24. Chapter 24
Verse 24.1
: समन्तमुखपरिवर्तः || अथ खलु अक्षयमतिर्बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणाम्य भगवन्तमेतदवोचत् - केन कारणेन भगवन् अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽवलोकितेश्वर इत्युच्यते? एवमुक्ते भगवानक्षयमतिं बोधिसत्त्वं महासत्त्वमेतदवोचत् - इह कुलपुत्र यावन्ति सत्त्वकोटीनयुतशतसहस्राणि यानि दुःखानि प्रत्युअनुभवन्ति, तानि सचेदवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयं शृणुयुः, ते सर्वे तस्माद्दुःखस्कन्धाद् परिमुच्येरन् | ये च कुलपुत्र सत्त्वा अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयं धारयिष्यन्ति, सचेत्ते महत्यग्निस्कन्धे प्रपतेयुः, सर्वे ते अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य तेजसा तस्मान्महतो ऽग्निस्कन्धात् परिमुच्येरन् | सचेत् पुनः कुलपुत्र सत्त्वा नदीभिरुह्यमाना अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्युः, सर्वास्ता नद्यस्तेषां सत्त्वानां गाधं दद्युः | सचेत् पुनः कुलपुत्र सागरमध्ये वहनाभिरूढानां सत्त्वकोटीनयुतशतसहस्राणां हिरण्यसुवर्णमणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालाश्मगर्भमुसारगल्वलोहितमुक्तादीनां कृतनिधीनां स पोतस्तेषां कालिकावातेन राक्षसीद्वीपे क्षिप्तः स्यात्, तस्मिंश्च कश्चिदेवैकः सत्त्वः स्यात् यो ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्यात्, सर्वे ते परिमुच्येरंस्तस्माद् राक्षसीद्वीपात् | अनेन खलु पुनः कुलपुत्र कारणेन अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽवलोकितेश्वर इति संज्ञायते || सचेत् कुलपुत्र कश्चिदेव वध्योत्सृष्टो ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्यात्, तानि तेषां वध्यघातकानां शस्त्राणि विकीर्येरन् | सचेत् खलु पुनः कुलपुत्र अयं त्रिसाहस्रमहासाहस्रो लोकधातुर्यक्षराक्षसैः परिपूर्णो भवेत्, ते ऽवलोकितेश्वरस्य महासत्त्वस्य नामधेयग्रहणेन दुष्टचित्ता द्रष्टुमप्यशक्ताः स्युः | सचेत्खलु पुनः कुलपुत्र कश्चिदेव सत्त्वो दार्वायस्मयैर्हडिनिगडबन्धनैर्बद्धो भवेत्, अपराध्यनपराधी वा, तस्यावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयग्रहणेन क्षिप्रं तानि हडिनिगडबन्धनानि विवरमनुप्रयच्छन्ति | ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः || सचेत्कुलपुत्र अयं त्रिसाहस्रमहासाहस्रो लोकधातुर्धूर्तैरमित्रैश्चौरैश्च शस्त्रपाणिभिः परिपूर्णो भवेत्, तस्मिंश्चैकः सार्थवाहो महान्तं सार्थं रत्नाढ्यमनर्ध्यं गृहीत्वा गच्छेत् | ते गच्छन्तस्तांश्चौरान् धूर्तान् शत्रूंश्च शस्त्रहस्तान् पश्येयुः | दृष्ट्वा च पुनर्भीतास्त्रस्ता अशरणमात्मानं संजानीयुः | स च सार्थवाहस्तं सार्थमेवं ब्रूयात् - मा भैष्ट कुलपुत्राः, मा भैष्ट, अभयंददमवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेकस्वरेण सर्वे समाक्रन्दध्वम् | ततो यूयमस्माच्चौरभयादमित्रभयात् क्षिप्रमेव परिमोक्ष्यध्वे | अथ खलु सर्व एव स सार्थः एकस्वरेण अवलोकितेश्वरमाक्रन्देत् - नमो नमस्तस्मै अभयंददायावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वायेति (वैद्य २५१)| सहनामग्रहणेनैव स सार्थः सर्वभयेभ्यः परिमुक्तो भवेत् | ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः || ये कुलपुत्र रागचरिताः सत्त्वाः, ते ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतरागा भवन्ति | ये द्वेषचरिताः सत्त्वाः, ते ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतद्वेषा भवन्ति | ये मोहचरिताः सत्त्वाः, ते ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतमोहा भवन्ति | एवं महर्द्धिकः कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः || यश्च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पुत्रकामो मातृग्रामो नमस्कारं करोति, तस्य पुत्रः प्रजायते अभिरूपः प्रासादिको दर्शनीयः | पुत्रलक्षणसमन्वागतो बहुजनप्रियो मनापो ऽवरोपितकुशलमूलश्च भवति | यो दारिकामभिनन्दति, तस्य दारिका प्रजायते अभिरूपा प्रासादिका दर्शनीया परमया शुभवर्णपुष्करतया समन्वागता दारिका - लक्षणसमन्वागता बहुजनप्रिया मनापा अवरोपितकुशलभूला च भवति | ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः || ये च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं करिष्यन्ति, नामधेयं च धारयिष्यन्ति, तेषाममोघफलं भवति | यश्च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं करिष्यति, नामधेयं च धारयिष्यति, यश्च द्वाषष्टीनां गङ्गानदीवालिकासमानां बुद्धानां भगवतां नमस्कारं कुर्यात्, नामधेयानि च धारयेत्, यश्च तावतामेव बुद्धानां भगवतां तिष्ठतां ध्रियतां यापयतां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पूजां कुर्यात्, तत्किं मन्यसे कुलपुत्र कियन्तं स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं पुण्याभिसंस्कारं प्रसवेत्? एवमुक्ते अक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - बहु भगवन्, बहु सुगत स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुं पुण्याभिसंस्कारं प्रसवेत् | भगवानाह - यश्च कुलपुत्र तावतां बुद्धानां भगवतां सत्कारं कृत्वा पुण्याभिसंस्कारः, यश्च अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य अन्तश एकमपि नमस्कारं कुर्यात् नामधेयं च धारयेत्, समो ऽनधिको ऽनतिरेकः पुण्याभिसंस्कारः उभयतो भवेत् | यश्च तेषां द्वाषष्टीनां गङ्गानदीवालिकासमानां बुद्धानां भगवतां सत्कारं कुर्यात् नामधेयानि च धारयेत्, यश्च अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कुर्यात् नामधेयं च धारयेत्, एतावुभौ पुण्यस्कन्धौ न सुकरौ क्षपयितुं कल्पकोटीनयुतशतसहस्रैरपि | एवमप्रमेयं कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधारणात् पुण्यम् || अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कथं भगवन् अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽस्यां सहायां लोकधातौ प्रविचरति? कथं सत्त्वानां धर्मं देशयति? कीदृशश्चावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यविषयः? एवमुक्ते भगवानक्षयमतिं बोधिसत्त्वं महासत्त्वमेतदवोचत् - सन्ति कुलपुत्र लोकधातवः (वैद्य २५२) येष्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बुद्धरूपेण सत्त्वानां धर्मं देशयति | सन्ति लोकधातवः, येष्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बोधिसत्त्वरूपेण सत्त्वानां धर्मं देशयति | केषांचित् प्रत्येकबुद्धरूपेण अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति | केषांचिच्छ्रावकरूपेण अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति | केषांचिद् ब्रह्मरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति | केषांचिच्छक्ररूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः धर्मं देशयति | केषांचिद् गन्धर्वरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति | केषांचिद् गन्धर्वरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति | यक्षवैनेयानां सत्त्वानां यक्षरूपेण धर्मं देशयति | ईश्वरवैनेयानां सत्त्वानामीश्वररूपेण, महेश्वरवैनेयानां सत्त्वानां महेश्वररूपेण धर्मं देशयति | चक्रवर्तिराजवैनेयानां सत्त्वानां चक्रवर्तिराजरूपेण धर्मं देशयति | पिशाचवैनेयानां सत्त्वानां पिशाचरूपेण धर्मं देशयति | वैश्रवणवैनेयानां सत्त्वानां वैश्रवणरूपेण धर्मं देशयति | सेनापतिवैनेयानां सत्त्वानां सेनापतिरूपेण धर्मं देशयति | ब्राह्मणवैनेयानां सत्त्वानां ब्राह्मणरूपेण धर्मं देशयति | वज्रपाणिवैनेयानां सत्त्वानां वज्रपाणिरूपेण धर्मं देशयति | एवमचिन्त्यगुणसमन्वागतः कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः | तस्मात्तर्हि कुलपुत्र अवलोकितेश्वरं बोधिसत्त्वं महासत्त्वं पूजयध्वम् | एष कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भीतानां सत्त्वानामभयं ददाति | अनेन कारणेन अभयंदद इति संज्ञायते इह सहायां लोकधातौ || अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - दास्यामो वयं भगवन् अवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय धर्मप्राभृतं धर्माच्छादम् | भगवानाहयस्येदानीं कुलपुत्र कालं मन्यसे | अथ खल्वक्षयमतिर्बोधसत्त्वो महासत्त्वः स्वकण्ठादवर्ताय शतसहस्रमूल्यं मुक्ताहारमवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय धर्माच्छादमनुप्रयच्छति स्म - प्रतीच्छ सत्पुरुष इमं धर्माच्छादं ममान्तिकात् | स न प्रतीच्छति स्म | अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वो ऽवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत् - प्रतिगृहाण त्वं कुलपुत्र इमं मुक्ताहारमस्माकमनुकम्पामुपादाय | अथ खल्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽक्षयमतेर्बोधिसत्त्वस्य महासत्त्वस्यान्तिकात् तं मुक्ताहारं प्रतिगृह्णाति स्म अक्षयमतेर्बोधिसत्त्वस्य महसत्त्वस्यानुकम्पामुपादाय, तासां च चतसृणां पर्षदां तेषां च देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्याणामनुकम्पामुपादाय | प्रतिगृह्य च द्वौ प्रत्यंशौ कृतवान् | कृत्वा चैकं प्रत्यंशं भगवते शाक्यमुनये ददाति स्म, द्वितीयं प्रत्यंशं भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य रत्नस्तूपे समुपनामयायास | ईदृश्या कुलपुत्र विकुर्वया अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽस्यां सहायां लोकधातावनुविचरति || अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत - चित्रध्वज अक्षयोमती एतमर्थं परिपृच्छि कारणात् । केना जिनपुत्र हेतुना उच्यते हि अवलोकितेश्वरः ॥ २४.१ ॥
: samantamukhaparivartaḥ || atha khalu akṣayamatirbodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya bhagavantametadavocat - kena kāraṇena bhagavan avalokiteśvaro bodhisattvo mahāsattvo 'valokiteśvara ityucyate? evamukte bhagavānakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat - iha kulaputra yāvanti sattvakoṭīnayutaśatasahasrāṇi yāni duḥkhāni pratyuanubhavanti, tāni sacedavalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ śṛṇuyuḥ, te sarve tasmādduḥkhaskandhād parimucyeran | ye ca kulaputra sattvā avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ dhārayiṣyanti, sacette mahatyagniskandhe prapateyuḥ, sarve te avalokiteśvarasya bodhisattvasya mahāsattvasya tejasā tasmānmahato 'gniskandhāt parimucyeran | sacet punaḥ kulaputra sattvā nadībhiruhyamānā avalokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryuḥ, sarvāstā nadyasteṣāṃ sattvānāṃ gādhaṃ dadyuḥ | sacet punaḥ kulaputra sāgaramadhye vahanābhirūḍhānāṃ sattvakoṭīnayutaśatasahasrāṇāṃ hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālāśmagarbhamusāragalvalohitamuktādīnāṃ kṛtanidhīnāṃ sa potasteṣāṃ kālikāvātena rākṣasīdvīpe kṣiptaḥ syāt, tasmiṃśca kaścidevaikaḥ sattvaḥ syāt yo 'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryāt, sarve te parimucyeraṃstasmād rākṣasīdvīpāt | anena khalu punaḥ kulaputra kāraṇena avalokiteśvaro bodhisattvo mahāsattvo 'valokiteśvara iti saṃjñāyate || sacet kulaputra kaścideva vadhyotsṛṣṭo 'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryāt, tāni teṣāṃ vadhyaghātakānāṃ śastrāṇi vikīryeran | sacet khalu punaḥ kulaputra ayaṃ trisāhasramahāsāhasro lokadhāturyakṣarākṣasaiḥ paripūrṇo bhavet, te 'valokiteśvarasya mahāsattvasya nāmadheyagrahaṇena duṣṭacittā draṣṭumapyaśaktāḥ syuḥ | sacetkhalu punaḥ kulaputra kaścideva sattvo dārvāyasmayairhaḍinigaḍabandhanairbaddho bhavet, aparādhyanaparādhī vā, tasyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyagrahaṇena kṣipraṃ tāni haḍinigaḍabandhanāni vivaramanuprayacchanti | īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ || sacetkulaputra ayaṃ trisāhasramahāsāhasro lokadhāturdhūrtairamitraiścauraiśca śastrapāṇibhiḥ paripūrṇo bhavet, tasmiṃścaikaḥ sārthavāho mahāntaṃ sārthaṃ ratnāḍhyamanardhyaṃ gṛhītvā gacchet | te gacchantastāṃścaurān dhūrtān śatrūṃśca śastrahastān paśyeyuḥ | dṛṣṭvā ca punarbhītāstrastā aśaraṇamātmānaṃ saṃjānīyuḥ | sa ca sārthavāhastaṃ sārthamevaṃ brūyāt - mā bhaiṣṭa kulaputrāḥ, mā bhaiṣṭa, abhayaṃdadamavalokiteśvaraṃ bodhisattvaṃ mahāsattvamekasvareṇa sarve samākrandadhvam | tato yūyamasmāccaurabhayādamitrabhayāt kṣiprameva parimokṣyadhve | atha khalu sarva eva sa sārthaḥ ekasvareṇa avalokiteśvaramākrandet - namo namastasmai abhayaṃdadāyāvalokiteśvarāya bodhisattvāya mahāsattvāyeti (vaidya 251)| sahanāmagrahaṇenaiva sa sārthaḥ sarvabhayebhyaḥ parimukto bhavet | īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ || ye kulaputra rāgacaritāḥ sattvāḥ, te 'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatarāgā bhavanti | ye dveṣacaritāḥ sattvāḥ, te 'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatadveṣā bhavanti | ye mohacaritāḥ sattvāḥ, te 'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatamohā bhavanti | evaṃ maharddhikaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ || yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya putrakāmo mātṛgrāmo namaskāraṃ karoti, tasya putraḥ prajāyate abhirūpaḥ prāsādiko darśanīyaḥ | putralakṣaṇasamanvāgato bahujanapriyo manāpo 'varopitakuśalamūlaśca bhavati | yo dārikāmabhinandati, tasya dārikā prajāyate abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkaratayā samanvāgatā dārikā - lakṣaṇasamanvāgatā bahujanapriyā manāpā avaropitakuśalabhūlā ca bhavati | īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ || ye ca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kariṣyanti, nāmadheyaṃ ca dhārayiṣyanti, teṣāmamoghaphalaṃ bhavati | yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kariṣyati, nāmadheyaṃ ca dhārayiṣyati, yaśca dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ namaskāraṃ kuryāt, nāmadheyāni ca dhārayet, yaśca tāvatāmeva buddhānāṃ bhagavatāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pūjāṃ kuryāt, tatkiṃ manyase kulaputra kiyantaṃ sa kulaputro vā kuladuhitā vā tatonidānaṃ puṇyābhisaṃskāraṃ prasavet? evamukte akṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat - bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṃ bahuṃ puṇyābhisaṃskāraṃ prasavet | bhagavānāha - yaśca kulaputra tāvatāṃ buddhānāṃ bhagavatāṃ satkāraṃ kṛtvā puṇyābhisaṃskāraḥ, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya antaśa ekamapi namaskāraṃ kuryāt nāmadheyaṃ ca dhārayet, samo 'nadhiko 'natirekaḥ puṇyābhisaṃskāraḥ ubhayato bhavet | yaśca teṣāṃ dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ satkāraṃ kuryāt nāmadheyāni ca dhārayet, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kuryāt nāmadheyaṃ ca dhārayet, etāvubhau puṇyaskandhau na sukarau kṣapayituṃ kalpakoṭīnayutaśatasahasrairapi | evamaprameyaṃ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadhāraṇāt puṇyam || atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat - kathaṃ bhagavan avalokiteśvaro bodhisattvo mahāsattvo 'syāṃ sahāyāṃ lokadhātau pravicarati? kathaṃ sattvānāṃ dharmaṃ deśayati? kīdṛśaścāvalokiteśvarasya bodhisattvasya mahāsattvasyopāyakauśalyaviṣayaḥ? evamukte bhagavānakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat - santi kulaputra lokadhātavaḥ (vaidya 252) yeṣvavalokiteśvaro bodhisattvo mahāsattvo buddharūpeṇa sattvānāṃ dharmaṃ deśayati | santi lokadhātavaḥ, yeṣvavalokiteśvaro bodhisattvo mahāsattvo bodhisattvarūpeṇa sattvānāṃ dharmaṃ deśayati | keṣāṃcit pratyekabuddharūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati | keṣāṃcicchrāvakarūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati | keṣāṃcid brahmarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati | keṣāṃcicchakrarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ dharmaṃ deśayati | keṣāṃcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati | keṣāṃcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati | yakṣavaineyānāṃ sattvānāṃ yakṣarūpeṇa dharmaṃ deśayati | īśvaravaineyānāṃ sattvānāmīśvararūpeṇa, maheśvaravaineyānāṃ sattvānāṃ maheśvararūpeṇa dharmaṃ deśayati | cakravartirājavaineyānāṃ sattvānāṃ cakravartirājarūpeṇa dharmaṃ deśayati | piśācavaineyānāṃ sattvānāṃ piśācarūpeṇa dharmaṃ deśayati | vaiśravaṇavaineyānāṃ sattvānāṃ vaiśravaṇarūpeṇa dharmaṃ deśayati | senāpativaineyānāṃ sattvānāṃ senāpatirūpeṇa dharmaṃ deśayati | brāhmaṇavaineyānāṃ sattvānāṃ brāhmaṇarūpeṇa dharmaṃ deśayati | vajrapāṇivaineyānāṃ sattvānāṃ vajrapāṇirūpeṇa dharmaṃ deśayati | evamacintyaguṇasamanvāgataḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ | tasmāttarhi kulaputra avalokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ pūjayadhvam | eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo bhītānāṃ sattvānāmabhayaṃ dadāti | anena kāraṇena abhayaṃdada iti saṃjñāyate iha sahāyāṃ lokadhātau || atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat - dāsyāmo vayaṃ bhagavan avalokiteśvarāya bodhisattvāya mahāsattvāya dharmaprābhṛtaṃ dharmācchādam | bhagavānāhayasyedānīṃ kulaputra kālaṃ manyase | atha khalvakṣayamatirbodhasattvo mahāsattvaḥ svakaṇṭhādavartāya śatasahasramūlyaṃ muktāhāramavalokiteśvarāya bodhisattvāya mahāsattvāya dharmācchādamanuprayacchati sma - pratīccha satpuruṣa imaṃ dharmācchādaṃ mamāntikāt | sa na pratīcchati sma | atha khalvakṣayamatirbodhisattvo mahāsattvo 'valokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat - pratigṛhāṇa tvaṃ kulaputra imaṃ muktāhāramasmākamanukampāmupādāya | atha khalvavalokiteśvaro bodhisattvo mahāsattvo 'kṣayamaterbodhisattvasya mahāsattvasyāntikāt taṃ muktāhāraṃ pratigṛhṇāti sma akṣayamaterbodhisattvasya mahasattvasyānukampāmupādāya, tāsāṃ ca catasṛṇāṃ parṣadāṃ teṣāṃ ca devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāṇāmanukampāmupādāya | pratigṛhya ca dvau pratyaṃśau kṛtavān | kṛtvā caikaṃ pratyaṃśaṃ bhagavate śākyamunaye dadāti sma, dvitīyaṃ pratyaṃśaṃ bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya ratnastūpe samupanāmayāyāsa | īdṛśyā kulaputra vikurvayā avalokiteśvaro bodhisattvo mahāsattvo 'syāṃ sahāyāṃ lokadhātāvanuvicarati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - citradhvaja akṣayomatī etamarthaṃ paripṛcchi kāraṇāt / kenā jinaputra hetunā ucyate hi avalokiteśvaraḥ (24.1)
Verse 24.2
।। अथ स दिशता विलोकिया प्रणिधीसागरु अक्षयोमति । चित्रध्वजो ऽध्यभाषत शृणु चर्यामवलोकितेश्वरे ॥ २४.२ ॥
// atha sa diśatā vilokiyā praṇidhīsāgaru akṣayomati / citradhvajo 'dhyabhāṣata śṛṇu caryāmavalokiteśvare (24.2)
Verse 24.3
।। कल्पशत नेककोट्यचिन्तिया बहुबुद्धान सहस्रकोटिभिः । प्रणिधान यथा विशोधितं स्तथ शृण्वाहि मम प्रदेशतः ॥ २४.३ ॥
// kalpaśata nekakoṭyacintiyā bahubuddhāna sahasrakoṭibhiḥ / praṇidhāna yathā viśodhitaṃ statha śṛṇvāhi mama pradeśataḥ (24.3)
Verse 24.4
।। श्रवणो अथ दर्शनो ऽपि च अनुपूर्वं च तथा अनुस्मृतिः । भवतीह अमोघ प्राणिनां सर्वदुःखभवशोकनाशकः ॥ २४.४ ॥
// śravaṇo atha darśano 'pi ca anupūrvaṃ ca tathā anusmṛtiḥ / bhavatīha amogha prāṇināṃ sarvaduḥkhabhavaśokanāśakaḥ (24.4)
Verse 24.5
।। सचि अग्निखदाय पातयेद् घतनार्थाय प्रदुष्टमानसः । स्मरतो अवलोकितेश्वरं अभिसिक्तो इव अग्नि शाम्यति ॥ २४.५ ॥
// saci agnikhadāya pātayed ghatanārthāya praduṣṭamānasaḥ / smarato avalokiteśvaraṃ abhisikto iva agni śāmyati (24.5)
Verse 24.6
।। सचि सागरदुर्गि पातयेन्नागमकरसुरभूत-आलये । स्मरतो अवलोकितेश्वरं जलराजे न कदाचिसीदति ॥ २४.६ ॥
// saci sāgaradurgi pātayennāgamakarasurabhūta-ālaye / smarato avalokiteśvaraṃ jalarāje na kadācisīdati (24.6)
Verse 24.7
।। सचि मेरुतलातु पातयेद् घतनार्थाय प्रदुष्टमानसः । स्मरतो अवलोकितेश्वरं सूर्यभूतो व नभे प्रतिष्ठति ॥ २४.७ ॥
// saci merutalātu pātayed ghatanārthāya praduṣṭamānasaḥ / smarato avalokiteśvaraṃ sūryabhūto va nabhe pratiṣṭhati (24.7)
Verse 24.8
।। वज्रामय पर्वतो यदि घतनार्थाय हि मूर्ध्नि ओषरेत् । स्मरतो अवलोकितेश्वरं रोमकूप न प्रभोन्ति हिंसितुम् ॥ २४.८ ॥
// vajrāmaya parvato yadi ghatanārthāya hi mūrdhni oṣaret / smarato avalokiteśvaraṃ romakūpa na prabhonti hiṃsitum (24.8)
Verse 24.9
।। सचि शत्रुगणैः परीवृतः शस्त्रहस्तैर्विहिंसचेतसैः । स्मरतो अवलोकितेश्वरं मैत्रचित्त तद भोन्ति तत्क्षणम् ॥ २४.९ ॥
// saci śatrugaṇaiḥ parīvṛtaḥ śastrahastairvihiṃsacetasaiḥ / smarato avalokiteśvaraṃ maitracitta tada bhonti tatkṣaṇam (24.9)
Verse 24.10
।। सचि आघतने उपस्थितो वध्यघातनवशंगतो भवेत् । स्मरतो अवलोकितेश्वरं खण्डखण्ड तद शस्त्र गच्छियुः ॥ २४.१० ॥
// saci āghatane upasthito vadhyaghātanavaśaṃgato bhavet / smarato avalokiteśvaraṃ khaṇḍakhaṇḍa tada śastra gacchiyuḥ (24.10)
Verse 24.11
।। सचि दारुमयैरयोमयैर्हडिनिगडैरिह बद्धबन्धनैः । स्मरतो अवलोकितेश्वरं क्षिप्रमेव विपटन्ति बन्धना ॥ २४.११ ॥
// saci dārumayairayomayairhaḍinigaḍairiha baddhabandhanaiḥ / smarato avalokiteśvaraṃ kṣiprameva vipaṭanti bandhanā (24.11)
Verse 24.12
।। मन्त्रा बल विद्य ओषधी भूत वेताल शरीरनाशका । स्मरतो अवलोकितेश्वरं तान् गच्छन्ति यतः प्रवर्तिताः ॥ २४.१२ ॥
// mantrā bala vidya oṣadhī bhūta vetāla śarīranāśakā / smarato avalokiteśvaraṃ tān gacchanti yataḥ pravartitāḥ (24.12)
Verse 24.13
।। सचि ओजहरैः परीवृतो नागयक्षसुरभूतराक्षसैः । स्मरतो अवलोकितेश्वरं रोमकूप न प्रभोन्ति हिंसितुम् ॥ २४.१३ ॥
// saci ojaharaiḥ parīvṛto nāgayakṣasurabhūtarākṣasaiḥ / smarato avalokiteśvaraṃ romakūpa na prabhonti hiṃsitum (24.13)
Verse 24.14
।। सचि व्यालमृगैः परीवृतस्तीक्ष्णदंष्ट्रनखरैर्महाभयैः । स्मरतो अवलोकितेश्वरं क्षिप्र गच्छन्ति दिशा अनन्ततः ॥ २४.१४ ॥
// saci vyālamṛgaiḥ parīvṛtastīkṣṇadaṃṣṭranakharairmahābhayaiḥ / smarato avalokiteśvaraṃ kṣipra gacchanti diśā anantataḥ (24.14)
Verse 24.15
।। सचि दृष्टिविषैः परीवृतो ज्वलनार्चिशिखिदुष्टदारुणैः । स्मरतो अवलोकितेश्वरं क्षिप्रमेव ते भोन्ति निर्विषाः ॥ २४.१५ ॥
// saci dṛṣṭiviṣaiḥ parīvṛto jvalanārciśikhiduṣṭadāruṇaiḥ / smarato avalokiteśvaraṃ kṣiprameva te bhonti nirviṣāḥ (24.15)
Verse 24.16
।। गम्भीर सविद्यु निश्चरी मेघवज्राशनि वारिप्रस्रवाः । स्मरतो अवलोकितेश्वरं क्षिप्रमेव प्रशमन्ति तत्क्षणम् ॥ २४.१६ ॥
// gambhīra savidyu niścarī meghavajrāśani vāriprasravāḥ / smarato avalokiteśvaraṃ kṣiprameva praśamanti tatkṣaṇam (24.16)
Verse 24.17
।। बहुदुःखशतैरुपद्रुतान् सत्त्व दृष्ट्व बहुदुःखपीडितान् । शुभज्ञानबलो विलोकिया तेन त्रातरु गजे सदेवके ॥ २४.१७ ॥
// bahuduḥkhaśatairupadrutān sattva dṛṣṭva bahuduḥkhapīḍitān / śubhajñānabalo vilokiyā tena trātaru gaje sadevake (24.17)
Verse 24.18
।। ऋद्धीबलपारमिंगतो विपुलज्ञान उपायशिक्षितः । सर्वत्र दशद्दिशी जगे सर्वक्षेत्रेषु अशेष दृश्यते ॥ २४.१८ ॥
// ṛddhībalapāramiṃgato vipulajñāna upāyaśikṣitaḥ / sarvatra daśaddiśī jage sarvakṣetreṣu aśeṣa dṛśyate (24.18)
Verse 24.19
।। ये च अक्षणदुर्गती भया नरकतिर्यग्यमस्य शासने । जातीजरव्याधिपीडिता अनुपूर्वं प्रशमन्ति प्राणिनाम् ॥ २४.१९ ॥
// ye ca akṣaṇadurgatī bhayā narakatiryagyamasya śāsane / jātījaravyādhipīḍitā anupūrvaṃ praśamanti prāṇinām (24.19)
Verse 24.20
।। अथ खलु अक्षमतिर्हृष्टतुष्टमना इमा गाथा अभाषत - शुभलोचन मैत्रलोचना प्रज्ञाज्ञानविशिष्टलोचना । कृपलोचन शुद्धलोचना प्रेमणीय सुमुखा सुलोचना ॥ २४.२० ॥
// atha khalu akṣamatirhṛṣṭatuṣṭamanā imā gāthā abhāṣata - śubhalocana maitralocanā prajñājñānaviśiṣṭalocanā / kṛpalocana śuddhalocanā premaṇīya sumukhā sulocanā (24.20)
Verse 24.21
।। अमलामलनिर्मलप्रभा वितिमिर ज्ञानदिवाकरप्रभा । अपहृतानिलज्वलप्रभा प्रतपन्तो जगती विरोचसे ॥ २४.२१ ॥
// amalāmalanirmalaprabhā vitimira jñānadivākaraprabhā / apahṛtānilajvalaprabhā pratapanto jagatī virocase (24.21)
Verse 24.22
।। कृपसद्गुणमैत्रगर्जिता शुभगुण मैत्रमना महाघना । क्लेशाग्नि शमेसि प्राणिनां धर्मवर्षं अमृतं प्रवर्षसि ॥ २४.२२ ॥
// kṛpasadguṇamaitragarjitā śubhaguṇa maitramanā mahāghanā / kleśāgni śamesi prāṇināṃ dharmavarṣaṃ amṛtaṃ pravarṣasi (24.22)
Verse 24.23
।। कलहे च विवादविग्रहे नरसंग्रामगते महाभये । स्मरतो अवलोकितेश्वरं प्रशमेया अरिसंघ पापका ॥ २४.२३ ॥
// kalahe ca vivādavigrahe narasaṃgrāmagate mahābhaye / smarato avalokiteśvaraṃ praśameyā arisaṃgha pāpakā (24.23)
Verse 24.24
।। मेघस्वर दुन्दुभिस्वरो जलधरगर्जित ब्रह्मसुस्वरः । स्वरमण्डलपारमिंगतः स्मरणीयो अवलोकितेश्वरः ॥ २४.२४ ॥
// meghasvara dundubhisvaro jaladharagarjita brahmasusvaraḥ / svaramaṇḍalapāramiṃgataḥ smaraṇīyo avalokiteśvaraḥ (24.24)
Verse 24.25
।। स्मरथा स्मरथा स काङ्क्षथा शुद्धसत्त्वं अवलोकितेश्वरम् । मरणे व्यसने उपद्रवे त्राणु भोति शरणं परायणम् ॥ २४.२५ ॥
// smarathā smarathā sa kāṅkṣathā śuddhasattvaṃ avalokiteśvaram / maraṇe vyasane upadrave trāṇu bhoti śaraṇaṃ parāyaṇam (24.25)
Verse 24.26
।। सर्वगुणस्य पारमिंगतः सर्वसत्त्वकृपमैत्रलोचनो । गुणभूत महागुणोदधी वन्दनीयो अवलोकितेश्वरः ॥ २४.२६ ॥
// sarvaguṇasya pāramiṃgataḥ sarvasattvakṛpamaitralocano / guṇabhūta mahāguṇodadhī vandanīyo avalokiteśvaraḥ (24.26)
Verse 24.27
।। यो ऽसौ अनुकम्पको जगे बुद्ध भेष्यति अनागते ऽध्वनि । सर्वदुःखभयशोकनाशकं प्रणमामी अवलोकितेश्वरम् ॥ २४.२७ ॥
// yo 'sau anukampako jage buddha bheṣyati anāgate 'dhvani / sarvaduḥkhabhayaśokanāśakaṃ praṇamāmī avalokiteśvaram (24.27)
Verse 24.28
।। लोकेश्वर राजनायको भिक्षुधर्माकरु लोकपूजितो । बहुकल्पशतांश्चरित्व च प्राप्तु बोधि विरजां अनुत्तराम् ॥ २४.२८ ॥
// lokeśvara rājanāyako bhikṣudharmākaru lokapūjito / bahukalpaśatāṃścaritva ca prāptu bodhi virajāṃ anuttarām (24.28)
Verse 24.29
।। स्थित दक्षिणवामतस्तथा वीजयन्त अमिताभनायकम् । मायोपमता समाधिना सर्वक्षेत्रे जिन गत्व पूजिषु ॥ २४.२९ ॥
// sthita dakṣiṇavāmatastathā vījayanta amitābhanāyakam / māyopamatā samādhinā sarvakṣetre jina gatva pūjiṣu (24.29)
Verse 24.30
।। दिशि पश्चिमतः सुखाकरा लोकधातु विरजा सुखावती । यत्र एष अमिताभनायकः संप्रति तिष्ठति सत्त्वसारथिः ॥ २४.३० ॥
// diśi paścimataḥ sukhākarā lokadhātu virajā sukhāvatī / yatra eṣa amitābhanāyakaḥ saṃprati tiṣṭhati sattvasārathiḥ (24.30)
Verse 24.31
।। न च इस्त्रिण तत्र संभवो नापि च मैथुनधर्म सर्वशः । उपपादुक ते जिनोरसाः पद्मगर्भेषु निषण्ण निर्मलाः ॥ २४.३१ ॥
// na ca istriṇa tatra saṃbhavo nāpi ca maithunadharma sarvaśaḥ / upapāduka te jinorasāḥ padmagarbheṣu niṣaṇṇa nirmalāḥ (24.31)
Verse 24.32
।। सो चैव अमिताभनायकः पद्मगर्भे विरजे मनोरमे । सिंहासनि संनिषण्णको शालरजो व यथा विराजते ॥ २४.३२ ॥
// so caiva amitābhanāyakaḥ padmagarbhe viraje manorame / siṃhāsani saṃniṣaṇṇako śālarajo va yathā virājate (24.32)
Verse 24.33
।। सो ऽपि तथा लोकनायको यस्य नास्ति त्रिभवेस्मि सादृशः । यन्मे पुण्य स्तवित्व संचितं क्षिप्र भोमि यथ त्वं नरोत्तम ॥ २४.३३ ॥
// so 'pi tathā lokanāyako yasya nāsti tribhavesmi sādṛśaḥ / yanme puṇya stavitva saṃcitaṃ kṣipra bhomi yatha tvaṃ narottama (24.33)