेदाध्यवसानस्यावश्यवाच्यत्वात्। अन्यथाहेतुरूपविषयिधर्मस- मानाधिकरणधर्मस्य कार्यरूपस्य विषयावृत्तित्वादुत्प्रेक्षैव न स्यात्। एवम् 'चोलस्य यद्धीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः। अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥' इत्यादि परपदे फलोत्प्रेक्षायां कण्टकिषु वनान्तेषु विषयेषु न केवलं भालत्वग्विपाटननिमित्तकं ललाटाक्षरदर्शनं फलमुत्प्रेक्ष्यते। कि तु तत्फ- लकं भालत्वग्विपाटनादिरूपं विषयिकण्टकजविपाटनादौ विषये तादा- त्म्येनेति सर्वत्राभेदेनैव विषये विषयिण उत्प्रेक्षणमिति दर्शनम्। तत्र विचार्यते-न सर्वत्राभेदेनैवोत्प्रेक्षणमिति नियमे किंचिदस्ति प्रमाणम्। लक्ष्येपु भेदेनाप्युत्प्रेक्षणस्य दर्शनात्। 'अस्यां मुनीनामपि मोहमूहे' इ- त्यादौ। न च मुनिसंबन्धिनि धर्मविशेषे मोहस्याभेदेनोत्प्रेक्षणमिति वा- च्यम्। भेदेनोत्प्रेक्षणे बाधकाभावेनेद्शकल्पनाया निरर्थकत्वात्। नह्य- भेदेनैवोत्प्रेक्षणमिति वेदेन वोधितम्। यदर्थमयमाग्रहः स्यात्। लक्षण- निर्माणस्य पुरुषाधीनत्वात्। 'लिम्पतीव तमोऽङ्गानि' इत्यत्राषि लेपना- दिकर्तृत्वं तमआदिषु विषयेषूत्प्रेक्ष्यत इत्येव युक्तम्। अनुकूलव्यापारात्म-
तादात्म्यं परमतेऽप्यावश्यकमित्याह-कार्यस्येति। लक्ष्मीरूपविषये हर्षरूपहेतुमात्रो- त्प्रेक्षायां कार्यमेव निमित्तं वाच्यम्। तस्य तत्त्वसिद्धिरुभयसाधारण्यं विनानुपपन्नेत्यभे- दाध्यवसानमावश्यकमिति भावः । समानजातीयेन साहजिकलगनेन। तदेव व्यतिरेक- मुखेनोपपादयति-अन्यथेति। हेतुरूपेति। हर्षरूपेत्यादिः । धर्मस्य कार्यरूप- स्येति। वास्तवहर्षाधिकरणचेतनवृत्तितत्कार्यस्य लगनादेः पद्मलक्ष्म्यावृत्तेरिति भावः । फलोत्प्रेक्षायां तत्त्वमाह-पवमिति। चोलस्येति। चोलनृपस्येत्यर्थः । वनान्ता चनप्रदेशाः । अनुभविष्यतीति पलायितश्वेत्स इति भावः । अक्षराणि भालस्थानि। फलोत्प्रेक्षायां तत्वेनाभिमतायाम् । विपाटनेति । तस्य तत्कर्तृकत्वादिति भावः । दर्शनात्स्वरसतया प्रतीतेः । प्रागुकत तदीयप्रकारं खण्डयति-न चेति। ननु लक्ष- णानुरोधेन तथोच्यतेऽत आह-लक्षणेति। नन्वेवमपि लिम्पतीवेत्यादौ नान्यथा निर्वाह इति प्रागुक्कमत आह-लिम्पतीवेति। फलमात्रस्य घातर्थत्वादाह-अनुकूल- व्यापारेति। यत इत्यादिः । अन्यथा कृतीत्येवोकं स्यात्। एचेन धार्मेव्यवच्छेदः।
Page 314
रसगञ्ञाधरः । २९९
कस्य कर्तृत्वस्यैवाख्यातार्थत्वात्। तस्य च प्रथमान्ते विशेष्ये आश्रयतासं- सर्गेणान्वयान्न दोषः । 'भावप्रधानमाख्यातम्' इत्यस्य 'भावो व्यापारस्तदर्थ- कमाख्यातं तिङ्' इत्यर्थकरणान्न विरोधः । 'सत्त्वप्रधानानि नामानि' इत्युत्त- रवाक्यगतस्य प्रधानशब्दस्याभिधेयपरत्वात्। फलमात्रार्थस्यापि धातोरा- ख्यातार्थव्यापारव्यधिकरणत्वसमानाधिकरणत्वाभ्यामर्थगताभ्यां सकर्मका- कर्मकत्वव्यवहारः। नामार्थयोर्भेदेनान्वयाभावाच्च भावकृदर्थव्यापारस्य न नामार्थेडन्वयः । अत एव च 'कर्तरि कृत्' इत्यनेन विशिष्टशक्तिबोधकेन न घञादिषु भावग्रहणस्य विशेषणशक्तिबोधकस्य गतार्थत्वम्। शब्दानु- वृत्तिपक्षस्वीकाराच्च 'कर्तरि कृत्' इत्यत्र धर्मिपरस्यापि कर्तृग्रहणस्य 'लः कर्मणि-' इत्यत्र धर्मपरतायामपि न दोषः । यद्वा आस्तां फलव्यापारौ। धातोराश्रयश्च तिडोऽर्थः । परं तु देवदत्तः पचमान इत्यादाविव देवदत्तः पचतीत्यादिष्वपि प्रथमान्तार्थ एव तिर्डर्थस्याभेदेन विशेषणत्वं युक्तम्। न तु भेदेन। घात्वर्थभावनायां सर्वजनसिद्धस्योद्देश्यविधेयभावस्य भङ्गा- पत्तेः । सत्यां हि गतौ 'प्रत्ययार्थे प्रकृत्यर्थो विशेषणम्' इत्यस्योत्सर्गस्या-
आख्यातेति। तिडित्यर्थः। प्रथमान्ते तदथे। नन्वेवं यास्कोक्तिविरोधोऽत आह- भावेति। नाम्नः प्रातिपदिकस्य द्रव्यमात्रार्थत्वेन तत्प्राधान्यमुक्तम्। अर्थद्वयसत्व
रव्यापारावाचकत्वे सकर्मकत्वाकर्मकत्वविभागोच्छेदापत्तिरत आह-फलेति। व्यापा- रस्योभयत्रान्वयः । अर्थेति । चस्त्वयें। अन्वय इति। आश्रयतासंसर्गेति भावः । 'कर्तरि कृत्' इत्यतः कर्तरीति, 'लः कर्मणि- इत्यन्रानुवर्तते । तत्र तस्यानुकूलव्या- पारार्थकत्वे कृद्विधायकेऽपि तथैव स्यात्। पाचको देवदत्त इत्यादौ सामानाधिकर- ्यनिर्वाहस्तु लक्षणयेत्याशक्कापनोदायाह-अत एवेति । तथा सति भावे इति पदं कर्त्रादिविधायकस्थं व्यर्थ स्यात्। अधिकारसूत्रस्थकर्तरीत्यनेनैव सिद्धेरिति भावः। नन्वेवं लकारविधायकेऽपि तदर्थकत्वापत्तिरत आह-शष्दानुघृत्तीति। चस्त्वथे। शब्दाधिकारखीकारजगौरवादाह-यद्वति। तिडर्थस्य कर्तुः । अ- भेदेनेति। सामान्यविशेषयोरभेदान्वयादिति भावः । भङ्गापत्तेरिति। एकपदोप- स्थाप्ययोस्तत्वे एकप्रसरताभङ्गापत्तेरिति भावः। युक्त्यन्तरमाह-सत्यां हीति। विशेषणमिति। प्रकृतिप्रत्ययौ सहार्थ त्रूतः । तयोः प्रत्ययार्थस्य प्राधान्यमिति व्युत्प-
Page 315
३०० काव्यमाला।
प्यनुग्रह एव न्याय्यः । 'भावप्रधानमाख्यातम्' इत्यस्य 'भावनार्थको धातुः' इत्यर्थकरणान्न विरोधः । न च वैयाकरणमतविरोधो दूषणमिति वाच्यम् । स्वतन्त्रत्वेनालंकारिकतन्त्रस्य तद्विरोधस्यादूषणत्वात्। प्रपञ्चयिप्यते चैत- दधिकमुपरिष्टादिति प्रकृतमनुसरामः । एवं च 'लिम्पतीव- इत्यादौ भेदेनाभेदेन वा तिर्डर्थस्यैव प्रथमा- न्तार्थ एवोत्प्रेक्षणम्। न तु घात्वर्थस्य सवनिगीर्णे व्यापनादौ । सर्वजन- सिद्धाया इवार्थस्य विधेयताया अनुपपत्तेः । तमःकर्तृकं लेपनमिवेत्य- स्मादपि उद्देश्यवोधकशून्यवाक्यादुत्प्रेक्षाप्रतीत्यापत्तेश्च। यदि च विष- यिसंबन्घिना लेपनादिना विषयसंबन्धिनो व्यापनादेर्निमित्ततासंपत्तये खताद्रूप्यसंपादनेन निगीर्णत्वादनुपात्तविषयत्वमध्यवसानमूलत्वं चोच्यते तदा रूपकेऽप्यनुपात्तविषयत्वमुच्यतामध्यवसानमूलत्वं च। 'लोकान्हन्ति खलो विषम्' इत्यादौ खलसंवन्धिनो दुःखदानादेर्विषसंबन्घिहननात्मना- ध्यवसानात् तस्मान्निमित्तांशेऽतिशयोक्तिरेव। एवम् 'उन्मेषं यो मम न सहते' इत्यत्र लक्ष्मीरूपे विषये लगनहेतुत्वेन हर्ष उत्प्रेक्ष्यते। तत्र साहजिकसंबन्धे तादात्म्येनाध्यवसितं लगनमेव निमित्तम्। तथा-
त्तेरिति भावः । प्राग्वदत्रापि मते निरुक्तविरोधं प्रकारान्तरेण परिहरति-भावेति। पूर्वमाख्यातपदेन तिड् गरृहीतः, इदानीं धातुरिति विशेषः । ननु वैयाकरणमतरीत्या तथा प्रागुक्तमिति तद्विरोधोऽत आह-न चेति। पूर्वमतेनाह-भेदेनेति । द्विती- यमतेनाह-अभेदेनेति । कमेणैवद्वयव्यवच्छेद्यमाह-न त्विति। इवार्थस्य विधेयताया इति। विषयनिष्टोद्देश्यतानिरूपितमिवार्थसंभावना विषयः । विष- यिणो लेपनादेः प्रतीयमानं यद्विधेयत्वं तस्य भङ्गापत्तेरित्वर्थः । विषयस्य विषयिवा- चकेन तव मते निगीर्णलादिति भावः। ननु निगीर्णमेव गृहीत्वा तदभग्गोऽत आह- तम इति। अनुवादपुरःसरं दोषान्तरमाह-यदि चेति। विषयीति। विषयिणा तमःसंबन्धिनेत्वर्थः । एवं विषयसंबन्धिन इत्यपि व्याख्येयम् । स्वेति। लेपनेत्यर्थः । रूपकेऽपीति। प्रसिद्धरूपके मुखचन्द्र इत्यादावपीत्यर्थः । विषयानुपादानेनेति भावः। मूलत्वं च लोकानिति । इत्यादौ तन्मूलत्वं चोच्यतामित्यर्थः। अत्र हेतुमाह- खलेति। उपसंहरति-तस्मादिति। हेतूत्प्रेक्षायामाह-पवमिति। तत्र तस्या- मुत्प्रेक्षायाम्। संबन्धे शोभासंबन्धे। लगनमेव। हर्षहेतुकं लगनमित्यर्थः । उदाहरणा-
Page 316
रसगङ्गाघरः । ३०१
'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्या। अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥' अत्रापि मौनहेतुत्वेन नूपुरे विश्लेषदुःखमुत्प्रेक्ष्यते। तत्र निश्चलत्वनि- मित्तकनिःशब्दत्वाध्यवसितं मौनं निमित्तम्। विश्लेषदुःखसमानाधिकर- णत्वे सति नूपुरवृत्तित्वात्। न तु निश्चलत्वनिमित्तके निःशब्दत्वे विषये विश्लेषदुःखहेतुकमौनमभेदेन। उत्प्रेक्षायामिवशब्दान्वितस्योत्प्रेक्ष्यताया उत्सर्गसिद्धत्वात्। विषयस्य निगीर्णतया विषयिणो विधेयत्वानुपपत्तेश्च। निमित्तान्तरगवेषणापत्तेश्च । यद्यप्येककालप्रभवत्वादिरस्ति साधारणो धर्मो निमित्तम्। तथापि तस्याचमत्कारित्वादुपमायामिवोत्प्रेक्षायामप्य- प्रयोजकत्वात्। एवं फलोत्प्रेक्षायामपि बोध्यम्। एतेन 'यद्वा हेतुफल- धर्मस्वरूपोत्प्रेक्षोदाहरणेष्वपि तादात्म्येनैवोत्प्रेक्षा' इति प्राचां मतमनुस- रता द्रविडपुंगवेन यदुक्तं तदपि परास्तम्। अलंकारसर्वस्वकृता तावदुत्प्रेक्षाया लक्षणमित्थं निगदितम्-'विषय निगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । स च द्विविधः-सिद्धः, सा- ध्यश्च। तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्ये उत्प्रेक्षा इति। अस्यार्थः -सिद्धत्वं निगीर्णविषयत्वम्। साध्यत्वं च निगीर्यमाणविषयत्वम्। यत्र हि सिद्धत्वं तत्राध्यवसितप्राधान्यम् । यथातिशयोक्त्यादौ। यत्र साध्यत्वं तत्र व्यापारस्याध्यवसानक्रियायाः प्राधान्ये उत्प्रेक्षा इति । एवमभेदगर्भमुत्प्रेक्षालक्षणं विधाय 'सैषा स्थली यत्र' इत्यत्र नूपुरगतस्य मौनित्वस्य हेतुत्वेन दुःखं गुण उत्प्रेक्ष्यते। तत्र मौनित्वमेव नूपुरगतनिः- शब्दत्वाभेदेनाध्यवसितं निमित्तम् ।" इत्युक्तम्। एवं 'यत्र धर्म एव धर्मि-
न्तरमाह-तथेति। सैषेति। लङ्कात अयोध्यागमनावसरे सीतां प्रति श्रीरामचन्द्रो- किः। भ्रष्टमिति। पतितमित्यर्थः । तवेति शेषः । मौनं द्विविधम्-निश्चलत्वहेतुकं दुःखहेतुकं च। तयोरभेदमाह-तत्रेति। निःशब्दत्वाध्यवसितमिति । निः- शब्दत्वे तादात्म्येनाध्यवसितमित्यर्थः । तस्योभयनिष्ठत्वमाह-विश्लेषेति । नन्वा- काहादिना तत्रैवान्वयोऽख, अत आह-विषयेति । ननु निगीर्णमादायैव तदत आह-निमित्तान्तरेति। उत्प्रेक्षेतीत्यस्य यदुक्त्मित्यत्रान्वयः। द्रविडश्रेष्ठेनाप्पदी- क्षिवेनेत्यर्थः । अर्वाचां मतमाह-अलंकारेति। तत्र तयोर्मध्ये। एवमप्रेऽपि। तत्र
Page 317
३०२ काव्यमाला।
गतत्वेन' इत्यादिना धर्मोत्प्रेक्षाप्रसक्के "लिम्पतीव तमोऽङ्गानि' इत्यत्र लेप- नक्रियाकर्तृत्वोत्प्रेक्षणे व्यापनादि निमित्तम् ।" इत्युक्तम्। तदेतत्सर्व परस्परविरुद्धम्। नहि दुःखगुणोत्प्रेक्षायामभेदगर्भोऽध्यवसायोडस्ति । मौनांशे सन्नप्यध्यवसायः सिद्धत्वादतिशयोक्तरेव विषयो भवितुमर्हति, नोत्प्रेक्षायाः । त्वन्मते मौनस्य निमित्तत्वेनानुत्प्रेक्ष्यत्वाच्च। एवं 'लिम्प- तीव इत्यत्र लेपनांशाध्यवसायोऽपि। तस्यापि व्यापनरूपतया स्थितस्य त्वया कर्तृत्वोत्प्रेक्षानिमित्तत्वेनोक्तत्वाच्च। 'व्यापनादौ तूत्प्रेक्षाविषये निमि- त्तमन्यदन्वेष्यं स्यात्' इति त्वयैव बाधकोपन्यासात्। निमित्तांशा- ध्यवसानं तूपमादावपि स्थितम् । किं च, 'नूनं मुखं चन्द्रः' इत्यादौ कुत्राध्यवसायः । विषयस्य जागरूकत्वात्। न च सिद्धेध्यवसाये विष- यस्य जठरवर्तित्वम्, साध्ये तु निगीर्यमाणत्वात्पृथगुपलब्धिरिति वा- च्यम्। साध्याध्यवसाने मानाभावात् । अन्यथा रूपकादेरप्यध्यवसानगर्भ- त्वापत्तेः । किं च, अध्यवसानं लक्षणाभेदः । न चात्र विधेयांशे लक्ष- णास्ति। अभेदादिसंसर्गैराहार्यवोधस्यैव सवीकारात्। तस्मात्ाचीनानामा- धुनिकानां चोक्तयो न क्षोदक्षमाः । एवं प्राप्ते ब्रूम :- तत्र तावद्धर्म्युत्प्रेक्षानिष्कर्षः प्राचीनमतपरीक्षावसरे कृत एव। हेतूतप्रेक्षायां पञ्चम्यर्थो हेतुः अभेदश्च प्रकृतिप्रत्ययार्थयोः संसर्ग इति पक्षे 'विश्लेषदुःखाभिन्नहेतुः पञ्चम्यन्तार्थः । तस्य च प्रयोज्य- तासंसर्गेणोत्प्रेक्षणमिवादिना बोध्यते। प्रयोज्यत्वं पञ्चम्यर्थ इति दर्शने निरूपितत्वं प्रकृतिप्रत्ययार्थयोः संसर्गः । आश्रयता संसर्गेण चोत्प्रेक्ष- णम्। उभयथापि पञ्चम्यर्थ एवोत्प्रेक्ष्यः । तेनैवेवाद्यर्थान्वयात् । उत्प्रेक्ष्य- तावच्छेदकसंबन्धेनोत्प्रेक्ष्यसमानाधिकरणश्च धर्मोऽतिशयोक्त्या मौनाभिन्न-
दुःखरूपगुणोत्प्रेक्षायाम्। अध्यवसाय इति । निःशब्दताभेदेत्यादिः। अध्यवसा- योऽपीति। सिद्धत्वादित्याद्यर्ह तीत्यन्तानुषङ्गः । प्राग्वदाह-तस्यापीति। ननु मया तथोक्तमपि नेदं खण्डितमित्युपलक्षणत्वेनोह्यमत आह-व्यापनादाविति । इदम- न्यत्रापि दृष्टमित्याह-निमित्तांशेति। लक्षणाभेद इति। साध्यवसाना सारोपा चेति भेदकरणादिति भावः । अत्र उत्प्रेक्षायाम्। परीक्षेति। विचारेत्यर्थः। उत्प्रे- क्ष्यतावच्छेदकसंबन्धेनेति। स च प्रयोज्यलादिः। आदिना निःशब्दत्वपरिप्रहः।
Page 318
रसगङ्गाघरः । ३०३
त्वेनाध्यवसितनिश्चलत्वादिर्निमित्तम् । बद्धमौनं च विषयः । मौनद्वारकं च बद्धमौनस्य प्रयोज्यत्वं संभाव्यते। एवं प्रयोज्यधर्मके धर्िणि सर्व- त्रापि धर्मद्वारक एव पञ्चम्यर्थान्वयः । यत्र तु धर्म एव किचिद्धर्माभिन्न- त्वेनाध्यवसितः साक्षाद्विषयस्तत्र विषयतावच्छेदकधर्मो निमित्तम्। यथा तत्रैव 'विश्लेषदुःखादिव बद्धमौनमस्य' इति निर्माणे मौनत्वम्। एवं तृती- यार्थेऽपि बोध्यम्। फलोत्प्रेक्षायां तुमुन्नादेरर्थः फलम्। प्राग्वत्प्रकृत्यर्थ- प्रत्ययार्थयोरभेदः संसर्ग: । तच्च साधनतासंसर्गेणान्वेतीति तेनैव संसर्गे- णोत्प्रेक्ष्यते । यत्र चोत्प्रेक्ष्यते तदंशे विशेषणतया भासमानो धर्मो निमित्तम् । स च धर्मिणि विषये अभिन्नत्वेनाध्यवसितो धर्मस्तथाभूते च धर्मे विषये तद्विशेषणीभूतोऽन्य इति विवेकः । एवं च यत्र समासप्रत्य- यगुणीभूते विषये हेतुफलान्वयो न साक्षात्संभवति तत्र प्रधान एव विषये तादृशविशेषणद्वारकप्रयोज्यत्वप्रयोजकत्वाभ्यां संसर्गाभ्यां हेतुफल- योरुत्प्रेक्षा बोध्या। यद्यपि विशेषणेऽपि यथाकथंचिद्धेतुफलयोरन्वयाद्वि- शेषणस्यापि विषयत्वमुचितम्। तथापि विषयविषयिणोरुद्देश्यविधेयभाव- प्रत्ययस्यानुरोघादियं सरणिराश्रिता। यदि च तस्य नास्त्येवानुरोधस्तदा प्राचां दर्शनमेव रमणीयं स्यात्। कि च प्राचां मते हेतुफलोतपेक्षास्थले तद्धेतुकतत्फलकयोः कार्यकारणयोरेव निगीर्णे विषये उत्प्रेक्षणात्सरूप- स्योत्प्रेक्षायामेव पर्यवसानम् । न हेतुफलयोः । एवं च विभागश्चिरंतना- नामुच्छिन्नः स्यात्। अथ स्वरूपतादात्म्याविशेषेऽपि हेतुफलाविशेष- णकशुद्धस्वरूपोत्प्रेक्षाया हेतुफलविशेषणकस्वरूपोत्प्रेक्षायामस्ति हेतुफल- कृत एव भेद इति चेत् 'तनयमैनाकगवेषणलम्बीकृतजलधिजठर प्रवि- ष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी' इति प्रागुदाहृतायां
तृतीयार्थेऽपीति। हेताविति शेषः । प्राग्वत् प्रागुकतप्रथमपक्षवत्। तच्च फलं च। तथाभूते च विषयतावच्छेदकधर्माभिन्नत्वेनाध्यवसिते च। तद्विशषेति। विषयताव- च्छेदकधर्म इलर्थः। समासेति। समासप्रत्ययाभ्यां गुणीभूते इत्यर्थः । यथाकथंचिद्धे- तुफलयोरिति। 'सवर्गो ध्वस्तः' इत्यादाविव, 'नीलरूपवान् जातः' इत्यादाविव चेति भावः। तस्य तयोरुद्देश्यविधेयभावप्रत्ययस्य। ननु तत्कोटिप्रविषत्वेऽपि तस्य न
Page 319
३०४ काव्यमाला।
स्वरूपोत्प्रेक्षायां तनयमैनाकगवेषणरूपस्य फलस्योत्प्रेक्ष्य विशेषणकोटिप्रवि- ष्टत्वात्फलोत्प्रेक्षात्वापत्तेः, उत्प्रेक्ष्ये साक्षाद्विशेषणताया अप्रयोजकत्वाद् । इत्यलं स्वगोत्रकलहेन। उत्प्रेक्ष्यमाणेप्वपि यस्य विषयिण उत्प्रेक्षा विधेयतया भासते तदीयो- त्प्रेक्षयैव व्यपदेशः । प्राधान्यात्। तेन 'विश्लेषदुःखादिव वद्धमौनम्' इत्यत्र नूपुरगतत्वेन दुःखस्योत्प्रेक्षणेडपि न तदुत्प्रेक्षाया व्यपदेशो न्याय्यः । तस्या अङ्गत्वेनानुवाद्यत्वात्। किं तु पञ्चम्यर्थोत्प्रेक्षया तस्या एव इवशब्दवेद्यत्वेन विधेयत्वात्। तथा 'चोलस्य' इति यद्यपि वनान्तग- तत्वेन न ललाटाक्षरदर्शनोत्प्रेक्षयापि, अपि तु तुमुन्नर्थोत्प्रेक्षयापि। एवं 'तनयमैनाक-' इत्यादिगद्ये न फलोत्प्रेक्षया व्यपदेशः । नापि 'कलिन्दजानी- रभरेडर्घमग्रा' इत्यत्र शशिकिशोरतादात्म्योत्प्रेक्षया, तदुत्थापितया ध्वान्तक- र्तृकवैरहेतुकनिगरणकर्मतादात्म्योत्प्रेक्षया वा। प्रागुक्तादेव हेतोरिति दिक्। द्विविधो हि तावद्धर्मोऽपि-वत एव साधारणः, साधारणीकरणोपाये- नासाधारणोऽपि साधारणीकृतश्च । स चोपायः क्वचिद्रूपकं क्वचिच्छ्रेषः क्वचिदपह्नुतिः क्वचिद्विम्वप्रतिविम्वभावः कचिदुपचारः कचिदभेदाध्यवसा- यरूपोऽतिशयः । यथा 'नयनेन्दिन्दिरानन्दमन्दिरं मिलदिन्दिरम्। इदमिन्दीवरं मन्ये सुन्दराङ्गि तवाननम् ।' अत्र प्रथमार्धगतः प्रथमो धर्मो रूपकेण विषयविषयिसाधारणीकृतः । द्वितीयश्र विलक्षणशोभयोरभेदाध्यवसायेन। केवलशन्दात्मकोऽप्ययं संभवति।
तत्र साक्षाद्विशेषणत्वमत आह-उत्प्रेक्ष्ये इति। 'यस्य विषयिणः' इति पाठः । तस्या नूपुरगतदुःखोत्प्रेक्षायाः। पञ्चम्यर्थोत्प्रेक्षयेति । व्यपदेश इत्यस्यानुषङ्गः। एवमग्रेऽपि। प्रागुक्तादेवेति । अङ्गत्वेनानुवाद्यत्वादित्यस्मादेवेत्यर्थः । द्विविधो हीति। हि यतः । सवत एवेत्यादि द्वैविध्यं प्राप्तोऽतस्तावद्धर्मोऽपि द्विविध इत्यर्थः । इन्दिन्दिरा भ्रमराः। इन्दिरा शोभा। प्रथम इति। नयनेन्दिन्दिरानन्दमन्दिरत्वरूप इत्यर्थः । द्वितीयश्चेति। मिलदिन्दिन्दिरत्वरूप इत्यर्थः । सायेनेति। विषयेत्याद्यनु-
Page 320
रसगङ्गाधरः । ३०५
'अङ्कितान्यक्षसंघातैः सरोगाणि सदैव हि। शङ्के पङ्केरुहाणीति शरीराणि शरीरिणाम् ॥।' अयमुपात्त एव भवति। अर्थमयोऽनुपात्श्चापि भवति। यथा 'द्विनेत्र इव वासवः' इत्यादौ जगदीश्वरत्वादिः। न चात्र द्विनेत्रत्वादिरूप उपात्त एव साधारणो धर्मः । साधारण्यार्थमेव तस्य विषयिण्यारोपादिति वाच्यम्। तस्यारोपेण साधारणत्वे कृतेऽपि असुन्दरत्वेनोत्प्रेक्षोत्थापकत्वविरहात्। साधारणीकरणं तु प्रतिबन्धकनिरासार्थमित्युक्तमेव। 'दृष्टिः संभृतमङ्गला बुधमयी देव त्वदीया सभा काव्यस्याश्रयभूतमास्यमरुणाधारोऽघरः सुन्दरः । क्रोधस्तेशनिभूरनल्पधिषण स्वान्तं तु सोमास्पदं राजन्नूनमनूनविक्रम भवान्सर्वग्रहालम्बनम् ।।' अत्रोत्प्रेक्ष्यमाणस्य सर्वग्रहालम्वनस्य धर्मेषु तत्तद्रहाश्रिताङ्गकत्वेषु विशेषणीभूतैस्तत्तद्हैर्विषयस्य राज्ञो धर्मेषु कल्याणाश्रयत्वादिपु विशे- षणानां कल्याणादीनां श्लेषेण तादात्म्यसंपादनद्वारा तादृशधर्माणां साघा- रणतासंपत्तिः । यथा वा- 'विभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः । कपोलपालिं तव तन्वि मन्ये नरेन्द्रकन्ये दिशमुत्तराख्याम् ।।' इहापि विषयविषयिधर्मविशेषयोरलकालकयोः श्रवणवैश्रवणयोश्च श्लेषेणाभेदे धर्मस्य साधारण्यम्।
पज्यते। अयं केवलशव्दात्मा। अयमिति। प्रागुक्त्तोऽर्थमय इत्यर्थः । नन्वेवं तस्य साधारणत्वकरणं व्यर्थमत आह-साधारणीति। निरासार्थमिति। इवशब्दस्य संभावनार्थकत्वाय चेत्यपि बोध्यम्। शेषोदाहरणमाह-दृष्टिरिति। राजानं प्रति कव्युक्तिः । मह्लपदेन भूमिजः शुभं च । वुधः पण्डितः सौम्यक्च। काव्यं पदयं शुकश्च। अरुणः सूर्य आरुण्यं च। शनिरशनिश्च। धिषणो गुरुचिषणा वुद्धिश्च। सोमास्पद- मिति। उमया सहितः सोमश्न्द्रश्। यद्वा 'चन्द्रमा मनसो जातः' इतिश्रुतेर्जनकतासंव- न्घेन मनसि सोमास्पदतमुत्प्रेक्ष्यते। तेन चेश्वरंत्वमपि व्यङ्ञयमित्याहुः । पूर्वमुपात्तोदा- हरणं पक्षादनुपात्तोदाहरणमित्यत्र विशेषः। उत्प्रेक्षेति। विषयिण इति शेषः । क-
Page 321
३०६ काव्यमाला।
यथा वा- 'नासत्ययोगो वचनेषु कीर्तौ तथार्जुनः कर्मणि चापि धर्मः । चित्ते जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पाण्डुपुत्राः ।।' अत्र पाण्डुपुत्रेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां राजाश्रितत्व- रूपो विषयिघर्मः श्ेषेण विषयाणां तदाश्रितानां चासत्याभावशुककगुण- पुण्यपरमेश्वराणामभेदसंपादनद्वारा विषयसाधारणीकृतः । 'स्तनान्तर्गतमाणिक्यवपुर्वहिरुपागतम्। मनोऽनुरागि ते तन्वि मन्ये वल्लभमीक्षते ।।' अत्र वल्लभेक्षणस्य मनस्युत्प्रेक्षायां तन्निमित्तमन्तःप्रदेशाद्वहिरागमनम- पक्ष्यम्। तच्च बहिःप्रदेशसंवन्धरूपं माणिक्यमात्रवृत्ति मनसो न संभव- तीति माणिक्यापह्नुत्या मनोगतं क्रियते। बिम्वप्रतिबिम्बभावस्तु 'कलि- न्दजानीरभरेऽर्घमग्ना' इत्यत्रैव निरूपितः । 'माधुर्यपरमसीमा सारस्वतजळधिमथनसंभूता। पिबतामनल्पसुखदा वसुधायां ननु सुधा कविता ॥' अत्र कवितायां माधुर्यपानयोर्मुख्ययोरसंभवादास्वादश्रवणयोरमुख्य- योरुपचारेण मुख्याभ्यां साधारणीकरणम्। लक्षणया शक्याभेदेन लक्ष्य- बोधनात्।
वेति। अलकः अलका च। श्रवणः कर्णः वैश्रवणः कुवेरश्ष। राजकन्यां प्रति कव्यु- क्तिरियम्। प्राग्वदाह-यथा वेति। राजानं प्रत्युक्तिरियम्। नासत्यो नकुलसह- देवौ असत्याभावश्र। अर्जुनः किरीटी श्वैत्यं च। धर्मो युधिष्टिरो विध्यर्थक्ष। जग- दिति। वायुपुत्रो भीमो हनूमांश्र। यद्वा पञ्चम्यर्थवहुव्रीहिणा वायुजनकः परमेश्वरः। राजवशंवदेति। विषयिणो वर्णनीयराजवशंवदा ये राजानस्तत्तादात्म्येत्यर्थः। विष- याणां पाण्डुपुन्नाणाम्। तदाश्रितानां चेति। राजाश्रितानां चेलर्थः। विषयेति। पाण्डुपुन्नेत्यर्थः । अपहवोदाहरणमाह-स्तनेति। स्तनमध्यगतमाणिक्यस्वरुपेण् ब वरहि रागतमित्यर्थः । नायिकां प्रति सख्युक्तिः । बिम्वप्रतिम्बोदाहरणमाह-बिम्बेति। उपचारोदाहरणमाह-माधुर्येति। राजानं प्रत्युक्तिः। या माधुर्यस्य परमसीमाधार- भूता सारसतरूपसमुद्रमथनजा भुवि तां बहुसुखदां सुधारूपकवितां ननु निश्चयेन पिबे- त्यर्थः । उपचारेण लक्षणया। मुख्याभ्यामिति। सहाभेदसंपादनद्वारा तयोर्धमैयो- रिति शेषः । ननूपचारेऽमुख्यस्यैव प्रतीत्या मुख्याप्रतीत्या दोषस्तदवस्थ एवात आह- लक्षणयेति। मात्रपदेन पौनरुक्त्यं परिहृतम्। पूर्वे रूपकमिश्र उक्त इति भावः ।
Page 322
रसगङ्गाधरः । ३०७
अभेदाध्यवसायमात्रं यथा प्रागुदाहृतायां हेतूत्प्रेक्षायाम् 'व्यागुञ्जन्म- धुकरपुन्जमञ्जुगीताम्' इत्यत्र शाखानीचत्वकंधरानमनयोरभेदाध्यवसाय एव त्रपाहेतूत्प्रेक्षानिमित्ततयोपात्तस्य कंधरानमनस्य नीचशाखनतकंधरोभय- साधारण्ये बीजम्। एवं सर्वत्र हेतुफलयोरुत्प्रेक्षणे यस्य हेतुः फलं वोतपेक्ष्यते सोऽनेन प्रकारेण साधारणीकृतो निमित्तमित्यसकृदावेदितम् । एवं कचिदुपात्तो धर्मो विषयविषयिसाधारण्याभावादसुन्दरत्वाद्वा खय- मुत्प्रेक्षणं साक्षादुत्थापयितुमसमर्थोऽपि तदुत्थापनक्षमधर्मान्तरोत्थापने- नानुकूल्यविधानादुपयुज्यते। यथा 'दौरञ्जनकालीभिः' इति प्रागुदाहते पद्ये दिवो जलदालीसमावृतरूपो धर्म उपात्तो जगतो निर्लोचनवर्गसर्ग- त्वोत्प्रेक्षायां वैयधिकरण्यादप्रयोजकोऽपि खप्रयोज्यनिविडान्धकारप्रयुक्त- चाक्षुपज्ञानसामान्यशून्यत्वस्य तथाविधोत्पेक्षानिमित्तस्योत्थापनेनाविपयोऽ- प्युपात्तो निरूपित एव। क्चिदयमपह्नुतोपि भवति। यथा- 'जगदन्तर ममृ तमयैरं शुभिरापूरयन्नयं नितराम् । उदयति वदनव्याजात्किमु राजा हरिणशावनयनायाः ।।' इति रसगज्गाधर उत्प्रेक्षाप्रकरणम्। अथातिशयोक्ति :- विषयिणा विषयस्य निगरणमतिशयः । तस्योक्तिः ॥ तच्च स्ववाचकपदेन शक्यतावच्छेदकरूपेणैवान्यस्य बोधनम्। अत्र च विषये विषयिवाचकपदस्य लक्षणायाः शक्यतावच्छेदकमात्रप्रकारक- साधारण्यसत्वेऽप्याह-असुन्दरेति। उपयुज्यत इति। एवं च तदानर्थक्यं नेति भावः। तत्रादोदाहरणमाह-यथेति। तथाविघोत्पेक्षेति। जगतो निर्लोचनवर्गसग- त्वोत्प्रेक्षेत्यर्थः । अयं विषयः। जगदन्तरं जगन्मध्यम्। राजा चन्द्रः। विषयापह्वश्चात्र राजतादात्म्य संभावनादार्ढ्यायेति बोष्थम्।इति रसगन्गाधरमर्मप्रकाश उत्प्रेक्षाप्रकरणम्। अथातिशयोकि निरूपयति-अथेति। योगरूढं तदित्याह-विषयीति। नि- गरणपदार्थमाह-तच्चेति ।स्ववाचकपदेनेति। लक्ष्यतावच्छेदकं च मुख्यत्वमे- वेति प्रागेव निरूपितं मूले। ननु रूपकादभेदस्तन्राह-अत्र चेति। अतिशयोक्का
Page 323
३०८ काव्यमाला।
लक्ष्यविशेष्यकबोधत्वं कार्यतावच्छेदकम्। अतः शक्यासाधारणधर्मस्य लक्ष्यासाधारणधर्मस्य च भानाभानयोर्न विरोधः । परे तु 'मात्रविशेषणं न देयम्। तेन लक्ष्यासाधारणोऽपि धर्मो भासते' इत्याहुः। केचित्तु 'लक्षणया लक्ष्यासाधारणधर्मप्रकारेणैवं बोधः । अनन्तरं च व्यापारान्त- रेण शक्यतावच्छेदकप्रकारेण लक्ष्यबोधः ।' इत्याहुः । वाधज्ञानस्य च यथा न प्रतिबन्धकत्वं तथोक्तं प्राक्। अत्र चैकपदोपात्तत्वान्नोद्देश्यविधे- यभावः । उदाहरणम्- 'कलिन्दगिरिनन्दिनी तटवनान्तरं भासय- न्सदा पथि गतागतक्कमभरं हरन्प्राणिनाम्। स्फुरत्कनककान्तिभिर्नवलताभिरावेलितो ममाशु हरतु श्रमानतितमां तमालद्रुमः ।।' अत्र तमालेन भगवतो निगरणे कलिन्दनन्दिनीत्यादीनि त्रीणि चरण- त्रयगतानि विशेषणानि तदनुग्रहार्थ विषयविषयिणोः साधारणधर्मतया साक्षादुपात्तानि । चतुर्थमपि चतुर्थचरणगतमवैयाकरणानां दर्शने। वैयाक- रणानां तूपात्तया तमालाभिन्नकर्तृकया श्रमहरणत्रिययोन्नीतं तादृशक- र्तृत्वं तथा तयोः स्थितम् । द्वितीये चरणे चोच्चावचयोनिसंचरणस्य प-
वित्यर्थः । एतावानेव विशेष इति भावः । अनन्तरं च लक्ष्याथबोधोत्तरं च । व्यापा- रेति। व्यज्नयेत्यर्थः । एतानि मतानि पूर्व निरूपितानि। ननु वाधज्ञानसत्त्वात्कथं व्यज्जनया तथा बोधोऽत आह-बाधज्ञानेति। एवं चाहार्यभेदवुद्धिः । वाधकवुद्धि- कालिकस्यैवाहार्यत्ादिति भावः । प्रान्नस्तु "कमलमनम्भसि-' इत्यादावाह्वादकत्वा- दिकं लक्ष्यतावच्छेदकम्। तेन रूपेण प्रथमतो वोधे तद्धर्मावच्छिन्ने कमलाभेदप्रत्ययो व्यजनयानाहार्यः । तद्धर्मावच्छिन्ने कमलाभेदबाधवुद्धेरभावात्। अत एव 'गौणसाध्य- वसानायां सर्वथैवाभेदावगमः' इति प्रकाशकृतः । रूपके लाहार्य एव। अयमेव रूपका- दस्या विशेषः" इत्याहुः। वनान्तरं वनमध्यम्। गतागतेति। गमनागमनक्लेशेत्यर्थः । तदनुम्रहार्थ तेन तन्निगरणानुग्रहार्थम्। दर्शन इति। तदर्थ तयोस्तत्त्वेन साक्षादुपात्तमिति शेषः । तैः प्रथमान्तार्थविशेष्यकबोधाङ्गीकारादिति भावः। वैयाकरणानां त्विति। दर्शन इत्यनुषज्यते। तथा तदर्थे तयोस्तत्त्वेन साक्षातथा अनुपात्तम्। उच्चेति।
Page 324
रसगङ्गाधरः । ३०९
थ्यादिना, तृतीयेऽपि लताभिगोंपीनां निगरणम्। तस्मिन्नेवानुग्राहकतया। एवं च सावयवेयमतिशयोक्तिः । यत्र चानुग्ाहकं न निगरणान्तरं कि तु शुद्धं साधारणधर्मादि सा निरवयवा। यथा- 'नयना नन्दसंदोहतुन्दिली करणक्षमा। तिरयत्वाशु संतापं कापि कादम्बिनी मम ॥' अत्र भगवतो मूर्तिर्निगीर्णा। नामार्थयोरभेदसंसर्गेण विशेष्यविशेषण- भावस्य व्युत्पन्नतया रूपके तावदुचितो विषयविषयिणोस्तेन संसर्गेण विशेष्यविशेषणभावः । न तु प्रकृते। विषयितावच्छेदकरूपेण विषय- स्यैव भानादभेदसंसर्गस्याप्रसक्तेः । अभेदप्रधानातिशयोक्तिरिति प्रवादस्तु प्रागुक्ते संसर्गारोपरूपक इव विपयितावच्छेदकस्यैव भेदाभावरूपतया निर्वाह्यः । तञ्च विषयितावच्छेदकं क्वचित्प्रकृते निगरणदार्ढ्याय विषय- मात्रवृत्तिघर्मखवसमानाधिकरणधर्मशून्यत्वाभ्यां प्रसिद्धम् । यथा 'कलि- न्दगिरिनन्दिनी' इत्यादौ तमालत्वादि। क्वचिदप्रसिद्धमपि कल्पितोपमा- दावुपमानमिव कविना खप्रतिभया कल्पितम् । धर्मिण इव धर्मस्यापि कल्पनाया अविरुद्धत्वात्।
हीनोत्तमयोनिजन्मेत्यर्थः । तस्मिन्नेवानुग्राहकतयेति। भगवतो निगरणे। तदा वे- ल्वनकर्मत्वतद्वरणकर्तृत्वसरूपे साधारणधर्मा। साधारणत्संपादनमेवानुग्राहकत्वमिति भावः। यत्र च यत्र तु। रूपकतो भेदान्तरमाह-नामार्थेति। एवेन विषयिव्यात्र- त्तिः। विषयीति। तमालत्वादेरित्यर्थः । भेदाभावरूपतयेति । 'आस्ये पूर्णश- शाङता' इत्यादावन्योन्याभावस्य प्रतियोगितावच्छेदकधर्मरूपतायाः सर्वतत्रसिद्धत्वा- दिति भावः । स्वेति। विषयमात्रवृत्तिधर्मेत्यर्थः । धर्मशून्यत्वाभ्यामिति। धर्म- द्वयशून्यत्वं च सामानाधिकरण्यसंबन्धावच्छिन्नप्रतियोगिताकम् । 'नवीनो जलधरः' इत्यत्र च भगवदृत्तिलोको त्तरत्वतत्समानाधिकरणनवसुधाकरणकव्याप्तिकर्तृत्वे जलधरत्वे- न समानाधिकरणेऽसामानाधिकरण्य संबन्धेन तदुभयविशिष्टजलधरत्वं कविकल्पितम्। कचिद्प्रसिद्धमपीति । सामानाधिकरण्यसंबन्धेन तादृशधर्मद्वयविशिष्टतया अप्र- सिद्धमपीत्यर्थः । अपूर्वशन्द्र इत्यादावप्येवम्। मुखमपूर्वश्चन्द्र इत्यादी कविकल्पितवि- शिष्टचन्द्रेणाहार्याभेदप्रतीते रूपकम्। केचित्तु 'कविकल्पिततादृशचन्द्रत्वस्य मुखत्वेन रस ०२९
Page 325
३१० काव्यमाला।
यथा-'स्मृतापि तरुणातपम्' । यथा वा- 'जगज्जालं ज्योत्सामयनवसुघाभिर्जटिलय- ञ्जनानां संतापं त्रिविधमपि सद्यः प्रशमयन्। श्रितो वृन्दारण्यं नतनिखिलवृन्दारकनुतो मम स्तान्तध्वान्तं तिरयतु नवीनो जलघरः ।।' अत्र विषयधर्मविशिष्टतया कल्पितेन लोकोत्तरजलघरत्वेन रूपेण भगवतः प्रतिपादने तत्समानाधिकरणत्वेन कल्पितानां विशेषणानामानु- गुण्यम्। एवं च निगरणे सर्वत्रापि विषयितावच्छेदकधर्मरूपेणैव विष- यस्य भानम्, न विषय्यभिन्नत्वेनेति स्थिते "रूपकातिशयोक्तिः स्यान्निगी- र्याध्यवसानतः' इत्युक्त्वा 'अत्रातिशयोक्तौ रूपकविशेषणं रूपके दर्शि- तानां विधानामिहापि संभवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम्। तेनात्राप्यभेदा- तिशयोक्तिस्ताद्रप्यातिशयोक्तिरिति कुवलयानन्दे यदुक्तं तन्निरस्तम्" इति नव्याः । प्राञ्चस्तु 'रूपक इवात्रापि विषय्यभेदो भासते। परं तु
विरोधाभावादनाहायैव विषयितावच्छेदकप्रकारधीरूपकलक्षणे चाहार्यत्वं न देयम्। अति- शयोकतिरनाहायैंव। रूपके त्वाहार्या अनाहार्या च धीः' इत्याहुः। अन्ये तु 'प्रस्तुतस्य यदन्यत्वमित्यतिशयोक्तिरेषु प्रकृतस्य विविक्त्ाकारवस्त्वन्तरत्वेनान्यवस्तुत्वेन वाध्य- वसानमिति तदर्थः । अस्ति हि प्रकृतस्य मुखस्य चन्द्रत्वेनाध्यवसानम्। आहार्यत्वा- भावाच न रूपकम्' इत्याहुः। विषयधर्मेति। लोकोत्तरत्वेत्यर्थः । सामानाधिकर- ण्यसंबन्धेन तद्वैशिष्ट्यं बोध्यम्। एवं चेत्यस्य निरस्तमित्यत्रान्वयः । विधानां प्रकारा- णाम्। अतिदेशनेति। अन्यत्रान्यशब्दप्रयोग इति न्यायादिति भावः । अत्रापि अतिशयोक्तावपि। तन्निरस्तमिति। अत्रेदं चिन्त्यम्-काव्यप्रकाशादिरीत्या तदु- क्तम्। निर्वाधकलवात्। किं च तयाप्यभेदाप्रधानातिशयोक्तिरिति प्राचीनव्यवहारसं- गमनाय विषयितावच्छेदकमेवाभेद इत्यवश्यं वक्तव्यम्। एवं च तथैवाभेदातिशयोक्ति- रिति व्यवहारो मयापि सूपपादः । 'कोऽयं गलितहरिणः-' इत्यादौ प्रसिद्धविष- यितावच्छेदकप्रकारकबोधस्य बाधबुद्धिपराहृतत्वात्कोऽयमित्यनेन निरस्तत्वाध्चावशयं च- न्द्रकार्यकारित्वप्रकारकवोधोऽजीकार्यः। एषैव च ताद्रूप्यातिशयोकिः । अत्रापि वि- षयितावच्छेदकप्रकारकधीराहार्यैव। तद्धर्मविशिष्टे शक्यसंबन्धभ्रहोऽपि तथैव । तद्-
Page 326
रसगभ्ाघरः । ३११
निगीर्णे विषये इति रूपकादस्या विशेषः । अध्यवसायस्य सिद्धत्वे- नाप्राधान्यान्निश्चयात्मकत्वाच्च साध्याध्यवसानायाः संभावनात्मकोत्प्रेक्षाया वैलक्षण्यम्' इत्याहुः। कथं तर्हि 'कमलमिदमनम्बुजातं जयतितमां कन- कलतिकायाम्' इत्यादाविदंत्वादेर्विषयतावच्छेदकस्योल्लेखान्निगरणमिति चेत्, न । इदमित्यस्य कमलत्वविशिष्टे विशेषणत्व एवातिशयोक्तिः, उ- देश्यतावच्छेदकत्वे तु रूपकमेव। एवं 'गौरयम्', 'आयुरेवेदम्' इत्या- दावपि बोध्यम्। अत एवातिशयोक्तावभेदोऽनुवाद्य एव न विधेय इति प्राचामुक्तिः संगच्छते। एवमेकः प्रकारोऽतिशयस्य यत्र भेदेऽप्यभेदः। अथ प्रकारान्तरम्-यत्राभेदेऽपि भेदो लोकोचरत्वप्रतिपत्त्यर्थः, इद- मेव प्रस्तुतस्यान्यत्वमित्यनेनोक्तम्। उदाहरणम्- 'अन्या जगद्धितमयी वचसः प्रवृत्ति- रन्यैव कापि रचना वचनावलीनाम्। लोकोत्तरा च कृतिराकृतिरार्तहृद्या विद्यावतां सकलमेव चरित्रमन्यत् ।।' एवमन्यः प्रकारः-यत्रासंबन्धेऽपि संबन्धो वर्ण्योत्कर्षार्थः । यथा- 'घीरध्वनिभिरलं ते नीरद मे मासिको गर्भः । उन्मदवारणवुद्या मध्येजठरं समुच्छलति ॥' अत्र सिंहीवचने समुच्छलनासंबन्धेऽपि समुच्छलनसंबन्धोक्ति: शौ- र्यातिशायिका।
मेवैशिध्यमपि लक्ष्यस्यारोपितमेवेति बोध्यम्। अस्या विशेष इति। आहार्यत्वाना- हार्यत्कृतो विशेष इत्यर्थः । उत्प्रेक्षातोऽत वैलक्षण्यमाह-अध्यवेति। इदमिति। यत इत्यादि। अत एव सर्वथा विषयानुपादानेऽस्या अग्गीकारादेव। एवमिति। उक्त- प्रकारेणेत्यर्थः । निरूपित इति शेषः । इदमेव प्रकारान्तरमेव। उक्तमिति। प्रकाश- कृतेति शेषः । अन्या जगदिति । विद्वद्वर्णनमिदम् । कृतिक्षेष्टा। आर्तह्द्या आकृतिः शरीरावयवसंस्था च लोकोत्तरेत्यर्थः । चरित्रं व्यवहारः । मध्येजठरमिति। 'पारे मध्ये-
Page 327
३१२ काव्यमाला।
यथा वा- 'गिरं समाकर्णयितुं यदीयां सदा रसज्ञैरनुभावनीयाम्। समीहते नित्यमनन्यचेता नभखदात्मंभरिवंशनेता ।I' यथा वा- 'तिमिरशारदचन्दिरतारकाः कमलविद्रुमचम्पककोरकाः । यदि मिलन्ति कदापि तदाननं खलु तदा कलया तुलयामहे।।' पूर्वत्र निर्णीयमानः, इह तु संभाव्यमान इति विशेषः। तथान्यः प्रकारः-यत्र संबन्धेऽप्यसंबन्धः । यथा- 'पीयूषयूषकल्पामल्पामपि ते गिरं निपीतवताम् । तोषाय कल्पते नो योषाघरबिम्बमधुरिमोद्रेकः ॥।' अत्र तोषसंवन्धेऽप्यसंबन्धः । एवमेवान्योऽपि प्रकार :- यत्र प्रयोजकस्य प्रयोज्यस्य च पौर्वा- पर्यविपर्ययः । स च द्वयोः सहभावासहभावात्, प्रयोजकस्य प्रयोज्यान- न्तरभावाद्वेति द्वेघा।
विस्फुलिङ्गच्छटापटलानां वाजिनाम्' इति हयवर्णने समुच्छलनविद्युद्धल्ली- करणयोः सहोत्पत्तिर्गम्यते।
षष्या वा' इति समासः । यदीयामिति । प्रकृतवर्णनीयराजकीयामित्यर्थः । नभखव- दिति। नभखता वायुना आत्मानं बिभ्रति ये सर्पास्तेषां वंशस्य कुलस्य नेता नायकः। शेष इत्यर्थः । अत्र तदाकर्णनसमीहासंबन्धेऽपि तदुकिस्तद्वैदुष्यातिशायिका। चन्दि- रेति। चन्द्रेत्यर्थः। मिलन्ति एकत्र तिष्टन्ति। तदाननं तस्या वर्ण्याया नायिकाया मुखम्। कलया न तु सर्वोशेन। पूर्वत्र पूर्वयोः । इहत्विति। यदीत्यस्य संभावना- बोधकत्वादिति भावः । यथेति। पीयूषममृतमेव यूषो मण्डविशेषस्तेन ईषत््यूनाम्। ते वर्णनीयस्य राः। समुच्छलनेति। विस्फुलिन्ञानामित्यादिः। सहोत्पत्तिरिति। शतृप्रत्ययेनेवि भावः । 'शत्रा समुच्छलन' इति पाठे तु ततः प्रागत्रेति शेषः । वस्तुतः
Page 328
रसगन्गाघरः । ३१३
द्वितीयो यथा- 'पुरः पुरस्तादरिभूपतीनां भवन्ति भूवल्लभ भस्मशेषाः । अनन्तरं ते भ्रुकुटीविटङ्कात्स्फुरन्ति रोषानलविस्फुलिज्जाः ।।' अत्र भेदद्वये प्रयोजकातिशयकृतः प्रयोज्यशैध्यातिशयो गम्यः ।
चीनाः । अन्ये तु-'संबन्धेऽसंबन्धः असंबन्धे संबन्ध इति भेदद्वयं नाति- शयोक्तिः । एतादृशातिशयस्य रूपकदीपकोपमापह्नुत्यादिषु खभावोक्ति- भिन्नेषु प्रायशः सर्वेष्वलंकारेषु सत्त्वात्। नहि यथास्थितवस्तूक्तावस्ति काचिद्विच्छित्तिः । कार्यकारणपौर्वापर्यविपर्ययस्यापि तेनैव व्याप्ततया भेदा- न्तरतानापत्तेश्च। तस्माद्विषयिणा निगीर्याध्यवसानं विषयस्य, तस्यैवान्य- त्वम्, यद्यादिशन्दैरसंभविनोऽर्थस्य कल्पनम्, कार्यकारणपौर्वापर्यविपर्यय- श्चेत्येतदन्यतमत्वमतिशयोक्तित्वम्' इत्याहुः । नव्यास्तु-'निगीर्याध्य- वसानमेवातिशयोक्तिः । प्रभेदान्तरं त्वनुगतरूपाभावादलंकारान्तरमेव । ननु प्रस्तुतान्यत्वभेदे भेदेनाभेदस्य, असंबन्धे संबन्ध इति भेदे संबन्धे- नासंबन्धस्य, संबन्धेऽसंबन्ध इति भेदे असंबन्धेन संबन्धस्य, कार्यका- रणपौर्वापर्यविपर्यये च तेनैवानुपूर्वी। अस्य च निगरणं रल्नाकरविमार्शि- नीकाराद्युक्तप्रकारेण संभवतीति चेत्, न । अन्यत्वादिभिरनन्यवस्तुप्रतीते- रेव चमत्कारित्वम् । न त्वनन्यत्वादिभिः । तेषामनुभवासंगतेः । न चा- समुच्छलनं तत्र हेतुरिति बोध्यम्। पुर इति। राजवर्णनमिदम् । हे भूवल्लभ, पुरः- पुरस्तात् पूर्वपूर्वे शत्रुरूपाणां राजां भस्मरूपाः शेषा अवशेषा भवन्ति। पश्चात्तव भ्रुकुट्येव विटहू कपोलपालिका तस्मात्कोधरूपाननेर्विस्फुलिद्गाः स्फुरन्तीत्यर्थः । अत्र भेदद्ये बा- धितत्वं परिहति-अन्नेति। सभावोक्तौ सर्वथा तदसत्त्वादाह-स्वभावोक्तीति। अन्यत्रापि क्वचिदसत्त्वादाह-प्रायश इति। सत्वादिति। तथा च तेषामप्य- तिशयोकित्वापत्तिरिति भेदेन तत्कथनासंगत्यापत्तिरिति भावः । ननु त्हि तत्र कोऽलं- कारोऽत आह-नहीति। अभ्युपेत्याप्याह-कार्येति। तेनैव प्राचीनोक्तभेदद्वये- नैव। अभेदस्येत्यादि षध्यन्तानां वक्ष्यमाणनिगरणेऽन्वयः । विपर्यये च विपर्यय इति भददये च। तेनैव कार्यकारणपीर्वापर्यविपर्ययेणैव। न। अनन्यत्वादिभिरिति। १. हे भूवल्लभ, पुरस्तात् प्रथमं अरिभूपतीनां शत्रुनृपाणां पुरो नगर्यो भस्मशेषा भ- वन्ति अनन्तर-इत्यादि समुचितोऽर्थ :.
Page 329
३१४ काव्यमाला।
न्यतमत्वमनुगतमिति शक्यते वक्तुम्। विच्छित्तिवैलक्षण्ये सत्यन्यतमत्व- स्याप्रयोजकत्वात्। अन्यथोपमारूपकादिकतिपयान्यतमत्वं सकलान्यत- मत्वं वा तल्लक्षणम् । उपमादयश्र तद्भेदा इत्येव कि न ब्रूयाः। अलं- कारान्तरत्वे गौरवमित्यपि न वाच्यम्। नह्यत्राकृप्तपदार्थकल्पनं येन गौरवं स्यात्। प्रधानोत्कर्षतारूपस्यालंकारत्वस्य त्वयापि स्वीकारात्। अलंकार- विभाजकोपाधिपरिगणनस्य च पुरुषपरिकल्पितत्वात् ।' इत्यपि वदन्ति । 'गगनचरं जलबिम्बं कथमिव पूर्ण वदन्ति विद्वांसः । दशरथचत्वरचारी हृज््वरहारी विधुस्तु परिपूर्णः ।।' इत्यादौ विषयिणः सवाभाविकस्य निहवेन दृढाध्यवसानातिशयोक्तिः । यत्तु कुवलयानन्दे- 'यद्यपह्मवगर्भत्वं सैव सापहवा मता। त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यन्ति तां विधौ ।'
तित्वं न प्रामाणिकसंमतमिति प्रागेवावेदनात्। यदपि तैरेवोक्तम्- 'संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् । सौधाट्टानि पुरस्यास्य स्पृशन्ति विधुमण्डलम् ।' इति।
तथा च तेन रूपेण कदापि बोधाभावे न तद्रपस्याभेदस्य भेदेन लदुक्तं निगरणमसं- गतमिति भावः । तेषामननुगतत्वादिति निगीर्य प्रकृतस्य समेनाध्यवसानं भेदेना- भेदस्य संबन्धेनासंबन्धस्येत्यादिकसकलसाधारणस्यैकस्य धर्मस्याभावाद तिशयोक्तिलक्ष- णस्याननुगतत्वापत्तिरिति भावः । वैलक्षण्ये सतीति । तथा च भिन्नभिन्न एवा- लंकार इति भावः । अभ्युपेत्याह-अन्यथोपमेति । प्रागुक्तरीत्या आह-कति- पयेति। यस्य कस्यचिदतिशयस्य सर्वत्र सत्त्वादाह-सकलेति । तल्लक्षणमति- शयोक्तिलक्षणम्। तद्ेदा अतिशयोकतिभेदाः। ननु गौरवादाघिक्यं नात आह- अलंकारान्तरेति। कृप्तत्वमेवाह-प्रधानोत्कर्षेति । ननु सामान्यतोऽलंकार- सत्त्वेऽपि तद्विभाजकोपाधिमध्येऽपाठादाधिक्येन गौरवं तदवस्थमेवात आह-अलं- कारेति। दृढाव्यवसानातिशयोक्त्युदाहरणमाह-गगनेति। गगनगामीत्यर्थः। ज- लबिम्बं चन्द्ररूपम् । विधुस्तु श्रीरामचन्द्रस्तु। स्वाभाविकेति । गगनरूपेत्यर्थः । निह्नवेनेति। कथमिवेत्यनेनेति भावः । मूल एव कुठार इत्याह-पर्यस्तेति।
Page 330
रसगङ्गाघरः । ३१५
तदपि न । अत्रैव 'स्पृशन्तीवेन्दुमण्डलम्' इति कृते कोऽलंकारः। उ- त्प्रेक्षेति चेत्, तर्हीवादेरभावाद्गम्योत्प्रेक्षेयमुचिता। इवादिसत्वे या वा- च्योत्प्रेक्षा सैवेवाद्यभावे गम्योत्प्रेक्षेति नियमस्य सर्वसंमतत्वात् । 'त्व- त्कीर्तिर्भ्रमणश्रान्ता विवेश स्वर्गनिम्नगाम्' इति त्वदुक्तगम्योत्प्रेक्षायाः 'सौधाट्टानि' इत्यस्य चोत्प्रेक्षांशे विशेषानुपलम्भात्। तथा हि 'त्वत्कीर्तिर' इत्यादौ बहुदूरगमने स्वर्गगमने वा स्वर्गक्काप्रवेशतादात्म्योत्प्रेक्षेति नये स्वर्गसंबन्धित्वरूपानुपात्तधर्मनिमित्तेयम्। कीर्तौ खर्गङ्गाकर्मकप्रवेशकर्तृ- त्वोत्प्रेक्षेति नये तादृशगमनरूपानुपात्तधर्मनिमित्ता । विशेषणीभूतभ्रम- णभ्रान्तत्वरूपहेतूत्प्रेक्षेति नये तु तादग्गमनतादात्म्याध्यवसित स्वर्गङ्गाप्र- वेशरूपोपात्तधर्मनिमित्तेति सर्वथा गम्यैव । 'सौधाट्टानि-' इत्यत्र परमो- धर्वदेशसंयोगे चन्द्रमण्डलस्पर्शतादात्म्योत्प्रेक्षायां परमोर्ध्वदेशवृत्तित्वरू- पानुपात्तधर्मनिमित्ता। तादृशस्पर्शकर्तृत्वोत्पेक्षायां तु परमोर्ध्वदेशसंयोग- रूपानुपात्तधर्मनिमित्तेति । इयमपि गम्योत्प्रेक्षैव। तस्मादुत्प्रेक्षासामग्री यत्र नास्ति तादृशमुदाहरणमुचितम् । यथास्मदीयं 'धीरध्वनिभिर-' इत्यादि। सुन्दरत्वे सत्युपस्कारकत्वमलंकारसामान्यलक्षणमिहापि न विस्मरणीयम् ।
तैरेव अप्पदीक्षितैरेव। तदपि नेति। सिद्धान्तविरोधादिति शेषः । तमेवाह-अ- त्रैवेत्यादिना। नन्वन्यसंमतत्वेऽपि तथा न मम संमतमत आह-त्वत्कीर्तिरिति। इत्यस्य चेति। उत्प्रेक्षाया इति। षष्टीति भावः । ननु तस्या भूमण्डले बहुदूर- गमनेऽपि स्वर्गज्ञाप्रवेशतादात्म्योत्प्रेक्षा तत्र न संभवतीत्यत आह-स्वर्गेति। विशे- पेति कीर्तावित्यादिः। तादशेति। खर्गगमनेत्यर्थः । परमोर्ध्वेति । गृहाग्राणा- मित्यादिः । इयमपि गम्योत्प्रेक्षैवेति। अन्रेदं चिन्त्यम्-'नूनं मुखं चन्द्रः' इत्यादौ नूनंपदाभावे प्रतीयमानस्य रूपकस्यानापत्तेरुतप्रेक्षाया आपत्तेश्र । 'तत्कीर्तिर्त्रमण- श्रान्ता' इत्यत्र तु बहुदूरगमने खवर्गगमने वा खवर्गज्ञाप्रवेशतादात्म्योत्प्रेक्षा कीरतों स्वर्गज्ञाप्रवेशकर्तृत्वोत्प्रेक्षयावश्यं खवीकार्या। अन्यथा भ्रमणश्रान्तत्वरूपविशेषणवैयर्थ्या- पत्तेः । तद्वत्प्रकृते उत्प्रेक्षासाधकं नास्ति येन तथा स्यात्। भ्रमणश्रान्तत्वरूप हे तूतपरे- क्षायां तु न कथ्विद्दोषः । स्वर्गसंबन्धित्वं स्वर्गगमनं स्वर्गज्ञाप्रवेशरूपोपात्तो वा धर्मों निमित्तमिति बोध्यम्। उदाहरणमिति। संबन्धातिशयोक्तेरिवि भावः । दुःखयोरि-
Page 331
३१६ काव्यमाला।
इयं चातिशयोक्तिर्वेदेऽपि दृश्यते। यथा- 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषखवजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ।।' स्मृतौ च- 'या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥।' अथास्या ध्वनि :- 'देव त्वद्दर्शनादेव लीयन्ते पुण्यराशयः । किं चादर्शनतः पापमशेषमपि नश्यति ॥' पुण्यपापयोः सुखदुःखभोगमात्रनाश्यतया दर्शनादर्शनाभ्यां तज्जन्य- सुखदुःखयो राश्यशेषशन्दाभ्यां च जन्मशतोपभोग्ययोस्तयोरेवाक्षेपाद- त्रिमाभ्यां पूर्वयोर्निगरणं व्यज्यते। न च पूर्वाभ्यामग्रिमयोरेव निगरणं किं न स्यात्, इति वाच्यम्। नाशोक्तिसामन्जस्याय नाशकतावच्छेदकाव- च्छिन्नत्वेन प्रत्ययस्यावश्यकतया तन्निगरणासंभवात् । उपमानेन महता क्षुद्रस्योपमेयस्य महत्त्वाघानाय निगरणस्यौचित्याच्च। एतेन 'तदप्राप्ति- महादुःख-' इत्यादि काव्यप्रकाशो व्याख्यातः ।
त्यस्याक्षेपादित्यत्रान्वयः। तयोरेव सुखदुःखयोरेव। अग्रिमाभ्यां पूर्वयोरिति । जन्मशतोपभोग्यसुखदुःखाभ्यां देवदर्शनादर्शनजन्यसुखदुःखयोरित्यर्थः। न च पूर्वा- भ्यामिति। दर्शनादर्शनजन्यसुखदुःखाभ्यामेव जन्मशतोपभोग्यसुखदुःखयोरित्यर्थः । नाशकतावच्छेदकेति। पुण्यराशिनाशत्वपापराशिनाशत्वरूपकार्यतावच्छेद काव- च्छिन्नकारणतावच्छेदकं सकलजन्मोपभोग्यसुखत्वादिकमेव। न तु दर्शनजन्यसुख- त्वादिकम्। तत्तत्सुखानां खवखफलोपहितपुण्यनाशकताया एव ककृप्तत्वादिति भावः । उपेति। जन्मशतोपभोग्यसुखदुःखे उपमानम्। महत्त्वात्। दर्शनादर्शनजन्ये च ते उपमेये। क्षुद्रत्वात् । ध्वनित्वं चात्र प्राचीनरीत्या बोध्यम् । इति रसगन्गाघरमर्मप्रका-
Page 332
रसगन्जाधरः । ३१७
अथ तुल्ययोगिता- प्रकृतानामेवाप्रकृतानामेव वा गुणक्रियादिरूपैकधर्मान्वयस्तु- ल्ययोगिता ।। औपम्यं चात्र गम्यम्। तत्प्रयोजकस्य समानघर्मस्योपादानात्। वा- चकाभावाच्च। अत एवालंकारिकाणामपि सादृश्यं पदार्थान्तरम्। न तु सा- धारणघर्मरूपमिति विज्ञायते। अन्यथा औपम्यस्यात्र गम्यत्वोक्तेरनुप- पत्तेः। केचितु-'सादृश्यभाव एवातिरिक्तः। सादृश्यं तु तत्तत्साधारण- धर्मात्मकमेव। स चेवादिपदानां शक्यतावच्छेदकः । तत्तत्साधारणघर्म- वाचकैस्तु तत्तत्साधारणधर्मस्य स्वशक्यतावच्छेदकतत्तद्धर्मरूपेण बोघने- डपि सादृश्यभावरूपेण बोधो व्यञ्जनसाध्य एव' इत्यपि वदन्ति। उदाहरणम्- 'प्रिये विषादं जहिहीति वाचं प्रिये सरागं वदति प्रियायाः । वारामुदारा विजगाल धारा विलोचनाभ्यां मनसश्च मानः ।।' अत्र मानिन्या वर्ण्यत्वात्तदीयत्वेन प्रकृतयोः कर्त्रोरश्रुमानयोर्विगलन- क्रिया समानघर्मत्वेनोपाचा। विलोचनमनसोरपादानयोश्च। कारकाणां सर्वेषामपि क्रियान्वयस्य तुल्यत्वात्। एवं चतुर्णो क्रियारूपघर्मैक्येऽपि द्वयोरद्वयोरेवौपम्यं प्रतीयते न परस्परं चतुर्णाम्। तदपादानस्य तत्कर्तृ- त्वरूपे विशेषे सामान्यस्य पर्यवसानात्। शेषमुपरिष्टाद्वोध्यम्।
तुल्ययोगितां निरूपयति-अथेति। विनिगमनाविरहादाह-अप्रकृतेति। ननु नायं नियमोऽत आह-वाचकेति। अत एव औपम्यस्यात्र गम्यत्वादेव। अपिना वैयाकरणादिसमुचयः। निरूपितं चैतत्कुवलयानन्दव्याख्यायां मअषायां च। सादृश्य- भाव: सादृश्यत्वम्। स च सादृश्यभावश्च । केचिदिति । अरुचिवीजं तु 'अन्ते रण्डा-' इति न्यायविरोधापत्तिरिति। वदतीति सप्तम्यन्तम्। प्रियाया नेत्राभ्यां हृदश् जलानां वह्ी धारा मानश्च च्युत इत्यर्थः । विलोचनेति । उक्तरीत्या प्रकृतयोरि- त्यादिः। दानयोञ्चेति। विगलनेत्याद्यनुषज्यते। ननु कत्रोंः क्रियान्वयात्तथा संभ- वेऽपि कथमपादानयोस्था। तत्रान्वयस्यैवाभावात्। अत आह-कारकेति । द्वयोर्द्वयोरेवौपम्यं प्रतीयत इति। तत्प्रतीतावपि नात्र तत्कृतक्वमत्कारोऽनुभवसिद्धः । किं तु तत्सहकृतैकधर्मान्वयकृत एवेति पृथगलंकारता। न च गम्योपमयैव निर्वाहः। १. 'अन्ते रण्डाविवाहयेदादावेव कुतो नहि' इति.
Page 333
३१८ काव्यमाला।
'न्यश्चति वयसि प्रथमे समुदश्चति किं च तरुणिमनि सुदृशः । उल्लसति कापि शोभा वचसां च दशां च विभ्रमाणं च ।।' अत्र गुणः । यदि च 'विलसन्त्यहमहमिकया वाचो गतयश्च विम्र- माश्च भृशम्' इत्युत्तराधै तदा क्रिया । यदि 'दघति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम्' इति क्रियते तदा गुणविशिष्टा क्रिया। केवलगुणेन साक्षात्संबन्धाभावात् केवलक्रियायाश्चाहृद्यत्वात्। अप्रकृतानामेव यथा- 'न्यञ्चति वाल्ये सुदृशः समुदञ्चति गण्डसीन्नि पाण्डिमनि। मालिन्यमाविरासीद्राकाधिपलवलिकनकानाम् ।।' अत्र गुणः । आविर्भावक्रियायाः साक्षाद्धर्मिभिरनन्वयात्। 'न्यश्ति राकाधिपतिर्लवली पुरटं च पुण्डरीकं च' इति कृते करिया। 'घवली- भवत्यनुदिनं लवली कनकं कलानिघिश्चायम्' इति कृते गुणविशिष्ट- क्रिया। 'त्वयि पाकशासनसमे शासति सकलं वसुंधरावलयम्। विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि ॥' श्लेषमूलेनाभे- - दाध्यवसानेन पिण्डीकृतोऽर्थो वा। यत्त्वलंकारसर्वस्वकृता, तद्नुगामिना कुवलयानन्दकृता च 'गुणक्रि- याभि: संबद्धत्वे गुणक्रियारूपैकधर्मान्वयः' इति चोक्तं तदापाततः। विद्यमानस्यापि सादृश्यस्यासुन्दरसाधारणधर्मकत्वेनासुन्दरत्वादिति बोष्यम्। सामा- न्यस्य क्रियान्वयित्वरूपकारकत्वस्य। प्राचां मतेनेदं क्रियोदाहरणमुक्त्वा गुणोदाहरण- माह-न्यञ्चतीति । तिरोभूते सतीत्यर्थः । गुण इति। शोभारूप इत्यर्थः । आदिप- दग्राह्योदाहरणमाह-यदीति। ननु केवलस्यैव तत्त्वं कुतो नात आह-केवलेति। कारकाणां मिथः क्रियाद्वारसंवन्धादाह-साक्षादिति । लवलिः 'हरफारेवडी' । गुणो मालिन्यरूपः । धार्मभिश्वन्द्रादिभिः। तेषामकारकत्वात्। पुरटं सुवर्णम्। आ- दिसंग्राह्यान्तरोदाहरणमाह-त्वयीति। पाकेति । इन्द्रतुल्य इत्यर्थः । वर्षन्ति वर्षणं कुर्वन्ति। संवत्सरवदाचरन्तीत्यर्थः । उभयेनेति। नेत्रादिनेत्यर्थः। शब्दमात्र- मिति। वर्षन्तीति शब्दमात्रमित्यर्थः । तस्य तदुभयवृत्तित्वाभावादाह-श्ेषेति। पिण्डीकृत एकीकृतः । यथाक्रममाह-गुणेति । यद्वा जातिक्रियाद्रव्यातिरिकं
Page 334
रसगङ्गाघरः । ३१९
'शासति त्वयि हे राजन्नखण्डावनिमण्डलम्। न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः॥' इत्यत्राभावरूपस्यैव धर्मस्यान्वयात्। गुणक्रियेत्युपलक्षणं वा धर्ममा- त्रस्य। एवम् 'एकस्त्वं दानशीलोऽसि प्रत्यर्थिषु तथार्थिषु' इत्यादावपि दानशीलरूपैकान्वयाल्लक्षणप्रवृत्तिः । यथाकर्थंचिदनेकत्नैकान्वयस्य चम- त्कारिणोऽपेक्षितत्वात्। एतेन- 'हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता । प्रदीयते पराभूतिर्मित्रशात्रवयोः समा ॥' इत्यादिना तुल्ययोगितायाः प्रकारान्तरं यंत्कुवलयानन्दकृता लक्षित- मुदाहृतं च तत्परास्तम्। अस्या अपि 'वर्ण्यानामितरेषां वा धर्मैक्यं तुल्य- योगिता ।' इति पूर्वलक्षणाकरान्तत्वात्। एकानुपूर्वीबोधितवस्तुकर्मकदान- पात्रत्वस्य परम्परया ताद्ृशशब्दस्य प्रागुक्तमार्गेणार्थस्य वा धर्मस्यैक्यात् । 'यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा। यश्चैनं गन्धमाल्यादैः सर्वस्य कटुरेव सः ।।'
धममात्रं गुण इति वैयाकरणमतेनेदम्। किं च 'न मनागवि निश्चिन्ते' इत्यत्र चिन्ता- भाववद्गेदस्य चिन्तानतिरिक्ततया गुणस्थैव साधारणधर्मत्वमित्यपि वक्तुं शक्यम्। दा- नेति। द्रव्यस्य पराभवस्य वेति भावः । एतेनेत्यस्यार्थमाह-अस्या अपीति। पूर्वल- क्षणाक्रान्तत्वादिति। अत्रेदं चिन्त्म्-हिताहितविषय कतुल्यव्यवहार कर्तृत्वप्रती- तिकृतचमत्कारे एषा। यथोक्त्धर्भिणामेकधर्मान्वयकृत एव यत्र चमत्कारस्तत्राद्येति भेदात्। 'प्रदीयते पराभूतिः' 'यश्च निम्बं-' इत्यनयोः पद्ययोरन तादृशधर्मान्वयतयात्र कृतश्रमत्कारः । किं तु राजनिम्वयोर्हिताहित विषयकश्युभाशुभान्यतरैकजातीयकर्तृक- व्यवहारकृत एवेति सहृदयहृदयमेवात्र प्रमाणम् । अत एव 'जगाल मानो हृदयादमुष्या विलोचनाभ्यामिव वारिधारा' इत्यत्र न तुल्ययोगिता। चन्द्र इव सुन्दरं मुखं इत्यत्न न दीपकम्। तत्र सादृश्यप्रतीतिकृतच मत्कारकस्थैव सत्त्वात्। नन्वेवमलंकारान्तरत्व- मेव वक्तुं युक्तम्। इति चेत् सत्यम्। अत एवास्वरसात्कुवलयानन्दकृता 'इय सरखती- कण्ठाभरणोक्ता' इत्युक्तम्। न च तुल्ययोगितायां सादृशस्य गम्यतया गम्योपमयैव निर्वाहः। तावन्मात्रकृतचमत्काराभावाद। एकधर्मान्वयकृतस्यापि सत्वात्। प्रतीयमा-
Page 335
३२० काव्यमाला।
इत्यत्रापि कटुत्वविशिष्टस्य निम्वस्यैव परम्परया छेदकसेचकपूजकधर्म- त्वसंभवात् । न चात्र वृत्तिनियामकसंबन्धेन धर्मिवृत्तित्वं विवक्षितं ध- र्मस्य। वक्ष्यमाणकारकदीपकादावव्याप्यापत्तेः । अथ चन्द्र इव सुन्दरं मुखमित्याद्युपमायां चन्द्रमुखयोरेकधर्मान्वयादतिव्याप्तिः । न चात्र प्रकृ- तानामेवाप्रकृतानामेवेत्युक्तत्वान्न तथेति वाच्यम्। प्रागुक्ते 'प्रिये वि- षादं-' इति पद्ये 'जगाल मानो हृदयादमुष्या विलोचनाभ्यामिव वारि- धारा।' इत्युत्तरार्घे कृते प्रकृतयोर्मानवारिधारयोरुपमायां तथाप्यतिव्यासेः । चन्द्र इव सुन्दरं मुखमित्यत्रापि वक्ष्यमाणदीपकलक्षणातिव्याप्ेश्च। न चौपम्यस्य गम्यत्वे सतीत्यपि विशेषणीयमिति वाच्यम्। 'चन्द्रांशुनिर्मलं वारि चन्द्रो हंससमदुतिः । हंसास्तु शरदि स्मेरपुण्डरीकमनोरमाः ।I' इत्यत्र वाचकाभावाद्गम्योपमायां तथाप्यतिप्रसङ्गात् । यदि चात्र न व्यन्नया उपमा, किं तु समासस्य वाच्या पूर्वपदस्य लक्ष्या चेति सूक्ष्ममी- क्ष्यते तथापि 'हंसास्तु मानसभुवश्चन्द्रा एव न संशयः' इत्यादिरूपकादि- व्वतिप्रसङ्गः । न ह्यत्रापि चन्द्रादिसादृश्यविशिष्टे चन्द्रादिपदानां लाक्ष- णिकत्वादुपमा लक्ष्यैवेति शक्यते वक्तुम्। रूपके लक्षणा नास्तीति प्रागेव प्रतिपादनात् इति चेत्, न । यत्र यथोक्तानां धर्मिणां यथोक्तधर्मान्वय एव चमत्कारी तत्र तुल्ययोगिता, दीपकं वा। यत्र तादृशधर्मान्वयप्र-
नस्यापि सादृश्यस्यासुन्दरसाधारणधर्मकत्वेनासुन्दरत्वादिति बोध्यम् । परम्परया छेदकेति। खवकर्मकक्रियाश्रयत्वरूपयेत्यर्थः । वक्ष्यमाणकारकेति । 'वसु दातुं यशो धातुमतीव निपुणो भवान्'इत्यादावित्यर्थः । वक्ष्यमाणदीपकेति । प्रकृताप्रकृ- तत्वसत्त्वादिति भावः । इवस्य सत्त्वान्नोक्तदोषद्वयमित्याशयेनाह-न चेति । चन्द्रां- शुनिर्मलमिति। अन्र द्वितीयचरणे नातिप्रसङ्गविषयः । समशब्दस्य सत्त्वात्। तदंशे प्रक्रमभङ्गश्व काव्यदोषो बोध्यः । अतिप्रसङ्गादिति । तुत्ययोगिताया इत्यादि: । शरदतुवर्णने सर्वेषां प्रकृतत्वात्। एवमग्रेऽपि बोध्यम्। वैयाकरणमतेनाह-समास- स्येति। नैयायिकमतेनाह-पूर्वेति । यथोकानामिति। प्रकृतानामेवाप्रकृता. नामेव वा प्रकृताप्रकृतानां वेत्यर्थः । यथोकेति। गुणादीत्यर्थः । इत्यसकृदिति ।
Page 336
रसगङ्गाधरः । ३२१
युक्तं सादृश्यमभेदो वा तत्रोपमारूपकादिक मेवालंकारताप्रयोजकम् । सु- न्दरत्वे सत्युपस्कारकत्वमित्यसकृदावेदनात् । अन्यथा सादृश्यस्यात्र प्र- त्यय।त्तदादायोपमाव्यवहारस्यापच्तेरिति दिक्। एवं च- 'दधीचिब लिकर्णेषु हिमहेमाचलाब्धिषु। अदातृत्वमधैर्य च दृष्टे भवति भासते ॥।' इत्यादौ रशनारूपैषा यथासंख्यावष्टब्धा । 'दृष्टः सदसि चेदुग्श्रन्द्रचन्दनचन्द्रिकाः । अथ त्वं संगरे सौम्याः शेषकालानलाव्घयः ।।' इत्यत्र च स्वरूपद्येन राजविषयकरतिभावभूपणतया स्थिता। यत्र च प्रकृतानामेवाप्रकृतानामेव वा क्रियाणामेककारकान्वयः सा कारकतुल्ययोगिता । यथा- 'वसु दातुं यशो धातुं विधातुमरिमर्दनम्। त्रातुं च सकलां पृथ्वीमतीव निपुणो भवान् ।।' अत्र राज्ञः स्तावकवाक्ये प्रकृतानां क्रि्याणामेकेन कर्त्रा साधारणेन धर्मेणौपम्यम् । यथा वा- 'दूरीकरोति कुमति विमलीकरोति चेतश्चिरंतनमघं चुलुकीकरोति। भूतेपु किं च करुणां बहुलीकरोति सङ्ग: सतां किमु न मङ्गलमातनोति ॥'
इत्यस्यासकृदित्यर्थः । अन्यथा उक्तव्यवस्थानज्गीकारे। अत्र तुल्ययोगितायाम्। प्रत्य- याद्रम्यमानलात्। अपिना सांकर्ये सूचितम् । एवं च अस्या अतिरिककत्वे च। रश- नारूपैषेति। दधीचिरिव वलिर्बलिरिव कर्ण इत्यादिप्रतीतेरिति भावः । यथासं- ख्येति। वल्यादिष्वदातृलं हिमालयादिष्वधैर्यमिति भावः । राजवर्णनमिदम्। दृष्ट इति। इदमपि राजवर्णनम्। हे राजनू, लं सभायां दृष्टशेचचन्द्रादय उग्रा दृश्यन्ते । अथ लं रणे दृष्टक्षेच्छेषादयः सौम्या दृश्यन्त इत्यर्थः । स्वरूपद्वयेनेति। शान्तोग्ररू- पेणेत्यर्थः । रतीति। कविनिष्ठेत्यादि। धातुं संपादयितुम्। विधातुं कर्तुम्। चुलकी- रस० ३०
Page 337
३२२ काव्यमाला।
अत्रार्थान्तरन्यासान्विता। 'केऽपि स्मरन्त्यनुसरन्ति च केचिदन्ये पश्यन्ति पुण्यपुरुषाः कति च स्पृशन्ति । मातर्मुरारिचरणाम्बुजमाध्वि गङ्गे भाग्याधिका: कतिपये भवतीं पिबन्ति ॥' अत्रैकं कर्म क्रियाणां साधारणम्। व्यङ्गयैषा यथा- 'अये लीलाभम्नत्रिपुरहरकोदण्डमहिम- न्कथा यत्रोदञ्चत्यतुलबलधैर्यस्य भवतः । अयं को वा तत्र प्रसमरफणाकोणनिहित- क्षितिः शेषः श्रीमान्कमठ कुलचूडामणिरपि ॥' अत्र को वा इत्यनेन वाच्यलक्ष्यव्यतिरिक्तस्यागणनीयत्वस्य शेषक- मठाभ्यामप्रकृताभ्यामन्वयः प्रतीयते। इति रसगङ्गाधरे तुल्ययोगिताप्रकरणम्। अथ दीपकम्- प्रकृतानामप्रकृतानां चैकसाधारणधर्मान्वयो दीपकम्॥ प्राग्वदेवात्राप्यौपम्यस्य गम्यत्वम्। प्रकृतार्थमुपात्तो धर्मः प्रसङ्गादप्र- कृतमपि दीपयति प्रकाशयति सुन्दरीकरोतीति दीपकम् । यद्वा दीप इव दीपकम्। संज्ञायां कन्। दीपसादृश्यं च प्रकृताप्रकृतप्रकाशकत्वेन बोध्यम्। करोति नाशयति। न्यासान्वितेति। कारकतुत्ययोगितेति शेषः । विशेषस्य सामा- न्येन समर्थनात्तन्मिश्रत्वमिति भावः । अम्वुजमाध्वि कमलमकरन्दरूपे। अये इति। श्रीरामवर्णनमिदम्। अत एव तयोरप्रकृततम्। हे राम, यत्र स्थले तव कथा निःस- रति तत्र शेषः कूर्मश्च भूधारकः को वा। न कोऽपीत्यर्थः । इत्यनेनेति । व्यज्य- मानस्येति शेषः । अत एव वाच्येति । इति रसगङ्गाधरमर्मप्रकाशे तुल्ययोगिताप्र- करणम् ॥ अथ दीपकं निरूपयति-अथेति। अत्राप्यौपम्यस्येति। परंतु प्रकृतमुपमेय- मप्रकृतमुपमानमिति बोध्यम्। योगरूढं दीपकपदमित्याह-प्रकृतेति। प्रकाशनासं- भवादाह-सुन्दरीति। नन्वेवमत्राभाव्यमत आह-यद्वेति। 'संज्ञायां कन्' इति
Page 338
रसगङ्गाघरः । ३२३
उदाहरणम्- 'अमृतस्य चन्द्रिकाया ललितायाश्चापि कवितायाः। सुजनस्य च निर्माणं जनयति नहि कस्य संतोषम् ।।' यथा वा- 'सुधायाश्चन्द्रिकायाश्र संजीविन्या महौषधेः । दयादृष्टेश्र ते राजन्विश्वसंजीवनं गुणः ।।' यथा वा- 'मृतस्य लिप्सा कृपणस्य दित्सा विमार्गगायाश्च रुचिः स्वकान्ते । सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ नहि दृष्टपूर्वा ।।' अत्राभावः साधारणो धर्मः । कस्यचित्प्रकृतत्वे दीपकम्। अन्यथा तुल्ययोगितैव । यत्र क्रिया साधारणो धर्मस्तत्र यावतां कर्त्रदिकारकाणां संनिधानं तेपां खसजा- तीयेनान्येन सह तुल्ययोगिता, दीपकं वा पृथक्पृथग्भवति। औपम्यस्यापि पृथगेव भासमानत्वात्। यथा- सुजनाः परोपकारं शूराः शस्त्रं धनं कृपणाः । कुलवत्यो मन्दाक्षं प्राणात्यय एव मुश्चन्ति ॥' अत्र कर्तृकर्मणोः । एवं वक्ष्यमाणे 'लावण्येन प्रमदा-' इत्यत्र कर्तृ- करणयोः । 'दिवि सूर्य-' इत्यत्र कर्त्रधिकरणयोः । अमुनैव न्यायेनानेकासां क्रियाणामेककारकान्वये कारकदीपकम्। यथा- 'वसु दातुं यशो धातुं विधातुमरिमर्दनम्। त्रातुं च मादृशान्राजन्नतीव निपुणो भवान् ।।'
कनू। अमृतस्येति । अत्र ललितत्वविशेषणोक्तेः कवितायाः प्रकृततवं वोध्यम्। इदं गुणस्योदाहरणम्। क्रियोदाहरणमाह-सुधाया इति। अत्र राजवर्णनेन दयादृष्टेरेव प्रकृतलम्। अभावोदाहरणमाह-मृतस्येति । विमार्गेति। परपुरुषगामिन्या इत्यर्थः । अत्राह-कस्यचिदिति। प्रकरणादिनेति भावः । कर्त्राद्दीति। आदि-
Page 339
३२४ काव्यमाला।
अत्र वृत्तिहीनस्य कस्यचिद्दीनस्य वचने वसुदानस्वत्राणलक्षणोः क्रिययोः प्रकृतयोः, अरिमर्दनस्य चाप्रकृतस्य, यशोघानस्य चोभया- त्मनः साधारणं कर्तृकारकम्। यथा- 'वासयति हीनसत्त्वानतिसत्त्वानुद्धतान्विवासयति। त्रासयति सकलशत्रून्नीतिविदामग्रणीर्नराधिपतिः ।।' अत्र कस्यचिद्धीनसत्त्वस्य, सत्त्वाधिकमसहमानस्य वा, शत्रुमरिपी- डितस्य वा कस्यचिद्राजानं कंचित््रयुक्तौ सामान्यविशेषरूपायामप्रस्तुत- प्रशंसायामेकस्याः क्रियायाः प्रकृतायाः इतरयोश्चाप्रकृतयोः साधारणं तत्। यदि तु प्रागुक्तवक्तृभिन्नस्य कस्यचिद्राजस्तोतुर्नीतिमात्रबोधकस्य चेयमुक्तिस्तदा क्रियाणां प्रकृताप्रकृतरूपत्वाभावात्तुत्ययोगितैव। यत्तु- 'सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम्। सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ।।' इति लक्षणमुक्त्वा 'स्विद्यति कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक्। अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥' इति द्वितीयं दीपकमुदाहृतं काव्यप्रकाशकृद्धिः । तत्र विचार्यते- प्रथमार्धगतलक्षणेनैव दीपकद्वयस्यापि संग्रहाद्वितीयं लक्षणं व्यर्थम् । गुणिनां कारकाणां च गुणक्रियारूपधर्मस्येव क्रियाणामपि कारकरूपध- र्मस्य सकृद्वृत्तेः साम्राज्यात्। न च क्रियाणां प्रकृताप्रकृतात्मताविरहेऽपि शुद्धप्रकृतत्वे शुद्धाप्रकृतत्वेऽपि वा कारकस्य सकृद्वृत्तेर्दीपकत्वम्, क्रिया- भिन्नानां तु प्रकृताप्रकृतात्मतायामेव क्रियादेर्धर्मस्येति वैलक्षण्याल्लक्षण-
ना कर्मकरणाधिकरणानि ग्राह्याणि। मन्दाक्षं लजाम्। वृत्तीति । जीवनेत्यर्थः । पद्यकमेणोक्तिक्रममाह-अत्रेति। अप्रस्तुतप्रशंसाया अनेकविधलादाह-सामा- न्येति। पूर्वार्धेन सामान्यतो राजस्तुतिः, उत्तरार्घेन विशेषत इति भावः । एकस्या इति। यदीयोक्तिस्तदीयाया इत्यर्थः । तत्कर्तृकारकम्। नीतिविदामप्रणीरित्युक्तलादाह -नीतीति । धर्मस्य क्रियादेः। प्रकृतात्मनां कारकाणाम्। सैव सकृद्दृत्तिरेव। कूणति संकुचति। वेल्लति श्िष्यति। क्रियाभिन्नानामिति। गुणिनां कारकाणां चेत्यर्थः।
Page 340
रसगङ्गाघरः । ३२५
द्वयमिति वाच्यम् । कारकतुत्ययोगितोच्छेदापत्तेः सकलालंकारिकसि- द्वान्तविरोधापत्तेश्च। लक्षणद्वयस्याननुगतत्वाच्च। तादृशलक्षणद्वयान्यतर- वत्त्वस्य लक्षणत्वे गौरवादुपप्नवप्रसङ्गाच्च। एवं च 'स्विद्यति कूणति-' इत्यादयुदाहरणमपि न संगच्छते। क्रियाणां शुद्धप्रकृतत्वात्। कि च दीपकतुल्ययोगित्वादौ गम्यमानमौपम्यं जीवातुरिति सर्वेषां संमतम् । न चात्र स्वेदनकूणनादीनामेककारका न्वितानामप्यौपम्यं कविसंरम्भगोचरः। तस्मात्समुच्चयालंकारच्छायात्रोचिता। अस्मदुदीरितानां वसुदानादीनां ही- नसत्त्ववासनादीनां च राजकर्तृकाणां पद्यद्वयगतानामौपम्यप्रतीतौ सहृदय- हृदयमेव प्रमाणमिति न प्रतिबन्दिदानावसरः। यदि तु स्वेदनादीनामौ- पम्यं प्रतीयत एवेत्याग्रहस्तथापि क्रियाणां शुद्धप्रकृतत्वात्तुल्ययोगिता स्यादपि, न तु दीपकमित्यास्तां तावत् । यदपि विमर्शिनीकृतोदाहृतम्- "आलिङ्गितुं शशिमुखीं च सुधां च पातुं कीति च साधयितुमर्जयितुं च लक्ष्मीम्। त्वद्धक्तिमद्धुतरसां हृदये च कर्तु मन्दादरं जनमहं पशुमेव मन्ये ॥ अत्रालिङ्गनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्ट इति।" तदपि चिन्त्यम्। आलिङ्गनादीनां क्रियाणां मन्दादरत्वेनैकाश्रयकत्वस्यावश्यकत्वे- डपि परस्परमेकाश्रयकत्वस्यानावश्यकत्वात्। यः शशिमुखीमालिङ्गितुं
धर्मस्येति। सकृदवृत्तेदींपकतमित्यर्थः । उच्छेदापत्तेरिति । त्वद्रीत्या कारकदी- पकेनैव तत्र भाव्यमिति भावः। इापत्तावाह-सकलेति। तत्रापीष्टापत्तावाह- लक्षणेति। अनुगमसत्त्वान्नायं दोषोऽत आह-तादृशेति। नन्वगत्या गौरवखवी- कारोऽत आह-उपप्नवेति। प्रागुक्करीत्यान्यतमवत्वेन सर्वेषामैक्ये उपमादयुच्छेदाप- त्तेरित्यर्थः । एवं च उक्तभेदानङ्गीकारे च। प्रकृताप्रकृतत्वे एव तदङ्गीकारादाह-क्रि- याणामिति। कविसंरम्भगोचर इति। केवलं तादृशनायिकाखवभाववर्णनस्यैव तत्त्वादिति भावः। चकाराभावादाह-छायेति। अत्र खिविद्यवीत्यादौ। नन्वेवं त्व- दुदाहरणेऽप्योपम्ये तदविषयत्वात्कथमेतदुदाहरणत्वमत आह-अस्मदिति। आ- लिद्वितुमिति। ईश्वरं प्रति भक्तोकिः। इंद सर्वे कर्तु यो मन्दादरस्तं जनमहं पशु- मेव मन्ये इत्यर्थः । आवश्यकत्वेऽपीति। मन्दादरत्वस्य सर्वत्र विशेषणत्वादिति
Page 341
३२६ काव्यमाला।
यश्च सुधां पातुं योऽपि कीर्ति साधयितुं यश्च लक्ष्मीमर्जयितुं यश्चापि त्वद्धक्ति कर्तु मन्दादरस्तं सर्वमपि जनं पशुं मन्ये इति तुमुन्नन्तानां भि- न्नकर्तृत्वेऽप्युपपत्तेरेककारकान्वयकृतं क्रियाणामौपम्यं चमत्कारीति न शक्यते वक्तुम्। किं तु शशिमुखीसुधाकीर्तिलक्ष्मीत्वद्धक्तीनां विम्वप्रति- बिम्बाभावकृतम् । नापि चात्रैककर्तृत्वरे काचिदर्थस्यास्ति परिपुष्टिः । प्रत्युत प्रातिकूल्यम् । सर्वेषां पशुत्वोत्तयपेक्षया सकलतादृशक्रियाकरण- मन्दादरस्यैकस्य पशुत्वोक्तेररमणीयत्वात्। यदि तु विमर्शिनीकारोक्ति- रवश्यं समर्थनीयेत्याग्रहस्तदेत्थं समर्थ्यताम्-क्रियाणां कर्तुरेकत्वाभावेऽपि कर्तृतावच्छेदकस्य मन्दादरत्वस्यैक्यात्तस्यैव च परम्परासंवन्धेनानेकक्रि- यासाधारणधर्मस्य सकृद्वत्तिरस्तीति न दोषः । कारकस्येव कारकविभाज- कोपाध्यवच्छेदकस्यापि सकृद्वत्तेः कारकदीपकत्वेन परिभाषितुं शक्यत्वात्। कारकसकृद्ध त्तेस्त्व स्माभिरुक्त मे वो दा हर ण म नु सर्त व्यम् । अत्रेदं बोध्यम्-तुल्ययोगितातो दीपकं न पृथग्भावमर्हति। धर्म- सकृद्वत्तिमूलाया विच्छित्तेरविशेषात्। विच्छित्तिवैलक्षण्यस्यैवाल लंकार - विभागहेतुत्वात्। न च धर्मस्य सकृद्वृत्तेरविशेषेऽपि धर्मिणां प्रकृतत्वाप्र- कृतत्वाभ्यां प्रकृताप्रकृतत्वेन च तुल्ययोगितायां दीपकस्य विशेष इति वाच्यम्। तवापि तुल्ययोगितायां धर्मिणां केवलप्रकृतत्वस्य केवलाप्र- कृतत्वस्य च विशेषस्य सत्त्वादलंकारद्वैतापत्तेः । श्लेषेऽपि द्वैतापत्तेश्च। सर्वेषामप्यलंकाराणां प्रभेदवैलक्षण्याद्विलक्षण्यापत्तेश्च । न च दीपके वास्तवमौपम्यं गम्यम्। उपमानोपमेययोः प्रकृताप्रकृतरूपयोस्तत्र सत्त्वात्। तुल्ययोगितायां च वैवक्षिकम्। उपमानोपमेयस्वरूपाभावाद्। अतो वैलक्षण्यमिति वाच्यम्। उपमेयोपमानत्वयोः प्रकृताप्रकृतरूपत्वे मानाभावात्। 'खमिव जलं जलमिव खम्' इत्याद्युपमेयोपमायां प्रतीपे
भावः । नन्वेवमपि कारकस्य सकृद्वृत्तेरभावात्कथं तत्त्वमत आह-कारकस्येवेति। कारकशब्द उभयपर इति भावः । तहिं कारकदीपकस्य किमुदाहरणमत आह-का- रकेति। क्रमेणाह-प्रकृतत्वेति। न केवलमत्रैव दोषोऽषि त्वन्यत्रापीत्याह-ग्े- वेजपीति। भग्गाभङ्गभेदादिति भावः। न केवलमेतावदित्याह-सर्वेषामिति।
Page 342
रसगङ्गाधरः । १२७
चौपम्यानापत्तेश्च। तस्मात्तुत्ययोगिताया एव त्रैविध्यमुचितम् । प्र- कृतानामेव धर्मस्य सकृद्वृत्ति, अप्रकृतानामेव, प्रकृताप्रकृतानां चेति। एवं च प्राचीनानां तुल्ययोगितातो दीपकस्य पृथगलंकारतामाचक्षाणानां दुराग्रहमात्रमिति नव्याः । अमुं चालंकारं धर्मस्य गुणक्रियाद्यात्मकस्यादिमध्यावसानगतत्वेन त्रि- विधमामनन्ति। यथा- 'न भाति रमणीयोऽपि वैराग्येण बिना यतिः । वैदुप्येण विना विप्रो नरलोकस्त्वया विना ॥' 'लावण्येन प्रमदा मदातिरेकेण वारणाधिपतिः । भाति विभवेन भवकान्राजन्भवता च वसुमतीवलयम् ।' 'आखण्डलेन नाक कुण्डलिकुलकुण्डलेन पातालम्। नरमण्डन रिपुखण्डन भवता भूमण्डलं विभातितमाम् ।।' एवं तुल्ययोगितायामप्यूह्यम् । वस्तुतस्तु धर्मस्यादिमध्यान्तगतत्वेऽपि चमत्कारवैलक्षण्याभावात्रै- विध्योक्तिरापातमात्रात्। अन्यथा धर्मस्योपाद्युपमध्योपान्त्यगतत्वे ततोऽपि किचिनन्यूनाधिकदेशवृत्तित्वे चानन्तभेदप्रसङ्गात्। एवं केवलानुगामिसाधारणधर्मतायां दर्शितं दीपकम्। बिम्बप्रतिबि- म्वभावेनाप्येतत्संभवति। यथा- 'शीलभारवती कान्ता पुष्पभारवती लता। अर्थभारवती वाणी भजते कामपि श्रियम् ।' 'लता कुसुमभारेण शीलभारेण सुन्दरी। कविता चार्थभारेण श्रयते कामपि श्रियम् ।'
नापत्तेश्च्ेति। वैपरीत्यादिति भावः। गतत्वेन निष्ठत्वेन। रमणीयोऽपि श्रुताचारसं- पन्नोऽपि। यतिः संन्यासी। राजवर्णनमिदम्। एवम्रेऽपि। मदेति । मदोत्कर्षेणे- त्यथः । वारणेति। गजेन्द्र इत्यर्थः । भवकानित्यकच्प्रत्ययः । भवानित्यर्थः । 'भग- वानू' इत्यपपाठः । कुण्डलीति। सर्पसमूदकुण्डलेनेत्यर्थः । नरेत्यादि संबोधनद्वयम् । आमनन्तीति सूचितामरुचिमाह-वस्तुतस्त्विति। अन्यार्थवैलक्षण्याभावेऽपि भेदा- जीकारे। उपादीत्यादि। आदिसमीपेत्याद्यर्थः । उपसंहरति-एवमिति। इद-
Page 343
३२८ काव्यमाला।
इदमेव लतादिध्वन्यतमस्य प्राकरणिकत्वे दीपकस्योदाहरणम्। अ- न्यथा तुत्ययोगितायाः । अत्र बिम्बप्रतिबिम्बतायां न केवलं क्रियारूपम- नुगामिमात्रं चमत्कारकारणम्,अपि तु कुसुमादिबिम्बप्रतिविम्बकरम्बितम्। इयांस्तु विशेष :- यत्केवलविम्बप्रतिबिम्बभावेनाप्युपमादीनां भवति नि- प्पत्तिः । यथा 'कोमलातपवालाभ्र- इत्यादौ। प्रकृते तु न तथा। अनुगामिनं विना धर्मस्वरूपस्यैवानिष्पत्तेः । नहि बिम्वप्रतिविम्बमात्रेण धर्मस्य सकृद्वत्तिः संभवति। तथा 'मृतस्य लिप्सा-' इत्यादि प्रागुक्ते मृतादीनाम्। कारकदीपके कारकतुल्ययोगितायां च 'वसु दातुं-' इत्यादौ क्रियाणां धर्मित्वात्तद्विशेषणानां वस्वादीनां च विम्बप्रतिविम्बता बोध्या। उत्तरोत्तरस्मिन्पूर्वपूर्वस्योपकारकतायां मालादीपकम्। यथा- 'आख्वादेन रसो रसेन कविता काव्येन वाणी तया लोकान्तःकरणानुरागरसिकः सभ्यः सभा चामुना । दारिद्यानलदह्यमानजगतीपीयूषधाराघर क्षोणीनाथतया भवांश्र भवता भूमण्डलं भासते ।।' एतच्च प्राचामनुरोघादस्माभिरिहोदाहृतम्। वस्तुतस्त्वेतद्दीपकमेव न शक्यं वक्तुम्। सादृश्यसंपर्काभावाद्।कं त्वेकावलीप्रभेद इति वक्ष्यते। अस्मिंश्चालंकारद्वये क्रियादेर्धर्मस्यैकरूप्येण धर्मिष्वनन्वयो दोषः । यथा प्रागुक्ते पद्ये रसिकाः सामाजिकासतैः सभा इति कृते एकवचना- न्तैर्धरमिंभिरैकरूप्येणान्वयेऽपि सामाजिकैरनन्वयात्ं। वचनविपरिणामेना- न्वये उपमायामिव स्यादेव दोषः । एवं जहल्लिङ्गनामार्थस्य धर्मस्य सकृ- द्वृत्तौ लिङ्गभेदोऽपि दोषः । यथा- 'जगति नरजन्म तस्मिन्वैदुष्यं तत्र सत्कविता। कवितायां परिणामो दुष्प्रापः पुण्यहीनेन ।I'
मेव उदाहरणद्वयमेव। विम्बेति। विलक्षणशोभाश्रयणानामित्यादिः। तुल्ययोगि- तायां चेति। अस्याग्रेऽन्वयः । वस्वादीनां चेति। चेन मृतादीनां समुचयः । उपमायामिव स्यादेवेति। तेन धर्मेणोपमा गम्या न स्यादिति भावः। लिङ्ग- भेदोऽपीति। धर्मिणामिति शेषः । एवमग्रेऽपि। जगतीति। अत्र दुष्प्राप इति
Page 344
रसगङ्गाधरः । ३२९
यदि तु 'तपसा नाल्पेन शक्यते लब्धुम्' इत्याख्यातान्तं क्रियते तदा लिङ्गभेदो न दूषणम् । एवमजहल्लिङ्गनामार्थस्य सकृद्वृत्तावपि न दोषः । यथा-'फलमतिशयितं तपस्यायाः इति चतुर्थचरणनिर्माणे । एवं पुरुषस्यैकरूप्याभावे दोषः । यथा- 'दिवि सूर्यो भुवि त्वं च पाताले पन्नगाग्रणीः । दिक्षु दिक्पालवर्गश्च राजपुंगव राजते ।I' यदि त्वमित्यत्र भवानिति क्रियते तदा न दोषः । एवं कालभेदेऽप्यू- ह्यम्। एतेन- 'सङ्गमाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरमला कीर्त्या च लोकत्रयम् ।।' इति प्राचीनानां पद्यं दीपकांशेऽपि सदोषमेव। इति रसगङ्गावरे दीपकप्रकरणम्।
अथ प्रतिवस्तूपमा- तत्र तावत्सादृश्यस्य यत्र चमत्कारिता तत्रोपमेत्युक्तम्। तस्यां च साधारणधर्मस्य सर्वेडपि प्रकारा यथासंभवं निरूपिताः । सादृश्योपस्कृत- स्य वस्त्वन्तरस्य चमत्कारितायां भेदाभेदान्यतरप्रधाना अन्येऽलंकाराश्च । तेष्वपि साधारणधर्माणां यथावसरं यथासंभवं च स्थितिः प्रदर्शितैव। इदानीं वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मोत्थापिता वाक्यार्थगता प्रतिवस्तू- पमा निरूप्यते। न चास्या वाक्यार्थगतत्वेनैवोपमातो भेद इति भ्रमित-
नामार्थो धर्मः । स च जहल्िङ्गः । तस्य सर्वलिन्नत्वात्। न दूषणमिति। तस्य तत्रान्वयसंभवादिति भावः । एवमग्रेऽपि वोध्यम्। एवमुक्तप्रकारेण। एवं लिज्नभेददो- पवत्। एवमुक्तप्रकारेण। अन्यांशेऽपि दोषस्य प्रागुक्तत्वादाह-अपीति ॥ इति रस- गज्ञाधरमर्मप्रकाशे दीपकम् । प्रतिवस्तूपमां निरूपयति-अथेति। अथात्र विशेषं वक्तुं प्रागुक्त सर्वे संग्रहेणानु- वदति-तन्रेति। निरूपणीयायां तस्यामित्यर्थः । अलंकाराश्च्ेति। निरूपिता
Page 345
३३० काव्यमाला।
व्यम्। 'दिवि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि' इत्यादौ वाक्या- र्थेडप्युपमायाः संभवात्। अत एव भिन्नशद्दोपात्तैकधर्मकत्वेनापि न वैलक्षण्यं वक्तुं शक्यम् । प्रकृते भातिभ्राजतिभ्यां धर्मस्यैकस्यैव प्रति- पत्तेः । तस्माल्वक्षणानुसारेणालंकारान्तरेभ्यो वैलक्षण्यमस्या बोध्यम् । अथ किमस्या लक्षणम्-'वाक्यार्थगतोपमात्वम्' इति चेत्, प्रागुक्तवा- क्यार्थोपमायामतिव्याप्तेः । न चार्थत्वेन तद्विशेषणीयमिति वाच्यम्। द- ष्टान्तालंकारे तथाप्यतिप्रसङ्गात्। वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकत्वे- नापि तद्विशेषणीयमिति चेत् । तथापि 'तावत्कोकिल विरसान्यापय दिवसान्वनान्तरे निवसन्। यावन्मिलदलिमाल: कोऽपि रसाल: समुल्लसति ॥' इत्यप्रस्तुतप्रशंसायामतिप्रसङ्गादिति । मैवम् । अप्रस्तुतप्रशंसायां वस्तु- प्रतिवस्तुभावस्य भिन्नशब्दोपात्तैकप्रतिपाद्यरूपस्यासंभवात् । एवं -
तिवस्तूपमा ।। वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकवाक्यार्थयोरार्थमौपम्यं प्र-
'आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम्। भ्रमन्द्रमरसंभारं स्मरामि सरसीरुहम् ।।' इत्यत्र स्मरणालंकारेऽतिप्रसङ्गवारणाय वाक्यार्थगतमिति। अत्रौपम्य- स्यार्थत्वेऽपि पदार्थगतत्वमेव। न तु वाक्यार्थगतत्वम्। स्मरणस्य तदसं- पर्कात्। पदान्तरकृत्यं तूक्तमेव। इत्यनुषज्यते। भिन्नेति। अस्या इत्यादिः । अत एवेत्यस्यार्थमाह-प्रकृत इति। प्रागुक्ते 'दिवि भाति' इत्ादावित्यर्थः । तत् वाक्यार्थगतोपमात्वम्। एवमग्रेऽपि । तथापि यथातथाशव्दस्य तद्वाचकस्य सत्त्वात्तत्र दोषाभावेऽपि। तथा दृष्टान्ते बिम्ब- प्रतिविम्वभावापन्नसाधारणधर्मकत्वेन दोषाभावेऽपि। यापय अतिकरमय। एवं च अप्रस्तुतप्रशंसायास्तेनैव वारणे च। वस्तुप्रतिवस्तुभावापन्नेति। तद्विशेषणानां तापचापादीनां विम्वप्रतिविस्बभावे 'तापेन भ्राजते' इत्यादौ क्वचित्सत्यपि साक्षादुपमा- नोपमेयव्रत्तिधर्मो वस्तुप्रतिवस्तुभावापन्न एव। दृष्टान्ते तु साक्षात्तदृत्तिवर्मस्यापि विम्न्न- प्रतिबिम्वभाव इति दृष्टान्ताद्विशेषः । अत एव वस्त्वित्वादिना दृष्टान्तवारणम् । एक- स्यैव धर्मस्य पृथक्छव्दाभ्यामुपादानं वस्तुप्रतिवस्तुभावः । 'दिवि भाति यथा भानु- स्तथा त्वं भासि वै भुवि' इत्यादौ वाक्यार्थोपमायामतिव्याप्तिवारणायार्थमिति। तद- ध्वनथन्वक्ष्यति-पदान्तरेति। स्मरणस्य तदसंपर्कादिति । यथा वाक्यार्थोप-
Page 346
रसगङ्गाघरः । ३३१
उदाहरणम्- 'आपद्गतः खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम् । कालागुरुर्दहनमध्यगतः समन्ता- ललोकोत्तरं परिमलं प्रकटीकरोति ।।' अत्र विस्तारप्रकटने वस्तुत ऐकरूप्येणाभिमते। यथा वा- विश्वाभिरामगुणगौरव गुम्फितानां रोषोऽपि निर्मलधियां रमणीय एव । लोकंपृणैः परिमलै: परिपूरितस्य कालागुरो: कठिनतापि नितान्तरम्या ।'
मायां गगनाधिकरणकभानुकर्तृकशोभाविशिष्टभूम्यधिकरणकत्वत्कर्तृकशोभेति बोधः। वै. शिष्ट्यनियामक संबन्धक्च स्वकर्तृसदृशकर्तृकत्वमेव । संबन्धविशेषतात्पर्यग्राहकौ च यथा. तथाशब्दौ। नैवं प्रकृते स्मरणान्तर्भावेणोपमानोपमेयभावः । किं तु तादृशपद्मसदशं तादृशमाननमित्येव। न च वाक्यार्थोपमायां तादृशशोभाश्रयभानुसदृश ईदृशशोभाश्रय- स्त्वमिति बोधः । क्रियाविशेषणस्य प्रथमान्तार्थस्योपमानत्वेनान्वयायोगात्। प्रतिवस्तू- पमायां तु तादृशसंवन्धद्योतकपदाभावाद्गम्यतैवौपम्यस्येति विशेषः। यद्वा वाक्यार्थोप- मायां तादृशसंबन्धोऽपि यथातथापदद्योत्यत्वात्प्रकार एव। 'यत्र वाक्यद्वयगतानां पदा- र्थानां सर्वेषां परस्परसाम्यं तत्र प्रतिवस्तूपमा' इति शरदागमकृतः । आपद्रत इति। अत्रोदाहरणे आपद्गतः सत्पुरुषोऽपूर्वोदार्यवान् खकीतित्वादित्यर्थविशेषरुपे न कालागुरो- दशन्तता। यथा पर्वत एतद्वह्विमान् एतद्धूमात् इत्यत्र महानसस्य। तस्मात्कालागुरु-
पयोः' इति न्यायेन पूर्वोक्तविशेषनियमसिद्धिः। उपमा चापद्रतः सत्पुरुषो दहनमध्यग- तकालागुरुसदृश इति। साधारणधर्मक्ष बिम्बप्रतिबिम्बभावापन्नापूर्वादार्यलोकोत्तरपरिम- लविशेषणकं विस्तारणम् । न वस्तुप्रतिवस्तुभावापन्नम् । एवं वैयधिकरण्येऽपि व्यति- रेक आक्षिप्यते। तत्र च पूर्वोक्तरीत्या एकविशेषेऽ्परविशेपस्य दृष्टान्तत्वाभावात्तदृत्ति- सामान्यावच्छिन्नव्यतिरेक आक्षिप्यते। सिद्धे च तस्मिस्तद्विपरीतद्ृष्टान्तेन तादृशसा- मान्यावच्छिन्नान्वयनियमसिद्धौ यत्सामान्ययोरिति न्यायेन तादृशविशेषावच्छिन्नकाव्यो- कान्वयनियमसिद्विरिति बोध्यम्। विश्वामिरामेति। जगद्रमणीयेत्यर्थः । गुम्फि-
Page 347
३३२ काव्यमाला। वैधर्म्येणाप्येषा संभवति- 'वंशभवोऽगुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ।' यथा वा- 'गीर्भिर्गुरुणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम्। अलव्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ॥' अत्र शाब्देन दृष्टान्तेन तद्गतः सामान्यावच्छिन्नव्यतिरेकसहचार आक्षिप्यते। तेन च सामान्यावच्छिन्नान्वयनियमसिद्धिद्वारा प्रकृतो विशेषावच्छिन्नान्वयनियमः सिध्यतीति प्रायशः सर्वत्र वैधर्म्ये स्थितिः। एवमन्वयेन प्रतिवस्तूपमायामपि नियमविशेषस्य प्रकृतवाक्यार्थत्वेऽन्वय- दृष्टान्तेन सामान्यान्वयनियमसिद्धिद्वारा तत्सिद्धिः। नियमविशेषरहितकेव- लार्थमात्रस्य प्रकृतत्वे त्वप्रकृतवाक्यार्थनिरूपितमौपम्यमात्रं गम्यम् । नतु नियमः । अप्रयोजकत्वात् । यथा 'भैरम्रे भासते चन्द्रो भुवि भाति भवान्वुधैः' इत्यादौ। ननु कथमस्मिन्नलंकारे सर्वत्रौपम्यं गम्यमित्युच्यते। यावता प्रागुप- दर्शितायां वैधर्म्यप्रतिवस्तूपमायां वाक्यार्थयोरौपम्यस्य वाधात्। नहि पचतिनपचतीति वाक्यार्थयोः पाकक्रियामात्रसाम्यादौपम्यं गम्यते । निषेधप्रतियोगित्वेनोत्तरवाक्यार्थे तस्या अप्ररोहादिति चेत्, न । प्रकृत- वाक्यार्थाक्षिप्तस्य स्ववैपरीत्यस्यैवौपम्याश्रयत्वात्। न च वाक्यार्थयोरौ- पम्यमिति यदुक्तं तत्कथं संगच्छतामिति वाक्यवेद्यस्यैव प्रकृते वाक्यार्थ- त्वेनेष्टत्वात्। तथा हि- 'तत्त्वं किमपि काव्यानां जानाति विरलो भुवि। मार्मिक: को मरन्दानामन्तरेण मधुव्रतम् ॥'
तानां रचितानाम्। लोकंपृणैलोकपूरकैः। वंशभव इति। महिमाभावव्याप्यतुम्बी- फलरहित वीणादण्डसदृशः सङ्गविशेषाभावव्याप्यपूज्यत्वाभाववान्पुरुष इत्युपमाकारोऽत्र वोध्यः । एवमग्रेऽपि। अन्न उदाहरणद्ये। प्रतिपादितमिदं सर्वमनुपदमेव। भैर्नक्षत्रैः । वाक्यार्थयोर्विधिनिषेधयोः । नह्ेल्स्य एवमिति शेषः । वैद्यस्यैवति। यथाकथंचि- द्वाक्यजन्यप्रतीतिविषयस्यैवेत्यर्थः । तत्त्वमिति। अन्रापि मधुनरतातिरिक्ज्ञानाविषय
Page 348
रसगक्गाघरः । ३३३
अत्र विरलो जानातीति विधिमुखोऽपि पकृतवाक्यार्थः पुरुषविशेषं विना न सर्वे जानन्तीत्यर्थविशेषमादायैव पर्यवसितो भवतीति निषेधरूप- वाक्यार्थस्य तादृशेनैव द्वितीयवाक्यार्थेन सह गम्यते सादृश्यं स्फुटमेव । यत्र तु 'वंशभवः' इत्यादौ प्रागुदाहृते प्रकृतवाक्यार्थो विधिरूपः सङ्ग- विशेषहेतुकत्वस्य पूजनादौ विधेयत्वादवसीयते तत्रापि हेतुताघटकव्यति- रेकस्य गुणतया प्रतीयमानस्यौपम्यं निर्वाधमिति न दोषः । इयं च वाक्यार्थयोः सामान्यविशेषभावानापन्नयोर्भवति। तत्रैवौपम्यस्य गम्य- त्वात्। सामान्यविशेषयोस्त्वौपम्याप्रतीतेः समर्थ्यसमर्थकयोरर्थान्तरन्यासो वक्ष्यते। यत्तु कुवलयानन्दकृता वैधर्म्यमुदाहृतम्- 'विद्वानेव हि जानाति विद्वज्जनपरिश्रमम् । नहि वन्ध्या विजानाति गुर्वी प्रसववेदनाम् ।।' 'यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम्। नहि कस्तूरिकामोदः शपथेन विभाव्यते ॥' इति। तत्र 'विद्वानेव हि जानाति' इति पद्यं भवतु नाम यथाकरथंचिद्वैध-
तत्त्वकमकरन्दसदृशं साधारणसकलपुरुषज्ञानाविषयतत्त्वककाव्य मित्युपमाकारो बोष्यः। इयं च प्रतिवस्तूपमा च। यथाकथंचिद्वैधर्म्यस्येति। अत्रेदं चिन्तम्-यद्यपि 'विद्वानेव-' इत्यस्य एवकारवलेन अविद्वान्न जानातीलप्यर्थः । तस्य चोत्तरवाक्यार्थः सधर्मा एव। तथापि भूतल एव वन्ध्यापुत्र इत्यादिप्रयोगवारणाय भावान्वयस्यापि विवक्षितत्वमस्त्येवेति न दोषः । नहि वन्व्येत्यनेनाक्षिप्तस्य प्रसवितर्येव जानातीत्यस्य वाक्यार्थस्योपमानत्वेन विवक्षणाद्वैधर्म्य बोध्यम्। आक्षिप्तव्यतिरेकसजातीयार्थ निबन्धने वैधर्म्यस्यैत्रोपात्तसवसवव्यतिरेकयोः स्वव्यतिरेकसजातीयार्थस्यैव निवन्धने तदाक्षिप्ततद्य तिरेकेणोपात्तस्योपमाया गम्यत्वेऽपि तत्त्वौचित्यात्। तत्राप्युपात्तभावरूपार्थस्य नहि वन्ध्येत्याक्षिप्तेनोपमाप्रतीते: सत्त्वात्। यदि सन्तीत्यत्रापि गुणाः ख्यमेव प्रकाशन्ते इति भावान्वयविधर्मभूते कस्तूरिकामोदः शपथेन न ज्ञायते इति वाक्यार्थस्तदाक्षिप्तेन सवय- मेव प्रकाशन्त इति वाक्यार्थेन भावान्वयवाक्यार्थ एवौपम्यं बोध्यम्। यद्वा यदि सन्ती- लन्न एवकारस्य क्रियासमभिव्याहृतत्वादत्यन्तायोगव्यवच्छेद एवार्थः। परतो न प्रका- शन्त इत्येतदाक्षेपलभ्यमेव। तत्र हि द्वितीयार्धेन सतः प्रकाशन्त एवेतेतत्समानजाती- यार्थवर्णनम्। किं तु परतो ने तेतत्समानजातीयस्यैव। यत्तु शपथेन न प्रकाशन्ते किं तु रस० ३१
Page 349
३३४ काव्यमाला।
म्यस्योदाहरणम्, 'यदि सन्ति' इति तुन युक्तम्। वैधर्म्योदाहरणं हि प्रस्तुतधर्मिविशेषोपारूढार्थदार्ढ्याय स्वाक्षिप्तस्वव्यतिरेकसमानजातीयस्य धर्म्यन्तरारूढस्याप्रकृतार्थस्य कथनम्। प्रकृते च यदि सन्ति तदा खय- मेव प्रकाशन्त इत्यर्थस्य प्रस्तुतस्य व्यतिरेकस्तु असन्त उपायान्तरेणापि न प्रकाशन्त इति। नह्यत्र द्वितीयार्घेन तत्सजातीयोऽर्थो निवध्यते। निबध्यते च स्वयं प्रकाशन्ते, न परेणेत्यस्य प्रस्तुतस्यैव सजातीयः । शप- थेन न विभाव्यते, किं तु खयमेवेति प्रकृतार्थानुरूपतयैव पर्यवसानात्। नहि वैधर्म्ये प्रकृतानुरूप्यं जातुचिद्धटते। व्याघातात्। तस्मात्साधर्म्येणै- वेदमुदाहरणं संगतम्, न वैधर्म्येण। न चोपायान्तरनिवृत्त्यघटितप्रस्तुतवा- क्यार्थेन कथं नाम तद्धटित उत्तरवाक्यार्थः साधर्म्यमर्हतीति वाच्यम्। स्वयमित्यत्राकृष्टेन एवकारेणैवोपायान्तरनिवृत्तेः प्रस्तुतवाक्यार्थे निवेशि- तत्वात्। अत्यन्तायोगव्यवच्छेदस्योत्तरवाक्यार्थाननुगृहीतत्वेन क्रियासम- भिव्याहारायोगात्। 'सन्तः सवतः प्रकाशन्ते गुणा न परतो नृणाम् । आमोदो नहि कस्तूर्याः शपथेनानुभाव्यते ॥' अत्र स्वतोऽनुभूयत इत्यत्र पर्यवसितेनोत्तरवाक्यार्थेन पूर्ववाक्यार्थस्य यथा साधर्म्यमेव, न वैधर्म्य, तथा 'यदि सन्ति-' इति पद्येऽपीति नञ््- मात्रश्रवणादेव वैधम्यै जगदे। न तु निपुणतरं निरीक्षितमायुष्मता। यदि तु 'यदि सन्ति-' इति पद्यस्य नहि कस्तूरिका-' इत्याद्युत्तराधै
स्वत एवेत्यर्थवर्णनं तत्र खत एवेत्यंशो न वाच्यः । किं त्वाक्षेपलभ्यः । आक्षेपेण च 'मार्भिक: को मरन्दानाम्, इति भवदुदाहृतेऽपि मधुत्रतं विना को जानाति मधुन्रत एव जानातीत्यर्थप्रतीतवैयधिकरणोदाहरणत्वं न स्यात्। अस्तु वा एवकारापकर्षणेन न परत इति प्रस्तुतवाक्यार्थः । तथापि व्यतिरेकसजातीयार्थ निबन्धनादन्वयसजातीयार्था- निबन्धनाच्च विद्वानेवेत्यादिवदस्यापि वैधर्म्योदाहरणपरता। न त्वाक्षिप्तव्यतिरेकसजा- तीयार्थानिबन्धन एव वैधर्म्योदाहरणत्वमिति राजाज्ञास्ति। तस्माद्युक्त्तमित्यन्तं सर्वमयु- कमिति बोध्यम्। अयुक्तत्वमेवोपपादयति-वैधर्म्योदाहरणं हीति। जातुचित् कदाचित्। नन्वेवकारस्यात्यन्तायोगव्यवच्छेदार्थकत्वेन कथमाकर्षणमत आह-अत्य- न्तेति। साधर्म्येणैवेदमुदाहरणमित्युक्त्टृष्टान्तपूर्व द्रढयति-सन्त इति। विद्यमाना इत्यर्थः । कथं तर्हि तैस्तथोक्तमत आह-नजिति। जगदे कथितवान्। आयुष्मता
Page 350
रसगङ्गाधरः । ३३५
दूरीकृत्य 'वाचा वाचस्पतेर्व्योि विलसन्ति न वल्लयः' इति क्रियते तदा वैधर्म्य प्रकृतविपरीतार्थघटनाद्युक्तम्। अथ- 'खलास्तु कुशलाः खीयहितप्रत्यूहकर्मणि । निपुणाः फणिनः प्राणानपहर्तु निरागसाम् ।' इत्यत्रासंघ्ुलवाक्यार्थेऽतिप्रसङ्गः। कुशलनिपुणपदाभ्यामेकस्यैव धर्म- स्योपादानात्। न चात्रौपम्यं न गम्यमिति वक्तुं शक्यम्। निपुणकुश- लपदाभ्यां प्रतिपादितेन शुद्धसामान्यात्मना धर्मेण खलफणिनोरौपम्यस्य प्रत्ययात्। नापि धर्मिणोरौपम्येऽपि विशिष्टवाक्यार्थयोस्तत्र तथेति वाच्यम्। अवयवद्वारा तयोरपि तस्य तथात्वात्। स्वभावसिद्धत्वेनानुपात्त- धर्मेणौपम्यस्य गम्यत्वाच्चेति चेत्, मैवम्। साधारणधर्मस्य वस्तुप्रतिवस्तु- भावोक्त्या तदितरपदार्थानां बिम्बप्रतिविम्बभावो घटनाया आनुरूप्यं च विवक्षितम् । प्रकृते च खलफणिनोः प्राणहितयोश्च सत्यपि बिम्बप्रतिबि- म्वभावे हरणप्रत्यूहकरणयोर्नाशप्रागभावपर्यवसितयोरननुरूप्यान्न बिम्ब- प्रतिबिम्बभाव इति न दोषः । यद्वा अस्त्वत्र प्रतिवस्तूपमा। परं त्वसंु- लतारूपस्य वाक्यार्थसामान्यदोषस्य सत्त्वादचमत्कारिणी। दुष्टोपमादिव- त् । वाक्यार्थो हि गाढतरव्युत्पत्तिनिपुणीकृतान्तःकरणैर्नानाविधपदार्थ- रचनापरिवृत्तिसमर्यैरेव कविभी रचितः कामपि कमनीयतामाघचे। नेतरः ।
अप्पदीक्षितेन । वाचेति। वृहस्पतेरुक्त्यापीत्यर्थः । सवसिद्धान्ते आक्षिपति- अथेति। स्वीयहितेति। खीयानां यानि हितानि तत्प्रतिबन्धकर्मणीत्यर्थः । नापी- त्यस्य वाच्यमित्यत्रान्वयः । तत्र तथेति। औपम्यं गम्यमित्यर्थः । तयोरपि विशिष्ट- वाक्यार्थयोरपि। तस्येति । औपम्यस्य गम्यत्वादित्यर्थः । स्वभावसिद्धत्वेनानु- पान्तेति। एतद्रूपानुपात्तधर्मेणेत्यर्थः । तादृशौपम्यस्यैकधर्मस्य संबन्धिभेदेन द्विरूपा- दानरूपवस्तुप्रतिवस्तुभावापन्न साधारणधर्म कत्वाभावात्र प्रतिवस्तूप मोपयोगितेति चिन्त्य- मिदम्। विवक्षितं अत्रेति शेषः। ननु तयोरभावत्वेनानुरूप्यादस्तेव बिम्बप्रतिबिम्बभा- वोऽत आह-यद्वेति । घटना अननुरूपेति भावः । असंघुलतारूपस्येति । पूर्ववाक्यार्थघटकहित प्रत्यूहकर्मणीति नामार्थविभक्त्यर्थादीनामुत्तरवाक्यार्थघटके प्राण-
Page 351
३२६ काव्यमाला।
तथा हि- 'उपासनामेत्य पितुः स्म रज्यते दिने दिने सावसरेषु बन्दिनाम्। पठत्सु तेषु प्रतिभूपतीनलं विनिद्ररोमाजनि शृण्वती नलम् ।' अस्मिन्नैषधीयपद्ये (१। ३४) द्वयोः क्रिययोरुद्देश्य विधेयभावेन गुण- प्रधानभावमकुर्वता बन्दिनः षष्यन्ततया सप्तम्यन्ततया च द्विः परामृ- शता कविना वाक्यार्थः क्रमेककवदसंघुलतां प्रापितः । यदि च स एव वाक्यार्थः प्रकारान्तरेण निर्मीयते 'उपासनार्थ पितुरागतापि सा निविष्टचित्ता वचनेषु बन्दिनाम्। प्रशंसतां द्वारि महीपतीनलं विनिद्ररोमाजनि शृण्वती नलम् ।' इति। तदा ललनाङ्गसंनिवेश इव कीदृशीं कमनीयतामावहेदिति सहृदयैराकलनीयम्। एवम्- 'तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति। स्थितेऽरविन्दे मकरन्दनिर्भरे मधुवृतो नेक्षुरकं हि वीक्षते ।।' इति कुवलयानन्दोदाहते आलवन्दारुस्तोत्रपद्ये वीक्षणमात्रस्यावर्जनी- यस्य प्रतिषेधानर्हत्वादिच्छापूर्वकवीक्षणप्रतिषेघस्य च 'सविशेषणे हि-' इति न्यायेनेच्छाप्रतिषेधघर्मपर्यवसायितया यद्यपि धर्मैक्यं सुसंपादम्। अस्तु वा दृष्टान्तालंकारः । तथापि पादपक्कजे निवेशितात्मेत्याधारसप्त- म्याः स्थितेऽरविन्दे इति सतिसप्तमी वस्तुप्रतिवस्तुबिम्बप्रतिबिम्बभावयो- रन्यतरेणापि प्रकारेण नानुरूपा, इत्यसंघ्ठुलता स्थितैव । 'स्थितोऽरविन्दे- मकरन्दनिर्भरे' इति चेक्क्ियते तदा तु रमणीयम्।
नपहर्तुमित्यत्राभावादेः संघ्रलतेति भावः । करमेलकवत् उष्टरवत्। तवेति। शिवं प्रति भक्तोक्तिः । इक्षुरकं 'तालमखाणा' इति प्रसिद्धौषधीपुष्पम् । काशपुष्पमिति कश्चित्। गोक्षुरमित्यन्यः। आलवन्दारुस्तोत्रेति। अवर्जनीयेति । अनिष्टेऽपि स्वसामग्री- वशाज्जायमानस्येत्वर्थः । धातोरिच्छापूर्वकवीक्षणे लक्षणया आह-इच्छापूर्वकेति। सुसंपादमिति । तथा च प्रतिवस्तूपमोदाहरणत्वोक्तिस्तेषां संगतेति भावः । उक्तप्रकारेण धर्मैक्यानादरे त्वाह-अस्तु वेति। इति सतिसप्तमीति। इति सत्सप्तमीत्यर्थः । रमणीयमिति। तत्राप्याधारसप्तमीसंपत्तेरिति भावः। घटनाया
Page 352
रसगङ्गाधरः । ३३७
तस्मादेवंजातीय के ष्वलंकारेषु पूर्ववाक्यार्थघटकनामार्थानुरूपैर्ना मार्ेस्त द्धटकविभक्त्यनुरूपाभिर्विभक्तिभिस्तदन्वयरूपे चान्वयेन भाव्यमिति सहृदयहृदयं प्रष्टव्यम् । 'वहति विषधरान्पटीरजन्मा शिरसि मषीपटलं दधाति दीपः । विधुरि भजतेतरां कलङ्कं पिशुनजनं खलु विभ्रति क्षितीन्द्राः ।I' अत्र वहनाधानभजनभरणानां वस्तुत ऐकरूप्यात्प्रतिवस्तूपमेयं माला- रूपा। इति रसगङ्गाधरे प्रतिवस्तूपमाप्रकरणम् ।
अथ दष्टान्तालंकार :- प्रकृतवाक्यार्थघटकानामुपमादीनां साधारणधर्मस्य च विम्वग्र- तिबिम्बभावे दष्टान्त: ।। तदुक्तम्-'दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्' इति। उदाहरणम्- 'सत्पूरुष: खलु हिताचरणैरमन्द- मानन्दयत्यखिललोकमनुक्त एव। आराधितः कथय केन करैरुदारै- रिन्दुर्विकासयति कैरविणीकुलानि ॥' अत्रानन्दनविकासयोरपि बिम्बप्रतिविम्बभावः । अस्य चालंकारस्य प्रतिवस्तूपमया भेदकमेतदेव यत्तस्यां धर्मो न प्रतिबिम्बितः, किं तु शुद्धसामान्यात्मनैव स्थितः । इह तु प्रतिबिम्बितः। विमर्शिनीकारस्तु-'प्रतिवस्तूपमायामप्रकृतार्थोपादानं तेन सह प्रकृता- र्थस्य सादृश्यप्रतिपत्त्यर्थम् । दृष्टान्ते तु तदुपादानमेताद्शोऽर्थोऽन्य- आनुरूप्यं सर्वथा अपेक्षितमित्युपसंहरति-तस्मादिति। मालारूपप्रतिवस्तूपमामुदा- हरति-चहतीति। पटीरजन्मेति। मालारूपेति। पटीरजन्मेव दीप इत्यादिप्रती- तेरित्यर्थः । इति रसगन्गाधरमर्मप्रकाशे प्रतिवस्तूपमाप्रकरणम्।। दृष्टान्तं निरूपयति-अथेति। बिम्बप्रति विम्बभावापन्नसाधारणधर्मादिकं वाक्या- र्थयोरार्थमौपम्यं दृष्टान्त इति निष्कर्षो बोध्यः । करैः किरणैः। कुलानि समूददान्। अ- पिना इन्दुपुरुषादिसंग्रहः । प्रतिविम्बित इत्यस्य इवीति शेषः । तदुपेति। अप्रकृता-
Page 353
३३८ काव्यमाला
त्रापि स्थित इति प्रकृतार्थप्रतीतेविशदीकरणमात्रार्थम् । न तु साद- श्यप्रतिपत्त्यर्थम् । अतः सादृश्यप्रतीत्यप्रतीतिभ्यामनयोरलंकारयोर्भेदः' इत्याह। तन्न। प्रकृताप्रकृतवाक्यार्थयोरुपादानस्यालंकारद्वयेऽप्यवि- शिष्टत्वादेकत्र सादृश्यप्रत्ययः, अन्यत्र नेत्यस्याज्ञानमात्रत्वात् । वैपरी- त्यस्यापि सुवचत्वाच्च। एतादृशोर्ऽर्थोऽन्यत्रापि स्थित इति प्रकृता- र्थप्रतीतिविशदीकरणस्य त्वदभिहितस्य सादृश्यापरपर्यायत्वाच्च। अत- एव प्रायशः सत्कविनिर्मितेषु लक्ष्येषु प्रकृतवाक्यार्थघटकप्रकृतिप्रत्यया- र्थानुरूपप्रकृतिप्रत्ययार्थघटित एवाप्रकृतवाक्यार्थो दृश्यते। न च भवदु- क्तमपि वैलक्षण्यं नानयोः पृथगलंकारतायां प्रयोजकम्। औपम्याख्यसा- मान्यलक्षणाकान्ततया उपमाभेदवदेकालंकारभेदत्वापत्तेरिति वाच्यम् । तवापि दीपकतुल्ययोगितयोरेकभेदत्वापत्तेः । इष्टापत्तिरिति चेत्सैवात्रापि दृश्यताम्। प्राचीनविभागस्य भवतैव शिथिलीकृतत्वात् । औपम्यरूप-
रिकसिद्धान्तभङ्गप्रसङ्गाच्च । 'अब्धिर्लद्गित एव वानरभटैः-' इत्यादि- मुरारिपद्ये यद्यपि ज्ञानार्थ एको धर्मो निर्दिष्टस्तथापि नैतन्निबन्धनमौपम्यं विवक्षितम्। यन्निबन्धनं च विवक्षितं तत्रान्धिलङ्गनादावस्त्येव दिव्यवा- गुपासनादिना प्रतिबिम्बनमिति त्वन्मूलग्रन्थविरोधाच्च। न च यन्निवन्धनं च विवक्षितमित्यत्रार्थालंकारत्वं विशेष्यं शेषपूरणेन योज्यम्, न पुनरौप-
र्थोंपादानमित्वर्थः । स्थित इति। इत्यस्य विशदीकरणेऽन्वयः । स्पष्टार्थ मात्रपदव्य- चच्छेद्यमाह-न त्विति।अभ्युपेत्याप्याह-वैपरीत्येति। इष्टापत्तावाह-पतादृश इति। अतएव उक्तरीत्या दृष्टान्ते सादृश्यप्रतीतेरेव । क्वचित्तदभावेऽपि न क्षतिरि- त्याह-प्रायश इति। सदित्यनेनासत्कविव्यावृत्तिः । तथा च तत्र तदभावेऽपि न क्षतिरिति भावः । लक्ष्येष्विति। दृष्टान्तेत्यादिः। भवदुक्तमपीति। धर्मस्य प्रतिवि- म्वितत्वाप्रतिविम्बितत्वकृतमिति भावः । एकालंकारेति। उपमालंकारेत्यर्थः । एक- भेदत्वेति। एकालंकारत्वेत्यर्थः । अलंकारभेदो न स्यादिति यावत्। सैव इष्टापत्ति रेव। नन्वेवं प्राचीनविभागोच्छेदापत्तिरत आह-प्राचीनेति। दीपकतुल्ययोगिता- स्थल इति भावः। एवं प्रतिबन्दीमुक्ता दोषमाह-औपम्येति। बहूनां अनन्वयादी- नाम्। तत्रापीथ्ठपत्तावाह-अन्धिरिति। ज्ञानरूपोऽर्य इत्यर्थः । यद्यप्येकत्र ज्ञानमे- कत्र संस्पर्श इति भेदस्तथापि बिम्वप्रतिविम्बभावेनाभेद इति भावः । यन्निबन्धन- मिति। अब्धिलङ्गनादिप्रयुक्त्तमित्यर्थः। औपम्यमित्यस्यानुषङ्ञः। त्वन्मूलेति। अल
Page 354
रसगद्गाधरः । ३३९
म्यमिति वाच्यम्। औपम्यं न विवक्षितमित्यत्रैकवारं निष्ठया परामृष्टस्यै- व पुनस्तया परामर्शस्य व्युत्पत्तेः । न चैत्रार्थमोदनः पक्कः, यदर्थ च पक्क: स मैत्र: इत्यादौ द्वितीयपक्कादिशब्दानामध्याहृतशाकादिपरत्वे असं- गते: स्फुटत्वात्। तस्मादस्मदुक्त्तेनैव पथा प्राचीनैर्विहितोऽलंकारयोरनयो- र्विभाग: संगमनीयः । यदि तु न तेषां दाक्षिण्यं तदैकस्यैवालंकारस्य द्वौ भेदौ-प्रतिवस्तूपमा, दृष्टान्तश्च। यच्चानयोः किंचिद्वैलक्षण्यं तत्र्रभे- दताया एव साधकम्, नालंकारताया इति सुवचम्। वैधर्भ्येणायं यथा- 'जनयन्ति परप्रीति नराः सत्कुलसंभवाः । नहि कारस्करः क्वापि तापनिर्वापणक्षमः ॥' यथा वा- 'तापत्रयं खलु नृणां हृदि तावदेव यावन्न ते वलति देव कृपाकटाक्षः । प्राचीललाटपरिचुम्बिनि भानुबिम्बे पङ्केरुहोदरगतानि कुतस्तमांसि ।।' प्रीति जननतापनिर्वापणाभावयोस्तापत्रयावस्थानतमोदूरीकरणयोश्च वैध- र्म्येणात्र बिम्बप्रतिबिम्बभावः । इति रसगज्जाधरे दृष्टान्तप्रकरणम्। अथ निदर्शना- उपात्तयोरथयोरार्थाभेद औपम्यपर्यवसायी निदर्शना ॥ -
अतिशयोक्त्यादीनां ध्वन्यमानरूपकस्य च वारणाय उपात्तयोरिति। कारसर्वखेत्यर्थः । तया निष्ठया। तत्र हेतुमाह-न चैत्रार्थमिति। असंगतेरिति। कव्यभिप्रायाप्रतिपादनादिति भावः । उपसंहरति-तस्मादिति। पथा मार्गेण। तेषां प्राचीनानाम्। एकस्यैवेति। उपमारूपस्यैवेत्यर्थः । प्रभेदेति। उपमाप्रभेद- ताया एवेत्यर्थः । परप्रीति परेषां प्रीतिम्। कारस्करः [ 'कुचला' इति प्रसिद्धो वृक्ष: ।] तापत्रयमाध्यात्मिकादिदुःखत्रयम्। वलति प्रविशति। वैधर्म्येणेति। उपपादितमिद- मधसात्। इति रसगक्ाधरमर्मप्रकाशे दृष्ान्तप्रकरणम्।। अथ निदर्शनां लक्षयति-अथेति। औपम्यपर्यवसायी औपम्यमूलः। नन्वतिश- योकत्यादौ नार्थद्वयमत आह-ध्वन्यमानेति। न वार्थत्वमर्थसंबन्धित्वम्। तथा च
Page 355
३४० काव्यमाला। वाच्यरूपवारणाय आर्थ इति। आर्थत्वं च प्राथमिकान्वयबोधाविषय- त्वम्। यदि च विशिष्टोपमायां विशेषणयोरभेदः प्रतीयते तदा बिम्ब- प्रतिबिम्वभावानापन्नत्वमपि प्रधानविशेषणम्। तद्विशेषणानां तु बिम्ब- प्रतिविम्बभावो न निवार्यते। इदं च श्रौत्या निदर्शनाया लक्षणम्। आर्थीसाधारणं लक्षणं तु ललितालंकारप्रकरणे वक्ष्यते। उदाहरणम्- 'त्वामन्तरात्मनि लसन्तमनन्तमज्ञा- स्तीर्थेषु हन्त मदनान्तक शोधयन्तः । विस्मृत्य कण्ठतटमध्यपरिस्फुरन्तं चिन्तामणिं क्षितिरजःसु गवेषयन्ति ।।' अत्र तवान्यत्र परिशोधनं कण्ठस्थस्य चिन्तामणेर्भूपांसुषु गवेषणं चाभिन्नमिति तत्सादृश्यमूला घीः। यथा वा- 'अन्यैः समानममरैर्जगदन्तरात्म- न्ये चन्द्रशेखर वदन्ति भवन्तमज्ञाः ॥ ते कि न हन्त तुलयन्ति नभो निरन्तं वातायनोदरगतैर्विवरान्तरालै. ।।' पूर्वत्रैकवाक्यगतः, इह तु भिन्नवाक्यगतः । पूर्वत्र वस्तुमात्रयोरौपम्य- मूलोडभेदः, इह त्वौपम्ययोरौपम्यमूलः स इति विशेषः । एषा वाक्यार्थ- निदर्शनेत्युच्यते। विशिष्टार्थयोः प्रकृतैकधर्मिगतयोरार्थाभेदे वाक्यार्थ- निदर्शनाया इष्टे: । अस्यां च घटकपदार्थानां विम्बप्रतिबिम्बभाव आव- श्यकः ।
वाच्यरूपके दोषस्तदवस्थः । अत आह आर्थत्वं चेति। प्रतीयत इति। तथा च तत्रातिव्याप्तिरिति भावः। प्रधानविशेषणमिति। तद्विशेषणानां तु प्रधानविशेषणानां तु। त्वामिति। ईश्वरं प्रति भक्तोकिः । एवमग्रेऽपि। कण्ठ एव तटं तन्मध्ये लभ्यं तमित्यर्थः । तव शिवस्य । विवरेति । तद्रूपैरन्तरालैरित्यर्थः । एकवाक्येति। क्रिययोरैक्यात्। भिन्नेति। तद्भेदात। भेदान्तरमाह-पूर्वत्रेति। इह त्वौपम्य-
Page 356
रसगन्ाधरः । ३४१
पदार्थनिदर्शना यथा- 'अगण्यैरिन्द्राघैरिह परमपुण्यैः परिचितो जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः । प्रसर्पत्पीयूषाम्बुधिलहरिलीला विलसितो दगन्तस्ते मन्दं मम कलुषवृन्दं दलयतु ।।' अत्र दगन्ताम्बुधिलहरिलीलयोराश्रयभेदाद्भिन्नयोरपि सादृश्यमूलस्ता- द्रूप्याभिमानः । आरोपो वा दृगन्ते लहरिलीलायाः । यथा वा- 'पाणौ कृतः पाणिरिलासुतायाः सस्वेदकम्पो रघुनन्दनेन। हिमाम्बुमन्दानिलविह्लस्य प्रभातपद्मस्य बभार शोभाम् ।I' अत्र हिमाम्बुजनितविह्वलता हिमकणाकीर्णतारूपा वातजनितविह्व- लता च विधुतिरूपा । एताभ्यां च सखेदतासोत्कम्पितत्वयोः प्रति विम्बनमिति पूर्वस्मादुदाहरणाद्भेदः । प्रभातपदसांनिध्याच पद्मस्येपद्वि- कासमुद्रणयोः प्रत्ययात्पाणावपि तत्सिद्धिः । अस्यां चोपमानोपमेयगत- धर्मयोरार्थाभेदप्रतिपत्तिः । अतः पदार्थनिदर्शनोच्यते । बिम्वप्रतिबिम्ब- भावस्तूपमानोपमेययोः सविशेषणत्वे भवति, अन्यथा तु न इति विवेकः । ननु वाक्यार्थनिदर्शनायां विशिष्टवाचकशब्दाभ्यां विशेषणयो- रप्युपादानात् अस्तु नाम उपात्तयोरार्थॉडभेदः । पदार्थनिदर्शनायां तूप- मानशोभादेरन्यतरस्यैवोपात्तत्वम्, न द्वयोरिति चेत् शोभाशव्देन शोभात्वेन द्वयोरप्युपात्तत्वात्। नह्युपमानोपमेयतावच्छेदकरूपेणोपात्तत्वं विवक्षितम् येनाव्याप्तिः स्यात्। यद्वा प्रागुक्तलक्षणं वाक्यार्थनिदर्शनाया योरिति। तज्ज्ञानयोरित्यर्थः । स अभेदः । परिचितोऽनुभूतः । जगदिति। जगदु- त्पत्तिस्थितिसंहारकारक इत्यर्थः । अत्र दृगन्ताम्वुधीति । दगन्तसमुद्रलहर्योर्ये लीले तयोरित्यर्थः। दृगन्तलीलाप्रतिपादकशब्दाभावे न तथा दुर्वचमत आह-आरोपो वेति। पाणौ कृत इति। सीताविवाहवर्णनम् । श्रीरामचन्द्रेण खहस्ते कृतः स्ेद- कम्पाभ्यां युक्तो भूसुतायाः सीताया पाणिर्दिमाम्वुमन्दवायुभ्यां विह्वलस्य कमलस्य शोभां दघावित्यर्थः । विधुतिरूपा कम्परूपा । चस्त्वथे। तत्सिद्धि: ईषद्विकासमुद्रणयोः सिद्धिः। अस्यां च पदार्थनिदर्शनातवेनोदाहृतायां च । शोभादेरिति। आदिना लीलापरिग्र- हः। उपमेयतावच्छेदकेति। तद्विशेषणतयेत्यर्थः। तथा च विवक्षायामाह-यद्वेति।
Page 357
२४२ काव्यमाला। एव। न पदार्थनिदर्शनायाः । अस्यास्तु उपमानोपमेययोरन्यतरधर्मस्या- न्यतरत्रारोपो लक्षणमस्तु । नन्वेवमपि वाक्यार्थनिदर्शनायां रूपकध्व- निना, पदार्थनिदर्शनायां च निगीर्याध्यवसानरूपयातिशयोक्त्या गतार्थ- तेति चेत्, न। वाक्यार्थनिदर्शनायां रूपकस्य गुणीभूतत्वेन तद्धनित्वा- योगात्। अन्यथा गुणीभूतयोपमया रूपकस्यापि गतार्थतापतेः । कि च अस्याश्च शरीरं तादृशपदार्थयोः परस्पराभेदमात्रमुभयत्र विश्रान्तम्। रूपकस्य तूपमेयगत उपमानाभेदः, अतिशयोक्तेश्र । निगरणानिगर- णाभ्यां च तयोर्विशेष इत्यन्यत्। एवं च स्फुटमेवास्या रूपकातिशयोक्तिभ्यां वैलक्षण्यम्। अत एव 'त्वामन्तरात्मनि-' इति पद्ये गवेषयन्तीत्यत्र गवेषयन्त इत्यनूद शोध- यन्त इत्यत्र शोघयन्तीति विघाने, अर्धयोः पौर्वापर्ये च न सौन्दर्यहा- निः । रूपकादौ उच्यमाने व्यञ्नयकक्षोद्देश्यविधेयभावस्यापि वाच्यक- क्षोद्देश्य विधेयभावानुसारितया उपमाने उपमेयाभेदसिद्धावसामञ्जस्यापत्ते- रिति सुधीभिराकलनीयम्। अलंकारसर्वस्वकारास्तु- 'त्वत्पादनखरतानां यदलक्तकमार्जनम्। इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधो: ।।'
अस्यास्तु पदार्थनिदर्शनायास्तु। उपमानोपमेयेति । 'आस्ये पूर्णशशाङ्कता' इति भवदुक्करूपकोदाहरणे इदमतिव्याप्तमिति चिन्त्यम्। रूपकस्य गुणी- भूतत्वेनेति । क्त्रभेदरूपवाच्यसिद्धयङ्गत्वेनेत्यर्थः । तद्भनित्वेति । रूपकध्व- नित्वेत्यर्थः । द्वितीयशङ्कायां समाधत्ते-किं चेति । अस्याश्च पदार्थनिदर्श- नायाश्। तादृशेति । उममानोपमेयेत्यर्थः । अतिशयोक्तेश्चेति। उपमेयगत उपमानाभेदः शरीरमित्यर्थः। नन्वेवं रूपकातिशयोक्त्योरैक्यापत्तिरत आह- निगरणेति । तयोर्विशेष इति । रूपकातिशयोक्त्योर्विशेष इत्यर्थः । उपसंहर- ति-एवं चेति। अस्यां निदर्शनातावच्छिन्नायाम्। अत एव उक्करीला ताभ्यां वैलक्षण्यसत्त्वादेव। अर्धयोः पूर्वोत्तरार्धयोः । रूपकादौ तूच्यमाने इत्यस्य असामअस्या- पत्तेरित्यनेनान्वयः । आदिना अतिशयोक्तिपरिग्रहः उच्यमाने इत्यस्य तथेत्यादिः । असामजस्यापत्तौ हेतुर्व्यङ्रयेत्यादि तृतीयान्तम्। उपमेयाभेदसिद्धाविति। निदर्श-
Page 358
रसगङ्गाघरः । ३४३
इति पद्यं वाक्यार्थनिदर्शनायामुदाजहार। आह च-'यत्र तु प्रकृ- तवाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपप- त्तिमूला निदर्शनैव युक्ता' इति। तन्न। वाक्यार्थरूपकस्य दत्तजलाञ्ज- लित्वापत्तेः। न चेष्टापत्तिः । वाक्यार्थनिदर्शनैव निर्वास्यताम्, सवीक्रियतां च वाक्यार्थरूपकमिति पर्यनुयोगस्यापि तुल्यत्वात् । युक्तं चैतत्। पदा- थरूपके मुखं चन्द्र इत्यादौ कृप्तस्य श्रौतस्याभेदारोपस्य रूपकजीवा- तुत्वकल्पनाया औचित्यात्। 'इन्दुशोभां वहत्यास्यं' इत्यादि पदार्थनिदर्श- नायामभेदारोपस्याभावात् तज्जीवातुत्वायोगाच्च। रूपके बिम्वनं नास्तीति तु शपथमात्रम्। युक्त्यभावात्। अस्मदुक्तोदाहरणे वाक्यार्थनिदर्शनायाः सावकाशत्वाच्च। यत्तु तेनैव लक्षणं निर्मितम्-'संभवता असंभवता वा वस्तुसंबन्धेन गम्यमानमौपम्यं निदर्शना' इति। तदपि न। रूपकातिशयोक्त्यादिष्वति व्यापनात्। यत्त्वलंकारसर्वख्वकारानुसारिणा कुवलयानन्दकृतोक्तम्- 'वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना। यद्दातुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता ॥' इति। तत्तु तन्मतदूषणेनैव निवेदितरहस्यमिति न पुनराकुलीक्रियते।
नायां तथाभावे तु बीजं चिन्त्यम्। पर्यनुयोगस्य आक्षेपस्य। कल्पनाया इति। वाक्यार्थरूपकस्थले इति भावः। ननु तस्य निदर्शनाबीजलमेव कुतो न अत आह- इन्दुशोभामिति। तज्जीवातुत्वेति । निदर्शनाजीवातुत्वेत्यर्थः । ननु निदरश- नायां विम्बप्रतिबिम्बभावः, न रूपके इति कथं तेनास्या निरासोऽत आह-रूपके इति। अस्मदुक्तोदेति। लामन्तरात्मनीत्यत्रेत्यर्थः । रूपकस्य तत्र विषयाभावात् वाक्याथद्वयाभावात्। एवं च रूपकविषयभूतं वाक्यार्थनिदर्शनायां यदुदाहृतं यन्चोपपा दितं तदसंगतन्। तद्विविक्तोदाहरणसंभवादिति भावः। तेनैव अलंकारसर्वस्वकारेणैव। अतिव्यापनादिति। प्रागुक्तरीत्येति भावः। तन्तु तन्मतदूषणनैवेति। अत्रेदं चिन्त्यम्-लामन्तरात्मनि लसन्तमिति भवदुदाहृतेऽपि गम्यरूपकेणैव निर्वाहे निद्श- नाया उच्छेदापत्िः । अन्यथा वाक्यार्थरूपकोच्छेदवद्रम्यवाक्यार्थरूपकोच्छेदापतिश्व । न चैवं मुखमिव चन्द्र इति वाच्योपमा, मुखं चन्द्र इति गम्योपमैव स्यादिति रूपकोच्छेद इति वाच्यम्। तत्राभेदप्रतीतिकृतचमत्कारस्यैव सत्वात्। स्रादृश्यकृतस्य तस्याभा-
Page 359
३४४ काव्यमाला।
यदि तु 'त्वत्पादनखरत्नानि यो रन्जयति यावकैः । इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः॥' इति पद्यं निर्मीयते तदा निदर्शना युक्ता। न चास्मदुक्ता वाच्या निदर्शना, इयं तु प्रतीयमानेति वाच्यम्। 'मुखं चन्द्र इव' इति वाच्योपमा, 'मुखं चन्द्रः, इति प्रतीयमाना। न त्वलंकारान्तरम् । इत्यस्यापि सुवच- त्वात्। एवं चारोपाध्यवसानमार्गवहिर्भूत आर्थ एवाभेदो निदर्शनाजी- वितम्। स च कत्राद्यमेद प्रतिपादनद्वारा प्रतिपाद्यते वाक्यार्थनिदर्शना- याम्। अत एव मम्मटभट्टैरुदाहृतम- 'क सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुड्डुपेनास्मि सागरम् ॥' इति। नन्वत्र निदर्शना नैव संगच्छते। विषयिण उपादानेऽपि विषयस्या- नुपात्तत्वात्। उभयोपादानं हि तत्रावश्यकम् । अतो ललितालंकार उचित इति चेत्, ललितालंकारनिराकरणावसर एवैतद्यक्तमुपपाद- यिप्यामः । परे तु 'त्वत्पादनखरल्नानां-' इत्यत्र दृष्टान्तालंकारमाहुः । तदप्य- सत्। विम्बप्रतिबिम्बभावापन्नपदार्थघटितस्य निरपेक्षवाक्यार्थद्वयस्यैव दृष्टान्तत्वात्। तस्मात् 'त्वत्पादनखरल्ानां-' इत्यत्र वाक्यार्थरूपक्मेव। न निदर्शनेति स्थितम्। एवमसंभवद्वस्तुसंबन्धनिवन्धना पदार्थवाक्यार्थनि- दर्शना दर्शिता।
वाच। किंच लबुदाहते कत्रों रूपकमेवास्तु। प्रतीयमानोऽपि क्रिययोरभेदो विशिष्ट- रूपके विशेषणाभेदवन्नालंकारान्तरम्। अन्यथा अलकावृतकामिनीमुखं भ्रमद्द्रमरसं- भारं पद्ममित्यादौ अलकत्रमरयोरभेदस्याप्यलंकारान्तरत्वं स्यात्। तस्माद्रम्यतामान्ने- णालंकारान्तरतेति रिक्त वचः । ननु प्राचीनैरलंकारान्तरत्वेन परिगणनात् गम्यत्वे- डयम्, वाच्यत्वे रूपकमित्युच्यते तहि प्राचीनसेतुविघटनं व्यर्थमेवेति बोध्यमिति। या- वकैरलक्तकैः । प्रतीयमानेति । उपमेत्यस्यानुषङः । उपसंहरति-एवं चेति। अत एव अस्यास्तदुभयवहिर्भूत निमित्तकतवेन प्रागुक्तभवदीयोदाहरण संभवादेव। तन्न
Page 360
३४५
'चूडामणिपदे धत्ते योऽम्बरे रविमागतम्। सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥' अत्र 'कारीषोऽमिरध्यापयति' 'भिक्षा वासयन्ति' इतिवदानुकूल्ये णिचः प्रयोगात् गिरेश्र सूर्योदयदेशावच्छिन्नशिरस्कतारूपस्य गृहमे- धिगतसदातिथ्यकरणविषयकबोधानुकूलाचरणस्य संभवात् मया इवान्ये- नाप्यतिथिसेवा कार्या इत्यौपम्यसद्भावाच्च संभवद्वस्तुसंबन्धमूलापि नि- दर्शना संभवति। न च बोधयन्निव बोधयन्निति प्रतीयमानेयमुत्प्ेक्षा 'व्यालिम्पति तमोऽक्गानि नभो वर्षति कज्जलम्' इत्यादाविवेति वाच्यम्। वस्तुनः सं- भवेनैव तस्या अप्रसक्ते: इत्याहुः । इदं च 'धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते' इत्युक्तपथेन धातूपा- त्तव्यापाराश्रयत्वं कर्तृत्वमिति मते संगच्छते। यदि तु कृताकृतविभा- सविषयार्थकधातूत्तरकर्तृप्रत्ययस्याश्रयत्वे निरूढलक्षणया यल्ाश्रयः कर्तृपदार्थः, स एव च कर्तृप्रत्ययानां मुख्यार्थः, अचेतनस्तु भाक्त इति नयपथेन निरीक्ष्यते तदा बोधयन्नित्यत्र प्रतीयमा- नोत्पेक्षा संभवत्येव। अमुमेव चाशयं मनसिकृत्य मम्मटभटैः 'स्वखहेत्वन्वयस्योक्ति :- ' इत्यादिलक्षणं निदर्शनान्तरस्य कृत्वा उदाहृते 'उन्नतं पदमवाप्य यो लघुर्लीलयैव स पतेदिति ध्रुवम् । शैलशेखरगतो दृषत्कणश्चारुमारुतधुतः पतत्यघः ॥।'
निदर्शनायाम्। 'अन्न' इति पाठ उचितः। पदे स्थाने । य उदयाचलः । अत्रेति। बोधयन्नित्यत्रेति शेषः । ननु गिरौ आनुकूल्याचरणं कथमत आह्-गिरेश्चेति । देशेति। सूर्योदयप्रदेशावच्छिन्नशिखरतेत्यर्थः। नन्वेवमप्यौपम्याभावोऽत आह-मया इवेति। तस्याः प्रतीयमानोत्प्रेक्षायाः । वैयाकरणमतमाह-इदं चेति। नित्यमित्यस्य कर्तृतेत्यत्रान्वयः । कर्तृतैवेति तदर्थः। कृताकृतेति। नैयायिकमतमिदम्। नन्वेवं रथो गच्छतीत्यादौ दोषोत आह-अचेतनस्त्विति। भाक्तो गौणः। बोधयन्नित्यत्र प्र- तीयमानोत्प्रेक्षेति। सुखार्थविषया। तत्रापि मते लाक्षणिकार्थपरत्वे लियमेवेति बोध्य- मू। अमुमेवेति। नैयायिकरीत्या प्रतीय मानोत्प्रेक्षायास्तत्र तत्सत्त्वेन संभवरूपमित्यर्थः । रस ० ३२
Page 361
२४६ काव्यमाला।
इति पद्ये इतिपदोत्तरं बोधयन्बोधयितुं वा इत्यस्याभावादुतरेक्षाया असं- भवे बोधननिदर्शना युक्ता। 'हालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्विषति प्रकामम्। व्यालाधिपं च यतते परिरव्धुमद्धा यो दुर्जनं वशयितुं कुरुते मनीषाम् ।।' यथा वा- 'व्योमनि वीजाकुरुते चित्रं निर्माति सुन्दरं पवने। रचयति रेखाः सलिले यस्तु खले चरति सत्कारम् ।I' बीजाकरणं बीजप्रक्षेपपूर्वकं कर्षणम्। इदं चापरं बोध्यम्- 'यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा। तिर्यग्ग्रीवं यदद्राक्षीत्तन्निप्पत्राकरोज्जगत् ।।' अत्र 'भावप्रधानमाख्यातं' इति यास्कोक्तरीत्या क्रियाविशेष्यकबोध- वादिनां शाब्द: एवाभेदारोपः क्रिययोरिति मुखं चन्द्र इत्यादाविव रूप- कमुचितम् । प्रथमान्तविशेष्यकबोधवादिनां त्वार्थः स इति निदर्शनेति भेदः। निष्पत्राकरणं च सपुङ्गशरस्यापरपार्श्वे निर्गमनात्पत्रराहित्यकरणम्। इति रसगज्गाधरे निदर्शनाप्रकरणम्।
अथ व्यतिरेक :- उपमानादुपमेयस्य गुणविशेषवच्चेनोत्कर्षो व्यतिरेकः ॥
अन्यथा वैयाकरणरीत्या तत्सत्त्वेऽपि तदप्रसक्ता तथोक्तिसंगतिः स्यादिति भावः। क्त्वा- न्तयोरुदाहते इत्यत्रान्वयः । प्रकाममत्यन्तम्। प्रक्षेपेति । प्रक्षेपस्य पूर्वकमित्यर्थः । तत्फलकम्। तेन सहेति यावत् । 'कृजो द्वितीय-' इति डाच्। भेदान्तरमाह-इदं चेति। सः क्रिययोरभेदः। पत्रराहित्येति। खार्थे ष्यञ्। बहुव्रीहिः। पत्ररहितक- रणमित्यर्थः । 'सपत्र-' इति डाच्प्रत्ययः ॥ इति रस्रगङ्गाधरमर्मप्रकाशे निदर्शनाप्रकर- णम् । व्यतिरेकं निरूपयति-अथेति। ननु गुणविशेषवत्त्वेनेत्युक्तावपि तत्रातिप्रसङ्ग एव।
Page 362
रसगङ्गाघरः । ३४७
प्रतीपादिवारणाय तृतीयान्तं वैधर््यपरम्। तत्र चोपमानतामात्रकृत एवोत्कर्षः, न वैधर्म्यकृतः । साघर्म्यस्यैव प्रत्ययात्। अधिकगुणवत्त्वमा- त्रम्, उपमानगतापकर्षमात्रं वा न व्यतिरेकस्वरूपम्। तयोरुपमेयोत्क- र्षा्षपमन्तरेणासुन्दरत्वात्। अत एव न सादृश्यभावमात्रम्। उपमाना- दुपमेयस्यापकर्षेऽपि तत्संभवात्। तस्य च वास्तवत्वेनासुन्दरत्वात्। उप- मेयोत्कर्षविशिष्टत्वेन सादृश्याभाव विशेषणे तस्यैवालंकारत्वौचित्यात्। उदाहरणम्- 'अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते। निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम् ॥'
नाभ्यामेकतरानुपादानेन च तावच्तुर्घा। सोऽप्युपमायाः श्रौतीत्वार्थीत्वा- क्षिप्तात्वैर्द्वादशविधो भवन्सश्लेवनिःश्रेषत्वाभ्यां चतुर्िशतिप्रकार इति प्राञ्चः । उदाहरणम्- 'कटु जल्पति कश्चिदल्पवेदी यदि चेदीदृशमत्र कि विदध्मः । कथमिन्दुरिवाननं त्वदीयं सकलङ्कः स कलङ्कहीनमेतत् ।।' अत्रोभयोरुपादानम्। उपमा च श्रौती। अत्रैव 'कथमिन्दुरिवाननं तवेदं द्युतिभेदं न दधाति यत्कदापि'इति कृते, 'द्युतिभेदं खलु यो दघाति
उपमेय स्योपमानत्वरूपगुण विशेषवत्वेनोत्कर्षस्य सत्त्वात्। अत आह-वैधर्म्येति।तथा च ततस्तस्य वैधर्म्येणोत्कर्षः स इति लब्धम्। नैवमतिप्रसङ्ग इत्याह-तत्र चेति। प्र- तीपादौ चेत्यर्थः । उपमेयस्येति शेषः। मात्रपदेनोत्कर्षव्यावृत्तिः। तयोः अधिकगुणवत्त्वो- पमानगतापकर्षयोः । मात्रं न व्यतिरेक इत्यनुषज्यते। अत एवेत्यस्यार्थमाह-उपमा- नादिति। तत्संभवात् सादृश्याभावसंभवात्। इष्टापत्तावाह-तस्य चेति। वास्तव- त्वेनेति । हीनगुणस्योपमेयत्वादिति भावः । विशेषणे तस्य विशेषत्वाकरणे। तस्यैव उ- पमेयोत्कर्षस्यैव । अधिकनिवेशे प्रयोजनाभावादिति भावः। संमदिन इति। सर्वदा ने- त्रयो रमणीयया शोभया हेतुना हर्षयुक्तस्य तव मुखस्य रात्रौ निःशोभं कमलं अंशेनापि कथं तुल्यं कुर्म इत्यर्थः। नायकं प्रति तद्वयस्योकिः। अत्र सर्वदा सशोभत्वेन हृष्टतवं वैध- म्यम्। तत्र रात्रौं तदभाव इति भावः। सोपि चतुर्विधोऽपि। कद्विति। नायिकां प्रति नायकोकिः । चेच्छव्दः शङ्डायाम्। ईदरां तवाननमिन्दुतुल्यमित्येवंरूपम्। अत्र उक्त- भाषणविषये। विदध्मः कुर्मः । स इन्दुः। एतत् आननम् । उभयोः सकलङ्कततद्धी-
Page 363
३४८ काव्यमाला।
नित्यम्' इति वा कृते एकतरानुपादानम्। सा च। 'कथमिन्दुरिवाननं मृगाक्ष्या भवितुं युक्तमिदं विदन्तु सन्तः' इति कृते हेतुसामान्यानुपादा- नम्। सा च हेतुद्वये हि यस्यैवानुपादानं तस्याक्षेपेणावगतिः । उभयो- रप्यनुपादाने तथैव। न त्वनवगतिः । व्यतिरेकस्योत्कर्षापकर्षरूपत्वात्। तयोश्च प्रयोजकज्ञानमन्तरेणानवबोधात्। एवम्- 'नयनानि वहन्तु खञ्जनानामिह नानाविधमङ्गभङ्गभाग्यम्। सदृशं कथमाननं सुशोभं सुदृशो भङ्गरसंपदाम्बुजेन ।I' अत्रोभयोपादानम्। आर्थी च। वदनं तु कथं समानशोभं सुदृशो 'भङ्गुरसंपदाम्बुजेन' [इति], 'शाश्वतसंपदम्बुजेन' इति च कृते एकतरानु- पादानम्। सा च। 'सदशं कथमाननं मृगाक्ष्या भविता हन्त निशाधि नायकेन' इति कृते उभयानुपादानम्। सा च पूर्वार्धे तु निदर्शनैव। 'कतिपयदिवस विलासं नित्यसुखासङ्गमङ्गलसवित्री। खर्वयति स्वर्वासं गीर्वाणधुनीतटस्थितिर्नितराम् ।।' अत्रेवादेः सादृश्यमात्रशक्तस्य सदृशादेश्र तद्विशिष्टशक्तस्य शब्द- स्याभावाच्छ्रुत्यर्थमार्गोल्लद्विनी खर्वीकरणेनाक्षिप्तवोपमा। अत्रैव 'निःसङ्वै- रभिलषिता, इत्याद्यचरणनिर्माणे 'संपातदुरन्तचिन्तयाकुलितम्' इति द्वि-
नत्वरूपवैधर्म्ययोस्तादृशयोः। सा च श्रौती च। एवमग्रेऽपि। ननूभयानुपादाने उत्कर्षा- प्रतीत्या कथमयं तद्भेदोऽत आह-हेतुद्वये हीति। तयोर्मध्ये इत्यर्थः। हि यतः । तत्रेत्थमत उभयोरुपादानेऽपि तथैवेत्यर्थः। सर्वथा अबोधो नेत्याह-न त्विति। उ- त्कर्षेति । अपकर्षनिरूपितोत्कर्षरूपत्वादित्यर्थः । प्रयोजकेति। वैधर्म्येत्यर्थः । श्रौ- तीमुदाहृत्यार्थामुदाहरति-एवमिति। इह भूवलये नायिकानां नयनानि खज्जरीटानाम- नेकप्रकारमङ्गसंबन्धिमोटनसंबन्धिरचनाप्रकारं वहन्तु परंतु अस्याः सुदृशो नायिकायाः समीचीनशोभं मुखमनियतशोभेन कमलेन कथं सदृशमित्यर्थः । 'भङ्गीम्' इत्युचितः पाठ इति केचित्। आर्थीति। इवादेरभावादिति भावः । शाश्वतेति । आननवि- शेषणमिदम्। सा च आर्थी च। एवमप्रेऽपि। आर्थीमुक्त्वा आक्षिप्तामाह-कतीति। इदं सवर्वासविशेषणम्। गीर्वाणधुनी देवनदी। गञ्ञातीरस्थितिविशेषणमाह-नित्येति। श्रुत्यर्थेति । श्रुत्यर्थयोयौं मार्गों तदुल्लद्विनीत्यर्थः । अत एवैवोक्तिरये (!)यथा- संख्येनात्र पूर्वयोरन्वयः । निःसन्गैर्योगिभिः। संपातेति। खर्गाद्भंशेत्यर्थः । सा च
Page 364
रसगञ्ञाधरः । ३४९
तीयचरणनिर्माणे वा एकतरानुपादानम्। सा च। 'सर्वानर्वाचीनान्निर्वा- स्य मनोरथाननन्यजुषाम्' इति पूर्वार्धे तदनुपादानमिति। 'क्रूरसत्त्वाकुलो दोषाकरभूस्तोयधिर्यथा। न तथा त्वं यतो भूप स्थिरधीरसि निर्मलः ॥' अत्रोपमा श्रौती। श्लेषस्तु स्फुट एव । 'राजन्प्रचण्ड मार्तण्डमण्डलोद्दण्डशासन। कथमकूरसत्त्वस्त्वं पयोधिरिव गीयसे ॥' इति, 'कथं वार्धिरिवासि त्वं यतः स विषभागयम्' इति वाकृते एकतरानु- पादानम् । 'महेन्द्रुतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयामः । भवान्सहस्त्रैः समुपास्यमानः कथं समानस्त्रिदशाधिपेन ।' अत्रार्थी। त्रिर्दश त्रिदशास्त्रिंशत् । तेषामधिपः । 'संख्ययाव्ययास- न्नादूराधिकसंख्या: संख्येये' इति बहुव्रीहौ, 'बहुत्रीहौ संख्येये- इति डचि च तत्पुरुषः । वृत्तौ गतार्थत्वात्सुचो न प्रयोगः । त्रयो वा दश वा इति बहुव्रीहिर्वा। 'भवान्सदा रक्षितगोत्रपक्षः समानकक्षः कथमस्य युक्तः' इति, 'कथं निरस्ताखिलगोत्रपक्षः समानकक्षस्तव युज्यते सः' इति वा कृते एकतरानुपादानम्। आक्षिप्ता च अर्वाचीनान् ऐहिकान्। अनन्यजुषां स्वान्यासेवकानाम् । पूर्वार्धे कृते इति शेषः। तद्नुपेति। उभयानुपादानमित्यर्थः । आक्षिप्ता चेत्यपि बोध्यम्। इत रेतद्ेदसमाप्तौ। सश्लेषमुदाहरति-क्रूरेति। सत्त्वानि जलजन्तवः । दोषाकरश्वन्द्रः। हे भूप, तवं तथादोषस्थानं क्रूरप्राणिव्याप्तश्च न यत इत्यादयर्थः । 'अन्तः सत्त्वा' इति पाठ: क्वचित् । तत्रान्तः अभ्यन्तरे सत्त्वैर्यादोभिराकुलः । अन्यत्र सत्त्वगुणः । तेनाकु- लक्षेत्यर्थः । श्रौती। तादृशयथाशव्दसत्त्वात्। प्रचण्डसूर्यमण्डलवदप्रतिहताजः। यतः सोडयं वाधिर्विषभागित्यर्थः । यद्वा यतोऽयं सविषं क्रूरत्वं भजति तदेत्यर्थः । एकत- रेति। उपमानेतीत्यादि तु प्राग्वत्। आद्युपमाक () सश्लेषमुदाहरति-महेन्द्रेति। परमैश्वर्यवत्तुल्यमित्यर्थः । सहस्ैर्जनैः । त्रिदशति। इन्द्रेणेत्यर्थः । आर्थी तुल्यशब्द- प्रयोगात्। त्रिदशा देवाः । श्लेषेण द्वितीयार्थमाह-त्रिरिति। तत्पुरुष इति। तेषामधिप इत्युक्त्तरूप इति भावः । सुजर्थान्तर्भावेण बहुव्रीह्यभ्वीकारादाह्-वृत्तावि- ति। तदनन्तर्भावजलाघवादाह-त्रयो वा दश वेति । प्रक्रिया पूर्ववत्। अग्रे तत्पुरुषोऽपि प्राग्वत्। आद्ये गोन्नपक्षः स्ववंशपक्षः । द्वितीये गोन्नपक्षाः पर्वतपक्षाः ।
Page 365
३५० काव्यमाला।
इदं तु वोध्यम्-इहोभयानुपादानभेदत्रयं दुरुपपादम्। वैधर्म्यानुपा- दाने हि किमाश्रयः श्रेषः स्यात्। न च यत्र द्विजसुरालयमातरिश्वा- दिशब्दवेद्येषूपमानोपमेयेषु स्वशब्दोपात्त एव क्लेषो व्यतिरेकोत्थापकस्त- त्रैव तदुदाहरणं सूपपादमिति वाच्यम् । तत्र स्वशब्दवेद्यस्यैव वैधर्म्यस्य संभवात्। इत्थं च चतुर्विशतिर्भेदा इति प्राचामुक्तिर्विपुलोदाहरणाभिज्ञै- र्यथाकथंचिदुपपादनीया। कि चोपमाप्रभेदाः सर्व एवात्र संभवन्तीत्यलं चतुर्विशतिभेदगणनया । नन्वस्यालंकारस्य वैधर्म्यमूलस्योपमाप्रतिकूल- त्वमेवोचितम्, न तूपमागर्भत्वम् । तस्याः साधर्म्यमूलकत्वात्। अस्य च तन्निषेधरूपेणैव प्रवृत्तेः । न चेष्टापत्तिः । सिद्धान्तभङ्गप्रसङ्गात्। सत्यम्। यद्गुणपुरस्कारेण यस्य यत्सादृश्यनिषेध उत्कर्षपर्यवसायी तस्य तद्गुण- पुरस्कारेण तत्सादृश्यस्याप्रतिष्ठानेऽपि गुणान्तरेण सादृश्यप्रत्ययस्य दु- र्वारत्वात्। यदि च तत्सादृश्यसामान्यनिषेधो विवक्षितः स्यात् गुण- विशेषपुरस्कारोऽनर्थकः स्यात्। धनेनायमस्मादधिक इत्युक्ते विद्यया रूपेण कुलेन च सम इति सर्वजनीनप्रत्ययात्। एवं च प्रतीयमानमपि सादृश्यं गुणान्तरकृतनिषेधोत्थापितेनोत्कर्षेण हृतप्रभमिव बन्दीकृतमिव न चमत्कारविशेषमाधातुं प्रभवतीति प्राचामाशयः ।
प्राश्च इत्यनेन सूचितामरुचिमाह-इदं तु बोध्यमिति। इह प्रागुक्तमेदानां मध्ये। अनुपादानभेदेति। अनुपादानरूपभेदत्रय मित्यर्थः । तन्निषेधेति। साधर्म्यनिषेधे- त्यर्थः । गुणान्तरेण सादृश्यप्रत्ययस्य दुर्वारत्ादिति। अन्रेदं चिन्त्यम्-'कथमिन्दु- रिवाननं लदीयं' इति पद्ये कलङकवत्त्वेन तद्राहित्येन वा सादृश्यं न प्रसिद्धमुपपत्तिवि- षयो वा। यस्य निषेधे कथंशब्देन प्रतिपादिते गुणान्तरसादृश्यं प्रतीतिपथमवतरेत्। किं त्वन्यधर्मेण प्रसिद्धसादृश्यस्यैवेदृशाधिक्यन्यूनतप्रतिपादनद्वाराभावः प्रतिपाद्यते । अपकर्षो वा। स चाविशेषात्सर्वधर्मप्रयुक्तस्यैवेति गुणान्तरेण सादृश्यप्रत्यय इति रिकं वच: । 'कथं तुलयामः कलयापि पङ्कजम्' इत्यादौ सर्वथैव सादृश्यनिषेधप्रतीतेश्व। तस्माद्ययोरेतादृशन्यूनत्ाधिक्यवर्णनाभावे सादृश्यं पर्यवस्यतीत्येतावतैवोपमागर्भत- व्यवहारः सोऽपि 'कुमुदादतिरिच्यते मुखं' इत्यादौ व्यतिरेकस्यालंकारत्वाभावाय। किं च व्यतिरेके गुणान्तरे कथिते गुणान्तरसादृश्यमपि चमत्कारि। यथा देवदत्तेन सदशो यज्ञदत्तः । धनमस्याधिकमित्यादौ । तत्र विद्यादिकृतसादृश्यस्यापि चमत्कारि- लातू। उत्कटविद्यत्वेन देवदत्तस्य प्रसिद्धलवात् इति बोध्यम्। गुणान्तरकृतनि-
Page 366
रसगङ्गाघरः । ३५१
अत्र चालंकारे कस्यचिच्छान्दसादृश्यनिषेधाक्षिप्तावुपमे योत्कर्षोपमाना-
प्राचीनरीत्या सभेद उदाहृतः । द्वितीयतृतीयावपि प्रायशस्तावद्भेदावेव।
'निशाकरादालि कलङ्कपक्किलाद्गुणाधिकं निर्मलमाननं ते। अनल्पमाधुर्यकिरोऽधरादिमा गिरोऽघरा गुप्तरसाः कवीनाम् ।' अत्र पूर्वार्धे उपमेयोत्कर्षः शाब्दः । उपमानापकर्षसादृश्याभावावा- क्षिप्तौ। द्वितीयार्घे उपमानापकर्षः शाव्दः । उपमेयोत्कर्षसादृश्याभावा- वाक्षिप्तौ। एवं क्वचिद्वयोस्त्रयाणां वा शाब्दत्वं संभवदपि नातीव हृद्यमिति नोदाहृतम्। क्वचिच्च त्रयमप्याक्षिप्तमेव। यथा- 'अपारे किल संसारे विधिनैकोऽर्जुनः कृतः । कीर्त्या निर्मलया भूप त्वया सर्वेडर्जुना: कृताः ॥' 'अशीतलोग्रश्चण्डांशुरनुग्रशिशिरः शशी। उग्रशीतस्त्वमेकोऽसि राजन्कोपप्रसादयोः ॥' यथा वा- 'स तु वर्षति वारि वारिदस्त्वमुदाराशय रत्नवर्षणः । स कुहूरजनीमलीमसस्त्वमिहान्तर्वहिरेव निर्मलः ॥' अत्रोपमानतद्विशेषणोपादानसामर्थ्यादाक्षिप्त एव व्यतिरेकः, न तु
पेधोत्थापीति। गुणान्तरकृतसादृश्यनिषेधोत्थापीत्यर्थः । अत्र चालंकारे इति। व्यतिरेकालंकार इत्यर्थः । तादृशेन शाब्देन। तदभावौ सादृश्याभावौ। तथा चमत्कृ- तिजनकौ। तत्र तेषां मध्ये। तावद्गेदावेव चतुर्विशतिभेदावेव। केषांचिदसंभवादुक्ततं प्रायश इति। तत्र तयोर्विषये। आलीति संबोधनम् । नायिकां प्रति वयस्योकिः । गुप्तरसा: कवीनामिमा गिरस्ते बहुमाधुर्यवर्षकादधरादघरा अपकृष्टा इत्यर्थः । शाब्द इति। गुणाधिकमित्युक्तेरिति भावः । शाव्द इति । अधरा इत्युक्तेरिति भावः । एवं उक्तप्रकारेण। त्रयमपि उपमेयोत्कर्षोपमानापकर्षसादृश्याभावरूपम्। अर्जुनाः श्रेताः। उग्रशीत इति। यथासंख्यमन्वयः। उदाराशयेति संबोधनम्। कुहूरजनी अमारात्रिः । एवव्यावर्त्यमाह-न त्विति। व्यज्ञय इति तु कदापि न भ्रमितव्यमि-
Page 367
३५२ काव्यमाला। व्यन्नय इति कदापि भ्रमितव्यम्। सत्यनुपपत्तिलेशे व्यञ्जनाया अप्ररो- हात्। इह च राजविशेषणस्य यथाकथंचित्स्तुत्यर्थत्वेऽप्युपमानतद्विशेष- णोपादानस्य नृपोत्कर्षमन्तरेणानुपपत्तेर्जागरूकत्वात् । यत्र तूंपमानतद्विशे- षणोपादानमन्तरेणैवोपमेयविशेषणैः 'सुन्दरो देवदचः' इत्यादाविव वस्तु- स्थितिप्रकाशनेन कृतार्थैरप्याकृतविशेषेण स्वविलक्षणविशेषणविशिष्टधर्म्य- न्तरापेक्षया वर्ण्यस्योत्कर्षः प्रतीयते स व्यञ्जनाविषयः । यथा- 'न मनागपि राहुरोषशङ्का न कलङ्गानुगमो न पाण्डुभावः । उपचीयत एव कापि शोभा परितो भामिनि ते मुखस्य नित्यम् ।' अयं व्यतिरेकध्वनिरर्थशक्तिमूलः । यत्त्वलंकारसर्वस्वकार उपमानादुपमेयस्य न्यूनत्वेऽपि व्यतिरेकमाह। वैलक्षण्यमात्रस्यैव व्यतिरेकत्वात्। उदाजहार च- 'क्षीण: क्षीणोऽपि शशी भूयो भूयोडभिवर्घते सत्यम्। विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु।।' यच्च तद्याख्याता विमर्शिनीकारः सपूर्वपक्षसिद्धान्तं व्याचर्यौ तथाहि-'नन्वत्रोपमानादुपमेयस्य न्यूनत्वं व्यतिरेक इति न युक्तम् । तस्य हि वास्तवत्वेनाहृद्यत्वात् । यौवनस्य चास्थिरत्वे प्रतिपाद्ये चन्द्रा- पेक्षयाधिकगुणत्वमेव विवक्षितम्। यदेतच्चन्द्रवद्यातं सन्न पुनरायातीति यतोऽत्र चन्द्रवद्गतं सद्यौवनं यदि पुनरागच्छेत्तत्प्रियं प्रति चिरमीर्ष्याद्य- नुबन्धो युज्येत। इदं पुनर्हतयौवनं यातं सत्पुनर्नागच्छतीतीर्ष्याद्यन्तरा- यपरिहारेण निरन्तरतयैव प्रियेण सह जनुः सफलयितव्यम् । घिगी- ष्याम्। त्यज प्रियं प्रति मन्युम्। कुरु प्रसादम् । इति प्रियवयस्योप- देशे प्रियं प्रति कोपोपशमाय चन्द्रापेक्षया यौवनस्यापुनरागमनं न्यूनगु- त्यर्थः। उपमानतद्विशेषणोपादानस्येति । 'उपमानतद्विशेषणस्य' इति पाठे- डप्ययमेवार्थः । नृपोत्कर्षे तद्वोधनम् । आकूतेति। अभिप्रायेत्यर्थः । स्वेति । उप- मेयविशेषणेत्यर्थः । मात्रपदेन विशिष्यप्रतियोग्यनुयोगिनिवेशव्यवच्छेदः। यदसंगतम्। सिद्धान्तमाह-असदिति। अत इति। तत्तदा युज्येतेति। कालान्तरेऽपि यौवनस्य प्रियावलोकनादिना सफलीकारः स्यादिति भावः । हतेति। दुर्भाग्येत्यर्थः । उक्तहेतोरिति भावः । गुणत्वेन तत्त्वेनैव। गमयितुं यौवनमित्यस्यानुषङ्गः । असांप्रतम-
Page 368
रसगङ्गाघरः । ३५३
णत्वेन विवक्षितमिति न्यूनत्वमपि व्यतिरेकः। रसपोषकतया चास्यापि हृद्यत्वम्' इति तदुभयमप्यसत् । अस्मिन्हि प्रियहितकारिण्या वचने चन्द्रादप्यधिकगुणत्वमेव विवक्षितम्, न न्यूनगुणत्वम्। चन्द्रो हि पुनः- पुनरागमनेन लोके सुलभः । अत एव न तादृशमाहात्म्यशाली। इदं च पुनर्योवनमपुनरागमनेनातिदुर्लभतरत्वादत्युत्कृष्टमिति मानादिभिरन्तरा- यैः शठजनश्लाघनीयैर्विदग्धया भवत्या मुधा गमयितुमसांप्रतमिति ताव- दुपात्तगुणकृतमुत्कृष्टत्वं स्फुटमेव। सकलसुखनिदानत्वाद्यनुपात्तगुणक- तोऽप्युत्कर्षोsत्र वाक्यार्थपरिपोषाय सहृदयहृदयसरणिमवतरति। अन्य- था किमित्यस्य कदर्ययौवनस्य कृते मया मानाद्विरंस्यते यातु नाम यौ- वनमिति प्रतिकूलेनार्थेन प्रकृतार्थस्यापुष्टतापत्तेः । किंच यत्र क्वापि शाब्द उपमेयस्यापकर्षस्तत्रापि स तस्य वाक्यार्थपर्यवसायितयोत्कर्षात्मना परिणमति। यथा- 'द्रोहो निरागसां लोके हीनो हालाहलादपि। अयं हन्ति कुलं सातं भोक्तारं केवलं तु सः ।।' अत्र हीन इत्यपकर्षो दारुणताधिक्यरूपोत्कर्षात्मना परिणमति । एवम् 'इन्दुस्तु परमोत्कृष्टो यः क्षीणो वर्धते मुहुः । 'धिगिदं यौवनं तन्वि क्षीणं न पुनरेति यत् ।।' इत्यादावुपात्तस्यापुनरावर्तित्वस्य तद्धर्मस्य मानप्रतिकूलतया द्वेषेणैव धिक्कारादिकथनम्, न तु वास्तवापकर्षेण। दुर्लभत्वस्य प्रियसमागमोल्लास- कत्वस्य चोत्कर्षकस्य स्फुटत्वात्। यदपि कुवलयानन्दकृतालंकारसर्वखोक्तार्थानुवादकेन न्यूनतायामु- दाहृतम्-
युक्म्। निदानत्वाद्यनुपात्तेति । निदानलादिरूपो योऽनुपात्तो गुणस्तत्कृत इत्यर्थः । अन्यथेति। उपात्तानुपात्तगुणकृतोत्कर्षानङ्गीकार इत्यर्थः । अस्या अपुष्टता- पत्तेरित्यत्रान्वयः । स तस्येति। उपमेयस्योत्कर्ष इत्यर्थः । 'वाक्यार्थपरिपोषकतयो- त्कर्षार्मना' इति पाठः । अयं द्रोहः । स हालाहलः । 'हालाहलोऽस्री' इति कोषा-
Page 369
३५४ काव्यमाला।
"रक्तस्त्वं नवपल्लवैरहमपि क्र्ाध्यैः प्रियाया गुणै- स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि। कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्व तुल्यमशोक केवलमहं धात्रा सशोक: कृतः ॥' अत्र सशोकत्वेनाशोकापेक्षयापकर्षः पर्यवस्यति" इति, तदपि चि- न्त्यम्। रत्याद्यनुकूलतया कुतश्चिदङ्गाद्भ्ृषणापसारणं यथा शोभाविशे- षाय भवति एवं प्रकृते उपमालंकारदूरीकरणमात्रमेव रसानुगुणतया रम- णीयम्, न व्यतिरेकः । अत एवासमालंकारं प्राश्चो न मन्यन्ते । अ- न्यथा तवालंकारान्तरतया तत्स्वीकारापत्तेः । यथा- 'भुवनत्रितयेऽपि मानवैः परिपूर्णे विवुघैश्च दानवैः। न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम् ।।' अत एव ध्वनिकृता सहृदयधुरंघरेण 'सुकविस्तु रसानुसारेण कचिदलं- कारसंयोगं क्वचिदलंकारवियोगं च कुर्यात्' इत्युक्त्वा 'रक्तस्त्वं-' इति पद्यं सादृश्यदूरीकरणे उदाजहे । अत एव च मम्मटभट्टैः 'आघिक्य-
त्पुंस्त्वमपि। तद्धर्मस्य यौवनधर्मस्य। रक्त इति। सीतापहारोत्तरं श्रीरामस्याशोक- तरुं प्रतीयमुक्तिः। रक्तो रक्तवर्णः अनुरक्तश्व। शिलीमुखा वाणा भ्रमराश्च। कान्ता- पादेति। कामिनीपादाघातेनाशोकस्य पुष्पोद्रम इति प्रसिद्धिः। नायके तु पद्माख्य- बन्धाभिप्रायेण। तदुक्तम्-'धृतैकपादा जघने कुर्वत्यन्यपदाहृतिम्। शनैः शनैर्निधु वने पद्मबन्धस्तदा मतः ॥' इति। रत्याद्यनुकलतयेति। अत्रेदं चिन्त्म्-उपमा- नाद्वयुपमेये वर्ण्यमानं वैलक्षण्यमेव गुणाधिक्यकृतं व्यतिरेकः । तच क्वचिदुपमेयोत्कर्ष- पर्यवसायि, क्वचित्तदपकर्षपर्यवसायि, क्वचित्तदनुभयपर्यवसायि । आधिक्यन्यूनत्- शब्दावप्युत्कर्षापकषेपरावेव। तत्रापकर्षपर्यवसायि रक्कस्त्वमित्यत्र। अत्रोपमेये सशोक- त्वादिगम्यचेतनत्वसहृदयत्वादिभिः शोकरहितत्वशोकसहितत्वाभ्यां च तत्तद्रुगाधिक्य- प्रतीतावपि शोकस्य स्वरूपेणापकृष्टत्वाद्विरहिवाक्यत्वाच्च वरमचेतनत्वमेव सम्यक्। न पुनः प्रियावियोगादिजन्यशोकास्पदचैतन्यादीति प्रतीतिपर्यवसानात् विरहानुगुणक- विनिबद्धतात्पर्य विषयकोऽपकरषः पर्यवस्यति। अत एव प्रियावियोगाद्यपि तुत्यमित्यर्थक- मावयोः सर्वे तुल्यमिति वाक्यं चरितार्थम्। एतेन रत्याद्यनुकूलेत्यादि उदाजहे इत्यन्त· मपास्तम्। सशोकत्ववर्णनेऽपि रक्तत्वादिधमैंः सादृश्यस्य विप्रलम्भपरिपोषकतया चम- त्कारिणः सत्त्वेन तदपह्ववस्य कर्तुमशक्यत्वात् । अन्यथा औन्नत्यादिकृतसादृश्यस्यापि
Page 370
रसगङ्गाघरः । ३५५
मात्रं व्यतिरेकः' इत्युक्तम्। निरस्तं च न्यून्त्वं व्यतिरेके इति। तस्मा- दुपमानादुपमेयस्योत्कर्ष एव व्यतिरेकालंकारः, नापकर्ष इति स्थितम्' यदि तु न्यूनत्वमपि व्यतिरेक इत्याग्रहस्तदेदमुदाहार्यम्- 'जगत्रयत्राणघृतव्रतस्य क्षमातलं केवलमेव रक्षन्। कथं समारोहसि हन्त राजन्सहस्रनेत्रस्य तुलां द्विनेत्र: ।।' अत्र धर्मद्वयेनैव न्यूनोऽसि धर्मान्तरेण तु सम इति प्रतीतिकृतवि- च्छित्तिविशेषादलंकारता । एवं च लक्षणेऽपकर्षोऽप्येवंजातीयो देयः । यदपि कुवलयानन्दकृतानुभवपर्यवसायिनो व्यतिरेकस्योदाहरण- मुक्तम्- 'दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकरातो भेद: ॥' तन्न निपुणं निरीक्षितमायुष्मता। तथा हि किमत्रोपमानादुत्कर्षरूपो व्यतिरेकोऽनुभवपर्यवसायी प्रतीत्यनापत्तेः। अलंकारवियोगोदाहरणं तु भुवनत्रितयेऽपीत्यादि वोध्यमिति बोध्यम्। अन्यथा उपमादूरीकरणस्याहृद्यत्वे। एवंजातीयः धर्मान्तरकृतसाम्यसमानाधिकरणः । न तु प्रागुक्ः साधारण इति भावः । दृढतरेति। कृपणस्य दानकथाशून्यस्य। कृ- पाणस्य च खङ्गस्य। आकारतः तद्रूपदीर्घवर्णात् आकृतेश्र केवलं भेदो वैलक्षण्यम्। प्रकारान्तरेण तु साम्यमेव। तदेवाह दृढतरेत्यादि विशेषणत्रयेण। धनव्ययवमुख्येन दृढतरं निबद्धा मुष्टियेन। मुष्टिग्राह्यो भागो यस्येति च। कोषो भाण्डागारः पिधानं च। निषण्णस्योपविष्स्य स्थितस्य च । सहजेन सवभावेन मलिनस्य मलिनवेषस्य। अनु- जज्वलस्येति। यावत्। कृष्णवर्णस्य। अत्रेदं वैलक्षण्यं न न्यूनत्वपर्यवसायि नाप्या- धिक्यपर्यवसायि किं तु स्ववैचित्र्यमात्रविश्रान्तमिति भावः । आयुष्मतेति। अत्रेदं चिन्त्यम्-शेषेऽपि नात्राभेदाध्यवसायः सर्वदोमाधव इतिवत्। किं तु परस्परान्वि- तये दीर्घाक्षरादवयवसंस्थानाच भेद इत्यर्थद्वयमितरान्वयि। किं चाभेदाध्यवसायेऽपि नास्य साधारण्यम्। भेदशव्देन तस्य तिरस्क्रारेणोपमानिष्पादकत्वाभावेन सकलकल- मित्यादिवैलक्षण्यात्। यदपि तस्योपमानवृत्तित्वेनेत्यादि तदपि न। उपमानत्वं हि सादृश्यप्रतियोगित्वम्। तच्च प्रतीपालंकारविधया कृपाणस्यास्त्येव। दीर्घाक्षरत्वरूपगु- णस्याधिक्यस्य तदन्यस्मिन्कृपाणे सत्त्वाच। अकलङ्गमुखसदृशो न सकलङ्कश्रन्द्र इतादौ व्यतिरेकस्यैवमेव निर्वाह्यत्वात्। यदप्यनुभवपर्यवसायिनो व्यतिरेकस्योदाहरणमित्यादि तदपि न। उत्कर्षापकर्षोभयापर्यवसायीत्य र्थकानुभवपर्यवसायीति तद्रन्थपाठात्। अनु- भवपर्यवसायित्वेन चैतदेवोच्यते यत्प्रकृतानुगुणोत्कर्षापकर्पपर्यवसायित्वाभावेन विद्यमा-
Page 371
३५६ काव्यमाला। नादयः । उत्कर्षप्रयोजकधर्मस्यात्रानुपस्थितेः । न च श्रलेषेण दीर्घाक्षरस्यो- पस्थितिरस्त्येवेति वाच्यम् । तस्योपमानवृत्तित्वेनोपमेयानुत्कर्षकत्वात् । अर्थान्तरेणाकृतिरूपेण सह श्ल्ेषमूलकाभेदाध्यवसायेन साधारणीकरणाच्च। अन्यथा श्लेषमूलकोपमोच्छेदापत्तेः । 'चन्द्रत्निम्वमिव नगरं सकलक- लम्' इत्यादावपि कलकलसहितत्वकलासाकल्ययोर्वस्तुतो वैधर्म्यरूपत्वात्। न च सकलकलमित्यत्रोपमायामेव कवेर्निर्भरः प्रकृते तु भेदशव्दोक्त्या- वैलक्षण्ये स इति भ्रमितव्यम् । यद्यत्रोपमाविघटनरूपो व्यतिरेको नि- र्भरसहः स्यात् आकारशब्दश्लेपोऽनर्थकः स्यात् कृपणस्य कृपाणस्य भेदो दीर्घाक्षरादेवेत्येव व्रयात् । न ह्यत्र व्यतिरेके श्लेषोऽनुकूलः । प्रत्युत प्रतिकूल एव। उपमायां पुनरनुकूलः । प्रतिकूलस्य दीर्घाक्षररू- पवैधर्म्यस्य साधारणीकरणात् आकृतिभेदस्य चोपमानोपमेययोरपि सत्त्वात्। एवं हि कवेराशयः-यत्कृपणकृपाणयोस्तुल्यतैव । गाढतरे- त्यादिविशेषणसाम्यात्। अक्षरभेदस्त्वाकारभेदत्वादविरुद्ध एवेति सहृदयै- राकलनीयम्। न द्वितीयः । तस्योक्तिमात्रेणाप्यसंगतेः अहृद्यत्वाच्च। तस्मादत्र गग्योपमैव सुप्रतिष्ठितेत्यास्तां कूटकार्षापणोद्धाटनम् । प्रकृतमनुसरामः । अलंकारान्तरोत्थापितोऽप्ययं संभवति। यथा- 'ईश्वरेण समो ब्रह्मा पिता साक्षान्महेश्वरः । पार्वत्या सदशी लक्ष्मीर्माता मातुः समा भुवि॥ पितास्य काष्ठसदृशः स्वयं पावकसंनिभः ॥' अत्र रूपकानन्वयोपमा उपमेयोत्कर्षस्योपमा एवोपमानापकर्षस्य च हेतवः ।
नस्यापि व्यतिरेकस्य नालंकारत्वम् । किं तु वस्तुतामात्रमिति। अलंकारथात्र गम्यो- पमैव कृपणकृपाणयोः श्लेषलव्धाकृतेः दीर्घाक्षराच् भेदेऽपि इतरत्सर्वे तुल्यमेवेति पर्य- वसानात्। तत्कृतचमत्कार स्यैव सत्त्वाच्चेति बोध्यम्। उपमेयानुत्कर्षेति । उपमे- योत्व र्षप्रयोजकत्वाभावादित्यर्थः । अर्थान्तरेणेति। तस्येत्यस्यानुषङ्गः । स निर्भरः । उपमायामिति। अन्रेत्यस्यानुषन्ः । कूटेति। मिथ्याकार्षापणेत्यर्थः । अलंकारा- न्तरोत्थापीति। शेषान्यालंकारोत्थापितोऽपीत्यर्थः । अयं व्यतिरेकः । अन्रेति ।
Page 372
रसगङ्गाघरः । ३५७
अस्य चालंकारस्य सादृश्यगर्भत्वात् सादृश्यस्य च त्रिविधधर्मोत्था- पितत्वात् अन्रापि तत्प्रकारानुगमो बोध्यः । तत्रानुगामिनि धर्मे यथा- 'अरुणमपि विद्रुमद्गुं मृदुलतरं चापि किसलयं बाले। अधरीकरोति नितरां तवाधरो मधुरिमातिशयात् ।' अत्रारुण्यम्रदिमानावनुगामिनौ। विम्बप्रतिबिम्बभावापन्ने यथा-'जलजं ललितविकासं सुन्दरहासं तवाननं हसति'। अत्र हासविकासयोर्बिम्बप्रतिविम्वभावः । लालित्यसौ- न्दर्ययोः शुद्धसामान्यता। श्लेषोपात्तं जडजत्वं साश्रयापकर्षहेतुः । एवं सादृश्यनिषेधालीढो व्यतिरेको निरूपितः । अभेदालीढोऽप्येष संभवति यथा- 'निष्कलङ्क निरातङ्क चतुःषष्टिकलाघर । सदा पूर्ण महीप त्वं चन्द्रोऽसीति मृषा वचः ॥' इति रसगद्गाधरे व्यतिरेकप्रकरणम्।
अथ सहोक्ति :- गुणप्रधानभावावच्छिन्नसहार्थसंबन्धः सहोक्ति: ॥ हृद्यत्वं चालंकारसामान्यलक्षणागतं सकलालंकारसाधारणमेवेत्यसकृदु - क्तम्। तच्चात्र कार्यकारणपौर्वापर्यविपर्ययात्मिकया शेषभित्तिकाभेदाध्य- चसानात्मिकया केवलाभेदाध्यवसानात्मिकया चातिशयोक्त्यानुप्राणने भव- तीति वदन्ति। रूपकोपमाया आद्यार्घे उपमेयस्य पितुरुत्कर्षिका। द्वितीयार्घेऽनन्वयोपमा तादृशमा- तुस्तथा। तृतीयार्धे शुद्धोपमैव तादृश्यस्य पितुः स्वस्य चापकर्षिकेत्यर्थः । उपमा पवेति। एवेन रूपकादिव्यावृत्तिः । त्रिविधेति। अनुगामिविम्बप्रतिबिम्बभावापन्न- शुद्धसामान्यरूपेत्यर्थः । तृतीयस्यापीदमेवोदाहरणमित्याह-लालित्येति। स्वाथ्र- येति। कमलेत्यर्थः । 'अभेदनिषेधालीढोऽपि' इति पाठः । यथेति। चन्द्रस्तु सक- लड्डः (उपरुगि) सातङ्टः षोडशकलः सदा न पूर्ण इति व्यतिरेकः ॥ इति रसगङ्गावर- मर्मप्रकाशे व्यतिरेकप्रकरणम् ।। सहोकि लक्षयति-अथेति। गुणेति। गुणप्रधानभावावच्छिन्नयोरर्थयोः सहार्थ- संबन्ध इत्यर्थः । तथ् हृद्यलं च श्लेषेति। शेषमूलकेत्वर्थः । केवलेति। निगीर्या- रस० ३२
Page 373
३५८ काव्यमाला।
'अनुकूलभावमथवा पराङ्मुखत्वं सहैव नरलोके। अन्योन्यविहितमन्त्रौ विधिदिल्लीवल्लभौ वहतः॥' इत्यत्र प्रसङ्गवारणायावच्छिन्नान्तम्। उदाहरणम्- 'के शैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम्। त्वया रणे निप्करुणेन राजंश्रापस्य जीवा चकृषे जवेन ।।' अत्र चापाकर्षणकार्याणां केशाकर्षणादीनां पौर्वापर्यविपर्ययेणानुप्रा- णितः सहभावः, निष्करुणत्वेन च पौर्वापर्यविपर्ययः । यथा वा- 'भाग्येन सह रिपूणामुत्तिष्ठसि विष्टरात्कुधाविष्टः । सहसैव तपसि तेषु क्षितिशासन मृत्युना साकम् ।' पूर्वे तु कर्मणः सहोक्तिः, इह कर्तुरिति भेदः । 'त्वयि कुपिते रिपुमण्डलखण्डनपाण्डित्यसंपदुद्दण्डे। गिरिगहनेऽरिवधूनां दिवसैः सह लोचनानि वर्षन्ति ॥' अत्र वर्षणवर्षवदाचरणयोः श्ेषेणाभेदाध्यवसितिः । यथा वा- 'बहु मन्यामहे राजन्न वयं भवतः कृतिम्। विपद्धिः सह दीयन्ते संपदो भवता यतः ॥' पूर्वा कर्तृसहोक्तिः, इयं तु कर्मसहोक्तिर्व्याजस्तुतिसंवलिता। 'पद्मपत्रैर्नृणां नेत्रैः सह लोकत्रयश्रिया। उन्मीलन्तो निमीलन्तो जयन्ति सवितुः कराः ।'
ध्यवसानरूपयेत्यर्थः । अतिशयोकला तत्सहकारेण। अन्वयानुयोगिना इति शेषः । अ- नुप्राणने पोषणे। अन्योन्येति। अन्योन्यं विहितो मन्त्रो विचारो याभ्यां तौ। अदृष्टदि- हीशावित्यर्थः । अत्र तादृशार्थसंबन्धसत्त्वेऽपि तयोः समप्राधान्येन गुणप्रधानभावा- भाव इति भावः । प्रतिभूपतीनामित्यस्य त्रिषु संबन्धः । जीवा प्रत्यश्वा। ननु विपर्यय एव कथमत आह-निष्केति । 'क्रुधाविष्टः' इति पाठः । 'क्रोधाविष्टः' इत्यपपाठः । तेषु रिपुषु। क्षितिशासनेति। द्वितीयभेदोदाहरणमाह-त्वयीति । कृतिक्रियां (?)। अत्र शत्रूणां विपन्मित्राणां संपदिति बोध्यम्। तृतीयभेदोदाहरणमाह-पद्मेति।
Page 374
३५९
अत्रोन्मीलननिमीलनयोः पद्मपत्राद्याश्रयभेदेन भिन्नयोरपि प्रकटत्वाप्र-
अत एव न श्लेषः । तस्य प्रतिपाद्यतावच्छेदकभेद एव खवीकारात्। एषूदाहरणेषु सहयोगतृतीयाप्रयुक्तो गुणप्रधानभावः। प्राधान्येन क्रिया- न्वये तु यथायथं तुल्ययोगिता दीपकं वा भवति। सहादिशब्दप्रयोगा- भावेऽप्येषा संभवति। 'वृद्धो यूना-' इति निर्देशेन तृतीयायाः साम्रा- ज्यात्। परं त्विवादिशब्दरहितोत्प्रेक्षादिवद्गम्या। अप्रधानभावस्तु शाब्द एव। ननु कथमप्रधानभावः शाब्द इत्युच्यते। यावता आर्थः क्रिया- द्यन्वयितारूपः स स्यात् पदार्थान्तररूपो वा। उभयथाप्यस्य वाचकश- ब्दाभावादशाव्दत्वमेवेति चेत् न। अस्ति तावत्सखण्डमखण्डं वा प्रधा- नत्वम्। यद्वशात् अयमस्मिन्नगरे प्रधानं मुख्य इत्यादयो व्यवहारा आ पामरमुल्लसन्ति। तदभावरूपे चाप्रधानत्वे 'सहयुक्तेऽप्रधाने' इति शा- स्त्रेण तृतीयायाः शक्तर्बोधनात्तस्य कथमशाब्दत्वम्। न च सहार्थेन युक्ते वस्तुतोऽप्रधाने तृतीयेति तस्यार्थः न त्वप्रधानेऽर्थे वाच्ये इति । तथा च नोक्तार्थसिद्धिरिति वाच्यम्। एवं चाप्रधानग्रहणवैयर्थ्यापत्तेः । 'पुत्रेण सहागतः पिता' इत्यादौ पित्रादिभ्योऽन्तरङ्गत्वात्प्रथमोत्पत्तेरेवौ-
करा: किरणाः । प्रकटेति। उन्मीलनपदार्थप्रकटत्वादिरूपैकोपाधिवैशिष्ट्येनाभिन्नी- कृतयोरित्यर्थः । आदिना निमीलनपदार्थाप्रकटत्वपरिप्रहः। अत एवेत्यस्यार्थमाह- तस्येति। शेषस्येत्यर्थः । एवं च निगीर्याध्यवसानरूपातिशयोक्तेरयं विषयत इति भावः। प्राधान्येनेति। द्योरित्यादिः। यथायथमिति । प्रकृतत्वमात्रादौ प्रकृ- ताप्रकृतत्वे वेत्यर्थः । एषा सहोकिः। निर्देशेति। अर्थयोगे तृतीया न तु शब्दयोगे इत्यनेन ज्ञापनादिति भावः । गम्येति। सहोकतिरिति शेषः। शाब्द एवेति। तत्प्र- योगाभावेऽपीति भावः । यावता यस्मात् । सः अप्रधानभावः। पदार्थान्तरेति। अ- खण्डेत्यर्थः । चेन्नेति। तथानङ्गीकारादिति शेषः। तमेवाह-अस्तीत्यादिना। सख्र- ण्डमिति। विशेष्यताख्यविषयतया प्रतीयमानतरूपस्येति तस्येत्यर्थः । अप्रधानस्येति तदर्थः । शाब्दक्रियान्वयत्रूपं वेत्यर्थः । तदभावेऽपि तत्प्रतीतेराह-अखण्डं वेति। अनुभवबलादेव वैपरीत्यं नेति भावः । तदाह-यद्वशादिति। 'अप्रधानत्वे सह्युक्के' इति पाठः । 'अप्रधानत्वेऽप्राधान्यत्वेन सह' इत्यपपाठः । वक्ष्यमाणग्रन्थविरोधात्। नन्वेवमपि प्रथमाया अविषये दोष एव। अत आह-पुत्रेणेति। कारकेति। पध्या
Page 375
३६० काव्यमाला। चित्यात्। 'पुत्रेण सह पितुरागमनम्' इत्यादौ कारकविभक्तेः प्राबत्याच्च। अन्यथा 'षष्ठी शेषे' इत्यत्रापि विशेषणग्रहणापत्तेः । तस्माद्यथा 'हेतौ तृतीया' इत्यादिशास्त्रं हेतुशक्तिग्राहकमेवं 'सहयुक्तेऽप्रधाने' इत्यप्रधान- शक्तिग्राहकम्। यथैव तत्र प्रकृत्यर्थस्याभेदेन विभक्त्यर्थेऽन्वयस्तथे- हापि शक्यो वक्तुम्। धर्मिशक्तावपि कर्मत्वादीनामिवाप्राधान्यस्यापि शाब्दत्वमव्याहृतमेव । पष्ठीस्थले तु विशेषणशब्दाभावान्नैवमिति स्फुट- मेव वैलक्षण्यम्। एतेन 'अप्रधानग्रहणं शक्यमकर्तुम्' इति वदन्तो मनो- रमाकारा: परास्ताः । उक्तप्रकारेण सार्थक्यसिद्धौ मुनिवचनस्य वैयर्थ्य- कल्पनाया अन्याय्यत्वात् । 'न च पुत्रेण सहागतः पिता' इत्यादौ पुत्राभिन्नाप्रधानसहित इति बोधस्याप्रामाणिकत्वान्नोक्तार्थसिद्धिरिति वाच्यम्। 'दण्डेन घटः' इत्यादौ दण्डजन्यतावान् घट इति हि सर्वजनी- ने बोधे 'हैतौ तृतीया' इति मुनिवचनावलम्बेन दण्डाभिन्नहेतुको घटः इति बोधं वदता भवतैवास्याः सरणेर्दर्शितत्वात् । 'भावप्रधानमाख्यातं' इत्याद्यनेकैर्मुनिवचनैस्तत्र तत्र त्वत्कृतबोघवैपरीत्यस्यानुपपत्तेश्रेति कृतम- प्रसक्त विचारेण। प्रकृतत्वाप्रकृतत्वे प्रायेणोपमेयतोपमानतयोर्निर्णायके इत्युक्तत्वादिह न ताभ्यां तयोरनिर्णयः । प्रकृतयोरपि साहित्यसंभवात् । किं तु प्राधा- न्याप्राधान्याभ्यामिति । हृद्यत्वं चास्या अतिशयोक्तिकृतमित्युक्तम् ।
इत्यर्थः । नन्वेवमप्युक्त्ार्थतात्पर्याग्राहकत्वेन तदावश्यकमत आह-अन्यथेति। एव- मपि तदङ्ीकारे। आपत्तेरिति। विशेष्ये षष्ठीवारणतात्पर्यग्राहकत्वेनेति भावः। उपसंहरति-तस्मादिति। तन्र हेतुतृतीयायाम्। नन्वप्रधाने इत्युक्ेः समप्रधानत्वे शक्तिरिति धर्मिणः शब्दतं न तस्येति प्रागुक्त विरुष्येत अत आह-षष्ठीति। एते- नेत्यस्यार्थमाह-उक्ेति। कृतमिति। अन्रेदं सर्वे चिन्त्यम्। अप्रधानग्रहणप्रत्याख्या- नपरभाष्य विरोधापत्तेः । अप्रधानभृत्यैः सह गतो राजेत्यत्र तृतीयानापत्तेश्व। राज्ञा सह सेना गच्छतीत्यादौ तृतीयापत्तेश्व। अन्तरङ्गत्वस्य दुर्वचत्वेन तथोक्केरसांगत्याच्। बो- धस्यान्यथा इष्यमाणताच्च। सहोक्तिलक्षणं च यत्रैकस्य शाब्दः क्रियान्वयोऽपरस्य सहार्थबलादार्थः सा सहोक्तिरिति। काव्यप्रकाशकृतामेवमेवोकिः। स्पष्ट चेदं सर्वे मञ्ू- षायाम्। साविति शेषः (?)। अस्याः सहोक्ेः । सा अतिशयोकिः। अतिशयोक्ते-
Page 376
रसगङ्गाधरः । ३६१
यत्र तु सा नास्ति तत्र 'पुत्रेण सहागतः पिता' इत्यादौ न सहोक्तिरलं- कारः । अत्र विचार्यते-'केशैर्वधूनां' इत्यादौ पौर्वापर्यविपर्ययानुप्राणिता सहोक्तिरलंकार इति न युक्तम्। अतिशयोक्तेरेवात्र चमत्कृत्याधायकत्वेन सहोक्तेर्नाममात्रत्वात्। 'तव कोपोऽरिनाशश्र जायते युगपन्नृप' इत्यस्मा- दतिशयोक्त्यलंकारात् 'तव कोपोऽरिनाशेन सहैव नृप जायते' इत्यत्र गुणभावमात्रकृतवैलक्षण्येऽपि विच्छित्तेरविशेषात्तस्यैव चालंकारविभाज- कत्वात्। न च सादृश्यानुप्राणितस्य रूपकादेरप्यपृथग्भावापत्तिः । 'नि- शाकरसमानोऽयमयं साक्षान्निशाकरः इत्यादौ विच्छित्तिवैलक्षण्यस्य जागरूकत्वात् । अन्यथा तत्प्रयुक्तस्य व्यतिरेकस्यानुत्थानापत्तेः । अपि च सादृश्यप्रयुक्तरूपकादिषु सादृश्यस्य गुणत्वाच्चमत्कृतिविश्रान्तिधा- मभ्यो रूपकादिभ्यो यथा न पृथग्व्यपदेश्यत्वं तथा सहभावोक्त्याविर्भू- तायाः कार्यकारणपौर्वापर्यविपर्ययात्मिकाया अतिशयोक्तेः सकाशादस्याः सहोक्तेरपृथग्भाव एवोचितः । नन्वेवं सति सहोक्तेतर्निर्विषयत्वं स्यात् । सहोक्त्यन्तरस्याप्यभेदाध्यवसानरूपातिशयेन कवलीकारादिति चेत् न । अभेदाध्यवसानमूलायां हि सहोक्तावभेदाध्यवसानेन सहोक्तिरुपस्क्रियत इति न गुणेन प्रधानस्य तिरस्कारः । अपि तु प्रधानेन गुणस्येत्युक्तदि- शा सावकाशव सहोक्तिः । गुणप्रधानभावश्च निराग्रहैः सूक्ष्मदृशावधानी- यः । कि च परस्परभेदाध्यवसानमात्रमतिशय एव। नातिशयोक्तिः । रिति। उक्तरूपेत्यादि । एवमग्रेपि। विच्छित्तेश्वमत्कृतेः । तस्यैव विच्छित्तिविशेष- स्यैव। अपृथगिति। उपमात इत्यादिः । इत्यादाविति। मिथ इति शेपः । अन्य- था तद्वैलक्षण्येऽप्यपृथग्भावे। तत्प्रयुक्तस्य व्यतिरेकस्येति। निशाकरसमानत्वेन वर्णितापेक्षया साक्षान्निशाकरत्वेन वर्णिते भासमानस्य साक्षान्निशाकरत्ववर्णनप्रयुक्तस्य व्यतिरेकस्येत्यर्थः । सहभावोक्त्याविरिति। अनेनास्या गुणत्वं दर्शितम् । अभे- दाध्यवसानेति। इदमुपलक्षणं ेषमूलाभेदाध्यवसानस्यापि। हि यतः उपस्कियते संस्क्रियते। ननु स्यादेवं यदि सहोक्ेः प्राधान्यमतिशयोकेश् गुणतं निश्चितं स्यात्। तदेव तुन । वैपरीत्यस्यापि संभवात्। अत आह-गुणेति। शेषमूलाभेदाध्यवसा- नमूलायामपि सावकाशलमाह-कि चेति। तस्य मिथोऽमेदाध्यवसानस्य। सा तु
Page 377
३६२ काव्यमाला।
तस्य श्लेषादावपि सत्वात्। सा तूपमानेनोपमेयस्य निगरणम्। एवं च 'वर्षन्त्युन्मीलन्तो निमीलन्तः' इत्यादिप्वेकेनापरनिगरणाभावान्नातिशयो- क्तिगन्धोऽपि। अतिशयमात्रं तु प्रायशः साधारणधमाशे बहूनामलंका- राणामुपस्कारकम् । नहि 'शोभते चन्द्रवन्मुखं' इत्यादौ चन्द्रमुखशोभयो- र्वस्तुतो भिन्नयोरभेदाध्यवसानमन्तरेणोपमा समुल्लसति। तस्मात् 'कार्यका- रणपौर्वापर्य विपर्ययमूलः सहोक्तेरेकः प्रकारः' इति सर्वस्वकारादीनामुक्ति- राग्रहमूलैव । अभेदाध्यवसानमूलस्तु प्रकारो भवतु नाम सहोक्तर्विषयः । यदि तु दीपके तुत्ययोगितायां चोपमानोमेययोः प्राधान्येन क्रियादि- रूपधर्मान्वयः । इह तु गुणप्रधानभावेनैवेति विशेषः सन्नपि विच्छित्ति- विशेषानाघायकतया नालंकारान्तरताप्रयोजकः । अपि तु तदवान्तर- भेदताथाः इति विभाव्यते, निरस्यते च प्राचीनमुखदाक्षिण्यं तदा नि- विशतामियमपि कृप्तालंकारेप्वेव। किंचिद्वैलक्षण्यमात्रेणवालंकारभेदे वच- नभक्गीनामानन्त्यादलंकारानन्त्यप्रसङ्गादिति। सत्यं, गुणप्रधानभावालिङ्गि- तस्य सहभावस्यालंकारान्तराद्विच्छित्तिविशेषमनुभवन्तः प्राचीना एव सहोक्तेः पृथगलंकारतायां प्रमाणम्। अन्यथा एवंजातीयोपप्टवेन बहु व्याकुलीस्यात्। नैव प्रमाणीकुर्महे वयं मृषा मुकुलितविलोचनान्प्राचः । निवेश्यतां चेयमलंकारान्तरभवनोदरं वराकी इति तु प्रभुतैव केवला । न सहृदयत्वम्।
अतिशयोकतिस्तु। श्लेषोदाहरणमाह-वर्षन्तीति। केवलभेदाध्यवसानोदाहरण- माह-उन्मीलन्त इति। एकेनति। उपमानेनोपमेयस्येत्यर्थः । गन्धोऽपि लेशो. डपि। नैवमत्रैव किं लन्यन्नापीलाह-अतीति । कवचिदनुगामिन्यभावादाह-प्रा- यश इति । उपसंहरति-तस्मादिति। निर्विषयत्वं परिहरति-अभेदेति । इद- मुपलक्षणं प्राग्वत् । इह तु सहोक्ौ तु। तदवान्तरेति । अलंकारावान्तरेत्यर्थः । निरस्यते त्यज्यते। दाक्षिण्यं संकोचः । इयमपि अवशिष्टा द्विविधापि। किंचिदिति। उक्तरीत्या अन्वयतेत्यर्थः (?) वचनभङ्गीनां वचनरचनानाम् । प्राचीना पवेति। एवं च एतदनुभवबलेनैव गुणप्रधानभावकृतविच्छित्तिविशेषमाश्रित्य सर्वस्वकारादयुक्ः कार्यकारणपौर्वापर्यविपर्ययमूलोपि सहोकेः प्रकार आश्रयणीय इति तत्खण्डनं प्रागुकत चिन्त्यमिति बोध्यम्। अन्यथा तदनुभव प्रामाण्यानङ्गीकारे। व्याकुलीति। प्रागुपपा-
Page 378
रसगङ्गाघरः । ३६३
एवं क्रियायाः साधारणधर्मत्वे इयमुदाहृता। गुणस्य तथात्वे यथा- 'मान्थर्यमाप गमनं सह शैशवेन रक्तं सहैव मनसाधरबिम्बमासीत्। कि चाभवन्मृगकिशोरदृशो नितम्बः सर्वाधिकोगुरुरयं सह मन्मथेन ।I' अत्र यद्यपि क्रियापि गुणेन सह समानघर्मतामनुभवति तथापि त- स्यानान्तरीयकत्वेनासुन्दरत्वाद्गुणस्यैव पर्यवसाने समग्रभरसहिष्णुत्वम् । शोणत्वासक्तत्वाभ्यामधिकभारत्वोपदेशकर्तृत्वाभ्यां च भिन्नयोरप्युपमे- योपमानगतयोर्निरुक्तगुणयोः श्रेषेण पिण्डीकरणात्सहभावोपपत्तिः । एवं श्लेषाभावेऽपि केवलाध्यवसानेन बोध्यम्। यत्रैकमेवोपमेयं विलक्षणसहो- त्तयालम्बनं सा मालासादृश्यान्मालासहोक्तिः। वैलक्षण्यं च सहोक्तेः सवसमानाधिकरणसहोक्त्यन्तरापेक्षया वोध्यम्। 'केशैर्वधूनां' इत्यत्र केशैः सह कोषैः सह प्राणैः सहेत्युपमानभेदेन साहित्यस्यानेकत्वेऽपि कर्षणै- क्यात्सहोक्केरभेदः। सति वा यथाकथंचिद्धेदे न वैलक्षण्यम्। धर्मै- क्यात्। धर्मोपमानोभयकृतवैलक्षण्यस्य चात्र विवक्षणात्। 'उन्मीलन्तो निमीलन्तः' इत्यत्र च धर्मवैलक्षण्येऽप्युन्मीलनधर्मोत्थापितसहोक्तिघट को- पमानानां पद्मपत्रादीनामेव निमीलनधर्मोत्थापितायामपि सहोक्तौ घटक- त्वान्न मालारूपत्वम्। 'भाग्येन सह रिपूणां-' इति तूदाहरणमेव।
दितमिदम्। तथात्वे साधारणधर्मत्वे। मान्थर्ये मन्दत्वम्। क्रियापीति। प्राप््यादिरि- त्यर्थः । एवं च गुणस्य तथात्वोदाहरणत्वोक्तिरयुक्केति भावः। नान्तरीयकत्वेनेति। तां विना वाक्यार्थासमाप्तेरिति भावः । समग्रेति। विच्छित्याधायकत्वेत्यादिः। नन्वे- वमपि मान्थ्योशे तथात्वेऽपि रक्तायंशे धर्मयोर्भेदात्कथं तत्त्वमत आह-शोणत्वेति। अधरे शोणत्वं मनस्यासक्तत्वं नितम्बेऽविकभारत्वं कामे उपदेशकर्तृत्वमिति बोध्यम्। तृतीय भे देडप्येवमेव पिण्डीकरणमित्याह-एवमिति। ननु प्रागुक्तसहोक्त्यपेक्षया न वै- लक्षण्यमत आह-वैलक्षण्यं चेति। तथा च विलक्षणेत्यस्य मिथो भिन्नेत्यर्थः सूचितः नन्वेवं केशैरित्यत्रापीयं भवेदत आह-केशैरिति। ननु धर्मैक्येऽपि तद्भेदेनेयं स्या- देवात आह-सतीति। सत्यपीत्यर्थः । यथाकथंचिदिति । धर्मोपमानान्यतर- रूपेणेत्यर्थः । प्रकृताभिप्रायेणाह-धर्मैक्यादिति । अत्र मालासहोकिलक्षणे ।
तहि किमस्या उदाहरणमत आह-भाग्येनेति। तत्र धर्मोपमानयो्भेदादिवि भावः ।
Page 379
३६४ काव्यमाला।
यथा वा- 'उन्मीलितः सह मदेन वलाद्वलारे- रुत्थापितो बलभृतां सह विस्मयेन । नीलातपत्रमणिदण्डरुचा सहैव पाणौ धृतो गिरिघरेण गिरि: पुनातु ॥' अत्र नीलातपत्रमणिदण्डरुचो गिरिधरणोत्तरकालिकत्वादुच्तरार्धगता पौर्वापर्यविपर्ययानुप्राणितैव सहोक्तिर्निदर्शनानुप्राणिता च पूर्वार्धगते तु प्रकारद्वयेनापि संभवतः । इति रसगज्गाधरे सहोक्तिप्रकरणम्। अथ विनोक्ति :- विनार्थसंवन्ध्येव विनोक्ति: । हृद्यत्वं चानुवर्तते। तच्च विनाकृतस्य वस्तुनो रमणीयत्वारमणीय- त्वाभ्यां भवति । यथा- 'संपदा संपरिष्वक्तो विद्यया चानवद्यया। नरो न शोभते लोके हरिभक्तिरसं विना ।I' यथा वा- 'वदनं विना सुकवितां सदनं साध्वीं विना वनिताम्। राज्यं च विना घनितां न नितान्तं भवति कमनीयम् ।।' रमणीयत्वे यथा- 'पह्कैर्विना सरो भाति सदः खलजनैर्विना। कटुवर्णैर्विना काव्यं मानसं विषयैर्विना ।।'
उन्मूलित: समूलं खण्डितः बलारेरिन्द्रस्य। एवेन लेषादिप्रकारद्वयव्यावृत्तिः । नि- दर्शनति। सदृशवाक्यार्थयोरैक्यारोपादिति भावः । गते तु सहोक्ती इति शेषः । प्रकारद्वयेनेति। श्रेषभिन्नप्रकारद्वयेनेत्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे सहोक्ति- प्रकरणम् ॥ विनोकि लक्षयति-अथेति। 'विनार्थसंबन्ध एव' इति पाठः । तच् हृद्यत्वं च। उद्देशक्र्मवैपरीत्येनारमणीयत्वे तावदुदाहरति-यथेति। सदः सभा। मानसमन्तःकरण-
Page 380
रसगक्गाघरः । ३६५
पूर्वा तु केवला, इयं तु दीपकानुकूला। मिश्रिता यथा- 'रागं विना विराजन्ते मुनयो मणयस्तु न। कौटिल्येन विना भाति नरो न कबरीभरः ।।' अत्र प्रतिवस्तूपमानुकूला। 'त्रासैर्विना विराजन्ते शूराः सन्मणयो यथा। न दानेन विना भान्ति नृपा लोके द्विपा इव ।।' अत्र क्लेषमूलो उपमानुकूला । 'यथा तालं विना रागो यथा मानं विना नृपः । यथा दानं विना हस्ती तथा ज्ञानं विना यतिः ।।' पूर्व क्रियागुणादिसंबन्ध आवश्यकः इह तूपमामाहात्म्यादवगम्यते स इति न तथा। इयं च न केवलं विनाशब्दस्य सत्त्व एव भवति। अपि तु विनाश- ब्दार्थवाचकमात्रस्य। तेन नञ्-निर-वि-अन्तरेण-ऋते-रहित-विकल इत्या- दिप्रयोगे इयमेव। 'निर्गुण: शोभते नैव विपुलाडम्बरोडपि ना। आपातरम्यपुष्पश्रीशोभितः शाल्मलिर्यथा ।।' अलंकारभाष्यकारस्तु 'नित्यसंबन्धानामसंबन्धवचनं विनोक्तिः' इत्याह। तस्य मते तु नैतान्युदाहरणानि। इदं तूदाहरणम्-
म्। पूर्वा अरमणीयत्वोदाहृतत्वावच्छिन्ना। तयोर्नरराजयोर्वर्णनेन तदीयत्वेन सर्वेषां प्रकृ- तत्वात्। इयं रमणीयत्वोदाहता। मिश्रिता यथेति। विनाकृतस्य वस्तुनो रमणीय- त्वारमणीयत्वाभ्यां मिश्रितेत्यर्थः । रागमनुरागं लौहित्यं च। कौटिल्येन वक्रान्त:करणेन वक्तया च। त्रासो भयं दोषश्। दानं वितरणं मदजलं च। द्विपा गजाः। अत एवाह-अत्रेति। इदं पूर्वोदाहरणेऽपि बोध्यम्। दीपकासंसष्टं विषयं प्रदर्शयन्नरमणी- यत्वे उदाहरति-यथेति। न शोभते इति सर्वत्र बोध्यम्। तालः संगीतशास्त्रप्रसिद्धो ध्वनिविशेषः । यतिः संन्यासी । सक्रियादिसंबन्धः । तथेति। नावश्यक इत्यर्थः । अयमेव पूर्वतो विशेष इत्यर्थः । इयं च विनोक्तिश। आदिना अनादिसंग्रहः । निर्गुण इति। बहाडम्बरोऽपि ना पुरुषः निर्गुणः सन्नैव शोभत इत्यर्थः । चेतना वुद्धिः तस्याः
Page 381
२६६ काव्यमाला।
'मृणालमन्दानिलचन्दनानामुशीरशेवालकुशेशयानाम्। वियोगदूरीकृतचेतनाया विनैव शैत्यं भवति प्रतीतिः ।।' अत्र शैत्यस्याविनाभावेऽपि विनाभावो निबद्धः । यथा वा- 'शैत्यं विना न चन्द्रश्रीर्न दीपः प्रभया विना। न सौगन्ध्यं विना भाति मालतीकुसुमोत्करः ।।' अलंकारान्तरसमालिङ्गनाविर्भूतमेवास्या हृद्यत्वम्, न स्वतः। तेनालं- कारान्तरत्वमपि शिथिलमेवेत्यपि वदन्ति। अथास्या ध्वनि :- यथा- 'विशालाभ्यामाभ्यां किमिह नयनाभ्यां फलमसौ न याभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यक्कारः श्रवणयुगलस्य त्रिपथगे यदन्तर्नायातस्तव लहरिलीलाकलकलः॥।' अत्र त्वद्दर्शनं विना नयनयोः, त्वल्लहरिकोलाहलश्रवणं विना श्रव- णयोश्वारमणीयत्वं फलप्रश्नधिक्काराभ्यां व्यज्यते। तस्य च भावध्वन्य- नुग्राहकत्वेऽपि ध्वनिव्यपदेश्यत्वमव्याहतम् । अन्यथानुग्राहकत्वलक्षण- संकरोच्छेदापत्ते: । एवं च- 'निरर्थकं जन्म गतं नलिन्या यया न दष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन॥।' इति कस्यचित्कवेः पद्यं विनोक्तिध्वनिरेव । परंतु परस्परविनोक्ति- वशाद्वैलक्षण्यशालि। इति रसगङ्गाधरे विनोक्तिप्रकरणम्। शैत्यं विनैव तेषां प्रतीतिर्भवतीत्यर्थः । शैत्यस्येति। मृणालादीति सहेति शेषः। एवं रमणीयत्वे उदाहरणं दत्त्वा अरमणीयत्वे उदाहरति-यथेति। आलीढा दृष्टा। न्यक्का- रस्तिरस्कारः । यदन्तरिति। श्रवणयुगलान्तरित्यर्थः । त्वद्दर्शनं भागीरथीदर्शनम् । तस्य च व्यज्यमानारमणीयत्वस्य। भावेति। कविनिष्ठगज्ञाविषय के त्यादिः । अन्यथा अनुग्राहकत्वात्तधपदेशानङ्गीकारे। एवं च तस्य तव्यपदेश्यत्वे च। वैलक्षण्येति। पूर्वोदाहरणापेक्षयेति भावः ॥ इति रसगज्ञाधरमर्मप्रकाशे विनोकिप्रकरणम् ॥
Page 382
रसगङ्गाघरः । २६७
अथ समासोक्ति :- यत्र प्रस्तुतधर्मिको व्यवहारः साधारणविशेषणमात्रोपस्थापि- ताप्रस्तुतधर्मिकव्यवहाराभेदेन भासते सा समासोक्तिः ॥ साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रकृतधर्मिक व्यवहाराभिन्नत्वेन भासमानप्रकृतधर्मिकव्यवहारत्वमिति चैकोक्तिः । शब्दशक्तिमूलध्वनि- वारणाय मात्रेति। तत्र विशेष्यस्यापि क्रिष्टतया प्रकृतेतरधर्म्युपस्थापन- द्वारा तादृशधर्भिकव्यवहारोपस्थापकत्वात्। एवमपि 'आवभ्नास्यलकान्निरस्यसि तमां चोलं रसाकाङ्या- लङ्कायावशतां तनोषि कुरुषे जङ्घाललाटक्षतम्। प्रत्यङ्गं परिमर्दनिर्दयमहो चेतः समालम्बसे वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमत्यद्भुतम् ।' इत्यत्र प्रकृतधर्मिकप्रकृताप्रकृतव्यवहारविषयके णाय प्रस्तुताप्रस्तुतत्वे धर्मिविशेषणतयोपात्ते। व्यवहारविशेषणत्वेन
भिन्नत्वेन स्थित एवात्र प्रकृतो वीरवृत्तान्त इति स्यादेवातिप्रसङ्गः । न चात्र राज्ञो वर्णनस्य प्रस्तुतत्वात्तद्रतयोर्द्वयोरपि वृत्तान्तयोः प्रस्तुतत्वमिति कथमतिप्रसङ्ग इति वाच्यम्। न स्यादतिप्रसङ्गः, यदि वर्णनमात्रं प्रस्तुतं स्यात्। तत्सङ्गामादौ वीरतामात्रवर्णनप्रस्तावे तु स्यादेवातिप्रसङ्गः । 'मलिनेऽपि रागपूर्णी विकसितवदनामनल्पजल्पेडपि। त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥' समासोकि निरूपयति-अथेति। वाक्येनोक्तमर्थ सामस्त्येनाह-साधारणेति। मात्रपददानफलमाह-शव्देति। तत्र शव्दशक्तिमूलध्वनौ। अपिना विशेषणसमुच्चयः। तादृशेति। अप्रकृतेत्यर्थः । अलकाः केशाः, अलका कुबेरपुरी। चोलः,क्ुकः, देशक्ष। रसाका्ठयेति पूर्वान्वयि। रसः शङ्गारः, वीरश्ष। अलं कायस्यावशताम्, लष्ठाया वशतां च। जङ्गाललाटसमाहारक्षतम्, जद्वाल-लाटदेशयोर्नोशं चेत्वर्थः । अहो इत्याश्चर्ये। हे नृपेन्द्र, भवतः परिमर्दनिर्दयं चेतः प्रत्यम्नं प्रत्यवयवं अङ्गमङ्गदेश च समालम्बते। वामा- नां सुन्दरीणाम्, वक्राणां शत्रूणां च । प्रकृतेति। राजेत्यर्थः । तयोः प्रस्तुतत्वाप्रस्तुत- त्वयोः। तत्सङ्गामादी राजसङ्गामादौ। मात्रवर्णनेति। वर्णनमान्नेत्यर्थः । क्वचित्तथैव पाठः । मलिनेSपीत्यादिसप्तम्यन्तानि त्वयीत्वस्य विशेषणानि। उपात्तत्वं विशेष्ये अन्वे-
Page 383
२६८ काव्यमाला।
इत्याद्यप्रस्तुतप्रशंसायामप्रकृतव्यवहारः साक्षादुपात्तत्वाद्विशेष्येणा- प्युपस्थापित एवेति न तत्रातिव्याप्तिः । यदि तु जलक्रीडादौ भ्रमरवृत्तान्त एव प्रस्तुतस्तदा भवत्येवेयं समा- सोक्तिः ।
ति। विशेष्येणापीति। अपिना विशेषणपरिग्रहः। तथा च विशेषणमात्रोपस्थापित त्वाभावान्नातिप्रसङ्ग इति मात्रपदस्यैवं कृत्यमिति भावः । ननु ताह किमिति द्वितीय- मिदं दत्तमत आह-यदि त्विति। समासोक्तावप्रस्तुतवृत्तान्तसमारोप एव चारुता- हेतुरिति प्राश्चः। तेषामयमाशयः-अयमैन्द्री त्यादौ ा ्रिष्ट्ट विशेषण प्रतीतप्रस्तु ताप्रस्तुतव्ृता - न्तयोः श्वेषभित्तिकाभेदाध्यवसायेनाभिन्नयोः प्रस्तुतचन्द्रादिवृत्तिता । तत्र तयोरवृत्तान्तयोः परस्परं विशेष्यविशेषणभावे कामचारेऽपि प्रस्तुतवृत्तान्तो विशेष्यः । तद्वोधकबोष्याप्रसु- तस्तु अभेदेन तद्विशेषणम् । एवं चाप्रस्तुताभिन्नप्रस्तुतस्य चन्द्रेणान्वयः । तत्र यद्यपि प्रस्तुतस्य स्वासाधारणघर्मेण चन्द्रेऽन्वययोग्यतास्ति तथाप्यप्रस्तुताभेदमापन्नस्य न सा- स्तीति तद्रूपावच्छिन्नस्य तस्याप्रकृते धर्मिण्यारोपः। एवं चाप्रस्तुतव्यवहारसमारोप- पदेन प्रस्तुतव्यवहारसमारोपपदेन च प्रस्तुतव्यवहारतादात्म्यापन्नसमारोप उच्यते। न च तत्तादात्म्यापन्नत्वेऽपि विशेष्यतायाः प्रस्तुते एव सत्त्वे नारोपं विनाप्यन्वययोग्य- तेति वाच्यम्। दगव्जेन वीक्षते इत्यादौ विशेष्यस्य स्वरूपेणेतरान्वयायोग्यस्येतरतादा- त्म्यापत्त्या तद्योग्यत्ववत्सतोऽन्वययोग्यस्यापीतरतादात्म्यापत्या तदयोग्यत्वस्यापि सत्त्वात्। न च रूपकवत्समासोक्तावपि प्रस्तुतेऽप्रस्तुतरूपसमारोप एव चारुताहे- तुरस्तु। तद्वाचकपदसमभिव्याहाराभावेन तस्यासंभवात्। नचाक्षिप्तनायकादिना आ- क्षिप्तरूपकं भवतु। 'निरीक्ष्य विद्युन्नयनैः पयोदः' इत्यत्र पयोदे द्रष्टपुरुषरूपकाक्षेपकनि- रीक्षणवदाक्षेपकाभावात्। न च विशेषणसाम्यप्रतीताप्रकृतवृत्तान्त एवाक्षेपकोऽसु । अप्रस्तुतस्य प्रस्तुते विशेषणतया तस्य प्राधान्याभावेनानाक्षेपकत्वात्। एतेनाक्षेपासंभवे- ऽपि परनायिकामुखचुम्बनस्य श्लेषमर्यादया प्रतीतस्य प्रकृतधरमिणि चन्द्रे आरोप्यमा- णस्य जारासावारणधर्मत्वेन प्रकृतधर्मिणि जारत्वव्यअकता सुवचा। न च चन्द्रे जार- त्वारोपमन्तरेणापि जारव्यवहारारोपसिद्धिरनुपपश्यभावान्न जारत्वं गमयेदिति वाच्यम्। व्यज्ञनाया अनुपपत्ति विनापि प्रसरात्। गतोऽस्मर्क इत्वादौ तथैव दर्शनात्। अ- न्यथा अर्थापत्त्या गतार्धत्वेन व्यअनावैयर्थ्य प्रसङ्गादित्यपास्तम्। किं चैवं सति वाच्यार्थ- बोधोत्तरं तद्यङ्ञयप्रतीतिः । सापि न केवलव्यवहारमात्रात। अपि तु तादृशनायका- नायिकासंबन्धविशिष्टव्यवहारज्ञानात्। एवं च वाच्यार्थबोधकालिकचमत्कारबीजगात्र- मत्र निरूप्यते इत्यदोषः । अपि च तादृशव्यञ्ञयस्याधिकचमत्कारकारित्वेन ध्वनिव्यव- हारयोग्यतया नालंकारशरीरघटकता। एवं च समासो के स्ादृश्वन्युपस्कारकतयाधि-
Page 384
रसगङ्काधरः । ३६९
कचमत्कारकारित्वमलंकारत्वं च। न चैवं समासोक्तौ रूपकध्वनिनैव निर्वाहे पृथगलं- कारत्वं न स्यादिति वाच्यम्। वाच्यार्थबोधकालिकचमत्कारस्यापह्रोतुमशक्यत्वेनालं- कारत्वस्य दुरपह्ववतात्। विपरीतनायकत्वारोपव्यअ्जनस्य समासोक्तयन्तर्भाव(बद)तो ध्वानेत्वस्य दुर्वारत्वाच तद्वङ्यस्याधिकचमत्कारकारित्वेन प्रधानलात् । न च श्लिष्टशब्दोपस्थापितयोरत्रत्तान्तयोः परस्परमभेदेनान्वये मानाभावः। सहृदयहृदय स्यैव प्र- माणत्वात् । अत एव 'आगत्य संप्रति वियोगविसंप्रुलाङ्गीम्' इत्यत्रार्थशक्तिमूलो नायकना- यिकावृत्तान्तो वाच्यरविकमलिनीवृत्तान्ताध्यारोपेणैव स्थित इति प्रदीपकृतः। प्राची- नानुभवमपलप्यापि यद्येकत्र द्वयमिति रीत्ा प्रस्तुताप्रस्तुतवृत्तान्तयोविशेष्येणैवान्वयः स्वीकियते एवमपि वाक्यारथबोधकाले प्रस्तुते धर्मिणि नाप्रस्तुतजारत्वारोपप्रत्याशा। तथाहि यद्यप्यनयोर्भिन्नपदोपात्तविशेषणयोरिव विशेष्येणैव साक्षादन्वयात्समप्राधान्यम- स्तीति स्वीक्रियते तथाप्यप्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुतेऽप्रस्तुतरूपसमारोपः । प्रस्तुतेऽप्रस्तुतवृत्तान्तारोपेणैव सिद्धेः। अप्रस्तुतरूपसमारोपेऽपि प्रस्तुतवृत्तान्तान्वयायो ग्यतायास्तदवस्थत्वाच्च। नन्वेवं सति विशेषणसाम्यादप्रस्तुतस्य गभ्यत्वे समासोक्तिरिति प्राचीनलक्षणासंगतिः । अप्रस्तुतधर्मिव्यञ्ञनस्य त्वयानपेक्षणादिति चेत् न। स्वरूपतो.
स्यैव तस्यारोपः अतः शलेषादिमहित्रा विशेषणपदैः स्वरूपतः समर्पितेन चुम्बनादिना ऐन्द्री चन्द्र इत्येतद्रतत्रीलिङ्गपुंलिक्गसहकृतेन तत्संबन्धिनि कामुकादावभिव्यक्त पुनस्तदी- यत्वानुसंधानात्। विशेषणसाम्येन वाच्योपस्कारकस्याप्रस्तुतव्यअ्ञनस्याक्षेपणात्। अप्र- स्तुतस्येत्यस्याप्रस्तुतव्यवहारस्येत्यर्थो वा। एतेन वदनचुम्बनस्य पुत्रादिसाधारण्यात्कथं कामुकाभिव्यअकत्वम्। किं च 'अहर्मुख चुम्बति भानुविम्बम्' इत्यत्रापि नायकाद्यभिव्य- क्त्यापत्तिरित्यपास्तम्। यत्तु चन्द्र ऐन्द्रोपदगतलिग्गाभ्यामभिव्यक्तनायकयोः स्वव्यञ्ज- कपदोपस्थापिताभ्यामभेदेनैवान्वय उचितः समानपदोपात्तत्वफ्रलासत्तेरिति, तन्न। एवं हि वदता व्यवहारावच्छेदकत्वं तयोः स्वीक्रियते न वा आद्ये एकस्यार्थस्योभयत्रान्व- योऽव्युत्पत्तिग्रस्तः। अन्त्ये रसाननुगुणत्वम्। यद्यप्यैन्द्यादौ नायिकात्वाभाने केवलं व्य- वहारावच्छेदकत्वमात्रखवीकारे बाधः। नायिकात्वानालीढकेवलैन्द्रीमुखचुम्बनरूपस्य व्यवहारस्य नायकासंबन्धित्वात्। नहि दिकतादात्म्यं विना नायिकायाः पृथङखं विशे- पयितुं सामर्थ्यमस्तीति तदपि न। मुखशब्दशलेषसामर्थ्येन ऐन्द्रीमुखमित्यस्य समस्तत्वेऽपि ऐनहंशे मोपेण केवलमुखचुम्बनस्योपस्थितेः। तदेतदुक्तं कुवलयानन्दे-लेबादिमहित्रा स्वरूपतः समर्पितन वदनचुम्बनादिनेति। नह्ैन्द्रीपदशब्दार्थेन दिग्रूपेण वदनरूपमुख- पदार्थस्यान्वयो वक्तुं शक्यः सहृदयैः। नन्वेतादृशकुसटष्टिकल्पनापेक्षया विशेषणसाम्य- टितप्रकृतवाक्यार्थे स्वावयवतादात्म्यापन्नतदवयवोऽवतिष्ठते इत्येव कल्पयिंतुं युक्तम्।
नायकाभिन्नश्वन्द्र इति बोध इति चेतू न। एवं हि ऐन्व्ां नायिकाभेदप्रतीतौ मुखचु- रस० ३४
Page 385
३७० काव्यमाला।
तत्र तावत्- 'विबोधयन्करस्पर्शैः पझ्मिनी मुद्रिताननाम् । परिपूर्णानुरागेण प्रातर्जयति भास्करः ॥' इत्यत्र किरणस्पर्शकरणकमुकुलितपदमिनी कर्मकविकासानुकूलव्यापारवदभि- न्नो भास्करो जयतीति वाक्यार्थः शक्त्यैव तावत्प्रतीयते। हस्तस्पर्श- करणकनायिका विशेपकर्मकानुनयानुकूलव्यापारवदभिन्न इत्यादिश्चापरो- म्वनादौ वदनचुम्बनाद्यभेदप्रतीतावपि वदनचुम्बने साक्षान्नायिकार्थसंबन्धाप्रतीत्या रसो- दोधानापत्तेः । न च व्यज्नया तत्प्रतीतिरस्ति एवमस्मिन्पदभेदः तत्संवन्धिनि तत्सं- वन्ध्यभेद इति न्यायेन वा मानतिकी तत्प्रतीतिः तत एव चमत्कार इति वाच्यम्। तद- पेक्षया साक्षाच् मत्कारोपपादकवाच्यार्थबोधव्युत्पादन स्यैवोचित्यात्। ननु व्यजनया अप्र- कृतार्थबोधः । शक्ते: प्रकरणादिना नियत्तरणात् । ततो व्यज्जनमाहात्म्यादेव प्रकृतवा- क्यार्थतादात्म्येनावतिष्टते इति चेत् तर्हिं वैयञ्जनिकोऽप्रकृतार्थबोधो नायिकाद्यविशेषितो विशेषितो वा। नादयः। रसानुगुणत्वात्। अन्त्ये स्वपदोपस्थापिताभ्यां लिद्गाभ्यां नायि- काद्यमेदवोधो व्यर्थोऽसंभवी च। नायिकाविशेषणकव्यवहारबोधनेन कृतार्थत्वात्। अपि रामिन्नश्न्द्र इति बोधकदर्धनमेव स्यात्। तस्माद्यज्जनया शक्ला वा उपस्थिताप्रस्तुत- वृत्तान्तेन व्यक्षनयोपस्थितनायकादिसंबन्धित्वेन गृहीतेनाभेदमापन्नः प्रस्तुततृत्तान्ता- रोपः। प्रकृतविशष्ये नव्यमते शलेषस्थलेऽप्रकृतोपस्थितेः शक्त्यैव व्यवस्थापयिष्यमाण- त्वेन तन्मते शकतैवाप्रकृतार्थोपस्थितिः । प्राचां तु व्यञ्जनयेत्येतावान्वििशेषः । एवं च वाच्यार्थवोधोत्तरं यदि चन्द्रादौ नायकत्वादिप्रतीतिरवि सहृदयानुभवसाक्षिकी तदास्तु इत्युपपादितमेव प्राक्। एतेन 'निर्लक्ष्मीकाभवत्प्राची प्रतीचीं याति भास्करे । प्रिये विपक्षरमणीरक्ते का मुदमख्चति ।' इत्यत्र पूर्वार्धगतायां समासो कौ नायकत्वाप्रतीतावु- त्तराधे प्रियत्वादिना समर्थनायाः सर्वथेवानुपपत्तिरिति परास्तम्। प्रस्तुतप्राचीवृत्तान्ते आरोप्यमाणाप्रस्तुतखण्डितनायिका विशेषवृत्तान्तसमर्थनाय तस्यावश्यकत्वाच्च। एवं च
अयमैन्द्रीत्यादौ शक्तिव्यअनाभ्यां प्राचीप्रारम्भसंबन्धाश्रयश्चन्द्रो जारसंबन्धिसानुरागपर- नायिकामुखचुम्बनाश्रय इति बोधः । अप्रस्तुतवृत्तान्ताभिन्नत्वेनाध्यवसितस्य प्रस्तुतत्ृ- त्तान्तस्य तादात्म्येनाप्रस्तुतारोपविषये प्रस्तुतधर्भिण्यन्वय इति मते तु सानुरागपरनायि- का मुखचुम्बनाभिन्नप्राची प्रारम्भसंयोगजाराभिन्नश्चन्द्र इति बोष इत्यपास्तम्। समासो- किर्गुणीभूतव्यङ्नेति व्यवहारस्तु प्रकृतव्यवहारेऽप्रकृतव्यवहाराभेदस्य व्यज्ञनया प्रतीते- निर्वाध एवेति दिक्। तत्र उदाहरणीयसमासोकतौ। तावतू आदौ। अस्य इत्यत्रेत्यने- नान्वयः । नैयाथिकमतेनाह-किरणेति। तावत्प्रतीयते आदौ प्रतीयते। नायि-
Page 386
रसगङ्गाघरः । ३७१
डर्थ उभयत्रानुषक्तया तयैव शक्त्या शक्त्यन्तरेण व्यक्त्या वा सर्वथैव प्रतीयत इत्यत्र सहृदया एव प्रमाणम्। एवं च द्वाविमौ वाक्यार्थौ स- व्येतरगोविषाणवदत्यन्तासंसृष्टौ यदि स्यातां तदा भगवतो भास्करस्य कामुकत्वं कमलिन्या नायिकात्वं च सकलप्रतीतिसिद्धं विरुद्धं स्यात् । द्विप्रधानत्वेन वाक्यभेदश्चापद्येत। यदि चापरोऽर्थः प्रकृतकर्तर्यारोप्यते तदा कमलिनीविकासकर्ता नायिकानुनयकर्ता च सूर्य इत्येकत्र द्वयमिति विषयताशाली बोधः स्यात्। न तु पूर्वोक्तानुपपत्तिपरिहारः । यदि च श्लेषमूलाभेदाध्यवसानेन कमलिन्यादीनां नायिकात्वादिप्रत्यय उपपादते तथाप्यश्चिष्टपदोपस्थितो भगवान्नायकत्वानाघ्रात एव । पद्मिनीशब्द- स्थाने नलिनीशब्दोपादाने सापि नायिकात्वेन कथं नाम प्रतीतिपथ- मियात्। तस्माद्विशेषणसाम्यमहित्ना प्रतीतोऽप्रकृतवाक्यार्थः सानुगुणं नायिकादिमर्थमाक्षिप्य तेन परिपूर्णविशिष्टशरीरः प्रकृतवाक्यार्थे स्वावय- वतादात्म्यापन्नतदवयवोडभेदेनावतिष्ठते। स च परिणाम इव प्रकृतात्मनैव कार्योपयोगी। सवात्मना च रसादयुपयोगी। अत्र चाप्रकृतार्थस्य पृथक्श- ब्दानुपादानाद्रृपकाद्वाक्यार्थसंबन्धिनो वैलक्षण्यं पदार्थरूपकात्तु स्फुट- मेव। आक्षिप्तार्थघटितत्वाच्च वाक्यार्थश्लेषात्। एवं चात्र शक्त्याक्षेपाभ्यां
काविशेषेति। खण्डितेत्यर्थः । आदिना नायकपरिग्रहः। अनुषक्तया संवद्धया । तयैव पूर्वार्थवोधिकयैव। तस्या नियन्नरणादाह-शक्त्यन्तरेणेति । अस्यापि दुर्व- चलादाह-व्यक्त्या वेति। व्यज्जनयेत्यर्थः। एवं च उभयप्रतीतौ च। वैयाकरणम- तेनाह-द्विप्रधानेति । वाक्यभेदमुद्धरति-यदि चेति। बोधः स्यादिति। तथा च न वाक्यभेद इति भावः। एवमपि प्रथमदोषानुद्धार एवेत्याह-न त्विति। तमप्युद्धरति-यदि चेति। अश्विष्टेति । भास्करेतीत्यर्थः । भगवा-
भाव: । तेनेति। आक्षिप्तनायिकादर्थन। यतः परिपूर्णमत एव विशिषटं शरीरं यस्ये- त्यर्थः । स्वेति। प्रकृतवाक्यार्थेत्यर्थः । एवमग्रेऽपि । तदिति। प्रकृतवाक्यार्थत्यर्थः । सच अप्रकृतवाक्यथ्च। स्वात्मना चेति। चस्त्वर्थे। रूपकाद्गेदकं प्राह-अत्र चेति। समासोक्ती चेत्यर्थः । स्फुटमेवेति। अस्या वाक्यार्थनिष्टत्वादिति भावः । वैलक्षण्यमित्यस्यानुषङ्गः एवमग्रेऽपि। उपसंहरति-पवं चेति। उक्तदोषे चेत्यर्थः । क्कचित् श्लेषाभावेऽपि प्रकारान्तरेण, न विशेषणसाम्यात्तदर्थप्रतीतिस्तत्राक्षेपाभावेनानि-
Page 387
३७२ काव्यमाला।
सर्वार्थनिर्वाह इति भामहोद्भटप्रभृतीनां चिरंतनानामाशयः । 'निशामुखं चुम्बति चन्द्र एपः' इत्यादौ निशाचन्द्रशव्दयोरश्रिष्टत्वान्मुखचुम्बन- मात्रस्य च पुत्रादिसाधारण्येन कथं तावन्नियतनायकाक्षेपकत्वम्, कथं वाक्षिप्तस्यापि नायकादेर्निशाचन्द्रयोरेवाभेदेनान्वयः, न भेदेन चुम्बनादौ। तथात्वे च तयोर्नायकताताटस्थ्ये रसानुद्वोधापत्तेः । तस्मात् 'निशामुखं चुम्बति चन्द्रिकैषा', 'अहर्मुखं चुम्बति चण्डभानुः' इत्यादावप्रतीयमानं नायकत्वम्। प्रकृते टाप्प्रथमाभ्यां प्रतिपादितेन प्रकृत्यर्थगतेन स्त्रीत्वेन पुंस्त्वेन च स्वाधिकरण एवाभिव्यज्यते। एवं च निशाशशिनोर्नायक- त्वसिद्धिः क्रिष्टविशेषणैः । व्यञ्जनव्यापारेणैवाप्रकृतार्थबोधनम् । शक्ते: प्रकरणादिना नियन्त्रणात् । तदित्थं व्यञ्जनमाहात्म्यादेवाप्रकृतवाक्या- र्थतादात्म्येन प्रकृतवाक्यार्थोऽवतिष्ठते। गुणीभूतव्यन्नयभेदश्चायमिति तु रमणीय: पन्थाः । अलंकारसर्वस्वकारस्तु-'विशेषणसाभ्याद्वि प्रतीयमानमप्रस्तुतं प्र- स्तुतावच्छेदकत्वेन प्रतीयते। अवच्छेदकत्वाच्च व्यवहारसमारोपः, न तु रूपसमारोपः। रूपसमारोपे त्ववच्छादितत्वेन प्रकृतरूपरूपित्वाद्र- पकमेव स्यात्' इत्याह। तदेतदुक्तिमात्ररमणीयम्। अपकृतव्यवहारः प्रकृतकर्तरि नायकादिकस्वकर्तृविशेपित आरोप्यते तदविशेषितो वा । नादः। एवं च सति चन्द्रादेरनायकव्यवहाराश्रयत्वेन नायकसाम्यं सि-
वाहो भामहादीनां मते इति सूचयितुमाह-निशेति। कादाचित्कसंभवादाह-नि- यतेति। ननु कादाचित्क एवास्तामत आह-कथं वेति। आक्षिप्तस्याक्षेप केणैवा- न्वयनियमादिति भावः । इष्टापत्ति निराचष्टे-तथात्वे चेति। भेदेन मुखचुम्बना- दावन्वये चेत्यर्थः। तयोः निशाचन्द्रयोः । नायकेति। 'स्त्रीपुंवच्च' इत्येकशेषः । एव- मग्रे सर्वत्र। व्यतिरेकं दर्शयति-निशामुखेति । स्वाधीति । स्त्रीत्वपुंस्ताधिक- रण एवेत्यर्थः । नन्वेवं क्वचिदाक्षेपेण क्वचिध्यज्जनया निर्वाह इति वैरूप्यं स्यादत आह-श्ष्टेति। तैरपीत्यर्थः । एवेनाक्षेपव्यावृत्तिः। ननु शक्लैव कुतो नात आह-शक्तेरिति। शक्त्न्तरं तु दुर्वचमिति भावः। इदं मतमुपसंहरति-तदि- ति। एव: प्राग्वत् । व्यक्षयाप्रकृतवाक्यार्थस्य प्रकृतपरिपोषकत्वादाह-गुणीति। तुर्भामहादिमतवैलक्षण्यसूचकः । स्वेति। अप्रकृतव्यवहारेत्यर्थः । चो हयर्थे। यत इति तदर्थः । व्यवहाराश्रयत्वेनेति । सजातीयव्यवहाराश्रयत्वेनेत्यर्थः । तदाश्रयत्वस्य
Page 388
रसगप्गाघरः । २७३
व्येत। तच्च श्रेषादिमित्तिकाभेदाध्यवसायेन व्यवहाराभेदं प्रतिपिपादयि- षतः कवेरनभिप्रेतमेव। अभिप्रेतं तु नायकत्वम् । तच्च नायकस्य व्यव- हारविशेषणत्वेन सिध्यति । किं च 'निशामुखं चुम्बति चन्द्रः' इत्यत्र चन्द्रे नायकव्यवहारसमारोप एव, न नायकत्वारोपः । एवमेव निशाया- मपि न नायिकात्वारोपः । तुल्यन्यायत्वात् । एवं च मुखचुम्बनमात्रस्य किमारो- पेण । यदि च निशायां स्त्रीलिङ्गव्यङ्गयं नायिकात्वमिति निरीक्ष्यते तदा चन्द्रगतपुंलिङ्गव्यन्गयं नायकत्वमवि निरीक्ष्यताम्। न द्वितीयः । नायकसंबन्धित्वेनाज्ञातस्य मुखचुम्बनमात्रस्याह्द्यत्वात्। 'तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्' इति निदर्शनातो वैलक्षण्यायास्मदुक्तवैधर्म्य- स्यैवास्थेयत्वाच्च। शिष्टमनुपदमेव वक्ष्यामः । यत्तु सर्वस्वकाराज्ञानुवर्तिना कुवलयानन्दकृता सपूर्वपक्षसिद्धान्त- मुक्तम्-"अत्र च विशेषणसाम्यात्सारूप्याद्वा यदप्रस्तुतवृत्तान्तस्य प्रत्यायनं तत्प्रकृते विशेष्ये तत्समारोपार्थम्। सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भगोचरत्वायोगात्। ततश्च समासोक्तावप्रस्तुतव्यवहारसमारोप- श्रारुताहेतुः। न तु रूपक इव प्रस्तुते अप्रस्तुतसमारोपोऽस्ति । 'मुखं चन्द्रः' इत्यत्र मुखे चन्द्रत्वारोपहेतुमुखशब्दसमभिव्याहारवत् 'रक्तश्र- म्वति चन्द्रमाः' इत्यादौ समासोक्त्युदाहरणे चन्द्रादौ जारत्वाद्यारोप-
ब्रह्मणावि दुर्वचत्वादिति भावः । अत एवाह-नायकसाम्यमिति। तच् साम्यं च । विशेषणत्वे सतीति शेषः। एवं सति व्यवहारसमारोपः क्वचिद्यर्थः स्यादिल्याह-किं चेति। व्यवहारसमारोप पवेति। त्या वाच्य इति शेषः। एवव्यावर्त्यमाह-न नायकेति। रूपसमारोपस्य त्वयानङ्गीकारादिति भावः । तथा सति दोषमाह-एवं चेति। व्यवहारमान्नारोने चेत्यर्थः। नायिकेति। नायिकासंबद्धस्येत्यर्थः । नायका- साधारणेति। मुखचुम्यनस्य पुत्रादिसाधारण्यादिति भावः । इमं दोषमुद्धरांत-य- दि चेति। निरीक्ष्येति। तथा च रूपसमारोपो नेति लदुक्तिरसंगतेति भावः । अ- समदुकेति। अत्र चाप्रकृतेतादिनोक्तेत्यथः । अन्र समासोक्तौ च। विशेन्ये चन्द्रादौ। सवंथेव आरोपानारोपान्यतरविधया। कविसंरम्मेकि। खप्रतीत्युद्देश्यकशब्दसंदर्भ- रूपकविव्यापारेत्यथः । फलितमाह-ततश्चेति। अप्रस्तुतेति । अप्रस्तुतसंबन्धि- व्यवहारेत्यथः । अप्रस्तुनेति । अप्रस्तुतरूपेत्यर्थः । तद्वाचकेति। जारवाचकेत्यर्थः ।
Page 389
३७४ काव्यमाला।
हेतोस्तद्वाचकपदसमभिव्याहारस्याभावात्। न चेह 'निरीक्ष्य विद्युन्न- यनैः पयोदो मुखं निशायामभिसारिकायाः' इत्यत्र निरीक्षणानुगुणनय- नोपादानं यथा पयोदस्य द्रष्टपुरुषत्वस्य गमकं तथा किंचिज्जारत्वस्या- स्ति। न वा 'त्वय्यागते किमिति वेपत एष सिन्धुस्त्वं सेतुमन्थकृदतः किमसौ विभेति' इत्यत्र सेतुमन्थकृत्वं विष्णोः कार्य यथा राज्ञो विष्णु- त्वस्य तथा किंचिदस्ति। तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोप- मात्रमिह चारुताहेतुः। यद्यपि विशेषणसमर्पितयोर्द्वयोरप्यर्थयोरविशिष्टं प्राधान्यम्, तथाप्यन्यतराश्रये धर्मिण्यन्यतरारोपस्यावश्यकत्वे श्रुते प्र- कृतव्यवहारधर्मिण्येवाप्रकृतव्यवहारस्यारोप उचितः । तस्य च स्वरू- पतो ज्ञातस्यारोपे चारुत्वाभावात्कामुकाद्यप्रस्तुतधर्मिसंबन्धित्वेनावगम्यमा- नस्य रसानुगुणत्वादारोपः । कामुकादेश्च पदादनुपस्थितस्यापि चुम्वना- दिना व्यञ्जितस्य व्यवहारविशेषणत्वम् । तस्मात् 'अयमैन्द्रीमुखं पश्य रक्तश्चम्वति चन्द्रमाः' इत्यत्र जारसंबन्धितादृशचुम्बनरूपव्यवहाराश्रय- श्चन्द्र इत्येव बोधः" इति। तदेतत्सवमसंगतम् । यत्तावदुच्यते 'मुखं चन्द्रः' इत्यत्र मुखे चन्द्रत्वारोप इति, तन्न। नामार्थयोरभेदेनैवान्वयान्मुखे चन्द्रस्यारोपः, न चन्द्रत्वस्य चन्द्रविशेषणस्य। यदप्युच्यते जारादिप- दसमभिव्याहारस्य हेतोविरहान्न चन्द्रादौ जारत्वारोप इति, तत्र श्रीतारोपे तादृशसमभिव्याहारस्य हेतुत्वम्, न त्वार्थारोपे। अन्यथा रूपकध्वने- रुच्छेदापत्तेः । न च रूपकध्वनावारोप्यमाणासाधारणधर्मोक्तिरारोप्यमा- णतादात्म्यव्यञ्जिका, न चेह तथा किंचिदस्तीति वाच्यम्। इहापि पर- नायिकामुखचुम्बनस्य कपमर्यादया व्यञ्जनमर्यादया वा प्रतीतस्य प्रकृ- एतन शाब्द आरोपो न संभवतीत्युक्तम्। नन्वाक्षिप्तनायिकादिना आक्षिप्तरूपकं भवतत आह-न चेहेति। अस्तीत्यत्रान्वयः । इह रक्त इत्युदाहरणे। जारेत्यस्य गमकमि- त्यस्यानुषङ्गः। एवमग्रेऽपि। विनिगमकमाह-श्रुते इति । तथा च श्रुतप्रस्तुतार्थो- पस्कारकतया विच्छित्तिविशेषशालितमिति भावः । स्वरूपतः अप्रकृतव्यवहारत्वेन। चन्द्र विशेषणस्येति। तादात्म्येन चन्द्रारोपे तादात्म्यस्यापि संबन्धविधया आरो- पविषयत्वाव तस्य चन्द्रत्वानतिरेकात् चन्द्रत्वारोपेत्युक्तम्। न तु प्रकारतया चन्द्रतारो- पः। अन्यत्र विशेषणत्वेनोपस्थितस्यान्यत्र प्रकारतया आरोपायोगादिति तदाशयाचि- न्तमिदम्। भामहादिमतेनाह-श्ेषेति। खमतेनाह-व्यञ्जनेति। इदं सर्व पूर्व-
Page 390
रसगङ्गाधरः । ३७५
तधर्मिणि चन्द्रे आरोप्यमाणस्य जारासाधारणधर्मत्वेन जारत्वव्यञ्जक- ताया: स्फुटत्वात्। एतेन 'विद्युन्नयनैः' इत्यत्र 'त्यं सेतुबन्धनकृत्' इत्यत्र च यथा द्रष्टत्वविष्णुत्वगमकं तथेह नास्तीति निरस्तम्। न च जारत्वस्य चन्द्रादावारोपमन्तरेणापि जारव्यवहारारोपः सिध्यन्ननुपपत्तेरभावान्न जारत्वं गमयेदिति वाच्यम्। गमकं हि द्विविधम्-आक्षेपकं व्यञ्जकं च । तत्राक्षेपकमनुपपद्यमानमेव गमयति। व्यञ्जकं तु नानुपपत्तिमपेक्षते। 'गतोऽस्तमर्कः' इत्यादौ तथैव दर्शनात्। अन्यथा अर्थापतत्या गतार्थत्वेन व्यञ्जनावैयर्थ्यप्रसङ्गात्। किं च त्वयापि हि जारादेरप्रकृतधर्मिणः प्रती- तिरवश्यं वाच्या। आरोप्यमाणव्यवहारविशेषणार्थम् । अन्यथा स्वरू- पतो ह्यप्रकृतव्यवहारारोपे चारुतानापत्तेः। एवं चावश्योपस्थाप्यस्य जा- रादेस्तादृशचुम्बनकर्तरि चन्द्रादावेव तादात्म्येन विशेषणत्वमुचितम्, नतु व्यवहाराभेदेन। चन्द्रस्य जारभिन्नतावगमे परनायिकावदनचुम्बनस्याह- द्यत्वात् । अपि च 'निशामुखं चुम्बति चन्द्र एषः' इत्यत्र स्त्रीलिङ्गपुंलिङ्गाभ्यां मुखचुम्बनरूपार्थसचिवाभ्यां नायिकात्वं नायकत्वं च व्यज्यत इति हि निर्विवादम्। अन्यथा 'निशामुखं चुम्वति चन्द्रिकैषा', 'अहर्मुखं चुम्बति भानुबिम्वम्' इत्यत्रापि नायकप्रतीत्यापतेः । एवं च सामानाधिकरण्येनैव संसर्गेण व्यज्यमानं नायकत्वं निशाशशिनोर्नायकत्वारोप एव पर्यवस्य- ति। अपरित्यक्तस्वरूपयोर्निशाशशिनोर्नायकताख्यधर्मविशिष्टयोः प्रतीते- रिति त्वदुपजीव्यग्रन्थविरोधश्च। अविनाभावाद प्रकृतव्यवहारेणाक्षिप्तेन वर्मिणैव प्रस्तुतो धर्म्यवच्छिद्यत इति तट्टीकाविरोधश्च । किं च चुम्ब- मेव दूषितम्। जारेति। सिध्यन् जारव्यवहारारोप इत्यर्थः । दर्शनादिति। अनुप- पत्ति विनापि नानार्थव्यज्जनदर्शनादित्यर्थः । अन्यथा अनुपपत्तेस्तद्वेतुत्वे। अन्यथा तद- प्रतीत्या तद्विशेषणत्वानङ्गीकारे। एवं च तदर्थ तत्प्रतीतौ च सचिवाभ्यां सहिताभ्याम्। अन्यथा ताभ्यां न व्यञ्जनम् किं तु केवलचुम्बनेन तदङीकारे। एवं च अतिप्रसङ्गभ- द्ाय तत्सहिताभ्यां तदभीकारे च। सामानेति। त्रीलपुंस्त्वेत्यादिः । पर्यवसितार्था- नङ्गीकारे आह-अपरीति। त्वदुपजीव्येति। कुवलयानन्दोपजीव्यालंकारसर्व- स्वेत्यर्थः । अत एव तदाज्ञानुवर्तिनेति प्रागुक्त्तम्। अविनाभावात् नियतसंबन्धात्। तट्टीकेति। अलंकारसर्वस्वटीका विमर्शिनीत्र्थः। तदुक्तन्तरं खण्डयति-किं
Page 391
३७६ काव्यमाला
नादिव्यवहारेणाभिव्यक्तस्य नायकस्व व्यवहारविशेषणत्वमेव, न त्वभे- देन चन्द्रादिविशेषणत्वम्। चन्द्रादिपदसमानाधिकरणपदानुपस्थापितत्वा- दित्युक्तं तत्र तुल्यन्यायत्वान्निशायामपि न नायिकात्वारोपः, अपि तु नायकवदभिव्यक्ताया नायिकाया अपि व्यवहारसंबन्धित्वेनैवावस्थान- मिति वक्तव्यम् । तच्च वाधितम्। नायिकात्वानालीढकेवलर।त्रिमुखचुम्ब- नरूपस्य व्यवहारस्य नायकासंबन्धित्वात्। नहि रात्रितादात्म्यं विना नायिकायाः पृथस्पुखं विशेषयितुमस्ति सामर्थ्यम्। अपि च । 'निर्लक्ष्मीकाभवत्प्राची प्रतीचीं याति भास्करे। प्रिये विपक्षरमणीरक्ते का मुदमञ्चति ।' इत्यत्र पूर्वार्धगतायां समासोक्तौ भास्करादीनां नायकत्वाप्रतीतावुत्तराधें प्रियत्वादिना समर्थनायाः सर्वथैवानुपपत्तेः । अन्यच्च अप्रकृतव्यव- हारः प्रकृतविशेप्ये प्रकृतव्यवहारताटस्थ्येनारोप्यते तदभिन्नतया वा। नादः । एवं च प्रकृतविशेप्ये प्रकृताप्रकृतव्यवहारयोरेकत्र द्वयमिति विषयताशाली बोधः स्यात् । स चासिद्ध इत्युक्तमेव न द्वितीयः । इतो- डपि प्रकृतव्यवहार एवाप्रकृतव्यवहारस्याभेदेनारोपो वरीयान्, न तु भेदसंसर्गेण प्रकृतविशेप्ये अभेदांशे व्यवहारांशे चारोपसवीकारप्रस- झात्। मम त्वभेदांशमात्र इति स्फुट एव विशेषः । तस्मादप्रकृताभिन्न- तया व्यवसितः प्रकृतव्यवहारः सवविशेष्ये तद्विशेष्याभिन्नतयावस्थिते भासते तत्राप्रकृतार्थ उपस्कारकतया गुण इति प्रकार एव रमणीयः । स च न वाक्यार्थरूपके 'त्वत्पादनखरत्नानां' इत्यत्रेव विशिष्टस्य विशिष्टे। चेति। यदपील्वथः । तदन लीढत्वादेव केवलतम्। दोषान्तरमाह-अपि चेति। यातीति सप्तम्यन्तम्। अश्वति प्राप्नोति आदिना प्राच्यादिपरिग्रहः । नायकत्वेति। एकशेपात्वः । दोषान्तरमाह-अन्यच्चेति। एवं चेति। यत एवं सतीत्यर्थः । स चासिद्ध इति। अप्रकृतव्यवहारस्य प्रकृतासंबन्धित्वादिति भावः। प्रकृतव्यवहारा- पन्नाप्रकृतव्यवहारस्य भेदसंसर्गेण प्रकृतविशेष्ये समारोपे प्रकारतया अभेदांशे विशेष्य- तया, व्यवहारांश आरोप इति गौरवादाह-वरीयानिति । प्रसङ्गादिति । तस्मादिति। रमणीय इत्यस्यान्वयः । स्वेति । अप्रकृतव्यवहारविशेष्ये प्रकृत इत्यर्थः । तदिति। प्रकृतव्यवहारविशेष्यप्रकृतेत्यर्थः । तत्र प्रकृते। स च आरोपश्च। वाक्यार्थरूपवमेवाह-त्वत्पादेति। तयोः प्रकृताप्रकृतवाक्यार्थयोः । वैशिष्ट्यस्यैव
Page 392
रसग्गाघरः । ३७७
समासोक्तौ तयोः पृथक्छब्दवेद्यत्वाभावात्। किं तु प्रकृतवाक्यार्थघटकाः पदार्थास्तादात्म्येनाप्रकृतघटकपदार्थालीढा एव वैशिष्टयमनुभवन्तो महा- वाक्यार्थरूपेण परिणमन्तीति सूक्ष्ममीक्षणीयम्। अतिशयोक्ताविवाप्रकृ- तेन प्रकृतस्य निगरणं तु न वाच्यम्। तस्य शब्दवाच्यत्वात्। अथास्याः केवलभेदा निगद्यन्ते- विशेषणसाम्यं क्लेषेण भवति शुद्धसाधारण्येन वा। तदपि धर्मान्तर- पुरस्कारेण कार्यपुरस्कारेण वेति प्रत्येकं द्विविधम् । तत्र 'विवोधयन्कर- स्पर्शै:' इत्यत्र धर्मान्तरपुरस्कारेण क्लेषे समुदाहृतमपि विशेषणसाम्यं पुन- रुदाहियते- 'उत्सङ्गे तव गङ्गे पायं पायं पयोऽतिमधुरतरम् । शमिताखिलश्रमभरः कथय कदाहं चिराय शयिताहे।' अन्न शिशुजननीवृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्तः । क्रिष्टकार्य- पुरस्कारेणाप्युदाहृतं 'संगृह्लास्यलकान्निरस्यसि -' इत्यत्र। शुद्धसाधारण्येन धर्मान्तरपुरस्कारेण यथा- 'अलंकर्तु कर्णौ भृशमनुभवन्त्या नवरुजां ससीत्कारं तिर्यग्वलितवदनाया मृगदशः । कराबव्यापारानतिसुकृतसारान्रसयतो जनुः सर्वश्राध्यं जयति ललितोत्तंस भवतः ॥।' अत्र नवकान्तया क्वेशेन कर्णे क्रियमाणस्योत्तंसस्य वृत्तान्तः प्रत्य- ग्रखण्डिताधरकामुकवृत्तान्ताभेदेन स्थितः । यथा वा- वाक्यारथता। तदाह-वैशिष्टथमिति। अवान्तरवाक्याथयोर्भिन्नत्वादाह-महेति। तस्येति। प्रकृतस्य विशेषणमात्रप्रतिपाद्यत्वादित्यर्थः । तदपि द्विधा तत्साम्यमपि। धर्मान्तरेति। कार्यातिरिक्त्तधर्मपुरस्कारेणेत्यर्थः। कार्यातिरिक्त्कधमप्रतिपादकविशेष- णसाम्येनाप्रकृतार्थोपस्थापनं कार्यरूपधमैप्रतिपादकतत्साम्येन वेति द्वैविध्यमिति भावः। उत्सङ्गे ऊरौ मध्ये च। पायं पायं पीत्वा पीत्वा। पयो जलं दुग्धं च। शयिताहे इति लुद्धत्तमपुरुषस्यैकवचनम्। रुजाशव्दष्टावन्तः । तिर्यग्वलितेति। अतिचक्रीकृते- त्यर्थः । अतिसुकृतेति। अतिपुण्यसाररूपानित्यथः । रसयतोऽनुभवतः । हे रमणीक- णभूषण, सर्वस्तुत्यं तव जन्म जयतीत्यर्थः । नवकान्तया नवोढया। प्रत्यग्रेति ।
Page 393
३७८ काव्यमाला।
'अन्धेन पातभीत्या संचरता विषमविषयेषु। दृढमिह मया गृहीता हिमगिरिशृङ्गादुपागता गङ्गा ।I' अत्र गिरिशृङ्गप्रभववेणुयष्टिव्यवहाराभेदेन। कार्यसाधारण्येन यथा- 'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोडधुना। कोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ।' कार्यधर्मान्तरयोः संकरेण साधारण्यं यथा- 'उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्रद्वयं न्यक्कृताः पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम्। गृह्रन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ॥' अत्र कण्टकचितत्वेन कवरीग्रहणादि संकीर्णम्। समासोक्तौ व्यज्य- मानस्याप्रकृतव्यवहारस्योपस्कारकत्वमेव, न प्राधान्यम्। तदुपस्कृतवा- च्यस्यैव तु प्राधान्यमित्युक्तम्। तत्र यदि व्यञ्ञस्यैव प्राधान्यं स्यात् न वाच्यस्य तदा 'देव त्वां परितः स्तुवन्तु-' इति प्रागुदाहृतपदये नि- न्दाव्याजेन स्तुतौ पर्यवसानं न स्यात् । स्तुतिनिन्दयोः प्रकृताप्रकृतव्य- वहाराश्रयत्वादिति ध्येयम्। यत्तु
इदानीमेव खण्डितोऽघरो येनेत्वर्थः । अन्धेन चक्षुहीनेन अज्ञानिना च । पातः पतनं नरकपातक्ष। विषयेषु देशेषु नायिकादिषु च। दृढमिति क्रियाविशेषणम्। व्यवहारा- भेदेनेति। गद्गावृत्तान्तः स्थित इति भावः। कार्येति। कार्यरूपधर्मकृतशुद्धसाधार- ्येनेत्यर्थः । देवेति। राजानं प्रति कव्युक्तिः । भवितासि। अपि तुन। दुराचारसं- वन्धित्वात्। तदेवाह-यस्येति। 'न ना कोडो भुजान्तरम्'। आशा दिशः । अ- गम्यामपि अमरावतीमपीत्यर्थः । उत्क्षिप्ता इति । ऊर्ध्वे क्षिप्ता इत्यर्थः । विवलिता वक्रीकृताः । न्यक्कता अधःकृताः । के के न गृहन्ति । अपि तु सर्वेऽपीत्यर्थः । अत्र कण्टकचितत्वं कार्योऽन्यधर्मः । रोमाञ्चव्याप्ततवं कण्टकयुतत्वं च तस्यार्थः । कवर्या- दिग्रहणं कार्यरूपो धर्मः। तस्यैव प्रतिपाद्यलात् । आदिना पार्वद्वयग्रहणादिसंग्रहः । एवं पूर्वोदाहरणेष्वपि यथाय्थं वोध्यम्। तत्र तयोर्म्ये। तत्र तद्यवहारप्रतीतौ। अ-
Page 394
रसगङ्गाघरः । २७९
"तन्वी मनोहरा बाला पुष्पाक्षी पुष्पहासिनी। विकासमेति सुभग भवद्दर्शनमात्रतः ।I' अत्र तनुत्वादिविशेषणसाम्याल्लोलाक्ष्यां लताव्यवहारप्रतीतिः । तत्र लतैकगामि विकासाख्यधर्मसमारोप: कारणम् । अन्यथा विशेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः । विकासश्च प्रकृते उपचरितो ज्ञेयः" इत्यलंकारसर्वखवकार आह, तत्र विचार्यते-नात्र विशेषणसाम्यमात्रेण लताव्यवहारप्रतीतिः, अपि तु लतारूपाप्रकृतासाधारणविकासारोपम- हिन्नेति भवतैवोक्तम् । तथा च विशेषणसाम्यादप्रस्तुतस्य गम्यत्वमिति त्वदुक्तसमासोक्तिलक्षणस्य कथमत्र प्रवृत्तिः । न च लक्षणे विशेषणसा- म्यमात्रगम्यत्वं न विवक्षितम्, अपि तु विशेषणसाम्यगम्यत्वम्। प्रक्ृते च विकासस्याप्यधिकस्य गमकत्वम्। न त्वेतावता विशेषणसाम्यस्य गमकताहानिरिति वाच्यम्। शलेषेऽतिव्याह्यापतेः । न च विशेषणमात्र- साभ्यगम्यत्वं विवक्षितम्। एवं च न ल्लेषेऽतिव्याप्तिः नापि 'तन्वी मनोहरा' इत्यत्र लक्षणस्यावर्तनमिति वाच्यम् । 'तन्वी मनोहरा' इत्यत्र समासोक्तेरेवाभावात् । यत्र साधारणविशेषणमहिम्नाप्रकृतस्य स्फूर्तिस्तत्र समासोक्तिः, यत्र त्वसाधारणमहिम्रा तत्र व्यञ्ञयरूपकमिति विषयव्यव- स्थापनात्। एवं च प्रकृते साधारणविशेषणसत्त्वेऽपि न तन्महिम्रा ल- ताया: स्फूर्तिः, अपि तु विकासमहिम्नेति व्यन्ञयरूपकमुचितम्। यथा- 'चकोर नयनानन्दि कह्ाराह्वादकारणम्। तमसां कदनं भाति वदनं सुन्दरं तव ।।' इत्यादौ सुन्दरमिति साधारणविशेषणसत्त्वेऽपि रूपकमेव तथेहापि। न्यथा तत्समारोपस्याकारणत्वे। विशेषणेति । तेषामन्यसाधारण्यादिति भावः । कादाचित्कस्य संभवादाह-नियतेति। श्रेषेऽतिव्यास्यापत्तेरिति । तत्र विशेष्यस्य श्िषत्वेऽपि विशेषणसाम्यस्याक्षतेरिति भावः । विशेषणमात्रेति। मा- त्रपदेन विशेष्यसाम्यव्यावृत्तिर्न धर्मान्तरविकासादेरिति भावः । न श्ेष इति । तत्र विशेष्यस्यापि श्िष्टलादिति भावः । समासोक्तेरेवेति। सर्व स्वग्रन्थ सिद्धान्ता- त्प्रकृतेऽप्रकृतलताप्रतीतावपि करियारूपतद्यवहारस्य कस्यचिदप्रतीतेर्नात्र समासोकिरि- त्यपि बोध्यम्। एवेन यदपीत्याद्यपि सर्वख्प्रन्थः परास्त इति दिक्ु। एवं च उक्त-
Page 395
३८० काव्यमाला।
क्वचिद्रुणीभूतं क्वचित्प्रधानमित्यन्यदेतत्। साधारण्येन विशेषणसाम्यमूलायाः समासोक्तेस्तु 'अन्धेन पातभीत्या संचरता-' इत्यादिः प्रागस्माभिरुदा- हृतो विषय इति न निरवकाशत्वम्। तत्र ह्यसाधारणधर्मारोपमन्तरेण साधारण विशेषणमहिम्नैवा प्रकृतप्रतीतेः । एतेन 'तदेवं साधारण्येन समा-
रप्रतीतिर्न भवति' इति विमर्शिनीकृता यदुक्तं तन्निरस्तम्। तस्मादेवं तद्यवहा-
संभवति विषयविभागे 'तन्वी मनोहरा-' इत्यत्र समासोक्तिवचनमहृद्यम्। यदपि "औपम्यगर्भत्वेनापि विशेषणसाम्यं संभवति। यथा- 'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेपा हरिणेक्षणा ॥I' अत्र हरिणेक्षणामात्रवृत्तेः सुवेषत्वस्य विशेषणस्य महिम्रा दन्तप्रभा- सदृशानि पुप्पाणीत्यादि योजनां विहाय दन्तप्रभाः पुप्पाणीवेत्याद्युप- मितसमासाश्रयेण कृते योजने प्रकृतार्थसिद्धौ सत्यां वृत्त्यन्तरेण त्य- क्ताया एव योजनायाः पुनरुज्जीवने पुष्पपल्लवालिवृन्दैरुपमेयैराक्षिप्ताया लतायाः प्रत्ययात्तद्यवहारारोपः । एवं सुवेषेत्यपहाय परीतेति कृते
योजने पश्चात्पूर्वोक्तरीत्या लताप्रतीतेः समासोक्तिरेव। समासभेदेनार्थ- भेदेऽपि शब्दैक्यमादाय ल्रिष्टमूलायामिव विशेषग साम्यं बोध्यम्। आ- दावन्ते वा रूपकाश्रयेण दन्तप्रभा एव पुप्पाणीति योजने कृते तु हरि- णेक्षणांशे आक्षिप्तलतातादात्म्यकेनैकदेशविवर्ति रूपकेणैवाप्रकृतार्थ प्रत्ययो- पपत्तेर्नार्थः समासोक्तरत्र" इति तेनैवोक्तम्, तदपि न विचारसहम्। दन्त- व्यवस्थाङ्गीकारे च उक्तमेव सदष्टान्तमाह-यथेति । तत्र हि अन्धेनेत्यत्र हि । धर्मकार्येति। धमकार्ययोः समारोपमित्वर्थः । अयं तदीय उपसंहारप्रन्थः । उपसंह- रति-तस्मादिति। प्रकृतार्थेति। सुवेषत्वरूपेत्वर्थः । वृत्यन्तरेण व्यज्ञनया । योजनाया 'उपमानानि' इति समासरूपायाः । तह्यवहारेति । लताव्यवहा- रेत्यर्थः । उपमेति। यथासंख्यमन्वयः। पूर्वोक्तरीत्येति। वृत्त्यन्तरेणेत्याद्युक्त- रीत्येत्यरथः । ननवेव कर्थ विशेषणसाम्यमर्थभेदादत आह-समासेति। हरिणेक्षणांश आक्षिप्तत्वेनाशव्दत्वादाइ-एकदेशेति। अत्र उक्तपदे। एवमग्रेऽपि। तेनैव अलं- कारसर्वस्वकारेणैव। तुल्ययुवत्या आइ-दन्तप्रभा इति। तथोकं तदा समासो-
Page 396
रसगङ्गाघरः । ३८१
प्रभा: पुष्पाणीवेत्युपमागर्भत्वेनाप्यादौ योजने कृते हरिणेक्षणांशे आक्षि- पलतोपमानिकया एकदेशविवर्तिन्या उपमयैव गतार्थत्वात्समासोक्तेरानर्थ- क्यादत्राप्रसक्तेः । न चोद्भटमते एकदेशविवर्तिनोरुपमासंकरयोरसवीका- रात्तथोक्तमिति वाच्यम् । अनुपदमेव स्वयं तत्स्वीकारात्। 'हालाहलसमो मन्युरनुकम्पा सुधोपमा । कीर्तिस्ते चन्द्रसदृशी भटास्तु मकरो्गटाः ।।' इत्यादौ गत्यन्तराभावात्तेनाप्येकदेशवर्त्युपमाया एव स्वीकरणत्वाच्च अवश्य कृप्तेनोपपत्तौ भेदान्तरकल्पनानौचित्यात्। तस्मादौपम्यगर्भविशेषणो- त्थापितः समासोक्तिप्रकारो न संगच्छते। यत्र क्रिष्टविशेषणेन शुद्ध- साधारणविशेषणेन वा सहचरितमौपम्यगर्भविशेषणं तत्र यद्यप्यस्ति समा- सोक्तिस्तथापि नासावौपम्यगर्भविशेषणोत्थापितस्तृतीयः प्रभेदो भवितु- मीष्टे। स्वतन्त्रविषयत्वाभावात्। यथा- 'निर्मलाम्बररम्यश्रीः किचिद्दर्शिततारका। हंसावलीहारयुता शरद्विजयतेतराम् ।।'
गर्भविशेषणेन विद्वदुत्थापिता युक्तिस्तदनुगामिना मूर्खेणेवानुमोद्यते। एवं 'दत्तानन्दा समस्तानां प्रफुल्लोत्पलमालिनी' इति पूर्वार्धे कृते शुद्धसाधार- णविशेषणोत्थापितैव।
किरित्युक्तम्। सयं अलंकारसर्वस्कृता। तदिति। उपमासंकरयोरित्यर्थः । हाला- हलेति। राजानं प्रति कव्युक्तिः। हे राजन् तवेति शेषः । मकरेति। मत्स्यविशे- षेत्यर्थः । तेनापि उद्धटेनापि। राजि रत्नाकरसाम्यस्याशा्दवादाह-पकेति। ननु हालाहलेत्यत्र तदावश्यकत्वेऽपि तन्वी मनोहरेत्यत्र समासोकिरेव तादृश्यास्ामत आह-अवश्येति। उपमाभेदेनेत्यर्थः । भेदान्तरेति। समासो के रित्यादिः । क्वचि- त्संभवोऽस्तीत्याह-यत्रेति। स्वतन्त्रेति। तथा चोक्तान्तर्भाव एवेति भावः । अम्बर वस्नमाकाशक्ष। तारका नक्षत्राण्यक्षिकनीनिकाश्ष। एवेनौपम्यगर्भविशेषणव्यवच्छेदः । विशेषणेन हारसदशहंसपङ्गियुतेययनेन। अनुमोदने दृष्टान्तमाह-विद्वदिति। छिष्ट- विशेषणोत्थापितामुक्ला साधारणविशेषणोत्थापितां तामाह-एवं दच्तानन्देति। अत्रापि व्यवहारस्य किंचिन्निबन्धनाभावात्क्थं समासोकिरिति चिन्त्यमिदम्।एता- दृशस्थले व्यक्ञयरूपकमुपमा वेति तु युक्तमेव प्राग्वत् । एवं च उभयान्तर्भावेन तृतीय- रस० ३५
Page 397
३८२ काव्यमाला।
एवं च- 'परिफुललाञनयना चन्द्रिकाचारुहासिनी। हंसावलीहारयुता शरद्विजयतेतराम् ।।' इत्यत्रोपमारूपकयोः साधकस्य बाधकस्य चाभावात्संकरालंकारस्वीकर्तृ- नये तदुभयसंशयात्मक एकदेशविवर्ती संकरालंकार एव। तदस्वी- कर्तृनये च यदोपमितसमासस्फूर्तिस्तदैकदेशविवर्तिन्युपमा, विशेषणसमा- सस्फूरतो तथाविधमेव रूपकमिति प्रथमयोजनयैवाप्रकृतार्थावगतेर्द्वितीययो- जनायाः 'परिफुल्लाज्ञानीव नयनानीत्युपमागर्भाया वैयर्थ्यादनुत्थानमेव । यदा तु 'शरद्वर्षासखी बभौ' इति चतुर्थचरणं निर्मीयते तदा तु शरन्मा- त्रवृत्तेर्वर्षासखीत्वस्योपादानादव्जचन्द्रिकाहंस प्रधानस्योपमितसमासस्यावश्य- कत्वात्प्रथमप्रादुर्भूतया नयनहासहाराक्षिप्तकामिनीरूपोपमानिकया अत- एवैकदेशविवर्तिन्योपमयैव निर्वाह इति निवेदितमपि सहृदयप्रीतये पुनर्निवेदितम् । 'अथोपगूढे शरदा शशाक्के प्रावृड्ययौ शान्ततडित्कटाक्षा। कासां न सौभाग्यगुणोऽ्ङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥' इति कस्यचित्पद्ये प्रावृष एकदेशविवर्तिरूपकेणाङ्गनात्वसिद्धिरिति नोच- रार्धगतार्थान्तरन्यासानुपपत्तिः । प्रथमचरणे तूपगूहनसाम्यादस्तु नाम समासोक्तिः । यत्तु कुवलयानन्दे "सारूप्यादपि समासोक्तिर्दश्यते। यथा- 'पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम् । बहोर्दष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धि द्रढयति ॥' भेदानङ्गीकारे च। उपमेति। यथासंख्यमन्वयः । तदिति। संकरालंकारेत्यर्थः । चस्तर्थे। विशेषणेति। मयूरव्यंसकेतीत्यर्थः । तथाविधमेव एकदेशविवर्ल्येव। 'चर- णोऽस्तियाम्' इत्युक्तेर्नपुंसकत्वम्। तुरुक्तवैलक्षण्ये। एकदेशविवर्तीति। शान्तत- डित्कटाक्षेत्यत्रत्येनेत्यर्थः । उपगूहनेति। आलिङ्गनेत्यर्थः । सारूप्यात् सादृश्यात् । पुरेति। उत्तरराघवे सीतात्यागानन्तरं कदाचिद्वनं गतस्य श्रीरामस्योक्तिरियम् ।
Page 398
रसगङ्गाघरः । ३८३
अत्र वनवर्णने प्रस्तुते तत्सारूप्यात्कुटुम्बिपु धनसंताना दिसमृद्यसमृ- द्विविपर्यासं प्राप्तस्य तत्समाश्रयस्य आ्मनगरादेर्वृत्तान्तः प्रतीयते" इत्यु- क्तं तदसत्। समासोक्तिजीवातोर्विशेषणसाम्यस्यात्राभावेन समासोक्ति- ताया एवानुपपत्तेः । न च विशेषणसाम्यात्सादृश्याद्वा यत्राप्रस्तुतव्यव- हार: प्रस्तुतेन व्यज्यते सा समासोक्तिरिति लक्षणं निर्मास्यत इति वा- च्यम्। समासोक्तौ हि प्रकृतवृत्तान्तोऽप्रकृतवृत्तान्ताभेदेन स्थित इति सर्वसंमतम् । त्वयापि च 'प्रकृतधर्मिण्यप्रकृतव्यवहार आरोप्यते' इत्यु- क्तम्। एवं स्थिते नह्यत्र स्रोतोवृक्षादिविपर्यासो धर्मसंतानविपर्यासाद- भेदेन प्रतीयते। नापि वनादौ धनसंतानविपर्यास इति समासोक्त्यन्तरा- त्सत्यपि वैलक्षण्ये यद्यसौ समासोक्तिरिति शपथः क्रियते तदा अलंका- रान्तरमपि समासोक्तिकुक्षावेव निक्षिप्यताम्। एवं तर्हि 'पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां' इत्यत्र कोऽलंकारः । अप्रकृतेन वाच्येन प्रकृ- तव्यवहाराभिव्यक्तिरूपाया अप्रस्तुतप्रशंसाया अत्रासंभवात्प्रकृतस्यैव वाच्यत्वादिति चेत्, साधु पृष्टमायुष्मता । समाधानमस्य सप्रपञ्चमप्रस्तु- तप्रशंसाप्रकरण एव निवेदयिष्याम इति। किं चालंकारसर्वस्वकृता 'सा- क्षितिरुहां तरूणाम्। वनवर्णने वनवृत्तान्ते। तत्सारूप्यात् वनसादश्यात्। ग्रामादौ वन- सादृश्यमाह-कुटुम्विष्विति। कुटुम्विगतो यो धनसंतानादिसमृद्यसमृद्ोर्विपर्या- सस्तं प्राप्तस्येत्यर्थः । तत्समाश्रयस्य तादृशकुटुम्बिसमाश्रयस्य । जीवातोरिति । चिन्त्यमिदम्। विशेषणसाम्यगम्यसादृश्यगम्यत्वेऽपि तत्वानपायात्। नह्यन्र स्रोतोतृ- क्षादिविपर्यास इति। न प्रतीयत इत्यत्र शपथातिरिकं प्रमाणमन्विष्यतामिति चिन्त्य- मिदम्। विपर्यास इति। प्रतीयत इत्यस्यानुषङ्गः । निक्षिप्यतामिति। तथा च बहुव्याकुलीस्यादिति भावः। समाधानमस्येति । अप्रस्तुतप्रशंसैवात्रालंकारः । अप्रस्तुतस्य प्रशंसेति न तदर्थः, किंतप्रस्तुतेन प्रस्तुतस्य प्रशंसेति । एवं च वा- च्येन व्यक्तेन वाप्रस्तुतेन वाच्यं व्यक्कं वा प्रस्तुतं यत्र प्रशस्यते सादृश्याद्न्यतमप्रका- रेण साप्रस्तुतप्रशंसेति। न तु वाच्येनैव व्यक्षयमेवेतीति भावः। चिन्त्यमिदम्। युक्त्यसह- लात्। तथा हि प्रशंसनमत्र किमुत्कर्षाधानं प्रतीतिमात्रें वा। नादः। प्रतीयमानार्था- नध्यारोपविषयेध्वप्रस्तुतप्रशंसोदाहरणेष्वव्याप्तेः । नहि ताटस्थ्येनावस्थितोऽप्यर्थ उत्कर्ष- कर इति युक्त्तम्। नान्त्यः । प्रकृतेऽभावात्। नह्त्राप्रस्तुतेन प्रस्तु 1स्य प्रतीतिः । वाच्य- लात। न चान्यतरत्वेनानयोः संग्रहः। समास्ोके रेवान्यतरत्वघटितलक्षणकरणे वाध- काभावात्। अतिशयोत्तयादौ कृप्तलाच्च। किंचेत्यादिना सर्वस्कारादिविरोधोद्भावन-
Page 399
३८8 काव्यमाला। दृश्यगर्भविशेषणोत्थापिता सादृश्यमूला समासोक्तिः' इत्युक्तम्। तत्र हि विशेषणसाम्यसत्वादुक्तिसंभवोऽप्यस्ति, न तु त्वदुक्तायामिति मूलग्रन्था- नवबोधस्तद्विरोधो वा स्फुट एवेति दिक्। सेयं लौकिके व्यवहारे लौकिकस्य व्यवहारस्य शास्त्रीये शास्त्री- यस्यारोपेण, एतद्विपर्ययेण च चतुर्घा। तत्राद्या प्रागभिहितैव। द्वितीया यथा- 'गुणवृद्धी परे यस्मित्नैव स्तः प्रत्ययात्मके। बुधेषु सदिति ख्यातं तङ्गह्म समुपास्महे ।' अत्र वेदान्तशास्त्रसिद्धव्यवहारे व्याकरणसिद्धस्य शतृशानज्व्यव- हारस्य । लौकिके शास्त्रीयस्य यथा- 'परार्थव्यासङ्गादुपजहृदथ सार्थपरता- मभेदैकत्वं यो वहति गुणभूतेषु सततम्। स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ।' अत्र समर्थसूत्रगतमहाभाष्यार्थस्य। तत्र हि 'अथ ये वृर्तति वर्तयन्ति किं त आहुः' इत्यादिना जहत्सार्था वृत्तिरजहत्सार्था वृत्तिरिति पक्षद्वयं निरूपितम्। तत्रैवोपसर्जनार्थे अभेदैकत्वसंख्यापि ध्वनिता। प्रकटीकृता च हरिणा- 'यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥' इति। सामर्थ्यमप्येकार्थीभावबोधकतारूपं तत्रैवोक्तम्।
मप्यसंगतमेव। तच्छिक्षकत्वात्। ईदशाप्रस्तुतप्रशंसाया अपि तैरनङ्गीकारेण तवापि तद्विरोधस्य सत्त्वाच्। प्राचामाशयस्य प्रागुक्तत्वाच्चेति दिक्। सेयं चतुर्विधा समासोकिः। यस्मिन् शतृशानज्ूपे आनन्दरूपे च। प्रत्ययसंज्ञके चिद्रूपे च। परत उत्कृष्टे च। अदे- हादैच्। सत्त्वादिगुणवर्धने च देवेषु वैयाकरणेषु च। सत्संजञकं सदूप च। ब्रह्म शब्द- रूपमर्थरूपं चेत्यर्थः । वर्तयन्ति निष्पादयन्ति। एकार्थीभावबोधकतेति। एका-
Page 400
रसगङ्गाघरः । ३८५
शास्त्रीये लौकिकस्य यथा- 'कृत्वा सूत्रैः सुगूढार्थैः प्रकृतेः प्रत्ययं परम् । आगमान्भावयन्भाति वैयाकरणपुंगवः ।।' अत्र राजव्यवहारस्य। एवं शास्त्रान्तरव्यवहारेऽपि बोध्यम्। इयं चालंकारान्तरेषु बहुष्वानुगुण्येन स्थिता। यथा- 'स्थितेऽपि सूर्ये पझ्मिन्यो वर्तन्ते मधुपैः सह। अस्तं गते तु सुतरां स्त्रीणां कः प्रत्ययो भुवि ॥' अत्र समर्थ्यत्वेन स्थितार्थान्तरन्यासानुगुण्यमाधत्ते। 'उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते। राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ॥' इह समर्थकत्वेन। 'व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतामाकर्ण्य स्तुतिमुदयत्रपातिरेकात्। आभूमीतलनतकंधराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥' अत्र हि परकृतनिजस्तुत्याकर्णनकंधरानमनादि विशेषणसाम्योत्थापि- तया समासोक्या सज्जनव्यवहाराभिन्नतया स्थित एव तरुव्यवहारे भूशा- स्ासंबन्धाभेदाध्यवसितमस्तकमूलनमननिमित्तोत्थापिता त्रपारूपहेतूतेक्षा संभवति । अन्यथा कितवकृतग्रीवानमनस्यापि त्रपोत्थापकतापत्तेः । इत्यु- सेक्षानुगुणा समासोक्तिः । एवम्- 'राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः । सुघाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ।' इत्यत्रापि स्वामिसेवकव्यवहारमूला सुघालेपनोत्रेक्षा। अमुयैव दिशा अचेतनव्यवहारे प्रकृते चेतनव्यवहारसंवन्धिखरूपहेतुफलोत्प्रेक्षायां चेत- नव्यवहारे प्रकृते चाचेतनव्यवहारसंबन्धिसरूपहेतुफलोत्ेक्षायां च समा- सोक्तिरेव मूलम् । इति रसगज्गाधरे समासोक्तिप्रकरणम्।
र्थीभावापन्नार्थबोधकतारूपमित्यर्थः । प्रकृतेः प्रातिपदिकादितः अविद्यायाक्ष। परमप्रिमं भिन्नं च। प्रत्ययं तत्संज्ञकं ज्ञानरूपं च कृला। आगमानू तत्संज्ञकान् उपनिषदनश्चा- दर्थ: (?)। राजपक्षे लर्थ ऊह्यः । प्रत्ययो विश्वासः । राजप्रियाध्न्द्रप्रियाः । दिशा रीत्या। सरूपहेतुफलानां त्रयाणामुत्प्रेक्षायामित्यर्थः । एवमप्रेऽपि ॥ इति रसगभ्ञाधर- मर्मप्रकाशे समासोकिप्रकरणम्।
Page 401
३८६ काव्यमाला।
अथ परिकर :- विशेषणानां साभिप्रायत्वं परिकरः ॥ तच्च प्रकृतार्थोपपादकचमत्कारिव्यन्कयकत्वम् । अत एवास्य हेत्वलं- काराद्वैलक्षण्यम् । तत्र व्यङ्गयस्यानावश्यकत्वात् । उपपादकता चोप- स्कारकनिप्पादकसाधारणी। व्यङ्गयस्य गुणत्वाच्च न ध्वनित्वं व्यप- दिश्यते। यथा 'मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतग्रावभिः । वीचिक्षालितकालियाहितपदे खर्लोक कल्ोलिनि त्वं तापं तिरयाधुना भवभयव्यालावलीढात्मनः ।।' अत्रात्मनो भागीरथीकर्तृकस्य भवव्यालदंशजनिततापदूरीकरणस्या- शंसनं हि वाक्यार्थः । तत्र भगवत्या भवतापनाशिकात्वस्य सुप्रसिद्धत्वा- त्परिणामेन भवरूपविषयतादात्म्यापतत्या व्यालजनितसंतापनाशिकात्वं तावत्सूपपादमेव । 'स्थास्त्ुजङ्गमसंभूतविषहन्तयै नमो नमः' इत्याद्यागमब- लाच्च विषयतादात्म्यं विनापि शुद्धव्यालजनितसंतापनाशिकात्वमपि स्वभा- वसिद्धमेव। एवं वाच्यार्थस्य सत्यामपि निष्पत्तौ सौन्दर्यविशेषाधानाय साकूतं विशेषणं वीचिक्षालितेत्यादि। अत्र नामान्तरस्य सत्त्वेऽपि कालि- याहितशब्दोपादानसामर्थ्याद्भगवतश्चरणे फणागणनृत्यनिःसारीकृतका- लिये लोकोत्तरविषहरणशक्तिरुत्पत्तिसिद्धैवासीत् । सा च तयोरवींचिभि:
परिकरं लक्षयति-विशेषणति। तच साभिप्रायत्वं च। अत एवेत्यस्यार्थमाह- तत्रेति। हेतलंकार इत्यर्थः । ध्वनावतिव्याप्तिवारणाय प्रकृतार्थोपपादकेति। परि- कराङ्कुरेऽतिव्याप्तिवारणाय विशेषणेति। मीलितं निमीलितम्। स्स्तं गलितम्। गरुडसंब- न्ध्युपलै रक्त्तमणिभिश्च।वीचिभिः क्षालितौ कालियाख्यसर्पशत्रुकृष्णपादौ यया तत्संबोध- नम्। स्वर्गङ्। संसाररूपसर्पदष्टात्मन इत्यर्थः । 'प्रार्थने लोट' इत्याशयेनाह-आशंस- नमिति। तत्र वाक्यार्थे। परिणामेन तदलंकारेण। तथा च मयूरव्यंसका दिलात्समासो वोध्यः। तादर्थ्यापतत्या व्यालरूपविषयिणीति शेषः। आगमेति।पुराणेत्यर्थः। आधानाय तत्करणाय। नामान्तरेति। वीचिक्षालितवासुदेवचरणे इत्यादेरित्यर्थः । सा शक्तिः।
Page 402
रसगङ्गाधरः । ३८७
क्षालनाद्गङ्गायां साश्रयरेणुद्वारा संक्रान्तेति गम्यते। न च शक्त: पूर्वमेव क्षालनात्कथं चरणेनार्वाक्कालियस्य विषहरणं शक्तिरहितेन संभवतीति वा- च्यम्। क्षालितावशिष्टा लेशरूपा शक्तिश्ररणे काचित्स्थितासीत् यया संप्रति कालियस्य विषमहारीत्यप्याकूतान्तर्गतमेवेति नानुपपत्तिः । एवं हि वाच्योपस्कारकतयात्र गुणीभावः, न वाच्यसिद्यङ्गतया। यथा वा- 'मदकामविमोहमत्सरा रिपवस्त्वतपुर एव तावकम्। धृतशार्ङ्गगदारिनन्दक प्रतिकर्षन्ति कथं न वीक्षसे ।।' अत्राप्युपेक्षानौचित्यस्य तावकशन्दप्रतिपादितेन सवामिभृत्यभावेनैव निष्पन्नशरीरस्य प्रकर्षकं धृतशार्ङ्गेत्यादिविशेषणम्। अमोघशस्त्रास्त्रसं- पन्नस्य समक्षमेव रिपुभिः कृव्यमाणं दासमुपेक्षमाणस्याकीर्तिर्भवित्री तवे- त्याकूतगर्भम्। ननु निष्प्रयोजनविशेषणोपादाने पुष्टार्थदोषस्योक्तत्वात्स- प्रयोजनविशेषणं दोषाभावमात्रं कष्टत्वाद्यभाववद्धवितुमर्हति, न त्वलंकार इति। अत्र विमर्शिनीकारादय आहुः-'विशेषणानां बहुत्वमत्र विव- क्षितम्। साभिप्रायविशेषणगतबहुत्वकृत एव चात्र वैचित्र्यातिशयः । एकविशेषणं तु दोषाभावमात्रस्यावकाशः' इति। तदसत्। विशेषणाने- कत्वं हि व्यन्घाधिक्याधायकत्वाद्वैचित्र्यविशेषाधायकमस्तु नाम । न तु प्रकृतालंकारशरीरमेव तदिति शक्यं वक्तुम् । वीचिक्षालितकालियाहित- पदे इति प्रागुक्ते एकस्यैव विशेषणस्य चमत्कारिताया अनपह्वनीयत्वात्। 'अयि लावण्यजलाशय तस्या हा हन्त मीननयनायाः । दूरस्थे त्वयि किं वा कथयामो विस्तरेणालम् ।।' अत्रैकैकविशेषणमात्रेणैव सकलवाक्यार्थसंजीवनाच्च। तयो: पादयोः। स्वशब्देन नाशनशक्तिः । पूर्वमेव कृष्णावतारात्प्रथममेव। अर्वाक् कृ- णजन्मानन्तरम्। एवमग्रेऽवि। उपसंहरति-एवं हीति। प्रकारान्तरेण सिद्धाया- स्तस्या विशेषणेन पोषणे हीत्यर्थः । मदेति। विष्णुं प्रति भक्तोकिः । त्वतपुर एव त्व- दग्र एव। तावकं माम्। अरिशब्दे चक्रम्। अपुष्टार्थेति। अपुष्टार्थत्वेत्यर्थः । एव- मग्रेऽपि। कष्टत्वादीति। यथा कषत्वाद्यभावो दोषाभावमात्रं न त्वलंकारस्तथे- त्यर्थः । अत्र परिकरलक्षणे। चो हेतौ। अत्र परिकरे। हि यतः । तत् विशेषणा- नेकत्वम्। अयीति। नायिकावृत्तान्तं नायकं प्रति कश्विद्वक्ति। अभावेनेति। ताव-
Page 403
३८८ काव्यमाला।
यत्तु कुवलयानन्दकार आह-"शेषयमकादिष्वपुष्टार्थदोषाभावेन तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषाभावा- त्परिकरत्वोपपत्तिः । यथा-"क्षितिभृतैव सदैवतका वयं वनवतानवता किमहिद्रुहा' इति गोवर्धनपर्वतविषयके नन्दादीन्प्रति भगवद्वाक्ये" इति। तदप्यसत्। यो हीममलंकारं दोषाभावान्तःपातितयालंकारमध्याद्वहि- र्भवयति स किं त्वदुक्तक्लेषयमकादिशब्दचित्रातिरिक्तस्थले साभिप्रायवि- शेषणेपु विच्छित्तिविशेषं मन्यते न वा । आद्ये दोषाभावमात्रेण विच्छि- त्तिविशेषस्यालंकारप्रयोज्यस्यालंकारमन्तरेणानिष्पतेः सिद्धं सर्वत्र परि- करस्यालंकारत्वम् । द्वितीये अन्यत्रेव यमकादिव्वपि विच्छित्तिविशेषो नास्तीति तेन सुवचत्वात्। तथा हि-
तैव साफल्येन श्लेषादेस्तदपवादत्वादिति भावः । विशेषाभावादिति । तदापत्तेरि- त्यर्थः । जायमानतदर्थ तद्विन्यासस्यावश्यकत्वं तत्रेतीति शेषः। परिकरेति। परिकर- स्यालंकारत्वोपपत्तिरित्यर्थः । उद्भटालंकारसंपत्त्या सहृदयवैमुख्य रूपदूषकताबीजाभावा- दिति भावः । 'साभिप्रायस्य विन्यासे विच्छित्तिविशेषसद्भावात्' इति क्वचित्पाठः । क्षि- तीति। यमकोदाहरणमिदम् । प्रशस्तवनयुक्तेन गोवर्धनेन । अरक्षकेणेन्द्रेणेत्यर्थः । 'अहिर्त्रत्रासुरे सर्पें' इति विश्वः । यमकादीति । तद्रूपशब्दचित्रेत्यर्थः। सर्वत्र श्लेषादौ तदन्यत्र च। तेन सुवचत्वादिति। अन्रेदं चिन्त्यम्-दोषाभावमध्ये एन- मन्तर्भावयता एकविशेषणे चमत्कारविशेषस्यानङ्गीकारात्त्वदुदाहरणासंगतिः । यदि त्वनुभवबलात्तत्त दोषाभावकृतचमत्कारादप्यधिकचमत्कारोऽस्ति योजक इत्युच्यते तर्हि समं प्रकृतेऽपि। किं च अपि तु पोषायेति वदता भवतापि लेषयमकादिषु विशेषणस्य चमत्कारिताभ्युपेतैव। चमत्कारातिशयजनकतारूपाया एव पुष्टेः काव्ये स्वीकारात्। यदि तु विवक्षितार्थबोध एव पोषः विवक्षितार्थबोधप्रयो- जकानुपादानत्वं च पुष्टत्वं तथाप्यापत्कालेऽक्रियमाणं मृत्तिकाशौचादि यथा न दो- -षाय नापि लोकनिन्दायै, क्रियमाणं चाधिकस्तुतयेऽधिकफलाय च भवति तथा यमका- दिषु पुष्टत्वमक्कियमाणं न दोषाय, करियमाणं त्वधिकचमत्कारायेति वक्तं शक्यम् । न च कवे: स्तुतये भवतु, न चमत्कारायेति वाच्यम् । नित्ये फलस्यापि स्वीकारेण तदतिशयस्य तेन जननवदुपपत्तेः । इह तु फलं चमत्कार एव। अयि लावण्येत्यत्र तु पुष्टत्वमक्रियमाणं दोषाय, क्रियमाणं तु विवक्षितार्थावाघरूपपोषायैव नाधिकचमत्का- राय। यथानापद्यक्रियमाणं मृच्छौचादि दोषाय, क्रियमाणं तु नाधिकफलायेत्यतो य- मकपर्यन्तानुधावनम्। वस्तुतः सं्याद्यकरणस्य दोषत्वेऽपि तदभावो न दोषाभाव- मात्रम्, अपि तुफलायापि,एवं यमकाद्यतिरिक्केऽपि साभिप्रायैकविशेषणोपादाने दोषत्वा-
Page 404
रसगन्नाघर: । ३८९
'अनापदि विना मार्गमनिशायामनातुरः । मृत्तिकाशौचहीनस्तु नरो भवति किश्बिषी ॥' इत्यत्र पर्युदस्तेऽप्यापत्कालादौ यथा केनचिन्मृत्तिकाशौचादिक्रियमाणं न केनापि प्रतिषिध्यते कर्तुः सामर्थ्यगमकं च भवति तथा प्रकृ- तेऽपि दोषनिषेधविधौ पर्युदस्तेऽपि यमकादौ पुष्टतारूपदोषाभावः कवि- ना संपाद्यमानो न दोषाय भविष्यति, अपि तु रसपोषायैवेति। यदि च यमकेऽनुभवं विच्छित्तिविशेषे प्रमाणं त्रूषे त्रूहि तदान्यत्रापि तमेव प्रमा- णमिति यमकपर्यन्तानुधावनं निरर्थकमेव। तस्मात्पुष्टार्थतारूपेण दोषा- भावेन परिकरालंकारस्य विषयविभागो दुःशक इति प्राप्ते ब्रूमः । सुन्द- रत्वे सत्युपस्कारकत्वमलंकारत्वम्। चमत्कारापकर्षकाभावत्वं च दोषाभा- वत्वम्। तदेतद्धर्मद्वयं विविक्तविषयं यदि दैवादेकस्मिन्विषयविशेषे समा- विशेत्तदा का हानिः स्यात्। उपधेयसंकरेऽप्युपाध्यसंकरात्। यथा ब्राह्मणस्य मूर्खत्वं दोषः, विद्या तु दोषाभावश्र भवति गुणश्च, तथेहाप्यु- पपत्तिः । न च दोषाभावतया प्राप्तस्यापि परिकरस्य किमित्यलंकारेषु गण- नागौरवमिति वाच्यम्। उभयात्मकत्वेनेतरवैलक्षण्यज्ञापनार्थतया गणनो- पपत्तेः। यथा गुणीभूतव्यज्ञयभेदतया संगृहीतापि समासोक्तिरलंकारग- णनायां पुनर्गण्यते। यथा वा प्रासादवासिपु गणितोऽपयुभयवासी
भावश्रमत्कारश्वेत्यलंकारत्वम्। कि च यथा तत्र दोषाभावस्यान्नवैकल्येऽवि सिद्धे साज्ग- तत्करणं फलातिशयायैव एवं दोषाभावस्य विशेषणानुपादानेऽपि संभवेन साभिप्रायैक- विशेषणनिबन्धनोऽपि चमत्कारो दुरपह्वव इति बोध्यम् । तदेतदपि चैकपदार्थहेतुक- मित्यादिना ग्रन्थेन कुवलयानन्दे स्फुटमिति दिक्। इत्यत्र मृत्तिकाशौचाभावनिषेध- विधौ। पर्युदस्वेऽपि दोषाभाववत्तया प्रतिपादितेऽपि। सामर्थ्यावगमं च सामर्थ्यगमकं च। क्वचित्तथैव पाठः । दोषनिषेधेति। अदोषं काव्यमित्यत्र। पुष्टतेति। तद्रूपो यो दोपाभाव इत्यर्थः । उपसंहरति-तस्मादिति। विविक्तेति। परिकरातिरिके सामानाधिकरण्याभावादिति भावः । एकस्मिन परिकरे। यथेति। विद्यायां गुणत्व- दोषाभावत्वयोः समावेशेऽपि तयोरसांकर्ये यथेतर्थः। उभयेति। अलंकारदोषाभा- वरूपत्वेनेत्यर्थः इतरेति। परिकरान्यालंकारत इत्यर्थः। अस्याग्रेऽप्यन्वयः । अत एवाह-यथेति। महाभाष्यकारोकं दृष्टान्तमाह-प्रासादेति । ऊर्ध्वदेशेत्यर्थः ।
Page 405
३९० काव्यमाला।
भूवासिगणनायां पुनर्गण्यते तथेहापीति न कश्विद्दोषः । अन्यथा प्राचां काव्यलिङ्गमप्यलंकारो न स्यात् । तस्यापि निर्हेतुरूपदोषाभावात्मकत्वात्। 'द्विजराज कलाधार विश्वतापनिवारण। कथं मामवलां क्रूरैः करैर्दहसि निर्दय।।' इत्यादौ विशेषणाधिक्याद्यन्रयाधिक्ये चमत्काराघिक्यम्।
भवन् व्यङ्गयस्य वाच्यायमानत्वतद्विपर्ययाभ्यां चतुर्घा। आद्यो यथा- 'विहाय संसारमहामरुस्थलीम लीकदेहादिमिलन्मरीचिकाम्। कृपातरङ्गाकुल मन्मनोमृगो विगादुमीश त्वयि गाढमीहते ॥' अत्र गाहनसिद्यङ्गं कृपेत्यादेः समुद्ररूपं व्यङ्गयं वाच्यायमानम्। द्वितीयो यथा- 'खर्वीकृतेन्द्रगर्व त्वरया चक्रेण भिन्ननक्रमुख। लीलात्तकोलमूर्ते मामुद्धर्तु कथं न शक्तोऽसि ।।' अत्र गोवर्धनगजेन्द्रवसुंधराणामुद्धारो वाच्यतास्पर्शशून्य एवोपा- लम्भसिद्यङ्गम्। तृतीयस्तु 'धृतशार्ङ्गगदारिनन्दक' इत्यत्र, चतुर्थः 'वीचि- क्षालितकालियाहितपदे' इत्यत्र च बोध्यः । इति रसगज्गाधरे परिकरालंकारप्रकरणम्।
अथ श्रेष :- श्रुत्यैकयानेकार्थप्रतिपादनं श्रेषः ।। तच्च द्वेधा। अनेकधर्मपुरस्कारेणैकधर्मपुरस्कारेण च। आद्यं द्वेधा। विपक्षे वाधकमप्याह-अन्यथेति। एवं सत्यपि तस्य तत्त्वानङ्गीकार इत्यर्थः । अत एवापिः प्रयुक्तः । अनेकविशेषणानां साभिप्रायत्वे उदाहरति-द्विजेति। चन्द्रं प्रत्यु- किरियम्। परिकरस्य भेदमाह-अयं चेति। कोलेति। वराहेत्यर्थः । वाच्यता- स्पर्शेति। वाच्यायमानतेत्यर्थः । अत एव स्पर्शपदसार्थक्यम्। तद्रमकाभावात्तस्य गूढत्वमिति भावः ॥ इति रसगङ्गाधरमर्मप्रकाशे परिकरप्रकरणम्॥ शेषं लक्षयति-अथेति। तत्र आद्यभेदयोर्मध्ये। अत्र येषां भेदानां मध्ये।
Page 406
रसगङ्गाघरः । ३९१
अनेकशब्दप्रतिभानद्वारा एकशब्दप्रतिभानद्वारा चेति त्रिविधः क्लेपः । तत्राद्यः सभङ्गो द्वितीयो ह्यभङ्क इति वदन्ति । तृतीयस्तु शुद्धः। एवं त्रिविधोऽप्ययं प्रकृतमात्राप्रकृतमात्रप्रकृताप्रकृतोभयाश्रितत्वेन पुनस्त्रि- विधः । अत्रादये भेदे द्वितीये च विशेष्यस्य क्रिष्टतायां कामचारः । तृतीयभेदे तु विशेषणवाचकस्यैव श्विष्टत्वं न विशेष्यवाचकस्य। तथा- त्वे तु शब्दशक्तिमूलध्वनेरुच्छेद एव स्यात्। विशेषणमात्रश्िष्टताया- मपि प्रकृताप्रकृतधर्मिणोरुपादान एव श्लेषः । प्रकृतधर्मिमात्रस्योपादाने तु समासोक्तेरेव विषयः । तदित्थं प्रकृतमात्रविशेष्यकानेकार्थविशेषणं यत्र स एकः । एवमप्रकृतेत्यादिर्द्वितीयः । पृथगुपात्तप्रकृताप्रकृतोभय- विशेष्यकनानार्थविशेषणं तृतीयः । एतदन्यतमत्वं च कक्षणं पर्यवसितम्। क्रमेणोदाहरणानि- 'संभूत्यर्थ सकलजगतो विष्णुनाभिप्रपन्नं यन्नालं स त्रिभुवनगुरुर्वेदनाथो विरिश्चिः । ध्येयं धन्यालिभिरतितरां सवप्रकाशस्वरूपं पद्मार्यं तत्किमपि ललितं वस्तु वस्तुष्टयेऽस्तु ।।' अत्राशीःप्रकरणे तुष्टिजननसमर्थत्वेन लक्ष्मीभगवन्नाभिकमलयोरुभ- योरपि प्रकृतत्वात्प्रकृतमात्राश्रितोऽयमेकया श्रुत्या पदद्वयप्रतिभानद्वारा भिन्नधर्मपुरस्कारेणानेकार्थप्रतिपादनात्सभङ्गः । विशेष्ययोरश्रिष्टत्वेऽप्ययं संभवति। यथात्रैव 'पायादाद्यं कमलमथवा योगमायास्वरूपम्' इति तुरी- यचरणनिर्माणे।
आद्ये प्रकृतमात्राश्रिते। द्वितीये अप्रकृतमात्राध्रिते। तृतीयभेदे उभयाश्रिते। तथा- त्वे त्विति। विशेष्यस्यापि शिष्टत्वे हीत्यर्थः। अत्र विशेष्यस्य श्लिष्टत्वेऽपि श्रेषाङ्गीकारे शब्दशक्तिमूलध्वन्युच्छेदापत्तिरित्याखण्डलार्थः । तृतीये विशेषमाह-विशेषणेति। विशेषणस्यैव श्लिष्टतायामित्यर्थः । भेदानुपसंहरति-तदित्थमिति। अनुगतं लक्षण- माह-पतदिति। संभूत्यर्थमिति। संभूतिरुत्पत्तिः सम्यगैश्वर्य च । विष्णु- नाभि प्राप्तं विष्णुना अभिप्रपन्नं प्राप्तं च। स तादृशो ब्रह्मापि यस्य कमलस्य नालं नालदण्डः यस्मादलं समर्थो न च। धन्यैर्श्रमरैर्धनिकपङ्गिभिक्ष। पद्मास्यं कमलसंज्ञकं मकलासंतकं च। अयं प्रकृतमात्राश्रितः । एवमप्रेऽपि। आद्यं भगवन्नाभिसंवन्धि ।
Page 407
३९२ काव्यमाला।
अयमेवाभङ्गात्मको यथा- 'करकलित चक्रघटनो नित्यं पीताम्बरस्तमोरातिः । निजसे विजाड्यनाशनचतुरो हरिरस्तु सूतये भवताम् ।।' विशेष्ययोरश्रिष्टत्वे यथा 'जाड्यहरणो विष्णुः सूर्यश्च वः पातु' इति तस्यैव शेषे कृते। अर्थश्लेषो यथा- 'अर्जुनस्य गुरुर्मायामनुजः परमः पुमान्। गुञ्जापुञ्जधरः पायादपायादिह कोऽपि वः ॥' एवमेते त्रयोऽपि प्रकृतविषया एव भेदाः । 'हरिकरसङ्गादधिकं रमणीयाप्यतुलरागसंवलिता । सुन्दरि तवाननाग्रे कमलाभा विगलितप्रतिभा ॥' अयमप्रकृतमात्रविषयः । प्रकृतस्याननस्य श्रेषाविषयत्वात्। कम- लाभेति विशेष्यांशे अधिकमिति विशेषणांशे च सभङ्गः, अन्यत्राभङ्गः । अप्रकृतयोर्विशेष्ययोरश्रिष्टत्वे यथात्रैव 'कमलायाः कमलस्य च शोभा गलिता तवाननस्याग्रे' इत्युच्रार्घनिर्माणे। प्रकृताप्रकृतोभयविषयो यथा- 'अलं हि मानी परिदीर्णगात्रः समापितः फाल्गुनसंगमेन। अत्यन्तमाकाङ्गितकृष्णवर्त्मा भीष्मो महात्माजनि माघतुल्यः ॥'
करकलितेत्यादि। करो हस्तः किरणश्च। चक्रं सुदर्शनं कालचकं च। अम्बर- माकाशो वस्नं च। तमो राहुरन्धकारश्च। जाड्यमज्ञानं मूर्खत्वं च। हरिः सूर्यो विष्णुश्च। अयं प्रकृताप्रकृतोभयाश्रितः । जाड्येति । निजसेवीत्वस्येत्यादिः । समर्थ इत्यग्रे शेषो वोष्यः। शुद्धश्लेबं तृतीयमुदाहरति-अर्थेति। अर्जुनस्य गुरुरित्यत्र च गुरुपदं छछिष्टं पर्यायपरिवृत्तिसहं च । शिक्षकादिपदोपादानस्यापि संभवादिति वोध्यम्। एवं च गुरुरुपदेष्टा वृहस्पतिश्च। उपसंहरति-एवमिति । अप्रकृतविषयमुदाहरति-ह- रीति। हरिर्विष्णुः सूर्यक्ष। करो हस्तः किरणश्च । अधिकमतिशयेन । के इत्यघि- कम्। अव्ययीभावः । जले इत्यर्थक्ष। सङ्गादिति । पश्चम्यन्तमतुलरागेत्यत्राप्यन्वे- ति। कमलाभा कमलकान्तिर्लेक्ष्मीकान्तिश्च। विगलितप्रतिभा निःसारा। अन्यत्र हरिकरादौ। अन्रैव उक्तपद्य एव। अलमिति। अलमत्यन्तम्। हीति निश्चयेन ।
Page 408
रसगक्ाघरः । ३९३
द्भवति तृतीयो भेदः । परं तूपमया संकीर्णः । यदि च 'माघो महात्मा - जनि हन्त भीष्मः' इत्यप्रकृतांशमपि श्लेषग्रस्तं कृत्वा रूपकं क्रियते, तथापि प्रकृतविशेष्यस्य माघस्याश्रिष्टत्वादखण्डित एव श्लेषः । न चात्र समासोक्तिरिति भ्रमितव्यम् । अप्रकृतधर्मिणोऽपि शब्दवाच्यत्वात् । यत्र त्वप्रकृतव्यवहार एव शब्दशक्ति सहेतापि, न त्वप्रकृतधर्मी तत्र समा- सोक्तेरिष्टेः । अत्र विचार्यते-अयं चालंकारः प्रायेणालंकारान्तरस्य विषयमभि- निविशते तत्र किमस्य वाधकत्वं स्यादाहोस्वित्संकीर्णत्वमुताहो बाध्यत्व- मिति। अत्राहुरुद्भटाचार्याः-"येन नाप्राप्ते य आरभ्यते स तस्य बा- घकः' इति न्यायेनालंकारान्तरविषय एवायमारभ्यमाणोऽलंकारान्तरं वा- घते। न चास्य विविक्तः कश्चिदस्ति विषयो यत्र सावकाशो नान्यं बा- धेत। तथाहि अप्रकृतमात्रयोः प्रकृतमात्रयोर्वा तावत्तुल्ययोगितव जा- गर्ति। प्रकृताप्रकृतयोस्तु दीपकम्। तदनुमोदिता उपमादयश्च। न च 'देव त्वमेव पातालमाशानां त्वं निवन्धनम् । त्वं चामरमरुद्ूमिरेको लोकत्रयात्मकः ।।'
मानी अभिमानी। अत्यन्तं हिमसंहत्या परिदीर्णानि गात्राणि येन स च । फाल्गुनो- जर्जुनो मासश्व। अत्यन्तमाकाह्ितः कृष्णस्य मार्गो येन । अत्यन्तमाकाह्ितः कृष्णव- र्त्मान्निर्यस्मिन्स च। भीष्मो गाङ्गेयः । माघो मासः। संकीर्ण इति । तुल्यपदोके- रिति भाव:। पूर्व भीष्मस्योद्देश्यत्वं तत्तुत्यत्वस्य विधेयलम्, अधुना तद्वैपरीत्येनाह-य- दीति। श्रेषेति । गाङ्गेयवद्भयानकस्यापि प्रतीतेरिति भावः। अखण्डित एव श्लेष इति। शव्दशक्तिमूलध्वनिना न खण्डित इत्यर्थः । क्व तर्हि समासोकिरत आह-यत्रेति। अपिः संभावनायाम्। अत्र शेषविषये। अत एवाह-अयं चेति। ेषइत्यर्थः । विविक्कविषयस्यापि वक्ष्यमाणलादाह-प्रायेणेति। अभीति। व्याप्ो- तीत्यर्थः । उताहो अथवा। येनेति। प्राप्त इति भावे कः । येनेति कर्तरि तृतीया। नव्द्वयस्य प्रकृतदार्ढ्यबोधकत्वम्। तथा च यत्कर्तृकस्य प्राप्तौ यत्रारभ्यमाणः स तस्य बाधक इत्यर्थः । तदप्राप्तियोग्येSचारिता्थ्ये हि बाधकताबीजम्। एवव्यवच्छेदं स्पथ्ट- र्थमाह-न चेति। नहीत्यर्थः । तावदादौ। अलमत्यन्तम्। पाता रक्षिता पाता- ललोकथ। आशानां मनोरथानां दिशां च। अमराणां देवानां म्द्रणानां च भूमि: रस० ३६
Page 409
३९४ काव्यमाला।
इत्यादि काव्यप्रकाशोक्तौ विविक्तो विषय इति वाच्यम् । रूपकस्यै- वात्र स्फुटत्वात्। श्लेषोपस्थापितपातालाद्यर्थस्याभेदारोपमन्तरेण लोकत्र- यात्मकत्वस्य दुरुपपादत्वात्। कथं तर्हि 'नदीनां संपदं विभ्रद्राजायं सा- गरो यथा' इत्यादावुपमायाः प्रत्ययः, कथं वा तत्रैव यथाशब्दस्थाने किमु- शब्ददाने उत्प्रेक्षायाः, अपर इति कृते च रूपकस्येति चेत् न अत्र हि उपमादीनां प्रतिभानमात्रं न तु वास्तवी स्थितिः । नहि श्वैत्येन शुक्तौ रजतत्वं प्रतीयमानमपि वस्तुतोऽस्ति । तस्मादुपमादिप्रतिभोत्पत्तिहेतुः श्ेष एव स्वविषये सर्वत्रालंकारः" इति। एतच्चापरे न क्षमन्ते। तथा हि यत्तावदुच्यते येन नाप्राप्त इत्यादि तत्र प्रागुदाहृते 'पझमाख्यं तत्किमपि ललितं' इत्यस्मत्पद्ये, 'सर्वदोमाधवः पातु योगङ्गां समदीधरत्' इत्यादिपर- कीयपदये च श्लेषातिरिक्त: कोडलंकारः । तुल्ययोगिता तु सादृश्यप्रत्यय- नियता कथमत्र शक्यते वक्तुम्। नहि लक्ष्मीकमलयोर्हरिहरयोर्वा प्रकृते सादृश्यं प्रतिपिपादयिषितम् । नापि चात्रैकश्रुत्यार्थद्वयोपादानं विनान्य- त्किंचिच्चमत्कारजनकं येनालंकारान्तरमभ्युपगच्छेम। एकश्रुत्यार्थदवयोपा- दानं तु श्रेष एव। एवं च सावकाशत्वाच्छेषस्यालंकारान्तरापवादकत्वं न युक्तम् । अत एवोपमादीनां प्रतिभानमात्रमिति यदुक्तं तदपि न संग- तम्। गुणत्रियादेरिव शब्दमात्रस्यापि समानधर्मत्वेनोपमायां तावद्वाघ- काभावात्। एवमेवालंकारान्तरस्यापि श्लेषविषये पारमार्थिक्येव सत्ता न
स्वर्गः चमरसंवन्धिपवनाश्रयश्च। अभेदेति। प्रथमोपस्थितार्थे इति भावः । तस्मा- च्छरेपस्य सर्वबाधकत्वं सिद्धम् । तत्राक्षिपति-कथं तहीति। दीनां स्वल्पां संपद न बिभ्रत्, नदीनां गङ्गादीनां संपदं विभ्रच्च। तत्रैव प्राचोक्त्तनदीनामित्यत्रैव। प्रत्ययप- दस्याग्रे उभयत्रानुपङ्ञः । प्रतिभानेति। तथा च प्रातिभासिकतं तेषामिति भावः । तदेवोपपादयति-नहीति। उद्धटाचार्योक्तं खण्डयति-एतच्चेति। तत्रेत्यस्य उच्यत इति शेषः। एवमग्रे सर्वत्र बोध्यम्। सर्वदा उमाधवः । सर्वप्रदो माधवक्ष । गङ्गां अंग गां च । वस्तुतः सादृश्यसत्त्वेऽप्याह-प्रत्ययेति । ननु तत्प्रतीतिरपि कुतो नात आह-नहीति। नन्वलंकारान्तरमस्तत आह-नापीति। नन्वेक- श्रुत्यार्थद्वयोपादानेऽप्यन्यालंकारः कुतो नात आह-पकेति । उपसंहरति-एवं चेति। अलंकारान्तराभावे चेत्यर्थः । क्रियादेरिवेति। तदुपमानधर्मवदित्यर्थः। बाधकाभावादिति। बाधकताबीजस्य निरवकाशतस्याभावादित्यर्थः । श्लेषस्येति
Page 410
रसगङ्गाधरः । ३९५
प्रातिभासिकी। प्रत्युत क्लेषस्यैव प्रतिभानमात्रमिति वक्तुं युक्तम्। पूर्णो- पमाया विषयस्य सर्वस्यापि त्रिविधश्लेषेणाक्रान्तत्वान्निरवकाशतयास्य सावकाशस्य स्वविषये बाधौचित्यात्। तथा 'समरार्चितोऽप्यमरार्चितः' इत्यादौ क्लेषस्य तैमिरिकचन्द्रद्वयवत्प्रतिभानमात्रमेव न त्वलंकारत्वम्। तज्जीवातोर्द्वितीयार्थस्याप्रतिष्ठानात्। विरोधस्य त्वाभासरूपस्याप्यलंका- रत्वं न तु क्लेषस्येति स्फुटमेव। तस्मादेवमादौ ल्लेषप्रतिभयोत्पाद्यो वि- रोध एवालंकारः, न तु विरोधप्रतिभयोत्पाद्यः क्लेषः । कि च प्रत्येकं तत्त- द्रूपपुरस्कारेण कस्याप्यलंकारस्य नास्ति क्लेषविषये नाप्राप्तत्वमलंका- रान्तरपुरस्कारेणेति चेत्, एवं तर्हि वाध्यसामान्यचिन्तया स्वविषये प्रा- सस्य सर्वस्यापि बाधापत्तौ श्िष्टपरम्परितरूपकस्य क्विष्टसमासोक्तश्ो- च्छेद एव स्यात् तस्माच्छेषस्य नापवादकत्वं संकीर्णत्वं तु स्यात् इति । अन्ये तु-"अलंकारा हि प्राधान्येन चमत्काराधायकाः स्वां स्वामा- ख्यां लभन्ते। त एव परोपकारकतया वर्तमानास्तां त्यजन्ति। यथा- 'रराज भूमौ वदनं मृगाक्ष्या नभोविभागे हरिणाङ्कबिम्बम्' इत्यत्र प्रकृ- ताप्रकृतात्मनामेकघर्मसंबन्धो दीपकाख्यां भजते, त्यजति च 'राजते व- शेषः। उत्प्रेक्षादावाह-एवमेवेति। प्रत्युत वैपरीत्येन। लप्तोपमायां सर्वत्र तदसंभवा- दाह-पूर्णोपमेति। तथा च तद्विषये इदमुच्यते, न तु सर्वत्रेति भावः । त्रिवि- धेति। प्रकृतत्वादेवेति भावः। तया पूर्णोपमया। अन्यत्राप्येवमित्याह-तथेति। समरे सङ्गामे। तेन वार्चितोप्यमरैदेवैरचितः। न मा उपमा यस्य तादृशो राः धनं येषां तैरर्चितः । अनुपमधनार्चितश्वेत्यर्थः। तैमिरिकेति । तिमिराख्यनेत्ररोगकृते- त्यर्थः । अप्रतिष्ठानादिति। सरलतयाप्रतीतेरित्यर्थः । नन्वाभासत्वे श्लेषवद्विरोध- स्याप्यलंकारतं न स्यादत आह-विरोधस्य त्विति। अपिर्वास्तवतत्समुच्चायकः । नन्वेवं तर्हि समरार्चीत्यादौ कोऽलंकारोऽत आह-तस्मादिति । उक्तहेतोरित्यर्थः । एवमादौ समरार्चीत्यादौ। एवं सावकाशत्वेन न्यायाविषयलमुक्ता सामान्यचिन्ताप- क्षेऽसंभवाद्विशेषचिन्तापक्षेतिव्याप्तेक्ष न न्यायविषय इत्याह-किं चेति। तत्त- द्रूपेति। उपमात्वरूपकत्वादित्यर्थः । विषये तद्विषयत्वावच्छिन्ने। एवं च वाध्यविशेष- चिन्तापक्षे तदसंभवः । सामान्यचिन्तापक्षे आह-अलमिति। ननु मास्त्वस्य तद- पवादत्वं परंतु तदग्रिमयो: पक्षयोः कोऽभिमतोऽत आह-संकीर्णत्वमिति। तृती- यपक्षाशयेनाह-अन्ये त्विति। हि यतः। अत एव तेपामेव तदाख्यत्वादेव। तां स्वीयाख्याम्। नभोविभागे नभःप्रदेशे। एकधर्मेति। राजनरूपेत्यर्थः । नभसी-
Page 411
३९६ काव्यमाला।
दनं तन्व्या नभसीव निशाकरः' इत्यत्र। अत एवोच्यते-'प्राघान्येन व्यपदेशा भवन्ति' इति। एवं चालंकारान्तरोपस्कारकतया स्थितः ल्लेषः कथंकारं स्वगृहस्थ इव श्लेषालंकारव्यपदेशं वोदुमीष्टामिति बाध्यप्राय एव" इत्यप्याहुः । तदित्थं संक्षेपेण श्लेषस्य दिक्प्रदर्शिता। यत्र तु प्रकृताप्रकृतोभयवि- शेष्ययोरपि क्िष्टपदोपात्तत्वं स तु ध्वनेर्विषय इत्युक्तं स च यथा- 'अविरल विगलद्दानोदकघारसारसिक्तधरणितलः । धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम् ॥' अत्र राजनि प्रस्तुते उदग्दिग्गजोऽप्रस्तुतोऽपि व्यञ्जनमर्यादया प्रती- यते। तत्राप्रस्तुताभिधानं मा प्रसाङ्गीदिति प्रस्तुताप्रस्तुतयोरुपमानोपमे- यभावे तात्पर्यै कल्प्यते। इमं च शन्दशक्तिमूलानुरणनरूपं ध्वनिमाहुः । उदाहृतश्च ध्वनिकारै :- 'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः ।
मम्मटभट्टैश्र- पयोधरभरस्तस्याः कं न चक्रेभिलाषिणम् ।।'
'भद्रात्मनो दुरधिरोहतनोर्विशाल- वंशोन्नतेः कृतशिलीमुखसंग्रहस्य । चेति। अत्रोपमया वर्ण्यपुष्टिः। उक्कार्थे प्राचीनसंमतिमाह-अत एवेति। ईदृश- व्यवस्थाङ्गीकारादेवेत्यर्थः। नन्वेतावता प्रकृते किं सिद्धमत आह-एवं चेति। उक्- व्यवस्थाङ्गीकारे चेत्वर्थः । कथंकारं कथंकृत्वा। व्यतिरेके दृष्टान्तः । वाध्यप्राय एवे त्यप्याहु रिति। सर्वदो माधव इत्यादावलंकारान्तरसंभावनारहिते साव काशस्य श्रलेषस्या- लंकारान्तरेण खवविषये वाध्यत्वमेवेत्यर्थः । प्रतिभामात्रसत्त्वात्प्राय इति। अपिर्विशेषण- समुचायकः । अविरलेति। व्याख्यातमिदं प्राक्। तत्र तत्प्रतीतौ सत्याम्। उन्नत इति। महानुचैश्। प्रोल्लसन्ती धारा यस्य सः प्रोह्लसन्हारो यत्र स च। कालागुरु- वन्मलीमसः श्यामः कालागुरुणा श्यामश्च। मेघसमूहः स्तनभारथ्। भट्टैश्वेति । उदाहृतमित्यस्यानुषङ्गः । भद्रेति। अत्र यच्छव्दः प्राकरणिकराजपरः । तत्पक्षे यस्य प्रकृतस्य राज्ञः करः पाणिर्निरन्तरं दानार्थगृहीताम्वुसेकशोभनोऽभूत्। भद्रात्मनः कल्याणरूपस्य। दुरधीति। अनभिभवनीयशरीरस्य। वंशः कुलं तत्रोन्नतिराधिक्यं यस्य। कृतः शिलीमुखानां नाराचानां संग्रहोऽभ्यासदार्व्य येन। अनुपेति। अबा-
Page 412
रसगङ्गाधरः । ३९७
यस्यानुपप्ुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ॥' कुवलयानन्दकारस्तु-"यदत्र प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्ति- मूलध्वनिमिच्छन्ति प्राश्चस्ततु प्रकृताप्रकृताभिधानमूलस्योपमादेरलंका- रस्य व्यन्नत्वाभिप्रायं न त्वप्रकृतार्थस्यैव व्यञ्ञत्वाभिप्रायम्। अप्र- कृतार्थस्यापि शक्त्या प्रतिपाद्यस्याभिधेयत्वेन व्यक्त्यनपेक्षत्वात्। यद्यपि प्रकृतार्थे प्रकरणवशाज्झटिति बुद्धिस्थिते सत्येव पश्चान्नृपतितद्राह्यधना-
षपूर्वकमप्रकृतार्थः स्फुरेत् । नैतावता तस्य व्यङ्ञयत्वम्। शक्त्या प्रति- पाद्यमाने सर्वथैव व्यक्त्यनपेक्षणात् । पर्यवसिते प्रकृतार्थाभिधाने स्फुरति चेत्कामं गूढश्लेषोऽस्तु । अस्ति चान्यत्रापि गूढ: श्लेषः । यथा-
धितज्ञानस्य अवारितगतेवा अदुष्टहितकर्तुर्वा। परेति। शत्रुनिवारकस्य। गजपक्षे भद्रजातीयस्य। अत्युच्चत्वाद्दुःसाधिरोह्यशरीरस्य। विशाला वंशस्य पृष्ठदण्डस्योन्नति- र्यस्य। कृतभ्रमरसंग्रहस्य अनुद्धतधीरगमनस्य। परस्योत्कृष्टस्य वारणस्य गजस्य । करः शुण्डादण्डः । मदजलसेकसुभगोऽभूदित्यर्थः । अत्र राजा वाच्यो हस्ती प्रतीय- मानः। ननु प्रकरणेनाभिधाया नियमनादप्रकृतार्थस्य व्यञ्ञयत्वमेवेति कथं श्लेषोऽत आह-यदत्रेति। मूलस्य मूलकस्य। अलंकारस्येति । इदमुपलक्षणं वस्तुध्वने- रपि। शनिरशनिरित्यादौ शनिविरुद्धरूपेSप्रस्तुतेऽशनिशव्देनाभिधया प्रतीयमानेऽपि तन्मूलकस्य विरुद्धावपि त्वदनुवर्तनमेकं कार्ये कुरुत इति वस्तुध्वनेरशनिशब्दशक्तिमू- लस्य संभवात्। एतेन शब्दशक्तिमूलवस्तुध्वनेरुच्छेद इत्यपास्तम्। अत एव विवक्षि- तार्थमाह-न त्विति। अभिधेयत्वेति। वाच्यत्वावश्यकत्वेनेत्यर्थः । 'अभिधाया अवश्यंभावेन' इति कवचित्पाठः । झटितीति। एवं च प्रकरणादीनां प्राथमिकबोध- त्वमेव प्रतिवध्यतावच्छेदकमिति भावः । नृपतितङ्राह्यति। नृपतिनृपतिग्राह्येत्यर्थः । यथासंख्येनास्य राजकरयोरन्वयः । 'असावुदयमारूढः कान्तिमान्रकमण्डलः । राजा हरति सर्वस्वं मृदुभिर्नूतनैः करैः ॥' इत्यादाविति भावः । अन्योन्यसंनिधानेति।
प्रकृतार्थविषयेत्यर्थः। नैतावतेत्यस्य तथापीत्यादिः। एतावता पूर्वापरभावमात्रेण तस्य अप्रकृतार्थस्य पक्चादिति। अप्रकृतार्थ इत्यनुषज्यते । काममिति। अप्रकृतस्य द्विती- यस्य शीघ्रप्रत्ययाद्रढत्वम्। तदसंभवशङ्गां निरस्यति-अस्ति चेति । चो हर्थे।
Page 413
३९८ काव्यमाला।
'अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्विभर्ति ॥' अत्र हि समासोक्त्युदाहरणे वृद्धवेश्यावृत्तान्तः प्रतीयते। तत्राभङ्ग- क्लेष इति सर्वेषामभिमतम् । एवं चाप्रकृतार्थो न व्यन्नयः ।" इत्याह । तत्र विचारयाम :- यत्तावदुच्यते उपमादेरलंकारस्यैव व्य्नयत्वं प्राची- नानामभिप्रेतं न त्वप्रकृतार्थस्येति। एवं सति 'अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते। संयोगादैरवाच्यार्थधीकृद्यापृतिरञ्जनम् ।' इत्यादिस्तेषां ग्रन्थः कथमायुष्मता समर्थितः । उपमादेर्व्यन्वत्वस्य वाचकतानियन्त्रणानपेक्षत्वात्। नह्यनेकार्थस्यापि शब्दस्योपमादिवाचकत्वं प्रसक्तं येन तन्नियन्त्रणाय संयोगाद्यनुसरणमर्थवत्स्यात्। द्वितीयार्थवाच- कतायामनियन्त्रितायामप्युपमादेर्व्यन्वयत्वस्य निप्प्रत्यूहत्वात् । तस्मात्त- द्रन्थानाकलननिबन्धनं तदभिप्रायवर्णनमिति स्फुटमेव। यदप्युच्यते अप्र- कृतार्थस्यापि शक्त्या प्रतिपाद्यस्येत्यादि तत्र कथमप्रकृतार्थस्य शक्त्या प्रतिपादनम्। तद्विषये शक्तेरनियन्त्रणस्य तैरेवोक्तत्वात्। अथ नियन्त्रणं नाम प्रथमं बोधजननमात्रं न तु चरममपि। एवं च प्रकृतशक्त्या प्रकृ- तार्थबोधे जाते सत्यकृतार्थया द्वितीयशक्त्या प्रकृतेतरार्थत्ोधे न किंचि- द्वाधकमिति चेत्। न। प्रथमं ह्यप्रकृतार्थबोधस्याजननमेव कस्य हेतोः।
अन्यत्रापि उदाहरणान्तरेऽपि। अयमतीति। माघे रैवतकवर्णनम्। अयं रैवतक- गिरि: कठिना: अत्यन्तमहतीः महाविलम्वमानमेधव्याप्ताः निरन्तरं प्राणिनामगम्यख- रूपा: परिणतास्तिर्यग्दन्तप्रहारिणो दिककरिणो दिग्गजा यासु तास्तटीर्विभर्तीत्यर्थः । 'तिर्यग्दन्तप्रहारी यो गजः परिणतस्तु सः' इति हलायुधः। वृद्धवेश्यापक्षे तु अयं राजा अतिप्रवयसो जीर्णा महाविलम्बमानस्तनसंबद्धाः सततं कदापि प्राणिनां संगमायोग्यस्व- रूपाः। गमने प्राणिनां मरणमेवेति भावः । परिणते दिग्वर्तुलाकारं दशनक्षतं करिका नखक्षतं च यासां तास्तटीस्तत्वेनाध्यवसिता वृद्धवेश्या विभर्तीत्यर्थः । 'दिग्दष्टं वर्तुलाकारं करिकानखरेखिका' इति यादवः। ननु तत्र श्लेष एव नात आह-तत्रेति। अयम- तीत्यत्रेत्यर्थः। उपसंहरति-एवं चेति। तेषां प्राचीनानाम्। दोषान्तरमाह-द्विती- यार्थेति। तैरेव प्राचीनैरेव। अकृतार्थया अचरितार्थया। सा पूर्वे विद्यमाना ।
Page 414
रसगङ्गाधरः । ३९९
प्रकरणादिज्ञानेन प्रतिबन्धादिति चेत्, प्रकृतार्थबोधोत्तरं सा प्रतिबन्धकता केनापहृता प्रकरणादिज्ञानस्य। न च ज्ञानस्याशुविनाशित्वात्तदानीं प्रक- रणज्ञानमेव नष्टमिति वाच्यम्। ज्ञानान्तरस्योत्पत्तौ बाधकाभावात्। सैव ज्ञानव्यक्ति: प्रतिबन्धिकेति तु तत्तद्यक्तिसहस्त्रगतप्रतिबन्धकत्वसहस्त्र- कल्पनागौरवग्रस्तमेव। तदपेक्षयान्यत्र कृप्तव्यञ्जनाख्यव्यापारस्यैव कल्प- यितुं युक्तत्वात्। 'जैमिनीयमलं धत्ते रसनायां महामतिः' इत्यादौ वाधि- तार्थबोधस्य शक्त्या दुरुपपादत्वाच्च। यदि तु यथाकरथंचिदुपपत्तिः स्यादे- वमपि तस्य देवदत्तादौ तत्पुत्रवाक्यादप्रादुर्भावस्तच्छ्यालकाद्युपहासवाक्या- त््रादुर्भावश्च न स्यात्। वक्तृतोद्धव्यादिवैशिक्षस्य व्यक्षप्रतिभामा- त्रहेतुत्वादिति प्राचामाशयः । तत्र किमुच्यते अप्रकृतार्थस्य शक्त्या
आश्विति। त्रिक्षणावस्थायितादिति भावः। ज्ञानमेवेति। एवं चाश्रयस्यैवाभावा त्प्रतिबन्धकत्वं दुर्वचमिति भावः। लाघवादाह-तद्पेक्षयेति। अन्यत्र गतोऽस्त- मर्क इत्यादौ। व्यञ्जनानङ्गीकर्तृमते गौरवाङ्गीकारस्यावश्यकत्वादाह-जैमिनीयेति। बाधितार्थेति। जैमिनीयसंबन्धिविष्ठामित्यर्थः । यथाकथंचित् तत्र व्युत्पत्त्यन्तरा- न्रीकारादिति भावः । तस्य महाम तिर्जिह्वायां जैमिनीयसंबन्धिविष्ठां धत्ते इति बाधि- तार्थस्य। तत्पुत्रेति। तत्र तुस तस्यां जैमिनीयं शास्त्रं अलमत्यन्तं धत्ते इत्यर्थप्रती- तिरिति भावः । ननु वक्तृबोद्धव्यादिवैशिष्ट्यात्तथेत्यत आह-वक्किति । मात्रपदेन शक्यप्रतिभानिरासः । तथा चावश्यकव्यअनयव तत्प्रतीतिरिति भावः । अत एवाह- तत्र किमुच्यते अप्रकृतार्थस्य शक्त्या प्रतिपादनमिति। अन्नेदं चिन्त्यम्-तत्र झटितीत्युक्त्या प्राथमिकबोधत्वमेव प्रतिबन्धतावच्छेदकमिति वोधितमित्युक्तमेव। एवं चान्योन्यसंनिधानबलादित्यनेनोक्त्तार्थ केनेदं बोधितं यत्प्रकृतार्थे नियामकद्वयसत्त्वात्प्रथम- मुपस्थितिः। द्वितीयेऽपि शब्दान्तरसंनिधिरूपनियामकमात्रसत्वे न तस्याप्युपस्थितिः किं तु पश्चादिति। सुरभिमांसं भुक्ले इत्यादेः पुत्रादिप्रयुक्तान्नाश्लीलबोधः। श्यालकादिप्रयु- कादेव च तद्वोध इति व्यवस्थापि वक्तृतात्पर्याग्रहतद्वहाभ्यां सूपपादा। यद्वा वक्तृबो- द्धव्यादि वैशिष्ट्यस्य फलबलेन नियन्त्रितशक्त्युल्लासेऽपि हेतुत्वकल्पनान्न दोषः । एता- वान्विशेष :- यत्र वक्तृवैशिष्यादिज्ञानं विलम्बेन, प्रकरणज्ञानं च शीघ्रं तत्र वक्तृवै- शिष्यादीनां नियन्त्रितशक्त्युल्लासकत्वम्। यत्र तु युगपदेवोभयं तत्र नियन्ररणप्रतिब न्घकतोत्तेजकतैव तेषाम्। व्यज्जनावादिनापि तेषां व्यक्षय प्रतिभाहेतुत्वमवश्यमक्ीकार्य- मेव। तद्वरं व्यअनामनङ्गीकृत्य तेषां शक्त्युल्लासादिहेतुत्वकल्पनमेव । एवं योगरूढप- दानां यत्र योगार्थमात्रघटितार्थान्तरबोधकतेष्टा तत्र तेषां रूढिप्रतिबन्धकतापि स्वीकार्या, उत्तेजकता वा। एतेन वयं तु त्रूम इत्याद्युक्तिरप्यपास्ता । किं च
Page 415
800 काव्यमाला।
प्रतिपादनमिति । यच्चाप्युच्यते 'अयमतिजरठाः'- इत्यादि समासोक्ता- विव गूढश्लेषोऽस्तु' इति, तदपि गर्भस्रावेण गलितम्। क्रिष्टविशेषणायां समासोक्तावपि व्यक्त्यैवाप्रकृतार्थप्रतीतिस्वीकारात् । अत एव ध्वनिकृता 'गुणीभूतव्यन्नयभेदः समासोक्तिः' इत्युक्तम् । 'समासोक्त्या क्रेषो वा- ध्यते' इत्युद्धटप्रभृतिश्च। बाधो हि श्लेषस्य तत्राप्रवृत्तिमात्रम् । क्रिष्ट- शब्दप्रयोगस्तु तत्रोभयार्थतामात्रेणोपपादनीय इति न किंचिदेतत् । वयं तु ब्रूम :- अनेकार्थस्थले ह्यप्रकृताभिधाने शक्तेरुक्तिसंभवो- डप्यस्ति। योगरूढिस्थले तु सापि दूरापास्ता। यथा- 'चाञ्चल्ययोगिनयनं तव जलजानां श्रियं हरतु। विपिनेऽतिचञ्चलानामपि च मृगाणां कथं नु तां हरति ।।' अन्र नैवाश्चर्यकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणा- धिकेन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकारी तु हरिणानां तद्गुणयुक्तानां तिरस्कार इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयो- गमर्यादया मूर्खपुत्राणां धनहरणं नेतृ(त्रि)भिश्चौरैः सुशकं न तु गवे- षकाणामिति जलजनयनमृगशव्देभ्यः प्रतीयमानोऽर्थः कथं विना व्यञ्ञ- नाव्यापारमुपपादयितुं शक्यते। यतो योगशक्ते रूढ्या दृढनिगडनिय- न्त्रिताया नास्ति स्वातन्त्र्यम् । अत एव पङ्कजादिपदेभ्यः पङ्कजनिकर्तृ- त्वेन कुमुदशैवलादिबोधो लक्षणयैव । तादृशशक्तिज्ञानानां पद्मत्वप्रका- रकबोधस्यैव कार्यतावच्छेदकत्वादित्युक्तं नैयायिकैः । अत एव च 'ईशानो शब्दशक्तिमूलध्वनिस्थले संबन्धविशेषरूपव्यज्जनाया बोधजनकत्वकल्पनापेक्षया कृप्तश- केस्तत्वकल्पनमेवोचितम्। लाघवात्। एवं चाश्िष्टसाधारणविशेषणयां समास्ोक्ता वेव गुणीभूतव्यङ्गयत्वम्, श्रिष्टविशेषणायामप्यारोपांशमादाय तत्त्वमिति दीक्षिताशयः। वस्तुतस्तु द्वितीयार्थस्य व्यक्षयत्वेऽपि न तमादाय ध्वनित्वमुचितम् । उपमानादिवि- धया तस्यापि प्रकृतोपस्कारकत्वेन गुणत्वात्। अन्यथा समासोक्क्कावपि गुणीभूतव्यज्रय- त्वोकिरसंगता स्यादित्यलंकारव्यङ्ञयत्वमादायैव ध्वनित्वमुक्तमिति बोष्यम्। एतेन यदप्युच्यते अयमतीत्यादितदपास्तमिति बोध्यम् । अपिना साधारणविशेषणसमुच्चयः। एतेन शक्तिनिरासः । अत एव व्यत्तयैव तदङ्गीकारादेव। तिश्चेति । उक्तमित्य- स्यानुषङ्गः। ननु प्रागुक्त्तरीत्या तत्र श्रलेषस्यैवाभावेन कथ वाध्यत इत्युक्तिरत आह-बा- धो हीति। तत्र समासोकौ। नन्वेवं श्िष्टेतिशब्दप्रयोग: कथमत आह-ल्लिष्टेति।
Page 416
रसगङ्काधरः । ४०१
भूतभव्यस्य स एवाद्य स उ श्वः' इति वेदान्तवाक्ये किमैश्वर्य- विशिष्टः कश्चिज्जीवः प्रतिपाद ईश्वरो वेति संशये प्राप्ते 'शब्दादेव प्रमितः' इति सूत्रितमुत्तरमीमांसाकारैर्व्यासचरणैः । तस्मात्प्रागुक्तपद्येऽप्र- कृतचोरव्यवहारो न शक्तिवेद्यः, अपि तु व्यक्तिवेद् एव। मुरयार्थवा- घाद्यभावाललक्ष्योऽपि न शक्यो वक्तम्। तात्पर्यार्थवाधस्तु तात्पर्यार्थबोधो- त्तरबोध्यः स एव तु कथं स्यादिति व्यञ्जनैव शरणीकरणीया। नहि चोरव्यवहारोऽत्र वक्तुर्विवक्षित इति ज्ञाने श्रोतुः कश्चिदुपायोऽस्ति ऋते सहृदयतोन्मिषितादस्माद्यापारात्। इदं पुनरिहावधेयम्-'रागावृतो वल्गुकराभिमृष्टं श्यामामुखं चुम्वति चारु चन्द्रः' इत्यादौ तावत्समासो- क्तिरिति निर्विवादम्। चन्द्रपदस्थाने राजेति कृते तु शब्दशक्तिमूलो ध्वनिरिति च। तदत्रोभयत्रापि क्रिष्टविशेषणमाहात्म्यादप्रकृतव्यवहारस्य प्रतीयमानस्य तुत्यत्वात्कथमेकत्र गुणीभावोऽन्यत्र प्राधान्यं च स्यात् । प्रकृतस्य प्राधान्यादप्रकृतस्य तु तदुपस्कारकत्वेनोभयत्रापि गुणभावौ- चित्यात्। नहि विशेष्यस्य श्विष्टतामात्रेण व्यङ्गयस्य प्राधान्यम्, अश्वि- ष्टत्वे चाप्राधान्यं शक्यं संपादयितुम्। नायकत्वप्रतीतिरपि क्वचिदर्थ- शक्तिमूलेन व्यञ्जनेन, कचिच्छन्दशक्तिमूलेन तुल्यैव। यैरपि समासोक्तौ प्रकृतधर्मिणि नायकत्वादेः प्रत्ययो नाभ्युपेयते, अपि तु नायकादिव्यव- हारस्यैव ध्वनौ चाभ्युपेयते, तेषामपि व्यङ्ग्यस्यैकत्र गुणत्वमन्यत्र प्रा- धान्यं च कस्य हेतोः स्यात्। प्रकृताप्रकृतयोरौपम्यं गम्यमुच्यतामभेदो वा सर्वथैव तस्य प्रकृतोपस्कारकत्वाद्गुणीभाव एवोचितो न प्राधान्यम् । अन्यथा समासोक्तावपि व्यङ्रयस्य प्राधान्यापत्तेः । तस्माच्छ्रिष्टाश्रिष्टवि- शेप्या समासोक्तिरेवेयम्। पराङरूपगुणीभूतव्यङ्गयभेद इत्यपि शक्यते वक्तुम्। यदि प्राश्चो न कुप्यन्ति। सोडयं श्रेषः सभङ्गोऽभङ्गश्चार्थालं- कार एवेत्यौद्टाः । उभावप्येतौा शब्दालंकारी । शब्दस्य परिवृत्त्यसह- त्वादन्वयव्यतिरेकाभ्यां तदाश्रितत्वावधारणात् । तृतीयस्त्वर्थालंकारः । अर्थमात्राश्रितत्वात् । इति मम्मटभट्टाः। अन्वयव्यतिरेकाभ्यां हि हेतु- व्यक्तिर्व्यजना। अस्मात् व्यअ्ञनाख्यात्। वल्गु सुन्दरम्। इति च निर्विवादम् । एकत्र आदये। अन्यत्र अन्त्ये। एवमप्रेऽपि। कस्य कस्मात्। सर्वस्वकारमतमाह-अन्व.
Page 417
४०२ काव्यमाला।
त्वावगमो घटं प्रति दण्डादेरिवास्तु। न त्वाश्रयत्वावगमः । स तु पुनस्त- द्वृत्तित्वाज्ञानाधीनः । इह हि सभङ्गश्लेषस्य शब्दद्वयवृत्तित्वं जतुकाष्ठ- न्यायेन, अभङ्गस्य चार्थद्वयवृत्तित्वमेकवृन्तगतफलद्वयवच्च स्फुटमेवेत्ये- कस्य शब्दालंकारत्वमपरस्यार्थालंकारत्वम्। यद्यपि द्वितीयस्यापि 'प्रति- प्रवृत्तिनिमितं शब्दभेद:' इति नये शब्दद्वयवृत्तित्वाच्छब्दालंकारत्वमु-
यवृत्तित्वज्ञानं दुःशकम् । अन्यथा 'प्रत्यर्थ शब्दनिवेशः' इति नये परा- भिमतोऽर्थश्लेपोऽपि शब्दालंकार एव स्यात्। इत्यलंकारसर्वस्वकारादयः । अयं चोपमेव स्वतन्त्रोऽपि तत्र तत्र सकलालंकारानुग्राहकतया स्थितः सरस्वत्या नवं नवं सौभाग्यमावहन्नानाविधेषु लक्ष्येषु सहृदयैर्वि- भावनीय इति। इति रसगङ्गाधरे श्रलेषप्रकरणम् । अप्रस्तुतेन गम्येन वाच्यस्य प्रस्तुतस्योपकरणे समासोक्तिरुक्ता । इदानीं तद्वैपरीत्येनाप्रस्तुतप्रशंसोच्यते- अप्रस्तुतेन व्यवहारेण सादृश्यादिवक्ष्यमाणप्रकारान्यतमप्रका- रेण प्रस्तुतव्यवहारो यत्र प्रशस्यते साप्रस्तुतप्रशंसा ।। प्रशंसनं च वर्णनमात्रम्, न तु स्तुतिः । 'धिक्तालस्योन्नततां यस्य च्छायापि नोपकाराय ।' इत्यादावव्याप्यापत्तेः । इयं च पञ्चधा-अप्रस्तुतेन सवसदृशं प्रस्तुतं गम्यते यस्यामित्येका। कार्येण कारणमित्यपरा। कारणेन कार्यमिति तृतीया। सामान्येन विशेष इति चतुर्थी। विशेषेण सामान्यमिति पञ्चमी। आद्या यथा- 'दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः ।
येति। एकस्य आद्यस्य। अपरस्य द्वितीयस्य। अयं च श्लेषश्व । इतिः समाप्तौ ॥ इति रसगङ्गाधरमर्मप्रकाशे श्लेषप्रकरणम् । अथ वक्तव्याप्रस्तुतप्रशंसायाः संगतिमाह-अप्रस्तुतेनेति। हरिदिति इन्द्रादय
Page 418
रसगङ्गाघरः । ४०३
इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं नखानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपतिः ।।' यथा वा- 'यस्मिन्खेलति सर्वतः परिचलत्कल्लोलकोलाहलै- र्मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्यूथाधिपाः पेदिरे।
कोडे क्रीडतु कस्य केलिरभसत्यक्तार्णवो राघवः ॥' यथा वा- 'पुरा सरसि मानसे विकचसारसालिस्खल- त्परागसुरभीकृने पयसि यस्य यातं वयः । स पल्वलजलेडधुना मिलदने कभेकाकुले मरालकुलनायकः कथय रे कथ वर्तताम् ।।' क्रिष्टविशेषणाप्येषा दृश्यते- 'नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः । अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि ॥ समासोक्तिरत्रानुग्राहिकेति तुन वक्तव्यम् । तस्याः प्रकृतालंकार- विरुद्धात्मिकत्वेनानुग्राहिकात्वायोगात् । यत्तु 'येनास्यभ्युदितेन चन्द्र ग- मितः कान्तिं रवौ तत्र ते युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः' इत्यत्र समासोक्तिरनुग्राहिका' इति मम्मटभट्टैरुक्तं तत्र विचार्यते-अत्र विशेषणसाम्यमहिम्ना प्रतीयमानः कापुरुषवृत्तान्तः किं प्रस्तुत आहोसि- दप्रस्तुतः । आद्ये समासोक्तेर्विषय एव नास्ति । 'परोक्तिर्भेदकैः करिै: समासोक्तिः' इति समासोक्तर्लक्षणस्य तैरेवाभिधानात्। परस्याप्रकृत- स्येति तदर्थात्। द्वितीयेSप्रस्तुतप्रशंसाया नास्ति विषयः । 'अप्रस्तुतप्र- शंसा सा या सैव प्रस्तुताश्रया' इति तल्लक्षणात् । प्रस्तुत आश्रयः प्रधानं यस्या इति तदर्थात्। तस्माच्छ्रिष्टविशेषणोपक्षिप्तद्वितीयार्थमात्रं समासो - किरित्यभिप्रायेण यथाकर्थंचित्संगमनीयम्। इत्यर्थः । विकचेति। विकसितकमलपङ्गीत्यर्थः । भेको मण्डूकः । अलिर्भ्रमरः ।
Page 419
४०४ काव्यमाला।
इयं च सादृश्यमूलाप्रस्तुतप्रशंसोच्यते। अस्यां च वाक्यार्थः क्वचि- त्प्रतीयमानार्थताटस्थ्येनैवावतिष्ठते यथोक्तोदाहरणेषु । क्वचिच्च स्वगतविशे- षणान्वययोग्यतामासादयितुं प्रतीयमानाभेदमपेक्षते। यथा- 'समुपागतवति दैवादवहेलां कुटज मधुकरे मा गाः । मकरन्दतुन्दिलानामरविन्दानामयं महामान्यः ।।' यथा वा- 'तावत्कोकिल दिवसान्यापय विरसान्वनान्तरे निवसन्। यावन्मिलदलिमाल: कोडपि रसाल: समुल्लसति॥' अत्र वृक्षपक्षिणोः संबोधनानुपपत्त्या प्रतीयमानांशतादात्म्यमपेक्ष्यते। 'मलिनेऽपि रागपूर्णो विकसितवदनामनल्पजल्पेडपि। त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥' अत्र त्यागानौचित्यहेतुत्वेन कमलिन्याः स्तुतिरूपं विशेषणमुपात्तम्। तच्च न संभवति। नहि भ्रमरे श्यामत्वादिर्दोषः कमलिन्याः शोणत्वादिर्वा गुण: येन स्तुतिः स्यात् । अतो वाच्यार्थस्य प्रतीयमानतादात्म्यं विशे- व्यांशे विशेषणांशे चापेक्ष्यते । पूर्वत्रांशेन इह तु साकल्येनेति विशेषः । क्चिच्च प्रतीयमानमपि किंचिदंशे वाच्यतादात्म्यं वाच्यं च किचिदंशे प्रतीयमानतादात्म्यमपेक्षते। यथा- 'सरजस्कां पाण्डुवर्णो कण्टकप्रकराक्किताम्। केतकीं सेवसे हन्त कथं रोलम्ब निस्त्रपः ।।' अत्र यथा सरजस्कत्वं वाच्यप्रतीयमानयोरुभयोरपि सेवनानौचित्ये निमित्तं न तथा पाण्डुवर्णत्वकण्टकितत्वे। यतः पाण्डुवर्णत्वं केतक्यां न दोषः। प्रत्युत गुण एवेति पाण्डुरत्वांशे केतक्यां नायिकातादात्म्यमपे- क्ष्यते। नायिकायां च कण्टकितत्वांशे केतकितादात्म्यम्। पुलकितत्वस्य कामिनीत्यागाननुगुणत्वात्प्रत्युत तत्सेवनानुगुणत्वात्। मम्मटोकतिमाह-समेति। इयं श्लिष्टविशेषणा। अस्यामप्रस्ुतप्रशंसायाम्। यथो- क्ेति। दिगन्त इत्यादिष्वित्यर्थः । विशेष्यांशे विशेषणांशे चेति। संबोधना- नुपपत्या विशेष्यांशे श्यामत्वादेर्विशेषणत्वाद्युपपत्तये विशेषणांशे चेत्यर्थः । रोळम्बो
Page 420
रसगङ्गाघरः । ४०५
कार्येण कारणं गम्यं यथा- 'किं ब्रूमस्तव वीरतां वयममी यस्मिन्धराखण्डल- कीडाकुण्डलितम्रु शोणनयने दोर्मण्डलं पश्यति। नानाभूषणरत्नजालजटिलास्तत्कालमेवाभव- न्विन्ध्यक्ष्माधरगन्धमादनगुहासंबन्धिनो भूरुहाः ॥' अत्र विन्ध्यारण्यतरुभूषणेनारिपलायनं गम्यते। यदि तु वक्ष्यमाण- रीत्या पर्यायोक्तालंकारस्यायं विषय इत्युच्यते तदेदं विविक्तमुदाह- रणम्- 'नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि। यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ।' अत्र पल्लवादितिरस्कारेण कार्येण तदङ्गानां सौकुमार्यातिशयः कार- णम् । कार्यकारणभावश्रेह ज्ञानयोः । तेन पारुष्यस्य मृणालगतत्वेन ज्ञायमानस्य स्वरूपतस्तदङ्गसौकुमार्याजन्यत्वेऽपि न क्षतिः । कारणेन कार्य गभ्यं यथा- सृष्टिः सृष्टिकृता पुरा किल परित्रातुं जगन्मण्डलं त्वं चण्डातप निर्दयं दहसि यज्ज्वालाजटालैः करैः । संरम्भारुणलोचनो रणभुवि प्रस्थातुकामोऽधुना जानीमो भवता न हन्त विदितो दिल्लीधरावल्लभः ॥' अत्र राजवर्णनाङ्गत्वेन रवेर्भयोत्पादने वर्ण्यत्वेन प्रस्तुते साक्षात्तद- ननुगुणत्वादप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं रिपुकर्तृकसूर्यमण्डलभेदनं गम्यते । यदि चात्र कारणं यथाकर्थंचित्रस्तुतमेवेत्युच्यते तदेदमुदा- हरणम्- 'आनम्य वल्गुवचनैर्विनिवारितेऽपि रोषात्प्रयातुमुदिते मयि दूरदेशम्। बाला कराङ्गुलिनिदेशवशंवदेन क्रीडाबिडालशिशुनाशु रुरोध मार्गम् ।' रस० ३७
Page 421
४०६ काव्यमाला।
अत्र प्रवासान्निवृत्तोऽस्मीति प्रस्तुतमप्रस्तुतेन कारणेन गम्यते। सामान्येन विशेषो यथा- 'कृतमपि महोपकारं पय इव पीत्वा निरातङ्कः । प्रत्युत हन्तुं यतते काको दरसोदरः खलो जगति ॥' अत्र सामान्यार्थेन प्रस्तुतो विशेषो गम्यते । उपमाप्यस्या आनुगु- ण्येन स्थिता। विशेषेण सामान्यं यथा- 'पाण्डित्यं परिहृत्य यस्य हि कृते वन्दित्वमालम्वितं दुष्प्रापं मनसापि यो गुरुतरैः क्वेशैः पदं प्रापितः । रूढस्तत्र स चेन्निगीर्य सकलां पूर्वोपकारावलीं दुष्टः प्रत्यवतिष्ठते तदधुना कस्मै किमाचक्ष्महे ॥' अत्र दुष्टेपु कृत उपकारः परिणामे न सुखं जनयतीति प्रस्तुतं विशे- षेण सामान्यं गम्यते। यथा वा- 'हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः। लेढि जिघ्रति संक्षिप्य करोत्युन्नतमाननम् ।।' अत्र मर्कटवृत्तान्तेनाप्रस्तुतेन प्रस्तुतमनभिज्ञेषु रमणीयवस्तुसमर्पणं नाशाय भवतीति सामान्यं गम्यते। एवं पञ्चप्रकारेयमप्रस्तुतप्रशंसा प्राचा- मनुसारेण निरूपिता। वस्तुतस्तु प्रथमस्याप्रस्तुतप्रशंसाप्रकारस्य नाना- विधत्वं संभवति। यत्रात्यन्तमप्रस्तुतेन वाच्येन प्रस्तुतं गम्घते स प्रकारो निगदित एव । यत्र च स्थलविशेषे वृत्तान्तद्वयमपि प्रस्तुतं सोऽप्येकः, यथा जलक्रीडाप्रकरणे भ्रमरकमलिन्यादिषु पुरःस्थितेषु नायके च खना- यिकायांमननुरक्ते पार्श्ववर्तिनि नायिकासख्याः कस्याश्चिदुक्तौ 'मलि- नेऽपि रागपूर्णा-' इत्यादि प्रागुदाहते पद्ये। अथात्र कथमप्रस्तुतप्रशंसा। वाच्यार्थस्य प्रस्तुतत्वेनैतल्लक्षणानालीढत्वादिति चेत्। न। अप्रस्तुतशब्देन हि मुख्यतात्पर्यविषयीभूतार्थातिरिक्तोऽर्थो विवक्षितः । स च क्वचिदत्य- न्ताप्रस्तुतः कचित्प्रस्तुतश्चेति न कोऽपि दोषः । न च ध्वनिमात्रस्या-
Page 422
रसगङ्ाघरः । ४०७
प्रस्तुतप्रशंसात्वापत्तिरिति वाच्यम् । अत एव तत्र सादृश्याद्यन्यतमप्र- कारेणेति विशेषणमुपात्तमिति विभावनीयम्। एतेन 'द्वयोः प्रस्तुतत्वे प्रस्तुताङ्करनामान्योऽलंकारः' इति कुवलया- नन्दाद्युक्तमुपेक्षणीयम् । किचिद्वैलक्षण्यमात्रेणैवालंकारान्तरताकल्पने वाग्भ- क्गीनामानन्त्यादलंकारानन्त्यप्रसङ्ग इत्यसकृदावेदितत्वात्। इदं तु बो- ध्यम्-अत्यन्ताप्रस्तुतस्य वाच्यतायां तस्मिन्नपर्यवसितया अभिघया प्रतीयमानार्थस्य वलादाकृष्टत्वेन ध्वनित्वं न निर्वाधम् । दयोः प्रस्तु- तत्वे तु ध्वनित्वं निर्विवादमेव। एवं सादृश्यमूलप्रकारे द्वैतम् । कार्य- कारणभावसामान्यविशेषभावमूलास्तु चत्वारः प्रकारा गुणीभूतव्यन्नय- स्यैव भेदाः । अभिधादिस्पर्शलेशशून्यस्य केवलागूरणमात्रस्य ध्वनित्व- प्रयोजकत्वात्। अथ 'आपेदिरेऽम्बरपथं परितः पतञ्का भृङ्गा रसालमुकुलानि समाश्रयन्त । संकोचमञ्चति सरस्त्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु ॥' अत्र क्षीणराजादि तदेकावलम्बपुरुषादिवृत्तान्ते प्रस्तुतेऽप्रस्तुतप्रशंसै- वेति निर्विवादम्। यदा तु सरोवृत्तान्तो राजवृत्तान्तश्वेत्युभयं प्रस्तुतं तदापि प्रागुक्तदिशा सैव। यदा तु सरोवृत्तान्त एव प्रस्तुतस्तदा गुणी- भ्रमरः। मात्रं कात््ये। अत एवेत्यस्य यत इत्यादिः। उपेक्षणीयमिति। अत्रेदं चिन्त्यम्-अप्रस्तुतशव्देन मुख्यतात्पर्यविषयीभूतार्थातिरिक्त्ो गरृह्यते इत्यत्र मुख्यत्वं नाम यदि प्रस्तुतत्वं तदा तदुभयोरपि तुल्यमर्थोद्देश्यत्म्। एवमपि प्राचामप्रस्तुतेनेति पदवैयर्थ्यापत्तिः। एतावता विशेषणालंकारान्तरत्वानङ्गीकारे साधारणविशेषणमहित्रा- प्रस्तुतस्य स्फूर्त्या समासोकिः। असाधारणविशेषणमहित्रा तत्स्फूर्तौ व्यङ्यरूपकमिति लदुक्तविषयविभागस्याप्युच्छेदापत्तिः । दीपकगुम्फयोर्द्ृष्टान्तप्रतिवस्तूपमयोश्व भेदाना- पत्तिक्वेति। प्रस्तुतत्वे तु ध्वनित्वमिति। इदमपि चिन्त्म्-'मलिनेऽपि राग- पूर्णो' इत्यादौ प्रतीयमानार्थारोपमन्तरेण भ्रमरसंयोधनस्य तस्य तद्दत्तिश्यामत्वादौ दोषा- देर्वाच्यस्यानुपपद्यमानतया व्यश्येनैव तदुपपत्तेश्र गुणीभूतव्यङ्गयताया एवौचित्यात्। प्रस्तुताक्कुरलक्षणं तु मुख्यतात्पर्यविषयीभूतप्रस्तुताङ्कुरस्यातादृशेन प्रस्तुतत्वं प्रापितेन ध्वननमिति बोध्यम्। अथेति शङ्कायाम्। इयमप्रस्तुतप्रशंसा । जीवातोस्तस्यास्तादृशा-
Page 423
४06 काव्यमाला।
भूतराजवृत्तान्तरूपव्यज््येऽस्मिन्पद्ये कोऽलंकारः । न तावदियम् । प्रस्तुतस्यैव प्रशंसनात्। नापि समासोक्तिः । तज्जीवातोर्विशेषणसा- म्यस्य सकलालंकारिकसंमतस्यात्राभावात् । न च विशेषणसाम्यप्र- कार इव शुद्धसादृश्यमूलोऽपि तस्या एव प्रकारो वाच्यः । एकघर्माली- ढत्वमन्तरेणेकालंकारत्वे सर्वेषामेकालंकारत्वापत्तेः । व्यवस्थापकैस्तद्वेद- ताया अनुक्तेश्र। अत एवालंकारसर्वस्वकारादिभिर्विशेषणवाचिशब्द- साम्यं संरक्ष्यैव समासान्तराश्रयेण सादृश्यमूलत्वं प्रदर्शितम्, न तु तदुपेक्ष्येति चेत्। उच्यते-अप्रस्तुतप्रशंसैवात्रालंकारः । अप्रस्तुतस्य प्रशंसेति न तदर्थः । किं त्वप्रस्तुतेनेति। सा चार्थात्प्रस्तुतस्यैव। एवं च वाच्येन व्यक्ेन वा अप्रस्तुतेन वाच्यं व्यक्तं वा प्रस्तुतं यत्र सादृश्या- दयन्यतमप्रकारेण प्रशस्यते साप्रस्तुतप्रशंसेति। न तु वाच्येनैव व्यङ्गयमे- वेति। स्यादेतत् । 'कमलमनम्भसि कमले च कुवलये तानि कनकलति- कायाम्' इत्यादाविवात्रापि निगीर्याध्यवसानेनैवोपपत्तिः शक्या कर्तुम्। तच्च पदार्थेन पदार्थस्य वाक्यार्थेन वाक्यार्थस्य वा इत्यन्यदेतत् । अन्व- यानुपपत्तिरपि लक्षणावीजम्। एवं चातिशयोक्त्यैवोपपत्तौ कि साद- श्यमूलाप्रस्तुतप्रशंसयेति । ननु निगीर्याध्यवसानं हि न तावदत्र संभवति। तत्र हि वाच्यतावच्छेदकरूपेण लक्ष्यस्य प्रतीतिः, इह तु वाच्यताटस्थ्ये-
प्रस्तुतप्रशंसायाः । प्रकारो भेदः । व्यक्तेन व्यङ्गयेन। तच्च निगीर्याध्यवसानं च। अन्व- यानुपपत्तेर्लक्षणाबीजस्यात्राभावादाह-अन्वयेति। किं सादृश्येति। अत्रायं समाधि :- वाक्ये शक्त्भावेन लक्षणा वक्तमशक्या। कि च लक्षणायां गङ्गायां घोष इत्यादाविव वाच्याभेदप्रतीत्यापत्तिः । सा चानिष्टा। ताटस्थ्येनैव प्रस्तुतार्थप्रतीतेः सहृदयानुभवसिद्धलवात्। तृतीयस्य लक्षणाहेतोरभावादिति शङ्ां द्रढयितुं शङ्कते- नन्विति। तत्र हि रूपकातिशयोवत्युदाहरणे कमलमित्यादौ हि। इह तु अप्रसुतप्र- शंसोदाहरणविशेषे प्रागुक्ते। एकधर्मालीढत्वमिति । अत्रेदं चिन्तम्-अतिश- योक्त्यादिवत्प्रकृते रूपैकधर्मालीढत्वसंभवेन समासोक्तेरेवात्राङ्गीकारे वाधकाभावः । किं चाप्रस्तुतेन प्रस्तुतं प्रशस्यत इत्यस्य कोऽर्थः । यद्युत्कर्षाधानं तर्हि प्रतीयमानार्थानध्यारोपविषयेषु दिगन्ते श्रूयन्त इत्यायुदाहरणेष्वव्याप्तिः। नहि ताटस्थ्येन स्थितोऽप्यर्थो वाच्योत्कर्षक इति युकतं सहृदयसंमतं वा। यदि प्रतीतिमात्रं तर्हि न प्रकृते। न ह्यत्राप्रस्तुतेन प्रस्तु- तस्य प्रतीतिः । अप्रस्तुतेन प्रस्ुतार्थप्रतीतिमात्रकृत एव चमत्कार इति तन्मवेऽलं
Page 424
रसगङ्गाघरः । ४0९
नार्थान्तरस्येति विशेषात्। यत्र तु श्लेषादिना विशेषणसाम्यं तत्र तन्मा- हात्म्यादस्तु नामाभेदाध्यवसाय इति चेत्, इहापि वाच्यव्यवहाराभिन्नत- यैव च प्रस्तुतव्यवहारप्रत्यय इत्यवैलक्षण्यमेवेति सत्यम् । 'यस्मिन्खे- लति', 'दिगन्ते श्रूयन्ते' इत्यादौ वाच्यार्थताटस्थ्येनैव व्यन्रयस्य प्रतीतेः सर्वहृदयसंमतत्वात् । कचित्तु संबोधनस्य तत्तद्विशेषणस्य चानुपपत्त्या अभेदांशोऽप्यपेक्ष्यते। न तावता सर्वत्राभेदेन प्रतीतिः । कि चाप्रस्तुत- प्रशंसायां प्रस्तुतं व्यञ्ञयमिति निर्विवादम्। निगीर्याध्यवसाने तु लक्ष्यं स्यात्। अपि च यत्र वाच्यस्यात्यन्ताप्रस्तुतत्वं तत्राभिधाया अपर्यवसा- नात्स्यादपि कदाचिल्लक्षणाया अवकाशः । यदा तु द्वयोरप्यर्थयोः प्रागु- क्तदिशा प्रस्तुतत्वं तदा तु वाधलेशास्फुरणाल्लक्षणागन्धोऽपि नास्ति । कुतः पुनर्निगरणं लक्षणैकदेशः । किं त्वागूरणमेवेति । तत्राप्रस्तुतप्रशं- सायाः सादृश्यमूलाया आवश्यकत्वादन्यत्रापि तज्जातीयस्थले सैवोचिता। यदि तु प्रकारस्यास्य ध्वनिप्रभेदत्वात् ध्वनेश्रालंकार्यस्यालंकारत्वानुपप- चिरिति सृक्ष्ममीक्ष्यते तदाप्रस्तुतप्रशंसाया भेदान्तरमेव विषय इत्यपि वदन्ति।
अथ पर्यायोक्तम्- विवक्षितस्यार्थस्य भङ्गन्तरेण प्रतिपादनं पर्यायोक्तम्। येन रूपेण विवक्षितोऽर्थस्तदतिरिक्तः प्रकारो भङ्गन्तरम्। आ- क्षेपो वा। यथा- 'त्वां सुन्दरीनिवहनिध्ठुरधैर्यगर्व- निर्वासनैकचतुरं समरे निरीक्ष्य। कारान्तरता सूपपादेवि। भेदान्तरमेवेति । सादृश्यमूलातिरिक्तभेदा एवेत्यर्थः । वस्तुतस्तु प्रागुक्तमेवेतीदमयुक्तमित्यरुचिरवदन्तील्यनेन सूचिता ॥ इति रसगज्वाधरमर्म- प्रकाशेऽप्रस्तुतप्रशंसाप्रकरणम् ॥ विवक्षितार्थस्य भङ्गयन्तरेणेति। केनचिद्रूपेण व्यज्ञनया लभ्यस्यार्थस्य ततो- जपि चारुतररूपेण यदभिधया प्रतिपादनं तत्पर्यायोक्तमित्यर्थः । मम्मटमतमाह-अ-
Page 425
8१0 काव्यमाला।
केषामरिक्षितिभृतां नवराज्यलक्ष्मीः स्वामित्रतात्वमपरिस्खलितं बभार ।।' अत्र सर्वापि शत्रुणां राज्यसंपत्त्वां प्राप्तेति विवक्षितोऽर्थो न ताद्रूप्ये- णाभिहितः, अपि तु र्खलितपातिव्रत्या वभूवेत्याकारेण। यथा वा- 'सूर्याचन्द्रमसौ यस्य वासो रज्जयतः करैः। अङ्गरागं सृजत्यशनिस्तं वन्दे परमेश्वरम् ।।' अत्रापि गगनाम्बर इति सूर्यचन्द्रकररज्यमानवस्त्र इत्याकारेण भस्मा- ङराग इत्यमनिसृज्यमानाङ्गराग इत्याकारेण च निरूपितः । 'अस्यां च गम्यस्य येनाकारेण गम्यता तदतिरिक्ताकारेण वाच्यता । तेन पर्यायेण भङ्गयन्तरेणोक्तमभिहितं व्यङ्नयं यत्रेति प्राचीनैर्निर्मितं लक्षणं व्यङ्ञयत्ववाच्यत्वयोर्विरोधादसंगतमिति नाशङ्कनीयम् । एकस्यैव प्रकारभेदेन वाच्यत्वव्यञ्ञत्त्रयोरविरोधात् । यथा यावकमहारजनदा- डिमीजपाकुसुमादिरूपाणां रक्तत्वादिना वाच्यत्वेऽपि तत्तद्वैजात्यरूपेण प्रत्यक्षत्वमेव न तु वाच्यत्वम्, एवमिहापि' इति मम्मटभट्टाः । अलंकार- सर्वस्वकारस्तु-'गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तम्। गम्यस्यैव सतः कथमभिधानमिति चेत्, कार्यादिद्वारेण' इत्याह । तस्यायमाशयः- 'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य। आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ।।' इति प्राचीनपद्ये राहुशिरश्छेदकारीति व्यञ्नं राहुवधूजनसंबन्धि- चुम्बनमात्रावशिष्टरतोत्सवनिर्मातृत्वेन रूपेण प्रकारान्तरेणाभिधीयत इत्य- स्यापि विवेचने क्रियमाणे राहुशिरश्छेदकर्तृत्वरूपो धर्मः खवसमाना- धिकरणेन तादृशरूपान्तरेण साक्षादुपात्तेन गम्यत इत्येव पर्यवस्यति। भगवतस्तु पूर्वप्रक्रान्तत्वाद्यच्छव्देनाभिहितत्वाच्च न व्यञ्ञयत्वम्। एवम्- 'यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता। मदेनैरावणमुखे मानेन हृदये हरे: ॥'
Page 426
रसगङ्गाघरः । ४११
इति प्राचीनपद्येऽपि शक्रैरावणौ मानमदमुक्तौ जाताविति व्यश्न- मपि मानमदमोकमात्रस्य व्यङ्क्यत्वे पर्यवस्यति। धर्म्यैशस्याभिवागो- चरत्वात्। एवं च यो व्यङ्गयांशः स न कदापि रूपान्तरपुरस्कारेण- भिघीयते, यश्चाभिधीयते धर्मी स तु तदानीमभिधाश्रयत्वाद्यञ्जनव्या- पारानाश्रय एवेति व्यन्नथस्य प्रकारान्तरेणाभिधानमसंगतमेव। तस्मा- त्कार्यादिमुखेनोक्तमिव पर्यायोक्तम्। तेनाक्षिप्तमित्येवार्थः । प्राचीनैर्ध- र्मिणोऽपि यद्यन्नयत्वमुक्तं तद्वैयञ्जनिकवोधविषयस्य समस्तवाक्यार्थ- स्यैव व्यङ्गवत्वमित्यभिप्रायेण । तत्र च विवेके क्रियमाणे केचिदभिघा- मात्रस्य गोचराः पदार्थाः केचिच्च व्यक्तिमात्रगोचरा इति। अभिनवगु- प्पादाचार्यास्तु-'पर्यायेण वाच्यादतिरिक्तप्रकारेण व्यत्रयेनोपलक्षित- मुक्तमभिहितं पर्यायोक्तम्' इति योगार्थ लक्षणं चाहुः। तेषामयमा- शय :- यदि पर्यायशव्देन प्रकारान्तरं धर्मान्तरमुच्यते तदा विवक्षि- तार्थतावच्छेदकातिरिक्तधर्मपुरस्कारेणाभिहितमिति योगार्थः स्यात्। तथा च 'दशवदननिधनकारी दाशरथिः पुण्डरीकाक्षः' इत्यादौ रामत्वातिरि- क्तधर्मपुरस्कारेण रामस्यैवाभिधानात्पर्यायोक्तप्रसङ्गः। न च व्यन्नं यत्र तेन प्रकारेणोक्तं तत्पर्यायोक्तमिति वाच्यम् । व्यन्ञथस्य योगार्थानन्तर्ग- तत्वात्। न च योगार्थानन्तर्गतत्वेऽपि लक्षणान्तर्गतत्वं तस्येति वाच्यम्। एवं तर्हि व्यङ्गयस्य लक्षणप्रवेशावश्यकत्वे पर्यायशव्देन व्यङ्गयस्यैव अ्रहीतुमुचितत्वात् । व्यन्नयेन ह्युपलक्षितमुक्तं प्रकारान्तरेणैव भवतीति
स्यां चेति। पर्यायोक्तौ चेत्यर्थः । हरिरिन्द्रः । इत्याह-शक्रैरेति। प्रकारा- न्तरेणाभिधानमसंगतमेवेति। अत्राहु :- औपधिकभेदेन घटाकाशादिषु भेद- प्रतीतिवत्तत्तद्वर्मरूपोपाधिभेदेन धर्मिणोऽपि भेदाद्यङ्स्याभिधा विषयत्वमस्त्येव । यद्वा व्यज्यतावच्छेदकापेक्षया वाच्यतावच्छेदकं यत्र चारुतरमिति लक्षणतात्पर्यम्। प्राप्ताप्राप्तविचेकेन तथैव तात्पर्योनयनादिति। अतिरिक्तप्रकारेणेत्स्य व्याख्या व्यङ्गये- नेति। न च व्यङ्गयं यत्र तेनेति। व्यक्रयतावच्छेदकातिरिक्त्धर्मपुरस्कारेण वाच्य- मित्यर्थः । प्रकृते च पुण्डरीकाक्षपदस्य भगवति योगरूढत्वेन तस्य न व्यक्रयतमिति भावः । व्यङ््यस्यैव ग्रहीतुमुचितत्वादिति। सर्वस्वकृदाशयवर्णनावसरो- कानुपपत्तिपरिहारायेत्यर्थः । व्यङ्गयेन हापलक्षितमिति। अन्यत्र हि वाच्यं केव-
Page 427
४१२ काव्यमाला।
प्रकारान्तरग्रहणं नात्यावश्यकमिति। मत एवास्माभिराक्षेपो वेति पक्षान्तरमप्युक्तम्। इदं पुनरवशिष्यते-'वार्पी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्' इति सकलप्रसिद्धध्वन्युदाहरणेऽघमनिकटगमन- निषेधरूपेण तन्निकटगमनविशिष्टाया अधमत्वेन रूपेण वा दूतीसंभोग- कर्तुरभिधानात्पर्यायोक्तप्रसङ्गः प्राचीनपक्ष इवास्मिन्नपि पक्षे भवति। स च व्यज्ञयविशेषग्रहणेन तैरिवैतैरपि निरसनीयः । मध्यस्थपक्षे तु नेदमपि दूषणम्। तदेवं पक्षाणां निष्कर्षे स्थिते यदस्मिन्प्रकरणे कुवलयानन्दकारेणोक्तं तत्सर्वमविचारितरमणीयमेव । तथा हि यत्तावदुच्यते-"नमस्तस्मै कृतौ येन मुधा राहुवधूस्तनौ'। अत्र भगवान्वासुदेवः स्वासाधारणरूपेण गम्यो राहुवधूकुचवैयर्थ्यकारकत्वेन रूपान्तरेणाभिहितः" इति, तन्न। अत्र हि राहुवधूकुचौ येन मुधा कृतावित्यभिहितेन राहुवधू कुचवैयर्थ्यकारित्वेन राहुशिरश्छेदकारित्वं व्यज्यत इति तावन्निर्विवादम् । भगवद्वासुदेवत्वं तु विशेषणमर्यादालभ्यं न काव्यमार्गीयव्यङ्गयकक्षामारोढुं प्रभवति। अ- न्यथा 'नमो राहुशिरश्छेदकारिणे दुःखहारिणे' इत्यत्रापि भगवद्वासुदेव- त्वव्यङ्गयताप्रयुक्तं पर्यायोक्तमलंकार: स्यात् । विशेषणमर्यादालभ्यस्य च धर्मस्य किंचिद्यञ्ञ्यतास्पर्शः सन्नपि न स काव्यमार्गे गण्यते। असु- न्दरत्वात्। अन्विताभिधाने अतिविशेषवपुष इव सामान्यरूपाणां पदार्था- नामन्वये। किं च 'राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः' इत्यत्र भग- वतः स्वशब्देनाभिधेयस्य स्वासाधारण रूपेणाप्यगम्यत्वाद्राहुशिरश्छेदका-
लमेव प्रतीयते। तदपेक्षयेदं प्रकारान्तरं यन्नियतव्यङ्गयवैशिष्टयमित्यर्थः। प्राचीनपक्षे मम्मटोक्तपक्षे। अस्मिन्नपि पक्षे अभिनवगुप्तोक्तपक्षे। तैरिवैतैरपीति। विशेषश् वक्तृवैशिष््यादिसहकारिकारणानपेक्षतम्। किं च तत्र व्यङ्गयापेक्षया वाच्ये चारुतर- लाभावस्य सहृदयसंमतत्वेनाक्षतेः । व्यङ्गयमेव हि तत्र वाच्याच्ारु। मध्यस्थपक्षे अलंकारसर्वस्वकृदुक्क्ते प्रकृते। अन्यथा नमो राहुशिरश्छेदेति। चिन्त्मिदम् । व्यङ्गयापेक्षया चमत्कारित्वे इष्टापत्तेः । अतत्वे तु चारुतरेण विशेषणेन व्यावृत्तेः। नासौ काव्यमार्गे गण्यत इति राजाज्ञामात्रमेतव्। मदेनैरावणमुखे इत्यादिप्रकाशोदा-
Page 428
रसगङ्गाधरः । ४१३
रित्वेनैव व्यञ्ञयत्वमेष्टव्यम्, न खासाधारणधर्मरूपेण। न चात्र पर्या- योक्तं नास्तीति कस्यापि संमतम् । यदप्युक्तम् 'सर्वस्वकारस्य लोचन- कर्तुश्र सर्वोऽप्ययं क्वेशः किमिति न विद्यः' इति, तत्र यदर्थ तेषां केश- स्तत्तु तन्मतनिष्कर्षावसर एव निरूपितम् । यदप्युक्तम् "चक्राभिघात- प्रसभाज्ञया-' इति प्राचीनोदाहरणे यद्राहुशिरश्छेदावगमनं तत्र प्रागु- करीत्या प्रस्तुताङ्कर एव । यत्तु प्रस्तुतेन राहो: शिरोमात्रावशेषेणा- लिङ्गनवन्ध्यत्वापादनरूपे वाच्ये भगवतो रूपान्तरे उपपादिते भगवद्रूपे- णावगमनं तत्पर्यायोक्तस्य विषयः" इति, तदपि न। यदि राहुशिरश्छे- दावगमनं त्वत्कल्पितस्य प्रस्तुताङ्कुरस्य विषयः स्यात्तदा कि पर्यायो- क्तेन। भगवद्रूपेणावगमनं तु विशेषणमर्यादालभ्यत्वेनासुन्दरम् 'नमो राहु- शिरश्छेदकारिणे' इत्यादाविव न कस्याप्यलंकारस्य विषय इत्युक्तमेव । प्रस्तुताङ्करस्य प्राचीनैरखीकाराच। खीकारे वा प्रस्तुतेन सवसदृशो वाक्यार्थः प्रस्तुत एव यत्र व्यज्यते स तस्य विषयोऽस्तु। न तु कार्येण प्रस्तुतेन कारणावगमनम्। अन्यथा ह्यप्रस्तुतेन कार्येण प्रस्तुतकारणा- वगमने अप्रस्तुतप्रशंसैव। प्रस्तुतेन कार्येण प्रस्तुतस्यैव कारणस्यावगमनं तु पर्यायोक्तस्य विषय इत्यलंकारसर्वस्वकारादिभिः प्राचीनैः कृतो विष- यविभाग उच्छिन्न एव स्यात्। राहुवधूगतेन विशिष्टेन रतोत्सवेन राहु- हरणे तादृशव्यज्ञयस्यैव सत्त्वाच्च। न च नहि चक्राभिघातमिति णमुल्लन्तम्। चक्रम- भिहत्येत्यर्थः । यत्वित्यस्यावगमनेऽन्वयः । असुन्दरमिति। चिन्तमिदम्। इषटापत्तेः व्यङ्जयसौन्दर्यस्याविवक्षितलवात् व्यङ्यापेक्षया वाच्यस्थैवान्र चारुतरत्वमिति स्पषट तदुक्केः। अत्रैवालंकारे व्यङ्ञयं वाच्यपरमिति ध्वनिकृतः । तादृशविशेषणं हि व्य्गयमादायै- वोपपद्यत इति तदाशयः । 'राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः' इत्यत्र राहुशिरश्छे- दरूपकारणमात्रावगमने प्रस्तुताक्कुरः। राहुशिरश्छेदकारित्वेन भगवतोऽवगमने पर्यायोक्तमपि। एतेन नग इत्याद्यग्रिममपि प्रस्तुताङ्कुराभावप्रतिपादकमपास्तम् । राजा- ज्ञामात्रलात्। किं च मुख्यार्थतात्पर्यविषयीभूतार्थेन वाच्येन व्यङ्गथेन वा वाच्यं व्यक्तं वा प्रस्तुतं यत्र सादृश्याद्यन्यतमप्रकारेण प्रशस्यते साप्रस्तुतप्रशंसेत्यप्रस्तुतप्रशंसालक्षणस्य भवतानुपदोक्तस्य राहुशिरश्छेदकारित्रूपव्यक्गयांशे सत्त्वेनाप्रस्तुतप्रशंसयैव निर्वाहे किं पर्यायोक्ेनेति नियोगे उत्तरं विभाव्यताम्। न चात्र द्वयोरपि मुख्यतात्पर्यविषय- तेति वाच्यम्। एवं तर्हि 'आपेदिरेऽम्बरपथं' इत्यन्नापि यदा द्वयोर्मु्यतात्पर्यविषयता तदा कोऽलंकार इत्यत्रोत्तरं विभाव्यताम्। अस्मन्मते तु प्रखुताक्कर एव। भवतापि
Page 429
४१४ काव्यमाला
शिरश्छेद: कारणरूपो गम्यते । एवमन्यत्रापि पर्यायोक्तं ज्ञेयम्' इति त्वदुपजीव्यग्रन्थविरोधाच्च। तस्मादत्र राहुशिरश्छेदकारित्वेनावगमः पर्यायोक्तस्य विषयः, न तु भगवद्रपेणेति सहृदयैराकलनीयम्। अस्मिंश्चालंकारे व्यङ्गयं वाच्यपरम् । अप्रस्तुतप्रशंसायां तु वाच्यं व्यङ्गयपरम् । तेनायमलंकारो वाच्यसिद्धङ्गगुणीभूतव्यङ्गयभेद इति ध्वनिकारानुयायिनः । यत्तु- "स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम्। उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ।।' इत्युक्तयुक्त्या लक्षणाद्वयाश्रितत्वादनयोरवान्तरोऽपि विषयभेदोऽस्ति" इति स्वमूलग्रन्थाशयं वर्णयता विमर्िनीकारेणोक्तम्, तन्न । नहि 'चक्राभिघातप्रसभाज्ञयैव-' इति पद्ये चुम्वनमात्रशेषरतोत्सवांशे बाधो- डस्ति। येन लक्षणा स्यात्। एवमप्रस्तुतप्रशंसायामप्यप्रस्तुतस्य प्रस्तुते न लक्षणा, किं तु व्यञ्जनैवेति सर्वसंमतम्। अन्यथा पर्यायोक्ते वाच्यस्य प्राधान्यम्, अप्रस्तुतप्रशंसायां तु गम्यस्येति सिद्धान्तस्य भङ्ग: स्यात् । लक्षणायां हि लक्ष्यस्यैव प्राधान्यं स्यात्, न वाच्यस्य। यत्र वाच्योऽर्थो- डर्थान्तरं सवोपस्कारकत्वेनागूरयति तत्र पर्यायोक्तम्। यत्र स्वात्मानमेवाप्र- स्तुतत्वात्प्रस्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति तन्मूलग्रन्थ- विरोधाच्च। नहि लक्षणा आगूरणं भवति। तस्मात्पर्यायोक्ते वाच्यस्य प्राधान्यम्, अप्रस्तुतप्रशंसायां तु नेति तन्मूलग्रन्थस्य तात्पर्यम्। इदं तु बोध्यम्-ध्वनिकारात्प्राचीनैर्भामहोद्भटप्रभृतिभिः खग्रन्थेपु कुत्रापि ध्वनि- गुणीभूतव्यङ्गयादिशब्दा न प्रयुक्ता इत्येतावतैव तैर्ध्वन्यादयो न सवीक्रि-
तत्स्ीकारे प्रकृते तेनैव गतार्थता स्पष्टैव। न चास्मिन्नलंकारे व्यङ्गयं वाच्यपरमप्रस्तुत- प्रशंसायां तु वाच्यं व्यङ्जयपरमतः सानेति वाच्यम्। 'कस्त्वं भोः-' इत्यादावप्रस्तुतप्रशं- सायां व्यक्चयस्य वाच्याङ्गत्वेन तस्या भेदकत्वात्। प्राचीनग्रन्थविरोधस्तु तत्र तहूषण- प्रवृत्तस्य भूषणमेव। एवं च सर्वखलोचनकृतः केशो व्यर्थो दुष्टश्चेत्यपि सम्यगेवेति। क- श्वित्तु-"यच्छव्दस्य वुद्धिस्थत्वं शक्यतावच्छेदकमिति मते 'नमस्तस्मै-'इत्युदाहरणम्, तत्तद्रूपेण सर्वनाम्रां शक्तिरिति मते तु 'निवेद्तां हन्त-' इत्यादि" इत्याह। तैर्भामहा-
Page 430
रसगङ्गाधरः । ४१५
यन्त इत्याधुनिकायां वाचोयुक्तिरयुक्तैव। यतः समासोक्तिव्याजस्तुत्य- प्रस्तुतप्रशंसाद्यलंकारनिरूपणेन कियन्तोऽपि गुणीभूतव्यऋभेदास्तैरपि निरूपिताः । अपरश्च सर्वोऽपि व्यञ्रवप्रपञ्चः पर्यायोक्तकुक्षौ निक्षिप्तः । न ह्यनुभवसिद्धोऽर्थों वालेनाप्यपह्रोतुं शक्यते। ध्वन्यादिशब्दैः परं व्यव- हारो न कृतः। नह्येतावतानङ्गीकारो भवति। प्राधान्यादलंकायों हि ध्वनिरलंकारस्य पर्यायोक्तस्य कुक्षौ कथंकारं निविशतामिति तु विचारान्तरम्। अयं चालंकार: क्वचित्कारणेन वाच्येन कार्यस्य गम्यत्वे, कवचित्का- र्येण कारणस्य, क्वचिदुभयोदासीनेन संबन्धिमात्रेण संवन्धिमात्रस्य चेति विपुलविषयः । तत्र 'त्वां सुन्दरीनिवह-' इति पद्े पातिव्रत्यस्खलनेन कारणेन तं प्रति प्राप्तिः कार्य गम्यते। समासोक्तिरत्रोत्थापिका। एतेन
क्तमपास्तम्। 'अपकुर्वद्धिरनिशं धृतराष्ट्र तवात्मजैः । उप्यन्ते मृत्युवीजानि पाण्डपुत्रेषु निश्चितम् ।।' अत्र वीजवापेन कारणेन कुलक्षयः कार्यरूपो गम्यते। कार्येण कारणस्य गम्यत्वे यथा- 'त्वद्विपक्षमहीपालाः स्वर्वालाधरपल्लवम्। पीडयन्तितरां तीव्रदारुणैर्दशनक्षतैः ।।' अत्र वैरिणां सुरवधूसंभोगेन कार्येण मरणं कारणं गम्यते। तदुभयोदासीनेन यथा-'सूर्याचन्द्रमसौ यस्य-' इति पूर्वोदाहृत पद्ये सूर्यचन्द्रकररज्यमानवस्त्रत्वेन न कार्येण नापि कारणेन केवलं सह- चरितेन गगनाम्वरत्वं गम्यते। एवम्-
सर्वाङ्गावरणपटीकृतकनकाण्डः स वामनो जयति ॥' दिभिः । एवमग्रेऽपि। यत इति पाठः । परं केवलम्। तेन तदुत्थापिततत्कृतचमत्कार- सर्वेन। अत्र च 'अयं चालंकारः क्वचित्' इत्यादिः 'अन्वेष्टत्या' इत्यन्तो ग्रन्थश्षिन्य
Page 431
११६ काव्यमाला।
इत्यत्र च्विप्रत्ययेन तद्भेदावगमाद्रपकासंभवेन पर्यायोक्तं भवितुमर्हति । गम्यं चान्तर्व्याप्तचरणकत्वमन्तर्व्याप्ताङ्गकत्वं च। तदेवं संक्षेपतस्त्रिविधः । वाग्भङ्गीनां तु पर्यालोचने एकस्मिन्नेव विष- येऽनन्तप्रकार: संपद्यते, किमुत विषयभेदे। यथा-'इह भवद्भिराग- न्तव्यम्' इति विषये 'अयं देशोऽलंकर्तव्यः' इति, 'पवित्रीकर्तव्यः' इति, 'सफलजन्मा कर्तव्यः' इति, 'प्रकाशनीयः' इति, 'देशस्यास्य भाग्या- न्युज्जीवनीयानि' इति, 'तमांसि तिरस्करणीयानि' इति, 'अस्मन्नयनयोः संतापो हरणीयः' इति, 'मनोरथः पूरणीयः' इत्यादिः । कार्यादीनां त्वारोपेण निप्पत्तिरन्वेष्टव्या। एवं च पर्यायोक्तस्य कार्यरूपाप्रस्तुतप्रशंसायां विषयापहारमाशक्य कार्यकारणयोर्वयोरपि प्रस्तुतत्वे पर्यायोक्तम्, कार्यस्याप्रस्तुतत्वे कार- णस्य च प्रस्तुतत्वे कार्यरूपाप्रस्तुतप्रशंसेति विषयविवेकः सर्वस्वकृता कृतः । तत्र न्यूनविषयया कार्यरूपाप्रस्तुतप्रशंसया बहुविषयस्यास्य विषयापहारो न सङ्गच्छत एव। परं त्वनेन तस्या विषयापहारमाशज्य विषयविभाग: कर्तुमुचितः । इति रसगङ्गाधरे पर्यायोक्तप्रकरणम् ।
अथ व्याजस्तुति :- - आमुखप्रतीताभ्यां निन्दास्तुतिभ्यां स्तुतिनिन्दयोः क्रमेण पर्यवसानं व्याजस्तुतिः ।। तृतीयातत्पुरुषकमधारयाभ्यां योगार्थद्वयेन द्वयोरपि शब्दार्थत्वम् । आमुखेत्यादिविशेषणेन तयोः पर्थवसानाभावं वदन्वाधितत्वमभिप्रैति। अत एव नास्या ध्वनित्वम्। ध्वनौ हि निर्बाधेन वाच्येनागूरणमहिम्रार्था- न्तरमवगम्यते। न चैवं प्रकृते। इति कुवलयानन्दे ध्वनितं तटीकायां स्पषट तत एव वोध्यमिति दिक्। इति रसगक्गा- धरमर्मप्रकाशे पर्यायोक्तप्रकरणम् ।। आमुखेति। शब्दतो वृत्या प्रथमप्रतीताभ्यामित्यर्थः । तदाह-आमुखेत्या- दीति। अस्या व्याजसुतेः । न च नहि। राजेति। सूर्यवंशेत्यादिः। तधाभूतवो-
Page 432
रसगङ्गाघरः । ४१७
आद्या यथा- 'उर्वी शासति मय्युपद्रवलवः कस्यापि न स्यादिति प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम्। प्रत्यक्षं भवतो विपक्षनिवहैर्द्यामुत्पतद्गिः क्रुधा यद्युष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ॥' अन्र राजवर्णनप्रस्तावे निन्दा वाधिता स्तुतौ पर्यवस्यति। द्वितीया यथा- 'किमहं वदामि खल दिव्यमते गुणपक्षपातमभितो भवतः । गुणशालिनो निखिलसाधुजनान्यदहर्निशं न खलु विस्मरसि ॥' अत्र दुश्चरितोत्कीर्तनप्रस्तावे स्तुतिस्तथाभूता निन्दायाम् । अत्र चैंक एवार्थ: केनचिदाकारेणादौ स्तुतेर्निन्दाया विषयो भूत्वा प्रकरणादिमहिन्रा प्रकारान्तरेण निन्दायाः स्तुतेवां विषयो भवति। तत्र यावानंशो बाधितस्तावानेवान्यथात्वेन पर्यवस्यति। अंशान्तरं तु खभा- वेनैवावतिष्ठते। इयं चालंकारान्तरसंकीर्णा यथा- 'देव त्वां परितः स्तुवन्तु कवयो लोमेन किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोडधुना । क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ।' अत्र चापप्रतापस्य समासोक्त्या विटधौरेयव्यवहाराश्रयत्वप्रतीतिः । तन्मूला च निन्दा स्तुतौ पर्यवस्यति। यथा वा- 'अये राजन्नाकर्णय कुतुकमाकर्णनयन स्फुरन्ती हस्ताम्भोरुहि तव कृपाणी रणमुखे।
विता निन्दायां पर्यवस्यति। अन्न च उभयत्र च। प्रकारान्तरेणति। वस्तुमाहा- त्म्यादेतद्वटकपदानां लक्षणया आक्षेपाद्वेत्यर्थः । तावानेवान्यथात्वेनेति। तत्र च लक्षणैव। एवं च स्तुतेर्लक्ष्यत्वात्तामादाय ध्वनित्वम्। लक्षणायाः प्रयोजनीभूतः स्तुत्य- तिशयादिः । व्यक्षयमादाय ध्वनित्वे इष्टापत्तिरेव । एवं च 'उपकृतं बहु नाम-' इत्या- रस० ३८
Page 433
४१८ काव्यमाला।
विपक्षाणां वक्षस्यहह तरुणानां निपतति प्रगल्भाः श्यामानामनुपरतकामाः प्रकृतयः ॥' अत्रार्थान्तरन्यासपोषिता । ननु कथमत्र व्याजस्तुतिः । वाच्याभ्या- मेव निन्दास्तुतिभ्यां स्तुतिनिन्दयोर्गम्यत्वे तस्या अभ्युपगमात्। नह्यत्र चापप्रतापस्य केवलस्य केवलसुमत्याद्यालिङ्नं वाच्यभूतं निन्दास्पदं भ- वति। समासोक्त्या त्वाविर्भूतो विटव्यवहारो निन्दास्पदमपि न वाच्यः, अपि तु गम्य इति चेत्, आमुखप्रतीतपदेन हि प्रतीतावपर्यवसितत्वमा- त्रमत्र विवक्षितम्। न तु वाच्यत्वपर्यन्तम् । गौरवात्। प्रकृते च किं तावता स्तव्यत्वमित्यादिना निन्दाया एवोपोद्वलनात्समासोक्तिसाचिव्येन सैव प्रथमं प्ररूढा पश्चाच्च स्तुतिरिति न कोऽपि दोषः । एवं च 'भाग्यं ते शाल्मलितरो वद किं परिकथ्यते। द्विजैः फलाशया युक्तैः सेव्यसे यदहर्दिवम् ।' इत्यत्राप्रस्तुतप्रशंसासंकीर्णाप्येषा भवति। एतेन 'किं वृत्तान्तैः परगृहरतैः किं तु नाहं समर्थ- स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यखवभावः । देशे देशे विपणिपु तथा चत्वरे पानगोष्ठ्या- मुन्मत्तेव भ्रमति भवतो वल्लभा देव कीर्ति: ॥' इत्यत्र प्राचीनपद्ये प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा कीर्तिरिति भणित्योन्मूलिता, न तु प्ररोहं गमिता" इति यत्सर्वस्वकृतोक्तम्। यच्चापि तद्याख्यायां विमर्शिन्याम् 'अनुदाहरणमेवैतत्पद्यं व्याजस्तुतेः' इति ध्वन्या- लोचनकारोक्तिं कटाक्षण लक्षीकृत्योक्तं तन्निरस्तम् । 'कि वृत्तान्तैः' इत्या- दिना निन्दाया एव प्रथममुन्नयनात्समासोक्तेरुद्रतेर्वाच्यत्व स्यातन्रत्वात्। अन्वयक्र्मेणादौ वल्लभयैवान्वये तस्याश्च कीर्त्यभिन्नत्वेनावस्थाने सति पश्चा- त्प्रकरणादिपर्यालो चनवशाद्वयुत्कमेणान्वयबोधाच्च। तस्माद्धन्यालोचनकारै- रुक्तमुदाहरणं संगतमेव। दावप्ययमेवालंकार इत्याहुः। अत्रार्थान्तरेति। समासोकतिरप्यत्रेति बोध्यम्। एवं च अस्याः समासोक्त्यादिपोषितत्वे च। द्विजैः खगैः । विपणिषु हददेषु। समयः संकेतः ।
Page 434
४१९
इयं च व्याजस्तुतिर्यस्यैव वस्तुनः स्तुतिनिन्दे प्रथममुपक्रम्येते तस्यैव चेन्निन्दास्तुत्योः पर्यवसानं भवेत्तदा भवति। वैयधिकरण्ये तु न इति प्राचामलंकारशास्त्रप्रवर्तकानां समयः । अत एव यत्र शब्देनाभिधीय- माना स्तुतिर्निन्दा वा बाधितस्वरूपा निन्दायां स्तुतौ च खसमर्पणेन पर्य- वस्यतीति तैस्तत्र तत्र स्वग्रन्थेषूपनिबद्धम्। एवं च 'परोपसर्पणानन्तचिन्तानलशिखाशतैः । अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः ॥' इत्यादिषु सांसारिकजननिन्दापर्यवसायिन्यामपि पादपस्तुतौ न व्याज- स्तुतित्वम्। प्रथमप्रतीयमानस्तुतेरवाधितत्वात् । एवं निन्दया स्तुतेर्गम्य- त्वेऽपि । तथा अन्यस्य स्तुत्यान्यस्तुतौ अन्यनिन्दया वान्यनिन्दायां गम्यमानायां नास्या अलंकृतेर्विषयः । पूर्वोक्तादेव हेतोः । यथा- 'ये त्वां ध्यायन्ति सततं त एव कृतिनां वराः । मुघा गतं पुराराते भवदन्यधियां जनुः ।l' अत्र पूर्वोत्तरार्धगताभ्यां ध्यातृस्तुतिनिन्दाभ्यां ध्येयस्तुतिनिन्दयोरव- गमः । एवं स्थिते कुवलयानन्दकर्त्रा स्तुतिनिन्दाभ्यां वैयधिकरण्येन निन्दास्तुत्योः स्तुतिनिन्दयोर्वावगमे प्रकारचतुष्टयं व्याजस्तुतेर्यदधिकमुक्तं तदपास्तम्। यदि तु प्राचीनसंकेतसेतुं निर्भिद्य स्वरुचिरमणीया सरणिरा- द्रियते तदा निवेश्यन्तां सर्वेऽपि व्यञ्ञयप्रकारा गुणीभूतव्यङ्गयप्रकारा वा अलंकारोदरेषु। निवेश्यतां वा व्याजस्तुतिरपि योगार्थालीढत्वादप्रस्तु- तप्रशंसायाम्। निरस्यतां च कार्यकारणादिविषयकत्वदुराग्रहस्तस्या इति बहुव्याकुली स्यात्। एवं तर्हि पूर्वोक्तं प्रकारचतुष्टयं कुत्रान्तर्भवतु इति चेत्, व्यञ्नथभेदेष्विति गृहाण । नहि व्यन्नयमेदाः सर्वेऽप्यपरि- मिता अलंकारप्रकारगोष्पदेऽन्तर्भावयितुं शक्यन्ते। यच्चापि कुवलयानन्द- कृता निन्दाया गम्यत्वे उदाहृतम्- तैः प्राचीनैः। व्यङ्गयभेदेष्विति गृहाणेति। अत्रेदं चिन्त्यम्-व्यङ्गयभेदेष्वप्यप्र- खुतप्रशंसापर्यायो क्तायलंकारख्ीकारवदत्रा प्यलंकारत्वे बाधकाभावात्। न चाप्रस्तुतप्र- शंसैवास्ताम्। विनिगमकाभावात्। नहि लक्ष्य एव व्याजस्तुतिन व्यङ्गय इत्यत्र शप- थातिरिकं प्रमाणमस्ति। गुणीभूतव्यङ्गयत्वाच्च न ध्वनित्वम्। प्राचीनग्रन्थ विरोधस्तव-
Page 435
४२० काव्यमाला।
'अर्ध दानववैरिणा गिरिजयाप्यर्ध शिवस्याहृतं देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति। गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां च भिक्षाटनम् ।।' अत्र सर्वज्ञः सर्वेश्वरोऽसीति राज्ञः स्तुत्या व्याजरूपया मदीयवैदु- व्यादि दारिद्यादि जानन्नपि बहुप्रदानेन रक्षितुं शक्तो मह्यं किमपि न ददासीति निन्दा व्यज्यते' इत्युक्तं च। तन्न। 'साधु दूति पुनः साधु कर्तव्यं किमतः परम् । यन्मदर्थे विलूनासि दन्तैरपि नखैरपि ॥' इत्यनुपदमेव त्वदुदाहृतपद्येनास्यातितमां वैलक्षण्यात्। तत्र हि साधु किमतःपरं कर्तव्यमिति वर्णैरुदीरिता साधुकारिणीत्वरूपा स्तुतिः श्रुत- मात्रैव बाधिता सती विपरीतेऽर्थे स्वात्मसमर्पणेन पर्यवस्यति। इह तु सर्वज्ञत्वमधीश्वरत्वं च न तथा । राजवर्णनप्रस्तावे राजगताज्ञत्वपामरत्व- योरविवक्षितत्वात् । अत एव सर्वज्ञोऽपि समर्थोऽपि मां न रक्षितवानसि इत्युपालम्भरूपापि निन्दा नात्र विवक्षिता। सर्वज्ञस्य समर्थस्य तव दरिद्रोऽहं रक्षितुं योग्य इति सविज्ञापनाया एव प्रत्युत विव- क्षितत्वात्। अस्तु वा त्वदुक्तोपालम्भरूपा निन्दात्र गम्या। तुष्यतु भवा- नेवमपि । 'साधु दूति पुनः साधु' इति पद्ये साधुकारिणीत्वमिव नास्मि- नपद्ये सर्वज्ञत्वमधीश्वरत्वं च विद्युद्ङ्गुरप्रतिभमिति शक्यं वक्तुम् । उपालम्भरूपाया निन्दाया अनुत्थानापत्तेः प्रतीतिविरोधाच्चेति सहृदयैरा- कलनीयं किमुक्तं द्रविडपुंगवेनेति। इति रसगज्गाधरे व्याजस्तुति प्रकरणम् ।
किंचित्कर इत्यसकृदावेदितम्। द्रविडपुंगवेनेति। अतिचिरकालं कृतया सेवया दुःखिरितस्य ततोऽप्राप्तधनस्य भिक्षो राजसेवां त्यक्तुमिच्छत ईदृशवाक्ये वक्तृवैशिष्ट्या- दिसह का रेणापातप्रतीयमानस्तुतेर्निन्दापर्यव सायितया विदयुद्ध ह्ुरप्रतिभत्वमस्त्येवेति सम्य- गेवोक्तं द्रविडशिरोमणिना। पूर्वोक्तरीत्या सवस्य भिक्षाटनोक्त्ा चकारेण च तत्त्व- स्यानुभवसिद्धत्वात् । साधु दूतीत्युदाहरणेऽपि दूत्या दुश्वरितत्वादिवैशिष्ट्यं प्रमाणा- न्तरेण प्रागेव जानतां वाच्यार्थे बाधज्ञानं स्पष्टमेव । 'करत्वं वानर' इत्यत्राप्यतिश-
Page 436
रसगङ्गाधरः । ४२१
अथाक्षेप :- 'उपमे यस्योपमानसंबन्धिसकलप्रयोजन निष्पादनक्षमत्वादुपमानकैमर्थ्यमु- पमानाधिक्षेपरूपमाक्षेपः ।' इति केचिदाहुः। तन्मते चेत्थमुदाहरणं निर्माणीयम्- 'अभूदप्रत्यूहः कुसुमशरकोदण्डमहिमा विलीनो लोकानां सह नयनतापोऽपि तिमिरैः। तवास्मिन्पीयूषं किरति परितस्तन्वि वदने कुतो हेतोः श्वेतो विधुरयमुदेति प्रतिदिनम् ।।' यथा वा- 'वसुधावलयपुरंदर विलसति भवतः कराम्भोजे। चिन्तामणिकल्पद्रुमकामगवीभि: कृतं जगति ॥' आद्ये उपमानप्रयोजननिष्पादनं शाब्दम्, द्वितीये त्वार्थमिति भेद: । अपरे तु- 'पूर्वोपन्यस्तस्यार्थस्य पक्षान्तरालम्वनप्रयुक्तो निषेध आक्षेपः ।' इत्याहुः। तेषां मते इदमुदाहरणीयम्- 'सुराणामारामादिह झगिति झव्झानिलहताः पतेयुः शाखीन्द्रा यदि तदखिको नन्दति जनः । किमेभिर्वा कार्य शिव शिव विवेकेन विकलै- श्विरं जीवन्नास्तामधिधरणि दिल्लीनरपतिः ।।' अत्र किमेभिरित्युत्तरार्घेन पूर्वार्धोक्तपक्षप्रतिक्षेपमात्रं पक्षान्तरालम्बनेन क्रियते। यथा वा- 'किं निःशङ्कं शेषे शेषे वयसि त्वमागतो मृत्युः । अथवा सुखं शयीथा जननी जागर्ति जाहवी निकटे ।।' यितवीरत्वेन प्रसिद्धहनुमतो निन्दा स्वात्मन्यपर्यवस्यन्ती इतरस्तुतिमादायैव पर्यव- स्यति। इतरस्तुतेर्वलादाक्षिप्तत्वान्न ध्व्रनित्वमिति दिक् । इति रसगङ्गाधरमर्मप्रकाशे व्याजस्तुतिप्रकरणम् ।। शिष्यावधानाय प्रतिजानीते-अथेति। उपमेयस्योपमेति। अमुमाक्षेपं प्रतीप
Page 437
४२२ काव्यमाला।
अन्ये तु- "निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया। वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ॥' विशेषं व्यङ्गयरूपमर्थविशेषं वक्तुं विवक्षितस्य प्रकृतार्थस्य निषेधो निषेधसदृशः कथनादिप्रत्याख्यानरूपः । स वक्ष्यमाणविषय उक्तविषय- श्चेति द्विविधः" इत्याहुः। तेषां मते इत्थमुदाहार्यम्- 'रीतिं गिराममृतवृष्टिकिरां त्वदीयां तां चाकृति कृतिवरैरभिनन्दनीयाम्। लोकोत्तरामथ कृतिं करुणारसार्द्री ज्ञातुं न कस्यचिदुदेति मनःप्रसारः ॥'
बोधयितुम् । अत्र करिष्यमाणस्य मनःप्रसारस्य निषेधो वर्णनीयस्यानिर्वाच्यतां
'श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः । तस्याः सुभग कथेयं तिष्ठतु तावत्कथान्तरं कथय ।।' अलंकारसर्वस्वकारादयस्तु- "प्राकरणिकस्यार्थस्य निषेधोऽप्रतिष्ठितत्वादाभासमात्ररूपः कस्यचि- दर्थविशेषस्य विधानं व्यनक्ति स एकः । यश्चाप्राकरणिकस्य विधिस्ताद्ृश एव सन्निषेधे पर्यवस्यति सोऽपर इत्युभयविघोऽप्ययमाक्षेपः ।" तत्र निषेधाभासरूप आक्षेपस्तावद्विविध :- उक्तविषयो वक्ष्यमाण- विषयश्चेति । उक्तविषयोऽपि द्विविध :- क्कचिद्वस्तुमात्रनिषेधात्कचिद्व- स्तुकथननिषेधात् । वक्ष्यमाणविषयस्तु वस्तुकथननिषेधात्मक एव सामा- न्यधर्मावच्छिन्नप्रतियोगिताकः शब्दात्समर्प्यमाणोऽपि विशेषरूपेष्टनिषे- धात्मना स्थितो निषिध्यमानगतं विशेषान्तरमाघत्ते। सोऽपि द्विविध :- सामान्याश्रययत्कंचिद्विशेषनिरूपणानिरूपणाभ्याम् । तत्र निरूपितेषु यर्तिकचिद्विशेषेषु प्रयोजनाभावादप्रवर्तमानो निषेधो वक्ष्यमाणेष्टविषय एव संपद्यते। अनिरूपितेषु तु सुतराम् । चतुर्विधेऽप्यस्मिन्नाक्षेपे इष्टो केचिदाहुः। सोऽपि द्विविध इति। वक्ष्यमाणविषयोऽपीत्यर्थः। व्यनक्ीत्यस्याग्रे
Page 438
४२३
डर्थः, तस्य च निषेधः तस्याप्यसत्यत्वम्, अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते । तेन नात्र निषेधविधिः । न वा विहितनिषेघः । अपि तु निषेधेनासत्येन विधेराक्षिप्यमाणत्वाद्योगार्थादाक्षेपः । स च प्रागुक्त- दिशा चतुर्विधः । विधिना त्वसत्येन निषेधस्याक्षेपे अपरोऽयमाक्षेपः । अत्रापि अनिष्टोऽर्थः, तस्य विधिः, तस्याप्याभासत्वम्, अर्थगतविशेषप्रति- पादनं चेति चतुष्टयमुपयुज्यते।" इत्याहुः । एतेषां मते चेत्थमुदाहरणं निर्माणीयम्- 'न वयं कवयस्तव स्तवं नृप कुर्वीमहि यन्मृषाक्षरम् । रणसीम्नि तवावलोकने तरुणार्को दिनकौशिकायते ॥' 'मां पाहीति विधिर्विधेयविषयो वाच्यः सवतन्त्रे कथं नोपेक्ष्यो भवतास्मि दीन इति गीः श्राध्या न संख्यावताम्। एवं दोषविचारणाकुलतया देव त्वयि प्रोन्मुखे वक्तव्यप्रतिभादरिद्रमतयः किंचिन्नहि ब्रूमहे ।।' 'रे खल तव खलु चरितं विदुषामग्रे विविच्य वक्ष्यामि । अलमथवा पापात्मन्कृतया कथयापि ते हतया ।' 'शासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः । तस्याः किं वा पृच्छसि निर्दय तिष्ठत्वसौ हता वार्ता ।।' तत्राद्यपद्ये कवेरुक्तौ कवित्वनिषेधो वाधितो मिथ्यावादित्वनिषेधा- त्मना पर्यवस्यन्नुत्रार्धगतस्यार्थस्य सत्यत्वरूपं विशेषं व्यनक्ति। एवं द्वितीयपदये रक्षणदानयोः कथनस्येष्टत्वान्निषेधो बाघितस्तयोर्विवक्षितत्वे पर्यवस्यन्नवश्यानुष्ठेयताम् । तृतीये खलसंबन्धिवृत्तान्तकथनत्वेन सामान्य- रूपेण प्रकृतपैशुन्यादिवृत्तान्तकथनस्य वक्ष्यमाणस्य निषेधः कथ्यमान- स्तस्य चिन्तितदुःखप्रदताम्। चतुर्थे कंचन तत्संबन्धिन्या वार्ताया अंशं श्वासतानवादिकं कथयित्वा क्रियमाणो निषेधो वक्ष्यमाणमरणवार्ताविषयः संस्तस्या मुखादनिःसरणीयताम्। एपु निषेघस्याप्रतिष्ठानान्न विहितनि- पेधः, नापि निषेधविधिः ।
Page 439
४२४ काव्यमाला।
'तपोनिधे कौशिक रामचन्द्रं निनीपसे चेन्नय कि विकल्पैः। निरन्तरालोकनपुण्यधन्या भवन्तु वन्या अपि जीवभाजः ॥।' अत्र पुत्रस्नेहाकुलस्य दशरथस्य वाक्ये नयेति विधिर्वाधितो मा नयेति निषेधे पर्यवसितोऽन्यथा तु मम प्राणवियोगो भविप्यतीत्यर्थ व्यनक्तीति विध्याभासरूपोडयमाक्षेपः । एवमुदाहरणेषु स्थितेपु प्राचीनमतानुसारीण्या- क्षेपोदाहरणान्येतेषां मतेऽनुदाहरणान्येव। इत्थं च प्राथमिकमतसिद्ध आक्षेपः प्रतीपप्रभेदः । द्वितीयमतसिद्धस्तु विहितनिषेध एव न पुनराक्षेपः। तत्र निषेधस्यानाभासरूपत्वात्। इति तदाशयः । इतरे तु- "निषेधमात्रमाक्षेपः ।' चमत्कारित्वं चालंकारसामान्यलक्षणप्राप्तमेव। तच्च व्यङ्नयार्थे सति संभवतीति सव्यन्न्यो निषेधः सर्वोप्याक्षेपालंकारः । एवं चोपमेयकृतो- पमानकैम र्थक्यपक्षान्तरालम्बनकृतप्राचीनपक्षकैमर्थक्यविशेष प्रतिपादनप्रयो- जकोक्तवक्ष्यमाण कथनकैमर्थक्यानामनुपदोक्त निषेधविध्याभासयोश् संग्रहः" इत्यप्याहुः । अथाक्षेपध्वनिस्तन्मतानुसारेणोदाहियते- 'त्वामवश्यं सिसृक्षन्यः सृजति स्म कलाधरम्। किं वाच्यं तस्य वैदुप्यं पुराणस्य महामुनेः ॥' अत्र येषामुपमानकैमर्थ्यमाक्षेपस्तेषां त्वयि सति किं कलाधरेणेत्यंशमा- दाय, येषां च निषेधमात्रमाक्षेपस्तेषां वृद्धस्य ब्रह्मणो वैदुष्यं नास्तीत्यंश- मादाय च ध्वनिः । ननु किं वाच्यं तस्य वैदुष्यमिति वैदुप्योक्तः सबा- धाया झटिति वैदुप्याभावे पर्यवसानादुपमानकैमर्थ्यस्यापि झगित्येव प्रती- तेर्वाच्यकल्पत्वात्कथं नाम ध्वनित्वं स्यादिति। नैप दोषः । ब्रह्मणो हि त्वां सिसृक्षतः करणपाटवसंपत्त्यर्थमादौ पाण्डुलेखवदिन्दुं निर्मितवतः किं वैदुष्यं वाच्यमिति वैदुष्योक्तेर्निर्बाधत्वादादौ सत्यां विश्रान्तौ पश्चादवश्यं पुराणस्येत्येतदर्थपर्यालोचनेन वैदुप्याभावचन्द्रकैमर्थ्ययोः पर्यवसानमिति न ध्वनित्वस्खलनम्। येषां त्वाभासरूप एव निषेध आक्षेपस्तेषां न प्रागुक्त आक्षेपध्वनिरपि त्वयम् ।
Page 440
रसगङ्गाघरः । ४२५
'त्वां गीर्वाणगुरुं सर्वे वदन्तु कवयस्तु ते। समानकक्षस्तेनासीत्येषोऽर्थस्तु मतो मम ॥' अत्र कवेर्वाक्ये बाधितत्वादाभासरूपो नाहं कविरिति निषेधो गम्यमानो मिथ्यावादित्वाभावरूपेण पर्यवसन्नुत्तरार्धार्थस्य सत्यतारूपं विशेषं गम- यति। इत्थं स्वस्वाभिमानभेदादाक्षेपाणां भेदात्तद्वनीनां स्थिते विवेके- 'स वक्तुमखिलाञ्शक्तो हृयग्रीवाश्रितान्गुणान्। योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधे: ॥' इति पद्यं ध्वनिकारैराक्षेपध्वनित्वेनोदाहृतं 'स्वाभिमताक्षेपानभिव्यक्तेर- नुदाहरणमेवैतत्' इति निर्युक्तिकं वदन्नलंकारसर्वस्वकृत्परास्तः । नह्याभा- सरूप एव निषेध आक्षेप इत्यस्ति वेदस्याज्ञा। नापि प्राचामाचार्याणाम्। न चापि युक्तिः । येन ध्वनिकारोक्तमुपेक्ष्य त्वदुक्तं श्रद्दधीमहि। प्रत्युत वैपरीत्यमेवोचितम्। ध्वनिकृतामालंकारिकसरणिव्यवस्थापकत्वात्। नह्य- स्मिञ्शास्त्रे आक्षेपादिशब्दसंकेतग्राहकं प्रमाणान्तरमस्ति ऋते प्राचीन- वचनेभ्यः । अन्यथा सकलविपर्यासापत्तेः । यत्तु- 'नरेन्द्रमौले न वयं राजसंदेशहारिणः । जगत्कुटुम्बिनस्तेऽद्य न शत्रु: कश्चिदिष्यते ॥' कुवलयानन्दकृता- 'अत्र संदेशहारिणामुक्तौ न वयं संदेशहारिण इति निषेधोऽनुपपन्नः संधि- कालोचितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्सर्वजगतीपाल- कस्य तव न कश्चिदपि शत्रुभावेनावलोकनीयः किंतु सर्वेऽपि राजानो भृत्यभावेन संरक्षणीया इति विशेषमाक्षिपति' इति, तन्न । त्वदुक्तस्य विशेषस्य निषेघाव्यङ्गयत्वात् । नहि न वयं राजसंदेशहारिण इत्युक्ते तव न कश्चिदपि शत्रुभावेनावलोकनीयः किंतु सर्वेऽपि राजानो भृत्य- त्रिष्वनुषङ्गः वैदुष्यं पाण्डित्यम्। सर्वस्वकार: परास्त इति । तद्रुणवक्ता ना- स्तीति निषेधस्य गुणापरिमितत्वव्यङ्ञयसहितस्याक्षेपरूपस्य व्यक्ञयस्य सत्त्वादिति भावः । अलंकारसर्वखवकारस्तु-निषेधाभास आक्षेपः । 'नाहं दूनी तनोस्तापस्तस्याः कालान- लोपमः' इत्युदाहरणमिति। तस्यायं भाव :- यो निषेधो वाधितः सन्नर्थान्तरपर्यवसितो
Page 441
४२६ काव्यमाला। भावेन संरक्षणीया इति विशेषोऽवगम्यते। अवगम्यते च जगत्कुटुम्बिन इत्याद्युत्तरार्धे प्रयुक्ते। यो हि निषेधमात्रसामर्थ्याक्षिप्तो विशेषस्तं निषेध आक्षिपतीति युक्तं वक्तुम्, न तु परकीयं विशेषम्। तथा हि राजसंदेश- हारिणा प्रयुक्ते न वयं राजसंदेशहारिण इति वाक्ये स्वस्मिन्स्निषेधस्य बाघाद्राजसंदेशहारिपदेन लक्षणया राजसंदेशहारिनिष्ठकैतववचनप्रयोक्त- त्वादिधर्मवन्त उपस्थाप्यन्ते । प्रयोजनं च तन्निषेधे सति सवगतस्य सत्य- वक्तृत्वादेः सवचनगतस्य सत्यत्वादेर्वा प्रत्ययः । अयमेव च विशेषस्या- क्षेपः। एवं स्थिते किमुच्यते तव न कश्चिदपि शत्रुभावेनेत्यादि। यदि तु पूर्वोक्तादेव बाघाद्राजपदस्य शत्रुलक्षणया न वयं शत्रुसंदेशहारिण इति प्राप्तेनार्थेनास्मत्स्ामिनः शत्रव एव न भवन्ति कि तु भृत्यभावेन पाल- नीया इति विशेषोऽवगम्यत इत्युच्यते तदा तृतीयकक्ष्यारूढो नास्मत्सा- मिन इति निषेध आक्षेपः स्यात्, न तदुत्थापकस्त्वदुक्तो यथाश्रुतनिषेधः । यदि तु परम्परया यथाकथंचिद्विशेषोत्थापकोऽप्याक्षेप इत्युच्यते, तथापि 'संधिकालोचितकैत ववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्' इत्यादेस्त्व- द्वचनस्यासंगतिरेव। नहि यथार्थवादित्वेन केवलेन त्वदुक्तो विशेष आ- क्षेम्ुं शक्यते, किं तूत्तरार्घेनाक्षिप्तः परिपोष्ठम् । तस्माद्यत्र त्वया निषे- धस्य पर्यवसानमुक्तं सएव विशेषस्तस्याक्षेप्यः, न तु विशेषान्तरम् । अत एव "बालक नाहं दूती-' इत्यत्र दूतीत्वस्य वस्तुनो निषेधेन वस्तुवादित्वादिर्विशेषो व्यज्यते" इत्यलंकारसर्वस्वकृतोक्तं संगच्छते। इति रसगङ्गाधरे आक्षेपप्रकरणम्। विशेषाक्षेपके कस्मिश्चिद्विशेषे आक्षेप्तव्ये साहाय्यकं करोति स आक्षेप इति तदर्थः। नाहं दूतीत्यस्य दूत्या उक्तौ बाधितत्वाद्दूतीपदेन मिथ्यावादितविशिष्टा लक्ष्यते। तन्नि- षेधश्च सत्यवादित्वे पर्यवस्यति। एवं च तद्वोध्यसत्यवादिसहकृतं तनोस्ताप इति वाक्य- मिदानीमेवागत्योजीवयेति विशेषमाक्षिपति। अन्यथा संघटनमात्रप्रयोजनकल्ाव- गम एव तस्य स्यादिति तत्कालोचितकैतववचनत्वे वाक्यसंभावना स्यादिति। यत्त सत्यवादित्वरूपविशेषमादायैवाक्षेपत्वमिति, तन्र। तस्याचमत्कारित्वात्। तनोस्ताप इत्यादिनोक्तविशेषे व्यअनीये सहकारित्वं तु तस्यास्तीत्यनुभवसिद्धम्। तं विना तेनापि तस्यानाक्षेपात्। एतेन 'नरेन्द्रमौले' इति कुवलयानन्दोक्तमपि व्याख्यातम्। एवं 'यत्तु नरेन्द्रमौले' इत्यादि, 'नतु विशेषान्तरम्' इत्यन्तप्रन्थोऽपि चिन्त्य एवेत्ाहुः। तवेत्यादि षष्ठी कर्तुः शेषत्वे॥ इति रसगन्नाधरमर्मप्रकाशे आक्षेपप्रकरणम् ।
Page 442
रसगङ्गाघरः । ४२७
अथ विरोधमूलालंकारा :- एकाधिकरणसंवद्धत्वेन प्रतिपादितयोरर्थयोर्भासमानैकाधिकर- णासंवद्धत्वमेकाधिकरणासंबद्धत्वभानं वा विरोध: ।। यद्वा- एकाधिकरणासंबद्धत्वेन प्रतिपादनं सः ॥ स च प्ररूढोऽप्ररूढश्च । प्ररोहृश्च बाधवुद्यनभिभूतत्वम्। तद्वैपरी- त्यमप्ररोहः । तत्राद्यो दोषस्य विषयः, द्वितीयश्चालंकारस्य अत एवेमं विरोधाभासमाचक्षते। आ ईषद्भासत इत्याभासः । विरोधश्चासावाभास- श्रेति। आमुख एव प्रतीयमानो झगिति जायमानाविरोधवुद्धितिरस्कृत इति यावत्। तत्रापि कार्यकारणादिवुद्यनालीढो विरोधाभासो विरोधा- लंकारः । तदालीढस्तु विभावनादिर्वक्ष्यमाणः । अस्य च जातिगुणक्रिया- द्रव्याणां पदार्थानां मध्ये जातेर्जातिगुणक्रियाद्रव्यैः, गुणस्य गुणक्रिकया- द्रव्यैः, क्रियायाः क्रियाद्रव्याभ्याम्, द्रव्यस्य द्रव्येणेत्यपुनरुक्ता दश भेदाः । क्रिया चात्र न वैयाकरणानामिव शुद्धा भावना। नापि नैयायि- कानामिव स्पन्दरूपा। किं तु तत्तद्धातुवाच्या विशिष्टव्यापाररूपा। उदाहरणम्- 'कुसुमानि शरा मृणालजालान्यपि कालायसकर्कशान्यभूवन्। सुदृशो दहनायते स्म राका भवनाकाशमथाभवत्पयोधि: ।'
र्शनान्निवर्तते। अत्र पुरः स्फुरन्नपि जात्यादीनां विरोधो विरहिणीदुःखजनकत्वविम-
'त्वयि दृष्टे त्वया दृष्टे भवन्ति जगतीतले। महान्तोऽप्यणवो राजन्नणवश्च महत्तराः ।' 'खलानामुक्तयो हन्त कोमलाः शीतला अपि। हृदयानीह साधूनां छिन्दन्त्यथ दहन्ति च ।।'
प्राग्वदाह-अथेति। संबद्धत्वेन प्रतीति। शनिरशनिक्वेत्यादि वारणायेद- मिति कश्ित्। विनिगमनाविरहादाह-एकाधीति। तयोस्तत्वेन भाने भ्रममूलक- स्वादाह-यद्वेति । विषय इत्यस्याग्रेऽप्यनुपङ्गः । कालायसं लोहम्। देव राजनू।
Page 443
४२८ काव्यमाला।
'विचारिते महिमनि त्वदीये नित्यनिर्मले। परमात्मन्गगनमप्याधत्ते परमाणुताम् ।।' 'हर्षयन्ति क्षणादेव क्षणादेव दहन्ति च । यून: स्मरपराधीनान्निर्दया हन्त योषितः ॥' 'कान्तारे विलपन्तीनां त्वदरातिमृगीद्ृशाम्। देवतानि समाकर्ण्य हरिद्धिरपि चुक्षुभे ।।' इत्यादि स्वयमूह्यम्। अत्र जात्यादिरिति धर्ममात्रं विवक्षितम्। उपलक्षणपरत्वात्। तेन 'यः किल बालकोऽपि पुराणपुरुषः', 'विशुद्धमूर्तिरपि नीलाम्बुदनिभः', 'जगद्वितकृदपि जगदहितकृत्' 'अगोद्वारकोऽपि नागोद्वारकः', इ- त्यादौ सखण्डोपाधेरभावस्य च परिग्रहः । वस्तुतो जात्यादिभेदानामहृद्य- त्वाच्छुद्धत्वश्लेषमूलत्वाभ्यां द्विविधो ज्ञेयः । ननु 'हितकृदप्यहितकृत्', 'अगोद्धारकोडपि नागोद्धारकः' इत्यादौ विरोधस्य प्रतिभामात्रम्, श्रेष एव त्वलंकारः । तस्य सवविषये प्रायशः सर्वालंकारापवादकत्वादिति चेत्, कवि: शृणोति। इदं तु बोध्यम्-यत्रापि शब्दादिर्विरोधस्य द्योतकस्तत्र विरोधः शाब्दः, अन्यत्र त्वार्थ इति तावत्राचां सिद्धान्तः । तत्र शा- ब्दत्वं शब्दकरणकप्रतीतिगोचरत्वं विरोधस्य न घटते । 'त्रयोऽप्यत्रयः' इत्यादौ नियतेषु विशेषणविशेष्यसंसर्गेषु विरोधस्य कुत्राप्यसमावेशात् । न च तदधिकरणावृत्तित्त्रमिव तत्प्रतियोगिकत्वमपि विरोधः । तथा च प्रकृते नञर्थोत्तरपदार्थयोः प्रतियोगित्वस्य संसर्गत्वात्संसर्ग एव विरोधस्य समावेश इति वाच्यम् । 'सुप्तोऽपि प्रबुद्धः' इत्यादौ तथाप्यसमावेशात्। नहि सुप्तः सुप्तत्वविरुद्धप्रवुद्धत्ववदभिन्न इति शाब्दधीरनुभवसिद्धा। येन लक्षणादि कुसृष्टौ यतेमहि । अत्राहुः-'सुप्तोऽपि प्रबुद्धः', 'त्रयोऽप्य- त्रयः' इत्यादिषु विरोधोदाहरणेषु शब्दद्वयेन शयितत्वजागरितत्वादिधर्म- द्वयस्यादावुपस्थितौ संवन्धिज्ञानादपि शब्दसाचिव्यात्तद्गतो विरोधोऽपि स्मर्यते। अनन्तरं च प्रतिवन्धकज्ञानसामग्र्या बलवत्त्वाद्विरुद्धाविमौ धर्मा- विति मानसे वैयञ्जनिके वा विरोधबोधे जाते तेन प्रतिरोधाच्छयितजाग-
Page 444
रसगभ्गाघरः । ४२९
रितयोरभेदबुद्धेरनुत्पादाद्वितीयशक्त्या प्रादुर्भावितं द्वितीयार्थमादायान्वय- बोधः, न तु विरुद्धार्थम्। विरोधधीश्च शिथिलमूला निवर्तमानापि कवि- संरम्भगोचरतया चमत्कारकारणमिति प्राचां निष्कर्षः । नव्यास्तु-'अ- र्थद्वयप्रादुर्भावं विना विरोधाभास एव न संभवति। तत्रैको विरोधस्योल्ला- सकः द्वितीयश्चान्वयबोधविषय इति तत्सत्यम्। परं तु अन्वयबोधविष- ये द्वितीयार्थे विरोधोल्लासकोऽप्यर्थो भेदेऽपि क्लेषभित्तिकाभेदाध्यवसाय इत्युक्तदिशा अभिन्नतया भासते। एवं चाविरुद्धं द्वितीयार्थमाद।यान्वय- बोधे सत्यपि स्वास्पदीभूतस्य विरुद्धार्थस्य निःशेषतया निवृत्तेरभावादर्धमृतः श्वसन्निव विरोधोऽपि मानसं बोधान्तरमारोहति। अत एव चमत्कारीत्युच्यते। नहि निःशेषतया निवृत्तश्रमत्कारं जनयितुमीष्टे। न चान्तरेण चमत्कारज- नकतामलंकारो भवति। तस्माद्विरोधधियो नातीव शिथिलमूलत्वम्, नापि चात्यन्तिकी निवृत्तिः' इत्याहुः। ननु अपिशब्दादीनां प्रयोगे शाब्दो विरोधो भासत इति तथाप्यसंगतम्। निपातानां शाब्दिकनये शक्तेरखी- कारादिति चेत्, न । निरूढलक्षणाया इव निरूढद्योतनाया अपि श- क्तिसमकक्षत्वात्। अथ जात्योर्द्रव्ययोश्र विरोधालंकारो न भवितुमीष्टे। 'कुसुमानि शराश्चन्द्रो वाडवो दुःखिते हृदि' इत्यादावारोपमूलस्य रूप- कस्यैवोल्लासात्। यदि च सत्यप्यारोपे विरोधाभास उच्यते, उच्यतां तर्हि 'मुखं चन्द्रः' इत्यत्रापि स एव। न च रूपकविषयस्य सर्वस्यापि विरोधेनाकरान्तत्वान्निर्विषयत्वापत्त्या स्वविषये रूपकं विरोधस्य गुणादौ सावकाशस्यापवाद इति वाच्यम्। 'कुसुमानि शराः', 'मृणालवलया- हरिद्धिर्दिग्भिः । न च नहि। निवृत्तिरित्याह्कुरिति। वयं तु व्रूमः-सुप्तोऽपि प्र- बुद्ध इत्यादी समानाधिकरणविभकत्यर्थयोरभेदः। अपिशव्देन च समभिव्याहृतैकपदार्थ- तावच्छेदकविरुद्धलमपरपदार्थतावच्छेदके दयोत्यते। तत्र गमकद्वयसत्त्वात्प्रकरणादेर्नि- यामकस्याभावाच्चार्थद्वयमपि युगपदवभासते। तत्राभेदस्य मुख्यवाक्यार्थत्ात्तदोग्या- र्थस्य विरुद्धार्थश्लेषभित्तिकाभेदाध्यवसायेन विशेषणतं विरुद्वार्थस्य तत्रेति युककम्। एवं च सापविरुद्धजागरणाभिन्नविशिष्टज्ञानाश्रय इति वोधः । यत्र लपिशब्दाभावस्तत्र प्र- थमतः शाब्दान्वयबोधे जाते सहृदयतावशाद्वितीयाथोपस्थितौ विरहाद्युद्वोधकसहकृतैक- संबन्धिज्ञानविधया विरोधोपस्थितौ व्यज्नयैव ताशबोधः । अतएवापिशब्दाभावे वि- रोधो व्यज्ञय इत्याहुः। विरोधस्याभासत्वं चाहार्यबोधविषयत्वात्कार्यनिष्पादकत्वाभा- रस० ३९
Page 445
४३० काव्यमाला।
दिदवदहनराशिः', 'चन्द्रो वाडवः', 'शंकरचूडापगा कालिन्दी' इत्यादौ त्वदभीष्टविरोधस्यासिद्धिप्रसङ्गादिति चेत्, सत्यम् । इह हि अलंकारवर्गे यो यत्र सहृदयचमत्कृतिपथमवतरति स एव तत्रालंकार इति निर्विवा- दम्। एवं च रूपके 'मुखं चन्द्रः' इत्यादौ यद्यप्यस्ति विरोधस्तथापि न स तत्र प्रतिपिपादयिषितः । अपि तु चन्द्रनिष्ठाह्रादकत्वादिसकलगुणानां मुखे प्रतिपत्त्यर्थ चन्द्राभेद एवेति स चमत्कारी, न विरोधः। प्रत्युत सन्नपि विरोधो विवक्षितार्थाननुगुणत्वानुदूषित इति नालंकारः । विद्यमा- नताया अकिंचित्करत्वात् । 'कुसुमानि शराः' इत्यादौ तु विरहिण्यादी- नामवस्थाया अत्यद्धतत्वस्य विवक्षितत्वात्तदानुगुण्यायान्तर्गर्भितोऽप्यार्थों विरोधः समुल्लसतीति स एवालंकारः । न चैवमपि रूपकस्थले विरोधो- Sविवक्षितत्वान्मा नामाभूदलंकारः, विरोधस्थले तु 'कुसुमानि शराः' इत्यादौ विरोधोत्थापनार्थमभेदस्यावश्यं वाच्यम्। विरोधविवक्षानालिङ्गितत्वस्य रूपकलक्षणे निवेश्यत्वात्। यद्वा अभेदस्यात्र क्तम्। तत्तदलंकारलक्षणेषु अलंकारसामान्यलक्षणे वा चमत्कारित्वस्यो- क्तत्वात्। यदि तु विरहिण्याद्यवस्थाया अत्यद्भुतत्वादि न विवक्षित- मप्यर्थश्च न गर्भीकृतः किंतु पीडाजनकत्वश्यामत्वाद्यतिशयमात्रं विव- क्ष्यते तदात्र रूपकमेव। यदि वा नगरविशेषस्थितेरद्धुतत्वविवक्षया यत्र हि नारीणां मुखं चन्द्र इत्युच्यते तदा विरोधाभास एवेति ध्येयम् । ननु 'सुप्तोऽपि प्रवुद्धः' इत्यादौ यथैकेनार्थेन विरोधस्योत्थापनमपरेण च निवृत्तिः, एवम् 'गङ्गायां घोषः', 'मञ्चाः क्रोशन्ति', 'कुन्ताः प्रविशन्ति' इत्यादावपि शक्येन तस्योत्थानं लक्ष्येण च निवृत्तिरिति विरोधाभासप- सङ्गः । न च दृष्टान्ते विरोधोत्थापकनिवर्तकयोरर्थयोः शक्त्यैवोपस्थितिः, दार्ष्टान्तिके तु पृथग्वृत्त्येति वैलक्षण्यमिति वाच्यम्। सत्यपि वैलक्षण्ये वेनेति। तदनिवेशजलाघवादाह-यद्वेति। अत्र कुसुमानीत्यत्र। ननु तर्हि गौरवं त- त्प्रयुक्तमस्त्येवात आह-तत्तदिति । इतोऽपि लाघवादाह-अलंकारेति। इ्या- मत्वाद्यतिशयेति । शंकरचूडापगेत्यत्रेत्यर्थः। एवेति ध्येयमिति। एवं च 'वि- रोधानुपपत्तिश्वेद्गणद्रव्यक्रियादिु। अमन्दचन्दनस्यन्दः स्वच्छन्दं दहतीह माम् ।।'
Page 446
रसगङ्गाधरः । ४३१
त्वदुक्तविरोघाभासलक्षणातिप्रसङ्गस्यानिवारणात् । नहि लक्षणे विरोधो- त्थापकनिवर्तकयोरेकवृत्तिवेद्यत्वमेकजातीयवृत्तिवेद्यत्वं वा विवक्षितम्। तथा सति 'कुसुमानि शराः' इत्यादौ प्राचीनरीत्याव्याप्तिप्रसङ्गादिति चेत् विरोधस्यात्र प्रतिभानेऽपि कविसंरम्भागोचरत्वेनाचमत्कारित्वात्। अयं च विरोधालंकारः कुवलयानन्दकृता उत्प्रेक्षाशिरस्कोऽप्युदाहृतः । यथा- 'प्रतीपभूपैरिव किं ततो मिया विरुद्धधमैरपि भेत्तृतोज्झिता । अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक्चारदृगप्यवर्तत ।।' इति। विरोधप्रतीत्यनन्तरं यत्रार्थान्तरप्रतिपत्त्या विरोधस्य समाधानं तत्र विरोधाभास इष्यते। यथा-'रिपुराजिरसभावभञ्जनोऽप्यरिपुराजिरसभा- वभञ्जनः' इत्यादौ। इह तूतेक्षया विरोधसमाधानात्मिकया मुखस्थितया विरोधस्योत्थानमेव भग्नमिति कथमनुत्तिष्ठन्नेव विरोधश्चमत्कारमूलमलंकार- भावं वहेत्। इति रसगङ्गाधरे विरोधप्रकरणम् । अथ विभावना- कारणव्यतिरेकसामानाधिकरण्येन प्रतिपाद्यमाना कार्योत्पत्ति- र्विभावना।। तदुक्तम्-'क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना' इति। क्रि- याशव्देनात्र कारणं विवक्षितम्। अत्र कारणव्यतिरेकसामानाघिकरण्येन कार्योत्पत्तौ निवध्यमानायामापाततो विरोधः प्रतिभासमानोऽपि तदितर- कारणकल्पनया निवर्तते। यथा- इति जयदेवोक्तो विरोधो विरोधाभास एवेति बोध्यम्। अलंकारभावं वह्देदिति। अत्रेदं चिन्त्यम्-प्रतीपभूपैरित्यत्र हि विरुद्धधर्मगततया स्ाश्रयभेदकत्वत्यागोत्प्रेक्षायां विरुद्धतयावभासमानपदार्थानां श्रलेषभित्तिकाभेदाध्यवसायेना विरुद्धतादात्म्यापन्नानां सह- वासो निमित्तम्। निमित्तप्रतिपादकं चोत्तरार्धम्। विरोधभानमन्तरेण विरुद्धधर्मैरपी- त्यादृत्प्रेक्षाया अनुत्थानाच। एवं च निमित्तांशे विरोधालंकारमुपजीव्यैव विरोधत्यागो- त्प्रेक्षा अर्थान्तरानुगहीता। पश्चात्तत्साधनत्वेन स्थितेत्युत्प्रेक्षान्रमन्र विरोध इति।। इति रसगज्गाधरमर्मप्रकाशे विरोधप्रकरणम् ।।
Page 447
४३२ काव्यमाला। 'विनैव शस्त्रं हृदयानि यूनां विवेकभाजामपि दारयन्त्यः । अनन्तमायामयवल्गुलीला जयन्ति नीलाब्जदलायताक्ष्यः ।I' अत्र हि दारणे शस्त्रं कारणम्। तदभावेडपि दारणमुपनिबध्यमान- मापाततो विरुद्धमपि कामिनीविलासरूपहेतुकतया पर्यवस्यति। नन्वत्र यस्य कार्यस्योत्पत्तिर्निबध्यते नहि तदीयकारणत्वेनावगतस्य व्यतिरेकः प्रतीयते। यदीयकारणव्यतिरेकश्च प्रतीयते नहि तस्य कार्यस्योत्पत्तिर्नि- बध्यते। दारणं चेह पीडाविशेषो विवक्षितः, न तु द्विधाभावः । शस्त्रं च न कामपीडायाः कारणम्, अपि तु द्वैधीकरणस्येति चेत्, न । मुख्यं हि दारणं द्विघाभावनम्। गौणं च कामादिजनितपीडाविशेषः । तयोर्गौणमु- ख्ययोर्दारणयोः सादृश्यमूलेनाभेदाध्यवसानरूपेणातिशयेन सति भेदस्थ गने द्विधाभावनकारणमपि शस्त्रं कामपीडाकारणं संपद्यते। तदभावे चात्र कार्याभिन्नतयाध्यवसितस्य पीडाविशेषस्योपनिबन्धनान्न दोषः । एवं चा- स्मिन्नलंकारे सर्वत्रापि कार्याशे अभेदाध्यवसानरूपातिशयोक्तिरनुप्राणक- तया स्थिता। तया च पायसादिपिण्डवदेकीकृतस्य वस्तुतः सदृशवस्तु- द्वय स्यैकावयव संबन्धिकारणव्यति रेकसामानाधिकरण्येनापरावयवमादाय पर्य- वसानं भवति। तत्र च कार्याशः कारणभावरूपविरोधिनो बाध्यतयैव स्थितः, न बाघकतया। कार्याशस्य कल्पितत्वात्कारणाभावस्य च सवभाव- सिद्धत्वात्। अत एव कार्याशो रूपान्तरेण पर्यवस्यति। अत एव च समबलविरोधिद्वयघटिताद्विरोधालंकारादस्य वैलक्षण्यम्। तथा चोक्तम्- 'कारणस्य निषेधेन बाध्यमानः फलोदयः । विभावनायामाभाति विरोधोऽन्योन्यवाधनम् ॥' इत्याहुः । अथातिशयोक्तिर्न सर्वस्यां विभावनायामनुप्राणिका । किं तु क्वचित्। 'निरुपादानसंभारमभित्तावेव तन्वते। जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ।।'
प्राग्वदाह-अथेति । सादृश्यमूलेनेति। श्ेषमूलेनेत्यपि बोध्यम्। कार्या- भिन्नतयेति । शस्त्रकार्यद्विधाभावेनाभिन्नतयेत्यर्थः । वस्तुतः सदशवस्तुद्वय- स्येति। इंदं षध्यन्तं पर्यवसानमित्यत्रान्वेति। तत्र सामानाधिकरण्येनेत्यन्तं हेतुः।
Page 448
रसगप्ञाधरः । ४३३
इत्यत्र विभावनायामतिशयोक्तेरध्यवसानमूलाया अननुप्राणकत्वादिति। ननु कारणाभावे कार्योत्पत्तिरसंभवन्ती कविना अभिप्रायविशेषेण निबध्यमाना हि विभावना। न चात्रोपादानान्तराभावे जगत उत्पत्ति: परमेश्वरादसंभवन्ती येन विभावना स्यात्। 'नासदासीत्', 'सदेव सौम्ये- दमग्र आसीत्', 'आत्मा वा इदमेक एवाग्र आसीत्', 'असद्वा इदमग्र आसीत्ततो वै सदजायत' इत्यादिश्चुतिभ्यः, 'अहमेवासमेवाग्रे नान्यद- त्सदसत्परम्' इत्यादिस्मृतिभ्यश्च सृष्टिकाले भगवदतिरिक्तवस्तुजातप्र- तिषेधावगमात्। तस्मादत्र विभावनाया एव संभावना नास्ति क पुनरति- शयोक्त्यनुप्राणितत्वव्यभिचार इति चेत्, न । अत्र हि भगवतः सकाशा- त्केवलस्य जगत उत्पत्तिर्न कवेरभिप्रेता। येन तस्या उपादानान्तरव्यति- रेकेऽपि भगवतः सकाशात्संभवादसंभवमूला विभावना न स्यात्। किं तु जगद्रुपस्य चित्रस्य। चित्रस्य च केवलस्योपादानानां मपीहरिताला- दीनामाधारस्य भित्त्यादेश्चाभावे केवलाकाशे जागत्येवोत्पत्तेरसंभवः । स च तस्य जगद्रूपतानुसंधानात्तत्कारणतदाश्रयव्यतिरेकमादाय निवर्तत इति 'निरुपादानसंभारम्' इत्यत्र निष्प्रत्यूहैव विभावनेति भवत्यतिशयो- क्त्यनुप्राणितत्वव्यभिचारः । एतेन 'विभावनायां सर्वत्रातिशयोक्तिरनुप्रा- णिका' इति सर्वखकारोक्तिरपास्ता। तथा "निरुपादानसंभारम्' इत्यत्र विभावनाया एवाभावात्कुत्र व्यभिचारः" इति वदन् विमर्शिनीकारोऽपि प्रत्युक्त इति। उच्यते-मा स्म भूत्सर्वत्र विभावनायामतिशयोक्तिरनुप्रा- णिका। आहार्याभेदवुद्धिमात्रमेवानुप्राणकम् । तच्च कचिदतिशयोक्त्या क्क- चिच्च रूपकेणेति न दोषः । यत्तु-"कारणं विना कार्योत्पत्तिरेका विभावना। कारणानामसमग्रत्वे द्वितीया। सत्यपि प्रतिबन्धके कार्योत्पत्तिस्तृतीया। अकारणात्कार्योत्प- चिश्चतुर्थी। विरुद्धात्कार्यजन्म पश्चमी। कार्यात्कारणजन्म षष्ठी। क्रमे- णोदाहरणानि- 'अप्यलाक्षारसासिकं रक्तंं तन्व्या ः प दाम्बुजम् । ' 'अस्नैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः ।'
Page 449
४३४ काव्यमाला। 'सातपत्रं दहत्याशु प्रतापतपनस्तव।'
'शीतांशोः किरणा हन्त दहन्ति सुदृशो दृशौ।' 'यशःपयोधिरभवत्करकल्पतरोस्तव।" इति पट्प्रकारां विभावनामुदाजहार कुवलयानन्दकृत्। तत्रेदं वक्तव्यम्- 'कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिबन्धके। अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना ।I' इत्यादिभिर्विभावनाप्रकारानालक्षयता विनाि कारणं कार्योत्पत्तिरि- त्यप्येको विभावनाप्रकार इत्युक्तं भवति। अन्यथा चतुर्थीत्वाद्यसंगतेः । एवं च यथा-'सादृश्यमुपमा भेदे,' 'तद्रूपकमभेदो य उपमानोपमेययोः' इत्यादिभिर्लक्षितस्योपमारूपकादिसामान्यस्य पूर्णादयः सावयवादयश्च भेदा उक्तास्तथेह किं तद्विभावनासामान्यलक्षणम्, यल्लक्षितस्य विभावना- सामान्यस्यामी भवतोक्ताः प्रकारा उपपद्येरन्। कारणं बिना कार्योत्प- त्तेस्तु प्रकारान्तःपातित्वाद्। अथातिशयोक्त्यादिप्विव तादृशसकलप्रकारा- न्यतमत्वं सामान्यलक्षणमुन्नेयमिति चेत्, एवमपि प्रथमप्रकाराद्वितीयप्र- कारस्य वैलक्षण्यं दुरुपपादमेव। कारणाभावेऽपि कार्योत्पतिरित्यत्र का- रणतावच्छेदकसंबन्धेन कारणतावच्छेदकावच्छिन्नप्रतियोगिताकाभावस्य विवक्षितत्वात्। प्रकारान्तरस्वीकारापेक्षया तादृशविवक्षाया एव लघु- त्वात्। एवं प्रतिबन्धकमपि कारणाभाव एव। प्रतिबन्धकाभावस्य का- रणत्वात् । इति तृतीयोऽपि भेदो न विलक्षणः । चतुर्थेऽपि भेदे कारणा- भाव आर्थः । 'शङ्गाद्वीणानिनादोऽयम्' इत्युक्ते वीणां विनैवेति प्रत्ययाद- वैलक्षण्यम्। तस्मादाद्येन प्रकारेण प्रकारान्तराणामालीढत्वात्ट् प्रकारा इत्यनुपपन्नमेव। यदि तु यथाकर्थंचित्कुवलयानन्दोक्तिः समर्थनीयेत्याग्र- हस्तदेत्थं समर्थ्यताम्-तथा हि विनापि कारणं कार्यजन्मेति विभाव- नायाः सामान्यलक्षणम्। इयं च तावद्वेधा-शाब्दी, आर्थी च। शाब्दी
शाब्दी आर्थी चेति। अत्र केचित्-शाब्दत्वे आद्या। आर्थत्वे उत्तराः पञ्च। तत्र
Page 450
रसगङ्गाघरः । ४३५
त्यामपि कारणव्यक्तौ यदवच्छिन्नत्ववैकल्यप्रयुक्तः कार्याभावस्तद्वैकल्यो- क्तिपूर्विका, स च कारणतावच्छेदकधर्मः क्वचित्कारणतावच्छेदकसंब- न्धश्च, प्रतिबन्धकोक्तिपूर्विका चेति। आर्थ्यपि त्रिविधा-प्रकृतका- र्यसमानजातीयकार्यान्तरस्य कारणात्। प्रकृतकार्यविरुद्धकार्यस्य का- रणात्। स्वकार्याद्वा प्रकृतकार्यस्योत्पत्तिरिति। एतदर्थकमेव ह्यकार- णादित्यादि। इयं च विभावना द्विविधा-उक्तनिमित्तानुक्तनिमित्ता च । तत्रानु- क्तनिमित्ता 'विनैव शस्त्रं' इत्यत्र दर्शिता। विलासानां मन्मथपीडाजन- कानामनुपात्तत्वात्। उक्तनिमित्ता यथा- 'यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः । दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ।।' अत्र हि उपात्ते यौवने दाहहेतुत्वं पर्यवस्यति। यतु- "असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥' अत्र द्वितीयचरणे आसवाभावेऽपि मदस्य प्रतिपादनाद्यौवनस्य चो- क्तत्वादुक्तनिमित्ता विभावना। न तु प्रथमतृतीयचरणयोः । संभरणपुष्प- योर्मण्डनमस्त्रं च प्रत्यहेतुत्वात्।" इत्यलंकारसर्वस्वकारादिभिरुक्तं तत्र विचार्यते-विरोधमूला हि विभावनाद्यलंकाराः । विरोधस्यैव विद्युत्पभा- वदापाततः प्रतिभासमानस्य चमत्कारवीजत्वात् । अत्र ह्यासवभिन्न-
द्वितीये कारणे कारणतावच्छेदकगुणादिवैकल्यदर्शनेन तदवच्छिन्नकारणाभावप्रतीति- रार्थी। अस्तु वा शाब्दी। तथापि स्वरूपतः कारणाभावकथनात्कारणगतधर्मवैकल्यद्वा- रेण तद्विशिष्टकारणाभावकथने विच्छित्तिविशेषात्। एतेन प्रथमप्रकाराद्वितीयप्रकारस्य वैलक्षण्यं नेत्यपास्तम्। तृतीये प्रतिवन्धकाभावस्य कारणलनये तदभावकथनं शाव्दम् । अभावाभावस्य प्रतियोगिलनये तस्याकारणतनये भावाभावस्यातिरिक्ततवनये वा इत्यर्थः। आद्ये भावोफेति पूर्वस्माद्वि शेषः । चतुर्थ्या प्रकृतसजातीयकार्यान्तरस्य कारणभिन्नाकथ- नमिति कारणाभाव आर्थ एव। पश्चम्यां च प्रकृतकार्यविरुद्धकार्यस्य कारणात्कथनमिति स आर्थ एव। ष्यां तु कार्यात्कारणस्येति स एवेत्याटुः ॥ इति रसरङ्गाधरमर्मप्रकाशे विभावनाप्रकरणम् ।।
Page 451
४३६ काव्यमाला। त्वविशिष्टं मदकारणत्वं यौवनस्योक्तम्। एवं च यौवनस्य मदकारण- तायाः शब्देनैवोपात्तत्वात् यागे व्रीहियवयोरिव मदे यौवनासवयोः पर- स्परनिरपेक्षकारणत्वावगतेर्विरोधस्य लेशतोऽप्यप्रतिभानाद्विभावनैव ना- स्ति। कुतः पुनरुक्तनिमित्ता किभावना। न चासवस्य प्रसिद्धमदकारण- त्वात्तेन विना मदोत्पत्तिवर्णने विरोघप्रतिभा भवत्येवेति वाच्यम्। भवेत्सा, यदि यौवनस्य मदकारणत्वं कविना साक्षान्न प्रतिपाद्येत। प्र- तिपादिते तु तस्मिन्प्रसिद्धकारणातिरिक्तया कविना प्रतिपादितमिदमपि प्रसिद्ध कारणमिव कारणान्तरं भविष्यतीति वैकल्पिककारणताप्रतिभानान्न विरोधप्रतिभानं भवितुमर्ति । तस्मादत्र प्रथमतृतीयचरणयोर्न्यूनाभेदरू- पकम्। द्वितीयचरणे तु प्रतीयमानोत्प्रेक्षेति विवेकः । अस्मन्निर्मिते तूदा- हरणे दहनस्यैव प्रसिद्धदाहकारणत्वाद्यौवनस्य दाहकारणताया अश्रुत- त्वाद्दहनमन्तरेण दाहोत्पत्तिवर्णने विरोध आपाततः प्रतीयत एवेति सह- दयैराकलनीयम् । अथ 'लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति' इत्यत्र विभावनापत्तिर्नन्वस्तु, किं नश्छिन्नमिति चेत्। आलंकारिकैरत्र तस्यानङ्गीकारात्। ननु कारणतावच्छेदकरूपावच्छिन्नप्रतियोगिताक- त्वेन कारणाभावो विशेषणीयः । प्रकृते च कारणत्वावच्छिन्नप्रतियोगि- ताक: प्रसिद्धकारणत्वावच्छिन्नप्रतियोगिताको वा भावो न तादृशरू- पावच्छिन्नप्रतियोगिताक इति चेत्, 'खला विनैवापराधं भवन्ति खलु वैरिणः' इत्यत्र तथाप्यतिव्यापनात् । अपराधाभावस्य तथात्वात् । न च कार्याशोऽतिशयोक्त्यालीढत्वेनाभेदनिश्चयालीढत्वेन वा विशे- षणीय इति वाच्यम् । 'खला विनैवापराधं दहन्ति खलु सज्ज- नान्' इत्यादौ तथापि दोषानुद्धारादिति चेत्। मैवम्। कार्याशे यद्विष- यितावच्छेदकं तद्वच्छिन्नकार्यतानिरूपितायाः कारणताया अवच्छेदक- मिह आ्ह्यम्। दाहत्वं चेह विषयितावच्छेदकम्। तदवच्छिन्नाभिन्नत्वेन पीडाया अध्यवसानात्। नहि दाहत्वावच्छिन्नकार्यतानिरूपितकारण- ताया अवच्छेदकमपराधत्वम्। अपि तु दाहत्वावच्छित्नाभिन्नत्वेनाध्यव-
Page 452
रसगक्काघरः । ४३७
सिता या पीडा तन्निष्ठकार्यतानिरूपितकारणताया इति तदवच्छिन्नप्रति- योगिताकाभावसामानाधिकरण्येन कार्योत्पत्तिवर्णनेऽपि नात्र विभावनाप्र- सङ्गः । यदि तु 'खला विनैव दहनं दहन्ति जगतीतलम्' इति क्रियते तदा भवत्येव विभावना। एवम्- 'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ।।' इति परकीयपद्येऽतिशयोक्त्युदाहरणेऽप्यस्त्येव विभावना। परंतु 'क- मलमनम्भसि' इत्यंशे शाब्दी । 'कमले च' इत्यादौ त्वार्थीति संक्षेपः । इति रसगज्ाधरे विभावनाप्रकरणम्। अथ विशेषोक्ति :- प्रसिद्धकारणकलापसामानाधिकरण्येन वर्ण्यमाना कार्यानुत्प-
तन्र सत्यपि कारणसमवधाने कार्यस्यानुत्पत्तौ विरोधः प्रतिभासमानः प्रसिद्धेतरकारणवैकल्यधिया निवर्तते। यथा- 'उपनिषद: परिपीता गीतापि च हन्त मतिपथं नीता। तदपि न हा विधुवदना मानससदनाद्वहिर्याति ।।' यथा वा- 'प्रतिपलमखिलांल्लो कान्मृत्युमुखं प्र विशतो निरीक्ष्यापि । हा हतकं चित्तमिदं विरमति नाद्यापि विषयेभ्यः ।' अत्रोपनिषदर्थविमर्शे सकललोकानित्यत्वज्ञाने प्रसिद्धविरतिहेतौ स- त्यपि विरत्यनुत्पत्तिवर्णनाद्रागाधिक्यरूपं प्रतिबन्धकं प्रतीयते । इयमनु- कनिमित्ता। विरत्यनुत्पत्तिनिमित्तस्य प्रतिबन्धस्यानुपात्तत्वात्। अत्रैव 'रागान्धं चित्तमिदम्' इति निर्माणे उक्तनिमिचा। केचिदचिन्त्यनिमित्तां तृतीयामामनन्ति। उदाहरन्ति च- 'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न बलं हृतम् ।।'
Page 453
४३८ काव्यमाला। अनुक्तनिमित्तायां निमित्तं निमित्ततावच्छेदकरूपेण चिन्त्यमानं प्र. तीयते। इह तु न तथा। किं तु भविप्यति किंचिन्निमित्तमित्याकारेणे- त्यनुक्तनिमित्तातोऽचिन्त्यनिमित्ताया भेद इति ह्येषामाशयः। अन्ये तु- 'नानुक्तनिमित्तायां चिन्त्यत्वं निमित्तविशेषणम्। भेदान्तरकल्पनागौरव- प्रसङ्गात्। किं तु चिन्त्यमचिन्त्यं चेति द्विप्रकारकमपि निमित्तं यत्र नोक्तं सानुक्तनिमित्ता। तेनाचिन्त्यनिमित्ता अनुक्तनिमित्तातो न पृथग्भावमर्हति' इत्याहुः । अत्र च कारणसमवधानं कार्यानुत्पत्तेर्बाध्यमिति वहवः । व- स्तुतस्तु कार्यानुत्पत्तिरेवास्मिन्नलंकारे वाध्या । 'कर्पूर इब दग्धोऽपि शक्तिमान्यो जने जने। नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ।।' 'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न बलं हृतम् ।।' इति प्राचीनप्रसिद्धोदाहरणेषु कारणसमवधानस्य कामशरीरनाशरू- पस्य प्रमाणसिद्धत्वेन वाध्यत्वायोगात्। यतः कामस्य शरीरनाशेऽपि शक्तिबलयोर्नाशः कुतो न जात इत्येव सर्वजनीनः प्रत्ययः, न तु शक्ति- वलयोः सतोः कथं शरीरनाश इति। 'दृश्यतेऽनुदिते यस्मिन्नुदिते नैव दृश्यते। जगदेतन्नमस्तस्मै कस्मैचिद्वोधभानवे ।।' इत्यत्रोदयाभावे जगद्दर्शनस्य, उदयसत्त्वे दर्शनाभावस्य वर्णनेऽपि न विभावनाविशेषोक्तिः । नह्यत्र साहजिकसूर्योदयो वर्ण्यते। येन तयोः प्र- सङ्ग: स्यात्। तथात्वे तूक्तिसंभव एव न स्यात् । किं तु ब्रह्मात्म्यैक्य- बोधसूर्योदयः । तस्य च जगददर्शनमेव कार्यम्। न तु जगद्दर्शनन्। तथात्वे तु सूर्योदयस्येवास्याप्युक्तिसंभवो न स्यात् । अत एव व्यतिरेको- लासस्ताद्रूप्यरूपकालीढे संगच्छते। कारणभावकार्याभावयोर्यत्र प्रतियो- प्राग्वदाह-अथेति। ताद्रूप्यरूपकालीढ इति। वैधर्म्यस्य शब्दोपात्तत्वा- दभेदस्य प्रतीत्यसंभवादचमत्कारित्वाच्च तद्ृत्तिधमवत्त्वस्यैव प्रतीतेरस्य ताद्रूप्यरूपकत्-
Page 454
रसगङ्गाघरः । ४३९ गितावच्छेदकविशिष्टवैशिष्षेन श्रुत्या प्रतिपादनं तत्र विभावनाविशेषो- कत्योः शाब्दत्वम्। यथा- 'भगवद्वदनाम्भोजं पश्यन्त्या अप्यहर्निशम्। तृष्णाधिकमुदेति स्म गोपसीमन्तिनीदृशः ।।' लोके ह्यसंनिकर्षस्तृप्णाकारणम्। तदभावे संनिकर्षेऽपि तृष्णोपनि- बद्धा। तथा संनिकर्षस्तृप्तिकारणम्। तस्मिन्सत्यपि तृप्यभावो बोधितः । परंतु कारणाभावकार्याभावयोरन प्रागुक्तप्रकारेण प्रतिपादनमित्यार्थत्वमेव तदुभयसंशयसंकरस्य । अमुमेव चार्थ मनसिकृत्य मम्मटभट्टैः 'यः कौ- मारहरः' इति पद्यमुदाहृत्योक्तम्-'अत्र स्फुटो न कश्चिदलंकारः' इति। वामनस्तु-'एकगुणहानिकल्पनायां साम्यदारढ्य विशेपोक्तिः' इत्याह। उदाजहार च-'दूतं हि नाम पुरुषस्यासिंहासनं राज्यम्' इति। अत्र हि द्यूते राज्यं तादात्म्येनारोप्यते। तत्र सिंहासनरहितं हि द्यूतं सिंहा- सनसहितराज्यतादात्म्यं कथं वहेदित्यारोपोन्मूलकयुक्तिनिरासायारोप्य माणे राज्येऽपि सिंहासनराहित्यं कल्प्यते। तेन दृढारोपं रूपकमेवेदम्। न विशेषोक्तिः। एवं च- 'अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शंभुर्भगवान्वादरायणः ।।' इति पौराणपद्येऽपि रूपकमेव । तथा गुणाधिक्यकल्पनायामपि त- देव। यथा-'धर्मो वपुप्मान्भुवि कार्तवीर्यः' इत्यादौ। एतेन 'एकगु- णहान्युपचयादिकल्पनायां साम्यदाढ्य विशेषणम्' इति विशेषालंकारं लक्षयन्तोऽपि प्रत्युक्ताः । इति रसगङ्गाधरे विशेषोक्तिप्रकरणम् । अथासंगति :- विरुद्धत्वेनापाततो भासमानं हेतुकार्ययोवैयधिकरण्यमसंगतिः ॥ व्यवहार इति दिक्। न प्रागुक्तप्रकारेणेति। प्रतियोगितावच्छेदकवैशिष्टयेन श्रत्या प्रतिपादनाभावादित्यर्थः ॥ इति रसगद्गाधरमर्मप्रकाशे विशेषोक्तिप्रकरणम् ॥
Page 455
४४० काव्यमाला।
'मृशति त्वयि यदि चापं स्वापं प्रापन्न केऽपि नरपालाः । शोणे तु नयनकोणे को नेपालेन्द्र तव सुखं स्वपितु ।। अत्र चापस्पर्शनयनशोणिन्नोर्हेत्वोः सवापनाशरूपकार्यवैयधिकरण्ये- डतिप्रसङ्गवारणाय विरुद्धेत्यादि। इह च विभिन्नदेशस्थयोरेव तयोः कार्य- प्रयोजकतया विरोधानवकाशात्। ननु शोणिमाभिव्यक्तस्य रोषस्य का- लिकसंबन्धेन हेतुत्वादस्तु नाम कार्यभिन्नदेशत्वम्। चापस्पर्शस्य तु ली- लया कृतस्य स्वरूपतो हेतुत्वाभावात्तज्ज्ञानं सापनाशे हेतुत्वेनाभ्युपग- न्तव्यम्। एवं च तस्य कथं वैयधिकरण्यमिति चेत्, न। प्रयोजकस्यापि हेतुपदेनात्र अहणाददोषः । प्रयोजकत्वं च चापस्पर्शस्य ्रमात्मकरोषा- नुमितिलिङ्गत्वात्। उदाहरणम्- 'अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति । प्रहरति हि कुसुमवाणो जगतीतलवर्तिनो यूनः ।' यथा वा- 'दृष्टिर्मृगीदृशोऽत्यन्तं श्रुत्यन्तपरिशीलिनी। मुच्यन्ते बन्धनात्केशा विचित्रा वैधसी गतिः ।।' अत्राद्योदाहरणे शुद्धा, द्वितीये तु श्रेषोपबृंहितेति विशेषः । प्रहर- तीत्यत्राभेदाध्यवसायलक्षणेनातिशयेना पराधनिमि त्तकताडन रूपतय।वस्थिते कामपीडने विषय्यंशमालम्व्य तं प्रति समानाधिकरणतया प्रसिद्धस्य हेतोरपराधरूपस्य वैयधिकरण्यज्ञानात्पुरः स्फुरन्विरोधो विषयांशविमर्शो- त्तरं तं प्रति कुसुमश्रीहरणाभिव्यक्तशोभाविशेषस्य भावनोपनीतस्य तद्भा- वनाया वा हेतुत्वस्य प्रतिसंधानान्निवर्तत इत्यभेदाध्यवसानमनुप्राणकम् । विरोधाभासश्चोत्कर्षकः । एवमन्यत्रापि बोध्यम्। अस्यां च विभावनायामिव कार्योशेऽतिशयोक्त्यनुप्राणनमावश्यकम् । अन्यथा विरोधो दुष्परिहर एव स्यात्, इत्यलंकारसर्वस्वकारादीनां मतम् ।
प्राग्वदाह-अथेति। वैयधिकरण्यं भिन्नदेशलम्। प्रयोजकेति। यत इत्यादिः। भ्रमात्मकरोषानुमितीति। लीलया करणाद्ध्रमात्मकत्वम्। ग्लेषोपवृंहितेति।
Page 456
४४१
त्च 'दृष्टिर्मृगीदृशः' इत्यस्मन्निर्मितोदाहरणे व्यभिचारादसंगतम्। नहि 'मुच्यन्ते बन्धनात्केशाः' इत्यत्र केशबन्धनमुक्त्यंशेऽतिशयोक्तिरस्ति । कि तु क्लेषभित्तिकाभेदाध्यवसानमात्रम्। तस्माद्येन केनापि प्रकारेण कार्याशेऽभेदाध्यवसानमावश्यकमिति तु संगतम् । यद्यपि 'दृष्टिर्मृगी- दशः' इत्यादौ कारणांशेऽपि क्लेषादिनाभेदाध्यवसायः संभवति, तथापि नासौ तदंशे नियतः । 'खिद्यति सा पथि यान्ती कोमलचरणा नितम्बभारेण। खिद्यन्ति हन्त परितस्तद्रूपविलोकिनस्तरुणाः ॥' इत्यादौ भारजनितखेदांशे तदभावात्। न च तत्रापि जलपूर्णघटादि- भारजनितखेदेन सह नितम्बभारजनितखेद स्याभेदाध्यवसायोऽस्त्येवेति वाच्यम्। नितम्बभारजनितखेदस्य स्वस्वरूपेणापि खेदजनकत्वेन भारान्त- रजनितखेदाभेदाध्यवसायानपेक्षणात्। 'सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः' इति प्राचीनानां पद्ये वालात्वस्त्रीत्वाद्ंशे तल्लेशस्याप्य- संभवाच। यत्तु 'विरोधालंकारे ह्येकस्मिन्नधिकरणे द्वयोः संवन्धाद्विरो- धप्रतिभानम्, असंगतौ त्वधिकरणद्वय इति तस्मादस्य वैलक्षण्यम्' इति विमर्शिनीकार आह, तदसत्। इहापि तत्कार्यतावच्छेदकधर्मतत्तत्कारण- वैयधिकरण्यरूपयोधेर्मयोरेकस्मिन्कार्यरूपेऽधिकरणे संवन्धादेव विरोधप्र- तिभानोत्पत्तेः । तस्माद्विरोघालंकारे उत्पत्तिविमर्श विनैव विरोधप्रतिभा- नम्। इह तूत्पत्तिविमर्शपूर्विकैव विरोधप्रतिभोत्पत्तिः इति वैलक्षण्य- मिति। वस्तुतस्तु-व्यधिकरणत्वेन प्रसिद्धयोः समानाधिकरणत्वेनोपनि- बन्धने विरोधालंकारः । समानाधिकरणत्वेन प्रसिद्धयो्द्वयोवैयधिकरण्येनो- पनितन्धनेऽसंगतिः । प्रागुक्तासंगतिलक्षणे हेतुकार्ययोरिति च समानाधि- करणमात्रोपलक्षणम्। तेन 'नेत्रं निरञ्जनं तस्याः शून्यास्तु वयमद्भुतम्' इत्यत्र शुद्धसमानाधिकरणत्वेन प्रसिद्धयोरप्यसंगतिः संगच्छते। यथाश्रुते तु सा न स्यात्। इत्थं च स्फुट एव विरोधालंकारादसंगतेर्भेदः। यस्तु पुनार्वैरो- धालंकारादतिरिक्तः शुद्धविरोघांशो विरोधमूलेषु सर्वेष्वप्यलंकारेष्वनुस्यूतः, ति। रस० ४०
Page 457
४४२ काव्यमाला। औपम्यांश इवोपमामूलेषु, सोऽलंकाराणां कतिपयानां निवर्तकः नतु स्वयं पृथगलंकारास्पदम् । अलंकाराणां भणितिविशेषमात्ररूपत्वात्। एवं च विमर्शिनीकारोक्तमपि पद्यमनयैव दिशा नीयते तदा न दोषः । यत्तु- "अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च या। अन्यत्कर्तु प्रवृत्तस्य तद्विरुद्धकृतिस्तथा॥ अपारिजातां वसुधां चिकीर्षन्द्यां तथा कृथाः । गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुराकरो: ।।' अत्र श्रीकृष्णं प्रति शुकस्योपालम्भवाक्ये भुवि चिकीर्षिततया तत्र करणीयमपारिजातत्वं दिवि कृतमित्येकासंगतिः। पुरा गोत्राया उद्धारे प्रवृ- त्तेन वराहरूपिणा तद्विरुद्धं गोत्राणां दलनं खुरकुट्टनैः कृतमिति द्वितीया। यथा वा- 'त्वत्खङ्गखण्डितसपन्न विलासिनीनां भूषा भवन्त्यभिनवा भुवनैकवीर। नेत्रेषु कंकणमथोरुपु पत्रवल्ली चोलेन्द्रसिंह तिलकं करपल्लवेषु ।I' 'मोहं जगत्रयभुवामपनेतुमेत- दादाय रूपमखिलेश्वर देहभाजाम्। निःसीमकान्तिरसनीरधिनामुनैव मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ।I' अत्राद्योदाहरणे कंकणादीनामन्यत्र करणीयत्वं प्रसिद्धमिति नोपन्य- स्तम् । भवतिना भावनारूपान्यत्र कृतिराक्षिप्यते इति लक्षणानुगतिः" इति कुवलयानन्दकृतासंगतेरन्यद्वेदद्वयं लक्षयित्वोदाहृतम्, तन्न। तत्र तावत् 'अपारिजातां वसुधां चिकीर्षन्द्यां तथा कृथाः' इत्यत्र पारिजातरा- हित्यचिकीर्षया कारणभूतया सह पारिजातराहित्यस्य कार्यस्य विरुद्धवै- यधिकरण्योपनिबन्धात् 'विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः' इति प्राथ- मिकासंगतितो वैलक्षण्यानुपपत्तेः । आलम्बनाख्यविषयतासंबन्धेन चिक्ी- र्षायाः सामानाधिकरण्येन कार्यमात्रं प्रति हेतुत्वस्य प्रसिद्धेः । न च पा-
Page 458
रसगङ्गाधरः । ४४३
रिजातराहित्यस्याभावरूपस्य नित्यत्वात्कारणाप्रसिद्धिरिति वाच्यम् । आलंकारिकनये तस्यापि जन्यत्वस्येष्टेः । लक्षणे कार्यकारणपद्योरुपलक्ष- णत्वस्योक्तत्वाच्च। 'गोत्रोद्धारप्रवृत्तोऽपि' इत्युदाहरणे तु 'विरुद्धात्का- र्यसंपत्तिर्दष्टा काचिद्विभावना' इति पश्चमविभावनालक्षणाक्रान्तत्वाद्विभा- वनयैव गतार्थत्वादसंगतिभेदान्तरकल्पनानुचिता। गोत्रोद्धारविषयकप्रवृत्ते- र्गोत्रोद्धेदरूपकार्ये विरुद्धत्वात् । सिद्धान्तेऽपि विभावनाविशेषोक्त्योः संकर एवात्रोचितः । 'नेत्रेषु कंकणं' इत्यादौ कंकणत्वनेत्रालंकारत्वयो- र्व्यधिकरणत्वेन प्रसिद्धयोः सामानाधिकरण्यवर्णनाद्विरोधाभासत्वमुचितम् । एवं मोहनिवर्तकत्वमोहजनकत्वयोरपीति। ननु तवापि विरोघाभासेनैवोप- पत्तेर्विभावनादिकल्पनानर्थक्यमिति चेत्, न। दत्तोत्तरत्वात्।
अथ विषमालंकार :- अननुरूपसंसर्गो विषमम्॥ अनुरूपमिति योग्यतायामव्ययीभावः । अनुरूपं यत्र न विद्यत इति विगृहीतेन बहुव्रीहिणा योग्यतारहितमुच्यते। योग्यता च युक्तमिदमिति वन्धशब्दे श्लेषः । गोन्नायाः पृथिव्याः। गोत्राणं पर्वतानाम्। जन्यत्वस्येष्टेरिति। जन्यत्वेऽपि चिकीर्षायाः कृत्यान्यथासिद्धतया कार्यजनकत्वे मानाभावः। अधिकरणा- न्तर्भावे सा चिकीर्षाया अहेतुत्वात्। अन्यत्र चिकीर्षितस्यापि प्रमादादिनान्यत्रकरणे व्य- भिचारात्। एवं च वैयधिकरण्यं विरुद्धमेव न। किं चात्र न तत्कार्यकारणवैयधि- करण्यकृतचमत्कारः, अपि त्वन्यत्र कर्तव्यस्यान्यत्र करणप्रयुक्त एवेत्यर्थस्य सर्वसंम- तत्वेन ततो भदौचिल्यात। किं च पूर्वोदाहरण इवानयो: कार्यकारणयोर्विरोधस्य दुःस- माधानत्वेन नात्र सः । आपाततो विरुद्धत्वेन भासमानमेवेति तत्पूर्वासंगतिरिति चिन्त्यम्। पश्चमविभावनेति। विरुद्धत्वेन प्रसिद्धयोरेव सेति केचित्। किं चोपा- लम्भरूपेऽस्मिन्वचसि विरुद्धकृतिमानकृत एव चमत्कारः, तत्र तु विरोधनिवृत्तिकृतो- ड्पीति महान्विशेषः। विरोधाभासत्वमुचितमिति। समानविभक्तिकाभावात्सा- मानाधिकरण्यस्य शब्दादप्रतीतेरभेदस्याभानाच्च चिन्त्यमिदम्। ययोर्विरोध प्रतीतिस्तयो- रर्थान्तरमादायापि सामानाधिकरण्यप्रतीतेक्ष । इति रसगन्गाधरमर्मप्रकाशेऽसंगतिप्रक- रणम् ।। प्राग्वदाह-अथेति। तन्नान्तरप्रसिद्धार्थनिरासायाह-योग्यता चेति। द्विती-
Page 459
8४४ काव्यमाला
लौकिकव्यवहारगोचरता। संसर्गश्व तावद्विविधः-उत्पत्तिलक्षणः संयो- गादिलक्षणश्च । तत्रोत्पत्तिलक्षणस्य संसर्गस्यायो ग्यत्वं ् कारणत्सगुणवि लक्षणगुणकार्योत्पत्त्या । इष्टसाधनतया निश्चितात्कारणादनिष्टकार्योत्प- त्तिभि: संयोगादिलक्षणस्यापि। संसर्गिणोरन्यतरगुणस्वरूपतिरस्कार्यान्य- तरगुणस्वरूपतया अयोग्यत्वम्। एवं चाननुरूपसंसर्गत्वेन सामान्येनोक्ता वक्ष्यमाणाश्च सर्वे प्रभेदाः संगृद्यन्ते। क्रमेणोदाहरणानि- 'अमृतलहरी चन्द्रज्योत्सारमावदनाम्बुजा- न्यधरितवतो निर्मर्यादप्रसादमहाम्वुधेः । उद्भवदयं देव त्वत्तः कथं परमोल्वण- प्रलयदहनज्वालाजालाकुलो महसां गणः ।l' अत्र माधुर्यशैत्याह्वादकत्वप्रसादाद्यनेक गुणयुक्तात्कारणा त्तद्विरुद्धगुण- युक्तस्य प्रतापस्योत्पत्तिरित्यननुरूपः कार्यकारणभावः । अभेदाध्यवसान- लक्षणेनातिशयेन समवायिकारणरूपतया स्थिते निमित्तकारणे समवेत- कार्यरूपतया स्थिते निमित्तिकार्ये वा विषयांशमालम्व्य स्फुरितो विरोधो विषयांशविमरशोत्तरं निवर्तत इतीहाप्यभेदाध्यवसानस्यानुप्राणकत्वम्, तदु- त्थापितविरोधाभासस्य च परिपोषकत्वम्। अयमेव चांशोऽत्र कविप्र- तिभानिर्मितत्वादलंकारतावीजम्। इष्टसाधनतया ज्ञातात्कारणादनिष्टका- र्योत्पत्तिरित्यत्रैकशेषघटित एकशेषो बोध्यः । न इष्टमनिष्टम् अनर्थः । तादशकार्योत्पत्तिश्च । न इष्टकार्योत्पत्तिरनिष्टकार्योत्पत्तिः सा चेत्य- निष्टकार्योत्पत्ती। ते च अनिष्टकार्योत्पत्तिश्च [अनिष्टकार्योत्पत्तिश्च] अनिष्टकार्योत्पत्तयः ताभिरिति। अनेनेष्टकार्यानुत्पत्त्यनिष्टकार्योत्पती मिलिते एको भेदः । प्रत्येकं च भेदद्वयम् । इति त्रयो भेदाः संगृहीता भवन्ति। इष्ट च-स्वस्य किंचित्सुखसाधनवस्तुप्राप्तिर्दुःखसाधनवस्तुनिवृ- त्तिश्च परस्य दुःखसाधनवस्तुप्रापणं सुखसाधननिवृत्तिश्चेति चतुर्विधम् । तेनेष्टाप्राप्तिघटिते भेदद्वयेऽपि चातुर्विध्यम्। अनिष्टं च-स्वस्य दुःख-
यस्य तदाह-इष्टेति। एवं सत्वाह-संसर्गिणोरिति। तमेवाह-अनेत्यादि। अनिष्टकार्योत्पत्तिश्चेति। आद्ये नजा इष्टकार्योतपत्तिशव्देन समासः, द्वितीये इषश- वदेनेति। सुखसाधनवस्तुनाशश्चेतीति। अत्रापि परस्येत्येव बोध्यम्। गाव इ-
Page 460
रसगङ्गाधरः । ४४५
साधनवस्तुप्राप्तिः परस्य सुखसाधनवस्तुप्राप्तिर्दुःखसाधनवस्तुनाशश्चेति त्रि- विधम्। स्वस्येष्टाप्राप्तिस्तु गणितेति नानिष्टे गण्यते। तेनानिष्टप्राप्तिघ- टिते भेदद्वयेऽपि त्रैविध्यम्। दिस्मात्रं तूपदर्श्यते-उदाहरणम्- 'दूरीकर्तु प्रियं बाला पझ्मेनाताडयद्रुषा। स बाणेन हतस्तेन तामाशु परिषस्वजे ॥।' अत्र प्रियदूरीकरणरूपेष्टार्थ प्रयुक्तेन पद्मताडनरूपेण कारणेन प्रिय- दूरीकरणं तु दूरापास्तम्, प्रत्युत तत्कर्तृकपरिष्वङ्गरूपानिष्टस्योत्पत्तिः । यथा वा- 'खञ्जनदृशा निकुञ्जं गतवत्या गां गवेषयितुम् । अपहारिताः समस्ता गावो हरिवदनपङ्कजालोकात् ॥' पूर्वोदाहरणे वास्तवमेवानिष्टम् इह तु सकलेन्द्रियहरणं यद्यपि लोके- Sनिष्टप्रायमेव। तथापि तत्पुरस्कारेणेह चमत्कृतिराहित्याद्गोहरणपुरस्कारेणैव चमत्कारात्। श्रेषमूलकाभेदाध्यवसाने सकलसुरभिहरणरूपानिष्टात्मना स्थितं तदिति विशेषः। गवेष्यमाणगवीरूपेष्टाप्राप्तेरनुक्तत्वात्केवलानिष्ट- प्राप्तेरिदमुदाहरणम्, पूर्व तूभयस्येति विशेषो न वाच्यः । समस्तगवीहर- णेन सामान्येन गवेष्यमाणाया अपि गोरपहारस्य प्रत्ययात्। एवमिष्टाप्राप्यनिष्टप्राप्युभयकृता संसर्गस्याननुरूपता सामान्येनोक्ता। पूर्वोक्तचतुर्मेदाया इष्टाप्राप्तेः पूर्वोक्तत्रिभेदेनानिष्टेन संसष्टवियमेव द्वाद- शविधा। तत्र स्वस्य सुखसाधनवस्त्वप्राप्तिदुःखसाधनवस्तुप्राप्तिरूप उभ- यभेदस्तावदुदाहृतः । स्वस्य दुःखसाधनवस्त्वनिवृत्तिदुःखान्तरसाधनावा- प्तिरूपद्वयं यथा- 'रूपारुचि निरसितुं रसयन्त्या हरिमुखेन्दुलावण्यम्। सुदृशः शिव शिव सकले जाता सकलेवरे जगत्यरुचिः ॥।' अत्र यद्यपि ब्रह्मदर्शनोत्तरं जातायामपि जगति वैराग्यलक्षणायाम- रुचौ भगवद्वदनलावण्यदर्शनाद्रपारुचिर्विलक्षणा या काचित्सा निवृत्तैवेति वत्तुं शक्यते, तथापि जगदरुचित्वेन सकलारुचीनामभेदाध्यवसायाद्रूपा-
Page 461
४४६ काव्यमाला।
रुचिनिवृत्तेरप्रत्यय एव। अन्यथा सुखहेतोर्वैराग्यलक्षणाया अरुचेर्दुःखा- न्तरसाधनत्वं दुरुपपादं स्यादिति भवत्युभयोदाहरणम् । परस्य दुःखसाधनानवाप्तिः स्वस्य दुःखान्तरसाधनप्राप्तिरित्युभयं यथा- 'पुरो गीर्वाणानां पुलकितकपोलं प्रथयतो भुजप्रौढिं साक्षाद्भगवति शरं संमुखयितुम्। स्मरस्य स्वर्वालानयनसुममालार्चितमहो वपुः सदयो भालानलभसितजालास्पदमभूत् ।।' परस्य सुखसाधनानिवृत्तिः सवस्य दुःखसाधनप्राप्तिरित्युभयं यथा- 'न मिश्रयति लोचने सहसितं न संभाषते कथासु तव किं च सा विरचयत्यरालां भ्रुवम्। विपक्षसुदृशः कथामिति निवेदयन्त्या पुरः प्रियस्य शिथिलीकृतः सवरविपयोऽनुरागग्रहः ।l' अत्र कयाचित्प्रौढनायिकया सपल्यां प्रियेणाज्ञातयौवनात्वेनैव विदि- तायां तदनुरागप्रतिबन्धार्थ प्रियस्य पुरस्तदीयदुर्गुणानावेदयन्त्या चिकी- र्षितोरऽर्थो न संपादितः, स्वस्मिन्ननुरागक्षतिश्च संपादितेति यद्यपि सुख- साधननिवृत्तेर्दुःखसाधनरूपत्वान्न पृथग्गणनोचिता, तथापि दुःखसाधन- निवृत्तौ सुखस्येव सुखसाधननिवृत्तौ प्रतिनियतकारणं जन्यत्वेन दुःख-
प्राप्तिर्यथा- स्यानैयत्यात्पृथगुपादानम् । एवमष्टावन्येऽप्युभयभेदा ऊह्याः । केवलेष्टा-
'प्रभातसमयप्रभां प्रणयिनि हुवाना रसा- दमुष्य नयनाम्बुजं सपदि पाणिनामीलयत्। अनेन खलु पझ्िनीपरिमलालिपाटच्चरैः समीरशिशुकैश्चिरादनुमितो दिनेशोदयः ॥' अत्र प्रियतमकर्तृकप्रभातविषयकज्ञानाभावः कामिन्याः सुखसाधनत- येष्टः । स च तया साध्यमानोऽपि न सिद्ध इतीष्टाप्राप्तिरेव। यद्वा ताद- शज्ञानं तस्या दुःखसाधनम्, तन्निवृत्तिरूपं चेष्टं साध्यमानमपि न
Page 462
रसगङ्गाधरः । ४४७
थेति सैव। एवं च द्विप्रकारापीष्टाप्राप्तिरेवात्र संभवति। प्रकारान्तरं चास्या अप्यूह्यम्। केवलानिष्टप्राप्तिर्यथा- 'मुकुलितनयनं करिणो गण्डं कण्डूयतो विषद्रुतटे। उदभूदकाण्डदहनज्वालाजालाकुलो देहः ।l' अत्र नेष्टाप्राप्तिः । मुकुलितनयनमित्यनेन कण्डूयनजन्यसुखस्य प्राप्ते: किं त्वनिष्टप्राप्तिरेव। अस्या अपि भेदद्वयं यथायथमूद्यम् । ग्रन्थविस्तर- भयान्नेहोदाहियते। एते चेष्टसाधनत्वेन निश्चितात्कारणादनिष्टकार्योत्प- त्तीनां सर्वेडपि प्रभेदा वक्ष्यमाणविषादनालंकारसंकीर्णा एवेति तत्प्रकरणे निरूपयिष्यामः । यत्तु-'अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात्' इति विषमभेदल- क्षणं निर्माय 'अपिशन्दसंगृहीततया इष्टानवाप्तिश्रेति प्रत्येकमपि विपम- पदेनान्वयः' इत्युक्तं कुवलयानन्दकृता, तन्न। अव्युत्पत्तेः । अस्मिन्ग्रामे देवदत्तस्य द्रव्यस्यापि लाभोऽस्तीत्यादौ द्रव्यशब्दोत्तरापिशब्दसमुच्चितस्य विद्यादेर्द्रव्यान्वयिन्येवान्वयाद्रव्यस्य लाभो विद्यायाश्र लाभ इति घी- रिति निर्विवादम्। प्रकृते त्वनिष्टस्याप्नोतिनान्वयः, इष्टानवाप्तेश्च तच्छ- व्दपरामृष्टेन विषमेणेति वैषम्यात्। प्रत्युत लक्षणवाक्येSपिशन्दोऽनिष्टां धियमुत्पादयति। अनिष्टस्यावाप्तिरिष्टस्य चेति प्रतीतेः । चकारसमुच्चि- तया इष्टानवाप्या अनिष्टावाप्तरेकवारं मिलितायास्तत्पदपरामृष्टेन विषमे- णान्वयाद्वाक्यावृत्त्या वारान्तरे च प्रत्येकमन्वयाद्ेदत्रयसंग्रह इति तु स्यादपि। न त्वपिशब्दविकत्थनम् । यदपि तेनैवोदाहृतम्-'भक्ष्याशया- Sहिमअ्ूषां दष्टाखुस्तेन भक्षितः' इति। अत्र क्त्वाप्रकृतिक्रियाकर्तृकर्तृ- कोत्तरकालवर्तिक्रियान्तर स्याप्रयुक्तत्वादगम्यमानत्वाच्च प्रविष्ट इति पदा- काङ्रितया न्यूनपदत्वम् । यदपि केवलेष्टानवाप्तौ तेनैवोदाजहे- 'खिन्नोऽसि मुञ्च शैलं विभृमो वयमिति वदत्सु शिथिलभुजः । भरभुमविततवाहुपु गोपेपु हसन्हरिर्जयति ।' न्द्रियाणि। न त्वपिशद्दविकत्थनमिति। अपिशव्दस्यावाप्तिपदोत्तरमुत्कर्षेणान्वये तु न किंचिदधिकम्। क्रियान्तरस्याप्रयुक्तत्वादिति। तेन भक्षित इत्यन्वये, त्विदं
Page 463
8४6 काव्यमाला।
इति। तदपि न रमणीयम्। अत्र भरभुझ्नविततेत्यादिना बाहुगतास्थिसंधि- भङ्गरूपानिष्टप्राप्तेः साक्षादुपात्तत्वात्सर्वाङ्ग चूर्णीभाव गर्वपहार रूपायाश्च स्फुटं गम्यमानत्वात्कथमिष्टाप्राप्तिमात्रमित्युच्यते । एतेन 'शैलपतनरूपानिष्टा- वाप्तिस्तु भगवत्कराम्वुजस्पर्शमहिस्रा न ज्ञाता' इति यदुक्तम्, तदप्यसार- मेव। अनिष्टानामुक्तत्वात्। एवमुत्पत्तिलक्षणसंसर्गस्याननुरूपं निरूपितम् । संयोगादिलक्षणसं- सर्गस्याननुरूपत्वं यथा- 'वनान्तः खेलन्ती शशकशिशुमालोक्य चकिता भुजप्रान्तं भर्तुः श्रयति भयहर्तुः सपदि या । अहो सेयं सीता शिव शिव परीता श्रुतिचल- त्करोटीकोटीभिर्वसति खलु रक्षोयुवतिभिः ॥' अत्र सतीशिखामणेर्भगवत्या राघवधर्मपल्याः परमप्रभावयुक्तत्वाद्राक्ष- सीभिरनाश्यत्वेऽपि रक्ष:कर्तृकनाशस्वरूपयोग्यतावच्छेद कमनुष्यत्वजा- तियोगेन स्वरूपस्य रक्षोदर्शनेन सौन्दर्यसौकुमार्यादीनां गुणानां च ना- श्यत्वेन विरुद्धत्वात्समानाधिकरणसंयोगरूपः संसर्गोऽननुरूपः । ननु- 'क शुक्तयः क वा मुक्ताः क पङ्कः क च पङ्कजम्। क मृगा: क च कस्तूरी धिग्विधातुर्विदग्धताम् ।।' इत्यादौ वस्तुकथनमात्रे विषमालंकारप्रसङ्गः । न चेष्टापत्िः । वस्तुवृत्त- स्य लोकसिद्धत्वेनालंकारत्वायोगात्। यतो बहिरसन्तः कविप्रतिभामात्र- कल्पिता अर्थाः काव्येऽलंकारपदास्पदम् । नच 'यथा पझं तथा मुखम्' इत्यादौ सादृश्यस्य लोकसिद्धत्वात्कविप्रतिभानुत्थापितत्वेऽपि कथमलंका- रत्वमिति वाच्यम्। सादृश्यरूपे सादृश्योत्थापके वा अभिन्नधर्मेडभेदां- शस्य कविप्रतिभामात्राधीनत्वात् । नहि पद्ममुखयोः शोभारूपो धर्मों जात्यादिवद्वस्तुत एकोऽस्ति । यो हि जात्यादिरूपो वस्तुत एकस्तदुत्थापितं चिन्त्यम्। अत्रेति। यत इत्यादिः। बाहुगतास्थिसंधीति। तस्या धात्वर्थत्वात्, भगवत्करस्पर्शमहित्रा तस्याप्यजातत्वाच्च नेदं युक्क्तम्। यत्तु कुटिलीभवनं तत्रातर्कि- तोत्कटपर्वतधारणे तस्य संभावितत्वेन तदङ्गीकृतत्वात्, गर्वेण गोपानामप्रवृत्तेश्र। सिन्नो- सीत्युक्त्या तथैव लाभाच। इति रसगङ्गाधरमर्मप्रकाशे विषमप्रकरणम्॥
Page 464
रसगङ्गाधरः । 8४९
सादृश्यमलंकारवहिर्भूतमेव । यथा-'पद्ममिवास्य मुखं द्रव्यम्' इ- त्यादौ। एवं च 'वनान्तः खेलन्ती' इति पद्यप्रतिपाद्यायाः सीताराक्षसवधू- संसर्गाननुरूपताया लौकिकीत्वेन कविप्रतिभानपेक्षत्वान्नालंकारत्वम्। एतेन- 'अरण्यानी क्वेयं धृतकनकसूत्रः क स मृगः क मुक्ताहारोडयं क च स पतगः क्केयमवला। क्व तत्कन्यारलं ललितमहिभर्तुः क च वयं स्वमाकूतं घाता कमपि निभृतं पल्लवयति ॥' इत्यलंकारसर्वस्वकृतोदाहृतमपि प्रत्युक्तम् । इयमेव च पद्यान्तरेऽपि कविप्रतिभानुत्थापितार्थके सरणिरिति सत्यम्। एवं तर्हि 'क सा कुसुमसाराङ्गी सीता चन्द्रकलोपमा। क रक्षःखदिराङ्वारमध्यसंवासवैशसम् ।।' इति पद्यमुदाहरणं गृहाण । अत्र हि केवलसीतायाः केवलराक्षसीनां च संसर्गस्याननुरूपतायां सत्यामपि न सा कवेर्विवक्षिता । कि तु या कुसुमसारखदिराङ्गारसंसर्गस्याननुरूपता सेति स्फुटमेवास्यामलौकिकत्वा- त्कविप्रतिभापेक्षित्वम्। इति रसगज्गाधरे विपमालंकारप्रकरणम् । अथ समालंकार :- अनुरूपसंसर्ग: समम् ॥ संसर्ग: पूर्ववद्विविधः । तत्रोत्पत्तिलक्षणस्य संसर्गस्यानुरूपत्वं का- रणात्ससमानगुणकार्योत्पत्त्या, यादृशगुणकवस्तुसंसर्गेस्तादृशगुणोत्पत्त्या, यत्किंचिदिष्टप्राप्त्यर्थ प्रयुक्तात्कारणात्तत्रास्या च । उत्कटेष्टान्तरप्राप्तौ तु प्रहर्पणं वक्ष्यते। संयोगादिलक्षणस्यापि संसर्गिणोरन्यतरगुणस्वरूपा- नुग्ाह्यान्यतरगुणस्वरूपतयानुरूपत्वम् । एवं चानुरूपसंसर्गत्वेन सामान्य- लक्षणेन सवें भेदा: संगृहीता भवन्ति । यथा- 'कुवलयलक्ष्मीं हरते तव कीर्तिस्तत्र किं चित्रम्। यस्मान्निदानमस्या लोकनमस्याङ्गिपङ्कजस्तु भवान् ।।'
Page 465
४५० काव्यमाला।
यथा वा- 'मन्त्रार्पितहविर्दीपहुताशनतनूभुवः। शिखास्पर्शेन पाञ्चाल्याः स्थाने दग्धः सुयोधनः ॥' पूर्व कारणकार्यधर्मयोः क्लेषेणैक्यसंपादनम्, इह तु मरणदाहयोरभे- दाध्यवसानरूपेणातिशयेनेति विशेषः । द्वितीयो भेदो यथा- 'वडवानलकालकूटलक्ष्मीमकरव्यालगणैः सहैधितः । रजनीरमणो भवेन्नृणां न कथं प्राण वियोगकारणम् ।।' लक्ष्मीरप्यत्र मारकत्वेनैव कवेर्विवक्षिता। तृतीयो यथा- 'नितरां धनमाप्तुमर्थिभिः क्षितिप त्वां समुपास्य यत्नतः । निधनं समलम्भि तावकी खलु सेवा जनवाञ्छितप्रदा ।।' [अत्र मरणबहुधनयोः श्रेषेणैक्ये बहुघनरूपेष्टात्मना वाञ्छितार्था- प्तिरूपसमालंकारचमत्कारः I] अत्र व्याजस्तुतौ मुखे धनप्राप्तिरूपस्तुति- स्फूर्तिदशायां समालंकारस्तावद प्रत्यूह एव । मरणप्राप्तिप्रतीतिदशायां तु व्याजस्तुतेरेव पूर्णाङ्गतया तया विषमालंकारो बाध्यते। यत्तु कुवलयानन्दकृता- 'उच्चैर्गजैरटनमर्थयमान एव त्वामाश्रयन्निह चिरादुषितोऽस्मि राजन्। उच्चाटनं त्वमपि लम्भयसे तदेव मामद्य नैव विफला महतां हि सेवा ।।' इत्युदाहृत्य, 'अत्र व्याजस्तुतौ यद्यपि स्तुत्या निन्दाभिव्यक्तिविव- क्षायां विषमालंकारः, तथापि प्राथमिकस्तुतिरूपवाच्यकक्षायां समालंकारो प्राग्वदाह-अथेति। स्थाने युक्कम्। मुखे प्रारम्भे। अत्रेति। यत इत्यादिः। यथाकथंचिद्रत्यर्थतामिति । 'नवेति विभाषा' इति सूत्रे हरति भारमित्यत्राप्राप्तौ 'हको :- ' इति विभाषा' इति भाष्योक्तेर्यथाकर्थंचिद्रत्यर्थानां तत्राग्रहाचिन्त्यमिदम् । १. 'अत्र मरण- इत्यादेकस्मिन्नेव पुस्तके समुपलभ्यते.
Page 466
रसगद्गाघरः । 8५१
न निवार्यते' इत्युक्तम्। तत्रोदाहरणे मामुच्चाटनं लम्भयसे इति द्विकर्म- कत्वं कथम् । 'गति- आदिसूत्रस्य प्राचीनरीत्या नियमविधित्वपक्षे लभेरण्यन्तकर्तु: कर्मत्वस्य व्यावर्तनात्। यदा तु- 'परत्वादन्तरङ्गत्वादुपजीव्यतयापि च । प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेर्विधितोचिता ।।' इति नवीनरीत्या अपूर्वविधित्वमुच्यते, श्रौतं णिजन्तार्थक्रियायाः प्रा- धान्यमुत्सृज्यार्थ पूर्वक्रियाया एव प्राधान्यमनुरुध्यते तदा त्वप्रसक्तिरेवेति। उच्चाटनं मया लम्भयसे इति तु भाव्यम्। एवमपि लभेर्यथाकथंचिद्धत्य- र्थतां संपाद्य प्रयोग उपपाद्यते तथापि प्राथमिककक्षायां समालंकारो न निवार्यते। इत्यनेन 'द्वितीयकक्षायां विषमालंकारोस्तु नाम' इत्या- गूरितमसदेव। तादशवैषम्यस्य निन्दारूपस्य व्याजस्तुतिविषयत्वेन तया- पवादस्यैव न्याय्यत्वात्। न च वैपरीत्यम्। परिपूर्णचमत्कारभूमेर्व्याज- संयोगादिलक्षणस्यानुरूपता द्वेघा-स्तुतिपर्यवसायिनी, निन्दापर्यव- सायिनी च। आद्या यथा- 'अनाथः स्नेहार्द्रा विगलितगतिः पुण्यगतिदां पतन्विश्वोद्धत्री गदविदलितः सिद्धभिपजम्। तृषार्तः पीयूषप्रकरनिधिमत्यन्तशिशुक: सवित्रीं प्राप्तस्त्वामहमिह विदध्याः समुचितम् ।।' अनाथत्वादिविशिष्टस्य स्ेहार्द्रत्वादिविशिष्टेन संसर्गस्यानुरूपता भागीरथीस्तुतिपर्यवसायिनी। द्वितीया यथा- उच्चाटनं मां लम्भयसे इति तु संयोगानुकूलव्यापारानुकूलव्यापारार्थकवहसमानार्थक- त्वात्। ण्यन्तलभेः 'अकथितं च' इति सूत्रेण बोध्यम्। संयोगानुकूलव्यापारो हि ल- भेरर्थः । गत्यादिनियमश्च पाचयत्योदनं देवदत्तेनेत्यादि व्यावृत्त्या चरितार्थः । अपवाद- स्यैव न्याय्यत्वादिति। अत्रेदं चिन्त्यम्-महतां सेवा विफला नेति खतुतिः। ततो दूरनिरसनप्रापणरूपार्थान्तरपरिग्रहेण विषयावस्फृर्तिपूर्वकनिन्दायां पर्यवसानम्। पर- स्परविषयपरिह्वारेण द्वयोः सावकाशत्वात्संकर एवोचितक्चेति। गदेति। रोगसहित इत्यर्थः ॥ इति रसगद्गाधरमर्मप्रकाशे समालंकारप्रकरणम् ॥
Page 467
४५२ काव्यमाला।
'युक्तं सभायां खलु मर्कटानां शाखास्तरूणां मृदुलासनानि। सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखाग्रैश्च विपाटनानि ॥' अत्राप्रस्तुतगतत्वेन स्थिता निन्दा तदाक्षित्े प्रस्तुते पर्यवस्यति । एवं यथा विषमालंकारस्त्रिभेदस्तथा तद्विपरीतभेदत्रययुक्तः समालंकारो- डपि प्रपञ्चितः । यत्तु-'विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम्' इति विषमालंकारं लक्षितवता, 'तद्विपर्ययः समम्' इति समालंकारं लक्षयित्वा, 'तत्पदेनात्र विषमालंकारसंबन्धी विरूपसंघटनारूपश्चरम एव भेदो गृ- खते। तद्विपर्ययस्यैव चारुत्वात्। न त्वाद्यभेदद्वयम् । तद्विपर्ययस्य कार- णादनुरूपकार्योत्पत्तिरूपस्य, वाञ्छितार्थप्राप्तिरूपस्य च वस्तुसिद्धतया चारुताविरहात् । एवं चानुरूपसंघटनात्मक एव समालंकारः । न तु विष- मालंकार इव भेदत्रयात्मकः' इत्यलंकारसर्वस्वकृतोक्तम्। विवेचितं च विमर्शिनीकृता-'कारणादनुरूपकार्योत्पत्तिर्हि लोकप्रसिद्धा। नहि तस्या उपनिवन्धश्चारुतामावहति' इति । तदुभयमसत् । वस्तुतोऽननुरू- पयोरपि कार्यकारणयोः क्रेषादिना धर्मैक्यसंपादनद्वारानुरूपतावर्णने, वस्तु- तोऽनिष्टस्यापि तेनैवोपायेनेष्टैक्यसंपत्ताविष्टप्राप्तिवर्णने च चारुताया अनुपदमेव दर्शितत्वात्। तस्मात्सममपि त्रिविधमेव । इति रसगङ्गाधरे समालंकारप्रकरणम्। अथ विचित्रालंकार :- इष्टसिद्धर्थमिष्टैपिणा क्रियमाणमिष्टविपरीताचरणं विचित्रम्। विपरीतत्वं च प्रतिकूलत्वम् । यथा- 'बन्धोन्मुक्त्यै खलु मखमुखान्कुर्वते कर्मपाशा- नन्तःशान्त्यै मुनिशतमतानल्पचिन्तां वहन्ति। तीर्थे मज्जन्त्यशुभजलघेः पारमारोढुकामाः सर्व प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ।।' अत्र प्रथमचरणगतं विचित्रं रूपकानुप्राणितम् । यज्ञादिकर्मकरणस्य यज्ञादीनां पाशत्वासिद्धौ बन्धमुक्तिविपरीतत्वासंगतेः । द्वितीयचरणगतं
Page 468
रसगङ्गाघरः । ४५३
तु शुद्धम्। शान्तौ चिन्तायाः स्वरूपेणैव विपरीतत्वात्। यदि तु इष्टै- षिणो भ्रान्तत्वाभिव्यक्तेस्तुल्यत्वात्खतः सिद्धे इष्टे तदनुकूलाभासप्रयोगो- डपीष्टैषिकर्तृको विचित्रमित्युच्यते, लक्षणे च विपरीतपदस्थानेऽननुकूल- पदं न्यस्यते तदा इदमप्युदाहरणम्। यथा- 'विष्नद्रीचा भुवनमखिलं भासते यस्य धान्ना सर्वेषामप्यहमयमिति प्रत्ययालम्वनं यः । तं पृच्छन्ति सहृदयगतावेदिनो वि्णुमन्या- नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ।' अत्र जीवरूपेण सकललोकप्रत्यक्षसिद्धस्य परमेश्वरस्य प्रतिपत्त्यर्थ परा- न्प्रति प्रश्नोऽनुकूलाभासः । मुख्यमनुकूलं तु सहृदयमेव। 'यत्साक्षादपरो· क्षात्' इति वचनात्। न च कारणाननुरूपं कार्यमिति विषमभेदोऽयं वाच्यः । विषमे पुरुषकृतेरनपेक्षणात् । कार्यकारणगुणवैलक्षण्येनैव तद्े- दनिरूपणाच्च। इति रसगङ्गाधरे विचित्रालंकारप्रकरणम् ।
अथाधिकालंकार :- आधाराधेय योरन्यतरस्यातिविस्तृतत्वसिद्धिफलकमितर स्यातिन्यू- नत्वकल्पनमधिकम् ॥ यथा- 'लोकानां विपदं धुनोषि तनुषे संपत्तिमत्युत्कटा- मित्यल्पेतरजल्पितैर्जडधियां भूपाल मा गा मदम्। यत्कीर्तिस्तव वल्लभा लघुतरब्रह्माण्डसझोदरे पिण्डीकृत्य महोन्नतामपि तनुं कष्टेन हा वर्तते ॥' अत्र ब्रह्माण्डस्यातिसूक्ष्मत्वकल्पनेन कीर्तेराघेयायाः परममहत्त्वं फलि- तम्। तेन च व्याजस्तुतिः परिपोष्यते। 'गिरामविषयो राजन्विस्तारस्तव चेतसः । सावकाशतया यत्र शेते विश्वाश्रयो हरिः ॥' विचित्राधिकालंकारौ स्पटटौ। रस० ४१
Page 469
४५४ काव्यमाला।
अत्र सावकाशतयेत्यनेन कल्पितया आधेयन्यूनतया आधारस्य मह- त्वं पर्यवस्यति। यदि तु सावकाशतयेति विशेषणं विश्वाश्रय इत्यत्राषि
'ब्रह्माण्डमण्डले मान्ति न ये पिण्डीकृता अपि। परस्परापरिचिता वसन्ति त्वयि ते गुणाः ।।' अत्रोभयविघस्याप्यस्यालंकारस्य सामानाधिकरण्यम्। लक्षणे कल्प- नमित्यनेन यत्राधाराधेययोरन्यतरस्य न्यूनत्वमधिकत्वं च वास्तवं तत्र नातिप्रसङ्गः । एवं च- 'क्वाहं तमोमहदहंखचरामिवार्भू- संवेष्टिताण्डघटसप्तवितस्तिकायः ।
वाताध्वरोमविवरस्य च ते महित्वम् ।।' इति श्रीभागवतदशमस्कन्ध(१४।११)गतं ब्रह्मस्तुतिपद्यमस्यालंकारस्या- नुदाहरणमेव । दिक्कालानवच्छिन्नस्य पारमेश्वरस्य भूम्नः सर्ववेदसिद्धत्वेन कविप्रतिभानुल्लिखितत्वात्। एतेन- 'दौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र कचि- तकाप्यत्रैव धरा धराधरजलाघारावधिर्वर्तते। स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेभिः स्थितै- र्दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ।।' इत्यलंकारसर्वस्वकारेण यदुदाहृतं तदपि प्रत्युक्तम् ।
१. 'ननु ब्रह्माण्डविग्रहस्त्वमपीश्वर एवेति चेत्तत्राह-क्वाहमिति। तमः प्रकृतिः । महान्महत्तत्त्वम् । अहमहंकारः । खमाकाशः । चरो वायुः । अभिः । वार्जलम् । भूश्च। प्रकृत्यादिपृथिव्यन्तैरेतैः संवेष्टितोऽण्डघटः स एव तस्मिन्वा खमानेन सप्तवितस्तिः कायो यस्य सोऽहं क्, क्व च ते महित्वम्। कथंभूतस्य। ईदृग्विधानि यान्यविगणिता- न्यण्डानि त एव परमाणवस्तेषां चर्या परिभ्रमणं तदर्थ वाताध्वानो गवाक्षा इव रो- मविवराणि यस्य तस्य तव । अतोऽतितुच्छत्वात्त्वयानुकम्प्योऽहमिति' इति भागवत- टीका श्रीधरी.
Page 470
रसगञ्गाघरः । ४५५
अथान्योन्यालंकार :- द्वयोरन्योन्येनान्योन्यस्य विशेषाधानमन्योन्यम्॥ विशेषश्च क्रियादिरूपः । यथा- 'सुदृशो जितरल्नजालया सुरतान्तश्रमबिन्दुमालया । अलिकेन च हेमकान्तिना विदधे कापि रुचि: परस्परम् ।' अत्र गुणरूपविशेषाधानम्। रुचेर्गुणत्वात्। न च विधानरूपक्किया- त्मकविशेषाधानमिह शङ््यम्। भावनासामान्यरूपस्य विधानस्याचम- त्कारित्वेनाविशेषत्वात्। 'परपूरुषदृष्टिपातवज्राहतिभीता हृदयं प्रियस्य सीता । अविशत्परकामिनीभुजंगीभयतः सत्वरमेव सोऽपि तस्याः ॥' अत्र क्रियारूपविशेषाधानम्। "यथोध्वाक्षः पिबत्यम्बु पथिको विरलाङ्गुलिः । तथा प्पापालिकापि धारां वितनुते तनुम् ॥' अत्र प्रपापालिकायाः पथिकेन स्वासकत्या पानीयदानव्याजेन बहुकालं स्वमुखावलोकनमभिलपन्त्या विरलाङ्गुलिकरणतश्चिरं पानीयपानानुवृत्ति- संपादनेनोपकार: कृतः । तथा प्रपालिकयापि सवमुखावळोकनमभिलष- तः पथिकस्य धारातनूकरणतश्चिरं पानीयदानानुवृत्तिसंपादनेनोपकारः कृतः ।" इति कुवलयानन्दकार आह। तन्न । तावदियं पदरचनैवायु- ष्मतो ग्रन्थकर्तुर्व्युत्पत्तिशैथि्यमुद्गिरति । तथा हि-सवमुखावलोकनम- भिलषन्त्या इत्यत्र स्वशव्दस्य प्रपापालिकाविशेषणघटकत्वेन प्रपापा- लिका बोधकत्वमेव न्याय्यम्, न पान्थबोधकत्वम्। एवं खमुखावलोकनम- भिलपत इत्यत्रापि पान्थवोघकत्वमेव, न त्वदिष्टप्रपापालिकाबोधकत्वम् । एवं स्थितेऽर्थासंगति: स्पष्टैव । न च' सर्वनाम्नां वुद्धिस्थप्रकारावच्छिन्ने शक्तत्वादिष्टबोघोपपत्तिरिति वाच्यम्। तदिदमस्द्युष्मदादिष्विव तत्त- द्विशेषव्युत्पत्तेरपि कल्पनीयत्वात्। सा च प्रकृते यद्विशेषणघटकत्वेन खनिजादयः शब्दा उपात्तास्तद्वोधका इत्येवंरूपा। तेन खदाररतानां
Page 471
४५६ काव्यमाला। विप्राणामहं भक्तः, देवदत्तस्य पुत्रः समातृभक्तः इत्यादौ मदीयदारर- तानामिति, देवदत्तमातृभक्त इति च न कस्याप्यभ्रान्तस्य खवरसवाहिनी प्रतीतिः । अत एव-'निजतनुःसच्छलावण्यवापीसंभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः' इत्यत्र 'दण्डपादगता तनुः प्रतीयते। भवानीगता तु सा अपेक्षिता' इति व्युत्पन्नशिरोमणिभिर्मम्मटभट्टैः काव्य- प्रकाशेऽभिहितम्। न चेदं श्रुतिकाटवादिवत्काव्यमात्रविषयं दूषणमिति वाच्यम्। शब्दव्युत्पत्तौ काव्यस्यानन्तर्भावात्। मदीयदाररतानामिति, देवदत्तमातृभक्त इति च तात्पर्येण प्रागुक्तवाक्यप्रयोक्तुरनुपहसनीयताप- त्तेश्च। किं च परस्परोपकारो हि स्वव्यधिकरणव्यापारसाध्य एव चमत्का- रित्वाल्लक्षणघटकः, न तु ससमानाधिकरणतत्साध्योऽपि । तत्र हि तु- चमत्कारिताविर- हात्। इह हि धारातनूकरणाङ्गुलिविरलीकरणयोः कर्तृभ्यां स्वस्कर्तृक- चिरकालदर्शनार्थ प्रयुक्तयोस्तत्रैवोपयोगश्चमत्कारी, नान्यकर्तृकचिरकाल- दर्शन इत्यनुदाहरणमेवैतदस्यालंकारस्येति सहृदया विचारयन्तु। इति रसगङ्गाधरेऽन्योन्यालंकार प्रकरणम्। अथ विशेषालंकार :- प्रसिद्धमाश्रयं विना आधेयं वर्ण्यमानमेको विशेषप्रकारः । यच्चै- कमाधेयं परिमितयत्किंचिदाधारगतमपि युगपदनेकाधारगततया वर्ण्यते सोऽपरो विशेषप्रकारः ॥
प्राग्वदाह-अथेति। अनुपहसनीयतापत्तेश्चेति। अत्रेदं चिन्त्म्-खश- व्दादयो यद्विशेषणघटकास्तद्विशेष्यान्विततद्विशेष्येतराबोधका इति व्युत्पत्तेः समभिव्या- हतपदार्थे तद्वोधकत्वव्युत्पत्तेरेव चानुभवबलेन स्वीकारः। नहि पथिकस्तद्विशेष्यान्वित इति। अनुदाहरणमेवैतदिति। खखोपकारसत्वेऽपि परस्परोपकारोऽप्यस्त्येव। स न चमत्कारीति तु रिक् वचः । किं च यथातथा शब्दव्यत्यासेन पूर्वोत्तरार्धव्यत्यासेन चास्य पुनः पाठे परस्परोपकारस्यैव चमत्कृतस्य प्रतीतेस्तदभिप्रायेणोदाहरणत्वमेव। अपि च प्रकरणादिसहायेनापि परस्परोपकारप्रतीतिश्चमत्कृतैवेति चिन्त्मिदमिति दिक्॥ इति रसगङ्गाधरमर्मप्रकाशेऽन्योन्यालंकारप्रकरणम् ।।
Page 472
रसगङ्गाघरः । ४५७
युगपदिति विशेषणाद्वक्ष्यमाणे पर्याये नातिव्याप्िः । एवं च ग्रन्था- न्तरगतानि लक्षणान्यतिप्रसक्तान्येव।
तीयो विशेषप्रकारः। एवं चैतदन्यतमत्वं विशेषालंकारसामान्यलक्षणम्' इति प्राश्चः । तत्र प्रथमः प्रकारो द्विविधः-आधारान्तरगतत्वेनाधेयं वर्ण्यमानम्, निराधारत्वेन च । क्रमेणोदाहरणानि- 'अये राजन्नाकर्णय कुतुकमाकर्णनयन त्वदाधारा कीर्तिर्वसति किल मौलौ दशदिशाम्। त्वदेकालम्बोडयं गुणगणकदम्वो गुणनिधे मुखेषु प्रौढानां विलसति कवीनामविरतम् ।।' अत्र दिख्मौलिगतत्वेन। 'युक्तं तु याते दिवमासफेन्दौ तदाश्रितानां यदभूद्विनाशः । इदं तु चित्रं भुवनावकाशे निराश्रया खेलति तस्य कीर्तिः ॥' द्वितीयः प्रकारो यथा- 'नयने सुदृशां पुरो रिपूणां वचने वश्यगिरां महाकवीनाम्। मिथिलापतिनन्दिनीभुजान्तः स्थित एव स्थितिमाप रामचन्द्रः ।I' तृतीयः प्रकारो यथा-
रामं दृष्टवतां रणे दशमुखप्राणापहारोद्यतम्। दुर्दरशोऽपि नृणामभूदुरुमरुद्वेगप्रचण्डीकृत- ज्वालाभिर्जगतीतलं कवलयन्कालानलो गोचरः ।I' अत्र रामदर्शनं कुर्वतां कालानलदर्शनरूपाशक्यवस्त्वन्तरनिर्वर्तनम् । ननु- 'लोभाद्वराटिकानां विक्रेतुं तक्रमानिशमटन्त्या। लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ।।' इति वक्ष्यमाणप्रहर्षणविषमालंकारयोगे तृतीयप्रकारस्यातिव्याप्तिः । दधिविक्रयमारभमाणाया नीलमणिप्राप्तिवर्णनादिति चेत्, न । अत्र चाश-
Page 473
४५८ काव्यमाला।
क्यवस्त्वन्तरनिर्वर्तने तदभेदाध्यवसाननिबन्धनत्वं विशेषणम्। 'कालानलो वीक्षितः' इत्यनुपदमुदाहृते विशेषालंकारे यथा अशक्यवस्त्वन्तररूपका- लानलवीक्षणं रामकालानलयोस्तद्दर्शनयोर्वा अभेदाध्यवसानेन निर्वर्तितम्, न तथा 'दधिविक्रेतुमटन्त्या' इत्यत्र महेन्द्रनीलमणिदर्शनमित्यदोषः । न च भगवति नीलमण्यभेदाध्यवसानेन निर्वर्तितमेव तदिति वाच्यम् । किंचित्कार्यमारभमाणस्येत्यत्र यत्कार्य विशेषणतया प्रविष्टं तेन सहाश- क्यवस्त्वन्तरस्याभेदस्य विवक्षितत्वात्। प्रकृते च तक्रविक्रयेण सह नील- मणेरभेदस्यानध्यवसानात् । न चातिशयोक्त्या विशेषालंकारतृतीय- प्रकारस्य गतार्थत्वं वाच्यम्। एतदुदाहरणे रामस्य विषयस्य कालान- लेन विषयिणा निगरणाभावात्। नापि रूपकेण विषयविषयिणोः सा- मानाधिकरण्यविरहेणारोपासिद्धेः । न च स्मृत्या। कालानलस्य वीक्षण- कर्मत्वश्रवणेन स्मृतिकर्मत्वासिद्धेः । तस्मादशक्यवस्त्वन्तरकरणं विशेषा- लंकारस्यैव प्रभेद इति प्राचामाशयः । अत्र विचार्यते-विशेषालंकारस्यायं प्रभेद इति कथं विज्ञायते। न- हि रूपकादिवदलंकारस्यास्य किंचित्सामान्यलक्षणमस्ति, येन तदाक्रान्त- त्वेनाशक्यवस्त्वन्तरकरणत्वस्य तत्प्रकारतामभ्युपगच्छेम। न चान्यतम- त्वमेव तथाविधमस्तीति वाच्यम्। अनेनैव प्रकारेणेतरालंकारभेदत्वस्यापि सुवचत्वात्। अनुगतलक्षणं विना प्राचीनोक्तिराज्ञामात्रमेव राज्ञामिति तद- पेक्षया पृथगलंकारतोक्तिरेव रमणीया। अपि च 'येन दष्टोऽसि देव त्वं तेन दृष्टो हुताशनः', 'तेन दृष्टा वसुंघरा' इत्यादौ वस्त्वन्तरस्य हुताश-
स्वीक्रियते यदि, तदा 'येन दृष्टोऽसि देव त्वं तेन दृष्टः सुरेश्वरः' इत्यादौ विशेषालंकारेSपि सैव शरणीक्रियताम्। नहि हुताशन इत्यत्र सुरेश्वर इत्यत्र च विच्छित्तिभेदोऽस्ति। एवं च प्राचीनानुसारेण 'कोदण्डच्युत-' इत्यादि यदस्माभिरुदाहृतं तदपि न विशेषसरणिमारोदुमीष्टे। एतेन 'त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम्' इत्यादि कुवलयानन्दोक्तमुदा- हरणं गतार्थम्। तस्मादिदमुदाहरणम्- प्राग्वदाह-अथेति। उदाहरणं गतार्थमिति। अशक्यवस्त्वन्तरकरणकृता-
Page 474
रसगङ्गाधरः । ४५९
'कि नाम तेन न कृतं सुकृतां पुरारे दासीकृता न खलु का भुवनेषु लक्ष्मीः । भोगा न के बुभुजिरे विवुैरलभ्या येनार्चितोऽसि करुणाकर हेलयापि ।।' अत्र यावत्रिवर्गप्राप्तिरशक्यकरणम्। नह्यत्र भगवदर्चनेन सुकृतकर- णादीनां सादृश्यं विवक्षितम्, येन निदर्शनादि संभाव्येत । किं तु कार्य- कारणभावः । एवं चेदानीमशक्यवस्त्वन्तरनिर्वर्तने अमेदाध्यवसाननिबन्ध- नत्वं न विशेषणम् । न च 'दधि विक्रेतुमटन्त्या' इत्यत्रातिव्याप्तिः। दयोः संकरस्य तत्रेष्टेरिति वदन्ति। इति रसगङ्गाधरे विशेषालंकारप्रकरणम् ।
अथ व्याघातः- यत्र ह्येकेन कर्त्रा येन कारणेन कार्य किंचिन्निष्पादितं निष्पि- पादयिषितं वा तदन्येन कर्त्रा तेनैव कारणेन तद्विरुद्धकार्यस्य नि- ष्पादनेन निष्पिपादयिषया वा व्याहन्यते स व्याघातः ॥ अत्र व्याघाते पूर्वकर्त्रपेक्षया कर्त्रन्तरस्य वैलक्षण्यप्रत्ययाद्यतिरेक- सिद्धि: फलम्। कर्तृत्वं चेह कार्येद्देशेन प्रवर्तमानत्वम्। प्रयोजनं चास्या विवक्षाया अनुपदमेव वक्ष्यामः । उदाहरणम्- 'दीनद्रुमान्वचोभिः खलनिकरैरनुदिनं दलितान्। पल्लवयन्त्युल्लसिता नित्यं तैरेव सज्जनधुरीणाः ।।' इह श्रुतिप्रतिपादितवचनत्वरूपैकधर्मपुरस्कारेणाभिन्नीकृतयोः परु- पमधुरवचनयोरेकत्वाध्यवसानात्पुरः स्फुरन्विरोधः प्रातिस्विकरूपेण तत्त- त्कार्यहेतुताविमर्शान्निर्वर्तत इति विरोधमूलत्वम्। इदं तु नोदाहरणम्- 'पाण्डित्येन प्रचण्डेन येन माद्यन्ति दुर्जनाः । तेनैव सज्जना रूढां यान्ति शान्तिमनुत्तमाम् ।।'
धिकचमत्कारसत्वादिदं चिन्त्यम् ॥ इति रसगन्गाधरमर्मप्रकाशे विशेषालंकारप्रकरणम्॥ प्राग्वदाह-अथेति। व्याहन्यते बाध्यते। लुब्धो न विसृजतीत्युदाहरणे तात्का-
Page 475
४६० काव्यमाला।
अत्र दुर्जनसज्जनयोर्मदशमकर्तृत्वेऽपि न तदुद्देशेन प्रवृत्तिरिति लक्षण- गतकर्तृविशेषणेनासंग्रहः । न चास्य व्याघातोदाहरणत्वे को दोष इति वा- च्यम्। आश्रयविशेषसवभावसाचिव्येनैकस्यैव कारणस्य विरुद्धकार्यद्वय- जनने बाधकविरहाद्याहतेरेवाभावादुदाहरणत्वासंगतेः । नहि लोकसिद्धो- र्थः काव्यालंकारास्पदं भवितुमर्हति । अपरो व्याघातो यथा- 'विमुञ्चसि यदि प्रिय प्रियतमेति मां मन्दिरे तदा सह नयस्व मां प्रणययन्त्रणायन्त्रितः । अथ प्रकृतिभीरुरित्यखिलभीतिभङ्गक्षमा- न्न जातु भुजमण्डलादवहितो वहिर्भावय ।।' इदं दण्डकां प्रविविक्षुं भगवन्तं दाशराथें प्रति भगवत्या जानक्या वाक्यम्। उभयविधेऽप्यस्मिन्व्याघाते पूर्वकर्तुरभीष्टव्याहननं तुल्यमिति प्राचां सिद्धान्तः । तथा च तेषामुदाहरणम्- 'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥' इति। अत्र विचार्यते-व्यतिरेक एवात्रालंकारः। जयिनीर्विरूपाक्षस्य वा- मलोचना इति तस्यैव प्रकाशनात्। न चात्र व्यतिरेकोत्थापकतया व्या- घातः स्थित इति वाच्यम्। एवमपि तस्यालंकारताया असिद्धेः । न ह्य- लंकारोत्थापकेनालंकारेणैव भवितव्यमित्यस्ति नियमः । 'आननेनाकलंके- न जयतीन्दुं कलङ्किनम्' इत्यादाविव वस्तुमात्रेणापि व्यतिरेकोत्थापनो- पपत्तेः । नह्यस्योक्तप्रकारव्यतिरेकनिर्मुक्तो विषयोऽस्ति येन स्वातन्रयम- भ्युपगच्छेम। तस्मादलंकारान्तराविनाभूतालंकारान्तरवदिहाप्यवान्तरो- डस्ति विच्छित्तिविशेषोऽलंकारभेदक इति प्राचामुक्तिरेवात्र शरणम्। यत्तु - 'लुब्धो न विसृजत्यर्थ नरो दारिद्यशङ्कया। दातापि विसृजत्यर्थ तथैव ननु शङ्कया ।I' इति कुवलयानन्द उदाहृतम्, तन्न। लिकजन्मान्तरीय दारिद्यशङ्कयोर भेदाध्यवसानान्न लक्षणासमन्वय इत्याहुः ॥ इति रसग-
Page 476
रसगङ्गाघरः । ४६१ एवं श्लेषातिशयोक्त्याद्युपायोन्मीलितेन किंचिदंशाभेदाध्यवसानेनामुख एव प्रादुर्भावितो यो विरोधो विच्छित्तिमात्रात्मा क्षणप्रभावदननुवर्तमान- स्तन्मूलका विरोधाभासादयो व्याघातान्ता अलंकारा निरूपिताः । ते च नानारूपं वैचित्रयं भजन्तो विरोधाभासस्यैव प्रभेदाः, न तु ततोऽतिरि- क्ताः, काञ्चनस्येव कङ्कणादय इत्येके। रूपकदीपकादीनामौपम्यगर्भाणा- मुपमाभेदत्वापत्तेर्बहु व्याकुलीस्यादिति परस्परच्छायामात्रानुसारिणो भिन्न- विच्छित्तयो भिन्ना एवेत्यपरे। इति रसगङ्गाधरे व्याघातप्रकरणम्।
अथ शृङ्खलामूला अलंकारा :- तत्र, पङ्गिरूपेण निवद्धानामर्थानां पूर्वपूर्वस्योत्तरोत्तरसिमिन्, उत्तरो- त्तरस्य वा पूर्वपूर्वस्मिन्संसष्ट शृङ्खला ॥ तच्च कार्यकारणताविशेषण विशेष्यतादिनानारूपम्। इयं च न स्वतत्रो- डलंकाराः । वक्ष्यमाणप्रभेदैर्गतार्थत्वात्। नह्यस्यास्तैर्विना विविक्तो विषयो- डस्ति। यथा हि रूपकादिष्वनुप्राणकतया स्थितोऽप्यभेदांशः समानध- मौशो वा न पृथगलंकारः एवं प्रकृतेऽपीत्याहुः । तदपरे न क्षमन्ते । सावयवादिभेदै रूपकस्य, पूर्णालुप्तादिभिरुपमायाश्च गतार्थत्वात्खतन्रा- लंकारता न स्यात्। नहि विशेषनिर्मुक्तं सामान्यमस्ति येन विविक्तो वि- षयः स्यात्। तस्माच्छृङ्कलाया एव कारणमालादयो भेदा इति। मतयो- रनयोस्तत्त्वमुपरिष्टाद्विवेचयिप्यामः । सैव शङ्ला आनुगुण्यस्य कार्यकारणभावरूपत्वे कारणमाला ॥ तत्र पूर्व पूर्व कारणं परं परं कार्यमित्येका। पूर्व पूर्व कार्य परं परं कारणमित्यपरा। यथाक्र्मेण यथा- 'लभ्येत पुण्यैर्गृहिणी मनोज्ञा तया सुपुत्राः परितः पवित्राः । स्फीतं यशस्तैः समुदेति नूनं तेनास्य नित्यः खलु नाकलोकः ।I' आाधरमर्मप्रकाशे व्याघातप्रकरणम्।।
Page 477
४६२ काव्यमाला।
'स्वर्गापवगौ खलु दानलक्ष्मीर्दानं प्रसूते विपुला समृद्धिः । समृद्धिमल्पेतरभागधेयं भाग्यं च शंभो तव पादभक्तिः ।।' इह च यद्यादौ कारणोक्तिरेव प्रस्तूयते तदा पुनस्तस्य कारणं त- स्यापि कारणमिति, तत्कस्यचित्कारणं तदपि कस्यचिदिति वा कारण- माला युक्ता। यदा तु कार्योक्तिस्तदा तस्य कार्य तस्यापि कार्यमिति, तत्कस्यचित्कार्य तदपि कस्यचिदिति वा युक्ता। सर्वथैव यः शब्दः का- र्यकारणतोपस्थापक आदौ प्रयुक्त: स एव निर्वाह्यः । एवं क्रमेण निव- न्धमाकाङ्कानुरूपत्वाद्रमणीयम् । अन्यथा तु भग्नप्रक्रमं स्याद्। यथा प्राचीनानां पद्यम्- 'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ।' अत्र जितेन्द्रियत्वं विनयस्य कारणं श्रुत्वा जितेन्द्रियत्वस्यापि किं कारणमिति, विनयः कस्य कारणमिति वा आकाङ्कोदेति। कारणस्यैव श्रुतिवशात्पूर्वमुपस्थितेः । कारणं तु ज्ञातं कार्य पुनरस्य किमिति क्वचि- दाकाह्वा तु कार्यत्वकारणत्वयोः संबन्धिपदासत्वात्कारणश्रुत्युत्तरमेकसं- बन्धिज्ञानाधीनकार्यत्वोपस्थित्या संगमनीया। न त्वसौ सार्वत्रिकी। एवं च विनयः कस्य कारणमित्याकाङ्काया गुणप्रकर्षो विनयादवाप्यत इति वाक्यं यद्यपि फलतः परिपूरकं भवति तथापि न साक्षादित्यहृदयंगममेव। तथा गुणप्रकर्षात्किमाप्यत इत्याकाह्वायां गुणाधिके पुंसीति च। अत्र च कथितपदत्वं न दोषः । प्रत्युत पदान्तरेण तस्यार्थस्योक्तौ रूपान्तरेण स्थितस्य नटस्येव प्रत्यभिज्ञाप्रतिरोधकत्वाद्विवक्षितार्थसिद्धेरकुण्ठितत्व- विरहाद्दोषः स्यात् । शब्दादुपस्थितेऽर्थे प्रवृत्तिनिमित्तमिव शब्दोऽपि विशेषणतया भासते। तथा चोक्तम्-'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते' इति । तत्तच्छव्दस्य विशिष्टश्चार्थः स्वरूपेणाभिन्नोऽपि विशेषणभेदाद्विलक्षणः प्रतीयते कुण्डगोलकादिवत्। ननु कुण्डगोलकादि- पदेषु मृतामृतभर्तृकत्वादिरूपविशेषणघटितं प्रवृत्तिनिमिच्तमित्यस्तु भिन्ना- कारः प्रत्ययः । ताम्रः शोणो रक्त इत्यादौ तु ताम्रादिशब्दानां शक्तत्वेन
Page 478
रसगङ्गाधरः । ४६३
शक्यतानवच्छेदकत्वाच्छक्यतावच्छेदकस्य च गुणगतजातिविशेषस्याभि- न्नत्वादभिन्नाकारः प्रत्यय एवोचित इति चेत्, सत्यम् । 'उदेति सविता ताम्रस्ताम्र एवास्तमेति च। संपत्तौ च विपत्तौ च महतामेकरूपता ॥' इत्यत्र वैलक्षण्यशून्यतारूपस्यैकरूप्यस्य यथा प्रत्ययः, न तथा 'उ- देति सविता ताम्रो रक्त एवास्तमेति च' इत्यत्र, इति सकलानुभवसिद्धम्। एवं च प्रवृत्तिनिमित्तभिन्नस्यापि शब्दस्य यदि शक्यविशेषणत्वं वैलक्ष- ण्यान्यथानुपपत्त्यानुभववलेन च सिद्धं तदा तदनुगुणैव व्युत्पत्तिः शब्दानां कल्प्यते। सा च वृत्तिसंबन्धेनार्थविशिष्टशाब्दज्ञानत्वेन शब्दविशिष्टार्थ/- पस्थितित्वेन च सामान्यकार्यकारणभावरूपा। घटत्वादितत्तत्प्रव्ृत्तिने- मित्तप्रकारकबोधत्वेन तु वृत्तिसंबन्धेन घटविशिष्टपदज्ञानत्वादिना च वि- शेषतोऽपर: कार्यकारणभावः । विशेषसामग्रीसहिताया एव सामान्यसा- मग्र्या जनकतेति न कश्चिद्दोषः । यद्वा वृत्तिसंबन्धेन घटादिविशिष्टपद- ज्ञानत्वेन घटादिपदघटत्वोभयप्रकारकघटादिविशेष्यकोपस्थितित्वेन च का- र्यकारणभावः । पदार्थोपस्थितिशब्दबोधयोः समानाकारत्वाच्छान्दबोधे- डपि यदभानम्। अनुभवबलाच्च प्रामाणिकं गौरवं न दोषाय। एतदभि- संधायैवोक्तम्-'न सोडस्ति' इत्यादि। इति रसगद्गाधरे कारणमालाप्रकरणम् ।
अथैकावली- सैव शङ्खला संसर्गस्य विशेष्यविशेषणभावरूपत्वे एकावली। सा च पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वे विशेषणत्वे चेति द्विधा। तत्राद्ये उत्तरोत्तरविशेषणस्य स्थापकत्वापोहकत्वाभ्यां द्वैविध्यम् : सवसं- बन्धेन विशेष्यतावच्छेदकनियामकत्वं स्थापकत्वम्। स्वव्यतिरेकेण वि- शेप्यतावच्छेदकव्यतिरेकबुद्धिजनकत्वमपोहत्वम्। उदाहरणम्- 'स पण्डितो यः खहितार्थदर्शी हितं च तद्यत्र परानपक्रियाः । परे च ते ये श्रितसाधुभावाः सा साधुता यत्र चकास्ति केशवः ॥'
कारणमाला स्पट्टा ॥ प्राग्वदाह-अथेति। परानपेति। परानपकार इत्यर्थः। तेषां श्कलावयवानां
Page 479
४६४ काव्यमाला।
अत्र स्थापकम्। 'नार्यः स यो न स्वहितं समीक्षते न तद्धितं यन्न परानुतोषणम्। न ते परे यैर्नहि साधुताश्रिता न साधुता सा नहि यत्र माधवः ॥' अत्रापोहकं पूर्वपूर्वस्योत्तरोत्तरम् । यद्यपि स्थापकेऽप्यपोहकत्वं ग- म्यते यो न स्वहितार्थदर्शी स न पण्डित इत्यादि, तथा अपोहकेऽपि स्थापकत्वम्, यो हितं समीक्षते स आर्य इत्यादि, तथापि शब्देन नोच्यत इत्यदोषः । 'धर्मेण बुद्धिस्तव देव शुद्धा बुद्या निबद्धा सहसैव लक्ष्मीः । लक्ष्म्या च तुष्टा भुवि सर्वलोका लोकैश्च नीता भुवनेषु कीर्तिः ॥' इह पूर्वेण पूर्वेण स्वाव्यवहितमुत्तरोत्तरं विशेष्यते। अस्मिंश्चैकावल्या द्वितीये भेदे पूर्वपूर्वैः परस्य परस्योपकारः क्रि्यमाणो यद्येकरूपः स्यात्त- दायमेव मालादीपकशव्देन व्यवहियते प्राचीनैः । तथा चोक्तम्-'मा- लादीपकमादयं चेद्यथोत्तरगुणावहम्' इति । तत्र मालाशव्देन शृङ्खलोच्यते दीपकशब्देन दीप इवेति व्युत्पत्त्या एकदेशस्थं सर्वोपकारकमुच्यते। ते- नैकदेशस्थसर्वोपकारकक्रियादिशालिनि शृङ्कलेति पदद्वयार्थः । एवं च दीपकालंकारप्रकरणे प्राचीनैरस्य लक्षणाद्दीपकविशेषोऽयमिति न भ्र- मितव्यम्। तस्य सादृश्यगर्भतायाः सकलालंकारिकसिद्धत्वात्। इह च शृङ्कलावयवानां पदार्थानां सादृश्यमेव नास्तीति कथंकारं दीपकतावाचं श्रद्दधीमहि। तेषां प्रकृताप्रकृतात्मकत्वविरहाच्च । विवेचितं चेदं सोदा- हरणं दीपकप्रकरणेडस्माभिरिति नेहातीवायस्यते। एतेन 'दीपकैकावली- योगान्मालदीपकमिष्यते' इति यदुक्तं कुवलयानन्दकृता तद्द्रान्तिमात्रवि- लसितमिति सुधीभिरालोचनीयम्। इति रसगङ्गाधर एकावलीप्रकरणम्।
पदार्थानाम्। तन्ट्ान्तिमात्रेति। तत्रापि दीपकशव्दस्योपकारकपरत्वम्। अत एव तैदपक प्रकरणात्पृथगेकावत्युत्तरमुक्त्तोऽयमित्येतदुक्तिरेव भ्रान्ता ।। इति रसगन्गाधर- मर्मप्रकाश एकावलीप्रकरणम्।।
Page 480
रसगङ्गाघरः । ४६५
अथ सार :- सैव संसर्गस्योत्कृष्टापकृष्टभावरूपत्वे सारः । तत्रापि पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षापकर्षाभ्यां द्वैविध्यम्। संसारे चेतनास्तत्र विद्वांसस्तत्र साधवः । साधुष्वपि स्पृहाहीनास्तेषु धन्या निराशयाः ॥' इमं चालंकारमेकानेकविषयत्वेन पुनर्द्विविधमामनन्ति। एकविषयता- यामवस्थादिभेदाश्रयणमावश्यकम्। उत्कर्षापकर्षयोर्भेदनियतत्वात्। नह्य- वस्थादिभेदकं विना किंचिदपि वस्तु स्वापेक्षया स्वयमधिकं न्यूनं वा भवितुं प्रभवति। एकविषय उत्तरोत्तरोत्कर्षो यथा- 'जम्बीरश्रियमतिलङ्चय लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ। नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते खलु कनकाचलेन सार्धम्।।' अत्र पूर्वपूर्वावस्थाविशिष्टाभ्यां कुचाभ्यामुत्तरोत्तरावस्थाविशिष्टयोस्त - योरेवोत्कर्ष इत्येकविषयत्वम्। यद्यपि परिमाणभेदेन द्रव्यभेदोऽपि मत- विशेषे शक्यते वक्तुम्, तथापि कुचत्वेनाभेदाश्रयणेन तत्राप्येकविषयत्वं सूपपादम्। यदि च वक्ष्यमाण एकाश्रये क्रमेणानेकाधेयस्थितिरूपः पर्या- योऽन्र प्रतीयते तदा सोऽप्यस्तु। नहि तेन पूर्वपूर्वापेक्षयोचरोत्तरोत्क- र्षरूपः सारोऽन्यथासिद्धः शक्यः कर्तुम्। अनेकविषयः स एव यथा- 'गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम्। जगदण्डादपि गुरवः प्रलयेऽप्यचला महात्मानः ।' वेदेऽप्ययमलंकारो दृश्यते- 'महतः परमव्यक्तमव्यक्तातपुरुषः परः । पुरुषान्न परं किंचित्सा काछा सा परा गतिः ।l' पूर्व तु गुणकृत उत्कर्षः, इह तु स्वरूपमात्रकृत इति विशेषः । न चात्र गुणकृत उत्कर्षो वाच्यः । पुरुषस्य निर्गुणत्वेनाभ्युपगमात्। न च तत्रापि विनाशरहितत्वादिर्गम्यमानो गुण उत्कर्षक इति वाच्यम्। तस्य प्राग्वदाह-अथेति। तत्रापि पुरुषेऽपि । इति रसगन्गाधरममंप्रकाशे सारप्रकरणम्॥ रस० ४२
Page 481
४६६ काव्यमाला।
तादृशाघिकरणभिन्नत्वे मानाभावात्। अनयैव दिशापकर्षोऽप्युदाहार्यः । इदं तु वोध्यम्-एकविपये शृङ्गलाया अचारुत्वात्तदनुप्राणितः सारो न चारुतां धत्ते । तस्याः स्वाभाविकभेदापेक्षित्वेनावस्थादिकृतभेदेऽनुल्लासात्। अत एवास्मिन्विपये वर्धमानकालंकारोऽन्यैरङ्गीकृतः । तल्लक्षणं च 'रूप- धर्माभ्यामाधिक्ये वर्धमानकम्' इति कृतम्। तस्मात्कारणमालादिर्यथा शृङ्गलैकविषयः, न तथा सारः शक्यो वक्तुम् । एकविषयेऽलंकारान्तरा- भ्युपगमप्रसङ्गात्। 'गुणस्वरूपाभ्यां पूर्वपूर्ववैशिष्े सारः' इति तु ल- क्षणं सारस्य युक्तम् । स च कचिच्छृङ्कलानुप्राणितः क्वचित्सतन्त्र इत्य- नेकविषयत्वमेकविषयत्वं च सुस्थम्। एवं शृङ्गलाविषयाणामलंकाराणां विच्छित्तिवैलक्षण्यस्यानुभवसिद्धत्वात्पृथगलंकारत्वे सिद्धे शृङ्गलाया विरो- धाभेदसाधर्म्यादिवदनुप्राणकतैवोचिता, न पृथगलंकारता। तथात्वे भेदा- दीनामपि पृथगलंकारतापत्तेः । पूर्णालुप्तादौ तुन विच्छित्तिवैलक्षण्यम्, अपि तूपमाविच्छित्तिरेवेति संप्रदायः । ननु केयं विच्छित्तिः । उच्यते- अलंकाराणां परस्परविच्छेदस्य वैलक्षण्यस्य हेतुभूता जन्यतासंसर्गेण का- व्यनिष्ठा कविप्रतिभा, तज्जन्यत्वप्रयुक्ता चमत्कारिता वा विच्छित्तिः । इति रसगङ्गाधरे सारप्रकरणम् । अथ काव्यलिङ्गम्- अनुमितिकरत्वेन सामान्यविशेषभावाभ्यां चानालिङ्गितः प्रकृतार्थोपपादकत्वेन विवक्षितोऽर्थः काव्यलिङ्गम्॥ उपपादकत्वं च तन्निश्चयजनकज्ञानविषयत्वम्। अनुमानार्थान्तरन्या- सयोर्वारणायानालिङ्गितान्तम् । उपमादिवारणायोपपादकत्वेनेत्यन्तम्। पञ्च- म्यादिशब्दप्रतिपादितहेतुत्वकस्य हेतोरेव वारणायोपपादकत्वेन विव- क्षित इति। न तु शब्दात्तेन रूपेण बोधित इत्येतदर्थफलकम्। तेन 'भ- यानकत्वात्परिवर्जनीयो दयाश्रयत्वादसि देव सेव्यः' इत्यादौ नायमलं- कारः । गम्यमानहेतुत्वकस्यैव हेतोः सुन्दरत्वेनालंकारिकैः काव्यलिङ्ग- ताभ्युपगमात् । तच्च सुबन्ततिङन्तार्थत्वाभ्यां तावद्विविघम् । आद्यमपि प्राग्वदाह-अथेति। तब्ब काव्यलिज्गम्। अत्रापि अनयोरपि। व्रातं समूदः।
Page 482
रसगङ्गाघरः । ४६७
शब्दान्तरार्थ विशेषितशरीरम्, शुद्धैकसुबन्तार्थरूपं चेति द्वेधा। अत्रा- प्यादयं साक्षात्परम्परया वा वाक्यार्थविशेषितम्, सुबन्तार्थमात्रविशेषितं चेति द्विमेदम्। तिङन्तार्थभूतमपि साक्षात्परम्परया वा वाक्यान्तरार्थवि- शेषितम्, सुबन्तार्थमात्रविशेषितं चेति द्विप्रकारम् । शुद्धभेदस्तु तिङन्ता- र्थस्य न संभवति। क्रियायाः कारकविशेषितत्वावश्यंभावात्। शिष्टमत्रे निरूपयिष्यते। उदाहरणम्- 'विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितै- रवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः । हरन्ती लोकानामनवरतमेनांसि कियतां कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ।।' अत्र ह्यनन्यसाधारणतया प्रतिपादितस्य भगवत्या भागीरथ्या उत्क- रषस्यापाततोऽघटमानस्योपपादनाया नवरतसकललोकपापहरणसमानाधिकरणः श्रमाभावः सुबन्तमात्रार्थविशेषितः सुबन्तार्थो विशेषवपुर्हेतुत्वेनोपात्तः । 'त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः । इमं तं मामम्य त्वमथ करुणाक्रान्तहृदये पुनाना सर्वेषामघमथनदर्प दलयसि ॥' अत्र सकलदेवतीर्थदर्पदलनस्य सिद्धये सवात्मपवित्रीकरणं वक्रा निव- द्धम्। तच् क्षुद्रत्वात्तादृशसिद्यसमर्थ विशेषकान्तरमाकाङ्गतीति तीर्थ- कर्तृकत्रपाकरणम्, कपालिप्रभृतिकर्तृककर्णमुद्रणं चेति वाक्यार्थद्वयं खात्म- रूपकर्मद्वारा विशेषकमुपात्तम्। तद्विशिष्टं च तादशपवित्रीकरणं भागीर- थ्युपारूढं तादशकार्योपपादनसमर्थमिति भवति हेतुः । 'पद्मासन प्रमुखनिर्जरचित्तवृत्ति- दुष्प्रापदिव्यमहिमन्भवतो गुणौधान्। तुष्टपतो मम नितान्तविशृङ्खलस्य मन्तुं शिशो शिव न मन्तुमिहासि योग्यः ।।'
Page 483
४६८ काव्यमाला। अत्र शिशुत्वं शुद्धैकसुवन्तार्थोऽपराधक्षमाकरणे हेतुः । तथा दिव्य- महिमत्वमचिन्त्यमाहात्म्यं सुवन्तार्थविशेषितसुबन्तार्थरूपं ब्रह्मादिचित्तदु- पप्रापत्वे । एवं तादृशपरमेश्वरगुणकर्मकस्तवो मन्तौ। तादृशस्तवे च विशृङ्गलत्वमिति शुद्धसुबन्तार्थोदाहरणे विशिष्टसुबन्तार्थस्याप्युदाहरणम्। 'तवालम्बादम्व स्फुरदलघुगर्वेण सहसा मया सर्वेऽवज्ञापुरपथमनीयन्त विवुधाः । इदानीमौदास्यं यदि भजसि भागीरथि तदा निराधारो हा रोदिमि कथय केषामिह पुरः ॥' अत्र निराधार इत्यादिनाभिव्यक्ते वक्तृनिष्ठसकलकर्तृकद्वेषे आत्मकर्तृ- कावज्ञापुरपथनयनरूपः सुवन्तार्थविशेषितस्तिङन्तार्थ उपपादकः । 'विश्वास्य मधुरवचनैः साधून्ये वञ्चयन्ति नम्रतया। तानपि दधासि मातः काश्यपि यातस्तवापि च विवेक: ॥।' अन्रापि पृथिवीविवेकनाशोपपादने तिङन्तार्थस्य धारणस्य सुवन्तार्थ- विशेषितस्य तस्यैव जनघारणात्मनो वा असामर्थ्यात्साधुवञ्चनरूपपूर्ववा- क्यार्थविशेषितं धारणं हेतुः । विशेषणत्वं च कर्मणि विशेषणत्वात्परम्प- रया बोध्यम्। एते च भेदाः प्राचीनकल्पितपदार्थवाक्यार्थभेदद्वयवच्चातु- र्यमात्रेण कल्पिताः, न तु वैचित्र्यविशेषेण। अथानुमानादस्य को विशेषः। ननु व्याप्यत्वपक्षधर्मत्वाभ्यां ज्ञायमानमेवार्थसाघकमनुमानम्, स्वरूपेण ज्ञायमानं प्रकृतार्थोपपादकं काव्यलिङ्गमिति विशेष इति चेत, न उप- पादकं हि सत्यां युक्तौ। सा तु सति व्यभिचारपक्षावृत्तित्वयोरन्यतर- स्यापि ज्ञाने न संभवति । यथा 'विनिन्द्यान्युन्मत्तैः' इत्युदाहृतपद्ये ताद- शश्रमाभाव उत्कर्षव्यभिचरितो भागीरथ्यवृत्तिर्वेति ज्ञाने जात्वपि न सर्वो- त्कर्षः सेद्ुमीष्टे। सेद्रुमीष्टे च सर्वोत्कर्षाव्यभिचरितो भागीरथीवृत्तिश्चेति ज्ञाने। एवं हेतोः सर्वत्राप्युपपाद्याव्यभिचरितज्ञान एवोपपत्तिः । अ- न्यथा तु इदमेवमनेवं वा स्यादिति संदेह एव। तस्मादुपपत्तिसमर्थनादिवि- लक्षणशब्दप्रयोगा आलंकारिकाणामनुमितिसरणिमेवाभिनिविशन्ते। न च समर्थना दृढप्रत्ययः, न त्वनुमितिरिति वाच्यम्। स हीन्द्रियसंनिकर्षाभा-
Page 484
रसगआ्ाधरः । ४६९
वान्न प्रात्यक्षिकः । अनुमितिसामग्रया वलवत्त्वान्न शाब्दः । अत एव न मानसोऽपीति सत्यं काव्यलिङं प्रकृतार्थोपपादकम्। उपपत्तिश्चानुमिति- रेव। व्यभिचारित्वेऽपि हेतोस्तदानीं व्यभिचारास्फूतेः । तथापि नानु- मानालंकारस्यात्र विषयः । श्रोतुर्यल्लिङ्गकानुमितिवुबोधयिषया कविः काव्यं निर्मिमीते तल्लिङ्गकमनुमानालंकृतेर्विषयः काव्यव्यापारगोचरीभू- तानुमितिकरणमिति निष्कर्षः । काव्यलिङ्गज्ञानजानुमितिस्तु न कविना श्रोतुबुबोधयिषिता । अत एवासौ न काव्यव्यापारगोचरः श्रोतुः के- वलं कारणवशाज्जायत इति नास्त्येवात्र जायमानायामप्यनुमितावनुमाना- लंकृतेर्विषयः । 'तस्मिन्मणिव्रातमहान्धकारे' इति वक्ष्यमाणपद्े तु बुबो- धयिषितैवानुमितिरित्यस्त्यनुमानविषयः । अपि च कविनिबद्धप्रमात्रन्तर- निष्ठा ह्यनुमितिरनुमानालंकृति प्रयोजयति । श्रोतृनिष्ठा महावाक्यार्थ- निश्चयानुकूला तु काव्यलिङ्गमिति महान्विशेषः । एवं च काव्यलिङ्गा- तिप्रसङ्गवारणायानुमानलक्षणप्रविष्टानुमितौ काव्यव्यापारगोचरत्वं विशेषणं देयम्। यत्तु 'समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थकम्' इति कुवलयान- न्दकारो लक्षणमकार्षीत्तदपि सामान्यविशेषभावानालिङ्गितत्वविशेषणर- हितं चेदर्थान्तरन्यासे स्यादेवातिप्रसक्तम् । यदपि, "यत्त्वन्नेत्रसमानकान्ति सलिले मझं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारः शशी। येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ।।' 'मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम्। व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥' पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूपश्चतुर्थपादार्थे हेतुः। उत्तरत्र तु संबोधने व्यापारयन्त्य इति मृगीविशेषणत्वेनानेकपदार्थों हेतुरुक्तः" इत्य- मात्रमवधारणे। उपसंहरति-एवं चेति। अन्विति।यत इत्यादिः । न्यासे स्या- देवातिप्रसक्तमिति। प्राचीनमते समर्थनीयेत्यनेनैव वारणात्। मतान्तरे तु सामा- न्यविशेषभावनालिक्चितत्वं विशेषणं देयमित्यर्थान्तरन्यासप्रकरणे तद्रन्थ एव स्फुटम्।
Page 485
४७० काव्यमाला।
लंकारसर्वस्वकृतोक्तम्, अनुमोदितं च कुवलयानन्दकृता। तदुभयमसत् । अनुमानार्थान्तरन्यासविषये हेत्वलंकारो नेति तावत्सर्वसंमतम्। अन्यथा तयोरुच्छेदापत्तेः । अयं चानुमानस्यैव विषयः । चतुर्थचरणे दैवरूपे पक्षे नायिकाङ्गसादृश्यदर्शन जन्यसुखासहिप्णुत्वरूपसाध्यस्य चरणत्रयवेद्येन तत्तदङ्गसादृश्याधारविघटकत्वेन हेतुना सिद्धे: स्फुटत्वात्। दैवं नायिकाङ्ग सादृश्यदर्शनजन्यमदिष्टसुखासहिप्णु। तत्तन्नायिकाङ्गसादृश्याघारविघट- कत्वात्। मदीयशत्रुभूतयज्ञदत्तादिवदिति च प्रयोगः । मृग्यश्चेति द्विती- यपदये यद्यपि संबोधने वक्तनिष्ठे मृगीनेत्रव्यापारो ज्ञायमान उत्पादकः, तथा नासावुत्पादकता अनुमितिकरणताया अतिशेत इत्यनुमानालंकार एव युक्तः । इयांस्तु विशेष :- यत्पूर्वपद्येऽनुमितिर्गम्या, इह पुनर्वुध्यते वाच्या। मृग्यो दक्षिणानिलसंपर्कवत्यः, दक्षिणाभिमुखविलक्षणनेत्रव्यापा- रवत्त्वादिति च प्रयोगः । वैलक्षण्यं चोत्पक्ष्मेत्यादिनोक्तं बोध्यम्। अत्र वदन्ति-काव्यलिङ्गं नालंकारः । वैचित्र्यात्मनो विच्छित्तिविशेषस्याभा- वात्। स हि जन्यतासंसर्गेण कविप्रतिभाविशेषः, तन्निर्मितत्वप्रयुक्तश्रम- त्कृतिविशेषो वेत्युक्तम्। न चानयोरन्यतरस्याप्यत्र संभवः । हेतुहेतुम- द्वावस्य वस्तुसिद्धत्वेन कविप्रतिभानिर्वर्त्यत्वायोगात्। अत एव चमत्कृति- रपि दुर्लभा। श्लेषादिसंमिश्रणेन विच्छित्तिविशेषोSत्राप्यस्तीति तुन वा- च्यम्। तस्य श्लेषाद्यंशप्रयोज्यत्वेन काव्यलिङ्स्यालंकारतायास्तथाप्य- सिद्धेः । यत्र तूपस्कारकवैचित्र्याद्विलक्षणं तदुपस्कार्यवैचित्र्यं तत्रास्तु ना- मोपस्कारकादुपस्कार्यस्य पृथगलंकारत्वम्। यथातिशयोक्तेहेतुफलोते- क्षयोः । यत्र तूपस्कारकवैचित्र्य एव विश्रान्तिस्तत्रोपस्कार्यमनलंकार एव। यथा प्रकृते। एवं तर्हि बहूनामलंकारत्वेन प्राचीनैरूरीकृतानामनलंकार- तापत्तिरिति चेत्, अस्तु । कि नश्छिन्नम् । तस्मात् 'निर्हेतुरूपदोषाभावः काव्यलिङ्गम्' इत्यपि वदन्ति। इति रसगङ्गाधरे काव्यलिङ्गप्रकरणम् ।
इह पुनर्नुध्यते वाच्येति। अत्रेदं चिन्त्यम्-एवं हि काव्यलिङ्गमात्रे गम्यानुमा- नस्य सत्त्वेन तदुच्छेदापतेः । तस्मादनुमितेवोधने गम्यत्वे चेदमिति व्यवस्थाश्रयणान्न
Page 486
रसगङ्गाधरः । ४७१
अथार्थान्तरन्यास :- सामान्येन विशेषस्य विशेषेण सामान्यस्य वा यत्समर्थनं तद- र्थान्तरन्यासः ।। समर्थनं चेदमेवमनेवं वा स्यादिति संशयस्य प्रतिबन्धक इदमित्थ- मेवेति दृढप्रत्ययः । निश्चय इति यावत् । तत्र प्रकृतयोः सामान्यविशे- पयोः समर्थ्यत्वम्, अप्रकृतयोर्विशेषसामान्ययोः समर्थकत्वं प्रायशो ह- श्यते। तच्च तावत्साधर्म्यवैधर्म्याभ्यां द्विविधम्। उदाहरणम्- 'करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्गलैः । कथमालि शृणोषि सादरं विपरीतग्रहणा हि योषितः ।।' अत्र संबोध्यकर्तृकस्य तदीयकुचवृत्तिकरिकुम्भतुलासादरश्रवणस्यानौ- चित्यं प्रतिपादते। तच्च तस्यानिष्टसाधनत्वे संगच्छते। अनिष्टसाधनत्व- मपि तादृशश्रवणमिष्टसाधनमिति वुच्धा श्रवणं कुर्वाणायाः कान्ताया भ्रान्तात्वं विना दुरुपपादमिति स्त्रीत्वेन भ्रान्तात्वं प्रतिपाद्ते। तच्च संवो- व्यस्त्रीविशेषभ्रान्तत्वरूपस्य विशेषस्य सामान्यं समर्थकं च। 'उपकारमेव कुरुते विपद्वतः सद्गुणो नितराम्। मूच्छी गतो मृतो वा रोगानपहरति पारदः सकलान् ॥' अत्र विपद्गतसद्गुणकर्तृकोपकारस्य सामान्यस्य प्रकृतस्य मूर्च्छितमृतपा- रदकर्तृकं रोगापहरणं विशेषः, उदाहरणतया समर्थकं च । पारदवृत्तान्ते प्रकृते तु पूर्वार्धोत्तरार्धयोर्व्यत्यासे कृते सामान्यस्य विशेषसमर्थकताप्यत्रैव संभवति- 'अहन्नेको रणे रामो यातुधानाननेकशः । असहाया महात्मानो यान्ति कांचन वीरताम् ।' अत्र विशेषस्य सामान्यं समर्थकम्। वैपरीत्ये तु सामान्यस्य विशेषः। 'असहाया-' इत्याद्युत्तरार्धमपास्य 'नूनं सहायसंपत्तिमपेक्षन्ते वलोज्झिताः' इति कृते विशेषो वैधर्म्येण सामान्यस्य। अर्धवैपरीत्ये दुर्बलवृत्तान्ते प्र- दोपः। अन्न ममं अन्तरितः गता इति क्रिया अन्तर्भावितण्यर्थाः । ताहृशक्रियाकर्मी- भूतेन्दीवरादयो दैवनिष्ठत्वात्तत्सादृश्यदर्शनजन्यसुखासहिष्णुत्वोपपादकाः । मज्जितत्वा- युपपादकानि त्वत्नेन्नसमानकान्तीत्यादिकानीति वोध्यम्। इति रसगन्गाधरमर्मप्रकाशे काव्यलिन्न प्रकर णम्।।
Page 487
४७२ काव्यमाला। कृते तु वैपरीत्यम्। अस्मिन्नलंकारे समर्थ्यसमर्थकभाव आर्थः शाददश्रा- लंकारताप्रयोजकः । न तु काव्यलिङ्गे हेतुहेतुमद्भाव इवार्थ एव । हि यत् यतः इत्यादे: प्रतिपादकस्याभावे आर्थः । स तु कथितः 'मूर्च्छौ गतो मृतो वा' इत्यत्र। तत्सत््वे शाब्दः । सोऽपि 'विपरीतग्रहणा हि' इत्यत्र। यथा वा- 'भवत्या हि त्रात्याधमपतितपाखण्डपरिष- त्परित्राणस्नरेह: रथयितुमशक्यः खलु यथा । ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति स्वभावोऽयं सर्वेरपि खलु यतो दुप्परिहरः ॥' अत्र भगवत्या भागीरथ्याः स्तोतुश्च वृत्तान्तयोर्विशेषयोः समर्थकस्य चतुर्थचरणप्रतिपाद्यस्य सामान्यस्य समर्थकता यत इत्यनेनोच्यते। ननु सामान्यार्थो विशेषार्थसमर्थक इत्यस्य सामान्यव्याप्तिज्ञानं विशेषानुमिति- प्रयोजकमित्येवार्थः पर्यवस्यति । अन्यथा स्वभावादेर्दुप्परिहरत्वादिव्यभि- चारज्ञानदशायां तादृशार्थस्य समर्थकत्वापततेः । प्रतीतिविशदीकरणं सम- थकेन क्रियते, नानुमानमिति प्राचीनप्रवादस्त्वविचारितरमणीय इति नायं भेदोऽनुमानादतिशेते। अतिशेते च विशेषार्थेन सामान्यार्थसमर्थनरू-
शृणोति। न चैवमपि विशेषस्य सामान्यसमर्थनं नार्थान्तरन्यासभेदो भवि- तुमीष्टे। प्रागुक्तोदाहरणालंकारेणैव गतार्थत्वादिति वाच्यम् । इवादिप्रयो- गाभावस्यैवात्र ततो वैलक्षण्यात्। एवमपि वाचकाभावादार्थोऽयमुदाहर- णालंकारोऽस्तु, न त्वर्थान्तरन्यासभेद इति चेत्, इदमस्ति वैलक्षण्यम्-सा- मान्यार्थसमर्थकस्य विशेषवाक्यार्थस्य द्वयी गतिः। अनुवाद्यांशमात्रे विशे- षत्वम्, विधेयांशस्तु सामान्यगत एवेत्येका। अनुवाद्यविधेयोभयांशेऽपि विशेषत्वमित्यपरा। तत्राद्या उदाहरणालंकारस्य विषयः, द्वितीया त्वर्था- न्तरन्यासमेदस्य। एवं च 'मूच्छी गतो मृतो वा निदर्शनं पारदोऽत्र रसः' इत्युदाहरणालंकारगते विशेषे उपकारमेव कुरुत इति प्राचीनसामान्यार्थ- गतैव यथोक्तरूपेण क्रिया विधेया । 'रोगानपहरति पारदः सकलान्' इत्यर्थान्तरन्यासगते तु पृथगुपात्तविशेषरूपेणेति। लक्षणे त्वस्य विशेषणे-
Page 488
रसगङ्गाघरः । ४७३
त्यत्रोभयांशविशेषो ग्ह्यः। तेनोदाहरणालंकृतौ नातिप्रसङ्गः । यदि चायमल्पो विशेषो नास्योदाहरणालंकारात्पृथगलंकारतां साधयितुं प्रभवति, अपि तु तद्विशेषतामित्युच्यते, तदा उदाहरणालंकारोऽर्थान्तरन्यासस्य, दृष्टान्तस्य प्रतिवस्तूपमा, रूपकस्यातिशयोक्तिश्च विशेषः । उपमैव चार्थी स्मरणभ्रान्तिमत्संदेहा इत्यपि सुवचं स्यात्। तत्रापि विशेषस्याल्पत्वात् । किं चोदाहरणालंकारो न प्राचां मनःसंतोषमावहति। उपमयैव तैस्तस्य निरासात्। अतस्तेषां विशेषेण सामान्यस्य समर्थनमर्थान्तरन्यासं विना- न्यत्र प्रवेष्ठुमीष्ट इति । अत्र हि प्रतिज्ञाहेत्ववयवयोरिवाकाङ्काकमप्राप्तं समर्थ्यसमर्थकवाक्ययोः पौर्वापर्यमिति न मन्तव्यम्। नह्यत्र समर्थक सम- ध्यानुपपत्त्युत्थापितायामाकाङ्कायां सत्यामेवाभिघीयत इत्यस्ति नियमः । अनुपपत्तेरभावेऽपि प्रतीतिवैशद्यार्थ कविभिस्तस्याभिधानात्। एवं च वै- परीत्येऽपि न दोषः। यथा- 'दीनानामथ परिहाय शुष्कसस्यान्यौदार्य वहति पयोधरो हिमाद्रौ। औन्नत्यं विपुलमवाप्य दुर्मदानां ज्ञातोऽयं क्षितिप भवादृशां विवेक: ।I' अत्र दानेनासंभावितस्य विदुषो राजानं प्रति कोपवचने पूर्वार्धगतो विशेष: उत्तरार्घगतः सामान्ये प्रस्तुते समर्थकः। एवमप्रकृतैः प्रकृतस्य सम- र्थनमुदाहृतम्। प्रकृतेन प्रकृतसमर्थनं यथा- 'कस्तृप्येन्मार्भिकस्तन्वि रमणीयेषु वस्तुषु। हित्वान्तिकं सरोजिन्याः पश्य याति न षट्पदः ।।' जलक्रीडायां दूरं गच्छेति वदन्तीं कामिनीं प्रति नायकस्योकिरि- यम्। अस्यां वृत्तान्तद्वयमपि प्रकृतम् । कवचित्ाकृतेनाप्रकृतस्य समर्थनं संभवति । परंतु तदप्रकृतं प्रान्ते प्रकृतपर्यवसन्नं भवति। आपाततस्तु तस्याप्रकृतत्वम्। सर्वथैवाप्रकृतस्य समर्थनापसक्तेः। यथा- 'प्रभुरपि याचितुकामो भजेत वामोरु लाघवं सहसा । यदहं त्वयाधरार्थी सपदि विमुख्या निराशतां नीतः ॥।' प्रग्वदाह-अथेति। कविः शणोतीति। कविनिवद्धप्रमान्रन्तरनिष्ठा ह्वनु- मितिरनुमानालंकारस्य विषय इत्यादिना काव्यलिज्वालंकारे दत्तोत्तरत्वादिति भावः ।
Page 489
४७४ काव्यमाला।
अत्र कामुकयोः प्रक्रान्ते वृत्तान्तेन विशेषेण दातृयाचकवृत्तान्तो- डप्रस्तुतः सामान्यात्मा समर्थ्यते। यत्तु 'कारणेन कार्यस्य कार्येण वा कारणस्य समर्थनम्' इत्यपि भेद- द्वयमर्थान्तरन्यासस्यालंकारसर्वस्वकारो न्यरूपयत्, तन्न । तस्य काव्यलि- ङ्रविषयत्वात्। अन्यथा 'वपुः प्रादुर्भावात्-' इति सकलालंकारिकसिद्धं काव्यलिङ्गोदाहरणमसंगतं स्यात्। अपरार्धे वाक्यार्थद्वयस्य कारणत्वेना- र्थान्तरन्यासोदाहरणतापत्तेः । यदपि विमर्शिनीकार आह-"विशेषे- णापि सामान्यसमर्थने यत्र सामान्यवाक्यार्थस्योपपादनापेक्षत्वं तत्रार्था- न्तरन्यासः । यत्र पुनः स्वतःसिद्धस्यैव विशदीकरणार्थ तदेकदेशभूतो विशेष उपादीयते तत्रोदाहरणालंकारः । यथा 'निमज्जतीन्दोः किरणेष्वि- वाङ्कः' इत्यत्र" इति। तदपि न। 'निजदोषावृत्तमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति पित्तोपहृतः शशिशुभ्रं शङ्मपि पीतम् ॥' इति प्राचीनसंमतोदाहरणे सामान्यवाक्यार्थस्यासंदिग्घत्वेनोपपादनानपे- क्षत्वात्। नहि दोषेण भ्रमो भवतीत्यर्थे पामरस्याप्यस्ति संशयः, येनो- पपादनापेक्षा स्यात्। अस्त्येव तर्कस्थल इवाहार्योऽत्रापि संशय इति चेत्, त्वदुक्तोदाहरणालंकारेऽपि तस्य साम्राज्यात्। तस्मादस्मदुक्त्तव व्यवस्था- नुसर्तव्या। कुवलयानन्दकारस्तु-"यस्मिन्विशेषसामान्यविशेषाः स विकखरः" 'अनन्तरत्नप्रभवस्य-' इत्यादि । 'कर्णांरुंतुदमन्तरेण रणितं गाहस्व काक स्वयं माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम्। धन्यानि स्थलसौष्ठवेन कतिचिद्वस्तूनि कस्तूरिकां नेपालक्षितिपालभालतिलके पङ्के न शङ्केत क: ॥' पूर्वमुपमारीत्या इह त्वर्थान्तरन्यासरीत्या विकखरालंकारः" इत्याह । तदपि तुच्छम्। 'उपकारमेव कुरुते' इत्युदाहरणालंकारोक्तास्म दुदाहरणे प्राथमिकविशेषस्याभावात्त्वदुक्तो विकस्वरालंकारो न संभवतीति कश्चिद-
Page 490
रसगङ्गाघरः । ४७५
लंकारस्त्वयापि वाच्यः। एवं चार्थान्तरन्यासस्य तस्य चार्थान्तरन्यासप्र- भेदयोश्च संसृष्ैवोदाहरणानां त्वदुक्तानां गतार्थत्वे नवीनालंकारस्वीका- रानौचित्यात्। अन्यथोपमादिप्रभदानामनुग्राह्यानुग्राहकतया संनिवेशे- Sलंकारान्तरकल्पनापत्तेः । 'वीक्ष्य रामं घनश्यामं ननृतुः शिखिनो वने' इत्यत्राप्युपमापोषितायां भ्रान्तावलंकारान्तरत्वप्रसङ्गाच्च।
अथानुमानालंकार :- अनुमितिकरणमनुमानम्॥ अनुमितिश्चानुमितित्ववती। अनुमितित्वं चानुमिनोमीति मानससाक्षा- त्कारसाक्षिको जातिविशेषः । व्याप्तिप्रकारकपक्षधर्मनानिश्चयजन्यज्ञानं वानुमितिः । तस्याश्च करणं व्याप्तिप्रकारकलिङ्गनिश्चय इत्येके। व्याप्य- त्वेन निश्चीयमानं लिङ्गमित्यपरे। इंदं च साधारणमनुमानम् । अस्य च कविप्रतिभोल्लिखितत्वेन चमत्कारित्वे काव्यालंकारता। यथा- 'तस्मिन्मणिव्रातहतान्धकारे पुरे निशालोपविधानदक्षे। सदो वियुक्ता दिवसावसानं कोकाः सशोका: कथयन्ति नित्यम् ॥' अत्र कथनं स्फुटबोधः । स चानुमित्यात्मकः कोकवियोगरूपस्य लि- ङ्स्य व्याप्यत्वेन निश्चयात्करणादुत्पद्यते । तत्र चान्धकारविशेषाभावस्य तत्सामान्याभावत्वेनाध्यवसानेन सति निशालोपविधानदक्षतासिद्धौ दिवसा- वसानसिद्ध्यभावप्रयुक्ता दिवसावसानानुमितिरित्यस्ति कविप्रतिभोललिखित- त्वम्। वक्ष्यमाणमुन्मीलितमिति न मन्तव्यम्। तस्याप्यनुमानताया एव स्थापयिष्यमाणत्वात्। यथा वा- 'अम्लायन्यदरातिकैरव कुलान्यग्लासिषुः सत्वरं दैन्यध्वान्तकदम्वकानि परितो नेशुस्तमां तामसाः । सन्मार्गा: प्रसरन्ति साधुनलिनान्युल्लासमातन्वते तन्मन्ये भवतः प्रतापतपनो देव प्रभातोन्मुखः ॥।'
प्रभेदयोश्च संसृष्टयैवेति । शह्ललकृतचमत्कारस्याधिकस्य सत्वाचचिन्त्यमिदम्।। प्राग्वदाह-अथेति। विनिगमनाविरहादाह-व्याप्ीति। साधारणं तम्रान्त-
Page 491
४७६ काव्यमाला।
पूर्वत्र लिङ्गलिङ्गिनोः शुद्धत्वम्, इह तु रूपकानुप्राणितत्वमिति विशेषः। कविप्रतिभोल्विखितत्वं पुनः स्फुटमेव । इह यत्र लिङ्गलिङ्विनोः सत्त्वं तत्र मन्ये शङ्के अवैमि जाने इत्यादिपदानामनुमितिवोधकत्वम्, यत्र तु साद- श्यादिनिमित्तसद्भावस्तत्रोत्प्रेक्षाबोधकतेति विवेकः । तेन 'मन्मथामात्यमायान्तमहं मन्ये महामहम् । चक्षुश्चमत्कृति धत्ते यदहो किल कोकिलः ।।' इत्यादावनुमैव, नोत्प्रेक्षा। अत्रेदं बोध्यम्-मन्ये इत्यादिवाचकपदोपादाने वाच्यमनुमानम् । यथानन्तरोक्ते। वक्तिकथयतीत्यादिलक्षकपदोपादाने लक्ष्यम्। यथा 'कोकाः सशोकाः' इत्यादौ। तदन्यतरानुपादाने साध्याक्षिप्तायामनुमित। प्रतीयमानम् । यथा 'अम्लायन्-' इति पद्ये 'तद्भावी तव देव संप्रति महोमार्तण्डबिम्बोदयः' इति चतुर्थचरणनिर्माणे। साध्यस्याप्यनुपादाने लिङ्गमात्रोपादानेन यत्रागूर्यमाणं साध्यं तत्र ध्वन्यमानम्। यथा- गुञ्जन्ति मञ्जु परितो गत्वा घावन्ति संमुखम्। आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥' अत्र शरदागमस्य साध्यस्यानुमानं ध्वन्यते। एवमेषा व्यवस्था न प्रागुक्ते करणमनुमानमिति नये संगच्छते। कारणस्य ज्ञायमानलिङ्गत्वपक्षे वाच्यतायाः केवलाया आपतेः । लिङ्गज्ञानत्वपक्षे वाच्यत्वलक्ष्यत्वयोरना- पत्तेः। अतोऽनुमितिरेवानुमानम् । तस्याश्च वाच्यत्वलक्ष्यत्वप्रतीयमान- त्वध्वन्यमानत्वानां साम्राज्यम् । ल्युटश्च करण इव भावेऽपीति। इति रसगङ्गाधरेऽनुमानप्रकरणम् ।
अथ यथासंख्यम्- उपदेशक्रमेणार्थानां संबन्धो यथासंख्यम् । पदार्थानतिवृत्तिरूपे यथार्थेऽव्ययीभावः । संख्याया अनतिवृत्तिश्च
रादिसाधारणम्। शङ्कते-वक्ष्येति। इह अनुमानालंकारे। पुनस्त्र्ये। उभयत्रेति भावः । भायेऽ्पीति । विधिरिति शेषः॥ इति रसगङ्गाधरमर्मप्रकाशेऽनुमानप्रकरणम्॥
Page 492
रसगङ्गाघरः । ४७७ प्रथमस्य प्रथमेनैव द्वितीयस्य द्वितीयेनैवेत्यादि क्र्मेण संबन्धे भवतीति योगार्थ एव लक्षणम्। यथा- 'यौवनोद्गमनितान्तशङ्किता शीलशौर्यबलकान्तिलोभिताः । संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ।' अत्र यौवनोद्गमनितान्तशक्किताः संकुचन्ति, शौर्यबलकान्तिलोभिता विकसन्तीति प्रथमद्वितीयक्रिययोः क्रमेण प्रथमद्वितीय विशेषणावच्छिन्नेन कर्त्रान्वयः । स च शाब्दः । समासाभावेन शब्दानामप्यन्वयात्। भावसं- घिश्चात्र प्रधानम्। यथा वा- 'द्रुमपङ्कजविद्वांसः सर्वसंतोषपोषकाः । मुधैव हन्त हन्यन्ते कुठारहिमदुर्जनैः ॥l' इह दीपकानुप्राणकम्। यथा वा- 'वृन्दापितृगहनचरौ कुसुमायुधजननहननशक्तिधरौ। अरिशूललाञ्छितकरौ भीति मे हरिहरौ हरताम् ।।' इहोभयत्रार्थः। पूर्वै समासेन समासान्वयेऽवयवानामन्वयस्य पार्धठिक- त्वात्। इत्यादिरपरिमितोऽस्य विषयः । अथ क्रमेणान्वयबोधे कि निया- मकम्। अत्र केचित्-"योग्यता ज्ञानमेव नियामकम्। तथाहि 'वृन्दा- पितृगहनचरौ' इत्यत्र हरौ श्मशानचारित्वस्य हरे वृन्दावनचारित्वस्य च बाधितत्वादन्वयवोधाभावे हरौ वृन्दावनचारित्वस्य हरे इमशानचा- रित्वस्य च योग्यत्वादन्वयवोधो जायमानः क्रमिकान्वयवोधः पर्यवस्य- ति। एवमन्यत्रापि" इत्याहुः। अन्ये तु-"योग्यताज्ञानस्य नियाकत्वेम क्रमभङ्गस्य दोषता न स्यात् । 'कीर्तिप्रतापौ भातस्ते सूर्याचन्द्रमसाविव' इत्यादौ कीर्तौ चन्द्रसादृश्यस्य प्रतापे सूर्यसादृश्यस्य च व्युत्क्रमोक्त- स्यापि योग्यतावशादेव प्रतीत्युपपत्तेः । नहि क्रमिकमेव योग्यम्, अपक्र- ममयोग्यम्, येन तव मुख्यार्थहृतिः स्यात् । भवति चानुभवसिद्धा सा। त- प्राग्वदाह-अथेति। संवन्धे सतीति शेषः। पूर्वतो विशेषमाद्द-इहेति। वृन्दा तदाख्यं वनम्। पितृगहनं श्मशानम् । अरि: सुदर्शनः । आर्थविषये शङ्टते-अथेति। रस० ४३
Page 493
8७6 काव्यमाला।
स्मादन्वयिसमसंख्यपदार्थज्ञानस्य यथासंख्यान्वयबोधत्वं कार्यतावच्छेदकं वाच्यम्। एवं च 'कीर्तिप्रतापौ' इत्यत्र च यथाश्चतानां यथासं- ख्यान्वयबोधो बाधनिश्चयपराहृत इति मुख्यार्थहृतिसद्भावात्क्रमभङ्गस्य दोषत्वसाम्राज्यम्। नन्वन्वयिसमसंख्यपदार्थानां यदि यथासंख्यान्वयवोघो व्युत्पत्तिसिद्धस्तदा 'यथासंख्यमनुदेशः समानाम्' इति सूत्रं व्यर्थ स्यात्। तदुदाहरणेषु 'लोमादिपामादिपिच्छादिभ्यः शनेलचः' इत्यादिषु लौकिक- सामग्रीवलादेव यथासंख्यान्वयबोघोपपत्तेर्योग्यतामात्रबलात्। तथा बो- धोपपादकमते तु शास्त्रमात्रचक्षुष्कैः प्रकृतिविशेषप्रत्ययविशेषसंवन्घरू- पाया योग्यताया अज्ञानात्तेषां यथासंख्यान्वयबोधार्थ 'यथासंर्यं' इति सूत्रम् इति चेत्, न। ममापि प्रागुक्तव्युत्पत्तिरहितानां तादृशबोधार्थ सूत्र- सार्थक्यात्" इत्याहुः। इदं तु वोध्यम्-यथासंख्यान्वयबोघो यथा- तथास्तु नाम। नात्रागृह्लीमः । यथासंख्यमलंकारपदवीमेव तावत्कथमारोदुं प्रभवतीति तु विचारणीयम्। नह्यस्मिंल्लोकसिद्धे कविप्रतिभानिर्मितत्व- स्यालंकारताजीवातोर्लेशतोऽप्युपलन्धिरस्ति। येनालंकारव्यपदेशो मना- गपि स्थाने स्यात्। अतोऽपक्रमत्वरूपदोषाभाव एव यथासंख्यम् । एवं चोद्भटमतानुयायिनामुक्तय: कूटकार्षापणवदरमणीया एव। एतेन यथासं- ख्यमेव क्रमालंकारसंज्ञया व्यवहारतो वामनस्यापि गिरो व्याख्याताः इति तु नव्याः। इति रसगङ्गाधरे यथासंख्यप्रकरणम्।
अथ पर्याय :- क्रमेणानेकाधिकरणकमेकमाधेयमेक: पर्यायः । क्रमेणानेकाधेयक- मेकमधिकरणमपरः ॥
स्थाने युक्तः। नव्या इति । वस्तुतस्तु यथासंख्यसूत्रवलात्पाणिनीय प्रयोगे पार्ष्टिकत- यान्वयबोधे द्वन्द्वादेः साधुत्वेऽपि नान्यत्र साधुत्वम्। किं तु समुदितान्वयबोधमात्र ए- वेति तदभिप्रायकास्ते प्रयोगा असाधव एव। अलंकारस्तु द्वितीयरीत्या व्यस्ते चरितार्थ इति बोष्यम्॥ इति रसगन्गाधरमर्मप्रकाशे यथासंख्यप्रकरणम् ॥
Page 494
रसगङ्गाघरः । ४७९
एतदन्यान्यत्वं च सामान्यलक्षणम्। न तु योगार्थमात्रम् । अतिप्र- सक्तेः । 'परावनुपात्यय इणः' इति पाणिनिस्मृत्या अनुपात्ययमात्रस्य घञु- पादित्वेनोक्तेः । नाप्यन्यत् । अन्यतरत्वाघटितस्य निर्वक्तुमशक्यत्वात् । अत्राद्यलक्षणे प्रागुक्तविशेषालंकारद्वितीयभेदेSतिप्रसङ्जवारणाय क्रमेणेति। तत्र चाधेयस्य युगपदनेकाधारसंबन्घान्नातिप्रसङ्गः । द्वितीयलक्षणे वक्ष्य- माणसमुच्चयालंकारातिव्याप्तिवारणाय तदिति विवेकः । उदाहरणम्- 'आयाता कमलासनस्य भवनाद्रषुं त्रिलोकीतलं गीर्वाणेषु दिनानि कानिचिदथो नीत्वा पुनः कौतुकात्। भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे राजन्संप्रति सत्यधामनि गिरां देवी सुखं वर्तते ॥' अत्र प्रथमचरणगतमधिकरणमार्थम्। विश्लेषावधिपश्चम्यां विश्लेषस्यो- पश्चेषमन्तरेणासिद्या औपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात्। कमलास- नस्य भवने स्थित्वा आयातेति ल्यब्लोपपञ्चम्यामपि ल्यबन्तार्थक्रियाधि- करणे पञ्चम्या लाक्षणिकत्वादवाच्यतैव। 'ल्यब्लोपे कर्मण्यधिकरणे च' इति वार्तिकस्य निरूढलक्षणासमर्पकतेति राद्दान्तात्। इतरचरणत्रयगतं तु शाब्दम्। यथा वा- 'मकरालयस्य कुक्षौ स्थित्वा सदनेऽमृताशिनां च चिरम्। संप्रति निर्दोषे ते राजन्वदनाम्बुजे सुधा वसति॥' पूर्वमवरोहः इह त्वारोहः पूर्वपूर्वत्यागेऽरुचिबीजोपादानं चेति विशेषः। अपरः पर्यायो यथा- 'विदूरादाश्चर्यस्तिमितमथ किंचित्परिचया- दुदश्चच्चाश्चल्यं तदनु परितः स्फारितरुचि । गुरूणां संघाते सपदि मयि याते समजनि त्रपाघूर्णचारं नयनयुगमिन्दीवरदृशः ।।' अत्र क्वचिदनपावृते स्थलविशेषे गुरूञ्शुश्रूषमाणायाश्चिरप्रोषितमसं- भावितागमनं प्रियमकस्मादालोकितवत्याः कस्याश्चिन्नयनयुगरूप एकस्मि- न्नधिकरणे विशेषणीभूतानां स्तिमितत्वादीनामाघेयानां युगपदसंभवात्कार- णक्रमवशाच क्रमिकत्वम्। यथा वा-
Page 495
४८0 काव्यमाला।
'प्रथमं श्रितकञ्जकोरकाभावथ शोभामनुभूय कन्दुकानाम्। अधुना श्रयितुं कुचौ यतेते दयिते ते करिशावकुम्भलीलाम् ।।' अत्रापि कुचत्वेनैकीकृते कुचरूपेऽधिकरणे परिमाणविशेषाणाम्।' यदि च कुचयोः पूर्वपूर्वस्वरूपापेक्षया उत्तरोत्तरस्वरूपस्योत्कर्षः प्रतीयते तदा एकविषयः सारोऽप्यस्तु, विषयभेदाच्च न बाध्यवाघकभावः । यतु- 'विम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृदश्यत । अधुना मृगशावाक्षि हृदयेऽप्येष दृश्यते ।।' इति कुवलयानन्दकृता विकासपर्यायो निजगदे, तच्चिन्त्यम्। एकसंबन्ध- नाशोत्तरमपरसंबन्धे सत्येव पर्यायपदस्य लोके प्रयोगात्। 'श्रोणीबन्ध- स्त्यजति तनुतां सेवते मध्यभागः' इति काव्यप्रकाशोदाहृते, 'प्रागर्णवस्य हृदये-' इत्यादिसर्वस्वकारोदाहते च तथैव दृष्टत्वाच् अस्मिन्नलंकारलक्ष- णेऽपि क्रमपदेन तादृशविवक्षाया औचित्यात्। तस्मादत्रैकविषयः सारा- लंकार उचितः । यं रल्नाकरादयो वर्धमानकालंकारमामनन्ति। स चायु- ष्मता नोटृङ्वित एव। इदं तु बोध्यम्- 'प्रथमं चुम्बितचरणा जङ्घाजानूरुनाभिहृदयानि। आश्लिष्य भावना मे खेलतु विष्णोर्मुखाञ्ञशोभायाम् ।।' अत्र न तावत्पर्यायः उत्तरोत्तरसंबन्धस्य पूर्वपूर्वत्यागपूर्वकत्वाविवक्ष- णात्। यतोत्र मुखविषयकभावनायाः सर्वाङ्कविषयकत्वं वक्तुरभिप्रेतम्, न तु मुखमात्रविषयकत्वम्। अत एव खेलत्वित्युक्तम्, न तु मज्जत्विति। तथा- 'पूर्व नयनयोर्लमा ततो मम्ना मनस्यभूत् । अथ सैव प्रियस्यासीत्सर्ववेदनगोचरा ॥'
प्राग्वदाह-अथेति। वस्तुतो द्वित्वादाह-कुचत्वेनेति। विशेषणानामुक्तरीला कमिकत्वमिति शेषः। सारालंकार उचित इति। अत्रेदं चिन्त्यम्-भेद प्रती- तौ सत्यामेव सार इत्यस्य प्राचीनसंमतत्वेन तदभावात्। अत्र हि रागयोः श्लेषेणाभेदा- ध्यवसायात्। वर्धमानकरूपालंकारान्तरस्वीकारापेक्षया पर्यायपदार्थस्य साधारण्यमाश्रि- त्यानेन संग्रहस्यैवोचितत्वाच्च। अत एव प्रकाशकृतापीदं पद्यं पर्याय उदाहृतम्। इत्-
Page 496
रसगङ्गाघरः । ४८१
इत्यत्रापि। नापि सारः । उत्तरोत्तरस्योत्कर्षापकर्षयोरभावात् । त- स्मादेवमादौ शुद्धक्रमालंकारोऽतिरिक्त इत्यप्याहुः। इहान्यदप्यवधेयम्- यत्राघाराधेयतत्संबन्धक्रमेषु क्वचिदपि कविकल्पनापेक्षा तत्रैवायमलंकारः । यत्र तु सर्वाशे लोकसिद्धत्वं न तत्र कश्चिदलंकारः । अत एव 'श्रोणी- बन्घस्त्यजति तनुतां सेवते मध्यभागः पन्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम्' इति काव्यप्रकाशकृता, 'प्रागर्णवस्य हृदये वृषलक्ष्मणो- डथ कण्ठेऽधुना वससि वाचि पुनः खलानाम्' इति सर्वस्वकृता च निद- र्शितम्। अत्रोभयत्राप्याधारभेदाद्भिन्न आधेयः कविना एकताध्यवसाने- नैकीकृतः । अस्मद्दचोदाहरणेषु तु क्रमोऽपि कल्पितः । नहि ब्रह्मलो- कस्थया देवतया पयोधिस्थया सुधया च वाचो वास्याघुर्यस्य चाभेदो लो- कसिद्धस्तादृशक्रमो वा। एवं स्थिते 'अधुना पुलिनं तत्र यत्र स्रोतः पु- राभवत्' इति कुवलयानन्दगतमुदाहरणं 'यत्र पूर्वै घटस्तत्राधुना पटः' इति वाक्यवल्लौकिकोक्तिमात्रमित्यनुदाहार्यमेव। इति रसगङ्गाधरे पर्यायप्रकरणम्। अथ परिवृत्ति :- परकीययत्किंचिद्वस्त्वादानविशिष्टं परसमै स्वकीययत्किंचिद्वस्तु समर्पणं पणवृत्तिः ।। क्रय इति यावत्। सा च तावद्विविधा-समपरिवृत्तिर्विषमपरिवृत्तिश्रे- ति। समपरिवृत्तिरपि द्विविधा-उत्तमैरुत्तमानां न्यूनैर्न्यूनानां चेति। विषमपरिवृत्तिरपि तथा-उत्तमैरन्यूनानां न्यूनैरुचमानां चेति। क्रमेणो- दाहरणानि- 'अङ्गानि दत्त्वा हेमाङ्ि प्राणान्क्रीणासि चेननृणाम्। युक्तमेतन्न तु पुनर्लोचनाम्वुरुहद्वयम् ।।' अत्र पूर्वार्ध एव समपरिवृत्तिः, उत्तरार्धे तु विपमैव । नापि नोक्तरीत्या पर्याय इति शेषः। लौकिकोक्तिमात्रमिति। अन्नेदं चिन्त्यम्- मभीरजलस्य स्रोतस्त्वेनाल्पजलविद्यमानतायां सुशकगमनत्वेन कविना पुलिनत्वारोपे उदाहणत्वं सम्यगेव ।। इति रसगक्ञाधरमर्मप्रकाशे पर्यायप्रकरणम्।। प्राग्वदाह-अथेति। तथा द्विधा। बिम्बफलं तत्सदृशम्। प्रविकचेति। प्र-
Page 497
४८२ काव्यमाला
'अस्थिमालामयीं दत्त्वा मुण्डमालामयीं तनुम्। गृह्तां त्वत्पुरःस्थानां को लाभः स्मरशासन ।।' 'गरिमाणमर्पयित्वा लघिमानं कुचयुगात्कुरङ्गदृशाम्। स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ।' 'किमहं कथयामि योषितामधरं बिम्बफलं समर्प्य याः । सुरसानि हरन्ति हन्त हा विदुषां पुण्यफलानि सत्वरम् ।।' एषु दानादानव्यवहारः कविकल्पित एव, न तु वास्तवः । यत्र वास्त- वस्तत्र नालंकारः । यथा-'क्रीणन्ति प्रविकचलोचनाः समन्तान्मुक्ता- भिर्वदरफलानि यत्र बालाः।' इदं चापरं वोध्यम्-अत्र परस्मै खवकी- ययत्किंचिद्व स्तुसमर्पणमित्येतावत्पर्यन्तं लक्षणे विवक्षितम्, न तु सकीय- यत्किंचिद्वस्तुत्यागमात्रम्' । 'किशोरभावं परिहाय रामा बभार कामानु- गुणां प्रणालीम्' इत्यत्रातिव्याध्यापतेः । न चेदं लक्ष्यमेवेति वाच्यम्। पूर्वावस्थात्यागपूर्वकमुत्तरावस्थाग्रहणस्य वास्तवत्वेनानलंकारत्वात्। एवं स्थिते 'विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम्' इत्यलंकारसर्वस्व- कृता यल्लक्षणं परिवृत्तेः कृतम्, यच्च 'किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्' इत्युदाहृतम्, तदुभयमप्यसदेव। इति रसगङ्गाधरे परिव्ृत्तिप्रकरणम् । अथ परिसंख्या- सामान्यतः प्राप्तस्यार्थस्य कस्माच्चिद्विशेषाव्यावृत्ति: परिसंख्या । नियमोऽप्यस्मिन्दर्शने निरुक्तलक्षणाक्ान्तत्वात्परिसंख्यैव । पाक्षिक- प्राप्तियुगपत्र्राप्ति रूपस्यावान्तरविशेष स्या विवक्षणात््।अत एव वैयाकर- णानां मते परिसंख्यापि नियमशब्देनोच्यते। तथा हि-'कृत्तद्धितसमा- साश्च' इत्यत्र समासग्रहणं नियमार्थमिति हि तेषां सिद्धान्तः । तत्र हि समासे पाक्षिक्याः प्रातिपदिकसंज्ञायाः प्राप्तेरभावात्कथं नाम पराभि- मतो नियम उपपद्यते। युगपद्धि समाससमासेतरपदसंघातयोः 'अर्थवत्-'
विक्सितेत्यर्थः । प्रणाली मार्गः । यौवनोद्गमरूपा ॥ इति रसगआ्वाधरमर्मप्रकाशे परितृ- त्तिप्रकरणम् ॥ प्राग्वदाह-अथेति। न्यूनतां निराचष्टे-नियमोऽपीति। अस्मिन्लंकार-
Page 498
रसगङ्गाधरः । ४८३
सूत्रं प्राप्तमिति परिसंख्या भवितुमर्हति। पूर्वतन्रे तु नियमपरिसंख्ययो- भेंदेन परिभाषणम्। यदाहु :- 'विधिरत्यन्तमप्राप्ते नियम: पाक्षिके सति। तत्र चान्यत्र च प्राप्ते परिसंख्येति गीयते ।।' विधि :- 'स्वर्गकामो यजेत' इत्यादिः । यागादेः प्रकारान्तरेणाप्रात्तेः । नियम :- 'व्रीहीनवहन्ति, समे देशे यजेत' इत्यादिः । पुरोडाशनिर्माण- फलोपधायकतावच्छेदककोटिप्रविष्टाया वितुपतायाः संपादकत्वेनावहन- नस्य प्राप्तेर्नखविदलनसमवधानकालावृत्तित्वेन, यागाधिकरणतया समदे- शप्राप्तेर्विषमदेशसमवधानकालवृत्तित्वेन च पाक्षिकत्वात्। परिसंख्या- 'इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते, पश्च पञ्चनखा भक्ष्याः' इ- त्यादिः। रशनाग्रहणलिङ्गेनाश्वाभिघानीगर्दभाभिघान्योरादानस्य युगपत्म्रा- पत्वात् । इत्यलमप्रकृतचिन्तया । इयं च तावद्विविधा-शुद्धा प्रश्नपूर्विका च। द्विविधाप्यार्थी शाब्दी चेति चतुर्विधा। यथा- 'सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यतां चिन्तायामसि सस्पृहं यदि चिरं चक्रायुधश्चिन्त्यताम्। आलापं यदि काङ्से मधुरिपोर्गाथा तदालप्यतां स्वापं वाञ्छसि चेन्निरर्गलसुखे चेतः सखे सुप्यताम् ।।' अत्र यदि घटितवाक्यैर्निवेदितस्य रागप्राप्तस्य सेवादेः कर्मतायाः पर- मेश्वरे विषयान्तरे च प्राप्तत्वेन लोडर्थघटितवाक्यार्थवैयर्थ्यप्रसङ्गाद्विप- यान्तरं न सेव्यतामित्यादिरूपा विषयान्तरे तत्तत्क्रियाकर्मत्वव्यावृत्तिस्ता- त्पर्यविषयतया कल्पमानत्वादार्थी शुद्धा च। 'कि तीर्थ हरिपादपद्मभजनं कि रत्नमच्छा मतिः कि शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदयः । किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखे कः शत्ुर्वद खेददानकुशलो दुर्वासनासंचयः।।' शास्त्रे। पूर्वतत्त्रे पूर्वमीमांसायां। यदाहुर्वार्तिककारा:। द्वितीये आह-यागेति
Page 499
४८४ काव्यमाला।
अत्र हरिपादभजनादिकमेव तीर्थादिकं नान्यदित्यर्थस्तात्पर्यमर्या- दया प्रतीयत इत्यार्थी प्रश्नपूर्विका च । 'तीर्थ गङ्गा तदितरमपां निर्मलं संघमात्रं देवौ तस्याः प्रसवनिलयौ नाकिनोऽन्ये वराकाः । सा यत्रास्ते स हि जनपदो मृत्तिकामात्रमन्य- तां यो नित्यं नमति स वुधो बोधशून्यस्ततोऽन्यः ।I' अत्र मात्रादिपदस्तीर्थत्वादिव्यावृत्तिः प्रतीयत इति शाब्दी शुद्धा । 'किं मित्रमन्ते सुकृतं न लोकाः कि ध्येयमीशस्य पदं न तोकाः । किं काम्यमव्याजसुखं न भोगा: किं जल्पनीयं हरिनाम नान्यत् ।।' अत्र शाब्दी प्रश्नपूर्विका चेति प्राचां मतम्। अन्ये तु 'व्यावृत्तेरार्थत्व एव परिसंख्यालंकारः, अन्यथा तु शुद्धा परिसंख्यैव। यथा हेतुत्वस्यार्थ- त्व एव हेत्वलंकारः' अन्यथा हेतुमात्रम् । अतो भेदद्वयमेवास्याः' इ- त्याहुः। अपरे तु "व्यावृत्तेरार्थत्वेऽपि नालंकारत्वम् । 'पञ्च पञ्चनखा भक्ष्याः, समे यजेत, रात्सस्य' इत्यादावपि तदापत्तेः । किं तु कविप्रति- भानिर्मिता या तादृशव्यावृत्तिस्तस्याः । यथा-'यस्मिञ्शासति वसुमती- पाकशासने महानसेषु संतापः, शरधिहृदयेषु सशल्यता, मञ्जीरेषु मौख- र्यम्, भेरीषु ताडनम्, कामिनीनां कुन्तलेषु कौटिल्यम्, गतिषु मान्द्यम्' इत्यादौ। अत्र हि प्रथमान्तार्थः कविप्रतिभया एकीकृत इति तद्वारा तत्रप्र- तियोगिकव्यावृत्तिर्निर्मिता । एवं च 'सेवायां यदि साभिलाषमसि' इ- त्यत्र नान्यः सेव्य इत्यर्थस्य प्रतीतेः परिसंख्यास्तु, न तु परिसंख्यालं- कारः । व्यावृत्तेर्वास्तवत्वेन कविप्रतिभानपेक्षणात्। 'कि तीर्थ हरिपाद- पद्मभजनम्' इत्यत्र तु प्रश्नपूर्वकं दृढारोपरूपकम् । अन्यथा 'न विषं विष- मित्याहुर्ब्रह्मस्वं विषमुच्यते' इत्यत्रापि परिसंख्यापत्तेः । 'कि शास्त्रं' इ- त्यंशे तु परिसंख्यामात्रम्। 'तीर्थ गङ्गा तदितरमपां निर्मलं संघमात्रम्' इ- त्यत्रापि परिसंर्यैव शुद्धा। प्रागुक्ताद्वेतोरनार्थत्वात्। तस्मात् 'महानसेषु संतापः' इत्यादिकमेवास्या उदाहरणम्" इत्याहुः । इति रसगक्गाधरे परिसंख्याप्रकरणम्। एवं सति पूर्वविरोधं परिहरति-प्राचीनेति॥ इति रसगन्गाधरमर्मप्रकाशे परिसंख्या- प्रकरणम् ।
Page 500
428
अथार्थापत्ति :- केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिरर्थापत्तिः ॥ न्यायश्च कारणम्। सा च प्रकृतेन प्रकृतस्य, अप्रकृतेनाप्रकृतस्य, प्रकृतेनाप्रकृतस्य, अप्रकृतेन प्रकृतस्येति तावच्चतुर्भेदा प्रत्येकमर्थान्त- रस्य साम्यन्यूनाधिक्यैर्द्वादशविधा। ततो भावत्वाभावत्वाभ्यां चतुर्विश- तिभेदा। दिञ्मात्रेणोदाहियते- 'लीलालुण्ठितशारदापुरधिया मस्माद्दशानां पुरो विद्यासझ्विनिर्गलत्कणमुषो वल्गन्ति चेद्वालिशाः। अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः सिंहानां च सुखेन मूर्धनि पदं धास्यन्ति सालावृकाः ॥' अत्र प्रकृतेनाप्रकृतस्यापाद्यमानस्य साम्यं मालारूपता च। यदि ते चरणाम्बुजं हृदा वहतो मे न हतो विपद्गणः । अथ चण्डकरेण मण्डिते दिनमध्येऽपि जितं तमोगणैः ॥' अत्र न हत इति विद्यमानतारूपात््रकृतार्थाज्जितमित्यापाद्यमानस्या- प्रकृतार्थस्य सर्वोत्कर्षेण वर्तनरूपस्याधिक्यम्। न चात्र विपद्गणस्याव- स्थानमात्रेण तमोगणानामवस्थानमापादयितुमुचितम्, न तु जयः अनानु- रूप्यात्, इति शङ्यम्। भगवच्चरणसंनिधाने यद्येकस्य विपद्गणस्य स्वास्थ्यं तदा समुचित एव बहूनां तमोगणानां सूर्यसंनिधाने जय इति न दोषः। 'सदैव सनेहार्दे सुरतटिनि निर्ष्किंचनजने यदि त्वं नाघत्से सुरभिरिव वत्से मयि कृपाम्। तदा चिन्तारत्नत्रिदशपति भूमीरुहमुखा ददीरन्नर्थिभ्यः किमिति कणभिक्षामपि जडाः ।' अत्राभावेनाभावापादानम् । सेहार्द्रजाह्वीरूपप्रकृतार्थापेक्षया चिन्ता- रत्नादीनां जडत्वेन न्यूनत्वं चैतेष्वापाद्यमानमप्रकृतम्। 'मामनुरुक्तां हित्वा यदि राजन्पुरुषसिंह यातोऽसि। मुक्त्वा वनमिदमेष्यति वनलक्ष्मीमत्र किं चित्रम् ।।'
Page 501
४८६ काव्यमाला।
इयं राज्ञा नलेन मुक्ताया अरण्ये दमयन्त्या ध्यानोपनीतं तमेव प्र- त्युक्तिः । अत्रापाद्यमानो वनवृत्तान्तोऽपि संनिहितत्वात्प्रकृत एवेति द्व- यमपि प्रकृतम्। पुरुषसिंहापेक्षया वनस्य नपुंसकत्वान्न्यूनत्वम्। अत एव किं चित्रमित्युक्तम्। 'उदुम्बरफलानीव ब्रह्माण्डान्यत्ति यः सदा। सर्वगर्वापहः कालस्तस्य के मशका वयम् ॥' अत्राप्रकृतेन ब्रह्माण्डादनेन समस्तभूतानामनित्यत्वं कैमुतिकन्यायेन प्रकृतं प्रतिपाद्यते। 'न भवानिह मे लक्ष्यः क्षत्रवर्णविलोपिनः । के वा विटपिनो राम कुलाचलभिदः पवेः॥' रामं प्रति जामदझ्यस्येयमुक्तिः । अत्र प्रतिवस्तूपमा महावाक्यार्थः । तस्याश्च दलद्वयमुपमेयवाक्यार्थ उपमानवाक्यार्थश्च। तत्रोपमेयवाक्यार्थ- गतायामर्थापत्तावापाद्यमानस्तन्निमि त्तभूतश्चेत्युभावप्यर्थौ प्रकृतौ। उपमान- वाक्यार्थगतायां त्वप्रकृताविति। अनया दिशान्यदप्यूद्यम्। अन्र विचार्यते-नेयं वाक्यवित्संमतायामर्थापत्तौ निविशते। आपा- दकस्यार्थस्यापतितमर्थ विनानुपपत्तेरत्राभावात्। नाप्यनुमाने। आपाततो-
न च येन कारणेनैकार्थसिद्धिस्तेनैव लिङ्रेनापरार्थानुमानमिति वाच्यम्। अर्थान्तरसिद्धेरनुमित्यात्मकताविरहात्। यतोऽयमर्थोऽपि भवितुमर्हतीति बुद्धेराकारः न तु भवत्येवेति नापि यद्यर्थातिशयोक्तौ। तस्या विपरीतार्थ एव द्वयोर्विश्रान्तेः । न चेह तथा। आपादकस्य सिद्धत्वादपततश्च सं- भाव्यमानत्वाद्यथाश्रुत एव विश्रान्तेः । तस्माद्येन न्यायेनैकोऽर्थः सिद्ध- स्तेनैव न्यायेनापरोऽप्यर्थः सेद्गुमर्हतीत्येवंरूपेयमर्थापत्तिः । अस्यां चार्था- न्तरं लोकेऽविद्यमानमपि कविना सवप्रतिभया कल्पयित्वा यद्यापाद्यते तदालंकारत्वम्। यथा 'फणिनां शकुन्तशिशवः' इत्यादौ। अन्यथा तु कैमुतिकन्यायतामात्रम्। यथा 'उदुम्बरफलानीव' इत्यादौ। प्राचीनरीत्या
Page 502
रसगङ्गाघरः । ४८७
तु प्रागिदमुदाहृतमस्माभिः । अत एव तत्र कैमुतिकन्यायेनेत्युक्तम्। एवं च 'कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः', 'अ- वस्थेयं स्थाणोरपि भवति सर्वामरगुरोरविधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी' इत्यादि सर्वस्वकृता यदुदाहृतं तन्नातीव हृदयंगमम्। यतु- 'कैमुत्येनार्थसंसिद्धि: काव्यार्थापत्तिरिष्यते' इति कुवलयानन्दकृता अस्या लक्षणं निर्मितं तदसत्। कैमुतिकन्यायस्य न्यूनार्थ विषयत्वेनाधिकार्थापत्ता- वव्याप्तेः । यथा- 'तवाओे यदि दारिद्यं स्थितं भूप द्विजन्मनांम्। शनैः सवितुरप्यग्रे तमः स्थास्यत्यसंशयम् ॥' अत्र शनैःशव्द्महिम्रा राजाग्रे दारिद्यस्थित्यपेक्षया सूर्यागे तमोऽव- स्थानं दुःशकमेवेत्यवगतमपि न्यायसाम्यादापाद्यते, न तु कैमुति कन्यायेनेति।
अथ विकल्प :- विरुद्धयोः पाक्षिकी प्रप्तिर्विकल्पः ॥ एकस्मिन्धर्मिणि सवखप्रापकप्रमाणप्राप्तयोरत एव तुल्यवलयोर्विरुद्ध- योर्विरुद्धत्वादेव युगपत्राप्तेरसंभवात्पाक्षिक्येव प्राप्तिः पर्यवसन्ना। अयं च समुच्चयस्य प्रतिपक्षभूतः व्यतिरेक इवोपमायाः । अत्र च विकल्प्य- मानयोरौपम्यमलंकारतावीजम्। तदादायैव चमत्कारस्योल्लासात्। अ- न्यथा तु विकल्पतामात्रम्। यथा 'जीवनं मरणं वास्तु नैव धर्म त्यजाम्य- हम्' इत्यादौ। अत्र जीवनमरणयोर्नौपम्यस्य प्रतीतिः । उदाहरणम्- प्राग्वदाह-अथेति। तत्र अर्थापत्त्यलंकारे। न तु कैमुतिकन्यायेनेति। अत्रेदं चिन्त्यते-तवाग्रे यदीत्यत्र वक्ष्यमाणसंभावना यद्यर्थातिशयोकिर्वालंकारः। नच य दर्था तिशयो क्तावा पाद्यापादकयो विपरीतार्थ विश्रान्तत्वम्। इह त्वापादकस्य सिद्धत्वादा- पाद्यस्य संभाव्यमानत्वमिति विशेष इति वाच्यम्। न्यूनत्वाधिक्या दिभिरर्थापत्तिभेदस्य त्वया कल्पनवत्तस्या एव तथाविधभेदस्य कल्पने क्षत्यभावत्। न च कैमुत्येन सिद्धिरपि तद्वेद एवास्तु। प्राचामनुरोधेन भिन्नतयोकेः ।[न च] कैमुत्यकृतथ्रमत्कारोऽपि त- भैदकताया एव साधकोऽस्त्वति वाच्यम्। तत्कृतचमत्कारस्यालंकारभेदजनकताया दुरपहवाच्चेति दिक्॥ इति रसगन्गाधरमर्मप्रकाशेऽर्थापत्तिप्रकरणम् ।। प्राग्वदाह-अथेति। सा च न शाब्दीत्याह-एकस्मिन्निति। भजनेषु त-
Page 503
काव्यमाला।
'प्राणानर्पय सीतां वा गृधांस्तर्पय वा द्विजान्। यमं भजस्व रामं वा यथेच्छसि तथाचर ।।' अत्रार्पणतर्पणभजनेषु मानरक्षणप्रमाणेन यथाक्रमं कर्मतया प्राणगृ- ध्रयमानां जीवनरक्षणप्रमाणेन सीताद्विजरामाणां प्राप्तानां यौगपद्या- संभवात्पर्यायेण प्राप्तिः । कर्मणोः क्रियाफलेनैव समानधर्मेणौपम्यम्। न- न्वत्र यथार्पितर्प्यादिधात्वर्थफलरूपधर्मैक्यात्कर्मणोरौपम्यं गम्यते, तथा 'जीवनं मरणं वा' इत्यादौ सत्तारूपधर्मैक्याज्जीवनमरणयोः कर्त्रोरपि त- द्वन्तुं युज्यत इति चेत्, युज्यते, न तु गम्यते। अथ तत्कुतो हेतोः, क- वितात्पर्यविरहादिति गृहाण । नह्यत्र मरणं जीवनं च समानमिति कवेर- भिप्रेतम् । किं तु 'विषं भुङ्क्ष्व, मा चास्य गृहे भुङथाः' इतिवत् धर्माद्धे- तोर्मरणमपि ज्यायः, न तु धर्मत्याग इति निषिद्धगतद्वेषाघिक्यम्। तदर्थ च मरणस्योपात्तत्वादविवक्षिताधिकरणतया औपम्यस्यानिष्पततिरेव क्व- चिल्ुस्तं समानधर्ममादायाप्यौपम्यस्य गम्यत्वेऽयमलंकारः । यथा भगव- द्वीतासु 'हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम्' अत्र मही- भोगस्वर्गप्रास्योरुत्तमत्वेनौपम्यं विवक्षितम्। तथा च घात्वर्थयोरयं वि- कल्प इत्येके आख्यातार्थयोरित्यपरे। सर्वथैव न महीखवर्गयोरिति स्थि- तम्। तयोः कारकत्वेनैव क्रियान्वयं विना विकल्पासंगतेः । न च धात्व- र्थयोरेकस्य कर्तृरूपसाधारणधर्मस्योक्तत्वात्कथं लुप्ततेति वाच्यम्। कर्तृ- रूपसाधारणधर्ममादायौपम्यस्यात्र सुन्दरस्यानिप्पत्तेः । अन्यथा 'हतो वा नरकं गन्ता जित्वा वा भोक्ष्यसे महीम्'इत्यत्राप्यौपम्यप्रत्ययापतेः । यतु- "भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीतेहित प्राप्तये। लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरे: ॥' अत्र विकल्पः । उत्तमत्वाच्च तुल्यप्रमाणश्रिष्टत्वम्" इत्यलंकारसर्व- स्वकृतोक्तम्। तच्चिन्त्यम्। भवार्तिशमने तनुनेत्रद्वन्द्वयोर्द्वयोरपि युग- पत्कर्तृत्वे विरोधाभावाद्विकल्पानुत्थानात्। 'विरोधे विकल्पः' इति हि
Page 504
रसगङ्गाघरः । ४८९,
तेनैवोक्तम्। न च तनुमध्ये नेत्रयोः प्रविष्टत्वात्पृथगभिधानानौचित्येऽपि यत्पृथगभिधानं तद्वक्तुस्तनुनेत्रद्वन्द्वयोर्विरोधमभिप्रेतं गमयतीति वाच्यम् । वास्तवस्थैव विरोधस्य विकल्पोत्थापकत्वेनावैवक्षिकस्याप्रयोजकत्वात्, विकल्पस्यात्रासुन्दरत्वाच्च। वस्तुतस्तु 'सकलकलं पुरमेतज्जातं संप्रति सुधां- शुमिव' इत्यादाविवात्रापि क्लेषमूलोपमैवालंकारः । तनुर्वेति तनुरिवे- त्यर्थः । 'वा स्याद्विकल्पोपमयोः' इति वाशव्दस्येवार्थकत्वाभिधानात् । न च लिङ्गवचनभेद उपमायां दोष इति वाच्यम्। साधारणधर्मस्योपमान- सामानाधिकरण्ये उपमेयसामानाधिकरण्ये च यत्र वैरूप्यं तत्रैव लिङ्गवच- नभेदस्य दोषताया अभ्युपगतेः। यथा-'हंसीव धवलश्चन्द्रः सरांसीवामलं नभः' । अत्र हंसी धवला, चन्द्रो धवलः, सरांस्यमलानि, नभो ह्यमलमि- ति साधारणधर्मस्योपमाने उपमेये च द्वैविध्येनैव प्रतीतेरुपमायाः सम्य- गनिष्पत्तेः । नन्वेवं सति 'सरांसीव नभः' इत्यादौ लुप्तोपमायां कथं वच- नभेदो दोप इति चेत्, तत्रापि प्रतीयमानसाधारणधर्मस्य वैरूप्यादेवेत्य- भ्युपगमात्। न च प्रतीयमानस्य धर्मस्य स्वशव्दानालिङ्गिततया सुतरां लिङ्गानालिङ्गनेन नास्ति वैरूप्यमिति शङयम्। शब्दालिङ्गितस्यैवार्थस्य प्रतीतेरिष्टेः । यदाहुः-'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादते' इति। यद्वा श्रतार्थापत्तावभ्युपगम्यमानायां शब्द एव कल्प्यते, अर्थस्तु तेनाभिधीयत इत्यस्ति वैरूप्यम्। एवं स्थिते राजते भासते इत्यादि तिङ- न्तप्रतिपादे साधारणधर्मे यथा लिङ्गवचनभेदो न दोषस्तथात्रापीति । अत एव 'यस्मिन्नतिसरसो जनो जनपदाश्च' इति तुल्ययोगितापि संग- चछते । अन्यथा उपमागर्भत्वात्तस्या उपमाया दुष्टत्वे दुष्टतापत्तेः । ्चिष्टे धर्मलिङ्गसंख्यामेदादि नैव दूषणमिति प्रतिप्रसवाच्चेति दिक्। इति रसगङ्गाधरे विकल्पप्रकरणम्।
अथ समुच्चय :- युगपत्पदार्थानामन्वयः समुचयः॥ द्विषयो मानोऽहंकारः । तत् औपम्यम्। तत् अगमनम्। लुप्ोपेति। धर्मेत्यादिः। दिगर्थोऽन्यतोऽवसेयः ॥ इति रसगङ्गाधरममंप्रकाशे विकल्पप्रकरणम् ॥ रस० ४४
Page 505
४९० काव्यमाला।
युगपदिति क्रमव्यावृत्त्यर्थम्, न त्वेकलक्षणप्रतिपत्त्यर्थम्। तेन किंचि- त्कालभेदेपि न समुच्चयभङ्गः । स तावद्विविध :- धर्मिभेदघर्म्यैक्या- भ्याम्। धर्म्यैक्येऽषि द्वैविध्यम्-कारणत्वातिरिक्तसंबन्धेनैकधर्म्यन्वये कारणतया एकधर्म्यन्वये चेति। एवं त्रिविधेऽस्मिन्नाद्ययोर्भेदयोर्गुणानां क्रियाणां गुणक्रियाणां च, तृतीये रमणीयानामरमणीयानां रमणीयारम- णीयानां समन्वयः । न चास्मिन्वक्ष्यमाणसमाध्यलंकारत्वमाशङ्यम् । समाधौ हि एकेन कारये निप्पाद्यमानेऽप्यनेनाकस्मिकमापतता कारणेन सौकर्यादिरूपोऽतिशयो यत्र संपाद्यते स विषयः । अस्मिंस्तु समुच्चयप्र- भेदे यत्रैककार्य संपादयितुं युगपदनेके खले कपोता इवाहमहमिकया संपतन्ति कार्यस्य च न कोऽप्यतिशयः सः । क्रमेणोदाहरणानि- 'प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभः । रक्तं च पथिकहृदयं कपोलपाली मृगीदृशः पाण्डुः ।।' 'उदितं मण्डलमिन्दो रुदितं सदो वियोगिवर्गेण। मुदितं च सकलयुवजनचूडामणिशासनेन मदनेन ।I' अत्राद्ये गुणानां द्वितीये क्रियाणां च यौगपद्येन भिन्नधर्म्यन्वयः । 'आताम्रा सिन्धुकन्याधव चरणनखोल्लासिकान्तिच्छटाभि- ज्योत्साजालैर्जटानां त्रिपुरविजयिनो जातजाम्बूनदश्रीः । स्वाभाव्यादच्छमुक्ताफलरचितलस द्रुच्छसच्छायकाया पायादायासजालादमरसरिदघन्रातजातश्रमान्नः ।।' 'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोडघुना । क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ।।' अत्राद्ये गुणानां द्वितीये क्रियाणामेकधर्म्यन्वयः। यद्यपि हरिचरणनखसं- सर्गसमये नास्ति हरजटासंसर्ग इति रक्तपीतवर्णयोर्यौगपद्यस्यासंभवः, तथापि साहजिकश्वैत्येन सह तयोः प्रत्येकं तस्य संभवोऽस्त्येवेति न दोषः । प्राग्वदाह-अथेति। सिन्धुकन्याधवो लक्ष्मीपतिः। तयो रक्तपीतवर्णयोः। प्र
Page 506
रसगङ्गाघरः । ४९१
'समुत्पत्तिः पझ्मारमणपद्पद्मामलनखा- न्निवासः कंदर्पप्रतिभटजटाजूटभवने। अथायं व्यासङ्गः पतितजननिस्तारणविधे- रने कस्मादुत्कर्षस्तव जननि जागर्ति जगतः ॥।' अत्र त्रिष्वेकेनाप्युत्कर्षजननसंभवे त्रयोऽप्युत्कर्षजननार्थ स्पर्धयेवापतन्तो रमणीयाः । 'पाटीरद्रुभुजंगपुंगवमुखोद्भता वपुस्तापिनो वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रुमाः । श्रोत्रे हन्त किरन्ति कूजितमिमे हालाहलं कोकिला बाला बालमृणालकोमलतनुः प्राणान्कथं रक्षतु ।' अत्रापि त्रयोऽपि जीवनाशार्थमापतन्तोऽरमणीयाः । 'जीवितं मृत्युनालीढं संपद: श्वासविभ्रमाः । रामाः क्षणप्रभारामाः शल्यान्येतानि देहिनाम् ॥' अत्र जीवितादयः खाभाव्याद्रमणीया इति निःसारयितुमशक्याः, विशेषण- माहात्म्याचारमणीया इति दुःखजनकाश्च, अत एव शल्यतुल्याः रमणी- यारमणीयशब्दे कर्मधारय आश्रीयते, न द्वन्द्वः। सहचरभिन्नत्वदोषापचेः । एवमरमणीयरमणीयानामप्येककार्यजननार्थमापततां समुच्चयः संभवति। 'शरीरं ज्ञानजननं रोगो विष्णुस्मृतिप्रदः । विपद्वैराग्यजननी त्रयं सुखकरं सताम् ।।' शरीरादयो हि स्वाभाव्यादरमणीया अपि भेदकमाहात्म्याद्रमणीयाः । न च रमणीयानां समुचये अरमणीयानां च समालंकारेण, रमणीयारम- णीयानां च विषमालंकारेण च संकीर्णत्वान्नैते प्रभेदा युक्ता: समुच्चयस्य। संकरस्य प्रभेदताप्रयोजकत्वविरहात् । अन्यथा सर्वेषामलंकाराणामनन्त- भेदत्वापच्तेरिति वाच्यम्। 'समुत्पत्तिः पझमारमण-' इत्यत्र, 'पाटीरद्ु- तिभटः शत्रु: शिवः । पाटीरद्ुश्चन्दनवृक्षः । हालाहलरूपं कूजितम्। भेदकं विशेषणम्। समुचये इत्यस्याग्रेऽप्यनुषङ्गः । इति रसगज्ञावरममप्रकाशे समुच्चयप्रकरणम्।।
Page 507
४९२ काव्यमाला।
भुजंग-' इत्यत्र च समालंकारस्याविवक्षितत्वात् । नहि हरिचरणनख- संभूतिहरजटाजूटनिवासपतितनिस्तारणव्यासङ्गानां परस्परं योगो योग्य इति कवेरभिप्रेतम् । किं तु भगवत्या भागीरथ्या उत्कर्ष जनयितुं त्रयो- डपि जागरूका इति। नापि मलयानिलरसालट्ठुमकोकिलकूजितानाम् । किं तु त्रयोऽपि बालायाः प्राणनाशार्थ बद्धपरिकरा इति। अत एव हन्तेति खेद उपपद्यते । समालंकारस्याभिप्रेतत्वे तु त्रयाणां योगस्य युक्तत्वात्खेदोऽनुपपन्न एव स्यात् । अथ वालाया मारकत्रितययोगोऽननु- रूप इति विषमाभिप्रायेण खेदोपपत्तिरिति चेत्, एवमपि त्रयाणां यो- गांशे समालंकारस्यात्यन्तमप्रतीतेर्विषमस्य च वाह्यबालांशमादाय प्रति- ष्ठानात्समुच्चयस्यासंकीर्णतैव । एवं 'जीवितं मृत्युना लीढम्' इत्यादौ जीवि- तादे रमणीयस्य मृत्य्वालीढत्वादिकमयुक्तमिति कवेरिह विवक्षितम्। रम- णीयानामचिरस्थायित्वस्योत्सर्गतः सिद्धेस्तस्य च स्वाभिलषिताननुगुण- त्वाच्छत्यत्वप्रयोजकत्वम् । अतस्तृतीय प्रभेदस्यापि न विषमसंकीर्णत्वे- नान्यथासिद्धिः । एतेन 'सद्योगासद्योगसदसद्योगैर्न समुच्चयः प्रभेदवान्। समविषमसंकरेणैवान्यथासिद्धेः' इति रत्नाकरोक्तमपास्तम्। इति रसगङ्गाधरे समुचयप्रकरणम्। अथ समाधि :- एककारणजन्यस्य सौकर्य समाधिः॥ कार्यस्याकस्मिक कारणान्तरसमवधानाहित-
तच्च कार्यस्यानायासेन सिद्धा साङ्गसिद्धा च। पूर्वापेक्षया विशेष- स्तूक्त एव। उदाहरणम्- 'आयातैव निशा मनो मृगद्दशामुन्निद्रमातन्वती मानो मे कथमेष संप्रति निरातक्कं हृदि स्थास्यति। ऊहापोहमिमं सरोजनयना यावद्विधत्तेतरां तावत्कामनृपातपत्रसुषमं बिम्बं बभासे विघोः ॥' अत्र रात्रिसंनिधानादपि सिद्तो मानविनाशस्य चन्द्रोदयादनायासेन सिद्धिः । यथा वा-
Page 508
रसगङ्गाघरः । ४९३
'स्मरदीपदीप्रदृष्टेर्घनान्धकारेऽपि पतिगृहं यान्त्याः । झटिति प्रादुरभूवन्सख्यादिव चञ्चलाः परितः ॥' इहाकस्मिके निष्प्रत्यूहपतिगृह्यानस्य कारणान्तरसमवधाने हेतोरुत्प्रेक्ष- णादुतेक्षालीढः । पूर्वस्तु शुद्धः। 'नवप्रसङ्गं दयितस्य लोभादङ्गीकरोति स्म यदा नताङ्गी। कथं तदालिङ्गनमप्यकस्माद्धनो निनादैर्घनतां निनाय ।' अत्र घनध्वनिभिरालिङ्गनस्य साङ्गतासिद्धिः । पूर्वपद्यद्वये त्वनायासेन कार्यसिद्धिः । 'कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः । अयमपि बत गुञ्जत्यालि माकन्दमौलौ मनसिजमहिमानं मन्यमानो मिलिन्दः ।।' अत्र जीवितनाशं प्रति वातवानचञ्चरीकगुञ्जितयोरहमहमिकया हेतुत्वादे- कस्याकस्मिकत्वाभावान्न प्रकृतालंकारस्य विषयः । किं तु कर्तृरूपभिन्नघ- र्मिकेण वानगुञ्जनक्रिययोः समुच्चयेन जीवितनाशरूपैककार्यात्मकैकधर्मिक- स्तयोरेव कारणयोः समुच्चयः संकीणः । इति रसगङ्गाधरे समाधिप्रकरणम् ।
अथ प्रत्यनीकम्- प्रतिपक्षसंवन्धिनस्तिरस्कृतिः प्रत्यनीकम् ॥ अनीकेन सदृशं प्रत्यनीकम्। सादृश्यस्य यथार्थत्वेनैव संग्रहे पुनः सादृश्यग्रहणाद्गुणीभूतेऽपि सादृश्येऽव्ययीभावः । लोके प्रतिपक्षस्य तिर- स्कारायानीकं प्रयुज्यते । तदशक्तौ प्रतिपक्षसंबन्धिनः कस्यचित्तिर- स्कार: क्रियते। स चानीकसदृशतया प्रयुज्यमानत्वात्प्रत्यनीकमुच्यते। प्राग्वदाह-अथेति। सुपमा परमा शोभा। चवला विद्युतः । घनो मेघः। घनतां निबिडताम्। माकन्दश्चतः ॥ इति रसगज्गाधरमर्मप्रकाशे समाधिप्रकरणम्॥ प्राग्वदाह-अथेति। अनीकं सैन्यं व्यूहृरचनाकारम्। संबन्धी प्रतिपक्षत्यादिः ।
Page 509
४९४ काव्यमाला।
अत्र च प्रतिपक्षगतं वलवत्त्वम्, आत्मगतं दुर्वलत्वं च गम्यते। संबन्धी च तदुपजीव्योपजीवकमित्रादिभेदादनेकविधः । यथा- 'रे रे मनो मम मनोभवशासनस्य पादाम्वुजद्वयमनारतमामनन्तम् । किं मां निपातयसि संसतिगर्तमध्ये नैतावता तव गमिष्यति पुत्रशोक: ॥' 'जितमौक्तिकसंपदां रदानां सहवासेन परां मुदं ददानाम्। विरसादघरीकरोति नासामधुना साहसशालि मौक्तिकं ते ।।' पूर्वत्रोपजीव्यस्य, इह तूपजीवकस्य तिरस्काराद्वैरस्यार्थत्वशाव्दत्वाभ्यां च वैलक्षण्यम्। एवमन्यदप्यूह्यम् । अत्र विचार्यते-हेतूत्प्रेक्षयैव गतार्थत्वान्नेदमलंकारान्तरं भवितुमर्हति। तत्र द्वितीयोदाहरणे तावद्धेत्वंशः शाब्दः उत्प्रेक्षांशमात्रमार्थम्। प्रथमो- दाहरणे तु द्वयमप्यार्थम् । पुत्रमारकसेवकत्वेन कारणेन वैरस्य तस्य स्वात्मकर्मकगर्तमध्यनिपातनेन कार्येण हेतुतायाश्च स्फुटं प्रतीतेः । अस्मि- न्नलंकारे हेतुत्वं निश्चीयमानम्, हेतूत्प्रेक्षायां तु संभाव्यमानमित्यस्ति वि- शेष इति चेत्, प्रतीयमानहेतूत्प्रेक्षाया अनुत्प्रेक्षात्वापतेः । वाचकस्येवा- देरभावाद्वेतुत्वस्य निश्चीयमानतायास्तत्रापि वक्तुं शक्यत्वात्। 'यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवक्रसदृशाकृति कृती राहुरिन्दुमधुनापि वाधते ।।' इत्यलंकारसर्वस्वकृतोदाहृते प्राचीनपद्येऽपि भगवद्वैरानुबन्धादिव भगवद्व- कसदृशमिन्दुं राहुर्बाधत इति प्रतीतेरुत्प्रेक्षैव गम्यमाना । 'मम रूपकीर्तिमहरद्ुवि यस्तदनुप्रविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥' इति कुवलयानन्दकारेणोदाहते तु पद्ये हेत्वंश उत्प्रेक्षांशश्चेत्युभय- मपि शाब्दमिति कथंकारमस्यालंकारस्योदाहरणतां नीतमिदमायुष्मतेति न विद्ः । प्रतिपक्षगतबलवत्त्वखवात्मगतदुर्बलत्वयोः प्रतीतेरहेतूत्प्रेक्षान्त-
'तत्प्रतिपक्षशङ्कितेऽस्मिन्निति चेत्, न' इति पाठः। न विद्य इति। मत्सरादेवेति।
Page 510
रसगङ्गाघरः । ४९५
रादस्य वैलक्षण्यम्। नैतावता हेतूतरेक्षाया बहिर्भवितुमिदमीष्टे। तद- विनाभावित्वात् । किं तु तदवान्तरविशेषीभवितुम् । नहि पृथिव्यवान्त- रभेदाद्वटात्पटो विलक्षण इति पृथिव्या वहिर्भवतीत्यपि वदन्ति। इति रसगङ्गाधरे प्रत्यनीकप्रकरणम्।
अथ प्रतीपम्- प्रसिद्धौपम्यवैपरीत्येन वर्ण्यमानमौपम्यमेकं प्रतीपम् ।
प्रकारान्तरेण। तद्वैपरीत्यं च तदुपमानोपमेययोरुपमेयोपमानत्वकल्पनया । न तु उपमानोपमेययोरन्यतरस्य किंचिद्गुणग्रयुक्तमद्वितीयतोत्कर्ष परि- हर्तु द्वितीयप्रदर्शनेनोल्लास्यमानं सादृश्यमपरं द्विविधम्॥ उपमानस्य कैमर्थ्य चतुर्थम्। सादृश्यविघटनं पश्चमम्॥ तत्राद्े प्रभेदे प्रसिद्धौपम्ये यदुपमेयं तस्यवोपमानत्वादाधिक्यस्य, यच्चोपमानं तस्योपमेयत्वान्यूनत्वस्य च प्रत्ययः फलम् । इदमेव चौप- म्यस्याविशेषेऽप्युपमालंकारादस्य वैलक्षण्ये बीजम्। औपम्यप्रतिष्ठानं च निषिध्यमानसादृश्याद्यतिरेकात्। नन्वौपम्यस्योपमानोपमेयसाधारण्ये- डपि यदेकस्याधिक्यमपरस्य न्यूनत्वं च गम्यते तत्कस्य हेतोरिति चेत्, श्रृणु। उपमाने हि साधारणधर्मसंबन्धोऽनूदयोपमेये विधीयत इति ताव- ननिर्विवादम्। विध्यनुवादौ च साध्यत्वसिद्धत्वाभ्याम् । ते च क्रमेण न्यूनाधिक्ये उपमानोपमेययोः प्रयोजयतः । लोकेऽपि निश्चितविद्यो यथा पूज्यते तथा नानिश्चितविद्य इति स्फुटमेव। ते च साध्यत्वसिद्धत्वे वक्तविवक्षाधीने इति नात्र दोषः । द्वितीयतृतीययोर्भेदयोस्तु फलं स्फुटमेव। चतुर्थस्य तु निषिध्यमानवस्तुगतसकलगुणवत्त्वप्रतिपत्तिः । पञ्चमस्य प्रथमवदिति। उदाहरणम्-
मेप्रकाशे प्रत्यनीकप्रकरणम् ।। प्राग्वदाह-अथेति। ननु ते अप्युपमावदेवात्रातआद्-ते च साध्यत्वेति।
Page 511
४९६ काव्यमाला।
'किं जल्पसि मुग्धतया हन्त ममाङ्गं सुवर्णवर्णमिति। तद्यदि पतति हुताशे तदा हताशे तवाङ्गवर्ण स्यात् ॥' अत्र पूर्वारधोपमागम्यं सुवर्णाधिक्यं तिरस्कृत्य द्वितीयार्धे प्रतीपं वा- लाङ्गवर्णस्याधिक्यं गमयति। हुताशपातं विना प्रतीपमपि दुर्लभम् । उपमातुं स्वम्नेऽपि न संभवतीति मुग्घत्वहताशत्वाभ्यां गम्यते । 'माहात्म्यस्य परोऽवधिर्निजगृहं गम्भीरतायाः पिता रल्नानामहमेक एव भुवने को वापरो मादृशः । इत्येवं परिचिन्त्य मा स्म सहसा गर्वान्घकारं गमो दुग्धाब्धे भवता समो विजयते दिल्लीघरावल्लभः ॥' 'निभाल्य भूयो निजगौरिमाणं मा नाम मानं हृदये विधासीः । गृहे गृहे पश्य तवाङ्गवर्णा मुग्धे सुवर्णावलयो लुठन्ति ।।' उपमानकैमर्थ्यस्य तूदाहरणमाक्षेपप्रकरण एव गदितम् 'अभूदप्र- त्यूहः' इत्यादि। पञ्चमो यथा- 'करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्गलैः। कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः ।।' अत्र कथं शृणोषीत्यनेन तुलैव न संभवतीति गम्यते। अर्थान्तरन्या- सोऽप्यमुमेवार्थ पुष्णाति। तदेवं पञ्चविधं प्रतीपं प्राचामनुरोधान्निरूपितम् । वस्तुतस्तु-आ- द्यास्त्रयोऽप्युपमायामेवान्तर्गता भेदाः । चतुर्थः केषांचिदाक्षेपः। पञ्चम- स्त्वनुक्तवैधर्म्ये व्यतिरेके। तथाहि-निष्पद्यमानं सुन्दरं वा सादृश्यमु- पमा। नह्यादये प्रतीपे 'मुखमिव कमलम्' इत्यादौ सादृश्यस्यानिष्पत्ति- रसौन्दर्य वास्ति येनोपमातो बहिर्भावः स्याद्। सौन्दर्यविशेषस्य त्वया- प्यभ्युपगमात्। विशेषस्य सामान्यानिवारकत्वात्। न च प्रसिद्धकमला- दिप्रतियोगिकमेव सादृश्यमुपमेति राज्ञामाज्ञास्ति। न चोपमाविरुद्धवा- चिनः प्रतीपशव्दस्य माहात्म्यादेव तादृशं सादृश्यमुपमेति शक्यं व- क्तुम्। उपमाविशेषविरुद्धवाचकत्वेनापि तदुपपत्तेः । एवं चाद्यं प्रतीप
Page 512
रसगङ्गाधरः । ४९७
प्रसिद्धोपमावदुपमाविशेष एव। अत एव द्वितीयतृतीयावपि भेदावुपमा- विशेषावेव। उपमानोपमेययोस्तिरस्कारस्तूपमान्तराद्वैलक्षण्यं प्रयोजयेत्, न तूपमासामान्यात्। तदनुस्यूतत्वेनैव तत्प्रतीतेः । नहि द्राक्षा माधुर्या- तिशयेन पार्थिवान्तराद्विलक्षणेत्यपार्थिवी भवति। अपि च यद्युपमानोप- मेययोस्तिरस्कारोऽलंकारताप्रयोजकः स्यात्, पुरस्कारोऽपि तथा स्यात् । यथा- 'एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिना- मित्येवं परिचिन्त्य मा स्म मनसि व्याधानुतापं कृथाः। भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः साधूनामरयो वसन्ति कति न त्वत्तुत्यकक्षाः खलाः ॥' अत्रौपम्यप्रदर्शनस्य नोपमानतिरस्कारः फलम् । तस्य गर्वितत्वेना- विवक्षणात्। किं तु तदनुतापनाशः । एवं च फलवैलक्षण्यमात्रेणालंका- रान्तरत्वं त्रुवता अस्याप्यलंकारान्तरत्वमभ्युपेयं स्यात्, प्रतीपषष्ठप्रभेदत्वं वा। किंच त्वदुक्तप्रतीपभेदानामपि परस्परवैलक्षण्येन पृथक्पृथगकंका- रत्वं स्यात्, न प्रतीपप्रभेदत्वम् । प्रतीपस्य सकलप्रभेदसाधारणसामान्य- लक्षणाभवात् । अन्यतमत्वं तु दूपणसहस्रग्रस्तत्वादलक्षणमेवेत्यसकृदु- क्तम्। उपमालक्षणं तु सकलसाधारणम्। चतुर्थः प्रभेदस्तु येषां मते नाक्षेपस्तेषामस्तु नाम प्रतीपालंकारः । पञ्चमस्य तु गतिरुक्त्तैव प्रभेदस्य । इति रसगङ्गाधरे प्रतीपप्रकरणम्।
अथ प्रौढोक्ति :- कस्मिश्चिदर्थे किंचिद्धर्मकृतातिशयप्रतिपिपादयिपया प्रसिद्धत- द्वर्मवता संसर्गस्योन्भावनं प्रौढोक्ति: ।। संसर्गश्च सन्नसन्वा साक्षात्परम्परया वा। तत्सुवर्णम्। अकुप्तेतिन्यायेनाह-प्रतीपेति। लक्षणाभावादिति। चिन्लमि- दम्। तिरस्कारफलकोपमानापकर्षवोधानुकूलव्यापारस्य प्रतीपसामान्यलक्षणत्वसंभवात्। स च वाच्यो व्यक्यो वेत्यन्यत् ॥ इति रसगद्गाधरमर्मप्रकाशे प्रतीपप्रकरणम् ।।
Page 513
४९८ काव्यमाला।
'वल्मीकोदरसंभूतकपिकच्छूसहोदराः। हा पीडयित्वा निन्नन्ति सज्जनान्दुष्टदृष्टयः ॥' अत्र कपिकच्छूसहोदरत्वेन मारकत्वं न प्रामोति, अपि तु पीडाजन- कत्वमात्रम्। कवेस्तु पीडां जनयित्वा मारयन्तीत्येवंरूपोऽतिशयो विव- क्षितः । अतो वल्मीकोदरसंभूतत्वं सर्पाधिकरणवृत्तितारूपं कपिकच्छू- विशेषणं मारकतावच्छेदकत्वेन सवप्रतिभया कविना कल्पितम्। यथा वा- 'मन्थाचलभ्रमणवेगवशंवदा ये दग्धाम्बुधेरुदपतन्नणवः सुधायाः । तैरेकतामुपगतैर्विविधौषधीभि- धाता ससर्ज तव देव दयादृगन्तान् ।।' अत्र दृगन्तेपु न केवलं संजीवकत्वादयोऽमृतमात्रगुणा एव कवेर्वु- वोधयिषिताः, अपि तु निखिलजनवशीकारकत्वादयोऽन्येऽपीति सुघाक- णेप्वौषधीसंसगो विशेषणतयातिशयार्थमुपात्तः । उत्पाद्योत्पादकभावश्चात्र न लोकसिद्धः, अपि तु कविमात्रनिबद्धः। यथा वा- 'त्वदङ्गणसमुद्धूता सिक्ता कुङ्कमवारिभिः। त्वदङ्तुलनां याति कदाचिल्लवलीलता ।।' अत्र केवलाया लवल्या उपमानताभरसहनसामर्थ्यस्याभावात्तस्य सि- द्धये नायिकासामानाधिकरण्यकुङ्कमजलसंयोगयोरुपादानम् । अत्र च धर्मिविशेषसंसर्गादतिशयो धर्म्यन्तरगतो यद्यागूरणविषयस्तदैवायमलं- कारः । वाच्यवृत्त्या तत्तत्प्रयुक्तत्वेनाभिहितश्चेत्समालंकारस्यैव विषयः । यथा- 'त्वत्तो जन्म हिमांशुशेखरतनुज्योत्सानिमग्नात्मनो दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम्। संवासः सुरलोकसिन्धुपुलिने वाद: सुधांशोः करैः कस्मान्नोज्ज्वलिमानमञ्चतितमां देव त्वदीयं यशः ॥'
प्राग्वदाह-अथेति। कपिकच्छूर्वृक्षिकः। लवली 'रायआंवळे' 'हरफारेवडी'
Page 514
रसगक्गाघरः । ४९९ अत्र यशसो धवलतातिशयस्तत्तद्धमिसंबन्धप्रयुक्तत्वेन कथित इति तदंशे सम एवालंकारः अंशुकृतश्चन्द्रे चन्द्रकृतश्च भगवति भगवत्कृतो राजनीत्येवमुत्तरोत्तरमुपचीयमानः । राजगतस्त्वनुक्तत्वात्परौढोक्तेरेव ् वि - षयः । एवं च 'शशशृङ्गधनुर्लसत्करा गगनाम्भोरुहमालिकाधराः । तनयैः सह भाविजन्मनां तव खेलन्ति नरेन्द्र वैरिण: ।।' इत्यादावेकस्य मिथ्यात्वसिद्धर्थ मिथ्याभूतवस्त्वन्तरकल्पनं मिथ्या- ध्यवसित्यार्यमलंकारान्तरमिति न वक्तव्यम्। प्रौढोक्त्यैव गतार्थत्वात् । 'केशा: कलिन्दजातीरतमालस्तोममेचकाः' इत्यादौ प्राचीनकृतप्रौढोक्त्यु- दाहरणे यथा तमालेपु श्यामत्वातिशयार्थ श्यामत्वाधिकरणीभूतकालि- न्दीसंबन्ध उद्भाव्यते, तथा वैरिष्वपि मिथ्यात्वसिद्धये मिथ्यात्वाधिकरण- शशशृङ्गादिसंबन्ध इत्यस्यापि सुवचत्वात्। तत्र श्यामत्वातिशयः इह तु मिथ्यात्वमात्रं न तु तस्यातिशयः सिद्धतीति वैलक्षण्यं तु न वाच्यम्। तमालस्तोमे प्रमाणान्तरेण सिद्धेऽपि श्यामत्वे कालिन्दीसंसर्गोद्भावनं पुनः श्यामत्वसाधनेनातिशयागूरकमेव स्यात्। वैरिपु तु मिथ्यात्वस्यासिद्धत्वा- र्वैलक्षण्यं न प्रयोजयति । यत्तु 'वेश्यां वशयेत्खस्रजं वहन्' इति कुवल. यानन्दकृता मिथ्याध्यवसितेरुदाहरणं निर्मितं तत्तु निदर्शनयैव गतार्थम् । निदर्शनागर्भात्र मिथ्याध्यवसितिरिति तुन युक्तम्। मिथ्याध्यवसितेरेव मिथ्यात्वात्। यदि च मिथ्याध्यवसितिरेवालंकारान्तरं स्यात्, सत्याध्यव- सितिरपि तथा स्यात्। यथा- 'हरिश्चन्द्रेण संज्ञप्ताः प्रगीता धर्मसूनुना । खेलन्ति निगमोत्सङ्गे मातर्गङगे गुणास्तव ।।' अत्र हरिश्चन्द्रयुधिष्ठिरनिगमसंवन्धाद्गुणानां सत्यत्वं प्रतीयते। एवम् 'मध्ये सुधासमुद्रस्य सितामयगृहोदरे। पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्त्तयः ।।' इति प्रसिद्धा। आगूरणं व्यञ्जनम्। शहते-तत्रेति। तमालेति। यत इत्यादिः। शहुते-निदरशनति। अत्र वेश्यामित्यत्र। युक्त्यन्तरमप्याह-यदि चेति। धर्म-
Page 515
५०० काव्यमाला।
अत्रापि सुधासमुद्रादिसंबन्धादुक्तिपु माधुर्यातिशयः प्रतीयमानः क- स्यालंकारस्य गोचरः स्यात् । अतोऽलंकारान्तरं स्यात्। मम तु प्रौढो- क्त्यैव गतार्थतेत्यास्तां तावत्। इति रसगद्गाधरे प्रौढोक्तिप्रकरणम्।
अथ ललितम्- प्रकृतधर्मिणि प्रकृतव्यवहारानुल्लेखेन निरूप्यमाणोऽप्रकृतव्य- वहारसंबन्धो ललितालंकारः ।। 'आददान: परद्रव्यं विषं भक्षयसि ध्रुवम्' इत्यादिनिदर्शनावारणाय तृतीयान्तम्। अप्रस्तुतप्रशंसावारणाय प्रकृतधर्मिणीति। यथा- 'क वा रामः कामप्रतिभटललाटंतपबल- स्तव क्वामी वीरा रणशिरसि धीरा मखभुजाम्। दिधक्षोस्त्रैलोक्यं प्रलयशिखिनः पद्ममथन- प्रगल्भैः प्रालेयैः प्रशममसि कर्तु व्यवसितः ॥' अत्र प्रकृते धर्मिणि रावणे परदत्तपुरोडाशादिकमश्नतां देवानामग्रे धीरै: कुम्भकर्णादिभिवीरैर्भगवतो रामस्य पराभवमिच्छन्नित्येवं कण्ठरवेण तादृशेच्छारूपं प्रकृतव्यवहारं विषयमनुक्त्वैव तादृश प्रालेयकरणक- तादृशाझिप्रशमनव्यवसायरूपोऽप्रकृतव्यवहारो विषययुपात्तः । विषयो- पादाने तु निदर्शनैव। यथा वा- 'नान्यास्ति किं भूमितले सुरूपा सीतैव वा कि भवतोऽनुरूपा। आकर्षता चन्दनशाखिशाखां प्रवोधितोऽयं भवता फणीन्द्रः ।।' अत्रापि राघवसंबन्धिनायिकाहरणप्रयुक्ततं तदीयक्ोघोद्दोधमनुक्त्वैव चन्दनसंबन्धिशाखाकर्षणप्रयुक्तं फणीन्द्रप्रबोधनमुपन्यस्तम्। न चात्र भेदेऽप्यभेद इत्यतिशयोक्त्या गतार्थतेति वाच्यम्। तत्र हि पदार्थेन सूनुर्युधिष्ठिरः। आस्तां तावदिति । चिन्त्यमिदम् । मिथ्यात्वकल्पनकृतचमत्कार- स्यापह्ववनीयत्वेन पृथगलंकारतासिद्वे: । किं च कविप्रतिभामात्रकल्पिता अर्थाः का- व्येऽलंकारपदभाज इति तव सिद्धान्तात्सत्यत्वप्रतीत्यर्थे कल्पितस्याप्यर्थस्य तत्कल्पित- त्वाभावेन शब्दमात्रादलंकारत्वासंभवादिति दिक्॥ इति रसगञ्ञाधरमर्मप्रकाशे प्रौढो- किप्रकरणम् ।
Page 516
रसगङ्गाघरः । ५०१ पदार्थस्यैवाभेदाध्यवसानं 'कनकलतायां विराजते चन्द्रः' इत्यादौ दृष्टम्, न तु व्यवहारेण व्यवहारस्येत्यविषय एवायमतिशयोक्तेः । नापि साद- श्यमूलयाप्रस्तुतप्रशंसया। धर्म्यशेऽप्रस्तुतत्वविरहात्। नापि निदर्शनया। एकघर्मिगतव्यवहारद्वयोपादान एव तस्या इष्टेः । अत एव 'उपात्तयोः' इति तल्लक्षणे विशेषणमुक्तम्। प्रकृते च प्रकृतव्यवहारस्यानुपात्तत्वा- दलंकारान्तरमेव। एवं च 'क सूर्यप्रभवो वंशः क् चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुड्डुपेनास्मि सागरम् ।।' इत्यत्र काव्यप्रकाशकारो यन्निदर्शनामुदाहार्षीत्तदसंगतमेव। ललितस्या- वश्याभ्युपगम्यत्वान्निदर्शनाया अत्राप्राप्तेश्र । तदित्थं ललितस्यालंका- रान्तरत्वमुरीकुर्वतामाशयः । अन्ये तु "ललितं नालंकारान्तरम्। निदर्शनयैव गतार्थत्वात्। नन्वे- कधर्मिगतप्रस्तुताप्रस्तुतव्यवहारद्वयोपादानजीविता निदर्शना कथमप्र- स्तुतव्यवहारमात्रोपादाने पदमाधत्तामिति चेत्, श्रूयतामायुष्मता। इह तावदलंकाराः प्रायशः श्रौता आर्थाश्र संभवन्ति। तत्र श्रौतेभ्य आर्था न पृथगलंकारत्वेन गण्यन्ते। किं तु पृथग्मेदत्वेन। तदलंकारसामान्य- लक्षणेन कोडीकरणात्। इदं पुनर्वाक्यार्थनिदर्शनासरूपम्-व्यवहार- द्वयवद्धर्म्यभेदप्रतिपादनाक्षिप्तो व्यवहारद्वयाभेदः । तत्र व्यवहारद्वय- वद्धर्म्यभेदस्य प्रतिपादनं श्रौतमेवापेक्षितमिति न नियमः । कितु प्रति- पादनमात्रम्। तेन 'परद्रव्यं हरन्मर्त्यो गिलति क्ष्वेडसंचयम्' इत्यत्र व्यवहारद्वयवद्धर्मिणोरभेदस्य श्रुत्या प्रतिपादन इव 'धिक्परखं तथाप्येष गिलति क्ष्वेडसंचयम्' इत्यत्रार्थप्रकृतव्यवहारवद्धर्मिश्रौताप्रकृतव्यव- हारवद्धर्मिणोरार्थाभेदस्य प्रतिपादनेऽपि वाक्यार्थनिदर्शनात्वमक्षतम्। एकत्र श्रौतीत्वमपरत्रार्थीत्वमिति तु विशेषो न वार्यते। पदार्थनिदर्शना- स्वरूपं तूपमानोपमेयधर्मयोरभेदाध्यवसायमूल उपमेय उपमानधर्मसंबन्ध इति पृथगेव । एतदुभयान्यतरत्वं च प्राचीनरीत्या सामान्यलक्षणम्। प्राग्वदाह-अथेति। प्रशंसया गतार्थता इत्यस्यानुपङ्गः। एवमग्रेऽपि। एवं चेत्य- स्यार्थ स्पष्टयति-ललितेति। पदं स्थानम्। पुनस्त्वर्थे। ललितमेवेति। न तुर(?) रस० ४५
Page 517
५०२ काव्यमाला। यदि तु ललितं पृथगलंकारः स्यात् लुप्तोपमादिरप्युपमादेः पृथक्स्यात्। त्वदुक्तयुक्तेस्तुल्यत्वात्। नन्वतिशयोक्तिरेवं सति रूपक एव विलीयेत । विषयविषयिणोर्द्वयोरप्युपादाने श्रौतं रूपकम्, विषयमात्रोपादाने त्वार्थ- मित्यस्यापि सुवचत्वात् । सत्यम्। यत्र ह्यलंकारशरीरमुभयत्राप्यविल- क्षणं तत्रैकालंकारव्यपदेशो युक्तः। यथासादृश्यं निप्पाद्यमानमुपमाश- रीरं लुप्तोपमादिप्वविलक्षणमेवेति तत्राप्युपमयैव व्यपदेशो न्याय्यः, ना- लंकारान्तरेण। लुप्तत्वपूर्णत्वादिस्तु न तच्छरीरनिविष्ट इति स्वयं व्याव- र्तमानोऽपि नोपमात्वव्यावर्तकः तथान्यत्रापीति स्थितिः। एवं च विषय- तावच्छेदकरूपेण भाते विषये विषयितावच्छेदकावच्छिन्नाभेदस्य रूप-
रूपाद्विलक्षणत्वेन द्वयोरेकालंकारत्वं न युक्तम्। निदर्शनाललितयोस्तु स्वरूपावैलक्षण्यं प्रदर्शितमित्येकालंकारत्वमेव" इत्याहुः । 'आहार्यनिश्चयविषयीभूतो विषये विषय्यभेदो रूपकस्वरूपमुच्यते। न निवेश्यते च विषयतावच्छेदकादिगौरवात्। एवं चातिशयोक्तेर्निगी- र्याध्यवसानरूपाया रूपकभेदत्वमस्तु नाम । का नो हानिः । एवमप- ह्रुतेरपि। विषयतावच्छेदकनिह्ृवानिह्ववनिगरणानि रूपकस्यैवावान्तरवि- शेषाः' इति तु नव्याः । एतन्मतरीत्या तु ललितस्य निदर्शनातः पृथ- गलंकारत्वं मनोरथललितमेवेति। एवं च 'तितीर्षुर्दुस्तरं मोहादुड्डपेनास्मि सागरम्' इत्यत्र निदर्शना साधु संगच्छते। क सूर्येत्यादिना खमतिसूर्य-
प्रकृतायाः कथनेन तादृशमतिकरणकवर्णनेच्छायाः प्रक्ृतायाः प्रतिपत्तेः । यत्तु-"अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य" इति पद्ये कतमो देशस्त्वया परित्यक्त इति प्रस्तुतार्थमनुपन्यस्य वसन्तमु- क्तस्य वनस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासाल्ललितालं- कारः" इति कुवलयानन्दकार आह। तदत्यन्तमसंगतम्। अत्र कथ- मन्यस्य दशामन्यो नेतुं शक्य इति वसन्तमुक्तवनदशां निःश्रीकत्वलक्ष- णामनायीति हि पर्यवसन्नोऽर्थः । तत्र निःश्रीकत्वरूपकार्यद्वारा का-
Page 518
रसगङ्गाघरः । ५०३
रणस्य राजकर्तृकत्यागकर्मत्वस्याभिधानं पर्यायोक्तेर्विषयः । दशयोरेक- त्वाध्यवसानं तु पदार्थनिदर्शनाया अतिशयोक्तेर्वेत्यन्यदेतत्। एवं च प- दार्थनिदर्शनोपबृंहितस्य पर्यायोक्तस्यैवात्र विषयः, न ललितस्य। किंच तदुक्तं ललितालंकारलक्षणमपि नात्र संभवति। तच्च "प्रस्तुते वर्ण्यवा- क्यार्थप्रतिविम्बस्य वर्णनम्' प्रस्तुते धर्मिणि वर्णनीयं वाक्यार्थमवर्णयित्वा कस्यचिदप्रस्तुतस्य वाक्यार्थस्य वर्णनं ललितम्" इत्यादिना अ्न्थेन भ- वता विवेचितम्। इह च प्रस्तुते धर्मिणि देशविशेषे राजकर्तृकत्यागकर्म- त्वरूपस्य वर्ण्यस्यार्थस्यावर्णनेऽप्यप्रस्तुतस्य वसन्तकर्तृकत्यागकर्मत्वस्या- प्यवर्णना कथं संगच्छताम्। यदि पुनः 'अकारि देशः कतमस्त्वयाद्य निरस्तचन्द्रः कठिनाशयेन' इति पद्यं स्याचदा स्यादपि तव मनोरथः । न च तादृशवनदशाया अप्रस्तुताया देशविशेषे वर्णनमस्त्येवेति वाच्यम्। दशाशब्देन तद्दशासदृशस्य दशान्तरस्य लक्ष्यत्वेन तस्याप्रस्तुतत्वायो- गात्। अन्यथा पदार्थनिदर्शनोच्छेदापत्तेः । एवम् 'रामो विजयते यस्य क्षणात्सामर्पवीक्षणात्। दावाभिदग्धकान्तारलीलां लङ्कापुरी दधौ ।।' इत्यादौ ललितस्यालंकारान्तरतामभ्युपगच्छतामपि मते न तस्य विषयः' किं तु निदर्शनायाः। अत एव 'उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् । वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ।।' इति प्राचां निदर्शनोदाहरणमपि संगच्छते। तव तु रश्मिरज्जुनियन्त्रि- तपार्श्वद्वयसंलमसूर्यचन्द्रोऽयं गिरिरित्येवं प्रकृतधर्म्यारूढतया प्रकृतार्था- नुपादानाल्ललितमेव स्यात्। प्रकृतव्यवहारस्य लेशतोऽप्यकीर्तने केवलं प्रकरणादिना गम्यत्वे ललितम् । अन्यथा निदर्शनेति चेत् 'क सूर्यप्रभवः' इत्यस्मात्कथं निदर्शना तर्हि निर्वासितेति सर्वमसमञ्जसमेव। इति रसगजाधरे ललितालंकारप्रकरणम्। संभावितमपीत्यर्थः। कथं निदर्शना तहि निर्वासितेति। वसन्तकर्तृ कत्वात्क- र्मत्वस्यावर्णनेऽपि तादृशवनदशारूपस्याप्रस्तुतस्यावर्णनात्। घटकतया तस्यापि वर्ण-
Page 519
५० काव्यमाला।
अथ प्रहर्षणम्- साक्षात्तदुद्देश्यकयत्नमन्तरेणाप्यभीष्टार्थलाभ: प्रहर्पणम् ॥ इदं च सामान्यलक्षणं त्रिविधप्रहर्षणसाधारणम्। तत्राकस्मादभी- प्सितार्थलाभ इत्येका विधा। वाञ्छितार्थसिद्धर्थ यले क्रियमाणे ततो- डप्यधिकतरार्थलाभ इत्यपरा। उपेयसिद्दर्थाद्यत्नात्साक्षात्फलस्य लाभ इति तृतीया। अस्यामेवाव्याप्तिनिरासार्थ लक्षणे साक्षादित्युक्तम्। क्र- मेणोदाहरणानि- 'तिरस्कृतो रोपवशात्परिप्वजन्प्रियो मृगाक्ष्याः शयितः पराङुखः । किं मूर्च्छितोऽसाविति कांदिशीकया कयाचिदाचुम्व्य चिराय सखजे ।।' अत्र यत्नसामान्यशून्यस्यापीष्टलाभः । 'केलीमन्दिरमागतस्य शनकैरालीरपास्येङ्गितैः सुप्तायाः सरुषः सरोरुहदृदशः संवीजनं कुर्वतः । जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममाधीयत ।' अत्र भामिन्या रोषनिवारणाय यले क्रियमाणे रोपनिवारणादप्यधि- कतरसुखप्रदः कामुकस्य भामिनीकर्तृकः सवकरकर्मकस्तत्कुचाधिकरणक आसङ्गः। न चात्र तृतीयभेदः शङ्क्यः । व्यजनवीजनसमये कामुकस्य माननिवारणस्यैव मुख्योद्देश्यत्वेन तदुपेयकुचस्पर्शादिफलान्तरस्यानुप- स्थितेः। यथा वा- 'लोभाद्वराटिकानां विक्रेतुं तक्रमानिशमटन्त्या। लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ।' अत्र प्रहर्षणद्वितीयभेदः स्फुट एव। अननुरूपसंबन्धमादाय विष- मालंकारश्च । तत्र महेन्द्रनीलमणिरित्यतिशयोक्त्यालीढयोर्विषयविषयि- ोरुभयोरपि प्रहर्षणेऽनुगुणत्वम् । वाञ्छिताधिकार्थत्वस्य मणिभगवदुभ-
नाच्च। निदर्शनायामुभयोरुपादानं नियतम्, अत्र तुनेति भेदः। अत एव क सूर्य इत्यादौ वाक्यार्थनिदर्शना वेति दिक्॥ इति रसगङ्गाधरमर्मप्रकाशे ललितालंकारप्रकरणम् ॥ प्राग्वदाह-अथेति । तत्र तयोर्मध्ये। यथासंख्येनाह-विधेति । मात्रस्यानु-
Page 520
रसगङ्गाधरः । ५०५
यसाधारणत्वात्। विषमे तु नीलमणिरूपस्य विषयिमात्रस्य। यतो वरा- टिकार्थिनो यथा महेन्द्रनीलमणेः कोटिमूत्यस्य संसर्गोऽननुरूपो न तथा भगवत्संसर्गो भवितुं प्रभवति। न चाज्ञानिनां भगवत्संसर्गोऽननुरूप एवे- ति वाच्यम्। एवं तर्हि तक्रविक्रयकर्तृत्वेनैवाज्ञानित्वलाभे वराटिकालोभ- रूपहेतूपन्यासस्यानतिप्रयोजनकत्वापत्तेः । यादृशवाञ्छितसिद्धर्थ यत्नः क्रियते तादृशवाञ्छितसिद्धौ तु समालंकार एव। 'तद्दर्शनोपायविमर्शनार्थ मया तदालीसदनं गतेन। तत्रैव सालक्ष्यत पक्ष्मलाक्षी दाक्षायणीमर्चयितुं प्रयाता ।।'
तद्दर्शनलाभः । यतु- 'चातकस्त्रिचतुरान्पयःकणान्याचते जलधरं पिपासया। सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥' इति पद्यम् 'वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम्' इति प्रहर्षण- द्वितीयप्रभेदं लक्षयित्वोदाहृतं कुवलयानन्दकृता। तदसत्। वाञ्छिताद- धिकार्थस्य संसिद्धिरिति लक्षणे संसिद्धिपदेन निप्पत्तिमात्रं न वक्तुं युक्तम्। सत्यामपि निप्पत्तौ वाञ्छितुस्तल्लाभकृतसंतोपानतिशये प्रहर्षण- शब्दयोगार्थासंगत्या तदलंकारत्वायोगात्। किं तु लाभेन कृतः संतोषा- तिशयः । एवं च प्रकृते चातकस्य त्रिचतुरकणमात्रार्थितया जलदकर्तृ- कजलकरणकविश्वपूरणेन हर्षाधिक्याभावात्प्हर्षणं कर्थंकारं पदमाधत्ताम्। वाञ्छितादधिकप्रदत्वेन दावुरुत्कर्षो भवंस्तु न वार्यते। अत एव हन्त हन्तेत्यादिनार्थान्तरन्यासेन स एव पोष्यते। लोभाद्वराटिकानामित्यस्म- दीये तूदाहरणे वाञ्छितुर्वा्छितार्थादधिकवस्तुलाभेन संतोषाधिक्या- चद्युक्तम् । इति रसगआाधरे प्रहर्षणप्रकरणम् । गुणत्वम् (?) । विमर्शनं विचारः सिद्धिर्वा। वाञ्छितादिति । यत इत्यादि पदं स्थानम्। चिन्त्यमिदम्। चातकवृत्तान्तस्याप्रस्तुतत्वात्तद्यत्यदातृयाचकवृत्तान्ते पर्यव- सानेन संतोषातिशयस्य दुर्वारत्वात्। इति रसगक्गाधरमर्मप्रकाशे प्रहर्षणप्रकरणम्।
Page 521
५०६ काव्यमाला।
अथ विषादनम् -- अभीष्टार्थविरुद्धलाभो विपादनम् ॥ अस्य चाभीष्टार्थलाभार्थ कारणप्रयोगो यत्र न कृतः केवलमिच्छैव कृता जातश्र विरुद्धार्थलाभः, स यत्र चेष्टार्थ प्रत्युक्तेऽपि कारणे तस्मान्न विरुद्धार्थलाभः, अपि तु स्वकारणवशात्स च विविक्तो विषयः । यत्र त्विष्टार्थ प्रयुक्तात्कारणादेव विरुद्धार्थलाभस्तत्र तादशकारणविरुद्धार्थयो- रुत्पाद कोत्पाद्यभा वलक्षणसंस र्गस्याननुरूपत्वाद्विषमयिष्यमाणविरुद्धार्थला- भसत्त्वाच्च विषादनमिति संकीर्णतैव। एवं चास्य विषमभेदैर्गतार्थतेति ना- शङ्कनीयम्। विषमरहितस्याप्येतद्विषयस्य दर्शयिष्यमाणत्वात्। यथा- 'स्वस्वव्यापृतिमन्नमानसतया मत्तो निवृत्ते जने चञ्चूकोटिनिराकृतार्गल इतो यास्याम्यहं पञ्जरात्। एवं कीरवरे मनोरथमयं पीयूषमास्वादय- त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः ।' अत्र हि विषमप्रभेदस्य नासिति विषयः । इष्टार्थ कारणप्रयोगाभावात्। इष्टार्थप्रयुक्तकारणेन सह विरुद्धार्थस्योत्पाद्योत्पादकभावलक्षणसंसर्गस्या- ननुरूपत्वं हि तच्छरीरम्। तस्माद्विषादनमेवाप्रस्तुतप्रशंसाघटकतयाव- स्थितम्। 'चेलाञ्वेाींंृ्तीनां रिदृ श्वरीणाम् । गोपाङ्गनानां स्मरजातकम्पादकाण्डसंपातमियाय नीवी ।।' अत्रेष्टस्याननगोपनस्य विरुद्धोऽर्थो नीविस्खलनम्। कारणीभूतत्रपा- संघातपरिपन्थित्वात् । तच्च सात्त्विककम्परूपात्सकारणादेवोत्पन्नम्, न तु गोपनानुकूलयलात्। नापीष्टसाधनत्वेन प्रयुक्तात्कारणादिष्टानुत्पचि- रत्रास्ति। चेलाञ्चलावरणेनाननगोपनरूपस्येष्टस्योत्पत्ेः। अतो विषाद- नमेवात्र, न विषमम् ।
प्राग्वदाह-अथेति । अस्य चेत्यस्य विषय इत्यत्रान्वयः। वारणकरो गजशुण्डा- दण्डः । एकस्य विषादनस्य ॥ इति रसगज्ञाधरमर्मप्रकाशे विषादनप्रकरणम्।
Page 522
रसग्गाधरः । ५०७
अत्रेदं बोध्यम्-इष्टसाधनत्वेन निश्चितादनिष्टोत्पत्तिभिरिति यो वि- घमस्य भेद: प्राक्प्रत्यपादि सोऽनेन विषादनेन अ्रस्तत्वादस्यैव प्रभेदो भवितुमीष्टे, न तु शेषमस्येति कश्चिद्यदि त्रूयात्स प्रष्टव्यः-न विपम- स्येति यदुक्तं तत्कस्य हेतोः । विपादनेनेव विषमेणापि कार्यकारणसं- सर्गाननुरूपतालक्षणेन अस्तत्वात्। न चात्रैकस्यान्यापवादकत्वं युक्तम्। द्वयोरपि सावकाशत्वात्। भिन्नविषयत्वाच्च। विरुद्धलाभांशो विषादनस्य, विरुद्धलाभेष्टार्थप्रयुक्तकारणयोः संसर्गाननुरूपतांशश्च विषमस्य विषय इत्यवोचाम। तस्मात्तत्र किचिदंशे विषमम्, किंचिंदंशे विपादनमित्युभ- योरपि समावेशो बोध्यः । इति रसगङ्गाधरे विषादनप्रकरणम्। अथोल्लास :- अन्यदीयगुणदोषप्रयुक्तमन्यस्य गुणदोषयोराधानमुल्लासः ॥ तच्च गुणेन गुणस्य, दोषस्य वा, दोषेण गुणस्य, दोषस्य वेति चतुर्घा। आधानं च तद्वत्ताबुद्धिः । क्रमेणोदाहरणानि- 'अलभ्यं सौरभ्यं हरति सततं यः सुमनसां क्षणादेव प्राणानपि विरहशस्त्रक्षतहदाम्। त्वदीयानां लीलाचलितलहरीणां व्यतिकरा- त्पुनिते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ।।' अत्र लहरीणां पावनत्वातिशयेन पवमानस्य पावनत्वगुणान्तरं व- र्णितम् । 'विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं न याभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यक्कारो जननि मनुजस्य श्रवणयो- र्ययोर्नान्तर्यातस्तव लहरिलीलाकलकल: ।।' अत्र श्रीभागीरथीरमणीयत्वगुणेन तद्रूपशव्दविमुखयोर्नयनयोः श्रवण- योक्ष नैप्फल्यधिकाररूपौ दोपौ। यथा वा- प्राग्वदाह-अथेति। व्यतिकरः संवन्धः। पवमानो वायुः। न्यक्कारो धिक्कारः।
Page 523
५०८ काव्यमाला।
'हिंसाप्रघानैः खलु यातुधानैर्यानीयतापावनतां सदैव। रामाङ्गियोगादथ सापि वन्या विन्ध्यस्य घन्यास्त मुनेः सतीव ।I' अत्र दोषेण दोष: पूर्वार्धे, द्वितीयार्घे तु गुणेन गुण इति विशेषः । यथा वा- 'भूषितानि हरेर्भक्तैर्दूपितानि पराङुखैः। स्वकुलं नगरं देशो द्वीपं सर्वा च मेदिनी॥' अत्रोत्तरोत्तरव्यापकतया तथेति विशेषः । 'श्वपाकानां व्रातैरमितविचिकित्साविचलितै- र्विमुक्तानामेकं किल सदनमेनःपरिषदाम्। मुदा मामुद्धर्तु जननि घटयन्त्या: परिकरं तव क्लाघां कर्तु कथमिव समर्थो नरपशुः ।।' अत्र वक्तृगतपापरूपदोषप्रयुक्तस्तदुद्धर्र्याः श्रीगङ्गायाः श्राध्यत्वं गुणः । यथा वा- 'शववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनं कुतर्केप्वभ्यासः सततपरपैशुन्यमननम्। अपि श्रावंश्रावं मम तु पुनरेवंविधगुणा- नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ।।' इहापि प्राग्वदेव । किं तु व्यन््यः स इति विशेषः । 'काव्यलिङ्गेन गतार्थोऽयम् । नालंकारान्तरत्वभूमिमारोहति' इत्येके। 'लौकिकार्थमय- त्वादनलंकार एव' इत्यपरे। इति रसगङ्गाधर उल्लासप्रकरणम् ।
अथावज्ञा- तद्विपर्ययोऽवज्ञा।
वन्या वनसमूहः । मुनेरिति। गौतमस्याहल्येवेत्यर्थः । श्वपाकाश्चण्डालाः । परिकरं कटिबन्धनम्। श्रवृत्तिः सेवा । त्वत् त्वाम् । भूमि स्थानम् ॥ इति रसगङ्गाधरमर्मप्र- काश उल्लासप्रकरणम् ॥
Page 524
रसगङ्गाघरः । ५०९
तस्योल्लासस्य विपर्ययोऽभावः । अन्यस्यान्यदीयगुणदोषप्रयुक्तगुण- दोषाधानाभाव इति पर्यवसितोऽर्थः । यथा- 'निष्णातोऽपि च वेदान्ते वैराग्यं नैति दुर्जनः । चिर्र जलनिधौ मझनो मैनाक इव मार्दवम्।' अत्र पूर्वार्धे प्रपश्चानित्यत्वबोधकतारूपवेदान्तशास्त्रगुणप्रयुक्तस्य खले वैराग्यरूपगुणाघानस्य, उत्तरार्धे द्रवत्वरूपजलनिधिगुणप्रयुक्तस्य मैनाके मार्दवरूपगुणाधानस्य च विपर्ययो वर्णितः । 'मध्येगलं विहरतां गरलं निकामं नागाघिपः शिरसि भालतले हुताशः । ध्याता भवज्वलनमध्यगतैस्तथापि तापं तदैव हरते हर ते तनुश्रीः॥' अत्र तापकतारूपगरलादिदोषप्रयुक्तस्य भगवन्मूर्तो क्रूरत्वादिदोषा- धानस्याभावः । न चात्रातद्गुणो वक्ष्यमाणोडलंकार इति वाच्यम्। यतो यमुनाजलस्थराजहंसादेर्यथा यमुनाजलगतश्यामत्वाग्रहणं न तथा भगवन्मू- तैेर्गरलादिगतकूरत्वाग्रहणं विवक्षितम् । अपि तु तादृशकूरत्वप्रयुक्तस्य क्रूरत्वान्तरस्यानाविष्करणमित्यस्ति विशेषः । 'निष्णातोऽपि- इत्यादौ 'मद्वाणि मा कुरु विषादमनादरेण मात्सर्यमन्दमनसां सहसा खलानाम्।
मास्येपु यास्यसि सतां विपुलं विलासम् ।।' अत्र पूर्वार्घेऽनादररूपखलदोषप्रयुक्तस्य कविवाण्यां विषादरूपदो- षस्य निषिध्यमानत्वादप्रतिष्ठनेनाभावः शाब्दः वाणीगतरमणीयतारू- पगुणप्रयुक्तस्य खले संतोषरूपगुणाधानस्याभावः पुनरार्थ इत्युभयविधा- प्यवज्ञा। उत्तरार्धे तु सहृदयगुणेन सरसतारूपेण वाण्या उल्लासरूप- प्राग्वदाह-अथेति। विहरतामित्यस्याग्रेऽपि यथायथमनुपङ्गः। भवेति। संसा- रामिदग्धैरित्यर्थः। पुनस्तवर्थे ॥ इति रसगज्ञाधरमर्मप्रकाशेऽवज्ञा प्रकरणम् ॥
Page 525
५१० काव्यमाला।
गुणाधानमित्युल्लास एव। विशेषोक्त्यैव गतार्थत्वादवज्ञा नालंकारान्तर- मित्यपि वदन्ति ।
[अथानुज्ञा-]
प्रार्थनमनुज्ञा॥ उत्कटगुणविशेपलालसया दोपत्वेन प्रसिद्धस्यापि वस्तुनः
यथा- 'प्रणिपत्य विधे भवन्तमद्धा विनिबद्धाञ्जलिरेकमेव याचे। जनुरस्तु कुले कृषीवलानामपि गोविन्दपदारविन्दभाजाम् ।' अत्र हरिभक्तिलालसया कृषीवलकुलजन्मनः प्रार्थनम्। [इति रसगन्गाधरेऽनुज्ञाप्रकरणम् ।] [अथ तिरस्कार :- ] एवम्- दोपविशेषानुवन्धाङ्गुणत्वेन प्रसिद्धस्यापि द्वेषस्तिरस्कारः ॥ यथा- 'श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटा-
निमम्नानां यासु द्रविणरसपर्याकुलह्ृदां सपर्यासौकर्य हरिचरणयोरस्तमयते॥' अत्र हरिचरणभजनच्युतिभयाद्राज्यसुखस्य तिरस्कारः । अमुं च तिरस्कारमलक्षयित्वानुज्ञां लक्षयतः कुवलयानन्दकृतो विस्म- रणमेव शरणम्। अन्यथा 'भवद्भवनदेहली-' इति तदुदाहृतपदे 'कि- मित्यमरसंपदां' इत्यंशे तिरस्कारस्य स्फुरणानापतेः । ननु कथमनयोरलं- कारयोः संभवः। यावता प्रार्थनमिच्छा तिरस्कारश्र द्वेषः । तत्र दोषे इष्टसाधनताज्ञानरूपकारणाभावादिच्छा न युक्ता। गुणे च द्विष्टसाधनता-
प्राग्वदाह-अथेति। अद्धेति स्फुटावधारणयोः । तत्त्वातिशययोरित्येके ॥ [इति रसगङ्गाधरमर्मप्रकाशेऽनुज्ञाप्रकरणम् ।]
Page 526
५११
ज्ञानाभावाद्देषोऽपि तथा। वैपरीत्यं तु कारणसत्त्वादुचितमितिचेत्, मैवम्। दोषगुणयोर्गुणदोषांशमादायेष्टद्विष्टसाधनताज्ञानयोः सत्त्वात्त्वदुक्तं कारणं तावदव्याहतम् । उत्कटद्विष्टाननुवन्धीष्टसाधनताज्ञानस्योपायेच्छां प्रति उत्कटेष्टाननुबन्धिद्विष्टसाधनताज्ञानस्य चोपायद्वेपं प्रति कारणत्वस्य वाच्य- त्वाद्वैपरीत्यमपि नोचितम्। अन्यथा सुखदुःखोभयसाधनेपु चान्द्रायणकलञ्ज- भक्षणादिषु हरीतकीदधित्रपुसभक्षणादिषु चेच्छाद्वेषयोरनियम एव स्यात्। अत्र च पुरुषकालप्रवेश आवश्यकः । उत्कटतत्पुरुषीयतात्कालिकद्विष्टाननु- वन्धितत्पुरुषीयतात्कालिकेच्छाविषयफलसाधन ताज्ञानं तत्पुरुषीयोपाये- च्छां प्रति कारणम्। एवमुत्कट तत्पुरुषीय तात्का लिकेष्टाननुबन्धितत्पुरुषीय- तात्कालिकद्वेषविषयफलसाधनताज्ञानं तत्पुरुषीयोपायद्वेषं प्रति। तेन पु- रुषान्तरीयं कालान्तरीयं च द्विष्टमिष्टमादाय न दोषः । इदं तु बोध्यम्- फले उत्कटेच्छया उपायेऽप्युत्कटेच्छैव जायते। एवं फले उत्कटद्वेषे- णोपायेऽपि द्वेष एव। एवं च सुखदुःखोभयसाधनेषु चान्द्रायणादिपु यदि खवसामग्रीवशात्प्रथमं सुखे उत्कटेच्छा तदा तत्साधनेषु चान्द्रायणा- दिप्वपि सैव। अथ स्वसामग्रीवशात्प्रथमं दुःखे उत्कटद्वेषस्तदा चान्द्रा- यणादिषु स एव । उत्कटसामग्रया वलवत्त्वकल्पनात्। उत्कटत्वं च प्रकृते इच्छाद्वेषगतो विषयिताविशेषः । एकसाघनजन्ये इष्टानिष्टरूपे फलद्ूये एककालावच्छेदेनैकत्रोत्कटेच्छा अपरत्रोत्कटद्वेपश्च न संभवति। तथा सति चान्द्रायणादिप्वेकस्मिन्नेव समये इच्छाद्वेपयोर्द्वयोरप्यापतेः । एवं च बलवदनिष्टाननुवन्धित्वं बलवदिष्टाननुवन्धित्वं चोपायेच्छाद्वेषयोः कारणतावच्छेदकेन देयमेवेत्याहुः । अन्ये तु फलेच्छाफलसाधनताज्ञानयो- द्योरुपायेच्छां प्रति, फलद्वेपफलसाधनताज्ञानयोरुपायद्वेषं प्रति च का- रणत्वम् । उत्कटसामत्रया बलवत्त्वाच्चेष्टानिष्टोभयसाधने न दोष इत्यपि वदन्ति। एवं चेष्टानिष्टोभयसाघने दोषे गुणे च गुणेन दोपेण च मि- तथा न युक्त्तः । शह्कते-वैपेति। दोषेति। यत इत्यादिः। यथासंख्यमत्र। दधि- युक्कं त्रपुसं 'फूट' इति प्रसिद्धम्। 'दवित्रपुसं प्रत्यक्षो ज्वरः' इति महाभाष्योक्तेः। अत्र चेति। उक्तकार्यकारणभावे पुरुषकालयोरित्यर्थः । प्रति कारणमित्यस्यानुपन्गः । इति रसगभाधरमर्मप्रकाशे तिरस्कारप्रकरणम् ॥
Page 527
५१२ काव्यमाला
श्रिते सहृदयानामिच्छाद्वेषयोरुचितैवोत्पत्तिः, हरीतकीकदलभक्षणयो- रिवेति। [इति रसगङ्गाधरे तिरस्कारप्रकरणम्।]
[अथ लेशः-] गुणस्यानिष्टसाधनतया दोपत्वेन, दोपस्येष्टसाधनतया गुणत्वेन च वर्णनं लेशः ।। यथा- 'अपि बत गुरुगर्वे मा स्म कस्तूरि यासी- रखिलपरिमलानां मौलिना सौरभेण। गिरिगहनगुहायां लीनमत्यन्तदीनं स्वजनकममुनैव प्राणहीनं करोषि ।' 'नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम्। शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनदुमाः ॥' पूर्वत्र गुणस्य दोषत्वेन वर्णनमात्रम्, उत्तरत्र तु दोषस्य गुणत्वेन वर्णनमर्थान्तरन्यासानुविद्धम्। 'स्खलन्ती खर्लोकादवनितलशोकापहृतये जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा। अये निर्लोभानामपि मनसि लोभं जनयतां गुणानामेवायं तव जननि दोषः परिणतः ॥' अत्र दोषोऽपराधः । तथा चापराधत्वेन गुणानां दोषत्वमुक्तं भवति। न चायमलंकारो व्याजस्तुत्या उभयरूपया गतार्थ इति शङ्कयम्। मुख- प्रतिपादितार्थवैपरीत्येनात्र सर्वत्र पर्यवसानाभावात्। नहि 'अपि वत गुरु- गवै' इत्यत्र कस्तूर्याः स्तुतौ कवेस्तात्पर्यम्, अपि तु जनकप्राणापहा- रित्वेन निन्दायामेव। अत एवाप्रस्तुतकस्तूरीवृत्तान्ताभिव्यक्ते प्रस्तुतवृत्ता- नतेऽपि तस्यामेव विश्रान्तिः । एवं 'नैर्गुण्यमेव साघीयः' इत्यत्र शाख्य- प्राग्वदाह-अथेति। उभयेति। सुतिनिन्दारूपयेत्यर्थः । मुखं प्रारम्भः । सा-
Page 528
रसगङ्गाघरः । ५१३ न्तराणां निन्दा न विवक्षिता, किं तु सुखावस्थानम्। गुणिनः स्वगुणैर्दुः- खितस्य वाक्येऽस्मिन्निर्गुणानां निन्दाया अवक्तव्यत्वात्, प्रत्युत सतुतेरेव वाच्यत्वात्। 'स्खलन्ती सवर्लोंकात्' इति पद्ये भागीरथीस्तुतिप्रकरणप- ठिते यद्यस्ति भागीरथीस्तुतौ तात्पर्ये तदा व्याजस्तुतिरप्यस्तु । तस्याः सावकाशत्वेनैत द्वाधकत्वायोगात्। 'रवितुरगदिग्गजेपु स्वर्णाचलजलघिधनदकोपेपु। सत्स्वेव राजपुंगव कि दातास्मीति गर्वमावहसि ॥' अत्र पर्यन्ते प्रतीयमानस्य रवितुरगादिपरिसंख्यातपदार्थातिरिक्तस- कलवस्तुदानरूपस्य गुणस्य दोषत्वेनावर्णनात्, तत्त्वेन वर्ण्यमानस्य च रहिता व्याजस्तुतिरिति स्फुटमेव सावकाशत्वम्। अत एव लेशोऽपि न व्याजस्तुतेर्बाधक इति प्रागुक्तजाहवीस्तुतौ द्वयोरपि समावेशः । इति रसगङ्गाधरे लेशप्रकरणम्।
[अथ तद्गुण :- ] स्वगुणत्यागपूर्वकं सवसंनिहितवस्त्वन्तर संबन्धिगुणग्रहणं तद्गुणः।। यथा- 'नीतो नासान्तिकं तन्व्या मालत्याः कुसुमोत्करः । वन्धूकभावमानिन्ये रागेणाधरवर्तिना ।।' यथा वा। 'अधरेण समागमाद्रदानामरुणिम्ना पिहितोऽपि शुद्धभावः। हसितेन सितेन पक्ष्मलाक्ष्या पुनरुल्लासमवाप जातपक्षः ।।' अत्रादये मालतीकुसुमोत्करस्याधररागरक्ततया बन्धूकभावोपपत्तेस्त- द्ुणः । द्वितीयेऽपि पूर्वार्धे स्पष्ट एव तद्रुणः । परं तूचरार्धगतेन प्रतिप्रस- वतुल्येन हासेनापोह्यमानत्वाद्गङ्गुरः । यदि तु हासेनाधरसितीकरणद्वारा वकाशत्वमेवाह-रवीति। अत एव भिन्नविषयत्वादेव ॥ इति रसग्गाधरमर्मप्रकाशे लेशप्रकरणम् ॥ रस० ४९
Page 529
५१४ काव्यमाला।
तदरुणिम्नो बाघस्तदा तत्राप्यपरस्तदुणः। इमं केचित्सर्वरूपमामनन्ति। यद्यप्युल्लासेऽप्यन्यदीयगुणेनान्यस्य गुणाघानमस्ति, तथापि तत्रान्यदीय- गुणप्रयुक्तं गुणान्तरं चूर्णादिक्षारताप्रयुक्तं हरिद्रादेः शोणत्वमिवाघीयते। प्रकृते तु जपाकुसुमलौहित्यं स्फटिक इवान्यदीयगुण एवान्यत्रेति ततो- डस्य भद: । इति रसगङ्गाधरे तद्रुणप्रकरणम्। अथातद्गुण :- तद्विपर्ययोऽतद्गुणः।। यथा- 'कुचाभ्यामालीढं सहजकठिनाभ्यामपि रमे न काठिन्यं धत्ते तव हृदयमत्यन्तमृदुलम्। मृगाङ्गानामन्तर्जननि निवसन्ती खलु चिरं न कस्तूरी दूरीभवति निजसौरभ्यविभवात् ।।' अत्र पूर्वार्धे परगुणाग्रहणं शाब्दम्, सगुणत्यागाभावस्त्वार्थः । उत्त- रार्धगते दृष्टान्ते तु खगुणत्यागाभावः शाब्दः, परगुणाग्रहणं त्वार्थम्। न चायमवज्ञाया नातिरिच्यते। उल्लासविपर्ययो ह्यवज्ञा। तद्रुणविपर्ययश्चा- तद्गुण इति प्रतियोगिभेदादेव भेदस्य सिद्धेः । 'अत्र गुणाग्राहकापेक्षया संनिहितस्य गुणवत उत्कृष्टत्वसमत्वाभ्यां द्वैविध्यम्' इति सर्वख्वकारः। तस्यायमाशय :- अपकृष्टसंबन्धिगुणाग्रहणस्य साहजिकत्वेन वैचित्र्याना- धायकत्वादनलंकारतैवेत्यपकृष्टत्वेन तृतीयविधा तु न संभवतीति। अन्ये तु-'अवान्तरचमत्कारविशेषस्याभावाद्वैविध्यमपि न' इति वदन्ति। अपरे तु-'सति गुणग्रहणहेतावुत्कृष्टगुणवस्तुसंनिधाने तद्गुणग्रहणरूपकार्याभा- वात्मकोऽयमतद्गुणो विशेषोक्तेरवान्तरभेदः, न त्वलंकारान्तरम्। कार्यका-
प्राग्वदाह-अथेति। सर्वरूपं तदाख्यम् । इति रसगज्गाधरमर्मप्रकाशे तद्रुणप्रक- रणम्। प्राग्वदाह-अथेति। उक्तसवरूपात्खरूपान्तरमाइ-सतीति। शङ्कते-का- येति। सतीत्वस्य यत इत्यादिः। स च विरोधथ । इति रसगन्नावरमर्मप्रकाशेऽतद्गु- णप्रकरणम्।
Page 530
रसगङ्गाधरः । ५१५ रणभावो नात्र विवक्षितः । कि तु संनिधानेऽपि तद्गुणग्रहणाभाव इत्येता- वन्मात्रम्। अतो विशेषोक्तेरतद्रुणो भिन्न इति तु न युक्तम्। संनिधाने- डपीत्यपिना विरोधोपि विवक्षित इति गम्यते। अन्यथा जीवातोरभा- वादलंकारतैव न स्यात्। स च कार्यकारणभावाविवक्षणेन भवतीति कथमुच्यते न विवक्षित इति' इत्यप्याहुः ।
अथ मीलितम्- स्फुटमुपलभ्यमानस्य कस्यचिद्वस्तुनो लिङ्गैरतिसाम्याद्भिन्नत्वे- नागृह्यमाणानां वस्त्वन्तरलिङ्गानां स्वकारणाननुमापकत्वं मीलितम्।। संग्रहश्च- 'भेदाग्रहेण लिङ्गानां लिङ्गैः प्रत्यक्षवस्तुनः । अप्रकाशो ह्यनध्यक्षवस्तुनस्तन्निमीलितम् ॥' सामान्यवारणाय अनध्यक्षेति। तत्राध्यक्षस्यैव वस्त्वन्तरस्याग्रहणम् । तद्गुणे वस्त्वन्तरगुणानां भिन्नत्वेनाग्रहणेऽपि वस्त्वन्तरस्य ग्हणमस्त्येवेति न तत्र प्रसङ्कः । उदाहरणम्- 'जलकुम्भमुम्भितरसं सपदि सरस्याः समानयन्त्यास्ते। तटकुञ्जगूढसुरतं भगवानेको मनोभवो वेद ॥।' अत्र सुरतगमकानां खेदकम्पनिःश्वासानां जलकुम्भानयनत्वराजनितै- स्तैभेदस्याग्रहात्सुरतस्याप्रकाशः । यथा वा- 'सरसिरुहोदरसुरभावधरितविम्बाघरे मृगाक्षि तव। वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥' अत्र प्रियेण ताम्बूलं कुतो न गृद्धासीत्युक्ते एतावन्तं समयं ताम्बूलानि भुक्त्वैव समागतास्मीत्युक्तवतीं प्रति तस्येयमुक्तिः । पूर्वोदाहरणे प्रत्यक्ष- वस्तुलिक्कान्यागन्तुकानि, अत्र तु साहजिकानीति विशेषः । इति रसगजाधरे मीलितालंकारप्रकरणम्। प्राग्वदाह-अथेति। लिम्ानामन्यदीयलिज्ञानाम् । इति रसगज्ञाधरमर्मप्रकाशे मीलितप्रकरणम् ।।
Page 531
५१६ काव्यमाला।
अथ सामान्यम्- अत्यक्षविषयस्यापि वस्तुनो वलवत्सजातीयग्रहणकृतं तद्भिन्नत्वे- नाग्रहणं सामान्यम् ।। मीलिते तु निगूद्यमानवस्तु न प्रत्यक्षविषय इति न तत्रातिव्याप्तिः । उदाहरणम्- 'यस्मिन्हिमानीनिकरावदाते चन्द्रांशुकैवल्यमिव प्रयाते। पुच्छाश्रयाभ्यां विकला इवाद्रौ चरन्ति राकासु चिरं चमर्यः ॥' अत्र चन्द्रिकान्तः पृथक्त्वेन हिमाचलचमरीपुच्छयोरदर्शनादुतप्रेक्षोत्प- त्तिरिति तस्यां सामान्यं गुणः । केचित्तु-"प्रागुक्तलक्षणे 'भिन्नत्वेनाग्रहणं' इत्यपहाय 'भिन्नजाती- यत्वेनाग्रहणं' इति वक्तव्यम् । तेन व्यक्तिभेदग्रहेऽपि सामान्यमेवालं- कारः। यथा- 'स्तबकभरैर्ललिताभिश्चलिताभिर्मारुतैर्नृप लताभिः । वृतमुपवनमेवासीदरिमहिलानां महावनं भवतः ।।' अत्र महावनमिति महावनकार्यस्य निलयनस्य संपादनात्। तच्च तासां प्रत्यक्षेण त्वदीयैर्भैटैर्लताभि: सह तत्तद्यक्तितया भिन्नत्वेन ग्रहेऽपि भिन्नजातीयत्वेनाग्रहणान्निष्पद्यते। पूर्वमते त्वत्रालंकारान्तरमभ्युपेयं स्यात्" इत्याहुः । ननु भेदाग्रह एव मीलितसामान्यतद्गुणसाधारण एकोऽलंकारोडस्तु। किमलंकारत्रयेण। मीलिते तावत्प्रकृताप्रकृतधर्मिगुणानां भेदाग्रह उप- पादित एव। सामान्ये केषांचिद्रुणगुणिभेदाग्रहः, केषांचित्कचिदयं क्चिज्जातिमात्रभेदाग्रहश्च । तद्रुणेऽपि रक्तगुणे रञ्जकगुणभेदाग्रहः । न चावान्तरभेदसत्त्वान्नैकालंकारत्वमुपपद्यत इति वाच्यम्। उप्ोपमादितः पूर्णोपमादेः पृथगलंकारतापत्तेः । तस्माद्भेदाग्रहस्य त्रयो मीलितादयो-
प्राग्वदाह-अथेति। निलयनं गोपनम्। तासां निलयनं च। विच्छितिश्रम-
Page 532
रसगङ्भाधरः । ५१७ डवान्तरभेदा इति युक्तम्, न तु पृथगलंकारा इति चेत्, उच्यते-एवं तर्ह्यभेदोऽप्येकोऽलंकारः । तदवान्तरभेदा रूपकपरिणामाद्यतिशयोक्तिप्र- मुखा इत्यपि शक्यते वक्तुम्। विच्छित्तिभेदस्तु प्रकृतेऽपि तुल्यः । यत्तु-"मीलितरीत्या भेदाग्रहे प्राप्ते केनचिद्धेतुना भेदज्ञाने सति मीलितप्रतिद्वन्द्वि उन्मीलितम् । सामान्यरीत्या जातिभेदाग्रहे प्राप्ते केनचिद्धेतुना सति वैजात्यग्रहे सामान्यप्रतिद्वन्द्वि विशेषकं चेत्यलंका- रद्यम्। यथा- 'हिमाद्रिं त्वद्यशोमृष्टं सुराः शीतेन जानते।' 'लक्षितान्युदिते चन्द्रे पझमानि च मुखानि च ।।" इति कुवलयानन्दकृदाह। तन्न। अनुमानालंकारेणैव गतार्थत्वादन- योरलंकारान्तरत्वायोगात्। न चात्र प्रत्यक्षसामग्रया बलवत्वेनानुमिते- रनुदयान्नानुमानालंकृतिः शक्यनिरूपणेति वाच्यम्। व्याप्तिविशिष्टप- क्षघर्मताज्ञानजन्यज्ञानस्यैवा नुमानालंकारलक्षणवाक्यगतेना नुमितिपदेन - हणात्। अत एव तत्रास्माभि: पक्षान्तरमुक्तम्। प्रकृते च विशेषदर्शन- हेतुकस्य प्रत्यक्षस्यैव तथात्वात्। नहि प्रमाणविभाजकानां नैयायिकाना- मिवालंकारिकाणामपि सरणिः । येन प्रत्यक्षत्वानालिङ्गितामनुमिति परि- भाषेमहि। न चैवंविधे विषये नानुमितिपदप्रयोगोऽभ्यर्हितानामिति वाच्यम्। तथाप्युन्मीलितादिवत्परिभाषाया अनिवारणात्। अस्तु वानुमि- तित्वजातियुक्तैवानुमितिः । तथापि प्रकृते प्रतिबन्धकवशात्तस्या अनुद- येऽपि तत्करणस्याप्रत्यूहृत्वेनानुमानत्वमव्याहतम्। नहि सत्यप्यग्नौ मणि- मन्त्रादिभि: प्रतिबद्धो दाहो न भवतीति दाहकरणमभिनेति वक्तुं शक्यम्। फलायोगव्यवच्छेदस्तु न करणतायाः प्रयोजकः, अपि तु व्यापार एवेति । एतेन 'विशेषदर्शनस्य कोट्यन्तरभानप्रतिबन्धकत्वेन चक्षुःसंयोगादिरूपस्वसामग्रीवशादेवोत्पन्ने तादृशप्रत्यक्षे हेतुतायां माना- त्कारः। गतार्थत्वादिति। चिन्त्यमिदम् । नैयायिकादिसंमतानुमितित्वजात्याक्रान्त- स्यैव निबन्धनेऽनुमानालंकारसीकारात्। प्रकृते च भेदविशेषस्कृर्त्योविशेषदर्नशहेतुप्रत्य- क्षरूपत्वात्तादृशप्रत्यक्षस्य चक्षुःसंयोगादिरूपसवसामग्रीवशादेवोत्पत्तेस्तत्र व्याप्तिविशिष्ट-
Page 533
५१८ काव्यमाला। भावात्पारिभाषिक्यप्यत्र नानुमितिः । अतस्तत्करणमनुमानं कथं नाम स्यात्' इति परास्तन् । यदप्युक्तम्-"तद्गुणरीत्यापि भेदानध्यवसायप्रा- पावुन्मीलितं दृश्यते। यथा- 'नृत्यद्धर्गाद्ृहासप्रसरसह चरैस्तावकीनैर्यशोभि- र्धावल्यं नीयमाने त्रिजगति परितः श्रीनृसिंहक्षितीन्द्र। नेदग्यद्येष नाभीकमलपरिमलः प्रौढिमासादयिष्य- द्देवानां नाभविष्यत्कथमपि कमलाकामुकस्य प्रबोधः ॥' इति। तदपि न। तद्गुणे हि गुणयोर्भेदानध्यवसायः, न तु वस्तुनोरिति निर्वि- वादम्। अत्र नाभीकमलपरिमलेन भगवत्त्वेन भगवज्ज्ञाने जातेऽपि तदी- यगुणे नीलिमनि यशोगुणधावल्यभेदानध्यवसायरूपस्य तद्रुणस्य निर्वा- धत्वात्कथंकारं तत्प्रतिद्वन्दिता उन्मीलितस्योच्यते। यदि चैकस्मिन्व- स्तुनि संनिहितवस्त्वन्तरगुणवद्ेदानध्यवसायस्तद्गुणजी वितमित्युच्यते तथाप्यत्र तद्गुणो निर्बाधः । भगवतः श्वेतभिन्नत्वेन ज्ञानस्योपायशून्यत्वे- नायोगात्। न च नीलत्वव्याप्यभगवत्त्वज्ञानमेवोपायः । प्राइनीलोऽपि कारणविशेषमहिन्ना संप्रति श्वेतो जात इति वुद्धेः प्रत्यक्षानुगृहीतायास्त- थाप्यनपायात् । अत एव त्वदुपजीव्येनालंकारसर्वस्वकृता उन्मीलन- विशेषकयोश्चर्चैव न कृता । अत एव प्राचीनैः कृतविभागेष्वलंकारेष्वि- दंप्रथमोत्प्रेक्षितस्य यावदलंकारस्य शक्योऽन्तर्भावः कर्तुम्। न तावत्पृ- थगलंकारत्ववाचोयुक्त्या विगलितशृङ्गलत्वमात्मनो नाटयितुं सांप्रतं मर्या- दावशंवदैरायैरिति। यत्तु- 'वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि। भृङ्गा: सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ॥'
पक्षधर्मताज्ञानजन्यत्वाभावाच्। वशंवदैरायैरिति। नह्त्र तद्रुणरीत्येत्यनेन तद्गुणो नास्तीत्युच्यते। किं तु तद्ीत्या देवान्तरेभ्यो विष्णोर्भेदानध्यवसायप्राप्तौ केनापि निमि- त्तेनाभेदाध्यवसाय इत्येतावन्मात्रमिति न कव्विद्दोषः । इति रसगन्गाधरमर्मप्रकाशे सामान्यालंकारप्रकरणम्।।
Page 534
रसगज्जाधरः । ५१९
इत्यत्र सामान्यमुदाहृत्य काव्यप्रकाशे 'निमित्तान्तरजनितापि नाना- त्वप्रतीतिः प्रथमप्रतिपन्नमभेदं न व्युदसितुमुत्सहते। प्रतीतस्य त्यागा- योगात्' इत्युक्तम्। अत्रोत्तरप्रतिपत्त्या तिरस्कृतत्वात्पूर्वप्रतीतेर्न चमत्का- रित्वम्, किं तूत्तरप्रतीतेरेवेति तयैव व्यपदेशो न्याय्यः । अन्यथा व्यति- रेकेऽप्युपमापत्तेः । विरोधाभासस्तु पूर्वोत्तरप्रतीतिद्वयात्मक इति भवति चमत्कारी। इति रसगन्गाधरे सामान्यालंकारप्रकरणम्। अथोत्तरालंकार :- प्रश्नप्रतिबन्धकज्ञानविषयीभूतोऽर्थ उत्तरम् ॥ प्रश्नश्च ज्ञीप्सा। भावे नडो विधानात्। सा ज्ञानविषयेच्छा। सा चोत्तरवाक्याद्विषयीभूते ज्ञाने जाते निवर्तते। ननु जिज्ञासा ज्ञानेष्टसाधनता- ज्ञानसाध्या। जाते हि ज्ञानेष्टसाघनताज्ञाने तद्रूपस्थैव विषयीभूतज्ञानस्य सिद्धत्वात्कथमुत्पत्तुमर्हतीति। मैवम्। 'किमेकं दैवतं लोके' इत्यादिप्रश्नवा- क्यादेकदैवतत्वव्याप्तधर्मप्रकारकं ज्ञानमिष्टसाधनमिति ज्ञानजन्या प्रयोक्तृग- ता तादृशं ज्ञानं मे जायतामितीच्छानुमीयते। सा च प्रष्टः कुतश्चिद्दैवत- त्वप्रकारकोपस्थितावेकसंबन्धिज्ञानाधीनायां दैवतत्वव्याप्यधर्मत्वेन रूपेण तादृशधर्मोपस्थितौ च सत्यां तस्यां गृहीतेन दैवतत्वव्याप्यधर्मप्रकारकज्ञान- त्वेन सामान्येन भाविन्युत्तरवाक्यजन्यज्ञाने इष्टसाघनताज्ञानादुत्पद्यते । तस्याश्च तादृशप्रकारकज्ञानत्वेन सामान्यरूपेण विष्णुर्दैवतमित्यादीनि ज्ञानान्येव दैवतत्वव्याप्यधर्मौशे निरवच्छिन्नप्रकारताभाञ्जि विषय इति तैरेवोत्तरवाक्यादुत्पन्नैः सा प्रतिवध्यते। जनकीभूतज्ञानं विषय एव तस्या न भवतीति न तत्सिद्धि: प्रतिवन्धिकेति न दोषः । तच्चोत्तरं द्विविधम्- उन्नीतप्रश्नम्, निबद्धप्रक्षं च। क्मेणोदाहरणानि- 'त्वमिव पथिकः प्रियो मे विटपिस्तोमेषु गमयति क्केशान्। किमितोऽन्यत्कुशलं मे संप्रति यत्पान्थ जीवामि ।।' प्राग्वदाह-अथेति। तादशेति। तथ्याप्येत्यर्थः । इतीति। व्यक्षयमित्यस्या-
Page 535
५२० काव्यमाला।
अत्र कस्यचित्पान्थस्य पुरंध्याः कंचित्पथिकान्तरं प्रत्युचरेण तत्क- र्तृक: कुशलप्रश्नोऽनुमीयते। कुशलमपृष्टायाः कुशलोक्तेरयोगात्। 'किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तैः। कथय तथापि मुदे मम कथयिप्यति याहि पान्थ तव जाया ॥' अत्राद्यप्रश्नस्य हेतुं चेद्वदसि तदा प्रतिकरिप्यामीति व्यङ्ञ्यम् । उत्तरस्य तुन मया पतित्रतया हेतुर्वक्तुं परपुरुषं प्रति योग्यः, न च त्वया प्रतिकर्तु शक्य इति । द्वितीयप्रश्नस्य त्वलं पातिव्रत्येनाविदग्ध- जनहठमात्रविलसितेन । सपरसंतोष एव संसारसार इति। द्वितीयोत्त- रस्य तु या मम दशा सैव तब जायाया अपि दशास्ति। सैव प्रतिक्रि- यताम्। नहि स्वकीयं सदनं दह्यमानमुपेक्ष्य कश्चित्परसदनाननिं प्रतिक- रोति। अथ यदि परोपकारः स्वकीयां क्षतिमपि सोद्ठा करणीय इत्यस्ति मनीषा तदा तवैवंविधोपकारे प्रवृत्तस्य जायायाः केनचिदन्येन भवाद- शेनोपकारः करणीय इति त्वयैव तस्या ममेव परपुरुषपराखमुख्या विरहो दूरीकर्तव्य इति। उन्नीतप्रश्ने सकृदुत्तरस्य चारुत्वम्, निबद्धप्रश्ने तु प्रश्नोत्तरयोरसकृ- दुपन्यासे तदिति प्राञ्चः । अयं चोत्तरालंकारो द्विविधोऽपि प्रश्नोत्तरयो- रन्यतरस्योभयोश्च साभिप्रायत्वेन निरभिप्रायत्वेन च चतुर्विध इत्यष्टधा । 'प्रियो हृदयवर्ती मे न मां मुञ्जति जातुचित्। उत्तरे नावकाशोडस्ति दूरतस्ते मनोरथः ॥' अत्र केनचित्पान्थेन कांचित्साध्वीं प्रति कुत्र तव प्रियोऽस्तीति कृतः प्रश्न उन्नीतः प्रियनैकट्ये तद्वश्चनेन तदनैकट्वे च स्वाच्छन्देनावयोर्वि- लासो मान्मथो भविष्यतीत्यभिप्रायगर्भितः । अन्यथा 'दूरतस्ते मनोरथः' इत्यस्यासंगत्यापचे: । उत्तरं तु स्फुटत्वात्तदगर्भितम्। 'सुवर्णस्य कृते तन्वि देशं देशमटाम्यहम्। तस्य दुष्प्रापताहेतोश्चिन्ताक्रान्तं मनो मम ॥' अत्र कस्य हेतोश्चिन्ताक्रान्तं ते मन इति कस्याश्चित्स्फुटार्थे ग्रामी-
Page 536
रसगङ्गाघरः । ५२१ णायाः प्रश्ने कस्यचिन्नागरिकस्योत्तरं रूपं यदि ददासि तदा मम चिन्ता गमिष्यतीत्यभिप्रायगर्भम्। 'रोगस्य ते चिकित्सां निदानमालोच्य सुन्दरि करिष्ये। मा हन्त कातरा भू रसक्रियायां नितान्तनिपुणोडस्मि ॥' अत्र 'नापृष्टः कस्यचिद्नयात्' इत्यादिनीत्या वैद्यकर्तृकप्रतिज्ञोन्नीतः प्रश्नो 'वैद्य, रोगस्य मे चिकित्सां करिव्यसि' इत्याकारो विदग्धनायि- कारूपाया वक्त्या वैशिष्यात्संभोगरूपेणाभिप्रायेण गर्मितः । उत्तरमपि तेनैवाभिप्रायेण गर्भितम् । प्रश्नोत्तरयोर्द्वयोरपि निरभिप्रायत्वे 'त्वमिव पथिकः' इति कथितमेवोदाहरणम्। एते ह्युन्नीतप्रश्नमेदाः । एवं निबद्ध- प्रश्नभेदा अप्युदाहार्याः । 'किमिति कृशासि' इति पद्यमपि चतुर्णो निवद्धप्रश्नमेदानामुदाहरणभावमर्हति वक्तृवैदग्ध्यावैदग्ध्यव्यवस्थयेति। अत्राहुः-अलंकारे ह्यस्मिन्प्रश्नोत्तरगतमसकृदुपनिबद्धत्वं जीवातुः । तथैव चमत्कारोदयात्। तेन सकृत्प्रश्नस्य सकृदुत्तरं नालंकारस्य भूमिः । न चोन्नीतप्रभोत्तरेऽव्याप्तिः । तन्नीतस्य प्रश्नस्यैकत्वादनुपनिबन्धाच्चो- त्तरस्याप्येकत्वादिति वाच्यम्। प्रश्नगतमुन्नीतत्वमत्रोत्तरेणाक्षिप्तत्वं न विवक्षितम्। कि तु प्रश्नोत्तरपरम्परायां प्राचीनोत्तरश्रवणजन्यत्वमात्रम् । यथा- 'श्यामं यज्ञोपवीतं तव किमिति मषीसंगमात्कुत्र जातः सोडयं शीतांशुकन्यापयसि कथमभूतज्जलं कज्जलाक्तम्। लक्षाक्षीणाश्रुधारासमुदितसरितां सर्वतः संगमेन ॥' अत्र 'कुत्र जातः' इत्यादिप्रश्नो 'मषीसंगमात्' इत्याद्युत्तरश्रवणादु- द्वत इत्युन्नीत उच्यते। आद्यप्रश्नस्त्वनुन्नीतोऽप्युत्तरोत्थापनार्थ निबद्ध इति। एवं चास्मिन्मते प्राग्दर्शितान्युन्नीतप्रश्नोदाहरणान्यनुदाहरणान्येव। नुषनः। एवमश्रेऽपि। कृते तसप्राध्यर्थम्। सुवर्णपदार्थमाह-रूपमिति। कात- रादीनां प्रश्नगतमिति। मत इत्यादि। आकूतमभिप्रायः । इति शिवम् ॥ १. 'नूरदीन' इत्यकब रसूनोर्जहांगीरशाहस्य नामान्तरम्.
Page 537
५२२ काव्यमाला। अलंकारस्यास्य द्वैविध्यमपि न प्रश्नस्योन्नीतत्वनिबद्धत्वाभ्याम्। किं तून्नीतत्वानुन्नीतत्वाभ्यां ज्ञेयम्। वस्तुतस्तु-प्रश्नोत्तरयोराकूतगर्भत्वे तावतैव चमत्कारान्नासकृदुपादानापेक्षा। आकूतविरहे त्वसकृदुपादान- कृतश्चमत्कारोऽपेक्ष्यते निवद्धप्रश्ने। आक्षिप्तप्रश्ने तु प्रश्नाक्षेपकृतं चम- त्कारं यदि मन्यन्ते सहृदयास्तदा सकृदुपादानेऽप्यलंकारत्वमस्तु । प्रका- रन्तरेणाप्यस्य भेदाः संभवन्ति। पद्यान्तरवर्तित्वेन पद्यबहिर्वर्तित्वेन पुनर्द्वैविध्यम् । पद्यान्तर्वर्तिपद्यबहिर्वर्तिनोर्द्वयोरप्युत्तरयोः सकृच्छब्द्श्रु- तिपर्यायत्वेन शब्दावृत्तिपर्यायत्वेनानेकेपां प्रश्नानामेकपदनिवेदितोत्तरत्वेन प्रकारान्तरैश्र बहुप्रभेदत्वम्। दिख्बात्रेणोदाहियते- कि कुर्वते दरिद्राः कासारवती धरा मनोज्ञतरा। को पावनस्त्रिलोक्यां .१ II'
१. एतावानेवायं अ्रन्थः समुपलभ्यते. टीकाप्येतावतो अ्रन्थस्यैव प्राप्यते.
Page 538
रसगङ्गाधरे प्रमापकाः ।
अप्पदीक्षितः १२, १२०, १४०, इत्यादि. पश्च लहर्य: १०९. अभिनवगुप्तपादाचार्या: २३, १०७,२६३, वादरायण चरणा: ११७, ४०१.
इत्यादि. भट्टनायक: २३. अलंकारभाष्यकार: २३९, ३६५. भरतमुनि: ४६. अलंकाररत्नाकर: १६३, १६५, २०२, भवभूति: १७५.
इत्यादि. भागवतम् ४५, ४५४. अलंकारसर्वखम् १६३, २००, २०८, भामहः ३७२, ४१४.
इत्यादि. मनोरमाकारा: ३६०. आख्यातवादशिरोमणिव्याख्यातारः १८७. मम्मटभट्टाः २३, ३०, ५४, इत्यादि. आनन्दवर्धनाचार्या: १०७, २४७, २६३. महाकविः (कालिदासः) १७२. आलंकारिका: १७५,२१७, ४२५, इत्यादि. महाभाष्यम् १५५, १७०. आलुवन्दारुस्तोत्रम् ३३६. मुरारि: ३३८. उत्तरमीमांसा ११७, ४०१. यमुनावर्णनम् १९, १२८. उन्ट: ३७२, ३८१, ३९३, इत्यादि. यास्क: ३४७.
औद्टा: ४०१, ४७८. योगवासिष्ठम् १०९.
करुणालहरी ३६. रत्नावली १०९.
कालिदास: २०१, २१५. रामायणम् १०९. काव्यप्रकाश: १३, १७, ३७, इत्यादि. लोचनकार: ४१३. काव्यप्रकाशटीकाकारा: ५७, १०४, १२३, वामन: ४३९, ४७८.
इत्यादि. विद्याधर: २५४. कुवलयानन्दः २२१,२२७, २२९, इत्यादि. विद्यानाथ: १६२. कैयटः १७०. विमर्शिनीकार: २०१,२२७,२५९, इत्यादि.
गीतगोविन्दम् ५२. वृत्तिवार्तिकम् १२०, १४०, १४१. गीता (महाभारते) ४३, ८७, ४८८. वेद: ४६५. चित्रमीमांसा १२, १६, १६१, इत्यादि. वेदान्तवाक्यम् ४०१. जयदेव: ५२. वैयाकरणा: १७२, १९१, ४२७, इत्यादि. ध्वनिकार: ६, १३, ११२, इत्यादि. व्यक्तिविवेककृत् १३- ध्वनिकारानुयायिन: ४१४. शार्ङ्देव: ४४.
ध्वन्यालोचनम् ४१८. श्रीवत्सलाञ्छन: ३९. नैय्यायिका: १९१, ४००,४२७, इत्यादि. संगीतरन्नाकर: (रन्नाकरः) ३०, ३१. नैषधीयम् ३३६. साहित्यदर्पणम् ७.
Page 540
रसगङ्गाधर उदाहृत श्लोकानां सूची।
अकरुण मृषाभाषा ८७ अपहाय सकल ३५ अर्ध दानववैरिणा ४२०
अकरुणहृदय ९०, २६६ अपारिजातां वसुधां ४४२ अलं हिमानी परि ३९२ अगण्यैरिन्द्रायैरिह ३४१ अपारे किल संसारे ३५१ अलका: फणिशाव ७०
अगाधं परितः पूर्ण २२४ अपारे संसारे विष २४८ अलंकर्तु कणौं भृश ३७७ अङ्डायमानमलिके १७२ अपि तुरगसमीपा २१८ अलभ्यं सौरभ्यं ५०७ अद्वितान्यक्षसंघा १५१,३०५ अपि बत गुरुगवं ५१२ अलिर्मृगो वा २६५, २८० अङ्वितान्यक्षसंघा २४४ अपि वहलदहनजालं ४१ अवधौ दिवसावसान ७७ अङ्गानि दला हेमा ४८१ अपि वक्ति गिरां ४१ अवाप्य भङ्गं खलु ९० अङ्गैः सुकुमारतरैः ४४० अबलानां श्रियं हत्ा ११६ अविचिन्त्यशक्तिवि २४२ अचतुर्वदनो ब्रह्मा ४३९ अभिरामतासदन १९८ अविरतचिन्तो लोके १९६
अतिमात्रवलेषु २१३ अभूदप्रत्यूह: कुसुम ४२१ अविरतं परकार्य २४४
अत्युच्ा: परितः २१९ अमितगुणोऽपि २१३ अविरलविगल १८५, ३९६
अन्नानुगोदं मृगया २२० अमृतद्रवमाधुरी १७३ अविरलविगल २४६ अथ पक्रिमतामुपे २५१ अमृतलहरीचन्द्र ४४४ अशीत लोग्रश्चण्डांशु ३५१
अथोपगूढे शरदा ३८२ अमृतस्य चन्द्रिका ३२३ असंभृत मण्डन ४३५
अद्य या मम गो २०८ अम्वरत्यम्बरं २०६
अद्वितीयं रुचा १७९, १८६ अम्बा शेतेऽन्र बृद्धा २६२ अस्थिमालामयीं ४८२ अस्या: सर्गविधौ २५९ अधरद्युतिरस्तपल्लवा ८२ अम्भोजिनीवान्धव २८८
अधरं बिम्बमाज्ञाय २७० अम्लायन्यदराति ४७५ अहं लतायाः सदृशी १८९
अधरेण समागमा ५१३ अयं सज्जनकार्पास २३८ अहत्रेको रणे रामो ४७१
अधिरोप्य हरस्य २५६ अयमतिजरठा: ३९८ अहितव्रतपापा ९७
अयाचितः सुखं ६१ अहितापकरण २३३
अनन्तरत्नप्रभवस्य २१५ अयि पवनरयाणां ९२ अहीनचन्द्रा लसता २४९ अनल्पजाम्बूनद २८२ आखण्डलेन नाक: ३२७ अनल्पतापा: कृत २७७ अयि मन्दस्मित ७२ आगतः पतिरिती १९३ अनवरतपरोपकरण १७२ अयि लावण्यजला ३८७ आज्ञा सुमेषोरवि २६० अनाथः सेहार्द्रो ४५१ अये राजत्राकर्णय ४५७ आताम्रा सिन्धु ४९०
अनापदि विना मार्ग ३८९ अये राजन्नाकर्णय ४१७ आत्मनोऽस्य तपो २३८
अनिशं नयनाभि ३४७ अये लीलाभम ३२२ आननं मृगशावा ३३०
अनुकूलभावमथ ३५८ अरण्यानी क्रेयं ४४९ आनन्दनेन लोकाना १६४
अन्धेन पातभीत्या ३७८ अरुणमपि विट्ठुमद्वं ३५७ आनन्दमृगदावा २३८
अन्या जगद्धितमयी ३११ अर्जुनस्य गुरूर्माया ३९२ आनम्य वल्गुवच ४०५
अन्यैः समानममरै ३४० अर्थिनो दातुमेवेति २७३ आपद्रतः खल महा ३३१ अपकुर्वद्धिरनियं ४१५ अर्थिभिश्छिद्यमानो २१५ आपेदिरेऽम्बरपर्थं ४०७
४७
Page 541
२
आबध्रास्यलका ३६७ उपकारमस्य साधो २२२ कलिन्दगिरिनन्दि ३०८ आ मूलाद्रत्नसानो ८३ उपकारमेव कुरुते २१४ कलिन्दजा नीरभरे २८९ आयाता कमला ४७९ उपकारमेव कुरुते ४७१ आयातव निशा निशा ७३ कलिन्दशैलादियमा २९०
आयातेव निशा मनो ४९२ उपनिषदः परि ४३७ कलेव सूर्यादमला १८२ उपरि करवाल २७५ आलिद्वितु शशिमुखी ३२५ कस्तूरिकातिलक ७३,२४६ आलिङ्गितो जलधि १७४ उपासनामेल्य पितु: ३३६ कस्तृप्येन्मार्मिक ४७३
आलीषु केलीरभसेन ८६ उपासनारथ पितु ३३६ कस्मे हन्त फलाय १३६ उवी शासति मध्यु ४१७ काचित्काखनगौरा २६१ आलोक्य सुन्दार २७२ उल्लास: फुल्लपड्के २०, २४५ कातरा: परदुःखेपु २७४ आविर्भूता यदवधि ३४ उषसि प्रातपक्ष १०५ कान्तारे विलपन्ती ४२८ आ सायं सलिलभरे ७१ ऋतुराजं भ्रमरहितं २२४ कान्त्या चन्द्रं विदुः २७२ आखादेन रसो ३२८ एकीभवत्प्रलय २१६ कारुण्य कुसुमाकाशः २३८ आह्ादिनी नयनयो १८२ एको विश्वसतां हरा ४९७ काल।गुरुदवं सा ७५ इत एव निजालयं २१७ एतावति प्रपश्चे सुन्द २०७ काव्यं सुधा रस २३५ इदं लताभि: स्तबका २२२ एतावति प्रपश्चेऽस्मि २०६ क वृत्तान्ते: परगृ ४१८ इदमप्रतिमं पश्य २२२ एतावति महीपाल १९३ कि कुर्वते दरिद्राः ५२२ इदमुदघेरुदरं वा २६४ एवंवादिनि देवपाँ १०७ किं जल्पसि मुग्धत ४९६ इन्दुना परसौन्दर्य २५५ औणिहं दोब्बहं १४ कि तीर्थ हरिपाद ४८३ इन्दुस्तु परमोत्कृष्टो ३५३ कटु जल्पति क ३४७ कि नाम तन न ४५९ इयति प्रपञ्चविषय २०४ कांतपयदिवसवि ३४८ किं ननिःशङ्कं शेषे ४२१ इयमुहसिता मुखस्य ७१ कथय कथामवाशा ४९३ कक तूमस्तव वीरता ४०५ ईश्वरेण समो ब्रह्मा ३५६ कनकद्रवकान्ति २६७ कि बुमस्तव वीरता ५६ उच्चैर्गजैरटनमर्थ ४५० कंदर्पद्विप कर्णकम्वु २२७ कि मत्रमन्ते सुकृतं ४८४ उत्क्षिप्ता: कबरीभ४८,३७८ कपाले मार्जार: पय २७३ किमहं वदामि खल ४१७ उत्तमानामपि स्त्री ३८५ कमलति वदनं १८२ किमहं कथयाम ४८२ उत्सक्ने तव गन्े ३७७ कमलमनम्भसि ४३७ किमित कृशासि ५२० उदयात विततो ५०३ कमलावासकासार: २३४ कियदिदमधिकं ३७ उदितं मण्डलमि१३६,४९० करकलितचक्र ३९२ कुङ्कुमद्रवालपाज २३९ उदुम्बरफलानीव ४८६ करतलनिर्गलद १२६ कुच कलशयुगान्त ७८ उदेति सविता ४६३ करिकुम्भतुला ४७१, ४९६ कुचकलशष्वबला १६७ उन्नतः प्रोहसद्धारः ३९६ कर्णारुंतुदमन्तरेण ४७४ कुचाभ्यामालीढं ५१४ उन्नतं पदमवाप्य ३४५ कर्पूर इव दग्धो ४३८ कुण्डलीकृतकोदण्ड ४७ उन्मीलित: सह ३६४ कलाधरस्येव कला १६५ कुत्र शैवं धनुररदं ९५ उन्मेषं यो मम २९७ कलित कुलिशघाता: ७० कुलिशमिव कठिन १९७
Page 542
३
कुवलयलक्ष्मीं हरते ४४९ गगनाद्गलितो गभस्ति २६५ चोलस्य यद्ीतिपला २९८
कुसुमानि शरा ४२७ गगने चन्द्रिकायन्ते २७५ जगज्जालं ज्योत्स्ना ३१०
कृतक्षुद्राघौघानथ २०४ गङ्गा हद्या यथा २०५ जगति नरजन्म ३२८
कृतं तयोन्नतं कृत्य १३९ गणिकाजामिलमु ६२ जगत्रयत्राणधृत ३५५
कृतमपि महोपकारं ४०६ गन्धेन सिन्धुर २०७ जगदन्तरममृत ३०७
फृता सूत्रः सुगूढा ३८५ गरिमाणमर्पयित्रा ४८२ जडानन्वान्पङून्प्रकृ २४३ कृपया सुधया सिश्च २४१ गाढमालिङ्गय सकलां ८८ जनमोहकरं तवालि २९४ कृष्णपक्षाधिकरुचि: १२९ गाम्भीर्येणातिमात्रे २०२ जनयन्ति परप्रीति ३३९ केऽपि स्मरन्त्यनुस ३२२ गाहितमखिलं विपिनं १६७ जम्बीरश्रियमति ४६५ केलीमन्दिरमागतस्य ५०४ गिरं समाकर्णयितुं ३१२ केशैर्वधूनामथ ३५८ जलकुम्भमुम्भित ५१५ गिरयो गुरवस्तेभ्यो ४६५ जितमौक्तिकसंपदां ४९४ कैशोरे वयसि क्रमेण २४२ गिरामविषयो राज ४५३ कोदण्डच्युतकाण्ड ४५७ कोपेऽपि वदनं तन्वि १६६ गीर्भिर्गुरुणां परु ३३२ जितेन्द्रियत्वं विन ४६२ जीवितं मृत्युना ४९१ गीष्पतिरप्याङ्गिरसो १४२ कोमलातपशोणा१५९,१९० कौमुदीव भवती १९६ गुअ्जन्ति मज्ज १३१,४७६ ढुँढुँगन्तो हि मरीहि १६५
क्रूरसत्त्वाकुलो दोषा ३४९ गुणवृद्धी परे यस्मि ३८४ ढुण्ढुलन्तो मरीद्दसि २११
क्वचिदपि कार्ये मृदुलं २२४ गुरुजनभयमद्विलो १६० तत्वं किमपि का ३३२ गुरुमध्यगता मया ११ तदवधि कुशली १३६ क्व वा राम: काम ५०० गुरुमध्ये कमलाक्षी ६० तहर्शनोपायविमर्श ५०५ क्व शुक्तयः क्व वा ४४८ ग्रीष्मचण्डकरमण्डल १६३ तद्रूपकमभेदोय २२५ क्व सा कुसुमसाराजी ४४९ चकोरनयनानन्दि ३७९ तद्वूल्गुना युगपदु २०० क्व सूर्यप्रभवो ३४४, ५०१ चक्राभिघातप्रस ४१० तं दृष्टवान्प्रथम २५८
क्वाहं तमोमहदहं ४५४ चन्द्रांशुनिर्मलं ३२० तन्मज़ मन्दहसितं ७७
क्षमापणैकपदयोः १०५ चपला जलदाचयुता २५८ तन्वी मनोहरा बाला ३७९
क्षीणः क्षीणोऽपि शशी ३५२ चराचरजगजाल ४२ तपस्यतो मुनर्वका ६१
खज्जनदृशा निकु ४४५ चराचरोभयाकार २२१ तपोनिधे कौशिक रा ४२४
खण्डिता नेत्रकआालि ६१ तया तिलोत्तमीयन्त्या १६८
सर्वीकृतेन्द्रगर्व ३९० चाच्चल्ययोगिन ११७,४०० तरणितनया किं २५७
खल: कापट्यदोषेण १७७ तल्पगतापि च सुतनु: १२
खलानामुक्तयो ४२७ चित्रं महानेष तवा ४३ तवाग्रे यदि दारि ४८७
खलास्तु कुशला: ३३५ चिन्तामीलितमानसो ६५ तवामृतस्यन्दिनि ३३७
खिद्यति सा पथि ४४१ चिराद्विपहसे तापं २५५ तवालम्बादम्ब ४६८
सिन्नोऽसि मुश ४४७ चूडामणि पदे धत्ते ३४५ तस्मिन्मणिव्रात ४७५
गगनचर जलविम्बं ३१४ चेलाथलेनानन ५०६ तां तमालतरुकान्ति ६४
Page 543
तापत्रयं खलु नृणां ३३९ दरानमत्कंधर ७८, २१७ धर्मस्यात्मा भाग २३३ तारानायकशेखराय २४९ दर्पणे च परिभोग २६१ धर्मेण बुद्धिस्तव ४६४ तावत्कोकिल ३३०, ४०४ दशाननेन दप्तेन १७५ धीरध्वनिभिरलं ३११ तिमिरं हरन्ति २४६ दासे कृतागसि भव २५१ तिमिरशारदचन्दिर ३१२ दिगन्ते श्रूयन्ते ४०२ न कपोतकपोतकं ४० न कपोत भवन्त ३९ तिरस्कृतो रोषवशा ५०४ दिवानिशं वारिणि २९५ तीरे तरुण्या वदनं २६० दिवि सूर्यो भुवि ३२९ नखकिरणपरम्परा २०३ नखैर्दिवारितान्राणं ४४ तीर्थ गङ्गा तदितर ४८४ दीनद्रुमान्वचोभि: ३५९ नगरान्तमेहीन्द्रस्य १८३ तुलामनालोक्य निजा ७१ दीनब्राते दयाद्रा २७४ नगेभ्यो यान्तीनां २१० तुषारास्तापसव्राते २७५ दीनानामथ परि ४७३ दूरीकरोति कुमति ३२१ नदन्ति मदद १३५, १७९ तृष्णालोलविलोचने ९५ दूरीकर्तु प्रियं बाला ४४५ न धनं न च राज्य ९८ त्रपन्ते तीर्थानि ४६७ त्रासैर्विना विराजन्ते ३६५ दृढतरनिवद्धमुष्टेः ३५५ न नगाः कानन २९४ न भवानिह मे लक्ष्यः ४८६ त्खङ्गखण्डित ४४२ दृशा दग्धं मनसिजं ४६० दृश्यतेऽनुदिते ४३८ न भाति रमणीयोऽपि ३२७ लत्तो जन्म हिमांशु ४९८ लत्पादनखरत्ना २२६,३४२ दृष्टः सदसि चेदुग्रा ३२१ न मनागपि राहु १३५,३५२
दृष्टिः संभृतमङ्गला ३०५ न मिश्रयति लोचने ४४६ तत्पादनखरन्ना २२७,३४४ नयनाश्चलावमर्श ३५ त्वत्प्रतापमहादीप २९२ दृष्टिर्मृगीदशो ४४० तदङ्गणसमुद्धूता ४९८ देव त्वदर्शनादेव ३१६ नयनानन्दसंदोह ३०९ नयनानि वहन्तु ३४८ तवदालेख्ये कौतूहल २८२ देव त्वमेव पाताल ३९३ नयनेन्दिन्दिरानन्द ३०४ लद्विपक्षमहीपाला: ४१५ देव त्वां परितः ३७८,४१७ नयने सुदृशां पुरो ४५७ त्वमिव पथिक: ५१९ ४९० नरसिंह धरानाथ २५४ तयि कुपिते रिपु ३५८ देवा: के पूर्वदे १३७,२३४ नरेन्द्रमौले न वयं ४२५ त्वयि दृष्टे तया ४२७ दोर्दण्डद्वूयकुण्डली २१६ नरैर्वरगतिप्रदे २७१ तयि पाकशासन ३१८ द्योरअनकालीभि २९१ नव प्रसङ्गं दयितस्य ४९३ लरया याति या ६० दयौरत्र क्वचिदाश्रिता ४५४ न वयं कवयस्तव ४२३ लां सुन्दरीनिवह ४०९ द्राक्षेव मधुरं वाक्यं १९२ नवाङ्नेवाङ्गणेऽपि १९५ लवां गीर्वाणगुरुं सर्वे ४२५ दुमपङ्कज विद्वांस: ४७७ नवोच्छलित यौवन ३६ त्वामन्तरात्मनि ३४० द्रोहो निरागसां ३५३ नष्टो मोहः स्मृतिर्लव्या ८७ त्वामवश्यं सिसरक्षन्यः ४२४ द्वा सुपर्णा सयुजा ३१६ नान्यास्ति किं भू ५०० दधीचिवलिकर्णे ३२१ द्विजराज कलाधार ३९० नारिकेलजलक्षीर १०४ दन्तप्रभापुष्पचिता ३८० द्विनेत्र इव वासवः २९१ नार्य: स यो न ४६४ दयितस्य गुणा ननु ९१ द्विर्भाव: पुष्पकेतो २५० नासत्ययोगो वच ३०६ दयिते रदनत्वि. १३८,२८२ धनुर्विदलनध्वनि ३७ निःसीमशोभासौभाग्यं २९४
Page 544
५
निखिलजगन्मह १६४ नैर्गुण्यमेव साधीयो ५१२ प्रभातसमयप्रभां ४४६ निखिलं जगदेव ८५ न्यञ्चति बाल्ये ३१८ प्रभुरपि याचितु ४७३ निखिलां रजनीं ९४ न्यव्वति वयसि ३१७ प्रमोदभरतुन्दिल ५७ निखिले निगम १९७ पड्कैर्विना सरो भाति ३६४ प्रसक्गे गोपानां ८९ निजदोषावृतमन ४७४ पव्चशाखत्रः प्रभो २४४ प्रहरविरतौ मध्ये १८ नितरां हितयाद ८७ पद्मपत्रैर्नृणां नेत्रेः ३५८ प्राचीसंध्यासमुद्य २३४ नितरां धनमापु ४५० पद्मासनप्रमुखनिर्जर ४६७ प्राणानर्षय सीतां ४८८ नितरां नीचोऽस्मी ४०३ परपूरुषदृष्टिपात ४५५ प्राणापहरणेनासि १६४ नितरां पुरुषा ५७, ४०५ परस्परासङ्गसुखा २९३ प्राणेश विरहक्कान्त: २४४ नितान्तं यौवनोन्मत्ता ४९ परार्थव्यासझ्गादुप ३८४ प्रादुर्भवति पयोदे ४९० नितान्तरमणीयानि २९४ परिफुल्लाब्जनयना ३८२ प्राप्तश्रीरेप कस्या २४७ निधिं लावण्यानां २९६ परिहरतु धरां फणि ४२ प्रायः पतेद्या: शकली २८६
निपतद्वाष्प संरोध ९३ परोपसर्पणानन्त ४१९ प्रिये विपादं जहि ३१७ निभाल्य भूयो निज ४९६ पाटीरद्रुभुजंगपुंग ४९१ प्रियो हृदयवती ५२० निरपायं सुधापायं १६७ पाणौ कृतः पाणि ३४१ वधान द्रागेव द्रढि १४० निरर्थकं जन्म गतं ३६६ पाण्डित्यं परिहृत्य ४०६ वन्धोन्मुक्त्ै खल मख४५२ निरुद्य यान्तीं ७९ पाण्डित्येन प्रचण्डेन ४५९ बहु मन्यामहे राज ३५८ निरुपादानसंभा १३०,४३२ पान्थ मन्दमते किं वा २५६ बाहुजानां समस्ता २९१ निर्गुण: शोभते नैव ३६५ पापं हन्त मया १०४ बिम्बोष्ठ एव राग ४८० निर्भिद्य क्ष्मारुहाणा १३५ पीयूषयूषकल्पाय ३१२ बुद्धिरर्चिर्महीपाल २४७ निर्मलाम्बररम्यश्री: ३८१ पुरः पुरस्तादरि ३१३ बुद्धिर्दापकला लोके २३३ निर्माणे यदि मार्मिको ६३ पुरा यत्र स्रोत: ३८२ ब्रह्मन्नध्ययनस्य ५३ निर्लक्ष्मी काभवत्प्राची ३७६ पुरा सरसि मानसे ४०३ ब्रह्माण्डमण्डले ४५४ निर्वासयन्तीं धृति १०६ पुरो गीर्वाणानां ४४६ भक्तिप्रह्वविलोकन ४८८ निशाकरादालिक ३५१ पूर्णमसुरै रसातल २१३ भगवद्वदनाम्भोजं ४३९ निष्कलड्क निरातड्क ३५७ पूर्व नयनयोर्लमा ४८० भद्रात्मनो दुरधि ३९६ निष्णातोऽपि च वेदा ५०९ पृष्टाः खल परपुष्टाः २०९ भम धम्मिअ वीसत्थो १३ नीतो नासान्तिकं ५१३ प्रणिपत्य विधे भव ५१० भवग्रीष्म प्रौढातप २३२ नीलाखलेन संवृत्त १९४ प्रतिपलमखिलां ४३७ भवत्या हि व्रात्या ४७२ नीवीं नियम्य शि १७९ नृणां यं सेवमानानां १७१ प्रतीपभूपैरिव ४३१ भवद्वारि कुद्यज्जय ९७ प्रत्युद्रता सविनयं ४८ भवनं करुणावती १०० नृत्यत्त्वद्वाजिराजि २७० प्रथमं चुम्वितच ४८० भाग्यं ते शाल्मलि ४१८
नेत्राभिरामं रामाया २६३ प्रथमं श्रितकजज ४८० भाग्येन सह रिपूणा ३५८ प्रफुल्ल कहार निभा १९१ भानुरगनिर्यमो वायं २७३
Page 545
६
भासयति व्योमगता २७७ माधुर्यपरमसीमा ३०६ यं प्रेक्ष्य चिररूढा ४१० भास्करसूनावस्तं ९२ मान्थर्यमाप गमनं ३६३ यशःसौरम्यलशुन: २४५ भुजगाहित प्रकृतयो ६८ मामनुरक्तां हित्वा ४८५ यश्च निम्बं परशुना ३१९ भुजपअ्जरे गृहीता १०० मां पाहीति विधि ४२३ यश्चरणत्राणीकृत ४१५ भुजभ्रमितपट्टिशो २१६ माहात्म्यस्य परो ४९६ यस्मिन्खेलति सर्वतः ४०३ भुजो भगवतो भाति १६० मित्रात्रिपुरनेत्राय १९ यस्मिन्हिमानीनि ५१६ भुवनत्रितयेऽ २११, ३५४ मीनवती नयनाभ्यां २४२ यस्य किंचिदप ४९४ भूधरा इव मत्तेभा १८५ मुकुलितनयनं ४४७ यस्य तुलामधि १६५ भूमीनाथ शहाव २१० मुश्चसि नाद्यापि रुषं १०२ यस्योद्दाम दिवानि ३८ भूितानि हरेभक्त ५०८ मुनिः श्ववदयं भाति १९१ या निशा सर्वभूतानां ३१६ मकरप्रतिमैमेहा १८३ मृगतां हरयन्मध्ये १८४ यान्ती गुरुजनैः ३४६ मकरालयस्य कुक्षौ ४९७ मृग्यक्च दर्भाक्कुर ४६९ युक्ततं सभायां खल ४५२ मदकामविमोह ३८७ मृणालमन्दानिल ३६६ युक्तं तु याते दिव ४५७ मद्वाणि मा कुरु ५०९ मृतस्य लिप्सा कृप ३२३ ये त्वां ध्यायन्ति ४१९ मधुरतरं स्मयमान: ८३ मृद्वीका रसिता सिता १३३ यौवनोद्गमनिता १०३,४७७ मधुरसान्मधुरं हि ८३ मृशति त्वयि यदि ४४० रक्तस्त्वं नवपल्लवै ३५४ मध्येगलं विहरतां ५०९ मोहं जगत्रयभुवा ४४२ रजोभि: स्यन्दनो २०१ मध्ये सुधासमुद्रस्य ४९९ यच्चोराणामस्य च १६९ रणाङ्गणे रावण १९२ मनुष्य इति मूढेन २८२ यत्त्वन्नेत्रसमान ४६९ रणे दीनान्देवान्दश ४० मन्त्रार्पितहविर्दीप्त ४५० यथा तवाननं चन्द्र १७८ रमणी यस्तबकयुता १९७ मत्त्रैर्मीलितमौष ३८६ यथा तालं विना रागो ३६५ रम्यहासा रसोललासा १३८ मन्थाचलभ्रमण ४९८ यथा यथा तामरसा ६७ रराज राजराजस्य १९२ मन्मधामात्यमा ४७६ यथा लताया: स्तंबका १७७ रवितुरगदिग्गजे ५१३ मम रूपकीर्तिमह ४९४ यथोर्ध्वाक्ष: पिव ४५५ रागं विना विराजन्ते ३६५ मयि त्वदुपमाविधौ २१२ यथौषधिरसाः सर्वे ३८४ राघवविरहज्वाला १७ मरकतमणिमेदिनी २५७ यदवधि दयितो विलो ९४ राजन्प्रचण्डमार्तण्ड ३४९ मलयानिलकाल ३५ यदवधि विलास ४३५ राजा दुर्योधनो १८४ मलयानिलमनली १६६ यदि ते चरणाम्बुजं ४८५ राजा युधिष्ठिरो १८४ मलिनेऽपि राग ३६७,४०४ यदि लक्ष्मण सा ९७ राजेव संभृत कोषं १९३ महतः परमव्यक्त ४६५ यदि सन्ति गुणा: ३३३ राजो मत्प्रतिकूलान्ते १३० महर्षेर्व्यासपुत्रस्य २४९ यदि सा मिथिलेन्द्र ९१ राज्याभिषेकमा २९०,३८५ महीभृतां खलु गणे १८३ यद्भक्तानां सुखमयः १७१ रामं स्निरग्धतरश्यामं २७० महेन्द्रतुल्यं कवयो ३४९ यद्यनुष्णो भवेद्रह्ि: १५२ रामं स्न्रिग्धतरश्यामं २८५ मा कुरु कशां कराब्जे ८६ यम: प्रतिमहीभृतां २७५ रामायमाणः श्रीरामः २०५
Page 546
७
रामो विजयते यस्य ५०३ वहति विषधरान्प ३३७ वेत्रत्वचा तुल्यरु ५१८
रीति गिराममृत ४२२ वागिव मधुरा १८५ व्यत्यस्तं लपति क्षणं १०१
रूपजला चलनयना २३२ वाचा निर्मलया सुधा ६६ व्यागुअन्मधु २९३, ३८५
रूपयोवनलावण्य १७२ वाचो माङ्गलिकी: ३४ व्यानम्राश्चलिताश्चैव १०१
रूपवत्यपि च कूरा १७७ वामाकल्पितवामाहगो १९२ व्योमनि बीजाकुरुते ३४६
रूपारुचि निरसितुं ४४५ वारिधिराकाशसमो १९७ व्योमाङ्गणे सरसि २३२
रे खल तव खलु ४२३ वासयति हीनसश्वा ३२४ शतकोटिकठिनचि १७६
रे रे मनो मम मनो ४९४ विचारिते महिम ४२८ शतेनोपायानां कथ ९९
रोगस्य ते चिकित्सां ५२१ विज्ञत्वं विदुषां गणे २४५ विदुरादाश्षर्य ४७९ शयिता शैवलशयने ८०
लङ्कापुरादतितरां २०६ विद्धा मर्मणि वाग्वाणै २५३ शयिता सविधेऽप्यनी १०
लता कुसुमभारेण ३२७ शरदिन्दुरिवाह्ाद १७४
लभ्येत पुण्यैर्गहिणी ४६१ विद्वत्सु विमलज्ञाना २७५ शरीरं ज्ञानजननं ४९१
लावण्येन प्रमदा ३२७ शशशङ्गधनुर्लेस ४९९
लीलया विहितसिन्धु ९३ विद्वानेव हि जानाति ३३३ शान्तिमिच्छसि चेदा २५२
लीलालुण्ठितशा ४८५ विधत्तां निःशह्व ५९ शासति त्वयि हे ३१९
लुब्धो न विसटजत्य ४६० विधाय सा मद्ूदना ८४ शिञ्जानैर्मजरीति २६८
लोकानां विपदं ४५३ विधिरत्यन्तमप्राप्ते ४८३ शिशिरेण यथा सरो १७३
लोभाद्वराटि ४५७, ५०४ विधिवच्चितया मया ८० शीलभारवती कान्ता ३२७
लोलालकावलिवल ६९ विनिन्दयान्युन्मततै ४६७ शुण्डादण्डं कुण्डली ७९
लोहितपीतैः कुसुमैः २०३ विनैव शत्रं हृदया ४३२ शून्यं वासगृहं ७४
वंशभवो गुणवान ३३२ विवोधयन्करस्पशैं: ३७० शैत्यं विना न चन्द्र ३६६
वक्षोजाग्रं पाणिना ८८ विभाति यस्यां ललिता ३०५ शोणाधरांशुसंभिन्ना १६७
वचने तव यत्र ७१ विमलतरमतिगभीरं १८६ श्यामं यज्ञोपवीतं ५२१
वडवानलकालकूट ४५० विमुश्वसि यदि प्रिय ४६० श्यामं सितं च सुदृद २७८
वदनं विना सुकवि ३६४ विरहेण विकलहृदया ७९ श्यामलेनादितं भा १७६
वदनकमलेन वाले २८६ विलसत्याननं तस्या १५८ इयेनमम्बरतलादु ४४
वदने विनिवेशिता २७९ विशालाभ्यामा ३६६,५०७ श्रियो मे मा सन्तु ५१०
वनान्त: खेलन्ती ४४८ विश्वाभिरामगुण ३३१ श्रीतातपादैर्विहिते ४३
वनितेति वदन्त्येतां २७२ विश्वास्य मधुर ४६८ श्वपाकानां वरातै ५०८
वराका यं राका २९३ विष्णुवक्ष:स्थितो १९२ शवृत्तिव्यासक्गो निय ५०८
वल्मीकोदरसंभूत ४९८ विष्वद्रीचा भुवन ४५३ श्वासोऽनुमानवेद्य: ४२३
वसु दातुं यशो धातुं ३२३ विहाय संसारमहा ३९० श्रासोऽनुमानवेद्य: ४२२
वसु दातुं यशो धातुं ३२१ वीक्ष्य वक्षसि विपक्ष १०३ संसारे चेतनास्तत्र ४६५
वसुधावलयपुरंदर ४२१ वृन्दापितृगह्दनच ४७७ स एकस्रीणि ४३७,४३८
Page 547
८
संकेतकालमलसं २६२ स वक्तमखिला ४२५ स्तवकैर्भरललिता ५१६ सङ्गामाङ्गणमागते ३२९ सविता विधवति २०१ स्थितेऽपि सूर्ये पद्मिन्यो३८५ सङ्गामाङ्गणसंमुखा २७९ साधु दूति पुन: ४२० स्मयमानाननां तत्र २७७ स तु वर्षति वारि ३५१ सानुरागा: सानुकम्पा ७० स्मरदीपदीप्तदृष्टे ४९३ सत्पूरुष: खलु हिता ३३७ साब्धिद्वीपकुलाचलां ३९ स्मितं नैतत्किंतु २७८ सदसद्विवेकरसिकै २१२ सा मदागमनवृंहितं ८५ स्वर्गनिर्गत निरगल ५८ सदा जयानुषज्ञाणा ६७ साम्राज्यलक्ष्मीरिय २६० साहंकारसुरासुरा ५८,१३७ स्वर्गापवर्गा खलु ४६२ सदृशी तव तन्वि १९६ सदैव स्नेहार्द्रे सुर ४८५ सिन्दूरारुणवपुषो १७६ स्वस्वव्यापृतिमत्र ५०६
सन्तः स्वतः प्रकाश ३३४ सिन्दूरैः परिपूरितं २५८ स्विद्यति कूणति ३२४
सुजना: परोपकारं ३२३ स्वेदाम्बुसान्द्रकण ५७ संतापयामि हृदयं ७९ सुदृशो जितरत्नजाल ४५५ स्वेदाम्वुसान्द्रकण ६४ सन्त्येवास्मिज्जगति २२१ स पण्डितो यः सहि ४६३ सुधासमुद्रं तव २०२ हतकेन मया वनान्तरे ८०
सपदि विलयमेतु ४० सुधायाश्रन्द्रिका ३२३ हरि: पिता हरिर्माता ५९
सपलवा किं नु२६४ सुधेव वाणी वसु १६६ हरिकरसङ्गादधि ३९२
समुत्पत्तिः पझ्मा ४९१ सुरस्रोतखिविन्याः ३६ हरिचरणनखर २७३
समुपागतवति ४०४ द्दरिणीप्रेक्षणा यत्र ६७
समृद्धं सौभाग्यं २४३ सुराणामारामा ४२१ हरिमागतमाकर्ण्य ९६
संपदा संपरिष्वक्को ३६४ सुवर्णस्य कृते तन्वि ५२० हरिश्रन्द्रेण संज्ञ ४९९
संपश्यतां तामति २६३ सुविमलमौक्ति २३१,२३६ हर्षयन्ति क्षणादेव ४२८
संभूत्यर्थ सकल ३९१ सूर्याचन्द्रमसौ यस्य ४१० हारं वक्षसि के ४०६
सरजस्कां पाण्ड ४०४ सृष्टिः सृष्टिकृता ४०५ हालाहलकालानल २९५
सरसिजवनबन्धु ६१ सेवायां यदि साभि ४८३ हालाहलं खलु ३४६
सरसि प्वदाभाति १९१ सैपा स्थली यत्र ३०१ हालाहलसमो मन्थु ३८१
सरसिरुहोदरसुर ५१५ सौमित्रे ननु सेव्यतां २१८ हिंसाप्रधानैः खलु ५०८ सरोजतामथ सतां १८५ स्खलन्ती स्वलोका ५१२ हिमाद्रिं त्वद्यशो ५१७ सर्प इव शान्तमूर्तिः १७८ स्तनान्तर्गतमाणि ३०६ हीरस्फुरद्रदनशुभ्रि ६९ सर्वेऽपि विस्मृतिपथं १०२ स्तनाभोगे१५८,१६१,२०४ हृदये कृतशैवलानु ८६