Books / Rudrahrdaya Upanishad

1. Rudrahrdaya Upanishad

Page 1

यदब्रह्मा रुद्रहृदयमहाविद्याप्रकाशितम् ।

तदब्रह्मात्रावस्थानपदवीमधुना भजे ॥

ॐ सह नाववतु ।। सह नौ भुनक्तु ।। सह वीर्यं करवावहै ।।

तेजस्विनावधीतमस्तु मा विद्विषावहै ।।

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

हृदयं कुण्डली भस्मरुद्राक्षगणदर्शनम् ।

तारसारं महावाक्यं षट्पदब्रह्माणिनोत्रकम् ।

प्रणम्य शिरसा पादौ शुक्रो व्यासमुवाच ह ।

को देवः सर्वदेवेषु कस्मिन्देवाश्र सर्वंशः ॥

कस्य शुभ्रूषणात्त्रियं प्रीता देवा भवन्ति मे ।

तस्य तद्वचनं श्रुत्वा प्रत्युवाच पिता शुक्रम् ॥

सर्वदेवात्मको रुद्रः सर्वे देवा: शिवात्मकाः ।

रुद्रस्य दक्षिणे पार्श्वे रविब्रह्मा त्रयोड्ग्नयः ॥

वामपार्श्वे उमा देवी विष्णुः सोमोडपि ते त्रयः ।

या उमा सा स्वयं विष्णुर्यों विष्णुः स हि चन्द्रमाः ।

ये नमस्यन्ति गोविन्दं ते नमस्यन्ति शङ्कररम् ।

ये डर्चयन्ति हरिं भक्त्या ते डर्चयन्ति वृषध्वजम् ॥

ये द्विषन्ति विरूपाक्षं ते द्विषन्ति जनार्दनम् ।

ये रुद्रं नाभिजानन्ति ते न जानन्ति केशवम् ॥

रुद्राद्प्रवर्तते बीजं बीजयोनिर्निजंर्दनः ।

यो रुद्रः स स्वयं ब्रह्मा यो ब्रह्मा स हुताशनः ॥

ब्रह्माविष्णुमयो रुद्र अग्निशोमात्मकं जगत् ।

पुलिञ्जं सर्वमीशानं स्त्रीलिङ्गं भगवत्युमाम् ॥

१०

उमारुद्रात्मकाः सर्वाः प्रजाः स्थावरजङ्गमाः ।

१०

व्यक्तं सर्वमुमा रूपमव्यक्तं तु महेश्वरम् ॥

११

उमा शङ्करयोः योगो यः स योगो विष्णुरूच्यते ।

११

यस्तु तस्मै नमस्कारं कुर्वीत्कृतिसमन्वितः ॥

१२

आत्मानं परमात्मानमन्तरात्मानमेव च ।

१२

ज्ञात्वा त्रिविधमात्मानं परमात्मानमाश्रयेत् ॥

१३

अन्तरात्मा भवेद्ब्रह्मा परमात्मा महेश्वरः ।

१३

सर्वेषामेव भूतानां विष्णुरात्मा सनातनः ॥

Page 2

१४

अस्य त्रैलोक्यवृक्षस्य भूमौ विटपशाखिनः । अग्रं मध्यं तथा मूलं विष्णुब्रह्मामहेश्वराः ॥

१५

कार्यं विष्णुः क्रिया ब्रह्म कारणं तु महेश्वरः । प्रयोजनार्थे रुद्रेण मूर्तिरेका त्रिधा कृता ॥

१६

धर्मों रुद्रो जगदिष्णुः सर्वज्ञं पितामहः । श्रीरुद्र रुद्र रुद्रेति यस्तं द्वादशदिचक्षणः ॥

१७

कीर्तनात्सर्वदेवेशस्य सर्वपापैः प्रमुच्यते । रुद्रो नर उमा नारी तस्मै तस्यै नमो नमः ॥

१८

रुद्रो ब्रह्मा उमा वाणी तस्मै तस्यै नमो नमः । रुद्रो विष्णुरुमा लक्ष्मीस्तस्मै तस्यै नमो नमः ॥

१९

रुद्रः सूर्य उमा छाया तस्मै तस्यै नमो नमः । रुद्रः सोम उमा तारा तस्मै तस्यै नमो नमः ॥

२०

रुद्रो दिवा उमा रात्रिस्तस्मै तस्यै नमो नमः । रुद्रो यज्ञ उमा वेदिस्तस्मै तस्यै नमो नमः ॥

२१

रुद्रो वह्निरुमा स्वाहा तस्मै तस्यै नमो नमः । रुद्रो वेद उमा शास्त्रं तस्मै तस्यै नमो नमः ॥

२२

रुद्रो वृक्ष उमा वल्ली तस्मै तस्यै नमो नमः । रुद्रो गन्ध उमा पुष्पं तस्मै तस्यै नमो नमः ॥

२३

रुद्रोऽर्थ अक्षरः सोमा तस्मै तस्यै नमो नमः । रुद्रो लिङ्गमुमा पीठं तस्मै तस्यै नमो नमः ॥

२४

सर्वदेवात्मकं रुद्रं नमस्कुर्यात्तृप्तकपृथुक् । एभिर्मन्त्रैः प्रदैरेव नमस्यामि शिवार्चपं वन्दे ॥

२५

यत्र यत्र भवेत्सार्थमिमं मन्त्रमुदीरयेत् । ब्रह्माद्या जलमध्ये तु सर्वपापैः प्रमुच्यते ॥

२६

सर्वाधिष्ठानमद्रन्दं परं ब्रह्म सनातनम् । सच्चिदानन्दरूपं तद्वाङनसगोचरम् ॥

२७

तस्मिन्न्सुविर्दते सर्वं विज्ञातं स्यादिदं शुचि । तदात्मकत्वात्सर्वस्य तस्माद्द्रिः नहि कव्चित् ॥

२८

द्वे विदे वेदितव्ये हि परा चैवापरा च ते । तत्रापरा तु विद्या ऋग्वेदो यजुर्वेद च ॥

२९

सामवदस्थाथर्ववेदः शिक्षा मुनेश्वर । कल्पो व्याकरणं चैव निरुक्तं छन्द एव च ॥

३०

ज्योतिषं च यथा नात्नविषया अपि बुद्धयः । अथैषा परमा विद्या ययात्मा परमाक्षरम् ॥

३१

यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् । अचक्षुःश्रोत्रमत्यर्थं तदपाणिपदं तथा ॥

Page 3

३२

नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् । तत्त्वतयोनि पश्यन्ति धीरा आत्मानमात्मनि ॥

३३

यः सर्वज्ञः सर्वविदो यस्म ज्ञानमयं तपः । तस्मादेतन्नरूपेण जायते जगदावलिः ॥

३४

सत्यविज्ञाति तत्सवं रज्युसर्पवदास्थितम् । तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते ॥

३५

जाने नैव हि संसारविनाशो नैव कर्मणा । श्रोतव्यं ब्रह्मनिष्ठं स्वगुरुं गच्छेद्वाथाविधि ॥

३६

गुरुसत्स्मै परां विद्यां द्वादशात्मबोधिनीम् । गुहायां निहितं साक्षादक्षरं वेद चेतनः ॥

३७

चित्तवृत्तिवियामहाग्रन्थिं शिवं वं गच्छेत्सनातनम् । तदेतदमृतं सत्यं तद्वोद्बदयं सुमुक्षिभिः ॥

३८

धनुस्तारं शरोर ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेधव्यं शरवत्तन्मयो भवेत् ॥

३९

लक्ष्यं सर्वगतं चैव शरः सर्वगतो मुखः । वेध्या सर्वगतैः शैव शरतक्ष्यं न संश्रयः ॥

४०

न तत् चन्द्रार्कवपुः प्रकाशते वान्ति वाताः सकला देवतास्थ । स एष देवः कृतभावभूतः स्वयं विशुद्धो विराजः प्रकाशते ॥

४१

द्वौ सुपर्णौ शरीरेऽस्मिज्जीवेशौ चाश्रयौ सह । स्थितौ तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः ॥

४२

केवलं साक्षिरूपेण विना भोगं महेश्वरः । प्रकाशते स्वयं भेदः कल्पतो मायया तयोः ॥

४३

घटाकाशमठाकाशौ यथाकाशप्रभेदतः । कल्पितौ परमौ जीवशिवरूपेण कल्पितौ ॥

४४

तत्त्वतः शिवः साक्षाच्चिज्जीवेश स्वतः सदा । चिच्छिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः ॥

४५

चित्तशुद्धौ चिताकारद्यते जडरूपतः । भिद्यते चेज्जडो भेदविषिदेक सर्वदा खलु ॥

४६

तर्कतत्स प्रमाणाच्च चिदेकत्वव्यवस्थितेः । चिदेकत्वपरिज्ञाने न शोकति न मुह्यति ॥

४७

अद्वैतं परमानन्दं शिवं याति तु केवलम् । अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् ॥

४८

अहमस्मीति निश्चित्य वीतरागो भवेत्सुधीः । स्वशरीरे स्वयं ज्योतिःस्वरूपं सर्वसाक्षिणम् ॥

Page 4

४९

क्षीणदोषः प्रपश्यन्ति नेत्रे मायायावृता: ॥

५०

एवं रूपपरिज्ञानं यस्यास्ति परयोगिन: । कुतश्चिद्र्मनं नास्ति तस्या पूर्णस्वरूपिण: ॥

५१

आकाशमेकं संपूर्णं कुतश्चिद्रेव गच्छति । तद्वत्स्वात्मपरिजानी कुतश्चिद्रेव गच्छति ॥

५२

स यो ह वै तत्परं ब्रह्म यो वेद वै मुनि: । ब्रह्मैव भवति स्वस्थः सच्चिदानन्द मातृक: ॥ इत्युपनिषत् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

इति रुद्रहृदयोपनिषत्समाप्ता ॥