20. Chapter 19
Verse 19.1
: सदापरिभूतपरिवर्तः | अथ खलु भगवान् महास्थामप्राप्तं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - अनेनापि तावन्महास्थामप्राप्त पर्यायेण एवं वेदितव्यम् - यथा य इममेवंरूपं धर्मपर्यायं प्रतिक्षेप्स्यन्ति, एवंरूपांश्च सूत्रान्तधारकांश्च भिक्षुभिक्षुण्युपासकोपासिका आक्रोशिष्यन्ति, परिभाषिष्यन्ति, असत्यया परुषया वाचा समुदाचरिष्यन्ति, तेषामेवमनिष्टो विपाको भविष्यति, यो न शक्यं वाचा परिकीर्तयितुम् | ये च इममएवंरूपं सूत्रान्तं धारयिष्यन्ति वाचयिष्यन्ति देशयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, तेषामेवमिष्टो विपाको भविष्यति यादृशो मया पूर्वं परिकीर्तितः | एवंरूपां च चक्षुःश्रोत्रघ्राणजिह्वाकायमनः - परिशुद्धिमधिगमिष्यन्ति || भूतपूर्वं महास्थामप्राप्त अतीते ऽध्वन्यसंख्येयैः कल्पैरसंख्येयतरैर्विपुलैरप्रमेयैरचिन्त्यैस्तेभ्यः परेण परतरेण यदासीत् - तेन कालेन समयेन भीष्मगर्जितस्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् विनिर्भोगे कल्पे महासंभवायां लोकधातौ | स खलु पुनर्महास्थामप्राप्त भगवान् भीष्मगर्जितस्वरराजस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तस्यां महासंभवायां लोकधातौ सदेवमानुषासुरस्य लोकस्य पुरतो धर्मं देशयति स्म | यदिदं श्रावकाणां चतुरार्यसत्यसंप्रयुक्तं धर्मं देशयति स्म जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायाससमतिक्रमाय निर्वाणपर्यवसानं प्रतीत्यसमुत्पादप्रवृत्तिम् | बोधिसत्त्वानां महासत्त्वानां षट्पारमिताप्रतिसंयुक्तानामनुत्तरां सम्यक्संबोधिमारभ्य तथागतज्ञानदर्शनपर्यवसानं धर्मं देशयति स्म | तस्य खलु पुनर्महास्थामप्राप्त भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य चत्वारिंशद्गङ्गानदीवालिकासमानि कल्पकोटीनयुतशतसहस्राण्यायुष्प्रमाणमभूत् | परिनिर्वृतस्य जम्बुद्वीपपरमाणुरजःसमानि कल्पकोटीनयुतशतसहस्राणि सद्धर्मः स्थितो ऽभूत् | चतुर्द्वीपपरमाणुरजःसमानि कल्पकोटीनयुतसहस्राणि सद्धर्मप्रतिरूपकः स्थितो ऽभूत् | तस्यां खलु पुनर्महास्थामप्राप्त महासंभवायां लोकधातौ भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सद्धर्मप्रतिरूपके च अन्तर्हिते अपरो ऽपि भीष्मगर्जितस्वरराज एव तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् | अनया महास्थामप्राप्त परंपरया तस्यां महासंभवायां लोकधातौ भीष्मगर्जितस्वरराजनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिकोटीनयुतशतसहस्राण्यभूवन् | तत्र महास्थामप्राप्त यो ऽसौ तथागतः सर्वपूर्वको ऽभूद् भीष्मगर्जितस्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्, तस्य भगवतः परिनिर्वृतस्य सद्धर्मे ऽन्तर्हिते सद्धर्मप्रतिरूपके च अन्तर्धीयमाने तस्मिन् शासने ऽधिमानिकभिक्ष्वध्याक्रान्ते (वैद्य २२५) सदापरिभूतो नाम बोधिसत्त्वो भिक्षुरभूत् | केन कारणेन महास्थामप्राप्त स बोधिसत्त्वो महासत्त्वः सदापरिभूत इत्युच्यते? स खलु पुनर्महास्थामप्राप्त बोधिसत्त्वो महासत्त्वो यं यमेव पश्यति भिक्षुं वा भिक्षूणीं वा उपासकं वा उपासिकां वा, तं तमुपसंक्रम्य एव वदति - नाहमायुष्मन्तो युष्माकं परिभवामि | अपरिभूता यूयम् | तत्कस्य हेतोः? सर्वे हि भवन्तो बोधिसत्त्वचर्यां चरन्तु | भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धा इति | अनेन महास्थामप्राप्त पर्यायेण स बोधिसत्त्वो महासत्त्वो भिक्षुभूतो नोद्देशं करोति, न स्वाध्याय करोति, अन्यत्र यं यमेव पश्यति दूरगतमपि, सर्वं तमुपंसक्रम्य एवं संश्रावयति भिक्षुं वा भिक्षुणीं वा उपासकं वा उपासिकां वा, तं तमुपसंक्रम्यैवं वदति - नाहं भगिन्यो युष्माकं परिभवामि | अपरिभूता यूयम् | तत्कस्य हेतोः? सर्वा यूयं बोधिसत्त्वचर्यां चरध्वम् | भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धाः | यं यमेव महास्थामप्राप्त स बोधिसत्त्वो महासत्त्वस्तस्मिन् समये भिक्षुं वा भिक्षुणीं वा उपासकं वा उपासिकां वा एवं संश्रावयति, सर्वे ऽस्य यद्भूयस्त्वेन क्रुध्यन्ति, व्यापादन्ति अप्रसादमुत्पादयन्ति आक्रोशन्ति परिभाषन्ते - कुतो ऽयमपृष्टो भिक्षुरपरिभवचित्तमित्यस्माकमुपदर्शयति? परिभूतमात्मानं करोति यदस्माकं व्याकरोत्यनुत्तरायां सम्यक्संबोधौ असन्तमनाकाङ्क्षितं च | अथ खलु महास्थामप्राप्त तस्य बोधिसत्त्वस्य महासत्त्वस्य बहूनि वर्षाणि तथा आक्रुश्यतः परिभाष्यमाणस्य गच्छन्ति | न च कस्यचित् क्रुध्यति, न व्यापादचित्तमुत्पादयति | ये चास्य एवं संश्रावयतो लोष्टं वा दण्डं वा क्षिपन्ति, स तेषां दूरत एव उच्चैःस्वरं कृत्वा संश्रावयति स्म - नाहं युष्माकं परिभवामीति | तस्य ताभिरभिमानिकभिक्षुभिक्षुण्युपासकोपासिकाभिः सततसमितं संश्राव्यमाणाभिः सदापरिभूत इति नाम कृतमभूत् || तेन खलु पुनर्महास्थामप्राप्त सदापरिभूतेन बोधिसत्त्वेन महासत्त्वेन कालक्रियायां प्रत्युपस्थितायां मरणकालसमये प्रत्युपस्थिते अयं सद्धर्मपुण्डरीको धर्मपर्यायः श्रुतो ऽभूत् | तेन च भगवता भीष्मगर्जितस्वरराजेन तथागतेनार्हता सम्यक्संबुद्धेन अयं धर्मपर्यायो विंशतिभिर्गाथाविंशतिकोटीनयुतशतसहस्रैर्भाषितो ऽभूत् | स च सदापरिभूतो बोधिसत्त्वो महासत्त्वो मरणकालसमये प्रत्युपस्थिते अन्तरीक्षनिर्घोषादिमं धर्मपर्यायमश्रौषीत् | येन केनचिद् भाषितमन्तरीक्षान्निर्घोषं श्रुत्वा इमं धर्मपर्यायमुद्गृहीतवान्, इमां चैवंरूपां चक्षुर्विशुद्धिं श्रोत्रविशुद्धिं घ्राणविशुद्धिं जिह्वाविशुद्धिं कायविशुद्धिं मनोविशुद्धिं च प्रतिलब्धवान् | सहप्रतिलब्धाभिर्विशुद्धिभिः पुनरन्यानि विंशतिवर्षकोटीनयुतशतसहस्राणि आत्मनो जीवितसंस्कारमधिष्ठाय इमं सद्धर्मपुण्डरीकं धर्मपर्यायं संप्रकाशितवान् | ये च ते ऽभिमानिकाः सत्त्वा भिक्षुभिक्षुण्युपासकोपासिकाः, ये पूर्वं नाहं युष्माकं परिभवामीति संश्राविताः, यैरस्येदं सदापरिभूत इति नाम कृतमभूत्, तस्योदारर्द्धिबलस्थामं प्रतिज्ञाप्रतिभानबलस्थामं प्रज्ञाबलस्थामं (वैद्य २२६) च दृष्ट्वा सर्वे ऽनुसहायीभूता अभूवन् धर्मश्रवणाय | सर्वे तेन अन्यानि च बहूनि प्राणिकोटीनयुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ समादापितान्यभूवन् || स खलु पुनर्महास्थामप्राप्त बोधिसत्त्वो महासत्त्वस्ततश्च्यवित्वा चन्द्रस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिकोटीशतान्यारागितवान्, सर्वेषु च इमं धर्मपर्यायं संप्रकाशयामास | सो ऽनुपूर्वेण तेनैव पूर्वकेण कुशलमूलेन पुनरप्यनुपूर्वेण दुन्दुभिस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिमेव तथागतकोटीनयुतशतसहस्राण्यारागितवान् | सर्वेषु च इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारागितवान्, संप्रकाशितवांश्चतसृणां पर्षदाम् | सो ऽनेनैव पूर्वकेण कुशलमूलेन पुनरप्यपूर्वेण मेघस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिमेव तथागतकोटीशतसहस्राण्यारागितवान्, सर्वेषु च इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारगितवान्, संप्रकाशितवांश्चतसृणां पर्षदाम् | सर्वेषु च एवंरूपया चक्षुःपरिशुद्धया समन्वागतो ऽभूत्, श्रोत्रपरिशुद्ध्या घ्राणपरिशुद्धया जिह्वापरिशुद्धया कायपरिशुद्धया मनःपरिशुद्धया समन्वागतो ऽभूत् || स खलु पुनर्महास्थामप्राप्त सदापरिभूतो बोधिसत्त्वो महासत्त्व इयतां तथागत कोटीनयुतशतसहस्राणां सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा अन्येषां च बहूनां बुद्धकोटीनयुतशतसहस्राणां सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा, सर्वेषु च तेषु इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारागितवान्, आरागयित्वा स तेनैव पूर्वकेण कुशलमूलेन परिपक्वेन अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः | स्यात्खलु पुनस्ते महास्थामप्राप्त एवं काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यः स तेन कालेन तेन समयेन सदापरिभूतो नाम बोधिसत्त्वो महासत्त्वो ऽभूत्, यस्तस्य भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य शासने चतसृणां पर्षदां सदापरिभूतः संमतो ऽभूत्, येन ते तावन्तस्तथागता अर्हन्तः सम्यक्संबुद्धा आरागिता अभूवन्? न खलु पुनस्ते महास्थामप्राप्त एवं द्रष्टव्यम् | तत्कस्य हेतोः? अहमेव स महास्थामप्राप्त तेन कालेन तेन समयेन सदापरिभूतो नाम बोधिसत्त्वो महासत्त्वो ऽभूवम् | यदा मया महास्थामप्राप्त पूर्वमयं धर्मपर्यायो नोद्गृहीतो ऽभविष्यत्, न धारितः, नाहमेवं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽभविष्यम् | यतश्चाहं महास्थामप्राप्त पौर्विकाणां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकादिमं धर्मपर्यायं धारितवान् वाचितवान् देशितवान्, ततो ऽहमेवं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुद्धः | यान्यपि तानि महास्थामप्राप्त तेन सदापरिभूतेन बोधिसत्त्वेन महासत्त्वेन भिक्षुशतानि भिक्षुणीशतानि च उपासकशतानि उपासिकाशतानि च तस्य भगवतः शासने इमं धर्मपर्यायं संश्रावितान्यभूवन् - नाहं युष्माकं परिभवामीति | सर्वे भवन्तो बोधिसत्त्वचर्यां चरन्तु | भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धाः | यैस्तस्य बोधिसत्त्वस्यान्तिके व्यापादचित्तमुत्पादितमभूत्, (वैद्य २२७) तैर्विशतिकल्पकोटीनयुतशतसहस्राणि न जातु तथागतो दृष्टो ऽभूत्, नापि धर्मशब्दो न संघशब्दः श्रुतो ऽभूत् | दश च कल्पसहस्राण्यवीचौ महानरके दारुणां वेदनां वेदयामासुः | ते च सर्वे तस्मात् कर्मावरणात् परिमुक्ताः | तेनैव बोधिसत्त्वेन महासत्त्वेन परिपाचिता अनुत्तरायां सम्यक्संबोधौ | स्यात्खलु पुनस्ते महास्थामप्राप्त काङ्क्षा वा विमतिर्वा विचिकित्सा वा - कतमे तेन कालेन तेन समयेन ते सत्त्वा अभूवन् ये ते तं बोधिसत्त्वं प्तहासत्त्वमुल्लापितवन्त उच्चग्घितवन्तः? अस्यामेव महास्थामप्राप्त पर्षदि भद्रपालप्रमुखाणि पञ्च बोधिसत्त्वशतानि सिंहचन्द्राप्रमुखानि पञ्चभिक्षुणीशतानि सुगतचेतनाप्रमुखानि पञ्चोपासिकाशतानि सर्वाण्यवैवर्तिकानि कृतानि अनुत्तरायां सम्यक्संबोधौ | एवमियं महास्थामप्राप्त महार्थस्य धर्मपर्यायस्य धारणा वाचना देशना बोधिसत्त्वानां महासत्त्वानामनुत्तरायाः सम्यक्संबोधेराहारिका संवर्तते | तस्मात्तर्हि महास्थामप्राप्त अयं धर्मपर्यायो बोधिसत्त्वैर्महासत्त्वैस्तथागते परिनिर्वृते अभीक्ष्णं धारयितव्यो वाचयितव्यो देशयितव्यः संप्रकाशयितव्य इति || अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत - अतीतमध्वानमनुस्मरामि भीष्मस्वरो राज जिनो यदासि । महानुभावो नरदेवपूजितः प्रणायको नरमरुयक्षरक्षसाम् ॥ १९.१ ॥
: sadāparibhūtaparivartaḥ | atha khalu bhagavān mahāsthāmaprāptaṃ bodhisattvaṃ mahāsattvamāmantrayate sma - anenāpi tāvanmahāsthāmaprāpta paryāyeṇa evaṃ veditavyam - yathā ya imamevaṃrūpaṃ dharmaparyāyaṃ pratikṣepsyanti, evaṃrūpāṃśca sūtrāntadhārakāṃśca bhikṣubhikṣuṇyupāsakopāsikā ākrośiṣyanti, paribhāṣiṣyanti, asatyayā paruṣayā vācā samudācariṣyanti, teṣāmevamaniṣṭo vipāko bhaviṣyati, yo na śakyaṃ vācā parikīrtayitum | ye ca imamaevaṃrūpaṃ sūtrāntaṃ dhārayiṣyanti vācayiṣyanti deśayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, teṣāmevamiṣṭo vipāko bhaviṣyati yādṛśo mayā pūrvaṃ parikīrtitaḥ | evaṃrūpāṃ ca cakṣuḥśrotraghrāṇajihvākāyamanaḥ - pariśuddhimadhigamiṣyanti || bhūtapūrvaṃ mahāsthāmaprāpta atīte 'dhvanyasaṃkhyeyaiḥ kalpairasaṃkhyeyatarairvipulairaprameyairacintyaistebhyaḥ pareṇa paratareṇa yadāsīt - tena kālena samayena bhīṣmagarjitasvararājo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān vinirbhoge kalpe mahāsaṃbhavāyāṃ lokadhātau | sa khalu punarmahāsthāmaprāpta bhagavān bhīṣmagarjitasvararājastathāgato 'rhan samyaksaṃbuddhastasyāṃ mahāsaṃbhavāyāṃ lokadhātau sadevamānuṣāsurasya lokasya purato dharmaṃ deśayati sma | yadidaṃ śrāvakāṇāṃ caturāryasatyasaṃprayuktaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsasamatikramāya nirvāṇaparyavasānaṃ pratītyasamutpādapravṛttim | bodhisattvānāṃ mahāsattvānāṃ ṣaṭpāramitāpratisaṃyuktānāmanuttarāṃ samyaksaṃbodhimārabhya tathāgatajñānadarśanaparyavasānaṃ dharmaṃ deśayati sma | tasya khalu punarmahāsthāmaprāpta bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya catvāriṃśadgaṅgānadīvālikāsamāni kalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt | parinirvṛtasya jambudvīpaparamāṇurajaḥsamāni kalpakoṭīnayutaśatasahasrāṇi saddharmaḥ sthito 'bhūt | caturdvīpaparamāṇurajaḥsamāni kalpakoṭīnayutasahasrāṇi saddharmapratirūpakaḥ sthito 'bhūt | tasyāṃ khalu punarmahāsthāmaprāpta mahāsaṃbhavāyāṃ lokadhātau bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya saddharmapratirūpake ca antarhite aparo 'pi bhīṣmagarjitasvararāja eva tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | anayā mahāsthāmaprāpta paraṃparayā tasyāṃ mahāsaṃbhavāyāṃ lokadhātau bhīṣmagarjitasvararājanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatikoṭīnayutaśatasahasrāṇyabhūvan | tatra mahāsthāmaprāpta yo 'sau tathāgataḥ sarvapūrvako 'bhūd bhīṣmagarjitasvararājo nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān, tasya bhagavataḥ parinirvṛtasya saddharme 'ntarhite saddharmapratirūpake ca antardhīyamāne tasmin śāsane 'dhimānikabhikṣvadhyākrānte (vaidya 225) sadāparibhūto nāma bodhisattvo bhikṣurabhūt | kena kāraṇena mahāsthāmaprāpta sa bodhisattvo mahāsattvaḥ sadāparibhūta ityucyate? sa khalu punarmahāsthāmaprāpta bodhisattvo mahāsattvo yaṃ yameva paśyati bhikṣuṃ vā bhikṣūṇīṃ vā upāsakaṃ vā upāsikāṃ vā, taṃ tamupasaṃkramya eva vadati - nāhamāyuṣmanto yuṣmākaṃ paribhavāmi | aparibhūtā yūyam | tatkasya hetoḥ? sarve hi bhavanto bodhisattvacaryāṃ carantu | bhaviṣyatha yūyaṃ tathāgatā arhantaḥ samyaksaṃbuddhā iti | anena mahāsthāmaprāpta paryāyeṇa sa bodhisattvo mahāsattvo bhikṣubhūto noddeśaṃ karoti, na svādhyāya karoti, anyatra yaṃ yameva paśyati dūragatamapi, sarvaṃ tamupaṃsakramya evaṃ saṃśrāvayati bhikṣuṃ vā bhikṣuṇīṃ vā upāsakaṃ vā upāsikāṃ vā, taṃ tamupasaṃkramyaivaṃ vadati - nāhaṃ bhaginyo yuṣmākaṃ paribhavāmi | aparibhūtā yūyam | tatkasya hetoḥ? sarvā yūyaṃ bodhisattvacaryāṃ caradhvam | bhaviṣyatha yūyaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ | yaṃ yameva mahāsthāmaprāpta sa bodhisattvo mahāsattvastasmin samaye bhikṣuṃ vā bhikṣuṇīṃ vā upāsakaṃ vā upāsikāṃ vā evaṃ saṃśrāvayati, sarve 'sya yadbhūyastvena krudhyanti, vyāpādanti aprasādamutpādayanti ākrośanti paribhāṣante - kuto 'yamapṛṣṭo bhikṣuraparibhavacittamityasmākamupadarśayati? paribhūtamātmānaṃ karoti yadasmākaṃ vyākarotyanuttarāyāṃ samyaksaṃbodhau asantamanākāṅkṣitaṃ ca | atha khalu mahāsthāmaprāpta tasya bodhisattvasya mahāsattvasya bahūni varṣāṇi tathā ākruśyataḥ paribhāṣyamāṇasya gacchanti | na ca kasyacit krudhyati, na vyāpādacittamutpādayati | ye cāsya evaṃ saṃśrāvayato loṣṭaṃ vā daṇḍaṃ vā kṣipanti, sa teṣāṃ dūrata eva uccaiḥsvaraṃ kṛtvā saṃśrāvayati sma - nāhaṃ yuṣmākaṃ paribhavāmīti | tasya tābhirabhimānikabhikṣubhikṣuṇyupāsakopāsikābhiḥ satatasamitaṃ saṃśrāvyamāṇābhiḥ sadāparibhūta iti nāma kṛtamabhūt || tena khalu punarmahāsthāmaprāpta sadāparibhūtena bodhisattvena mahāsattvena kālakriyāyāṃ pratyupasthitāyāṃ maraṇakālasamaye pratyupasthite ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ śruto 'bhūt | tena ca bhagavatā bhīṣmagarjitasvararājena tathāgatenārhatā samyaksaṃbuddhena ayaṃ dharmaparyāyo viṃśatibhirgāthāviṃśatikoṭīnayutaśatasahasrairbhāṣito 'bhūt | sa ca sadāparibhūto bodhisattvo mahāsattvo maraṇakālasamaye pratyupasthite antarīkṣanirghoṣādimaṃ dharmaparyāyamaśrauṣīt | yena kenacid bhāṣitamantarīkṣānnirghoṣaṃ śrutvā imaṃ dharmaparyāyamudgṛhītavān, imāṃ caivaṃrūpāṃ cakṣurviśuddhiṃ śrotraviśuddhiṃ ghrāṇaviśuddhiṃ jihvāviśuddhiṃ kāyaviśuddhiṃ manoviśuddhiṃ ca pratilabdhavān | sahapratilabdhābhirviśuddhibhiḥ punaranyāni viṃśativarṣakoṭīnayutaśatasahasrāṇi ātmano jīvitasaṃskāramadhiṣṭhāya imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ saṃprakāśitavān | ye ca te 'bhimānikāḥ sattvā bhikṣubhikṣuṇyupāsakopāsikāḥ, ye pūrvaṃ nāhaṃ yuṣmākaṃ paribhavāmīti saṃśrāvitāḥ, yairasyedaṃ sadāparibhūta iti nāma kṛtamabhūt, tasyodārarddhibalasthāmaṃ pratijñāpratibhānabalasthāmaṃ prajñābalasthāmaṃ (vaidya 226) ca dṛṣṭvā sarve 'nusahāyībhūtā abhūvan dharmaśravaṇāya | sarve tena anyāni ca bahūni prāṇikoṭīnayutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau samādāpitānyabhūvan || sa khalu punarmahāsthāmaprāpta bodhisattvo mahāsattvastataścyavitvā candrasvararājasahanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatikoṭīśatānyārāgitavān, sarveṣu ca imaṃ dharmaparyāyaṃ saṃprakāśayāmāsa | so 'nupūrveṇa tenaiva pūrvakeṇa kuśalamūlena punarapyanupūrveṇa dundubhisvararājasahanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatimeva tathāgatakoṭīnayutaśatasahasrāṇyārāgitavān | sarveṣu ca imameva saddharmapuṇḍarīkaṃ dharmaparyāyamārāgitavān, saṃprakāśitavāṃścatasṛṇāṃ parṣadām | so 'nenaiva pūrvakeṇa kuśalamūlena punarapyapūrveṇa meghasvararājasahanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatimeva tathāgatakoṭīśatasahasrāṇyārāgitavān, sarveṣu ca imameva saddharmapuṇḍarīkaṃ dharmaparyāyamāragitavān, saṃprakāśitavāṃścatasṛṇāṃ parṣadām | sarveṣu ca evaṃrūpayā cakṣuḥpariśuddhayā samanvāgato 'bhūt, śrotrapariśuddhyā ghrāṇapariśuddhayā jihvāpariśuddhayā kāyapariśuddhayā manaḥpariśuddhayā samanvāgato 'bhūt || sa khalu punarmahāsthāmaprāpta sadāparibhūto bodhisattvo mahāsattva iyatāṃ tathāgata koṭīnayutaśatasahasrāṇāṃ satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kṛtvā anyeṣāṃ ca bahūnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kṛtvā, sarveṣu ca teṣu imameva saddharmapuṇḍarīkaṃ dharmaparyāyamārāgitavān, ārāgayitvā sa tenaiva pūrvakeṇa kuśalamūlena paripakvena anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ | syātkhalu punaste mahāsthāmaprāpta evaṃ kāṅkṣā vā vimatirvā vicikitsā vā - anyaḥ sa tena kālena tena samayena sadāparibhūto nāma bodhisattvo mahāsattvo 'bhūt, yastasya bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya śāsane catasṛṇāṃ parṣadāṃ sadāparibhūtaḥ saṃmato 'bhūt, yena te tāvantastathāgatā arhantaḥ samyaksaṃbuddhā ārāgitā abhūvan? na khalu punaste mahāsthāmaprāpta evaṃ draṣṭavyam | tatkasya hetoḥ? ahameva sa mahāsthāmaprāpta tena kālena tena samayena sadāparibhūto nāma bodhisattvo mahāsattvo 'bhūvam | yadā mayā mahāsthāmaprāpta pūrvamayaṃ dharmaparyāyo nodgṛhīto 'bhaviṣyat, na dhāritaḥ, nāhamevaṃ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbuddho 'bhaviṣyam | yataścāhaṃ mahāsthāmaprāpta paurvikāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikādimaṃ dharmaparyāyaṃ dhāritavān vācitavān deśitavān, tato 'hamevaṃ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ | yānyapi tāni mahāsthāmaprāpta tena sadāparibhūtena bodhisattvena mahāsattvena bhikṣuśatāni bhikṣuṇīśatāni ca upāsakaśatāni upāsikāśatāni ca tasya bhagavataḥ śāsane imaṃ dharmaparyāyaṃ saṃśrāvitānyabhūvan - nāhaṃ yuṣmākaṃ paribhavāmīti | sarve bhavanto bodhisattvacaryāṃ carantu | bhaviṣyatha yūyaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ | yaistasya bodhisattvasyāntike vyāpādacittamutpāditamabhūt, (vaidya 227) tairviśatikalpakoṭīnayutaśatasahasrāṇi na jātu tathāgato dṛṣṭo 'bhūt, nāpi dharmaśabdo na saṃghaśabdaḥ śruto 'bhūt | daśa ca kalpasahasrāṇyavīcau mahānarake dāruṇāṃ vedanāṃ vedayāmāsuḥ | te ca sarve tasmāt karmāvaraṇāt parimuktāḥ | tenaiva bodhisattvena mahāsattvena paripācitā anuttarāyāṃ samyaksaṃbodhau | syātkhalu punaste mahāsthāmaprāpta kāṅkṣā vā vimatirvā vicikitsā vā - katame tena kālena tena samayena te sattvā abhūvan ye te taṃ bodhisattvaṃ ptahāsattvamullāpitavanta uccagghitavantaḥ? asyāmeva mahāsthāmaprāpta parṣadi bhadrapālapramukhāṇi pañca bodhisattvaśatāni siṃhacandrāpramukhāni pañcabhikṣuṇīśatāni sugatacetanāpramukhāni pañcopāsikāśatāni sarvāṇyavaivartikāni kṛtāni anuttarāyāṃ samyaksaṃbodhau | evamiyaṃ mahāsthāmaprāpta mahārthasya dharmaparyāyasya dhāraṇā vācanā deśanā bodhisattvānāṃ mahāsattvānāmanuttarāyāḥ samyaksaṃbodherāhārikā saṃvartate | tasmāttarhi mahāsthāmaprāpta ayaṃ dharmaparyāyo bodhisattvairmahāsattvaistathāgate parinirvṛte abhīkṣṇaṃ dhārayitavyo vācayitavyo deśayitavyaḥ saṃprakāśayitavya iti || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - atītamadhvānamanusmarāmi bhīṣmasvaro rāja jino yadāsi / mahānubhāvo naradevapūjitaḥ praṇāyako naramaruyakṣarakṣasām (19.1)
Verse 19.2
।। तस्य जिनस्य परिनिर्वृतस्य सद्धर्म संक्षोभ व्रजन्ति पश्चिमे । भिक्षू अभूषी तद बोधिसत्त्वो नामेन सो सदपरिभूत उच्यते ॥ १९.२ ॥
// tasya jinasya parinirvṛtasya saddharma saṃkṣobha vrajanti paścime / bhikṣū abhūṣī tada bodhisattvo nāmena so sadaparibhūta ucyate (19.2)
Verse 19.3
।। उपसंक्रमित्वा तद भिक्षु अन्यान् उपलम्भदृष्टीन तथैव भिक्षुणी । परिभाव मह्यं न कदाचिदस्ति यूयं हि चर्यां चरथाग्रबोधये ॥ १९.३ ॥
// upasaṃkramitvā tada bhikṣu anyān upalambhadṛṣṭīna tathaiva bhikṣuṇī / paribhāva mahyaṃ na kadācidasti yūyaṃ hi caryāṃ carathāgrabodhaye (19.3)
Verse 19.4
।। एवं च संश्रावयि नित्यकालं आक्रोश परिभाष सहन्तु तेषाम् । कालक्रियायां समुपस्थितायां श्रुतं इदं सूत्रमभूषि तेन ॥ १९.४ ॥
// evaṃ ca saṃśrāvayi nityakālaṃ ākrośa paribhāṣa sahantu teṣām / kālakriyāyāṃ samupasthitāyāṃ śrutaṃ idaṃ sūtramabhūṣi tena (19.4)
Verse 19.5
।। अकृत्व कालं तद पण्डितेन अधिष्ठिहित्वा च सुदीर्घमायुः । प्रकाशितं सूत्रमिदं तदासीत् तहि शासने तस्य विनायकस्य ॥ १९.५ ॥
// akṛtva kālaṃ tada paṇḍitena adhiṣṭhihitvā ca sudīrghamāyuḥ / prakāśitaṃ sūtramidaṃ tadāsīt tahi śāsane tasya vināyakasya (19.5)
Verse 19.6
।। ते चापि सर्वे बहु ओपलम्भिका बोधीय तेन परिपाचितासीत् । ततश्च्यवित्वान स बोधिसत्त्वो आरागयी बुद्धसहस्रकोट्यः ॥ १९.६ ॥
// te cāpi sarve bahu opalambhikā bodhīya tena paripācitāsīt / tataścyavitvāna sa bodhisattvo ārāgayī buddhasahasrakoṭyaḥ (19.6)
Verse 19.7
।। अनुपूर्व पुण्येन कृतेन तेन प्रकाशयित्वा इमु सूत्र नित्यम् । बोधिं स संप्राप्त जिनस्य पुत्रो अहमेव सो शाक्यमुनिस्तदासीत् ॥ १९.७ ॥
// anupūrva puṇyena kṛtena tena prakāśayitvā imu sūtra nityam / bodhiṃ sa saṃprāpta jinasya putro ahameva so śākyamunistadāsīt (19.7)
Verse 19.8
।। ये चापि भिक्षू तद ओपलम्भिका या भिक्षुणी ये च उपासका वा । उपासिकास्तत्र च या तदासीद् ये बोधि संश्रावित पण्डितेन ॥ १९.८ ॥
// ye cāpi bhikṣū tada opalambhikā yā bhikṣuṇī ye ca upāsakā vā / upāsikāstatra ca yā tadāsīd ye bodhi saṃśrāvita paṇḍitena (19.8)
Verse 19.9
।। ते चापि दृष्ट्वा बहुबुद्धकोट्य इमे च ते पञ्चशता अनूनकाः । तथैव भिक्षूण च भिक्षुणी च उपासिकाश्चापि मि मह्य संमुखम् ॥ १९.९ ॥
// te cāpi dṛṣṭvā bahubuddhakoṭya ime ca te pañcaśatā anūnakāḥ / tathaiva bhikṣūṇa ca bhikṣuṇī ca upāsikāścāpi mi mahya saṃmukham (19.9)
Verse 19.10
।। सर्वे मया श्रावित अग्रधर्मा ते चैव सर्वे परिपाचिता मे । मयि निर्वृते चापिमि सर्वि धीरा इमु धारयिष्यन्ति ह सूत्रमग्रम् ॥ १९.१० ॥
// sarve mayā śrāvita agradharmā te caiva sarve paripācitā me / mayi nirvṛte cāpimi sarvi dhīrā imu dhārayiṣyanti ha sūtramagram (19.10)
Verse 19.11
।। कल्पान कोट्यो बहुभीरचिन्त्यैर्न कदाचिदेतादृश धर्म श्रूयते । बुद्धान कोटीशत चैव भोन्ति न च ते पिमं सूत्र प्रकाशयन्ति ॥ १९.११ ॥
// kalpāna koṭyo bahubhīracintyairna kadācidetādṛśa dharma śrūyate / buddhāna koṭīśata caiva bhonti na ca te pimaṃ sūtra prakāśayanti (19.11)
Verse 19.12
।। तस्माच्छ्रूणित्वा इदमेवरूपं परिकीर्तितं धर्मु स्वयं स्वयंभूवा । आरागयित्वा च पुनः पुनश्चिमं प्रकाशयेत् सूत्र मयीह निर्वृते ॥ १९.१२ ॥
// tasmācchrūṇitvā idamevarūpaṃ parikīrtitaṃ dharmu svayaṃ svayaṃbhūvā / ārāgayitvā ca punaḥ punaścimaṃ prakāśayet sūtra mayīha nirvṛte (19.12)