Books / Rudraksha Jabala Upanishad

1. Rudraksha Jabala Upanishad

Rudraksha Jabala Upanishad

[ Sutra शान्ति मन्त्र ]

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम- स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

shanthi mantra

· · ·

[ Sutra 1 ]

हरिः ॐ ॥ अथ हैनं कालाग्निरुद्रं भुसुण्डः पप्रच्छ कथं रुद्राक्षोत्पत्तिः । तद्धारणात्किं फलमिति । तं होवाच भगवान्कालाग्निरुद्रः । त्रिपुरवधार्थमहं निमीलिताक्षोऽभवम् । तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्षा जाताः । सर्वानुग्रहार्थाय तेषां नामोच्चारणमात्रेण दशगोप्रदानफलं दर्शनस्पर्शनाभ्यां द्विगुणं फलमत ऊर्ध्वं वक्तुं न शक्नोमि । तत्रैते श्लोका भवन्ति । कस्मिंस्थितं तु किं नाम कथं वा धार्यते नरैः । कतिभेदमुखान्यत्र कैर्मन्त्रैर्धार्यते कथम् ॥ १॥

· · ·

[ Sutra 2 ]

दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया । भूमावक्षिपुटाभ्यां तु पतिता जलबिन्दवः ॥ २॥

· · ·

[ Sutra 3 ]

तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः । स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ॥ ३॥

· · ·

[ Sutra 4 ]

भक्तानां धारणात्पापं दिवारात्रिकृतं हरेत् । लक्षं तु दर्शनात्पुण्यं कोटिस्तद्धारणाद्भवेत् ॥ ४॥

· · ·

[ Sutra 5 ]

तस्य कोटिशतं पुण्यं लभते धारणान्नरः । लक्षकोटिसहस्राणि लक्षकोटिशतानि च ॥ ५॥

· · ·

[ Sutra 6 ]

तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् । धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥ ६॥

· · ·

[ Sutra 7 ]

बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः । अधमं चणमात्रं स्यात्प्रक्रियैषा मयोच्यते ॥ ७॥

· · ·

[ Sutra 8 ]

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया । वृथा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ८॥

· · ·

[ Sutra 9 ]

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः । पीतास्तु वैश्या विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥ ९॥

· · ·

[ Sutra 10 ]

ब्राह्मणो बिभृयाच्छ्वेतात्रक्तात्राजा तु धारयेत् । पीतान्वैश्यस्तु बिभृयात्कृष्णाञ्छूद्रस्तु धारयेत् ॥ १०॥

· · ·

[ Sutra 11 ]

समाः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः । कृमिदष्टं भिन्नभिन्नं कण्टकैर्हीनमेव च ॥ ११॥

· · ·

[ Sutra 12 ]

व्रणयुक्तमयुक्तं च षड्रुद्राक्षाणि वर्जयेत् । स्वयमेव कृतं द्वारं रुद्राक्षं स्यादिहोत्तमम् ॥ १२॥

· · ·

[ Sutra 13 ]

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् । समान्स्निग्धान्दृढान्स्थूलान्क्षौमसूत्रेण धारयेत् ॥ १३॥

· · ·

[ Sutra 14 ]

सर्वगात्रेण सौम्येन सामान्यानि विचक्षणः । निकषे हेमरेखाभा यस्य रेखा प्रदृश्यते ॥ १४॥

· · ·

[ Sutra 15 ]

तदक्षममुत्तमं विद्यात्तद्धार्यं शिवपूजकैः । शिखायामेकरुद्राक्षं त्रिशतं शिरसा वहेत् ॥ १५॥

· · ·

[ Sutra 16 ]

षट्त्रिंशतं गले दध्यात्बाहोः षोडशषोडश । मणिबन्धे द्वादशैव स्कन्धे पञ्चशतं वहेत् ॥ १६॥

· · ·

[ Sutra 17 ]

अष्टोत्तरशतैर्मालामुपवीतं प्रकल्पयेत् । द्विसरं त्रिसरं वापि सराणां पञ्चकं तथा ॥ १७॥

· · ·

[ Sutra 18 ]

सराणां सप्तकं वापि बिभृयात्कण्ठदेशतः । मुकुटे कुण्डले चैव कर्णिकाहारकेऽपि वा ॥ १८॥

· · ·

[ Sutra 19 ]

केयूरकटके सूत्रं कुक्षिबन्धे विशेषतः । सुप्ते पीते सदाकालं रुद्राक्षं धारयेन्नरः ॥ १९॥

· · ·

[ Sutra 20 ]

त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते । सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् ॥ २०॥

· · ·

[ Sutra 21 ]

शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण तु । अघोरेण गले धार्यं तेनैव हृदयेऽपि च ॥ २१॥

· · ·

[ Sutra 22 ]

अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः । पञ्चाशदक्षग्रथितान्व्योमव्याप्यपि चोदरे ॥ २२॥

· · ·

[ Sutra 23 ]

पञ्च ब्रह्मभिरङ्गैशच त्रिमाला पञ्च सप्त च । ग्रथित्वा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् ॥ २३॥

· · ·

अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुन्डः पप्रच्छरुद्राक्षाणां भेदेन यदक्षं यत्स्वरूपं यत्फलमिति । तत्स्वरूपं मुखयुक्तमरिष्टनिरसनं कामाभीष्टफलं ब्रूहीति होवाच । तत्रैते श्लोका भवन्ति ॥

· · ·

[ Sutra 1 ]

एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् । तद्धारणात्परे तत्त्वे लीयते विजितेन्द्रियः ॥ १॥

· · ·

[ Sutra 2 ]

द्विवक्त्रं तु मुनिश्रेष्ठ चार्धनारीश्वरात्मकम् । धारणादर्धनारीशः प्रीयते तस्य नित्यशः ॥ २॥

· · ·

[ Sutra 3 ]

त्रिमुखं चैव रुद्राक्षमग्नित्रयस्वरूपकम् । तद्धारणाच्च हुतभुक्तस्य तुष्यति नित्यदा ॥ ३॥

· · ·

[ Sutra 4 ]

चतुर्मुखं तु रुद्राक्षं चतुर्वक्त्रस्वरूपकम् । तद्धारणाच्चतुर्वक्त्रः प्रीयते तस्य नित्यदा ॥ ४॥

· · ·

[ Sutra 5 ]

पञ्चवक्त्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् । पञ्चवक्त्रः स्वयं ब्रह्म पुंहत्यां च व्यपोहति ॥ ५॥

· · ·

[ Sutra 6 ]

षड्वक्त्रमपि रुद्राक्षं कार्तिकेयाधिदैवतम् । तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ६॥

· · ·

[ Sutra 7 ]

मतिविज्ञानसम्पत्तिशुद्धये धारयेत्सुधीः । विनायकाधिदैवं च प्रवदन्ति मनीषिणः ॥ ७॥

· · ·

[ Sutra 8 ]

सप्तवक्त्रं तु रुद्राक्षं सप्तमाधिदैवतम् । तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ८॥

· · ·

[ Sutra 9 ]

महती ज्ञानसम्पत्तिः शुचिर्धारणतः सदा । अष्टवक्त्रं तु रुद्राक्षमष्टमात्राधिदैवतम् ॥ ९॥

· · ·

[ Sutra 10 ]

वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं तथा । तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः ॥ १०॥

· · ·

[ Sutra 11 ]

नववक्त्रं तु रुद्राक्षं नवशक्त्यधिदैवतम् । तस्य धारणमात्रेण प्रीयन्ते नवशक्तयः ॥ ११॥

· · ·

[ Sutra 12 ]

दशवक्त्रं तु रुद्राक्षं यमदैवत्यमीरितम् । दर्शनाच्छान्तिजनकं धारणान्नात्र संशयः ॥ १२॥

· · ·

[ Sutra 13 ]

एकादशमुखं त्वक्षं रुद्रैकादशदैवतम् । तदिदं दैवतं प्राहुः सदा सौभाग्यवर्धनम् ॥ १३॥

· · ·

[ Sutra 14 ]

रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् । द्वादशादित्यरूपं च बिभर्त्येव हि तत्परम् ॥ १४॥

· · ·

[ Sutra 15 ]

त्रयोदशमुखं त्वक्षं कामदं सिद्धिदं शुभम् । तस्य धारणमात्रेण कामदेवः प्रसीदति ॥ १५॥

· · ·

[ Sutra 16 ]

चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् । सर्वव्याधिहरं चैव सर्वदारोग्यमाप्नुयात् ॥ १६॥

· · ·

[ Sutra 17 ]

मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च । श्लेष्मातकं विड्वराहमभक्ष्यं वर्जयेन्नरः ॥ १७॥

· · ·

[ Sutra 18 ]

ग्रहणे विषुवे चैवमयने संक्रमेऽपि च । दर्शेषु पूर्णमासे च पूर्णेषु दिवसेषु च । रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते ॥ १८॥

· · ·

[ Sutra 19 ]

रुद्राक्षमूलं तद्ब्रह्मा तन्नालं विष्णुरेव च । तन्मुखं रुद्र इत्याहुस्तद्बिन्दुः सर्वदेवताः ॥ १९॥ इति ॥

· · ·

अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहि भगवन्रुद्राक्षधारणविधिम् । तस्मिन्समये निदाघ- जडभरतदत्तात्रेयकात्यायनभरद्वाजकपिलवसिष्ठ- पिप्पलादादयश्च कालाग्निरुद्रं परिसमेत्योचुः । अथ कालाग्निरुद्रः किमर्थं भवतामागमनमिति होवाच । रुद्राक्षधारणविधिं वै सर्वे श्रोतुमिच्छामह इति । अथ कालाग्निरुद्रः प्रोवाच । रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायन्ते । अथ सदाशिवः संहारकाले संहारं कृत्वा संहाराक्षं मुकुलीकरोति । तन्नयनाज्जाता रुद्राक्षा इति होवाच । तस्माद्रुद्राक्षत्वमिति कालाग्निरुद्रः प्रोवाच । तद्रुद्राक्षे वाग्विषये कृते दशगोप्रदानेन यत्फलमवाप्नोति तत्फलमश्नुते । स एष भस्मज्योती रुद्राक्ष इति । तद्रुद्राक्षं करेण स्पृष्ट्वा धारणमात्रेण द्विसहस्रगोप्रदानफलं भवति । तद्रुद्राक्षे कर्णयोर्धार्यमाणे एकादशसहस्रगोप्रदानफलं भवति । एकादशरुद्रत्वं च गच्छति । तद्रुद्राक्षे शिरसि धार्यमाणे कोटिगोप्रदानफलं भवति । एतेषां स्थानानां कर्णयोः फलं वक्तुं न शक्यमिति होवाच । य इमां रुद्राक्षजाबालोपनिषदं नित्यमधीते बालो वा युवा वा वेद स महान्भवति । स गुरुः सर्वेषां मन्त्राणामुपदेष्टा भवति एतैरेव होमं कुर्यात् । एतैरेवार्चनम् । तथा रक्षोघ्नं मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ शिखायां वा बध्नीत । सप्तद्वीपवती भूमिर्दक्षिणार्थं नावकल्पते । तस्माच्छ्रद्धया यां काञ्चिद्गां दद्यात्सा दक्षिणा भवति । य इमामुपनिषदं ब्राह्मणः सायमधीयानो दिवसकृतं पापं नाशयति । मध्याह्नेऽधीयानः षड्जन्मकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानोऽनेकजन्मकृतं पापं नाशयति । षट्सहस्रलक्षगायत्रीजपफलमवाप्नोति । ब्रह्महत्यासुरापान- स्वर्णस्तेयगुरुदारगमनतत्संयोगपातकेभ्यः पूतो भवति । सर्वतीर्थफलमश्नुते । पतितसंभाषणात्पूतो भवति । पङ्क्तिशतसहस्रपावनो भवति । शिवसायुज्यमवाप्नोति । न च पुनरावर्तते न च पुनरावर्तत इत्योंसत्यमित्युपनिषत् ॥

· · ·

[ Sutra शान्ति मन्त्र ]

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम- स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥