Books / Rudraakshajabala Upanishad

1. Rudraakshajabala Upanishad

Page 1

रुद्राक्षोपनिषद्वद्यं महारुद्रतयोज्ज्वलम् ।

प्रतियोगिविनिर्मुक्तशिवमात्रपदं भजे ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्छ्रोत्रमथो बलम् ।

इन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुयां मा मा ब्रह्म निराकरोदनिराकरणं-

स्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषदस्तु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

अथः शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

अथ हैनं कालाग्निरुद्रं भूमणुङ्डं पप्रच्छ कथम्

रुद्राक्षोत्पत्तिः ।

तद्वारणात्किं फलमिति ।

तं होवाच भगवान्कालाग्निरुद्रः ।

त्रिपुरवधार्थमहं निमीलिताक्षीङ्भवम् ।

तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्ष जाता: ।

सर्वानुग्रहार्थाय तेषां नामोच्चारणमात्रेण

दशगोप्रदानफलं दर्शनस्पर्शनाभ्यां द्विगुणं

फलमत ऊर्ध्वं वक्तुं न शक्नोमि ।

तत्रैते श्लोका भवन्ति ।

कस्मिंस्तितं तु किं नाम कथम् वा धारयते नरैः ।

कतिभेदमुखान्त्रैधायंते कथम् ॥१॥

दिव्यवर्षसहस्राणि चक्षुरन्मीलितं मया ।

भमावक्षिपुटाभ्यां तु पतिता जलबिन्दवः ॥

तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षका: ।

स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ।

भक्तानां धारणात्पापं द्विवारात्रिकृतं हरेत् ।

लक्षं तु दर्शनेपुण्यं कोटिसतत्द्दारणाद्व्वेत् ॥

तस्य कोटिशतं पुण्यं लभते धारणान्त्ररः ।

लक्षकोटिसहस्राणि लङ्ककोटिशतानि च ॥

तेज्जपादल्लभते पुण्यं नरो रुद्राक्षधारणात् ।

धार्त्रीफलप्रामाणं यच्चेष्टेमेतदुदाहृतम् ॥

बदरीफलमात्रे तु मध्यमे प्राच्यते बुधैः ।

अधमं चणमात्रं स्यात्प्रत्यप्रतिष्ठा मयोच्यते ॥

ब्राह्मणा: क्षत्रिया वैश्या: शुद्राधैस्ति शिवाज्ञया ।

वृथा जाता: पृथिव्यां तु तज्जातीयाः शुभाक्षका: ॥

श्वेतास्तु ब्राह्मणा जेया: क्षत्रिया रक्तवर्णका: ।

पीतास्तु वैश्या विज्ञेया: कृष्णा: शुद्रा उदाहुता: ॥

Page 2

१०

ब्राह्मणो विभ्रयाच्छ्वेतात्रक्तात्राजा तु धारयेत् । पीताम्बरस्यस्तु विभ्रयात्कृष्णाम्बरस्तु धारयेत् ॥

११

समा: स्निग्धा दृढ़ा: स्थूला: कण्टके: संयुता: शुभा: । कृमिदष्टं भिन्नभिन्नं कण्टकेर्हीनमेव च ॥

१२

त्रणयुक्तमयुक्तं च षडूर्ध्वाक्षाणि वर्जयेत् । स्वयमेव कृतं द्वारं रुद्राक्षं स्यादिहोत्तमम् ॥

१३

यत्तु पौरुषयल्लेन कृतं तन्मध्यमं भवेत् । समांस्निग्धान्दृढान्स्थूलान्क्षौमसूत्रेण धारयेत् ॥

१४

सर्वगात्रेऽणि सौम्येन सामन्यानि विचक्षण: । निकषे हेमरेखाभा यस्मिन् रेखा प्रदृश्यते ॥

१५

तदक्षममृतं विद्यात्तथैवां यं शिवपूजकै: । शिखायामेकरुद्राक्षं त्रिशतम् शिरसा वहेत् ॥

१६

षट्त्रिंशतं गले दध्यात्बाहो: षोडशोडश । मणिबन्धे द्वादशैव स्कन्धे पञ्चशतं वहेत् ॥

१७

अष्टोत्तरशतेर्मालामुपवीतं प्रकल्पयेत् । द्विसरं त्रिसरं वापि सारणां पञ्चकं तथा ॥

१८

सारणां सप्तकं वापि विभ्रयात्कण्ठदेशगत: । मुकुटे कुण्डले चैव कर्णिकाहारकेऽपि वा ॥

१९

केयरकटके सूत्रं कुक्कुबन्धे विशेषतः । सुप्ते पीते सदाकालं रुद्राक्षं धारयेत्सदा ॥

२०

त्रिशतं त्वध्रं पञ्चशतं मध्यममुच्यते । सहस्रममृतं प्रोक्तमेवं भेदन धारयेत् ॥

२१

शिरसीशानमन्त्रेण कण्ठे तत्त्वपुरुषेण तु । अघोरेण गले धार्यं तेनैव हृदयेऽपि च ॥

२२

अघोरबीजमन्त्रेण करयोर्धारयेत्सुधी: । पञ्चाक्षरदक्षग्रहितान्नोमव्यापिपि चोदरे ॥

२३

पञ्च ब्रह्माभिरुद्रैश्च त्रिमाला पञ्च सप्त च । प्रधित्वा मूलमन्त्रेण सर्वण्यक्षाणि धारयेत् ॥

अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुण्ड: पप्रच्छ । रुद्राक्षाणां भेदन यत्क्षं यत्फलमिति । तत्त्वरूपं मुख्युक्तमरिष्ठनिरसनं कामाभीष्टफलं भुंहीति होवाच ।

तत्रैते श्लोका भवन्ति ॥ एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् । तद्धारणात्परे तत्त्वे लीयते विजितेन्द्रिय: ॥

द्विवक्त्रं तु मुनीश्रेष्ठ चाधीनारीश्वरात्मकम् । धारणादधनारोग्यं प्रीयते तस्य नित्यश: ॥

Page 3

trimukhaṁ chaiva rudrākṣamagnirūpakam । tadvarṇācha hutaśuktasya tuṣyāti nityadā ॥ ३ ॥

chatumukhaṁ tu rudrākṣaṁ chaturvaktraśvarūpakam । tadvarṇāchaturvaktraḥ prīyate tasya nityadā ॥ ४ ॥

pañchavaktraṁ tu rudrākṣaṁ pañchabrahmasvarūpakam । pañchavaktraḥ svayaṁ brahmā puṅtyāṁ cha vyapohati ॥ ५ ॥

ṣaḍvaktrapi rudrākṣaṁ kārtikeyādhidevatam । tadvarṇānamahāśrīḥ śyān mahādarogyamuttamam ॥ ६ ॥

matibuddhiśāntisampattisudhuddhe dhārayet sudhīḥ । vināyakādhidevaṁ cha pravadanti manīṣiṇaḥ ॥ ७ ॥

saptavaktraṁ tu rudrākṣaṁ saptamādhidevatam । tadvarṇānamahāśrīḥ śyān mahādarogyamuttamam ॥ ८ ॥

aṣṭavaktraṁ tu rudrākṣamāṣṭamātrādhidevatam । vastṛṣṭakṛipyaṁ chaiva gaṅgāprītikaraṁ tathā । tadvarṇādimete prītā bhavet satyavādinaḥ ॥ ९ ॥

१०

navavaktraṁ tu rudrākṣaṁ navaśaktyādhidevatam । tasya dhāraṇamātreṇa prīyante navaśaktayaḥ ॥ १० ॥

११

daśavaktraṁ tu rudrākṣaṁ yamadaitavyamīritam । daśanānachhānti janakaṁ dhāraṇānātra saṁśayaḥ ॥ १२ ॥

१२

ekādaśamukhaṁ tvakṣaṁ rudreśadradevam । tadiṁ daivataṁ prāhuḥ sadā saubhāgyavardhanam ॥ १३ ॥

१३

rudrākṣaṁ dvādaśamukhaṁ mahāviṣṇusvarūpakam । dvādaśādityarūpaṁ cha vibhartyai hi tatparaṁ ॥ १४ ॥

१४

tryodaśamukhaṁ tvakṣaṁ kamadaṁ siddhidaṁ śubham । tasya dhāraṇamātreṇa kamadevaḥ praseedati ॥ १५ ॥

१५

rudrākṣadhāraṇātsarvam samāpayeḥ pramuchyate ।

१६

caturdāśamukhaṁ chākṣaṁ rudranetra samudbhavam । sarvavyādhiharaṁ chaiva sarvadarogyamāpnu yāt ॥ १६ ॥

१७

maṅ māsaṁ cha laśunaṁ patāṇḍuṁ śiśumrev cha । śleṣmātakaṁ viḍvarāhambhakṣyaṁ varjyeyetna ॥ १७ ॥

१८

grahaṇe viṣuve chaivamayane saṅkramedapi cha । daśaneṣu pūrṇamāsye cha pūrṇeṣu divaseṣu cha ॥ १८ ॥

१९

rudrākṣamūlaṁ tadbrahmā tatralaṁ viṣṇureva cha । tanmukhaṁ rudra ityāhustadvidḥuḥ sarvadevatāḥ ॥ १९ ॥ iti ॥

अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहि

Page 4

भगवन्नुद्राक्षधारणविधिमं । तस्मिन्नसमये निदाघजडभरतदत्तात्रेयकात्यायनभरद्वाजकपिलवसिष्ठपिप्पलादादयक्ष कालाग्निरुद्रं परिसमेत्योचुः । अथ कालाग्निरुद्रः किमर्थं भगतामागमनमिति होवाच ।

रुद्राक्षधारणविधिं वै सर्वे श्रोतुमिच्छामह इति । अथ कालाग्निरुद्रः प्रवाच । रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके व्यायन्ते । अथ सदाशिवः संहारकाले संहारं कृत्वा संहाराक्षं मुकुलीकरोति । तत्नयनाज्जाता रुद्राक्षा इति होवाच । तस्माद्रुद्राक्षत्वमिति कालाग्निरुद्रः प्रवाच ।

तद्नुद्राक्षं वाग्विषये कृते दशगोप्रदानेन यत्फलमवाप्नोति तत्फलमश्नुते । स एष भस्मज्योती रुद्राक्ष इति । तद्नुद्राक्षं करण स्पृष्टवा धारणमात्रेण द्विसहस्रगोप्रदानफलं भवति । तद्नुद्राक्षे कर्णयोर्धार्यमाणे एकादशसहस्रगोप्रदानफलं भवति । एकादशरुद्रत्वं च गच्छति । तद्नुद्राक्षे शिरसि

धार्यमाणे कोटिगोप्रदानफलं भवति । एतेषां स्थानानां कर्णयोः फलं वक्तुं न शक्यमिति होवाच । य इमां रुद्राक्षजाबालोपनिषदं नित्यमधीते बालो वा युवा वा वेद स महाभ्नवति । स गुरु: सर्वेषां मन्त्राणामुपदेष्टा भवति पैतृदेव होमं कुर्यात् । पैतृदेवार्चनम्

तथा रक्षोघ्नं मृत्युत्रारकं गुरुणा लब्धं कण्ठे बाहौ शिखायां वा बद्ध्वा । सप्रतिष्ठोपवती भूमिद्वार्दक्षिणार्थं नावकल्पते । तस्माच्छ्रद्धया यों काङ्क्षितां दद्यात्सा दक्षिणा भवति ।

य इमामुपनिषदं ब्राह्मणः सायमधीयानो दिवासकृतं पापं नाशयति । मध्याह्नेऽधीयानः षड्जन्मकृतं पापं नाशयति । सायं प्रातः प्रयुजानोऽनेकजन्मकृतं पापं नाशयति । षट्सहस्रलक्षगायत्रीजपफलमवाप्नोति । ब्रह्महत्यासुरापान-

स्वर्णस्तेयगुरुदारगमनतत्सयोगपातकेभ्यः पूतो भवति । सर्वतीर्थफलमश्नुते । परितत्संभाषणात्पूतो भवति । पङ्कृतशतसहस्रपावनो भवति । शिवसायुज्यमवाप्नोति । न च पुनरावर्तते न च पुनरावर्तंत इत्योसत्यमित्युपनिषत् ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्श्रोत्रमथो बलम्‌ । इन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

इति रुद्राक्षजाबालोपनिषत्समाप्ता ॥