1. Sahitya Darpana Visvanatha Commentary of Ramacharana Trakavagisa Durga Prasad Dviveda Srinivasa Venkatarama Sarma Nirnaya
Page 2
SÂHITYA-DARPANA
OF
VIS'VANÂTHA KAVIRÂJA
With the Commentary of
RÂMACHARANA-TARKAVÂGÎS'A BHATTACHARYA.
ANNOTED BY
PANDIT DURGÂPRASÂDA DVIVEDA,
LATE HEAD PANDIT, MAHARAJA SANSKRIT COLLEGE, JAIPUR.
THIRD EDITION.
REVISED BY
SRÍNIVÂSA VENKATRÂMA S'ARMA.
PUBLISHED BY
TUKÂRÂM JÂVAJÍ,
PROPRIETOR, " NIRNAYA-SAGAR " PRESS.
Bombay :
Price 3 Rupees.
Page 4
साहित्यदर्पणः ।
श्रीविश्वनाथ-कविराज-प्रणीतः ।
श्रीरामचरण-तर्कवागीश-भट्टाचार्य-कृतया टीकया समेतः।
जयपुर राजकीयसंस्कृतपाठशालाप्रधानाध्यापकेन
श्रीदुर्गाप्रसादद्विवेदेन
संकलितया टिष्पण्यानुगतः ।
वेङ्कटरामतनुजनुषा श्रीनिवासशर्मणा संशोधितः। (तृतीयं संस्करणं)
सच
मुम्बय्यां
तुकाराम जावजी इत्येतैः स्वीये निर्णयसागराख्यमुद्रण- यत्रालये रामचन्द्र येसू शेडगे द्वारा मुद्रयित्वा प्रकाशितः ।
१९१५.
मूल्यं रूप्यकत्रयम्।
Page 6
ॐ नमः शिवाय। भूमिका। अथ खल्विदं हिता हितौपयिकमौलिभूतं साहित्यशात्त्रं कदा प्रादुरासेति मीमांसाव्यति- करे श्रौताङ्गोपाङ्गसमानकालिकमित्यध्यवसायः प्रमातृहृदयंगमः स्यात्। तत्तहर्शना- नां तदनुप्राणितानामितरेषां चोच्चावचानां निबन्धानामान्नायोपजीवकत्वेन मार्मिकाणां विप्रतिपत्त्यवसरः। यतोंऽशतस्तन्र तत्र त्रैय्यामनुस्यूतानां पदार्थसार्थानां रहस्यमादायै- चाधिगतयाथातथ्यैभुवन गुरुभिर्महर्षिभिलोंकोददिधीर्षया प्रसादमधुराणि गभीराणि तीर्था- नन निरमायिषत। वेदेषु सर्वे दर्शनवादा: समासतो व्यासतक्व विनिर्दिष्टा इति व्यक्तमपि "काल: स्वभावो नियतिर्यदच्छा भूतानि योनिः पुरुष इति चिन्त्या। संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः॥' इति श्वेताश्वतरश्रुत्या व्यक्ततरमवसीयते। किं बहुना। तादृशः कोऽपि प्रमेयोद्यावधि तत्त्वविदां प्रतिभापथं नावतीर्णों यः खलु सम्यक् परीक्षितस्ततो व्यतिरिच्येत। कुहचिद् व्यतिरिक्त इवाभासमानोऽपि पौ-
१. उपाङ्गेति। 'अथ चत्वार्युपाङ्गानि वेदानां संप्रचक्षते। धर्मशास्त्रं पुराणं च मी- मांसा न्यायविस्तरः ॥' इति ॥ २. त्रय्यामिति। ऋग्यजुःसामलक्षणेन रचनात्रैविध्येन त्रयीति व्यपदेशः, तेनाथर्व- गस्यापि संग्रहः ॥ ३. महर्षिभिरिति। ऋपन्ति वेदं पश्यन्तीति ऋषयः । इह दर्शनं प्रत्यक्षीकरणमेव, न चाक्षुषज्ञानम्। तथा चोक्ततं तैत्तिरीये यजुरारण्यके-'अजान् ह वै पृश्षीस्तपस्यमानान् न्यानर्ष त ऋषयोऽभवंस्तदृषीणामृषित्वम्' इति। पृश्रीन् पुरुषान्। स्वयंभु प्र- गान्तरमणुपजीव्य प्रवृत्तम्। शेषं स्पष्टम् । अयमेवाशयो निरुक्तकाराणामपि। ४. वेदर्वति। वेदेपु मघ्रब्राह्मणेपु। 'मत्रब्राह्मणयोवेदनामधेयम्' इत्यागमात्॥ 4. कर इति। जगतः काल: कारणमिति कालविदः प्रतिपेदिरे। स्वभाव इति गवातिकाः । नियतिर्नियम: पुण्यापुण्यलक्षणः स एव कारणमिति मीमांसकाः। पूर्वपूर्व- पृ जी संचितपुण्यापुण्यानुगुणतया जगत्सर्वज्ञेनेश्वरेणोत्तरकल्पादौ न सज्यते, कितु १ वमन्तरेण यदृच्छया जायत इति निरीश्वराः । भूतानि कारणमिति जगन्नित्य- हैग योनिः प्रकृतिः कारणमिति प्रकृतिवादिनः शाक्ताः। पुरुषो हिरण्यगर्भ एव निति योगशास्त्रविदः। इतीत्थं चिन्त्या चिन्तामात्रमेव, न वस्तुस्थितिः। एवं काला- व। अत्थेक कारणत्त्रं न भवेत् न वा एषां संयोग: कारणं भवेत्। आत्मभावाद्। एता- भ्ीकृत्य स्थितस्य भोक्तुरात्मनो भावात्, अत एषां भोग्यत्वेन परतत्रत्वात्सतत्र- मूर॥णत्वं न संभवेत्। आत्मापि कारणं न संभवेत। यतोडयं जगन्निर्माणेडनीशोडस- धप. कमाते। सुखदुःखहेतोः पुण्यापुण्यवशत्वेन सुखदुःखहेतुतया वर्तमानत्वात्।।
Page 7
२
र्ापर्यपर्यालोचनया विचिकित्साराहित्ये पुनस्तदवस्थ इत्यतिरोहिते किं निदर्शनोद्वो- षणया। एवं कथमिह तदुपादेयताभूमाभिधीयत इति विधादारिव्वेऽनिर्वचनीय इति निर्वचना: स्मः। एतत्तीर्थरूढस्यैतस्य प्रमेयस्यैतस्मिन्नानुश्रविके वचसि सत्तालाभ इति परीक्षाप्रस्ता-
शास्त्रस्यालंकारादयः कतिपये विषयास्तु श्रुतिषूत्ताना एव। यथा- 'अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम्। जायेव पत्य उशती सुवासा उषा हस्रेव निरिणीते अप्सः ॥।' इति निरुक्तोदाहते कक्षीवत आर्षे, तथा- 'सूर्यस्येव वक्षसो ज्योतिरेषां समुद्रस्येव महिमा गभीरः। वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥' इतीन्द्रस्यार्षे चोपमालंकारः । कक्षीवदार्षमधिकृत्य 'चतस्र उपमाः' इति यास्को- क्तप्रतीकमुपादाय 'अभ्रातेव पुंस इत्येका। गर्तारोहिणीवेति द्वितीया। जायेव पत्य इति तृतीया। हस्रेवेति चतुर्थी।' इति व्याख्यातं चाचार्यदुर्गेण। 'तमेकनेमिं त्रिवृतं षोडशान्तं शताधारं विंशतिप्रत्पराभिः। अष्टकैः षडभिर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम्।' 'पश्चस्त्रोतोऽम्वुं पञ्चयोन्युग्रवक्रां पञ्चप्राणोमिं पश्चबुद्ध्यादिमूलाम्। पञ्चावर्ती पञ्चदुःखौधवेगा पञ्चाशद्ेदां पञ्चपर्वामधीमः॥' इति श्वेताश्वतरश्रुत्योः संसारस्य चक्ररूपत्वेन नदीरूपत्वेन च रूपणाद्रूपकम्। 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्ृ्त्यनश्षन्नन्यो अभिचाकशीति॥।' 'महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः।' इति श्रुत्यो रसगज्ावरे पण्डितराजेनातिशयोक्ति-सारालंकारौ दर्शिताविं निपुणं विभावनीयम्। एवमनेकेSलंकारास्तत्र तत्र ऋगादिषु संकान्ता दृश्यन्ते। तत्र कतिचन साड कतिचन च निरङ्ाः। नह्यलंकारनिरूपणायैव त्रयी प्रवृत्ता, यत्सपरिकरा उपलर रनू। अपि च- 'एकः शब्द: सम्यग्ज्ञातः सुप्रयुक्त: स्वर्गे लोके कामधुग्भवति इति श्रुतिः साकल्येन कविकर्मेतिकर्तव्यतोपज्ञामाज्ञापयति। तथाहि-'सम्यगज्ञा इत्यनेन जातिक्रियागुणयहच्छोपाधिविशकलितपदार्थावबोधः, 'सुप्रयुक्त' इत् हेयोपादेयनिगमनपूर्वकं पदार्थयोजनम्' 'सर्गे-' इत्यादिनैहिकामुष्मिकफलसंपति श्वाध्यवसीयते। निरूपितलक्षणालक्षितप्रयोगे तु प्रत्यवायः । तथा च श्रुति :- 'तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुस्तसमाद्गाझ्मऐन न म्लेछितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः।'
Page 8
३
अन्र ब्राह्मणपदं द्विजात्युपलक्षकम्। तेनेतरेषामसाधुभाषणे प्रत्यवायायोगः । अत एव भरतमुनिना दृश्यकविषये स्रीशद्वादीनां मुख्यतः प्राकृतपाठ्यं व्यवस्थापि तम्। किं पल्लवितेन। 'व्रह्मैव रसः । रसो वै सः।' इत्यादिश्रुत्या कविकर्मजीवातू रसोऽप्युपदिश्यते। आभ्नेयपुराणे हि भगवता कृष्ण- द्वैपायनेन समस्तमेतत्काव्यानुशासनरहस्यमुपन्यासि। एवमादिवेदार्थवेदकत्वेनैव पुराणस्य पश्चमवेदत्वेन व्यपदेशः न्मर्यते- 'इतिहासपुराणं च पञ्चमो वेद उच्यते।' इतिहासपुराणयोः पश्चमवेदत्वेन व्यवहारस्तत्सादृश्यख्यापनार्थम्। सादृश्यं च 'तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्' इति। प्रकृते ऋग्यजुःसान्नामानुपूर्व्या पाठा- सत्त्वे वेदभिन्नत्वम्, तदुक्तप्रमेयजाताविर्भावकत्वेन पुमर्थसाधकत्वादमुष्य वेदधर्म- वत्त्वम्। स्मर्यते हि- 'भारतव्यपदेशेन ह्याम्नायार्थाश्च वर्णिताः।' इह भारतपदं पुराणस्यापि संग्राहकम्, इतरथा इतिहासपुराणयोः पश्चमवेदला- ख्यानं विरुव्येत। श्रुतावुदीरितानामर्थानां स्मरणादेव भगवता जैमिनिना 'धर्मस्य शब्दमूललाद्-' इत्यादिसूत्रदूय्या स्मृतिप्रामाण्याधिकरणमकारि, निराकारि च तत्र- 'आदुम्वरीं स्पृष्टोद्रायेत्।' 'औदुम्बरी सर्वा वेष्टयितव्या।' इत्यादिश्रुतिस्मृतिविप्रतिपत्तौ स्मृत्या बोधितं ज्योतिष्टोमे मध्येसदोमण्डपं निखातु- महाया उदुम्बरशाखाया वाससा वेष्टनम्, सर्ववेष्टने श्रृतिबोधितस्पर्शसंभवाभावात्। अयमिह निर्यासो यत्खल सर्वत्र श्रुत्यनुसरणमेव गौरवानुबन्धे बीजमित्यन्यत्र विस्तरः। नत्त्वबुभुत्सूनां प्रतिपत्त्यर्थमान्नेयप्रतिपादिता: साहित्यशास्त्रविषयः समासतो न- शदविक त्रिशततमे (३३६)ऽध्याये- 'काव्यस्य नाटकादेश् अलंकारान्वदाम्यथ।' तिज्ञाय काव्यभेदं च समुद्दिश्य तत्र- 'नरत्वं दुर्लभं लोके विद्या तत्र च दुर्लभा। कवित्वं दुर्लभं तत्र शक्तिस्तत्र च दुर्लभा। व्युत्पत्तिर्दुर्लभा तत्र विवेकस्तत्र दुर्लभः' भिवानायुत्त्या विवेकस्य परं परत्वमभिहितम्। ततो गद्य-पद्य-मिश्रभेदेन का- न* वध्यमभिधाय तन्र गद्यस्य चूर्णकादयो भेदा: सलक्षणं लक्षिताः । तत आ- सयायिक: कथा-खण्डकथा-परिकथा-कथानिकेति पश्चविधं गद्यकाव्यमुद्दिश्य प्रत्ये- कस्य लक्षणमान्नातम्। तदनु- 'पदं चतुष्पदी तच्व वृत्तं जातिरिति त्रिधा।' इत्यादिना पद्यभिदां तन्निर्वर्यस्य महाकाव्यस्य निर्माणपरिपाटी चोपदिश्यन्ते-
Page 9
8
'अत एव महाकाव्यं तत्कर्ता च महाकविः। वाग्वैदृग्ध्यप्रधानेऽपि रस एवात्र जीवितम्।।' इत्यादिनाध्याय उपसंहृतः ॥ ततः सप्तन्निंशदधिकत्रिशततमे(३३७)Sध्याये प्रथमं समेदं नाटकादिरूपकं ना- टिकादयुपरूपकं चोहदिश्य तत्र पूर्वरङ्गं तदङ्गभूताया नान्याः किंचित्स्रूपादि च नि- र्णीतम्। तदनु प्रस्तावनापरपर्यायस्यामुखस्य तद्भेदभूतानां प्रवृत्तक-कथोद्वात-प्रयो- गातिशयानां च लक्षणान्युक्तानि। ततो नाटकादिशरीरस्येतिवृत्तस्य सिद्धोत्प्रेक्षितभे- देन द्वैविध्यं बीजादिपश्चार्थप्रकृतीनां प्रारम्भादिपञ्चचेष्टानां मुखादिपश्चसंधीनां चाख्या आख्यायाध्यायोपसंहारो विहितः ।
'अक्षरं परमंब्रह्म सनातनमजं विभुम्। वेदान्तेषु वदन्त्येकं चैतन्यं ज्योतिरीश्वरम्। आनन्दः सहजस्तस्य व्यज्यते स कदाचन। व्यक्ति: सा तस्य चैतन्यचमत्काररसाह्नया॥ आद्यस्तस्य विकारो यः सोऽहंकार इति स्मृतः। ततोऽभिमानस्तत्रेदं समास्ं भुवनत्रयम्।। अभिमानाद्रतिः सा च परिपोषमुपेयुषी। व्यभिचार्यादिसामान्याच्छ्ृङ्गार इति गीयते॥।' इत्यनेन शङ्गारं व्युत्पाद्य रागाच्छृङ्वारस्य तैक्ष्ण्याद्रौद्रस्या्म्भीरस्य संकोचाद्ी भत्सस्य च व्यक्तिरुदिता। तदनु शृङ्गाराद्वासस्य रौद्रात्करुणस्य वीरादद्भुतस्य बीभ- त्साद्भ्यानकस्य च निष्पत्तिराम्नाता। ततश्र- 'अपारे काव्यसंसारे कविरेव प्रजापतिः। यथास्मै रोचते विश्वं तथेदं परिवर्तते॥ शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत्। स चेत्कविर्वीतरागो नीरसं व्यक्तमेव तत्।।' इत्यनेन नाटकादिशरीरनिर्माणे कवयितुः स्ातन्रयं दर्शितम्। तदनु रत्यादयः स्तम्भादयो निर्वेदादयक्च लक्षिताः। विभावादिकथनप्रसङ्गेन वीरोदात्तादयो नायका- स्तदीयनमैसचिवाः पीठमर्दादयो नायिकानां भेदाश्च निर्दिष्टाः। ततः शोभा-विलास- माधुर्यादिपौरुषाणं हाव-भाव-हेलादिस्त्रैणानामाभाषणादिसामान्यानां च विषयाणां वर्णनेनाध्यायोपसंहारो विहितः ॥ एकोनचतारिशदधिकत्रिशततमे (२३९)ऽध्याये पाश्चाल्यादिरीतिर्भारत्यादिवृत्तीं- श्वाख्याय 'भरतेन प्रणीतताद्भारती वृत्तिः' इति योगो दर्शितः। ततो वीथ्यादिभार- त्यङ्गानामुद्धातकादिवीथ्यङ्गानां चाभिधानेनाध्यायोपसंहारो विहितः ॥ १ अपारे इति। 'अपारे-' इति श्रोकद्वयसुपन्यस्तमानन्दवर्धनाचार्ये धर्वन्यालोकस्य तृतीयोक्ष्योते।।
Page 10
५
चलारिंशद धिकत्रिशततमे (३४०)डध्याये लीला-विलास-विच्छित्यादयक्षेष्ट निरु पिताः । ततः शिरःपाण्यादीन्यङ्गानि भूलतादिप्रत्यङ्गानि चाभिधाय- 'आकम्पितं कम्पितं च धुतं विधुतमेव च। परिवाहितमाधूतमवधूतमथाचितम्।। निकुश्चितं परावृत्तमुत्क्षिप्ं चाप्यधोगतम्। ललितं चेति विज्ञेयं त्रयोदशविधं शिरः॥' इत्येवमाद्या: काश्चन भिदा अप्युद्भाविताः ॥
'आभिमुख्यं नयन्नर्थान्विज्ञेयोऽभिनयो बुधैः॥ इत्यभिनयपदार्थ व्युत्पाद्य सत्त्वाद्याश्रयेणामुष्य सात्त्विकादिभेदचतुष्टयी निरूपिता। ततः संभोगविप्रलम्भरूपेण शद्धारस्य द्वैविध्यमभिधाय पुनस्तयोः प्रच्छन्नाप्रच्छन्नग- तत्वेन द्वैविध्यमुदीरितम्। तत्र च विप्रलम्भस्य पूर्वराग-मान-प्रवास-करुणात्मक- त्वेन चातुर्विध्यम्। तदनन्तरजायमानसंभोगलक्षणस्य शरृङ्गारस्य धर्मार्थकाममोक्षा- ख्येन चतुर्वर्गेणोपचयोऽभिहितः । पुनश्च वाड्नेपथ्यक्रियात्मकतया श्ङ्गारस्य भेद: । ततो हासस्य स्मितादयो भेदाः । धर्मोपघात-चित्तविलास-शोकजन्यत्वेन करुणस्य, अङ्गनेपथ्य-वाक्यजन्यत्वेन रौद्रस्य, दान-वर्म-युद्धजन्यत्वेन वीरस्य च त्रैविध्यमा- म्नातम्। भयानकस्य कैवल्यम्, बीभत्सस्योद्वेजनक्षोभणाभ्यां द्वैविध्यम्। अथ च- 'काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते। अलंकरिष्णवस्ते च शब्दमर्थमुभौ त्रिधा॥ ये व्युत्पत्यादिना शब्दमलंकर्तुमिह क्षमाः। शब्दालंकारमाहुस्तान्काव्यमीमांसका विद्ः॥' रमुक्ला छाया-मुद्रादयः शब्दालंकारा: कीर्तिताः। तत्र लोकोकि- अर्भकोक्ति-मत्तोक्तिभेदेन च्छायायाश्चातुर्विध्यम्। 'अभिप्रायविशेषेण कविशक्तिं विवृण्वती। मुद्दायिनीति सा मुद्रा सैव शय्यापि नो मते॥।' न्तिरे शय्याख्यशब्दालंकृतेः पार्थक्यम्। एवमादिशब्दलभ्यानामपि भिदा: रिंशद्धिकत्रिशततमे(२४२)S्याये मधुरा-ललिता-प्रौढा-भद्रा-परुषेति प् लक्षणम्। तदनु- 'यमकं त्वव्यपेतं च व्यपेतं चेति तद्िधा। आनन्तर्यादव्यपेतं व्यपेतं व्यवधानतः।।' समादिमका संदर्भेण यमकभेदाः । प्रश्न-प्रहेलिका-गुप्त-च्युत-दत्त-च्युतदत्त- शरसानेवन सप्तविधं चित्रम्। तन्नैकपृष्टद्विपृष्टोत्तरभेदेन प्रश्नस्य द्वैविध्यम्। शाब्दी, आार्था बेो प्रहेलिकाया द्वैविध्यम्। 'यस्मिन्गुप्तेपि वाक्याङ्गे भाव्यर्थोऽपारमार्थिकः। तद्ङ्गविहिताकाङ्कस्तहुप्तं गूढमप्यद्ः।'
Page 11
६
इति गुप्तस्य कैवल्यम्। स्वर-व्यञ्ञन-बिन्दु-विसर्गच्युतिभेदेन च्युतस्य चातुर्वि- ध्यम्। उक्त्ोपाधिभिरेव दत्त-च्युतदत्तयोर्भेदाः । 'सुश्िष्टपद्यमेकं यन्नानाश्ष्ोकांशनिर्मितम्। सा समस्या परस्यात्मपरयोः कृतिसंकरात्॥' इत्युक्तरूपाया: समस्याया नियम-विकल्प-बन्धभेदेन त्रैविध्यम्। ततः- 'अनेकधा वृत्तवर्णविन्यासैः शिल्पकल्पना। तत्तत्प्रसिद्धवस्तूनां बन्ध इत्यभिधीयते॥।' इति परिभाष्य गोमूत्रिकादयो बन्धास्तद्विन्यासविधयो महता संदर्भेण कीर्तिताः ॥
'स्वरूपमथ सादृश्यमुत्प्रेक्षातिशयावपि। विभावना विरोधश्च हेतुश्च सममष्टधा।' इत्युद्दिश्य सांसिद्धिक-नैमित्तिकभेदेन स्वरूपस्य द्वैविध्यम्, उपमा-रूपक-सहो- कि-अर्थान्तरन्यासभेदेन सादृश्यस्य चातुर्विध्यावान्तरविधे, उत्प्रेक्षायाः कैवल्यम्, अतिशयस्य संभवासंभवाभ्यां द्वैविध्यम्, विभावना-विरोधयोः कैवल्यम्, हेतोः कारक-ज्ञापकभेदेन द्वैविध्यं चान्नातम् ॥।
'शब्दार्थयोरलंकारो द्वावलंकुरुते समम्। एकत्र निहतो हार: स्तनं ग्रीवामिव स्त्रियाः॥' इति शब्दार्थालंकारस्योभयोपकारकत्वमभिधाय प्रशस्ति-कान्ति-औचित्य-संक्षेप- यावदर्थता-अभिव्यक्तिभेदेन षोढालमुक्तम्। तत्राभिव्यक्तिभेदप्रतिपादनावसरेऽभि- धेय संबन्धात्सामीप्यात्समवायाद्वैपरीत्यात्कियायोगाच लक्षणायाः पञ्चवधलम्।।
'अलंकृतमपि प्रीत्यै न काव्यं निर्गुणं भवेत्। वपुष्यललिते स्त्रीणां हारो भारायते परम्॥' इत्याख्याय सामान्य-वैशेषिकभेदेन गुणस्य द्वैविध्यं वर्णितम्। तत्र सामान्यस्य श. व्दार्थोभयनिष्ठलेन त्रैविध्यमभिधाय प्रत्येकप्रकारस्यावान्तरभिदा निरूपिताः। अन्ते- 'वैशेषिकः परिज्ञेयो यः स्वलक्षणगोचरः।' इत्युक्ताध्याय: समापितः ॥ षट्चत्वारिशदधिकत्रिशततमे(३४६)ध्याये प्रारम्भत एकोनत्रिशता शोकैरु- च्ावचाः काव्यदोषा दर्शिताः । ततः कविसमयमूरीकृत्य- 'सिद्धसैद्धान्तिकानां च कवीनां चाविवादतः । यः प्रसिध्यति सामान्य इत्यसौ समयो मतः॥ सर्वें सैद्धान्तिका येन संचरन्ति निरत्ययम्। कियन्त एव वा येन सामान्यस्तेन स द्विधा॥ छेदसिद्धान्ततोऽन्यः स्यात्केषांचिन्भान्तितो यथा। तर्कज्ञानं मुने: कस्य कस्यचित्क्षणभङ्गिका॥
Page 12
७
भूतचैतन्यता कस्य ज्ञानस्य सवप्रकाशता। प्रज्ञातस्थूलता शब्दानैकान्तत्वं तथार्हतः॥ शैववैष्णवशाक्तेय सौरसिद्धान्तिनां मतिः। जगतः कारणं ब्रह्म सांख्यानां सप्रधानकम्॥' इत्युदीरितम्। अन्ते- 'विष्णुः स्वर्गादिहेतुः स शब्दालंकाररूपवान्। अपरा च परा विद्या तां ज्ञात्वा मुच्यते भवात्॥' इत्यनेन शब्दव्रह्मणो याथातथ्येनावगमात्कैवल्यलाभोऽपि दर्शितः ॥ एवं सपरिकरस्य साहित्यशास्त्रस्य बीजमङ्गरोन्मुखमान्नेये जागर्ति। तत एवैतदा- हृत्य महामतिमन्तः सखप्रतिभोन्मेषमहित्रा नैकभेदलमानिन्युः । अत एवाभाणि तत्रभवता दण्डिना- 'काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते। ते चाद्यापि विकल्प्यन्ते कस्तान्कात्सर्येन वक्ष्यति॥ किंतु बीजं विकल्पानां पूर्वाचार्यैः प्रदर्शितम्। तदेव परिसंस्कर्तुमयमस्सत्परिश्रमः॥' इत्थं च प्रभुसंमितेषु वाक्यकदम्वेषूप्ं सुहृत्संमितेष्नङ्कुरितं कान्तासंमितेषु पल्ल- वितं पुष्पितं फलितं चादो मुदो भाजनं दर्शनमतितरां परिपोषमापेदे। कोऽस्यान्नेये संनिवेशसमय इति पर्वपक्ष, धर्मराजस्य राज्यासन्नानेहेति सिद्धान्त- मुपेयाः। तथाहि- 'आसन्मधासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ। षड्द्विकपञ्चद्वियुतः शककालस्तस्य राजश्च।' इति शाकद्वीपीय-श्रीवराहमिहिराचार्योक्त्या पडविंशत्यधिकपञ्चविंशतिशतीसमो सौधि : शकः सिध्यति। स च वर्तमानेन शालिवाहनशकेन संकलितो यौधिष्ठिर- ऋ माददावध्यतिक्रान्तः समाससूहः संपद्यते २५२६+१८२०=४३४६ अ- धीला मुखात्रिपच्चाशदधिकषद्शतीसंख्यवत्सरातिकमे यौधिष्ठिरः शकः प्रावर्तत। तथा ककं कह्नणेन- 'शतेषु षट्रसु सार्धेषु ्यधिकेषु च भूतले। कलेर्गतेषु वर्षाणामभूवन्कुरुपाण्डवाः ।' इति। तथा च कलितः पाण्डवसत्ताकाल: =६५३ ततः शालिवाहनसत्ताकाल := २५२६ वर्तमानशककाल:१८२० गतकलिकाल := ४९९९ एकोनपञ्चसहस्रम्।
शाकेति। शाकद्वीपीयो भोजको मग इति पर्यायशब्दाः। अत्रत्यविशेषस्तु भवि- पुराणे साम्बोपपुराणे च विस्तरतो वर्णितः। एतेन जयपुरादौ वर्तमानाः पाराशरा व भोजका भवन्तीति प्रवादो भ्रममूलक एव।।
Page 13
V
अथ किं तावत्साहित्यम्, सहितस्य व्याकरणन्यायमीमांसाकलादेर्भाव इत्यव- गच्छ। 'गुणवचन-' (५१।१२४) इत्यादिना ष्यञ्। व्याकरणादीनामुपकारकत्वं तु प्रत्यक्षम्। उक्त्तं चाप्ै :- 'न स शब्दो न तद्वाच्यं न स न्यायो न सा कला। जायते यन्न काव्याङ्गमहो भारो महान्कवेः ॥' एतेन व्याकरणादिपरिशीलनमन्तरा काव्यरचनोद्मो महाननर्थकारीति भव्यो- दर्का ज्यायसी शिक्षावेद्यते। अत एवागादि कविमाणवकागदकारै :- 'अधीत्य शास्त्रण्यभियोगयोगादभ्यासवश्यार्थपदप्रपञ्चः। तं तं विदित्वा समयं कवीनां मनःप्रसक्तौ कवितां विद्ध्यात्॥' इति। आवेद्यमानादेशातिक्रमणे तु- 'स्वाधीनो रसनाश्चलः, परिचिता: शब्दाः कियन्तः, क्कचि- रक्षोणीन्द्रो न नियामकः, परिषदः शान्ता, स्वतन्त्रं जगत्। तद्यूयं कवयो वय वयमिति प्रस्तावनाहुंकृति- स्वच्छन्दं प्रतिसद्य गर्जत वयं मौनव्रतालम्बिनः।।' इत्थंभूतानां परवाक्यानां पात्रीभवनमीषत्करम्।। एतत्साहित्यशात्त्रमलंकारशास्त्रत्वेनापि व्यवहियते। तत्रालंकृतिरलंकार इति भा- वसाधनोऽलंकारशब्दः । अलंक्रियतेऽनेनेति करणव्युत्पत्त्या तूपमादिषु प्रयुज्यते। अथवा 'प्रधाने हि व्यपदेशा भवन्ति' इति नियममनुसृत्य करणव्युत्पन्नस्यापि शा- स्त्राभिधेयत्वेन न काचिदनुपपत्तिः।। एतस्य साहित्यशास्त्रस्यानेके निवन्धा उत्पनाः प्रचरिताः ्रणष्टाश्चेति पूर्वपूर्वतरग्र- न्थावगाहनेन व्यक्तमेव तत्त्वनिर्णायकानाम्। विजयतां विजयतां श्रीमती राजराजे- १. बहुविघ्नोपसंक्रमे दर्पणस्य शोधनटिप्पणीकरणोपक्रमे, कममाणे च काले, कालनिय- त्रिते लौकिके लोकनियन्तृशक्तिसमुन्मेषे, समुन्मिषत्तिमिरावरणशरणीभूते प्रभूते भारताभोगे, अपारपारमेश्वरविकस्वरानुग्रहेण निरवग्रहशुभोदर्कभूम्ने लोकालोककोकायमानमसमानप्रभा- वभास्वरं भास्करोद्गममिव सांप्रतं सांप्रतं श्रीमद्राजराजेश्वरसाम्राज्यपारिजातसंपज्जातमभितो- डभिनन्दन्ति नन्दित विश्वजनीनकर्तव्या भारतवर्षवास्तव्याः। भवन्ति चात्राभिनन्दनश्रोका :- 'अये कलिन्दनन्दिनीतटावनीवनीस्फुरन्निकुञ्जकेलिकल्प नावलीवलीढमानस। भवद्दयोदयादयान्नपेन्द्रपीठमाश्रयन्प्रजाः प्रजावदूर्जयन्स एडवर्ड एधतास् ॥ १ ॥ नमन्नरेन्द्रमण्डलीकिरीटकोटिसंचरत्स्फुरत्प्रतापवैभवे भवत्युदारभर्तरि। निवर्ततां द्विषत्कथा प्रवर्ततां महोत्सवो विकासतां सतां मनो विजम्भतां च भारतम् २ इतो महीमहोदया दयावदानशालिनो युरोपभूसुजस्तव स्तवोद्गमाभिषेचने। स्वधर्मशासनाशनादिकक्रिया क्रियाक्मं क्रमन्ति लण्डनेडधुना विलोचनैकनन्दने ॥३॥ न तादृगस्ति पत्तनं न केतनं न वायनं न यत्र संगता: समुच्छलत्प्रमोदमोदिताः। गृणन्ति तावकं शिवं स्मरन्ति तावकं शिवं परस्परोक्तितो विजृम्भयन्ति तावकं शिवम् ४ कुहचिद्यशसा कुहचिन्महसा कुहचिद्यशसा महसा सहसा वशयन्नमयन्विनयन्नभितो जनता जनतापविमर्दयिता।
Page 14
९
शवरी द्विरुक्तिरिन्दिराया उपनिषन्निःश्रेयसाद्वैतवादस्य, यत्प्रभावोद्दयोतदन्तुरे व- तमानसमये साधारणीभवन्ति दुष्प्रापाण्यपि ग्रन्थरत्नानि, प्रभवन्तीव कलिकालविष- मूर्च्छितापि भारतीया भारती॥ अथास्मदृष्टश्रुतेषु शतासन्नेषु साहित्यग्रन्थेषु ध्वन्यालोक-काव्यप्रकाश-साहित्यद- र्ण-रसगङ्गाघरा एव नायकायन्त इत्युक्तिर्नातिशयिता। तन्नापि व्वन्यालोकस्य ध्वनिस्थापनार्थमेव प्रवृत्तत्वान्नेह तदतिरिक्तालंकारीयविषयविशेषप्रपञ्चनम्। व्वनि- कथा त्वत एव काव्यप्रकाशादिषु संकलिता। उक्त चामुष्य निर्मातारमुद्दिश्य- ध्वनिनातिगभीरेण काव्यतत्त्वनिवेशिना। आनन्दवर्धनः कस्य नासीदानन्दवर्धनः ॥' इति ॥ काव्यप्रकाशे तु दृश्यकाव्यप्रतिपादनमन्तरा प्रायः सर्व एव साहित्यशास्त्रीयः यदार्थ: सूक्ष्मानुसंधानेन व्यवस्थापितः । कि पल्लवितेन, प्रथितश्च गुणगरिम्णैव- 'काव्यप्रकाशो यवनः काव्याली च कुलाङ्गना। अनेन प्रसभाकृष्टा कष्टामेषाश्रुते दशाम्।।' इति तत्प्रशंसापर्यवसायी श्लोकः । रसगङ्गाधरस्तु सर्वातिशायी स्यादू, यदि दु्दैवहतकेन तत्पूर्तिः सह्येत। अमुष्यो- त्कृष्टता यथोद्वुष्टा तथैव दरीदृश्यते। उक्तं च तैलङ्पुंगवेन- 'निमग्रेन केशैर्मननजलधेरन्तरुदरं मयोन्नीतो लोके ललितरसगङ्गाधरमणिः। हरन्नन्तर्ध्वान्तं हृदयमधिरूढो गुणवता- मलंकारान्सर्वानपि गलितगर्वान्रचयतु ॥' अयमुदात्तालंकारप्रस्तावे पादोनार्यायामेव विरम्यते। अहो कीदृशी दुर्दैवघटन रि निपतिता, यन्नियन्न्ित :- के कुर्वते दरिद्राः कासारवती धरा मनोजतरा। : पावनस्त्रिलोक्याम् ...... न्तमार्यायाश्वरमं चरणमपि पूरयितुं न पारितवान्। समस्तसाहित्यसं- अमित्रीयस्यास्य कयापि कलया विकलाप्याननद्वयी सकलसहृदयहृदयावर्ज- ्गीणा। मन्ये चामुष्य पश्चाननतायां साकल्येनालंकारिककुलकुञ्जराणां ति जगन्नियन्न्रान्तरायः पातित इति॥ साहित्यदर्पण:। हित्य दर्पणस्तु ध्वन्यालोक-काव्यप्रकाशप्रभृतिपदार्थप्रतिपादको भूतापि
भव भारतभूवलयैकविभो परमेश्वरसान्द्रदयार्द्रदृशा। सह वेदनिवेदितवृत्तजुषा प्रभुमाधवसिंहथराधिभुवा॥५॥ 5 र सगङगाधरस्योपमर्दाय निष्पन्नोऽप्यलंकारकौस्तुभो नैतादृक सहृदयहृदयावर्जकः । उपमालंकारावधिस्तु ख्यापयति ग्रन्थकर्तुर्व्याकरणन्यायपाण्डित्यम्।। सा० द०२
Page 15
१०
दृश्यकविकर्मविषये केवलतन्निरूपकदशरूपकादिनिबन्धमधरीकरोति। प्रकाशवदेषोऽपि कारिकाव्याख्योदाहृतिभिस्त्रिधा निरूपितः । तत्र कारिकाः खीया एव, उदाहृतयख परकीया: स्वीयाश्चाप्यासते। प्रमेयाणामुपपादनं तु प्रायेण प्राज्लमेव, यत्तु कुत्र- चिद्गहनं तद्विषयनिबन्धनमूलकम्, न तावल्लेखकाठिन्यमूलकम्। किं कथनारभव्या, दुर्गमा दुर्लभाश्चापि विषया इह तथा विशकलिता यथा सुखेन सुकुमारमतिभिरप्य- वगन्तुं शक्यन्ते। एवं चैष साहित्यशास्त्रे व्युत्पित्सूनां परिशीलितव्याकरणतर्काणां छात्राणामुदारधी- शय्यामधिरोदुमर्हतीति न स्तुतिपाठः । अवादि चावसाने- 'साहित्यदर्पणममुं सुधियो विलोक्य साहित्यतत्वमखिलं सुखमेव वित्त।।' यस्तिह कुत्रचिच्छृङ्गारतरितः प्रस्तावः स नैतस्य दूषणाय प्रभवति, इति दोषमाशक्क्यैवावाचि काव्यालंकारे रुद्रटेन- 'नहि कविना परदारा एष्टव्या नापि चोपदेष्टव्याः। कर्तव्यतयान्येषां नच तदुपायाऽभिधातव्यः॥ किंतु तदीयं वृत्तं काव्याङ्गतया स केवलं वक्ति। आराधयितुं विदुषस्तेन न दोष: कवेरत्र।।' अस्य दर्पणस्य कर्ता सांधिविग्रहिको महापात्रश्चन्द्रशेखरसूनुः श्रीविश्वनाथक- विराजः । शं० १२८७ सित्र० १३६५। एष शालिवाहनशकस्य त्रयोदशशताव्य्या अन्तिमभागे आसीत, यतो जयन्तम् अलावद्दीनं च स्मरति। यद्यपि प्रसिद्धदर्पणपुस्तके जयन्तस्य नाम नोपलभ्यते तथापि प्रचीनपुस्तके 'यः कौमारहर :- ' इति 'लोकस्य प्रपश्चे 'अत्र यज्जयन्तेनोक्तम्- इत्यादिना नाम गहीतम्। अयं जयन्तः खेषुविश्रव (१३५०)मिते विकरमाब्दे प्रकाशस्य दीपिकाख्यां व्याख्यां कृतवानिति तत्कृतदीपिकान्ते व्यक्तम्। अलावद्दीनस्य नाम तु १. आचीनेति। अस्य पुस्तकस्य षोडशपृष्ठे तृतीयपङ्गिस्थं ग.पुस्तकस्थपाठान्तरं निरीक्षणीयम्।। २. तथाहि 'संवत् १३५० वर्षे ज्येश्ठवदि ३ रवौ अद्येह आशापल्लवीसमावासित- श्रीमद्विजयकटके सकलारातिभूपालमौलिमुकुटालंकार भूषितपादप ङ्गजमहाराजाधिराजश्रीसा- रङ्गदेवकल्याणविजयराज्ये साहित्य विद्याविसिनीविकासनैकभास्करस्य सकलालंकारविवेकचतु- रमानसमानसराजहंसस्य षड्दर्शनपारावार पोतायमानावान्तरप्रतिभानिमज्जनैकमहापोतस
महार्थनिर्भ्रान्तविभ्रान्तवेद्ज्जनमनोऽज्ञानतिमिरपरिहारचन्द्रोदयस्य श्रीमद्गुर्जरमण्डलेशमुकु- टालंकार प्रभापरिचुम्बनबहुलीकृतचरणनखकिरणस्य महामात्यपुरोहितश्रीमन्दरद्वाजस्याङ्गभु- वा पुरोहितश्रीजयन्तभट्टेन सकलसुधीजनमनोऽज्ञानतिमिरविनाशकारणं विरचितेयं काव्यप्र- काशदीपिका। श्रीमद्भरद्वाजपदाम्बुजीयप्रसादतो अ्रन्थरहस्यमेतत्। विज्ञाय किचित्कृतवाञ्जयन्तस्तत्र प्रमाणं सुधियां वितर्क: । काव्यप्रकाशदीपिका समप्ता ॥' इति ॥
Page 16
११
चतुर्थपरिच्छेदे 'संधौ सर्वस्वहरणं-' इति श्लोके गृहीतम्। अयं यवनराजः शैला- भिसूर्य (१२३७)मिते शालिवाहनाब्दे विषप्रयोगेण व्यापादित इत्यैतिहासिकाः । अथ चैनं काव्यप्रदीपे 'अर्वाचीनास्तु-' इत्यादिना 'तददोषौ काव्यार्थौ- इति कारिकाव्याख्याने गोविन्दठक्कुरः स्मरति। अयं मैथिलशिरोमणिः शालिवाह- नस्य पञ्चदशशतकपूर्वभागे भवितुमर्हतीति बहवः । एवं च यदि अलावद्दीनस्य मृत्युकाले दर्पणकारस्य जन्मकालः कल्प्यते तदा पञ्चाशद्वूर्षासन्ने वयसि दर्पणनिर्माणं संभाव्यते। राघवविलासमहाकाव्यस्य कुवलयाश्वचरितप्राकृतमहाकाव्यस्य चन्द्रकलाप्रभावती- नाटिकयोः षोडशभाषामय्याः प्रशस्तिरत्नावल्याश्च निर्माणानन्तरं दर्पणप्रणयनम्, तथा दर्पणस्य सुप्रसिद्धावस्थायामेव गोविन्दमहापण्डितस्य तादशादरदर्शी लेखश्व प्रतिपादितकालकलनायां बीजम्। दर्पणरचनानन्तरं विश्वनाथेन नरसिहविजयम्, काव्यप्रकाशदर्पण इति अ्न्थद्वयी निरमायीति तत्कृतकाव्यप्रकाशदर्पणतो ज्ञायते। एतन्नाम सांधिविग्रहिक-महापात्र-कविराजेत्युपाधिघटितमास्ते, तत्र विचार्यते- संधिविग्रह इति राज्याधिकारविशेषः, तत्र नियुक्त: सांधिविग्रहिकः। संधिविग्रहाधि- कृत इत्यर्थः। 'तत्र नियुक्तः' (४।४।६९) इति सूत्रेण ठक्। एष उपाधी राजतरङ्वि- ण्यादौ बहुत्र दृश्यते। सहृदयानन्दाख्यमहाकाव्यप्रणेता कृष्णानन्दोऽप्यात्मानं सां- धिविग्रहिक-महापात्रेति विशेषणाभ्यां कीतयति। महापात्रो ब्राह्मण विशेष इति केचित्। उपनामान्तरमिति परे। न च लेखकादिदोषवशान्महामात्रेण भवितव्यमिति वाच्यम्, तस्य प्रधानवाचकत्वे सांधिविग्रहिकेति सामान्योपाधिलेखस्य वैयर्थ्यापत्तेः । कविराज इति महाकविसमानार्थकम्, नतु अवधप्रान्तीयप्रधानहिन्दीभाषायां 'भाट' इति प्रसिद्धजातेरवगमकम् । अयमुत्कलदेशवासी स्मार्तवैष्णव इति ॥ अथ प्रसङ्गाद्दर्पणोद्टड्वितानां अ्रन्थकाराणा मितिवृत्तमकारादिकमेण मनाङ् निरुप्यते- अभिनवः (अभिनवगुप्तः) एष शैवशिखामणिः प्रत्यभिज्ञादर्शनपरमाचार्यः शालिवाहनस्य दशमशताब्ययाः पूर्वभागे कश्मीरान्पवित्रतरीकुर्वाण आसीतू। इदम्- 'इति नैवतितमेSस्मिन्वत्सरेऽन्त्ये युगांशे तिथिशशिजलधिस्थे मार्गशीर्षावसाने।'
र्याभिनवगुप्तपादाः' इति सगौरवं कीर्त्यते राजानक-मम्मटादिभिः एतस्य नामधेये गुप्त- पदं काश्मीरिकब्राह्मणजातिविशेषदर्शकम्, नतु तदंशरूपत्वेनोपात्तम्। एवं च 'अभि- नवः' इंत्येव केवलं नाम। तथा प्रयुक्तमाचार्यशिष्येण क्षेमराजेन नेत्रोद्द्योतप्रारम्भे- 'अभिनवंबोधादित्यद्युतिविकसितहत्सरोजान्मे।।' रसयत तरसा परिमलमसारसंसारवासनाशान्त्यै।' १. काश्मीरप्रचरिते लौकिके वर्षें। पञ्चविशत्या वर्जितेषु कलिगतवर्षेषु शतावशेषितेषु यदवशिष्यते तलौकिकवर्षप्रमाणम्।
Page 17
१२
आचार्येण प्रत्यभिज्ञाशास्त्रातिरिक्ता अपि ध्वन्यालोकलोचन-नाव्यलोचनाभिनव भारत्याख्यभारतीयनाव्यशास्त्रव्याख्याप्रभृतयो ग्रन्था विरचिताः। ध्वन्यालोकलोचन- मेव लोचनशब्देन व्यवहृतवान्दर्पणकारः॥ उद्यन:। अयमाक्षपादीनां काणादीनां च गिरां रहस्याविर्भावक: परमाचार्यः शालिवाहन- स्यैकादशशताव्य्याः प्रारम्भे मिथिलामण्डले जागरूक आसीत्। अमुं च सप्तश- त्यन्ते गोवर्धन :- 'उदयन-बलभद्राभ्यां सप्तशती शिष्य-सोदराभ्यां मे। दयौरिव रवि-चन्द्राभ्यां प्रकाशिता निर्मलीकृत्य।।' इत्यार्यायां खशिष्यत्वेन सादरं स्मरति। गोवर्धनश्च गज्गाधिपतेर्लक्ष्मणसेनस्य स- भायामेकः सभास्तार इतीतिवृत्तं तस्यैव सभासझ्मशिलायामुत्कीर्णात्- 'गोवर्धनश्च शरणो जयदेव उमापतिः। कविराजश्च रत्नानि समितौ लक्ष्मणस्य च॥' इति लोकादवगम्यते। लक्ष्मणसेनश्र स्त्रिस्तैकादशशताव्द्याश्चरमभागपर्यन्तमासी- दित्यैतिहासिकाः । एवं च गोवर्धनादीनां समानकालिकता सुव्यक्ता। किंचैतदासन्नकाले तार्किक-गाणितिकशिरोमणिः श्रीधरोऽप्यासीतू। यतोऽमुना प्रशस्तपादभाष्यस्य न्यायकन्दल्याख्यव्याख्यावसाने- 'वयधिकदशोत्तरनवशत (९१३) शाकाब्दे न्यायकन्दली रचिता।
इत्युक्तम्। अथो चायं सिद्धान्तशिरोमणिकारेण तत्रभवता भास्कराचार्येण तथा तदनुगामिभिश्च तत्र तत्र स्मर्यते। एतेनास्य गाणितिकतापि स्फुटा। उदयनाचार्यप्रणीताः किरणावलीकुसुमाञ्जल्यादयो महापण्डितमान्या ग्रन्थाः सर्वत्र प्रख्याताः। आसंस्तदानीं वङ्गप्रान्ते लक्ष्मणसेन-पाण्डुदासप्रभृतयः कतिचन कायस्थपुंगवाः, येषामन्तिके एवंविधानि पण्डितरत्नानि व्यराजन्त। लक्ष्मणसेनस्य कायस्थता तु सेनपदेनैव व्यक्ता। वङ्गादिषु सांप्रतमपि कायस्थेषु सेनकुलं सुप्रसिद्ध- तरम्। गोवर्वनाचार्येण सप्तशत्यारम्भे- 'सकलकलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुद्बन्धोश्च। सेनकुलतिलकभूपतिरे को राकाप्रदोषश्च।।' एवं वणितो लक्ष्मणसेनः । पाण्डुदासस्य कायस्थता तु गुणरत्नाभरणः कायस्थ- कुलतिलकः पाण्डुदास इत्यादिषु पदेषूचार्यमाणेषु क्रमभाविनो वर्णाः परं प्रतीयन्ते- इत्यादिन्यायकन्दलीफक्किकयातिरोहिता।। कालिदास:। उज्जयिनीनायकस्य श्रीविक्रमादित्यमहाराजस्य सभायामेकः कालिदास आसी- दित्येके। तस्यैव चक्रवर्तिन: सभायां त्रयः कालिदासा आसन्निति परे। विक्रमार्ककाला-
१. अयं जयदेवश्चन्द्रालोकादिकर्तुर्जयदेवाद्भिन्नः।।
Page 18
१३
दर्वाक् राजशेखरमहाकविकालात् प्राक् त्रय इतीतरे। इत्थं विप्रतिपत्तौ मीमां- स्यते तावत्-अभिनन्द् महाकवी रामचरिते- 'हालेनोत्तमपूजया कविवृष: श्रीपालितो लालितिः ख्याति कामपि कालिदासकवयो नीता: शकारातिना। श्रीहर्षों विततार गद्यकवये बाणाय वाणीफलं सद: सत्क्रिययाभिनन्दमपि च श्रीहारवर्षोऽग्रहीत्॥' इत्युक्तवान्। तेन शकाख्ययवनोन्मूलकस्य विक्रमादित्यस्य संसदि लब्धसत्कार: कश्चित् कालिदास आसीदिति व्यक्तमेव। अपरे पुनरेवं परिष्कुर्वते-अत्र 'कालि- दासकवयः' इति बहुवचनप्रयोगः कपिजलालम्भवाक्यनयेन कालिदासत्रयीमवगम- यति। न चादरातिशयार्थ बहुवचनोपादानमिति वाच्यम्, व्यक्तिमनुरुध्य विहितेषु कविप्रशंसा ्लोकेषु तादृशप्रयोगानुपलम्भात्। नच कविताशक्तिवैकल्येन तथा प्रयोग इत्यपि वाच्यम्, सुधासोदर्यस्य रामचरिताख्यमहाकाव्यस्य तत्कर्तृकत्वासंभवात्। आसंश्र महाराष्ट्रचूडामणेः कान्यकुब्जमहीमहेन्द्र-महेन्द्रपाल-सभालंकृतेर्बालरा- मायणादिकवयितू राजशेखरमहाकवेः प्राक् त्रयः कालिदासा इति तत्कृतात्- 'एकोऽपि जीयते हन्त कालिदासो न केनचित्। शृङ्गारे ललितोद्गारे कालिदासत्रयी किमु॥' इति सुभाषितहारावल्यादिस्थश्लोकाज्ज्ञायते। स च राजशेखरमहाकविः शालिवाह- नस्य नवमशता्या अन्त्यभागेऽभूदित्यैतिहासिकाः । इतरे पुनरेवं मन्यन्ते-विक्र- मादित्यस्य सभाभरणभूत एक: कालिदासः । ततः 'जानकीहरणं कर्तु रघुवंशे स्थिते सति। कविः कुमारदासश्च रावणश्च यदि क्षमः॥' इति सूक्तिमु क्तावलीधृत-राजशेखरमहाकविश्लोकतो जानकीहरणाख्यमहाकाव्यप्रणेतु- विंकमार्कसप्तमशताब्दीप्रारम्भभुवः कुमारदासकवेः किंचितप्राक्कालिकत्वेन समा- नकालिकत्वेन वाध्यवसितो द्वितीयः कालिदासः । एताभ्यामधस्तनस्तृतीय इति॥ एवं च कालिदासकृतित्वेन ख्यातेषु रघुवंशप्रभृतिष्वेककर्तृकता सुतरां व्युदस्यते। यतस्त्रयोऽपि कालिदासाः कवयः क विकर्मकरणालंकर्मीणाश्चाभूवन्। इतरथा कस्ता- न्सरेत्। तेषु कतमेन कतमा कृतिरकारीति परीक्षातिमात्रं दुःशका। तथापि रघु- वंश-कुमारसंभवयोरेक एव कर्तेति प्रतिपादनं बाढं ज्यायः। यत एककर्तृकताया. मेव 'आलोकमार्ग सहसा त्रजन्त्या-' इत्यादिश्लोकषद् कस्योभयन्र लेखः संगच्छते। एष एक प्रथम: कालिदास इत्यपि वक्तुं पार्यते। यतः 'उपमा कालिदासस्य-' इति चिरंतनी प्रतीतिः। अनुभूयन्ते च यथोपमालंकारा रघुवंशादौ तथा नेतरत्र। आ-
१. शकेति। 'यो रूमदेशाधिपति शकेश्वरं जित्वा गृहीत्वोज्जयनीं महाहवे। आनीय संभ्राम्य मुमोच तं त्वहो श्रीविक्रमार्क: समसह्यविक्रमः ॥' इत्यादिकथा विक्रमस्य शका- रातिपदेनाभिधाने प्रमाणम् ।।
Page 19
१४
सीचच राजरेखरमहाकवितोऽपि प्राचीनानां रामाभ्युदयादिनाटकनिर्नातृ-कान्यकुब्जे- श्वरथशोवर्मनृपतिसभाभरणभूतानां महाकवि-भवभूति-वाक्पतिराज-प्रभृ- तीनां समये कस्यचित्कालिदासत्य साधीयसी प्रसिद्धिरित्यंशे- 'येनायोजि नवेSरमस्थिरमर्थविधौ विवेकिना जिनवेश्म। स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः॥' इति पुलकेशिशिलालेख: प्रमाणम्। एतल्ेखकालस्तु- 'पञ्चाशत्सु कलौ काले षट्सु पश्चशतासु (५५६) च। समासु समतीतासु शकानामपि भूभुजाम् ॥।' इति तच्छिलालेखश्लोकेनैव व्यक्तः। एतेन तदानींतनेऽपि काले यो दिगन्तविश्रान्त- कीर्तितया लक्ष्यभूतः स एवात्र प्रथमलेन विवक्षित इति निष्प्रत्यूहम्॥ मेघदूत-अभिज्ञानशाकुन्तल-विक्रमोर्वशीय-मालविकाननिमित्रेषु कापि कृतिः प्र- थमकालिदासस्य स्यान्न वा, द्वितीय-तृतीययोस्तु स्यादेव। अत्रोक्तानां प्रायः सर्वेषां कालिदासग्रन्थानां श्रोकास्तन्न तत्र प्राचीनालंकारनिबन्धेषूदाहरणतया न्यस्ताः । चतुर्थः कालिदासस्तु ज्योतिर्विदाभरणकृत्। अयमेतद्रन्थस्यान्तिमेऽव्यायेऽट्रसखा- न्निमितेषु कलिगताब्देपु ग्रन्थनिर्माणं वदति। तथा च तद्वाक्यम्- 'अब्दे सिन्धुरदर्शनाम्बरगुणै(३०६८)्याते कलेः संमिते मासे माधवसंज्ञके च विहितो ग्रन्थक्रियोपक्रमः । नानाकालविधानशास्त्रगदितं ज्ञानं विलोक्यादरा- दूर्जे ग्रन्थसमाप्तिरत्र विहिता ज्योतिर्विदां प्रीतये।।' वस्तुवस्तु चतूरसरुद्र (११६४) मिते शालिवाहनाब्दे ग्रन्थकरणं संभवतीति गणक- तरद्विण्यां सरयूपारीणपुंगवाः । एतद्रन्थस्यान्तिमाध्यायो नितरामप्राणाणिक इति प्रमाणिकाः । पञ्चमः कालिदासस्तु सम्राडकबरसमकालिकः। अकबरस्तु भतिथि- (१५२७) मिते शालिवाहनाब्दे स्वर्गातिथिरभूत्। कश्चित्कालिदासः कान्यकुब्ज इति श्रूयते, सोऽप्येतेष्वन्यतमः स्यात्। प्रथम इति केचित्। कालिदासविषये बहुभिर्ब- हूक्तं तदखिलमत्मन्मतेSनावश्यकमिति विरम्यते॥ चण्डीदास:। अयं विश्वनाथकविराजपितामहस्यानुजः काव्यप्रकाशटीकाकर्ता। अस्यैव मतं प्रदी- पकारेण बहुत्रोपन्यस्तं दूषितं च। उक्तविश्वनाथकालादमुष्य सत्ताकाल उन्नेतुं सुशकः॥ चन्द्रशेखरः। एष विश्वनाथकविराजस्य जनकः पुष्पमाला-भाषार्णवयो रचयिता। दुण्डी। अयं महाकविमूर्धन्यो धन्यः शालिवाहनस्य पश्चमशताव्य्यामासीत्। 'त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः। त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः।।'
Page 20
१५
मेव। तत्र काव्यादर्शो दशकुमारचरितं चेति कृतिदूयी सुप्रसिद्धा तावन्। तृतीया छन्दोविचितिः स्यात्॥ धनिकः। अयं विष्णुतनूजन्मा धनिकपण्डितः शालिवाहनस्य नवमशताव्याश्चरमभागे- डभूत्। अनेन काव्यनिर्णय-दशरूपावलोकौ निरमायिषाताम्।। धर्मदत्तः। एष विश्वनाथकविराजवृद्धप्रपितामहस्य नारायणस्य पश्चाद्भावी साहित्ये कस्यापि न्रबन्धस्य प्रणेतेति दर्पणादेव ज्ञायते। काव्यप्रकाशस्य दर्पणव्याख्यानतस्तु 'यदाहुः श्रीकलिङ्गभूमण्डलाखण्डलमहाराजाधिराजश्रीनरसिंह देवसभायां धर्मदत्तं स्थगयन्तः सकलस हृदयगोष्ठीगरिष्ठकविपण्डितास्सत्पितामहश्रीमन्नारायणदासपादाः' इति फकि- कया विशेषोऽवधार्यते। तत्र पितामहशब्ददर्शनेन प्राक्कालनिर्णये संदेहे आपतति॥ ध्वनिकार: । कोडयं ध्वनिकारः किंच तन्नामेति न मनागपि ज्ञायते। किंतु संप्रति ध्वनिका- रिकाणां व्याख्याता राजानकानन्दवर्धन एव ज्ञायते। व्यवह्ियते च कैश्चिदयं ध्वनि- कारत्वेन। एतत्कृता ध्वनिव्याख्या आलोकपदवाच्या। एवं विभागसत्वेऽपि सव्या- ख्योऽयं ग्रन्थो ध्वन्यालोकपदेन व्यपदिश्यते। अस्योपरि श्रीमदाचार्याभिनवगुप्तपा- देर्लोचनाख्या व्याख्योन्मीलिता। अयं राजानककुलोत्तंस आनन्दवर्धनाचार्यो- वन्तिवर्मणो राज्यकाले कश्मीराखवासीत्। उक्तं च राजतरङ्गिण्यां कल्हणेन- मुक्ताकण: शिवस्वामी कविरानन्दवर्धनः। प्रथां रत्षाकरश्चागात्साम्राज्येऽवन्तिवर्मणः।' अवन्तिवर्मणो राज्यकालस्तु शालिवाहनस्य सप्ताश्वसप्त (७७७) मितवत्सरमारभ्य तर्कखेभ(८०६) मितवत्सरपर्यन्तमासीत्।। नखकुट्ट:। कोडयं नखकुट्टाचार्यः कश्च तद्विहितो निवन्व इति भृशं विचारणीयम्। एतन्मतं तु दर्पणस्य षष्ठपरिच्छेदे 'नेपथ्योक्तं श्रुतं तत्र-' इत्यादिना प्रतिपादितमास्ते॥ नारायण: (नारायणदासः)। अयं विश्वनाथकविराजस्य वृद्धप्रपितामह इत्युक्तं धर्मदत्तप्रस्तावे प्राकू।।
द्वौ पुरुषोत्तमौ प्रसिद्धौ। एकस्तावत्रिकाण्डशेषादिप्रणेता, परो विष्णुभक्तिकल्पल- पुरुषोत्तमः ।
तानिर्माता। तत्राद्यस्य त्रिकाण्डशेषादिसमात्तौ पुरुषोत्तमदेव इति नामोपलभ्यते, द्वि- तीयस्य तु पुरुषोत्तम इति। परमाद्यस्यापि पद्यरचनायां पुरुषोत्तम इत्येव नामधेय १. छन्दोविचितिरिति। 'छन्दोविचितिरिव मालिनीसनाथा' इति वासवदत्ताश्रेषः । तत्र छन्दोविचितिर्ग्रन्थविशेष इति तट्टीकाकृत्। अयं ग्रन्थो दण्डिना कृत इति जनश्रुतिः ।। २. संदेह इति। यतो दर्पणे नारायणो वृद्धप्रपितामहत्त्वेन कीर्तित इति॥
Page 21
१६
दृश्यते। तथाहि-त्रिकाण्डशेषप्रारम्भ 'अयं प्रयत्नः पुरुषोत्तमस्य' इति। हारावली- प्ररम्भे 'हारावली विरचिता पुरुषोत्तमेन' इति। तदन्ते 'विनिर्मितेयं पुरुषोत्तमेन' इति। एतेन द्वयोरेकता संभाव्यते। यद्ययमेव विश्वनाथकविराजेन दर्पणस्य नवम- परिच्छेदे 'पुरुषोत्तमस्ताह-' इत्यादिना स्मृतः स्यात्तर्हि पूर्वोक्तविश्वानाथकविराजस- मयात्प्रागदशमस्तनिस्ताव्दशतकपर्यन्तं पुरुषोत्तमसत्तां कल्पयतामैतिहासिकानामुक्तयो मांसलीभवन्ति। पुरुषोत्तमानुबन्धिनस्तु हारावली-विष्णुभक्तिकल्पलतयोरुपसंहार- श्लोकेभ्योऽवसेयाः। भरतः। सांप्रतमेतदुपज्ञमेव नाव्यशास्त्रं लोके प्रसिद्धम्। अत एव विक्रमोर्वशीये- 'मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयो नियुक्तः। ललिताभिनयं तमद्य भर्ता मखतां द्रष्टुमनाः सलोकपाल: ।।' इति प्रायोजि। यत्त्वयं भरतमुनिर्दर्पणादौ महर्षिपदेन व्यपदिष्टस्तदादरातिशया- र्थम्। यतो मत्रद्रष्टार एव महर्षयो भवितुमर्हन्तीति निरुक्तादौ प्रसिद्धम्। पुरा तु शिलालि-कृशाश्वप्रणीतानि कानिचिन्नटसूत्राणि प्रथितान्यासन्। यदनुरोधेन भगवान्पाणिनिः'पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः' (४३।११०,) 'कर्मन्दकृ- शाश्वादिनि:'(४।३।१११) इति सूत्रे सूत्रयामास। शिलालिना प्रोक्त्तमधीयते शैला- लिनो नटाः । कृशाश्वेन प्रोक्तमधीयते कृशाश्िनो नटाः । अहो इह सर्वेषां पदार्थानामाविर्भावतिरोभावौ नैसर्गिकौ, न ज्ञायतेऽनाद्यनन्ते- 5मुष्मिन्काले कियन्तः पदार्था उत्पद्यन्ते व्यवह्ियन्ते विलीयन्ते च। हंहो एकः स नाव्यप्रचारसमय आसीद्, यत्प्रचारकव्यपदेशेनाचार्याणां सूत्रप्रणयनावश्यकत्वमाप- तितम्। एक: सांप्रतमास्ते, यत्र पुरा प्रचरितस्यापि यथार्थतया भानं न भवति। ही सर्वातिशायी कालमहिमा। एवं च पुनरेष गण्डोपरि विस्फोट: स्फुरति, यत्खलु संप्रति सांप्रतिकैश्चिरंतनतया प्रतीतान्यपि विषयान्तराणि नानाविधदोषारोपभूम्रा कलुषीक्रिय- न्ते। कलुषीक्रियन्तां यथारुचि। किमनेन गगने बीजाकरणप्रयासेन। अत्रेदं विचार्यते- आर्षबन्धमनुसृत्य मानुषवन्धप्रवृत्तिः, आहोखिन्मानुषमनुसत्यार्षप्रवृत्तिः । तत्र मानुषबन्धस्यार्षमूलकत्वं सर्वसंमतम्। इतरथा दशरूपकादिनूतननिबन्धा अपि ना- व्यशास्त्रस्य मूलभूता भवेयुः । परमिदानीं दशरूपकप्रमेयनिरूपकाणां निबन्धानां विलुप्तप्रायत्वे नाव्यशास्त्रमेव बहु जानानानामायुष्मतामन्तःकरणे नाग्निपुराणवन्नाट्य- शास्त्रे काचन दुष्कल्पना प्रादुर्भूता। मन्ये प्रादुर्भविष्यति तत्तद्विषयजातप्रतिपादकनिब- न्धशतप्रसिद्धियोगेनान्नेय इव नाट्यशास्त्रेऽपि नाव्यप्रदीप-नाट्यदर्पण-नाट्यलोचन
मपराद्मग्निपुराणेन, यदिदं केनचिदितस्ततः संगरहीतमिति मिथ्यापवाद्मषीमलीमसं क्रियते। कम्मात्संगरृहीतमित्यनुयोगदशायां किमुत्तरमुपादेयं स्यात्। (१) किमेतच्छन्दोभ्यः संग्रहीतम्, छन्दांसि तु वैदिकानि लौकिकानि च ल. क्ष्याणि लक्ष्यीकृत्य प्रवृत्तानि। तत्र लौकिकानि लक्ष्याणि तुपुराणान्येव।
Page 22
१७
(२) किमेतदलंकारेम्यः संग्रहीतम्, अलंकारास्तु ऋग्यजुःसामभ्यो निर्गत्येहैव प्रतिष्ठां प्रतिपेदिरे। किंचामेयश्लोका ध्वन्यालोकादिषु प्राचीनालंकारिकनिबन्धेषूपल- भ्यन्ते। न चैतावता तेभ्य आझनेये संगरहीता इति निश्चेतुं पार्यते। किमसौ संग्रहः सौष्ठवार्थम् उतासौष्ठवार्थम्। यदि सौष्ठवार्थम् 'अपारे काव्यसंसारे- इत्यादिभ्यो विशिष्टे ध्वन्यादिविषये वर्तमानेऽप्येषैव श्लोकदयी किमिति संगृहीता। नहि राजद्र- व्यापहारकर्मणीव तत्र किमपि भयमाशक्यते। यद्सौष्ठवार्थम्, को नाम प्रेक्षावान- सौष्ठवार्थ प्रयतेत। (३) किमेतत्कोषात्संग्रहीतम्, कोषस्तु प्रथममिहैव प्रादुर्भूतः। तदन्वमरकोषादयो जज्ञिरे। एतदुक्तं भवति-यथा निरुक्ते वैदिकशब्दानां संग्रहो निघण्टपदवाच्यो भगवता यास्केन विहितस्तथैव लौकिकशब्दानां संग्रहो भगवता कृष्णद्वैपाय- नेन विहितः। ततोऽमुं शब्दसंग्रह्ममरसिंहोऽपहृत्य तत्कालप्रसिद्धनानाशब्दयो- जनेन परिष्कृत्य च नामलिङ्गानुशासनाख्यतया प्रचारितवान्। उक्त चामुना-'स- माहृत्यान्यतत्र्राणि-' इति। अत्र 'तन्ाणि' इति बहुवचनप्रयोगेण नानाग्रन्थेम्यो- Sमरकोषनिर्माणं व्यक्तमेव। एषैव कोषनिर्मितिशैली। पुरुषोत्तमेनाप्युक्तम्- 'नानाकाव्यपुराणनाटककथाकोषेतिहासस्मृति- ज्योतिःशास्त्रगजाश्वमानवभिषक्कोषान्प्रयत्नादियम्। दष्ट्रान्यानि च शाब्दिकैः सह कृता हारावली यत्नतः' इति॥ एवं चामरकोषनिर्माणेऽग्निपुराणं मुख्यं साधनमभूत्। यथा-भास्कररायनि- र्मितस्य वैदिककोषस्य निर्माणे यास्कोक्तं निरुक्तमिति। केवलमियती भिदा, यत्खलु सर्वतत्र्रखवतत्र्रो भास्कररायदीक्षितो वैदिकमार्गावलम्बिलात्- 'यास्कव्याख्यानुगतः संपूर्णों वैदिकः कोषः ।' इति नामग्रहणपुरःसरं स्जीव्यमुदटङ्कयत्। अमरसिहस्तु पुनर्वेदविरुद्धमतावल- म्बित्ाद्वैदिकधर्मानुगतस्यान्नेयस्य महापुराणस्य तत्कर्तुर्वा नामग्रहणं नाकरोत् । किंतु स्वस्य सर्वोपहारकत्वदोषनिरासाय 'अन्यतन्राणि' इतीहान्यग्रहणमेवालंकर्मीणम- मंस्त। किं चामुष्य अ्रन्थापहारकत्वशीलमपि 'अमरसिहो हि पापीयान्सर्व भाष्यम- चूचुरत्' इति परम्पराप्रसिद्धेन श्रलोकगन्धिना गद्येनाकर्ण्यते। अत्रेदमपि बीज सं- भाव्यते-यदा अमरसिंहो निजकोषेSनेकान्व्याकरणभाष्यानुशिष्टशब्दकलापसिद्धा- न्तानुल्लिलेख, तदा तल्लेखमसहमानैः प्रचारितासौ किंवदन्तीति। एवमितरेऽप्याक्षेपाभासा निरसितुमीषत्कराः । किं पल्लवितेन। सर्वेषां वेदानां प्रमेयाव्रभासकं हि पुराणम्, यत इत एवाचार्याणां सारखतवैभवः पप्रथे। न के-
Sनेके विश्वजनीना विषया विप्रकीर्णाः। एवंप्रायानङ्गुरायमाणान्विषयानाहत्यैवाचायैः सखग्रन्था: सहस्रशाखीकृताः। आस्तां तावदियं महीयसी गवेषणा। आबालविदितं
१. 'अपारे काव्यसंसारे-' इत्यादयः ॥
Page 23
१८
दिख्यात्रमुदाहियते-कालिदासस्य काव्ये न तु कस्यापि परकाव्योद्दरूतलशङ्का परं तत्काव्यमपि पुराणमनुसरिति। तथा च शिवपुराणे ज्ञानसंहितायाम्- 'रसानां बन्नती काचित्तथैव संयुता ययौ।' 'काचिद्धस्ते शलाकां च धृत्वाअ्जनसमन्विताम्।' 'काचित्तु कामिनी पादं रख्यन्ती यदा तदा।' इति श्लोकभागैः समं 'अर्धाश्चिता-विलोचनं दक्षिणमञ्जनेन-प्रसादिकालम्बितमग्र- पादम्-' इति रघुवंश-कुमारसंभवयोः सप्तमसर्गश्लोकानां सूक्ष्मदृशा संवादे विधी- यमाने शिवपुराण-रघुवंशश्लोकानामुपजीव्योपजीवकभावो व्यक्तं फलति। तथैव- 'हित्वेन्द्र प्रमुखान्देवानैश्वर्यसंयुतानपि। पति पिनाकपाण वै प्रासुमिच्छति सांप्रतम्।।' 'इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी। अरूपहार्य मदनस्य निग्रहात्पिनाकपाणि पतिमाशुमिच्छति।।' एवमादयः । अत एव- 'छायोपजीवी पदकोपजीवी पादोपजीवी सकलोपजीवी। भवेद्थ प्राप्तकवित्वजीवी सवोन्मेषतो वा सुवनोपजीव्यः।।' इत्यालंकारिकसमयेन भगवद्वाल्मीकि-व्यासादीनां भुवनोपजीव्यलं तु सर्वत्रैवोपप द्यते, न क्वापि व्यभिचरतीत्यलं प्रसक्तानुप्रसत्तया।। नाट्यशास्त्रं कदा प्रादुर्भूतमिति विचारे मुनीन्प्रति भरतवाक्यम्- 'पूर्व कृतयुगे विप्रा वृत्ते स्वायंभुवेऽन्तरे। त्रेतायुगे संप्रवृत्ते मनोवेवस्वतस्य च॥। ग्राम्यधर्मे प्रवृत्ते तु कामलोभवशंगते। ईर्ष्याक्रोधादिसंमूढ लोके सुखितदुःखिते।। देवदानवगन्धर्वै रक्षोयक्षमहोरगैः। जम्बूद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते॥ महेन्द्रप्रमुखैदेवैरुक्त: किल पितामहः। क्रीडनीयकमिच्छामो दृश्यं श्रव्यं च यन्वेत्॥ न च वेदविहारोडयं संश्राव्यः शूद्रजातिषु। तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम्॥ एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च। सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित्॥ धर्म्यमर्थ्य यशस्यं च सोपदेशं ससंग्रहम्। भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम्॥ सर्वशास्त्रार्थसंपन्नं सर्वशिष्यप्रवर्तकम्। नाट्याख्यं पश्चमं वेदं सेतिहासं करोम्यहम्॥
Page 24
१९
संकल्प्य भगवानेवं सर्वान्वेदाननुस्मरन्। नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसंभवम्॥ जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च। यजुर्वेदादभिनयानरसानाथर्वणादपि।। वेदोपवेदैः संवद्धो नाट्यवेदो महात्मना। येन नारदसंयुक्तो वेदवेदाङ्गकारणम्।। उपस्थितोऽहं लोकेशं प्रयोगार्थ कृताञ्जलिः। नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् ॥' इति ॥ भर्तृहरि: (हरिः)। अयमुज्जयिनीनाथस्य विक्रमादित्यस्य ज्येष्ठो भ्रातासीत। अतोऽस्य विक्रमकालि- कतम्। अस्य हरिर्नाम। अत एव 'तथापि हरित्रद्धेन-' इति प्रायुङ्क कैयटः। बहुत्र भर्तृ-हरिरित्यपि दृश्यते। तत्र भतृपदं प्रजापोषकत्वख्यापकम्, नतु काश्मी- रिके भर्तृमेण्ठादाविवोदड्कीभूतम्। दुष्टस्न्रीखिन्नचेतसानेन राज्यलक्ष्मीमवज्ञाय वैरा- ग्यमेवाश्रायि। अनेन वैयाकरणधुरीणेन साराख्यमहाभाष्यव्याख्या, वाक्यपदीयं, शतकत्रयं च निरमायि। तत्र सारस्य सारवत्ता लोकोत्तरैव, यदाधारेण काश्मीरिको महावैयाकरणः कैयटो भाष्योपरि प्रदीप निरमात्। वाक्यपदीयं नाम वाक्यपदे अधिकृत्य कृतो ग्रन्थः। 'शिशुकन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः' (४।३।८८) इति सूत्रेण च्छः । एतस्य हेलराज-पुश्जराजौ व्याख्यातारौ, तत्र हेलराजः कह्णा- त्प्राक्तन: । तथा चोक्तम्- 'बद्धा द्वादशभिर्ग्रन्थसहस्त्रैः पार्थिवावलिः। प्राङ्महाव्रतिना येन हेलाराजद्विजन्मना॥' इति॥ भोजदेवः (भोजः)। अयं धारानगरीनाथो महाविचक्षणः शालिवाहनस्य त्रिचत्वारिंशदधिकनवमश- ताब्य्यामासीत्। अनेन सरसतीकण्ठाभरणप्रभृतयोऽनेके ग्रन्था रचिताः, दानमा- नाभ्यां विद्वांसोऽभ्यर्चिताश्। विशेषज्ञह्यै तद्दानपत्रस्य संक्षेपोत्र प्रदर्श्यते- 'जयति व्योमकेशोऽसौ यः सर्गाय बिभर्ति ताम्। ऐन्दवीं शिरसा लेखां जगद्वोजाङ्कराकृतिम्।'
रश्रीभोजदेव: कुशली नागहदप्रिमपथकान्तःपातिवीराणके समुपगतान्समस्त- राजपुरुषान्ब्राह्मणोत्तरान्प्रतिनिवासिपट्टकिलजनपदादींश्व समादिशति-अस्तु वः संवि- दितम्, यथा आतीताष्टसप्तत्यधिकसाहस्त्िकसंवत्सरे माघासिततृतीयायां रवावुद्गयन-
१. ग्रन्थशब्दः श्रोकवाची। तेन यथाश्रुतमर्थ योजयतां व्याख्या नादरणीया।
Page 25
२०
पर्वणि कल्पितहलानां लेख्ये श्रीमद्धारायामवस्थितैरस्माभिः स्नाला चराचरगुरु भगवन्तं भवानीपति समभ्यर्च्य संसारस्यासारतां दष्ट्रा- 'वाताभ्रविभ्रममिदं वसुधाधिपत्य- मापातमात्रमधुरो विषयोपभोगः। प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने॥' इति जगतो विनश्वरं स्वरूपमाकलय्य उपरिलिखितग्रामः सवसीमातृणागोचरयूति- पर्यन्तः सहिरण्यभागभोगः सोपरिकरः सर्वादायसमेतः ब्राह्मणधनपतिभट्वय भट्ट- गोविन्दसुताय बहचाश्वलायनशाखाय त्रिप्रवराय वेह्लवल्लप्रतिबद्धश्रीवादाविनिर्गत- राधसुरसङ्गकर्णाटाय मातापित्रोरात्मनश्ष पुण्ययशोभिवृद्धये अदृष्टफलमङ्गीकृत्य आ- चन्द्रार्कार्णवक्षितिसमकालं यावत्परया भत्त्या शासनेनोदकपूर्व प्रतिपादित इति मला यथादीयमानभागभोगकरहिर ण्यादिकमाज्ञाश्रवणविधेयैर्भूला सर्वमस्मै समुपने- तव्यम्। सामान्यं चैतत्फलं बुद्धास्मदवंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मादायो- डयमनुमन्तव्यः पालनीयश्चेति। संवत् १०७८ चैत्रसुदि १४ स्वयमाज्ञामङ्गलं महाश्रीः। खहस्तोऽयं श्रीभोजदेवस्य। महिमा (महिमभट्टः)। अयं नैयायिकपुंगवो ध्वरनिनिरूपितव्यअ्ञनावृत्तिनिरासार्थ व्यक्तिविवेकाख्यं प्रबन्धं निर्मितवान्। एतच- 'अनुमानेऽन्तर्भावं सर्वस्यैव ध्वनेः प्रकाशयितुम्। व्यक्तिविवेकं कुरुते प्रणस्य महिमा परां वाचम्॥' इत्यार्यया बुध्यते। वुध्यते च राजानकानन्दवर्धनादर्वाचीनता राजानकमम्मटा- त्प्राचीनता चास्य। यत एतेन व्वनिध्वंसाय व्यक्तिविवेको विहितः । राजानकमम्म- टेन व्यक्तिविवेकोत्प्रेक्षितप्रमेयः प्रकाशस्य पश्चमोलासोपान्त्ये निरस्त इति तट्ीकाका- रौवेशदीकृतम्॥ मम्मटः। अयं राजानककुलोत्तंसो महावैयाकरणः परममाहेश्वरः शालिवाहनस्यैकादशश- ताव्याः पूर्वभागे कश्मीरानलंचकार। मम्मटस्य विशेषोदन्तस्तु प्रकाशस्य सुधासाग- राख्यटीका प्रारम्भे कान्यकुब्जावतंसेन भीमसेनदीक्षितेन पद्ैरुपनिबद्धः। स यथा- 'शब्दब्रह्म सनातनं न विदितं शास्त्रैः क्वचित्केनचि- त्तद्देवी हि सरस्वती स्वयमभूत्काश्मीरदेशे पुमान्। श्रीमजय्यटगेहिनीसुजठराज्न्माप्य युग्मानुजः श्रीमन्मम्मटसंज्ञयाश्रितततुं सारसतीं सूचयन्।। मर्यादां किल पालयञ्शिवपुर्री गत्वा प्रपठ्याद्रा- च्छास्त्रं सर्वजनोपकाररसिक: साहित्यसूत्रं व्यधात्।
१. साहित्येति। 'नियतिकृतिनियमरहितां-' इत्यादिकारिकारूपमित्यर्थः ॥
Page 26
२१
तहृत्ति च विरच्य गूढमकरोत्काव्यप्रकाशं स्फुटं वैदग्ध्यैकनिदानमर्थिषु चतुर्वर्गप्रदं सेवनात्।। कस्तस्य स्तुतिमाचरेत्कविरहो को वा गुणान्वेदितुं शक्त: स्यात्किल मम्मटस्य भुवने वाग्देवतारूपिणः। श्रीमान्कय्यट उव्वटो ह्यवरजो यच्छात्रतामागतो भाष्यान्धि निगमं यथाक्रममनुव्याख्याय सिद्धिं गतः॥' मम्मटेन काव्यप्रकाश: परिकरालंकारावधिरेव कृतः । अवशिष्टभागस्तूत्कर्षम- हिम्रा शिशुपालवधमप्यधरीकुर्वाणस्य पञ्चाशत्सर्गात्मकस्य विद्याधिपत्यपरनामकरा- जानक-रताकर-प्रणीतस्य हरविजयाख्यमहाकाव्यस्य टीकाकृता राजानकाल- कसूरिणा पूरित इति प्रसिद्धम्। उक्त्त च- 'कृतः श्रीमम्मटाचार्यचर्येः परिकरावधिः। प्रबन्ध: पूरितः शेषो विधयिलकसरिणा॥' राघवानन्दु:। अयं सांधिविग्रहिको महापात्रो दर्पणकारस्य कश्चिदनुबन्धीहि प्रतीयते। अनेन किमपि नाटकं निरमायीति 'यथा-राघवानन्दानां नाटके' इति दर्पणतृतीयपरि- च्छेदोत्त्या व्यक्तम्।। रुट्रटः। अयं काव्यालंकारप्रणेता महाकविर्महाराजभोजदेवात्प्राचीनः । यतः- 'किं गौरि मां प्रति रुषा ननु गौरहं किं कुप्यामि कां प्रति मयीत्यनुमानतोऽहम्। जानाम्यतस्त्वमनुमानत एव सत्य- मित्थं गिरो गिरिभुवः कुटिला जयन्ति॥' इति काव्यालंकारपुद्यं सरखतीकण्ठाभरणे द्वितीयपरिच्छेदे उदाहृतम्। अस्य नामा- न्तरं शतानन्द:, जनको वामकभट्टः, वेदः सामेति सर्व तत्कृतैः 'खङ्गमुसलचा- पबाणशूलशक्तिहलबन्धगर्भितैरष्टभिः श्रोकैर्यदष्टारं महाचकमुत्पद्यते तन्निर्गतात्-
१. निगमं यजुर्वेदसंहिताम्।। २. बन्धसृष्टिरतभूतस्य वक्ष्यमाणस्य चक्रबन्धस्य स्वरूपख्यात्यै दर्पणीयबन्धप्रकरणन्यून- तापूर्त्य च खङ्गादिबन्धा: साकारा विन्यस्यन्ते। तत्र खङ्गबन्धो यथा- मारारिशक्रराम्नेभमुखैरासाररंहसा। सारारब्धस्तवा नित्यं तदतिहरणक्षमा॥ १ ॥ माता नतानां संघट्टः श्रियां बाधितसंभ्रमा। मान्याथ सीमा रामाणां शं मे दिश्यादुमादिजा॥।२॥ मुसलबन्धो यथा- मायाविनं महाहावा रसायातं लसद्भुजा। जातलीलायथासारवाचं महिषमावधीः ॥३॥ धनुर्बन्धो यथा- मामभीदा शरण्या मुत्सदैवारुक्प्रदा च धीः। धीरा पवित्रा संत्रासात्रासीष्ठा मातरारम।४॥ सा० द०३
Page 27
२२
'शतानन्दापराख्येन भट्टवामकसूनुना। साधितं रुद्रटेनेदं सामाजा धीमतां हितम्।' इति श्लोकाज्ज्ायते। शिशुपालवधादिविलक्षणोऽयं चक्रबन्धः कान्न विस्माययति। श ङ्गारतिलककर्ता रुद्रो न तु रुद्रटः। उक्त च तिलकान्ते-'शङ्गारतिलकविधिना पुनरपि रुद्रः प्रसादयति' इति॥ वैक्रोक्तिजीवितकारः। ग्रन्थतत्कत्रोर्विषये न किमपि वुध्यते।। वाचस्पतिमिश्र: । एष सर्वतत्त्रखतत्र्रो भामत्याख्यशारीरकमीमांसाभाष्यव्याख्यानादिनिर्माता षडू- दर्शनीव्याख्यातृत्वेन ख्यातः शालिवाहनस्यैकादशाब्याः पूर्वभागे मिथिलामण्डलं मण्डयामासेत्यैतिहासिकाः । कवितार्किकचक्रचूडामणिना कान्यकुब्जकुलकमलदिनमणिना कान्यकुब्जाधिप- तिविजयचन्दसभालंकारेण नैषधीयचरितादिमहानिबन्धकारेण श्रीश्रीहर्षेण खण्ड- नखण्डखाद्ये खण्डितानां नैयायिकसिद्धान्तानामुद्धारकत्वेन खण्डनोद्धारसंज्ञां दधा- नस्य प्रबन्धस्य कर्ता लस्माद्भिन्नः ॥ वामनः । अयं सवृत्तिकाणां काव्यालंकारसूत्राणां प्रणेता शालिवाहनस्य सप्तमशताब्याः प्र- थमभागान्नोर्ष्वतनः। यस्मादसौ खग्रन्थे भवभूतिप्रणीतस्य वीरचरितस्य 'दोर्दण्डाञ्चित-
शरबन्धो यथा- माननापरुषं लोकदेवीं सद्रस सन्नम। मनसा सादरं गत्वा सर्वदा दास्यमङ्ग ताम् ॥५॥ शूलबन्धो यथा- मा सुषो राजस स्वासूँलोककूटेशदेवताम्। तां शिवावाशितां सिद्धाध्यासितां हिस्तुतां स्तुहि ६ शक्तिबन्धो यथा- माहिषाख्ये रणेडन्या नु सा नु नानेयमत्र हि। हिमातङ्गादिवामुं च कं कम्पिनसुपप्लुतम् ७ हलबन्धो यथा- मातङ्गानङ्गविधिनामुना पादं तमुदतम्। तङ्गयित्वा शिरस्यस्य निपात्याहन्ति रंहसा॥८॥ अष्टभिर्महाचक्रबन्धनिष्पत्तिः । १. एतद्विषये डॉक्टर-रामकृष्ण-गोपाल-भाण्डारकरपण्डितवरैरस्मत्सविधे कृपापत्रं प्रेपितं तदेवोपयुक्तत्वादंशत उपन्यस्यते -......... दुर्गाप्रसादाचार्यानसकृत्प्रणम्य विज्ञा- पयति पुण्यपत्तनस्थो रामकृष्ण :- संप्राप्तो भवदीयलेखः। वक्रोक्तिजीवितं नाम कश्चिदलं- कारविषये ग्रन्थः । स च रुय्यककृतालंकारसर्वस्वाख्ये संदभे प्रमाणत्वेन क्वचिदुपन्यस्तः । रुय्यकश्च श्रीकण्ठचरितकृतो मङ्गस्य गुरुः। मङ्गश्च जयसिंहाख्यस्य कश्मीराधिपतेरलंकारनास्नो' मत्रिणो भराता। सच जयसिंह: ११२९ खिस्तवत्सरतः ११५० वत्सरपर्यन्तं कश्मीरभूमं भुक्तवान् । ............ ।'
Page 28
२३
चन्द्रशेखरधनु :- ' इति पद्यमुदाहृतवान्। भवभूतिस्तु शालिवाहनसप्तमशताब्दीप्रा- रम्भे कान्यकुब्जाधिपतेर्यशोवर्मणः सभायामासीदिति व्यक्तम्। अथ च ध्वन्यालो- कलोचने 'अनुरागवती संध्या-' इत्युदाहरणविचारावसरे 'वामनाभिप्रायेणायमा- क्षेपः, भामहाभिप्रायेण तु समासोक्तिरित्यमुमाशयं हृदये गृहीला समासोक्त्याक्षे- पयोरेकमेवोदाहरणं व्यतरद्रन्थकृत्' इति श्रीमदाचार्याभिनवगुप्तपादव्याख्यानेन ध्व- न्यालो कप्रणेतुरानन्दवर्धनाचार्यादस्य प्राचीनत्मवगम्यते। तस्मान्नवमशताव्याः प्रथमभागतो नाधस्तनः । केचित्तु- 'मनोरथः शङदत्तश्चटकः संधिमांस्तथा। बभूवुः कवयस्तस्य वामनाद्याश्च मन्रत्रिणः॥।' इति राजतरङ्विणीबलेनैनं कश्मीराधिपतेर्जयापीडस्यामातं कथयन्ति। पाणिनिसूत्रवृत्तिकाशिकाकर्ता वामनस्तस्मादन्यः प्रत्नश्वेति पाश्चात्यपण्डितानां परामर्शः । स्त्रिस्ताब्दस्य सप्तमशतकपूर्वार्धे भारतमण्डले तीर्थयात्रार्थ भ्रमतः कस्य- चिच्चीनदेशीयस्य यात्रावर्णनपुस्तके वामनकृतपाणिनिसूत्रव्याख्यापठनपाठनप्राचुर्य- लेखस्तत्परामर्शे मूलमिति। अथ चेयं साहित्यदर्पणस्य विवृतिः श्रीरामचरण-तर्कवागीश-भटाचा्यैः शालि- वाहनस्य द्वाविंशत्युत्तरषोडशशताब्य्यां व्यधायीत्येतद्विवृत्त्यन्ते 'अक्षिपक्षरसचन्द्रसं- मिते-' इत्यादिपद्येन व्यक्तम्। एतट्टीका सम्यग्ग्रन्थं योजयन्ती प्रमेयांशविचारे प्रौढिं च प्रकटयन्ती सच्छात्रा- णामुपकत्रीति न मनागपि व्यतिकमः। कि तु बहुत्रात्र प्रतीकविकलो विरलार्थप्रति- पादकश्च लेखो मूलं न नियन्त्रयतीति मूलानुपूर्वीगवेषणे महान्क्रेशः । पञ्चषभिन्नमा तृकपुस्तकाधारेण मूलशुद्धै यतमानेनापि मया कुहचिन्मूलमुन्नेतुं नाशाकि। एतव्याख्यासद्भावे प्रद्योतनोहयोते प्रदीपद्योतवन्मूलयोजनमपार्थकमिति मन्यमा- नेन प्रायो विशेषाधानायैव छायाख्या विव्ृतिपूर्तिरकारि। अन्र प्राचामर्वाचां चा- लंकारिकाणां संदर्भेभ्यो विशिष्टभागं शब्दतस्तात्पर्यतश्चानूद्य मांसलीकृतो दर्पणानुक्त- विषयो यत्नतो न्यासि। अनुक्तलेनावधार्यमाणा अपि नातिप्रयोजनीया उक्तिमुद्रा- दिका उपैक्षिषत। भवन्ति चात्रानुषङ्विकाः श्लोका :- आदौ देशकण्ठवधं तत उपपत्तीन्दुशेखरस्तद्नु। अल्पाप्यर्थप्रचुरा रविसिद्धान्ते समीक्षा च।।
१ दशकण्ठवधं चम्पूकाव्यम् ।। २. उपपत्तीन्दुशेखरः श्रीमन्भास्कराचार्यप्रणीतस्य सिद्धान्तशिरोमणेर्व्याख्यारूपः ॥ २. सूर्यसिद्धान्तसमीक्षा (मुम्बय्यां निर्णयसागरे मुद्रिता ॥)
Page 29
२४
क्षेत्रेमितिनामधेयं शासनमथ देवराजचरितं च। पश्चान्मया व्यधायि कैछाया षटूत्रिंशदब्देन ॥ (युग्ममू) तत्तद्रन्थावगाहेन शिलालेखादिकेन च। परीक्षितप्रमेयासौ संक्षिप्ता भूमिका कृता॥ तातपादो रामभजो बापुदेव इति त्रयी। त्रेतेव स्मर्यतां चेतो यया शास्त्रावगाह्यभूः॥ गुणदोषानुषङ्गेण या तुष्टिः किं तयाधुना। ईशान: सर्वविद्यानां स मे स्वामी प्रसीदतु॥ इत्याशास्ते
श्रीदुर्गाप्रसादद्विवेदः।
१ क्षेत्रमितिनामकं गणिवशास्त्रम् (कलिकातायां मुद्रितम्)॥ २. देवराजचरितं खण्डकाव्यम् (मुम्बय्यां निर्णयसागरे मुद्रितम्)। ३. प्रकृता दर्पणस्य टिप्पणी।। ४. भूतपूर्वजयपुरराजकीयसंस्कृतपाठशालाध्यक्षः सर्वतत्रस्वतत्रो व्याकरणशास्त्रप्रधा- नाध्यायको महानुभावः ॥
Page 30
२५
साहित्यदर्पणे विशेषतोऽवलोकनाहा विषयाः।
प्रथमे परिच्छेदे-काव्यफलनिरूपणं वस्तुतो दर्शनार्हम् (३-५)। काव्यस- रूपनिर्वचनावसरे सर्वाणि प्रमाणवचनानि दर्शनार्हाणि (६-१८) तत्र 'तददोषौ-' इत्यादिकाव्यप्रकाशकारोक्तकाव्यस्वरूपस्य खण्डनग्रन्थगताष्टिप्पण्यो दर्शनार्हाः॥ द्वितीये परिच्छेदे-अभिधा (३०) संकेत (३१) पदगता टिप्पणी दर्शनाहा। इतरग्रन्थविशिष्टं लक्षणाभेदानां निरूपणं वस्तुतो नैयायिकानामपि दर्शनार्हम् (३४- ५२)। यद्यप्यत्र कतिपये भेदास्तन्र तत्र महाकाव्येष्वनवकाशतया मन्दप्रयोजना- स्तथापि लक्षणाभेदव्युत्पादनाय लावश्यका एव। 'इदं च केऽप्यसहमाना :- '(५६- ५७) इत्यादि मतान्तरं तत्प्रत्याख्यानं च भृशं विलोक्यम् । 'दुर्गालङ्गितविग्रह्रः-' (५८) इत्यत्रोमावल्लभो भानुदेवनृपतिस्तदीयवर्णनग्रन्थश्च क इति गवेषणीयम् ॥ तृतीये परिच्छेदे-'विभावेन-' (६७) कारिकागता टिप्पणी निपुणं विभाव- नीया। उत्तमादिस्वरूपजिज्ञासुभिर्नेतृलक्षणगतानि प्रायः सर्वाण्येव विशेषणानि नि- रीक्षणीयानि (९२-९४)। पुरा भारतवर्षेऽन्तःपुरसहायाः किंविधाः कल्पिता इति तत्त्वजिज्ञासुभिः 'वामन-'(९७।४३) इत्यार्या समूललक्ष्यलक्षणान्वेषणपूर्वकं समाक- लनीया। तत्र किरात-म्लेच्छ-आभीरशब्दगता विशेषा अप्युन्नेयाः। साधारणस्त्री- लक्षण(१११।४) निरूपणे कलापदार्थाः प्राचीनरहस्यवेदिभिरवश्यमनुसंघेयाः।खदा- रगुप्यर्थमनुरागेङ्वितानि (११३।२) दर्शनार्हाणि। तत्र शिल्पिन्याद्या अभिसंधायिका भवन्तीति वात्स्यायनसंमतिर्द्रष्टव्या (१३५।२०)। शङ्गारादीनां स्वरूपाणि (१६१- १८७) काव्यप्रकाशाद्यपेक्षया स्फीतानि दर्शनार्हाणि॥ चतुर्थे परिच्छेदे-ध्वनिगुणीभूतव्यङ्गयाख्यकाव्यभेदप्रतिपादनं सुप्रतीतमेव। तत्र 'प्रधान-' (२३७४) पदनिष्ठा टिप्पणी विलोकनीया॥ पश्चमे परिच्छेदे-व्यज्नावृत्तेः स्थापनमितरग्रन्थापेक्षया स्फीतं प्राज्जलं दर्शनाहे चास्ते (२३९-२५६) ।। षष्ठे परिच्छेदे-सर्वोऽपि विषयप्रपश्चो वस्तुतो दर्शनयोग्यः । किं बहुना, यथात्र नाटकादीनां दशरूपकाणां नाटिकादीनामष्टादशोपरूपकाणां तद्गतविशेषजा- तानामन्येषां चोच्चावचानां विषयाणां विशदरूपेण निरूपणं निपुणतमं प्राप्यते, न तथा दशरूपकादिषु। सांप्रतमुपलभ्यमानेषु नाट्यश्ास्त्रपुस्तकेषु तु बहुत्र न्यूनता प्रती- यते। यदि-किमपि नाट्यशास्त्रस्याविकलं पुस्तकं लभ्येत तर्हि दर्पणोल्लिखितविषय- जातानां परीक्षा मौलिकदृश्यकाव्यान्वेषणाय विधातुं पार्येत। सति कुब्ये चित्रमिति न्यायात्। श्रीमता हॉलसाहिबेन दशरूपकेण सह तदुपकारिणो येऽध्याया: (१९- २०,३४) मुद्रायितास्तेऽपि नाविकलाः। श्रीमता वेबरसाहिबेन तु खनिबन्धे भर- तप्रणीतस्य नाव्यशास्त्र स्यालंकारशास्त्रमिति नाम व्यवहृतं तन्नाव्यशास्त्रावलोकनेन भ्रम- मूलकं प्रतिभाति। किंच तेनैव महाशयेन टीकाकाररीत्या भरतकृतस्य नाट्यशास्त्र-
Page 31
२६ स्यान्निपुराणसंग्रहभूतत्वं विलिखितम्, प्रमाणत्वेन खप्रणीतं बर्लिन् पुस्तकालयस्थानां हस्तलिखितसंस्कृतपुस्तकानां सूचीपत्रस्य पृष्ठं च २२७ निर्िष्टम्। कोडयं टीका- कारः' यन्मते नाट्यशास्त्रमन्निपुराणसमुद्धूतं निश्चीयते। संप्रति प्राप्यमाणयोरम्निपु- राण-नाव्यशास्त्रयोरवलोकनेन तु श्रीमतो वेबरसाहिबस्य लेखो भ्रममूलक एव प्रतिभाति। 'आ गर्भाव्-' (२८०।९) इत्यादिदर्पणलेखेन भरतकृतस्य नाव्यशास्त्र- स्यैकष्टीकाकार आचार्याभिनवगुप्तः सुप्रतीत एव। काव्यप्रकाशस्य रसग्रन्थावलोक- नेन भटलोल्वटप्रभृतयोऽपि तटीकाकारा: प्रतीयन्ते। किमेतेषु लोलट-श्रीशङ्गक-भट्ट- नायक-अभिनवगुप्तेष्वेव कश्चन टीकाकृदू भिन्नो वेति प्राचीनतत्त्वान्वेषणाय पा- श्वात्यैः पौरस्त्ैविद्वद्भिरवश्यं यतितव्यम्। किं चात्र परिच्छेदे बहवो दृश्यकाव्यग्रन्था उदाहरणत्वेनोपन्यस्ताः । तेषु कति- पयानां दर्पणादितरत्र नामापि नोपलभ्यते। नामधेयमात्रेणानुमितसत्ताकानां तेषां पुनरुदद्रवाय युरोपादिमहापुस्तकालया निरीक्षणीयाः॥ सप्तमे परिच्छेदे-अत्र झटित्युपस्थितये बहून्युदाहरणानि तनूकृत्य स्थापि- तानि यथा- 'अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः। आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्ये लभते कदा ॥' 'साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते। तस्य धीशालिन: कोऽन्यः सहेतारालितां ध्रुवम्॥'
कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः। मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तत्र सा भ्रान्त्या धूर्ततयाथ वा नतिमृते तेनानिशं चुम्बिता।।' 'मृदुपवनविभिन्नो मत्प्रियाया विनाशाद् घनरुचिरकलापो निःसपत्नोऽद्य जातः। रतिविगलितबन्धे केशपाशे सुकेश्या: सति कुसुमसनाथे कं हरेदेष बहीं॥' इत्यादौ प्रथमश्लोकस्य स्थाने 'कार्तार्थ्ये यातु तन्वङ्गी कदानङ्गवशंवदा।' इत्यर्धम् (३६१।१४); द्वितीयस्य 'दप्तारिविजये राजन्साधनं सुमहत्तव।' इत्यर्धम् (३६२।२); तृतीयचतुर्थश्रलोकयोः स्थाने 'प्रससार शनैर्वायुर्विनाशे तन्वि ते तदा।' इत्यर्ध च (३६२।३) सरलतरमुपन्यस्तम्। एवं प्रायोऽग्रेऽपि। इत्थं चेमान्युदाहरणानि प्राची- नोदाहरणपद्येभ्यो निष्कृष्य विहितानीति स्पष्टं प्रतीयते। तत एवामीषामुर्वरितांशा न्वेषणप्रयासो निष्फलः ॥ अष्टमे परिच्छेदे-वामनोक्त्ानां शब्दार्थगुणानां प्रकाशवत्प्रत्याख्यानं 'माधुर्य द्रुतिकारणम्' इति प्रकाशोक्तिप्रत्याख्यानं च। वामनोक्तानामितरेषां गुणानामव-
Page 32
२७
गमार्थ 'ते त्रिधा-' (४२४।१) इति कारिकास्था टिप्पणी विलोक्या। आसीत्प्राग्वा- मनोक्ानां गुणानां प्रचुरः प्रचारः। यतः- 'प्रसन्ना: कान्तिहारिण्यो नाना्लेषविचक्षणाः। भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः॥' इत्यादय: सूक्तयो जज्ञिरे एवं तत्तत्कालिककविकर्मावलोकनेन तत्तत्कालिकी साहित्य- शास्त्रस्थितिरुन्नेतुं सुशका ॥ नवमे परिच्छेदे-रीतीनां प्रतिपादनम्। तन्न वैदर्भी-गौडी-पाञ्चाली- लाटीनां स्वरूपाकलनेन भारतवर्षीयाणां चिरंतनी विद्यासमृद्धिरवगन्तुं शक्यते। किंचैता रीतयस्तत्र तत्रोपजीव्यनिबन्धेष्वपि सूपपाद्यन्त इति नूतनतशङ्काङ्करोऽपि न प्ररोहतीति सूक्ष्मदृशा विभावनीयम् ॥ दशमे परिच्छेदे-महाकाव्योपयुक्तानां शब्दालंकाराणां (४४४-४७२) चमत्कृतानामुपमाभेदानां च (४७३-४८९) निरूपणं तत्र 'यमक-' (४५१८) 'संस्कृतमहाराष्ट्रयोः' (४६०।३) 'साम्यं-' (४७३।१) इत्यादिग्रन्थगतं टिप्पणं च दर्शनार्हम्। काव्यप्रकाशाद्यपेक्षया बहुविषयप्रतिपादकोऽयं संदर्भ इत्यत्र निर्णायकानां न का- चिदनुपपत्तिः। किं तु केवलमेतावह्दौर्भाग्यं यदमुष्यानुरूपं किमपि टीकारत्नं नाजनि। रामचरणकृतटीकायां या त्रुटिः सा भूमिकाया: २३ पृष्ठे दर्शितैव। प्रायोऽमुना टी- काकरणसमये मूलपाठक्षोदाय न यतितम्। अस्मदुपलब्धपुस्तकेषुतु ग-चिह्नपुस्तक- मतीव विभिन्नं पञ्चमपरिच्छेदान्तं दृश्यते। कदाचिदग्रेऽपि स्यात्परं दैवयोगात्ष्ठपरि- च्छेदात्समाप्तिं यावद्भिन्नमातृकं नूतनं चास्त इति महती दुर्घटना। अत्र पुस्तके न केवलं पाठभेद एव, प्रत्युत बहुत्र मूलकारिका-वृत्ति-उदाहरणानामपि भिदोपलभ्यते। आरम्भात्पञ्चमपरिच्छेदान्तं ग-पुस्तकपाठान्तराणि विलोक्यानि। किमिह पुनरुतया। अद्यावधि मुद्रितपुस्तकेष्वपि कारिकादीनां दुरवस्थैव प्रायः प्राप्यते। यथा-'नापि भविष्यन्-' (८७/४) इति कारिका पदच्छेदवैलक्षण्येन वृत्ति (गद्य) रूपतां नीता। 'मन्त्री स्यादर्थानां चिन्तायां तद्वदवरोधो (९६।१३,९७।९) इति कारिका वृत्तियो- जनेन 'मन्तरी स्यादर्थचिन्तायामर्थास्तन्त्रावपादयः ।' इत्यनुष्टुबूरूपलं प्रापिता। एवं 'काव्यान्तर्गड्भूततया तु नेह प्रपञ्चयते।' (४७१।२) इति वृत्तिः 'काव्यान्तर्गडभूता या सा तु नेह प्रपञ्च्यते' इति श्लोकतवं गमिता। इति दिकृ॥ 'एष साहित्यमातङ्गो दुर्ग्राह्योऽतिमहत्तरः। मुष्टिमेय इवाभाति दर्पणे प्रतिबिम्बितः॥
Page 34
साहित्यदर्पणे प्रमाणत्वेनोद्दतानां ग्रन्थानां नामानि
पृष्ठस्य पङ्कौ पृष्ठस्य पङ्कौ अग्निपुराणम् ... ... ५ ७ चण्डकौशिकम् ... २९१ ५ विष्णुपुराणम् ... ... ५ १० जानकीराघवम् ... वक्रोक्तिजीवितम् २९५ ... १४ ३ मालविकाननिमित्रम् ... व्यक्तिविवेक :... ३०७ ११ ... १८ १ कृत्यरावणम् (?) ... ३११ ७ रामायणम् 9 महाभारतम् रामाभ्युदयम् ... ... .. २६ ३१२
रघुवशम् कर्पूरमञ्जरी ... ... ३१२ ११ लोचनम् भाषाणवः .. d .. ७१ ३ ... ३१६ १०
रत्नावली ययातिविजयम् ३१८ ८ ... .. ९७ १४ .. .
मृच्छकटिकम् ९८ ५ चन्द्रकला ३२० ९ ... लटकमेलकम् ... ११३ ६ गृहवृक्षवाटिका (?) ... ३२५ ६ ... चन्द्रकलानाटिका ... १२३ १४ वध्यशिला(?) .. ३२८ १
कुवलयाश्वचरितम् ४ राघवाभ्युदयम् ... १४३ .. ३३१ १०
मालतीमाधवम् १५९ मृच्छकटिकम् ... .. ३३५ १० DY कादम्बरी १६५ १६ पुष्पभूषितम् ... ... ३३५ ११ ... कुमारसंभवम् १६७ रङ्गवृत्तम् ... ... ३३५ १५ ... विक्रमोर्वशी ... १७२ ३ लीलामधुकर: .. ३३६ १२
नागानन्दम् ... १८५ ३ सौगन्धिकाहरणम् ... ३३६ २० .. . हयग्रीववधम् ... ६ ... ३३८ २ ... १९३ समुद्रमथनम् ... न्यायकुसुमाअ्जलि: ... २४७ १ कुसुमशेखरविजयम् ... ३३९ ११
बालरामायणम् २६१ ४ शर्मिष्ठाययातिः ... ३४० २
अनर्घराघवम् ... २६३ ३ छलितरामम् ... ... ३४२ १६ ... पुष्पमाला .. २६३ मालविका ... ... ... ३४४ ८
उदात्तराघवम् २६५ १२ कंदपकेलि: ... ... ३४४ १७
शाकुन्तलम् ... ... २६६ १२ धूर्तचरितम् ... ... ३४५ २
मुद्राराक्षसम् ... ... २६९ विद्धशालभजजिका ... ३४५ २१ वेणीसंहारम् ... .. २७० ३ स्तम्भितरम्भम् ... ३४६ ४
कुन्दमाला ... २७० १३ रैचतमदनिका ... ... ३४६ ११ वीरचरितम् ... २७५ ११ ... कर्पूरमज्री ... ... ३४६ १६ रामाभिनन्दम् ... २७७ २ नर्मवती बालचरितम् ... विलासवती 5 ३४७ २८७ १६ प्रभावती २८७ शङ्गारतिलकम् ३४७ 0 .. १९ 6
Page 35
२
पृष्ठस्य पड्को पृष्ठस्य पङ्गो देवीमहादेवम् ... ३४७ १४ सेतुबन्धः यादवोदयः कुवलयाश्वचरितम् ३५६ ३ ... ... ३४८ २
वालिवव: ३४८ कर्णपराक्रम: ... ३५६ ६ V ...
मेनकाहितम् ... १६ भिक्षाटनम् ... ३४८ आर्योविलास: ... ३५६ ९
मायाकापालिकम् ... ३४९ २ मेघदूतम् ... .. ३५६ ११ कीडारसातलम् ३४९ ८ मुक्तावली ३५६ १४ कनकावतीमाधवम् ... ३५० ३ हर्षचरितम् ... ३५७ २२ बिन्दुमती ... ... ३५० १९ पञ्चतत्रम् ... ... ३५८ ६
केलिरैवतकम् .... देशराजचरितम् ९ ... ३५१ ... ३५८
कामदत्ता ... ३५८ ... ३५१ २२ बिरुदमणिमाला
शिशुपालवधम् प्रशस्तिरत्नावली ... ३५८ १३
नैषधम् ... ३५५ ४ शारीरकमीमांसाभाष्य- राघवविलासम् व्याख्यानम् ... ५०४ ६
Page 36
साहित्यदर्पणस्य विषयानुक्रमणिका।
पृष्ठस्य पड्डो पृष्टस्य पद्गौ प्रथमपरिच्छेदे- धीरोद्धतः ... ... ९२ २० मङ्गलम् .. २ १ वीरललितः ... ... ९३ २ काव्यफलानि ... ३ ३ धीरशान्त: ... ... ९३ ५ काव्यलक्षणदूषणानि ... ६ १ नायकानां षोडशभेदा- काव्यसरूपम् ... .. १९ ४ ख्यानम् ... ... ९३ दोषस्वरूपम् ... २२ ६ दक्षिणनायक: ... ९३ ११ गुणस्वरूपम् ... घृष्टनायक: .. २२ १२ ... ९४ ٩ द्वितीयपरिच्छेदे- अनुकूलनायक: ९४ ८ वाक्यस्वरूपम् २४ ३ शठनायक: ... ९४ १५ महावाक्यम् ... २६ ३
पद्लक्षणम् ... २७ ख्यानम् १५ अर्थत्रैविध्यम् ... ... २८ १ पीठमर्दः ... ९५ अभिधा ... २८ ६ शङ्गारसहायाः ९६ संकेत: ३१ १ ... ... विटः ... ... ... ९६ लक्षणा ३४ २ .. विदूषक: .. ... ९६ ९ लक्षणाभेदाः ... ३७ ५ मन्त्री ... ... १३ .. ९६ व्यज्जना ... ५२ ५ तात्पर्यनिर्णायकाः अन्तःपुरसहाया: (वामन-शण्ढ- ... ५४ २
तात्पर्यवृत्तिः ... किरात-म्लेच्छ-आभीर-श- ६५ कार-कुब्ज-मूका:) २ तृतीयपरिच्छेदे दण्डसहाया: ... ... ९८ रसस्वरूपम् ... ... ६७ ३ धर्मसहाया :.. ... ९८ रसाखादनप्रकार: ... ७२ ६ दूतभेदा: ... ... ९९ २ करुणादीनां रसत्वस्थापनम् ७७ २ तत्र, निसृष्टार्थः .. ९९ ६ रसस्यानुकार्येगतलवखण्डनम् ८४ मितार्थः ... ... ९९ ९ रसस्यानुकतृगततखण्डनम् ८५ ५ संदेशहारक: ... ... ९९ १० रसस्य ज्ञानान्तरग्राह्यलख- सात्त्विकनायकगुणा :... १०० ण्डनम् ... ... ८५ ११ तत्र, शोभा ... ... १०० ५.
रसस्य खप्रकाशतकथनम् ८९ १२ विलास :... १०० १२ विभाव: माधुर्यम् ... ... ९१ ८ १०० १८ ... विभावभेदौ गाम्भीर्यम् १०१ २ ... ९२ २ ...
नायकः ९२ ५ धैर्यम् ... १०१ ... ... ...
तत्र, धीरोदात्तः १४ तेजः ... ... १०१ १० 1.0 ९२
Page 37
२
पृष्ठस्य पङ्कौ पृष्ठस्य पड्डौ ललितम् ... ... १०१ ११ माधुर्यम् ... ... १२४ २ औदार्यम् ... ... १०१ १२ प्रगल्भता १२४ नायिकाभेदा: १०१ १५ औदार्यम् ... १२४ १४ सवस्त्ी ... .. .. १०२ ५ धैर्यम् ... १२५ २ मुग्धा ... ... ... १०२ ११ लीला ... .. 6 १२५ ८
मध्या ... ... १०४ विलास: ... ८ १२५ १५
अगल्भा विच्छित्ति: १२६ 6 ... १०५ ११ .. ... मध्या धीरा मध्या धीराधीरा विञ्वोक: ... १२६ १४
१०७ १७ किलकिंचितम् १२७ ... ६
मध्याधीरा मोह्टायितम् ... ... १२७ १३
प्रगल्भा धीरा ... कुद्टमितम् १२८ ६ ... १0८ ...
प्रगल्भा धीराधीरा ... १०९ ३ विश्रम: ... १२८ १२
प्रगल्भावीरा ... 90९ ८ ललितम् ... १२९ २
भेदाख्यानम् ... १०९-११० मद: ... ... १२९ ७
कुलटा ११० ५ विहृतम् ... ... ... ... १२९ १४
कन्या ... १ तपनम् ... १३० ... ... १११ ५ वेश्या ... .. १११ मौग्ध्यम् १२ ... १३० ... भदाख्यानम् ... .. ११३ विक्षेपः ... १३१ 2 स्ाधीनभर्तृका ११४ कुतूहलम् १३१ .. .. 0 ...
खण्डिता ... ... ११४ ८ हसितम् .. १३१ १३ अभिसारिका ... ... ११४ ११ चकितम् ... ... १३१ १८ अभिसारिकाभेदा: ... ११५ केलिः .. १३२ ७ مـ
अभिसारस्थानानि ... ११५ १२ कलहान्तरिता ... ... ११६ २ प्रोषितभर्तृका सर्वासामनुरागेङ्वितानि १३३ १५ ... ११६ दूत्य :... ... ... १३३ १८ वासकसज्जा ... ... ११७ ६ दूतीगुणा: १३ ... ... १३४ विरहोत्कण्ठिता ११७ प्रतिनायक: ... ... १३६ २ भेदाख्यानम् ... ... ११८ उद्दीपमविभावाः ... १३६ नायिकालंकारा: ... १२१ 9 अनुभावा: ... ... १३७ २ तत्र, भाव: ... .. १२२ २ सात्त्विका: ... १२७ १३
हाव: १२२ ८ नत्र, स्तम्भादयः १३७ १८ ... ... हेला १२२ स्तम्भादीनां लक्षणानि १३८ ३ ... ... १४
V शोभा व्यभिचारिण: १३९ ... ... १२३ २ ...
कान्तिः ... १२३ ९ तत्र, निर्वेद :... ... ... १४० 6
दीप्तिः ... ... १२३ १३ आवेगः ... ... १४० १३
Page 38
३
पृष्ठस्य पड्ौ पृथस्य पह्कौ दैन्यम् ... १४१ ९ भावपदनिरुक्ति: ... १६० ५ श्रमः रसभेदाः ... १६० .. ... १४१ १६ ... १० मदः १४२ ७ तत्र, शृङ्गार :... ... १६१ जडता ... १४३ २ विप्रलम्भ: । ... १५२ २ उग्रता १४३ संभोग: ... ८
मोहः .. १४४ ७ विप्रलम्भस्वरूपम् १६२ ४
विबोध: १३ विप्रलम्भभेदाः १४४ १६२ ... ... ...
खप्र: तत्र, पूर्वराग: १४५ ... १६३ ... ७ २
अपस्मार :... १४६ २ कामदशाः ... १६३ ६ ... गर्वः तत्र, मरणे विशेष: ... २ ... १४६ १६५ 6
मरणम् १४६ कामदशासु विशेषः १६६ २ ... १३ आलस्यम् ... १४७ ५ पूर्वरागभेदः ... १६६ ... अमर्ष: ... ... १४७ मान: १० १६६ १६ निद्रा कोप: 3 ... १४८ ५ अवहित्था ... ईर्ष्यामान: १४८ ११ ... १६८ ८ ... औत्सुक्यम् मानभङ्गोपाया: ... १६८ १४९ २ प्रवास: १६९ १६ उन्माद: .. १४९ ८ एकादश कामदशा: ... १७० ४ शङ्का ... ... १५० ५ प्रवासभेदाः .. ... १७० १७ स्सृतिः ... १५० १३ करुण विप्रलम्भ: १७२ ५ मतिः ... .. १५१ ४ संभोग: ७ व्याधि: १७३ S .. १५१ १० संभोगभेदाः ... १७४ त्रास: ... १५१ १४ हास :... ... १७५ २ ब्रीडा १५२ ५ हास्यभेदाः ... १७५ ८ हषः ... .. १५२ ८ नाय काभेदकथनम् १७६ ८ असूया ... १५३ ५ करुण: ... ... १७६ १४ विषाद: ... ... १५३ ११ करुण विप्रलम्भात्करुणस्य भे- धृतिः ... १५४ ५ दाख्यानम् ... १७७ १३ चपलता ... १५४ १३ रौद्रः ... ... १७८ २ ग्लानिः ... .. १५५ ८ युद्धवीरात्करुणस्य भेदाख्या- चिन्ता ... १५५ १६ नम् ... १७९ २ वितर्क: ... .. n १५६ ५ वीरः .. ४ संचारिभाव: ... .. १७९ ... ... १५७ २ स्थायिभाव: दानवीरः ... ... १५७ ६ धर्मवीरः स्थायिभावभेदाः १५७ १२ युद्धवीर: ... १७९ १० ... स्थायिभावभेदलक्षणानि १५८ १ दयावीरः सा० द० ४
Page 39
8
पृष्ठस्य पड्कौ पृष्ठस्य पड्कौ
भयानक: .. १८१ १४ गुणीभूतव्यङ्गयस्य भदनि- बीभत्सः ... २२८ ... १८२ रूपणम् ...
अद्भुतः ... १८३ ४ पश्चमपरिच्छद
शान्त: ४ व्यज्जनासरूपम् .. १८४ ... २३९ ३ ...
दयावीराच्छान्तस्य भेदा- अभिधातो व्यज्नायाः पा-
ख्यानम् ... १८५ र्थक्ये हेतवः २४४ ५ ... २ ...
शान्तस्य रसत्वस्थापनम् १८५ ११ अभिधालक्षणयो रसादिप्रति-
वत्सलः १८६ १४ पादनेSक्षमलवनिरूपणम् २४६ ... ... ४
रसानां मिथो विरोधाख्यानम् भाव :... स्याक्षमत्वप्रतिपादनम् २४८ ... ... १८८ १६ ४
रसाभासभावाभासौ ... १९१ २ व्यजनोपसंहारः .. २५६ अनौचित्यदर्शनम् १९१ ७ पष्टपरिच्छेदे- भावशान्त्यादि: १९४ काव्यस्य दृश्यश्रव्यभेदौ २५७ ४ ... चतुर्थपरिच्छेदे- रूपक संज्ञाकारणम् ... २५७ ५
काव्यभेदौ ... १९७ २ अभिनय: ... ... २५७ १०
अभिधामूलध्वनिः । रूपकभेदाः .. २५७ लक्षणामूलध्वनिः। १९८ ... १४ ३ उपरूपकभेदाः ... २५८ ३
लक्षणामूलध्वनेभैदौ ... १९९ नाटकलक्षणम् ... २५८ ११
अभिधामूलध्वनेर्मेदौ ... २०१ ९ अङ्कलक्षणम् ... ... २५९ ११
संलक्ष्यकमव्यङ्ञयस्य ध्वने- गभाङ्कलक्षणम् ... २६१ २
स्त्रै विध्यम् ... ... २०२ नाटकरचनापरिपाटी ... २६१ ८
पूर्वरङ्गः ... २६१ ११
द्वैविध्यम् ... ... २०३ ५ नान्धा आवश्यकत्वम् ... २६१ १३
नान्दीसवरूपम् .. २६२ ३
द्वादशभेदाः २०५ ३ नान्दनन्तरेतिकर्तव्यता २६५ ४
भारतीवृत्ति: ... ... २६७ ७
कविधत्वाख्यानम् ... २१० ८ भारतीवृत्तेरङ्गानि .. २६७ ९
आमुखं (प्रस्तावना) ... २६८ २
पणम् ... प्रस्तावनाभेदा: ... २११ ८ ... २६८ ८
अर्थशत्त्युद्भवध्वनेः प्रब- उद्धात्य(त)कः .. २६८ ११
न्घेऽतिदेशः ... २१९ १० कथोद्वातः ... २६९ ८
प्रयोगातिशयः ... २७० ११
स्याख्यानम् ... २२१ 9 प्रवर्तकम् ... ... २७१ ३
ध्व निभेदाख्यानम् २२१ ८ अवलगितम् ... .. २७१ ७
गुणोभूतव्यङ्गयम् नखकुट्टमितनिरूपणम् ... २७१ १५ ... २२७
Page 40
पृष्ठस्य पड्को पृष्ठस्य पङ्को वस्तुनो द्वैविध्याख्यानम् २७२ ६ तत्र, उपक्षेप: ... २८५ ७
२७२ ११ परिकर: ... २८५ १४ पताकास्थानम् ... २७२ १६ परिन्यास: ... २८६ प्रथमं पताकास्थानम् ... २७२ १९ विलोभनम् .. ... २८६ ११ द्वितीयं पताकास्थानम् २७३ ८ युक्ति: ... २८६ १७
तृतीयं पताकास्थानम् २७४ १ प्राप्ति: ... २८७ ३ चदुर्थ पताकास्थानम् २७४ १४ समाधानम् ... २८७
कविशिक्षा ... विधानम् ... २७५ ८ ... २८७ १५
अर्थोपक्षेपकाः २७६ १२ परिभावना ... २८७ २० .. विष्कम्भक: ... ... २७६ १४ उद्धेद: ... २८८ ४
प्रवेशक: ४ ९ ... २७७ करणम् २८८ ..
चूलिका २७७ १२ ... .. ९ भेदः ... ... २८८
अङ्कावतारः प्रतिमुखसंधिभेदाः २८८ ... २७८ १४ ...
अङ्कमुखम् ... २७८ तत्र, विलासः २८८ ... २ २१
अङ्गमुखे मतभेद: २७८ ७ परिसर्प: ... २८९ ५ ... कविशिक्षा विधुतम् ... २७८ १६ ... २८९ ९
अर्थप्रकृतयः . २७९ ६ तापनम् २८९ १२ ... बीजम् न्म . २९० ४ ... .. २७९ बिन्टुः २७९ १५ नर्मद्ुति: ... २९० ... ... पताका (वृत्तम्) २८० ३ प्रगमनम् २९१ १ ... ... ...
अकरी ... २८१ ३ विरोधः २९१ ... ...
कार्यावस्था पयुपासनम् २९१ ७ ... ... ... २८१ ९
आरम्भ: ... ... २८१ १२ पुष्पम् ... ... २९१ ११ ...
प्रयत्न: १७ ... २८१ १५ वञ्रम् ... २९१ ... ... प्राध्याशा २८२ उपन्यासः ... ... २९२ ... ... नियताप्ति: ... ... २८२ ८ वर्णसंहारः ... २९२ ८
फलयोग: (फलागमः) २८२ १३ गर्भ संधिभेदा: २९३
संधिः ... ... २८२ १९ तत्र, अभूताहरणम् ... २९३ ५ ... संधिभेदाः २८३ २ मार्ग: .. २९३ ११ ... ... ...
तत्र, मुखम् ... ... २८३ ५ रूपम् ... २९३ १५ ... ...
प्रतिमुखम् २९३ १९ ... उदाहरणम् ... २८३ ८ ... ...
गर्भ: ... ... ... ६ ... २८३ १४ क्रम: ... ... २९४
विमर्श: ४ संग्रहः ... २९४ 99 .. ... २८४ ...
निर्वहणम् (उपसंहृतिः) २८४ १२ अनुमानम् १५ ... ... २९४
मुखसंधिभेदाः ... २८५ ३ प्रार्थना .... ... २९५ ६
Page 41
पृष्ठस्य पङ्डौ पृष्ठस्य पड्को
क्षिप्ति: ... ... २९५ १४ फलनिरूपणम् ... ३०५ ४
त्रो (तो) टकम् ... २९५ १८ अङ्गप्रशंसा ... ३०५ ७
अधिबलम् २९६ ३ रसव्यत्त्यनुरोधेनाङ्गानां
उद्देग: ... ... २९६ ६ संनिवेशरूपणम् ... ३०५ १३
विद्रवः ... ... २९६ १० वृत्तय: ... ३०६ ४
विमर्शसंधिभेदा: ... २९६ १४ तत्र, कैशिकी ... ... ३०६
तत्र, अपवाद: २९६ १७ कैशिक्या अङ्गानि ३०६ ११
संफेट: तत्र, नर्म ३०६ १४ ... ... २९७ ३ ...
व्यवसायः २९७ नर्मस्फूर्ज: ३०७ १० .. ११ ...
द्रवः २९७ १५ नर्मस्फोट: ... ३०८ २ ...
द्युति: ३ नर्मगर्भ: ... ... १० ... २९८ ३०८
शक्ति: २९८ सात्वती ... ३०८ १४
प्रसङ्ग: २९८ १६ सातत्या अङ्गानि ... ३०९ २ ... ...
खेद: ... २९९ तत्र, उत्थापक: ... ३०९ ४
प्रतिषध: २९९ १६ सांघात्य: ... ३०९ १० .. विरोधनम् ३०० ५ संलाप: ... ३०९ ... ... १४
अरोचना ... ३०० ११ परिवर्तक: ... ३०९ १९ ... आदानम् ... ३१० ... ३०१ आरभटी ... ५
छादनम् ... ३०१ ८ आरभट्या अङ्गानि .. ३१० ७ ... निर्वहणसंधिभेदाः ३०१ १४ तत्र, वस्तूत्थापनम् ... ३१० ९ .. तन्न, संधि :.. ३०१ १९ संफेट: ३१० ... ... ... १५
वेबोधः ... ... ३०१ २३ संक्षिप्ति :... ... ३१० १७
ग्रथनम् ... ... ३०२ अवपातनम् ... ३११ ५
निर्णयः ... ३०२ ११ नाट्योक्तय: ... ... ३११ ११ ... परिभाषणम् ३०२ 9९ नामकरणम् ... ... ३१२
कृतिः ... ३०३ नाट्यपरिभाषां: १२ ... ... ३१२
प्रसाद: ... भाषाविभागः ३ ... ३०३ ३१५
आनन्दः ... ३०३ ७ षद्त्रिंशलक्षणादीनामा-
समयः .. ख्यानम् ... ... ३१६ ... ३०३ १० ११
उपगूहनम् ... ३०३ १३ लक्षणानामुद्देशः ... ३१६ १६
भाषणम् ... ३०३ २० तत्र, भूषणम् ... "३१७ ३ ... ...
पूर्ववाक्यम् अक्षरसंघातः ३१७ .. ३०४ १ ...
काव्यसंहारः शोभा ... ३१७ १० .. ३०४ ४ ...
प्रशस्ति: ... ... ३०४ ६ उदाहरणम् ... ३१७ १५
चतुःषष्टयङ्गोपसंहारः ३०४ १७ हेतुः ... ३१८ ४
Page 42
७
पृष्ठस्य पड्डौ पृष्ठस्य पड्डो
संशयः ... ... ३१८ अक्षमा ... ... ३२६ १४ 6
दष्टान्त: .. ३१८ ११ गर्वः .. ३२६ १८ ... ...
तुल्यतक :... ३१८ १४ उद्यम: ३२६ २० ... ... ...
पदोच्चय :... ३१९ ४ आश्रयः ... ... ३२७ .. १
निदर्शनम् ... ३१९ ९ उत्प्रासनम् ३२७ ४
अभिप्रायः ३२० १ स्पृहा ३२७ ७
प्राप्ति: ... ३२० ५ क्षोभ: .. ३२७ ११ विचार: ... ... ३२० ८ पश्चात्ताप: ३२७ १५ दिष्टम् ... ३२० १३ उपपत्ति :... ... ३२७ १८ उपदिष्टम् ... ... ३२० १७ आशंसा ... ... ३२८ ४ गुणातिपातः ... ३२१ ३ अध्यवसायः ... ३२८ ७ गुणातिशयः ... ३२१ ७ विसर्पः ... ... ३२८ ११ विशेषणम् १३ ... ३२१ उललेख: .. ३२८ १४ .. निरुक्ति: ... ... ३२१ १७ उत्तेजनम् ... ३२९ १ सिद्धिः ... ... ३२२ ४ परीवाद: ... ३२९ भ्रंशः ... ... ३२२ ८ नीतिः ... ... ३२९ १० विपर्ययः ... ३२२ १२ अर्थविशेषणम् ३२९ १३ दाक्षिण्यम् ३२२ १६ प्रोत्साहनम् ... ३३० अनुनयः . ... ३२२ २१ साहाय्यम् ... ३३० ५
माला अभिमान: १३० ... ३२३ ३ ... ८
अर्थापत्ति: ३२३ अनुवर्तनम् .. ३३० ११ गर्हणम् ... ३२३ ... १४ उत्कीर्तनम् ... ३३० १५ पृच्छा ३२३ २० याञ्रा ... ... ३३१ १ प्रसिद्धिः .. ३२४ ३ परिहार: ... ५ .. ... ३३१ सारूप्यम् ... ३२४ ७ निवेदनम् ... ० .. ३३१ ९
संक्षेप: ... ३२४ १० प्रवर्तनम् ... ... ... ३३१ १२
गुणकीतनम् ३२४ १५ आख्यानम् ... ३३१
लेश: ३२४ १८ युक्ति: ... ३३१ ... १९ ... मनोरथ :... ... ३२५ प्रहर्ष: ... ... ३३२ ३
अनुक्तसिद्धिः ३२५ ५ उपदेशनम् ३३२ .. ... ६ प्रियोक्ति: ... ३२५ ९ मुनिनिरूपितं नाटक- नाट्यालंकारा: ... ३२५ १४ स्वरूपम् ... ... ३३२ १३
तत्र, आशी :... ३२६ ३ लास्याङ्गानि .. ३३३ ५ ...
आकन्द :... ३२६ ७ तत्र, गेयपदम् ३३३ ... ... १०
कपटम् ... स्थितपाठ्यम् ... ३३३ ... ३२६ १० १५
Page 43
पृष्ठस्य पड्को पृष्ठस्य पड्डो
आसीनम् ... ... ३३३ १९ नाट्यरासकम् ... .. ३४६ १८
पुष्पगण्डिका ३३४ प्रस्थानकम् ... ३४७ ४ ... प्रच्छेदक :... ... २३४ ४ उल्लाप्यम् ३४७ १०
त्रिगूढकम् ३३४ ६ काव्यम् ३४७ १६
सेन्धवम् ... प्रेङ्मणकम् ... ३३४ ८ ३४८ ४
द्विगूढकम् ... ३३४ ११ रासकम् ३४८ १०
उत्तमोत्तमकम् ३३४ १२ संलापकम् ३४८ १८ उक्तप्रत्यु क्तकम् ... ३३५ श्रीगदितम् ३४९ ४
महानाटकम् ... ... ३३५ ३ शिल्पकम् ३४९ १३
प्रकरणम् ... ... ३३५ विलासिका ३५० ६ भाण: ३३६ २ दुर्मल्लिका ... ३५० १३ व्यायोगः ३३६ १३ प्रकरणिका ... ... ३५१ २
समवकार: हल्लीशः ... ३३७ २ ३५१ डिम :... ३३८ ४ माणिका ... ३५१ ११ ... ...
ईहामृग: ... ३३८ १४ श्रव्यकाव्यम् ... ३५२ ५ ... ...
अङ्क: .. ... ... ३३९ १३ पद्यलक्षणम् ... ... ३५२ बीथी ... ... ३४० ४ मुक्तकादिलक्षणम् ... ३५२ 6
वीथ्यङ्गानि ... ३४० ११ महाकाव्यम् .. ३५३ ४
तन्न, प्रपञ्च: ... ३४० १५ खण्डकाव्यम् ... ... ३५६ १०
त्रिगतम् ... ३४० १७ कोष :... .. ३५६ १२ ...
छलम् ३५६ १६ ... ३४१ गद्यलक्षणम् ... ... वाक्केलि: ... .. ३४१ ११ कथा .. ... ... ३५७ १३
अधिबलम् १७ ... ३४१ १९ आख्यायिका ... .. ३५७
गण्डम् ... ... ३४२ चम्पू :... .. ३५८ ८
अवस्य न्दितम् ... ३४२ १५ बिरुदम् ... ... ३५८ १०
नालिका ... ... ३४३ १ करम्भकम् ... १२ ... ३५८
असत्प्रलाप: ३४३ ७ सप्रमपरिच्छेदे- व्याहार: ... ... ३४३ १५ ... ४ मार्दवम् दोषखरूपम् ... ३६०
.. ३४३ २२ दोषाणां विभागा: ... ३६१ २
प्रहसनम् ... ३४४ १० दुःश्रवत्वादिदोषाणां प्रहसनभेदाः ... ... ३४४ १५ कीरतनम् ... ... ३६१
नाटिका ३४५ १३ तत्र, दुःश्रवतम् ३६१ १२
त्रोटकम् १५ ... ३४६ २ अश्लीलत्वम् ... ३६१ ... गोष्ठी ... ३६२ ६ .. ३४६ अनुचितार्थत्म् ...
सटटकम् ३४६ १३ अप्रयुक्तत्म् ... ... ३६२
Page 44
e.
पृष्ठस्य पड्डौ पृष्ठस्य पड्को ग्राम्यलवम् ... ... २६३ अर्थदोषा: ३८९ १५ अप्रतीतत्वम् ... ३६३ ४ तत्र, अपुष्टतम् ३९० संदिग्धलम् .. ... ३६३ ८ दुष्कमतम् ... ... ३९० नेयार्थतम् .. ... ३६३ ९ ग्राम्यत्वम् .. ... ३९० १३ निहतार्थतम् ... ... ३६४ ४ व्याहतलम् ... ३९० १४ अवाचकत्वम् ... ... २६४ अश्लीलत्वम् .. ३९१ क्रिष्टत्म् ... ... ३६५ कष्टार्थत्वम् ... ३९२ ४ विरुद्धमतिकारित्वम् ... ३६५ ५ अनवीकृतत्वम् ... अविमृष्टविधेयांशलम् ३९२ ३६५ ६ निर्हेतुत्वम् ... ... ३९२ १६ वाक्ये दुःश्रवत्वादी- नां कीरतनम् प्रकाशितविरुद्धत्वम् ... ३९३ २ ... २६९ ३ संदिग्धत्वम् ·.. वाक्यदोषा :... ३७६ ... ३९३ .c. पनरुक्तता तत्र, प्रतिकूलतम् ३७७ ... ३९३ V ... लुप्तविसर्गलम् प्रसिद्धिविरुद्धता ... ३९३
आहतविसर्गतम् ३७७ ७ विद्या विरुद्धता o. ३९४ २
अधिकपदलम् ... ३७७ १० आकाह्कता ... ३९४ ...
न्यूनपदलम् ३७८ १२ सहचरभिन्नत्वम् 9० .. ... ३९४ M' पुनरुक्तलम् ३७८ १४ अस्थानयुक्तता ... ३९५
हतवृत्तलम् ३७९ २ अविशेषे विशेषः .. ३९५ ५ पतत्प्रकर्षतम् ... ३८१ १२ अनियमे वियम: ... ३९५ ८ संधिविश्लेषतवम् ३८२ १ विशेषेSविशेषः ... ... ३९५ १० संध्य श्रलीलतवम् नियमेSनियम: .. ३८२ ५ .. ३९५ १२ संधिकष्टत्वम् ... ... ३८२ ७ विध्ययुक्तता ... ... ३९६ १४ अर्धान्तरैकपदत्म् ... ३८२ १० अनुवादायुक्त्तता ... ३९६ १७ समाप्तपुनरात्तलम् ... ३८३ ३ निर्मुक्तपुनरुक्तत्वम् ·.. ३९७ ५ अभवन्मतसंबन्धतम् ३८३ ४ रसदोषा: ... ... ३९७
अकमलम् ... ... ३८४ ९ काव्यदोषेभ्यः पृथगलंकार- अमतपरार्थतम् ... ३८५ १ दोषाणामसंभवत्वप्रति- वाच्य स्यानभिधानम् ... ३८५ ४ पादनम् ... ... ४०० ५
भग्नप्रक्रमत्वम् .. ३८५ ११ दुःश्रवत्वस्य गुणत्वप्रति- प्रसिद्धित्याग :... ... ३८८ पादनम् ... ... ४०५ ५
अस्थानस्थपदता ... ३८८ ७ अश्लीलत्वस्य गुणत्वप्रति- अस्थानस्थसमासता ... ३८९ १ पादनम् ... .. ४०६ १० संकीणतम् ... श्लोषादौ निहतार्थाप्रयुक्त्तत- ... ३८९ ७
गर्ितता ... ३ ... ३८९ ११ योरदोषत्वप्रतिपादनम् ४०७
Page 45
१०
पृष्टस्य पड्डौ पष्स्य पड्डौ
अप्रतीतत्वस्य गुणत्वा- अष्टमपरिच्छेदे- ख्यानम् ... ... ४०७ गुणाः ... ... ... ४२३ कथितपदस्य गुणत्वा- गुणानां त्रैविध्यम् ... ४२४ १ ख्यानम् ... ४०८ ८ तत्र, माधुर्यम् ... ४२४ ३ संदिग्धत्वस्य गुणत्वा- माधुर्यव्यजकवर्णादि: ४२६ ख्यानम् ... ... ४०९ ३ ओजः .. ... ४२८ १
४२८ ख्यानम् ... ... ४१० 9 प्रसाद :. ४२९ 9 प्राम्यत्वस्य गुणत्वाख्यानम् ४११ ९ प्रसादव्यजकशब्दा: ४२९ ४ निर्हेतुताया दोषाभावत्व- श्लेपादीनामोजस्यन्त- निरूपणम् ... ४११ र्भावाख्यानम् ... ४३० ५ ख्यातविरुद्वताया गुणत्व- असमासस्य माधुर्यव्यजकत्वे निरूपणम् ... ४११ कारणम् ... ... ४३२ कविसमयख्यातानि ... ४१२ २ अर्थव्यक्ते: प्रसादगुणेऽन्त- पुनरुक्तस्य गुणत्वाख्यानम् ४१२ र्भाव: ... ४३३ न्यूनपदताया गुणत्वा- ग्राम्यदुःश्रवत्वत्यागेन का- ख्यानम् ... ... ४१३ १९ न्तिसमतयोः संग्रहः ४३३ न्यूनपदताया गुणदोपत्वा- समताया गुणदोषयोरन्तः- भावनिरूपणम् ... ४१४ पातः ... ... ४३४ १ अधिकपदस्य गुणत्वा- ओजआदीनां दोषाभाव ख्यानम् ·.. ... ४१४ १५ त्वेनाङ्गीकारः ... ४३५
गुणदोषाभावनिरूपण ४१५ अर्थव्यक्तिकान्त्योः स्वभावो- ५
गर्मिततवस्य गुणत्वा. तत्यादिना संग्रह :... ४३६ श्लेषसमतयोवैंचित्र्यादोषत- ख्यानम् ... ... ४१५ १० योरन्तःपातः ४३६ ५ पतत्प्रकरषताया गुणत्वनि ... समाधेर्गुणत्वाभावः ... ४३७ ५ रूपणम् ... ... ४१६ ५ ... ४३८ ८ व्यभिचारिण: स्वशन्देनोक्तौ खण्डनोपसंहार;
दोषत्वाभावकीर्तनम् ४१६ नवमपरिच्छेदे- ८
विरुद्धरसविभावादिसंग्रहस्य रीति :... ... ४३९ ४
DY गुणत्वनिरूपणम् ... ४१७ रीतीनां चातुर्विध्यम् ... ४३९ ७
विरुद्धरसयोः समावेश- तत्र, वैदभी ... ... ४३९
विचार: ... ... ४१७ ७ गौडी ... ... ४४० ७
अनुकरणे दोषाणामदोष पाञ्चाली ... ... ४४०
४२२ ५ लाटी V त्वाख्यानम् ... ... ... ... ४४१
Page 46
११
छृष्ठस्य पड्डौ पृष्ठस्य पड़ो वक्नाद्याचित्येन रचनाव- रूपकम् .. ४९२
स्थानम् ... ४४२ ७ रूपकभेदाख्यानम् ... ४९३ ३
दशमपरिच्छेदे- परिणामः ... ... ४९८
V अलंकारा: ... ४४४ २ संदेहः .. .. ५००
युनरुक्तवदाभास: ... ४४५ ३ भ्रान्तिमान् ... ५०२
अनुप्रासः उल्लेख: ... ११ ... ४४६ ५०२ ...
छेकानुप्रासः ... ४४७ 9 अपहनुतिः ५०५ ४ ...
वत्त्यनुप्रास: ... ४४७ निश्चयः ५०६ ९
श्रुत्यनुप्रासः उत्प्रेक्षा ... १२ ... ४४८ ६ ५०७ ..
अन्त्यानुप्रासः उत्प्रेक्षाभेदाख्यानम् ... ७ ४४९ ५१० १
लाटानुप्रास: ... ४४९ अतिशयोक्तिः ५१५ .8 .P
यमकम् ४५१ तुल्ययोगिता ... ५१८ .. ७ ... ७
वक्रोक्ति: ४५५ २ दीपकम् ... ... ५१९ ९ ... ...
भाषासमयः ... ४५६ ५ प्रतिवस्तूपमा ... .. ५२०
शलेषः .. ४५६ १५ दृष्टान्तः ... ... ५२१ ४ ... ..
सभङ्गश्र्लेषः निदर्शना ... ५२२ १
अभङ्गश्लेषः ४६१ व्यतिरेक: ५२४ ... ...
सभङ्गाभङ्गशेपः सहोक्ति: ३ .. ... ५२६
चित्रम् समासोक्ति: ५२८ १४ ... ४६९ ...
प्रहेलिकाया अलकारत्वख- परिकरः ... ५३४ १० ..
ण्डनम् ... ४७१ ३ शलेषः ... ... ५३५ ३ ... ..
च्युताक्षरादिः ४७१ ४ अप्रस्तुतप्रशंसा ... ५३५ ९ ..
उपमा ... व्याजस्तुति: ५३९ ९ ... ४७३ 9 ... ...
पूर्णोपमा ... पर्यायोक्तम् ५४० ५ ... ४७५ २ ...
श्रौती उपमा ... अर्थान्तरन्यासः ५४१ ... ४७६ ४ ...
आर्थी उपमा ... ... ४७६ ५ काव्यलिङ्गम् ... ... ५४३ ८
तद्धिते समासे वाक्ये च अनुमानम् ... ५४५ १४
श्रौत्यार्थ्युपमाख्यानम् ४७८ ३ हेतुः ... ५४६ ... ... ६
लुप्तोपमा ... अनुकूलम् ... ४८० ३ ... 0 .. ५४६
एकदेश विवर्तिन्युपमा ४८८ ६ आक्षपः ५४७ 9 ...
रसनोपमा ... ४८८ १३ विभावना ... ५४९ 9 ...
मालोपमा ४८९ विशेषोक्ति: ... ५४९ ९० ... ...
अनन्वयः विरोध: ... ... ४९० ५ ५५० ... ४
उपमेयोपमा ... ४९१ ५ असंगतिः ... ५५२ १ ... ..
स्मरणम् ४९१ ५५३ ... ११ विषमम् ... ... 9 ...
Page 47
१२
पृष्ठस्य पड्डौ पृष्ठस्य पड्डौ समम् ... ५५४ समुचय: .. ५६६ ३ विचित्रम् ... ५५५ १ समाधिः .. ५६८ 6
अधिकम् ५५५ प्रत्यनीकम् .. ... ५६८ १७ अन्योन्यम् ... ५५५ १४ प्रतीपम् ... ५६८ १६ विशेप: ५५६ ३ मीलितम् ५६९ १८
व्याघातः ... ५५७ सामान्यम् ... ५७O
कारणमाला ... ५५७ १२ तद्गुण: ५७० १५
मालादीपकम् ... ५५.८ 9 अतद्गुणः ... ... ५७१ १
एकावली ५५८ सूक्ष्मम् ५७२ २ ... ... .. ... 6
सार: ... ५५९ व्याजोक्ति: ... ५७२ १३
यथासंख्यम् ... ५६० स्भावोकि: ... ... ८ مـ पर्यायः भाविकम् ... ... ५७४ परिवृत्तिः १२ उदात्तम् ... ... ५७६ 9
परिसंख्या ५६२ ४ रसवदाद्यलंकारा: ...
उत्तरम् ५६३ भावोदयाद्यलंकारा: ... ५७९ ... ... १२ अर्थापत्ति: संसृष्टिसंकरालंकारौ ... ५७९ ४ ur ... विकल्प: ... ५६५ ग्रन्थालंकार श्लोकौ ५८३ ... ... ३
Page 48
श्रीमद्विश्वनाथकविराजप्रणीतः साहित्यदर्पणः । श्रीमद्रामचरणतर्कवागीशकृतया विवृत्यानुगतः।
प्रथमः परिच्छेदः । ग्रन्थारम्भे निर्विन्नेन प्रारिप्सितपरिसमाप्तिकामो वाड्ययाधिकृततया वाग्देवतायाः सांमुख्यमाधत्ते-
विवृतिः। वागीश्वरीसरसगीतगुणप्रवाहं सारस्वतीसततसेवितपादपझ्मम्। हेमाद्रिमारकतशेखरकान्तमीशं वन्दे खगेन्द्रभुजमौलिगतं मुकुन्दम्॥ श्रीविश्वनाथकविराजकृतिप्रणीतं साहित्यदर्पणमतिस्थगितप्रमेयम्। श्रीमद्विधाय चरणं शरणं गुरूणां यत्नेन रामचरणो विवृणोति विप्रः ।। यः परः परगुणप्रकाशने लब्धवर्णनिकरो जयत्यसौ। दोषगानरचिताघसंचया यात्धः पिशुनराजिरञ्जसा ॥ समग्रसिद्धान्तग्रहव्यग्रमनसामनभिमते प्रकटदोषप्रकर विघटितादरकाव्यादिनिरूपणे सत्यप्यलंकारग्रन्थनिकरे तेषामभीष्टमदुष्टकाव्यादिनिरूपणमव्याहतराद्धान्तसंतानमलं- कारग्रन्थमारभमाणः प्रथमकारिकायाः सरसत्याराधनप्रयुक्तखार्थनिर्वाहप्रयुक्तिपरतां प्रकाशयितुमवतरणिकां स्वयमेव ग्रन्थकृदाह-ग्रन्थारम्भ इति । अ्रन्थस्य महा- वाक्यविशेषस्यारम्भे आरम्भप्राकाले आद्यकृतिरूपस्यारम्भस्य मङ्गलाचरणाधिकरण- तबाधादियं लक्षणा, तत्प्रयोजनं च मङ्गलारम्भयोरव्यवहितत्वबोधः । केचित्तु 'आरम्भे भाविनि सतीत्यर्थः' इत्याहुः। तन्न। तथा सत्यारम्भप्राकाल इति पदादि- वारम्भे भाविनि सतीत्य स्मादारम्भप्रागभावसमानकालीनत्वस्यैव बोधः, नतुसदाचार- परम्परापरिप्राप्तस्यारम्भाव्यवहितप्राकालीनत्वस्य। नच कालान्तरीणमङ्गलाचरणस्या- विवृतिपूर्तिः । एकत्र यत्र नवचम्पकदामहारि हारावदातमितरत्र चकास्ति शोचि: । तस्मा इवाद्भुततनूघटनाय तस्मै कस्ैचिदस्तु महसे प्रणतिः परस्ै॥ आचार्यरामचरणेन विकासितायां यद्दर्पणस्य विवृतौ विकलत्वमस्ति। तत्पूर्नये जयपुरेन्द्रसमाश्रितेन दुर्गाप्रसादकृतिना क्रियते प्रयतः ॥ 1. खगेति। गरुडपृष्ठारूढम्, अत एव कनकाचलोपरिगतमरकतशङ्गसुन्दरमित्यर्थः ॥
Page 49
2 साहित्यदर्पणे
शरदिन्दुसुन्दररुचिश्रेतसि सा मे गिरां देवी। अपहृत्य तमः संततमर्थानखिलान्प्रकाशयतु ॥ १॥ प्यदष्टद्वारा प्रकृतोपयोगित्वात्तयोरव्यवहितस्य बोधोऽकिंचित्कर इति वाच्यम्। तस्य प्राशस्त्येनात्यन्तोपयोगितवकल्पनात्। निर्विन्नेन प्रतिबन्धकीभूतदुरदृष्टविघातद्वारा प्रा- रिप्सितस्य चिकीर्षाविषयस्य परिसमाप्तिश्वरमवर्णपर्यन्तानुष्ठानं तत्कामः । 'ग्रन्थकृत्' इति शेष: । वाङ्ययान्यष्टादश विद्याः काव्यकलाः कामशास्त्रादीनि च, तदधिकृततया तदध्यक्षतया वाग्देवतायाः सरसत्याः सांमुख्यमाराधनेन सार्थसाधनानुकूललमाधत्ते करोति। अत्र प्रथमपुरुषाभिधानं 'रामः खयं याचते', 'जीवत्यहो रावणः' इत्यादिव- त्काल्पनिकभेदमूरीकृत्य। अन्यथा अस्मत्कर्तृत्वेनोत्तमपुरुष एव स्यात्। न च वृत्ति- कारकारिकाकारयोर्वास्तवो भेद इति वाच्यम्। 'रसस्वरूपं निरूपयिष्यामः' इति प्रति- ज्ञातुर्वृत्तिकारस्य कारिकया रसनिरूपणं तथात्वेऽसंगतं स्यात्। शरदिन्द्िति। सा वेदागमादिप्रसिद्धा। सह एन विष्णुना वर्तमाना वा। गिरां देवी सरखती मम चेतसि वर्तमाना सती तमोऽज्ञानमपहृत्य विनाश्य अखिलान् सर्वान् वाच्यलक्ष्यतात्प- र्यव्यङ्गयरूपानर्थान् वस्तूनि संततं यदा यदर्थज्ञानमुपयुक्तं तदैव प्रकाशयतु प्रकटीक- रोतु। यद्वा 'संतत' इति 'तमः' इत्यस्य विशेषणम्। निबिडमित्यर्थः । सा कीदृशी। शरदिन्दोरिव सुन्दरी अतिविशदा रुचिर्दीप्तिर्यस्याः सा तथा। शरदिन्दुरपि तमो ध्वान्तं विनाश्य अर्थान् वस्तूनि प्रकाशयतीत्युपमा। वाङ्याधिकृतत्वख्यापनाय 'गिरां देवी' इत्यनेन सरसत्या उपन्यासः । अथवा देवी दुर्गा मम गिरामर्थान् चेतसि व्युत्पित्सूनां हृदि प्रकाशयतु। सा कीदृशी। शरदिन्दुसुन्दरः शिवस्तत्र रुचिरभिलाषो यस्या: सा तथा। अन्यत्समानम्। एतत्पक्षे 'वाङ्याधिकृततया' इति कर्तृविशेषणम्। वास्पयाधिकृतो ग्रन्थकृदित्यर्थः । 'अवाग्देवतायाः' इति गोपनीयदेवताया इत्यर्थः । इष्टदेवताया गोपनीयतमागमे प्रसिद्धम् । अत्र 'सा' इत्यनेन सरस्त्याः श्रवणम्। 'चेतसि वर्तमाना' इत्यनेन मननं ध्यानं च लभ्यत इति त्रिविधं सरखत्याराधनमत्र फलितम्। तस्य विम्नध्वंसद्वारा प्रारिप्सितपरिसमाप्तिः फलम्। सतःसिद्धविभ्नविरहस्य प्रारिप्सितपरिसमाप्तिरेव फलम्, न तु विशिष्टम्। यथा-निष्पापस्य ब्रह्मलोकप्राप्तिरेव संध्योपासनस्य फलम्, न तु पापक्षयपूर्वकब्रह्मलोकप्राप्तिः। तदुक्तम्-'संध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥' इति। यद्वा निरविन्नेन वि्नाभावद्वारेत्यर्थः । अभावश्र यथायथमत्यन्ताभावो ध्वंसश्च ग्राह्यः। अत्य- न्ताभावपक्षे अन्वयव्यतिरेकानुविधायित्वरूपं जन्यत्वमादाय व्यापारतनिर्वाहः।एत- नमते सर्वत्रैव विशिष्टफलसंभव इति सर्वे समजसम्। प्रवृत्त्यज्ञं प्रयोजनवत्त्वं दर्शय- १. 'प्रागभावनाशो वा' इति मुद्रितपुस्तकेऽधिक: पाठः. २. 'तस्य विन्नाभावद्वारा प्रारिप्सितपरिस- माप्ि: फलम् । अभावश्चात्र ध्वंसः प्रागभावश्च विवक्षणीयो योग्यत्वात्। अत्यन्ताभावस्य ध्वंसमाग- भावाभ्यां सह विरोधेन विन्नात्यन्ताभावस्य जन्तुमान्रेऽसंभवात् सदातनसंसर्गाभावरूपस्य तस्य व्यापरत्वाभावाच्च। न च प्रागभावस्य जन्यत्वाभावात्कर्थं व्यापारत्वमङ्गीकृतमिति वाच्यम्। कार्यना- श्यस्य तस्य कालान्तरसंबन्धस्येष्टसाधनत्वेन व्यापारत्वाङ्गीकारात् कालान्तरसंबन्धस्य जन्यत्वस्य संभ- वात्! अन्यथा विप्नरूपकार्येण तत्मागभावस्य नाशे इष्टसमापिर्न स्यात् ॥' इति पुस्तकान्तरेऽधिकः पाठ:
Page 50
प्रथम: परिच्छेदः। ३
अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्य- फलान्याह- चतुवर्गफलप्राप्तिः सुखादल्पधियामपि। काव्यादेव यतस्तेन तत्सवरूपं निरुप्यते ॥ २॥ चेतुर्वर्गफलप्राप्तिर्हि काव्यतो रामादिवत्प्रवर्तितव्यं न रावणादिवदि- त्यादिकृत्याकृत्य प्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव। ति-अस्येति। प्रक्रंस्यमानस्येत्यर्थः। काव्याङ्गतया काव्यफलसाधनेSप्रधानकारण- तया। काव्यफलैरिति धान्येन धनवानितिवदभेदे तृतीया। काव्यफलाभिन्नफलवत्त्व- मित्यर्थः । यथा दर्शपौर्णमासाङ्गानां प्रयाजादीनां दर्शपौर्गमासफलेनैव फलवत्त्वं तथा- स्यापीति भाव्यम्। ननु प्रयाजादीनामङ्गापूर्वजननद्वारा परमापूर्व प्रत्युपकारः संभव- तीति तत्र तथास्तु, प्रकृते तु शास्त्रस्य काव्यगुणदोषादिज्ञापनोपक्षीणत्वेन चतुर्वग प्रत्युपकारासंभवात् कथं तत्साधनत्मिति चेत्। न। काव्यं हि स्वरूपसन्न कारणम्, किंतु कृतिज्ञप्यन्यतरविषयतया तन्रास्योपकारः संभवतीति न कापि विप्रतिपत्तिः । नन्वस्य चतुर्वर्गातिरिक्तकाव्यगुणादिज्ञानरूपफलसत्त्वात्कथमेवकारार्थान्वय इति चेतू। न। 'फलव स्यम्' इत्यत्र मतोः प्रशस्तार्थत्वेनोत्कृष्टफलपरलात्। एवं च चतुर्वर्गसाध- नत्वज्ञानेनात्र लोकानां साभिनिवेशप्रवृत्तिर्भविष्यतीति भावः । काव्यफलदर्शनपुरःसरं काव्यस्वरूपनिरूपणं प्रतिजानीते-चतुर्व्गेति। चतुर्वर्गो धर्मार्थकाममोक्षा एव फलम्। सुखादनायासात्। अल्पधियां सुकुमारमतीनाम्। अपिना परिणतबुद्धीनांच। एवकारेण वेदशास्त्रव्यवच्छेदः । 'यतः' इति 'काव्यात्' इत्यस्य विशेषणम्। एवं च प्राचीनासंमतं नीरसकाव्यं चतुर्वर्गासाधनत्वान्न निरूपणीयमिति फलितम्। तेनायासं विना चतुर्वर्ग- साधनत्वेन, तस्य काव्यस्य स्वरूपमिति खमसाधारणं रूपमितरव्यावर्तको धर्मः।लक्षणमि- त्यर्थः। निरूप्यते ज्ञाप्यते। काव्यस्य चतुर्वर्गसाधनत्वमुपपाद्यति-चतुर्वर्गफल- प्राप्तिर्हीति। रामादिवत् रामादिनेव चतुर्वर्गकामेन पिन्राज्ञापरिपालनादौ प्रवर्ति- 1. काव्येति। सकलपुरुषार्थसाधनक्षमस्य काव्यस्य प्रादुर्भावे शक्तिव्युंत्पत्तिरभ्या- सश्च कारणम्। शक्त्यादीनां स्वरूपमाह रुद्रट :- 'मनसि सदा सुसमाधिनि विस्फुरणम- नेकधाभिधेयस्य। अक्विष्टानि पदानि च विभान्ति यस्यामसौ शक्तिः ॥ प्रतिभेत्यपरैरु- दिता सहजोत्पादया च सा द्विधा भवति। पुंसा सह जातत्वादनयोस्तु ज्यायसी सहजा॥ स्वस्यासौ संस्कारे परमपरं मृगयते यतो हेतुम्। उत्पाद्या तु कथंचिद् व्युत्पत्या जन्यते परया ॥ छन्दोव्याकरणकलालोकस्थितिपदपदार्थविज्ञानात्। युक्तायुक्तविवेको व्युत्प- त्तिरियं समासेन ॥ विस्तरतस्तु किमन्यत्तत इह वाच्यं न वाचकं लोके। न भवति यत्का- व्याङ्गं सर्वज्ञत्वं ततोऽन्यैषा ॥ अधिगतसकलज्ञेयः सुकवेः सुजनस्य संनिधौ नियतम्। नक्तंदिनमभ्यस्येदभियुक्त: शक्तिमान्काव्यम् ।।' इति । अयमेवाशयः 'शक्तिर्निपुणता-' इति श्रोकेन निबद्धो राजानकमम्मटैः॥ १. 'चतु-' इत्यादिः 'सुप्रतीतैव' इत्यन्तः पाठो ग-पुस्तके नास्ति.
Page 51
४ साहित्यदर्पणे
उक्त्तं च- 'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च। करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् ।।' इति। किंच काव्याद्धर्मप्राप्तिर्भगवन्नारायणचरणारंविन्दस्तवादिना। 'एक: शब्द: सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामघुग्भवति' इत्यादिवेद- वाक्येभ्यश्च सुप्रसिद्धैव। अर्थप्राप्तिश्च प्रत्यक्षसिद्धा। कामप्राप्तिश्चार्थ- द्वैारैव। मोक्षप्राप्तिश्चैतज्जन्यधर्मफलाननुसंधानात्। मोक्षोपयोगिवाक्ये व्युत्पत्त्याघायकत्वाच्च। चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखा- तव्यम्। न रावणादिवदिति। रावणादिनेव परदारहरणादौ न प्रवर्तितव्यमि- त्यर्थः । कृत्यं विहितं कर्म, अकृत्यं निषिद्धं कर्म, तयोः प्रवृत्तिनिवृत्ती यत्नविशेषौ तयोरुपदेशस्तज्जनकं ज्ञानं स एव द्वारं व्यापारसेन। तथाहि-काव्याद्विहितक्मणि कर्तव्यताज्ञानं ततस्तत्र प्रवृत्तिस्ततस्तदनुष्ठानं ततो धर्मस्तस्मादर्थकामौ। 'धर्मादर्थश्ष कामश्च' इति स्मरणात्। विहितकर्मफलत्यागान्निषिद्धाननुष्ठानाच् मोक्षः । 'युक्तः कर्मफलं त्यक्ला शान्तिमाप्नोति नैष्ठिकीम्' इति स्मरणात्। 'व्यापारे यत Tपारिणो नान्यथासिद्धिः' इति न्यायेन काव्यस्य धर्मादिजनकत्वमिति भावः । अन्न प्राची- नानां संवादमाह-उक्त्तं चेति। धर्मार्थकाममोक्षेषु तदुपायेषु वैचक्षण्यं विशिष्टज्ञानं कलासु नृत्यगीतादिचतुःषष्टिप्रकारासु। साधुकाव्यस्य निषेवणं करणं ज्ञानं च। ननु काव्यं कर्तव्यत्वाकर्तव्यत्वज्ञानद्वारां कृत्याकृत्यप्रवृत्तिनिवृत्ती प्रति कारणमास्तां धर्मा- दिं प्रति लन्यथासिद्धमेव, इत्यत आह-किंचेति। 'काव्यात्' इति प्राप्यन्तपदच- तुष्टयेऽन्वेति। स्तवो गुणज्ञापनम्। आदिना विष्णुजन्मादिज्ञापनं तद्वारेत्यर्थः । एवं च काव्यान्तरमफलमत आह-एक इंति। एकोऽपीत्यर्थः । सुप्रयुक्तो रसवत्तया रचितः सम्यक् ताद्रूप्येण ज्ञातः । अत्र वाकारो बोध्यः । इत्यादि(वेद)वाक्येभ्यः इत्या- दिश्रुत्यादिभ्यः। सत्काव्यकृतिज्ञप्त्योरन्यतरस्य धर्मसाधनतवं श्रीतमिति भावः। प्रत्यक्ष- सिद्धेति।धनिस्तवादिना कवीनां धनप्राप्तिलोंके प्रसिद्धैवेत्यर्थः । कामप्राप्तिश्चेति। कामयते, कामो विषयभोगः । 'धर्मादर्थस्ततः कामः कामात्सुखसमुन्नतिः' इति स्मरणात्। एतज्जन्येति। काव्यजन्येत्यर्थः । धर्मफलस्याननुसंधानादेव तदधीनो- त्पत्तिकयोरर्थकामयोरुत्पत्तिसंभावनैव नास्तीति तयोरनुपादानम्। यद्वा धर्मप्रधानं फलं धर्मफलं तेनार्थकामयोरपि संग्रहः। अननुसंधानात् अपारमार्थिकत्वेन साध्यता- निर्धारणात् मोक्षोपयोगिवाक्यमुपनिषदादिस्तत्र व्युत्प्त्त्याधायकत्वान दृढतरज्ञान- जनकत्वात्। ननु काव्यादुपनिषदादिव्युत्पत्तिस्ततस्तदर्थानुष्ठानं ततो मोक्षप्राप्तिरि- त्यन्यथासिद्धितादवस्थ्यमेवेति चेत्। सत्यम्। उपनिषदादिज्ञानादपि मोक्षप्राप्तिरि- त्यभिप्रायेणास्योत्थापनात् 'काव्यादेव'इत्येवकारव्यवच्छेदं दर्शयति-चतुर्वर्गेति। वेदा ऋग्यजुःसामोनि। शास्त्राणि मीमांसादीनि। दुःखादेवेति सुखव्यवच्छेदः। परि- १.'मुज्ञातः' ग. २. 'अर्थप्राततिः' क-ख-गः ३. 'द्वारेणैव' क. ४. 'सामाथर्वाख्याः' इति मुद्रितपुस्तके
Page 52
प्रथम: परिच्छेदः ।
देव परिणतबुद्धीनामेव जायते। परमानन्दसंदोहजनकतया सुखा- देव सुकुमारवुद्धीनामपि पुनः काव्यादेव। ननु तर्हि परिणतवुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्ः करणीय इत्यपि न वक्तव्यम्। कटुकौषधोपशमनीयस्य रोगस्य सि- तशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधी- यसी न स्यात्। किंच। काव्यस्योपादेयत्वमग्निपुराणेऽप्युक्तम्- 'नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा। कवित्वं दुर्लभं तत्र विद्या तत्र सुदुर्लभा।।' 'त्रिवर्गसाधनं नाट्यम्' इति च । विष्णुपुरोणेऽपि 'काव्यालापाश्च ये केचिद्गीतकान्यखिलानि च। शब्दभूर्तिधरस्यैते विष्णोरंशा महात्मनः ॥' इति। तेने हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते। एतेनाभिधेयं च
णतवुद्धीनां वेदादिभ्यो धर्मादिप्राप्तिः सुखान्न भवति। सुकुमारमतीनां तु दुःखाद- पि न भवतीति भावः । परमानन्दसंदोहो रसास्वादसुखपरम्परा। अपिना परिणत- बुद्धिसमुच्चयः । तथा च रसास्वादार्थमपि प्रवर्तमानस्य कृत्याकृत्योपदेशपर्यवसन्नं सत् काव्यं चतुर्वर्गमपि जनयतीति भावः । ननु चतुर्वर्गार्थ प्रेक्षावन्तो वेदशास्त्रा- ण्यनादृत्य कथमनाप्तवाक्ये काव्ये प्रवर्तन्तामित्यभिप्रायेणाशङ्कते-नन्विति। तर्हि काव्यस्य चतुर्वर्गसाधनत्वस्वीकारेऽपि। यत्नश्चतुर्वर्गार्थमुद्यमः। काव्यात्तावद्रसास्वादो दुःखं विना धर्मादिप्राप्तिश्च भवति। वेदादिभ्यस्तु दुःखादेव धर्मादिप्राप्तिरेवेति वेदाद्यपेक्षया काव्ये समादर इति समाधानं लौकिकदृष्टान्तेनाह-कटुकौषधेति। कटुकेति तिक्तकषायादीनामप्युपलक्षणम्। सितशर्करा अतिशुभ्रगुडविकारविशेषः । तथा च काव्यस्यानाप्तवाक्यत्वेऽपि स्मृतिसदाचारवद्वेदानुमापकत्वेन प्रामाण्यमिति भाव: । काव्यस्य युक्तिसिद्धमुपादेयत्वमुपपाद्य वाचनिकं तदुपपादयति-किंचेति। तत्र नरजन्मनि शक्तिः काव्यकृतिज्ञप्यन्यतरजनकः संस्कारविशेषः। त्रिवर्गो धर्मार्थ- कामाः। नाट्यमभिनयप्रधानं नाटकादि। काव्यालापा इति। रसव्यञ्जकाः श्ब्दोर्था इत्यर्थः । कारिकास्थं 'तेन-' इत्यादि व्याख्यायते-तेनेत्यादि। एतेन 'चतुर्वर्गफ- लप्राप्ति :- ' इत्यादिश्लोकेन। अभिधेयं चेति। चकारेण प्रयोजनसंबन्धयोर्लाभः ।
१. 'काव्येषु किमिति प्रयत्नः' घ. २. 'च' क-ख; 'अपि' इति घ-पुस्तके नास्ति. ३. 'तेन-' इत्यादि: 'पुनः क्वापि, इति' इत्यन्तः पाठो ग-पुस्तके नास्ति. ४. 'शब्दाः' इति पुस्तकान्तरे.
Page 53
६ साहित्यदर्पणे
प्रदर्शितम्। तर्तिकस्वरूपं तावत्काव्यमित्यपेक्षायां कश्चिदोह-'तददोषौ शब्दार्थो सगुणावनलंकृती पुनः क्वापि' इति। एतच्चिन्त्यम्। तथाहि- यदि दोषरहितस्यैव काव्यत्वं तदा- 'न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग्धिकच्छक्रजितं प्रबोधितवता कि कुम्भकर्णेन वा सवर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥' इति। संबन्धशात्र प्रयोजनाभिधेययोः कार्यकारणभावरूपः । कश्चिदिति। काव्यप्र- काशधृतकारिकाकार इत्यर्थः । तदिति। काव्यमित्यर्थः । शब्दार्थाविति । विनि- गमनाविरहेण उपस्थापकत्वसंबन्धेनार्थविशिष्टः शब्दः उपस्थाप्यतसंबन्धेन शब्दवि- शिष्टश्ार्थ: काव्यमित्यर्थः। अत्र शब्दार्थयोर्विशेषणविशेष्यभावे व्यञ्ञकलाव्यज्जकल्वाभ्यां वैचित्र्य विशेषरूपालंकारप्रयोजकत्वाप्रयोजकत्वाभ्यां प्रधानाप्रधानभावो नियामकः । न च यत्रोभयोर्व्यज्जकत्वं वैचित्र्यविशेषाधायकत्वं वा तत्र का गतिरिति वाच्यम्। बाहु- ल्येन व्यञ्जकत्वेन चमत्कारातिशयाधायकत्वेन वा तत्र व्यवहारोपपत्तेः । नच तथापि यत्र व्यञ्जकयोवैंचित्र्यविशेषप्रयोजकयोवा तुल्यलं तत्र व्यवहारानुपपत्तिरिति वा- च्यम्। प्रथमोपस्थितिविषयत्वेन शब्दस्यैव प्राधान्यादविशेष्यत्वोपगमात्। 'काव्यत्वं शब्दार्थोभयपर्याप्तम्' इति कश्चित्। तन्न। तथा सति शब्दमात्रस्य प्रत्यक्षे 'काव्यं शृ- णोमि' इति प्रतीतिसाक्षिकं काव्यत्वप्रत्यक्ष न स्यात्। व्यासज्यवृत्तिधर्मस्य लौकिकप्र- त्यक्षे यावदाश्रयप्रेत्यक्षस्य कारणत्वात्। सगुणौ माधुर्यौजःप्रसादगुणविशिष्टौ। अन- लंकृती इति। ईषदर्थे नज्। अस्फुटालंकारावित्यर्थः । क्वापीति। प्रायेण स्फुटा- लंकारसद्भावे काव्यत्वम्, क्वचित्स्फुटालंकारविरहेऽपि। एतेन सर्वत्रैवालंकारसद्भावः सूचितः । अलंकाराश्च यमकोपमादयः । चिन्त्यमिति। दूष्यमित्यर्थः । दोषमुप- पादयति-तथाहीति। काव्यत्वमिति।'अङ्गीकरोषि' इति शेषः । क्वचित् 'का- व्यत्वाङ्गीकारः' इत्येव पाठः । न्यक्कार इति। श्रीरामे राक्षसान्नाशयति सति रा- वणस्य स्वकीयभर्त्सनमिदम्। मम यदरयोऽयमेव न्यक्कारः । विनाशितप्रभूतारेररि- सत्त्वस्यैवानादरातिशयप्रतिपादनाय न्यक्कारत्वेनारोपणम्। तन्रापि तेषु सत्स्वपि 1. काव्यप्रकाशेति। वृत्तिकार एव कारिकाकारः । तथाहि-'माला तु पू- ववत्' इति कारिकायां 'पूर्ववत्' इति कथनेन वृत्तिकारकारिकाकारयोरेकत्व एव वृत्ति- मात्रप्रद्शितमालोपमाया: सूत्रे 'पूर्ववत्' इति दृष्टान्ततयोपन्यासः संगच्छते। 'मालोपमा वृत्तौ लक्षिता कारिकायां तुसा दृष्टान्तीकृतेति वृत्तिकृत्कारिकाकृतोरैक्यं स्वयमेव राजा- नकमम्मटैः सूचितम् ॥' इति सुधासागरे भीमसेनदीक्षिता अपि वदन्ति॥ १. 'तावत्' ग-पुस्तके नारित. २. 'आह' क-ख-घ-पुस्तकेषु नास्ति. ३. 'काव्यत्वाङ्गीकारः' क-ख-ग-घ. ४. 'इति' क-ख-घ. पुस्तकेषु नास्ति. ५. 'अत्र शब्दार्थयोः-'इत्यादिः 'विशेष्यत्वो- पगमात्' इत्यन्तः पाठः पुस्तकान्तरे नास्ति. ६. 'संनिकर्षस्य' इति मुद्रितपुस्तकपाठः
Page 54
प्रथम: परिच्छेदः । ७
अस्य श्रोकस्य विधेयाविमर्शदोषदुष्टतया काव्यत्वं न स्यात्। प्रत्युत ध्वनित्वेनोत्तमकाव्यतास्यांङ्गीकृता तस्मादव्याप्तिर्लक्षण- असौ राम एकस्तापसः । तपस्विभक्षकस्य ममारिरयमपि न्यकारः। द्वेषातिशयाद्रा- मस्यादःपदेनैव निर्देशः, ने तु नाम्ना। सोऽपि तथाविधोऽपि अत्रैव लङ्कायामेव, न तु दूरे, राक्षसकुलं निहन्ति, न तु लुकायितः क्वापि दूरे तिष्ठति। द्वित्राक्षसहनने कदा- चित्क्षमः स्यात्तन्न, कुलं समूहम्। प्रबोधितवता प्रवुद्धेन। 'बुधिर् बोधने' इत्यस्य भौवादिकस्य रूपम्। न तु 'बुध अवगमने' इत्यस्य दैवादिकस्य। तस्यानिदत्वाद्। यद्ा प्रबोधित प्रबोधनं तद्दता। जागरितेनेत्यर्थः । एतादृशपराभवेऽपि रावणो जी- वतीत्याश्चर्यम्। अत्यन्तशत्रुपराभवकारित्वसूचनाय रावण इत्यनेनात्मन उत्कीर्त- नम्। ग्रामटिका क्षुद्रग्रामः तस्या विलुण्ठनेन वृथोच्छूनैः व्यर्थमुद्रिक्तविक्रमैः। अत्र विधेयस्य न्यकारस्य रचनावैपरीतेन गुणीभूतत्मिति। 'स्वर्गग्रामटिकाविलुण्ठनत्ृ- थोच्छूनैः' इत्यत्र वृथात्वं विधेयं तच्च समासे गुणीभावादनुवाद्यप्रतीतिकृदिति च द्विरूपो विधेयाविमर्शः। अत्रेष्टापत्तौ दोषमाह-प्रत्युतेति। अँयं निपात(न)समुदायो विपरीतार्थकः । ध्वनिसत्त्वेन ई्ष्याजन्यस्ावमाननरूपनिर्वेदाख्यभावध्वनिसंभवेन। अस्य 'न्यकार :- ' इत्यादिवाक्यसमुदायस्य। अङ्गीकृतेति। 'इदमुत्तममतिशयिनि 1. विधेयेति। विधेयाविमर्शः, अयमेवाविमृष्टविधेयांश इति च कथ्यते। प्रकृते अर्थंपदस्योद्देश्यतया विवक्षितस्य विधेयता, न्यक्कारपदस्य विधेयतया विवक्षितस्योद्देश्यता च दोषमुद्धोषयति। 'अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत्। न हलब्धास्पदं किंचित्कु- त्रचित्ंप्रतितिष्ठति ।' इति न्यायेनोद्देश्यविधेययोः पौर्वापर्यस्य नियत्रितत्वात्। अत एव 'पर्वतो वह्िमान्' इत्येवाभिधीयते, न तु विपयासेन। तथा उच्छूनत्वमुद्दिश्य विधीय- मानं वृथात्वं समासे गुणीकृतम् । एवं च 'न्यकारः,' 'अयं' इत्येतयोः पदयोर्विपर्ययो वाक्यदोषः । '-वृथोच्छूनैः' इत्यत्र समासगतत्वेन पददोषो नतु वाक्यदोषः। 2. अङ्गीकृतेति। आनन्दवर्धनाचायैरिति शेषः। तथाहि-'सुप्तिङ्वचनसंबन्धैस्तथा कारकशक्तिभिः । कृत्तद्वितसमासैश्च द्योत्यो लक्ष्यक्रमः क्वचित् ॥' इति कारिकानुसारे- णात्र श्रोके भूयसा सर्वेषामप्येषां स्फुटमेव व्यञ्जकत्वं दृश्यते। तत्र 'मे यदरयः' इत्यनेन मम शत्रुसद्भ्ावो नोचित इति संबन्धाद्यौचित्यं क्रोधविभावं व्यनक्ति 'अरयः' इति बहुवचनम्। 'तत्राप्यसौ तापसः' इत्यत्र तपो विद्यते यस्येति पौरुषकथाराहित्यं 'अण च' इति सूत्रविहितेन मत्वर्थीयेन तद्ितेनाभिव्यज्यते । तत्रापीति निपातान्तसमुदायेनात्यन्तासंभावनीयत्वम्। मत्कर्तृका यदि जीवनक्रिया तदा हननक्रिया तावदनुचिता । 'सोऽप्यत्रैव निहन्ति-' इत्यादावत्रैवेति मदधिष्ठितो देशोऽधिकरणम्, निःशेषण हन्यमानतया राक्षसबलं च कर्मेति, तदिदमसंभाव्यमानमुपनतमिति पुरुषकारासंपत्तिध्वन्यते कारकशक्तिप्रतिपा- १. 'न तु नाम्ना' इति पुस्तकान्तरे नास्ति. २. 'वृथात्वस्य समासे गुणीभावो विधेयाविमर्शः' इति मुद्रितपुस्तके पाठ. ३. 'सवर्गग्राम-' इत्यादि: 'विधेयाविमर्शः' इत्यन्तः पाठो मुद्रितपुस्तके नास्ति. ४. 'निपातनमेतद्विपरीतार्थम्। ध्वनिसत्वे वक्ष्यमाणपदांशगतासंलक्ष्यक्रमव्यड्यरूपध्वनिसत्ें' इति पुस्तकान्तरे पाठ :.
Page 55
साहित्यदर्पणे v
दोषः । ननु कश्चिदेवांशोऽत्र दुष्टो न पुनः सर्व एवेति चेत्तर्हि य- त्रांशे दोषः सोऽकाव्यत्वप्रयोजकः यत्र ध्वनिः स उत्तमकाव्यत्वप्रयो- जक इत्यंशाभ्यामुभयत आकृष्यमाणमिदं काव्यमकाव्यं वा किमपि न स्यात्। ने च कंचिदेवांशं काव्यस्य दूषयन्तः श्रुतिदुष्टादयो व्यङ्चये वाच्यध्वनिर्वुधैः कथितः' इति वदता स्वयमेव सवीकृतेत्यर्थः। तस्मादुक्त्दोषसत्त्वे- डपि काव्यत्वस्वीकाराल्लक्षणदोषः दोषाभावघटितनिरुक्तकाव्यलक्षणदोषः। ननु विधे- याविमर्शदोषस्तावदांशिकस्तेन सर्वे काव्यं न दुष्टं निर्दोषस्यैव गुणालंकारसद्भावे काव्यत्वमित्यभिप्रायेणाशढ्कते-नन्विति । अन्र 'न्यक्कारः-' इत्यादिवाक्ये स- र्वोऽपीति समुदायोऽपीत्यर्थः । यत्र व्वनिरिति। 'अरयः' इति बहुवचने 'अत्रैव' इति सर्वनान्नि 'निहन्ति' इति तिडि 'अहो' इत्यव्यये 'ग्रामटिका' इति करूपतद्धिते 'विलुण्ठन' इत्युपसर्गे 'भुजैः' इति बहुवचने च यथायथं ध्वनिर्वेदितव्यः । अंशाभ्यां डुष्टादुष्टभागाभ्यामुभयतः काव्यत्वाकाव्यत्वाभ्यामाकृष्यमाणं व्यावर्त्यमानमिदं 'न्य- कार :- ' इत्यादिवाक्यं किमपि एकतरत्। अत्रापदा ईर्ष्यया वा उद्दीपितं 'जी- वल्यहो रावण :- ' इत्यादिना व्यज्यमानेन खानौजस्यरूपदैन्येनानुभावेन संवलितं स्वावमाननं निर्वेदाख्यभावरूपोऽसंलक्ष्यक्रमव्यङ्कयो ध्वनिः । वक्ष्यमाणाः पदांशव्य- ड्रयास्तस्यैव परिपोषका इत्यवधेयम्। नैन्वदोषावित्यनेनांशिकदोषातिरिक्तदोषाभा- ववन्ताविति विवक्षणीयमित्यत आह-न चेति । श्रुतिकद्वादय इत्यादिपदा-
दकैश्च शब्दैः । रावण इति तु पदं लोकान्रावयतीत्यर्थ जहदत्यन्तप्राकृतरूपार्थान्तरे संक्रमितम् । 'धिग्धिकच्छकजितं-' इत्यादौ धिग्धिगिति वीप्सायाः, शक्रं जितवानित्या- ख्यायिकेयमित्युपपदसमासेन सहकृत: स्वर्गेत्यादिसमासस्य स्वपौरुपानुस्मरणं प्रति 'ग्रा- मटिका' इत्यत्र 'अल्पे' इति सूत्रविहितस्य करूपतद्धितस्याबहुमानास्पदत्वम्। वृथेत्य- व्ययस्य स्वात्मपौरुषनिन्दां प्रति व्य्जकत्वम्। एवं व्यअ्कभूयस्त्वे च घटमाने का- व्यस्य सर्वांतिशायिनी बन्धच्छाया समुन्मीलति। यत्र हि व्यङ्गयावभासिनः पदस्यैक- स्यैव तावदाविर्भावस्तत्रापि काव्ये कापि बन्धच्छाया, किमुत यत्र तेषां बहूनां समवाय इति ग्रन्थकाराशयः ॥ 1. न चेत्यादि। यदि सर्वत्र दोषः काव्यस्य सर्वमेवांशं दूषयन्नकाव्यत्वमेवो- त्पादयेत्तहिं 'तुरङ्गकान्तामुखहव्यवाहज्वालेव' इत्यत्र वडवाननिज्वालारूपस्यार्थस्य वि- १. 'दूपयन्ति' ग. २. 'लक्षणस्य निरुक्तकाव्यलक्षणस्य दोप इतरेतरभेदानुमानेऽसाधकत्वम- योजिका' इति मुद्रितपुस्तके पाठः. ३. मुद्रितपुस्तके तु 'यद्यपि निरुत्तध्वनेः समुदायवाक्यार्थव्यडयत्वे- नांशिकत्वं न संभवति, तथापि ध्वनिमकरणे वक्ष्यमाणानां तत्परिपोपकाणां पदांशध्वनीनामांशिकत्वा- भिम्रायेणेदम्। नन्वयमेव न्यकार इति न्यक्कारस्य विधेयत्वं विवक्षितं तच्च शब्दरचनावैपरीलेन वाक्यदोप इति वक्ष्यमाणानुसरणेनाविमर्शविधेयान्तरस्य वाक्यदोपस्यात् सत्वाद्यत्रांशे दोप इत्यसंगत- मिति चेत्। न ! वाक्यसमुदायस्यास्य एकवाक्यस्य दुष्टत्वेपि निर्दोषवाक्यान्तरसंभवात्।' इति पाठो- उस्ति. ४. 'अरयः' इति-' इत्यादिः 'ध्वनिर्वेदितव्यः' इत्यन्तः पाठः पुस्तकान्तरे नास्ति. ५. 'काव्यत्व- व्यवस्थापनव्यग्रधीराह-' इति मुद्रितपुस्तकपाठः ६. 'श्रुतिकट्टादयः' इति पुस्तकान्तरे नास्ति.
Page 56
प्रथम: परिच्छेदः ।
दोषाः, किं' तर्हि सर्वमेव काव्यम्। तथाहि-काव्यात्मभूतस्य रस- स्यानपकर्षकत्वे तेषां दोषत्वमपि नाङ्गीक्रियते। अन्यथा नित्यदोषा- नित्यदोषत्वव्यवस्थापि न स्यात्। यदुक्तं ध्वनिकृता- 'प्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः । ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः ॥' इति। द्विधेयाविमर्शादेः परिग्रहः। यद्ेवं तर्हि किं दूषयन्तो दोषाः स्युरत्राह-सर्वमिति। परम्परया रसदूषकत्वेनैव तेषां सर्वदूषकत्वमव्याहतमेवेत्यभिप्रायः । श्रुतिकद्वादीनां परम्परया रसदूषकत्वमङ्गीकारयन्नांशिकत्वाभावमुपपादयति-तथाहीति। अन- पकर्षकत्वे अनपकर्षकत्वाङ्गीकारे। तेषां श्रुतिकट्टादीनाम्। नाङ्गीक्रियते 'युष्माभिः' इति शेष: । 'रसापकर्षकाः खोषाः' इति दोषसामान्यलक्षणायोगादिति भावः । अत्रेष्टापत्तौ दोषमाह-अन्यथेति। विपरीतमताङ्गीकारे इत्यर्थः । अत्रेष्टापत्तौ प्राचीनमत- विरोधं दर्शयति-यदुक्तमिति । अनित्या इति। तेषां क्वचिद्दोषलात् क्- चिद्गुणताच्चानित्यदोषत्वं तच्च दोषपरिच्छेदे व्यक्तीभविष्यति ध्वनिर्व्यञ्जकः शव्दो
प्रकृष्टतया भानात्किष्टख्यार्थदोषापत्तिः। एवं चात्र काव्यत्वं न स्यान्। परं समुद्रान्त्लीं- नायां वडवानलज्वालायां कदाचित्संभाव्यमानस्य मध्योलसनस्य पुरि दर्शनाभेदाध्यवसाये- नास्या ज्वालात्वोत्प्रेक्षणात्को नामास्य काव्यत्वं निवारयितुमीष्टे। 1. नाङ्गीक्रियत इति। क्वचिद्रसे भासमानेऽपि दोषत्वमङ्गीक्रियत एव। यथा भगवन्जर्तृहरिसंकलितवैराग्यशतकस्य 'अहौ वा हारे वा कुसुमशयने वा दृषदि वा- इति श्रोके मिथ्यात्वेन परिभाव्यमानं जगदालम्बनम्, तपोवनादिकमुद्दीपनम्, सर्पहाराद्योः समदर्शनमनुभावः, मतिधृतिहर्षा व्यभिचारिभावाः, निर्वेद: स्थायिभावः, एवं शान्तरसनिष्पत्तौ सत्यामपि 'क्वचित्पुण्यारण्ये' इति यदभिहितं तदविकल्पप्रतिपाद- कमभेदवासनाविरुद्धमनुचितमवभासते। धारारूढसर्वसाम्यविगलितभेदाभिमानग्रन्थेर्हि सर्वत्र सर्व शिवमयं पश्यतस्तपोवने नगरावस्करकूटे च विमलात्मलाभतृप्ततया समानदृशः क्वचित्पुण्यारण्यादिवचनमनुचितोच्चारणमेव। 2. श्रुतीति। श्रुतिदुष्टा अर्थदुषा वाक्यार्थवलादश्लीलार्थप्रतिपत्तिकारिणः । यथा- 'छिद्रान्वेषी महान्स्तब्घोघातायैवोपसर्पति ।' कल्पनादुष्टा तु द्वयोः पदयोः कल्पना।
१. 'अपि तु' ग. २. 'उत्तं हि' ग. ३. 'सर्वदूषकत्वेनैव तेपां दोषत्वभित्यभिप्रायः। अपसिद्धान्तवि- ळसितमिदमनादृत्य सोलुण्ठनं पृच्छति-कि तर्हीति । तदा किमुपपन्नमित्यर्थः! उत्तरमाह-सर्वमिति। न्यककार इत्यादिवालयं निर्दोषत्वात्सर्वमेव काव्यं वृत्तं नत्वेकदेश इति। एतन्मतं दूषयति-तथाहीति। तथा सतीत्यर्थः । यद्वा वादिनो मतं दूषयितुं तन्वावार्थ विवृणोति-कि तहीति। किमिति प्रश्ने। तहिं दु :- श्रवत्वादीनां प्रादेशिकत्वेन दोषत्वानङ्गीकारे सर्वे काव्यं दूषयन्तः श्रुतिकट्वादयो दोषा इत्यर्थः । 'अप्रति- षिद्ध परवचनं संमतम् ।' इति न्यायेनास्मिन्नर्थे वादिन: संमतिमुन्नीय तन्मतं दूषयति-तथाहीति। का- व्यात्मभूतस्थेति तेषां श्रुतिकट्ादीनाम्। नाङ्गीक्रियते 'भवता' इति शेषः। रसव्यक्षकशब्दार्थसमुदायस्य काव्यत्वमवश्यं वाच्यं श्रुतिकट्वादीनां शब्दमात्रदूषकत्वेन रसव्यज्जकशब्दार्थसमुदायादूषकत्वभित्यभि प्रायः।' इत्यधिकं मुद्रितपुस्तके.
Page 57
१० साहित्यदर्पणे
किंचैवं काव्यं प्रविरलविषयं निर्विषयं वा स्यात्, सर्वथा निर्दो- षस्यैकान्तमसंभवात्। नन्वीषदर्थे नञः प्रयोग इति चेत्तर् 'ईषद्दोषौ शब्दार्थौ का- व्यम्' इत्युक्ते निर्दोषयोः काव्यत्वं न स्यात्। सति संभवे 'ईषद्दोषौ' इति चेत्, एतदपि काव्यलक्षणेडवाच्यम्। रतादिलक्षणे कीटानुवे- धादिपरिहारवत् नहि कीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुमीशाः व्यज्यमानो वार्थ आत्मा शरीरं यस्य तस्मिन् श्ङ्गारे एव ते हेया वर्जनीया इत्यन्व- यः। एवं च श्रुतिकट्टादीनां शरङ्गारमात्रे व्यङ्ञये दोषत्वं न तु कोपादिमिश्रिते श- झारे। तत्र दुःश्रवत्वादेर्गुणतादिति। नैनु सदोषवाक्यानां ध्वनिसत्त्वेऽपि काव्यत्वं नाङ्गीकरणीयमिति कथमुक्ताव्याप्यवसर इत्यत आह-किंचेति। ऐवं सदोषवाक्या- नां ध्वनिसत्त्वेऽपि काव्यतानङ्गीकारे भवदुक्तकाव्यलक्षणं प्रविरलविषयं स्वल्पलक्ष्यम्। अत्रेष्टापत्तावाह-निर्विषयमिति। निर्लेक्ष्यमित्यर्थः। एकान्तमिति। अत्यन्तमि- त्यर्थः । काव्यमात्रे यस्य कस्यापि दोषस्य सद्भावादिति भावः। ननु यदि सर्वत्रैव दोषः संभवति तदा ईषद्दोषौ शब्दार्थों काव्यमिति विवक्षणीयमित्यभिप्रायेण शेङ्क- ते-नन्वीषदर्थे नञ इति। 'अदोषावित्यत्र'इत्यादौ पूरणीयम्। यदि निपुण- तरकविना निर्दोषं काव्यं रचयितुं शक्यते तदा तत्रातिव्याप्तिं दर्शयंस्तहूषयति- तहीति। नज ईषदर्थलखीकारे इत्यर्थः । सति संभवे इति। दोषस्येत्यादि। एवं च सदोषाणां मध्ये ईषद्दोषावेव शब्दार्थों काव्यमित्यर्थकरणे बेलवद्दोषरहितत्वं फलितम्। तहूषयति-एतद्पीति । बलवद्दोषरहिततमपीत्यर्थः । रत्नादीत्या- दिपदेन सुवर्णादिग्रहणम्। कीटानुवेधादीत्यादिपनेन मलिनत्वादिपरिग्रहः । परिहारो रहितत्वम्। दृष्टान्तं विवृण्वन्प्रकृतमुपपादयति-नहीति । रत्नस्य रत्नादे रत्नत्वं
यथा-'ववुरिन्दीवरश्रेणिबान्धवाः-' इत्यादौ । श्रुतिकटस्तु-'अधाक्षीत्, अताप्सीत्, अजर्घर्ट' इत्यादि।'शङ्गार' इत्युचितरसोपलक्षणार्थम्। वीरशान्ताद्भुतादावपि तेषां वर्जनादा। 1. नन्वित्यादि। आहोपुरुषिकामात्रमिदम्। दोषाभावसत्तायां तु काव्यता निर्वा- वैवेति सदोषेतिप्रसक्तिवारणाय 'अदोषौ' इत्यभिहितम्। तत्र दोषात्यन्ताभावस्य दुरुपपा- दत्वात्काव्यत्वोपमर्दका ये प्रबलतरा दोषास्तद्रहितौ शब्दार्थों काव्यमित्यरथोऽल्पार्थकन- ज्स्वारस्यालभ्यते। एवं च क्वचिदनित्यदोषसत्त्वेऽपि काव्यत्वमव्याहतमेवेत्यर्थात्सिद्धम् । अत एव 'निःशेषच्युतचन्दनं स्तनतटं- इत्यादौ विधेयाविमर्शदोषसत्त्वेऽपि ध्वनिका-
. 'दुःश्रवत्वादीनाम्' इति मुद्रितपुस्तकपाठः. २. 'नन्वदोषावित्यनेन दोषरहितावेव शब्दार्थी लक्ष्यावित्यत आह-इति पुस्तकान्तरे पाठः. ३. 'न वाच्यम्' घ. 'काव्यलक्षणं कीटानुवेधपरि- हारवत्' क. ४. 'वेधे' ख. ५. 'एवं काव्यलक्षणेऽदोषत्वविशेषणसत्वे काव्यत्वं प्रविरलविषयं स्वल्पविषयम्' इति पुस्तकान्तरे पाठः ६. 'निर्लक्ष्यमित्यर्थः' इति क्वचिन्नास्ति. ७. 'काव्य-' इत्यादि: 'भावः' इत्यन्तः पाठो मुद्धितपुस्तके नास्ति. ८. 'आह' इति मुद्रितपुस्तकपाठ: ९. 'बलक- दोपर हितावित्यर्थः । संपद्यते' इति मुद्धितपुस्तकपाठः. १०. 'एतत्' इति मुद्रितपुस्तकपाठः
Page 58
प्रथम: परिच्छेदः । ११
किंतूपादेयतारतम्यमेव कर्तुम्, तैद्वदत्र श्रुतिदुष्टादयोऽपि काव्यस्य। उक्त्तं च-
'कीटानुविद्धरत्नादिसाधारण्येन काव्यता। दुष्टेष्वपि मता यैत्र रसाद्यनुगम: स्फुटः ॥' इँति।
रत्नादित्वं व्याहन्तुं व्यावर्तयितुम्। सव्यापकाभावप्रतियोगीकर्तुमिति यावत्। ईशाः स- मर्थाः। उपादेयतारतम्यमुत्कृष्टाद्वैलक्षण्यम्। अपकर्षमिति यावत्। 'कर्तुम्' इति 'ईशाः' इत्यनेनान्वितम्। अन्नापि काव्ये वर्तमाना अपि काव्यस्य काव्यत्वं व्याहन्तुं नेशाः, किंतूपादेयतारतम्यमेव कर्तुमित्यनेनान्वयः । साधारण्येन सामान्येन। ननु 'कन्ये कामयमानं मां न त्वं कामयसे कथम्' इत्यादेरपि काव्यत्वं स्यादित्यत आह-यत्रेति। रसाद्यनुगमो रसाद्युपलम्भ: स्फुटः बलवद्दोषजन्यवैरस्यातिशयानभिभूतः । तथा च उक्तस्थले ग्रम्यत्वादिरूपबलवद्दोषजन्यवैरस्यातिशयग्रस्तत्वाद्रसोपलम्भस्य न काव्य- वमिति भावः । 'अन्यत्र' इति पाठे अदुष्टेष्वित्यर्थः । रसाद्यनुगमो रसाद्युपलम्भः । स्फुट इति। दुष्टेषु यथा दोषोपलब्धिजन्यदुःखसंवलितस्तथा नेत्यर्थः । तथा चो- क्ताव्याप्तितादवस्थ्यमेवात्र दोष इति भावः । केचित्तु 'अदोषौ' इति च्युतसंस्कृत्य भवन्मतयोगक्किष्टतादयो ये शाब्दबोधविघटका दोषास्तत्सामान्याभाववन्तावित्यर्थः। एते रसबोधप्रतिबन्धकाः । दोषान्तरं तु काव्यापकर्षकम्' इत्याहुः । तन्न। व्यतिरेक- ध्वनेरुदाहरणे 'धेन्यासि या कथयसि प्रियसंगमेऽपि विश्रब्धचाटुकशतानि रतान्त- रेघु- नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि॥' इत्यत्र 'शपामि' इति च्युतसंस्कृतिदोषसत्त्वात् 'निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽघरो नेत्रे दूरमनञ्ञने पुलकिता तन्वी तवेयं तनुः ।' इत्यादावज्ञनस्यात्य- न्तासत्त्वबोधाभिप्रायेण प्रयुक्त्तस्य 'दूरं' इत्यस्य समासे गुणीभूतेन नवर्थेन सहान्वये- नाभवन्मतयोगत्वदोषसत्त्वाच्चाव्याप्तेः । अध्याहार्यक्रियान्वयेन तदुपपत्तावप्यभिमता- न्वयाभावेन तद्दोषतादवस्थ्यात्। काव्यप्रकाशकारेणैवानयोरुत्तमकाव्यत्वखीकारात्। 'अद्टष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता॥ नादृष्टेन न दृष्टेन भवता लभ्यते सुखम्॥' इत्यस्फुटाख्य गुणीभूतव्यङ्गयोदाहरणे पूर्वार्धे भवच्छब्दार्थान्वयासंभवरूपाभवन्मतयो- गसत्त्वाच्चाव्याप्तेः। 'नादृष्टे च न दृष्टे च भवति प्राप्यते सुखम्' इति पाठो युक्तः । नन्व- दोषाविति काव्यप्रशंसार्थमुक्क्तं न तु तल्लक्षणघटकमिति कथमुक्ताव्याप्यवसर इत्यतो
व्यता जागरूकैव। नहीषद्दोषावित्यनेन निर्दोषयोः काव्यत्वं व्यवच्छिद्यते सदोषयोवा ल- भ्यत इति केनापि सचेतसावधारयितुं पार्यते। निर्दोषयोः स्वतः काव्यत्वे सदोषयोर्लक्ष- णघटकासंभवत्वे कुत्रचिदीषद्दोषयोरेव तथात्वेन क्रोडीकरणात्।
१. 'तथात्र' ख. २. 'अन्यत्र' ख. ३. 'इति' ग-पुस्तके नास्ति. ४, 'ननु कन्ये' इत्यादिः 'अदुष्टे- ध्वित्यर्थः' इत्यन्तः पाठः पुस्तकान्तरे नोपलभ्यते. ५. 'धन्यासि या कथयसीत्यादौ' इति मुद्रितपुस्त- कपाठः ६. 'काव्यप्रकाश-' इत्यारभ्य 'पाठो युक्तः' इत्यन्तं पुस्तकान्तरे नास्ति.
Page 59
१२ साहित्यदर्पणे
किंच शब्दार्थयोः सगुणत्वविशेषणमनुपपन्नम्। गुणानां रसै- कधर्मत्वस्ये 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मन' इत्या- दिना तेनैव प्रतिपादितत्वात्। रसाभिव्यञ्जकत्वेनोपचारत उपपद्यत इति चेत्, तथाप्ययुक्तम् । तथाहि-तयोः काव्यस्रूपेणाभिमतयोः शब्दार्थयो रसोऽस्ति, न वा। नास्ति चेत्, गुणवत्त्वमपि नास्ति । गु- दोपान्तरमाह-किंचेति। तेनैव 'तददोषौ-' इति लक्षणकृतैव रसाभिव्यञ्ञ- कत्वेन खाश्रयरसाभिव्यञ्कत्वेन। उपचारतः परम्परासंबन्धेन। केचित्तु 'इदं च अ्रन्थकृतारोपबीजानवधानादेवोक्त्तम्। तथाहि-परम्परासंबन्धघटकस्य मध्यभू- तसंबन्धिनो बहिरिन्द्रियप्रत्यक्षे सत्येव नैवमारोपः यत्र तु परम्पराघटकमध्यभूत- संबन्धी न बहिरिन्द्रियप्रत्यक्षस्तत्र त्वेवमारोपो दृश्यत एव। यथा-'शीतो वायुः, उष्णं जलम्, सुगन्धिवायुः' इत्यत्र परम्परासंबन्धघटकानां मध्यभूतजलामि- पुष्पावयवानां सूक्ष्मत्वेनाप्रत्यक्षतात्तादृशारोपः । प्रकृते तु बहिरिन्द्रियप्रत्यक्षस्य रसादे: परम्परासंबन्धघटकलान्न संभवत्येव गुणत्वारोपः शब्दार्थयोरिति। अत एवोचै: शब्दलवत्तारत्वचदाकाशमिति नारोपः । तत्र परम्परासंबन्धघटकस्य शब्दस्य बहिरि- न्द्रियप्रत्यक्षलात्। न चैवं 'ज्ञानतववानात्मा' इत्यारोपापत्तिः तत्र परम्पराघटकस्य मध्यभूतस्य ज्ञानस्य बहिरिन्द्रियाप्रत्यक्षत्वादिति वाच्यम्। यदि च तादृशारोपो नास्ति तदा कारणान्तराभावस्यैव तत्र कल्पनीयलात्। अत एवोदयनाचार्येणोक्तम्-'अरोपे सति निमित्तानुसरणं नतु निमित्तमस्तीत्यारोपः'। यत्तु जवाकुसुमस्य बहिरिन्द्रियप्रत्य- क्षत्वेऽपि लोहित: स्फटिक इत्यारोपस्तत्र जवाकुसुमं नेदृशपरम्पराघटकं जवाकुमुमस्य स्फाटिकावृत्तिलात्। किंतु जवाकुसुमस्य स्वच्छद्रव्यसान्निध्यमेव तद्रहितं पृथगेवारोप- निमित्तमिति सुधीभिरवधेयम्' इत्याहुः। तन्न। स्थूलजलसंयोगेन शीतो वायुः, अर्कोप- लसंयोगेन उष्णं जलमित्यादौ स्थूलजलार्कोपलसंयोगघटितयोः परस्परयोर्मध्यपदार्थयोः स्थूलजलार्कोपलयोर्बहिरिन्द्रियप्रत्यक्षत्वेऽपि विशिष्टधीनियामकत्वेन संबन्धत्वाङ्गीका- रात्। चिदानन्दचमत्कारमयस्य रसस्य बहिरिन्द्रियप्रत्यक्षाविषयत्वेन तद्धटितपरम्प- राया: संबन्धत्वाङ्गीकारे बाधाभावाच्च। वस्तुतस्तु यत्र परम्परया विशिष्टवीनियामकत्वं तत्रैव तस्या: संबन्धतं कल्प्यते। यत्र तु विशिष्टधीनियामकतवं तत्र तु संबन्धत्वं न कल्प्यत एव। तेन 'ज्ञानत्ववानात्मा' इत्यादौ खवसमवायिसमवायस्य न संबन्धत्व- मिति। रसोऽस्तीति । रसोऽवश्यमस्तीत्यर्थः । गुणवत्त्वमपि नास्तीति। 1. सगुणत्वमिति । अत्रेदमाकृतम्-निर्गुणेडतिव्याप्तिवारणाय सगुणावित्युक्तम्। गुणानां रसैकनिष्ठत्वेऽपि परम्परया तदभिव्यञ्ञकशब्दार्थनिष्ठत्वमिति भावः। अत एवा- ष्टमोलासे 'गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता' इत्यभिहितम्। तथा सत्येव मधुरः शब्द: मधुरोडर्थ इत्यादिव्यवहारः संगच्छते॥ १. 'रसैकधर्मत्वात्' ख. २. 'केचित्तु इत्यादि: 'स्वसमवायिसमवायस्य न संबन्धत्वमिति' इत्यन्तः पाठः पुस्तकान्तरे न दृश्यते.
Page 60
प्रथम: परिच्छेदः । १३
णानां तदन्वयव्यतिरेकानुविधायित्वात्। अस्ति चेत्, कथं नोक्तं रस- वन्ताविति विशेषणम्। गुणवत्त्वान्यथानुपपत्त्यैतल्लम्यत इति चेत्, तर्हि सरसावित्येव वत्तुं युक्तम्, न सगुणाविति। नहि प्राणिमन्तो देशा इति वक्तव्ये शौर्यादिमन्तो देशा इति केनाप्युच्यते। ननु 'शब्दार्थौ स- गुणौ' इत्यनेन गुणाभिव्यञ्जकौ शब्दार्थो काव्ये प्रयोज्यावित्यभिप्राय इति चेत्, न । गुणाभिव्यञ्जकशब्दार्थवत्त्वस्य काव्ये उत्कर्षमात्रा- धायकत्वम्, न तु स्रूपाधायकत्वम्। उक्त्तं हि-काव्यस्य शब्दार्थौ शरीरम्, रसादिश्चात्मा, गुणाः शौर्यादिवत्, दोषा. काणत्वादिवत्, रीत- योऽवयवसंस्थानविशेषवत्, अलंकारा: कटककुण्डलादिवत्, इति। एतेन 'अनलंकृती पुनः क्वापि' इति यदुक्तम्, तदपि परास्तम्। अस्यार्थ :- तथा च भवदुक्ते 'शब्दचित्रं वाच्यचित्रमव्यङ्ञयं त्ववरं स्मृतम्' इति तृतीयकाव्यप्रका- रेऽव्याप्तिः। नन्वत्रालंकारसत्त्वेनैव काव्यतमिति चेत्तर्हि 'सालंकारौ' इत्येव वक्तुं युक्तं किमव्याप्तिघटकेन 'सगुणौ' इत्यनेनेति भावः । तद्न्वयेति। रसान्वयेत्यर्थः। रसे सति गुणस्य रसाभावे सति गुणाभावस्यावश्यं सत्त्वादित्यर्थः । शब्दार्थचित्रयोः काव्यलाखीकारे लाह-अस्ति चेदिति। कथमिति। ननु रसगुणयोः समनिय- तत्वादेकतरोक्तौ प्रकृतनिर्वाहो भवतीति को दोष इति चेतू, न। माधुर्यादित्रितय- साधारणस्य गुणत्वस्यैकस्याभावादननुगमस्य संभवात्। 'रसवन्तौ' इत्युक्ते तु भावा- दिसाधारणस्याखण्डस्यास्वादविषयताविशेषस्य रसत्वस्वीकारान्नाननुगम इति भावः । ननु गुणपदेन लक्षणया रसोपस्थितिरित्यभिप्रायेणाह-गुणवत्वेति। एतच्च श- क्यसंबन्धज्ञापनाय। एतल्भ्यते 'रसवन्तौ' इति विशेषणं लभ्यते। रूढिप्रयोज- नाभावाल्लक्षणात्र न संभवतीत्यभिप्रायेण दूषयति-तर्हीति। ननु दृष्ान्ते रूढि- प्रयोजनाभावाल्लक्षणा न संभवतु। प्रकृते तु काव्ये गुणाभिव्यञ्जकशब्दार्थप्रयोगो- पदेश एव प्रयोजनमस्तीति कथं लक्षणाया असंभव इत्यभिप्रायेण शङ्कते-न- न्विति। न तु सरूपाधायकत्वं तक्व्यतिरेकेणापि काव्यत्वसंभवादिति शेषः । तदेवोपपादयति-उक्त हीति। 'शब्दार्थौं' इति सामान्यत एवोक्तं न तु गुणाभि- व्यञ्जकशब्दार्थाविति। 'रसादिः' इत्यादिपदेन रसाभासभावतदाभासभावशान्तिभा- वोदयभावसंधिभावशबलत्ादीनां ग्रहणम्। गुणा वक्ष्यमाणा माधुयौजःप्रसादाः । दोषा: श्रुतिदुष्टापुष्टत्ादयः । रीतयो वैदर्भींगौडीपाश्चलीलाट्यः । अलंकारा अनु- प्रासोपमादयः। एतेन वक्ष्यमाणहेतुना यथाश्रुते दूषणं न संभवतीति तदर्थ परि- ष्करोति-अस्यार्थ इति। अत्र भवदुक्तकाव्यलक्षणे सप्तम्यर्थो घटकत्वं भवदुक्त- १. 'शौर्याद्य इव' ध. २. 'काणत्वखञ्जत्वादिवत्' क. ३. 'अस्य ह्यर्थः' क-ख. 8. 'यत्र रसो नास्ति तत्राव्याप्तिरिति भावः' इत्येव मुद्रितपुस्तके पाठः. 'भवदुक्ते-' इत्यादि: 'भावः' इत्यन्तः पाठस्तु तत्र टिप्पणीभूतो दृश्यते. ५. 'तु' इति मुद्रितपुस्तके नास्ति. सा० द० २
Page 61
१४ साहित्यदर्पणे
सर्वत्र सालंकारौ क्वचित्त्वस्फुटालंकारावपि शब्दार्थौ काव्यमिति। तत्र सालंकारशब्दार्थयोरपि काव्ये उत्कर्षमात्राधायकत्वात्। एतेन 'वक्रोक्ति: काव्यजीवितम्' इति वक्रोक्तिजीवितकारोक्तमपि परास्तम्। चक्रोक्तेरलंकाररूपत्वात्। यत्तु क्वचिदस्फुटालंकारत्वे उदाहृतम्- 'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥।' इति। काव्यलक्षणघटकयोः सालंकारशब्दार्थयोः उत्कर्षाधायकत्वात् उत्कर्षमात्राधायकलवान्न स्वरूपाधायकत्वमित्यर्थः । एतेन उत्तहेतुना वैका विचित्रा उक्तिर्वक्रोक्तिः। वैचि- त्र्यमलंकार इति सामान्यलक्षणमित्यभिप्रायः । यः कौमारहर इति। रेवातीरे वेतसीतले कृतक्रीडायास्तत्क्रीडास्थानं प्रत्युत्सुकतावर्णनमिदम्। विवाहेन कौमारं अनूढात्वं हरत्यपनयतीति कौमारहरः वरोऽभिमतः । एतेन श्रीमतः सुरतचतुरस्य पत्युः सत्त्वं प्रतिपादितम्। तदुक्तम्-'श्रीमान्सुरतदक्षश्व योषितां संमतः पुमान्' इति। एकार्थयोः 'एव हि'शब्दयोरुपादानमुपपतेरत्यन्तासंभवित्वसूचनाय। एतेनो- पपत्यसंनिधानस्य स्वोत्कण्ठाकारणतं वारितम्। अत्रापि तत्तद्रतिकारणमस्तीत्याह- ता एवेति। यासु तत्र क्रीडनं कृतं तत्सजातीया एवेत्यर्थः । मालती वासन्तिकी जातिः । प्रशस्तमूढं गमनं येपां ते प्रौढाः । 'अनुकूलो वहन्वायुः-' इत्यादौ 'वह'धातोर्गमनार्थता प्रसिद्धा। वायुगमनस्य प्राशस्त्यमत्र मान्यम्। प्रौढवायोः स्मरो- द्दीपकत्वाभावाद्यथाश्रुतार्थत्यागः। अथवा यथा-'महापण्डितः सत्कविः' इत्यादौ महत्त्वसत्त्वादिकं पाण्डित्यकवित्वादावन्वेति, तथात्र प्रौढतं सौरभेऽन्वेति, तच्चोत्कट- लम्। यद्वा 'ग्रौढा:' इति सखीनां संवोधनम्। सुरतचतुरा इति तदर्थः । कदम्बा- निला: धूलीकदम्ववायवः । चैत्रे तस्यैव संभवात्। केचित्तु-'कदम्बानिलाः कदम्ब- वनानिलाः, वनानिलानां प्रौढत्वे वनवहिर्भूतानां मान्योपलम्भादुद्दीपकत्वेनाह-'प्रौढाः' इति व्याचकुः, तन्न। तथात्वे कदम्बपर्यन्तानुधावनस्य निष्प्रयोजनलात् 'अरण्या- निलाः इत्यनेनैव तद्थलाभात्। न च मालतीसंबन्धेनैव अनिलानां सौगन्ध्यलाभा- त्कदम्बसंबन्धदर्शनं व्यर्थमिति वाच्यम्, विलक्षणसौगन्ध्यलाभाय तस्य सार्थकलवात्। यथा-'रमणीकमनीयकपोलतले परिपीतपटीररसैरलसः। अयमश्चति पञ्चशरानु- चरो नवनीपवनीधुवनः पवनः ॥' नवेति नवपुष्पितेत्यर्थः । अत्र चन्दनसंबन्धेन सौगन्ध्यलाभेऽपि विलक्षणसौगन्व्यलाभाय कदम्बसंबन्धदर्शनम्। सा चैव तदव- स्थैव। तथापि तादृशसुरतसामग्रीसत्वेऽपि। सुरतव्यापारलीलाविधौ सुरतव्यापार- लीलाविधाननिमित्तम्। विभावनाविशेषोक्तिमूलस्य विभावनाविशेषोक्तिनिरूपितस्य १. 'कारमत ख. २. 'यच्च' क-ख. ३. 'अपि' इत्यधिक: पाठः ख-पुस्तके. ४. 'वक्रा-' इत्यादिः -पायः' इत्यन्तः पाठः पुस्तकान्तरे नास्ति.
Page 62
प्रथम: परिच्छेदः । १५
ऐतच्चिन्त्यम्। अत्र हि विभावनाविशेषोक्तिमूलस्य संदेहसंकरालं- कारस्य स्फुटत्वम् एतेन- संदेहेन संदेहविषयत्वेन संकरो मेलकः । उत्कण्ठायाः पत्याद्यभावरूपकारणं विना उत्कण्ठारूपकार्यकथनमितीयं विभावना, किंवा उत्कण्ठाभावस्य कारणसत्त्वे तस्याः कथनमिति विशेषोक्तिरिति संदेहासंदेहसंकरालंकारोऽयम्। विभावनायां कारण- विरुद्धसद्भावमुखेन कारणाभावः । विशेषोक्तौ कार्यविरुद्धसद्भावमुखेनैव कार्याभावः प्रतीयते, न लभावबोधकनजेति तयोरस्फुटतम्। तदुभयकोटिकत्वेन संदेहस्य सुत-
- एतदिति। अन्रेदं तत्त्वम्-इह 'हरो वरः-' इत्याद्यनुप्रासस्य स्फुटस्यापि प्रकृ- तशङ्गाररसप्रतिकूलवर्णघटितत्वेन नालंकारता। विशेषोक्तिविभावने विद्यमाने अपि न स्फुटे। कथमिति चेत्, इत्थम्-विशेषोक्तिस्तावत्कारणसत्वेऽपि कार्याभावकथनम्। अत्र चानुत्कण्ठाकारणं वरोपकरणयोरुपभुक्तता। तत्सत्वे यद्यप्यनुत्कण्ठाभाव उत्क- ण्ठारूपो निर्दिष्ट एव, तथापि नानुत्कण्ठाभावत्वेन, किंतूत्कण्ठात्वेनैव। तस्मादस्फुटत्व- मस्याः। यदि चेतोऽनुत्कण्ठितं नेत्यभिधीयेत तदा स्फुटत्वं भवेत्। एवं कारणाभावेऽपि कार्योत्पत्तिकथनं विभावना। तत्र चोत्कण्ठाकारणं वरोपकरणयोरतत्ता। तदभावश्च यद्यप्युक्त एव तथापि नातत्ताविरहृत्वेन, किंतु तत्तारूपेणैव। अभावाभावस्य तत्वात्। अतोऽस्या अस्फुटत्वमेव। न च स एवेत्येवकारेणातत्वाभावप्रतीतेरतत्ताभावत्वेन प्रतीतौ कथमस्फुटत्वमिति वाच्यम्। विशेषणसंगतेनैवकारेण विशेष्ये विशेषणायोगस्य व्यव- च्छेदो हि प्रत्याय्यते, न तु विशेषणाभावाभाव एवाहृत्य। पर्यवसानं तु तत्रेत्यस्फु- टत्वमेव। एवं विशेष्यसंगतेनाप्येवकारेण विशेष्यभिन्ने विशेषणाभाव एव नाहत्य प्रत्या- य्यते, किंतु विशेषणयोगा भाव इति द्रष्टव्यम्। अत एव 'शङ्ः पाण्डुर एव' इत्यादौ 'नापाण्डुरः', 'पार्थ एव धनुर्धरः' इत्यादौ च 'नान्यो धनुर्धरः' इत्यादिः कदाचित्स्फुट- त्वार्थ प्रयुज्यते। दण्ड्यप्याह-'त्वन्मुखं त्वन्मुखेनव तुल्यं नान्येन केनचित्' इति। अन्यथा पुनरुक्तिस्तत्र स्यादिति। अनयोरस्फुटत्वे च संदेहरूपसंकरोऽप्यनयोरस्फुट इति विभावनीयम्। न चास्मीति क्रियाया विभक्तिविपरिणामेन सर्वत्र वरादावन्वयेन क्रियादीपकमेव स्फुटमिति वाच्यम्। अस्मीत्यहमर्थकाव्ययत्वात् क्रियापदत्वेऽपि न दीपक- त्वम्। तदन्वयिनां सर्वेषामेव प्राकरणिकत्वात्। दीपकस्य तु प्राकरणिकाप्राकरणिक- विषयत्वात्, विभक्तिविपरिणामकल्पनाया एवास्फुटात्मकत्वाच्च। एवकारस्याभेदपरत्वे- नेतरनिषेधपरत्वायोगाच्च न परिसंख्या। वरादीनां गुणक्रियायौगपद्याभावान्न समुच्चयः । वरादीनामुपमानोपमेयभावाभावान्न तुल्ययोगिता। सद्ृशदर्शनाप्रयोज्यत्वाच्च 'स एव हि-' इत्यादेः प्रत्यभिज्ञाशरीरत्वाच्च न स्मरणालंकारः । यतः सुरभयोऽतः प्रौढाः स्वकार्य- समर्था इति काव्यलिङ्गमप्यस्फुटम्, अशाब्दत्वात्। श्रृङ्गाररूपरसस्य स्फुटत्वाद्रसव- दलंकार: स्फुट इति चेत्, न। रसस्यात्र प्राधान्यात्। अप्राधान्य एव तस्यालंकार- त्वोपगमाद। एतेन 'अनलंकृती पुनः क्वापि' इति यदुक्तम्, तदपि निर्बाधम् ॥
१. 'हि' इति पाठः क-ग-पुस्तकयोर्नारिति,
Page 63
१६ साहित्यदर्पणे
'अदोषं गुणवत्काव्यमलंकारैरलंकृतम्। रसान्वितं कविः कुर्वन्कीर्ति प्रीतिं च विन्दति ॥' इत्यादीनामपि काव्यलक्षणत्वमपास्तम्। यत्तु ध्वनिकारेणोक्तम्- 'काव्यस्यात्मा ध्वनिः-' इति, तत्क वस्त्वलंकाररसादिलक्षणस्त्रि- रूपो ध्वनिः काव्यस्यात्मा। उत रसादिरूपमात्रो वा। नादः। प्रहे- लिकादावतिव्याप्तेः । द्वितीयश्चेदोमिति ब्रूमः । ननु यदि रसादिरूप- मात्रो ध्वनिः काव्यस्यात्मा, तदा-
रामस्फुटलमिति चेत् 'सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले' इत्यत्र रेफा- नुप्रासस्य स्फुटतं प्रतीहि 'रणौ लघू' इत्यनेन तस्य माधुर्यव्यज्जकत्वमुपपादितम्। तेन च रसोपकारतया तस्यालंकारत्वमव्याहतमेव। 'लघू' इत्यस्य असंयुक्तावित्यर्थ इति व्याख्यातव्यम्। केचित्तु-'रेवातीरे वेतसीतले कृतसंकेताया नायिकाया गृहे स्वयं परामर्शोऽयम्-यः कौमार इति। स एव हि वरः स वर एव विलक्षणर- तिसमर्थ एव। एवं च रसस्य प्रधानतवान्नालंकारत्वमिति काव्यप्रकाशोक्तौ रसस्य रसाभासस्येत्यर्थः । रतेरुपपतिगोचरत्वेन रसाभासस्यैव संभवात्' इत्याहु तन्न। व्यञ्जकाभावादुपपतेरत्रालाभातू। वक्तृवैशिष्यमेवात्र व्यञ्जकमिति चेतू, न। वक्त- स्तादृशवैशिष्ट्ये मानाभावात्। प्रत्युत 'स एव हि वरः' इत्यनेनैवोपपतिरतेरत्यन्तासं- भवित्वमुक्तम्। एतेनोक्तदोषसमूहेन। अदोषमित्यादि। निर्दोषस्य सगुणालं- कारस्य सरसस्य काव्यस्य प्रशंसापरमिति भावः । यच्विति। त्रिरूपः त्रिप्रकारः । प्रहेलिकादाविति। 'तरुण्यालिद्गितः कण्ठे नितम्बस्थलमाश्रितः । गुरूणां संनि- धानेऽपि कः कूजति मुहुर्मुहुः ॥' इत्यादावित्यर्थः । अत्र किंचिदूनजलकलशरूपं
- काव्येति। 'काव्यस्यात्मा ध्वनिरिति वुधैर्यः समाम्नातपूर्वस्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये। केचिद्ाचां स्थितमविषये तत्त्वमूचुस्तदीयं तेन ब्रूमः सहृदयमनः- प्रीतय तत्स्वरूपम् ।I' इति ध्वनिकारिका। अन्ये तं ध्वनिसंश्ञितं काव्यात्मानं गुणवृत्ति- रित्याहुः। शेपं नातितिरोहितम् ॥
१ ग-पुस्तके तु पाटक्म एवं दृश्यते-'एतेन 'वक्रोक्ति :- ' इत्यादिः '-रूपत्वात्' इत्यन्तः पाठो नास्ति. ततः 'एतेन 'अदोपं-' इत्यारभ्य '-अपास्तम्' इत्यन्तः पाठो दृश्यते. ततः 'यत्तु-' इत्यारभ्य '-संदेहसंकरालकारस्य स्फुटत्वम्' इत्यन्तः पाठो वर्तते. पश्चात् 'अत्र यज्ञयन्तेनोक्तं विभावनाविशे- पोत्तयो: परिपूर्णात्मलक्षणाभावान्न तन्मूलः सदेहसंकर इति। न हि निश्शेपकारणाभावे कार्योत्पत्तो विमा- वनायाः पूर्णत्वम्, किंतु प्रसिद्धकतिपयकारणनिषेधेऽपि विभावनायाः पूर्णता स्यात्। नापि निशेपकारण- सामय्या कार्यानुत्पत्तौ विशेषोक्त: पूर्णत्वम्, अपि तु प्रसिद्धकतिपयकारणसामय्रयां कार्यानुत्पत्तिकथनमा- श्रेणापि पूर्णता। अन्यथा विभावनाविशेपोक्ती उच्छिद्येताम्। ततश्च उक्तप्रकारेणापि विचित्रोक्तिनिर्वाहा- दुक्त्तवैचित्र्यस्यैवालकारभूमित्वादतः परिपूर्णयोरेव तयोः साधकबाधकममाणाभावात्तन्मूलः स्फुटः संदेह- संकर इति।' इत्धिकः पाठो लभ्यते. अन्यत्समानम्. २. 'तत्र नादः' इति मुद्रितपुस्तकपाठः ३. 'रसादिमात्ररूप एव' इति मुद्रितपुस्तकपाठ :.
Page 64
प्रथम: परिच्छेद:। १७
'अत्ता एत्थ णिमज्जइ एत्थ अहं दिअसअं पलोएहि। मा पहिअ रत्तिअन्धिअ सज्जाए मह णिमज्जहिसि ॥' इत्यादौ वस्तुमात्रस्य व्यङ्गयत्वे कथं काव्यव्यवहार इति चेत्, ने। अन्रापि रसाभासवत्तैवेति ब्रूमः । अन्यथा 'देवदत्तो ग्रामं याति' इति वाक्ये तद्त्यस्य तदनुसरणरूपव्यङ्ग्यावगतेरपि काव्यत्वं स्यात्। अस्त्विति चेत, न । रसवत एव काव्यत्वाङ्गीकारात्। काव्यस्य प्रयो- जनं हि रसास्वादमुखपिण्डदानद्वारा वेदशास्त्रविमुखानां सुकुमारमतीनां राजपुत्रादीनां विनेयानां रामादिवत्प्रवर्तितव्यम्, न रावणादिवदित्या- दिक्ृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेश इति चिरंतनैरप्युक्तत्वात्। तथा चाये- यपुराणेऽप्युक्तम्-'वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम्' इति।
वस्तु व्यङ्ञयम्। ओमिति स्वीकरोमि। अत्ता इत्यादि । 'श्वश्रूरत्र निमज्जति अत्राहं दिवसकं प्रलोकय। मा पथिक रात्र्यन्व शय्याया मम निमह्यसि ॥' इति संस्कृतम्। रात्र्यन्धकत्वेन कथितात्मानं पथिकं प्रति स्वयं दूत्या उक्तिरियम्। अत्ता श्वश्रूः। निमज्जति निममा मृतप्राया तिष्ठति। वस्तुमात्रस्य सवशय्यामात्रप्रवेशरूपवस्तुन एव रतेरुपपतिविषयलादत्र शरङ्गाराभासः । वस्तुतस्तु रसाद्यसंकीर्णवस्त्वलंकारध्वनेः काव्यप्रकारमध्ये निर्वचनस्योन्मत्तप्रलपिततप्रसङ्गभयेनासाद्यव्यङ्गयमात्रस्य काव्यात्म- लमवश्य वाच्यम्। एवं च प्रकृते व्यङ्ञ्यवस्तुरचनासाद्यतया तेनापि काव्यव्यवहारो भवितुम्हति। आख्वाद्यत्वं चाह्लादसंवलितप्रतीतिविषयः । अन्यथा वस्तुमात्रस्य व्यङ्ञयत्वेऽपि काव्यतस्वीकारे। नीरसस्य काव्यलाखीकारे हेतुमाह-काव्यस्य प्रयोजनं हीति। 'रसास्ादसुखपिण्डदानद्वारा' इति पाठे पिण्डं समूहः । रसा- स्वादसुखसंतानद्वारेत्यर्थः । मुखेति पवर्गपश्चमादिपाठे मुखपिण्डं लोभद्रव्यम्। विने- यानां कृत्याकृत्यज्ञापनीयानाम्। तथा च शब्दप्रधानेषु वेदेषु अर्थप्रधानेषु पुरा- णेतिहासादिषु चायासबहुलेषु विमुखानां सुकुमारमतीनां हि गुणीभूतशब्दार्थेषु रसा- स्ादप्रधानेषु प्रथमं तावद्रसासादमुखोद्देशेन प्रवृत्तिस्ततः काव्यार्थानां कृत्याकृत्यप्र- वृत्तिनिवृत्त्युपदेशपरतावधारणमिति भावः । तदुक्तम्-'खादुकाव्यरसोन्मिश्रवाक्या- र्थमुपभुख्जते ।. प्रथमालीढमधवः पिबन्ति कटु भेषजम् ॥' इति। वाक्यार्थ काव्यस्य परमतात्पर्यार्थमुपभुज्जते आखादयन्ति। वाग्वैदृग््येति। वाचो वैदग्व्यं वैचित्र्यं
१. 'न' क-ग-पुस्तकयोनीस्ति. २. 'गच्छति' क. ३. 'सुख' क-ख-ग. ४. 'द्वारेण' क-ख-ग-घ. ५. 'अप्युक्तम्' क ख-पुस्तकयोर्नास्ति. ग-पुस्तके तु 'तथाचा-' इत्यादिः '-इति' इत्यन्तः पाठ एव नास्ति. ६. सुद्रितपुस्तके तु 'वस्तुतस्तु-' इत्यादे: '-संवलितप्रतीतिविषयः' इत्यन्तस्य पाठस्य स्थाने 'वस्त्वलंकारध्वन्योः काव्यात्मभावेऽपि काव्यप्रभेदकथनप्रकरणे तयोरुपादानं रसादेरुत्कर्षकत्वेन काव्यमे- दकत्वादित्यवधेयम्' इति दृश्यते.
Page 65
१८ साहित्य दर्पणे
व्यक्तिविवेककारेणाप्युक्तम्-'काव्यस्यात्मनि सङ्गिनि रसादिरूपे न कस्यचिद्विमतिः इति। ध्वनिकारेणाप्युक्तम्-'नहि कवेरिति- वृत्तमात्रनिर्वाहेणात्मपेदलाभः । इतिहासादेरेव तत्सिद्धेः' इत्यादि। ननु तर्हि प्रबन्धान्तर्वर्तिनां केषांचिन्नीरसानां पैद्यानां काव्यत्वं न स्यादिति चेत्, न। रसवत्पद्यान्तर्गतनीरसपदानामिवँ पद्यरसेन प्रब- न्घरसेनैव तेषां रसवत्ताङ्गीकारात्। यत्तु नीरसेष्वपि गुणाभिव्यञ्जक- वर्णसद्भावाद्दोपाभावादलंकारसद्भावाच्च काव्यव्यवहारः स रसादिम- त्काव्यबन्धसाम्याद्वौण एव। येत्तु वामनेनोक्तम्-'रीतिरात्मा का- व्यस्य' इति, तन्न। रीतेः संघटनाविशेषत्वात् । संघटनायाश्चावयव- संस्थानेरूपत्वात्, आत्मनश्र तद्धिन्नत्वात् । यच्च ध्वनिकारेणोक्तम्- 'अर्थः सहृदयश्ाव्यः काव्यात्मा यो व्यवस्थितः । वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ।I' इति।
प्रधानं यत्र तस्मिन्। एवकारेण अलंकारादिव्यवच्छेदः। अन्र काव्ये। जीवितं जीव- नावायकम्। स्विनि अवश्यंस्थायिनि। विमतिरखरसः । इतिवृत्तं नीरसवाक्य- प्रवन्धः । आत्मपदलाभः खवाचककाव्यशव्दप्राप्तिः । कविसंबन्धिप्रबन्धत्वेनैव काव्यशब्दप्रयोगो नास्तीति भावः । इतिहासादेभीरतादेः। आदिना रघुवंशादिपरि- ग्रहः। तत्सिद्धेः काव्यपदप्राप्तिसिद्धेः। वीरादिरसप्रबन्धानां भारतादीनां सुतरां काव्य- संज्ञालाभ इति भावः। तर्हि रसवत एव काव्यतखीकारे। पद्यानामिति गद्यानामुपल- क्षणम्। 'गद पद्यं च मिश्रं च तत्रिधैव व्यवस्थितम्' इत्यनेन गद्यस्यापि काव्यत्वस्वी- कारात्। तेपां नीरसपद्यानां व्यअकप्रतिपाद्यप्रतिपादकसंबन्धेन रसवत्त्वमिति भावः। 'यत' इत्यव्ययं 'यः' इत्यर्थे। नीरसेषु 'चन्द्रे शरन्निशोत्तंसे कुन्दस्तबकविभ्रमे। इन्द्रनीलनिभं लक्ष्म संदधात्यलिनः थ्रियम् ।' इत्यादिधु संघटनाविशेषलाद्गुणा- भिव्यअकशव्दविन्यासरूपलात्। ननु रीतेः संघटनाविशेषरूपत्वेऽपि काव्यात्मल- सवीकारे को दोष इत्यत आह-संघटनायाश्चेति। काव्यशरीरस्य वाक्यस्याव- यवा: पदानि तेपां संस्थानं समुचितस्थाने निवेशस्तद्रूपत्वादित्यर्थः । तद्भिन्नत्वादवय- 1. उक्तमिति। ध्वन्यालोकस्य तृतीयोद्योते 'विभावभावानुभाव- इत्यादिकारिकाणां व्याख्यानावसरे॥ 2. अर्थ इति। शब्दार्थशरीरं तावत्काव्यम्। तत्र शरीरग्रहणादेव केनचिदात्मना तदनुप्राणकेन भाव्यमेव। तत्र शब्दस्तावच्छरीरभाग एव संनिविशते। सर्वजनसंवेध- १. 'पद' क-ख-ग-पुस्तकेपु नास्ति '-निर्वहणेन किंचित्मयोजनम् । इतिहासादेव तत्विद्धेः' इति- वधन्यालोकस्थः पाठः २. 'पद्याना' क-पुस्तके नास्ति. ३. 'इव' ग-पुस्तके नास्ति. ४. 'यच्च' ग. ५. 'विशेष' इत्यधिक: क-पुस्तके.
Page 66
प्रथम: परिच्छेदः । १९
अत्र वाच्यात्मत्वं 'काव्यस्यात्मा ध्वनिः-' इति खवचनविरोधा- देवापास्तम्। तत्किस्वरूपं काव्यमित्युच्यते- वाक्यं रसात्मकं काव्यं
वसंस्थानभिन्नत्वात्। सहृदयश्लाव्यः सहृदयानां हृदयंगमः । प्रतीयमानो व्यङ्ञ्यः । तदिति। उक्तलक्षणस्य दूषिततादित्यर्थः । किमिति। किंसरूपमित्यर्थः। वाक्य- धर्मत्वात्स्थूलकृशादिवत्। अर्थः पुनः सकलजनसंवेद्यो न भवति। न हयर्थमात्रेण काव्य- व्यपदेशः । लौकिकवैदिकवाक्येपु तदभावात्। तदाह-सहृदयश्राध्य इति स एक एवार्थों द्विशाखतया विवेकिभिर्विभागबुद्धयाभियुज्यते। तथाहि-तुल्येऽर्थरूपत्वे किमिति कस्मै- चित्सहृदयः शाघते। तद्भ्वितव्यं केनचिद्विशेषेण। यो विशेषः स प्रतीयमानभागो विवेकिभिर्विशेपहेतुत्वादात्मेति व्यवस्थाप्यते। वाच्यसंकलनाविमोहित हृदयैस्तु तत्पृथग्भावो विप्रतिपद्यते। चार्वकरिवात्मपृथग्भावः। अत एवार्थ इत्येकतयोपक्रम्य सहृदयक्राध्य इति विशेपणद्वारा हेतुमभिधायापोद्धारणद्ृशा तस्य दौ भेदावंशावित्युक्तम्। नतु द्वाव- प्यात्मानौ काव्यस्येति॥ 1. वाक्यमिति। चिन्त्यमेवैतत्, वस्त्वलंकारप्रधानानां काव्यानामकाव्यत्वापत्तेः। न चेष्टापत्तिः, महाकविसंप्रदायस्याकुलीभावप्रसङ्गात्। लक्ष्यानुसारेण हि लक्षणव्यव- स्था, नतु वैपरीत्येन। वणितानि च महाकविभिर्जलप्रवाहवेगनिपतनोत्पतनभ्रमणानि, कपिबालादिविलसितानि च। न च तत्रापि यथाकर्थंचित्परम्परया रसस्पशोडस्त्येवेति वाच्यम्। ईदृशरसस्पर्शस्य 'गौश्चलति', 'मृगो धावति' इत्यादावतिप्रसक्तत्वेनाप्रयोजक- त्वात्। एवं च प्रकाशोक्तं काव्यलक्षणमेव ज्यायः । यत्तु रसगङ्गाघरकारेण 'रमणीयार्थ- प्रतिपादक: शब्द: काव्यम्' इति सूत्रव्याख्याने 'काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयो- र्व्यासक्तम्, प्रत्येकपर्यापं वा। नादयः। एको न द्वाविति व्यवहारस्येव श्रोकवाक्यं न काव्यमिति व्यवहारापत्तेः । न द्वितीयः । एकस्मिन्पधे काव्यद्वयव्यवहारापत्तेः । तस्माद्वेदशास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता' इत्युक्तम्, तन्न।
स्यानुपहसनीयकाव्यलक्षणस्य प्रकाशादिनिरू पितलक्ष्यतावच्छेदकस्योभयवृत्तित्वाच्च काव्यं पठितम्, काव्यं श्रुतम्, काव्यं बुद्धमित्युभयविधव्यवहारदर्शनाच्च काव्यपदप्रवृत्तिनिमित्तं व्यासज्यवृत्ति। अत एव वेदत्वादेरुभयवृत्तित्वप्रतिपादकं 'तदधीते तद्वेद' इतिसूत्रस्थं 'किम- र्थमुभावप्यर्थौं निरदिश्येते। न योऽधीते वेत्त्यप्यसौ । यस्तु वेत्यधीतेऽप्यसौ। नेतरयो- रावश्यकः समावेशः । भवति ह कश्चित्संपाठं पठति न वेत्ति, तथा कश्चिद्वेत्ति न च संपाठं पठति' इति महाभाष्यं संगच्छते। लक्षणयान्यतरस्मिन्नपि तत्त्वात् 'एको न द्वौ' इतिवन्न तदापत्तिः। केचित्तु-कविकर्म काव्यमिति समाख्यानुरोधाच्छब्द एव काव्यत्वम्, न त्वर्थ। तस्य तत्कृतिसाध्यत्वाभावात्। तस्मात्पदसंदर्भविशेषः काव्यमिति लक्षणं स्वीकुर्वते। तन्न रमणीयम्। तथाहि-आस्वादोद्ोधकत्वमेव काव्यत्वप्रयोजकम्,
Page 67
२० साहित्य दर्पणे
रसस्रूपं निरूपयिष्यामः । रस एवात्मा साररूपतया जीवनाधा- यको यस्य । तेन विना तस्य काव्यत्वाभावस्य प्रतिपादितत्वात्। 'रस्यते इति रसः' इति व्युत्पत्तियोगाद्भावतदाभासादयोरडैपि गृंह्यन्ते। मिति। रसात्मकं वाक्यं काव्यमित्यन्वयः। ननु को रस इत्यत आह-रसस्वरूप- मिति। विवृणोति-रस एवेति। एवकारेण ध्वनिकारादयुक्तस्य वाच्यार्थस्य वस्त्व- लंकारमात्रव्यङ्कयस्य च व्यवच्छेदः। साररूपतया आनन्दसान्द्रत्वेन श्रेष्ठस्वभावतया। जीवनाधायक उपादेयताप्रयोजकः। तेन रसेन। तस्य वाक्यस्य। प्रतिपादितत्वा- दिति। 'देवदत्तो ग्रामं याति' इत्यादिग्रन्थेनेति वोध्यम्। ननु शद्धारादिभेदेन नवप्रकारो रसस्तदभावात् 'यस्यालीयत-' इत्यादिवाक्यानां कथं काव्यलमत आह-रस्यत इति। आस्वाद्यत इत्यर्थः । भावादीनामप्यास्वादविपयत्वमव्याहृतमेव। विषयत्- मप्यखण्डमतिरिक्तं बोध्यम्। तेन नाननुगम इति भावः । अत्र-'न्यकारो ह्ययमेव-' इत्यादौ विधेयाविमर्शदोषदुष्टतया उद्देश्य विधेयभावबोधकानुपूर्वी विरहेणाकाड्डाविरहा- द्वाक्यत्स्यवाभावः । काव्यज्ञानं विना रसपदार्थस्य दुर्निरूप्यत्ादन्योन्याश्रयः । रस- घटकविभावादीनां काव्यघटितलात्' इति दूपणह्ूयं कश्चित्पण्डितंमन्य उपन्यस्यति, तदतीव मन्दम्। आनुपूर्वीविशेपरूपाया आकाह्काया विरहेऽपि श्रोतृजिज्ञासारूपाया- स्तस्या विद्यमानलाद्वाक्यत्वाक्षतेः । तादृशाकाह्ाया एव वाक्यघटकत्वेन ग्रन्थकृतै- वाङ्गीकारात्। यद्वा संकीर्तनत्वगभितत्वदोषदुष्टयोः पदसमुदाययोरासत्तिकल्पनेन वाक्यत्वं कल्प्यते अन्यथा काव्यदोपत्वमेव न स्यात्। तथात्रापि कल्पितानुपूर्वी- योगादस्य वाक्यत्वाङ्गीकारादखण्डास्ादविशेषविपयतवरूपस्य भावादिसाधारणस्य रसत्वस्य ग्रन्थकृतैव निरुक्तलाच। अखण्डास्वादविशेपत्वं चानन्दसंवलितज्ञान- विपयत्वमेवात्र भावादिसावारणं वाच्यम्। न च 'ब्राह्मण, पुत्रस्ते जातः' इत्यादिवाक्ये आनन्दसंवलितज्ञानजनकेऽतिव्याप्तिस्तद्वारणाय काव्यजन्यतं विशेषणमुपादेयं तथा सति अन्योन्याश्रयदोष इति वाच्यम्। अत्र हि शाब्दवोधानन्तरमेवानन्दो जायते। तयोः पौर्वापर्यक्रमस्थितोऽपि काललाघवादुत्पलपत्रशतव्यतिभेदनवत्स न ग्रह्यते।
मलौकिकं ज्ञानम्। तदेवास्माभी रसपदेनोच्यत इति। आनन्दसंवलितत्वमिह तादा- त्म्यसंबन्धेनानन्दविशिष्टलम्, न तु जनकतासंबन्धेन। विजातीययोर्ज्ञानानन्द- योस्तादात्म्याङ्गीकारोSलौकिके न दोष इति सर्वमवदातम्। तदाभासेति। रसा- तच्च शब्देडर्थें चाविशिष्टम्। तत्रापि रसोद्वोधकत्वाङ्गीकारात्। अर्थेऽपि दृश्यकाव्ये इव काव्यत्वम्। कविकमत्वव्यवहारस्तु तत्रकाश्यत्वा्भाक्त एव। शब्दनित्यत्ववादिमते शब्दरूपेऽपि काव्ये कविकर्मत्वव्यवहारो भाक्तः । अत एव 'शब्ददर्दुर करोति' इति पाणि- निसूत्रं संगच्छते। अन्यथा स्वसिद्धान्तो व्याकुप्येतेति सर्वमनवद्यम्॥ १. 'स्वरूपतया' क-ग. २. 'क्ाव्यत्वानज्गीकारात्' घ. ३. 'भावतदाभासाः' ग. 8. 'अपि' क-ख-पुस्तकथोरनारिति,५. 'उच्यन्ते' ग. ६. 'अत्र-' इत्यादिः '-सर्वमवदातम्' इत्यन्तो अ्रन्थः पुस्त- कान्तरे नोपलभ्यते.
Page 68
प्रथम: परिच्छेदः । २१
तत्र रसो यथा- 'शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै- रनिद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्। विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ।।' अत्र हि संभोगश्ृङ्गारोख्यो रसः । भावो यथा महाणात्रराघवानन्दसांधिविग्रहिकाणाम्-मा 'यस्यालीयत शल्कसीम्नि जलधिः, पृष्ठे जगन्मण्डलं, दंष्रयां धरणी, नखे दितिसुताधीशः, पदे रोदसी, । क्रोधे क्षत्रगणः, शरे दशमुखः, पाणौ प्रलम्बासुरो, ध्याने विश्वमसावधार्मिककुलं कस्मैचिदस्मै नमः ।I' अत्र भगवद्विषया रतिर्भावः ।
भासभावाभासेत्यर्थः । आदिना भावशान्त्यादीनां ग्रहणम्। शून्यमिति। सख्या- दिहीनमित्यर्थः । शयनाच्छ्य्यायाः किंचिदुत्थानं प्रियजागरणे झटिति संवरणार्थम्। उत्थाने शनैस्त्वं जागरणहेतुशव्दानुत्पत्तये निद्राव्याजं छलनिद्रां सुचिरनिर्वर्णनं च निद्रानिश्चयाय। तेन विश्रब्धं विश्वस्तं यथा स्ात्तथा परिचुम्ब्य। गण्डस्थलीमिति पत्युरनुषज्यते। लज्जानम्रमुखी सतीत्यर्थः । केचित्तु-'लज्जत इति लज्जा करिया। तत्रैवालोचनानन्तर्यस्यान्वयः' इत्याहुः, तन्न। कृत्प्रत्ययानामभिधाननियम्यतया लज्जापदस्य लज्जाश्रयबोघे सामर्थ्याभावात्। स्थितादिपदाध्याहारेणैव एककर्तृकत्वमव- धेयम्। बाला नववधूः। चिरचुम्बनं चाधिकर्णपरिशोधनार्थम्। वीरादिरसानामुदा- हरणान्यग्रे दास्यति-यस्येति। 'अलीयत' इति च दशसु वाक्येष्वन्वेति। शल्को मत्स्यत्क् तस्य सीम्नि एकदेशे। दितिसुताधीशो हिरण्यकशिपुः। रोदसी द्यावापृथिव्यौ। अन्नालीयातामिति वचनविपरिणामः। कस्मैचिदनिर्वचनीयमहित्रे। अत्र दशभिर्वाक्यै- दशावतारा दर्शिताः । ते यथा-'मत्स्यः कूर्मो वराहश् नरसिंहोऽथ वामनः। रामो रामश् रामुश्च बौद्धः कर्कीच ते दश॥' अनुवर्तमानः सेवमानः। अन्यद्भावाभासादि।
- असाविति। असौ कृपाणे॥ 2. कर्कीति। 'कल्की' इति पाठः सर्वत्रैवोपलभ्यते। परंतु ककों धवलघोटकोऽस्या- स्तीति व्युत्पत्तिस्वारस्यात् 'कर्की' इत्येव पाठः साधीयान्। भगवतो घोटकवाहनत्वात्। कर्किकुलोत्पन्नत्वाद्वा कर्की। 'सितः कर्कः' इत्यमरः । 'उत्पत्स्यतेडर्कसंकाशः शिशुः कर्कि- कुले द्विजः' इति दशावतारचरितम्।
१. 'हि' क-ख-ग-पुस्तकेषु नास्ति .. २, 'आख्यो रसः' ग-पुस्तके नास्ति.
Page 69
२२ साहित्यदर्पणे
रसाभासो यथा- 'मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृप्णसारः ॥ अत्र संभोगशृङ्गारस्य तिर्यग्विषयत्वाद्रसाभासः । एवमन्यत्। दोषोंः पुनः काव्ये किंसवरूपा इत्युच्यन्ते- दोपास्तस्यापकर्पकाः । श्रुतिदुष्टापुष्टार्थत्वादयः काणत्वखञ्जत्वादय इव शब्दार्थद्वारेण देहद्वारेणेव व्यभिचारिभावादे: सवशव्दवाच्यत्वादयो मूर्खत्वादय इव साक्षात्काव्यस्यात्मभूतं रसमपकर्षयन्तः काव्यस्यापकर्षका इत्युच्यन्ते। एषां विशेषोदाहरणानि वक्ष्यामः । गुँणा: किंस्वरूपा इत्युच्यन्ते- उत्कर्पहेतवः प्रोक्ता गुणालंकाररीतयः ॥ ३॥ गुणाः शौर्यादिवत्, अलंकाराः कटककुण्डलादिवत्, रीतयोऽवय- वसंस्थानविशेषवत्, देहद्वारेणेव शब्दार्थद्वारेण तैस्यैव काव्यस्यात्मभूतं रसमुत्कर्षयन्तः काव्यस्योत्कर्षका इत्युच्यन्ते। इह यद्यपि गुणानां रसधर्मत्वं तथापि गुणशव्दोऽत्र गुणाभिव्यञ्ञकशब्दार्थयोरुपचर्यते। ननु दोपादीनां काव्यलक्षणाघटकलान्निराकाइकतया तननिरूपणमसंगतमित्यत आकाङ्वा- मुत्थापयति-दोपा: पुनरिति। तस्य काव्यस्य। गुणा इति। गुणानां शब्दार्थो- त्कर्षद्वारा यथा रसोत्कर्षकतं तथा गुणपरिच्छेदे दर्शयिष्यते। शौर्यादीनामौपचारिक- देहधर्मत्ाभिप्रायेणायं दृष्टान्तः । ननु निरलंकारकाव्यापेक्षयालंकाराणामिव निर्गुण- काव्यापेक्षया गुणानां काव्योत्कर्षकत्वं नोपपद्यते। निर्गुणत्स्य नीरसत्वसमनियततया नीरसस्य काव्यत्वानङ्गीकारेणैव निर्गुणस्य काव्यत्वानङ्गीकारादित्यभिप्रायेण शङ्कते-इह यद्यपीति। इह नवीनालंकारिकसंप्रदायमते। रसधर्मत्वमिति। काव्ये गुणाना- मव्यभिचारित्वज्ञापनाय प्रसादगुणप्रकरणे प्राचीनैरुक्तम्-यथा 'स च सर्वरसव्यापी काव्यजीवातुरिष्यते' इति। तथापीति। अन्रानन्तरोक्तकारिकायाम्। शब्दानां गुणाभिव्यञ्जकत्वं गुणपरिच्छेदे व्यक्तीभविष्यति। अर्थानां तूद्धतानुद्धततया ओजोमा- धुर्यव्यञ्जकलवं झटिति प्रतिपाद्यत्वेन प्रसादव्यञ्जकत्वमवगन्तव्यम्। उपचर्यते लक्षणया प्रयुज्यते। अतश् गुणशब्दौपचारिकत्वस्वीकाराच्च। शब्दाः शब्दार्थाः । एवं च गुणाभिव्यञ्जकशब्दार्थहीनमपि व्यङ्गयं भवति तदपेक्षया गुणाभिव्यज्जकशब्दार्थयोः
१. 'दोपा.'-इत्यादिः 'इत्युच्यन्ते' इत्यन्तः पाठो ग-पुस्तके नास्ति. २. 'अपुष्ट' क-पुस्तके नास्ति, ३. 'गुणा .- ' इत्युपोद्धातो ग-पुस्तके न दृश्यते. ४. 'तमेव' ग-घ.
Page 70
प्रथम: परिच्छेदः । २३
अतश्चे 'गुणाभिव्यञ्जकाः शब्दा रसस्योत्कर्षकाः-' इत्युक्तं भवतीति प्रागेवोक्तम्। एषामपि विशेषोदाहरणानि वक्ष्यामः ॥ इति श्रीमन्नारायणचरणार विन्दमधुव्रतसा हित्यार्णवकर्णधारध्वनिप्रस्थापनपरमाचा- यकविसूक्तिरत्नाकराष्टाद शभाषावार विलासिनी भुजंग सां धि विग्र हि कम हापात्र श्रीविश्वनाथकविराजकृतौ साहित्यदर्पणे काव्यसरूप- निरूपणो नाम प्रथम: परिच्छेदः ।
काव्योत्कर्षकत्वमुपपन्नमिति भावः । ननु गुणाभिव्यञ्ञकपदविन्यासस्य रीतित्वेन नि- रूपणीयतया रीतेरेतेनेव संग्रहे पृथक् तदुपादानमनर्थकमिति। तदेतच्चिन्त्यम्॥
प्रथम: प्रकाशः ।
१. 'एव' क. २. 'मधुकर' क. ३. 'साहित्यविद्या' क. ४. 'वार' क-ख-पुस्तकयोर्नास्ति. ९. 'उल्डासः' ग.
Page 71
२४ साहित्य दर्पणे
द्वितीयः परिच्छेदः।
वाक्यसरूपमाह-
वाक्यं स्याद्योग्यताकाङ्कासत्तियुक्त: पदोच्चयः । योग्यता पदार्थानां परस्परसंबन्धे बाधाभावः । पदोच्चयस्यैतदभा-
उपोद्धातसंगत्या वाक्यं निरूपयति-वाक्यमिति। प्रकृतसिद्धनुकूलचिन्ता- विपयत्वमुपोद्धातः। काव्यलक्षणं चात्र प्रकृतम्। योग्यतामाह-पदार्थानामिति। परस्परसंबन्धे परस्परान्वयबोधे। हेनुरिति शेपः। 'न तत्र करुणा हेतुः' इति- वत् पष्यर्थे सप्तमी। बाधो विपरीतबुद्धिः । तथा चान्वयवोधहेतुभूतबाधाभावो योग्यतेत्यर्थः । प्रत्यक्षादिकारणीभूतबाधाभाववारणाय भूतान्तं विशेषणम्। 'पयसा सिञ्चति' इत्यादौ श्रोतुः सेकः पयःकरणकत्वाभाववानित्यादिविपरीतवुद्धेरभावः।सा चात्र प्रमारुपा ग्राह्या। अन्यथा नादशत्रमभाजि श्रोतरि सति 'पयसा सिव्वति' इति वाक्यं न स्यात। ननु तादशप्रमाया अग्रसिध्ा तद्विरहस्याप्रसिद्धिरिति निरुक्त- योग्यता शशविषाणवदलीकेति चेत्तत्वं व्याख्येयम्-परस्परसंबन्धे इति। सप्तम्यर्थो निरूपकत्वम्। परस्परसंबन्धनिरूपकाणां पदार्थानामित्यर्थः। तात्पर्य- विषयीभूतपरस्परसंबन्धे सतीत्यर्थः । बाधाभावः सद्भावः। एवंच तात्पर्यवि- षयीभूतसंबन्धेन तंत्निरूपकाणां पदार्थानामेकतरस्मिन्नपरपदार्थसद्भावो योग्यतेति फलितम्। पाकादौ विद्यमानस्य वह्निकरणकत्वस्य सेकादौ येन केनचित्परम्परा- संबन्धेन सद्भावे 'वहिना सिव्वति' इत्यादेवीक्यलप्रसक्तौ तद्वारणाय तात्पयेविपयी- भूतेति संबन्धविशेपणम्। अस्ति च 'पयसा सिव्वति' इत्यादौ पयःकरणकत्वस्य स्वरू- पसंबन्धेन सेके सद्भावः । योग्यताया व्यावृत्तिमाह-पदोच्चयस्येति। एतदभावे
- वाक्यमिति। वाक्यवोधस्त्वेवम्-पूर्व तावच्छन्दश्रवणादनन्तरं श्रोतुरात्मनि समुपस्थीयते तत्तदथः। समुदीयते च योग्यतादिवशेन तेषां परस्परं विशिष्टान्वयबोधेन। उपस्थितिश्च स्मृतिरेव। रमृतिलोंके समनुभूतपदार्थस्योद्दोधकसहकृतसंस्कारेण जायते। तत्रान्योद्वोधकस्यानुपलम्माच्छव्दश्रवणस्थैव तत्संस्कारोदोथे कारणत्वमङ्गीक्रियते। एक- संबन्धिज्ञानस्यापरसंबन्धिस्मारकताया अन्यत्र दर्शनाच्छन्दार्थयोरपि परस्परं संबन्धित्व- मवसीयते। अवसीयते च तस्यैव संस्कारोद्वोधकत्वम्। तथा च यदि शब्दानां पदार्थः सह संबन्धो न स्यात्तहि ततोरऽर्थस्मृतिन जायेत। स्मर्यन्ते चार्थाः शब्दैः। अतएव वाक्यपदीये-'सतिप्रत्ययहेतुत्वे संबन्ध उपपद्यते। शब्दस्याथर्यतोडनस्तत्संबन्धोऽस्तीति गम्यते ।' इति प्रत्ययहेतुत्वान्यथानुपपत्त्यैव तयोः संबन्धसद्भावानुमितिः स च संबन्धो वृत्तिरूप इति ॥
१. 'सप्तम्यर्थ :- ' इत्यादि: 'पदार्थानामित्यर्थः' इत्यन्तः पाठः पुस्तकान्तरे नासि्ति. २. तन्निरूप- काणां' पुस्तकान्तरे नास्ति.
Page 72
द्वितीय: परिच्छेदः। २५
वेऽपि वाक्यत्वे 'वहिना सिञ्चति' इत्याद्यपि वाक्यं स्यात्। आकाङ्क प्रतीतिपर्यवसानविरहः । से च श्रोतुर्जिज्ञासारूपः। निराकाङ्कस्य वा- क्यत्वे 'गौरश्वः पुरुषो हस्ती' इत्यादीनामपि वाक्यत्वं स्यात्। आस- त्तिर्बुद्यविच्छेद: । बुद्धिविच्छेदेऽपि वाक्यत्वे इदानीमुच्चरितस्य देवैदत्त-
निरुक्तयोग्यताविरहे। वह्निनेत्यादि। अत्र कारणस्य कार्यनिरूपितत्वनियमात्कार्य- व्यतिरेकेणानुपपत्त्या सेवारूपे कार्ये भवत्येवाकाड्केति ध्येयम्। आकाङ्कामाह- आकाङ्गेति। प्रतीतेः पदार्थोपस्थितेः पर्यवसानमन्वयबोधजनकत्वेनेच्छाविरहः । तस्य विरहः। अभाव इत्यर्थः। नन्वेवमाकाङ्कापदस्याभावबोधकत्वे लक्षणापत्तिरित्यत आह-स चेति। प्रतीतिपर्यवसानविरहश्चेत्यर्थः । अभावाभावः प्रतियोगिस्वरूप एव, न ततिरिक्तः कल्प्यत इति भावः । अस्ति च 'पयसा सिश्चति' इत्यादौ पयसेति पदार्थस्य सिञ्चतीति पदार्थेनान्वयबोधजनने श्रोतुरिच्छा। प्रतीतिपर्यवसानं च कचित्साभाविकं क्वचिज्जनितान्वयबोधत्वेन। तत्राद्यमाह-गौरिति। अन्र गवा- दिप्रथमान्तपदोपस्थापितानां पदार्थानामभेदातिरिक्तसंबन्धेनान्वयबोधोऽव्युत्पन्न इति भवति पदार्थोपस्थितेरन्वयबोधजनने श्रोतुरिच्छाविरहैः। अत्राभेदातिरिक्तसंबन्धेन बाधसत्त्वेऽपि सत्त्वादिसबन्धेन बाधविरहरूपयोग्यतास्तीति व्येयम्। द्वितीयं यथा- 'विमलं जलं नदा: कच्छे महिषश्चरति' इत्यत्र नदा इति पदार्थोपस्थितेर्जलमिति पदार्थेनान्वयबोधे सति सिद्धे 'इच्छाविरहात्' इति न्यायेन 'कच्छे' इत्यनेन श्रोतुरन्व- यबोधे इच्छाविरहः । यदि पुनरुभयान्वयेच्छा प्रयुज्यते तदा 'नद्ाः' इत्यस्य काकाक्षि- गोलकन्यायादनुषङ्गाद्वा 'कच्छे' इत्यनेन संबन्धाङ्गृहीतवक्तृतात्पर्यस्य श्रोतुरुभयान्वय- वोधेच्छा संभवतीति व्येयम्। आसत्तिमाह-आसत्तिरिति। वुद्धेः पदार्थोपस्थि- तेरविच्छेदोऽव्यवधानम्। अव्यवहितपदार्थोपस्थितिरिति तात्पर्यार्थः। व्यवधानं च का- लबाहुल्येन प्रकृतानुपयोगिपदार्थोपस्थित्या च संभवति। तत्राद्यमाह-वुद्धीति। वाक्यत्वे वाक्यत्वस्वीकारे। दिनान्तरेत्यत्यन्तव्यवधानदर्शनाय। ग्रहरादिव्यवधा- नेनाप्यनासन्नत्वं बोध्यम्। संगतिर्वाक्यव्यवहारोपयोगिमेलकः । द्वितीयं यथा- 'गिरिर्भुक्तमन्निमान्देवदत्तेन' इत्यत्र गिरिरभिमान्, भुक्तं देवदत्तेनेति वाक्यार्थबोध- दवयं प्रकृतम्। तत्र प्रथमानुयोगिन्या भुक्तमिति पदार्थोपस्थित्या, द्वितीयानुयोगिन्या अभनिमानिति पदार्थोपस्थित्या व्यवधानम् । प्रकृतोपयोगिपदार्थोपस्थित्या व्यवधाने ासत्तिरस्त्येव। तेन 'अश्वेन ग्रामं गच्छति' इत्यादौ ग्रमपदार्थोपस्थितित्रयवधानेSपि अश्वपदस्य गच्छतीत्यनेनासत्तिरव्याहतैव। स्वार्थबोधसमाप्ततवमपि पदोच्चयविशेषणं
१. 'इत्यपि' ख-ग-घ. २. 'स च' ग-पुस्तके नासिति. ३. 'चैत्र' ग. ४. 'अत्र-' इत्यादि 'सवति' इत्यन्तः पाठः पुस्तकान्तरे त्रुटित इति प्रतिभाति. ५. 'स्वाभाविक एव' इत्यधिकं पुस्तकान्तरे. ६. 'अत्रामेद-' इत्यारभ्य '-ध्येयम्' इति पर्यन्तः पाठो नास्ति पुस्तकान्तरे. ७. 'अव्यवहितपदार्थो- पस्थितिरिति तात्पर्यार्थः' इति पुस्तकान्तरे नास्ति. ८. 'त्वासत्ति :- ' इत्यादिः '-अव्याहतैव' इत्यन्तः पाठः पुस्तकान्तरे न दृश्यते. सा० दृ० ३
Page 73
२६ साहित्यदर्पणे
शब्दस्य दिनान्तरोच्चरितेन गच्छतीति पदेन संगतिः स्यात्। अत्रा- काङ्कायोग्यतयोरात्मार्थधर्मत्वेऽपि पदोच्चयधर्मत्वमुपचारात्। वाक्योच्चयो महावाक्यम्
इत्थं वाक्यं द्विधा मतम् ॥ १ ॥ इत्थमिति वॉक्यमहावाक्यत्वेन। उक्तं च- स्वार्थबोधे समाप्तानामङ्गाङ्गित्वव्यपेक्षया। वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥' इति। तत्र वाक्यं यथा-'शून्यं वासगृहं-' इत्यादि। महावाक्यं यथा- रामायणमहाभारतरघुवंशादि। पदोच्चयो वाक्यमित्युक्तम्। तत्र किं पदलक्षणमित्यत आह-
वोध्यम्। तेन 'शून्यं वासगृहं-' इत्यादिभागस्य न वाक्यत्म्। योग्यताकाह्गयोः पदो- च्चयधर्मतमुपपाद्यति-आकाङ्कति। आकाह्लाया इच्छारूपत्वाँद्विपरीतबुद्भाव- रूपयोग्यतायाश्चात्मनिष्ठतयान्वयबोधहेतुलादात्मवृत्तिलमेव। उपचारात्खजन्यजन- कत्वरूपपरम्परासंबन्धात्। एकपदार्थीयापरपदार्थसद्भावरूपयोग्यतायास्तु पदार्थधर्म- त्वेऽपि साश्रयोपस्थापकत्वसंबन्धेन पदोच्चयधर्मलमेवावगन्तव्यम्। निरुक्तासततरप्य्ा- त्मधर्मलात्। तत्राप्येषैव रीतिरनुसर्तव्या। यदि पुनः समभिहारविशेष आकाड्का, अव्यवधानोच्चरितत्वमासत्तिः, तदानयोः साक्षादेव पदोच्चयधर्मत्मित्यास्ता विस्तरः। महावाक्यमाह-वाक्योञ्चय इति। योग्यताद्यभावे महावाक्यलखीकारे 'चक्षुषा गृह्यतां गगनं वर्तते' इत्येतयोः 'भिक्षुरुपवसति गृही भुक्गे' इत्येतयोर्भिन्नदिनोच्चारि- नयोः 'चक्षुषा ग्रह्यतां घटो वर्तते' इत्येतयोरपि महावाक्यतं स्यात्। अत्र प्राचां संवादमाह-स्वार्थेति। सार्थबोधेन निराकाङ्काणां पुनरङ्गाङ्ितव्यपेक्षया गुणप्रधा- नभावेनाकाड्डया संहत्य एकार्थप्रतिपादकत्वेन मिलिला वाक्यानामेकवाक्यलं जायत इत्यर्थः। वाक्यार्थानां गुणप्रधानभावेन वैशिष्यादेकतं तत्प्रतिपादकत्वेन वाक्यानामे- कवाक्यतमिति भावः। पदनिरूपणे प्रसङ्गसंगतिमुपपादयति-पदोञ्चय इति। वा- क्यनिरूपणे स्मृतस्य पदस्यानुपेक्षणीयत्मिह प्रसङ्ग इति भावः। वर्णाः खरव्यअ्जनरूपाः।
- उपेति। उपचारो लक्षणा।
१. 'पदस्य' ख. २. 'उच्चारितेन' घ. ३. 'तत्र' क. ४. 'योग्यता-' इति फक्किका ग-पुस्तके नास्ति; ध-पुस्तके तु 'वाक्योच्चयः- इत्यस्य प्राग्दृश्यते. ५. 'वाक्यत्वेन महावाक्यत्वेन च' घ. ६. '-वोधसमाप्तानां' ख- घ ७. 'आत्मवृत्तित्वमेव। एकपदार्थSपरपदार्थसन्ावरूपयोग्यताया अर्थ-
व्यम्' इत्युपलभ्यते पाठभेद: पुस्तकान्तरे.
Page 74
द्वितीय: परिच्छेदः । २७
वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः। यथा-घटः। प्रयोगार्हेति प्रातिपदिकस्य व्यवच्छेदः। अनन्वि- तेति वाक्यमहावाक्ययोः। एकेति साकाङ्कानेकपदवाक्यानाम्। अर्थ- बोधका इति कचटतपेत्यादीनाम्। वर्णा इति बहुवचनमविवक्षितम्। प्रयोगाहाश्व ते अनन्वितैकार्थबोधकाश्वेति विग्रहः। सुबाख्यातान्यतरान्तत्वेन क्वचि- त्तल्लुगन्तत्वेन प्रयोगार्हलम्। प्रातिपदिकस्य विभक्तिरहितनाम्रः केवलस्य तस्याप्रयो- गिलात्। एतदुपलक्षणं धातोरित्यपि बोध्यम् । तस्यापि केवलस्याप्रयोगिलात्। वाक्यमहावाक्ययोर्व्यवच्छेद इत्यनेनान्वयः । एवमग्रेऽपि। तयोरन्वितार्थबोधक- लात्। विशिष्टवाक्यार्थस्य विशेषणविशेष्यानतिरिक्तत्वेनैकत्वमित्यभिप्रायेणेदं लक्ष- णम्। 'अन्वितैकार्थबोधकाः' इत्यनेनैव वाक्यवारणे सिद्धे 'अनन्वित-'इत्युपादानं व्यर्थ स्यात्। साकाङ्गेति। साकाङ्डाणामन्वयबोधाजनकानामनेकेषां पदानां वाक्यानां च समुदायस्य व्यवच्छेद इत्यर्थः । तथा चायोग्यानामनाकाड्डाणामनास- न्नानां च समुदायस्यानन्वितार्थबोधकत्वेऽपि न पदत्वमिति भावः । आकाङ्कामात्र- विशिष्टानामयोग्यानामनासन्नानां चानेकपदानामनेकवाक्यानां चेत्यर्थः। एषामन्वि- तार्थबोधकत्वेन पदत्वप्रसक्तौ तद्वारणाय एकेतीति भावः। नन्वेकवर्णद्विवर्णपदयो- रव्याप्तिर्वर्णबहुत्वाभावादत आह-वर्णा इतीति। ननु प्रकृत्यर्थान्वितस्वार्थबोध- कत्वं प्रत्ययानामिति नियमाद् घटीयं कर्मत्वमित्याद्यन्वितार्थबोधकस्य घटमित्यादेः कथं पदत्वम्। न च शक्तिमत्पदमिति मतानुसारेण 'घट' इत्येकं पदम् 'अम्' इत्य- परं पदम्, अनयोः प्रत्येकपदार्थोपस्थापकत्वेन अनन्वितार्थबोधकत्वमक्षतमिति वाच्यम्। तथा सति घटमित्यादेः पदसमुदायस्य वाक्यत्वं स्यात्। न चेष्टापत्तिः। एवं सति 'शून्यं वासगृहं-' इत्यादि यद्वाक्योदाहरणं दत्तं तदसंगतं स्यात्। तस्य तथा- विधवाक्यस्य महावाक्यतयैवोदाहर्तुमुचितत्वात्। न च प्रत्ययार्थातिरिक्तानन्वि- तार्थबोधकत्वं विवक्षणीयमिति वाच्यम्। तथाप्यभेदसंबन्धेन नीलाद्यन्वितोत्पलादि-
- वर्णा इति। वर्णोत्पत्तिस्तावदेवसुपवर्ण्यते-चेतनेन ज्ञातार्थविवक्षया तद्वोधक- शब्दनिष्पादनाय प्रेरितमन्तःकरणं मूलाधारस्थितमनलं चालयति, तच्चालितोऽनलस्तत्स्थल- वर्तिवायुचालनाय प्रभवति, तच्चालितेन वायुना तत्रैव सूक्ष्मरूपेणोत्पादितः शब्द: परा- वागित्यभिधीयते। ततो नाभिदेशपर्यन्तचलितेन तेन तद्देशसंयोगादुत्पादितः शब्द: पश्य- न्तीति व्यवहियते। एतद्रयस्य सूक्ष्मसूक्ष्मतरतयेश्वरयोगिमात्रगम्यता, नास्मदीयश्रुतिगो- चरता। ततस्तेनैव हृदयदेशं परिसरता हृदयसंयोगेन निष्पादितः शब्दो मध्यमेत्युच्यते। सा च स्वकर्णपिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिदस्माकमपि समधिगम्या। ततो मुखपर्थन्तमाक्रामता तेन कण्ठदेशमासाद मूर्धानमाहत्य तत्प्रतिघातेन परावृत्य च मुख- विवरे कण्ठादिकेष्वष्टसु स्थानेषु स्वाभिधातेनोत्पादितः शब्दो वैखरीति कथ्यते॥
१. 'विशिष्ट- इत्यादिः '-व्यर्थ स्यात्' इत्यन्तः पाठः पुस्तकान्तरे नास्ति. २. 'साकाङ्काणां-" इत्यादि: '-न पदत्वभिति भावः' इत्यन्तः पाठः पुस्तकान्तरे न दृश्यते.
Page 75
२८ साहित्यदर्पणे
अर्थो वाच्यश्र लक्ष्यश्च व्यङ्ग्श्चेति त्रिधा मतः ॥२॥ एषां स्वरूपमाह- वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः । व्यङ्गो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः॥३। ता अभिघाद्याः । तत्र संकेतितार्थस्य बोधनादग्रिमाभिधा। उत्तमवृद्धेन मध्यमवृद्धमुद्दिश्य 'गामानय' इत्युक्ते तं गवानयन- बोधकेषु 'नीलोत्पलम्' इत्यादिपदेषु मुख्यार्थान्वितार्थबोधकेपु लाक्षणिकश्वेतादिपदेषु चाव्याप्तेरनुद्धारात् समस्तस्य पदत्वासवीकारे 'क्षीरोदजावसतिजन्मभुवः प्रसन्ना' इत्यादि पदगतक्किष्टत्वोदाहरणमसंगतं स्यात्। एवमेकेति न संगच्छते, 'घटौ'
त्येकजातीयेत्यर्थ इति वाच्यम्। 'धवखदिरपलाशाः' इत्यादो युगपच्चन्द्रसूर्योपस्थापके 'पुष्पवन्तौ' इति पदे चाव्याप्तितादवस्थ्यात्। अपि च पदघटकानां यावतां वर्णानाम- नन्वितैकार्थबोधकतवमुत केषांचिद्वा। तत्र, नाद्ः। 'सुन्दरस्य देवदत्तस्य धनम्' इत्यादौ विशेषणविभक्तेरनर्थकल्वात् 'सुन्दरस्य' इत्यादिपदेऽव्याप्तेः । नापि द्वितीयः। 'वह्निना सिञ्चति'इत्यादौ सर्वेषामनन्वितैकार्थबोधकत्वाभावेऽपि प्रत्येकं तथालसद्भावादव्याप्ेः यद्वा 'द्वौ घटौ' इति समुदायस्य संभेदेनान्यतरवैयर्थ्यमिति न्यायाद् 'द्वौ' इति भाग- स्यानर्थकत्वेऽपि 'घटौ' इति भागस्यानन्वितैकार्थबोधकलवात्तत्रातिव्याप्तेः। एवं च पैद- लक्षणमेवं वाच्यम्-'असमासाङ्गसुप्तिड्तल्लोपयुक्प्रकृतिः पदम्'। युगन्तेन केवलप्र- कृतेः । असमासाङ्गेत्यनेन 'पितुःखसा, जहिजोडः' इत्यादौ पूर्वावयवस्य। 'राजदन्तः' इत्यादौ उभयोरपि। 'प्रकृतिः' इत्यनेन वाक्यमहावाक्ययोर्व्यवच्छेदः। समासावयवस्य पदलाङ्गीकारे 'नीलोत्पलम्' इत्यादिपदस्य वाक्यतं स्यात्। योग्यतालक्षणघटकपदार्था- नाह-अर्थ इति। पदप्रतिपाद्य इत्यर्थः। एषां वाच्यादीनाम्। अभिधया बोध्य इति। अभिधाजन्यबोधविषय इत्यर्थः । अर्थबोधे शब्दस्य वृत्तीनां च कारणलमिह विषय विषयिणोरभेदोपचाराद्वोध्यम्। वास्तवकारणं तु शब्दतद्ृत्तिज्ञानमेव। शब्दस्य प्रकृतेः प्रत्ययस्य च शक्तयोऽर्थबोधे सहकारिण्यो वृत्तयः । अभिधादिशक्तिमाह- तत्रेति। अभिधादिषु मध्य इत्यर्थः । संकेतितार्थस्येति । संकेतितग्रहविषयार्थ- स्येति तुनार्थः, संकेतस्याभिधाया अभिन्नत्वेनात्माश्रयापत्तेः। किंतु कोशव्याकरणादि- प्रसिद्धस्य मुख्यार्थस्येत्यर्थः। मुख्यत्वं च लक्ष्यव्यङ्गयापेक्षया प्रथमोमस्थितिविषयलम्। बोधनात् स्वज्ञानेन शाब्दबोधजननात्। संकेतग्रहोपायान्वृद्धव्यवहारादीनाह-उत्त- मेति। वृद्धेन संकेतग्रहवता। प्रयोजकप्रयोज्यभावसंपादनाय उत्तमलमध्यमलाभ्यां
१. 'तत्र' इत्यधिकं ग-घ-पुस्तकयोः. २. 'यद्वा-' इत्यादिः '-अतिव्याप्तेः' इत्यन्तः पाठः पुस्तका- न्तरे नास्ति. ३. 'पदलक्षणमेवं वाच्यम्' इति पुस्तकान्तरे नास्ति. ४. 'अनेन' इति पुस्तकान्तरे नास्ति.
Page 76
द्वितीयः परिच्छेदः । २९
प्रवृत्तमुपलभ्य बालोऽस्य वाक्यस्य 'सास्त्ादिमत्पिण्डानयनमर्थः' इति प्रथमं प्रतिपद्यते अनन्तरं च 'गां बधान' 'अश्वमानय' इत्यादावावापो- द्वापाभ्यां गोशब्दस्य 'सास्रादिमानर्थः' आनयनपदस्य च 'आहरणमर्थः' इति संकेतमवधारयति। क्वचिच्च प्रसिद्धार्थपदसमभिहारात् यथा- 'इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति' इत्यत्र कचिदाप्तोप- वृद्धयोरुपन्यासः। तं मध्यमवृद्धं गवानयनप्रवृत्तं गवानयनगोचरयत्नवन्तमुपलभ्य ग- वानयनक्रियया अनुमाय बाल: संकेतग्रहाभाववान् अस्य 'गामानय' इत्यस्य प्रथमं शक्तिग्रहात्पूर्वे प्रतिपद्यते इति। अनुमितेन यत्नेन मध्यमवृद्धस्य गवानयनगोचरं ज्ञान- मनुमिनोति, तद्गोचरप्रवृत्ति प्रति तद्गोचरज्ञानस्य हेतुलात् ततस्तस्य ज्ञानस्य को हेतु- रित्याकाड्डायामुपस्थितत्वात् 'गामानय' इति वाक्यस्यैव तादृशज्ञानहेतुतां कल्पयतीति भावः । अश्वमानयेत्यादाविति । उक्ते इति शेषः । आवापोद्वापाभ्या- मिति। आवापोद्वापाभ्यामन्वयव्यतिरेकाभ्यां 'गां बधान' इत्यत्र गोपदसत्वे सास्ा- दिमत्पदार्थबोधः। आनयनपदव्यतिरेकेणाहरणपदार्थबोधाभावः। 'अश्वमानय' इत्यन्न गोपदव्यतिरेकेण सास्नादिमत्पदार्थबोधाभावः। आनयपदसत्त्वे आहरणपदार्थबोधः, इत्येवंरूपावन्वयव्यतिरेकौ। संकेतमभिधानामशक्तिम्। सा चातिरिक्तैव। न लस्मा- च्छब्दादयमर्थो बोद्धव्य इतीश्वरेच्छा। ईश्वरं दूषयतां पामरादीनामपि शाब्दबोधो- दयादतिप्रसङ्गाच्च। अत एवाधुनिकसंकेतितानां चैत्रादिपदानामपि संकेतः संग- च्छते न चाशौचव्यपगमे पिता नामधेयं कुर्यादिति सामान्यतश्वैत्रादिपदानामपी- श्वरसंकेतितत्वमिति वाच्यम्। तत्र तथागतिसंभवेऽपि यादच्छिकसंकेतितडित्थादि- पदानां संकेतासंगतिप्रसङ्गात्। तस्याश्र पदार्थे वैशिष््यं नाम संबन्धः कल्प्यते 'अयं घटपदाभिधेयः' इत्यादिप्रतीतिबलादिति सांप्रदायिकाः । क्वचिदिति। प्रेसिद्धस्य गृहीतसंकेतस्य पदस्य समभिहारात् साहचर्यात्। समीपोच्चारितत्वादित्यर्थः। प्रेक्षावद्भि: आयेण योग्यपदार्थोपस्थापकं पद समीपे प्रयुज्यत इत्यादिसंबन्धतः प्रसिद्धपदार्था- न्वययोग्यपदार्थावेशेषोक्तिग्रहो भवतीति भावः । एवं च शक्यार्थे योग्यतासत्त्वेऽपि वक्तृतात्पर्यविशेषस्यात्र हेतुतकल्पनात्तत्र न शक्तिग्रहः । संकेतमववारयतीत्यनु- षङ्ग: । एवमग्रेऽपि प्रभिन्नेति। प्रफुल्लेत्यर्थः । 'अत्र कमले मधुकरो मधु पि- बति' इति पदानामन्वययोग्यतार्थकत्वज्ञानेन मधुकरपदस्य भ्रमर एव शक्तिग्रहः। मक्षिकादौ तादृशयोग्यतासत्त्वेऽपि वक्तृतात्पर्यविशेषज्ञानाभावान्न शक्तिग्रहः । कम- लाभ्यन्तरे भ्रमर एव मधु पिबतीति जानता जनेन कमलपदसमभिहारान्मधुकर- पदस्य भ्रमरे संकेतो गृह्यते। आप्तोपदेशात् प्रामाणिकवचनात्। एतदुपलक्षणम्। 1. सास्नेति। सास्रा गलकम्बलः, आदिपदेन लाङ्गलककुदखुरादि गृह्यते. १. 'अर्थ' इति ख-घ-पुस्तकयोर्नास्ति. २. 'इह' ग-पुस्तके नास्ति. ३. 'संकेताग्रहवान्' इति पुस्तकान्तरे. ४. 'प्रसिद्धस्य-' इत्यादिः '-न शक्तिग्रहः' इत्यन्तो ग्रन्थः पुस्तकान्तरे न दृश्यते. ५. 'अत्र कमले-' इत्यादि: '-ज्ञानाभावान्न शक्तिग्रहः' इत्यन्तः पाठो बहुत्र नोपलभ्यते.
Page 77
३० साहित्यदर्पणे
देशात् यथा-'अयमश्वशब्दवाच्यः' इत्यत्र । तं च संकेतितमर्थ बोधयन्ती शब्दस्य शत्त्यन्तरानन्तरिता शक्तिरभिघानाम।
व्याकरणादयोऽपि शक्तिग्रहोपाया द्रष्टव्याः । तदुक्तम्-'शक्तिग्रहं व्याकरणोपमान- कोषाप्तवाक्याद्यवहारतक्ष। वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः ।।' इति। दाक्ष्यादिशब्दानां दक्षाद्यपत्येषु शक्तिग्रहो व्याकरणात्। गोसदश- पिण्डदर्शनादू गोसदृशो गवयपदवाच्य इत्यतिदेशवाक्यस्मरणे अयं गवयपदवाच्य इत्युपमानात्। 'विनायको विन्नराजद्वैमातुरगणाधिपाः' इत्यादौ कोषात। आप्तवाक्या- दित्रयमुदाहृतं खयमेव ग्रन्थकृता। वाक्यशेषाच्छक्तिग्रहो यथा-'यवमयश्चरुर्भवति। वाराही चोपानत्। वैतसे कटे प्राजापत्यं धिनोति' इत्यत्र यववराहवेतसशब्दाः किं म्लेच्छप्रयोगात् कट्ठवार्यसजम्बूनां वाचकाः, उत आर्यप्रयोगाद् दीर्घशूकसूकरवञ्जला- नामिति विप्रतिपत्तौ 'वसन्ते सर्वसस्यानां जायते पत्रशातनम्। मोदमानाश्च तिष्ठन्ति यवा: कणिशशालिनः ॥','वराहं गावोऽनुधावन्ति',अप्सुजो वेतसः' इति वाक्यशेष- रूपवेदविरोविनी म्लेच्छप्रतीतिः स्मृतिरिव वेदविरुद्धा हेया। इत्यार्यप्रयोगादेव दी- धशूकादौ शक्तिग्रह इति। शक्तिः कवित्ववीजरूपसंस्कारविशेष इत्यादौ विव्वृतेः। आ-
- अभिधेति। सेयमभिधा त्रिविधा-केवलसमुदायशक्तिः, केवलावयवशक्तिः, समु- दायावयवशक्तिसंकरश्चेति। आद्याया डित्थादिरुदाहरणम्, तत्रावयवशक्तेरभावात्। द्वितीया- यास्तु पाचकपाठकादिः, तत्र धातुप्रत्ययशक्तिबोध्ययोरर्थयोरन्वयेनोलसितात्पाककर्तृरूपा- दर्थादतेऽर्थान्तरस्यानवभासेन समुदायशक्तेरभावात्। तृतीयायाः पङ्कजादिः। इह धातुपद-
र्वृरूपादर्थादतिरित्तस्य पझ्मत्वविशिष्टस्य प्रत्ययेन तदर्थसमुदायशक्तेरपि कल्पनादुभयोः संकरः। एता एवंविधा रूढि-योग-योगरूढिशव्दैव्यपदिश्यन्ते। अश्वगन्धाश्वकर्णमण्डप- निशान्तकुवलयादिपदेपु का शक्तिरिति। अत्र केचित्-'अश्वगन्धारसं पिबेत्' इत्यादिषु विष- यविशेपे केवलसमुदायशक्तिः । 'अश्वगन्धा वाजिशाला' इत्यादिषु तु केवलयोगशक्तिः । समुदायावयवशक्त्योरुभयोरेकशब्दाश्रयत्वे कथं केवलत्वविशेषितयोराद्यद्वितीयभेदयोरिति तु न शङ्कयम्। समुदायावयवशक्तिवेद्ययोरर्थयोरन्वयेन ताटशशक््यो: कैवल्यस्य साम्रा- ज्यात्। इदमेव हि केवलत्वमिह विवक्षितं यदन्वयायोग्यार्थबोधकत्वम्। संकरस्त्वन्वययो- ग्यार्थवोधकयोरेवेति न तस्यात्र प्रसक्ति :- इत्याहुः । अन्ये तु-अश्वकर्णादिशब्देपु नाभि- धायाः प्रथमद्वितीययोविधयोः प्रसक्तिः । कैवल्यविरहात्। परंतु संकरस्य द्वौ भेदौ-यो- गरूढियौगिकरूढिश्च। तत्राधस्योदाहरणं पङ्कजादिशब्दाः । द्वितीयस्य त्वश्चकर्णादय :- इत्याहुः । 'चतुर्थ एवायमभिधाया भेदः' इत्यप्यन्ये। 'अखण्डा एव हि शब्दाः । तत्र समासेपु पदानां कृत्तद्विततिडन्तेषु च प्रत्ययानां विभाग: काल्पनिक एवेति कुत्रास्ति योगशक्ति:, विशिष्टस्य विशिष्टायें रूढेरेवाभ्युपगमादित्यपि वदन्ति ॥
१. 'रायस' इति पुस्तकान्तरे.
Page 78
द्वितीयः परिच्छेदः । ३१
संकेतो गृह्यते जातौ गुणद्रव्यक्रियासु च ॥४॥
त इति। द्रव्यं संज्ञाविषयः । संज्ञा च द्विविधा-चिरंतनी, आधुनीकी च। 1. संकेत इति। अत्रायं निष्कर्ष :- यद्यपि सकलप्रयोजनसंपादकतया व्यक्तिरेव संकेतसहा तथाप्यानन्त्याद्यभिचाराच्च न तत्र संकेतो युक्तः। तथाहि-किं सर्वासु गोव्यक्तिषु संकेतग्रहः, आहोस्वित् कस्यांचिदेकव्यक्तौ। नाद्यः। अनन्तानां गोव्यक्तीनां युगपदुपस्थानासंभवात्। नान्त्यः । यस्यां गोव्यक्तौ संकेतग्रहस्तदतिरिक्ताया गोशब्देन भानासंभवात् । अपि च व्यक्तिशक्तिवादे-'गौः शुकवर्णवांश्चलनक्रियावान् डित्थ- नामा' इत्यभिप्रायेण 'गौः, शुकः, चलः, डित्थः' इति प्रयोगे गवादिभिश्चतुमिरपि शब्दै- रेका सैव गोव्यक्तिरुच्यत इति पदार्थभेदो न स्ात्। तत्र व्यक्तेरेव पदार्थत्वात्, तस्याश्च प्रकृते एकत्वात्। तथा च विषयविभागाभावे गवादिशब्दार्थानां घटः कलश इत्यादीनामि- वैकार्थवाचकत्वेन सहप्रयोगो न स्यात। उपाधिशक्तिवादे तु-जातिगुणक्रियासंज्ञानां प्रवृत्तिनिमित्तभेदेन गवादिशब्दानां पर्यायत्वाभावाद् भवति सहप्रयोग इति। तत्र जाति- रगोत्वादि: संस्थानविशेषाभिव्यङ्गया प्रत्यक्षसिद्धा गवादिपदानामभिधेया। अनुमानसिद्धा च व्राणत्वरसनत्वादिर्ध्राणरसनादिपदानाम्। अयं जातिरूपः शब्द: प्राणप्रद इत्यभिधी यते। प्राणनं प्राणो व्यवहारयोग्यता। तं ददाति संपादयतीति प्राणप्रदस्तन्निर्वाहक इत्यर्थः । सर्वगोवृत्तिर्जातिरिति यावत् । 'प्राणप्रदत्वं च यावद्वस्तुस्थितिसंबन्धित्वम्' इति नरसिंहादयः । तदुक्तं वाक्यपदीये-'गौः स्वरूपेण न गौर्नाप्यगौः, गोत्वाभिसंबन्धाद्वौः' इति। अस्यार्थ :- गौः गोपदोद्देश्यः सास्ादिमान्धमीं स्वरूपेण जातिरहितव्यक्तित्वमात्रे- णेत्यर्थ इति व्याख्यातारः । अज्ञातगोत्वकेन धर्मिस्वरूपमात्रेणेत्यर्थ इत्यन्ये। न गौः। न गोव्यवहारनिर्वाहकः । नाप्यगौः । नापि गोभिन्न इति व्यवहारस्य निर्वाहकः । तथा सति दूरादनभिव्यक्तसंस्थानतया गोत्वाग्रहदशायां गवि गौरिति गोभिन्न इति वा व्यवहार: स्यात्। स्वरूपस्याविशेषाद्धटे गौरिति गवि चागौरिति वा व्यवहारः स्यादिति भावः । 'अगौः' इत्यत्र 'गोरतद्धितलुकि' इति टच्प्रत्ययो न भवति 'नञस्तत्पुरुषात्' इति निपे- धात्। गोत्वाभिसंबन्धाद्गोत्ववत्तया ज्ञानाद्वोगोंशब्दव्यवहार्य इति। एवं च यावद्ोव्यव- हारं तत्र गोपिण्डे गोत्वस्य सत्वात्प्राणप्रदत्वमिति भावः। एवं च नित्यमेकमनेकानुगत सामान्यं जातिरिति तलक्षणं बोध्यम्। गुणः शुक्कादिः शुक्गादिपदानामभिधेयः। शुक्का- दिना हि लब्धसत्ताकं गवादिकं वस्तु व्यावर्त्यंत इति तात्पर्यम्। अन्रेदं तत्त्वम्-उत्पन्नस्य द्रव्यस्य गुणेन पश्चाद् योग इति। एवं चोत्पन्नस्य द्रव्यस्य क्षणमेकं निर्गुणत्वम्। जाति- युक्तस्यैव द्रव्यस्योत्पत्तिः । 'जन्मना जायते जातिः' इत्युक्तेतः। एवं जातिगुणयोर्महान्भेद इति बहवः। प्रदीपकृतस्तु-'यद्यपि शुककत्वादेनित्यत्वाभ्युपगमे गोत्वादिना समकालमेव संवन्धित्वम्, तथापि तस्य संबन्धः कदाचिदपैत्यपि, न तु गोत्वादेरिति विशेषः' इत्याहुः। वदाचित्पाकादयवस्थायाम्। आदिपदेन रज्जनावस्थाया ग्रहणम्। पाकेन रञनेन च वर्णा- न्तरसंपादन इति तदर्थः । एवं च 'सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते। आधेय- श्वाक्रियाजश्च सोऽस्त्त्वप्रकृतिर्गुणः ॥' इति गुणलक्षणं बोध्यम्। अयमर्थ :- द्रव्यमाश्रयते,
Page 79
३२ साहित्यदर्पणे
जातिर्गोपिण्डादिषु गोत्वादिका । गुणो विशेषाधानहेतुः सिद्धो तत्राद्या हरिहरादिः। द्वितीया डित्थडवित्थादिः। जात्यादिपदार्थमाह-जातिरिति। गोपिण्डादिषु गोव्यक्त्यादिषु। सिद्धो नित्यः । एतन्मते गुणानामपि नित्यल्म्। आ-
तत एव च द्रव्यान्निवर्तते, भिन्नजातीयेपु द्रव्येपु दृश्यते यः स गुणः। एतेन जातर्गुणत्वं वारितम्। सा हि द्रव्ये निविशमाना द्रव्यं न कदाचिज्जहाति। नच भिन्नजातीयानि द्रव्याण्यभिनिविशत। यद्यपि गवाश्वादिषु प्राणित्वमस्ति, तथापि प्राणित्वेन तेषामेक- जातीयत्वमेव। ननु क्रियायाः पूर्वोक्तलक्षणयोगाद्गुणत्वं प्राप्नोति, सापि हि द्रव्ये निविशते, कदाचिद् द्रव्यान्निवर्तते, निष्क्रियं हि द्रव्यं कदाचिद् भवति, कदाचित्सक्रियम्, भिन्नजा- तीयानि च द्रव्याण्याश्रयतीत्याह-आधेय इति। उत्पाद्य इत्यर्थः । यथा घटादेः पाकजो रूपादि: । अक्रियाजोऽनुत्पाद्यः। यथा-आकाशादेरमहत्त्वादिः। क्रिया तूत्पादैव न नि- त्येति, तस्या द्वैविध्याभावाङ्गुणत्वाभावः। नन्वेवं द्रव्यस्यापि गुणत्वं प्राम्नोति, अवयविद्र- व्यमवयवद्रव्येपु निविशते, असमवायिकारणसंयोगनिवृत्तौ च विनाशात्ततोडपैति, भिन्न- जातीयपु च हस्तपादादिपु दृश्यते, द्विविधं तन्नित्यानित्यभेदेन निरवयवस्य द्रव्यस्यात्म- परमाण्वादेर्नित्यत्वादवयविद्रव्यस्यानित्यत्वादित्यत आह-असत्त्वप्रकृतिरिति। अद्रव्यस्व- भाव इत्यर्थः । 'पृथग्जातिपु' इत्यत्र व्यासः। समासे 'जात्यन्ताच्छ बन्धुनि' इति छः स्ात्। तत्र व्यक्तिपु जात्याधारेघु दृश्यमानो जातिपु दृश्यत इत्युच्यत इति 'वोतो गुणवचनात्' इति सूत्रे भाष्यकैयटयो: स्पष्टम्। क्रिया च भावना उत्पादयितुर्व्यापाररूपा साध्यत्वेना- भिधीयमानेति श्ञेयम् । तदुक्तम्-'व्यापारो भावना सवोत्पादना सैव च क्रिया' इति, 'यावत्सिद्धमसिद्धं वा साध्यत्वनाभिधीयते। आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ॥' रति च। यावदिति। सर्वमित्यर्थः । सिद्धमसिद्धं वेति। सिद्धं वर्तमानध्वंसप्रतियोगि। तद्भिन्नम- सिद्धम्। तच्च वर्तमानं भविष्यच्चेति द्विविधम्। तेन 'अपचत्' 'पक्ष्यति' 'पचति' इत्यादौ सर्वत्र साध्यत्वेनासत्त्वरूपत्वेनाभिधीयमाना क्रियेति क्रियाशब्दस्य रूढिदर्शिता। यौगिकत्व- मप्याह-आश्रितति। आश्रितक्रमं रूपं यस्यास्तत्त्वात्। पूर्वापरीभूतावयवकत्वादित्यर्थः । तदीयावयवानामधिश्रयणाद्यघःश्रयणपर्यन्तानां क्रमेणोत्पत्तेः । क्रियापदेन तत्समुदायो- डभिधीयते। यत्र च क्रमिको व्यापारोडस्ति तत्र रूढिरादरणीयेति पौर्वापर्यारोपणेन वा सर्वत्र फलस्य स्वजनकव्यापारगतपौर्वापर्यारोपाद्यौगिकत्वम्। किंच क्रमिकावयवानामेक- दासत्वेडपि यति्कचिदवयवसत्त्वकाले वर्तमानत्वव्यवहारः। अवयवावयविनोरभेदारोपात्। भूतभविष्यत्त्वव्यवहारस्तु सर्वेपामवयवानां भूतभविष्यत्वयोरेव। न तु यत्किंचित्क्रियाभू- तत्वादौ। उत्तं च-'गुणभूतैरवयवैः समूहः क्रमजन्मनाम्। बुध्धा प्रकल्पिताभेदः क्रि- येति व्यपदिश्यते ।।' इति। अस्यार्थ :- क्रमिकतत्तद्यापारं प्रति गुणभूतैर्गुषभावेन भास- मानैरवयवैरुपलक्षितः एकत्वबुद्या प्रकल्पितोडमेदो यसि्मिंस्तद्रपः क्रमजन्मनां व्यापारा- णां समूहः क्रियेति। अत्र क्षणनश्वराणां व्यापाराणां मेलनाभावेन बुध्धेत्युक्तम्। तथा च-बुद्धिजन्यसंस्कार द्वारा तेषां मेलनसंभव इति भावः । अत एव भाष्ये-'क्रिया हि नामेयमत्यन्तापरिदृष्टा पूर्वांपरीभूतावयवा न शक्यते पिण्डीभूता निदशयितुम्' इति। व्यापारसमुदायात्मिकायाः क्रियाया दर्शनायोग्यत्वोकत्या तदवयवानां तद्विषयत्वं व्यति-
Page 80
द्वितीय: परिच्छेदः । ३३
वस्तुधर्मः । शुक्कादयो हि गवादिकं सजातीयेभ्यः कृष्णगवादिभ्यो व्या- वर्तयन्ति। द्रव्यशब्दा एकव्यक्तिवाचिनो हरिहरडित्थडवित्थादयः । क्रियाः साध्यरूपा वस्तुधर्माः पाकादयः । एषु हि अधिश्रयणावश्र- यणान्तादिपूर्वापरीभूतो व्यापारकलापः पाकादिशब्दवाच्यः । एप्वेव हि व्यक्तेरुपाधिषु संकेतो गृह्यते। न व्यक्तौ। आनन्त्यव्यभिचारदो- षापातात्। विर्भावतिरोभावावेव उत्पत्तिविनाशप्रतीतिविषयौ। वस्तुधर्मो द्रव्यमात्रवृत्तिः । विशे- षाधानहेतुत्वमुपपादयति-शुककादयो हीति। साध्यरूपा जन्यस्वभावाः। एषु साध्यरूपवस्तुधर्मेषु। अधिश्रयणेति। अधिश्रयणादीत्यर्थः। अधिश्रयणं चुन्न्यां स्था- ल्या आरोपणम् आदिराद्यवयवो यस्य। अवश्रयणं चुह्न्यां स्थाल्या अवरोपणम्। अन्तो- Sन्तावयवो यस्य, तयो: कर्मधारयः। आदिशब्देन गृहनिर्गमादिग्रामान्तरप्रवेशान्तप्रभृ- तीनां ग्रहणम्। पाकादीत्यादिना गमनादिग्रहणम्। एष्वेव हीति। जात्यादिषु चतुर्षु मध्ये ये व्यक्त्तेरुपाधयो धर्माः जातिगुणक्रियास्वरूपास्तेष्वेवेत्यर्थः । संज्ञाशब्दानां तु व्यक्तावेव संकेतग्रहः । द्रव्यस्य शक्तिव्यतिरिक्ततवाभावेनोपाधिताभावान्नानालाभावे- नोक्तदोषद्वयाभावाच्च। अत एवोक्तम्-'द्रव्यशब्दा एकव्यक्तिवाचिनः' इति। केचित्तु 'सज्ञाशब्दानां संज्ञायामेव संकेतग्रह उपस्थाप्योपस्थापकभावेनाविनाभावादू व्यक्तेराक्षेपः' इत्याहुः। तन्न। संज्ञायाः शब्दानतिरिक्तत्वेन तस्य चोच्चारणभेदेन भिन्नतया निरुक्तदोषद्यप्रसङ्गात्। एवं च डित्थत्वादिकं व्यक्तिस्वरूपमेव न तु पदार्था- न्तरमव्यवधेयम्। आनन्त्येति। नानाव्यक्तिषु नानाशक्तिकल्पनागौरवमित्यभि- प्रायः। ईश्वरेच्छापक्षे तद्विषयतस्य नानात्वकल्पनमेव गौरवमित्यवगन्तव्यम्। ननु नानन्तव्यक्तिषु शक्तिग्रहः, किंतु दृष्टव्यक्तावेवेति कुतो गौरवमित्यत आह-व्यभि- चारेति। संकेतग्रहकालादृष्टव्यक्तावपि बोध्यस्य कार्यस्य सत्त्वाद् व्यक्तिसंकेतग्रह- रेकमुखेन दशिंतम्। तस्याश्चाभिन्नैकबुद्धिविषयतयैकत्वव्यवहार इत्यपि बोध्यम्। अथ च शुक्कादीनां चलादीनां च प्रतिव्यक्तिभेददर्शनादानन्त्यव्यभिचाराभ्यां व्यक्तिशक्तिवाददो- षाभ्यामिहापि कलुषीकरणमिति चेत्, तेषां लाघवात्प्रत्यभिज्ञाबलाच्चकताया अभ्युपगमात्। तदुक्तम्-'गुणक्रियायदृच्छानां वस्तुत एकरूपाणामाश्रयभेदान्ेद इव लक्ष्यते' इति । तथा च भेदप्रतीतिर्भ्रम एवेति भावः । इदसुपलक्षणम्। उत्पत्तिविनाशप्रतीतिरपि तथैव । वर्ण- नित्यतावादे गकाराद्युत्पत्तिविनाशप्रतीते श्र्मत्वस्य स्वीकारात्। यादृच्छिकस्तु वक्रा स्वे- च्छया डित्थादिशब्दाना प्रवृत्तिनिमित्तत्वे संनिवेशितो धर्मः स च 'परम्परया व्यक्ति गतश्चरमवर्णांभिव्यङ्गयोऽखण्डः स्फाटः' इत्येके । 'आनुपूर्व्यव्यवच्छिन्नो वर्णसमुदायः' इत्यपरे 'केवला व्यक्तिरेव' इतीतरे। तत्राद्यमतद्ये विशेषणज्ञानाद्विशिष्टप्रत्ययः । तृती- यमते च निर्विकल्पात्मकः प्रत्ययः । तदित्थं चतुष्टयी शब्दानां प्रवृत्तिरिति दर्शनं व्यव- स्थितम्। सर्वेषां शब्दानां जातिरेवार्थः । गुणक्रियाशब्दानां गुणक्रियागतायाः यदृच्छा-
भिधेयतासंभवात्। इति जातिशक्तिदर्शनमिति संक्षेपः ।
Page 81
३४ साहित्यदपणे
अथ लक्षणी- मुख्यार्थवाधे तद्युक्तो ययान्योऽर्थः प्रतीयते। रूढे: प्योजनाद्वासौ लक्षणा शक्तिरर्पिता ।५॥ रूपकारणस्य सिद्धलवाद् व्यभिचार इति भावः। ननु गुणक्रियाणां प्रतिव्यक्तिभिन्नत्वेन आनन्त्यव्यभिचाराभ्यां कथ संकेतग्रह इति चेतू न। तन्मते गुणादीनामपि जाति- वदेकत्वमेव। भेदप्रतीतिस्तु आश्रयभेदादोपचारिकी। एतदसहमाना अन्ये जाता- वेव शक्तिरिति वदन्ति। यथा काव्यप्रकाशे-'संकेतितश्चतुर्भेदो जात्यादिर्जातिरेव वा' इति। एतन्मते गवादौ गोलादिरिव, शुक्कादौ शुक्कत्वादिः, पाकादौ पाकत्वादिः, डित्थादौ डित्थत्वादिरस्ति। डित्थादीनां प्रकृत्यवस्थाकालभिन्नत्वेन भिन्नत्वाङ्गीकारात्त- दृत्तिडित्थत्वादिजातिसवीकारः। एवं शुक्कत्वादिजात्याश्रयस्य शुक्कादिगुणस्यैवाक्षेपः । पटादिपरत्वे तु लक्षणवेति मन्तव्यम्। ननूपाधौ संकेतग्रहाङ्गीकारे 'विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेपणे' इति न्यायाद् 'गामानय' इत्यादौ गोपदादिना कथ गवादे- ग्रह इति चेत्, न। गवादेराक्षेपेण लाभात्। तदुक्तम्-'व्यत्त्यविनाभावात्तु जाला व्यक्तिराक्षिप्यते'। यथा-'क्रियते' इत्यादौ कता। 'कुरु' इत्यादौ करमेति। आक्षेपो नानुमानम् । व्याप्यादिज्ञानव्यतिरेकेणापि व्यक्तरनुभवात्। किंतु स्मरणमेव, गोलादि- प्रकारकगवादिस्मरणाभावेन गोत्वादिविशिष्टशाब्दबोधानुपपत्तेः। अत एवोक्तम्- 'जातिशक्तं पदं व्यक्तिमेवानुभावयति स्मारयति च' इति। जातिशक्तमुपाविशक्त- मित्यर्थः ॥ अथ लक्षणेति। अभिधानिरूपणानन्तरं लक्षणा निरूप्यत इत्यर्थः । मु- ख्यार्थस्याभिधेयार्थस्य। बाधे अन्वयानुपपत्तिग्रहे। अत्र मुख्यार्थसंबन्धग्रहे' इसपि बोध्यम्। तेन विना लक्षणाया अग्राहकत्वात्। उक्त च-'संवन्धानुपपत्तिभ्यां शब्दलक्षणा' इति। तद्यक्त इति। मुख्यार्थसंबन्धीत्र्थः । मुख्यार्थासंबन्विनि लक्षणा नास्तीति सूचनायैतत्। अन्यो मुख्यार्थतावच्छेदकातिरिक्तधर्मावच्छिन्नः । मुख्यार्थभिन्न इत्यर्थस्तु न मनोरमः। प्रयोजनाभावात्। सार्थस्यापि बोधिकायामुपा- दानलक्षणायां 'रामोऽस्मि सर्वे सहे' इति वक्ष्यमाणायां स्वार्थस्यैव दुःखसहिष्णुत्वेन
- मुख्येति। यद्यपि 'काकेभ्यो दधि रक्ष्यताम्' 'छत्रिणो यान्ति' इत्यादौ न मुख्यार्थ- बाधस्तथापि तात्प्यार्थविषयवाक्यार्थवोधाभावोऽत्राभिप्रेतः। आधे उपघातकत्वेनैव मुख्यार्थ- स्यान्वयो न तु काकत्वेन, अन्त्ये एकसार्थप्रवृत्तत्वेनैव मुख्यार्थस्यान्वयो न तु च्छत्रित्वेनेति नाव्याप्तिः। यत्र काकमात्रे तात्पर्थ न तत्र लक्षणा। पतेन तात्पर्यानुपपत्तिरेव लक्षणाबीज नत्वन्वयानुपपत्तिरिति सूचितम् । यद्यपि 'यष्टीः प्रवेशय' 'गङ्गायां घोषः' इत्यादावुभयापे- क्षादर्शनाद्विनिगमनाविरहस्तथापि 'गङ्गायां घोषः' इत्यत्र तात्पर्याभावे कुतो गङ्गापदेऽपि स्वार्थसंबन्धिनौकादौ न लक्षणा, तावताप्यन्वयानुपपत्तिशान्तेः। अतस्तात्पर्यानुपपत्तिरेव लक्षणावीजमित्यवधेयम्। घोषपदस्य मीनादौ लक्षणा कि न स्यादिति तु न युक्तम्। न विधौ परः शब्दार्थ इति लक्षणायाः कर्तुमशक्यत्वादिति दिक्॥
१. 'निरूप्यते' इत्यधिकं ग-पुस्तके.
Page 82
द्वितीय: परिच्छेदः । ३५
'कलिङ्ग: साहसिकः' इत्यादौ कलिङ्गादिशव्दो देशविशेषादिरूपे स्वार्थेऽसंभवन्यया शब्दशत्त्या ससंयुक्तान्पुरुषादीन्प्रत्याययति, यया च 'गङ्गायां घोषः' इत्यादौ गङ्गादिशब्दो जलमयादिरूपार्थवाचकत्वात्प्र- कृतेऽसंभवन्स्वस्य सामीप्यादिसंबन्धसंबन्घिनं तटादिं बोधयति, सा शब्दस्यार्पिता स्वाभाविकेतरा ईश्वरानुद्धाविता वा शक्तिर्लक्षणा नाम। पूर्वत्र हेतू रूढि: प्रसिद्धिरेव। उत्तरत्र 'गङ्गातटे घोषः' इति प्रतिपाद- वोधिकायां रामशब्दलक्षणायामव्याप्याधायकत्वाच्च। अत एव 'कदली कदली-' इत्यादयर्थान्तरसंक्रमितवाच्यलक्षणामूलध्वनेरुदाहरणमपि संगच्छते। अन्न द्वितीयक- दल्यादिपदानां पौनरुत्त्या कदलीत्वादिना अन्वयमलभमानानां शीतत्वादिना कदल्या- दिरूपमुख्यार्थस्यैव बोधकत्वेन लक्षणास्ीकारात्। एवं 'पण्डितकवयः कवयोऽन्ये कवयस्तु केवलं कवयः' अत्र द्वितीयकविपदस्य काव्यजन्यलाभपूजाख्यात्यादिभागि- त्वेन कवेरेवोपस्थापनेऽपि लक्षणा। एवं च सामान्यशब्दस्य विशेषपरत्वेऽपि लक्षणा संभवति। शक्यतावच्छेदकघटितविशिष्टधर्मस्यापि शक्यतावच्छेदकातिरिक्तत्वस्वी- कारातू यथा 'त्वामस्मि वच्मि-' इत्यादौ। रूढि: प्रसिद्धिः। सा च भूरिप्रयोगरूपा तस्या ज्ञानात्। अवाचकशब्दप्रयोग: सप्रयोजनक इति सामान्यतः प्रयोजनज्ञानाद्वा। प्रयोजनस्य विशेषज्ञानं तु लक्षणाजन्यबोधानन्तरमेव भवतीति तस्य हेतुत्वमनुपप- न्नम्। 'प्रयोजनादित्युद्देश्ये पश्चमी' त्यन्ये। अन्न प्रागुक्तयोर्दण्डचक्रादिन्यायेन मिलित- योरेव कारणत्वम्। चरमयोस्तु तृणारणिमणिन्यायेन प्रत्येकमेवेति विशेषज्ञापनाय भिन्नविभत्त्या व्यवधानेन च तेषां निर्देशः । वक्तृतात्पर्य हि लक्षणा। तच्ास्माच्छ- ब्दान्मुख्यार्थसंबन्धी बोद्धव्य इति वक्तुरिच्छाविषयत्वम्। निरुक्तहेतवस्तु तस्या एव बोधकाः। एवं च निरुत्तहेतुत्रयजन्यज्ञानविषयीभूतलक्षणया मुख्यार्थसंबन्धी प्रत्या- व्यत इति भाव: । मुख्यार्थसंबन्धबोधिनी या व्यज्ञना तत्रैतादृशज्ञानविषयत्वाभा- वान्नातिव्याप्तिः। रूढिहेतुकायाः प्रयोजनहेतुकायाश्च लक्षाणायाः प्रसिद्धलक्षणयोर्ल- क्षणां संगमयन्कारिका विवृणोति-कलिङ्ग इति। साहसं चेतनधर्मः । तस्याचेतने देशविशेषेऽ्नुपपत्ति दर्शयति-कलिङ्गादिशब्द इति। देशविशेषे खार्थ वर्त- मान: कलिङ्गादिशब्दोSसंभवन्साहसिक्याद्यन्वययोग्यमर्थमभिधया बोधयितुमशकुव- न्नित्यर्थः। सवसंसुक्तान्सार्थसंबद्धान्। प्रकृते घोषवसनाद्यन्वययोग्येSसंभवन्नभिधया वर्तितुमशक्कुवन्। केचिदभिधां साभाविकं शब्दव्यापारं वदन्ति। तनये लक्षणायां वैलक्षण्यमाह-स्वाभाविकेतरेति। अन्ये त्वीश्वरेच्छाविषयत्वरूपमाहुः । तन्नये त्वाह-ईश्वरेति। अनुद्भाविता अनुत्थापिता। इदानींतनवक्तभिरुत्थापितेति यावत्। पूर्वत्र कलिङ्ग इत्यादौ। उत्तरत्र गङ्गायामित्यादौ। गङ्गातट इति। प्रतिपादयतीति प्रतिपादनं वाक्यम्, तदलभ्यस्य। मुख्यशब्दघटितवा- क्येनाप्रतिपाद्यस्येत्यर्थः । तीरस्य विप्रकृष्टांशगतशीतत्वाद्यपेक्षया संनिकृष्टांशगतशीत- १. 'इत्यन्न' क. २. 'पण्डिताः' इत्यसमस्तं पुस्तकान्तरे.
Page 83
३६ साहित्यदपणे
नालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनं हेतुं विनापि यस्यकस्यचित्संबन्धिनो लक्षणेऽतिप्रसङ्गः स्यात्, इत्युक्तम्-'रूढे: प्रयोजनाद्वापि' इति। केचित्तु'कर्मणि कुशलः' इति रूढावुदाहरन्ति। तेषामयमभिप्रायः- कुशांल्लातीति व्युत्पत्तिलभ्यः कुशग्राहिरूपो मुख्योऽर्थः प्रकृतेऽसंभव- न्विवेचकत्वादिसाधर्म्यसंबन्धसंबन्धिनं दक्षरूपमर्थ बोधयति। तदन्ये न मन्यन्ते। कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वेऽपि दक्षरूपस्यैव मु- ख्यार्थत्वात्। अन्यद्धि शब्दानां व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम्। त्वादेराधिक्यमत्रातिशयः । एवं च 'अतिशीतेऽतिपावने तीरे घोषः' इति व्यञ्ञना- जन्यबोधो लाक्षणिकशव्दप्रयोगस्य प्रयोजनमिति भावः । 'कोश्चिन्नैव त्वश- क्तितः' इति लक्षणाया निषेधः उक्तः । अशक्तितो रूढिप्रयोजनविरहात्। यथा- 'कमले चरणाघातं मुखं सुमुखि तेऽकरोत्'। अत्र निर्जितत्वं लक्ष्यते। एषा नेयार्थ- लक्षणा दोपतया वक्ष्यते। सा च कविप्रयोगानर्हत्वात् प्रकृतलक्षणस्य लक्ष्या न भव- तीति तत्रातिव्याप्तिवारणाय चरमहेतुद्वयं न्यस्तम्। तदेव दर्शयति-हेतुमिति। रूढिप्रयोजनयोरन्यतरमित्यर्थः । संबन्धिनो मुख्यार्थसंबन्धिनः । लक्षणे लक्षणाया- मुदाहरन्ति-'काव्यप्रकाशकारादयः' इति शेषः । लाति गृह्नाति । व्युत्पत्तिः प्रकृ- तिप्रत्यय विभागकल्पना। तल्लभ्यस्तत्प्रतिपाद्यः। प्रकृते लौकिककर्मान्वयेऽसंभवन्यो- ग्यतामलभमानः पदार्थस्यान्वयानुपपत्तिप्रतिसंधानद्वारा लक्षणायामुपयोनित्व मित्यभि- प्रायेणेदम्। अन्य इति। सपक्षाभिप्रायेण दक्षरूपस्यैवेत्येवकारेण कुशग्राहिव्यव- च्छेदः । अत्र हेतुमाह-अन्यद्धीति । व्युत्पत्तिलभ्यार्थप्रतीतौ प्रकारीभूतो धर्मो व्युत्पत्तिनिमित्तं यथा गोशब्दस्य गमनकर्तृत्वं संकेतग्रहे प्रकारीभूतो धर्मः प्रवृत्तिनि-
- तद्न्य इति। नातिरुचिरमेतत् : असति वाधकेऽवयवशक्ते रूढिशक्त्या नियत्र- णायोगेन कुशलपदस्य कुशग्राहिणि शक्तत्वमव्याहतमेव। किंच प्रयोगप्रवाहेणैव प्रवृत्ति- निमित्तत्वस्वीकारे यौगिकव्यवहारस्य मूलच्छेदो दुर्वारः। तथा चाल्लादनार्थकाच्चदिधा- तोरौणादिके रकि निष्पन्नस्य चन्द्रपदस्य शशिनि योगशत्तया नियत्रितस्याप्यन्यथा प्रवृत्ति- निमित्तत्वे तत्पदादेव स्वर्णकर्पूरकाम्पिल्लमेचकपदार्थानां भाने खण्डाखण्ड योः को भेदः। अत एव 'अश्वगन्धादिपदमौपधिविशेषबोधे रूढम्। अश्वसंबन्धवत्तया वाजिशालाबोधे यौ- गिकमिदं यौगिकरूढमित्युच्यते। 'रूढियोंगापहारिणी' इति प्रकरणाद्यभावे बोध्यम्। यत्र मण्डपपदादिभ्यो मण्डपानकर्त्रादे रूढ्यर्थमण्डपादिगुणवत्वेन® बोधस्तत्र प्रथमप्र- तीतरूढिविषयमुख्यार्थांत्यागेन योगादू रूढिपूर्वकलक्षणाया बलवत्वेन लक्षणयैव बोधः' इति मअपायां व्यवस्थापितम्। एतेन कुशलपदे दक्षत्वरूपाखण्डोपाधिमात्रं समर्थयतष्टी काकृतोऽप्युक्तिर्न पेशला॥
१. 'कैश्ित्' इति पुस्तकान्तरे.
Page 84
द्वितीयः पारेच्छेदः । १७
व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे 'गौः शेते' इत्यत्रापि लक्षणा स्यात्। 'गमेर्डोंः' (उणादि-२/६७) इति गमधातोर्डोप्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकालेऽप्रयोगात् ॥ तद्भेदानाह- मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये। स्यादात्मनोऽप्युपादानादेषोपादानलक्षणा ॥ ६॥ मित्तं यथा गोवजातिः । शब्दानां व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तमिति तुन नि यमः 1 पाचकादिशव्दस्य द्वयोरैक्यसत्वेऽपि गवादिशब्दस्य व्यभिचारात्। प्रकृते तु कुशग्राहित्व रूपव्युत्पत्तिनिमित्तस्यानेकपदार्थघटितत्वेन गुरुत्वात्तदपेक्ष्य लघुना दक्षत- रूपाखण्डोपाधिनैव कुशलशव्दस्य संकेतग्रहः । नतु रूढिवद्युत्पत्तिरपि पदार्थोप- स्थापिकेति रूढिविषयस्येव व्युत्पत्तिविषयस्यापि मुख्यत्मास्ताम्, इति चेतू, न। रूढ्या प्रतिरुद्धाया व्युत्पत्तेः पदार्थोपस्थापकत्वाभावात्। तदुक्तं भट्टपादैः- 'लब्ध्यात्मिका सती रूढिर्भवेद्योगापहारिणी। कल्पनीया तु लभते नात्मानं योगबा- धतः ॥I' इति लब्ध्यात्मिका जनितपदार्थोपस्थितिका कोषपरम्पराप्रसिद्धा सत्यनादि- सिद्धा योगापहारिणी व्युत्पत्तिलभ्यार्थप्रतीतिप्रतिवन्धिका कल्पनीया। लाघवप्रति- संधातृभिरिदानींतनैरुद्ावनीया। आत्मानं पदार्थोपस्थितिं न लभते न जनयति। योग- बाधतः योगेन बाधनात्। रूढेस्तस्याः पदार्थोपस्थापकत्वस्य च कल्पनामपेक्ष्य कप्तयोग- स्यैव पदार्थोपस्थापकत्वमात्रं कल्प्यत इति भावः। व्युत्पत्तिलभ्यस्य मुख्यलखीकारे दोषमाह-व्युत्पत्तिलभ्यस्येति। मुख्यार्थत्वे मुख्यार्थलसीकारे शयनकाले गमन- कर्तृरूपमुख्यार्थबाध इति भावः। यदि पुनरुणादिप्रत्ययानां व्युत्पत्ते: प्रायिकत्वमुपग- म्यते सदा 'निषक्के सायकाः सन्ति' इत्यत्र लक्षणापत्तेर्दोषो द्रष्टव्यः। 'षो अन्तकर्मणि' इत्यस्माण्ण्वुल्प्रत्ययनिष्पन्नस्य सायकशब्दस्य विनाशाभावकालेऽपि प्रयोगादिति। लक्ष- गाया: सामान्यलक्षणमुक्ला विशेषलक्षणमाह-मुख्यार्थस्येति। अन्नापि ययेत्य- ध्याहार्यम्। तृतीयार्थे षष्ठी। वाक्यार्थ इति। सप्तम्यर्थो घटकलम्। तथा च मुख्या- र्थस्य वाक्यार्थघटकान्वयबोधाय यया वृत्या वाक्यार्थे समभिव्याहृतपदार्थे आत्मनो- Sविकारादन्यस्याप्यन्वयसिद्धये अन्वयबोधाय मुख्यार्थेन इतरस्य शक्यतावच्छेदका- तिरिक्तधर्मावच्छिन्नस्य आक्षेपः प्रत्यायनम् एषोपादानलक्षणा स्यादित्यर्थः । संज्ञा- बीजमाह-आत्मनोऽपीति। मुख्यार्थस्यापीत्यर्थः । उपादानात् प्रत्यायनात्। १. 'इति' क पुस्तके नास्ति. २, पुस्तकान्तरे 'भट्टैः' इत्येवास्ति. ३. 'जनित-' इत्यादि: परन्प- राप्रसिद्धा' इत्यन्तः पाठः पुस्तकान्तरे न दृश्यते. ४. 'व्युत्पत्ति' इत्यादिः '-भावः' इत्यन्तः पाठः उुस्तकान्तरे नास्ति. ५. 'अत्रापि ययेत्यध्याहार्यम्' इति पुस्तकान्तरे नास्ति. ६. 'वाक्यार्थ इति' इति पुस्तकान्तरे नास्ति. ७. पुस्तकान्तरे 'तथा च-' इत्यादिः '-एषोपादानलक्षणा स्यादित्यर्थः' इत्यन्तः पाठो न दृश्यते, किंतु तत्र 'वाक्यार्थघटकस्यान्वयोपपत्तये मुख्यार्थेन इतरस्य मुख्यार्थसंव- न्धिन आक्षेपो झटित्युपस्थितिर्यया सा उपादानलक्षणेत्यर्थः। अत्र मुख्यार्थस्योपयोगित्वं स्वबाधसं- बन्धज्ञानाभ्यामेव' इति पाठमिदोपलभ्यते. ८. 'अपरित्यागात्' इति पुस्तकान्तरे. सा० द० ४
Page 85
३८ साहित्यदर्पणे
रूढावुपादानलक्षणा यथा-'शेतो धावति'। प्रयोजने यथा-
मुख्यार्थविषयिणी प्रतीतिरुपादानम्, तद्वेतुर्लक्षणा उपादानलक्षणा। यद्वा उपादीयते सार्थो गृह्यतेऽनेनेत्युपादानम्, सन्नान्नी लक्षणा उपादानलक्षणा। 'उपादानं लक्षण च' इति काव्यप्रकाशे नाम व्यक्तम्। अन्न लक्ष्यार्थः । क्रचिन्मुख्यार्थ एव। क्वचिन्मुख्यार्थ- विशिष्टो मुख्यार्थभिन्न एव। क्वचिन्मुख्यार्थस्तद्भिन्नश्वेत्युभयम्। आद्यो यथा-'क- दली कदली-' इत्यादि। द्वितीयो यथा-'कुन्ताः प्रविशन्ति' इति। तृतीयो यथा- 'एते राजकुमारा गच्छन्ति' इति। अभिधाजन्यमुख्यार्थोपस्थितेरन्वयानुपपत्ति- अ्रहाद्युपक्षीणत्वेन तदुपस्थितये पुनर्लक्षणापेक्षेत्यवगन्तव्यम्। ननु 'छत्रिणो यान्ति' इत्यादावुपादानलक्षणायामन्वयानुपपत्तिग्रहविरहात्कथं सामान्यलक्षणगमनम्। न चात्र लक्षणैव नास्ति, किंतु 'देवदत्तो याति' इत्यादिवाक्ये तङ्कत्यानुसरणमिव वक्त्रादिवैशि- स्यसचिवया व्यञ्जनयैव छत्रिभिन्नगमनादि प्रतीयत इति वाच्यम्। तथा सति राज- कुमारेपु तत्मदशेपु च गच्छन्मु 'राजकुमारा गच्छन्ति' इति गौणोपादानलक्षणोदाह- रणमसंगतं स्यात्। उदीच्यवोधेऽनुभवसिद्धं मुख्याथविपयत्वं च न स्यात्। अत्र केचित्-'मुख्यार्थवाधक्ष तात्पर्यविपयस्यान्वयस्य मुख्यतावच्छेदकरूपेण निर्वाहे एव। 'गज्ायां घोषः' इत्यादौ तात्पर्य विपयस्य तीरादौ घोपान्वयस्य मुख्यतावच्छेदकप्रवाह- त्वादिना 'छत्रिणो यान्ति' इत्यादौ तात्पर्यविषयस्य छत्र्यच्छत्रिणां गमनाद्यन्वयस्य मुख्यतावच्छेदकच्छत्रितादिना चानिर्वाहात्' इत्याहुः, तन्न। तात्पर्यस्य प्रथममुप-
१. 'मुग्यार्थ-' उत्यादि '-यद्ा' इत्यन्तः पाठः पुन्तकान्तरे नास्ति. २ एकन्गिन्पुद्स्के "उादान कक्षणं चेत्युक्ता शुद्धत्र सा द्विधा' इति काव्यप्रकाशे तनाम। अत्र वाक्यार्थ इत्यनेन तात्पर्यविशेषो वा- क्यार्थी न्ामः, अन्यर्थेदननर्थकम्, नेन 'छत्रिगो यान्ति' इत्यन्न उत्निगमनकर्तत्वरूपवाक्यार्थस्य घ्रट- कोमयान्वयबोघाय सुख्यार्थस्याक्षपो युज्यते। 'कदली कदली-' इत्यादातुपादानलक्षणासंग्रहाय शक्ष्य नावच्छेदकातिरिक्तति। अत्र क्वचिन्मुख्यार्थ एव धर्मान्तरेण प्रतीयते। यथा-'कदली कदली-'इत्यादी। अन द्वितीयकद्लीपदं शैत्यरूपधर्मान्तरेण कदलीमेव बोधयति। कचिन्मुखव्यार्थरतन्विवश्ध धर्मान्तरेण प्रतीयते। यथा-'काकेभ्यो रक्ष्यतामन्नम्' इत्यत्र काकपदेनात्रोपघातकत्वेन काककुढडरमार्जारा लक्ष्यन्ते। अत्र प्रयोजनामावादृढिः । 'छत्रिणो याप्ति' इत्यादौ छत्रिसार्थवाहित्वेन छत्रिणस्तन्भिचाश प्तीयन्ते। छत्रिणां वाहुल्यमनिरत्र प्रयोजनम्। कचिन्मुख्यार्थविशिष्टः प्रतीयते। यथा-'श्वेतो धावनि' 'कुन्ता' प्रविशन्ति' इति। ननु 'काकेभ्यो रक्ष्यनामन्नम्' इत्यादावन्वयानुपपत्तिरेव नास्ति कथं लक्षणनि चेनू, न ! नात्पर्यवरिपयस्यान्वयस्य काकत्वरूपशक्यनावच्छेदकेनानिर्वाह: स्फुटः। एवमन्यत्ापि। अनयोहींति। मतरिसद्धये स्वस्य प्रकारनयान्वयसिद्धये। आक्षियन्ते ससंपर्किपदै प्रत्याय्यन्ते। मुख्यार्थस्योपयो- गित्वान्वयानुपपत्तिज्ञानेन सवसवन्धित्वज्ञानेन च संभवति। अत्रेदमवधेयम्-'श्वेतो धावति' इत्यादावि- तराक्षेपेऽपि श्वेतस्य गुणतया क्रियावैशिष्टथरूपकर्तृत्वस्यापि बाध इति। तस्योपलक्षणरूपप्कारतयैव बोधः । 'यष्टयः प्रविशन्ति' इत्यादौ यष्टीनां क्रियासंभवाद्विशेपणतया बोधः । कृत्निमत्वरूपकर्तृत्वपक्षे- नृभयत्रैवर तद्टाधाद्द्योरेवोपलक्षणत्वेन प्रकारत्वमिति प्रयोजनीभूतज्ञानविपयः । एवमन्यत्रापि। अस्या: संज्ञान्तरमाह-इयमेवरेति। अजहृदत्यजत् सारथों याम्। 'गां वन्नीयात्' इत्यादौ नोपादानलक्षणोदा- हर्नव्या। रूढिप्रयोजनाभावात्। किंत्वाक्षेपादेव व्यक्तेस्तत्र लाभः। न चात्र प्रयोगमाचुर्यरूपा रूढि- रस्नीति वाच्यम्। लक्ष्यार्थविनिर्माकिण शक्यार्थे प्रयोगार्हस्य शब्दस्य लक्ष्यार्थ प्रयोगप्राचुर्य रूढिरिति िनक्षणात्। अन्यथा 'जात्या व्यक्तिराक्षियत' इति माचीनप्रवादविलयः स्यात् ॥" इति पाठो दृशयते.
Page 86
द्वितीय: परिच्छेदः । ३९
'कुन्ताः प्रविशन्ति'। अनयोहि श्वेतादिभिः कुन्तादिभिश्चाचेतनतया केवलैर्धावनप्रवेशनक्रिययोः कर्तृतयान्वयमलभमानैरेतत्सिद्धये आत्म- संबन्धिनोऽश्वादयः पुरुषादयश्चाक्षिप्यन्ते। पूर्वत्र प्रयोजनाभावादूढिः । उत्तरत्र तु कुन्तादीनामतिगहनत्वं प्रयोजनम्। अत्र च मुख्यार्थस्या- त्मनोऽप्युपादानम्। लक्षणलक्षणायां तु परस्यैवोपलक्षणमित्यनयोर्भेदः । इयमेवाजहत्सार्थेत्युच्यते॥
स्थापकाभावेनानुपस्थितौ तद्धटितान्वयानुपपत्तेरप्यनुपस्थितेः । न च प्रकरणादिना तदुपस्थितिः, कथमनुपस्थिते तीरादौ मुख्यार्थसंबन्धग्रह इति वाच्यम्। तथा सत्यलम- न्वयानुपपत्तिप्रतिसंधानादिना, वक्तृतात्पर्यलक्षणायाः प्रकरणादिनैवोपस्थितिसंभवात्। नन्वन्वयव्यतिरेकाभ्यामन्वयानुपपत्तिग्रहादेरपि कारणत्मवगम्यते, प्रकरणादिना विशिष्य ज्ञातायामनेकार्थशब्दाभिधायामतिव्याप्तिवारणाय तस्योपादानं सार्थकमिति चेदन्वयानुपपत्तिरेवास्ताम्। किमपरेण मुख्यार्थसंबन्धग्रहमन्तरेण। यस्यकस्यचि- दुपस्थापिकायां नेयार्थलक्षणायामतिव्याप्तिवारणाय तदिति चेत्तदेवास्तु। किमादेन। तेनैव नानार्थशब्दाभिधावारणसंभवात्। एवं च 'छत्रिणो यान्ति' इत्यादौ व्यभिचा- राद् व्यावृत्त्यभावाच्च अन्वयानुपपत्तिज्ञानमनुपादेयमेव तस्य लक्षणाविशेषज्ञापकलम्। लक्षणासामान्यज्ञापकं तु मुख्यार्थसंवन्धज्ञानमेव। अत एवोक्तम्-'अभिधेयाविना- भूतप्रतीतिर्लक्षणोच्यते। लक्ष्यमाणगुणैर्योगाद्ृत्तेरिष्टा तु गौणता ।' इति। अभिधे- यस्याविनाभूतमविनाभावः संबन्धमात्रं तस्मात्तद्रहात् प्रतीतिर्यस्या वृत्तेः सा लक्षणो- च्यत इत्यर्थः । अन्यच्च 'शक्यादशक्योपस्थितिर्लक्षणा' इति। शक्यात् शक्यसंवन्ध- ज्ञानात्। उपस्थीयतेऽनयेत्युपस्थितिः। शक्यसंबन्धज्ञानज्ञाता शक्यतावच्छेदकभि- न्नधर्मावच्छिन्नोपस्थितेरुपायो लक्षणेत्यर्थः । अनयोर्यथाश्रुतार्थस्तु न सम्यक्! वक्त- तात्पर्य विशेषरूपाया लक्षणायाः स्कार्योपस्थितिरूपल्वाभावात्। एवं 'छत्रिणो यान्ति' इत्यादावेकसार्थवाहित् रूपशक्यसंबन्धज्ञानादेव ज्ञातया लक्षणया छत्रिसार्थवाहित्वेन छत्र्यच्छत्रिण उपस्थाप्यन्ते। नत्वत्रान्वयानुपपत्तिप्रतिसंधानापेक्षापीति। उक्तोदाहरण- योर्लक्षणं योजयति-अनयोहीति। एतत्सिद्धये धावनप्रवेशनकर्तृतान्वयबोधाय। आत्मसंबन्धिन इति। यथायर्थं समवायिनः स्वसंयोगिनश्चेत्यर्थः । आक्षिप्यन्ते प्रत्याय्यन्ते। प्रयोजनं प्रयोजनीभूतज्ञानविषयः । एवमन्यत्रापि। अस्याः संज्ञान्त- रमाह-इयमवेति। अजहृदत्यजन्खार्थो मुख्यार्थो यामिति विग्रहः। अत्र 'श्वेतो धावति' इत्युदाहरणं चिन्त्यम्। धावनानुकूलकृतिरूपस्य धावनकर्तृत्वस्याश्वसंबन्धेनापि श्वेतगुणेऽन्वयासंभवात्। न च 'कुन्ताः प्रविशन्ति' इत्यादौ यथा कुन्तस्याचेतन-
- अजहदिति। ज्ञानेन्द्रसरस्वतीचरणास्तु-'जहत्स्वं पदं यं स जहत्स्वः, सो- डथों यस्यामिति बहुव्रीहिगभों बहुव्रीहिः' इत्याहुः। स्वशब्दस्य सर्वनामत्वात्पूर्चनिपाते प्राप्ते भाष्यप्रयोगाद्राजदन्तादित्वाद्वा न पूर्वनिपातः ॥
Page 87
४० साहित्यदर्पणे
अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये। उपलक्षणहेतुत्वादेषा लक्षणलक्षणा । ७॥ रूढिप्रयोजनयोर्लक्षणलक्षणा यथा-'कलिङ्गः साहसिकः', 'ग- डाया घोष.' इति च। अनयोर्हि पुरुषतटयोर्वाक्यार्थेऽन्वयसिद्धये कलिङ्गगङ्गाशब्दावात्मानमर्पयत । यथा वा- 'उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम्। विद्धदीद्ृशमेव सदा सखे सुखितमास्ख ततः शरदा शतम्।।' स्यापि पुरुषसबन्धेन प्रवेशकर्तृतमुपचर्यते तथात्राप्यचेतनस्य वावनकर्तृतमौपचारिक- मिति वाच्यम्। कुन्तस्य पुरुपसवन्वोत्पन्नक्रियासबन्धेनैव कर्तृतोपचारात्। प्रकृते तु श्वतगुणस्याश्वसबन्वेनापि क्रियासबन्वासभवात्। तस्माललक्षणलक्षणाया एव तडुदाहरणम्। एव च 'श्वेत शोभते' 'क्वेत पश्यति' इत्याद्येतदुदाहरण बोध्यम्। अत्र श्वेतगुणविशिष्टाश्वस्य शोभादर्शनयोरन्वयस्तात्पर्यविषय। यत्र शक्यस्योपाधे- र्व्यक्तिव्यतिरिक्तप्रयोगरूपा रूढिरस्ति तत्र लक्षणयैवाविनाभूताया अपि व्यक्तेरुप- स्थिति। न ल्ाक्षेपेण। गवादिपदाना तु तादृशरूढे प्रयोजनस्य चाभावाल्लक्षणाया असभवादाक्षेपेणैव व्यक्तेरुपस्थापकत्वमित्यभिप्रायेणेदमुदाहरणमुपन्यस्तम्। 'गुणे शुक्लादय पुसि गुणिलिङ्गास्तु तद्वति' इति विशिष्टशक्तिवादिना मते लक्षणात्र नास्ती- त्यवधेयम्। लक्षणलक्षणामाह-अर्पणमिति। अत्रापि ययेत्यनुपज्यते। समभि- व्याहृतपदार्ये मुख्यार्थभिन्नस्यैवान्वयबोधाय यया वृत्त्या शब्देनैवात्मनोऽर्पण मुख्यार्थ- भिन्नबोधेनोपयोगीकरणम्। एषा लक्षणलक्षणा स्यादिति सवन्ध। सज्ञाबीजमाह- उपलक्षणहेतुत्वादिति । वाक्यार्यान्वयिनो मुख्यार्थस्येतरव्यावृत्तिबोव उप- लक्षणम्। 'कलिङ्ग साहसिक' इत्यादौ वाक्यार्ये साहसादावन्वयिनो मुख्यार्थस्य देश- विशेषादे पञ्चालप्रभृतेर्व्यातृत्तिबोवो लक्षणयैव जायते' इत्यन्ये। तन्न। 'उपदिशति कामिनीना-' इत्यादौ मुख्यार्थस्येतरव्यावृत्तिबो वाभावेनाव्याप्यापत्ते। एव च वाक्या- र्थान्वयिमुख्यार्यामिश्रितमुख्यार्थान्यपदार्योप स्थिति रूपलक्षणमिहावगन्तव्यम्। 'उपदि शति-' इत्यादौ शिक्षावचनरुपोपदेशेनामिश्रित एवाविष्कार प्रतीयते। 'कलिङ्ग साहसिक' इत्यत्र तु देशविशेषरूपमुख्यार्थस्य मिश्रितस्य पुरुपस्य प्रतीतिरस्ति। कितु तस्य वाक्यार्थान्वयिलासभवेन विशिष्टमुख्यार्यामिश्रण सभवत्येव। 'कुन्ता प्रविशन्ति' इत्यादावुपादानवारणाय मिश्रितान्त विशेपणम्। 'कलिद्ग साहसिक' इत्यादिसग्र हाय वाक्यार्थान्वयीति मुख्यार्थविशेषणम्। लैक्ष्यते उपलक्ष्यतेऽनेनेत्युपलक्षणम्। तन्नाम्रा लक्षणा उपलक्षणलक्षणा। पूर्वत्रात्मनोऽप्युपादानादित्युपादानपदम्, अत्रोप लक्षणहेतुत्वादित्युपलक्षणपद च भावसाधनमवगन्तव्यम्। क्रमेणोदाहरति-रूढि- प्रयोजनयोरिति। अर्पयत यथायथ पुरुषतटबोधेनोपयोगीकुरुत। उपकृत- १ 'लक्ष्यते' इति पुस्तकान्तरे नास्ति
Page 88
द्वितीयः परिच्छेदः । ४१
अत्रापकारादीनां वाक्यार्थेऽन्वयसिद्धये उपकृतादयः शब्दा आ- त्मानमर्पयन्ति। अपकारिणं प्रत्युपकारादिप्रतिपादनान्मुख्यार्थबाधो वैपरीत्यलक्षणः संबन्धः फलमपकारातिशयः। इयमेव जहत्स्ार्थेत्युच्यते॥ आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि दविधा। ता: पूर्वोक्ताश्चतुर्भेदलक्षणाः ।
मिति। यत्र भवता बहूपकृतं तत्र किमुच्यत इत्यर्थः । 'तैत्र' इत्येव कुत्रचित्पु- स्तके पाठः । परमुत्कृष्टं यथा स्यात्तथा सुजनता प्रथिता प्रकटीकृता। यद्ा 'परम्' इति वान्तमव्ययमेवकारार्थकम्। सुजनता प्रथितैवेत्यर्थः । सुखितं यथा स्यातथा आस्ख तिष्ठ। ततो बहूपकरणसुजनताप्रथनाभ्यां शरदां वत्सराणां शतमिति। अविच्छेदे द्वितीया। अन्रापकारादीनामिति। आदिपदादसुजनतासुखितयो ग्रहणम्। उपकृताद्य इति । आदिपदात्सुजनतासुखितयोर्ग्रहणम्। संज्ञा- न्तरमाह-इयमेवेति। लक्षणलक्षणैवेत्यर्थः । जहत्त्यजहत्खार्थो यामिति विग्रहः । पुनरपि लक्षणाया द्वैविध्यमाह-आरोपाध्यवसानाभ्यामिति। अन्न विशेषणे तृतीयों। तेन सारोपाः साध्यवसानाश्वेति। 'अश्वः श्वेतः' इत्यादौ निराकाङ्कपददवयेन धारावाहिकभेदप्रतीतिरेव जायते। नतु लक्षणाजन्यप्रतीतिरिति तत्प्रतिबन्धकः पदयोः समानविभक्तिकत्वबलेन शक्यलक्षणयोरभेदारोपः कल्पनीय इति भावः । ननु भेद- प्रतीत्यनन्तरमभेदारोप आहार्य एव संभवति, तस्य प्रतिबन्धकत्वं केनापि नाङ्गी- क्रियत इति चेतू, न। लाक्षणिकबोधानुरोधेन शुककगुणविशिष्टबोधाभिप्रायबोधसह- कृतस्याहार्यस्याप्यभेदारोपस्य प्रतिबन्धकोऽस्तु, किमाहार्यस्य प्रतिबन्धकत्वकल्पनेनेति वाच्यम्। ग्राह्याभावावगाहित्वेन तस्य प्रतिबन्धकत्वकल्पनाया अन्याय्यत्वात्। वस्तु- तस्तु आहार्यतस्य तत्प्रतिबन्धकत्वस्य च कल्पनामपेक्ष्यावश्याङ्गीकरणीयस्य सहका- रिण एव प्रतिबन्धकत्वकल्पने लाघवमस्ति, तथापि प्राचीनमतानुसारादेवं व्याख्यात- मिति। प्रतीयमानेन लक्ष्यार्थेन शक्यार्थस्याहार्यभेदप्रतीतिरध्यवसानम्। लक्षणाजन्य- पदार्थोपस्थिते: प्राक्काले तादृशारोपाध्यवसानयोः सत्त्वाल्लक्षणायास्तद्वैशिष्यमवगन्तव्रयं १. 'ताः पूर्वोक्ताश्चतुर्मेदलक्षणाः' इति ग-पुस्तके नास्ति. २. पुस्तकपच्चके 'तच्च' इत्येव पाठः प्रा्यत. ३. 'अनुपकारादीनां' इति टीकास्थ पाठः. ४. पुस्तकान्तरे "जनकतासंबन्धेन आरोपाध्यवसानाभ्यां विशि- ष्टेत्यर्थः। लक्षणाजन्यबोधोत्तरं हि वाक्यस्य समानाधिकरणपद्घटितत्वरूपवैशिष्ट्यसचिवया र्थ्या व्यक्षनया शक्यलक्ष्ययोराहार्याभेदप्रतीतिरूपारोपाध्यवसाने जन्येते। केचित्ु 'पदयोः समानविभक्तिकत्ववलेन लक्ष- णाजन्यबोधात्मागेव शक्यलक्ष्ययोरमेदारोपो भवति' इत्याहुः। तन्न।रूपकालंकारवदाहार्यामेदप्रतीनिरूप- शाब्दवोधजनने वाक्यस्य निराकाङ्कतया पुनर्लक्षणया वाक्यार्थजनकत्वासंभवात् ! अत एव काव्यप्रकाश- कारेण 'गौर्वाहीकः' इत्यत्राहार्याभेदप्रतीतिर्लक्षणा प्रयोजनत्वेनाङ्गीकृता। गौणीमूलकस्यामेदारोपस्य रूपक. त्वमङ्गीकृतं च। आरोपाध्यवसानयोर्विशेषग्रहणार्थ निरुक्तलक्षणयोः स्वरूपमाह-विषयस्येति। विषयस्य लक्षणाजन्यबोधविशेष्यस्यानिगीर्णस्य उच्चरितशब्दप्रतिपादितस्य अन्यतादात्म्यप्रतीतिकृत्। शक्यार्था- मेदप्रतीतिजनिका लक्षणाजन्यवाक्यार्थोधानन्तरं जायमानस्य तादृशामेदारोपस्य लक्षणाजन्यत्वाङ्गीका- रातू।" इति पाठो दृश्यते.
Page 89
४२ साहित्यदपण
सारोपा स्यान्निगीर्णस्य मता साध्यवसानिका। विषैयिणा अनिगीर्णस्य विषयस्य तेनैव सह तादात्म्यप्रतीतिकृत्सा- रोपा। इयमेव रूपकालंकारस्य बीजम्। रूढावुपादानलक्षणा सारोपा यथा-'अश्वः श्वेतो धावति'। अत्र हि श्वेतगुणवानश्वोऽनिगीर्णखरूपः ससमवेतगुणतादात्म्येन प्रतीयते । प्रयोजने यथा-'एते कुन्ताः प्रविशन्ति'। अत्र सर्वनान्ना कुन्तधारिपुरुषनिर्देशात्सारोपत्वम्। रूढौ लक्षणलक्षणा सारोपा यथा-'कलिङ्गः पुरुषो युध्यते'। अत्र पुरुषक- लिङ्गशब्दयोराधाराधेयभावः संबन्धः । प्रयोजने येथा-'आयुर्घृतम्'। अत्रायुष्कारणमपि वृतं कार्यकारणभावसंबन्धसंवन्ध्यायुस्तादात्म्येन प्र- तीयते। अन्यवैलक्षण्येनाव्यभिचारेणायुप्करत्वं प्रयोजनम्ं। फलपरिचेयम्। तयोः स्वरूपमाह-विषयस्येति। निरुक्तारोपविशेष्यस्येत्यर्थः । अनिगीर्णस्य प्रयुक्तशव्दप्रतिपादितस्य। अन्यतादात्म्यप्रतीतिकृत् खजन्यपदार्थोप- सस्थ्तिद्वारा शक्यतावच्छेदकातिरिक्तधर्मवच्छिन्नस्याभेदप्रतीतिकृद्या लक्षणा सा सा- रोपा स्यादित्यर्थः। 'अश्वः श्रेतो वावति' इत्यन्रापि 'धावति' इत्यत्र 'शोभते' इति द्रष्ट- व्यस्। अन्यथोपादानलक्षणा न स्यादिति प्रागेव दर्शितम्। अत्र निरुक्त्ारोपसत्त्वमु- पपादयति-अत्र हीति। 'लक्षणाजन्यपदार्थोपस्थितेः प्राकाले' इति शेप :- अनि- गीर्णस्वरूप: प्रयुक्तशव्देन प्रतिपाद्यः। एते कुन्ता इति। विषयस्य सामान्यवाचिन। सर्वनान्ना निर्देशेऽपि विशेषरूपेणानुपस्थितौ साध्यवसाना लक्षणैवेति काव्यप्रकाशकार- मतम्। तद्व्ूनलमिति प्रतीतिसत्वे 'घटाभाववद्धूतलम्' इति प्रतीत्यनुदयात्सर्वना- त्रोऽपि विशेषरूपेणोपस्थापकत्वं कल्प्यत इत्यभिप्रायेण पूर्वमतमनज्गीकृत्य तत्रापि सारोपा लक्षणेति दर्शयति-अत्र सर्वनाम्नेति। आयुर्धृतमिति। अत्र शक्य- संबन्धारोपं च दर्शयति-आयुष्कारणमपीति। अन्यवैलक्षण्येनाव्यभिचारेणे- त्यत्र वाकारो बोध्यः। लक्षणाबीजं विविधं शक्यसंबन्धं दर्शयन्बहून्युदाहरणान्याह- 1. सारोपेति। आरोपेण सह वर्तत इति सारोपा। विषयविपयिणोभेंदेनोपन्यासो- डत्रारोपार्थः । विषयनिगरणेन विषयिणोडभेदप्रतिपत्तिरध्यवसानम्, तेन सह वर्तत इति साध्यवसाना। विषयनिष्ठासाधारणधर्मप्रतिपत्तिसह कृतान्य स्यान्यतादात्म्यप्रतीतिः सारोपा। विपयनिष्ठासाधारणधर्मप्रतीत्यसहकृतान्यस्यान्यतादात्म्यप्रतीतिः साध्यनसाना। एवं च
१. 'विपयिणा' इत्यारभ्य 'बीजम्' इत्यन्तं क-ख-घ पुस्तकेषु नास्नि. २. 'लक्षणलक्षणा सारोपा' उत्यधिकं ख-पुस्तके. ३. 'कार्यकारणसंबन्धादायुस्तादात्म्येन' क; 'कार्यकारणसंबन्धेन तदात्मनो- पचरितम्' ग. ४. 'अव्यनिचारेण' इति ग-पुस्तके नास्ति. ५. 'आयुरेवेदम् इत्यत्र साध्यवसानायामव्य मिचारेणायुप्वारत्वं प्रयोजनम्' इत्यधिकं ग-पुस्तके.
Page 90
द्वितीय: परिच्छेदः । ४३ येथा वा-राजकीये पुरुषे गच्छति 'राजासौ गच्छति' इति। अन्र स्वस्ामिभावलक्षणः संबन्धः । यथा वा-अग्रेमात्रे डवयवभागे 'हस्तो- डयम्'। अत्रावयवावयविभावलक्षणसंबन्धः। 'ब्राह्मणोऽपि तक्षासौ'। अत्र तात्कर्म्यलक्षणः । 'इन्द्रार्थासु स्थूणासु अमी इन्द्राः'। अन्र तादर्थ्य- लक्षणः संबन्धः । एवमन्यत्रापि। निगीर्णस्य पुनर्विषयस्यान्यतादात्म्य- प्रतीतिकृत्साध्यवसाना। अस्याश्चतुर्षु भेदेषु पूर्वोदाहरणान्येवें।। राजकीय इति। अत्र राजकर्मातिशयः परिच्छदातिशयौ राजवदलङ्वशासनत्वं वा प्रयोजनम्। अवयवभागे इत्यन्र भागशब्दः स्रूपार्थः । अन्न प्रयोजना- भावाद्रूढिरेव । हस्तवत्कार्यकारित्वं प्रयोजनमित्यन्ये। ब्राह्मणोऽपीत्यपिकारात्क्ष- त्रियादिपरिग्रहः । तक्षा जातिविशेषः। समस्ततक्षकर्मणि तैपुण्यमत्र प्रयोजनम्। इन्द्रार्थास्विति। इन्द्रपूजार्थ कल्पिताखित्यर्थः । स्थूणासु स्तम्भेषु । इन्द्रवत्पूज्य- मानतमत्र प्रयोजनम्। एतदुदाहरणचतुष्टयमपि सारोपाया एव। '-निगीर्णस्य मता साध्यवसानिका' इति कारिकाञ्चलं(दलं) व्याकरोति-निगीर्णस्येति। शब्द विनैवाक्षेपादिना प्रतीयमानस्य विषयस्य निरुक्ताव्यवसानविशेषस्य। पूर्वोदाहरणा- न्येवेति। श्वेतो घावति। कुन्ता रविकाित कुलिङ्गः साहसिकः । गङ्गायां घोषः तवसतीति। एतानीत्यर्थः । एष्वश्वादीनां विशेष्याणा शव्द विनैव प्रतीयमानलाद् ·गयाम्' इत्यादौ तीरं विशेष्यम्। तच् शब्दं विनैव प्रतीयते पुनरपि लक्ष- 1. अन्रेति। अग्रहस्त इत्यत्राग्रमात्रेऽवयवस्वरूप हस्तशब्दो लाक्षणिक । हस्तावयवेन् हस्तव्यापारं संपादयतीति पराक्रमातिशयः प्रयोजनं व्यङ्गयम्। कर्मवास्पतिप्रायेणैत,त्। हस्तस्याग्रमिति षष्ठीसमासे तु। 'पीता कार्पटिकैगङ्गा' इत्युदाहार्यम्। इह गङ्गाशब्दो गङ्गाव- यवे लाक्षणिक इति व्येयम्। अवयवपुञ्ज एवावयवीति मतेऽवयवान्तरव्युदासाय मात्रम् ॥
१. 'यथा च' क-ग; ख-पुस्तके तु 'यथा' इत्येव. २. 'बाहुमात्रे' ख. ३. 'अवयवे' ग. 'हस्तावयवे भागे' घ; क-पुस्तके तु 'अग्रमात्रे' इत्येव दृश्यते. ४. 'भाव' इति ख-पुस्तके नास्तिः ५. 'तदेवमष्टप्रकारा लक्षणा' ग. ६. 'इति' पुस्तकान्तरे नास्ति. ७ कुत्रचित् "एषु यथायथमेतदा; दिपदमध्याहार्यम्। एतेन लक्षणात्वावच्छेदेन सारोपात्वसाध्यवसानात्वान्यतरध्मयोगित्वं अ्रन्थकृतां संमतम्। वस्तुनस्तु 'त्वामस्मि वच्मि त्रिदुषां समवायोऽत्र तिष्ठति' इत्यादौ 'उपदिशति कामिनीन- इत्यादौ चाव्याहारेणापि समानविभक्तिकपदासंभवात् 'कदली कदली करभः करमः' इत्यादौ 'रामोऽस्मि सर्वेसहे' इत्यादौ च शक्यलक्ष्ययोर्मेदामावान्निरुक्तारोपाव्यवसानासंभवात्ताद्ृस्नियमस्य व्यभिचारः। अत एव काव्यप्रकाशकरेण 'सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा। विषरयन्त कृतेऽन्यस्मिन्साम्यात्सा- व्यवसानिका ॥' इति लक्षणं कृतम् । अन्योपादानत्वनिरुत्तप्रकारदयातिरिक्तमकारावच्छिन्ना लक्षणात्वान्य- तरव्याप्यलक्षणाविभाजकधर्मान्तरावच्छिन्नेत्यर्थः । एतेन लक्षणाविशेषस्यैव सारोपात्वसाध्यवसानात्वान्य- तरधर्मयोगित्वं प्रतीयते। न तु यावतीनां लक्षणानाम्। एवं च 'गङ्गायां घोष:' इत्यादाविदमादिपदाव्या- हारं विनापि लक्षणा संगच्छते।" इत्यधिकं दृश्यते.
Page 91
४४ साहित्य दर्पणे
सादृश्येतरसंबन्धाः शुद्धास्ता: सकला अपि ॥ ९॥ सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः । ताः पूर्वोक्ता अष्टभेदा लक्षणाः। सादृश्येतरसंबन्धाः कार्यकारण- भावादयः । अत्र शुद्धानां पूर्वोदाहरणान्येवें। रूढावुपादानलक्षणा सा- रोपा गौणी यथा-'एतानि तैलानि हेमन्ते सुखानि'। अत्र तैल- शब्दस्तिलभवस्रेह रूपं मुख्यार्थमुपादायैव सार्षपादिषु सनेहेपु वर्तते। णाया द्वैविध्यमाह-सादृश्येतरेति । सादृश्यादितरे संबन्धा हेतवो यस्या इति समासः। 'सादृश्यात्संवन्धात्' इति शेषः । सादृश्यसंबन्धहेतुका लक्षणा गौण्य इत्यर्थः । तेन निरुक्तद्वैविध्येन पूर्वोदाहरणान्येवेति। 'अश्वः श्वेतो धावति' इत्यादीन्येवेलर्थः । एतानीति। हेमन्ते हि तैलाद्यभावादत्यन्तं दुःखमुत्पद्यते। तन्निराकरणेन तैलाना- मत्युपकारित्वमिति सूचनाय 'हेमन्ते' इत्युक्तम्। उपादायैव अपरित्यज्यैव सापपादि- चारः' दति। तस्य भावस्तद्वर्मः । तद्भावेऽपि तदुपचारः । तच्छब्द्रव्यवहार इत्यर्थः । स च तद्धर्मारोपेणारोपनिमित्तानि च सहचरणादीनि। यष्टीः प्रवेशय। मग।: कोशन्ति। वीरणेप्वास्ते। अयं राजा यमः। प्रस्थ सक्तुः। चन्दनं तुला। गज्ञायां घोपः। कृष्णः शकटः । अन्नं प्राणाः। अर्य कुलस्य राजा स्युदाहरणानि क्रमेण। चष्टित्वारोपो ब्राह्मणे, सानचयात्। मञ्चत्वारोपो बालेपु, तात्स्थ्यान्। कटेपु नीरणत्वारापः नादर्थ्यान्। राशि यमत्वारोप: वृत्तान्। सक्तौ प्रस्थत्वारोपः, तन्मानकत्वात्। च । तुलात्वारोपः, तद्धार्यत्वात्। गज्ञायां नीरधर्माधारत्वारोप:, तत्सामीच्यात। शर्क तदूरकृष्णत्वारोप:, कृष्णगुणयोगात्। अभनेषु प्राणत्वारोपः प्राणसाधनत्वात्। पुरुष राजत्वारोप:, कुलाधिपत्यात्। इति तव्ाख्यातारः । अत्र साहचर्य नाम यध्या नित्य- संबन्धः। तत्संबन्धात्तु 'यष्टिकावान्' इत्येव स्यात्। न तु 'यष्टिका' इति। 'यष्टि- कावान्' इति तु मुख्य एव। तस्मादुपचारवीजमन्यद्वक्तव्यम्। उच्यते-यष्टिकायां तावदयं यष्टिकाशब्दो यष्टिकात्वजातिनिमित्तकस्तत्र संयुक्तसमवेतां जाति ब्राह्मणे सभ- वायेनाध्यारोप्य ब्राह्मणं यष्टिकेत्याहेति न्यायवार्तिककारा: । 'गौर्वाहीकः' इत्यादावपि सा- धारणधर्मजडत्वादिरूपेण निमित्तेन वाहीकस्यारोपितगोत्वेन बोधः। ततो व्यजनया मुख्यगवाभेदप्रतीति: प्रयोजनम् ॥ 1. गौण्य इति। गुणेभ्य आगता गौण्य इति विग्रहः । 'तत आगतः' इत्यणू 'टिड्ा-' इति डीप।। १. 'तन' ग. २. गपुस्तके तु 'एत्र' इत्यस्याग्रे 'सादृश्येतर-' इत्यादि :- फकिका वनते, न- दग्रे "आदिग्रहणादिन्द्रार्था रथूणा इन्द्रः तादर्थ्यलक्षणात्। क्वचित्सस्वामिभावात् 'राजकीयः पुरुषो राजा' इति। कवचित्तात्कर्म्यात 'अतक्षा तक्षा इति। कचिद्वयवावयविभावात् 'अग्रमात्रेऽवयवे हृर्तोऽयम्' इति। कचित्साहचर्यात् 'छत्रिणो यान्ति' इति। एवमन्यान्यप्युदाहरणान्यूह्यानि। एकशतं पष्टयर्था इति वचनात्। सादश्यसंबन्धानु ता एवाष्टधा लक्षणा गौण्यो भवन्ति ।" इति पाठान्तरं वर्नते. ३. 'नेयं प्रथोजनवती। नालिकरादिस्नेहव्यावृत्त्या सर्षपस्नेहादिजातीय एव प्रसिद्ध्या नियमिनत्वात्। रति ग-पस्तकेऽधिक: पाठ :.
Page 92
द्वितीय: परिच्छेदः। ४५
प्रयोजने यथा-राजकुमारेषु तत्सदृशेषु च गच्छत्सु 'एते राजकुमारा गच्छन्ति'। रूढावुपादानलक्षणा साध्यवसाना गौणी यथा-'तैलानि हेमन्ते सुखानि'। प्रयोजने यथा-'राजकुमारा गच्छन्ति'। रूढौ लक्षण- लक्षणा सारोपा गौणी यथा-'राजा गौडेन्द्रं कण्टकं शोधयति'। प्रयोजने यथा-'गोर्वाहीकः' रूढौ लक्षणलक्षणा साध्यवसाना गौणी यथा-'राजा कण्टकं शोधयति'। प्रयोजने यथा-'गौर्जल्पति' । अत्र केचिदाहुः-गोसहचारिणो गुणा जाड्यमान्दादयो लक्ष्यन्ते। ते च गोशब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्ति। तदयुक्तम्। गो-
स्नेहेषु वर्तत इति घृतादिविलक्षणद्रवत्वरूपैकधर्मसंबन्धेन सर्षपादिस्नरहान्प्रतिपादय- तीत्यर्थः । 'छत्रिणो यान्ति' इतिवत्तिलस्न्नेहस्यापि सुखजननेऽन्वयोऽस्तीति भाव्यम्। नन्वेवं कथमत्र मुख्यार्थबाध इति चेतू, सर्षपादिस्नहानां तिलभवलाभावात्। सामा- नाधिकरण्येनान्वयानुपपत्तेरेवात्र मुख्यार्थबाधलाङ्गीकारात्। न चैतत्पदार्थैकदेशस्य तिलस्नेहस्य तिलभवत्वसंभवात्कथमन्वयानुपपत्तिरिति वाच्यम्। तादृशान्वयस्याव्यु- त्पन्नत्वेनानङ्गीकारात्। नहि पिकहरिणविहंगमभुजंगा इत्यन्वयः केनाप्यप्रमत्तेनाङ्गी- क्रियते। एवं च 'तैलानि सुखानि' इत्यन्न प्रतीयमानेनैतत्पदार्थेन तैलपदार्थस्यान्वया- नुपपत्तिरेव मुख्यार्थबाधः। न चैवं 'गङ्ायां घोषः' इत्यादौ सर्वत्रैव तादृशमुख्या- रथबाधसंभवे किमिति ग्रन्थकारैर्मुख्यार्थबाधान्तरं दर्शितमिति वाच्यम्। विस्पष्टस्य मुख्यार्थबाधस्य प्रतिसंधानेनैवोपपत्तौ श्रिष्टस्य तस्य प्रतिसंधानानुसंधानस्यान्याय्य- लातू। एते राजकुमारा इति । अन्न विलक्षणपरिच्छेदकत्वरूपैकधर्मलक्षण- सादृश्यसंबन्धेन राजकुमारास्तत्सदृशाश्च प्रतीयन्ते। सदृशानामपि राजकुमारवदादर- णीयतं प्रयोजनम्। राजा गौडेन्द्रमिति। शोधयति दमनेन निवैर करोति। तीक्ष्णाग्रवृक्षाङ्गविशेष: कण्टकपदस्य मुख्यार्थः। तस्य शोधनासंभवाद्दुःखदत्वेन तत्स- दृशे शत्रौ लक्षणा। 'क्षुद्रशत्रौ च कण्टकः' इत्यादिकोषस्तु निरूढलक्षणाया एव ग्राहकः, न लभिधाया इति भाव्यम्। गौर्वाहीक इति । वाहीको हलवाहकः । गौ- र्जल्पतीति। जल्पनं व्यक्तवचनम्। तच् गोर्न संभवतीत्यन्वयानुपपत्तिः। 'गौर्वा- हीकः' इत्यत्र शाब्दबोधप्रकारं दर्शयन्परमतं निराकरोति-अत्र केचिदाहुरिति। गोसहचारिणो गोवृत्तयो गोलसमानाधिकरणावा, जाड्यमज्ञत्वं मान्दं विदग्धकर्मा- 1. वाहीक हति। वाहीको नाम देशविशेषः । तत्रत्यः पुरुषो वाहीकः। केचितु बहिभवो वाहीक इति व्युत्पत्या सदाचारबहिर्भूत इत्यर्थः । 'बहिषष्टिलोपो यच,' 'ईकक् च' इति वार्तिकाभ्यां टिलोपे ईककि च कृते बवयोरभेदाद् वाहीक इति रूपम्' इत्याहुः ॥
१. 'तूपादानलक्षणा सारोपा गौणी' इति ग-पुस्तकेधिकम्. २. 'अत्र सौन्दर्याद्यतिशयः प्रयोजनम्' इत्यधिकं ग-पुस्तके.
Page 93
४ ६ साहित्यदर्पणे
शब्दस्यागृहीतसंकेतं वाहीकार्थमभिधातुमैशक्यत्वाद् गोशब्दार्थमात्र- बोधनाच्च। अभिधाया विरतत्वाद् विरतायाश्च पुनरुत्थापनाभावात्। अन्ये च पुनर्गोशब्देन वाहीकार्थो नाभिधीयते। किंतु सार्थ- सहचारिगुणसाजात्येन वाहीकार्थगता गुणा एव लक्ष्यन्ते। तैदप्यन्ये न मन्यन्ते। तथाहि-अत्र गोशब्दाद्वाहीकार्थः प्रतीयते, न वा। आद्ये गो- शब्दादेव वा। लँक्षिताद्वा गुणादविनाभावद्वारा। तत्र न प्रथमः । वा क्षमल्वम्, आदिना दुःखसहिष्णुत्ादिपरिग्रहः। वाहीकार्थाभिधाने वाहीकरूपस्यार्थ- स्याभिधया बोधने निमित्तीभवन्ति। प्रवृत्तिनिमित्ततामुपयान्ति। ननु गोत्वे गृहीता शक्तिर्व्यक्तिमिव तत्सदरमपि बोधयतीलत आह-गोशब्दार्थमात्र- बोधनाच्चेति। विस्तलात् प्रतीतियोग्यताविरहेण नष्टप्रायलात्। सकृतुच्चरितश- व्दस्याभिवया राकृदर्थबोधकलवनियमादित्यभिप्रायः। नन्वस्य नियमस्य शेपादौ व्यभिचारदर्शनात्फलबलेन पुनरपि प्रतीतियोग्यता कल्पनीयेत्यत आह-विरता- या इति। उत्थानाभावात् प्रतीतिजननोन्मुखीभावविरहान्। शेवादो धर्मान्तरे गृहीतं शत्त्यन्तरमर्थान्तरं बोधयतु। प्रकृते तु गोत्वे गृहीता शक्तिर्गोलाश्रयं बोध- यिल्ा यदि तत्सदशमपि बोधयेत्तदाभिधयव लक्ष्यार्थबोधसंभवेन लक्षणैव नामी- क्रियेतेति भावः स्वार्थेति । खार्थो गोलम्। तत्समानाधिकरणेल्र्थः । गुणसाजायेनेति। लक्षणगतगुणानां शक्यार्थसहचरितल्वासंभव इति भावः । अधि प्रतीतिपक्षे। न प्रथमः, न गोशव्दजन्यप्रत्ययपक्षः। असंकेतितलाद् गोशब्दसंकेतविषयल्ाभावात्। न द्वितीयः, नाविनाभावजन्यप्रत्ययपक्षः । शा- व्देऽन्वयेSसंभवात् शाब्दवोधविपयत्वासंभवात्। अत्र हेतुमाह-शाव्दीति । एतच शब्दाध्याहारवादिनां मतमाथरिल्योक्तम्। अर्थाध्याहारवादिनां मीमांसकानां मते त्वविनाभावलभ्यस्याप्यर्थस्य शाव्दबोधविपयत्वाङ्गीकारान्नंतदूपणम्। अन्यथोपा- विशक्तिवादिनां मते व्यक्तः शाब्दबोधविषयत्वं न स्यात्। न च लक्षणयैव तत्र व्यक्तरुपस्थितिरिति वाच्यम्। रूढिप्रयोजनाभावात्तत्र लक्षणाया असंभवात्। न च गवादिपदानां व्यक्तौ रूढिरस्तीति वाच्यम्। लक्ष्यार्थव्यतिरिक्तशक्यार्थप्रयोग- शालिन: शब्दस्य लक्ष्यार्थप्रयोगरूपाया रूढेरलक्षणाहेतुलाङ्गीकारात्। गवादिपदानां तु व्यक्तिसहकृत एव गोतवादौ प्रयोगः। लक्ष्यार्थे प्रयोगमात्रस्यैव लक्षणाहेतुत्वा- ज्गीकारे उपाधिशक्तिवादमते सर्वत्रैव लक्षणया व्यक्तिवोधसंभवात्। 'ऐन्ना ऋचा गार्हपत्यमुपतिष्ठते' इत्यादौ द्वितीयान्तपदरूपायाः ्रुतेर्लिङ्गापेक्षया झटित्यर्थोपस्था- 1. शब्देति। भाटृमीमांसकानाम् ॥ 2. अर्थेति। प्राभाकराणाम्। १. 'असामर्थ्यात् 'ग. २. 'गो-' इत्यारभ्य '-पुनरुत्थापनाभावात्' इत्यन्तः पाठो ग-पुस्तके न दृशयते. ३. '-गुणाः साजात्येन वाहीकगता एव लक्ष्यन्ते' क. ४. 'एनदयन्ये' क. ५, 'अ. दऽपि' ख-ग. ६. 'वा' इति नास्ति क-पुस्तके, ७. 'लक्षिताद्वा गुणात् अविनानावाद्ा' क.
Page 94
द्वितीयः परिच्छेदः। ४७
हीकार्थस्यासंकेतितत्वात्। ने द्वितीयः। अविनाभावलभ्यस्यार्थस्य शाब्देऽन्वये प्रवेशासंभवात्। शाब्दी ह्याकाङ्का शब्देनैव पूर्यते। न तृतीय: यदि हि गोशब्दाद्वाहीकार्थो न प्रतीयेत, तदास्य वाहीक- शब्दस्य च सामानाधिकरण्यमसंगतं स्यात्। तस्मादत्र गोशब्दो मुख्यया वृत्त्या वाहीकशब्देन सहान्वयमलभमा- नोऽज्ञत्वादिसाधर्म्यसंबन्धाद्वाहीकार्थ लक्षयति। वाहीकस्याज्ञत्वाद्यति- शयबोधनं प्रयोजनम्। इयं चे गुणयोगाद्गौणीत्युच्यते। पूर्वा तूपचा- रामिश्रणाच्छुद्धा। उपचारो हि नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम् । यथा-'अभनिमाण-
पकत्वरूपबलवत्त्वम्। 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यम- र्थविप्रकर्षात्' इति जैमिनिसूत्रोक्तं न स्यात्। आक्षेपापेक्षया लक्षणाया मुख्यार्थ- वाधादिप्रतिसंधानसापेक्षत्वेन विलम््यार्थोपस्थापकत्वात् समवाये विरोधेऽर्थविप्रकर्पा- द्विलम्ब्यार्थोपस्थापकत्वात् । 'श्रुतिर्द्वितीया क्षमता च लिह्ं वाक्यं पदान्येव तु संहतानि। सा प्रक्रियायाः कथमित्यपेक्षास्थानं कमो योगबलं समाख्या ॥' इति कारिकया सूत्रार्थव्याख्या। न द्वितीयः । न प्रतीतिरित्यभावपक्षः। अस्य गोशब्दस्य, वाहीकशब्दस्येत्यनन्तरं चकारो बोव्यः। सामानाधिकरण्यमेकार्थप्रति- पादकरदम्। समतमाह-तस्माद्रेति। तस्मादुपदर्शितमतद्वये दोषसंभवात्। अन्वयमिति। अभेदसंबन्धेनेत्यादि। अज्ञत्वादीति। व्यक्तिभेदेऽपि गुणक्रिय- योरैक्यमित्यभिप्रायेणेदं निर्वचनम्। अन्यथा शक्यलक्ष्ययोरेकधर्मत्वरूपसंबन्धो न संभवति। प्रयोजनमिति । अत्राहार्यभेदप्रतीतिः प्रयोजनमिति काव्यप्रकाश- कारः । इयं चेति। गुणस्य साधारणधर्मस्य योगात् स्वविषयकज्ञानजनकत्वसंब- न्वात्। तदुक्तम्-'लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता' इति। लक्ष्यमाणस्य गुणैः साधारणधमैंर्योगादुपदर्शित संबन्धाद्वत्तेलक्षणायाः पूर्वा सादृश्यातिरिक्तसंबन्धनि - बन्धना। शक्यलक्ष्ययोरभेदारोपमेव केचिदुपचारमाहुः । तथा सति 'शुककः पटः' इत्यादावपि सारोपाया उपचारमिश्रणाच्छुद्धत्वं न स्यादित्यतः प्रकारान्तरेणोपचारबीजं निर्वक्ति-अत्यन्तमिति।व्युत्पत्तिवैचित्र्यात्समासैकदेशे भेदप्रतीतावभेदसंबन्धेना- न्वेति। विशकलितयोर्निराकाइ्योः सादृश्यातिशयमहित्रा सादृश्यातिशयबोधाभिप्रायवो- घेन भेदामिश्रितसाधर्म्यमेव सादश्यातिशयः। भेदप्रतीतेरात्यन्तिकत्वं च शक्यलक्ष्ययोः संबन्धानवगाहितया तथा शुक्कः पट इत्यत्र शुकगुणवान्पटः शुकगुणाद्भिन्न इति शक्यलक्ष्ययोः समवायो भासते, न तथा अननिर्माणवक इत्यत्र लक्षणाजन्यबोधात्प्राकू
नभिधायकत्वात्' ख. २. 'न तृतीयः' ख. ३. 'असमञ्जसं स्यात्' ग. ४. 'इत्थं' क. ५. 'हि' ग. ६. 'च' क. ७. 'सरण' घ.
Page 95
४८ साहित्यदर्पणे
वकयोः । शुकपटयोस्तु नात्यन्तभेदप्रतीतिः। तस्मादेवमादिपु शुद्धैव लक्षणा। व्यङ्ग्यस्य गूढागूढत्वाद्विधा स्युः फललक्षणाः ॥ १०।। प्रयोजने या अष्टभेदा लक्षणा दर्शितास्ताः प्रयोजनरूपव्यङ्गयस्य गूढागूढतया प्रत्येकं द्विधा भूत्वा षोडश भेदाः । तत्र गूढः; वाक्यार्थ- भावनापरिपक्कबुद्धिविभवमात्रवेद्यः । यथा-'उपकृतं बहु तत्र-' शक्यलक्ष्ययोः सादृश्यसंबन्धो भासते। किंतु सादृश्यबोधाभिग्रायबोधानन्तरमेवा- त्यन्तिकभेदप्रतीतिः संभवति। तस्याश्र सादृश्यातिशयबोधाभिप्रायबोधसहकृतेना- भेदारोपेण स्थगनमनुत्पत्तिरेवोपचारः। न त्वमेदारोप इत्यर्थः । अत्यन्तपदव्यावृत्ति- माह-शुक्पटयोरिति। नात्यन्तभेदप्रतीतिरिति। अन्र कृदभिहितभाव- स्यापि विशेषणस्यात्यन्तमित्यस्य कर्मतवक्लीवत्वे 'अपृथग्नपक्रियाविशेपणस्य कर्मत्वं क्ीवत्वं च' इति सूत्रस्थस्यापृथग्रपेत्यादेनअयुक्तमनित्यमिति न्यायेन व्यभिचारान्।
ननु गौणलक्षण तो रूपकालंकारस्य को भेद:, रूपकालंकारेऽप्यभेदारोपानन्तरं सादृश्य वोधस्यानुभवसिद्धल्वादिति चेट्, रूपकेऽमेदारोपात्प्रागपि सादश्यप्रतीतिः संभवति। गोणलक्षणायां तु पश्चादेव, सादृश्यप्रतीत्यो: कारणवैलक्षण्यादपि वैलक्षण्यं संभवति। 'आरोप्यमाणस्य प्राद्डिर्देशे हि गौणलक्षणाप्रयोगवाक्यम्, पश्चान्निर्देशे रूपकप्रयोगवा- क्यमिति नियमः' इति केचित्। 'गौडेन्द्रं कण्टकं शोधयति' इति गौणलक्षणोदाहरणं 'राजति व्योमकागारे राजहंसः सुधाकरः' इति रूपकोदाहरणं ददतो अ्रन्वकृतस्तन्ना- भिमतमिति मन्तव्यम्। प्रयोजनलक्षणाया द्वैविध्यमाह-व्यङ्गयस्येति। बुद्धेर्विभवः सूक्ष्म विषय गामित्वेनातिशयः । उपकृतमिति । अत्र वक्तृतात्पर्यरूपाया लक्षणायाः १. 'प्रत्येकं गृढव्यज्ञच्यतयागडव्यप्वयतया च द्वैविव्यात्पोडशमेदाः' ग. २. "मुखं विकसिनस्मिनं वशितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः। उरो मुकुलितस्तनं जघनमंसबन्धोद्ुरं वतेन्दुवदनातनौ तरुणिमोहमो मोदते ।' मुखं विकसितसिितमित्यादि। वतेत्याश्चर्य। इन्दुवदनातनौ चन्द्रमुखीशरीरे तरुणिमोहमस्तान्ण्यप्रा- दुर्भावो मोदते। वृद्धि यातीत्यर्थः। तमेव मोदनप्रकारमाह-सुखनित्यादिना। विकसितस्नितमिनि। विकमित च तत्सितं चेति विकसितस्मितम्। विकासित्वं हि कुमुमधर्मः । सच सितेऽनुपपन्र. । यन्तु विकसति स सच्छायो भवतीति विकसितशब्दो बाधितविकासमुख्यार्थः सन्सच्छायत्वसाहश्यात्सिनं लक्षयन्हृद्यत्वसुरभित्वादिप्रयोजनसहस्तरं व्यनक्ति। वशितवक्रिमेति। वशित आयत्तीकृतो वक्रिमो येन तदशितवक्रिम। अत्र वशीकरणं चेतनधर्मः । स च वक्रिमणि अनुपपन्नः । यो हि यस्य वशो मवति स तस्यायत्तो भवति। वशितशब्दो वाधितमुख्यार्थ आयत्तत्वादिसादृश्याद्वक्रिमाणं लक्षयंस्तदनुसरणत्वादि- प्रयोजनं व्यक्षयति। समुच्छलितविभ्रमा गतिरिति। समुच्छल्तिा उद्गता विभ्रमा यस्ता सा समुच्छलिन- विभ्रमा ! अत्र समुच्छलनं जलादेधमः । सच विभ्रमेऽनुपपंत्नः । यस्तु सकु गउत्कल्वोलो भवनीनि समुच्छलनशब्दो वाधितसमुच्छलनमुस्यार्थ उत्कल्लोलादिसादश्याद्विभ्रमं लक्षयन्मरौढमौहतरं सर्वजना- भितपणीयत्वादितिप्रयोजनं प्रत्याययति। अभारतसंस्थेति। अपास्ता मुक्ता संस्था मर्यादा यया सा अपा-
Page 96
द्वितीय: परिच्छेदः । ४९
इति। अगूढ, अतिस्फुटतया सर्वजनसंवेद्यः। यथा- 'डेपदिशति कामिनीनां यौवनमद एव ललितानि।' अत्र 'उपदिशति' इत्यनेन 'आविष्करोति' इति लक्ष्यते। आवि-
धैर्मिधर्मगतत्वेन फलस्यैता अपि द्विधा। एता अनन्तरोक्ताः षोडशभेदा लक्षणाः फलस्य धर्मिगतत्वेन धर्म- गतत्वेन च प्रत्येकं द्विधाभूत्वा द्वात्रिंशद्धेदाः । दिब्मात्रं यथा-
सूक्ष्ममतिमात्रवेद्यत्वेन तन्मूलकव्यञ्ञनाजन्यबोधविषयो गूढ इति भावः । उपदिश- तीति। 'श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्वचरितानाम्' इति पूर्वार्धमस्य। एतदर्थे दृष्टान्तः 'उपदिशति-' इति । ललितानि हेलालीलादीनि। आविष्करोति प्रकाशयति । परप्रवर्तकवाक्यरूपस्योपदेशस्य चेतनधर्मतया यौवनमदे बाधादावि- षकारे लक्षणा। स्फुटतं सर्वजनवेद्यलादिति भावः । पुनरपि तस्या द्वैविध्यमाह-
स्तसंस्था। अन्रापासनं चेतनधर्मः । स चामूर्तायां मतावनुपपन्नः। यो हि येनापास्यते स तस्य न भवतीति बाधितस्वार्थोऽपास्तशब्दः खपरिवृत्तिसादृश्यात्संस्थानं लक्षयन्पुनरखवीकारादिकं प्रयोजनं व्यक्षयति। मुकुलितस्तनमिति। मुकुलितौ किचिदुद्वित्रौ सनौ यस्य तन्मुकुलितस्तनम्। अत्र मुकुलितत्वं कुसुमधर्मः स च स्तनयोरनुपपन्नः । यो हि मुकुलितः स च किंचिदुद्भित्ो भवतीति मुकुलितशब्दो वाधितकोरकरूप- मुख्यार्थोऽभिनवोन्लेदसादश्यात्स्तनयुग्मं लक्षयन्स्पृहणीयत्वादि प्रयोजनसहसत्रं व्यनक्तीति। अंसबन्धोद्र- मिति। असवन्धेन उद्धरमंसवन्धोद्धुरम् । धुरायामुद्गुरीकरणमुद्धुरत्वम्। तच् चेतनधर्मो जघनेऽनुपपन्नः। यो ह्युद्गुरो भवति स किचिदुच्चैर्मवतीत्युद्धुरशब्दो वाधितधुरामुख्यार्थः सन्नुन्नतत्वादिसादृश्यादंसबन्धव- ज्जघनं लक्षयन्मनोहरत्वादिप्रयोजन प्रत्याययति। इन्दुवदनेति। इन्दुवद्वदन यस्या: सेन्दुवदना। अत्र वदने इन्दुत्वमनुपपन्नम्। यो हीन्दुसदृशो भवति स पारिमाण्डल्यादियुक्तो भवतीतीन्दुशब्दो बाधितस्वार्थ: पारिमाण्डल्यादिसादृश्याद्वदनं लक्षयञ्जगज्जीवनतापोपशान्त्यादि प्रयोजनं व्यञ्जयति। उद्गम इति। उद्ग- मो हङ्करादेर्धभ:। स च तरुणिमनि अनुपपन्नः। यो ह्युद्गच्छति स च किचिदुद्भिन्नो भवतीत्युद्गमशब्दो वाधितोदयमुख्यार्थः सन्नमिन्नोभेदसादश्यात्तारुण्यं लक्षयन्सौन्दर्यादिप्रयोजन व्यनक्ति। मोदत इति। मोदनं चेतनधर्म: स चोदमेनुपपन्नः । यो हि मोदते स सप्रसरो भवतीति मोदतेशब्दः (मोदतिपद) वाधितहर्षमुख्यार्थः सन्नुद्रमं लक्षयन्सपृहणीयत्वादिप्रयोजनं व्यनक्ति। कुशाग्रवुद्धेरे वैतादृशव्यङ्गयर्फुरणाद्ू- ढत्वमित्यर्थः ।" इत्यष्टिकं ग पुस्तके. ३. '-क्रियाया विशेषणस्य' इति पुस्तकान्तरे पाठः. १. 'अगूढस्त्वतिस्पष्टतया' ग. २. 'श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विद्ग्धचरितानाम्' इति पूर्वाधमपि क-ख-पुस्तकयोर्दश्यते. ३. 'अविष्कारातिशयश्च प्रयोजनम्' ग. ४. 'अत्रोपदेशशव्देन शिक्षादानप्रकटनाच्छिक्षा रदयस्य वाच्यायमानत्वेनाचमत्काररूपत्वादगुढतेत्यर्थः ।' ग. ५ 'कि च' इत्यधिकं ग-पुस्तके. ६. 'भेदाः' इति ख-पुस्तके नास्ति; 'षोडशभेदा अपि' ग. ७. 'द्वैविध्याद्' ग. ८. 'क्रमेणोदाहरणानि' क., 'क्रमेणोदाहरति' ख-घ. सा० द० ५
Page 97
५० साहित्यदर्पणे
'स्न्निग्धश्यामलकान्तिलिप्वियतो वेल्द्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽसिम सर्वै सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ।।'
धर्मीति। वर्मी लक्ष्यः । तद्ृत्तिपदार्थो धर्मः । स्निनिग्धश्यामलेति । विरहिणः श्रीरामस्योक्तिरियम्। लिप्तेति । व्याप्तत्यर्थः । वेल्लद्वलाकाः संचरदूकविशेषाः । पयोदसुहदां मयूराणामानन्दजनिका आनन्दजनिता वा केका ध्वनयः । कला मधुराः।
- स्त्निग्धश्यामलेति। व्याख्यातोऽप्यय श्ोकः चमत्कारातिशयलाभाय पुनर्व्याख्या- यते-अत्र रामशब्दसंगतिरुक्ता। तथाहि-स्त्रिग्धया सलिलसंबन्धसरसया श्यामलया द्रविध्वनितोचितासितवर्णया कान्त्या कालवर्णेन लिप्तमाच्छुरितं वियन्नभो थैः । वेहन्त्यो व्याजम्भमाणास्तथा चलन्त्यः परभागवशात्प्रहपवशाच्च बलाकाः सितपक्षिविशेषा येपु तथाभृता घनाः । एवं नभस्तावहरालोकं वर्तते। दिशोऽपि दुःसहाः। यतः सूक्ष्मजल- कणोद्वारिणो वाता इति मन्दमन्दत्वमेषामनियतदिग्भागगमनं च बङ्ुवचनेन सूचितम्। तर्हि गुहासु क्वचित्प्रविश्यास्यतामित्यत आह-पयोदो मेघः सुहृत् केकाजनकाह्ादज- नकतया मित्रं येषां केकापदसांनिध्यान्मयूराणामानन्देन हर्षेण केका: शब्दविशेषाः कला अव्यक्तमधुराः । ताश्च दुःसहं पयोदवृत्तान्तं स्मारयन्ति। स्वयं च दुःसहा इति भावः । एवमुद्दीपनविभावोद्वोधितो विप्रलम्भः । परस्पराधिष्ठानत्वाद्रतेः । विभावानां साधारण्य- मभिमान्येत एवं प्रभृति प्रियतमां हृदये निधाय स्ववृत्तमाह-काममिति। दृढमिति सातिशयम्। कठोरहृदय इति। रामशब्दार्थध्वनिविशेषावकाशदानाय कठोरहृदयपदम्। यथा 'तद्नेहं' इत्युक्तऽपि 'तत्तद्भित्ति' इति। अन्यथा रामपदं दशरथकुलोद्द्वत्वकौशल्या- स्नरेहपात्रत्ववात्यचरितजानकीला भादिचर्मान्तरपरिणतमर्थ कथं न ध्वनयेदिति। स एवाहं राम: सकलदुःखपात्रत्वेन प्रसिद्धोऽस्मि। अत एव सर्वमुक्तोद्दीपकातिशयजनितं केशं सहे। उत्तमपुरुषैकवचनमेत्तत्। भविष्यतीति क्रियासामान्यम्। तेन कि करिष्यतीति। अथ च भवनमेवास्या असंभाव्यमित्युक्तप्रकारेण हृदयनिहितां प्रियां स्मरणशब्दविकल्प- परम्परया प्रत्यक्षीभावितां हृदयस्फोटनोन्मुखीं ससंभ्रममाह-हहा हेति। निपातसमुदायः खेदातिशये। अत्र द्रवद्रव्यसंयोगविशेषस्य लेपनस्यामूर्ते वियति कान्त्या वाधात्, अचेतने मेघे चित्तवृत्तिविशेषस्य सौहार्दस्य बाधाच्चोक्तार्थलक्षणा। लेपनसौहार्दयोः सर्वथान्वया- संभवादत्यन्ततिरस्कृतत्वम् लक्ष्यातिशयौ व्यञ्ञचयौ। तयोस्त्रिरूपसंकराभावात्संसृषिः । रामपदेन च सर्वसहत्वानुपयुक्तार्थतया उक्तार्थसंक्रमितवाच्येन पीडासहस्रसंपातेऽपि आणधारणादात्मनि न्यकारो व्यज्यते। तत्र च घनकेकाचिरस्थायित्वयार्लिप्सुहत्पदव्यज्ञय- योरनुग्राहकत्वं व्यक्तम्। एवमेकेन रामपदेन दुःखभाजनत्वलक्षणया राज्यत्यागवनवासजटाव- ल्कलधारणस्त्रीवियोगादिपात्रतया तदतिशयव्यक्ति: । तद्वास च सीतां विनापि जीविष्यामीति शोकावेगनिर्वेदाद्यभिव्याक्तमुखेन विप्रलम्भपारेपोष प्ात लक्षणाभूलातशयध्वनिरसध्वन्योः संकर इति सहृदयाः ।।
Page 98
द्वितीय: परिच्छेदः । ५१
अत्रात्यन्तदुःखसहिप्णुरूपे रामे धर्मिणि लक्ष्ये तस्यैवातिशयः फेलम्। 'गङ्गायां घोषैः' ईत्यत्र तैटे शीतत्वपावनत्वरूपधर्मस्यातिशयः फलम्। तदेवं लैक्षणाभेदाश्वत्वारिंशन्मता बुधैः ॥११॥ रूढावष्टौ फले द्वात्रिंशदिति चत्वारिंशललक्षणाभेदाः । किं च- पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा।
हहाशब्दो हाशब्दश्च कष्टवचनः। कष्टातिशयद्योतकलान्न पौनरुत्तयम्। अत्यन्तेति। व्यज्चयार्थवैशिष्याभिप्रायेणोक्तं दुःखसहिष्णुरूप इत्यवगन्तव्यम्। तस्यैव दुःखसहिष्णो- रेव। नन्वत्यन्तदुःखसहिष्णुरित्यत्रात्यन्तत्वं यदि क्रियाविशेषणं तदा वर्मगतत्वमेव। यदि पुरुषविशेषणं तथापि महापण्डित इत्यादौ महत्त्वादिरिव धर्मिणि तात्पर्याभावाद् दुःखासहनाभाव एव पर्यवस्यतीति चेत्, 'उपदिशति' इत्याद्युदाहरणं बोध्यम्। कठोरहृदयत्स्य सर्वेसहत्वस्य चोपपत्तये राम इत्युक्तम्। अन्यथा रामस्य वक्तत्वाद- स्मीत्यनेन तल्लाभात्पौनरुत्तयं स्यात्। रामत्वेनोपस्थितस्य तदुभयमनुपपन्नम्। अतो लक्षणया दुःखसहिष्णुत्वेन मुख्यार्थ एवोपस्थाप्यते। एवं च कठोरहृदयत्वादुःखस- हिष्णुत्ं ततः सर्वसहत्वमुपपन्नम्। पुनरपि लक्षणाया द्वैविध्यमाह-पदेति। नैन्व-
१. 'स्न्निग्धश्यामलेत्यादि' इत्यधिक ग-पुस्तके. २. प्रयोजनम्' ग. ३. 'घोपः' इति ख-पुस्तके नास्ति; 'धर्मगतत्वे गङ्गायां घोष इत्यादि' ग. ४. 'इति' नारिति क-ख-पुस्तकयोः. ५. 'तटादिषु लक्ष्येषु शीतत्व- पावनत्वादि' घ; 'शीतत्वपावनत्वाद्यतिशयस्य धर्मनिष्ठत्वात्' ग. ६. 'क्षणा-' इत्यादिकारिकार्ध ग-पुस्तके घ्रुटितमिति प्रतिभाति.७. 'बहुतरदुःखसत्वेऽयनुद्वि्चित्तत्वमत्यन्तदुःखसहिष्णुत्वम्। तस्यैव रामस्यैवातिशय उत्कषों धीरत्वादिरूपः। अत्र वक्तृत्वादेव रामस्य लाभे पुनरुक्तमिति लक्षणाबीजमत्रावधेयम्। केचितु- 'तस्य दुःखसहिष्णो रामस्यातिशयो विप्रलम्भरूपः। न चात्र दुःखसहिष्णुत्वस्याप्यतिशयः प्रतीयत एव, तत्कथमिदं धर्मिगतस्योदाहरणमिति वाच्यम्, विवक्षितविवेकेन तस्यापि धर्मगतत्वादेव। तथाहि-दुःख- सहिष्णुत्वं दुःखद्वेषाभावः । तस्यातिशयान्तराभावात्सामान्याभावत्वमेवातिशयः, स च नातिरिक्त। कित्व- भावरूप एव तस्य रामरूपधर्मिगतत्वादेव' इत्याहुः। तन्न। अस्यार्थव्यअ्जनागन्यविप्रलम्भस्य लक्षणामूल- व्यञ्जनागम्यत्वाभावाल्लक्षणाप्रयोजनाभावाद् दु-खसहिष्णुत्वानिशयस्य धर्मगतत्वेऽपि विमलम्भस्य धर्मिगत- त्वेनैव धर्मिगतोदाहरणत्वाक्षतेः । 'अत्यन्तदुःखसहिष्णुरूपे' इति वदता अ्न्थकृता दुःखसहिष्णुत्वातिशय- पर्यवसितस्यात्यन्तदुःखसहिष्णुत्वस्य लक्ष्यतावच्छेदकत्वाङ्गीकारात्मयोजनत्वासंभवान्निरुक्तदुःखस हिष्णुत्वस्य प्राणिमात्रेऽसंभवाच्च कस्यापि कुत्रापि दुःखे सचात्। न च रामस्येश्वरत्वेन द्वेषसामान्याभावसत््वेन दुःख- द्वेषसामान्याभाव: सिध्यतीति वाच्यम्। ईश्वरस्यापि रामादिशरीरे जन्यसुखादिवत्परदुःखानुभवजन्यदुः- खद्वेषस्याप्यज्गीकारात्तस्यैव हहाशव्देन हाशव्देन च व्यञ्ञजितत्वात्, अन्यथा तयोरनर्थकत्वापत्ते। न च दुःखद्वेषाभावो दुःखसहिष्णुत्वम्, तस्य सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वमतिशयः, तस्य लक्ष्यतावच्छे- दककुक्षिनिक्षिपस्यापि प्रयोजनत्वाङ्गीकारे को दोष इति वाच्यम्। 'प्रयोजनेन लक्षणीयं न युज्यते' इति वदन्भिरालंकारिकर्लक्षणाजन्यवोधविषयस्य प्रयोजनत्वाङ्गीकारात्। यद्यप्यत् किप्तपदस्य व्याप्तेलक्षुणा व्याप्तेरतिशयः फलमिति धर्मग्रतफललक्षणाया उदाहरणमत्रैव संभवति। तथापि गङ्गायामिति प्रसिद्धो- दाहरणमुपन्यस्तम् ।' इति पाठमदः कुत्रचिदृश्यते. ८. 'ननु यद्यपि' इति पुस्तकान्तरे.
Page 99
५२ साहित्यदर्पणे
ता अनन्तरोक्ताश्चत्वारिंशद्वेदाः। तत्र पदगतत्वे थैथा-'गङ्गायां घोषः' । वाक्यगतत्वे येथा-'उपकृतं बहु तन्र' इति। एवमशीतिप्र- कारा लक्षणा II अथ व्यखना। विरतास्वभिधाद्यासु ययार्थो वोध्यते परः ॥ १२ ॥ सा वृत्तिव्यञ्षना नाम शब्दस्यार्थादिकस च। 'शब्दवुद्धिकर्मणां विरम्य व्यापाराभावः' इति नयेनाभिघालक्षणा- भिधावल्लक्षणायाः पैदधमत्वेन कथ वाक्यगततमिति चंद् यत्र वाक्ये वाक्यसमुदाये वा बहुपदेषु लक्षणा तत्रैव तस्या वाक्यगतत्म् उपचारात्। क्रमप्राप्तां व्यजनां निरूप- यितुमाह-अथेति। वृत्तिर्व्यापारः। सा च वक्तृतात्पर्यविशेपरूपा। वक्तृतात्पर्य च
- एवमिति। झटित्युपस्थिरितये लक्षणाया अशीतिप्रकारा: संख्यायन्ते-(१) रूढाँ सारोपा उपादानलक्षणा-'अश्वः श्वतो धावति'। (२) प्रयोजने सारोपा उपादानल- क्षणा-'एते कुन्ताः प्रविशन्ति'। (३) रूढौ सारोपा लक्षणलक्षणा-'कलिङ्गः पुरुपो युध्यते'। (४) प्रयोजने सारोपा लक्षणलक्षणा-'आयुर्घृतम्'। (५) रूढो साध्यवसाना उपादानलक्षणा-'श्वेतो धावति'। (६) प्रयोजने साध्यवसाना उपादानलक्षणा- 'कुन्ताः प्रविशन्ति'। (७) रूढौ साध्यवसाना लक्षणलक्षणा-'कलिङ्गः साहसिकः'। (८) प्रयोजन साध्यवसाना लक्षणलक्षणा-'गड्गायां घोपः'। (९) रूढौ गौणी सारोपा उपादानलक्षणा-एतानि तैलानि हेमन्ते सुखानि'। (१०) प्रयोजने गौणी सारोपा उपादानलक्षणा-'एते राजकुमारा गच्छन्ति' (११) रूढौ गौणा सारोपा लक्षणलक्षण- 'राजा गौडेन्द्रं कण्टकं शोधयति'। (१२) प्रयोजने गौणी सारोपा लक्षणलक्षणा- 'गौर्वाहीकः'। (१३) रूढौ गौणी साध्यवसाना उपादानलक्षणा-'तैलानि हेमन्ते सुखानि'। (१४) प्रयोजने गौणी साध्यवसाना उपादानलक्षणा-'राजकुमारा गच्छन्ति'। (१५) रूढौ गौणी साध्यवसाना लक्षणलक्षणा-'राजा कण्टकं शोधयति'। (१६) प्रयोजने गौणी साध्यवसाना लक्षणलक्षणा-'गौर्जल्पति'। इहाष्टविधा प्रयोजनल- क्षणा व्यञयस्य गूढागूढत्वेन षोडशविधा भवति। साच धर्मिधर्मगतभेदेन प्रत्येकं द्विधा भूत्वा द्ानरिशदिधा जायते। एषा चाष्टभी रूढिलक्षणाभिः सह चत्वारिंशत्प्रकारा भवति। ततः पदवाक्यगतत्वेनाशीतिप्रकारेति॥ 2. व्यञ्ञजनेति । 'मुख्यार्थबाधग्रहनिरपेक्षबोधजनको मुख्यार्थसंबद्धासंबद्धसाधारणः प्रसिद्धाप्रसिद्धार्थविपयको वक्रादिवैशिष्यज्ञानप्रतिभादयुद्वुद्वः संस्कारविशेषो व्यअनेति १. 'ताः-' इत्यादि '-भेदाः' इत्यन्तं ग-पुस्तके नास्ति. २. 'चत्वारिशङ्मेदाः' इति ख-घ-पुस्त- कयोर्नोस्ति. ३. 'यथा' ग-पुस्तके नास्ति. ४. ग-पुस्तके 'यथा' इति नास्ति, तदग्रे "व्वामस्ति वच्मि विदुषां-" इत्यादि इत्युदाहरणं वर्तते. ५. 'इति सर्वमवदातम्' इति ग-पुस्तकेषविकः पाठः ६. 'अपि पद्धर्मत्वमेवेति कथं वाक्यगतत्व तस्याः' इति पुस्तकान्तरे. ७. 'वृत्ति :- ' इत्यारभ्य '-सार्थ बोधयति' इत्यन्तः पाठः पुस्तकान्तरे नास्ति.
Page 100
द्वितीय: परिच्छेदः। ५३
तात्पर्यार्यासु तिसृषु वृत्तिषु स्वं समर्थ बोधयित्वोपक्षीणासु यया- न्योऽर्थो बोध्यते सा शब्दस्यार्थस्य प्रकृतिप्रत्ययादेश्व शक्तिर्व्यञ्जनध्व- ननगमनप्रत्यायनादिव्यपदेशविषया व्यञ्जना नाम। तेत्र- अभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा॥ १३ ॥ अभिधामूलामाह- अनेकार्थस्य शब्दस्य संयोगाद्यैनियत्तिते। एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया॥ १४॥
'एतत्पदं वाक्यं वा इममर्थ बोधयतु' इति वक्तुरिच्छाविशेषः । शाब्या व्यनायाः पदधमलम्। आर्थ्यास्तु वाक्यधर्मलम्। एतत्पदं वाक्यं वैतदर्थबोधाभिप्रायकमिति ज्ञानविषय एव सा सार्थ बोधयति। तिसृषु वृत्तिष्वन्यो मुख्यलक्ष्यतात्पर्यार्थभिन्नः । अर्थादिकस्येत्यादिपदं विवृणोति-प्रकृतीति। आदिपदादुपसर्गादिग्रहणम्। निय- न्त्रिते नियम्यप्रतिपादिते अन्यस्यार्थान्तरस्य धीहेतुर्वोधोपायः। यत्र तु प्रकरणादि-
मक्जषाकाराः । एतद्ृत्तिप्रतिपादयोडथों व्यङ्गयः । स च वाच्यार्थ इव न नियतः, किंतु वक्त- प्रकरणादिवशादनियतः । तथाहि-'गतोऽस्तमर्कः' इति वाक्ये राज्ञः सेनापतीन्प्रति शत्रूणां हठेनामेशैसर इति, दूतीनामभिसारिकाः प्रति अभिसरणमुपक्रम्यतामिति, सख्या वासकसज्जां प्रांत आप्तप्रायस्ते प्रेयानिति, कर्भकरस्य सहकर्म कुर्वतः प्रति कर्मकर- णान्निवर्तामहे इति, भृत्यस्य धार्मिकं प्रति सांध्यो विधिरुपक्रम्यतामिति, आप्तस्य कार्यव- शेन बहिर्गच्छतः प्रति दूरं मा गा इति, गृहिणो गोपालकं प्रति धेनवो गृहं प्रवेश्यन्ता- मिति, दिवसेऽतिसंतप्तस्य बन्धून्प्रति संतापोडधुना न भवतीति, आपणिकानां भृत्यान्प्रति विक्रेयवस्तूनि संहियन्तामिति, नायिकागमनप्रस्तावे प्रोषितभर्तृकायास्तत्कथकं प्रति नागतोडद्य पेयानिति, एकस्थैव वा वत्तुर्बहून्प्रति तत्प्रकरणवशादेवमादिरनवधिव्यड्गयोडर्थ: प्रकाशते। वाच्यस्तु सर्वान्प्रत्यविशिष्ट एव।। 1. प्रकृतीति । प्रकृतिर्नाम अर्थावबोधहेतुः प्रत्ययविधानावधिभूतः शब्दविशेषः । सर्वेषाभेव प्रत्ययानां प्रकृति निमित्तीकृत्यैवोत्पत्तिविधानात्। भाष्येऽप्युक्तम्-'तावेव सुप्तिडौ यौ ततः परौ सैव प्रकृतिराद्या' इति। (ततः) विधानावधे: (यौ परौ तावेव सुप्तिडौ) या च तयो: (आद्या) विधानावधिभूता (सैव प्रकृतिः) इति तदर्थः । प्रत्य- यस्तु प्रकृतिमवधीकृत्य विधीयमानः स्वार्थबोधकः शब्दविशेषः । अत एवाह भगवान्भ- तृहरि :- 'यः शब्द स्वेतरस्यार्थें स्वार्थस्यान्वयबोधने। यदपेक्षस्तयोः पूर्वा प्रकृतिः प्रत्ययः परः ॥ इति ॥ १. 'वृक्ष्तः' घ. २. 'तत्र' घ-पुस्तके नास्ति. १. 'तत्र' इत्यधिकं घ-पुस्तके. 8. 'आदिशब्दा द्विपयोगादयः' इति क-ख-ग-पुस्तकेषु नास्ति.
Page 101
५४ साहित्यदर्पणे
डक्तं हि- 'संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधि: ॥
नियमो नास्ति त्र यावदर्थबोधे वक्तृतात्पर्ये तावन्त एवार्था वाच्याः। यथा-'व्यथां द्येषामपि मेदिनीभृताम्' इति। अत्र राजपर्वतयोरन्यतरस्य व्यञ्ञयत्वे 'द्वयेषां' इत्य- नन्वितं स्यात्। अभिधाश्रया अभिधामूला। प्राकरणिकमर्थ बोधयित्वाभिधायां वि- रतायामप्राकरणिकबोधे व्यज्ना अभिधान्तरमपेक्षत इत्यभिधामूललमस्याः। नन्व- भिधान्तरस्य संयोगादिना प्रतिरुद्धत्वेन कथ व्यज्नाजन्यबोधे सहकारितमिति चेतू, न । अभिधायाः स्वातन्तयेणार्थान्तरोपस्थापने संयोगादेः प्रतिबन्धकत्वकल्पनात्। नन्वभिवैवार्थान्तरमुपस्थाप्यतां किं व्यज्ञनया संयोगादेः प्रतिबन्धकत्वस्य च कल्पने- नेति चेत्, न। अप्राकरणिकद्वितीयार्थबोधान्निष्कम्पप्रवृत्त्यभावेन तस्यास्ादविशेष- जनकत्वेन च तत्र वैजात्यस्यावश्यं वाच्यत्वेन तस्य च कारणविशेषाधीनसिद्धिकत्वेन व्यञ्ञनातिद्वेरभिधया द्वितीयार्थस्य प्रथममुपस्थाने संयोगादे: प्रतिबन्धकत्वकल्पनस्या- वश्यकत्वाच्च। विप्रयोगस्त्यागः । साहचर्ये सहकारिलेन कार्यकारितम्। विरोधिता वैरम्। एतच्चतुष्टयं समभिव्याहृतपदार्थान्तरेण सहेति बोध्यम्। अर्थः प्रयोजनम्।
- उक्त्मिति। 'वाक्यपदीये हरिणा' इति शेषः। संयोगो नाम नानार्थशब्दशक्या- न्तरवृत्तितया अप्रसिद्धत्वे सति तच्छक्यवृत्तितया प्रसिद्धः संबन्धः। प्रयोगो विश्रेषः । एकस्मिन्कार्ये परस्परापेक्षित्वं साहचर्यम् विरोधिता प्रसिद्धं वैरभ्, सहानवस्थानं च। अर्थ: प्रयोजनम्, चतुर्थ्याद्यभिधेयम्। प्रकरणं वक्तश्रोतृबुद्धिस्थता। लिङ्गं नानार्थपदश- क्यान्तरावृत्तिरेकशक्यगतः साक्षाच्छब्दवेद्यो धर्मः। शब्दस्यान्यस्य संनिधिर्नानार्थपदैकार्थ- मात्रं संसर्ग्यर्थान्तरवाचकपदसमभिहारः । सामर्थ्य कारणता। औचिती योग्यता। देशो नगरादिः। कालो दिवसादिः। व्यक्तिः पुंनपुंसकस्त्रीलिङ्गानि। स्वर उदात्तादि:। एते संयोगादयः शब्दार्थस्यानवच्छेदे तात्पर्यसंदेहे तदपाकरणद्वारेण विशेषस्मृतिहेतवः । निर्णयहतव इत्यर्थः । उपस्थितानामनकेषामेकतरमात्रार्थतात्पर्यनिर्णयद्वारा तन्मात्रार्थविषय- कान्वयबोधजनका इति भावः । 'अत्र सामर्थ्यमेवैकं मुख्यं निर्णायकं संयोगादयस्तद्वयज्ञ- कप्रपश्चः । तैः सामर्थ्यस्यैवाभिव्यक्तः' इत्यपरे। 'सशङ्-' इत्यत्र शङ्कचक्रयोः संयोगो भग- वन्मान्रनिष्ठतया प्रसिद्धो भगवति हरिशब्दस्याभिधाया नियमेनावस्थापकः । 'अशङ्ग-'इत्यत्र तयोरेव विश्रेषः । 'भीमार्जुनौ' इत्यत्रार्जुने भीमसाहचर्यमर्जुनशब्दस्प पार्थेडभिधानिया- मकम्। 'कर्णार्जुनौ' इत्यन्न वध्यघातकभावादर्जुनशब्दस्य पार्थे। सहानवस्थानलक्षण- विरोधे तु 'छायातपौ' इत्युदाहार्यम्। अर्थादिव्यत्तयन्तानामुदाहरणानि टीकायां सम्य- ग्व्याख्यातानि। स्वरस्य नियामकत्वे तु 'इन्द्रशत्ुर्वर्धस्व' इत्युदाहार्यम्। अत्र इन्द्रः शत्रु: शातयिता हिंसको यस्येति बहुव्ीहौ 'बडुव्रीहौ प्रकृत्या पूर्वपदम्' इत्यनेन पूर्वपदप्रकृति- स्वरे 'अनुदात्तं पदमेकवर्जम्' इत्यनेन शेषनिघाते आदयदात्तत्वम्। तेन चेन्द्रस्य
Page 102
द्वितीय: परिच्छेद: । ५५
सामर्थ्यमौचिती देशः कालो व्यक्तिः सरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' इति। 'सशङ्चक्रो हरिः' इति शङ्गचक्रयोगेन हरिशब्दो विष्णुमेवाभि- धत्ते। 'अशङ्कचक्रो हरिः' इति तद्वियोगेन तमेव। 'भीमार्जुनौ' इति अर्जुनः पार्थः । 'कर्णार्जुनौ' इति कर्णः सूतपुत्रः । 'स्थाणुं वन्दे' इति स्थाणुः शिवः । 'सर्वै जानाति देवः' इति देवो भवान् । 'कुपितो लिङ्गं चिह्नम्। संभवद्विशेषणमिति यावत्। अन्यस्य तुल्यविभक्तिकस्य सामर्थ्य नि- र्दिष्टजननशक्तिः । औचिती प्रकृतोपयोगिलम्। तच्च यदुपस्थितौ श्रोतुर्जिज्ञासा निवर्तते तत्त्वम्। केचित्तु-'अर्थद्वयेऽन्वयसंभवेऽप्येकार्थ एव तात्पर्यमौचिती' इत्याहुः । तन्न। तात्पर्यविशेषस्य प्रतिबन्धकत्वकल्पने स्वत्रैव तत्संभवे संयोगादेः प्रतिबन्धकत्वकल्पनानौचित्यात्, एतद्राहकस्य प्रकृतोपयोगितस्य प्रथमोपस्थितत्वेन तस्यैव प्रतिबन्धकत्वकल्पनौचित्याच्च। ननु भवन्मतेऽपि औचित्या एव सर्वत्र निया- मकत्वमस्तु किमन्येषां तत्कल्पनेनेति चेतू, न। नियन्न्कान्तरासंनिधान एव तस्या नियन्रकत्वकल्पनात्। देशः समभिव्याहृतप्रदेशः। कालः समभिव्याहृतदिनरात्र्यादिः। व्यक्तिः शव्दस्य पुंस्तादि लिङ्गम्। सर उदात्तादिः। अनवच्छेदे अनेकत्वेन प्रतिप- त्त्यनियमे विशेषस्यैकतरस्य स्मृतौ पदार्थोपस्थितिरूपायां हेतव इत्यर्थः । एतच्च मीमां- सकनये। नैयायिकनये तु-सर्वेषामेव पदार्थानामुपस्थितिनियन्रणवशादेकस्यैवार्थस्य शाब्दोडनुनध इति। एकत्रैव संयोगादीनां द्वित्राणं संभवे यथास्फूर्ति नियन्त्रकत्वं बोध्यम्। क्रमेण संयोगादीनां नियन्रणमुदाहरति-सशद्वेति। तद्वियोगेन शङ्चक्रविरहेण तमेव विष्णुमेवाभिधत्त इति पूर्वेणान्वयः । शङ्खचक्रवति विष्णौ त- द्विरहः कालविशेषे संभवति। पार्थो धनंजयः । स्थाणुमिति। अत्र 'भवच्छिदे' इति चरमांशो वोध्यः। अन्यथा भवच्छेदरूपस्य प्रयोजनस्यानुपस्थितौ तस्य निया- मकत्वं न स्यात्। 'भवान्' इत्यनेन प्रक्रान्तराजरूपार्थ एव दर्शितः, न तु युष्मत्वेन। 'तत्र शक्तिः' इत्यपरे। कुपित इति। मकरध्वजपदं कर्मधारयबहुव्रीहिभ्यामने- कार्थकम्। कोपस्य मकराकारध्वजेSसंभवात्कामस्यैव बोधकम्। केचित्तु-'मकरव्व- जपदं कामसमुद्रानेकार्थकम्। कोपस्तु कामस्यैव चिह्नम्। समुद्राधिष्ठातुः कोपसंभवे- शातनकर्तृत्वं बोध्यते। इन्द्रस्य शत्रुरिति षष्ठीतत्पुरुषे 'समासस्य' इति सूत्रेणान्तोदात्त त्वम्। तेन चेन्द्रस्य शातनकर्मतयावगमः । इन्द्रशत्चुत्वस्य विधेयत्वान्न संबोधनविभक्तिः ।
पस्पशादौ स्पष्टम्। आदिना सत्वषत्वनत्वणत्वादिग्रहः । 'सुसिक्तम्' इत्यादौ पूजार्थ: सुः कर्मप्रवचनीयः । 'सुषिक्तम्' इत्यत्रोपसगोडन्यार्थः । 'प्रनायके' प्रगतनायकदेशबोधः । "प्रणायके' प्रणयनक्रियाकर्ता। णत्वात्। इति मञ्जूषादौ स्पष्टम् ।।
१. 'इत्यत्र' ख. २. 'शङ्-' इत्यादि 'हरिः' इत्यन्तं ग-पुस्तके नारित,
Page 103
५६ साहित्य दर्पणे
मकरध्वजः' इति मकरध्वजः कामः 'देवः पुरारिः' इति पुरारिः शिवः 'मधुना मत्तः पिकः' इति मधुर्वसन्तः । 'पातु वो' दयितामु- खम्' इति मुखं सांमुख्यम्। 'विभाति गगने चन्द्रः' इति चन्द्रः शशी। 'निशि चित्रभानुः' इति चित्रभानुर्वहिः । 'भाति रथाङ्गम्' नपुंसकव्यत्तया रथाङ्गं चक्रम्। स्वरस्तु वेद ऍव विशेषप्रतीतिकृन्न काव्य इँति तस्य विषयो नोदाहृतः । ईंदं च केऽप्यसहमाना आहु :- 'खरोपि काकादिरूपः काव्ये विशेषप्रतीतिकृदेव। उदात्तादिरूपोऽपि मुनेः पोठोक्तदिशा शृङ्गारादि- रसविशेषप्रतीतिकृदेव' इति । एतद्विषये उदाहरणमुचितमेव इति।
Sपि विरहिविषयः कोपोऽत्र बोध्यः' इत्याहुः। तन्न। 'संप्राप्तं मकरध्वजेन मथनं-' इत्यादिप्रयोगवलान्मकरध्वजपदस्य समुद्रे शक्तिकल्पनेऽपि तद्धिष्ठातृदेवताबोधस्तु लक्षणैवेति तत्र कोपसंभवस्याकिंचित्करत्वात्कोपविशेषप्रतिसंधानस्य मकरव्वजपदार्थ- विशेषप्रतिसंधानाधीनतया तस्य प्रथममनुपस्थितौ नियन्त्रकत्वायोगाच्च। देव: पुरा- रिरिति। "पुरं देहेऽपि दृश्यते' इति हारावलीदर्शनात्पुरशब्दस्य देहवाचकत्वम्। 'पुरस्यारिः' इति व्युत्पत्त्या पुरारिपदं योगादिवाचकमपीत्यनेकार्थकं तुल्यविभक्ति- कस्य देवपदस्य सांनिध्याद्देवपदं शिवमात्रबोधकम्' इत्याहुः । तन्न। 'पुरारिः शिवः' इति ग्रन्थविरोधाद् राजादेर्व्यावर्तकत्वेन सुरमात्रबोधकमित्यस्यैव वत्तुं युक्तत्वाचं देव- पदस्य शिवत्वेन शत्त्यभावात्सामान्यशब्दविशेषपरलाङ्गीकारेऽपि पौनरुत्त्यापातात्। मधुपदं दैत्यविशेषाद्यने कार्थकम्। कोकिलमादने वसन्तस्यैव सामर्थ्यम्। पातु व इति। मुखपदमाननाद्यनेकार्थकम्। प्रापणे सांमुख्यस्यैवौचिती। 'पांतु वः' इति क्वचित्पाठः। प्रियासुरतप्रातिकूल्यजनितखेदं नायक प्रति सख्या उक्तिरियम्। प्रियाया मुखं सांमु- ख्यं सुरतानुकूलतं वो युष्मान्पातु। प्रातिकूल्यजनितखेदाद्रक्षत्वित्यर्थः । अत्र सांमु- ख्यस्यैव प्रकृतोपयोगिलम्, नलाननादेः। चन्द्रपदं कर्पूराद्यनेकार्थकम्। चित्रभानुपदं वह्निसूर्याद्यनेकार्थकम्। रथाङ्गमिति। चक्रवाकपरत्वे पुंस्तं स्ात्। वेद इति। इन्द्रशत्रुरित्यादौ बहुव्रीहितत्पुरुषयोः खरभेदो वेद एव विशेषप्रतीतिकृत्। न तु काव्यादावित्यर्थः । मुने: पाठोक्तदिशेति। भरतेन मुनिना शङ्गारादौ खरविशेष उक्तस्तदनुसारेणेत्यर्थः । यथा-'हास्यशङ्गारयोः खरितोदात्तम्, वीररौद्राद्भुतेषूदा- त्तखरितम्, करुणबीभत्सभयानकेष्वनुदात्तखरितमुत्पादयेत्' इति। उच्च उदात्तः । नीचोऽनुदात्तः । समाहृतः खरितः । स च मध्यम एव। आदौ खरितः पश्चादुदात्तः
१. 'पुरारातिः' ग. २. 'त्वा' क. ३. 'भाति' क. 8. 'मित्रो भातीति सूर्यः' ग. ५. 'इत्थ' क. ६. 'इति-' इत्यादिफककिका ग-पुस्तके नास्ति. ७. 'विषये नोदाहृतम्' ख. ८. 'इह' क. ९. 'पा- टगुणोक्तिदिशा' क. १०. सांप्रतमयमेव पाठः सर्वत्रोपलभ्यते. ११. 'प्रियायाः' इति पुस्तकान्तरे. १२. 'नायकं' इति नारिति कुत्रचित्.
Page 104
द्वितीय: परिच्छेद: । ५७
तन्न। तथाहि-खराः काक्कादयः उदात्तादयो वा व्यङ्ञयरूपमेव विशेषं प्रत्याययन्ति, न खलु प्रकृतोक्तमनेकार्थशब्द स्यैकार्थनियन्त्रण- रूपं विशेषम्। किं च । यदि यत्र कचिदनेकार्थशब्दानां प्रकरणादि- नियमाभावादनियन्त्रितयोरप्यर्थयोरनुरूपसवरवशेनैकत्र नियमनं वाच्यं तदा तथाविघस्थले श्लेषानङ्गीकारप्रसङ्गः । न च तथा। अत एवाहु: श्लेषनिरूपणप्रस्तावे-'काव्यमार्गे खरो न गण्यते' इति च नयः। इत्यलमुपजीव्यानां मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण। आदिशब्दात् 'एतावन्मात्रस्तनी-' इत्यादौ हस्तादिचेष्टादिभिः स्तनादीनां कमलको- रकाद्याकारत्वम्। एवमेकस्मिन्नर्थेडभिधया नियन्त्रिते या शब्दार्थस्यान्यार्थबुद्धिहेतुः शक्ति: साभिधामूला व्यञ्जना। खरितोदात्तः । एवमन्यत्रापि। न च तथेति। खरभेदसत्त्वेऽपि महाकविभिः शले 1. एतावदिति। एषा प्राकृतगाथा, अत्र तु तच्छायांश एवोपन्यस्तः । तथाहि- 'एद्दहमेत्तत्थणिआ एद्दहमेत्तेहि" अच्छिवत्तहि। एद्दहमेत्तावत्था एद्दद्दमेत्तेहि" दिअएहि॥' एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम्। एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः।।' इति संस्कृतम्। सौन्दर्यांतिशयशालिन्या नयनगोचरमगताया गुणश्रवणमात्रजनितानुरागेण नायकेनावस्थायां पृष्टायां दूत्या इयमुक्तिः । 'चिरप्रवासिनि नायके नायकावस्थां बोध- यन्त्या: कस्याश्चिदुक्तिरियम्' इत्यन्ये। एतावत्परिमाणं ययोस्तौ एतावन्मात्रौ आमल- कादिपरिमाणौ स्तनौ यस्या: सा। एतावत्परिमाणं ययोस्ते एतावन्मात्रे विवक्षितकमल- दलादिपरिमाणे, ताभ्याम् अक्षिपत्राभ्यां लोचनदलाभ्याम्, उपलक्षितेत्यर्थः। उपलक्षणे तृतीया। एतावद् विवक्षितं परिमाणं उच्चत्वादि यस्या: सा, तथाभूतावस्था स्वरूपं यस्या: सा। एतावद् बुद्धिस्थं परिमाणं संख्या येषां तथाविधैर्दिवसैर्लक्षणया संवत्सरैरुपलक्षिता। परिच्छिन्नेति यावत्। वर्षकथनस्यैव प्रायशो लोकव्यवहारसिद्धत्वात्। अत्र मुकुलाकार- हस्ताभिनयेन स्तनपरिमाणविशेषे, पझमदलाकृतिना तेन नेत्रपरिमाणविशेषे, उच्चता पुष्टि- प्रदर्शकेन तद्विशेषे, अङ्गुत्यङ्गधारणादिरूपेण च दिवससंख्याविशेषे बुद्धिस्थमात्रपदशत्त्या एतावच्छब्दा नियमितशक्तय इति॥ 2. एवमित्यादि। अत्रेदमवधेयम्-यत्रोभयोरर्थयोस्तात्पर्य स श्रेषः, यत्र त्वेकस्मिन्नयें तात्पर्यम्, सामग्रीमहिम्रा तु द्वितीयार्थप्रतीतिः सा व्यञ्जनेति । अत एव रसगङ्गाधरेडप्यु- क्तम्-'श्लेषे द्वयोरर्थयोर्वाच्यत्वम्, एककालत्वं च। इह त्वेकस्य वाच्यत्वम्, अपरस्य व्यङ्यत्वम्, भिन्नकालत्वं च' इति। आनन्दवर्धनाचार्योडप्याह-'यत्र शब्दशक्त्या साक्षादलंकारो वाच्यः सन्प्रतिभासते स सर्वः श्रेषविषयः । यत्र तु शब्दशत्तया सामर्थ्या क्षिप्तं वाच्यव्यतिरिक्तं व्यञ्ञ्यमेवालंकारान्तरं प्रकाशते स ध्वनेविषयः' इति॥ १. 'एकार्थनियत्रण-' क-ख. २. 'मान्यानां' इति ग-पुस्तके नास्ति.
Page 105
५८ साहित्यदर्पणे
यथा मेम तातपादानां महापात्रचतुर्दशभाषाविलासिनीभुजंगम- मा
हाकवीश्वरश्रीचन्द्रशेखरसांधिविग्रहिकाणाम्- 'दुर्गालङ्गितविग्रहो मनसिजं संमीलयंस्तेजसा प्रोद्यद्राजकलो गृहीतगरिमा विष्वग्वृतो भोगिभिः । नक्षत्रेशकृतेक्षणो गिरिगुरौ गाढां रुचिं धारय- न्गामाक्रम्य विभूतिभूषिततनू राजत्युमावल्लभः ॥' अत्र प्रकरणेनाभिधेये उमावल्लभशब्दस्योमानाममहादेवीवल्लभभा- नुदेवनृपतिरूपेऽर्थे नियन्त्रिते व्यञ्जनयैव गौरीवल्लभरूपोर्ऽर्थो बोध्यते। एवमन्यत्। लक्षणामूलामाह- लक्षणोपास्यते यस्य कृते तत्तु ग्रयोजनम्। यया ग्रेंत्याय्यते सा स्याव्यञ्जना लक्षणाश्रया ॥१५॥ षाङ्गीकारात्। श्लेषानङ्गीकारो न कर्तव्य इत्यर्थः । दुगेति। दुगैंः परिखादिभिरल- द्वितः प्रतिरोड्ुमपारितो विग्रहः संग्रामो यस्य सः। दुर्गे भित्त्वापि रिपुभिः सह विं- ग्रहः क्रियत इति भावः। यद्वा दुर्गेरलङ्गितोऽव्यवहितो विग्रहो यस्य। दुर्गव्यवधानं विनैव युध्यत इत्यर्थः । मनसिजं कामं तेजसा कान्त्या संमीलयन् पराभवन्। प्रोद्यत् प्रकृष्टाभ्युदययुक्तं राजकं राजसमूहं लाति वश्यतया गृह्नाति स तथा। गृहीत- गरिमा प्राप्तगौरवः । भोगिभिरुपभोगयुक्तैः पुरुषैर्विष्वक् सर्वतो वृतो व्याप्तः । क्षत्रे- शे क्षत्रियश्रेष्ठे कृतेक्षणो दत्तदृष्टिर्न भवतीति। तत्रापि तुच्छवुद्धिरिति भावः । गिरि- र्हिमालयो गुरुः श्वशुरो यस्य स शिवः, तत्र रुचिमभिलाषं धारयन्। यद्वा गुरौ गभीरार्थायां गिरि वाचि गाढामुत्कृष्टां रुचिं प्रकाशं धारयन् कुर्वन्। गां पृथ्वीमा. क्रम्य पराक्रमेण खीकृत्य विभूत्या धनसंपदा भूषिता तनुर्यस्य स उमावल्लभो राज- विशेषो राजति। अयमर्थः प्रथममभिधयैव प्रतिपाद्ते। पश्चादस्य वाक्यस्यानेकार्थ- पद्घटिततवज्ञानाज्ायमानं वक्तृतात्पर्यज्ञानमभिधान्तरग्रहसहकृतमेवमर्थ बोधयति। दुर्गया पार्वत्या लद्वितोऽर्धत्वेनाकान्तो विग्रहः शरीरं यस्य सः। मनसिजं कामं ते- जसा तृतीयनयनोत्थज्योतिषा संमीलयन्नाशयन्। प्रोद्न्ती राजकला चन्द्रखण्डं यस्य सः । गरहीतगरिमा प्राप्तशरीरगौरवः । भोगिभिः सपैः नक्षत्रेशेन चन्द्रेण कृतमी- क्षणं येन सः गिरिगुरौ हिमालये गां वृषभमाक्रम्य आरुह्य विभूत्या भस्मना भूषित- देहः उमावल्लभः शिवः । प्रकरणनेति। 'नियन्त्रिते' इत्यग्रेणान्वेति। अभिधेये- डभिधया प्रतिपादे । 'अभिधया' इति पाठे प्रकरणेन सहाभिधया नियत्र्रिते इत्यर्थः । लक्षणामूलामिति। 'व्यज्जनाम्' इत्यनेन प्रकरणलभ्येनान्वेति। लक्षणा १. ग-पुस्तके 'मम' इत्यादि नास्ति. क-ख-पुस्तकयोस्तु 'विलासिनीभुजंग' इति नास्ति. २. 'क- लक्षणः' क. ३. '-नान्नी महादेवी तद्वल्लभ' घ. ४. 'मख्याप्यते' ख.
Page 106
द्वितीयः परिच्छेदः । ५९
'गङ्गायां घोषः' इत्यादौ जलमयाद्यर्थबोधनादभिधायां तटाद- र्थबोधनाच्च लक्षणायां विरतायां यया शीतत्वपावनत्वाद्यतिशयादिर्बोध्यते सा लक्षणामूला व्यञ्जना। एवं शाब्दीं व्यञ्जनामुक्त्वारथीमाह-
प्रस्तावदेशकालानां काकोश्रेष्टादिकस् च ॥ १६ ॥। वैशि्यादन्यमर्थ या बोधयेत्सार्थसंभवा। व्यञ्जनेति संवध्यते। तत्र वक्तवाक्यप्रस्तावदेशकालवैशिष्टये यथा मम- 'कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः । केलीवनीयमपि वञ्जुलकुञ्जमञ्जु- र्दूरे पतिः कथय किं करणीयर्मेद्य ।।' अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचिद्यज्यते।
प्रयोजनवती उपास्यते शब्दशक्तित्वेनाङ्गीक्रियते यस्य कृते यस्य बोधनिमित्तम्। अभिधायामिति विरतायामित्यग्रेणान्वयः। चकारात्तात्पर्यार्थबोधनात्। तात्पर्याख्यायां वृत्तौ चेति लभ्यते। वक्किति। वक्रादिचेष्टापर्यन्तानां वैशिष्याद्वैलक्षण्यज्ञानाज्ा- यमाना या शक्तिरन्यमर्थे बोधयति सा अर्थसंबन्धा व्यञ्ञनेत्यर्थः । विवक्षितार्थ यः प्रति- पद्यते स बोद्धव्यः । प्रस्तावः प्रकरणम्। काकु: खरविकारः, तस्या वैलक्षण्यं वक्तृशिर- श्चालनम्। वाच्येति लक्ष्यव्यङ्गयोपलक्षणम्। वुलोऽशोकस्तस्य कुजेन तन्मूलस्थलता- दिगृहेण मञ्जर्मनोजः। व्यञ्चयार्थमाह-अत्रेति।वक्त्र्याः कामुकलवम्, वाक्यस्योदीपन- विभावसमूहकामोद्रेकजनकतत्कालपत्यलाभकर्तव्यानिश्चयविषयत्वम्, प्रस्तावस्य सुर- तविषयत्वम्, कालदेशयो: कामोद्रेकजनकतवम्। वैशिष्ट्येऽप्येतदेवोदाहरणम्।वाच्यस्य पत्यसंनिधिकामोद्रेककालीनकर्तव्यप्रश्नस्य स्वरहस्यवेदिवयस्यासमाधानीयत्वं वैशिष्यम्।
१. 'विरतायां' इत्यधिकं ग-घ-पुस्तकयोः. २. 'आर्थी व्यञ्ञनां' घ. ३. 'या वैशिष्ट्यादन्यमर्थ'ख. 8. 'अत्र' ग. ५. 'एतं' क-पुस्तके नास्ति. ६. 'द्ोत्यते' क-ख-ग. ७. ग-पुस्तके 'भिन्न- कण्ठध्वनि :- ' इत्यारभ्य '-पद्मनिमीलनादिचेष्ट्या कयाचिद्दयोत्यते' इत्यन्तोऽग्रिमग्रन्थ इहैव दृश्यते। तथा 'त्रैविध्यादियमर्थानां-'इत्यादि: 'उअ णिच्चलेत्यादि' इत्यन्तोऽमिमअ्रन्थस्थः पाठो न दृश्यते.
Page 107
६० साहित्यदर्पणे
बोद्धव्यवैशिष्टे यथा- 'निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
निःशेषेति। नायकमानेतुं प्रेषितां तदुपभोगेन उुप्तचन्दनादीन्स्नानव्याजेन गो-
- निःशेषेति। एतद्रयाख्या नातिरुचिरेति पुनर्व्याख्यायते-नायकानयनाय प्रेषितां तं संभुज्यागतां दूती प्रति स्ानकार्यप्रकाशनमुखेन संभोगं प्रकाशयन्त्या विदग्धोत्तमना- यिकाया उक्तिरियम्। अयि मिथ्यावादिनि, मया गत्वा बहुधा प्रसादितोऽपि नायात इति मिथ्याभाषणशीले, बान्धवजनस्य मद्रूपस्य अज्ञातः स्वार्थसाधनतत्परतया अनाकलितोऽग- णितः पीडाया वियोगानलसंभूताया आगम आगमनं यया तथाभूते। हे दूति, न तु सखि। प्रतारणकर्तृत्वाद्ृतीपदेन मिथ्याभाषणशीलत्वयोग्यता व्यज्यते। त्वम् इतो मत्स- काशाद् वापी स्नातुं स्ानार्थ गतासि तस्य बहुधा कृतापराधस्य अत एवाधमस्य परवेद- नानभिज्ञतया दुःखप्रयोजककर्मशीलस्य अन्तिकं समीपं न पुनरिति 'गतासि' इत्यनुष- ज्यते। पुनरेवाथें। नैव गतासीत्यर्थः। उक्तारथे साधकमाह-निःशेषेत्यादि। तवेत्यस्य स्तनतटादिभि: सर्वैरन्वयः । यतस्तव स्तनयोस्तटं प्रान्तसमदेशो निःशेषं यथा स्यात्तथा च्युतं स्खलितं चन्दनं यस्मात्तथाभूतम्। न तूरःस्थलम्, नापि संध्यादिरूपनिन्नोन्नतभा - गोडपि। वापीगतबहलयुवजनत्रपापारवश्यादंसद्वयं लगनाग्रस्वस्तिकीकृतभुजलतायुगलेन तटस्यैवोन्नततया मुहुमुहुः परामर्शात्। अत एव च्युतमित्युक्तम्, न तु च्यादि क्षालितं वेति। युवजनसंमर्देन तत्राप्यनवकाशात्। व्यङ्यपक्षे तु-तट एव मर्दनाविक्या- त्संध्यादौ नायककरपरामर्शायोगाच्च तटमेव तथाभूतमिति व्यक्तमेव। एवमधरोऽघरोष्ठो निःशेषं यथा स्यात्तथा मृष्टो न त्वीषन्मृष्टः रागः ताम्बूलरक्तिमा यस्य तथाभूतः । उत्ता- नत्वेन बहलजलसंबन्धात्। न तूत्तरोष्ठः। न्युब्जतया तत्संबन्धमान्दात्। व्यङ्गयपक्षे तु- अधरोष्ठ एव कामशास्त्रे चुम्बनविधे: उत्तरोष्ठे चुम्बननिषेधाच्च तत्रैव तत्कृतं तथात्वम्। किंच, नेत्रे लोचने दूरं प्रान्तभागे एव अनअने अञ्जनरहिते। स्ानकाले नयनयोरमुद्र- णान्मध्ये जलसंबन्धाभावात्। व्यङ्गयपक्षे तु-प्रान्त एव चुम्बनविधेर्मध्ये तन्निषधाच्च तत्रैवाअ्जनत्वम्। तथा इयं दृश्यमाना तव तनुः शरीरं तन्वी कृशा। खानजन्यशीत- वशात्। अत एव पुलकिता पुलका रोमोद्माः संजाता यस्यास्तथाभूता। व्यङ्चपक्षे तु-कार्श्य सुरतश्रमात्, पुलकश्च तत्रानुभूतान्कतरसस्मरणात्। एवं विदग्धाया गूढ तात्पर्थवाचोयुक्त्या साधारणेष्वेतेपु वाक्यार्थेष्ववगतेषु विदग्धोत्तमनायिकात्वदुःशीलत्वादि रूपवक्तबोद्धव्यवैशिष्ट्यबलादधमपदार्थों दुःखप्रयोजककर्मशीलत्वरूपः साधारणो वाच्य- तादशायां तादृशकर्मान्तरशीलत्वरूपेणावस्थितो व्यञ्जनया दूतीसंभोगरूपताद्दशकर्मशी- लत्वाकारेण पर्यवस्यति। अत एव झटिति व्यङ्गयबोधकत्वादधमपदस्य प्राधान्यम्। वक्त बोद्व्यवैशिष्यवलेन विशेषाकारेण पर्यवसाने विलम्बाभावात्। चन्दनच्यवनादीनां तु
१ 'तथा' ख.
Page 108
द्वितीयः परिच्छेदः । ६१
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे वापीं सत्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥'
पयन्तीं सखीं प्रति नायिकाया: सोछण्ठनोक्तिरियम्। मच्चेष्टया नायात इति मिथ्यावा- दिनि, हे दूति, वान्धवजनस्य मम अज्ञातपीडागमे, त्वमितो मत्सकाशात्स्नातुं वापी गता, न पुनस्तस्याधमस्यान्तिकं गता। यतस्ते स्तनतटं निःशेषच्युतचन्दनम्, अध- रश्च निर्म्रिष्टसगः, नेत्रे दूरमत्यन्तमनजने, तन्वी कृशा तनुः पुलकिता। स्नानकार्यमिदं सर्वमिति बोधयन्त्या आपाततो दुर्विदग्धानभिधया बोधयितुं विदग्धनायिकया तथा प्रयुक्तं पश्चादनुरणनरीत्या 'भम धम्मिअ-' इत्यादाविवात्र तदन्तिकमेव रन्तुं गता- सीति व्यजनया प्रतीयते। एतदर्थस्याभिधया बोधने ग्राम्यत्वदोषः स्यादिति केचि- दाहुः। एतद्वयाख्यानं प्राचां वाचस्पतिमिश्रप्रभृतीनामसंमतम्। तेषामयमभिप्राय :- 'भम धम्मिअ-' इत्यादौ भ्रमणविन्नकारिणः शुनो विनाशाङ्ग्रमणं युक्तमिति प्रथमम- भिधयान्वयबोधो जायते। तदनन्तरमेव सिंहान्तिके भ्रमणमत्यन्तमयुक्तमिति भ्रम- णबाधावतारो भवति। प्रकृते तु पदार्थविशेषानुसंधानचतुराणां झटिति तत्तत्पदार्थ- विशेषप्रतिसंधानात्प्रथममेव बाधावतारः। तथाहि-तटदेशमेकदेशपरं सभयरतौ सम्यक् पीडनाभावेन स्तनैकदेशस्यैव चन्दनच्यवनम्, स्नाने तु सर्वस्यैव स्तनस्य चन्दनच्यवनं स्यात्। तटपदस्य स्वरूपार्थकत्वे स्तन एव लुप्तचन्दनः, न त्वङ्गान्तरम्। मुखमुत्तानीकृत्य चुम्वनेनाधरस्यैव रागभ्रंशः, न तूत्तरोष्ठस्य। मुखं न्युब्जीकृत्य स्नाने- नोभयोरेव रागभ्रंशः स्यात्। इयमिदानींतनी। तदानीमपि तत्परसङ्गेन पुलको भवति। त्ानीगपुलकस्य पथि श्रमादिना नाशसंभवात्। अधमस्य प्रागपि ज्ञातनिकृष्टपरिग्र- हस्य। एवं च निरुक्तसुरतनिर्णयचिह्नन्नयस्य तत्समीपगमनमन्तरेणासंभवाद् विना लक्षणामन्वयबोधो न भवतीति नञ्पदस्य एवकारार्थे लक्षणा। अयोगव्यवच्छेद- रूप एवकारार्थे नजर्थस्याभावस्य प्रतियोगित्वं संबन्धः । एवं वापी स्नातुमित्यत्रापि विपरीतलक्षणया गमनाभाव एव प्रतीयते। तथा च लमितो वापी स्त्नातुं न गता, तस्याधमस्यान्तिकमेव गतेत्यन्वयबोधः। रन्तुमिति प्रयोजनं व्यज्नया प्रत्तीयते। यत्रान्वयबोधात्प्राग्बावावतारस्तन्न लक्षणा, यत्र तु पश्चात्तत्र व्यजना। अन्यथा 'उपकृतं-' इत्यादावपि लक्षणा न स्यात्। तटुक्तम्-'कवचिद्वाध्यतया ख्यातिः क्वचित्ख्यातस्य बाधनम्। पूर्वत्र लक्षणैव स्यादन्यत्र व्यजनैव तु।।' इति।
स्नानकार्यतया निबद्धाना योग्यतया संभोगाङ्गभूताश्लेषचुम्बनादिकार्यताप्रतिसंधाने सति तम्षअ्नद्वारा संभोगगमकत्वमिति विशेषः । अत्र च त्वय्यकृतज्ञायां यद्वान्धवबुद्धया विश्वसिमि यच्च तत्रैवंविधे दृढमनुरक्तास्मि तद्युक्तमेव ममैवंविधविविधवञ्चनाजनितपरि- तोपपात्रत्वमितीर्ष्याहे तुकविप्रलम्भसंचारिनिर्वेदध्वनिः । तदनुगुणश्च दूतीसंभोगः। चन्द- नच्यवनादीनां च वाच्यानां व्यड्यानां च परिरम्भचुम्बनाद्यनुभावानां संभोगोत्कर्षद्वा- रेणेष्योंत्तेजकानां निवेदोत्कर्षत्वमिति संक्षेपः ।
१. पुस्तकान्तरे 'निर्णय' इति नास्ति, सा० द० ६
Page 109
६२ साहित्यदर्पणे
अत्र तदन्तिकमेव रन्तुं गतासीति विपरीतलक्षणया लक्ष्यम्। तस्य च रन्तुमिति व्यञ्ञयप्रतिपादं दूतीवैशिक्षाद्वोध्यते। अन्यसंनिधिवैशिष्चे यथा- 'डअ णिच्चल णिप्फन्दा भिसिणीपत्तम्मि रेहइ बलाआ। णिम्मलमरगअभाअणपरिट्टिआ सङ्गसुत्ति व्व ।।'
कचित् 'उत्तरत्राभिधैव तु' इति चतुर्थचरणे पाठः। अत्र वक्रादिवैशिष्टयाद् व्यङ्चया- न्तरमपि दूत्यकर्मणात्यन्तहीनायामपि त्वयि सापराधायां तस्मिन्नप्यधमे मम नासूया। किं त्वेवमकृतज्ञायां लयि यद्वान्धवबुद्धा विश्वसिमि, या च तस्मिन्नेवंविधे हैरिद्रारा- गिणि दुर्विदग्धे मन्दभागिनी दृढमनुरक्तास्मि, तदेवंविधवञ्चनासहस्त्रजनितप्रौढपरि- तापपुट पाकपात्रत्वं मम युक्तमेवेति विप्रलम्भ प्रभेदेर्ष्यांमानव्यभिचारिनिर्वेदध्वनिरिति। अन्न फलस्य लक्ष्यतद्धर्मान्यतरवृत्तित्वनियमेन रमणस्य तदन्यतरवृत्तित्वाल्लक्षणामूल व्यज्नाया असंभवात्प्रतिपाद्यवैशिष्ट्येनैव रमणस्य प्रतीतिरित्यभिप्रायेण ग्रन्थकृदाह- तदन्तिकमेवेति। विपरीतेति। तत्समीपगमनाभावभावबोधनादिति भावः । निरुक्तसुरतचिह्नन्रयमेव दूतीवैशिष्टयम्। केचित्तु-'तदन्तिकं न गतासीत्यस्य वा- क्यत्वाल्लक्षणायाश्च शब्दमात्रवृत्तित्वादत्र लक्षणा न संभवति' इत्याहुः। तन्न। उक्त- क्रमेण नञ्पद एव लक्षणास्वीकारातू। 'वापीं स्न्नातुं गतासि तदन्तिकमेव गतासीति योजनया तदन्तिकगमनं वाच्यमेव। तस्यैव रन्तुमिति व्यञ्ञयम्' इत्यपरे। तदपिन सम्यक्। त्वर्थपुनःशब्देन नजर्थस्य पूर्वान्वयस्य व्यवच्छेदात्। केचित्तु-क्नाने चन्दनाधररागयोः क्षालनमेव, न च्युतिनिर्मार्जने, तयोः संभोगघर्षणादेरसंभवातू, अतक्ष्युतनिर्म्रिष्टपदे अपि तैब्यजके' इत्याहुः। तन्न। तयोः स्नानकार्यत्वानङ्गीकारे खमतसिद्धप्राथमिकबोधानुदयप्रसङ्गात्। अन्यसंनिधिवैशिष््ये व्यङ्चयार्थव्यजनामाह- उअ णिञ्चलेति। 'पश्य निश्चल निःस्पन्दा बिसिनीपत्रे राजते बलाका। निर्मल
- उएति। 'उअ' इति पश्येत्यथें देशीति नरसिंहठक्कराः, अव्ययमिति नागर्मुनेजि भट्टाः । बिसिनी कमलिनी तस्याः पत्रे बलाका सितपक्षिविशेषो बकपङ़्िवां रार्धनते। त्वं पश्येति वाक्यार्थ: कर्म। किंभूता। निश्चलनिःस्पन्दा। निश्चला चासौ निःस्पन्दा तीचेति विशेषणोभयपदः कर्मधारयः । 'पुंवत्कर्मधारय-' इति पुंवद्भावः। चलनं देशान्तप्रा- पिका शरीरक्रिया, स्यन्दस्त्ववयवमात्रक्रिया। 'स्यदि किंचिच्चलने' इत्यनुसारात्। रतेन न पौनरुक्त्यम्। केव राजत इत्याह-निर्मलेत्यादि। निर्मलं स्वच्छं यन्मरकतस्य न्वील- मणेरभाजनं पात्रं तत्र परिस्थिता विद्यमाना शङ्गशुक्तिरिव। शङ्गशुक्तिश्च शङ्गघटितं शुक्ताया- कारं पात्रम्। अत्राचेतनोपमया लेशतोऽपि क्षोभाभावस्तेन निर्जनत्वं गम्यते॥ 2. हरिद्वेति। हरिद्रारागश्चिरं नावतिष्ठते।।
१. 'व्यङ्गथं प्रतिपाद्य' घ. २. 'अत आह-च्युतनिर्म्रिष्टपादेऽपि' इति पुस्तकान्तरे, ३. व्य- अने' इति पुस्तकान्तरे.
Page 110
द्वितीयः परिच्छेदः । ६३
अत्र बलाकाया निःस्पन्दत्वेन विश्वैस्तत्वम्, तेनास्य देशस्य विजनत्वम्, अतः संकेतस्थानमेतदिति कयापि संनिहितं प्रच्छन्नकामुकं प्रत्युंच्यते। अत्रैव स्थाननिर्जनत्वरूपं व्यङ्ग्यार्थवैशिष्ं प्रैयोजनम्। 'भिन्नकण्ठध्वनिर्धारैः काकुरित्यभिधीयते' इत्युक्तप्रकारायाः काको- र्भेदा आकरेभ्यो ज्ञातव्याः। एतद्वैशिक्षे यथा- 'गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुन्। अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ।।' अत्र नैष्यति, अपि तर्हिं एष्यत्येवेति काका व्यज्यते। चेष्टावैशिथ्चे यथा-
संकेतकालमनसं विटं ज्ञात्वा विदग्धया। हैंसन्नेत्रार्पिताकूतं लीलापदमं निमीलितम् ।।' अत्र संध्यासंकेतकाल इति पद्मनिमीलनादिचेष्टया कयाचिद्दयोत्यते। मरकतभाजनपरिस्थिता शङ्शुक्तिरिव ।' इति [संस्कृतम्]। उअ पश्य। निश्चलेति संबोधनम्। 'संकेतस्थानचेष्टाशून्य' इति तदर्थः । 'निश्चला पृथिवी सेव निःस्पन्दा" इति केचित्। 'अतिनिश्चला' इत्यपरे। शङ्गशुक्तिः शङ्गकपालम्। अन्यस्य संनिधिः सामानाधिकरण्यम्, तस्य प्रच्छन्नकामुकत्वं वैशिष्टयमुच्यते व्यज्यते। अत्रैव अस्मि- नुदाहरण एव निर्जनत्वातिशयो वैशिष्ट्यं प्रयोजनं तृतीयव्यज्जनायाः कारणम्। भिन्नेति । शोकहर्षभयादिकृतेत्यर्थः । आकरेभ्य उपजीव्यभरतादिग्रन्थेभ्यः । सुरभिसमये वसन्तकाले। अपि तर्हीति। अपि त्वित्यर्थः । संकेतेति। विटमुप पतिम्। हसत्प्रफुल्लम्। नेत्राभ्यामर्पितमाकूतमात्माभिप्रायो यत्र तद्यथा स्यात्तथा नि- 1. निःस्पन्देति। निःस्पन्दत्वेन वाच्येन विश्वस्तत्वं व्यङ्गयमिति शेषः । तेन व्यङ्गयेन विजनत्वं व्यङ्गयमिति शेषः । 2. उच्यत इति। व्यज्जनया प्रतिपादते इत्यर्थः ॥ 3. काकुरिति। कायत्यर्थान्तरमिति काकुः । यद्वा काकुर्जिह्वेति पस्पशायां भाष्यकारः। तद्वयापारविशेषसंवाद्यत्वाच्छोकहर्षभयादिभिर्ध्वनेर्विकारः काकुः । तथा चोक्तम्-'वा- क्याभिधेयमानेऽर्थे येनान्यः प्रतिपद्यते। भिन्नकण्ठध्वनिर्धीरैः स काकुरिति कथ्यते ॥'इति ॥ 4. संकेतेति। संकेतकाले मनो यस्य। तं जिज्ञासुमित्यर्थः । अत एव हसद्भ्यां नेत्राभ्यामर्पितं सूचितमाकूतं रहस्यं येन। हसदिति भिन्नं प्रफुल्लमित्यर्थकं पद्मविशेषणं वा। शेषं व्यक्तम्। इह नेत्रेङ्वितेन लक्षितो गूढाभिप्रायः कामिन्या निशासूचकेन पद्मनि- मीलनेन प्रकाशित: ।। १. 'विश्रब्धत्वं' ख. २. 'रूपव्यङ्गयार्थ-' ख-घ. ३. 'प्रयोजकम्' ख-घ; ग-पुस्तके तु 'अत्रैव-' इति फक्किका नास्ति. ४. 'ईषत्' क.
Page 111
६४ साहित्य दर्पणे
एवं वक्रादीनां व्यस्तसमस्तानां वैशिक्षे बोद्धव्यम्। त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥ १७॥ अर्थानां वाच्यलक्ष्यव्यङ्गयत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः । तत्र वाच्यार्थस्य व्यञ्जना यथा-'कालो मधुः-' इत्यादि। लक्ष्यार्थस्य यथा-'निःशेषच्युतचन्दनं- इत्यादि। व्य- ङ्गयार्थस्य यथा-'उअ णिच्चल- इत्यादि। प्रकृतिप्रत्ययादिव्यञ्ज- कत्वं तु प्रपञ्चयिष्यते। शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः । एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता॥ १८॥ यतः शब्दो व्यञ्जकत्वेऽप्यर्थान्तरमपेक्षते, अर्थोपि शब्दम्, तदे- कस्य व्यञ्जकत्वेऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या।
शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा॥ १९॥
मीलितमित्यर्थः । यद्वा, हसदिति नेत्रविशेषणम्। एतदेव पद्मनिमीलनस्य नेत्रार्पि- ताकूतत्वं वैशिष््यम्। चेष्टादिकस्येत्यादिपदाच्चेष्टाविरहादिग्रहः । तद्वैशिष््ये यथा- 'नादत्ते भूषणं दत्तं नाहूता चिरमृच्छति। मृगाक्षी न क्षिपत्यक्षि सादरं मयि प्रश्यति॥' अत्र चेष्टाविरहेण कोपो व्यज्यते। तस्य च कान्तापराधकालीनत्वं वैशिष्ट्यम्। व्य- स्ानां प्रत्येकं समस्तानां द्विव्यादिसंकीर्णानाम्। त्रैविध्यादिति इयं व्यञ्ञना। प्रप- ञ्चयिष्यते। 'असंलक्ष्यक्रमव्यङ्गयध्वन्युदाहरणे'इति शेषः। ननु शाव्यां व्यञ्नायामर्थ- "स्यार्थ्यामपि शब्दस्योपयोगितमस्त्येव तत्कीदृशमनयोर्भेदकारणमत आह-शब्द- बोध्य इति। अर्थान्तराश्रयः अर्थान्तरोपस्थापकः । 'व्यनक्ति' इत्यनुषज्यते। इत्य- नुपपत्तिदर्शनानन्तरमुपपत्तिमाह-एकस्येति। सहकारिता अप्रधानकारणत्वम्। अप्रधानत्वं च व्यवहितोपकारित्वेन। एवं च यत्र यस्याव्यवहितोपकारित्वेन प्रधा- नत्वं तत्र तत्संबन्धित्वेनैव तस्यां व्यवहार इति भावः । नेनु नाटकादौ वेशाभिनया- देरपि व्यञ्जकत्वसंभवेन व्यञ्ञकद्वैविध्यमात्रमुक्तमिति चेतू, न। तत्रापि शब्दोप- हितार्थस्यैव व्यञ्जकताङ्गीकारात्। वेशाभिनयादेस्तु चेष्टादिवैशिष्ठ्यरूपसहकारित्वोप- गमात्तत्र शब्दसत्त्वेऽपि वेशाभिनयदर्शनस्य प्राधान्येनैव दृश्यत्वव्यवहारः । अत एव वक्ष्यति-'श्रवणैः पेयमनेकैर्द्श्यं दीर्घैश्च लोचनैबहुभिः। भवदर्थमिव निबद्धं नाव्यं सीतास्वयंवरणम् ।I' इति। अभिधादिव्यापारत्रयं निरूप्य तत्प्रयुक्तं शव्दस्यापि त्रै- विध्यमाह-अभिधेति। उपाधिर्व्यापारः। अभिधया लक्षणया वा शब्दैः प्रत्ये-
१. 'अन्नार्थानां' ख. २. 'ननु-' इत्यादि: 'सीतास्वयंवरणस्। इति' इत्यन्तः पाठः पुस्तकान्तरे न दृश्यते.
Page 112
द्वितीय: परिच्छेदः । ६५
अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोपा- घिको व्यञ्जकः ।
किं च-
तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने। तात्पर्यार्थ तदर्थ च वाक्यं तद्ोधकं परे ॥ २० ॥ अभिधाया एकैकपदार्थबोधनविरमाद्वाक्यार्थरूपस्य पैदार्थान्वयस्य
कमुपस्थापितानां पदार्थानां संसर्गो वाक्याद्भासमानस्तात्पर्याख्यां वृत्तिमपेक्षत इति प्राचीननैयायिकमतमाह-किं चेति। मतान्तरसूचनाय 'आहुः' इति 'परे' इति परेणान्वयः । इयमेवाधुनिकैः संसर्गमर्यादोच्यते। अभिधाया इति लक्षणाया उपल-
- तात्पर्येति। एतदुक्तं भवति-लाघवात्पदानां पदार्थमात्रे शक्तिः नत्वन्वयांशे- पि। गौरवादनन्यलभ्यत्वाच्च। तदंशो हि तात्पर्याथों वाच्याद्यर्थविलक्षणशरीर आकाड्डा- योग्यतासत्तिवशादपदार्थोपि प्रतीयते। न चापदार्थविषयस्यापि शाब्दबोधविषयत्वे कर्थं- चिदुपस्थितस्य गगनादेरपि तदिषयत्वापत्तिरिति वाच्यम्। अपदार्थविषयस्य शाब्दबोध- विषयतायामप्रयोजकत्वात्। इत्यभिहितान्वयवादिनो नैयायिकभाट्ट-मीमांसकाः । तेषा- मयमभिप्राय :- 'घटं करोति' इत्यादौ घटवृत्तिकर्मत्वानुकूला कृतिरित्यर्थों बोध्यते। तत्र घटपदस्य घटोऽर्थः, अम्प्रत्ययस्य च कर्मता, वृत्तिता तु न कस्यापि, इत्यपदार्थोऽपि वृत्तिता तात्पर्यवशादनयोः संसर्गविधया भासते। अन्विताभिधानवादिनः प्राभाक- रास्तु-'अन्वयरूपे वाक्यार्थेडपि पदानां शक्तिः। व्यवहारेणान्वितस्यैवोपस्थापनात्तत्रैव शक्तिग्रहात्। तथाहि-'देवदत्त, गामानय' इत्युत्तमवृद्धप्रयोगात्सास्रादिमती व्यक्ति मध्यमवृद्धे संचारयति, तच्चष्या तस्य वाक्यस्य तदर्थबोधकतामनुमाय पश्चात् 'गां नय, अश्वमानय' इति प्रयोगे गवापसरणमश्वाहरणं च दृष्टान्वयव्यतिरेकाभ्यां क्रिया- पदार्थान्विते कारके कारकपदस्य, कारकपदार्थान्वितायां क्रियायां च क्रियापदस्य शक्तिं बालोऽवधारयति। ततः प्रयोगकाले तस्य प्रथमत एवान्वितबुद्धिर्जायते। न च गौरवेणान्वयांशपरिहारः । प्रथमगृहीतान्वयशक्तरुपजीव्यत्वेन तदपरित्यागात्। शाब्द- बोधे तु आकाह्कादिवशाद्वत्तितादिविशेषरूपमेव भासत इति नापदार्थों वाक्यार्थः' इति वदन्ति। अत्रारुचिबीजं तु-'अन्वितत्वेन शक्तावपि अन्वयविशेषावगमाय आकाङ्कादिकं कारणमवश्यमङ्गीकार्यम्। एवं च विशेषाकारेण अशक्यस्यैव भानमिति तैरप्यवश्यमभ्यु- पेयम्' इति॥
१. 'पदार्थमात्रबोधविरमात्पदार्थानामन्वयप्रतिपादिका तात्पर्याख्या शक्तिः' ग. २. 'पदानां क., पदार्थानां' ख.
Page 113
६ ६ साहित्यदर्पणे
बोधिका तात्पर्य नाम वृत्तिः । तैदर्थश्च तात्पर्यार्थः । तद्वोधकं च वाक्यमित्यभिहितान्वयवादिनां मतम् ॥ इति साहित्यदर्पणे वाक्यस्रूपनिरूपणो नाम द्वितीयः परिच्छेद:।
क्षणम्। अभिहितानामभिधया लक्षणया वा पदोपस्थापितानामन्वयबोधवादिनां प्राचीननैयायिकानामित्यर्थः । अन्विताभिधानवादिनो मीमांसकगुरवस्तु-'क्रिया- कारकयोः प्रथमत एवान्वयबोधो जायते ततः शक्तिग्रहः । पदविशेषसमभिहारात्तु विशेषस्मृतिरिति, किं तात्पर्याख्यवृत्तिस्वीकारेण' इत्याहुः ॥ इति श्रीरामचरणतर्कवागीशभट्टाचार्यविरचितायां साहित्यदर्पणवित्ृतौ द्वितीयः प्रकाशः ।
- अभिहितेति। अभिहितानां स्वस्ववृत्या पदैरुपस्थितानामर्थानामन्वय इति ये वदन्ति तेडभिहितान्वयवादिन इत्यन्वर्थमभिधानम्॥ 2. अन्वितेति। पदान्यन्वितानि भूत्वानन्तरं विशिष्टमर्थ बोधयन्तीति ये वदन्ति तेऽन्विताभिधानवादिन इत्यन्वर्थ नाम।।
१. 'तदर्थ च तात्पर्यार्थ' घ.
Page 114
तृतीयः परिच्छेदः । ६७
तृतीयः परिच्छेदः । अथ कोडयं रस इत्युच्यते- विभावेनानुभावेन व्यक्तः संचारिणा तथा। रसतामेति रत्यादिः स्थायिभावः सचेतसाम् ॥१॥
काव्यलक्षणरूपैककार्यानुकूलत् संगत्या वाक्यनिरूपणानन्तरं रसं निरूपयितुमाह- अथेति। वाक्यनिरूपणानन्तरं कोऽयमिति जिज्ञासाविषयो रसो निरूप्यत इत्यर्थः। अयं काव्यलक्षणनिविष्टो रसः। विभावेनेत्यादि।सचेतसामिति।नायकादिनि-
-
विभावेनेति। इह स्वस्वप्रतिभोन्मेपवशेन 'विभावानुभावव्यभिचारिसंयोगाद्रस- निष्पत्तिः' इति मूलभूतं भरतसूत्रं व्याचक्षाणानामनेके पक्षा: तेषु कतिचन प्रकृतोपयो- गित्वाद् व्युत्पत्याधायकत्वाद् हृदयंगमत्वाच्च प्रदर्श्यन्ते प्राज्जलीक्रियन्ते च। तत्र भटटलोल्लटप्रभृतीनामेष सिद्धान्त :- 'स्थायिनां विभावेनोत्पाद्योत्पादकभावरूपादनुभावेन गम्यगमकभावरूपाद्यभिचारिणा पोष्यपोपकभावरूपात्संबन्धाद्रसस्य निप्पत्तिरुत्पत्तिरभि- व्यक्ति: पुष्टिश्चेत्यर्थः । तथाहि-ललनादिमिरालम्बनविभावैः स्थायी रत्यादिको जनितः, उद्यानादिनिरुद्दीपनविभावैरुद्दीपितः, अनुभावैः कटाक्षभुजक्षेपणादिभिः प्रतीतियोग्यः कृतः, व्यभिचारिभिरुत्कण्ठादिभिः परिपोषितो रामादावनुकायें नाट्यनाभिनेये रसः । नटे तु तुल्यरूपतानुसंधानवशादारोप्यमाणः सामाजिकानां चमत्कारहेतुः' इति। पिण्डितार्थस्त्वयम्-यथा सर्पाभावेऽपि सर्पतयावलोकिताया रब्जोरपि भयमु- त्पद्यते तथा सीतादिविषयानुरागरूपा रामादिरतिरविद्यमानापि नर्तकेऽभिनयनैपुण्येन तस्तमिन्स्थितेव प्रतीयमाना सहृदयहृदये चमत्कारमर्पयन्त्येव रसपदवीमधिरोहतीति। अयं क्रम :- 'प्रथमं रामादिगतसीतादिविषयकरत्यादिरेव रसः सहृदयैः काव्योपात्तलिङ्गद्वा- रेणानुमीयते। ततस्तस्य कमनीयविभावाद्यभिनयप्रदर्शननिपुणे रामाध्यनुकारिणि नर्तके सादृश्यज्ञानरूपदोषादारोपः साक्षात्कारात्मको धर्म्यशे लौकिक आरोप्यांशे त्वलौकिक: 'रामोडयं सीताविषयकरतिमान्' इत्याकारकश्चमत्कृतिहेतुरिति। न च सादृश्यस्य भेदग- रभत्वाद्वाथे सति कथं रामाद्यारोप इति चेत, न । भेदस्य नर्तकनैपुण्यदोषेणाग्रहणात्। नेदं हृदयग्राहि। सामाजिकेषु रसनिष्पत्त्यभावे तन्र चमत्कारानुभवविरोधात। न च तज्ज्ञानमेव चमत्कारेहडः। लौकिकशङ्गारादिविलोकनेनापि चमत्कारप्रसङ्गात्। न चा- नुभावादिविज्ञानबलायात आरोपस्तथा नतु साक्षात्कारमात्रमिति वाच्यम्। चन्दनसु- खादौ वैपरीत्यदर्शनात, अन्यथैवोपपत्या तादृशकल्पनायां मानाभावाच्च' इति॥ श्रीशङ्डकस्य तु-'स्थायिनो विभावादिभिरनुमाप्यानुमापकभावरूपसंबन्धाद्रसस्य नि० व्पत्तिरनुमितिरित्यर्थः । तथाहि-नियमविषया धीः सम्यग्वुद्धिः । यथा 'राम एवायम्'
-
नहि चन्दनारोपश्चमत्कारहेतुः किंतु वस्तुतश्चन्दनसंबन्ध एव। तथा सुखमपि नारोप्यमाणं तथा, किंतु वस्तुतो विद्यमानमेव।
Page 115
६८ साहित्य दर्पणे
"अयमेव रामः इत्ययोगान्ययोगव्यवच्छेदविषये। अनन्तरावतीर्णवाधा तु मिथ्याबुद्धिः। यंथोत्तरकालिके 'न रामोडयम्' इति वाधे 'रामोऽयम्' इति। विरुद्धोभयकोटिका तु संशयवुद्धिः । यथा 'अयं रामो न वा' इति। सदृशोभयविषया तु सादृश्यबुद्धिः। यथा 'रामसदृशोऽयम्' इति। एताभ्यो लोकप्रसिद्धप्रतीतिभ्यो विलक्षणया चित्रे 'तुरगोडयम्' इतिवत् 'रामोऽयम्' इति बुद्धया प्रथमं पक्षभूतो नटो विषयीक्रियते। ततस्तत्राविद्यमानमपि विभावादित्रयं लिङ्गमवगम्यते। कस्मात्। पूर्वमेव रोमाच्वाविर्भा- वने गुरुशिक्षामासाद कृतदृढाभ्यासेन नटेन-सेयं ममाङ्गेषु सुधारसच्छटा सुपूरक- र्पूरशलाकिका दृशोः । मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता ।' इति। 'दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्व। अविरलविलोलजलदः कालः समुपागतश्चायम् ।I' इत्यादिकाव्यानुसंधानबलादालम्बनोद्दीपनविभावाभिव्यक्तौ तदनु- गुणस्य रोमाञ्चादेर्दर्शनीयस्यानुभावस्याविर्भावनेन व्यक्षनीयस्योत्कण्ठादेर्व्यभिचारिभावस्य तत्कार्यशून्यदृष्टित्वादिप्रकटनेन च प्रकाशनात्। अथ तैः कृत्रिमत्वेनातलिड्गैरपि कृत्रिमत्वे- नाज्ञानात्स्थायी रत्यादिरनुमीयते। अनुमानाकारस्तु-'रामोडयं सीताविपयकरतिमान्
'यो यदात्मकविभावत्वे सत्यनुभावसंचारिभाववान् स तद्रतिमान्' इति यत्तन्द्यां सामान्यतो व्याप्तिः । 'यो नैवं स नैवम्' इति व्यतिरेकव्याप्तिर्वेति। सैव चानुमितिः स- चमत्कारप्रतीतिरूपा चर्वणा। अतस्तया विषयीक्रियमाणः स्थायी रस इत्युच्यते। चर्वणा च सामाजिकानामिति तेष्वेव रस इति व्यवहारः । ननु साक्षात्कार एव सचमत्कार:, नत्वनुमित्यादिरपि। अन्यथा सुखादावनुमीयमानेपि रसः स्यात्। न स्यात्। वस्तु सौन्दर्यबलाद्रसनीयत्वेन रत्यादिस्थायिनामितरानुमेयवैलक्षण्यात्। तथापि रत्यादीनां
- यत्र विशेषणान्वित एवकारस्तत्र विशेष्ये विशेषणस्यासंबन्धरूपमयोगं निषेधति। यथा 'राम एवायम्' इत्यत्र रामस्य विशेषणत्वेन तदन्विते एवकारेण इदमर्थे विशेष्ये रामत्वायोगं निवर्तयन्नस्य रामत्वं नियमयति। यत्र विशेष्यान्वित एवकारस्तत्र विशेष्ये- तरस्मिन्विशेषणीभूतधर्मसंबन्धं निवारयति। यथा-'अयमेव रामः' इत्यत्र रामभिन्ने रामत्वसंबन्धं निवारयन्नस्मिन्रामत्वं नियमयति। 2. यथा 'नेदं रजतम्' इत्यौत्तरकालिके बाधे सति शुक्तौ रजतबुद्धिः। बाधाभावे तु न मिथ्यात्वम्। स्वतःप्रामाण्यबाधे यावद्वाघं प्रामाण्यग्रहात्। 3. यदपि चित्रे तुरगबुद्धिरपि मिथ्याबुद्धिरेव तथापि बाधशिरस्कस्यैवात्र भ्रमत्वेन विवक्षणान्न दोषः । इह बाधानवतारः स्फुट एव, अन्यथा तद्रूपेण पक्षत्वमेव न सिध्येत्। 4. यदनुध्यानवशेन एतावान्कालो यापितः सेयं प्राणेश्वरी मम मनसः सकाशालोच- नगोचरं गत्ेति संबन्धः । पूर्व मनस्येवासीत् संप्रति बहिद्ृष्टेति भावः । अङ्गेषु सुधारंस- चछटा, परीरम्भेण सवाज्गीणसंतापशान्त्या लौहित्यसंपादनात् पीयूषरसवृष्टिः । दृशोनेत्रयोः शोभनः पूरो द्रवो यस्य तथाभूतस्य कर्पूरस्य शलाकिका अञ्जनतूलिका। अतिशयि- तानन्दहेतुत्वात्। शरीरिणी मनोरथस्य श्रीः संपत्तिः । 5. 'अभूवम्' इति शेषः ।
Page 116
तृतीय: परिच्छेदः । ६९
नटेऽसत्वाद्वाघावतारेऽनुमितिरेव कथं स्यादिति चत्, न। तेषामभावनिश्चयाभावात्स्था- यितया संभाव्यमानत्वात् ।' इति। एतन्मतनिष्कर्षस्त्वयम्-यथा कुज्जटिकापातसं- कुले देशेऽविद्यमानस्यापि धूमस्याभिभानाद् धूमनियतस्य धूमध्वजस्यानुमानम् । तथा नटेनैव 'ममैवैते विभावाद्याः' इति निपुणं प्रकटीकृतैस्तत्राविद्यमानैरपि विभावादिभि- स्तन्नियता रतिरनुमीयमानापि निजसौन्दर्यबलात्सामाजिकानामास्वाद्यमानतया चम- त्कृतिमावहन्ती रसतामेतीति रतेरनुमितिरेव रसनिष्पत्तिरिति। नेदमपि हृदयग्राहि। प्रत्यक्षमेव ज्ञानं चमत्कारजनकम्, नानुमित्यादिरिति लोकप्रसिद्धिमवधूयान्यथा कल्पने मानाभावात्सूत्रस्यान्यथैव योजनासंभवात् । भट्टनायकस्य तु-'न तावन्नटगतत्वे- नानुमीयते, तदानी रामाद्यभावेन तद्रत्यादेरप्यभावादसतः सत्त्वेनानुमानाविषयत्वाद्व- स्तुतो रामादिविषयिण्या नटगतत्वेनानुमितयापि रत्या सामाजिकेऽसत्या तच्चमत्कार- जननासंभवाच्च। न रामादिनायकगतत्वेनोत्पद्यते, विभावादीनां पारमार्थिकत्वाभावात्। न वा सामाजिकगतत्वेनाभिव्यज्यते, सिद्धस्यैव व्यङ्ञयत्वसंभवाद्रसस्य चासिद्धत्वात् सर्वेषामेवाभिव्यक्तिप्रसङ्गाच्च। तस्माद्विभावादिभिः संयोगाद्भोज्यभोजकभावसंबन्धाद्रसस्य निष्पत्तिर्भुक्तिरिति। न च भोगपक्षेऽपि रसस्यासिद्धत्वान्भोगासंभव इति वाच्यम्। भोग- स्यालौकिकतयाभ्युपगमात्। एवं सत्यप्यन्यनिष्ठो रत्यादिः स्थायी अन्यनिष्ठैरेव विभा- वादिभि: कथमन्येन भोक्तव्यः अतिप्रसङ्गात्-इति चेत्, उच्यते-शब्दात्मनः काव्यस्य त्रयो व्यापारा :- अभिधायकत्वं वाच्यविषयम्, भावकत्वं रसादिविषयम्, भोजकत्वं सहृदयविषयम्' इति। यच्चाहुः-"अभिधा भावना चैव तद्द्ोगी कृतिरेव च' इति। तत्राभिधा निरन्तरसान्तरार्थगतत्वेन द्विविधा। तेन लक्ष्यविषयस्यापि संग्रहः । भावकत्वं साधारणीकरणम्। तेन हि व्यापारेण विभावादयः स्थायी च साधारणीक्रियन्ते। साधारणीकरणं चैतदेव यत्सीतादिविशेषाणां कामिनीत्वादिसामान्येनोपस्थितिः स्थाय्यनु- भावादीनां च संबन्धि विशेषानवच्छिन्नत्वेन। अन्त्यं व्यापारदयं नाट्येपि। एवं काव्ये नाट्ये च भावकत्वव्यापारेण साधारणीकृतैरविभावादिभिर्भोजकत्वव्यापारसाहित्येन तथाकृत एव रत्यादि: स्थायी भुज्यते। भोगश्च सत्त्वगुणोद्रेकात्प्रकाशते च् आनन्दस्तत्स्वरूपा अन- न्यालम्बना या संवित्तत्स्वरूपो लौकिकसुखानुभवविलक्षणः । सत्त्वरजस्तमोगुणानामुद्रेकेण कमात्सुखदुःखमोहाः प्रकाश्यन्ते। उद्रेकश्च स्वेतरावभिभूयावस्थानम्' इति। एष सारांश :- शब्दस्याभिधाव्यापारवत्काव्यनाट्ययोस्तद्विलक्षणं भावकत्वभोजकत्वनामकं व्यापारद्यम- तिरिक्तमस्ति। काव्यार्थबोधोत्तरमेव तत्राधेन भावकत्वव्यापारेण विभावादिरूपसीतादयो रामादिसंबन्धिनी रतिश्च सीतात्वरामत्वसंबन्धांशमपहाय सामान्यतः कामिनीत्वरतित्वादि- नैवोपस्थाप्यते। अन्त्येन भोजकत्वव्यापारेण तूक्तरीत्या साधारणीकृतविभावादिसहकृतेन सा रतिः सहृदयैरास्वाद्यत इति रतेरास्वाद एव रसनिष्पत्तिरिति। एतदपि न सम्यक्।
तत्तदर्थावगमकतया च सिद्धेन व्यञ्जनाव्यापारेणैव गतार्थतया तदतिरिक्तव्यापारद्वयकल्पने
- निरन्तराथों मुख्यः। अन्तरं व्यवधानं तेन सह वर्तत इति सान्तरः मुख्यार्थबा- धाद्युपस्थित्या व्यवहितोऽर्थः सान्तरार्थः लक्ष्यरूप इत्यर्थः ।
Page 117
७० साहित्यदर्पणे
विभावादयो वक्ष्यन्ते। सात्त्विकाश्चानुभावरूपत्वान्न पृथगुक्ताः । ष्टोऽपि रत्यादिर्ज्ञानसंवन्धेन सामाजिकनिष्ठो रसो भवतीत्यभिप्रायः। ननु 'विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः' इत्यादिना सात्त्विकभावानामपि रसघटकत्व- मुक्तम्, भवता तत्किं नोच्यत इत्यत आह-सात्विकाश्च्ेति। सात्त्विकाः स्तम्भ- स्वेदादयः । दध्यादीत्यादिना प्रपाणकादिपरिग्रहः। रूपान्तरं विभिन्नरूपं परिणतः प्राप्तः। यद्वा रूपान्तरं परिणतं निष्पनं यस्य स तथा। अन्याहित इतिवत्क्ान्तस्य परनिपातः। पयो यथाम्लयोगेन रूपान्तरपरिणतं सदृव्युच्यते। यथा वामिक्षा मानाभावात। न च व्यअ्जनास्थाने तादृशभोग एव कश्चन व्यापारः कल्पनीय इति वाच्यम्। तथापि भावकत्वरूपाधिकव्यापारान्तरकल्पन स्यैवानौचित्यात्। आचार्याभिन- वगुप्तपादानां तु-'स्थायिनां विभावादिभिः समं व्यङ्चयव्यञ्जकभावरूपात्संबन्धाद्विभावा- दीनां वा परस्परं संयोगान्मिलनाद्रसस्य निष्पत्तिरभिव्यक्तिः । तथाहि लोके प्रमदादिभि- रालम्बनकारणैश्चन्द्रिकादिभिरुद्दीपनकारणैरश्रुपातादिभिः कार्येश्चिन्तादिभिः सहकारिभिश्च स्थायिनो रत्यादेरनुमितिविपये परिशीलनवलेन झटिति प्रवृत्तिमतां सामाजिकानां वासना- रूपतयान्तःस्थितः, काव्ये नाट्ये च गुणालंकारयोगेन कायिकवाचिकसात्विकाहार्यरूपेणा- भिनयेन च तैरेव कारणत्वादिव्यपदेशपरित्यागेन विभावनानुभावनसंचारणरूपव्यापारव- त्तया अलौकिकविभावानुभावसंचारिपदव्यवहायै :- ममैवैते, शत्रोरेवैते, उदासीनस्यै- वैते, इति संबन्धिविशेषस्वीकारनियमस्य न ममैवैते, न शत्रोरेवैते, नोदासीनस्यैवैते, इति संबन्धिविशेषपरिहारनियमस्य चाज्ञानात्सीतात्वादिविशेषांशमपहाय कामिनीत्वादिना प्रतीतैः अभिव्यक्तो रत्यादिः स्थायी तत्तदात्मनिष्ठोऽपि विभावादिसाधारण्यबलाद्रसानुभ- वकाले विगलितपरिमितप्रमातृत्वादिनिजधर्मतया प्रादुर्भूतेतरज्ञानशून्यापरिमितभावेन प्र- मात्रा-सकलसहृदयसंवादकारिणा प्रमातृविशेषसंबन्धाग्रहरूपेण साधारण्येन स्वाकार इवा- भिन्नोपि प्रत्यक्षीकृतः, चर्व्यमाणतैकप्राणतया चर्वणानाशे विनष्टो रस इति प्रतीतिगोचरः, वि- भावादिकालमात्रस्थायित्वेनानित्यचर्वणः, पानकरसन्यायेन चर्व्यमाण:, पुर इव परिस्फुरन्, हृदयमिव प्रविशन्, सर्वाङ्गीणमिवालिङ्गन्, अन्यत्सर्वमिव तिरोदधन्, ब्रह्मास्वादमिवानुभा- वयन्, अलौकिकचमत्कारकारी शङ्गारादिको रसः' इति। तत्रायं क्रमः-प्रथमं तावत्काव्यप- देभ्यस्तत्तदर्थोपस्थितिः ततो यथोपस्थितविभावादिगोचरो वाक्यार्थबोधः, ततो गुणालंकारा- भिनयादि, ततो रत्यादिवासनावतः सहृदयस्य साधारण्येन विभावादिबोधः, तेन च साधा- रण्येनैव विभावादिसंव लितरत्यवच्छिन्नचिदानन्दावरणभङ्गात्प्रकाशमानानन्दचिद्विषयो विभा- वादिसंवलितः स्थायी रत्यादिको रस इति।। नव्यानां तु-'काव्ये ना्ये च कविना नटेन च प्रकाशितेषु विभावादिपु व्यञ्जनाव्यापारेण रामादौ सीतादिरतौ गृहीतायामन- न्तरं च सहृदयतोलासितस्य भावनाविशेषरूपस्य दोषस्य महिम्रा कल्पितरामत्वावच्छा- दिते स्वात्मन्यज्ञानावच्छिन्ने शुक्तिकाशकल इव रजतखण्डः समुत्पद्यमानोऽनिर्वचनीयः साक्षिभास्यसीतादिविषयकरत्यादिरेव रसः' इति। अयं च कार्यो दोपविशेषस्य। नाश्यश्च। तन्नाशस्य स्वोत्तरभाविना लोकोत्तराह्लादेन भेदाग्रहात्सुखपदव्यवहार्यों भवति। स्वपूर्वो- पस्थितेन रत्यादिना तदग्रहात्तद्रतित्वेनैकत्वाव्यवसानादा व्यङ्गयो वर्णनीयश्चोच्यत इति॥
Page 118
तृतीय: परिच्छेदः । ७१
व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतो व्यक्तीकृत एव रेसः। न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते। तदुक्तं लोचनकारै :- 'रसाः प्रतीयन्त इति त्वोदनं पचतीतिव- व्यवहारः' इति । अत्र चे रत्यादिपदोपादानादेव स्थायित्वे प्राप्ते कर्पूरखण्डमरिचादियोगेन रूपान्तरपरिणता प्रपाणकमुच्यते। तथा रत्यादिःस्थायिभावः काव्योपस्थापितविभावादियोगेन रूपान्तरपरिणतश्चिदानन्दचमत्कारखरूपं प्राप्तः, विषयस्यैव ज्ञानत्वेन परिणाम इति परिणामवादिनां मतम्। ननु चिरविनष्टस्य रत्यादे: कथं रूपान्तरापत्तिरिति चेतू, न। रत्यादिपदेन रत्यादितादात्म्येनाध्यवसिताया सामा- जिकवासनाया लक्षणात्। तटुक्तं प्रकाशकृता-'सामाजिकानां वासनात्मतया स्थितो रत्यादिर्भावः' इति। वासनामनङ्गीकुर्वतां मतमाह-व्यक्तीकृत इति। व्यक्तीकृत एव ज्ञानविषयतामापन्न एव रत्यादी रसः । एवकारेण वस्तुसत्त्वव्यवच्छेदः । चिरवि- नष्टस्यापि ज्ञानविषयत्वसंभवादिति भावः । व्यक्तीकृत एवेत्यनन्तरं वाकारो बोध्यः। एतद््यक्तीकरोति-नत्विति। रूपान्तरपरिणामे सदष्टान्तप्राचीनसंवादमाह- तडुक्तमिति। यथा पाकसंबन्धेन ओदनरूपं प्राप्तस्तण्डल ओदनत्वेन व्यवह्नियते तथा प्रतीतिसंबन्धेन रसरूपं प्राप्ता सामाजिकवासना रसत्वेन व्यवहियत इति भावः। रसस्य प्रागनवस्थाङ्गीकारे प्राचीनसंवादमाह-तटुक्तमिति। नन्वोदनं पचतीत्यत्र पाकात्पूर्वमोदन स्यानवस्थाने क्रियानिमित्तलाभावेन कर्मत्वं न स्यात्, अत ओदनपदस्य तण्डुललक्षणावश्यमङ्गीकरणीयेत्यसिद्धो दृष्टान्त इति चेदुद्भाव्यते, तदा 'कटं करोति' इति दृष्टान्तो द्रष्टव्यः । 'क्रियानिमितं हि कारकम्' इति प्रवादस्य प्रायिकत्वमिति भावः। यद्यपि रत्यादीनां नायकादिनिष्ठतया पूर्वसिद्धत्वमस्त्येव तथापि सामाजिक- निष्ठतया ज्ञानात्पूर्वमिहासत्त्वं विवक्षितम्। यथा तण्डुलानां पाकात्पूर्वमोदनत्वं नास्ति तथा रत्यादीनामपि प्रत्ययात्पूर्व रसतं नास्तीत्यर्थः । ननु 'रतिर्हासश्व-' इति वक्ष्यमाणकारिकया रत्यादीनां स्थायितं प्रतिपादितं तदत्र स्थायिपदं निरर्थक-
- रसा इति। अत्रायं पूर्वापरसंदर्भ :- प्रतीतेः स्वपरगतत्वादिविकल्पने सर्वपक्षेषु प्रतीतिरपरिहार्या। रसस्य प्रतीतिहिं पिशाचवदव्यवहार्या स्ात। कितु यथा प्रतीतिमात्र- त्वेनाविशिष्टत्वेऽपि प्रात्यक्षिक्यानुमानिक्यागमोत्था प्रतिभानकृता योगिप्रत्यक्षजा च प्रतीति- रुपायवैलक्षण्यादन्यैव, तद्वदियमपि प्रतीतिश्चर्वणास्वादनभोगापरनामधेया भवतु। तन्निदान- भूताया हृदयसंवाद्युपकृताया विभावादिसामग्र्या लोकोत्तररूपत्वाद्रसाः प्रतीयन्त इति। ओदनं पचतीतिवद्यवहारः प्रतीयमान एव हि रसः । प्रतीतिरेव विशिष्टा रसना। सा च नाट्ये लौकिकानुमानप्रतीते विलक्षणतां प्रमुखे उपायतया संदधाना। एवं काव्ये शाब्द- प्रतीतेश्च विलक्षणतां प्रमुखतामुपेक्ष्यमाणेति॥ १. 'व्यक्तीकृत एव रसः' ग-पुस्तके नासिति; 'व्यक्तः' इति ख-पुस्तकेऽधिकम्, २. 'स एव' क. . 'लोचनकारेण' ग. ४. 'च' ग-पुस्तके नास्त. ५. 'रूपान्तर-' इत्यादि: '-विवक्षितम्' इत्यन्तः पाठ एकसिमिन्पुस्तके नास्ति. ६. 'यथा' इत्यारभ्य '-नास्तीत्यर्थः' इत्यन्तो द्वितीय सिमिन्पुस्तके नास्ति.
Page 119
७२ साहित्यदर्पणे
पुनः स्थायिपदोपादानं रत्यादीनामपि रसान्तरेष्वस्थायित्वप्रतिपादनार्थम्। ततश्च हासक्रोधादयः शृङ्गारवीरादौ व्यभिचारिण एव। तदुक्तम्- 'रसावस्थः परं भावः स्थायितां प्रतिपद्यते' इति। अस्य स्वरूपकथनगर्भ आसवादनप्रकार: कथ्यते- सत्वोद्रेकादखण्डखप्रकाशानन्दचिन्मयः। वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ॥२॥ लोकोत्तरचमत्कारप्राणः कैश्चित्प्रमातृभिः। स्वाकारवदभिन्नत्वेनायमासाद्यते रसः॥ ३॥। रजस्तमोभ्यामस्पृष्ट मनः सच्वमिहोच्यते। इत्युक्तप्रकारो बाद्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम्। तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः । तत्र हेतुस्तथाविधालौ- किककाव्यार्थपरिशीलनम्। अखण्ड इत्येक एवायं विभावादिरत्या-
मित्याशङ्कय समाधत्ते-अत्र चेति । रसलक्षणे चेत्यर्थः । रसान्तरेष्विति। 'व्यभिचारितया' इति शेषः। रसावस्थ इति। परमिति मान्तमव्ययमेवकारार्थम्। रसेष्ववश्यमवस्थानात् स्थायी। अनावश्यकत्वे व्यभिचारीत्यर्थः। रत्यादिर्यत्सवरूप प्राप्य रसो भवति तद्दशयंस्तत्रास्वाद एव प्रमाणमिति तन्निरूपणं प्रक्रमते-
- ब्रह्मेति। ब्रह्मास्वादे ब्रह्ममात्रं प्रकाशते रसे तु विभावादिकमपीति भेदात्सहो- दरत्वकथनम् ।। 2. स्वाकारवदिति। यथा ज्ञानस्यैवाकारो घटादिस्तस्मादभिन्नोऽपि तदिषियो बाहै- रज्गीक्रियते तथात्रापीत्यर्थः । अत्रेदं तत्त्वम्-स्वयं वेदनं तावदङ्गीकार्यम्। अन्यथा जग- दान्ध्यं प्रसज्येत। एवं च स्वव्यतिरिक्तग्राह्यविरहात्तत्तदात्मिका बुद्धि: स्वयमेव स्वात्म- रूपप्रकाशिका। प्रकाशवदिति। तदुक्तम्-'नान्योऽनुभाव्यो बुध्धास्ति तस्या नानुभवो- डपरः। ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ।' इति। ग्राह्यस्य बाह्यविषयजातस्य ग्रहकं स्वयंवेदनापरपर्यायं बुद्धितत्त्वं तयोवैंघुर्य नाम आ्ह्यत्वेन ग्राहकत्वेन च रूपेण भेदराहि- त्यम्। तयोरभेदश्चानुमातव्यः । येन वेदनेन यद्वेद्यते तत्ततो न बिद्यते। यथा ज्ञानेना- त्मान: (चक्षुरादीनि पञ्चेन्द्रियाणि) तैश्च नीलादयो वेद्यन्ते। भेदे सति वेदनेन सहार्थस्य संबन्धित्वं न स्यात्। तादात्म्यस्य संबन्धनियमहेतोरभावात्। तस्माद्वुद्विरेवानादिवास- नावशादनेकाकारावभासत इति स्थितम्।।
१. 'अवस्थायित्व-' ग. २. 'रत्या प्रकाशगुणश्च' ख.
Page 120
तृतीय: परिच्छेदः । ७३ दिप्रकाशसुखचमत्कारात्मकः । अत्र हेतुं वक्ष्यामः-सप्रकाशत्वाद्यपि वक्ष्यमाणरीत्या। चिन्मय इति स्वरूपार्थे मयट्। चमत्कारश्चित्तविस्तार- रूपो विस्मयापरपर्यायः । तत्प्राणत्वं चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीग- रिष्ठकविपण्डितमुख्यश्रीमन्नारायणपादैरुक्तम्। तदाह धर्मदत्तः स्ग्रन्थे- 'रसे सारश्रमत्कारः सर्वत्राप्यनुभूयते। तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः । तस्मादद्कतमेवाह कृती नारायणो रसम् ॥' इति। अस्येति। रसस्येत्यर्थः । स्वप्रकाशेति। यथा ज्ञानान्तरं सवगोचरं घटादिकं प्रकाशयति तथा रस आत्मानमेव प्रकाशयतीत्यर्थः । चिद् विभावादिसंवित् । वेद्यान्तरेति। विषयान्तरसंपर्केणानवच्छिन्नप्रवाहः। ्रह्मास्ादसहोदरः ब्रह्मसा- क्षात्कारसदृशः । लोकप्रधानचमत्कारसारः। स्वाकारवदिति। यथा स्वस्माद्भि- न्नोऽपि देहोऽहं स्थूल इत्यादि भेदोल्लेखाभावेन प्रतीयते, तथा रसोऽपि ज्ञातृज्ञान- भेदोल्लेखाभावेनासाद्यत इत्यर्थः । घटादिज्ञाने जाते वेझ्मीति यथा ज्ञातृज्ञानभेदः प्र- तीयते तथात्र नेति भावः। यद्वा स्वाकारवत्खविषयवत्। परिणामवादिभिर्ज्ान- तद्विषययोर्भेदानङ्गीकारादिति भावः। कामलोभादिबीजभूतौ मनोधमौं रजस्तमसी, ताभ्यामस्टृष्टं स्वकार्यजननेऽसंत्पृष्ट मनो मनोधर्मः । विवृणोति-ईत्युक्त इति। उक्तसवरूप इत्यर्थः । बाह्यं वहिर्भवम्। लौकिकमिति यावत्। मेयं वस्तु विमुखता- ज्ञानानुकूलव्यापाराभावः । तस्यापादकः प्रयोजकः । ज्ञानानुकूलव्यापारश्ात्र दृडनो- योगः । अभिभूय स्वकार्याक्षमे कृला। आविर्भावः प्रतिबन्धकाभावेन स्वकार्य- क्षमत्वेनावस्थानम्। तत्र सत्ोद्रेके। अलौकिको यः काव्यार्थो विभावादिः तैस्य परिशीलनमत्यन्ताभिनिवेशः प्रकाशः संवित्। ननु मिलिता विभावादयो रसस्तत्कथ- मस्याखण्डलमत आह-अत्रेति। अखण्डतायामित्यर्थः । हेतुमिति। समूहाल- म्बनज्ञानतादात्म्यमेव हेतुर्वक्ष्यते। सप्रकाशत्वाद्यपीत्यादिना सुखतादात्म्यपरिग्रहः। स्वरूपार्थ इति। न लन्नमयो यज्ञ इतिवत्प्राचुर्यार्थे। लोकातीतार्थाकलनेन किमेतदिति ज्ञानधाराजनने चित्तस्य दीर्घप्रायस्त्वं चित्तविस्तारः । दृष्टहेतुभ्योऽसंभ- वितज्ञानेन हेतनुसंधाने मनोव्यापारणमेव चित्तविस्तार इत्यपरे। विस्मयो विस्मय- शब्दोऽपरपर्यायो वाचकान्तरं यस्य सः। यद्वा अपरपर्यायोऽभिन्नः । तत्प्राणत्वं चमत्कारसारतम् । सारः स्थिरांशः । सर्वत्र शङ्गारादौ' चमत्कारसारत्वे चम- त्कारस्थायिभावत्वे। तस्मात्सर्वत्राद्भुतरससंभवात्। वस्तुतस्तु रत्याद्यंशस्यानुभूयमा- नत्वे यथायर्थं शृङ्गारादिव्यपदेशस्तस्याननुभावेऽद्रुतव्यपदेश इति मन्तव्यम् । १. 'प्रतीति' ख-ग-पुस्तकयोः- २. 'अस्य' ग. ३. 'यद्वा' इति नास्ति कुत्नचित्. ४. प्रतीकं जारिति पुस्तकान्तरे. ५. 'तस्य' इति नारिति पुस्तकान्तरे. ६. 'प्रकाशः' नास्ति कुत्रचित्. सा० द० ७
Page 121
७४ साहित्यदर्पणे
कैश्चिदिति प्राक्तनपुण्यशालिभिः । यदुक्तम्- 'पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससंततिम् ।' इति। यद्यपि 'सादः काव्यार्थसंभेदादात्मानन्दसमुद्धवः ।' इत्युक्तदिशा रसस्याखादानतिरिक्तत्वम्, तथापि 'रसः साद्यते' इति काल्पनिकं भेद- मुररीकृत्य कर्मकर्तरि वा प्रयोगः । तदुक्तम्-'रस्यमानतामात्रसा- रत्वात्प्रकाशशरीरादनन्य एव हि रसः' इति। एवमन्यत्राप्येवंविध- स्थलेषूपचारेण प्रयोगो ज्ञेयः । नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवति। व्यञ्जनायाश्च ज्ञानविशे- षत्वाद् द्वयोरक्यमापतितम्। ततश्च-
प्राक्तनेति। ऐहिकपुण्यस्यैतच्छरीरे सुखजननासंभवादिति भावः। प्रमिण्वन्ति आखादयन्ति। यद्यपीति। काव्यार्थसंभेदाद्विभावादिमेलकातू। आत्मा बुद्धिः, आनन्दः सुखम्, तयोः समुद्भवो विषयान्तरतिरोधानेनाविर्भावः । 'रसः स्वाद्यते' इति प्रयोग इति वक्ष्यमाणेनान्वयः। काल्पनिकमारोपितमुररीकृत्य अज्गीकृत्य।रसास्वादयोः कर्मक्रियाभावेनोल्लेखो भेदग्रहणमन्तरेण न संभवतीति भावः । तत्प्रयोगस्य प्रामा- ण्योपपत्त्यर्थमाह-कर्मकर्तरि वेति। रसः खयमेव सादयते। स्वानिन्नलाद- विपय इत्यभिप्रायः। रसस्यास्वादरूपत्वे प्राचां संवादमाह-रस्यमानतेति। रस्य- मानता आस्वाद:, तन्मात्रस्य। न वतिरिक्तस्य। सारत्ात् सामाजिकानामुपादेयलातू। प्रकाशशरीरात् संवित्सरूपात्। ज्ञानरूपतापन्न एव रत्यादिः सामाजिकानामानन्द- चमत्कारसंवलनोपादेयत्वाद्रस इति भावः । ननु विभावादिमेलकाजायमानानन्दसंव- लितमिलितविभावादिसंविद्रस इत्युक्तं भवति। विभावादीनां मेलकश्च विभावादि- विशिष्टवैशिष्यावगाह्येकज्ञानविषयत्वमित्यवश्यं वाच्यम्। प्रकारान्तरेण तन्निरूपणस्या- शक्यत्वात्। तादशज्ञानं च विभावादीनां प्रत्येकज्ञानादेव भवति। एवं च तादृश- ज्ञानानन्तरं रसास्ाद: कथं जायतामुपायाभावादित्यभिप्रायेण शङ्कते-नन्विति। एतावता रसस्य विभावादिसमुदायप्रकारस्य रसत्ाङ्गीकारेण। अज्ञेयत्वमिति। उँपायत्वाभावादित्यर्थः । सप्रकाशस्य स्वानुत्पत्त्यैवाज्ञेयत्वमिति भावः । ननु व्यञ्ञन- यैव रसाखादो जायतामित्यत आह-व्यञ्जनायाश्चेति। विभावादिसमुदायसा- १. 'स्थानेषु' क-ख. २. 'भवतीति' घ. ३. 'इदानीं स्वादनाख्यव्यापारेण सामाजिकानां खवा- सनासाक्षात्कार एव रस इत्यभिनवगप्ताचार्यादीनां मतसुपन्यस्यति-नन्वित्यादिना तादात्म्येन गोच- रीकृत इत्यन्तेन' इत्यधिकं कुतचित्. ४. 'उपायत्वाभावादित्यर्थः' इति नास्ति पुस्तकान्तरे. ५. 'व्यञ्ज- नायाश्चेति। व्यक्षनाजन्यम्रतीतेश्चेत्यर्थः। ज्ञानविशेषत्वाद् आसादविलक्षणज्ञानरूपत्वात्। ननु सामा-
Page 122
तृतीय: परिच्छेदः । ७५
'सज्ञानेनान्यधीहेतुः सिद्धेऽर्थे व्यञ्जको मतः । यथा दीपोऽन्यथाभावे को विशेषोऽस्य कारकात् ॥' इत्युक्तदिशा घटप्रदीपवद् व्यङ्गयव्यञ्जकयोः पार्थक्यमेवेति कथ रसस्य व्यङ्कयतेति चेत्, सत्यमुक्तम्। अत एवाहु :- 'विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः खादनाख्यः कश्चिद्वयापारः ।' इति। अत एव हि
मर्थ्यस्य चेत्यर्थः। ज्ञानविशेषलाद् विशिष्टवैशिष्यज्ञानरूपलात्। द्योर्व्यङ्ञयव्यञ्ञक- योः । ततश्र दयोरैक्यापाताच्च। अस्य हेतोः कथं रसस्य व्यञ्ञयतेत्यत्रान्वयः। द्वयोः पार्थक्य एव व्यज्ञ्यव्यञ्जकभावः संभवतीत्याह-स्वज्ञानेनेति। सं व्यञ्जकत्वेना- भिमतं तस्य ज्ञानेन अन्यधीहेतुर्व्यञ्कयप्रतीतिकरः सिद्धेऽर्ये सतीत्यर्थः। अन्यथा- भावेऽसिद्धार्थज्ञापकत्वे अस्य ज्ञापकस्य कारकाज्जनकातू। जनको हि कार्यमुत्पाद्य प्रकाशयतीति भावः। अभिनवगुप्ताचार्यमतानुसारेण रसास्ादोपायमाह-अत एवेति। निरुक्तपूर्वपक्षादेवेत्यर्थः । आहुः। अभिनवगुप्ताचार्यमतानुयायिन इति शेष: । भटटलोल्लटादयस्तु-रसस्य व्यक्चयत्वमेवाङ्गीकुर्वन्ति। तथाहि-रामादौ व्यञ्जनया प्रतीयमानो रत्यादिज्ञानसंबन्धेन सामाजिकवृत्ती रसः, तच्च ज्ञानं 'रामः सीताविषयकरतिमान्' इत्याकारकमेव। यथा चिरविनष्टस्यापि यागादेः खजन्यापूर्व- सत्त्वेनैव स्वर्गाद्यव्यवहितपूर्ववृत्तित्वं कल्प्यते, तथा रत्यादेरतीतस्यापि खगोचरज्ञान- सत्त्वेनैव सामाजिकवृत्तित्वं कल्प्यत इत्यवधेयम्। लाघवानुसंधानपरेण ग्रन्थकृता अस्मिन्नेव मते 'अभिधादिविलक्षणं- इत्यादिना खवरसः प्रकाशयिष्यते। अयं रससाक्षात्कारानुकूल:, कृतिरुत्पादनम्, ज्ञप्तिभेदा ज्ञानानुकूलव्यापारविशेषा व्यज्ना- दयः, कश्चित्सहृदयानुभवसिद्धः । अत एव विलक्षणव्यापारसीकारादेव विलक्षणाः करणव्यज्ञनादिभिन्नाः । व्यपदेशा व्यवहाराः । एवं च यथा संयुक्तसमवायेन सुखा- दिसाक्षात्कारः, तथास्ादनाख्यव्यापारेण वक्ष्यमाणसवासनासाक्षात्कार इति भावः। यथा भूतलं रजतवदिति ज्ञानं शुक्तयंशे लौकिकं रजतांशे ललौकिकम्, तथा रस- साक्षात्कारोऽपि वासनांशे लौकिको रत्यादंशे उपनीतभानात्मकालौकिक इत्यवधेयम्। ननु वासना तावदिच्छादिवद्गुणविशेष एवास्तु, तथा सति संयुक्तसमवायेनैव तद्रहो भविष्यति किं खादनाख्यव्यापारेणेति चेतू, न। तस्या गुणविशेषत्वे प्रमाणाभावात्। न च लाघवमेव तत्र मानमिति वाच्यम्। तत्र सत्तागुणत्वसंबन्धकल्पने गौरवात्। न च तस्या अदृट्टरूपत्वमस्तिति वाच्यम्। तथात्वे साक्षात्कारानुपपत्तेः । नापि ज्ञाने- च्छारूपलम्। प्राक्तनीत्यनेन स्थिरत्वलाभाज्ज्ञानेच्छायास्तृतीयक्षणे नाशात्। नापि तितम्। ततश्रेति। ततो विभावाद्यास्वादस्य रसत्वाङ्गीकारात्। द्वयोर्व्यङ्मयव्यञ्जकयोरैक्यमापतितं चेत्यर्थः । फलीभूतज्ञानकारणीभूतज्ञानविषयविभावाद्यतिरिक्तविषयत्वाभावादित्यर्थः। विषयभेद एव व्यङ्गयव्यञ्जकभावः सभवतीति। प्राचीनसंवादेनाह-खज्ञानेति' इत्यधिकं पुस्तकान्तरे. १. 'सत्यमुक्तम्' इति ग-पुस्तके नास्ति. २. 'इति' क-पुस्तके नास्ति. ३. 'ततः' ख-ग. 8. 'सं-' इत्यादि '-अर्थः' इत्यन्तं पुस्तकान्तरे नास्ति.
Page 123
७६ साहित्यदर्पणे
रसनाखादनचमत्करणादयो विलक्षणा एव व्यपदेशा इति। अभि- धोदिविलक्षणव्यापारमात्रप्रसाधनग्रहिलैरस्माभी रसादीनां व्यङ्गयत्व- मुक्तं भवतीति।
संस्काररूपत्वम्। तस्यातीन्द्रियत्वेन प्रत्यक्षासंभवाद्रसस्य स्मृतित्वापत्तेश्व। ननु तथापि 'वासनावानहम्' इति ज्ञानाकारः स्यादिति चेत्, न। प्रथमं नाट्यकाव्यदर्शनश्र- वणाभ्यां विभावानुभावयोरुपस्थितिः । एवमाक्षेपेण झटित्येव व्यभिचारिस्थायि- भावयोरुपस्थितिः । क्वचिच्छव्देनापि तयोरुपस्थितिः । सा च दोषतया वक्ष्यते। ततो वक्ष्यमाणसाधारणीकरणाख्यव्यापारेण सीनादयो मम रामस्य वेति विभावादिचतुष्टये प्रत्येकं साधारण्यप्रत्ययस्तदनन्तरं व्यज्जनया रससमानाकारप्रत्ययस्तदनु तत्सहकृतेन सादनाख्यव्यापारेण 'रामोऽहं सीताविषयकरतिमान्' इत्याकारकः स्ववासनायां रत्याद्यभेदं खस्मिन्नायकाभेदमवगाहमानः साक्षात्कारः संपद्ते। 'भूतलं रजतवत्' इति भ्रमे भुक्तित्वादिकमिव वासनात्वादिकमत्र न भासत इति भावः। 'प्रमाता तदभेदेन खात्मानं प्रतिपद्यते' इति 'उत्साहादिसमुद्धोधः साधारण्याभिमानतः' इति वक्ष्यमाणबलादवसीयते8। अस्मिन्मते पदार्थान्तरस्य वासनायाः, खादनादिव्यापारस्य च कल्पने गौरवमसहिष्णुराह-अभिधादीति। आदिना लक्षणातात्पर्ययोर्ग्रहणम्। अभिधादिविलक्षणव्यापारो व्यज्ना तन्मात्रप्रसाधने ग्रहिलैः सयत्नैर स्माभिर्नवीनालं कारिकैः। मात्रपदेन सादनादिव्यवच्छेदः । व्यङ्ञयत्वं व्यञ्ञनाजन्यबोधविषयत्म्।
वति। तथा च निरुक्तसाक्षात्कारे रत्यादेरुपनायकत्वेन रत्यादिव्यञ्ञनं भवद्भि- रवश्यमङ्गीकार्यम्। तदेवास्माभी रस उच्यते। किमधिकेन वासनादिनानापदार्थ- कल्पनेनेति भावः । अत एव वक्ष्यति-'अङ्गीकार्या तुर्या वृत्तिर्बोधे रसादीनाम्' इति। अत एव रसादेरसंलक्ष्यक्रमव्यङ्गयलमुपपद्यते। व्यञ्ञनापक्षे 'दवयोरैक्यमाप- तितं-' इत्यादि यहूषणमुक्तम्। तदपि न सम्यके। व्यञ्ञनाया वक्तृतात्पर्यरूपज्ञान- त्वेन निरूपितत्वाद्रसस्य च तद्भिन्नभावात्। यद्वा विभावादीनां प्रत्येकं ज्ञानं जनकं विशिष्टज्ञानं जन्यमिति भेदाङ्गीकारात्। न च साक्षात्कारस्यैवासादरूपतं न तु व्यञ्ज- नाजन्यबोधस्येति वाच्यम्। व्यङ्ज्यचारुत्वेनैव व्यञ्जनाजन्यबोधस्याप्याखादरूपल्-
१. 'इति' ग-पुस्तके नास्ति. २. 'आदि' क-पुस्तके नास्ति. ३. 'व्यापारवलेन' इति पुस्त- कान्तरे. 8. 'ननु व्यञ्जनाया रससमानाकारप्रतीत्यङ्गीकारे कि मानमिति चेत्, न। रसोदवोधे रत्यादिमत्ताभानार्थ तदङ्गीकारात्। न च प्राथमिकरत्यादिमत्ताज्ञानेनैव तन्ानमिति वाच्यम्। साधारणप्रतीत्यनन्तरं तस्य नाशात्। न च विभावादिजीवितावधिरिति काव्यप्रकाशदर्शनेन तस्य क्षणचतुष्टयावस्थायित्वमिति वाच्यम्। तद्नुन्भावयतां ग्रन्थकृतां तदनङ्गीकारात्। यदि च विनश्य द्वस्थमेव विभावादिज्ञानं रसोद्वोधकमित्युच्यते तदा सामाजिकानां नायकादयभेदभानार्थ तदङ्गीकार इति मन्तव्यम्। यदि त्वमेदस्य संसर्गविषयाभानमङ्गीक्रियते तदा तदङ्गीकारं विनाप्युपपत्तिरिति ध्येयम्' इत्यधिकं कुत्रचित्. ५. 'एतन्मते विभावादिज्ञानसहकृतया व्यज्जनया रसरूपरत्यादिज्ञानं जन्यत इति व्यङ्गयव्यञ्जकयो: पार्थक्यसंभवात्' इत्यधिकं पुस्तकान्तरे.
Page 124
तृतीय: परिच्छेदः। ७७
ननु तर्हि करुणादीनां रसानां दुःखमयत्वाद्रसत्वं न स्यादित्युच्यते- केरुणादावपि रसे जायते यत्परं सुखम् ॥४॥ सचेतसामनुभवः प्रमाणं तत्र केवलम्। आदिशब्दाद्वीभत्सभयानकादयः । तथाप्यसहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यते- किंच तेषु यदा दुःखं न कोऽपि स्यात्तदुन्मुखः ॥५॥ नहि कश्चित्सचेतन आत्मनो दुःखाय प्रवर्तते। करुणादिषु च सकलस्यापि साभिनिवेशप्रवृत्तिदर्शनात्सुखमयत्वमेवैं।
संभवात्। ननु वासनाया अनङ्गीकारे कथं श्रोत्रियजरन्मीमांसकानां रसाभिव्यक्तिर्न जायत इति चेतु, न । रसाख्ादसुखजनकपुण्याभावात्। अत एव 'कैश्चित्प्रमातृभिः' इत्युक्तम्। तर्हि रसस्यानन्दमयतखीकारे। तटुन्मुखः करुणादिरसव्यञ्ञककाव्यादि- 1. करुणेति। रसगङ्गाधरेऽप्युक्तम्-ननु रतेरस्तु नाम रामादाविव सहृदयेऽपि सुखविशेषजनकता, करुणरसादिषु तु स्थायिनः शोकादेर्दुःखजनकतया प्रसिद्धस्य कथ- मिव सहृदयाह्लादहेतुत्वम्। प्रत्युत नायक इव सहृदयेऽपि दुःखजननस्यैवौचित्यात्। न च सत्यस्य शोकादेर्दःखजनकत्वं कुप्तम्, न कल्पितस्येति नायकानामेव दुःखम्, न सहृदयस्येति वाच्यम्। रज्जसर्पादेभयकम्पाद्यनुत्पादकतापत्तेः। सहृदये रतेरपि कल्पि- तत्वेन सुखजनकतानुपपत्तेश्चेति चेत्, सत्यम्। शङ्गारप्रधानकाव्येभ्य इव करुणप्र- धानकाव्येभ्योऽपि यदि केवलाह्लाद एव सहृदयहृदयप्रमाणकस्तदा कार्यानुरोधेन कारणस्य कल्पनीयत्वालोकोत्तरकाव्यव्यापारस्यैवाह्लादप्रयोजकत्वमिव दुःखप्रतिवन्धकत्वमपि कल्प- नीयम्। अथ यद्याह्लाद इव दुःखमपि प्रमाणसिद्धं तदा प्रतिबन्धकत्वं न कल्पनीयम्। स्वस्वकारणवशाच्चोभयमपि भविष्यति। अथ तत्र कवीनां कर्तु सहदयानां च श्रोतुं कथं प्रवृत्तिः। अनिष्टसाधनत्वेन निवृत्तेरुचितत्वात्। इति चत्, इष्टस्याधिक्या- दनिष्टस्य च न्यूनत्वाच्चन्दनद्रवलेपनादाविव प्रवृत्तेरुपपत्तेः । केवलाह्लादवादिनां तु प्वृत्तिरप्रत्यूहैव। अश्रुपातादयोऽपि तत्तदानन्दानुभवस्वाभाव्या्। न तु दुःखात। अत एव भगवद्भक्तानां भगवद्वर्णनाकर्णनादश्रुपातादय उत्पद्यन्ते । नहि तत्र जात्वपि डुःखानुभवोडस्ति। न च करुणरसादौ स्वात्मनि शोकादिमद्दशरथादितादात्म्यारोपे यद्याह्लादस्तदा स्वप्नादौ संनिपातादौ वा स्वात्मनि तदारोपेऽपि स स्यात्। आनुभ- विकं च तत्र केवलं दुःखम्। इतीहापि तदेव युक्तमिति वाच्यम्। अयं हि लोकोत्तरस्य काव्यव्यापारस्य महिमा, यत्प्रयोज्या अरमणीया अपि शोकादयः पदार्था आह्लादम- लौकिकं जनयन्ति। विलक्षणो हि कमनीयः काव्यव्यापारसमुद्भूत आस्वादः प्रमाणान्त- रजगदनुभवादिति॥।
१. 'त-' इत्यादि '-ते' इत्यन्तं घ-पुस्तके नास्ति. २. 'सचेताः' घ. ३. 'इति' ग.
Page 125
७८ साहित्य दर्पणे
अनुपपत्त्यन्तरमाह- तथा रामायणादीनां भविता दुःखहेतुता। केरुणरसस्य दुःखहेतुत्वे करुणरसप्रधानरामायणादिप्रबन्धानामपि दुःखहेतुताप्रसङ्ग: स्यात् । नैनु क्थं दुःखकारणेभ्यः सुखोत्पत्तिरित्याह- हेतुत्वं शोकहर्पादेर्गतेभ्यो लोकसंश्रयात् ॥६॥ शोकहषदियो लोके जायन्तां नाम लौकिकाः। अलौकिकविभावत्वं प्रप्तेभ्यः काव्यसंश्रयात्॥७॥ सुखं संजायते तभ्यः सर्वेभ्योऽपीति का क्षतिः। 'ये खलु वनवासादयो लोके दुःखकारणानि' इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभावनव्यापारवत्तया कारणशब्द- वाच्यतां विहायालौकिकविभावशब्दवाच्यत्वं भजन्ते। तेभ्यश्च सुरते दन्तघातादिभ्य इव सुखमेवे जायते। अतश्च 'लौकिकशोक- हर्षादिकारणेभ्यो लौकिकशोकहर्षादयो जायन्ते' इति लोक एव प्रति- नियमः । काव्ये पुनः 'सर्वेभ्योऽपि विभावादिभ्यः सुखमेव जायते' इति नियमान्न कश्चिद्दोषः । कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि दर्शनश्रवणा- भ्यामश्रुपातादयो जायन्त इत्युच्यते-
तर्हि कथं काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्यत आह-
श्रवणादौ प्रवृत्तः । सचेतनः सामाजिकः। अनुपपतत्यन्तरमनिष्टापत्त्यन्तरम्। चराचर- वस्तुजातं लोकस्तस्य संश्रयात् स्भावात्। काव्यसंश्रयात् काव्यसंबन्धात्। सुखं सुखमेव सर्वेभ्यो लौकिकशोकहर्षनिमित्तेम्यः। तर्हि करुणादीनां सुखमयत्वस्वीकारे। अश्रुपातादय इत्यादिना निःश्वासादिपरिग्रहः । दतत्ाद् हर्षेण गलितप्रायत्वात्।
१. 'करुणादि' क. २. 'स्यादित्यर्थः' ग. ३. 'ननु हर्षशोकादिकारणेभ्यो हर्षशोकादय एव जायन्त इति व्याप्ति:, तत्कथं विभावादिभ्यः सुखोत्पत्तिरित्याह' ग. ४. 'अलौकिक' इति नास्ति ग- पुस्नके. ५. 'एव' क-पुस्तके नास्ति. ६. 'अतश्च' इति ग-पुस्तके नास्ति. ७. 'अपि' क. ८. ग- पुस्तके त्वेतस्याः कारिकायाः 'चेतसो द्रवीभावात्सुखेऽप्यश्रुपातादयो भवन्तीत्यर्थः' इति व्याख्या. ९. 'ननु कथ' ग.
Page 126
तृतीय: परिच्छेदः । ७९
न जायते तृदाखादो विना रत्यादिवासनाम्। वासना चेदीनींतनी प्राक्तनी च रैसास्वादहेतुः। तत्र यद्यादया न स्यात्तदा श्रोत्रियजरन्मीमांसकादीनामपि सा स्यात्। यदि द्वितीया न स्यात्तदा यद्रागिणामपि केषांचिद्रसोद्वोधो न दृश्यते तन्न स्यात्। उक्त्तं च धर्मदत्तेन- 'सवासनानां सभ्यानां रसस्यास्वादनं भवेत । निर्वासनास्तु रङ्गान्तः काष्ठकुड्याश्मसनिभाः ॥' इति। नैनु कथं रामादिरत्याद्युद्वोघकारणैः सामाजिकरत्याद्युद्वोध इत्यु- च्यते- व्यापारोऽस्ति विभावादेर्नाम्ना साधारणी कृतिः ॥९॥ तत्प्रभावेण यस्यासन्पाथोधिप्ठवनादयः। प्रमाता तद्भेदेन सवात्मानं प्रतिपद्यते ॥ १० ॥ परमते वासनाया रसवोधहेतुत्वे अन्वयव्यतिरेकौ। प्रमाणमाह-न जायत इति। तदास्वादो रसास्वादः। रत्यादिवासनानां रत्यादितादात्म्येन प्रतीयमानां वासनाम्। मिलितियोरेव तयो: कारणतं दर्शयति-तत्रेति। श्रोत्नियो वैदिकः । स रसास्ादः। तद्रत्युद्दोधादर्शनम्। ननु श्रोत्रियादीनां प्राक्तनवासनासत्वे किं प्रमाणमिति चेतू, तदभावे प्रमाणासत्वेनैव तत्सिद्धेः । न च फलाभाव एव तत्र मानमिति वाच्यम्। इदानींतनवासनाव्यतिरेकस्यैव फलाभावप्रयोजकत्वोपगमेनोपपत्तौ तदभावस्य तत्प्र- योजकत्वकल्पनाया अन्याय्यत्वात्। वस्तुतस्तु इदानींतनवासनायां प्रमाणं नास्ति। न च रागाद्यन्यथानुपपत्तिरेव मानमिति वाच्यम्। तस्या रागादिं प्रत्यजनकत्वादि- ष्साधनताज्ञानादिनैव तत्सिद्धेः । रङ्गान्तर्नृत्यशालामध्ये। कुड्यं भित्तिः। निर्वासनानां काष्ठादिवद्रत्याद्युद्वोधो न जायत इत्यर्थः । रसबोधे साधारण्याभिमानस्य कारणतां व्यवस्थापयितुमाशङ्कते-ननु कथमिति । रामादिरत्याद्युद्वोधकारणैरिति। सीतादिभिरित्यर्थः । सामाजिकरत्याद्युद्वोधः सामाजिकरत्यादिवासनोद्वोघः। तेषां तं प्रत्यसाधनत्वादित्यर्थः । सामाजिकानां सजातीयरत्यादिसाजात्येनापि नायका- द्यभेदावगाहिरसग्रहोपपत्तौ वक्ष्यमाणसमावानमकिंचित्करमित्यतो मनुष्यसामाजि- कानां सुदुर्जयप्रतिवीरालम्बनोत्साहोद्वोधोऽत्यन्तासंभवीति तमुपपादयितुं वीररसं दर्शयन्समाधत्ते-व्यापारोऽस्तीति।खाो रणं नायकसामाजिकसंबन्धिनं करोति उभयसंबन्धित्वेन प्रतिपादयतीति साधारणी कृतिः । तत्प्रभावेण तज्जन्य- १. 'रसास्वादहेतुः' इति ग-पुस्तके नास्ति, २. 'तदा' ख-घ-पुस्तकयोर्नास्ति. ३. 'नन्वित्युपो- द्वातो' ग-पुस्तके नास्ति.
Page 127
८० साहित्यदर्पणे
ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावुत्साहोद्दोध इत्युच्यते- उत्साहादिसमुद्धोधः साधारण्याभिमानतः। नृणामपि समुद्रादिलङ्गनादौ न दुष्यति ॥ ११ ॥ रत्यादयोऽपि साधारण्येनैव प्रतीयन्त इत्याह- साधारण्येन रत्यादिरपि तद्वत्प्रतीयते। रेत्यादेरपि स्वात्मगतत्वेन प्रतीतौ सभ्यानां व्रीडातक्कादिर्भवेत्। परगतत्वेन त्वरस्यतापातः ।
साधारण्याभिमानेन यस्य रामस्य पाथोधिप्नवनादयः समुद्रनिग्रहादयः । आदिना रावणनिग्रहादिग्रहणम् । प्रमाता सामाजिकः। तदभेदेन रामाभेदेन। खात्मानं खम्। 'स्तवोपवासादिभिरप्युदग्रैः स्वरूपमस्यानवलोकयन्तम्। भ्रूभेदभीमाननबिम्बमन्धि विव्याध बाणत्रितयेन रामः ॥' अस्य श्रीरामस्य। अत्र श्रीरामोत्साहस्य समुद्र आलम्बनविभावः । स्वरूपानवलोकनमुद्दीपनविभावः। समुद्रवेधनमनुभावः। भ्भेदो व्यङ्गयः । क्रोवो व्यभिचारिभावः । एपु साधारण्याभिमानान्मनुष्यसामाजिकानामपि
हवान्' इति प्रतिपत्तिरुत्पद्यते। अत्र ज्ञानोपनीतस्य श्रीरामोत्साहस्याभेदेन खादना- ख्यव्यापारेण स्ववासनैव सामाजिकैराखाद्यते। न च 'यस्य हनूमतः पाथोधिल्नवना- दयः समुद्रतरणादयः' इति यथाश्रुतमेव सम्यगिति वाच्यम्। तादृशोत्साहस्य वीर- रसत्वाभावेन प्रकृतानुपयोगित्वात् युद्धदानदयाधर्मोत्साहस्यैव वीररसत्वाङ्गीकारात्। नायकसामाजिकाभेदबोधमुपपाद्य वासनोत्साहाद्यभेदबोधमुपपादयितुमाह-कथ- मिति। मनुष्याणां तादृशोत्साहाद्यसंभवेन साजात्येनाभेदप्रतीतिर्न भवतीति सूच- नाय मनुष्यमात्रस्येति। लङ्डनं निग्रहः। साधारण्याभिमानत इति।समुद्रलङ्गनो- त्साहादि: मम रामादेश्चेति साधारण्यग्रहादित्यर्थः । न दुष्यति उपपद्यते। ननु ज्ञानप्रत्यासत्त्या संनिकृष्टस्योत्साहादेः साक्षादेव सामाजिके प्रकारत्वमस्तु किं वास- नाया: प्रकारत्वाङ्गीकारेणेति चेत्, न। वासनांशे साक्षात्कारत्वप्रमात्वानुपपत्तेः। लौकिकप्रत्यक्षस्यैव साक्षात्कारताङ्गीकारातू 'पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससंत- तिम्' इत्यादि प्राचीनव्यवहारेण 'वर्मिणि सर्वमभ्रान्तं प्रकारे तु विपर्ययः' इत्युक्त- दिशा रसबोवस्य वासनांशे प्रमात्वमङ्गीक्रियते। एतदभिप्रायेणैव पूर्वकारिकायां प्रमातृ- पदोपन्यासः । स्थायिभावानां साधारण्यप्रतीतौ प्रतिबन्धकाभावमुपपादयितुमाह- रत्याद्योऽपीति। आदिनतयमम.पदिपरिग्रहः । तद्वद् विभावादिवत्। उपपाद- यति-रत्यादेरपीति। अ्मिगतत्वेन आत्ममात्रसंबन्धित्वेन। आतङ्कः शङ्का। परगतत्वेन नायकमात्र संबन्धित्वेन प्रतीतावित्यन्वयः। अरस्यतापातो निरुक्तसाक्षात्का-
१. 'रत्यादे :- ' इत्यारभ्य '-इत्याह' इत्यन्तः पाठः ग-पुस्तके नास्ति. २-'ह्यात्मगतत्वेन' घ.
Page 128
तृतीयः परिच्छेदः । ८१
विभावादयोऽपि प्रैथमतः साधारण्येन प्रतीयन्त इत्याह- परस्य न परस्थेति ममेति न ममेति च ॥ १२ ॥ तदास्वादे विभावादेः परिच्छेदो न विद्यते। नेनु तैथापि कथमलौकिकत्वमेतेषां विभावादीनामित्युच्यते- विभावनादिव्यापारमलौकिकमुपेयुषाम्॥१३ ॥ अलौकिकत्वमेतेषां भूषणं न तु दूषणम्। आदिशब्दादनुभावनसंचारणे। तत्र विभावनं रत्यादेर्विशेषेणासा- दाङ्करणयोग्यतानयनम् । अनुभावनमेवंभूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनम्। संचारणं तथाभूतस्यैव तैस्य सम्यकारणम्ँ।
रविषयत्वाभावापत्तिः। एवं च रत्यादिर्ममैवेति नायकस्यैवेति संबन्ध विशेषस्वीकारा- ध्यवसायस्य प्रतिबन्धकस्याभावः सूचितः । एतदुपकरणं नैव ममेति नैव नायकस्येति संबन्धविशेषपरिग्रहाध्यवसायस्याप्यभावो बोध्यः । विभावादौ साधारण्यप्रतीतिं प्रतिबन्धकाभावप्रदर्शनेनोपपादयति-विभावाद्योऽपीति। आदिना अनुभाव- व्यभिचारिभावयोर््रहणम्। प्रथमतो रसबोधात्प्राक्। परस्य नायकस्यैव, न परस्य नैव नायकस्य, ममेति ममैवेति, न ममेति नैव ममेति, तदाखादे रसाखवादे भाविनि सति परिच्छेदः संबन्धविशेषसीकारपरिहाराध्यवसायः । तथा च तादृशाध्यवसायस्य प्रतिबन्धकस्याभावेनोपहितः साधारणीकरणाख्यव्यापारः सामाजिकानां सीतादयो मम रामादेश्वेति साधारणप्रत्ययमव्याहतमेव जनयतीति भावः। लौकिकानामपि विभावा- दीनामलौकिकत्वसाधनोपायं साधयितुमाशङ्कते-नन्विति। तथापि साधारणी- कृत्याख्यव्यापारस्वीकारेऽपि। एवं रसोत्पत्त्यँनुगुणमेतेषां विभावादीनाम्। नन्वेतेषाम- लौकिकत्वं रसोत्पत्तेविगुणमेव न त्वनुगुणमलौकिकात्फलसिद्धेरदृष्टचरत्वादत आह- भूषणमिति। 'अलौकिकरसतिद्वेः' इति शेषः । भूषणमनुगुणम्। दूषणं विगुणम्। तथा चालौकिकाल्लौकिकफलसिद्धिर्मास्तु, विभावादीनां काव्यनिबन्धनादलौकिकत्वे सति तेभ्योऽलौकिकरसोत्पत्तिः सामाजिकानामनुभवसिद्धैवेति दुरपलप एवालौकिकयोः कार्यकारणभाव इति भावः। रसस्यालौकिकत्वमुपपादयिष्यते। विभावनादिपदव्यु- त्पत्तिलभ्यमेव विभावनादिस्वरूपमाह-तत्रेति। विशेषेणेति विभावनपद्घटितस्य विशब्दस्यार्थः । अतिशयेनेति तदर्थः । अङ्गुरणमङ्गुरसदृशीभवन सूक्ष्मरूपेणाविर्भावः। एवं च रत्यादेः सूक्ष्माखादरूपेण य आविर्भावस्तच्छक्तिप्रापणमिति समुदितार्थः ।
१. 'प्रथमतः' क ख-पुस्तकयोर्नास्ति. २. 'नन्वित्युपोद्धातो' ग-पुस्तके नास्ति, ३. 'तथापि' क- पुस्तके नास्ति. ४. 'आदि-' इत्यादिः 'रणे' इत्यन्तः पाठो ग-पुस्तके नास्ति. ५. 'तस्य' ग-पुस्तके नास्ति. ६. 'परिपोषणमित्यर्थः' इत्यधिकं ग-पुस्तके. ७. 'अनुभवं' पुस्तकान्तरे. ८ 'दष्टचरणत्वात' पुस्तकान्तरे.
Page 129
८२ साहित्यदर्पणे
विभावादीनां यथासंख्यं कारणकार्यसहकारित्वे कथं त्रयाणामेवे रसोद्वोधे कारणत्वमित्युच्यते- कार्यकारणसंचारिरूपा अपि हि लोकतः॥ १४ ॥ रसोद्ोधे विभावाद्याः कारणान्येव ते मताः।
प्राह्य्थचौरादिक 'भू' धातुना विभावनपदसिद्धिरवधेया। एवंभूतस्य सूक्ष्माखादरूपेणा- विर्भूतस्य समनन्तरमिति अनुभावनपद्घटितस्यानुशव्दस्यार्थः। रसादिरूपतया शङ्गा- रादिरूपतया। यद्वा रत्यादेरित्यादिपदेन देवादिविषयरत्यादीनामपि परिग्रहः। रसादी- त्यादिपदेन भावादिपरिग्रहः । एतेन भावादीनामपि विभावादिजन्यत्वमुक्तं भवति। भावनमुत्पादनम्। सूक्ष्मास्वाद रूपेणाविर्भूतस्यापि तस्य रसव्यपदेशो नास्ति, किं त्वनुभा- वपरिपुष्टस्यैव। नत्वङ्कुरे वृक्ष इति व्यपदेशः, किंतु काण्डपल्लवोद्रम एव। तथाभूतस्य रसादिरूपेणोत्पन्नस्य तस्य रत्यादेः सम्यगर्थे चारणमास्वादपात्रीकरणम्। व्यभिचारि- भावेनात्यन्तपरिपुष्टस्यैव रत्यादेरत्यन्ताखादनमिति भावः। एवं चासादपरिपोषाति- परिपोषजनकत्वेनैवानुभावसंचारिभावयोराखादजनकत्वमिति भावः । विभावाः कार- णानि। अनुभावाः कार्याः(र्याणि)। संचारिणः सहकारिण इति क्रमः। ननु सहकारिपदं कारणविशेषपरं कथं रत्यादेः कार्यविशेषाणां निर्वेदादिसंचारिभावानां सहकारित्वमुपप- दयते। उच्यते-साधनस्यानुमानवादिमते सकारणानुमितौ मनसः सहकारितया लोके तथाव्यपदेशात्। ननु तथापि निर्वेदादीनां रत्यादिकार्यत्वे नानुभावत्वमेव युज्यते कथं संचारित्वमिति चेत्, न । तेषां व्यापारवैलक्षण्येन फलवैलक्षण्याद्यप- देशवैलक्षण्यस्योचितत्वात्। संचारिरूपाः सहकारिरूपाः। लोकतः लोके कारणान्येव। इति निरुक्तव्यापारत्रयबलाद्रत्यादेरास्वादरूपत्वेनोत्पादनादिति भावः। ननु 'विभा- वानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति मुनिवचनाद्विभावादीनां समुदिता- नामेव कारणत्वं वाच्यम्। तथा सति कारणान्येवेति बहुवचनमनुपपन्नम्। ताद- शस्थले एकवचनस्यैव युक्तत्वात्, तृणारणिमणिन्यायेन प्रत्येकं कारणताप्रत्ययप्रस- झ्ाच। अत एव काव्यप्रकाशे-'शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात्। काव्यज्ञ- शिक्षयाभ्यास इति हेतुस्तदुद्भवे ।I' इत्यत्र 'त्रयः समुदिता हेतुन तु हेतवः' इत्युक्तम्। उच्यते-कारणपदस्यैकधर्मावच्छिन्नकार्यतानिरूपितकारणतापरत्वे ह्वेकवचनम् । कारणतामात्रपरत्वे तु तादशस्थलेऽपि बहुवचनं साधु। प्रकृते रत्यादेः कार्यभूतयो- रप्यनुभावव्यभिचारिभावयो रसरूपतोत्पत्तौ कारणत्वमिति कारणतामात्रे तात्पर्यम्, न तु तादशकारणतायाम्। काव्यप्रकाशनिर्वचनस्य तु कार्यकारणभावग्राहकतया कार्यतावच्छेदकेऽपि तात्पर्यमिति। रसं प्रति विभावादीनां व्यज्ञनाजन्यैकज्ञानवि-
१. 'ननु विभावादीनां प्रत्येकं कारणकार्यसहकारिरूपाणं रसं प्रति करथं कारणत्वनित्युच्यते' ग. २. 'अपि' ख. ३. 'कारणकार्य' ख; 'कारणं' घ.
Page 130
तृतीयः परिच्छेदः । ८३
नेनु तर्हि कथ रसाखादे तेषामेकः प्रतिभास इत्युच्यते- प्रतीयमान: प्रथमं प्रत्येकं हेतुरुच्यते ॥ १५॥ ततः संमिलितः सर्वो विभावादिः सचेतसाम्। प्रपाणकरसन्यायाच्चर्व्यमाणो रसो भवेत् ॥ १६ ॥ यथा खण्डमरिचादीनां संमेलनादपूर्व इव कश्चिदाखाद: प्रपाण- करसे संजायते। विभावादिसंमेलनादिहापि तथेत्यर्थः । ननु यैदि विभावानुभावव्यभिचारिभिर्मिलितैरेव रसस्तत्कथं तेषा- मेकस्य द्वयोरवा सद्भावेऽपि से स्यादित्युच्यते- स्भावश्रेद्विभावादेई्वयोरेकस्य वा भवेत्। झटित्यन्यसमाक्षेपे तथा दोषो न विद्यते। १७॥ अन्यसमाक्षेपश्च प्रकरणादिवशात्।
पयत्वे सत्येव कारणत्वमुपपादयितुमाह-ननु तहीति। तेषां कारणीभूतवि- भावादीनामेकप्रतिभास एकरसस्वरूपतया परिणामः । विभिन्नकारणानां विभिन्न- कार्यतया परिणामस्यैवौचित्यादिति भावः। विभावादेरतीतस्यापि रसाखादकारणत्व- कथनें तज्ज्ञानाभिप्रायेणेति ध्येयम्। प्रतीयमानः प्रत्येकमिति। प्रत्येकं विभा- वादौ साधारण्यप्रतीतिरित्यभिप्रायेणेदम्। नत्वन्तरा प्रत्येकं प्रतीत्यनन्तरं कल्पनीयं प्रमाणाभावात्। ततः प्रत्येकप्रत्ययानन्तरं संवलितः व्यञ्जनया विशिष्टवैशिष््यावगा- ह्येकज्ञानरूपतां प्राप्तः। प्रपाणकरसन्यायात् प्रपाणकद्रव इव चर्व्यमाणः । स्वाभि- न्नाह्लादमयचर्वणविषयः प्रपाणकः । पक्षे विलक्षणरसवत्तयोपलभ्यमानो रसश्चि- दात्मकः पदार्थः । उपमानोपमेययोश्वर्व्यमाणत्वमुपपादयति-यथेति। खण्डमरि- चादीनामित्यादिपदेनामिक्षाकर्पूरयोरग्रहणम्। यथा खण्डादिचतुष्टयमेलकाजायमाने प्रपाणकद्रवे माधुर्यादिविलक्षणो विशिष्य निर्देष्ठुमशक्य आस्वादो रसाख्यगुण- विशेष इव विभावादिचतुष्टयमेलकात्तथा जायमाने शरङ्गारादिरसेऽप्याह्वाद: संजायत इत्यन्वयः । 'देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः। आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥' इत्यादाविव सप्तम्यन्तप्रथमान्तपदार्थयोरुपमाद्यमुपस्था- पयतोर्यथेवशव्दयोर्न पौनरुत्त्यम्। अत एव रसास्वादपदयोः श्िष्टत्वादुपमानो- पमेयभावः । स स्यात् रसः स्यात्। समाक्षेपे व्यञ्नया बोधे सति। दोषो रसानुप-
१. नन्वित्यतः प्राक् 'तदुक्तं ध्वनिकृता-'विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः। आनीयमानः न्वाद्यत्वं स्थायीभावो रसः स्मृतः ।I'इत्यधिकं ग-पुस्तके. २. 'प्रतीयते' ग. १. 'यदि' ग-पुस्तके नास्ति ४. 'रसः' क-ख.
Page 131
८8 साहित्यदर्पणे
यथा
'दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः संक्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव । मध्यः पाणिमितो नितम्बि जघनं पादावुदग्राङ्गुली छन्दो नर्तयितुर्यथैव मनसः सृष्ट तथास्या वपुः ॥' अत्र मालविकामभिलषतोऽनिमित्रस्य मालविकारूपविभावमात्रव- र्णनेऽपि संचारिणामौत्सुक्यादीनामनुभावानां च नयनविस्फारादीना- मौचित्यादेवाक्षेपः । एवमन्याक्षेपेऽप्यूह्यम्। अनुकार्यगतो रस इति वदतः प्रत्याह- पारिमित्यालौकिकत्वात्सान्तरायतया तथा। अनुकार्यस्य रत्यादेस्तद्वोधो न रसो भवेत् ॥ १८ ॥
पत्तिः। प्रकरणादिवशात् प्रस्तावादिवैशिष्यात्। दीर्घाक्षमिति। बाहू नताविति स्त्रीणां नतस्कन्वत्वं प्रशस्तमिति भावः । संक्षिप्तमविस्तीर्णम्। स्त्रीणामविस्तीर्णवक्षस्त्वं गुण इति भावः । प्रमृष्टे लिप्े। पार्श्वास्थामलक्ष्यत्वादियमुत्प्रेक्षा। छन्दोऽभिप्रायः। मनसो नर्तयितुश्चपलीकर्तुः कामस्य। अस्या मालविकायाः। औचित्याद् वाच्यस्य विभा- वस्य वैशिष्यात्। एवमिति। अन्याक्षेपे विभावाक्षेपे। यथा-'परिमृदितमृणाली न्लानमङं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु। कलयति च हिमांशोर्निष्क- लङ्डस्य लक्ष्मीमभिनवकरिदन्तच्छेदकान्तः कपोलः ॥' अन्न विप्रलम्भशङ्गारस्यानु- भावमात्रस्याङ्गासौष्ठवादेः सत्त्वम्। तदालम्बनविभावस्य, तच्चेष्टादेरुद्दीपनविभावस्य, व्यभिचारिभावस्य विषादादेश्वाक्षेपेण लाभः । अनुकार्यो नायकः। पारिमित्या- न्नायकमान्नगतत्वेनाल्पत्वात् । रसस्य तु नानासामाजिकगतत्वेन तदसंभवादिति भावः। अलौकिकत्वादिति। रसस्यालौकिकत्वमलौकिकविभावादिजन्यत्वाद्वक्ष्य- माणप्रकारेण चावगन्तव्यम्। सान्तरायतया नाव्यकाव्यदर्शनश्रवणप्रतिकूलतया। तस्मात्पारिमित्यादित्रयसंबन्धात्। पारिमित्यादीनां रसभेदव्याप्यत्वमुपपादयति-
- चदत इति। भट्टलोल्लटादीन् ॥
१. ग पुस्तके तु 'वियदलिमलिनाम्वुगर्भमेघं मधुकरकोकि लकूजितैर्दिशां श्रीः। धरणिरभिनवाङ्गुरा- करङा प्रणतिपरे दयिते प्रसीद मुग्धे ।' आलम्वनोददोपन विभावमात्रवर्णनेऽपि प्रसीदेति पदसामर्थ्या- त्कटाक्षविक्षेपभुजाक्षेपादीनामनुभावादीनां मुग्धे इत्यतो गर्वामर्षासूयदीनां च व्यभिचारिणामौचित्या देवाक्षेपः ।' इत्युदाहरणं वर्तते. २. 'अत्र संभोगशङ्गारालम्वनविभावस्य नायकस्य तच्नेष्टादेरुद्दीपन- विभावस्य चाक्षेपेण लाभः' इति पुस्तकद्ये पाठान्तरम्.
Page 132
तृतीय: परिच्छेदः । ८५
सीतादिदर्शनादिजो रामादिरत्याद्युद्वोधो हि परिमितो लौकिको नाट्यकाव्यदर्शनादेः सान्तरायश्च, तैस्मात्कथं रसरूपतामियात्। रसस्यैतद्धर्मत्रितय विलक्षणधर्मकत्वात्। अनुकर्तृगतत्वं चास्य निरस्यति- शिक्षाभ्यासादिमात्रेण राघवादेः सरूपताम्। दर्शयन्नर्तको नैव रसस्यास्वादको भवेत् ॥ १९ ॥ किं च । काव्यार्थभावनेनायमपि सभ्यपदास्पदम्। यदि पुनर्नटोऽपि काव्यार्थभावनया रामादिखरूपतामात्मनो दर्शये- तदा सोऽपि सभ्यमध्य एव गण्यते। नायं ज्ञाप्य: खसत्तायां प्रतीत्यव्यभिचारतः॥२० ॥। यो हि ज्ञाप्यो घटादिः स सन्नपि कदाचिदज्ञातो भवति न ह्ययं तथा प्रतीतिमन्तरेणाभावात्। रसस्येति। एतदिति पारिमित्यादीत्यर्थः । विलक्षणत्वं च तदभावव्याप्यत्वमेव। एवं च यद्धर्माभावव्याप्यो यदत्तिधर्मस्तद्धमस्तन्भ्ेदव्याप्य इति नियमः संपद्यते। यथा-पटवृत्तिधर्मः पटत्वं घटतरूपधर्माभावव्याप्यो भवति, घटलधर्मोऽपि पटभेद- व्याप्यो भवति। यथाश्रुतं तु न सम्यक्। तथाहि-यद्धर्मो यद्त्तिधर्मभिन्नस्तद्धम- स्तद्भेदव्याप्य इति नियमो नोपपद्यते। घटतं घटवृत्तिधर्मान्तरविलक्षणं न तु घटभेदव्याप्यमिति व्यभिचारात्। यदि तु यद्दत्तितावच्छिन्नप्रतियोगिताको भेदो विवक्ष्यते तदा नायं दोष इत्यवधेयम् । (अनुकर्तृगतत्वं नटवृत्तितमस्य रसस्य। गुरुतो ग्रहणं शिक्षा। शिक्षितार्थस्य मुहुरनुष्ठानेन संस्कारातिशयोऽभ्यासः । मात्रपदेन काव्यार्थभावनाव्यवच्छेदः । अयमपि नर्तकोऽपि सभ्यपदास्पदं सभ्य- पदवाच्यः। रसस्य स्वप्रकाशत्वं पर्यवसाययितुं ज्ञानान्तरग्राह्यत्वं निरस्यति- नायमिति। अयं रसो ज्ञाप्यो जन्यज्ञानविषयः, रसस्य जन्यताभावो निरूपयिष्यते, नातो बाधः । ईश्वरज्ञानविषयत्वस्य केवलान्वयितया साध्याप्रसिद्धिरतो जन्येति। खसत्तायां स्वावस्थाने। षध्यर्थे सप्तमी। प्रतीतिं विना स्वावस्थानस्याभावादि- त्यर्थः । अत्र साध्यसाधनयोः पक्षमान्नवत्तित्वेनान्वयदृष्टान्ताभावादन्वयव्याप्ति- ग्रहो न संभवतीति व्यतिरेकव्याप्तिग्रहोपायं व्यतिरेकद्ृष्टान्तमाह-यो हीति। 1. अन्विति। न्यायरीत्या भरतसूत्रं योजयतां श्रीशङ्ककादीनां मते रसस्यानुकर्तृग- तत्वम्। १. 'अनुकार्यो रामादि, तद्गतो रत्यादिना परिमितः, न भळौकिकश्च, कालान्तरभूतत्वात्सान्तरश्च। स कथमपरिमितालौकिकानुभूयमानो रसतां गच्छेत्।' इति पाठान्तरं ग-पुस्तके. २. 'दितः' ख. ३. 'तत्' ख. सा० द० ८
Page 133
८६ साहित्यदर्पणे
यस्मादेष विभावादिसमूहालम्बनात्मकः । तसमान्न कार्यः यदि रसः कार्यः स्यात्तदा विभावादिज्ञानकारणक एव स्यात्। ततश्च रसप्रतीतिकाले विभावादयो न प्रतीयेरन्। कारणज्ञानतत्का- र्यज्ञानादीनां युगपददर्शनात्। नहि चन्दनस्पर्शज्ञानं तज्जन्यसुखज्ञानं चैकदा संभवति। रसस्य च विभावादिसमूहालम्बनात्मकतयैव प्रतीतेर्न विभावादिज्ञानकारणकत्वमित्यभिप्रायः ।
अत्र वीप्सा वेदितव्या। सन्नपि अवस्थितोऽपि। कदाचित् ज्ञानसामय्यभावदशा- याम्। तथा च यो यो ज्ञाप्यः स प्रतीति विना कदाचिदवतिष्ठते यथा घटादि- रित्यभिप्रायः । अन्र ज्ञानाभावकालीनावस्थानाभाव एव हेतुः पर्यवसन्नः । ज्ञानं चात्र स्वविषयकमीश्वरज्ञानातिरिक्तमवगन्तव्यम् । नातो हेत्प्रसिद्धिः । ज्ञाप्यत्वाभावस्य साध्यस्य व्यतिरेको ज्ञाप्यतवमेव निरुक्तहेतुव्यतिरेकश्च ज्ञानाभाव- कालीनावस्थानं तयो: सहचारग्रहेण साधने साध्यव्याप्ति ग्हयित्वा पक्षधर्मत्वं ग्रह्यति-न ह्ययमिति । अयं रसः । तथा सन्नपि न कदाचिदज्ञातः । तत्रापि हेतुमाह-प्रतीतिमिति। अन्तरेण विना। रसस्य कार्यसुखज्ञानान्तरवैलक्ष- ण्यात्कार्यत्वाभावं साधयति-यस्मादिति। एष रसः विभावादिसमूहालम्बना- त्मकः यथासंभवविशेषणविशेष्यभावापन्नविभावादिसमूहविषयकः । 'रसः कार्य- त्वाभाववान् सुखमयत्वे सति विभावादिसमूहविषयकत्वात्' इत्यनुमानम्। रसस- मानाकारे व्यञ्ञनाजन्यज्ञाने व्यभिचारवारणाय सत्यन्तं हेतुविशेषणम्। बाधो- त्सारकं तर्कमाह-यदीति। रसप्रादुर्भावप्रावक्षणे विभावादिज्ञानस्यैव संभ- वात्तत्कारणकत्वमेवोपपद्यत इत्येवकारेण। ननु कार्यत्ववति घटादौ विभावादि- ज्ञानकारणकत्वं नास्तीति मूलशैथिल्यमिति चेतू, न। विभावादिविशिष्टवैशिष्ट्या- वगाहिज्ञानत्वसमानाधिकरणकार्यत्वस्यापाद्यस्य विवक्षणीयत्वाद् रससमानाकारे व्यञ्ञ नाजन्यज्ञानादावापाद्यापादकयोर्व्याप्तिग्रहः । अत्रेष्टापत्तौ दोषमाह-ततश्चेति। रसस्य विभावादिज्ञानकारणकत्वाङ्गीकाराच्चेत्यर्थः । रसप्रतीतिकाले रसप्रतीतौ न प्रतीयेरन् न विषया: स्युः। ज्ञानेति। ज्ञायमानकारणज्ञायमानतज्जन्यसुखयोर्युंग- पद्दर्शनात् एकसंविद्विषयत्वादर्शनात् । एतदेव दृष्टान्तेनोपपादयति-नहीति। चन्दनस्पर्शतज्जन्यसुखं चैकज्ञानविषयो न भवतीत्यर्थः। आपत्तेरनुगुणं बाधं दर्शयति- रसस्य चेति । आनन्दरूपस्य विभावादिसमूहालम्बनात्मकप्नतीतिरूपस्येत्यर्थः । एवं च विभावादिज्ञानकारणकत्वरूपस्यापाद्यस्याभावे सिद्धे तेनैव कार्यत्वरूपविशेष्या- भावकृतो निरुक्तापादकस्य विशिष्टाभावः सिध्यतीति भावः। तदुक्तं काव्यप्रका- शटीकाकृता चण्डीदासेन-'कार्य सुखं स्वकारणैः सह नैकस्यां संविदवभासमानं दृष्टम्। एतच्च सुखं विभावादिसंवलितं भासते, तस्मान्न कार्यम्' इति। एवं च वि- भावादिज्ञानस्य रसं प्रति यत्कारणत्वमुक्तं तत्पूर्ववर्तितमात्रेणौपचारिकमिति ध्येयम्।
Page 134
तृतीयः परिच्छेदः । ८७
नो नित्यः पूर्वसंवेदनोज्झितः। असंवेदनकाले हि न भावोऽप्यस् विद्यते॥२१॥ न खलु नित्यवस्तुनोऽसंवेदनकालेऽसंभवः । नापि भविष्यन्साक्षादानन्दामयप्रकाशरूपत्वात्। कार्यज्ञाप्यविलक्षणभावान्नो वर्तमानोडपि ॥ २२॥ विभावादिपसमर्शविषयत्वात्सचेतसाम्। परानन्द्मयत्वेन संवेद्यत्वादपि स्फुटम् ॥ २३॥ न निर्विकल्पकं ज्ञानं तस्य ग्राहकमिष्यते।
रसस्य नित्यलाभावमप्युपपादयति-नो नित्य इति। एष इत्यनुषज्यते। पूर्वसंवे- दनं विभावादिज्ञानात् प्राग्ज्ञानं तद्रहित इत्यर्थः । यदि रसो नित्यः स्यात्तदा विभावादिज्ञानात्प्रागपि ज्ञायेतेति बाधोत्सारकस्तकः । ननु विभावादिज्ञानं तद्ां- हकमिति प्राकाले कथं रसः प्रतीयेतेत्यतो दोषान्तरमाह-असंवेदनेति । अस्य रसस्य संवेदनशरीरलादसंवेदनकाले सुतरामसंभव इति भावः। साध्यसाधन- योर्व्याप्तिग्राहकं साध्याभावसाधनाभावयोः सहचारं दर्शयति-न खल्विति। रसस्य भविष्यत्त्वाभावं साधयति-नापीति। एष इत्यनुषज्यते। साक्षादिति। साक्षात्कारविषयानन्दबहुलप्रकाशरूपत्वादित्यर्थः । लौकिकप्रत्यक्षे विषयस्य कारण- लाङ्गीकारेण भविष्यतस्तदसंभवादिति भावः । रसस्य वर्तमानत्वाभावमपि साध- यति-ज्ञाप्येति । ज्ञाप्यकार्येति प्रामादिकः पाठ आर्याघटकगणभङ्गप्रसङ्गात्। कार्यज्ञाप्येत्येव पाठः सम्यक्। एवं वर्तमान इत्यत्र नशब्दः प्रामादिकः, नोशब्दः सम्यक्। वर्तमानस्य वस्तुनः कार्यज्ञाप्यान्यतरत्वनियमादिति भावः। रसग्रहस्य निर्विकल्पकज्ञानस्वरूपत्वाभावं साधयति-विभावादीति। परामर्शोऽत्र विशिष्ट- वैशिष्यावगाही ग्रहः । तद्विषयत्वात्तन्मात्रविषयत्वात्। परानन्देति । पर- मानन्दत्वप्रकारकसंवेदनविषयत्वादित्यर्थः । निर्विकल्पकं संसर्गानवगाहि। भासमान- 1. नेति। नामरूपजात्यादिशून्यं निर्विकल्पकम्। तद्युक्त सविकल्पकम्, तत्र रसः केन गृह्यत इत्याशङ्क्य नान्यतरेण गृह्यत इति व्यवस्थापितम् ।। १. आर्येयं मुद्रितपुस्तकेषु पदच्छेदवैलक्षण्येन गद्यरूपतां नीता. २. 'पूर्वेति। संवेदनात्पूर्व प्राग्वृत्ति पूर्वसंवेदनं धर्मपरनिर्दशात्म्राग्वृत्तित्वमस्त्ेव । रसस्य तद्विलक्षणैतद्धर्मयोगित्वान्नित्यत्वाभाव्ः सिध्यतीति भावः। ननु स्वप्राग्वृत्ति यत्संवेदनं तद्रहित इत्यर्थः । रसस्योत्पत्तेः म्रागनुनित्या- दिसंभवे स्वप्राग्वृत्तिसंवेदनविषयत्वाभावस्य हेतो स्वरूपासिद्धेः, नित्यानां प्राक्कालासंभवेन निरु- क्तहेतोस्तत्र, सन्भावादव्यभिचाराच्च। नापि पूर्वमतीतं यत्सवेदनं तद्वियत्वाभावो हेतू रससंवेदनस्यापि। अतीतत्वसंभवेनातीतत्वसंवेदनविषयत्वस्य केवलान्वयितया तस्याप्रसिद्धिः। ननु रसस्य नाशोत्तरमप्युप- नीतमानादिसंभवात्संवेदनप्राग्वृत्तित्वाभावस्य हेतोः स्वरूपासिद्धत्वमत आह-असवेदनेति ।' इति पुस्तकान्तरे.
Page 135
८८ साहित्यदर्पणे
तथाभिलापसंसर्गयोग्यत्वविरहान च ॥। २४ ॥ सविकल्पकसंवेद्यः सविकल्पकज्ञानसंवेद्यानां हि वचनप्रयोगयोग्यता। न तु रसस्य तथा। साक्षात्कारतया न च। परोक्षस्तत्प्रकाशो नापरोक्षः शब्दसंभवात्॥ २५॥ तत्कथय कीद्ृगस्य तत्त्वमश्रुताद्ृष्टपूर्वनिरूपणप्रकारस्येत्याह- तस्मादलौकिक: सत्यं वेद्यः सहृदयैरयम्। तत्क पुनः प्रमाणं तस्य सद्भाव इत्याह- प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम् ॥ २६॥ संसर्गप्रतियोगित्वरूपप्रकारत्वस्यापि संसर्गग्रहमन्तरेणासंभवादिति भावः । तस्य रसस्य ग्राहकं विषयतानिरूपकम्। रसग्रहो निर्विकल्पस्वरूप इत्यर्थः । विभावादिनिष्ठप्रकार- ताया: परमानन्दत्वनिष्ठप्रकारतायाश्च निरूपकस्य रसग्रहस्य निष्प्रकारात्मकनिर्विकल्प- कसवरूपत्ं न संभवतीति भावः । एतेन खमात्रग्राह्यस्य रसस्य निर्विकल्पकज्ञानरूप- लमपि न सिध्यतीति ध्येयम्। रसग्रहस्य सविकल्पकज्ञानस्वरूपत्वाभावमपि साध- यति-तथेति। अभिलापो वचनं तस्य संसर्ग: प्रयोगः। तद्योग्यत्वाभावादित्यर्थः। स रसः सविकल्पकसंवेद्यः संसर्गावगाहिज्ञानविषयः । प्रागुक्तहेतुद्वयासंगतेरस्य सविकल्पकज्ञानविषयत्वमस्त्येव। किंतु सविकल्पकवेद्यान्तरादस्य वैलक्षण्यसाधने तात्पर्ये वेदितव्यम्। खवप्रकाशकत्वेनापि ज्ञानान्तरत्राह्यात्सविकल्पकादस्य वैलक्षण्यं बोध्यम्। गुरुनये तु-सविकल्पकज्ञानानां स्वेनैव ग्रह इति नैतद्वैलक्षण्यम्। साक्षा- त्कारतयेति । सवादनाख्यव्यापारस्य मनःसंनिकर्षताङ्गीकारेण तज्जन्यतादिति भावः । परोक्षः प्रत्यक्षविलक्षणः । तत्प्रकाशो रसग्रहो नापरोक्षः नापि प्रत्यक्षरूपः । शब्दसंभवात् काव्यजन्यविभावादिज्ञानजन्यत्वनियमात्। अनेन प्रत्यक्षान्तरवैल- क्षण्यमेव साधितं न तु प्रत्यक्षभिन्नत्वम् । प्रागुक्तविरोधात्। अस्य रसस्य तत्त्वं याथार्थ्यम्। अश्रुतोऽदष्टपूर्वश्च निरूपणप्रकार इतरभेदानुमापको धर्मः स्वभावो यस्य तस्येत्यर्थः। तस्मादुपदर्शितलौकिकज्ञानानन्दवैलक्षण्यात्। सत्य- मित्येवकारारथे। अलौकिक एवेत्यर्थः । अन्यत्राश्रवणदर्शनं चालौकिकवस्तुसिद्धौ गुण एव न तु दोष इति भावः । तदुक्त्तम्-'अलौकिकसिद्धेर्भूषणमेव न तु दूषणम्' इति। विदुषां चर्वणेत्यन्वयः । अत्र रसे साभिन्ने चर्वणास्वरूपे। तदुक्तम्- 1. तथेति। तथेत्यादि सविकल्पकसंवेद्य इत्यनेनान्वेति। आस्वादे ज्ञानान्तरासंभवाद्र- समात्रविषयिण्यां चर्वणायां नामरूपाद्युललखाभावाच्च न सविकल्पकत्वपक्षोऽपि संभवतीति तात्पर्यम्।। १. 'सविकल्पक-' इत्यादि फक्किका ग-पुस्तके नास्ति. २. 'रस' इत्यादिः '-ध्येयम्।' इत्यन्तः पाठः पुस्तकान्तरे न दृश्यते.
Page 136
तृतीय: परिच्छेदः । ८९
चर्वणा आसवादनम्। तच्च 'सादः काव्यार्थसंमेदादात्मानन्दसमु- दव:' इत्युक्तपकारम्। ननु यदि रसो न कार्यस्तत्कर्थ महर्षिणा 'विभावानुभावव्यभिचारि- संयोगाद्रसनिष्पत्तिः' इति लक्षणं कृतमित्युच्यते- निष्पन्या चर्वणस्यास्य निष्पत्तिरूपचारतः । यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वं तथापि तस्य कादाचि- त्कतया उपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते। अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे॥२७॥ तैस्य रसस्य। आदिशब्दादलक्ष्यत्वादि। नेनु यदि मिलिता रत्यादयो रसास्तत्कथमस्य खप्रकाशत्वं कथं चाखण्डत्वमित्याह- रत्यादिज्ञानतादात्म्यादेव यस्माद्रसो भवेत्। ततोऽस्य सप्रकाशत्वमखण्डत्वं च सिध्यति ॥ २८॥ यैदि रत्यादिकं प्रकाशशरीरादतिरिक्तं स्यात्तदैवास्य सवप्रकाशत्वं न
'चर्वणैव भगवती स्वसंवित्सस्वरूपादभिन्ने तस्मिन्प्रमाणम्' इति। ननु यदीति। अस्या विप्रतिपत्तेः 'तस्मान्न कार्यः' इत्यनन्तरमेवोत्थापयितुमौचित्येऽपि सिद्धान्तस्य चर्वणाग्रहसाव्यत्वाच्चर्वणानिरूपणानन्तरमेवोत्थापनमुचितमेव । महर्षिणा भरतेन। अस्य रसस्योपचारतः साश्रयग्राह्यत्वसंबन्धेन। प्रतीयत इति शेषः । तस्य चर्वणस्य कादाचित्कतया आविर्भावतिरोभाववशेन कदाचिद्भवतया। अत्राभेदे(न) तृतीया। उपचरितेन लक्षणया प्रतीतेन कार्यत्वेन कार्यसादृश्येन हेतुना कार्यत्वं कार्यसादृश्यमुपचर्यते निरुक्तपरम्परासंबन्धेन प्रयुज्यते। अवाच्यत्वमनभिघेयत्वम्। व्यञ्जनानिरूपणे व्यञ्ञनायाः प्रामाण्यनिरूपणे पश्चमपरिच्छेदे। अलक्ष्यत्वादीत्यादिना तात्पर्यत्वग्रहः । रसस्य स्वप्रकाशत्वमखण्डत्वं चोपपादयति-ननु यदीति। स्वप्रकाशत्वं स्वसरूपज्ञानविषयत्वं रत्यादीनां तदसंभवादिति भावः । अखण्डत्वमेक- रूपत्वं परिणामवादिमते। सिद्धान्तमाह-रत्यादिरिति। अस्य रसस्य न तथा प्रकाशशरीरादतिरिक्तत्वम्। ननु रसस्य खप्रकाशचिन्मयत्वाङ्गीकारेण तद्राहकस्य चर्वणस्यापि तद्रूपत्वमुपपन्नम् । एवं च 'निष्पत्त्या चर्वणस्यास्य निष्पत्तिरुपचारतः' 1. विभावेति। सूत्रे 'विभावादिसंयोगात्' इति पञ्चम्या विभावादीनां हेतुत्वमुक्तम्। तच्च कारकत्वं ज्ञापकत्वं वा स्यादिति शङ्कोद्भावनम् । १. 'तस्य-' इत्यादि '-दि' इत्यन्तं ग-पुस्तके नास्नि. २. नन्वित्याद्युपोद्वातः ग-पुस्तके न दृश्यते. ३. 'यदि-' इत्यादिः '-उपेया इति च' इत्यन्तः पाठो ग-पुस्तके नास्ति.
Page 137
९० साहित्यदर्पणे
सिध्येत्। न च तथा। तादात्म्याङ्गीकारात्। यदुक्तम्-'यद्यपि रसानन्यतया चर्वणापि न कार्या तथापि कादाचित्कतया कार्यत्वमुप- कल्प्य तदेकात्मन्यनादिवासनापरिणतिरूपे रत्यादिभावेऽपि व्यवहार इति भाव:' इति ॥ सुखादितादात्म्याङ्गीकारे चास्माकीं सिद्धान्तशय्या- मधिशय्य दिव्यं वर्षसहस्रं प्रमोदनिद्रामुपेया इति चे। 'अभिन्नोऽपि स प्रमात्रा वासनोपनीतरत्यादितादात्म्येन गोचरीकृतः' इति च। ज्ञानस्य सप्रकाशत्वमनङ्गीकुर्वतामुपरि वेदान्तिभिरेव पातनीयो दण्डः । तादा- त्म्यादेवास्याखण्डत्वम्।
इति यदुक्तं तदसंगतमित्यत आह-यद्यपीति। उपकल्प्य लक्षणया व्यवहृत्य। तदेकात्मनि चर्वणास्वरूपे। अनादीति । सामाजिकानां प्राक्तनी या वासना तस्याः परिणतिरूपे। आविर्भूतज्ञानरूपे रसे इत्यर्थः । एतेन रसस्याकार्यत्वमुपपादि- तम्। ननु चर्वणातोऽभिन्ने रसे लक्षणया साक्षादेव कार्यत्वं प्रतीयते कथ निरुक्तपरम्परया व्यवहर्तव्यमत आह-रत्यादीति। रत्यादिविषयावच्छेद इत्यर्थः । 'विभावादिसंयोगाद्रत्यादी रसो जायते' इत्यत्र रसे साक्षाद्रत्यादौ रसद्वारैव निष्पत्तिः प्रतीयत इति भावः । व्यवहारं निरुक्तपरम्परया प्रयुङ्क्ष्व। ननु परिणाम- वादिमते रत्यादेर्ज्ञानतादात्म्यं खप्रकाशत्वं चोपपद्यतां 'सवप्रकाशानन्दचिन्मयः' इत्यनेन रसस्यानन्दमयत्वं 'चमत्कारप्राणः' इत्यनेन चमत्कारमयत्वं चोक्त्तम्, तदसंगतं विजातीयानां चिदानन्दचमत्काराणामेकरूपत्वासंभवादत आह-सुखादीति। आदिना चमत्कारपरिग्रहः। आस्माकीमालंकारिकसंप्रदायसंबन्धिनीम् । 'तस्मा- 'दलौकिकः सत्यं वेद्यः सहृदयैरयम्' इति सिद्धान्त एव सुखसंपादकत्वेन शय्या तामधिशय्य अधिश्रित्य। दिव्यमिति । मनुष्याणां षध्यधिकत्रिशतसंख्यकवर्षे देवानामेकवत्सरो भवति। एवं वर्षसहसत्रं प्रमोद एव नेत्रनिमीलनादिकारित्वेन निद्रा तामुपेयाः प्राप्नहि। तथा चास्माकं सिद्धान्ताश्रयणेन चिरकालमपि चिन्तया वादिभिर्दोषोद्भावनं कर्तु न शक्यमिति भावः । रसस्य खप्रकाशत्वमुपसंहरति- अभिन्नोऽ्पीति । 'खस्मात्' इति शेषः । स रसः। प्रमान्ना इति भाव- प्रधानो निर्देशः । तेन चर्वणारूपप्रमयेत्यर्थः संपद्यते। वासनायामुपनीतो ज्ञान- प्रत्यासत्त्या अभेदेन प्रकारीकृतो यो रत्यादिस्तस्य तादात्म्येन विशिष्टः गोचरीकृतो विषयीकृतः। ननु ज्ञानस्यानुव्यवसायेनैव ग्रहो भवति कथं खप्रकाशत्वमिति वदतो नैयायिकानाक्षिपति-ज्ञानस्येति। उपरि मते दण्डो दोषः पातनीय उपन्यसनीयः। ज्ञानस्यानुव्यवसायेन तस्यापि ज्ञानान्तरेण ग्रह इत्यनवस्थारूपोऽत्र दोषो वेदितव्यः । रसस्याखण्डत्वेऽपि ज्ञानतादात्म्यमेव हेतुमनुषज्य दशयति-तादात्म्यादेवेति।
१. 'उत्तं हि' ख. २. 'च' क-पुस्तके नासि्ति, ३. 'तदुक्तं मुनिना' इति ग-पुस्तकेऽधिकम्.
Page 138
तृतीय: परिच्छेदः ।
रेत्यादयो हि प्रथममेकैकशः प्रतीयमानाः सर्वेऽप्येकीभूताः स्कुरन्त एव रसतामापद्यन्ते। तदुक्तम्- 'विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः । प्रतीयमाना: प्रथमं खण्डशो यान्त्यखण्डताम् ।।' इति। 'परमार्थतस्त्वखण्ड एवायं वेदान्तप्रसिद्धब्रह्मतत्त्ववद्वेदितव्यः' इति च। अथ के ते विभावानुभावव्यभिचारिण इत्यपेक्षायां विभावमाह- रत्याद्युद्धोधका लोके विभावा: काव्यनाव्ययोः । ये हि लोके रामादिगतरतिहासादीनामुद्वोधकारणानि सीतादयस्त एव काव्ये नाट्ये च निवेशिता: सन्तः विभाव्यन्ते आस्वादाङ्कुरप्रादुर्भा- चयोग्याः क्रियन्ते सामाजिकरत्यादिभावा एभिः इति विभावा उच्यन्ते। तदुक्तं भर्तृहरिणा- 'शब्दोपहितरूपांस्तान्वुद्धेर्विषयतां गतान्। प्रत्यक्षानिव कंसादीन्साधनत्वेन मन्यते ।।' तद्भेदाव्राह- आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ। स्पष्टम् । ज्ञानतादात्म्यादेवेत्यर्थः । अस्य रसस्य। ननु व्यस्तानां रत्यादिविभावादीनां कथमेक- रूपत्वमत आह-रत्याद्यो हीति। आदिना विभावादिपरिग्रहः। एतच्च शृङ्गार- रसे। वीरादौ तूत्साहादयो ज्ञेयाः। एकीभूता व्यञ्ञनाजन्यैकज्ञानविषयत्वेन एकरूपतं प्राप्ताः स्फुरन्तश्चिद्रूपत्वं प्राप्ुवन्तः। सात्त्विकानुभावयोर्गोबलीवर्दन्यायेन पृथगुपादानम्। खण्डशः प्रत्येकम्। ननु ज्ञानतादात्म्याङ्गीकारेSप्यखण्डत्वं न संभ- वति सुखचमत्काराभ्यामैक्यासंभवादत आह-परमार्थतस्त्विति। वस्तुतस्तिव- त्यर्थः । अलौकिकस्वभावादिति यावत्। अलौकिकमेव दृष्टान्तमाह-वेदान्तेति। ब्रह्ममीमांसा वेदान्तस्तत्र यथा चिदानन्दरूपोऽयं पुरुष इत्यनेन चिदानन्दयोरेक- ब्रह्मरूपत्वमुपपादितं तथा चिदानन्दचमत्काराणामेकरसरूपत्वमिति भावः। शब्दोप- हितरूपान्काव्यप्रकाशितस्वरूपान् । वुद्धेर्व्यञ्जनाजन्यबोधस्य। कंसादीनिति। वीररसाद्यालम्बनविभावाभिप्रायेण। साधनत्वेनेति विशेषणे तृतीया। मन्यते। १. 'रत्यादय :- ' इत्यादिः '-तदुक्तं' इत्यन्तः पाठो ग-पुस्तके नास्ति. २. इति 'रसनिरूपणम्' इत्य- घिकं ग-पुस्तके. ३ अथ-' इत्यादिः 'मन्यते ।' इति हरिकारिकान्तः पाठो ग-पुस्तके नास्तिरि' किंतु 'ननु विभावादि+यो रस इत्युक्तं के ते विभावाद्या इत्याह-वहवोर्डर्था विभाव्यनते वागङ्गाभिनया- त्मकाः। अनेन यसात्तेनायं विभाव इति कीर्तित ।।' इत्येव पाठोऽरित.
Page 139
९२ साहित्यदर्पणे
तत्र- आलम्बनो नायकादिस्तमालम्ब्य रसोद्मात्॥२९ ॥ आदिशब्दान्नायिकाप्रतिनायिकादयः । अन्र यस्य रसस्य यो विभावः स तत्स्रूपवर्णने वक्ष्यते। तत्र नायक :- त्यागी कृती कुलीन: सुश्रीको रूपयौवनोत्साही। दक्षोऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान्नेता॥ ३०॥ दक्षः क्षिप्रकारी। शीलं सद्वृत्तम्। ऐवमादिगुणसंपन्नो नेता नायको भवति। तद्भेदानाह- धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च। धीरप्रशान्त इत्ययमुक्त: ग्रथमश्चतुर्भेदः ॥३१॥ स्पष्टम्। तत्र धीरोदात्त :- अविकत्थनः क्षमावानतिगम्भीरो महासत्वः। स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥ ३२ ॥ अविकत्थनोऽनात्मश्लाघाकरः । मैहासत्त्वो हर्षशोकाद्यनभिभूत- स्वभावः । निगूढमानो विनयच्छन्नगर्वः । दृढव्रतोऽङ्गीकृतनिर्वाहकः। यथा-रामयुधिष्ठिरादिः । अथ धीरोद्धत :- मायापर: प्रचण्डश्वपलोऽहंकारदर्पभूयिष्ठः। आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः ॥३३ ॥ यथा-भीमसेनादिः।
सामाजिकः इति शेषः । तद्भेदौ विभावप्रकारौ। तस्य विभावस्य। नायका- दिरिति। नायको रतेर्नायक: आलम्बनं तं नायकादिमालम्व्य विषयीकृत्य। त्यागी दाता। कृती वीरः । कुलीनः सत्कुलोद्दवः । उत्साहः कर्मण्यध्यवसायः। रूपादित्र- यवान्। निगूढाभिप्रायज्ञत्वं वैदग्व्यम्। शीलं सदृत्तम्। नेता नायकः । तद्भेदानायक- प्रकारान्। अतिगम्भीरो दुरवबोधाभिप्रायः । स्थेयान् कर्मणि स्थिरतरः ।
१. 'कृती कृतज्ञः' इत्यधिकं ग-पुस्तके. २. 'एवम्-' इति फक्किका ग-पुस्तके नासि्ति. ३. महा सत्वपद्व्याख्या ग-पुस्तके नास्ति.
Page 140
तृतीय: परिच्छेदः । ९३
अथ धीरललित :- निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्ाद। केला नृत्यादिका। यथा-रत्नावल्यादौ वत्सराजादिः। अथ धीरप्रशान्त :- सामान्यगुणैर्भूयान्द्िजादिको धीरंशान्तः स्ाद्॥ ३४॥ यथा-मालतीमाधवादौ माधवादिः। एषां च शङ्गारादिरूपत्वे भेदानाह- एभिर्दक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा। तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोड- शप्रकारो नायकः । एषु त्वनेकमहिलासमरागो दक्षिण: कथितः ॥ ३५॥ द्वयोस्त्रिचतुःप्रभृतिषु नै।यिकासु तुल्यानुरागो दक्षिणनायकः । यथा- 'स्न्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसु- ्यूतै रात्रिरियं जिता कमलया देवी प्रसादयाद च। इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥' अहंकारः अहं महानिति ज्ञानविशेषः । दर्पः शौर्यवीर्याद्यतिशयः। मृदुरप्रचण्ड- चरितः । सामान्यगुणैरनायकसामान्यगुणैः । धीरोदात्तादित्नितयभिन्नो नायको धीरप्रशान्त इत्यभिप्रायः। एषां धीरोदात्तादीनाम्। षोडशेति । शङ्गारे षोडशप्रकारो नायको भवति रसान्तरे तु चतुष्प्रकार इत्यवधेयम्। स्न्नाता ऋतुस्नाता। वारः सुरतार्थ नियमितदिवसः। जिता जयेनात्मसुरतार्थ प्राप्ता। देवी कृताभिषेका राजपत्नी। देवेन राज्ञा। अप्रतिपत्त्या कर्तव्यानिश्चयेन मूढं व्याकुलम् 1. एभिरिति। दक्षिणधीरोदात्तः, दक्षिणधीरोद्धतः, दक्षिणधीरललितः, दक्षिणधीर- प्रशान्तः, एवं धृष्टादिपदयोजनेन षोडशप्रकारका नायका इत्यवधेयम्॥ 2. इतीति। इति अन्तःपुरसुन्दरीः प्रति विज्ञाय यस्या यद् वक्तव्यं तदवगम्य मया विज्ञापिते विविच्य निवेदिते सति। एतदुक्तं भवति-ऋतुस्त्ातैव तावदनुपेक्षणीया किमुत कुन्तलमहाराजतनया, साधारणोऽपि समयो दुर्लङ्गयः किमुताङ्गनाथस्वससमीहितन्या यागतसमागमसमयः, सामान्येऽपि जये परतब्रता किसुत कमलाललामकमलाप्रयुक्ते। एवमुत्तरोत्तराधिककार्यसंपातेऽपि महाराइ्याः प्रसादनं तावत्सवोंपरीति रहस्यम्॥ 3. नाडिका इति। अत्यन्तसंयोगे द्वितीया॥ १. ग-पुस्तके कलापदव्याख्या नास्ति. कपुस्तके तु 'कला रत्यादिका' इति पाठः २. 'धीरप्रशान्तः' घ. ३. 'महिलासु' घ. ४. 'नायिकासु' इति कं-पुस्तके नास्ति. ५. 'नायकः इति नास्ति ग-पुस्तके.
Page 141
९४ साहित्यदर्पणे
कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः । दृष्टदोषोऽपि मिथ्यावाक्कथितो धृष्टनायकः ॥ ३६ ॥ येथा मम- 'शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं, ततः पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि। किंचित्तत्र विधातुमक्षमतया वाष्पं सृजन्त्याः सखे ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः ॥' अनुकूल एकनिरत: एकस्यामेव नायिकायामासक्तोऽनुकूलनायकः । यथा- 'अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः । किंत्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टि निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम्ं ।।' शाठोऽयमेकत्र बद्धभावो यः । दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥ ३७॥ यै: पुनरेकस्यामेव नायिकायां बद्धभावो द्वयोरपि नायिकयोर्बहिर्द- र्शितानुरागोऽन्यस्यां नायिकायां गूढं विप्रियमाचरति स शठः ।
अप्राप्तिनिश्चयशून्यं वा मनो यस्य तेन। कृतागाः कृतापराधः। मिथ्यावाक् मयैतन्न कृतमित्ययथार्थवचनः । तं पादम्। अत्र प्रथमपादेन कारिकायाः प्रथमपादोक्तं द्वितीयपादेन द्वितीयपादोक्त्तं लक्षणं वेदितव्यम्। अस्माकमिति। कस्याश्चिन्नायिकाया उक्तिरियम्। ग्रैवेयकं कण्ठभूषणम्। वकरा चित्रा। उद्धतमुत्कटम्। सौभाग्ययौवनाद्यव- लेपजो विकारो मदः। नायकवशीकरणकारणं मम किमपि नास्ति। किंतु तथापि। अन्ये परकीयाः । अपिना सकीयाः। सुभगोऽपि नायिकान्तरप्रियोऽपि। यद्वा मनोज्ञो- पि। अन्यतो नायिकान्तरे। इयता मिथ्यावादेन दुःस्थितं दुष्टचित्त प्रतिकूलं वा। बद्ध- भावो निभृतानुरागः । दर्शितो भूषणदानादिसाम्येन प्रकटितो बहिः सुरतातिरिक्तेऽनु- १. ग-पुस्तके तु 'तस्याः सान्द्रविलंपनस्तनयुगप्रश्रपमुद्राङ्गितं किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते। इत्युक्ते क तदित्युदीर्य सहसा तत्संप्रमार्ट मया साश्रिष्टा रभसेन तत्सुखवशात्तन्व्या च तद्विस्मृतम् ॥I' इति परकीयमुदाहरणं दृश्यते. २. 'एकस्यां-' इति फकिका ग-पुस्तके नास्ति ३. 'पतिः' ग. ४. 'इत्यादि' इत्यधिकं क-पुस्तके. ५. 'य' इत्यादिफक्किका ग पुस्तके नास्ति! ६. 'बहि:' क-पुस्तके नास्ति
Page 142
तृतीय: परिच्छेदः । ९५
यथा- 'शठान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । तदेतत्काचक्षे घृतमधुमयत्वाद्वहुवचो विषेणाघूर्णन्ती किमपि न सखी मे गणयति ॥' ऐषां च त्रैविध्यार्दुत्तममध्याधमत्वेन। उक्ता नायकभेदाश्चत्वारिंशत्तथाष्टौ च।। ३८ ।। एषामुक्तषोडशभेदानाम्। अथ प्रसङ्गादेतेषां सहायानाह- दूरानुवर्तिनि स्यात्तस्य प्रासङ्गिकेतिवृत्ते तु। किंचित्तदुणहीनः सहाय एवास्य पीठमर्दारव्यः॥ ३९॥ तस्य नायकस्य बहुव्यापिनि प्रसङ्गसंगते इतिवृत्तेऽनन्तरोक्तैर्नायक- सामान्यगुणैः किंचिदूनः पीठमर्दनामा सहायो भवति। यथा- रैमचन्द्रादीनां सुग्रीवादयः ।
रागो येन सः। शठेति। दूत्या वचनमिदम्। क्वाचक्षे कुत्र कथयामि। न कुत्रापी- त्यर्थः । घृतमधुमयेति । वृतमधुतुत्येत्यर्थः । घृतमधु यथा आपाततः खादु पश्राद्विषम्, तथा तव वचनमप्यापाततो रमणीयं पश्चादनिष्टाचरणेनायथार्थत्वप्रति- भासाद्विषतुल्यमिति भावः । किमपि हितमहितं वा। गणयति निश्चिनोति। एषां नायकानाम्। दूरानुवर्तिनीत्यस्यार्थमाह-बहुव्यापिनीति। इतिवृत्ते कर्तव्यकर्मणि।
-
एषामिति। अत्रेदमप्यवधेय्। कामशास्त्र दत्तादिजातिभेदेन चतुविधो नायकः। तथा चोक्तम्-'पुनश्चतुर्धा कथितः कामशास्त्रषु जातितः । दत्तो भद्रःकूचिमारः पाच्चाल इति सूरिभिः ॥ पझ्मिनीवलभो दत्तो भद्रः स्याच्चित्रिणीप्रियः । पाश्चालकूचिमारौ
-
पीठेति। कार्य विशेषेऽधिकृतत्वात्पीठं मृद्गातीति पीठमर्द इत्यन्वर्था संज्ञा॥
१. 'मयत्वद्वहुवच' इति पाठ. २. 'सर्वेषामुत्तममध्यमाधमत्वेन' क-ख. 'सर्वेषामुत्तमाधममव्य- मत्वेन' घ. ग-पुस्तके तु 'एषां तु नायकानामुत्तममध्यमाधमत्वन। कथिता नायकभेदाश्चत्वारिंशत्तथा चाष्टौ ।I' इति पाठः. ३. 'रामस्य सुग्रीवः' ग.
Page 143
९६ साहित्यदर्पणे
अथ शृङ्गारसहायाः- शङ्रारेऽस्य सहाया विटचेटविदूषकाद्याः स्यु: भक्ता नर्मसु निपुणा: कुपितवधूमानभञ्जनाः शुद्धाः॥४0॥ आदिशब्दान्मालाकाररजकताम्बूलिकगान्धिकादयः । तत्र विट :- संभोगहीनसंपद्विटस्तु धूर्त: कलैकदेशज्ञः। वेशोपचारकुशली वागग्मी मधुरोऽथ वह्मतो गोध्याम॥४१॥ चेटः प्रसिद्ध एव। कुसुमवसन्ताद्यभिधः कर्मवपुर्वेशभाषादयैः। हास्यकरः कलहरतिर्विदूपकः स्यात्स्वकर्मज्ञः ॥ ४२ ॥ सवेकर्म भोजनादि। अर्थचिन्तने सहायमाह- मेत्री स्यादर्थानां चिन्तायां अर्थास्न्त्रावापादयः । यत्त्वत्र सहायकथनप्रस्तावे 'मन्त्री स्वं चोभय भक्ता नायकानुरक्ताः । नर्मसु परिहासेषु । शुद्धाः परदारगमनादिदोषरहिताः । संभोगहीना अपकृष्टा संपद् यस्य सः । नृत्यादिकलानामेकदेश जानाति, नतु समु- दायम्। वेशस्य उपचारे करणे कुशलः । विदूषकमाह-कुसुमेति। वपुरिति। शरीरचेष्टाविशेष इत्यर्थः । मन्त्रीति। अस्य इति सहायः इति चानुषज्यते। चिन्तायामुपायनिरूपणे। खमण्डले क्रियमाणं कर्म तन्र्रम्। परमण्डले क्रियमाणं कर्म आवापः । आदिना शत्रुनिग्रहादयः । यत्विति। सं चेति चकारो वार्थः । 1. विट इति। वेश्यानागरिकयोः परस्परं संदेशं विटति कथयतीति विटः । 'विट शब्दे इति यशोधरः॥ 2. गोध्यामिति। वेश्याभवने सभायामन्यतमस्योदवसिते वा समानविद्याबुद्धिशील- वित्तवयसां सह वेश्याभिरनुरूपैरालापैरासनबन्वो गोष्ठीति वात्स्यायनः । अन्यतमस्य नागरस्योदवसिते गृहे वा। स्त्रीप्रतिबद्धकलाप्रतिपत्त्यर्थ वेश्यानां गोधठ्यामन्तर्भाव इति तद्याख्यातारः ॥ 3. तत्रेति। तत्रणं तत्रम्। स्वाधीनत्वात्स्वराष्ट्रे क्रियमाणं कर्मापि तत्रशब्देनो-
१. 'अथ-' इति फक्किका ग-पुस्तके नास्ति. २. 'शह्ारविपये' इति ख- ३. 'आदि-' इति फकिका ग.पुस्तके नास्ति. ४. ग पुस्तकेषु तु 'स्वकर्म-' इत्यारभ्य '-अथ दण्डसहायः' इत्यन्तो ग्रन्थो न दृश्यते. ५. क-पुस्तके तथा मुद्रितपुस्तकेषु 'मत्री स्यादर्थानां चिन्तायां तद्वदवरोधे।' इत्यार्यार्ध स्वविवरणगतपद्योजनेन 'मत्री स्यादर्थचिन्तायामर्थास्तत्रावपादयः।' इत्येवमनुष्टपूरूपत्वं प्रापितम् 'तथा तद्वदवरोधे' इति खण्ड गद्ये योजितम्. ६. 'सवस्योभयस्यापि' क.
Page 144
तृतीयः परिच्छेदः । ९७
चापि सखा तस्यार्थचिन्तने' इति केनचिल्लक्षणं कृतम्, तदपि राज्ञोऽर्थ- चिन्तनोपायलक्षणप्रकरणे लक्षयितव्यम्। न तु सहायकथनप्रकरणे, 'नायकस्यार्थचिन्तने मन्त्री सहायः' इत्युक्तेऽपि नायकस्यार्थत एव सिद्धत्वात्। यदप्युक्तम् 'मन्नि्रिणा ललितः शेषा मन्त्रिष्वायत्तसिद्धयः' इति, तदपि सवलक्षणकथनेनैव लक्षितस्य धीरललितस्य मन्त्रिमात्राय- त्तार्थचिन्तनोपपत्तेर्गतार्थम्। न चार्थचिन्तने तस्य मन्त्री सहायः। किं तु स्यमेव संपादकः । तस्यार्थचिन्तनाद्यभावात्। अथान्तःपुरसहाया :- तद्वद्वरोधे। वामनशण्ढकिरातम्लेच्छाभीरा: शकारकुजाद्याः॥४३॥ मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः। सोऽयमनूढाभ्राता राज: श्याल: शकार इत्युक्त:।।४४।। आद्यशब्दान्मूकादयः । तत्र शण्ढवामनकिरातकुञ्जादयो यथा
उभयं मन्त्रिस्वरूपद्वयम् । तस्य नायकस्य। सहायकथनपरत्वे दोषमाह- नायकस्येति। एवं च सं चेत्यादि निरर्थकम्। तदनुपादानेऽपि तल्लाभातू। स्वयं चिन्तापक्षे सस्य सहकारित्वरूपसहायतानुपपत्तेरुभयचिन्तायां कारणान्तरप्रस- ड्गाचेति भावः। सखिशब्दस्योपायार्थत्वम्। न तु सहायपरत्वमित्यवगन्तव्यम्। मन्त्रिणेति। आयत्तसिद्धिरित्यन्वयः । ललितो धीरललितः। शेषा धीरोदात्तादयः। स्वलक्षणेति । चिन्तन इति । धीरललित लक्षणनिविष्टेन तस्यार्थचिन्तनाद्यभावः । तेन च मन्त्रिमात्रायत्तार्थसिद्धिकत्वं प्रतीयत इति भावः । तस्य वीरललि- तस्य। स्वयमेव निष्पादकः प्रधानकारणम्। तद्वदिति । अवरोधेऽन्तःपुरे। वामनाद्यो नायकस्य सहाया इत्यर्थः । शण्ढर्छिन्नोपस्थः कीबो वा। शका- रमाह-मदेति। मदमूर्खताभ्यामभिमानी अहं महानिति ज्ञानवान्। मदा-
च्यते। आ समन्ताद् वपन्ति इतिकर्तव्यताबीजमत्रेत्यावापः। 'टवप् बीजतन्तुसंताने' 'ह- लश्च' इति घञ्। 'परं प्रत्यावापः फलति कृतसेकस्तरुरिव' इति॥ 1. केनचिदिति। दशरूपके धनंजयेनेत्यर्थः ॥ 2. शण्ढेति । शाम्यति पौरुषाभावादिति शण्ढः। 'शमु उपशमे'। शमेर्ढः । मूर्धन्या- दिस्तु षणुप्रकृतिकः । तत्र अमन्ताड्ुस्तस्य बाहुलकाड्गुत्वं धातोः षस्य सत्त्वाभावश्र। शण्ढो वर्षवर इत्यनर्थान्तरम् 'ये त्वल्पसत्त्वाः प्रथमाः क्वीवाश्च स्त्रीखवभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः ॥' इति ॥ सा० द० ९
Page 145
९८ साहित्यदर्पणे
रत्नावल्याम्- 'नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तःकञ्चुकि कञ्चुकस्य विशति त्रासादयं वामनः । पर्यन्ताश्रयिभिर्निजस्य सदशं नाम्नः किरातैः कृतं कुञ्ा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः।।' शकारो मृच्छकटिकादिषु प्रसिद्धः। अन्येऽपि यथादर्शनं ज्ञातव्याः । अथ दण्डसहाया :- दण्डे सुहृत्कुमाराटविका: सामन्तसैनिकाद्याश्र। दुष्टनिग्रहो दण्डः । स्पष्टम्। ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तापसास्तथा धर्मे ॥ ४५॥ ब्रह्मविदो वेदविदः, आत्मविदो वा। अत्रं च उत्तमा: पीठमर्दाद्याः आद्यशब्दान्मन्त्रिपुरोहितादयः। मध्यौ विटविदूषकौ। तथा शकारचेटाद्या अधमा: परिकीर्तिताः।।४६ ॥। आद्यशब्दात्ताम्बूलिकगान्धिकादयः । अथ प्रसङ्गद्दूतानां विभागगर्भलक्षणमाह- निसष्टार्थो मितार्थश्र तथा संदेशहारकः।
दित्रयवान् वा। नष्टमिति। वानरवेषेणान्तःपुरप्रविष्टं विदूषकमालोक्य भये- नान्तःपुरस्थानां पलायनवर्णनमिदम् । नष्टमदर्शनतां प्राप्तम्। वर्षवरैः शण्डैः । 'सौविदल्ला: कश्चुकिनः' इत्यमरः । किरं पर्यन्तदेशमततीति किरात इति नाम्र: स- वाचकशब्दस्य सदशं योग्यं पर्यन्तदेशं प्राप्त इत्यर्थः । मृच्छकटिका नाटिकाविशेषः। अन्ये म्लेच्छाभीरादयः। आटविका वनचारिणः । ऋत्विगिति। धर्मे धर्मकर्मणि
- मृच्छेति। मृच्छकटिकं प्रकरणविशेष इत्युचितम् ।।
१. 'तत च' क, 'अध्र च-' इत्यादि: '-लक्षणमाह' इत्यन्तः पाठो ग-पुस्तके नास्ति.
Page 146
तृतीय: परिच्छेदः । ९९
कार्यप्रेष्यस्त्रिधा दूतो दूँत्यश्ापि तथाविधाः॥।४७।। तत्र कार्यप्रेष्यो दूत इति लक्षणम्। तत्र- उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम्। सुश्लिष्ट कुरुते कार्य निसष्टार्थस्तु स स्मृतः ॥४८ ॥ उभयोरिति येन प्रेषितो यदन्तिके प्रेषितश्च। मितार्थभाषी कार्यस्य सिद्धकारी मितार्थकः । यावन्भाषितसंदेशहारः संदेशहारकः ॥ ४९ ॥
नायकस्य सहाया इत्यर्थः । आत्मविदो योगिनः । सुश्लिष्ट सुमङ्गलम् । मितार्थभाषी अल्पार्थकथकः। खामिना यावदुक्कं तावदेव संदेशः, तं हरति व्याहरतीति स तथा।
- दूत इति। पट्टता धाष्टर्यमिङ्गिताकारज्ञता प्रतारणकालज्ञता विषह्यबुद्धित्वं लव्वी प्रतिपत्तिः सोपाया चेति दूतगुणाः। अन्यत्राप्युक्तम्-'आत्मवान्मित्रवान्युक्तो भावज्ञो देशकालवित्। असाध्यमप्ययलेन कार्य संसाधयेन्नरः ॥' इति। आत्मन्याहितगुणत्वादात्म- वान्। सहायविमर्शेन मित्रवान् । युक्त इति राजवृत्तानुष्ठानन युक्तः स्वकर्मनिष्ठ इति तदर्थ: ॥ 2. दूत्य इति। अन्यत्र विशेष :- निसृष्टार्था परिमितार्था पत्रहारी स्वयंदूती मूढ- दूती भार्यादूती मूकदूती वातदूती चेति दूतीविशेषाः। तत्र नायकस्य नायिकायाश्च यथामनीषितमर्थमुपलभ्य स्वबुद्धा कार्यसंपादिनी निसृष्टार्था, इदं करणीयमित्येतावतो- डर्थस्य निसष्टत्वान्निसष्टार्थेति। कार्येकदेशमभियोगैकदेशं चोपलभ्य शेषं संपादयतीति परि- मितार्था, परिमित: परिच्छिन्नोऽथों यस्या इति। संदेशमात्रं प्रापयतीति पत्रहारी, संदेश- मात्रमिति कार्यस्य स्थिरत्वात्तन्मात्रं पत्रेण वचसा वा प्रापयतीति पत्रहारीत्यर्थः । दौत्येन प्रहिता अन्यया स्वयमेव नायकमभिगच्छेत्, अजानती नाम तेन सहोपभोगं सवपे कथयेत्, गोत्रस्खलितं भार्या चास्य निन्देत, तद्यपदेशेन स्वयमीर्ष्या दर्शयेत्, नखदशनचिह्नितं वा किंचिद्दद्यात, भवतेऽहमादौ दातुं संकल्पितेति चाभिदधीत, मम भार्याया वा का रम- णीयेति विविक्ते पर्यनुयुञ्जीत सा स्वयंदूती। नायकभार्या मुग्धां विश्वास्यायत्रणयानुप्रविश्य नायकस्य चेष्टितानि पृच्छेत, योगान्शिक्षयेत्, साकारं मण्डयेत्, कोपमेनां ्राहयेत्, एवं च प्रतिपद्यस्वेति श्रावयेत्, स्वयं चास्यां नखदशनपदानि निवर्तयेत, तेन द्वारेण नायकमाकारयेत्सा मूढदूती। स्त्रभार्या वा मूढां प्रयोज्य तया सह विश्वासेन योजयित्वा तयैवाकारयेत्, आत्मनश्च वैचक्षण्यं प्रकाशयेत्सा भार्यादूती। बालां वा परिचारिका- मदोषज्ञामदुष्टेनोपायेन प्रहिणुयात्, तत्र स्रजि कर्णपत्रे वा गूढलेखनिधानं नखदशनपदं वा सा मूकदूती। पूर्वप्रस्तुतार्थलिङ्गसंबद्धमन्यजनाग्रहणीयं लौकिकार्थ द्यर्थ वा वचनमुदासीना या श्रावयेत्सा वातदूती।।
Page 147
१०० साहित्यदर्पणे
अथ सात्त्विकनायकगुण :- शोभा विलासो माधुर्य गाम्भीर्य धैर्यतेजसी। ललितौदार्यमित्यष्टौ सच्वजाः पौरुषा गुणाः ।५० ।। तेत्र- शूरता दक्षता सत्यं महोत्साहोऽनुरागिता। नीचे घृणाधिके स्पर्धा यतः शोभेति तां विदुः ॥५१॥ तत्रानुरागिता यथा- 'अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत्। उद्धेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ।।' एवमन्यदपि। अथ विलास :- धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः। यथा-
धीरोद्धता नमयतीव गतिर्धरित्रीम्। कौमारकेडपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमित्युत दर्प एँव ।।' संक्षोभेष्वप्यनुद्देगो माधुर्य परिकीर्तितम् ॥५२॥ सात्त्विकाः सत्त्वगुणाज्जाताः। स्तम्भादीनां सारत्विकत्वेऽपि ते नायकस्य नायिकायाश्च भवन्ति। एते पुनर्नायकस्यैवेति विशेषः। पौरुषा नायकसंबन्धिनः । महानुत्साह उद्यमः। नीचे क्षुद्रे। घृणा दया। महीपतेरजस्य। प्रकृतिषु मन्र्रिप्रभृतिषु। निम्रगाश- तेषु नदीसमूहेषु। अस्य अजस्य। अन्यच्छूरतादि। तृणीकृतौ तुच्छीकृतौ जगत्र- यस्य सत्त्वमुत्साहः सारो बलं च यया सा। धीरा मन्थरा। उद्धता उद्गटा च। एतेन गतेश्चित्रतं नैकरूपत्वं च। अत्र नायकस्य उत्साहदर्पयोरतिशयसूचनाय वीरर- 1. अहमिति। यथा नानादेशागतासूच्ावचासु सरित्सु सरित्पतेरेकाकारतया प्रे- ममेदो न लक्ष्यते तथा महीपतेरजस्यापि प्रजासु कापि जने विमाननावतारो नालक्ष्यतेति भाव: ।। 2. दृष्टिरिति। संग्रामाङ्गणमलंकुर्वन्तं कुशमवलोक्य रामचन्द्रस्योक्तिरियमुत्तररा- मचरिते॥ १. 'धैर्य गाम्भीर्यतेजसी' इति कपुस्तके; 'स्थैर्य-' इति ख. लक्षणमपि पाठक्रमेणैव. २, 'तत्र-" इत्यादि: 'एषामुदाहरणान्यूह्यानि' इत्यन्तः पाठो ग-पुस्तके नास्ति. ३, 'एषः' घ.
Page 148
तृतीय: परिच्छेदः । १०१
ऊह्यमुदाहरणम् । भीशोकक्रोधहर्षाद्यैर्गाम्भीर्य निर्विकारता। यथा- 'आहूतस्याभिषेकाय विसृष्टस्य वनाय च। न मया लक्षितस्तस्य सल्पोडप्याकारविभ्रमः ॥।' व्यवसायादचलनं धैर्य विन्ने महत्यपि ॥ ५३॥ यथा- 'श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव। आत्मेश्वराणां नहि जातु विन्नाः समाधिभेदप्रभवो भवन्ति ॥' अधिक्षेपापमानादे: प्रयुक्तस्य परेण यत्। प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ ५४॥ वाग्वेषयोरमधुरता तद्वच्छृङ्गारचेष्टितं ललितम्। दानं सप्रियभाषणमौदार्य शत्रुमित्रयोः समता ॥५५॥ एषामुदाहरणान्यूह्यानि। अथ नायिका त्रिभेदा खान्या साधारणी स्त्रीति। सत्वेन दर्पत्वेन चोह्ेखः। ऊह्यमुदाहरणमिति। यथा मम रामविलासे-'त- न्निपीय कटु कर्णपदव्या खेदमाप न मनागपि रामः। शूलपाणिरिव घोरमुदग्रं कालकू- टपटलं किल पूर्वम् ।I' तैस्य श्रीरामस्य। आकारो मुखनेत्रादि तस्य विभ्रमो वैपरीत्यं येन हर्षशोकादयो लक्ष्यन्ते। व्यवसायात् प्रारब्धकर्मणः । अचलनम् अप्रच्यवनम्। प्रसंख्यानपरो योगनिष्ठः। आत्मेश्वराणां मनोनिरोधक्षमाणाम्। अधिक्षेपो भर्त्सनम्। अपमान: पराभवः। आदिना अपकारादि। प्रयुक्तस्य कृतस्य। परेण शत्रुणा। उदा- हरणं यथा रामविलासे-'विस्फारस्फुरदोष्ठपल्लवमतिख्िन्नातिकान्तं क्ुधा किंचिल्ो- हितलोचनाम्बुजयुगेनाकुश्चितभ्रूलतम्। युक्तं तस्य दुरुक्तमुत्तरयितुं तेजोभरादुदतं नेत्रान्तेन निवार्य लक्ष्मणममुं प्रोचे स्वयं राघवः ॥' विस्फारमत्यन्तं स्फुरदोष्ठ यस्य तम्। तस्य भार्गवस्य। अमुं भार्गवम्। तद्वन्मधुरतायुक्तम्। ललितौदार्ययोरुदाहरणे मम-'वीक्ष्य तस्य रुचिरं कलेवरं संनिशम्य मधुरं च भाषितम्। स्मारसारमुप- लभ्य विभ्रमं दास्यमुस्य कलयन्ति सुम्नवः ॥', 'दत्ते सहासवचनं सप्रियवचनं च भूपालः । रिपुरपि लभते मानं निरीतिभावं धरा तस्मात् ।I' सा सकीया। अन्या 1. अस्मिन्निति । अस्मिन्क्षणे वसन्ताविर्भावसमये ॥ १. 'अथ नायिकामेदा-' क., '-विविधा' छ. २. 'साधारण स्त्री च' ग. ६. 'तस्प-' इत्यादि: 'लक्ष्यन्ते' इत्यन्तः पाठो हि 'मनोनिरोधक्षमाणाम्' इत्यसादग्रे दृश्यते कुत्रचित्.
Page 149
१०२ साहित्य दर्पणे
नायकसामान्यगुणैर्भवति यथासंभवैर्युक्ता ॥५६॥ नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासंभवैर्युक्ता भवति। सा च खस्त्री अन्यस्त्री साधारणस्त्रीति त्रिविधा। तत्र सस्त्री- विनयार्जवादियुक्ता गृहकर्मपरा परित्रता खवीया। यथा- 'लज्जापज्जत्तपसाहणाइ परभत्तिणिप्पिवा सा इ ं । अविणअदुम्मेधाँइँ धण्णाण घरे कलत्ताइं ॥' सापि कथिता त्रिभेदा सुग्धा मध्या प्रगल्भेति॥५७॥ तत्र- प्रेथमावतीर्णयौवनमदनविकारा रतौ वामा। कथिता मृदुश्च माने समधिकलज्जावती सुग्धा ॥५८ ॥ तत्र प्रथमावतीर्णयौवना यथा मम तातपादानाम्- 'मध्यस्य प्रथिमानमेति जघनं, वक्षोजयोर्मन्दता दूरं यात्युदरं च, रोमलतिका नेत्रार्जवं धावति,।
अन्यदीया। साधारणी सर्वोपभोगयोग्या। 'त्ी' इति सर्वत्रान्वेति। यथासंभ- वैरिति। तेन दक्षतोत्साहतेजांति नायिकानां न वर्णनीयानि। अत एव दक्षता- दयो नायकस्यैव सात्त्विका गुणा उक्ताः । लजेति। 'लज्ापर्याप्तप्रसाधनानि परभर्तृ- निष्पिपासानि। अविनयदुर्मेधानि धन्यानां गृहे कलत्राणि ।।' [इति संस्कृतम्।] लजायै पर्याप्तानि समर्थानि प्रसाधनानि भूषणानि येषां तानि। अविनयदुर्मेधानि अविनयान- भिज्ञानि। सापि स्वकीयापि। अवतीर्णमुत्पन्नम्। मध्यस्येति। प्रथिमानं स्थूल-
- प्रथमेति। प्रथमावतीणौं अभिनवोन्मेषौ यौवनमदनविकारौ तारुण्यानङ्गविभ्रमौ यस्या: सा। 'सकम्पा चुम्बने वक्रं हरत्येषोपगूहिता। परावृत्य चिरं तल्प आस्ते रन्तुं च वाञ्छति ।' इत्यादिदिशा रतौ वामत्वमवधेयम्। 'अन्यां निषेवमाणेऽपि यदि कुप्यति सा प्रिये। रोदित्यस्याग्रतः स्वल्पमनुनीता च तुष्यति ॥' इत्युक्तदिशा माने मार्दवमवसेयम्॥ 2. मध्यस्येति। मध्यभागे या विशालतासीत्सा जघनेन लुण्ठिता तेन तद्विशालं जातम्, एवं जघने यत्कार्श्य तन्मध्यभागेन लुण्ठितं तेन स कृशो जातः। एवमुदरस्थौल्यं निर्लुण्ठितं सत् कुचयोजांतम्, कुचयोश्च कार्श्यमुदरे। रोमलताकौटिल्यं नेत्रयोः संगतम्, नेत्रयोः सारल्यं रोमलतायामिति तात्पर्थम् ।।
१. 'नायिका पुनः' इति ख-पुस्तके नास्ति; 'नायिका-' इत्यादि '-कलत्ताई' इत्यन्तं ग-पुस्तके नास्ति. २. 'त्रिमेदा' क-ख. ३. 'त्रिविधा' घ.
Page 150
तृतीयः परिच्छेदः । १०३
कंदर्प परिवीक्ष्य नूतनमनोराज्याभिषिक्ततं क्षणा- दङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ॥' प्रेथमावतीर्णमदनविकारा यथा मम प्रभावतीपरिणये- 'दत्ते सालसमन्थरं भुवि पदं, निर्याति नान्तःपुरात्, नोद्दामं हसति, क्षणात्कलयते ह्वीयन्तरणां कामपि, । किंचिद्भावगभीरवक्रिमलवस्पृष्टं मनाग्भाषते, सभ्रभङ्गमुदीक्षते प्रियकथामुल्लापयन्तीं सखीम् ।।' रतौ वामा यथा- 'दृष्टा दृष्टिमधो ददाति, कुरुते नालापमाभाषिता, शय्यायां परिवृत्य तिष्ठति, बलादालिङ्गिता वेपते, । निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते, जाता वामतयैव संप्रति मम प्रीत्यै नवोढा प्रिया ॥' माने मृदुर्यथा- 'सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम्।
त्वम्। मन्दता कृशत्वम्। धावति प्राप्नोति। नूतनं यथा स्यात्तथा मनोराज्येऽभिषि- कम्। राजः प्रथमाभिषेकसमये प्रजा हर्षेण परस्परं द्रव्यं लुण्ठन्तीति व्यवहारः। दत्त इति। सालसं मन्थरं च यथा स्यात्तथा दत्ते। क्षणात् प्रतिक्षणं कलयते त्ते। हिया यन्न्णां व्याकुलभावम्। कामप्यनिर्वचनीयाम्। भावेन निगूढाभि- प्रायेण किंचिद्रभीरं दुरवबोधं वक्रिम्णा लवं स्पृष्ट च यथा स्यात्तथा भाषते। उल्लापयन्तीं सादरं कथयन्तीम्। ईहते चेष्टते। सा पत्युरिति। अपराधोऽन्य-
- वामतयेति। इति प्रतिकूलाचरणतयैव संप्रति नवसंगमे नवोढा नवपरिणीता प्रिया मम प्रीत्यै जाता। अत्रेदमाकृतम्-अभिनवसमागमे वध्वाः प्रतिकूलवर्तित्वमेव नितरां भूषणम्। अन्यथा गौरवराहित्येन दौःशील्यं स्यात्। 2. सविभ्रमेति। सविभ्रमं यथा स्यात्तथा अङ्गस्य भ्रुकुट्यादेः वलना स्वाभिप्रायावि- वकरणाय चालनं वक्रीकरणम्, याश्च वक्रोक्तयः, ताभिः संसूचनमिति समस्ते स्वारस्यम्। स्वच्छैरतिनिर्मलैः । अच्छयोनिर्मलयो: कपोलयोर्मूलेन गलितैः । अज्जनपत्ररचनाव्यपगमा दश्रुकपोलयोः स्वच्छता, तेन रोदनाधिक्यम्। उत्तानशयनान्मूलेन गलनम्। 'अश्रुभिः' इतीत्थंभूतलक्षणे तृतीया। अश्चुज्ञाप्यं विशिषटं वा केवलं रोदनमेव करोतीत्यर्थः । १. 'प्रथम-' इत्यादि: '-पुनः कथनम्' इत्यन्तः पाठो ग-पुस्तके नास्ति.
Page 151
१०४ साहित्यदर्पणे
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लठल्ोलालकैरश्रुमि: ।।' समधिकलज्जावती यथा- 'दत्ते सालसमन्थरं-'इत्यत्र श्लोके। अत्र समधिकलज्जावतीत्वेनापि लब्धाया रतिवामताया विच्छित्ति- विशेषवत्तया पुनः कथनम्। अथ मध्या- मध्या विचित्रसुरता प्ररूढस्मरयौवना। ईषत्प्रगल्भवचना मध्यमत्रीडिता मेता ॥५९ ॥ विचित्रसुरता यथा- 'कान्ते तथा कथमपि प्रथितं सृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु। नायिकासंगमः । प्राथमिकतज्ज्ञानसमये सख्या सख्येन वा य उपदेशस्तम्। विभ्रमः स्मरविकारः, अङ्गस्य वलनं संवरणम्, ताभ्यां सहिता। यदि विभ्रमो न स्यात्तदा पत्युरपराधे ईर्ष्यापि न स्यादिति भावः। वक्राया अपराधव्यज्जिकाया उक्केः संसूचनं कथनम्। पर्यस्ते चपले, व्याकुले वा नेत्रोत्पले यस्या: सा। रोदित्येव। न तु भ्रुकुटि- बन्धादिकं करोति। लुठन्तो लोलाश्चला अलका यत्र तैः। ननु समधिकलज्ावती तावद्रतौ प्रतिकूला भवतीति 'रतौ वामा' इत्यनेनैव तस्या ग्रहणे सिद्धे 'समधिकलज्जा- वती' इति पृथगुपादानं किमर्थमित्याह-अन्रेति। विच्छित्तिविशेषवत्तया वैचित्र्य- विशेषसंपादकत्वेन। प्ररूढे अत्यर्थमुत्पन्ने स्मरयौवने यस्याः सा। मध्यमं व्रीडितं 1. कान्त इति। हे कान्ते, उद्धत उत्कटो मनोभवो यस्यास्तया मृगाक्ष्या रतेषु सु- रतव्यतिकरेषु। चित्तपरिस्पन्देन रमणाद्रतम्। कपोतानां चिराध्ययनलाभाय रतेष्विति बहुवचनम्। अन्यथा तादृशं शिष्यता भज्येत। कथमपि महता व्यवसायेन तथा चातुर्य सुरतसंगरवैदग्ध्यं प्रथितं यथास्याः तानि विविधभङ्गिवैलक्षण्येन प्रथितानि। एतेन ग्राह्यत्वं सूच्यते। कूजितानि मणितविशेषान् अनेकवारमसकृत् अनुवदद्भिः कूजनाव्यवहितोत्तरकालं गृणद्भिः ग्रृहकपोतशतैः शिष्यायितम्। अन्तेवासिवदाचरितमित्यर्थः ॥ 2. सख्येनेति। सख्येन सौहदेनेत्येव पक्षो ज्यायान्॥
१. ग-पुस्तके तु 'मध्या यथा-मध्याप्यौवनानङ्गा मोहान्तः सुरतक्षमा।' इत्येव लक्षणं दृश्यते. २. 'यथा' क, 'तथा' ख. १. 'विचित्र-' इत्यादेः '-अन्यत्रापि' इत्यन्तस्य ग्रन्थस्य स्थाने 'तत्र यौव- बयती मध्या यथा-'आलापान्रूविलासो विरलयति रसद्वाहुविक्षेपपातं नीवीग्रन्थि प्रथिन्ना प्रतनयति ्यनिम्नो नितम्बः। उत्पुष्यत्पार्श्वमूर्छत्कुचशिखरमुरो नूनमन्तसरेण स्पृष्टा कोदण्डकोट्या हरि- दृश्यते यौवनश्रीः ॥' एवं मध्याभावादिकमूह्यम् ।' इति पाठो ग-पुस्तके.
Page 152
तृतीयः परिच्छदः । १०५
तत्कूजितान्यनुवदद्भिरनेकवारं शिप्यायितं गृहकपोतशतैर्यथास्याः ।' प्ररूढस्मरा यथात्रैवोदाहरणे। प्ररूढयौवना यथा मम- 'नेत्रे खञ्जनगञ्जने सरसिजप्रत्यार्थ पाणिद्यं वक्षोजौ करिकुम्भविभ्रमकरीमत्युन्नतिं गच्छतः । कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्पन्दिनी स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा ।' एवमन्यत्रापि। अथ प्रगल्भा- सरान्धा गाढतारुण्या समस्तरतकोविदा। भावोन्नता दरव्रीडा प्रगल्भाक्रान्तनायका ॥ ६० ॥ स्मरान्धा यथा- 'धन्यासि या कथयसि प्रियसंगमेऽपि विश्रब्धचाटुकशतानि रतान्तरेषु । लज्जा यस्या: सा। त(अ)स्याः कूजितानि अव्यक्तशब्दविशेषान्। शिष्यायितं शि- ष्यवदाचरितम्। नेत्रे इति । खञ्जनानां गजने पराभवकारिणी। प्रत्यार्थ वैरि ताभ्यां सादृश्यलाभः। करिकुम्भयोर्विशिष्टभ्रमं करोति या ताम्। स्मेरस्य प्रफुल्लस्य इन्दीवरदाम्नः सोदरं सदृशं वपुः स्वरूपं यस्याः सा। छटा धारा। एवमिति। एवं लक्षणानुसारेण अन्यत्र किंचित्प्रगल्भवचनामध्यमव्रीडितयोरुदाहरणमूह्यम्। यथा-'सुभग कुरबकस्त्वं किं ममालिङ्गनोत्कः किमु मुखमदिरेच्छुः केसरो नो ह- दिस्थः। लयि नियतमशोके युज्यते पादघातः प्रियमिति परिहासात्पेशलं काचिदूचे ।, किंचिदाकुञ्चयत्यास्यं मन्दहासातिसुन्दरम्। दरमुद्रितनेत्रान्ता चुम्बतीशे नितम्बिनी।।' भावैरनुभावैरुन्नता प्राप्ताधिकरूपा। धन्यासीति। सखीनां मध्ये सुरतसमये बा- 1. धन्येति। हे सखि, या त्वं प्रियसंगमे रतान्तरेष्वपि रतिमध्येष्वपि विश्रब्धानां विश्वस्तानां चाडकानां प्रियवाक्यानां शतानि कथयसि सा त्वं धन्यासि। इति योजना। प्रथमतः प्रियसंगमे एव विलक्षणानन्दमन्थरतया तत्कथनमशक्यम्। तत्रापि रते। तत्रापि नादौ नान्ते, किं तु मध्ये। तस्य च पुनरिदानीं स्मरणमित्याश्चर्यंभूतं तव सावधानत्वमिति भावः । भो: सख्यः, प्रियेण नीवीं नाभितलवसनग्रन्थि प्रति करे प्रणिहिते प्रणिधानविषयी- कृते, नीव्यां करोऽर्पितव्य इति संकत्पविषयीकृते। न त्वपिंते इत्यर्थः । आदिकर्मणि कः।
१. 'सुधास्पर्विनी' क.
Page 153
१०६ साहित्यदर्पणे
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदृपि स्मरामि ॥' गाढतारुण्या यथा- 'अत्युन्नतस्तनमुरो नयने सुदीर्घे वक्रे भ्रुवावतितरां वचनं ततोऽपि। मध्योऽघिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्गुतयौवनायाः ॥' सेमस्तरतकोविदा यथा- कचित्ताम्बूलाक्तः कचिदगरुपङ्काङ्कमलिनः क्वचिचूर्णोद्गारी क्वचिदपि च सालक्तकपदः । वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छद्पटः ॥'
ह्यकथालापिनीं कांचिदुपहसन्त्याः कस्याश्चिदुक्तिरियम्। प्रियस्य संगमेऽपि स्पर्श- मात्रेऽपि या लं विश्रब्धेन विश्वासेन चाटुकशतानि प्रियोक्तिशतानि कथयसि सा लं धन्या। किमुत रतान्तरेषु। शपामि शपथं करोमि। अन्र परस्मैपदमशिष्टम्। त- तोऽपि भ्रूभ्यामपि। अतितरामत्यर्थ। वक्रमित्यर्थः । अनूनगुरु: अतिस्थूलः । कि० सप्यत्यर्थम्। अद्भुतयौवनायाः उद्दामयावनायाः। क्वचिदिति। ताम्बूलाक्तः ताम्बू- लजन्यरागोक्षितः । अगरु कालागरु। अङ्क चिह्नम्। चूर्णानि गन्धद्रव्यविशेषानुद्धि- रति निष्ठीवतीति सः । पदं चिह्नम्। वलीभिस्त्रिवलीभिः कृता ये भङ्गा निम्नतानि तेषामाभोगैः परिपूर्णताभिः । अलकेभ्यः केशेभ्यः पतितैः स्खलितैः शीर्णकुसुमैः उपमर्दितपुष्पैश्वोपलक्षितः । सर्वावस्थं सर्वप्रकारम्। कथयति सूचयति। प्रच्छदपटः
अवाचकत्वापत्ते: अभिप्रायस्य लाघवापत्तेश्च। यदि किंचिदपि स्मरामि तदा शपामि। शपथं करोमीति योजना। भवतीनां शपथोऽहं तु न किंचिदपि स्मरामि। किं पुनस्तादृशवाक्यमित्यपिशब्दार्थः । यद्यपि 'शप उपालम्भने' इति वार्तिकेनात्म- नैपदं प्राम्नोति तथापि शपथकरणप्रकाशनाविवक्षया न तत्प्रवृत्तिरिति शब्देन्दुशेखरे स्पष्टम्। अस्यैव क्रोकस्य च्छायाभूतः 'धन्यास्ताः सखि योषितः प्रियतमे सर्वाङ्गलस्नेऽपि याः प्रागल्भ्यं प्रथयन्ति मोहनविधावालम्ब्य धैर्ये महत्। अस्माक तु तदीयपाणिकमले- डप्युन्मोचयत्यंशुकं कोडयं का वयमत्र किं नु सुरतं नैव स्मृतिर्जायते ॥' इति रुद्रक- विश्रलोकः ।।
१. ग-पुस्तके तु गाढतारुण्याया उदाहरणं नास्ति. २. 'समस्त-' इत्यादि: '-भेदान्तराण्याह' इत्यन्त: पाठो ग-पुस्तके नासत.
Page 154
तृतीय: परिच्छेदः। १०७
भावोन्नता यथा- 'मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनै रभसरचितैरङ्गन्यासैर्महोत्सवबन्धुभिः । असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितै- स्त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥' सवल्पन्रीडा यथा- 'धन्यासि या कथयसि-'इत्यत्रैव। आक्रान्तनायका यथा- 'स्वामिन्भङ्गरयालकं, सतिलकं भालं विलासिन्कुरु, प्राणेश त्रुटितं पयोधरतटे हारं पुनर्योजय,। इत्युक्त्वा सुरतावसानसमये संपूर्णचन्द्रानना स्पृष्टा तेन तथैव जातपुलका प्राप्ता पुनर्मोहनम् ॥' मध्याप्रगल्भयोर्भेदान्तराण्याह- ते धीरा चाप्यधीरा च धीराधीरेति षड्चिधे। ते मध्याप्रगल्भे। तत्र- प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरा दैहेद्ुषा । ६१ ॥ धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः। तत्र मध्या धीरा यथा- 'तेदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यहुकूलं दधानः । मद्घिवसतिमागाः कामिनां मण्डनश्री- र्व्रजति हि सफलत्वं वल्लभालोकनेन ।।'
वाय्यावरणवस्त्रम्। मधुरेति। कृतानि अङ्डलितर्जनानि यत्र सः । रभसरचितैः हुर्षकृतैः । महोत्सवस्व बन्धुभिः जनकैः। स्फारस्फारैः अतिदीघैः। स्वामिन्निति। भङ्डरय भङ्गीयुक्तं कुरु। त्रुटितं छिन्नम्। तेन स्वामिना। मोहनं सुरतसुखादिज्ञानम्। 'मध्या' इति स्थानत्रयेऽन्वेति। सोत्प्रासवक्रोक्त्या सपरिहासश्िष्टवचनेन। दहेतू संतापयेत्। रुषेति कर्तृविशेषणम्। तदिति। अवितथं सत्यम्। मण्डनेन भूषणेन
१. 'वदेस्' क घ. २. इदमुदाहरणं ग-पुस्तके नास्ति.
Page 155
१०८ साहित्य दर्पणे
मध्यैव घीराधीरा यथा- 'वाले, नाथ, विमुञ्च मानिनि रुषं, रोषान्मया किं कृतं, खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि,। तत्किं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुदते ।।' डयमेवाधीरा यथा- 'साध मनोरथशतैस्तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिमहावरम्या। अस्माकमस्ति नहि कश्चिदिहावकाश- स्तस्मात्कृतं चरणपातविडम्बनाभि: ।।' प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा ॥ ६२ ॥ उदास्ते सुरते तत्र दर्शयन्त्यादरान्वहिः। तत्र प्रिये। यथा- 'एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाहूरत- स्ताम्बूलानयनच्छलेन रभसाश्लेषोडपि संविन्नितः ।
कृता श्रीः शोभा। वल्लभा प्रिया तत्कर्तृकालोकनेन। अत्र च [अ]वितथमिति मिथ्या यद् यस्मात् मम तापाय प्रतिनायिकापरिहितवत्त्रं परिधाय भम गेहमागाः । यद्यहं ते प्रिया स्यां तदा मत्तापजनकं कर्म न कुर्याः । एतत्तावत्सतां मण्डनं न भ- वति। यदि तवैतन्मण्डनं तदा तज्जन्यशोभां या प्रिया भवति तामेवावलोकय। ममालोकनया किं प्रयोजनमिति श्लेष एवात्र वक्रोक्तिः। बाले इति। नायकस्य नायिकायाश्चोक्तिप्रत्युक्तिरूपः श्ोकोऽयम् । खेदोऽस्मासु कृत इत्यन्वयः । भवत- स्तावदपराधो नासिति। मम रुत्रा कथं खेद इत्यभिप्रायेणाह-का तवेति। दयिता भार्या। नास्मीति। अहं न दयिता। प्रेमपात्रमित्यर्थः । इयमेव मध्यैव। सार्ध- मिति। कृत्रिमेण स्वाभाविकेतरेण हावेन भावविशेषेण तव मनोरमा इह तव म- नसि। कृतं वैयर्थ्यम्। चरणपातेन विडम्बनाभिर्विद्रावैः। प्रगल्मेति। छन्ना संवृता कोपाकृतिः कोपसूचको मुखरागादिर्यया। उदास्ते उदासीना अनुरागहीना भवति। बहिर्बाह्यान्। न त्वान्तरान्। तत्रेति विवृणोति-प्रिये इति। एकत्रेति। एक- स्मिन्नासने आसनसंस्थितिः। उपवेशनसंबन्धः । रभसाश्लेषो हर्षालिङ्गनम्। संविन्नितः
१. 'एवं मध्यधीरादिष्त्यूह्यम्' ग. २. 'सार्ध-' इति श्रोको ग-पुस्तके नास्ति. ३. 'तत्रेति ना- यके' ग.
Page 156
नृतीय: परिच्छेदः । १०९
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोप: कृतार्थीकृतः ।।' धीराधीरा तु सोलुण्ठभापितः खेदयत्यमुम् ॥६३॥ अमु नायकमू। येथा मम- 'अनलंकृतोऽपि सुन्दर हरसि मनो मे यतः प्रसभम् । किं पुनरलंकृतस्त्वं संप्रति नखरक्षतैस्तस्याः ॥' तर्जयेत्ताडयेदन्या अन्या अधीरा। यैथा-'शोणं वीक्ष्य मुखं- इत्यत्र। अत्र च सर्वत्र 'रुषा' इत्यनुवर्तते। प्रत्येकं ता अपि द्विधा। कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति ॥ ६४॥ ता अनन्तरोक्ता: षड्डेदा नायिकाः । यथा- 'द्वष्टैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति॥'
सम्यक्प्रतिरुद्धः । न मिश्रितः नोत्तरेण युक्तः कृतः। व्यापारयन्त्या नायकपरिचर्यार्थ सव्यापारीकुर्वत्या। अन्तिके इति । विजनत्वाभावोपपत्तये उपचारतः प्रीतिहेतु- व्यापारान् विधाय। कोप इति। संभोगप्रतिरोधः क्रोधस्य फलम्। तेनैव कान्तो वशीकृत इति भावः । प्रियवद्भासमानमप्रियं सोहण्ठनम्। अनलंकृत इति। किं पुनरिति। किमुतेत्यर्थः । तस्याः प्रतिनायिकायाः। शोणमित्यादि घृष्टनायकोदाह- रणे उक्तम्। सर्वत्र लक्षणपश्चके। दष्ट्ृति। प्रियतमे भार्ये। एकस्याः सवल्पप्रणय- नायिकायाः । क्रीडायामनुबन्ध आरम्भः । अपरामतिप्रणयिनीम् । तस्मादिति ।
- अन्तरिति। अन्तयों हासस्तेन लसन्तौ नायिकाप्रतारणदृष्टनायकवैदग्ध्यजन्यवह- लानन्दोदयेन देदीप्यमानौ कपोलौ फलकाविव यस्यास्ताम्॥
१. 'सोहुण्ठवचनैः' इत्यधिकं ग-पुस्तके. २. 'यथा-'इत्यादि '-तस्याः' इत्यन्तं ग-पुस्तके नास्ति. ३. 'अनयोरूह्यमुदाहरणम्' ग. 8. 'अनन्तरोक्ताः' ग पुस्तके नास्ति. ५. 'नायिकाः' ग-पु- स्तके नास्ति. सा० द० १०
Page 157
११० साहित्यदर्पणे
मध्याप्रगल्भयोर्भेदास्तद्वद्वादश कीर्तिताः। सुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्रयोदश ॥ ६५॥
तेत्र परकीया द्विधा प्रोक्ता परोढा कन्यका तथा।
यात्रे।दिनिरतान्योढा कुलटा गलितत्रपा ॥ ६६॥ यैथा- 'खामी निःश्वसितेऽप्यसूयति, मनोजिघ्रः सपलीजनः, श्वश्रूरिङ्गितदैवतं, नयनयोरीहालिहो यातरः । तद्दूरादयमञ्जलिः, किमधुना दग्भङ्गिभावेन ते, वैदग्धीमधुरप्रबन्धरसिक, व्यर्थोऽयमत्र श्रमः ।।' अत्र हि मम परिणेतान्नाच्छादनादिदातृतया खाम्येव। न तु व ल्लभः । त्वं तु वैदग्धीमधुरप्रबन्धरसिकतया मम वल्लभोऽसीत्यादिव्य- ङयार्थवशादस्याः परनायकविषया रतिः प्रतीयते।
उपदर्शितलक्षणभेदादित्यर्थः । यात्रादीति। उत्सवादीत्यर्थः । कुलटा परभर्तृगा मिनी। स्वामीति। निःश्वसिते सतीत्यर्थः । निःश्वसितेन प्रच्छन्नकामुकाप्राप्तिदुःख- मनुमाय मह्यमीर्ष्यतीति भावः। मनसो घ्राणजप्रत्यक्षासंभवेन अभिप्रायवेदने लक्षणा, तस्य याथार्थ्ये प्रयोजनम्। एवमग्रयोरपि। इङ्गितमभिप्रायसूचकश्चेष्टावि- शेषः, तद्दैवतं तदभिज्ञा। ईहालिहश्रेष्टाविशेषसूचनीयार्थाभिज्ञाः। यातरः पतिभ्रातुः पत्न्यः। वैदग्ध्या मधुरो मनोहरः प्रबन्धः सुरतप्रयोगस्तस्य रसयुक्तः। यद्वा, वै- दग्ध्या मधुरः प्रबन्धो यस्य तत्संबोधने तथा। अत्र खाम्याद्याकीर्णे देशे। श्रमो मत्प्राप्तिसाधनव्यापारः। ननु खवप्राप्तिसाधनव्यापारव्यर्थतवकथनेनास्याः परनायकर- त्यभावः प्रतीयते तेन च कुलटात्वाभाव इति कथमस्याः परनायिकात्वमत आह- अत्र हीति । परिणेता विवाहकर्ता। एतदुपलक्षणम्। 'अधुना''अन्र'पदाभ्या- मपि कालान्तरे देशान्तरे च श्रमसार्थकत्वव्यञ्जनेनापि रतिः प्रतीयत इति। अजातो-
- मुग्धेति। रुद्रोडप्याह-'एकाकारा मता मुग्धा पुनर्भूश् यतोऽनयोः। अति- सूक्ष्मतया भेद: कविभिन प्रदाशतः ॥' इति ॥ 2. यात्रादीति। आदिशब्देन द्वारदेशावस्थान-गोष्ठीयोजन-राजमार्गावलोकन-तरुण प्रातिवेश्यसदनगमनादयो शयाः ॥
१. कन्यका अनूढा । 'अस्याश्च पित्राद्ायत्तत्वात्परकीयात्वम् ।' इति ग. २. 'यात्रा-' इति कारि- कार्धे नास्ति ग-पुस्तके. ३. 'तत्र परोढा यथा' इति ग. ४. ग-पुस्तके तु 'द्विनीया यथा सागरिकादिः' इत्येत पाठः न तु 'अत्र-' इत्यादिः 'प्रतीयते' इत्यन्तः
Page 158
तृतीयः परिच्छेदः । १११
कैन्या त्वजातोपयमा सलज्ा नवयौवना। अस्याश्च पित्राद्यायत्तत्वात्परकीयात्वम्। यैथा मालतीमाधवादौ मालत्यादिः । धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका॥ ६७ ॥ निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि। वित्तमात्रं समालोक्य सा रागं दर्शयेद्धहिः ॥ ६८ ॥ पयमा अजातविवाहा। उदाहरणान्तरं तु नैषधीयचरिते यथा-'अनैषधायैव जुहोति तातः किं मां कृशानौ न शरीरशेषाम्। ईष्टे तनूजन्मतनोः स नूनं मत्प्रा- णनाथस्तु नलस्तथापि ।' अत्र विवाहात्पूर्व दमयन्त्या नलानुरागः । साधारणस्त्रि- यमाह-धीरेति। सुरतपण्डितेत्यर्थः । कला नृत्यगीतादयः, तत्र प्रगल्भा अति- 1. कलेति। कलाश्चतुःषष्टिः । ता एता :- (१) गीतम्, (२) वाधम्, (३) नृत्यम्, (४) आलेख्यम्, (५) विशेषकच्छेद्यम्, (६) तण्डुलकुसुमबलिविकारा:, (७) पुष्पास्तरणम्, (८) दशनवसनाङ्गरागः, (९) मणिभूमिकाकर्म, (१०) शयनरचनम्, (११) उदकवाद्यम्, (१२) उदकाघातः, (१३) चित्राश्च योगा:, (१४) माल्यग्रथनविकल्पाः, (१५) शेखरका- पीडयोजनम्, (१६) नेपथ्यप्रयोगा:, (१७) कर्णपत्रभङ्गा:, (१८) गन्धयुक्ति:, (१९) भूष- णयोजनम्, (२०) ऐन्द्रजाला:, कौचुमाराश्च योगाः, (२१) हस्तलाघवम्, (२२) विचि- त्रशाकयूषभक्ष्यविकारक्रिया, (२३) पानकरसरागासवयोजनम्, (२४) सूचीवानकर्माणि, (२५) सूत्रक्रीडा, (२६) वीणाडमरुकवाद्यानि, (२७) प्रहेलिका, (२८) प्रतिमाला, (२९) दुर्वाचकयोगाः, (३०) पुस्तकवाचनम्, (३१) नाटकाख्यायिकादर्शनम्, (३२) काव्यसमस्यापूरणम्, (३३) पट्टिकावेत्रवानविकल्पाः, (३४) तक्षकर्माणि, (३५) तक्ष- णम्, (३६) वास्तुविद्या, (३७) रूप्यरत्परीक्षा, (३८) धातुवादः, (३९) मणिरागा- कारज्ञानम्, (४०) वृक्षायुर्वेदयोगाः, (४१) मेषकुक्कुटलावकयुद्धविधि:, (४२) शुकशा. रिकाप्रलापनम्, (४३) उत्सादने संवाहने केशमर्दने च कौशलम्, (४४) अक्षरमु- षटिकाकथनम्, (४५) म्लेच्छितविकल्पाः, (४६) देशभाषाविज्ञानम्, (४७) पुष्पशक- टिका, (४८) निमित्तज्ञानम्, (४९) यत्रमातृका, (५०) धारणमातृका, (५१) संपा- व्यम्, (५२) मानसी, (५३) काव्यक्रिया, (५४) अभिधानकोषः, (५५) छन्दोज्ञानम्, (५६) क्रियाकल्पः, (५७) छलितकयोगाः, (५८) वस्त्रगोपनानि, (५९) द्यूतविशेषाः, (६०) आकर्षक्रीडा, (६१) बालक्रीडनकानि, (६२) वैनिकीनां (६३) वैजयिकीनां (६४) व्यायामिकीनां च विद्यानां ज्ञानम्। ५-विशेषकेति। विशेषकस्तिलकः यो ललाटे दीयते। तस्य भूर्जादिपत्रमयस्यानेकप्रकारं छेदनमेव छेद्यम्। ६-तण्डुलेति। नानावणरखण्ड- तण्डुलैः सरस्वतीभवने मणिकुट्टिमेषु तथा कुसुमैग्रथितैः शिवार्चनार्थ च भक्तिविकाराः । ८-दशनेति। रागशब्द: प्रत्येकमभिसंबव्यते। तत्राङ्गरागोऽ्ङ्गमाष्टिः कुङ्कमादिना। ११-उदकेति। उदके मुरजादिवद्वाद्यम्। १२-उदकेति। हस्तयत्रमुक्तैरुदकैस्ताडनम्। १. एतत्कारिकार्धे ग-पुस्तके नास्ति २. 'अस्या :- ' इत्यादिः '-त्वम् ।' इत्यन्तः पाठो ग-पुस्तके 'परोढा कन्यका' इति कारिकाया अग्रे दृश्यते. ३. 'यथा-' इत्यादि नास्ति ग-पुस्तके.
Page 159
११२ साहित्यदर्पणे
काममङ्गीकृतमपि परिक्षीणधनं नरम्। मात्रा निष्कासयेदेषा पुनःसंधानकाङ्खया॥ ६९॥ निपुणा। बहिः कृत्रिमम्। काममत्यर्थमङ्गीकृतं वल्लभत्वेन सवीकृतम्। मात्रा गृही- तोपकरणद्रव्याणि(व्यं) निःसारयेद् वाहयति(येत्)। संधानं सुरतार्थ संनिधानम्। १३-चित्रा इति। नानाप्रकारदौभाग्यैकेन्द्रियपलितीकरणादयः । २०-कौचुमारा इति। कुचुमारस्यैते सुभगंकरणादयः उपायान्तरासिद्धसाधनार्थाः । २४-सूचीति। सूच्या यत्संधानकरणं तत्सूचीवानम्। २५-सूत्रेति। नालिकासंचारनालादिसूत्राणामन्यथान्यथा दर्शनम्। छित्त्वा दग्ध्वा च पुनरच्छित्वादग्ध्वा च दर्शनम्। तच्चाङ्गुलिन्यासात्। देवकु० लादिदर्शनम् । २८-प्रतीति। यस्या अन्त्याक्षरिकेति प्रतीतिः । सा क्रीडार्था वादार्था च। यथोक्तम्-'प्रतिश्लोकं क्मादत्र संधायाक्षरमन्तिमम्। पठेतां श्रोकमन्योन्यं प्रतिमालेति सोच्यते ।' इति। २९-दुरिति। शब्दतोरऽर्थतश्च दुःखनोच्यत इति दुर्वा- चकम्। तस्य प्रयोगा: क्रीडार्था वादार्थाश्च। ३२-काव्येति। समसनं समस्या। 'असु क्षेपणे'। ण्यत्। 'संज्ञापूर्वको विधिरनित्यः' इति वृद्धिर्न। तस्याः पूरणम्। तदथा मम दशकण्ठवधे-'गीर्वाणगेहेषु महाशयानां वेशान्तरालेषु च कामुकानाम्। रागाङ्कुरं पल्वयत्यमन्दं यत्राच्युतोदारकथाप्रसङ्गः ।' अन्र तुरीयः पादः समस्या। ३५-तक्षति। वर्धकिकर्म। शयनासनादर्थम्। ३८-धात्विति। क्षेत्रवादः । स हि मृत्प्रस्तररत्नधातूनां पातनशोधनमेलनादिज्ञानहेतुरर्थार्थः । ४०-वृक्षेति। रोपणपुष्टिचिकित्सावैचित्यकृतो गृहो- द्यानार्थाः। ४३-उत्सादन इति। मर्दनं द्विविधम्-पादाभ्यां हस्ताभ्यां च। तत्र पा- दाभ्यां यन्मर्दनं तदुत्सादनमुच्यते। हस्ताभ्यां यच्छिरोभ्यङ्गकर्म तत्केशमर्दनम्। शेषा- ङ्वेधु मर्दनं संवाहनम्। ४४-अक्षरेति। अक्षराणां मुष्टिरिव सुष्टिका गुप्तिरिति। सा साभासा निराभासा च। तत्र साभासा अक्षरमुद्रेत्युच्यते। तया कथनं गूढवस्तुमत्रणार्थ ग्रन्थसंक्षेपार्थ च। तदुक्तमाचार्यरविगुप्तेन चन्द्रप्रभाविजये-'गहनप्रसन्नसर्वा कतिपयसूत्रा- मिमामनन्तमुखीम्। अनधीत्याक्षरमुद्रां वादसमुद्रे परिप्ठवते ॥' इति। निराभासा मुद्रे- त्युच्यते। तया कथनं गोप्यवस्तुमत्रणार्थम् । यथोक्तम्-'मुष्टिः किसलयं चैव च्छटा च त्रिपताकिका। पताकाङ्कुशमुद्राश्च मुद्रावर्गेषु सप्तसु ॥ अङ्गल्यश्चाक्षराण्येषां स्वराश्चाङ्कुलि- पर्वसु। संयोगादक्षरं युक्तं भूतमुद्रा प्रकीर्तिता ॥' इति। ४५-म्लेच्छितेति। यत्साधुशब्दो- पनिबद्धमप्यक्षरविन्यासादस्पष्टार्थ तन्म्लेच्छितम् । गूढवस्तुमत्रार्थमेतत्। ४९-यब्रेति। सजीवानां निर्जीवानां यत्राणां यानोदकसंग्रामार्थ घटनाशास्रम्। ५०-धारणेति। श्रुतस्य अ्रन्थस्य धारणार्थ शास्त्रम्। ५२-मानसीति। मनसि भवा चिन्ता दृश्यादृश्यभेदविषया। ५७-छलितकेति। परव्यामोहनार्थाः । आकर्षेति। पाशकक्रीडा। दयूतविशेषत्वेऽपि पुनर्व- चनमादरार्थम्। सशङ्गारत्वादुविज्ञेयत्वाद्ा। अक्षहृदयापरिज्ञाने हि नलयुधिष्ठिरयोरपि परा- जयात्। ६२-वैनेति। स्वपरविनयप्रयोजनाद्वैनयिक्यः आचारशास्त्राणि। एवमितरे अपि॥ 1. काममित्यादि। स्पष्टोऽयमर्थो वात्स्यायनीये वैशिकाधिकरणे-'सक्तं तु पूवोंपका- रिणमप्यल्पफलं व्यलीकेनानुपालयेत्। असारं तु निष्प्रतिपत्तिकमुपायतोऽपवाहयेत्। अन्यमवष्टभ्य।' इति, 'वर्तमानं निष्पीडितार्थमुत्सजन्ती पूर्वसंसृष्टेन सह संदध्यात्। स चेदवसितार्थों वित्तवान्सानुरागश्च ततः संधेयः ।' इति च ॥
Page 160
तृतीय: परिच्छेदः । ११३
तस्करा: पैण्डका सूर्खाः सुखप्राप्तधनास्तथा। लिङ्गनञ्छन्नकामाद्या आसां प्रायेण वलभाः॥७० ॥ एपापि मदनायत्ता क्वापि सत्यानुरागिणि। रक्तायां वा विरक्तायां रैतमस्यां सुदुर्लभम्॥ ७१॥ पैण्डको वातपाण्ड्डादिः। छन्नं प्रच्छन्नं ये कामयन्ते ते छन्नकामाः । तत्र रागहीना यथा लटकमेलकादौ मदनमञ्जर्यादिः। रक्ता यथा मृच्छकटिकादौ वसन्तसेनादि:। पुनश्र- अवस्थाभिर्भवन्त्यष्टावेताः पोडशभेदिताः । 1. तस्करा इति। अयमर्थों वात्स्यायनीये सविशेषमुक्त :- 'स्वतत्रः पूर्वे वयसि वर्त- नानो वित्तवानपरोक्षवृत्तिरधिकरणवानकृच्छाधिगतवित्तः । संघर्पवान्संततायः सुभगमानी श्राघनक: पण्डकश्च पुंशब्दार्थी। समानस्पर्धी स्वभावतस्त्यागी। राजनि महामात्रे वा सिद्धो दैवप्रमाणो वित्तावमानी गुरूणां शासनातिगः सजातानां लक्ष्यभूतः सवित्त एक- पुत्रो लिङ्गी प्रच्छन्नकामः शूरो वैद्यश्च ।' इति ॥ 2. रतमिति। रतमस्यां सुदुर्लभमित्युक्तिस्तु नितरां जघन्यतमा हरितालपातयोग्या च। शास्त्रस्य वन्तुस्थितिख्यापनमात्रपरतया तदनुमोदनानुपलम्भाच्छिष्टैरनादृतत्वाच्च। अत एव कामसूत्रकृताप्यभिहितम्-'धर्ममर्थ च कामं च प्रत्ययं लोकमेव च। पश्यत्येतस्य तत्वश्ञो न च रागात्प्रवर्तते॥ अविकारवशादुक्ता ये चित्रा रागवर्धनाः। तदनन्तरमत्रैव ते यलाद्विनिवारिताः ॥ तदेतङ्वह्मचर्येण परेण च समाधिना। विहितं लोकयात्रायै न रागा- थोऽस्य संविधि: ॥' इति। एवं परकीयाविषयोडपि जघन्यतम एव। उक्तं च तेनैव- 'संदृश्य शास्त्रतो योगान्पारदारिकलक्षितान्। न याति च्छलनां कश्चित्स्वदारान्प्रति शास्त्र- वित्। पाक्षिकत्वात्प्रयोगाणामपायानां च दर्शनात्। धर्मार्थयोश्च वैलोम्यान्नाचरेत्पारदा- रिकम्॥ तदेतद्दारगुप्यर्थमारव्धं श्रेयसे नृणाम्। प्रजानां दूपणायैव न विज्ञेयोऽस्य संविधिः' इति॥ 3. पण्डक इति। पण्डको नरंमन्यो नपुंसकः । स चात्मनः पुंस्त्वज्ञापनार्थ बहु वितरति। वस्तुतस्तु पण्डको वातपण्डकादिरिति व्याख्यानं ज्यायः । तथा चोक्तं चरक- संहितायां शारीरस्थानेऽतुल्यगोत्रीयाख्ये द्वितीयाध्याये-वाय्वशनिदोषादवषणौ तु यस्य नाशं गतौ वातिकपण्डकः सः ।'इति। एवमन्येडपि पण्डकमेदा निरूपिताः । पण्डते। 'पडि गतौ' । अच्। यदा, पणते। 'पण व्यवहारे स्तुतौ च'। जमन्ताड्कः ॥ 4. छन्नेति। प्रच्छन्नकामिनो हि प्रकटं न कामयन्ते लोको मा ज्ञासीदिति। ते कामेन बाध्यमाना बहु वितरन्ति। छन्नं यथा स्यात् तथा कामयन्ते इति कर्मण्यणू। 5. षोडशेति। त्रयोदश स्वीयाः, द्वे परकीये, एका सामान्येति मिलित्वा षोडशभे- दिता एता: स्वाधीनपतिकाद्यष्टावस्थाभिः प्रत्येकं भिदन्त इति तात्पर्यम् ।। १. 'पण्डूका:' घ. २. 'वातरोग' क-घ.
Page 161
११४ साहित्यदर्पणे
स्वाधीनभर्तृका तद्वत्खण्डिताथाभिसारिका॥ ७२॥ कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका। अन्या वासकसञ्जा स्याद्विरहोत्कण्ठिता तथा॥ ७३ ॥ तत्र- कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम्। विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका॥ ७४॥ यथा-'अस्माकं सखि वाससी-' इत्यादि। पार्श्रवमेति प्रियो यस्या अन्यसंयोगचिह्नितः । सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता॥ ७५॥ यथा-'तदवितथमवादीः-' इत्यादि। अभिसारयते कान्तं या मन्मथवशंवदा। स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ॥ ७६॥ क्रैमादयथा- "ने च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि। निपुणं तथैनमभिगम्य वदेरभिदूति काचिदिति संदिदिशे॥' "डैत्क्षिप्तं करकङ्कणद्वयमिदं बद्धा हढं मेखला यलेन प्रतिपादिता मुखरयोर्मञ्जीरयोर्मूकता। आरब्धे रभसान्मया प्रियसखि क्ीडाभिसारोत्सवे चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः।।' सुखेन अनायासेन प्राप्तं धनं यैस्ते। लिङ्विनस्तपस्विवेषधारिणः। आसां वेश्यानाम्। एषा वेश्यापि। ईर्याकषायिता ईर्ष्यया कलुषीकृतचित्ता। अभिसारिकापदस्य व्यु- त्पत्तिलभ्यमर्थद्वयमेव लक्षणद्वयमाह-अभिसारयत इति। न चेति। स कान्तः अभिदूति अभिमुखागतां दूतीं प्रति संदिदिशे वाचिकं न्यस्तवती। उत्क्षिप्तम् ऊध्चे न्यस्तम् । एतेन तयोः शब्दप्रतिरोधः । प्रतिपादिता कृता। तिमिरमेव अव- 1. वदेरिति। विध्य्थे प्रार्थने वा लिड॥ १. 'यथा' क. २. 'यस्या रतिगुणाकृष्टः पतिः पार्श्ध न मुच्चति।'ग ३. ग-पुस्तके तु-'निद्राकषाय- मुकुलीकृतताम्रनेत्रो नारीनख्रणविशेषविचित्रिताङ्गः । यस्याः कुतोऽपि गृहमेति पतिः प्रभाते सा ख- ण्डितेनि कथिता मुनिभिः पुराणैः ॥' यथा-'नवनखूपदम गोपयस्यंशुकेन-' (इत्यादि)इति पाठ: ४. 'कमात्' इति ग-पुस्तके नासि्ति. ५. 'त्वरय प्रस्तुतविधये यावत्तिमिराणि तरुणतरणानि। भावी कुलटा- घाट: शशघरकरकण्टकैरवहः ॥' ग. ६. 'उत्क्षप्तं-' इत्यादि 'उदाहरणम्।' इत्यन्तः पाठो ग-पुस्तके नास्ति.
Page 162
तृतीय: परिच्छेदः । ११५
संलीना स्वेषु गात्रेपु सूकीकृतविभूपणा। अवगुण्ठनसंवीता कुलजाभिमरेद्यदि॥ ७७॥ विचित्रोज्वलवेपा तु रणन्पुरकङ्कणा। प्रमोदस्मेरवदना स्याद्वेश्याभिसरेद्यदि॥ ७८॥ मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना। आविद्धगतिसंचारा स्यात्प्रेष्याभिसरेद्यदि॥ ७९॥ तत्राद्ये 'उत्क्षिप्ं-' इत्यादि। अनयोरूह्यमुदाहरणम्। प्रसङ्गादभिसारस्थानानि कथ्यन्ते- क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम्। मालापञ्चः रैमशानं च नद्यादीनां तटी तथा ।। ८० ॥
गुण्ठनपटः आच्छादनवस्त्रं तस्य क्षेपं निरासम्। प्रसङ्गादभिसरणक्ममाह-संली- नेति। गात्रेषु अङ्गेषु। संकुचितसर्वाङ्गीत्यर्थः । अवगुण्ठनेन आच्छादनपटेन संवीता संवृतदेहा। एतदुपलक्षणम्। अनुलेपादिनापि संवीता। तन्रान्धकारे नीलवस्त्रकु- सुमकस्तूरिकासंवीता। ज्योत्सायां चन्दनद्रवसंवीता। क्रमेण यथा-'सिनं वसन- मर्पित वपुषि नीलचेलभ्रमान्मया मृगमदाशया मलयजद्रवः सेवितः । करेण परिवो- धित: खजनशङ्कया दुर्जनः परं परमपुण्यतः सखि न लद्विता देहली ॥','मल्लिकामाल- भारिण्यः सर्वाङ्गीणार्द्रचन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥' आविद्धः उद्भावितः पत्युः सद्भावो यया। 'आविद्धगतिसंचारा' इति पाठे आविद्धया उद्धतया गत्या संचारः संकेतस्थानप्राप्तिर्यस्याः सेत्यर्थः । आद्ये कुलजाभिसरणप्र- कारे अनयोर्वेश्याप्रेष्याभिसरणप्रकारयोः । तत्र क्रमेणोदाहरणम्। यथा मम- "कामेषुवेधविधुर धुरि दत्तवित्तं शिज्ञानमश्जुमणिनूपुरकिङ्किणीका। मन्दं बृहत्कुचनि- तम्बभरेण दूरादाश्वसयत्यभिसरत्युत कापि धन्यम् ॥','कान्तं तमेकान्तगुणाभिरामं मदीहिताधानविवृद्धकामम्। प्राप्यापमोदं विदधे सखीति ब्रुवत्यभीष्टं प्रमदाभियाति।' अत्र 'संमोदम्' इति वक्तव्ये 'अपमोदम्' इति संलापस्खलनम्। क्षेत्रं सस्योत्पत्ति- 1. मालेति। मालापञ्च इति शब्दः संदिग्ध एव सर्वत्रोपलभ्यते। तथापि टीकावि- वृतपुष्पोद्यानपदस्वारस्येन 'मालानां पञ्चो व्यक्तीकरणं यस्मात्' इत्यादिरीत्या कथंचिद् व्याख्येयः । मा नास्ति आलापो यत्र तच्छून्यं गृद्मित्यर्थ इति 'मालापं च' इति पाठे योज्यम्।। 2, कामेति। लक्षणानुसरणमात्रमेतत्। उदाहरणं तु 'लोलच्ोलचमत्कृति-'इत्यादि दष्टव्यम् ॥
१. 'मालापश्चाः' क; 'मालायच्चाः' ख; 'मालायाश्ः' ख्र-पुस्तकटिप्पणी; 'मालामश्ाः'ग; 'मालयं च' घ. २. 'उमशानानि' क.
Page 163
११६ साहित्य दर्पणे
एवं कृताभिसाराणां पुंश्चलीनां विनोदने। स्थानान्यष्टौ तथा ध्वान्तच्छन्े कुत्रचिदाश्रये॥८१॥ चाटुकारमपि प्राणनाथं रोषादपास्य या। पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ।। ८२।। यैथा मम तातपादानाम्- 'नो चाटुश्रवणं कृतं न च दशा हारोऽन्तिके वीक्षितः कान्तस्य प्रियहेतवो निजसखीवाचोडपि दूरीकृताः। पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुंध्य हन्त सहसा कण्ठे कथं नार्पितः ।।' प्रियः कृत्वापि संकेतं यस्या नायाति संनिधिम्। विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता ॥ ८३॥ यथा- 'उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः । यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः ॥' नानाकार्यवशादस्या दूरदेशं गतः पतिः। सा मनोभवदुःखार्ता भवेत्प्रोषितभर्तका ।।८४॥ स्थानम्। वाटी निर्जनवास्तु। मालापश्चः पुष्पोद्यानम्। विनोदने इति। सुर- तोत्सवायेत्यर्थः । कुत्रचिदाश्रये। पुंश्चल्योऽभिसरन्ति इति शेषः । 'आश्रयः' इति प्रथमान्तपाठे ध्वान्तच्छन्ने कुत्रचिद्देशे आश्रयोऽिष्ठानं पुंश्रलीनां विनोदे भवती- त्यर्थः । चाटुं प्रियोक्ति करोतीति चाटुकारः तम्। हारो नायकेन प्रसादाय दीयमानो मुक्ताकलापः। याम: संकेतकालः। नानाकार्यवशादिति। शापसंभ्रमयोरप्युप- 1. वाटीति। गरृह्योद्यानमित्युचितम्। मालापञ्च इत्यस्याग्रे लिखितं 'पुष्पोदानम्' इति लेखदोषाद्ष्टम्, 'निर्जनवास्तु' इति तु तत्रत्यमिव प्रतिभाति ॥
१. 'मुनिः प्राह ध्वान्तच्छन्नं स्थलं तथा।' ग. २. 'पादयोः पतिते कन्ते या मानं न विमुश्चति। तस्मिन्गते तु तापाती कलहान्तरिता तुसा ॥'ग. ३. 'यथा मम तातपादानाम्' ग-पुस्तके नास्ति. ४. 'अहरहरनुरागादूतिका प्रेष्य पूर्व सरळसमभिसृत्य क्वापि संकेतके च। न मिलति खलु यस्या वल्लमो दैवयोगात्मवदति भरतस्तां नायिकां विप्रलव्धाम् ।I' इति ग. ५. ग-पुस्तके तु 'सखि स विजितो वीणाधयूते-' (इत्यादि) इति पाठः. ६. 'दूरदेशं गते कान्ते विवर्णा मलिना कृशा। या तिष्ठति तदाकाल्णा सा स्यात्म्रोषितभर्तृका ॥' इनि ग. ७. 'मालायं च' इत्येकस्पिन्पुस्तके; 'मालायाच्चः' इति द्वितीयस्मिन्पुस्तके.
Page 164
तृतीयः परिच्छेदः । ११७
यथा- 'तों जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम्। गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्मु बालां जातां मन्ये शिशिरमथितां पझ्मिनीं वान्यरूपाम् ।।' कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि। सा तु वासकसज्जा स्याद्विदितप्रियसंगमा । ८५॥ यथा राघवानन्दानां नाटके- 'विदूरे केयूरे कुरु, करयुगे रत्नवलयै- रलं, गुर्वी ग्रीवाभरणलतिकेयं किमनया। नवामेकामेकावलिमपि मयि त्वं विरचये- र्न नेपथ्यं पथ्यं बहुतरमनङ्गोत्सवविधौ।।' आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत्प्रियः । तदनागमदुःखार्ता विरहोत्कण्ठिता तु सा ।।८६।।
लक्षणम्। तेनोक्तोदाहरणे नाव्याप्तिः। तां जानीया इति। कुबेरशापात्प्रोषितस्य यक्षस्य मेघं प्रत्युक्तिरियम्। पद्मिनीं वेति वाशब्द इवार्थः । 'वा स्याद्विकल्पोपमयो- रिवार्थे च समुच्चये।' इति विश्वप्रकाशः । उत्तरार्धे द्वितीयान्तपादेषु प्रथमान्तपाठः क्वचित्पुस्तकेषु दृश्यते तदा पुनरिवशब्द एव। कुरुत इति। सखी इति शेषः। सज्जिते शय्याप्रदीपादिभिः परिष्कते। विदूरे इति । मण्डयन्तीं सखीं प्रति कस्य- चिदुक्तिरियम्। नवां नवगुम्फिताम्। अन्यथा परिरम्भभरेण झटिति त्रुटिता स्यात्। बहुयष्टिकहारस्य परिरम्भातिविन्नहेतुतादाह-एकावलिमिति। एकयष्टिकहारमि- त्यर्थः। यत्प्रिय इति। यस्याः प्रिय इत्यर्थः । तद्नागमेति । प्रियानागमने
१. ग-पुस्तके तु 'आधिक्षामां विरहशयने-' इत्युदाहृतम्. २. 'वासवेश्मनि सुकल्पिततल्पे थः समागमविधि विदधाना । तिष्ठति प्रियसनागमसज्जा तां मुनिर्वदति वासकसजाम् ।' इति ग. ३. ग-पुस्तके तु 'राघवानन्दानां-' इत्यादिः '-विधौ ।' इत्यन्तः पाठो नास्ति, किंतु तत्स्थाने 'अक्रे- ष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्रात्तं त्वां परिशङ्कते वितनुने शय्यां चिरं ध्यायति। इत्याक- ल्यविकल्पतल्परचनासंकल्पलीलाशतव्यासक्तापि विना त्वया वरतनुर्नषा निशा नेष्यति ।' इति दश्यते, ४. 'उद्दाममन्मथमहाज्वरवेपमानां रोमाश्चक्चुकितमङ्गकमावहन्ती। गाढानुरागवचनां पुरतः सखीनामु- त्कण्ठितां वदति तां भरतः कवीन्द्रः ।' इति ग.
Page 165
११८ साहित्यदर्पणे
यथा- किं रुद्ध: प्रियया कयाचिद्थवा सख्या ममोद्वेजितः 'किंवा कारणगौरवं किमपि यन्नाद्यागतो वह्लमः । इत्यालोच्य मृगीद्ृशा करतले विन्यस्य वक्राम्बुजं दीर्घे निःश्वसितं चिरं च रुदितं क्षिप्ाश्च पुष्पस्जः ॥' इति साष्टाविंशतिशतमुत्तमर्मध्याधमसवरूपेण। चतुरधिकाशीतियुतं शतत्रयं नायिकाभेदाः ।।८७॥ नेत्यर्थः । किं रुद्ध इति । संकेतस्थाया नायिकायाः प्रियानागमने वितर्कोऽयम्। 1. कारणेति। कारणगौरवं हेतूद्रेकः । प्रयोजनविशेष इति यावत्। 2. इतीति। सवीया तावत्रिविधा-मुग्धा मध्या प्रगल्भा चेति। तत्र मुग्धैकधा, मध्याप्रगल्भे तु धीराधीरोभयभेदेन षडिधे। धीरा मध्या, अधीरा मध्या, धीराधीरा मध्या। एवमग्रेडपि। एताश्च षड़िधा ज्येष्ठत्वकनिष्ठत्वाभ्यां द्विविधाः। धीरा ज्येष्ठा-क- निष्ठा, अधीरा ज्येष्ठा-कनिष्ठा, धीराधीरा ज्येष्ठा-कनिष्ठा चेति। एवं द्वादशभेदा मु- ग्धया सह त्रयोदश भवन्तीति सवीयाकथा। परकीया द्विविधा-परोढा कन्यका चेति। सामान्या त्वेका। एताः पुनः सभेदाः स्वकीयापरकीयासामान्याः स्वाधीनपतिकाद्यष्ाव- स्थाभि: प्रत्येकं भिदयन्ते। एवं चतुरधिकशतं स्वीयाः। षोडश परकीयाः । अषौ सा- मान्याः । आसां संकलनेऽष्टाविंशत्यधिकशतं नायिका:। १०४+१६+८=१२८॥ तासामप्युत्तममध्यमाधमभेदगणनया चतुरधिकाशीतियुतं शतत्रयं भेदाः । ३x१२८= २८४। तत्रापि दिव्यादिव्योभयभेदगणनया द्विपधाशदधिकैकादशशतं भेदा जायन्ते। ३x३८४=११५२ । अन्रेदमप्यवधेयम्-यद्यपि सुग्धाया लज्जाप्राधान्येन, मध्याया लज्जामदनप्राधान्येन, प्रगल्भायाः प्रौढिप्राधान्येन, धीराया धैर्यप्राधान्येन, अधीराया अवैर्यप्राधान्येन, धीराधीराया वैर्याधैर्यप्राधान्येन, ज्येष्ठायाः प्रेमज्यैष्ठ्यप्राधान्येन, कनि- छठाया: प्रेमकानिष्ठयप्राधान्येन, परोढाया रहस्यप्राधान्येन सुग्धाया इव कन्यकायाः, सामान्याया वित्तप्राधान्येन, अष्टविधा नायिका भवन्ति तथापि 'प्रस्थानं वलयैः कृतं प्रियसखैरस्ैरजस्रं गतं दृष्टा न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः। यातुं नि- श्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवितप्रिय सुहृत्सार्थः किमु त्यज्यते ।।' इत्यादिलक्ष्यादुत्तरक्षणे कृतदेशान्तरगमनाध्यवसाये प्रिये प्रवत्स्यद्भर्तृका नवमी नायिका भवितुमर्हृति। तस्याः प्रोषितभर्तृकाविप्रलब्धाविरद्दोत्कण्ठितासु नान्त- भावः। संनिहिते प्रेयसि तत्त्वायोगात्। न कलहान्तरितायामन्तर्भावः। कलहाभावाद- नवमानित्वाच्च। न खण्डितायामन्तर्भावः। अन्योपभोगलान्छितस्य प्रियस्यागमनाभा- १. 'एणीदशः मबलतापभयादिवास्याः श्वासानिलाः प्रति मुहुः प्रसरन्ति दूरम्। बाष्पाम्बुवीचिषु निमज्जनकातरेव निद्रा हशोर्न सविधेऽपि पदं विधत्ते' ॥ इति ग. २. 'मध्यमाधमस्वरूपमतः' क-ख; ग.पुस्तके तु 'मेदे पूर्ववदासामुत्तममध्याधमत्वेन।' इति पूर्वार्धम्; 'मध्यमाधमस्वरूपतः' घ. ३.'नायिका- भिदानां स्यात्' क-ख; 'नायिकाभिधानं स्यात्' गः 'नायिकाभेदानां स्यात्' घ.
Page 166
तृतीय: परिच्छेदः । ११९
'इह च परस्त्रियौ कन्यकान्योढे संकेतात्पूर्व विरहोत्कण्ठिते। पश्चा- द्विदूपकादिना सहाभिसरन्त्यावभिसारिके। कुतोऽपि संकेतस्थानमप्राप्ते नायके विप्रलब्धे। इति श्रवस्थैवानयोः । अखाधीनप्रिययोरवस्थान्न- रायोगात्।' इति केश्चित्। क्कचिदन्योन्यसांकर्यमासां लक्ष्येषु दृश्यते। यथा- 'ने खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वाम्। विट विटपममुं ददखव तस्यै भवति यतः सदृशोश्चिराय योगः ॥' अवस्था त्रयो भेदाः अनयोः परस्त्रियोः। अवस्थान्तरायोगादिति। प्रका- रासंभवादिति भावः । तथाहि-परस्त्रियाः पार्श्ववे नायकस्य सततमवस्थानायोगान्न स्वाधीनभर्तृकालम्। नायिकान्तरसंभोगेन ईर्ष्याया असंभवात्र खण्डितालम्। नायि- कान्तर संभोगदोषात्कान्तत्यागा संभवेन न कलहान्तरितालम्। कान्तस्य दूरदेशगमनेन मनोभवदुःखार्तत्वाभावान्न प्रोषितभर्तृकात्वम्। परालोकनशङ्कया सज्जितवासवेश्मनि मण्डनासंभवान वासकसज्ालम्। तथा चानयोस्विध्येन पडेव भेदाः । न लष्टवि- वत्वेन षोडशेति। तन्र चतुरशीत्यधिकशतत्रयसंख्या नोपपन्नेति भावः। 'असाधी- नप्रिययोः इत्युपदर्शनमात्रम्। आसामुपदर्शितप्रकाराणां नायिकानाम्। लक्ष्येषु महाकविप्रयोगेषु। न खल्विति। सपुष्पपल्लवां वृक्षशाखां प्रियायै यच्छन्तं नायकं प्रति नायिकाया उक्तिरियम्। अमुष्य विटपस्य। पिबति चुम्बति। पाति योषिदन्तरेभ्यो वारयति। हे विट हे षिङ्ग कामुक। विटपं सपुष्पमालां शाखाम्। सदशोरिति। विटं लां पिबति पाति वेति व्युत्पत्तिदयेन सैव विटपा अयमपि विटप इति वात, प्रियायाः कोपाभावदर्शनात्, काकुवचनकातरावलोकनादिसूचितान्तरिकपक्षपात- दर्शनाच्च। न वासकसज्जायामन्तर्भावः। गच्छति प्रिये सज्जीकरणाभावात् खेदोद्गमाच्च। न स्वाधीनभर्तृकायामन्तर्भावः। उत्तरक्षण एव विप्रयोगदर्शनात् भर्तरि स्वाधीनत्वव्याघा- ताच्च। नाप्यभिसारिकायामन्तर्भावः । उत्साहराहित्याद् अन्तस्तापदर्शनाच्चेति। एतल- क्षणं तु 'पतिर्देशान्तरं यस्या यास्यत्येवोत्तरक्षणे। प्रवत्स्यत्पतिका सा स्यात्प्रयाणच्छेदनो- दयमा ॥' इति ज्ञेयमिति नव्याः ॥ 1. नेति। वयममुष्य दानयोग्या न भवामः खल। किंतु या असावेवासकी त्व- त्प्रिया रहः एकान्ते त्वां पिबति पानं करोति पाति मदनानलसंतापाद्रक्षति च। तस्यै अमुं विटान्पातीति विटप पल्लवम् । 'विटपः पल्लवे षि्गे' इति विश्वः। ददस्व प्र- यच्छ। व्रज गच्छ। यतो दानाच्चिराय चिरकालाय सदृशोरनुरूपयोयोंगो भवतु। अभयोरपि विटपत्वादिति भावः ॥ हे कितव धूर्त, वृथा व्यर्थमेवाहितः। तत्कार्यस्यान्यथा- सिद्धत्वादिति भाव: । तव संबन्धिभिः क्षितिरुहाणां पह्वाः पुष्पाणि च तान्येव कर्ण
१. 'कन्यकोढे' ख-ग-घ. २. 'कचित्' क. ३. 'सततस्थान-' इति पुस्तकान्तर.
Page 167
१२० साहित्यदर्पणे
तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः । ननु जनविदितैर्भवद्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मन् ।।' 'मुहुरुपहसिताविवा लिनादैर्वितरसि नः कलिकां किमर्थमेनाम्। वैसतिमुपगतेन धाम्ि तस्याः शठ कलिरेष महांस्त्वयाद्य दृदः ॥' 'इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण। श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च।।' इयं हि वकोत्तया परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधी- रमध्यताधीरप्रगल्भताभि: संकीर्णा। एवमन्यत्राप्यूह्यम्। इंतरा अप्यसंख्यास्ता नोक्ता विस्तरशङ्कया॥ ८८॥ ता नायिकाः ।
तुल्ययोर्योगो योग्यो भवतीत्यर्थः । भवद्यलीकैर्भवतोऽप्रियवचनैः। स्फुरितो मनोरमः पक्ष्मवत्केसरो यस्य तेन। चक्षुःपक्षे-पक्ष्मैव केसरो यस्य तेन। वक्रोक्येति। विटशब्दस्य नानार्थकल्पनाविचित्रोक्त्येत्यर्थः । इतरा अपि प्मिनीहस्तिनीप्रभृतयः। पूरयन्तीति कर्णपूरा: कर्णावतंसाः । तैनोऽस्माकं कि तत्साध्यम्। न किचिदस्ती त्यर्थः। ननु अङ्ग, जनविदितैर्भवद्यलीकैस्तवाप्रियवचनैः कर्णयुग्मं चिरपरिपूरितं नित्यं पूर्णमेव। अतः पूरितस्य पूरणायोगादलमेभिरिति॥ अलिनादैमुहुरुपहसितां प्रतारणा- थैति प्रहस्यमानामिव स्थितामेनां कलिकां कोरकम्, अल्पं कलि कलहं च। 'कलहे च युगे कलि:' इति वैजयन्ती। स्त्रीप्रत्ययस्त्वविवक्षितः शरेषे। नः अस्माकं किमर्थ वितरसि। हे शठ गूढविप्रियकारिन्, तस्याः त्वत्प्रियाया धाम्नि भवने वसि स्थितिमुपगतेन त्वया अधैष वर्तमानो महान् कलि: कलहो दत्तः । स्वदत्त एव महति कलौ स्थिते किं कल्पान्तरेणेत्यर्थः ॥ इति गदितवती उक्तवती अन्या स्त्री रुषा कान्तं स्फुरितान्युज्ज्वलानि ननोरमाणि च पक्ष्माणीव केसराणि। अन्यत्र केसराणीव पक्ष्माणि, यस्य तेन श्रवणे नियमितेन श्रोत्रे निरुद्धेन असिताम्बुरुहेण नीलोत्पलेन चक्षुषा च समं युगपज्जधान ताडयामासेति॥ 1. इतरा इति। तथा चोक्तम्-'पुनश्च तास्त्रिधा ज्ञेया दिव्यादिव्योभयात्मना। चतुर्धा चोद्धतोदात्ता ललिता शान्तिका तथा ॥ अक्षता च क्षतायाता याता यायावरेत्यपि। पुनश्चतुर्धा कथिता: पूर्वैभोजादिभिर्बुधैः ॥ पझमिनी चित्रिणी चैव शङ्िनी हस्तिनीति च। पुनश्चतुर्धा कथिता: कामशास्त्रेपु जातितः ॥ कफिनी वाहुला पित्तला प्रकृत्या पुनस्त्निधा। अथोक्तानां च भेदानां लक्षणोदाहती ब्रुवे।। दिव्याः शच्यादयः प्रोक्ता अदिव्या मालतीमुखाः । दिव्यादिव्या इति प्रोक्ता जानकीरुक्मिणीमुखाः॥ गर्वशा लिन्युद्धता स्यादुदात्ता गूढमानिनी। ललिता साध्यमानेहाशान्ता निर्मानमानसा॥
१. अयं श्रोक: क-ग-घ-पुस्तके नासत, २. 'इतरा-' इति कारिकार्ध नास्ति ग-पुस्तके.
Page 168
नृतीय: परिच्छेदः । १२१
अथासामलंकारा :-
अलंकारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ॥८९॥ शोभा कान्तिश्र दीपिश्च माधुर्य च प्रगल्भता। औदार्य धैर्यमित्येते सप्तैव स्युरयल्जाः ॥ ९० ॥ लीला विलासो विच्छित्तिर्विव्वोक: किलकिश्चितम्। मोट्टायितं कुद्टमितं विभ्रमो ललितं मदः ॥ ९१॥ विहृंतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम्। हसितं चकितं केलिरित्यष्टादशसंख्यकाः ॥९२॥ स्वभावजाश्र भावाद्या दश पुंसां भवन्त्यपि। पूर्वे भावादयो धैर्यान्ता दश नायकानामपि "संभवन्ति । किंतु सर्वे- डप्यमी नायिकाश्रिता एव विच्छित्तिविशेषं पुप्णन्ति।
नायिका निरुप्य कार्यत्वसंगत्या तदलंकारं निरूपयति-अथेति। तासां नायि- कानाम्। अलंकाराणामङ्गजत्वायत्नत्सभावजत्वैस्त्रैविध्यं दर्शयन्नुद्देशं करोति- शोभेति। 'भवन्त्यपि' इत्यपिशव्दस्य योजनां दर्शयन्विवृणोति-पूर्व इति।
उदात्तैव भवेद्धीराथाधीरा तूद्धता मता। ललिता तु भवेन्सुग्धा शान्ता स्वीयोत्तमा मता॥ भुक्तान्येन पुरा पश्चादूढान्येनाक्षता मता। भुक्ता शक्तिसुतेनोढा राज्ञा सत्यवती यथा। गते भर्तरि यद्यन्यं श्रिता सा तु क्षता मता। यथा तारा रविसुतं श्रिता वालिनि मारिते॥ यातायाता तु युगपदूढानेकैस्तु भर्तृभिः। यथा पाण्डूसुतैरूढा द्रुपदस्य कुमा- रिका॥ ऊढैकेन तु संत्यक्ता क्रमाद्यायावरा मता। यथा बहुवरैरूढा माधवी चोपला- त्मजा॥ पझमिनी चन्द्रवदना शिरीपमृदुला तथा। शह्गिनी स्याद्ृहन्मध्या कोपिन्यल्पस्तनी तथा । दीर्घपादा द्रुतगतिः कुटिलाक्षी च पिड्ला । हस्तिनी बडुभुक्करा निस्रपा पिङ्गकुन्तला ।I ह्रस्वा स्थूलाधरा गौरशरीरा मन्दगामिनी। कफिनी दृढरागा स्याच्छयामा सुख्तिग्धलोचना॥ वातुला तु कठोराङ्गी चशला कृष्णपाणिजा। श्यामधूसरवर्णा च बदु- भोज्या प्रलापिनी ॥ पित्तला शोणनयना गौराङ्ी कुशला रते। सा चनुर्धा पुनरपि नायिका प्रतिनायिका l यथा द्रुपदजा प्रोक्ता वेणीसंहारनाटके। हेतुरीष्यांरुडादीनां सपक्षा प्रतिनायिका॥ दुर्योधनस्य दयिता तत्र भानुमती यथा। तस्याः कैश्चिद्ुणैहींना पूज्या चैवोपनायिका ॥ समा न्यूनापि वा किंचित्कनीयस्यनुनायिका ।' इत्यादि ॥
१. 'विहृतं' ख-घ. २, 'सभाव-' इत्यादिः 'पुष्णन्ति' इत्यन्तः पाठो ग-पुस्तके नासित. ३. 'स्यु:' क-ख. 8. 'भवन्ति' क-ख. ५ 'कार्यत्वसंगत्या' इति पुस्तकान्तरे नास्ति. सा० द० ११
Page 169
१२२ साहित्यदर्पणे
तेत्र भाव :- निर्विकारात्मके चित्ते भाव: प्रथमविक्रिया ॥९३॥ जैन्मतः प्रभृति निर्विकारे मनसि उहुद्धमात्रो विकारो भावः । येथा- 'से एव सुरभि: कालः स एव मलयानंलः । सैवेयमबला किंतु मनोऽन्यदिव दृश्यते।।' अथ हाव :- ध्रूनेत्रादिविकारैस्तु संभोगेच्छाप्रकाशक:। भाव एवाल्पसंलक्ष्यविकारो हाव उच्यते ॥ ९४॥ यथा- 'विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः । साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ।I' अथ हेला- हेलात्यन्तसमालक्ष्यविकार: स्ात्स एव तु। स एव भाव एव। यथा- 'तह से झत्ति पउत्ता वहुए सव्वङ्गविब्भमा सअला। संसइअमुद्धभावा होइ चिरं जह सहीणं पि ।।' विच्छित्तिविशेषं विलक्षणवैचित्र्यम् । प्रथमविक्किया संभोगेच्छायाः प्रथमः प्रकृति- विपर्यासः । उद्धुद्धमात्रः, नतु स्फुटं प्रतीयमानः । एतेन हावहेलालक्षणातिव्याप्ति- वोरिता। कौमारे चाश्चल्यादिरहितानां भ्रूनेन्नादीनां चाश्चल्यादिरूपप्रकृतिविपर्यासैर- रुपसंलक्ष्यविकारः ईषल्लक्ष्यखभावः। एतेन हेलालक्षणातिव्याप्तिर्वारिता। विवृण्वती प्रकटयन्ती। साचीकृता वक्रीकृता। पर्यस्तविलोचनेन शिवे परिक्षिप्तनेत्रेण। बाल- कदम्बेत्यनेन पुलकस्याल्पत्वं तेन च भावस्याल्पलक्ष्यत्वं प्रतीयते। तह से इति। १. 'लक्षणान्याह' ग. २. 'निर्विकारात्मकात्सत्वान्नावस्तत्राद्यविक्रिया'। इति ग. ३. 'ज. न्मत :- ' इति फक्किका नासिति ग-पुस्तके. ४. 'यथा' इत्यतः मराक् ग-पुस्तके 'तत्र विकार- हेतौ सत्यपि अविकारकरं सत्त्वम् ।' इति पाठः ५. 'स एव-' इति नास्ति ग-पुस्तके, तत्स्थाने तु 'श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्-'इति श्रोको दृश्यते. ततः 'अविकाररूपात्तस्मात्सत्वाद्यः प्रथमो विकारान्तविपरिवर्ती बीजस्योच्छूनतेव स भावः। यथा-हरस्तु किंचित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवा- मुराशिः। उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥' इति पाठः ६. 'हेवाकस्तु सशङ्गारो हावोऽक्षित्रूविलासकृत। प्रतिनियताङ्गविकारकारी सशज्गारः सवभावविशेषो हावः ॥' इति ग. ७. 'विवृण्वती-'इति श्रोको नास्ति ग-पुस्तके. ८. 'स एव हेला सुव्यक्तशङ्गाररससूचिका। हाव एव स्पष्टभूतो विकारभूतत्वात्सुव्यक्तश्ट द्गाररससूचको हेला।' इति ग.
Page 170
तृतीय: परिच्छेद: । १२३ अथ शोभा- रूपयौवनलालित्यभोगाद्यैरङ्गभूषणम् ।। ९५।। शोभा प्रोक्ता तत्र यौवनशोभा यथा- 'असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य। कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वैयः प्रपेदे ॥' एवमन्यत्रापि। अथ कान्ति :- सैवं कान्तिर्मन्मथाप्यायितद्युतिः। मैन्मथोन्मेषेणातिविस्तीर्णा शोभैव कान्तिरुच्यते। यथा-'नेत्रे खज्जनमञ्जने-' इत्यादि। अथ दीप्ति :- कान्तिरेवातिविस्तीर्णा दीप्षिरित्यभिधीयते ॥ ९६॥ यथा मम चन्द्रकलानामनाटिकायां चन्द्रकलावर्णनम्- 'तारुण्यस्य विलासः सैमधिकलावण्यसंपदो हासः । धैरणितलस्याभरणं युवजनमनसो वशीकरणम् ।।' 'तथा तस्या झटिति प्रवृत्ता वध्वाः सर्वाङ्गविभ्रमाः सकलाः। संशयितमुग्धभावा भवन्ति चिरं यथा सखीनामपि ।' इति संस्कृतम्। संशयितमुग्धभावाः संदि- ग्शैशवाः । लालित्यमङ्गानां सुकुमारत्म्। भोगः स्क्चन्दनादिजनितसुखानुभवः । आद्यशब्देन अलंकारादिग्रहणम्। तारुण्यस्येति। अत्र तारुण्यविलासादी- 1. करणमिति। मदस्य करणं साधकमित्यर्थः ॥। 2. वय इति। यौवनोन्मेषेणैव हि युवतयो भूष्यन्ते माद्यन्ते काम्यन्ते चेति भावः ।। 3. समधिकेति। 'मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु तल्ा- वण्यमिहोच्यते ॥' इति तलक्षणं ज्ञेयम् ॥ 4. धरणीति। तलशब्दः स्वरूपवाची॥
१. 'अथ-' इत्यादिः 'एवमन्यत्रापि' इत्यन्तः पाठो ग-पुस्तके नास्ति, तत्स्थाने 'अथायत्ञजा :- (शोभा) रूपोपभोगतारुण्यैः शोभाङ्गानां विभूपणम्।' यथा-'ताः प्राम्पुखी तत्र निवेश्य बालां क्षणं व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाहियमाणनेत्रः प्रसाधने संनिहितेऽपि नार्यः ॥' इनि. २. 'मन्मथाप्यायितच्छाया सैव कान्तिरिति स्मृता ।' इति ग. २. ग-पुस्तके तु 'मन्मथ-' इति फकिका नास्ति. तदय्रे 'उन्मीलदूदनेन्दुदीप्िविसरैर्दूरे समुत्सारितं भिन्नं पीनकुचस्थलस्य च रुचा हस्तप्रभामिर्हतम्। एतस्या: कलविङ्ककण्ठकदलीकल्पं मिलत्कौतुकादप्राप्ताङ्गसुखं रुषेव सहसा केशेषु लभं तमः ॥'इत्यु- दाहरणं दृश्यते. ४ 'दीततिः कान्तेश्च विस्तारः' इति ग.
Page 171
१२४ साहित्यदर्पणे
अथ माधुर्यम्- सर्वावस्थाविशेषेषु माधुर्य रमणीयता। यथा- 'सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति। इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।।' अथ प्रगल्भता- निःसाध्वसत्वं प्रागल्भ्यम्ँ यथा-
दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति योषितः ॥ अथौदार्यम्- औदार्य विनयः सदा ॥ ९७॥ यथा- 'न ब्रूते परुषां गिरं, वितनुते न भ्रूयुगं भङ्गरं, नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे रफुटेऽप्यागसि। कान्ता गर्भगृहे गवाक्षविवरव्यापारिताक्ष्या बहिः सख्या वक्रमभि प्रयच्छति परं पर्यश्रुणी लोचने ।।' नामतिशयो लक्षणाप्रयोजनम् । सरसिजमिति । शकुन्तलाया वल्कलधा रणेऽपि शोभातिशयमनुभवतो दुष्यन्तस्य स्यं परामर्शोऽयम्। अनुविद्धं व्याप्तम्। लक्ष्मीं शोभाम्। समाश्िष्टा इति। दन्तेनाधरादिखण्डनं दंशनम्। उत्तंसं कर्ण- भूषणम्। गर्भगृहे वासगहाभ्यन्तरे। गवाक्षविवरेण व्यापारितं संचारितमक्षि यया 1. सरसिजमिति। यथा शैवललक्ष्मसंपर्कस्य माधुर्यविघटकत्वेऽपि कमलचन्द्रमसोनैं- सर्गिकमाधुर्यसत्त्वान्न कापि क्षतिस्तथा वल्कलधारणेन शकुन्तलाया अपीति भावः ।। 2. स्फुट इति। अन्योपभोगरूपेऽपराधे व्यक्ते सत्यपीत्यर्थः ॥ 3. गर्भेति। गर्भगृहे स्थिता सती बहिरवलोकनार्थ गवाक्षविवरेण वातायनपथेन व्या- १. 'अनुल्वणं माघुर्यम्' ग. २. 'उक्तं च-अभूषणेऽपि रम्यत्वं माधुर्यमिति गीयते' इत्यधिकं ग-पुस्तके. ३. 'मनःक्षोभपूर्वकोऽङ्गसादः साध्वसम्, तद्भावः प्रागल्म्यम् ।' इत्यधिकं ग-पुस्तके. ४. 'तथा ब्रीडा विधेयापि तथा सुग्धापि सुन्दरी। कलाप्रयोगचातुर्यसभास्वाचार्यतां गता ॥' इत्युदाह- रणान्तरं ग-पुस्तके.
Page 172
तृतीयः परिच्छेदः । १२५
अथ वैर्यम्- मुंक्तात्मश्लाघना धैर्य मनोवृत्तिरचञ्चला। यथा- 'ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदन: किंवा मृत्योः परेण विधास्यति। मम तु दयितः श्राध्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ।।' अथ लीला- अङ्गैवेपरलंकारैः प्रेमिभिर्वचनैरपि ॥ ९८॥ प्रीतिप्रयोजितैर्लीलां प्रियस्यानुकृतिं विदुः । यथा- 'मृणालव्यालवलया वेणीबन्धकपर्दिनी। हरानुकारिणी पातु लीलया पार्वती जगत् ।।' अथ विलास :- यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् ।। ९९।। विशेषस्तु विलास: स्यादिष्टसंदर्शनादिना। तस्याः । अभिलक्ष्यीकृत्य प्रयच्छति अर्पयति। पर्यश्रुणी अश्रुव्याप्ते। ज्वलत्विति। ज्वलतु संतापक: सन् दीप्यताम्। 'परेण' इत्यव्ययमधिकार्थे। 'श्लाध्य इति काका- क्षिगोलकन्यायेन उभयत्रान्वेति। यद्ा 'अमलान्वया' इति लिङ्गव्यत्ययेनान्वयः । न त्वेवायं जनः । स्थिर इति शेषः। मृणालमेव व्याल: सर्पो वलयं यस्याः, वेणीबन्ध मारिते क्षिप्ते अक्षिणी यथा तथाभूतायाः सख्या वक्रमभि आननं लक्ष्यीकृत्य परं केवलं मरिगतानि अश्रृणि ययोस्तथाभूते लोचने प्रयच्छति योजयति। विषयान्तरावलोकनप्रवणेयं ममैवंविधामवस्थां न ज्ञास्यतीति तथाचरति। अन्यथा स्वजनसमक्षं दुःखोत्पीडस्य प्रतिरो- द्भुमशक्यतया तत्कारणाभिव्यक्तौ विनयव्यत्यासः स्यात्॥ 1. ममेति। मन तु दयितः प्रेयान् श्राध्यः, पिता च शाध्यः, जननी च अमलान्वया महाकुलोत्पन्ना, कुलं स्वामिकुलममलिनं निष्कलङ्कम्। अयं मलक्षणो जनः न त्वेव स्थिरः, जीवितं च न स्थिरम्। अचिरावस्थायिनः शरीरस्य कृते मातृपितृभर्तृकुलकलङ्कनमति- तरामनुचितमिति भाव: ॥ १. 'चापलाविहता धैये चिद्धत्तिरविकत्थना। चापलानुपहता मनोवृत्तिरात्मगुणानाख्याबिका धैर्यम्। सथा चोक्तम्-'शीलानुल्लङनं धैर्ये कीर्लतेऽत्र मनीषिभिः ।' इति ग. २. 'लीलाप्रियानुकरणं वाग्भिर्ग- त्याथ चेष्टितैः ।' इति ग. ३. ग-पुस्तके तु 'इय चेष्टानुरागेण तथानुकुरुते प्रियम्। मुक्तासूयं सपल्योऽपि वीक्षन्ते सस्पृहं यथा ॥' इत्युदाहरणम्. 8. 'तात्कालिको विशेपस्तु विलासोऽइक्रियादिषु ॥' इति ग.
Page 173
१२६ साहित्यदर्पणे
यथा- 'अत्रान्तरे किमपि वाग्विभवातिवृत्त- वैचित्यमुल्लसितविभ्रममायताक्ष्याः। तन्द्गूरिसात्त्विक विकारमपास्तवैर्य- माचार्यकं विजयि मान्मथमाविरासीत्।' अथ विच्छित्ति :- स्तोकाप्याकल्परचना विच्छित्ति: कांतिपोषकृत्। यथा-
स्ताम्बूलद्युतिविशदो विलासिनीनाम्। वासस्तु प्रतनु विविक्तमस्त्वतीया- नाकल्पो यदि कुसुमेषुणा न शून्यः ।।' अथ विव्वोक :- चिव्चोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः॥१०० ॥
एव कपर्दो जटाजूटो यस्या अस्तीति। अन्नान्तरे नायकसंदर्शनादिसमये। वाग्वि- भवमतिवृत्तमतिक्रम्य स्थितं वैचित्र्यं गमनादिचातुरी यस्मात्तत्। ते प्रसिद्धाः भूरि- सात्त्विकविकारा: स्तम्भादयो यस्मात्तत्। आचार्यकमुपाध्यायकर्म। उपदेश इत्यर्थः । स्तोका अल्पा आकल्परचना वेषविन्यासः । प्रतनु अतिसूक्ष्मम्। विविक्ं विमलम्।
- इतीति । इत्येवंरूप इयान् पतावानेव विलासिनीनामाकल्पो नेपथ्यमस्तु। किमन्यैरित्यर्थः । यदि स कुसुमेषुणा कामेन शून्यो न स्यात। अन्यथा उद्विजितानामिव कनकभूषणमपि भारायत एवेति भाव: ।।
१. 'स्तोकभूषणयोगेन विच्छित्तिरतिरन्यता ।' इति ग. २. 'कर्णायितो रोध्रकषायरूक्षे गोरो- चनाभेदनितान्तगौरे। तस्याः कपोलेऽपरभागलाभाद्वबन्ध चक्षूंषि यवमररोहः ।I' इति ग. ३. 'गर्वाभिमानादिष्टेऽपि विव्वोकोऽनादरक्रिया ।' तथा वात्स्यायन :- 'सौभाग्यस्यातिगर्वेण यत्प्रिय- स्यावधीरणम्। ताडनं वावतंसेन स्त्रजा काश्याथ बन्धनम् ॥I प्रियेऽल्पागसि शिञ्षाननूपुरेणाङ्गिणा हतिः । दन्तखण्डितपत्रैश्चारोपस्थानेऽपि यत्सिमतम्॥ प्रेयस्ताम्बूलरागेण रागश्चौष्ठप्रचालके। विव्वोकाख्यः स्मृतो हाव: कामशास्त्रविचक्षणैः ॥ अभिनवगुप्तैस्तूपकृतावपि गर्वादनादरस्तन्व्याः । स्खलनं प्रियस्य संयम (न) ताडनमत्राभिधायि विव्वोक: ।'अवधीरणे यथा कालिदास :- 'निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा। शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥' इनि ग.
Page 174
तृतीयः परिच्छेदः । १२७
यथा- 'यासां सत्यपि सङ्गुणानुसरणे दोषानुवृत्तिः परा या प्राणान्वरमर्पयन्ति न पुनः संपूर्णदृष्टि प्रिये। अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेघात्मक- स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते।।' अथ किलकिश्चितम्- सिमितशुप्क रु दितहसित त्रासक्रोधश्रमादीनाम्। सांकर्य किलकिश्चितमभीष्टतमसंगमादिजाद्धर्पाद् ॥ १०१।। यथा- 'पाणिरोघमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः । कामिनः स्म कुरुते करभोरूर्हारि शुष्करुदितं च सुखेऽपि ।।' अथ मोट्टायितम्- तैन्भावभाविते चित्ते वल्लभस्य कथादिषु।
यासामिति। कंचित्कामिनं प्रति सख्युराशीर्वचनमिदम्। सह्ुणानामनुसरणे परैरुद्भावने दोषाणामनुवृत्तिः स्वयं पुनःपुनरुद्भावनम्। सांकर्य मेलनम्। पाणिरोधं वस्त्रक्षेपणादिप्रवृत्तनायककरप्रतिबन्धम्। हारि मनोहरम्। कारणं विना रुदितं शुष्क- रुदितम्। सुखेऽपि सुखसमयेऽपि। तद्भावेन कान्तसद्भावेन भाविते व्याप्ते चित्ते
- प्राणानिति। मानग्रहग्रस्तत्वात्प्राणार्पणं तावत्सुकरम्, न पुनः संपूर्णदृष्ट्यर्पणम्।। 2. वस्तुनीति। नीवीसत्रंसनादिरूपे ।। 3. वामा इति। वामा योषितः । इष्टेपि वस्तुनि अनिष्टोद्भावनं विलक्षणप्रकृतित्वे बीजम्। 4. पाणीति। करभोरू: स्त्री अविरोधितवाञ्छमनिवारितप्रियमनोरथं यथा तथा का- मिनः पाणिरोधं नीवीमोक्षणे व्यापृतस्य प्रियपाणेनिवारणं कुरुते सम। तथा मधुरं स्मितं गर्भे अन्तर्वर्ति यासु ता मन्दहासमिश्रा भर्त्सनास्तर्जनाश्च कुरुते सम। तथा सुखेडपि अधरपीड- नादौ सुखातिरेके सत्यपि हारि मनोहरं शुष्करुदितमनश्रुत्वादनार्द्र कृत्रिमरोदनं च कुरुते स्म । स्त्रीणामेष स्वभावो यदिष्टमप्यनिष्टतया निवारयन्त्य एव सुरतसुखमुपसुजत इत्यर्थः ।
१. 'यासां-' इति श्रोको नास्ति ग-पुस्तके. २. 'कोधाश्रुहर्षभीत्यादेः संकरः किलकिच्चितम् ।' इति ग. ३. 'रतिक्रीडाशूते कथमपि समासाद्य समयं मया लब्धे तस्याः कणितकलकण्ठार्घमधरे। कृत- भ्रूभङ्गासौ प्रकटितविलक्षार्धरुदितस्मितकरोधोद्भान्तं पुनरपि विद्ध्यान्मयि मुखम् ॥' इति ग. ४. 'श्रत्वा कथां प्रियजनस्य तु संनिधौ वा कर्णोदरस्थितचलत्तनुनर्जनीकम्। यद्ाङ्गमङ्गमपि जृम्भितमङनानां मोट्टायितं तदुदितं सरशास्त्रविद्िः ॥'तथा च मुनिः-'कथायां संनित्रौ वापि कर्ण रुष्डूविनम्मणम्। कान्तस्य क्रियते वध्वा तद्धि मोट्टायितं मतम् ॥' इति ग.
Page 175
१२८ साहित्यदर्पणे
मोट्टायितमिति प्राह्ुः कर्णकण्डूयनादिकम् ॥ १०२ ॥ यथा- 'सुभग त्वत्कथारम्भे कर्णकण्डूतिलालसा। उज्जृम्भवदनाम्भोजा भिनत्त्यङ्गानि साङ्गना ।I' अथ कुट्टमितम्- केशस्तनाधरादीनां ग्रहे हर्षेऽपि संभ्रमात्। आहुः कुट्टमितं नाम शिरःकरविधूननम् ॥ १०३॥ यथा- 'पैल्लवोपमितिसाम्यसपक्षं दष्टवत्यघरबिम्बमभीष्टे। पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण।I' अथ विभ्रम :- रेवरया हर्षरागादेर्दयितागमनादिषु। अस्थाने विभ्रमादीनां विन्यासो विभ्रमो मतः ॥१०४॥ यथा- 'प्रुत्वा यान्तं बहिः कान्तमसमाप्तविभूषया। भालेऽञ्जनं दशोर्लाक्षा कपोले तिलकः कृतः ॥' सति। कथादिषु सत्सु 'कर्णकण्डयनादिभिः' इति पाठेडमेदे तृतीया। आदिना- जृम्भाङ्गभङ्गादि। कर्णकण्डूतिलालसा कर्णकण्डूयनतत्परा। पल्लवोपमित्या यत्साम्यं तेन सपक्षं सखायम्। अभीष्टे नायके। पर्यकूजि महाशब्दः कृतः । शब्दोपयोगितं दर्श- यति-तारेति। तारमतिशयं लोलं चपलं वलयं कड्कणं यत्र तेन। सख्युर्देशने व्यथा भवतीति भावः । त्वरयेति। हर्षादिजन्यत्वरयेत्यर्थः । तत्र प्रथमेनादिपदेन उत्स- वादेः, द्वितीयादिपदेन दयिताभिसरणादेः, तृतीयेन लाक्षादेर्ग्रहणम्। असमाप्तविभू- १. 'चित्तवर्तिन्यपि नृपे तत्वावेशेन चेतसि। व्रीडार्धवलित चक्रे मुखेन्दुमवशैव सा ।' इति ग. २. भरतः-'केशस्तनाधरादिग्रहणे रतहर्षसंत्रमोपेतम्। कुट्टमितं विज्ञेयं सुखं च दुःखोपचारेण ।' इति. ग. ३. ग-पुस्तके तु, 'पल्व-' इति श्ोकस्य स्थाने 'दासीभवामि तव निर्दय निःसहासि मुश्च क्षणं स्वपिमि देहि ममावकाशम्। इत्यादिकुद्टमितमाकुलमारचन्ती भूयो नवानि कुरुते रमणी रतानि ।' इत्युदाहरणं दृश्यते, ततश्च भोजराजस्तु सरस्वतीकण्ठाभरणे विपरीतमेव लक्षणमाह-'केशस्तनाधरा- दीनां ग्रहाङ्ुःखेऽपि यत्पुनः । सुखाविष्करणं तन्व्यास्तच्च कुद्टमितं मतम् ॥I' यथा-'हीमरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य। अरेतोष्टदलमाननपद्मं योषितो मुकुलिताक्षमधासीत् ॥' इति. ४. 'विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ।' यथाह शाक्यभिक्षुः-'क्रोधः सितं च कुसुमाभरणादि- याच्चा तत्तर्जनं च सहसैव विडम्बनं च। आक्षिप्य कान्तवचन लपनं सखीनां निष्कारणेच्छितगतं खलु विभ्रम: स्यात् ॥I' शिणिरपि-'साङ्गभङ्ग विकारेण सकटाक्षविलोकनैः। केशसंयमनव्याजाद्वाहुमूलम्- दर्शनैः ॥ मेखला ... प्रकटनैः स्तननाभिप्रदर्शनैः । अभिलाषप्रकटनैवित्रमः परिकीर्तितः ॥' इति ग. ५. ग-पुस्तके तु 'अुत्वा-' इति श्रोकस्य स्थाने 'अ[ज्ञा]गते शशिनि पेशलकान्तिदूतीसंलापसंचलितलो- चनमानसाभि: । अग्राहि[मण्डन]विधिर्विपरीतभूषाविन्यासहासितसखीजनमङ्गनाभि: ॥' इति दृश्यते.
Page 176
तृतीय: परिच्छेदः । १२९
अथ ललितम्- सुकुमारतयाङ्गानां विन्यासो ललितं भवेत्। यथा- 'गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपझ्मा। इतरदनतिलोलमादघाना पदमथ मन्मथमन्थरं जगाम ।I' अथ मद :- मैदो विकारः सौभाग्ययौवनाद्यवलेपजः ॥ १०५॥ यथा- 'मा गर्वमुद्दह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति। अन्यापि किं न खल भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः ॥।' अथ विहृतम्- वैक्तव्यकालेऽप्यवचो व्रीडया विहृतं मतम्। षया कान्तया। विन्यासोऽप्रचण्डविक्षेपः। गुरुतरेति। प्रथमपादः क्रियाविशेष- णार्थकः । इतरत् दक्षिणम्। अनतिलोलमनतिचञ्चलम्। यौवनादी त्यादिप देनालंकारा- देर्रहणम्। मा गर्वमिति। 'मम कपोलतले' इत्यन्वयः । ईदृशीनां मजरीणाम्। वैरी शत्रुरिव तव तावत्कपोलतले एकैव मञ्जरी यदक्षयापि भवितुमर्हति, तेन सौ- भाग्यातिशयो न नियमतः प्रतीयत इति गर्वो नोचित एव। ईदशीनामिति बहुव-
- अन्येति। चैददि वेपथुः स्पर्शसंजातसात्विकभावविशेषः वैरी मञ्जरीरचनावि घटकत्वेन सपल इव अन्तरायो विन्नो न भवति, तदा अन्यापि ईदृशीनां त्वत्कपोलतल- लिखितया मख्जर्या सदृशीनामनेकासां मअ्जरीणां भाजनं पात्रं कि न खलु भवति। भवत्येवेत्यर्थः ।।
१. 'सुकुमाराङविन्यासो मसृणो लळितं भवेत्।' इति ग. २. 'सभ्रूमङ्गं करकिसलयावर्तनैरालपन्ती सा पश्यन्ती ललितललितं लोचनस्याश्वलेन । विन्यस्यन्ती चरणकमले लीलया सवैरपातैर्निसंगीत प्रथ- मवयसा न्तिता पङ्डजाक्षी I' यद्दा, 'सदः पुरीपरिसरेऽपि शिरीषमृद्ी गत्वा जवात्रिचतुराणि पदानि सीता। गन्तव्यमस्ति कियदित्यसकृङ्गवाणा रामाश्रुणः कृतवती प्रथमावतारम् ॥' इत्युदाहरणान्तर ग-पुस्तके. ३. 'मधुपानमदमरायस्तारुण्यातिशयो्नवः । विकारो यौवने स्त्रीणां त वदन्नि मदं बुधाः ।' इति ग. 8. 'आलापः सिमितकौमुदीसहचरो दृष्टिः म्रहर्षोल्लसन्भनृत्याध्वरदीक्षिता चरणयो्न्यास' समे भङ्गुरः। वेपेषु क्षणिका: स्पहा मदविधावद्वैतवादाश्च ते त्वद्धयानैकविकारसूर्मधुमदमायो नदः स्फूर्जति ॥' इत्युदाहरणान्तरं ग-पुस्तके. ५. 'विकृतम्' घ. ६. 'पातकालं न यङ्गयाद्रीडया विहृतं हि तद्। इति ग. ७. 'विकृतम्' ध.
Page 177
१३० साहित्यदर्पणे
यथा- 'दूरागतेन कुशलं पृष्टा नोवाच सा मया किंचित्। पर्यश्रुणी तु नयने तस्याः कथयांबभूवतुः सर्वम् ॥' अेथ तपनम्- तपनं प्रियविच्छेदे सरावेगोत्थचेष्टितम् ॥१०६॥। यथा मम- 'श्वासान्मुञ्चति, भूतले विलुठति, त्वन्मार्गमालोकते, दीध रोदिति, विक्षिपत्यत इतः क्षामां भुजावल्लरीम्। किंच, प्राणसमान, काङ्कितवती स्वप्नेऽपि ते संगमं निद्रां वाञ्छति, न प्रयच्छति पुनर्दग्धो विधिस्तामपि॥' अथ मौग्ध्यम्- अज्ञानादिव या पृच्छा प्रतीतस्यापि वस्तुनः । वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्ववेदिभिः ॥ १०७॥ यथा- 'के द्रुमास्ते क वा ग्रामे सन्ति केन प्ररोपिताः । नाथ मत्कङ्कणन्यस्तं येषां मुक्ताफलं फलम् ।।'
चनेन सौभाग्यातिशयः सूचितः । सर्वमिति। मम प्रवासे दुःखातिशयमागमने हर्षातिशयं चेत्यर्थः । स्मरवेगोत्थेति । कामोद्वेगजनितेत्यर्थः। श्वासानिति। प्रवासिनं प्रति सख्युक्तिरियम्। हे प्राणसमान, दग्धो निर्दयः। तां निद्राम्। तेषां द्रुमाणां फलमित्यन्वयः । वृथा निष्कारणम्। विष्वक् सर्वतः । रहस्याख्यानं गुह्य-
- अत इति । अत इतः । इतस्तत इत्यर्थः ॥ 2. तामपीति। विधिः तस्यै निद्रामपि न प्रयच्छति, यत्र तव समागमः स्यात्॥
१. ग-पुस्तके तु 'दूरागतेन-'इत्यस्य स्थाने 'पादाङ्गुष्ठेन भूमि किसलयरुचिना सापदेशं लिखन्ती भूयो भूयः क्षिपन्ती मयि सितशबले लोचने लोलतारे। वक्रं हीनम्रमीषत्फुरद्घरपुटं व.क्यगर्म दधाना यन्मां नोवाच किंचित्स्थितमपि पुरतो मानसं तदुनोति ॥' इति श्रोकोऽस्ति. २. 'अथ-' इत्यादि: '-तामपि ॥' इत्यन्तः पाठो नास्ति ग पुस्तके ३. 'बाल्ये गते वचोभक्गी रामाणां कान्तसंनिधै। हारमौक्तिकमालेव तन्मौग्ध्यं परिकीर्तित्म् ॥' इति ग. ४. ग-पुस्तके तु 'यदि चूतस्य मञ्जर्या सख्य: संनिहितः स्मरः। मन्नायां तत्कथं सौख्यं मनागपि न दृश्यते॥' 'सत्यं किमन्यदेशेऽपि विद्यत मृगलाञ्छनः। पवमादिवचो बाल्ये व्यतीते मौग्ध्यमुच्यते ॥I' 'यतः प्रभृत्यहं सख्यः शिरीपकुसुमैर्हता। ततः प्रभृति में शूलं हृदि तन्मौग्ध्यमीरितम् I' आचार्यस्तु-'स्त्रीणां स्वभावमेव मौगव्यं मन्यते।' इति.
Page 178
तृतीय: परिच्छेद:। १३१
अथ विक्षेप :- भूषाणामर्धरचना मिथ्या विष्वगवेक्षणम् । रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ॥ १०८ ॥ यथा- धेम्मिल्लेमर्धमुक्तं कलयति तिलकं तथासकलम्। किंचिद्वदति रहस्यं चकितं विप्वग्विलोकते तन्वी।I' अथ कुतूहलम्- रैम्यवस्तुसमालोके लोलता स्ात्कुतूहलम्। यथा- 'प्रेसाधिकालम्वितमग्रपादमाक्षिप्य काचिद्रवरागमेव। उत्सृष्टलीलागुतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ।।' अथ हसितम्- हैसितं तु वृथाहासो यौवनोन्देदसंभवः ॥ १०९॥ यथा- 'अकस्मादेव तन्वङ्गी जहास यदियं पुनः। नूनं प्रसनबाणोऽस्यां खाराज्यमधितिष्ठति।।' अथ चकितम्- कुँतोऽपि दयितस्याग्रे चकितं भयसंभ्रमः । भाषणम्। धम्मिह्ं बद्धकेशसमूहम्। असकलं खण्डितम्। लोलता सतृष्णत्वम्। प्रसाधिका मण्डनकर्त्री, तया आलम्बितं धारितम्। द्रवरागमशुष्कलाक्षारसम्। अलक्तकाङ्कां लाक्षाचिह्ाम्। पदवीं पन्थानम्। अन्न हरदर्शनाय कस्याश्चिद्रागातिशयः कुतूहलम्। यौवनोद्द्ेदो यौवनोत्पत्तिः। अकस्मात्कारणं विना। स्वाराज्यं स्वर्गवदधि- कारम्। अधितिष्ठति कुरुते। कुतोऽपीति। अलक्षितकारणादित्यर्थः । भयसंत्रमः ९. 'अन्यथा वेषविन्यासो विकारादो भवेत्स्नियाम् । तमामनन्ति विक्षेप श्रीशाल्यकपिलादय ।' इति ग. २. 'चकार काचित्सितचन्दनाङ्टे काशीकलापं सनमारपृष्ठे। प्रियं प्रति मेषितचिन्तवृत्तिनि- तम्बविम्वे चपलं च हारम् ।।' इति ग. ३. 'अनुरागकाल एव प्रियतमोपसर्पणं कुनूहलम्॥ यथाह भरत :- 'कुतूहलं रम्यदृष्टौ चापलं परिकीर्तितम्।" इति ग. ४. ग-पुस्तके तु 'पारावत इवानज्मोहिते कूजति मिये। पशय कौतुकिनी जाया समीपमुपसर्पति ॥' इत्युदाहरणम्. ५. 'आकस्मिकं तु हसितं यौवनादिविकारजम् ।I' इति ग. ६. 'अधिगच्छति' ग. ७. 'त्रासेन लज्जया वापि निजवल्लभसंनिधौ। संत्रमानिशयो यस्तच्चकितं सूत्रकृन्मतम् ।' इति ग.
Page 179
१३२ साहित्यदर्पणे
येथा- 'त्रस्यन्ती चलशफरीविघट्टितोर- र्वामोरूरतिशयमाप विभ्रमस्य। क्षुभ्यन्ति प्रसभमहो विनापि हेतो- र्लीलाभि: किमु सति कारणे तरुण्यः ॥' अथ केलि :- विहारे सह कान्तेन क्रीडितं केलिरुच्यते ॥ ११० ॥ यथा- "व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पज रजः। पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरसनी।'
दृष्ट्रा दर्शयति त्रीडां संमुखं नैव पश्यति। पच्छन्नं वा भ्रमन्तं वातिकान्तं पश्यति प्रियम् ॥१११ ॥ बैहुधा पृच्छयमानापि मन्दमन्दमधोमुखी। सगद्गदसवरं किंचित्प्रियं प्रायेण भाषते ॥ ११२ ॥ अन्यैः प्रवर्तितां शश्चत्सावधाना च तत्कथाम्। शृणोत्यन्यत्र दत्ताक्षी प्रिये वालानुरागिणि॥ ११३॥ भयेनातिचाश्चल्यम्। विभ्रमस्य भ्रमणविशेषस्य। क्षुभ्यन्ति भयव्याकुला भवन्ति। किमु सुतरामित्यर्थः । विह्वारे इति। कान्तेन सह क्रियमाणे विहारे सति यन्ना- यिकाया: क्रीडितं सा केलिरित्यर्थः । व्यपोहितुं निरसितुम्। अपारयन्तमशक्रुवन्तम्। अनुरागेङ्गितानि अनुरागसूचकचेष्टितानि। प्रच्छन्नं भित्त्यादिव्यवहितम्। अतिकान्तं
- किलेति। किलेत्यली के। वस्तुतस्तदास्यस्पर्शलोभादपारयन्तमित्यर्थः ॥ 2. बहुधेति। कामसूत्रेऽप्युक्तम्-'पृष्टा च किंचित्सस्मितमव्यक्ताक्षरमनवसितार्थ च मन्दं मन्दमधोमुखी कथयति।' इति॥
१. ग-पुस्तके तु 'तत्र त्रासेन यथा-'परिरफुरन्मीनविघट्टितोरवः स्वरङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ।I' लज्या यथा-'अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे। चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय॥' इत्युदाहरणे. २. 'वल्मेन सहैकान्ते कान्तायाः क्रीडितेषु यः। चुम्बनालिङ्गनादीनां विशेषः केलिरुच्यते ॥' इति ग. ३. 'मदनशरहृतस्योपांशु कान्ता समन्तादुपरि निरवलम्बा प्रेयसो निष्पपात! तपदि स पतिरेनामालिलिज्ले बुचुम्बे सरशरविनिपात केवलं पुण्यभाजाम् ।' इति ग.
Page 180
नृतीय: परिच्छेदः । १३३
अथ सकलानामपि नायिकानामनुरागेङ्वितानि- चिराय सविधे स्थानं प्रियस बहु मन्यते। विलोचनपथं चास् न गच्छत्यनलंक्कता ॥ ११४। कापि कुन्तलसंव्यानसंयमव्यपदेशतः । वाहुमूलं स्तनो नाभिपङ्कजं दर्शयेत्स्फुटम् ॥११५॥ आच्छादयति वागादेः प्रियस्य परिचारकान्। विश्वसित्यस्य मित्रेपु बहु मानं करोति च । ११६ ॥। सखीमध्ये गुणान्त्रूते स्वधनं प्रददाति च। सुसे स्वपिति दुःखेऽस्य दुःखं धत्ते सुखे सुखम्॥ ११७॥ स्थिंता दृष्टिपथे शश्त्प्रिये पत्र्यति दूरतः। आभाषते परिजनं संमुखं समरविक्रियम् ॥ ११८॥ यैत्किंचिदपि संवीक्ष्य कुरुते हसिनं मुधा। कर्णकण्डूयनं तद्वत्कवरीमोक्षसंयमौ ॥ ११९॥ जृम्भते स्फोटयत्यङ्गं वालमाश्लिप्य चुम्बति। भाले तथा वयस्याया रचयेत्तिलकक्रियाम् ॥ १२०॥ अङ्गुष्टाग्रेण लिखति सकटाक्षं निरीक्षते। दशति स्वाधरं चापि ब्रूते प्रियमधोमुखी॥ १२१॥ न सुश्चति च तं देशं नायको यत्र दृश्यते। दूरे गच्छन्तम्। तत्कथां प्रियकथाम्। कुन्तलेति। केशसमूहवन्धनच्छलेनेलर्थः। आच्छादयति वशीकरोति। वाक् प्रियवचनम्। आद्यपदादनवस्त्रादिदानानां ग्रह- 1. कुन्तलेति। कुन्तल: केशपाशः। संवीयतेऽननेति संव्यानम्। 'व्येज् संवरणे'। ल्युट्ू।'संव्यानमुत्तरीयं च' इत्यमरः । तयोर्यः संयमो यथोचितन्यासस्तदयपदेशतस्त- द्याजादिति वास्तवार्थः ॥ 2. आच्छाद्यतीति। कामसूत्रेऽप्युक्तम्-'परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति, तन्मित्रेयु विश्वसिति, वचनं चेषां बहु मन्यते करोति च, तत्परिचारकैः सह प्रीति संकथां द्यूतमिति च करोति।' इत्यादि ॥ 3. स्थितेति। कामसूत्रऽप्युक्तम्-'दूरे स्थिता, पश्यतु मामिति मन्यनाना परिजनं समदनविकारमाभापते।' इति ॥ 4. यदिति । कामसूत्रेऽप्युक्तम्-'यत्किचिदृश्व विहसितं करोति।' इति ॥ 5. बालमिति। कामसूत्रऽप्युक्तम्-'बालस्याङ्कगतस्यालिङ्गनं चुम्बनं च करोति।' इति॥ 6. भाल इति। कामसूत्रेऽप्युक्तम्-'परिचारिकायाश्च तिलकं रचयेत्।' ३ति॥ सा० द० १२
Page 181
१३४ साहित्यदपण
आगच्छति गृहं तस्य कार्यव्याजेन केनचित् ॥ १२२ ॥ दत्तं किमपि कान्तेन धृत्वाङ्गे सुहुरीक्षते। नित्यं हृष्यति तद्योगे वियोगे मलिना कृशा ॥ १२३ ॥ मन्यते बहु तच्छीलं तत्प्रियं मन्यते प्रियम्। प्रार्थयत्यल्पमूल्यानि सुप्ता न परिवर्तते ॥ १२४ ॥ विकारान्सात्विकानस्य संसुखी ाधिगच्छति। भाषते मृनृतं स्त्रिग्धामनुरक्ता नितम्बिनी ॥ १२५॥ एतेष्वधिकलज्जानि चेष्टितानि नवस्त्रियाः। मध्यव्रीडानि मध्यायाः सतरंसमानत्रपाणि तु ॥ १२६॥ अन्यस्त्रियाः प्रगल्भायास्तथा स्युर्वरियोषितः । दिञ्मात्रं यथा मम- 'अन्तिकगतमपि मामियमनलोकयतीव हन्त दृष्ट्रापि। सरसनखक्षतलक्षितमाविष्कुरुते भुजामूलम्ँ।।' तेथा- लेखाप्रस्थापनैः स्त्निग्धैर्वीक्षितैर्मदुभाषितैः ॥ १२७॥ दूतीसंप्रेषणैर्नार्या भावाभिव्यक्तिरिष्यते। दूत्यश्च- दूँत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी॥ १२८ ॥ बाला प्रत्रजिता कारू: शिल्पिन्याद्याः सयं तथा। णम्। अस्य प्रियस्य। संमुखमिति परिजनस्य विशेषणम्। तद्योगे प्रियसंगमे। तच्छीलं प्रियचरित्रम्। तत्प्रियं प्रियाभीष्टं वस्तु। प्रार्थयतीति परस्मैपदम्, आत्मने- पदस्य प्रायिकलवात्। अधिगच्छति प्रकाशयति। सूनृतं प्रियसत्यवचनम्। स्रनिग्धां वयस्याम्। 'स्न्निग्धम्' इति पाठे स्नेहव्यजकं यथा स्यात्तथा भाषत इत्यर्थः । सरसनख- क्षतेन आर्द्रनखाघातेन लक्षित चिह्नितम्। लेख्यप्रस्थापनं यथा-'विज्ञप्तिरेषा मम
- प्रव्जितेति। इह प्रव्रजिताशब्देन श्रमणाक्षपणारक्तपट्टिकादयस्तद्विशेषा अपि ग्राह्याः। कारूस्तक्षादीनां योषित। 'तक्षा च तन्तुवायश्च नापितो रजकस्तथा। पञ्चमश्च- मकारश्च कारवः शिल्पिनो मताः ॥' इति ॥
१. ग-पुस्तके तु 'भथ मुग्धाकन्ययोः-' इत्यारभ्य -'भुजामूलम् ।' इत्यन्तो अ्रन्थो न द्टृश्यते. २. 'तथा' म-पुस्तके नास्ति. ३, 'लेख-' ग. ४. 'चैत्र तथा संदेशभाषणैः' ग. ५. 'दूत्यः सप्तविधाः मायो धात्रयी प्रतिवेशिनी' इति ग.
Page 182
तृतीयः परिच्छेदः । १३५ कारू रजकीप्रभृतिः। शिल्पिनी चित्रकारादिम्नी। आदिशव्दवात्त !-
तत्र सखी यथा-'शासान्मुञ्चति-' इत्यादि। स्वयंदूती यथा मम- 'पैन्थिअ पिआसिओ विअ लच्छिअसि जासि ता किमण्णत्तो। ण मणापि वारओ इध अत्थि घरे घणरसं पिअन्ताणम् ॥' ऐताश्च नायिकाविपये नायकानामपि दूत्यो भवन्ति । दूँतीगुणानाह- कलाकोशलमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः ॥१२९ ॥ माधुर्य नर्मविज्ञानं वाग्मिता चेति तद्ुणाः। ऐता अपि यथौचित्यादुत्तमाधममध्यमाः ॥१३०॥ एता दूत्यः ।
जीवबन्धो तत्रैव नेया दिवसाः कियन्तः । संप्रत्ययोग्यस्थितिरेप देशः करा यदिन्दो- रुपतापयन्ति ॥' पन्थिअ इति। 'पान्थ पिपासित इव लक्ष्यसे यासि तत्किम- न्यत्र । न मनागपि वारक इहास्ति गेहे घनरसं पिबताम् ।' इति संस्कृतम्। पिपासा जलतृष्णा। पक्षे-संभोगेच्छा। घनरसं जलम्। पक्षे-संभोगसुखम्। पिबतामनुभवताम्। यद्वा घनो निविडो रसो रागो यत्र सोऽधरस्तम्। एता अनन्तरोक्ताः सख्यादयः। तदुणाः दूतीगुणाः। व्यसनं द्विविधम्-कामजं कोपजं च।
- ताम्बूलिकेनि। ताम्बूलं शिल्पमस्यति ताम्बृलिकः, एवं गान्विकः । एतदादीना स्त्रियो हि प्रगल्भा निष्णाता अप्रतिषिद्धगमनाश्च भवन्ति। वात्स्यायनोऽप्याह-'विध- वेक्षणिका दासी भिक्षुकी शिल्पकारिका। प्रविशत्याशु विश्वासं दूतीकार्य च विन्दति॥' गृहमिति शेष: ॥ 2. पन्थीति। गीतिरियम्। तदुक्तम्-'गाथाद्वितीयतुर्यावष्टादशमात्रकौ यदा भवतः। मात्राषष्टिशरीरा प्रोक्ता सा गीतिरिह फणिपतिना ॥' इति ॥ 3. एता इति। वात्स्यायनो दूतीकर्माण्यप्याह-'विद्वेषं ग्राहयेत्पत्यौ रमणीयानि वर्णयेत्। चित्रान्सुरतसंभोगानन्यासामपि दर्शयेत्॥ नायकस्यानुरागं च पुनश्च रतिकौ- शलम्। प्रार्थनां चाधिकस्त्रीभिरवष्टम्भं च वर्णयेत् ।'श्राघनीयया चास्य प्रच्छन्नं संयोगं भूतमभूतपूर्व वा वर्णयेत। अवष्टम्भं नायिकाविषयं निश्चयम् ।
१. 'शिल्पिनी-' इत्यारभ्य 'इत्यादि' इत्यन्तः पाठो ग-पुस्तके नास्ति. २. 'एताश्च-'इति फकिका नास्ति ग-पुस्तके. २. 'दूती-' इत्यारभ्य '-दूत्यः' इत्यन्तः पाठो ग-पुस्तके नासिति.
Page 183
साहित्यदर्पणे
अथ प्रतिनायक :- धीरोद्धतः पापकारी व्यसनी प्रतिनायक: । यथा-रामस्य रावणः । अथोद्दीपनविभावा :- उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये ॥ १३१ ॥ ते च- आलम्बनस्य चेष्टाद्या देशकालादयस्तथा। चेष्टाद्या ईत्यादश्दाूभूषणादयः। कालादीत्यादिशब्दाच्न्द्रच- न्दनकोकिलौलापभ्रमरझंकारादयः । तैत्र चन्द्रोदयो यथा मम- 'करमुदयमहीधरस्तनाग्रे गलिततमःपटलांशुके निवेश्य। विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः ॥' यो यस्य रसस्योद्दीपनभावः स तत्स्रूपवर्णने वक्ष्यते।
तद्योगाद् व्यसनी। व्यसनान्याह मनुः-'कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु। मृगयाक्षो दिवा खप्नः परिवाद: स्तियो मदः। तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ पैशुन्यं साहसं द्रोह ईष्यासू- यार्थदूषणम्। वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥' अक्षो द्यूतकीडा। तौर्यत्रिकं नृत्यगीतवाद्यानि त्रीणीति दश। पैशुन्यं अविज्ञातपरदोषाविष्करणम्। साहसं साधोर्बन्धनादिना निग्रहः। द्रोहो जिघांसा। ईर्र्या परगुणासहिष्णुता। असूया परगुणेषु दोषाविष्करणम्। अर्थदूषणं अर्थानामपहरणम्, देयानामदानं च। उद्दीपयन्ति परिपोषातिशयं नयन्ति। आलम्बनस्य नायिकादेः। चेष्टा नेत्रविक्षेपादिः।
- करमिति। अयं सुधांशुः शशी (नायकश्च) गलितं च्युतं तमःपटलं तिमिरवि- तानमेव (तद्दच्च) अंशुकं वसनं यस्य तथाभूते उदयमहीधर उदयाचल एव (तद्वच्च) स्तनः पयोधरस्तदग्रे करं किरणं (पाणिं च) निवेश्य। करेण स्तनाग्रमवलम्ब्येति तत्त्वम्। अमरेशदिशः पूर्वाशायाः (नायिकायाश्च) विकसितानि प्रफुलानि कुमुदानि कैरवाण्येव (तङ्वच्च ) ईक्षणे नयने यथा तथा मुखं प्राचीनारम्भलक्षणं ( वदनं च) चुम्बति। चुम्बनं संबन्धः वदनसंयोगविशेषश्चेति॥
१. 'ते चोद्याननभः-कालचन्द्रभृङ्गरुताद्यः । यथा-'वियद्लि- इत्यादि।' इत्यधिकं ग. पुस्तके. २. 'आलम्बनस्य-' इत्यादिः -'अनुभावाः' इत्यन्तः पाठो ग-पुस्तके नास्ति, ३. 'चेष्टादि" क.ख. ४, 'इत्यादि' क. ५. 'आलाप' इति क-पुस्तके नारित. ६. 'अत्र' क.
Page 184
तृतीय: परिच्छेदः । १३७
अथानुभावा :- उदुद्धं कारणैः स्वैः स्वैर्वहिर्भावं प्रकाशयन्॥ १३२।। लोके यः कार्यरूप: सोऽनुभावः काव्यनाव्ययोः। येः खलु लोके सीतादिचन्द्रादिभिः सैः खैरालम्बनोद्दीपनकारणै रामादेरन्तरुहुद्धं रत्यादिकं वहिः प्रकाशयन्कार्यमित्युच्यते, स काव्यना- ट्ययोः पुनरनुभावः । कः पुनरसावित्याह- उक्ता: स्त्रीणामलंकारा अङ्गजाश्र स्भावजाः ॥१३३।। तद्ूपा: साच्विका भावास्तथा चेष्टाः परा अपि। तेंद्रूपा अनुभावस्वरूपाः । तत्र यो यस्य रसस्यानुभावः स तत्स्वरूपवर्णने चक्ष्यते। तॅत्र सात्त्विका :- विकारा: स्त्त्वसंभूता: सात्त्विकाः परिकीर्तिताः॥१३४॥। सत्त्वं नाम सवात्मविश्रामप्रकाशकारी कश्चनान्तरो धर्मः । सत्मात्रोद्भ्वत्वात्ते भिन्ना अप्यनुभावतः । 'गोबलीवर्दन्यायेन' इति शेषः । के त इत्याह- स्तम्भ: सेदोऽथ रोमाश्चः स्वरभङ्गोऽथ वेपथुः ॥१३५॥ करं किरणं पाणिं च। अमरेशदिशः प्राच्याः । उद्वुद्धमिति विवृणोति-यः ख- ल्विति। बहिः प्रकाशयन् अनुमापयन्। अङ्गजा भावादयत्त्रयः । खभावजा लीलादयोऽष्टादश। शोभाकान्त्यादीनां रत्यादिप्रकाशकत्वाभावान्नानुभावरूपता। चेष्टा नायकस्य नेत्रविक्षेपादयः । पराः सात्त्विकविकारभिन्नाः। सत्विमिति। स्ात्मनि एव विश्रामो यस्य स रसादिः, तस्य प्रकाश उद्धोधस्तत्कारी। प्रागुक्तमपि सत्त्वलक्षणं शिष्याणां विविधव्युत्पत्त्यै प्रकारान्तरेण पुनरुक्तम्। ते सात्त्विका विकाराः। भिन्ना अपीति। अपिना अभिन्ना इत्यस्य लाभः। ननु भेदाभेदयोर्वि- रोध इत्यत आह-गोबलीवर्देति । तथा चानुभावलावच्छिन्नप्रतियोगिताकभे- दाभावेन सहानुभावतसमानाधिकरणधर्मावच्छिन्नप्रतियोगिताकभेदस्य समावेशः।
१. 'वागङ्गसत्वाभिनयैर्यस्मादर्थो विभाव्यते। वाग्गोपाङ्गसंयुक्त: सोऽनुभाव इति स्मृतः ॥।' इति ग. २. 'यः खलु-' इत्यादि: '-आह' इत्यन्तः पाठो ग-पुस्तके नारित. ३. 'अन्तः' इति क-पुस्तके नास्ति, 8. 'तद्रूपा :- ' इत्यादि: '-सात्त्विकाः' इत्न्तः पाठो ग-पुस्तके नास्ति. ५. 'अत्र' क. ६. 'सत्त्वमात्रो- दवा भावाः' इति ग.
Page 185
१३८ साहि त्यदर्पणे
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः। तंत्र स्तम्भश्चेष्टाप्रतीघातो मैयहर्षामयादिभिः ॥१३६॥ वपुर्जलोद्गमः स्वेदो रतिघर्मश्रमादिभिः । हैर्षाद्ुतभयादिभ्यो रोमाञ्चो रोमविक्रिया ॥ १३७॥ मेंद संमदपीडाद्यैर्वैस्वर्य गद्गदं विदुः। रॉगद्वेषश्रमादिभ्यः कम्पो गात्रस्य वेपथुः ॥ १३८ ॥ विषादमदरोषाद्यैर्वर्णान्यत्वं विवर्णतां। अ्रु नेत्रोन्गवं वारि क्रोधदुःखप्रहर्षजम । प्रैलय: सुखदुःखाभ्यां चेष्टाज्ञानांनराकृतिः ॥१३९।।
यथा बलीवर्दे गोलावच्छिन्नप्रतियोगिताकभेदाभावेन सह गोतसमानाधिकरणधेनु- तादिधर्मावच्छिन्नप्रतियोगिताकभेदस्येति भावः । 'विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः ।' इत्यादौ सात्त्विकभावस्य पृथगुपन्यासेनानुभावातिरिक्तलशङ्कानिरा- सार्थमिह पृथगुपादानम्। प्रतीघातः प्रतिबन्धः । वपुषो जलोद्गमः । रोम्णो विक्रिया उद्रमः । वैस्ये खरविकारः । सुखदुःखाभ्यामिति। सुखेन दुःखेन वेत्यर्थः ।
- 'अत्र' क. २. 'भयहर्षानुरागतः । यथा-अधीराक्ष्याः कटाक्षा वः श्रेयसे सन्नु जिष्णवः । युवानस्तत्र तत्रैव यत्पातैलिखिता इव ॥ स्वेदो यथा-वपुर्जलोद्गमः खेदो रतितापश्रमादिभिः। यथा-कान्तानां कृतपुलकः स्तनान्तराले वक्रेपु च्युततिलकेषु मौक्तिकाभः । आपेदे श्रमसलिलोद्रमो चिभूपां रम्याणां विकृतिरपि श्रियं तनोति ॥' इति ग. ३. 'अथ रोमाश्चः-रोमाश्चः प्रोद्गमो रोम्णां रोमहर्पादिभिस्तनौ । यथा-प्रेयःकरतलस्पर्शा ...... पुलकोत्कराः । प्रियागण्डस्थले भान्ति हर्षबी- जाङ्कुरा इव । अ्राचार्यास्तु-यत्र यत्र रसोत्कर्षः श्रूयते दृशयतेऽपि वा। खम्रीत्यभिगमेनासौ रो- माश्चः सर्वभावजः ॥I' इति ग. ४. 'सरभङ्गो यथा-गद्गदो विस्वरत्वं च वैस्वर्य प्रमदादिभिः। यथा-उन्मादिकोकिलककुप्क्वणनोज्ज्वलानि संवाद्यमानकुररीगणकूजितानि। संभ्रान्तगद्गदविभिन्नमृदु- स्वराणि चेतो हरन्ति वचनानि सरोरुहाक्ष्याः ॥' इति ग. ५. 'वेपथुर्यथा-रागरोषभयादिभ्यः कम्नो गात्रस्य वेपथुः। यथा-मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति। अन्यापि किं सखि न भाजनमीदृशीनां वैरी न चेद्पुषि वेपथुरन्तरायः ॥ रागाद्था-वारंवारं तिरयति दशोरुद्रमं वाष्पपूरस्तत्संकल्पोपहितजडिमस्तम्भमभ्येति गात्रम्। सदः स्विद्यत्ययमविरतोत्कम्पलो- लाङ्गलीक: पाणिलेखाविधिषु नितरां कम्पते कि करोमि ॥ एवं रोपादिभिरूह्यम् !' इति ग. ६. ग- पुस्तके तु 'विवर्णता' इत्यस्मादये 'परिमृदित-' इति श्लोको दृश्यते. ७ ग-पुस्तके तु 'मरहर्षजम्' इत्यस्मादग्रे 'यथा-शशाम वृष्ट्या मेघानामुत्सक्गे तस्य भूभृतः। विरराम न रामस्य धारासंत्रतिर- भ्रुणः ॥' इति श्रोको वर्तते. ८. 'प्रलयो यथा-प्रलयो रागदुख़ादेरिन्द्रियास्तमयो मतः। यथा- प्रेमार्द्रा: प्रणयस्पृशः इत्यादि ।' इति ग.
Page 186
तृतीय: परिच्छेदः । १२९
येथा मम- 'तनुस्पर्शादस्या दरमुकुलिते हन्त नयने उदञ्चद्रोमाञ्चं त्रजति जडतामङ्गमर्खिलम्। कपोलौ घर्माद्रौ ध्रुवमुपरताशेषविषयं मनः सान्द्रानन्दं स्पृशति झटिति ब्रह्म परमम् ॥' एवमन्यत् । अथ व्यभिचारिण :- विशेषादाभिमुख्येन चरणाव्यभिचारिणः ।
स्थिरतया वर्तमाने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावा- भ्यामाभिमुरयेन चरणाद् व्यभिचारिण: कथ्यन्ते।
ब्रह्म परममिति। ब्रह्मनिविष्टचेतसो यथा चेष्टावाह्यज्ञाननिरासो भवति तथा नायि- कानिविष्टचेतसोऽपीति भावः । अत्र स्तम्भस्वेदरोमाञ्चप्रलयाः । एवमन्यदिति। 'बाले नाथ विमुश्च मानिनि रुषम्-' इत्यन्न स्वरभङ्गः। 'मा गर्वमुद्धह-' इत्यत्र वेपथुः । 'शोणं वीक्ष्य-' इत्यत्र वैवर्ण्यमश्रु च। विशेषादिति। विभावानुभा वापेक्षया आभिमुख्येन रसानुगुण्येन रत्यादौ रसरूपतया संगच्छमानाः । उन्मम्रा बुद्ुदवत् झटिति प्रतीयमानत्वेन प्रादुर्भूताः । निर्मन्ा विलम्बप्रतीतिकत्वेन तिरो- भूताः । त्रयस्त्रिंशदिति न्यूनसंख्याया व्यवच्छेदकम्, न लधिकसंख्यायाः। अत एवोक्तम्-'हासकोधादयः शङ्गारादौ व्यभिचारिणः' इति। एतदर्थमत्र चकार उपन्यस्तः । तद्िदा व्यभिचारिभावप्रकाराः । चरणात् मेलकातू। निर्वेदादीनां ज्ञा-
- तन्विति। अस्याः तनुस्पर्शात् गात्रसंपर्कांत् नयने अक्षिणी दरमुकुलिते किंचिन्मु- कुलीभावमधिगते हन्त। अखिलं सकलमङ्गम् उदश्चन्तः प्रादुर्भवन्त रोमाञ्चा रोमविकारा यस्मिस्तथाभूतं सत् जडतां जडत्वं ्रजति गच्छति। अत्र 'नयने उदशत्-' इति 'ईदूदेद्िवचनं प्रगृह्यम्' इति सूत्रेण द्विवचनस्य प्रगृह्यसंज्ञायां 'परुतप्रगृह्या अचि नित्यम्' इति सूत्रेण प्रकृतिभावे प्रगृह्यहेतुकानुशासनिको विक्रेषः सत्वसकृदेव दोषावहः । 'समुद्द्रोमाञ्चम्' इति पाठस्तु ज्यायान्। कपोलौ धर्माद्रौं स्वेदसलिलपिच्छिलौ भवतः । उपरतो विरतः अशेषविषयः सकलबाह्येन्द्रियव्यापारो यस्य तथाभूतं मनः झटिति सान्द्रानन्दं निबिडानन्दरूपं परमं सर्वोत्कृष्ट ब्रह्म स्पृशति साक्षात्करोति ध्रुवं नूनम्। ब्रह्मानन्दमनुभवतीवेति भावः ।
१. 'यथा-' इत्यादिः 'एवमन्यत्' इत्यन्तः पाठो ग-पुस्तके नास्ति. २. 'निर्वेदा(द) यस्त्रय स्रििंशदयथासंभवं रत्यादिस्थायिषु आविर्भावतिरोभावाभ्यामाभिसुख्येन चरणाद् व्यभिचारिण उच्यन्ते इति ग.
Page 187
१४० साहित्यदर्पणे
के त इत्याह- निर्वेदावेगदैन्यश्रममदजडता औध्यमोहौ विबोधः सवन्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः। औत्सुक्योन्मादशङ्का: स्मृतिमतिसहिता व्याधिसंत्रासलज्जा हर्षासूयाविषादाः सधृतिचपलता ग्लानिचिन्तावितर्काः १४१ तत्र निर्वेद :- तत्वज्ञानापदीष्यादे्निर्वेद: स्वावमाननम्।
तेत्त्वज्ञानान्निर्वेदो यथा- 'मृत्कुम्भवालकारन्ध्रपिधानरचनार्थिना। दक्षिणावर्तशङ्गोडयं हन्त चूर्णीकृतो मया ॥' अथावेग :- आवेगः संभ्रमस्तत्र हेर्षजे पिण्डिताङ्गता। उत्पातजे स्रस्तताङ्गे, धूमाद्याकुलताग्निजे॥१४३॥ नाय कार्यकारणकथनपुरःसरं तल्लक्षणमाह-तत्वेति। तत्त्वज्ञानमिह देहविषयादा- वनुपादेयत्ज्ञानमेव, न तु जीवात्मपरमात्मनोरभेदज्ञानम्। तस्मिन्सति मोक्ष एव- न तु खावमाननम्। तत्कारणे वैराग्यादौ लक्षणा। प्रथमादिपदात् पुराणश्रवणादीनां द्वितीयादिपदात् स्वस्य कुकर्मोद्भावनादीनां ग्रहणम्। मृदिति। चूर्णीकृतः चूर्णा- ख्यद्रव्यविशेषीकृतः। विरक्तस्य दक्षिणावर्तशङ्गचूर्णनकथनमसंगतमित्युपमाकल्पनयायं निदर्शनालंकारः । तथा च मृत्कुम्भवालुकारन्ध्रपिधानवत्तुच्छं वैषयिकसुखम् तस्य रचना अनुकूलव्यापारः तदर्थिना तत्कामेन। परमपुरुषार्थसाधनतया दक्षिणावर्तश- ङ्ववदुपादेयो मनुष्यदेहः चूर्णीकृतः । जरया जर्जरीकृत इत्यर्थः । यद्वा रावणशत्त्या पतिते लक्ष्मणे श्रीरामस्य परिदेवनमिदम्। अयं लक्ष्मण एव दक्षिणावर्तशङ्खः मया चूर्णीकृतो विनाशितः, चूर्णाख्यद्रव्यविशेषीकृतश्। कीदृशेन मया। रावणवधादिरेव मृत्कुम्भवालुकारन्ध्रपिधानं तद्रचनाकामेन। अतिशायोक्त्यलंकारोडयं रूपकोपपादकः। अत्र पक्षे आपज्न्यं निर्वेदसावमाननं वेद्यम्। एवमन्यदपि। तत्रावेगे पिण्डिताङ्गता संकुचितशरीरत्म्। 'पीडिताङ्गता' इति पाठे स्पष्ट एवार्थः । उत्पातजे दिव्यनाभस-
- निर्वेद इति। 'चित्तस्य खेदो निर्वेदस्तत्वज्ञानोदयादिभिः ।' इति केचित्॥ 2. आवेग इति। अनर्थातिशयजनिता चित्तस्य संभ्रमाख्या वृत्तिरावेग इति॥
१. 'निर्वेदः' इति नारित ग-पुस्तके. २. 'तत्र' इत्यधिकं ग.पुस्तके. ३. 'अथावेगः' इनि ग-पुस्तके नास्ति. 8. 'पिहिताङ्गता' ग. ५. निर्वेद' इति पुस्तकान्तरे नास्ति.
Page 188
तृतीयः परिच्छेदः । १४१
राजविद्रवजादेस्तु शस्त्रंनागादियोजनम्ं। गजादे: स्तम्भकम्पादि, पांस्वाद्याकुलतानिलात्।१४४।। इष्टाद्धर्षाः शुचोऽनिष्टाज्ज्ञेयाश्चान्ये यथायथम्। तत्र शत्रुजो यथा- 'अर्ध्यमर्ध्यमिति वादिनं नृपं सोऽनपेक्ष्य भरताग्रजो यतः । क्षत्रकोपदहनार्चिषं ततः संदधे दृशमुद्ग्रतारकाम् ।' एवमन्यदू्यम्। अथ दैन्यम्- दौर्गत्याद्यैरनौजस्ं दैन्यं मलिनतादिकृत्॥ १४५॥ यथा- 'वृद्धोऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं, कालोऽभ्यर्णजलागमः, कुशलिनी वैत्सस्य वार्तापि नो। यत्नात्संचिततैल बिन्दुघटिका भम्नेति पर्याकुला दृष्ट्रा गर्भभरालसां निजवधूं श्वश्रूश्चिरं रोदिति ।।' अथ श्रम :- खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रेम:।
भूमिजरूपत्निविधोत्पातजन्ये। राजविद्रवजादेरित्यादिना शत्रुजादिग्रहणम् । नागादीत्यादिना अश्वादिपरिग्रहः । गजादेर्जायमाने आवेगे। एवमग्रेऽपि नृप दश- रथम्। स भार्गवः । क्षत्रेषु यः कोपः स एव दहन: तस्य शिखाम्। ततः तस्मिन्। अत्रार्ध्यमर्ध्यमिति मुहुर्वदतो दशरथस्य भार्गवदर्शने संत्रमः । दौर्गतं दारिद्यम्। आदिना श्रमादेर्ग्रहणम्। अनौजस्यं निस्तेजस्त्वम्। स्थूणा स्तम्भः । अभ्यर्णजला-
- दैन्यमिति। दुःखदारिद्यापराधादिजनितः स्वापकर्षभाषणादिहेतुश्चित्तवृत्तिविशेपो देन्यमिति। 'चिन्तौत्सुक्यान्मनस्तापाद्दौर्गत्याच्च विभावतः। अनुभावात्त शिरसोडप्या- वृत्तेगात्रगौरवात्। देहोपस्करणत्यागाद्दैन्यं भावं विभावयेत् ।' इति च।। 2. वत्सस्येति। वत्सस्य पुत्रस्य।। 3. निजवधूमिति। निजवधूं आत्मस्षाम् । 4. श्रम इति। बहुतरशारीरव्यापारजन्मा निःश्वासाङ्गसंमर्दनिद्रादिकारणीभूतः खेद- १. 'नागाभियोजनम्' क-ग. २. इतोऽग्े 'नष्ट वर्षवरैः-' इति श्लोको दृश्यने घ-पुस्तके, ततश्च 'अत्र परिमुक्तवानरभयादेपां संभ्रमः ।' इति. ३. 'तत्र-' इत्यादिः '-ऊह्यम्' इत्यन्तः पाठो नास्ति ग-पुस्तके. 8. -श्रमः खेदादिकारकः, रतान्मार्गगमनादेश्च यः खेदः स श्रमः सेदमर्दनाद्यनु- भावजनकः ।' इति ग.
Page 189
१४२ साहित्यदर्पणे
येथा- 'सैदः पुरीपरिसरेडैपि शिरीषमृद्वी सीता जवात्रिचतुराणि पदानि गत्वा। गन्तव्यमस्ति कियदित्यसकृड्डुवाणा रामाश्रुण: कृतवती प्रथमावतारम् ।' अथ मद :- संमोहानन्दसंभेदो मदो मद्योपयोगजः ॥ १४६ ॥ अमुना चोत्तमः शेते, मध्यो हसति गायति। अधमप्रकृतिश्वापि परुषं वक्ति रोदिति ॥ १४७॥ यथा- 'प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः । गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ।।'
गमो निकटस्थवर्षासमयः । तैलबिन्दूनां घटिका क्षुद्रभाजनम्। सद्य इति। वारं- वारं गन्तव्याध्वपरिमाणजिज्ञासया सीतायाः खल्पपथलङ्गनश्रममवधार्य श्रीरामस्य रोदनम्। संमोहानन्दयोः संभेदो मेलकः । मद्यस्यासवस्य उपयोगाद् भक्षणाज्ातः। अमुना मदेन। प्रातिभं प्रागल्म्यम्। त्रिसरकेण मद्येन। गूढं सूचितं रहस्यं यत्र स विशेष: श्रम इति। यदाहुः-'अध्वव्यायामसेवादयैविभावैरनुभावकैः। गात्रसंवाहनैरा- स्यसंकोचैरङ्गमोटनैः ॥ निःश्वासैर्जृम्भितैर्मन्दैः पादोत्क्षेपैः श्रमो मतः ॥' इति। अयं च सत्यपि बले जायते, शारीरव्यापारादेव च जायते न तु ग्लानिः । अतो ग्लानिः श्रमस्य भेद: ॥ 1. प्रथमेति। प्रथमावतारं पूर्वाविष्करणम्॥ 2. मद दति। मद्याद्युपयोगजन्मा उल्लासाख्यः शयनहसितादिहेतुश्चित्तवृत्तिविशेषो मद इति। तत्रोत्तमे पुरुषे स्वापोऽनुभावः । मध्यमे हसितगाने। अधमे तु रोदनपरुषोक्त्यादि। अयं च मदस्त्रिविधः । तरुणमध्यमाधमभेदात्। अव्यक्तासंगतवाक्यैः सुकुमारस्खलद्गत्या च योऽभिनीयते स आद्यः। भुजाक्षेपस्खलितघूर्णितादिभिर्मध्यमः । गतिभङ्गस्मृतिनाश- हिक्काछर्द्यादिभिरधमः । प्रदीपे तु 'उत्तमसत्वः प्रहसति गायति तद्वच्च मध्यमप्रकृतिः । परुषवचनाभिधायी शेते रोदित्यधमसत्वः ॥।' इति व्यत्यासोऽस्ति ॥ 3. आतिभमिति। मदानुभाववर्णनमिदम्। त्रयाणां सरकाणा समाहारस्त्रिसरकं
१. 'यथा' ग-पुस्तके नास्ति. २. ग-पुस्तके तु 'सद्यः' इति श्रोकस्य स्थाने 'अइ पिहुलं जल- कुम्भं घेत्तूण समागदम्हि सहि तुरिअम् । समसेअसलिलणीसामणीसहा वीसमानि खणम् ॥' इति दृश्यते, ३. 'च' घ. ४. 'हर्षोत्कर्षो मदः पानात्स्खलदङ्गवचो गतिः । मद्यादिपानाद्यो हपोत्कर्पः
Page 190
तृतीयः परिच्छेदः । १४३ अथ जडता- अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ।। १४८।। येथा मम कुवलयाश्वचरिते प्राकृतकाव्ये- णवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिट्ठिम् । आलेक्खओपिअं विअ खणमेत्तं तत्थ संट्टिअं मुअसण्णम् ।।' अथोग्रता- शौर्यापराधादिभवं भवेच्चण्डत्वसुँग्रता। तत्र स्वेदशिर:कम्पतर्जनाताडनादयेंः ॥ १४९॥
चासौ हासश्चेति। अप्रतिपत्तिः कर्तव्यानिश्चयः। तूष्णींभावो मौनम्। तत्र जडता- याम्। णवरिअ इति । 'केवलं तद्युवयुगलमन्योन्यं निहितसजलमन्थरदृष्टि। आलेख्यार्पितमिव क्षणमात्रं तन्न संस्थितं मुक्तसङ्गम् ।' इति संस्कृतम्। णवरि-
त्रिवारमधुपानम् । 'सरकं शीध्रुपात्रे स्याच्छीधुपाने च शीधुनि।' इति विश्रवः। तेन त्रिसरकेण। 'त्रिपानं मदातिभूमिः' इति पानप्रसिद्धिः । प्रतिभैव प्रातिभं प्रतिभाविशेषः । तत्प्रातिभं गतानां त्रिवारसुरापाणोत्कटमदोद्वुद्धप्रागत्भ्यभाजां सुभ्रुवां वक्रवाक्यरचनारमणीयः वक्रोक्तिशोभनः। गूढानि पूर्व लब्जया संवृतानि, सूचितानि संप्रति मदेन प्रकाशितानि रहस्यानि ग्रम्यावयवचेष्टाप्रलपितानि यस्मिन् स गूढसूचितरहस्यः, स चासौ हासश्रेति विशेषणसमासः । प्रववृते प्रवृत्तः ॥
संधानविकला चित्तवृत्तिर्जडता। इयं च मोहात्पूर्वतः परतश्च जायते । यदाहु :- "कार्याविवेको जडता पश्यतः शृण्वतोऽपि वा। तदविभावाः प्रियानिष्टदर्शनश्रवणे रुजा।। अनुभावास्त्वमी तूष्णीभावविस्मरणादयः । सा पूर्व परतो वा स्यान्मोहादिति विदां मतम् ॥' इति ॥ 2. णवेति। स्कन्धकमिदम्। तलक्षणमुक्तम्-'स्कन्धकमिति तत्कथित यत्र चतुष्क- लगणाष्टकेनार्घ स्यात्। तत्तुल्यमग्रिमदलं भवति चतुःषष्टिमात्रकशरीरमिदम् ।' इति॥ 3. उग्रतेति। अधिक्षेपापमानादिप्रभवा किमस्य करोमीत्याद्याकारा चित्तवृत्तिरुग्रता। यदाहु :- 'नृपापराधोऽसद्दोषकीर्तनं चोरधारणम्। विभावाः स्युरथो बन्धो वधस्ताडन- भर्त्सने ॥ एते यत्रानुभावास्तदौधयं निर्दयतात्मकम् ।'
५. 'अथ जडता' इति नारित ग-पुस्तके. २. 'यथा-' इत्यादिफकिका नास्ति ग-पुस्तके. ३. 'अथोग्रता' इति नास्ति ग-पुस्तके. 8. इतोऽग्रे 'शौर्यादिना यच्चण्डत्वमुग्रता। तत्र खेदशिरः कम्नाद्यनुभावा भवन्ति।' इत्यधिकं ग-पुस्तके.
Page 191
१४४ साहित्यदर्पणे
यथा- 'प्रणयिसखीसलीलपरिहा स रसाधिि ग तै र्ललितशिरीषपुष्पहननैरिव ताम्यति यत्। वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥' अथ मोह :- मोहो विचित्तताभीतिदुःखावेगानुचिन्तनैः। मूर्च्छनाज्ञानपतनभ्रमणादर्शनादिकृत्॥१५० ॥ यथा- 'तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम्। अज्ञातभर्तृव्यसना मुहत कृतोपकारेव रतिर्बभूव अथ विबोध :- निद्रापगमहेतुभ्यो विबोधश्चेतनागमः । जृम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत्॥१५१ ॥ अशब्दः केवलार्थ देशी। चण्डतमत्यन्तासहिष्णुतम्। प्रणयिनी या सखी तस्याः परिहासरसेनाधिगतैः प्राप्तैः । अकाण्डयमद्ण्ड इति। अकालयमदण्ड इत्यर्थः । अत्र मालतीशरीरे शरप्रहारं कुर्वतोऽघोरघण्टस्यापराधेन माधवस्य चण्डलमेताह- शोक्त्या व्यज्यते। चित्तस्य निमीलनत्वं विचित्तता। सुषुप्तिवारणायाह-भीतीति। आवेगः संभ्रमः । अनुचिन्तनमत्यन्तचिन्ता। अदर्शनमज्ञानम्। अभिषङ्गः शोकः । वृत्ति विषयसंबन्धम्। संस्तम्भयता प्रतिबन्नता। एतेनाज्ञानकरत्वं मोहस्य सूचितम्। व्य-
- मोह इति । भयवियोगादिप्रयोज्या वस्तुतत्त्वानवधारिणी चित्तवृत्तिमोहः । 'अवस्थान्तरशबलिता चित्तवृत्तिः' इति तु नव्याः ॥ 2. विबोध इति। निद्रानाशोत्तरं जायमानो बोधो विबोधः । निद्रानाशश्च तत्पूर्ति- स्वप्नान्तबलवच्छव्दस्पर्शादिभिर्जायत इति त पवात्र विभावाः। अक्षिगात्रमर्दनादयोऽनु- भावा: । केचिदविद्याध्वंसजन्यमप्यमुमामनन्ति। तेषां मते 'नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत। स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव'। इति गीताश्रोक उदाहार्थ: ।
१. 'देहेन्द्रियग तिस्तम्भशून्यताद्यनुभावकृत्। शोकादिना चित्तविक्षेपो मोह इन्द्रियस्तम्भाद्यनुभाव कृत्।' इति ग. २. 'विबोधः परिणामादेरतत्र जृम्भाक्षिमर्दने। आहारपरिणामादेश्वेतनाभावो विवोधो जुम्भाद्यनुभावक: ।' इति ग.
Page 192
तृतीय: परिच्छेद:। १४५
यथा- *चिरेरतिपरिखेद प्राप्त निद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः । अपरिचलितगात्राः कुर्वते न प्रियाणा- मशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥' अथ खम्र :- स्वननो निद्रामुपेतस्य विषयानुभवस्तु यः । कोपावेगभयग्लानिसुखदुःखादिकारकः ॥ १५२ ॥ यथा-
र्लब्घायास्ते कथमपि मया खप्नसंदर्शनेन। पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥' सनं विपत्। निद्रापगमहेतवो गीतवादित्रादयः तेभ्यश्चेतनागमो ज्ञानलाभः । नयन- मीलनं नेत्रप्रकाशः । चरमं नायकनिद्रायाः पश्चात्। पूर्वे नायकप्रबोधात्प्राक्। अ- शिथिलेन दृढनिक्षिप्तेन भुजेन यः कण्ठस्याश्लेषः तस्य भङ्गम् । 'प्रशिथिल-'इति पाठे निद्रावशाद् भुजशैथिल्यं प्रियः प्रवुध्य भुजाक्षेपं कर्तुमर्हतीति। अस्य निद्राभङ्गो नोचित इति भावः । मामिति। यक्षस्य मेघं प्रति प्रियायै वाचनिकार्पणमिदम्। 1. चिरेति। चरममपि शयित्वा पश्चात्सुप्तापि पूर्वमेव प्रबुद्धाः । 'सुप्ते पश्चाच्च या शेते पूर्वमेव प्रवुध्यते। नान्यं कामयते चित्ते सा स्त्री ज्ञेया पतिव्रता ॥' इति स्मरणादिति भावः। तथापि तरुण्योऽपरिचलितगात्रा अस्पन्दवपुष्काः सत्यः चिररतिपरिखेदेन पाप्तनिद्रा सुखानां प्रियाणाम्। अशिथिलो गाढो यो भुजचक्रेण परस्परभुजवलयेन आश्लेषः तस्य -भेदं विश्रेप न कुर्वते किं त्वाश्िष्यैव स्थिताः । अन्यथा तन्निद्राभङ्ग: स्ात्। 'शयानं न प्रबोधयेत्' इति निषेधास्कन्दनभयादिति भावः । इह 'कण्ठाश्रलेषभङ्गम्' इति टीकाकारसंमतः पाठः। स तु सांप्रतिकपुस्तकेषु न दृश्यते॥ 2. मामिति। मया कथमपि स्वप्नसंदर्शनेन लब्धायाः ते तव निर्दयाश्लेषहेतोः गाढा- लिङ्गनार्थम् आकाशप्रणिहितभुजं शून्यार्पितबाहुं मां पश्यन्तीनां स्थलीदेवतानां वनदेवतानां मुक्तास्थूला अश्रुलेशा नयनोदबिन्दवः तरुकिसलयेषु बहुशः न खलु न पतन्ति। अपि तु पतन्त्येव। एवंविधं मामवलोक्य वनदेवता अपि रुदन्तीति भावः ॥ १. 'चिररति-' इति श्रोकस्य स्थाने 'एकेन नेत्रकमलं मलयन्करेण पाणि परं च कलयन्नवनी- तभाण्डे। निद्राविरामकमनीयमुखाम्वुजश्रीर्मा पातु पादरजसा वत नन्दबालः ॥' इति दश्यते ग-पुस्तके २. 'मात्सर्यभयकोपादेरनुभावस्य कारणम् । निद्राणस्यापि विषयज्ञानं खम। मात्सर्यानुभावहेतुः। इति ग. ३. 'भूयश्चासि त्वमसि शयने कण्ठलझा पुरा मे-' इत्युदाहरणान्तरं ग-पुस्तके. सा० द० १३
Page 193
१४६ साहित्यदर्पणे
अथापस्मार :- मनःक्षेपस्त्वपसमारो ग्रहाद्यावेशनादिजः । भूपातकम्पप्रखवेदफेनलालादिकारक: ॥१५३ ॥
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के।।' अथ गर्वः- गर्वो मदः प्रभावश्रीविद्यासत्कुलतादिजः। अवज्ञासविलासाङ्गदर्शनाविनयादिकृत् ॥१५४॥ तेत्र शौर्यगर्वो यथा- 'धृतायुधो यावदहं तावदन्यैः किमायुघैः ।
अथ मरणम्- यद्वा न सिद्धमस्त्रेण मम तत्केन साध्यताम्ँ।।'
शरादयैर्मरणं जीवत्यागोऽङ्गपतनादिकृत्। मां यक्षम्। कथमपि महता कष्टेन । मुक्ता इव स्थूलाः । मनःक्षेप इति। मनसो नाडीविशेषनिवेशेन घूर्णनमित्यर्थः । अ्रहादीत्यादिना भूतादिपरिग्रहः । मध्यमादिपदेन धातुवैषम्यादिपरिग्रहः । फेनायमानं फेनमुद्धमन्तम्। असौ श्रीकृष्णः आशशङ्क ज्ञात- वानू। मदश्चित्तविकारविशेषः । राजः कोशदण्डादिजन्यः प्रतापः प्रभावः । श्रीस्त्रि-
- शरेति। अत्र विशेषमाहू रसगङ्गाधरकारा: 'रोगादिजन्या मूर्छारूपा मरणप्रा- गवस्था मरणम्। न चात्र प्राणवियोगात्मकं मुख्यं मरणमुचितं ग्रहीतुम्। चित्तवृत्त्या- त्मकेषु भावेषु तस्याप्रसक्तेः । भावेषु च सर्वेषु कार्यसहवर्तितया शरीरप्राणयोगस्य हेतु- त्वात्। उदाहरणम्-'दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीद। अधुना खलु हन्त सा कृशाङ्गी गिरमङ्गीकुरुते न भाषितापि ।' प्रियविरहोऽत्र विभावः । वचनविरामोऽनुभावः। पदव्यञ्ञयतामावहति। दयितस्य गुणाननुस्मरन्तीत्यनेन व्यज्यमानं चरमावस्थायामपि तस्या दयितगुणविस्मरणं नाभूदिति विप्रलम्भस्य शोकस्य वा चरममभिव्यक्तस्य पोषकम्। अयं च भाव: स्वव्यअ्जकवाक्योत्तरवर्तिना वाक्यान्तरेण संदर्भघटकेन नायिकादे: प्रत्युज्जीवनवर्णने विप्रलम्भस्य, अन्यथा तु करुणस्य पोषक इति विवेक:। कवयः पुनरमुं प्राधान्येन न
१. 'आवेशो ग्रहदुःखादैरपसारः स्मृतो बुधैः । घुर्धुरध्वनिभूपातफेनाङ्गान्दोलनादिकृत् ॥' इति ग. २. 'ललद्' क्घ. ३. 'औद्धत्यसदृशावज्ञासहेलालोकनादिकृत्। प्रभावादिजन्यो मदो गर्वः । आदि- शब्दाल्ावण्यसौभाग्यादिः । स चाविनयाद्यनुभावहेतुः ।' इति ग. ४. 'यथा' क घ, ५, असादग्रे 'एवमन्यदप्यूह्यम्' इत्यधिकं ग-पुस्तके. ६. 'अथ मरणम्' इति नास्ति ग-पुस्तके. ७. 'मरणं सुप्रसिद्ध- त्वादनर्थत्वाच्च नोच्यते।' इति ग.
Page 194
तृतीयः परिच्छेदः । १४७
येथा- 'राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी। गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसति जगाम सा ।।' अथालस्यम्- आलसं श्रमगर्भाद्यैर्जाड्यं जृम्भासितादिकृत्ं॥१५५ ॥ यथा- 'नें तथा भूषयत्यङ्गं न तथा भाषते सखीम्। जुम्भते मुहुरासीना बाला गर्भभरालसा ।।' अथामर्ष :- निन्दाक्षेपापमानादेरमर्षोऽभिनिविष्टता। नेत्रैरागशिर:कम्पभ्रूभङ्गोत्तर्जनादिकृत् ॥१५६ ।।
वर्गसंपत्तिः । अवज्ञा परस्मिन्। अन्यैर्मद्धृतायुधभिन्नैः। रामेति। सा निशाचरी ताडका राक्षसी, सैव निशाचरी अभिसारिका नायिका। राम एव मन्मथः तस्य शरेण हृदये वक्षसि मनसि च ताडिता सती जीवितेशो यम एव जीवितेशः प्रियः तस्य वसति जगाम। कीदृशी। गन्धवद्धिरमेव चन्दनं तेनोक्षिता लिपा। 'जाड्यम्' इत्यत्र क्वापि 'जैह्रयम्' इति पाठः । स न सम्यक । असंगतार्थापत्तेः । आसितमुपवेशनम्। दोषोद्भावनं निन्दा । भर्त्सनमाक्षेपः । अपमान: पराभवः । आदिना वित्तादिग्रहणादेग्रहणम्। अभिनिविष्टता निन्दादिकर्तुर्यातननिर्णयः । क्रोध-
वर्णयन्ति । अमङ्गलप्रायत्वात् ।' इति। प्रदीपेप्युक्तम्-'जीवस्योद्रमनारम्भो मरणं परिकीर्तितम्। संमोहेन्द्रियसंग्लानिगात्रविक्षेपणादिकृत् ।।' इति ॥ 1. आलस्यमिति । अतितृप्तिगर्भव्याधिश्रमादिजन्या चेतसः क्रियानुन्मुखतालस्यम्। अत्र च नासामर्थ्यम्। नापि कार्याकार्यशून्यत्वम्। तेन कार्याकरणरूपस्यानुभावस्य तुल्यत्वेऽपि ग्लानेर्जडतायाश्रास्य भेद: ।। 2. अमर्ष इति। परकृतावज्ञादिनानापराधजन्यो मौनवाक्पारुष्यादिकारणीभूतश्चित्त- वृत्तिविशेषोडमर्षः ॥ १. 'यथा-राम' इत्युदाहरणं नास्ति ग-पुस्तके. २. 'जैह्यं' क-ग. ३. इतोऽग्रे 'श्रमादिना प० जैह्यं प्रवृत्तिसंकोचः, तदालस्यम्। जुम्भणस्थित्याद्यनुभावहेतुः।' इत्यधिकं ग-पुस्तके. ४. 'न तथा-' इत्यस्य स्थाने 'सुरेन्द्रमात्राश्रितगर्भगौरवात्-' इत्युदाहरणं ग. पुस्तके. ५. 'अधिक्षेप' ग. ६. 'उन्बास- प्रतिकारेच्छा मनःक्षोभादिकारकः ।'इति ग.
Page 195
१४८ साहित्यदर्पणे
यथा- 'प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात्। न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ।।' अथ निद्रा- चेतःसंमीलनं निद्रा श्रमक्लममदादिजा। जृम्भाक्षिमीलनोच्छ्ासगात्रभङ्गादिकारणम् ॥२५७ ॥ यथा 'सार्थकानर्थकपदं ब्रुवती मन्थराक्षरम्। निद्रार्घमीलिताक्षी सा लिखितेवास्ति मे हृदि ॥' अथावहित्था-
व्यापारान्तरसत्त्यन्यथावभाषणविलोकनादिकरी॥ १५८ ॥ यथा- 'एवंवादिनि देवर्षो पार्श्रे पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती ।।'
स्तूत्कटापचिकीर्षा। इत्यनयोर्भेदः । प्रायश्चित्तमिति। द्रोणादीन्प्रति अर्जुनस्यो- क्तिरियम्। व्यतिकमात् हननातू चेतसः संमीलनं मेध्यानाडीप्रवेशेन निश्चललम्। सार्थकानि अनर्थकानि च पदानि यत्र तद्यथा स्यात्तथा। मन्थराणि गम्भीराणि अनासन्नानि असंपूर्णानि वा अक्षराणि यत्र तद्यथा स्यात्तथा। लिखितेवेति। धारावाहिकस्मरणस्फोरणाय। हर्षादेराकारस्य सूचकस्य मुखरागादेर्गुप्तिः संवरणम्। सक्तिरासङ्गः । अन्यथेति। अप्रकान्तस्य भाषणं विलोकनं च। आदिना क्रिया-
- अवहित्थेति। व्रीडादिभिनिमित्तैर्हषीद्यनुभावानां गोपनाय जनितो भावविशेषो- Sवहित्था। अबहिःस्थितिरवहित्था, 'सुपि स्थः' इत्यत्र 'स्थः' इति योगविभागात्कः । पृषोदरादि। तदुक्तम्-'अनुभावपिधानार्थेऽवहित्थं भाव उच्यते। तद्विभाव्यं भयव्रीडा- धाष्टर्यकौटिल्यगौरवैः ॥' इति ॥
१. ग-पुस्तके तु 'लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य। आकृष्य पाण्डववधूपरिधानकेशान्खस्था भवन्तु मयि जीवति घार्तराष्ट्राः ॥' इत्युदाहरणम्. २ 'मन.' ग. ३. 'चिन्तालस्यश्रमादिभिः' ग. ४. 'चेष्टाप्रतिहतिस्वमघूर्णनाद्यनुभावक। चिन्तादिभिर्मनसो निरिन्द्रिय- प्रदेशावस्थानं निद्रा चेष्टानाशाद्नुभावहेतुः ।' इति ग. ५. ग-पुस्तके तु 'निमीलितादक्षियुगाच्च निद्रया हृदोऽपि बाह्येन्द्रियमौनमुद्रितात् । अदार्श संगोप्य कदाप्यवीक्षितो रहस्यमस्याः स महन्महीपतिः' इत्युदाहरणम्.
Page 196
तृतीयः परिच्छेदः । १४९
अथौत्सुक्यम्- इेष्टान वापेरौतसुक्यं कालक्षेपासहिष्णुता। चित्ततापत्वरास्वेद दीर्घनिःश्चसितादिकृत्॥१५९॥ यथा-'यः कौमारहरः स एव हि वरः-' इत्यादि। अत्र यत् काव्यप्रकाशकारेण रसस्य प्राधान्यमित्यक्तुं तद्रसनधर्मयो- गित्वाद्यभिचारिभावस्यापि रेसशब्दवाच्यत्वेन गैतार्थ मन्तव्यमें। अथोन्मादः- चित्तसंमोह उन्माद: कामशोकभयादिभिः। अस्थानहासरुदितगीतप्रलपनादिकृत् ॥ १६० ॥। यथा मम- 'प्रातर्द्विरेफ भवता भ्रमता समन्ता- त्प्राणाधिका प्रियतमा मम वीक्षिता किम्। मात्रस्य ग्रहः । देवषौं नारदे। पितुर्हिमालयस्य। व्यभिचारिभावस्येति। तत्रानुभावादिकृतपरिपोषराहित्येन रतेः संपूर्णरसत्वं न संभवति। वर्णनीयत्वेन चमत्कारित्वेनौत्सुक्यस्यैव प्राधान्यमिति भावः । अत एव काव्यप्रकाशटीकाकारच- ण्डीदासेनोक्तम्-'रसपदं चात्र संभोगव्यभिचार्योत्सुक्यमाह 'रस्यते आस्वाद्यते' इति व्युत्पत्त्या। न तु संभोगनामा रसः । स्वाधीनपतिकायाः कीडास्थानं प्रत्युत्सु- कताया वर्णनीयत्ात्' इति। गतार्थे प्राप्तविषयम्। चित्तस्य संमोहश्चेतनाचेतना- दिविशेषज्ञानजननाक्षमलम्। भ्रातरिति। व्यवस्यति कर्तुमीहते। अत्र कामेन 1. औत्सुक्यमिति। अधुनैवास्य लाभो ममास्त्वितीच्छा औत्सुक्यम् । इष्टविर हादिरत्र विभावः। त्वराचिन्तादयोऽनुभावः। यदाहु :- 'संजातमिष्टविरहादुद्दीसं प्रियसंस्मृतेः । निद्रया तन्द्रया गात्रगौरवेण च चिन्तया।। अनुभावितमाख्यातमौतसुक्यं भावकोविदैः ॥' इति॥ 2. उन्माद इति । विप्रलम्भमहापत्तिपरमानन्दादिजन्मान्यस्मिन्नन्यावभास उन्मादः। शुक्तिरजतादिज्ञानव्यावृत्तये जन्मान्तम्। उन्मादस्य व्याधावन्तर्भावे संभवत्यपि पृथगुपादानं व्याध्यन्तरापेक्षया वैचित्र्यविशेषस्फोरणाय।। १. 'औत्सुक्यं वाञ्छितार्थस्य लाभे कालासहिष्णुता। उपायान्वेषणास्थैर्यचिन्तनाद्यनुभावकृत। इष्टा र्थस्य प्राप्तौ कालाप्रतीक्षा, औत्सुक्यम्। इति ग. २. 'रसशब्देन' क. ३. 'गतार्थत्वं' क. ४. अतोड 'तथोक्तम्-रसभावौ तदाभासो भावस्य प्रशमोदयौ। संधिः शबलता चेति सर्वेऽपि रसनाद्रसाः॥ इत्यधिकं ग-पुस्तके. ५. 'अप्रेक्षाकारितोन्मादः संनिपातग्रहादिभिः । तत्र मलापचापल्यकृतविस्मरणा दयः ॥'इति ग. ६. 'मम' नास्ति ग-पुस्तके. ७. 'हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हता विभावितैकदेशेन देयं यदभियुज्यते ।' इति ग.
Page 197
१५० साहित्यदर्पणे
(झंकारमनुभूय सानन्दम् ।) ब्रूषे किमोमिति सखे कथयाशु तन्मे किं किं व्यवस्यति कुतोऽस्ति च कीदृशीयम् ।' अथ शङ्का- पैरक्रौर्यात्मदोषादैः शङ्ानर्थस्य तर्कणम्।
यथा मम- 'प्राणेशेन प्रहितनखरेष्वङ्गकेषु क्षपान्ते जातातङ्का रचयति चिरं चन्दनालेपनानि। धत्ते लाक्षामसकृदघरे दत्तदन्तावघाते क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती ।I' अथ स्मृति :-
स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ॥ १६२॥ येथा मम- 'मयि सकपटं किंचित्कापि प्रणीतविलोचने किमपि नयनं प्राप्ते तिर्येग्विजम्भिततारकम्। भ्रमरः प्रत्युत्तराक्षम इति विशेषनिर्धारणाक्षमत्म्। तर्कणं संभावना प्रहितनखरेषु कृतनखाघातेषु। जात आतङ्क: सख्याद्युपहासरूपा शङ्का यस्याः सा। अत्र संभोग- चिह्नगोपन एव विश्रान्तिरिति शङ्काया एव प्राधान्यम्। सदृशेति । चिन्ता भाव- नाख्यसंस्कारः । आद्यपदेन संबन्धिज्ञानादेर्भ्हणम्। अत्र सदृशज्ञानादेः संस्कारोद्वो- धनद्वारा संस्कारस्य तुस्मृति प्रति साक्षादेव कारणत्वमिति बोध्यम्। मयीति। सकपटं यथा स्यात्तथा क्वापि अजिज्ञासितपदार्थे किंचित्प्रणीतलोचने मयि तिर्यक्कुटिलं यथा स्यात्तथा विजृम्भिता व्यापारिता प्रकाशिता वा तारका यस्य तादशं नयनं प्राप्ते
- ब्रूषे इति। 'किं ब्रूषे' इति प्रश्ने 'ओम्' इत्युत्तरम्। ओमिति स्वीकारार्थे- डव्ययम् ॥ 2. शङ्गेति । किमनिष्टं मम भविष्यतीत्याकारश्चित्तवृत्तिविशेषः शङ्का। इयं तु भयाधुत्पादनेन कम्पादिकारिणी, नतु चिन्ता॥
१. 'अनर्थप्रतिभाशङ्का परकौर्यात्सदुर्नयात्। चिह्ापन्नुतिभूयोदिक्प्रेक्षणाद्यानुभाविकी ॥' इति. ग. २. 'यथा मम' इति ग-पुस्तके नास्ति.
Page 198
तृतीय: परिच्छेदः । १५१
स्मितमुपगतामालीं दृष्टा सलज्जमवाञ्चितं कुवलयद्दशः स्मेरं स्मेरं स्मरामि तदाननम् ॥।' अथ मतिः- नीतिमार्गानुसत्यादेरर्थनिर्धारणं मतिः। स्मेरता धृतिसंतोषौ बहुमानश्रे तद्भ्वाः॥१६३॥ यथा- 'असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥' अथ व्याधि :-
तत्र दाहमयत्वे भूमीच्छादयः । शैत्यमयत्वे उत्कम्पनादयः । र्प- ष्रमुदाहरणम् । अथ त्रास :- निर्धातविद्युदुल्कादयैस्त्रासः कम्पादिकारकः ॥ १६४ ॥ सति स्मितमुपगतां सखीं दृष्ट्रा सलजं यथा स्यात्तथा अवाश्चितमानमितं स्मेरं पुनः पुनः स्मितयुक्तं वदनं स्मरामीत्यर्थः । नीतिमार्गों नीतिशास्त्रं तस्यानुसतिर- वगमः । आदिना अनुमानादेर्ग्रहणम् । निर्धारणं निश्चयः । असंशयमिति। शकुन्तलामालोक्य दुष्यन्तस्यानुमानमिदम्। क्षत्रपरिग्रहक्षमा क्षत्रियविवाहोचिता। 'इयम्' इति शेषः । अस्यां शकुन्तलायाम्। समर्थयति-सतामिति। प्रमाणं नि- श्रयबीजम्। अन्तःकरणस्य मनसः प्रवृत्तयः संकल्पादयः। वाताधरिति। आद्यपदेन पित्तश्लेष्मणोर्ग्रहणम्। भूमीच्छा भूमिपतनेच्छा। तत्र व्याधावुदाहरणं यथा मम- 'प्रियजनपरिषङ्गाद्वेपमानां कृशाङ्गीं विकृतवचनवर्णो खवेदसंसिक्तगात्रीम्। विपुलपुल- कलेखामाकलय्य ज्वरातो कुमतिरमितचिन्तासागरे निर्ममज्ज ॥' निर्घात इति।
- मतिरिति। शास्त्रादिविचारजन्यमर्थनिर्धारणं मतिरिति परमार्थः । तत्र निःशङ्क- तदर्थानुष्ठानसंशयोच्छेदादयोडनुभावाः ।। 2. व्याधिरिति। रोगविरहादिप्रभवो मनस्तापो व्याधिः। गात्रशैथिल्यश्वासादयो- Sत्रानुभावाः। यदाहु :- 'एकैकशो द्वन्द्वशो वा त्रयाणां वा प्रकोपतः । वातपित्तकफानां स्युर्व्यांधयो ये ज्वरादयः ॥ इह तत्प्रभवो भावो व्याधिरित्यभिधीयते ॥' इति ॥ 3. त्रास इति। भीरोर्घोरसत्त्वदर्शनस्फूर्जथुश्रवणादिजन्मा चित्तवृत्तिविशेषस्रासः । १. 'तथात्मनि' इति क्वाचित्क: पाठः. २. 'अमङ्गलत्वान्नोदाहियते' इति ग. ३. 'गर्जितादेर्मनःक्षो- भसत्रासो ... कम्पनादयः । मेघादिगर्जनान्मनसो वैयव्यं त्रासः । अत्रोत्कम्पनालिङ्गनाद्यनुभाव' इति ग.
Page 199
१५२ साहित्यदर्पणे
यथा- 'पेरिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ।' अथ त्रीडा- धाष्टर्याभावो त्रीडा वदनानमनादिकृदुराचारात्। यथा-'मैयि सकपटं- इत्यादि। अथ हर्ष :-
'यदान्तरिक्षे बलवान्मारुतो मरुता हतः। पतत्यधः स निर्घातो जायते वायुसंभवः ॥' इत्युक्तलक्षणो निर्धातः । 'वृहच्छिखा च सूक्ष्माग्रा रक्तनीलशिखोज्ज्वला। पौरुषी च प्रमाणेन उल्का नानाविधा स्मृता ।' इत्युक्तलक्षणा चोल्का। आद्यपदेन भूकम्पादे- ग्रहणम्। अत्र 'मनःक्षोभः' इति पूरणीयम् । परिस्फुरदिति। जलविहारवर्णन- मिदम्। अपिना नायकस्य विलोकनीयतां रमणीयताम्। धाष्टर्याभावः प्रागल्भ्य-
अनुभावाश्चास्य रोमाञ्चकम्पस्तम्भभ्रमादयः । अयं भयाद्भिद्यते। तदुक्तम्-'पूर्वापर- विचारोत्थं भयं त्रासात्पृथग्भवेत्।' इति ॥ 1. परीति। परितः स्फुरन्भिर्विवर्तमानैर्मीनैविघटटिता ऊरवो यासां ताः अत एव त्रासविलोलदृष्टयः कम्पितपाणिपल्ववाश्च सुराङनाः सखीजनस्यापि विलोकनीयतामुपाययुः। किमुत प्रियजनस्येति भाव:।। 2. व्रीडेति। स्त्रीणां पुरुषमुखावलोकनादेः पुंसां च प्रतिज्ञाभङ्गपराभवादेरुत्पन्नो वैवर्ण्याधोमुखत्वादिकारणीभूतश्चित्तवृत्तिविशेषो व्रीडा। केचित्तु-'चेतोनिमीलनं व्रीडा व्यङ्गरागस्तवादिभिः ।' इत्याहुः । व्यङ्गं वैकृतम् ॥ 3. हर्ष इति । इष्टप्राप्यादिजन्मा सुखविशेषो हर्षः । तदुक्तं-'देवभर्तृगुरुस्वामि- प्रसाद: प्रियसंगमः । मनोरथादिरप्राप्यमनोहरधनागमः ॥ तथोत्पत्तिश्च पुत्रादेर्विभावो यत्र जायते। नेत्रवक्रप्रसादश्च प्रियोक्तिः पुलकोद्गमः ॥ अश्रुस्वेदादयश्चानुभावा हर्ष तमादिशेत् ॥' इति ॥
१. ग-पुस्तके तु 'समुतिक्षिपन्यः पृथितीभृता वरम्-' इति माघपद्यमुदाहनम्. २. 'दुराचारादिभिर्व्ीडा धाष्टर्यभावस्तमुन्नयेत्। मौनितावाडुखीभावनेत्रसंमीलनादिभिः ॥ दुराचारादिभिः प्रागत्म्यप्रतिरोधो लज्जा ! मौनादिभिरनुभावैस्तामुन्नयेत्।' इति ग. ३ ग-पुस्तके तु 'पटालसने पत्यौ नमयितुमुखं जात- विनया हठाश्लेपं वाग्छत्यपहरति गातराणि निभृतम्। न शक्कोत्याख्यातुं सिमितमुखसखीदत्तनयना हिया ताम्यत्यन्तः प्रथमपरिहासे नववधू: ॥' इत्युदाहरणम्. ४. 'उत्सवादिकृतश्चेतःप्रसादो हर्ष उच्यते। शीताशुगद्गदस्वेदरोमाच्चादैर्नेरूप्यते ।' इति ग.
Page 200
तृतीय: परिच्छेदः । २५३
यथा- 'सैमीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य यथैव दुर्गतः। मुदा शरीरे प्रबभूव नात्मनः पयोधिरिन्दूदयमूर्च्छितो यथा ॥' अथासूया- अस्यान्यगुणधींनामौद्धत्यादस हिष्णुता।
यथा- अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः । मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनान् ।।' अथ विर्षाद :- उपायाभावजन्मा तु विर्षाद: स्च्वसंक्षयः। निःश्वासोच्छ्ासहृत्तापसहायान्वेषणादिकृत् ॥ १६७ ।। राहित्यम्। निधानकुम्भस्य। निधिपूर्णकलशस्य। पिता दिलीपः। शरीरे शरीरचेष्टा- याम्। प्रबभूव समर्थो बभूव। इन्दूदयेन मूर्च्छितः प्रवृद्धः । अतिवृद्धस्य समुद्रस्य स्तम्भितत्वं भवतीत्यभिप्रायेणेयमुपमा। अथ वा यथा पयोधिरिन्दूदयेन तरलो भवति तथा पुत्रोत्पत्त्या हर्षतरलो बभूवेत्युपमा। कोवेद्गितं मुखरागादि। मानं
- समीक्ष्येति। 'निवातपझमस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम्। महोदधे: पूर इवेन्दुदर्शनाद्गुरुः प्रहर्षः प्रबभूव नात्मनि ॥' इति रघुवंशश्रोक एवायं पाठान्तरमहिस्रा रूपान्तरं नीतः ॥ 2. असूयेति। परोत्कर्षदर्शनादिजन्यः परनिन्दादिकारणीभूतश्चित्तवृत्तिविशेषोऽसूया। इमामेवासहनादिशब्दैर्व्यवहरन्ति ॥ 3. अथेति। अथ कृष्णपूजानन्तरं चेदिपतिः शिशुपालः तत्र सदसि सभायां पाण्डु- सुतेन युधिष्ठिरेण विहितं मुरद्विषः कृष्णस्य मानं पूजां नासहत। ईर्ष्यामकरोदित्यर्थः । तथाहि मानिनामहंकारिणां मनः परवृद्धौ मत्सरि हि। परशुभद्वेषि खत्वित्यर्थः ॥ 4. विषाद इति। इष्ासिद्धिराजगुर्वाद्यपराधजन्योऽनुतापो विषादः । तत्र संस्कृतमु- दाहरणम्-'वयर्थ यत्र हरीन्द्रसख्यमपि मे, वीर्य हरीणां वृथा, प्रज्ञा जाम्ववतो न यत्र, न गतिः पुत्रस्य वायोरपि। मार्ग यत्र न विश्वकर्मतनयः कर्तु नलोऽपि क्षमः, सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया कास्ति मे ॥' इति॥
१. ग-पुस्तके. तु 'युगान्तकाल-'इति माघपद्यमुदाहृतम्. २.'परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा।' इति ग. ३. ग-पुस्तके तु 'मा गर्वमुद्धह-' इत्युदाहरणम्. ४. घ-पुस्तके तु विषादलक्षणात्माग धृतिलक्षणं तदुदाहरणं च विषादलक्षणादग्रेऽस्ति, विषादोदाहरणं चासूयोदाहरणाग्रे.
Page 201
१५४ साहित्यदर्पणे
यथा मम- 'ऐसा कुडिलघणेण चिउरकडप्पेण तुह णिबद्धा बेणी। मह सहि दारइ डंसइ आअसजद्टिव्व कालउरइव्व हिअअम् ।2 अथ धृतिः- ज्ञानाभीष्टागमादैस्तु संपूर्णस्पृहता धृतिः। सौहित्यवचनोल्लाससहासप्रतिभादिकृत् ॥ १६८॥ यथा मम- 'क्ेत्वा दीननिपीडनां निजजने बद्दा वचोविग्रहं नैवालोच्य गरीयसीरपि चिरादामुष्मिकीर्यातनाः । द्रव्यौघाः परिसंचिताः खल मया यस्याः कृते सांप्रतं नीवाराञ्जलिनापि केवलमहो सेयं कृतार्था तनुः ।' अथ चपलता- मात्सर्यद्वेषरागादे्चापल्यं त्वनवस्थितिः।
पूजाम्। चेदिपतिः शिशुपालः । सत्त्वसंक्षयो बलहानिः । एसा इति। 'एषा कुटि- लघनेन चिकुरकलापेन तव निबद्धा वेणी। मम सखि दारयति दशत्यायसयष्टिरिव का- लोरगीव हृदयम् ॥' इति संस्कृतम्। स्पृहायाः समाप्तिरेव संपूर्णत्वम्। बद्धा कृत्वा। आमुष्मिकीः परलोकभवाः । नीवारस्तृणधान्यम्, कृते निमित्तम्। सांप्रत वार्धके।
- धृतिरिति। लोभशोकभयादिजनितोपप्ठवनिवारणकारणीभूतश्चित्तवृत्तिविशेषो धृतिः। 2. कृत्वेति । निजपूर्वावस्थां निन्दतः कस्यचिज्ज्ञानवतः कथनमेतत्। दीनानां दुर्गतानां निपीडनामुत्कोचादिना निष्पीडनं कृत्वा, निजजने बान्धवादिवर्गे वचोविग्रहं वाक्कलहं बद्धा, चिरात् चिरकालिकीः गरीयसीरतितरां गु्वीः आमुष्मिकीः पारलौकिकीरपि यातना नानाविधनरकभोगान् नैवालोच्य, अपर्यालोच्यैवेत्यर्थः । यस्याः कृते निमित्तम्, उपभोगार्थमित्यर्थः । मया द्रव्यौघा वित्तराशयः परिसंचिताः इतस्ततः परिभ्रम्य एकत्रीकृता: खल, सेयं मामकीना तनुः सांप्रतं तत्वज्ञानदशायां केवलं नीवाराज्जलिना अञ्जलिपरिमिततृणधान्येनापि कृतार्था कृतकृत्या। अहो आश्रर्यम् ।। 3. चापल्यमिति । अमर्षादिजन्यवाक्पारुष्यादिकारणीभूता चित्तवृत्तिश्चापल्यम्। यदाहु :- 'अमर्षप्रातिकूल्येर्ष्यारागद्वेषाश्च मत्सरः । इति यत्र विभावाः स्युरनुभावस्तु भर्त्सनम् II' वाक्पारुष्यं प्रहारश्च ताडनं वधबन्धने। तच्चापलमनालोच्य कार्यकारित्व- मिष्यते ॥। इति॥।
१. ग-पुस्तके तु 'वारं वारं तिरयति-' इत्युदाहरणम्. २. 'संतोषाज्ञानशक्त्यादेर्धृतिरव्यग्रभोगकृत्' इत्यर्घमेव ग-पुस्तके.
Page 202
तृतीयः परिच्छेदः । १५५
तेत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः॥१६९। यथा- 'अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु। मुग्धामजातरजसं कलिकामकाले व्यर्थ कदर्थयसि किं नवमालिकायाः ॥' अथ ग्लानि :- रैत्यायासमनस्तापक्षुत्पिपासादिसंभवा।
यथा- 'किसैलयमिव मुग्धं बन्घनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः । गलपयति परिपाण्डुक्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम् ।।' अथ चिन्ता- ध्यानं चिन्ता हितानापे: शून्यताश्वासतापकृत्। अन्न तत्त्वज्ञानेन निःस्पृहत्वम्। अन्यास्विति। मधुपानकालीनश्चरणप्रहारादिरु पमर्दः। पक्षे संभोगकालीनश्चुम्बनालिङ्गनादिः। लोलं सतृष्णम्। मुग्धां कोमलां सुरतमूढां च। रजः परागः आर्तवं च। अकाले मकरन्दाभावदशायां बाल्ये च। अन्रोपभोक्तरि बालाया अस्थैये परुषवचनेन प्रतीयते। निष्प्राणता असामर्थ्यम्। बन्धनात् उत्पत्तिस्थानात्। निष्प्राणलानौजस्यसत्त्वसंक्षयाणां बलहानिरूपत्वेऽपि
1 नवेति । सप्तलायाः ॥। 2. चिन्तेति। इष्टप्राप्यनिष्टप्राध्यादिजनिता व्यानापरपर्याया वैवर्ण्यभूलेखनाधोमुख- त्वादिहेतुश्चित्तवृत्तिविशेपश्चिन्ता । यदाङु :- 'विभावा यत्र दारिद्यमैश्वर्यभ्रंशनं तथा। इष्टार्थापहृतिः शश्रवच्छासोच्छासावधोमुखम् ॥ संतापः स्मरणं चैव कार्श्यं देहानुपस्कृतिः । अधृतिश्चानुभावाः स्युः सा चिन्ता परिकीर्तिता। वितकोडस्याः क्षणे पूर्वे पाश्चात्येवोप- जायते ।।' इति ॥ १. 'उद्धेगास्थितिवैरस्यप्रमुखैरवबुध्यते।' इति ग. २. 'नवमल्िकायाः' इति क. ३. 'रत्याद्यायास- ५. 'लुलितनयनतारा क्षामवक्रेन्दुविस्वा रजनथ इव निद्राक्कान्तनीलोत्पलाक्ष्यः। तिमिरमित्र दधानाः स्त्रंसिन: केशपाशानवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ।' इति ग.
Page 203
१५६ साहित्यदर्पणे
यथा मम- 'केमलेण विअसिएण संजोएन्ती विरोहिणं ससिबिम्बम्। करअलपल्लत्थमुही किं चिन्तसि सुमुहि अन्तराहिअहिअआ ।।' तर्को विचार: संदेहाड्ूशिरोङ्गुलिनर्तकः ॥ १७१॥ यथा-'किं रुद्धः प्रिया-' इत्यादि। ऐते च त्रयस्त्रिंशदव्यभिचारिभेदा इति यदुक्तं तदुपलक्षण- मित्याह रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिणः । तथाहि श्ृङ्गारेऽनुच्छिद्यमानतयावस्थानाद् रतिरेव स्थायिशब्द- वाच्या। हासः पुनरुत्पद्यमानो व्यभिचार्येव। व्यभिचारिलक्षणयो- गात्। तदुक्तम्- 'रसावस्थः परं भावः स्थायितां प्रतिपद्यते।' इति।
विभिन्नकारणत्वेन ग्लानिदैन्यविषादानां भेदः । कमलेणेति। 'कमलेन विकसितेन संयोजयन्ती विरोधिनं शशिबिम्बम्। करतलपर्यस्तमुखी किं चिन्तयसि सुमुखि अन्तराहितहृदया ॥' इति संस्कृतम्। अनियते स्वावस्थितनियमरहिते। अनुच्छि- द्यमानतया अवश्यंस्थायित्वेन उत्पद्यमान: विशेषानुकूल्येन श्ङ्गाररूपतया रतौ
- तर्क इति। संदेहाद्यनन्तरं जायमान ऊहो वितर्कः ॥ 2. एते चेति। ननु कथमेषां भावानां संख्यानियमः, मात्स्योंद्वेगदम्भेर्ष्याविवेकनि- णयक्वैव्यक्षमाकुतुकोत्कण्ठाविनयसंशयधाष्ट्यांदीनामपि तत्र तत्र लक्ष्येषु दर्शनात् इति चेत्, न। उक्तेष्वेवैषामन्तर्भावेण संख्यान्तरानुपपत्तेः । असूयातो मात्सर्यस्य, त्रासादु- द्वेगस्य, अवहित्थातो दम्भस्य, अमर्षादीष्यायाः, मतेर्विवेकनिर्णययोः, दैन्यात्कलैब्यस्य, धृते: क्षमायाः, औत्सुक्यात्कुतुकोत्कण्ठयोः, लज्जातो विनयस्य, तर्कात्संशयस्य, चापलाद् धाष्टर्थस्य च वस्तुतः सूक्ष्मे भेदेऽपि नान्तरीयकतया तदनतिरिक्तस्यैवाध्यवसायात्। सुनिवचनानुपालनस्य संभवे उच्छङ्कलताया अनौचित्यात्। एषु संचारिभावेषु मध्ये केचन केषांचन विभावा अनुभावाश्च भवन्ति। तथाहि-ईर्ष्याया निर्वेदं प्रति विभा- वत्वम्, असूयां प्रति चानुभावत्वम्। चिन्ताया निद्रां प्रति विभावत्वम्, औत्सुक्यं प्रति चानुभावत्वम् । एवमग्रेडप्यूह्यम्।।
१ 'मम' इति नास्ति ग-पुस्तके २. ग-पुस्तके तु 'सेदोन्झितामपि तनूमवसादयन्ती विश्वं निरावरण- मेव तिरोदधाना। निद्रां विनापि नयने विनिमीलयन्ती चिन्ता पदं कृतवती हृदये ततोऽस्याः ॥' इत्युदा- हरणम्. ३. 'एने च-' इत्यादिः '-भावितबुद्धिभिः ॥' इत्यन्तो ग्रन्थो ग-पुस्तके न दशयते.
Page 204
तृतीय: परिच्छेदः । १५७
तत्कस्य स्थायिन: कस्मिन्रसे संचारित्वमित्याह- शङ्गारवीरयोहासो वीरे क्रोधस्तथा मतः ॥ १७२ ॥ शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः। इत्याद्यन्यत्सम्ुन्नेयं तथा भावितबुद्धिभिः ॥ १७३ ॥ अथ स्थायिभाव :- अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः। आस्वादाङ्करकन्दोऽसौ भावः स्थायीति संमतः ॥ १७४॥ यदुक्तम्- 'स्नक्सूत्रवृत्त्या भावानामन्येषामनुगामकः । न तिरोधीयते स्थायी तैरसौ पुष्यते परम् ।' इति। तद्धेदानाह- रतिर्हासश्र शोकश्र क्रोधोत्साहौ भयं तथा। जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ता: शमोऽपि च ॥ १७५॥
संगच्छमानः । परमिति । अवश्यमित्यर्थः । अक्षमा इति। 'भावाः' इति शेषः । कन्दो मूलम्। स्क्सूत्रवृ्त्त्या स्क्सूत्रन्यायेन। अनुगामकः व्यङ्ञ्यत्वेन संबन्धी। तैर्भावैः पुष्यते रसरूपतां नीत्वा प्रवृद्धः क्रियते। त्भेदान् स्थायिभावान्।
- स्थायीति। अन्तःकरणवृत्तिरूपस्य रत्यादेराशुविनाशित्वेऽपि संस्कारात्मना चिरकालमवस्थायित्वाद्यावद्रसप्रतीतिकालमनुसंधानाच्च स्थायित्वम्। तदुक्तम्-'विरुद्ध- रविरुद्धैवा भावैर्विच्छिदते न यः । आत्मभावं नयत्यन्यान्स स्थायी लवणाकरः ॥ चिरं चित्तेऽवतिष्ठन्ते संबध्यन्तेऽनुबन्धिभिः । रसत्वं ये प्रपद्यन्ते प्रसिद्धाः स्था- यिनोऽत्र ते ।।' चिरमिति व्यभिचारिवारणाय। अनुवन्धिभिविंभावादिभिः । तथा- 'सजातीयविजातीयैरतिरस्कृतमूर्तिमान्। यावद्रसं वर्तमान: स्थायिभाव उदाहृतः ।' इति। नाट्यशास्त्रडप्युक्तम्-'यथा नराणां नृपतिः शिष्याणां च यथा गुरुः। एवं हि सर्व- भावानां भावः स्थायी महानिह ॥' इति। तत्रायं निष्कर्षः-'यथा समानलक्षणाः समानाङ्गप्रत्यङ्गा: कुलविद्याकर्मशित्पविचक्षणत्वाद्राजत्वमाप्नुवन्ति तक्चैव चान्ेडल्पबुद्धय- स्तेषामेवानुचरा भवन्ति तथा विभावानुभावव्यभिचारिणःिभावानुपाश्रिता भवन्ति। तत्र बह्नाश्रयत्वात्स्वामिभूताः स्थायिनो भावाः। तत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतयाश्रयन्ते। परिजनभूता व्यभिचारिणो भावाः । यथा राजा वहुजनप- रिवारोऽपि स एव नाम लभते नान्यः सुमहानपि पुरुषस्तथा विभावानुभावव्यभिचारिप- रिष्कृतः स्थायिभावो रसतां लभते' इति॥ सा० द० १४
Page 205
१५८ साहित्यदर्पणे
तत्र रैतिर्मनोनुकूलेऽर्थे मनसः प्रवणायितम्। वागादिवैकंतैश्चेतोविकासो हास इष्यते ॥ १७६॥ इष्टनाशादिभिश्चेतोवैक्कव्यं शोकशब्दभाकू। ्रेतिकूलेषु तैक्ष्ण्यस्यावबोधः क्रोध इष्यते ॥ १७७॥ कार्यारम्भेषु संरम्भ: स्थेयानुत्साह उच्यते। रौद्रशक्त्या तु जनितं चित्तवैक्लव्यदं भयम् ॥ १७८ ॥ दोषेक्षणादिभिर्गर्हा जुगुप्सा विस्योन्भवा। विविधेषु पदार्थेषु लोकसीमातिवर्तिषु॥ १७९ ॥
भावा: स्थायिभावाः । शमोऽपि च। स्थायिभाव इत्यर्थः । रतिरिति । मनसोऽजु- कूले प्रिये वस्तुनि प्रवणायितम्। प्रेमार्द मनो रतिरित्यर्थः। तच्चोत्कटावेश एव पर्यवस्यति। स चानुराग एव सोऽपि प्रकृते सुतेच्छारूप एव। केचित्तु-'स चा- जुराग एव सोऽपीष्टसाधनताज्ञानधारारूप:, अभिलाषहेतुत्वेनोक्तत्वात्' इत्याहुः । तन्न। सुरतेच्छाया आलम्बनप्राप््यभिलाषं प्रति हेतुत्वसंभवेन लक्षणाया अयोगात्। चेतोविकास उपहसनीयत्वेन ज्ञानमुखविकासरूपहास्यहेतुः । चेतोवैक्लव्यं दुःखम्। तैक्ष्ण्यस्य अपचिकीर्षाया अवबोध उत्कटत्वम्। कार्यारम्भेषु संनिकृष्टकार्येषु संरम्भ उत्कट आवेशः । केचित्तु-'संरम्भ: सहर्षप्रवृत्तिः' इत्याहुः । तन्न । आद्यप्रवृत्ति - रूपस्यारम्भस्य प्रवृत्त्यसंभवात्, वीररसे उत्कटावेशस्यैव स्थायित्वेनासाद्यमानत्वाच्च। रौद्रशक्येति। शात्रवादेरनिष्टदर्शनसामर्थ्येन जनितं यच्चेतसो वैक्कव्यमस्थिरत्वं
- रतिरिति। रत्यादीनां विशदतरं लक्षणमभिहितं रसगङ्गाधरे-'स्त्रीपुंसयोरन्यो- न्यालम्तनः प्रेमाख्यश्चित्तवृत्तिविशेषोरतिः। गुरुदेवतापुन्नाद्यालम्वनस्तु व्यभिचारी। वागङ्गादिविकारदर्शनजन्मा विकासाख्यो हासः। पुत्रादिवियोगमरणादिजन्मा वैक्कव्या- ख्यश्चित्तवृत्तिविशेषः शोकः । गुरुबन्धुवधादिपरमापराधजन्मा प्रज्वलनाख्यः क्रोधः । अयं च परविनाशादिहेतुः । क्षुद्रापराधजन्मा तु परुषवचनासंभाषणादिहेतुः । अयमेवामर्षांख्यो व्यभिचारीति विवेकः । परपराक्रमदानादिस्मृतिजन्मा औन्नत्याख्य उत्साहः। व्याघ्र- दर्शनादिजन्मा परमानर्थविषयको वैक्ठव्याख्यः स अयमू। परमानर्थविषयकत्वाभावे तु स एव त्रासो व्ययिचारी। अपरे तु-औत्पातिकप्रभवस्त्ासः, स्वापराधोत्थं भयमिति भेदमाहुः । कदय विलोकनजन्मा विचिकित्साख्यश्चित्तवृत्तिविशेषो जुगुप्सा। अलौ- किकवस्तुदर्शनादिजन्मा आश्चर्याख्यो विस्मयः ॥
१. '-वैक्ृतात्' घ. २. 'प्रातिकूल्यागमाचित्तविक्षोभः क्रोध उच्यते।' इति ग. ३. 'अवधाना- त्मिका कर्तुरुत्साहोञध्यवसायिता। अरिष्टदर्शनं भीतिररिसंदर्शनादिमिः ॥इति ग. ४. 'जुगुग्सा गर्हणा- र्धीनां दोपसंदर्शनादिि: ।' इत्यर्धमेव ग. पुस्तके.
Page 206
तृतीय: परिच्छेदः । १५९ विस्फारश्रेतसो यस्तु स विस्य उदाहृतः । शमो निरीहावस्थायां स्वात्मविश्रामजं सुखम्॥ १८० ॥ यैथा मालतीमाधवे रतिः । लटकमेलके हासः । रामायणे
जनयति तत्खानिष्ठटतरकणम्। भयमित्यर्थः । केचित्तु-'वैक्लव्यं मनसो भयम्' इति पठित्वा रौद्रः क्रुद्धः तस्य क्रोधरूपया शत्त्या वैक्लव्यमिह भाविदुःखे द्वेषः। तस्य च परक्रोधजन्यत्वम्, तज्जन्यसुखविषयत्वात्। न तु तज्जन्यं दुःखमेव वैक्कव्यम्, तदनु- त्पत्तिदशायामपि भीत्युपलम्भात्। एवं च मनःक्षोभरूपात्रासाख्यव्यभिचारिभा- वादस्य भेदः' इति व्याकुर्वन्ति। तन्न। व्याघ्रादीनां कोधाभावेऽपि तेभ्यो भयोत्प- त्तिसंभवात्। मनःक्षोभरूपत्रासाख्यव्यभिचारिभावस्य भयंकरशात्रवाद्यनिष्टजननसाम- थ्यजन्यत्वेनैव भेदसंभवाच्च। लोकसीमातिवर्तिषु लोकव्यवहारातिकान्तेषु। विस्फारो विस्तारः । स च दृष्टहेतुभ्योऽसंभवित्वज्ञानेन हेतनुसंधाने मनोव्यापाररूपः निरी- हावस्थायां निस्पृहदशायां सवस्य जीवस्य आत्मनि परमात्मरूपे विश्रामोऽवस्थानम्। तज्जन्यमित्यर्थः । 'शान्तरसस्य निर्वेद: स्थायी' इति काव्यप्रकाशकृत्। तन्न। निर्वे- दस्य व्यभिचारिरूपत्वेन स्थायित्वायोगात्। 'अविरुद्धाः' इति कारिकां विवृणोति-
- शम इति। शमो निरीहावस्थायामित्यादेरयमाशयः-शान्तो नाम नवमो रसोडनुभवसिद्धतया दुरपलापः । नामुष्य स्थायी निर्वेदो भवितुमर्हति। विषयेष्वलं- प्रत्ययरूपत्वात्, आत्मावहेलनरूपत्वाद्वा। शान्तेश्र निखिलविषय परिहारजनिरात्ममात्र- विश्रामप्र सूचित्भावमयत्वानुभवात। तदुक्तम्-'यच्च कामसुखं लोके यच्च दिव्यं मह- तसुख्या। अथवा झृखस्येत नारहतः षोडशीं कलाम् ।' इति। अत एव 'सर्ववृत्तिवि- रामो: सिजन। 'रास्तम्। अभावस्य स्थायित्वायोगात्। तम्माच्छमोऽस्य स्थायी। निवदादयस्तु व्यभिचारिणः । स च शम उक्तलक्षणः । एतेन 'निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः ।' इति वदन्तः काव्यप्रकाशकाराः प्रत्युक्ता इति। तंन्न पेश- लम्। विषयेष्वलंप्रत्ययरूपस्य आत्मावहेलनरूपस्य वा निर्वेदस्य शोकवत्समाधेयत्वात्। वस्तुतस्तु रत्यादिकसुपजीव्य हर्पादेरिव तत्त्वज्ञानोत्पन्नं निवेदमुपजीव्य शमादेः प्रवृत्ति- जायते। स एव स्थायी, न तु शमः । न च 'कचिच्छमः' इति मुनिवचनविरोध इति वाच्यम्। शम्यते यस्मादिति व्युत्पत्या तस्य निर्वेदपरत्वात्। तृष्णायाः क्षयो यस्ा दिति व्युत्पत्त्या तृष्णाक्षयोऽपि निर्वेद एव। अत एव 'एकोनपश्चाशद्भावाः' इति मुनि वचनं संगच्छते। अष्टौ स्थायिनः अष्टौ सात्त्विकाः त्रयास्त्रिंशद्यभिचारिण इति संकल- नेन एकोनपञ्चाशत्वम्। अन्यत्रापि ननिर्वेदस्य शान्ते स्थायित्वमाम्नातम्। तदुक्तम्- 'रतिः शोकश्च निर्वेदक्रोधोत्साहाश्च विस्मयः । हासो भयं जुगुप्सा च स्थायिभावाः क्रमादमी ॥' इति प्रकाशोन्मीलितमतयः ॥
१. 'विस्मयश्चित्तविस्तार: पूर्वादृष्टविलोकनात्।' इति ग. २. 'आत्म' घ. ३. 'यथा-' इत्यादिः इतिसिद्धाः ।' इत्यन्तः पाठो ग-पुस्तके नास्ति.
Page 207
१६० साहित्यदर्पणे
शोकः। महाभारते शमः। एवमन्यत्रापि। एते ह्येतेष्वन्तरा उत्पद्य- मानैस्तैस्तैविरुद्वैरविरुद्वैश्र भावैरनुच्छिन्नाः प्रत्युत परिपुष्टा एव सह- दयानुभवसिद्धाः । किं च । नानाभिनयसंबन्धान्भावयन्ति रसान्यतः ।
येदुक्तम्- तसमान्भावा अमी प्रोक्ता: स्थायिसंचारिसात्विका: १८१
अथ रसस्य भेदानाह- शुङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्सोज्द्ुत इत्यष्टौ रैसाः शान्तस्तथा मतः ॥१८२॥ एते हीति। रत्यादयो हीत्यर्थः । एषु रसेषु भावानां विशेषलक्षणान्युक्त्वा सामा- न्यलक्षणमाह-किं चेति। वेषचेष्टादिभिर्नायकसदृशीकरणमभिनयः तत्संबन्धान् तद्वयज्गान्। अभिनयेति । काव्यमात्रपरम्। सात्विका इति । अनुभावमात्रो- पलक्षणम्। बहुवचनाद्विभावपरिग्रहः । सुखदुःखादिभिरिति । सुखं शमः। दुःखं शोकः । आदिना रत्यादिपरिग्रहः । सुखादिभिः स्थायिभावैस्तद्भावनं रसत्- प्रापणं यस्मात्स भाव इत्यर्थः । अष्टाविति नाट्याभिप्रायेण। शान्तस्य् ताह-
- रसा इति। शङ्गारादयः शान्तान्ता नवरसा इत्यर्थः । यद्च तस्य शमसाध्यत्वान्नटे च तदसंभवात्। अष्टावेव रसा नाट्ये न शान्तस्तन उ-4 इति व्यवस्थापयन्ति, तच्चापरे न क्षमन्ते। तथाहि-नटे शमाभावादिति हेतुरसंगतः । तत्र रस मव्यक्तरस्वीकरात्। सामाजिकानां शमवत्वेन तत्र रसोद्वोधे बाधकाभावात्। न च नटस्य शमाभावात्तदभिनयप्रकाशकत्वानुपपत्तिरिति वाच्यम्। तस्य भयक्रोधादेरप्य- भावेन तदभिनयप्रकाशकताया अप्यसंगत्यापत्तेः । यदि च नटस्य क्रोधादेरभावेन वास्तवतत्कार्याणां वधबन्धादीनासुत्पत्त्यसंभवेऽपि कृत्रिमतत्कार्याणां शिक्षाभ्यासादित उत्पत्तौ नास्ति बाधकमिति निरोक्ष्यते तदा प्रकृतेऽपि तुल्यम्। अथ नाट्ये गीतवाद्यादीनां विरोधिनां सत्त्वात्सामाजिकेष्वपि विषयवैमुख्यात्मनः शान्तस्य कथमुद्रेक इति चेंत्, नाय्ये शान्तरसमभ्युपगच्छन्भिः फलबलात्तद्गीतवाद्यादेस्तस्मिन्विरोधिताया अकल्पनात्। विषयचिन्तासामान्यस्य तत्र विरोधित्वस्वीकारे तदीयालम्बनस्य संसारानित्यत्वस्य तदु- द्दीपनस्य पुराणश्रवणसत्सङ्गपुण्यवनतीर्थावलोकनादेरपि विषयत्वेन विरोधित्वापत्तेः । अत एव चरमाध्याये संगीतरलाकरे-'अष्टावेव रसा नाट्येष्विति केचिदचूचुदन्। १. 'एतेपां भावशब्दार्थमाह' इति ग. २. 'यदुक्तम्-' इत्यादिः 'भावनम्।' इत्यन्तः पाठो ग-पु. स्तके नास्ति.
Page 208
तृतीय: परिच्छेदः । १५९
विस्फारश्रेतसो यस्तु स विसमय उदाहृतः । शमो निरीहावस्थायां स्वात्मविश्रामजं सुखम्॥ १८० ॥ यैथा मालतीमाधवे रतिः । लटकमेलके हासः। रामायणे
जनयति तत्खानिष्टतर्कणम्। भयमित्यर्थः । केचित्तु-'वैक्लव्यं मनसो भयम्' इति पठित्वा रौद्रः क्रुद्धः तस्य क्रोधरूपया शत्त्या वैक्लव्यमिह भाविदुःखे द्वेषः। तस्य च परक्रोधजन्यत्वम्, तज्जन्यसुखविषयत्वात्। न तु तज्जन्यं दुःखमेव वैक्कव्यम्, तदनु- त्पत्तिदशायामपि भीत्युपलम्भात्। एवं च मनःक्षोभरूपात्रासाख्यव्यभिचारिभा- वादस्य भेदः' इति व्याकुर्वन्ति। तन्न। व्याघ्रादीनां कोधाभावेऽपि तेभ्यो भयोत्प- त्तिसंभवात्। मनःक्षोभरूपत्रासाख्यव्यभिचारिभावस्य भयंकरशात्रवाद्यनिष्टजननसाम- थ्यजन्यत्वेनैव भेदसंभवाच्च। लोकसीमातिवर्तिषु लोकव्यवहारातिक्ान्तेषु। विस्फारो विस्तारः । स च दृष्टहेतुभ्योऽसंभवित्वज्ञानेन हेतनुसंधाने मनोव्यापाररूपः निरी- हावस्थायां निस्पृहदशायां स्वस्य जीवस्य आत्मनि परमात्मरूपे विश्रामोऽवस्थानम्। तज्जन्यमित्यर्थः । 'शान्तरसस्य निर्वेदः स्थायी' इति काव्यप्रकाशकृत्। तन्न। निर्वे- दस्य व्यभिचारिरूपत्वेन स्थायित्वायोगात्। 'अविरुद्धाः' इति कारिकां विवृणोति-
- शम इति। शमो निरीहावस्थायामित्यादेरयमाशयः-शान्तो नाम नवमो रसोनुभवसिद्धतया दुरपलापः । नामुष्य स्थायी निर्वेदो भवितुमहति। विषयेष्वलं- प्रत्ययरूपत्वात्, आत्मावहेलनरूपत्वाद्वा। शान्तेश्व निखिलविषय परिहारजनिरात्ममात्र- विश्रामप् सूचित्र्भावमयत्वानुभवात्। तदुक्तम्-'यच्च कामसुखं लोके यच्च दिव्यं मह- तसुख्या। अथवा ृखस्येते नार्हतः षोडशीं कलाम् ।' इति। अत एव 'सर्ववृत्तिवि- रामो: सिजन। 'रास्तम् । अभावस्य स्थायित्वायोगात्। तम्माच्छमोऽस्य स्थायी निवदादयस्तु व्यभिचारिणः । स च शम उक्तलक्षणः । एतेन 'निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः ।' इति वदन्तः काव्यप्रकाशकाराः प्रत्युक्ता इति। तंन्न पेश- लम्। विषयेष्वलंप्रत्ययरूपस्य आत्मावह्ेलनरूपस्य वा निर्वेदस्य शोकवत्समाधेयत्वात्। वस्तुतस्तु रत्यादिकमुपजीव्य हर्पादेरिव तत्वज्ञानोत्पन्नं निवेदमुपजीव्य शमादेः प्रवृत्ति- जायते। स एव स्थायी, न तु शमः । न च 'कचिच्छमः' इति मुनिवचनविरोध इति वाच्यम्। शम्यते यस्मादिति न्युत्पत्या तस्य निर्वेदपरत्वात्। तृष्णायाः क्षयो यस्ा• दिति व्युत्पत्त्या तृष्णाक्षयोऽपि निर्वेद एव। अत एव 'एकोनपश्चाशद्भावाः' इति मुनि वचनं संगच्छत। अष्टौ स्थायिनः अष्टौ सात्त्विकाः त्रयास्त्रिंशद्यभिचारिण इति संकल- नेन एकोनपञ्चाशत्वम्। अन्यत्रापि निर्वेदस्य शान्ते स्थायित्वमाम्नातम्। तदुक्तम्- 'रतिः शोकश्च निर्वेदक्रोधोत्साहाश्च विस्मयः । हासो भयं जुगुप्सा च स्थायिभावाः क्रमादमी ॥' इति प्रकाशोन्मीलितमतयः ॥
१. 'विस्मयश्चित्तविस्तारः पूर्वादृष्टविलोकनात्।' इति ग. २. 'आत्म' घ. ३. 'यथा-' इत्यादिः इतिसिद्धाः ।' इत्यन्तः पाठो ग-पुस्तके नास्ति.
Page 209
१६२ साहित्यदर्पणे
तद्भदानाह- विप्रलम्भोऽथ संभोग इत्येष द्विविधो मतः ॥ १८६ ॥ तेत्र येत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोडसौ। अभीष्टं नायकं नायिकां वा। सें च पूर्वरागमानप्रवासकरुणात्मकश्वतुर्धा स्यात् ।।१८७।। राभासत्वादिति भावः । रोलम्बो भ्रमरः । आदिना देशकालादिग्रहणम्। त्भेदौ शङ्गारभेदौ। तत्र तयोर्मध्ये विप्रलम्भमाह-यत्र त्विति। तुशब्दश्वार्थः। तत्र रसे प्रकृष्टा प्रकरणादिना प्रधानत्वं प्राप्ता रतिरस्ति। नायिका नायको वा अभीष्टं नायकं नायिकां वा नोपैति नोपभुक्के असौ विप्रलम्भ इत्यर्थः । तथा चोपभोगाभाव संचलितप्रकृष्टरतिविषयो रसो विप्रलम्भ इत्यर्थः । करुणादौ शोकोद्दीपनतया रति- सत्त्वेन तन्रातिव्याप्तिवारणाय प्रकृष्टेति। संभोगेऽतिव्याप्तिवारणाय उपभोगाभा- वेति। विप्रलम्भसमानविषयके ज्ञानान्तरे संस्कारे वा अतिव्याप्तिवारणाय रस इति। अन्ये तु-यत्न दुःखसंवलितत्वाद्रतिन प्रकृष्टा अभीष्टमुपैति विषयीकरोति स विप्रलम्भः' इति व्याकुर्वन्ति। तन्न। करुणेऽतिव्याप्तेः । यदि च 'यत्र' इत्यस्य 'शङ्गारे' इति व्याकारात्करणे नातिव्याप्तिरित्युच्यते तदा 'अभीष्टमुपैति' इत्यस्यान- र्थक्यम्। अभीष्टविषयरतेरेव शङ्गारत्वेन परिणामात्। अपरे तु-'नायिका- दिभिरभीष्टं नोपैति न संगच्छते। तथा चाभीष्टविच्छेदसंवलिता रतिर्यत्र स वि- ग्रलम्भः' इत्याहुः। तन्न। प्रणयमानादावभीष्टविच्छेदाभावेनाव्याप्तेः। केचित्तु- 'संयोग: सुखसंभिन्नो विप्रलम्भस्तु दुःखयुकू। रतिस्तयोः प्रकर्षः स्यादाधिक्यात्सु- खदुःखयोः ॥' इति दर्शनाद् दुःखसंवलितरतिस्थायिभावको रसो विप्रलम्भः' इत्याहुः। तन्न। प्रणयमाने दुःखायोगादव्याप्तेः । स च विप्रलम्भः चतुर्धा इतीदमु- पलक्षणम्। विरहोऽपि वेदितव्यः। सच गुर्वादिपरतन्नत्वात्। संगमप्रतिरोधो यथा- 1. विप्रेति। शङ्गारो द्विविध :- संयोगो विप्रलम्भश्च। रतेः संयोगकालावच्छि- न्नत्वे प्रथमः । वियोगकालावच्छिन्नत्वे द्वितीयः । संयोगश्च न दंपत्योः सामानाधिकर- ग्यम्। एकतल्पशयनेऽपीर्ष्यादिसङ्भावे विप्रलम्भस्यैव वर्णनात्। एवं वियोगोऽपि न वैयधिकरण्यम्। दोषस्योक्तत्वात्। तस्माद्वाविमौ संयोगवियोगाख्यावन्तःकरणवृत्तिवि- शेपौ। यत्संयुक्तो वियुक्तश्रास्मीति धीः। तत्राद्यो यथा-'शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान्। दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥' इति। द्वितीयो यथा-'वाचो माङगलिकीः प्रयाणसमये जत्पत्यनल्पं जने केलीमन्दिरमारुताय- नमुखे विन्यस्तवकराम्बुजा। निःश्वासग्लपिताघरोपरिपतद्राष्पार्द्रवक्षोरुहा नाला लोलवि- लोचना शिव शिव प्राणेशमालोकते ।।' इति विशेषो रसगङ्गाधारे॥ १. 'तत्र' इति नास्ति ग. पुस्तके. २. 'तत्रापि विप्रलम्भो यूनोरन्योन्यरक्तयोविरहः' इति ग. ३. 'अभीष्टम्' इति नास्ति ग-पुस्तके. ४. 'स तु' ग.
Page 210
तृतीय: परिच्छेदः । १६३
तत्र श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः। दशाविशेषो योऽप्राप्तौ पूर्वरागः से उच्यते ॥ १८८ ॥ श्रवणं तु भवेत्तत्र दूतबन्दीसखीमुखात्। इन्द्रजाले च चित्रे च साक्षात्खने च दर्शनम् ॥ १८९॥ अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसंप्रलापाश्च। उन्मादोऽथ व्याधिर्जडता मृतिरिति दशात्र कामदशा: १९० अभिलाष: स्पृहा चिन्ता ग्राप्युपायादिचिन्तनम्। उन्मादश्चापरिच्छेद्श्चेतनाचेतनेष्वपि ॥ १९१॥ अलक्ष्यवाक्प्रलापः स्याच्चेतसो भ्रमणाङ्भृशम्। व्याधिस्तु दीर्घनिःश्वासपाण्डुताकृशतादयः ॥१९२॥ जडता हीनचेष्टत्वमङ्गानां मनसस्तथा। शेषं स्पष्टम्। क्रमेणोदाहरणानि 'प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदया- स्तास्ता मुग्घददशो निसर्गमधुराश्चेष्टा भवेयुर्मयि। 'किं रुद्ध: प्रियया-' इत्यादि। अन्यथा तस्य निरुक्तप्रकारचतुष्टयानन्तर्भावाल्लक्ष्य- लाभावेन तत्र सामान्यलक्षणस्यातिव्याप्तिप्रसङ्गात्। तत्र पूर्वरागादिषु। मिथ इति। अन्योन्यमित्यर्थः । दशाविशेषोऽवस्थाभेदः। अप्राप्तौ परस्परासंगमे। वन्दिनः स्तुतिपाठकाः । दशाविशेषानाह-अभिलाष इति। दश प्रकाराः । अत्र पूर्व- रागे। कामकृता रतिजन्या दशाः कामदशाः । स्पृहा अभीष्टप्राप्तीच्छा। अपरि- च्छेदो विशेषनिर्धारणाभावः। अलक्ष्यवाक् निर्विषयं वचः। शेषं स्मृत्यादिकम्। प्रेमार्द्रा इति। प्रेम्णा आर्द्रा निबिडसंपृक्ताः। प्रेमाभिव्यञ्जिका इति यावत्। प्रणयं द्रष्टः स्नेहं स्पृशन्ति जनयन्ति। परिचयान्मुहुर्मुहुर्दर्शनात्। उद्गाढ उत्कटो यो रागः सुरतेच्छा तस्योदयो याभ्यस्ताः। मुग्धदृशो मालत्याः । चेष्टा नेत्रविक्षेपादिरूपाः 1. स्मृतीत्यादि। 'द्वेषो यत्रान्यकार्येषु तदेकाअ्रं च मानसम्। श्वासैर्मनोरथैश्चापि चेष्टास्ताः स्मृतिरुच्यते ॥', 'सौन्दर्यहसितालापैर्नास्त्यन्यस्तत्समो युवा। इति वाणी भवे- दत्र तदुक्तं गुणकीर्तनम् ।', 'यस्मिन्नम्यमरम्यं वान च हर्षाय जायते। प्रद्वेषः प्राणि- तव्येऽपि स उद्देगोडभिधीयते ॥।', 'श्वासप्ररोदनोत्कम्पवसुधोललेखनैरपि। व्यापारो जायते यत्र स उन्मादो निरूप्यते।।' १. 'स कीर्तितः' ग. २. 'अथ' नास्ति क-पुस्तके. ३. 'अभिलाषः- इत्यादि: '-स्पष्टम् ।' इत्यन्तः पाठो ग. पुस्तके नारित.
Page 211
१६४ साहित्य दर्पणे
य।खन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा- दाशंसापरिकल्पिताखपि भवत्यानन्दसान्द्रो लयः ॥।' अत्र मालतीसाक्षाद्दर्शनप्ररूढरागस्य माधवस्याभिलाषः । 'कथमीक्षे कुरङ्गाक्षीं साक्षाल्क्ष्मीं मनोभुवः । इति चिन्ताकुल: कान्तो निद्रां नैति निशीथिनीम् ।।' अत्र कस्याश्चिन्नायिकाया इन्द्रजालदर्शनप्ररूढरागस्य नायकस्य चिन्ता। इंदं मम। 'मयि सकपटम्-' इत्यादौ नायकस्य स्मृतिः । 'नेत्रे खञ्जनगञ्जने-' इत्यादौ गुणकथनम् । 'श्वासान्मुश्चति-' इ- त्यादौ उद्देगः । 'त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यत। क नीलकण्ठ व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ।।' अत्र प्रलाप: । 'भ्रातर्द्विरेफ-' इत्यादावुन्मादः । 'पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ।।' अत्र व्याधि: । 'भिसिणीअलसअणीए निहिअं सव्वं सुणिच्चलं अङ्गम्। दीहो णीसासहरो एसो साहेइ जीअइत्ति परम् ।'
क्रियाः। बाह्यकरणव्यापाररोधी बाह्येन्द्रियसंबन्धप्रतिबन्धकः । आशंसापरिकल्पि- तासु संकल्पविषयीभूतासु। अन्तःकरणस्य लयो निबिडाभिनिवेशो भवतीत्यन्वयः । 'निशीथिनीम्' इत्यविच्छेदे द्वितीया। इन्द्रजालेति। इन्द्रजालस्य कुहकस्य करीडा। 'मयि सकपटं-' इति स्मृतिसंचारिभावोदाहरणम्। 'नेत्रे खञ्जनगञ्जने-' इति प्ररूढयौवनाया मध्यमनायिकाया उदाहरणम्। त्रिभागशेषासु तृतीयभागाव- शिष्टासु। अलक्ष्यवाक अविषयवचः । असत्यं मिथ्या शिवस्य कण्ठेऽर्पितं बाहुब- न्धनं यया। यद्ा असत्यस्य अलीकदृष्टस्य शिवस्य कण्ठेडर्पितं बाहुबन्धनं यया। 'भ्रातर्द्विरेफ-' इत्युन्मादसंचारिभावोदाहरणम्। क्षामं कृशम्। सरसं सानुरागम्। तव मालत्याः। क्षेत्रियेति। एतच्छरीराचिकित्स्येत्यर्थः । हृदन्तः हृदयमध्ये। भिसि- गीति। 'बिसिनीदलशयनीये निहितं सर्वे सुनिश्चलमङ्गम्। दीर्घो निःश्वासभर ऐष १, 'इंद मम-' इत्यादिः '-जडता। इदं मम।' इत्यन्तः पाठो ग-पुस्तके नास्ति. २. 'एव' इति पुस्तकान्तरे.
Page 212
तृतीयः परिच्छेदः। १६५
अत्र जडता। इदं मम। रसविच्छेदहेतुत्वान्मरणं नैव वर्ण्यते॥ १९३॥ जातप्रायं तु तद्वाच्यं चेतसाकाद्वितं तथा। वर्ण्यतेऽपि यदि प्रत्युज्ीवनं स्ाददूरतः ॥ १९४ ॥ तत्राद्यं यथा- 'शेफालिकां विदलितामवलोक्य तन्वी प्राणान्कथंचिदपि धारयितुं प्रभूता। आकर्ण्य संप्रति रुतं चरणायुधानां किं वा भविष्यति न वेझि तपखिवनी सा ।।' द्वितीयं यथा- 'रोलम्बाः पैरिपूरयन्तु हरितो झंकारकोलाहलै- र्मन्दंमन्दमुपैतु चन्दनवनीजातो नभखानपि। माद्यन्तः केलयन्तु चूतशिखरे केलीपिकाः पञ्चमं प्राणाः सत्वरमश्मसारकठिना गच्छन्तु गच्छन्त्वमी ॥' ममैतौ। तृतीयं यथा-कादम्बर्यो महाश्वेतापुण्डरीकवृत्तान्ते। एष च प्रकारः करुणविप्रलम्भविषय इति वक्ष्यामः ।
साधयति जीवतीति परम् ॥' इति [संस्कृतम् ।] रसस्य रतेर्विच्छेदहेतुत्वादू विनाशहेतुत्वात्। रत्याश्रयस्य मरणाद्रतेनाश इति मरणरूपानुभावेन रतेर्मि- लनाभावाद्रसत्वं नोपपद्यत इति भावः । तन्मरणं मरणात्परं जीवनं प्रत्युज्ीवनम्। प्रभूता समर्था। संप्रति रात्रिशेषयामार्वे। चरणायुधानां कुक्कुटानाम्। किं कीदृगवस्था। तपखिविनी ब्रह्मचारिणी। मैथुनरहितलात्। अथवा तुच्छा अर्धरात्र शेफालिका विकसति, तदानीमेव लामप्राप्य कथंचित्प्राणान्धारयति, रात्रिशेषया- मार्घे कुकुटा नदन्ति, इदानीमपि त्वामप्राप्य सा मृतप्रायेति भावः । द्वितीयं चेतसः काङ्वितं मरणम्। नभखान् वायुः। पञ्चमं खरविशेषम्। अश्मसारकठिना: लोह
- चन्दनेति। दाक्षिणात्यो वायुरित्यर्थः ॥
१. 'प्रति' ग. २, 'फलयन्तु' ग. ३. 'एष च- इत्यादिः -'हृदयंगमं भवति ।' इत्यन्तः पाठो ग-पुस्तके न दृश्यते.
Page 213
१६६ साहित्य दर्पणे
केचित्तु- 'नैयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ संकल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥ उन्मादो मूर्च्छा मृतिरित्येता: स्मरदशा दशैव स्युः ॥' इत्याहुः। तत्र च आदौ वाच्यः स्त्रिया रागः पुंसः पश्ात्तदिङ्गितैः । इङ्गितान्युक्तानि यथा रत्नावल्यां सागरिकावत्सराजयोः । आदौ पुरुषानुरागे संभवत्यप्येवमधिकं हृदयंगमं भवति। नीली कुसुम्भं मञ्जिष्ठा पूर्वरागोऽपि च त्रिधा ॥१९५॥ तत्र न चातिशोभते यन्नापैति प्रेम मनोगतम् । तन्नीलीरागमाख्यातं यथा श्रीरामसीतयोः ॥ १९६ ॥ कुसुम्भरागं तत्प्राहुर्यदपैति च शोभते। मञ्जिष्ठारागमाहुस्तं यन्नापैत्यतिशोभते ॥ १९७॥ अथ मान :- मान: कोपः स तु द्वेधा प्रणयेर्ष्यासमुद्धवः। कठिनाः । तृतीयं प्रत्युज्जीवनं संनिकृष्टमरणम्। एष तृतीयः। नयनप्रीतिर्दर्शनेच्छा । चित्तासङ्ग: मनसः संगतिः। नायकप्राप्तीच्छासंकल्पः प्राप्युपायादिचिन्ता। तन्र च पूर्वरागे च । तदिद्ितैःस्त्रीचेष्टाविशेषैः। इङ्गितान्युक्तानीति।अभिलाषादिरूपाणी- त्यर्थः। एवं प्रथमं स्त्रिया रागवर्णनम्। मनोगतं मनोहरम्। 'एवमधिकहृदयंगमता भवति' इति पाठः। एवं प्रथमं स्त्रिया रागवर्णने। कुंसुम्भरागमज्जिष्ठारागयोर्लक्ष्यं दर्शयितव्यमवश्यं यदि श्राव्यम्। मानमाह-अथेति। स तु मानस्तु। द्वयोः स्त्रीपुं- 1. केचिदिति। वात्स्यायनादयः । 2. नयनेति। नायिकामवलोकयतः संयोगेच्छालक्षणात्कामादनन्तरं दृशौ सिग्धे जायेते। ततो विपयाप्राप्तौ चित्तासङ्गस्तत्र चित्तस्य आसक्तिः । तस्मिन्सक्ते संकल्पः कथं प्राप्स्यामि प्राप्य चैवमनुष्ठातव्यमिति। ततः संकल्पयतो निद्राछेदः । निद्रामलभ- मानस्य तनुता शरीरकाशर्यम् । ततो विषयेभ्यो निवृत्तिः । सर्वथा तद्गतचित्तत्वादन्य- विषयाञ्वलज्ज्वलनज्वालाप्रख्यान्नोपयाति। तेभ्यश्च व्यावर्तमानस्य त्रपानाशो लज्जा- प्रणाशनम्। गुरुभ्योऽपि निर्लज्जत्वान्न विभेति। विप्रणष्टलज्जस्य निर्भयस्य चोन्मादः । ततो मूरच्छा भवत्यस्वास्थ्यसंश्ञिका। ततो मृतिः प्राणत्यागः । 4. 'कुसुम्भ-' इत्यादिः '-श्राव्यम्' इत्यन्तः पाठः पुस्तकान्तरे नारित.
Page 214
तृतीयः परिच्छेदः । १६७
द्वयोः प्रणयमानः स्यात्प्रमोदे सुमहत्यपि॥ १९८॥ प्रेम्ण: कुटिलगामित्वात्कोपो यः कारणं विना। द्योरिति नायकस्य नायिकायाश्च उभयोश्च प्रणयमानो वर्णनीयः । डिदाहरणम्। तत्र नायकस्य यथा- 'अलिअपसुत्तअणिमीलिअच्छ देसु सुहृअ मज्झ ओआसम्। गण्डपरिउम्बणपुलइअङ्ग ण उण्णो चिराइस्सम् ॥' नायिकाया यथा कुमारसंभवे संध्यावर्णनावसरे। उभयोर्यथा- पणअकुविआणँ दोण्णं वि अलिअसुत्ताणँ माणइण्णाणम्। णिच्चलणिरुद्धणीसासदिण्णअण्णाणँ को मल्लो।।' अनुनयपर्यन्तासहत्वे त्वस्य न विप्रलम्भभेदता, किंतु संभोगसंचा- योख्यभावत्वम्। यथा- 'अूँभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते।
सयोः। प्रमोदे प्रेम्णि। ननु प्रमोदे सति कोप एव न भवति, कथं तत्र मानलक्षण- संगतिरित्यत आह-प्रेरण इति । कुटिलगामित्वात् कुटिलनायकादिवृत्तिलान्। कारणमपराधादि। कुटिलस्य विनापि कारणं तत्संभावनया कोपो भवतीति भावः । यद्वा कुटिलगामित्वाद् दुरवगमखभावत्वात्। अलिअ इति। 'अलीकप्रसुप्तकनिमी- लिताक्ष देहि सुभग मह्यमवकाशम्। गण्डपरिचुम्बनपुलकिताङ्ग न पुनश्चिरयि- व्यामि ' इति संस्कृतम्। मम विलम्बे तव क्रोधो जात इति लक्ष्यते। पुनरेवं विलम्ब न करिष्यामीति भावः । अत्रालीकखप्ने नायकस्य कौटिल्यम्। पणअकु- वि इति। 'प्रणयकुपितयोर्द्वयोरप्यलीकसुप्तयोर्मानविज्ञयोः । निश्चलनिरुद्धनिःश्वा- सदत्तकर्णयो: को मल्लः ॥' इति संस्कृतम्। मल्लो मानभङ्गसमर्थः । प्रियवचनादि- रूपमानभङ्गानुकूलव्यापारोऽनुनयः । तत्पर्यन्तासहत्वे। तं विनैव भङ्गुरत्वे चेत्यर्थः । अस्य प्रणयमानस्य ईर्ष्या। अत्रासूया तस्या एव व्यभिचारित्वेन गणितत्वात्। भ्रूभङ्ग इति। मानोपदेष्ट्रीं सखीं प्रति नायिकाया उक्तिरियम्। दग्धाननं तुच्छ-
१. 'प्रणये' क. २. 'उदा-' इत्यादि: '-भावत्वम् ।' इत्यन्तः पाठः क-ख-ग-पुस्तकेषु नास्ति. ३. 'म्रभके-' इति श्रोक: क-ग. पुस्तकयोर्नारित.
Page 216
तृतीय: परिच्छेद:। १६९.
संभोगचिहेनानुमिते यथा- 'नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम्। प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प- न्नवपरिमलगन्धः केन शक्यो वरीतुम् ।।' ऐवमन्यत्र। साम भेदोऽथ दानं च नत्युपेक्षे रसान्तरम्। तन्द्रङ्गाय पतिः कुर्यात्पर्डुपायानिति क्रमात् ॥ २०१॥ तत्र प्रियवच: साम, भेदस्तत्सख्युपार्जनम्। दानं व्याजेन भूषादेः, पादयोः पतनं नतिः ॥२०२॥ सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम्। रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ॥२०३॥ यथा-'नो चाटुश्रवणे कृतम्-' इत्यादि। अत्र सामादयः पश्च सूचिताः । रसान्तरर्मूद्यन्। अथ प्रवास :- प्रवासो भिन्नदेशित्वं कार्याच्छापाच्च संभ्रमात्। रनायकापराधजन्यक्रोधप्रभवपरागैः। नवनखेति। नायकं प्रति मानिन्या उक्तिरि- यम्। स्थगयसि आच्छादयसि। परिमलो विमर्दलपकुङ्कुमादिस्तस्य गन्धः । केन उपायेन। वरीतुं गोपयितुम्। प्रसङ्गान्मानभङ्गोपायानाह-सामेति। तद्भड्ाय मानभङ्गाय। तस्या मानिन्याः सख्या उपार्जनं प्रसादनम्। अवधीरणमवज्ञया य्याग: । रभसः संभ्रमः । यतो रभसादेः कोपभ्रंशस्तद्रसान्तरमित्यर्थः । रसान्तरो- दाहरणं यथा-'कथं ममोरसि कृतपक्षनिखनः शिलीमुखोऽपतदिति जल्पति प्रिये। वितृत्य किं किमिति सजल्पया तया ससाध्वसं कुपितममोचि कान्तया॥' अत्र कान्तवक्षसि शरपतनशङ्कया मानभङ्ग:। प्रवासमाह-प्रवास इति। भिन्नदेशित्वं भिन्नदेशवृत्तित्वम्। अन्रापि यत्रेत्यनुषज्यते। यत्र स्रीपुंसयोर्भिन्नदेशित्वं तत्तदनु- भावजनकत्वेन खाद्यते प्रवास इत्यर्थः । अस्य कारणान्याह-कार्यादिति । 1. उपायानिति । अत्र विशेषः शङ्गारतिलके-'यथोत्तरं बलीयांस इत्युपायाः प्रसादने। आद्यास्त्रयो घनं कार्या विदग्धैः पश्चिमा: क्वचित् ॥' इति ॥
१. 'चिहेन' इति क-पुस्तके नास्ति. २. 'एवमन्यदपि' क, 'ज्ञेयम्' इत्यधिकं ग-पुस्तके. ३. 'सख्युपायनम्' क., 'सख्युपासनम्' ग. ४. 'तूह्यम्' ग. ५. 'मिन्नदेशत्वम्' क-ग. ६. 'कि- मिदमति त्रुवाणया' इति शृङ्गारतिलकस्थः पाठः सा० द० १५
Page 217
१७० साहित्यदर्पणे
तत्राङ्गचेलमालिन्यमेकवेणीधरं शिरः॥। २०४॥ निःश्वासोच्छ्ासरुदित भूमिपातादि जायते। किं च । अङ्गेष्वसौष्ठवं तापः पाण्डुता कृशतारुचिः ॥२०५॥ अधृतिः स्यादनालम्बस्तन्मयोन्मादमूर्च्छनाः। मृतिश्रेति क्रमाज्ज्ञेया दश सरदशा इह ॥ २०६॥ असौष्ठवं मलापत्तिस्तापस्तु विरहज्वरः । अरुचिर्वस्तुवैराग्यं सर्वत्रारागिताधृतिः॥ २०७॥ अनालम्बनता चापि शून्यता मनसः स्मृता। तन्मयं तत्प्रकाशो हि बाह्याभ्यन्तरतस्तथा। शेषं स्पष्टम्। एकदेशतो यथा मम तातपादानाम्- 'चिन्ताभि: स्तिमितं मनः, करतले लीना कपोलस्थली, प्रत्यूषक्षणदेशपाण्डु वदनं, श्वासैकखिन्नोडघरः । अम्भःशीकरपझ्मिनीकिसलयैनपैति तापः शमं, कोऽस्याः प्रार्थितदुर्लभोऽस्ति सहते दीनां दशामीद्शीम् ।' भावी भवन्भूत इति त्रिधा स्यात्तत्र कार्यजः ॥ २०८॥ कार्यस्य बुद्धिपूर्वकत्वात्रैविध्यम्। अस्यानुभावानाह-तत्रति। प्रवास इत्यर्थः । अङ्गमालिन्यादिकं नायिकायाः। मतान्तरमाह-किं चेति। दशेत्यत्र एकादशेति विज्ञेयम्। एवं च 'ज्ञेया' इत्यत्र 'एका' इति पाठः कल्पनीयः । इह प्रवासे। मलापत्तिर्मलसंबन्धः। शून्यता विषया आहित्वम्। तत्प्रकाशः तस्य नायकस्यालीकदर्शनम्। बाह्याभ्यन्तरत इति। बहिरिन्द्रियग्राह्ये मनोग्राह्ये चेत्यर्थः। चिन्ताभिरिति। विरहिणीसख्याः कंचि- त्प्रत्युक्तिरियम् । स्तिमितं जडीकृतम्। विषयान्तरसंचयाक्षममिति यावत्। एतेना- लम्बनता सूचिता। श्वासैकखिन्नः । न तु कान्तदशनक्षतेन। प्रार्थितः सन् दुर्लभः। ययो दीनां दैन्यव्यजजिकां दशां सहत इत्यर्थः । बुद्धिपूर्वकत्वात्खेच्छया विधीयमान- 1. अत्यूषेति। प्रत्यूषे प्रभाते यः क्षणदेशश्चन्द्रमास्तद्वत्पाण्डु। निष्प्रभमित्यर्थः ॥ 2. अम्भ इति। अम्भःशीकरैश्चन्दनोदककणिकाभिः, पझ्मिनीकिसलयैः पाथोजिनी- नवदलैश्च। यद्वा अम्भसां शीकरा येषु तादृशैः पझ्मिनीकिसलयैः । सदस्त्रोटितत्वादित्यर्थः॥ १. ग-पुस्तके तु 'असौष्ठवम्~' इत्यादि: '-ईदृशीम् ॥' इत्यन्तः पाठो नास्ति. २, 'कार्यस्य-' इति फक्किका नास्ति ग-पुस्तके.
Page 218
तृतीयः परिच्छेदः । १७१
तत्र भावी यथा मम- 'यामः सुन्दरि, याहि पान्थ, दयिते शोकं वृथा मा कृथाः, शोकस्ते गमने कुतो मम, ततो बाप्पं कथं मुश्चसि। शीघ्रं न त्रजसीति, मां गमयितुं कस्मादियं ते त्वरा, भूयानस्य सह त्वया जिगमिषोर्जीवस्य मे संभ्रम: ॥।' भवन्यथा- 'प्रेस्थानं वलयैः कृतं, प्रियसखैरसैरजस्रं गतं, धृत्या न क्षणमासितं, व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु त्यज्यते ॥' लात्। एवं च भिन्नदेशगमनस्य संभावनायां भावित्वम्। निश्चये वर्तमानतम्। निष्पत्तौ भूतत्वम्। अन्ययोस्तु संभावनानिश्चयासंभवादेकविधत्वमेव। याम इति। वर्तमानसामीप्ये लट्। गमनसंभावनामात्रेण तत्र यत् 'पान्थ' इति संबोधनं तत्ख- स्मिन्कान्तस्य प्रेमाभावसूचनाय। तदवगत्य झटित्येव 'दयिते' इल्नेन संबोधनम्। ततः शोकाभावादिति हेतोर्बाष्पं मुञ्चामीत्यर्थः। जीवस्य प्राणानाम्। संत्रमस्त्वरा। अत्र कान्तासंमतिसापेक्षतया गमनस्य संभावनामात्रम्। प्रस्थानमिति। कान्त- प्रवासं निश्चित्य स्वजीवितं प्रति नायिकाया उक्तिरियम् । भो जीवित, प्रियतमप्रवासे सति त्वया अवश्यं गन्तव्यम्। तथा च प्रियतमे यातुं निश्चितचेतसि सति त्वया च वल- यादिप्रियसुहृत्सार्थः किं कथं त्यज्यते। तेनैव साक गम्यतामित्यर्थः । प्रियसुहृद्भ्िः सह गमने कष्टातिशयो न भविष्यतीति। जीवितसत्त्व एव वलयादिधारणं क्रियत इति वलयादीनां जीवितप्रियसुहृत्त्वम्। प्रस्थानमाह-प्रस्थानमिति। यात्रे- त्यर्थः । बहुदिनव्यापकतद्वारतया कार्श्येन वलयभ्रंशः । अस्रैरश्रुभिरजस्रं निरवच्छिन्नं गतं गन्तुमारब्धम्। एषु पुनः प्रियसखत्ोपपादनमत्यन्तप्रियत्वसूचनाय। तचेद- शदुःखे अश्रुपतेनैव जीवितबन्धो भवतीति स्वरक्षाकारित्वात्। अन्ये तु-'अश्रुजी- वितयो रेकहृदयगामित्वादत्यन्तप्रियत्वम्' इत्याहुः। तेषामयमाशयः-नाडीविशे- षेण हृत्कोषादश्रुनिरगमो भवतीति, न चैवं धृतेरपि प्रियसखत्वापत्तिरिति वाच्यम्, धृतेरात्मधर्मत्वेन मनोधर्मत्वेन वा हृदयवृत्तित्वायोगात्। नासित गतं पुरो गन्तुमित्यनेन चित्तस्य पुरःसरत्वमेवोपपादितम्। नतु विभिन्नकालीनं गमनम्। तेन समं प्रस्थिता इति नानुपपन्नम्। यद्वा प्रियजीवन एव वलया धार्यन्त इति वलयानां धृतेः प्रीति- जनकत्वाच्चित्तस्य तत्प्रवणत्वात्प्रियस्य सुहृत्त्वम्। अस्राणां तु मानभङ्गव्यजकतया अत्यन्तसखित्वमित्यत्र पृथक् प्रियसखित्वोपादानम्। प्रियतमगमने गन्तुमार्वा १. ग-पुस्तके तु 'याम :- ' इति श्रोको नास्ति, तत्स्थाने ' थानं वलयैः-' इति श्रोको वर्तते. २. 'यामीति प्रेयसोक्तायाः [कान्ताया:] कण्ठसंस्थयोः । वचोजीवितयोरासीत्युरोनिःसरणे रणः ।' इति ग.
Page 219
१७२ साहित्यदर्पणे
भूतो यथा-'चिन्ताभिः स्तिमितम्- इत्यादि। शापादथा- 'तां जानीयाः-' इत्यादि। संभ्रमो दिव्यमानुषनिर्घातोत्पातादिजः । यथा-विक्रमोर्वश्यामुर्वशीपुरूरवसोः। अत्र पूर्वरागोक्तानामभिलाषादीनामत्रोक्तानां चाङ्ासौष्ठवादीनामपि दशानामुभयेषामप्युभयत्र संभवेऽपि चिरंतनप्रसिद्दा उभयसंभवे विविच्य प्रतिपादनम्। अथ करुणविप्रलम्भ :- यूनोरेकतरसिन्गतवति लोकान्तरं पुनरलभ्ये। विमनायते यदैकस्तदा भवेत्करुणविप्रलम्भाख्य: ॥२०९।। यथा कादम्बर्यौ पुण्डरीकमहाश्वेतावृत्तान्ते। पुनरलभ्ये शरीरान्तरेण वा लभ्ये तु करुणाख्य एव रसः।
वलयादयः सख्योचितं कर्म कुर्वन्ति। त्वमपि प्रियस्य सुहृद्धवसीति तवापि गमनं न्याय्यमित्याह-गन्तव्ये सतीति। अन्रेयमुक्तिरनुभावः। अश्रुपातहृत्तापव्यङ्गयो विवादो व्यभिचारिभावः । प्रियमत आलम्बनम्। नायिकाया रतिज्ञे सामाजिके रसोत्पत्तिः। तां जानीया इति। प्रोषितभर्तृकाया नायिकाया उदाहरणमिदम्। दिव्यो विद्युदुल्कादिः । मानुषो मर्त्यलोकभवो भूकम्पादिः। निर्घात इति नाभसो- पलक्षणम्। उत्पातोऽनिष्टसूचको देवकृतः प्रकृतिविपर्यासः । आदिना उन्मादादि- परिग्रहः। उर्वशीपुरूरवसोरिति। उर्वशी हि पुरा मित्रावरुणशापान्मनुष्यलोकं प्राप्य पुरूरवसो गृहे 'यदि भवन्तं सुरतसमयातिरिक्तसमये नमनं पश्यामि तदा लामहं त्यक्ष्यामि, मम मेषद्वयं भवता रक्षणीयम्' इति नियमं कृत्ा स्थिता। तदनन्तरं देवैरन्धतमसे मेषद्यमपहृतम्। तच्छ्रुत्वा पुरूरवाः ससंत्रमेण वस्त्रमपरिधायैव खङ्गपाणि- र्मेषापहर्तुः पश्चाद्धावितः । एतस्मिन्नन्तरे विद्युद्भिस्तं नम्नमवलोक्योर्वशी स्वर्गे गतेति अ्रन्थस्य वर्तुलार्थः । अत्र देवकृतमेषापहरणरूपदिव्योत्पातेन पुरूरवसः संत्रमः, तेनोर्वश्या भिन्नदेशवृत्तित्वम्। उभयत्र पूर्वरागे प्रवासे च। करुणविप्रलम्भमाह- यूनोरिति। विमनायते शोकव्याकुलचित्ततया विलाप कुरुते। पुनरलभ्य इति। रतेर्नांशाद् उत्कटशोकसंभवाच्च करुणाख्यो रसः, न पुनर्विप्रलम्भ इति भावः ।
१. ग-पुस्तके तु 'कि गतेन यदि सा न जीवति प्राणिति प्रियतमा तथापि किम्। इत्युदीक्ष्य नवमेघमालिकां न प्रयाति पथिक: स्मन्दिरम् ॥' इत्युदाहरणम्. २. 'संभ्रम :- ' इत्यादिः '-वसोः।' इत्यन्तः पाठो नास्ति ग-पुस्तके. ३. 'अत्र-' इत्यादि फकिका ग-पुस्तके '-सरदशा इह ॥ २०६ ॥' इति श्रोकादये दृश्यते. 8. 'विप्रलम्भः' इति क-ग-पुस्तकयोर्नास्ति,
Page 220
तृतीय: परिच्छेद: । १७३
किंचात्राकाशसरस्वतीभाषानन्तरमेव शृङ्गारः, संगमप्रत्याशया रतेरुद्वात्। प्रथमं तु 'करुण एव' इत्यभियुक्ता मन्यन्ते। यच्चात्र *संगमप्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्य प्रवासाख्यो भेद एव' इति केचिदाहुः तदन्ये 'मरणरूपविशेषसंभवात्तद्विन्नमेव' इति मन्यन्ते। अथ संभोग :- दर्शनस्पर्शनादीनि निषेवेते विलासिनौ। यत्रानुरक्तावन्योन्यं संभोगोऽयमुदाहृतः ॥ २१०॥ आदिशब्दादन्योन्याघरपानचुम्बनादयः । यथा-'शून्यं वासगृ- हम्-' इत्यादि। संख्यातुमशक्यतया चुम्बनपरिरम्भणादिबहुभेदाद्। अयमेक एव धीरैः कथितः संभोगशङ्गारः ॥२११॥ तत्र स्यादतुषटूं चन्द्रादित्यौ तथोदयास्तमयः। जलकेलिवनविहारप्रभातमधुपानयामिनीप्रभृतिः ।२१२।। अनुलेपनभूषाद्या वाच्यं शुचि मेध्यमन्यच्च। तथा च भरत :- 'यत्किंचिल्लोके शुचि मेध्यमुज्वलं दर्शनीयं वा तत्सर्वै शृङ्गारेणोपमीयते (उपयुज्यते च)' इति। अत्र विशेषमाह-किं चेति। निषेवेते कुरुतः। एकतरस्यानुरागाभावे शङ्गाराभास इति तद्वारणाय-अन्योन्यमिति। शून्यमिति। व्याख्यातमेतत्प्राक्। एक एकप्रकारः । संभोगोद्दीपनविभावानाह-तत्रेति। संभोग इत्यर्थः । स्याद् उपयुक्तं भवाते। वाच्यं संभोगोद्दीपकतया वर्णनीयम्। शुचिमेध्यमत्यन्तं निर्मलम्। अन्यद्ध- 1. अन्रेति। अत्र कादम्बर्यी चन्द्रापीडं प्रति स्वप्रेयसः पुण्डरीकस्येतिवृत्तं वर्णयन्त्या महाश्वेताया वाक्येष्वित्यर्थः । स्त्रीपुंसयोवियोगे जीवित्वज्ञानदशायां वैक्कव्यपोषिताया रते- रेव प्राधान्याद्विप्रलम्भ: ! वैक्कुव्यं तु संचारिमात्रम्। मृतत्वज्ञानदशायां तु रतिपोषि- तस्य वैक्व्यस्यैव प्राधान्यमिति करुण एव। यदा तु सत्यपि मृतत्वज्ञाने देवताप्रसादादिना पुनरुज्जीवनज्ञानं करथचित्स्यात्तदालम्बनस्यात्यन्तिकनिरासाभावाच्चिरप्रवास इव विप्र- लम्भ एव। न स करुण इति नव्याः ॥ 2. विलासिनाविति। विलासिनी च विलासी च विलासिनावित्येकशेषः ॥ १. '-आशायां' ग-घ. २. 'एतदन्ये' क. ३. '-अपि मन्यन्ते' क-घ. ४. 'स संभोगो मुदा- न्वितः' ग. ५. 'आदि-' इत्यादि फक्िका नास्ति ग-पुस्तके. ६. 'वचित्र्याच्च विभावानुभावसंचा- रिणामनन्तत्वात् ।' इति ग.
Page 221
१७४ साहित्यदर्पणे
किं च। कथितश्वतुर्विधोऽसावानन्तर्यात्तु पूर्वरागादेः ॥२१३ ।। यदुक्तम् 'न विना विप्रलम्भेन संभोगः पुष्टिमश्षुते। कषायिते हि वस्त्रादौ भूयान्रागो विवर्धते ॥' इति। तत्र पूर्वरागानन्तरं संभोगो यथा कुमारसंभवे पार्वतीपरमेश्वरयोः । प्रवासानन्तरं संभोगो यथा मम तातपादानाम्- 'क्षेमं ते ननु पक्ष्मलाक्षि-किसअं खेमं महङ्कं दिढं, एतादक्कृशता कुतः-तुह पुणो पुट्ठं सरीरं जदो। केनाहं पृथुल: प्रिये-पणइणीदेहस्स संमीलणात्, त्वत्तः सुभ्रु न कापि मे-जइ इदं खेमं कुदो पुच्छसि ॥' एवमन्यत्राप्यूह्यम्।
म्यादि। संख्यातुं शक्या ये संभोगभेदास्तानाह-किं चेति। एतदभेदवादिमता- पेक्षया पक्षान्तरसूचनम्। आदिना मानप्रवासकरुणविप्रलम्भानां ग्रहणम्। अश्लते आ्प्नोति। एतेन पूर्वरागादिकं विनापि संभोगः संभवतीति सूचितम्। तथा च प्रकृष्टाप्रकृष्टभेदेन संभोगो द्विविधः । विप्रलम्भानन्तरः संभोगः प्रकृष्टः ।सच वि- प्रलम्भस्तु भेदेन चतुर्विधः । तद्विपरीतोऽपकृष्ट इति फलितम्। क्षेमं ते इति। संस्कृतेन नायकस्य प्रश्नः, प्राकृतेन नायिकाया उत्तरम्। किसअं कृशकम्। क्षेमं ममाङ़गं दढम्। अतिशयितं कृशं यन्ममाङ्गं तदेव क्षेममित्यर्थः । तव पुनः पुषटं शरीरं यतः। प्रणयिनीदेहस्य संमीलनात्। यदीदं क्षेमं कुतः पृच्छसि। अपरो यथा मम-'पादप्रणतमालोक्य कान्तमेकान्तकातरम्। मुञ्चन्ती बाष्पसंतानं सुमुखी तेन चुम्बिता I', 'कान्ते घोरकृतान्तवकरकुहरात्त्वं पुण्यपुञ्जेन मे मुक्ता कृन्त तदर्जनश्रमभरं प्रत्यङ्गमालिङ्ञय माम्। इत्याकर्ण्य निमीलितार्धनयनं स्मेरं शनैरानतं
१. ग-पुस्तके तु 'कथितः-' इत्यादेः 'ऊह्यम् ।' इत्यन्तस्य ग्रन्थस्य स्थान 'यद्यप्येक एवायमुक्त रतथापि तत्र विप्रलम्भानन्तर्याच्चतुर्विधः। पूर्वरागानुत्तरसंभोगो यथा-'पाणिपीडनविधेरनन्तर शैलरा- जदुहितुर्हरं प्रति। भावसाध्वसपरित्रहादभूत्कामदोहदमनोहरं वपुः ॥' मानानन्तरसंभोगो यथा-'संद्- ष्टेऽघरपल्लवे सचकिंत हस्ताग्रमाधुन्वती मा मा मुश्च शठेति कोपवचनैरानर्तितभ्रूलता। सीत्काराश्वित- लोचना सरभसं यैश्चुम्बिता मानिनी प्ाप्तं तैरमृत श्रमाय मथितो मूढैः सुरैः सागरः ॥' प्रवासानन्तर- संभोगो यथा-'गुरुजन" 'त्वरितमहा ...... पह्मबन्धो । इति वदति मनोभवाभिभूता चिरसमयागतवल्लभा मृगाक्षी ॥' करुणानन्तरसंभोगो यथा उत्तरकादम्बर्याम्। उक्तं च वात्स्यायनेन- 'नवो नव इवोदेति संभोगोऽनन्तरो हि सः । स चेतःपरीतये चन्द्रः परिमुक्तो घनैरिव ॥' इति पाठान्तर. मुपलभ्यते.
Page 222
तृतीयः परिच्छेदः । १७५
अथ है।स्य :- विकृताकारवाग्वेषचेष्टादे: कुहकाद्भवेत्। हास्यो हासस्थायिभावः श्वेतः ग्रमथदैवतः ॥२१४॥ विकृताकारवाकेष्टं यमालोक्य हसेज्नः। तदत्रालम्बनं प्राहुस्तच्ेष्टोद्दीपनं मतम् ॥ २१५॥ अनुभावोऽक्षिसंकोचवदनसमेरतादयः। निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः ॥ २१६ ॥ ज्येष्ठानां सिमितहसिते मध्यानां विहसितावहसिते च। नीचानामपहसितं तथातिहसितं तदेष पेइ्भेद: ॥ २१७॥ ईषैद्विकासिनयनं सिमितं स्यात्स्पन्दिताधरम्। किंचिल्लक्ष्यद्विजं तत्र हसितं कथितं बुघैः॥२१८॥ सोल्लासं वदनाम्बुजं मृगदृशः स्मेरं चुचुम्बे प्रियः ॥' हास्यरसमाह-विकृतति। विकृता आकारादयो यस्य तस्मात्कुहकात् नर्तकात्। एतदुपलक्षणम्। विकृताकारा- दिविषयकश्रव्यकाव्यादपि। 'कुतुकात्' इति पाठे विकृताकारादिजन्यात्कौतुकादि- त्यर्थः । अत्र हास्यरसे। तच्चेष्टा विकृताकारादिपुरुषचेष्टा। हास्यरसस्थायिभावस्य हासस्य भेदानाह-ज्येष्ठानामिति। उत्तमानामित्यर्थः । तदिति । हास्यभे- दादित्यर्थः । एष हास्यरसः। स्मितादीनां लक्षणमाह-ईषदिति। तत्र हासेषु
- हास्य इति। हासस्थायिभावको विकृतकृदालम्बनको वैकृताद्युद्दीपितो गहफुल्ला- द्यनुभावितः श्रमादिसंचारितो हास्य इति निर्गलितार्थः। अत्राहु :- 'आत्मस्थः परसं- स्वश्चेत्यस्य भेददूयं मतम्। आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः ॥ हसन्तमपरं टृष्ट्रा विभावश्चोपजायते। योऽसौ हास्यरसस्तज्जैः परस्थः परिकीर्तितः ॥ उत्तमानां मध्य- मानां नीचानामप्यसौ भवेत्। त्यवस्थः कथितस्तस्य षड्भेदाः सन्ति चापरे॥ स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे वुधैः । भवेद्विहसितं चोपहसितं मध्यमे नरे। नीचेऽपहसितं चातिहसितं परिकीर्तितम्। ईषत्फुलकपोलाभ्यां कटाक्षैरप्यनुल्वणैः ॥ अदृश्यदशनो हासो मधुरः स्मितमुच्यते। वक्रनेत्रकपोलैश्वेदुत्फुलैरुपलक्षितः ॥ किचिलक्षितदन्तश्च तदा हसितमिष्यते। सशब्दं मधुरं कालगतं वदनरागवत्॥ आकुञ्चिताक्षि मन्द्रं च विदु- र्विहसितं बुधाः । निकुञ्चितांसशीर्षश्र जिह्मदृष्टिविलोकनः ॥ उत्फुलनासिको हासो नाम्नोपहसितं मतम् । अस्थानजः साश्रुदृष्टिराकम्पस्कन्धमूर्धजः । शार्ङ्गदेवेन गदितो हासोऽपहसिताह्वयः ॥ स्थूलकर्णकटध्वानो बाष्पपूरपुतेक्षणः । करोपगूढपार्श्वश्च हासो- Sतिहसितं मतम् ॥' इति ॥ १. 'हासः' क. २. 'अनुभावाः फुल्लगद्ल' ग. ३. 'हर्षावहित्थप्रमुखास्तथा' ग. ४. 'च पड्डेदाः' घ. ५. पादोन:श्रोकोडयं क-पुस्तके त्रुटितः
Page 223
१७६ साहित्यदर्पणे
मधुरसवरं विहसितं सांसशिर:कम्पमवहसितम्। अपहसितं सास्राक्षं विक्षिप्ताङ्ग [च] भवत्यतिहसितम् ॥२१९ यथा- 'गुरोर्गिरः पञ्च दिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयं च । अमी समाघ्राय च तर्कवादान्समागताः कुक्कुटमिश्रपादाः ॥' अस्य लटकमेलकप्रभृतिषु परिपोषो द्रष्टव्यः । अत्र च- यस्य हासः स चेत्कापि साक्षान्नैव निबव्यते। तथाप्येष विभावादिसामर्थ्यादुपलभ्यते ॥ २२० ॥ अभेदेन विभावादिसाधारण्यात्प्रतीयते। सामाजिकैस्ततो हास्यरसोऽयमनुभूयते ॥ २२१॥ एँवमन्येष्वपि रसेषु बोद्धव्यम्। अथ करुण :- इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत्। धीरैः कपोतवर्णोऽयं कथितो यमदैवतः ॥२२२॥ शोकोडत्र स्थायिभावः स्याच्छोच्यमालम्वनं मतम्। तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ॥ २२३ ॥
मध्ये। गुरोः प्रभाकरस्य। ननु रसे नायकस्याभेदः सामाजिके भासते स चात्र श्लोकेन निबद्धः कथं तस्याभेदारोपो जायतामित्यत आह-अत्र चेति। चकारा- दन्यत्र। एष नायकः । विभावादेः सामर्थ्यात्। अन्यथानुपपत्तिज्ञानात्। ततः कि- मित्यत आह-अभेदेनेति। खपरसाधारणत्वेनेत्यर्थः। साधारण्यात् साधारणी- करणव्यापारात। ततः साधारण्यज्ञानात्। करुणरसमाह-इष्टति। इष्टनाशश्ष
- गुरोरिति। गुरोर्भट्टप्रभाकरस्य गिरो मीमांसाशास्त्ररूपा इत्यर्थः । 'श्रीतातपादै- विहिते निबन्धे निरूपिता नूतनयुक्तिरेषा। अङ्ग गवां पूर्वमह्ो पवित्रं न वा कथं रासभधम- पल्न्याः ॥' इत्युदाहरणान्तरम् ॥ 2. करुणेति। शोकस्थायिभावको मृताद्यालम्बनकस्तद्रुणाद्युद्दीपितो रोदनाद्यनुभावितो दैन्यादिसंचारितः करुण इति ॥
१. 'यथा मम' घ. २. 'अस्य-' इत्यादि फक्किका ग पुस्तके नास्ति. ३. 'एवम्-' इति फक्िका नास्ति ग.पुस्तके. ४. 'शोकस्थायी कपोताभवर्णोडयम्' ग. ५. 'अभीष्ट वस्तु यन्नषं तदत्रालम्बनं मतम् । तदीय गुणदोषाद्यास्तस्योद्दीपनरूपिण: ।।' इति ग.
Page 224
तृतीय: परिच्छेदः । १७७
अनुभावा दैवनिन्दाभूपातऋन्दितादयः।
निर्वेदमोहापसमारव्याधिग्लानिस्मृतिश्रमाः। विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥२२५।। शोच्यं विनष्टबन्धुप्रभृति। येथा मम राघवविलासे- 'विपिने क जटानिबन्धनं तव चेदं क मनोहरं वपुः । अनयोर्घटनाविधे: स्फुटं ननु खज्गेन शिरीषकर्तनम्।।' अत्र हि रामवनवासजनितशोकार्तस्य दशरथस्य दैवनिन्दा। एवं बन्धुवियोगविभवनाशादावप्युदाहार्यम्। परिपोषस्तु महाभारते स्त्री- पर्वणि द्रष्टव्यः । अस्य करुणविप्रलम्भा्वेदमाह- शोकस्थायितया भिन्नो विप्रलम्भादयं रसः । विप्रलम्भे रतिः स्थायी पुनः संभोगहेतुकः ॥ २२६ ॥
पुत्रादेर्विच्छेदो मरणं च वित्तादेर्नाशश्च। अनयोर्जटाधारणश्रीरामशरीरयोः। घटना योजना। खङ्गेन शिरीषकर्तनमिवेत्यर्थः । अत्र प्रकरणाद्दशरथो नायको लभ्यत इति विवृणोति-अत्रेति। अनुचिताचरणमेव दैवस्य निन्दा सैवानुभावः। बन्धुवियो- गो बन्धुमरणम्। तत्र यथा-'गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कला- विधौ। करुणाविमुर्केन मृत्युना हरता लां वद किं न मे हृतम् ।।' अत्रेन्दुमतीमर- णजनितशोकार्तस्याजस्य मृत्युनिन्दा। वित्तनाशो यथा-'प्रातर्भवामि वसुधाधिप- चक्रवर्ती सोऽहं व्रजामि विपिने जटिलस्तपखी। यच्चिन्तितं तदिह दूरतरं प्रयाति यच्चेतसा न गणितं तदिहाभ्युपैति ।' अत्र नष्टराज्यस्य रामस्य परिदेवनम् । स्थायिभाव इति शेषः। पुनः संभोगो हेतुर्ज्ञापको यस्य सः। रौद्ररसमाह- 1. यथेति। यथा वा मम-'धाराबन्धममी पतन्ति सततं दृग्भ्यां पयोबिन्दवः कीलालीढमिवान्तरं स्फुटति हा गात्रं मुड्ठः सीदति। जायन्ते पुरतस्तमांसि धिषण वैकल्यमालम्बते हित्वास्मान्क गतोऽसि शीघ्रमहह्या प्रत्युत्तरं दीयताम् ॥।' इति ॥
१. 'अनुभावोऽश्रु .. ....... लम्बनादयः । विषादग्लानिनिर्वेदमोहाद्या व्यमिचारिणः ॥' इति पाठान्तरं ग-पुस्तके. २. 'शोच्यं' इत्यादेः '-द्रष्टव्यः ।' इत्यन्तस्य पाठस्य स्थाने ग-पुस्तके 'नव- पल्वसंस्तरेऽपि ते मृदु दूयेत यद्ङ्गमर्पितम्। तदिद विषहिष्यते कथं वद वामोरु चिताधिरोहणम्॥' इत्येव दृश्यते. ३. '-विलापे' घ.
Page 225
१७८ साहित्य दर्पणे
अथ रौद्र :- रौद्र: क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः। आलम्बनमरिस्तत्र तच्चेष्टोद्दीपनं मतम् ॥ २२७ ॥
भविभङ्गोष्ठनिर्दशबाहुस्फोटनतर्जनाः। आत्मावदानकथनमायुधोत्क्षेपणानि च ॥। २२९॥ उग्रतावेगरोमाञ्चस्वेद्वेपथवो मदः। अनुभावास्तथाक्षेपक्ूरसंदर्शनादयः॥२३०॥ मोहामर्षादयस्तत्र भावा: स्युर्व्यभिचारिणः। यथा- 'कृतमनुकृतं दृष्टं वा यैरिदं गुरुपातकं
नरकरिपुणा सार्ध तेषां सभीमकिरीटिना- मयमहमसृखमेदोमांसैः करोमि दिशां बलिम् ।'
रौद्र इति। तच्ेष्टा रिपुचेष्टा। तां विशिष्याह-मुष्टीति। विकृतं विरुद्धाचरणम्। छेद: खङ्गादिना। अवदारणं शूलादिना। अस्य रौद्रस्य। 'अवदानं कर्मवृत्तम्' इत्यमरः । कृतमिति। द्रोणशिरश्छेदेन कुद्धस्याश्वत्थान्नोऽर्जुनं प्रति संबोध्योक्ति- रियम्। इदं मत्पितृशिरश्छेदरूपं गुरुपातकं तत्कारणं कर्म यैरुद्यतायुधैर्मर्यादाशू- न्यैरत एव मनुजपशुभिर्भवद्भि: कृतमनुमतं दृष्ट वा, नरकरिपुणा कृष्णेन सार्ध भीमकिरीटिसहितानां तेषां मेदोमांसैरयमहं दिशां दिगवस्थितभूतानां बलिं करो- मीत्यर्थः । अयमेतत्क्षणवर्त्येव। अन्राश्वत्थाम्ः क्रोधस्यार्जुनादिरालम्बनम्। तदाका- र्यमुद्दीपनम्। तादृशगर्जनमनुभावः। ननु शौद्रयुद्धवीरयो रिपुरालम्बनं विभाव इत्य- 1. रौद् इति। क्रोधस्थायिभावको द्विषदालम्बनकस्तदपकाराधुद्दीपितो विकत्थनाद्यनु- भावितो गर्वादिसंचारितो रौद्र इति॥ 2. कृतमिति। इह रौद्ररसव्यअ्जनक्षमा वृत्तिर्नास्ति, अतः 'नवोच्छलितयौवनसफुर- दखर्वगर्वज्वरे मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति। अयं पततु निर्दयं दलितदृप्तभूभृ- द्लस्खलद्रुधिरघस्मरो मम परश्वधो भैरवः ॥' इदमुदाहार्यम्। एषा च रामभरद्र प्रति परशुरामस्योक्तिः । अत्र महोद्धता वृत्ती रौद्रस्य परमौजस्वितां परिपुष्णाति॥ १. 'आलस्वन विरोधी स्यात्' ग. २. 'हस्तनिष्पेषपारुष्यरक्ताक्षाद्यनुभावभूः। मोहामर्षोग्रतासूया वेगादिव्यभिचारिमान् ॥' इति ग.
Page 226
तृतीय: परिच्छेदः । १७९
अस्य युद्धवीराद्वेदमाह- रक्तास्यनेत्रता चात्र भेदिनी युद्धवीरतः ॥।२३१ ॥। अथ वीर :- उत्तमप्रकृतिवीर उत्साहस्थायिभावकः । महेन्द्रदैवतो हेमवर्णोडयं समुदाहृतः ॥ २३२॥ आलम्बनविभावास्तु विजेतव्यादयो मताः। विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः । अनुभावास्तु तत्र स्युः सहायान्वेषणादयः ।२३३।। संचारिणस्तु धृतिमतिगर्वस्मृतितर्करोमाञ्चाः । से च दानधर्मयुद्धैर्दयया च समन्वितश्चतुर्धा स्ात् ॥२३४॥ से च वीरो दानवीरो धर्मवीरो युद्धवीरो दयावीरश्चेति चतुर्विधः । तत्र दानवीरो यथा परशुराम :-
नयोरभेद एवापतित इति तयोभेंदं दर्शयितुमाह-अस्येति। रौद्रस्येत्यर्थः । रक्तास्यनेत्रताव्यङ्गयः करोध एव भेदः । तथा चोभयत्र रिपोरालम्वनत्वेऽपि क्रोधा- विर्भावे रौद्रः, उत्साहाविर्भावे वीर इत्यनयोर्भेद इति भावः। वीररसमाह- उत्तमप्रकृतिरिति। उत्तमा वीरोदात्तरूपा प्रकृतिर्नायको यत्रेत्यर्थः । यद्वा उत्तमा चमत्कारातिशयाधायकतया रसान्तरादुत्कृष्टा प्रकृतिः स्वभावो यस्येत्यर्थः । विजे- तव्यादिचेष्टाद्येत्यादिना दाने सत्त्वाध्यवसायादेर्धमें धर्मशास्त्राध्ययनादेर्दयायां दीनस्य कातरोक्त्यादेर्ग्रहणम्। सहायः सहकारी। स च युद्धे सैन्यं दाने वित्तं धर्मे द्रव्यमन्नादि दयायां त्यागादि। रोमाश्चस्य संचारिभावत्वाभावात्तज्नकहर्षे लक्षणा-स चेति। 1. स चेति। स च चतुर्धेति प्रायोवादः । 'राज्यं च-' इत्यत्रैव 'ते प्रकामं विप्व- वन्तां मा भूत्सत्यस्य विप्ववः' इत्युत्तरार्धव्यत्यासेन श्रोकान्तरतानयने सत्यवीरस्यापि संभ- वात्। न च सत्यस्यापि धर्मान्तर्भावेन धर्मवीररसे एव तद्वीरस्याप्यन्तर्भाव इति वक्तुं युज्यते। दानदययोरपि धर्मान्तर्भावतया तद्वीरयोरपि धर्मवीरात्पृथग्गणनानौचित्यान्। एवं पाण्डित्यवीरबलवीरादयोऽपि संभवन्ति। तत्राद्यो यथा-अपि वक्ति गिरांपतिः स्वयं यदि तासामधिदेवतापि वा। अयमस्मि पुरो हयाननस्मरणोललद्वितवाङ्मयाम्बुधिः ॥' अत्र गीर्पत्याद्यलम्बनः सभादर्शनोद्दीपितो निखिलविद्वत्तिरस्कारानुभावितो गर्वेण संचारिणा परिपोषितो वक्तरुत्साहः प्रतीयते। 2. दानवीर इति। अन्रेदमुदाहार्यम्-कियदिदमधिकं मे यद्िजायार्थयित्रे कब- १. 'आलम्बन-' इत्यादेः '-रोमाश्चाः ।' इत्यन्तस्य पाठस्य स्थाने 'प्रतिनेतृतदुत्कर्षालम्वनोद्दीपना- न्वितः। चातुर्यामत्रणस्थैय प्रसादाद्यनुभावभूः॥ क्रोधाभिमानहासप्रमुखव्यभिचारिपरिपुष्टः ।' इति. पाठो ग-पुस्तके. २. 'स-'इत्यादिः '-रामः ।' इत्यन्तः पाठो नास्ति ग पुस्तके.
Page 227
१८० साहित्यदर्पणे
'त्यागः सप्तसमुद्रमुद्रितमही निर्व्याजदानावधिः' इति। अत्र परशुरामस्य त्यागे उत्साहः स्थायिभावः संप्रदानभूतब्राह्मणै- रालम्बनविभावैः सत्त्वाध्यवसायादिभिश्चोद्दीपनविभावैर्विभावितः सर्व- स्वत्यागादिभिरनुभावैरैनुभावितो हर्षधृत्यादिभिः संचारिभिः पुष्टिं नीतो दानवीरतां भजते।
वीरश्चेत्यर्थः । दानादावुत्साहसंभवादिति भावः । त्याग इति । सप्तभिः समुद्रैर्मुद्रिता वेष्टिता या मही तस्या निर्व्याजं निरुपाधि यद्दानं तदेवावविर्यस्य सः। सत्त्वस्य गुणविशेषस्य अध्यवसाय उद्रेकः । आदिना परोचनादेर्ग्रहणम् ।
चमरमणीयं कुण्डले चार्पयामि। अकरुणमवकृत्य द्राक्कृपाणेन निर्यद्धहलरुधिरधारं मौलि- मावेदयामि ॥' इति। एषा द्विजवेषाय शक्राय कवचकुण्डलदानोद्यतस्य कर्णस्य तद्दान- विस्मितान्सभ्यान्प्रत्युक्तिः । अत्र याचमान आलम्बनम्। तदुदीरिता स्तुतिरुद्दीपिका। कवचादिवितरणं तत्र लघुत्वबुद्धयादिकं चानुभावः । मे इत्यर्थान्तरसंक्रमितवाच्यध्वन्यु- त्थापितो गर्वः स्वकीयलोकोत्तरपितृजन्यत्वादिस्मृतिश्च संचारिणौ। वृत्तिरप्यत्र तत्तदर्था- नुरूपोद्गमविरामशालितया सहृदयैकचमत्कारिणी। तथाहि-उत्साहपोषकं कवचकुण्ड- लार्पणयोर्लघुत्वनिरूपणं विधातुं पूर्वार्धे तदनुकूलशिथिलबन्धात्मिका। उत्तरार्धे तु मौ- लितः प्राग्वक्तगतगर्वोत्साहपरिपोषणायोद्धता। ततः परं ब्राह्मणे सविनयत्वं प्रकाशयितुं तन्मूलीभूतं गर्वराहित्यं ध्वनयितुं पुनः शिथिलैव। अत एव 'आवेदयामि' इत्युक्तम् । न तु ददामि वितरामीति वा। इदं तु नोदाहरणीयम्-'यस्योद्दामदिवानिशार्थिविलस- द्दानप्रवाह प्रथामाकर्ण्याव निमण्डलागतविपद्वन्दीन्द्रवृन्दाननात्। ईष्यानिर्भरफुल्लरोमनिक रव्यावल्गदूध:स्रवत्पीयूषप्रकरैः सुरेन्द्रसुरभिः आवृद्पयोदायते ।I' अन्रेन्द्रसभामध्यगत- सकलनिरीक्षकालम्बनः, अवनिमण्डलागतविपद्वन्दीन्द्रवदनविनिर्गतराजदानवर्णनोद्दीपितः, ऊध:प्रस्ुतपीयूषप्रकरैरनुभावितः, असूयादिसंचारिभिः परिपोषितोऽपि कामगवीगत उत्साहो राजस्तुतिगुणीभूत इति न रसव्यपदेशहेतुः । अत एवेदमपि नोदाहरणम्- 'साब्धिद्वीपकुलाचलां वसुमतीमाक्रम्य सप्तान्तरां सर्वा द्यामपि सस्मितेन हरिणा मन्दं समालोकित: । प्रादुर्भूतपरप्रमोदविदलद्रोमाञ्चितस्तत्क्षणं व्यानम्रीकृतकंधरोऽसुरवरो मौलि पुरो न्यस्तवान् ।' इह च भगवद्वामनालम्बनः, तत्कर्तृकमन्दनिरीक्षणोद्दीपितः, रोमा- च्वादिभिरनुभावितः, हर्षादिभिः पोषितः, उत्साहो व्यज्यमानोडपि गुणः । प्रागन्यगत- स्येव प्रकृते राजगतस्यापि तस्य राजस्तुत्युत्कर्षकत्वात्। एतेन 'त्यागः सप्तसमुद्र-' इति प्रकृतोदाहरणं न युक्तम्। तस्य गुणीभूतव्यङ्गयत्वेन रसध्वनिप्रसङ्गेऽनुदाहरणीय- त्वात्। 'उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरुवीर्य तत्र न मद्विरामनुपमं व्यक्तं हि तत्कर्मभिः । त्यागः सप्तससुद्रसुद्रितमहीनिर्व्याजदानावधिः सत्यग्रह्मतपोनिधेर्मगवतः किं किं न लोकोत्तरम् I' इति तु पूर्णः श्रोकः ॥
१. 'अत्र-' इत्यादिः '-भजते।' इत्यन्तः पाठो ग-पुस्तके नास्ति. २. 'पात्रमाप्तिसाम्राज्यादिभिः' क.
Page 228
तृतीय: परिच्छेदः । १८१
धर्मवीरो यथा युधिष्ठिर :- 'राज्यं च वसु देहश्र भार्या आ्रातृसुताश्च ये। यच्च लोके ममायत्तं तद्धर्माय सदोद्यतम् ।।' युद्धवीरो यथा श्रीरामचन्द्र :- 'भो लङ्केश्वर दीयतां जनकजा रामः स्वयं याचते कोडयं ते मतिविभ्रमः स्मर नयं नाद्यापि किंचिद्गतम्। नैवं चेत्खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः पत्री नैष सहिष्यते मम धनुर्ज्याबन्धवन्धूकृतः ।।' दयावीरो यथा जीमूतवाहन :- 'शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति। तृष्तिं न पश्यामि तवापि तावत्किं भक्षणात्वं विरतो गरुत्मन् ।।' ऐष्वपि विभावादयः पूर्वोदाहरणवदूह्याः । अथ भयानक :- भयानको भयस्थायिभावः कालाधिदैवतः। स्त्रीनीचप्रकृतिः कैष्णो मतस्तत्त्वविशारदैः ॥ २३५॥ राज्यं चेति। उद्यतमुपयुक्तम्। अत्र युधिष्ठिरस्य वैदिककर्मण्युत्साह एतादृशोक्त्या- नुभावेनाखाद्यमान: सामाजिकानां रसतामापद्यते। भो इति। रावणं प्रति श्रीराम- स्योक्तिरियम्। नयं नीतिम्। गतं नष्टम् । एवं जनकजादानम्। पत्री शरः। आ- त्मनोऽसहनं पत्रिण्यारोपितम्, रिपुहनने तस्य प्रधानोपायत्वसूचनाय। ज्याबन्धव- न्धूकृतः गुणयोजितः । अत्र श्रीरामस्य युद्धोत्साह एतादृशोत्तयानुभावेनाखाद्यमानः सामाजिकानां रसतामापद्यते। शिरामुखैरिति। नाडीछेदैरित्यर्थः । मम जी- मूतवाहनस्य। गरुत्मन्निति श्येनरूपधारिणः शकस्य संबोधनम्। अत्र जीमूतवाह- नस्य कपोतरूपधारिधर्मात्मकपरदुःखप्रहरणोत्साहः खदेहमांसत्यागानुभावेनाखाद्य- मान: सामाजिकानां रसतामापद्यते। भयानकरसमाह-भयानक इति। स्त्री- नीचप्रकृतिरिति । स्त्रीनीचनायक इत्यर्थः । 'बालत्नी नीचनायकः' इति रुद्र- 1. भयानक इति। भयस्थायिभावको विकटाद्यालम्बनकस्तद्विकटकर्माद्युद्दीपितः पला- यनाद्यनुभावितो जडतादिसंचारितो भयानक इति॥ 2. कालेत्ति। 'कामदेवो भयानकः' इति भरतोक्त्या 'कामाधिदैवतः' इति पाठ इति प्रतिभाति। तथा सति भयानकबीभत्सयोभिन्नाधिदैवत्यमपि जायते॥ 3. रुद्रेति। शृङ्गारतिलककर्तू रुद्रभट्टस्य कथनादित्यर्थः ॥ १. 'एषु-' इति फक्किका नास्ति ग-पुस्तके. २. 'भूताधि-' ग. ३. 'कृष्णवर्णोडयं समुदाहृतः' ग. 8. 'भात्म-' इत्यादि 'सूचनाय' इत्यन्तं पुस्तकान्तरे नास्ति. सा० ५० १६
Page 229
१८२ साहित्यदर्पणे
यैस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम्। चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः ॥२३६॥ अनुभावोऽत्र वैवर्ण्यगद्गदसवरभाषणम्। प्रलयस्वेदरोमाश्चकम्पदिक्प्रेक्षणादयः॥ २३७॥ जुगुप्सावेगसंमोह संत्रासग्लानिदीनताः। शङ्कापस्मारसंभ्रान्तिमृत्य्वाद्या व्यभिचारिणः ॥ २३८।। यथा-'नेष्टं वर्षवरैः-' इत्यादि। अथ बीभत्स :- जुगुप्सास्थायिभावस्तु बीभत्सः कथ्यते रसः। नीलवर्णो महाकालदेवतोऽयमुदाहृतः ॥ २३९॥ दुर्गन्धमांसरुधिरमेदांस्यालम्बनं मतम्। तत्रैव केमिपाताद्यमुद्दीपनमुदाहतम्॥२४० ॥ निष्ठीवनास्यवलननेत्रसंकोचनादयः। अनुभावास्तत्र मतास्तथा स्युर्व्यभिचारिणः ॥२४१।। मोहोऽपसमार आवेगो व्याधिश्र मरणादयः । यथा- 'उत्कृत्योत्कृत्य कृतिं प्रथममथ पृथूच्छोथभूयांसि मांसा- न्यंसस्फिकपृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा। पाठोक्ततेर्बालनाय कत्वमपि बोध्यम्। तस्यालम्बनस्य। संभ्रान्तिरुन्मादः। नष्टमिति। अत्र वर्षवरादीनां नीचानां वानरवेषेणान्तःपुरप्रविष्टं विदूषकमालोक्य जायमानं भयं नाशाद्यनुभावेनाखाद्यमानं सामाजिकानां रसतामापद्यते। स्त्रीनायको यथा- 'इदं मघोनः कुलिशं धारासंनिहिताननम्। स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते।' वालनायको यथा-'घोरमम्भोधरध्वानं निशम्य व्रजबालकाः। मातुरङ्के निलीयन्ते सकम्पविकृतखवराः ॥' वीभत्सरसमाह-जुगुप्सेति । निष्ठीवनं थूत्कप्रक्षेपः । आस्यवलनं मुखसंवरणम्। उत्कृत्योत्कृत्येति। रमशाने शवं भुज्ञानं प्रेतं दृष्ट्ा 1. बीभत्स इति। जुगुप्सास्थायिभावको विण्मूत्राद्यालम्बनको दुर्गन्धादयुद्दीपितो निष्ठीवनाद्यनुभावितो ग्लान्यादिसंचारितो बीभत्स इति ॥ १. ग-पुस्तके तु 'यस्मात्-' इत्यादे: '-चारिणः ॥' इत्यन्तस्य स्थाने 'व्याघ्राद्यालम्ब नस्तत्तदक्ृ तो- द्दीपनो मतः । कम्पम्रखेदरोमाश्चमीलनाद्यनुभाववान् ॥ जडतादीनतात्रासमोहादिव्यभिचारयुकू ॥'इति पाठः २. ग-पुस्तके तु 'ग्रीवाभङ्गाभिरामम्-' इति शाकुन्तलपद्यमुदाहनम्. ३. 'पिशित' क घ. ४. 'कृमिपानाद्यास्तस्योद्दीपनरूपिणः' ग. ५. 'निष्ठीवनास्य' इत्यादेः '-मरणाद्यः ॥' इत्यन्तस्य- स्थाने, निष्ठयूनाद्यनुभावोऽत्र मोहाद्या व्यमिचारिण: इति पाठो ग-पुस्तके.
Page 230
तृतीयः परिच्छेदः। १८३ आर्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करक्का- दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥' अथाद्धत :- अद्भुतो विस्मयस्थायिभावो गन्धर्वदैवतः ॥ २४२॥ पीतवर्णो वस्तु लोकातिगमालम्बनं मतम्। गुणानां तस्य महिमा भवेदुद्दीपनं पुनः॥ २४३ ॥ स्तम्भ: स्वेदोऽथ रोमाश्चगद्वदखवरसंभ्रमाः। तथा नेत्रविकासादया अनुभावा: प्रकीर्तिताः ॥ २४४॥ चितर्कावेगसंभ्रान्तिहर्षाद्या व्यभिचारिण: । यथा- 'दोर्दण्डाश्चित चन्द्रशेखरधनुर्दण्डावभङ्गोद्यत- ष्टंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।
माधवस्योक्तिरियम्। अयं प्रेतरक्कः प्रेतदरिद्रः अङ्खस्थात् क्रोडस्थात् करड्डात् मृतश- रीरात् अस्थिसंस्थं स्थपुटगतं अ्रन्थिसंस्थमपि क्रव्यं मांसम्, अव्यग्रमव्याकुलं यथा स्वात्तथा अत्तीत्यन्वयः । क्रमेण भक्षणादव्यग्रता। भक्षणकममाह-उत्कृत्येति। प्रथमं कृत्तिं चर्म उत्कृत्योत्कृत्य पुनः पुनश्छित्त्वा अत्तीत्यनेनान्वयः। अथानन्तरम्। पृथूच्छोथेन महोत्फुल्लतया भूयांसि बहुलानि । अंसः स्कन्धः । स्फिकू नितम्बः । आ- दिना ऊरुपरिग्रहः। अंसाद्यवयवेषु सुलभानि उग्रपूतीनि उत्कटदुर्गन्धीनि जग्ध्वा भुक्त्वेत्यन्वयः । स्थपुटगतस्याकर्षणादार्ततं तदाकर्षणार्थ च दशनप्रकटनम्। कश्चिदा च्छिद्य नेष्यतीति भयात्पर्यस्तनेत्रलम्। 'कैरङ्कोऽस्थिशेषं शिरः स्थपुटो विकटगभीर- भागः' इति चण्डीदासः । अत्र माधवस्य जुगुप्सा शवप्रेताभ्यामालम्बनाभ्यां पूति- गन्धाद्युद्दीपनेन तादगुत्त्या आक्षेपलभ्येन निष्ठीवनादिना चानुभावेन तथैव मोहादि- व्यभिचारिणा च संवलितो बीभत्सो रसः। अद्भुतरसमाह-अ्भुत इति। लोका- तिग लोंकातिवर्ति। दोर्दण्डेति। दीर्घकालव्यापकेन हरधनुष्टकारेण विस्मितस्य लक्ष्मणस्योक्तिरियम्। दोर्दण्डाभ्यामश्चित आकुञ्चितो यश्चन्द्रशेखरस्य हरस्य धनुर्दण्ड-
- अद्दुत इति । विस्मयस्थायिभावको विस्मयजनककर्मकर्त्रालम्बनको विस्मय कर्माद्युद्दीपितश्चकिताद्यनुभावितो हर्षादिसंचारितोडद्भुत इति॥ 2. गन्धवेति । नाट्यशास्त्रे तु 'अद्भतो ब्रह्मदैवतः' इति दृश्यते॥ 3. करङ़ इति। 'करक्को मस्तके' इति मेदिनी। 'करङ: प्रेतशरीरम्' इति केचिद्॥
१. 'तस्यैव च गुणोत्कर्ष उद्दीपनमुदौरितम्। रोमाश्वाद्यनुभावोऽयं जाड्यादिव्यभिचारकः ।' इति ग.
Page 231
१८४ साहित्यदर्पणे
भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥' अथ शान्त :- शान्त: शमस्थायिभाव उत्तमप्रकृतिर्मतः ॥ २४५॥ कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः। अनित्यत्वादिनाशेषवस्तुनिःसारता तु या॥२४६ ॥ परमात्मस्वरूपं वा तस्यालम्बनमिष्यते। पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनाद्यः ॥२४७॥ महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः । रोमाञ्चाद्याश्रानुभावास्तथा स्युर्व्यभिचारिणः ॥ २४८।। निर्वेदहर्षस्मरणमतिभूतदयादयः। यथा- 'सथ्यान्तश्चरतस्तथा धृतजरत्कन्थालवस्याध्वगैः सत्रासं च सकौतुकं च सदयं दृष्टस्य तैर्नागरैः । निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे निःशङ्क: करटः कदा करपुटीभिक्षां विलुण्ठिष्यति ।।'
स्तस्यावभङ्गाय उद्यत उद्धतः । आर्यस्य श्रीरामस्य बालचरितानां प्रस्तावनायां गाने डिण्डिमो वाद्यभेदः । पर्यस्त उत्क्षिप्तः कपालसंपुटः पिधानपात्राकारव्रह्माण्डोपरिभागः तेन द्राग् झटिति मिलत्संगच्छमान ब्रह्माण्ड एव भाण्डं क्षुद्रस्थाली तस्योदरे भ्राम्यन् अतएव पिण्डितो बहुलीकृतश्चण्डिमा महत्त्वं यस्य। अद्यापि इदानीमपि। शरावा- च्छन्नमुखस्थालीमध्ये जायमान: शब्दो बहुलो भवतीत्यभिप्रायेणेदम्। अत्र लक्ष्मणस्य विस्मयो धनुष्टंकारालम्बनेन तस्यातिदीर्घतगुणोद्दीपनेन एताद्ृगुत्त्या अनुभावनेन- व्यक्त आश्चर्यरसतामापद्यते। शान्तरसमाह-शान्त इति। अत्र निर्वेद: स्थायि- भाव:। एतत्पक्षे अवमाननीयत्वमेवालम्बनम्। निर्वेदस्य व्यभिचारित्वेन स्थायित्वायो- गातू, शमस्य स्थायित्वेनानुभूयमानत्वाच्च ग्रन्थकृता तदुपेक्षितम्। रोमाश्चादा इत्या- द्यपदेन दयादीनामपि ग्रहणम्। रथ्यान्तरिति। कस्यचिज्जातनिर्वेदस्योक्तिरियम्। रथ्या गृहसमीपदेशः, तन्मध्ये चरतो भिक्षार्थ भ्रमतः । अध्वगैर्नागरैश्र बीभत्सवेष- दर्शनेन त्रासः, अनुपादेयकन्थावधारणेन कौतुकम्, दीनत्वेन दया। निर्व्याजीकृतः कामादिनाशेन निष्पतिबन्धकीकृतो यश्चित्सुधाया ज्ञानामृतस्य रस आखादस्तस्य मुदा तज्जन्यानन्देन निद्रायमाणस्य मुद्रितनेत्रस्य। 'निर्बींजीकृत-' इति पाठेऽपि बीज 1. उपेक्षितमिति। अत्र यद्क्तव्यं तत् 'शमो निरीहावस्थायाम्' इत्यत्राभिहितम् ॥
Page 232
तृतीयः परिच्छेदः । १८५
पुष्टिस्तु महाभारतादौ द्रष्टव्यो। निरहंकाररूपत्वाद्दयावीरादिरेष नो ॥। २४९॥ दयावीरादौ हि नागानन्दादौ जीमूतर्वाहनादेरन्तरा मलयवत्यॉद्य- नुरागादेरन्ते च विद्याधरचक्रवर्तित्वाद्ाप्तेर्दर्शनादहंकारोपशमो न ह- श्यते। शान्तस्तु सर्वाकारेणाहंकारप्रशमैकरूपत्वान्न तैत्रान्तर्भावम- हति। अतश्च नागार्नन्दादेः शान्तरसप्रधानत्वमपास्तम्। ननु 'न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा। रसः स शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु समप्रमाणः ।' इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मखरूपापत्तिलक्षणायां प्रादुर्भावात्तत्र संचार्यादीनामभावात्कथं रसत्वमित्युच्यते- युक्तवियुक्तदशायामवस्थितो यः शमः से एव यतः। रसतामेति तदसिमिन्संचार्यादे: स्थितिश्र न विरुद्धा॥ वासना तच्छून्यीकृतेत्यर्थः । करटः काकः। ननु शान्ते दयाद्यतिशयसंभवेन दयावी- रादिरेवायमित्यत आह-निरहंकाररूपत्वादिति।आदिना धर्मवीरदेवताविषय- रतिप्रभृतीनां ग्रहणम्। एष शान्तरसः । तथा चाहंकारसंवलितो दयादिरेव दयावी- रादेर्घटकः । तदितरः शान्तरस इति विशेषः । ततश्चेदृशविशेषावधारणाच्च। नागा- नन्दे दयावीरादिप्रधाने अ्रन्थविशेषे। न यत्रेति। द्वेषो रिपूणामपचिकीर्षा। रागः सुहृदामुपचिकीर्षा। इच्छा वैषयिकसुखतदुपायेच्छा। भावेषु पैदार्थेषु लोष्टकाच्चना- दिविभावादिषु सत्सु रागद्वेषराहित्येन सममविषमं प्रमाणं प्रतीतिर्येन। 'शमप्रधानः' इति पाठस्तु न मनोरमः, अर्थासंगतेः । तादृशदशायां व्यभिचारिभावादीनामसंभ- वातू। शम एव स्थायितया प्रधानं यत्र सः।आत्मखवरूपापत्तिलक्षणायां परमात्मख- रूपतप्राप्तिरूपायाम्। युक्तवियुक्केति। विषयेभ्यः प्रत्याहृत्य साक्षात्कर्तव्ये वसुनि मनो निधाय वर्तमानश्चिन्तासंतानवान् युक्तः। यस्य योगजधर्मसहकृतेन मनसा जिज्ञासितवस्तुसाक्षात्कारो जायते। यश्च भूतेन्द्रियजयी अणिमाद्याः कामसिद्धीर्दूर- श्रवणाद्याश्चेन्द्रियसिद्धीरासादितवान् समाध्यन्वितो वियुक्तः । यस्य च योगजध र्मसहकृतानि बाह्येन्द्रियाणि से से विषये महत्त्वसंनिकर्षादिसहकारिनिरपेक्षाणि
- स एवेति। तादृशशम एव स्थायिभावो रसतां लभत इत्यर्थः ।
१. 'पुष्टिः-' इति फक्किका नास्ति ग-पुस्तके. २. 'अस्य दयावीरादेः सकाशान्नेदमाह' इत्यधिकं ग-पुस्तके. ३. 'नागानन्दादौ' इति नास्ति क-घ-पुस्तकयोः. 8. '-वाहनादौ' क-घ. ५. आादि- शब्दो नास्ति क घ-पुस्तकयो :. ६. 'सर्वथापि' ग. ७. 'तत्र स संभवितुमर्हति' ग. ८. '-नन्दे' कनघ. ९"शाममधान:' क.ख-घ. १०. 'पदार्थेषु' नास्ति पुस्तकान्तरे. ११. 'लोष्टकाचनादि' नास्ति पुस्तकान्तरे. १२. 'राग-' इत्यादि '-असंभवात्' इत्यन्तः पाठो नास्ति पुस्तकान्तरे.
Page 233
१८६ साहि त्यदर्पणे
यैश्चास्मिन्सुखाभावोऽप्युक्तस्तस्य वैषयिकसुखपरत्वान्न विरोधः । डेक्तं हि- 'यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्ँ।।' 'सर्वाकारमहंकाररहितत्वं व्रजन्ति चेत्। अत्रान्तर्भावमर्हन्ति दयावीरादयस्तथा ॥'
तत्र देवताविषया रतिर्यथा- 'कदा वाराणस्यामिह सुरधुनीरोधसि वस- न्वसान: कौपीनं शिरसि निदधानोऽञ्जलिपुटम्। अये गौरीनाथ त्रिपुरहर शंभो त्रिनयन प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्।' अथ मुनीन्द्रसंमतो वत्सलः- स्फुटं चमत्कारितया वत्सलं च रसं विदु:। रस्थायी वत्सलतास्नेहः पुत्राद्यालम्बनं मतम् ॥ २५१ ॥ वर्तन्ते स एव युक्तवियुक्तः । तद्दशायामित्यर्थः । अस्मिञ्शान्तरसे। नन्वन्र शम- रूपसुखसत्त्वेन न सुखमित्यसंगतमत आह-यञ्चति। तृष्णाक्षयसुखस्य शम- सुखस्य। एते कामसुखदिव्यसुखे। सर्वाकारं सर्वप्रकारम्। एतेनाहंकारसामान्याभावः प्रतीयते। सर्वेति। सरव देहेन्द्रियादि आकार आश्रयो यस्य तत्तथा। अहंकारो- डभिमानः, तद्रहितत्वं तद्भावं व्रजन्ति। दयावीरादिनायका इवि शेषः । यदि दयावीरादिनायका देहेन्द्रियादिविषयकाभिमानशून्या भवन्ति, तदा दयावीरादयो रसाः शान्तरसखरूपा भवन्तीति तदर्थः । अभिमानश्च देहेन्द्रिययोरहमित्यारोपः । देहादिसंबन्धिनि पुत्रादौ ममेत्यारोपक्च। अत्र शान्तरसे। तत्रेति। शान्तर- सान्तर्भूतेषु दयावीरादिषु मध्ये। शान्तरसस्यान्तर्भूतदेवताविषयरतिरित्यर्थः । कदेति। कस्यचिच्छैवस्योक्तिरियम्। अन्र कौपीनपरिधानेच्छया अहंकारनिवृत्तिः प्रतीयते। केषांचिन्मतं वत्सलरसमाह-स्फुटमिति। उत्कटमित्यर्थः । विदु- 1. तृष्णेति। तृष्णानां विषयाणां क्षयः सर्वंतो निवृत्तिरूपो निरोधस्तदेव सुखं तस्य । १. 'किं च तस्यामवस्थाया सुखमप्यस्ति' इति ग. २. 'तथा चोक्तम्' ग. ३. 'इति' इत्यधिकं गणपुस्तके. ४. 'दानवीर' इति नास्ति ग-पुस्तके. ५. 'रतिभावाद्यः' ग. ६. 'निरहंकारधर्मवीरो यथा जनकादिः' इत्यधिक ग-पुस्तके. ७. 'देवताविषयपरिभावाद्यः' ग. ८. 'तत्र स्थायी वत्स- लता' इति ग. ९. 'सर्वेति-' इत्यारभ्य 'ममेत्यारोपश्च' इत्यन्तः पाठ पुस्तकान्तरे नारिति.
Page 234
तृतीय: परिच्छेदः। १८७
उद्दीपनानि तच्चेष्टा विद्याशौर्यदयादयः। आलिङ्गनाङ्रसंस्पर्शशिरश्चम्बनमीक्षणम् ॥ २५२॥ पुलकानन्दवाष्पाद्या अनुभावा: प्रकीर्तिताः । संचारिणोऽनिष्टशङ्काहर्षगर्वादयो मताः ॥ २५३॥ पद्मगर्भच्छविर्वर्णो दैवतं लोकमातरः । यथा- 'येदाह धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङुलीम्। अभूच्च नम्रः प्रणिपातशिक्षया पितुर्सुदं तेन ततान सोऽर्भकः ॥।' एँतेषां च रसानां परस्परविरोधमाह- आद्यः करुणबीभत्सरौद्रवीरभयानकैः ॥ २५४ ॥ रिति। केचित् इति शेषः । अन्ये पुनरस्य भावकाव्यतमेवेच्छन्ति। तन्न। चम- तकारातिशययोगेन रसत्वस्यैव युक्तत्ातू। वत्सलता प्रेम, तत्सहितः स्न्रेहो रतिः । सा च लालनपालनादीच्छा। पुत्रादीत्यादिना भ्रात्रादिग्रहणम्। भ्रात्रालम्बनो यथा- 'देशे देशे कलत्राणि देशे देशे च बान्धवाः। तं तु देशं न पश्यामि यत्र भ्राता सहो दरः ॥' इति। अत्र श्रीरामस्य भ्रतृस्नेहस्तादृशोत्त्या अनुभावेनाखाद्यमानो रसता- मेति। केचित्तु 'सहोदरः इति सहः संग्रामसहः, अदरो निर्भयश्च' इति व्याकुर्वन्ति, तन्मते तदुभयमुद्दीपनविभावः। यदाहेति। पितुर्दिलीपस्य। स रघुः। अत्र दिलीपस्नेहस्य रघुरालम्बनम्। पादत्रयोक्ता तच्चेष्टा उद्दीपनम्। अन्येषामाक्षेपाल्लाभः। अत्र रसानां तत्तदवूर्णकथनं तत्तदेवताभिप्रायेण। आद् इति। शद्गार इत्यर्थः ।
- अन्ये इति। काव्यप्रकाशानुयायिनः । तेषामयमभिप्रायः-'यदाह धात्या-' इत्यादिषु वात्सल्यलक्षणा रतिरेव जागर्ति। न तेन वत्सलो रसोऽड्ीकरणीयः । भावत्वे- नैव गतार्थत्वात्। यदि स च रसत्वव्यपदेशमहति तदा भगवदालम्बनो रोमाश्चाधनु- भावितो हर्षादिसंचारितो भागवतादिश्रवणसमये भगवद्धक्तैः स्फुटमनुभूयमानो भक्ति- रसः कुतो न स्यात्। भगवदनुरागरूपा भक्तिश्वात्र स्थायिभावः। न चायं शान्तेऽन्तर्भ- वति। अनुरागस्य वैराग्यविरुद्धत्वात्। नन्वसावपि रसत्वव्यपदेशं लभतां का क्षतिरिति चेत्, न। अन्यथैवोपपत्तौ मुनिशासनातिक्रमेण रसानां नवत्वाधिककल्पने मानाभा- वादिति संक्षेपः ।।
१. 'तच्चेष्टोद्दीपनं प्रोक्तमनुभावास्तथा पुनः। अश्ुपातसरोमाश्चचुम्बनालिङ्गनादयः ॥ औत्सुक्यधृ तिहर्षाद्याः कथिता व्यभिचारिणः। हरिद्वर्णोपमस्तस्य दैवतं लोकमातरः ॥I' इति ग. २. क-पुस्तके तु 'यदाह-' इत्यन्तः प्राक् 'एह्मेहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरं च परिष्वजे त्वाम्। आरोऱ्य वा हृदि दिवानिशमुद्धहामि वन्देथवा चरणपुष्करकद्वयं ते ।' इति श्रोको दश्यते. , ए- तेषां च-' इत्यादि: 'उन्माद:' इत्यन्तः पाठो ग-पुस्तके नारिति.
Page 235
१८८ साहित्यदर्पणे
भयानकेन करुणेनापि हास्यो विरोधभाक् करुणो हास्यशङ्गाररसाभ्यामपि तादशः॥२५५॥ रौद्रस्तु हास्यशङ्गारभयानकरसैरपि। भयानकेन शान्तेन तथा वीररसः स्मृतः ॥२५६॥ शङ्गारवीररौद्राख्यहास्यशान्तैर्भयानकः । शान्तस्तु वीरश ङ्गाररौद्रहास्यभयानकैः॥ २५७॥ शङ्गारेण तु बीभत्स इत्याख्याता विरोधिता। आद्यः शृङ्गारः। एषां च समावेशप्रकारा वक्ष्यन्ते। कुतोऽपि कारणात्कापि स्थिरतामुपयन्नपि॥ २५८॥ उन्मादादिर्न तु स्थायी न पात्रे स्थैर्यमेति यत्। यथा विक्रमोर्वश्यां चतुर्थेडक्के पुरूरवस उन्मादः । रैसभावौ तदाभासौ भावस्य प्रशमोदयौ। संधिः शबलता चेति सर्वेऽपि रसनाद्रसाः। रेसनधर्मयोगित्वाद्भावादिष्वपि रसत्वमुपचारादित्यभिप्रायः । भावादय उच्यन्ते- संचारिण: प्रधानानि देवादिविषया रतिः ॥२६० ॥। उद्धुद्धमात्र: स्थायी च भाव इत्यभिधीयते। विरोधभाक् इत्यग्रेणान्वयः । शोकजुगुप्साभयसत्त्वेन रतेरसंभवादिति भावः । एवमग्रेऽपि। तादृश इति विरोधभाकू। स्थानत्रये 'विरोधभाक्' इत्यनेनान्वयः । ननु श्ङ्गारादावुन्मादादेरपि संभवात्कथं रत्यादिस्थायिभावत्वं नियतमित्यत आह- कुतोऽपीति। क्वापि तद्रसविशेषे। पात्रे तद्रसत्वावच्छिन्ने। इदानीं रसपदस्य मुख्यलाक्षणिकार्थभेदज्ञापनार्थमाह-रसभावाविति। रसनादानन्दसंवलितज्ञान- संबन्धादू रसा रसपदप्रतिपाद्याः। उपचारादिति । रत्यादिस्थायिभावानामभा- वेन मुख्यलक्षणायोगादिति भावः। न चात्र देवादिविषयरतिसत्त्वात्कथं स्थायिभावा- भाव इति वाच्यम्। कान्तादिविषयरतेरेव स्थायितोपपादनात्। संचारिण इति। यथा विभावादिरभिव्यक्तो रत्यादिश्चिदानन्दचमत्काररूपत्वेन परिणतो रसतामापद्यते, तथा स्वकार्यकारणाभ्यामभिव्यक्तो देवादिविषयरत्यादिश्चिदानन्दरूपतां प्राप्तो भावलं प्राप्ोति। चमत्कारसत्त्वासत्त्वाभ्यामनयोर्भेंद इति भावः। संचारिभावानां प्रधानत-
१. 'रस-' इत्यतः प्राकू 'अथ भावादीनामपि रसरूपत्वमाह-' इत्यधिकं ग-पुस्तके. २. 'तत्र रसस्वरूपमुक्तम्' इति ग. १. 'भावादीनां स्वरूपमाह' इति ग.
Page 236
तृतीयः परिच्छेदः। १८९
नैं भावहीनोडस्ति रसो न भावो रसवर्जितः । परस्परकृता सिद्धिरनयो रसभावयोः ॥' इत्युक्तदिशा परमालोचनया परमविश्रान्तिस्थानेन रसेन सहैव वर्तमाना अपि राजानुगतविवाहप्रवृत्तभृत्यवदापाततो यत्र प्राधान्येना- भिव्यक्ता व्यभिचारिणो देवमुनिगुरुनृपादिविषया च रतिरुहुद्धमात्रा विभावादिभिरपरिपुष्टतया रसरूपतामनापद्यमानाश्च स्थायिनो भावा भावशब्दवाच्याः । तत्र व्यभिचारी यथा-'एवंवादिनि देवर्षौ-' इत्यादि। अत्रावहित्था ।
मुपपादयति-न भावहीन इति। एवंवादिनीति। देवषाँ नारदे। अत्र शिवप्रसङ्गजातहर्षसूचकस्य मुखरागादेर्लजया गोपनमवहित्था। सा चाधोमुखत्वव्य- ड्नयलज्जया कारणेन लीलाकमलपत्रगणनरूपव्यापारान्तरासङ्गेन च झटिति प्रतीयत इति तस्याः प्रधानत्वम्। विभावादीनामत्यन्ततिरस्कृतत्वेन श्ृङ्गारस्याप्रधानत्वम्।
- न भावेति। भावहीनो भावासंवलितो रसो नास्ति। न भवतीत्यर्थः। यतो भावेभ्य एव सामान्यगुणयोगेन रसा निष्पद्यन्ते। तथा रसवर्जितो भावोऽपि नास्ति। तदुक्तम्-'योडथों हृदयसंवादी तस्य भावो रसोद्भवः। शरीरं व्याप्यते तेन शुष्ककाष्ठ- मिवासिना ॥' इति ॥
१. ग-पुस्तके तु "न भाव-' इत्यस्य स्थाने 'यथा मरिच- इति श्रोकोऽस्ति, ततः 'इत्युक्तदिशोद्रेकं प्राप्य रसस्य प्राधान्येऽपि राजानुगतविवाहमवृत्तभृत्यादापाततो यत्र प्राधान्येनाभिव्यक्ता व्यमिचारिण: स मावः। यथा-'जाने कोपपराखखी प्रियतमा-' (इत्यादि)। अत्र विधि प्रत्यमूयैव पाधान्येनाभिव्यक्ता चमत्कारभूमित्वात् । देवमुनिगुरुनपादिविषया रतिर्भाव एव। कान्ताविपया रतिः परिपुष्टदशाया शृङ्गारः। अपरिपुष्टे तु भावः। 'निरुपादानसंभारमभित्तावेव-' (इत्यादि)। उद्धुद्धमात्रस्थायी यथा- 'स्मरत्यगस्ति पथिकः प्रपापाल्याञ्जलि स्पृशन् । सापि स्रति वामाक्षी भजते सतवारिधीन्॥' अत्र परस्परानुरागलक्षणाया रतेरुद्वोधमात्रम्। नन्वनुभावादिमिः परिपोषः। अनौचित्यप्रवृत्तत्व आभासो रसभावयोः । तदुक्त ध्वनिकृता-'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौ- चित्यबाधस्तु रसस्योपनिषत्परा ॥' अनौचित्यं तु 'उपनायकनिष्ठत्वं तथा तूभयनिष्ठता। नीच पात्रगतत्वं च (तथा) नायकनिष्ठता।। प्रतिनायकनिष्ठत्वं तिर्यग्विपयतादिकम् ॥ एवं रतेरनौचित्यं गुर्वादौ हास्यरौ- द्रयोः। भयस्योत्तमपात्रत्वं धीरस्याधमपात्रता ॥ दैन्यादिकं चोत्तमस्य राज्ञो राजान्तरस्तुतिः। एवमा- दिष्वनौचित्यं चिन्तनीयं विचक्षणैः॥' प्रथमं यथा-'अत्ता एत्थ-' इत्यादि। द्वितीयं यथा-रावणस्य सज्ानरागवर्णनम्। तृतीयं यथा-भिल्ीरतवर्णनम्। चतुर्थ यथा-'स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे-' (इत्यादि)। पश्चमं यथा-हयग्रीववधे ह्यग्रीवस्य जलक्रीडादिवर्णनम्। तिर्यग्विषयत्वं यथा-'मधु द्विरेफ :- ' (इत्यादि)। एवमीट्प्यूह्यम्। भावाभासो यथा-राकासुधाकरमुखी तरलाय ताक्षी-' (इत्यादि)। 'भावस्य शान्तिरुदयः संघिः शवलता तथा'। क्मेणोदाहरणम्-'तस्याः सान्द्र-' इति। अत्र कोपस्य प्रशम: । 'एकस्मिळ्यने विपक्षरमणी-' (इत्यादि)। अत्रौत्सुक्याभावस्योदयः। 'उत्सि क्तस्य तपः पराक्रमनिधेरभ्यागमादेकतः-' (इत्यादि)। अत्रावेगहर्षयोः संधिः ।' इति पाठमेद
Page 237
१९० साहित्यदर्पणे
देवविषया रतिर्यथा मुकुन्दमालायाम्- 'दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम्। अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥' मुनिविषया रतिर्यथा- 'विलोकनेनैव तवामुना मुने कृतः कृतार्थोडस्मि निबार्हेतांहसा। तथापि शुश्रषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन तृप्यते।।' राजविषया रतिर्यथा मम- 'त्वद्वा जिरा जिनिर्धूतधूली पटलपङ्किलाम्। न घत्ते शिरसा गङ्गां भूरिभारभिया हरः ॥' एवमन्यत् । उहुद्धमात्रस्थायिभावो यथा- 'हरस्तु किंचित्परिवृत्तघैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥' अत्र पार्वतीविषया भगवतो रतिः । ननूक्तं प्रपाणकरसवद्विभावादीनामेकोऽत्राभासो रस इति तत्र संचा- रिणः पार्थक्याभावात्कथं प्राधान्येनाभिव्यक्तिरित्युच्यते- यथा मरिचखण्डादेरेकीभावे प्रपाणके ॥ २६१ ॥
दिवि वेति। है नरकान्तक श्रीकृष्ण। मरणेऽपीत्यपिना इदानीम्। अत्र वक्तुः श्रीकृष्णभक्तीच्छा रतिः । विलोकनेनेति। नारदं प्रति श्रीकृष्णस्योक्तिरियम्। निबर्हितांहसा विनाशितपापेन। त्वद्वाजीति। राजानं प्रति कस्यचिदुक्तिरियम्। गुरुविषया रतिर्यथा-'अस्मद्वोत्रमहत्तरः कतुभुजामद्यायमाद्यो रविर्यज्वानो वयमद्य ते भगवती भूरद राजन्वती। अद्य सं बहु मन्यते सहचरैरस्माभिराखण्डलो येनैता- वदरुन्धतीपतिरपि ख्वेनानुगृह्वाति नः ॥'अत्र दशरथस्य वसिष्ठे गुरौ रतिः । पित्रो- रपि गुरुत्वात्तद्विषया रतिर्यथा-'जीवत्सु तातपादेषु नवे दारपरिग्रहे। मातृभिश्चि- न्त्यमानानां ते हि नो दिवसा गताः ।' अन्र श्रीरामस्य पित्रो रतिः। नृपादीत्यादि- पदेन मित्रादेर्ग्रहणम्। तत्र यथा-'अद्य राज्यंसमया प्राप्तमद्य वाली हतो मया। हरीणामद्य पूज्योऽस्मि यद्भवान्मित्रतां गतः ॥' अन्र सुग्रीवस्य श्रीरामे मित्रे रतिः । 'आदिपदात्पुत्रादेरपि ग्र्हणम्' इत्यन्ये। तन्न। तद्विषयकरतेर्वत्सलरसत्वेनैव ग्रन्थ- कृता दर्शितत्वात्। हरस्त्विति। परिवृत्तेति लप्तेत्यर्थः । अत्रेति। उमामुखावलो-
Page 238
तृतीय: परिच्छेदः । १९१
उद्रेक: कस्यचित्कापि तथा संचारिणो रसे। अथ रसाभासभावाभासौ- अनौचित्यप्रवृत्तत्वे आभासो रसभावयोः ॥२६२॥ अनौचित्यं चात्र रसानां भरतादिप्रणीतलक्षणानां सामग्रीरहि- तत्वे क्वेकदेशयोगित्वोपलक्षणपरं बोध्यम। तच्च बालव्युत्पत्तये एकदे- शतो दर्श्यते- उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च। बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् ॥२६३॥ प्रतिनायकनिष्ठत्वे तद्वधमपात्रतिर्यगादिगते। शङ्गारेऽनौचित्यं, रौद्रे गुर्वादिगतकोपे॥ २६४॥
कनरूपानुभावमात्रेण व्यक्ता रतिरुद्दीपनविभावादिकृतपरिपोपराहित्येन रसतां नाप- द्यत इति भावव्यपदेश एवास्योचि इति भावः। अनौचित्येति। रसभावयोरनौ- चित्येन प्रवृत्तत्वे वर्तमानत्वे सति रसाभासो भावाभासश्वेत्यर्थः । अन्र रसानामौ- चित्यमाह-अनौचित्यमिति। अनौचित्यपदमित्यर्थः। सामग्रीरहितत्वे विभा- वादिरूपयावत्कारणासत्वे। एकदेशयोगित्वं यत्कंचिल्लक्षणसंबन्धः, तदुपलक्षणपरं तद्वोधतात्पर्यकम्। तच्च अनौचितं च। उपनायकेति। शङ्गारे 'शङ्गारे दक्षिणा- वाश्च नायका :- ' इत्युक्तम्। नायकलक्षणे 'कुलीनः' इत्यनेन सत्कुलजातत्वम्। 'शीलवान्' इत्यनेन सद्ृत्तत्वं च नायकस्य लभ्यते। 'नायकसामान्यगुणैर्भवति यथा- संभवैर्युक्ता' इत्यनेन नायिकायाश्च सदृतत्वं लभ्यते। नायकस्य निषिद्धयोषित्संगमे नायिकायाश्च निषिद्धपुरुषसंगमे सदृत्तत्वं न भवतीति तद्विषयशङ्गारस्य यथोक्तना- यकाभावादेकदेशयोगित्वम्। निषिद्धयोषित उक्ताः शद्गारतिलके-'संवन्धिमित्र- द्विजराजहीनवर्णाधिकानां प्रमदा न गम्याः । व्यङ्गास्तथा प्रव्रजिता विभिन्नमत्रराश्च धर्मार्थमनोभवजैः ॥' इति। एवं योषितामपि संवन्ध्यादयः पुरुषा निषिद्धाः । एवं च मुनिगुरुपत्नीगतायां चेति चकारेण संबन्ध्यादिपतन्यो वोध्याः। उपनायकसंस्थायामि- त्यत्र संबन्ध्याद्यन्यतम उपनायको बोध्यः। अन्यथा 'बहुनायकविषयायाम्' इति प्रतिनायकनिष्ठत्वे' इत्यनयोरुपादानं व्यर्थ स्यात्। बहुनायकेति। संबन्ध्यादिभिन्ना ऊपि बहुनायका निपिद्धा इति भावः। अनुभयनिष्ठायामिति। 'विभिन्नमत्राश्च' इजनेनान्यतरस्यां मतौ निषिद्धत्वादिति भावः। नायकस्य प्रतिपक्षः प्रतिनायकः । अस्य संबन्ध्यादिभिन्नत्वेनानिषिद्धऽपि भर्तुरनभिमताचरणेनासद्दत्तत्वं नायिकाया इति भावः। अधमपात्रेति। असत्कुलजातनायक इत्यर्थः । तिर्यगादीति । तिर्य- गादीनां नायकलक्षणाभावादिति भावः । रौद्र इत्यादौ 'अनौचित्यम्' इत्यन्वेति। 'क्रोधात्मको भवेद्राद्रः प्रतिशूरैरमर्षितः । रूक्षप्रायो भवेदत्र नायकोऽत्युग्रविग्रहः ।'
Page 239
१९२ साहित्यदर्पणे
शान्ते च हीननिष्ठे गुर्वाद्यालम्बने हासये। ब्रह्मवधाद्युत्साहेऽधमपात्रगते तथा वीरे ॥ २६५॥ उत्तमपात्रगतत्वे भयानके ज्ञेयमेवमन्यत्र। तत्र रतेरुपनायकनिष्ठत्वे यथा मम- 'सामी मुग्घतरो वनं घनमिदं बालाहमेकाकिनी क्षोणीमावृणुते तमालमलिनच्छाया तमःसंततिः। तन्मे सुन्दर मुञ्च कृष्ण सहसा वर्त्मेति गोप्या गिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः ॥' बहुनायकनिष्ठत्वे यथा- 'कान्तास्त एव भुवनत्रितयेऽपि मन्ये येषां कृते सुतनु पाण्डुरयं कपोल. ।'
इत्यनेन रौद्रे प्रतिशूरजनितकोधः । न तु गुर्वादिजनितक्रोधो नायक इति भावः। हीननिष्ठे रागादिहीनविषये। 'गतेच्छो नायकस्तत्र तमोरागपरिक्षयात्' इत्युक्त- नायकवैपरीत्यादनौचित्यमिति भावः। ब्रह्मवधादीति। ब्रह्मवधादीनां वेदविरुद्धाना- माचरणतया नायकत्वं न संभवतीत्यर्थः । अधमपात्रगत इति। 'उत्साहात्मा भवेद्वीरो दयादानादिपूर्वकः । त्रिविधो नायकस्तत्र जायते सत्त्वसंकुलः॥ गाम्भीयौं- दार्यशौटीर्यधैर्यवीर्यादिभूषितः । आवर्जितजनो यश्च विरूढप्रौढविक्रमः ॥' इत्यु- कगुणहीननायकगत इत्यर्थः । उत्तमेति। 'बालस्त्रीनीचनायकः' इत्यनेन बाला- दिनायकत्वमेव भयानकस्योचितम्। एवमन्यत्रेति। अदैवहृतपात्रगते करुणे, तत्त्वज्ञानपात्रगते बीभत्से, विशेषदर्शितपात्रगते आश्चर्ये, अपकार्यालम्बने वत्सले- Sनौचित्यं बोध्यमित्यर्थः । स्वामीति। मुग्धतरोऽतिमूढः विलम्बे प्रहारादिकं करोति, अथ चात्यन्तसुरतानभिज्ञः। घनमित्यनेन भयदलम्, निबिडतया जनदर्शना- भावेन सुरतयोग्यस्थानतं च सूचितम्। एकाकिनीत्यादिना गमने भयम्, स्वच्छन्दं रमखवेति च सूचितम्। सुन्दरेति पथि परित्यागाय स्तवः, अथ च खप्रियत्वं सूचितम् । अन्न श्रीकृष्णस्य संबन्धित्वेन गोप्यास्तदनुरागोऽनुचित इति भावः। 'सामी निः- श्वसितेऽप्यसूयति-' इत्यादि परनायिकोदाहरणं तु न शरङ्गाराभासः। तथात्वे
- एवमिति। एवं जातिदेशकालवर्णाश्रमवयोवस्थाप्रकृतिव्यवहारादेरप्यनौचित्यं परि- हरणीयभ् ।। 2. तमालेति। तमालवन्मलिना कृष्णा छाया कान्तिर्यस्याः सा॥ 3. पाण्डुरिति। इह कपोलपाण्डिमवर्णनेनानुरागो दर्शितः । स च बडुनायकविषय- त्वादनुचित: ।।
Page 240
तृतीय: परिच्छेदः । १९३
अनुभयनिष्ठत्वे यथा-मालतीमाधवे नन्दनस्य मालत्याम्। 'पश्चादुभयनिष्ठत्वेऽपि प्रथममेकनिष्ठत्वे रतेराभासत्वम्' इति श्रीम- लोचनकाराः । तत्रोदाहरणं यथा-रलावल्यां सागरिकाया अन्योन्यसंदर्शनात्प्रा- ग्वत्सराजे रतिः । प्रतिनायकनिष्ठत्वे यथा-हैयग्रीववधे हृयग्रीवस्य जलक्रीडावर्णने। अधमपात्रगतत्वे यथा- 'जघनस्थलनद्धपत्रवल्ली गिरिमल्लीकुसुमानि कापि भिल्ली। अवचित्य गिरौ पुरो निषण्णा सवकचानुत्कचयांचकार भर्त्रा ।।' तिर्यगादिगतत्वे यथा- 'मैलीमतल्लीषु वनान्तरेषु वल्यन्तरे वल्लभमाह्वयन्ती। चञ्चद्विपञ्चीकलनादभङ्गीसंगीतमङ्गीकुरुते स्म भृङ्गी ।।' आदिशब्दात्तापसादयः । रौद्राभासो यथा- 'रक्तोत्फुल्ल विशाललोलनयनः कम्पोत्तराङ्गो मुहु- र्मुक्त्वा कर्णमपेतभीर्धृतधनुर्बाणो हरे: पश्यतः । आध्मातः कटुकोक्तिभिः खमसकृद्दोर्विक्रमं कीर्तय- न्नंसास्फोटपटुर्युधिष्ठिरमसौ हन्तुं प्रविष्टोऽर्जुनः ।।' भङ्गारे परनायकोदाहरणमनर्थकं स्यादिति ध्येयम्। जघनेति। गिरिमलीकुसुमानि कुटजपुष्पाणि। उत्कचयांचकार बन्धयामास। मल्लीति । मल्ीभिः प्रशस्तेषु वनान्तरेषु वनमध्येषु। वह्यन्तरे स्वािष्ठितलताभिन्नलतायां वर्तमानम्। सुरता- र्थमाह्वयन्ती। चश्चत्। प्रवाहवन्निरवच्छिन्नं विपच्चीकलनादभङ्गया वीणासूक्ष्ममधुरनाद- सादृश्येन विशिष्टं यत्संगीतं तदङ्गीकुरुते स्म स्मरोद्दीपनोपकरणं कुरुते स्म। आदिशव्दात् 'तिर्यगादिगतत्वे' इत्यत्रादिपदात्। रक्तोत्फुल्लेति। कर्णे सूतपुत्रं प्रतिशूरम्। 'हरेः' इत्यनादरे षष्ठी। पश्यन्तं कृष्णमनादृत्येत्यर्थः । आध्मातो दग्घः । 'कटुकोक्तिभिः' इत्यत्र 'अनलैः' इति रूपकं व्यक्ष्यम्। सं स्वकीयं स्कन्वस्य करे- णाघातोंऽसास्फोटस्तत्र पटुः। तत्कारीत्यर्थः । अत्र ज्येष्ठभ्रातरि गुरौ क्रोधोऽनुचितः। 1. हयग्रीवेति। हयग्रीवाख्यो दैत्यो विष्णुना हृत इति कथाश्रिते काश्मीरकभर्तृ- मेण्ठप्रणीते महाकाव्ये।। 2. मल्लीति। वनान्तरेषु मीमतल्लीपु। प्रशस्तमल्लीष्वित्यर्थः । विद्यमाना भृङ्गी चह्यन्तर विध्मानं वल्लभं भृङ्गमाह्वयन्ती सतीति योजना रमणीया। सा० द० १७
Page 241
१९४ साहित्यदर्पणे
भयानकाभासो यथा- 'अशक्कुवन्सोदुमधीरलोचनः सहस्त्ररश्मेरिव यस्य दर्शनम्। प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ॥' स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः । एवमन्यत्र । भावाभासो लज्जादिके तु वेश्यादिविषये स्ात् ॥ २२६ ॥ स्पष्टम्। भावस्य शान्तावुदये संधिमिश्रितयोः क्रमात्। भावस्य शान्तिरुदयः संधिः शबलता मता॥ २२७ ॥ अशक्ुवन्निति । यस्य रावणस्य। कौशिक इन्द्रः पेचकश्च। अन्नानौचित्यं दर्श- यति-स्त्रीति। भावाभास इति प्रथमादिपदेन चिन्तादीनां द्वितीयादिपदेनान- नुरागिण्यादीनां ग्रहणम्। यथा-'राकासुधाकरमुखी तरलायताक्षी सा स्मेरयवन- तरद्वितविभ्रमाङ्गी। तर्तिक करोमि विदधे कथमत्र मैत्रीं तत्स्वीकृतिव्यतिकरे क इवा- भयुपायः ॥' अत्र नायिकायाः स्वीकारोपायचिन्तयानुरागाभावो व्यज्यते। अत्र चिन्ता अनुचिता। एवं नृपादिविषयरतेः शात्रवादिविषयत्वेऽप्यनौचित्यम्। भाव- शान्त्यादिमाह-भावस्येति। एतत्सप्तम्यन्तपदेनान्वेति। भावस्य व्यभिचारिणः । शान्त्यादावासादये सति भावशान्त्यादिनामकाव्यात्मा भवतीत्यर्थः । शान्तिर्विरुद्ध- सामग्रीबलात्प्रशमावस्था। उदयः खसामग्रीमाहात्म्येनोद्रमावस्था। संधिरुभयसामग्री- योगेन परस्परविमर्दः । स च परस्परविमर्दयोरेकनाशे चान्योत्पत्तिरित्येवंरूपः । केचित्तु-'विरुद्धयोरेकस्मिन्नेकदैवावच्छेदकभेदेन स्थितिः संधिः' इत्याहुः। तन्न। वक्ष्यमाणोदाहरणासंगतिप्रसङ्गात्तत्रावच्छेदकानुपपत्तेः । अनुपस्थितस्यापि लक्षणादे- सवच्छेदकत्वं कल्प्यमिति चेत्, एकदेत्यसंगतेः । मिश्रितं मिश्रणं तच्च पूर्वपूर्वस्य बाध्यत्वेन उत्तरोत्तरस्य बाधकत्वेनैकत्र काव्ये निबन्धनम्। बाध्यत्वं च विरोधि- 1. भावस्येति। भावस्य शान्तिर्नाशः। स चोत्पत्तिकालावच्छिन्न एव। उदय उत्पत्तिः। संधिरन्योन्यानभिभूतयोरन्योन्याभिभावनयोग्ययोः सामानाधिकरण्यम्, तच्च एकदेशवृत्तित्वविशिष्टैककालवृत्तित्वरूपम्। शबलता बाध्यबाधकभावापन्ना ना मुदासी ना ना वा भावानां व्यामिश्रणम्। एकचमत्कृतिजनकज्ञानगोचरत्वमिति यावत्। इति रसग- ङ्ाधरकृतः । 2. राकेति। सीतामुद्दिश्य रावणस्योक्ति: । सा सीता 'अस्ति' इति शेषः । तत् तस्माद् अनुपेक्षणीयगुणत्वात् कि करोमि तल्ाभाय किमाचरामि। तया सह मैत्री क्रियतां तत्राह-विद्धे कथमिति। अत्र सीताविपये मैत्रीं कर्थ केनोपायेन विदधे करोमि। मैत्री- करणे न कश्चिदुपाय इत्यर्थः । एवं सति तया मम स्वीकृतिर्ममायमिति बुद्धिविषयीकरणं तस्य व्यतिकरे संबन्धे अभ्युपायो हेतुः क इव। अत्र इवशब्दः संभावनायाम्। इह चिन्ता- ख्यव्यभिचारिभावस्याननुरक्तनायिकाविषयतया आभासत्वमिति भावाभासोदाहरणत्वम्।।
Page 242
तृतीयः परिच्छेदः । १९५
क्रमेण यथा- 'सुतनु जहिहि कोपं पश्य पादानतं मां न खलु तव कदाचित्कोप एवंविधोऽभूत् । इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्ततं न किंचित् ।।' अत्र बाप्पमोचनेनेर्ष्याख्यसंचारिभावस्य शमः। 'चरणपतनप्रत्याख्यानात्मसाद पराडयुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते। व्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता॥ अत्र विषादस्योदयः । 'नयनयुगासेचनकं मानसवृत्त्यापि दुष्प्रापन् । रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ।।' सामग्रीस्थगितपरिपुष्टिकत्वम्। बाधकत्वं च विरोधि। अस्मिन्मते दन्त्यवान् सबल- शब्दः । बलपरिपुष्टिप्रतिवन्धकत्वम्। भावशान्तावेकस्यैव नाशः । उदये एकस्यै० वोत्पत्तिः। संधौ द्वयोरेव मुहुर्विनाशोत्पत्ती। शबलतायां बहूनां विनाशोत्पत्ती। इति विशेष:। केचित्तु-'भावानामुत्तरोत्तरबलवत्त्वं शबलता, बलवत्तत्समूहो वा' इत्याहुः। तन्न। वक्ष्यमाणोदाहरणे हि द्वयोद्वयोभवियोरुत्तरस्यैव बलवत्त्वं न तु यावतामुत्तरेषाम्। भावशान्तिमुदाहरति-सुतन्विति। अनल्पं बहुतरम्। 'प्रशम इति व्यज्यते' इति शेषः । अन्र पादपतनरूपप्रसादसामय्या ईर्ष्यायाः प्रशमः खदते। भावोदयमाह-चरणपतनेति। चरणपतनस्य प्रत्याख्यानाच्चरणक्षेपा- दिना निराकरणात्। पराखुखे प्रसादरूपफलविमुखे। परुषीकते स्नेहहीने कृते। स्तनस्थितहस्तयेति। स्तनमध्ये हस्तनिवेशनेन हृदय मा सफुटेति हृदयाश्वास इति भावः। अत्र नायकप्रत्याख्यानरूपसामयर्या विषादः खदते। भावसंधिमाह- नयनेति। नयनयुगस्यासेचनकमतितृप्तिजनकम्। 'तदासेचनकं तृप्तर्नास्तन्तो यस्य दर्शनात्' इत्यमरः । मदिरः खञ्जनः । मदयति आनन्दयति। दुनोति संतापयति। अत्रैकस्यैव कामिनीरूपस्यात्युत्कृष्टत्वेन आनन्दस्योपभोगाप्रयोजकत्वेन विषादस्य ज- 1. तिर्यगिति। तिर्यक यथा स्यात्तथा आमीलिते अक्षिणी यया तथाभूतया ॥ 2. निभृतेति। निभृतकितवाचार सहसानुपलक्षितविटाचरणेति तदर्थः ॥ 3. मदिर इति। मदिरा दृष्टिविशेष इत्युचितम्। तदुक्तं संगीतकलिकायाम्-'सौ- ष्ठवेन परित्यक्ता स्मेरापाङ्गमनोहरा। वेपमानान्तरा दृष्टिर्मंदिरा परिकीतिता ॥' इति। हरविजयटीकायामप्युक्तम्-'आघूर्णमानमध्या या क्षामा चाञ्चिततारका। दृष्टिर्विकसि-
Page 243
१९६ साहित्यदर्पणे
अत्र हर्षविषादयोः संधिः । 'क्वाकार्य, शशलक्ष्मणः क च कुलं, भूयोऽपि® द्ृश्येत सा, दोषाणां प्रशमाय मे श्रुतमहो, कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतधियः, सम्ेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि, कः खलु युवा धन्योऽधरं पास्यति ॥' अत्र वितर्कौत्सुक्यमति विस्मरणशक्कादैन्यधृतिचिन्तानां शबलता।। इति साहित्यदर्पणे रसादिरूपणो नाम तृतीयः परिच्छेदः।
नकतवम्। अत्युत्कृष्टत्वज्ञानकाले आनन्द उपभोगाप्रयोजकत्वज्ञानकाले विषादः । विरुद्धयोरपि तयोरेकस्मिन्समावेशः काललाघवेन संसर्गप्रतिभासः । भावशबलता- माह-क्काकार्यमिति। उर्वशीविरहात्खमरणमुपक्रम्य पश्चान्निवर्तमानस्य पुरूरवस उक्तिरियम्। अकार्य स्त्रिया सह मरणम्। शशलक्ष्मणश्रन्द्रस्य। सा उर्वशी। मे मम श्रुतमधीतम् । मुखमिति तस्या इति शेषः । धास्यति पास्यति। कुलमित्यन्तेन चन्द्र -* कुले स्त्रीविरहादात्महननमकार्यमित्येवंरूप विचाररूपो वितर्कः। सेत्यन्तेनौत्सुक्यम्। श्रुतमित्यन्तेन सर्वथा तदनुरागो दोषायैवेत्यर्थनिर्धारणरूपा मतिः । मुखमित्यन्तेन मुखस्य कमनीयतस्मरणम्। कृतधिय इत्यन्तेन शङ्का। दुर्लभेत्यन्तेन खवानौजस्यरूपं दैन्यम्। उपैहीत्यन्तेन धृतिः । धास्यतीत्यन्तेन चिन्ता व्यङ्ग्या। अत्र द्वयोरद्वयोर्भा- वस्य पूर्वस्य प्रशमाङ्गस्य बाध्यतम्। उत्तरस्य विप्रलम्भाङ्गस्य बाधकत्वम्। चिन्तायां विश्रान्तेस्तदङ्गकस्य विप्रलम्भशङ्गारस्य शान्तापेक्षया परिपोषः तस्याप्यन्तरान्तरा प्रशमोदयादेकान्तमभिलाषस्य नास्ाद्यतमिति खण्डरसत्मित्यवधेयम्। उभयाङ्गस्य भावसमूहस्य बाध्यबावकभावो मुख्यलेनासाद्यत इति भावशबलताया एव प्रधा- नत्वमिति॥ इति श्रीरामचरणतर्कवागीशभट्टाचार्यविरचितायां साहित्य दर्पणविद्ृतौ तृतीयः प्रकाशः । तापाङ्गा मदिरा तरुणे मदे ॥' इति। तद्युक्तते अक्षिणी यस्यास्तस्या इत्येवं व्याख्येयम् पतेन 'मदिराक्षि मदाननार्पितम्-' इति रघुवंशश्रोकव्याख्याने माद्यत्यनयेति मदिरा लोकप्रसिद्धा। तथापि 'नायों मदिरलोचनाः' इत्यादि प्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे अक्षिणी यस्या इति वदन्मलिनाथः प्रत्युक्तः ॥ 1. क्वाकार्यमिति। इह कदयेन सहानवस्थानप्रतिपादनेनात्यन्तानौचित्यं प्रकाश्यते।। 2. अपीति । अपिना संभावनोत्कटता द्योत्यते॥ 3. मे इति। आकरे 'नः' इत्येव पाठो दृश्यते, स एव ज्यायान्। बहुवचनेन स्वोत्क- भलाभात्।। 4 कृतधिय इति। कृते सदाचारे, अथवा कृते महात्मभिराचरिते पुण्यकर्मणि धीर्येषां ते॥
Page 244
चतुर्थः परिच्छेदः । १९७
चतुर्थ: परिच्छेदः। अथ काव्यभेदमाह- काव्यं ध्वनिर्गुणीभूतव्यङ्गं चेति द्विधा मतम्। तत्र वाच्यातिशयिनि व्यड्गे ध्वनिस्तत्काव्यमुत्तमम्॥१॥ काव्यस्वरूपं निरूप्य विभागमाह-काव्यमिति। व्यक्ष्य इति सतीत्यर्थः ।
ध्वनिपदस्य निरुक्तरूढिसापेक्षलान्न तत्र व्यवहारः । वस्तुतस्तु ध्व्रन्यत इति ध्वनी रसादिः । ध्वनतीति ध्वनिः शब्दादिगता शक्तिः । व्वननं व्वनी रसादिप्रतीतिः ।
- वाच्येति। वाच्याद् अभिधावृत्तिप्रतिपाद्याद् अर्थाद् व्यङ्गे व्यञ्जनावृत्तिप्रतिपा- द्येडयें अतिशयिनि अधिकचमत्कारजनके सति उत्तमं काव्यम्। तद् ध्वनिः। 'उच्यते' इति शेपः । तदुक्तं राजानकानन्दवर्धनाचायै :- प्रथमे हि विद्वांसो वैयाकरणाः । व्याकरणमूलत्वात्सर्वविद्यानाम् । तेच श्रूयमाणेपु वणेपु ध्वनिरिति व्यवहरन्ति' इति। 'श्रोत्रशष्कुली संतानेनागताः अन्त्याः शब्दाः श्रूयन्त' इति प्रक्रियायां शब्दाः श्रूयमाणा इत्युक्तम्। तेषां घण्टानुरणनरूपत्वं तावदस्ति। ते च ध्वनिशब्देनोक्ताः । यदाह भग- वान्भर्तृहरि :- 'यः संयोगवियोगाभ्यां करणैरुपजायते। स स्फोटः शब्दजः शब्दो ध्व- निरित्युच्यते बुधैः ॥' एवं घण्टादिनिर्ह्वादस्थानीयोऽनुरणनात्मोपलक्षितो व्यड्योऽप्यर्थों ध्वनिरिति व्यवहृतः । इत्येष प्रकारोऽव्यक्तशब्दानामेव वर्तते। व्यक्तशब्दानां तथा श्रय- माणा ये वर्णा नादशब्दवाच्या अन्त्यबुद्धिनिर्य्राह्याः स्फोटाभिव्यअ्जकास्ते ध्वनिशब्देनोक्ताः। यदाह भगवान्स एव-'प्रत्ययैरनुपाख्येयैर््रहणानुग्रहैस्तथा। ध्वनिप्रकाशिते शब्दे स्व- रूपमवधार्यते ।' इति। तेन व्यञ्जकौ शब्दार्थावपीह ध्वनिशब्देनोक्तौ। किंच वर्णेपु तावन्मात्रपरिमाणेष्वपि सत्सु। यथोक्तम्-'अल्पीयसापि यतेन शब्दमुच्चारितं मतिः । यदि या नैव गृहाति वर्ण वा सकलं स्फुटम्॥' इति। तेषु तावत्सवेपु श्रूयमाणेषु वक्तुयोऽन्यो द्रुतविलम्बितादिवृत्तिभेदात्मा प्रसिद्धादुच्चारणादिव्यापारादभिव्यक्त: स ध्वनिरुक्तः । यदाह स एव-'शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदास्तु वैकृताः । ध्वनयः समुपोहन्ते स्फोटात्मा लैव भिद्यते ।।' इति व्याचख्युराचार्याभिनवगुप्तपादाः । अयं निष्कर्षः-पटादिभिवर्ण-
१. 'ध्वन्यतेऽस्मिन्निति शब्दार्थसमुदाय इत्यर्थः । अत्र सतम्यर्थो वृत्तित्वम्। तच्च व्यञ्जनाजन्यबो- धरूपस्य ध्वननपदार्थस्यैकदेशे व्यञ्षनायामन्वेति। तथा च यद्टत्तिव्यञ्जनाजन्यबोधविषयो रसादिः॥ ध्वनिरित्यर्थः । वस्तुतस्तु-धत्रनति व्यञ्ञनया रसादीन्प्रत्याययतीति ध्वनिः शब्दार्थसमुदाय इत्यर्थः । एवं ध्वन्यतेSसाविति व्युत्पत्या रसादिरपि। एवं ध्वननं ध्वनिरिति व्यक्ञनाजन्यवोधोऽपि। एवं ध्वन्यते- इनयेति व्युत्पत्या व्यञ्जनापि व्वनिरित्यवधेयम्। वस्त्वलंकारध्वन्योः काव्यघटकत्वाभावेऽपि काव्यो- त्कर्तया तद्यञ्जकशव्द्रार्थयोर्ध्वनित्वमवगन्तव्यम्। अन्यथा वक्ष्यमाणध्वनिकाव्यप्रकारसंख्यानुपपत्तेः। गुणीभूतव्यन्नथेऽप्युक्तव्युत्पत्तिसंभवेऽपि ध्वनिपदस्य निरुक्तरूढिसापेक्षत्वान्न तत्र व्यवहारः ।' इति का" चित्क: पाठ:
Page 245
९८ साहित्य दर्पणे
वाच्यादघिकचमत्कारिणि व्यङ्गयार्थे ध्वन्यतेऽस्मिन्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम्। भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ। अविवक्षितवाच्योऽन्यो विर्वक्षितान्यपरवाच्यक् ॥२॥ तेत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः। लक्षणामूलत्वादे- वात्र वाच्यमविवक्षितं बाधितस्वरूपम्। विवक्षितान्यपरवाच्यस्त्व- भिधामूलः । अत एवात्र वाच्यं विवक्षितम् । अन्यपरं व्यङ्ञयनिष्ठम्। अत्र हि वाच्योऽर्थः स्वरूपं प्रकाशयन्नेव व्यङ्गचार्थस्य प्रका- शकः । यथा-प्रदीपो घटस्य / अभिधामूलस्य बहुविषयतया पश्चा- न्निर्देशः ।
इति व्युत्पत्तिभेदाद् ध्वनिपदार्थभेदो बोध्यः । काव्यात्मभूतस्य ध्वनेर्मेदेनैव ध्वनि- काव्यप्रभेदानाह-भेदाविति। इह यद्यपि वस्तलंकारध्वनीनां काव्यात्मत्वं नाङ्गी- कृतं तथापि रसादिप्रकर्षकत्वेनैव तेषां काव्यात्मत्वमित्यभिप्रायेण तत्साधारणं ध्वनि- प्रभेदनिरूपणं प्रक्रमत इति भावः। लक्षणाभिधामूलाविति। लक्षणामूलोडभि- धामूलश्चेत्यर्थः । तयोः परिचायकावाह-अविवक्षितेति। 'आद्यः' इति शेषः। अन्योऽभिधामूलः । अभिधामूल इति ध्वनिरित्यनुषज्यते। अत एव अभिधामूल- लादेव। वाच्यार्थस्य व्यक्च्यपरत्वमुपपादयति-अत्र हीति। वाच्यार्थस्य खोप- स्थितिद्वारा शाब्दबोधं प्रति कारणतमित्यभिन्नायेणेदम्। पश्चान्निर्देश इति। तथा च लक्षणामूलध्वनेरल्पविषयत्वात्सूचीकटाहन्यायेन प्रथमं निर्देश इति भावः ।
समुदायरूपैः क्षणिकैः पदैः स्फोटरूपो नित्यः शब्दो व्यज्यते, तेन चाभिव्यक्तेनार्थ: प्रतीयत इति तादृशस्य प्रधानीभूतस्फोटव्यअ्जकस्य वर्णसमुदायरूपस्य पटादिशब्दस्य ध्वनिरिति संज्ञेति वैयाकरणानां सिद्धान्तसरणिः । ततस्तन्मतानुसारिभिरन्यैः प्रधानी- भूतव्यञ्ञ्यव्यअ्जकत्वसाधर्म्याद्गुणीभूतवाच्यं यद्यङ्गयं तद्यज्ञनक्षमस्य शब्दार्थयुगलरूपस्यो- त्तमकाव्यस्य ध्वनिरिति संज्ञा विहिता। तदुक्तं ध्वनिकारै :- 'यत्रार्थः शब्दो वा तमर्थ- मुपसजनीकृतस्वाथों। व्यङ्ग: काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥' इति ॥ 1. अविवक्षितेति। अविवक्षितमनुपयुक्तमन्वयायोग्यं वा वाच्यं वाच्योर्डर्यो य स्मिन् सः ॥ 2. विवक्षितेति। विवक्षितं वाच्यतावच्छेदकरूपेणान्वयबोधविषयः । अन्यपरं व्यड्गयो- पसर्जनीभूतं च वाच्यं वाच्योऽ्थो यत्र तादृशः ॥
१. 'वाच्यात्-' इति फक्किका नास्ति ग-पुस्तके. २. 'तत्र-' इत्यादि: '-पश्चान्निर्देशः ।' इत्यन्तः पाठो ग-पुस्तके नास्नि. ३. 'काव्य-' इत्यादि: 'इति भावः' इत्यन्तः पाठः पुस्तकान्तरे नास्ति.
Page 246
चतुर्थः परिच्छेदः। १९९
अविवक्षितवाच्यस्य भेदावाह- अर्थान्तरं संक्मिते वाच्येऽन्त्यन्तं तिरस्कृते। अविवक्षितवाच्योऽपि व्वनिर्द्वैविध्यमृच्छति॥२॥। अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृत- वाच्यश्चेति द्विविधः। यत्र स्वयमनुपयुज्यमानो मुख्योऽर्थः सविशेषरू- पेऽर्थान्तरे परिणमति तत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसंक्रमित-
यथा- 'कदली कदली करभः करभः करिराजकरः करिराजकरः । भुवनत्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदशः ।।' अत्र द्वितीयकदल्यादिशब्दाः पौनरुत्तयमिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादिगुणविशिष्टकदत्यादिरूपमर्थ बोधयन्ति। जाड्याद्यतिशयश्च व्यङ्गचः ।
अविवक्षितवाच्यस्येति ध्वनेरिति शेपः । यत्रेति। 'प्रकृतान्वये' इति शेषः। स्यं मुख्यतावच्छेदकरूपेण स्वविशेपरूपे स्वकीयमुख्यतावच्छेदकरूपेण स्वविशेषरूपे स- कीयमुख्यतावच्छेदकव्याप्यधर्मे परिणमति विशेष्यतया भासते। अर्थान्तरे सं- कमितत्ाद् विशेष्यतया भासमानत्वात्। एतेन मुख्यार्थस्य मुख्यतावच्छेदकरूपेण प्रकृतान्वयानुपयोगित्वं बाधस्तस्यैव विशेषणान्तररूपेण बोध इतीयमुपादानलक्षणेति सूचितम्। कदलीति। 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः । चमू- रुर्मृगविशेषः । जाड्यादीति। जाड्यं शैत्यम्। यद्यपि शैवयं पयस्येव तथापि तस्य परम्परया कदलीवृत्तितवमवगन्तव्यम्। आदिना हृस्वत्वकर्कशत्वयोर्ग्रहणम्। नच शैत्यादीनामन्यत्रापि सत्त्वात्कथं कदलीत्यादिव्याप्यत्वमिति वाच्यम्। शैत्यादि- विशेषस्यैवात्र विवक्षितत्वातू। जाड्याद्यतिशयश्चेति। व्यङ्गयो लक्षणप्रयोजन- बोधविषयः । सर्वत्रैव मुख्यार्थस्याभेद: संबन्धः । एवं च कदल्यतिशीता करभो- Sतिहत्व: करिराजकरोऽतिकर्कश इति हेतोश्चमूरद्दश इदमीद्ृशमूरुयुगं भुवनत्रित- येऽपि तुलां सादृश्यं न बिभर्तात्यर्थः । घटादौ सर्वथा सादृश्यं न संभवति। यत्र तु कदल्यादौ सादृश्यं संभाव्यते तदतिशैत्यादिनापकष्टत्वमिति सुतरां भुवनत्रितये तुला 1. अर्थान्तरेति। अर्थान्तरे उपयोगिनि लक्ष्यतावच्छेदके संक्रमितमाश्रयत्वेन परिणतं वाच्यं यत्र तादृशः। 2. अत्यन्तेति । अत्यन्ततिरस्कृतं न केनापि रूपेणान्वयप्रविष्टं वाच्यं यत्र तादृशः।। १. 'अविवक्षित-' इत्यादिः '-तिरस्कृतत्वाज्जहृत्खार्था।' इत्यन्तः पाठो ग-पुस्तके नास्ति.
Page 247
२०० साहित्यदर्पणे.
यत्र पुनः सार्थ सर्वथा परित्यजन्नर्थान्तरे परिणमति तत्र मुख्यार्थ- स्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् । यथा- 'निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।' अत्रान्धशब्दो मुख्यार्थे बाधितेऽप्रकाशरूपमर्थ बोधयति। अप्रका- शातिशयश्च व्यङ्गयः। अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावाभावा- न्नार्थान्तरसंक्रमितवाच्यत्वम्। यथा- 'भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ देण। गोलाणइकच्छकुडङ्गवासिणा दरिअसीहेण॥' अत्र 'भ्रम धार्मिक-' इत्यतो भ्रमणस्य विधिः प्रकृतेऽनुपयुज्यमा- नतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्का न कार्या। यत्र खल विधिनिषेधावुत्पत्स्यमानावेव निषेधविध्योः पर्यवस्यतस्तन्रैव तद- नास्तीति भावः । अन्र व्यतिरेकालंकारो व्यङ्गयः। यत्र पुनरिति शब्द इति शेषः । सर्वथेति। मुख्यतावच्छेदकस्यैव त्यागो नतु मुख्यस्य, अत्र तूभयोरिति भावः । अर्थान्तरे मुख्यार्थभिन्ने परिणमति लक्षणया वर्तते। अत्यन्ततिरस्कृतत्वात् सर्वथा चाध्यत्वात्। निःश्वासान्ध इति। निःश्वासेनान्धोSप्रकाश आदर्शो दर्पण इवे- त्यर्थः । मुख्यार्थे दृष्टिहीनरूपे प्रकाशश्चाकचक्यं तद्रहितः । अत्र चाक्षुषज्ञानाजन- कत्वरूपैक्कधर्मवत्त्वं मुख्यलक्ष्ययोः संबन्धः । सामान्यविशेषाभावादिति। मुख्यार्थतावच्छेदकलक्ष्यतावच्छेदकयोः सामान्यविशेषाभाव एवार्थान्तरसंक्रमितवा- च्यत्वं भवति। यथा-'त्वामस्मि वच्मि-इत्यादौ। नच 'यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा। अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति ।' इत्यादौ काव्यप्रकाशकारदत्तोदाहरणे मित्रलादीनां मुख्यतावच्छेदकानां लक्ष्यतावच्छेदकैराश्ष- स्ततवनियन्रणीयत्वस्नेहपात्रलैः सह सामान्यविशेषभावाभावात्कथमुक्तनियम इति वाच्यम्। आश्वस्तत्वादिविशेषस्यैवान्न विवक्षितलात्। ननु 'भम धम्मिअ-' इत्यादौ विपरीतलक्षणासत्त्वे नात्यन्ततिरस्कृतवाच्यध्वनेरिदमुदाहरणं भवितुमर्हतीति विप्रति- पद्यमानं प्रत्याह-भम धम्मिअ इति। 'भ्रम धार्मिक विश्वस्तः स श्वाद् मारि- तस्तेन। गोदावरीकच्छकुञ्जवासिना दप्तसिंहेन ॥' इति संस्कृतम् । आश्रमस्थायाः कुलटाया गोदावरीकुञ्जरूपे संकेतस्थाने प्रत्यहं पुष्पावचयेन कृतसंकेतभङ्कं खप्रेरि- तकुक्कुरोपद्रवेणाप्यनिवृत्तं धार्मिकं प्रति तस्या एव दिनान्तरे उक्तिरियम्। गोदा- 1. निःश्वासेति। हेमन्तवर्णने पञ्चव्यां रामस्योक्तिरियम्। एतत्पूर्वार्धस्तु-'रवि- संक्ान्तसौभाग्यस्तुषारावृतमण्डलः ।' इति ॥
Page 248
चतुर्थः परिच्छेदः । २०१
वसरः। यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषेधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव। तदुक्तम्- 'कचिद्वाध्यतया ख्यातिः कचित्ख्यातस्य बाधनम् । पूर्वत्र लक्षणैव स्यादुत्तरत्रािधैव तु।।' अत्राद्े मुख्यार्थस्यार्थान्तरे संक्रमणं प्रवेशः, न तु तिरोभावः । अत एवात्राजहत्सार्था लक्षणा। द्वितीये तु सार्थस्यान्त्यन्तं तिरस्कृत- त्वाज्जहत्खार्था। विवक्षिताभिधयोऽपि द्विभेद: प्रथमं मतः । असंलक्ष्यक्रमो यत्र व्यङ््यो लैक्ष्यक्रमस्तथा ॥४॥ विवक्षितान्यपरवाच्योऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्गयः संलक्ष्यक्रम- व्यङ्गयश्चेति द्विविधः । तत्राद्यो रसभावादिरेक एवात्र गण्यते। एकोऽपि भेदोऽनन्तत्वात्संख्येयस्तस्य नैव यत् ॥५॥ वरी। यो दिनान्तरे लामुद्वेजयति स श्वा गोदावरीतीरनिकुञ्जवासिना दप्तसि- हेन मारित इत्यन्वयः। प्रकृते तात्पर्यविषयीभूतखैरविहारे उत्पत्स्यमानौ उत्पत्स्यमा- नान्वयबोधौ। अन्वयबोधात्प्रागित्यर्थः । तदवसरो विपरीतलक्षणावसरः। एवं चात्र लक्षणामूलध्वनेरवसरो नास्तीत्यर्थः । ध्वनित्वमभिधामूलध्वनितम्। बाध्यतया वि- परीतार्थे पर्यवसन्नतया ख्यातिरन्वयबोधः। ख्यातस्यान्वयबोधविषयीभूतस्य बाधनं बाधोदयाद्विपरीतार्थपर्यंवसानम्। लक्षणा लक्षणामूलो ध्वनिः। अभिधा अभिधामूलो ध्वनिः । अत्र लक्षणामूलध्वनौ आद्येऽर्थान्तरसंक्रमितवाच्ये। द्वितीयेऽत्यन्ततिरस्कृ- तवाच्ये जहत्सार्था लक्षणेत्यनुषज्यते। प्रथममिति। पश्चादस्यापरे भेदा वक्तव्या इति भावः । यत्र ध्वनौ। लक्ष्यक्रम इति। व्यङ्ञ्य इत्यन्वयः । आद्योऽसंलक्ष्यक्र- मव्यज्कयः । आदिना रसाभासादिग्रहणम्। एकप्रकारत्वे हेतुमाह-एकोऽपीति।
- असंलक्ष्येति। सम्यड् न लक्षयितुं शक्यः क्रमः पौर्वापर्य यस्य तादृशो व्यड्यो यस्मिन्सः । स्फुटे प्रकरणे झटिति प्रतीतेपु विभावानुभावव्यभिचारिषु सहृदयधुरीणेन प्रमात्रा सूक्ष्मेणैव कालेन प्रतीयत इति हेतुहेतुमतो: पौवीपर्यक्रमस्यासंलक्षणादसंलक्ष्यक्रमो व्यपदिश्यते। यत्र तु विचारवेद्यं प्रकरणम्, उन्नेया वा विभावादयस्तत्र सामग्रीविल- म्बाधीनं चमत्कृतेर्मीन्थर्यमिति संलक्ष्यक्रमोऽप्येष भवति॥
१. '-ऋमव्यङ्गयः' ग. २. 'लक्ष्यव्यज्गयकमः परः' ग ३. ग-पुरतके तु 'विवक्षित-' इत्यादि 'द्विविधः' इत्यन्तः पाठो नास्ति.
Page 249
२०२ साहित्यदर्पणे
उक्तस्वरूपो भावादिरसंलक्ष्यक्रमव्यङ्गयः । अत्र व्यङ्गयप्रतीतेर्वि- भावादिप्रतीतिकारणकत्वात्क्रमोऽवश्यमस्ति, किंतूत्पलपत्रशतव्यतिभेद- वल्लाघवान्न संलक्ष्यते। एषु रसादिषु च एकस्यापि भेदस्यानन्तत्वात्सं-
तथाहि-एकस्यैव शृङ्गारस्यैकोऽपि संभोगरूपो भेद: परस्परालिङ्गना-
का गणना सर्वेषाम्। शब्दार्थोभयशत्त्युत्थे व्यङ्गचेऽनुखानसंनिभे। ध्वनिर्लक्ष्यकरमव्यङ्गयस्त्रिविधः कथितो बुधैः ॥६॥ अनन्तलादतिबहुलत्ादसंख्येयः संख्यातुमशक्यः। तस्य रसभावादेर्मेलनेन। भेदनं व्यतिभेदः । लाघवाच्छीघ्रोत्पन्नत्वात्। 'सः' इति शेषः । एषु च रसभावादिषु च। अनन्तत्वादिति। संख्यातुमशक्यत्वादित्यत्र हेतुः। उक्तमर्थ विशेषाख्यानेन द्रठयति-तथाहीति। विभावादीनां वैचित्र्याद् वैलक्षण्याच्चेत्यन्वयः। लक्ष्यकम व्यङ्ञ्यध्वनिमाह-शब्देति। शब्दस्यार्थस्य तदुभयस्य च शक्तेरुत्तिष्ठति आविर्भ- 1. शब्देति। ननु शब्दशत्तया यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकारस्तहि शेपस्य विषय एवापहृतः स्यादित्यत्राह व्वनिकार :- 'आक्षिप्त एवालंकारः शब्दशत्तया प्रकाशते। यस्मिन्ननुक्त: शब्देन शब्दशत्तयुद्धवो हि सः ॥' यस्मादलंकारो न वस्तुमात्रं यस्मिन्काव्ये प्रकाशते स एव शब्दशत्तयुद्भवो ध्वनिः । वस्तुद्ये च शब्दशत्तया प्रका- शयमाने श्रेषः। यथा-'येन व्वस्तमनोभवेन-' इत्यादौ। नन्वलंकारान्तरप्रतिभायामपि श्ेषव्यपदेशो भवतीति दशितं भट्टोन्भटेन तत्पुनरपि शब्दशक्तिमूलो ध्वनिर्निरवकाश इत्याशङ्क्य 'आक्षिप्तः' इत्युक्त्तम्। शब्दशत्त्या साक्षादलंकारान्तरप्रतिभा यथा-'तस्या विनापि हारेण निसर्गादेव हारिणो। जनयामासतुः कस्य विस्मयं न पयोधरौ ॥' अत्र शृङ्गारव्यभिचारी विस्मयाख्यो भावः साक्षाद्विरोधालंकारश्च प्रतिभासत इति विरोधच्छाया- नुग्राहिणः श्रेषस्यायं विषयः । न त्वनुस्वानोपमव्यङ्गयस्य ध्वनेः । यत्र तु सामर्थ्याक्षिसं सदलंकारान्तरं शब्दशत्तया प्रकाशते स सर्व एव ध्वनोवैषयः। यथा हर्षचरिते-'कदाचि त्कुसुमसमययुगमुपसंहरन्नजम्भत ग्रीष्माभिधानः संफुल्लमलिकाधवलाट्टह्दासो महाकालः । अत्र ऋतुवर्णनप्रस्तावनियश्तिता अभिधाशक्तयः । अत एव 'अवयवप्रसिद्धेः समुदायप्रसि- द्विर्बलीयसी' इति न्यायमपाकुर्वन्तो महाकालप्रभृतयः शब्दा एकमेवार्थमभिधाय कृत- कृत्या: । तदनन्तरमर्थावगतिः शब्दशक्तिमूलाद् ध्वननव्यापारादेव। तत्र केचिन्मन्यन्ते- यत एतेषां शब्दानां पूर्वमर्थान्तरेSभिधान्तरं दृष्ट ततस्तथाविधेऽर्थान्तरे दृष्टतदभिधाशक्ते- रेव प्रतिपत्तुनियत्रिताभिधाशक्तिकेभ्य एतेभ्यः प्रतिपत्तिर्ध्वननव्यापारादेवेति शब्दशक्ति- १. ग-पुस्तके नु 'उक्तस्वरूप :- ' इत्यादि: 'सर्वेषाम्-' इत्यन्तः पाठो नास्ति. २. 'विभावादिति' इति पुस्तकान्तरे.
Page 250
चतुर्थः परिच्छेदः । २०३
क्रेमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्गचस्तस्य शब्दशत्तयुद्धवत्वेन, अर्थशत्तयुद्धवत्वेन शब्दार्थशत्तयुद्धवत्वेन च त्रैविध्यात्संलक्ष्यक्रमव्य- ङयनान्नो ध्वनेः काव्यस्यापि त्रैविध्यम्। तत्र
अेलंकारशब्दस्य पृथगुपादानादनलंकारं वस्तुमात्रं गृह्यते। तत्र वस्तुरूपशब्दशत्तयुद्धवो व्यङ्गयो यथा- 'पन्थिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे। उण्णअ पओहरं पेक्खिऊण जइ वससि ता वससु ॥' वति यत्तस्मिन्। अनुखानः प्रतिध्वनिः । तस्य खलु जनकीभूतशब्दोत्तरजायमानत्व- रूपक्रमो लक्ष्यते तत्संनिभे तत्तुल्ये व्यङ्गये सतीत्यर्थः । क्रमस्य व्यञ्ञयप्रतीतिपौर्वा- पर्यस्य लक्ष्यतात् स्फुटप्रतीयमानलात् । अनुरणनरूनः प्रतिध्वनितुल्यः । वस्त्वलं- काररूपत्वादिति। 'व्यञ्ञ्यस्य' इति शेषः । अनलंकारमिति । अलंकारश- ब्दोऽन् धर्मपरः। तेन न विद्यते अलंकारो यत्रेति बैहुव्रीहिः। तैत्पुरुषसमासे की- बतं न स्यात्। 'शेषतत्पुरुषद्वन्द्वावन्त्यस्थपदलिङ्गकौ' इत्यनुशासनेन पुंस्तप्रसक्तेः। पन्थिअ इति। 'पथिक नात्र स्नस्तरमस्ति मनाक्प्रस्तरस्थले आमे। उन्नतपयोधरं प्रेक्ष्य यदि वससि तद्स ।I' इति संस्कृतम्। निवासार्थिनं पथिकं प्रति सयंदूत्या मूलत्वं व्यङ्ग्यात्मत्वं चेत्यविरुद्धम्। अन्ये तु-साभिधैव द्वितीयार्थसामय्यं ग्रीष्मस्य भी- वणदेवताविशेषसादृश्यात्मकं सहकारित्वेन यतोऽवलम्बते ततो ध्वननव्यापाररूपोच्यते इति। एके तु-शब्दक्रेषे तावद्भेदे सति शब्दार्थक्रेषेऽपि शक्तिभेदाच्छब्दभेद इति दर्शने द्वितीयः शब्दस्तत्रानीयते। स च कदाचिदभिधाव्यापाराद् यथोभयोत्तरदानाय 'शेतो धा- वति-अलम्बुसानां याता' इति प्रश्नोत्तरादौ। वा तत्र शब्दान्तरबलादपि तदर्थान्तरं प्रतिपन्नं प्रतीयमानमूळत्वात्प्रतीयमानमेव युक्तमिति। इतरे तु-संफुल्लमलिका एव धव- लाट्टहासोऽस्येति व्याख्यानाश्रयणे यदर्थसामर्थ्य तेन द्वितीयाभिधैव प्रतिप्रसूयते। ततश्च दि- तीयोडर्थोंभिधीयत एव न ध्वन्यते। तदनन्तरं तु तस्य द्वितीयार्यश्च प्रतिपन्नस्य प्रथमार्थेन प्राकरणिकेन साकं या रूपणा तावद्वात्येव न चान्यतः शब्दादिति सा व्वननव्यापारात्। तत्राभिधाशक्ते: कस्याश्चिदप्यनाशङ्गनीयत्वात्। तस्यां च द्वितीया शब्दशक्तिर्मूलम्। तया विना तस्या रूपणाया अनुत्थानात्। अत एवालंकारध्वनिरयमिति युक्तम्। इत्यादिस्थलेपु शब्दशत्त्या प्रकाशमाने सत्यप्राकरणिकेऽर्थान्तरे वाक्यस्यसंबद्धार्थाभिधायित्वं मा प्रसा- ह्ीदित्य प्राकर णिकप्राकरणिकार्थयोरुपमानोपमेयभवः कल्पयितव्यः सामर्थ्यादित्याक्षिप्तोडयं श्रेषो न शब्दोपारूढ इति भिन्न एव श्रेषादनुस्वानोपमव्यङ्ञयस्य ध्वनेर्विषय इत्याहकः ॥
१. 'क्रम-' इत्यादिः 'श्रैविध्यम्' इत्यन्तः पाठो ग-पुस्तके नास्ति. २ 'अलंकार-' इत्यादि: 'उप- चर्यते' इत्यन्तः पाठो ग-पुस्तके नास्ति. ३. 'समासः' इति पुस्तकान्तरे. ४. 'तत्पुरुषे' इति पुस्तकान्तरे,
Page 251
२०४ साहित्य दर्पणे
अत्र सत्थरादिशव्दशक्त्या यद्युपभोगक्षमोऽसि तदाखेति वस्तु व्यज्यते। अलंकाररूपो यथा-'दुर्गालङ्गितविग्रहः-' इत्यादि। अत्र प्राकरणिकस्योमानाममहादेवीवल्लभभानुदेवनामनृपतेर्वर्णने द्वि- तीयार्थसूचितमप्राकरणिकस्य पार्वतीवल्लभस्य वर्णनमसंबद्धं मा प्रसा- ह्यीदितीश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते। तदत्र 'उमावल्लभ उमावल्लभ' इव इत्युपमालंकारो व्यङ्गयः । यथा वा- 'अमितः समितः प्राप्तैरुत्कर्षैर्ह्षद प्रभो । अहितः सहितः साधुयशोभिरसतामसि ॥' उक्तिरियम्। स्रस्तरं शयनीयकटः मनागल्पमपि तन्नास्ति। प्रसर एव वयं खपिम इति दर्शयति-प्रस्तरस्थल इति। पयोधरं मेघम्। तत्तदा निवासोपयुक्तं शय- नीयकटादिकमत्र नास्त्येव। मेघप्रतिरुद्धगतिकतया यदि वससि तद्वसेत्यापाततः प्रती- यते। तस्य व्यञ्ञयमाह-अत्रति। सत्थरादीत्यादिना पत्थरत्थलपओहरशब्दयोर्ग्र- हणम्। परदारगमननिषेधकशास्त्रार्थकं सत्थरपद प्राकृतिष्टम्। प्रस्तरे स्त्रीजनं सं- भोगार्थ गृह्लातीत्येवमर्थकं प्रस्तरस्थलपदं संस्कृतप्लिष्टम्। स्तनार्थकमपि पओहरपद- मुभयो: श्लिष्टम्। एषां शत्त्या सामर्थ्येन। परम्परयापि शव्दशत्तयुद्गवो यथा- 'शनिरशनिश्च तमुचैरनिहन्ति, कुप्यसि नरेन्द्र यस्मै त्वम्। यत्र प्रसीदसि पुनः, स भा- त्युदारोऽनुदारश्च ।I' शनिर्ग्रहोऽशनिर्वञ्रं च तमुच्चैर्निहन्ति। अनुदारोऽनुमतदारः। तत्राशनिशब्दशत्त्या शनिविरुद्धे व्यञ्जिते तद्वारा विरुद्धावपि लदनुवर्तनार्थमेकं कार्य कुरुत इति वस्तु व्यज्यते। उत्तरार्धे तु विरोधाभास एव। यद्वा सोऽनुदारोऽपि तद- नुवृत्त्या उदारो भवतीत्यर्थः । अलंकाररूप इति । 'शब्दशत्तयुद्भवो व्यङ्गय:' इत्यनुषज्यते। मा प्रसाङ्कीदिति। प्रसक्तं मा भूदित्यर्थः । शब्दशक्तिमूलमलंका- रान्तरमाह-यथा वेति। अमित इति। हे प्रभो, लमसतामहितः । समिदुद्धं 1. अन्नेति। प्रस्तराणां तत्वेनाध्यवसितानां मूर्खीणां स्थले तन्मयेडत्र ग्राम सत्थरं शास्त्रं कामशास्त्रमित्यर्थः । यद्ा सत्थरं शास्त्रं मनाकू किंचिदपि नास्ति, किं पुनः साहित्यम्। तस्मादिङ्गिताभिज्ञविरहान्निःशङ्गमुन्नतमनुपभुक्तं पयोधरं स्तनं तादृशोद्दीपकं मेघं च प्रेक्ष्य यद्युपभोगक्षमोऽसि तदा आस्वेति। प्रस्तरस्थल इत्यनेन शय्यापेक्षापि नास्तीति ध्वन्यते अत्र शब्दशक्तिमूलत्वं परिवृत्त्यसहनानार्थशब्दप्रयोगादवसेयमिति व्यङ्यार्थः ॥ 2. हर्षदेति। शत्रुमित्रयोर्हर्ष द्यति ददाति चेति हर्षद शब्रुहर्षखण्डक मित्रहर्ष- दायकेत्यर्थः । अत्र पदाभङ्गेऽपि विरोधः । अमितः परिमाणवर्जितः, अथ च समितः परि- माणसहितः । यद्ा अमितः मितं मान तद्रहितः अथ च मानसहितः । अहितः हितर- हिनः, अथ च सहितः हितसहित इति॥
Page 252
चतुर्थः परिच्छेदः। २०५
अत्रामित इत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्गयः । व्यङ्गय- स्यालंकार्यत्वेऽपि ब्राह्मणश्रमणन्यायादलंकारत्वमुपचर्यते। वस्तु वालंकृतिर्वापि द्विधार्थः संभवी खतः ॥।७॥ कवे: प्रौढोक्तिसिद्धो वा तननिबद्धस्य चेति षट्। षड्डिस्तैर्व्यज्यमानस्तु वस्त्वलंकाररूपक: ॥८ ।। अर्थशक्त्युद्भवो व्यङ््यो याति द्वादशभेदताम्। स्वतःसंभवी, औचित्याद्वहिरपि संभाव्यमानः । प्रौढोत्तया सिद्धः, न त्वौचित्येन।
ततः प्राप्तैरुत्कर्षैरमितोऽपर्याप्तः। साधुयशोभिः सहितः । व्यङ्गयमाह-अमित इति। अमितो मितशून्यः समितो मितयुक्तश्चेति रविरोधः । विरोधाभासस्य वाच्यत्वे पदयोः समानविभक्तिकतवमपि चकारसत्वं चापेक्षितं तदभावादेवात्र व्यञ्ञयत्वमि- लाह-अपिशब्दाभावादिति। एतदुपलक्षणम्। समानविभक्तिकलाभावाच्चे- त्यपि द्रष्टव्यम्। ननुरसस्य प्रकर्षतयोपमादेर्यदा गौणत्वं तदैवालंकारत्वं वक्ष्यते। व्य-
ति।श्रमणः संन्यासी तस्य तद्दशायां व्राह्मणलाभावेऽपि यथा दशान्तरीयं ब्राह्मण- लमादाय तथा व्यपदेशस्तथात्रापि वाच्यतादशीयमलंकारत्वमादाय तथा व्यपदेश इति भावः। अर्थशत्तयुद्धवं व्यक्ञयमाह-वस्तु वेति। द्विविधोऽर्थः पुनस्त्रैविध्येन षद्रप्रकारो भवतीत्याह-संभवीति। खतःसंभवीत्यन्वयः। तन्निबद्धस्य कविव- ररर्ितस्य वत्तुः । 'प्राढोकिसिद्धः' इत्यनुषज्यते। षट् षटप्रकारः । सवतःसंभविपदार्थ व्याचष्टे-स्वत इति। औचित्याद याथार्थ्याद् बहिरपि तादृशशब्दातिरिक्तप्रमाणे- नापि संभाव्यमान: अतीयमानः। रूपकालंकारे रूप्यरूपकयोरभेदस्यालीकत्वेऽपि तयोः सादृश्यस्यापि लोकप्रसिद्धत्वे खतःसंभवितम्। अत एव 'अधरम्लानकमलद- लम्' इति रूपकं स्वतःसंभवितया काव्यप्रकाशे उक्तम्। धमिले नवमल्लिकासमुदय इति सादृश्याप्रसिद्धा प्रौढोक्तिसिद्धं रूपकमुदाहरिष्यते। श्रौढोत्त्या वर्णनमात्रेण 1. संभवीति। य औचित्येन बहिरपि संभाव्यमानसद्भावः, न केवलं भणितिवशेनैवा- भिनिष्पन्नशरीरः ॥ 2. प्रौढोक्तीति। प्रौढोक्तिसिद्धः, वहिरसन्नपि वक्तप्रतिभामात्रेण तथा कल्पितः । 'अत्यन्तासत्यपि ह्वर्थ ज्ञानं शब्दः करोति हि' इति न्यायादिति भावः । अयमर्थ :- व्यक्ज- कोडर्थस्त्रिविधः । स्वतःसंभवी, कविप्रौढोक्तिसिद्धः, कविनिबद्धनायकादिवक्तप्रौढोक्तिसि- द्धूश्च। स त्रिविधोऽपि वस्तुमात्रमलंकृतिर्वेति षड़िधः। षण्णां व्यङ्षयमपि प्रत्येकं वस्तु वा अलंकृतिर्वेति द्वादशभेदाः ॥ १. ग-पुस्तके तु 'स्वतःसंभवी-' इत्यादि: '-नतु रूप्गादीनामित्यलकृतेरेव मुख्यत्वम्' इत्यन्तो जन्थो न दृश्यते. २. 'विरोधः' इति पुस्तकान्तरे नारिति. सा० द० १८
Page 253
२०६ साहित्यदर्पणे
तत्र क्रमेण यथा- 'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति। एकाकिन्यपि यामि सत्वरमितः स्रोतस्तमालाकुलं नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदा नलग्रन्थयः ।।' अनेन स्वतःसंभविना वस्तुमात्रेण तत्प्रतिपादिकाया भाविपरपुरुषो- पभोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यते। 'दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि। तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥' अनेन स्वतःसंभविना वस्तुना रवितेजसो रघुप्रतापोऽधिक इति व्यतिरेकालंकारो व्यज्यते। 'आपतन्तममुं दूरादूरीकृतपराक्रमः । बलोऽवलोकयामास मातङ्गमिव केसरी॥'
सिद्धो निष्पन्नवत्प्रतीयमानः । अत्र स्वतःसंभविवस्तुव्य्ञयवस्ताह-दृष्टिमिति। कस्याश्चित्कुलटाया उक्तिरियम्। इह अस्मद्गहेऽपीत्यन्वयः । खगहे चेति तदर्थः । कौपी: कूपभवाः। अत उक्तकारणात्। निरन्तरा निरवकाशाः। घना इत्यर्थः । तनुं मम शरीरमालिखन्तु खण्डयन्तु। जरठः कठिनः छेदोऽग्रभागो येषां ते। नलस्य ग्रन्थयः पर्वाणि। व्यङ्गयमाह-अनेनेति। वाक्यार्थेनेत्यर्थः। तत्प्रतिपादि- कायास्तस्य वाक्यार्थस्य वत्रयाः। अयं वाक्यार्थो लोकप्रसिद्ध एव। स्वतःसंभविव- स्तुव्यङ्गयालंकारमाह-दिशीति। मन्दायते मृदूभवति। एवकारोऽप्यर्थे। उप- मानादुपमेयस्याधिक्यं न्यूनत्वं वा व्यतिरेकस्तस्य व्यङ्ञ्यत्वम् । प्रकृतोपयोगिप्रकर्ष- निकर्षयोरन्यतरस्य बोधाभिप्रायेण प्रयुक्तधर्मस्य तत्प्रकारत्वासंभवेन तद्वोधानुपपत्त्या निरुक्तवर्मव्यङ्गयकारणमुखेन तद्ोधोपपत्तौ भवति दिशीत्यादौ रवितेजसो मार्दव-
तया मार्दवव्यङ्ञ्यसह्यत्वेन प्रकृतोपयोगिनिकर्षप्रत्यायनाद् व्यतिरेकस्य व्यङ्ञ्यतम्। स्वतःसंभव्यलंकारव्यङ्गयवस्ताह-आपतन्तमिति। अभिमुखमायान्तमित्यर्थः । अमुं वेणुदारिणम्। ऊरीकृतपराक्रमः स्ीकृतविकरमः । कृतयुद्धप्रतिज्ञ इति यावत्।
- पितेति। अस्य शिशोः पिता। मत्स्वामीत्यर्थः ॥ 2. स्रोत इति। तमालाकुलं तमालवनवेष्टितं स्रोतः स्वतोडमुसरणम्। एतेन कूप- सलिलापेक्षया स्रोतःसलिलस्योतकृष्टता प्रतिपाद्ते॥ . 'प्रतिपादिकायाः' क-पुस्तके नास्ति. २. 'अत्र' क.
Page 254
चतुर्थः परिच्छेदः। २०७
अत्रोपमालंकारेण स्वतःसंभविना व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिण: क्षयं करिष्यतीति वस्तु व्यज्यते। 'गाढकान्तदशनक्षतव्यथासंकटादरिवधूजनस्य यः । ओष्ठविद्रुमदलान्यमोचयन्निर्दशन्युधि रुषा निजाधरम् ॥' अत्र सवतःसंभविना विरोधालंकारेणाघरो निर्दष्टः शत्रवो व्यापादि- ताश्चेति समुच्चयालंकारो व्यङ्ञ्यः । 'सज्जेहि सुरहिमासो ण दाव अप्पेइ जुअइजणलक्खमुँहे। अहिणवसहआरमुहे णवपल्लवपत्तले अणङ्गस्स सरे ॥' अत्र वसन्तः शरकारः, कामो धन्वी, युवतयो लक्ष्यम्, पुप्पाणि
बलो बलदेवः। विपुलविक्रमत्वेन बलस्य केसरिसादृश्यं मदान्धत्वेन वेणुदारिणो मातङ्गसादृश्यं लोकप्रसिद्धमेव । सवतःसंभव्यलंकारव्यङ्गयमलंकारमाह-गाढेति। गाढकान्तदशनक्षतजन्यव्यथैव संकटो विपत् तम्मात्। ओष्ठा एव विद्ठमस्य प्रवा- लस्य दलानि खण्डानि। क्रोधेन निजाधरं निर्दश्य निहते शत्रौ तद्वधूनां कान्तकर्तव्यो रतिकाली नोऽधर दंशो निवर्तत इत्यर्थः। अधरस्य निर्देशनेन व्यथाया उत्पत्तिरेव न तु मोचन मित्यापाततो विरोधः। आश्रयमेदे वविरोध एव। व्यापादिता मारिताः । 'ध्रु- नोति चासिं तनुते च कीर्तिम्' इत्यादावेकाधिकरणे चैष दृश्यत इति वक्ष्यमाणव- दत्र कार्यकारणकालनियम विपर्ययरूपातिशयोक्तिमूलं क्रियायौगपदयं समुचयः। निर्द- शन्निति वर्तमाननिर्देशात्तत्कालीनमोचनेन तद्धेतुशत्रुव्यापादनस्यापि तःकालीनत्व- लाभः। कार्यकारणयोः शत्रुव्यापादनाधरदंशनयोः समकालत्वं तु वाधितमप्याहार्य- प्रतीतिविषय एव शीघ्रकारिताव्यम्नमित्यवधेयम्। अन्न समुच्चयार्थकचकाराद्यभा- वेन शत्रुव्यापादनक्रियया व्यङ्ञ्यत्वेन समुच्चयस्य व्यङ्गयत्म्। कविप्राठोक्तिसिद्धव- स्तुव्यङ्गयं वस्त्वाह-सज्जेहीति। 'सजयति सुरभिमासोन तावदर्पयति युवतिजन- लक्ष्यमुखान्। अभिनवसहकारमुखान्नवपल्लवपत्रलाननङ्स्य शरान् ।।' इति संस्कृतम्। सुरभिमासश्चत्रः। अभिनवो नवमुकुलितः सहकारोऽतिसौरभाम्रो मुखमादियेंषां तानू। नवपल्लव एव पत्रं पक्षस्तल्लान्ति गृह्नन्ति तान। प्रकाशीभवत् सिद्धवद्भासमा-
- वेणुदारिण इति। वेणुदारिसंज्ञको बाणासुरतनयः ॥ 2. सजजेहीति। अत्र वसन्तोऽचेतनोऽनङ्गस्य सखा सज्जयति न केवलं तावदर्पयती- त्येवंविधया समर्पयितव्यवस्त्वर्पणकुशलयोत्त्या सहकारोन्वेदिनी वसन्तदशा यत उक्ता अतो ध्वन्यमानं मन्मथोन्माथस्यारम्भं क्रमेण गाढगाढीभविष्यन्तं व्यनक्ति। अन्यथा बसन्ते सपल्वसहकारोद्रम इति वस्तुमात्रं न व्यज्जकं स्यात्॥
१. 'व्यञ्जक' इति नास्ति क-पुस्तके. २. 'इ' क.घ. ३. 'आपणे ई' क-घ. ४. 'सहे' क. घ.
Page 255
२०८ साहित्यदर्पणे
शरा इति कवि प्रौढोक्तिसिद्धं वस्तु प्रकाशीभवन्मदनविजम्भणरूप वस्तु व्यनक्ति। 'रजनीषु विमलभानो: करजालेन प्रकाशितं वीर । धवलयति भुवनमण्डलमखिलं तव कीर्तिसंततिः सततम् ।।' अत्र कविप्रोढोक्तिसिद्धेन वस्तुना कीर्तिसंततेश्चन्द्रकरजालादधिक- कालप्रकाशकत्वेन व्यतिरेकालंकारो व्यङ्गयः । 'दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः । मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः ॥' अत्र कविप्रौढोक्तिसिद्धेनापहुत्यलंकारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यते। 'धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः । एकोडपि त्रिकलिङ्गभूमितिलक त्वत्कीर्तिराशिर्ययौ नानामण्डनतां पुरंदरपुरीवामभ्रुवां विग्रहे।।' नम्। विजूम्भणं विशेषेण वर्धनम्। अत्र वसन्तादीनां शरकारत्वादिकमलीकम्। कवि प्रौढोक्तिसिद्धवस्तुव्यङ्ग्य मलंकारमाह-रजनीष्विति। विमलभानो: शुभ्रकि० रणस्य। चन्द्रस्येत्यर्थः। सततं रात्रिंदिवम्। अत्र यशसा निखिलभवनधवलीकरण- मलीकमपि कविप्रौढोक्तिसिद्धम्। अखिलमित्यनेनाधिकदेशप्रकाशकत्व च बोध्यम्। रात्रिंदिवप्रकाशस्यापि रात्रिप्रकाशकत्वमस्तीति तस्य निकर्षकारणत्वासंभवात्तव्यङ्गयेन रात्रिमात्र प्रकाशकत्वेन निकर्षप्रत्ययनाद् व्यतिरेकस्य व्यङ्गयलम्। कविप्रौढोक्तिसिद्धा- लंकारव्यङ्गयं वस्त्वाह-दृशाननेति। यस्मिन् क्षणे श्रारामः पृथिव्यामवतीर्णस्त- तक्षणं व्याप्येत्यर्थः । पर्यस्ताः पतिताः। प्रकृतानां मणीनां प्रतिषेधेनाप्रकृतानामश्रुबि- न्दूनां स्थापनमपहुतिः। अन्र राक्षसश्रियोऽश्रुबिन्दूनामलीकत्वेन कवि प्रोढोक्तिमात्र- सिद्धत्वम्। कविप्रौढोक्तिसि द्वालंकारव्यञ्ञयमलं गारमाह-धम्मिल्ल इति।'धम्मिल्लाः संयता: कचाः' इत्यमरः । समुदयः समूहः। श्रीखण्डलेपश्चनदनप्रलेपः। विग्रहे देहे। अत्र कीर्तिराशेर्धावल्यरूपसादृश्यमप्रसिद्धमैपि कविप्रतिभामात्रसिद्धमिति तन्मूलक- रूपकस्यापि तथात्वमिति भावः । सवर्गस्थानामुपकारे स्थितिरेव कारणं तां विनापि 1. सितेति। पुण्डरीक्म्॥ 2. त्रिकेति। तैलङ्गदेशभूषणम् ॥
१. 'काल' इति नास्ति क-पुस्तके. २. 'रात्रिदिव-' इत्यादि: '-व्यङ्गयत्वम्' इत्यन्तः पाठः पुस्तका- न्तरे नास्ति, ३. 'अपि कविप्रतिभामात्रसिद्धम्' इति पुस्तकान्तरे नास्ति.
Page 256
चतुर्थः परिच्छेदः । २०९
अत्र कविप्रौढोक्तिसिद्धेन रूपकालंकारेण भूमिष्ठोऽपि स्वर्गस्थाना- मुपकारं करोषीति विभावनालंकारो व्यज्यते। 'शिखरिणि क् नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । सुमुखि येन तवावरपाटलं दैशति बिम्बफलं शुकशावकः ।।' अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिसिद्वेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते। 'सुभगे कोटिसंख्यत्वमुपेत्य मदनाशुगैः । वसन्ते पश्चता त्यक्ता पञ्चतासीद्वियोगिनाम् ।।' अत्र कविनिबद्धवक्तप्रौढोक्तिसिद्धेन कामशराणां कोटिसंख्यत्व- प्रास्या निखिलवियोगिमरणेन वैस्तुना शराणां पञ्चता शरान्विमुच्य वियोगिनः श्रितेवेत्युत्प्रेक्षालंकारो व्यज्यते। 'मल्लिकामुकुले चण्डि भाति गुञ्जन्मधुत्रतः । प्रयाणे पञ्चबाणस्य शङ्कमापूरयन्निव ।।' अत्र कविनिबद्धवक्तप्रौढोक्तिसिद्धेनोत्प्रेक्षालंकारेण कामस्यायमु- न्मादक: काल: प्राप्तस्तत्कथं मॉनिनि मानं न मुञ्चसीति वस्तु व्यज्यते। 'महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती। अणुदिणमणण्णकम्मा अङ्गं तणुअं पि तणुएइ ।।' भवतीति विभावना। उपकारश्व यज्ञादिद्वारेण। कविनिबद्धप्रौढोक्तिसिद्धवस्तुव्यङ्गघं वस्ताह-शिखरिणीति। अधरवत्पाटलं रक्तं शुकशावकस्य तपश्चरणं प्रौढोक्ति- मात्रसिद्धम्। यत्सादृश्येनोत्कृष्टं वस्तु पुण्यं विना न लभ्यते तस्य सुतरामेव पुण्याति शयलभ्यत्वमिति भावः । कविनिबद्धप्रौढोक्तिसिद्धवस्तुव्यक्षमलंकारमाह-सुभगे इति। पश्चता पञ्चसंख्योपयोगित्वं मरणं च। कविनिबद्धप्रौढोक्तिसिद्धालंकारव्यङ्गयं वस्ताह-मल्लिकेति। चण्डि अत्यन्तकोपने । कामस्येति सहाय इति शेषः । उन्मादक: प्रोषितपीडातिशयजनकश्च। 'मानस्य' इति पाठे यथाश्रुत एवार्थः । उत्प्रेक्षणीयस्य कामप्रयाणकालीनशङ्कापूरणस्यासंभवित्वात्प्रौढोक्तिसिद्धलम्। कवि- निबद्धप्रौढोक्तिसिद्धालंकारव्य ङ्गयमलकारमाह-महिलेति । 'महिलासहस्रभरिते 1. दशतीति। दशति आस्वादयते। अनवच्छिन्नप्रबन्धतया न त्वौदरिकवत्पर भुङ्गे। अपि तु रसश्ञोऽ तत्प्राप्तिवदेव रसज्ञताप्यस्य तपःप्रभावादेवेति। शुकशावक इति तारुण्यादुचितकाललाभोपि फलं तपस एवेति सहृदयाः ।। १. 'रूपेण' क. २. 'काम' इति नास्ति क-पुस्तके. ३. 'वस्तुना' इति क-ख-पुस्तकयोरनीरित. ४. घ-पुस्तके 'इव' नास्ति. ५. 'मानिनि' इति नास्ति क-पुस्तके.
Page 257
२१० साहित्यदर्पणे
अत्रामाअन्तीति कविनिबद्धवक्तप्रौढोक्तिसिद्धेन काव्यलिङ्गालं- कारेण तनोस्तनूकरणेऽपि तव हृदये न वर्तत इति विशेषोक्तयलंकारो व्यज्यते। न खलु कवेः कविनिबद्धस्येव रागाद्याविष्टता अतः कवि- निबद्धवक्तप्रौढोक्ति: कविप्रौढोक्तेरधिकं सहृदयचमत्कारकारिणीति पृथक्प्रतिपादिता। एषु चालंकृतिव्यञ्जनस्थले रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य प्रा- धान्यं सहृदयसंवेद्यम्, न तु रूप्यादीनामित्यलंकृतेरेव मुख्यत्वम् । एक: शब्दार्थशक्त्युत्थे भयशक्त्युद्धवे व्यङ्गये एको ध्वनेर्भेद: । ततव हृदये सुभग सा अमान्ती। अनुदिनमनन्यकर्मा अङ्गं तन्वपि तनयति ॥' इति संस्कृतम्। नायकं प्रति सख्या उक्तिरियम्। अमान्ती मानमवकाशमप्राप्रुवती दिवसं प्राप्य तनयति कृशीकरोति। 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते' इति काव्यलिङ्गलक्षणम्। अत्र पदार्थतया हेतुनिर्दिष्ट इत्याहुः। अन्रामान्तीति मनसोऽणु- खादनुपलभ्यत्वाच्च तत्र मानमेव न संभवति कुतस्तल्लाभ इति भावः। तनुतनूकरण- रूपकारणस्य सत्त्वेऽपि लद्धदयवृत्तित्वरूपफलं नास्तीति विशेषोक्तिः। ननु कविनि बद्धप्राढोक्तिसिद्धस्य कविप्रौढोक्तिसिद्धतमस्त्येवेति कथ तस्य पृथगुपादानमित्यत आह-न खल्विति। रागादीत्यादिना उत्साहादिपरिग्रहः। प्रौढोत्त्या हि वक्तू रा- गाद्याविष्टचित्ततवं प्रतीयते। तत्र कव्यपेक्षया कविनिबद्धस्य वक्तुरविकरागाद्याविष्टचि- त्तत्मिति तद्यञ्जिकायाः प्रौढोक्तेरधिकचमत्कारकारित्मिति भावः । ननु यत्रालं- कारस्य व्यञ्जकल्वमुक्तं तत्रालंकार्यस्य वस्तुनोऽपि व्यञ्जकत्वमस्त्येवेति कथमलंकारस्य पृथगुपादानमत आह-एषु चेति। प्रागुक्तद्वादशसु भेदेषु मध्ये इत्यर्थः । अलं- कृतिव्यञ्ञनस्थले अलंकारव्यञ्ञनस्थले। रूप्यादीनामित्यादिना उत्प्रेक्षणीयव्यतिरेचनी- 1. शब्दार्थेति। यद्यपि शब्दशक्तिमूलकत्वमर्थशक्तिमूलकत्वं चेत्युभयमपि सकलव्य- ज्वयसाधारणम्, शब्दार्थयोरनुसंधानं विना व्यङ्गयस्यैवानुल्लासात्, तथापि परिवृत्त्यसहि ग्णूनां शब्दानां प्राचुर्ये तत्प्रयुक्तात्प्राधान्यात्सत्या अप्यर्थशक्तरप्राधान्याच्च व्यङ्गयस्य शब्द- शक्तिमूरकत्वेनैव व्यपदेशः । परिवृत्तिसहिष्णूनां तु प्राचु्येडर्थशक्तेरेव प्राधान्यात्सत्या अपि शब्दशक्ते: प्रधानानुगुण्यार्थतया मल्ग्रामादिवत्प्रधानेनैव व्यपदेशः । यत्र तु काव्ये परिवृत्ति सहमानानामसहमानानां च शब्दानां नैकजातीयप्राचुर्यम्, अपि तु साम्यमेव, तत्र शब्दार्थोभयशक्तिमूलकस्य व्यङ्गयस्य स्थितिरिति द्युत्थो ध्वनिः। न चायमन्यतरश- क्तिमूलकनैव व्यपदेषुं शक्यः । विनिगमकाभावात्॥ १. इतोडग्रे क पुस्तके 'लक्ष्याथस्य यथा-'नि.शेषच्युतचन्दनम्-' इत्यादि। व्यङ्गयार्थस्य यथा- 'उअ णिच्चल णिप्पन्दा-' इति। अनयोः स्वतःसभविनौ लक्ष्यव्यङ्गयार्थी। एवमन्येष्वत्येकादशसु भेदे- पूदाहार्यम् ।' इत्यधिक: पाठः २. 'उभय-' इत्यादि: '-मेद'' इत्यन्तः पाठो ग-पुस्तके नास्ति.
Page 258
चतुर्थः परिच्छेदः । २११
यथा- 'हिममुक्तचन्द्ररुचिरः सपझको मदयन्द्विजाञ्जनितमीनकेतनः । अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ॥' अत्र माधवः कृप्णो माधवो वसन्त इवेत्युपमालंकारो व्यङ्गयः । एवं च व्यङ्गयभेदादेव व्यञ्जकानां काव्यानां भेद: । तदष्टादशधा ध्वनिः॥ ९।।
द्विविधः । विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्गयत्वेनैकः। संल- क्ष्यक्रमेव्यङ्गयत्वेन च शब्दार्थोभयशक्तिमूलतया पञ्चदशेत्यष्टादशभेदो ध्वनिः। एषु च-
यादीनां ग्रहणम्। मुख्यत्वमिति। अत एव तेनैव व्यवहार इत्यर्थः । हिममु- क्तेति। हिममुक्तो निर्मलो यश्चन्द्रः स इव रुचिरोऽभिलषणीयः। वसन्तपक्षे- हिममुक्तेन चन्द्रेण रुचिरो दीप्यमानः । पझ्मा लक्ष्मीस्तत्सहितः । पक्षे-पद्मयुक्तः । द्विजान् विप्रान्, कोकिलांश्च। जनितप्रदयुम्नः । पक्षे-जनितसुरताभिलाषः। प्रसा- दिता: प्रसन्नचित्तीकृता: सुरा देवा येन। पक्षे-प्रसादिता विमलीकृता सुरा मवं येन। माधवः श्रीकृष्णः वसन्तश्च। अत्रोभयशक्तिव्यङ्गयस्य वसन्तस्योपमा उभय- शक्तिव्यक्कया। तथाहि-प्रमदाजनस्य महोसवजनने (यदर्थ यस्य प्रसिद्धिस्तत्नैव तदर्थस्य सामर्थ्यम्। एवमेव काव्यप्रकाशः) वसन्तस्यैव सामर्थ्यमित्यर्थः। प्रतिसं- धानसहकृतेन माधवपदेन वसन्त एव व्यज्यते न लवर्थान्तरम्। तस्य तत्र सामर्थ्या- भावात्। न चात्र शब्दार्थोभयश्रेपसत्वेनोभयशक्तिव्यङ्गयोपमेति वाच्यम्। तथा सति 'दुर्गालङ्गित-' इत्यत्राप्युभयश्रलेषसत्त्वेनोभयशक्तिव्यङ्गयत्वं स्यात्। गृहीतगरिमेत्य- र्रश्लेषस्यापि तत्र सत्त्वात्। ननूक्तमेदेषु व्यङ्चयस्यैव भेदो दर्शितः ।तच् प्रकृतानुपयु- क्तमत आह-एवं चेति। तदिति।उक्तक्रमादित्यर्थः। अष्टादशत्मुपपादयति-
- उपमेति। अत्रोपमालंकारश्चन्द्रपद्मादिशब्दानां परिवृत्त्यसहिष्णुतया हिममुक्तादि- कानां तत्सहिष्णुतया उभयस्यापि प्राधान्येन व्यञ्जकत्वादुभयशक्तिमूलकः। यथा वा मम-'राजकोटिमनोहारी वृषस्थितिपरायणः । स हि सेव्यो महादेवो विकसत्सर्वमङ्गलः ॥' इत्युदाहार्यम्।
१. 'अवि' इत्यादि: 'एषु च' इत्यन्तः पाठो ग-पुस्तके नास्ति. २. 'व्यङ्गयत्राच्यत्वेन2 इनि घ्-पुस्तके पाठः. ३. कोष्टकान्तगतः पाठः पुस्तकान्तरे नास्ति.
Page 259
२१२ साहित्यदर्पणे
वाक्ये शब्दार्थशक्त्युत्थसंदन्ये पदवाक्ययोः। तैत्रार्थान्तरसंक्रमितवाच्यो ध्वनिः पदगतो यथा- 'धन्यः स एव तरुगो नयने तस्यैव नयने च। युवजनमोहनविद्या भवितेयं यस्य संमुखे सुमुखी।' अत्र द्वितीयनयनशब्दो भाग्यवत्तादिगुणविशिष्टनयनपर :- वाक्यगतो यथा- 'त्वामस्मि वच्मि विदुषां सेमवायोऽत्र तिष्ठति। आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत् ।।' अत्र प्रतिपाद्यस्य संमुखीनत्वादेव लब्घे प्रतिपाद्यत्वे त्वामिति पु- नर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थ लक्षयति। एवं वच्मीत्यनेनैव कर्तरि लब्धेऽस्मीति पुनर्वचनम्ँ। तथा विदुषां सैमवाय इत्यनेनैव वक्तुः प्र- तिपादने सिद्धे पुनर्वच्मीतिवचनमुपदिशामीति वचनविशेषरूपमर्थ लक्ष- यति। एतानि च स्वातिशयं व्यञ्जयन्ति। एतेन मम वचनं तवात्यन्तं हितं तदवश्यमेवें कर्तव्यमित्यभिप्रायः । तदेवमयं वाक्यगतोऽर्थान्तर- संक्मितवाच्यो ध्वनिः । अविवक्षितति। वाक्ये वाक्य एव। तदन्ये उभयशत्तयुत्थादन्ये। धन्य इति। युवजनमोहनविद्या। विदयेव युवजनमोहिनीत्यर्थः । यद्यपि 'कदली 'कदली-' इत्यादौ पदगतोरऽर्थान्तरसंक्रमितवाच्यार्थध्वनिरुदाहृत एव तथाप्युदाहरणान्तरदर्शनमेतदृढ- प्रतिपत्तये। त्वामस्मीति। अस्मि अहम्। समवायः संघः।आत्मीयां आ- त्मने हिताम्। तत्तस्मात। लक्षणाबीजमन्वयानुपपत्तियोगित्वं प्रदर्श्य लक्ष्यार्थ व्य- ड्नयार्थ च दर्शयति-अत्रेति। अस्मीति पुनर्वचनमिति। 'हितकारिमदर्थ लक्षयति' इति शेषः । सर्वत्र मुख्यार्थस्याभेदः संबन्धः। एतानि अन्यव्यावृत्तिविशि- ष्टत्वादिवस्तूनि। स्वातिशयमिति। तत्पदार्थस्य वादजल्पादिक्षमत्वम्। मत्पदा- र्थस्यात्यन्तहितैषित्वम्। उपदेशस्यानुपेक्षणीयत्वमतिशयः । प्रत्येकपदव्यञ्ञयत्वं प्र- दर्श्य वाक्यव्यङ्गयं दर्शयति-एतेनेति। उक्तवाक्येनेत्यर्थः । 'अभिप्रायः प्रतीयते' 1. तदन्ये इति। अर्थान्तरसंक्रमितवाच्यादयः सप्तदशभेदाः पद वाक्ये च भवन्ती- त्यर्थः । अत्रदं बोध्यम्-यत्रैकस्यैव पदस्य प्राधान्यन व्यङ््यार्थोंपस्थितावानुगुण्यं परेषां तु सहकारिमात्रं तत्रैव पदगतत्वम्। नानापदानां तथारूपत्वे तु वाक्यगतत्वमिति । १. 'तत्न-' इत्यारभ्य 'प्रत्रन्धेऽपि मतः'-इति कारिकानः प्राग्व्याख्याभागो नास्ति ग-पुस्तके. २.'स- मुदायः' घ. ३. 'आदाय' घ. ४. 'अन्यव्यावृत्तिविशिष्टं मदर्थ लक्षयति' इति घ-पुस्तकेऽधिकम्. ५ 'समुदाय' घ. ६, 'अर्पयति' क. ७. 'लक्षितानि' घ. 'लक्ष्यमाणस्य' क, ८. 'अतिशयं' क. ९. 'एतत्' घ.
Page 260
चतुर्थः परिच्छेदः । २१३
अत्यन्ततिरस्कृतवाच्यः पदगतो यथा-'निःश्वासान्धः-' इत्यादि। वाक्यगतो यथा-'उपकृतं बहु तत्र-' इत्यादि। अन्येषां वाक्यग- तत्वे उदाहृतम्। पदगतत्वं यथा- 'लावण्यं तदसौ कान्तिस्तदूपं स वच:क्रमः । तदा सुधास्यन्दमभूदधुना तु ज्वरो महान् ॥' अत्र लावण्यादीनां तादृगनुभवैकगोचरताव्यञ्जकानां तदादिश- ब्दानामेव प्राधान्यम्। अन्येषां तु तदुपकारित्वमेवेति तन्मूलक एव ध्वनिव्यपदेशः ।
इति शेषः। उपकृतमिति। व्याख्यातमिदं प्राक्। अत्र लाक्षणिकपदानामेकवाक्य- स्थत्वाद्वाक्यत्वेनैव व्यज्कत्वम्। यद्यप्युपकृतादिलाक्षणिकपदानां प्रत्येकवाक्यस्थत्वं तथापि महावाक्यगतत्वेनैकवाक्यस्थत्वं वेद्यम्। अन्येपामसंलक्ष्यक्मव्यङ्गयादीनाम्। उदाहृतमिति। निरुक्तरसायुदाहरणमेव तदुदाहरणमित्यर्थः । असंलक्ष्यक्म- व्यङ्गथं पदप्रकाश्यमाह-लावण्यमिति। कस्यचिद्विप्रलम्भवर्णनमिदम्। सर्वाव- यवगतो विदग्धनयनोत्सवहेतुः कोऽप्यतिशयो लावण्यम्। प्रत्येकमवयवानां संस्था- नसौभाग्यं कान्तिरिति चण्डीदासः । रूपं सौन्दर्यम्। तदा नायिकासंनिधानसमये सुधास्यन्दं सुखातिशयजनकम्। अधुना नायिकाविच्छेददशायां ज्वरः संतापजनकः। विभावादिव्यङ्गये रसे तदादिपदानां व्यञ्ञकत्वमुपपादयति-अत्रेति। अनुभवैकगो-
न्येषां विभावादीनां लावण्यादीनां वा तदुपकारित्वं तदादिपदसहकारितमिति हेतो- स्तन्मूलक एव पदमूलक एव।न तुवाक्यमूलकः। 'प्रधाने हि व्यपदेशा भवन्ति' इति न्यायादित्यर्थः । अत्यन्त संतोषसंपादकवस्तुस्मरणाद् विरहिणां दुःखातिशयो भवतीति विप्रलम्भातिशयो व्यज्यत इत्येतत्पदगतासलक्ष्यक्रमव्यङ्गयध्वनेरुदाहरणमुपपन्नम्। ननु तदादिपदानामनुभवगोचरेऽभिधैव कर्थं व्यञ्ञनेतति चेत्, न। अनुभवैकगोचरते- त्यनेनानिर्वचनीयत्वस्य विवक्षणात्। अत एव चण्डीदास :- 'अनुभवैकगोचरास्त- 1. तन्मूलक इति। काव्याना शरीरिणामिव संस्थानविशषावच्छिन्नसमुदायसाध्यापि चारुत्वप्रतीतिरन्वयव्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानामपि व्यञ्ञकत्वमुखेन व्यव- स्थितो ध्वनिव्यवहार इति व्यक्तं ध्वन्यालोके। प्रदीपकृताप्युक्तम्-ननु पदस्य व्यक्षकत्वे किमायातम्। वाक्यरूपस्य काव्यस्य ध्वनित्वम्। कथं वा पदमात्रस्य व्यञ्जकत्वे वाक्यस्यैव समस्तस्य चारुतेति चेत्, उच्यते-पदप्रकाश्यत्वं न पदमात्रस्य व्यअ्ञकतया, किंतु तस्य प्राधान्येन। अविवक्षितवाच्ये पदमात्रस्य व्यज्ञकत्वेऽपि यद्वाक्यवर्निशब्दस्यार्थस्य वा कस्या- प्यतिशयितार्थव्यअ्जकत्वं तद्वाक्यस्यैव ध्वनित्वमित्युपगमान्न कश्चिद्दोषः । एकदेशस्थितेन च तादृशपदेन समस्तमेव वाक्यं चारुतामुपगच्छतीति। कामिनीवैकावयवस्थेन भूषणेन।।
Page 261
२१४ साहित्यदर्पणे
तदुक्त ध्वनिकृता- 'एकावयवसंस्थेन भूषणेनेव कामिनी। पद्द्योत्येन सुकवेर्ध्वनिना भाति भारती ॥' एवं भावादिष्वप्यूह्यम्। 'भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्दनिस्यन्दं विदधाति सदागमः ॥।' तत्र सदागमशब्दः संनिहितमुपनायकं प्रति सच्छास्त्रार्थमभिधाय सतः पुरुषस्यागम इति वस्तु व्यनक्ति। ननु सदागमः सदागम इवेति न कथमुपमाध्वनिः। सदागमशब्दयोरुपमानोपमेयभावाविवक्षणात् ।
त्कालचमत्कारिणो निर्वक्तुमशक्याः सर्वस्व्ययप्राणपणादिभिरपि प्रार्थनीयाः' इति व्याचकार। नन्वितरसाचिव्यं विना पदस्य व्यज्जकत्वं तावन्न संभवति तत्र प्राधान्याप्रा- धान्यविवेचनमकिंचित्करम्। तथा सति सर्वत्र वाक्यस्यैव व्यञ्जकत्वमुपपन्नं पदगतव्व- निप्रभेदाङ्गीकारस्तु प्राचीनमतानुसारेणैवेत्यभिप्रायेण प्राचीनमतमुपन्यस्यति-तदु- क्तमिति। एकावयवेति। नासिकास्थगजमुक्तादिनेत्यर्थः । पदद्योत्येन पदव्य- ड्गयेन ध्वनिना अर्थेन। भावादिष्वपीति। पदप्रकाश्यभावादिष्वपीत्यर्थः । तेषा- मप्यसंलक्ष्यक्रमव्यङ्गयध्वनित्वेनोदाहर्तुमुचितलातू। शब्दशक्तिमूलं पदप्नकाश्यं व- स्त्वाह-भुक्तीति। जनान्तरसंनिधावुपनायके उपस्थिते पुराणाद्यागमप्रशंसाव्या- जेन हर्ष सूचयन्त्या नायिकाया उक्तिरियम्। सदागमः सच्छास्त्रं पुराणादिकं कस्यान- न्दनिस्यन्दं न विदाति। अपि तु सर्वस्यैव। कीदशः। भुक्तिमुत्त्योः स्वर्गापवर्गयोः कर्ता। एकान्तसमादेशनं तत्त्वोपदेशः तत्परः तत्कारी। व्यङ्गयार्थस्तु-सतपुरुषस्य भवादृशस्यागमनं कस्य मद्विधजनस्य आनन्दनिस्यन्दं न विदधाति। कीदृशः । भु- क्तिमुत्त्यो: सुरतोपभोगगृहकर्मत्यागयोः कर्ता। एकान्तसमादेशनस्य बहुलीलोपदे- शस्य कारकः । ईदृशार्थस्य काव्यव्यङ्गयत्वेऽपि तत्र सदागमपदस्य प्रधानत्वादन्येषां सहकारित्वात्पदव्यङ्गयव्यपदेश इत्याह-अ्रेति। संनिहितं जनान्तरसंनिधावुपस्थितं सच्छास्त्रार्थमभिधाय अभिधया बोधयित्वा। सदागमशब्दयोरिति। सदागम इति शब्दः प्रतिपादको ययोस्तयोः। सच्छात्रसत्पुरुषागमनयोरित्यर्थः । अविवक्षणे
- एकेति। ध्वनिग्रन्थे तु 'विच्छित्तिशोभिनैकेन' इति पाठो दृशयते॥ 2. भारतीति। श्रोत्रग्राह्यवाक्यव्यङ्गया स्फोटरूपा भारतीत्यर्थः। यदन्तर्गतेन पदेन द्योत्योऽतिशयितोऽर्थश्चारुतया व्यज्यते तस्थैव ध्वनित्वमिति फलितार्थः ॥ 3. आनन्देति। आनन्दनिस्यन्दं प्रमोदप्रस्वणम्। इह 'अनुविपर्यभिनिभ्यः स्यन्दते- रत्राणिपु' इति सूत्रेण वैकल्पिकषत्वविधानातपक्षे तदभावः ।
Page 262
चतुर्थः परिच्छेदः । २१५
रहस्यस्य संगोपनार्थमेव हि द्यर्थपदप्रतिपादनं प्रकरणादिपर्यालोचनेन च सच्छास्त्राभिधानस्यासंबन्धत्वात्। 'अनन्यसाधारणघीर्धृताखिलवसुंधरः । राजते कोऽपि जगति स राजा पुरुषोत्तमः ॥।' अत्र पुरुषोत्तमेः पुरुषोत्तम इवेत्युपमाध्वनिः। अनयोः शब्दशक्ति- मूलौ संलक्ष्यक्रमभेदौ। 'सायं स्नानमुपासितं मलयजेनाङ्गं समालेपितं यातोऽस्ताचलभौलिमम्बरमणिर्विस्ब्घमत्रागतिः ।
हेतुमाह-रहस्येति।उपनायकानुरागस्य गोपनार्थमेव। न तूपमानोपमेयभावबोध- नार्थम्। हि यस्माद् द्यर्थशव्दानां प्रतिपादनं प्रयोगः। ननु 'तदर्थ कृतमेतदर्थ भवति' इति न्यायादुपमानोपमेयत्वबोधकः कथ न स्यादित्यत आह-प्रकरणा- दीति। आदिना वयोवस्थादिसंग्रहः। सच्छास्त्राभिधानस्यासंबन्धाच्चेत्यन्वयः । असंबन्धत्वात्प्रकृतानुपयोगित्वात्। तथा च यत्र वाच्यार्थः प्रकृतोपयुक्तो व्यञ्ञयार्थ- स्त्व संबद्धस्तत्रैवागत्या तयोरुपमानोपमेयभावः कल्प्यते। अत्र तु व्यङ्गयार्थस्यैव प्रकृतोपयोगित्वं वाच्यार्थस्य तदङ्गत्वमिति न तदवसर इति भावः। शब्दशक्तिमूलं पद्प्रकाश्यमलंकारमाह-अनन्येति। अनन्यसाधारणा अनन्यतुल्या धीर्येस्य। वृता पालिता धारिता च वसुंधरा येन। पुरुषोत्तम इव विष्णुरिव। नन्वन्र पूर्वार्धेSयि
सत्यम्। अनेकार्थस्य पुरुषोत्तमपदस्य सार्थकत्वाय एकार्थकानामप्यनन्येतिपदानां द्यर्थकत्वं कल्प्यत इति पुरुषोत्तमपदस्यैव प्रधानत्वम्। 'दुर्गालङ्गित-' इत्यादौ तु ब- हूनामेव पदानां स्वभावत एवानेकार्थकत्वमिति ततोऽस्य भेदः । ननु संज्ञायामेव स- मासशासनात्कथं पुरुषोत्तमपदस्यानेकार्थत्वम्, न च सप्तमीसमासस्यैव संज्ञायां विधा- नात्षष्टीसमासेन पुरुषश्रेष्ठवाचकत्वमिति वाच्यम्। निर्धारणे विहितायाः षध्याः स- मासनिषेधात्। उच्यते-पुरुषोत्तमयति संसर्गेण उत्कृष्टं करोतीति व्युत्पत्त्या तस्य पुरुषश्रेष्ठवाचकल्वात्। सवतःसंभविवस्तुव्यङ्गयं वस्तुपदप्रकाश्यमाह-सायमिति। उपनायकेन पथ्युपभुक्तां स्नानागतां सखीमुपहसन्त्याः सख्या उक्तिरियम्। उपासितं कृतम्। स्नानमलयजलेपयोः श्रमप्रतिबन्धकत्वं दर्शितम्। सायंपदस्य त्रिमुहूर्तरूप- सायाह्वपरत्वे तत्रातपसंभावनया तां वारयति-पात इति। अम्बरमणिः सूर्यः। विस्नन्धं स्वच्छन्दं यथा स्यात्तथात्रागतिः । एतेन भयाददैत्याद्वा श्रमो नास्तीति दर्शि- 1. समासेति। 'संज्ञायाम्' इति शास्त्रादित्यर्थः । संज्ञा हि समुदायोपाधिः। तेन नित्यसमास एवायम्। न हि वाक्येन संज्ञा गम्यत इति प्रकृतसूत्रव्याख्याने वृत्तिकाराः ॥ 2. समासेति। 'न निर्धारणे' इति सूत्रेण समासप्रतिषेधादित्यर्थः ॥
. 'पुरुषश्रेष्टः' घ. २. इतोऽग्रे 'श्रेष्टः इत्यधिकं क-पुस्तके.
Page 263
२१६ साहित्यदर्पणे
आश्चयै तव सौकुमार्यममितः क्वान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्कोति तेनासितुम् ।।' अत्र स्वतःसंभविना वस्तुना कृतपरपुरुषपरिचया सातासीति वस्तु व्यज्यते। तच्चाधुना क्ान्तासि, न तु पूर्व कदाचिदपि तवैवंविधः कमो दृष्ट इति बोधयतोऽधुनापदस्यैवेतरपदार्थोत्कर्षादधुनापदस्यैव पदान्तरापेक्षया वैशिष्ट्यम्। 'तैद प्राप्तिमहादुःखवि ली नाशेषपातका।
तम्। 'विस्नब्धमन्दा' इत्यपि क्वचित्पाठः। आश्चर्यमदृष्टपूर्वम्, येन सौकुमार्येण अ- मितो बहिरन्तश्च क्ान्तासि। कृमज्ञापकमाह-नेत्रद्वन्द्वमिति। अमीलनव्यति- करं भीलनसंपर्करहितम्। आसितु स्थातुम्। अन्नति। वस्तुना वाक्यार्थेन। ननु तादृशार्थस्य वाक्यार्थव्य्गयत्वे वाक्यगतध्वनिरेवायं न तु पदगत इत्यत आह- तञ्चेति । तादृशव्यङ्ञयं चेत्र्थः । तद्यङ्क्यमधुनापदस्यैवेत्यन्वयः। अत्र हेतुगर्भे विशेषणमाह-अधुना क्ान्तासीत्यादिबोधयत इति। तथा च तादृशक्कमस्य सौकुमा -- यंप्रयुक्तत्वे दिनान्तरेऽप्येवं स्यादतोऽधुनापदादाधुनिकक्कमहेतुलाभ इति भावः। ननु तथाप्यधुनापदस्यैवेति नियमः कथमुत्पद्यते। सं खमर्थ बोधयतां पदान्तराणामपि व्यञ्जनायामुपकारसंभवादित्यत आह-इतरेति। अधुनापदस्येतरपदार्थानामुत्कर्षा- धानात्तस्यैव पदार्थान्तरापक्षया वैशिष्टयं प्राधान्यम्। अधुनापदार्थप्राधान्येन ताव- द्वाक्यार्थेन तादृशपदार्थान्तराणामपि परपुरुषपरिचयव्यञ्जकत्वम्। तथाहि-सायमि- त्यादि। अधुनापदार्थप्रतिसंधानेन सायंतनस्नानस्य निमित्तान्तरानुसंधानप्रतिबन्धा- दविलम्बितमेव परपुरुषपरिचयं प्रत्याययति। एवं मलयजेनेत्यादि। परपुरुषसंभोग- चिह्नगोपनम्, यात इति परपुरुषसंभोगप्रतिबन्धकप्रकाशाभावम्। विस्रब्धमित्यादि। तहदेशे तत्कालिकनायकसत्त्वाभावमधुनापदार्थप्रतिसंधानेनैव प्रत्याययति। अत्नोप- हास एव महावाक्यव्यङ्ग्यः । इदं च व्यङ्ञयं तत्प्रकर्षकमित्यवधेयम्। सतःसंभवि- वस्तुन्यञ्ञयमलंकारं पदप्रकाश्यमाह-तदप्राप्तीति। श्रीकृष्णाप्राप्तीत्यर्थः । तञ्चि- 1. अमीलनेति। न विद्यते मीलनस्य मुद्रणस्य व्यतिकरः पौनःपुन्येन प्रवृत्तिः संवन्धो वा यस्मिस्तथाभूतम्॥ 2. अन्नेति। इह शब्दानां परिवृत्तिसहिष्णुत्वादर्थशक्तिमूलत्वमवसेयम्। एवमग्रिमो- दाहरणेडपि॥ 3. तदिति। तस्य अप्राध्या वियोगेन यन्महादुःखं तेन विलीनानि नष्टानि अशेपाणि पातकानि यस्याः सा। तथा, तस्य चिन्तया ध्यानेन यो विपुलो महानाह्लाद आनन्दस्तेन क्षीणः पुण्यचयः सुकृतसमूहो यस्याः सा। निर्गत उच्छासः प्राणोत्क्रमणं यस्याः सा, तस्या भावस्तत्ता तया। प्राणोत्कमणं विनेत्यर्थः । 'न तस्य प्राणा उत्क्रामन्तीहैव समव- लीयन्ते' इति श्रुतेः ॥
Page 264
चतुर्थः परिच्छेदः । २१७
चिन्तयन्ती जगत्सू्ति परं ब्रह्मस्वरूपिणम्। निरुच्छासतया मुक्तिं गतान्या गोपकन्यका॥' (युग्मकम्) अन्राशेष,चयपद प्रभावादनेकजन्मसह स्त्रभोग्यदुष्कृतसुकृतफलराशिता- दात्म्याध्यवसिततया भगवद्विरहदुःखचिन्ताह्वादयोः प्रत्यायनमित्यति- शयोक्तिद्वय प्रतीतिरशेषचयपदद्वयद्योत्या। अत्र च व्यञ्जकस्य कविप्रौढो- क्तिमन्तरेणापि संभवात्खतः संभविता। न्तेति। श्रीकृष्णचिन्तेत्यर्थः। जगतः सूतिर्जन्म यस्मात्तं परं सर्वोत्कृष्टं ब्रह्मखवरू पिणं श्रीकृष्णं निरुच्छासतया निरुद्धप्राणतया अन्या या गुरुजनोपरोधेन श्रीकृष्ण- समीपं गन्तुमशक्ता सा श्रीकृष्णवियोगेन मुक्ति गता। मुक्तेत्यर्थः। समस्तपापपुर्ण्य- क्षयादेव मुक्तिरित्युपपादयति-तदप्राप्तीति। तदप्राप्तिजन्येत्यर्थः । तच्चिन्तेति। तच्चिन्ताजन्येत्यर्थः । भोगेन हि पापपुण्यक्षयो भवति। तल्लाभायाह-महा- दुःखेति, विपुलाह्लादेति च। तयोरुपभोगेनेति बोध्यम्। पापपुण्ययोः सामस्त्य- लाभश्ष अशेषचयपदाभ्याम्। अशेषचयपदयोः प्रभावात्सामर्थ्यात्कारणसामस्त्येन फलसामस्त्यप्रतीतिरुचितवेति भावः। हेतुरयं तादात्म्याध्यवसाये। दुष्कृतमुकृत- फलराशिर्दुःखाह्वादप्रचयः । तादात्म्याध्यवसितयोरभेदारोपविपययोः प्रत्यायनं प्रकरणवैशिष्टयेन प्रतिपादनम्। अतिशयोक्तीति। 'विपयनिगरणेन विषयितादा- त्म्यारोपोऽतिशयोक्ति:' इति तल्क्षणम्। यथा-'कथमुपरि कलापिनां कलापः-' इत्यादि। अत्र प्रकरणवैशिष्टयाद्विषयस्य केशपाशस्य लाभ इति विषयनिगरणम् । अशेषचयपदद्वयद्योत्या अशेषचयपदव्यञ्ञनाजन्या। अयं भाव :- प्रकृतेऽभिधेयबो- धानन्तरं सुखदुःखभोगविशेषेण कर्थ यावत्पुण्यपापक्षय इत्यनुपपत्ति प्रतिसंदधतो व्यज्नया यावत्मुखदुःखभोगजन्याशेषपुण्यपापक्षयवतीति प्रतीतिर्जायते। अत्रा- शेषचयपदाभ्यां विषयिण: सुखदुःखराशेर्वाच्यत्व्यञ्ञनया झटिति प्रतीतिः प्रकरण- वैशिष्टयेन प्रकृतयोर्भगवद्विरहदुःखचिन्ताह्वादयोः प्रतीतिरित्यतिशयोक्तिद्वयस्य व्य- ड्यत्वम्। न चाध्यवसायमात्रेण कथमनुपपत्तिनिरास इति वाच्यम्। एककार्यकारि- तरूपसादृश्यपर्यवसायेन तननिरासात्। तथा च भवचिन्ताविरहाभ्यां तथा सुख- े जनिते युपभो गेनयत्सुखदुःखभोगनाययो: सुकृतदुष्कृतपुञ्जयोरनांशो ज रितः। एतत्सूचनाय महत्त्वं विपुलत्वं च दुःखाह्लादयोर्विशेषणमुपन्यस्तम्। केचित्त- पेनुक्युपयोगित्वेन प्रकृतस्य समस्तपापफलराशेः पापविशेषफलेनप्रकृतेन भगवद्वि- रहमहादुःखेन, मुत्त्युपयोगित्वेन प्रकृतस्य समस्तपुण्यफलराशेः पुण्यविशेषफलेनाप्र- कृतेन तच्चिन्ताविपुलसुखेन सहाभेदप्रतीतिरतिशयोक्तिः। निगीर्णे प्रकृते शब्दोपात्ते- नाप्रकृतेन सहाभेदप्रतीतिरतिशयोक्तिरिति तल्लक्षणात्' इत्याहुः। तन्न। विषयिणि प्रसिद्धधर्मस्य विषये प्रतीतिरेवातिशयोक्ति: फलम्, न तु विषये प्रसिद्धस्य विष- यिणि प्रतीतिः। एवं स्थितावतिशयोक्तिदवयस्य निष्फलत्वापातादू विषये प्रसिद्धस्य याव- त्सुष्यपापनाशकत्वस्य विषयिणि प्रतीतेरसंभवेनाभिप्रेतानुपपत्तिनिरासस्यायोगाद्विष- सा० द० १९
Page 265
२१८ साहित्यदर्पणे
'पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम्। देव त्रिपथगात्मानं गोपयत्युग्रमूर्घनि॥'
यिण: शब्दोपात्तलेन 'कथमुपरि कलापिनां कलाप :- ' इति तद्वाच्योपपत्तावतिशयो- क्तिद्वयस्य व्यञ्ञ्यत्ायोगाच्च। नचाशेषचयपदप्रभावेण विषयस्य व्यङ्ञयत्वेनैव तस्य- व्यङ्ञयत्वमिति वाच्यम्। तथा सति 'कथमुपरि-' इत्यादौ प्रकरणवैशिष्टयेन विषयस्य व्यङ्ञयतयातिशयो क्तर्व्यङ्कयलवापातात् । व्यजकस्य वाक्यार्थस्य। स्वतःसंभव्यलंकार- व्यङ्गयवस्तुपदप्रकाश्यं वस्तु यथा-'क्षणदासावक्षणदा वनमवनं व्यसनमव्यसनम्। बत वीर तव द्विषतां पराझुखे तयि पराझुखं सर्वम् II' क्षणदा रात्रिः । अक्षणदा अनुत्सवकरी। व्यसनं दुःखम्। अवीनां मेषाणामिव असनमितस्ततो भ्रमणं च। पराखाखे विपरीते। पराखुखं विपरीतम्। अत्र शब्दशक्तिमूलविरोधिनिर्वाह्यन चतु- र्थपादगतेनार्थान्तरन्यासेन विधिरपि लामनुवर्तत इति सर्वपदद्योत्यं वस्तु खतः- संभव्यलंकारव्यङ्गचोऽलंकारः। पदद्योत्यो यथा-'तव पत्यधरस्तन्वि म्लानपझ्मदलं प्रगे। इति श्रुत्ा नदवधूः करोति मुखमानतम् ।' अन्न रूपकालंकारेण त्वयास्या- त्यन्तचुम्बनं कृतं येन म्लानलमिति काव्यलिङ्गालंकारो म्लानादिपदद्योत्यः। कविप्रीः ढोक्तिसिद्धवस्तुव्यङ्गयं वस्तुपदप्रकाशयं यथा-'चन्द्रधवलासु रात्रिषु धनुरपि कुसुभे समास्फाल्य। एकच्छत्रमनङ्गस्त्रिभुवनराज्यं करोत्यनिशम्।' अत्रानङ्गस्य चापास्फाल- नपूर्वकत्रिभुवनाधिकारकरणस्यालीकत्वात्कविप्रौढोक्तिसिद्वेन तेन वस्तुना येषां का- मिनामसौ राजा तेषां न कोऽपि तदादेशपराझुख इति जाग्रद्भिरुपभोगपरैः केवलं तैर्निशातिवाह्यत इति त्रिभुवनराज्यपद्द्योत्यं वस्तु व्यज्यते। कविप्रौढोक्तिसिद्धवस्तु- व्यङ्गयोऽलंकारः पदप्रकाश्यो यथा-'निशितशरधियापयत्नङ्गो दृशि सुदृशः ख- बलं वयस्यराले। दिशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्य- वस्थाः ॥' अवस्थाः प्रागुक्ता विरहकालीना दश कामदशाः। अत्र करमिकाणां यु- गपदुन्मेषणरूपं वस्तु वाक्यार्थः स्वतोऽसंभवित्वात्कविप्रौढोक्तिसिद्धस्तेन व्यतिकर- पद्द्योत्यो विरोधो व्यज्यते। कविप्रौढोक्तिसिद्धालंकारव्यङ्गयं वस्तुपदप्रकाश्यं यथा- 'संतापभाजा हृदयेन हारो निवार्यमाणोऽपि मुहुर्मृगाक्ष्याः। वक्षोजमारस्य वयस्य- भावाद्विशुद्धजातिर्न चलत्यमुष्मात् ।।' विशुद्धजातिर्विशुद्धमुक्ताजातिघटितः। अत्रु विशुद्धजातितहेत्वलंकारेणानवरतकल्पमान एवास्त इति न चलतीति पदव्यङ्गयं वस्त
- उग्रेति। उग्रमूर्धनि शिवशिरसि। अत्रोग्रपदेन मूझ्नोंडतिशयितगोपनसमर्थदेशत्वं द्योत्यते ।। 2. तवेति। 'तुह वलहस्स गोसम्मि-' इति प्रकाशोदाहृतसर्वविपुलायाशछायाभूतो- डयं श्रोक: । 3. चन्द्रेति। 'राईसु चन्दधवलासु-'इति प्रकाशोदाहृतसर्वविपुलायाश्छायाभूतोयम्। 4. संतापेति। 'वारिज्जन्तो वि उणो-' इति प्रकाशोदाहृतगीतेश्छायाभूतमदः पद्यम्॥
Page 266
चतुर्थः परिच्छेदः । २१९
ईदं मम। अत्र पश्यन्तीति कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालंका- रेण न केडप्यन्ये दातारस्तव सदृशा इति व्यतिरेकालंकारोऽसंख्यपद- द्योत्यः। एवमन्येप्वप्यर्थशक्तिमूलसंलक्ष्यक्रमभेदेषूदाहार्यम्। तदेवं ध्वने: पूर्वोक्तेष्वषादशसु भेदेषु मध्ये शब्दार्थशत्तयुत्थो व्यङ्ग्यो वाक्यमात्रे भवन्नेकः । अन्ये पुनः सप्तदश वाक्ये पदे चेति चतुस्त्रिंशदिति पञ्चत्रिंशद्धेदाः । प्रेबन्धेऽपि मतो धीरैरर्थशक्त्युद्भवो ध्वनिः ॥ १० ॥ प्रबन्धे महावाक्ये। अनन्तरोक्तद्वादशभेदोऽर्थशत्तयुत्थः।
द्वालंकारव्यङ्ग्यमलंकारं पदप्रकाश्यमाह-पश्यन्तीति। अत्र दानजलस्य नदीरू- पत्वं स्वतोऽसंभवि कविप्रौढोक्त्या सिद्धम्। अत्रोत्प्रेक्षापि व्यङ्क्या। एवमन्येप्वजी- ति। कविप्रौढोक्तिसिद्धवस्त्वलंकारव्यङ्गयेपु मयोदाहृतं कविनिबद्धवक्तप्रौढोक्तिसि- द्ववस्त्वलंकारव्यङ्गयेषु चतुर्षु भेदेषु। यथा मम-'सुतरामक्षमस्तत्र पञ्चभिः पुष्पप- त्रिभिः। युवत्यामोघया शत्त्या जगद्विध्यति मन्मथः ॥' अत्र नायिकारूपशत्त्या मन्मथस्य जगद्वेधनमसंभवि कविनिबद्धप्रौढोकतिसिद्धं वस्तु तेन नायिकायाः सर्वमनो- हरस्वरूपं वस्तु जगत्पद्द्योत्यं प्रकाश्यते। 'यो व्रजत्यतितरां सहायतां हन्त विश्व- विजये मनोभुवः । तं निशम्य मधुरं पिकस्वरं कः प्रयाति धृतिमानतानने ॥' अत्र पिकखरसहायस्मरस्य विश्वजयो वस्तु कविनिबद्धप्रौढोक्तिसिद्धं तेन मानभङ्गकारणे पिकखवरे सत्यपि मानो न भम्न इति विशेषोक्तिरलंकार आनत इतिपदद्योत्यो व्य- ज्यते। 'संतप्तचामीकरचारुवर्णे कर्णे निबद्धं नवकर्णिकारम्। तदेव शत्त्रं मदनस्य जैत्रं जगत्रयं तेन जितं भवत्या ।।' अत्र नायिकाकर्णार्पित नवकर्णिकारमेव मदन- शस्त्रमिति रूपकं कविनिबद्धप्रौढोक्तिसिद्धं कर्णिकारेण तव मुखस्य ताद्ृशी शोभा जाता यया वीतरागा अपि स्मरपराधीना भवन्तीति वस्तु जगत्रयपदप्रकाश्यं व्यज्ज- यति। 'यशश्चन्द्र इवाभाति राजंस्ते दानसंभवम्। दैन्यं न हन्यते हन्त तेन दृष्टि- विरोधि मे ॥' अत्र यशसः शुकतासंभवात्तेन चन्द्रोपमानमप्यसंभवि कविनिबद्धप्रौ- ढोक्तिसिद्धं तेन दैन्यमेव तम इति रूपकं दृष्टिपद्द्योत्यं व्यज्यते। खतःसंभविवस्तु-
- प्रबन्ध इति। प्रबन्धश्च संघटितनानावाक्यसमुदायः। स च अ्रन्थरूपस्तदवान्तर- प्रकरणरूपश्चेति॥
१. 'इदं मम' इति क-पुस्तके नास्ति. २. कपुस्तके 'पूर्व' नास्ति. ३. 'अष्टादशमेदेषु' क- ४ क-पुस्तके प्रथमान्तः पाठः. ग-पुस्तके तु 'प्रबन्धे-' इत्यादिः प्रकृतकारिकाव्याख्या नार्ति.
Page 267
२२० साहित्यदर्पणे
यथा महाभारते गृधगोमायुसंवादे- 'अलं स्थित्वा ३मशानेऽस्मिन्गृध्रगोमायुसंकुले। कक्कालबहले घोरे सर्वप्राणिभयंकरे। न चेह जीवितः कश्चित्कालधर्ममुपागतः । प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ।।' इति दिवो प्रभवतो गृधस्य इमशाने मृतं बालमुपादाय तिष्ठता तं परित्यज्य गमनमिष्टम्। 'आदित्योडयं स्थितो मूढाः सनेहं कुरुत सांप्रतम्। बहुविन्नो मुहर्तोडयं जीवेदपि कदाचन॥। अमुं कनकवर्णाभं बालमप्राप्तयौवनम्। गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः ।।' इति निशि समर्थस्य गोमायोर्दिवसे परित्यागोऽनभिलषित इति वाक्यसमूहेन द्योत्यते। अत्र सतःसंभवी व्यञ्जकः । एवमन्येष्वेकाद- शमेदेषूदाहार्यम्। एवं वाच्यार्थव्यञ्जकत्वे उदाहृतम्। लक्ष्यार्थस्य यथा-'निःशेषच्युतचन्दनम्-' इत्यादि। व्यङ्गया- र्थस्य यथा-'उअ णिच्चल-' इत्यादि। अनयोः सवतःसंभविनोर्ल- क्ष्यव्यङ्गचार्थौ व्यञ्जकौ। एवमन्येष्वेकादशभेदेषूदाहार्यन्। व्यक्गयवस्तुप्रबन्धप्रकाश्यमाह-अलं स्थित्वेति। रमशाने मृतबालकं त्यजतस्तद्व- न्धून्प्रति गृधस्य वचनमिदम्। न स्थेयमित्यर्थः। शरीरास्थि कङ्ढालस्तेन बहले व्याप्े। कालधर्म मृत्युम्। दिवा प्रभवतो दिने भक्षणक्षमस्य । गमनमिष्टमिति। वाक्य- समूहेन द्योत्यत इत्यग्रेणान्वयः। गोमायूक्तप्रबन्धस्य तादृशव्यङ्गयमाह-आदित्यो- जयमिति। आदित्यसत्त्वाद् युष्माकं रात्रिंचरतोऽपि भीतिर्नास्तीति सूचितम्। स्नेहकारणं स्थितिरेव। अयं संध्यासमयासन्नो मुहूर्तो दारुणतया बहुविन्नः संभा- वितभूताद्यावेशः । तदवगमान्मुहूर्तान्तरे जीवनस्य संभावना दर्शिता। तत्संभाव- नायां हेतुमाह-अमुमिति। कनकवर्णाभल्वे रूपविपर्यासाभावाज्जीवनसंभावना। मूढाः । 'बालाः' इति पाठे शिशुबुद्धय इत्यर्थः । समर्थस्य भक्षणक्षमस्य । स्वतः- संभवीति। वाक्यार्थ इति शेषः । एवं निरुक्त्तध्वनिसमूहः । लक्ष्यार्थस्येति। 'व्यञ्जकलवे' इति शेषः । एवमग्रेऽपि। एवमन्येष्विति । एकादशतं लक्ष्यव्य- 1. महाभारत इति। शान्तिपर्वणि आपद्वर्मपर्वणि त्रिपञ्चाशदधिकशततमेध्याये॥
१. 'बहुले' घ. २. 'दिवसे शक्त्तस्य' क-घ. ३. 'दिवसे' इत्यधिकं घ-पुस्तके.
Page 268
चतुर्थः परिच्छेदः । २२१
असंलक्ष्यक्रमव्यङ्ग्यो ध्वनिस्तत्र पैदांशप्रकृतिप्रत्ययोपसर्गनिपाता- दिमेदादनेकविधः। यथा- 'चलापाझां दृष्टि स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव खवनसि मृदु कर्णान्तिकचरः । करं व्याधुन्वन्त्याः पिबसि रतिसर्वख्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ।।' अत्र 'हताः' इति न पुनः 'दुःखं प्राप्तवन्तः' इति हन्प्रकृतेः। 'मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्कवाभिरामम्। मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ।।' अत्र 'तु' इति निपातस्यानुतापव्यञ्जकत्वम्। ङ्ञययोः प्रत्येकापेक्षया। उभयापेक्षया तु द्वान्रिशतमिति द्रष्टव्यम् । 'अस्फुटक्रमः' इत्यस्य विवरणम् 'असंलक्ष्यकमव्यङ्गयः' इति। चलापाङ्गामिति । भ्रमरं प्रति डुष्यन्तस्योक्तिरियम्। वेपथुमतीमतिचपलाम्। करं व्याधुन्वन्त्याः शकुन्तलायाः । भ्रमरनिराकरणाय करव्याधूननम्। रतेः सुरतेच्छायाः सर्वस्वं प्रधानकारणम्। यद्वा रतौ सर्वखमिवादरणीयम्। यद्वा रतेः कामपत्न्याः सर्वस्ं युवजये परमसहायम्। वयं तहृष्टिस्पर्शादिवञ्चिताः । तत्त्वान्वेषात् तत्त्वपरीक्षातः । हता हतप्रायाः। अति- पीडिता इत्यर्थः । कृती धन्यः । यद्वा तत्त्वान्वेषात् तत्तत्कर्माकर्तृत्वस्यान्वेषात् मुहु- विसंवादीच्छातो वयं हता इत्यर्थः । अन्न विप्रलम्भोत्कर्षो दुःखातिशयेन व्यज्यते। दुःखातिशयश्च हता इत्यनेन व्यज्यते। अत्रेति। 'हताः' इति प्रयुक्तम्, न तु 'दुःखं आप्तवन्तः' इति प्रयुक्तम्। तथाले प्रकृतोपयुक्त्तस्य दुःखातिशयस्य प्रतीतिन स्यात्। हन्प्रकृतेरिति। व्यक्षकत्वमिति शेषः। मुहुरिति। गौतम्या शकुन्तलायां नी- 1. चलेति। हे मधुकर, वयमेवंविधाभिलाषचाडप्रवणा अपि तत्त्वान्वेषणाद्वस्तुवृत्ते- डन्विष्यमाणे हता आयासमात्रपात्रीभूता जाताः । त्वं खल्विति निपातेनायतसिद्धं तवैव चरितार्थत्वमिति। तथाहि-कथमेतदीयकटाक्षगोचरा भूयास्म, कथमेषास्मदभिप्रायव्य- अ्जकं रहोवचनमाकर्ण्यांत्, कथं हठादनिच्छन्त्या अपि परिचुम्बनं विधेयास्मेति यदस्माकं मनोराज्यपदवीमधिशेते तत्तवायलसिद्धम्। भ्रमरो हि नीलोत्पलधिया तदाशङ्काकातरां दृर्ष्टि पुनः पुनः स्पृशति। श्रवणावकाशपर्यन्तत्वाच्च नेत्रयोरुत्फलशङ्कानपगमात्तत्रैव व्वन्यमान आस्ते। सहजसौकुमार्यत्रासकातरायाश्च रतिनिधानभूतं विकसितारविन्दामोदमधुरमधरं पिबतीति। अत्र हि भ्रभरस्वभावोक्तिरलंकारो रसानुगुणः ।
१. 'असंलक्ष्य-' इत्यादिः 'एवमन्यत्र' इत्यन्तः पाठो ग-पुस्तके नास्ति. २ घ-पुस्तके तु 'पदांश-' इत्यत्र 'पदांशकः' इति पाठं प्रकल्प्य तदन्तं गदयं श्रोकीकृत्य 'पदांशवर्ण-' इति कारिकायामुत्तरार्धत्वेन न्यस्तम्.
Page 269
२२२ साहित्यदर्पणे
'न्यकारो ह्ययमेव मे यदरयः-' इत्यादौ 'अरयः' इति बहुवचनस्य, "तापसः' इत्येकवचनस्य, 'अत्रैव' इति सर्वनाम्नः, 'निहन्ति' इति 'जी- वति' इति च तिडः, 'अहो' इत्यव्ययस्य, 'ग्रामटिका' इति करूपत- द्वितस्य, 'विलुण्ठन' इति व्युपसर्गस्य, 'भुजैः' इति बहुवचनस्य व्यञ्ष- कृत्वम्। 'आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं तदेतदपरं यच्चैकतानं मनः । मौनं चेदमिदं च शून्यमधुना यद्विश्वमाभाति ते तड्रयाः सखि योगिनी किमसि भो: किंवा वियोगिन्यसि ॥' तायां दुष्यन्तस्यानुतापवर्णनमिदम्। प्रतिषेवाक्षरेण मैवं कुर्विति प्रतिषेधवचसा विक्ृवं व्याकुलमत एवाभिरामम्। तादृशप्रतिषेधस्य विधिपर्यवसन्नतया तत्प्रयोगेण मुखस्य रमणीयत्वमिति भावः । अंसे स्कन्धे विवर्तयितुं परिवृत्य स्थातुं शीलमस्य। कथमपि चक्षुःपरागापसारणच्छलेन उन्नमितमड्गुलिभ्यामूर्ध्वाकृत्य वृतम्। न्यक्कार इति। व्याख्यातमिदं प्राक्। बहुवचनस्येत्यादिषष्ठयन्तानां व्यञ्जकत्वमित्यग्रेतनेना- न्वयः। अरीणां प्रतीकाराक्षमतवं तापसादेरेकत्वख्यापनेन। नैकतापसनिग्रहेण सर्व- रक्षा भवति सोऽपि सर्वप्राणैः कर्तुमशक्य इति। इदंपदेन रिपुनिग्रहे दूरगमनादि- व्यापारो नास्ति तथापि स कर्तु न शक्यत इति। अपकारस्य वर्तमानतख्यापनेन विलम्बासहिष्णौ रिपुनिग्रहे नास्माकमुद्यमः। तथेति जीवनस्य वर्तमानतख्यापनेन प्रागेव मरणमुचितं येनैतादशः पराभवो मा भूदिति। जीवनस्य साश्चर्यत्वख्यापनं मानिनां तादृशपराभवे जीवनमत्यन्तमनुचितमिति। स्वर्गस्य क्षुद्रत्वख्यापनेन यस्य सर्गविलुण्ठनेनापि श्रलाघा नास्ति स तावदेकतापसेन पराभूयते अहो दुर्दैवविलसित- मेतदिति। स्वर्गलुण्ठनस्य विशिष्टत्वख्यापनेन स्वपतेरत्यन्ततिरस्कारिणो रावणस्य एकतापसेन पराभवो दुर्दैवेनोपपद्यत इति भुजानां बहुत्ख्यापनेन रिपुनिग्रहे रावण- स्याधिकसाधनसत्त्वेऽपि स कर्तु न शक्यत इति व्यज्यते। यद्यप्येते संलक्ष्यक्रमव्य- ङ्गयानां वस्तुध्वनय एव तथाप्येतेऽसंलक्ष्यक्रमव्यङ्गयस्य निर्वेदाख्यभावस्य परिपोषका इति तेनैव व्यपदेश इति भावः। आहार इति । विरहिणीमुपहसन्त्याः सख्या उक्तिरियम्। विरती रागाभावः। एकतानमनन्यवृत्ति। योगिन्या विश्रवं शून्यमसद्गूतं प्रतिभाति। वियोगिन्याश्च सदपि विश्वं प्रकृतानुपयोगित्वेनासदिव प्रतिभाति। विशे- षणस्येत्यनन्तरं तदेतदिति बुद्धिस्थपरामर्शिनः सर्वनाम्नः अपरमिति विशेषणस्येत्य- 1. ग्रामटिकेति। अल्पग्रामवाचको हि ग्रामटीशब्दः, गौडभाषायां 'गॉवटी' इति ख्यातः । ततः 'अज्ञाते' इति 'कुत्सिते' इति वा कप्रत्यये 'केडणः' इति हस्वे निष्पन्नो ग्रामटिकाशब्दः । अत्यन्तक्षुद्रग्राम इति तदर्थः । नागोजिभट्टास्तु-'तद्धिताः' इति बहुवचनबोध्यष्टिकच्प्रत्ययः' इत्याहुः ॥
Page 270
चतुर्थः परिच्छेदः। २२३
अत्र तु 'आहारे' इति विषयसप्तम्याः, 'समस्त' इति 'परा' इति च विशेषणस्य, 'मौनं चेदम्' इति प्रत्ययपरामर्शिनः सर्वनाम्नः, 'आ- भाति' इत्युपसर्गस्य, 'सखि' इति प्रणयस्मारणस्य, 'असि भोः' इति सोपहासोत्प्रासस्य, 'किंवा' इत्युत्तरपक्षदार्ढ्यसूचकस्य वाशव्दस्य, 'असि' इति वर्तमानोपदेशस्य तत्तद्विषयव्यञ्जकत्वं सहृदयसंवेद्यम्। वर्णरचनयोरुदाहरिष्यते। प्रबन्धे यथा-महाभारते शान्तः । रा- मायणे करुणः । मालतीमाधवरत्नावल्यादौ शृङ्गारः । एवमन्यत्र। तदेवमेकपश्चाशच्देदास्तस्य ध्वनेर्मताः॥११॥
वगन्तव्यम्। प्रतीयत इति प्रत्ययः प्रतीतिविषयः, तत्परामर्शिनस्तद्वाचकस्य । क्व- चिच्च 'प्रत्यक्षपरामर्षिणः' इत्यपि पाठः। प्रणयस्मारणस्य प्रेमसूचकस्य। सोतप्रासस्य उपहाससूचकस्य। उत्तरपक्षस्य वियोगिनीति पक्षस्य दात्ये प्रामाण्यं तत्सूचकस्य वर्त- मानोपदेशस्य वर्तमानकालप्रयोगस्य। तत्तदिति। सहृदयनिर्वचनीयेत्यर्थः । त- थाहि-आहार इति विषयसप्तम्या आहारविषयकरागाभाव एव। न तु योगिनी- वदनिष्टसाधनताज्ञानाद्योगप्रतिकूलाहारान्निवृत्तिः। तदुक्तम्-'नात्यश्नतस्तु योगो- डस्ति न चैकान्तमनश्नतः इति। एवं च योगिन्याः प्राणधारणार्थमाहारोऽसत्येव। तव तु सोऽपि नास्तीति भावः। एवं योगिन्या योगसाधने यदच्छोपपन्ने च विषये प्वृत्तिरस्ति। तव तु सर्वथैव विषयान्निवत्तिरिति। समस्तेत्यादि विशेषणद्यं व्यज- यति-योगिन्या ध्यानसमय एव नासाग्े नयनं चित्तैकाग्रत्वं च। तव तु सर्वदैव तदुभयमिति। तदेतदपरमिति व्यज्जयति-योगिनी मौनसमये इद्गितादिना अर्थ बोधयति, तव तु तदपि नास्तीतीदंपदेन व्यज्यते। योगिन्यास्तत्वेन विश्वमस- त्स्फुरति, तव तु तत्त्वं विनैवेतीदंपद्द्योत्यम्। योगिन्या जगति शून्यत्वस्फुरणं ब्रह्म- स्फूर्तिसंवलितम्, तव तुन तथेत्याङुपसर्गों द्योतयति। योगिन्या रागिणि जने प्र- णयो नास्ति, तव तु सोऽस्तीति सखीत्यनेन व्यज्यते। त्वं योगिन्येव, न तु वि- योगिनीति किंवाशब्देन द्योत्यते। वर्णरचनयोरिति। वर्णो माधुर्यादिगुणव्यज्जकः। रचना पद्विन्यासविशेगः। सापि माधुर्यादिव्यजिका। उदाहरिष्यत इति। गुणपरिच्छेदे इति शेपः। एवमन्यत्रेति। 'माघे शिशुपालदूतोक्तौ संधौ वाच्ये वस्तुमात्ररूपो विग्रहः शब्दशक्तिमूलः प्रबन्धव्यज्ञ्यो दृश्यते' इति चण्डीदासः । तदेवमिति। पूर्व पञ्चत्रिंशद्भेदा उक्त्ाः । अर्थशक्तिमूलध्वनेः प्रबन्धप्रकाश्यत्वेन 1. एकपञ्चाशदिति। अत्र ध्वनेर्लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपर- चाच्यास्यौ प्रथमं दौ भेदौ। अविवक्षितवाच्य स्यार्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्यतया
१. 'विषय' इति नास्ति क-पुस्तके, २. 'विशेषण्यस्य' घ.
Page 271
२२४ साहित्यदर्पणे
पुनर्द्वदशविधतम्। असंलक्ष्यकमव्यङ्गयध्वनेरपि पदांशवर्णरचनाप्रबन्धप्रकाश्यत्वेन चतुर्विधत्वमिति षोडश। मिलिता एकपञ्चाशदिति। यद्यप्यर्थानां वाच्यलक्ष्यव्यञ्ञय- भेदेन पदांशानां च प्रकृत्यादिभेदेनातोऽधिका अभि प्रकारा भवन्ति तथापि संप्रदा-
द्विविधस्य वाक्यपदगतत्वेन द्वैविध्ये चातुर्विध्यम्। विवक्षितान्यपरवाच्यस्य संलक्ष्यक्रमव्य- ज्ञयासंलक्ष्यकमव्यङ्कयतया दौ भेदौ। संलक्ष्क्रमव्यङ्गये शब्दशक्तिमूले वस्त्वलंकाररूप- तया द्वैविध्ये वाक्यपदगतत्वेन चातुविध्यम्। अर्थशक्तिमूले संलक्ष्यक्रमव्यङ्गये अर्थस्य स्वतःसंभवित्वेन कविप्रौढोक्तिसिद्धत्वेन कविनिबद्धवक्तृप्रौढोक्तिसिद्धत्वेन च त्रैविध्यम्। त्रिविधस्यापि वस्त्वलंकाररूपतया द्वैविव्ये पडिधत्वम्। षडिधस्यापि व्यङ्गयव्यज्जकतया द्वैविध्ये द्वादशविधत्वम्। द्वादशविधस्यापि प्रवन्धगतत्वेन वाक्यगतत्वेन पदगतत्वेन त्रै- विध्ये षटननिंशत्प्रकारोडर्थेशक्तिमूलोडनुरणनध्वनिः। उभयशक्तिमूलो वाक्यगतत्वेनैक- विधः। एवं संतक्ष्यक्रमव्यङ्गयध्वनेरेकचत्वारिंशद्वेदाः । असंलक्ष्यक्रमव्यङ्गयो रसादि- ध्वनिः प्रबन्धवाक्यपदपदैकदेशरचनावर्णगतत्वेन षडिधः । एवं विवक्षितान्यपरवाच्यव्वनेः सप्तचत्वारिंशन्द्ेदाः । अविवक्षितवाच्यभेदैश्वतुर्भिः सह ध्वनेः प्रथमं शुद्धा एकपञ्चाश- ददाः । तेषां नामानि निदिश्यन्ते-(१) पदगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः, (२) वाक्यगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः, (३) पदगतात्यन्ततिरस्कृताविव- क्षितवाच्यध्वनिः, (४) वाक्यगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः, (५) पदगत- शब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः, (६) पदगतशब्दशक्तिमूलसंलक्ष्यक्रमालंकारध्वनिः, (८) वाक्यगतशब्दशक्तिमूलसंल. क्ष्यक्रमालंकारध्वनिः, (९) पदगतस्वतःसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः, (१०) पदगतस्वतःसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः, (११) पदगतस्वतःसिद्धार्थशक्ति- मूलोडलंकारेणालंकारध्वनिः, (१२) पदगतस्वतःसिद्धार्थशक्तिमूलोऽलंकारेण वस्तु- ध्वनिः, (१३) वाक्यगतस्वतःसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः, (१४) वाक्यग- तस्वतःसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः, (१५) वाक्यगतस्वतःसिद्धार्थशक्तिमू- लोलंकारेणालंकारध्वनिः, (१६) वाक्यगतस्वतःसिद्धार्थ्रशक्तिमूलोडलंकारेण वस्तु- ध्वनिः, (१७) प्रबन्धगतस्वतःसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः, (१८) प्रब- न्धगतस्वतःसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः, (१९) प्रवन्धगतस्वतःसिद्धार्थश- क्तिमूलोSलंकारेणालंकारध्वनिः, स्तुध्वनिः (२१) पदगतकविप्रोढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः, (२२) पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः, (२३) पदगतकविप्रौढोति .- सिद्धार्थ शक्तिमूलोऽलंकारेणालंकारध्वनिः, (२४) पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूणै- डलंकारेण वस्तुध्वनिः, (२५) वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुन वस्तु- ध्वनिः, (२६) वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः, (२७)
ढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः, (२९) प्रबन्धगतकविप्रौढोक्तिसिद्धाशक्ति- मूलो वस्तुना वस्तुध्वनिः, (३०) प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वानालं
Page 272
चतुर्थः परिच्छेदः । २२५
संकरेण त्रिरूपेण संसष्या चैकरूपया।
यानुरोधेनैकपञ्चाशत्त्वमेव दर्शितम्। संकरेणेति। अलंकारपरिच्छेदे वक्ष्यमाणरी- त्या त्रिरूपेणेत्यर्थः। यथा-'अङ्गाङ्गिलेऽलंकृतीनां तद्वदेकाश्रयस्थितौ। संदिग्धत्वे च भवति संकरस्त्रिविध: पुनः ॥' इत्यलंकारसंकरस्य त्रेंविध्यमुक्तं तदनुसारेण संकरत्रै- विध्यं वोध्यम्। अत्र 'एकाश्रयस्थितौ' इत्यस्य एकव्यञ्जकानुप्रवेश इत्यर्थः । संदि- ग्धत्वे 'अयं ध्वनिः स ध्वनिर्वा' इति संशयेऽङ्गाङ्गिभावापन्नोऽनेकव्यञ्जकानुप्रविष्टः । असंदिग्धो ध्वनिसमुदायः संसृष्टिः। अनेकधेति यदुक्ततं तदेवाह-वेदेति। वेदा- थलारः, खं शून्यम्। अग्नयस्त्रयः, शराः पञ्च। सजातीयानेकसंख्याप्रस्तावे 'अङ्कानां वामतो गतिः' इत्यङ्गविदां नियमेन चतुरुत्तरशतत्रयाधिकपञ्चसहस्त्राणीत्यर्थः । ननु कथमेतदेकपश्चाशतश्चतुर्गुणेन चतुरधिकशतद्वयमेव भवतीति चेत्, न। यतः प्रथ- मस्य सजातीयेनैकेन विजातीयैः पञ्चाशता च संसृष्टावेकपच्चाशत्त्वम्। एवं द्वितीयस्य सजातीयेनैकेन विजातीयैरूनपञ्चाशता च संसष्टौ पञ्चाशत्त्वम्। तृतीयस्य सजातीये- नैकेन विजातीयैरष्टचत्वारिंशता च संसष्टावूनपञ्चाशत्त्वं भवति। चतुर्थस्य सजातीये- नैकेन विजातीयैः सप्तचतवारिशता च संसृष्टावष्टचत्वारिशत्त्वम्। एवमन्येषामेकैकहा सेन सप्तचत्वारिंशदादिकम्। चरमस्य सजातीयेनैकेन संसष्टावेकविषयत्वमेवेति मि- लिला षड्डिंशत्यधिकत्रयोदशशतत्वं ध्वनिसंसृष्टेः ।एवं क्रमेण अष्टसप्तत्युत्तरनवश- ताधिकत्रिसहस्त्रत्वं त्रिविधध्वनिसंकरस्य। मिलित्वा 'वेदखात्नि-' इत्यादिसंख्याया
कारध्वनिः, (३१) प्रबन्धगतकविप्राढोक्तिसिद्धार्थ शक्तिमूलोऽलंकारेणालंकारध्वनिः, (३२) प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोडलंकारेण वस्तुध्वनिः, (३३) पद- गतकविनिबद्धवक्तप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः, (३४) पद- गतकदिनिबद्धवक्तपौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः, (३५) पदगतकविनि- (३६) पदगतकविनिबद्धवक्त- प्राढोक्तिसिद्धार्थशक्तिमूलोडलंकारेण वस्तुध्वनिः, (३७) वाक्यगतकविनिबद्धवक्तृप्रौढोक्ति- सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः, (३८) वाक्यगतकविनिबद्धवक्तप्रौढोक्तिसिद्धार्थ- शक्तिमूलो वस्तुनालंकारध्वनिः, (३९) वाक्यगतकविनिबद्धवक्तप्रौढोक्तिसिद्धार्थशक्ति-
Sलंकारेण वस्तुध्वनिः, (४१) प्रबन्धगतकविनिबद्धवक्तप्रोढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः, (४२) प्रबन्धगतकविनिबद्धव क्तप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकार- ध्वनिः, (४३) प्रबन्धगतकविनिबद्धवक्तप्रौढोक्तिसिद्धार्थ शक्तिमूलोडलंकारेणालंकारध्वनिः, (४४) प्रबन्धगतकविनिबद्धवक्तप्राढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः, (४५) प्रवन्धगतासंलक्ष्यक्रमव्यङ्कयो रसादिध्वनिः, (४६) वाक्यगतासंलक्ष्यक्रमव्यज््यो रसादि- ध्वनिः, (४७) पदगतासंलक्ष्यक्रमव्यञ्च्यो रसादिध्वनिः, (४८) पदैकदेशगतासंलक्ष्यक्र- मव्यङ्गयो रसादिध्वनि:, (४९) रचनागतासंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः, (५०) वर्णगतासंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः, (५१) वाक्यगतोभयशक्तिमूलो ध्वनिरिति॥
Page 273
२२६ साहित्यदर्पणे
शुद्धैः शुद्धमेदैरेकपञ्चाशता योजनेत्यर्थः । दिडबात्रं तूदाहियते- 'अत्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय। सा पूर्णकुम्भनवनीरजतोरेणस्र- क्संभारमङ्गलमयत्नकृतं विधत्ते।।' अत्र स्तनावेव पूर्णकुम्भौ, दृष्टय एव नवनीरजस्ज इति रूपकध्व- निरसध्वन्योरेकाश्रयानुप्रवेशः संकरः । उपपत्तिः। न चैकपञ्चाशतस्तावता गुणने एकाधिकषङ्विंशतिशती संसष्टौ, तत्रैव त- त्रिगुणसंकरयोजने 'वेदखाब्धिवियच्चन्द्राः' इति काव्यप्रकाशोक्तसंख्या भवति कथ 'वेदखाभ्नि-' इत्यादिसंख्येति वाच्यम् । संसृष्टिसंकरयोः पूर्वपूर्वसंसर्गस्योत्तरोत्तर- गणनायामप्रवेशात्तावत्संख्यत्वानुपपत्तेः । अत एव काव्यप्रकाशटीकाकारचण्डी- दासेन 'संसष्टौ संकरयोजने च सिन्धुगगनशिखिशराः, शुद्धयोगे शरबाणाम्निबाणाः' इत्युक्तम्। शुद्धैरिति। संसृष्टिसंकररहितैर्योंगे इत्यर्थः । इषवः पञ्च, बाणाः पञ्च, अग्नयस्त्रयः, सायकाः पञ्च। पञ्चपश्चाशदुत्तरशतत्रयाधिकपञ्चसहस्त्राणीत्यर्थः। अत्यु- न्नतेति। प्रवासादागतं नायकं श्रल्ा वासग्रहद्वारि स्थिताया नायिकाया वर्णनमि- दम्। तस्य नायकस्य उपयानमुपगमः । खगृहप्रवेश इति यावत्। तत्कालीनमहो- त्सवाय। संभार: संघटनमेव मङ्गलम् । प्रवासादागतस्य गृहप्रवेशसमये पूर्णकुम्भ- 1. संसृष्टावित्यादि। वस्तुतस्तु प्रकाशकारमतमेव ज्यायः। तथा हि-एकपञ्च- शतो भेदानामेकपच्चाशता भैदैर्योजनमिति तावतां तावद्ुणनेनैकोत्तरषडिशतिशतं(२६०१) भवति। संयोजनं च संसष्ट्यादिचतुःप्रकारैरिति तावतां चतुर्भिर्गुणने 'वेदखाब्धिविय- चन्द्रा:, (१०४०४) इति संख्या संपद्यते। नन्वस्त्वेकपञ्चाशद्देदेव्वकतराणां पच्चाशता यो- जनम्, स्वस्य तु स्वेन कथं योजनमिति चेत्, न। व्यक्तिभेदमादाय विजातीयवत्सजा- तीयेनापि संकरादिति राजानकमम्मटाशयः । यत्तु चण्डीदासादिभिः 'सिन्धुगगनशिखि- शरा :- '(५३०४) इत्यादि सिद्धान्तितं तत्र ब्रूम :- अनुभवसिद्धौ तावत्पुण्ड कादीक्षुरसे- ष्विव ध्वनिष्वपि हृद्यत्वातिशयानतिशया। तथा चार्थान्तरसंक्रमितवाच्यस्य यत्रातिशय- स्तत्रात्यन्ततिरस्कृतवाच्ये न तद्योजनम्। यत्र तु तद्वैपरीत्यं तत्रात्यन्ततिरस्कृतवाच्यस्येत- रेण योजनमिति व्यपदेशः। 'प्राधान्येन व्यपदेशा भवन्ति' इति न्यायात्। एतदेव प्रा- धान्यमादाय गणना सौत्री। नन्वेवं यत्रोभयोस्तुल्यमेव चारुत्वं तत्र भेदान्तरं स्यादिति। मैवम्। अपकर्षाभावस्यानिशयपंदेन विवक्षितत्वात्तत्रोभयभेदसकरस्वीकारादिति प्रदीपादौ व्यक्तम्।। १. ग-पुस्तके तु 'दिञ्ात्रं-' इत्यादिः '-संसृष्टिः।' इत्यन्तः पाठो नास्ति. २. क-पुस्तके तु 'तोरण-' इत्यादि: '-नवनीरजस्रज' इत्यन्त: पाठस्त्रटितः
Page 274
चतुर्थः परिच्छेदः। २२७
'धिन्वन्त्यमूनि मदमूर्च्छद लिध्वनीनि धूर्ताध्वनीनहृदयानि मधोर्दिनानि। निस्तन्द्रचन्द्रवदनावदनारविन्द- सौरभ्यसौहृदसगर्वसमीरणानि।।' अत्र निस्तन्द्रेत्यादिलक्षणामूलध्वनीनां संसृष्टिः। अथ गुणीभूतव्यङ्गचम्- अपरं तु गुणीभूतव्यङ्गयं वाच्यादनुत्तमे व्यड्गे। अपरं काव्यम्। अनुत्तमत्वं न्यूनतया साम्येन च संभवति। तत्र स्यादितराङग काकाक्षिप्ं च वाच्यसिद्धयेङ्गम् ।१३ ।।
स्थापनादिमङ्गलं क्रियत इति लोकाचारः। अत्र स्तनकटाक्षयोर्यथासंभवं पूर्णकुम्भ- लेन, नवनीरजस्रक्लेन च रूपकत्वम्। तयोरेव नायकरतेरुद्दीपकतया शृद्गारश्ष व्यक्कय इत्येवं व्यअ्कानुप्रवेशः । धिन्वन्तीति। प्रीणयन्तीत्यर्थः । अमूनि अनुभूयमानम- होत्सवानि। मदेन संमूर्च्छन्तो वर्धमाना अलिध्वनयो यत्र। मधोर्वसन्तस्य। निस्त- न्द्रोऽतिप्रकाशमानश्चन्द्र इव वदनं यस्यास्तस्या वदनसौरभ्यस्य सौहृदेन सादृश्येन सगर्वा उत्कृष्टाः समीरणा यत्र तादृशानि। लक्षणामूलध्वनीनामत्यन्ततिरस्कृतवाच्या- नाम्। तथाहि-निस्तन्द्रपदेन तन्द्रारहित उच्यते। चन्द्रे तत्कथनस्यानुपयोगितया प्रकाशमाने लक्षणा। प्रकाशातिशयबोध: प्रयोजनम्। एवं प्रेमवाचकस्य सौहृदपदस्य सादृश्ये लक्षणा। सादृश्यातिशयबोधः न प्रयोजनम् । गर्वस्याचेतने वायावसंभवात्स- गर्वपदस्योत्कृष्टे लक्षणा। सादृश्यातिशयबोधः प्रयोजनम्। एषु वाच्यार्थस्यार्थान्तर- संक्रमितत्वाभावादत्यन्ततिरस्कृतवाच्यलम्। अत्रोक्तत्रिविधसंकरासंभवाद् ध्वनीनां संसृष्टिरेव। ध्वनि निरूप्य गुणीभूतव्यङ्गयं निरूपयति-अथेति । अपरं ध्वनि- भिन्नम्। तत्र गुणीभूतव्यङ्गये। इतरस्य रसादेवा वाक्यार्थस्य वा अङ्गम्। रसादि अनु-
- अध्वनीन इति। अध्वनीनः पान्थः ।। 2. गुणीभूतेति। वाच्यापेक्षया अचमतकारित्वेनेह व्यङ्गयस्य गुणीभावः । ध्वनिकारे- णाप्यभिहितम्-'प्रकारोऽन्यो गुणीभूतव्यङ्गथः काव्यस्य दृश्यते। यत्र व्यङ्गयान्वये वा- च्यचारुत्वं स्यात्प्रकर्षवत् ।' इति। 'प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीपु महाकवी- नाम्। यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥' इत्युक्तरूपो व्यङ्गथार्थों यः प्रतिपादितस्तस्य प्राधान्ये ध्वनिरित्याम्नातम्। तस्यैव गुणीभावेन वाच्यार्थचारुत्वप्रकर्षे गुणीभूतव्यङ्गयो नामापरः काव्यभेद इति तदाशयः ॥ 3. काक्केति। काका हठेनोपस्थापितमिति वा॥
१. 'अपराङ्गन' ग. २. 'सिद्धव्य्नयम्' घ.
Page 275
२२८ साहित्यदर्पणे
संदिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमंगूढम्। व्यृङ्गयमसुन्दरमेवं भेदास्तस्योदिता अष्टौ ॥ १४ ॥ ईतरस्य रसादेरङ्ं रसादिव्यङ्गयम्। यथा- 'अयं स रसनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविसंसनः करः ॥' अंत्र शृङ्गारः करुणस्याङ्गम्।
रणनरूपं वा व्यङ्ग्यमित्यन्वयः । एवमन्यत्रापि। काक्काक्षिप्तं काकुवशात् झटिति वा- च्यवत्प्रतीयमानम्। वाच्यस्यान्वयबोधबीजं वाच्यसिद्धङ्गम्, आपाततः प्रतीतस्य वाच्यस्य प्रतिसंधानानुपपत्तिनिरासकम् । अस्फुटं सहृदयैरपि झटित्यप्रतीयमानम्। अगूढ स्फुटम्, तथा वाच्यायमानम्। असुन्दरं चमत्काराप्रत्यासन्नम्। एवं निरुक्त- व्यङ्ञ्यभेदेन तस्य गुणीभूतव्यङ्गयस्य रसाङ्ग रसरूपव्यङ्ञ्यम्। उदाहरति-अय- मिति। भूरिश्रवसः समरपतितं हस्तं विलोक्य तत्पत््या रोदनमिदम्। अयमीदृग- वस्थः स तत्तत्कर्मणि मुहुरनुभूतः । तत्तत्कर्माह-रसनेति। रसनां मम क्षुद्रघ- 1. संदिग्धेति। संदिग्धं वाच्यकृतं व्यङ्गयकृतं वेत्यनिश्चितं प्राधान्यं यस्य यत्र वा तत्। यद्वा संदिग्धं चमत्कृतिजनने वाच्यव्यङ्गययोः संशयास्पदं प्राधान्यं यत्र तत्।। 2. तुल्येति। तुल्यं वाच्यसमानं प्राधान्यं यत्र तत्। चमत्कारोत्पादने वाच्यव्यङ्गय- योरपि क्षमत्वेन तुल्यत्वमवधेयम्।। 3. अगूढमिति। अगूढं चासहृदयैरपि वेध्यम्। तादृशं वाच्यायमानतया न तथा चमत्करोति यथा कामिनीकुचकलशवद्गूढम्। तदुक्तम्-'नान्ध्रीपयोधर इवातितरां प्र- काशो नो गुर्जरीस्तन इवातितरां निगूढः । अर्थों गिरामपिहितः पिहितश्च कश्चित्सौभा- ग्यमेति मरहट्टवधूकुचाभः ॥' इति। एवं च कामिनीकुचकलशन्यायेन सहृदयैकवेद्यमेव व्यङ्गयं ध्वनित्वमुपयाति। सहृदयैरपि दुःखसंवेद्यमसहृदयैरपि वेद्यं वेत्युभयमपि गुणी- भूतव्यङ्गयमेवेति बोध्यम्। एवमन्येष्वपि भदेष्वनुभव एव साक्षीति प्रदीपादौ व्यक्तम्।।
१. ग-पुस्तके तु 'इतरस्य-' इत्यादेः '-मार्गो ध्वनेर्मतः॥' इत्यन्तस्य ग्रन्थस्य स्थाने "चतुर्थी तु 'मम धम्मिअ-' इत्यादावुदाहरणे विधिरूपादभिधेयार्थान्निपेधरूपोर्ऽ्थों, व्यज्यते। 'उपकृतं बहु तत्र-' इत्यत्रापि विधिरूपं पर्युदस्य निषेधरूपार्थ तात्पर्यम्। तत्कर्थ पूर्वताभिधामूलत्वमुत्तरत्र लक्षणामूलत्व- मिति। उच्यते-'मम धम्मिअ-' इत्यत्र मुख्यार्थो वाधित एव विश्रान्तिमासाद्य निषेधार्थ व्यञ्जयति। 'उपकृतम्-' इत्यत्र तु मुर्ख्याथस्य बाधितत्वेन प्रतीतेर्लक्ष्यार्थस्यैव विश्रान्तिघर्मतया व्यञ्जकत्वम्। तथा चोक्तम्-'कचिद्वाध्यतया ख्यातिः-' (इत्यादि) व्यञ्जिकेत्यर्थः। यद्यप्यर्थशत्तयुन्भवे कवि- प्रौढोक्तावेव कविनिबद्धवक्तृमौढोक्तिरन्तर्भवति तथापि तदपेक्षया तस्या अधिकचमत्कारितया वि- शिच्य प्रतिपादनम्। ननु वाक्यगता एव ध्वरनयश्चमत्कारमावहृन्ति करथं तेषां पदादिगतत्वेन भेदकथ- नम्। सत्यम्। पदपदांशशोभाजनकत्वेन तेपां चमत्कारभूमित्वम्। पदांशास्तु-'प्रकृतिः प्रत्ययः प्रातिपदिक सर्वनाम च। पुरुषव्यत्ययः पूर्वनिपातस्तद्धिनं तथा ॥ कर्मभूताधिकरणं विशेषोक्तविभक्तयः। उपसर्गो निपातश्च संबन्धो वचनं तथा। अव्ययीभावकालाद्याः पदांशाः परिकीर्तिताः।' तथा चोक्तम्- 'एकावयवसंस्थेन= (इत्यादि) इति पाठो दृश्यते.
Page 276
चतुर्थः परिच्छेदः। २२९
'मानोन्नतां प्रणयिनीमनुनेतुकाम- स्त्वत्सैन्यसागररवोद्गतकर्णतापः । हा हा कथं नु भवतो रिपुराजधानी- प्रासादसंततिषु तिष्ठति कामिलोकः ।।' अत्रौत्सुक्यन्राससंधिसंस्कृतस्य करुणस्य राजविषयरतावङ्गभाव 'जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितघिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम्। कृता लङ्काभर्तुर्वदनपरिपाटीषुघटना मयापं रामत्वं कुशलवसुता न त्वधिगता ॥।' ण्टिकामुत्कर्षयितुं मार्जनादिना उत्कृष्टीकर्तुमाकष्ठुं वा शीलमस्य सः। नीव्या वस्त्रब- न्धस्य विस्त्रंसनो मोक्षणकरः। अन्नालम्बनविच्छेदेन रतेररसाश्रयतया स्मर्यमाणानां तदङ्गानां शोकोद्दीपकत्वात्करुणानुकूलतेति शङ्गारस्य करुणाङ्गत्वम्। अत एव प्राकर- गिकत्वेन प्रधानस्य करुणस्य व्यजकं वाक्यार्थमपेक्ष्य तदानीमप्राप्तरसभावस्य श- द्वारस्य यूनत्वमचमत्कारितम्। ननु तदानीं शङ्गारस्य रसत्वाप्राप्या कथमस्य रसा- ङ्रसोदाहरणत्वं संगच्छतामिति चेतू, न। तदानीं शङ्गाररसस्य पूर्णरसत्वाभावेऽपि खण्डरसत्वस्य सत्त्वात्। तच्च दोषपरिच्छेदे निर्णेष्यते। शङ्गारस्य करुणविरुद्धत्वे- Sपि स्मृतिविषयत्वेन गुणत्वमेव, न तु दोषत्वम्। भावाज्गं रसव्यङ्गयमुदाहरति- मानोन्नतामिति। राज्ः स्तुतिरियम्। मानोन्नतामुननतमानाम्। त्वत्सैन्यसागरर- वेण उद्गतकर्णतापो भवति। अत्रेति । प्रथमपादेन औत्सुक्यम्, द्वितीयपादेन न्रासो व्यज्यते। औतसुक्यत्रासयोः संधिना संस्कृतस्य कृतोत्कर्षस्य। एतेन भावसंघे रसाङत्वं दर्शितम्। भावस्यासवादपात्रत्वेन प्रधानत्वम्। वाच्यार्थो व्यङ्गयकरुणनिरपेक्ष एव तस्य व्यञ्ञकः । करुणस्तु वाच्यसापेक्षहाहापदार्थव्यङ्च एव तत्प्रकर्षक इति वा- क्याथापेक्षया व्यङ्ञयस्य न्यूनचमत्कारित्वम्। एवं भावादीनां भावादयङ्गत्वे उदाहर- णानि काव्यप्रकाशाद्युक्तानि बोध्यानि। ग्रन्थप्रपश्चभयादिह नो कानि। वाच्यार्थस्याङं शब्दशक्तिमूलमनुरणनरूपव्यङ्गयमुदाहरति-जनस्थान इति। धनार्थे प्रयतमा- नस्याप्राप्तधनस्य कस्यचिदुक्तिरियम्। मया रामत्वं प्राप्तमित्यापाततः प्रतीयते। पश्चादन्यस्य धर्मे कथमन्यो लभतामित्यनुपपत्ति प्रतिसंदधतः सरूपशब्दसामर्थ्येन व्यज्यमानं सादृश्यमादाय रामसादृश्यं प्राप्तमिति बोध: पारमार्थिकः । सादृश्यघट- कानि स्वरूपशब्दवाच्यत्वरूपसाधर्म्याण्याह-जनस्थान इति।कनकस्गस्य तृष्णया प्राप्तीच्छया अन्धितधिया रामेण जनस्थाननाम्नि दण्डकारण्यैकदेशे भ्रान्तम्। मया तु कनकस्य मृगतृष्णाभ्यामन्वेषणप्राप्तीच्छाभ्यामन्धितघिया जनानां स्थाने भ्रा- न्तम्। केचित्तु-'कनकमेव मृगतृष्णा मरीचिका, कनके मृगतृष्णारोपणं च दुष्प्रा-
- प्रासादेति। प्रासादपारम्परीषु ॥ सा० द० २०
Page 277
२३० साहित्यदर्पणे
अत्र रामेत्वं प्राप्तमित्यवचनेऽपि शब्दशक्तेरेव रामत्वमवगम्यते। वचनेन तु सादृश्यहेतुकतादात्म्यारोपणमाविष्कुर्वता तद्गोपनमपाकृतम्। तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाङ्गतां नीतम्। काक्काक्षिप्तं यथा- मशामि कौरवशतं समरे न कोपा- दुःशासनस्य रुधिरं न पिबाम्युरस्तः। पजलार्थिनो मृगतृष्णायामिव दुष्प्रापकनकार्थिनः कनकेऽपि प्रवृत्तेस्तादृशप्रवृत्तिवि- षयत्वरूपसाधर्म्यात्' इत्याहुः। तन्न। खरूपसतः कनकस्य बुद्न्धीकरणासंभवात्त- त्प्राप्तीच्छायां लक्षणावश्यमङ्गीकार्या। एवं च तत्र निरुक्तसाधर्म्यासंभवाद्रूपकासं- गतेः । 'मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः। अन्वेषणे च याञ्ञायाम्' इति मे- दिनी। रामेण प्रतिपदं पदे पदे 'वैदेहि' इति वचः उदश्रु यथा स्यात्तथा प्रलपितम्। मया तु वै निश्चितं 'देहि' इति वच: प्रतिपदं प्रतिस्थानं प्रलपितम्। रामेण लङ्काभर्तू रावणस्य वदनानां परिपाट्यां पङ्गौ इषुघटना कृता। मया तु भर्तुर्धनस्वामिनो वद- नस्य परिपाटीषु संतोषसूचकभङ्गिषु कापि घटना परिचयोऽलमत्यर्थ कृता। कुशलं दारिद्यापनायकं वसु यस्य तत्ता मया नाधिगता। रामेण तु कुशलवौ सुतौ यस्याः सा सीता प्राप्तैवेति तुशब्दलभ्योऽर्थः । अस्योपमाध्वनित्वं वारयन्वाक्यार्थाङ्गत्वमुप- पादयति-अत्रेति। शब्दशक्तेरेव स्वरूपशब्दसामर्थ्यादेव रामत्वं रामसादृश्यम्। वचनेन मयापं रामत्वमिति वाक्येन आविष्कुर्वता व्यञ्ञयता तद्ोपनं सादृश्यस्य गूढत्वमपाकृतं खण्डितम्। एतेनाधिकचमत्कारित्वाभावेनास्योपमाध्वनित्वं वारितम्। तेन सादृश्यस्य गोपनापाकरणेन वाच्यं वाच्यवज्झटिति प्रतीयमानं वाक्यार्थस्य राम- सादृश्यप्राप्तेरन्वयोपपादकतया अन्वयप्रतियोगित्वेनान्वयस्य निर्वाहकतया। तत्रा- पाततः प्रतीतस्यार्थस्यानुपपत्तिर्व्यङ्ञयं निरस्यति स वाच्यसिद्धङ्गस्य विषयः। यत्र त्वापाततः प्रतीतस्य बाधनेन तत्स्थाने आत्मानमर्पयित्वा अन्वयं निर्वाह्यति सोऽस्य विषयः, इत्यनयोर्भेदः । अन्र 'उपमानोपमेयभावो व्यङ्ञ्यो वाच्याङ्गतां नीतः' इति काव्यप्रकाशवृत्ति केचिदेवं विवृण्वन्ति-उपमानोपमेयभाव उपमा रामत्वप्राप्तिव्य- ङ्या वाच्यस्य कुशलवसुताप्राप्याप्राप्ततत्कार्याद्रामाद्यतिरेकरूपस्यास्याङ्गतां प्रकर्ष- कतां नीतः' इति। तन्न। अङ्गतामुपपादकतामित्यस्यैव वक्तुं युक्तत्वात्। उपमान- व्यञ्ञनाभावे व्यतिरेकप्रतीत्यनुपपत्तेरुपपत्त्यतिरायाधायकस्यैव प्रकर्षत्वसंभवात्। अर्थशक्तिमूलानुरणनरूपस्य वाच्यस्याङ्गत्वं यथा-'आगत्य संप्रति वियोगविसंष्ठ- लाङ्गीमम्भोजिनीं क्वचिदपि क्षपितत्रियामः । एतां प्रसादयति पश्य शनैः प्रभाते त- न्वद्ि पादपतनेन सहसत्ररश्मिः ॥' अत्र नायकवृत्तान्तोऽर्थशक्तिमूलो वस्तुरूपो रवि- कमलिनीवृत्तान्ताध्यारोपेण स्थितः । मश्नामीति। सहदेवं प्रति संधिकरणासहिष्णो- १. 'मथा' इत्यधिक क-पुस्तके. २. 'अमाप्तकुशलवसुताकस्य उपभेयस्य दरिद्रस्य प्राप्तकुशलव- सुताकाद्रामादाधिक्यस्य नजा प्रतिपाद्यव्यतिरेकालंकारस्याङ्गताम्' इति क्वाचित्क: पाठः ३. 'उपपन्न- इति पुस्तकान्तरे.
Page 278
चतुर्थः परिच्छेदः। २३१
संचूर्णयामि गदया न सुयोधनोरू संधिं करोतु भवतां नृपतिः पणेन ॥' अत्र मन्नाम्येवेत्यादिव्यङ्गयं वाच्यस्य निषेधस्य सहभावेनैव स्थितम्। 'दीपयन्रोदसीरन्ध्रमेष ज्वलति सर्वतः । प्रतापस्तव राजेन्द्र वैरिवंशदवानलः ।।' अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्ग्यः । प्रतापस्य दावानलत्वारो- पसिद्धयङ्गम्। 'हरस्तु किंचित्परिवृत्त-' इत्यादौ विलोचनव्यापारचुम्बनाभिला- षयोः प्राधान्ये संदेहः । र्भीमस्योक्तिरियम्। सर्वत्र भविष्यत्सामीप्ये लुद्र। उरस्तो वक्षःस्थलात्। सुयोधनेति दुर्योधनस्यैव नामान्तरम्। नृपतिर्युधिष्ठिरः । भवतामिति 'अभिमतम्' इति शेपः । यद्वा, भवतां नृपतिरित्यनेन स्वाभीष्टानाचरणात्सनृपतित्वाभावसूचनम्। पणेन कुश- स्थल्यादिग्रामपञ्चकप्रापणरूपेण। मथ्नास्येवेति। प्रबलतरपरिपन्थिसंधिप्रसङ्गसमु-
योगव्यवच्छेदो व्यज्यते। स एवकारेण दर्शितः । सहभावेनेति। वाच्यप्रतीति- समकालमेव दीप्षभावगद्गदसाकाह्कतया काकुरवेण व्यङ्ञयप्रतीतिरिति वाच्यम्। अ- तस्तन्मात्रं व्यज्ञ्यमेवेवादिभिराकृष्यमाणं वाच्यायमानम्। अत एवात्र 'मुख्यार्थबा- धाद्यनुसरणविलम्बासहत्ाल्लक्षणा' इति प्राचीनाः। 'मुख्यार्थबाधो झटित्यर्थपर्यवसा- नाय प्रतीयते' इति नवीनाः। वाच्यार्थप्रतीतिसमये व्यजनाया अर्थबोधनासामर्थ्यमेव प्राचीनमताखरसः। केचित्तु-'न मथिष्यामीत्यादिरीत्या अपरनवर्थ आक्षिप्यते। तथा च नवर्थद्वूयेनैवकारार्थः पर्यवस्यति' इत्याहुः। तन। वाच्यार्थस्यैव व्यजनयो- पस्थितेरसंभवात्, वाच्यव्यञ्ञययोर्युगपदुपस्थित्ययोगाच। वाच्यसिद्धङ्गं व्यङ्गयमु- दाहरति-दीपयन्निति। प्रकाशयन्नित्यर्थः । रोदस्योर्द्यावापृथिव्यो रन्ध्रमवकाश ज्वलति दीप्यते। अन्रेति। अन्वयस्य कुलस्य प्राथमिकबोधे दवानलस्य शत्रुगो्र- संबन्धासंभवोपलम्भादप्रामाण्यग्रहः, ततः प्रतापस्य दवानलत्ोपपत्त्या व्यङ्ञयंकुलस्य वेणुत्वारोपणमभिसंदधतः श्रोतुवैरिकुलवेणुदवानल इति द्वितीयबोधः। आरोप्यमा- णस्य वेणोर्दवानलसंबन्धितमक्षतमित्यनुपपत्तिनिरासेन दवानलतारोपणस्याङ्गं व्यङ्गय- रूपकं प्रतापस्य दाहकत्वेन कविपरम्परासिद्धपिशङ्गलेन च दवानलसादृश्यं प्रसिद्ध- मिति तद्रूपकं वैरिकुलस्य वेणुत्वारोपणकारणमिति श्रिष्टनिबन्धनं परम्परितरूपकमि- दम्। कवचिच्च प्रकरणादिनियमाभावेन रूप्यरूपकयोरुभयोरेव श्लिष्टश्दवाच्यतम्। यथा-'विद्वन्मानसराजहंस- इत्यादि। प्रकृते तु नियन्न्रणवशाद्ूपकस्य व्यङ्गयत्व- मेवेत्यवधेयम्। संदिग्धप्राधान्यं व्यक्ञयमुदाहरति-हरस्त्विति। आकालिकवस-
Page 279
२३२ साहित्यदर्पणे
'ब्राह्मणातिकमत्यागो भवतामेव भूतये। जामदझ्यश्च वो मित्रमन्यथा दुर्मनायते।।' अत्र परशुरामो रक्ष:कुलक्षयं करिष्यतीति व्यङ्गयस्य वाच्यस्य च समं प्राधान्यम्। 'संधौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः । अल्लावैदीननृपतौ न संधिर्न च विग्रहः ॥' अत्राल्लावदीनाख्ये नृपतौ दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्गयं व्युत्पन्नानामपि झटित्यस्फुटम्।
न्ते पार्वतीमालोकमानस्य हरस्य धैर्यविपर्ययवर्णनमिदम्। परिवृत्तधैयों नष्टवृतिः। लोचनेति। मुखमात्रे लोचनव्यापारेण चुम्बनाभिलाषः संभाव्यते। न च द्वयोरेव शङ्गारव्यञ्जकतया प्राधान्यमिति तुल्यप्राधान्यमेवेदमिति वाच्यम्। उभयोः प्राधान्यसं- देहे तस्यानवकाशात्। प्राधान्यसंदेहश्र दर्शनं रतेरनुभावरूपतया शृङ्गारस्य व्यजने प्रधानमुत चुम्बनाभिलाषव्यञ्जकलेनाङ्गमिति। एवं चुम्बनाभिलाषः संभाव्यमान- लेनाप्रधानमुताखाद्यलेन शाङ्गारव्यज्जकतया प्रधानमित्याकारको बोध्यः। प्राधान्यस्य निश्चयाभावादेव वाच्यादनुत्तमलवं व्यङ्ञयस्य। तुल्यप्राधान्यव्यङ्गयमाह-ब्राह्मणेति। दिग्विजये भार्गवजिगीषुं दशग्रीवं प्रति तन्मत्ति्रिण उक्तिरियम्। अतिक्रमः पराभवः। भवतामेव भूतये, न तु सार्थ व्रवीमि। मित्रं चेति चकारस्यान्वयः। उभयोरेकशि- ष्यलेन सतीत्यर्थतया मित्रतं तस्यातिक्रमो न केवलं ब्राह्मणातिक्रमो मित्रातिकमश्च। अन्यथातिकमे दुर्मनायते इति भविष्यत्सामीप्ये लढ्। तस्यातिकमप्रवृत्तावतिक्रमो न सेत्स्यति तस्य दौर्मनस्यमेव भविष्यति। यथा कार्तवीर्येण तद्दौर्मनस्यमाचर्य क्षत्रिय- कुलं नाशितं तथा भवतापि रक्षःकुलं नाशयितव्यमिति भावः। जामदनन्यदौर्मन- स्यव्यङ्ग्यो रक्ष:कुलक्षयः, मित्रब्राह्मणातिक्रमत्यागजन्या विभूतिर्वाच्या, ताभ्यां जाम- दमन्यातिक्रमो न कर्तव्य इत्यर्थनर्धारणरूपमतिर्व्यज्यत इत्युभयोः समं प्राधान्यम्। अत एव वाच्यादनुत्तमलमस्य । क्वचित्तु-'वाच्यस्य मित्रब्राह्मणदौर्मनस्यस्य समं प्राधान्यमिति त्रासरूपव्यभिचारिभावव्यञ्जने दयोः साम्याच्छापपापोत्पादकलेन हि वाच्यात्रासो व्यङ्गयातु साक्षात्' इत्याहुः। तन्न। दुर्वृत्तस्य पापसंभावनया त्रासासं. भवाद्राह्मणदौर्मनस्यजन्यशापसंभावनया त्राससंभवेऽपि वाच्यस्य व्यङ्ञ्यापेक्षया व्यवहितत्ात्तुल्यप्राधान्यासंभवाच्च। अस्फुटं व्यक्ञ्यमाह-संधाविति। विग्रहें युद्धे। अन्यः संधिर्विग्रहो वा। अन्न दानादिकमेवोचितमित्यर्थनिर्धारणरूपमतेर्व्य- भिचारिभावस्य संधिविग्रहानिष्टसाधनत्वरूपवाच्यं व्यङ्यनिरपेक्षमेव व्यजकं वाच्यसं-
१. 'प' घ. २, 'प' घ.
Page 280
चतुर्थः परिच्छेदः । २३३
'अनेन लोकगुरुणा सतां वर्मोपदेशिना। अहं व्रतवती स्वैरमुक्तेन किमतः परम् ॥' अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्यग्योषिति बलात्कारोपभोगः स्फुटतया वाच्यायमान इत्यगूढम्। 'वाणीरकुडङुड्डीणसउणिकोलाहणं सुणन्तीए। घरकम्मवावडाए वहुए सीअन्ति अङ्गाइं ॥' अत्र दत्तसंकेत: कश्चिल्लतागृहं प्रविष्ट इति व्यङ्गयात् 'सीदन्त्य- ङ्ानि' इति वाच्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम्। धिविग्रहाभावसापेक्षमिति वाच्यादनुत्तमलमस्य। अगूढव्यङ्गयमाह-अनेनेति। शाक्यमुनेसि्तिर्यग्योषिद्वलात्कारोपभोगमसहमानायास्तत्पत्या उक्तिरियम्। व्रतं गृह- स्थधर्मानुष्ठानम्, तद्वती। उक्तेनेति। अतःपरं न वक्तव्यमित्र्थः। लोकगुरोः सद्ध- र्ोपदेशकस्यास्य दुष्कर्माचरणमनुचितमेव। मम तु व्रताचरणसहायस्य तादृशस्य कथनमपि नोचितमिति भावः। आक्षेपालंकारमहित्रा व्यङ्ञयरूपो विशेषो झटिलेव प्रतीयत इति वाच्यायमानतस्य व्यङ्ञयनिरपेक्ष एव वाच्य आक्षेपालंकार ईर्ष्यासंचा- रिभावज्ञापकः प्रतिनायिकायास्तिर्यक्लेन व्यज्ञ्यस्य तदुपभोगस्य नेर्ष्योत्कर्षाधायकत्- मिति व्यङ्गयादनुत्तमत्मस्य। असुन्दरं व्यज्ञयमाह-वाणीरेति। 'वानीरकुजो- ड्ीनशकुनिकोलाहलं शृण्वन्त्याः । गृहकर्मव्यापृताया वध्वाः सीदन्यङ्गानि ॥' इति संस्कृतम्। चण्डीदासस्तु-'कुडङ्गो लतागृहम्। वारता व्याकुला' इति व्याचकार। सीदन्ति गृहकर्माक्षमाणि भवन्तीति लक्षणात इति शेष: । गृहकर्मव्यापृताया इति तु तात्पर्यग्राहकम् । व्यङ्गयादपि व्यङ्ग्यमपेक्ष्येत्यर्थः। वाच्यादेवाङ्गावसादात्। हर्षा- वेगसंवलितानुरागोद्रेककृतमदनपरवशताप्रतीतिः । व्यङ्गयस्तु तटस्थप्रायम् । एतच्च सविषये वाच्यसिद्धज्वादिसर्वापवादस्वरूपं द्रष्टव्यम्। तेषु व्यङ्ञयस्यापि चारुत्वसंभवात इति चण्डीदासः। तटस्थं च व्यवहितोपकारलेनोदासीनवदाभासमानम्। तथाहि- शकुनिकोलाहलश्रवणनोपनायकस्य लतागृहप्रवेशानुमानम्, ततो हर्षाचेगौ, ताभ्याम- नुरागोद्रेक: ततो मदनपरवशताप्रतीतिः । एवं च व्यङ्ग्यस्य चमत्काराप्रत्यासन्नत्वमे- वासुन्दरतमिति फलितम्। केचित्तु 'रसादिबोधजनने वाच्यसापेक्षलमेवासुन्दर- खम्' इति। व्यङ्ग्यादिति। इत्यादिव्यङ्ञ्यादित्यर्थः । तथा च वधूश्च न तत्र गते- त्येतत्पर्यन्तादित्यर्थः । वध्वा अगमनमेव न केवलं तदीयविप्रलम्भव्यञ्ञकम्। किंदु शकुनिकोलाहलश्रवणेन सीदन्त्या वध्वा अगमनमिति वाच्याङ्वावसादसहकारेणैव रस- व्यञ्जनाया वाच्यमुखनिरीक्षकलात्तदपेक्षया न्यूनचमत्कारी' इति वदन्ति। तन्न । अङ्गावसादव्यञ्च्यविषादसहकृतस्यैव वध्वगमनस्य विप्रलम्भव्यञ्जनसंभवेन वाच्या- द्वावसादमुखनिरीक्षणायोगात्तदानींतनगमनाभावसत्त्वेऽपि गमनसंभावनया विप्रल- म्भासंभवात्। न च गृहकर्मव्यापृताया इत्यनेन गमनाभावनिश्चयेन गमनसंभावनैव
Page 281
२३४ साहित्यदर्पणे
किंच। यो दीपकतुल्ययोगितादिषृपमाद्यलंकारो व्यङ्गयः स गुणी- भूतव्यङ्ग्य एव। काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात्। तदुक्तं ध्वनिकृता- 'अलंकारान्तरस्यापि प्रतीतौ यत्र भासते। तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः ॥।' यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्यासः । यथा- 'दष्टया केशव गोपरागहृतया किंचिन्न हष्ट मया तेनात्र स्खलितास्मि नाथ पतितां किं नाम नालम्बसे। नास्तीति वाच्यम्। गृहकर्मान्तःपातिजलाहरणादिच्छलेनापि तत्संभवात्, रतेरुप- नायकविषयत्वेन विप्रलम्भाभासस्यैव वक्तुमुचितताच्च। विषयविशेषे केषांचिद्ध- निभ्रमं निरस्य गुणीभृतव्यङ्गयं व्यवस्थापयति-किंचेति। दीपकादिमुखेनैवेत्येव- कारेण व्यक्ष्योपमादिव्यवच्छेदः। अलंकारान्तरस्येति। अलंकारान्तरस्थ प्रती- तावपि यत्र वाक्यस्य तत्परत्वं व्यङ्गयालंकारान्तरतात्पर्यकतवं न भासते। असौ न ध्वनेर्मार्गो विषय इत्यर्थः। वाच्यस्य दीपकादेरेव वैचित्र्यावहत्वम्। व्यङ्गयं तूपमादिक- मजागलस्तनायमानमेवेति भावः । चारुत्वस्य चमत्कारस्य विपर्यास इति सोऽपि गुणीभूतव्यङ्गय इति पूर्वेणान्वयः । दृष्टयेति। हे केशव, हे नाथ, गोपरागैगोधूलि भिर्हृतया आच्छन्नया दष्टया चक्षुषा मया किचिन्मार्गादिकं न दृष्टम्, तेन हेतुना अत्र तवाग्रत एव रखलितास्मि पतिता भवामि। पतितां मां किं कथं नालम्बसे, न
- अलंकारेति। अलंकारान्तरस्य रूपकादेरलंकारप्रतीतौ सत्यामपि यत्र वाच्यस्य व्यङ्गप्रतिपादनौन्मुख्येन चारुत्वं न प्रकाशते नासौ ध्वनेमार्गः । तथा च दीपकादाव- लंकारे उपमाया गम्यमानत्वेऽपि तत्परत्वेन चारुत्वस्याव्यवस्थानान्न ध्वनिव्यपदेशः । यथा मम-रजनी हिमकरकिरणैर्बिसिनी नलिनैस्तरङ्गिणी सलिलैः। वल्ली कुसुमस्तबकैः काव्यकथा भूष्यते सुजनैः ॥' इत्यादिषूपमागर्भत्वेऽपि वाच्यालंकारमुखेनैव चारुत्वं व्यवति- ष्ठते, न व्यङ्गयालंकारतात्पयेंण। अतस्तत्र वाच्यालंकारमुखेनैव काव्यव्यपदेशो न्याय्यः। एवं समासोत्त्याक्षेपानुक्तनिमित्तविशेषोक्तिपर्यायोक्ताप ह्ुतिसंकरालंकारादावपि श्ञेयम्। समा- सोक्तौ तावत् 'उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम्। यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ।I' इत्यादौ व्यङ्गयेनानुगतं वाच्यमेव प्राधान्येन प्रतीयते। समारोपितनायिकानायकव्यवहारयोर्निशाशशिनोरेव वाक्यार्थत्वात्। एवमग्रेऽप्यनुसंधेयम्। तथा चोक्तम्-'व्यङ्गयस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः। समासो क्यादयस्तत्र वाच्यालंकृतयः स्फुटाः ॥ व्यङ्गयस्य प्रतिभामात्रे वाच्यार्थानुगमेऽपि वा। न ध्वनिर्यत्र वा तस्य प्राधान्यं न प्रतीयते ।। इति ॥
Page 282
चतुर्थः परिच्छेदः । २३५
एकस्त्वं विषमेषुखिन्नमनसां सर्वाबलानां गति- र्गोप्यैवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरम् ।।' अत्र गोपरागादिशव्दानां गोपे राग इत्यादिव्यङ्गयार्थानां सलेशमि- तिपदेन स्फुटतयावभासः। सलेशमिति पदस्य परित्यागे ध्वनिरेव। किंच यत्र वस्त्वलंकाररसादिरूपव्यङ्गयानां रसाभ्यन्तरे गुणीभाव- स्तत्र प्रधानकृत एव काव्यव्यवहारः । तदुक्तं तेनैव- 'प्रकारोडयं गुणीभूतव्यङ्गयोऽपि ध्वनिरूपताम्। धत्ते रसादितात्पर्यपर्यालोचनया पुनः ॥' इति। यत्र तु- यत्रोन्मदानां प्रमदाजनानामभ्रंलिहः शोणमणीमयूखः । संध्याभ्रमं प्राप्ुवतामकाण्डेऽप्यनङ्गनेपथ्यविधिं विधत्ते।।' धारयसि। धारणे हेतुमाह-एकस्त्वमिति। विषमेषु वातवर्षादिसंकटेषु खिन्न' मनसां दुःस्थितचेतसां सर्वासामबलानां स्वरक्षणाक्षमाणां गती रक्षकः। सलेशं सश्लेषम्। श्लिष्टार्थो यथा-गोपे निजस्वामिनि यो रागस्तेन हृतया लुप्या दृष्टया ज्ञानेन किचित्तव रहस्यं मया न दृष्ट नानुभूतम्, तेन हेतुना अत्र आसु गोपीषु मध्येऽहमेव स्खलिता परमसुखाञ्भष्टा। पतितां प्रणतां मां कि नालम्बसे नानुगृ- ह्रासि। ननु परस्त्रियां ममानुग्रहो नोचित इत्यत आह-एकस्त्वमिति। विषमेषुः काम: तेन खिन्नमनसां व्याकुलचेतसां सर्वासामबलानां गतिः स्मरवैक्कव्यनाशकः । 'परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि' इत्यमरः। स्फुटतयावभास इति। तथा च कामिनीकुचकलशवद्ूढं चमत्करोति। अगूढं तु स्फुटतया वाच्यायमान- मिति गुणीभूतमेवेति भावः । इदानीं गुणीभूतव्यङ्ञयप्रकारेष्वपि यत्र विश्रामधाम- तया रसादिकं प्रधानमस्ति तत्र तेनैव काव्यव्यपदेश इत्याह-किंच यत्रेति। 'प्रधानेन हि व्यपदेशा भवन्ति' इति न्यायादिति भावः । तेनैव ध्वनिकृतैव। रसा- दीति। रसादौ यत्तात्पर्ये तस्य पर्यालोचनया अनुसंधानेन। नन्वेवं यत्र रसादी- नामन्यतमतात्पर्यविषयत्वेन प्रधानत्वं तत्रैव काव्यव्यवहार इति फलितम्। एवं च ध्वनिलासंकीर्ण गुणीभूतव्यञ्यं क्वापि नास्तीति कुतस्तस्य काव्यविभाजकलमत आह-यत्र त्विति। यत्र नग्यो शोणमणी पद्मरागः अनङ्गनेपथ्यविधिं सुरतो- 1. सलेशमिति। सलेशं ससूचनमित्यर्थः । अल्पीभावनं हि सूचनमेव ॥ 2. शोणेति । अत्र शास्त्रसिद्धमपि कर्तुरेकवचनं -किमप्यरुचिबीजं सहदयहृदयेष्वक्क- १. ग-पुस्तके तु 'अत्र-' इत्यादिः 'अवभासः' इत्यन्तः पाठो नास्ति. २. 'किच-' इत्यादि: 'का- व्यव्यवहारः' इत्यन्तः पाठो नास्ति ग-पुस्तके. ३. इतोऽम्रे 'तेपां रसादीनाम्' इत्यधिकं पुस्तकद्ये
Page 283
२३६ साहित्यदर्पणे
इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेऽङ्गत्वम्, तत्र तेषाम- तात्पर्यविषयत्वेऽपि तैरेव गुणीभूतैः काव्यव्यवहारः । तदुक्तमस्मत्सगो-
न्मयीभावेनास्वाददशायां गुणप्रधानभावावभासस्तावन्नानुभूयते, काला- न्तरे तु प्रकरणादिपर्यालोचनया भवन्नप्यसौ न काव्यव्यपदेशं व्याह- न्तुमीशः, तस्यासवादमात्रायत्तत्वात्' इति। केचिच्चित्रावयं तृतीयं केंाव्यभेदमिच्छन्ति। तैदाहु :- 'शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्।' इति। तन्न। यँदि हि अव्यङ्गयत्वेन व्यङ्ग्याभावस्तदा तस्य का- व्यत्वमपि नास्तीति प्रागेवोक्तम्। ईषद्यङ्ग्यत्वमिति चेत्, किं नामेषद्- व्यङ्गयत्वम्। आस्वाद्यव्यङ्गयत्वम्, अनास्वाद्यव्यङ्गयत्वं वा। आद्ये पयुक्तवेषरचनां विधत्ते संपादयति। तेषां रसादीनामतात्पर्यविषयत्वेऽपि तात्पर्यवि- षयत्वेनाप्रधानत्वेऽपि तैरेव रसादिभिरेव काव्यव्यवहार इति। तथा च यत्रोभयसं- करस्तन्न व्यवहारसंदेहे तथा निरूपितम्। यत्र तूभयसंकरो नास्ति तत्र रसादीना- मन्यतमस्य संबन्धमात्रेणैव काव्यव्यवहारः, न तु प्रधानत्वेऽपीति भावः । वाक्या- र्थस्य पदार्थसमूहस्य अखण्डवुद्धिवेद्यतया एकवुद्धिग्राह्यतया। नन्वनेकपदार्थानां कथ- मेकवुद्धिग्राह्यवनियम इत्यत आह-तन्मयीभावेनेति। अखण्डवुद्धिसरूपीभा- वेन। कालान्तरे आस्वादविनाशदशायाम्। असौ गुणप्रधानभावावभासः। तस्य काव्यव्यपदेशस्य। तथा चोक्तस्थले वाक्यस्य रसादितात्पर्यकत्वाभावेऽपि प्रासङ्गिक- रसादिव्यञ्जकत्वेनापि काव्यतवमक्षतमेवेति भावः। काव्यप्रकाशादिकारमतं दूषयति- केचिदिति। व्यङ्ग्याभाव इति। 'विवक्षितः' इति शेषः । ईषद्यङ्गयत्व- मिति। 'विवक्षितम्' इत्यनुषज्यते। प्राचीनभेदयोः प्राचीनोक्तध्वनिगुणीभूतव्य-
रयतीति त एवात्र प्रमाणम् । एवं चात्र 'शोणमणिप्रकाशः' इति पठनीयम्। अथवा 'यत्रोन्मदानां प्रमदाजनानामभ्रंलिहा विद्रुमवेश्मभासः । संध्याभ्रमं प्राप्तुवतामकाले- डप्युलासयन्ति स्मरवेपलीलाम् ।' इति । अभ्राणि लिहन्तीत्यभ्रंलिहाः । 'वहाभ्रे लिहः' इति खशू। गगनस्पृश इत्यर्थः ॥
१. ग-पुस्तके तु 'तदुक्तम्-' इत्यादेः 'पादैः' इत्यन्नस्य स्थाने 'यच्च केचिदाहुः' इति पाठो वर्तते. २. अतोडग्रे 'तद्तीव हृदयगमम्। तथापि यथा सर्वेषां रसानां चमत्कारसत्वरेनाद्भतानतिरेकोऽपि मुनि- वचनानुरोधेन बहुमेदत्व तथा कात्यस्यापि ध्वनिगुणीभूतव्यङ्गयत्वेन द्विधा व्यपदेशः प्राचीनानाम्' इत्यधिक ग-पुस्तके. ३ 'अपि' इत्यधिक ग-पुस्तके. 8. 'काव्य' इति नास्ति ग-पुस्तके. ५. 'त- थाहि' ग. ६. 'विकल्पासहत्वात्। तथाहि-किमिदमव्यज्ञयत्वं नाम। सर्वथा व्यङ्गयरहितत्वं वा, ईषद्यज्ञयत्वं वा। नादः। अव्यङ्गयत्वे काव्याभावस्य प्रतिपादितत्वात् द्वितीये तु किमिदमीषद्वयज्ञय- त्वम् ।' इति पाठभेदो ग-पुस्तके.
Page 284
चतुर्थः परिच्छेदः । २३७
प्राचीनभेदयोरेवान्तः पातः। द्वितीये त्वकाव्यत्वम्। यदि चास्वाद्यत्वं तदाऽक्षुद्रत्वमेव । क्षुद्रतायामनास्वाद्यत्वात्। तेदुक्तं ध्वनिकृता- 'प्रैधानगुणभावाभ्यां व्यङ्गयस्यैवं व्यवस्थिते। उभे काव्ये ततोऽन्यद्यत्तच्चित्रमभिघीयते ॥' इति। इति साहित्यदर्पणे व्वैनिगुणीभूतव्यङ्गयाख्यकाव्यभेदनिरूपणो नाम चतुर्थ: परिच्छेदः ।
ङ्वचयोः । आदेऽनुपपत्त्यन्तरमाह-यदि चेति। तदा अक्षुद्रतमेवैत्यकारप्रश्लेपः। तथा च व्यङ्गचस्य आखाद्यत्वे क्षुद्रलायोगादनास्ाद्यत्वे काव्यतायोगाच्चेषध्यङ्गयमिति काव्यमपार्थकमेवेति भावः। चित्रस्य काव्यप्रकारत्ाभावे प्राचीनसंवादमप्याह- तदुक्तमिति। ततस्ताभ्यां चित्रं काव्याभासमात्रम्, न तु वास्तवं काव्यम्॥ इति श्रीरामचरणतर्कवागीशभट्टाचार्य विरचितायां साहित्यदर्पण वित्ृतौ चतुर्थः प्रकाशः ।
- प्रधानेति। व्यङ्गयार्थस्य प्राधान्ये ध्वनिः, गुणभावे तु गुणीभूतव्यज्गयता। ततो- इन्यद्रसभावादितात्पर्यरहितं व्यङ्गयार्थविशेषप्रकाशनशक्तिशून्यं च काव्यं केवलवाच्य- वाचकवैचित्र्यमात्राश्रयेणोपनिवद्धमालेख्यप्रख्यं यदाभासते तच्चित्रम्। तच्च द्विविधमिति ध्वनिकृतैवाग्रिमकारिकया व्यवस्थापितम्-'चित्र शब्दार्थभेदेन द्विविधं च व्यवस्थितम् । तत्र किंचिच्छब्दचित्रं वाच्यचित्रमतः परम् ॥' इति। तत्र किचिच्छब्दचित्रं यथा दुष्कर- यमकादि। वाच्यचित्रमतः शब्दचित्रादन्यद्यक्गथार्थसंस्पर्शरहितं प्राधान्येन वाक्यार्थत- या स्थितं रसादितात्पर्यरहितमुत्प्रेक्षादि। अथ किमिदं चित्रं नाम, यत्र न व्यङ्गयार्थसं- स्पर्शः । तत्र, यत्र वस्तु अलंकारान्तरं वा व्यङ्षयं नास्ति स नाम चित्रस्य कल्प्यता वि षयः। यत्र तु रसादीनामविषयत्वं स काव्यप्रकारो न संभवत्येव। यस्मादवस्तुसंस्पर्शिता काव्यस्य नोपपद्यते। वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य चाङ्गत्वं प्रतिपद्यते। विभावत्वेन चित्तवृत्तिविशेषा हि रसादयः । न च तदस्ति वस्तु किंचिद्यन्न चित्तवृत्ति- विशेषमुपजनयति, तदनुत्पादने वा कविविपयतैव तस्य न स्यात्। कविविपयश्च चित्रतया कश्चिन्निरूप्यते। अत्रोच्यते-सत्यम्। न तादृकाव्यप्रकारोडस्ति यत्र रसादीनामविप्र- तिपत्तिः । कि तु यदा रसभावादिविवक्षाशून्यः कविः शब्दालंकारमर्थालंकारं वोपनिव- झाति तदा तद्विवक्षापेक्षया रसादिशून्यतार्थस्य परिकल्प्यते। विवक्षोपरूढ एव हि काव्ये शब्दानामर्थः। वाच्यसामर्थ्यवशेन च कविविवक्षाविरहेऽपि तथाविधे विपये रसादिप्रती- तिर्भवन्ती परिदुर्वला भवतीत्यनेनापि प्रकारेण नीरसत्वं परिकल्प्य चित्रविपयो व्यवस्था-
१. 'यदि च-' इत्गादिः 'अनास्वाद्यत्वात्' इत्यन्तः पाठो नास्ति ग-पुस्तके. २, 'तथा चोक्तम्' ग. ३. 'ध्वनि' इति क-पुस्तके नास्ति.
Page 285
२३८ साहित्यदर्पणे
प्यते। तदिदमुच्यते-'रसभावादिविषयविवक्षाविरहे सति। अलंकारनिबन्धो यः स चि- त्रविषयो मतः ॥ रसादिषु विवक्षा तु स्यात्तात्पर्यवती यदा। तदा नास्त्येव तत्काव्यं ध्व- नेर्यत्र न गोचरः ॥' इति। एतेन तृतीयकाव्यभेदं प्रत्याचक्षाणस्य अ्रन्थकृतो मतं न सह- दयहृदयमधिरोहति। इत्थं च 'अव्यङ्ग्यम्' इत्यत्र तात्पर्यविषयीभूतव्यङ्गयविकलत्वमेवा- व्यञ्चयपदेनाभिप्रेतम् । अत्र पक्षे 'अतादृशगुणीभूतव्यङ्ञयं व्यङ्गये तु मध्यमम् इति मध्य- मकाव्यलक्षणे व्यङ्ग्यपदं विवक्षितव्यञ्ञयपरम्। यद्ा अव्यङ्ञयम् अस्फुटतरातिरिक्तव्य- जयरहितम्। ताद्ृशं चास्फुटतरव्यङ्गयसद्भावे व्यङ्गयमात्राभावे वा। ईषत्वस्य नञर्थ- त्वाद् अव्यङ्क्यमसफुटतरव्यङ्गमिति कतिपये। वस्तुतस्त्वत्रार्थचित्रशब्दचित्रयोरविशेषेणा- धमत्वं वक्तुमयुक्तम्। तारतम्यस्य स्फुटमुपलब्धेः । को ह्यवं सहृदयः सन् 'विनिर्गत मा- नदमात्ममन्दिरान्द्वत्युपश्रत्य यदृच्छयापि यम्। ससभ्रमेन्द्रद्रुतपातितार्गला निमीलिता- क्षीव भियामरावती।।' इति, 'स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः । अङ्गार- शेषस्य हुताशनस्य पूर्वोत्थितो धूम इवावभासे ॥' इत्यादिभिरर्थचित्रकाव्यैः 'स्वच्छन्दो- च्छलदच्छकच्छकुहरच्छातेतराम्बुच्छ टामूर्च्र्छन्मोहमहर्षिहर्षविहितस्ानाह्निकाहाय वः । भि- न्द्यादुददुदारदर्दुरदरीदीर्घांदरिद्रद्रमद्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥' इत्या- दीनां पामरक्काध्यानामविशेषं ब्रयात्। सत्यपि तारतम्ये यदेकभेदत्वं कस्तर्हि ध्वनि- गुणीभूतव्यङ्ञययोरीषदन्तरितयोरविभिन्नभेदत्वे दुराग्रह इति रसगङ्गाधरकाराः । तत्र प्रका- शोन्मीलितबुद्धयस्तु-अव्यङ्गयं स्फुटप्रतीयमानार्थरहितं तु अवरं चरमम्। तृतीयकाव्य- मित्यर्थः । चरमत्वं च ध्वनिगुणीभूतव्यङ्गयापेक्षया कानिष्ठयम्। न त्वधमत्वमेव। तस्य चित्राख्यतृतीयकाव्यावान्तरभेदे विवक्षितत्वात्। तच्चित्रमित्यध्याहार्यम्। चित्रं च गुणा- लंकारयोगि। तच्च शब्दचित्रं वाच्यचित्रमित्यवान्तरभेदेन द्विविधम। अत्र कल्पे ध्वनि- ग्रन्थोडप्यनुकूल एव। 'तत्तुल्यमेवार्थचित्रं मन्तव्यम्' इत्याचार्याभिनवगुप्तोक्तिस्तु प्रौढि- वादमात्रपरा। तत्र शब्दचित्रस्य वाच्यचित्र।पेक्षयाकृष्टत्वादधमत्वम्' इत्याहुः । एतेन काव्यस्य चातुर्विध्यमतिरोहितमेव। तथाहि-यत्र शब्दार्थों गुणीभावितात्मानौ कमप्यर्थ- मभिव्यङ्गस्तदुत्तमम्। 'निःशेषच्युतचन्दनम्-' इत्यादि। इदमेव रसगङ्गाधरे उत्तमोत्तम- मिति व्यपदिश्यते। यत्र व्यङ्गयमप्रधानमेव सच्चमत्कारजनकं तन्मध्यमम्। 'राघवविरह- ज्वालासंतापितसह्यशैलशिखरेपु । शिशिरे सुखं शयानाः कपयः कुप्यन्ति पवनतन- याय ।' इति पण्डितराजपदे जानकीकुशलावेदनेन राघवः शिशिरीकृत इति व्यङ्गयमा कस्मिककपिकर्तृकपवनतनयविपयककोपोपपादकतया गुणीभूतमपि दुर्देववशतो दास्य- मनुभवद्राजकलन्रमिव कामपि कमनीयतामावहति। इदमुत्तमम् । यत्र व्यङ्गयचमत्कारा- समानाधिकरणो वाच्यचमत्कारस्तद्वाच्यचित्रम्। 'विनिर्गतम्-' इत्यादि। इहामरावतीति स्त्रीप्रत्ययकृतकामिनीत्वाध्यवसानमूलोत्प्रेक्षा वाच्यैव चमत्कारविश्रमभूमिः । वीररस चमत्कारोंडशतया वर्तमानोऽप्युत्प्रेक्षाचमत्कृतिक्रोडनिलीनो नागरेतरनायिकाकल्पित- काश्मीरद्रवाङ्गरागनिगीणों निजाङ्गगौरिमेव प्रतीयते। इदं मध्यमम्। यत्रार्थचमत्कारोप- स्कृतः शब्दचमत्कारः प्रधानं तच्छब्दचित्रम्। 'स्वच्छन्द- इत्यादि। अत्र शब्दचम- त्कारावलीढोडर्थचमत्कार: क्षाराकूपारपूरपतितगङ्गाप्रवाहमधुरिमेव न विभाव्यते। इद- मधमम्॥
Page 286
पञ्चम: परिच्छेदः । २३९
पश्चमः परिच्छेद: । अथ केयमभिनवा व्यञ्जना नाम वृत्तिरित्युच्यते- वृत्तीनां विश्रान्तेरभिधातात्पर्यलक्षणाख्यानाम्। अङ्गीकार्या तुर्या वृत्तिर्वोधे रसादीनाम् ॥ १ ॥ ननु व्यङ्गयं तावत्काव्यव्यपदेशबीजम्। तच्च व्यञ्जनया बोध्यं वस्तु। तैस्या अप्रा- माणिकत्वे सर्वमेतदसिद्धमिति। तत्र प्रमाणमुपेन्यसितुमुत्थापयति-अथ केय- मिति। इयं व्यङ्गयबोधसाधनी अभिनवा नवीनैरभ्युपगम्यमाना। प्रामाण्योपन्या- साय प्रथमं तस्याः स्वरूपं निरूपयति-वृत्तीनामिति। यद्यपि 'विरेतासु-' इत्या- दिना व्यजनाया: स्वरूपं निरूपितमेव। 'व्यञ्जनध्वननावगतप्रत्यायनादिव्येपदेशवि- 1. वृत्तीनामिति । अत्रेद तत्त्वम्-'गङ्गायां घोषः' इत्यत्र गङ्गाशब्दो घोषशब्दश्च सामान्यात्मके जलप्रवाहे आभीरगृहनिकुरम्बे च संकेतितौ।-सामान्य एवोद्योगात्। विशेषस्य हि संकेतकरणे आनन्त्यं व्यभिचारश्च स्यात् ततश्चाभिधया जलप्रवाहमात्रं तद्हनिकुरम्बमात्रं च प्रतीतमिति प्रथमा कक्ष्या। एतत्प्रतिपाद्यान्यप्रतिपादनायाप्यभिधा न समर्था। 'विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे' इति नयेन "अभिधा शक्ति: विशेष्यं व्यक्तिरूपं धर्मिणं न गच्छेत् न यायात्। यतः विशेषणे जातिरूपे उपाधौ क्षीण- शक्ति: विरतव्यापारा। 'नागृहीतविशेषणा बुद्धिविशेष्ये चोपजायते' इति न्यायेन 'विशेषणं प्रत्याय्य विरामात्' इत्यर्थकेन तस्या विरम्य व्यापारासंभवात् । 'सामान्यान्यन्यथासिद्धे- विशेषं गमयन्ति हि' इति न्यायात्तात्पर्यशक्तया सामान्यान्याधाराधेयभावेनावस्थितं विशिष्टं गङ्गाघोषाद्यागूरयन्तीति तात्पर्येण परस्परान्वितत्वमात्रमेव प्रतीयत इति द्वितीया। जलप्र- वाहस्य च वोषाधिकरणत्वमयुक्तमिति प्रमाणान्तरवाधितः सन्गङ्गाशब्दस्तदधिकरणयोग्यं तीरं लक्षयतीति तृतीया। तत्र तावत् 'मुख्यार्थबाधे तद्युक्तो ययान्योऽर्थः प्रतीयते। रूढे: प्रयोजनाद्ापि-' इति नीत्या लक्षणा त्रितयसंनिधावेव भवति। तत्र मुख्यार्थबाधा ता- वत्प्रत्यक्षादिप्रमाणान्तरमूला। यश्च सामीप्यादिसंबन्धः स च प्रमाणान्तरावगम्य एव । यत्पुनरिदं तीरस्य शैत्यपावनत्वादिलक्षणं प्रयोजनं प्रतीयते तच्छव्दान्तरानुक्तं प्रमाणान्त- राप्रतिपन्नं च कुत आगतम्। न तावत्प्रत्यक्षादेतत्प्रतीतिः । अस्मादेव शब्दादवगमा- सिद्धेः, शब्दार्थे च तस्याप्रवृत्तेः। नाप्यनुमानात्। सामीप्येऽपि शैत्यपावनत्वादेरसंभवा- दनैकान्तिकत्वात्। न च स्मृतिः। तदनुभवाभावात्। सत्यामपि तस्यां नियतस्मरणं न स्यात्। अस्ादेव च शब्दादेतदेव बुध्यत इति को हेतुः। तस्मादस्यैव शब्दस्यैष व्या- पारोऽभ्युपगन्तव्यः। निर्व्यापारस्यार्थप्रतीतिकारित्वाभावात्। स तावन्नाभिधात्मा । सम- याभावात् न तात्पर्यात्मा। तस्यान्वयप्रतीतावेव परिक्षयात्। न लक्षणात्मा। मुख्या-
व्यञ्जनाव्यापारो व्यअ्जनद्योतनादिसोदरव्यपदेशनिरूपितोऽभ्युपगन्तव्य इति निष्कर्षः॥
१. 'अस्याः' पुस्तकान्तरे. २. 'उपन्यस्यंस्ताम्' पुस्तकान्तरे. ३. 'पमाण' पुस्तकान्तरे. ४. 'नि- वृत्तासु' इति सर्वत्र. ५. 'व्यपदेश' इति पुस्तकान्तरे नास्ति.
Page 287
२४० साहित्यदर्पणे
अभिधायाः संकेतितार्थमात्रबोधनविरताया न वस्त्वलंकाररसादि- व्यङ्गयबोधने क्षमत्वम्। न च संकेतितो रसादिः। नहि विभावाद्यभि- धानमेव तदभिधानम्, तस्य तदेकरूप्यानङ्गीकारात्। यत्र च खश- ब्देनाभिधानं तत्र प्रत्युत दोष एवेति वक्ष्यामः । क्वचिच्च 'शृङ्गाररसो- डयम्' इत्यादौ खशब्देनाभिधानेऽपि न तत्प्रतीतिः, तस्य खप्रकाशा- नन्दरूपत्वात्।
अभिहितान्वयवादिभिरङ्गीकृता तात्पर्याख्या वृत्तिरपि संसर्गमात्रे परिक्षीणा न व्यङ्गयबोघिनी।
षया' इत्यनेन तत्र प्रमाणं चोपन्यस्तम्, तथापि दृढप्रत्ययप्रतिपत्तये प्रमाणान्त- रोपन्यासार्थ पुनरारम्भः । विश्रान्तेः सार्थबोधनेन विरामादृत्तिः शब्दार्थयोरन्यत- रस्य व्यापारः। बोधे बोधनिमित्तम्। रसादीनामिति वस्त्वलंकारयोरप्युपलक्षणम्। नन्वभिवैव रसादिबोध इत्यत आह-अभिधाया इति। मात्रपदेन लक्ष्यादिव्य- वच्छेदः। विरतायाः पुनरुत्थानाभावादिति प्रागुक्तो हेतुरत्र द्रष्टव्यः । हेत्वन्तरम- प्याह-न चेति। खव्यञ्ञकपदसंकेताभाववानित्यर्थः। तेन रसादीनां रसादिपदसं केतितत्वेऽपि न क्षतिः।नहीति। तदभिधानं रसाद्यभिधानम्। विभावादेरेव रसरूपलाङ्गीकारादिति भावः । तस्य विभावाद्यभिधानस्य तदेकरूप्यानङ्गीकारात् आ- स्वादरूपरसादिप्रतीतितादात्म्यखीकारात्। तथा च विभावाद्यभिधानानन्तरं जाय- मानाया आस्वादरूपरसादिप्रतीतेः कारणतया व्यज्नावश्यं स्वीकार्येति भावः। ता- दृशप्रतीते रसादिपदाजन्यतमपि प्रतिपादयति-यत्र चेति। 'तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः कोप्यजायत' इत्यादावित्यर्थः। स्वशब्देन रसशङ्गारादिपदेन अभिधानं रसस्य प्रतिपादनम्। दोष एवेत्येवकारेणास्वादरूपरसप्रतीतिव्यवच्छेदः। ननु रसस्य स्वशब्दाभिधानं काव्ये एव दोषो न तु लौकिकवाक्ये, एवं च काव्यदोषवशात्तादृशी प्रतीतिर्मास्तु, लौकिकवाक्ये तु स्यादेवेत्यत आह-ककचिच्चेति। लौकिकवाक्ये चेत्यर्थः । तत्प्रतीती रसप्रतीतिः । तस्य रसस्य। तथा चाभिधया जायमानस्य बो- धस्य स्वप्रकाशताभावादानन्दरूपत्वाभावाच्च न रसस्रूपलस्वीकार इति भाव:। कारिकोक्तकमेण तात्पर्याख्यवृत्तेरपि व्यञ्ञयबोधनाक्षमत्वमुपपादयति-अभिहितेति। एतच्च वक्तृतात्पर्येविशेषरूपाया व्यजनाया वारणाय। संसर्गमात्रेऽन्वयबोधमात्रे। परिक्षीणा बिरता। शब्दश्रुतेरनन्तरं यावानर्थ: प्रतीयते तत्र शब्दस्याभिधैव व्यापार
१. 'न च रसादिशब्देन शङ्गारादिशब्देन चाभिधेयत्वम्, तस्य तदन्वयव्यतिरेकानुविधानात्। कि च' इत्यधिकं ग. पुस्तके. २. 'अपि' ग. ३. 'शक्तिः' ग.
Page 288
पञ्चमः परिच्छेदः। २४१
यच्च केचिदाहुः-'सोऽयमिषोरिव दीर्घदीर्घतरोऽमिधाव्यापारः' इति, यच्च धनिकेनोक्तम्- 'तात्पर्याव्यतिरेकाच्च व्यञ्जकत्वस्य न ध्वनिः । यावत्कार्यप्रसारित्वात्तात्पर्ये न तुलाधृतम् ।।' इति, तयोरुपरि 'शब्दबुद्धिकर्मणां विरम्यव्यापाराभावः' इति वादिभि- रेव पातनीयो दण्डः । एवं च किमिति लक्षणाप्युपास्या। दीर्घदीर्घतराभिधाव्यापारेणापि
इति मतं दूषयितुमुत्थापयति-सोऽयमिति। इषोरिवेति। अतिदीर्घ इषुव्या- थारो यथैकलक्ष्यं भित्त्वा लक्ष्यान्तरमपि भिनत्ति तथैकैवाभिधा वाच्यार्थ बोधयित्वा व्यड्ञ्यार्थमपि बोधयतीति भावः । तात्पर्येति। तात्पर्यभेदाभावात् शब्दादेर्व्यज्ञक- लस्य व्यञ्जनसामर्थ्यस्य न ध्वनिर्न व्यज्ना नाम। एवं च तात्पर्यमेव व्यङ्ग्यबोधकम्। नन्विदं संसर्गमात्रबोधकं कर्थ व्यङ्गयं बोधयतीत्याह-यावदिति। तात्पर्ये हि संसर्गव्यञ्च्ययोर्बोधकत्वान्न तुलाधृतं न संसर्गमात्रबोधकत्वेन नियन्त्रितमित्यर्थः।नन्वयं न्यायोऽप्रामाणिक एवेत्यत आह-एवं चेति। अभिधयैव व्यञ्ञ्यवोधखीकारे
- केचिदिति। भट्टमतोपजीविनो लोलटादयः ॥ 2. सोऽयमिति। यथा बलवता प्रेरित इषुरेकेनैव वेगाख्येन व्यापारेण वर्मच्छेदमुरो- भेदं प्राणहरणं च रिपोविधत्ते, तथैक एव शब्द एकेनैवाभिधाख्यव्यापारेण पदार्थस्मृति वाक्यार्थानुभवं व्यङ्षयप्रतीति च विधत्ते। अतो व्यङ्गयत्वाभिमतस्यार्थस्य वाच्यत्वमेवेति जेषामाशयः । 3. शब्देति। वाचकस्य लाक्षणिकस्य वा शब्दस्य अभिधया लक्षणया वा सकृच्छाब्द- बोधमुत्पाद्य पुनरभिधया लक्षणया वार्थान्तरबोधने सामर्थ्याभावादित्यर्थः । 4. किमितीति। यदि भवन्मते तादृशाभिधाव्यापारेणैव व्यङ्गयार्थोऽवबुध्यते, ताहिं किमर्थ लक्षणा स्वीक्रियते। लक्ष्यार्थस्यापि भवत्कल्पिताभिधाव्यापारेणैव बोधात्। एवं च किमर्थ मीमांसादर्शने भगवता जैमिनिना 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां सम- वाये पारदौर्वल्यमर्थविप्रकर्षात्' इे सूत्रेण श्रुत्यादिधु पूर्वपूर्वबलीयस्त्वं निरणायि। श्रुति- स्थल इव लिङ्गादिस्थलेडपि शब्दश्रवणानन्तरं प्रतीयमानानामर्थानां दीर्घदीर्घतराभिधाव्यापा- रेणैव प्रतीतौ लिद्गादीनां दौर्वल्ये बीजाभावात्। निरपेक्षो रवः श्रुतिः । अर्थवि शेषप्रकाशनसा- मर्थ्य लिङ्गम्। परस्पराकाड्ढावशात्कचिदेकस्मिन्नर्थे पर्यवसितानि पदानि वाक्यम्। लब्घ- वाक्यभावानां कार्यान्तरापेक्षाभावाद्वाक्यान्तरेण संबन्ध आकाड्वापर्यवसन्नं प्रकरणम्! स्थानं क्रमः। स चानेकस्याम्नातस्य संनिधिविशेषादान्नातम्। समाख्या योगवलम्। श्रुत्या- दीनां समवाये एकत्रोपनिपाते तेषां मध्ये यदपेक्षया यत्परं तदपेक्षया तदुदर्बलम्। कुतः । १. 'ध्वनिकारेण' क-ख; 'ध्वनिना' ग; 'ध्वनिकेन' घ. २. 'इति' नास्ति घ-पुस्तके. ३, 'विरम्य- व्यापाराभाववादिभि:' क. सा० द० २१
Page 289
२४२ साहित्यदर्पणे
तदर्थबोधसिद्धेः । किमिति च 'ब्राह्मण, पुत्रस्ते जातः। कन्या ते गर्मिणी' इत्यादावपि हर्षशोकादीनामपि न वाच्यत्वम्। थैत्पुनरुक्तं "पौरुषेयमपौरुषेयं च वाक्यं सर्वमेव कार्यपरम्, अतत्परत्वेऽनुपादेयत्वादुन्मत्तवाक्यवत्, ततश्च काव्यशब्दानां निर- तिशयसुखास्वादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः प्रवृत्त्यौपयिकप्र- योजनानुपलब्घेर्निरतिशयसुखास्वाद एव कार्यत्वेनावघार्यते। 'धत्परः शब्द: स शब्दार्थ' इति न्यायात्" इति।
चेत्यर्थः । तदर्थेति। लक्ष्यार्थेत्यर्थः। लक्षणाजन्यबोधानन्तरमपि व्यञ्ञबोधायाभि- धासत्त्वसवीकारे लक्षणासत्त्वस्वीकार स्याकिंचित्करत्वादिति भावः। लक्षणाया अस्वीकारे इष्टापत्तेर्दोषान्तरमाह-किमिति चेति।न वाच्यतमित्यन्वयः। कन्या अदत्तपुत्री। प्रतिपाद्यस्य मुखप्रसादाप्रसादादिभिरनुमितानामपि हर्षशोकादीनां शब्दानन्तरप्रतीत- त्वेन वाच्यलापत्तिरिति भावः। रसादीनां तात्पर्यग्राह्यलमनुमानेन साधयतां मतमाह- यत्पुनरिति। पौरुषेयं पुरुषनिष्पन्नं लौकिकं मन्वादिशास्त्ररूपं च। अपौरुषेयं वेदस्व- रूपम्। सर्वमेवेति व्यापकताग्रहाय। यद्यदुपादेयं वाक्यं तत्कार्यपरम्। यथा 'घट- मानय' इति लौकिकं वाक्यं जलाहरणरूपकार्यतत्परम्। यथा वा 'विश्वजिता यजेत' इति वैदिकं वाक्यं स्वर्गरूपकार्यतत्परमित्यन्वयव्याप्तिरत्रावधेया। व्यतिरेकव्याप्तिं दर्शयति-अतत्परत्वे इति। यद्यन्न कार्यतत्परं तदनुपादेयवाक्यम्, यथा उन्मत्तादिवाक्यम्, इति। अनुमितिं दर्शयति-ततश्चेति। प्रतिपाद्यस्य श्रोतुः काव्यश्रवणे प्रवृत्तिः, प्रतिपादकस्य वक्तुः काव्यपाठे प्रवृत्तिः, तयोरौपयिकं कारणी- भूतफलेच्छाविषयो यत्प्रयोजनान्तरं चतुर्वर्गादि तस्यानुपलब्धेः शब्देनानुपस्थानात्। अवधार्यते तात्पर्येण प्रतिपद्यते। ननु कार्यान्तरवद्रसादिरपि न प्रतीयेतेत्यत आह- यत्पर इति। यद्वोधेच्छया उच्चरित इत्यर्थः। शब्दार्थः शब्दप्रतिपादः। एतेन इतरबाधबलात्तात्पर्येण रसादिप्रतिपादकतवसिद्धिर्दर्शिता। एवं च 'काव्यं कार्यतत्परम्, उपादेयवाक्यत्वात्' इत्यनुमानमवगन्तव्यम्। अत्र काव्यत्ावच्छेदेन साध्यसिद्धिर- अर्थविप्रकर्षात् पूर्वापेक्षया विलम्बेनार्थप्रत्यायकत्वादिति तदर्थः । अत्र विशेषः शाबरभाष्या- दावनुसंधेयः। 1. किमिति चेति। शब्दश्रवणानन्तरं यावानर्थः प्रतीयते तावति शब्दस्याभिधैव व्यापार इति मीमांसकनयेन हर्पशोकादीनां किमिति न वाच्यत्वमेवं पूर्वेणान्वयः । त- न्मते दीर्घदीर्घतराभिधाव्यापारेणैव हर्षशोकादीनां वाच्यत्वमिति स्यादिति भावः । वाक्येन तदर्थप्रतीतिद्वारा हर्षशोकादय उत्पद्यन्ते, न तु तत्प्रतीतिः । सा तु हर्षशोकादिलिङ्गैर्मुख- प्रसादमालिन्यादिभिरनुमानात्प्रत्याय्यत इति हि सिद्धान्तः ॥ 2. यदिति । 'अन्विताभिधानवादिभिः' इति शेषः ॥ 3. यदिति। यदर्थे यस्य शब्दस्य तात्पर्य स एव शब्दार्थ इति मीमांसकनियमात्।
Page 290
पञ्चम: परिच्छेद: । २४३
तत्र प्रष्टव्यम्-किमिदं तत्परत्वं नाम, तदर्थत्वं वा, तात्पर्य- वृत्त्या तद्वोघकत्वं वा। आद्ये न विवादः। व्यड्यत्वेऽपि तदर्थतानपा- यात्। द्वितीये तु-केयं तात्पर्याख्या वृत्तिः । अभिहि तान्वयवादिभि- रङ्गीकृता, तदन्या वा। आद्ये दत्तमेवोत्तरम् । द्वितीये तु-नाम- मात्रे विवादः। तन्मतेऽपि तुरीयवृत्तिसिद्धेः । नन्वस्तु युगपदेव तात्पर्यशक्त्या विभावादिसंसर्गस्य रसादेश्च प्रका- शनम्-इति चेत्, न तयोर्हेतुफलभावाङ्गीकारात्। यदाह मुनिः- 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति । सहभावे च कुतः सव्येतरविषाणयोरिव कार्यकारणभावः । पौर्वापर्यविपर्ययात्। भिमता, तेन काव्यतसामानाधिकरण्येन कार्यान्तरप्रतिपादकत्वसिद्धौ न सिद्धसाध- नम्। एतन्मतं दूषयति-तत्रेति। व्यङ्गयत्वेऽपीति। व्यज्नावादिमते सिद्धसा- धनमिति भावः । द्वितीये त्विति। अन्नाभिघया 'कार्य कुरु' इत्यादिवाक्ये जलाह- रणार्थे 'घटमानय' इत्यादौ च कार्यप्रतिपादके व्यभिचारोऽपि दोषो द्रष्टव्यः । दत्त- मेवेति। संसर्गबोधे परिक्षीणलात्कार्यबोधनाक्षमत्वं तात्पर्यस्येत्युत्तरम्। तन्मतेऽपि रसादीनां तात्पर्यग्राह्यत्ववादिमतेऽपि । ननु विभावादिसंसर्गबोध-रसादिवोधयोः कमिकत्वाङ्गीकार एव दूषणमुक्तम्, यौगपद्याज्गीकारे तु नास्यावसर इत्यभिप्रायेणाह- नन्वस्त्विति। तयोर्विभावादिसंसर्गबोधरसादिबोधयोः। संयोगात्संसर्गबोधात्। ननु सहोत्पन्नयोरपि तयोः कार्यकारणभाव आस्तामित्यत आह-सहभावे चेति। 1. तदिति । अभिहितान्वयवादिमतेऽपि । 2. विभावेति। तत्तन्मतानुसारेण प्राग्व्याख्यातस्याप्यमुष्य भरतसूत्रस्य तत्कृतव्या- ख्यानं प्रदश्यत-"विभाव इति कस्मादुच्यते। विभावो विज्ञानार्थः। विभाव्यन्तेऽनेन वागङ्गसत्वाभिनया इत्यतो विभावः । विभावितं विज्ञातमित्यनर्थान्तरम्। अत्र शोक :- 'बहवोडर्थां विभाव्यन्ते वागङ्गाभिनयाश्रयाः । अनेन यस्मात्तेनायं विभाव इति संज्ञितः ।।' अथानुभाव इति कस्मादुच्यते। यदयमनुभावयति वागङ्गसत्त्वकृतमभिनयम्, अन्र श्रोक :- 'वागङ्गसत्त्वाभिनयर्यस्मादर्थो विभाव्यते। वागङ्गोपाङ्गसंयुक्तस्त्वनुभाव इति स्मृतः॥' व्यभिचारिण इति कस्मादुच्यते-'वि'-'अभि' इत्येतावुपसगौं। चरतिर्धांतुः। विवि- धमाभिमुख्येन रसेषु चरन्ति नयन्तीति व्यभिचारिणः। कथ नयन्ति। उच्यते-यथा सूर्य इदं नक्षत्रमनुवासरं नयतीति। नच तेन बाहुभ्यां स्कन्धेन वा नीयते। किंतु लोकप्रसिद्ध- मेतत् इति भरतः। तैः संयोगात्संबन्धात्। अत्र 'संयोगात्' इति पश्चम्या विभावादीनां हेतुत्वमुक्तम्। व्यञ्जकत्वं च तदर्थः" इत्याचार्याभिनवगुप्तपादानुयायिनः । इह दृष्टान्त- मपि भरत एवाह-यथाहि गुडादिभिर्द्रव्यैव्यअनैरोषधिभिश्च षाडवादयो रसा निवर्तन्ते तथा नानाभावोपगता अपि स्थायिनो भावा रसत्वमाश्नुवन्तीति॥ १. 'कार्ये-' इत्यादिः 'इत्यादौ च' इत्यन्तः पाठः पुस्तकान्तरे नोपलभ्यते.
Page 291
२४४ साहित्यदर्पणे
'गङ्गायां घोषः' इत्यादौ तटादयर्थमात्रबोधविरताया लक्षणायाश्च कुतः शीतत्वपावनत्वादिव्यङ्गयबोधकता। तेन तुरीया वृत्तिरुपास्यै- वेति निर्विवादमेतत्। किंच- बोद्धस्वरूपसंख्यानिमित्तकार्यप्रतीतिकालानाम्। आश्रयविषयादीनां भेदाद्भिन्नोऽभिधेयतो व्यङ्यः ॥२।। वाच्यार्थव्यङ्गयार्थयोर्हि पद्तदर्थमात्रज्ञाननिपुणैवैयाकरणैरपि सह- दयैरेव च संवेद्यतया बोद्धमेदः । 'भम धम्मिअ-' इत्यादौ क्कचि- द्वाच्ये विधिरूपे निषेधरूपतया, कैचित् 'निःशेषच्युतचन्दनम्-' युगपदुत्पत्तिसवीकारे चेत्यर्थः । सव्येतरविषाणयोर्वामदक्षिणशङ्योः। इदानीं लक्ष- णाया व्यङ्ञयबोधाक्षमत्वं दर्शयति-गङ्गायामिति। तेनाभिधादीनां व्यङ्गयबोधना क्षमत्वेन। वाच्यव्यङ्ञययोभेंदमुपपाद्य तेनैवाभिधातो व्यज्नाया भेदमुपपादयति-किं: चेति। 'आश्रयविषयादीनाम्' इत्यनन्तरं चकारो द्रष्टव्यः। बोद्धभेदमुपपादयति- वाच्यार्थेति। पदेति तदर्थेति। पदाभिधेयेत्यर्थः । मात्रपदेन व्यङ्गयव्यवच्छेदः । वैयाकरणैरपीत्यादिना सहृदयपरिग्रहः। सहृदयैरेवेत्येवकारेण वैयाकरणव्यवच्छेदः । स्वरूपभेदमुपपादयति-'भम धम्मिअ इत्यादि। विधिरूपे वाच्ये सतीत्यन्वयः। 1. अभिधेयत इति। अभिधेयतो वाच्यार्थात्। क्वचित्तु 'अभिधीयते' इति पाठः । तत्र 'वाच्यात्' इत्यनुषज्यते ॥ 2. वैयाकरणैरिति। ध्वनिकारेणाप्युक्तम्-'शब्दार्थशासनज्ञानमान्रेणैव न वेद्यते। वेद्यते स हि काव्यार्थतत्त्वशैरेव केवलम् ।' इति। 'यदि च वाच्यरूप एवासावर्थः स्यात्त हि वाच्यवाचकरूपपरिज्ञानादेव तत्प्रतीतिः स्यात्। अथ वाच्यवाचकलक्षणमात्रकृतश्र- माणां काव्यतत्त्वार्थभावनाविमुखानां स्वरश्रुत्यादिलक्षणमिव प्रतीतानां गन्धर्वलक्षणवि- दामगोचर एवासावर्थः' इंते व्याख्यातं च ॥ 3. क्वचिदिति। कचिद्वाच्ये विधिरूपेऽनुभयरूपोव्यङ्गयः। यथा मम-'याहि ममै- वैकस्या भवन्तु निःश्वासरोदितव्यानि । मा भूवन्हृतमनसस्तवापि तस्या वियोगेन ॥' इत्यत्र न विध्यभावरूपो निषेधो नापि विध्यन्तरम् । क्वचिद्वाच्ये निषेधरूपेऽनुभयरूपः । यथा मम-'अथि वदनेन्दुविकाशप्रशमिततिमिरोत्करे निवर्तस्व। प्रत्यूहृयसि परासामप्य- भिसारं हताशे किम् ।' प्रियतममभिसरन्तीं कांचिन्नायिकां प्रति तङ्गहाभिसुखमागच्छतः प्रियतमस्योक्तिरियं प्रत्यभिज्ञानच्छलेन। अतएवात्मप्रत्यभिज्ञापनार्थ हताशे इति नर्मवच- नम्। परासामप्यभिसारं प्रत्यूहयसि, तवाभिमतसिद्धिर्भविष्यतीति का प्रत्याशा। ततश्च. मदीयं वा गृहमायाहि त्वदीयं वायामीति तात्पर्यादनुभयरूपो व्यङ्गय:॥
- 'स' घ.
Page 292
पञ्चम: परिच्छेदः । २४५
इत्यादौ निषेधरूपे विधिरूपतया चे स्वरूपभेदः । 'गतोऽस्तमर्कः' इत्यादौ च वाच्योऽर्थ एक एव प्रतीयते। व्यङ्गयस्तु तद्वोद्धादिभेदात् क्कचित् 'कान्तमभिसर' इति 'गावो 'निरुध्यन्ताम्' इति 'नायकस्याय- माँगमनावसरः' इति 'संतापोऽधुना नास्ति' इत्यादिरूपेणानेक इति संख्याभेदः । वाच्यार्थः शव्दरोच्चारणमात्रेण वेद्यः । एष तु तथा- विधप्रतिभानैर्मल्यादिनेति निमित्तभेदः । प्रतीतिमात्रकरणाच्चमत्कार- करणाच्च कार्यभेद: केवलरूपतया चमत्कारितया च प्रतीतिभेदः । पूर्वपश्चाद्धावेन च कालभेदः शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्ण- संघटनाश्रयत्वेन चाश्रयभेदः । 'कैर्स व ण होइ रोसो ददूण पिआऍ सत्वणं अहरम्। सभमरपडमग्घाइणिवारिअवामे सहसु एण्हिम् ।I' निषेधरूपतयेति।व्यङ्जयस्येत्यादि। निषेधरूप इति।वाच्ये इत्यन्वयः। स्वरूप- भेद इति। वाच्यार्थव्यङ्कयार्थयोरिति पूर्वेणान्वयः । एवमग्रेऽपि। 'निःशेष-'इत्यत्न लक्षणावादिमतेनेदमुदाहरणमुक्तम्। संख्याभेदमुपपादयति-गतोऽस्तमिति। बोद्धा प्रतिपाद्यः। आदिना प्रकरणादीनां ग्रहणम् । भेदाद्वैलक्षण्यात्। निमित्तभेदमु- पपादयति-वाच्यार्थ इति। मात्रपदेन प्रतिभानैर्मल्यादिव्यवच्छेदः। शन्दोच्चा- रणं शब्दज्ञानम्, वाच्यार्थबोधे तस्यैव निमित्तलात्। एष तु व्यङ्ञयार्थस्तु। प्रति- भेति। गूढार्थग्रहणशक्तिश्च प्रतिभा, तस्या नैर्मल्यं तादृशग्रहणप्रतिबन्धकीभूतदुर- दृष्टासंसर्ग: । आदिना वक्रादिवैशिष्ट्यज्ञानादिपरिग्रहः। कार्यभेदमुपपादयति-प्रती- तीति। मात्रपदेन चमत्कारव्यवच्छेदः । वाच्यस्य प्रतीतिमात्रकरणात्। व्यङ्जयस्य तु सुखसंवलितप्रतीतेश्रमत्कारस्य च करणात्तयोः कार्यभेदः। प्रतीतिभेदमुपपाद- यति-केवलेति। वाच्यप्रतीतेः सुखचमत्कारहीनतया, व्यक्च्यप्रतीतेस्तदुभयव- तया भेदः। कालभेदमुपपादयति-पूर्वेति। वाच्यार्थव्यङ्कयार्थयोः प्रतीतिपौर्वाप- र्येण कालभेदः। आश्रयभेदमुपपाद्यति-शब्देति। वाच्यस्य शब्दमात्राश्रयत्वेन शब्दमात्रसंबन्धित्वेन, व्यङ्ञयस्य शव्दादिसंवन्धित्वेन तयोराश्रयभेदः। तदेक- दशति। शब्दैकदेशेत्यर्थः । स च प्रकृतिप्रत्ययोपसर्गादिरूपः। तदर्थेति। शव्दा- र्थेत्यर्थः । विषयभेदमुपपादयति-कस्स वेति। 'कस्य वा न भवति रोषः पश्यतः 1. कस्स वेति। कस्य वेति अनीर्ष्यालोरपि। सभ्रमरपझ्माघ्राणशीले। शीलं हि कर्थं- चिदपि वारयितुंन शक्यम्। सहस्वेदानीम्। उपालम्भपरम्परामित्यर्थः । अत्रायं भाव :- काचिदविनीता कुतश्चित्खण्डिताघरा तत्सविधसंविधाने भर्तरि तमनवलोकयमानयेव कयाचि- द्विदग्धसख्या तद्वाच्यतापरिहारायैवमुच्यते। सहस्वेदानीमिति वाच्यमविनयवतीविषयम्। १. 'इति' ग. २. 'अव' क. ३, 'अनागमन-' क.
Page 293
२४६ साहित्यदर्पणे
इति सखीतत्कान्तविषयत्वेन विषयभेदः । तस्मान्नाभिधेय एव व्यङ्गय: । किंच। प्रागसत्वाद्रसादेर्नो बोधिके लक्षणाभिधे। किंच मुख्यार्थबाधस्य विरहादपि लक्षणा॥ ३॥ 'न बोधिका' इति शेषः । नैहि कोऽपि रसनात्मकव्यापाराद्िन्नो रसादिपद प्रतिपाद्यः पदार्थः प्रमाणसिद्धोऽस्ति। यमिमे लक्षणाभिधे बो- धयेताम्। किंच यत्र 'गङ्गायां घोषः' इत्यादावुपात्तशब्दार्थानां बुभूषन्नेवान्व- योऽनुपपत्त्या बाध्यते तत्रैव हि लक्षणायाः प्रवेशः ।
प्रियाया: सत्रणमधरम्। सभ्रमरपझ्माघ्राणनिवारितवामे सहस्वेदानौम् ॥' इति संस्कृ- तम्। उपनायकदष्टाघरां पत्नीं तर्जयन्तं कान्तं प्रतारयन्त्याः सख्या उक्तिरियम्। सभ्रमरेति। सत्रमरपद्माघ्राणे निवारितापि तत्कारिणी, तत्संबोधने। तथा सहख पत्युस्तर्जनां भ्रमरदंशनजन्यव्रणवेदनां च। अत्र वाच्यार्थबोधे सखी उद्देश्या, भ्रमरे- णास्या अधरो दष्टो न पुनः पुरुषान्तरेणेति व्यक्च्यार्थबोधे कान्त उद्देश्य इति विषय- भेदः । सख्या कान्तेन चोभयबोधः संभवतीति न बोद्धभेदः। उपसंहरति-तस्मा- दिति। नैव व्यङ्चय इत्यन्वयः। व्यङ्गयान्तरबोधे यथा तथास्तु रसादिबोधस्तु व्यञ्ञना- वृत्त्यङ्गीकारमन्तरेण सर्वथा न संभवतीत्यभिप्रायेणाह-प्रागसत्वादिति। बोधा- त्पूर्व प्रमाणान्तरासिद्धत्वादित्यर्थः । प्रमाणान्तरसिद्धमेव वस्तु लक्षणाभिधे बोधयत इति नियमाभिप्रायेणेदम्। रसादिपदं तु व्यञ्जनासिद्धं रसादिमभिधया बोधयतीति न दोषः। लक्षणया रसादिबोधे सामग्यन्तरमाह-किंचेति। पूर्वार्ध विव्ृणोति- नहीति। व्यापारः कार्यः। द्वितीयार्धे विवृणोति-किंचेति। उपात्तशब्दार्थानां वाच्यार्थानां वुभूषन् भवन्। अन्वयोऽन्वयबोधः। अनुपपत्त्या अन्वयानुपपत्तिग्रहेण
भर्तृविषयं तु अपराधो नास्तीत्यावेद्यमानं व्यङ्गयम्। तस्यां च प्रियतमेन गाढमुपालभ्यमा- नायां तथ्यलीकशङ्कित प्रातिवेश्मिकलोकविषयं चाविनयच्छादनेन प्रत्यायनं व्यङ्गयम् । तत्सपतन्यां च तदुपालम्भतदविनयप्रहृष्टायां सौभाग्यातिशयख्यापनं प्रियाया इति शब्द- बलादिति सपतीविषयं व्यङ्गयम्। सपतीमध्ये इयत्खलीकृतास्मीति लाघवमात्मनि ग्रहीतुं न युक्तम्, प्रत्युतायं बहुमानः, सहस्व शोभस्वेदानीमिति सखीविषयं सौभाग्यप्रख्यापन- व्यङ्गयम्। अद्येयं तव प्रच्छन्नानुरागिणी हृदयवल्लभेत्थं रक्षिता पुनः प्रकटरदनदंशन- विधिर्न विधेय इति तच्चौर्यकामुकविषयसंबोधनं व्यङ्गयम्। इत्थं मयैतदपहुतमिति स्ववैदग्ध्यख्यापनं तटस्थविदग्धलोकविषयं व्यङ्गयमिति लोचनकाराः ॥
१. 'तथा' क-घ. २. 'नहि-' इत्यादि 'प्रवेशः' इत्यन्तं ग-पुस्तके नास्ति.
Page 294
पञ्चम: परिच्छेद:। २४७
यदुक्कतं न्यायकुसुमाञ्जलावुदयनाचार्यै :- 'श्रुतान्वयादनाकाङ्कं न वाक्यं ध्यन्यदिच्छति। पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन संगतिः।।' ने पुनः 'शून्यं वासगृह्म्-' इत्यादौ मुख्यार्थबाघः। यदि च 'गङ्गायां घोषः' इत्यादौ प्रयोजनं लक्ष्यं स्यात, तीरस्य मुख्यार्थत्वं बोधितत्वं च स्यात्, तैस्यापि च लक्ष्यतया प्रयोजनान्तरं तैस्यापि प्रयोजनान्तरमित्यनवस्थापातः ।
बाध्यते प्रतिबव्यते। श्रुतान्वयादिति। वाच्यार्थान्वयबोधजननादित्यर्थः । अन्यद- र्थान्तरमिच्छति आकाक्टृति। पदार्थान्वयवैधुर्यात् मुख्यार्थान्वयानुपपत्तिग्रहात्। तदाक्षिप्तेन मुख्यार्थसंबन्धितया गृहीतेन। संगतिरन्वयबोधः। प्रकृते मुख्यार्थबा- धाभावं दर्शयति-न पुनरिति। व्यक्षयस्य लक्षणावोध्यलाङ्गीकारे अनवस्थादोष- माह-यदि चेति। प्रयोजनं शीततवपावनत्वाद्यतिशयः। लक्ष्यं लक्षणाबोध्यम्। 'तदा' इति शेषः। वाधितत्वं चेति। चकारेण पावनताद्यतिशयेन लक्षणीयेन संबन्धश्चेत्यपि बोध्यम्। नच तीरे पावनताद्यतिशयस्य संवन्धसत्त्वेन कथं तदापत्तिरिति वाच्यम्। तीरे त्वाहार्यप्रतीतिविषयस्य प्रवाहवृत्तिपावनल्वाद्यतिशयस्य संबन्धाभा- वात्, परस्परासंबन्धस्याव्यावर्तकत्वेन लक्षणाहेतुताभावातू। तटादिनिष्ठपावनत्वादेखु गङ्गापदेनानुपस्थितेरकिंचित्करत्वात्। तस्यापि लक्ष्यमाणप्रयोजनस्यापि। 'लक्ष्यतया' इति विशेपणे तृतीया। लक्ष्यं प्रयोजनान्तरं कल्प्यं स्यादित्यर्थः । एवमग्रेऽपि। अनव- स्थायाः प्रकृताप्रतिपत्तिकरत्वं दूषकतावीजम्। विशिष्टलक्षणावादिनां मतं दूषयति-
- यदि चेति। अ्रेदं तत्त्वम्-यथा गङ्गाशब्दस्य प्रवाहो मुख्यार्थः, तत्र च बाधः, तीरे च तत्संबन्धः, तीरस्य च लक्षणयोपस्थापनम्, मुख्यशब्देन प्रतिपादयितुमशक्यस्य पावनत्वादे: प्रतीतिश्च प्रयोजनम्, इति गङ्गाशव्देन तीरं लक्ष्यते । एवं यदि तीरमपि गङ्गाशब्दस्य मुख्यं स्यात, तत्र घोषाधिकरणत्वासंभवरूपो बाधः स्यात्, प्रयोजनस्य च गङ्गादिगतपावनत्वादिविशेषस्य तीरेण साक्षात्संबन्धः स्यात, लक्षणया प्रयोजनप्रतिपाद- नस्य च प्रयोजनान्तरं संभवेत्, तहिं गङ्गाशब्द: प्रयोजनं लक्षयेत्। न चैतत्किमप्यस्ति । यदि चेह तीरगतपावनत्वादिरूपे प्रयोजनेऽपि लक्ष्ये लक्ष्यधोषगतपावनत्वादिरूपं प्रयो- जनान्तरमूरीक्रियेत, तदा प्रयोजनपारम्पर्या लक्षणास्वीकारे प्रयोजनान्वेषणस्यापर्यंवसानेन प्रकृतस्य पावनत्वादेस्तीरादेर्वा बोधाभावकृदनवस्था स्यादिति भावः ॥
१. 'न-' इत्यादि 'वाधः' इत्यन्तं ग-पुस्तके नास्ति. २. 'वाधितं' क-ग. ३. 'तत्र' ग, 8. 'तत्र'ग; क-पुस्तके तु 'तस्थापि प्रयोजनान्तरम्' इति नास्ति.
Page 295
२४८ साहित्यदर्पणे
न चापि प्रैयोजनविशिष्ट एव तीरे लक्षणा। विषयप्रयोजनयोर्युगप- त्प्रतीत्यनभ्युपगमात्। नीलादिसंवेदनानन्तरमेव हि ज्ञातताया अनुव्य- वसायस्य वा संभवः । नानुमानं रसादीनां व्यङ्ग्यानां बोधनक्षमम्। आभासत्वेन हेतूनां स्मृतिर्न च रसादिधीः ॥४॥ न चापीति। प्रयोजनेन पावनत्वाद्यतिशयेन विशिष्टे। तथा च 'अतिपावने तीरे घोषः' इति लक्षणाजन्यो बोधः । तस्य च 'गङ्गातटे घोषः' इत्यभिधाजन्यबोधादधिकार्थप्र- तीति: फलम्। एवं च फलफलिनोरभेद एव पर्यवसन्नः । इममेव दोषमाह-विष- येति। विषयः कारणीभूतज्ञानविषयः । प्रयोजनं फलीभूतज्ञानविषयः । युगपत्म्र - तीत्यनभ्युपगमादिति। एतदभ्युपगमे फलफलिनोरभेदापत्तिरिति भाव:। फल- फलिनोर्मेदमेव दर्शयति-नीलादीति। संवेदनं प्रत्यक्षम्, ज्ञातता प्रकटता, इति। भट्टमते-नीलादौ ज्ञाते हि ज्ञाततारूप एको धर्म उत्पद्यते। अनुव्यवसाय इति। नैयायिकमते-नीलादिज्ञाने जाते 'नीलमहं जानामि' इति ज्ञानप्रत्यक्षरूपोऽनुव्य- वसायो जायत इत्यादौ फलफलिनोर्भेद एव दृश्यते। भवन्मते तयोरभेदापत्तिः। एतदुपलक्षणम्। गङ्गापदाहप्रतीयमानस्य पावनत्वादेस्तीरे वैशिष्ट्यासंभवोऽपि द्रष्टव्यः। यदि पुनर्दूरतीरापेक्षया समीपतीरे पावनत्वाद्यतिशयः संभवति स एव गङ्गापदेन प्रत्याय्यत इति संभाव्यते तदा नायं दोषः । अत एव 'तीरस्य मुख्यार्थतं बाधितत्वं च स्यात्' इत्यत्र ग्रन्थकृता 'पावनलाद्यतिशयेन लक्षणीयेन संबन्धश्च' इत्यापत्तिः काव्यप्रकाशोक्तापि नोक्ता। तयो: संबन्धसत्त्वेनापत्त्ययोगात्। नाट्ये रामत्वेनाहार्य- ज्ञानविषये नटे, काव्ये तु राम एव विभावादिमी रत्याद्यनुमानं ततस्तदनुमानोद्वोि- तया सामाजिकानां वासनारूपप्रत्यासत्त्या साक्षात्कृतो रामादिरत्यादी रस इति श्रीशङ्गुमतानुयायिनां व्यक्तिविवेककारादीनां मतं दूषयति-नानुमानमिति। अनुमानं व्याप्तिपक्षधर्मताज्ञानम्। आभासत्वेन व्यभिचारादिदोषग्रस्तत्वेन। रसादि- बुद्धेः संस्कारजन्यज्ञानत्वेन स्मृतितवं साधयतां मतं दूषयति-स्सृतिरिति। अ.
- प्योजनेति। प्रयोजनं फलम्। प्रयोजनीभूतज्ञानविषयेण पावनत्वादिना विशिष्टे एव गङ्गातीरे लक्षणा। तथा च कारणत्वेन तीरत्वज्ञानविपयात् कार्यत्वेन पाव- नत्वज्ञानप्रयोजनस्याभेदे जन्यजनकभावानुपपत्तिः । नतदुज्यते। अत एवोक्तम्- 'प्रयोजनेन सहित लक्षणीयं न युज्यते। ज्ञानस्य विषयो ह्यन्यः फलमन्यदुदाहृतम्॥।' इति॥ 2. नीलेति। भट्टनये नीलज्ञानानन्तरं ज्ञातो नील इति प्रत्ययात्तज्ज्ञानेन नीले प्रकटतापरपर्याया ज्ञातता जायते। अस्मिन्मते ज्ञानमतीन्द्रियम्, तज्जन्या ज्ञातता प्रत्यक्षा, तया च ज्ञानमनुमीयते। इयं ज्ञातता नीलविशेष्यक-नीलत्वप्रकारकज्ञानजन्या नील- वृत्ति-नीलत्वप्रकारकज्ञाततात्वाद् या यदत्तिर्यत्प्रकारिका ज्ञातता सा तदिशेष्यकतत्प्रकार- कज्ञानसाध्या। यथा पीते पीतत्वप्रकारिका ज्ञाततेत्यनुमितिः॥ 3. अन्विति। संवित्त्यपरपर्यायस्येत्यर्थः ॥
Page 296
पञ्चम: परिच्छेदः । २४९
वैयेक्तिविवेककारेण हि-"यापि विभावादिभ्यो रसादीनां प्रतीतिः सानुमान एवान्तर्भवितुमर्हति । विभावानुभावव्यभिचारिप्रतीतिर्हि रसादिप्रतीते: साधनमिप्यते, ते हि रत्यादीनां भावानां कारणकार्य- सहकारिभूतास्ताननुमापयन्त एव रसादीन्निष्पादयन्ति, त एव प्रती- यमाना आखवादपदवीं गताः सन्तो रसा उच्यन्त इति, अवश्यंभावी तत्प्रतीतिक्रमः केवलमाशुभावितया न लक्ष्यते, यतोऽयमद्याप्यभिव्य- क्तिकः" इति यदुक्तम्, तत्र प्रष्टव्यम्-कि शब्दाभिनयसमर्पितवि-
न्रापि प्रागुक्तहेतोरन्वयः। तन्मतं दूषयितुं परिष्करोति-व्यक्तिविवेककारेण हीति। 'यदुक्तम्' इत्यग्रेणान्वितम्। यापीति। अनुमाने एव अनुमितावेव। एवकारेण परानुमतव्यअ्ञनाजन्यबोधव्यवच्छेदः। अत्र कारणमाह-विभावानु- भावेति। हिशब्दो हेतौ। ननु विभावादिप्रतीतेर्व्याप्तिज्ञानत्ाभावात्कर्थ तज्जन्य- रसादिप्रतीतेरनुमितितम्, अतो विभावादीनां व्याप्यतमुपपादयति-ते इति। विभा- वादयो हीत्यर्थः । धूमादिकारणमार्द्रेन्धनादि यथा धूमादिव्याप्यम्, वह्नयादिकार्ये धूमादि वह्नयादिव्याप्यम्, तथा रत्यादेः कारणं विभावः, कार्यमनुभावश्च रत्यादिव्याप्य इति भावः । तान्रत्यादीन। अनुमापयन्त इति। खविषयकव्याप्तिपक्षधर्मता- ज्ञानेन बोधयन्त इत्यर्थः। रसादि प्रति विभावादीनां कारणतमुपपादयति-विभावा- द्य एवेत्यर्थः । आखादपदवीं प्रत्यक्षविषयताम्। तथा च पयो यथाम्लयोगेन दधित्वं प्राप्ुवद्दध्ः कारणमुच्यते तथा विभावादयोऽप्यनुमीयमानरत्यादियोगेन रसा- दिरूपतां प्राप्ुवन्तो रसादेः कारणमुच्यन्त इति भावः। नन्वेतादृशकार्यकारण- भावसीकारे रसादेरसंलक्ष्यक्रमव्यन्गयत्वं कथमुपपन्नमत आह-अवश्यंभा- वीति। तासां विभावादिप्रतीतिव्याप्तिपक्षधर्मताग्रहरसादयनुमित्याखादरूपाणां प्रती- तीनां क्रम: पौर्वापर्यम्। आशुभावितया शीघ्रोत्पन्नतया असौं क्रमः । तथा चासां शतपत्रव्यतिभेदवत्क्रमसत्त्वेऽपि सूक्ष्मकालतया स न लक्ष्यत इति भावः । ननु भवतामिदमधिकं कल्पनमत आह-यत इति। अयमीदशः, अद्यापि रसादेर्व्य- जयलखीकारेपि अभिव्यक्तिर्व्यज्ञनाजन्यबोधः । यथा भवतां वोधः-प्रथमं विभावादुपस्थितिः ततो रत्यादिव्यञ्जनम्, ततः साधारण्याभिमानः, ततो रसादु- त्पत्तिः, इति क्रमसत्त्वेऽपि रसादेरसंलक्ष्यक्रमत्वमुपपन्नं तथास्माकमपीति भावः । शब्दाभिनयेति। दृश्यश्रव्यरूपकाव्यद्वयाभिप्रायेण। समर्पितेति। जनितेत्यर्थः।
- व्यक्तीति। व्यक्तिविवेककारेण महिमभट्टेनेत्यर्थः । एतेन सपरिकरस्य ध्वनेरतु- मितावन्तर्भावं कर्तु व्यक्तिविवेको निरमाथि। तथा चोक्तम्-'अनुमानेऽन्तर्भावं सकलस्यैव ध्वने: प्रकाशितुम्। व्यक्तिविवेकं कुरुते प्रणम्य महिमा परां वाचम् ॥'
१. ग-पुस्तके तु 'व्यक्ति-' इत्यादि: '-लिज्विनो ज्ञानम्' इत्यन्तः संदर्भो नास्ति.
Page 297
२५० साहित्यदर्पणे
भावादिप्रत्ययानुमितरामादिगतरागादिज्ञानमेव रसत्वेनाभिमतं भवतः, तद्ावनया भावकैर्भाव्यमानः खप्रकाशानन्दो वा। आद्ये न विवादः। किंतु 'रामादिगतरागादिज्ञानं रससंज्ञया नोच्यतेऽस्माभि:' इत्येव विशेषः । द्वितीयस्तु व्याप्तिग्रहणाभावाद्धेतोराभासतयासिद्ध एव। यच्चोक्तं तेनैव-'यत्र यत्रैवंविधानां विभावानुभावसात्त्विकसंचारिणा- मभिधानमभिनयो वा तत्र तत्र शृङ्गारादिरसाविर्भावः' इति सुग्रहव व्याप्तिः पैक्षधर्मता च। तथा- 'यार्थान्तराभिव्यक्तौ वः सामग्रीष्टा निबेन्धनम्। सैवानुमितिपक्षे नो गमकत्वेन संमता।।' इति। इदमपि नो न विरुद्धम्। नह्ेवंविधा प्रतीतिरास्ाद्यत्वेनास्माकम-
भवतस्तव। तद्भावनया विभावादिबोधेन। भावकैः सामाजिकैः। भाव्यमान आ- स्ाद्यमानः । स्वेन आत्मना प्रकाशो यस्य सः । 'रसत्वेनाभिमतः' इति लिङ्गव्यत्य- येनान्वयः । असिद्धो नानुमितिविषयः। श्रोत्रियजरन्मीमांसकादीनां विभावादिप्रत्य- यसत्त्वेपि खप्रकाशानन्दानुत्पत्तिदर्शनादयं हेतुर्व्यभिचारीति व्याप्तिग्रहाभावात्तस्या- नुमानं न संभवतीति भावः । इदानीं विभावनादिव्यापारभागिनामभिधानं स्वशब्दे नोपस्थापनम्, अभिनयो नटचेष्टादिभिरुपस्थापनम्। रसाविर्भावो रसाद्युत्पत्तिः । सुग्रहैवेति। विभावनादिव्यापारभागि विभावाद्युपस्थानं रसाद्याविर्भावव्याप्यमिति व्याप्तिग्रहः। श्रोत्नियादीनां तु विभावादेरेवोपस्थितिः, न तु विभावनादिव्यापारभागिनः, तत्र तादग्व्यापाराखीकारादिति न व्यभिचारः। पक्षधर्मता पक्षसत्वं सुग्रहैवेत्यन्वयः । 'अहं रामाद्याविर्भावव्याप्यतादृग्विभावादयुपस्थानवान्' इति सामाजिकानां व्याप्तिवि- शिष्टपक्षधर्मताग्रह इत्यवधेयम्। अर्थान्तराभिव्यक्तौ वाच्यादित्रयभिन्नार्थस्य व्यज्ञनया बोधे। व्यञ्जनावृत्तिं स्वीकुर्वतां युष्माकं सामग्री शाब्दबोधादिरूपः कारणसमूहः निबन्धनं प्रधानम्। अनुमितिपक्षे अनुमितिवादिमते तिष्ठतां नोऽस्माकं गमकत्वेन रसादयनुमा- पकत्वेन। दूषयति-इद्मपीति। नो व्यजनावादिनामस्माकम्। न विरुद्ध- मिति। अस्माभिरपि तादृशानुमानं स्वीक्रियत एवेति भावः । ननु किमधिकं भवा- न्त्रवीतीत्यत आह-नहीति। न वितर्थः। सस्रूपेण प्रकाशमात्रेणैव विश्रान्तो 1. व्याप्तिरिति। यत्र यत्र वूमस्तत्र तत्र वह्निरिति साहचर्यनियमः । साध्याभाववदवृ- तित्वमित्यर्थः । 2. पक्षेति। व्याप्यस्य (धूमादेः) पर्वतादिवृत्तित्वम् ।।
१. 'ज्ञानं-' इत्यादि: 'गतरागादि' इत्यन्तः पाठः कपुस्तके त्रुटितः २. 'निबन्धिनी' क. 2. 'इति' नास्ति कपुस्तके.
Page 298
पञ्चम: परिच्छेदः । २५१ भिमता। किं तु-सवप्रकाशमात्रविश्रान्तः सान्द्रानन्दनिर्भरः। तेनात्र सिषाधयिषितादर्थादर्थान्तरस्य साधनाद्वेतोराभासता। यच्च 'भम धम्मिअ-' इत्यादौ प्रतीयमानं वस्तु, 'जलके लितरलकरतलमुक्तपुनःपिहितराधिकावदनः। जगदवतु कोकयूनोर्विघटनसंघटनकौतुकी कृष्णः ।।' इत्यादौ च रूपकालंकारादयोडनुमेया एव। तथाहि-अनुमानं
तैतश्च वाच्यादसंबद्धोऽर्थस्तावन्न प्रतीयते। अन्यथातिप्रसङ्गः स्यात्। इति बोध्यबोधकयोरर्थयोः कश्चित्संबन्धोऽस्त्येव। ततश्च बोधकोऽर्थो
विषयीकृतः। सान्द्रस्य निरन्तरस्य आनन्दस्य निर्भरोऽतिशयः। आखाद्यत्वेनास्मा कमभिमत इत्यर्थः । तेन तादृशानुमितेराखाद्यसीकारेण। सिषाधयिषितात् साधयि- तुमिष्टात् अर्थात् खप्रकाशानन्दरूपात्। अर्थान्तरस्य भिन्नार्थस्य रैसाद्याविर्भावस्य साधनादनुमापनात्। आभासता दुष्टता। इदानीं वस्तलंकारयोरप्यनुमानेनैव बोधो न तु तदर्थमपि व्यञ्ञनावृत्तिः स्वीकार्येति व्यक्तिविवेककारस्यैव मतान्तरं दूषयितुमुत्थापयति-यच्चेत्यादिपर्यवस्यतीत्यन्तेन। प्रतीयमानं वस्तु अभ्रमण- रूपमनुमेयमेवेत्यग्रेणान्वयः । जलकेलीति। राधिकावदने मुक्ते सति तत्र चन्द्रबु- व्वा रात्रिज्ञानेन विघटनम्, पिहिते सति चन्द्रानुपलब्ध्या रात्र्यभावज्ञानेन तयोर्घट- नम्। तयोर्भ्रान्त्या मुहुर्वियोग संयोगदर्शनेन कौतुकमिति भावः। राधिकावदने चन्द्र- लारोपणेन रूपकालंकारः। अनुमेया एव, न तु व्यङ्गयाः। अनुमानतमुपपादयति- तथाहीति। संदिग्धसाध्यकः, सिषाधयिषाविरह्विशिष्टसिद्धभाववान् वा पक्षः। निश्चितसाध्यवान् सपक्षः । साध्याभाववान् विपेक्षः । तद्यावृत्ततवं तदवृत्तिलम् । इयं व्याप्तिः। लिङ्गात्साधनात् लिङ्गि साध्यम्। वाच्यात्तावद्यञ्ञ्यं प्रतीयत इति वाच्यार्थस्य लिङ्गत्वमभिप्रेत्य तत्र पक्षसत्त्वादित्रयमुपपादयति-ततश्चेति। अन्यथा असंबद्ध- प्रतीतिसीकारेऽतिप्रसङ्ग: स्यात्। 'भम धम्मिअ- इत्यादौ भ्रमणाभावस्येव घटाभा-
- अनुमेया इति। 'वाच्यस्तदनुमितो वा यत्रार्थोंऽर्थान्तरं प्रकाशयति। संबन्धतः कुतश्चित्सा काव्यानुमितिरित्युक्ता ।।' इत्यादिव्यक्तिविवेककारोक्तमार्गेण। 2. पक्ष इति। यथा धूमवत्वे हेतौ पर्वतः॥ 3. सपक्ष इति। यथा तस्मिन्नेव हेतौ महानसम् ॥ 4. विपक्ष इति। यथा पूर्वोंक्त एव हेतौ जलशयः ॥
१. 'मात्र' इति क-पुस्तके नास्ति. २. 'वाच्यादसंबद्धो व्यज्ञयार्थो न प्रतीयते। तथात्वेऽतिमसज्गात्। ततश्च व्यज्ञयव्यञ्जकभावेन संबन्धेन भवतीति व्याप्तत्वेन नियतवर्मिनिष्ठत्वेन त्रिरूपालिक्गाल्िद्विनो ज्ञान. मनुमानं यत्तद्रूपे पर्यवस्यति' ग. ३. 'रसवादिसंमतस्य' इत्यधिकं पुस्तकान्तरे.
Page 299
२५२ साहित्यदर्पणे
लिङ्गम्, बोध्यश्च लिङ्गी, बोधकस्य चार्थस्य पक्षसत्त्वं निबद्धमेव। सप-
इति, तन्न। तथा ह्यन्र "भम धम्मिअ-' इत्यादौ गृहे श्वनिवृत्त्या विहितं भ्रमणं गोदावरीतीरे सिंहोपलब्घेरभ्रमणमनुमापयति" इति यद्वक्तव्यं तत्रानैकान्तिको हेतुः । भीरोरपि गुरोः प्रभोरवा निदेशेन प्रियानुरागेण वा गैमनस्य संभवात्। पुंश्चल्या वचनं प्रामाणिकं न वेति संदिग्धासिद्धश्च । 'जलकेलि-' इत्यत्र 'य आत्मदर्शनादर्शनाभ्यां चक्रवाकविघ- टनसंघटनकारी स चन्द्र एव' इत्यैनुमितिरेवेयमिति न वाच्यम्।
वादेरपि बोध: स्यात्। कश्चित्संबन्ध इव प्रकृते वैपरीत्यरूपः संबन्धः, स एव व्यापक- ताघटक इति भावः। ततश्च संबन्धस्यावश्यं सत्ाच्च पक्षसत्त्वादिज्ञानस्यैवोपयोगिलात्। तदुपपादयति-पक्षसत्वमिति। निबद्धं शब्देनोपस्थितम्। सामर्थ्यात्संस्कारब- लात्। अवसेये प्रत्येतव्ये। महावाक्यार्थ निरूपयति-तस्मादिति। दूषयति- तन्नेति। गहे गृहसमीपे चलरादौ श्रवनिवृत्त्या कुकुरमरणप्रदर्शनेन विहितं विधिवि- षयः 'अभ्रमणमनुमापयति' इत्यनेनान्वितम्। अत्र श्वनिवृत्तिविधीयमानगृहसमीप- भ्रमणं लिङ्गम्, तच्च भीरुत्वपर्यवसन्नम्। सिंहवद्ोदावरीतीरभ्रमणं साध्यम्। धा- र्मिकः पक्षः सामाजिकोऽनुमाता। अनैकान्तिको व्यभिचारी। भीरोरपीति।अनेन निरुक्तलिङ्ग विशिष्टस्य ग्रहणम्। गमनस्य संभवादिति साध्याभावप्रदर्शनमसंदिग्धसिद्धं हेतोर्दोषान्तरमाह-पुंश्चल्या इति। कुलटाया इत्यर्थः। प्रामाणिकं प्रमाजनकम्। तथा च वचनमिदं कि वार्मिकस्य भयोत्पादकं किवा कुकुरस्पर्शशङ्कासंकुचितभ्रमणस्य तस्य स्वच्छन्दभ्रमणविधायकमिति सामाजिकानां संदेहाद्भीरुत्वसंदेह इति संदिग्धा- सिद्धो हेतुरिति भावः। अलंकारानुमानं दूषयति-जलकेलीति। उत्रासको भयदः। 1. अनुमापयतीति। 'गोदावरीतीरं भीरुभ्रमणायोग्यं सिंहवत्वात, यन्नैवं तन्नैवम्, यथा गृहम्' इति भ्रमणाभावानुमितिः॥ 2. अनैकान्तिक इति। एकस्य साध्यस्य तदभावस्य च योऽन्तः सहचारोऽव्यभि- चरितसहचारः सोऽन्तः सहचारोऽव्यभिचरितसहचार इत्याशयः । स चात्र व्याप्ति- ग्राहकः । तथा चैकमात्रव्याप्तिग्ाहकसहचारवानैकान्तिकस्तदन्योडनैकान्तिकः । व्यभिचारी हेतुरित्यर्थः ॥
१. 'अनुमेये' क, २. 'तन्न' इति नारिति ग-पुस्तके. ३. 'भ्रमणस्य सभवात्' क. ४. 'पुं-' इत्यादि 'असिद्धश्च' इत्यन्तं ग-पुस्तके नास्ति, ५. ग-पुस्तके 'अनु-' इत्यादेः '-वाच्यम्।' इत्यन्तस्य स्थाने 'तद्सत्' इति पाठ
Page 300
पञ्चम: परिच्छेदः। २५३
उत्रासकादावनैकान्तिकत्वात्। 'एवंविधोऽर्थ एवंविधार्थबोधक एवंवि- धार्थत्वात्, यन्नैवं तन्नैवम्' इत्यनुमानेऽप्याभाससमानयोगक्षेमो हेतुः। 'एवंविधार्थत्वात्' इति हेतुना एवंविधानिष्टसाधनस्याप्युपपत्तेः। तथा 'हैष्टिं हे प्रतिवेशिनि क्षणमिहाप्यसङ्टहे-' इत्यादौ नलग्र- न्थीनां तनूल्लिखनम्, एकाकितया च स्रोतोगमनम्, तस्याः परकामु- कोपभोगस्य लिङ्गिनो लिङ्गमित्युच्यते। तच्चात्रैवाभिहितेन खवकान्त- स्नेहेनापि संभवतीत्यनैकान्तिको हेतु: ।
आदिना रात्रिसाधर्म्यान्तरस्यापि ग्रहणम्। तादात्म्यसंबन्धेन साध्यस्य चन्द्रस्य वदने बाधाद्वाधोऽपि हेतुदोषोऽत्र द्रष्टव्यः। व्यभिचारभयेन पक्षमात्रवृत्तिहेतुकवस्त्वलंकारा नुमानमाह-एवमिति। एवंविधार्थबोधक इति। अत्र पक्षीभूतवाक्यार्थेन बोधयितुं योग्या ये येऽर्थास्त एव साँध्यकोटिनिविष्टेन एवंविध इत्यनेन धर्तव्याः । अॅन्यथा वक्तुरभिप्रेतस्यैवार्थविशेषस्य ग्राह्यत्वे 'गतोऽस्तमर्कः' इत्यादौ वक्तुरभिप्रेता- र्थमववोधयित्वार्थान्तरबोधके व्यभिचारापातः । हेतोः पक्षमात्रवृत्तित्वेनान्वयदष्टा- न्तासंभवादन्वयव्याप्तिग्रहो न संभवतीति व्याप्तिग्रहाय व्यतिरेकोदाहरणमाह- यन्नैवमिति । यद्येवंविधार्थबोधकत्वाभाववत्तदेवंविधार्थत्वाभाववदित्यर्थः । 'देव- दत्तो भवतीति वाक्यार्थवत्' इति दृष्टान्तोऽत्र द्रष्टव्यःआभाससमानयोगक्षेमो दुष्टहेतु- समानकार्यकारी। तदेवोपपादयति-एवमिति। अनिष्टो वक्तुरनभिमतः। तथा च यथा दुष्टहेतुप्रयोगेण वादिविजयो भवति तथार्थान्तरसाधकहेतुप्रयोगेणापीत्याभास- तुल्ययोगक्षेमत्वमिति भावः। अन्रापि व्यभिचारमाह-तथेति। एकाकितया चेति चकारो वार्थः । स्रोतोगमनं वेत्यर्थः। लिङ्गं तादात्म्येन साधनम्। ततप्रागुक्तमर्थद्वयम्। अत्रैव 'दृष्टि-' इत्यादिश्लोक एव। अभिहितेन द्वितीयपादप्रतिपादितेन। तथा च यत्र स्नेहस्य किं दुष्करमिति जानतां सर्वेषामेव श्रोतृणां तादृशबोधो न जायते तत्रैव व्यभिचार इति भावः । यदि तु कालान्तरे तादृग्वाक्यप्रयोगेण यस्यकस्यापि श्रोतु- स्तादशार्थबोधाद्वयभिचारो न भवतीति विभाव्यते, तदान्न 'तद्वाक्यप्रतिपायं तादृशार्थ- द्वयं परकामुकोपभोगप्रतिपादकं तादृशार्थत्वात्' इत्यनुमाने बाधहेनुदोषो द्रष्टव्यः। यथा-'गन्धप्रागभावकालीनो घटो गन्धवान्' इत्यादौ तत्कालीनसाध्याभावमादाय वाधः। तथात्रापि व्यक्तिविशेषे कालविशेषे वा एवंविधार्थबोधकत्वरूपसाध्याभाव-
१. 'दृष्टिं-' इत्यादि 'यञ्च' इत्यन्तं ग. पुस्तके नास्ति. २. 'व्यङ्गयत्वेनाभिताभिताः' इति पुस्तकान्तरे. ३. 'विपयितासंवन्धेन साध्याः' इति पुस्तकान्तरे. ४. 'अन्यथा' इति पुस्तकान्तरे नास्ति, ५. 'साध्यत्व्रे' इति पुस्तकान्तरे. ६. 'यथा-' इत्यादिः '-बोध्यः ।' इत्यन्तः पाठः पुस्तकान्तरे नास्ति. सा० द० २२
Page 301
२५४ साहित्य दर्पणे
यच्च 'निःशेषच्युतचन्दनम्-' इत्यादौ दूत्यास्तत्कामुकोपभोगोऽनु- मीयते तत्किं प्रतिपाद्यतया दूत्या, तत्कालसंनिहितैर्वान्यैः, तत्काव्या- र्थभावनया वा सहृदयैः । आद्ययोरन विवादः। तृतीये तु तथाविधाभि- प्रायविरहस्थले व्यभिचारः। ननु वक्रादवस्थासहकृतत्वेन विशेष्यो हेतुरिति न वाच्यम्। एवंविधव्याप्यनुसंधानस्याभावात्। किंचैवंविधानां काव्यानां कविप्रतिभामात्रजन्मनां प्रामाण्यानाव- श्यकत्वेन संदिग्धासिद्धत्वं हेतोः। व्यक्तिवादिना चाधमपदसहाया- नामेवैषां पदार्थानां व्यञ्ञकत्वमुक्तम्। तेन च तत्कान्तस्याधमत्वं प्रामाणिकं न वेति कथमनुमानम्।
मादाय बाधो बोध्यः। तत्कामुकेति। नायिकाकामुकेत्यर्थः। अनुमीयत इति। चन्दनच्यवनादिस्त्र हेतुः। तत्कालसंनिहितैस्तादृशकथनसमये नायिकासंनिधानवृत्ति- भिः। काव्यार्थभावनयेति विशेषणे तृतीया। न विवाद इति। चन्दनच्यवनादीनां स्नानादिनापि संभवात्। संभोगव्यभिचारित्वेऽपि तेषाँ दूतीतत्कालसंनिहितयोः प्रत्यक्षतो वैलक्षण्यसहस्त्रग्रहसंभवेन व्यभिचारज्ञानानुदयादू व्याप्तिग्रहः संभवतीति भावः । ननु सामाजिकानामपि निःशेषादिपदाभिप्रायेणैव वैलक्षण्यग्रहो भविष्यती- त्यत आह-तथाविधेति। निःशेषादिपदानां संभोगजन्यत्वबोधाभिप्रायविरहस्थल इत्यर्थः। वक्रादीत्यतह्गुणसंविज्ञानबहुव्रीहिणा प्रतिपाद्यदूतीपरिग्रहः। अवस्था कामुकत्वादिवैशिष्ठ्यम्। एवंविधेति। प्रतिपाद्यावस्थासहकृतत्वस्य शब्देनानुप- स्थानात्प्रमाणान्तरस्य वासंभवादनुपस्थितिरिति कथं तदन्तर्भावेण व्याप्तिग्रह इति
- यच्चेति। अयमेवाशयः प्रदीपादौ भङ्गयन्तरेण निर्दिष्टः-प्रकृते यानि चन्दनच्य- वनादीनि संभोगव्यअ्जकतयोपात्तानि न तानि तद्याप्यानि। कारणान्तरादपि संभवात्। अतएवात्र स्नानकार्यत्वेन प्रतिपादितानि। अतोऽनैकान्तिकात्कथमनुमितिः स्यात्। ननु व्यक्तिरपि कथं तैरिति चेत, अधमपदसाहित्यादिति ब्रूमः। अस्माकमपि तत्साहित्येनानै- कान्तिकत्वव्यतिरेक इति चेत्, भवेदप्येवं यद्यधमत्वं प्रमाणादवधारितं भवेत्। नत्वे- वमस्ति। व्यक्तिरपि कथं तादृशान्भ्वेदिति चेत, भो देवानांप्रिय, व्यक्तौ न व्याप्तेर्नापि पक्षधर्मताया निर्धारणमङ्गम्। किंतु संभावितादप्येवंविधादेवंविधोऽर्थः प्रतीयत इति तूष्णीं तिष्ठेति प्रदीपादौ व्यक्तम् ।। 2. व्यक्तिवादिनेति। व्यक्तिवादिना व्यञ्ञनाव्यवस्थापकेनालंकारिकेणेत्यर्थः ।। 3. एपामिति। चन्दनच्यवनादीनाम्।।
१. 'यानि चन्दनच्यवनादीनि गमकत्वेनोपात्तानि तानि कारणान्तरादपि भवन्ति। यतः लानकार्य- त्वेनात्रैवोक्तानि। अतो नोपभोग एव प्रतिबद्धा नीत्यनैकान्तिकानि ।' ग.
Page 302
पञ्चम: परिच्छेदः । २५५
एतेनार्थापत्तिवेद्यत्वमपि व्यङ्ञयानामपास्तम्। अर्थापत्तेरपि पूर्वसिद्ध- व्याप्तीच्छामुपजीव्यैव प्रवृत्तेः। यथा-'यो जीवति स कुत्राप्यवतिष्ठते, जीवति चात्र गोध्ठ्यामविद्यमानश्चैत्रः' इत्यादि। किंच वस्त्रविक्रयादौ तर्जनीतोलनेन दशसंख्यादिवत्सूचनबुद्धिवे- द्योऽप्ययं न भवति। सूचनबुद्धेरपि संकेतादिलौकिकप्रमाणसापेक्षत्वे- नानुमानप्रकारताङ्गीकारात्। यच्च 'संस्कारजन्यत्वाद्रसादिबुद्धिः स्मृतिः' इति केचित, तत्रापि प्रत्यभिज्ञायामनैकान्तिकतया हेतोराभासता ।
भावः। एतेन हेतोराभासलेन। नन्वर्थापत्तेव्याप्तिग्रहादिनिरपेक्षत्वेन हेनोराभासल्- मकिंचित्करमित्यत आह-अर्थापत्तेरपीति। व्याप्तीच्छां व्याप्तिग्रहम्। अर्थाप- त्तिमाह-यथेति। 'चैत्र एतद्रोष्ठीभिन्नस्थानेSवतिष्ठते' इत्यर्थापत्तिजन्यज्ञानम्। अन्न जीवितस्य यत्किंचिदधिकरणावस्थानव्याप्यत्वज्ञानमपेक्षणीयमिति व्याप्तिग्रह- प्रदर्शनपुरःसरमर्थापत्तिप्रदर्शनमिदम् । 'जीवति च' इत्यादिकमर्थापत्तिदर्शनम्। तर्जनीतोलनेन तर्जन्युत्क्षपदर्शनेन । 'सूच्यतेऽनेन' इति सूचनं हस्तचेष्टादिरूपः संकेतस्तद्वुद्धिवेद्यः तह्वुद्विजन्यबोधविषयः । अयं व्यज्ञयपदार्थः । संकेतादीत्यादि- पदेन संकेतग्रह्वेद्यानां ग्रहणम्। लौकिकप्रमाणसापेक्षलेन सहचारग्रहजन्यलेन। अनुमानप्रकारताङ्गीकारात् व्याप्तिज्ञानविशेषत्वखवीकारात्। प्रकृते वक्तुरुक्तिवैचि- त्यविशेष: संकेतः । तद्रोचरव्यङ्ञयार्थव्याप्तिग्रहेणैव व्यञ्ञयग्रहः, न तु तदर्थ व्यजना ीकार्या। एवं च सरति यत्र वक्तुरुत्तिवैचित्र्यविशेषसत्त्वेऽपि सर्वेषामेव श्रोतृणाम- नभिज्ञतया न व्यङ्ञ्यार्थबोधस्न्रैव व्यभिचार इति, तदपि न सम्यगिति भावः। 'स्मृतिरन वा' इति कारिकास्थं विवृणोति-यच्चेति । संस्कारजन्यलात्। अन्यथा संस्कारादौ संस्कारध्वंसादौ तज्जन्यत्वस्य सत्त्वाद् व्यभिचारस्यात्यन्तस्फुटलापत्तेः। प्रतिज्ञायां सोऽयमित्याकारकज्ञाने अनैकान्तिकतया साध्यं विना विद्यमानतया हेतोः संस्कारजन्यज्ञानत्वस्य आभासता व्यभिचारिता। एतच्च साधनं रसप्रतीतिकारणी- भूतवासनायाः संस्कारविशेषतवादिमते। अतिरिक्ततववादिमते तु हेतोः पक्षावृत्ति- त्वेन स्वरूपासिद्धिरपि दोष: न तु व्यभिचारमात्रम्। ये तु प्रत्यभिज्ञाया: स्मृतित्वा. पत्तिभयेन स्मृतिजन्यतमेव मन्यन्ते, न तु संस्कारजन्यत्वम्, तन्मते व्यभिचारो न
- अर्थापन्तीति। अर्थापत्तिहिं जैमिनिशासने प्रमाणत्वेन स्वीक्रियते। सा द्विविधा- दृष्टा, श्रुता च। तत्र दृष्टा-एकस्मिन्पक्षे आत्मभावो गृहीतश्चेदन्यस्मिन्नप्यात्मभावो गृह्यत एव। श्रुता-यथा दिवा देवदत्तो न भुङ्गे, अथ च पीनो दृश्यते। अतोऽवगम्यते रात्रौ भुङ्ग इति ॥
१. 'क्रय' घ.
Page 303
२५६ साहित्यदर्पणे
'दुर्गालङ्वित-' इत्यादौ च द्वितीयार्थो नास्त्येव-इति यदुक्तं महिमभट्टेन, तदनुभवसिद्धिमपलपतो गजनिमीलिकैव। तदेवमनुभवसिद्धस्य तत्तद्रसादिलक्षणार्थस्याशक्यापलापतया तत्त- च्छब्दाद्यन्वयव्यतिरेकानुविधायितया चानुमानादिप्रमाणावेद्यतया चा- भिधादिवृत्तित्रयाबोध्यतया च तुरीया वृत्तिरुपास्यैवेति सिद्धम्। इयं च व्या्याद्यनुसंधानं विनापि भवतीत्यखिलं निर्मलम्। त्त्कनामिकेयं वृत्तिरित्युच्यते- सा चेयं व्यञ्जना नाम वृत्तिरित्युच्यते बुधैः। रसव्यक्तौ पुनर्वृत्तिं रसनाख्यां परे विदुः ॥५॥ ऐतच् विविच्योक्तं रसनिरूपणप्रस्ताव इति सर्वमवदातम् ।। इति साहित्यदर्पणे व्यज्नाव्यापारनिरूपणो नाम पञ्चम: परिच्छेदः।
भवतीत्यवधेयम्। अभिधामूलव्यज्ञनामनङ्गीकुर्वंतो मतं दूषयति-दुर्गेत्यादि। द्वितीयार्थोSप्राकरणिकार्थबोधः। गजनिमीलिका हस्तिन इव मूर्खलम्। उपसंहर- ति-तदेवमिति। तत्तद्रसादिलक्षणार्थस्य तत्तद्रसादिसरूपार्थस्य। 'विलक्षणा र्थस्य' इति पाठे तत्तद्रसादिरूपस्य। वाच्यादिविलक्षणस्येत्यर्थः । अनुमानादीत्यादि- पदेन अर्थापत्त्यादेर्ग्रहणम्। अभिधादीत्यादिपदेन लक्षणातात्पर्ययोर्ग्रहणम्। ननु रसा- दिग्रहार्थे रसनाख्यावृत्ति: स्वीकृता; कथं तदर्थ व्यज्ञनावृत्तिः खीक्रियत इत्यत आह-रसव्यक्ताविति। रसप्रतीतावित्यर्थः । वृत्ति व्यापारम्। परे नैयायिकाः न लालंकारिकाः । तेषामयमाशय :- 'वस्तलंकारग्रहार्थव्यञ्ञनावृत्तिरवश्यं सीकार्या, तयैव रसादेरपि ग्रहोऽस्तु। तदर्थमतिरिक्तरसनाख्यवृत्तिस्वीकारेणालम्' इति। न च व्यञ्जनाजन्यबोधस्यासादरूपत्वं नास्ति, रसनाख्यव्यापारजन्यबोधस्य तु तदक्ष- तमिति वाच्यम्। एतादृशनियमस्य शपथनिर्णेयलात्। एतद्रसनाख्यवृत्तिखरूपम्। अवदातमविरुद्धम् ॥ इति श्रीरामचरणतर्कवागीशभट्ाचार्यविरचितायां साहित्य दर्पणविव्ृतौ पञ्चमः प्रकाशः । 1. तत्तदिति। इहान्वयव्यतिरेकटृष्टान्तेन कश्चिदेव शब्दस्तादृशार्थख्यापनेडलंकर्मीण इति दर्शितम्। तदुक्तं ध्वनिकारै :- 'सोऽर्थस्तव्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन। यततः प्रत्यभिज्ञेयौ तौ शब्दार्थौं महाकवेः ॥' इति । 'व्यङ्गयव्यञ्जकाभ्यामेव हि सुप्रयुक्ताभ्या महाकवित्वलाभो महाकवीनाम्, न वाच्यवाचकरचनामात्रेण' इति व्याख्यातं च।। १. 'तदेवं-' इत्यादिः '-निर्मलम् ।' इत्यन्तः संदर्भी ग-पुस्तके नास्ति. २. 'एतच्च-' इत्यादि '-अवदातम्' इत्यन्तं ग-पुस्तके नास्ति. ३. 'अलंकारे' इत्यधिकं ग-पुस्तके. ४. 'व्यापार' इति. नास्ति क-पुस्तके. ५. 'स्थापनो' घ.
Page 304
षष्ठः परिच्छेदः । २५७
पष्ठः परिच्छेदः । एवं ध्वनिगुणीभृतव्यङ्गयत्वन काव्यस्य भेदद्वयमुक्त्वा पुनर्दृश्यश्र- व्यत्वेन भेदद्वयमाह- दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम्। दृश्यं तत्राभिनेयं तस्य रूपकसंज्ञाहेतुमाह- तैदूपारोपातु रूपकम् ॥ १ ॥ तदृश्यं काव्यं नटे रामादिस्वरूपारोपाद्रूपकमित्युच्यते। कोडसावभिनय इत्याह- भवेदभिनयोऽवस्थानुकार: स चतुविधः। आद्विको वाचिकश्चैवमाहार्यः साच्विकस्तथा ॥२॥ नटै रेङ्गादिभी रामयुधिष्ठिरादीनामवस्थानुकरणमभिनयः । रूपकस्य भेदानाह- नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः। अभिनेयं नाट्याद्यभिनीयमानं नायकादिचरितम् । एतच्च 'शब्दवोध्यो व्यनत्त्य- र्थ :- 'इत्युक्तदिशा शब्दोपस्थाप्यमेव। न त्ेवंविधं विभावादिवद्रसाभिव्यज्जकमपि तत्काव्यम्। काव्यलक्षणायोगात्। यद्वा अभिनेयमत्नास्तीति मत्वर्थीयप्रत्ययेन अभिनेयपदमभिनेयोपस्थापकम्। अनर्घराघवादि रूपकम्, रत्नावल्याघयुपरूपकं च। अवस्था साधर्म्यम्, अनुकारः सदृशीकरणम्। सः अभिनयः । अङ्गेन निष्पन्न आङिकः। एवमग्रेऽपि। वेषरचनादिनिष्पाद्य आहार्यः । सात्त्विकः स्तम्भस्वेदादि- रूप: । [ र (अ)ङ्वादिभिर्नाव्यादिभि:] नाटकमिति।अङ्क उत्सष्टाङ्कः। नाटकलक्षण- 1. तढिति। 'यथा सुखादौ पझ्मादेरारोपो रूपक मतम्। तथैव नायकारोपो नटे रूप- कमुच्यते ॥' इति भावः । 2. अभीति। अयमेवार्थो मन्दारमरन्दे भङ्गयन्तरेण प्रतिपादित :- 'उत्पादयन्सहृदये रसज्ञानं निरन्तरम्। अनुकर्तृस्थितो योडथोडभिनयः सोऽभिधीयते ॥' इते। नाव्यशास्त्रे भरतोडप्याह-विभावयति यस्माच्च नानार्थान्हि प्रयोगतः । शाखाङ्गोपाङ्गसंयुक्तस्तसमा- दभिनयः स्मृतः ॥' इति ॥ 3. आङिक इति। नाव्यशास्त्रे तु-'त्रिविधस्त्वाङ्गिको श्ञेयः शारीरो मुखजस्तथा। तथा चेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः ॥' इत्यनेनाङ्गिकाभिनयस्य त्रैविध्यमुदीरितम्। आङ्िकोऽभिनयः शाखेति कथ्यते। शिरोहस्तोरःपार्श्व्वकटीपादलक्षणानि षडङ्गानि। नेत्रत्रृ- नासिकाधरकपोलचिवुक रूपाणि षडुपाङ्गानि। १. 'वागङ्गादिभिः' ख-ग. २. पुस्तकान्तरे तु 'अभि-' इत्यादिः '-रूपकं च ।' इत्यन्तः पाठो नास्ति, किंतु 'अभिनेयमभिनयः' इत्येव दृश्यते.
Page 305
२५८ साहित्यदर्पणे
ईहामृगाङ्गवीथ्यः प्रहसनमिति रूपकाणि दश ॥ ३ ॥ किंच। नाटिका त्रोटकं गोष्ठी सट्टकं नाव्यरासकम्। प्रस्थानोल्लाप्यकाव्यानि प्रेङ्मणं रासकं तथा ॥।४ ॥ संलापकं श्रीगदितं शिल्पकं च विलासिका। दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ।५॥ अष्टादश ग्राहुरुपरूपकाणि मनीषिण: । विना विशेषणं सर्वेषां लक्ष्म नाटकवन्मतम् ॥ ६॥ सर्वेषां प्रकरणादिरूपकाणां नाटिकादयुपरूपकाणां च। तत्र नाटकं ख्यातवृत्तं स्यात्पश्चसंधिसमन्वितम्। विलासद्धर्यादिगुणवद्युक्तं नानाविभूतिभिः ॥७॥ सुखदुःखसमुद्धूति नानारसनिरन्तरम्। पञ्चादिका दशपरास्तत्राङ्का: परिकीर्तिताः ॥८।। प्रख्यातवंशो राजर्षिर्धीरोदात्तः प्रतापवान्। दिव्योऽथ दिव्यादिव्यो वा गुणवान्नायको मतः ॥९॥. एक एव भवेदङ्गी शङ्गारो वीर एव वा। अङ्गमन्ये रसाः सर्वे कार्यो निवहणेऽद्ुतः ॥ १० ॥
माह-तन्रेति। वृत्तं वृत्तान्तः। विलासेति। 'धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः' इत्युक्तलक्षणो नायकस्य गुणविशेषो विलासः । ऋद्धिरभ्युदयः । आदिना वैर्यगाम्भीर्यादिग्रहणम्। तत्र नाटके अङ्का: परिच्छेदरूपाः । अङ्गी प्रधा-
- सुखदुःखेति। सुखदुःखाभ्यां समुद्भूतिः संभवो यस्य तत् सुखदुःखसमुद्भति । तदुक्तं मातृगुप्ता चार्ये :- 'सुखदुःखोत्पत्तिकृतम्' इति ॥ 2. एक इति। उत्कर्षाधानाय एक एव रसोऽङ्गित्वेन निवेशयितव्य इत्यर्थः । शृङ्गारो वीरो वेति कथनं तु समुचितरससूचकम्। तेनोत्तररामचरिते करुणस्य, प्रबोधचन्द्रोदये शान्तस्य चाङित्वमव्याहृतम्। अत एवोक्तं ध्वनिकृता-प्रसिद्धेऽपि प्रबन्धानां नाना- रसनिबन्धने। एको रसोऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता ।।' इति ॥ 3. निर्वहण इति। निर्वहणसंधावज्गुतरसस्यावश्यकत्वमुक्तं नाट्यशास्त्रे-सर्वेषां
१. 'तत्र' इति ख-ग-पुस्तकयोर्नास्ति, २ 'कार्य' कनघ. ३. 'अ्भुतम्' क-घ.
Page 306
षष्ठः परिच्छेद: । २५९
चत्वारः पश्च वा मुख्या कार्यव्यापृतपूरुपाः। गोपुच्छाग्रसमाग्रं तु चन्धनं तस्य कीर्तितम् ।। ११।। र्यातं रामायणादिप्रसिद्धं वृत्तम्। येथा-रामचरितादि। संधयो वक्ष्यन्ते। नानाविभूतिभिर्युक्तमिति महासहायम्। सुखदुःखसमुद्धूतत्वं रामयुधिष्ठिरादिवृत्तान्तेष्वभिव्यक्तम् । राजर्षयो दुष्यन्तादयः । दिव्याः श्रीकृष्णादयः । दिव्यादिव्यः, यो दिव्योऽप्यात्मनि नराभिमानी । यथा-श्रीरामचन्द्रः । 'गोरपुच्छाग्रसमाग्रमिति क्रमेणाङ्काः सूक्ष्माः कर्तव्याः' इति केचित्। अन्ये त्वाहुः-'तथा गोपुच्छे केचिद्वाला हस्वाः केचिद्ीर्घास्तथेह कानिचित्कार्याणि मुखसंधौ समाप्तानि कानि- चित्प्रतिमुखे। एवमन्येप्वपि कानिचित्कानिचित् इति। प्रत्यक्षनेतृचरितो रसभावसमुञ्वलः ।
नम्। निर्वहणे उपसंहाराख्यचरमसंधौ। अद्भुत आश्चर्यरसः । कार्ये नायककर्मणि व्यापृताः सव्यापाराः। बन्नं गुम्फनम्। तस्य नाटकस्य। रामचरितादीत्यादिना ्रसन्नराघवानर्घराघवादीनां ग्रहणम्। महासहायमिति। नानाविधा विभूतिर्नाय- कादभ्युदयो येभ्यस्ते 'महान्तः सहायायत्र' इति व्युत्पत्त्यभिप्रायेण। अदिव्यनायका दुष्यन्तादयः । नराभिमानी नराभेदग्रहवान्। ईश्वरे नरत्स्य बाधात्तादृशग्रहो भ्रम एव वाच्यः । स चेश्वरे न संभवतीति। तस्य नरचरिताचरणं तु लोकशिक्षार्थ माययैव, न तु नरत्वाभिमानात्। तदुक्तं पाझे-'मायामानुषचारित्रो महादेवा- दिपूजितः' इति। श्रीभागवते च-'भ्रात्ना वने कृपणवत्प्रियया वियुक्तः स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार' इति। तथा सति दिव्यादिव्यपदार्थ एवं वाच्यः-मानुष्यां देवेनोत्पादितो दिव्यादिव्योयथा युधिष्ठिरादिः। एवं च श्रीरामचन्द्रोऽपि दिव्यनायक एव। अन्येषु गर्भविमर्शनिर्वहणेषु। अङ्कलक्षणमाह-प्रत्यक्षति । प्रत्यक्षवद्भा-
काव्यानां नानारसभावयुक्तियुक्तानाम्। निर्वहणे कर्तव्यो नित्यं हि रसोन्जुत- स्तज्जैः ॥' इति॥ 1. चत्वार इति। इह कार्यपुरुषाश्चत्वारः पञ्च वेति यदुक्तम्, तत्प्रायोनियमाभिप्रा- येणैव। तथा चाष्टादशाध्याये मुनिराह-'न महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा। येनात्र कार्यपुरुषाश्चत्वारः पञ्च वा ते स्युः ॥' इति ॥ 2. गोपुच्छेति। 'कायं गोपुच्छा्ं कर्तव्यं बन्धमासाद' इति भरतसूत्रं व्याचक्षाणानां मतभेदं दर्शयति-गोपुच्छेत्यादिना।।
१. 'ख्यातं' इति नास्ति ख-ग-पुस्तकयोः- २. 'यथा-रामचरितादि' इति नास्ति खनग. पुस्तकयोः
Page 307
२६० साहित्य दर्पणे
भवेदगूढशब्दार्थ: क्षुद्रचूर्णकसंयुतः ॥ १२।। विच्छिन्नावान्तरैकार्थः किंचित्संलग्नबिन्दुकः । युक्तो न बहुभि: कार्यैर्बीजसंहृतिमान च। १३ ।। नानाविधानसंयुक्तो नातिप्रचुरपद्यवान्। आवश्यकानां कार्याणामविरोधाद्विनिर्मितः ॥ १४ ॥ नानेकदिननिर्वर्त्यकथया संग्रयोजितः । आसन्ननायकः पात्रैर्युतास्त्रिचतुरैस्तथा।१५॥ दूराह्वानं वधो युद्धं राज्यदेशादिविप्ुवः। विवाहो भोजनं शापोत्सर्गौ मृत्यू रतं तथा॥ १६ ॥ दन्तच्छेद्यं नखच्छेद्यमन्यड्वीडाकरं च यत्। शयनाधरपानादि नगराद्यवरोधनम् ॥ १७॥ स्नानानुलेपने चैभिर्वर्जितो नातिविस्तरः । देवीपरिजनादीनाममात्यवणिजामपि॥१८॥ प्रत्यक्षचित्रचरितैर्युक्तो भावरसोन्भवैः। अन्तनिष्क्रान्तनिखिलपात्रोङ इति कीर्तितः ॥ १९॥ विन्द्वादयो वक्ष्यन्ते। आवश्यकं संध्यावन्दनादि। समानं नेतुर्नायकस्य चरितं यत्र। चूर्णकं गद्यप्रभेदः।अवान्तरं महावाक्याथैकदेशः। प्रथमार्थप्रकृतिर्बीजम्, निर्वहृणाख्यसंधिः संहृतिः, तयोनोंक्के विधानम्। किंतु अर्थोपक्षेपके। अत एव 'बीजार्थख्यापकं च तत्' इत्यङ्गमुखलक्षणं वक्ष्यते। विधानं विहितं कर्म। आवश्यकानामिति। एषां विरोधो नाङ्के वर्णनीय इति भावः। पात्रैः सहायैः । एभिर्दूराह्वानादिभिः। देवी राजपत्नी । परिजनास्तत्परिचारकाः राजकुमारादयो वा। अन्ते समास्ता निष्क्रान्तानि रङ्गान्निर्गतानि निखिलानि पात्राणि 1. अगूढेति। अगूढः शब्दश्रवणमात्रेणैव झटिति प्रतीयमानः शब्दार्थों यत्र तादृशः। गूढत्वे बोधमान्थर्येणाशु सामाजिकानां हृदयावर्जनायोगादनुपादेयता स्यातू॥ 2. क्षुद्रेति। क्षुद्रं स्वल्पम् ॥ 3. नातीति। एतेन गद्यपद्यानां तारतम्येन निवेशो विधेय इति सूचितम्। तथा चाष्टादशाध्याये महर्षिणा प्रतिपादितम्-'बहुचूर्णपादवृत्तं जनयति खेदं प्रयोगस्य इति॥ 4. नानेकेति। लघुकथाविहित इत्यर्थः ॥ 5. शापोत्सर्गाविति । उत्सगों मलत्यागः ।। 6. अङ्क इति। अङ्कपदस्य निरुक्तिरुक्ता नाव्यशास्त्रे-'अङ्क इति रूढिशब्दो भावैश्च रसैश्च रोहयत्यर्थान्। नानाविधानयुक्तो यस्मात्तसान्भ्वेदङ्ग: ।।' इति ॥
Page 308
षष्ठः परिच्छेदः । २६१
अङ्कोदरप्रविष्टो यो रङ्गद्वारामुखादिमान्। अङ्कोऽपर: स गर्भाङ्क: सवीजः फलवानपि॥२० ॥ यथा वालरामायणे-रावणं प्रति (कश्चुकी)। 'श्रवणैः पेयमनेकैर्द्श्यं दीर्घैश्च लोचनैर्बहुभिः। भवदर्थमिव निबद्धं नाट्यं सीतास्यंवरणम् ।।' इत्यादिना विरचितः सीतासयंवरो नाम गर्भाङ्कः। तत्र पूर्व पूर्वरङ्ग: सभापूजा ततः परम्। कथनं कविसंज्ञादेर्नाटकस्याप्येथामुखम्॥२१॥ तत्रेति नाटके। यन्नाव्यवस्तुनः पूर्व रङ्गविभनोपशान्तये। कुशीलवाः प्रकुर्वन्ति पूर्वरङ्ग: स उच्यते ॥२२ ॥ प्रत्याहारादिकान्यङ्गान्यैस्य भूयांसि यद्यपि।
नायकतत्सहायादयो यस्य सः।सूत्रधारक्रियमाणं मङ्गलं रङ्गद्वारम्। आमुखं प्रस्तावना। आदिना सभापूजाकविसंज्ञादीनां ग्रहणम्। फलं नायकनिष्पाद्यप्रधानप्रयोजनम्। भवदर्थमिति। भवते प्रयोजनमित्यर्थः। इवोत्प्रेक्षायाम्। भवतो बहूनि श्रवणानि लोचनानि च सन्ति, भवतैव तड्ष्टं श्रोतुं च योग्यमित्यर्थः। नाटकरचनापरिपाटी- माह-तत्रेति। पूर्व प्रथमम्। सामाजिकसमूहः सभा, तस्याः पूजा प्रशंसा। ततः पूर्वरज्ात्। संज्ञादेरित्यादिपदेन गोत्रमातापितृणां ग्रहणम्। नाटकस्यापीत्नेन संज्ञाकथनमित्यनेनान्वितम्। नाव्यमभिनेतव्यं वस्तु वर्णनीयपदार्थः। रङ्वं नृत्यस्थानम्, तत्र जायमाना ये विन्ना नटादिदुरदृष्टजन्योपद्रवास्तदुपशान्तये। कुशीलवाः सूत्र
- सबीज इति। बीजं वक्ष्यमाणलक्षणम् ॥ 2. पूर्वेति। पूर्व रज्यतेऽस्मिन्निति पूर्वरङ्गः नाट्यशाला। तत्सथं कर्मापि पूर्वरङ्गश- व्देन व्यपदिश्यते। अतः पूर्वरङ्गो नाम रङ्गविप्नशामको नान्दीपाठगीतवादित्रादिनानावि- धाङ्गविशेषो नाव्यादौ कर्तव्यः कर्मविशेपः। भावप्रकाशिकायामप्युक्तम्-'सभापतिः सभासभ्या गायका वादका अपि। नटी नटश्र मोदन्ते यत्रान्योन्यानुरजनात् ।। अतो रङ्ग इति ज्ञेयः पूर्व यत्स प्रकल्पते। तस्मादयं पूर्वरङ्ग इति विद्वूद्भिरुच्यते ॥' इति॥ 3. अस्येति। अस्य पूर्वरङ्गस्य प्रत्याहारादिकानि द्वाविशत्यङ्गानि। तानि नाट्यशा- स्त्नस्य पञ्चमाध्याये द्रष्टव्यानि॥
१. 'अत्र' इत्यधिकं क-पुस्तके. २. 'अथो मुखम्' घ.
Page 309
२६२ साहित्यदर्पणे
तथाप्यवश्यं कर्तव्या नान्दी विन्नोपशान्तये॥२३।। तैस्याः स्वरूपमाह- आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते। देवद्विजनृपादीनां तस्मान्नान्दीति संजञिता ॥ २४॥
धारप्रधाना नटाः । अस्य पूर्वरङ्गस्य। तस्या नान्याः। आशीरिति। स्तुतिर्गुणकीर्त- नम्। प्रयुज्यते करियते। 'स्तुतिः' इत्यत्र 'नित्यम्' इति पाठे 'स्तुतिः' इत्यध्याहार्य- म्। नृपादीनामित्यादिना गुर्वादिपरिग्रहः। नान्दीपदेन आशीर्मङ्गल्यं वस्तु वोच्यते। 1. नान्दीति। नान्दीपदव्युत्पत्तिरुक्ता नाट्यप्रदीपे-'नन्दन्ति काव्यानि कवीन्द्रवर्गा: कुशीलवाः पारिषदाश्च सन्तः । यस्मादलं सज्जनसिन्धुहंसी तस्मादियं सा कथितेह नान्दी॥' इति। तत्र भरतः प्रथमाध्याये-'पूर्व कृता मया नान्दी आशीर्वचनसंयुता। अष्टाङ्गपद- संयुक्ता प्रशस्ता वेदसंमता।' इति। पञ्चमाध्याये च-'सूत्रधारः पठेन्नान्दीं मध्यमं स्वरमा श्रितः । नान्दी पदैर्द्ादशभिरष्टाभिर्वाप्यलंकृताम्।' इति च। श्रोकोऽयमभिनवगुप्तपादाचा- यैर्रतटीकायामभिनवभारत्यां व्याख्यातः-'अनेन वर्यस्रतालानुगता त्रिपदा षटपदा द्वाद- शपदेति चतुरस्रतालानुगता चतुष्पदा अष्टपदा षोडशपदेति पृथक्त्रिविधैव। नातः परमपि भूयस्त्वादाद्टतेति। पदानि श्रोकावयवभूतानि तिडन्तानि सुबन्तानि वा श्रोकतुरीयांश- रूपाणि वा, अवान्तररूपाणि वा' इति व्याख्याय पुनरुक्तम्-'आचार्यस्वरसात्ववान्तरवा- क्येष्वेव पदत्वम्' इति। एतदेवाभिप्रेत्य नाव्यप्रदीपे-'श्रोकपादः पदं केचित्सुप्तिडन्तम- थापरे। परेऽवान्तरवाक्यैकस्वरूपं पदमूचिरे ॥' इति प्रतिपादितम्। तथा च पञ्चमाध्याये महर्पिणा-'नमोऽस्तु सर्वदेवेभ्यो, द्विजातिभ्यस्ततो नमः। जितं सोमेन वै राज्ञा, शिवं गोबाह्मणाय च। ब्रह्मोत्तरं तथैवास्तु, हता ब्रह्मद्विषस्तथा। प्रशास्त्विमां महाराजः पृथिवीं च ससागराम्।। राष्ट्र प्रवर्धतां चैव, रङ्स्याशा समृध्यतु। प्रेक्षाकर्तुर्महान्धमों भवतु ब्रह्म- भाषितः ॥ काव्यकर्तुर्यशश्ापि धर्मश्चापि प्रवर्धतां। इज्यया चानया नित्यं प्रीयन्तां देवता- इति ।' इत्यवान्तरवाक्यरूपा द्वादशपदा नान्दी प्रदर्शिता। श्रोकतुर्याशः पदमिति मतेऽषट पदेयम्। तत्र टीकाकारैरष्टपदोदाहृता यथा विलक्षकुरुपतौ-'आनन्दं विदधातु, पझ्मवसतिः शंभुः शिवं यच्छतु, श्रीनाथः श्रियमातनोतु, तनुतां सीतापतिर्वाञ्छितम्। हेरम्बः कुरु- तामविन्नमनघं, वाग्ब्रह्म विद्योततां, व्यासोक्तं तदुदेतु वस्तु, भरतो नाट्येडस्तु नः कौतुकी॥' इति। श्रोकतुर्यभागः पदमिति मते चतुष्पदेयं नान्दी। किंच 'यस्यां बीजस्य विन्यासो ह्यभिधेयस्य वस्तुनः । श्रलेषेण वा समासोत्तया नान्दी पत्रावली तु सा ।' इति नाट्य- दर्पणे तस्या विशेषसंज्ञाभिहिता, तत्र 'या सृष्टिः-' इति पद्यमुदाहार्यम् । इयं च चतु- रस्नतालानुसारिणी नाय्यशास्त्रकारभरत-तट्टीकाकाराभिनवगुप्तपादा चार्यसंमतावान्तरवा- क्यरूपाष्टपदा नान्दीति सर्वतत्रस्वतन्त्र-राघवभट्टपादाः । अपि च 'नीली शुद्धेति भेदेन सा नान्दी द्विविधा भवेत्। उपादानं वर्णनं वा भवेद्यत्रेन्दुसूर्ययोः । सा नीली स्यात्त- दन्या तु शुद्धेति परिगीयते॥' इति त्भेदः काव्येन्दुप्रकाशे। तत्र पुष्पवदुपादानेन
१. 'अस्या:' क.
Page 310
षष्ठः परिच्छेदः । २६३
पैदेर्युक्ता द्वादशभिरष्टाभिर्वा पदैरुत ॥ २५॥ अष्टपदा यथा अनर्घराघवे-'निष्प्रत्यूहम्-' इत्यादि। द्वादशपदा यथा मम तातपादानां पुप्पमालायाम्- 'शिरसि धृतसुरापगे स्मरारा- चरुणमुखेन्दुरुचिर्गिरीन्द्रपुत्री। अथ चरणयुगानते खकान्ते स्मितसरसा भवतोऽस्तु भूतिहेतुः ॥ एवमन्यत्र। ऐतन्नान्दीति कस्यचिन्मतानुसारेणोक्तम् । वस्तुतस्तु 'पूर्वरङ्गस्य रङ्गद्वाराभिधानमङ्गम्' ईत्यन्ये। तदन्यतरयोगाहेवादीनां स्तुतिरपि नान्दीति भावः। आशीवचनयुक्ता, मङ्गल्यशङ्वा- दिशंसिनी वा। शङ्केत्यादिमालाद्युपलक्षणम् । तेन 'मध्याह्वार्कमरीचिकाखिविव पयः- पूरो यदज्ञानत :- ' इत्यादौ स्रक्शव्दप्रयोगेण नान्दीलमक्षतम्। पदैः सुबन्तति- डन्तान्यतरैः । द्वितीयपदशव्देन शलोकचतुर्थभाग उच्यते। अत एवोभयन्न पदश- न्दोपन्यासः केचित्तु रत्नावल्यादौ श्रोकत्रयेण नान्दीदर्शनात्प्रमथपदस्य श्लोकचतुर्थ- भागपरत्वं वदन्ति। तन्न। 'इर्द गुरुभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे। विन्देम देवतां वाचममृतामात्मनः कलाम् ।I' इत्यादेरुत्तररामचरितादौ प्रणीताया द्वादश- पदाया नान्या असंग्रहापत्तेः । एवं चाष्टाभिरिति तदधिकोपलक्षणलेन श्लोकत्रयेणा- पि नान्दी संगच्छते। अत एव महानाटके त्र्यधिकैः श्ोकैर्नान्दी कृता। नन्वभिज्ञा- नशकुन्तलायां 'या सृष्टिः स्ष्टः-' इत्यादौ द्वादशाधिकपद्घटितैकश्लोकप्रणीताया नान्याः कथं संग्रह इति चेत्, तस्याः 'कालिदासादिमहाकविप्रवन्धेषु च' इत्यनेन ग्रन्थकृतैव नान्दीलाभावस्य वक्ष्यमाणलात्। एतत् सूत्रधारादिक्रियमाणं मङ्गलम्। 'कस्यचित्' इत्यनेनास्वरसः सूचितः । तर्हि तस्य किं नामेत्यत आह-वस्तुत- स्त्विति। रङ्गद्वाराभिधानं रङ्गद्वारनामकम्। 'अन्ये' इति बहुसंमतलेनात्र सवस्या- 'या सृष्टिः-' इति नीली । तद्वर्णनेन 'निष्प्रत्यूहमुपास्महे-' इति नीली। 'वेदान्तेपु यमाहुरेकपुरुषं-' इति शुद्धा ॥ 1. पदैरिति। अत्र विशेषो मन्दारमरन्दे-'अष्टभिर्दशभिः श्रेष्ठा तथा द्वादशभिः पदः । अष्टादशपदैर्वापि द्वाविशत्या पदैयुता ॥' इति संक्षेपः॥ 2. निष्प्रत्यूहमिति। 'निष्प्रत्यूहमुपास्महे भगवतः कौमोदकीउक्ष्मगः कोकप्रीतिच- कोरपारणपटज्योतिष्मती लोचने। याभ्यामर्धविबोधमुग्धमधुरश्रीरर्धनिद्रायितो नाभीपल्वल- पुण्डरीकमुकुल: कम्बोः सपलीकृतः ॥' इति ॥ १. 'एपा' क. २. 'इत्युच्यते' घ.
Page 311
२६४ साहित्यदर्पणे
यदुक्तम्- 'यस्मादभिनयो ह्यत्र प्राथम्यादवतार्यते। रङ्द्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ।' इति। उक्तप्रकारायाश्र नान्दा रङ्द्वारात्प्रथमं नटैरेव कर्तव्यतया न महर्षिणा निर्देशः कृतः । कालिदासा दिमहाकविप्रबन्धेषु च- 'वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः । अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥' एवमादिषु नान्दीलक्षणायोगात् उक्तं च-'रङद्वारमारभ्य कविः कुर्यात्-' इत्यादि । अत एव प्राक्तनपुस्तकेषु 'नान्धन्ते सूत्रधारः' इत्यनन्तरमेव 'वेदान्तेषु-' इत्यादि श्रोकलिखनं दृश्यते। यच्च पश्चात् पि खरसः सूचितः । अत्र मुनेरपि खवरसमाह-यदुक्तमिति। अत्र सूत्रधार- क्रियमाणे मङ्गले प्राथम्यात् आरम्भं विधाय अवतार्यते क्रियते। रङ्गस्य रङ्गक्रियमाणा- भिनयस्य द्वारमारम्भः । तस्य नान्दीले मुनेरखरसमाह-उक्तप्रकारायाश्रेति। चशब्दो हेतौ। महर्षिणा भरतेन। निर्देशो नियमः। तथा च रङ्गद्वारात्पूर्वमेव नान्दी, सा निर्विन्नं अ्रन्थसमाप्तये कविनापि क्रियत इति भावः । अव्याप्तिमप्याह-कालि- दासादिमहाकविप्रबन्धेषु चेति । नान्दीलक्षणायोगाच्चेति चकारस्यान्वयः । वेदान्तेष्विति। एकपुरुषमद्वितीयं ब्रह्म। रोदसी द्यावापृथिव्यौ। अनन्यविषय- स्तन्मात्रप्रतिपादकः। यथार्थाक्षरो योगार्थः । अन्तर्मनसि । नियमितप्राणाः प्राणा- याम:। आदिना ध्यानधारणादेर्ग्रहणम् । मृग्यते ज्ञायते। नान्दीलक्षणायो गादिति। अष्टपदत्वद्वादशपदल्वान्यतराभावादित्यर्थः । तथा च 'वेदान्तेषु-' इत्यादि रङ्गद्वारमेव, न नान्दीति। तत्र नान्दीलक्षणागमने दोषो नास्तीति भावः। ननु नान्या: कविकरणपक्षे नटकर्मलाभावात्कथं नाटकारम्भलमत आह-उक्तं चेति। 'महर्षिणा' इति पूर्वेणान्वयः । एतदनुकूलमाह-अत एवेति। तथा च यत्र ना- न्यस्ति, रङ्गद्वारं नास्ति, तत्र तन्त्रेण सैव रद्गद्वारम्। यत्र रङ्गद्वारमेवास्ति, न नान्दी, 1. प्रथममिति। 'नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च' इत्यादिना महर्षिण पूर्वरङ्गाङ्गभूत-रङ्गद्वारात्पूर्वमेव नान्या उद्देशो विहितः ॥ 2. योगार्थ इति। तथा च ईशितुं शीलमस्येति 'ईश्वरः' इति योगलभ्योऽर्थः शिवे एव घटते, नान्यन्र । १. 'अवगस्यते' क २. 'अतएव कालिदास-' क,
Page 312
षष्ठः परिच्छेदः । २६५
'नान्धन्ते सूत्रधारः' इति लिखनं तस्यायमभिप्रायः-नान्धन्ते सूत्रधार इदं प्रयोजितवान्, इतःप्रभृति मया नाटकमुपादीयत इति कवेरभि- प्रायः सूचित इति। पूर्वरङ्गं विधायैव सूत्रधारो निवर्तते। प्रविश्य स्थापकस्तद्वत्काव्यमास्थापयेत्ततः ॥ २६ ।। दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः। सूचयेद्वस्तु बीजं वा मुखं पात्रमथापि वा ॥२७॥ काव्यार्थस्य स्थापनात्स्थापकः । तद्वदिति। सूत्रधारसदृशगुणा- कारः। इदानीं पूर्वरङ्गस्य सम्यक्प्रयोगाभावादेक एव सूत्रधारः सर्वै प्रयोजयतीति व्यवहारः स स्थापको दिव्यं वस्तु दिव्यो भूत्वा, मर्त्य मर्त्यो भूत्वा, मिश्रं चे दिव्यमर्त्ययोरन्यतरो भूत्वा सूचयेत्। वस्तु इतिवृत्तम्। यथोदात्तराघवे- 'रामो मूर्धनि निधाय काननमगान्मालामिवाज्ञां गुरो- स्तद्भत्तया भरतेन राज्यमखिलं मात्रा सहैवोज्झितम्। तौ सुग्रीवविभीषणावनुगतौ नीतौ पैरामुन्नतिं प्रोत्सिक्ता दशकंधरप्रभृतयो ध्वस्ताः सेमस्ता द्विषः ।'
तत्र सा फलबलानुमेया। यत्र त्वारम्भे बहवः श्रलोकास्तत्र श्रलोकद्वयं नान्दी। अपरे रङ्द्वारमित्यवधेयम्। नान्धनन्तरं कर्तव्यमाह-पूर्वरङ्गमिति। काव्यं काव्यार्थम्। आस्थापयेत् सभापूजादिपुरःसरं सूचयेत्। मिश्रं दिव्यादिव्यम्। तयोर्दिव्यादि व्ययोः । वस्तुनः । प्रथमोद्दिष्टिलेन प्राधान्यात्तदेवादाय विवृणोति-दिव्यं व- स्त्विति। राम इति। गुरोः पिनुः। तद्भत्त्या रामभत्त्या। प्रोत्सिक्ता उदिक्त-
- सूत्रेति। सूत्रं प्रयोगानुष्ठानं धारयतीति सूत्रधारः । तदुक्तम्-'नाट्योपकरण- दीनि सूत्रमित्यभिधीयते। सूत्रं धारयतीत्यर्थे सूत्रधारो निगद्यते ॥I' एतल्क्षणमुक्तं मातृगु- पाचार्यै :- 'चतुरातोदनिष्णातोडनेकभूषासमावृतः। नानाभाषणतत्त्वज्ञो नीतिशास्त्रार्थ- तत्त्ववित्। नानागतिप्रचारज्ञो रसभावविशारदः। नाट्यप्रयोगनिपुणो नानाशिल्पकला- न्वितः ॥ छन्दोविधानतत्त्वज्ञः सर्वशास्त्रविचक्षणः । तत्तद्वीतानुगलयकलातालावधारगः॥ अवधाय प्रयोक्ता च योक्तणामुपदेशकः । एवं गुणगणोपेतः सूत्रधारोडभिधीयते ॥' इति॥
१. 'च' क-पुस्तके नास्ति. २, 'परां संपदम्' ख-ग-घ. ३. 'दुर्वृत्ताः' क; 'परोत्खाताः' ख-ग. . 'समस्तद्विषः' क. सा० द०२३
Page 313
२६६ साहित्यदर्पणे
बीजं यथा रत्नावल्याम्- 'द्वीपादन्यस्मादपि मध्यादपि जलनिघेर्दिशोऽप्यन्तात्। आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः॥' अत्र हि समुद्रे प्रवहणभङ्गमस्ोत्थिताया रतनावल्या अनुकूल- दैवलालितो वत्सराजगृहप्रवेशो यौगंधरायणव्यापारमारभ्य रलावली- प्राप्तौ बीजम्। मुखं क्लेषादिना प्रस्तुतवृत्तान्तप्रतिपादको वाग्विशेषः। यथा- 'आसादित प्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकोन्तिः। उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ।I' पात्रं यथा शाकुन्तले- 'तैवास्मि गीतरागेण हारिणा प्रसभ हृतः । एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ।।'
दर्पाः । ध्वस्ता विनाशिताः। उत्तरवाक्यदूये रामेणेति कर्तृपदमूह्यम्। श्लेषादिने- त्यादिपदेन समासोत्त्यप्रस्तुतप्रशंसादेर्ग्रहणम्। आसादितेति। चन्द्रहासश्चन्द्रप्र- काशः, खङ्गश्च। कान्तिर्नक्षत्रादिज्योतिः, शोभा च। उत्खाय हत्वा। तमो ध्वान्तम्, अज्ञानं च। घनकालं वर्षासमयम्। संभृता: पुष्पपूर्णा बन्धुजीवा बन्धूका यत्र। पक्षे-संभृतो बन्धुषु समरसुहृद्धतवानरेषु जीवो येन। अत्र नायकनामसूचनात्पा- त्रसूचनमपि संभवति। अस्य पात्रासंकीर्णोदाहरणं यथानर्घराघवे-'यान्ति न्याय- प्रवृत्तस्य तिर्यञ्चोऽपि सहायताम्। अपन्थानं तु गच्छन्तं सोदरोपि विमुश्चति ॥' अत्र वानराणां रामसाहाय्यम्, विभीषणेन रावणत्यागश्च श्लेषेण सूचितः । सारङ्वेण
- विशुद्धेति। 'विशुद्धकान्तः' इति पाठो रमणीयः । तथाहि-विशुद्धो निर्मलः कान्त उदकान्तो यत्र तादृकू। शरदि अगस्त्योदयेन जलाशयाः प्रसाधन्त इति भावः । रामपक्षे-विशुद्धा कान्ता जानकी यस्येति। 2. उग्रमिति। रावणपक्षे-उग्रः शिव उपास्यत्वेन यस्यास्तीति उग्रः । मत्वर्थीयो- डच। तम्॥ 3. तवास्मीति। अस्मीत्यहमर्थकमव्ययम्।।
१. 'वहित्र' घ. २, '-कान्तः' क-ख-ग-घ. ३. 'अभिज्ञानशाकुन्तले' ख-ग.
Page 314
षष्ठः परिच्छेदः । २६७
रङ्गं प्रसाद् मधुरैः श्लोकैः काव्यार्थमूचकैः। रूपकस्य कवेराख्यां गोत्राद्यपि स कीर्तयेत् ॥२८॥ ऋतुं च कंचित्प्रायेण भारतीं वृत्तिमाश्रितः । स स्थापकः । प्रायेणेति क्वचिदतोरकीर्तनमपि। यथा-रत्ना- वल्याम्। भारतीवृत्तिस्तु- भारती संस्कृतग्रायो वाग्व्यापारो नैराश्रयः ॥२९॥। संस्कृतवहलो वाक्प्रधानो व्यापारो भारती। तस्याः प्ररोचना वीथी तथा प्रहसनामुखे। अङ्गान्यत्रोन्मुखीकारः श्रैशंसातः प्ररोचना ॥ ३० ॥ प्रस्तुताभिनयेषु प्रशंसातः श्रोतृणां प्रवृत्त्युन्मुखीकरणं प्ररोचना। यथा रलावल्याम्- 'श्रीहर्षो निपुणः कविः, परिषदप्येषा गुणग्राहिणी, लोके हारि च वत्सराजचरितं, नाट्ये च दक्षा वयम्। वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं, किं पुन- र्मद्धाग्योपचयादयं समुदितः सर्वो गुणानां गणः ।।'
हरिणेन। रङं रङ्गस्थसामाजिकसमूहम्। प्रसाद् प्रीणयित्वा। श्रोकैरिति बहुवचनमविव- क्षितमाद्यार्थे वा, तेन गद्यस्यापि लाभः । रूपकस्य नाटकादेः। प्रसङ्गाद्भारतीवृत्तिमाह- भारतीति। तस्या भारत्याः। अभिनयदर्शनादौ प्रवृत्त्युन्मुखीकरणं प्रवृत्त्यौपयि- केच्छाजननम्। श्रीहर्ष इति। हारि मनोहरम्। पदं कारणम्। आमुखमाह-
- रङ्मिति। अयमेवार्थो भङ्गयन्तरेण भावप्रकाशिकायां प्रतिपाद्यते-'इत्थं रङ्गवि- धानस्य संबन्धादिप्रसिद्धये। गोत्रं नाम च बश्नीयात्पूजावाक्यं सभासदाम्॥ वान्छाकलापः प्रथमं कलाविधिरनन्तरम्। वाञ्छाशून्या न दृश्यन्ते व्यवहाराः कथंचन ॥ वाञ्छा- कलापस्तु कवेरभीष्टार्थप्रकाशनम्। स्वाभिधेयगतत्वेन स द्विधा परिपठ्यते । स्वगतं तु स्वगोत्रादिस्वीयकीतिंप्रकाशनम्। अभिधेयगतं यत्तत्काव्यनास्ना प्रकाशनम् ।।' इति ॥ 2. भारतीति । ऋग्वेदोत्पन्नाया भारतीवृत्तेः स्वरूपं किचित्परिष्कृत्योक्तं नाट्य शास्त्रे-'या वाक्प्रधाना पुरुषप्रयोज्या स्त्रीवर्जिता संस्कृतवाक्ययुक्ता। सवनामवेयैर्भरतैः प्रयुक्ता सा भारती नाम भवेत्तु वृत्तिः ।' इति ॥ 3. प्रशंसात इति। प्रशंसाया द्वैविध्यमाम्नातं सुधाकरे-प्रशंसा तु द्विधा ज्ञेय।
१. 'जनाश्रयः' इति क्ाचित्क: पाठ:
Page 315
२६८ साहित्यदर्पणे
वीथीप्रहसने वक्ष्येते। नटी विदूषको वापि पारिपार्शिक एव वा। सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ ३१ ॥ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः। आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥ ३२ ।। सूत्रधारसदृशत्वात्स्थापकोऽपि सूत्रधार उच्यते। तस्यानुचरः पारिपार्श्वकः । तस्मात्कंचिदूनो नटः । उद्धात्य(त)क: कथोद्वातः प्रयोगातिशयस्तथा। प्रवर्तकावलगिते पञ्च प्रस्तावनाभिदाः ॥३३॥ तत्र पदानि त्वगतार्थानि तदर्थगतये नराः। योजयन्ति पदैरन्यैः स उैद्धात्य(त)क उच्यते॥ ३४॥ नटीति। विदूषक उक्तलक्षणकः । संलापं सम्यग्भाषणम्। स्वकार्योत्थैरिति । स्वकार्य पात्रप्रवेशस्तदुपयुक्तैरित्यर्थः । प्रस्तुताक्षेपिभिः प्रस्तुतसूचकैः। आमुखभेदा- नाह-उद्धात्यक इति। पदानीति। अप्रसिद्धतया अगतोऽप्रतीतोऽभिप्रेतार्थो चेतनाचेतनाश्रया। चेतनास्तु कथानाथकविसभ्यनटाः स्मृताः। अचेतनौ देशकालौ काले मधुशरन्मुखः ॥' इति ॥ 1. नटीति। नट इत्युचितम् । 'तस्मात्किंचिदूनो नटः' इति वृत्तिदर्शनातू। मन्दार- मरन्दे तु नट्या अपि ग्रहणम्। तथा च तद्ाक्यम्-'नटी विदूषको वापि नटो वा पारि- पार्श्विकः ।' इति ॥ 2. प्रस्तावनेति। सुधाकरे सदृष्टान्तमुक्तम्-'विधे्यथव संकल्पो मुखतां प्रतिपद्यते। प्रधानस्य प्रबन्धस्य तथा प्रस्तावना मता ॥2 इति ॥ 3. उद्धात्यक इति। दशरूपके तु-'गूढार्थपदपर्यायमाला प्रश्नोत्तरस्य वा। यत्रा- न्योन्यं समालापो द्वेधोद्धात्यं तदुच्यते ।।' इति तलक्षणमुक्तम्। गूढार्थ पदं तत्पर्यायश्चे- त्येवं माला, प्रश्नोत्तरं चेत्येवं वा माला। द्वयोरुक्तिप्रत्युक्तौ तद् द्विविधमुद्धात्यकम्। तत्रादं विक्रमोर्वश्यां यथा-'विदूषकः-भो वअस्स, को एसो कामो जेण तुमं पि दूमिज्जसे। सो किं पुरिसो आदु इत्थिअत्ति। राजा-सखे, मनोजातिरनाधीना सुखेष्वेव प्रवर्तते। सनेहस्य ललितो मार्ग: काम इत्यभिधीयते ॥ विदूषकः-एवं पि णजाणे। राजा-वयस्य, इच्छाप्रभवः सः। विदूषक :- कि जो जं इच्छदि सो तं कामेदित्ति। राजा-अथ किम्। विदूषक :- ता जाणिदं जह अहं सूअआरसालाए भोअणं इच्छामि।' द्वितीयं यथा पाण्डवानन्दे-'का क्राधा गुणिनां क्षमा, परिभवः को यः स्वकुल्यैः कृतः, किं दुःखं परसंश्रयो, जगति क: श्राध्यो य आश्रीयते। को मृत्युर्व्यसनं, शुचं जहृति के यैनिजिंताः शत्रवः, कैविज्ञातमिदं विराटनगरे छन्नस्थितैः पाण्डवैः॥'
Page 316
षष्ठः परिच्छेदः । २६९
यथा मुद्राराक्षसे सूत्रधार :- 'फूरग्रहः सकेतुश्चन्द्रमसंपूर्णमण्डलमिदानीम्। अभिभवितुमिच्छति बलात्- इत्यनन्तरम्-'(नेपथ्ये)आः, क एष मयि जीवति चन्द्रगुप्तमभिभ- वितुमिच्छति।' इति। अत्रान्यार्थवन्त्यपि पदानि हृदयस्थार्थगत्या अर्थान्तरे संक्रमय्य पात्रप्रवेशः । सूत्रधारस्य वाक्यं वा समादायार्थमस्य वा। भवेत्पात्रप्रवेशश्चेत्कथोद्वातः स उच्यते ॥३५॥ वाक्यं यथा रत्नावल्याम्-'द्वीपादन्यस्मादपि-'इत्यादि सूत्रधारेण
येभ्यस्तानि। तदर्थगतये अभिप्रेतार्थबोधाय। योजयन्ति अभिप्रेतार्थे संक्रमयन्ति। अन्यैरभिप्रेतार्थमान्रप्रतिपादकैः । क्रूरोऽनिष्टफलदायी। स प्रसिद्धः। अत्र चन्द्रप- दस्य चन्द्रगुप्तपदयोगेन क्रूरग्रहादिपदानामभिप्रेतार्थप्रत्ययो भवति। तथाहि-कूरो ग्रह आशयो यस्य सः चन्द्रं चन्द्रगुप्तम्। (अ)संपूर्ण मण्डलं राज्यचक्रं यस्य। अर्थ- वन्त्यपि अभिप्रेतार्थप्रतीतियोग्यान्यपि। हृदयस्थार्थागत्या अभिप्रेतार्थाप्रत्ययेन उप-
- क्ररेति । सकेतुः सपातः क्रूरग्रहो राहुः इदानीमसंपूर्णमण्डलम् अपरिपूर्ण- बिम्बं चन्द्रं बलात् हठात् अभिभवितुमाक्रमितुमिच्छति प्रवणीभवति। श्िष्टार्थस्तु-स- केतुः मलयकेतुना सह। क्ूरे कर्मणि कूटव्यवहारे ग्रह आसङ्ो यस्य तादृशः। अमात्य- राक्षस इत्यर्थः । इदानीमसंपूर्णमण्डलमचिरराज्याभिषिक्ततया अव्याहताज्ञाभावेन अस्वा- धीनप्रकृतिमण्डलं चन्द्रं चन्द्रगुप्तं बलादू बलं सामर्थ्य मित्रादिसैन्यं वा आश्रित्य अभिभ- वितुं पराभवितुमिच्छति। 'बलात्' इति ल्यब्लोपे पञ्नमी। एतेन चन्द्रगुप्तं प्रति समलय- केतोरमात्यराक्षसान्द्यमाशङ्कमानस्य चाणक्यस्य प्रवेशः । तुरीयपादस्तु 'रक्षत्येनं तु बुध- योगः' इति। 'बुधयोगः बुधेन सद चन्द्रस्य योगः एनं चन्द्रं रक्षति ग्रहाद्वारयति। तथा चोक्तं गर्गेण-'पञ्नग्रहसमायोगं दृष्टा सौम्यविवर्जितम्। ग्रहणं तु वदेत्तत्र सबुधं न ग्रहं वदेत् ।।' इति। वस्तुतस्तु गणितगोलविरुद्धत्वान्मिथ्याभूतमेतद्। क्रिष्टार्थस्तु- बुधश्चाणक्यः, तद्योगः क्रियाकौशलमेनं चन्द्रगुप्तं रक्षतीति तदर्थः ॥ 2. कथोद्वात इति। काव्येन्दुप्रकाशे तु-'हृदिस्थानामर्थवतां पदानामन्यथाकृतेः। यः पात्रस्य प्रवेशः स्यात्स कथोद्वात इष्यते ।।' इति समाम्नातम्। तत्र पदभङ्गरूपमर्थ- भङ्गरूपमिति द्विविधमन्यथाकरणम् आद्यस्य 'द्वीपान्यस्मात्-' इत्युदाहरणम्। द्विती- न्यस्य तु 'निर्वाणवैरिदहना :- ' इति ॥
१. 'सति' इत्यधिकं घ-पुस्तके. २. 'संगमय्य' घ.
Page 317
२७० साहित्यदर्पणे
पठिते-'(नेपथ्ये।)एवमेतत्। कः संदेहः।द्वीपादन्यस्मादपि-'इत्या दि पठित्वा यौगंधरायणस्य प्रवेशः । वाक्यार्थो यथा वेण्याम्- 'निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन। रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥' इति सूत्रधारेण पठितस्य वाक्यस्यार्थ गृहीत्वा-'(नेपथ्ये।) आः दुरात्मन्, वृथा मङ्गलपाठक, कथं स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः।' ततः सूत्रधारनिष्कान्तौ भीमसेनैस्य प्रवेशः । यदि प्रयोग एकसिमिन्प्रयोगोऽन्यः प्रयुज्यते। तेन पात्रप्रवेशश्चेत्प्रयोगातिशयस्तदा ॥ ३६॥ यथा कुम्दमालायाम्-'(नेपथ्ये।) इत इतोऽवतरत्वार्या। सूत्र- धार :- कोऽयं खल्वार्याह्वानेन साहायकमैपि मे संपादयति। (विलोक्य।) कष्टमतिकरुणं वर्तते। लक्केश्वरस्य भवने सुचिरं स्थितेति रामेण लोकपरिवादभयाकुलेन। निर्वासितां जनपदादपि गर्भगुर्वी सीतां वनाय परिकर्षति लक्ष्मणोऽयम् ।।' अत्र नृत्यप्रयोगार्थ स्वभार्याह्वानमिच्छता सूत्रधारेण 'सीतां वनाय लक्षितानि। समादाय कथयिल्वा। अस्य सूत्रधारवाक्यस्य। निर्वाणेति। अरीणां दुर्योधनादीनाम्। प्रशमात् शान्त्यवलम्बात्। रक्तेन अनुरागेण प्रसाधिता वशीकृता भू- यैस्ते। क्षतविग्रहा भग्नकलहाः । कुरुराजसुता धार्तराष्ट्राः। द्वितीयार्थस्तु-अरीणां प्रशमात् मरणात् । रक्त्तै रुधिरैः प्रसाधिता मण्डिता भूर्यैः। क्षतविग्रहा विक्षतश- रीरा: सस्थाः पारलौकिकसुखेन तृप्ताः । अत्र सूत्रधारवाक्यस्य कुरुराजसुतपदार्थ- 1. स्वस्था इति। स्वस्थाः स्वर्गस्था इति पक्षे 'खपरे शरि वा विसर्गलोपो वक्तव्यः' इति वार्तिकेन विसर्गलोपे न वैरुप्यम् ।। 2. प्रयोगेति। दशरूपकादौ तु-'एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः। पात्रप्रवेशो यत्रैप प्रयोगातिशयो मतः ॥' इत्युक्तम् । 'एष राजेव दुष्यन्त' इत्युदाहृतं च॥ १. 'सूत्रधारो निष्क्ान्तः' घ. २. '-सेनप्रवेशः' क. ३. 'अपि' इति घ-पुस्तके नास्ति.
Page 318
षष्ठः परिच्छेदः। २७१
परिकर्षति लक्ष्मणोऽयन्' इति सीतालक्ष्मणयोः प्रवेशं सूचयित्वा निष्कान्तेन खवप्रयोगमतिशयान एव प्रयोग: प्रयोजितः । कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत्। तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवर्तकम् ॥३७॥ यथा-'आसादितप्रकट-' इत्यादि। 'ततः प्रविशति यथानिर्दिषे राम: । )' यत्रैकत्र समावेशात्कार्यमन्यत्प्रसाध्यते। प्रयोगे खलु तज्ज्ञेयं नाग्नावलगितं बुधैः॥३८॥ यथा शाकुन्तले-सूत्रधारो नटीं प्रति। 'तवास्मि गीतरागेण-' इत्यादि। ततो राज्ञः प्रवेशः । योज्यान्यत्र यथालाभं वीथ्यङ्गानीतराण्यपि। अत्र आमुखे। उद्धात्य(त)कावलगितयोरितराणि बीथ्यङ्गानि वक्ष्यमाणानि । नखकुट्टस्तु- नेपथ्योक्तं श्रुतं यैत्र त्वाकाशवचनं तथा॥ ३९॥ मादाय पात्रस्य भीमस्य प्रवेशः।आर्याह्वानेन सूत्रधारभार्याह्वानेन। प्रवृत्तं वर्तमानम्। तदाश्रयः प्रवृत्तकालवर्णनासूचितः। यथानिर्दिष्टः प्रकटनिर्मलचन्द्रहासधरः। एकत्रेति। प्रयोग इत्यनेनान्वितम्। समावेशात्सादृश्योद्भावनात्। कार्ये पात्रप्र- वेशरूपम्। प्रसाध्यते सूच्यते। यथालाभं यथासंभवम्। पञ्चसवेव वीथ्यङ्गानि। 1. अवलगितमिति। दशरूपके तु-'यत्रैकत्र समावेशा कार्यमन्यत्प्रसाध्यते। प्रस्तु- तेडन्यत्र वान्यत्स्यात्तच्चावलगितं दविधा ।' इत्युक्तम्। तत्राद्यं यथोत्तरचरिते समुत्पन्नवन- विहारगरभंदोहदायाः सीताया दोहदकार्ये अनुप्रविश्य जनापवादादरण्ये त्यागः । द्विवीयं यथा छलितरामे-'राम :- लक्ष्मण, तातवियुक्तामयोध्यां विमानस्थो नाहं प्रवेषं शक्रोमि। तदवतीर्य गच्छामि। कोऽपि सिंहासनस्याध: स्थितः पादुकयोः पुरः । जटावानक्षमाली च चामरी च विराजते ॥2 इति भरतदर्शनकार्यसिद्धिः । मन्दारमरन्देऽप्युक्तम्-'अन्य- कार्यमिषादन्यकार्यस्य करणं तथा। द्विधावलगितं त्वन्यकार्याच्च स्वार्थसाधनम् ।' इति। काव्येन्दुप्रकाशे तु-'यः पात्रस्य प्रवेशस्तदवलितं चान्यवर्णनात्' इति विशेषोभिहितः अन्यपदार्थवर्णनेन पात्रप्रवेशो वलितिमिति तदर्थः। प्रवृत्तकालवर्णनानुरूपपात्रप्रवेशलक्षणा- त्प्रवर्तकतो यर्त्किचिदवर्णनात्पात्रप्रवेशरूपवलितस्य भेद: स्पष्ट एव॥ 2. नेपथ्येति। नेपथ्यं जवनिका तत्रोक्तम्। 'नेपथ्यं स्याञ्जवनिका रङ्गभूमि: प्रसाधनम्' इत्यजयः ॥
१. 'तत्र' घ.
Page 319
२७२ साहित्यदर्पणे
समाश्रित्यापि कर्तव्यमामुखं नाटकादिषु। एषामामुखभेदानामेकं कंचित्प्रयोजयेत् ॥ ४० ।। तेनार्थमथ पात्रं वा समाक्षिप्यैव सूत्रधृक। प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रयोजयेत् ॥४१ ॥ वस्त्विति वृत्तम्। इदं पुनर्वस्तु बुधैर्द्विविधं परिकल्प्यते। आधिकारिकमेकं स्यात्प्रासङ्गिकमथापरम् ॥४२॥ अधिकारः फले स्वाम्यमधिकारी च तत्प्रभुः। तस्येतिवृत्तं कविभिराधिकारिकमुच्यते ॥४३ ॥ फले प्रधानफले। यथा बालरामायणे रामचरितम्। अस्योपकरणार्थ तु प्रासङ्गिकमितीष्यते। अस्याधिकारिकेतिवृत्तस्य उपकरणनिमित्तं यच्चरितं तत्प्रासङ्गि- कम्। यथा सुग्रीवादिचरितम्। पताकास्थानकं योज्यं सुविचार्येह वस्तुनि ॥४४ ॥ इह नाट्ये। यत्रार्थे चिन्तितेऽन्यसिंस्तल्विङ्गोऽन्यः प्रयुज्यते। आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥ ४५ ॥ तद्भेदानाह- सहसैवार्थसंपत्तिर्गुणवत्युपचारतः। पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥४६ ॥ यथा रत्नावल्याम्-'वासवद्त्तेयम्' इति राजा यदा तत्कण्ठपा- उद्धात्यावलगितयोरेव तदितराणि। एषामुद्धात्यकादीनाम्। तेन प्रयुक्तामुखभेदेन। अर्थ वस्तु। समाक्षिप्य सूचयिला। ततः सूत्रधारगमनानन्तरम्। अधिकारिज्ञानं तावदाधिकारिकज्ञानजनकम्। तच्चाधिकारज्ञानाधीनमित्यधिकारं निरूपयति- अधिकार इति । तत्प्रभुः फलस्वाम्यवान्। तस्याधिकारिणः प्रसङ्गेन निर्त्ृतं प्रासङ्गिकम्। पताकास्थानमाह-अर्थे प्रयोजने । तल्लिङ्गस्तत्सधर्मा। प्रयुज्यते क्रियते। आगन्तुकेन अनभिसंहितेन। भावेन पदार्थेन सहसा अतर्कितकारणेन। अर्थसंपत्तिः प्रयोजनान्तरापत्तिः। उपचारतः प्रीत्यनुकूलव्यापारात्। वासव- दत्तेयमितीति। वासवदत्तारूपधारिणी सागरिका संकेतं प्राप्ता, वासवदत्तया 1. प्रासङ्गिकमिति। आनुषङ्गिकम् ॥ 1. 'तस्य' घ.
Page 320
षष्ठः परिच्छेदः । २७३
शं मोचयति तदा तदुत्त्या'सागरिकेयम्' इति प्रत्यभिज्ञाय 'कथम्। प्रिया मे सागरिका। अलमलमतिमात्रं साहसेनामुना ते, त्वरितमयि विमुश्च त्वं लतापाशमेतम्। चैलितमपि निरोद्धुं जीवितं जीवितेशे क्षणमिह ममं कण्ठे बाहुपाशं निधेहि।' इति फलरूपार्थसंपत्तिः पूर्वापेक्षयोपचाराति शयाद्गुणवत्युत्कृष्टा। वचः सातिशयक्किष्टं नानावन्धसमाश्रयम्। पताकास्थानकमिदं द्वितीयं परिकीर्तितम् ॥४७॥। यथा वेण्याम्- 'रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥' अत्र रक्तादीनां रुधिरशरीरार्थहेतुकश्लेषवशेन वीजार्थप्रतिपादना- न्नेतृमङ्गलप्रतिपत्तौ सत्यां द्वितीयं पताकास्थानम्।
तद्विज्ञातमिति सागरिका वासवदत्तापरिभवभयेन गले पाश दत्त्वा तत्रैव मर्तुमारब्धा, इति राज: सागरिकायां वासवदत्तात्रमः। तदुत्त्या सागरिकोक्तया। अत्र वासव- दत्ताया अनुनयपूर्वकं सुरतं राज्ञोऽभिप्रेतम्। तदन्यस्य सागरिकाया अनुनयपूर्वक- सुरतस्यानुष्ठानम्। वासवदत्ता रुष्टेति विकलचित्तेन राज्ञा सागरिकाप्राप्तिरूपं कारणं तत्तर्कित फलं सागरिकासुरतम्। पूर्वापेक्षया पूर्वसुरतस्वरूपापेक्षया। नानाबन्धो विविधविशेषणसंबन्धः, तत्समाश्रयं तद्विषयकम्। रक्ेति। सूत्रधारवचनमिदं रोपाद्गीमेनानूक्तम्। अत्र सामान्यलक्षणं संगमयति-अत्रेति। रक्तादीनां रक्तादिपदानाम्। आदिना प्रसाधितवि्रहपद्योर्ग्रहणम्। रुधिरशरीरेति। अनयोर्मध्ये मण्डितेति बोध्यम्। भीमक्रोधोपचितो युविष्ठिरोत्साहो बीजम्, तस्यार्थ: प्रयोजनम्। शत्रुमारणं प्रधानफलमिति यावत् । तस्य प्रतिपादनात्सूचकातू। नेतृमङ्गलप्रतिपत्तौ नायकमङ्गलानुष्ठाने। तथा च प्रतिनायकमङ्गले चिन्तिते अप्रति- 1. साहसेनेति। साहसेन प्राणत्यागरूपेणेत्यर्थः ॥ 2. लतापाशमिति। प्राणत्यागार्थ गृहीतमेतं पुरोवर्तिनं लतापाशम्। 3. चलितमपीति। गन्तुं प्रवृत्तमपि॥ 4. जीवितेशे इति। 'जीवितेशे' इत्यामत्रणम्। प्राणस्वामिनीति तदर्थः ॥ 2. 'उत्कण्ठा' क. २. 'अमङ्गलप्रतिपत्तौ' क.
Page 321
२७४ साहित्यदर्पणे
अर्थोपक्षेपकं यत्तु लीनं सविनयँ भवेत्। श्िष्टप्रत्युत्तरोपेतं तृतीयमिदमुच्यते।४८ ॥ लीनमव्यक्तार्थम्, श्रिष्टेन संबन्धयोग्येनाभिप्रायान्तरप्रयुक्त्तेन प्रत्यु- त्तरेणोपेतम्, सविनयं विशेषनिश्चयप्राह्या सहितं संपादते यत्ततृतीयं पताकास्थानम् । यथा वेण्यां द्वितीयेडक्के-'कश्चकी-देव, भगम्। राजा- केन। कच्चकी-भीमेन। राजा-कस्य। कञ्चकी-भवतः । राजा-आः, किं प्रलपसि। कश्चुकी-(सभयम्)देव, ननु ब्रवीमि। भगनं भीमेन भवतः । राजा-घिग् वृद्धापसद, कोऽयमद्य ते व्यामोहः कश्चकी-देव, न व्यामोहः । सत्यमेव। भअं भीमेन भवतो मरुता रथकेतनम्। पतितं किड्किणीक्काणबद्धाक्रन्दमिव क्षितौ।।' अत्र दुर्योधनोरुभङ्गरूपप्रस्तुतसंक्रान्तमर्थोपक्षेपणम्। द्वयर्थो वचनविन्यास: सुश्लिष्टः काव्ययोजितः। प्रधानार्थान्तराक्षेपी पताकास्थानकं परम् ॥ ४९ ॥ यथा रत्नावल्याम्- 'उद्दामोत्कलिका विपाण्डुररुचं प्रारब्धजम्भां क्षणा- दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । पत्तिसंहितेन प्रधानफलसूचनेन नायकमङ्गलानुष्टानमिति द्वितीयं पताकास्थानकमि- दमिति भावः । अर्थोपक्षेपकमिति।वक्ष्यमाणविष्कम्भकादिपश्चकान्यतममित्यर्थः संबन्धयोग्येन प्रस्तुतान्वयोपयुक्तेन। अभिप्रायान्तरप्रयुक्तेन अप्रस्तुतबोधाभि- प्रायेण प्रयुक्त्तेन भग्नमिति कत्रादीनामव्यक्तत्वम्। भीमेनेति। भवत इति च प्रस्तुते ऊरुभङ्वेऽप्यन्वययोग्यम्। मरुतेत्यादि विशेषनिश्चयः । अत्र रथकेतनभङ्ग- निवेदनमभिमतम्, ऊरुभङ्गनिवेदनमुपपन्नम्। एतदेवोपपादयति-दुर्योधनेति। संक्रान्तं पर्यवसन्नम्। सुश्लिष्टः सुसंबद्धः। काव्ययोजितः, न तु सभाभ्यन्तरतया काव्यप्रयोगायोग्यः । प्रधानं फलमेव अर्थान्तरं तदाक्षेपी तत्सूचकः । उद्दामेति। उत्कटाभिरुद्रताभि: कलिकाभिर्विपाण्डुररुचम्। पक्षे-उत्कटोत्कण्ठया विपाण्डुर- 1. किङ्गिणीति। किङ्विणी क्षुद्रघण्टिका तस्याः क्वाणेन बद्धो जनित आक्रन्दः क्रन्दनं येन तदिव।
१. 'अर्थोपक्षेपणं' क ख-ग. २. 'रुचिं' क-ख-ग-घ,
Page 322
षष्ठः परिच्छेदः । २७५
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ।' अत्र भाव्यर्थः सूचितः । एतानि चत्वारि पताकास्थानानि क्वचिन्म- ङ्लार्थ क्चिदमङ्गलार्थ सर्वसंधिषु भवन्ति। काव्यकर्तुरिच्छावशान्गयो भूयोऽपि भवन्ति। यत्पुनः केनचिदुक्तम्-'मुखसंधिमारभ्य संधि- चतुष्टये क्रमेण भवन्ति' इति, तदन्ये न मन्यन्ते। एषामत्यन्त- मुपादेयानामनियमेन सर्वत्रापि सर्वेषामपि भवितुं युक्तत्वात्। यत्स्यादनुचितं वस्तु नायकस्य रसस्य वा। विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥५० ॥ अनुचितमितिवृत्तं यथा-रामस्य च्छँझना वालिवधः । तच्चो- दात्तराघवे नोक्तमेव। वीरचरिते तुवाली रामवधार्थमागतो रामेण हत इत्यन्यथा कृतः । अङ्गेष्वदर्शनीया या वक्तव्यैव च संमता। या च स्याद्वर्पपर्यन्तं कथा दिनद्यादिजा॥५१॥
रुचम्। 'उत्कण्ठोत्कलिके समे' इत्यमरः। प्रारब्धजुम्भां प्राप्तप्रायप्रकाशाम्। पक्षे- विरहक्षीणतया लब्धजृम्भाम्। आयासमितस्ततो विक्षेपः, खेदं च। श्वस- नस्य वायोः, निश्वासस्य च। उद्गमैरविरलैः, घनैवां। आतन्वतीं कुर्वतीम, सूचयन्तीं च। मदनेन वृक्षविशेषेण, कामेन च सहिताम्। देव्या वासवदत्तायाः। यथा विरहक्किष्टसागरिकादर्शनेन तस्यां क्रोधस्तथोद्यान(लता) दर्शनकृतकालविलम्बेनापीति भावः । अन्र भावी विरहक्किष्टसागरिकासंगमः प्रधानमर्थः सूचितः । द्वितीये श्लेषवशेनैव प्रधानार्थसूचनम्। अत्र तुन तथेति भेदः । अत्र सागरिकाप्रसादे चिन्तिते देव्याः प्रसादोऽनुष्ठेयप्राय इति सामान्यलक्षणगमनम्। अन्यथा उचितं यथा भवति तथा पुराणादिविरुद्धमपि स्वेच्छया कल्पयेत्। अदर्शनीया निषिद्धा। वक्तव्यैव अवश्यं वक्तव्या। अनावश्यकतवे संमता वक्तुरभीष्टा च। दिनद्वयादिजा दिनद्वयादिनिर्वर्तया 'नानेकदिननिर्वर्त्यकथया संप्रयोजितः' इत्यनेन तस्य अङ्के निषि-
- अन्यथा वेति। अत एव व्वन्यालोके-'अपारे काव्यसंसारे कविरेव प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ।। शङ्गारी चेत्कविः काव्ये जातं रसमयं जगत्। स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ।। भावानचेतनानपि चेतनवच्चेतनानचेतनवत्। व्यवहारयति यथेष्टं सुकविः काव्ये स्वतत्रतया ॥' इत्यादि राजानकानन्दवर्धनाचायेः प्रतिपादितम् ॥
१. 'विपाण्डुर' क-ख-ग. २. 'भूयोऽपि' घ-पुस्तके नास्ति. ३. 'छलेन' क. 8. 'सुम्रीववीरचरिते तु'
Page 323
२७६ साहित्यदर्पणे
अन्या च विस्तरा सूच्या सार्थोपक्षेपकैर्ुधैः। अङ्केषु अदर्शनीया कथा युद्धादिकथा। वर्षादूर्ध्व तु यद्वस्तु तत्स्याद्वर्षादधोभवम् ॥५२॥ उक्तं हि मुनिना- 'अङ्कच्छेदे कार्य मासकृत वर्षसंचितं वापि। तत्स्वै कर्तव्यं वर्षादूर्ध्व न तु कदाचित् ।।' एवं च चतुर्दशवर्षव्यापिन्यपि रामवनवासे ये ये विराधवधादयः कथांशास्ते ते वर्षवर्षावयवदिनयुग्मादीनामे कतमेन सूचनीया न विरुद्धाः। दिनावसाने कार्य यदिने नैवोपपद्यते। अर्थोपक्षेपकैवाच्यमङ्कच्छेदं विधाय तत् ॥५३॥ के तेरऽर्थोपक्षेपका ईत्याह- अर्थोपक्षेपकाः पञ्च विष्कम्भकप्रवेशकौ। चूलिकाङ्कावतारोऽथ स्यादङ्कमुखमित्यपि ॥५४॥ वृत्तवर्तिष्यमाणानां कथांशानां निदर्शक:। संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥५५॥ मध्येन मध्यमाभ्यां वा पात्राभ्यां संप्रयोजित: । शुद्ध: स्यात्स तु संकीर्णो नीचमध्यमकल्पितः ॥५६॥ द्धलेऽपि 'वर्षपर्यन्तम्' इति नियमार्थ पृथगुपादानम्। अन्या एकदिननिर्वर्तया। विस्तरा अतिबहुला। तस्या अपि 'नातिविस्तरः' इत्यनेनाङ्के निषिद्धलात्। अर्थो- पक्षेपकैर्वक्ष्यमाणैर्निष्कम्भकादिभिः । वर्षादूर्ध्व वर्षातिरिक्तकालनिर्वर्तं। यद्वस्तु तद्वर्षादधोभवं वर्षाभ्यन्तरनिर्वर्त्य यथा स्यात्तथा कल्पयेदित्यर्थः । अङ्कच्छेदे विष्क- म्भकादौ। एवं च वर्षादूर्ध्वमिति प्रतिप्रसवाभिधाने च। दिनावसान इति। एकदिननिर्वर्र्यमपि यददिनावसानकार्य समग्रदिननिर्वर्त्य तदपि विष्कम्भकादिभिर्वा- च्यमित्यर्थः। वृत्तानामतीतानां वर्तिष्यमाणानामागामिनाम्। कथांशानामवान्तरार्थानां निदर्शको ज्ञापकः रूपकांशविशेषः । मध्येन मध्यमेन । कपालकुण्डलादिविलक्षण- 1. सेति। सा सर्वा सूच्या सूचनीया। 2. मध्येनेति। नात्युच्चनी चं पात्रं मध्यमित्युच्यते।। 3. नीचेति। अयमत्र निष्कर्ष :- शुद्धसंकीर्णभेदेन द्विविधो विष्कम्भकः । तत्रैक- द्विमध्यमपात्रप्रयुक्त: संस्कृतात्मकः शुद्धः, मध्यमनीचपात्रप्रयुक्तः संस्कृतप्राकृतात्मकः संकीर्ण इति ॥ १. 'विस्तरात्' क ख-ग. २. 'इत्याकाङ्कायामाह' घ. ३. 'यद्-' इत्यादि '-निर्वर्त्ये' इत्यन्त पुस्तकान्तरे नास्ति. ४. 'विष्कम्भादिवाच्यम्' पुस्तकान्तरे.
Page 324
षष्ठः परिच्छेदः । २७७
तत्र शुद्धो यथा-मालतीमाधवे रमशाने कपालकुण्डला। संकी- र्णो यश्य-रामाभिनन्दे क्षपणककापालिकौ। अथ प्रवेशक :- प्रवेशकोऽनुदात्तोक्त्या नीचपात्रप्रयोजितः। अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा॥५७॥ अङ्कद्वयस्यान्तरिति प्रथमाक्केऽस्य प्रतिषेधः । यथा-वेण्याम- श्वत्थामाङ्के राक्षसमिथुनम्। अथ चूलिका- अन्तर्जवनिकासंस्थैः सूचनार्थस्य चूलिका। यथा वीरचरिते चतुर्थाङ्कस्यादौ-'(नेपैथ्ये)। भो भो वैमानिकाः, प्रवर्तन्तां रङ्गमङ्गलानि ।' इत्यादि । 'रौमेण परशुरामो जितः ।' इति नेपथ्ये पात्रैः सूचितम् । अथाङ्कावतार :- अङ्कान्ते सूचितः पात्रैस्तदङ्कस्ाविभागतः ॥५८॥ यत्राङ्कोऽवतरत्येपोऽङ्गावतार इति स्मृतः । यथा-अभिज्ञाने पञ्चमाक्के पात्रैः सूचितः षष्ठाङ्कस्तदक्कस्याङ्गविशेष इवावतीर्णः।
पात्रदर्शनेनैवैतत्प्रयुक्तविष्कम्भकवैलक्षण्यदर्शनं भवतीति भावः। अनुदात्तोक्त्या नीचोत्त्या नीचेनैव नीचाभ्यां वा पात्राभ्यां प्रयोजितः। एवकारेण संकीर्ण- विष्कम्भकव्युदासः। शेषं 'वृत्तवर्तिष्यमाण-' इत्यादि विशेषणं विष्कम्भकवदत्र ज्ञे- यम्। प्रथमाङ्के, कर्तव्ये प्रथमाङ्कादावित्यर्थः । अस्य प्रवेशकस्य । अन्रापि पौत्रवै- लक्षण्यदर्शनेन विष्कम्भकादस्य वैलक्षण्यं दर्शितम्। जवनिका नटानां वेषस्थानम् ।
- चूलिकेति। अत्र विशेष: काव्येन्दुप्रकाशे-'अनिर्गताप्रविष्टैश्च नेपथ्यान्तर्गतैस्तथा। प्रयोजिता मध्यपात्रः सूचिका चूलिका भवेत्॥ कर्तव्याधेतराङ्केपु स्यादादौ मध्य एव वा। सा खण्डाखण्डभेदेन द्विविधा परिकीतिता ॥ आद्यान्तः स्याद्वितीया तु सप्रवशविनिर्गमा ॥' यस्यां प्रवेशविनिर्गमौ प्रत्यक्षसिद्धौ साङ्कबहिर्भूना द्वितीया चूलिका। 2. अङ्कावतार इति। मुनिनाप्येकोनविंशाध्याये उक्तम्-'अङ्गान्तरेऽथवाङ्क निपत- ति यस्मिन्प्रयोगमासाद। बीजार्थयुक्तियुक्तो जेयो ह्यङ्गावतारोडसौ ।I' इति ॥
१. 'च' इत्यधिकं घ-पुस्तके. २. इतोऽगे 'पात्रै: सूचितः, अथाङ्कावतारः' इत्यधिकं क-पुस्तके. ३. 'अनेन' इत्यधिकं क-ख-पुस्तकयोः. ४. 'पात्र' इति नारिति पुस्तकान्तरे. सा० द०२४
Page 325
२७८ साहित्यदर्पणे
अथामुखम्- यत्र स्यादङ्क एकसिन्नङ्कानां सूचनाखिला॥५९॥ तदङ्कमुखमित्याहुर्वीजार्थख्यापकं च तत्। यथा-मालतीमाधवे प्रथमाङ्कादौ कामन्दक्यवलोकिते भूरिवसु- प्रभृतीनां भाविभूमिकानां परिक्षिप्कथाप्रबन्धस्य चे प्रसङ्गात्संनिवेशं सूचितवत्यौ। अङ्कान्तपात्रैर्वाङ्गासयं छिन्नाङ्कस्यार्थसूचनात्॥ ६०॥ अङ्कान्तपात्रैरङ्कान्ते प्रविष्टैः पात्रैः । यथा वीरचरिते द्वितीयाङ्का- न्ते-'(प्रविश्य।) सुमत्र :- भगवन्तौ वसिष्ठविश्वामित्रौ भवतः सभा- र्गवानाह्वयतः । इतरे-क्व भगवन्तौ। सुमन्र :- महाराजदशरथस्या- न्तिके। इतरे-तत्तत्रैव गच्छावः' इत्यङ्कपरिसमाप्तौ। '(ततः प्रविश- न्त्युपविष्टा वसिष्ठविश्वामित्रपरशुरामाः।)' इत्यत्र पूर्वाङ्कान्त एव प्रविष्टेन सुमन्त्रपात्रेण शतानन्दजनककथाविच्छेदे उत्तराङ्कमुखसूचनादङ्कास्यम्, इति। एतच्च धनिकमतानुसारेणोक्तम्। अन्ये तु-'अङ्गावतरणेनैवेदं गतार्थम्' इत्याहुः। अपेक्षितं परित्यज्य नीरसं वस्तु चिस्तरम्। यदा संदर्शयेच्छेषमामुखानन्तरं तदा ॥ ६१॥ कार्यो विष्कम्भको नाट्य आमुखाक्षिप्पात्रक: । यथा-रत्नावल्यां यौगंधरायणप्रयोजितः । यदा तु सरसं वस्तु मूलादेव अ्रवर्तते ॥ ६२॥ आदावेव तदाङ्के स्यादामुखाक्षेपसंश्रयः। यथा-शाकुन्तले। अङ्कानामङ्कनिबन्धनीयवस्तूनां यत्केवलं बीजार्थस्य ख्यापनं सूचनं तदप्यङ्कमुखम्। भूमिका वेषरचना। परिक्षिप्तेति आकाह्ेत्यर्थः। प्रकारान्तरेणाङ्कमुखमाह-अङ्गा- न्तेति। छिन्नाङ्कस्य भिन्नाङ्कस्य विष्कम्भकस्य। प्रथमाङ्कादावपि कर्तव्यतामाह-अपे- क्षितमिति। आकाङ्वितमित्यर्थः । परित्यज्य विच्छिद। शेषं सरसं वस्तु। आमु- खानन्तरं प्रस्तावनानन्तरमेव। आमुखाक्षेपसंश्रयः आमुखसूचितः । विष्कम्भ- मुखमा. अङ्केति। मुनिरप्याह-'वि्रिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा। यदुपक्षिप्यते पूर्व तदङ्कमुखसुच्यते ॥' इति ॥ १. 'च' क-पुस्तके नास्ति.
Page 326
षष्ठः परिच्छेदः । २७९
विष्कम्भकाद्यैरपि नो वधो वाच्योऽधिकारिण:।।६३।। अन्योन्येन तिरोधानं न कुर्याद्रसवस्तुनोः। रसः शृङ्गारादिः। यदुक्तं धनिकेन- 'न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत्। रसं वा न तिरोदध्याद्वस्त्वलंकारलक्षणैः ॥' इति। बीजं बिन्दुः पताका च प्रकरी कार्यमेव च।। ६४॥। अर्थप्रकृतयः पश्च ज्ञात्वा योज्यायथाविधि। अर्थप्रकृतयः प्रयोजनसिद्धिहेतवः । तत्र बीजम्ँ- अल्पमात्रं समुद्दिष्ट बहुधा यद्विसर्पति ॥ ६५॥ फलस्य प्रथमो हेतुर्बीजं तदभिधीयते। यथा-रलावल्यां वत्सराजस्य रलावलीप्राप्तिहेतुर्दैवानुकूल्यला- लितो यौगंधरायणव्यापारः । यथा वा-वेण्यां द्रौपदीकेशसंयमन- हेतुर्भीमसेनकरोधोपचितो युिष्ठिरोत्साहः। अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥ ६६॥ यथा-रत्नावल्यामनङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सति
कादैरपीला दिना अंड्वैरपीत्यर्थः । अधिकारिणः प्रधानफलप्रभोः। वस्तलंकारलक्षणैः वस्तलंकारखरूपैः । बहुधा विसर्पति सहकारियोगेनोपचितं सद्विविधावान्तरकार्याणि जनयति। फलस्य प्रधानफलस्य प्रथमः प्रधानम्। दैवानुकूल्यलालितो दैवानुगुण्यो- पचितः। द्रौपदीकेशसंयमनंप्रधानफलम्। शत्रुवधादीन्यवान्तरफलानि। उद्धे-
- विष्कम्भकादैरिति। यदुक्तं महर्षिणाष्टदशाध्याये-'अङ्के प्रवेशके वा प्रकरणमा- श्रित्य नाटके आापि। न वध: कर्तव्यः स्ाद्यस्तत्र स नायकः ख्यातः ॥ अवतरणमेव कार्य संधिवा ग्रहणमेव वा नित्यम्। बहुभिः कार्यविशेषैः प्रवेशकैः सूचयेद्वादि॥' इति॥ 2. बीजमिति। अत्र विशेषो मातृगुप्ताचार्यैरभिहित :- 'फले यस्य हि संहारः फल- बीज तु तद्द्रवेत्। वस्तुबीजं कथा शेया अर्थबीजं तु नायकः ॥' इति। पूर्वमल्पोदिष्टः पश्चाद् बहुधा विस्तारशाली कार्यफलको हेतुविशेषो बीजवद् बीजमित्युच्यते।। 3. अवेति। अवान्तरकथाविच्छेदे तत्संधानकारी बिन्दुः ।जले तैलबिन्दुवत्प्रसारि- त्वाद् बिन्दुरिति व्यपदिश्यते।
१. 'यथा' इत्यधिकं क-ख-ग पुस्तकेषु.
Page 327
२८० साहित्यदर्पणे
'उदयनस्येन्दोरिवोद्वीक्षते' इति सागरिका श्रत्वा '(सहर्षमू।) कधं एसो सो उदअणणरिन्दो' इत्यादिरवान्तरार्थहेतुः । वैयापि प्रासङ्रिकं वृत्तं पताकेत्यभिधीयते। यथा-रामचरिते सुग्रीवादेः, वेण्यां भीमादेः, शाकुन्तले विदूष- कस्य चरितम्। पताकानायकस्य स्यान्न स्वकीयफलान्तरम् ॥ ६७ ॥ गर्भे संधौ विमर्शे वा निर्वाहस्तस्य जायते। यथा-सुग्रीवादे राज्यप्राह्यादि । यत्तु मुनिनोक्तम्- 'आं गर्भादा विमर्शाद्वा पताका विनिवर्तते।' इति,
दकारणमनन्तरोत्थापनहेतुः । कधमित्यादि। 'कथमेषः स उदयननरेनद्रः' इति संस्कृतम्। व्य.पि निर्वहणपर्यन्तं स्थायि पात्रान्तरनिष्पादं प्रधानफलसाधनं प्रास- द्विकं वृत्तं कर्म। व्यापीत्यस्य व्यावृत्तिमाह-पताकेति। पताकाया नायकस्य ख्ामिन: स्वकीयं खमात्रोपकारि यत्फलान्तरं 'न पताका-' इत्यनुषङ्गेणान्वयः। अस्य व्यापकल्वाभावमुपपादयति-गर्भे इति। 'संधौ' इति काकाक्षिन्यायेन उभयत्रा- न्वेति। निर्वाहः समाप्तिः । तस्य फलान्तरस्य। फलान्तरे मुनेः पताकापद प्रयोगस्याभिनवगुप्तपादाचार्यव्याख्यानेन गौणतमुपपाद्य खोक्तविरोधं परिहर्तु-
- उदयनस्येति। 'अस्तापास्तसमस्तभासि नभसः पारं प्रयाते रवावास्थानीं समये समं नृपजनः सायंतने संपतन् । संप्रत्येष सरोरुहद्युतिमुषः पादांस्तवासेवितुं प्रीत्युत्कर्ष- कृतो दृशामुदयनस्येन्दोरिवोद्वीक्षते ॥' इति तु समस्तम् ॥' 2. व्यापीति। यदुक्तं भरतेन-'यदवत्तं हि परार्थ स्यात्प्रधानस्योपकारकम्। प्रधा- नवच्च कल्प्येत सा पताकेति कीतिता ॥' इति ॥ 3. आ गर्भादिति। एतदुत्तरार्ध तु 'कस्माधयस्मान्निबन्धोऽस्याः परार्थः परिकीर्तते॥ इति॥
१. "वृत्तं चरितं फलान्तरम्। पताकेति केपांचिन्मतं दूषयति-पताकानायकस्येति। फलान्तरं प्र- कृतप्रयोजनानुपकारि 'न पताका' इत्यन्वयः । तत्र हेतुमाह-गर्भ इति। निर्वाहः समाप्तिः। तस्य फला- न्तरस्य पताका निर्वहणपर्यन्तमस्नि। इदं तु गर्भादौ नायकस्य फलान्तरे प्रासङ्गिकत्वेनैव लाक्षणिकपता- कापद प्रयोगसच्वेऽपि तस्य व्यापकत्वाभावेन पताकालक्षणाव्याप्तिरिति तस्या लक्ष्यत्वमङ्गीकरोति पताका नायकस्येति। लक्ष्यत्वाङ्गीकारे स्वव्याप्ति दर्शयति-गर्म इति। निर्वाहः समापतिः। तस्य फलान्तरस्य समाप्यत इति नास्य पताकात्वमिति भावः । ननु तत्र मुनेः पताकापदप्रयोगात्सैव पताका। सत्यम्। स च लाक्षणिको न मुख्य इत्याह-यच्िति। नायकफलं नायकस्य प्रासङ्ञिकं फलान्तरं न तु वास्तविकी पताका। तत्र हेतु :- निर्वहृणेति। प्रदेशस्थभेकदेशवृत्ति । सुग्रीवराज्यमाप्त्यादौ प्रासन्ञिकम्रदेशस्थे ना- यकफलान्तरे प्रकरीव्यवहाराभावात्तत्रातिव्याततिरिति प्रकरीलक्षणे तज्ेदं निवेश्यातिव्यातिमुद्धरति-प्र* करीति" इति पाठभेद: पुस्तकान्तरे,
Page 328
षष्ठः परिच्छेदः । २८१
तत्र 'पताकेति। पताका नायकफलं निर्वहणपर्यन्तमपि पताकायाः वृत्तिदर्शनात्' इति व्याख्यातमभिनवगुप्तपादैः । ग्रासङ्गिकं प्रदेशस्थं चरितं प्रकरी मता ॥ ६८ ॥ यथा-कुलपत्यक्के रावणजटायुसंवादः। प्रकरीनायकस्य स्यान्न स्वकीयं फलान्तरम्। अपेक्षितं तु यत्साध्यमारम्भो यन्निबन्धनः ॥ ६९॥। समापनं तु यत्सिद्ध्यै तत्कार्यमिति संमतम् । यथा-रामचरिते रावणवधः । अवस्था: पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः॥७०॥ आरम्भयत्नप्राप्याशानियताप्तिफलागमाः । तत्र भवेदारम्भ औत्सुक्यं यन्मुख्यफलसिद्धये।। ७१॥ यथा-रत्नावल्यां रत्नावल्यन्तःपुरनिवेशार्थ यौगंधरायणस्यौत्सु- क्यम्। एवं नायकनायिकादीनामप्यौत्सुक्यमाकरेषु बोद्धव्यम्। प्रयत्स्तु फलावासौ व्यापारोऽतित्वरान्वितः। यथा रत्नावल्याम्-'तह विण अत्थि अण्णो दंसणउवाओ त्ति जधा
माह-यच्विति। तत्र मुनिवचने। पताका पताकापदं। गौण्या वृत्या नायकफलं पताकानायकस्य फलान्तरम्। गौणत्वे हेतुमाह-निर्वहणेति। प्रकरीमाह- प्रसङ्गिकमिति। प्रदेशस्थमेकदेशवृत्ति। प्रासङ्गिकपदव्यावृत्तिमाह-प्रकरीति। ्करीनायकस्य प्रकरीखामिनः। सकीयं फलान्तरं प्रकृतानुपयोगि। 'न प्रकरी' इत्य- नुषङ्रेणान्वयः । यथा जटायोर्मोक्षादिप्राह्यादि। कार्यमाह-अपेक्षितमिति। आकाह्गितम, न तु प्रासङ्गिकमित्यर्थः । आरम्भ उपाये प्रथमप्रवृत्तिः। यन्निबन्धनः यहच्छाप्रयोज्यः। समापनं सामग्रीसमवधानम्। अवस्था अङ्गानि। औत्सुक्य- मुत्कटरागः। 'नायकश्च नायिकादयश्च' इति विग्रहः । अतो नैकशेषः। तह वीति।
- प्रकरीति। भावप्रकाशिकायां तु विशेष :- 'शोभायै वैदिकादीनां यथा पुष्पाक्ष- तादयः । अथर्तुवर्णनादिस्तु प्रसङ्गे प्रकरी भवेत् ।I' इति। यथा शाकुन्तले षष्ठाङ्के- 'ततः प्रविशति चूताङ्करमवलोकयन्ती चेटी। अपरा च पृष्ठतस्तस्याः।' इत्यादिना 'नेपथ्ये' इत्यन्तन ।। 2. प्रयत्न इति। यदुक्तं नाट्यशास्त्रे-'अपश्यतः फलप्राप्तिं यो व्यापारः फलं प्रति। परं चौत्सुक्यगमनं प्रयतः परिकीर्तितः ॥ इति ॥
Page 329
२८२ साहित्य दर्पणे
तधा आलिहिअ जधासमीहिंदं करइस्सम्।' इत्यादिना प्रतिपादितो रत्नावल्याश्च्ित्रलेखनादिर्वत्सराजसंगमोपायः । यथा च-रामचरिते समुद्रबन्धनादि: । उपायापायशङ्काभ्यां ग्प्याशा प्राप्तिसंभवः॥।७२॥ यथा-रत्नावल्यां तृतीयेडक्के वेषपरिवर्तनाभिसरणादेः संगमोपा- याद्वासवद त्तालक्षणापायशङ्कया चानिर्धारितैकान्तसंगमरूंपफलप्राप्ति- प्रत्याशा। एवमन्यत्र । अपायाभावतः प्राप्तिर्नियतास्तिस्तु निश्चिता। अपायाभावान्निर्धारितैकान्तेफलप्राप्तिः । यथा रलनावल्याम्-'राजा-देवीप्रसादनं त्यक्त्वा नान्यमत्रोपायं पश्यामि।' इति देवीलक्षणापायस्य प्रसादनेन निवारणान्नियतफलप्राप्तिः सूचिता। सावस्था फलयोग: स्याद्यः समग्रफलोदयः॥७३॥ यथा-रत्नावल्यां रल्नावलीलाभश्चक्रवर्तित्वलक्षणफलान्तरलाभस- हितः। एवमन्यत्र। यथासंख्यमवस्थाभिराभिर्योगातुँ पञ्चभिः । पञ्चधैवेतिवृत्तस्य भागा: स्युः, पश्रच संधयः।७४॥ तल्लक्षणमाह- अन्तरैकार्थसंबन्धः संधिरेकान्वये सति। एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसंबन्धः संधिः।
'तथापि नास्त्यन्यो दर्शनोपाय इति यथा तथा आलिख्य यथासमीहितं करिष्यामि।' इति संस्कृतम् । उपायश्च, अपायस्य प्रतिबन्धकस्य शङ्का च ताभ्याम् । प्राप्तेः फलप्राप्तेः संभवः संभावना। संशय इति यावत्। सावस्थेति । समग्रस्यानेक- फलस्य य उदय: सा फलयोगः फलागमो नामावस्था। अन्यत्र वीरचरितादौ सीता- लाभादिसहितो रावणवधादिः। संधिमाह-यथासंख्यमिति। आभिरनन्तरो- 1. अन्तरेति। मन्दारमरन्देऽप्युक्तम्-'मुख्यप्रयोजनवशात्तथाङ्गानां समन्वये अवान्तरार्थसंबन्धः संधिः संधानरूपतः ॥' इति ॥
१. 'रूप' इति क-पुस्तके नास्ति. २. 'सङ्ग' इत्यधिकं क-पुस्तके ३. 'च' क.
Page 330
षष्ठः परिच्छेदः । २८३
तद्वेदानाह- मुखं प्रतिमुखं गर्भो विमर्श उपसंहृतिः ॥७५॥ इति पश्चास्य भेदा: स्युः क्रमाल्लक्षणमुच्यते। यथोद्देशं लक्षणमाह- यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा ॥ ७६॥ प्रारम्भेण समायुक्ता तन्मुखं परिकीर्तितम्। यथा-रल्नावल्यां प्रथमेडड्के। फलग्रधानोपायस्य मुखसंधिनिवेशिन: ।७७।। लक्ष्यालक्ष्य इवोन्भेदो यत्र प्रतिमुखं च तत्। यथा-रत्नावल्यां द्वितीयेडक्के वत्सराजसागरिकासमागमहेतोरनु- रागबीजस्य प्रथमाङ्कोपक्षिप्तस्य सुसंगता-विदूषकाभ्यां ज्ञायमानतया किंचिल्लक्ष्यस्य वासवदत्तया चित्रफलकवृत्तान्तेन किंचिदुन्नीयमानस्यो- द्देशरूप उद्भेदः । फेलप्रधानोपायस्य प्रागुद्भिन्स्य किंचन ॥ ७८ ॥ गर्भो यत्र समुद्भेदो हासान्वेषणवान्मुडुः। फलस्य गर्भीकरणाद्गर्भः । यथा रत्नावल्यां द्वितीयेडक्रे-'सुसं- गता-सहि, अदक्खिणा दािं सि तुमं जा एवं भट्टिणा हत्थेण गहि- दा वि कोबं ण मुञ्चसि।' इत्यादौ समुद्धेदः। पुनर्वासवदत्ताप्रवेशे हासः। तृतीयेडङ्के-'तद्वार्तान्वेषणाय गतः कथं चिरयति वसन्तकः ।' इत्यन्वे- षणम्। 'विदूषक :- ही ही भोः, कोसम्बीरज्जलाभेणावि ण तादिसो पिअवअस्सस्स परितोसो जादिसो मम सआसादो पियवअणं सुणिअ क्ताभिः । अस्य संधेः । क्रमादुद्देशकमात्। अर्थो वस्तु, रसः शङ्गारादिः, तयोः संभवो व्यञ्ञनं यत्र । लक्ष्यालक्ष्य इव । किंचिल्लक्ष्य इत्यर्थः । उद्भेद उद्देशः, अनुरागरूपबीजस्य। सुसंगता सागरिकाया वयस्या । प्रागुद्भिनस्य प्रतिमुखो- द्दिष्टस्य। हासस्तिरोभावः । सहीति। 'सखि, अदक्षिणेदानीमसि लं या एवं भर्त्रा हुस्तेन गृहीतापि कोपं न मुश्चसि।' इति संस्कृतम् । ही हीति। 'कौशाम्बी- राज्यलाभेनापि न तादृशः प्रियवयस्यस्य (हृदय) परितोषो यादशो मम सकाशादद्य 1. फलेति। नाट्यशास्त्रेऽपि-'उन्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा। पुनश्चान्वे- षणं यत्र स गर्भ इति संश्ञितः ।।' इति॥ १. 'विमर्ष"' घ.
Page 332
षष्ठः परिच्छेदः । २८५
यथा वा-शाकुन्तले सप्तमाक्के शकुन्तलाभिज्ञानादुचरोऽर्थराशिः। एषामङ्गान्याह- उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥ ८१॥ युक्ति: प्राप्तिः समाधानं विधानं परिभावना। उन्भेद: करणं भेद एतान्यङ्गानि वै मुखे ॥ ८२॥ यथोद्देशं लक्षणमाह- काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः। काव्यार्थ इतिवृत्तलक्षणप्रस्तुताभिधेयः । यथा वेण्याम्-'भीम :- 'लाक्षागृहानल-विषान्न-सभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृष्य पाण्डववधूपरिधानकेशा- न्स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ।।' समुत्पन्नार्थवाहुल्यं ज्ञेय: परिकर: पुनः ॥८३॥ यथा तत्रैव- 'प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुभि- रने तत्रार्यों हेतुर्न भवति किरीटी न च युवाम्। जैरासंधस्योर:स्थलमिव विरूढं पुनरपि कुधा भीमः संधिं विघटयति यूयं घटयत ॥'
विग्रहः। एषां मुखादीनाम्। द्वादशमुखसंध्यङ्ञान्याह-उपक्षेप इति। समुत्पत्तिः संक्षेपेण उपक्षेपणम्। क्वचित् 'समुत्क्षिप्तिः' इति पाठः। लाक्षेत्यादि।अत्र वैरप्र- काशनेनात्मसंभावनया च वैरोद्धारप्रकारस्येतिवृत्तस्य सूचनम्। बाहुल्यमतिशयेन सूचनम्। मम भीमस्य कुधा। शिशुत्वेनात्मनिर्देशः । आर्यो युधिष्ठिरः । युवां न- कुलसहदेवौ। विरूढं निश्चितं विशालं च। अन्र संधिविघटनेन वैरोद्धरणप्रकारस्या- 1. लाक्षेति। लाक्षया निर्मितं गृहं लाक्षागृहं तत्र दत्तोऽनलो वहिः । विषेण मिश्रि- तमन्नम्। द्यूतक्रीडार्थ सभायां प्रवेशः । एतैः ॥ 2. जरेति। जन्मकाले मगधराजस्य शरीर द्विखण्डमासीत, तत्पुनर्जरानामिकया राक्षस्या योजितम्, तस्माज्जरासंध इति नाम जातम् ॥
१. 'भीमः' इति क-ख-ग-पुस्तकेषु नारित, २, 'च खलु' क.
Page 333
२८६ साहित्यदर्पणे
तन्निष्पत्तिः परिन्यास: यथा तत्रैव-
संचूर्णितोरुयुगलस्य सुयोधनस्य । सैत्यानावनद्धघनशोणितशोणपाणि- रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥।' अत्रोपक्षेपो नामेतिवृत्तलक्षणस्य काव्याभिधेयस्य संक्षेपेणोपक्षेपण- मात्रम्। परिकरस्तस्यैव बहुलीकरणम्। परिन्यासस्ततोऽपि निश्चयाप- त्तिरूपतया परितो हृदये न्यसनम्। इत्येषां भेदः। एतानि चाङ्गानि उक्त्ेनैव पौर्वापर्येण भवन्ति । अङ्गान्तराणि त्वन्यथापि। गुणाख्यानं विलोभनम्। यथा तत्रैव-'द्रौपदी-णाध, किं दुकरं तए परिकुविदेण।' यथा वामम चन्द्रकलायां चन्द्रकलावर्णने-'सेयम्, तारुण्यस्य वि- लास :- ' इत्यादि। यत्तु शाकुन्तलादिषु "ग्रीवाभङ्गाभिरामं-' इत्यादि मृगादिगुणवर्णनं तद्वीजार्थसंबन्धाभावान्न संध्यङ्गम् । एव- मङ्गान्तराणामप्यूह्यम्। संप्रधारणमर्थानां युक्ति: यथा-वण्यां सहदेवो भीमं प्रति-'आर्य, कि महाराजसंदेशो डयमव्युत्पन्न एवार्येण गृहीतः।' इत्यतः प्रभृति यावद्भीमवचनम्। धिकसूचनम्। अस्याधिकसूचितस्य निष्पत्तिर्निश्चयापत्तिः । स्त्यानेति। स्त्यानेन समूहेन अवनद्धं संबद्धं यद् घनं निबिडं शोणितं तेन शोण: पाणिर्यस्य सः।उतं- सयिष्यति विभूषयिष्यति। अत्रात्यन्तसूचितस्य निश्चयोपादानम्। उपक्षेपादीनां त्रयाणां भेदं स्पष्टयति-तत्रेत्यादिना। किमिति। 'कि दुष्करं लया परिकुपि- तेन।' इति संस्कृतम्। हा (विला)सः प्रकाशः। बीजार्थस्य कार्यस्य। एवमङ्गान्तरा- णामति। बीजार्थसंबन्धेऽङ्गलम्। नान्यथेत्यर्थः। युक्तिः कर्तव्यत्निश्रयः। अव्यु- 1. स्त्यानेति। स्त्यानं स्त्रिग्धम्। 'स्त्यानं स्त्निग्धे प्रतिध्वाने घनत्वालस्ययोरपि' इति मेदिनी। अवनद्ध लसं यद् घनं सान्द्रं शोणितं रक्तं तेन शोणौ रक्तवणों पाणी यस्य स:॥। 2. ग्रीवेति। ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्घेन प्रविष्टः शर- पतनभयाङ्यसा पूर्वकायम् । दर्भरधावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्यो- दअ्रन्ुतत्वाद्वियति बहुतरं स्तोकमुर्व्या प्रयाति ॥' इति तु समस्तम् ॥ १. क-ख-ग-पुस्तकेषु श्लोकोडयं संपूर्ण एव लिखित :.
Page 334
षष्ठः परिच्छेदः । २८७
'युप्मान्द्वेपयति क्रोधाल्लोके शत्रुकुलक्षयः । न लज्जयति दाराणां सभायां केशकर्षणम् ।' इति। प्रापतिः सुखागमः ॥।८४॥ यथा तत्रैव-'मभामि कौरवशतं समरे न कोपात्- इत्यादि। 'द्रौपदी-(शुला। सहषम्।) णाध, अस्सुदपुव्वं कखु एदं वअणम्। ता पुणो पुणो भण ।' बीजस्यागमनं यत्तु तत्समाधानमुच्यते। यथा तत्रैव-'(नेपथ्ये।) भो भो विराटद्रुपदप्रभृतयः, श्रृयताम्- यत्सत्यत्रतभङ्गभीरुमनसा यतेन मन्दीकृतं यद्विस्मर्तुमपीहितं शमवता शान्ति कुलस्येच्छता। तद्दयूतार णिसंभृतं नृपसुताकेशाम्बराकर्षणैः क्रोधज्योतिरिदं मैहत्कुरुँवने यौधिष्टिरं जृम्भते ।।' अत्र 'स्वस्था भवन्ति मयि जीवति-'इत्यादिबीजस्य प्रधाननायका- भिमतत्वेन सम्यगाहितत्वात्समाधानम्। सुखदुःखकृतो योरऽर्थस्तद्विधानमिति स्मृतम् ॥ ८५॥ यथा बालचरिते- 'उत्साहातिशयं वत्स तव बाल्यं च पश्यतः । मम हर्षविषादाभ्यामाक्रान्तं युगपन्मनः ॥।' यथा वा मम प्रभावत्याम्-'नयनयुगासेचनकम्-' इत्यादि। कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना। त्पन्नोऽविचार्यः । ह्रेपयति लज्जयति। णाधेति। 'नाथ, अश्रुतपूर्वे खल्विदं वचनम्। तत्पुनः पुनर्भण।' इति संस्कृतम्। आगमनं प्रधाननायकाभिमतलेन ज्ञानम् । धूतम- क्षकीडैवारणिर्निर्मन्थनकाष्ठं तेन संभृतमुत्पादितम्। उत्साहातिशयमिति।श्रीरामं प्रति भार्गवस्योक्तिरियम्। बाल्यमविचारितं कर्म हरकार्मुकभङ्गरूपम्। यद्रा बाल्यँ वालकत्वम्। बालकेन सह समरः कर्तव्य इति दुःखम्। अत्र भार्गवस्य श्रीराम- पराभवोद्यमरूपोऽर्थः सुखदुःखाभ्यां विहितः । कुतूहलोत्तराः कौतुकबहुलाः । 1. प्राप्तिरिति। नाट्यशास्त्रेऽप्युक्तम्-'सुखार्थस्याभिगमनं प्राप्तिरित्यभिधीयते ।' इति।। 2. महदिति। नृपसुताकेशाम्बराकर्षणैर्मददिति योजना ॥
१. 'कुले' ख-ग; 'बले' ध.
Page 335
२८८ साहित्यदर्पणे
यथा-वेण्यां द्रौपदी युद्धं स्यान्नवेति संशयाना तूर्यशब्दानन्तरम् 'णाध, किं दाणिं एसो पलअजलहरत्थणिदमत्थरो खणेखणे समरदु- न्दुभी ताडीअदि।' बीजार्थस्य प्ररोहः स्यादुद्वेदः यथा तत्रैव-'द्रौपदी-णाध, पुणो वि तए समासासइदव्वा। भीम :- भूयः परिभवक्कान्तिलज्जाविधुरिताननम्। अनिःशेषितकौरव्यं न पश्यसि वृकोदरम् ।।' करणं पुनः ।८६।। प्रकृतार्थसमारम्भ: यथा तत्रैव-'देवि, गच्छामो वयमिदानीं कुरुकुलक्षयाय।' इति। भेदः संहतभेदनम्। यथा तत्रैव-'अत एवाद्य प्रभृति भिन्नोऽहं भव्यः ।' 2केचित्तु 'भेद: प्रोत्साहना' इति वदन्ति। अथ प्रतिमुखाङ्गानि- विलास: परिसर्पश्र विधवूत तोंपनं तथा। ८७॥ नर्म नर्मदुतिश्रैव तथा प्रैगमनं पुनः। विरोधैश्च प्रतिमुखे तथा स्ात्पर्युपासनम्॥। ८८॥ पुष्पं वञ्रमुपन्यासो वर्णसंहार इत्यपि। तत्र समीहा रतिभोगार्था विलास इति कथ्यते॥८९॥ णाध किमिति। 'नाथ, किमिदानीमेष प्रलयजलधरस्तनितमन्थरः क्षणे क्षणे समरदुन्दुभिस्ताड्यते।' इति संस्कृतम्। प्ररोहो भवत्प्रायवेनोद्भावनम्। णाधेति। 'नाथ, पुनरपि तया समाश्वासयितव्या।' इति संस्कृतम् । विधुरिताननं नतमुखम्। प्रकृतार्थस्य सम्यगारम्भः। संहतानामविरुद्धकर्मलेन मिलितानां भेदनं संघाताच्चा- 1. भेद इति। ऋषिणाप्युक्तम्-'संघातभेदनार्थो यः स भेद इति कीर्तितः ।'इति॥ 2. केचिदिति। दशरूपककारादयः ॥
१. 'बन्धुरिताननम्' घ. २. संहति' क-ख-ग-घ. ३. 'विधृतं' क. ४. 'तपनम्' क-ख-ग. ५. 'प्रगयणम्' इति नाव्यशास्त्र-दशरूपकस्थ: पाठ: ६. 'निरोधः' इति नाव्यशास्त्र-दशरूपकस्थः पाठः,
Page 336
षष्ठः परिच्छेदः । २८९
रतिलक्षणस्य भावस्य यो हेतुभूतो भोगो विषयः प्रमदा पुरुषो वा तदर्था समीहा विलासः। यथा शाकुन्तले- 'कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनायासि। अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ।' ईष्टनष्टानुसरणं परिसर्पश्र कथ्यते। यथा शाकुन्तले-'राजा-भवितव्यमत्र तया। तथा हि। अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात्। द्वारेडस्य पाण्डसिकते पदपङ्किर्द्श्यतेऽभिनवा।' कृतस्यानुनयस्यादौ विधुतं त्वपरिग्रहः ॥ ९० ॥ यथा तत्रैव-'अलं वो अन्तेउरविरहपज्जुस्सुएण राएसिणा उवरु- द्वेण ।' केचित्तु 'विधुतं स्यादरतिः' इति वदन्ति। उपायादर्शनं यत्तु तापनं नाम तन्वेत्।
लनम्। त्रयोदश प्रतिमुखाङ्गान्याह-विलास इति। तदर्था तदुपभोगार्था। समीहा स्पृहा। तस्याः प्रियायाः भावः सुरतचेष्टा च दर्शनं च ते आयासति वाञ्छति। रतं प्रीतिम् । अकृतार्थ अकृतकार्ये। उभयोः प्रियाभावदर्शनयोः प्रार्थना कामना। इष्टस्य अभीष्टस्य नष्टस्य अद्ृष्टस्य अनुसरणमन्वेषणम्। अवगाढा अतिनिम्ना। पदपङ्गि: पदचिह्नश्रेणी। अलं वो इति। 'अलं वोऽन्तःपुरविरहपर्यु- त्सुकेन राजर्षिणा उपरुद्वेन ।' इति संस्कृतम्। सख्या कृतस्य राजावस्थानानुनयस्य
- अकृतेति। मनसिजेऽकृतार्थेऽप्युभयप्रार्थना स्वस्वाभिलाषो रति रागं यतः कुरुते प्रीतिमुत्पादयति। अहं तत्र गमिष्यामि, तामेव वक्ष्य इत्यात्माभिलापः । एवं मां प्रतति तस्या अप्यभिलाषो मनसिजेऽकृतारथे संभवति॥ 2. अभ्युन्नतेति। पुरस्तात्पादाग्रमागेडभ्युन्नता। उन्नतत्वं च पश्चाद्गागापेक्षया। प- ध्वात्पाष्णिदेशे॥ 3. केचिदिति। दशरूपककारादयः। काव्येन्दुप्रकाशकारा अपि 'इष्टानवाप्तिरचितार- तिर्विधुतमुच्यते।' इति तलक्षणं वदन्ति। 'श्यामां श्यामलिमानमानयत भो: सान्द्रैर्मपी- कृचकैर्मन्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां त्रियम्। चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्रमुद्राङ्गिताः ॥' इत्युदाहरन्ति च ॥ 4. तापनमिति। दशरूपके तु तापनस्थले शमो निर्दिष्टः। तथा च तद्वाक्यम्- 'तच्छमः शमः' इति। तच्छब्देन पूर्वनिर्दिष्टा अरतिर्गृह्यते तस्या उपशमः शम इति तदर्थः।
१. 'दृष्ट' क. २. 'विधृतं' घ. सा० दृ०२५
Page 337
२९० साहित्यदर्पणे
यथा रत्नावल्याम्-'सागरिका- दुल्लहजणाणुराओ लज्जा गुरुई परअसो अप्पा। पियसहि विसमं पेम्मं मरणं सरणं णवरि एक्कम् ॥' पैरिहासवचो नर्म यथा रत्नावल्याम्-'सुसंगता-सहि, जस्स किदे तुमं आअदा सो अअ दे पुरदो चिद्ठदि। सागरिका-(साभ्यसूयम्।) कस्स किदे अहं आअदा। सुसंगता-अलं अण्णसंकिदेण। णं चित्तफलअस्स ।' द्युतिस्तु परिहासजा । ९१॥ नर्मद्युतिः यथा तत्रैव-'सुसंगता-सहि, अदक्खिणा दाणिं सि तुमं जा एव्वं भट्टिणा हत्थावलम्बिदावि कोवं ण सुञ्चसि। सागरिका- (सभ्रूभङ्गमीषद्विहस्य ।) सुसंगदे, दाणिं वि कीलिदं न विरमसि।' के- चित्तु-'दोषस्याच्छादनं हास्यं नर्मद्युतिः' इति वदन्ति।
राज्ञा अपरिग्रहः। अरतिरवज्ञा। दुल्लहेति। 'दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा। प्रियसखि विषमं प्रेम मरणं शरणं केवलमेकम् ॥' इति संस्कृतम्। णवरिअ-शब्द: केवलार्थो देशी। सहीति। 'सखि, यस्य कृते लमा- गता सोऽयं ते पुरतस्तिष्ठति ।' इति संस्कृतम् । 'कस्य कृते अहमागता।' इति संस्कृतम्। 'अलमन्यशड्गितेन। ननु चित्रफलकस्य ।' इति संस्कृतम्। 'सखि, अद- क्षिणेदानीमसि वं या एवं भत्रा हस्तावलम्बितापि कोपं न मुञ्चसि।' इति संस्कृतम् । 'सुसंगते, इदानीमपि क्रीडितं न विरमसि ।' इति संस्कृतम् ।
यथा रल्नावल्याम्-'राजा-वयस्य, अनया लिखितोऽहमिति यत्सत्यम्, आत्मन्यपि मे बहुमानः । तत्कथं न पश्यामि।' इति प्रक्रमे 'सागरिका-(आत्मगनम्।) हिअअ, सम- रसस। मणोरहो वि दे एत्तिअं भूणि ण गदो।' इति किंचिदरत्युपशमाच्छम इति तदुदा- हरणम्। काव्येन्दुप्रकाशेऽपि 'शमोऽरतिशमो ज्ञेयः' इति तथैव लक्षणम्। "शाकुन्तले शकुन्तलायामनुरक्तस्य राज्ञो ब्राह्मणकन्यात्वेनारतौ पुनः 'असंशयं क्षत्रपरिग्रहक्षमा-' इत्यादिनारतेरुपशमाच्छमः" इत्युदाहरणमात्रे भेदः । मन्दारमरन्देऽप्येवमेव तल्क्षणं वि- हितम्॥ 1. परीति। नाट्यशास्त्रेऽप्युक्तम्-'क्रीडार्थ विहितं यत्र हास्यं नर्मेति तत्स्मृतम्।' इति॥ 2. दोषेति। तथा च भरतः-'दोष्रच्छादनार्थ तु नर्मद्युतिरिति स्मृतम्।' इति। अत एव काव्येन्दुप्रकाशकारोडपि 'नर्मद्युतिः कोपगुप्तिः' इति तलक्षणं चकार॥
Page 338
षष्ठः परिच्छेदः । २९१ प्रेगमनं वाक्यं स्यादुत्तरोत्तरम्। यथा विक्रमोर्वश्याम्-'उर्वशी-जअदु जअदु महाराओ। राजा-मया नाम जितं यस्य त्वया जय उदीर्यते।' इत्यादि। विरोधो व्यसनप्राप्ति: यथा चण्डकौशिके-'राजा-नूनमसमीक्ष्यकारिणा मया अन्धे- नेव स्फुरच्छिखाकलापो ज्वलनः पङ्मयां समाक्रान्तः ।'
स्यात्पर्युपासनं कृंतस्यानुनयः पुनः ॥९२।।
यथा रल्नावल्याम्-'विदूपक :- भो, मा कुप्य। एसा हि कद- लीघरन्तरं गदा।' इत्यादि। पुष्पं विशेषवचनं मतम्। यथा तत्रैव-'(राजा हस्ते गृहीत्वा स्पर्श नाटयति ।) विदूपक :- भो वअस्स, एसा अपुव्वा सिरी तए समासादिदा। राजा-वयस्य, सत्यम्। श्रीरेषा, पाणिरप्यस्याः पारिजातस्य पल्लवः । कुतोऽन्यथा स्रवत्येष स्वेदच्छझ्मामृतद्रवः ।' प्रैत्यक्षनिष्ठुरं वज्रम् यथा तत्रैव-'राजा-कथमिहस्थोऽहं त्वया ज्ञातः । सुसं- गता-ण केवलं तुमं समं चित्तफलएण। ता जाव गदुअ देवीए णिवेदइस्सम् ।' उत्तरमुत्कृष्टतरमुत्तरं यस्य तत् । 'जयतु जयतु महाराजः ।' इति संस्कृतम् । व्यसनस्य विपदः प्राप्तिः। 'भोः, मा कुप्य। एपा हि कदलीगहान्तरं गता।' इति संस्कृतम्। एषा सागरिका। विशेषस्य प्रकर्षस् वचनम्। 'भो वयस्य, एषा अपूर्वा श्रीस्तया समासादिता।' इति संस्कृतम्। प्रत्यक्षं साक्षान्निष्ठुरं पुरुपवचनम् । वज्रव- दुःखदताद् वज्रम्। 'न केवलं वं समं चित्रफलकेन। तद्यावद्गलवा देव्यै निवेदयिध्यामि 1. प्रगमनमिति । मन्दारमरन्देऽप्युक्तम्-'तस्यानुरागबीजस्य चोत्तरोत्तरभाषणैः । प्रकाशनं प्रगमनमिति नाट्यविदो विदुः ॥' इति ॥ 2. कृतस्येति। नाट्यशास्त्रऽपि-'करुद्धस्यानुनयो यस्तु भवेत्तत्पर्युपासनन् ।' इति॥ 3. विशेषेति। रागजनकमित्यर्थः ॥ 4. प्रत्यक्षेति। नाट्यशास्त्रे महर्षिणाप्युक्तम्-'विरुक्षव चनप्रायं वन्नमित्यभिधीयंते।' इति॥
Page 339
२९२ साहित्यदर्पणे
उपन्यासः प्रसादनम् ॥९३॥ यथा तन्रैव-'सुसंगता-भट्टण, अलं सङ्काए। मए वि भट्टि- ीए पसादेण कीलिदं ज्जेव एदिहिं। ता किं कण्णाभरणेण। अदो वि मे गरुअरो पसादो एसो, जं तुए अहं एत्थ आलिहिदत्ति कुबिदा मे पिअसही साअरिआ। एसा ज्जेव पसादीअदु।' केचितु-'उपप- त्तिकृतो ह्यर्थ उपन्यासः स कीर्तितः ।' इति वदन्ति। उदाहरन्ति च, तत्रैव-'अदिमुहरा क्खु सा गब्भदासी' इति। चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते। यथा महावीरचरिते तृतीयेडङ्के- 'परिषदियमृषीणामेष वीरो युधाजि- त्सहनृपतिरमात्यैर्लोमपादैश्र वृद्धः। अयमविरतयज्ञो ब्रह्मवादी पुराण: प्रभुरपि जनकानामङ्ग भो याचकस्ते॥' इत्यत्र ऋषिक्षत्रादीनां वर्णानां मेलनम्। अभिनवगुप्तपादास्तु-'वर्णशब्देन पात्राण्युपलक्ष्यन्ते । संहारो मेलनम्' इति व्याचक्षते। उदाहरन्ति च रतावल्यां द्वितीयेऽक्के- 'अदो वि मे अअं गुरुअरो पसादो-' इत्यादेरारभ्य 'णं हत्थे गेव्हिअ पसादेहि णम्। राजा-क्ासौ क्वासौ।' इत्यादि। इति संस्कृतम्। 'भर्तः, अलं शङ्कया । मयापि अत्र्याः प्रसादेन क्रीडितमेव एतैः। तरिंक कर्णाभरणेन। अतोऽपि मे गुरुतरः प्रसाद एषः, यत्त्वया अहमत्र आलिखितेति कुपिता मे प्रियसखी सागरिका। एषैव प्रसादयताम्।' इति संस्कृतम्। उपपत्तिर्हेतुः, तया कृतः। 'अतिमुखरा खल्वेषा गर्भदासी।' इति संस्कृतम्। दासी- गर्भाज्जाता दासी गर्भदासी। चलारो वर्णाश्चातुर्वर्ण्यम्, तस्योपगमनं मेलनम्। 'अतोऽपि मे अयं गुरुतरः प्रसादः ।' इति संस्कृतम् । 'ननु हस्ते गृहीला प्रसा- दय एनाम्।' इति संस्कृतम् । अत्र राज-विदूषक-सागरिका-सुसंगता-पात्राणां 1. उपेति। नाट्यशास्त्रे त्विदमेवोपन्यासलक्षणमुपलभ्यते। 2. ऋषीणामिति। ऋषति वेदं पश्यतीति ऋषिः । गत्यर्थकानां ज्ञानार्थकत्वाद् धातू- नामनेकार्थकत्वाद्वेह ऋषेर्दर्शने वृत्तिः । यास्कोऽपि ऋषिशब्दस्य प्रवृत्तिनिमित्तं वेदसंबन्धि- दर्शनमेव निर्णीतवान्। दर्शनं च प्रत्यक्षीकरणं न चाक्षुषज्ञानमिति॥ 3. युधाजिदिति। युधाजित्कैकेथीभ्राता ॥ 4. लोमेति। अङ्गराजश्च, यस्मै दशरथः शान्ताख्यां कन्यां दत्तवानपत्यकृत्तिकाम् ॥
Page 340
षष्ठः परिच्छेदः । २९३
अथ गर्भाङ्गानि- अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥। ९४ ॥ संग्रहश्चानुमानं च प्रार्थना क्षिप्तिरेव च। त्रो'(तो)टकादिबलोद्वेगा गर्भे स्युर्विद्रवस्तथा ।। ९५।। तत्र व्याजाश्रयं वाक्यमभूताहरणं मतम्। यथा अश्वत्थामाङ्के- 'अश्वत्थामा हृत इति पृथासूनुना स्पष्टमुकत्वा स्वैरं शेषे गज इति पुँनर्व्याहृतं सत्यवाचा। तेच्छुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच।।' तत्वार्थकथनं मार्गः यथा चण्डकौशिके-'राजा-भगवन्, गृह्यतामर्जितमिदं भार्यातनयविक्रयात्। शेषस्यार्थे करिप्यामि चण्डालेऽप्यात्मविक्रयम् ।।' रूपं वाक्यं वितर्कवत् ॥ ९६॥ यथा रत्नावल्याम्-'राजा- मनः प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे। कामेनैतत्कथं विद्धं समं सर्वैः शिलीमुखैः ॥' उदाहरणमुत्कर्षयुक्तं वचनमुच्यते। मेलनम्। अत्र त्रयोदशगर्भाङ्ान्याह-अभूताहरणमिति। व्याजाश्रयं छलसंब- द्धम्। तत्वार्थकथनं यथार्थकथनम्। गर्भशय्या जरायुः। जगतामन्तकस्य यमस्य।
- पृथासूनुनेति। पृथासनुना युविष्ठिरेण।। 2. शेषे इति। शेषे वाक्यसमातौ॥ 3. असाविति। असौ द्रोण: ।। 4. गृह्यतामिति। कौशिकं प्रति राज्ञो हरिश्चन्द्रस्योक्तिरेषा।। 5. रूपमिति। नाव्यशास्त्रेऽप्युक्तम्-'चित्रार्थसमवायो यस्तद्रपमिति कीर्तितम्।' इति।
१. 'तोटक' इति नाव्यशास्त्रादिषु पाटः. २. 'अत्र' घ. ३. 'किल' घ. 8. उत्तरार्धे नारित घ-पुरतके.
Page 341
२९४ साहित्य दर्पणे
यथा अश्वत्थामाङ्के- 'यो यः शस्त्रं विभर्ति सवभुजगुरुमदः पाण्डवीनां चमूनां, यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा। यो यस्तत्कर्मसाक्षी, चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम्।।' भावतत्वोपलब्धिस्तु क्रमः स्यात् यथा शाकुन्तले-'राजा-स्थाने खल विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि। तथाहि। उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः। पुलकाश्चितेन कथयति मय्यनुरागं कपोलेन।।'
सामदानार्थसंपन्नः संग्रहः पुनः ॥९७॥
यथा रल्नावल्याम्-राजा-साधु वयस्य, इदं ते पारितोषिकम्। (इति कटकं ददाति।)' लिङ्गा दूहोडनुमानता।
'निर्विकारात्मके चित्ते भाव: प्रथमविक्रिया' इत्युक्तलक्षणस्य भावस्य तत्त्वोपल- ब्धिर्याथार्थ्यानुभवः । पदानि व्यवसितानि । अत्र यद्यपि 'म्रूनेत्रादिविकारैस्तु संभोगेच्छाप्रकाशकः । भाव एवाल्पसंलक्ष्यविकारो हाव इष्यते ।!' इत्युक्तलक्षणो हाच एव, तथापि विशेषतया तन्न स्थितिरिति नानुपपत्तिः । सामेति। प्रियव- चन साम, तेन दानेन चार्थस्य संपत्तिरित्यर्थः । इद्मिति। अत्र सामदानाभ्यां दूतपरितोषद्वारा सागरिकासंघटनादिरूपार्थसंपादनम्। लिङ्गाद् व्याप्तिपक्षधर्मताभ्यां साधनज्ञानात्। ऊहो व्यापकतानुभवः । 'अनुमानता' इति ताप्रत्ययः खार्थे ।
- प्रतीप इति। मथि रणे चरति सति यो यः प्रतीपः प्रतिकूलो भवेदित्यर्थः ॥ 2. उन्नमितेति। यैवैका भूलतोन्नमिता तददिक्स्थकपोलस्यैव पुलकाञ्चितत्वमित्येकवच- नम्। मयीति स्वस्याधिकरणत्वेन धन्यतां सुभगंमन्यतां चध्वनयति। रतेः षष्ठयवस्थानुरागः उक्तं च सुधाकरे-'अङ्डरपल्लवकलिकाप्रसूनपरिभोगभागियं क्रमशः । प्रेमा मानः प्रणयः स्नेहो रागोऽनुराग इत्युक्तेः ॥'इति ॥ 3. लिङ्गादिति। नाट्यशास्त्रेडप्युक्तम्-'रूपानुरूपगमनमनुमानमिति स्मृतम्।' इति॥
Page 342
षष्ठः परिच्छेदः । २९५
यथा जानकीराघवे नाटके-'राम :- लीलागतैरपि तैरङ्गयतो धरित्री- मालोकनैर्नमयतो जगतां शिरांसि। तस्यानुमापयति काञ्चनकान्तिगौर- कायस्य सूर्यतनयत्वमधृष्यतां च।। रतिहर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत् ॥ ९८ ॥ यथा रत्नावल्याम्-'प्रिये सागरिके, शीतांशुर्मुखमुत्पले तव दशौ पद्मानुकारौ करौ रम्भास्तम्भनिभं तैथोरुयुगलं बाहू मृणालोपमौ।
मङ्गानि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय ।।' इदं च प्रार्थनाख्यमङ्गम्। यन्मते निर्वहणे भूतावसरत्वात्प्रंशस्ति- नामाङ्गं नास्ति तन्मतानुसारेणोक्तम् । अन्यथा पञ्चषष्टिसंख्यत्वप्रसङ्गात्। रहस्यार्थस्य तूद्ेदः क्षिप्ति: स्ात् यथाश्वत्थामाङ्कि- 'एकस्यैव विपाकोडयं दारुणो भुवि वर्तते। केशग्रहे द्वितीयेऽस्मिन्नूनं निःशेषिताः प्रजाः ॥'
संरब्धवाक् त्रो(तो)टकं पुनः।
तरङ्यतः कम्पयतः । तस्य लक्ष्मणस्य। अनुमान(प)यति अनुमानविषयीक- रोति। अत्र लीलागमनप्रयुक्त्तपृथ्वीकम्पनादिकं साधनम् । प्रार्थनं भिक्षा । पद्मानुकारौ पद्मतुल्यौ। भूतावसरलात्। प्रार्थनायां प्राप्तविषयत्वात्। अन्यथा निर्वहृणे प्रशस्तिसत्त्वे पञ्चषष्टिसंख्यत्वे को दोष इति चेतू, संप्रदायविरोध इति। एकस्य द्रौपदीकेशग्रहस्य। द्वितीये द्रोणसंबन्धिनि। संरब्धस्य रुष्टस्य वाकू। 1. तसङ्ग्यत इति। तरङ्गयत इति षष्ठयन्तं पदम् । एवं नमयत इत्यपि ॥ 2. इतीति। चन्द्रादिसादृश्येन अङ्गानां मदनानलतापनिर्वापणक्षमत्वं दशिंतम्।। 3. संरब्धेति। उक्तं च नाट्यशास्त्रे-'संरम्भवचनप्रायं तोटकम्' इति॥ 4. संप्रदायेति। संप्रदायस्तु 'चतुःषष्टिर्वुधैजयान्येतान्यङ्गानि संधिपु' इति महर्षिणा निर्दिषः ॥ १. 'तव' क-ख. २. 'इह' इत्यधिकं ध-पुस्तके, ३. '-त्वाभावात्' क. ४. 'प्रशस्तिः' इति व्यस्ं क-ख-पुस्तकयोः.
Page 343
२९६ साहित्यदर्पणे
यथा चण्डकौशिके-'कौशिक :- आः, पुनः कथमद्यापि न सं- भूता: स्वर्णदक्षिणाः ।' अधिबलमभिसंधिश्छलेन यः ॥९९॥ यथा रत्नावल्याम्-'काञ्चनमाला-भट्टिणि, इयं सा चित्तसा- लिआ। बसन्तअस्स सण्णं करोमि।' इत्यादि। नृपादिजनिता भीतिरुद्वेग: परिकीर्तितः। यथा वेण्याम्- 'प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः। स कर्णारिः स च क्रूरो वृक्तकर्मा वृकोदरः ॥' शङ्काभयत्रासकृतः संभ्रमो विद्रवो मतः ॥ १०० ॥ 'कालान्तककरालास्यं क्रोधोद्भूतं दशाननम्। विलोक्य वानरानीके संभ्रम: कोऽप्यजायत ।' अथ विमर्शाङ्गानि- अपवादोऽथ संफेटो व्यवसायो द्रवो द्युतिः। शक्ति: प्रसङ्ग: खेदश्र प्रतिषेधो विरोधनम् ॥१०१ ॥ परोचना विमर्शे स्यादादानं छादनं तथा। दोषप्रख्यापवाद: स्यात् यथा वेण्याम्-'युधिष्ठिरः-पाञ्चालक, क्वचिदासादिता तस्य
अभिसंधिरभिप्रायानुसंधानम्। भट्टिणीति । 'भर्त्रि, इयं सा चित्रशालिका। वसन्तकस्य संज्ञां करोमि ।' इति संस्कृतम्। आदिपदेन 'किं पद्मस्य रुचिं न हन्ति-' इत्यादिश्लोकपर्यन्तस्य परिग्रहः।अत्र काश्चनमाला-वासवदत्ता-वेषधारिण्योः सुसंगता-सागरिकयोश्छलेन काश्चनमाला-वासवदत्ताभ्यां राज-विदूषकयोरभिप्रायज्ञा- नम्। कर्णारिः अर्जुनः । वृकस्य व्याघ्रविशेषस्येव कर्म यस्य सः। अत्र दुर्योधनस्य भीमार्जुनजनिता भीतिः। शङ्का अनिष्टाशंसा। त्रासो भयानुकूलव्यापारः। संत्रम- स्लरा। अन्र त्रयोदशविमर्शाङ्गान्याह-अपवाद इति। तस्य दुर्योधनस्य पदवी
- अधिबलमिति। अत्र विशेष :- 'यद्वेष्टजनसंधानं बुधा अधिबलं विदुः । तोटक- स्यान्यथाभावं केचिच्चाधिबलं जगु: ॥।' इति ॥। 2. नृपादिति। आदिशब्देन अरिचौरयोर्ग्रहणम् ।। 3. त्वामिति। त्वां दुर्योधनम् ॥ 4. दोषेति। दोषप्रख्या दोषप्रख्यापनम्॥
Page 344
षष्ठः परिच्छेदः । २९७
दुरात्मनः कौरव्यापसदस्य पदवी। पाश्चालकः-न केवलं पदवी, स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधानहेतुरुपलव्घः ।' संफेटो रोषभाषणम्॥ १०२॥ यथा तत्रैव-'राजा-अरे रे मरुत्तनय, वृद्धस्य राज्ः पुरतो निन्दितमप्यात्मकर्म श्राघसे। श्रृणु रे, कृष्टा केशेषु भार्या तैव तव च पशोस्तस्य राज्ञस्तयोरवा प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी। तस्मिन्वैरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा बाह्रोवीर्यातिभारद्रविणगुरुमदं मामजित्वैव दर्पः ॥ भीम :- (सक्रोधम्।) आः पाप। राजा-आः पाप ।' इत्यादि। व्यवसायश्र विज्ञेयः प्रतिज्ञाहेतुसंभवः । यथा तत्रैव-'भीम :- निहिताशेषकौरव्यः क्षीबो दुःशासनासृजा। भङ्का दुर्योधनस्योवोर्भीमोऽयं शिरसानतः।।' द्रवो गुरुव्यतिक्रान्तिः शोकावेगादिसंभवा। १०३॥ यथा तत्रैव-'युधिष्ठिरः-भगवन् कृष्णाग्रज सुभद्राभ्रातः, ज्ञातिप्रीतिर्मनसि न कृता, क्षत्रियाणां न धर्मो रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन। उपलब्धा। मरुत्तनय भीम। वृद्धस्य राज्ञो धृतराष्ट्रस्य । प्रतिज्ञा कार्यस्य निर्देशः, हेतु: साधननिरदेशः, तयोः संभवो मेलनम्। भङ्का भञ्जनकर्ता। अत्र दुर्योधनो- रुभञ्जनं कार्ये भीमलं साधनम्। गुरोः पूज्यस्य व्यतिकान्तिरादरलङ्गनम् । ज्ञाति- प्रीतिरिति। वलदेवयुधिष्टिरयोश्वन्द्रवंशभवल्ाज्ज्ञातिलम्। धर्मो न गणित इत्यग्रेणान्वयः । युद्धे प्रणयिनि पक्षपातो नास्तीति क्षत्रियाणां धर्मः। रूढं प्रसिद्धम्। 1. रोषेति। रोषग्रथितवाक्यमित्यर्थः । 2. तवेति। तव भीमस्य। तव च पशोरर्जुनस्य। तस्य राज्ो युधिष्ठिरस्य। तयोन- कुलसहदेवयोः ॥ 3. वीर्येति। वीर्यस्यातिभार उद्रेक एव द्रविणं वसु तेन गुरुर्महान्मदो यस्य तादृशम्। पराक्रमातिशयशालिनमिति यावत्।। 4. क्षीब इति। क्षीबत्वसंपादनेन असृजो मधुत्वारोपणं व्यङ्गयम्।।
१ 'कौरव्यापसदस्य' इति घ-पुस्तके नारित.
Page 345
२९८ साहित्यदर्पणे
तुत्यः कामं भवतु भवतः शिष्ययोः सहबन्धः कोडयं पन्था यदसि विमुखो मन्दभाग्ये मयि त्वम् ।।' तर्जनोद्वेजने प्रोक्ता द्युतिः यथा तत्रैव दुर्योधनं प्रति भीमेनोक्तम्- 'जन्मेन्दोर्विमले कुले व्यपदिशस्यद्यापि धत्से गदां मां दुःशासनकोष्णशोणितमधुक्षीवं रिपुं मन्यसे। दर्पान्धो मधुकैटभद्विषि हैरावप्युद्धतं चेष्टसे त्रासान्मे नृपशो विहाय समरं पङ्केऽधुना लीयसे ।।'
विरोधस्य प्रशमनं शैक्ति: पुनर्भवेत्।
यथा तत्रैवे- 'कुर्वन्त्याप्ता हतानां रणशिरसि जना वहिसाद्देहभारा- नश्रून्मिश्रं कथंचिदृदतु जलममी बान्धवा बान्धवेभ्यः । मार्गन्तां ज्ञातिदेहान्हतनरगहने खण्डितान्गृधकक्क- रस्तं भाखान्प्रयातः सह रिपुभिरयं संहियन्तां बलानि ॥' प्रसङ्गो गुरुकीर्तनम् ॥ १०४॥ यथा मृच्छकटिकायाम्-'चाण्डाल :- एसो क्खु सागलदत्तस्स
अनुजस्य कृष्णस्य। शिष्ययोर्भीमदुर्योधनयोः । असि भवसि। अन्न शोकाविष्टचित्तेन युधिष्टिरस्यादरलङ्गनम्। तर्जनं भर्त्सनम् । उद्वेजनं भयोत्पादनम् । व्यपदिशसि अयुक्तं ख्यापयसि। अत्र भर्त्सनम् । उद्वेजनं यथा-'भो लङ्केश्वर दीयताम्-' इत्यादि। आप्ता बान्धवाः। गुरोः पित्रादेः कीर्तनम् । 'एप खल सागरदत्तस्य
- दुःशासनेति। दुःशासनस्य कोष्णमभिनवत्वात्कदुष्णं शोणितमेव मधु मदं तेन क्षीबं मत्तम् ।। हराविति। कृष्णे ॥। 3. शक्तिरिति। विरोधप्रशमः शफतिरित्यर्थः ॥ 4. मार्गन्तामिति। चौरादिकस्य 'मार्ग अन्वेषणे' इति धातोलोंटि रूपम् ॥ 5. हतेति। व्यापादितमनुष्यारण्ये इत्यर्थः ॥ 6. कङ्कैरिति। कड्ढो नाम लोहपृष्ठापरपर्यायः पक्षिविशेषः ॥ 7. प्रसङ्ग इति। नाट्यशास्त्रे तु 'प्रसङगश्चैव विश्ञेयो वाक्यैरामषयोजितैः' इत्युक्तम्।
१. 'कुमारवृको दरेण' घ. २ 'पुनर्नेपथ्ये' इत्यधिकं ख-ग-पुस्तकयोः.
Page 346
षष्ठः परिच्छेदः । २१९
सुओ अज्जविस्सदत्तस्स णत्तिओ चालुदत्तो वावादितुं वज्झठ्ठाणं णिज्ज- इ। एदेण किल गणिआ वसन्तसेणा सुअण्णलोहेण वावादिदेत्ति। चारुदत्त :- मखशतपरिपूतं गोत्रमुद्धासितं य- तसदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात्। मम निधनदशायां वर्तमानस्य पापै- स्तदसदशमनुष्यैर्धुष्यते घोषणायाम् ।।' इत्यनेन चारुदत्तवघाभ्युदयानुकूलप्रसङ्गाद्गुरुकीर्तनमिति प्रसङ्ग: । मनश्रेष्टासमुत्पन्नः श्रमः खेद इति स्मृतः । मनःसमुत्पन्नो यथा मालतीमाधवे- 'दलति हृदयं गाढोद्वेगो, द्विधा न तु भिद्यते वहति विकल: कायो मोहं, न मुञ्चति चेतनाम्। ज्वलयति तनूमन्तर्दाहः, करोति न भस्मसा- त्प्रहरति विधिर्मर्मच्छेदी, न कृन्तति जीवितम् ।।' एवं चेष्टासमुत्पन्नोऽपि। ईप्सितार्थप्रेतीघातः प्रतिषेध इतीष्यते ॥ १०५।। यथा मम प्रभावल्यां विदूषकं प्रति प्रद्युम्न :- 'सखे, कथमिह त्वमे- काकी वर्तसे। क् नु पुनः प्रियसखीजनानुगम्यमाना प्रियतमा मे प्रभावती। विदूयक :- असुरवइणा आआरिअ कहिं वि णीदा। प्रद्युम्न :- (दीर्घ निश्वस्य ।) सुत आर्यविश्वदत्तस्य नप्ता चारुदत्तो व्यापादयितुं वध्यस्थानं नीयते। एतेन किल गणिका वसन्तसेना सुवर्णलोभेन व्यापादितेति ।' इति संस्कृतम्। निबिडं सामाजि- कैर्व्याप्तं चैत्यमायतनं येषां तैर्ब्रह्मघोषैर्वेंदपाठकैः। असदृशेति । अयोग्येत्यर्थ.। घोषणायामपवादवाद्यध्वनौ। मनसा चेष्टया च समुत्पन्नः । दलति स्फुटति। 'असु- रपतिना आकार्य कुत्रापि नीता।' इति संस्कृतम्। आकार्य आहूय। 'हूतिराका-
- ज्वलयतीति। ज्वलयती उद्दीपयति॥ 2. प्रतीघात इति। 'प्रतीघातः' इत्यत्र 'उपसर्गस्य घव्यमनुष्ये बहुलम्' इति सूत्रेण वजन्ते घातशब्दे परे प्रतर्दीर्धः । एवं च 'प्रतिघातः' इति बहुत्रोपलभ्यमानोऽपि पांठो नादरणीयश्छन्दोभङ्गदूषितत्वात्।। १. 'गाढोत्कण्ठं' क. २. मतिधातः' क घ.
Page 347
३०० साहित्यदर्पणे
हा पूर्णचन्द्रमुखि मत्तचकोरनेत्रे मामानताङ्गि परिहाय कुतो गतासि। गच्छ त्वमद्य ननु जीवित तूर्णमेव दैवं कदर्थनपरं कृतकृत्यमस्तु ।' कार्यात्ययोपगमनं विरोधनमिति स्मृतम् । यथा वेण्याम्-'युधिष्ठिर :- तीर्णे भीष्ममहोदधौ, कथमपि द्रोणानले 'निर्वृते कैर्णाशीविषभोगिनि प्रशमिते, शल्ये च याते दिवम्। भीमेन प्रियसाहसेन रभसादल्पावशेषे जये सर्वे जीवितसंशयं वयममी वाचा समारोपिताः ॥' प्ररोचना तु विज्ञेया संहारार्थप्रदर्शिनी॥ १०६॥ यथा वेण्याम्-'पाश्चालकः-अहं देवेन चक्रपाणिना सहितः । (इत्युपक्रम्य।) कृतं संदेहेन। पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते, कृष्णात्यन्तचिरोज्झिते तु कबरीबन्धे करोतु क्षणम् रामे शातकुठारभोखरकरे क्षत्रद्रुमोच्छेदिनि, क्रोधान्धे च वृकोदरे परिपतत्यांजौ कुतः संशयः ॥'
रणाह्वानम्' इत्यमरः। कार्यात्ययस्य उपगमनं ज्ञापनम्। संहारार्थस्य उपसंहियमाण- प्रयोजनस्य प्रदर्शिनी प्रतिपादिका प्रोत्साहना। प्ररोचनेत्यर्थः । कृतं व्यर्थम्। क्षण
- निर्वृत इति। निर्वृते निर्वाणतां प्राप्ते इत्यर्थः ॥ 2. कर्णेति। कर्णो राधेय एव, आशिषि दंष्ट्रयां विषमस्य तादृशो भोगी भुजगस्त- स्मिन्। 'आशीस्तालुगता दंष् तया विद्ो न जीवति' इति। पृषोदरादित्वाद्दीर्धसलोपौ। केचित्त्वीकारान्तमाशीशब्दमाहुः। 'आशीमिव कलामिन्दोः' इति राजशेखरः॥ 3. कृष्णति। कृष्णा द्रुपदात्मजा ॥ 4. क्षणमिति । अधिवासनमाल्यग्रथनरूपमुत्सवमित्यर्थः ।। 5. शातेति। शातः शाणादिना तीक्ष्णीकृतो यः कुठारः परशुस्तेन भास्वरो देदीव्य- मान: करो यस्य तादृशे ॥ 6. परिपततीति। परिपतति साटोपं भ्रमति। सप्तम्यन्तमेतत् ।
१. 'सहितः' इति क-ख-पुस्तकयोर्नास्ति. २. 'भासुर' क.
Page 348
षष्ठः परिच्छेद्ठः । ३०१ कार्यसंग्रह आदानं यथा वेण्याम्-'भो भोः स्यमन्तपञ्चकसंचारिणः, नाहं रक्षो, न भूतो, रिपुरुधिरजलाह्रादिताङ्गः प्रकामं निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्म। भो भो राजन्यवीराः समरशिखिशिखाभुक्तशेषाः, कृतं व- स्त्रासेनानेन, लीनैर्हतकरितुरगान्तर्हितैरास्यते यत्।।' अत्र समस्तरिपुवधकार्यस्य संगृहीतत्वादादानम्। तदाहुश्छादनं पुनः। कार्यार्थमपमानादेः सहनं खलु यद्दवेत्॥ १०७॥ यथा तत्रैव-'अर्जुनः-आर्य, अप्रियाणि करोत्वेष वाचा शक्तो न कर्मणा। हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ।' अथ निर्वहणाङ्गानि- संधिर्विवोधो ग्रथनं निर्णयः परिभाषणम्। कृतिः प्रसाद आनन्दः समयोऽप्युपगूहनम् ॥ १०८॥ भाषणं पूर्ववाक्यं च काव्यसंहार एव च। प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः ॥ १०९ ॥ तत्र बीजोपगमनं संधिर् यथा वेण्याम्-'भीमः-भवति यज्ञवेदिसंभवे, स्मरति भवती यन्मयोक्तम्-चञ्चद्भुज-' इत्यादि। अनेन मुखे क्षिप्बीजस्य पुनरुपगमनमिति संधिः। विवोध: कार्यमार्गणम्। मुत्सवम्। यद् यस्मात् त्रासान्। एष दुर्योधनः । अथ चतुर्दशप्रकाराणि निर्वह- णाङ्गान्याह-संधिरिति। वीजस्योपगमनमुद्भावनम्। मुखे मुखसंधौ। केशहलं 1. कार्येति। महर्पिणाप्युक्तम्-'बीजकार्योपगमनमादानमिति संज्ञितम्।' इति॥ 2. भवतीति। भवतीत्यामत्रणम्। युत्त्या विवोध इति कीर्तितः ।' इति ॥ १. 'प्रक्षित' क-ख. २ 'दुर्योधनः' इति नास्ति पुस्तकान्तरे. ३. 'अथ' इति नासि्ति पुस्तकान्तरे. सा० द० २६
Page 349
३०२ साहित्यदर्पणे
यथा तत्रैव-'भीमः-मुञ्चतु मामार्यः क्षणमेकम्। युधिष्ठिर :- किमपरमवशिष्टम् । भीम :- सुमहदवशिष्टम्। समापयामि तावदनेन सुयोधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम्। युधिष्ठिरः-गच्छतु भवान्, अनुभवतु तपस्विनी वेणीसंहारम्।' इति। अनेन केशसंयमन कार्यस्यान्वेषणाद्विबोधः । उपन्यासस्तु कार्याणां ग्रथनं यथा तत्रैव-'भीम :- पाश्चालि, न खल मयि जीवति संहतर्व्या दुःशासनविलुलिता वेणिरात्मपाणिभ्याम् । तिष्ठ, खयमेवाहं संहरामि।' इति। अनेन कार्यस्योपक्षेपाङ्थनम्। निर्णय: पुनः ॥११०॥ अनुभूतार्थकथनं यथा तत्रैव-'भीम :- देव अजातशत्रो, अद्यापि दुर्योघनहतकः। मया हि तस्य दुरात्मनः भूमौ क्षितं शरीरं, निंहितमिदमसक्चन्दनाभं निजाङ्गे, लक्ष्मीरार्ये निषिक्ता चतुरुदधिपयःसीमया सार्धमुर्व्या। भृत्या मित्राणि योधा: कुरुकुलमनुजा दग्धमेतद्रणामौ, नामैकं यङ्गवीषि क्षितिप तदधुना धार्तराष्ट्रस्य शेषम्।।'
परिवादकृतं वाक्यं वदन्ति परिभाषणम्।
यथा शाकुन्तले-'राजा-आर्ये, अथ सा तत्रभवती किमा- र्यस्य राजर्षेः पत्नी। तापसी-को तस्स धम्मदारपरिट्ठाइणो णामं गेण्हिस्सदि।' केशसमूहम्। मया हीति। तस्य वार्तराष्ट्रस्य। 'कस्तस्य धर्मदारपरित्यागिनो नाम 1. केशहस्तमिति। केशहस्तं केशपाशम् । 'पाशः पक्षश्र हस्तश्च कलापार्थाः कचात्परे।' इत्यमरः ॥ 2. वेणीति। वेणीसंयमनम्। 3. निहितमिति। निहितमर्पितम् ॥ 4. चन्दनाभमिति। चन्दनाभं रज्जनप्रभम् ॥ १. 'दुःशासन' कख-ग.
Page 350
षष्ठः परिच्छेदः। ३०३
लब्धार्थशमनं कृतिः ॥ १११ ॥। यथा वेण्याम्-'कृष्णः-एते भगवन्तो व्यासवाल्मीकिप्रभृत- योऽभिषेकं धारयन्तस्तिष्ठन्ति।' इति। अनेन प्राप्तराज्याभिषेकमङ्गलैः स्थिरीकरणं कवृतिः। शुंश्रूषादि: प्रसाद: स्याद् यथा तत्रैव भीमेन द्रौपद्याः केशसंयमनम्। आनन्दो वाञ्छितागम:। यथा तत्रैव-'द्रौपदी-विसुमरिदं एदं वावारं णाघस्स पसादेण पुणो वि सिक्खिस्सम्।' समयो दुःखनिर्याणं यथा रलावल्याम्-'वासवदत्ता-(रल्नावलीमालिङ्गय।) समस्सस बहिणीए, समस्सस।' तन्वेदुपगूहनम्॥ ११२ ॥
यथा मम प्रभावत्यां नारददर्शनात्प्रद्युम्न ऊर्ध्वमवलोक्य- दधद्विद्युल्लेखामिव कुसुममालां परिमल- भ्रमद्भृङ्गश्रेणीध्वनिभिरुपगीतां तत इतः । दिगन्तं ज्योतिर्भिस्तुहिनकरगौरैर्धवलय- न्नितः कैलासाद्रिः पतति वियतः किं पुनरिदम्।' सौमदानादि भाषणम्। यथा चण्डकौशिके-'धर्मः-तदेहि। धर्मलोकमधितिष्ठ' ग्रहीष्यति।' इति संस्कृतम्। लव्वैरथैः शमनं शोकादिनाशनम्। स्थिरीकरणं शोका- दिकृतास्थैर्यादिनाशनम्। 'विस्मृतमेनं व्यापारं नाथस्य प्रसादेन पुनरपि शिक्षिष्ये।' इति संस्कृतम्। एनं व्यापारं केशसंयमनरूपम् । 'समाश्वसितु भगिनी ।' इति 1. शुश्रूषादिरिति। तदुक्तं भरतेन-'शुश्रषाद्युपसंपन्ना प्रसादः प्रीतिरुच्यते।' इति॥ 2. दुःखेति। दुःखस्य निर्याणमपगमः । 3. सामेति। महर्षिणाप्युक्तम्-'सामदानादिसंपन्नं भाषणं समुदाहृतम्।' इति॥
१. 'अनुगमनं' क-ख-ग; घ-पुस्तके तु 'अर्थगमनम्' इति पाट:
Page 351
३०४ साहित्यदर्पणे
पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम्।११३॥ यथा वेण्याम्-'भीमः-बुद्धिमतिके, क् सा भानुमती। परि- भवतु संप्रति पाण्डवदारान्।' वरप्रदानसंप्राप्ति: काव्यसंहार इष्यते। यथा सर्वत्र-'किं ते भूयः प्रियमुपकरोमि ।' इति। नृपदेशादिशान्तिस्तु प्रशस्तिरभिधीयते ॥ ११४॥ यथा प्रभावत्याम्- 'राजानः सुतनिर्विशेषमधुना पश्यन्तु नित्यं प्रजा जीयासुः सदसद्विवेकपटवः सन्तो गुणग्राहिणः । सस्यसवर्णसमृद्धयः समधिकाः सन्तु क्षमामण्डले भूयादव्यभिचारिणी त्रिजगतो भक्तिश्र नारायणे ॥' अत्र चोपसंहारप्रशस्त्योरन्त एकेन क्रमेणैव स्थितिः । 'इह च मुखसंधौ उपक्षेपपरिकरपरिन्यासयुक्त्युद्वेदसमाधानानां, प्रतिमुखे च परिसर्पणप्रगमनवज्रोपन्यासपुष्पाणां, गर्भेडभूताहरणमार्गत्रो(तो)टका- घिबलक्षेपाणां, विमर्शेऽपवादशक्तिव्यवसायप्ररोचनादानानां प्राधान्यम्। अन्येषां च यथासंभवं स्थितिः ।' इति केचित्। चैतुःषष्टिविधं ह्येतदङं प्रोक्तं मनीषिभिः । कुर्यादनियते तस्य संधावपि निवेशनम् ॥ ११५॥ संस्कृतम्। तदेहीति प्रियवाक्यं धर्मलोकस्य दानं च । बुद्धिमतीत्यादि दुर्योधन- पत्न्योक्तं भीमेनोपदर्शितम्। सर्वत्र नाटकादौ। नृपदेशादीत्यादिना विद्वद्वाह्मणादीनां ग्रहणम्। शान्तिरनिष्टनिवारणमिष्टप्राप्तिश्च । इह चेति। निर्वहणे चेत्यर्थः । तयोः काव्यसंहार प्रशस्त्योः 'प्राधान्यम्' इत्यग्रेणान्वयः । एवमग्रेऽपि। प्राधान्य- ख्यापनं तत्तदङ्गानामावश्यकस्थित्यर्थम्। अनियत इति। अन्यसंध्यङ्गस्य प्रकृत-
- सस्येति। सस्यानां स्वर्णाना च समृद्धयः संपद: ॥ 2. अव्यभिचारिणीति। अव्यभिचारिणी निश्चला ॥ 3. चतुरिति। द्वादश मुखाङ्गानि, त्रयोदश प्रतिमुखाङ्गानि, तावन्ति गर्भाङ्गानि, तावन्ति विमर्शाङ्गानि, तावन्त्येव निर्वहणाङ्गानि, संकलनया चतुःषष्टिरिति निर्वहणाङ्ग- भूतप्रशस्तिप्रत्याख्यानवादिनः । येषां मते प्रशस्तिसद्भावस्तत्र गर्भाङ्गभूतायाः प्रार्थनाया अस्वीकारः । एवं पक्षद्वयेऽपि चतुःषष्टिसंख्याकान्यङ्ानि।
१. 'त्रोट कावक्षपाणां' घ.
Page 352
षष्ठः परिच्छेदः । ३०५
रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता। यथा वेणीसंहारे तृतीयाक्के दुर्योधनकर्णयोर्महत्संप्रधारणम्। एवमें- न्यदपि। यत्तु रुद्रटादिभि: 'नियम एव' इत्युक्तं तल्लक्ष्यविरुद्धम् । इष्टार्थरचनाश्चर्यलाभो वृत्तान्तविस्तरः ॥ ११६ ॥ रागप्राप्तिः प्रयोगस्य गोप्यानां गोपनं तथा। प्रकाशनं प्रकाश्यानामङ्गानां षड्विघं फलम् ॥ ११७॥ अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत्। अङ्गहीनं तथा काव्यं न प्रयोगाय युज्यते ॥ ११८॥ संपादयेतां संध्यङ्ग नायकप्रतिनायको। तदभावे पताकाद्यास्तदभावे तथेतरत् ॥ ११९ ॥ प्रायेण प्रधानपुरुषप्रयोज्यानि संध्यङ्गानि भवन्ति । किंतु प्रेक्षे- पादित्रयं बीजस्याल्पमात्रसमुद्दिष्टत्वादप्रधानपुरुषप्रयोजितमेव साधु । रेसव्यक्तिमपेक्ष्यैपामङ्गानां संनिवेशनम्। न तु केवलया शास्त्रस्थितिसंपादनेच्छया ॥ १२०।। तथा च यद्वेण्यां दुर्योधनस्य भानुमत्या सह विप्रलम्भो दर्शितः,
अविरुद्धं तु यद्त्तं रसादिव्यक्तयेऽधिकम्।
रसानुकूलस्यान्यसंधावपि निवेशनम्। तत्र हेतुः-रसस्यैवेति। संप्रधारणं युक्तिः। साँ च मुखसंध्यङ्म्। अन्यन्रापि तद्वर्णितमिति भावः। नियम इति। तत्संध्यङ्गस्य तत्संधावेव निवेश इत्येवंरूपः । लक्ष्यविरुद्धं महाकविप्रयोगविरुद्धम्। अङ्गानां फल- माह-इष्टार्थेति। रागप्राप्तिरनुरागलाभः । प्रयोगस्य प्रेक्षकस्य। अङ्गप्रशंसा- माह-अङ्गहीनमिति। काव्यं रूपकम्। प्रयोगाय प्रेक्षकानुरागाय। तदभावे सं- ध्यङ्गाभावे। पताकाद्या अर्थप्रकृतीः 'संपादयेताम्' इत्यन्वयः। आद्यपदेन प्रकरी- कार्ययोर्ग्रहणम्। इतरद्वीजम्। प्रायेणेत्यस्य व्यावृत्तिमाह-किंत्विति। आदिपदेन परिकरपरिन्यासयोर्ग्रहणम्। अधिकमनुपयोगि। रसोपयोगि यथा स्यात्तथा वर्णयेत्। 1. रसेति। ध्वनिकृताप्युक्तम्-'संधिसंध्यङ्गघटनं रसादिव्यक्तयपेक्षया। न तु केव- लया शास्त्रस्थितिसंपादनेच्छया ॥' इति॥ 2. अवसर इति। अवसरे संग्रामलक्षणे॥
१. 'अन्यत्रापि' घ, २. 'प्रक्षेपाद्यङ्गत्रयं' क. ३. 'सा च' इति पुस्तकान्तरे नास्ति.
Page 353
३०६ साहित्यदर्पणे
तदप्यन्यथयेद्धीमान्न वदेद्ा कदाचन ॥ १२१॥ अनयोरुदाहरणं सत्प्रबन्घेष्वभिव्यक्तमेव। अथ वृत्तय :- शुद्गारे कैशिकी, वीरे सात्वत्यारभटी पुनः। रसे रौद्रे च बीभत्से, वृत्तिः सर्वत्र भारती ॥ १२२ ॥ चतस्रो वृत्तयो ह्येताः सर्वनाट्यस्य मातृकाः। स्युर्नायकादिव्यापारविशेषा नाटकादिषु ॥ १२३ ॥ तत्र कैशिकी- या ऋक्ष्णनेपथ्यविशेषचित्रा स्त्रीसंकुला पुष्कलनृत्यगीता। कामोपभोगप्रभवोपचारा सा कैर्शिकी चारुविलासयुक्ता।१२४।। नर्म च नर्मस्फूर्जो नर्मस्फोटोऽथ नर्मगर्भश्र। चत्वार्यङ्गान्यस्या तत्र वैदग्व्यक्रीडितं नर्म ॥ १२५॥ इष्टजनावर्जनकृत्तच्ापि त्रिविधं मतम्। विहितं शुद्धहास्येन सशङ्गारभयेन च ॥ १२६ ॥ तत्र केवलहास्येन विहितं यथा रत्नावल्याम्-'वासवदत्ता-
अनयोरन्यथाकरणाकरणयोः। नाटकवृत्तीराह-अथेति। वर्तते रसोऽनयेति वृत्ति- नायकादिचेष्टा। शृङ्गार इति।शङ्गारप्रतिपादिका वृत्तिः कैशिकी। एवमन्यन्नापि। सर्वत्रेति 'रसे' इत्यनुषज्यते। मातृका मातृवदुपजीव्याः। तासां सामान्यखरूपमाह- स्युरिति। आदिना नायिकादीनां अ्रहणम्। नाटकादिष्वित्यादिपदेन प्रकरणभाणा- दीनां ग्रहणम्। तन्र प्रसिद्धा इत्यर्थः । तासां विशेषलक्षणान्याह-तत्रेति । शलक्ष्णेन मनोरमेण नेपथ्यविशेषेण नायकादिभूषणविशेषेण चित्रा शोभातिशयशा- लिनी। पुष्कला संपूर्णेत्यर्थः । कामोपभोग: शङ्गारस्तस्य प्रभव उपचारा अङ्गानि यस्याः सा। उपचारोऽनुष्ठानं वा अङ्गानि भेदाः। अस्या: कैशिक्याः। वैदग्व्येन क्रीडितम्। इष्टजनस्य सामाजिकादेरावर्जनकृत प्रीतिकारकम्। तच्च नर्म च। सश-
- कैशिकीति। एषा सामवेदोत्पन्ना। तदुक्तं भरतेन-'ऋग्वेदाद्भारती वृत्तिर्यजुर्वे- दात्तु सात्वती। कैशिकी सामवेदाच्च शेषा चाथर्वणी तथा ॥' इति ॥
१. 'सूक्ष्म' क. २, 'विधान' क ख-ग. ३. 'प्रचुर' क, ४, 'कौशिकी' इति बहुत्रोपलभ्यमा- नोडपि पाठ: मरामादिक:
Page 354
षष्ठः परिच्छेदः । ३०७
(फलकमुद्दिश्य। सहासम् ।) एसा वि अवरा तव समीवे जधालिहिदा एदं किं अज्जवसन्तस्स विण्णाणम्।' सशृङ्गारहास्येन यथा शाकुन्तले-राजानं प्रति 'शकुन्तला- असंतुटो उण किं करिस्सदि। राजा-इदम्। (इति व्यवमितः । शकु- न्तलावकं ढौकते।)' सभयहास्येन यथा रलनावल्याम्-आलेख्यदर्शनावसरे 'सुसंगता- जाणिदो मए एसो वुत्तन्तो समं चित्तफलएण। ता देवीए गदुअ निवेदइस्सम्।' एतद्वाक्यसंबन्धि नर्मोदाहृतम्। एवं वेपचेष्टासंवन्ध्यपि। नर्मस्फूर्ज: सुखारम्भो भयान्तो नवसंगमः । यथा मालविकायान्-संकेतनायकमभिसृतायां 'नायक :- विसृज सुन्दरि संगमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे। पैरिगरहाण गते संहकारतां त्वमैतिमुक्तलताचरितं मयि॥ मालविका-'भट्टा, देवीए भएण अप्पणो वि पिअं कउं ण पारेमि।' इत्यादि। द्वारभयेनेत्यस्य हास्येनेति समासविश्लेषादन्वयः। 'एपाप्यपरा तव समीपे यथालि- खिता इदं किमार्यवसन्तकस्य विज्ञानम्।' इति संस्कृतम्। 'असंतुष्टः पुनः किं करि- ष्यति।' इति संस्कृतम्। असंतुष्टो मधुकर इति पूर्वोक्तेनान्वयः। इदमिति कमलमिति व्यवसितः कृतनिश्चयः ढौकते प्रविशति। 'व्यवसितम्' इति पाठे निश्चितमित्यर्थः। वेषसंबन्धिसभयहास्यकृतं नम यथा रक्नावल्याम्-'सुसंगता-(दष्ट्रा विहस्य।)अइ कादरे, मा भाआहि। ण होइ एसो वानरो। अज्जवसन्तओ वखु एसो।' 'अयि कातरे, मा बिभीहि। न भवत्येष वानरः। आर्यवसन्तकः खल्वेषः।' इति संस्कृतम्। नर्म- स्फूर्ज इति। सुखमारम्भो यस्य। भयमन्तो यस्य। 'भर्तः, देव्या भयेनात्मनोऽपि 1. नर्मेति। सुनिनाप्युक्तं विशाध्याये-'नवसंगमसंभोगो रतिसमुदयवेषवाक्यसंयुक्त:। ज्ेयो नर्मस्फूर्जो ह्यवमानभयात्मकश्चैव ।।' इति ॥ 2. सहकारतामिति। सहकारतामतिसौरभरसालताम्। 3. अतिमुक्तेति। शौकयान्मुक्तामतिकान्ताडतिमुक्ता, सा चासौ लता चातिमुक्तलता वासन्ती तस्याश्चरितं वेष्टनरूपम् । स्वच्छन्दं मामालिङ्गेति परमार्थः ॥
१. 'प्रति' घ.
Page 355
३०८ साहित्यदर्पणे
अथ नर्मस्फोट: नर्मस्फोटो भावलेशैः सूचिताल्परसो मतः ॥१२७॥ यथा मालतीमाधवे- 'गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिक किं न्वेतत्स्यात्किमन्यदितोऽथवा। भ्रमति भुवने कंदर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥' अलसगमनादिभिर्भावलेशैर्माधवस्य मालत्यामनुरागः स्तोकः प्रका- शितः । नर्मगर्भो व्यवहृतिर्नेतुः प्रच्छन्नवर्तिनः । यथा तत्रैव सखीरूपधारिणा माधवेन मालत्या मरणव्यवसायवा- रणम्। अथ सात्त्वती- साच्ती बहुला सच्वशौर्यत्यागदयार्जवैः ॥१२८ ॥ प्रियं कर्तु न पारयामि।' इति संस्कृतम्। भावलेशैरीषत्प्रकाशितैर्भावैः। अल्पं सूचितः सूचिताल्पः रसःशङ्गारो यत्र स व्यापारो नर्मस्फोट इत्यर्थः। गमनमिति। माधवस्य पूर्वरागविप्रलम्भवर्णनमिदम्। विकारि चित्तविकारकारि। ललितमधुरा अतिरमणीयाः। 'वलितमधुराः' इत्यपि पाठः। भावाः सुरतचेष्टाः । नेतुर्नायकस्य। बहुला। 'वृत्तिः'इति 1. नर्मेति। मुनिनाप्युक्तम्-विविधानां भावानां लवैर्लवैर्भूषितो बहुविशेषैः । असमग्राक्षिप्तरसो नर्मस्फोटस्तु विज्ञेयः ॥' इति ॥ 2. शून्येति। शून्यदृष्टिलक्षणमुक्तं महर्पिणाष्टमाध्याये-'समतारा समपुटा निष्कम्पा शून्यदर्शना। बाह्यार्थग्राहिणी मध्या शून्या दृष्टिः प्रकीर्तिता ॥' इति ॥ 3. किं न्विति। एतत्कि नु स्यात्, एतदलसगमनत्वादिकं रोगकृतं कामकृतं वेति वितर्कः । अथवा इतः कामात्किमन्यत्। नान्यदित्यर्थः ॥ 4. नर्मगर्भ इति। एतदुक्तमृषिणा विशाध्याये-'विज्ञानरूपसंभावनादिभिनायको गुणैयंत्र। प्रच्छन्नैर्व्यवहरते कार्यवशान्नर्मगरभोंडसौ ॥' इति ॥ 5. सात्वतीति। एषा परिष्कृत्योक्ता नाव्यशास्त्रे-'या सत्त्वजेनेह गुणेन युक्ता न्यायेन वृत्तन समन्विता च । हर्षोत्कटा संहृतशोकभावा सा सात्त्वती नाम भवेत्तु वृत्तिः ॥ वागङ्गाभिनयवती सत्त्तोत्थानवचनप्रकरणेपु। सत्त्वाधिकारयुक्ता विज्ञेया सात्त्वती वृत्तिः । वीराद्धुतरौद्ररसा निरस्तश्ङ्गारकरुणनिरवेदा। उद्धनपुरुषप्राया परस्पराधर्षणकृता च।।' इति। १. 'किं चैततू' घ.
Page 356
षष्ठः परिच्छेदः। ३०९ सहर्षा क्षुद्ररङ्गारा विशोका साद्भुता तथा। उत्थापकोऽथ सांघात्यः संलापः परिवर्तकः ॥१२९॥ विशेषा इति चत्वारः सात्वत्याः परिकीर्तिताः । उत्तेजनकरी शत्रोर्वागुत्थापक उच्यते ॥ १३०॥ यथा महावीरचरिते- 'आनन्दाय च विस्मयाय च मया दष्टोऽसि दुःखाय वा वैतृष्ण्यं तु कुतोऽद्य संप्रति मम त्वद्दर्शने चक्षुषः । यन्माङ्गल्यसुखस्य नास्मि विषयः किं वा बहुव्याहृतै- रस्मिन्विस्मृतजामदम्यविजये बाहौ धनुर्जृम्भताम् ।।' मैत्रार्थदैवशक्त्यादेः सांघात्यः संघभेदनम्। मन्र्रशत्तया यथा मुद्राराक्षसे राक्षससहायानां चाणक्येन स्वबुद्या भेदनम्। अर्थशक्त्यापि तत्रैव। दैवशत्तया यथा रामायणे रावणाद्वि- भीषणस्य भेद: । संलापः स्याद्गभीरोक्तिर्नानाभावसमाश्रया ॥ १३१॥ यथा वीरचरिते-'राम :- अयं स यः किल सपरिवारकार्तिकेयवि- जयावर्जितेन भगवता नीललोहितेन परिवत्सरसहस्रान्तेवासिने तुभ्यं प्रसादीकृतः परशुः। परशुराम :- राम दाशरथे, स एवायमार्य- पादानां प्रिय: परशुः ।' इत्यादि। प्रीरब्धादन्यकार्याणां कोरणं परिवर्तकः। शे्षः । उत्तेजनमुत्साहातिशयजनकम्। शत्रोः प्रतिनायकस्य। वागित्यन्वयःआनन्दा- य चेति। वौलिनं प्रति श्रीरामस्योक्तिरियम्। मत्रो मन्र्रणा, अर्थो धनम्, दैवमद्ृष्टम्, सहभेदनं सहायानां भेदः। रामायणे रामचन्द्रवर्णनानाटकादौ। आवर्जितेन प्रीणि- 1. उत्तेजनेति। एतदेव विशिष्यान्नातं महर्षिणा-'अहमप्युत्थास्यामि त्वं तावददर्श- यात्मनः शक्तिम्। इति संघर्षसमाश्रयमुत्थितमुत्थापको ज्ञेयः ॥' इति ॥ 2. मत्रेति। उक्तं च मुनिना-'मन्नार्थवाक्ययुत्तया दैववशादात्मदोपयोगाद्वा। संघातभेदजननस्तज्जैः सांघात्यको ज्ञेयः ॥' इति ॥ 3. पारब्धादिति। उक्तं च भरतेन-'उत्थानसमारब्धानर्थानुत्सज्य योडर्थयोगव- शात्। अन्यानर्थान्भजते स चापि परिवर्तको ज्ञेयः ॥' इति ॥ 4. वालिनमिति। श्रीरामं प्रति वालिन उक्तिरियमित्युचितम्।। १ .- २. 'संहात्यः' घ. ३. 'असंशयं' घ. 8, 'सहसा सहासा' इत्यधिकं पुस्तकान्तरे.
Page 357
३१० साहित्यदर्पणे
यथा वेण्याम्-'भीमः-सहदेव, गच्छ त्वं गुरुमनुवर्तख। अहमप्यस्त्रागारं प्रविश्यायुधसहायो भवामीति यावत्। अथवा आम- त्र्यितव्यैव मया पाञ्चाली।' इति। अथारभटी-
संयुक्ता वधबन्धाद्यैरुद्धतारभटी मता। वस्तूत्थापनसंफेटौ संक्षितिरवपातनम् ।।१३३।। इति भेदास्तु चत्वार आरभट्याः प्रकीर्तिताः। मायाद्युत्थापितं वस्तु वस्तूत्थापनसुच्यते ॥ १३४ ॥ यथोदा त्तराघवे- 'जीयन्ते जयिनोऽपि सान्द्रतिमिरव्रातैर्वियद्यापिभि- र्भाखन्तः सकला रवेरपि कराः कस्मादकस्मादमी। एते चोग्रकबन्धकण्ठरुधिरैराध्मायमानोदरा मुञ्चन्त्याननकंदरानलमुचस्तीव्ान्नवान्फेरवाः ।।' इत्यादि। संफेटस्तु समाघातः क्ुद्धसत्वरयोई्योः। यथा मालल्यां माधवाघोरघण्टयोः । संक्षिप्ता वस्तुरचना शिल्पैरितरथापि वा ॥ १३५॥ तेन। अन्न देवविषयरतिमतिवीररसानां समाश्रयत्वम्। गुरुं युधिष्ठिरम्। उद्धता। 'वृत्तिः' इति शेषः । मायादीत्यादिना इन्द्रजालग्रहणम्। जीयन्ते परिभूयन्ते आध्मायमानोदरा ईषद्ृह्यमानजठराः । पीयमानरुविराणां मुखानलेनोष्णत्वाज्जठर- दाहः। फेरवाः शगालाः । अत्र मायोत्थापितं वस्तु। इन्द्रजालोत्थापितं वस्तु यथा-'एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शंकरोऽयं दोर्भिदैत्यान्तकोऽसौ सधनुरसिगदाचकचिहवैश्चतुर्भिः । एषोऽप्यैरावतस्थ स्त्रिदशपतिरमी देवि देवास्तथान्ये नृत्यन्ति व्योम्ि चैताश्चलचरणरणन्ूपुरा दिव्यनार्यः ॥' इन्द्रजालोत्थापितवस्तुकथन- मात्रमेवेदं नारभटीभेदः रौद्रबीभत्सान्यतरसूचकल्वाभावात्। इतरथा शिल्पेतरेण। 1. मायेति। 'असतो वस्तुनो मायासद्रपोद्भावना तथा। इन्द्रजालः स्थितार्थस्य म- त्र चूणौषधादिभिः । अदर्शनमपारोक्ष्यमन्यथाकृतिरुच्यते ॥' इत्युक्तरूपौ मायेन्द्रजालौ। आरभटीलक्षणं भट्टरुद्रेणाप्युक्तम्-'या चित्रयुद्धभ्रमशस्त्रपातमार्यन्द्रजालपुतिलङ्गिताढ्या। ओजस्विगुर्वक्षरबन्धगाढा ज्ेया बुधैः सारभटीति वृत्तिः ॥।' इति॥ 2. इतरथेति। इतरथा यथा विद्धशालभञ्जिकायां शालभजिकादौ प्रतिफलनम्॥ १. 'संक्षित्तिः' घ.
Page 358
षछ्ठः परिच्छेदः । ३११
संक्षिप्तिः सान्निवृत्तौ च नेतुर्नेत्रन्तरग्रहः। यथोदयनचरिते कैलिञ्जहम्तिप्रयोगः । द्वितीयं यथा वालिनिवृत्त्या सुग्रीवः । यथा वा परशुरामस्यौद्धत्यनिवृत्त्या शान्तत्वापादनम्- 'पुण्या ब्राह्मणजातिः-' इति। प्रवेशत्रासनिष्कान्तिहर्षविद्रवसंभवम् ॥१३६॥ अवपातनमित्युक्तं यथा कृत्यरावणे षष्ठेङ्के-'(प्रविश्य खङ्गहस्तः पुरुषः ।)'इत्यतः प्रभृति निष्कमणपर्यन्तम् । पूर्वमुक्तेव भारती। अथ नाट्योक्तय :- आश्राव्यं खलु यद्स्तु तदिह स्वगतं मतम् ॥ १३७ ॥ सर्वश्राव्यं प्रकाशं स्यात्तन्रवेदपवारितम्। रहस्यं तु यदन्यस्य परावृत्य प्रकाश्यते ॥ १८॥ त्रिपताककरेणाँन्यानपवार्यान्तरा कथाम्। अन्योन्यामत्रणं यत्स्यात्तज्जनान्ते जनान्तिकम् ॥ १३९॥ किं व्रवीपीति यन्नाव्ये विना पात्रं प्रयुज्यते। श्रुत्वेवानुक्तमप्यर्थ तत्स्यादाकाशभाषितम् ॥ १४० ।। यः कश्चिदर्थो यस्माद्वोपनीयस्तर्स्यान्तरत ऊर्ध्वसर्वाङ्गलिनामिताना- मिकं त्रिपताकलक्षणं करं कृत्वान्येन सह यन्मन्व्यते तज्जनान्तिकम्। परावृत्यान्यस्य रहस्यकथनमपवारितम्। शेषं स्पष्टम्। नेत्रन्तरतवं व्यक्तिमेदार्द्वर्मभेदाच्च भवति। धर्मभेदान्ने्नन्तरतमाह-यथा परछुरामस्येत्यादि। विद्रवः पलायनम्। प्रवेशादिसंभवं वस्तु अवपातनमित्यर्थः । पूर्व स्थापककर्तव्यकथनावसरे। अश्राव्यं परस् श्रवणायोग्यम्। परावृत्य स्थाना- न्तरं गला। अन्तरा कथां कथामध्ये। अन्योन्यस्य यदामन्रणं गुह्यभापणम्। जनान्ते जनसमीपे। कि व्रवीपीत्युक्ला। पात्रं श्रोनृनटम्। श्रुला श्रवणाभिनयं 1. निवृत्ताविति। एकराजनिवृत्तावन्यराजस्थापनं संक्षिप्तिरिति॥ 2. कलिक्जेति। काष्ठघटितहस्तिप्रयोगः ॥ 3. स्वगतमिति। इहात्मवाची स्वशब्दः ॥ 4. त्रिपताकेति। मुनिरपि नवमाध्याये चतुःपष्टिकरलक्षणप्रतिपादनावमरे-'प्रसा- १. 'किलिअ्ज' घ. २. 'त्रिपताका' घ, ३. 'अन्यं' क. ४. 'अन्तरे' ख. ५, 'ऊर्ध्वाङ्गलिन तनामिक' क. ६. 'भवति' इनि पुस्तकान्तरे नारित.
Page 359
३१२ साहित्यदर्पणे
दत्तां सिद्धां च सेनां च वेश्यानां नाम दर्शयेत्। दत्तप्रायाणि वणिजां चेटचेट्योस्तथा पुनः॥ १४१ ॥ वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यन्भवेत्। वेश्या यथा वसन्तसेनादिः। वणिग्विष्णुदत्तादिः। चेटः कलहं- सादिः । चेटी मन्दारिकादिः । नाम कार्य नाटकस्य गर्रितार्थपरकाशकम् ॥ १४२ यथा रामाभ्युदयादिः । नायिकानोयकाख्यानात्संज्ञा प्रकरणादिषु। यथा मालतीमाधवादिः । नाटिकासट्टकादीनां नायिकाभिर्विशेषणम् ॥ १४३॥ यथा रत्नावली-कर्पूरमञ्जर्यादिः। प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते। यथा शाकुन्तले-ऋषी 'गच्छावः' इत्यर्थे 'साधयावस्तावत्'।
कृला॥ दत्तामित्यादि। नाम्नश्रमाश्चलम्। तेन दत्तान्तादिनाम। दत्तप्रायाणि दत्तान्तबहुलानि। वसन्तादिषु वर्ण्यस्य कलहंसादेर्यन्नाम तच्चेटस्य चेट्याश्र स्यादि- त्यर्थः । एकशेषाभावश्चिन्त्यः । गर्भितो गर्भसंधिना सूचितो योऽर्थः प्रयोजनं तत्प्रकाशकमित्यर्थः । नायिकया सहितो नायको नायिकानायकः । अन्यथैक- (शेष) प्रसङ्गात्। प्रकरणादिष्वित्यादिपदेन भाणादिपरिग्रहः। एतत्प्रायिकं तेन सौग- न्धिकाहरणादिसंज्ञापि। प्रायेणेति। 'सुहं चिट्ठउ अज्जउतो। अहं गमिस्सम्।' इत्यु-
रिताः समाः सर्वा यस्याङ्गल्यो भवन्ति हि। कुञ्चितश्च तथाङ्रुष्ठः स पताक इति स्मृतः ॥' इत्युक्त्वा 'पताके तु यदा वक्रानामिका त्वङ्गुलिर्भवेत्। त्रिपताकः स विज्ञेयः इत्यनेन त्रिपताकलक्षणं दर्शितवान्। संगीतरलाकरेऽपि पताकलक्षणमभिधाय 'स एव त्रिपताकः स्याद्वक्रितानामिकाङ्गलिः' इति त्रिपताकलक्षणमभिहितम्। मन्दारमरन्दे तु किचिद्विशेष :- 'तर्जनीमूलसंलनकु्रिताङ्गष्टकः करः। गण्डगः संहताकारप्रसारिततलाङ्गलिः॥ पताकः स्यादथ यदि वक्रितानामिकाङ्गुलिः । स एव श्रोत्रगस्तहि त्रिपताक इतीर्यते ॥' इति ॥ 1. दत्तामित्यादि । अत्र विशेष :- 'ब्रह्मक्षत्रस्य नामानि गोत्रकर्मानुरूपतः । काव्ये कार्याणि कविभिः शर्मवर्मकृतानि च । दत्तप्रायाणि नामानि वणिजां तु प्रयोजयेत्। शौयोंदात्तानि नामानि तथा शूरेषु योजयेत्।। विजयार्थानि नामानि राजस्त्रीणां च कारयेत्। दत्ता मित्राथ सेनेति वेश्यानामानि कारयेत्। नानाकुसुमनामानः प्रेष्याः कार्यास्तु नाटके। मङ्गलार्थानि नामानि चेटानामपि कारयेत् ॥' इति॥
१. क-पुस्तके तु 'नाधिका-' इत्यादि: '-द्रविडादिषु' इत्यन्तः पाठो नास्ति, २. 'नायकाख्याना'घ
Page 360
षष्ठः परिच्छेदः । ३१३
राजा स्वामीति देवेति भृत्यैर्भट्टेति चाधमैः ॥१४४॥ राजर्पिभिर्वयस्ेति तथा विदूपकेण च। राजन्नित्यृपिभिर्वाच्यः सोऽपत्यप्रत्ययेन च । १४५। स्वेच्छया नामभिर्विप्रैर्विग्र आर्येति चेतरैः। वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विदूपक: ॥ १४६ ॥ वाच्यौ नटीसूत्रधारावार्यनाम्ना परस्परम्। सूत्रधारं वदेभ्भाव इति वै पारिपार्शविक: ॥१४७ ॥ सूत्रधारो मारिपेति हण्डे इत्यधमैः समाः। वयस्येत्युत्तमैर्हहो मध्यैरार्येति चाग्रजः ॥ १४८॥ भैगवन्निति वक्तव्याः सवैर्देवर्षिलिङ्गिनः । वदेद्राज्ञीं च चेटीं च भवतीति विदूषकः ॥ १४९।। आयुष्मन्रथिनं सूतो वृद्धं तातेति चेतरः। वत्सपुत्रकतातेति नाम्ना गोत्रेण वा सुतः ॥१५० ॥ शिष्योऽनुजश्र वक्तव्योऽमात्य आर्येति चाधमैः । विश्रैरयममात्येति सचिवेति च भण्यते ॥ १५१ ॥
त्थाय गच्छतीति रत्नावल्यां गमे: प्रयोगोऽपि। राजा वाच्यः-इत्यन्वयः। स राजा। अपत्यप्रत्ययेन च। अपत्यप्रत्ययान्तपदेन चेत्यर्थः। यथा-दाशरथे, पौरव, पाण्डव इत्यादि। एतच्च पुत्रादिसंबन्धिपदोषलक्षणम्। तेन रघुनन्दन इत्यादिनापि। स्वेच्छयेति। अपत्यप्रत्ययेन नामभिर्वा विप्रैर्विप्रो वाच्यः । इतरैः क्षत्रियादिभि- रार्येति विप्रो वाच्य इत्यर्थः। तेनानर्घराघवादौ विश्वामित्रेति कौशिकेति कुशिकन- न्दनेत्यादिना शतानन्देन विश्वामित्र उक्तः। आर्यनान्ना आर्यशब्देन नाव्ययोग्यत्वा- दार्याशब्देनाह्वानम्। तं पारिपार्शविकम्। समा आत्मतुल्याः उत्तमैः समा वयस्येति वाच्याः मध्यमैर्हैहो इति समा वाच्याः। सर्वेरार्येत्यग्रजो वाच्यः इतरो युवा बालश्।
- राजेति। अत्र विशेष :- 'राजपत्न्यस्तु संभाष्याः सर्वाः परिजनेन तु। भट्टिनी स्वामिनी देवी इत्येवं नाटके वुधैः॥देवीति महिषी वाच्या राज्ञा परिजनेन तु। भोगिन्य इति शेषास्तु स्वामिन्य इति वा पुनः ॥' इति ॥ 2. हण्डे इति। हण्डे इत्यामत्रणद्योतकमव्ययम्॥ 3. भगवन्निति। उक्तं च मुनीन्द्रेण सप्तदशाध्याये-'देवानामपि ये देवा महात्मानो महर्पयः । भगवन्निति ते वाच्या यास्तेषां योषितस्तथा ॥ देवाश्च लिद्विनश्चैव नानाश्रुतध- राश्च ये। भगवन्निति ते वाच्याः पुरुषैः स्त्रीभिरेव च ।।' इति ॥ सा० द०२७
Page 361
३१४ साहित्यदर्पणे
साधो इति तपस्वी च प्रशान्तश्रोच्यते बुधैः। स्वेगरहीताभिधः पूज्य: शिष्याद्यैर्विनिगद्यते ॥ १५२ । उपाध्यायेति चाचार्यो महाराजेति भूपतिः। स्वामीति, युवराजस्तु कुमारो भर्तृदारक: ॥ १५३ ॥ भद्रसौम्यमुखेत्येवमधमैस्तु कुमारकः । वाच्या प्रकृतिभी राज्ञः कुमारी भर्तृदारिका ॥ १५४ ॥ पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैः स्त्रियः । हैलेति सदृशी, प्रेष्या हैञ्जे, वेश्याज्जुका तथा ॥ १५५ । कुँट्टिन्यम्बेत्यनुगतैः पूज्या च जरती जनैः। आमन्रणैश्च पाषण्डा वाच्या: स्वसमयागतैः ॥ १५६ ॥ शकादयश्च संभाष्या भद्रदत्तादिनामभिः । यस्य यत्कर्म शिल्पं वा विद्या वा जातिरेव वा ॥१५७ ॥
गोत्रेण अपत्यप्रत्ययान्तेन । अयममात्यः । प्रशान्तो वीतरागः । पूज्यो जनः शिष्याधैः स्वगृहीताभिधो विनिगद्यते इत्यन्वयः। खगृहीता सेच्छया प्रयुक्ता अभिधा पूज्यलप्रकाशकनाम भगवन्निति महाभागेत्यादि वा यस्य सः। महाराजेति सामीति वा भूपतिर्विनिगद्यते इत्यन्वयः । युवराजः कुमारो भर्तृदारको वा वाच्यः । कुमारको युवराजः। पतिर्यथेति। उत्तमेनोत्तमा स्त्री वयस्येति, मध्येन मध्यमा हंहो इति, अधमेन अधमा हण्डे इति वाच्येत्यर्थः । सदृशी आत्मतुल्या। कुट्टि- नी तथा अज्जुका वाच्या। अनुगतैः सेवकैः पूज्या अम्बेति वाच्या। जरती वृद्धा जनैरम्बेति वाच्या। आमन्नणैः संबोधनपदैः खसमयागतैः खसंकेतप्राप्तैः कापा लिकेत्यादिभिः । शकादयोऽन्तःपुरसहायाः प्रागुक्ताः । कर्म मालाकरणादि। शिल्पं कलादिकर्म। विद्या सीमाँसादिः। जातिर्ब्राह्मणत्वादिः। तेनैव तत्कर्मादिप्रकाशकेन
- हलेति हजे इति च। हला हजे उभे अव्यये। 2. अज्जुकेति। जकारद्वयघटितमध्योऽज्जकाशब्दः। नाट्यशास्त्रे तु-'अज्जुकेति भवेद्ाच्या वेश्या परिजनन तु। या त्वत्र वृद्धा सा त्वम्बा भाष्या परिजनेन तु ।' इत्युक्तम् ॥ 3. कुट्टिनीति। परनारी पुंसा संयोजयित्री शंभल्यपरपर्याया योषित्। 4. पाषण्डेति। पापं सनोति ददातीति पाषण्डः। जमन्ताङ्डु: । पृषोदरादिः । कवर्गद्वितीयमध्यस्तु शं खण्डयति। 'खडि भेदने'। अचू। उक्तं च-'पालनाच्च त्रयीधर्मः पाशब्देन निगद्यते। तं खण्डयन्ति ते यस्मात्पाखण्डास्तेन हेतुना ।' इति॥ १. 'परैः' ख. २. 'अगृहीत' घ.
Page 362
षष्ठः परिच्छेद: । ३१५ तेनैव नाम्ना वाच्योऽसौ ज्ञेयार्श्चान्ये यथोचितम्। अथ आषाविभाग :- पुरुषाणामनीचानां संस्कृतं स्यात्कृतात्मनाम् ॥ १५८॥ सौरंसेनी प्रयोक्तव्या तादृशीनां च योपिताम्। आसामेव तु गाथासु महाराष्ट्रीं प्रयोजयेत् ॥ १५९ ॥ अत्रोक्ता मागधी भाषा राजान्त:पुरचारिणाम्। चेटानां राजपुत्राणां श्रेष्ठानां चार्धमागधी॥ १६०॥ प्राच्या विदूषकादीनां, धूर्तानां स्यादवन्तिजा। योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम् ॥१६१॥ शैबराणां शकादीनां शाबरीं संप्रयोजयेत्। बाह्लीकभाषोदीच्यानां द्राविडी द्रविडादिपु ॥ १६२ ।। आभीरेषु तथाभीरी चाण्डाली पुक्कसादिपु। आभीरी शावरी चापि काष्ठपात्रोपजीविषु ॥ १६३॥ तथैवांङ्गारकारादौ पैशाची स्यात्पिशाचवाक्। चेटीनामप्यनीचानामपि स्या-सौरसेनिका ॥ १६४ ॥ बालानां षण्डकानां च नीचग्रहविचारिणाम्। उन्मत्तानामातुराणां सैव स्यात्संस्कृतं कचित् ॥ १६५ ।। मालाकारादिपदेन। असौ मालाकारादिः। ज्ञेयाश्र्ेति। अन्ये मित्रादयो मित्रादि- पदेन वाच्या इत्यर्थः । अनीचानामुत्तममध्यमानाम् । कृतात्मनां पण्डितानां चेत्यर्थः । तादशीनां गाथासु श्लोकेषु। अत्र नाटकादौ। राजान्तःपुरचारिणां वामनादीनाम्। चेटानां भृत्यानाम् । प्राच्या गौडीया। धूर्तानामक्षदेविनाम् । दाक्षिणात्या वैदभी। पिशाचवाक् चेटानामपीत्यन्वयः। सैव सौरसेनी एव। प्राकृतं 1. अन्ये इति। शाक्यभिक्षुर्भदन्तेति भगिनीपतिरावुत्तेति जनक आवुकेति राजश्यालो राष्ट्रियेति वाच्य इति यथाशास्त्रमनुसंधेयम्॥ 2. भाषाविभाग इति। सामान्यतो भाषा संख्याता रुद्रटेन-'प्राकृतसंस्कृतमाग- धपिशाचभाषाश्च सूरसेनी च। षष्ठोडन्र भूरिभेदो देशविशेषादपभ्रंशः ॥' इति। नाट्य- शास्त्रे तु विशेष :- 'मागध्यवन्तिजा प्राच्या सूरसेन्यर्धमागधी। बाह्लीका दाक्षिणात्या च सप्त भाषा: प्रकीर्तिताः ॥' इति ॥ 3. पुक्कसेति। पुक्कसश्चाण्डालः ।। 4. अङ्गारेति। अङ्गारकारो लोहादिधातुजीवी ॥ १. कुत्रचित्सूरसेनशब्दस्तालव्यादिरपि दृश्यते. २. 'श्रेष्ठिनाम्' इति नाव्यशास्त्रस्थ: पाठः ३. 'शवराणां घ.
Page 363
३१६ साहित्यदर्पणे
ऐश्वर्येण प्रमत्तस्य दारिद्योपद्ठुतस्य च। भिक्षुवल्कधरादीनां प्राकृतं संप्रयोजयेत् ॥ १६६ । संस्कृतं संप्रयोक्तव्यं लिङ्गिनीषूत्तमासु च। देवीमत्निसुतावेश्यास्वपि कैश्चित्तथोदितम् ॥ १६७ ॥ यद्देश्यं नीचपात्रं तु तद्देश्यं तस्य भाषितम्। कार्यतश्चोत्तमादीनां कार्यो भाषाविपर्ययः ॥१६८॥
वैदग्ध्यार्थ प्रदातव्यं संस्कृतं चान्तरान्तरा ॥ १६९ ।। एषामुदाहरणान्याकरेषु बोद्धव्यानि। भाषालक्षणानि मम तात- पादानां भाषार्णवे। षटरत्रिंशलक्षणान्यत्र, नाव्यालंकृतयस्तथा। त्रयस्त्रंशत्प्रयोज्यानि वीथ्यङ्गानि त्रयोदश ॥ १७० ॥ लासाङ्गानि दश यथालाभं रसव्यपेक्षया। यथालाभं प्रयोज्यानीति संबन्धः । अत्रेति नाटके। तत्र लक्षणानि- भूषणाक्षरसंघातौ शोभोदाहरणं तथा॥ १७१ ॥ हेतुसंशयदृष्टान्तास्तुल्यतर्क पदोच्चयः। निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च ॥ १७२ ॥ दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा। विशेषणनिरुक्ती च सिद्धिर्भ्रशविपर्ययौ॥ १७३॥ दाक्षिण्यानुनयौ मालार्थापर्त्तिग्रर्हणं तथा। पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुणकीर्तनम्॥ १७४॥ सौरसेन्यादिद्रा विडीपर्यन्तानामन्यतमं महाराष्ट्रीं वा । लिद्विनीषु संन्यासादिचिह्न- धारिणीषु। कार्यत इति। उत्तमस्य राजान्तःपुरचारिते मागधी, न तु संस्कृतम्। एवमन्यत्रापि। अत एवानर्धराघवादौ राजपुत्रस्यापि रामचन्द्रादेरुत्तमकार्यकारित्वेन संस्कृतेनैव व्यवहारो वर्णितः न त्वर्वमागध्या। वैदग्व्यार्थे वैदग्व्यज्ञापनार्थम् । अन्तरा अन्तरा तत्तद्भाषाणां मध्ये। एषां भाषाविशेषाणाम्। आकरेषु नाटकादिषु। भाषार्णवे बोध्यानीति पूर्वेणान्वयः। यथालाभं यथायोग्यम्। रसव्यपेक्षया रसा- काड्डया। यस्मिन्रसे यदाकाड्वितं योग्यं च भवति तत्तस्मिन्वर्णनीयमिति भावः । १. 'चक्र' ख, 'बन्ध' घ. २, 'नाटके' क. ३, 'इति' नास्ति क-पुस्तके. 8. 'ग्रहण' क-ख.
Page 364
षष्ठः परिच्छेद: । ११७
लेशो मनोरथोऽनुक्तसिद्धि: प्रियवचस्तथा। तंत्र- लक्षणानि गुणैः सालंकारैर्योगस्तु भूषणम् ॥ १७५ ॥ यथा- 'आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम्। कोषदण्डसमग्राणां किमेषामस्ति दुप्करम्।।'
यथा शाकुन्तले-'राजा-कच्चित्सखीं वो नातिबाघते शरीर- संतापः । प्रियंवदा-संपदं लघोसहो उअसमं गमिस्सदि।' सिद्धैरर्थैः समं यत्राप्रसिद्धोऽर्थः प्रकाशते ॥ १७६ ॥ श्िष्टैश्लक्षणचित्रार्था सा शोभेत्यभिधीयते। यशा- 'सद्वंशसंभवः शुद्धः कोटिदोऽपि गुणान्वितः । कामं धनुरिव क्ूरो वर्जनीयः सतां प्रमु:॥' यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात्॥ १७७॥
गुणैर्माधुयौजःप्रसादैर्यमकोपमाद्यलंकारसहितैर्योगः परस्परमेलकः। आक्षिपन्ति नि- न्दन्ति। कोषो वीजकोषो भाण्डागारश्र। दण्डो नालं चतुर्थोपायश्च। अन्नारविन्दाना- मचेतनतया निन्दा न संभवतीत्युपमा कल्प्यत इति निदर्शना। एवं च निदर्शनार्थान्तर- न्यासश्लेषालंकारसहिताभ्यां माधुर्यप्रसादाभ्यां योगः । चित्रो विदग्धमनोरमोऽर्थों येषां तैरक्षरैः पदैः। वो युष्माकं सखीं शकुन्तलां शरीरसंतापः स्मरज्वाला। 'सांप्रतं लब्घौषधमुपशमं गमिष्यति' इति संस्कृतम्। सिद्धैः साधयितुमारब्वैः। श्छिष्टस्वरूप- श्ित्रोरऽर्थो यस्या: सा वर्णना। वंशोऽन्ववायो वेणुश्। कोटिः संख्याविशेषोऽग्रं च। गुण शौर्यादि: मौवी च। कूरः कुटिलः कठिनश्च। अत्र सिद्धैरन्वयादिभिः सममेकदैव प्रसिद्धो वेण्वादिरर्थों भासते। अभिप्रदर्शनादू वक्तुरभिप्रायात् साध्यते ज्ञाप्यते।
- गुणैरिति। षोडशाध्याये भरतेनाप्युक्तम्-'अलंकारैर्गुणैश्चैव बह्डुभिः समलं कृतम्। भूषणैरिव विन्यस्तैस्तन्षणमिति स्मृतम् ।।' इति ॥
१ 'लक्षणानि' क-ख-ग. २. 'तत्र' क खब्ग. ३. 'लक्षण' क. ४. 'येषां- इत्यादि: '-वे- ुश्च " इत्यन्तः पाठः पुस्तकान्तेर नास्ति.
Page 365
३१८ साहित्य दर्पणे
यथा- 'अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम्। का दिनश्रीर्विनार्केण का निशा शशिना विना॥' हेतुर्वाक्यं समासोक्तमिष्टळद्धेतुदर्शनात्॥१७८॥ यथा वेण्यां भीमं प्रति 'चेटी-एवं मए भणिदं भाणुमदि, तु- ह्माणं अमुक्केसु केसेसु कहं देवीए केसा संजमिअन्तित्ति।' नशियह - संशयोऽज्ञाततत्वस् वाक्ये स्ाद्दनिश्यः । यथा ययातिविजये- 'इयं स्वर्गाधिनाथस्य लक्ष्मीः, किं यक्षकन्यका । किं चास्य विषयस्यैव देवैता, किमु पार्वती ।' दृँष्टान्तो यस्तु पदार्थसाधनाय निदर्शनम्॥ १७९॥ यथा वेण्याम्-'सहदेव :- आर्य, उचितमेवैतत्तस्या यतो दुर्यो- धनकलत्रं हि सा' इत्यादि। तुल्यतर्को यदर्थेन तर्कः प्रकृतिगामिना।
अभिमतो बोधयितुमिष्टः। अनुयान्त्येति। कान्तमरणेन दुःखमनुभवन्त्या उक्ति- रियम्। अत्रार्के विना दिनश्रीरिव शशिनं विना निशेव कान्तं विना योषिदशोभैवेति प्रतीयते। समासेन संक्षेपेण उक्तमिष्टवदभीष्टार्थबोधकरम् । 'एवं मया भणितं भानुमति, युष्माकममुक्तेषु केशेषु कथं देव्या: केशा: संयम्यन्ते' इति संस्कृतम्। अन्न द्रौपदीकेशासंयमनस्य हेतुर्भानुमतीकेशामोक्षणं तद्दर्शनेन दुर्योधनवधे सत्येव देव्या: केशबन्धनं भविष्यतीत्यभिमतार्थबोधः। अज्ञाततत्त्वस्य अज्ञातविशेषस्य। 'यत्' इत्य- व्ययं 'यः' इत्यर्थे। विषयस्य देशस्य। दष्टान्त इति। पक्षेरऽ्र्थस्य साध्यस्य साधनाय ज्ञापनाय निदर्शनं हेतुदर्शनम् । तस्या भानुमत्याः। सा भानुमती। अर्थेन वस्तुना तर्को भाव्यर्थसूचनम्। प्रकृतिगामिना प्रकृतेन न तु प्रकृतिविपर्यासरूपेण अद्भुतेन।
- हेतुरिति। नाट्यशास्त्रेऽप्युक्तम्-'बहूनां भाषमाणानामनेकार्थविनिर्णयात्। सिद्धौ समानवचनं हेतुरित्यभिसंजितः ॥' इति ॥1 2. संशय इति। उत्ं च सुनिना-'अपरिज्ञाततत्त्वार्थ यत्र वाक्यं समाप्यते। अ- नेकत्वाद्विचाराणां संशयः परिकीर्तितः ॥' इति ॥ 3. देवतेति। एतद्विषयाधिष्ठात्रीत्यर्थः ॥ 4. दृष्टान्त इति। मुनिनाप्युक्तम्-'सिद्धौ पूर्वोपलब्धौ यः समत्वमुपपाददेत् निदर्शनकृतस्तज्जैः स दृष्टान्त इति स्मृतः ॥' इति ॥
Page 366
षष्ठः परिच्छेदः ।
यथा तत्रैव- 'प्रायेणैव हि दृश्यन्ते कामं स्वमाः शुभाशुभाः । शतसंख्या पुनरियं सानुजं स्पृशतीव माम् ।' संचयोऽर्थानुरूपो यः पदानां स पदोच्चयः ॥ १८०॥ यथा शाकुन्तले- 'अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू। कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम्।।' अत्र पदपदार्थयोः सौकुमार्यै सदृशमेव। यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम्। परपक्षव्युंदासार्थ तन्निदर्शनमुच्यते॥ १८१॥ यथा- 'क्षात्रधर्मोचितैर्धर्मैरलं शतुवघे नृः। किं तु वालिनि रामेण मुक्तो बाण: पराझुखे।।' प्रायेणवति। खप्नदर्शनस्य प्रकृतत्वज्ञापनायेदम्। संचयः समूहः। अर्थानुरूपोऽभिधे- यसदशः। सुकुमारार्थे सुकुमारपदसंचयस्य, उद्भटार्थे उद्भटपदसंचयस्य प्रयोग इतर्थः। अधर इति। विटपानुकारिणौ शाखासदशौ। यथा वा 'प्रागप्राप्तनिशुम्भशांभवध- नुर्द्वेधा विधा विर्भवत्क्ोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणात्। उज््वालः परशु- र्भवत्वशिथिलस्तत्कण्ठपीठातिथिर्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते॥।' प्रागप्राप्तनिशुम्भेति। प्रागप्राप्तनमनेत्यर्थः । अत्र शब्दार्थयोरुद्टतवं सदृशम्। यत्रार्थानामिति। पक्षो मतम्। किं त्विति यथेत्यर्थे। पराझुखे अन्यासक्ते। अत्र 1. अधर इति। अधरोऽधरोष्ठः किसलय इव रागो यस्य सः। बाहू विटपौ स्क- न्घोर्ध्वशाखे तदनुकारिणौ तत्सदृशौ। 'स्कन्धादूर्ध्व तरोः शाखा कटप्रो विटपो मतः' इति कात्यः । कोमलशब्देन तयोरग्रजत्वं व्यज्यते। अङ्गेपु संनद्ध संनाहं प्रापितम्। अत्यु- त्कटमिति यावत्। अत्रङ्गेष्विति बहुवचनेन वदने कान्तिमत्ता, नेत्रयोस्तरलता, कण्ठे कम्बुत्रिरेखावत्वम्, वक्षसि स्तनोज्जृम्भणम्, नाभौ गभीरता, नितम्बे मध्यनिम्नत्वम्, उभयभागे चतुरस्रत्वम्, जघनजङ्घाजानुमण्डलोरुदेशानां मांसलत्वम्, गतौ सविलासत्व- मित्यादि ध्वनितम्। संनद्धशब्द: प्रकृते वाधितमुख्यार्थः सन् यः संनद्धो भवत्यु- त्साहेन प्रकटो भवतीति प्राकव्यसंबन्धेन यौवनं लक्षयंस्तद्रतमतिशयं व्यनक्ति। यौवनं कुसुममिव लोभनीयं चित्तापकर्षकम्। अङ्गेषु संनद्धमित्यत्रापि योजनीयम्। लताङ्गेपु संनद्धमित्यर्थः ॥ 2. व्युदासाथमिति। व्युदासो निरासः॥ 3. खण्डपरुरिति । हरेण स्वपरशोरेकः खण्डः परशुरामाय दत्त इति प्रसिद्धिः ॥
१. 'वुधाः' क-ख.
Page 367
३२० साहित्यदर्पणे
अभिप्रायस्तु सादृश्यादभूतार्थस्य कल्पना। यथा शाकुन्तले- 'इदं किलाव्याजमनोहरं वपुस्तपःकमं साधयितुं य इच्छति ।' ध्रुवं स नीलोत्पलपत्रधारया सैमिल्लतां छेत्तमृषिर्व्यवस्यति ।।' आप्ति: केनचिदंशेन किंचिद्यत्रानुमीयते ॥१८२॥ यथा मम प्रभावत्याम्-'अनेन खल सर्वतश्चरता चश्चरीकेणा- वश्यं विदिता भविष्यति प्रियतमा मे प्रभावती।' विचारो युक्तिताक्यैर्यदप्रत्यक्षार्थसाधनम्।
विकारा वर्तते। यतः। हसति परितोषरहितं निरीक्ष्यमाणापि नेक्षते किंचित्। सख्यामुदाहरन्त्यामसमञ्जसमुत्तरं दत्ते।' देशकालस्वरूपेण वर्णना दिष्टमुच्यते ॥१८३॥ यथा वेण्याम्-'सहदेव :- यद्वैद्युतमिव ज्योतिरायें क्रुद्धेऽद्य संभृतम्। तत्प्रावृडिव कृष्णेयं नूनं संवर्धयिष्यति ।।' उपदिष्ट मनोहारि वाक्यं शास्त्रानुसारतः । यथा शाकुन्तले- 'शुंश्रूषसव गुरून्कुरु प्रियसखीवृत्तिं सपतीजने भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीप गमः । क्षत्रधर्मव्युदासार्थ परासक्े वालिनि श्रीरामस्य बाणमोक्ष: प्रसिद्धोऽर्थः कीर्तितः अभूतार्थस्य असंभविनो वस्तुनः । अव्याजेन खभावेन मनोहरम्। ऋषिः कण्वः । व्यवस्यति इच्छति। उत्पलपत्रधारया समिल्लताछेदनमिव शकुन्तलाशरीरेण तपःसाध- नमसंभवि-प्राप्तिरिति। अंशेन विशेषणेन। चश्चरीकेण भ्रमरेण। अत्र सर्वतश्चर- तेति विशेषणेन भ्रमरस्य खप्रियतमाज्ञानं नायकेनानुमीयते। विचार इति। युक्ति- वाक्यैर्हेतुबोधकवाक्यैः । अप्रत्यक्षस्य साधनं ज्ञापनम्। असमजसमयोग्यम्। देश- कालेति। देशकालयोः स्वरूपेण साधर्म्येण। प्रावृडिव वर्षाकाल इव। शुश्रूषस्वेति। 1. समिल्तामिति। कचित् 'शमीलताम्' इति पाठः । तस्या अतिकाठिन्येनोपमे येSत्यन्तासंभावनीयत्वं व्यज्यत इति प्रकृतपद्यव्याख्याने राघवभट्टः।। 2. शुश्रूषस्वेति। अत्र समासेन वात्स्यायनोक्तमेकचारिणीवृत्तं संगृहीतं कविकुलगुरुणा। १. 'अन्भुत' घ. २. 'शमीतरुं' घ .. 'प्रमद' इत्यधिकं ख-पुस्तके.
Page 368
षष्ठः परिच्छेदः । ३२१
भूयिष्ठं भव दक्षिणा परिजने भाग्येप्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याघयः ॥' गुणातिपातः कार्य यद्विपरीतं गुणान्प्रति॥१८४॥ यथा मम चन्द्रकलायां चन्द्रं प्रति- 'जइ संहरिज्जइ तमो घेय्यइ सअलेहि ते पाओ। वससि सिरे पसुबइणो तहवि है इत्थीअ जीअणं हरसि ॥' यः सामान्यगुणोद्रेकः स गुणातिशयो मतः । यथा तत्रैव-'राजा-(चन्द्रकलाया मुखं निर्दिश्य।)
स्तलस्फूर्जत्कम्बुर्विलसदलिसंघात उपरि। विना दोषासङ्कं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखि ते ॥' सिद्धानर्थान्वहूनुक्त्वा विशेपोक्तिर्विशेषणम् ॥ १८५॥ यथा- 'तृष्णापहारी विमलो द्विजावासो जनप्रियः । इद: पझमाकर: किंतु बुधस्त्वं स जैलाशयः॥' पूर्वसिद्धार्थकथनं निरुक्तिरिति कीर्त्यते। पतिगेहं गच्छन्तीं शकुन्तलां प्रति कण्वस्योपदेशोऽयम्। गुणान् प्रतीति गुणानामित्यर्थः। जइ इति। 'यदि संहियते तमो ग्रह्यते सकलैस्ते पादः । वससि शिरसि पशुपते- स्तथापि हा स्त्रिया जीवनं हरसि ॥' इति संस्कृतम्। अत्र चन्द्रस्य स्त्रीववस्तमोहर- णादिगुणविपरीतं कार्यम्। सामान्यगुणेभ्य उपमानोपमेयवृत्तिसाधारणधर्मेभ्य उद्रेक आधिक्यमुपमेयस्य। तले अधोभागे स्फूर्जन् देदीप्यमान:कम्वुः कण्ठरूपो यस्य सः। दोषासङ्गं विना। दोषरहित इत्यर्थः । अथ च दोषा रात्रिस्तस्याः सङ्गं विना। कलाः कलाशास्त्राणि षोडशभागाश्च। अत्राह्लादकत्वादिसाधारणधर्मेभ्यो नीलाब्जयुगलादि- संबन्धाधिक्यं मुखस्य। अर्थानिति। सिद्धान् प्रसिद्धान्। विशेषोक्तिर्भेदकथनम्। तृष्णेति। ह्रदस्त्वं चैतादृशः । किं तु त्वं बुधः, स ह्रदो जलाशयः सलिलवानू जाड्ययुक्तश्। तृष्णा धनेच्छा पिपासा च। मलः पापं पङ्कश्। द्विजा विप्राः पक्षि- णश्च। लक्ष्मीकरः पम्मानामाधारश्र। अत्रान्त्यपादे विशेषकथनम्। व्यतिरेकालंकारो-
- विलसदिति। अलिसंघातेन केशपाशोऽभिप्रेतः।।
१. गंद्यीकृतेयमार्या पुस्तके. २. 'ह' इति नारित घ.पुस्तके. ३. 'नडाशयः' घ.
Page 369
३२२ साहित्य दर्पणे
यथा वेण्याम्- 'निहताशेषकौरव्यः क्षीबो दुःशासनासृजा। भङ्गा दुर्योधनस्योर्वोर्भीमोऽयं शिरसानतः ।।' बहूनां कीर्तनं सिद्धिरभिप्रेतार्थसिद्धये॥ १८६॥ यथा- 'यद्वीर्य कूर्मराजस्य यश्च शेषस्य विक्रमः । पृथिव्या रक्षणे राजन्नेकत्र त्वयि तत्स्थितम्।।' दप्तादीनां भवेद्धंशो वाच्यादन्यतरद्च: । वेण्याम्-कञ्चुकिनं प्रति 'दुर्योधन :- सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् । स्वबलेन निहन्ति संयुगे नचिरात्पाण्डुसुतः सुयोधनम्॥' विचारस्यान्यथाभावः संदेहात्तु विपर्ययः ॥ १८७॥ यथा- 'मत्वा लोकमदातारं संतोषे यैः कृता मतिः । त्वयि राजनि ते राजन्न तथा व्यवसायिनः ॥' दाक्षिण्यं चेष्टया वाचा परचित्तानुवर्तनम्। वाचा यथा- 'प्रसाधय पुरीं लक्कां राजा त्वं हि विभीषण।
एवं चेष्टयापि। आर्येणानुगृहीतस्य न विन्नः सिद्धिमन्तरा ॥'
रय :- वाक्यैः स्त्निग्धैरनुनयो भवेदर्थस्य साधनम्॥ १८८ ॥ डयम्। पूर्वेति। क्षीबो मत्तः। भक्का भजनकर्ता। बहनामिति। एतदनेकोपलक्ष- णम्। तेन नोक्तोदाहरणासंग्रहः। एकस्मिन्बहूनां गुणकथनमित्यर्थः। यद्वीर्यमिति। अत्र राजः प्ृथिवीपालनभारसहिष्णुतातिशयबोधाय तदुभयकीर्तनम्। दप्तादीनामि- त्यादिपदेन हृष्टदुःखितादीनां ग्रहणम्। वाच्याद्वक्तुमिष्ठादन्यतरद्विपरीतम्। न चि- रादिति। चिरान्न हन्तीति वक्तुमिष्टम्, अचिराद्धन्तीत्यन्यथा जातम्। विचारस्य तत्त्वनिश्चयस्यान्यथाभावोऽभावः। संतोषे धनतृष्णागमजन्यसुखे न तथा व्यवसायि- नः दातृत्वनिश्चयवन्तः । अत्र भवद्विधे दातरि दातृत्वनिश्चयाभाव एव विचाराभावः। परचित्तस्यानुवर्तनम्। आर्येण श्रीरामेण। अन्तरा मध्ये। चेष्टया यथा शाकु- न्तले-'तदहमेनामनृणां करोमि। इत्यड्डुलीयकं ददाति।' अत्राङ्गुलीयदानरूपचेष्टया शकुन्तलाचित्तप्रीणनम्। वाक्यैरिति । अर्थस्य प्रयोजनस्य। भारद्वाजो द्रोणः । १. 'सिद्धैः' क-ख.
Page 370
षष्ठः परिच्छेदः । ३२३
यथा वेण्याम्-अश्वत्थामानं प्रति 'कृपः-दिव्यास्त्रग्रामकोविदे भारद्वाजतुल्यपराक्रमे किं न संभाव्यते त्वयि।' माला स्याददभीष्टार्थ नैकार्थप्रतिपादनम्। यथा शाकुन्तले-'राजा- किं शीकरैः क्रमविमर्दिभिरार्द्रवातं संचारयामि नलिनीदलतालवृन्तम्। अङ्के निवेश्य चरणावुत पद्मताम्रौ संवाह्यामि करभोरु यथासुखं ते ।।' अर्थापत्तिर्यदन्यार्थोऽर्थान्तरोक्तेः प्रतीयते ॥ १८९॥ यथा वेण्याम्-द्रोणोऽश्वत्थामानं राज्येऽभिषेक्तुमिच्छतीति कथ- यन्तं कर्ण प्रति 'राजा-साधु अङ्गराज, साधु। कथमन्यथा दत्त्वाभयं सोऽतिरथो वध्यमानं किरीटिना। सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्यथा।' दूषणोद्धोषणायां तु भर्त्सना गर्हणं तु तत्। यथा तत्रैव-कर्ण प्रति 'अश्वत्थामा- नि्वीर्य गुरुशापभाषितवशात्क मे तवेवायुधं संप्रत्येव भयाद्विहाय समरं प्राप्ोऽस्मि किं त्वं यथा। जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले क्षुद्रारातिकृताप्रियं प्रतिकरोभ्यस्ेण नास्त्रेण यत् ।।' अभ्यर्थनापरैर्वाक्यैः पृच्छार्थान्वेपणं मतम् ॥ १९० ॥ मालेति। अभीष्टार्थे साभीष्टसिद्धये। नैकार्थप्रतिपादनमनेककार्यस्य ज्ञापनम्। शीक- रैरम्बुकणैः। आर्द्रः शीतलो वातो यस्य तत्। संचारयामि व्यापारयामि। नलिनीदलमेव तालवृन्तम्। 'वृन्तैः' इति पाठे शीकरैः सह नलिनीदलतालवृन्तैरार्द्रवातं संचारयामि स्मरतप्तशरीरं प्रापयामि। अत्र दुष्यन्तस्य सुरतरूपस्वाभीष्टतिध्धर्थ शकुन्तलायां समीरसंचारपादसंवाहनकार्ययोर्ञापनम् ॥ अर्थापत्तिरिति। अङ्गराज इति कर्ण- संबोधनम्। कथमन्यथेति। भवता वक्तव्यम्। इति शेषः।स द्रोणः। सिन्धुराजं जयद्रथम्। एवं पुत्राभिषेकाभिप्रायः । अन्यथा प्रकारान्तरेण। अत्र सिन्धुराजोपे- क्षारूपार्थान्तरोत्त्या द्रोणस्य पुत्राभिषेकाभिप्रायः प्रतीयते। दूपणोद्धोषणायामिति
- स्तुतिवंशेति। स्तुतिवंशयोः कीर्तनं विदन्ति ये तेषां सारथीनां सूतानाम्। 2. अस्नेणेति। अस्नेण नयनाम्भसा।।
Page 371
३२४ साहित्यदर्पणे
यथा तत्रैव-'सुन्दरक :- अज्जा, अवि णाम सारधिदुदिओ दिट्टो तुह्लेहिं महाराओ दुर्योधणो ण वेत्ति ।'
यथा विक्रमोर्वश्याम्-'राजा- 'सूर्याचन्द्रमसौ यस्य मातामहपितामहौ। स्वयं कृतः पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ॥' सारूप्यमनुरूपस्य सारुप्यात्क्षोभैवर्धनम् ॥१९१॥ यथा वेण्याम्-दुर्योधनभ्रान्त्या भीमं प्रति 'युधिष्ठिरः-दुरात्मन्, दुर्योधनहतक-'इत्यादि। संक्षेपो यैत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते। यथा मम चन्द्रकलायाम्-'राजा-प्रिये, 'अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा। (आत्मानं निर्दिश्य।) अयमीहितकुसुमानां संपादयिता तवास्ति दासजनः ॥।' गुणानां कीरतेनं यत्तु तदेव गुणकीर्तनम् ॥ १९२ ॥ यथा तत्रैव- 'नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थि-' इत्यादि। सलेशो भण्यते वाक्यं यत्सादृश्यपुरःसरम्। यथा वेण्याम्-'राजा- हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम्। या श्राघा पाण्डुपुत्राणां सैवास्माकं भविष्यति।' कृतायामिति शेषः । अभ्यर्थनापरैः सविनयैः । अज्जा इति। 'आर्याः, अपि नाम सारथिद्वितीयो दृष्टो युष्माभिर्महाराजो दुर्योधनो न वेति। इति संस्कृतम्। लोकसि- द्वार्थः लोकख्यातवस्तुभिः। अर्थसाधनं पदार्थपरिचयः। सूर्याचन्द्रमसाविति।अत्र सूर्यादिभिः प्रसिद्धार्थे:पुरूरवसः परिचयः। अनुरूपस्य सदशस्य सारूप्यात् सादृश्यजनि- तभ्रमात् । 'अनुभूतस्य' इति पाठे सादृश्यादनुभूतस्य भ्रमविषयस्येत्यर्थः । संक्षेपात् अविशेषात्। अन्यार्थे अर्थान्तरस्थाने। प्रयुज्यते निर्दिश्यते। अयमिति। अन्राय- मित्यनेन आत्मा अन्यो वेति न विशेषकथनम्। अत एवार्थान्तरस्थाने आत्मनः प्रयोग: । सादृश्यपुरःसरं सादृश्यतात्पर्यकम्। गाङ्गेये भीष्मे। सैवेति तत्तुल्य्ला घायां तात्पर्यम्। यथा वृद्धस्य छलन श्लाघानुपयुक्ता तथा अस्माकमपि बालक- १ 'अभिभूतस्य' क-ख-ग-घ. २. 'वर्तनं' घ. ३. 'प्रतिसंक्षेपात्' क-ख.
Page 372
षष्ठः परिच्छेदः । ३२५
यथा- 'रतिके लिकल: किंचिदेष मन्मथमन्थरः । पश्य सुभ्रु समालम्भात्कादम्वश्चुम्वति प्रियाम् ।।' विशेषार्थोहविस्तारोऽनुक्तसिद्धिरुदीर्यते। यथा-'गृहवृक्षवाटिकायाम् दृश्येते तन्वि यावेतौ चारुचन्द्रमसं प्रति। प्राज्ञे कल्याणनामानावुभौ तिप्यपुनर्वसू ।।' स्यात्प्रमाणयितुं पूज्यं प्रियोक्तिर्हर्षभाषणम्॥ १९४ ॥ यथा शाकुन्तले- 'उदेति पूर्व कुसुमं ततः फलं घनोदयः प्राक्तदनन्तर पयः । निमित्तनैमित्तिकयोरयं विधिस्तव प्रसादस्य पुरस्तु संपदः ।।' अथ नाट्यालंकारा :- आशीराऋन्दकपटाक्षमागर्वोद्यमाश्रयाः। उत्प्रासनस्पृहाक्षोभपश्चात्तापोपपत्तयः ॥१९५॥ आशंसाध्यवसायौ च विसर्पोललेखसंज्ञितौ। उत्तेजनं परीवादो नीतिरर्थविशेषणम्॥१९६ ॥ प्रोत्साहनं च साहाय्यमभिमानोऽनुवर्तेनम्। उत्कीर्तनं तथा याञ्ा परिहारो निवेदनम् ॥ १९७॥
स्यैकाकिनोऽभिमन्योर्बहुभिर्हनने भविष्यतीति भावः । उचिर्ज्ञांपनम्। भङ्गयन्तरेण सदशदर्शनादिना। रतिकेलिं कलयति सः। यद्वा रत्यै केलिकला यस्य सः। समा- लम्भादादराधिक्यात्। कादम्बः कलहंसः । अत्र प्रियायै कादम्बस्य प्रियाचुम्बनं दर्शयता नायकेन स्वस्य प्रियाचुम्बनाभिप्रायः सूचितः विशेषति। रूपलाव- ्यातिशयज्ञापनं विशेषः तस्मै प्रयोजनं विशेषार्थः । ऊहविस्तारस्तर्कातिशयः। दृश्येते इति। गृहोपवने विश्वामित्रसमीपे श्रीरामलक्ष्मणौ द्ृष्टा सीतां संबोध्य तत्सखीनां वितर्कवर्णनमिदम्। अत्र चन्द्रादीनां परृथिव्यामसंभवे वितर्कातिशयः। प्रमाणयितुं प्रमाणं कर्तुम्। हर्षजनकं भाषणं हर्षभाषणम्। निमित्तनैमित्तिकयोर्हे- तुफलयोः। अयं पौर्वापर्यरूपो विधिः क्रमः। नाव्यालंकारमाह-अथेति। १. 'समाश्वस्तां' घ. २. 'विशेषार्थोहः प्रस्तावे' क-ख-घ. सा०द०२८
Page 373
३२६ साहित्यदर्पणे
इति नाट्यालंकृतयो नाट्यभूषणहेतवः ॥ १९८।। आशीरिष्टजनाशंसा यथा शाकुन्तले- 'ययातेरिव शर्मिष्ठा पत्युर्बहुमता भव। पुत्रं त्वमपि सम्राजं सेव पूरुमवास्ुहि ।।' आक्रन्दः अलपितं शुचा। यथा वेण्याम्-'कश्चुकी-हा देवि कुन्ति, राजभवनपताके-' इत्यादि। कपटं मायया यत्र रूपमन्यद्विभाव्यते॥ १९९॥ यथा कुलपत्यङ्गें- 'मृगरूपं परित्यज्य विधाय कपटं वपुः । नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ।।' अक्षमा सा परिभवः स्वल्पोऽपि न विषह्यते। यथा शाकुन्तले-'राजा-भोः सत्यवादिन, अभ्युपगतं ताव- दस्माभिः। कि पुनरिमामतिसंधाय लभ्यते। शार्ङ्गरवः-विनि- पातः- इत्यादि। गर्वोऽवलेपजं वाक्यं यथा तत्रैव-'राजा-ममापि नाम सत्त्वैरभिभूयन्ते गृहाः।' कार्यस्यारम्भ उद्यमः ॥ २०० ॥ यथा कुम्भाङ्के-'रावण :- पश्यामि शोकविवशोऽन्तकमेव तावत्'। अलंकृतिपदस्य योगार्थमाह-नाट्यभूषणहेतव इति। इष्टजनस्य बन्धोराशंसा अभिमतप्राप्तीच्छा। सम्राजं राजसमूहस्य शास्तारम्। सेव शर्मिष्ठेव। अन्न कण्वस्य शकुन्तलाया अभीष्टलाभेच्छा। विभाव्यते प्रकाश्यते। तेन मारीचेन। अक्षमेति। स्वल्पस्यापि परिभवस्यासहनमित्यर्थः । 'भोः-' इत्यादि '-लभ्यते' इत्यन्तं दुष्यन्त- वचनम्। शार्ङरवः कण्वशिष्यः । आह इति शेषः । 'विनिपातः' इति 'लभ्यते' इत्यनेनान्वेति । अत्र राजकृतस्याल्पस्यापि परिभवस्य शार्गरवेणासहनम्। अवलेप- जमहंकारजन्यम्। सत्त्वैः प्राणिभिः। पश्यामीति । अत्र समरोदमः सूचितः। 1 अतिसंधायेति। अतिसंधाय वश्चयित्वा॥ १. 'नाभिप्रसह्यते' क-ख.
Page 374
षछ्ठः परिच्छेदः । ३२७
ग्रहणं गुणवत्कार्यहेतोराश्रय उच्यते। यथा इति। उत्प्रासनं तूपहासो योऽसाधौ साधुमानिनि ॥ २०१॥ यथा शाकुन्तले-'शार्ङ्गरवः-राजनू, अथ पुनः पूर्ववृत्तान्तमन्य- सङ्काद्विस्मृतो भवान्। तत्कथमधर्मभीरोर्दारपरित्याग :- ' इत्यादि। आकाङ्वा रमणीयत्वाद्वस्तुनो या स्पृहा तु सा। यथा तत्रैव-'राजा- चारुणा स्फुरितेनायमपरिक्षतकोमलः। पिपासतो ममानुज्ञां ददातीव प्रियाधरः ॥' अधिक्षेपवच:कारी क्षोभ: प्रोक्त: स एव तु ॥ २०२ ॥ यथा- 'त्वया तपखिविचाण्डाल प्रच्छन्नवधवर्तिना। न केवलं हतो वाली स्वात्मा च परलोकतः ॥' मोहावधीरितार्थस्य पश्चात्तापः स एव तु। यथानुतापाङ्के-'राम :- किं देव्या न विचुम्बितोऽस्मि बहुशो मिथ्याभिशप्तस्तदा' इति। उपपत्तिर्मता हेतोरुपन्यासोऽर्थसिद्धये॥ २०३॥ गुणवदिति। उत्कृष्टेत्यर्थः । राममेवेति । अत्र विभीषणस्य स्वराज्यप्राप्तिरूपो- त्कृष्टकार्यस्य हेतुः श्रीरामाश्रयः। आत्मानं साधुं मन्यते साधुं साधुमानी तस्मिन्। अथ पुनरिति वितर्के। पूर्ववृत्तान्तं शकुन्तलाया गान्धर्वविवाहरूपम्। अन्यसङ्गाद्- भार्यान्तरसंसर्गात्। तत्कथमिति। अन्यथा कथमित्यर्थः। अपरिक्षतो नायके- नादष्टः ।अत एव कोमलः । अधिक्षेपवचो भर्त्सनवाक्यम्। क्षोभश्चित्तव्यथा, स एव क्षोभनामालंकार एव। प्रच्छन्नवधवर्तिना अलक्षितहिंसाकारिणा। मोहेनावधीरित- स्यावज्ञातस्य अर्थस्य प्रयोजनस्य। स एव पश्चात्तापालंकार एव। देव्या सीतया। मिथ्याभिशस्तो मिथ्यादत्तपरिवादः । अत्र मोहेनावधीरिते चुम्बनकार्ये पश्चात्तापः।
- मोहेति। नाय्यशास्रेऽप्युक्तम्-'अकार्य सहसा कृत्वा कृत्वा कार्यमथापि वा। संतापो मनसो यस्तु पश्चात्तापः स कीर्तितः ।।' इति॥
Page 375
३२८ साहित्यदर्पणे
यथा वध्यशिलायाम्- 'म्रियते ्रियमाणे या त्वयि जीवति जीवति। तां यदीच्छसि जीवन्तीं रक्षात्मानं ममासुभिः॥' आशंसनं सादाशंसा यथा शमशाने-'माधवः- तैत्पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम्' इति। प्तिज्ञाध्यवसायक: । यथा मम प्रभावत्याम्-'चज्रनाभ :- अस्य वक्षः क्षणेनैव निर्मथ्य गदयानया। लीलयोन्मूलयाम्येषे भुवनद्वयमद्य वः॥।' विसर्पो यत्समारब्धं कर्मानिष्टफलप्रदम् ॥ २०४॥ यथा वेण्याम्- 'एकस्य तावत्पाकोऽयम्-' इत्यादि। कार्यदर्शनमुलेख: यथा शाकुन्तले-राजानं प्रति 'तापसौ-समिदाहरणाय प्रस्थि- तावावाम्। इह चासमद्गुरोः साधिदैवत इव शकुन्तलयानुमालिनीतीर- माश्रमो दृश्यते। न चेदन्य(था) कार्यातिपातः, प्रविश्य गृह्यतामतिथि- सत्कारः' इति।
प्रियत इति। अत्र तस्या जीवनहेतुस्तव शरीररक्षणम्। आशंसनमिति। अन्न स्वस्याभीष्टलाभेच्छा। आशीरलंकारे तु बन्धुजनस्येति भेदः । तस्या मालत्याः । कार्यस्य कर्तव्यलेन निर्देशः प्रतिज्ञा। एकस्य द्रौपदीकेशग्रहस्य परिपाकः फलमयं राजसमूहृक्षयरूपः । द्वितीये द्रोणसंबन्धिनि निःशेषीकर्तुमारब्धा निःशेषिताः। अस्म- दुरोः कण्वस्य। अनुमालिनीतीरं मालिन्याख्यनदीतीरे। न चेदिति। यद्यावां समिदाहरणाय न प्रस्थितौ अन्यथा तदा कार्यस्य होमस्यातिपातोऽनुपपत्तिः।
- तदिति। 'संभूयेव सुखानि चेतसि परं भूमानमातन्वते यत्रालोकपथावता- रिणि रति प्रस्तौति नेत्रोत्सवः । यद्वालेन्दुकलोच्चय।दवचितैः सारैरिवोत्पादितं-' इति तत्पादत्रयी।। 2. न चेदिति। 'न चेदन्यकार्यातिपातः' इति पाठे तु सुखेन ग्रन्थयोजना। स एव पाठः सांप्रतमुपलभ्यते॥ १. 'उत्' क. २, 'एव' घ. ३. 'ग्रहण' घ.
Page 376
पष्ठः परिच्छेदः । ३२९ उत्तेजनमितीप्यते। स्वकार्यसिद्धयेऽन्यस्य प्रेरणाय कठोरवाकू॥ २०५॥ यथा- 'इन्द्रंजिच्चण्डवीयोडसि नान्नैव वलवानसि। धिग्धित्रप्रच्छन्नरूपेण युध्यसेस्मद्याकुल: ।।' भर्त्सना तु परीवादो यथा सुन्दराके-'दुर्योधन :- धिग्धिक् सूत, किं कृतवानसि। वैत्सस्य मे प्रकृतिदुर्ललितस्य पापः पापं विधास्यति- इत्यादि। नीतिः शास्त्रेण वर्तनम्। यथा शाकुन्तले-'दुष्यन्तः-विनीतवेषप्रवेश्यानि तपोवनानि।' इति। उक्तस्यार्थस्य यन्तु स्यादुत्कीर्तनमनेकधा ॥२०६॥ उपालम्भविशेषेण तत्स्यादर्थविशेषणम्। यथा शाकुन्तले राजानं प्रति 'शार्ङ्गरव :- आः, कथमिदं नाम। किमुपन्यस्तमिति। ननु भवानेव नितरां लोकवृत्तान्तनिष्णातः । सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते। अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ।।' प्रेरणाय प्रवृत्तये। नाम्नैव न तु कर्मणा। अत्र लक्ष्मणेन इन्द्रजिद्वधाय प्रकाशयुद्धे तस्य वर्तनम्। प्रकृत्या सवभावेन दुर्ललितस्य दुर्विलसितस्य। पापो दुष्कर्मा। पापम- निष्टम्। शास्त्रेण। शास्त्रानुसारेण। वर्तनं कर्मानुष्ठानम्। उत्कीर्तनं सूचनम्। उपालम्भ- विशेषेण प्रतिकूलोक्तिखण्डनेन । क्वचित् 'उपालम्भस्वरूपेण' इति पाठः । आ: कथमिदं नामेति। उक्तिः इति शेषः । लोकवृत्तान्तनिष्णातः लोकचरित- विज्ञः । ज्ञातिकुलैकसंश्रयां पित्रादिगृहमात्रवर्तिनीम् । अन्यथा भर्तृमतीमुपपति- युक्ताम्। यद्वा सतीमपि अन्यथा असतीं विशङ्कते। अत उक्तदोषात्। परिणेतुः पत्युः। अत्र किमिदमुपन्यस्तमिति राजः प्रतिकूलोक्तिखण्डनेन 'आः कथमिदम्- इत्यादि- 1. वत्सस्येति। अवशिष्टांशस्तु-'समक्षमुदायुधोडसौ। अस्मिन्निवारयसि किं व्यव- सायिनं मां क्रोधो न नाम करुणा न च तेऽस्ति लज्जा ॥I' इति। असौ भीमः॥
Page 377
३३० साहित्यदर्पणे
प्रोत्साहनं स्यादुत्साहगिरा कस्यापि योजनम् ॥२०७ ॥ यथा बालरामायणे- 'कालरात्रिकरालेयं स्त्रीति किं विचिकित्ससि। तज्जगत्रितयं त्रातुं तात ताडय ताडकाम्।।' साहाथ्यं संकटे यत्स्यात्सानुकूल्यं परस्य च। यथा वेण्याम्-कृपं प्रति 'अश्वत्थामा-त्वमपि तावद्राज्ञः पाश्वे- वर्तीं भव। कृप :- वाञ्छाम्यहमद्य प्रतिकर्तुम्-' इत्यादि। अभिमान: स एव स्यात् यथा तत्रैव-'दुर्योधन :- मातः किमप्यसदशं कृपणं वचस्ते' इत्यादि। प्रश्रयादनुवर्तनम्॥२०८॥ अनुवृत्तिर् यथा शाकुन्तले-'राजा-(शकुन्तलां प्रति ।) अथि, तपो वर्धते। अनुसूया-दाणिं अदिधिविसेसलाहेण' इत्यादि। भूतकार्याख्यानमुत्कीर्तनं मतम्। यथा बालरामायणे- 'अत्रासीत्फणिपाशबन्धनविविः शत्त्या भवदेवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः ।' इत्यादि। वाक्यत्रयेण 'तदिदानीमापन्नसत्त्वेयं ग्रृह्यतां सहधर्मचरणाय' इति खोक्तोऽर्थः शार्ङ्गरवेण मुहुः सूचितः । विचिकित्ससि वध्या न वेति संदेहाश्रयो भवसि। यद्वा घृणी भवसि। तात इति सप्रेमसंबोधनम्। आनुकूल्यमनुकूलाचरणम्। स एव अभिमानालंकार एव। कृपणं क्षुद्रम्। अत्र मातुराक्षेपेणाहंकारः प्रतीयते। प्रश्रया- द्विनयात्। अनुवृत्तिः प्रत्युत्तरादिना सत्कारः । दाणि इति। 'इदानीमतिथिविशेष- लाभेन' इति संस्कृतम्। भवह्वरे लक्ष्मणे। अत्र सीतां प्रति भूतकार्ये श्रीरामेणा- ख्यातम्। सवयं याचनं यथा-'भो लङ्केश्वर दीयतां जनकजां रामः स्यं याचते' 1. मातरिति। चरमपादत्रयी तु-'सुक्षत्रिया क् भवती क्व च दीनतैषा। निर्व- त्सले सुतशतस्य विपत्तिमेतां त्वं नानुचिन्तयसि, रक्षसि मामयोग्यम् ।।' इति ॥ 2. अत्रेति। उत्तरार्ध तु-'दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोंकान्तरं लम्भितः केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ॥' इति॥
Page 378
षष्ठः परिच्छेदः । ३३१
याच्ा तु कापि याञ्चा या स्वयं दृतमुखेन वा॥ २०९॥ यथा- 'अद्यापि देहि वैदेहीं दयालुस्त्वयि राघवः । शिरोभि: कन्दुकक्रीडां किं कारयसि वानरान् ।।' परिहार इति प्रोक्त: कृतानुचितमार्जनम। यथा- 'प्राणप्रयाणदुःखार्त उक्तवानस्म्यनक्षरम्। तत्क्षमखव विभो, किं च सुग्रीवस्ते समर्पितः ॥' अवधीरितकर्तव्यकथनं तु निवेदनम् ॥ २१०॥ यथा राघवाभ्युदये-'लक्ष्मणः-आर्य, समुद्राभ्यर्थनया गन्तुमु- द्यतोऽसि । तत्किमेतत्।' प्रवर्तनं तु कार्यस्य यत्स्यात्साधुप्रवर्तनम्। यथा वेण्याम्-'राजा-कञ्चुकिन्, देवस्य देवकीनन्दनस्य बहु- मानाद्वत्सस्य भीमसेनस्य विजयमङ्गलाय प्रवर्तन्तां तत्रोचिताः समा- रम्भा: ।' आख्यानं पूर्ववृत्तोक्तिर यथा तत्रैव- 'देशः सोडयमरातिशोणितजलैर्यस्मिन्हदाः पूरिताः' इत्यादि । युक्तिरर्थावधारणम् ॥ २११॥ यथा तत्रैव- 'यदि समरमपास्य नास्ति मृत्यो- र्भयमिति युक्तमितोऽन्यतः प्रयातुम्।
इत्यादि। दूतमुखेन याचनमाह-अद्यापीति। रावणं प्रत्यङ्गदस्योक्तिरियम्। कृतं यदनुचितं कम तस्य मार्जनं तज्जन्यापराधक्षमापनम्। प्राणेति। विभो श्रीराम । अवधीरितति। अवज्ञातेत्यर्थः । अर्थस्य प्रयोजनस्य अवधारणं कर्तव्यतवनिश्रयः। 1. देश इति। पादत्रयं तु-'क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्ये- वाहितशस्त्रघस्मरगुरूण्यस्त्राणि भास्वन्ति मे यद्रामेण कृतं तदेव कुरुते द्रौणायनिः क्रोधनः ॥' इति ॥ १. 'उपचिताः' घ.
Page 379
३३२ साहित्यदर्पणे
अथ मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वम्। प्रहर्ष: प्रमदाधिक्यं यथा शाकुन्तले-'राजा-तत्किमिदानीमात्मानं पूर्णमनोरथं नाभिनन्दामि।' शिक्षा स्यादुपदेशनम्। यथा तत्रैव-'सहि, ण जुत्तं अस्समवासिणो जणस्स अकिदस- क्वारं अदिधिविसेसं उज्झिअ सच्छन्ददो गमनम्।' एषां च लक्षण नाट्यालंकाराणां सामान्यत एकरूपत्वेऽपि भेदेन व्यपदेशो गैड्डुलिकाप्रवाहेण। एषु च केषांचिद्गुणालंकारभावसंध्यङ्ग- विशेषान्तर्भावेऽपि नाटके प्रयत्नतः कर्तव्यत्वात्तद्विशेषोक्तिः । एतानि च- 'पञ्चसंधि चतुर्वृत्ति चतुःषष्ट्यङ्गसंयुतम्। षद्विंशल्लक्षणोपेतमेलंकारोपशोभितम्।। महारसं महाभोगमुदात्तरचनान्वितम्। महापुरुषसेत्कारं साध्वाचारं जनप्रियम् ।
इतः समरातू। अत्र समरः कर्तव्य एवेत्यर्थावधारणम्। सहि इति । 'सखि, न युक्तमाश्रमवासिनो जनस्याकृतसत्कारमतिथिविशेषमुज्झिला सच्छन्दतो गमनम्' इति संस्कृतम्। अत्र शकुन्तलां प्रति तत्सख्या उपदेशोक्तिरियम्। ननु भूषणादीनि यानि लक्षणान्युक्तानि तानि नाट्यभूषणहेतुतरूपसामान्यधर्मयोगेन नाट्यालंकार- मध्य एवान्तर्भवितुमर्हन्ति, तदेषां भिन्नलेनोपादानमनतिप्रयोजनमित्यभिप्रायेणाह- एषां चेति। गड्डलिकाप्रवाहेण गतानुगतिकन्यायेन। ननु भूषणस्य यथायथं गुणेऽलंकारे च, शोभायाः श्लेषे, विशेषणस्य विशेषोत्त्यलंकारे, एवमाशीरादिनाट्या- लंकाराणामाशीराययलंकारेषु, एवं युक्त्यादीनां युक्त्यादिसंध्यङ्गेषु चान्तर्भावे सिद्धे पुनरुपादानमनर्थकमित्यत आह-एषु चेति। लक्षणनाव्यालंकारेष्वित्यर्थः । एता- नि लक्षणादीनि 'नाटकेऽवश्यंकर्तव्यानि' इत्यग्रेणान्वयः। भोगो भावादिः सहायोवा। रचनाया उदात्ततं विलासर्ध्यादियु क्तत्वम्। महापुरुषस्य धीरोदात्तनायकस्य सत्कारो
- प्रमदेति। प्रमदस्य आनन्दस्य आधिक्यं तारुण्यावस्था ॥
१. 'गडुरिका' इति क्वाचित्क: पाठ :. २. 'गुणालंकारभूषितम्' इति नाव्यशास्त्रस्थ: पाठ :. ३. 'वचन' इति नाव्यशास्त्रस्थः पाठ :. 8. 'संचारम्' इति नाव्यशासत्स्थ: पाठ:
Page 380
षष्ठः परिच्छेदः । ३३३
सुश्िष्टसंधियोगं च सुप्रयोगं सुखाश्रयम्। मृदुशव्दाभिधानं च कविः कुर्यात्तु नाटकम्।' इति मुनिनोक्तत्वान्नाटकेऽवश्यं कर्तव्यान्येव। वीथ्यङ्गानि वक्ष्यन्ते। लास्याङ्गान्याह- गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका ॥ २१२॥। प्रच्छेदकस्त्रिगूढं च सैन्धवाख्यं द्विगूढकम्। उत्तमोत्तमकं चान्यदुक्त्तप्रत्युक्तमेव च ।। २१३ ।। लासये दशविधं ह्येतद्ङ्गमुक्तं मनीपिभिः। तत्र- त्रीभाण्डं पुरस्कृत्योपविष्टस्यासने पुरः ॥ २१४॥ शुष्कं गानं गेयपदं यथा-गौरीगृहे वीणां वादयन्ती 'मलयवती- उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि। अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन ।।' स्थितपाठ्यं तदुच्यते। मदनोत्तापिता यत्र पठति प्राकृतं स्थिता ॥२१५॥ अभिनवगुप्तपादास्त्वाहुः-'उपलक्षणं चैतत् । क्रोघोञ्भ्ान्तस्यापि प्राकृतपठनं स्थितपाठ्यम्' इति। निर्खिलातोद्यरहितं शोकचिन्तान्वितावला। गुणवर्णनं यत्र। साधुरविगीत आचारो वैदिकं कर्म यत्र। तन्रीभाण्डं वीणावाद्यं 1. मृद्विति। इदमेवाभिप्रेत्य षोडशाध्यायोपसंहारे मुनिनोक्तम्-'चेक्रीयते प्रभृति- भिरविकृतैश्च शब्दैर्युक्ता न भान्ति ललिता भरतप्रयोगा: । यज्ञक्रियेव शरवर्मधरैर्ध्ताकतै- वेश्या द्विजैरिव कमण्डलुदण्डहस्तैः ॥I' नाटकस्य वैशिष्ट्यमपि मुनिनैकोन विंशाध्याये प्रतिपादितम्-'न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला। न तत्कर्म न वा योगो नाटके यन्न दृश्यते ॥' 2. तत्रीति। अष्टादशाध्याये भरतेनाप्युक्तम्-'आसनेषूपविष्वैर्य त्तत्री भाण्डोपबृंहितम्। गायनैगीयते शुष्कं तद्नेयपदमुच्यते ॥' इति ॥ 3. निखिलेति। उक्तं च भरतेन-'आसीनमासनस्थस्य सर्वतोऽप्यविवर्जितम्। श्रप्रसारितगात्रं च चिन्ताशोकान्वितं च तत् ।।'
१. 'अभिपात' क 'अतिपातं' घ. २. नाव्यशासेर गूढपदस्थाने सर्वत्र मूढपदमुपलभ्यते.
Page 381
३१४ साहित्यदर्पणे
अप्रसाधितगात्रं यदासीनासीनमेव तेत् ॥ २१६ ।। आतोद्यमिश्रितं गेयं छन्दांसि विविधानि च । स्त्री पुंसयोर्विपर्यासचेष्टितं पुष्पगण्डिका । २१७ ॥ अन्यासक्तं पति मत्वा प्रेमविच्छेदमन्युना। धीणापुरःसरं गानं स्त्रियाः पच्छेदको मतः ॥२१८॥ स्त्रीवेषधारिणां पुंसां नाव्यं ल्क्ष्णं त्रिगूढकम्। यथा मालत्याम्-'मकरन्द :- एषोऽस्मि मालती संवृत्तः ।' कश्चन भ्रष्टसंकेत: सुव्यक्तकरणान्वितः ॥ २१९।। प्राकृतं वचनं वक्ति यत्र तत्सैन्धवं मतम्। करणं वीणादिक्रिया। चतुरस्रपदं गीतं मुखग्रतिमुखान्वितम् ॥ २२० ॥ द्विंगूढं रसभावाढ्यमुत्तमोत्तमकं पुनः। कोपप्रसादजमधिक्षेपयुक्तं रसोत्तरम् ।। २२१ ।। हावहेलान्वितं चित्रश्लोकबन्धमनोहरम्। उक्तिप्रत्युक्तिसंयुक्तं सोपालम्भमलीकवत् ॥ २२२ ॥ पुरस्कृत्य गानोपायोपयोगिलेनादृत्य। आतोदं वादित्रम्। अप्रसाधितगात्रमनलं कृतशरीरम्। एतद्वयं क्रियाविशेषणम्। विपर्यासेन वैपरीलेन चेष्टा अभिनयो यत्र गेये ततू। मन्युः शोकः। संकेतस्थाने अनागमने नायको भ्रष्टसंकेतो भवति। चतुर- स्नाणि विदग्धमनोहराणि पदानि यत्र। यद्ा चतुरस्पदं पूर्णसप्तखरम्। मुखप्रति- मुखान्वितम् उक्तिप्रत्युक्तिसहितम्। 'कोपप्रसादजम्' इत्यादिविशेषणपञ्चकमनुषक्तस्य
- स्त्रीति। उक्तं च भरतेन-'नृत्तं तु द्विविधं यत्र गीतमातोदयमेव च। स्त्रियः पुंवच्च चेष्टन्ते सा ज्ञेया पुष्पगण्डिका ॥' इति ॥ 2. वीणेति। नाट्यशास्त्रे तु-'प्रच्छेदकः स विज्ञेयो यत्र चन्द्रातपाहताः । स्त्रियः प्रियेषु सज्जन्ते ह्यपि विप्रियकारिषु ॥' इत्याम्नातम् ॥ 3. स्त्रीवेषेति। मुनिना तु-'अनिष्ठरश्रक्ष्णपदं समवृत्तैरलंकृतम्। नास्यं पुरुषभावाढ्यं त्रिगूढकमुदाहृतम् ॥' इत्युक्तम् ॥ 4. द्विगूढमिति। चतुरस्रपदादिविशेषणत्रयवद् गीतं द्विगूढम्। 5. उत्तमेति। कोपप्रसादजादिविशेषणपञ्चकवद् गीतमुत्तमोत्तमकपदवाच्यम्।।
१. 'अप्रसारित' इति नाव्यशास्त्रस्थः पाठ:, क.ख-ग-पुस्तकस्थश्च. २, तु'घ. ३. 'विपर्यासि' क-ख. ४, 'अन्यासङ्गं' घ.
Page 382
षष्ठः परिच्छेदः । ३३५
विलासान्वितगीतार्थमुक्तप्रत्युक्तमुच्यते। स्पष्टान्युदाहरणानि। एतदेव यदा सर्वैः पताकास्थानकैर्युतम् ।।२२३॥ अङ्गेश्र दशभिर्धीरा महानाटकमूचिरे। एतदेव नाटकम्। यथा-वालरामायणम्। अथ प्रकरणम्- भवेत्प्रकरणे वृत्तं लौकिकं कविकल्पिनम् ॥२२४॥। शङ्गारोडङ्गी नायकस्तु विप्रोऽमात्योऽथवा वणिक। सापायधर्मकामार्थपरो धीरप्रशान्तकः ॥ २२५॥ विनायकं यथा मृच्छकटिकम्। अमात्यनायकं मालतीमाधवम्। वणिङनायकं पुप्पभूषितम्। नायिका कुलजा कापि वेश्या क्वापि द्यं कचित्। तेन भेदास्रयस्तस्य तत्र भेदस्तृतीयकः ॥ २२६ ॥ कितवद्यूतकारादिविटचेटकसंकुलः। कुलस्त्री पुप्पभूषिते। वेश्या तु रङ्गवृत्ते। द्वे अपि मृच्छकटिके। अस्य नाटकप्रकृतित्वाच्छेषं नाटकवत् ।
गीतस्य विशेषणम्। उत्तिप्रत्युक्तिसंयुक्तमिति गीतमित्यनुषज्यते। सोपालम्भं सभत्सनम्। अलीकवत् अप्रियमिव। नाटकमुक्ता प्रकरणमाह-अथेति। वृतं वर्णनीयं नायकचरितम्। लौकिकं लोकचरितमात्रप्रसिद्धम्। अत एव कविकल्पितम्, न तु पुराणादिप्रसिद्धम्। धर्मस्य स्वर्गसाधनत्वेन, कामस्य पुत्रपश्चादिविषयकत्वेन, अर्थस्य भोगसाधनत्वेन सापायलम्। तेन नायिकाभेदेन। तस्य प्रकरणस्य। 'विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम्' इति प्रकरणादौ नाटकधर्मातिदेशान्नाटकस्य
- उक्ेति। उत्तयादिविशेषणचतुष्टयवद् गीतमुक्तप्रत्युक्तम् ॥ 2. भवेदिति। भरतेनाप्युक्तम्-'यत्र कविरात्मबुध्ा वस्तुशरीरं च नायकं चैव। औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्ठुधैज्ञैयम् ।।' इति ॥ 3. नायिकेत्यादि। काव्येन्दुप्रकाशे त्वयमर्थः किंचित्परिष्कृत्योक्त :- 'शुद्धं धून- मिश्रमिति भेदात्तत्रिविधं पुनः । कुलस्त्रीनायिकं शुद्धं गणिकानायिकं परम्॥ प्राधान्य- मुभयोर्यत्र मिश्रं प्रकरणं विदुः ॥' इति। 'तत्र वेश्या प्राकृतं तु कुलजा संस्कृतं वदेत्।' इति कृष्णः ।।
Page 383
३३६ साहित्यदर्पणे
अथ भाण :- भाण: स्ादधूर्तचरितो नानावस्थान्तरात्मकः ॥२२७॥ एकाङ्क एक एवात्र निपुण: पण्डितो विटः। रङ्गे प्रकाशयेत्खेनानुभूतमितरेण वा ॥ २२८ ॥ संबोधनोक्तप्रत्युक्ती कुर्यादाकाशभाषितैः। सूचयेद्वीरशङ्गारौ शौर्यसौभाग्यवर्णनैः ॥ २२९॥ तत्रेतिवृत्तमुत्पाद्यं वृत्ति: प्रायेण भारती। मुखनिर्वहणे संधी लास्याङ्गानि दशापि च ॥ २३० ॥ अत्राकाशभाषितरूपपरवचनमपि स्वयमेवानुवदन्नुत्तरप्रत्युत्तरे कु- र्यात्। श्रृङ्गारवीररसौ च सौभाग्यशौर्यवर्णनया सूचयेत्। प्रायेण भारती। क्वापि कैशिक्यपि वृत्तिर्भवति। लास्याङ्गानि गेयपदादीनि। उदाहरणं लीलामधुकरः । अथ व्यायोग :- ख्यातेतिवृत्तो व्यायोग: स्वल्पस्त्रीजनसंयुतः । हीनो गर्भविमर्शाभ्यां नरैर्वहुभिराश्रितः ॥ २३१ ॥ एकाङ््श्र भवे्दस्त्रीनिमित्तसमरोदयः। कैशिकीवृत्तिरहितः ग्रख्यातस्तत्र नायक: ॥ २३२ ॥ राजर्षिरथ दिव्यो वा भवेद्धीरोद्धतश्र सः । हास्यशङ्गारशान्तेभ्य इतरेऽत्राङ्गिनो रसाः ॥२३३॥ यथा सौगन्धिकाहरणम्।
प्रकृतितम्। भाणमाह-भाणः स्यादिति। धूर्तस्य नायकस्य चरितं यत्र सः। कार्यसाधर्म्यमवस्था। निरुक्तप्रारम्भादिपश्चविधावस्थातिरिक्तावस्थालाभायान्तरपदम्। शौर्यवर्णनयात्र वीरं सौभाग्यवर्णनया शङ्गारं सूचयेदित्यन्वयः। तत्र भाणे। इतिवृत्तं वर्णनीयं वस्तु। उत्पाद्यं कविभि: कल्पनीयम्। न तु पुराणादिप्रसिद्धम्। व्यायोग- माह-ख्यातेतिवृत्त इति। ख्यातं पुराणादिप्रसिद्धमितिवृतं यत्र। गर्भविमशौ 1. भाण इति। भारतीवृत्तिप्रधानत्वाद् भाण इति धनिकः ॥ 2. व्यायोग इति। व्यायुज्यन्तेडस्मिन्बहवः पुरुषा इति व्यायोगः । 3. अस्त्रीति। अस्त्री निमित्तैश्चात्र संग्राम:। यथा परशुरामेण पितृवधकोपात्सहस्रा र्जुनवधः कृत इति धनिक: ॥
Page 384
षष्ठः परिच्छेदः । ३३७
अथ समवकार :- वृत्तं समवकारे तु ख्यातं देवासुराश्रयम्। संधयो निर्विमर्शास्तु त्रयोऽङ्कास्तत्र चादिमे॥ २३४॥ संधी द्वावन्त्यतोस्तद्वदेक एको भवेत्पुनः । नायका द्वादशोदात्ताः प्रख्याता देवमानवाः॥२३५॥ फेलं पृथक्पृथक्तेषां वीरमुख्योऽखिलो रसः। वृत्तयो मन्दकैशिक्यो नात्र बिन्दुप्रवेशकौ ॥२३६॥ वीथ्यङ्गानि च तत्र स्युर्यथालाभं त्रयोदश। गायत्र्युष्णिड्ुखान्यत्र च्छन्दांसि विविधानि च ।।२३७।। त्रिशङ्गारस्त्रिकपटः कार्यश्चायं त्रिविद्रवः। वस्तु द्वादशनालीभिर्निष्पाद्यं प्रथमाङ्कगम् ॥ २३८॥ द्वितीयेडङ्के चतसभिर्द्वाभ्यामकके तृतीयके। नौलिका घटिकाद्वयमुच्यते । विन्दुप्रवेशकौ च नाटकोक्त्तावपि नेह विधातव्यौ। तत्र- धर्मार्थकामैस्त्रिविधः शृङ्गारः, कपटः पुनः॥२३९॥ स्वाभाविक: कृत्रिमश्च दैवजो, विद्रवः पुनः। अचेतनैश्रेतनैश् चेतनाचेतनैः कृतः ॥२४० ॥ तत्र शास्त्राविरोधेन कृतो धर्मशृङ्गारः। अर्थलाभार्थकल्पितोऽर्थ- शृङ्गारः । प्रहसनश्रङ्गारः कामशृङ्गारः । तत्र कामशृङ्गारः प्रथमाक्क
तृतीयचतुर्थसंधी। स नायकः । अत्र व्यायोगे। समवकारमाह-वृतमिति। आदिमे प्रथमाङ्के द्वौ मुखप्रतिमुखाख्यौ। अन्त्ययोर्द्वितीयतृतीयाङ्कयोरेक एक: संधि- रित्यन्वयः । उदात्ता धीरोदात्ताः । देवमानवाः दिव्यादिव्याः । देवाश्र दानवाक्ष 'देवदानवाः' इत्यपि क्वचित्पाठः। तेषां नायकानाम्। मन्दकैशिक्यः कैशिकीहीनाः। अत्र समवकारे। विद्रवो गर्भसंध्यङ्गम्, स च शङ्काभयत्रासकृतः संत्रमः नाटक-
- फलमिति। यथा पयोनिधिमन्थने वासुदेवादीनां लक्ष्म्यादिलाभ इति धनिक: ॥ 2. प्रथमाङ्क इति। धनिकस्तु-'प्रत्यक्कं च यथासंख्यं कपटाः। तथा नगरोपरोध- युद्धवार्ताश्यादिविद्रवाणां मध्ये एवैको विद्रवः कार्यः । धर्मार्थकामशह्गाराणामेकैकः श्रक्गार:
१. 'नाडिका' क. २. 'दूयोरन्तयोः' इति पुस्तकान्तरे पाठ :. सा० द०२९
Page 385
३३८ साहित्यदर्पणे
एव। अन्ययोस्तु न नियम इत्याहुः । चेतनाचेतना गजादयः । सम- वकीर्यन्ते बहवोर्ऽर्था अस्मिन्निति समवकारः । यथा-समुद्रमथनम् । अथ डिम :- मायेन्द्रजालसंग्रामक्रोधोद्धान्तादिचेष्टितैः । उपरागैश्र भूयिष्ठो डिंमः ख्यातेतिवृत्तकः ॥२४१॥ अङ्गी रौद्ररसस्तत्र सर्वेडङ्रानि रसाः पुनः। चत्वारोडङ्ा मता नेह विष्कम्भकप्रवेशकौ ॥ २४२ ॥ नायका देवगन्धर्वयक्षरक्षोमहोरगाः। भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः॥२४३॥ वृत्तय: कैशिकीहीना निर्विमर्शाश्र संधयः । दीप्ता: स्युः षड्साः शान्तहास्यशङ्गारवर्जिताः॥२४४॥ अत्रोदाहरणं च 'त्रिपुरदाहः' इति महर्षिः । अथेहामृग :- ईहामृगो मिश्रवृत्तश्रतुरङ्ग: प्रकीर्तितः । मुखप्रतिमुखे संधी तत्र निर्वहणं तथा॥ २४५॥ नरदिव्यावनियमौ नायकप्रतिनायकौ। प्रकृतित्वादेव विद्रवप्राप्तौ प्रकारत्रयस्यावश्यकत्वार्थमिदं वचनम्। निषिद्धकाले निषिद्धयोषिति कृतः शृङ्गारः शास्त्रविरुद्धस्तदितरो धर्मः शङ्गारः । समवकीर्यन्ते निबध्यन्ते। डिममाह-मायेन्द्रजालेति। इह डिमे। दीप्ता विभावादिसामग्री- बलेन झटिति प्रतीयमानाः । ईहामृगमाह-ईहामृग इति । मिश्रवृत्तः ख्याता- ख्यातेतिवृत्तः । नरदिव्यौ नायकप्रतिनायकाविति। क्रमनिषेधार्थमाह-अनियमा- अत्यङ्कमेव विधातव्यः ।' इति नियममाह। मन्दारमरन्दकृत्तु-'अङ्गास्त्नयस्तत्र चादे मुखप्रतिमुखौ तथा। वस्तुस्वभावदैवारिकृताः स्युः कपटास्रयः ॥ कथामपि निबन्नीया- त्तथा द्वादशनालिकाम्। द्वितीयेSङ्कडपि चतुर्नालिकावधिकां कथाम्॥ पुररोधरणा्यदि निमित्ता विद्रवास्त्रयः तृतीयेडक्के निबद्धव्या कथा चापि द्विनालिका ॥ धर्मार्थकामानु- गुणास्तिस्रः शङ्गाररीतयः ॥' इत्याह ॥ 1. उपेति। उपरागैः सूर्यचन्द्रग्रहणैः । चकारेण निर्घातोल्कापातादयो गृह्यन्ते। 2. डिम इति। 'डिम संघाते' इति नायकसंधातव्यापारात्मकत्वाड्डिम इति धनिकः॥ 3. महर्षिरिति। तथाच तद्वाक्यम्-'इदं त्रिपुरदाहे तु लक्षणं ब्रह्मणोदितम्। तत- स्त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः ॥' इति ॥ १. 'अनियतौ' क.
Page 386
षष्ठः परिच्छेदः। ३३९ ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत् ॥२४६ ॥ दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः। शङ्गाराभासमप्यस्य किंचित्किंचित्प्रदर्शयेत् ।।२४७।। पताकानायका दिव्या मर्त्या वापि दशोदताः। युद्धमानीय संरम्भं परं व्याजान्निवर्तते ॥ २४८॥ महात्मानो वधपाप्ता अपि वव्याः स्युरत्र नो। एकाङ्को देव एवात्र नेतेत्याह्गुः परे पुनः ॥ २४९ ॥ दिव्यस्त्रीहेतुकं युद्धं नायकाः पडितीतरे। मिश्रं ख्याताख्यातम्। अन्यः प्रतिनायकः। पताकानायकास्तु नायकप्रतिनायकयोमिलिता दश। नायको मृगवदलभ्यां नायिकामत्र ईहते वाञ्छतीतीहामृगः । यथा-कुसुमशेखरविजयादिः । अथाङ्क :- उत्सष्टिकाङ्क एकाङ्को नेतारः प्राकृता नराः ॥२५० ॥ रसोडत्र करुण: स्थायी बह्डुस्त्रीपरिदेवितम्। प्रेख्यातमितिवृत्तं च कविर्बुद्ध्या अपश्चयेत् ।॥ २५१ ॥ भाणवत्संधिवृत्यङ्गान्यस्मिञ्जयपराजयौ। युद्धं च वाचा कर्तव्यं निर्वेदवचनं बहु॥ २५२ ॥
विति। यद्वा क्वचिद्व्ययोः क्वचिन्नरयोर्वां प्राह्यर्थमिदम्। अन्यः ग्रतिनायकः । गूढभावाद् गोपनेन। अपहारो बलात्कारः । आदिना छलादिपरिग्रहः । परं प्रति- नायकम्। संरम्भमानीय क्रोधं प्रापय्य। स्मितस्य नायकस्य व्याजात् कार्यान्तर- च्छलाद् युद्धं निवर्तत इत्यर्थः । 'निवर्तयेत्' इति पाठे परं युद्धस्थानमानीय संरम्भं निवर्तयेदित्यर्थः। महात्मान इति। प्रतिनायकानां वधे पुराणादिप्रसिद्धेऽपि स न वर्णनीय इति भावः।अत्र ईहामृगे। अद्कमाह-उत्सृष्टिकाङ्क इति। अङ्क- स्यैव नामान्तरमेतत्। प्राकृताः नातिकोविदाः। स्थायी स्थिरतरः। प्रपश्नयेदहुली- कुर्यात्। भाणवदिति। भाणे यथा मुखनिर्वहणे संधी, कैशिकीभारत्यौ वृत्ती, दश लास्याङ्गानि तथात्रापीत्यर्थः । अस्मिन्नङ्के जयपराजयौ वर्णनीयौ। इमं च अह्गं च।
- प्रख्यातमिति। कचिदप्रख्यातमपि। तदुक्तं नाट्यशास्त्रकृता-'प्रख्यातवस्तुवि- षयस्त्वप्रख्यातः कद/चिदेव स्यात्। द्विव्यपुरुषैवियुक्तः शेषैरन्यैर्भवेत्पुभिः ॥' इति ॥
Page 387
३४० साहित्यदर्पणे
नम्' आहुः। अन्ये तु-'उत्कान्ता विलोमरूपा सृष्टिर्यत्रेत्युत्सष्टि- काङ्कः।' यथा-शर्मिष्ठाययातिः । अथ वीथी- वीथ्यामेको भवेदङ्क: कश्विदेकोऽत्र कल्प्यते। आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः ॥२५३ ॥ सूचयेद्दूरिशङ्गारं किंचिदन्यान्रसान्प्रति। मुखनिर्वहणे संधी अर्थप्रकृतयोऽखिलाः॥ २५४॥ कश्चिदुत्तमो मध्यमोऽमो वा । शृङ्गारबहुलत्वाच्चास्याः कैशि- कीवृत्तिबहुलत्वम्। अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिण:। उद्धात्य(त)कावलगिते प्रपञ्चस्त्रिगतं छलम् ॥ २५५॥ वाक्केल्यधिबले गण्डमवस्यन्दितनालिके। असत्प्रलापव्याहारमृद(मार्द)वानि च तानि तु ॥ २५६ ॥ तत्रोद्धात्य(त)कावलगिते प्रस्तावनाप्रस्तावे सोदाहरणं लक्षिते। मिथो वाक्यमसद्भूतं प्रपश्चो हास्यकृन्मतः । यथा विक्रमोर्वश्याम्-वलभीस्थविदूषकचेट्योरन्योन्यवचनम्। त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः ॥२५७॥ यथा तत्रैव-'राजा- सर्वक्षितिभृतां नाथ, दृष्टा सर्वाङ्गसुन्दरी। रामा रम्ये वनान्तेऽस्मिन्मया विरहिता त्वया॥ (नेपथ्ये तथैव प्रतिशब्दः ) राजा-कथं दृष्टेत्याह।'
वीथीमाह-वीथ्यामिति। एकोऽद्वितीयः। नायक इति शेषः । कल्प्यते कल्पयिता वर्ण्यते। अर्थप्रकृतयो बीजादयः पञ्च। अस्याः वीथ्याः । प्रपश्चमाह-मिथ इति। परस्परमित्यर्थः । असद्गूतं मिथ्यासरूपम्। वलभी गृहावस्थितकाष्ठविशेषः । त्रिग- तमाह-त्रिगतमिति। 'सर्वक्षितिभृतां नाथ' इति प्रश्नपक्षे पर्वतः । उत्तरपक्षे राजा संबोध्यः । राजात्र पुरूरवाः । 'रामा उर्वशी मया विरहिता त्वया दृष्टा' इति
- यथेति। यथा वा कर्पूरमअर्या भैरवानन्द :- 'रण्डा चण्डा दिक्खिदा धम्म- दारा मज्जं मंसं पिज्जए खज्जए अ।भिक्खा भोज्ं चम्मखण्डं च सेज्जा कोलो धम्मो कस्स णो होइ रम्मो ॥2 इति ॥
Page 388
षछ्ठः परिच्छेदः । ३४१
अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम्। 'नटादित्रितय विषयमेवेदम्' इति कश्चित्। प्रियामैरप्रियैर्वाक्यैर्विलोभ्य च्छलना छलम्। यथा वेण्याम्-'भीमार्जुनौ- कर्ता दूतच्छलानां, जतुमयशरणोद्दीपनः, सोऽभिमानी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम्। कृष्णाकेशोत्तरीयव्यपनयनपट्ठः, पाण्डवा यस्य दासाः क्कास्ते दुर्योधनोसौ कथयत, न रुपा द्रष्टुमभ्यागतौ सवः।।' अन्ये त्वाहुश्छलं किंचित्कार्यमुद्दिश्य कस्यचित् ॥२५८॥ उदीर्यते यद्वचनं वश्चनाहास्यरोषकृत्। वाक्केलिर्हास्यसंबन्धो द्वित्रिप्रत्युक्तितो भवेत् ॥२५९ ॥ द्वित्रीत्युपलक्षणम्। यथा- 'मिक्षो मांसनिषेवणं प्रकुरुषे, किं तेन मदं विना मद्ं चापि तव प्रियं, प्रियमहो वाराङ्गनाभि: सह। वेश्याप्यर्थरुचिः कुतस्तव धनं, द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽपि भवतो, नष्टस्य कान्या गतिः ।' केचित्-'प्रक्रान्तवाक्यस्य साकाङ्कस्यैव निवृत्तिर्वाककेलिः' इत्याहुः। अन्ये च 'अनेकस्य प्रश्नस्यैकमुत्तरम्। अन्योन्यवाक्याधिक्योक्ति: स्पर्धयाधिबलं मतम् । प्रश्नः। 'तया विरहिता मया दृष्टा' इत्युत्तरम्। त्रिगतपदव्युत्पत्तिमाह-नटा- दीति। आदिना नटीप्रतिनटयोरग्रहणम्। इदं त्रिगतम्। छलमाह-प्रियाभैरिति। प्रियतुल्यैरित्यर्थः । छलना वश्चना। जतुमयशरणोद्दीपनः जतुमयगरहदाहकः । अङ्ग- राजस्य कर्णस्य। कृष्णा द्रौपदी तस्याः केशोत्तरीययोराकर्षणे पट्ठः। खो भवावः। 'आवाम्' इति शेषः । वाक्केलिमाह-वाक्केलिरिति। द्वे वा तिस्रो वा प्रत्युक्त- यस्ताभ्यः। समासप्रत्ययानामनित्यलादत्र डप्रत्ययाभावः । अनेकवाक्यस्यैकमुत्तर- मिति वाक्केलिरित्याहुरित्यन्वयः। अधिबलमाह-अन्योन्येति। वाक्याधिक्येन 1. कश्चिदिति। तथा चाह दशरूपककृत्-'श्रतिसाम्यादनेकार्थयोजनं त्रिगतं त्विह। नटादित्रितयालापः पूर्वरक्के तदिष्यते ॥' इति॥ 2. सव इति। असः कर्तरि लट॥
Page 389
३४२ साहित्यदर्पणे
यथा मम प्रभावत्याम्-'वज्रनाभ :- अस्य वक्षः क्षणेनैव निर्मथ्य गदयानया। लीलयोन्मूलयाम्येष भुवनद्यमद्य वः ॥ प्रदयुम्न :- अरेरे असुरापसद, अलममुना बहुप्रलापेन। मम खलु अद्य प्रचण्डभुजदण्डसमर्पितोरु- कोदण्डनिर्गलितकाण्डसमूहपातैः। आस्तां समस्तदितिजक्षतजोक्षितेयं क्षोणि: क्षणेन पिशिताशनलोभनीया ।।' गण्डं प्रस्तुतसंबन्धि भिन्नार्थ सत्वरं वचः ॥२६० ॥ यथा वेण्याम्-'राजा- अध्यासितुं तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु ममोरुयुग्मम् ।।' अनन्तरम् '(प्रविश्य) कञ्चुकी-देव, भमं भअं-' इत्यादि। अत्र रथकेतनभङ्गार्थ वचनमूरुभङ्गार्थे संबद्धे संबद्धम्। व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत्। यथा छलितरामे-'सीता-जाद, कालं क्खु उआज्झाएण गन्तव्वम्, तर्हि सो राआ विणएण पणयिदव्वो। लवः-अथ किमा- वाभ्यां राजोपजीविभ्यां भवितव्यम्। सीता-जाद, सो क्खु तुह्ाणं पिदा। लव :- किमावयो रघुपतिः पिता। सीता-(साशङ्म्।) मा अण्णघा संकद्धम्। ण क्खु तुहाणम्, सअलाए ज्जेव पुहवीएत्ति।'
वाक्यातिशयेनोक्तिः । अस्य प्रद्युम्नस्य। वो देवानाम्। गण्डामाह-प्रस्तुतसंबन्धि प्रस्तुतार्थसंबद्धम्। पर्याप्तं समर्थम्। संबद्धे प्रस्तुते। अवस्यन्दितमाह-व्याख्या- नमिति। खरसोक्तस्य 'वाक्यस्य' इति शेषः । जाद इति। 'पुत्र, कल्यं खलु उपाध्यायेन गन्तव्यम्, तत्र स राजा विनयेन पणायितव्यः ।' (इति संस्कृतम्। ) 'पुत्र, स खल युष्माकं पिता।' इति संस्कृतम्। 'मा अन्यथा शङ्कध्वम्। न खलु युष्माकम्। सकलाया एव पृथिव्या इति।' इति संस्कृतम्। अत्र सीतया युवयोर्जनकः श्रीराम इत्यभिप्रायेणोंकं वाक्यम्। 'पालकः' इत्यन्यथा व्याख्यातम्। नालिकामाह-
- अध्यासितमिति। एतत्पूर्वार्ध तु-'लोलांशुकस्य पवनाकुलितांशुकान्तं त्वदृष्टि हारि मम लोचनबान्धवस्य ।' इति।
Page 390
षष्ठः परिच्छेदः । ३४३
प्रहेलिकैव हासेन युक्ता भवति नासिका ॥ २६१॥ संवरणकार्युत्तरं प्रहेलिका । यथा रत्नावल्याम्-'सुसंगता-सहि, जस्स किदे तुमं आअदा सो इध ज्जेव चिट्ठदि। सागरिका-कस्स किदे अहं आअदा। सुसंगता-णं क्खु चित्तफलअस्स ।' अत्र त्वं राज्ञः कृते आगतेत्यर्थः संवृत्तः । असत्प्रलापो यद्वाक्यमसंबद्धं तथोत्तरम्। अगृह्नतोऽपि मूर्खस्य पुरो यच्च हितं वचः ॥ २६२ ॥ तत्रादं यथा मम प्रभावत्याम्-'प्रद्युम्न :- (सहकारवह्ीमवलोक्य सानन्दम् ।) अहो, कथमिहैव अलिकुलमझ्जुलकेशी परिमलबहला रसावहा तन्वी। किसलयपेशलपाणिः कोकिलकलभाषिणी प्रियतमा मे ॥' एवमसंबद्धोत्तरेडपि। तृतीयं यथा वेण्यां दुर्योघनं प्रति गान्धारी- वाक्यम्। व्याहारो यत्परस्यार्थे हास्यक्षोभकरं वच: । यथा मालविकाभिमित्रे-'(लास्यप्रयोगावसाने मालविका निर्गन्तुमि- च्छति।) विदूषक :- मा दाव उवदेसमुद्धा गमिस्ससि। (इत्युपक्र- मेण ।) दास :- (विदूषकं प्रति ।) आर्य, उच्यतां यस्त्वया क्रमभेदो लक्षितः । विदूषक :- पढमं बम्भणपूआ भोदि। सा इमाए लङ्विदा। (मालविका स्मयते।) इत्यादिना नायकस्य विशुद्धनायिकादर्शनप्रयुक्त्तेन हासलोभकारिणा वचसा व्याहारः। दोषा गुणा गुणा दोषा यत्र स्युर्मृद(मार्द)वं हि तत् २६३ प्रहेलिकैवेति। सहि इति। 'सखि, यस्य कृते लमागता स इह एव तिष्टति।' इति संस्कृतम्। 'कस्य कृते अहमागता।' [ इति संस्कृतम् ] 'ननु खलु चित्रफलकस्य।' इति संस्कृतम्। इयं हास्ययुक्त्तेत्यव स्यन्दितादस्या भेदः। असत्प्रलापमाह-असत्प्रलाप इति। असंबद्धं वाक्यमुत्तरं वेत्यर्थः । अलिकुलेति। अत्राम्रलतायां खप्रिया- रोप इति वाक्यमसंबद्धम्। व्याहारमाह-व्याहार इति । परस्य नायकादेरर्थे प्रयोजने। मा दाव इति। 'मा तावदुपदेशमुग्धा गमिष्यसि।' इति संस्कृतम्। 'प्रथमं व्राह्मणपूजा भवति। सा अनया लड्विता।' इति संस्कृतम्। मृदवमाह-दोषा
Page 391
३४४ साहित्य दर्पणे
क्रमेण यथा- 'प्रिय, जीवितताक्रौर्य निःस्रेहत्वं कृतन्नता। भूयस्त्वद्दर्शनादेव ममैते गुणतां गताः ।।' 'तस्यास्तद्रूपसौन्दर्य भूषितं यौवनश्रिया। सुखैकायतनं जातं दुःखायैव ममाधुना ।।' ऐतानि चाङ्गानि नाटकादिषु संभवन्त्यपि वीथ्यामवश्यं विधेयानि स्पष्टतया नाटकादिषु विनिविष्टान्यपीहोदाहृतानि वीथीव नानारसानां चात्र मालारूपतया स्थितत्वाद्वीथीयम्। यथा-मालविका। अथ प्रहसनम्-
भवेत्प्रहसनं वृत्तं निन्दानां कविकल्पितम् ॥ २६४॥ अत्र नारभटी, नापि विष्कम्भकप्रवेशकौ। अङ्गी हास्यरसस्तत्र वीथ्यङ्गानां स्थितिर्न वा। तत्र तपस्विभगवद्विप्रप्रभृतिष्वत्र नायक: ॥ २६५ ॥ एको यत्र भवेद्दृष्टो हास्यं तच्छुद्धमुच्यते। यथा-कंदर्पकेलिः । इति। प्रियेति। जीवितताकौर्य जीवनकाठिन्यम् ।- लद्विरहे मम स्नेहसत्त्वे मरण- मेव स्यातू। एवं तदा मरणमेव प्रत्युपकारस्तदनाचरणात्कृतन्नता। एते जीवनकौर्या- दयः। यद्वा जीवितता जीवनमेव करौर्यादयः । तद्विरहे मम जीवनेनैव करौर्यादयः सुव्यक्ता इति भावः । तस्या इति। विरहिणो नायकस्योक्तिरियम्। एतानि चेति। वीथ्यङ्वानां नाटकाङ्गतया नाटक एव वक्तुं युक्ततम्। तथा सति प्रकरणादौ तल्लाभे सिद्धे यत्तेषामिह कीर्तनं तदत्र तेषामावश्यकतवमन्यत्रानियतत्वमिति भावः। प्रहसनमिति। भाणवदिति। भाणे यथा मुखनिर्वहणे संधी, नानासंध्यङ्गानि, दश लास्यानि, एकोऽङ्कस्तथात्रापीत्यर्थः । तपस्वीति। अन्न प्रहसने तापसादिधु मध्ये कश्चिन्नायको वाच्यः । भगवान् संन्यासी। प्रहृसनस्य शुद्धसंकीर्णविकृतलवभे- देन त्रैविध्यमाह-एक इति। धृष्टः प्रगल्भः । 'नायकः' इत्यनुषज्यते। हास्यं 1. वृत्तमिति। इतिवृत्तनिष्पादने विशेषो नाट्यशास्त्रे-'लोकोपचारयुक्ता या वार्ता यश्च दम्भसंयोग: । तत्प्रहसनेषु योज्यं धूरतोंक्तविवादसंयुक्तम् ।।' इति ॥
१. 'इति' घ.
Page 392
षष्ठः परिच्छेदः । ३४५
आश्रित्य कंचन जनं संकीर्णमिति तद्विदुः ॥२६६ ॥ यथा-धूर्तचरितम्। वृत्तं बहूनां धृष्टानां संकीर्ण केचिदूचिरे। तत्पुनर्भवति व्वङ्कमथवैकाङ्कनिर्मिंतम् ॥ २६७॥ यथा-लँटकमेलकादिः । मुनिस्त्वाह- 'वेश्याचेटनपुंसकविटघूर्ता बन्धकी च यत्र स्युः । अविकृतवेषपरिच्छदचेष्टितकरणं तु संकीर्णम् ।।' इति। विकृतं तु विदुर्यत्र पण्ढकश्चुक्तितापसाः । भुजंगचारणभटप्रभृतेर्वेषवाग्युताः ॥ २६८॥ इदं तु संकीर्णेनैव गतार्थमिति मुनिना पृथङ्गोक्तम्। अथोपरूपकाणि। तत्र- नाटिका क्प्वृत्ता स्यात्स्नीप्राया चतुरडिका। प्रख्यातो धीरललितस्तत्र स्यान्नायको नृपः ॥२६९ ॥ स्यादन्तःपुरसंबद्धा संगीतव्यापृताथवा। नवानुरागा कन्यात्र नायिका नृपवंशजा॥ २७० ॥ संप्रवर्तेत नेतास्यां देव्यास्त्रासेन शङ्कितः । देवी भवेत्पुनर्ज्येष्ठा प्रगल्भा नृपवंशजा ॥२७१॥ पदे पदे मानवती तद्वशः संगमो द्वयोः। वृत्तिः स्यात्कैशिकी स्वल्पविमर्शाः संधयः पुनः॥२७२॥ द्वयोर्नायिकानायकयोः । यथा-रलनावली विद्धशालभञ्जिकादिः । प्रहसनम्। कंचन धृष्टभिन्नं नायकमाश्रित्य यत्प्रहसनं क्रियते तत्संकीर्णमित्यर्थः । वृत्तमिति। 'यत्र तत्' इति पूरणीयम्। तत्संकीर्णप्रहसनम्। यत्र वेश्यादयो वर्णनीयाः स्युस्तदविकृतवेषादीनां करणमनुकरणं प्रहसनम्। संकीर्णमित्वर्थः । इदं तु विकृतप्रहसनं दु। नाटिकामाह-नाटिकेति । कृप्तवृत्ता कविकल्पि- तनायकचरित्रा। स्त्रीप्राया नटीबहुला। प्रख्यातो लोके प्रसिद्धः। तत्र नाटि- कायाम्। अस्यां नाटिकायाम्। सवल्पविमर्शाः विमर्शहीनाः। 'नायकनायिकयोः, 1. लटकेति। लटको दुर्जन इत्युणादिसूत्रवृत्तावुज्ज्वलदत्तः । लटकाना मेलको यत्र तादृशो निबन्ध इति श्ञेयम्॥
Page 393
३४६ साहित्यदर्पणे
अथ त्रोटकम्- सप्ताष्टनवपश्चाङ्कं दिव्यमानुषसंश्रयम्। त्रोटकं नाम तत्प्राह्ठुः प्रत्यङ्कं सविदूषकम्॥ २७३ ॥ प्रत्यङ्कसविदूषकत्वादत्र शृङ्गारोडड्ी । सप्ताङ्कं यथा-स्तम्भि- तरम्भम्। पञ्चाङ्कं यथा-विक्रमोर्वशी। अथ गोष्ठी- प्राकृतैर्नवभि: पुंभिर्दशभिर्वाप्यलंकृता। नोदात्तवचना गोष्ठी कैशिकीवृत्तिशालिनी॥ २७४॥ हीना गर्भविमर्शाभ्यां पञ्चषड्योषिदन्विता। कामशङ्गारसंयुक्ता स्यादेकाङ्कविनिर्मिता॥२७५॥ यथा-रैवतमदनिका। अथ सट्टकम्- सट्टकं प्राकृताशेषपाठ्यं स्यादप्रवेशकम्। न च विष्कम्भकोऽप्यत्र प्रचुरश्राद्ुतो रसः ॥ २७६॥ अङ्का जवनिकाख्या: स्युः स्यादन्यन्नाटिकासमम्। यथा-कर्पूरमञ्जरी। अथ नाट्यरासकम्- नाट्यरासकमेकाङ्कं बहुताललयस्थिति॥२७७॥ उदात्तनायकं तद्वत्पीठमर्दोपनायकम्। हास्योऽड््यत्र सशङ्गारो नारी वासकसज्जिका ॥ २७८॥ मुखनिर्वहणे संधी लास्याङ्गानि दशापि च । केचित्प्रतिम्ुखं संधिमिह नेच्छन्ति केवलम् ॥२७९॥ इत्येकशेषाभावश्चिन्त्यः । त्रोटकमाह-सप्तेति। सप्तादीनामन्यतमा अड्का यत्र। दिव्यमानुषसंश्रयं दिव्यादिव्यनायकम्। गोष्ठीमाह-प्राकृतैरिति। नातिविदग्धै- रित्यर्थः। पश्चभिः षडिर्वा योषिद्भिरन्विता। डप्रत्ययस्यानित्यत्वात्तद्रूपसिद्धिः । काम- शङ्गारः प्रागुक्तः सट्कमाह-सट्टकमिति। प्राकृतं संस्कृते भिन्नमशेषं पाठ्यं श्लोकादिकं यत्र। अन्यदङ्कसंख्यादि। नाट्यरासकमाह-नाट्यरासकमिति। ताल: कालक्रियामानं लयः साम्यम्' इत्यमरः। पीठभर्दलक्षणं आ्रगुक्तम्। नारी
१. 'एव' इत्यधिकं घ-पुस्तके.
Page 394
षष्ठः परिच्छेदः । ३४७
तत्र संधिद्यवती यथा-नर्मवती। संधिचतुष्टयवती यथा-वि- लासवती। अथ प्रस्थानकम्। ग्रस्थाने नायको दासो हीन: सादुपनायकः । दासी च नायिका वृत्ति: कैशिकी भारती तथा ॥२८०। सुरापानसमायोगादुद्दिष्टार्थस्य संहृतिः । अङ्कौ द्वौ लयतालादिर्विलासो बहुलस्तथा ॥२८१॥ यथा-शृङ्गारतिलकम्। अथोल्लाप्यम्- उदात्तनायकं दिव्यवृत्तमेकाङ्कभूषितम्। शिल्पकाङ्गैर्युतं हास्यशङ्गारकरुणै रसैः ॥२८२ ॥ उल्लाप्यं बहुसंग्राममेस्र्रगीतमनोहरम्। चतस्रो नायिकास्तत्र त्रयोडक्का इति केचन ॥ २८३॥ शिल्पकाङ्गानि वक्ष्यमाणानि। यथा-देवी महादेवम्। अथ काव्यम्- काव्यमारभटीहीनमेकाक्कं हास्यसंकुलय्। खण्डमात्राद्विपदिकाभग्नतालैरलंकृतम् ॥२८४ ॥। वैर्णमात्राछड्डलिकायुतं शङ्गारभापितम्।
नायिका। वासकसज्जिका प्रागुक्ता। प्रस्थानकमाह-प्रस्थान इति । संहृतिः समापनम्। उल्लाप्यमाह-उदान्तेति । दिव्यवृतं दिव्यनायकोचितचरित्रं यत्र। अन्यसंमतमुल्लाप्यमाह-उल्लाप्यमिति। अस्रगातेन त्रिपदीगीतेन मनोहरम्। काव्यमाह-काव्यमिति। खण्डमात्रादयो गीतप्रभेदाः। वर्णमात्राछड्डलिके छ-
- अस्रेति। 'उत्तरोत्तररूपं यत्प्रस्तुतार्थपरिष्कृतम्। अन्तर्जवनिकं गीतं अस्त्नगीतं तदुच्यते ॥' इति ॥ 2. वर्णेति। 'वर्णमात्राच्छगणिकायुतं' इति पाठः सावीयान्। अत एव काव्येन्दुप्र- काशे-'वर्णमात्रस्वच्छवेश्यायुतं' इत्यादि तलक्षणं प्रतिनाद्य 'र्णमात्रस्वच्छा न तु मनः स्वच्छा' इति व्याख्यातम्॥
१. 'प्रस्थानकम्' घ. २. 'वर्णमात्राछगणिका-' क-ख-ग. :- छड्डलिका-'घ,
Page 395
३४८ साहित्यदर्पणे
नेता स्त्री चाप्युदात्तात्र संधी आद्यौ तथान्विर्तः।।२८५।। यथा-यादवोदयः। अथ प्रेङ्खणम्- गर्भावमर्शरहितं प्रेङ्मणं हीननायकम्। असूत्रधारमेकाङ्कमविष्कम्भप्रवेशकम् ॥ २८६॥ नियुद्धसम्फेटयुर्त सर्ववृत्तिसमाश्रितम्। नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना ॥ २८७॥ यथा-वालिवधः । अथ रासकम्- रासकं पञ्चपात्रं स्यान्मुखनिर्वहणान्वितम्। भाषाविभाषाभूयिष्ठं भारतीकैशिकीयुतम् ॥ २८८ ॥ असूत्रधारमेकाङ्कं सवीथ्यङ्गं कलान्वितम्। ्िष्टनान्दीयुतं ख्यातनायिकं मूर्खनायकम् ॥२८९॥ उदात्तभावविन्याससंश्रितं चोत्तरोत्तरम्। इह प्रतिमुखं संधिमपि केचित्प्रचक्षते ॥ २९० ॥ यथा-मेनकाहितम्। अथ संलापकम्- संलापकेऽङ्काश्रत्वारत्त्रयो वा नायक: पुनः। पाषण्डः स्याद्रसस्तत्र शृङ्गारकरुणेतरः ॥ २ ९१ ।। भवेयुः पुरसंरोधच्छलसंग्रामविद्रवाः । न्दोविशेषों। शद्धारभाषितं शङ्गारसूचकम्। नेता उदात्तः। नायिकाप्युदात्तेत्यन्वयः। प्रेद्वणमाह-गर्भावमर्शेति। अवमर्शो विमर्शाख्यसंधिः। हीननायकं नीचना- यकम्। सम्फेटो रोषभाषणम्। ननु सूत्रधाररहितं चेन्नान्दी केन पाठ्या प्ररोचना वा केन कार्येत्यत आह-नेपथ्येति। गीयते पठ्यते। तत्र नेपथ्ये। प्ररोचना च भारत्या वृत्तरङ्गविशेषः । सा कविपरिषदादीनां प्रशंसया सामाजिकानामुन्मुखीकरणम् । तथा चात्र नेपथ्यस्थेन येन केनापि नटेन नान्दी पाठ्या, प्ररोचना च कर्तव्येति भावः। रासकमाह-रासकमिति। उदात्तभावस्य नायकमहत्त्वस्य विन्यासेन वर्णनेन संश्रितम्। संलापमाह-संलापक इति। 'प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य च्छलना छलम्' इत्युक्तलक्षणं छलम्। 'शङ्काभयत्रासकृतः संत्रमो विद्रवो मतः' १. 'कलान्वितं' क-ख-ग.
Page 396
पष्ठः परिच्छेदः । ३४९
न तत्र वृत्तिर्भवति भारती न च कैशिर्का॥ २०२।। यथा-मायाकापालिकम्। अथ श्रीगदितम्- प्रख्यातवृत्तमेकाङ्कं ग्रग्यातोदात्तनायकम्। प्रसिद्धनायिकं गर्भविमर्शाभ्यां विवर्जितम् ॥ २९३ ॥ भारतीवृत्तिबहुलं श्रीतिशब्दन संकुलम्। सनं श्रीगदितं नाम विद्न्िरुपरूपकम् ॥२९४॥ यथा-क्रीडारसातलम्। श्रीरासीना श्रीगदिते गायेत्किंचित्पठेदपि। एकाङ्को भारतीप्राय इति केचित्प्रचक्षते ॥ २९५॥ ऊह्यमुदाहरणम्। अथ शिल्पकम्- चत्वारः शिल्पकेडङ्काः स्युश्वतस्त्रो वृत्तयस्तथा। अशान्तहास्याश्च रसा नायको ब्राह्मणो मतः ॥ २९६ ॥ वर्णनात्र रमशानादेहीन: स्यादुपनायकः । सप्तविंशतिरङ्गानि भवन्त्येतस्य तानि तु ॥ २९७ ॥ आशंसातर्कसंदेहतापोद्वेगप्रसेंक्तयः । प्रयत्नग्रथनोत्कण्ठांवहित्थाग्रतिपत्तयः ॥ २९८ ।। विलासालस्बौष्पाणि प्रहर्षाश्वासमूढताः।
इत्युक्तलक्षणो विद्रवः। श्रीगदितमाह-प्रख्यातेति। 'श्री' इति शब्देन संकुलं बहुलम्। श्रीर्लक्ष्मीवेषधारिणी नटी। शिल्पकमाह-चत्वार इति। इमशानादे-
- प्रसक्तय इति। प्रसक्तिरासक्तिः ॥ 2. अवहित्थेति। अवहित्था आकृतिगोपनम् ॥ 3. प्रतिपत्तय इति। प्रतिपत्तिः क्रियार्थीवगमः ॥ 4. साधनेति। साधनस्य इष्टसाधनस्यानुगमः । १. 'संयुतम्' घ. २. 'श्री-' इत्यादि: '-उदाहरणम्।' इत्यन्तः पाटः क-पुरतके नारित. 2. 'स्पट्टम्' ख-ग. ४. 'प्रशक्तयः' घ. ५, 'वाम्यानि' क. ६. 'अश्लील' घ. ७. '-विस्मयाः' घ. सा० द० ३०
Page 397
३५० साहित्य दर्पणे
लाभविस्मृतिसम्फेटा वैशारद्यं प्रबोधनम् । चमत्कृतिश्चेत्यमीषां स्पष्टत्वाल्लक्ष्म नोच्यते ॥३०० ॥ सम्फेट ग्रथनयोः पूर्वमुक्तत्वादेव लक्ष्म सिद्धम् । यथा-कनकाव- तीमाधवः । अथ विलासिका- शुङ्गारबहुलैकाङ्का दशलास्याङ्गसंयुता। विदूपकविटाभ्यां च पीठमर्देन भूषिता॥ ३०१॥ हीना गर्भविमर्शाभ्यां संधिभ्यां हीननायका। स्वल्पवृत्ता सुनेपथ्या विख्याता सा विलासिका॥३०२। केचित्तत्र विलासिकास्थाने विनायिकेति पठन्ति। तस्यास्तु 'दुर्म- छ्लिकायामन्तर्भावः' इत्यन्ये। अथ दुर्मलिका- दुर्मल्ी चतुरङ्का स्यात्कैशिकीभारतीयुता। अगर्भा नागरनरा न्यूननायकभूषिता ॥३०३॥ त्रिनालि: प्रथमोडङ्कोऽस्यां विटक्रीडामयो भवेत्। पञ्चनालिर्द्वितीयोऽङ्को विदूषकविलासवान् ॥ ३०४॥ पण्णालिकस्तृतीयस्तु पीठमर्दविलासवान्। चतुर्थो दशनालि: स्यादङ्क: क्रीडितनीगरः ॥ ३०५॥ यथा-बिन्दुमती। रित्यादिना शवादेर्ग्रहणम्। एतस्य शिल्पकस्य। 'सम्फेटो रोषभाषणम्', 'उपन्या- सस्तु कार्याणां ग्रथनम्' इत्युक्तलक्षणे सम्फेटग्रथने। विलासिकामाह-शृङ्गारेति। स्वल्पं वृत्तं शलोक इतिवृतं वा यत्र। तस्यास्तु विलासिकायास्तु। दुर्मल्लिकामाह- दुर्मललीति । 'नालिका घटिकाठवयम्' इति प्रागेवोक्तम्। प्रकरणिकामाह- 1. वैशारद्यमिति। वैशारद्यं नैपुण्यम्।। 2. अगर्भेति। गर्भसंधिहीना ॥ 3. नागरेति। नागराः पुरोद्भवा नरा यस्यां सा। चातुर्ययोगायेदम् ॥ 4. न्यूनेति। न्यूनो जात्यापकृष्टः ।। 5. त्रिनालिरिति। त्रिनालिर्नालिकात्रयनिष्पाद्येतिवृत्तनिबद्ध इति परमार्थः । एव- मग्रेऽपि। 6. अस्यामिति। अस्यां दुर्मल्लिकायाम्। १. 'सनेपथ्या' ख-ग. २. 'वीध्याभासा' क ३. 'लासिका' घ, ४. 'तथा' घ. ५, 'नायकः घ. ६. 'च' इति पुस्तकान्तरस्थः पाट:
Page 398
षष्ठः परिच्छेदः । ३५१
अथ प्रकरणिका- नाटिकैव प्रकरणी सार्थवाहादिनायका। समानवंशजा नेतुर्भवेद्यत्र च नायिका ॥ २०६॥ मृग्यमुदाहरणम् । अथ हल्लीश :- हल्लीश एक एवाङ्क: सप्ताष्टौ दश वा स्त्रियः । वागुदात्तैकपुरुषः कैशिकीवृत्तिरुज्ज्वला। मुखान्तिमौ तथा संधी बहुताललयस्थितिः॥ ३०७॥ यथा-केलिरैवतकम्। अथ भाणिका- भाणिका श्रक्ष्णनेपथ्या मुखनिर्वहणान्विता। कैशिकी भारतीवृत्तियुक्तैकाङ्कविनिर्मिता ॥ ३०८॥ उदात्तनायिका मन्दपुरुषात्राङ्गसप्कम्। उपन्यासोऽथ विन्यासो विवोधः साध्वसं तथा॥३०९॥ समर्पणं निवृत्तिश्च संहार इति सप्तमः । उपन्यासः प्रसङ्गेन भवेत्कार्यस्य कीर्तनम् ॥ ३१० ॥ निर्वेदवाक्यव्युत्पत्तिर्विन्यास इति स स्मृतः । भ्रान्तिनाशो विबोधः स्यान्मिथ्याख्यानं तु साध्वसम्॥ सोपालम्भवचः कोपेपीडयेह समर्पणम्। निदर्शनस्योपन्यासो निवृत्तिरिति कथ्यते ॥ ३१२ ॥ संहार इति च प्राहुर्यत्कार्यस्य समापनम्। स्पैष्टान्युदाहरणानि। यथा-कामदत्ता। नाटिकैवेति। सार्थवाहो वणिक्। हल्लीशमाह-हल्लीश इति। एकपुरुष एकनटः। भाणिकामाह-भाणिकेति। मन्दपुरुषा हीननायका। एतेषां नाटिकादीनाम्। 1. सार्थवाहादीति। आदिशब्देन पुरोहितामात्यौ गृह्येते।। 2. वागिति। उदात्ता वाक्। 3. व्युत्पत्तिरिति। व्युत्पत्ति: प्रपञ्चनम्॥ 4. कोपेति। कोपपीडया अमर्षवाधया॥ 5. स्पष्टानीति । उपन्यासादयङ्गसप्तकस्येत्यर्थः । १. 'एव' घ. २. 'कोपं पीडयेत्तु' क.
Page 399
३५२ साहित्यदर्पणे
ऐतेषां सेर्वेषां नाटकप्रकृतित्वेऽपि यथौचित्यं यथालाभं नाटको- क्तविशेषपरिग्रहः। यत्र च नाटकोक्तस्यापि पुनरुपादानं तत्र तत्सद्धा- वस्य नियम: । अथ श्रव्यकाव्यानि -- श्रव्यं श्रोतव्यमात्रं तत्पद्यगद्यमयं द्विधा ॥ ३१३ ॥ तत्र पद्यमयान्याह- छन्दोबद्धपदं पद्यं तेन मुक्तेन मुक्तकम्। द्वाभ्यां तु युग्मकं संदानितकं त्रिभिरिष्यते ॥ ३१४॥ कैलापकं चतुर्भिश्र पञ्चभि: कुलकं मतम्। तत्र मुक्तकं यथा मम- 'सान्द्रानन्दमनन्तमव्ययमजं यद्योगिनोऽपि क्षणं साक्षात्कर्तुमुपासते प्रतिमुहुर्ध्यानैकतानाः परम्। धन्यास्ता मर्धुरापुरीयुवतयस्तङ्गल्म याः कौतुका- दालिङ्गन्ति समालपन्ति शतधाकर्षन्ति चुम्बन्ति च।।' युग्मकं यथा मम- 'किं करोषि करोपान्ते कान्ते गण्डस्थलीमिमाम्। प्रणयप्रवणे कान्तेऽनैकान्ते नोचिताः क्रुषः ॥
दृश्यकाव्यमुक्ला श्रव्यमाह-श्रव्यमिति। मात्रपदेन दृश्यव्यवच्छेदः । छन्दो गायत्र्यादि तच्व छन्दःशास्त्रप्रसिद्धलक्षणम्। तेन पद्मेन मुक्तेन पद्यान्तरनिरपेक्षेण एकेन। 'तेनैकेन च मुक्तकम्' इति कचित्पाठः। द्ाभ्यां परस्परापेक्षाभ्यां पद्याभ्याम्। एवमग्रेऽपि। पञ्चभिरिति न्यूनसंख्याव्यवच्छेदः । तेन माघादौ दशादिभिः श्रोकैः कुलकं संगच्छते। क्षणं क्षणमपि। ध्यानैकतानाः ध्यानैकाग्रचित्ताः। आकर्षन्ति कीडार्थमाहरन्ति। अनैकान्तेऽव्यभिचारिणि। लन्मान्रपरायणे इत्यर्थः । महाकाव्य-
- संदानितकमिति। संदानितकस्यैव विशेपकमिति तिलकमिति च संज्ञा॥ 2. कलापकमिति। कलापकमेव काश्मीरकैश्चक्कलकमिति व्यपदिश्यते॥ 3. मधुरापुरीति। मधुराशब्दस्य मधुपुरीवाचकत्वे 'काञ्ची ते धृतयोगसंपदमितो जाता विशालाकृतिर्यावन्ती मधुराध्वनि विदधती पश्चादयोध्याभवत्। मायाद्वारवती शिवा- विवसतिः सा काशिका दृश्यते तच्चित्रं न वदामि माधव यतस्त्वां सा सदा संश्निता।' इति मधुसूदनसरस्वतीश्रोक: प्रमाणम् ॥
१. 'एपा' क-घ. २. 'अपि' इत्यधिकं घ-पुस्तके, ३. 'च' क. ४. 'मथुरा' ख-घ.
Page 400
षष्ठः परिच्छेदः । ३५३
इति यावत्कुरङ्गाक्षीं वक्तमीहामहे वयम्।
एवमन्यान्यपि। तावदाविरभूच्चूते मधुरो मधुपध्वनिः ॥'
सर्गवन्धो महाकाव्यं तत्रैको नायकः सुरः॥३१५॥ सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः। एकवंशभवा भूपा: कुलजा बहवोऽपि वा॥ ३१६ ॥ शुङ्गारवीरशान्तानामेकोडङ्गी रस इष्यते। अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसंधयः॥३१७॥ इतिहासोन्दवं वृत्तमन्यद्वा सज्जनाश्रयम्। चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् ॥ ३१८।। आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा। कैचिनिन्दा खलादीनां सतां च गुणकीर्तनम्॥ ३१९॥ एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः। नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह॥ ३२० ॥ माह-सर्गबन्ध इति।सगैरवान्तरार्थवर्णनैरुपलक्षितः बन्धः । पद्मबन्ध इत्यर्थः। तंत्रे महाकाव्ये। बहवः। नायका इत्यर्थः। नाटकसंधयो मुखप्रतिमुखगर्भविमर्शनि- र्वहणाख्याः । इतिहासोन्भवं भारतादिप्रसिद्म्। अन्यल्लोकप्रसिद्धम्। चत्वारो वर्गा: धर्मार्थकाममोक्षाः, तेषु चतुर्षु मध्ये एकं चेति चकारो वार्थः। फलं वर्गः। आदौ आरम्भे। वस्तुनो वर्णनीयनायकस्य नान्ना निर्देशो वस्तुनिर्देशः। एकवृत्तमयैरेकजा- तीयपद्यैरुपलक्षिताः । अष्टाधिका अष्टान्यूनाः । इह महाकाव्ये। उपयमो विवाहः। 1. महाकाव्यमिति। अत्र विशेप :- 'शास्त्रं काव्यं शास्त्रकाव्यं काव्यशास्त्रं च भे- दतः । चतुष्प्रकारः प्रसरः सतां सारस्वतो मतः ॥ शास्त्रं काव्यविदः प्राङ्ुः सर्वकाव्याङ्ग- लक्षणम्। काव्यं विशिष्टशब्दार्थसाहित्यसदलंकृति॥ शास्त्रकाव्यं चतुर्वर्गप्रायं सर्वोपदेश- कृत्। भट्टि भौमक-काव्यादि काव्यशास्त्रं प्रचक्षते।। शास्त्रं कुर्यात्प्रयलेन प्रसन्नार्थ- मनुष्टुभा। येन सर्वोपकाराय याति सुस्पष्टसेतुताम्॥ काव्ये रसानुसारेण वर्णनानुगुणेन च। कुर्वीत सर्ववृत्तानां विनियोगं विभागवित्। शास्त्रकाव्येऽतिदीर्घाणां वृत्तानां न प्रयोजनम्। काव्यशास्त्रेपि वृत्तानि रसायत्तानि काव्यवित्।। पुराणप्रतिबिम्बेपु प्रसन्नो- पायवर्त्मसु। उपदेशप्रधानेषु कुर्यात्सर्वेष्वनुष्टुभम् ।। नानावृत्तविशेषास्तु कवेः शस्तस्य शासनात। यान्ति प्रभोरिवात्यन्तमयोग्या अपि योग्यताम् ।' इति ॥ 2. क्वचिदिति। यथा धर्मशर्माभ्युदयादौ।
१. 'एव मन्यत्रापि' घ.
Page 401
३५४ साहित्यदर्पणे
नानावृत्तमयः कापि सर्गः कश्न दृश्यते। सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् ॥ ३२१ ॥ संध्यासूर्येन्दुरजनीप्रदोषध्वान्तवासराः।
संभोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः। रणप्रयाणोपयममन्रपुत्रोदयादयः॥३२३॥। वैर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह। कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा ॥ ३२४॥ यथायोगं यथासंभवम्। एतेन येनकेनाप्यङ्वेन हीनमपि काव्यं न दुष्टमिति भावः । वृत्तस्य वर्णनीयचरित्रस्य। अस्य महाकाव्यस्य। कविनामकं महाकाव्यं माघभारवि- प्रभृति। वृत्तनामकं कुमारसंभवादि। नायकनामकं रघुप्रभृति। इतरनामकं भट्टि-
- क्वापीति। यथा शिशुपालवधे चतुर्थः सर्गः, किरातार्जुनीये पञ्चमः ॥ 2. वर्णनीया इति। केषांचन वर्णनीयानां विशिष्यवर्णनप्रकारा निरूप्यन्ते-'नृपे विद्या नयः शक्तिर्बलं तस्करताक्षमः। प्रजाशास्तिः प्रजारागो धर्मकामार्थतुल्यता॥ प्रयाण- रणखङ्गादिशास्त्राण्यरिपराजयः। अरिनाशोऽरिशैलादिवासोऽरिपुरशून्यता। महःश्रीदान- कीत्याद्या गुणौधा रूपवर्णनम् ॥ महामात्ये नयः शास्त्रं धैर्य बुद्धिर्गभीरता। शक्ति: शस्त्रमलोभत्वं जनरागो विवेकिता॥ पुरोहिते स्मृतिर्वेदा निमित्तापत्प्रतिक्रिया। दण्डनीति- ज्ञता शुद्धिधर्मशीलकुलक्रमाः ॥ देव्यां विज्ञानचातुर्य त्रपाशीलव्रतादयः। रूपलावण्य- सौभाग्यप्रेमशह्वारमन्मथाः ॥ वेणीधम्मिलसीमन्तभालश्रवणनासिकाः । कपोलाधरनेत्रभ्नक- टाक्षदशनोक्तयः ॥ कण्ठबाहुकरोरोजनाभ्यो मध्यं वलिन्नयम्। रोमालिश्रोणिजङ्गोरुगति क्रमनखाः क्रमात् ॥ कुमारे शस्त्रशास्त्रश्रीकलावलगुणोच्छ्याः। बाह्यालीखुरली राज भक्ति: सुभगतादयः ॥ सेनापतौ महोत्साहः स्वामिभक्तिरभीरुजा । अभ्यासो वाहने शास्त्रे शखत्रे च, विजयो रणे । देशे बहुखनिद्रव्यपण्यधान्याकरोङ्गवाः । दुर्गग्रामजनाधि क्यनदीमातृकतादयः ॥ ग्रामे धान्यलतावृक्षसरसीपशुपुष्टयः । क्षेत्रारघट्टकेदारग्रामेयीमु- ग्धविभ्रमाः ॥ पुरेऽटृटपरिखावप्रप्रतोलीतोरणादयः । प्रासादाध्वप्रपारामवाप्यो वेश्या सती- त्वरी॥ सरस्यम्मोलहर्यम्भोगजाद्यम्बजपट्पदाः। हंसचक्रादयस्तीरोद्यानस्त्रीपान्थकेलयः ॥
सरित्यम्बुधियायित्वं वीच्यो जलगजादयः । पझमानि षट्पदा हंसचक्राद्याः कूलशाखिनः॥ उद्याने सरणिः सर्वफलपुष्पलताद्रमाः । पिकालिकेकिहंसादाः क्रीडावाप्यध्वगस्थितिः ॥
राहेभयूथसिंहादयो दुमाः । काकोलूककपोताद्या भिलभल्वदवादयः ॥ आश्रमेऽतिथि- पूजैणविश्वासो हिंस्रशान्तता। यज्ञधूमो मुनिसुता द्रुसेको वल्कलद्रुमाः ॥ मत्रे पञ्चाङ्गता- शक्तिषाङ्गुण्योपायसिद्धयः । उदयाश्चिन्तनीयाश्च स्थैर्यौन्नत्यादिसूक्तयः ॥ दूते स्वस्वामि-
Page 402
षष्ठः परिच्छेदः । ३५५
नामास्य सर्गोपादेयकथया सर्गनाम तु। संध्यङ्गानि यथालाभमत्र विधेयानि। 'अवसानेऽन्यवृत्तकैः' इति बहु- वचनमविवक्षितम्। साङ्गोपाङ्गा इति जलकेलिमधुपानादयः। यथा- रघुवंश-शिशुपालवध नैषघादयः । यथा वा मम-राघवविलासादिः । अस्मिन्नार्षे पुनः सर्गा भवन्त्याख्यानसंज्ञकाः ॥ ३२५॥ अस्मिन्महाकाव्ये। यथा-महाभारतम् । प्रमृति। महाभारतादौ गद्यमत्त्वेऽपि पद्यप्राचुर्येणैव महाकाव्यत्वव्यवहारः । तस्मिन्म- तेजःश्रीविक्रमौन्नत्यकृद्वचः। शत्रुक्षोभकरी चेष्टा धार्ष्य दाक्ष्यमभीरुता। युद्धे तु वर्मबल- वीररजासि तूर्यविश्वासनादशरमण्डपरक्तनद्यः। छिन्नातपनरथचामरकेतुकुम्भिमुक्तासुरी- वृतभटामरपुष्पवर्षाः । प्रयाणे भेरिनिस्वानभूकम्पवलघूलयः । करमोक्षध्वजच्छत्रवणि- वछकटवेशराः ॥ मृगयायां श्वसंचारो वागुरा नीलदेषता। भटढक्कामृगन्रासः सिह्युद्ध त्वरागतिः ॥ अश्वे खरखुरोत्खातरजःसल्क्षणस्थितिः। तेजो वेगित्वमौन्नत्यं जातिर्धाराप्र- पञ्चनम्॥ गजे सहस्रयोधित्वमुच्चत्वं कर्णचापलम्। अरिव्यूह्ृविभेदित्वं कुम्भमुक्तामदा- लिनः ॥ सुरभौ दोलाकोकिलमारुतसूर्यगतितरुद्लोद्वेदाः। जातीनरपुष्पचयात्रमज्जरी- भ्रमरझंकाराः॥ ग्रीष्मे पाटलमल्ीतापसरःपथिकशोषवाताल्यः । सक्तुप्रपाप्रपास्त्रीमृग- तृष्णाम्रादिफलपाकाः ॥ वर्षासु घनशिखिस्मयहंसगमाः पङ्ककन्दलोन्भेदौ। जातीकदम्बके- तकझंझानिलनिम्नगा हलिप्रीतिः ॥ शरदीन्दुरविपटत्वं जलाच्छतागस्त्यहंसवृषदर्पाः । सप्तच्छदपझ्मसिताभ्रधान्यशिखिपक्षमदपाताः ॥ हेमन्ते दिनलघुता शीतयवस्तम्बमरुबक- हिमानि। शिशिरे करीषधूमः कुमुदाम्बुजदाहशिखिरतोत्कषाः ॥ सूर्येऽरुणता रविम- णिचक्ाम्बुजपथिकलोचनप्रातिः। तारेन्दुदीपकौषधिधूकतमश्चौरकुमुदकुलटार्तिः । चन्द्रे कुलटाचक्राम्बुरुह विरहितमोहानिरौज्ज्वल्यम्। जलधिजननेत्रकैरवचकोर चन्द्राश्मदम्पति प्रीतिः । विवाहे स्ानशुभ्राङ्गभूषालूलुत्रयीरवाः। वेदीसीमन्ततारेक्षा लाजामङ्गल वर्तनम् । विरहे तापनिःश्वासचिन्ता मौनं कृशाङ्गता। अब्जशय्या निशादैध्य जागरः शिशिरोष्मता। स्वयंवरे शचीरक्षामध्चमण्डपसज्जता। राजपुत्री नृपाकारान्वयचेष्टाप्रका- शनम्॥ सुरापाने विकलता रखलनं वचने गतौ। लज्जा मानच्युतिः प्रेमाधिक्यं रक्तेक्षण- अ्रमाः॥ पुष्पावचये पुष्पावचयः पुष्पार्पणार्थिन दयिते। मानाधं गोत्रस्खलनेर्ध्यावक्रो- फ्तिसंभ्रमाक्लेपाः। जलकेलौ सरःक्षोभश्चक्हंसापसर्पणम्। पझमग्लानिः पयःक्षेपो दृग्रागो भूषणच्युतिः । सुरते सात्त्विका भावाः सीत्कारः कुझ्लाक्षता। काच्चीकङ्कणमऔ्जीररवोडध- रनखक्षते।। आ्रातः कोकाम्वुजोत्कषों मध्याह्ने तापसंपवः । सायं सूर्यातिलौहित्यं चक्रपझ्मादिविप्ववः । अन्धकारेऽतिसान्द्रत्वं विश्वलोपसमर्थता। आकस्मिकसमारम्भो निःशङ्कमभिसारिकाः ॥ वर्ण्येषु वर्ण्यभावानां दिङ्मात्रमिह दर्शितम्। चिद्रपैश्चिन्त्यमानानां भवत्येषामनन्तता ।।' इति ॥ 1. सर्गनामेति। यथा गीतगोविन्दे प्रथम-द्वितीयादिसर्गाणां सामोददामोदर-अक्केशके- शवादिनास्ना व्यपदेशः।
Page 403
३५६ साहित्यदर्पणे
प्राकृतैर्निमिते तस्मिन्सर्गा आश्वाससंज्ञकाः । छन्दसा स्कन्धकेनैतेत्कचिद्रलितकैरपि ॥ ३२६ ॥ यथा-सेतुबन्धः। यथा वा मम-कुवलयाश्वचरितम्। अपभ्रंश निंबद्धेऽसिमिन्सर्गा: कुँडवकाभिधाः । तथापभ्रंशयोग्यानि च्छन्दांसि विविधान्यपि॥ ३२७॥ यथा-कर्णपराक्रमः । भाषाविभाषानियमात्काव्यं सर्गसमुत्थितम्। एकार्थप्रवणैः पद्यैः संधिसामग्यवर्जितम् ॥ ३२८॥ यथा-भिक्षाटनम्, आर्याविळासश्च। खण्डकाव्यं भवेत्काव्यस्यैकदेशानुसारि च। यथा-मेधदूतादिः। कोषः श्लोकसमूहस्तु स्यादन्योन्यानपेक्षकः ॥ ३२९॥ व्रज्याक्रमेण रचितः स एवातिमनोरमः । सजातीयानामेकत्र संनिवेशो त्रज्या। यथा-मुक्तावल्यादिः । अथ गद्यकाव्यानि। तत्र गद्यम्- वृत्तगन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च ॥ ३३० ।।
हाकाव्ये। एतत्प्राकृतकृतं महाकाव्यम्। गलितकानि छन्दोविशेषाः । काव्यमाह- भाषेति। भाषा सस्कृतादिः, विभाषा अपभ्रंशादिः। एकार्थप्रवणैः एकवाक्यतापन्नैः। यावत्संधिरहितं यत्तत्काव्यमित्यर्थः । खण्डकाव्यमाह-खण्डेति। काव्यस्यानन्तर- निरूपितस्य एकदेशानुसारि यत्किचिल्लक्षणहीनम्। तेनात्र भाषानियमो नास्ति। एकार्थप्रवणैः संस्कृतपदयैनिर्मितं खण्डकाव्यमित्यर्थः। कोषमाह-कोष इति। स एव कोष एव। वृत्तस्य गन्धेन लवेनापि उज्झितं श्रव्यकाव्यं गद्यम्। आदयं मुक्त्तकम्।
- भापेति। भाषाविभापानियमाद् एकार्थप्रवणैः पदयैर्निवद्धम्।। 2. मेघदूतादिरिति।आदिपदेन ऋतुसंहारप्रभृतीनां संग्रहः। अत्रैव भेदे देवद्विजराज- स्तुतिमात्रप्रवणानां यत्किचिल्वक्षणाक्रान्तानामन्येषामपि काव्यकानामन्तर्भावः।। 3. कोष इति। अत्रेदं तत्त्वम्-व्रज्याघटित एक: प्रकारस्तद्भिन्नो द्वितीय इति द्विविध: कोषः । तत्राद्यस्य आर्यासप्तशत्यादय उदाहरणम्। द्वितीयस्य सुभापितावलिप्रभृ- तयः । अकारादिहकारान्ताद्यक्षरश्रोकसंघातो न्रज्या ॥ १. 'स्कन्दकेन' क. २. 'एव' क-ख. ३. 'निबन्धे' घ. १. 'कडरकाभिधाः' क; 'काडविका- भिधाः ख-ग. ५ 'समुज्झितम्' घ. ६. 'एकार्थश्रवण' क; 'एकार्थभवणं' ख-ग,
Page 404
षष्ठः परिच्छेदः । ३५७
भवेदुत्कलिकाग्रायं चूर्णकं च चतुर्विधम्। आद्यं समासरहितं वृत्तभागयुतं परम्॥ ३३१ ॥ अन्यद्दीर्घसमासाढ्यं तुर्य चाल्पसमासकम्। मुक्तकं यथा-'गुरुर्वचसि पृथुरुरसि-' इत्यादि । वृत्तगन्धि यथा मम-'समरकण्डूलनिबिडभुजदण्डकुण्डलीकृत- कोदण्डशिञ्जिनीटंकारोज्जागरितवैरिनगर- इत्यादि। अत्र 'कुण्डलीकृतकोदण्ड-' इत्यनुष्टुब्वृत्तस्य पाद:, 'समरक- ण्डूल' इति च प्रथमाक्षरद्वयरहितस्तस्यैव पादः । उत्क लिकाप्रायं यथा ममैव-'अणिसविसुमरणिसिद सरविसरविद- लिद्समरपरिगदपवरपरबल-' इत्यादि। चूर्णकं यथा मम-'गुणरत्नसागर जगदेकनागर कामिनीमदन जनरञ्जन' इत्यादि। कथायां सरसं वस्तु गद्यैरेव विनिर्मितम् ॥ ३३२ ॥। कचिदत्र भवेदार्या कचिद्वकपवक्रके। आदौ पद्यैर्नमस्कारः खलादेर्व्टृत्तकीर्तनम् ॥ ३३३ ॥ यथा-कादम्बर्यादिः। आख्यायिका कथावत्स्यात्कवेर्वेशानुकीर्तनम्। अस्यामन्यकवीनां च वृत्तं पद्यं कचित्कचित् ॥ ३३४ ।। कथांशानां व्यवच्छेद आश्वास इति बध्यते। आर्यावक्रापवक्राणां छन्दसा येन केनचित् ॥ ३३५॥ अन्यापदेशेनाश्वासमुखे भाव्यार्थसूचनम्। यथा-हर्षचरितादिः । वृत्तस्य छन्दसो भाग: पादः। परं वृत्तगन्धि। अन्यदुत्कलिकाप्रायम्। तुर्य चूर्णकम्। अणिस इति। 'अनिशविसमरनिशितशरविसर विदलितसमर परिगतप्रवरपरबल- इति संस्कृतम्। गद्यकाव्यप्रभेदयोः कथाख्यायिकयोर्विशेषमाह-कथायामिति। पद्यानां विशेषमाह-क्वचिदिति। वक्रापवक्रके छन्दोविशेषौ। 'पद्ैः' इत्युभयत्र संबध्यते। आख्यायिकामाह-आख्यायिकेति।कथावदिति। यथा कथायां
- आर्यावक्रेति। आर्यावक्रापवक्राणां मध्ये।। १. 'आदि' घ.
Page 405
३५८ साहित्यदर्पणे
'अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात्।' इति दण्डाचार्यव- चनात्केचित् 'आख्यायिका नायकेनैव निबद्धव्या' इत्याहुः, तद्युक्तम्। आख्यानादयश्च कथाख्यायिकयोरेवान्तर्भावान्न पृथगुक्ताः। यदुक्तं दण्डिनैव- 'अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः ।' इति। एषामुदाहरणम्-पञ्चतन्त्रादि। अथ गद्यपद्यमयानि- गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते॥ ३३६ ॥। यैथा-देशराजचरितम्। गद्यपद्यमयी राजस्तुतिर्विरुदमुच्यते। यथा-बिरुद्मणिमाला। करम्भकं तु भाषाभिर्विविधाभिर्विनिर्मितम् ॥३३७॥ यथा मम-षोडशभाषामयी प्रशस्तिरतावली । एँचमन्येऽपि भेदा उद्देशमात्रप्रसिद्धत्वादुक्तभेदानतिक्रमाच्च न पृथ- ग्लक्षिताः।। इति साहित्यदर्पणे दृश्यश्रव्यकाव्यनिरूपणो नाम षष्ठः परिच्छेद:।
ति। अस्यामाख्यायिकायाम्। वृत्तं चरित्रम्। दण्डाचार्यवचनादिति। हेतुः 'तदयुक्तम्' इत्यत्रान्वेति। एपामाख्यायिकादीनाम् । गद्यपद्यमयानि श्रव्यकाव्यानी- त्यर्थः। भेदाः श्रव्यकाव्यविशेषाः। उद्देशमान्नप्रसिद्धलवात् नाममात्रेण ख्यातत्वात्। तथा च तेषां संज्ञयैव भिन्नत्वम्, न तु वस्तुत इति भावः॥ इति श्रीरामचरणतर्कवागीशभट्टाचार्यविरचितायां साहित्य दर्पणवित्ृतौ षछ्ठः प्रकाशः ।
- गद्येति। काव्यं चात्र समस्तलक्षणाक्रान्तमवधेयम्। लक्षणसंकोचे तु काव्यभेदवदिहा प्युपादेयतातारतम्यं स्यात्। कथाशविच्छेदास्तूच्छाससंज्ञकाः स्तबकसंज्ञका वा भवन्ति ॥ 2. यथेति। यथा वा नलचम्प्वादि ॥ 3. एवमिति। 'येन केनापि तालेन गद्यपद्यसमन्वितम्। जयेत्युपक्मं मालिन्यादिप्रा- सविचित्रितम् ॥ तदुदाहरणं नाम्ना विभक्त्यष्टाङ्गसंयुतम्। संबोधनविभक्त्या यत्प्रचुरं पद्यपूर्वकम् ॥ विमुक्तपुनराकृष्टशब्दः स्याच्चक्रवालकम्। आदयन्तपद्यसंयुक्ता संस्कृतप्राकृ- तात्मिका॥ अष्टभिरवा चतुर्मिवा वाक्यैः स्कन्धसमन्विता। प्रतिस्कन्वं भिन्नवाक्यरीतिर्देव-
Page 406
षष्ठः परिच्छेद्ः । ३५९
नृपोचिता। सर्वतो देवशब्दादिरेपा भोगावली मता। वर्ण्यनामाक्कविरुदवर्णनप्रचुरो- ज्वला।I वाक्याडम्वरसंयुक्ता कथिता बिरुदावली। ताराणां संख्यया पद्यैर्युक्ता तारावली मता॥ विश्वेपां संख्यया पद्यैर्युक्ता विश्वावली मता। रनानां संख्यया पदैर्युक्ता रक्षा- वली मता। पद्यैश्च पञ्चभिर्युक्ता प्रोक्ता पञ्चाननावली ।I' इत्यादयः कविकर्मभेदास्तत्र तत्रोपलभ्यन्ते। ते नातिचमत्काराधायकत्वाद् ग्रन्थकृतोपेक्षिताः। प्रायेण कविकर्मणो द्विविधः परिपाको भवति। तथा चोक्तम्-'अर्थगम्भीरिमा पाकः स द्वेधा कविसंमतः। द्राक्षापाको नारिकलपाकश्च प्रस्फुटान्तरौ॥ द्राक्षापाकः स कथितो वहिरन्तःस्फुरद्रसः । स नारिकेल- पाक: स्यादन्तर्गूढरसोदयः ॥' इति॥
Page 407
३६० साहित्यदर्पणे
सप्तमः परिच्छेदः ।
इह हि प्रथमतः काव्ये दोषगुणरीत्यलंकाराणामवस्थितिक्रमो द- र्शितः। संप्रति के त इत्यपेक्षायामुद्देशकमप्राप्तानां दोषाणां स्वरूपमाह- रसापकर्पका दोपास अस्यार्थः प्रागेव स्फुटीकृतः !
काव्यं निरप्य तदीयदोपादीन्निरूपयंस्तस्य प्रकृतत्वं दोषनिरूपणस्य ग्राथमिकत्वं चोपपादयति-इह हीति। प्रथमतो दोषादिनिरूपणात्प्राकू काव्ये काव्यलक्षणे रीतेश्छन्दोनुरोधन पश्चाननिर्देशेऽपि वक्ष्यमाणयुत्त्या अलंकारनिरूपणात्प्रागेव तां निरूपयिष्यतीति तस्या अलंकारात्प्रागिह निर्देशः । ते दोषादयः । 'हेयहानिपूर्वक- मुपादेयोपादानमिति सूचयितुं दोपनिरूपणस्य प्राथसिकत्म्' इत्यपरे। दोषाणां सा- मान्यलक्षणमाह-रसापकर्पका इति। अत्रोक्तयुत्त्या रसपदेन विभावादयोऽप्यु- व्यन्ते। तदपकर्षकस्यापि दोपत्वेनीदाहरिष्यमाणलात्। दूषयति काव्यमिति दोष- पदेन दुःश्रवत्वादिरुच्यते। भावसाधनेन तु काव्यापकर्ष एव। काव्यापकर्षश्च त्रिधा- रसादिप्रतीतिप्रतिवन्धः रसादिप्रकर्षप्रतीतिप्रतिबन्धः, "रसादिप्रतीतिविलम्बनं च। तच्च दोपविशेषोदाहरणेष्ववधेयम्। नन्वेतल्वक्षणं श्रुतिदुष्टापुष्टार्थतादावव्याप्तं तस्य शब्दार्थदोपत्वेन रसापकर्पकलाभावादत आह-अस्यार्थ इति। प्रागेव प्रथम-
- दोपा इति। अत्रेदं तत्त्वम्-उद्देश्यप्रतीतिविघातलक्षणो दोप इति तत्सामा- न्यलक्षणम्। उद्दश्या च प्रतीती रसवत्यविलम्वितानपक्वष्टरसविपया च नीरसे त्वविल- न्विता चमत्कारिणी चार्यविपया। तथा च तादृशप्रतीतिविधातकत्वं सवेपामविशिष्टम्। यतो दुष्टेपु क्वचिद्रसस्यानतीतिरेव, क्वचित्व्रतीयमानस्यम्पकर्षः, क्वचित्तु विलम्बः । एवं नीरसे क्वचिदर्थस्य मुख्यभूतस्याप्रतीतरेव, क्वचिद्विलम्पेन प्रतीतिः, क्वचिदचमत्कारित्व- मित्युद्देश्य प्रतीत्यनुत्पादो व्यक्त एव। तद्विघातकता च कस्यचित्साक्षात्। यथा-रसदोषा- णाम्। कस्यचित्परम्परया। यथा-शब्दार्थदोषाणाम्। तेष्वपि कस्यचिदर्थोपस्थितेरभावात्। यथा-असमर्थत्वादेः। कस्यचिद्विलम्बात्। यथा-निहतार्थत्वादेः। कस्यचिद्वाक्यार्थबोधा- भावात्। यथा-च्युतसंस्कारत्वादेः। कस्यचित्तत्र विलम्बात्। यथा-क्विष्टत्वादेः। कस्य- चित्स हृदयवैमुख्यव्यग्रताद्यापादनेन। यथा-निरर्थकत्वादेः। कस्यचिद्विरोध्युपस्थापनेन विपरीतोपस्थापनेन वा। यथा-विरुद्धमतिक्ारित्वादेरित्यादयहनीयम्। विधातकत्वं च कस्यचित् ज्ञातस्य। यथा-व्याहतत्वादेः। कस्यचित्स्वरूपसत एव। यथा-निहतार्थ- त्वादेः। स चायं द्विविध :- नित्योऽनित्यश्च। तत्रानुकरणादन्येन प्रकारेण समाधातुम- शक्यो नित्यः । यथा-च्युतसंस्कारत्वादिः। अन्याद्ृशस्त्वनित्यः। यथा-अप्रयुक्त- त्वादिः । यद्वा सर्वदैव हेयो नित्यः।यथा-च्युतसंस्कारत्वादिः। तदन्योऽनित्यः । यथा- शद्धारादौ हेयमपि दुःश्रवत्वं रौद्रादावुपादेयमेव ।
१. 'हि' घ-पुस्तके नारि्ति.
Page 408
सप्तमः परिच्छेदः । ३६१
तद्विशेषानाह- ते पुनः पञ्चधा मता:। पदे तदंशे वाक्येऽर्थे संभवन्ति रसेऽपि यत् ॥१॥ स्पष्टम्। तत्र दुःश्रवत्रिविधाश्लीलानुचितार्थाप्रयुक्तताः। ग्राम्याप्रतीतसंदिग्धनेयार्थनिहतार्थताः ॥२॥ अवाचकत्वं क्विष्टत्वं विरुद्धमतिकारिता। अविमृष्टविधेयांशभावश्च पदवाक्ययोः ॥३॥ दोषा:, केचिद्दवन्त्येषु पदांशेऽपि, पदे पैरे। निरार्थकासमर्थत्वे च्युतसंस्कारता तथा॥४॥ परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वम्। यथा- 'कार्तार्थ्यै यातु तन्वङ्गी कदानङ्गवशंवदा।'
परिच्छेद एव। श्रुतिदुष्टत्वादेः। शब्दार्थापकर्षकद्वारेण रसापकर्षत्वमिति नाव्याप्ति- रिति भावः। तद्विशेषानू दोषविभागान्। ते दोषाः। तदंशे पदांशे। दोषविशेषा- न्निर्दिशति-दुःश्रव इति । अयं भावप्रधानो निर्देशः । दुःश्रवत्रिविधाश्लौलेति समस्तपाठे भावप्रत्ययस्य सर्वत्रान्वयः। एषक्तदोषेषु। उद्देशक्रमेण दुःश्रवत्वादिलक्षणं सोदाहरणमाह-परुषेति। केर्षाचित्स्पष्टत्वादुदाहरणस्यैव दर्शनम्। 'श्रुतिपतितमात्रं यद्वैरस्यमावहति तत्पदं सर्वथा न देयमिति प्रथमं तदुपन्यासः' इत्यन्ये। वर्णांनां पारुष्यं गुणपरिच्छेदे व्यक्तीभविष्यति। श्रोतृणां श्रोत्रावच्छेदेन दुःखजनकत्वं श्रुति- दुःखावहम्। श्रुतिपतितं सद्ुःखावहं श्रुतिदुःखावहम्, तत्वं वा- कार्तार्थ्य- मिति। अत्र तथयो रेफयोर्योगेन पारुष्यम्। तत्प्रयुक्तं पदस्य दुःश्रवत्वं साश्रयपद- संबन्धित्वेन प्रत्यासन्नस्य शङ्गाररसस्य प्रकर्षप्रतीतिं प्रतिबभ्नाति। इदमेव 'श्रुतिकट' इत्यभिधीयते। नन्वेतत्पदांशपारुष्यमेव न तु पदपारुष्यमिति चेतू, न। वाक्य- घटक द्वित्रादिपदपारुष्यप्रयुक्तवाक्यदुःश्रवत्ववत्पद्घट कद्वित्रादिवर्णपारुष्यप्रयुक्तपददुः- श्रवत्वस्य सवीकारातू। असभ्यार्थान्तरव्यजञकमश्ठीलं तस्य भावस्तथा। पदांशाश्लीललं 1. अश्लीलत्वमिति। श्रियं सहृदयवशीकरणसंपत्ति लातीति। 'आतोऽनुपसर्गे-' इति कः । तद्भिन्नम्। कपिलादित्वालत्वम् ॥ १. 'स्पष्टम्' घ-पुस्तके नास्ति. २. 'ग्रम्यः' क. ३. 'परम्' क-ख-ग-घ. ४: 'त्रिधा' घ. ५. 'असत्य' इति पुस्तकान्तरे. 'व्याज्जक' इति नास्ति पुस्तकान्तरे. सा० द० ३१
Page 409
३६२ साहित्य दर्पणे
क्रमेणोदाहरणम्- 'दस्तारिविजये राजन्साधनं सुमहत्तव।' 'प्रससार शनैर्वायुर्विनाशे तन्वि ते तदा।' अत्र साधन-वायु-विनाशशब्दा अश्लीलाः । 'शूरा अमरतां यान्ति पशुभूता रणाध्वरे। अत्र पैशुपदं कातर्यमभिव्यनक्तीत्यनुचितार्थत्वम्। अप्रयुक्तत्वं तथाप्रसिद्धावपि कविभिरनाद्तत्वम्। यथा- 'भाति पझमः सरोवरे।' अत्र पैद्शब्द: पुंलिङ्ग: ।
तु असभ्यस्मृति हेतुलमेव। जुगुप्सा घृणा। अमङ्गलममङ्गलाशक्का। व्यज्कलमिह जन- कत्वमेव। अत्रेति। सैन्ये प्रयुक्त: साधनशब्दो मेढ्व्यजकतया श्रोतुर्लजाजननेन राज- विषयरतिभावस्य, समीरणे प्रयुक्तो वायुशब्दः पायुवायुव्यजकतया श्रोतुर्जुगुप्साजन- नेन, अदर्शने प्रयुक्तो विनाशशब्दश्च मृत्युव्यञ्ञकतया अमङ्गलाशङ्काजननेन शङ्गारस्य प्रकर्षप्रतिबन्धकः । अनुचितार्थतं क्वचिद्वाच्यार्थदोषप्रतिपादकत्वेन, क्वचिदर्थासंभ- वेन, क्वचिदसत्समर्थकत्वेन। तत्राद्यमाह-शूरा इति । पशुभूताश्छेद्यस्वरूपाः। अत्र वाच्यार्थस्य शूरस्य कातयें दोषः । तस्य व्यञ्ञकत्वात्पशुपदस्यानुचितार्थत्वम्। द्वितीयं यथा-'प्रज्वलज्लधारावन्निपतन्ति शरास्तव।' अत्र प्रज्वलदिति पदमनु- चितार्थम्। तृतीयं यथा दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धका- रम्। क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसामतीव ।' अत्रासद्गूतस्यान्धकार- भयस्य समर्थकं द्वितीयार्थमनुचितार्थम्। एवमन्यदपि ज्ञेयम्। तथाप्रसिद्धावपि तेन रूपेण प्रसिद्धिसत्त्वेऽपि। पुंलिङ्ग इति। 'अप्रयुक्तः' इति शेषः । हालिकसाधारण-
- अन्रेति। अश्रीलार्थोंपस्थित्या श्रोतुवैमुख्यमिह दूषकताबीजम्। येषां पुनः शिव- लिङ्ग-सुभगा-भगिनी-ब्रह्माण्डादिशब्दानां विवक्षितार्थस्य प्रसिद्धतयाश्रीलाथों नोपतिष्ठते न तेपु दुष्टत्वमित्यतिरोहितं विदाम्।। 2. पञुपदमिति। अत्र शौर्ये प्रतिपादे पदान्तरानपेक्षमेव पशुपदं कातर्यमभिव्यनक्ति, पशुपदार्थे कातर्यस्य दर्शनात्। विरुद्धमतिकृत्तु पदान्तरसापेक्षं तथति तस्माद्ेदः ॥ 3. पद्मेति। 'वा पुंसि पझ्मम्' इत्यनेनाम्नातोपि पुंलिङ्ग: पझ्मशब्दः कविमिर्न क्वापि प्रयुक्तः। अत्र दूषकताबीजं तु तादृशकविसमयलङ्गनप्रयोजनानुसंधानव्यग्रतया मुख्यार्थ- विच्छित्तिः । यमकादिप्रयोजनसत्त्वे तु नायं दोषः, अन्यत्राप्रयुज्यमानस्यापि तदर्थ कविभि: प्रयोगस्य दर्शनेन व्यग्रताभावादिति।।
Page 410
सप्तम: परिच्छेद: । ३६३
ग्राम्यत्वं यथा- 'कटिस्ते हरते मनः ।' अत्र कटिशब्दो ग्राम्यः। अप्रतीतत्वमेकदेशमात्रप्रसिद्धत्वम्। यथा- 'योगेन दलिताशयः ।' अत्र योगशास्त्र एव वासनार्थ आशयशव्दः । 'आशीःपरम्परां वन्दां कर्णे कृत्वा कृपां कुरु।' अत्र वैन्द्यामिति किं बन्दीभूतायामुत वन्दनीयायामिति संदेहः। नेयार्थत्वं रूढिप्रयोजनाभावादशक्तिकृतं लक्ष्यार्थप्रकाशनम्।
प्रसिद्धार्थकशब्दो ग्रम्यः। कटिरिति। अन्र श्रङ्गारस्य गूढतकृतचारुत्वाभावात्प्र- कर्षप्रतीतिप्रतिरोधः । योगेन प्रकृतिपुरुषयोरभेदचिन्तनेन दलितः खण्डित आ- शयो वासना यस्य सः। आशयशब्दोऽप्रतीत इति शेषः। अत्र योगशास्त्राननुशीलिना- माशयपदार्थानभिज्ञानां योगिविषयभाववोधविलम्बकरत्वमप्रतीतत्वम्। प्रकरणाद्य- भावेन श्हषादिनार्थजनकः शब्दः संदिग्धः । आशीरिति। कर्णे कृत्वा श्रुत्वा। अत्रेति। वन्दामिति पदस्य संदिग्धत्वं शाब्दबोधविलम्बेन राजविषयरतिभाव- बोधस्य विलम्बकृत्। अशक्तिकृतं कवेरसामर्थ्यप्रयुक्तम्। असामर्थ्यमत्राव्युत्पत्तिः ।
- कटीति। अत्रेदं तत्त्वम्-ओ्रोणीनितम्बादिकमेव विदग्धैः प्रयुज्यते, कटिपदं त्ववि दग्धमात्रप्रयोज्यमिति आ्रम्यम्। पदं त्रिविधम्-ग्राम्यं नागरसुपनागरं च। विदग्धमात्र- प्सिद्धं नागरम्, आ्राम्यकक्षातिक्रान्तमप्राप्तनागरभावमुपनागरम्, नागरोपनागरे विहाय ग्राम्यशब्दप्रयोगाद्वक्तुरवैदग्ध्योन्नयनेनात्र दौष्टयम्। अत एव विदूषकादावधमे वक्तरि न दोषत्वम्, तस्य तथैवौचित्येन वैरस्याभावात्। 2. योगशास्त्र इति। 'करेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष इंश्वरः' इति पातञ्ञ- लसूत्रे वासनार्थक आशयशब्दः प्रयुक्तः। वासना चात्र संसारनिदानं मिथ्याज्ञानजन्यः संस्कारविशेष: दूषकताबीजं तु तच्छास्त्रानभिज्ञस्य तादृशार्थानुपस्थितिः । अत एव यत्र तच्छास्राभिज्ञ एव प्रतिपाद्यः स्वयमेव वा परामर्शस्तत्र न दोषत्वम्।। 3. वन्धामिति। संदेहो वक्तृतात्पर्यसंशयः बवयोरभेदबुद्धिमूलकः। वन्धामित्यानुपूर्व्यां उभयसाधारणतया विनिगमनाभावादर्यद्वयस्मरणे वक्तृतात्पर्यसंदेहः । दूषकताबीजमुद्देश्य- निश्चयाभावः अतो यत्र संदेह एवोद्देश्यस्तत्र यत्र च वाच्यादिमहिस्रा प्रकरणादिवशेन वा निश्चयस्तत्र चादोषत्वमिति गोविन्दठक्कराः ॥ 4. नेयार्थत्वमिति। नेयो न्यायराहित्येन स्वेच्छया कल्पनीयोडर्थों यस्य तत्त्वम्। 'नि रूढा लक्षणा: काश्चित्सामर्थ्यादभिधानवत्। क्रियन्ते सांप्रतं काश्चित्काश्चिन्नैव त्वशक्तितः ।।' इति भाट्टनयेन रूढिप्रयोजनाभ्यां विना प्रतिषिद्धा या लक्षणा तद्विषयत्वमित्यर्थः ॥
Page 411
३६४ साहित्यदर्पणे
यथा- 'कमले चरणाघात मुखं सुमुखि तेऽकरोत्।' अन्र चरणाघातेन निर्जितत्वं लक्ष्यम् । निहृतार्थत्वमुभयार्थस्य शब्दस्याप्रसिद्धेऽर्थे प्रयोगः। यथा- 'यमुनाशम्बरमम्बरं व्यतानीत्।' शम्बरशब्दो दैत्ये प्रसिद्धः । इह तु जले निहतार्थः । 'गीतेषु कर्णमादत्ते' अंत्राङ्-पूर्वो दाञ्-धातुर्दानार्थेऽवाचकः । यथा वा- 'दिनं मे त्वयि संप्राप्ते ध्वान्तच्छन्नापि यामिनी।' अत्र दिनमिति प्रकाशमयार्थेऽवाचकम् ।
चरणाघातेन चरणाघातपदेन निर्जितलवं पराभवः। मुखस्य चरणासंभवात्तदाघात- स्याप्यसंभव इत्यन्वयानुपपत्तिः । स्वजन्यचरणाघातपराभवः खजन्यवृत्तिपराभव- त्ववत्वं मुख्यलक्ष्ययोः संबन्धः । अत्र रूढिप्रयोजनव्यतिरेकनिश्चयेन कवेरशक्तिनि- श्रयः ततो लक्ष्योपस्थितिः ततः शाब्दबोध इति तद्विलम्वेनैव रसबोधविलम्बनमत्र दूषकताबीजम्। केचित्तु-'निर्जितत्वातिशयस्य प्रयोजनस्यैवोपस्थितेरत्र कथं नेया- र्थम्' इति चेतू, न। रूढिप्रयोजनभावपदस्य मुख्यार्थग्रहाभावोपलक्षणपरतया प्रकृते तत एव नेयार्थलाभ्युपगमात्। केचित्तु-'पद्मनिर्जिततं हि शोभयैव जनितं न तु चरणाघातेनेति तयोर्जन्यजनकभावसंबन्धाभावः इत्याहुः, तन्न। अत्र हि लक्षणाजन्यबोधानन्तरं सादृश्यप्रतीतिरेवानुभवसिद्धा, न तु निर्जितलातिशयप्रतीतिः । तात्पर्याभावात्, मुख्यलक्ष्ययोरुपदर्शितसंबन्धसंभवाच्च। न चात्र सादृश्यप्रतीतिरेव प्रयोजनमिति वाच्यम्। वक्रादिवैशिष्टयसचिवयार्थव्यञ्जनयैव तस्य जननातू। लक्ष- णाप्रयोजनस्य तु लक्षणामूलव्यअ्नाजन्यलनियमात, सादृश्यस्य च लक्ष्यार्थतद्व त्तिधर्मान्यतरसंबन्धलाभावात्, प्रयोजनस्य तदन्यतरवृत्तितवनियमात्। उभयार्थस्य प्रसिद्धाप्रसिद्धोभयवाचिनः यमुनाशभ्बरं यमुनाजलं व्यतानीद् व्याप्तवत्। दैत्ये दैव्यविशेषे। अन्र विलम्बेन पदार्थोपस्थापकत्वं यमुनाविषयरतिभावबोधविलम्बकृत्। आङ्पूर्व इति। नच 'दा' धातोर्दानेऽभिधासत्त्वेन कथमवाचकत्वमिति वाच्यम्। धात्वर्थबाधकोपसर्गरहित 'दा' धातोरेव दानेऽभिधाकल्पनात्। एतदखवी कारे तूदाहर- णान्तरमाह-यथा वेति। दिनमिति। दिनपदस्य सूर्यावच्छिन्नयामचतुष्टये- 1. निहताथत्वमिति। निहतः प्रसिद्धेनाविवक्षितेनारथेंनाप्रसिद्धतया व्यवहितो विव- क्षितोडर्यों यस्य तत्वम्। अविवक्षितप्रसिद्धार्थप्रत्ययव्यवधानेन विवक्षिताप्रसिद्धार्थबोधकत्व- मिति भाव: ।। १. 'अत्र' घ-पुस्तके नास्ति,
Page 412
सप्तम: परिच्छेदः। ३६५
'क्षीरोदजावसतिजन्मभुवः प्रसन्नाः ॥' अत्र क्षीरोदजा लक्ष्मीस्तस्या वसतिः पझं तस्य जन्मभुवो जलानि। 'भूतयेऽस्तु भवानीशः' अत्र भवानीशशब्दो भवान्याः पत्यन्तर प्रतीतिकारित्वाद्विरुद्धमतिकृत् अविमृष्टविधेयांशत्वं यथा- 'स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः।' डभिधा। अत्र शङ्गारप्रतीतिविलम्वनं दूषकताबीजम्। रूत्यादिसत्वे लाक्षणिकपद- प्रयोगेऽवाचकतवं तदसत्त्वे नेयार्थतमिति भेदः । निरूढलक्षणादौ शाब्दबोधविल- म्बाभावान्न रसादिबोध विलम्बनमिति नास्यावसर इत्यवधेयम्। 'हा धिक् सा किल तामसी शशिमुखी दृष्टा मया यत्र सा तद्विच्छेदरुजान्धकारितमिदं दग्धं दिनं कल्पि- तम्।' इत्यादौ प्रकाशमये दिनपद्प्रयोगदर्शनाद्रूढिः प्रकाशातिशयप्रतीतिप्रयोजनं वा। एवमन्यत्रापि बोध्यम्। केचित्तु-'भ्रमोन्नायकसत्त्वेऽवाचकतवं तदसत्त्वे नेयार्थत्म्' इति वदन्ति, तन्न। दिनमित्यादौ दिनपदस्य प्रकाशमयेऽर्थे अभिधात्र- मजनकाभावादू, 'वचोबाणतमागता' इत्यादिवक्ष्यमाणनेयार्थोदाहरणे भ्रमोननायक- सत्त्वेऽप्यवाचकलवानङ्गीकाराच्च। अर्थप्रतीतेः पदार्थोपस्थितेर्व्यवहितत्वं व्यवधानेन जनकत्म्। पदक्किष्टत्वस्य समासगतत्वेनैव दोषतं वक्ष्यते । समासेऽन्वितान्वय- लभ्यानतिप्रसक्तविशेष्यतावच्छेदककल्पनेन विलम्बो हि व्यवधानम्। वाक्यक्िष्ट- त्स्थले लासत्तिकल्पनेन विलम्बः । क्षीरोद्जेति। अत्रान्वितान्वयलभ्यानां क्षी- रोदजात-क्षीरोदजावसतित्व-क्षीरोदजावसतिजन्मस्थानलानां व्याप्यानि लक्ष्मीत्व- पद्मत्व-जलत्वानि प्रकृतोपयोगित्वप्रतिसंधानेन कल्पनीयानि, ततः शाब्दबोध इति रसादिबोधविलम्बनमन्र दूषकताबीजम्। भूतय इति। भवस्य पत्नी भवानी तस्या ईशः पतिः। अत्र देवविषयकरतिभावप्रकर्षबोधप्रतिरोधः । अविमृष्टेति।
- अर्थेति । अर्थस्य विवक्षितस्यान्वितविशेषस्य या प्रतीतिः प्रतिपत्तिस्तस्या व्यव- हितत्वं विलम्बितत्वम्। निहतार्थत्वादौ तु शक्यतावच्छेदकरूपेण प्रकृतपदार्थोपस्थितिरेव व्यवहितेति ततो भेद: ॥ 2. भवानीशेति। अत्र भवस्य पत्नीत्यथें 'पुंयोगात्-' इत्यादिना व्युत्पादितो भवानी- शब्द इति भवानीशशब्दो देवदत्तपतयाः पतिरितिवद् भवान्याः पत्यन्तरे प्रतीतिमुत्पादय- तीति। केचित्तु भवानीशब्देनापर्णात्वप्रकारक एव बोधः, अन्यथा भवानीशब्देन 'अपर्णा पार्वती दुर्गा- इत्यादीनां पर्यायत्वं न स्यात। योगस्तु पङ्कजादिशब्दवत्साधुत्वार्थः। एवं च भवानीशब्दोडपर्णात्वविशिष्टे रूढ इति नात्र दोष इत्याहुः॥
१. 'यथा' घ-पुस्तके नास्ति. २. 'विरुद्धमवगमयति' घ. ३. 'भवि-' इत्यादि 'यथा' इत्यन्तं
Page 413
२६६ साहित्यदर्पणे
अत्र वृथात्वं विधेयम्, तच्च समासे गुणीभावादनुवाद्यत्वप्रतीतिकृत्। यथा वा- 'रक्षांस्यपि पुरः स्थातुमलं रामानुजस्य मे।' अत्र रामस्येति वाच्यम्। यथा वा- 'आसमुद्रक्षितीशानाम्' अत्रासमुद्रमिति वाच्यम्। यथा वा- 'यत्र ते पतति सुभ्रु कटाक्षः षष्ठबाण इव पञ्चशरस्य।' अत्र षष्ठ इवेत्युत्प्रेक्ष्यम्। यथा वा- 'अमुक्ता भवता नाथ मुहूर्तमपि सा पुरा।' अत्रामुक्तेत्यत्र नञः प्रसज्यप्रतिषेधत्वमिति विधेयत्वमेवोचितम्। यदाहु :- 'अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता। प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ।।'
अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत्त्वम्। पदार्थानां मध्ये विधेयांश स्योपादेयत्वेन प्राधान्यम्। तस्य च प्राधान्येन निर्देश एवोचितः। तद्विपर्ययश्च क्वचित्समासेन क्वचिदुद्देश्यविधेयपदयोः पौर्वापर्यविपर्ययेण। तत्रादे पददोषलं द्वितीये वाक्यदोषता। अनुवाद्यलमुद्देश्यतम्। अलं समर्थानि। अत्र काकुखरव- शादसमर्थत्वं व्यज्यते। राक्षसविनाशे रामसंबन्धित्वस्यैवोपयोगितमिति तस्यैवोपादे- यतमिति भावः। आसमुद्रेति। रघुवंशाधिकारस्य समुद्रपर्यन्तत्वमुपादेयम्। उत्प्रे- क्ष्यमुत्प्रेक्षितुं योग्यम्। नञ्समासगतम विमृष्ट्विधेयांशत्मअमुक्कति । प्रस- ज्यप्रतिषेधत्वमिति। विधेरप्रधानत्वादिति भावः । विधेयत्वमिति। 'तदर्थस्य' इति शेषः । अप्राधान्यमिति। यत्र वाक्ये विघेः पदार्थान्तरस्य अप्राधान्यमुद्देश्य- 1. वृथात्वमिति। अयमाशय :- 'अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत्' इत्यभियुक्तो- त्या 'उद्देश्यविधेयताशालिबोधे विधेयवाचकप्राग्वर्त्युद्देश्यवाचकपद्जन्योपस्थितिः कारणमि- त्यभिप्रायवत्यानुवाद्यविधेययोः पौर्वापर्यभावस्य नियमितत्वात्प्रकृते उच्छूनत्वमात्रस्यानुवादो योग्यः, न तु वृथात्वविशेषितस्य। एवं च वृथात्वं (समासे गुणीभूतं) विधेयत्वेन विव- क्षितं न प्रतीयत इत्यर्थः । किंचोद्देश्यं विधेयं च यदि पृथक्पदाभ्यामुपतिष्ठते तदा प्राप्तमु- दिश्याप्रासं विधीयते 'पर्वतो वह्िमान्' इतिवत्, न तु समासे। अन्यथा वह्विमत्पर्वत इत्यभिधानापत्तेः ॥ 2. वाच्यमिति। वक्तुं योग्यम्।। 3. अन्रेति। 'अमुक्ता' इत्यत्र ननः प्रसज्यप्रतिषेधार्थकतया 'न मुक्ता' इत्यसमस्तेन नला निषेधो विधेयः, न तु समस्तेन।
Page 414
सप्तमः परिच्छेदः । ३६७
यथा- 'नवजलधरः संनद्धोऽयं न दपनिशाचरः ।' उक्तोदाहरणे तु तत्पुरुषसमासे गुणीभावे नजः पर्युदासतया निषे- धस्य विधयतयानवगमः यदाहु :-
तया अमुख्यलम्, प्रतिषेध नवर्थे प्रधानता विधेयतया मुख्यत्वम्। यत्र यदर्थे क्रियया समभिव्याहृतपदार्थतावच्छेदकेन सह संबन्धस्तत्र वाक्ये असौ नञ्। प्रस- ज्यप्रतिषेध इत्यर्थः । उदाहरति-यथेति। नवजलधर इति। गन्धर्वेणो- वश्यां हृतायां पुरूरवसस्तद्विरहे नवजलधरादौ निशाचरत्वादिप्रतीतिवर्णनमिदम्। अयं संनद्धो न नवजलघरः, दप्निशाचर इति। अयं नवजलधरत्वाभाववानित्यर्थ:। अत्रेदंपदार्थस्य उद्देश्यत्वम्, नञर्थस्याभावस्य विधेयत्वम्, समभिव्याहृतपदार्थताव- च्छेदकेन सह नवर्थस्य संबन्धः । न च विधेर्भावपदार्थस्येति व्याख्येयम्। अभावो न जातिमानित्याद्यसंग्रहापत्तेः । क्रिययेति। यथाश्रुतार्थविवक्षणे तु 'अयं न पाकवान्' इत्याद्यसंग्रहेऽप्यु क्तोदाहरणाद्यसंग्रहप्रसङ्गः । न च नवर्थस्य क्रियान्वयि त्वाभावेनो क्तोदाहरणादौ नञः प्रसज्यप्रतिषेधत्वमेव नास्तीति वाच्यम्। तत्र विधे- विधेयत्वाभावेन पर्युदासत्वासंभवात्तृतीयप्रकारानभिधानाच्च प्रसज्यप्रतिषेंधत्वस्यैवा- वश्यं वाच्यत्वात्। अत एवाव्ययीभावसमासप्रकरणे गोपीचन्द्रेणोक्तम्-'धर्माभावे प्रसज्यप्रतिषेधो माभूत्', 'व्राह्मणोऽयं न भवति', 'व्राह्मणत्वं धर्मोऽत्र निषिध्यते' इति। 'मुनिरधनः' इत्यादौ समासलुप्तविद्यमानादिपदार्थैकदेशे नजर्थस्य संबन्धः। वस्तुतस्तु 'घटो गेहे न चत्वरे', 'धनं चैत्रस्य न मैत्रस्य' इत्यादौ विभत्तयर्थेन सह नञर्थस्यान्वयेऽपि प्रसज्यप्रतिषेधत्वं वाच्यम्। नवर्थस्य विधेयत्वेनैव तत्सवीकारात्कि- यान्वयित्वस्यानियतत्वाच्च। एकं च 'घटो न पटः' इत्यादावुत्तरपदार्थेन पटादिना नजर्थस्य भेदस्य संबन्धसत्त्वेऽपि विधेयतामात्रेण प्रसज्यप्रतिषेधत्वम्। न चात्र पट- त्वाभाव एव विधेयः, न तु पटभेद इति वाच्यम्। पटभेदस्यापि विधेयत्वेन नवर्थस्य विधेयत्वेनैव तत्स्वीकारात्कियान्वयित्वस्यानित्यत्वाच्च बाधकाभावात्। न च भेदबो- धकस्य नजो नित्यसमासविधानमेव बाधकमिति वाच्यम्। यजतिषु 'ये यजामहं कुवींत (करोति) नानुयाजेषु' इत्यादौ व्यभिचारदर्शनात्कालापानां नित्यसमासवि- धानस्यायुक्तत्वात्। नित्यसमासवादिमतेऽपि 'अयमब्राह्मणः' इत्यादौ ब्राह्मणभे- दस्य विधेयत्वमवश्यं वाच्यम्। न चात्रापि ब्राह्मणत्वाभाववानित्येवार्थ इति वाच्यम्। समस्यमानपदार्थयोरन्वयाभावे तत्पुरुषानङ्गीकारात्। नन्वेवं प्रकृते किमनुपपन्नमि- त्यत आह-उक्तोदाहरणे त्विति। अमुक्तेत्यादावित्यर्थः। पर्युदासतया पर्युंदा- सवदनुवाद्यत्वप्रतीतिकारितया । अनवगमो विधेयताया न स्पष्टावगमः । यथाश्ु- तार्थत्वेऽत्र नञः प्रसज्यप्रतिषेधत्वमिति प्रागुक्तेन सह विरोधः स्यात् । विधेर्वि- घेयत्वाभावे पर्युदासासंगतिश्व स्यात्। पर्युंदासस्यानुवाद्यत्वमुपपादयति-यदाहु- १. 'तु' ध-पुस्तके नारित.
Page 415
३६८ साहित्यदर्पणे
'प्रधानत्वं विधेर्यत्र प्रतिषेधेडप्रधानता। पर्युदासः स विज्ञेयो, यत्रोत्तरपदेन नञ् ॥।' तेन 'जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः। अगृध्ुराददे सोऽर्थानसक्त: सुखमन्वभूत् ।।' अत्रात्रस्तताद्यनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गु- णीभावो युक्तः । ननु 'अश्राद्धभोजी ब्राह्मणः' 'असूर्यपश्या राजदाराः' इत्यादिवत् 'अमुक्ता' इत्यत्रापि प्रसज्यप्रतिषेधो भवतीति चेत्, न। अत्रापि यदि भोजनादिरूपक्रियांशेन नञः संबन्धः स्यात्तदैव तत्र प्रसज्यप्रतिषेधत्वं वक्तुं शक्यम्। न च तथा। विशेष्यतया प्रधानेन तद्भोज्यार्थेन कत्रे- शेनैव नञः संबन्धात्। यदाहु :- 'श्राद्धभोजनशीलो हि यतः कर्ता प्रतीयते। न तद्धोजनमात्रं तु कर्तरी नेर्विधानतः ॥' इति। रिति। यत्र वाक्ये विधे: पदार्थान्तरस्य प्रधानतं विधेयतया मुख्यतं प्रतिषेघे नवर्थेऽप्रधानता उद्देश्यतावच्छेदकतया अमुख्यलम्। यत्र यदर्थे उत्तरपदेन उत्त- रपदार्थेन सह संबन्धस्तत्र वाक्ये स नयः पर्युदासो विज्ञेय इत्यर्थः । 'रात्रौ श्राद्धं न कुर्वीत' इत्यादौ न रात्राविति योजनया रात्रावित्यस्योत्तरपदत्वमुपपत्नम्। उदाहरति-तेनेति। जुगोप पालयामास। अगध्ुस्तृष्णाशून्यः। स दिलीपः । असक्तोऽनासकः। अन्नस्ततादि त्रस्तभिन्नत्वादि। अनूदय उद्देश्यतावच्छेदकीकृत्य। तत्पुरुषसमासेनात्यन्ताभावानभिधानात्। त्रस्तत्वाभावादेरत्र नोद्देश्यतावच्छेद कत्व- मित्यवगन्तव्यम्। एवं च नः प्रसज्यप्रतिषेधत्वं पर्युदासत्वं च विधेयोद्देश्यभावविव- क्षाधीनम्, नतु नियतम्। गुणभावो गौणार्थप्रतिपादकत्वम्। नन्वश्राद्धभोजीति। समस्तेनापि नजा भोजनाद्यभावविधेयत्वस्य स्पष्टावगमे कथमविमृष्टविधेयांशत्वमिति भावः । तद्भोज्यार्थेन श्राद्धभोज्यादिरूपार्थेन। कत्रशनैवेति। भोजनार्थाद्ंशेन तत्संबन्धखीकारे णिन्याद्यर्थस्य कर्तुरनन्वयापत्तेः, कृदुपस्थापितस्य कर्तुर्धात्वर्थेनैवान्व- यस्य व्युत्पत्तिसिद्धत्वात्। अतः श्राद्धभोजिपदात्तद्गोजनमात्रं श्राद्धभोजनमात्रं 1. अश्राद्धेति। 'न श्राद्धं भुङ्गे' इति वाक्यं कृत्वा नञः श्राद्धशब्देनासमर्थसमासं विधायाश्राद्धशब्द उपपदे णिनि: कर्तव्यः । न तु णिन्यन्तेन समासरो विधेयः ॥ 2. असूर्यमिति। सूर्य न पश्यन्तीति विग्रहः । आदिपदेनापुनर्गेयाः श्रेका इति श्ञेयम्॥ 3. इनेरिति। णिनिप्रत्ययविधायकं तु 'व्रते' इति सूत्रम् । व्रते गम्यमाने सुबन्त उपपदे धातोर्णिनिः प्रत्ययो भवतीति तहृत्तिः ॥
Page 416
सप्तमः परिच्छेदः । ३६९
'अमुक्ता' इत्यत्र तु क्रिययैव सह संबन्ध इति दोष एव। एते च क्विष्टत्वादयः समासगता एव पददोषाः। वाक्ये दुःश्रवत्वं यथा- 'स्मरार्त्यन्धः कदा लप्स्ये कार्तार्थ्यै विरहे तव।' 'कृतप्रवृत्तिरन्यार्थे कविर्वान्तं समश्षुते ॥' अत्र जुगुप्साव्यञ्जिकाश्लीलता।
अत्र कमललौहित्यं पझ्मरागः । वक्राभिर्वामाभिः । इति नेयार्थता ।
प्रतीयत इत्यनुषङ्गः। क्रिययैव सह संवन्ध इति। भवत्कर्तृकमोचनाभावप्रतीति- बोधस्यानुभवसिद्धत्वादिति भावः । दोष एव अविमृष्टविधेयांशत्वमेव। एतन्मते समस्यमानपदार्थैकदेशे नवर्थान्वयेSपि समाससवीकारः। यदि पुनः कतप्रत्ययार्थस्य कर्मणोऽन्वयापत्त्या क्रियया सह नवर्थस्य संबन्धमनङ्गीकृत्य मोचनकर्मणैव संवन्ध: स्वीक्रियते, तदा पुनरयमव्राह्मण इत्यादिवदत्रापि मोचनकर्मपदस्यैव विधेयत्वं बोध्यम्। किं तु नञः समस्ततया यस्य न स्पष्टावगम इत्यविमृष्टविधेयांशत्वमित्य- वगन्तव्यम् । अन्नापि रसादिप्रतीतिविलम्बनं दूषकतावीजम्। एते चेति। आदिपदाद् विरुद्मतिकारित्विधेयाविमर्शयोर्ग्रहणम्। विना समासं तेषामसंभ- वादिति भातः । संप्रति वाक्यदुशश्रवत्वादीनुदाहरति-वाक्य इति। समरा. त्यन्ध इति। अन्रानेकपदस्य परुषवर्णघटितत्वाद्वाक्यदुःश्रवत्वम्। वाक्यगतं व्रीडाव्यज्जकमश्लीलत्वं यथा-'न साधनोन्नतिर्या स्यात्कलत्रारतिदायिनी।' जुगुप्सा- व्यअ्कमश्लीलत्वमुदाहरति-कृतप्रवृत्तिरिति। अन्यार्थे अन्यकविवर्णितवाक्यार्थे कृतप्रवृत्तिः कृतकाव्यवन्धः। अत्र वान्तप्रवृत्तिशब्दौ जुगुप्साव्यज्कौ। अमङ्गलाश्ी- लत्वं वाक्यगतं यथा-'पितृवसतिमहं प्रयामि तां सह परिवारजनेन, यत्र मे। भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् ।I' अत्र पितृवसतिपावक- शब्दौ जनकवेश्मपवित्रकारिवाचकौ रमशानतद्वूह्िरूपामङ्गलव्यजकौ-अनुचिता- र्थत्वं यथा-'कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि- दिशि च नम्ास्तव विभो। शरज्ज्योत्स्नागौरस्फुटविकटसर्वांङ्गसुभगा तथापि त्वत्की- र्तिर्भ्रमति विगताच्छादनमिह ।I' नभ्नाः स्तुतिपाठकाः, पक्षे दिगम्बराः । अत्र कुवि- न्दादिशब्दोरऽ्र्थान्तरं प्रतिपादयन्स्तुत्यस्य तिरस्कारं व्यनक्तीत्यनुचितार्थतम्। अप्रयु- कतत्वं यथा-'स रातु वो दुश्व्यवनो भावुकानां परम्पराम्। अनेडमूकतादैश्च द्यतु दोषैरसंमतान्।।' अत्र 'रा' धातुर्दाने, दुश्षयवन इन्द्रे, भावुकं मङ्गले, अनेडमूको मूक- बधिरे, 'दो' धातुः खण्डने प्रसिद्धा अपि कविभिरनादृतत्वादप्रयुक्ताः । 'अनुत्तमं पश्य' इत्यत्रानुत्तमपदस्योत्तमवाचकत्ववदनेडमूकपदस्यात्रैडमूकवाचकत्वम्। आ्राम्यत्वं 1. उद्यदिति। उद्यत्कमललौहित्यैरिति करणे तृतीया॥
Page 417
३७० साहित्यदर्पणे
यथा-'ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानुषः। करोति खादनं पानं सदैव च यथा तथा॥' गल्लः कपोलः । भल्लं भद्रम्। अन्र गह्लभल्लमानुषखादनपानशब्दा ग्राम्याः । अप्रतीतत्वं यथा-'तस्याधिमात्रोपायस्य तीव्रसंवेगिताजुषः । दृढभूमिः त्रियप्राप्तौ यत्न: स फलितः सखे ॥' अधिमात्रनामा क्रियाविशेषः उपायो यस्य। संवेगिता समाधिविशेषः । दृढभूमिर्दढाभ्यासदायी। प्रियप्राप्तौ तत्त्वज्ञानलाभे। अन्नाधिमात्रादयः शब्दा योगशास्त्रमान्नप्रयुक्त्तत्वादप्रतीताः। संदिग्धत्वं यथा- 'सुरालयोल्लासकरः प्राप्तपर्याप्तकम्पनः। मार्गण प्रवणो भाखद्गतिरेष विलोक्यताम्॥' अत्र सुरकम्पनमार्गणभूशब्दाः, किं देवसेनाशरविभूत्यर्थाः, किंवा मदिराकम्पन- पर्यटनभस्मार्था इति संदेहः। नेयार्थत्वमाह-उद्यदिति। अन्न हि उत्पूर्वस्येण्- धातोरुदयगिरिशिखरारोहणं मुख्यार्थस्य पद्मरागे बाधात्तजन्यप्रकाशे लक्षणा।
न्तव्यम्। अन्यदपि नेयार्थत्वमुपपादयति-अत्रेति। पझ्मरागपदस्य परिवृत्त्यसह- त्वात्कमलपदस्य पद्मशब्दे, लौहित्यपदस्य च रागशब्दे, वक्रापदस्य वामाशब्दे लक्षणा। लक्षितैः पद्मादिभिः पदैरभिधया पद्मरागवामानामुपस्थितिः। यथा-द्विरे- फपदेन बहुव्रीहिलक्षणयोपस्थापिताद्रेफद्वययुक्तभ्रमरपदादभिधयव भृङ्गोपस्थितिरत्र रूढिरस्ति। प्रकृते तु रूढिप्रयोजनाभावान्नेयार्थत्वम्। इयमेव लक्षितलक्षणेत्युच्यते। न च लक्षणाद्वयाभावात् कथमियं लक्षितलक्षणेति वाच्यम्। यत्र लक्षिताच्छब्दाद- र्थाभिधानं तत्रैव लक्षितलक्षणायाः परिभाषितत्वात्। ननु द्विरेफपदस्य रेफद्वययुक्तभ्रम- रशब्द एवार्थस्तथा सति द्विरेफं पश्येत्यादौ द्वितीयार्थकर्मताया भृङ्गेनान्वयः। तथाहि प्रकृत्यर्थान्वितस्ार्थबोधकत्वं प्रत्ययानामिति नियमादिति चेतू, न। प्रकृत्यर्थाभिन्नत्वे- नाध्यासितस्यापि प्रकृत्यर्थलात् । अत एव मुखचन्द्रं पश्येत्यादौ चन्द्राभिन्नत्वेना- ध्यासिते मुखे कर्मताया अन्वयः। तथा हि द्विरेफशब्दाद्भ्मरशब्दस्य, द्वितीयातश्च कर्मतायाः, लक्षितभ्रमरशब्दादू भृङ्गस्य चोपस्थितौ भृङ्ग भ्रमरशब्दाभेदं कर्मतां चाव- गाहमान आंशिकाध्यारोपरूपो बोधो जायते। शब्दतदर्थयोरभेदारोपश्च 'हिरण्यपूर्व कशिपुं प्रचक्षते' इत्यादौ दृष्टः । नैयायिकास्तु-'द्विरेफपदस्य अ्रमरशब्दे एका लक्षणा, लक्षितत्रमरशन्दवाच्यतसंबन्धेन भृङ्गे चापरा लक्षणा, ततश्र प्रकृत्यर्थे भृङ्गे कर्मतान्वयबोधः इत्याहुः, तन्न। सकृदुच्चरितशब्दादावृत्तिं विना क्रमिकबोधाननुभ- वातू। अजनितान्वयाबोधस्य शब्दस्यावृत्त्यभावातू। आवृत्तौ च द्वितीयाया अप्या- वृत्तौ प्रथमोक्तद्वितीयाया अन्वयानुपपत्तेः । अस्मदुक्तरीतेः मुखचन्द्रं पश्येत्यत्राव- श्यमाश्रयणीयत्वाच्चेत्यास्तां विस्तरः। निहतार्थ यथा-'सायकसहायबाहोर्मकरध्व- जनियमितक्षमाधिपतेः । अब्जरुचिभासुरस्ते भातितरामवनिप श्लोकः ॥' अत्र साय- कमकरध्वजक्षमाब्जश्लोकशन्दाः शरकामक्षान्तिपद्मयशःसु प्रसिद्धा अप्रसिद्धेषु खङ्गा- ब्धिभूमिचन्द्रयशःसु प्रयुक्ताः । अवाचकत्वं यथा-'नमन्नृपतिमण्डलीमुकुटचन्द्रि- कादुर्दिनस्फुरच्चरणपल्लवप्रतिपदोक्तदोःसंपदा। अनेन ससजेतरां तुरगमेधमुक्तत्रमत्तुर- ङ्गखुरचन्द्रकप्रकरदन्तुरा मेदिनी॥' अन्न चन्द्रिकाशब्दः किरणसामान्ये, दुर्दिनशब्दश्छ- १. 'शब्द' पुस्तकान्तरे नास्ति.
Page 418
सप्तम: परिच्छेदः । ३७१
'धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ।।' अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यतीति संबन्धः क्िष्टः । 'न्यक्कारो ह्ययमेव मे यत् इति। अत्र चायमेव न्यक्कार इति न्यकारस्य विधेयत्वं विवक्षितम्। तच्च शब्दरचनावैपरीत्येन गुणीभूतम्। रचना च पदद्वयस्य विपरीतेति वाक्यदोषः । 'आनन्दयति ते नेत्रे योडसौ सुभ्रु समागतः ।' इत्यादिषु 'यत्तदोर्नित्यः संबन्धः' इति न्यायादुपक्रान्तस्य यच्छब्दस्य निराकाङ्कत्वप्रतिपत्तये तच्छब्दसमानार्थतया प्रतिपाद्यमाना इदमेत- दद:शब्दा विधेया एव भवितुं युक्ताः। अत्र तु यच्छब्दनिकटस्थतया अनुवाद्यत्वप्रतीतिकृत्। तच्छब्दस्यापि यच्छब्दवनिकटस्थितस्य प्रसिद्ध- परामार्शत्वमात्रम् । यथा- न्नमात्रे सम्यक्शब्दश्वरणसमृद्धाववाचकः। क्विष्टत्वमाह-धम्मिल्लस्येति। अपूर्वा बन्धस्य व्युत्पत्तिनैंपुण्यं यस्याः । विरुद्धमतिकारित्वं यथा-'त्रितक्षमा रक्तभुवः शिवालिद्गितमूर्तयः।विग्रहृक्षपणेनाद्य शेरते ते गतासुखाः॥' गतासुखा गतदुःखाः। पक्षे- गतानि असवः खानि इन्द्रियाणि च येषां ते तथा। अत्र क्षमादिगुणयुक्ताः सुखमासते इति विवक्षिते हता इति विरुद्धार्थप्रतीतिः। अविमृष्टविधेयांशत्वमाह-न्यक्कार इति। तञ्चेति। 'अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत्' इति न्यायादिति भावः। उ- दाहरणान्तरमाह-आनन्दयतीति। नित्यःसंबन्ध इति। अवश्यमन्योन्यापेक्षि- तत्वमित्यर्थः । स च संबन्धः शाब्द आर्थश्च भवति। द्वयोरुपादाने शोब्दः, उभ- योरनुपादाने आर्थः। क्रमेणोदाहरिष्यति। उपकान्तस्य अनुवाद्यत्वबोधकस्य। प्रति- पाद्यमाना: प्रयुज्यमाना विधेयाविधेयत्वबोधकाः। नन्वत्र किं बाधकमत आह-अत्र त्विति। उक्तोदाहरणे त्वित्यर्थः । (अद :- शब्द इति विशेषः ।) प्रसिद्धपरा- 1. यत्तदोरिति। तत्पदप्रतिपाद्यतया वक्तृबुद्धिविषय उद्देश्यो यत्पदार्थः, यत्पदप्रतिपा- दयतया वक्तृबुद्धिविषयो विधेयभूतस्तत्पबार्थ इति वैयाकरणाः ॥ 2. अन्नत्विति। अयमाशयः-'योऽसौ' इति पदद्वयमुद्देश्यविधेयार्थकतया विवक्षित- मपि न चैतत्तत्प्रतिपादकम्। यच्छब्दसांनिध्येन प्रयुज्यमानस्यादसो यच्छब्दार्थगतप्रसिद्धि- बोधकतयोद्देश्यकोटिप्रविष्टार्थकत्वात्। यथा 'यः स ते-' इत्युदाहतौ तच्छब्दो यच्छब्दसां- निध्याद्यदर्थविशेषणतया प्रसिद्धार्थमभिदधदुद्देश्यवाक्य एव प्रविशति, न तु विधेयवाक्य इति तात्प्रर्यम्।। १. 'शाब्दार्थ:' इति पुस्तकान्तरे. २. पुस्तकान्तरे नास्ति.
Page 419
३७२ साहित्यदर्पणे
'यः स ते नयनानन्दकरः सुभ्रु स आगतः ।' यच्छब्दव्यवधानेन स्थितास्तु निराकाङ्कत्वमवगमयन्ति। यथा- 'आनन्दयति ते नेत्रे योऽघुनासौ समागतः ॥।' एवमिदमादिशब्दोपादानेऽपि। यत्र च यत्तदोरेकस्यार्थत्वं संभवति, तत्रैकस्योपादानेऽपि निराकाद्कत्वप्रतीतिरिति न क्षतिः । तथाहि यच्छब्दस्योत्तरवाक्यगतत्वे नोपादाने सामर्थ्यात् पूर्ववाक्ये तच्छब्दस्या- र्थत्वम्। यथा- 'आत्मा जानाति यत्पापम्' एवम्- 'यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे। भार्वन्ति रत्नानि महौषधींश्र-' इत्यादावपि। तच्छब्दस्य प्रकान्तप्रसिद्धानुभूतार्थत्वे यच्छब्दस्यार्थत्वम्।
मर्शित्वमात्रं प्रसिद्धबोधकत्वमेव, न तु विधेयत्वबोधनेन निराकाह्ृत्वबोधकप्रतिपाद- कत्वम्। तदुक्तम्- 'ख्यातार्थमनुभूतार्थ प्रक्ान्तार्थ च तत्पदम्। यत्पदापेक्षया हीनं न विधेयत्वबोधकृत् ।।' इति। यत्र तु प्रसिद्धादिपरामर्शिनोऽपि तच्छ्दस्य यत्पदेन संबन्धः संभवति तत्र विधेयत्वप्रतीतिकारित्वमस्त्येव। क्रमेण यथा-'करवदरस- दशमखिलं भुवनतलं यत्प्रसादतः कवयः । पश्यन्ति सूक्ष्ममतयः सा जयति सर- स्वती देवी॥', 'यदङ्गलावण्यमनङ्गभङ्गदं यदाननं निन्दति बिम्बमैन्दवम्। मम क्षणं मुञ्चति मानसं न या विहाय तां हन्त न शान्तिरस्ति मे॥', 'रसैः कथा यस्य सुधा- वधीरिणी नलः स भूजानिरभूद्गुणाद्भुतः ।' स्थिाता इति। तदादयः शब्दा इत्यनुषज्यन्ते। आर्थत्वमर्थवशलभ्यत्वम्। सामर्थ्यात् परस्पराकाङ्कानैयत्यातू। एते- नोत्तरवाक्यस्थं यत्पदं तत्पदनिराकाङ्कमिति हेयम्। आत्मेति। तदात्मा जानाति यत्पापमस्ति इत्यर्थः । यमिति। स हिमालयोऽस्तीति पूर्ववाक्ये तच्छब्दस्यार्थ- त्वम्, उत्तरवाक्यस्थयत्पदस्य पूर्ववाक्यस्थतत्पदेन शाब्द: संबन्धोऽपि। यथा 'अन्यास्ता गुणरत्नरोहणभुवः' इत्यादि। एवं पूर्ववाक्यस्थयत्पदस्योत्तरवाक्ये प्रतीय- मानतत्पदापेक्षा यथा-'यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम्। विपर्य-
1· प्रकान्तेति। प्रकरान्तः पूर्वप्रतीतिविषयः, प्रसिद्धो लोकविख्यातः, अनुभूतोऽनु- भवविषयोऽर्थों विषयस्तथाभूते॥
Page 420
सप्तम: पारेच्छेद:। ३७३
क्रमेण यथा- 'स हत्वा वालिनं वीरस्तत्पदे चिरकाङिते। धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् ।।' 'स वः शशिकलामौलिस्तादात्म्यायोपकल्प्यताम्।' 'तामिन्दुसुन्दरमुखीं हृदि चिन्तयामि।' यत्र च यच्छव्द्निकटस्थितानामपीदमादिशब्दानां भिन्नलिङ्गविभ- क्तित्वं तत्रापि निराकाङ्कत्वमेव । क्र्मेण यथा- 'विभाति मृगशावाक्षी येदं भुवनभूषणम्।' 'इन्दुर्विभाति यस्तेन दग्धाः पथिकयोषितः ।' क्वचिदनुपात्तयोर्द्वयोरपि सामर्थ्यादवगमः । यथा- 'न मे शमयिता कोऽपि भारस्येत्युर्वि मा शुचः । नन्दस्य भवने कोऽपि बालोऽस्त्यद्भुतपौरुषः ।l' अत्र योऽस्ति, स ते भारस्य शमयितेति बुध्यते। 'यद्यद्विरहदुःखं मे तत्को वापहरिष्यति।' इत्यत्रैको यच्छब्दः साकाङ्क इति न वाच्यम्। तथाहि-यैद्यदि- येन्द्रियार्थार्थ विषमत्त्यमृतं त्यजेत् ॥।'स हत्वेति। यः सुग्रीवप्रियकारीत्यर्थतोऽव- गम्यते। स व इति। यः शिवो लोके पूज्यते इत्यर्थः। तामिति। या रूपलावण्य- पूर्णेत्यर्थतोऽवगम्यते। एवमेव चण्डीदासादयः। तेषामयमाशयः-प्रक्रान्तादिपराम- शकस्य तत्पदस्य यत्पदनिराकाह्वत्वे 'यत्तदोर्नित्यः संबन्धः' इति नियमभङ्गश्च स्यात्। एवं च 'यत्पदापेक्षया हीनम्' इति प्रागुक्तं तूत्थिताकाड्काविरहपरम्, 'स हत्ा' इत्यादौ स क इत्युत्थाप्याकाङ्मयैव संगतिरिति नियमे तु यत्पदसंनिहितत्वेन यत्पद- प्रसिद्धार्थकं यत्पदं तद्भेदो निवेशनीय इति। द्वयोर्यत्तत्पदयोः। सामर्थ्यादाकाङ्ढातः । ननु यत्र पूर्ववाक्ये यत्पददयं तत्र कथमेकतत्पदेन निराकाह्ृतप्रतीतिः। तत्र तत्पद्- द्वयस्येव वक्तुं योग्यलात्। यथा-'यं यं कामयते कामं तं तमाप्नोति लीलया' इति। अत आह-यद्यदिति। एक इति। उत्तरवाक्ये एकतत्पदप्रयोगादिति भावः । 1. आदेशमिति । स्थान्यर्थाभिधानसमर्थमिति भावः ॥ 2. यद्यदिति। परमार्थस्तु यद्यदिति न पदद्वयम्। किंतु 'नित्यवीप्सयोः' इति सूत्रेण वीप्सायां यदो द्वित्वापन्नोऽयमादेशः । एवं चादेशिनैकेन यत्पदेन तत्पदेन च हाभ्यामप्ये- केनैव रूपेण दुःखपरामर्शः। आदेशस्तु साकल्येनान्वये तात्पर्यग्राहक इति यत्पदीयेनैव तेन संबन्धभानोपपत्तौ न तत्पदेऽपि वीप्साद्योतको द्वित्वापन्न आदेशः । यत्र तु तत्पदेऽपि वीप्सा तन्र न यत्पदेडप्यादेशः । कि तूभाभ्यां रूपद्वयेन सर्वोपस्थानमिति तत्त्वम् ॥ सा० द० ३२
Page 421
३७४ साहित्यदर्पणे
त्यनेन केनचिद्रूपेण स्थितं सर्वात्मकं वस्तु विवक्षितम्। तथाभूतस्य तस्य तच्छब्देन परामर्शः । एवमन्येषामपि वाक्यगतत्वेनोदाहरणं बोध्यम्। पदांशे श्रुतिकट्ठ यथा- 'तद्गच्छ सिच्ै कुरु देवकार्यम्।' 'धातुमत्तां गिरिर्धत्ते।' अत्र मत्ताशब्द: क्षीबार्थे निहतः । 'वर्ण्यते किं महासेनो विजेयो यस्य तारकः ।' अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थेवाचकः । 'पाणिः पल्लवपेलवः ।' पेलैवशब्दस्याद्याक्षरे अश्लीले। 'संग्रामे निहताः शूरा व चोवाणत्वमागताः ।' अत्र वच:शब्दस्य गीःशब्दवाचकत्वे नेयार्थत्वम्। तथा तत्रैव बाण- स्थाने शरेति पाठे। अत्र पदद्वयमपि न परिवृत्तिसहम्। जलध्यादौ सर्वात्मकमिति। विरहदुःखत्वेन सामान्येन सर्व विरहृदुःखमित्यर्थः। तथाभूतस्य विरहदुःखत्वावच्छिन्नस्य। तथा च वीप्साया वक्तृतात्पर्यमेव नियामकम्। सामा- न्यरूपेण उपस्थापने वक्तृतात्पर्ये सति न तत्पदे वीप्सा। तत्तद्यक्तित्वेन उपस्थापने तात्पर्ये सति तत्पदे वीप्सा। क्वचित्तु तत्पदे एव वीप्सा, न तु यत्पदे। यथा-'ते ते सत्पुरुषा: परार्थघटकाः स्वार्थस्य बाधेन ये।' एवमिति। अन्येषामनुचितार्थ- खादीनाम्। तच्च मया दर्शितमेव। 'दोषाः के चिद्धवन्त्येषु पदांशेऽपि पदेऽपि च' इति यदुक्तम्, तदुदाहरणमाह-तद्गच्छेति। अन्ीले इति । ब्रीडाव्यञ्जके। जुगुप्साव्यञ्जकं यथा-'पूयते' इति। अन्र पूयशव्दः। अमङ्गलव्यञ्ञकं यथा-'अभिप्रेतः' इति। अत्र प्रेतशब्दः। वचोवाणतं गीर्वाणलम्। गीःशब्दवा- चकत्वे इति। लक्षणया गीःशब्दप्रतिपादकत्वे इत्यर्थः। तथा नेयार्थतम्। तत्रैव गीर्वाणशब्द एव। परिवृत्तिसहं श्रुतशव्दपरित्यागेन तत्पर्यायशब्दान्तरदानेऽपि 1. सिध्धै इति। अत्र 'सिच्चै' इति चतुर्थ्यन्तपदैकदेशः श्रुतिकङः ॥ 2. विजेय इति। 'अर्हे कृत्यतृचश्र' इति सूत्रेणाहार्थे 'अचो यत्' इति सूत्रेण विहितः कृत्यसंज्ञो यत्प्रत्ययो भूतत्वरूपे क्प्रत्ययार्थेंऽवाचकः ॥ 3. पेलवेति। 'पेल' इति वर्णद्वयं लाटभाषायां वृषणरूपगुह्याङ्गप्रत्यायकतया नीडा- दायीति प्रकाशव्याख्यातारः । 4. जलध्यादाविति। तथा चोक्तमरिसिंहेन-'जलदादिपु पूर्वपदे सरोजमुख्येपु चो- त्तरपदेपु। सुरपतिसमेपु चोभयपदेपु पर्यायपरिवृत्तिः ॥ इति परिवृत्तिसहा ये योगात्ते यौ- गिका: शब्दाः । परिवृत्त्यसहा ये तु मिश्रा गीर्वाणतुल्यास्ते॥' योगरूढिमन्तो गीर्वाणादिमि- श्रशब्दाः परिवृत्ति न सहन्त इत्यर्थः ॥
Page 422
सप्तमः परिच्छेदः । ३७५
तूत्तरपदम्, वाडवानलादौ पूर्वपदम्। एवमन्येडपि यथासंभवं पदांश- दोषा ज्ेयाः। निरर्थकत्वादीनां त्रयाणां च पदमात्रगतत्वेनैव लक्ष्ये संभवः । क्रैमतो यथा- 'मुश्च मानं हि मानिनि।' अत्र हिशब्दो वृत्तपूरणमात्रप्रयोजनः । 'कुञ्जं हन्ति कृशोदरी।' अत्र हन्तीति गमनार्थे पठितमपि न तत्र समर्थम्। 'गाण्डीवी कनकशिलानिभं भुजाभ्या- माजन्ने विषमविलोचनस्य वक्षः।' 'आडो यमहनः', 'साङ्गकर्मकाच्च' इत्यनुशासनबलादाङपूर्वस्य हनः खाङ्गकर्मकस्यैवात्मनेपदं नियमितम् । इह तु तल्लङ्वितमिति व्याकरणलक्षणहीनत्वात् च्युतसंस्कारत्वम्। नन्वत्र 'आजन्ने' इति पदस्य खतो न दुष्टता, अपि तु पदान्तरा- पेक्षयैव। इत्यस्य वाक्यदोषता। मैवम्। तथाहि गुणदोषालंकाराणां शब्दार्थगतत्वेन व्यवस्थितेस्तदन्वयव्यतिरेकानुविधायित्वं हेतुः । इह तु दोषस्य 'आजन्ने' इति पदमात्रस्यैवान्वयव्यतिरेकानुविधायित्वम्। पदान्तराणां परिवर्तनेऽपि तस्य तादवस्थ्यादेव इति पददोष एव। तथा यथेहात्मनेपदस्य परिवृत्तावपि न पददोषः, तथा हन्प्रकृतेरपीति न पदांशदोषः ।
तदर्थबोधकम्। उत्तरपद्मिति। न परिवृत्तिसहमित्यनुषङ्गः । एवमग्रेऽपि। एव- मिति। 'प्रकटितम्' इत्यादौ कटिशब्दो ग्राम्यः । 'संभवन्ति पदे परे' इति यडुक्तं तदुदाहर्तुमाह-निरर्थकत्वादीनामिति । आदिना असमर्थत्वच्युतसं- स्कारयोग्रहणम्। अन्न गमनार्थेन समर्थे न प्रतिपत्तिक्षमम्। तलङ्गितमिति।
- एवमन्येऽपीति। 'कस्मिन्कर्मणि सामर्थ्यमस्य नोत्तपतेतराम्। अयं साधुचर- स्तस्मादञ्जलिर्बध्यतामिह ।। इत्यादौ पदैकदेशे संदिग्धत्वमनुसंधेयम्। तथाहि-इह सा- धुचरपदस्य चरेत्येकदेशः पूर्व साधुरित्यथें 'भूतपूर्वे चरट्' इति सूत्रेण व्युत्पादितः । अथवा साधुषु चरतीत्यर्थे 'चरेष्टः' इत्यनेनेति प्रकरणाद्यभावे वक्तृतात्पर्यसंदेहः ॥
१. 'क्रमतः' घ-पुस्तके नास्ति.
Page 423
३७६ साहित्यदर्पणे
एवं 'पझः' इत्यत्राप्रयुक्तस्य पदगतत्वं बोध्यम्। एवं प्राकृतादि- व्याकरणलक्षणहानावपि च्युतसंस्कारत्वमूद्यम्। इह तु शब्दानां सर्वथा प्रयोगाभावेऽसमर्थत्वम्। विरलप्रयोगे निह- तार्थत्वम्। निहतार्थत्वमनेकार्थशब्दविषयम्। अप्रतीतत्वं त्वेकार्थस्यापि शब्दस्य सार्वत्रिकप्रयोगविरहः। अप्रयुक्तत्वमेकार्थशब्दविषयम्। असमर्थत्वमनेकार्थशब्दविषयम्। असमर्थत्वे हन्त्यादयो गमनार्थे पठिताः। अवाचकत्वे दिनादयः प्रकाशमयाद्यर्थे, न तथेति परस्परभेदः। एवं पददोषसजातीया वैक्यदोषा उक्ताः, संप्रति तद्विजातीया उच्यन्ते। वर्णानां प्रतिकूलत्वं, उप्ताहतविसर्गते। अधिकन्यूनकथितपदताहतवृत्तताः ॥५॥। पतत्प्रकर्षता, संधौ विश्लेषाश्लीलकष्टताः। अर्धान्तरैकपदता समाप्तपुनरात्तता ॥ ६॥ अभवन्मतसंबन्धाक्रमामतपरार्थताः। वाच्यस्यानभिधानं च भग्नप्रक्रमता तथा। ७॥ त्याग: प्रसिद्वेरस्थाने न्यासः पद्समासयोः। संकीर्णता गर्भितता दोषा: स्युर्वाक्यमात्रगाः॥८।।
अनुशासनमन्यथाकृतमित्यर्थः । एवं पद्म इति। अप्रयुक्तस्य अयुक्तत्वस्य पदगतत्वं न तु पदांशगतलम्। इदानीं केषांचिद्दोषाणां परस्परभेदं दर्शयति-इह त्विति। सर्वथेति। यत्र ज्ञापकं नास्ति तत्रैव प्रयोगाभावः । ज्ञापकसत्वे तु प्रयोगो- डस्त्येव। यथा-हनधातोर्गतौ जङ्गापद्धतिरित्यादिप्रयोगः। अत्र यनलोपपच्छन्दौ ज्ञापकौ। कुटिलं गम्यतेऽनया इति जङ्गा। पच्चां गम्यतेऽत्रेति पद्धतिः। एतदर्थमेव हनधातोर्गतौ पाठः । केचित्तु-'पुनः पुनः गम्यतेऽनया' इति यनो वाक्यं कुर्वन्ति, तन्न। गत्यर्थधातोरत्यर्थे पौनःपुन्ये च यन्प्राह्यभावात्। विरलेति। शलेषादौ प्रयोगो न लन्यत्र। एतेनासमर्थतनिहतार्थयोर्भेदो दर्शितः। निहतार्थताप्रतीततयो- भेदमाह-निहतार्थत्वमिति। अप्रयुक्ततवासमर्थयोर्भेदमाह-अप्रयुक्तत्वमिति। असमर्थतावाचकत्वयोर्भेदमाह-असमर्थत्वे इति।न तथा पठिताः। तद्विजातीयाः पददोषविजातीया वाक्यदोषा उच्यन्ते इत्यनुषङ्वेणान्वयः । लुप्तति। लप्तविस- ्गता, आहतविसर्गता च। एवमधिकपदता, न्यूनपदता, कथितपदता च। संधा- विति। संधिविश्लेषः संध्यश्लीलता संधिकष्टता च। रसानुगुण्यविपरीतत्वं च प्रकृत-
१. 'भावात्' क, २. 'अपि' इत्यधिकं घ-पुस्तके. ३. 'वाक्ये' घ.
Page 424
सप्तम: परिच्छेदः । ३७७
वर्णानां रसानुगुण्यविपरीतत्वं अतिकूलत्वम्। यथा मम- 'ओवद्टइ उल्लद्टइ, सअणे कहिंपि मोट्ाअइ णो)परिहदृइ+ (:) हिअएण, फिट्टइ लज्जाइ खुद्इ दिहीए सा ।' (?) अत्र टकारा: शरृङ्गाररसपरिपन्थिनः केवलं शक्तिप्रदर्शनाय निबद्धाः । एषां चैकद्वित्रिचतुःप्रयोगे न ताद्ग्रसभङ्क इति न दोषः। 'गता निशा इमा बाले।' अत्र लुप्तविसर्गाः। आहता ओत्वं प्राप्ता विसर्गा यत्र। यथा- 'घीरो वरो नरो याति' इति। 'पल्लवाकृतिरक्तोष्ठी ।' अत्राकृतिपदमधिकम्। एवम्- 'सदाशिवं नौमि पिनाकपाणिम् ।' इति विशेषणमधिकम् ।
रसविरोधिरसगतगुणव्यञ्चकत्वेन। ओवट्टइ् इति। 'उदूर्तयति उल्लोटयति शयने कर्ह्यपि मोध्यति नो परिघट्ट्यति। हृदयेन स्फिटयति लज्जया खुद्टयति धृतेः सा ॥' इति संस्कृतम्। विप्रलम्भवर्णनमिदम्। उद्धर्तयति देहमुत्तानीकरोति। उल्लोटयति पार्श्वपरिवृत्ति करोति। मोधायितभावं न करोति। स्फिटयति भ्रश्यति। खुद्ट्यति कुण्ठिता भवति। श्ङ्गाररसपरिपन्थिनः शृङ्गारविरुद्धवीरबीभत्सरौद्रगतौजोगुणव्यञ्ञ- कत्वेन शङ्गारप्रकर्षबोधप्रतिबन्धकाः। एषां प्रतिकूलवर्णांनाम्। ताहग्वर्णप्रतिकूलत्वनि- बन्धनो रसभङ्ग: रसप्रकर्षबोधप्रतिबन्धः। दुःश्रवतनिवन्धनस्तु वर्तत एव। अत एव 'निर्वर्ण्य पत्युर्मुखम्' इत्यत्र रेफयुक्तस्य वर्णत्रयस्य सत्वेऽपि नायं दोषः। दुःश्रवतंतु चर्तत एव। ननूक्तोदाहरणे दुःश्रवत्वमेव दोप इति चेदुदाहरणान्तरं बोध्यम्। यथा- वृन्दारकप्रकरमद्य करोम्यशङ्कमानन्दयामि मुनिव्ृन्दममन्दमङ्ग। भङ्गं भुजङ्गमगणस्य भयं नयामि त्वामन्तकातिथिमसन्तमहं विधाय ।' रावणं प्रति श्रीरामस्योक्तिरियम्। अत्र माधुर्यव्यञ्जकवर्णप्राचुर्ये वीररसस्य परिपन्थि। गता इति। द्वयमपि बहुसः पात एव दोषः । विसर्गस्थितिबाहुल्ये दुःश्रवत्वमेव। यथा-'स्मरः खरः खलः कान्तः' इति। अधिकमनुपयुक्तार्थ पदं यत्र तत्त्वम्। अन्नाकृतिपद्मिति। शिलापुत्रस्य शरीरमितिवत् पल्लवाकृतेः पल्लवानतिरिक्तत्वादाकृतिपदमनुपयुक्तार्थमिति भाव: । अन्ये तु 'आकृतिः संस्थानं तत्र संयोगसरूपमेव तत्र रक्तत्वस्य वाधादधि- कपदम्' इत्याहुः, तन्न। बाधे अभवन्मतयोगत्वस्यैव प्रसक्त्तेः, न त्वधिकपदत्वस्य 'प्रभातवाता इति कम्पिताकृतिः' इत्यादिप्रयोगादाकृतिशव्दस्य शरीरवाचकत्वाच्च।
१. 'प्रयोगेण' घ.
Page 425
३७८ साहित्यदर्पणे
'कुर्या हरस्यापि पिनाकपाणेः' इति। अत्र तु पिनाकपाणिपदं विशेषप्रतिपत्त्यर्थमुपात्तमिति युक्तमेव। यथा वा- 'वाचमुवाच कौत्सः।' अत्र वाचमित्यधिकम्। उवाचेत्यनेनैव गतार्थत्वात्। कचित्तु विशेषणदानार्थ तत्पयोगो युज्यते। यथा- 'उवाच मधुरां वाचम्' इति। केचित्त्वाहुः-यत्र विशेषणस्यापि क्रियाविशेषणत्वं संभवति तत्रापि तत्प्रयोगो न घटते। यथा- 'उवाच मधुरं धीमान्' इति। 'यदि मय्यर्पिता दृष्टिः किं ममेन्द्रतया तदा।' अत्र प्रथमे त्वयेति पदं न्यूनम्। 'रतिलीलाश्रमं भिन्ते सलीलमनिलो वहन्।' लीलाशब्दः पुनरुक्त: । एवम्- 'जक्षुर्विसं धृतविकासिबिसमसूनाः ।' 'अन्यथा तन्र संयोगकल्पनानुपपत्तेः' इत्यपरे। कुर्यामिति। पिनाकपाणेरपि धैर्य- च्युतिकरणेनात्मनः शौर्यातिशयः प्रतिपादितः। वाचमिति। यथा-'देवं यजति,' 'गन्धं जिघ्रति' इत्यादौ संभेदेनान्यतरवैयर्थ्यमिति न्यायेन यजादे: पूजाग्रहणमात्रा- र्थता, तथात्रापि वचधातोरुच्ारणमात्रार्थत्वम्, न नु वचनोच्चारणार्थत्वम्। अन्यथा पौनरुत्तयं स्यात्। एवं च तादृशकल्पनमेवात्र शाव्दवोधविलम्बनकृदिति दोषत्व- मस्य। गतार्थत्वादिति। वचधादुनैव वागुच्चारणस्य प्रतिपादनाद्वाचमित्यस्य प्रयो- गोऽनुपयुक्त एव प्रत्युतार्थान्तरकल्पनाकर इति भावः। न्यूनमुपादेयमप्यनुपात्तं पदं वाचकपदं यत्र तच्चेत्यर्थः । वाचकेति विशेषणाद्वाच्यानभिधानादस्य भेदो दर्शितः। तस्य द्योतकपदानभिधानस्वरूपत्वात्। केचित्तु-'अध्याहारपूरणीयं पदं न्यूनपदम् । वाच्यानभिधाने त्वव्याहारस्यैवासंभवादनयोर्भेदः। तथाहि-'व्यतिकमलवं कं मे वीक्ष्य वामाक्षि कुप्यसि' इत्यत्र व्यतिकमलवयोः समाससत्त्वेऽध्याहार्यापिकारेणापि व्यतिक्रमीयस्थूलभागसमुच्चयस्यासंभवात्। किं तु वस्त्वन्तरस्यैव समुच्चयात्' इत्याहुः, तन्न। 'गुणशतमपि दोषः कश्चिदेकोतिवृद्धः क्षपयति यदि नान्यस्तद्वि- रोधी गुणोऽस्ति' इत्यादौ गुणशतयोः समासत्वेऽप्यधिकारेणैक्यादिगुणसमुच्चयद- रशनात्। कथितमर्थपौनरुत्त्याभावेऽपि द्विरुपात्तं पदं यत्र तत्त्वम्। एकस्यैवार्थस्यै- कशव्देन द्विरुपादाने किमिदं पदं नानार्थत्वेनार्थान्तरबोधकम्, उत तस्यैवार्थस्य
१. 'तु' क-पुस्तके नास्ति, २, 'पिनाकपाणिपदं' ख-ग-घ-पुस्तकेषु नास्ति. ३. 'उपात्तत्वात्' घ.
Page 426
सप्तमः परिच्छेदः। ३७९ अत्र विसशव्दस्य धृतपरिस्फुटतत्प्रसूना इति सर्वनान्नैव परामर्शो युक्तः। हैतवृत्तं लक्षणानुसरणेडप्येश्रव्यं रैसानुगुणमप्राप्तगुरुभावान्त- लघु च। क्रमेण यथा- 'हेन्त सैततमेतस्या हृदयं भिन्ते मनोभवः कुपितः ।' प्रतिपादकमिति प्रतिसंधानप्रसङ्के शाव्दबोधविलम्बनं दूषकताबीजमत्र वोध्यम्। हृतवृत्तस्य त्रैविध्यमाह-हतमिति।अप्राप्तगुरुमीवमन्तलघु यत्र तत्। हन्तेति। 1. अश्रव्यमिति। इह केपांचन वृत्तानां श्रव्यत्वाश्रव्यत्वज्ञप्तये कतिचन नियमाः प्रदर्श्यन्ते-'समासैर्लघुवृत्तानामसमासैमहीयसाम्। शोभा भवति भव्यानासुपयोगव- शेन वा। अनुष्टप्छन्दसां भेदे कैश्चित्सामान्यलक्षणम्। यदुक्तं पशमं कुर्यालदु पष्ठं तथा गुरु। तत्राप्यनियमो दृष्टः प्रबन्धे महतामपि । तस्मादव्यभिचारेण श्रव्यतैव गरीयसी ।' यथा-'तदन्वये शुद्धिमति' इति कालिदासोक्तौ। 'उपजातिविकल्पानां सिद्धो यद्यपि संकरः। तथापि प्रथमं कुर्यात्पूर्वपादाक्षरं लघु । गुर्वक्षरेण संरुद्धं अ्रन्थियुक्तमिवाग्रतः । करोति प्रथमं स्थूलं किंचित्कर्णकदर्थनाम् ।' यथा-'असत्युत्तरस्याम्' इत्यत्र। 'त्रयक्षर- रुयक्षरैरेव च्छेदैराभाति दोधकम्। अतोऽल्पैरविकैर्वापि यति तालमिवोज्झति । शत्रन्ता- क्षरसंयोगैः किंचित्कार्कश्यकारिभिः । अन्ते विसर्जनीयैश्च शालिनी याति दीप्ताम्॥ विसर्गयुक्तैः पादान्तैर्विराजति रथोद्ता। कलापरिचयैर्याता लटभेव प्रगल्भताम्। साकाराधैर्विसर्गान्तैः सर्वपादैः सविभ्रमा। स्वागता स्वागता भाति कविकर्मविलासिनी॥ द्रुतताललयैरेव व्यक्तं रूक्षाक्षरैः पदैः। प्रनर्तयति यच्चित्तं तत्तोटकमभीप्सितम् ॥ असम- स्तपदैः पादसंधिविच्छेदसुन्दरम्। सर्वपादैरविसर्गान्तैर्वशस्थं यात्यनर्घताम्। प्रारम्भे द्वत- विन्यासं पर्यन्तेपु विलम्बितम्। विच्छित्या सर्वपादानां भाति द्रुतविलम्बितम्। आकारम- न्थरैः प्रायः पादे पादेक्षरैस्त्रिभिः। शेषाक्षरैर्द्रुततरैः प्रहर्पाय प्रहर्पिणी ॥ वसन्ततिलक स्याग्रे साकारे प्रथमाक्षरे। ओजसा जायते कान्तिः सविकासविलासिनी ॥' यथा रक्षाक- रस्य-'कण्ठश्रियं कुवलयस्तवकाभिरामदामानुकारिविकटच्छविकालकूटाम्। विभ्रत्सुखानि दिशतादुपह्यारपीतधूपोत्थधूममलिनामिव धूर्जटिर्वः ॥' 'आकारेऽपि कृते पूर्व वन्धेडल्प- पदपेशले। वसन्ततिलकं धत्ते निर्ग्रन्थि रमणीयताम् । विसर्गहीनपर्यन्ता मालिनी न विराजते। चमरी छिन्नपुच्छेव वल्लीवालूनपल्लवा । द्वितीयाधें समस्ताभ्यां पादाभ्यां मालिनी वरा। प्रथमार्धे समस्ताभ्यां पादाभ्यामवरा मता ॥ प्रथमं द्यक्षरैश्छेदस्ततस्त्रिच- तुरक्षरैः। पच्ाक्षरैश्च पर्यन्ते नर्कुटं याति चारुताम्।' यथा वीरदेवस्य-'तव शतपत्रपत्र- मृदुताम्रजलश्चरणश्चलकलहंसनूपुरवरध्वनिना मुखरः। महिषमहासुरस्य शिरसि प्रसभ निहितः कनकमहीधरेन्द्रगुरुतां कथमम्ब गतः ।' 'असमासैः पदैर्भाति पृथ्वी पृथ्वी पृथकिस्थितैः। समासग्रन्थिभिः सैव याति संकोचखर्वताम् ।'पृथकपदा यथा मम-'दवीयसि मनोहरा व्यतिकरे तु दुःखप्रदा मनागपि निषेविता हृदयकम्पलीलावहाः । अनन्तपदरो-
१. 'हतं' घ. २. 'वत' क. ३. 'संतत' क. ४. 'भावं' इति पुस्तकान्तरे नास्ति.
Page 427
३८० साहित्यदर्पणे
'अयि मयि मानिनि मा कुरु मानम्।' इदं वृत्तं हास्यरसस्यैवानुकूलम्। 'विकसितसहकारभारहारिपरिमल एष समागतो वसन्तः।' यत्पादान्ते लघोरपि गुरुभाव उक्तस्तत्सर्वत्र द्वितीयचतुर्थपाद-
अत्र प्रथमद्वितीयगणौ भकारसकारौ, अनयोः सांनिध्यमश्रव्यं तञ्च सभ्यानामनुभव- सिद्धम्। गुरुभाव उक्त इति। 'सानुखारश्र दीर्घश्च विसर्गी च गुरुर्भवेत्। वर्णः संयोगपूर्वश्च तथा पादान्तगोऽपि वा ।' 'इत्यादिना' इति शेषः। द्वितीयचतुर्थ-
धिकास्तुहिनवृष्टयः केवलं कदाचन करालतां दधति यत्र कायस्थवत् ।I' यत्र बदरिका- अ्रमे। 'पृथ्वी साकारगम्भीरैरोजःसर्जिभिरक्षरैः । समासग्रन्थियुक्तापि याति प्रत्युत दीर्घ- ताम् ।।' यथा-'महाप्रलयमारुत-' इत्यादि। 'त्वरातरलविच्छेदैविभाति हरिणी पदैः। मन्थरैर्ग्रन्थिबद्वेव याति निःस्पन्दसंगताम् । त्रिपु पादेपु विश्रान्तविलासैर्ललिता पदैः। अन्ते तरज्नितगतिर्हरिणी हारिणी तराम् ॥ शिखरिण्याः समारोहात्सहजैवौजसः स्थितिः। सैव लुप्तविसर्गान्तैः प्रयात्यत्यन्तमुन्नतिम् ॥ शिखरिण्याः पदैश्छिनैः स्वरूपं परिहीयते। मुक्ताल- ताया निःसूत्रमुक्तैर्मुक्ताफलैरिव । मन्थराक्रान्तविस्त्रव्वैश्चतुर्भि: प्रथमाक्षरैः । मध्यपट्टे- तिचतुरे मन्दाक्रान्ता विराजते॥'यथा-'ब्रह्माव्त जनपदमधः-' इत्यादि। 'साकारादक्षरैः पादपर्यन्तैः सविसर्गकैः। शार्दूलक्रीडितं धत्ते तेजोजीवितमूर्जितम् ॥ विसर्जनीयस्योतवेन पदैनिम्नोन्नतैरिव। शार्बलक्रीडितं याति पाठे सायासतामिव । विच्छिन्नपादं पूर्वार्ये द्विती- यार्धे समासवत्। शार्दूलक्रीडितं भाति विपरीतमतोऽधमम् ॥ आद्यन्तयोर्गुणोत्कर्षकान्त्या सर्वातिशाथिनोः। शार्दलक्रीडितं धत्ते मध्ये तद्गौरवोन्नतिम्॥' यथा-'गाहन्तां महिषा :- ' इत्यादि। 'आद्यन्ताकारविरहात्पर्यन्ते चाविसर्गतः । शार्ूलक्रीडितं स्वस्य रूपं नैवोपल- भ्यते ॥' यथा-'य्त्वन्नेत्रसमानकान्ति-'इत्यादि। 'सुकुमाररसस्यात्र रक्षायै वृत्तमुद्धतम्। वाक्पाकेनैव गलितं कविना नीतमल्पताम्। आकारगुरुयु क्तादिपर्यन्तान्तविसर्गिणी। असंस्यूतविरामा च राजते स्रग्धरा तराम्। आध्यन्ताकारविरहाद्वन्धदोषः स्फुटोऽपि यः । अविलुप्तैर्विसर्गान्तैः स्रग्धरायां समीहते ॥' इति ॥ 2. रसानुगुणमिति। केषांचन वृत्तानां रसानुगुण्यं प्रदर्श्यते-'आरम्भे सर्गबन्धस्य कथाविस्तरसंग्रहे। शमोपदेशवृत्तान्ते सन्तः शंसन्त्यनुष्टुभम् । श्वृङ्गारालम्बनोदारनायि- कारूपवर्णनम्। वसन्तादि तदङ्गं च सच्छायमुपजातिभिः ॥ रथोद्धता विभावेषु भव्या चन्द्रोदयादिपु। पाङ्गुण्यप्रगुणा नीतिर्वशस्थेन विराजते। वसन्ततिलक भाति संकरे वीर- रौद्रयो: । कुर्यात्सर्गस्य पर्यन्ते मालिनी द्रुततालवत्॥ उपपन्नपरिच्छेदकाले शिखरिणी वरा। औदार्यरुचिरौचित्यविचारे हरिणी मता॥ साक्षेपकोधधिकारे परं पृथ्वी भरक्षमा। प्रावृट् प्रवासव्यसने मन्दाक्रान्ता विराजते। शौर्यस्तवे नृपादीनां शार्दूलक्रीडितं मतम्। सावेगपवनादीनां वर्णने स्ग्धरा वरा॥ दोधकतोटकनर्कुटयुक्तं मुक्तकमेव विराजति सूक्तम्। निर्विषयस्तु रसादिपु तेपां निर्नियमश्च सदा विनियोगः ॥' इति ॥
Page 428
सप्तमः परिच्छेदः । ३८१
विषयम्। प्रथमतृतीयपादविषयं तु वसन्ततिलैकादेरेव। अत्र 'प्रमुदि- तसौरभ आगतो वसन्तः' इति पाठो युक्तः। यथा वा- 'अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा संभारा: खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा। श्रीमत्कान्तिजुषां द्विषां करतलात्स्त्रीणां नितम्बस्थला- दृष्टे यत्र पतन्ति मूढमनसामस्राणि वस्त्राणि च॥।' अत्र वस्त्राणि चेति बन्धस्य श्रथत्वश्रुतिः। 'वस्त्राण्यपि' इति पाठे तु दार्व्यमिति न दोषः। 'इदमप्राप्तगुरुभावान्तलघु' इति काव्यप्रकाश- कारः। वस्तुतस्तु 'लक्षणानुसरणेऽप्यश्रव्यम्' इत्यन्ये।
श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी ॥' अत्र क्रमेणानुप्रासप्रकर्षः पतितः । 'दलिते उत्पले एते अक्षिणी अमलाङ्गि ते।'
पाद्मिति। इह प्रथमपादान्तस्य गुरुत्वाप्राततेर्दोष इति भावः । पतत्प्रकर्षत्वं च द्विविधम्, बन्धस्य पूर्वापेक्षया उत्तरोत्तरत्र शैथिल्यादनुप्रासपाताच्च निकर्षविशेषः । तदुक्त्तम्-'पतत्प्रकर्षे बन्धस्य शैथित्यादुत्तरोत्तरम्। पूर्वानुसारतः कोऽपि निकर्षो यत्र जायते ।' इति क्रमेणोदाहरति-अन्यास्ता इति। गुणरत्नस्य रोहणभुवो जन्मस्थानानि। मृच्छरीरारम्भकपृथिवीसंभारा उपकरणानि। अन्ये विलक्षणाः । यैरिति प्रागुक्तत्रितयपरामर्शः"। 'क्वचिल्िङ्गविभत्तयोः' इत्यनुशासनाद् यत्पदस्य परलिङ्गवचनग्राहित्वम्। अन्यथा तत्पदत्रयाकाङ्कापूरणं न स्यात्। यत्र यूनि दृष्टे सति द्विषां करतलादत्त्राणि, स्त्रीणां नितम्बस्थलाद्वस्त्राणि च पतन्तीत्यर्थः । श्रीमदित्यादि मूढेत्यादि च विशेषणमुभयेषाम्। मोहश्चैकत्र भयेन, अन्यत्र कामेन। लक्षणानुसर- णेऽपि चतुर्थपादान्तस्य लघोरगुरुत्वप्रापकशासनत्वेऽपि। सिहशिरोरुहः। छटा समूहः । क्रमेणति। प्रथमपादे संयुक्तवर्णत्रयेण चानुप्रास इत्यन्तमुत्कृष्टः । द्वितीयपादे टका- रत्रयेणैवेति तदपेक्षयापकृष्टः । तृतीयपादे तु क्षकारद्वयेनैवेति ततोऽप्यपकृष्टः । चतुर्थपादे मृदुवर्णद्वयेनैवेति सर्वापकृष्ट इत्यर्थः । अत्र चतुर्थपादस्य शैथिल्येनापि निकर्षो बोध्यः । विसंधिकमुदाहरति-दलिते इति । विकसिते इत्यर्थः 1. वसन्ततिलकादेरिति। आदिपदेनेन्द्रवज्रोपेन्द्रवज्रयोः संग्रहः। एवंप्रायेपु वृत्तेपु प्रथमतृतीयपादावसाने लघुवर्णसद्भावेडपि श्रव्यता नापचीयते। अत एवोक्तम्-'न पादान्तलघोर्गुरुत्वं च सर्वत्र ।' इति। पादान्तलघोर्गुरुत्वं प्रयोक्तव्यं न सर्वत्र न सर्व- स्िन्वृत्त इति तदर्थ: ।। १. 'तिलकादौ' क.ख.
Page 429
३८२ साहित्यदर्पणे
एवंविधसंधिविश्लेषस्यासकृत्प्रयोग एव दोषः । अनुशासनमुल्लङ्ख्य वृत्तभङ्गमात्रेण संधिविश्लेषस्य तु सकृदपि। यथा- 'वासवाशामुखे भाति इन्दुश्चन्दनबिन्दुवत्।' 'चलण्डामरचेष्टितः' इति। अत्र संधौ जुगुप्साव्यञ्जकमश्लीलत्वम्। 'उर्व्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः ।' अत्र संधौ कष्टत्वम्। 'इन्दुर्विभाति कर्पूरगौरैर्धवलयन्करैः । जगन्मा कुरु तन्वङ्गि मानं पादानते प्रिये॥' अत्र जगदिति प्रथमार्धे पठितुमुचितम्।
एवंविधेति। अनुशासनसिद्धेत्यर्थः। सकृदपीति।सकृत्प्रयोगेऽपि दोष इत्यन्वयः । वासवाशामुखे पूर्वदिशि। अन्र 'नित्यं संहितैकपदवत् पादेष्वर्धान्तवर्जम्' इत्यनुशास- नातू पद्ये संघेर्नित्यत्वमिति तल्लद्वनाद्दोष इत्यर्थः । चलमिति। 'वेगाडुड्डीय गगने चलण्डामरचेष्टितः । अयमुड्डीयते पक्षी ततोऽैव रुचिं कुरु ॥'चलन् यथा स्यात्तथे- त्यर्थः । डामरमुद्भटं चेष्टितं यस्य सः। अन्रेति। चलण्डामरेत्यर्थः । संधावुत्प- ननलण्डाशव्दस्यापभ्रंश विधया पुरीषव्यज्कत्वाज्जुगुप्सा। 'रुचिं कुरु' इत्यत्र स्त्रीगुह्याङ्ग- व्यजकचिङ्कुशव्दोत्पत्त्या वीडा। अमङ्गलाश्लीलसंधिस्तु 'भजते ध्रुवमृतम्' इत्यत्र बोध्यः। ऋतं सत्यं भजत इति संधिवशादमङ्गलम्न उर्व्यसाविति। उर्वी महती तर्वाली वृक्षश्रेणी मर्वन्ते निर्जलभूम्यन्ते। चारुरवस्थितिर्यंस्याः सा। अर्धान्तरे भिन्नवाक्यघटितपद्यार्घे एवमेव पदं यस्य। अन्र पष्ठयर्थो घटकत्वम्, तथा च यद्ध- टकमेकमेव पदं भिन्नवाक्यघटितपद्यार्घे वर्तते तत्त्वम्। तच्चोत्तरार्धांदौ पूर्वार्धान्ते च संभवति। तत्राद्यमुदाहरति-इन्दुरिति। अन्त्यं यथा-'जगत्प्रकाशयन्निन्दुः करैः छुभ्रविभाति मा। मानमायतनेत्रान्ते कुरु पादानते प्रिये ।' अत्र मेतिपदमुत्तरार्धे पठितुमुचितम्। अन्नार्धान्तरोक्तपदस्य यथायथमुत्तरत्र पूर्वत्र वा वाक्ये निराकाङ्क- त्वप्रतिसंधानेन शाब्दबोधविलम्वनमेव दूषकताबीजम्। समाप्तमन्वयबोधजननान्नि-
- एवंविधेति। प्रगृह्यादिहेतुकस्येत्यर्थः । तत्र प्रगृह्यहेतुको विश्रेषः 'दलिते उत्पले-' इत्यत्र दर्शित एव। असिद्धिहेतुकः 'तत उदित उदारहारहारिद्युतिरुच्चैरुदयाचलादिवेन्दुः। निजवंश उदात्तकान्तकान्तिर्बत मुक्त्तामणिवच्चकास्त्यनर्घः ॥' इत्यादौ द्रष्टव्यः । अत्र हि 'लोपः शाकल्यस्य' इति सूत्रेण विहितस्यापि लोपस्य 'आदुणः' इत्यनेन प्राप्तं गुणं प्रति 'पूर्वत्रासिद्धम्' इत्यनेनासिद्धिविधानादसिद्धिहेतुकोडयं विश्रेषः । इह बन्धशैथिल्यमेक दुष्टिबीजम्॥
Page 430
सप्तमः परिच्छेदः। ३८३
'नाशयन्तो घनध्वान्तं तापयन्तो वियोगिनः । पतन्ति शशिनः पादा भासयन्तः क्षमातलम् ।।' अत्र चतुर्थपादो वाक्यसमाप्तावपि पुनराच:। अभवन्मतसंबन्धो यथा- 'या जयश्रीर्मनोजस्य यया जगदलंकृतम्। यामेणाक्षीं विना प्राणा विफला मे कुतोऽद्य सा।।' अत्र यच्छब्दनिर्दिष्टानां वाक्यानां परस्परनिरपेक्षत्वात्तदेकान्तःपा- तिनैणाक्षीशब्देनान्येषां संबन्धः कवेरभिमतो नोपपद्यत एव। 'यां विनामी वृथा प्राणा एणाक्षी सा कुतोऽद्य मे।' इति तच्छन्दनिर्दिष्टवाक्यान्तःपातित्वे तु सर्वेरपि यच्छन्दनिर्दिष्ट- वाक्यैः संबन्धो घटते। यथा वा- 'ईक्षसे यत्कटाक्षेण तदा धन्वी मनोभवः ।' अत्र यदित्यस्य तदेत्यनेन संबन्धो न घटते। 'ईक्षसे चेत्' इति तु युक्त: पाठः। यथा वा- 'ज्योत्साचयः पयःपूरस्तारकाः कैरवाणि च। राजति व्योमकांसारे राजहंस: सुधाकरः ॥' अत्र व्योमकासारशब्दस्य समासे गुणीभावात्तदर्थस्य ने सैवैः संयोगः।
राकाह्कमपि विशेष्यं पुनर्विशेषणान्तराकाड्डया उक्तं यत्र तत्वम्। तदुदाहरति-नाश- यन्त इति। अन्राकाङ्कान्तरकल्पनेन शाव्दबोधविलम्वनं दूषकतावीजम्।अभवन् संभवन्मत इष्टः संवन्धो यत्र तत्त्वम्। विवक्षितान्वयासंभव इति यावत्। स च क्वचिन्निराकाङ्कतया क्वचियोग्यतया। या जयश्रीरिति। कुतः कुत्र। अन्येषां यत्पदानाम्। नोपपद्यते इति। भिन्नविभक्तिकलादित्यर्थः। अत्र यामेणाक्षीमित्य- न्वयो निराकाद्वत्वादसंभवः। विभक्तिविपरिणामेनान्नान्वयः संभवतीव्यसंतोपादाह- यथा वेति। अत्रेति। यदिति पदं न कालार्थकं तदेति तु कालार्थकम्, तयो- रभेदान्वयो योग्यताविरहान्न संभवतीति भावः । ननु यदित्यव्ययं यदर्थकमप्यस्ति, तथापि तदेत्यस्यान्वयः संभवतीत्यरुचेराह-यथा वेति। कासारः सरः । अन्न वाक्यत्रय एव कासारशब्दस्य योग: कवेरभिमतः स तावत् समभिव्याहारविशेष- रूपाकाङ्डाविरहान्न घटते इत्याह-अत्रेति। गुणीभावाद्विशेषणत्वेनान्विततया विश्रे-
- 'राजते' क-ख. २. 'कासारराजहस:' क-ख. ३. 'राजति' व. ४. 'न' नास्ति. क-घ, पुस्तकयोः. ५. 'सर्वैः क' :क; 'कः' इति नास्ति घ-पुस्तके.
Page 431
३८४ साहित्यदपणे
विधेयाविमर्शे यदेवाविमृष्टं तदेव दुष्टम् । इह तु प्रधानस्य कासार- पदार्थस्य प्राधान्येनाप्रतीतेः सर्वोऽपि पयःपूरादिपदार्थसतदङ्गतया न प्रतीयते, इति सर्ववाक्यार्थविरोधावभासः। इत्युभयोर्भेदः । 'अनेन च्छिन्दता मातु: कण्ठं परशुना तव। बद्धस्पर्द्धः कृपाणोडयं लज्जते मम भार्गव ।।' अत्र भार्गवनिन्दायां प्रयुक्तस्य मातृकण्ठच्छेर्दनस्य परशुना सह संबन्धो न युक्त इति प्राच्याः । परशुनिन्दामुखेन भार्गवनिन्दाधिक्यमेव वैद्ग्ध्यं द्योतयतीत्याधुनिकाः । अक्रमता यथा- 'समय एव करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम्। शरदि हंसरवाः परुषीकृतखरमयूरमयू रमणीयताम् ।' अत्र परामृश्यमानवाक्यानन्तरमेवेतिशब्दोपयोगो युज्यते, न तु प्र- णिगदन्त इत्यनन्तरम्। एवम्- 'दयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी।' अत्र त्वमित्यनन्तरमेव चकारो युक्तः ।
षाभावात्। तदर्थस्य कासारशव्दस्य सर्वैः पयःपूरादिभिः । व्यो(म्नि सरसि) इति तु युक्त: पाठः । विधेयाविमर्शस्य मेदं दर्शयति-विधेयेति। भार्गवनिन्दायामिति प्रतिपाद्याया मित्यर्थः। मातृकण्ठच्छेदनस्य मातृकण्ठच्छेदन कर्तृत्वस्य। परशौ छेदनस् करणत्वमेव न तु कर्तृत्वम्। यद्वा परशौ मातुरित्यस्य संबन्धाभावादवशिष्टस्य संबन्धो न संभवति। प्राच्याः प्राचीनाः। आधुनिका इति। मथमाशयः-तवेत्यनुषक्ततेन मातुरित्यस्य संबन्धः स्थाली पचतीतिवत् करणस्यापि कर्तृत्वारोपः। परशोरारोपि- तेनापि स्त्रीवधकर्तृत्वेन पातकं संभाव्यते, तव तु मुख्येनैव मातृवधकर्तृतवेन सुतराम- तिपातकमिति। अस्य शांब्दबोधविघटकत्वं दूषकतावीजम्। अक्रमतेति। अवि- दयमानं स्वार्थान्वितार्थकपदप्रत्यासत्तिरुपं कमो यत्र तत्त्वमित्यर्थः। वाचकपदस्योक्तक्रमा भावेऽस्थलस्थपदत्वम्, इदं तु तदितरपदस्यैवेति ततोऽस्य भेदः। समय इति। परु- षीकृतसरमयूरं यथा स्यात्तथा रमणीयतां ययुः। प्राप्तवन्त इत्यर्थः। द्वयमिति। शिव प्राप्यर्थ तपस्यन्तीं पार्वतीं प्रति ब्रह्मचारिरूपधारिणः शिवस्योक्तिरियम। पिनाकिन: शिवस्य कलावतश्चन्द्रस्य नेत्रकौमुदी नयनानन्दजनिका। अस्य प्रत्यासत्तिकल्पनेन शाब्दवोधविलम्बनं दूषकताबीजम्। अमतः प्रकृतविरुद्धः प्रकृतरसविरोधिरस-
१. '-मर्शे तु' क-ख, २. 'छेदनकर्तृत्वस्य' घ. ३. 'इत्यादिवत्' पुस्तकान्तरे.
Page 432
सप्तम: परिच्छेदः । ३८५
अमतपरार्थता यथा- 'राममन्मथशरेण ताडिता-' इत्यादि। अत्र शृङ्गाररसस्य व्यञ्जको द्वितीयोऽर्थः प्रकृतरसविरोधित्वादनिष्टः। वाच्यस्यानभिधानं यथा- 'व्यतिकमलवं कं मे वीक्ष्य वामाक्षि कुप्यसि।' अत्र व्यतिकमलवमपीत्यपिरवश्यं वक्तव्यो नोक्तः । न्यूनपदत्वे वा- चकपदस्यैव न्यूनता विवक्षिता। अपेस्तु न तथात्वमित्यनयोर्भेदः। ए- वमन्यत्रापि। यथा वा- 'चरणानतकान्तायास्तन्वि कोपस्तथापि ते।' अत्र चरणानतकान्तासीति वाच्यम्। भग्नप्रक्रमता यथा- 'एवमुक्तो मन्त्रिमुख्यै रावणः प्रत्यभाषत ।' अन्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैव वक्तुमुचितम्। तेन 'रावणः प्रत्यवोचत' इति पाठो युक्तः। एवं च सति न कथितपदत्व-
व्यञ्जकः परः श्लेषादिना प्रतीयमानो द्वितीयोऽर्थो यत्र तलम्। रामेति। व्याख्या- तमिदं प्राक्। प्रकृतेति। प्रकृतो वीभत्सरसस्तद्विरोधिलात्तद्विरोविशङ्गारव्यज्ञक- लात्। अस्य प्रकृतरसापकर्षकत्वं दूषकताबीजम्। वाच्यस्यावश्यं वक्तव्यस्यानभि- धानम्। न्यूनपदत्वादस्य भेदं दर्शयति-न्यूनेति। न तथात्वं न च वाचकलम्। पदान्तरप्रत्यासत्ति विना स्वार्थबोधनासामर्थ्यादित्यर्थः । न्यूनपदत्वे वाचकत्वाविव- क्षायां पुनरुक्तोदाहरणं तस्यैवेत्युदाहरणान्तरमाह-यथा वेति। अत्र चरणेति। तथापीत्यस्य भिन्नवाक्यार्थसापेक्षत्वादिति भावः। पूर्वत्रापेरव्याहारेण शाब्दबोधवि- लम्वनम्, उत्तरत्र तथापीत्यन्वयेन शाब्दबोधविलम्बनं दूषकतावीजम्।भग्नप्रकरम- तेति। भग्नो विच्छिन्नः प्रक्रमः प्रस्तावो यस्य तलम्। प्रस्तावश्वात्राकाह्नितप्रकार- कोऽर्थः । यद्येन प्रकारेण प्राडनिर्दिष्टं तस्य तत्प्रकारेणानुक्तिरेव भङ्ग:। तथा च प्रत्यु- त्थिताकाड्डाविषयीकृतेन प्रकारेण पश्चादनुक्ति: क्रमभङ्ग इति फलितम्। एवमुक्त इति। अन्रैवमुक्तमिति साकाडवाक्येनोत्थापिता प्रतिवचनस्याकाड्का, सा च पूर्वो- कशव्दविशिष्टमेव प्रतिवचनं विषयीकरोति। अत्र आकाह्किताया वचधातुरूप- प्रकृतेः प्रकारस्य भाषधातुनिर्देशाङ्गङ्गः । तेनैव वक्तुमुचितमिति । तथा सति प्रथमोत्थापिताकाङ्कापूरणं भवतीति भावः। ननु 'प्रत्यवोचत' इति पाठे कथितपदलदो- षप्रसङ्ग इत्यत आह-एवं च सतीति। एवं सतीत्यर्थः । तस्य कथितपदत्वस्य। उद्देश्यप्रतिनिर्देश्यभावे तु कथितपदत्वं गुण एव । तदुक्तम्-'प्रक्रमस्यान्यथाभावे सा० द० ३३
Page 433
३८६ साहित्यदर्पणे
दोषः। तस्योद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयकत्वात्। ईह हि वचनप्र- तिवचनयोरुद्देश्यप्रतिनिर्देशत्वम्। यथा- 'उदेति सविता ताम्रस्ताम्र एवास्तमेति च।' इत्यत्र हि यदि पैदान्तरेण स एवार्थ: प्रतिपाद्यते तदान्योऽर्थ इव प्रतिभासमान: प्रतीति स्थगयति।
स एव तु महान्गुणः' इति। स एव कथितपदत्वदोष एव। उद्देश्यप्रतिनिर्देश्य- भावश्च त्रिविधः। एकविधेयार्थमुद्दिष्टस्य विधेयान्तरे प्रतिनिर्देश इत्येकः। यथा-उ- देतीति। अत्रोदयकालीनताम्रत्वविधावुद्दिष्टस्य सवितुरस्तमयकालीनताम्रत्व विधावु- दिश्यतया प्रतिनिर्देशः। एकोद्देशेन विहितस्योद्देश्यान्तरे विधेयतया पविर्निदश इत्यपरः। यथा-एवमुक्त इति।अन्न मन्त्रिमुख्योद्देशेन विहितस्य वचनस्य रावणो- द्देशेन विधेयतया प्रतिनिर्देशः। प्रतिवचनेऽपि वचनत्वसत्वादेकत्वम्। एतदेव दर्शयति-इह हीति। एकोद्देशेन विहितस्य विधेयान्तरे उद्देश्यतया प्रतिनिर्देश इति तृतीयः । यथा-'मिता भूः पत्यापां स च पतिरपां योजनशतम्' इति। अत्र पृथिव्यु- देशेन विहितस्यापां पत्युर्योजनशतविधावुद्देश्यतया प्रतिनिर्देशः । चण्डीदासास्तु-'उ - द्देश्योऽनूद्यः स एव प्रतिनिर्देश्यः प्रतीतिमान्थर्यपरिहारार्थ पुनरभिधेयो यत्र स तथोक्तः' इत्याहुः। तेषामयमाशयः-उद्देश्यपदं प्राड्निर्दिष्टोद्देश्यविधेयान्यतरपरम्, प्रतिनिर्देश्यपदं च चरमनिर्दिष्टोद्देश्यविधेयान्यतरपरम्। तथा सति सर्व समजसम्। उद्देश्यप्रतिनिर्देश्यभावे एकशब्दस्य पुनः प्रयोगे दोषाभावमुदाहरणदर्शनेन प्रमाण- यति-उदेतीति। अत्र ताम्रपर्यायरक्तशब्ददाने भन्नप्रक्रमत्वं प्रदर्श्य तस्य दूषक- ताबीजं प्रदर्शयति-अत्र हीति। अन्योर्ऽर्थ इवेति®। 'न सोऽस्ति प्रत्ययो लोके यत्र शब्दो न भासते' इति नियमात्ताम्र क्तशव्दरूपविशेषणभेदादन्यार्थवद्भास- मानत्वम्। तथा सति 'संपत्तौ च विपत्तौ च महतामेकरूपता' इत्युत्तरार्वस्य
- उद्देश्येति। उद्देश्यः प्राक्प्रत्यायित एव प्रतिनिर्देश्यः पुनः प्रत्याय्यो यत्र तस्माद् व्यतिरिक्तो विपयो यस्य तथा। पूर्वापरयोरेकरूपत्वप्रतिपत्तये यत्र प्राड्निर्दिष्टस्यार्थस्य तेन शब्देन तेन च रूपेण पुननिर्देश्यावश्यकत्वं तदतिरिक्तस्थले कथितपदत्वदोषः। इह त्वभेदबोधनार्थ पुनरुक्तिरुत्कपावहा। अयमेवार्थः 'उदेति सविता-' इति दृष्टान्तभूतो- दाहरणेन विशदीकृत: ॥। 2. पदान्तरेणेति। 'रक्त एवास्तमेति च' इत्याकारेण॥
१. '-विपयत्वम्' घ. २. 'इह हि-' इत्यादिः '-निर्देशत्वम् ।' इत्यन्तः पाठो घ-पुस्तके नास्ति, ३. 'हि' घ-पुस्तके नासि्ति. 8. इतोये 'न सोस्ति मत्ययो लोके यत्र कालो न भासते' इत्यधिकं पुस्तकान्तरे.
Page 434
सप्तम: परिच्छेद: । ३८७
यथा वा- 'ते हिमालयमामन्न्य पुनः प्रेक्ष्य च शूलिनम्। सिद्धं चास्मै निवेद्यार्थ तद्विसृष्टाः खमुद्ययुः ॥' अत्र 'अस्ै' इतादमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतददःश- ब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन। यथा वा- 'उदन्वच्छिन्ना भूः स च पतिरपां योजनशतम्।' अत्र 'मिता भू: पत्यापां स च पतिरपाम्' इति युक्तः पाठः। एवम्- 'यशोऽधिगन्तुं सुखलिप्सया वा मनुप्यसंख्यामतिवर्तितुं वा। निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ।।' अत्र 'सुखमीहितुम्' इत्युचितम्। अत्राद्ययोः प्रकृतिविषयः प्रक्र- मभेदः । तृतीये पर्यायविषयः, चतुर्थे प्रत्ययविषयः । एवमन्यत्रापि ।
शाव्दबोधविलम्बनमिति भावः । सर्वनामपदस्य प्रक्रमभङ्गं दर्शयति-ते हिमाल- यमामव्येति। यद्यपि सर्वनाम्ना प्रतिनिदेश दोषो नास्तीति प्रसिद्धम्, तथाप्यनुभ- वबलेनासर्वनामनिर्दिष्टस्य सर्वनाम्ना प्रतिनिर्देशे तद्वोव्यम्, सर्वनामनिर्दिष्टस्य नेति बोष्यम्। इदमा इदंशव्देन। तेनैव इदमैव। समानाभ्यां समानार्थाभ्याम्। एत- दादिशब्दत्रयस्य समानार्थकत्वं सुप्रसिद्धमिति शब्दभेदेऽपि, न तु तहूषणावकाश इति भाव: । उद्देश्यप्रतिनिर्देश्यभावस्य तृतीयं प्रकारं दर्शयति-उदन्वदिति। उदन्वच्छिन्ना समुद्रपरिच्छिन्ना। मंनुष्यसंख्यां सामान्यमनुप्येपु गणनाम्। अतिवर्ति- तुमतिक्रमितुम्। निरुत्सुकानामनुत्कण्ठितचित्तानाम्। अभियोग: उद्योगः। अन्रे- च्छार्थकतुमड्प्रत्ययेनोप्रकरमस्य तत्समानार्थकसन्प्रत्ययेन भङ्गः। यशोऽविगमनोद्देशेन विहिताया इच्छाया: सुखलोभोद्देशेनापि विधेयतया निर्देशः। दर्शितोदाहरणानां विशेषमाह-अत्राद्ययोरिति। एषूदाहरणेपु आद्ययोः 'एवमुक्त:' इति 'ते हिमा- लयम्' इत्येतयोः । तृतीये 'उदन्वच्छिन्ना' इत्यादौ। चतुर्थे 'यशोऽविगन्तुम्' इत्यादौ। एवमन्यत्रेति। कारकोपसर्गांदावपि प्रकमभङ्गो वोद्धव्य इत्यर्थः । तत्र कारकवि- षयो यथा-'गाहन्तां महिषा निपानसलिलं शङ्गैमुहुस्ताडितं छायाबद्धकदम्बकं मृग- कुलं रोमन्थमभ्यस्यतु। विश्रव्वैः क्रियतां वराहपतिभिर्मुस्तक्षतिः पल्वले विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥' अत्र प्रत्ययोक्तकर्तृकारकोपक्रनस्य क्रियतामित्यत्र भङ्गः । कर्मकारकस्योक्तलात्। परे तु कर्तृकारकाणां प्रथमोपक्रमस्य वराहपतिभिरिति तृतीयायां भेदः । 'विश्रव्धा रचयन्तु शूकरवरा मुस्तक्षति पल्वले' इति युक्त: पाठः। उपसर्गविषयो यथा-'चपलाचपलाखेव नापत्सु विकलो भवेत्। विपत्सु धीरता यस्य भाजनं स हि संपदः ।' चपलाचपलासु विद्युच्ञ्चलासु।
Page 435
३८८ साहित्यदर्पणे
प्रसिद्धित्यागो यथा- 'घोरो वारिमुचां रवः ।' अत्र मेघानां गर्जितमेव प्रसिद्धम् । यदाहु :- 'मञ्जीरादिषु रणितप्रायं पक्षिषु तु कूजितप्रभृति। स्तनितमणितादिसुरते मेघादिषु गर्जितप्रमुखम् ॥' इत्यादि। अस्थानस्थपदता यथा- 'तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम्। अयल्बालव्यजनीबभूवु्हैसा नभोलङ्गनलोलपक्षाः ।।' अत्र तदीयपदात्पूर्व गङ्गामित्यस्य पाठो युक्तः । एवम्- 'हितान्न यः संशृणुते स किंप्रभुः ।' अत्र संशृणुत इत्यतः पूर्व नञः स्थितिरुचिता । अत्र च पदमात्रस्यास्थाने निवेशेऽपि सर्वमेव वाक्यं विवक्षितार्थप्र- त्यायने मन्थरमिति वाक्यदोषता। एवमन्यत्रापि। इह केप्याहु :- 'पदशव्देन वाचकमेव प्रायो निगद्यते, न च नञो वाचकंता निर्विवा- दात्खातन्त्येणार्थबोधनविरहात्' इति। यथा-'दूयं गतम्-' इत्यादौ त्वमित्यनन्तरं चकारानुपादानादकमता तथात्रापीति।
अत्रापत्स्त्यत्र आडुपसर्गोपकमस्य विपत्स्त्यत्र वेरुपादानाङ्गङ्गः। मेघानामिति। मेघानां शब्दे गर्जितमेव गर्जितादिशब्द एव, तत्परित्यागाद्रसादिप्रकर्षबोधप्रतिरोधः। प्रसिद्धमाह-मश्जीरादिष्विति। आदिना रसादीनां ग्रहणम्। रणितप्राय- मिति। प्रायशब्द आद्यर्थः । तेन शिञ्जितादीनां ग्रहणम् । मजीरादिशन्देषु रणि- तादिशब्दः प्रयोक्तव्यः । एवमग्रेऽपि। मेघादिष्वित्यादिना हस्त्यादिपरिग्रहः । प्रमु- खमित्यनेन रसादिग्रहणम्। एवं भ्रमरादिषु गुज्ितादि, मण्डूकादिषु रवादि, हयेषु हेषितादि, हस्तिषु वृंहितादि। एवमन्यदपि बोद्धव्यम्। तदीये गङ्गासंबन्धिनि। ननु पदमात्रस्यास्थानस्थितिः पद्दोष एव कथमस्य वाक्यदोषलमत आह-अत्र पदमात्रस्येति। सर्वा औदुम्बरी ताम्रप्रतिमा(?)वेष्टयितव्येतिवत् सर्वपदमत्रावयव- समुदायपरम्। मन्थरं विलम्बसहम्। स्वातन्रयेण पदान्तरसमभिव्याहारविरहेण (तेद्रसगुण) विरहादिति। इतिशब्दो हेतौ। अत्र खगुणव्यञ्जकस्य समासस्य तद्र- १. 'वाचक एव प्रयोगः घ. २, 'तद्रसगुण' इति पुस्तकान्तरे नास्ति. ३. 'अत्र खवगुण-' इति पुस्तकान्तरे नास्ति.
Page 436
सप्तमः परिच्छेदः ! ३८९
अस्थानस्थसमासता यथा- 'अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः । प्रोद्यद्ूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा-
अत्र कोपिन उक्तौ समासो न कृतः। कवेरुक्तौ कृतः । वाक्यान्तरपदानां वाक्यान्तरेऽनुप्रवेशः संकीर्णत्वम। यथा- 'चन्द्रं मुञ्च कुरङ्गाक्षि पश्य मानं नभोङ्गने। अत्र नभोङ़गने चन्द्रं पश्य मानं मुश्चेति युक्तम्।
वाक्यान्तरे वाक्यान्तरानुप्रवेशो गर्मितता। यथा- 'रमणे चरणप्रान्ते प्रणतिप्रवणेडधुना। वदामि सखि ते तत्त्वं कदाचिन्नोचिताः क्ुधः ॥' अर्थदोषानाह- अपुष्टदुष्क्रमग्राम्यव्याहताश्लीलकष्टताः। अनवीकृतनिर्हेतुप्रकाशितविरुद्धताः॥९।। संदिग्धपुनरुक्तत्वे ख्यातिविद्याविरुद्धते। साकाङ्ता सहचरभिन्नतास्थानयुक्तता ॥ १०॥ अविशेषे विशेषश्चानियमे नियमस्तथा। साव्यञ्जकस्थानपातो Sस्थानस्थसमासतम्। अद्यापीति। संध्याकाले स्फुटतः कैरव- कोरकान्निःसरतामलीनां श्रेणीरूपं कृपाणं शशी कर्षति। कोषपदश्लेषात् कुझालस्य खङ्गापिधानत्वं व्यङ्गयम्। कीदशः । दूरे प्रसारितः करो रश्मिरेव करो हस्तो यस्य सः। किमर्थ कृपाणकर्षणमित्यत्राह-अद्यापीति। ममोदयकालेऽपीत्यर्थः । अ- न्यदा लिदमाश्रित्य तिष्ठतु, ममोदये सत्यपि स्थातुं वाञ्छति, तन्मां धिगिति कोधा- दिवालोहितः । कोपिन उत्प्रेक्षितकोधस्य शशिनो दीर्घसमासो हि रौद्ररसव्यञ्जकस्त- दवूर्णनस्थानं कुद्धस्योक्तिर्न तु कवेरुक्तिरिति भावः । अत्र नभोङ्गन इति। नन्वत्र व्य- वहितान्वयत्वात्किष्टत्वमेवेदमित्यत आह-क्विष्टत्वमिति। संकीर्णलं तु वाक्यद्व- यविषयमिति, अस्मात् संकीर्णात् तस्य भेद इत्यर्थः । प्रणतिप्रवणे प्रणामपरायणे कान्ते कदाचिदपि क्रुधो नोचिताः । अधुना प्रणतिसमये पुनः सुतरां नोचिता इति। तत्त्वं हितं सारं तेऽहं वदामीत्यन्वयः। अनयोः प्रत्यासत्त्यभावेन शाब्दबोधो न जायत इति शाब्दबोधविघटकलं दूषकताबीजम्। उद्देशक्रमप्राप्तानर्थदोषान्निरूपयति-अपु- ष्टेति। ख्यातिविरुद्धता, विद्याविरुद्धता च । तयोरविशेषविशेषानियमानियमयोः।
Page 437
३९० साहित्यदर्पणे
तयोर्विपर्ययौ विध्यनुवादायुक्तते तथा॥ ११ ॥ निर्मुक्तपुनरुक्तत्वमर्थदोषा: प्रकीर्तिताः । तद्विपर्ययो विशेषेऽविशेषो नियमेऽनियमः । अत्रापुष्टत्वं सुख्यानु- पकारित्वम्। यथा- 'विलोक्य वितते व्योञ्नि विधुं मुञ्च रुषं प्रिये।' अत्र विततशब्दो मानत्यागं प्रति न किंचिदुपकुरुते। अधिकपद- त्वेऽपदार्थान्वयप्रतीतेः समकालमेव बाधप्रतिभासः, इह तु पश्चादिति विशेषः । दुष्क्मता यथा- 'देहि मे वाजिनं राजन्गजेन्द्रं वा मदालसम्।' अत्र गजेन्द्रस्य प्रथमं याचनमुचितम्। 'स्वपिहि त्वं समीपे मे स्वपिम्येवाधुना प्रिये।' अत्रार्थो ग्राम्यः । कस्यचित्प्रागुत्कर्षमपकर्ष वाभिधाय पश्चात्तदन्यप्रतिपादनं व्याह तत्वम्। यथा- विपययौ विशेषाविशेषनियमानियमौ। विध्ययुक्तता, अनुवादायुक्तता च। मुख्यार्थ- तेति विशेषणादीनां पर्यवसितार्थादुत्कर्षकत्वमित्यर्थः । विततशब्द इति। सार्थ- बोधद्वारेति शेषः । एतदुपलक्षणम्। व्योमवृत्तितमृपि विशेपणमपुष्टम्। स्मरोद्दीप- कत्वेन प्रसिद्धस्य चन्द्रस्य दर्शनमेव मानत्यागस्य सुख्यार्थस्य उपकारि, न तु तस्य व्योमवृत्तित्वं व्योम्नो वितततं वा। नन्वेवं पदद्वयमत्राधिकमित्यधिकपदत्वमेवात्र दोष: किमपुष्टत्वस्य दोषतखीकारेणेत्यतोऽस्य भेदं दर्शयति-अधिकेति। बाधप्र- तिभासः मुख्यार्थोपकारविरहप्रत्ययः । दुष्क्मतेति। 'प्राग्वाच्य उच्यते पक्चा- त्पश्चाद्वाच्योऽथवाग्रतः । कविना शक्तिवैकल्याद्योऽर्थस्तं दुष्कमं विदुः ॥' इत्युक्त- लक्षणा दुष्कमता। अन्नेति। बहुमूल्यं वस्तु प्रथमं याच्यते तदप्राप्तिसंभावनाया- मल्पमूल्यं वस्तु याच्यते इति याचनकमः। तदभावादत्र दुष्कमलम्। अनयोरर्थ- स्यापुष्टत्वदुष्कमत्वप्रतिसंधानेन रसादिप्रतीतिविलम्बनमेव दूषकताबीजम् । एवम- प्रेऽपि यथायर्थ ज्ञेयम्। ग्राम्यत्वमुदाहरति-स्वपिहीति। 'स ग्राम्यः खरिरंसायां पामरैरयत्र कथ्यते। वैदग्वविक्रमलयं हित्वैव वनितादिषु ॥' लयः संबन्धः । इत्यु- कलक्षणा आ्म्यता। कस्यचिदिति। प्रतिपादितोत्कर्षस्यापकर्षप्रतिपादनं प्रतिपा- दितापकर्पस्योत्कर्षप्रतिपादनं व्याहतलम्। तत्र प्रथमं यथा-'कान्ते तव मुखा- म्भोजं सुतरां हृदयंगमम्। जितानि येन पद्मानि वसन्ति सलिले सदा ।।' अत्र मुखे पद्मत्वारोपणेनोत्कर्षकथनम्, पश्चान्मुखेन पराभवादपकर्षकथनम्। द्वितीयमाह-
Page 438
सप्तम: परिच्छेद: । ३९१ 'हरन्ति हृदयं यूनां न नवेन्दुकलादयः । वीक्ष्यते यैरियं तन्वी लोकलोचनचन्द्रिका ।।' अत्र येषामिन्दुकला नानन्दहेतुस्तेषामेवानन्दाय तन्व्याश्चन्द्रिका- त्वारोपः । 'हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथाशु जायते पातो न यथा पुनरुन्नतिः॥' अन्रार्थोडश्लीलः। 'वर्षत्येतदहर्पतिर्न तु घनो धामस्थमच्छं पयः सत्यं सा सवितुः सुता सुरसरित्पूरो यथा प्ठावितः । व्यासस्योक्तिषु विश्वसित्यपि न कः श्रद्धा न कस्य श्रुतौ न प्रत्येति तथापि मुग्धहरिणी भाखन्मरीचिष्वपः ॥।'
हरन्तीति। अत्रेन्दुकलायाः प्रागपकर्षाभिधानं पश्चान्नायिकाया उत्कर्षार्थ चन्द्रकला- किरणरूपचन्द्रिकात्वमारोपितम्। अश्लीलत्वमाह-हन्तुमेवेति। हन्तुं शत्रुं मारयितुम्। स्तव्धस्य अस्त्रक्षेपकुण्ठस्य विवेकरहितस्य वा। विवरैषिणः परच्छिद्राभिलाषिणः। पातो- डभिभवः। उन्नतिजयः। अर्थान्तरं तु-हननं वात्स्यायनादिप्रसिद्धं निर्घातादि। स्तव्ध- स्यादृढलिङ्गस्य। विवरं योनिच्छिद्रं तद्ामिनः। पातो रत्युत्तरं नम्रता। उन्नतिःपुनरुद्रमः। अत्र प्रकरणाद्वोधविशेषो लक्ष्यते। अदृढलिङ्गरूपद्वितीयार्थस्त्वर्थवशादेवेत्यर्थदोषत- मस्य। अश्ील इति। पुंव्यञ्जकप्रकाशकत्वादिति शेषः। इदं व्रीडाव्यञ्जकंजुगुप्सा- मङ्गलव्यञ्ञकयोरुदाहरणमूह्यम्। कष्टतमाह-वर्षत्येतदिति। आसत्त्यादिसलेऽपि विलम्बबोध्यत्वं कष्टतम्। विलम्बबीजं तु तात्पर्यग्राहकाभावः । अहर्पतिः सूर्यः । घनानां जलाधारत्मात्रम्, न तु वृष्टिकर्तृत्म्। धामस्थं चन्द्रमण्डलस्थम्। सुरसरि- दङ्गा तस्याः पूरो जलप्रवाहः। प्रावितो वर्धितः। उक्तमर्थ प्रमाणयति-व्यासस्येति। व्यासस्योक्तिषु पुराणेषु। तथापि सूर्यकिरणानां जलप्रत्यय हेतुत्वस्योचितत्वेऽपि। मुग्धेति जलप्रत्ययाभावे हेतुः। भाखन्मरीचिपु सूर्यकिरणेषु। तथा च विष्णुपुराणम्-'वि- वस्वानष्टभिमासैरादायापो रसात्मिकाः । वर्षत्यम्बु ततस्तस्मादन्नादप्यखिलं जगत् ॥ विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम्। सोमं पुष्यत्यथेन्दुश्च वायुनाडीमयैर्दिवि।। नालैर्विक्षिपतेऽभ्रेषु धूमान्यनिलमूर्तिषु। न अ्रश्यन्ति ततस्तेभ्यो जलान्यभ्राणि तान्यतः ॥ अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः । संस्कारं कालजनितं मैत्र- मासाद्य निर्मलाः ॥' इति । 'आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः' इति श्रुति- रपि। 'सूर्यस्य पत्नी संज्ञाभूत्तनया विश्वकर्मणः । मनुर्यमो यमी चैव तदपत्यानि वै
Page 439
३९२ साहित्यदर्पणे
अत्र यस्मात्सूर्याद्वृष्टेर्यमुनायाश्च प्रभवस्तस्मात्तयोर्जलमपि सूर्यप्रभ- वम्। ततश्च सूर्यमरीचीनां जलप्रत्ययहेतुत्वमुचितम्। तथापि मृगी आ्रान्तत्वात्तत्र जलप्रत्ययं न करोति। अयमप्रस्तुतोऽप्यर्थो दुर्बोघः दूरे चास्मत्पस्तुतार्थबोध इति कष्टार्थत्वम्। 'सदा चरति खे भानु: सदा वहति मारुतः । सदा धत्ते भुवं शेषः सदा धीरोऽविकत्थनः ॥' अत्र सदेत्यनवीकृतत्वम्। अत्रास्य पदस्य पर्यायान्तरेणोपादानेऽपि यदि नान्यद्विच्छित्त्यन्तरं तदास्य दोषस्य सद्भाव इति कथितपदत्वाद्वेदः। नवीकृतत्वं यथा- 'भानुः सकृद्युक्ततुरङ्ग एव रात्रिंदिवं गन्धवहः प्रयाति । विभात शेष: सततं धरित्रीं षष्ठांशवृत्तेरपि धर्म एषः ।I' 'गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमपि सुतशोकान्न तु भया- द्विमोक्ष्ये शस्त्र त्वामहमपि यतः सस्ति भवते ॥' अत्र द्वितीयशस्त्रमोचने हेतुर्नोक्त इति निर्हेतुत्वम्। मुने ॥' इति विष्णुपुराणम्। यमी यमुना । कष्टतमुपपादयति-अत्रेति। तयो- प्रष्टियमुनयो: वाक्येन सूर्यस्य वृष्टियमुनाहेतुतमेव प्रतिपाद्यते। तस्मादित्यादयर्थस्तु नात्पर्यवशात्प्रतीयते। तस्य तात्पर्यस्य ग्राहकाभावाद्विलम्ब इति भावः । अस्मत्प्रस्तु- पर्थवोधः मद्विधानां प्रस्तुतार्थबोधः। 'तस्मात्' इति पाठे व्यक्त एवार्थः । मुग्धना- ग्रेकाया नायकात्साभीष्टलाभाप्रत्ययः प्रस्तुतः । अन्र तात्पर्यप्रतिसंधानविलम्बेन शब्दबोधविलम्बनं दूषकताबीजम्। अनवीकृततवमाह-सदेति।बहुशः प्रतिपाद- ेयार्थस्य भङ्गीपरावृत्ति विना एकयैव भैंङ्कया प्रतिपाद्यत्वं तत्त्वम्। अविकत्थनोऽना- रश्लाघाकरः। अत्रैकशब्देन बहुशः प्रतिपादनीयोऽर्थः पुरातनवद्भासमानो रसादेर- कर्षकः । ननु कथितपदलादस्य को भेद इत्यत आह-अत्रास्ेति। अस्यानवी- तार्थबोधकस्य। उपादानेऽपीत्यपिना तच्छन्दोपादाने च। अन्यत् पूर्वपदविभ- रसमासादिप्रतिपादितभिन्नं विच्छित्त्यन्तरं विभक्तिसमासादिप्रतिपादितार्थविशेषः । स्य अनवीकृतत्वस्य। तथा चोक्तविच्छित्तिविशेषसद्भाव एव कथितपदलदोषः। नीकृतत्वग्रहं विना अनवीकृतत्वप्रतीतिर्न जायते इति नवीकृतत्वमाह-नवीकृत- मिति। भङ्गयन्तरेण प्रतिपादने नूतनवद्भासमानमित्यर्थः। षषांशवृत्ते राजः। एष हायुक्ततुरद्गत्वादिरूपः। निर्हेतुत्वमुदाहरति-गृहीतमिति। हेत्वाकाङ्वासत्त्वे तद-
Page 440
सप्तम: परिच्छेदः । ३९३
'कुमारस्ते नराधीश श्रियं समधिगच्छतु।' अत्र 'त्वं म्रियसव' इति विरुद्धार्थप्रकाशनात्प्रकाशितविरुद्धत्वम् । 'अचला अबला वा स्युः सेव्या ब्रूत मनीषिणः ।' अत्र प्रकरणाभावाच्छान्तशृङ्गारिणोः को वक्तेति निश्चयाभावात्स- दिग्धत्वम् । 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्यमेव संपदः॥' अत्र द्वितीयार्धव्यतिरेकेण द्वितीयपादस्यैवार्थ इति पुनरुक्तता। प्रसिद्धिविरुद्धता यथा- 'ततश्चचार समरे शितशूलधरो हरिः ।' अत्र हरे: शूलं लोकेऽप्रसिद्धम्। यथा वा- 'पादाघातादशोकस्ते संजाताङ्कुरकण्टकः।' अत्र पादाघातादशोकेषु पुष्पमेव जायत इति प्रसिद्ध न खवक्कर इति कविसमयख्यातिविरुद्धता। नभिधानं तत्वम्। कर्ण प्रति करोधात्त्यज्यमानमस्त्रं संबुध्य अश्वत्थाम्र उक्तिरियम्। हे शस्त्र, येन मम पित्रा द्रुपदरूपशत्रुपरिभवभयान्नोचितमपि ब्राह्मणजात्यनुचितमपि त्वं गृहीतमासीः । यस्य मम पितुः प्रभावात्तव विषयः कश्चिन्न नाभूत, अपि तु सर्व एव। तेन मम पित्रा सुतशोकान्मृतत्वेन मिथ्याश्रुतस्य मम शोकात् त्वं परित्यक्त- मसि, भयातु न। अहमपि त्वां विमोक्ष्ये त्यक्ष्यामि। यतो मोक्षणाद्भवते सवस्ती- त्यर्थः । अत्र हेतोरप्रसिद्धत्वेनाकाड्डा। प्रकाशितविरुद्धत्वमाह-कुमार इति। प्रका- शितं परिलोचनया व्यञ्जितं विरुद्धं प्रकृतविरुद्धं येन तत्वम्। अन्रेति। राज्ञो मझ्लं प्रकृतं मरणं तु तद्विरुद्धम् । अन्नार्थेन विरुद्धार्थव्यञ्ञनमनुचितार्थत्वे पदेनेति ततो भेदः। संदिग्धत्वमुदाहरति-अचला इति। वक्रभिप्रेतव्यङ्गयार्थस्य तत्तात्पर्यवि- षयत्वसंदेहात्संदेहविषयत्वं तत्त्वम्। मनीषिण इति संबोधनम्। अचलसेवाया वक्तु- रभिमतत्वे शान्तः अबलासेवायास्तु श्ङ्गारो व्यङ्ञयः। अनयोरेकतरस्मिस्तात्पर्य- निश्चयाभावाद्रसनिश्चयप्रतिबन्धः । शान्तशङ्गारिणोरिति निर्धारणे षष्ठी सप्तमी वा। पुनरुक्तत्वमुदाहरति-सहसेति। पदं कारणम्। वृणते प्राप्ुवन्ति। विमृश्यकारिणं विचार्यकर्तारम्। द्वितीयार्धार्थः। व्यतिरेकेण वैपरीत्येन। यथा-अधर्मो दुःखसाधन- मित्युक्ते धर्मस्य सुखसाधनत्वमुपलभ्यते तथात्रापीति भावः । ख्यातिविरुद्धतामुदाह- रति-प्रसिद्धीति। लोककविसंप्रदायवैपरीत्यं तत्वम्। शितेति। शाणितेत्यर्थः । ते कामिन्याः । अङ्कुर एव कण्टको रोमोद्मः। कविसमयः कविसंप्रदायसिद्धान्तः । १. 'एकोक्तिनिश्चयाभावात्' क.
Page 441
३९४ साहित्य दर्पणे
'अधरे करजक्षतं मृगाक्ष्याः।'
त्वमपि। 'ऐशस्य धनुषो भङ्गं क्षत्रस्य च समुन्नतिम्। स्त्रीरलं च कथं नाम सृप्यते भार्गवोडधुना ।।' अत्र स्त्रीरत्नमुपेक्षितुमित्याकाड्डता। 'सज्जनो दुर्गतौ ममः कामिनी गलितस्तनी। खलः पूज्यः समज्यायां तापाय मम चेतसः ॥' अत्र सज्जनः कामिनी च शोभनौ तत्सहचरः खलोऽशोभन इति सहचरभिन्नत्वम्। 'आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लक्केति दिव्या पुरी।
विद्याविरुद्धतामाह-अधर इति। करजक्षतं नखघातः। साकाह्ृतामाह-ऐशस्ये- ति। शिवसंबन्धिन इत्यर्थः। मृष्यते न द्वेष्टि। अन्नेति। द्वेषयोग्य एवमुक्तिरुपपद्यते, स्त्रीरत्नं च न द्वेषयोग्यम्, इत्यतस्तदुपेक्षायां द्वेषयोग्यतायामाकाद्वेत्यत आह-उपे- क्षितुमितीति। ननु न्यूनपदत्वादस्य को विशेष इति चेत्तत्र शब्दाध्याहारः, इह त्वर्थाध्याहार इति विशेषः । वस्तुतस्तु-अनन्वयित्वभ्रमेण प्रयुक्तस्य पदार्थस्यानुपप- त्तिपदार्थसाकाइकत्वं तत्वम्। न्यूनपदे तु नेदृशो भ्रमः। सहचरभिन्नतामाह-सजन इति। उत्कृष्टैः सह निकृष्टस्य निकृष्टैः सह उत्कृष्टस्य चैकान्वयित्वेन निर्देशस्तत्त्वम्। तत्राद्यं यथा-सज्जन इति। समज्यायां सभायाम्। द्वितीयं यथा-'दुष्टसङ्गेन दौःशील्यं व्यसनेन तथा विपत्। अपथ्यचर्यया व्याधिर्विद्याभ्यासेन वर्धते ॥' तत्र दौःशील्यविपद्याधयो हेयत्वान्निकृष्टाः। विद्योपादेयत्वादुत्कृष्टा। अस्थानयुक्ततामाह- आज्ञेति। अनुपयुक्तस्थाने। समापितवाक्यार्थत्वमस्थानयुक्तता। तच् द्विविधम्-वा- क्यार्थस्याधिकोपयोगे समापनम्, समापनोपयोगे चाधिक्यम्। तदुक्तम्-'युक्ताधिक्ये विसर्ग: स्यादाधिक्यं च समापने। अर्थे प्रकल्पिते यत्र सोऽस्थाने स्यात्समुज्जितः॥' इति। तत्रादं यथा-'मातुलो माधवो यस्य पिता यस्य धनंजयः । स शेते समरे श्रीमानभिमन्युर्महाबलः ॥' अन्र 'नियतिः केन बाध्यते' इत्यधिकं वत्तुं योग्यम्। द्वितीयमुदाहरति-आज्ञेति।रावणपुरोहितेन रावणार्थ सीताप्रार्थने कृते जनकपुरो- हितस्य शतानन्दस्य रावणस्य प्रशंसापूर्वकमुपेक्षाबीजप्रदर्शनमिदम् । पञ्चसु वाक्येषु यस्येति बोध्यम्। प्रणयिनी सहचरी। शक्रेण शिरोमणिरिव रावणाज्ञा धार्यत इत्य- न्वयः । एतेनास्य वीरत्वं सूचितम्। तच्व स्त्रीणाम[न]भिमतम्। शास्त्राण्येव नवम- धिकं चक्षुः । शास्त्रदृष्ट्या कर्मकरणात्। एतेन धीमत्वं सूचितम्। 'युवा धीमाअन-
Page 442
सप्तम: परिच्छेद: । ३९५ उत्पत्तिर्द्रुहिणान्वये च तदहो नेद्ग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ।।' अत्र न रावण इत्येतावतैव समाप्यम्। 'हीरकाणां निधेरस्य सिन्धोः किं वर्णयामहे।' अत्र रत्नानां निधेरित्यविशेष एव वाच्यः । 'आवर्त एव नाभिस्ते नेत्रे नीलसरोरुहे। भैङ्गाश् वलयस्तेन त्वं लावण्याम्बुवापिका ।' अन्रावर्त एवेति नियमो न वाच्यः । 'यान्ति नीलनिचोलिन्यो रजनीप्वभिसारिकाः ।' अत्र तमिस्रास्विति रजनीविशेषो वाच्यः । 'आपातसुरसे भोगे निमझनाः किं न कुर्वते।' अत्र आपात एवेति नियमो वाच्यः ।
प्रियः' इत्यनेन वरगुणत्वेनास्योक्तत्वात्। भूतानामीश्वरे पिनाकिनि शिवे। एतेन संप- दैश्वर्यप्रजाभोगित्वं सूचितम्। संपदादीनां शिवसेवाफलत्वेनोक्तलात्। तेन धनवत्त्व- सपि वरगुणो लभ्यते। 'माता वरयते वित्तं पिता वरयते कुलम्। कन्या वरयते रूपं सौभाग्यमितरे जनाः ॥' इति। सौभाग्यं जनप्रियत्वम्। पदं स्थानम्। द्रुहिणस्य ब्रह्म- णोऽन्वये कुले। एतेन मत्कुलजातत्वं वरगुणः सूचितः । उपेक्षाबीजमाह-स्याच्चे- देषेति। रावयति पीडनेन लोकानू आतुरान् करोतीति रावणः । एष यदि दुर्व्ृत्त- त्वेन ख्यातनामा न स्यात्तदेद्ग्वरो न लभ्यत इति। एतेन जनप्रियत्वस्य वरगु- णस्य वैकल्यं दर्शितम्। वरगुणवत्वं कुत्रापि नास्तीति आह-क न्विति । कुत्र जगति सर्वत्र पुरुषे सर्वे वरगुणाः सन्ति। न कुत्रापीत्यर्थः। अत्र पुंसां प्रातिखिविकरू- घेण सर्वगुणाभाववत्त्वं यावत्त्वेन तु सर्वगुणसद्भाव एव। यद्वा सर्वेषु पुरुषेषु मध्ये कुत्र पुरुषे सर्वे वरगुणाः । न कुत्रापीत्यर्थः । एतच्च न रावणोपेक्षाबीजमित्येतत्पर्यन्तम- स्थानं तत्र वाक्यार्थसमापनमयुक्तमित्याह-अत्रेति। सामान्येन वक्तव्ये विशेषा- भिधानमविशेषे विशेषस्तमुदाहरति-हीरकाणामिति। अनियमेन वक्तव्ये निय- साभिधानमनियमे नियमः। तमुदाहरति-आवर्त एवेति।भग्गास्तरङ्वाः। वलयस्त्रि- वल्यः । विशेषवक्तव्ये सामान्येनाभिधानं विशेषेऽविशेषः। तमुदाहरति-यान्तीति। नीलनिचोलिन्यो नीलप्रच्छदपटावृताः । तमिस्रासु तमोयुक्तरात्रिषु। ज्योत्स्नीप्वभि- सारिकाणां शुक्कपटावरणमेवोचितम्। नियमो निर्धारणं तेन वक्तव्ये अनियमेनाभि- धानं नियमानियमः । तमुदाहरति-आपातेति। भोगे विषयोपभोगे निमना एका-
१. 'तरङ्गा' घ.
Page 443
३९६ साहित्यदर्पणे
ननु वाच्यस्यानभिधाने 'व्यतिक्मलवम्' इत्यादावपेरभावः, इह चैवकारस्येति कोऽनयोर्भेदः। अत्राह-'नियमस्य वचनमेव पृथग्भूतं नियमपरिवृत्तेर्विषयः' इति, तन्न । तथा सत्यपि द्वयोः शब्दार्थदोषतायां नियामकाभावात्। तत्का गतिरिति चेत, 'व्यति- क्रमलवम्' इत्यादौ शब्दोच्ारणानन्तरमेव दोषप्रतिभासः । इह त्वर्थप्रत्ययानन्तरमिति भेदः । एवं च शब्दपरिवृत्तिसहत्वासह- त्वाभ्यां पूर्वैरादतोऽपि शब्दार्थदोषविभाग एवं पर्यवस्यति-यो दोषः शब्दपरिवृत्त्यसहः स शब्ददोष एव। यश्च पदार्थान्वयप्रतीतिपूर्वबोध्यः सोऽपि शब्ददोषः । यश्चार्थप्रतीत्यनन्तरं बोध्यः सोऽर्थाश्रय इति। एवं चानियमपरिवृत्तित्वादेरप्यधिकपदत्वादेर्भेदो बोद्धव्यः। अमतपरार्थत्वे तु 'राममन्मथशरेण-' इत्यादौ नियमेन वाक्यव्यापित्वाभिप्रायाद्वाक्यदो- षता। अश्लीलत्वादौ तु न नियमेन वाक्यव्यापित्वम्। 'आनन्दितसपक्षोऽसौ परपक्षान्हनिष्यति।' अत्र परपक्षं हत्वा सपक्षमानन्दयिष्यतीति विधेयम्। 'चण्डीशचूडाभरण चन्द्र लोकतमोपह। विरहिप्राणहरण कदर्थय न मां वृथा ।।' अत्र विरहिण उक्तौ तृतीयपादस्यार्थो नानुवाद्यः। न्तमासक्ताः। वाच्यानभिधानान्नियमपरिवृत्तमेंदं निरूपयितुमाह-नन्विति। पृथ- म्भूतं विशेषः । एवं च नियमद्योतकपदानभिधानं नियमपरिवृत्तिस्तदितरद्योतकपदान- भिधानं तु वाच्यानभिवानस्य विषय इति भेदः। गतिः सिद्धान्तः। निरुक्तमेदे प्राचीन- खवरसमप्याह-एवं चेति। पर्यवस्यतीति। परिवृत्तिः पर्यायशब्दान्तरदानं स्वार्थ- बोधेन निवृत्तिश्वेति भावः। नन्वेवममतपरार्थलादौ पदार्थबोधानन्तरमेव दोषप्रतिभा सादर्थदोपत्वमेव, कथं वाक्यदोषलमत आह-अमतेति। नियमेन वाक्यव्यापि- त्वात् वाक्यान्वयव्यतिरेकानुविधायित्वात्। अन्लीलत्वादौ त्विति । 'हन्तुम्' इत्यादावर्थांश्लीलत्वे हनधात्वादेः पारिभाषिकनिर्घातादिबोधकत्वं नियमतो नोपपद्यते- परं तु समभिव्याहारवशात्तात्पर्यपर्यालोचनया तदर्थकत्वकल्पनेनेति भावः। विधेय- तापर्याध्ययोग्ये तात्पर्यारोपणं विध्ययुक्तता। तामुदाहरति-आनन्दितेति। अत्रे- ति। परपक्षहननस्वपक्षानन्दनयोर्द्वयोरपि विधेयत्वेऽपि परपक्षहननानन्तरमेव ख- पक्षानन्दनविधावेव विधेयतापर्याप्तिरुचिता, परपक्षहननविधौ तत्करणाद्दोषः। नन्वन्र विधेयाविमर्श एव दोष इति चेतु 'आनन्दयति पक्षं सवं परपक्षं हनिष्यति' इति माठपरिवर्तनेनास्योदाहरणं वेदितव्यम्। अनुवाद्यविशेषणस्य विधिविरोधितमनु- वादायुक्तता। तामुदाहरति-चण्डीशेति। नानुवाद्यः अनुवाद्यविशेषणत्वेन
Page 444
सप्तम: परिच्छेदः। ३९७
'लसं रागावृताङ्गया सुदृढमिह ययैवासियष्टयारिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती। तत्सक्तोडयं न किंचिद्गणयति विदितं तेऽस्तु तेनास्मि दचा भृत्येभ्यः श्रीनियोगाद्गदितुमिति गतेवाम्बुधिं यस्य कीर्तिः ॥' अत्र विदितं तेऽस्त्वित्यनेन समापितमपि वचनं तेनेत्यादि पुनरु- पात्तम्। अथ रसदोषानाह- रसस्योक्तिः स्वशव्देन स्थायिसंचारिणोरपि॥ १२ ॥ परिपन्थिरसाङ्गस्य विभावादे: परिग्रहः। आक्षेपः कल्पितः कृच्छ्रादनुभावविभावयोः ॥१३॥ अकाण्डे प्रथनच्छेदौ तथा दीप्तिः पुनः पुनः। अङ्गिनोऽननुसंधानमनङ्गस्य च कीर्तनम् ॥ १४ ॥ अतिविस्तृतिरङ्गस्य प्रकृतीनां विपर्ययः । अर्थानौचित्यमन्यच्च दोषा रसगता मताः। रसस्य खशब्दो रसशब्दः शृङ्गारादिशब्दश्च। क्रमेण यथा- 'तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः कोऽप्यजायत। चन्द्रमण्डलमालोक्य शृङ्गारे मग्मन्तरम् ॥' स्थायिभावस्य स्वशब्दवाच्यं यथा- 'अजायत रतिस्तस्यास्त्वयि लोचनगोचरे।'
नोपादेयः । विरहिणा स्वकदर्थनस्य वृथात्वे विधीयमाने विरहिप्राणहरस्य अनुवाद्य- चन्द्रविशेषणस्य तद्विधिविरोधितादिति भावः । आकाङ्कितस्य कारकस्य क्रियान्वयेन समाप्तावपि पुनस्तत्कारकोपादानं निर्मुक्तपुनरुक्तलम्। समाप्तपुनरुक्तत्वं तु विशेष्या- नुषङ्ग एव इत्यनयोर्भेदः । उदाहरति-लग्नमिति। रागेण रक्तेन आवृतं लिप्तमङ्गं यस्यास्तया, अथ च रागेण सुरतेच्छया आवृतं स्तब्धं शरीरं यस्यास्तया। मातङ्गानां हस्तिनाम्, अथ च कामशास्त्रोक्तपुरुषविशेषाणाम्। परपुरुषैः शत्रुभिः, स्वामिभि- ननैश्च। तत्सक्तस्तादृशासिलतासक्तः। अत्रेति। गणयतीति पर्यन्तस्य कर्मकारकस्य विदितक्रियान्वयेन समाप्तावपि तेनास्मीत्यादेः पुनरुपादानादिति भावः । स्थायिसं- चारिणोरिति स्वशव्देनोक्तिरित्यनुषक्ततनान्वेति। अकाण्डे अकाले। प्रथनादित्रयं रसस्यैव। प्रकृतीनां नायकोचितधर्माणां विपर्ययोऽन्यथावर्णनम्। इदमेकमनौचित्यम्। सा० द०३४
Page 445
३९८ साहित्यदर्पणे
व्यभिचारिण: सवशब्दवाच्यत्वं यथा- 'जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने।' अत्र प्रथमे पादे 'आसीन्मुकुलिताक्षी सा' इति लज्जाया अनुभाव- मुखेन कथने युक्त: पाठः । 'मानं मा कुरु तन्वङ्गि ज्ञात्वा यौवनमस्थिरम्।' अत्र यौवनास्थैर्यनिवेदनं शृङ्गाररसस्य परिपन्थिनः शान्तरसस्याङ्गं शान्तस्यैव च विभाव इति शृङ्गारे तत्परिग्रहो न युक्तः । 'धवलयति शिशिररोचिषि भुवनतलं लोकलोचनानन्दे। ईषत्क्षिप्तकटाक्षा स्मेरमुखी सा निरीक्ष्यतां तन्वी ॥' अत्र रसस्योद्दीपनालम्बनविभावावनुभावपर्यवसायिनौ स्थिताविति कष्टकल्पना। 'परिहरति रति मर्ति लुनीते स्खलतितरां परिवर्तते च भूयः । इति बत विषमा दशास्य देहं परिभवति प्रसभ किमत्र कुर्मः ॥' अत्र रतिपरिहारादीनां करुणादावपि संभवात्कामिनीरूपो विभावः कृच्छादाक्षप्यः । अकाण्डे प्रथनं यथा-वेणीसंहारे द्वितीयेडक्के प्रव- र्तमानानेकवीरसंक्षये काले दुर्योधनस्य भानुमत्या सह शृङ्गारप्रथनम्। अन्यत्प्रकृतिविपर्यय भिन्नम्। कोऽप्यनिर्वचनीयस्भावः। व्यभिचारिणां स्ातन्तयेणोपा- दान एव स्वशब्दवाच्यत्वं दोष:, रसव्यञ्ञनार्थमुपादाने तुन दोषः । यथा लज्जान- म्रमुखीति, श्रमविवृतमुखेति च। स्वशब्दवाच्यत्वं- रसादिप्रकर्षबोधप्रतिबन्धकम्। विरोधिरसाङ्गपरिग्रहमुदाहरति-मानमिति। शान्तस्यैव चेति। चशब्दो हेतौ। विभाव उद्दीपनविभावः। तत्परिग्रहो यौवनस्थैर्यनिवेदनवर्णनम्। अनुभावस्य कष्टाक्षेपमाह-धवलयतीति। शिशिररोचिषि चन्द्रे यातिप्रयत्नेनाप्यभग्नमाना सेत्यर्थः । अत्रेति।आलम्बनं नायिका। उद्दीपनविभावाश्चन्द्रकटाक्षमोक्षमन्दहासाः। एषां बहुत्वेऽप्युद्दीपनविभावत्वेनैकतवमिति द्विवचनोपपत्तिः। अनुभावपर्यवसायिनौ अणिधानेनानुभावस्य नायकचक्षुःप्रसारणस्य बोधकौ। नायकस्य शङ्गारित्वनिश्चायका- भावाद्रत्यनुभावस्य नायिकायां चक्षुःप्रसारणस्य कष्टकल्पनया आक्षेपः। नायकस्या- शङ्धारित्वे दर्शनाभावस्यापि संभवात् ताद्ृशसमये तादृशनायिकायां मुनेरपि प्रायो मनःक्षोभो भवतीत्यौत्सर्गिकमेव चक्षुःप्रसारणमिति कष्टकल्पना। विभावस्य कष्टक- ल्पनामाह-परिहरतीति। अन्रायमिति कर्तृपदमूह्यम्। रति वस्तन्तराभिलाषम्। स्खलतितरां भूमौ भृशं पतति। परिवर्तते पार्श्वपरिवृत्ति करोति। विषमा दुष्प्रतीकारा। दशा अवस्था। कृच्छ्रादाक्षेप्य इति। प्रकरणादिप्रतिसंधानमेवात्र कृच्छरम् । १. 'मोक्ष' इति पुस्तकान्तरे नास्ति.
Page 446
सप्तम: परिच्छेदः । ३९९
छेदो यथा-वीरचरिते राघवभार्गवयोर्धाराधिरूढेऽन्योन्यसंरम्भे केङ्कणमोचनाय गच्छामीति राघवस्योक्तिः । पुनः पुनर्दीप्तिर्यथा-कुमारसंभवे रतिविलापे। अड्रिनोऽननुसंधानं यथा-रतावल्यां चतुर्थेडक्के बाभ्रव्यागमने सागरिकाया विस्मृतिः । अनङ्गस्य कीर्तनं यथा-कर्पूरमञ्जयो राजनायिकयोः स्वयं कृतं वसन्तस्य वर्णनमनादृत्य बन्दिवर्णितस्य प्रैशंसनम्। अङ्गस्यातिविस्तृतिर्यथा-किराते सुराङ्गनाविलासादिः । प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्चेति। तेषां धीरोदात्ता- दिता। तेषामप्युत्तमाधममध्यमत्वम्। तेषु च यो यथाभूतस्तस्यायथा- वर्णने प्रकृतिविपर्ययो दोषः । यथा-धीरोदात्तस्य रामस्य धीरोद्धतव- च्छझना वालिवधः । यथा वा-कुमारसंभवे उत्तमदेवतयोः पार्वती-
प्रवर्तमान: खपुन्नादिरूपानेकवीराणं संक्षयो यत्र तस्मिन्। वाराधिरूढे आरब्धे। रतिविलाप इति। 'विललाप विकीर्णमूर्धजा' इत्युपक्रम्य धारावाहिककरुणरसे प्रवर्तिते पुनर्मधोरागमने 'तमवेक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान सा' इत्या- दिना तदुद्दीपनं कृतम्। अङ्विनः प्रधानस्य। बाभ्रव्यागमन इति। सागरिकायाः पितृगृहादागतः कञ्चुकी बाभ्रव्यः । अनङ्गस्य रसानुपकारकस्य। अङ्गस्याप्रधानस्य। प्रकृतिविपर्ययमुदाहतु प्रकृतीराह-प्रकृतय इति। नायका इत्यर्थः। दिव्या देवा- सुरयक्षगन्वर्वराक्षसादयः। अदिव्यास्तदितरे मानुषादयः। दिव्यादिव्याः प्रागेवोक्ताः । तेषां दिव्यादिनायकानां धीरोदात्तादिता। उत्तममध्यमाधमत्मपि प्रकृतिरित्यर्थः । दिव्यादीनामनुचितवर्णनं प्रकृतिविपर्ययस्तज्ज्ञापनाय तेषामनुचितं वर्णनीयं वर्ण- यामि। यथा-'रतिस्तथैव हासश्र शोक आश्चर्यमेव च । दिव्यानामुचितं वर्ण्यमदि- व्योत्तमनेतृवत् । किं तु संभोगशङ्गारो वर्ण्यों नोत्तमदेवयोः । सदः फलप्रदः क्रोधो 1. कङ्गणमोचनायेति। कङ्कणमोचनं विवाहदशमदिनोत्सवः। अकाण्डे तथाकथनं व्याजनिर्गमनप्रत्यायकत्वाद् रामभद्रस्यावीरत्वपर्यवसायीति। 2. बाभ्रव्यागमन इति। बाभ्रव्यागमने विजयवर्मवृत्ताकर्णनाहितमनसा राज्ञा साग- रिकाया नाममात्रस्याप्यग्रहणाद्विस्मृतिः। तेन नाटिकाप्रतिपाद्ः शङ्गाररसो विच्छिन्नप्राय इति दोषः ।। 3. प्रशंसनमिति। 'जह किल णिवेदिदं बन्दीहि' इत्यादिना विदूषकोक्तिपर्यन्तेन संदर्भेण बन्दिवर्णितस्य वसन्तस्य वर्णनं प्रकृतरसानुपयोगित्वादनुचितम्।।
१. 'संग्रामे' घ. २. 'श्र' क. ३. 'धीरोदात्तादिभावः' क.
Page 447
800 साहित्यदर्पणे
परमेश्वरयोः संभोगशृङ्गारवर्णनम्। 'इदं पित्रोः संभोगवर्णनमिवात्य- न्तमनुचितम्' इत्याहुः । अन्यदनौचित्यं देशकालादीनामन्यथा यद्वर्णनम्। तथा सति हि काव्यस्यासत्यताप्रतिभासेन विनेयानामुन्मुखीकारासंभवः । एभ्यः पृथगलंकारदोषाणां नैव संभवः ॥१५॥ एभ्य उक्तदोषेभ्यः । तथा हि-उपमायामसादृश्यासंभवयोरुपमा- नस्य जातिप्रमाणगतन्यूनत्वाधिकत्वयोरर्थान्तरन्यासे उत्प्रेक्षितार्थसमर्थने चानुचितार्थत्वम्। क्रमेण यथा- 'ग्रश्नामि काव्यशशिनं विततार्थरश्मिम्'
भ्रुकुट्यादिविवर्जितः ॥ उत्साहः सवर्गपातालगत्यव्धिलद्घनादिषु। दिव्यानामेव नेतृणां वर्ण्यंते उचितो वुधैः ॥ ख्यातं लोकपुराणादौ यच्चान्यत्स्यादबाधितम् । वर्णनीय- मदिव्यानामन्येषां तूभयं वुधैः ॥ पूज्यादौ तु तत्रभवन्भगवन्निति चोच्यते। भट्टा- रकेति राजादौ परमेशेति चोच्यते॥ इत्यादुचितमेतेषां विरुद्धं दूषणं भवेत्॥' अ- न्येषां दिव्यादिव्यानामुभयं दिव्यसाधर्म्यमदिव्यासाध्म्यं चोचितमित्यर्थः । यथा- अर्जुनस्य सःपातालादिलङ्गनोत्साहः भ्रूकुट्यादिरहितः कोधक्च। देशकालादीना- मिति। देशोऽद्रिवनराष्ट्रादिः, कालो रात्रिदिनर्तवः, तदनौचित्यम्। क्रमेण यथा- 'कर्पूरपादपामर्शी सुरभिर्मलयानिलः । कलिङ्गवनसंभूता मृगप्राया मतङ्गजाः ॥ चोलाः कालागुरुश्यामा: कावेरीतीरभूमयः ॥' अत्र मलये कर्पूरवृक्षस्य कलिङ्गवने हस्त्युत्पत्ते- श्रोलेषु कालागुरूणामसंभवादनौचित्यम्। 'पद्मिनी नक्तमुन्निद्रा स्फुटत्यहनि कुमुद्ूती। मधुरुत्फुल्लनिचुलो निदाघो मेघदुर्दिनः ॥ श्रव्यहंसगिरो वर्षा शरदो मत्तबर्हिणः । हेमन्तो निर्मलादित्यः शिशिरः श्राध्यचन्दनः ॥' आदिपदेन लोकजातिवयःप्रभृतीनां ग्रहणम्। 'चराचराणां भूतानां प्रवृत्तिर्लोंकसंजञिता'। तदनौचितं यथा-'आधूतकेसरो हृस्ती तिग्मशङ्गस्तुरङ्गमः । गुरुसारोऽयमेरण्डो निःसारः खदिरद्रुमः ॥' इत्यादयनौचि- त्यस्य न केवलं रसापकर्षकत्वं दूषकताबीजम्, काव्यस्य प्रवृत्तिनिवृत्त्युपदेशपरत्वव्या- घातकतमपीत्याह-तथा सतीति। अयथावर्णने सतीत्यर्थः। असत्यताप्रतिभासेन अप्रामाण्यप्रतिपत्त्या। विनेयानां धर्मादिजिज्ञासूनाम्। काव्याध्ययने प्रवृत्तिरुन्मुखी- कारः। नन्वसादृश्यादीनामलंकारदोषाणां परम्परया रसापकर्षकत्वेन काव्यदोषतसंभ- वात्काव्यदोषाणां पञ्चविधत्वमनुपपन्नम्, अतस्तानुक्तदोषेषु यथायथमन्तर्भावयति-ए- भ्य इति। निरुक्तकाव्यदोषेभ्य इत्यर्थः। पृथग्भिन्नानाम्। तथा चोक्त्तदोषेष्वेवासादृश्या दीनामन्तर्भाव इति भावः। अन्तर्भावप्रकारमाह-तथा इति। उपमायामसादृश्या- संभवयोरनुचितार्थतं पर्यवस्यतीत्यध्याहृतेनान्वयः। एवमग्रेऽपि। साधारणधर्माप्र- सिद्धिरसादृश्यम्। उपमानाप्रसिद्धिरसंभवः । ग्रथामीति। आनुपूर्व्या निवेशयामी- त्यर्थः । काव्यं शशीवेत्युपमाने समासः । एवमग्रेपि। न चात्र रूपकसंभवोऽपीति
Page 448
सप्तमः परिच्छेदः ।
'चण्डाल इव राजासौ संग्रामेऽधिकसाहसः ।' 'कर्पूरखण्ड इव राजति चन्द्रबिम्बम्।' 'हरवन्नीलकण्ठोऽयं विराजति शिखावलः ।' 'स्तनावद्रिसमानौ ते' 'दिवांकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्घकारम्। 'क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चै:शिरसामतीव ।।' एवमादिषूत्प्रेक्षितार्थस्यासंभूततयैव प्रतिभासनं स्वरूपमित्यनुचितमेव तत्समर्थनम्। यमकस्य पादत्रयगतस्याप्रयुक्तत्वं दोषः । यथा- 'सहसाभिजनैः स्त्निग्धैः सह सा कुञ्जमन्दिरम्। उदिते रजनीनाथे सहसा याति सुन्दरी।।' उत्प्रेक्षायां यथाशब्दस्योत्प्रेक्षाद्योतकत्वेऽवाचकत्वम्। यथा- 'एष मूर्तो यथा धर्मः क्षितिपो रक्षति क्षितिम्। एवमनुप्रासे वृत्तिविरुद्धस्य प्रतिकूलवर्णत्वम्। यथा- 'ओवट्टइ उल्लद्दइ- इत्यादौ।
वाच्यम्। तस्यापि सादृश्यमूलकत्वेन तत्रापि तद्दोषतादवस्थ्यात्। अन्र काव्यशशिनो- रर्थरश्म्योश्च कश्चित्साधारणो धर्मो न प्रसिद्धः । काव्यशशिनोराह्वादकत्वरूपैकधर्मसं- भवेऽप्यर्थरश्म्योर्न तादृशधर्मः संभवतीत्यवधेयम् । उपमानासं"शहरति-प्रज्व- लदिति। तत्र वह्विकर्मणो ज्वलनस्य जले बाधात्तद्विशिष्टानां तासामसंभवः ।उप- मानस्य जातिन्यूनतमुदाहरति-चण्डाल इवेति। अत्र चण्डालपदमुपमेयस्याति- नीचतं व्यञ्जयतीत्यनुचितार्थलम्। उपमानस्य प्रमाणन्यूनलमुदाहरति-कर्पूरेति। अत्रोपमेयस्य चन्द्रबिम्बस्यातिक्षुद्रत्वव्यजकं कर्पूरखण्डपदम्। उपमानस्य जात्यधि- कलमुदाहरति-हरवदिति। शिखावलो मयूरः। उपमानस्य प्रमाणाधिकत्वमुदाह- रति-स्तनाविति। अत्र स्तनयोरतिमहत्त्वव्यञ्ञकमद्रिपदमनुचितार्थम्। उत्प्रेक्षि- तार्थसमर्थनमुदाहरति-दिवाकरादिति। उत्प्रेक्षितार्थस्याचेतनान्धकारत्रासस्या- संभूततया संभावनाविषये वस्तुन्यवृत्तितया प्रतिभासनस्वरूपमारोपणमात्रमनुचितमे- वेति समर्थनं न मिथ्येत्युपपादनं तच्चासंभूते वस्तुनि न संभवतीति भावः । पाद- त्रयगतस्य पादत्रयमान्रवृत्तितस्य अप्रयुक्तत्वं नाम दोषः स्रूपमिति पूर्वेणान्वयः । सहसा अविचारेण। सह सार्धम्। सा प्रसिद्धा। सहसा हासयुक्ता। वृत्तिविरुद्धत्वस्य प्रकृतरसविरोधिरसानुगुणवर्णघटितत्वस्य। ओवट्टइ इति। अत्र शङ्गारविरोधि-
१. 'कुश्जमन्दिरे' क.
Page 449
802 साहित्यदर्पणे
उपमायां च साधारणधर्मस्याधिकन्यूनत्वयोरधिकपदत्वं न्यूनपदत्वं च। क्मेणोदाहरणम्- 'नयनज्योतिषा भाति शंभुर्भूतिसितद्युतिः । विद्युतेव शरन्मेघो नीलवारिदखण्डधृक् ।' अत्र भगवतो नीलकण्ठत्वस्याप्रतिपादनाच्चतुर्थपादोऽधिकः । 'कमला लिङ्गितस्तारहारहारी मुरं द्विषन्। विद्युद्विभूषितो नीलजीमूत इव राजते ।।' अत्रोपमानस्य सबलाकत्वं वाच्यम्। अस्यामेवोपमानोपमेययोर्लिङ्गवचनभेदस्य कालपुरुषविध्यादिभेदस्य च भग्नप्रक्रमत्वम्। क्रमेणोदाहरणम्- 'सुधेव विमलश्चन्द्रः ।' 'ज्योत्साःइव सिता कीर्तिः।' 'काप्यभिख्या तयोरासीद्रजतोः शुद्धवेशयोः । हिमनिर्मुक्तयोरयोंगे चित्राचन्द्रमसोरिव ।।' अत्र तथाभूतचित्राचन्द्रमसोः शोभा न खल्वासीत्। अपि तु सर्वदापि भवति 'लतेव राजसे तन्वि।' अत्र लता राजते, त्वं तु राजसे। चेरं जीवतु ते सूनुर्मार्कण्डेयमुनिर्यथा।' अत्र मार्कण्डेयमुनिर्जीवत्येव न खल्वेतदस्य जीवत्वित्यनेन विधेयम्। वीरादयनुगुणटकारघटितत्वमनुप्रासस्य। भगवतः शंभोः । अप्रतिपादनात् अप्रतियो- गातू। तत्प्रयोगे तु तदुपयोगसंभवान्नाधिकत्वम्। तारहारहारी शुद्धहारहारी। मुरं द्विषन् श्रीकृष्णः । वाच्यं वक्तुं योग्यम्। तदकथनान्न्यूनपदत्वमित्यर्थः । अस्यामेव उपमायामेव। सुधेव विमल इति। अत्र पुंलिङ्गस्य विमलसुधायामन्वयासंभवा- ह्िङ्गव्यत्येनान्वयः । एवं च प्रक्रान्तलिङ्गभङ्गः । वचनभेदमाह-ज्योत्स्ा इवेति। अत्र वचनव्यत्ययेन प्रक्रान्तवचनभङ्गः। कालभेदमुदाहरति-कापीति। अभिख्या शोभा। तयोः सुदक्षिणादिलीपयोः। अत्रोपमानेऽतीतकालस्य बाधादवर्तमानोहेना- न्वय इति प्रक्रान्तकालभङ्गः। पुरुषभेदमुदाहरति-लतेवेति। अत्रोपमाने मध्यम- पुरुषान्वयस्य बाधात्प्रथमपुरुषोहेनान्वयमुपपादयति-लता राजत इति। अत्र प्रक्रान्तपुरुषभङ्गः। विधिभेदमाह-चिरमिति। एतज्जीवनम्। अस्य मार्कण्डेयस्य। विधेयं विधिविषयः । अन्रादिपदग्राह्याया अभीष्टाशंसनरूपाया आशिष एव भेद:,
Page 450
सप्तमः परिच्छेदः। ४०३
इह तु यत्र लिङ्गवचनभेदेऽपि न साधारणधर्मस्यान्यथाभावस्तत्र न दोषः। क्रमेणोदाहरणम्- 'मुखं चन्द्र इवाभाति।' 'तद्वेशोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव ॥' पूर्वोदाहरणेषूपमानोपमेययोरेकस्यैव साधारणधर्मेणान्वयसिद्धे: प्रक्रा- न्तस्यार्थस्य स्फुटोऽनिर्वाहः। एवमनुप्रासे वैकल्यस्यार्थत्वम्। यथा-
परिसरणमरुणचरणे रणरणकमकारणं कुरुते ।।'
न तु 'प्रेष्यादिर्वाथ संकल्पभेदोऽथेष्टाभ्युपायता। शब्दव्यापारभेदो वा कार्यभेदो- थवा विधिः ॥' इत्युक्तपञ्चविधस्य विधेः असंभवात्। विधिभेदस्योदाहरणमेवं वोध्यम्। 'चमूरियं दूरविमुक्तभङ्गा गङ्गेव मे योधमनुप्रयातु। ययारिसज्जा विभटाः प्रकामं नश्यन्त्यधर्मा इव खेदसाध्याः ॥' अन्न गङ्गा प्रयाति, चमूः प्रयातु, इति प्रकरान्तविधिभङ्गः । साधारणधर्मस्य निर्दिश्यमानसामान्यस्य। अन्यथाभाव उपमा- नान्वयानुपयोगिलम्। न दोषो नोपमादोषः । भन्नप्रक्रमत्वस्य तु प्रसत्त्यभावन तन्निषेधस्यात्र न संभवः । मुखमिति। अत्राभीतीति उपमानेनाप्यन्वेति। वचन- भेदेनापि दोषाभावमाह-तद्वेश इति। तस्याः वेशः परां शोभां दधते स्म धार- यति स्म। 'दध धारणे' आत्मनेपदी एकवचनान्तः । वेशः कीदृशः । अन्याभिः स्त्रीभिरसदृशोऽसाधारणः । मधुस्तया सौन्दर्येण भृतः पूरितः । विभ्रमाः स्मरवि- लासाः । अपि च परां शोभां दधते धारयन्ति। 'डुधाज् धारणपोषणयोः' बहुवच- नान्तः । ते कीदशाः । अन्याभिः स्त्रीभिरसदृशोऽसाधारणः । अत्र क्विबन्तः सद क्शब्दो जसन्तः । तथा मधुरतां बिभ्रतीति मधुरताभृतः । क्विवन्तस्य जसि रूपम्। अन्नासदृश इत्यादिपदानां श्रलेषेणोपमानान्वययोगिलम्। एतदुदाहरणानां पूर्वोदाह- रणापेक्षया वैलक्षण्यं दर्शयितुं पूर्वोदाहरणेषु भग्नप्रक्रमत्वं दर्शयति-पूर्व इति। एकस्यैव उपमेयस्यैव। साधारणधर्मेणान्वयसिद्धेरिति । योग्यत्ादिति शेषः । प्रकरान्तार्थस्य आकाङ्वितसाधारणधर्मस्य। अनिर्वाहः उपमानेनान्वयस्यानु- पपत्तिः। अयोग्यत्ादिति शेषः। लिङ्गव्यत्ययादिना योग्यसामान्याधिकरण्योपपादने प्रथमोत्थापिताकाड्डाविषयीकृतेन प्रकारेण पश्चादनुक्तिरिति भग्नप्रक्रमतवमिति भावः। 'अत्रोभयान्वयाभिप्रायेण प्रयुक्तस्यैकतरान्वयसंभवेऽभवन्मतयोगलम् इत्यपरे। अनुप्रासस्य वैकल्यं रसाद्युत्कर्षानाधायकलम्। तच्च मुख्यार्थानुपकारितरूपापुष्टार्थले पर्यवस्यति। तदुदाहरति-अनण्विति। वेश्याविरक्तस्य वचनमिदम्। हे अरु-
१. 'सामानाधिकरण्य' इति पुस्तकान्तरे नास्ति.
Page 451
साहित्यदर्पणे
एवं समासोक्तौ साधारणविशेषणवशात्परार्थस्य प्रतीतावपि पुन- स्तस्य शब्देनोपादानस्याप्रस्तुतप्रशंसायां व्यञ्ञनयैव प्रस्तुतार्थावगतेः शब्देन तदभिधानस्य च पुनरुक्तत्वम्। क्रमेणोदाहरणम्- 'अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम्। निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका।।' अत्रापरदिगित्येतावतैव तस्या गणिकात्वं प्रतीयते। 'आहूतेषु विहङ्गमेषु मशको नायान्पुरो वार्यते मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां धुरम्। खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजखिनां धिक्सामान्यमचेतसं प्रभुमिवानामृष्टतत्त्वान्तरम् ।।' अत्राचेतसः प्रभोरभिधानमनुचितम्।
णचरणे, तव परिसरणं सर्वतो गमनं पुंसां रणरणकं कामचिन्तामकारणं कुरुते। 'चिन्तारणरणं च तत्' इति कोषः । कीदृशम् । अनणु अनल्पं यथा स्यात्तथा रणन्ती मणिमेखला यत्र। अविरलं घनं शिञ्ञानं शब्दायमानं मञु मजीरं यत्र तादृशम्। लघुरेफलकारादिघटितानुप्रासस्य माधुर्यातिशयव्यञ्ञनेन शङ्गारादेरेवोप- कारितमत्र, पुनः पर्यवसितार्थस्य वेश्याविरागस्य न किंचिदुपकारित्वमित्यपुष्टार्थलम्। परार्थस्य रूपकस्य उपमानस्य वा। अनुरागवन्तमपीति। अनुरागो रक्तिमा, प्रेम च। निरकासयद्वीपान्तरं प्रापयामास, अथ च दूरीचकार। अपेतवसुं निष्किरणम्, निर्धनं च. अपरदिकू पश्चिमदिक। अत्रेति। यथा रविमित्येतावतैव तस्य भुजङ्गतं प्रतीयते तथैवेति भावः। आहृतेष्विति।अत्र यत्तदर्थयोराकाङ्डया लाभः। तमचेतसं सदस- द्विवेचना रूपचेतनारहितं सामान्यं जनं धिक। अनामृष्टमनाकलितं तत्त्वान्तरं वस्तूनां विशेषो येन तादृशं प्रभुमिवेति। सदसद्विवेचनरहितत्वं दर्शयति-आहृतेष्विति। विहङ्गमशब्देनाहूतेषु हंसकोकिलादिषु अहमपि विहायोगमनाद्विहङ्गम इति मत्वा पुर आयान् आगच्छन् मशको येन न वार्यते। यस्य धुरि यानमुखे वध्ये वा अर्थादुप- स्थितस्य यानस्यैव मध्ये वा वसंस्तृणमणिस्तृणाकर्षको मणिरल्पमणिर्यानशोभाजन- कमहामणीनां धुरं साम्यं धत्ते। यानस्य पश्चाद्भागस्तावत्तृणमणेः स्थानं तद्भिने मध्यादौ तद्विन्यासात्तत्स्ामिनोSविवेचकत्वमिति भावः। 'धूः स्त्री क्ीबे यानमुखम्' इति कोषः । 'मध्ये वा धुरि वा वसन्' इति पाठो न रमणीयः । अनन्वयात्। ख- द्योतोऽपीति। पुर इत्यनुषज्यते। यस्य पुरः खद्योतोऽपि तेजस्वििनामपि मध्ये अचलितुं गन्तुं न कम्पते। न बिभेतीत्यर्थः । अन्नाप्रस्तुतेन तादृशासामान्येनैव वि- शेषस्याचेतनस्य प्रभोरभिव्यक्तिरिति तदभिधानमनुचितमित्यभिप्रायेणाह-अ-
Page 452
सप्तमः परिच्छेदः । ४०५
एवमनुप्रासे प्रसिद्धभावस्य ख्यातविरुद्धत्वम्। यथा- 'चक्राधिष्ठिततां चक्री गोत्रं गोत्रभिदुच्छितम्। वृषं वृषभकेतुश्च प्रायच्छन्नस्य भूभुजः ॥' उक्तदोषाणां च क्वचिददोषत्वं कचिद्गुणत्वमित्याह- वक्तरि क्रोधसंयुक्ते तथा वाच्ये समुद्धते। रौद्रादौ तु रसेऽत्यन्तं दुःश्रवत्वं गुणो भवेत् ॥ १६ ॥ एषु चास्वादसरूपविशेषात्मकतया मुख्यगुणप्रकर्षोपकारित्वाद्गुण इति व्यपदेशो भाक्तः। क्रमेण यथा- 'तद्विच्छेदकृशस्य कण्ठलुठितप्राणस्य मे निर्दयं क्रूरः पञ्चशरः शरैरतिशितैर्भिन्दन्मनो निर्भरम्। शंभोर्भूतकृपाविधेयमनसः प्रोद्दामनेत्रानल- ज्वालाजालकरालितः पुनरसावास्तां समस्तात्मना ॥'
त्रेति। एवमिति । प्रसिध्भावस्य अनुप्रासितपदार्थयोर्विवक्षितेऽन्वये लोकतः शास्त्रतो वा प्रसिद्धिविरहस्य। चक्राधिष्ठिततामिति। मण्डलाधिकारित्वमित्यर्थः। चक्री विष्णुः । गोत्रं वंशम्। गोत्रभिदिन्द्रः । उच्छ्रितम् उन्नतम् । वृषं पुण्यम् । वृषभकेतुः शिवः । प्रायच्छद्दत्तवान्। अत्र कर्तृकर्मनियमेन स्तुतिरनुप्रासानुवोधे- नैव प्रतिपादिता, न पुनः पुराणेतिहासादिषु तथा प्रतीतिरिति प्रसिद्धविरहः। संप्रति दोषाणां नित्यत्वानित्यत्वप्रतिपत्त्यर्थमनित्यदोषानाह-उक्तदोषाणामिति । क्क- चिदिति। यत्र रसादीनामपकर्षकत्वं प्रकर्षकत्वं च नास्ति तत्रेत्यर्थः । यत्र तु रसादीनामपकर्षकत्वं नास्ति, प्रत्युत प्रकर्षकत्वमेव, तत्र गुणत्वम्। तत्र दोषोद्देश- कक्रमेण यथासंभवं तान्दर्शयति-वक्तरीति। क्रोधसंयुक्ते वक्तरि उद्धते प्रतिपाद्ये च सति दुःश्रवत्वं गुणः । रौद्रादिरसे पुनरत्यन्तं गुण इत्यर्थः । आदिशव्दादू वीर- वीभत्सयोग्रहणम्। ननु गुणानां रसधर्मत्वं त्रिविधत्वं च वक्ष्यति, दुःश्रवत्वादीनां तदुभयाभावात्कथं गुणत्वमित्यत आह-एषु चेति। दुःश्रवत्वादिष्वित्यर्थः । आ- स्वादानां रसानां स्वरूपविशेषात्मकाः साधर्म्यविशेषरूपा ये मुख्यगुणा माधुर्यादयः तत्कृतो यः प्रकर्षो रसाद्युत्कर्षस्तस्योपकारित्वात् अनुकूलत्वात्। व्यपदेशो गौणव्य- बहारः। तद्विच्छेदेति। भूतेषु जन्दुषु या कृपा तदायत्तमनसा। करालितो दग्वः । असौ पञ्चशरः । समस्तात्मना शर्वशरीरेण। पूर्व भौतिकं शरीरं दग्धम्, इदानीं नस्य लिङ्गशरीरमपि दह्यतामिति भावः । अत्र कोधस्यासाद्यमानत्वेऽपि प्राकरणिक- नया प्रधानत्वेन रतेराखाद्यमानत्वाच्छृङ्गारत्वमेव, न तु रौद्रत्वम्। अत एवाह-
१. 'युक्त' क-ख-ग.
Page 453
४०६ साहित्यदर्पणे
अत्र शृङ्गारे कुपितो वक्ता । 'मूर्धव्याधूयमानध्वनदमरधुनीलोलकल्लोलजालो- द्धूताम्भ: क्षोददम्भात्प्रसभमभिनभःक्षिप्तनक्षत्रलक्षम्।
भ्रान्तब्रह्माण्डखण्डं प्रवितरतु शिवं शांभवं ताण्डवं वः ॥।' अत्रोद्धतताण्डवं वाच्यम्। इमे पद्ये मम। रौद्रादिरसत्वे तट्टि- तयापेक्षयापि दुःश्रवत्वमत्यन्तं गुणः । यथा- 'उत्कृत्योत्कृत्य कृत्तिम्-' इत्यादि। अत्र बीभत्सो रसः। सुरतारम्भगोष्ठयादावश्लीलत्वं तथा पुनः । तथा पुनरिति गुण एव। यथा- 'करिह स्तेन संबाधे प्रविश्यान्तर्विलोडिते। उपसर्पन्ध्वजः पुंसः साधनान्तर्विराजते ॥' अत्र शृङ्गार इति। वाच्यस्योद्भटत्वे दुःश्रवत्वं गुणमुदाहरति-मूर्धेति । मूर्धि व्याधूयमाना कम्पमाना ध्वनन्ती शब्दायमाना या अमरधुनी गङ्गा तस्या लोलं चश्चलं यत् कलोलजालं महातरङ्गसमूहस्तस्मादुद्गूता उत्क्षिप्ता ये अम्भःक्षोदा जलबिन्दवः तषां दम्भाच्छलात्। अभिनभो नभति क्षितं नक्षत्रलक्षं तारासमूहो यत्र तत्। ऊर्ध्व न्यस्तोऽद्रिदण्डस्तस्य भ्रमिभरेण भ्रमणातिशयेन यो रभसो वेगस्तस्मादुदनू जायमानो यो नभखान् वायुस्तस्य प्रवेगेन भ्रान्तं कुलालचक्रवत् भ्रमिमापन्नं ब्रह्मा- ण्डखण्डं यत्र तत्। अत्र ताण्डवस्य लोकसंहारकारित्वादुद्भटत्वम्। एतद्वितयापे- क्षया कुद्धवक्तृसममुद्धतवाच्यापेक्षया। रौद्रे दुःश्रवत्वं यथा मम-'क्षिप्तोग्रक्षत्रपक्षे मयि सति सुतरां क्षत्रडिम्भन शंभोश्वापाचार्यस्य चण्डध्वनि धनुरधुना ध्वंसितं विक् तितिक्षाम्। संघट्याकुण्ठधारं कठिनमतितरां तस्य कण्ठे कुठारं व्रीडापीडाम्वुराशेः परिभवसरितश्चाद् पारं प्रपद्ये ।I' अत्र क्रोधस्याखाद्यमानतया भार्गवस्य वक्तः कु- द्वतया च सुतरां दुःश्रवत्वस्य गुणत्वम्। सवथा आस्वादरहिते काव्याभ्यासे दुःश्र- वत्वादीनां न दोषत्वम्, नवा गुणत्वम्। काव्यधर्माणां दोषगुणानां तत्राप्रवेशात्। अश्लीलत्वस्य गुणतमाह-सुरतेति। सुरतस्यारम्भश्रेष्टा यस्यास्तादृशगोष्ठी आदि- र्यस्य तत्र। करिहस्तेनेति। साधनस्य सेनाया अन्तर्मध्ये प्रविश्योपसर्पन् गच्छन् पुंसो ध्वजः केतुर्विराजते। कीदृशे। संबाधे नराश्वादिनैबिड्येन दुष्प्रवेशे। प्रवेशो- पायमाह-करिहस्तेनेति। करिणां हस्तेन शुण्डया विलोडिते विस्फारिते। अन्र पुंलिङ्स्य व्यञ्ञनस्यापि प्रतीत्याश्लीलत्वम् । तथाहि-साधनस्य भगस्यान्तर्मव्ये प्रविश्य उपसर्पन् गतागतं कुर्वन् पुंसो ध्वजो मेहनं विराजते। कीदृशे। संबाधे संकुचिते। तत्प्रवेशोपायमाह-करीति। करिहस्तेन कामशास्त्रोक्तकृत्रिम-
Page 454
सप्तम: परिच्छेदः। 8०७
अत्र हि सुरतारम्भगोष्ठयां 'द्यर्थैः पदैः पिशुनयेच्च रहस्यवस्तु' इति कामशास्त्रस्थितिः। आदिशव्दाच्छमकथा प्रभृतिषु बोद्धव्यम्। स्यातामदोषौ श्लेषादौ निहतार्थाप्रयुक्तते ॥ १७ ॥ यथा- 'पर्वतमेदि पवित्रं जैत्रं नरकस्य बहुमतं गहनम् । हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत ॥'
र्थेडप्रयुक्त: । अन्रेन्द्रपक्षे पवित्रशब्दो निहतार्थः । सिंहपक्षे मतङ्गशब्दो मातङ्गा-
गुणः स्यादप्रतीतत्वं ज्ञत्वं चेद्वकृवाच्ययोः। लिड्गेन विलोडिते। तच्च संस क्ताग्रतर्जन्यनामिकापृष्ठारूढमध्यमारूपम्। तदुक्तम्-'त- जन्यनामिकायुक्ते मध्यमा पृष्ठतो यदि। करिहस्त इति प्रोक्तः कामशास्त्रविशारदैः॥।' इदं त्रीडाव्यञ्जकमश्लीलत्वम्। गुणत्वमुपपादयति-अत्रहीति। पिशुनयेत् सूच- येतू। रहस्यं गोप्यम्। कामशास्त्रस्य स्थितिनियमः । रहस्यव्यञ्ञनस्य सुरतोद्रेकानुकू- लत्वाद्गुणत्वमिति भावः । शमकथाप्रभृतिष्विति। प्रभृतिशब्दाद्वैराग्योत्पादकक- थाग्रहणम्। तत्र यथा-'उत्तानोच्छूनमण्डकपाटितोदरसन्निभे। केदिनि स्त्रीव्रणे स- फ्तिरकृमे: कस्य जायते ॥' अत्र जुगुप्साश्लीलत्वस्य गुणत्वम्। प्रमृतिशव्दातू छझ्मक- थादीनां ग्रहणम्। छद्मकथा छलोक्तिः। अमङ्गलाश्लीलत्वस्य गुणवत्त्वं छद्मकथाया यथा-'निर्वाणवैरदहनाः' इति। कुरूणाममङ्गलसूचनं नटस्य वचनमिदम्। अन्न प्रशमादयः शब्दा मरणरूपामङ्गलसूचका अपि छद्मोक्तौ गुणा एव। पर्वतेति। हे जनाः, पृथिव्यां पतत्सुरसरिदम्भो गङ्गाजलं यूयं नमत। कीदृशम्। पर्वतभेदि हि- मालयभेदकरम्। पवित्रं पावनम्। नरकस्य पारलौकिकदुःखस्य जैत्रं विनाशकम्। बहुभिर्मतं पूजितम्। गहनं महावेगित्वात् दुरवगाहम् । हरिमिव विष्णुमिव। पर्व- तभेदी गोवर्धनोद्धारी स चासौ पवित्रश्वेति तम्। नरकस्य नरकनान्नोऽसुरस्य जैत्रं विनाशकं पराजयकरम्। गहनं दुर्बोधतत्त्वम्। हरिमिव इन्द्रमिव। पर्वतानां पक्ष- च्छेदकत्वात् पर्वतभेदी। पवि वज्रं त्रायते वारयति पवित्रः । स चासौ स चेति तम्। जैत्रं जयशीलम्। नरकस्य मनुष्यस्य बहुमतं मृशं पूजितम्। गहनं दुर्जयम्। हरिमिव सिहमिव। 'मृगाणां च मृगेन्द्रोऽहम्' इति स्मरणात् सिंहस्य वन्दनीय- त्वम्। पर्वतभेदी गिरिगह्वरमाश्रयत्वेन सोऽस्यास्तीति। पवित्रो देवरूपत्वात्। नर- कस्य मनुष्यस्य जैत्रम्। बहून् मतङ्गान् हन्तीति तम्। ज्ञत्वं संकेताभिज्ञत्वम्। 1. अप्रयुक्त इति। यथा वा मदीये दशकण्ठवधे-'वापीपु स्फुटितारविन्दततयो गञ्जासु शौण्डव्रजा: प्रासादेपु महीमहेन्द्रललना वेशेपु वेश्याङ्गनाः। उद्देशेपु सरोवर- द्रववनीकुञ्जेपु शृङ्गारिणो रागं कन्दलयन्ति यत्र नितरां कान्तालिविभ्राजिताः ॥' अत्रा- लिदं मद्यार्थेडपयुक्तम्।।
Page 455
४0८ साहित्य दर्पणे
यथा- 'त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम्। त्वदर्शनमुदासीनं त्वामेच पुरुषं विदुः ॥' स्वयं वापि परामर्शे अप्रतीतत्वं गुण इत्यनुषज्यते। यथा- 'युक्तः कलाभिस्तमसां विवृच्चै क्षीणश्च ताभिः क्षतये य एषाम्। शुद्धं निरालम्बपदावलम्बं तमात्मचन्द्रं परिशीलयामि ॥' कथितं च पदं पुनः ॥ १८ । विहितस्यानुवाद्यत्वे विषादे विस्मये कुधि। दैन्येऽथ लाटानुप्रासेऽनुकम्पायां प्रसादने ॥१९ ॥ अर्थान्तरसंक्रमितवाच्ये हर्षेडवधारणे। गुण इत्येव । यथा- 'उदेति सविता ताम्र :- ' इत्यादि। अत्र विहितानुवादः । 'हन्त हन्त गतः कान्तो वसन्ते सखि नागतः ।' अत्र विषादः । 'चित्रं चित्रमनाकाशे कथं सुमुखि चन्द्रमाः ।' अत्र विस्मयः । 'सुनयने नयने निधेहि-' इति-। अत्र लाटानुप्रासः । त्वामिति। अत्र प्रकृतिपदं प्रधानवाचकं योगशास्त्र एव प्रयोगप्राचुर्येण प्रसिद्धम्। 'प्रधानं प्रकृतिः स्त्रियाम्' इति संकेताभिज्ञत्वे तु गुण एव। एवं पुरुषपदं परमात्म- वाचकं योगशास्त्र एव प्रसिद्धम्। 'क्षेत्रज्ञ आत्मा पुरुषः' इति संकेताभिज्ञत्वे तु गुण एव। युक्त इति। कलाभिः पृथिव्यादितत्वैः। तमसामज्ञानानाम्। ताभि: कलाभिः। एषां तमसाम्। शुद्धं कामादिदोषरहितम्। निरालम्बपदं शिरःस्थाधोमुखकमलक- र्णिकामध्यं तदवलम्बं तदाश्रयम्। चन्द्रपक्षे-कलाभिः षोडशभागैः क्षीणो हीनः। तमसां तिमिराणां विवृध्धै यो भवति। यश्च ताभिर्युक्तः। एषां तमसां क्षतये भ- वति। तं शुद्धं शुभ्रप्रकाशम्। निरालम्बपदमाकाशमवलम्बो यस्य तम्। अन्र क- लानिरालम्बपदात्मपदानां तत्त्वादिवाचकत्वं योगशास्त्र एव प्रसिद्धम्। आत्ममात्रप्र- तीतेरुद्देश्यत्वादस्य गुणवत्वम्। विहितस्येति। उद्देश्यप्रतिनिर्देश्यस्थले उक्तपदप्र- योगादर्थान्तरप्रतीत्यभावेन झटित्येव शाब्दबोधः, ततो रसादिधीरविलम्बेनैवेत्यत्र कथितपदत्वस्य गुणवत्त्वम्। विषाद इत्याद्युपलक्षणम्। यत्र यत्र द्विरुकं पदं लक्ष-
Page 456
सप्तम: परिच्छेदः । ४०९
'नयने तस्यैव नयने च।' इत्यादावर्थान्तरसंक्रमितवाच्यो ध्वनिः। एवमन्यत्र । संदिग्धत्वं तथा व्याजस्तुतिपर्यवसायि चेत् ॥ २० ॥ गुण इत्येव। यथा- 'पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव। विलसत्करेणुगहनं संप्रति सममावयोः सदनम्॥' णयार्थान्तरबोधकं तत्रापि कथितपदत्ं गुणः । अत एव वक्ष्यति-एवमन्यत्रा- पीति। तेन 'गृहे गृहे व्यग्रपुरन्ध्रिवर्गम्' इत्यन्न द्विरुक्त्तं गृहपदं सकले लाक्षणिकं पार्वत्यां सर्वजनानुरागं व्यञ्ञयति। 'पीला पीला सुरभिमदिरामादरात्कान्तदतां कण्ठं तस्य प्रसितु रभसाद्वाहुपाशदूयेन। वक्रं दन्तव्रणकिणकलङ्काकुलं कारयेन्दुं मत्तानां तु व्रजति गुणतां दातुरापत्प्रदत्वम् ।I' अत्र द्विरुक्तं पीत्वेति पदं पौनःपुन्यलक्षकमत्र रूढिरेव। 'रक्ष रक्ष रघुव्याघ्र भवन्नाथमनाथवत्। धोरदंष्ट्राकरालास्यं रक्षो भक्षति मामिदम् ।I' अत्र रक्षेति दुते लाक्षणिकं भयातिशयं व्यञ्जयति। 'याहि याहि सु- मुखि प्रियधाम त्राहि कान्तमशरीरशराधेः। बन्धुरेव विपदः प्रतिकारे संदधाति सुतरामुपयोगम् ।I' अत्र याहि याहीति पदं द्ुते लाक्षणिकं लरातिशयं व्यज्ञयतीत्या- दावपि कथितपदतं गुणः। पदानुप्रास एव लाटानुप्रासो वक्ष्यते। तस्य शब्दवैचित्रयद्वारा रसाद्युपकारकत्वमिति गुणलमेव। अर्थान्तरसंक्रमितवाच्यो ध्वनिप्रभेदस्तत्रार्थविशेष- व्यञ्ञकत्वमिति गुणकलम्। हन्त हन्तेति। अत्र द्विरुक्तं पदं वाच्यस्य विषादस्या- तिशयं व्यञ्यति। एवं चित्रचित्रमित्यत्र वाच्यस्य विस्मयातिशयम्। मुखवर्णनमिदम्। कुधि यथा-'यातु यातु किमनेन तिष्ठता मुश्च मुञ्च सखि सादरं वचः। पामरीव वनलोलुपो युवा नैष वेत्ति कुलजावैरासवम्।' अन्र द्विरुक्तं पदं समभिव्याहृतप- दार्थस्यायोगव्यवच्छेदं लक्षयति क्रोधातिशयं व्यञ्जयति। क्रोधेनोक्तावप्यर्थान्तराव्य- अकत्वात्कथितपदतं दोष एव। यथा-'तद्विच्छेदकृशस्य- इत्यादौ मनःपदम्। दैन्ये यथा-'देहि देहि नृपमेव तु चित्तम्।' अन्न द्विरुक्तं पदं दानप्रयुक्तिपौनःपुन्यं लक्षय ददन्यातिशयं व्यञ्जयति। अनुकम्पायां यथा-'दीन रे वसु गृहाण गृहाण।' अत्र द्विरुक्तं पदं ग्रहणप्रयुक्तिपौनःपुन्यं लक्षयदनुकम्पातिशयं व्यञ्ञयति। प्रसादने यथा-'मुश्च मुश्च सखि नेत्रमुद्रणं न क्षमा मयि पदानते क्षमा।' नयने इति। अत्र द्वितीयनयनपदं भाग्यवत्त्वादिगुणविशिष्टनयनबोधकलवादगुणः। हर्षे यथा-'कथय कथय दूत क्वागतो रामभद्रः ।' यद्वा 'हन्त हन्तागतः कान्तः श्रीमानद्य मदाश्र- यम्।' अवधारणमयोगव्यवच्छेदोऽन्ययोगव्यवच्छेदश्च। तत्रायोगव्यवच्छेदे- "हन्ति हन्ति रिपुं वीरः।' अन्ययोगव्यवच्छेदे यथा-'तद्वश्चनाहितम तिर्बहुचाटुगभे कार्योन्मुखः खलु जनः कृतकं ब्रवीति। तत्साधवो ननु विदन्ति विदन्ति किंतु कर्तु वृथा प्रणयमस्य न पारयन्ति ।' अन्र 'विदन्ति' इति द्वितीयं पदं साधव एप विदन्तीत्यन्ययोगव्यवच्छेदपरम्। अयोगव्यवच्छेदस्तु नज्द्वयेनैव प्रतीयते। पृथु- १. 'मुखासवम्' इति पुस्तकान्तरे. सा० द० ३५
Page 457
४१० साहित्यदर्पणे
वैयाकरणमुख्ये तु प्रतिपाद्येऽथ वक्तरि। कष्टत्वं दुःश्रवत्वं वा गुण इत्येव । यथा-
क्विप्प्रत्ययनिभ: कश्चिद्त्र संनिहिते न ते ।।' अत्रार्थः कष्टः। वैयाकरणश्च वक्ता। एवमस्य प्रतिपाद्यत्वेऽपि। 'अन्रास्मार्षमुपाध्याय त्वामहं न कदाचन ।' अत्र दुःश्रवत्वम्। वैयाकरणो वाच्यः । एवमस्य वक्तृत्वेऽपि। कातेति। राजि दरिद्रस्योक्तिरियम्। हे देव, संप्रत्यावयोः सदनं गृहं समम्। वत्तो धनलाभे तु मद्गहमनेवंभावात्पश्चात्समं न भविष्यतीत्यर्थः। पृथूनि कार्तखरस्य सुवर्णस्य पात्राणि यत्र । भूषिताः रत्नाद्यलंकारमण्डिताः निःशेषपरिजना यत्र। विलसन्तीभिः करेणुभिर्गहनं दुर्गमं राजसदनमीदशम्। दरिद्रसदनं तु-पृथुकानां शिशूनां क्षुधया आर्तस्वरस्य पात्रम् । भुवि उषिताः सुप्ताः निःशेषपरिजना यत्र। शयनास्तरणाभावात्। तथा बिले गर्ते कुत्सितसतां मूषिकपिपीलिकादीनां रेणुभि- गहनं व्याप्तम्। कुत्सायां कः । अत्र विशेषणपदानां संदेहयोग्यत्वेऽपि व्याजस्तुति- पर्यवसानात् गुणवत्त्वम्। वैयाकरणमुख्ये वैयाकरणादौ। आदिपदाच्छुष्कतर्कादिप- रिग्रहः। वैयाकरणे कर्तरि कष्टत्वं गुणमुदाहरति-दीधीवेवीडिति । कश्चिजनो गुणवृद्धयोः शौर्याभ्युदययोरभाजनमनाश्रयः।दीधीवे वीधातुभ्यामिडागमेन च समः । तेषां व्याकरणे गुणवृद्धिनिषेधात्। कश्चिज्जनः । क्विप्प्रत्ययनिभो विनष्ट एव। अत्र ते गुणवृद्धी न संनिहिते न स्तः। अत्र दीधीवेवीसं गुगवृद्धिनिषेधानभिज्ञानां कविप्- प्रत्ययस्य सर्वलोपितानभिज्ञानां च झटिति प्रतीतिन भवतीत्यर्थस्य कष्टत्वम्। एत- देवाह-अत्रेति। एवमिति। अस्य वैयाकरणस्। यथा-'आत्मनेपदसंयो- गियजिकर्ता गुरो भवान्।' आत्मनः खर्गार्थ यागं करोषीत्र्थः कष्टः। वैयाकरणे वाच्ये दुःश्रवत्वं गुणमुदाहरति-अत्रास्मार्षमिति। 'अत्रातार्प्सम्' इति क्वचित् पाठः। अस्य वैयाकरणस्य दुःश्रवत्वं गुण इत्यनुषज्यते। यथा-'सोऽध्यैष्ट वेदांस्ित- दशानयष्ट' इति। शुष्कतार्किकवक्तृत्वे कष्टत्वं गुणो यथा-'न्यायानुमानविगुणं कुयशस्ते महीपते। हेत्वाभासवदुद्भाव्यं विदुषो याति निग्रहम् ॥' अत्र पञ्चावयव- न्यायप्रयोगे दुष्टहेतुप्रयोगे वादिनिग्रहकर इत्यर्थः । एतदनभिज्ञानां कष्टः । एवम- 1. दीधीति। धातुपक्षे-'अदेङ् गुणः,' 'वृद्धिरादैचू' इति सूत्राभ्यां परिभाषिते गुणवृद्धी। तयोरभाजनम्। 'दीधीवेवीटाम्' इत्यनेन गुणवृद्धिनिषेधविधानात्। प्रत्यय- पक्षे-किप्प्रत्ययः 'वेरपृक्तस्य' इत्यनेन लुप्यते। यस्मिन्संनिहिते पुरोवर्तिनि 'क्विति च' इति निषेधाद् गुणवृद्धी न स्याताम् ॥ १. 'देधीडवेवीङ्समः' क.
Page 458
सप्तमः परिच्छेदः । ४११
ग्राम्यत्वमधमोक्तिषु ॥ २१॥ गुण इत्येव। यथा मम- 'एसो ससहरबिम्बो दीसइ हेअङ्गवीणपिण्डो व्व। एदे अस्ससमोहा पडन्ति आसासु दुद्धधार व्व ।।' इयं विदृषकोक्तिः । निर्हेतुता तु ख्यातेऽर्थे दोषतां नैव गच्छति। यथा- 'संप्रति संध्यासमयश्चकद्वन्द्वानि विघटयति ।' कवीनां समये ख्याते गुण: ख्यातविरुद्धता ॥ २२ ॥ न्यस्य बोध्यत्वे बोध्यम्। अधमोक्तिषु अविदग्धवाक्येषु। एसो ससेति। 'एष शशधरबिम्बो दृश्यते हैयंगवीनपिण्ड इव। एते चांशुसमूहाः पतन्त्याशासु दुग्ध- धारा इव ।' इति संस्कृतम्। अत्र दुग्धपदं ग्राम्यमपि वक्तुरधमत्प्रतीतिकरलादगुण एव। 'मुग्धा मुग्धधिया-' इत्यादावनुप्रासविशेषादौ ग्राम्यत्वस्यादोषलं बोध्यम्। संप्रतीति। संध्यायां चक्रवाकद्वन्द्वस्य विघटनं सुप्रसिद्धमिति न तत्र हेतपेक्षा। 1. समय इति। समयः संप्रदायः । स च त्रिविधः । तथा चोक्तम्-'असतोऽपि निबन्धेन सतामप्यनिबन्धनात्। नियमस्य पुरस्कारात्संप्रदायस्त्रिधा कवेः ॥' असतो निब- न्धनं यथा-'रतानि यत्र तत्रादौ हंसादयल्पजलाशये। जलेभादं नभोनद्यामम्भोजादयं नदीष्वपि।। तिमिरस्य तथा मुष्टिग्राह्यत्वं सूचिभेदयता। शुकत्वं कीर्तिपुण्यादौ कार्ष्ण्य चाकीर्त्यघादिषु।। प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः। ज्योत्सापानं चकोराणां शैवालं सर्ववारिपु।। केसराशोकयोः स्त्रीणां गण्डूषात्पादघाततः । मासान्तरेऽपि पुष्पाणि रोमालिस्त्रिवलि: स्त्रियाम् ।' सतामप्यनिबन्धनं यथा-'वसन्ते मालतीपुष्पं फलपुष्पे च चन्दने। कामि- दन्तेधु कुन्दानां कुञलेषु च रक्तता। नारीणां श्यामता पातः स्तनयोर्यच्च वा हिये॥' नियमाख्यानं यथा-'हिमवत्येव भूर्जत्वक् चन्दनं मलये परम्। हेमन्तशिशिरौ त्यक्त्वा सर्वदा कमलस्थिति: ॥ सामान्यग्रहणे शौक्ल्यं पुष्पाम्भश्छत्रवाससाम्। ध्वजचामरहं- सानां हारस्य बकभस्मनोः ॥ कृष्णत्वं शैलवृक्षादिमेघवारिधिवीरुधाम्। भिलानामसु- राणां च धूपपङ्कशिरोरुहाम् ॥ लौहित्यं धातुमाणिक्यजपारत्नविवस्वताम्। पझ्मपल्लववन्धू- कदाडिमीकरजादिषु ॥ पीतत्वं शालिमण्डूकवल्कलेपु परागके। वर्षास्वेव शिखिप्रौढिर्म- धावेव पिकध्वनिः ॥' अन्यच्न-'कमलासंपदोः कृष्णहरितोर्नागसर्पयोः । पीतलोहितयोः स्वर्णपरागाभिशिखादिषु॥ चन्द्रे शशैणयोः कामध्वजे मकरमत्स्ययोः । दानवासुरदैत्या- नामैक्यमेवाभिसंहितम् ।' अपि च-'चिरंतनस्यापि तथा शिवचन्द्रस्य बालता। मानवा मौलितो वर्ण्या देवाश्चरणतः पुनः ॥ सुवनानि निबन्नीयात्रीणि सप्त चतुर्दश। चतस्रोडष्टौ दशदिशश्चतुरः सप्त चाम्बुधीन् । अष्टादश स्मृता विद्याश्चतस्त्रश्च चतुर्दश। ये स्थले ते जले जीवा भिन्दन्त्यर्के रणे मृताः ॥ महत्वमादौ सर्गान्त सूक्ष्मता जगता-
Page 459
४१२ साहित्यदपण
कविसमयख्यातानि च- मालिन्यं व्योम्ि पापे, यशसि धवलता वर्ण्यते हासकीर्त्यो रक्तौ च क्रोधरागौ, सरिदुदधिगतं पङ्गजेन्दीवरादि। तोयाधारेSखिलेऽपि प्रसरति च मरालादिक: पक्षिसङ्गो ज्योत्सा पेया चकोरैर्जलधरसमये मानसं यान्ति हंसा:॥।२३।। पादाघातादशोकं विकसति बकुलं योषितामास्यमद्यै- र्यूनामङ्गेषु हाराः, स्फुटति च हृदयं विप्रयोगस्य तापैः। मौर्वी रोलम्बमाला धनुरथ विशिखा: कौसुमा: पुष्पकेतो- र्भिन्नं स्ादस्य वाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ।।२४।।
कवीनामिति। समये सिद्धान्ते। मालिन्यमिति। तेऽप्याकाशमषीश्यामम्। 'कलङ्कमालिन्यमिषेण चन्द्रमा दधात्यघं पान्थवधूवधोद्भवम्।' दुर्यशसि च मालिन्यं ज्ञेयम्। यथा-'अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरःस्थितम्।' इति। एवमादीन्येषामुदाहरणानि बोध्यानि। यशःकीर्तयोर्भेदः 'खङ्गादिप्रभवा कीर्ति- विद्यादिप्रभवं यशः ।' इति केषांचिद्दर्शनादुपपत्तेः। पादाघातादिति। योषितामित्य- नेन संबन्धः 'पादेन नापैक्षत सुन्दरीणाम्' इत्यादिदर्शनातू। स्फुटति विदीण भवति। रो- लम्बमाला भ्रमरश्रेणी। 'अलिपक्किरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता' इत्यादि- दर्शनात्। धनुरथेत्यथशब्दश्चार्थः । तेन पुष्पकेतोः कामस्य धनुः कौसुमं विशिखाश्च
मपि। शैलादिभिदते शब्दान्नभः शतधनूपरि (१)॥ नाम तत्तदुपाधौ स्याच्छंकरो वृषवा- हनः । चिह्नत्वे च वृषाक्कोडयं ध्वजे सत्त्वाद्वषध्वजः ॥ शूली न सपी गिरिशः शशी न हरिणी विधुः । इन्दुमौलिर्महादेवो गङ्गामौलिन तु क्वचिद्॥'अन्यच्च-'श्वेतानि चन्द्र-श- क्राश्-शंभु-भारगव-नारदाः । हली शेषाहि-शक्रेभौ सिंहसौधशरद्धनाः॥ सूर्येन्दुकान्त- निर्मोक-मन्दार-दु-हिमाद्रयः । हिमहासमृणालानि स्वगङ्गभरदाभ्रकम्॥ सिकतामृतलो- ध्राणि गुणकैरवशर्कराः । नीलानि कृष्ण-चन्द्राङक-व्यास-राम-धनंजयाः ॥ शनिर्द्रुपदजा काली राजपट्टविदूरजम्। विषाकाशकुहूशस्त्रागुरुपापतमोनिशाः ॥ रसावन्भतशङ्गारौ म- दतापिच्छराहवः । सीरिचीरं यमो रक्षः कण्ठः खञ्जनकेकिनोः ॥ कृत्या छाया गजाङ्गा- रखलान्तःकरणादयः । शोणानि च्छत्रधर्मश्च त्रेता रौद्ररसस्तथा । चकोर कोकिलापारा- वतनेत्रं कपेर्मुखम्। तेजःसारसमस्तं च भौमकुङ्कुमतक्षकाः ॥ जिह्वेन्द्रगोपखद्योतविद्यु- त्कुञ्जरबिन्दवः। पीतानि दीपजीवेन्द्रगरुडेश्वरदृग्जटाः ॥ ब्रह्मावीररसस्वर्णकपिद्वापररो- चनाः । किअ्ल्कचक्रवाक्याद्या हरितालमनःशिलाः ॥ धूसराणि रजो लूता करभो गृह- गोधिका। कपोतमूषकौ दुर्गा काककण्ठखरादयः ॥' इदमुपलक्षणम् । 'हरिताः सूर्यतुरगा बुधो मरकतादयः ।' इत्यपि बोध्यम्। 'दवैरूप्ये चाप्रसिद्धौ च नियमोऽयमुदाहृतः। अन्य- द्वस्तु यथा यत्स्यात्तत्तथैवोपवर्ण्यंते ।' इति॥
Page 460
सप्तम: परिच्छेदः। ४१३
अह्रयम्भोजं, निशायां विकसति कुमुदं, चन्द्रिका शुक्कपक्षे मेघध्वानेषु नृत्यं भवति च शिखिनां नाप्यशोके फलं साद। न स्ाज्जाती वसन्ते, न च कुसुमफले गन्धसारद्ुमाणा- मित्याद्युन्नेयमन्यत्कविसमयगतं सत्कवीनां प्रबन्धे ।। २५।। एषामुदाहरणान्याकरेषु स्पष्टानि। धनुर्ज्यादिषु शब्देषु शब्दास्तु धनुरादयः । आरूढत्वादिबोधाय यथा- 'पूरिते रोदसी ध्वानैधनु्ज्यास्फालनोद्गवैः।' अत्र ज्याशब्देनापि गतार्थत्वे धनुःशब्देन ज्याया धनुष्यायत्ती- करणं बोध्यते। आदिशब्दात् 'भाति कर्णावतंसस्ते।' अत्र कर्णस्थित- त्वबोधनाय कर्णशब्दः । एवं श्रवणकुण्डलशिरःशेखरप्रभृतिः । एवं निरुपपदो मालाशब्दः पुष्पस्जमेवाभिधत्त इति स्थितावपि 'पुष्पमाला विभाति ते।' अत्र पुप्पशब्द उत्कृष्टपुष्पवृद्चै। एवं मुक्ता- हार इत्यत्र मुक्ताशब्देनान्यरल्ामिश्रितत्वम्। प्रयोक्तव्याः स्थिता अमी ॥२६॥ धनुर्ज्यादयः सत्काव्यस्थिता एव निबद्धव्याः न त्वस्थिता जघन- काञ्चीकरकङ्कणादयः । उक्तावानन्दमग्नादेः स्यान्यूनपदता गुणः। यथा- 'गाढालिङ्गनवामनीकृतकुच प्रोद्गिन्नरोमोद्गमा सान्द्रस्ेहरसातिरेकविगलच्छीमन्नितम्बाम्बरा। कौसुमा इत्यर्थः । अस्य पुष्पकेतोः । अह्वयम्भोजमिति। दिनादौ पद्माद्यसत्त्वेऽपि तत्र तत्प्रकाशो वर्णनीयः । चन्द्रिकेति। यत्र रात्रिभागे चन्द्रिका नास्ति तत्रापि वर्णनीयेति भावः । गन्धसारदमाणां चन्दनवृक्षाणाम्। इत्यादीति। तेन सौधादे- रमेंघादयुपरिपर्यन्तगामितमत्युच्चतव्यज्ञनाय वर्ण्यते। पुनरुक्तस्य गुणत्वमाह-धनु- रिति। ज्याशब्देनैव धनुर्गुणबोधाद्धनुःशब्दो निरर्थकोऽपि आरूढत्बोधनाद्गुणः । शेखरपदं शिरोभूषणं किरीटं वक्ति। काव्यस्थिता महाकविप्रयोगेषु स्थिताः । जघनेति। निबन्धव्या इति शेषः। आनन्दमन्नादेरित्यादिना दुःखममादेर्ग्रहणम्। गाढेति। संख्यो रात्रिवृत्तान्तकथनमिदम्। गाढालिङ्गनेन वामनीकृतकुचा चासौ प्रो-
Page 461
४१४ साहित्यदर्पणे
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ।।' अत्र पीडयेति न्यूनम् । क्चिन्न दोषो न गुण: न्यूनपदत्वमित्येव । यथा- 'तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घ न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः । तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्जातेति कोडयं विधिः ॥' अत्र प्रभावपिहितेति भवेदिति चेत्यनन्तरं नैतद्यत इति पदानि न्यूनानि। एषां पदानां न्यूनतायामप्येतद्वाक्यव्यङ्गयस्य वितर्कार्य- व्यभिचारिभावस्योत्कर्षाकरणान्न गुणः । दीर्घ न सेत्यादिवाक्यजन्य- या च प्रतिपत्त्या तिष्ठेदित्यादिवाक्यप्रतिपत्तर्बोधः स्फुटमेवावभासत इति न दोषः । गुणः काप्यधिकं पदम्॥२७ ॥
द्विन्नरोमोद्मा चेति समासः। गाढालिङ्गनवामनीकृतकुचयोः प्रोद्भिन्नो रोमोद्रमो यस्या इति समासो न युक्तः। कुचे रोमोद्रमस्यासंभवात्। सान्द्रस्नेहरसातिरेकेण विगलत् श्रीमतो नितम्बादम्बरं यस्याः सा। हे मानद, मा मां मा पीडय मां मातिपीडय अलं बहुव्यापारेणेति क्षामस्याल्पस्याक्षर स्योल्लापिनी। पीडयेत्यादेरनुक्तलादल्पलमक्ष- रस्य। मानदस्य पीडाकरत्वमनुपपन्नमित्यवगमाय तत्पदेन संबोधनम्। एते तावन्नि- षेधाभासा विधिषु पर्यवसन्नाः । निष्पन्दत्वेन कि सुप्तति वितकेचतुष्टयम्। सुप्ता निद्रायिता, अतिनिष्पन्दत्वेन मृतेति, अत्यन्तत्वे लयः, अबहिर्भावे विशेषलयश्च बोध्यः। अत्र पीडयेत्यादियोग्यस्य पदस्य न्यूनता हर्षग्लानिसंमोहप्रकर्षबोधनद्वारा रसं पुष्णातीति गुणवत्त्वम्। तिष्ठेदिति। पुरूरवस उक्तिरियम्। सा उर्वशी प्र- भावेन पिहिता सती तिष्ठेत्। अथवा प्रभौ मयि कोपवशादपिहिता तिष्ठेत्। नै- तत्। यतो दीर्घ न कुप्यति। उत्पतिता उद्गता। मयि भावाद्रे मद्रोचरप्रेमस्ति- मितम्। अस्या उर्वश्याः । विबुधद्विषोऽसुराः। इत्थमदृश्यत्वे हेतुर्नास्त्येव किमद- श्येति विस्मयादाह-सा चेति। अगोचरमगोचरत्वम्। विधिर्नियतिः प्रकारो वा। अगुणत्वमदोषत्वं चोपपादयति-एषामिति । वाक्यप्रतिपत्तेर्वाक्यजन्यबोधस्य।
Page 462
सप्तम: परिच्छेदः । ४१५
यथा- 'आचरति दुर्जनो यत्सहसा मनसोऽप्यगोचरानर्थान्।. तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम् ॥' अत्र न न जाने इत्यन्ययोगव्यवच्छेदाद्विच्छित्तिविशेषः । समाप्तपुनरात्तत्वं न दोषो न गुण: कचित्। यथा-'अन्यास्ता गुणरत्न- इत्यादि। अत्र प्रथमार्ेन वाक्यसमाप्तावपि द्वितीयार्धवाक्यं पुनरुपात्तम्। एवं च विशेषणमात्रस्य पुनरुपादाने समाप्तपुनरात्तत्वं न वाक्यान्तर- स्येति विज्ञेयम्। गर्भितत्वं गुण: कापि यथा- 'दिआ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सापि वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।
ननु द्वितीयजाने इत्यनेनायोगव्यवच्छेद एव प्रतीयते इत्यत आह-अत्रेति। इत्यनेन इत्यनेनैवेत्यर्थः। गुणत्वमुपपादयति-द्वितीय इति। विच्छित्तिविशेषोऽर्थ- वैचित्र्यविशेषः प्रतीयत इति । गुणतमिति शेषः । अत्र कथितपदत्वस्यावधा- रणबोधकत्ाद् 'यद्वश्चनेन-' इत्यादिप्राक्प्रदर्शितवद् गुणलमस्ति। अस्य शुद्धोदाह- रणं तु-'याहि माधव याहि केशव मा वद कैतववादम्। तामनुसर सरसीरुहलो- चन या तव हरति विषादम् ।I'अन्न माधवकेशवसरसीरुहलोच नपदानामन्यतमेनैवा- न्वयोपपत्तौ सर्वेषामुपपादनमर्थान्तरबोधकत्वाद् गुण एव। तथाहि-माधवपदेन लक्ष्मीपतित्वेऽपि तव वैदग्व्यं नास्तीति, केशवपदेन वीरत्वेऽपि तव रतिसामर्थ्ये नास्तीति, सरसीरुहलोचनपदेन विलक्षणचक्षुःसत्त्वेऽपि मम रूपलावण्यातिशयं न पश्यसीति व्यज्यते। यथा वा-'कुर्यो हरस्यापि पिनाकपाणेघैर्यच्युति के मम धन्विनोऽन्ये। अत्र पिनाकपाणेरपीत्यनेनैव प्रकृतान्वयोपपत्तौ हरस्येत्यधिकमपि हरस्यैव पिनाकसंबन्धेन दुर्जयत्वमिति व्यञ्ञकत्वाद् गुणतम्। 'नायं भिक्षुर्वरयुवति- मान्नो तितिक्षुर्धनुष्मान्राज्ञः पुत्रो नहि नहि जटाजूटभारं दधानः। नायं व्याधो नवगुणधरः पश्य कस्मादकस्मात्पुण्येऽरण्ये नवजलवरश्यामलः कोऽयमेति ॥' अत्र द्वितीयस्य नहीति निपातसमुदायस्य वाचकलाभावेन कथितपदस्य न विषयः, किं तधिकोपि राजपुत्रस्य जटाधारणमत्यन्तासंभवीति व्यञ्ञकल्ादू गुण एव। न वाक्यान्तरस्येति।पुनरुपादाने समाप्तपुनरात्तत्वं न दोष इत्यर्थः । दिख्व्ात- ङ्रेति। दिख्यातङ्गसमूहेन विभक्ताः परिच्छिन्नाश्चत्वार आघाटाः सीमा यस्याः सा।
Page 463
४१६ साहित्यदर्पणे
विप्राय प्रतिपाद्यते किमपरं रामाय तस्ै नमो यस्मात्प्रादुरभूत्कथाङ्डुनमिदं यत्रैव चास्तं गतम् ।।' अत्र वदन्त एवेत्यादि वाक्यं वाक्यान्तरप्रवेशात् चमत्कारातिशयं पुष्णाति। पतत्प्रकर्षता तथा ॥ २८ ॥ तथेति क्वचित् गुणः। यथा-'चञ्चड्ज-' इत्यादि। अत्र चतुर्थपादे सुकुमारार्थतया शब्दाडम्बरत्यागो गुणः। कचिदुक्तौ स्वशब्देन न दोषो व्यभिचारिणः। अनुभावविभावाभ्यां रचना यत्र नोचिता ॥२९॥ यत्रानुभावविभावमुखेन प्रतिपादने विशदप्रतीतिर्नास्ति, यत्र च विभावानुभावकृतपुष्टिराहित्यमेवानुगुणं तत्र व्यभिचारिणः स्वशब्दे- नोक्तौ न दोषः । यथा- 'औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना हिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः । दृष्ट्राग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता क्रिष्टा शिवायास्तु वः ॥' अत्रौत्सुक्यस्य त्वरारूपानुभावमुखेन प्रतिपादने संगमे न झटिति प्रतीतिः। त्वराया भयादिनापि संभवात् । ह्वियोऽनुभावस्य च व्याव- साध्यते सववशीक्रियते। सिद्धा साधितापि सा मही। विप्राय प्रतिपाद्यत इत्युत्तरेण- न्वयः । किमपरमिति वाच्यमिति शेषः । कथैवाद्भुतमाश्चर्यम्। यत्रैवेति। तथा च तत्तुल्यो न भूतो न वर्तमानो न भविष्यन्निति भावः । चमत्कारातिशयमिति। तेन युद्धवीरदानवीरयोः परिपोषः। क्वचिदिति। यत्र पद्यांशे सुकुमारार्थत्वं तत्रेत्यर्थः। इदानीं रसदोषाणां विषयविशेषे यथायथमदोषत्वं गुणत्वं चाह-कचिदिति। रचना व्यज्जनम्। विभावादिकृतरचनानौचित्यम्। विकल्पयति-यत्रेति। औत्सु- क्येनेति। नवे संगमे प्रथमदिवससमागमे। हसता हरेण श्िष्टा गौरी युष्माकं शिवायास्तु। कीहशी। तद्गृहगमने प्रथमौत्सुक्येन कृतत्वरा, ततश्र सहभुवा सहजया हिया लज्जया व्यावर्तमाना, ततश्र तैस्तैरित्यादि। ततश्राग्रे वरं सामिनं दृष्ट्रा आते- त्यादि। साध्वसस्य विभावादिभिः परिपोषे सति रसत्वप्राह्या शङ्गारविरोधित्वं स्यातू। हासस्य तथात्वे प्रधानत्वेन प्रतिपत्ति: स्यात्। न श्ङ्गारत्वेनेति भावः। परिपन्थि- १. 'संगमे' घ-पुस्तके नास्ति. २. 'संभवः' घ.
Page 464
सप्तमः परिच्छेदः । ४१७
तमानस्य कोपादिनापि संभवात्। साध्वसहासयोस्तु विभावादिपरिपो- षस्य प्रकृतरसप्रतिकूलप्रायत्वादित्येषां सशब्दाभिघानमेव न्याय्यम्। संचार्यादेर्विरुद्धस्य बाध्यत्वेन वचो गुणः। यथा-'काकार्ये शशलक्ष्मणः क च कुलं- इत्यादि। अत्र प्रशमाङ्गानां वितर्कमतिशङ्काधृतीनामभिलाषाङ्गौतसुक्यस्मृति- दैन्यचिन्ताभिस्तिरस्कारः पर्यन्ते चिन्ताप्रधानमास्वादप्रर्कषमाविर्भावयति। विरोधिनोऽपि सरणे साम्येन वचनेऽपि वा ॥ ३० ॥ भवेद्विरोधो नान्योन्यमङ्गिन्यङ्गत्वमाप्योः। क्रमेण यथा-'अयं स रसनोत्कर्षी- इत्यादि। अत्रालम्बनविच्छेदे रतेररसात्मतया स्मर्यमाणानां तदङ्गानां शो- कोद्दीपकतया करुणानुकूलता।
रसविभावादिसंग्रहस्य गुणलमाह-संचार्यादेरिति। व्यभिचारिभावाभावादेरि- त्यर्थः। आदिना विभावानुभावग्रहणम् । विरुद्धस्य प्रतिकूलरसाङ्गस्य बाध्यत्वेन प्रतिरुद्धस्वजन्यरसपरिपुष्टिकलेन वचोज्ञापनम्। क्वाकार्यमिति। भावशबललो- दाहरणमिदम्। गुणत्मुपपादयति-अत्रेति। प्रशमाङ्गानां शान्तरसानुकूलानाम्। अभिलाषाङ्गैः शङ्ाररसानुकूलैः। तिरस्कारः खजन्यरसपरिपोषस्थगनम्। ननु वितर्का- दीनामिव औत्सुक्यादीनामपि बाध्यत्वमस्तीति कथं विप्रलम्भस्य परिपुष्टिरित्यत आह-पर्यन्त इति। चिन्तायाम्। विश्रान्तौ सत्यामित्यर्थः। चिन्ताप्रधानमबाधित- त्वेन मुख्यं कारणं यस्य तादृशमास्वादप्रकर्ष विप्रलम्भश्गारपरिपोषम्। आविर्भाव- यति करोतीति। तज्ज्ञापनं गुण इति शेषः। विरुद्धरसयोः संपर्को दोष एव। तदु- कम्-'प्रत्यनीकौ रसौ द्वौ द्वौ तत्संपर्क विवर्जयेत्' इति। तयोर्विषयविशेषे समावे- शमाह-विरोधिनोऽपीति । स्मरणे पूर्वानुभूतस्यातीतस्य व्यज्नया ज्ञाने। वचने ज्ञापने। अङ्गिनि मुख्यविशेष्ये। एतच्चाङ्गिनीत्युपादानाल्लभ्यते। अन्यथा 'अङ्गत्वमाप्तयोः' इत्यनेनैवाङ्गलाभे तदुपादानमनर्थकं स्यात्। द्विवचनं बहूनामुपल- क्षणम्। अयमिति। व्याख्यातमिदं गुणीभूतव्यङ्गयोदाहरणे। अत्र विरुद्धस्यापि शङ्गा- रस्य स्मर्यमाणतया करुणेन संपर्को न दोषः। ननु तदानीमपि रतिरस्ति तस्या रस- त्वप्राप्तिरविहतैवेति कथं शङ्गारस्य स्मर्यमाणत्वमत आह-अत्रेति। आलम्बनस्य नायकस्य विच्छेने मरणे अरसात्मतया तदानींतनानुभावाद्यभावेन रसरूपतानापन्न- तया स्मर्यमाणानामिति। एतेन शङ्गारस्यापि स्मरणं दर्शितम्। तदङ्गानां रत्यङ्ञानाम्। मृतस्योपकारस्मरणं बन्धूनामत्यन्तशोकजनकमिति भावः । साम्येनोक्तौ । विरुद्धयो:
१. '-विच्छेदेन' क-ख-ग.
Page 465
४१८ साहित्यदर्पणे
'सुरागया सुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया।
रुषा नृपाः प्रियतमयेव भेजिरे ॥' अत्र संभोगशृङ्गारो वर्णनीयवीरव्यभिचारिणः क्रोधस्यानुभावसाम्येन विवक्षितः । 'एकं ध्याननिमीलनान्मुकुलितप्रायं द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनभरे संभोगभावालसम्। अन्यद्दूरविकृष्टचापमदनक्रोधानलोद्दीपितं शंभोभिंन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥' अत्र शान्तशृङ्गाररौद्ररसपरिपुष्टा भगवद्विषया रतिः । यथा वा- 'क्षिप्तो हस्तावलग्नः प्रसभमभिहतोप्याददानोंऽशुकान्तं गृह्णन्केशेष्वपास्तश्ररणनिपतितो नेक्षितः संभ्रमेण। आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः सासुनेत्रोत्पलाभि: कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराभिः॥'
समावेशमुदाहरति-सरागयेति। मुखलौहित्यजनकत्वेन 'रक्तौ च क्रोधरागौ' इति दर्शनाद्वा रुषः सरागत्वोपपत्तिः। पक्षे-सानुरागया। कराघातेन ध्वनितं पृथूरुपीठं यत्र। क्रोधे सति वीरैरूरुः पीठं वा आहन्यते। पक्षे-कराघातेन ध्वनितं पृथूरुरेव पीठं सया। अतिप्रौढकामाभिर्नायिकाभिः करेणोरुराहृन्यत इति कामशास्त्रप्रसिद्धम्। दशनैर्विलङ्वितो निपीडित ओष्ठो यत्र। पक्षे-कान्तदशनेन निपीडित ओष्ठो यस्याः । अत्र शृङ्गारवीरयोः समावेशः। उक्तानुभावानामन्यत्रापि संभवाज्झटिति रुषः प्रती- तिर्न भवतीति तस्याः खशब्देनोपादानं न दोषः । प्रकरणादुत्साहस्याखाद्यमानत्वेन वीरत्वं स्थायिनः क्रोधस्य स्वशब्देनोपादानादासाद्याभावेन न रौद्रत्वमिति भावः । एकस्मिन्नङ्गत्वमाप्तानां रसानां समावेशमुदाहरति-एकमिति । नेत्रमित्यर्थः । मुकुलितप्रायं मुद्रितपद्माकारम्। वदनाम्बुजे संभोगश्चुम्बनम्, स्तनभरे संभोग आलि- ङवनादि:, तस्य भावेन अभिप्रायेण अलसं निष्पन्दम्। अन्यल्ललाटनेत्रम्। दूरमत्यन्तं विकृष्टश्चापो येन। यद्ा। दूरे विकृष्टश्चापो येन। तस्मिन्मदने यः क्ोधः स एवानलः तेनोद्दीपितमुज्वलितं भिन्नरसम्। विरुद्धबहुरसव्यजकम्। शङ्गारिणोऽपि न समाधि- भङ्ग इति शङ्गारस्य परम्परया क्रोधस्य समाधिविन्ननिवारकत्वेन तत्परिणामिनो रौद्रस्य साक्षादेव देवविषयकरतिपोषकत्वम्। परम्परयाप्यङ्गत्वमाप्तयो रसयोः समा- वेशमुदाहरति-क्षिप्त इति । त्रिपुरदाहे स प्रसिद्धः शंभुसंबन्धी शरामिः वो
Page 466
सप्तम: परिच्छेदः । ४१९
अत्र कविगता भगवद्विषया रतिः प्रधानम्। तस्याः परिपोषकतया भगवतस्त्रिपुरध्वंसं प्रत्युत्साहस्यापरिपुष्टतया रसपदवीमप्राप्ततया भावमा- त्रस्य करुणोऽङ्गम् । तस्य च कामीवेति साम्यबलादायातः शृङ्गारः । एवं चाविश्रान्तिधामतया करुणस्याप्यङ्गतैवेति द्वयोरपि करुणशृ- यौगपद्य- सद्भावादङ्गत्वेन न विरोधः ।
युष्माकं दुरितं दहतु। कीदृशः । आसन्नापराधः कामीव। सासुनेत्रोतपलाभिः युव- तिभिर्हस्तावलग्नः सन् क्षिप्तः । शोकात् क्रोधाच् तासामसु। एवमुत्तरोत्तरक्रि- याखपि कामीति दृष्टान्तः । अंशुकस्यान्तमाददानोऽपि प्रसभं सहसा अभिहतः । केशेषु गृह्नन् अपास्तः । चुम्बनार्थ कामिन: केशग्रहणम्। ससंत्रमेण भयजन्यत्- रया ईक्षणाभावः । पक्षे-आदरजन्यतरया नेक्षितः, किंत्वनादरेणेक्षितः । अङ्गाद्गि- भावमुपपाद्यति-अत्रेति। प्रधानमिति । निराकाङ्कवाक्यप्रतिपाद्यत्वादिति भावः । तस्या भगवद्विषयरतेः । परिपोषकतयेति। 'अङ्गस्य' इति शेषः ।अ- परिपुष्टतयेति। विभावानुभावयोरनुपादानादिति भावः । रसपदवीं रसत्वम् । भावमात्रस्य उद्डुद्धमात्रस्थायी चेति भावलक्षणाकान्तस्य। करुणोऽङ्गमिति। दुष्टनिग्रहं प्रति भगवदुत्साहस्यानुभावेन करुणस्थायिभावेन स्त्रीणां शोकेन व्यञ्जनमि- ति करुणस्याङ्गत्वम्। कामीवेति। प्राग्यथा कामुक आचरति स्म तथाद्य शराम्नि- रिति साम्यबलात्सादृश्यानुभवादायातः स्मृतिविषयतां प्राप्तः । श्ङ्गार ईर्ष्यामाना- ख्यविप्रलम्भः । अङ्गमित्यनुषङ्गेणान्वयः । स्मर्यमाणपूर्वावस्थाया रतेः करुणस्थायि- भावः स्त्रीशोकोद्दीपकतयाङ्गत्वमिति भावः। नन्वत्र स्त्रीशोकस्य वाच्येनानुभावेनाश्रुणा व्यङ्गयेनोद्दीपनविभावेन झटित्यक्षपलभ्येन म्रियमाणपत्यालम्बनविभावेन परिपुष्टि रिति करुणस्य प्रधानत्वमेव कथमङ्गत्वमत आह-एवं चेति । अविश्रान्तिधाम- तया साकाङ्कवाक्यव्यङ्गयतया। एवं पदैः सकलपदार्थोपस्थितौ खलेकपोतन्यायेन विशेष्यविशेषणं तत्रापि विशेषणान्तरमितिरीत्या शाब्दबोधे सति व्यञ्ञयबोधेऽपीयं रीतिरिति भावः । भगवदुत्साहस्तत्र करुगस्तत्रापि शङ्गारो व्यज्ञनया एकदैवाङ्गितया- वगम्यत इत्युक्त्या अवान्तरवाक्यार्थबोधक्रमेण शाब्दबोधपक्षे व्यङ्ञयार्थबोधस्यापि तद्रीतित्वेन विशिष्टवैशिष्ट्यमिति रीत्या शङ्गारविशिष्टकरुणबोधे सति करुणविशिष्टभ- गवदुत्साहबोध: तदनन्तरं भगवदुत्साहविशिष्टभावबोधः क्रमाज्जायत इति मतेन परम्परया प्रधानोपकारमुपपादयति-द्योरपीति। करुणश्ङ्गारयोरिति। अपरि- पुष्टतयेति प्रधानस्य भूयस्युपकारे वर्तत इति प्रथममते खपरिपोषकं परिपोषणमात्रं अ्धानस्योपकारः । द्वितीये तु निरुत्तकरमेण आखवादातिशयजननमपीति विशेगः। स्थायिभावानामङ्गाङ्गिभावेनैव रसानामङ्गाङ्गिभाव इति काव्यप्रकाशकारः। यद्वा यासां पूर्व प्राणेश्वरा हस्तधारणादिना प्रसादनपरा आसंस्तासामेवेदानीं शंभुशरस्तत्कर्मणैव तादशीं दुर्दशां जनयतीति शङ्गारेण परिपोषितः कविकरुण एव खजन्यभगवद्दुष्ट
Page 467
४२० साहित्यदर्पणे
ननु समूहालम्बनात्मकपूर्णघनानन्दरूपस्य रसस्य ताद्ृशेनेतररसेन कथं विरोधः संभावनीयः । एकवाक्ये निवेशप्रादुर्भावैर्योगपद्यविर- हेण परस्परोपमर्दकत्वानुपपत्तेः । नाप्यङ्गाङ्गिभावः । द्वयोरपि पूर्णतया स्वातन्रयेण विश्रान्तेः। सत्यमुक्तम्। अत एवात्र प्रधानेतरेषु रसेषु स्वातन्त्रय विश्रामराहित्यात्पूर्णरसभावमात्राच्च विलक्षणतया संचारिरसनाम्ना व्यपदेश: प्राच्यानाम् । अस्मत्पितामहानुजकविपण्डितमुख्यश्रीचण्डी- दासपादानां तु खण्डरसनान्ना। यदाहु :- 'अङ्गं बाध्योऽथ संसर्गी यदयङ्गी स्याद्रसान्तरे। नाखाद्यते समग्रं तत्ततः खण्डरसः स्मृतः ॥' इति। निग्रहोत्साहोद्वोधेन कविगतां भगवद्विषयां रति जनयित्वा तामेव सामाजिकानामा- स्वादकन्दतामुपनयतीति रसयोरेवाङ्गत्वम् । एतन्मते प्रद्वेषमाह-नन्विति। समूहालम्बनात्मकेति । विभावादिपदार्थसमूहविषयकज्ञानरूपेत्यर्थः । पूर्णः समधिकः। घनः सुखान्तरतिरोधायकः। अपेरङ्गत्वेनापीत्यग्रेणान्वयेन मतवैलक्षण्या- वगमः। आस्वादप्रकर्षकतयेति। 'गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते। उपकारे प्रधानस्य तथा भूयसि वर्तते ॥' इति न्यायेनेति भावः । अस्यार्थ :- गुणो विशेषणं कृतात्मसंस्कारः खवविशेषणेन कृतोपकारः प्रधानं पार्यन्तिकविशेष्यं प्रतिपद्यते अन्वेति। तादृशः सन्नेव हि तिरोधायको य आनन्दस्तत्सरूपस्येत्यर्थः। एतादृशेन समूहालम्बनात्मकपूर्णधनानन्दरूपेण। एकवाक्येति । एकस्मिन्वाक्ये यो निवेशो व्यञ्जकतासंबन्धेन वृत्तिः स च प्रादुर्भावयौगपदं च तयोर्विरहेणेत्यर्थः । यद्वा एकवाक्यार्थग्रहेण यौ प्रादुर्भावावुत्पत्ती तयोर्यौगपद्यविरहेण एककालीनत्व- विरहेण उपमर्दकत्वाभावात् परस्परपरिपोषकप्रतिबन्धकत्वाभावात्। 'राममन्म- थ-' इत्यादौ बीभत्सशङ्गारयोन युगपदुत्पत्ती, किं त्वभिधेयबोधानन्तरं बीभत्सस्य व्यङ्जयवोधानन्तरं शङ्गारस्येति क्रमेणैवेति नानुपपत्तिः ।नापीति । रसयोरपीति शेषः । अत एव उक्तानिर्वाहादेव। प्रधानेतरेषु अङ्गेषु खवतन्रेत्यादि विलक्षणतये- त्यत्र हेतुः। भावमात्राच्चेति। अपरिपुष्टस्थायिभावत्वेन भावत्वमभिप्रेत्य प्रधा- नत्वाभावाद्विलक्षणभावप्रदर्शनं खण्डरसनाम्नेति व्यपदेश इत्यन्वयः । एवं च पूर्णरस- योर्विरोधाद्यसंभवेऽपि खण्डरसपूर्वरसयोस्तद्विरोधादिसंभवः। अङ्गमिति। अङ्गी रसो रसादयन्तरे यद्यङ्गम्। अथवा बाध्यो विरुद्धोऽपि स्मरणादिबलाळ्ब्धसमावेशः स्यात। यदि वा संसर्गी अविरोधी प्रधानानुपकारितया स्वातन्तयेण मिलित: स्यात्तदा समग्राख्ादाभावात्खण्डरसः स्मृत इत्यर्थः । ननु स्मरणादावेव विरुद्धयोः समावेशः प्रतिप्रसूतस्तदभावात् कथं 'कपोले-' इत्यादौ विरुद्धयोर्वीरश्ङ्गारयोः समावेश इत्य- 1. समूहेति। नानाप्रकारतानिरूपित नानामुख्यविशेष्यताशालिज्ञानं समूहालम्बनम्। १. 'अपेः' इत्यादि 'सन्नेव हि' इत्यन्तः पाठः-पुस्तकान्तरे नोपलभ्यते.
Page 468
सप्तम: परिच्छेदः । ४२१
ननु 'आद्यः करुणबीभत्सरौद्रवीरभयानकैः' इत्युक्तनयेन विरोधि- नोर्वीरशृङ्गारयोः कथमेकत्र 'कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरस्फारोड्डुमरपुलकं वक्रकमलम्। मुहुः पश्यञ्शृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥' इत्यादौ समावेशः। अत्रोच्यते-इह खलु रसानां विरोधिताया अवि- रोधितायाश्च त्रिधा व्यवस्था। कयोश्चिदालम्बनैक्येन, कयोश्चिदाश्रयै- क्येन, कयोश्चिन्नैरन्तर्येणेति। तत्र वीरशृङ्गारयोरालम्बनैक्येन विरोधः। तथा हास्यरौद्रबीभत्सैः संभोगस्य। वीरकरुणरौद्रादिभिर्विप्रलम्भस्य। (आलम्बनैक्येन) आश्रयैक्येन च वीरभयानकयोः। नैरन्तर्यविभावै- क्याभ्यां शान्तशृङ्गारयोः । त्रिधाप्यविरोधो वीरस्याद्भुतरौद्राभ्याम्। शृङ्गारस्याद्गुतेन। भयानकस्य बीभत्सेनेति। तेनात्र वीरशृङ्गारयोर्भि- न्नालम्बनत्वान्न विरोधः । एवं च वीरस्य नायकनिष्ठत्वेन भयानकस्य प्रतिनायकनिष्ठत्वेन निबन्धे भिन्नाश्रयत्वेन विरोधः । यश्च नागानन्दे प्रशमाश्रयस्यापि भिप्रायेणाह-नन्वाद्य इति। एकत्रेति। समावेश इत्यग्रेणान्वयः। कपोल इति। वक्रकमलं कीदशम्। कंपोलावच्छेदे स्मरेण कामोद्रेकेण स्मेरः प्रकाशमानः स्फारोड्डमरोऽत्युत्कटः पुलको यत्र। कपोलस्य किंचित्पाण्डुत्वेन विमलत्वेन वा करिकलभदन्तोपमा। अन्र शङ्गारस्य जानक्यालम्बनविभावः, तदीयताद्क्पोल उद्दीपनविभावः, तन्मुखकमलावलोकनमनुभावः। वीरस्य तु रजनीचरसेना आल- म्बनम्, तदीयकलकलविधानमुद्दीपनविभावः, जटाजूटग्रन्थिटृढीकरणमनुभावः । वीरस्य निराकाड्डवाक्यव्यङ्ग्यतया प्रधानत्वम्। स्मरणादावालम्बनाश्रयभेदनैरन्तर्या- भावेष्वपि विरोधिनोरेकस्मिन्समावेश इति सिद्धान्तमाह-इह खल्विति। आश्र- यैक्येन नायकैक्येन। नैरन्तर्येण अव्यवधानेन। विशिष्य दर्शयति-तत्रेति। वीरशङ्गारयोर्वींरसंभोगयोः । तथा आलम्बनैक्येन संभोगस्येति विरोध इत्यन्वयः । एवमग्रेऽपि। आश्रयैक्येन चेति। चकारेण आलम्बनैक्येनेत्यस्य समुच्चयः । वीरस्याद्भुतरौद्राभ्यां सहाविरोधः। आलम्बनैक्येन आश्रयैक्येन नैरन्तर्येण च भवति। एवं शङ्गारस्याद्भुतत्वेन। भयानकस्य बीभत्सेन तु नैरन्तर्यमात्रेणाविरोधो ज्ञेयः। वीरशङ्गारयोरालम्बनभेदेनाविरोधं दर्शयति-तेनेति। उक्तनियमेनेत्यर्थः। अत्र 'कपोले-' इत्यत्र। भिन्नाश्रयत्वेनेति। उत्साहस्य प्रतिनायकविषयत्वेन सा० द० ३६
Page 469
४२२ साहित्यदर्पणे
जीमूतवाहनस्य मलयवत्यनुरागो दर्शितः, तत्र 'अहो गीतमहो वादि- त्रम्' इत्यद्ुतस्यान्तरा निवेशनान्नैरन्तर्याभावान्न शान्तशृङ्गारयोर्विरोधः । एवमन्यदपि ज्ञेयम्। 'पाण्डुक्षामं वदनं- इत्यादौ च पाण्डुतादी- नामङ्गभाव: करुणविप्रलम्भेऽपीति न विरोधः । अनुकारे च सर्वेषां दोषाणां नैव दोषता ॥ ३१ ॥ सर्वेषां दुःश्रवत्वप्रभृतीनाम्। यथा- 'एष दुश्क्यवनं नौमीत्यादि जल्पति कश्चन।'
अन्येषामपि दोषाणामित्यौचित्यान्मनीषिभिः । अदोषता च गुणता ज्ञेया चालुभयात्मता ॥ ३२॥ अनुभयता अदोषगुणता ।।
इति साहित्यदर्पणे दोषनिरूपणो नाम सप्तम: परिच्छेद:।
नायकैक्येन निवन्धे भिन्नालम्बनत्वेनाविरोधो ज्ञेयः। इदानीं विरुद्धरसीयविभावा- दिपरिग्रहस्यादोषतं दर्शयति-पाण्डुक्षाममित्यादि । तथा च विरुद्धरसीयासा- धारणाङ्गपरिग्रह एव दोषो न तु साधारणाङ्गपरिग्रह इति भावः । अनुकारे चेति। परोक्तशव्दवाक्ययो: कर्मादित्वेनोपादाने चेत्यर्थः। अनुकरणे दुःश्रवस्यादोषत्वं यथा-'मृगचक्षुषमद्राक्षीदित्यादि कथयत्ययम्।' शब्दस्यानुकरणे च्युतसंस्कारस्या- दोपत्वं यथा-'पश्यैष च गवित्याह सुत्रामाणं यजेति च।' अन्न प्रथमपादे गोश- ब्दस्य निर्विभक्तिकतया च्युतसंस्कारत्वम्। द्वितीयपादे सुत्रामशब्दोऽप्रयुक्तो न दोषः। दु्चयवनशब्दोऽप्रयुक्तो न दोष इति शेषः । अदोषगुणता अदोषतं गुणलं च रसादेर्निकर्षप्रकर्षबीजलाभावादुभयरूपम् ॥।
इति श्रीरामचरणतर्कवागीशभट्ाचार्यविरचितायां साहित्यदर्पणवित्ृतौ सप्तमः प्रकाशः ।
- तत्रेत्यादि। तथा चोक्तं ध्वनिकृता-'एकाश्रयत्वे निरदोपो नैरन्तर्यें विरोधवान्। रसान्तरव्यवधिना रसो न्यस्यः सुमेघसा ॥' इति॥
Page 470
अष्टमः परिच्छेदः । ४२३
अष्टमः परिच्छेद: । गुणानाह- रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा।
यथा गुणा: खल्वङ्गित्वमाप्तस्यात्मन उत्कर्षहेतुत्वाच्छौर्यादयो गुण- शब्दवाच्याः, तथा काव्येऽङित्वमापस्य रसस्य धर्माः स्वरूपविशेषा माधुर्यादयोऽपि खसमर्पकपदसंदर्भस्य काव्यव्यपदेशस्यौपयिकानुगुण्य- भाज इत्यर्थः । यथा चैषां रसमात्रस्य धर्मत्वं तथा दर्शितमेव। *काव्यलक्षणकारिकोद्देशकम प्राप्तान्गुणान्निरुपयति-गुणानिति। रसस्येत्यनेन काव्यशरीरस्य शब्दार्थयोर्व्यवच्छेदः। अङ्गित्वमाप्तस्येति। श्िष्टं यद् यथासंभवं दृष्टान्तदार्ष्टान्तयोर्व्याख्यायते-यथा खल्विति। लोके इति पूरणीयम्। आत्मन इति अङ्ञित्माप्तस्येत्यस्य विशेष्यम्। काव्ये कविभणितौ। अद्वित्वं विभावादयङ्गसमु- दाययोगेन पूर्णतम्। एतेन खण्डरसे माधुर्यादीनामन्यतमस्य काव्यत्वव्यापकतया उत्कर्षहेतुताद् गुणव्यवहारौपयिकं धर्मान्तरमाह-स्वसमर्पकेति। सं रसस्तस्य समर्पको व्यज्को यः पदसंदर्भो वाक्यं तस्य काव्यव्यपदेशस्य काव्यव्यवहारस्य औप- यिकमुपयोगि यदानुगुण्यमानुकूल्यं तद्ाजः गुणशब्दवाच्या इत्यन्वयः । एतच् गुणालंकारसंस्कृतयोः शब्दार्थयोः काव्यशव्दोऽयं वर्तत इति प्राचीनमतानुसारेणो- क्तम्। खमते तु रसवत्त्वमेव काव्यव्यवहारौपयिकम्, नतुगुणलम्। यद्वा रसवत्त्वं काव्यलक्षणम्। व्यवहारबीजं तु गुणालंकारसंस्कृतशब्दार्थतमेवेति खमतेनैवेदमु- क्तम्। एवं च काव्यव्यवहारप्रयोजकत्वे सति रसधर्मवत्त्वं गुणलक्षणम्। रसत्वादिव्या- वृत्त्यर्थ सत्यन्तम्, अलंकारव्यावृत्त्यर्थे विशेष्यम्। ननु गुणानां शब्दार्थधमतं प्राची- नैरुक्तम्, भवता तु कथं रसधर्मतमुच्यत इत्यत आह-यथा चेति। एषां गुणानाम्। मात्रपदेन शब्दार्थयोर्व्यवच्छेदः। दर्शितं दर्शयितुमारब्धम्। माधुर्यादिखरूपनिरूप-
- मुद्रितपुस्तके इत आरभ्य परिच्छेदान्तपर्यन्तं व्याख्यान्तरायमाणो महीयान्ग्रन्थ- भेद उपलभ्यते। स चावश्यकत्वादिहाप्युपन्यस्यते-"दोषान्निरूप्य गुणान्निरूपयति- गुणानिति। काव्यलक्षणोद्देशक्रमेणेति शेपः । रसस्य अङ्वित्वं सुख्यत्वम्। एतच्च शब्दा- र्थयोः काव्यव्यवहारोपयोगित्वा्। शौर्यादय इत्यादिपदाद्विद्याविनयादीना ग्रहणम्। स्वरूपविशेषाविलक्षणविशेषणानि माधुर्यादयोऽपि गुणशब्दवाच्या इत्यन्वयः । गुणपदस्य व्युत्पत्तिमाह-स्वेति। स्वं स्वकीयो रसः तस्य समर्पको व्यजको यः पदसंदर्भ: पदकदम्व- विशेषो वाक्यमिति यावत्। तत्काव्यव्यपदेशः काव्यव्यहारः तस्यौपयिकमुपयोगि यदानुगु- ण्यमानुकूल्यं तद्भाजः। रसस्यैव काव्यव्यवहारोपयोगित्वं तदुत्कर्षद्वारा गुणानामपि तदि- त्यवधेयम्। ननु गुणानां वामनादिभि: शब्दार्थधर्मत्वमुक्तम्, किमिति भवता रसमात्रधर्म- त्वमुच्यत इत्यत आह-यथा चैषामिति। एषा गुणानाम्। तथेति। काव्यप्रकाशोक्तकाव्य-
Page 471
४२४ साहित्यदर्पणे
ते गुणाः। तत्र- माधुर्यमोजोऽथ प्रसाद इति ते त्रिधा॥ १॥
चित्तद्रवीभावमयो ह्रादो माधुर्यमुच्यते। णेनैवामीषां रसधर्मतं व्यक्तीभविष्यतीति भावः । गुणान्विभजते-माधुर्यमिति। चित्तद्रवीभावमय इति सार्थे मयट्। ह्रादः सुखसंवलितप्रतीतिः । 'आह्लादकत्वं माधुये
लक्षणदूपणप्रकरणेति 'किंच शब्दार्थयोः सगुणत्वविशेषणमनुपपन्नम्-'इत्यादिना। गुणान्वि- भजति-माधुर्यमिति। माधुर्यमाह-चित्तेति। स्वार्थें मयट्। ह्लाद आनन्दविशेषः । 1. ते त्रिधेति। वामनादयस्त्वोजआदीन्दश गुणानाहुः। ते यथा-'पदन्यासस्य गाढत्वं वदन्त्योज: कवीश्वराः । अनेनाधिष्ठिताः प्रायः शब्दाः श्रोत्ररसायनम्॥ श्रृथत्व- मोजसा मिश्रं प्रसादं च प्रचक्षते। अनेन न विना सत्यं स्वदते काव्यपद्धतिः ॥ यत्रै- कपदवद्भावः पदानां भूयसामपि। अनालक्षितसंधीनां स श्रलेपः परमो गुणः ॥ प्रतिपादं प्रतिश्रोकमेकमार्गपरिग्रहः । दुर्बन्धो दुर्विभावश्च समतेति मतो गुणः ॥ आरोहन्त्यवरोहन्ति कमेण यतयो हि यत्। समाधिर्नाम स गुणस्तेन पूता सरस्वती॥ बन्धे पृथकपदत्वं च मा- घुर्यमुदितं वुधैः। अनेन हि पदन्यासाः कामं धारा मधुश्चुतः ॥ यथाहि च्छिद्यते रेखा चतुरं चित्रपण्डितैः । तथैव वागपि प्राशैः समस्तगुणगुम्फिता॥ बन्धस्याजरठत्वं च सौकुमार्य- मुदाहृतम्। एतेन वर्जिता वाचो रूक्षत्वान्न श्रुतिक्षमाः ॥ विकटत्वं च बन्धस्य कथयन्ति ह्युदारताम्। वैचित्र्यं न प्रपद्यन्ते यथा शून्याः पदक्रमाः ॥ पश्चादिव गतिर्वाचः पुरस्ता- दिव वस्तुनः । यत्रार्थव्यक्तिहेतुत्वात्सोऽर्थव्यक्ति: स्मृतो गुणः ॥ औज्ज्वल्यं कान्तिरि- त्याहुर्गुणं गुणविशारदाः । पुराणचित्रस्थानीयं तेन वन्व्यं कवेवचः ॥' इति। सरस्वती- कण्ठाभरणे तु चतुर्विशतिर्गुणाः। तत्र दश निरूपिता एव श्ञेयाः, इतरे तूच्यन्ते-ाध्यविशे- षणयोगत्वमुदात्तता। गाढवन्धत्वमौर्जित्यम्। चाटूक्तिसहकारिप्रियतराख्यानत्वं प्रेयः । सृत्तिङ्व्युत्पादनं सुशब्दता। यथा-'तस्याजीवनिरस्तु मातरव मा जीवस्य मा जीवतो भूयाद्वा जननेः किमम्ब जनिना जन्तोर्वृथा जीविनः । यस्त्वामेव न वन्दते न यजते नोपैति नालोकते नोपस्तौति न मन्यते न मनुते नाध्येति न ध्यायति ॥' अत्राजीवनिरजननिरि- त्यादीनां सुवन्तानां वन्दते यजत इत्यादीनां तिडन्तानां च व्युत्पत्तिः सुशब्दता। शब्दा- नामन्तःसंजल्परूपत्वं सौक्ष्म्यम्। यथा-'केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्भणि। धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः॥' अत्र श्रुतावगतवाक्यार्थस्य सृजतिसंहरतिशास्ति स्तूयत इति पदानामन्तःसंजल्परूपेण सूक्ष्मतया सूक्ष्मत्वम्। ध्वनि- मत्ता गाम्भीर्यम्। यथा-'मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रमं चक्राक्कं वह पादयुग्ममवनी दोष्णा समभ्युद्धर। लक्ष्मी भ्रूनिकटे निवेशय भव ज्यायान्दिवोकस्पते- विश्वान्त:करणैकचौर तदपि ज्ञातो हरिः खल्वसि ॥' अत्र नाभ्या पुण्डरीकधारणं अपरिमित- विक्रमत्वं चक्राक्गितकरत्वं दंष्ट्रया वसुधोद्धारणं वक्षस्थलनिवेशितलक्ष्मीकत्वमिन्द्रावरजत्वं च ध्वनतीति गाम्भीर्यम्। व्यासेनाभिधानं विस्तरः। समासेनाभिधानं संक्षेपः। यथा- 'स मारुतिसमानीतमहौषधिहृतव्यथः । लङ्कास्त्नीणां पुनश्के विलापाचार्यकं शरैः ॥'
Page 472
अष्टमः परिच्छेदः । ४२५
यत्तु केनचिदुक्तम्-'माधुर्ये द्रुतिकारणम्' इति, तन्न। द्रवीभा- वस्यास्वादसरूपाह्लादाभिन्नत्वेन कार्यत्वाभावात्। द्रवीभावश्च साभा-
विक्षेपपरित्यागेन रत्याद्याकारानुविद्धानन्दोद्वोधेन सहृदयचित्तार्द्रप्रा- यत्वम्।
शृङ्गारे द्रुतिकारणम्' इति काव्यप्रकाशः। शङ्गारादिष्वनुभवसिद्धमेवाह्लादजनकत्वं तदेव माधुर्यम्। तस्योत्कर्षाधायकत्व्रमाह-द्रुतिकारणमिति । एतहूषयति- यच्विति। तत्कार्यत्वाभावात् माधुर्यजन्यत्वासंभवात्। आह्लादातिरिक्तस्य द्रवीभा- वस्य निर्वक्तुमशक्यतया आह्लाद एव पर्यवसानम्। एवमाह्वादजनकत्वापेक्षया लघुन आह्ादस्यैव माधुर्यपदशक्यतावच्छेदकत्वसुचितमित्याह्लाद एव माधुर्यपदार्थ इति भावः। ननु द्रवीभावस्तावदाह्लाद एव भवतोच्यते तस्य रसाभिन्नतया रसधर्मत्वं नोपपद्यत इत्यत आह-द्रवीभावश्चेति। काठिन्यादिपरित्यागस्य रसोद्वोधहेतुत्वं दर्शयति-स्वाभाविकेति। मन्युः शोकः, दीप्तत्वं दग्धप्रायत्वम्, रत्यादीत्यादि- पदेन शोकप्रशमयोर्ग्रहणम्। रत्यादिभिराकारैर्विषयैरनुविद्धः संवलितो य आनन्दो- द्वोधो रसास्वादः तेन। एवं च शङ्गारकरुणशान्तरसोद्वोधानन्तरं जायमानो रत्याद्य- द्रुतिकारण माधुर्यमिति। काव्यप्रकाशोक्त लक्षणं दूपयति-यत्विति। द्रुतिकारणमाह्लादो माधुर्यमिति। दूपयति-तन्नेति। आस्वादो रसस्य स्वरूपं स्वरूपविशेपश्चित्तनिर्वृत्तिरूप आह्लाद:। कार्यत्वाभावात् निरुक्ताह्लादजन्यत्वायोगात्। द्रवीभावस्य आह्लादजन्यत्वाभावेन आह्लादस्यापि तज्जनकत्वाभाव इति भावः । गूढविषयसंचाराक्षमत्वमनाविष्त्वम्। मन्युः शोको दैन्यं वा। क्रोधादीत्यादिपदाज्जुगुप्सादिपरिग्रहः। विस्मयहासादीत्यादिपदेन भयादि परिग्रहः। उपहितमुपधानं संबन्धस्तदात्मको विक्षेप इत्यर्थः । यद्वा विस्मयादिभि- अत्र कथाविस्तरप्रतिपाद्यस्यार्थस्य प्रकृतसंग्रामरसविच्छेदाशङ्गया श्रोकार्धमात्रेणोक्तत्वात्सं- क्षेपः यावदर्थपदत्वं संमितत्वम् । यथा-'केचिद्स्तुनि नो वाचि केचिद्वाचि न वस्तुनि। वाचि वस्तुनि चाप्यन्ये नान्ये वाचि न वस्तुनि ॥' अन्रार्थस्य पदानां च तुला- विधृतवत्तुल्यत्वेन संमितत्वम्। भावतो वाक्यवृत्तिर्भाविकम् । आरोहावरोहयोः क्रमो गतिः। यथा-'वराहः कल्याणं वितरतु स वो यस्य शशभृत्कलाकोटीकान्तं क्रमविदल- दभ्युद्धतिभिया। मिथः संमूर्च्छद्ध्िश्चतुरुदधिकल्लोलपटलैरनामृष्टं् दंध्टाशिखर मधिशेत वसु- मती ।' अत्र पूर्वार्धे स्वरस्यारोहादुत्तरार्धें चावरोहादगतिः । उपक्रमनिर्वाहो रीतिः । विशिष्टभणितिरुक्तिः। यथा-'कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम्। पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥' अत्र कुशलं तस्या इति पृष्टे कुशलमकुशलं चति वक्तव्ये योडयं जीवत्याद्युक्तिभङ्गया जीवितमात्रशेपताप्रतिपादन प्रकार: स उक्तिसंज्ञः । उक्तिप्रौढपरिपाकः प्रौढिः । यथा-'अभ्युद्गता वसुमती दलितं रिपूरः क्षिप्तक्रमा कवलिता बलिराज्यलक्ष्मीः। अत्रैकजन्मनि कृतं यदनेन यूना जन्मत्रये तदकरोत्पुरुषः पुराण: ।l' इति॥
Page 473
४२६ साहित्यदर्पणे
तच्च- संभोगे करुणे विप्रलम्भे शान्तेऽघिकं क्रमात् ॥२ ॥ संभोगादिशब्दा उपलक्षणानि। तेन संभोगाभासादिष्वप्येतस्य स्थितिर्ज्ञेया। सूर्त्नि वर्गान्त्यवर्णेन युक्ताष्टठडढान्विना। रणौ लघू च तव्यक्तौ वर्णाः कारणतां गताः ॥ ३॥ विषयक: सहृदय चित्तद्रवीभावरूपकेवलानन्दसंदोहानुभवो माधुर्य तस्य जनकतासंब- न्धेन रससंबन्धितया रसवर्मत्वमक्षतमेवेति भावः । केचित्तु-'रतिशोक प्रशमेषु गुर्जर्यादिरागवृत्तिरिव कश्चिदेको धर्मोऽस्ति स एव माधुर्ये येन सामाजिकानां चित्तं द्रवीभवति। रत्यादीनां रसरूपतया परिणामेन तस्य रसवृत्तितम्' इति वदन्ति, तन्न। तत्र तादृशधर्मसत्त्वे मानाभावात्। नच द्रुतिरूपकार्यान्यथानुपपतत्या तत्कल्प- नमिति वाच्यम्। तस्य रसस्वभावेनैव सिद्धल्ात्तदर्थ वर्मान्तरकल्पनानौचित्यात्। गुर्ज- र्यादौ तु प्रत्यक्षसिद्ध एव तादृशधर्मः। अन्ये तु-'सुश्रवत्वमेव माधुर्य काव्यधर्मः' इत्या- हुः, तन्न। असुश्रवत्वेऽपि काव्ये माधुर्यस्योपलम्भातू। माधुर्यविषयानाह-तच्चेति। माधुर्य चेत्यर्थः। संभोगापेक्षया करुणे, तदपेक्षया विप्रलम्भे, तदपेक्षया शान्तेऽधिकम्। सातिशयमित्यर्थः । केचित्तु-'करुण' इति विप्रलम्भविशेषणम्, तन्न। 'अश्रुपाताद- यस्तत्र द्रुतत्वाच्चेतसो मताः' इत्यनेन करुणेSपि चित्तद्रवीभावस्याङ्गीकारेण माधुर्यखी- कारात्। 'अपसारय घनसारं-' इत्यादौ विप्रलम्भान्तरेऽपि माधुर्योपलम्भाच्च। एतस्य माधुयस्य। माधुर्यव्यञ्जकान्याह-मूभनीति। वर्गान्त्यवर्णेन युक्ता: कादयो मान्ता इत्यर्थः । लघू विसर्गवर्णान्तरायुक्तावयुक्तान्तौ च, न तु गुरुविपरीतौ। 'सवयं हाराकारा गलति जलधारा कुवलयात्-' इत्ादौ। 'अपसारय घनसारं कुरु हारं दूर एव किं कमलैः।' इत्यादौ दीर्घानुस्ारयोगेन गुरोरपि रेफस्य माधुर्यव्यञ्ज- कत्वदर्शनात्। केचित्तु-'लघू हस्वान्तौ' इत्याहुः, तन्न। 'स्मरःखरः खलः काल :- ' रुपहित उपपादितो विक्षेपो विषयान्तराग्राहित्वम्। रत्यादीत्यादिपदेन हासादीनां ग्रहणम्। रत्यादेराकार: परिणामो ज्ञानं तेनानुविद्धः संवलित आनन्दस्तस्योदोधेन रसास्वादेन आर्द्र- प्रायत्वं निरतिशयानन्दसान्द्रत्वम्। तच्च स्वविषयकानुभवसंबन्धेनानन्दभागित्वं तच्चा- नन्द एव पर्यवसन्नमित्यभिप्रायः। केचित्तु-'गुर्जर्यादिरागवृत्तिरिव रसवृत्तिः कश्चिदेको धर्मोडस्ति स एव द्रुतिरूपाह्लादस्य जनको माधुर्यमुच्यते' इत्याङ्ुः, तन्न। रसस्यैव तादृशा- ह्लादजनकत्वाङ्गीकारेणैवोपपत्तौ तददत्तिधर्मान्तरकल्पनाया अन्याय्यत्वात्। तच्च माधुर्य च। अधिकमुत्कर्षातिशयजनकम्। करमादिति। संभोगादीना पूर्वपूर्वमुपेक्ष्य उत्तरोत्तरत्र उत्क- षांतिशयजनकत्वमिति भावः। संभोगाभासादिष्वपीति। अपिरेवार्थः । एतस्य माधुर्यस्य। माधुर्यव्यअ्जकान्वर्णादीनाह-मूर्भीति। पुरस्तादित्यर्थः । युक्ता इति। मूर्धस्थवर्गान्त्यस- जातीयवर्णा इत्यर्थः । लघू वर्णान्तरयोगराहित्येन लघुप्रयतोच्चार्यौं, न तु गुरुविपरीतौ । 1. मूर्धीति। अग्रभागे स्वस्ववर्गान्त्यवर्णसहिता इत्यर्थः । यथा-अनङ्गमङ्गलेत्यादि।
Page 474
अष्टमः परिच्छेदः । ४२७
अवत्िरल्पवृत्तिर्वा मधुरा रचना तथा। यथा- 'अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः । जनयन्ति मुहुर्यूनमिन्तःसंतापसंततिम् ।।'
यथा वा मम- 'लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलय- न्समालिङ्गन्नङ्गं द्रुततरमनङ्गं प्रबलयन्। मरुन्मन्दं मन्दं दलितमरविन्दं तरलय- ्जोवृन्दं विन्दन्किरति मकरन्दं दिशि दिशि ॥'
इत्यादौ 'परस्परस्पर्धिवरः स्वयंवर-' इत्यादौ च रेफस्य हरस्वान्तत्वेन साधुर्यव्यञ्जक- वापत्तेः। 'पुरो रेवापारे गिरिरिति दुरारोहशिखरः-' इत्यादौ हस्वान्तलाभावेन माधु- र्यव्यज्जकत्वानुपपत्तेः। अवृत्तिः समासाभावः। अल्पवृत्तिरदीर्घसमासः। मधुरा दुःश्र- वणवर्णाघटितत्वेन मनोरमा। रचना पदसंदर्भः । निरुक्तवर्णबहुला वहुतरनिष्ठ- राक्षररहिता निःसमासा अल्पसमासा वा सुकुमारार्थप्रतिपादिका माधुर्यव्यज्ञिकेति तात्पर्यार्थः । माधुर्यमुदाहरति-अनङ्गेति। अनङ्ञस्य मङ्गलभुवो जन्मस्थानानि। तस्या अपाङ्गस्य नेत्रप्रान्तस्य भङ्गयो विक्षेपाः। लताकुञ्जमिति। लतापदं सुरभि- पुप्पलतावोधकतया सार्थकम्। अवृत्तेर्माधुर्यव्यञ्जकत्वं यथा-'मुद्रितामिन्दुमालोक्य पश्मिनीं पश्य सुन्दरि। हन्त कान्तस्य विच्छेदे मधुरोऽपि न रोचते॥' सुकुमारार्थ- प्रतिपादकरचनाया माधुर्यव्यक्जकत्वं यथा-'उचितं गोपनमनयोः स्तनयोः कनका- द्विधर्मतस्करयोः। अवमानितविधुमण्डलमुखमण्डलगोपनं किमिति ॥' ओजोगुण-
तथात्वे 'अपसारय घनसारं कुरु हारं-' इति काव्यप्रकाशोक्तं तदुहारणमसंगतं स्यात्। 'स्वयं हाराकारा गलति जलधारा कुवलयात्- इत्यादौ चानुभवसिद्धस्य दीर्घरेफस्य माधुर्य- व्यअ्ञकत्वस्यापलापप्रसङ्गाच्च। तव्यक्तौ माधुर्यव्यञ्जने। अवृत्तिः समासाभावः । अल्पवृ- त्तिरल्पसमासः । मधुरा मृदुपदानुप्रासादिरुचिरा रचना। यथा-'मधुरया मधुबोधित- माधवी-' इत्यादि। तथा माधुर्यव्यजिका। अनङ्गेति। कामस्य मङ्गलभुवोऽभिमतसिद्धि- स्थानानि तस्या नेत्रप्रान्तस्य भङ्गयो विक्षेपविशेषाः । लतेति। गुज्जन्तो मधुरं कूजन्तो मदवन्तश्चालिपुक्षा भ्रमरश्रेणयो यत्र। तच्चपलयन् कम्पयन्। दलितं प्रफुल्लम्। तरलयन् कम्पयन्। रजोवृन्दं परागसमूहृम्। विन्दन् गृह्न्। विकिरति विक्षिपति। मकरन्दं पुष्प- रसम्। उदाहरणद्दये मूर्धस्थवर्णान्त्यवर्णानामल्पसमासस्य च माधुर्यव्यअ्जकत्वम्। असमा- सस्य यथा-'मानं विमुञ्च कल्याणि दासं मामनुकम्पय। विजहीहि रुषो रागमधरस्य च
Page 475
४२८ साहित्य दर्पणे
ओजश्वित्तस्य विस्ताररूपं दीप्तत्वमुच्यते॥४॥ वीरवीभत्सरौद्रेषु क्रमेणाथिक्यमस्य तु। अस्यौजसः । अत्रापि वीरादिशब्दा उपलक्षणानि। तेन वीराभा- सादावप्यस्यावस्थितिः । वर्गस्याद्यतृतीयाभ्यां युक्तौ वर्णौ तदन्तिमौ ॥५॥ उपर्यधो द्वयोर्वा सरेफौ टठडढैः सह। शकारश्र षकारश्र तस्य व्यञ्जकतां गताः ॥६॥। तथा सैमासो बहुलो घटनौद्धत्यशालिनी। यथा-'चञ्चड्डुज-' इत्यादि।
माह-ओज इति। दीपत्वमोजः । तत्र दीप्तत्वमाह-चित्तेति। उत्साहाद्या- कारानुविद्धचमत्कारोद्वोधेन जायमान उत्साहाद्यविषयकचमत्कारोद्वोध इति तदर्थः। केचित्तु-'दीप्तत्वं कटुवर्णश्रवणजन्यश्रोत्दुःखसंभिन्नसुखविशेषः, स एव चित्तवि- स्तारः' इत्याहुः, तन्न। अनिष्ठुराक्षरप्रायबन्धव्यज्यमाने वीरादौ तदभावप्रस- डात्। 'चित्तविस्ताररूपदीप्तत्वजनकमोजः' इति काव्यप्रकाशः, तन्न । वीरादिभ्य एव जायमानदीप्तत्वस्यैव ओजःसवीकारेणोपपत्तौ तज्जनकधर्मान्तरकल्पने मानाभा- वात्। ओजोविषयानाह-वीरेति। वीरापेक्षया बीभत्से, तदपेक्षया रौद्रे ओ- जस आधिक्यमतिशयः। रौद्रवीरे च निष्प्रतिभटमोजः। बीभत्से तु माधुर्यले- शानुविद्धम्। हास्याद्भुतभयानकेषु दयोः समावेशो ध्वनिसिद्धान्तसंग्रहोक्तरीत्या ज्ञेय इति चण्डीदासः। एतन्मते बीभत्सापेक्षया रौद्रवीरयोरोजस आधिक्यम्। ओजो- व्यञ्जकान्वर्णादीनाह-वर्गस्येति। सजातीयस्य विजातीयस्य वेत्यर्थः । तदन्तिमौ वर्गाद्यतृतीययोरन्त्यौ वर्गस्य द्वितीयचतुर्थौं। सरेफाविति। द्विवचनं प्रामादि- कम्। रेफयुक्तस्य यस्यकस्यचिदपि वर्णस्य ओजोव्यज्जकत्वात्। एतटुपलक्षणम्। माधुर्यव्यञ्जकातिरिक्तो युक्तो विसर्गयुक्तश्र वर्ण ओजोव्यञ्जकः । अत एव 'उत्कृ- त्योत्कृत्य-'इत्यादौ, 'यो यः पाश्चालगोत्रे-' इत्यादौ च ओजोव्यज्जकत्वमक्षतमेव। टादयस्तु केवला अप्योजोव्यज्काः । समासो बहुल इति। ओजोव्यज्जकवर्णघ- टितसमासाधिक्यमप्योजोव्यज्जकमिति पृथगुपादानम्। घटना पदसंदर्भः । औ- द्वत्यशालिनी उद्भटाक्षरबहुला उद्भटार्थप्रतिपादिका च। द्वितीयप्रकारसंग्रहाय कम्पनम् ।I' ओजोगुणमाह-ओज इति। चित्तविस्तारो वीरादिरसास्वादेन जायमानो विस्मयविशेषः । अन्रापि ओजोलक्षणेडपि। तदन्तिमौ वर्गद्वितीयवर्गचतुर्थौं। द्वयोरुपर्यधश्च सरेफाविति वर्गस्यादितृतीयौ च तदन्तिमौ च। घटना वन्धः। औद्धत्यशालिनी डम्बरा। सा च संयुक्तवर्णबाहुल्येन भवति। चञ्चदिति व्याख्यातमिदं प्राक्। अत्र समासबाहुल्यडम्ब-
१. 'स्थितिः' क-ख. २. 'सरेफः' घ. ३. 'समासबहुलाः' घ ..
Page 476
अष्टमः परिच्छेदः । ४२९
चित्तं व्यामनोति यः क्षिप्रं शुष्केन्धनमिवानलः ।७॥ स प्रसाद: समस्तेषु रसेषु रचनासु च। व्याम्ोति आविष्करोति। शब्दास्तव्यञ्जका अर्थबोधकाः श्रुतिमात्रतः ॥८।। यथा- 'सूचीमुखेन सकृदेव कृतव्रणस्त्वं मुक्ताकलाप लुठसि स्तनयोः प्रियायाः ।
एतदुपादानं सार्थकम्। तेन 'आपतन्तममुं दूरादूरीकृतपराक्रमः । बलोऽवलो- कयामास मातङ्गमिव केसरी ।' इत्यादावोजोव्यज्जकत्वमुपपन्नम् । प्रसादगुण- माह-चित्तमिति। य इति। आखाद्यव्यङ्गयेषु आसादाख्यः कश्चिदेको ध- रमोऽस्ति येन व्यङ्ञ्यानामाखाद्यवं चोपपद्यते। स एव प्रसादाख्यो गुण इत्यर्थः-1 तदुक्तं चण्डीदासेन-'चित्तं यो व्याप्नोति अविष्टं करोति स प्रसादनामा आखा- दात्मा गुणः ।' अनलपक्षे-व्यापनं संयोगानुकूलव्यापारः । गुणपक्षे लाह- व्याप्रोतीति। आविष्करोति व्यासङ्गनिराकरणेन निर्मलं करोति। प्रसादपद- व्युत्पत्तिलभ्योऽयमर्थः 'आविष्टं करोति' इति पाठे स्ाश्रयनिविष्टं करोतीत्यर्थः। प्रसादविषयानाह-समस्तेष्विति। रसेषु काव्यात्मभूतेषु। तेन भावादीनामपि गुणतवमुपपद्यते। अन्यथा तत्र काव्यव्यवहारो न स्यात्। रचनासु चेति। सप्त- म्यर्थो व्यङ्गयलम् । तेन समस्तरचना व्यङ्ञयेत्यर्थः। ओजोमाघुर्यवदस्य रचना- विशेषो व्यज्को नास्ति, कितु झटित्यर्थसमर्पकपद्घटिता रचनैव व्यज्जिकेति प्रतिपादयितुमाह-शब्दा इति। तद्वयञ्जकाः प्रसादव्यजकाः । ननु गुणानां रसधर्मतखवीकारे प्राचीनसंमतशब्दार्थधर्मतमेषां कथमुत्पद्यत इत्यत आह-
रबन्धयोरोजोव्यअ्जकत्वं वर्गस्यादीत्युक्तवर्णस्य । यथा-'अनेन च्छिन्दता मातुः कण्ठं परशुना तव। बद्धस्पर्ध: कृपाणोडयं लज्जते मम भार्गव ॥' अत्र तृतीयपादे दकारयुक्तौ धकारौ ओजोव्यजकौ। 'विरूढप्रौढविक्रमः' इत्यत्रासंसक्तौ ढकारौ। वस्तुतस्तु माधुर्यव्य- अ्जकातिरिक्ता वर्णान्तरसंयुक्ता द्वित्रा अन्येऽपि वर्णा ओजोव्यञ्जकाः । यथा-'समरे भाति संरम्भादुदयद्दिनकरद्युतिः । हुताशकुण्डसंकाशलोचनो नृपपुंगवः ॥' अत्र द्वितीयपादे - घटितो बन्धश्च ओजोऽतिशयव्यञ्जकौ। 'दीप्वह्विचयोद्दीपनेत्रापीतदविपदलः। चण्डध्वा- नपरिध्वस्तहस्तिदानोऽस्त्यसौ युधि ।।' 'उद्यद्दिनकरवक्रः प्रज्वलज्ज्वलनेक्षणः । भार्गवो नृप- वर्गस्य मृत्युरेष धुरि स्थितः ॥' प्रसादगुणमाह-चित्तमिति । आविष्टमधिकनिविष्टम्। तद्यञकाः प्रसादव्यञ्ञकाः । रसवृत्तिः कश्चिद्धर्मः येन सामाजिकानां चित्तं विषयान्त- रेभ्यो व्यवच्छिद्य स्वस्मिन्नेवातिनिविष्टं करोति। माधुयौंजसोर्जनकत्वसंबन्धेनैव रसवृत्तित्वं
Page 477
४३० साहित्यदर्पणे
बाणैः स्मरस्य शतशो विनिकृत्तमर्मा स्मेऽपि तां कथमहं न विलोकयामि ।' एषां शब्दगुणत्वं च गुणवृत्योच्यते बुधैः। 'शरीरस्य शौर्यादिगुणयोग इव' इति शेषः । श्लेषः समाधिरौदार्य प्रसाद इति ये पुनः॥९। गुणाश्चिरंतनैरुक्ता ओजस्यन्तर्भवन्ति ते। ओजसि भत्तया शैब्दवाच्ये शब्दार्थधर्मविशेषे। तत्र ्ेषो बहूनामपि पदानामेकपदवद्भासनात्मा। यथा- एषामिति। माधुर्यादीनामित्यर्थः । शब्दगुणलं शब्दार्थधर्मतम्। गुणवृत्त्या आश्रयरसव्यञ्जकत्वरूपपरम्परासंबन्धेन। वुवैर्वामनादिभिः। शौर्यादेरात्मधर्मस्य यथा शरीरवृत्तित्वं यथा वा स्थूलत्वादेः शरीरवर्मस्य आत्मवृत्तित्वं परम्परासंबन्धेन तथेत्यर्थः । ननु गुणानां रसवृत्तित्वस्य निरुक्तपरम्परायाः संबन्धत्वस्य च कल्पने गौरवमतः शब्दार्थवृत्तित्वमेव कल्पयितुमुचितमिति चेत्, न । क्वचिन्नीरसे गुणा- भिव्यञ्ञकशब्दार्थयोः संभवेऽपि माधुर्यादेरनुपलम्भात् । क्वचित्तु तदसंभवेपि रसत्वेनैव तदुपलम्भाच्च रसान्वयव्यतिरेकानुविधायित्वेन रसवृत्तित्वकल्पनस्यैवो- चितत्वात्। ननु वामनादिभिः शलेषादयो दश शब्दगुणा ओजआदयो दशार्थगुणा उक्ता:, भवद्भिस्तु माधुर्यादयस्त्रय एव कथमुच्यन्त इत्यतस्तान्यथासंभवं खोकत-
व्यञ्जकदोषाभावयोरन्तर्भावयति-श्ेष इति। भत्त्या लक्षणया। ओजःपद- वाच्ये ओजःपदप्रतिपादे। चित्तविस्ताररूपे ओजस्यन्तर्भावासंभवादिति भावः । शब्दधर्मविशेषे बन्धगाढत्वरूपे। अत्रार्थपद चिन्त्यम्। अर्थधर्मे प्रौढत्वरूप ओजसि शन्दश्लेषादीनामन्तर्भावासंभवात्। एकपद्वदिति। संध्यादिवशा- दनेकपदानामुच्चारणकालभेदः स्पष्ट नावभासत इत्यर्थः । केचित्तु-'समासा- भावात्' इति व्याचक्षते, तन्न। वामनोपदर्शितस्य समासत्वेऽपि 'अस्त्युत्तरस्यां दिशि देवतात्मा' इति श्लेषोदाहरणस्य समाससत्त्वेऽपि 'तडित्कपिलमाकाशं- इत्यादौ शलेषप्रत्युदाहरणस्य वासंगत्यापत्तेः। 'अस्ति भयमस्ति कौतुकमस्ति च मन्दाक्ष- प्रसादस्य तदतिरिक्तेनेत्यवधेयम्। कृतव्रणः कृतच्छिद्रः । मर्म मनः। तां प्रियाम्। एषां निरुक्तगुणानाम्। शब्देत्युपलक्षणम्। अर्थगुणमपि बोध्यम्। गुणवृत्त्या स्वाश्रयरसव्यञ्ज- कत्वरूपपरम्परासंबन्धेन। बुधैर्वामनादिभिः । शौर्यादिगुणयोगः शौर्यादिगुणवत्त्वम्। अत्र स्वसमवाय्यात्मावच्छेदकत्वं पराम्परासंबन्धः। वामनाद्युक्तदशविधगुणानां स्वोक्तगुणव्यञ्ज- कादौ यथायथमन्तर्भावमाह-शेष इति। भत्त्या लक्षणया। ओजःपदवाच्ये ओजःपद- प्रतिपाधे। शब्दार्थधर्मविशेषे बन्धगाढत्वादौ। अन्तर्भवन्ति अभिन्नतया वर्तन्ते। बहूनामिति।
१ .- 'योगः' इति नास्ति क-ख-पुस्तकयोः. २. 'भत्तया' इति क-पुस्तके नान्ति, ३. '-पद-' घ.
Page 478
अष्टमः परिच्छेदः। ४३१
'उन्मज्ज्जलकुञ्जरेन्द्रर भसास्फालानुबन्धोद्धतः सर्वाः पर्वतकंदरोदरभुवः कुर्वन्प्रतिध्वानिनीः । उच्चैरुच्चरति ध्वनिः श्रतिपथोन्माथी यथायं तथा प्रायप्रेङ्कदसंख्यशङ्गधवला वेलेयमुद्गच्छति। अयं बन्धवैकट्यात्मकत्वादोज एव। समाधिरारोहावरोहक्रमः । आरोह उत्कर्षः, अवरोहोऽपकर्षः, तयोः क्रमो वैरस्यतानावहो वि- न्यासः । यथा-'चञ्च्गुज-' इत्यादि। अत्र पादत्रये क्रमेण बन्धस्य गाढता। चतुर्थपादे त्वपकर्षः । तस्यापि च तीन्रप्रयतोच्चार्यतया ओज- मस्ति चोत्कटा। वालानां प्रणयिजने भावः कोऽप्येप नैकरसः ॥' इति प्राची- नान्तरदत्तोदाहरणस्यासंग्रहापत्तेश्र। उन्मजदिति। प्रलयकालीनसमुद्रवर्णन- मिदम्। यथायं सिन्धुसंबन्धी ध्वनिरुच्चरति तथेयं वेला विकृतसिन्धुजलमुद्ध- च्छति। 'अब्य्यम्वुविकृतौ वेला कालमर्यादयोरपि' इत्यमरः । उभयोः साधर्म्य- माह-उन्मज्जदिति। उन्मज्जतां जलकुञ्जरेन्द्राणां रभसेन वेगेन य आस्फालो जलाभिघातजन्यशब्दस्तस्यानुबन्धेन उद्धत उद्भटः । पक्षे-येषां रभसेन हर्षेण य आस्फाल उत्थानव्यापारातिशयस्तस्यानुवन्धेन आरम्भेण उद्धता उद्गताः । प्रति- ध्वानिनीः प्रतिशब्दान्विताः । पक्षे-प्रतिध्वानिनीः शब्दनिरुद्धाः जलपूरणेन निःशब्दा: कुर्वतीः । श्रुतेः पन्थाः शब्दग्रहणसामर्थ्य तस्योन्माथी नाशकः । पक्षे-श्रुतीनां वेदानां पथां चोन्माथी। वेला कीदशी। प्रायेण रमणेन (बाहुल्येन) प्रेङ्वन्त उच्छलन्तो ये शङ्घास्तैर्धवला। अयं श्लेषो विकटवन्ध एव। अस्योत्कर्षा- धायकत्वाद्गुणत्वमिति भावः । उत्कर्षो गाढवन्धत्वम् । अपकर्षो बन्धशैथिल्यम्। उत्कर्षमध्ये अपकर्षोपादाने अपकर्षमध्ये चोत्कर्षोंपादाने च वैरस्यं यत्र न भवती- त्यर्थः । नतु क्रमनिबन्धयोरु्त्कर्षापकर्षयोः समावेशः समाधिरिति फलितम्, तत्राप- कर्षस्य कथमोजस्यन्तर्भाव इत्यत आह-तस्यापोति। चतुर्थपादस्यापीत्यर्थः । पद्यस्य पादे पादे आरोहावरोहक्रमः संभवतीति तत्रारोहपूर्वोऽवरोहो यथा- संविवशादेकपदवत्प्रतीतिरूपः । उन्मज्जदिति। इयं वेला समुद्रजलं तथोद्गच्छति यथायं ध्वनिरुच्चैरुच्चरति। कीटृकू। उन्मज्जन्तो ये जलकुअ्जरेन्द्रा जलहस्तिश्रेष्ठास्तेषां रभसास्फाला- नुवन्धेन वेगजनितस्फालातिशयेन उद्धत उत्कटः। प्रतिध्वानिनीः प्रतिशब्दयुक्ताः । श्रुतेः श्रवणस्य पन्था विपयान्तरत्रहणं तस्योन्माथी नाशकः । वेला कीदृशी। प्रेङ्गन्त उपरि चरन्तो येऽसंख्या: शङ्ाः शङ्गकपालानि तैर्घवला। अन्र समस्तानामसमस्तानां वा बहूनां पदानां संधिवशादेकत्वारोपः। अयं क्रेषः संधिवाहुल्येन वर्णानां संयुक्तवर्णवद् गुरुप्रयतोच्चार्यतया बन्धस्य वैकव्यं भवतीति भावः। उत्कर्षों गाढत्वन्। अपकर्षः शैथिल्यम्। वैरस्यतानावहः सामाजिकानां खेदाजनकः। विन्यासो ग्रन्थनम्। केचित्तु 'यत्र पधे प्रति- पादं प्रथममुत्कर्षः पश्चादपकर्षः, अत्रैवारोहावरोहक्रमरूपः समाधिः। 'चञ्रह्गुज-' इत्यादौ
Page 479
४३२ साहित्यदर्पणे
खििता। उदारता विकटत्वलक्षणा। विकटत्वं पदानां नृत्यत्प्ायत्वम्। यथा- 'सुचरण विनि विष्टैर्नूपुरैनर्तकीनां झणिति रणितमासीत्तत्र चित्रं कलं च।' अत्र च तन्मतानुसारेण रसानुसंधानमन्तरेणैव शब्दप्रौढोक्तिमा- त्रेणौजः। प्रसाद ओजोमिश्रितशैथिल्यात्मा। यथा- 'यो यः शस्त्रं बिभर्ति खवभुजगुरुमदः पाण्डवीनां चमूनाम्' इति। माधुर्यव्यञ्जकत्वं यदसमासस्य दर्शितम् ॥ १० ॥ पृथक्पदत्वं माधुर्ये तेनैवाङ्गीकृतं पुनः। यथा- 'शवासान्मुञ्चति-' इत्यादि। 'निरानन्दः कौन्ते मधुनि, मधुरो बालवकुले, न सालेऽनालम्बो, लवमपि लवङ्गे त रमते। प्रियङ्गौ नासङं रचयति, न चूते विरमति, स्मरंल्लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥' लवङ्ग इति लघुप्रयत्नोच्चारणेनावरोहः। अवरोहपूर्व आरोहो यथा- 'अयमुदयति मुद्रा-' इति। नृत्यत्परायत्वमिति। प्रत्येकं पदच्छेदादिति भावः । झणितीत्यव्यक्तशव्दानुकरणम्। कलमिति रणितमित्यनेनान्वितम्। नन्वत्र वीरादि- रसाभावादोज एव नास्ति तद्यप्जके एतदीयबन्धगाढत्वे उदारताया: कथमन्तर्भाव इत्यत आह-तन्मतानुसारेणति। ये गुणानां शब्दार्थधर्मत्वमेव वदन्ति तन्मतेनेत्यर्थः । शब्दप्रौढोक्तिमात्रेण ओजो व्यवहियते इति शेषः । तथा च प्रकृते योग्यतामादायैव बन्धगाढत्वस्य ओजोव्यञ्जकत्वमिति भावः । प्रसाद इति । समाधौ शलोके तत्पादे वा ओजःप्रसादयोरन्यतरस्य पुनरुन्मज्नं नासति। अत्र तूभयोर्निमज्जनोन्मज्जनक्रमेण संपर्कः। तदुक्तं वामनेन-संपृक्तौ खल्वोजःप्रसादौ नदीवेणिकावदुद्वहतः' इति। यो य इति। व्याख्यातमिदं प्राक्। वर्णितमित्यस्मा- भिरिति शेषः । श्वासानिति। अत्र भुजावल्लरीमिति प्राणसमानेति च समासस- प्रतिपादमुत्कर्षानन्तरमपकर्षः, द्वितीयपादे चरमवर्णस्य गाढत्वेपि चक्षुःप्रयतोच्चार्यतयाप कर्पः' इत्याहुः। उत्कर्षापकर्षयोरुत्कर्षस्यैव प्राधान्यं प्रधानेन व्यपदेशा भवन्तीति न्यायज- व्यवहार इति भावः । नृत्यत्प्रायत्वं गुरुप्रयत्नोच्चार्यतयाडम्वरत्वमेव। लघुवर्णघटितपदा- नामपि समभिव्याहारवशेन गुरुप्रयत्नोच्चार्यत्वमस्ति। सुचरणेति । ननु वीरादिरसे ओज: संभवति, कथमत्रौज इत्यत आह-तन्मतानुसारेणेति। ओजोमिश्रितेति। शै- थिल्यं लघुप्रयतोच्च्ार्यबाडुल्येनानुद्भटत्वम्। 'तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः। नैकमोज: प्रसादो वा रसभावविदः कवेः ॥' इति माघे। प्रसादः शैथिल्यमेवेत्यवथेयम्। यो य इति। द्रोणवधे भूतेऽश्वत्थाम्नः क्रोधोक्तिरियम्। पाञ्चालेन धृष्टद्युम्नेन द्रोणो हत इति पाचालगोत्रे क्रोधातिशयः। अधिकवया वृद्धः । गर्भशय्यां जरायुं गतः । गर्भस्थ इति यावत्। 1. नृत्यदिति। लीलायमानत्वमित्यर्थः । 2. पृथगिति। पृथक्पदानि यस्य तस्य भावः । समासदैध्यनिवृत्तिपरं चैतद् ॥
Page 480
अष्टमः परिच्छेदः। ४३३
अर्थव्यक्तेः प्रसादाख्यगुणेनैव परिग्रहः ॥ ११॥ अर्थव्यक्ति: पदानां हि झटित्यर्थसमर्पणम्। स्पष्टमुदाहरणम्। ग्राम्यदुःश्रवतात्यागात्कान्तिश्च सुकुमारता ॥ १२ ॥ अङ्गीकृतेति संबन्धः । कान्तिरौज्ज्वल्यम्। तच्च हालिकादिपद- चिन्यासवैपरीत्येन लौकिकशोभाशालित्वम्। सुकुमारता अपारुष्यम्। अनयोरुदाहरणे स्पष्टे।
त्वेऽपि पृथक्पदतस्य दीर्घसमासराहित्ये तात्पर्यान्न दोषः। यद्वा-'वाले नाथ विमुच्च मानिनि रुषं रोषान्मया किं कृतं खेदोऽस्मासु न मेSपराध्यति भवान्सर्वेSपराधा मयि। तत्क रोदिषि गद्गदेन वचसा कस्याग्रतो रुदते नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ।I' एतदुदाहरणं बोध्यम्। प्रसादाख्यगुणेन प्रसादगुण- व्यञ्जकेन। हालिकादीत्यादिना बालकादिपरिग्रहः। हालिकादिसाधारणप्रसिध्धर्थक- पदेनेत्यर्थः । स्पष्टे इति। क्रमेण यथा-'ताम्बूलमृतगल्लोऽयं भद्रं जल्पति मानवः।' विपर्ययस्तु 'ताम्बूलभृतगल्लोऽयं भल्ं जल्पति मानुषः ।' अत्र भल्लगल्लमानुषशब्दा ग्राम्याः । 'आनन्दमियमायातु कदा कामवशंवदा ।' विपर्ययस्तु 'कार्तार्थ्यमियमा- तत्कर्मसाक्षी मत्पितृवधानुमत्या कृष्णादिः । प्रतीपः प्रतिकूलः । अन्तकस्येत्यनन्तरमपिकारो बोध्यः । अत्र प्रतिपादं मध्यवर्णानां शैथिल्यम्। वर्णितमस्माभिरिति शेषः। तेनैव निरुक्त- माधुर्यव्यञ्जकेनैव। प्रसादाख्यगुणेन प्रसादाख्यव्यञ्ञकेन। अर्थसमर्पणमर्थप्रत्यायनम्। ग्ररा- क्येति। ग्राम्यत्वत्यागात् कान्तिदुःश्रवत्वत्यागात् सुकुमारतेत्यन्वयः । हालिकादीति। आ- दिपदात्प्राकृतनरमात्रग्रहणम्। हालिका दिप्रयुज्यमानानां पदानां भलगल्लादिशब्दानां हालि- कादिसाधारणबोधजनकानां 'शुष्को वृक्षस्तिष्ठत्यग्रे' इत्यादीनां च विन्यासः प्रयोगस्तस्य वैप- रीत्येन भावेन अलौकिकशोभारसालंकारादिकृतवैचित्र्यम्। तद्वत्वमित्यर्थः । एवं च ग्राम्य- त्वाभावे सति रसालंकारादिवैचित्र्यं कान्तिरिति फलितम्। न तु आ्रम्यत्वत्यागमात्रेणैवौज्जव- ल्यम्। अन्यथा 'चित्रभानुरयमुज्ज्वलकान्तिः शेखरे लसति भूमिधरस्य।' इत्यादावपि कान्तिः स्यात्। 'कन्ये कामयमानं मां न त्वं कामयसे कथम्।' इत्यादौ आ्राम्यत्वरति- शङ्गाररसानुप्रासालंकारसत्त्वेऽपि कान्तिवारणाय सत्यन्तम्। एतयोरुदाहरणे यथा मम-'स्वान्तं तन्वि तवानुरागमृदुलं हन्त्याशु मे मन्मथस्त्वच्चित्तं तु विरागरूक्षमकृती वेडुं न शक्ोत्यसौ। याचे त्वामिदमेव तच्छणु पुनः क्रूराय तस्मै न तद्दरूचापं सखि नासिकां सुनिशितं नालीकमप्यात्मनः ॥ रोलम्बावलिकूजितं बहु जितं कान्ते तवानुग्रहा- न्नैवामी गणिता वनभ्रियवधूसंवाधटङ्का मया। नाशक्के मलयानिलान्न च विधोराराधनं भावये वामायां त्वयि तावदद दयिते तानि प्रतीपानि मे ॥' यदि तु ग्राम्यत्वाभावेनैव शो- भाविशेषो जन्यत इत्यङ्गीक्रियते तदा यथाश्रुतमेव सम्यक्। अन्यथा दोषत्वासंभावनायाम्। १. 'सुकुमारता अपारुष्यम्' इति क ख-पुस्तकयोर्नास्ति. सा० द०३७
Page 481
४३४ साहित्यदर्पणे
कचिद्दोषस्तु समता मार्गाभेदस्वरूपिणी। अन्यथोक्तगुणेष्वस्या अन्तःपातो यथायथम् ॥१३ ॥ मसृणेन विकटेन वा मार्गेणोपकान्तस्य सदर्भस्य तेनैव परिनिष्ठानं मार्गाभेद । स च क्वचिद्दोषः। तथाहि- 'अव्यूढाङ्गमरूढपाणिजठराभोगं च बिभ्रद्वपुः पारीन्द्र शिशुरेष पाणिपुटके समातु कि तावता।
स्रोतःशोषणरोषणात्पुनरितः कल्पानिरल्पायते ॥' यातु' इति। क्वचिदिति। सुकुमारबन्वमध्ये उद्धतार्थोपस्थितौ प्रौढबन्धमध्ये सुकुमारोपस्थितौ चेत्यर्थ। मार्गस्य रीतेरभेदोऽपरित्याग। तत्सरूपेत्यर्य। अन्यथा प्रकरान्तमार्गयोग्यार्थानुपस्थितौ। उक्त्गुणेषु प्राचीनोक्तमावुर्यसौकुमायौज सु । यथायथमिति। सुकुमारमार्गभेदस्य मावुर्यसौकुमार्ययो प्रौढमार्गमेदस्य तोजसीत्यर्थ। मसृणेन सुकुमारेण। उपक्रान्तस्य आरव्वस्य। सदर्भस्य प्रबन्वस्य। तेनैव उक्तमार्गेणैव परिनिष्ठान समाप्ति। स मार्गाभेद। मार्गाभेददोषत्यागस्य गुणत्मुदाहरति-अव्यूढेति। अप्रौढावयवमित्यर्थ। अरूढोऽजातपाणिजठ- रस्याभोग परिपूर्णता यत्र। पारीन्द्र सिंह । 'कण्ठीरवस्तु पारीन्द्र केसरी गज- मोहन' इति हारावली। समातु इयत्ता प्राप्ोतु तावता अव्यूढाङ्गत्वादिना किम्। न किमपि त्रुट्यतीत्यर्थ। त्रुटेरभावमाह-उद्यदिति। उद्यज्ायमान दुर्वरस्य गन्वसिन्वुरशतस्य मत्तहस्तिसमूहस्य ्रोद्दामदानार्णवस्त्नोतस प्रौढमदजलविप्र- वाहस्य शोषण यस्मात्तादृदश रोषण यस्य तस्मात्। इतः पारीन्द्रशिशो। कल्पामनि- प्रलयकालाननि। अल्पायते तुच्छो भवति। 'यस्योग्रमदगन्धेन हस्तिनो भयविह्वला. । दूरादेव पलायन्ते गन्वहस्ती स उच्यते ॥' मावुर्यादावित्यनेन सौकुमायौंजसोग्रह- णम्। ओजोविपर्यास सौकुमार्यम्। तच्च दीर्घसमासराहित्येन पुरुषवर्णाना त्यागेन
उक्तगुणेपु उक्तगुणव्यक्षकेषु। अन्त पातोऽन्तर्भाव । यथायथ यथासभवम्। मसृणेन सुकु- मारेण। विकटेन उद्भटेन। मार्गेण बन्धेन। उपक्रान्तस्य आरब्धस्य। सदर्भस्य महाका- व्यविशेषस्य। तेनैव उपक्रान्तेनैव। परिनिष्ठान समापनम्। सदर्भस्येतयुपलक्षणम्। एकवा- क्येऽपि समता बोध्या। अव्यूढाङ्गमिति । अव्यूढानि अपरिणतानि अङ्गानि करचरणादीनि यस्य तत्। अरूढोऽनिष्पन्न पाणिजठरस्याभोग. परिपूर्णता यत्र तत्। पारीन्द्र सिह.। 'कण्ठीरवस्तु पारीन्द्र. केसरी गजमादन' इति हारावली। समातु मान प्राप्नोतु। तावता क्षुद्रशरीरकत्वेन कि न्यूनत्वम्, अपि तु न। उद्द् उद्गलत्। अस्य स्रोत इत्यनेन सबन्ध । गन्वसिन्धुरो गन्धहस्ती। यस्य गन्धमदेन प्रतिगजा पलायन्ते स दानार्णवो मदसमुद्रस्तस्य स्रोतो धारा तस्य शोषण शोषक रोषण यस्य तस्मात्। इत. पारीन्द्रशिशो। अल्पायते तुच्छो भवति। अर्थे वाच्ये सुकुमारसदर्भान्त.पातिनोडस्य पद्यस्य समतानुरोधेन सुकुमार-
Page 482
अष्टमः परिच्छेदः । ४३५
अत्रोद्धतेऽर्थे वाच्ये सुकुमारबन्धत्यागो गुण एव। अनेवंविधस्थाने माधुर्यादावेवान्तःपातः । यथा-'लताकुञ्जं गुञ्जत्-' इत्यादि। ओजः प्रसादो माधुर्य सौकुमार्यमुदारता। तदभावस्य दोषत्वात्स्वीकृता अर्थगा गुणाः ॥ १४ ।। ओजः साभिप्रायत्वरूपम्। प्रसादोऽर्थवैमल्यम्। माधुर्यमुक्तिवैचि- त्यम्। सौकुमार्यमपारुष्यम्। उदारता अग्राम्यत्वम् । एषां पञ्चाना- मप्यर्थगुणानां म्याणां निराकरणेनैवाङ्गीकारः । स्पष्टान्युदाहरणानि । च भवति। एवं च सुकुमारमार्गाभेदस्य माधुर्यसौकुमार्ययोरन्तःपात इति भावः। इदानीमोज:प्रभृतीनां दशविधार्थगुणानां दोषाभावादिभिरङ्गीकारमगुणं च यथा- यथमुपपादयति-ओज इति । तदभावस्य ओजःप्रमृतिगुणपश्चकाभावस्य । अस्माभिर्दोषाभावत्वेनाङ्गीकृता इति भावः । 'अर्थप्रौढिरोजः' इति प्राचीनलक्षणम्। सा च पञ्चविधा-'पदार्थे वाक्यरचना वाक्यार्थे च पदाभिधा। प्रौढिव्याससमासौ च साभिप्रायतमस्य च ।I' तत्राद्यप्रकारचतुष्टयस्य वैचित्र्यमात्रप्रयोजकत्वेन गुणता- भावमग्रे दर्शयिष्यति। चरमप्रकारं तु दोषाभावत्वेनैव संगृह्नाति। ओज इति। साभिप्रायत्वमर्थस्य प्रकृतोपकाराभिप्रायेण प्रयुक्तत्वम्। वैमल्यं मलप्रायस्य प्रयो- जकपदार्थस्याभिनिवेशः । उक्तिवैचित्रयं विचित्रयोत्त्या तस्यैवार्थस्य पुनः समर्प- णम्। अपारुष्यममङ्गलार्थस्योक्तिवैचित्र्यवशात्सुकुमारप्रायत्वेन प्रतिपादनम्। रिरं- सया पामरप्रयुज्यमानतं तद्भिन्नलक्षणमग्राम्यत्म्। स्पष्टानीति। क्रमेण यथा- 'कुर्यो हरस्यापि पिनाकपाणेः' इति। विपर्ययस्तु 'सदाशिवं नौमि पिनाकपाणिम्' इति। 'सुवर्णा कन्यका रूपयौवनारम्भशालिनी।' अत्र यौवननवीनत्वप्रतिपादकमा- रम्भपदमधिकम्। विपर्ययस्तु 'अपास्तो हस्तो मे विमलमणिकाञ्चीपदगतः ।' अन्न पदैर्घटने वर्णप्रातिकूल्याख्यदोष एव स्यात्। गुण इति। अर्थस्यौद्धत्यव्यअ्जकत्वादिति भावः । अनेवमिति। यत्र वर्णनीयविशेषानुरोधेन प्रक्रान्तमार्गत्यागो नास्ति तत्रेत्यर्थः । माधुर्यादा- वित्यादिपदादोजोग्रहणम्। माधुर्यव्यज्जके ललितबन्धे ओजोव्यज्जके उद्धतबन्धे चेत्यर्थः । लताकुञ्जमिति। आदिपदात् 'चञ्चद्भज-' इत्यादिग्रहणम्। शेषादीनां दशानामर्थगुण- त्वमपि प्राचीनैरक्गीकृतानामपि यथासंभवं दोषाभावादावन्तर्भावयति-ओज इति। तद- भावस्य ओजःप्रभृतेरभावस्य। स्वीकृता। अस्माभिरिति शेषः। उपपादयति-ओज इति। साभिप्रायत्वं विशेषणानां प्रकृतोपयुक्तत्वेन वक्तरभिप्रेतत्वम्। अर्थस्य वाक्यार्थस्य वैमल्यमनतिप्रयोजननिरर्थकपदार्थसंबन्धरूपमलराहित्यम्। उक्तेरेकार्थप्रतिपादकस्यानेक- शब्दस्य वैचित्र्यं विरूपत्वम्। वाक्यार्थस्यामङ्गलाव्यज्जकत्वमपारुष्यम्। अपुष्टार्थेति। अन्त्यस्थताप्रत्ययस्य प्रत्येकान्वयादपुष्टार्थत्वादीनामित्यर्थः । स्पष्टानीति। दोषपरिच्छेदेऽपु- ष्टर्थत्वादीना पञ्चानां यान्युदाहरणानि दत्तानि तद्विपरीतानीत्यर्थः । दीप्तरसत्वं व्यक्तर-
Page 483
४३६ साहित्यदर्पणे
अर्थव्यक्ति: स्वभावोक्त्यालंकारेण तथा पुनः। रसध्वनिगुणीभूतव्यड्मयानां कान्तिनामक: ॥ १५॥ अङ्गीकृत इति संबन्धः। अर्थव्यक्तिर्वस्तुखभावस्फुटत्वम्। कान्ति- दौप्तरसत्वम्। स्पष्टे उदाहरणे। श्लेषो विचित्रतामात्रमदोषः समता परम्। क्लेषः क्रमकौटिल्यानुल्बणत्वोपपत्तियोगरूपघटनात्मा । तत्र क्मः क्रियासंततिः, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनाविरहोऽनु- ल्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः, एषां योगः संमेलनं स एव रूपं यस्या घटनायास्तद्रूपः श्रेषो वैचित्र्यमात्रम्। अनन्यसाधा- रणरसोपकारित्वातिशयविरहादिति भावः। यथा- 'दृष्ट्रैकासनसंस्थिते प्रियतमे- इत्यादि। अत्र दर्शनादयः क्रियाः, उभयसमर्थनरूपं कौटिल्यम्, लोकसंव्य- वहाररूपमनुल्बणत्वम्, 'एकासनसंस्थिते' 'पश्चादुपेत्य' 'नयने पिधाय' काश्चीपदमित्यनेनैव नितम्बस्य बोधाद्विशेषणमप्रयोजकम्। 'भानुः सदा युक्ततुरङ्ग एव' इत्यादि। विपर्ययस्तु 'सदाचरति' इति। 'सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये।' अत्र मरणे कीर्तिशेषशब्दः। विपर्ययस्तु मृतादिशब्दः । 'कामं कंद- पचण्डालो मयि वामाक्षि निर्दयः । रतिमन्तिमदेहत्ात्त्वयि निर्मत्सरः किमु ॥' विप- र्ययस्तु 'कन्ये कामयमानं मां न त्वं कामयसे कथम् ।' इति। कान्तिनामकः। गुण इति शेष: । क्रमेणोदाहरणे-पृषेषु शङ्कधवलच्छविषु च्छदानां राजीभिरङ्गितमल- ककरागिणीभिः । गोरोचना हरितबञ्नबहिःपलाशमामोदते कुमुदमम्भसि पल्वलस्य।।' दीप्तरसत्वं यथा-'शून्यं वासगृहं-' इत्यादि। उपपाद्केति। प्रकृतानुकूलहेतूप- न्यास इत्यर्थः। वैचित्र्यमात्रमिति। मात्रपदेन गुणतव्यवच्छेदः। अत्र हेतुमाह- अनन्येति। तादृशरसोपकारित्वातिशयश्च रसव्यञ्जकवाक्यस्य काव्यव्यपदेशयो- गित्वम्। उभयस्य ज्येष्ठाप्रीणनस्य कनिष्ठाप्रतारणस्य च समर्थनमनुष्ठानम्। यद्वा सत्वम्। रसस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्गथव्यपदेशः । विचित्रता श्रोतृ- विस्मयजनकप्रतीतिविषयत्वम्। घटना अर्थानां मेलनं विचित्रतामात्रं न तु गुणत्वम्। अत्र हेतुमाह-अनन्येति। गुणानामसाधारणरसोपकारप्रयोजकत्वनियमादिति भावः । दृष्टैकासनेत्युदाहरणं रसपरिच्छेदे नायिकाप्रकारकथनप्रकरणे दत्तम्। तत्रैव मया व्या- ख्यातम्। उभयसमर्थनं प्रियतमायाः प्रीणनमन्यस्याः प्रतारणम् । तयोः समर्थनं संघ- टनम्। लोकव्यवहाररूपं लोकव्यवहारप्रसिद्धरूपम्। उपपादकानि स्वाभिमतार्थसंपाद- 1. 'अत्र' इति क पुस्तके नास्ति. २. 'निमील्य' घ.
Page 484
अष्टमः परिच्छेदः। ४३७
'ईषद्वक्रितकंधरः' इति चोपपादकानि, एषां योगः । अनेन च वाच्यो- पपत्तिग्रहणव्यग्रतया रसाखादो व्यवहितप्राय इत्यस्यागुणता। समता च प्रकान्तप्रकृतिप्रत्ययाविपर्यासेनार्थस्य विसंवादितावि°- च्छेदः । स च प्रक्रमभङ्गरूपविरह एव। स्पष्टमुदाहरणम्। न गुणत्वं समाधेश्च समाधिश्चायोन्यन्यच्छायायोनिरूपद्विविधार्थदष्टिरूपः। तत्रायोनिरर्थो यथा- 'सद्योमुण्डितमत्तहूणचिवुकतप्रस्पर्धि नारङ्गकम्।' अन्यच्छायायोनिर्यथा- 'निजनयन प्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि। नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी ।' अत्र नीलोत्पलनयनयोरतिप्रसिद्धं सादृश्यं विच्छित्तिविशेषेण निबद्धम् । अस्य चासाधारणशोभानाधायकत्वान्न गुणत्वम्, किंतु काव्यशरीरमात्रनिवर्तकत्वम्।
उभयोर्ज्येष्ठाकनिष्ठयोः समर्थनमनुरूपप्रीणनम्। निरुक्तश्लेषस्य दोषतमेव प्रसक्तं कुतो गुणत्मित्युपपाद्यति-अनेन चेति। निरुक्तश्लेषेण चेत्यर्थः। वाच्यस्य वाक्यार्थस्य उपपत्तिः संभवः। यद्ा वाच्याया उपपत्तेः कारणस्य ग्रहणं ज्ञानमत्र व्यग्रतया कष्टेन तज्जनकतया। व्यवहितप्रायो विलम्बेनोत्पादितः । अस्य श्रलेषस्य । अगुणता गुणविरोधित्वम्। दोषतमिति यावत्। स्पष्टमिति। 'उदेति सविता ताम्रः' इत्यादि। अयोनिरल्पच्छायायोनिः। अन्यस्य काव्यान्तरस्य छाया वर्णनं योनिर्यस्य सः । सद्य इति। हूणो हूणदेशोत्पन्नो म्लेच्छः । नारङ्गकं पक्कनारङ्गम्। अत्र हूण- चिवुकनारङ्गयोः सादृश्यमनिबद्धपूर्वम्। निजेति। विमृशति विचारयति। कुसुमला- वी मालाकारी। नन्वच्छायायोनेरर्थस्य निबन्धनमप्रयोजनमत आह-अत्रेति। अतिप्रसिद्धं काव्यान्तरैः सहस्रशो निबद्धमिति। विच्छित्तिविशेषेण वैचित्र्यविशेषा- धायकत्वेन। तथा चार्थान्तरयोगेन प्रसिद्धमपि सादश्यं विलक्षणवैचित्र्यं जनयतीति कानि। अनेन निरुक्तश्रेषेण। वाच्यस्य प्रियतमाच्चुम्बनस्य। उपपत्तिरुपपादकयुक्ति- स्तस्या ग्रहणे अनुसंधाने। व्यग्रतया। सामाजिकानामिति शेषः । विसंवादिता विजाती- यत्वप्रतिभासः । हूणो म्लेच्छविशेषः । मत्तो मदिरादिभक्षणेन। तस्य मुखस्यातिताम्रत्वा- दिति भावः । प्रस्पर्ि तुल्यम्। नारङ्गकं नारङ्गम्। पक्कमिति बोध्यम् । कुसुमलावी मालाकारी । विच्छित्तिविशेषेण वैचित्र्यविशेषप्रयोजकत्वेन। अस्य निरुक्त्तसमाधेः । काव्यशरीरस्य अर्थस्य निवर्तकत्वं निष्पादकत्वम्। मात्रपदेन रसस्यासाधारणशोभा- 1. अयोनीति । अयोनिरनन्यकारणः । अवधानमात्रहेतुक इति भावः ॥। 2. अर्थेति । अर्थस्य दर्शनं दृष्टिः ॥। १. 'विरहः' घ. २. '-दृष्टि-' इति नारिति क-ख-पुस्तकयोः.
Page 485
४३८ साहित्य दर्पणे
क्वचित् 'चन्द्रम्' इत्येकस्मिन्पदार्थे वक्तव्ये 'अत्नेर्नयनसमुत्थ ज्योतिः' इति वाक्यवचनम्। क्वचित् 'निदाघशीतलहिमकालोष्ण- सुकुमारशरीरावयवा योषित' इति वाक्यार्थे वक्तव्ये 'वरवर्णिनी' इति पदाभिधानम्। क्वचिदेकस्य वाक्यार्थस्य किंचिद्विशेषनिवेशादनेकैर्वा- क्यैरभिधानमित्येवंरूपो व्यासः । क्वचिद्वहुवाक्यप्रतिपाद्यस्यैकवाक्येना- भिधानमित्येवंरूपः समासश्च। इत्येवमादीनामन्यैरुक्तानां न गुणत्व- मुचितम्, अपि तु वैचित्र्यमात्रावहत्वम्। तेन नार्थगुणा: पृथक ॥ १६ ॥ तेनोक्तप्रकारेण। अर्थगुणा ओजःप्रभृतयः प्रोक्ताः ॥ इति साहित्यदर्पणे गुणविवेचनो नामाष्टमः परिच्छेद:ः ।
भावः । अस्य च समाधेश्च। चतुर्थविधार्थप्रौढिरूपस्यौजसो गुणलाभावमाह- क्कचिदिति। चन्द्रमिति पश्येत्येकदेशम्। निदाघेति। 'शीतकाले भवेदुष्णा उष्णकाले च शीतला। सुकुमारशरीरा च सा ज्ञेया वरवर्णिनी।' व्यासो यथा- 'असौ नानाकारो भवति सुखदुःखव्यतिकरः सुखं वा दुःखं वा भवति न भवत्येव च ततः। पुनस्तस्मादूर्ध्व भवति सुखदुःखं किमपि तत्पुनस्तस्मादूर्ध्व भवति न च दुःखं न च सुखम् ।' अत्र येन संसारिणा यथाविधं कर्म कृतं तदनुसारेणैव विविधतमा- श्रितः सुखदुःखभोगः क्रियते। यदि कुतश्चिदध्यात्मसाक्षात्कारः स्यात्तदैवास्य प्रवा- हस्य शान्तिरित्येव विवक्षितं वैचित्र्येणोच्यते। समासो यथा-'श्रूयतां धर्मसर्वखं श्रुला चैवाववारय। अर्थिनः प्रतिकूलानि परेषां न समाचरेत् ।I' अत्र परद्रव्यं न हरेत, परदारान्न गृह्लीयात्, परापवादो न वक्तव्यः, इत्यादि वाक्यगताभिधेयस्य द्वितीयार्धेनाभिधानम्। न गुणत्वमिति। रसव्यज्ञकवाक्यस्य काव्यव्यपदेशोपयो- गिलाभावादिति शेषः । उपसंहरति-तेनेति। परोक्ताः । एवं दण्ड्याचार्यनिरूपि- तानामपि दशविधगुणानां यथासंभवं सवोक्तगुणव्यज्जकादावन्तर्भावो बोद्धव्यः । इति श्रीरामचरणतर्कवागीशभट्टाचार्यविरचितायां साहित्यदर्पणवित्ृतौ गुणविवेचनो नामाष्टमः प्रकाशः । व्यवच्छेदः । प्रोढिरोजः । प्रौढिश्च 'पदार्थे वाक्यरचना वाक्यार्थे च पदाभिधा। प्रौढि- र्व्याससमासौ च साभिप्रायत्वमस्य च ।' इति वामनोक्तानां पञ्चप्रकाराणामोजसामन्तिमं प्रकारं प्रागेव दूषितवान्। इदानीं तस्थैव प्रकारचतुष्टयं दूषयति-क्वचिदिति। अत्रेर्ञ- हपुत्रस्य मुनिविशेषस्य। अत्रेनयनाच्चन्द्र उत्पन्न इति पौराणिकी वाता । वरवर्णिनी- पदस्य तादृशवाक्यार्थे परिभाषितवाक्यत्वादिति भावः । व्यासो यथा-'अयं नानाकारो भवति सुखदुःखव्यतिकर :- ' इत्यादि। समासो यथा-'ते हिमालयमामन्त्र्य-' इत्यादि। ननु शब्दार्थशोभाधायकत्वेनैव ओजःप्रभृतीनां गुणत्वमङ्गीकरणीयमिति चेत्, न। तेषां ये दोषाभावपर्यवसन्नास्तत्राव्याप्ेः। दोषाभावस्यापकर्षप्रयोजकदोषविघटकत्वमात्रेणैवोत्कर्षा- धायकत्वासंभवादलंकारेऽतिव्याप्तेः। नहि तादृशगुणालंकारजन्यशोभायां किंचिद्वैलक्षण्यमस्ति यन गुणेभ्योऽलंकाराणां व्यावृत्तिः क्रियत इति ॥'
Page 486
नवमः परिच्छेदः । ४३९
नवम: परिच्छेद:। अथोद्देशक्मप्राप्तमलंकारनिरूपणं बहुवक्तव्यत्वेनोल्लङ्खय रीति- माह- पद्संघटना रीतिरङ्गसंस्थाविशेषवत्। उपकर्त्री रसादीनां रसादीनामर्थाच्छब्दार्थशरीरस्य काव्यस्यात्मभूतानाम्। सा पुनः स्ाच्चतुर्विधा॥ १॥ वैदर्भी चाथ गौडी च पाश्चाली लाटिका तथा। सा रीतिः। तत्र- माधुर्यव्यञ्जकैर्वर्णै रचना ललितात्मिका ॥ २॥ * रीति निरूपयितुमस्याः प्राथमिकत्वे युक्तिमाह-अथेति।गुणनिरूपणानन्त- रमित्यर्थः । उद्देशेति। 'उत्कर्षहेतवः प्रोक्ता गुणालंकाररीतयः' इत्युद्देशक्र्म प्राप्र - कालमित्यर्थः । उल्लङ्मय। सूचीकटाहन्यायेन प्रथमं कृत्वेत्यर्थः ॥ पदेति । पदानां संघटना विशेषः । रीयते गुणानां विशेषो ज्ञायतेऽनयेति रीतिः। 'रीड् गतौ' इत्यनेन साधुः। गत्यर्थानां ज्ञानार्थतात्तथा व्युत्पत्तिः । अङ्गेति। विलक्षणमुखाद्यवयवसं- निवेशविशेषवदित्यर्थः। ननु पद्संघटनाविशेषस्य काव्यातिरिक्तेऽपि सत्त्वादति- व्याप्तिरत आह-उपकत्रीति। खाश्रयव्यङ्गय रसादिवृत्तिगुणव्यञ्जकतया रसादी- नामुत्कर्षाधायिकेत्यर्थः । एवं च गुणाभिव्यञ्जकपदविन्यासो रीतिरिति फलितम्। तदुक्तं वामनेन-'विशिष्टपदरचना रीतिः, विशेषो गुणात्मा' इति। ननु रीतेः साक्षादेव शब्दस्योत्कर्षाधायकत्वं निरुक्तं परम्परया तु रसादीनामित्युपपन्नम्, तथापि तस्याः काव्योत्कर्षाधायकत्वमनुपपन्नमित्यत आह-रसादीनामिति। अर्था- त्संभवबलातू। तथा च काव्यस्य शरीरात्मनोरुत्कर्षाधायकत्वेनैव काव्योत्कर्षाधा- यकत्वमिति भावः। वैदर्भीति। विदर्भगौडपाश्चाललाटदेशोद्गवैः कविभि: संमत- त्वाद्यथायथं वैदर्भ्यादिसंज्ञा। वैदर्भीमाह-माधुर्येति। ललिता सुकुमाराक्षरप्राया * मुद्रित पुस्तके तु-"उद्देशक्रमप्राप्तमलंकारनिरूपणं परित्यज्य रीतिनिरूपणे युक्ति- माह-अथेति। बहवो वक्तव्या विषया यत्र तत्त्वेन। रीतिनिरूपणस्याल्पवक्तव्यत्वेन चेति बोध्यम्। सूचीकटाहन्यायेनाल्पविषय एव प्रथमं शिष्याणां जिज्ञासेति भावः । वस्तुतस्तु रीतेर्गुणघटितत्वेनैव गुणनिरूपणानन्तरं तन्निरूपणस्योचितत्वमित्यवधेयम्। पदानां गुणा- भिव्यअ्जकवर्णांदीनां घटना योजना। शरीरस्य यथा शोभनाङ्गयोगस्तथेत्यर्थः ।एतेन रीतेरव्यभिचारित्वमुपपन्नम्। नीरसेषु गुणाभिव्यञ्जकशब्दार्थसत्वे तस्य रीतित्ववारणा. याह-उपकत्रीति। उत्कर्षजननी काव्यात्मभूतानामिति विशेषणमनुक्तमपि प्रापयति। विदर्भादिदेशविशेषभवकविसंप्रदायाभिमतत्वेन वैदर्भ्यादिसंज्ञा। माधुर्यव्यज्जका वर्णा माधु-
Page 487
४४0 साहित्यदर्पणे
अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते। यथा-'अनङ्गमङ्गलभुवः-' इत्यादि। रुद्रटस्त्वाह- 'असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भी। वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुविधेया।' अत्र दशगुणास्तन्मतोक्ता: श्रेषादयः । ओज:प्रकाशकैवर्णैर्बेन्ध आडम्बरः पुनः ॥३॥ समासबहुला गौडी यथा-'चञ्चद्भुज- इत्यादि। पुरुषोत्तमस्त्वाह- 'बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया। रीतिरनुप्रासमहिमपरतन्त्रा स्तोकवाक्या च ।।' वर्णैः शेषैः पुनद्योः। समस्तपश्चषपदो बन्धः पाश्चालिका मता ॥४॥ सुकुमारार्था च। एकसमस्ता अल्पसमासयुक्ता। स्वल्पो लघुप्राण उच्चारणप्रयत्नो येषां तादृशान्यक्षराणि यत्र। ननु गुणानां त्रिलमेवोक्तम्, कथं दशतमत आह- तन्मतोक्ता इति। स्द्रटमतोक्ता इत्यर्थः। गौडीमाह-ओज इति। अत एवा- डम्बर उद्भट। उद्भटार्थप्रतिपादकतयापि उद्भटः । सुमहानतिगुरुः प्राणो येषां तादृशान्यक्षराणि यत्र। अनुप्रासो वक्ष्यमाणशब्दालंकारविशेषः तस्य महिमा आधिक्यं तत्परतत्र्रा तदधीना। स्तोकवाक्या शिथिलबन्धा। अत एव दण्डयाचा- रयैरुक्त्तम्-'अल्पप्राणाक्षरोत्तरम्। शिथिलं मालतीमाला लोलालिकलिता यथा। अनुप्रासधिया गौडैस्तदिष्टम्' इति। पाश्चालीमाह-वर्णैरिति। वैदभींगौडयोर्व्य- अ्जकवर्णव्यतिरिक्तैर्वर्णेरित्यर्थः । समस्तानि पञ्चषाणि पदानि यत्र। पाञ्चालि- केति। रीतिरित्यनुषज्यते। अत्र सार्थे कप्रत्ययः, न तु टिकणू। तथा सतीप्र- र्यगुणनिरूपणे दर्शिताः । एकसमस्ता अल्पसमासयुक्ता वा स्वल्पप्राणाक्षरोत्तरा लघुप्रयलनो च्चार्यवर्णबहुला। तदुदाहरणं यथा-'गाहन्तां महिषा :- ' इति। गौडीमाह-ओज इति। ओज:प्रकाशका वर्णा ओजोगुणनिरूपणे उक्ताः । आडम्बर उद्टः । स्तोकवाक्या शिथिल- बन्धा। तदुक्तं दण्ड्याचार्येण-'अल्पप्राणाक्षरोत्तरम्। शिथिलम्' इति। 'अनुप्रासधिया गौडै- स्तदिष्टम् इति च। तच्छिथिलम्। यथा-'दोर्दण्डाञ्नित-' इत्यादि। सानुप्रासशिथिल- बन्धा गौडी यथा-'विभाति माला लोलाक्ष्या लोलालिकुलसंकुला। यदीयामोदमादाय यूनां मादति मानसम् ॥।' पाञ्चालीं रीतिमाह-वर्णैरिति। शेषैवैंदभीगौडीव्यअ्कवर्णभिन्नैः। 1. वैदर्भीति। एतां पुनरेवं कवयः स्तुवन्ति-'सति वक्तरि सत्यर्थे सतिशब्दानु- शासने। अस्ति तन्न विना येन परिस्रवति वाङ्धु ॥' तद्रीत्यात्मकं वस्त्वित्यर्थः ॥
Page 488
नवमः परिच्छेदः।
द्वयोर्वैदर्भीगौड्योः। यथा- 'मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया। मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥' भोजस्त्वाह- 'समस्तपञ्चषपदामोजः कान्तिसमन्विताम्। मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ॥' यथा- लाटी तु रीतिर्वैदर्भीपाञ्चाल्योरैन्तरे स्थिता। 'अयमुदयति मुद्राभञ्जनः पझ्मिनीना- मुदयगिरिवनालीबालमन्दारपुष्पम्। विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्द- न्कुपितकपिकपोलक्रोडताम्रस्तमांसि ।।' त्ययः स्यात्। मधुरयेति। मधुरशब्दयोगेनोपपन्नम् । यद्वा मनोरमयेत्यर्थः । मधुना बोधिता प्रकाशिता या माववी वासन्ती तस्या मधुसमृद्या मकरन्दसंदो- हेन समेधिता सम्यग्वर्धिता मेधा स्रमाधुर्य यस्यास्तया। मधुकराङनया भ्रमर्या। उन्मदध्वनिभृता उत्कृष्टहर्षजनकशब्दकारिण्या। निभृताक्षरमव्यक्तवणे यथा स्यात्तथा उज्जगे। उत्कृष्टगानं कृतमित्यर्थः । अत्र माधुर्यव्यञ्जकद्वित्रवर्णसत्त्वेऽपि विभिन्नवर्णप्राचुर्येणैव पाञ्चालीव्यवहारः। कान्तिरौज्ज्वल्यम्। मधुरां माधुर्यव्यञ्जक- वर्णघटिताम्। सुकुमारां कोमलवर्णबहुलाम्। लाटीमाह-लाटीति। वैदर्भीमि- श्रिता पाञ्चालीत्यर्थः। अयमिति । विशेषणानां योग्यताबलादयमित्यनेन सूर्यो लभ्यते। मुद्राभञ्जनः संकोचनाशकः । प्रकाशक इत्यर्थः । बालमचिरविकचं मन्दार- पुष्पं पारिभद्र(जात)पुष्पमिव । विरहेण विधुरं विकलं यत्कोकद्वन्द्वं चक्र्वाक- मधुरयेति। मनोरमयेत्यर्थः। मधुना वसन्तेन बोधिता प्रकाशिता प्रफुललपुष्पीकृता या मा- धवी वासन्ती तस्या मधुसमृद्या मकरन्दास्वादातिशयेन समेधिता संवर्िता मेधा मधुरस्वर- वैचक्षण्यं यस्यास्तया। निभृताक्षर कलस्वरम्। समस्तानि पञ्च षड् वा पदानि यत्र ताम्। ओज:कान्तिमाधुर्यसौकुमार्यगुणयु क्तामित्यर्थः । यथा मम-'दत्तोदात्तविपन्नलोकरभसो वि- द्रावितासद्ुणो नानायज्ञविधिप्रमोदितबुध: कारुण्यधाराच्चितः । सद्विदानिकरप्रचारनिपुणो दारिद्यचिन्तामणिः श्रीमानेष मनोजचारुकरणो राजा जयत्यञ्जसा ।'लाटीमाह-लाटीति। अन्तरे मध्ये। तदुभयलक्षणाक्रान्तेत्यर्थः। अयमिति। पुरोवर्तिरव्युदयवर्णनमिदम्। अयं पुरोवती कश्चिदुदयति उदयगिरिशिखरमारोहति। मुद्रा संकोचः । बालं नवोत्फुल्लम्।
१. 'अन्तरा' घ.
Page 489
४४२ साहित्यदर्पणे
कश्रिदाह- 'मृदुपदसमाससुभगा युक्तैर्वणैरन चातिभूयिष्ठा। उचितविशेषणपूरितवस्तुन्यासा भवेल्लाटी।।' अन्ये त्वाहु :- 'गौडी डम्बरबद्धा स्याद्वैदर्भी ललितकमा। पाञ्चाली मिश्रभावेन लाटी तु मृदुभिः पदैः ॥' क्चित्तु वक्राद्यौचित्यादन्यथा रचनादयः ॥५॥ वक्रादीत्यादिशब्दाद्वाच्यप्रबन्धौ। रचनादीत्यादिशब्दाद्वृत्तिवणौ। तत्र वक्रौचित्याद्यथा- 'मन्थायस्तार्णवाम्भःपुतकुहरचलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः ।
मिथुनं तस्य बन्धुः सङ्गसंपादकत्वेन मित्रम्। रात्रौ हि चक्रवाकमिथुनं मिथो वियुक्तं दिवा संयुक्तं भवतीति प्रसिद्धिः । सूर्यमालोक्य दिनज्ञानेन मिथो युक्तं भवतीति मित्रता। विभिन्दन्निति तमांसीत्यनेनान्वितम् । उचितैर्विशेषणैः पूरितस्य परि- पुष्टात्मनो वस्तुविशेषस्य न्यासो यत्र सा। डम्बरबद्धा उद्भटरचना। ललितकमा मधुरा। मिश्रभावेन गौडीवैदर्भ्योः संपर्केण। इदानीं वक्रादौचित्येन प्रकृतरीतिप- रीता अपि रचनादयः कर्तव्या इत्यत आह-क्कचित्विति। तत्र वत्रादयौचित्यव्य- ज्रका वक्तृवाच्ययोरौचित्यमुद्भटत्वं सुकुमारतं वा। बन्धस्यौचित्यं स्वभावः। तथा च वक्तृवाच्ययोरौद्धत्यसीकुमार्याभ्यां प्रबन्धस्य खभावेन वा उपक्रान्तायाः प्रकृते रसव्यञ्जिकाया वा रीतेर्विपरीता रचनादयः कार्या इति भावः । मन्थेति। दुन्दु- भिर्दुन्दुभिशब्दः केन ताडितः । ताडनेन जनितविशेषाणां शब्दविशेष्यकत्वेनैवो- पपत्तेरिति कश्चित्। वस्तुतस्तु ताडितः सशब्दः कृतः स विशेषणे हीति न्यायेन विशेषणानां शब्दमात्रगामित्वमिति ब्रूमः। कीदृशः । मन्थेन मन्थनेन आयस्तं रात्रौ चक्रवाकमिथुनं वियुक्तं सूर्योदये संगमो (तं) भवतीति प्रसिद्धिः । कोकद्वन्द्वस्य चक्रवा- कमिथुनस्य बन्धुरुक्तोपकारकारी। कपीना गण्डः स्वभावत एव रक्तः कोपे त्वत्यन्तरक्त इति सूचयितुं कुपितेति कपिविशेषणम्। ताम्रो रक्तः । अत्र योग्यत्वादयमिति सामान्यनि- देंशे विशेषलाभ इत्यन्ये। उचितेति। उचितैः प्रकृतोपयुक्तैविशेषणैः पूरितो व्याप्तः वस्तु- न्यासो वर्णनीयनिर्देशो यत्र सा। एतन्मते 'मधुरयति पाञ्चाल्यां यदुदाहृतं तदेतदुदाहरणं बोध्यम्। ललितक्रमा मधुरबन्धा। मिश्रभावेन गौडीवैदभ्यों: संपर्केण। यदा वैदर्भीरीतिप्रक्रा- न्तप्रबन्धमध्ये कुद्धो वक्ता उद्धतो वाच्यो वर्ण्यते तदा प्रक्रान्तरीति परित्यज्य गौडी रीतिरनु- सरणीया। एवमन्यत्रापीत्याह-क्वचित्विति। तथा वक्रादुचिता रचना रीतिः। मग्था यस्तेति श्रोको नाटकप्रकरणे उक्तः । नाटकेऽपीति युक्तं तव्यभिचरत्यपि। यथा अनर्ध-
Page 490
नवमः परिच्छेदः । ४४३
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंह नादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ।।' अत्र वाच्यक्रोधाद्यभिव्यञ्जकत्वेऽपि भीमसेनवक्तृत्वेनोद्धता रचना- दयः । वाच्यौचित्याद्यथोदाहृते 'मूर्धव्याधूयमान- इत्यादौ। प्रव- न्धौचित्यादथा नाटकादौ रौद्रेऽप्यभिनयप्रतिकूलत्वेन न दीर्घसमा- सादयः। एवमाख्यायिकायां शृङ्गारेऽपि न मसृणवर्णादयः । कथायां रौद्रेऽपि नात्यन्तमुद्धताः । एवमन्यदपि ज्ञेयम् ॥ इति साहित्यदर्पणे रीतिविवेचनो नाम नवमः परिच्छेद: ।
क्षुभितं यदर्णवस्याम्भस्तेन पुतं व्याप्तं कुहरं यस्य तादृशस्य चलतो मन्दरस्य ध्वानवद्धीरो गम्भीरः । तथा कोणाघातेषु वादनदण्डाभिघातेषु सत्सु। गर्जन्त्याः अलयकालीनघटाया अन्योन्यसंघटटजन्यशब्द इव चण्डः। ईदृशं चण्डलं कोणा- घातकाल इत्यर्थः । 'कोणो वादनदण्डः स्यात्' इति कोषः । यद्वा 'ढक्काशतसहस्राणि भेरीशतशतानि च। एकदा यत्र ताड्यन्ते कोणाघातः स उच्यते ।' इति परिभा- षायां यत्रेत्यस्य यन्निमित्तमित्यर्थकत्वेन एकदा ढक्कादिताडनजन्या: शब्दाः कोणा- घाताः तेषु मध्ये गर्जदित्यादिवच्चण्ड इत्यर्थः। कृष्णा द्रौपदी तत्क्ोधप्रवर्तकलवात्तद- ग्रदूतः । कुरुशतनिधनस्योत्पातसूचकः । 'यदान्तरीक्षे बलवान्मारुतो मारुता- हतः। पतत्यधः स निर्घातो जायते वायुसंभवः ॥' इत्युक्तलक्षणो यो निर्घातस्तत्स- हितो वात इत्यर्थः । वाच्यस्य वाक्यार्थस्य। क्रोधादित्यादिना उत्साहजुगुप्सयोर्ग्रह- णम्। भीमसेनवक्तत्वेनेति। भीमस्य क्रोधनलादौद्धत्यं प्रसिद्धमिति भाव: । अत्र तादृशशब्दस्य घोरत्वेनोद्भटलाद्वाच्योद्भटलमपि संभवतीति शुद्धमुदाहरणमूह्यम्। वक्तुरनुद्धतत्वे वीरेऽपि सुकुमाररचना यथा-'भो लङ्केश्वर-' इत्यादि। अत्राक्रोध- नत्वेनानुद्धतः श्रीरामो वक्ता। अभिनयप्रतिकूलत्वेन अभिनेयार्थप्रतिपत्तिविलम्ब- कत्वेन मसणा माधुर्यव्यञ्जकाः । नात्यन्तमुद्दता इति। वर्णादयः ॥
इति श्रीरामचरणतर्कवागीशभट्टाचार्यविरचितायां साहित्यदर्पणविद्ृतौ रीतिविवेको नाम नवमः प्रकाशः ।
थ्यः । भौमोष्मप्वमानसूरकिरणक्रूरप्रकाशा दृशोरायुष्कर्म समापयन्ति धिगमूर्मध्येडह्वि शून्या दिशः ॥' इति ॥" इति व्याख्यान्तरं वर्तते.
Page 491
888 साहित्यदर्पणे
दशमः परिच्छेद: । अथावसरप्राप्तानलंकारानाह- शब्दार्थयोरस्थिरा ये धर्माः शोभातिशायिनः। रसादीनुपकुर्वन्तो डलंकारास्तेडङ्गदादिवत् ॥१॥ यथा अङ्गदादयः शरीरशोभातिशायिनः शरीरिणमुपकुर्वन्ति, तथा- नुप्रासोपमादयः शब्दार्थशोभातिशायिनो रसादेरुपकारकाः । अलंकारा अस्थिरा इति नैषां गुणवदावश्यकी स्थितिः । शब्दार्थयोः प्रथमं शब्दस्य अलंकारनिरूपणे संगतिमाह-अथेति। रीतिनिरूपणानन्तरमित्यर्थः । अवसर- प्राप्तान् अवसरसंगत्या निरूपयितुं युक्कानित्यर्थः। प्रतिबन्धकीभूतशिष्यजिज्ञासा- निवृत्तिरवसरः । प्रकृते सूचीकटाहन्यायेन प्रथमं रीतिनिरूपणजिज्ञासा जाता अस्यै- वोद्देशकमप्राप्तालंकारनिरूपणप्रतिबन्धिका तन्निवृत्तावलंकारनिरूपणजिज्ञासा जायत इति भाव: । अलंकाराणां सामान्यलक्षणमाह-शब्दार्थयोरिति । अस्थिराः काव्येष्वनियतवृत्तयः। काव्यत्वाव्यापका इति यावत्। एतेन परम्परया शब्दार्थध- र्माणां गुणानां वारणम्। रीतेरस्थिरत्वात्तद्वारणायाह-शोभातिशायिन इति। शोभातिशयजनका इत्यर्थः । रीतेः शब्दशोभाजनकत्वेऽपि गुणालंकारवच्छोभाति- शयजनकत्वं नास्तीति भावः। नीरसशब्दार्थयोरनुप्रासोपमादीनां व्रारणायाह- रसादीनिति। उपकुर्वन्त उत्कर्षयन्तः । एवं च यैत्र रसो नासिति तत्रोक्ति- वैचित्र्यमात्रप्रयोजकेष्वनुप्रासोपमादिष्वलंकारपदप्रयोगो गौण एव । विवृणोति- यथेति। शरीरिणमात्मानम्। अनुप्रासादेः शब्दालंकारत्वादुपमादेरर्थालंकारत्वादु- भयोः पृथगुपादानम् । गुणेष्वतिव्यापतिं वारयति-नैषामिति। एषामलंकार्राणाम्। शब्दालंकारनिरूपणस्य प्राथमिकत्वे हेतुं दर्शयंस्तत्रापि पुनरुक्तवदाभासनिरूपणस्य प्राथमिकत्वे हेतुमाह-शब्दार्थयोरिति। वेक्तव्येषु निरूपणयोग्येषु। शब्दार्था- 1. अलंकारा इति। अलंक्रियतेऽनेनेति करणव्युत्पत्त्यालंकारशब्द: शब्दार्थालंकार- बोधकः । साहित्यशास्त्रापरपर्यायोऽलंकारशब्दस्तु भावसाधनः॥
१. 'प्रकृते-' इत्यादिः '-भावः' इत्यन्तः पाठः पुस्तकान्तरे नास्ति. २. 'अनियताः' इति मुद्रितः पाठः ३. 'एतेन निरलंकारमपि काव्यमस्तीति' सूचितम् । धर्मा अनुप्रासोपमादयः। शोभातिशायिनः वैचित्र्यातिशयप्रयोजकाः । तेन वाच्यत्वप्रमेयत्वादीनामतद्रूपाणां नालकारत्वम्।' इति मुद्रितः पाठः ४. 'अलंकारत्वव्यवच्छेदाय' इति मुद्रितः पाठः५,"तरङ्गनिकरोन्नीततरुणीगणसंकुला। सरिद्वहति कल्लोलवाह- व्याहततीरभू:।'इत्यादौ रसानुसंधानरहिते यद्रूपकानुमासयोरलंकारव्यवहारः स गौण एवेति मन्तव्यम्। लौ- क्रिकदष्न्तमाह-अङ्गदादिवदिति।आदिना कुण्डलादिपरिग्रहः।'इति मुद्रितः पाठःई. 'उपकुर्वन्ति उत्कृष्ट- तया ज्ञापयन्ति' इत्यधिकं मुद्रितपुस्तके. ७.'गुणानामपि काव्यशोभाजनकत्वेनालंकारत्वप्रसक्तौ तद्वारणाय 'अस्थिरा इत्युक्तं तदर्थमाह' इति मुद्रितः पाठः.८.'गुणानां माधुर्योजःप्रसादानां व्यक्जकाभावेऽपि स्वस्वरस' व्यअ्जकशब्दार्थयो परम्परयावश्यं सन्भाव इति भावः। वस्तुतस्तु रीतीनामपि गुणव्यञ्जकवर्णादिघटितत्वा- दस्थिरत्वेनालकारत्वप्रसक्तौ तद्वारणाय शोभातिशाथिन इत्यस्य विलक्षणवैचित्र्याघायकत्वमिति तदर्थकर- णम् अवश्यं तेनैव गुणानामपि वारणसंभवादस्थिरा इति विशेषणमनुपयुक्तमित्यवधेयम्।'इत्यधिकं मुद्रितपु- स्तके,९.सुद्रितपुस्तके 'वक्तव्येषु-' इत्यादिः '-द्रष्टव्यः' इत्यन्तः पाठो नास्ति, किंतु तन्न 'शब्दप्रत्यक्षानन्त-
Page 492
दशमः परिच्छेदः। ४8५
बुद्धिविषयत्वाच्छन्दालंकारेषु वक्तव्येषु शब्दार्थालंकारस्यापि पुनरुक्त- वदाभासस्य चिरंतनैः श्दालंकारमध्ये लक्षितत्वात्प्रथमं तमेवाह- आपाततो यदर्थस्य पौनरुत्त्येन भासनम्। पुनरुक्तवदाभासः स भिन्नाकारशब्दगः ॥२॥ उदाहरणम्- 'भुजङ्गकुण्डली व्यक्तशशिशु भ्रांशुशीतगुः । जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ।।' अत्र भुजङ्गकुण्डल्यादिशब्दानामापातमात्रेण सर्पाद्यर्थतया पौनरुत्तय- प्रतिभासनम्। पर्यवसाने तु भुजङ्गरूपं कुण्डलं विद्यते यस्येत्याद्यन्या- र्थत्वम्। 'पायादव्यात्' इत्यत्र क्रियागतोऽयमलंकारः, 'पायात्' इत्यस्य 'अपायात्' इत्यत्र पर्यवसानात्। 'भुजङ्गकुण्डली' इति शब्दयोः प्रथ- मस्यैव परिवृत्तिसहत्वम्। 'हरः शिवः' इति द्वितीयस्यैव। 'शशिशुभ्रांशु' लंकारस्यापीत्यनेन शव्दार्थोभयशक्तिमूलध्वनिवत्पश्चान्निरूपणयोग्यतमस्य सूचितम्। चिरंतनैरित्यादि शब्दालंकारप्रकरणे निरूप्यत्वे हेतुः । तत्रापि प्रथमनिरूपणे सूची- कटाहन्याय एव हेतुर्द्रष्टव्यः । आपातत इति। तात्पर्यानवधारणदशायामित्यर्थः। भिन्नाकारशब्दग इति यमकव्यावृत्त्यर्थम्। स च शब्दस्य भङ्गाभङ्गाभ्यां द्विविधः । शब्दभङ्गे यथा-'भाति सदानत्यागः स्थिरतायामवनितलतिलकः' इति। अत्रा- पाततो दानत्यागशब्दौ पुनरुक्तौ। पर्यवसाने तु सदा अनत्या प्रणतिराहित्येन भाति। स्थिरतायामग: पर्वत इत्यर्थः । शब्दाभङ्गे उदाहरति-भुजङ्गेति। शशिशुभ्रांशु- शीतगुशब्दाभ्यां पौनरुत्त्यमापाततः। पर्यवसाने तु शशिनः कर्पूरस्येव शुभ्रा अंशवो यस्य तादृशः शीतगुश्न्द्रो यत्र स इत्यर्थः। यद्वा शशिशुभ्रांशुः शीतकिरण इत्यर्थः । सदा अपायादित्यपि शब्दभङ्गः । चेतोहरः मनोरमः । अस्योभयालंकारत्वमुपपाद- यति-भुजङ्गकुण्डलीति। भुजङ्गावतंस इति। द्वितीयपरिवर्तने पौनरुत्त्यमेव नास्तीति भावः। एवमग्रेऽपि यथायर्थ बोध्यम्। द्वयोरपीत्यादिना शीतगुरिति 1. पुनरिति। पुनरुक्तस्येव पुनरुक्तवद् आभासो ज्ञानमिति पुनरुक्तवदाभासः॥ 2. भिन्नेति । भिन्नाकारो विज्ातीयानुपूर्वीको यः शब्दस्तङ्ग:।। रमर्थबोधस्य सर्वानुभवसिद्धत्वादिति भावः। अस्य शब्दार्थालंकारत्वं स्वयमेवोपपादयिष्यति। शब्दालंका- रान्तरमपेक्ष्यास्य वैचित्र्यातिशयावहत्वेन तत्र प्रथमं शिष्याणां जिज्ञासेति भावः ।' इति पाठो दृश्यते. १. '-अनिरूपण-' इति पुस्तकान्तरे. २. मुद्रितपुस्तके तु 'भिन्नाकार-' इत्यादेः '-शब्दा लंकारत्वमिति भावः ।' इत्यन्तस्य स्थाने 'लाटानुप्रासवारणाय स इति। अव्याद्रक्षतु। पर्यवसाने वक्तृता- त्पर्यग्रहानन्तरं सदापायादिति अकारप्रश्लेषादिति भावः । परिवृत्तिसहत्वं पर्यायशब्दोपादानेऽपि प्रकृतो- पयोगित्वम्। द्वितीय स्यैव परिवृत्तिसहत्वमित्यन्वयः। एवमग्रेऽपि। भातीति। दानत्यागयोरेकार्थत्वातू पौनरुत्तयम्। वस्तुतस्तु सदा अनत्या अग्रणामेन अग: पर्वत इव ।' इति व्याख्या वर्तते. सा० द०३८
Page 493
४४६ साहित्यदर्पणे
इति द्वयोरपि। 'भाति सदानत्यागः' इति न द्योरपि। इति शब्दपरि- वृत्तिसहत्वासहत्वाभ्यामस्योभयालंकारत्वम्। अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्। रेवरमात्रसादृश्यं तु वैचित्याभावान्न गणितम्। रसाद्यनुगतत्वेन प्रेकर्षेण न्यासोऽनुप्रासः। तृतीयस्यापीति लभ्यते। न द्योरपीति। द्वयोरपि न परिवृत्तिसहत्वमित्यर्थः । अस्य पुनरुक्तवदाभासस्योभयालंकारतं शब्दार्थोभयालंकारतम्। शब्दपरिवर्तने तदर्थकपदान्तरादानेपि वैचित्र्यसंभवादर्थान्वयव्यतिरेकानुविधायित्वात, अर्थालं- कारत्वे यत्र तु शब्दपरिवर्तने वैचित्र्यं न संभवति तत्र शब्दान्वयव्यतिरेकानुविधा- यिताच्छब्दालंकारत्वमिति भावः। अनुप्रासालंकारमाह-अनुप्रास इति। शब्दस्य वर्णपदैकदेशपदानामन्यतमस्य साम्यं सादृश्येन वर्तनम्। वर्णानां सादृश्यं च कला- दिना एकस्थानोच्चार्यत्वेनापि। तेन वर्णतादिना सदशस्य विजातीयवर्णस्यावर्तने नाति- असङ्गः, नापि श्रुत्यनुप्राससंग्रहः। पदपदैकदेशयोस्तु तत्तद्यजनघटितत्वेन छेकला- टानुप्रासयो: संग्रहाय 'वर्णसाम्यम्' इत्यनुक्ता 'शव्दसाम्यम्' इति कृतम्। वस्तुतस्तु पदतदेकदेशसाम्येऽपि वर्णसाम्यसंभवाच्छव्दपदं वर्णमात्रपरम्। अत एव 'वर्ण- साम्यमनुप्रासः' इति काव्यप्रकाशः । 'वैषम्येऽपि' इत्यादिना साम्येऽपीति लभ्यते। एतच्च लाटानुप्रासे नियतम्। न च समखरपदतदेकदेशसाम्यं यमकेष्वतिव्याप्तमिति वाच्यम्। तेषां प्रकरणनियम्यतया तदतिरिक्तत्वेनास्य विशेषणात्। ननु 'वैषम्ये- 5पि स्वरस्य' इत्यनेन व्यज्ञनसान्यमनुप्रास इति लभ्यते, खवरमात्रसाम्यं न कथम- नुप्रास इत्यत आह-स्वरमात्रति । अनुप्रासपदव्युत्पत्तिमाह-रसादीति । तृतीयाद्वयं विशेषणे। रसाद्यनुगतः प्रकृष्टश्ेत्यर्थः । स्ाश्रयशब्दप्रकर्षणद्वारा रसादि- प्रकर्षकत्वम्। तेनैव प्रकृष्टत्वम्। आस इत्येकदेशार्थभाह-न्यास इति। अनुप्रा- 1. भातीति। संपूर्णश्रोकस्तु 'अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः । भाति सदानत्यागः स्थिरतायामवनितलतिलकः ॥' इति। अवनितलतिलको राजा भाति। कया। सदानत्या सतां विषये आनत्या अतिनम्रभावेन। यद्ा सदा सर्वकाले अनत्या अरिषु अनम्र- तथा। कीदृशः । अरिवधदा शत्रुसंहारिणी ईहा चेष्टा येषां तादृशा ये शरिण: शरविशिष्टा भटाः तानीरयति प्रेरयतीति अरिवधदेहशरीरः । सहसा शीघ्रं रथिभिः सुष्ठ ऊताः संब- द्धास्तुरगा अश्वाः पादाताः पदातिकाश्च यस्य सः । स्थिरतायामगः । पर्वततुल्य इत्यर्थः । यथा वा-'अम्वरेण गगनेन संवृतं जीवनैः शिरसि वारिभिः श्रितम्। भोगिभिश्च भुजगै- विभूषितं शंकरं शुभकरं भजामहे ॥ इति। अन्र अम्बरेण गगनेनेति, जीवनैवारिभिरिति, भोगिभिर्भुजगैरिति, शंकरं शुभकरमिति आमुखे पौनरुत्तयं पर्यवसानेऽन्यार्थकत्वात्तदभावः॥ 2. अनुपास इति। अनुशब्दोऽनुगमार्थः, प्रशब्द: प्रकर्षार्थः, आसशब्दो न्यासार्थ इति योगार्थो दर्शितः । . 'सवरमात्रेपि सादश्यम्' घ. २. 'प्रकृष्टः' क. १. 'रसाद्यनुगतत्वमनुपासः' इत्यधिकं पुस्त- कान्तर
Page 494
दशम: परिच्छेद: । ४४७
छेको व्यञ्जनसङ्गस्य सकृत्साम्यमनेकधा ॥ ३॥ छेकश्छेकानुप्रासः । अनेकधेति सवरूपतः क्रमतश्च। रसः सर ई- त्यादेः क्रमभेदेन सादृश्यं नास्यालंकारस्य विषयः। उदाहरणं मम तावपादानाम्- 'आदाय बकुलगन्घानन्धीकुर्वन्पदे पदे भ्रमरान्। अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः ॥' अत्र गन्धानन्धीति संयुक्तयोः, कावेरीवारीत्यसंयुक्तयोः, पावनः पवन इति व्यञ्जनानां बहूनां सकृदावृत्तिः । छेको विद्ग्घस्तत्प्रयोज्य- त्वादेष छेकानुप्रासः। अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा। एकस्य सकृदृप्येष वृत्तयनुप्रास उच्यते ॥४ ॥ एकधा स्वरूपत एव, न तु क्रमतोऽपि। अनेकधा स्रूपतः क्रम- तश्च। सकृदपीत्यपिशब्दादसकृदपि। उदाहरणम्-
सस्य पश्चप्रभेदानाह-छेक इति। अनेकधेति । सरूपतः क्रमतश्चेत्यर्थः। अस्य छेकानुप्रासस्य विषयः स्थानम्। तथा च तद्वारणायैव क्रमतश्चेत्युपात्तम्। आदा- येति। अन्धीकुर्वन् मधुलोभेन अन्धवद्धान्तान् कुर्वन्। पदे पदे स्थाने स्थाने। कावेरीवारिसंयोगेन पावनः पवित्रकरः । वृत्त्यनुप्रासमाह-अनेकस्येति। व्यजन- स्येत्यर्थः । असकृदिति। अत्राप्यनेकस्येत्यनुषज्यते। उन्मीलदिति। वसन्त- वर्णनमिदम्। अमी वसन्तसंबन्धिनो वासराः पथिकः प्रवासिकामुकैः कथंकथमपि 1. छेक इति। अथवा छेका आलयस्थाः पक्षिणस्तेषां हि प्रायो द्विर्भाषितं भवति। तेन छेकभाषितोपलक्षितोऽनुप्रासश्छेकानुप्रास इति। 'छेकस्त्रिषु विदग्धेषु गृहासक्तमृगा- ण्डजे' इति चवर्गादौ रभसः। अयमनुप्रासः सजातीयाव्यवहितद्वित्रादिवर्णानामप्याव- तने संभवति। तथा चोक्तम्-'सजातीयाव्यवहितवर्णा द्वित्रादयो यदि। आवर्तन्ते तदा केचिच्छेकानुप्रासमूचिरे ॥' इति॥ 2. उदाहरणमिति। यथा वा मदीये दशकण्ठवधे-'लीलालोलमरालबाललुलितव्या कोशकोशाम्बुजश्षयोतत्स्फारपरागरागललितं व्यालोलमम्भोभरम्। बिभ्राणां तरुणारुणारुण- मिव प्रावारमुत्कण्ठिता यां कलोलभुजच्छलेन सरयूरालीमिवालिङ्गति ॥' इति। यामयोध्याम्। १. 'स्वरूपतः क्रमतश्च'इति नास्ति क. पुस्तके. २, 'इत्यादिमतभेदेन' घ. ३. 'एष' इति कः, पुस्तके नास्ति.
Page 495
86 साहित्यदर्पणे
नीयन्ते पथिकैः कथंकथमपि ध्यानावधानक्षण- प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ।।' अत्र 'रसोल्ासैरमी' इति रसयोरेकधैव साम्यम्, न तु तेनैव क्रमे- णापि द्वितीये पादे, कलयोरसकृत्तेनैव क्रमेण प्रथमे, एकस्य मकारस्य सकृत्, धकारस्य चासकृत्। रसविषयव्यापारवती वर्णरचनावृत्तिः, तदनु- गतत्वेन प्रकर्षेण न्यसनाद्ृत्त्यनुप्रासः । उच्चार्यत्वाद्यदैकत्र स्थाने तालुरदादिके। सादृश्यं व्यञ्जनस्यैव श्रुत्यनुप्रास उच्यते॥५॥ उदाहरणम्- 'हशा दग्घं मनसिजं जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः ॥।' अत्र 'जीवयन्ति' इति, 'याः' इति, 'जयिनीः' इति। अत्र जकार- यकारयोरेकत्र स्थाने तालावुच्चार्यत्वात्सादृश्यम्। एवं दन्त्यकण्ठ्या- नामप्युदाहार्यम्। एष च सहृदयानामतीव श्रुतिसुखावहत्वाच्छरु- त्यनुपरासः ।
महता कष्टेन नीयन्ते याप्यन्ते। कीदृशाः। उन्मीलतः प्राचुर्येण उत्पद्यमानस्य मधुनो मकरन्दस्य गन्धेन लुब्धा ये मधुपास्तैर्व्याधूतेषु चूताङ्कुरेषु आम्रमुकुलेषु क्रीडतां कोकिलानां काकलीभिः सूक्ष्मध्वनिभिः कलकलैः ग्रौढशब्दैरुद्रीर्णः प्रवासित्वेन नि- क्षिप्तः कर्णेषु ज्वरः पीडा येषु ते। पथिकैः कीदशैः। ध्यानावधानेन ध्यानस्य निष्ठया क्षणं प्राप्तः प्राणसमायाः प्रियायाः समागमरसेन संभोगरसेन उल्लास आह्रादो यैसैः। रसयोः रेफसकारयोः। प्रथमे इति। पादे इत्यन्वयः। तदतिरिक्ाश्छेकानु- प्रासा इह वेदितव्याः। संज्ञाव्युत्पत्तिमाह-रसेति। रसविषयव्यापरो रसव्यज्नं तद्वतीत्यर्थः । वृत्तिश्व त्रिविधा-उपनागरिका, परुषा, कोमला च । तदुक्तं काव्य- प्रकाशे-'माधुर्यव्यञ्ञकैर्वर्णैरुपनागरिकोच्यते। ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः ॥' परैः शेषैः । केचित् कोमलां आ्राम्यां वदन्ति। एतास्तिस्रो वृत्तयो वैदर्भी- गौडीपाश्चालीसंज्ञकरीतित्वेन प्राड् निर्दिष्टा इति ग्रन्थकृतेह नोकाः। तदनुगतत्वेन वृत्त्यनुगतत्वेन। श्रुत्यनुप्रासमाह-उच्चार्यत्वादिति । स्थाने उच्चारणस्थाने। रदो दन्तः। आदिना मूर्धकण्ठोष्ठस्य संग्रहः। अत्र स्रूपतः साम्याभावेऽप्यनुप्रासत्वं आगेवोपपादितम्। दृशेति। विरूपाक्षस्य शिवस्य। संज्ञाव्युत्पत्तिमाह-एष इति। १. 'च' इति नास्ति क-पुस्तके. २. 'स्तुवे' इति कचित्पाठ :.
Page 496
दशमः परिच्छेद:। ४४९
व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु। आवर्त्यतेऽन्त्ययोज्यत्वादन्त्यानुग्रास एव तत् ॥६॥ यथावस्थमिति यथासंभवमनुस्वारविसर्गखरयुक्ताक्षरविशिष्टम्। एष च प्रायेण पादस्य पदस्य चान्ते प्रयोज्यः । पादान्तगो यथा मम- 'केशः काशस्तबकविकासः कायः प्रकटितकरभविलासः । चक्षुर्दग्धवराटककल्पं त्यजति न चेतः काममनल्पम्।।' पैदान्तगो यथा- 'मन्दं हसन्तः पुलकं वहन्तः' इत्यादि। शब्दार्थयोः पौनरुत्तयं भेदे तात्पर्यमात्रतः । लाटानुप्रास इत्युक्तो
अनुप्रासविशेषः । अन्त्यानुप्रासमाह-व्यञ्जनमिति। आवर्त्यते पुनरुच्चार्यते। संज्ञाव्युत्पत्तिमाह-अन्त्येति। अन्त एवान्त्यः। तत्र योग्यलात्। केश इति। प्रकटितः करभस्य उष्टस्य विलासः सादश्यं येन सः। लाटानुप्रासमाह-शब्दार्थ- योरिति। शब्दः प्रातिपदिकं पदं च। भिन्नार्थशब्दपौनरुक्ते यमकस्यैव विषय इति तद्वारणायार्थेति। 'स्मेरराजीवनयने लोचने किं निमीलिते।' इत्यादावर्थमात्रस्य पौनरुत्तये नायमनुप्रास इत्युभयोपादानम्। अर्थस्य पौनरुत्तयं तु पूर्वपदार्थविशेषण- विशेषाभ्यां सहोत्तरपदार्थविशेषणविशेष्ययोरैक्ये संभवति। तेन '-धनेन संवृते सुमुखि व्योम्नि विभाति चन्द्रमाः' इत्यादौ विशेषणयोर्भेंदान्नायमनुप्रासः। नापि 'वपुः कान्तं वचः कान्तं मनस्तु परुषं, तव इत्यादौ विशेष्ययोर्भेदात्। ननु 'यातु यातु किमनेन तिष्ठतु मुञ्च मुश्च सखि सादरं वचः' इत्यादौ करोधादिव्यजके शब्दार्थपौनरुत्तये लाटानुप्रासप्रसङ्ग इत्यत आह-भेद इति। तात्पर्यविषयान्वयमात्रभेदे सतीतर्थः।
- पदान्तग इति। यथा वा-सारासारविदः सतां भयभिदः प्रह्वोपतापच्छिद: कारुण्यार्द्रहृदः प्रपन्नसुहृदः स्फारीभवत्संविदः। त्राताशेषविशः प्रकाशितदिशः कीर्त्या मही- निर्विशः कर्षन्तीश निशः प्रसक्तसुद्ृशस्त्वत्पादपीठस्पृशः ॥' इति स्तुतिकुसुमाञ्जलि- पद्यमुदाहरणीयम्। एतदनुप्रासानुसरणेनैवाश्वघाटीछन्दः सहृदयहृययावर्जकं भवति। तत्र 'न्यायावधिः श्रुतनिकायाकरस्त्रिभुवनायावताररसिकश्छायावधीरितकलायाबलिः कनक- दायादपट्टवसनः। जायास्पृहाजटिलमायातनूविहितकायाभिमानिचरितः पायाददो जगद पायाददभ्रकरुणाया निधी रघुपतिः ॥।' इति मदीयं देवराजचरितपद्यमुदाहार्यम् ॥। 2. लाटेति। प्रकाशे तु-'पदानां स पदस्यापि वृत्तावन्यत्र तत्र वा। नाम्नः सवृत्त्यवृत्त्योश्च तदेवं पश्चधा मतः ॥' इत्यनेन लाटानुप्रासस्य पश्चविधत्वमाम्नातम्, तत्तु टीकाकृता दर्शित-
१. 'प्रयोज्यत्वात्' इत्यधिकं मुद्रितपुस्तके. २. 'सेरराजीव-' इत्यादि: '-भाह' इत्यन्तः पाठः पुस्तकान्तरे नास्ति.
Page 497
४५० साहित्यदर्पणे
उदाहरणम्- 'समेरे राजीवनयने नयने किं निमीलिते। पश्य निर्जितकंदर्पे कंदर्पवशगं प्रियम्।।' अत्र विभत्तयर्थस्य पौनरुत्तयेऽपि मुख्यतरस्य प्रातिपदिकांशद्योत्यध- ्मिरूपस्य भिन्नार्थत्वाल्लाटानुप्रासत्वमेव। 'नयने तस्यैव नयने च।' अत्र द्वितीयनयनशब्दो भाग्यवत्त्वादिगुणविशिष्टत्वरूपतात्पर्यमात्रेण भिन्नार्थः । अत एव 'अन्वयमात्रभेदात्' इति काव्यप्रकाशः। तथा च 'यातु यातु' इत्यादाव- न्वयभेदो नासिति। किं तु क्रोधव्यञ्जकमेव पौनरुत्त्यमिति भावः। नन्वर्थान्तरसंक्र- मितवाच्ये ध्वनावापाततः शब्दार्थयोः पौनरुत्त्यावभासनेऽपि पर्यवसाने वक्त- तात्पर्य विषयविशेषणान्तरप्रतीत्या भिन्नार्थलाभासनेनायमनुप्रास इत्यभिप्रायेणाह- नयने इति। द्वितीयेति भाग्यवत्त्वादिगुणरूपं यद्विशिष्टत्वं विशेषणं तन्मात्रेण वक्तृतात्पर्यमात्रेण भिन्नार्थ इति योजनावैपरीत्येनान्वयः । अत एव 'दैन्येऽथ लाटा- नुप्रासेऽनुकम्पायां प्रसादने। अर्थान्तरसंक्रमितवाच्ये हर्षेऽवधारणे ॥' इत्यर्थान्तर- संक्मितवाच्यघ्वनेः पृथगुपादानं संगच्छते। मात्रपदेन नयनलस्य व्यवच्छेदः । शब्दस्य पौनरुत्तयं द्विरुक्तिः । प्रतिपादिकपौनरुत्तयं च तावदेकस्मिन्समासे विभि- न्नसमासे समासासमासयोश्च संभवतीति त्रिविधम्। यथा-'सितकरकररुचिर- विभा, विभाकराकार, धरणिधर, कीर्तिः। पौरुषकमला, कमला सापि तवैवास्ति नान्यस्य ।I' अत्र करेति प्रातिपदिकावृत्तिरेकस्मिन्समासे, विभेति भिन्ने, कमलेति समासासमासयोश्च। समासासमासगतं प्रातिपदिकपौनरुत्त्यमुदाहरति-समेरेति। फुल्लेत्यर्थः। नन्वत्र प्रातिपदिकस्य पौनरुत्त्यसत्वेऽपि विभत्तयर्थस्य भिन्नलादर्थपौन- रुत्तयं नास्तीति कथमस्य विषय इत्यत आह-अत्रेति। भिन्नलात्पुनरुक्तलात्। पदपौ- नरुक्त्यमप्यनेकानेकपदगतत्वेन द्विविधम्। तत्रैकपदपुनरुक्ते यथा-'वदनं वरव णिन्यास्तस्याः सत्यं सुधाकरः। सुधाकरः क्व नुपुनः कलङ्कविकलो भवेत् ॥' अत्र विभ-
मेव। अत्र कारिकायां वृत्तिपदेन कृत्तद्वितसमासैकशेषसनादयन्तधातुरूपाः पश्चापि वृत्तय उपलक्ष्यन्ते। तेन 'चन्द्रायते शुक्करुचापि हंसो हंसायते चारुगतेन कान्ता।' इत्यादेरपि संग्रहः । कमलाकरादयस्तु-'मधुनि मधुकर त्वं रङ्गमङ्गीकरोषि- इत्यादौ नामैकदेशावृ- त्तावप्यमुमिच्छन्ति। केचित्तु कारिकागतनामपदस्योपलक्षणमूरीकृत्य 'जित्वा विश्वं भवा- नध्य विहरत्यवरोधनैः । विहरत्यप्सरोभिस्ते रिपुवर्गों दिवं गतः ॥' इत्यप्युदाद्दरन्ति ॥
१. 'अतः-' इत्यादि: '-दविरुक्तिः इत्यन्तो अन्थः पुस्तकान्तरे न दृशयते, किंतु तन्न 'अर्था- न्तरसंक्रमितवाच्यध्वन्यादावपि शब्दार्थपौनरुत्तय मुद्देश्यविधेयभावेनान्वयभेदश्वास्तीति तद्वारणाय मात्र पदम् ।' इति पाठ:
Page 498
दशम: परिच्छेद:। ०५१
'यस्य न सविधे दयिता दवदहनस्तुहिनदीघितिस्तस्य। यस्य च सविधे दयिता दवदहनस्तुहिनदीघितिस्तस्य ।।' अत्रानेकपदानां पौनरुत्तयम्। एष च प्रायेण लाटजनप्रियत्वा- ल्लाटानुपरासः । डनुप्रास: पञ्चधा ततः ।।७।। स्पष्टम्। सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः। क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते॥ ८ ॥ किसहितस्य प्रातिपदिकस्य तदर्थस्य च पौनरुत्तयम्। प्रथमं सुधाकरपदं विधेयार्थम्, अपरमनुवाद्यार्थम्। अनेकपदपौनरुक्त्ये उदाहरति-यस्य नेति । अत्र पूर्वार्धे तापकरत्वात्तुहिनदीधितिर्दवदहनः। परार्थे तु तादृशदुःखाजनकत्वाहवदहनोऽपि तु- हिनदीधितिरिति तात्पर्यविषयस्योद्देश्यविधेयभावेनान्वयस्य भेदः। पदार्थानां लभेद एव। मिलिता लाटानुप्रासः पश्चप्रकारः । चरमप्रकारद्वयं पदानुप्रास इत्यन्ये। अयं चान्यैरुभयालंकारतयोक्तोऽपि शब्दविशेषान्वयव्यति रेकानुविधायित्वाङ्गन्थकृता शब्दालंकारमध्ये गृहीतः । यमकालंकारमाह-सत्यर्थ इति । खरव्यज्जनसंहतेः स्वरव्यज्जनसमुदायस्य। स्वरव्यज्जनयोरेकत्वेऽपि यमकं भवति। यथा-'नानाकारेण कान्ताभ्रूराराधितमनोभुवा। विविक्तेन विलासेन ततक्ष हृदयं मम ॥' एतद्वूर्णयमकं वामनसंमतम्। क्रमेणेति। येन क्रमेण प्रथमं सरव्यञ्जनसमूह उक्तस्तेनैवेत्यर्थः ।
पञ्चधा पञ्चप्रकारक इत्यर्थः । 2. यमकमिति। (१) यदि प्रथमपादो द्वितीये यम्यते तदा मुखयमकम् । यथा-'दर्पकान्तक विराजमानयाऽदर्प-कान्त-कविराज-मानया। त्वत्प्रसादविधिलब्ध- या धिया साधवो दधति वैबुधीं धुरम् ।।' (२) प्रथमस्तृतीयपादे चेत्तदा संदंशः । यथा-'सन्नारीभरणोमायभाराध्य विधुशेखरम्। सन्नाऽरीभ-रणोऽमायस्ततस्त्वं पृथिवीं जय ।।' (३) प्रथमश्चतुर्थपादे चेत्तदावृत्तिः। यथा-'मुदाऽडरताडी समराजि- राडजितः प्रवृद्धतेजाः प्रथमो धनुष्मताम्। भवान्बिभर्तीह नगश्च मेदिनीमुदार-ताडी-स- मराजि-राजितः ॥' (४) द्वितीयस्तृतीयपादे चेत्तदा गर्भः । यथा-'आध्यास्यते शम- जुषा भवतः प्रसादादामोदराजि-तरु-चारु चिरं जनेन। दामोदरा जितरुचा-रुचिरञ्ज- नेन कीर्ण तृणेन मृदुना वनमार्तवेन ।।' (५) द्वितीयपादश्चतुर्थे चेत्तदा संदष्टकम् । यथा-शारदीमिव नदीं प्रसादिनीमुच्च-कैरव-सरोज-राजिताम्। स्तोतुमेष मम मूर्तिमैश्वरीमुच्चकैरवसरोऽजराजिताम् ।।' (६) तृतीयपादश्चतुर्थे चेत्तदा पुच्छम्। यथा- 'उत्तुङ्गमातङ्गकुलाकुले यो व्यजेष्ट शत्रून्समरे सदैव। स सारमानीय महारि चक्रं ससार मानी यमहारिचक्रम् ।' (७) प्रथमपादस्त्रिष्वपि यम्यते चेत्तदा पङ्गि:। यथा=
Page 499
४५२ साहित्य दर्पणे
'तनुशङ्करवैरसमायतयातनु शंकर वै रस मायतया। तनु शं करवै रसमायतया- तनुशं कर वैरसमायतया ॥' 'हे शंकर, मा मां रस संभावय। मां प्रति स्ववचनामृतं मुञ्चेति। वै प्रसिद्धौ। कैः। अतनु यथा स्यात्तथा ये तनुशङ्का निःशङ्का रवा भक्तजनं अत्यभयदानवचनानि तैः। कीदृशं मा कर्मभूतम्। असमोऽनन्यसटृशोऽयः शुभावहो विधिर्यस्य सोऽसमायः, तस्य भावस्तत्ता तया असमायतया उपलक्षितम्। कथंभूतया असमायतया। आयतया अनियतया। हे विभो, शं कैवल्यलक्षणं तनु विस्तारय। अहं रसं भक्तिरसं करवै। त्वं मा माम् अतनुशम् अतनुः कामस्तं श्यति तनूकरोतीत्य- तनुशस्तथाभूतं कर। कुर्वित्यर्थः । करेति च्छान्दसः प्रयोगः । 'छान्दसा अपि क्वचिद्भा- षाय, प्रयुज्यन्ते' इति वचनात्। कया हेतुभूतया। वैरसमायतया। वैरेणान्तररिपुसद्भ्ाव- जनितेन, सह मायया वर्तत इति समायः तस्य भावस्तत्ता तथा। कीदृश्या। आय- तया विस्तीर्णया।' इति तदर्थः। 'यमकं तु विधातव्यं न कदाचिदपि त्रिपात्' इति निय- मादेकस्यापरपादद्वयगतत्वेन भेदो न भवतीत्यसंकीणे पादगतं यमकं सप्तधैव। (८) प्रथम: पादश्चतुर्थे पादे द्वितीयस्तृतीये चेद्यम्यते तदावृत्तिगर्भयोगात्परिवृत्तिः । यथा-'मुदा रताइसौ रमणी यता यां स्मरस्यडदोडल कु-रुतेन वोढा। स्मरस्यदोऽलं- कुरुतेऽनवोढामुदारतासौ रमणीयतायाम् ।।' (९) प्रथमो द्वितीये तृतीयचतुर्थे चेद्यम्यते तदा मुखपुच्छयोगाद् युग्मकम्। यथा-'शमित-संगमसज्ज-नताइडपदंशमितसङ्गम- सज्जनतापदम्। न-मत-काममहीन-विभासितं नमत काममहीन-विभा-सितम् ॥' इत्य- र्धाभ्यासमृते पादद्वयावृत्तौ द्वयमिति नव। (१०) अर्धावृत्तिः समुद्रकम्। यथा- कलि-तमोहनमारव-राजितं स्मर हरं शिखि चन्द्रकला-SSन्छितम् । कलितमोहन-मारव- राडजितं स्मरहरं शिखिचन्द्रक-लाव्छितम् ।I' (११) श्रोकावृत्तिर्महायमकम्। यथा- 'सकलशं सकपालमलंकृतप्रमदमस्थिरसं मदनाशनम्। भवमदभ्र-महानिधने हित शमनमज्जनमानमताडलयम् । सकल-शंसक-पालमळं कृतप्रमदमस्थिर-संमद-नाश- नम्। भव-मद-भ्रम-हानिधनेहितं शम-नमज्जन-मान-मताऽडलयम् ।I' 'अदअ्रं यन्म- हद् अनिधनं अविनाशित्वं निजभक्तजनदेयं तत्र हितम्। शमनं यमं मज्जयतीति शमनमज्जनम्। अलयं निर्नाशम्। सकला ये शंसकाः स्तुतिकर्तारस्तान्पालयति तथा भूतम्। कृतः प्रमदः परमानन्दो येन स तादृशम्। भवे संसारे यो मदस्तेन यो भ्रमस्तस्य हानि: सैव धनं येषां ते संसारभ्रमविरक्तास्तैरीहितस्तम्। शमेन नमन्तो ये जनास्तेषां मानार्थ मतोडङ्गीकृत आलयः प्रतिदेहस्थितिरूपो येन स तादृशम्। शेषं स्पष्टम्।' इति तदर्थः । एत्वितयमपि पादावृत्तिविशेष इत्येकादश पादयमकानि। पादभागवृत्ति त्वनेकविधम्- द्विधा विभक्तेषु पादेषु प्रथमादिपादानामाद्यभागा: पूर्ववद्वितीयादिपादेष्वाद्यभागेष्वेव यदि यम्यन्ते तदा पूर्ववन्मुखादयो दश भेदा उत्पद्यन्ते। यथा-प्रथमपादाद्यभागो द्वितीयतृती- यचतुर्थपादाद्यभागेषु यम्यत इति त्रिधा। द्वितीयपादाध्यभागस्तृतीयचतुर्थपादाद्यभागयो- र्यम्यत इति द्विधा। तृतीयपादाद्यभागश्चतुर्थपादाद्यभागे यम्यत इत्येकः । प्रथमपादाद्य- भागस्त्रिष्वप्याद्यभागेषु यम्यत इत्यन्य इति सप्तासंकीर्णभेदाः । प्रथमपादाद्यभागसमानो द्वितीयपादाद्यभागस्तृतीयपादाद्यभागसमा नश्वतुर्थपादाद्यभाग इत्येकः संकरः। प्रथम-
Page 500
दशमः परिच्छेदः। ४५३
अत्र द्वयोरपि पदयोः कचित्सार्थकत्वं क्वचिन्निरर्थकत्वम्। कचिदे- कस्य सार्थकत्वमपरस्य निरर्थकत्वम्। अत उक्तम्-'सत्यर्थे' इति। आवृत्तिः पुनरुच्चारणम्। पदयोः सरव्यञ्ञनसमूहृयोः। क्वचिदिति। 'नगजानगजा दयिता दयिता' इत्यादौ। क्वचिन्निरर्थकत्वमिति। द्वयोरित्यनुषङ्गः। यथा- 'विजितामरतामरेक्षणा' इत्यादौ। अत्र तामरेति समूहयोः पदैकदेशतान्निरर्थकतवम्। एकस्येति । प्रथमस्य द्वितीयस्य वा स्वरव्यञ्जनसमूहस्येत्यर्थः । विविक्विषयतवं विभिन्नविषयत्वम्। यमकादिति शेषः। रसादीनामत्यन्तोपकारिणो यमकप्रपश्चस्य निर्वचनमनतिप्रयोजनमिति संक्षेपेणैव यमकनिरूपणं ज्याय इत्यभिप्रायेणाह- पादाद्यभागस्तृतीयपादाद्यभागसमानो द्वितीयपादाद्यभा ग श्च्् तुर्थपादाद्यभा गसमान इत्यपर: संकर इति नव। अर्धावृत्त्या समं पूर्ववद्दश भेदाः । एवं प्रथमादिपादानामन्त्यभागस्य द्वितीयादिपादान्त्यभागेष्वेव यमने पूर्ववद्दश भेदा जायन्ते। यथा-प्रथमपादान्त्यभागस्य द्वितीयतृतीयचतुर्थभागेषु यमने त्रिधा। द्वितीयपादान्त्यभागस्य तृतीयचतुर्थपादान्त्यभाग- योर्यमने द्विधा। तृतीयपादान्त्यभागस्य चतुर्थपादान्त्यभागे यमने एकः । प्रथमपादा- न्त्यभागस्य त्रिष्वप्यन्त्यभागेषु यमन इत्यपर इति सप्तासंकीर्णाः । प्रथमपादान्त्यभागद्वि- तीयपादान्त्यभागयोस्तृतीयपादान्त्यभागचतुर्थपादान्त्यभागयोश्च साम्ये एक: संकरः। प्रथ-
संकर इति नव। अर्धावृत्त्या समं पूर्ववद्दशभेदाः । इत्थं द्विखण्डीकृतेषु पादेषु विंशतिः, त्रिखण्डीकृतेषु त्रिंशत्, चतुःखण्डीकृतेषु चत्वारिंशद्भेदाः स्थानापरिवर्तिनो भवन्ति । मतेषामुदाहरणानि पादावृत्तिदिशैवावसेयानि। अथ स्थानपरिवर्तनभेदाः-प्रथमादि- पादानामन्त्यादिभागा द्वितीयादिपादानामाद्यादिभागेषु यम्यन्त इत्याद्यन्वर्थतानुसरेणा- न्ताद्यादियमकादयः प्रभेदा भवन्ति। तथाहि-द्विखण्डे यथा प्रथमपादस्यान्त्यमर्ध द्वितीय- पादस्याद्यार्थे चद्यम्यते तदान्तादियमकम्। प्रथमभाग एव चेदन्त्यभागे तदाद्यन्तयम- कम्। एवं प्रथमपादस्याद्यान्तभागौ द्वितीयस्यान्तादिभागयोर्यदि यम्येते तदाद्यन्तादियम- कयोः समुच्चयः । अत्र त्रिखण्डचतुःखण्डयोः पूर्वपादमध्यभाग उत्तरपादस्यादिभागे यदि यम्यते तदा मध्यादियमकम्। पूर्वस्यादिभागश्चेदुत्तरपादस्य मध्यभागे तदादि- मध्ययमकम्। पूर्वस्य मध्यादिभागौ चेदुत्तरस्याद्यमध्ययोस्तदा मध्याद्यादिमध्ययोः समुच्चयः। एवं प्रथमस्यान्त्यभागो द्वितीयस्य मध्यभागे चेत्तदान्त्यमध्यम्। पूर्वस्य मध्यभागश्चेद्वितीयस्यान्तभागे तदा मध्यान्तिकम्। पूर्वस्यान्त्यमध्यभागौ चेद्वितीयस्य मध्यान्तभागयोस्तदान्त्यमध्यमध्यान्तयोः समुच्चयः । यद्यपि पूर्वस्यादिभाग उत्तरस्यान्त्य- भागे चेत्तदाद्यन्तकमन्त्यभागस्त्वाद्यभागे चेत्तदातादिकमित्यादि प्रकारद्वयं संभवति, तथापि द्विखण्डान्तर्गतमेव तदिति पृथङ गण्यते। सर्वेषां चैषामपरः समुच्चय इति भिन्नपादे यमने प्रभेदाः। एवं तस्मिन्नेव पादे आदयादिभागानां मध्यादिभागेष्वावृत्तौ भेदा द्रष्टव्याः। सर्वे चैते नियतस्थानविवक्षया स्थानयमकभेदा नियतेषु स्थानेष्वावृत्ते रिति बोध्यम्। अनियतस्थानयमकभेदा अपि बहवो भवन्तीति प्रभूततमभेदं यमकम्। एतेषामुदाहरणानि तत्र तत्र महाकविप्रयोगेष्वनुसंधेयानि, विस्तरभयान्नेह प्रपध्यन्ते॥
Page 501
४५४ साहित्यदर्पणे
तेनैव क्रमेण दमो मोद इत्यादेर्विविक्तविषयत्वं सूचितम्। एतच् पाद- पदार्घश्लोकावृत्तित्वेन पादाद्यावृत्तेश्वानेकविधतया प्रभूततमभेदम् ।
'नवपलाश-पलाशवनं पुरः स्फुटपराग-परागत-पङ्कजम्। मृदुल-तान्त-लतान्तमलोकयत्स सुरमिं सुरभिं सुमनोभरैः ॥।' अत्र पदावृत्तिः 'पलाशपलाश' इति, 'सुरभिं सुरभिं इत्यत्र प द्वयोः सार्थकत्वम्। 'लतान्तलतान्त' इत्यत्र प्रथमस्य निरर्थकत्वम्। 'परागपराग' इत्यत्र द्वितीयस्य। एवमन्यदप्युदाहार्यम्। 'यमकादौ भवेदैक्यं डलोर्बवोर्लरोस्तथा।' एतञ्चेति। यमकं चेत्यर्थः। अत्र पदपदं पादैकदेशपरम्, अर्धपदं श्रलोकार्धपरम्। पादाद्यावृत्तेश्चेति। पादस्य द्विधा त्रिधा चतुर्धा वा खण्डने चानेकविधलम्। आदिना पादश्लोकार्थयोः संग्रहः। तत्र प्रथमपादस्य द्वितीयाद्यन्यतमस्मिन्द्वितीयादि- समुदाये च, द्वितीयस्य तृतीयान्यतरस्मिंस्तृतीयादिसमुदाये च, तृतीयस्य चतुर्थे आवृत्ति: संभवतीति दशविधलमेव पादयमकस्य। एवं प्रथमार्धस्य द्वितीयार्धे, प्रथमपादस्य द्वितीये, तृतीयस्य चतुर्थे, द्वितीयस्य तृतीये पादे आवृत्ति: संभवतीति श्लोकार्धयमकस्य त्रैविध्यम्। श्रोकयमकमपि विजातीयचतुष्पादवृत्त्या च द्विविधम्। अ्रभूततमभेदमतिप्रचुरप्रकारम्। दिख्वात्रमिति। प्रकारान्तरोपलक्षणमल्पमित्यर्थः। नवेति। नवानि पलाशानि पत्राणि येषां तादृशं पलाशवनं किंशुकारण्यं यत्र तम्। स्फुटानि विकसितानि परागै रजोभि: परागतानि संबद्धानि पड्डजानि यत्र तम् । मृदुलोऽत एव तान्त आतपेन ग्लानो लतान्तो यन्न तम् । स श्रीकृष्णः सुराभं वसन्तं सुमनोभरैः पुष्पातिशयैः सुरभिं सुगन्धिम् । पदावृत्तिः पादैकदेशावृत्तिः । द्वितीयस्येति। निरर्थकत्वमित्यन्वयः। अन्यद्पीति। पादवृत्त्यादिरूपयमक- मित्यर्थः। पादाभ्यासो यथा-'न मन्दयाऽवर्जित-मान-सात्मया नमन्दया-वर्जित- मानसात्मया। उरस्युपास्तीर्णपयोधरद्वयं मया समालिज्ञयत जीवितेश्वरः ॥' इत्यादि। अर्धाभ्यासो यथा-'नाऽस्थेयसत्वया वर्ज्यः परमायत-मानया। नास्थेयः स त्वया S5वर्ज्य: परमायतमानया ।' इत्यादि। शलोकावृत्तिदयं क्र्मेण यथा-'विनायकेन भवता वृत्तोपचितबाहुना। खमित्रोद्धारिणाऽभीता पृथ्वीयमतुलाश्रिता॥ विनायकेन भवता वृत्तोपचितबाहुना। खमित्रोद्वाऽरिणाऽमीता पृथ्वी यमतुलाश्रिता।' 'समा- नयास माऽनया समानयाऽसमानया। समानया समानया समान या समानया।' अयं चतुरक्षरपादश्लोकः। यमकादावित्यादिना शेषादिग्रहणम्। तेन 'त्वं समुद्रश्च 1. यमकादाविति। अत्र विशेष :- 'यमकादौ भवेदैक्यं डलयो रलयोर्बवोः। शेष- योर्नणयोश्वान्ते सविसर्गाविसर्गयोः । सबिन्दुकाबिन्दुकयोः स्यादभेदप्रकल्पनम् ॥' इति ॥ १ .- 'पद' घ.
Page 502
दशमः परिच्छेदः । ४५५
इत्युक्तनयात् 'भुजलतां जडतामबलाजनः' इत्यत्र न यमकत्वहानिः। अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद्यदि। अन्यः श्रेषेण काक्ा वा सा वैक्रोक्तिस्ततो दविधा ॥ ९॥ द्विघेति श्रेषवक्रोक्तिः काकुवक्ोक्तिश्च। क्रमेणोदाहरणम्- 'के यूयं स्थल एव संप्रति वयं प्रश्नो विशेषाश्रयः किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः । वामा यूयमहो विडम्बरसिक: कीदक्स्रो वर्तते येनास्मासु विवेकशून्यमनसः पुंस्वेव योषिङ्भ्मः ॥।' अन्र विशेषपदस्य विः पक्षी''शेषो नागः'इत्यर्थद्वययोगात्सभङ्गश्लेषः। अन्यत्र त्वभङ्गाः ।
दुर्वारो महासत्त्वौ सतेजसौ। अयं तु युवयोर्भेदः स जडात्मा पटुर्भवान् I'इत्यादौ न श्लेषभङ्गः। वक्रोत्तयलंकारमाह-अन्यस्येति। वक्तरित्यर्थः। अन्यार्थकमन्य- तात्पर्यकम्। अन्यथा अर्थान्तरप्रतिपादकत्वेन योजयेत् संगमयेत्। अन्यः श्रोता। नतः शलेपकाकुवक्रोक्तिभ्याम्। श्रेषस्यापि पदभङ्गाभङ्गाभ्यां द्वैविध्येन श्ेषवकोक्तिरपि दिविधा। के यूयमिति। जले यूयमित्यर्थान्तरे संगमयञश्रोताह-स्थल इति। वक्ता स्तात्पर्यमेवावमयन्नाह-प्रश्न इति। विशेषाश्रयो विशेषविषयः । वि: पक्षी शेपोऽनन्त इत्यभिप्रायेण तदपि श्रोतान्यथा योजयति-किं ब्रूत इति। किं पृच्छतीत्यर्थः । एवं वाक्छलेन कदर्थितो वक्ता श्रोतारमाक्षिपति-वामा इति। प्रतिकूलतया छलग्राहिण इत्यर्थः । तदपि योषिदभिप्रायेण श्रोतान्यथा योजयति- अहो इति। विडम्बरसिक: प्रतारणाचतुरः । येन स्मरविडम्बनेन विवेकशून्यस- नसः । तव इति शेपः । यद्वा सामान्येनाक्षेपो विशेषे पर्यवस्यतीति वाग्वैदग्ध्यमू। तत्रैव श्लेषवक्रोक्तिद्वैविध्यं दर्शयति-अन्नेति। नागो नागराजः । अर्थद्वयप्रयो-
- अन्नेति। अत्र कालिदासपदे डकार-लकारयोमेदसर्वेऽपि श्रुतिसाम्यान्न यमकत्व- व्याघात इत्यर्थः ॥ 2. वक्रोकिरिति। एकेनान्याभिप्रायेणोक्तं वाक्यं यद्यन्येनान्याभिप्रायकं कल्प्यते तदा वकरोक्तियोगादू वक्रोक्तिरिति। वक्तश्रोतृनिर्वाह्योऽयमलंकार इति भावः। अत्र प्रदीपका- रास्तु-"इयं च न वाकोवाक्यमात्रे कि तु स्वतोऽप्यन्येनोक्तस्यान्यथायोजनमात्रे। न्यायसा- म्यात्। यथा-'कृष्णो वैरिविमर्दने हरिपदप्रीत्यर्जने त्वर्जुनः पीतः पङ्कजलोचनाभिर- भितो नेत्राञ्चलैश्चथलैः । रक्त सज्जनसंगमेषु करणश्रेणीमणे श्रीधर स्थाने वर्णचतुष्ट्यस्य भुवने भर्ता भवान्गीयते ।।' अत्र वर्णचतुष्टयस्य भर्ता श्रीधर इति सार्वलौकिकं वाक्यमन्व- या्रेषादिनास्माभि: समर्थितम्॥" इत्याहुः ॥ 3. अभङ्ग इति। 'अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रयते बुद्धि-
Page 503
४५६ साहित्यदर्पणे
'काले कोकिलवाचाले सहकारमनोहरे। कृतागसः परित्यागात्तस्याश्रेतो न दूयते ।।' अत्र कयाचित्सख्या निषेधार्थे नियुक्तो नञ् अन्यथा काक्का दूयत एवेति विध्यर्थे घटितः । शब्दैरेकविधैरेव भाषासु विविधासपि। वाक्यं यत्र भवेत्सोडयं भाषासम इतीष्यते ॥ १० ॥ यथा मम- 'मञ्जुलमणिमञ्जीरे कलगम्भीरे विहारसरसीतीरे। विरसासि केलिकीरे किमालि घीरे च गन्घसारसमीरे ॥' एष श्लोकः संस्कृतप्राकृतसौरसेनीप्राच्यावन्तीनागरापभ्रंशेष्वेक- विध एव। 'सरसं कइण कव्वं' इत्यादौ तु 'सरसं' इत्यत्र संस्कृतप्राकृतयोः साम्येऽपि वाक्यगत- त्वाभावे वैचित्र्याभावान्नायमलंकारः । श्लिष्टैः पदैरनेकार्थाभिधाने श्लेष इष्यते। ज्यत्ात्प्रतिपाद्यद्ये संगमनीयल्ात् । काकुवक्रोक्तिमुदाहरति-काले इति। कृतागसः कृतापराधस्य। पत्युः इति शेषः । घटितो योजितः। भाषासमावेशालं- कारमाह-शब्दैरिति। मस्जुलेति। मानिनीं प्रति सख्या वचनमिदम्। कलेन मधुरध्वनिना गम्भीरे मनोहरे। केलिकीरे करीडाशुके। धीरे मन्दे। गन्धसारसमीरे चन्दनवायौ। कइण कव्वं कवेः काव्यम्। श्ेषालंकारमाह-श्विष्टैरिति। 'सकृ- दुचरितः शब्दः सकृद्थ गमयति' इति नियमेन काव्ये खरभेदानादरादू यावन्तोऽर्था- ने तु दारुमयी क्वचित् ।I' इत्यत्र दारुणा क्रूरा, काष्ठेनेत्युभयार्थपक्षेऽरपि दारुणेति पदस्य न भङ्ग इत्यभङ्गपदश्रेषेण वक्रोक्तिरियम्।। 1. नेति। न दूयते, अपि तु दूयत एवेति काक्का योजना। अत्र काको: शब्दधर्मतया शब्दालंकारता; अन्यथा योजनं च व्यज्जनयेति सहृदयाः ॥ 2. यथेति । यथा वा विद्याधिपरनास्नो रल्नाकरस्य-'लीलाविलोलकलकण्ठवि- हंगके लिकोला हलाकुलकुलायकुलामलाङ्के। । कक्कोलकन्दकदलीलवलीलवङ्गमालाललाम- चलमअ्जलकूलकच्छे।।' अयं श्रोको भाषाषङ्गसमः । एतदनुबन्ध्युत्तरश्रोकस्तु-'यस्ि- न्सलीलमसितोन्नतगण्डशैलनाग: करोति विकरालकरावमर्षात्। रक्तातपाभिनवपल्लवभङ्ग- मर्कबिम्बालवालवलयस्य दिनद्रुमस्य ॥' इति। मन्दराद्रिवर्णनमेतत्। १. 'सूक्ष्म' इत्यधिकं पुस्तकान्तरे.
Page 504
दशमः परिच्छेदः । ४५७
वैर्णप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि ॥ ११॥ श्लेषाद्विभक्तिवचनभाषाणामष्टधा च सः । क्रमेणोदाहरणम्- 'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता। अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥' अत्र 'विधौ' इति विधु-विधि-शब्दयोरुकारेकारेयोरौकाररूपत्वाच्छेषः । 'किरणा हरिणाङ्कस्य दक्षिणश्च समीरणः । कान्तोत्सङ्गजुषां नूनं सर्व एव सुधाकिरः ॥' स्तावन्त एव शब्दा एकप्रयत्नेनोच्चार्यन्त इति नये युगपन्नानाशन्दोच्चारणेऽपि तेषां भेदोपलम्भो न भवति। तत्रापि प्रकरणादिनियमाभावादनेकार्थानामभिघयैव बोधः। प्रकरणादिनियमसत्वे तु एकस्याभिधयापरस्य व्यञ्जनयेति मतमाश्रित्येदं लक्षणम्। एवं चैकप्रयत्नोच्चार्यत्वेन लुप्तभेदानां वर्णादीनां मेलकः श्लेषः, तद्विशिष्टैः पदैरनेकार्था- नामभिधया बोधने सति श्लेषो भवतीत्यर्थः । एवं सति नात्माश्रयः। श्लिष्टवर्णादिभे- देन लेषस्याष्टविधतवमाह-वर्णेति। वणौं च प्रत्ययौ च लिङ्गं चेति विग्रहः ।स शे- षालंकारः। प्रतिकूलतामिति। सूर्यास्तवर्णनमिदम्। पतिष्यतोऽस्तं गमिष्यतो दिन- भर्तुः सूर्यस्य किरणसहस्रमप्यवलम्बनाय अस्तमयविघाताय नाभूत्। अथ च पतिष्यतः सखलिष्यतो जनस्य करद्वयमपि पतनविघाताय भवति। तस्य तु करसहस्त्रमप्यवलम्बनाय नाभूदिति श्लेषः। अर्थद्वूयमपि श्लेषेण समर्थयति-प्रतिकूलतामिति। विधौ चन्द्रे प्रति- कूलतां विरुद्धफलभागिलम्। उदयफलभागितमिति यावत्। बहुसाधनता बहुस्थित्यु- पायशालितं विफलतामेति। तथा च कालान्तरे सूर्यास्तगमनं प्रति तत्कालीनकिर- णानां प्रतिबन्धकत्वं कल्प्यते। एवं च संध्याकाले तत्कालीनकिरणरूपप्रतिबन्धकानां सद्भावेऽपि सूर्यास्तगमनममिथ्येति प्रथमार्थसमर्थनम्। पक्षे-विधौ दैवे प्रतिकूल- तामनभिमतफलसावनोन्मुखतामुपगते सति। बह्वभिमतफलोपायशालितं विफलता- 1. वर्णेति। रुद्रटस्तु वर्णादि्रेषाणां प्रत्येकं लक्षणमाह-'यत्र विभक्तिप्रत्ययवर्णवशा- दैकरूप्यमापतति। वर्णानां विविधानां वर्णश्रेपः स विज्ञेयः ॥ यत्र प्रकृतिप्रत्ययसमुदायानां भवत्यनेकेषाम्। सारूप्यं प्रत्ययतः स ज्ञेयः प्रत्ययश्रेषः ॥ स्त्रीपुंनपुंसकानां शब्दानां भकति यत्र सारूप्यम्। लघुदीर्घत्वसमासैर्लिङ्गश्रलेषः स विज्ञेयः ॥ सिध्यति यत्रानन्यैः सारूप्यं प्रत्ययागमोपपदैः । प्रकृतीनां विविधानां प्रकृतिक्रेषः स विज्ञेयः ॥ यस्िन्विभ- क्तियोग: समासयोगश्च जायते विविधः । पदभङ्गेषु विभक्तो विज्ञेयोऽसौ पदश्रेषः । सा- रूपयं यत्र सुपां तिडां तथा सरवथा मिथो भवति। सोऽत्र विभक्तिक्रेषो वचनश्रेषस्तु व चनानाम् । यस्मिन्नुच्चार्यन्ते सुव्यक्तविविक्तभिन्नभाषाणि। वाक्यानि यावदर्थ भाषाश्रेषः स विज्ञेयः ॥' इति ॥ १. 'वर्णयोः' इत्यधिकं घ-पुस्तके. सा० द०३९
Page 505
४५८ साहित्य दर्पणे
अत्र 'सुधाकिरः' इति क्विप्-क-प्रत्यययोः । किं चात्र बहुवचनैकव- चनयोरैकरूप्याद्वचन श्लेषोडपि। 'विकसन्नेत्रनीलाब्जे तथा तन्व्याः स्तनद्यी। तव देत्तां सदामोदं लसत्तरलहारिणी ।।' अत्र नपुंसकस्त्रीलिङ्गयोः श्लेषो वचनश्रेषोऽपि। 'अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वैक्ष्यति। सामर्थ्यकृदमित्रणां मित्राणां च नृपात्मजः ॥' अत्र 'वक्ष्यति' इति वहि-वच्योः, 'सामर्थ्यकृत' इति कृन्तति-क- रोत्योः प्रकृत्योः। 'पृथुकार्तसवरपात्रं- इत्यादि। अन्र पदभङ्के विभक्तिसमासयोरपि वैलक्षण्यात्पदश्रेषः, न तु प्रकृतिश्रेषः । एवं च-
मेतीत्यर्थः । प्रत्ययश्लेषमुदाहरति-किरणा इति। क्किपू-क-प्रत्यययोरिति। शलेष इत्यनुषङ्ग: । एवमग्रेऽपि। क इत्यत्प्रत्ययस्य संज्ञा। वचनश्लेषोऽपीति। सर्व इति, सुधाकिर इति च। अन्रादौ संधिवशादैकरूप्यम्। लिङ्गश्लेषमुदाहरति- विकसदिति। 'दत्ताम्' इति दाधातोः परस्मैपदद्विवचनात्मनेपदैकवचनयोरपि श्लेषः । आमोदमानन्दम् । अथ च नीलाब्जयोः सौरभदानं संभवति। नेत्रपक्षे- लसन्ती च तरले च हारिणी च मनोहरे चेति विग्रहः। स्तनद्वयीपक्षे-लसंस्तर लो हारमध्यगो मणिर्यत्र, सा चासौ हारिणी चेति विग्रहः । यद्ा लसंस्तरलो यत्र, एवंभूतो हारो यत्रास्ति। कर्मधारयोत्तरमतुन्निषेधस्य प्रायिकत्वादेतत्साधुवचनम् । श्लेषोऽपीत्यपिना णिन्प्रत्ययस्य इन्प्रत्ययस्य च श्लेषः । प्रकृतिश्लेषमुदाहरति-अ- यमिति । राजपुत्रे जाते ज्योतिर्विदो वचनमेतत्। हृदि वक्ष्यतीति वह- धातुः । ज्ञेषु पण्डितेषु वक्ष्यतीति वचधातुः । अमित्राणां सामर्थ्यच्छेत्ता, मित्राणां सामर्थ्यस्य कर्ता। पदश्लेषमुदाहरति-पृथुकेति। व्याख्यातमिदं दोषपरिच्छेदे। नन्वत्र प्रकृतिश्लेषोऽपि संभवतीत्यत आह-अत्र पदभक्के अर्थबोधनाय समस्त- पदस्य पार्थक्ये। विभक्तिसमासयोरपीत्यपिना प्रकृतेः संग्रहः। विभक्तिरत्र समा- 1. सुधाकिर इति। सुधां किरन्तीति क्विपि प्रथमाबहुवचनम्। सुधां किरतीति क-प्र- त्यये प्रथमैकवचनम्।। 2. दत्तामिति। विकसन्नेत्रनीलाब्ज इत्यस्य कर्तृत्वे दत्तामिति लोटि परस्ैपदद्विवच- नम्, स्तनद्यीत्यस्य कर्तृत्वे त्वात्मनेपदैकवचनमिति बोध्यम्।। 3. वक्ष्यतीति। धारयिष्यति, कथयिष्यतीति यथाक्र्मं योजना ॥ 4. सामथ्येति। सामर्थ्य कृन्ततीति करोतीति यथायोगमनुसंधेयम् ॥ १. 'नपुंसकस्त्रीलिङ्गयो: श्रेषः' इति नास्ति क ख-पुस्तकयोः. २. 'च' क. ३. 'वचनम्' इति नास्ति पुस्तकान्तरे.
Page 506
दशमः परिच्छेदः । ४५९
'नीतानामाकुलीभावं लुब्घैर्भूरिशिलीमुखैः। सदशे वनवृद्धानां कमलानां तदीक्षणे ।।' अत्र लुब्घशिलीमुखादिशब्दानां क्िष्टत्वेऽपि विभक्तेरमेदात्प्रकृति- श्ेषः । अन्यथा सर्वत्र पदश्रेषप्रसङ्ग: । 'सर्वखं हर सर्वस्य त्वं भवच्छेदतत्परः । नयोपकारसांमुख्यमायासि तनुवर्तनम् ।I' अत्र 'हर' इति पक्षे शिवसंबोधनमिति सुप्। पक्षे हृधातोस्तिडिति विभक्तेः। एवं 'भव' इत्यादौ। अस्य च भेदस्य प्रत्ययश्रेषेणापि ग- तार्थत्वे प्रत्ययान्तरासाध्यसुबन्ततिडन्तगतत्वेन विच्छित्तिविशेषाश्रय- णात्पृथगुक्तिः । साङ्म्। क्वचित्पदभङ्गाभावेऽपि प्रकृतिविभक्तिवैलक्षण्येन पदश्लेषो यथा-'येस्य चेतः प्रियालोके तस्य स्मरकदर्थनम् ।' अत्र यद्यसोस्तत्तसोः प्रकृत्योः सुप्तिडो र्विभत्त्योरपि वैलक्षण्यात्पदश्लेषः । एवं च प्रकृतिविभक्तिवैलक्षण्येन पदश्लेषाङ्गीकारे च। नीतानामिति। तस्या ईक्षणे कमलानां पम्मानां मृगविशेषाणां च सदशे। 'मृगभेदेऽपि कमलः कमला श्रीवरस्त्रियोः' इति मेदिनी। कीदृशानाम्। उब्धैर्मधु- लुब्धैर्भूरिभि: शिलीमुखैभ्रमरैराकुलीभावं नीतानाम्। पक्षे-उुन्धैव्यावैर्बहुभिर्बाणै- व्याकुलीभावं व्याकुलतां नीतानाम्। वने जले, विपिने च वृद्धानां प्राप्ताधिकरूपा- णाम्। ईक्षणेऽपि, पद्मिनीमुखे पतद्भिर्भ्रमरैर्व्याकुलतं नीयते। अन्यथा प्रकृति- भेदमान्रेणापि पदश्लेषाङ्गीकारे सर्वत्र प्रकृतिश्लेषस्थले। एवं च पदश्लेषासंकीण प्रकृ- तिश्लेषोदाहरणं न स्यादिति प्रकृतिश्लेषोच्छेदप्रसङ्ग इति भावः । विभक्ति ्लेषमाह- सर्वस्वमिति। शिवं प्रति तद्भक्तस्य, पुत्रं प्रति दास्याश्चोक्तिरियम्। प्रथमे-हे हर, लं, सर्वस्य जनस्य सर्वस्म्, भवस्य संसारस्य छेदतत्परश्च, नयस्योपकारस्य च सांमुख्यं यस्मात्तादृशं तनुवर्तनं शरीरवृत्तिमायासि। प्राप्नोषीत्यर्थः । द्वितीये-वं सर्वस्य सर्वसवं हर। छेदे धनिनां मारणे तत्परो भव। उपकारसांमुख्यं नय अपनय। तद्विमुखो भवेत्यर्थः । आयासि परपीडाकारि वर्तनं जीवनोपायं तनु। विस्तारये- त्यर्थः । अस्य च विभक्तिश्लेषपरस्य च। प्रत्ययश्लेषेणापीत्यपिर्भिन्नकमे। प्रत्ययश्ले- षेण गतार्थत्वेऽपीत्यर्थः । प्रत्ययान्तरेणासाध्यं यत्सुबन्तं तिडन्तं च तद्गतत्वेन वि- च्छित्तिविशेषाश्रयणाद् वैचित्र्यविशेषजननात्। कृत्तद्वितान्तस्य स्वादिव्यतिरेकेण प्रयोगाभावात् प्रत्ययान्तरसाध्यतम्, सुप्तिङन्तस्य तु न तथातवमिति विशेषः । 'आयासि' इत्यत्र प्रकृतिविभक्तिवैलक्षण्येन पदश्लेषोऽपीत्यवघेयम्। भाषाश्लेष- 1. यस्येति। यसो दैवादिकस्य तसश्च लोण्मध्यमपुरुषैकवचने यस्य तस्येति। यत्तदोः षष्ठयेकवचनेऽपि। तदाह-अत्र यद्यसोरित्यादिना॥ १. 'प्रसङ्गात्' क. २. 'च' इत्यधिकं ध-पुस्तके.
Page 507
४६० साहित्यदर्पणे
'महदे सुरसंधं मे तमव समासङ्गमागमाहरणे। हर बहुसरणं तं चित्तमोहमवसर उमे सहसा ॥' अत्र संस्कृतमहाराष्ट्रयोः ।
माह-महदे इति। संस्कृतार्थो यथा-हे महदे उत्सवदे, हे उमे हे गौरि- आगमाहरणे विद्याग्रहणे मे मम तं प्रसिद्धं समासङ्गं अव रक्ष। कीदृशम्। सुरसंधं देवप्रार्थनीयम्। अवसरे समये तं प्रसिद्धं चित्तमोहं सहसा झटिति हर अपनय। कीदशम्। बहुसरणं बहुविषयगामिनम्। प्राकृतार्थस्तु-मह-मम, देसु-देहि, रसं-रति म्। धम्मे-वर्मे, तमवसं-तमोवशाम्,आसं-आशाम्, गमागमा-संसारात, हर-अ- पनय, णे-अस्माकम्, हरवहु-शिववधूः, सरणं-रक्षयित्री, तं-त्वम्, चित्तमोहं-चित्त- मोहः, अवसरउ-अवसरतु, मे-मम, सहसेति। भाषासमावेशे तु भाषाणामैकरूप्यमेव,
- संस्कृतेति। संस्कृतप्राकृतयोरित्यर्थः । उत्कृष्टं प्राकृतं महाराष्ट्रीति व्यपदिश्यते। न तु 'भक्तिविना वश नोहे वीण्यानें वा मृदंगनादानें। कन्यादानफलाते पावे कैसा मृदं- गनादानें ।' इत्यादिमहाराष्ट्रजनसुप्रसिद्धगाथेति। तथा चोक्तं दण्डिना-'महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः । सागरः सूक्तिर क्तानां सेतुबन्धादि यन्मयम् ॥' इति। संस्कृ- तमागध्यो: श्रेषो यथा-'कुललालिलावलोले शलिलेशे शालशालिलवशूले। कमलाशवलालिवलेडमाले दिशमन्तकेऽविशमे ।I' 'कुररालिरावरोलं सलिलं तत्सा- रसालिरवशूरम् । कमलासवलालिवरं मारयति शाम्यतो विषमम् ।' इति मागधी- छाया। 'कूलानि लालयन्ति पोषयन्त्येवंशीला ये तेषां लावे छेदने लोलस्तस्मिन्। शलन्तीति शलाः सोधमाः ते सन्ति यत्र देशे स शली तं लिशत्यल्पीकरोतीति शलिले- शस्तस्मिन्। शालैगृहैः शालन्ते शोभन्ते ये तांलुनातीति शालशालिलवः स चासौ शूलं चेति, दुःखजनकत्वात्, तथाभूते। कमला लक्ष्मीस्तस्याः शवा दरिद्रास्तेपु ललति लस- तीत्येवंशीलं बलं यस्य स तस्मिन्। मलनं माल:, न विद्यते मालो यस्यासावमाल- स्तस्मिन्। 'मल धारणे'। अनिवार्य इत्यर्थः । अन्तके मृत्यौ सति स वासुदेवे विषये या दिञ्ार्गस्तां दिशमविशं प्रविष्टोऽस्मि ।' इति संस्कृतवाक्यार्थः । मागधस्तु-'कुरराणां प० क्षिविशेषाणां या आलि: पङ्गिस्तद्रावै रोल: कलकलो यत्र तत्। सारसानां यालिस्त- द्रवेण शूरं तद्विरहिमारणसमर्थम्। कमलानामासवं मकरन्दं ये लान्ति ते च तेडलिनश्च तैर्वरम्। विषमं वियोगिजनदुःखावहं तत्सलिलं शाम्यतः शमजुषोऽपि मारयति। शरदि- तादृशं सलिलं विलोक्य मुनयोऽपि क्षुभ्यन्ति। इति। संस्कृतपैशाच्योर्यथा-'कमनेकत- मादानं सुरतनरजतु च्छलं तदासीनम्। अप्पतिमानं खमते सोऽगनिकानं नरं जेतुम्।" 'कामे कृतामोदानां सुवर्णरजतोच्छलद्दासीनाम्। अप्रतिमानं क्षमते स गणिकानां न रञ्ज. थितुम् ।' इति पैशाचीछाया। 'हे सुरतनः निधुवनपुरुष। सुरतातिरिक्ते कर्मणि न ते- डभिज्ञतेत्यामत्रणाभिप्रायः । खमते शून्यबुद्धे, यस्त्वया श्राध्यते स पुरुषः क नरं जेतु- मजतु गच्छतु। अहो, न तादृशः पुरुषो यं स जेष्यतीति। किंभूतम्। अनेकतमान्या-
Page 508
दशम: परिच्छेद:। ४६१
पुनस्त्रिधा सभङ्गोऽथाभङ्गस्तदुभयात्मकः ॥१२ ॥ एतद्भेदत्रयं चोक्तभेदाष्टके यथासंभवं ज्ञेयम्। यथा वा- 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजंगहारवलयोगङ्गां च योऽधारयत्। न त्र्थभेदः। इह लर्थभेदोऽपीति भेदः। यथासंभवमिति। 'पृथुकार्तस्वर-'इत्यादौ सभङ़गः । 'नीतानाम्-' इत्यादावभङ्गः। 'सर्वखं हर-' इत्यादौ सभङ्गाभङ्ग: । एक - त्रैव तत्रितयमुदाहरति-यधा वेति। सर्वदःसर्वाभीष्टदाता माधवः, सर्वदा उमा- दानानि यस्य ताम्। तत्प्रसिद्धं छलं मायामासीनमाश्रितम् । अप्पतेर्वरुणस्येव मानो यस्य तम्। अगा अचला निकाना दीप्तिर्यस्य तम्।' इति संस्कृतवाक्यार्थः । पैशाचस्तु 'स पुरुषो रज्जयितुमात्मरज्जनाय कामविषये कृतामोदानां सुवर्णरजताभ्यामुच्छलन्त्ो दास्यो यासां तथाभूतानां गणिकानामप्रतिमानं न क्षमते न सहते। तदानीमादरमभिलषतः कस्यचिदुपकृतगणिकस्योक्तिरियम् ।' इति। संस्कृतसूरसेन्योर्यथा-'तोदी सदिगगणमदो- डकलहं स सदा बलं विदन्तरिदम्। आर दमेहावसरं सासदमारं गदासारम्।' 'ततो दृश्यते गगनमदः कलहंसशतावलम्बितान्तरितम्। आरतमेघावसरं शाश्वतमारं गतासा- रम् ।' इति। सूरसेनीच्छाया। 'तुदति परानिति तोदी, देशनं दिग् उपदेशः तया सह वर्तत इति सदिक न गणेन सहायेन मदो यस्य सः, स वित्, सदा सर्वकालमेव अक- लहं परिभूतत्वान्निर्वैरम्, अत एव दमेहाया उपशमचेष्टाया अवसरो यस्य तत्, तथास्यन्ते क्षिप्यन्ते इत्यासाः शरास्तान्यन्ति खण्डयन्तीत्यासदा धानुष्काः सह तैवर्तत इति सास- दम्, गदासारम्, इदमारमरिसक्तं बलमन्तर्मध्ये आर ससार।' इति संस्कृतवाक्यार्थः । सौरसेनस्तु-'आरतो निवृत्तो मेधानामवसरो यत्र। शाश्वतो मारः कामो यत्र। गत आसारो यतस्तत्। शारदनभोवर्णनमेतत्।' इति। संस्कृतापभ्रंशयोर्यंथा-'वीरागच्छ- दुमे हतमुद्धरवारिसदःसु। अभ्रमदप्प्रसराहरणुरविकिरणा तेज:सु॥' 'धीरा गच्छतु मेघतमो दुर्धरवार्पिकदस्यु। अभ्रमदप्रसराहरणं रविकिरणास्ते यस्य ॥' इत्यपभ्रंशच्छाया। 6हे उमे, अवेरिव गड्डरिकाया इव किरणं विक्षेपणं निर्वासनं यस्या: तथाभूता, हतमुत्, अणुः कृशा, अभ्रे गगने माद्यति यः सः तथाविधोडपां प्रसरो यस्याः सा अभ्रमदप्प्र- सरा गङ्गा अहर्दिवसमपि उद्गता धरा प्रलयापन्निमन्ना यस्मात्तदुद्धरं तच्च तद्वारि च समु- दजलं च तदेव सदो गृहं येषां तेपु तेजःसु। वडवानलतेजःस्वित्यर्थः । अगच्छत् अप- तत्। हरनिर्वासनदुःखिता सदी गङ्गात्मानं वडवानलेन्धनीचकारेति धीरा सपत्या व्य- सनेन स्वस्था भव।' इति संस्कृतवाक्यार्थः। 'हे धीराः, दुर्घरा वार्षिका दस्यवो यत्र तथा- भूततन्मेघतम इति गच्छत्वपसरतु। यस्य भेघतमसः ते न भ्रमं ददातीत्यभ्रमदः प्रसरो सेषां तादृशा रविकिरणा हरणं हर्तारः ।' इत्यपभ्रंशवाक्यार्थः ॥ 1. पुनरिति। त्रिविधोऽप्ययं श्रेषः प्रकृतानेकविषयाप्रकृतानेकविषय प्रकृताप्रकृतानेक- विषय भेदैभिंद्यते॥
Page 509
४६२ साहित्य दर्पणे
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ।।' अत्र 'येन-' इत्यादौ समङ्गक्लेषैः । 'अन्धक-'इत्यादावभङ्गः । अ- नयोश्चैकत्र संभवात्सभङ्गाभङ्गात्मको ग्रन्थगौरवभयात्पृथङ्गोदाहृतः । अत्र केचिदाहु :- 'सभङ्गश्लेष एव शब्दश्लेषविषयः। यत्रोदात्तादि- स्वरभेदाद्भिन्नप्रयतोच्चार्यत्वेन भिन्नयोः शब्दयोर्जतुकाष्ठन्यायेन श्रेषः । अभङ्गस्त्वर्थश्लेष एव। थैत्र खराभेदादभिन्नप्यत्नोच्चार्यतया शब्दाभेदाद- र्थयोरेकवृन्तगतफलद्वयन्यायेन श्लेषः । यो हि यदाश्रितः स तदलंकार एव । अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तिः' इति। तदन्ये न क्षमन्ते। धवश्च त्वां पायात्। माधवपक्षे-अभवेन जन्मरहितेन अनः शकटं व्वस्तं पादेन परावर्तितम्। बलेरसुरराजस्य जेता। कायः पुरा अमृतपरिवेषणावसरे स्त्रीकृतः स्त्रीलं प्रापितः । अमृतार्थ विवदमानानां देवासुराणाममृतपरिवेषणाय मायया नारा- यणेन मोहिनीरूपं धृतमिति पुराणवार्ता। यश्चोद्त्तस्य अघासुरस्य हन्ता। यद्वा कालियस्य पीडाकरः । आरवलयः अरिसंबन्धि सैन्यं यातीत्यर्थः । यद्वा उद्दत्तभुजं- गहारं बलं यस्य तेन गरुडेन यातीत्यर्थः। अग गोवर्धनं कृष्णरूपेण, गां पृथ्वीं च कूर्मरूपेण योऽधारयत्। शशिनं मभ्रातीति शशिमद्राहुः तस्य शिरोहर इति स्तुत्यं नाम यस्य चामरा आहुः। अन्धकानां यादवानां क्षयकरो द्वारकाख्यनिवासनिर्माता। उमाधवपक्षे-येन व्वस्तमनोभवेन विनाशितकामेन बलिजितो विष्णोः कायः पुरा स्त्रीकृतः । मोहिनीरूपदिद्ृक्षुणा शिवेन प्रेषितो विष्णुः पुनर्मोहिनीरूपं दधारेति पुराणवार्ता। यश्च उद्दृत्तौ उत्कर्षेण वर्तितौ भुजंगरूपौ हारवलयौ येन सः । यश्च शिरसि गङ्गामधारयत्। यद्ा शरीरार्घेन गौरीम्, शिरसि गङ्गां चेत्यभिप्रायेण च- कारः । यस्य शिरः शशिमच्चन्द्रयुक्तं हर इति स्तुत्यं नाम चामरा आहुः। अन्ध- कस्य असुरविशेषस्य विनाशकरः । श्लेषस्तावच्छव्दालंकारोऽर्थालंकारश्च संभवति, तयोः परमतनिराकरणपूर्वकं भेदं निरूपयति-अत्रेति। जतुकाष्ठेति। पृथगु- पलभ्यमानयोरपि जतुकाष्ठयोर्योंगे यथैकत्वप्रतिभासस्तथेहापीत्यर्थः । लोकव. 1. यत्रेति। समासभेदेनोदात्तादिस्वर भेदाद्भिन्नप्रयतोच्चारणयोग्ययोरपि शब्दयोः श्रेष- भङ्गभयेन स्वरभेदानादरादकप्रयलोच्चारणे जतुकाष्ठन्यायेन शब्दक्रेष इति भावः ।। 2. यत्र स्वरेति। समासाभेदेनोदात्तादिभेदाभावादभिन्नप्रयलोच्चार्यतवेन शब्दभेदाभावे केवलमर्थयोरेकवृन्तगतफलद्वयन्यायेन किष्टत्वादर्थक्रेष इति भाव: ॥। 3. पुराणवार्तेति। अस्त्रीकृत इति च्छेदः । त्रिपुरवधे विष्णुर्यस्य बाणो बभूवेति पुरा- णवार्ता इति तु युक्तम्।। १. 'शलेषः' क-पुस्तके नास्ति. २. 'इह' घ. १. 'मन्यन्ते' घ.
Page 510
दशम: परिच्छेदः । ४६३
तथाहि-अत्र ध्वनिगुणीभूतव्यङ्गयदोषगुणालंकाराणां शब्दार्थ- गंतत्वेन व्यवस्थितेरन्वयव्यतिरेकानुविधायित्वेन नियम इति। न च 'अन्धकक्षय- इत्यादौ शब्दाभेदः, 'अर्थभेदेन शब्दभेदः' इति दर्श- नात्। किं चात्र शब्दस्यैव मुख्यतया वैचित्यबोधोपायत्वेन कविप्रति- भयोद्टङ्कनाच्छन्दालंकारत्वमेव। विसदृशशब्दद्यस्य बन्धे चैवंविधस्य वैचित्र्याभावाद् वैचित्र्यस्यैव चालंकारत्वात्। अर्थमुखप्रेक्षितया चा- र्थालंकारत्वेऽनुप्रासादीनामपि रसादिपरत्वेनारथमुखप्रेक्षितयार्थालंकारत्व- प्रसङ्ग: । शब्दस्याभिन्नप्रयत्नोच्चार्यत्वेनार्थालंकारत्वे 'प्रतिकूलतामुपगते हि विधौ' इत्यादौ शब्दमेदेऽप्यर्थालंकारत्वं तवापि प्रसज्यतीत्युभय- त्रापि शब्दालंकारत्वमेव। यत्र तु शव्दपरिवर्तनेऽपि न "ल्लेषत्व- खण्डना, तत्र-
दिति। यथा लोके मौल्यादिगतं मुकुटादि मस्तकाद्यलंकारत्वेन व्यपदिश्यते तथा काव्येऽपीत्यर्थः । दूषयति-तद्न्ये इति। शब्दाभेदादर्थशलेष इति यदुक्कतं तहूष- यति-न चेति। दर्शनस्य प्रामाण्यानभ्युपगमे लाह-किं चेति। कविप्रतिभया कवीनामनुभवेन उद्ृङ्कनाद् विषयीकरणात्। शब्दस्यान्वयानुविधायित्वं प्रदर्श्य व्यति- रेकानुविधायितं दर्शयति-विसदृशेति। बन्धे चेति चकारस्य वैचित्र्याभावा- च्चेत्यन्वयः। ननु वैचित्र्यस्य शब्दान्वयव्यतिरेकानुविधायित्वेन किमायातमत आह- वैचित्यस्यैवेति। अलंकारलादलंकारनियामकल्वात्। अर्थमुखप्रेक्षितया अर्था- नुसंधानसापेक्षत्वेन अर्थालंकारत्वे अर्थालंकारताङ्गीकारे। रसादिपरत्वेन रसादयु- त्कर्षाभिप्रायप्रयोज्यत्वेन। शब्दभेदेऽपीति। 'विधौ' इत्यादौ खवरभेदाभावेन ए- कप्रयत्नेनैव शब्दद्वयोच्चारणादर्थद्वूयप्रतीतिरिति भावः । उभयत्र सभङ्गाभङ्गाश्लेषयोः।
- शब्दार्थेति। पर्यायान्तरपरिवृत्तिसहत्वासहत्वाभ्यां शब्दार्थगतव्यवस्थितिरिति भाव: । 2. दर्शनादिति। 'यावन्त एवमर्थाः स्युः शब्दास्तावन्त एव हि।' इत्याद्युक्तिमूलका दित्यर्थः । 3. शब्दभेद इति। विधिविधुशब्दयोः पार्थक्येऽपीत्यर्थः ॥ 4. श्लेषत्वेति। श्लेषत्वखण्डना श्रेषभङ्ग: ॥
१. 'अर्थ' इति नास्ति कवख-पुस्तकयोः. २. 'लोके' इति मुद्रितपुस्तके नासिति. ३. 'अर्थालंका रत्वे' इति पुस्तकान्तरे नासिति.
Page 511
४६४ साहित्य दर्पणे
'स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम्। अहो सुसदृशी वृत्तिस्तुलाकोटे: खलस्य च।।' इत्यादावर्थश्लेषः। अस्य चालंकारान्तरविविक्तविषयताया असंभ- वाद्विद्यमानेष्वलंकारान्तरेप्वपवादत्वेन तद्वाधकतया तत्प्रतिभोत्पत्ति- हेतुत्वमिति केचित्। इत्थमत्र विचार्यते-समासोक्तयप्रस्तुतप्रशंसादौ द्वितीयार्थस्यान- भिधेयतया नास्य गन्धोऽपि। 'विद्वन्मानसहंस- इत्यादौ श्लेषगर्भे रू- पकेऽपि मानसशब्दस्य चित्तसरोरूपोभयार्थत्वेऽपि रूपकेण श्लेषो बा- ध्यते। सरोरूपस्यैवार्थस्य विश्रोन्तिधामतया प्राधान्याछेषे ह्यर्थद्वय-
नन्वेवं श्लेषस्यार्थालंकारत्वोच्छेद इत्यत आह-यत्र त्विति। स्तोकेनेति। सुव- णादिगौरवप्रकर्षाप्रकर्षप्रकाशिका छप्तिका शिखरशलाका तुलाकोटिः। अत्र स्तोका- दिपदस्थानेऽल्पादिपदनिवेशेऽप्यर्थद्वयप्रतीतिरस्त्येव। 'अयम्-' इत्यादौ 'वक्ष्यति' इत्यादिपदस्थाने 'धारयिष्यति' इत्यादिपदनिवेशे तु नार्थद्वयप्रतीतिरिति तत्र शब्दालंकारतमेव। इदानीं श्लेषस्यालंकारान्तरविविक्तविषयत्वमुपपादयितुं परमतं निराकरोति-अस्य चति। श्रेषस्य चेत्यर्थः । विविक्तेति । वियुक्तेत्यर्थः । अपवादत्वेन असंभवविषयान्तरत्वेन। तद्वाधकतया अलंकारान्तरबाधकतया। तत्प्र-
प्रतीतिविषयत्वेन श्रेषस्य व्यपदेश एव, न तु चरमप्रतीतिविषय स्यालंकारान्तरस्य व्यपदेश इति भावः। शलेषाबाध्यानलंकारान्विशिष्य दर्शयति-इत्थमिति। तत्र प्रथमं समासोत्त्यादेः शलेषबाध्यतभ्रमं निराकरोति-समासोक्तीति। अस्य श्ले- षस्य गन्धोऽपि अल्पप्रसङ्गोपि व्यज्ञनयैव तत्र द्वितीयार्थस्य प्रतीतिरिति भावः। ननु रिलिष्टरूपके उभयार्थस्याभिधेयतया श्लेषबाध्यत्वमस्तीत्यत आह-विद्वदिति। विदुषां ज्ञानिनां मानसमेव मानसं सरोविशेषस्तस्य हंस इत्यर्थः । श्लेषगर्भे श्लेषप्रति- भोत्थापिते। उभयार्थत्वेऽपि रूप्यरूपकोभयवाचकत्वेऽपि। श्लेषस्य बाध्यलप्रयोजकं संभवद्विषयान्तरतवं दर्शयति-सरोरूपस्यैवेति। एवकारेण चित्तरूपस्य व्यव- च्छेद: (विश्रान्तिधामतया रूपकप्रतीतिपर्यवसानास्पदतया। ग्राधान्यादिति। 1. अलंकारेति। अलंकारान्तरेभ्यो विविक्तोऽपरामृष्टो विभिन्नो विषयो यस्य तस्य भावस्तत्ता तस्याः । यत्र यत्र श्रेषो वर्तते तत्र तत्रान्योऽपि कश्चिदलंकार इति भावः ॥ 2. विद्ूदिति। 'विद्न्मानसहंस वैरिकमलासंकोचदीप्द्युते दुर्गामार्गणनीललोहित समित्सवीकारवैश्वानर। सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिश्वमुच्चैः क्रियाः ॥' इति संपूर्णः श्रोकः ॥ 3. श्रेषस्येति। श्रेषस्येव व्यपदेश इत्यन्वयः ॥ १. 'अर्थ' इति नास्ति कपुस्तके. २. 'विश्राम' घ. ३. 'अल्पमसङ्गोऽपि' इति पुस्तकान्तरे नास्ति.
Page 512
दशमः परिच्छेदः । ४६५
स्यापि समकक्षत्वम्। 'संनिहितबालान्घकारा भाखवन्मूर्तिश्च' इत्यादौ विरोधाभासेऽपि विरुद्धार्थस्य प्रतिभातमात्रस्य प्ररोहाभावान्न श्रेषः । एवं पुनरुक्तवदाभासेऽपि। तेन 'येन ध्वस्त-' इत्यादौ प्राकरणिकयोः 'नीतानाम्-' इत्यादा- वप्राकरणिकयोरेकधर्माभिसंबन्धात्तुल्ययोगितायाम्, 'सेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणशतैश्र ददाति दुःखम्। मोहात्समुत्क्षिपति जीवनमप्यकाण्डे कष्टं प्रसूनविशिखः प्रभुरल्पबुद्धिः ।।' इत्यादौ च प्राकरणिकाप्राकरणिकयोरेकेधर्माभिसंबन्धाद्दीपके,
अर्थयोः समकक्षत्ाभावोपपादकं समकक्षतवं परस्परनिरपेक्षतया प्रधानलम्। तथा चार्थद्वयस्य समकक्षत्वे श्लेषस्य विषयः संभवति। प्रकृते तूद्देश्यविधेयभावेन गुणप्रधा- नभावापेक्षितया तुल्यकक्षलाद्रपकेण शरलेषो बाध्यते। अन्यथा श्लिष्टपरम्परितरूपकस्य निर्विषयतापत्तेरिति भावः। नन्वेवमपि विरोधाभासोच्छेदस्तत्र समकक्षार्थद्वयस्या- भिधानेन श्लेषस्य निर्बाधप्रसरत्वादित्यत आह-संनिहितेति। संनिहितो बालः केश एवान्धकारो यत्र सा, भाखन्मूर्तिर्देदीप्यमानशरीरा। अथ संनिहितनवीनान्व- कारा सूर्यखरूपा चेति विरोधः । प्रतिभातमात्रस्य पदार्थस्मृतिविषयस्यैव प्ररोहा- भावादयोग्यत्वेन शब्दानुभवाभावात्। तथा चार्थद्वयस्य शब्दानुभवेऽपि श्लेषस्य विषयसंभवादुत्सर्गत्वम्। विरोधाभासस्यायोग्यतया शब्दानुभवाभावेऽपि विषय इ- त्यपवादतवमिति भावः। पुनरुक्तवदाभासेऽपीति। द्वितीयार्थस्य पुनरुक्ततया शब्दानुभवो न भवतीति भावः । ननु तर्हि के श्लेषबाध्या इत्यपेक्षायामाह-ते- नेति। समासोक्त्यादौ श्लेषस्य प्रसङ्गाभावादेव बाध्यत्वासंभवेनेत्यर्थः। 'प्राकरणिक- योरित्येकधर्माभिसंबन्धादित्यग्रेणान्वयः । माधवोमाधवयो रक्षणोपयोगित्वेन प्राकर- णिकतम्। अप्राकरणिकयोरिति । पद्ममृगविशेषयोरुपमानत्वेऽप्राकरणिकतव- मिति भावः । दुल्ययोगितायामिति विद्यमानायामपीत्यग्रेणान्वयः । स्वेच्छेति। दुर्मतिराजसेवकस्योक्तिरियम्। प्रसूनविशिखः कामः, अल्पबुद्धिश्च प्रभुः । कष्टं क- ष्हेतुः । कष्टहेतुतमुपपादयति पादत्रयेण-स्वेच्छया उपजाता उपपन्ना विषया उपभोगसाधनद्रव्याणि यस्य सः। न याति विषयान्नानुभवति। गत्यर्थानां ज्ञानार्थ- त्वात्। मार्गणशतैर्याचकसमूहै्दैंहीति वक्तुमर्थात्तेभ्यो दुःखं ददाति। महाबुद्धिस्तु देहीति वचनं विनैव याचकैभ्यो धनं ददातीति भावः । मोहादपराधभ्रमात् समु-
- तेनेति। विशेषविषयकालंकारान्तरैः श्र्ेषस्य बाध्यत्वेनेत्यर्थः ॥ १. 'इत्यत्र च' घ. २. 'एकधर्माभिधानसंभवात्' क.
Page 513
४६६ साहित्यदर्पणे
'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव।' इत्यादौ चोपमायां विद्यमानायामपि श्लेषस्यैतद्विषयपरिहारेणासंभ- वाद् एषां च श्रेषविषयपरिहारेणापि स्थितेरेतद्विषये श्लेषस्य प्राधा- न्येन चमत्कारित्वप्रतीतेश्र श्लेषेणैव व्यपदेशो भवितुं युक्तः । अन्यथा तद्यपदेशस्य सर्वथाभावप्रसङ्गाच्चेति। अत्रोच्यते-न तावत्परमार्थतः श्लेषस्यालंकारान्तराविविक्तवि- षयता 'येन ध्वस्त-' इत्यादिना विविक्तविषयत्वात्। न चात्र तुल्ययो- गिता, तस्याश्च द्वयोरप्यर्थयोर्वाच्यत्वनियमाभावात्। अत्र च माधवो- माघवयोरेकस्य वाच्यत्वनियमे परस्य व्यङ्गयत्वं स्यात्। किं च तुल्ययोगितायामप्येकस्यैव धर्मस्यानेकधभिसंबन्धितया प्र- तीतिः। इह त्वनेकेषां धर्मिणां पृथकपृथग्धर्मसंबन्धतया। 'सकलक- तिक्षिपति हरति। अकाण्डे अकाले। कामपक्षे-स्वेच्छं यथेष्मुपजाताः संभवन्तो विषया लक्ष्याणि यस्य सः। देहीति शरीरीति वक्तुं योग्यतां न याति न प्राप्नोति। मार्गणशतैः शरसमूहै: मोहान्मोहं विधाय। अशरीरोऽपि संभवद्वहुलक्ष्योऽपि कस्मै- चिन्मार्गणशतैर्दुःखं ददाति। लक्ष्येषु विभज्य यदि शरान् क्षिपेत्तदा एकस्य वेधने शर शतासंभवाद्दुःखातिशयो न भवतीति भावः । अत्र स्मरस्योपमानत्वेनाप्राकरणिकत्वम्, राज् उपमेयत्वेन प्राकरणिकत्वम्। दीपके इति । विद्यमानेऽपीति लिङ्गविपरिणा- मेनान्वयः । सकलकलं कोलाहलसहितम्। अथ च सकला समग्रा कला यस्य ताह- शम्। एतद्विषयेति। तुल्ययोगितादिविषयेत्यर्थः । एषां तुल्ययोगितादीनाम्। अन्यथा एतद्विषये श्लेषानङ्गीकारे। एतन्मते दोषं त्रदर्श्य सिद्धान्तमाह-अत्रो- च्यत इति। विविक्तविषयत्वाद् अलंकारान्तरपृथकृतविषयत्वात्। अत्र 'येन ध्वस्त-' इत्यादिश्लेषविषये। तस्यास्तुल्ययोगितायाः। एतहीपकस्याप्युपलक्षणम्। अर्थयोर्वाक्यार्थयोः। वाच्यत्वनियमाभावादिति। एकस्य वाच्यत्वनियमादिति तात्पर्यार्थः । न च 'रक्ताः स्वभावमधुरा वहन्त्यो रागमुल्बणम्। दशो दूत्यश् कर्षन्ति कान्ताभिः प्रेषिता: प्रियम् ।' इत्यादौ तुल्ययोगितायां द्वितीयार्थस्यापि वाच्यत्वेन कथमेकस्यैव वाच्यत्वमिति वाच्यम्। ये तु 'दुर्गालङ्गितविग्रहः-'इत्यादौ पदपरावृत्त्या द्वितीयार्थस्यापि वाच्यत्वमङ्गीकुर्वन्ति, तेषां मत इत्यर्थः । अ्र चेति । 'येन ध्वस्त-' इत्यादौ तुल्ययोगितानुरोधेनैकस्य वाच्यतनियमो वाच्यस्तथा सत्यपरस्य व्यङ्गयत्वापत्त्या श्लेषस्य विषयो न स्यादिति भावः । ननु पदपरावृत्तिपक्षे द्वयोरप्य- र्थयोर्वाच्यतमत आह-किं चेति। इह तु शेषे तु ।. पृथक्पृथग्धर्मसंबन्धितया प्रतीतिरित्यन्वयः। अलंकाराणां यो यत्प्रतीतिजन्यप्रतीतिविषयः स तद्वाध्य इति नियमाभिप्रायेण श्लेषस्य बाध्यत्वमुपमायां प्रसह् निषेधयति। सकलकलमित्यादौ . 'इह तु' क-ख. २. 'संबद्धतया' घ. ३. 'संबद्धतया' घ.
Page 514
दशम: परिच्छेदः । ४६७
लम्- इत्यादौ च नोपमाप्रतिभोत्पत्तिहेतुः श्रेषः । पूर्णोपमाया निर्वि- षयत्वापत्तेः । 'कमलमिव मुखं मनोज्ञमेतत्' इत्याद्यस्ति पूर्णोपमायावि- षय इति चेत, न । यदि 'सकल-' इत्यादौ शब्दश्लेषतया नोपमा तत्किमपराद्धं 'मनोज्ञम्' इत्यादाचर्थश्लेषेण। 'स्फुटमर्थालंकारावेतावुपमासमुच्चयौ, किं तु । आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः ।।' इति रुद्रटोक्तदिशा गुणक्रियासाम्यवच्छव्दसाम्यस्याप्युपमाप्रयोजक- त्वात्। ननु गुणक्रियासाम्यस्यैवोपमाप्रयोजकता युक्ता, तत्र साधर्म्यस्य वास्तवत्वात्। शब्दसाम्यस्य तु न तथा, तत्र साधर्म्यस्यावास्तवत्वात्। ततश्चे पूर्णोपमाया अन्यथानुपपत्त्या गुणक्रियासाम्यस्यैवार्थश्लेषविरषैयत- चेति। श्लेषेणोपमाबाधक इति भावः । तत्तदा। शब्दमात्रं सामान्यमाश्रित्या- पीहालंकारमध्ये संभवत इत्यन्वयः । यद्यपि 'सकलकलम्-' इत्यादावेकप्रयत्नेन शब्दद्वयोत्पत्त्या शब्दस्याप्येकत्वं न संभवति, तथाप्येकानुपूर्व्यवच्छिन्नत्वेन शब्दयो- रेकतवप्रतिभास इति भावः । समुच्चयालंकारे एकधर्माभिसंबन्वस्य निवेशाभावात्त- त्समुचयपदमत्र तुल्ययोगितापरं दीपकपरं च तयोस्तत्संभवात्। नन्वेवं 'किं च तुल्ययोगितायाम्-' इत्यादिना श्लेषतुल्ययोगितयोर्यों विषयविभागः कृतः स न संगच्छते 'येन ध्वस्त-' इत्यादावपि शब्दरूपैकधर्मसंबन्धस्य सत्त्वेन तुल्ययोगिताया विषयसंभवादिति चेत, सत्यम्। यैत्रानेकस्यैकधर्मसंबन्धावगमे द्विवचनबहुवच- नचकाराद्यपेक्षा तत्रैव दीपकतुल्ययोगितयोर्विषयः । 'येन ध्वस्त-'इत्यादौ तु द्विव- चनाद्यपेक्षाविरहेण तुल्ययोगिताया विषय एव नास्ति। ययोरेकधमेसंबन्धस्तयोरनेक- प्रयत्नोच्चार्यपदवाच्यत्वं दीपकतुल्ययोगितालक्षणे निवेशनीयमतो नातिप्रसङ्गः । एवं च 'स्वेच्छोपजातविषयोऽपि- इत्यादिदीपकस्य 'किरणा हरिणाङ्कस्य-' इत्यादि 'विकसन्नेत्र नीलाजे-इत्यादि च तुल्ययोगितायाश्च विषय इति व्येयम्। गुणक्रि- यासाम्यवद्गुणक्रियासाम्यस्येव। तत्र गुणक्रियासाम्यप्रयुक्तोपमायाम्। वास्तवलाद् वस्तुसमवेतलातू। न तथा नोपमाप्रयोजकता। तैत्र शब्दसाम्यप्रयुक्तोपमायाम्। साधर्म्यस्य शब्दरूपसामान्यस्य धर्मस्य। अवास्तवत्वाद् उपमानोपमेयरूपवस्तुनोऽसम- 1. कमलेति। 'कमलमिव मुखं मनोज्मेतत्कचतितराम्' इत्यत्र मनोज्ञत्वलक्षणस्य गुणस्य, प्रकाशलक्षणायाः क्रियायाः, गुणक्रिययोवा साम्यात्पूणोंपमाविषयोऽस्तीत्यर्थः ॥ 2. मनोज्ञमिति। मनोजत्वस्योपमानोपमेयभूतयो: कमलमुखयोभैंदेन क्विष्टत्वादर्थ ऋेष इत्यर्थ: । १. 'रद्रपोक्त' क. २. 'च' इति नास्ति घ-पुस्तके. ३. 'उपपत्तेः' घ. ४. 'विषयता' घ. ५, 'यत्र धर्मिणोर्भिन्नप्रयतोच्चार्यशब्दबोध्यतायां द्विवचनचकाराद्यपेक्षा' इति सुद्रितपुस्तके. ६. 'एवं च पूर्वोक्तनिरूपणे च सतीत्यर्थः इति मुद्धितपुस्तके पाठः. ७. 'अत्र' इति सुद्रितपुस्तके.
Page 515
साहित्यदर्पणे
ग परित्यागे पूर्णोपमाविषयतायुक्ता, नतु 'सकल-' इत्यादौ शव्दसा- न्यस्यैवेति चेत्, न । 'साधर्म्यमुपमा' इत्येवाविशिष्टस्योपमालक्षणस्य शब्दसाम्याद्यावृत्तेरभावात्। यदि च शब्दसाम्ये साधर्म्यमवास्तवत्वान्नो- पमाप्रयोजकम्, तदा कथं 'विद्वन्मानस-' इत्यादावाधारभूते चित्तादौ सरोवराद्यारोपो राजादेर्हैंसाद्यारोपप्रयोजकः । किंच यदि वास्तवसाम्य एवोपमोङ्गीकार्या, कथं त्वयापि 'सकल- कल-' इत्यादौ बाध्यभूतोपमाङ्गीक्रियते। किं चात्र ्लेषस्यैव साम्यनिर्वाहकता, न तु साम्यस्य श्लेषनिर्वाहकता। श्ेषबन्धतः प्रथमं साम्यस्य संभवात्। इत्युपमाया एवाङ्गित्वेन व्यपदेशो ज्यायान् 'प्रधानेन हि" व्यपदेशा भवन्ति' इति न्यायात्। ननु शब्दालंकारविषयेऽङ्गाङ्गिभावसंकरो नाङ्गीक्रियते तत्कथमत्र श्लेषोपमयोरङ्गाङ्गिभावः संकर इति चेत्, न। अर्थानुसंधानविरहि- ण्यनुप्रासादावेव तथानङ्गीकारात्। एवं दीपकादावपि ज्ञेयम्। 'सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः । निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे॥'
वेतत्वात्। ततश्र शब्दसाम्यस्योपमाप्रयोजकत्वायोगाच्च। अविशिष्टस्य वास्तवत्वरूप- विशेषरहितस्य। उपमालक्षणस्य काव्यप्रकाशादुक्तस्य। तथा च येन केनापि संबन्धे- नोपमानोपमेयवृत्तिधर्म उपमा, न तु समवायसंबन्धेनेति नियमः । शब्दस्योपस्था- प्यत्वसंबन्धेनोपमानोपमेयवृत्तित्वेनोपमाप्रयोजकत्वमक्षतमिति भावः । उपमानोपमे- ययोरभेदप्रतीतिरूपकमित्यभिप्रायेणाह-यदि चेति। आधारभूते विषयरूपे। ननु श्लिष्टपदनिवन्धनपरम्परितरूपकान्यथानुपपत्त्या तत्र तथा कल्पनीयम्, न तूपमा- यामित्यत आह-किं चेति। कथमिति। तदेति शेषः । श्लेषस्यालंकारान्तरप्रति- भोत्पत्तिहेतुत्वेन तेनैव व्यपदेश इति यदुकं तहूषयति-किं चात्रेति। अद्वित्वेन साध्यतया प्रधानत्वेन। तथा च श्लेषस्य प्रथमोपस्थितत्वेऽपि साधनत्वेनाप्रधानतया तेन व्यपदेशो नोचित इति भावः । तथानङ्गीकारात् अङ्गाङ्विभावसंकरानङ्गीकारात्। श्लेषस्य शब्दालंकारत्वेऽप्यर्थानुसंधानसापेक्षलादुपमाङ्गत्वमक्षतमिति भावः । एव- मिति। यथा एकशब्दत्वेनोपमां खवीकृत्य तस्या एव प्राधान्यव्यपदेशस्तथा दीप- कादावपीत्यर्थः । आदिपदात्तल्ययोगितापरिग्रहः । 'सत्पक्षा :- ' इत्यादौ केचिदुंपमा- ध्वनिं केचिच्च श्लेषं स्वीकुर्वन्ति, तदुभयमपि नोचितमित्याह-सत्पक्षा इति।
१. 'हंसादयारोपरूपक:' इति घ. २. 'अङ्गीकर्तव्या' क; 'तदा' इत्यधिक घ-पुस्तके. ३. 'अङ्गी- कर्तव्या' क्र. ४ 'हि' इति नास्ति ध.पुस्तके, ५. 'इत्युक्तनयात्' घ.
Page 516
दशमः परिच्छेद:। ४६९
अत्र शरद्वूर्णनया प्रकरणेन धार्तराष्ट्रादिशब्दानां हंसाद्यर्थाभिधाने नियमनाद्ुर्योघनादिरूपोऽर्थः शब्दशक्तिमूलो वस्तुध्वनिः । इह च प्रकृतप्रबन्धाभिधेयस्य द्वितीयार्थस्य सूच्यतयैव विवक्षितत्वादुपमानो- पमेयभावो न विवक्षित इति नोपमाध्वनिर्न वा श्लेष इति सर्वमवदातम्। पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते। आदिशब्दात्खङ्ग-मुरज-चक्र-गोमूत्रिकादयः । अस्य च तथाविधलि- पिसंनिवेशविशेषवशेन चमत्कारविधायिनामपि वर्णानां तथाविधश्रो- त्राकाशसमवायविशेषवशेन चमत्कारविधायिभिर्वर्णैरभेदेनोपचाराच्छ- ब्दालंकारत्वम्। तैत्र पझमबन्धो यथा मम- 'मारमासुषमा चारुरुचा मारवधूचमा। मात्तघूर्ततमावासा सा वामा मेडस्तु मा रमा ॥'
सन्तः पक्षाः पत्राणि येषां ते। प्रसाधिताशा अलंकृतदिशः । मदेन शरत्कालकृत- चित्तविकारविशेषेण उद्धत आरम्भ आरवो येषाम्। 'रभि शब्दे' इत्यस्य रूपम् । धार्तराष्ट्रा हंसविशेषाः। कालवशात् शरत्कालवशात्। वर्षासु हंसा मानसे सरसि तिष्ठन्ति, शरदि पृथिवीमागच्छन्तीति प्रसिद्धिः । पक्षे-सत्पक्षाः उत्तमसहायाश्च ते अमधुरगिरश्चेति समासः । प्रसाधिताशा वशीकृतदिशः । यद्वा प्रकृष्टं साधिता आशाः स्वेच्छाविषया यैः। अथवा प्रसाधिता धृता आशा जयेच्छा यैस्ते। मदेन गर्वेण उद्धता आरम्भा युद्धाद्याडम्बरा येषां ते। धार्तराष्ट्राः धृतराष्ट्रपुत्राः। कालवशान्मृ- त्युकालवशात्। नियमनान्नियन्त्नणात्। ध्वनिर्व्यङ्गयः। नवाश्लेष इति। प्रकरण- नियमेन द्वितीयार्थस्यानभिधेयतादिति हेतुरत्र द्रष्टव्यः। चित्राख्यालंकारमनेकविध- माह-पझमादीति। पद्माद्याकारवर्णस्तोमजनकत्व इत्यर्थः। गोमूत्रिकादय इति। आदिपदेन काकपद्यादयो ग्राह्याः। ननु श्रोत्रसंबन्धानां जन्यवर्णानां पद्मा- द्याकारजनकत्वरूपचित्रालंकाराभावात्कथमस्य शब्दालंकारत्वमतस्तदुपपादयति- अस्य चेति। चित्रालंकारस्येत्यर्थः । तथाविधस्य पद्मादिसदृशस्य लिपीनां वर्णसंस्थानानां संनिवेशविशेषस्य रचनाविशेषस्य वशेन चमत्कारविधायिनां वक्तवि- स्मयकारिणां वर्णानां तथाविधः श्रोत्राकाशसमवायविशेषः कर्णरन्ध्रसंबन्धविशेषः तद्वशेन चमत्कारविधायिभिः श्रोतृविस्मयकारिभिः । एवं च पद्माद्याकारलिपिसंनि- वेशविशेषमालोक्य वक्रा ये वर्णा उच्चार्यन्ते तैरेव श्रोतृणां श्रोत्रे पद्माद्याकार- वर्णस्तोमो जन्यते। कार्यकारणयोर्भेदोपचारेण जन्यवर्णानामपि चित्रालंकारसंभव इति भावः । मारमेति। सा वामा मनोरमा स्त्री मे ममास्तु। रमा मास्तु।
१. 'लिपिसंनिवेशेन' क. २. 'चमत्कार-' इत्यादि :- 'वशेन' इत्यन्तः पाठः क-पुस्तके नास्ति. ३, 'अत्र' क. सा० द० ४०
Page 517
४७० साहित्यदर्पणे
एषोऽष्टदलपद्मबन्धो दिग्दलेषु निर्गमप्रवेश्याभ्यां छ्विष्टवर्णः, किंतु कीदशी। मारमासुषमा मारस्य कामस्य मा लक्ष्मीः सेव सुषमा परमा शोभा यस्या: सा। चारुरुचा मनोरमकान्त्या मारवध्वा रतेरप्युत्तमा। मात्तधूर्ततमावासा अगृ- हीतधूर्ततमगरहा। श्लिष्टवर्णः अनुलोमप्रतिलोमपाठेनैकरूपाक्षरः। अन्यथा क्वचि- प्रवेशः क्वचिन्निर्गम इत्यपि श्लिष्टवर्ण एव। अन्राष्टसु दिक्षु वितताष्टदलं पद्मं लेख्यम्, तत्कर्णिकायां श्लोकस्य प्रथममक्षरं लेख्यम्, ततः पूर्वादिदलेषु प्रदक्षिणक्मेण द्वौ दौ वर्णौ लेख्यौ। एवं सप्तदशभिरक्षरैः पद्मं भवति। तत्र कर्णिकास्थवर्णोपकमेण प्राच्यदले निर्गमेनाझेयदले प्रवेशेन दक्षिणदले निर्गमप्रवेशाभ्यां नैरऋतदले निर्गमेन पश्चिमदले निर्गमप्रवेशाभ्यां वायव्यदले प्रवेशेन उत्तरदले निर्गमप्रवेशाभ्यां ईशा- नदले निर्गमेन प्राच्यदले पश्चात्प्रवेशेन श्रोकः पाठ्य: । तदुक्तम्-'वर्णद्ूयेन चैकैकं दलभूतदलाष्टकम् । सर्वोत्तराद्यवर्णेन पझ्मं स्यात्कृतकर्णिकम् ।I' इति। खङ्गबन्धो यथा-'मारारिशकरामेभमुखैरासाररंहसा। सारारब्धस्तवा, नित्यं तदा- रतिहरणक्षमा॥ माता नतानां, संघट्टः श्रियां, बाधितसंत्रमा। मान्याथ, सीमा रामाणां, शं मे दिश्यादुमाद्रिजा ॥' अस्यार्थ :- उमा अद्रिजा मे मह्यं शं कल्याणं दिश्यात् दद्यात्। कीदृशी। मारारिः शिवश्च, शक्रश्र, रामश्च, इभमुखो गणेशश्च, तैरासाररंहसा वृष्टिकणरीत्या नित्यमारब्धस्तवा। पुनः कीदृशी। सारा श्रेष्ठा। तेषां स्तुवतां शिवादीनां आर्तेः पीडायाः हरणे क्षमा। नतानां प्रणतानां माता मातेव पालयित्री। श्रियां संपदां संघट्टः संमेलनस्थानम्। बाघितसंत्रमा निरुद्वेगा, सन्यग्भ्रमरहिता। रामाणां नारीणां पराकाष्ठा। 'अद्रिजा' इत्यत्र 'आदिजा' इति पाठे आद्येत्यर्थः । अनेन शलोकद्वयेन खङ्गबन्धः प्रस्तीर्यते। तत्र मुष्टेरुपर्यधः शाखाद्वयम्। उपरि शाखाचतुष्पथे प्राथमिक 'मा' कारं विन्यस्य तिर्यगधःक्रमेण 'रारि-' इत्यादि 'ह' कारान्तांश्चतुर्दश वर्णान्यसेदित्येका धारा। ततः खङ्गशिखायां 'सा' इति श्िष्टम्। ततस्तिर्यगूर्ध्वक्रमेण 'रारब्ध-'इत्यादिवर्णचतुर्दशकं विन्यस्यापरां धारां कुर्यात्। इत्येषा पट्टिका। 'मा' कारः पूर्व 'मा' कार प्रविष्टः। एवमग्रेऽपि तत्रैव प्रविष्टं कल्पयितवा दक्षिण- शाखायां 'ता' इत्यादिवर्णसप्तकं विन्यस्य वामशाखायां तिर्यग्विलोमेन 'श्रि' कारादिवर्ण- सप्तकं लिखेतू। 'मा' कारचतुष्पथे प्राथमिक 'मा' कारं प्रविष्टः। ततस्तमेव 'मा' कार- मारभ्याधोऽघो 'न्याथसी' इति त्रयो वर्णा मुष्टौ लेख्याः। ततोऽघश्चतुष्पथमध्ये तदन्ति- म-'मा'कारं विन्यस्य तद्दक्षिणशाखायां 'रामाणां शं' इति चतुरो वर्णान्विन्यस्येद। ततो वामशाखायां विलोमेन 'मे दिश्यादु' इति चतुरो वर्णोल्लिखेत्। 'मा' कारोऽघश्चतुष्पथ- स्थ 'मा' कारं प्रविष्टः। ततो मुष्टेरधः त्सरुके 'द्विजा' इति 'दिजा' इति वा वर्णद्वूयं लेख्यमिति खङ्गनिष्पत्तिः। मुरजबन्धो यथा-'सा सेनागमनारम्भे रसेनासी- दनारता। तारनादजना मत्तधीरनागमनामया ।' अन्र पशचतुष्टयेन लिखितस्य पादचतुष्टयस्याधः क्र्मेण यथाकमं प्रथमद्वितीयतृतीयचतुर्थानूर्ध्वक्रमेण पञ्चमषष्ठ- सप्तमाष्टमान्वर्णान्गृहीला प्रथम: पादः। द्वितीयात्प्रथमं प्रथमाद्वितीयतृतीयौ 1. मत्तेति। मत्तधीरनागमिति क्रियाविशेषणम्।
Page 518
दशमः परिच्छेदः। ४७१
विदिग्दलेष्वन्यथा, कर्णिकाक्षरं तु क्रिष्टमेव। एवं खङ्गबन्धादिकमप्यू- ह्यम्। काव्यान्तर्गडुभूततया तु नेह प्रपञ्चयते। रेसस्य परिपन्थित्वान्नालंकार: प्रहेलिका ॥ १३ ॥ उक्तिवैचित्र्यमात्रं सा च्युतदत्ताक्षरादिका। च्युताक्षरा-दत्ताक्षरा-च्युतदचाक्षरा च। उदाहरणम्- 'कूजन्ति कोकिलाः साले यौवने फुल्लमम्बुजम्। किं करोतु कुरङ्गाक्षी वदनेन निपीडिता।I'
द्वितीयाच्चतुर्थपञ्चमौ प्रथमात्षष्ठसप्तमौ द्वितीयादष्टमं गृहीता द्वितीयः पादः। तृती- यात्प्रथमं तुर्याद् द्वितीयतृतीयौ तृतीयात्तुर्यपञ्चमौ तुर्यात्षष्ठसप्तमौ तृतीयादष्टमं गृहीला तृतीयः पादः। पादचतुष्टयस्योर्ध्वक्रमेण प्रथमद्वितीयतृतीयचतुर्थानधः क्रमेण पश्चमषष्ठसप्तमाष्टमान्गृहीत्वा चतुर्थः पादः पाठ्य एवं मुरजसिद्धिः । चक्र- बन्धो विदग्धमुखमण्डने, गोमूत्रिकाबन्धो दण्डिनि ज्ञेयः । एवमन्येऽपि मुसल-शूल- शक्ति-हल-चतुरङ्ग-पीठ-रथ-तुरग-गज-पाठ्यादयो बो्याः। एवं वर्णानामनुलोमप्रति- लोमपाठादिना एकरूपपदोच्चयहेतुत्वेऽपि सर्वतोभद्रादिनामकश्चित्रालंकारो वेदि- तव्यः । काव्यस्यान्तर्गड्भूततया अन्तर्गडवदकिंचित्करत्वेन। इह काव्यालंकार- विचारप्रकरणे। दण्ड्यादिभिरुक्तं प्रहेलिकायामलंकारत्वं दूषयति-रसस्येति। रसबोधस्येत्यर्थः । परिपन्थिताद्विलम्बकल्वातू। तथा च प्रत्युत दोषलक्षणाक्रान्त- तया प्रहेलिकाकाव्ये नोपादेयेति भावः । ननु तर्हि प्राचीनैः किमित्यलंकारप्रकरणे प्रहेलिका प्रपश्चितेत्यत आह-उक्तीति। वैचित्र्यमात्रं वैचित्यमात्रप्रयोजकम् ।
- काव्यान्तरिति। गडुर्ग्रन्थिरिति सांप्रदायिकाः। यथेक्षुचर्वणदशायां ग्रन्थी रसव्यवधायकस्तथैव काव्ये चित्रादीति परमार्थः ॥ 2. रसस्येति। अत एव भोजराजेनाप्युक्तम्-'प्रहेलिका सकृत्प्रश्नः सापि षोढा च्युताक्षरा। दत्ताक्षरोभयं सुष्टिर्विन्दुमत्यर्थवत्यपि॥ क्रीडागोष्ठीविनोदेषु तज्ज्ञैराकीर्ण- मत्रणे। परव्यामोहने चापि सोपयोगा: प्रहेलिकाः ॥' इति। एवमन्तःप्रश्न-बहिःप्रश्न- बहिरन्तःप्रश्न-जातिप्रश्न-पृष्टप्रश्न-उत्तरप्रश्न-प्रभृतयोऽपि क्रीडामात्रोपयोगिनः । एतेषां बन्धवि- शेषाणां प्रपञ्नः सरस्वतीकण्ठाभरण-काव्यालंकारादौ द्रष्टव्यः॥ 3. उदाहरणमिति। यथा वा-'तदा क्षणेन वीर्यस्य समदः सहितः पदम्। रेजे स्तुतनयः साक्षान्नयवेदी क्षतामतः ॥' अत्र यथेष्टाभ्यां मात्रापहारदानाभ्यां श्रोकद्वयसुत्प- दयते-'तदाक्षणेन वर्यस्य समिदः सहतः पदम्। रेजेडस्ततनयः साक्षान्नयवेदे क्षतामतिः॥ तदेक्षणेन वर्यस्य सामदः सहतिः पदम् । रेजे स्तुतिनयः साक्षान्नयवादोक्षितामृतः ।'
१. मुद्रितपुस्तके तु 'काव्यान्तर' इत्यादिगद्यं 'काव्यान्तर्गडुभूता या सा तु नेह प्रपभ्यते' इति श्रोकरूपं नीतम्. २. 'वैचित्र्यमात्रमयोजिका, न तु रसादुपकारिका' इति मुद्रितपुस्तके.
Page 519
१७२ साहित्यदर्पणे
तत्र 'रसाले' इति वक्तव्ये 'साले' इति 'र' च्युतः । 'वने' इत्यत्र 'यौवने' इति 'यौ' दत्तः। 'वदनेन' इत्यत्र 'मदनेन' इति 'म' च्युतः 'व' दत्तः । आदिशब्दारक्कियाकारकगुप्यादयः । तत्र क्रियागुप्तिर्यथा- 'पाण्डवानां सभामध्ये दुर्योधन उपागतः । तस्मै गां च सुवर्णे च सर्वाण्याभरणानि च ।।' अत्र 'दुर्योधनः' इत्यत्र 'अदुर्योऽधनः' इति। 'अदुः' इति क्रिया गुप्िः। एवमन्यत्रापि। अथावसरप्राप्तेष्वर्थालंकारेषु प्राधान्यात्सादृश्यमूलेषु लक्षितव्येषु तेषामप्युपजीव्यत्वेन प्रेथममुपमामाह-
भावः । वन इति। वक्तव्य इत्यन्वयः । एवमिति। कारकसंबोधनगुप्यादाव- प्येवमुदाहार्यमित्यर्थः । तत्र 'दुर्योधन उपागतः' इत्यत्र 'योऽधन उपागतः' इति कर्तृपदं गुप्तम्। यथा वा-'ब्राह्मणेभ्यो नदीतीरे वस्त्राण्याभरणानि च । ददाति गां हिरण्यं च वसुधां च दुतं व्रज ।I' अन्र 'ब्राह्मण' इति संबोधनपदम्, 'इभ्यः' इति कर्तृपदम्, संप्रदानभ्रमजनकत्ाद् गुप्तम् । एवमेकद्वित्रिचतुःस्वरनियमो- डप्युक्तिवेचित्र्यमेव। क्र्मेण यथा-'करपझ्मलसच्चकनक्रग्रस्तगजग्रह। भक्तभव्यभर- व्यम्य मम व्यसनमर्दय ॥', 'श्रीदीप्ती ह्रीकीर्ती वीनीती गीःप्रीती। एधेते द्वे द्वे ते ये नेमे देवेशे ॥' 'क्षितिविजितिस्थितिविहितिव्रतरतयः परगतयः। उरु रुरुधुर्गुरु दुधुवुर्युधि कुरवः खमरिकुलम् ॥', 'आम्रायानामाहान्त्या वाग्गीतीरीतीः प्रीतीर्भीतीः। भोगो रोगो मोदो मोहो ध्येये धेच्छे देशे क्षेमे ।I' एवमेकादिचतुष्पर्यन्तवर्णस्थान- नियमानामुदाहरणानि दण्डिनि द्रष्टव्यानि। अर्थालंकारान्निरूपयितुमुपमानिरूपणस्य प्राथमिकत्वे हेतुमाह-अथेति। शब्दालंकारनिरूपणानन्तरमितर्थः । अवसर- प्राह्या अवसरसंगत्या निरूपणयोग्येषु अर्थालंकारेषु मध्ये सादृश्यमूलेषु सादृश्य- प्रतिभोत्थापितेषु स्मरणादिषु लक्षितव्येषु निरूपणीयेषु तेषां सादृश्यमूलालंकाराणा- मुपजीव्यत्वेन उत्थापकत्वेन प्राधान्यात्प्रथममुपमां निरूपयतीत्यर्थः । एवं च हेतुता-
वर्यस्य प्रार्थनीयस्य पदम्। ततः सर्व लभ्यत इत्यर्थः । समशब्दः सर्वपर्यायः । सममस्ति येषां ते समिनः सर्वेंश्वरा दैत्यास्तान्द्यति खण्डयति यः। सहतः सहिष्णोः पदम्। अस्तस्त्य- कस्तनयोऽन्धको येन। अन्धकस्य तत्पुत्रत्वात्। नयस्य वेदे ज्ञाने सति क्षतामतिर्निहृतकु- बुद्धि:। अथवैवं विपर्यय :- ईक्षणेन वर्यस्य पदं दर्शनमात्रेणाभोष्टप्रदः। सहतिः सह शत्रु- हिंसया वर्तंते। स्तुतिर्नयो यस्य। नयवादेनोक्षितं सिक्तं स्त्रुतममृतं येन सः॥ 1. क्रियेति। क्रियाकारकगुप्तादीनां विशेषोदाहरणानि मदीयमित्र-पण्डित-काशिनाथ- पाण्डुरङ्ग-परब-संकलिते सुभाषितरतभाण्डागारे द्रष्टव्यानि॥
- 'उपजीव्यत्वात्' क. २. 'प्रथम' इति नास्ति क-ख-पुस्तकयोः. ३. 'उपमालंकारं' घ.
Page 520
दशमः परिच्छेदः । ४७३
साम्यं वाच्यमवैधर्म्य वाक्यैक्य उपमा द्वयोः ॥ १४॥ संगतिदर्शिता। साम्यमिति। वाक्यस्यैकत्वे सति द्वयोः साम्यमुपमेत्यन्वयः । साम्यं साधम्ये गुणक्रियादिरूपम्। वाच्यमभिधया बोध्यम्। अवैधर्म्य विरुद्ध- धर्मोक्तिशून्यम्। वैधर्म्याविषयकैक्यवाक्यविषयत्वे सतीवादिवाच्यमुभयसंबन्धि- 1. साम्यमिति। साम्यं सादृश्यं साधम्यमित्यनर्थान्तरम्। अत्रेदमनुसंधयम्-उपमा- यासुपमानमुपमेयं साधारणो धर्मः साधर्म्य चेति चत्वारः पदार्थाः। तत्र साधारणधर्मवत्वेन प्रसिद्धः पदार्थ उपमानभ्, तद्धर्मवत्तया कविसंरम्भगोचर उपमेयम् । 'उत्कृष्टगुणवत्तया संभाव्यमानसुपमानम्, अपकृष्टगुणवत्तया संभाव्यमानमुपमेयम्' इति केचित्। 'सादृ- श्यप्रतियोगि उपमानम्, सादृश्यानुयोगि उपमेयम्' इत्यन्ये। उपमानोपमेययोः संगतो धर्म: साधारण इत्युच्यते। यस्य धर्मस्य संबन्धादयेन सह यदुपमीयते स साधारणधर्मः तदुपमानं तच्चोपमेयमिति तत्त्वम्। यथा-'कमलमिव मुखं मनोज्ञमेतत्' इत्यादौ मनो- ज्ञत्वधर्मसंबन्धात्तद्वत्तया प्रसिद्धेन कमलेन सह मुखमुपमीयत इति मनोज्ञत्वं साधारणो धर्म: कमलमुपमानं मुखमुपमेयमित्युपमालंकारः। अत्र सर्वत्रेवादिपदादेरिव यथादिपदा- दपि सादृश्यावगमने पर्यायपरिवृत्तिसहत्वादुपमादीनामर्थालंकारत्वम्। इयमुपमा तत्तदु- क्तिवैचित्र्येण नानालंकारभावमवगाहते। तथाहि-'चन्द्र इव मुखं मुखमिव चन्द्रः' इत्युपमेयोपमा। 'मुखं मुखमिव' इत्यनन्वयः । 'मुखमिव चन्द्रः' इति प्रतीपम्। 'चन्द्रं दृष्टा मुखं स्मरामि' इति स्मरणम्। 'मुखमेव चन्द्रः' इति रूपकम् । 'मुखचन्द्रेण तापः शाम्यति' इति परिणामः । 'किमिदं मुखमुताहो चन्द्रः' इति संदेहः। 'चन्द्र इति चको- रास्त्वन्मुखमनुधावन्ति' इति भ्रान्तिमान्। 'चन्द्र इति चकोरा: कमलमिति चञ्चरीकास्त्व- न्मुखे रज्यन्ति' इत्युल्लेखः । 'चन्द्रोडयं न मुखम्' इत्यपह्ववः । 'नूनं चन्द्रः' इत्युत्प्रेक्षा। 'चन्द्रोडयम्' इत्यतिशयोक्तिः। 'मुखेन चन्द्रकमले निर्जिते' इति तुल्ययोगिता। 'निशि चन्द्र- स्त्वन्मुखं च हृष्यति' इति दीपकम्। 'त्वन्मुख एवाहं रज्यामि चन्द्र एव चकोरो रज्यते' इति प्रतिवस्तूपमा। 'दिवि चन्द्रो भुवि त्वन्मुखम्' इति दृष्टान्तः । 'मुखं चन्द्रश्रियं बिभर्ति' इति निदरशना। 'निष्कलङ्कं मुखं चन्द्रादतिरिच्यते' इति व्यतिरेकः। 'त्वन्मुखेन समं चन्द्रो निशासु हृष्यति' इति सहोक्तिः । 'मुखस्य पुरतश्चन्द्रो निष्प्रभः' इत्यप्रस्तुतप्रशंसा । 'मुखं नेत्राङ्ककमनीयं स्मितज्योत्स्नाहारि' इति समासोक्तिः। एवं विविधभूमिकामासादयन्ती कविकर्मरङ्गे नृत्यन्ती उपमानरतकी सहृदयहृदयान्यावरजयतीति तत्प्राङनिरूपणे बीजम्। प्रसङ्गात्तद्वटकसादृश्यस्य प्रतियोग्यनुयोगिनावुच्येते-'चन्द्रकलाम्बुजदामशिरीषं विद्युत्तारा कनकलता च। दमनककाच्चनयष्टी दीपः सवैरेभियोषा वर्ण्या ।' 'रोचनास्वर्णविद्युन्भिर्हरि- द्राभिर्वराटकैः । चम्पकैर्हेमकेतक्या वर्ण्यंते तत्तनोर्द्युंतिः ॥' वराटकः प्रत्यग्रपझबीजम्। *वेत्रत्वचा तुल्यरुचां वधूनां कर्णान्ततो गण्डतलागतानि। भृङ्गाः सलीलं यदि नापतिष्य- न्कोडवेदयिष्यन्नवपङ्कजानि ॥', 'काश्मीरगौरवपुषामभिसारिकाणाम् इत्यादिप्रयोगदर्शना- त्तत्साम्यमप्यवसेयम्। 'तमःशैवालजीमूतबर्हभ्रमरचामरैः। यमुनावीचिनीलाश्मनीला- म्भोजै: समः कचः ॥', 'ललाटमर्धचन्द्रेण हेमपट्टिकया तथा। वल्लीसरधनुर्वीचिभङ्गालीप- छ्वैरभ्रुवौ ।।' 'चन्द्रादर्शौ कपोलस्य मुखस्येन्द्रब्जदर्पणाः। तिलप्रसूनं नासायाः कण्ठः कम्बो:
Page 521
४७४ साहित्यदर्पणे
रूपकादिषु साम्यस्य व्यङ्ग्यत्वम्, व्यतिरेके च वैधर्म्यस्याप्युक्तिः,
साधर्म्यमुपमेत्यर्थः । वाच्यादिपदचतुष्टयस्य क्रमेण व्यावृत्तिमाह-रूपकादि- ष्विति। आदिना परिणामादिग्रहणम्। 'मुखं चन्द्रः' इत्यभेदप्रत्ययानन्तरं 'मुखं चन्द्रसाधर्म्यवत्' इति व्यञ्जनया साधर्म्यप्रतीतिरिति भावः । ननु 'विधवति मु- खाब्जं-' इत्यादौ वक्ष्यमाणोदाहरणे साम्यस्य गम्यत्वात्कथं लक्षणगमनमिति चेतू, न। 'दध्यानय' इत्यादौ लुप्तस्यामादेः प्रतिसंधानात्कर्मतादेरिव उप्तायप्रत्ययप्रति- संधानात्साम्यस्य वाच्यताङ्गीकारात्समासस्यैवोपमावाचकल्वाङ्गीकाराच्। अत एव दण्डिनोक्तं सादृश्यवाचकप्रकरणे-'समासश्च बहुव्रीहिः शशाङ्कवदनादिषु' इति। चकारात्कर्मधारयश्च। ननु तथापि सादृश्यवाचकसमासस्य सत्त्वे 'क्किप्समासगता द्वेधा धर्मेवादिविलोपने' इति वक्ष्यमाणमसंगतमिति चेतू, न। समासस्य सादृश्य- वाचकलमखीकुर्वतां प्राचां मतानुसारेणैव तत्प्रकारस्य प्रणेष्यमाणलात्। एवं 'वदनं
सम: स्मृतः ॥' कामतूणीकृत्य नासा वर्ण्यंत इति श्रीहर्षः । 'नासावंशो मृगीदृशाम्' इति 'नासानाली तिलोपमा' इति च विशेषो द्रष्टव्यः । 'मृगतल्लोचनाम्भोजतत्पत्रझषखञ्ञनैः । नेत्रं चकोर तन्नेत्रकेतका लिस्मराशुगैः ॥', 'प्रवालबिम्बबन्धूकपल्लवैरधरोष्ठकौ। व्ण्यौं माघुर्य- माश्रित्य यावन्मधुरवस्तुभिः ॥', 'मुक्तामाणिक्यनारङ्गदाडिमीकुन्दकोरकैः । ताराभिश्च रदा, वाणी हंसालिशुककिंनरैः॥', 'वेणुकोकिलवीणाभिर्माधुर्य मधुरैः सद ॥', 'बाडुर्बिसेन विद्य- द्वल्लिमृणालैः, करस्तु पद्मेन । पल्वविद्रुमकाभ्यां, चन्द्रकलाकुन्दकोरकैश्च नखाः ।', 'पूगाब्जतत्कोर कबिल्व तालगुच्छेभकुम्भाचलकुम्भचक्रैः। सौवीरजम्बीरकबीजपूरसमुद्ग- छोलङ्गफलैरुरोजः ॥l', 'नाभी रसातलावर्तहृदकूपनदादिभिः । वली तटिन्या तद्रूपैः पृष्ठं काञ्वनपट्टकैः ॥' तद्रूपैस्तदनुकारिपाश।दिभिः । 'सूच्यग्रतलशून्याणुवदिसिंहादिभिः समः । मुष्टिग्राह्यो भवेन्मध्यो जघनं पुलिनोपमम् ॥' मध्यस्यातिसूक्ष्मत्वात्तत्प्राधान्येनोपमा- नवा। तेनैव 'सदसत्संशयगोचरोदरि' इति 'परमाणुमध्याः' इति च वर्णयन्ति। 'पीठ- प्रस्तरभूचक्रैर्नितम्बः परिवर्ण्यते। ऊरुस्तु हस्तिहस्तेन कदल्या करभेण च ।।', 'चरणः- पल्लवाम्भोजस्थलपद्मप्रवालकैः । पूर्णेन्दुनाङ्गुष्ठनखौ गमनं हसहस्तिवत् ।।', 'कटाक्षो यमुना- वीचिभृङ्गावलिविषामृतैः। ज्योत्सेन्दुपुष्पपीयूषफेनकैरववद्धसः ॥', 'मुक्ताफलं वा स्फुट- विद्रुमस्थम्' इति कालिदासप्रयोगान्मुक्ताप्यत्र गणनीया। दर्शनं वमदब्जादि: श्वासस्तु सुरभि: शनैः। हंससारसशब्दाभ्यां वर्ण्यंते नूपुरध्वनिः ॥', 'पुंसामत्यन्तपीनत्वमुच्चता दी- र्घबाहुता। युगार्गलभुजङ्गेन्द्रदण्डस्तम्भेभहस्तकैः ॥' 'बाहु,र्वक्षः कपाटेन शिलापट्टेन वर्ण्यते। अंसे विपुलता मध्ये कार्श्यमुन्नतता पदे ।', 'स्तनयोरिव योषाणामत्यन्तस्वच्छता हृदि। कान्तिप्रयोजकं यावत्तावत्तद्वत्प्रवर्ण्यंते ॥', 'प्रतापोऽर्कानिवज्रादैः कीर्तिश्चन्द्रादिशु- अ्रकैः। करे पद्मोर्ध्वरेखादि पदे च्छत्रध्वजादिकम्॥ गमनं हस्तिसिंहाभ्यां कार्कश्यं च भुजादिषु ॥' इति दिक्। विस्तरस्तु तत्तदवर्णनानियामकमहाकविप्रयोगानुसारेणानुसंधेयः । उत्तं च-'कवीनां घटनान्यैव चराचरविलक्षणा। अकर्तुमन्यथा कर्तु कर्तु या क्षमते जगत् ।।' इति ॥
Page 522
दशम: परिच्छेद:। ४७५
उपमेयोपमायां वाक्यद्वयम्, अनन्वये त्वेकस्यैव साम्योक्तिरित्यस्या भेदः । सा पूर्णा यदि सामान्यधर्म औपम्यवाचि च। उपमेयं चोपमानं भवेद्वाच्यम्
मृगशावाक्ष्या: सुधाकरमनोहरम्' इत्यौपम्यवाचकस्य लोपे यदुदाहृतं तदपि प्राचीन- मतानुसारेणैव वेदितव्यम्। एतन्मते तु प्रथमं धर्मलोपस्य द्वितीयं पूर्णाया उदाहरणं बोध्यम्। ननु तथापि 'मुखमस्या विधुं द्वेष्टि', सदयोमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम्' इत्यादावव्याप्तिः साम्यस्य गम्यलात्। न च 'स्पर्धते जयति द्वेष्टि' इत्यादिदण्डिदर्शनात्तत्रापि साम्यस्य वाच्यत्वमिति वाच्यम्। तस्य साम्यव्यजकपर- त्वेनोपपत्तौ साम्यवाचकत्वकल्पनाया अन्याय्यलात्। अन्नोच्यते-द्वेषस्पर्धयोश्चेत- नधर्मत्वेन मुखनारङ्गकयोरसंभवादुपमायां पर्यवसानेन तादशस्थले निदर्शनालंकार- स्यैवाङ्गीकारातू। 'इवादि' इत्युपादानात् 'मुखचन्द्रौ मनोज्ञौ' इत्यत्रोभयसाम्यस्य वाच्यत्वेऽपि नातिव्याप्तिः। व्यतिरेके इति। 'अकलङ्गि मुखं तस्या न कलङ्की यथा विधुः' इत्यादेकवाक्यगतव्यतिरेक इत्यर्थः । अत्राकलड्गितमुपमानस्य कल ड्वितमुपमेयस्य वैधर्म्यम्। नन्वत्र साम्यस्य वाच्यत्वेऽपि तस्य नजा मुखे संबन्धा भावबोधादुभयसंबन्धितमेव नास्ति, कथमत्रोपमाप्रसक्तिरिति चेत्, न । मुखे चन्द्रसाधर्म्यबाधासंभवेन नजो मुखस्योत्कषातिशयप्रतीतिमात्रे तात्पर्यात्। उप- मेयोपमायामिति । 'मतिरिव कमला कमलेव मतिः-' इत्यादावित्यर्थः । अत्र श्रीमत्योरतुल्यत्वं साधर्म्ये वाक्यद्ूयेन प्रतिपाद्यते। रसनोपमादेरपि विलक्षण वैचित्र्याधायकत्वेनालंकारान्तरत्वमित्यनेनैव तद्वारणमित्यवधेयम्। वाक्यैक्य इति। वाक्यान्तरव्यवच्छेदकमेव न त्वेकपदव्यवच्छेदकम्। तेन मुखाब्जमित्यादा- चेकपदेऽप्युपमा। अनन्वये त्विति। 'चन्द्रश्चन्द्र इवातन्त्रः' इत्यादावित्यर्थः । अत्रैकस्यैव चन्द्रस्यातत्रतं साधर्म्यमिवशब्देन प्रतिपाद्यते। ननु 'घटतमिव पटलं नित्यम्' इत्यादेरप्युपमातं स्यादिति चेष्टमेव, किंतु वैचित्र्यविशेषानाधायकत्वात्तस्या- मलंकारव्यवहारो नास्तीति विशेषः । एवमन्यन्नापि बोध्यम्। केचित्तु-'इवादि शब्दवत्तुल्यादिपदेनापि साधारणधर्मस्य प्रतिपादनात्करिष्यमाणश्रौत्यार्थीविभागा- नुपपत्त्या साधारणधर्मसंबन्ध एवोपमा, न तु साधारणधर्ममात्रम्। स च प्रतियो- गितारूपः । 'चन्द्र इव मुखम्' इत्यादौ चन्द्रप्रतियोगिकसादृश्याश्रयो मुखमिति प्रतीतेरानुभाविकत्वात्। तादृशसंबन्धश्च इवादिशव्देन वाच्यस्तुल्यादिपदेनार्थवश- लभ्य इति श्रौत्यार्थीविभागः' इत्याहुः, तन्न। आर्थ्यामुपमायामव्याप्तेः । तत्र साधारणधर्मसंबन्धस्य विभत्त्यादिप्रतिसंधानलभ्यतया इवादिशब्दवाच्यत्ाभावाद, उभयसंबन्धितस्येवादिवाच्यत्वे श्रौती अर्थवशलभ्यत्वे लार्थीति विवक्षयैव विभा- गोपपत्तेश्व। उपमाया: पूर्णा लुप्ता चेति भेदद्वयमाह-सेति। सामान्यपदविवरणम्।
- आपम्यवाचीति। उक्तं च दण्डिना-'इववद्ायथाशब्दाः समाननिभसंनिभाः ।
Page 523
४७६ साहित्यदर्पणे
सा उपमा। साधारणधर्मो द्वयोः सादृश्यहेतू गुणक्रिये मनोज्ञ- त्वादि। औपम्यवाचकमिवादि। उपमेयं मुखादि। उपमानं चन्द्रादि।
श्रौती यंथेववाशब्दा इवार्थो वा वतिर्यदि। इयं पुनः ॥१५।
आर्थी तुल्यसमानाद्यास्तुल्यार्थो यत्र वा वतिः ॥१६ ।। यथेववाद्यः शब्दा उपमानान्तरप्रयुक्ततुल्यादिपदसाधारणा अपि श्रतिमात्रेणोपमानोपमेयगतसादृश्यलक्षणसंबन्धं बोधयन्तीति तत्सद्भावे साधारणेति। सादृश्यहेतू सामान्यव्यावृत्तिबोधकारणे विशेषणे इति यावत्। औ- पम्यवाचकमिति। अव्ययानामन्विताभिधानस्वीकारादिति भावः । उपलभ्यमा- नसाम्यस्यानुयोगि उपमेयम्, प्रतियोगि उपमानम्। पूर्णोपमायाः श्रौतार्थीभेदेन द्वै- विध्यमाह-इयं पुनरिति। इयं पूरणोपमा। श्रूयत इति श्रुतिः शब्दः, तया साक्षा- देवोपलभ्यमानोपमेयसंबन्धा श्रौती। तस्या उपलम्भकानाह-यथेवेति। 'वा स्याट्विकल्पोपमयोरिवार्थे च समुच्चये' इति कोषाद्वाशब्दस्योपमार्थतम्। बहुवचन- माद्यार्थम्। तेन 'पङ्ढजदलानिव लोचनानि' इत्यादौ वशब्दोऽप्युपमार्थः। पदार्था- नुसंधानापेक्षया प्रतीयमानोभयसंबन्धा आर्थी। तस्या ज्ञापकानाह-तुल्येति। आद्यपदेन समसदृदशादीनां ग्रहणम्। भेदमुपपादयति-यथेवेति। यद्यपि यथा- दयः शब्दा उपमानवाचकपदात्परं प्रयुज्यमानस्य तुल्यादिपदस्य साधारणस्तदुप- मानोपमेयगतसाधर्म्यबोधकाः, तथापि श्रुतिमात्रेण खोपलब्धिमात्रेण न तु पदार्थानु- तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः ॥ प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः । सद्ृ- क्सटृशसंवादिसजातीयानुवादिनः । प्रतिबिम्बप्रतिच्छन्दसरूपसमसंमिताः ॥ सलक्षण- सदृक्षाभसपक्षोपमितोपमाः । कल्पदेशीयदेश्यादिप्रख्यप्रतिनिधी अपि ॥ सवर्णतुलितौ शब्दौ ये चान्यूनार्थवादिनः । समासश्च बहुव्रीहिः शशाङ्कवदनादिषु ॥ स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति। आक्रोशत्यवजानाति कदर्थयति निन्दति॥ विडम्बयति संधत्ते हसतीर्ष्यत्यसूयति। तस्य मुष्णाति सौभाग्यं तस्य कान्ति विलुम्पति॥ तेन सार्ध विगृह्ाति तुलां तेनाधि- रोहति। तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते॥ तमन्वेत्यनुबन्नाति तच्छीलं तं निषे- धति। तस्य चानुकरोतीति शब्दाः सादृश्यसूचकाः ॥ उपमायामिमे प्रोत्ताः, कवीनां बुद्धिसौख्यदाः ॥' इति। अभिधया लक्षणया व्यञ्जनया चोपमाप्रतीतिरिति तस्या वाचका इवादयः, लक्षकाः स्पर्धत इत्यादयः, स्पर्धादीनां सादृश्ये संकेताकरणात, व्यञ्जकाः 'तस्य मुष्णाति सौभाग्यम्' इत्यादयः ॥ 1. यथेति। अत्र वाशब्दवद् वशब्दोऽप्युपमार्थको बोध्यः । तथा च कालिदास :- 'शात्रवं व पपुर्यशः' इति। यद्यपीह 'शात्रवं च' इति चघटितपाठो बहुत्रोपलभ्यते तथापि न श्राध्य इवार्थक-वशब्दोपादानेनैव चमत्कारोत्पत्तेः 'मणी वोष्टस्य' इति भारत- प्रयोगसमर्थनावसरे मनोरमायां दीक्षितैरुपेक्षितत्वाच्च॥ १. 'सादृश्यहेतुर्मनोज्ञत्वादि:' क. २. 'साक्षादेव' इति पुस्तकान्तरे नास्ति.
Page 524
दशम: परिच्छेदः। 8७७
श्रौत्युपमा। एवं 'तत्र तस्येव' इत्यनेनेवार्थे विहितस्य वतेरुपादाने। तुल्यादयस्तु 'कमलेन तुल्यं मुखम्' इत्यादावुपमेय एव। 'कमलं मुखस्य तुल्यम्' इत्यादावुपमान एव । 'कमलं मुखं च तुल्यम्' इत्यादावुभय-
संधानापेक्षया उपमानोपमेयवृत्तिसाधर्म्यें बोधयन्तीति हेतोस्तेषां यथादिशब्दानां सद्भावे प्रयोगे श्रौती उपमेत्यर्थः । अव्ययानामन्विताभिधानस्वीकाराद् यथा 'घटो न पटः' इत्यादौ नञ्पदं पदार्थोपस्थितिमन्तरेणैव पदार्थोपस्थितेः प्रागेव समभिव्या- हृतपदार्थयोरन्वितं भेदं बोधयति, तथा 'कमलमिव मुखम्' इत्यादाविवादिपदमपि श्रवृणमात्रेण समभिव्याहृतपदार्थयोरन्वितं साधर्म्यें बोधयति। अन्विताभिधानवा- दिमते. ह्यखण्डवाक्यस्याखण्डवाक्यार्थे शक्तिरेकातिरिक्ता कल्प्यते, प्रथमं तयैव वाक्यार्थबोधो जायते, पश्चादेव शत्त्या लक्षणया वा प्रत्येकपदार्थोपस्थितिरिति
संबन्धेन साक्षादन्वयास्वीकारादव्ययार्थस्य नामार्थेन साक्षादेवान्वयः संभवतीत्यव्य- यपदेनोपमानोपमेयभावेऽपि साधारणधर्मसंबन्धोपस्थापनेन विभत्त्यर्थप्रतिसंधाना- पेक्षेति बोध्यम्। एवमिति। 'तत्र तस्येव' इति पाणिनिसूत्रम्। तत्रेव तस्येवेत्- र्थे वतिर्भवतीति तदर्थः । इवार्थकस्य वतेरिवशब्दतुल्यव्युत्पत्तिः, तदुपादानेऽपि श्रौत्येवोपमेत्यर्थः । आर्थामुपपादयति-तुल्यादयस्त्विति। 'शब्दाः' इत्यनुषङ्गः । 'कमलेन' इति षष्यर्थे तृतीया। षष्ठ्यर्थश्चात्र कुम्भस्य जलमितिवदाधेयत्म्। तस्य च तुल्यपदार्थैकदेशे सादृश्येऽन्वयः । तथा च कमलवृत्तिसादृश्याश्रयो मुखमित्यर्थः । उपमेय एवेति। 'विश्राम्यन्ति' इत्यग्रेणान्वयः। सवार्थ बोधयन्तीति तदर्थः । एवकारेण उपमानव्यवच्छेदः । एवं च तुल्यादिपदानामनव्ययतयान्विताभिधान- सवीकारेणार्थबोधात्प्राक् पदार्थोपस्थितिमात्रं जनयिला उपमेय एव विश्रान्तिः, पश्चात्तूपमानपदार्थानुसंधानेन तात्पर्यानुसंधानेन चोपमानस्य सादृश्योपमानप्रतीति- रिति भावः। उपमान एवेति। 'तुल्यादयः शब्दा विश्राम्यन्ति' इत्यन्वयः । कमलादीनां मुखोपमानतं प्रसिद्धमित्यभिप्रायेणेदम्। वस्तुतस्तु कमलमत्रोपमेयमेव। इयमेव विपर्यासोपमेति दण्डी। विषयविशेषे तुल्यादिपदानामपि षष्ठ्यर्थानुसंधानं विनाप्युभयसंबन्धिसाध्म्यबोधकत्वमाह-कमलं मुखं चेति। अर्थानुसंधानादे-
- तन्रेति। तत्रेति सप्तमीसमर्थात्तस्येति षष्ठीसमर्थाच्च इवार्थें वतिप्रत्ययो भवतीति तदर्थः । सप्तमीसमर्थाद्यथा-मथुरावत्सुन्ने प्राकारः। मथुरायामिव मथुरावदिति विग्रहः। प्राकाराद्याधेया पेक्षा धिकरणविहितसप्म्यन्ताद्वतिप्रत्ययविधानम्। मथुरायां यादशः प्राका रस्तेन तुल्यः स्तुन्ने प्राकार इत्यर्थः। षष्ठीसमर्थाद्यथा-चैत्रवन्मैत्रस्य गावः। चैत्र- स्येव चैत्रवदिति विग्रहः । चैत्रादिस्वाम्यपेक्षसंबन्धविहितषष्ठ्यन्ताद्वतिः। चैत्रस्य यादृश्यो गावस्तत्तुल्या मैत्रस्येत्यर्थः ।।
१. 'अन्वित' इति मुद्धितपुस्तके.
Page 525
४७८ साहित्यदर्पणे
त्रापि विश्राम्यन्तीत्यर्थानुसंधानादेव साम्यं प्रतिपादयन्तीति तत्सद्भावे आर्थी। एवं 'तेन तुल्यं- इत्यादिना तुल्यार्थे विहितस्य वतेरुपादाने। द्वे तद्धिते समासेऽथ वाक्ये द्वे श्रौती आर्थी च। उदाहरणम्- 'सौरभमम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ। हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले।।' अत्र क्रमेण त्रिविधा श्रौती।
वेति षष््यर्थानुसंधानादुभयसंबन्धसाम्यं बोधयन्त्येवेत्यर्थः । तुल्यादिपदानामपि क्वचित्षध्यर्थानुसंधानं विनाप्युभयसंबन्धसाम्यबोधकत्वस्य संभवेऽपीवादिवत्सर्वत्र तदभावात्तत्सद्भावेन श्रौत्युपमेति भावः। तुल्यार्थस्य वतेरुपादानेऽप्यार्थीमाह- एवमिति। 'तेन तुल्यं-' इति पाणिनिसूत्रम्। वतेरुपादाने आर्थीति संबन्धः। श्रौत्यार्थीभेदेन द्विविधायाः पूर्णोपमायास्त्रैविध्यमाह-द्वेइति। तद्धिते वत्कल्पादि- योगे। समास इति। इवयोग एवोपमानात्सर्वविभक्तीनामिवेत्यलोपविधानसाम- र्थ्यात्समासः । स च नित्य एव। 'नित्यसमासे इवयोगे समासगा' इति काव्यप्रका- शदर्शनादिवार्थस्य विशेषसापेक्षत्वेऽप्यनभिधानबलात्समासः। एवं च प्रतियोगिपदा- समभिव्याहारेण यदिवपदं प्रयुज्यते तत्प्रयोक्तप्रमादजमेव। वाक्ये यथादियोगे- Sत्रागमकत्वेन समासाभावात्तदोगे वाक्यगतैवोपमेति भावः। एवं त्रिविधा श्रौती। आर्थी तु तद्धिते वदादियोगे तुल्यादिपदसमासस्य वैकल्पिकत्वात्समासे वाक्ये च संभवतीति भावः । समासपक्षेऽपि लुप्तषष्यर्थस्य लक्षणाया वा प्रतिसंधानादेवोप- मानसंबन्धबोध इत्यार्थ्येव। सौरभमिति। मुखस्य सौरभमम्भोरुहवृत्तिसाधर्म्या- भिन्नमित्यन्वयबोधः । यद्वा सौरभाभिन्नमम्भोरुहसाधर्म्य मुखसंबन्धीति। स्तनौ
- तेनेति। 'तेन तुल्यं क्रिया चेद्वतिः' इति संपूर्णसूत्रम्। तेनेति तृतीयासमर्थात्तुल्य- मित्यर्थे वतिः प्रत्ययो भवति, यत्तुल्यं क्रिया चेत्सा भवतीति तदर्थः । उपमेयस्य क्रियात्वे उपमानवाचकात्तृतीयान्तात्तुल्यमित्यर्थे वतिप्रत्ययो भवतीति भावः । 'ब्राह्मणवदधीते क्ष- त्रियः' इति तदुदाहरणम्। ब्राह्मणेन तुल्यं ब्राह्मणवदिति विग्रहः। अध्ययनक्रियाविशेष- णत्वात्तुल्यमिति द्वितीया नपुंसकत्वं च। ननु ब्राह्मणसादृश्यस्याध्ययनेऽ्भावात्कथमिह वतिरिति चेत, न। ब्राह्मणशब्दस्य तत्कर्तृकाध्ययने लाक्षणिकत्वात्। सौष्ठवादिश्चात्र साधारणो धर्मः । तथा च ्राह्मणकर्तृकाध्ययनतुल्यं क्षत्रियकर्तृकं वर्तमानकालिकमध्ययन- मिति बोधः। अत्र 'क्रिया चेत्' इत्युत्तया क्रियातुल्यत्व एवास्य वतेः साधुत्वम्। 'तन्र तस्येव' इति विहितस्य तु गुणजात्यादिनापि तुल्यत्वे साधुत्वमिति विवेकः । तेन 'पुत्रेण तुल्यः स्थूलः' इति गुणतुल्ये वाक्यमेव तिष्ठति, न तु वतिरिति बोध्यम् ।। 2. सौरभमिति। अत्राम्भोरुह्मुपमानम्, मुखस्येत्युपमेयम्, सौरभं साधारणो धर्मः। 'अम्भोरुधवत्' इत्यत्र 'तत्र तस्येव' इति षष्ठयन्तादिवार्थें वतिप्रत्यय इति तद्धितगा
Page 526
दशम: परिच्छेदः। ४७९
'मैधुरः सुधावदधरः पल्लवतुल्योऽतिपेलवः पाणिः चकितमृगलोचनाभ्यां सदृशी चपले च लोचने तस्याः ।' अत्र क्रमेण त्रिविधा आर्थी।
पीनत्वाभिन्नकुम्भवृत्तिसाधर्म्याश्रयावित्यन्वयबोधः। एवमुत्तरत्रापि। सुधावदिति। प्रथमान्तात्तुल्यार्थे वतिः। पेलवः कोमलः। अत्रैकदेशस्याश्लीलत्वेऽपि पादचूतादि- शब्दवत्कविनिवहप्रयुक्तत्वान्न दोषः । अत्र पेलवपदार्थैकदेशस्य तुल्यपदार्थैकदेशे साम्येऽ्भेदान्वयो व्युत्पत्तिवैचित्र्यात्। नन्वम्भोजस्येव मुखस्य सौरभमित्यादौ साधारणधर्मस्योपमानसंबन्धित्वबोधे षध्यर्यानुसंधानस्यापेक्षणीयतया कथ श्रौतील- मिति चेत्, न। नामार्थनिपातयोरन्वयबोधे विभत्तयर्थानुसंधानस्यातन्ततया तत्र षध्या विशेषणविभक्तेरिव प्रयोगसाधुतमात्रार्थकत्वात्। अन्यथा 'चन्द्रादिव मुखा-
श्रौती पूर्णा। अम्भोरुहपदस्य तत्संबन्धिसौरभलक्षकत्वेन अम्भोरुहसंबन्धिसौरभसदृशं मुखसंबन्धिसौरभमिति बोधः। ततः सौरभयोः सादृश्यमूलकाभेदाध्यवसायेनाभिन्नधर्ममूला अम्भोरुहमुखयोरुपमाप्रतीतिः । 'अम्भोरुहस्येवास्य सौरभम् ' इत्यादिस्थले षष्ठयुपपत्तये सौरभपदस्यावृत्त्या अम्भोरुहेऽप्यन्वयेन तादृशबोधस्यानुभवेन वृत्तावपि तथैवौचित्यात्। कुम्भावित्युपमानम्, स्तनावित्युपमेयम्, पीनत्वादि: साधारणो धर्मः, इवशब्द उपमा प्रतिपादकः । 'कुम्भाविव' इत्यत्र 'इवेन समासो विभत्तयलोपः पूर्वपदप्रकृतिस्वरत्वं च' इति वार्तिकेन समासे समासगा श्रौती पूर्णा। अत्र काव्यप्रकाशादौ 'इवेन-' इति वार्तिके नित्यपदप्रक्षेपो दृश्यते स चाप्रामाणिक इति तद्याख्यातारः । अत एव 'उद्धाहुरिव वामनः' इत्यादिव्यस्तप्रयोगाः संगच्छन्त इति मनोरमादावुक्तम्। तेन समासाभावे तु वाक्य- गैव श्रौती पूर्णेति बोध्यम्। कुम्भसादृश्यप्रयोजकपीनत्वादिधर्मवन्तौ स्तनाविति बोधः। शरदिन्दुरुपमानम्, वदनसुपमेयम्, मदयतीति मादनं साधारणो धर्मः, यथेत्युपमाप्रति- पादकम्। अत्र 'यथासादृश्ये' इत्यनेनासादृश्ये एव समासनियमेन सादृश्ये समासाभा- वाद्वाक्यमिति वाक्यगा श्रौती पूर्णेति। अत्र यत्तच्छब्दप्रकृतिक-प्रकारवाचि-थालप्रत्ययान्त- यथादिशब्दयोगे यद्धर्मवान्शरदिन्दुस्तद्वर्मवद्वदनमित्युभयविशेष्यको बोधः, ततो यत्तत्यां ध्मैक्यबोधात्सादृश्यं फलति, हृदयमादनलक्षणोडनुगामी साधारणो धर्म इति तत्त्वम् । 1. मधुर इति। सुधा उपमानम्, अधर उपमेयम्, माधुर्ये साधारणो धर्मः, 'सुधावत्' इत्यत्र 'तेन तुल्यं-' इत्यादिना तृतीयान्तात् 'तुल्यार्थें वतिः' इति तद्धितगा आर्थी पूर्णा। सुधातुल्याभिन्नो मधुर इति बोधः। तुल्यत्वप्रयोजकं च माधुर्य पश्चान्मनसा व्यज्जनया वा बुध्यते। पल्लव इत्युपमानम्, पाणिरित्युपमेयम्, अतिपेशलत्वं साधारणो धर्मः, तुल्य- पदमुपमाप्रतिपादकम् । 'पलवतुल्यः' इत्युपमानोपमाप्रतिपादकयोः समासत्वात्समास- गार्थी पूर्णा। चकितहरिणलोचने उपमानम्, लोचने उपमेयम्, चपलत्वं साधारणो धर्मः सदृशी इत्युपमाप्रतिपादकम्। सद्ृशशब्देन सह समासाभावाद्वाक्यमिति वाक्यगार्थी पूर्णेति।।
Page 527
४८० साहित्यदर्पणे
पूर्णा षडेव तत्। स्पष्टम्। लुप्ता सामान्यधर्मादेरेकस्य यदि वा दयोः ॥१७॥ त्रयाणां वानुपादाने श्रौत्यार्थी सापि पूर्ववत्। सा लुप्ा। तद्ेदमाह- पूर्णावद्धर्मलोपे सा विना श्रौतीं तु तद्विते ॥ १८ ॥ सा लुप्तोपमा धर्मस्य साधारणगुणक्रियारूपस्य लोपे पूर्णावदिति पूर्वोक्तरीत्या षटप्रकारा, किं त्वत्र तद्धिते श्रौत्या असंभवात्प्ञ्चप्र- कारा। उदाहरणम्- 'मुखमिन्दुर्यथा, पाणिः पल्लवेन समः प्रिये। वाच: सुधा इवोष्ठस्ते बिम्बतुव्यो, मनोऽश्मवत् ।।' आधारकर्मविहिते द्विविधे च क्यचि, क्यडि। कर्मकत्रोर्णमुलि च, स्यादेवं पञ्चधा पुनः । १९ ।। तस्या निरश्चति कथामृतम्' इत्यादौ संबन्धबोधकविभत्त्यभावादुपमानसंबन्धबोधो न स्यात्। तदिति। उक्तप्रकारादित्यर्थः । उुप्तामाह-लुप्तेति। आदिपदेन उप- मानोपमेयेवादीनां संग्रहः। अनुपादाने अवाच्यत्वे अप्रयोगे चेति यथासंभवं बोष्यम्। तद्धिते श्रौत्या असंभवादिति। धर्मस्यानुपादाने तन्निष्ठसंबन्धबो- धिकायाः षष्याः सप्तम्या वानुत्पत्तौ तदन्तविहित इवार्थे वतिर्न संभवति। कल्पादेस्तु तुल्यार्थे विहितत्वेन तद्योगे आर्थ्येव संभवृतीति भावः। अश्मवदिति। अश्मतुल्यमित्यर्थः । धर्मलप्ताया एवोपमायाः पुनरपि पञ्चप्रकारानाह-आधा- रेति। अधिकरणात्कर्मणश्च विहिते क्यचि ईयप्रत्यये, कर्तुर्विहिते क्यडि आयि-
- पञ्चेति । वाक्य-समासगतत्वेन द्विविधा श्रौती, वाक्य-समास-तद्धितगतत्वेन त्रिविधार्थीति मिलित्वा धर्मलोपे पञ्चविधा लुप्तोपमेत्यर्थः ॥ 2. मुखमिति। अत्रेन्दुमुखयोरुपमानोपमेययोराह्लादकत्वादिः साधारणधर्मो नोपात्तः, यथाशब्देन समासाभावाद्वाक्यमिति वाक्यगा धर्मलुप्ता श्ौती। पछवपाण्योरुपमानोपमेय- योमार्दवादि: साधारणो ध्मों नोपात्तः, समशब्देन समासाभावाद्दाक्यमिति वाक्यगा धर्मलुप्तार्थी। सुधावाचोरुपमानोपमेययोर्माधुर्य साधारणो धर्मो नोपात्तः, इवेन समास इति समासगा धर्मलुप्ता श्रौती। बिम्बोष्ठयोरुपमानोपमेययो रक्तिमा साधारणधर्मो नोपात्तः, तुल्यशब्देन समास इति समासगा धर्मलुप्तार्थी। मनोऽश्मनोरुपमेयोपमानयोः काठिन्यं साधारणो धर्मों नोपात्तः । अश्मवदिति तृतीयान्तात्तुल्यार्थे वतिरिति तद्धि- तगा धर्मलुप्तार्थीति शेयम् । 1. 'ग्रहणम्' इति पुस्तकान्तरे.
Page 528
दशमः परिच्छेदः । ४८१
'धर्मलोपे लुपा' इत्यनुषज्यते। क्यच्-क्यङ्-णमुलः कलापमते यिन्नागमः । क्रमेणोदाहरणम्- 'अन्तःपुरीयसि रणेषु, सुतीयसि त्वं पौरं जनं, तव सदा रमणीयते श्रीः। दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र- संचारमत्र भुवि संचरसि क्षितीश ।।' अत्र 'अन्तःपुरीयसि' इत्यत्र सुखविहारास्पदत्वस्य, 'सुतीयसि' इत्यत्र सेहनिर्भरत्वस्य च साधारणधर्मस्य लोपः। एवमन्यत्र ।
प्रत्यये, कर्मकत्रोरुपपदयोर्विहिते णमुलि क्लादेशे णमि, यिन्निति ईयप्रत्ययस्य संज्ञा। अन्तःपुरीयसीति। तुल्यतमाचारश् ईयप्रत्ययार्थः । आचारश्वात्राधि- करणलान्वययोग्यक्रिया। सा च प्रकृते संचाररूपा ग्राह्या। व्युत्पत्तिवचित्र्येण तुल्यत्स्य प्रकृत्यर्थे आचारस्याख्यातार्थेऽन्वयः । तथा चान्तःपुरतुत्येषु रणेपु संचारकर्तेत्यन्वयबोधः । 'सुतीयसि' इत्यादौ लाचारो मननम्, पौरजनं सुततुल्यं मन्यस इत्यर्थः । 'रमणीयते' इत्यत्राचारो वर्तनम्, रमणीतुल्या श्रीर्वर्तत इत्यर्थः । अत्रात्यन्ताधीनत्वस्य उपभोगसाधनत्वस्य वा साधारणधर्मस्य लोपः । दृष्ट इति। अमृतद्युतिरिव दृष्ट इत्यर्थः । अत्र मनोज्ञतादिः साधारणो धर्मः । इन्द्रसंचार- मिति। इन्द्र इव संचरसीत्यर्थः । अत्र विभावाद्यतिशयः साधारणधर्मः । केचि- त्तु-'क्यच्क्यडोरर्थ आचारस्तस्यान्र विद्यमानत्वाद्वर्मलोपोदाहरणमेतन्न भवति' इत्याहुः, तन्न। आचारस्य साधनत्वेपि प्रकृते सादृश्यहेतुत्वेन विवक्षणात्, उप- दर्शितर्माणां सादृश्यहेतुत्वेन झटिति प्रतीयमानत्वात् 'चन्द्रायते शुककरुचापि
- अन्तरिति। 'अन्तःपुरे इवाचरसि अन्तः पुरीयसि' इत्यत्र 'उपमानादाचारे' इति सूत्रस्थेन 'अधिकरणाच्च' इति वार्तिकेनोपमानवाचकादन्तःपुरे इत्यधिकरणपदादाचारेडयें क्यच्। 'सुतमिवाचरसि सुतीयसि' इत्यत्र 'उपमानादाचारे' इति सूत्रेणोपमानवाचका- त्सुतमिति कर्मपदादाचारेडयें क्यच् । 'रमणीवाचरति रमणीयते' इत्यत्र 'कर्तुः क्यङ् सलोपश्च' इति सूत्रेणोपमानवाचकाद् रमणीतिकर्तृपदादाचारेडथें क्यड। क्यडो डित्वादा- त्मनेपदम्। अमृतधुतिमिव दर्शनमिति अमृतद्युतिदर्शनम्। 'कृन्मेजन्तः' इत्यनेनाव्ययसं- ज्ञाविधानादव्ययम्। अत्र 'उपमाने कर्मणि च' इति सूत्रेणोपमानवाचके अमृतद्यतिमिति कर्मण्युपपदे दृशधातोर्भावे णमुल। 'कषादिषु यथाविध्यनुप्रयोगः' इति सूत्रेण 'यस्मा ण्णमुलुक्त: स एव धातुरनुप्रयोक्तव्यः' इत्यर्थकेन 'दृष्टः' इति दृशधातोरेवानुप्रयोगः । इन्द्र इव संचरणमितीन्द्रसंचारम्। अत्रापि 'उपमाने-' इति सूत्रेण चकारानुकृष्टे उप- मानवाचके इन्द्र इति कर्तर्युपपदे संपूर्वकाच्चरतेर्भावे णमुल। स च णमुल 'तुमर्थे सेसे- नसेऽसेन्-' इत्यादिसूत्रभाष्यगतेन 'अव्ययकृतो भावे भवन्ति' इति वाक्येन भाव एव भव- तीत्यवसेयम्। सा० द० ४१
Page 529
४८२ साहित्यदर्पणे
इह च यथादितुल्यादिविरहाच्छौत्यादिविशेषचिन्ता नास्ति। इदं च केचिदौपम्यप्रतिपादकस्येवादेलोंपं उदाहरन्ति, तद्युक्तम्। क्यडा- देरपि तदर्थविहितत्वेनौपम्यप्रतिपादकत्वात्। ननु क्यडादिषु सम्यगौ- पम्यप्रतीतिर्नास्ति, प्रत्ययेनास्तत्रत्वाद् इवादिप्रयोगाभावाच्च, इति न वाच्यम्। कैल्पबादावपि तथाप्रसङ्गात्। न च कल्पबादीनामिवादि- तुल्यतयौपम्यस्य वाचकत्वम्, क्यडादीनां तु द्योतकत्वम्। ईवादीनामपि वाँचकत्वे निश्चयाभावात्। वाचकत्वे वा 'समुदितं पदं वाचकम्'
इंसः' इत्यादौ सत्यप्याचारे 'शुकरुचा' इति साधारणधर्मप्रयोगदर्शनाच्, आचारस्या- ख्यातार्थान्वितलेन निराकाहृतया क्यच्क्यडोरर्थे सादृश्येऽभेदान्वयसंभवेन सादृश्य- हेतुत्वायोगाच्च। इहचेति। श्रौतीत्यादिपदेनार्थीपरिग्रहः । वस्तुतस्तु यथा तुल्यार्थ- विहितस्य वतेयोंगे आर्थीत्वम्, तथात्रापि तुल्यार्थविहितक्यचूक्यडोर्योगे आर्थीत्वम्। श्रुतिः शब्दस्तेन साक्षात्प्रतीयमाना शौती, तदितरा आर्थीति वदतश्ण्डीदासस्य मते सुतरामार्थीत्वम्। वतेरितीवाद्युपलक्षणम्। कल्पवादेरित्यनुबन्धप्रकारसहितनिर्देशः। निश्चयाभावादिति। तथा चेवादेरव्ययतया उपमावाचकत्वमसिद्धं तत्तुल्यस्य कल्पादेः सुतरामेव तदसिद्धमिति भावः। ननु 'कमलमिव मुखम्' इत्यादावुप- मालक्षणाव्याप्तिभयेन इवादेरुपमावाचकत्वमवश्यमङ्गीकार्यमित्यभिप्रायेणाह-वाच- कत्वे वेति। इवादितुल्यत्वेन कल्पादेरुपमावाचकत्वाङ्गीकारे वेत्यर्थः । समुदितं
-
केचिदिति। काव्यप्रकाशकारादय इत्यर्थः। तथा चाहु :- 'वादेलोंपे समासे वा कर्माधारक्यचि क्यडि। कर्मकत्रोर्णमुलि-' इति॥ 2. अस्वतत्रत्वाढिति। 'प्रकृतिप्रत्ययौ सहार्थ पृतैः' इति दर्शनेन प्रत्ययानां स्वात-
-
कल्पबादाविति। अन्रेदं तत्त्वम्-'ईपदसमातौ कल्पब्देश्यदेशीयरः'इति। सूत्र- विहितस्य कल्पप्प्रत्ययस्य 'विपकल्पं मन :- ' इत्यादिसामानाविकरण्येन निर्देशादीपदसमाप्ति- विशिष्टो धर्मी अर्थः । ईपदसमाप्तिश्च किंचिन्यूनसकलधर्भसंबन्धरूपोपमैव। एवं चेवादेलोंप- इति वक्तुं न युज्यते, तत्र धर्मलोप एवेति वक्तुमुचितत्वात्। आदिपदेन वतेः परिग्रहः ॥ 4. इवादीनामिति। वैयाकरणनये औपम्यप्रतिपादकत्वेनेष्टनामिवादीना वाचकत्वान- डीकारः। तथाहि-इवादीनां द्योतकत्वमेव न वाचकत्वम्। निपातत्वादुपसर्गवत्। अत
शरैरिति शरविशेषणतया तृदीयादिसंगतिः। वाचकत्वे तूस्रपदोत्तरं तृतीया न संगच्छते। उस्नाणामुद्धरणक्रियां प्रति करणत्वाभावाद् इवार्थसादृश्यान्वयित्वेन करणीभूतशरविशे- पणत्वविरहाच्च॥ 5. वाचकत्व इति। आलंकारिकमत इत्यर्थः । अत्रेदमवधेयम-उपसर्गाणां द्योतक-
Page 530
दशम: परिच्छेदः । ४८३
'प्रकृतिप्रत्ययौ स्वस्वार्थबोधकौ' इति च मतद्वयेऽपि वत्यादिक्यडाद्योः साम्यमेवेति। यच्च केचिदाहुः-'वत्यादय इवाद्यर्थेऽनुशिष्यन्ते, क्यडा- दयस्त्वाचारादर्थे' इति, तदपि न। न खलु क्यडादय आचारमात्रार्थाः, अपि तु सादृश्याचारार्था इति। तदेवं धर्मलोपे दशप्रकारा लुता। उपमानानुपादाने द्विधा वाक्यसमासयोः। उदाहरणम्- 'तस्या मुखेन सदशं रम्यं नास्ते न वा नयनतुल्यम्।'
प्रकृतिप्रत्ययसमुदायः, वाचकं प्रकृत्यर्थविशिष्टप्रत्ययार्थप्रतिपादकम्। स्वसार्थबोधकौ क्रमेण स्वार्थप्रतिपादकौ। वत्यादीति। आदिपदेन कल्पादिपरिग्रहः। साम्यमे- वेति। सादृश्यवाचकत्वेन साम्यमित्यर्थः । आचाराद्यर्थ इति। 'अनुशिष्यन्ते' इत्यन्वयः । अपि त्विति। किंलित्यर्थः । 'अपि त्हि' इति पाठे किं तहीत्यर्थः । उपसंहरति-तदेवमिति । वस्तुतस्तु 'चन्द्रायते शुकरुचापि हंसः' इत्यादौ साधारणधर्मोंपादानेऽपि क्यडादियोगे उपमादर्शनादार्थ्या उपमायास्तद्वितादित्रित- यगतत्ववत् क्यजादिपञ्चकगतत्वेन विशेषो बोध्यः । एवं चाष्टप्रकाराया आर्थ्या धर्म- लोपालोपाभ्यां षोडेशप्रकारतं बोध्यम्। क्यजादिपश्चके धर्मलोपे उदाहरणं यथा- 'धीरः प्रीतिकरत्वेन पर्यङ्कीयति मञ्चके। मित्रीयति परं प्रेम्णा भत्त्या देवायते नृणाम् ॥ देवदर्श जनैः साधुः प्रतीक्ष्यत्वेन दृश्यते। कृपया विष्णुसंचारं नित्यं संचरति क्षितौ ।I' अत्र तृतीयान्तपदार्थानां क्यजाद्यर्थे सादृश्येऽभेदेनान्वयः । उपमानलुप्तामुपमामाह-उपमानेति। 'छप्तोपमा' इत्यनुषङ्गः । न वेति। न वा
त्वमिष्टमेव। अन्यथा उपास्यते हरः, अनुभूयते सुखम्, इत्यादौ धात्वर्थासनभवनक्रि- ययोरकर्भकत्वेन कर्मलकारोपपत्तिन स्यात्। इवादीनां तु वाचकत्वमेव। उपसर्गवाचकता- यामिवेवादिवाचकतायां प्रतिबन्धकराहित्येन दृष्टान्तवैषम्यस्य सद्भावाद् विशेषणविशेष्ययो- रेकविभक्तिकत्वे 'विशेष्येण सहैकार्थ भवेद्यत्र विशेषणम्। तत्र लिग्गादयः प्रायो विशे- ष्यस्था विशेषणे ।I' इत्यनुशासनस्येवोपमानोपमेययोरपि तत्र 'लिङ्गसंख्याविभेदेऽपि उप- मानोपमेयता। विभक्तिः पुनरेकैव उपमानोपमेययोः ॥' इत्यनुशासनस्य जागरूकत्वेन 'शरैरुस्त्रैः- इत्यादावुपमानपदोत्तरतृतीयादेः सूपपादकत्वाच्च। प्रायोग्रहणेन 'दिगन्ते श्रूयन्ते मदमलिनगण्डा: करटिन: करिण्यः कारुण्यास्पदम्-' इत्यादौ विशेष्यविशेषणयो- लिंड्गादिभेदेऽपि न काचिदनुपपत्तिरित्यन्यत्र विस्तरः ॥ 1. क्यडादय इति। अयमभिप्रायः-'कर्तुः क्यड् सलोपश्च' इत्यत्र 'उपमानादाचारे इत्यत उपमानपदमनुवर्तते, तेनेवार्थसादृश्यादपि बोधे सादृश्याचारार्थः, क्यडिति॥
१. 'स्वार्थावबोधकौ' क. २. 'पोडशप्रकारा बोव्या' इति मुद्रितपुस्तके,
Page 531
साहित्यदपणे
अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः। अत्रैव च 'मुखेन सदशं' इत्यत्र 'मुखं यथेदं', 'नयनतुल्यं' इत्यत्र 'दगिव' इति पाठे श्रौत्यपि संभवतीति। अनयोर्भेदयोः प्रत्येकं श्रौत्यार्थीत्वभेदेन चतुर्विधत्वसंभवेडपि प्राचीनानां रीत्या द्विप्रकारत्वमेवोक्तम् । औपम्यवाचिनो लोपे समासे कविपि च दविधा॥२० ॥ क्रमेणोदाहरणम्- 'वदनं सृगशावाक्ष्याः सुधाकरमनोहरम्।' 'गर्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः ।' अत्र 'रीर्दभति' इत्यत्रौपम्यवाचिनः क्किपो लोपः। न चेहोपमेयस्यापि लोपः। 'निनदन्' इत्यनेनैव निर्देशात्। द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः । 'तस्या मुखेन' इत्यादौ 'रम्यं' इति स्थाने 'लोके' इति पाठेऽनयो- रुदाहरणम्। किप्समासगता द्वेधा धर्मेवादिविलोपने ॥२१॥ नयनतुल्यरम्यमास्त इत्यन्वयः। अन्यथा धर्मोपमानलोपोदाहरणमिदं स्यात्। प्रति- निधीति। सदृशेत्यर्थः । इवादिलप्तामाह-औपस्येति। यत्र कालापादिभिराय- लोपः क्रियते तत्र पाणिनीयैः क्विवनुशिष्यते। वद्नमिति। मृगशावस्याक्षीवाक्षि यस्या इति बहुव्रीहावक्षिपदलोपः। इवार्थस्य समागभ्यतया इवपदाप्रयोगः। चश्च लत्वस्य शब्दानुपात्तलाल्लोप इतीदं वक्ष्यमाणत्रिलोपोदाहरणम्। सुधाकर इव मनो- हरमिति 'उपमानानां सामान्यवाचिभिः' इति कर्मधारयः। एतदेव प्रकृतोदाहरणम्। क्विपि उदाहरति-गर्दभतीति। गर्दभ इवाचरतीत्यर्थे क्विपि चिह्नार्थत्ात्तल्वोपः। यथा 'ग्रामध्वत्' इत्यादौ क्विपो लोपेऽपि कर्तृत्वस्य वाच्यतं तथेहापि सादृश्यस्येति सामान्यलक्षणगमनम्। अन्न श्रुतिपरुषनिनादः साधारणधर्मः शब्दोपात्त एव। निर्दे- शादिति। उपमेयस्येत्यनेनान्वयः । एवमेकलोपामुपमामुक्ला द्विलोपामाह-'ल- 1. सुधाकरेति। 'सुधाकर इव मनोहरम्' इति विग्रहे 'उपमानानि सामान्यवचनैः' इत्यनेन समास इति समासगेवादिलप्ता। इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते स च न लुप्यते, किंतु समासेनैवोपमाविधानाव 'उक्तार्थानामप्रयोगः' इति न्यायेन प्रयोगाभावाल्लोपव्यवहार इत्यवसेयम्॥ 2. गर्दभतीति। 'गर्दभ इवाचरति गर्दभति' इत्यत्र 'सर्वप्रातिपदिकेभ्यः किब् वा वक्तव्यः' इति वार्तिकेनोपमानवाचकादू गर्दभपदादाचारेडयें क्विप्प्रत्ययः तस्य सर्वापहा- रिलोपविधानात्किबो वादिलुप्ता।।
Page 532
दशमः परिच्छेदः। ४८५
उदाहरणम्- 'विधवति मुखाब्जमस्याः' अत्र 'विधवति' इति मनोहरत्व-किप्प्रत्यययोर्लोपः। केचित्त्वत्रापि पत्ययलोपमाहुः । 'मुखाब्जं' इति च समासगा। उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि। यथा- 'अरातिविक्रमालोकविकखवरविलोचनः । कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति।' अन्र 'सहस्रायुधमिवात्मानमाचरति' इति वाक्ये उपमेयस्यात्मनो लोपः। न चेहौपम्यवाचकलोप उक्तादेव न्यायात्। अत्र केचिदाहु :- 'सहस्रायुधेन सह वर्तत इति सहस्रायुधः स इवाचरतीति वाक्यात्स- हस्रायुधीयतीति पदसिद्धौ विशेष्यस्य शब्दानुपात्तत्वादिहोपमेयलोपः' इति, तन्न विचारसहम्। कैर्तरि क्यचोऽनुशासनविरुद्धत्वात्। धर्मोपमेयलोपेऽन्या यथा- 'यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्वे।'
सोपमा' इत्यनुषज्यते। एवमग्रेऽपि। विधवतीति। विधुरिवाचरतीत्यर्थः । मुख- मब्जमिवेति 'व्याघ्रादयैस्तद्ुणस्तुल्यस्य' इति कर्मधारयः । अन्रेवादिसौरभाद्योर्लोपः । एवं 'शशाङ्कवदना' इत्यादिबहुव्रीहावप्येतदुदाहरणं बोध्यम्। उपमेयस्यात्मन इति। कर्मक्यचोर्योंगे कर्मण एवोपमेयतं तस्याप्रयोगे तथेति भावः। उक्तादे- वेति। क्यजादेः सादृश्यबोधकत्वव्यवस्थापनादित्यर्थः। अनुशासनविरुद्धत्वा-
- विधवतीति। विधुरिवाचरति विधवति विधुसदृशो भवति ॥ 2. मुखाब्जमिति। 'मुखस्थमब्जमिव' इति विग्रहे 'उपमितं व्याघ्रादिभिः सामान्याप्र- योगे' इत्यनेन समासः । अयं समास उपमानोपमेययोः समानलिङ्गत्व एव भवति विभिन्नलिङ्गत्वे मयूरव्यंसकादित्वात्समासः स च रूपकरूप इति शेखरादौ स्थितम्॥ 3. सहस्रायुधमिति। अत्र 'उपमानादाचारे' इत्यनेनोपमानवाचकात्सहस्त्रायुधमिति कर्मपदादाचारेडयें क्यच। आचारोऽन्र दुर्जयत्वादिः। तथा च सहस्रायुधमिवात्मानमा- चरतीत्यर्थादात्मात्रोपमेयः । यद्यपीह स इति तच्छ्देन साक्षादुपात्तः कर्तैवोपमेयस्तथापि कर्मत्वेनोपमेयभूत आत्मा कर्मत्वेन नोपात्त इति यथोक्तोदाहरणम्। 4. कर्तरीति। 'उपमानात्-' इति शास्त्रेण कर्मण्येव क्यचोऽनुशासनादित्यर्थः॥
Page 533
४८६ साहित्यदर्पणे
अत्र क्षीरोदमिवात्मानमाचरन्तीत्युपमेय आत्मा साधारणधर्मः शुकता च लुसौ। त्रिलोपे च समासगा ॥ २२ ॥ यथा- 'राजते मृगलोचना।' अत्र मृगस्य लोचने इव चञ्चले लोचने यस्या इति समासे उप- माप्रतिपादकसाधारणधर्मोपमानानां लोप: । तेनोपमाया भेदा: स्युः सप्तविंशतिसंख्यकाः । पूर्णा षड़िधा लुप्ता चैकविंशतिविधेति मिलित्वा सप्तविंशतिप्रका- दिति। अनुशासनाभावादित्यर्थः । त्रिलोपे धर्मोपमानेवादिलोपे। समास इति। अन्न लोचनपदस्यैव समासे लोपो विहितः । अन्ययोस्तु गम्यमानल्म्। तेनेति। उक्तप्रकारप्रपश्चेनेत्यर्थः । एकविंशतिविधेति। धर्मलोपे दश, उपमानलोपे द्वे,
- मृगलोचनेति। मृगलोचने इव लोचने यस्या इति विग्रहे 'सप्तम्युपमानपूर्वपदस्य बहुञ्ीहिरुत्तरपदलोपश्च' इति वार्तिकेन बहुव्रीही उपमानवाचके 'मृगलोचने' इति सप्तम्यन्ते पूर्वपदे 'लोचने' इत्युत्तरपदस्य लोपः। एवं च लोचनेत्युपमानस्यानुशासनिक- इवशब्द-चञ्चलत्वलक्षणसाधारणधर्मयोश्चैच्छिको लोप इति त्रिलोपे समासगा। यद्प्यत्र लोचनपंदस्यैवोपमानवाचकत्वं तथाप्यवयवधर्मेण समुदायस्य व्यपदेशान्मृगलोचनपदस्यो- पमानपूर्वपदत्वमवधेयम्। 'अनेकमन्यपदार्थें' इति सूत्रेण समानाधिकरणानामेव बहुव्री- हिविधाने क्वचिदुत्तरपदलोपार्थ क्वचिव्यधिकरणानामपि बहु्रीहिविधानार्थमुत्तरपदलो- पार्थ च 'सप्तमी-' इत्यादिवार्तिकारम्भः । तत्र सप्तमीपूर्वपदस्य यथा-कण्ठेस्थः का- लोडस्य कण्ठेकाल: । 'अमूर्धमस्तकात्-' इति सप्तम्या अलुक्। पदयोः सामानाधिकरण्याद् बहुव्रीहौ सिद्धेऽप्युत्तरपदलोपार्थम्। उपमानपूर्वपदस्य यथा-उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः । अवयवधर्मेण समुदायस्य व्यपदेशाद् उष्ट्रस्योपमानतेत्युपमानपूर्व उष्ट्रमुखशब्दः। उपमानोपमेयवृत्तित्वात्पदयोवैयधिकरण्यमिति बहुव्रीह्यर्थमुत्तरपदलोपार्थ च वचनमिति भाष्यकैयटयोः स्पष्टम्। मृगपदस्य तलोचने लक्षणेति मते तु नेदमुदाहरणम्। 2. एकविंशतिविधेति। प्रायोऽभिप्रायमेतत्। तथाहि-'कोकिल इवालपति कोकि- लालापिनी' इत्यत्र 'कर्तर्युपमाने' इति णिनिप्रत्यये, 'चञ्चा पुरुषः सोडयं यः स्वहितं नैव जारनीते' इत्यत्र चञ्चा तृणपुरुष इवेत्यस्मिन्नथे 'इवे प्रतिकृतौ' इति कन्प्रत्यये 'लुम्म- नुष्ये' इति लुब्विधाने, 'आह्लादि वदनं तस्याः शरद्राकाशशाङ्कति' इत्यत्र आचारक्किपि मदान्तरेण प्रतिपादिते समाने धर्मेडपि वाचकलुप्ता संभवति। 'यच्चोराणामस्य च समा- गमो यच्च तैर्वधोऽस्य कृतः । उपनतमेतदकस्मादासीद्वत काकतालीयम् ॥' इत्यत्र काकता- लशब्दौ वृत्तिविषये काकतालसमवेतक्रियावर्तिनौ। तेन काकागमनमिव तालपतननिव काकतालमितीवार्थे 'समासाच्च तद्विषयात्' इति ज्ञापकात्सुप्सुपेति समासः। उभयत्रो-
Page 534
दशम: परिच्छेदः । ४८७
रोपमा। एषु चोपमाभेदेषु मध्येऽलुप्तसाधारणधर्मेषु भेदेषु विशेषः प्रति- पाद्यते- एकरूप: क्चित्कापि भिन्नः साधारणो गुणः ।। २३।। भिन्ने विम्बानुबिम्बत्वं शब्दमात्रेण वा भिदा। एकरूपे यथा उदाहृतम्-'मधुरः सुधावद्घरः-' इत्यादि। बिम्बप्रतिबिम्बत्वे यथा- 'भल्लापवर्जितैस्तेषां शिरोभि: रमश्रुलैर्महीम् । तस्तार सरघाव्याहैः स क्षौद्रपटलैरिव ।।' औपम्यवाचिलोपे द्वे, धर्मेवादिलोपे च द्वे, उपमेयलोपे धर्मोपमेयलोपे धर्मेवाद्युपमा- नलोपे चैकैकेत्येकविशतिविधेत्यर्थः । एकरूप इति। जातिवन्नानाव्यक्तिष्वेक एव। गुणादिरित्युपाधिशक्तिवादिमतेनेदम्। यद्वा एकजातीय इत्यर्थः । एवं च क्वचि- देकजातीयत्वेन क्वचित्सादृश्यत्वेनैकोपचारादुभयवृत्तित्वं विवक्षणीयम्। गुणः साध- मर्यम्। मिन्ने भिन्नसाधारणधर्मे। बिम्बस्य सादृश्यस्य अनुबिम्बत्वं प्रणिधानगम्य- लम्। एकधर्मस्यैकशव्देनोपादानं प्रायेण क्वचिच्छ्देनाप्युपादानं संभवतीत्याह- शब्दमात्रेणैवेति। क्रमेणोदाहरति-मधुर इति। एतद्ुणैकतवे। करियैकत्वे यथा-'स्त्रीव गच्छति षण्ढोऽयं वत्तयेषा स्त्री पुमानिव।' भल्लेति। भल्लेन बाणवि- शेषेण अपवर्जितैः कृतैः । तेषां यवनानाम्। तस्तार छादयामास। सरघा मधुम- पमेयं क्रमेण देवदत्तागमनं चोरसमागमश्च। तेन देवदत्तचोरसमागमः काकतालसमा- गमसदृश इति फलति। ततः 'काकतालमिव काकतालीयम्' इति द्वितीयस्मिन्निवार्थे 'समासान्च तद्विषयात्' इति छः। ततश्च पतता तालफलेन यथा काकस्य वध एवं समा- गतैश्चोरैदेंवदत्तस्य वध इति तत्त्वम्। यदाह भगवान्भाष्यकार :- 'एवं ताहिं द्वाविवार्थो काकागमनमिव तालपतनमिव काकतालं काकतालमिव काकतालीयम्' इति। एतच्च विवृतं भाष्यप्रदीपकृता-'तत्र काकागमनं देवदत्तागमनस्योपमानम्, तालपतनं दस्यूप- निपातस्य। तालेन तु यः काकस्य वधः स देवदत्तस्य दस्युना वधस्योपमानमिति' इति। अकस्मादुपनतत्वं च समानो धर्मः । तदाह वृत्तिकार :- 'अतर्कितोपनतं चित्रीकरणमु- च्यते' इति। ततश्चात्र काकागमनतालपतनसमागमरूपस्य पतत्तालकृतकाकवधरूपस्य चोपमानस्यानुपादानात्प्रत्ययारथोंपमायासुपमानलोपः समासार्थोपमायां वाचकोपमानलोपो द्रष्टव्यः । 'पटुपटुर्देवदत्तः' इत्यत्र 'प्रकारे गुणवचनस्य' इत्यनेन सादृश्ये द्विर्भावे 'कर्म- धारयवदुत्तरेषु' इत्यनेन समासे धर्मलुप्तेयम्। यो हि शास्त्रादिष्वपटरेव पट्वदभिनयति स उच्यते पटपटरिति। पटसदृश इत्यर्थः । विस्तरस्तु रसगङ्गाधरादावनुसंधेयः ॥ 1. बिम्बप्रतिबिम्बेति। वस्तुतो भिन्नयोरप्युपमानोपमेयधर्मयोः परस्परसादृश्याद- भिन्नयोः पृथगुपादानं बिम्बप्रतिबिम्बपदवाच्यम्। लोको हि दर्पणादौ बिम्बात्प्रतिबिम्बस्य भेदेऽपि मदीयमेवात्र वदनं संक्रान्तमित्यभेदेनाभिमन्यते। अन्यथा हि प्रतिबिम्बदर्शने कृशोडहं स्थूलोऽहमित्याद्यभिमानो नोदियात्।।
Page 535
४८८ साहित्यदर्पणे
अत्र 'शमश्रुलैः' इत्यस्य 'सरघाव्यासैः' इति दृष्टान्तवत्प्रतिबिम्बनम्। शब्दमात्रेण भिन्नत्वे यथा- 'स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा। कथयामास कृशाङ्ी मनोगतं निखिलमाकूतम्।' अत्रैके एव स्मेरत्वविकसितत्वे प्रतिवस्तूपमावच्छब्देन निर्दिष्टे। एकदेशविवर्तिन्युपमा वाच्यत्वगम्यते ॥ २४॥ भवेतां यत्र साम्यस्य यथा- 'नेत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरःश्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ।' अत्रोत्पलादीनां नेत्रादीनां सादश्यं वाच्यं सरःश्रीणां चाङ्गनासाम्यं गम्यम्। कथिता रसनोपमा। क्षिका ताभिर्व्याप्तैः क्षौद्रपटलैमधूत्पत्तिस्थानैः 'मौचाक' इति प्रसिद्वैः। इमश्रुलै- रित्यस्येति। दृष्टान्तालंकारे यथा वाक्यार्थयोरिवाद्यभावात्सादृश्यं प्रणिधानगम्यं तथा- त्रापि रमश्रुसरघयोः । अत्र श्यामत्वविशेषः सादृश्यहेतुः । एवं च 'सादृश्यहेतू गुण- करिये' इत्यस्योपलक्षणतया द्रव्यस्यापि साधारणधर्मतमवगन्तव्यम्। स्मेरमिति। आकूतमभिप्रायम्। एके एवेति। संख्यार्थादेकशब्दाद्विवचनासंभवादयं पाठो न युक्त:। किं तु 'अन्नैकमेव प्रफुह्तवं प्रतिवस्तूपमावद् विभिन्नाभ्यां स्मेरविकसितश- ब्दाभ्यां निर्दिष्टम्' इति पाठो बोद्धव्यः । एकक्रियायाः शब्दभेदेनोपादाने यथा- 'प्रकाशते मुखं तस्याश्चन्द्रमा दीप्यते यथा।' नन्वत्र वाक्यैक्याभावात्कथमुपमेति चेत्, न। यथा 'अमावास्यायां श्राद्धं कुर्याद्, रात्रौ श्राद्धं न कुर्यात्' इत्यत्र संभे- देनान्यतरवैयर्थ्यमिति न्यायेन रात्रीतरत्रामावास्यायां श्राद्धं कुर्यादित्येकवाक्यत्वं तथात्राप्येकवाक्यलखीकारात्। प्राचीनैरखीकृतामपि प्रमाणसिद्धामेकदेशविव- रतिनीमुपमामाह-एकदेशति। यत्र वाक्ये कस्यचित्साम्यं वाच्यं कस्यचिद्रम्यं तत्रैकदेशवर्तिन्युपमेत्यर्थः । इयं चैकदेशविवर्तिरूपकवत्साङ्गस्याङ्गिनः सादृश्य एव संभवति। नेत्रैरिवेति। अङ्गना इव सरःश्रियः पदेपदे प्रतिवस्तु विभान्ति स्म। अत्र नेत्रादित्रयमुपमानस्य उत्पलादित्रयमुपमेयस्याङ्गम्। रसनोपमामाह-कथि- 1. रसनेति। यथा खलु रसनायां पूर्वत्वमधिगतायाः क्षुद्रघग्टिकायाः परग्रथनावसरे परत्वं तथैवात्र पूर्वपूर्वोपमेयस्योपमानत्वसंपादनाय परपरप्राप्तिरिति तत्वम् ।।
- 'मधूत्पत्तिस्थानैः' इति पुस्तकान्तरे नास्ति,
Page 536
दशमः परिच्छेदः। ४८९
यथोर्ध्वमुखमेयस्य यदि स्यादुपमानता ॥ २५॥ यथा- 'चन्द्रायते शुक्करुचापि हंसो हंसायते चारुगतेन कान्ता। कान्तायते स्पर्शसुखेन वारि वारीयते स्च्छतया विहायः ॥' मालोपमा यदेकसयोपमानं बहु दृश्यते। यथा- 'वारिजेनेव सरसी शशिनेव निशीथिनी। यौवनेनेव वनिता नयेन श्रीर्मनोहरा ।।' क्कचिदुपमानोपमेययोर्योरपि प्रकृतत्वं दृश्यते- 'हंसश्चन्द्र इवाभाति जलं व्योमतलं यथा। विमला: कुमुदानीव तारकाः शरदागमे ॥।' 'अस्य राज्ञो गृहे भान्ति भूपानां ता विभूतयः । पुरंदरस्य भवने कल्पवृक्षभवा इव ॥' तेति। यथो्ध्वमिति। पूर्वोपमायां यदुपमेयमुत्तरोपमायां तस्योपमानता यदि स्यादित्यर्थः । इयं साधारणधर्मस्याभेदे भेदे च संभवतीति द्विधा। तत्राद्या यथा-'म- हीभृतो वदान्यस्य भारतीवामला मतिः । चेष्टा मतिरिव स्च्छा चेष्टेव गुणसंततिः ।' अत्र सच्छलमेकमेव साधारणो धर्मः । द्वितीयामाह-चन्द्रायत इति। चन्द्र इवाचरतीत्यर्थः । मालोपमामाह-मालोपमेति। बह्नित्येकाधिकपरम् । तेन 'तां हंसमालाः शरदीव गङ्गां महौषधीर्नक्तमिवात्मभासः । स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ।' इत्यादावुपमाद्वयेऽपि मालालमक्षतम्। इयमपि पूर्व- वद्दिधा। तत्राद्यामाह-वारिजेनेति। अत्र मनोहरतमेकमेव सादृश्यहेतुः। द्वितीया यथा-'ज्योत्स्नेव नयनानन्दः सुधेव मदकारणम्। प्रभुतेव समाकृष्टसर्व- लोका नितम्बिनी ॥' अत्र नेत्रानन्दजननादयो विभिन्नधर्मा एव सादृश्यानां हेतवः । उपमेयस्य प्रकृतत्वमुपमानस्याप्रकृतवं प्रायिकमित्यभिप्रायेणाह-क्वचिदिति। प्रकृतत्वं वर्णनीयस्योत्कर्षाधायकत्वेनाकाह्वितलम्। हंस इति। हंसादय इव चन्द्रादयोऽपि वर्णनीयशरत्कालस्योत्कर्षाधायकत्वेनाकाड्डिताः । 'विमलाः' इति पाठो न रमणीयः, भिन्नलिङ्गतया कुमुदानीत्युपमानान्वयायोग्यलात्। तस्मात् 'ल- सन्ति' इति पाठो द्रष्टव्यः। प्राचीनसंमतानाक्षेपोपमादीनुपमाप्रकारान्वैचित्र्यातिशया- नाधायकत्वेनोपेक्षमाण आह-अस्य राज् इति। कल्पवृक्षभवाः कल्पवृक्षोत्पन्ना 1. मालेति। यथा काचिन्माला सजातीयैः कुसुमैः काचिच्च विजातीयैनिमीयते तथैवे- यमपि सजातीयैविंजातीयैर्वा बहुभिरुपमानैरिति भावः । एकस्य उपमेयस्येत्यर्थः ॥ १. 'यथा' पुस्तकान्तरे नास्ति. २. 'वस्तुतस्तु प्रकृतयोरेकधर्माभिसँबन्धरूपतुल्य योगितैवेदं न तूपमा। एवं चात्र यथेवशब्दप्रयोगस्तुल्ययोगिताद्योतकत्वार्थत्वेन न गौण एवेत्यवधेयम्।' इति मुद्धितपुस्तकेधिकम्,
Page 537
४९0 साहित्यदर्पणे
अत्रोपमेयभूतविभूतिभिः 'कल्पवृक्षभवा इव' इत्युपमानभृता विभू- तय आक्षिप्यन्त इत्याक्षेपोपमा। अत्रैव 'गृहे' इत्यस्य 'भवने' इत्यनेन प्रतिनिर्देशात्प्रतिनिर्देश्योपमा। इत्यादयश्च न लक्षिताः। एवंविधवै- चित्यस्य सहस्रधा दर्शनात्। उपमानोपमेयत्वमेकस्यैव त्वनन्वयः ॥२६॥ अर्थादेकवाक्ये। यथा- 'राजीवमिव राजीवं जलं जलमिवाजनि। चन्द्रश्चन्द्र इवातन्द्रः शरत्समुद्योद्यमे ।।' अत्र राजीवादीनामनन्यसदशत्वप्रतिपादनार्थमुपमानोपमेयभावो वै- विभूतय इत्यर्थः । आक्षिप्यन्त इति। 'कल्पवृक्षभवाः' इति विशेषणेनोपस्थिता विभूतय एवाक्षिप्यन्त इत्यर्थः। एवंविधेति। यथाकथचिद्वैचित्र्य विशेषाणां परिच्छेत्तुमशक्यतया तत्प्रयोजकप्रकाराणामपि परिच्छेदो न संभवतीति भावः । अनन्वयालंकारमाह-उपमानेति। नन्वेतद्रसनोपमायामुपमेयोपमायां चातिव्या- समत आह-अर्थादिति। पारिशेष्यादित्यर्थः । रसनोपमायां 'यथोर्व्व- इत्य- नेन उपमेयोपमायां 'पर्यायेण- इत्यनेनानेकवाक्यलाभादेकवाक्य एवास्य विषय इति भाव: । ननूपमेयोपमायां 'दूयोः' इत्युपादानात्कथमतिव्याप्तिरिति चेतू, न। तत्र प्रत्येकपदार्थस्यापि पर्यायेणोपमानोपमेयसंभवात्। अतन्द्रो निर्मलः । ननूप- मानोपमेयभावो भेद एव संभवति, कथमेकस्यैव स इत्यत आह-राजीवादीना- 1. अनन्वय इति। न विद्यतेऽन्वय उपमानान्तरेण संबन्धो यत्र सोडन्वयः। स च पूर्णों लुप्तश्रेति द्विविधः । पूर्णस्तूपमावत्वडिघोऽपि "भवति। यथा-'गङ्गा हृद्या यथा गङ्गा गङ्गा गङ्गेव पावनी। हरिणा सदृशो वन्धुर्हरितुल्यः परो हरिः॥ गुरुवद्गुरुरा- राध्यो गुरुवद्गौरवं गुरोः ॥।' लुप्तेऽपि धर्मलुप्तः पञ्चविधोऽपि संभवति। प्रागुक्तसार्धश्रोके 'गङ्ा राजन्यथा गङ्गा गङ्गा गङ्गेव सर्वदा। हरिणा सदृशो विष्णुर्विष्णुतुल्यः सदा हरिः ॥ गुरुवद्ुरुरास्तेडस्मिन्मण्डले गुरुवद्गुरोः ॥' इति पदान्तरदाने तथा वाचकलुप्तः। 'रामाय- माण: श्रीरामः सीता सीतामनोहरा। ममान्तःकरणे नित्यं विहरेतां जगद्ुरू ॥' इत्यत्र क्यङ्समासयोः। एवम् 'लद्कापुरादतितरां कुपितः फणीव निर्गत्य जातु पृतनापतिभिः परीतः । क्ुद्धं रणे सपदि दाशरयें दशास्यः संरब्धदाशरथिदर्शमहो ददर्श ॥' एवं कर्तृणमुलादावप्यूह्यम् । 'अम्बरत्यम्वरं यद्वत्समुद्रोऽपि समुद्रति। विक्रमार्कमहीपाल तथा त्वं विक्रमार्कसि ॥' इत्यत्र वाक्यार्थावयवेपु त्रिष्वन्वयेपु धर्मवाचकयोलोंपः । मुख्य- वाक्यार्थस्त्वनन्वयफलेन निरुपमत्वेन समानधर्मेण प्रयोजितो मालोपमैव। 'एतावति प्रपश्चेडस्मिन्सदेवासुरमानुषे। केनोपमीयतां तज्जै रामो रामपराक्रमः ॥' अत्र वाचक- धर्मोपमानां लोप: ।।
Page 538
दशमः परिच्छेदः। ४९१ चक्षिकः। 'राजीवमिव पाथोजम्' इति चास्य लाटानुप्रासाद्विविक्तो विषयः । किं त्वत्रोचितत्वादेकशब्दप्रयोग एव श्रेयान्। तदुक्तम्- 'अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् । असि्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ।' इति। पर्यायेण द्वयोरेतदुपमेयोपमा मता। एतदुपमानोपमेयत्वम्। अर्थाद्वाक्यद्वये।
'कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः। यथा-
धरणीव धृतिर्धृतिरिव धरणी सततं विभाति बत यस्य ।।' अत्रास्य राज्ञः श्रीबुद्यादिसदृदशं नान्यदस्तीत्यभिप्रायः ।
यथा- सदृशानुभवाद्वस्तुस्मृतिः स्रणमुच्यते ॥२७॥
'अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमझ्जुलम्। स्मरामि वदनं तस्याश्रारु चञ्चललोचनम् ।I' मिति। वैवक्षिक आरोप्य विवक्षितः। ननु लाटानुप्रासविषयविनिमोकेणास्य विषयो न संभवतीति तद्वाधकोऽयमेव स्यादित्यत आह-राजीवमिति । विविक्तो विषय इति। तथा चायं संभवद्विषयान्तरत्वान्न बाधक इति भावः। उचितत्वादु- पमानोपमेयाभेदस्य झटिति प्रतीत्युपयुक्तत्वात्। श्रेयानतिप्रशस्तो न दु नियतः । औचित्यात्प्राशस्त्यात्। आनुषङ्िकमनियतम्। साक्षादेव खयमेव। प्रयोजकं वैचि- त्रयाधायकम्। उपमेयोपमामाह-पर्यायेणेति। क्रमेणेत्यर्थः। रसनोपमायामेकस्यैव क्रमेणोपमानोपमेयभाव इति तद्वारणाय 'दयोः' इति । 'मुखमिव कमलम्' इत्यादौ युगपदेव द्वयोरुपमानोपमेयत्वमिति तद्वारणाय 'पर्यायेण' इति। अत्र सादृश्यहेत्वभदे इत्यपि बोध्यम्। तेन 'पल्लवमिवारुणं करतलं करतलमिव कोमलं पह्लवम्' इत्यु- पमाद्वयव्यवच्छेदः। अस्यां वैचित्र्यं दर्शयति-अस्य राज्ञ इति। स्मरण- लंकारमाह-सदशेति। सदृशानुभवस्य स्मृति प्रति संस्कारोद्वोधकत्वेन कारण- त्वम्। संस्कारस्तु वस्त्वनुभवादुत्पनः । सदृशेति। संबन्धिज्ञानादिजन्यस्मृति- 1. उपमेयोपमेति। पूर्ववाक्यप्रतिपादितसाधारणवर्ममेव साधारणधर्मीकृत्य पूर्ववा- कयप्रतिपादितेनोपमेयेन पूर्ववाक्यप्रतिपादितस्योपमानस्योपमा उपमेयोपमा। उपमेयेनोपमा यत्रेति वा॥ 2. यथेति। यथा वा-पूर्णेन्दुना मेघलवाद्गितेन द्यां सुद्रिता सुन्दरि वीक्षमाणः । विवाहहोमानिलधूमलेखामीलत्क पोलां भवती स्मरामि ।।'इति॥ १. 'भावः' क.
Page 539
४९२ साहित्य दर्पणे
'मयि सकपटं- इत्यादौ च स्मृतेः सादृश्यानुभवं विनोत्थापित- त्वान्नायमलंकारः । राघवानन्दमहापात्रास्तु वैसादृश्यात्स्मृतिमपि स्म- रणालंकारमिच्छन्ति। तत्रोदाहरणं तेषामेव यथा- 'चिरीषमृद्ी गिरिषु प्रपेदे यदा यदा दुःखशतानि सीता। तदा तदास्याः सदनेषु सौख्यलक्षाणि दध्यौ गलदस्त्ु रामः ।।' रूपकं रूपितारोपाद्वि (पो वि) षये निरपह्नत्वे।
वारणाय। तेन 'भवदभिमतवस्तून्याकिरन्त्याः समन्तात्सरसिजदलतल्पं मर्मरं कल्प- यन्त्याः । हतकरुण वयस्या जीवनोपायमस्याः स्मरणमविरलं ते हन्त संपादयन्ति ॥' इत्यादौ संबन्धिज्ञानजन्यस्मरणस्य नालंकारत्वम्। एवं चिन्ताजन्यस्मृतेरपि नालं- कारत्वमित्याह-मयीति। स्मृत्याख्यव्यभिचारिभावस्योदाहरणमिदम्। वैसादृश्या- द्विरुद्धानुभवात्। तेपां राघवानन्दमहापात्राणाम्। शिरीपेति। गलदसतु यथा स्यात्तथा दध्यौ स्मृतवान्। अत्र वैपरीत्यसंबन्धेन संबन्धिनो ज्ञानं संस्कारोद्वोधकम्। रूपकालं- कारमाह-रूपकमिति । अत्र 'रूपितारोपात्' इति पञ्चम्यन्तपाठः प्रामादिकः। अ- र्थासंगतेः। प्रथमान्तपाठस्तु रमणीयःउपमेये उपमानाभेदारोपस्यैव रूपकत्वाङ्गीकाराद् यत्र तत्प्रयु क्तस्यार्थान्तरस्य। तदुक्तं चण्डीदासेन रूपकप्रकरणे-'अलंकारश्वात्राहार्यस्ता- दात्म्यारोप इत्यवधेयम्' इतिनेचातिसाम्यादपहुतभेदयोरभेदो रूपकमिति काव्यप्रका- श दर्शनात्तदानीं भेदप्रतीतेरभावात्कथमाहार्यत्वम्। बाधकालीनेच्छाजन्यज्ञानस्यैवाहा- र्यत्वाङ्गीकारादिति वाच्यम्। शाव्दस्य भेदानुभवस्य तदानीमसत्त्वेऽपि आनुमानिकस्य मानसस्य भेदप्रत्ययस्य सत्त्वात् । ननु 'गौर्वाहीकः' इत्यादावपह्गुतभेदयोरुपमानोप- मेययोस्तादात्म्यारोपस्य कथंन रूपकत्वमिति न वाच्यम् । तस्य विच्छित्तिविशेषा- जनकत्वेन रसादयुपकारकत्वाभावात्। केचित्तु-विषयस्य प्राडनिर्देशे रूपकस्य व्यव- हारः, परनिर्देशे तुगौणी व्यवहारः' इत्याहुः तन्न । 'निर्माणकाशलं धातुश्चन्द्रिका लोकचक्षुषाम्। कीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा II' इत्यादौ विषयस्य प्राङ्निर्दे- शाभावेऽपि रूपकव्यवहारात्। रूपितस्य अपह्ववभेदोपमानस्य निरपह्ववे प्रतिषेध- शून्ये विपये उपमेये आरोपस्तादात्म्यारोपो रूपकमित्यर्थः । अत एवोकं काव्यप्रका-
- रूपकमिति। रूपयत्युपमानोपमेययोरभेदारोपेणैकतां नयतीति रूपकम्। यथा. 'मुखं चन्द्रः' इत्यादौ मुखत्वचन्द्रत्वरूपधर्मवत्तयोपस्थितयोमुखचन्द्रयोरभेदारोपः॥
१. 'प्रकृतगोपनमपहवः ततः शून्ये विपये उपमेये रूपितस्योपमानस्यारोपत्तादात्म्याध्यासान्नूपकना- मालंकार इत्यर्थः। ननूपमानोपमेययोरमेदमनुभवता कर्थं तादात्म्याध्यास इति चेत्, न आहार्यस्यैव तादृशारोपस्य रूपकालंकारत्वस्वीकारात् ॥' इत्यधिकं पुस्तकान्तरे. २. 'अत्र-' इत्यादि: '-अर्थान्त- रस्य ।' इत्यन्तः पाठः पुस्तकान्तरे नास्ति. 'चण्डीदासेन' इति नारिति पुस्तकान्तरे. 8. 'न च्ाति-' इत्यादिः 'य उपमानोपमेययोः' इति ।' इत्यन्तः पाठः पुस्तकान्तरे नास्ति.
Page 540
दशमः परिच्छेदः। ४९२
रूपित-' इति परिणामादू व्यवच्छेदः। एतच्च तैत्प्रस्तावे विवेच यिष्यामः । 'निरपहुवे' इत्यपह्ुतिव्यवच्छेदार्थम्। तत्परम्परितं साङ्गं निरङ्गमिति च त्रिधा॥ २८॥ तद्रूपकम्। तत्र यत्र कस्यचिदारोप: परारोपणकारणम्। तत्परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनम् ॥२९॥ प्रत्येकं केवलं मालारूपं चेति चतुर्विधम्। तत्र श्िष्टशब्दनिबन्धनं केवलपरम्परितं यथा- 'आहवे जगदुद्दण्डराजमण्डलराहवे। श्रीनृसिंहमहीपाल स्वस्त्यस्तु तव बाहवे।।' अत्र राजमण्डलं नृपसमूह एव चन्द्रबिम्बमित्यारोपो राजबाहो राहुत्वारोपो निमित्तम्। मालाँरूपं यथा- 'पद्मोद्यदिनाघीशः सदागतिसमीरणः । भूभृदावलिदम्भोलिरेक एव भवान्भुवि॥' शकारेण-'रूपकं स्वादाभेदोय उपमानोपमेययोः' इति। परिणामादिति। 'अस्य' इति शेष:। एतच्च रूपकपरिणामयोर्वैलक्षण्यं च। परिणामे ह्यारोप्यमाणस्य प्रकृतो- पयोगित्वेनाप्रकृतत्वनियतोपमानतस्य बाधाद्रूपितपदेन तद्यवच्छेद इति भावः । विषय इत्यस्य वाच्य इति विशेषणं बोध्यम्। तेन 'लतामूले लीनो हरिणपरिहदीनो हिमकरः स्वयं हाराकारा गलति जलधारा कुवलयात्। धुनीते बन्धूकं तिलकुसुम- जन्मा हि पवनो बहिर्द्वारे पुण्यं परिणमिति कस्यापि कृतिनः ॥' इत्यादौ निगीर्ण-
रूपकप्रभेदानाह-तदिति। कार्यकारणभावरूपा परम्परा संजाता अस्येति परम्परितम्। साङ्गं सावयवम्। निरङ्गं निरवयवम्। परम्परितरूपकमाह-यत्रेति।
चेत्यर्थः । पुनरपि तस्य द्वैविध्यमाह-प्रत्येकमिति। त्रिरुक्तभेदयोरेकैकमित्यर्थः । आहव इति। जगदुत्कृष्टदण्डं यस्मात्तत्संबोधने तथा। इत्यारोप इति। अैत्र श्लेषेण रूप्यरूपकयोर्द्वयोरेवाभिधानं शब्दसाम्यरूपसादृश्यमूलं प्रथमं रूपकम्। तेन राजमण्डलपदवाच्योपमर्दकत्वरूपसादृश्यनिबन्धनं द्वितीयं रूपकमिति भावः । 1. मालेति। िषट मालारूप परम्परितं रूपकमित्यर्थः ॥ १. 'परिणाभप्रस्तावे' क-ख-ग, २. 'विचारयिष्यामः' क. ६. 'माला' क-ख. ४. 'भाव' इति नारित क-पुस्तके. ५. 'अश्र-'इत्यादिः '-भावः' इत्यन्तः पाठः पुस्तकान्तरे नास्ति. सा० द०४२
Page 541
४९४ साहित्यदर्पणे
अत्र पझ्माया उदय एव पझ्मानामुदयः, सतामागतिरेव सदागमनम्, भूभृतो राजान एव पर्वता इत्याद्यारोपो राज्ञः सूर्यत्वारोपनिमित्तम्। अश्रिष्टशब्दनिबन्धनं केवलं यथा- 'पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः। त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥' अत्र त्रैलोक्यस्य मण्डपत्वारोपो हरिबाहूनां स्तम्भत्वारोपो निमित्तम्। मालारूपं यथा- 'मनोजराजस्य सितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः। विराजते व्योमसरः सरोजं कर्पूरपूर प्रभमिन्दुबिम्बम्।।' अत्र मनोजादे राहुत्वाद्यारोपश्चन्द्रबिम्बस्य सितातपत्रत्वाद्यारोपे निमित्तम्। 'तैत्र च राजभुजादीनां राहुत्वाद्यारोपो राजमण्डलादीनां चन्द्रमण्डलत्वाद्यारोपो निमित्तम्' इति केचित्। अद्रिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् ॥ ३० ॥ समस्तवस्तुविषयमेकदेशविवर्ति च। तत्र आरोप्याणामशेषाणां शाब्दत्वे प्रथमं मतम् ॥ ३१॥ प्रथमं समस्तवस्तुविषयम्। यथा- 'रावणावग्रहक्कान्तमिति वागमृतेन सः। अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदघे ।।' अत्र कृष्णस्य मेघत्वारोपे वागादीनाममृतत्वादिकमारोपितम्। पझ्मायाः संपदः। उदयं उपार्जनम्। पद्मपक्षे प्रकाशः। राजमण्डलादीनां सरूपश- व्दवाच्यत्वं साम्यं प्रसिद्धमारोपकारणम्। बाहुराह्वादीनां तु तादृशधर्मान्तरमप्रसिद्ध- मित्यस्वरसः 'केचित्' इत्यनेन सूचितः। साङ्गरूपकमाह-अङ्गिन इति। रूपणमु- पमानतादात्म्यारोपः । तस्य द्वैविध्यमाह-समस्तेति। समस्तानि वस्तूनि आरोप्य- माणानि विषयाः शब्दोपात्तानि यत्र तत्। आरोप्याणामिति। बहुवचनमविवक्षि- तम्। 'सूत्रे लिङ्गं संख्या कालश्ातत्राणि' इति न्यायात्। तेन 'दन्तांशुके शरालीभि- स्तस्या भाति मुखाम्वुजम्' इत्यादेः संग्रहः। शाब्दत्वे शब्दोपात्तत्वे। रावण एवा- वग्रहो वृष्टिप्रतिबन्धकस्तेन क्वान्तम्। वागमृतेन वाग्जलेन। अभिवृष्य प्रीणयित्वा, पक्षे अभिषिच्य। मरुद्देव एव सस्यं न्रीह्यादि। कृष्णो विष्णुरेव मेघः। अत्र कृष्णोऽङ्गी, वागादयङ्गम्। मेघलारोपवत् मेघलारोपस्य शाब्दत्वत् अमृतत्ाद्यारोपित- १. 'शब्द' इति नास्ति क-ख-पुस्तकयो :. २. 'रूपं' इति नास्ति क-पुस्तके. ३. 'एषु च' घ.
Page 542
दशमः परिच्छेदः। ४९५
यत्र कस्यचिदार्थत्वमेकदशविवर्ति तत्। कस्यचिदारोप्यमाणस्य। यथा- 'लावण्यमधुभिः पूर्णमास्यमस्या विकस्वरम्। लोकलोचनरोलम्बकदम्बैः केन दीयते॥' अत्र लावण्यादौ मधुत्वारोपः शाब्दः, मुखस्य पझमत्वाद्यारोप आर्थः। न चेयमेकदेशविवर्तिन्युपमा विकस्वरत्वधर्मस्यारोप्यमाणे पद्मे मुखतया वर्तमानान्मुखे चोपचरितत्वात्। निरङ्गं केवलस्यैव रूपणं तदपि द्विधा॥ ३२॥ मालाकेवलरूपत्वात् तन्न मालारूपं निरङ्गं यथा- 'निर्माण कौशलं धातुश्चन्द्रिका लोकचक्षुषाम्। क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा।'
लस्य शाब्दलम्। एकदेश विवर्तिसाङ्गरूपकमाह-यत्रेति । आर्थतमर्थवशलभ्यत्म्। 'कस्यचित्' इत्यनेनान्यस्य शाब्दललाभः । 'श्रौता आर्थाश्र ते तस्मिन्नेकदेशविवर्ति तत्' इति काव्यप्रकाशदर्शनाच्छाब्दतवस्याप्येतल्लक्षणघटकत्वं बोध्यम्। रोलम्बो भ्रमरः। 'इन्दिन्दिरस्तु रोलम्बश्श्चरीको मधुव्रतः' इति हारावली। न चेयमिति। समभिव्याहृतपदार्थस्य मुख्यया वृत्त्यान्वयसंभव एवैकदेशविवर्तिनोरुपमारूपकयो- रन्यतराङ्गीकारे बीजम्। 'मुखपझमं विकखरम्' इत्युपमाङ्गीकारे क्रियाविशेषशालि- त्रूपविकस्वरतस्य मुखे बाधात्कान्तिविशेषे लक्षणाप्रसङ्गः । 'मुखमेव पद्मम्' इति रूपकाङ्गीकारे तु विशेष्ये पझ्मे विकस्वरत्स्य मुख्यया वृत्त्यान्वयः संभवति। 'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ।' इत्यत्र रूपकाङ्गीकारे भूषणादिकृतशोभाविशेषस्य लतायां बाधाच्छोभामात्रे लक्ष- णाप्रसङ्गः। उपमाङ्गीकारे तु मुख्यया वृत्त्यान्वयः संभवतीति। एतादृशं विशेष- मवलोक्यैव केचिदेकदेशविवर्तिनीमुपमामेकदेशविवर्तिरूपक एवान्तर्भावयन्ति । केवलस्येव न तु साङ्गस्य। तदपि निरङ्गरूपकमपि। मालेति। मालारूपल्ात् केवल- रूपत्वाच्चेत्यर्थः। निर्माणकौशलं वराङ्गनासृष्टिव्युत्पत्तिः। सौन्दर्यातिशयसंपादक- लमेवानयोः साम्यं तन्मूलक एवायमारोपः। अत्रेन्दीवरेक्षणाया एव रूपणं न तु 1. एकदेशेति। एकस्मिन्देशेंऽशे विवर्तनाद् विशेषतो वर्तनात् अर्थादारोप्यमाणस्य सर्वत्र शब्दवशलभ्यत्वे एकांशेऽर्थवशलभ्यत्वस्य विशेषस्य सद्भावादेकदेशविवर्तीति सार्थकमभिधानम् ।।
Page 543
४९६ साहित्यदर्पणे
केवलं यथा- 'दासे कृतागसि भवेदुचितः प्रभूणां पादप्रहार इति सुन्दरि नात्र दूये। उद्यत्कठोरपुलका ङ्कुरकण्टकाग्रै- र्यत्खिद्यते मृदु पदं ननु सा व्यथा मे ॥' तेनाष्टौ रूपके भिदाः। 'चिरंतनैरुक्ताः' इति शेषः । क्वचित्परम्परितमप्येकदेशविवंर्ति यथा- 'खैङ्ग: क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य ।।' अत्रार्थः क्ष्मायां महिषीत्वारोपः सङ्गे सौविदल्लत्वारोपे निमित्तम्। अस्य भेदस्य पूर्ववन्मालारोपत्वेऽप्युदाहरणं मृग्यम्। दृश्यन्ते कचिदारोप्या: श्िष्टाः साङ्गेडपि रूपके ॥ ३३ ॥ तत्रैकदेशविवर्ति क्रिष्टं यथा मम- 'करमुदयमहीधरस्तनाग्रे गलिततमःपटलांशुके निवेश्य। विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः ॥' समस्तवस्तुविषयं यथा-अ्रैव 'विचुम्बति-'इत्यादौ 'चुचुम्बे तदङस्यापि। दासे इति। मानिनीं प्रसादयितुस्तत्पादाहृतस्य नायकस्योक्तिरियम्। अत्र पादप्रहारे। मृदु पद्मिति। 'तव' इति शेषः। तव पादप्रहारेऽपि मम पुल- को भवति, तथापि मयि तव क्रोध इति भावः। सौविदल्लोऽन्तःपुरपालकः कश्षुकी। क्षमायां महिषीलारोपो राजभोग्यत्वरूपसाम्यमूलकः। मृग्यमिति। 'छत्रं सितं शम्बरशात्रवस्य श्रीखण्डचित्रं हरितोऽबलायाः। विराजते चारु नभःसरोजं कर्पूर- पूरप्रभमिन्दुबिम्बम् ।I' अत्र शम्बरशात्रवादे राजताद्यारोप आर्थश्रन्द्रबिम्बस्य सितच्छत्रतारोपो निमित्तम्। करमिति। करं किरणमेव हस्तम्। पद्मोदयादेरेव पद्मोदयादिशब्दस्यैव। द्वयो रूप्यरूपकयो राजादिसूर्याद्योः । नन्वत्र शब्दसाम्य- 1. अष्टाविति। रूपकं तावत्रिविधम्-साङ्ग निरङ्ग परम्परितं चेति। तत्र साङं सम- स्तवस्तुविषयम्, एकदेशविवर्ति चेति द्विविधम्। निरङ्गमपि केवलं मालारूपं चेति द्विवि- धम्। परम्परितं तु क्रिष्टाश्रिष्टशब्दनिबन्धनतया द्विविधं सत्प्रत्येकं केवलं मालारूपं चेति चतुर्विधमिति संकलनेऽथै रूपकभेदाः ॥ 2. खङ्ग इति। एतत्पादत्रयीं तु'पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गो भग्नप्रत्यार्थेव शोल्बणविजयकरिस्त्यानदानाम्बुपट्टः। सङ्गामत्रासताम्यन्मुरलपतियशोहंसनी- लाम्बुवाह :- ' इति॥
Page 544
दशम: परिच्छेद:। 8९७
हरिदबलामुखमिन्दुनायकेन' इति पाठे। न चात्र श्रिष्टपरम्परितम्। तत्र हि 'भूमृदावलिदम्भोलि :- ' इत्यादौ राजादौ पर्वतत्वोद्यारोपं विना वर्णनीयस्य राजादेर्दम्भोलितादिरूपाणां सर्वथैव सादृश्याँभावा- दसंगतम्। तर्हि कथं 'पदमोदयदिनाघीशः-' इत्यादौ परंपरितम्, राजादे: सूर्यादिना सादृश्यस्य तेजख्वितादिहेतुकस्य संभवात्-इति न वाच्यम्। तथा हि-राजादेस्तेजखिितादिहेतुकं सुव्यक्तं सादृश्यं न तु प्रकृते विवक्षितम्। पझमोदयादेरेव द्वयोः साधरणघर्मतया विवक्षित- त्वात्। इह तु महीधरादेः स्तनादिना साद्ृश्यं पीनौत्तुङ्गत्वादिना सु- व्यक्तमेव-इति न क्रिष्टपरम्परितम् । क्वचित्समासाभावेडपि रूपकं दृश्यते- 'मुखं तव कुरकाक्षि सरोजमिति नान्यथा।' कचिद्वैयधिकरण्येSपि यथा- 'सौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण- ज्योत्साकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा। यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ।।' इदं मम। अत्र केषांचिद्रूपकाणां शब्दक्लेषमूलत्वेऽपि रूपकविशे- षत्वादर्थालंकारमध्ये गणनम्। एवं वक्ष्यमाणालंकारेषु बोध्यम्। विवक्षावशात्प्रसिद्धतेजस्वितादिरूपसाम्यविवक्षायास्तु 'त्रैलोक्यमण्डपस्तम्भाः' इ- त्यादौ तु दीर्घतपीवरत्वादिसाम्यसंभवेनात्र तन्मूलक एव स्तम्भलाद्यारोपोऽस्तु त्रैलोक्यादौ मण्डपत्वाद्यारोपस्य तत्कारणत्वस्वीकारेण किमिति चेतू, न। स्तम्भा यथा मण्डपभारसहिष्णवस्तथा हरिबाहवस्त्रैलोक्यभारसहिष्णव इति साम्यस्यैव प्रकृते विवक्षितत्वात्। तच् त्ैलोक्यादौ मण्डपत्वाद्यारोपं विना दुर्बोधम्। समासाभा वेऽपीति । अत एव दण्डिना व्यस्तं समस्तं व्यस्तसमस्तं चेति त्रिविधं रूपकमु- कम्। 'भ्रूलतया' इत्यभेदे तृतीया। अन्यथा तादात्म्यारोपो न स्यात्। सुचरितमे- वालेख्यं चित्रम्, द्ुभित्तिराकाशकुड्यम्। सरलता कौटिल्यराहित्यमेव सरलता दाक्षिण्यम्। तस्या योगे श्वपुच्छच्छटा कुक्कुरलाड्गूलकुण्डली। भक्तिमात्रसुलभे केवल- यापि भत्त्या प्राप्ये। अत्र केषांचिदिति। साधनस्य श्ेषस्य शब्दालंकारत्वेऽपि साध्यत्वेन प्रधानस्यार्थालंकारमध्ये गणनमिति भावः । वक्ष्यमाणानां श्लेषापह्ववादी १. 'हि' इति क-पुस्तके नास्ति. २. '-रूपण' ख-घ. ३. 'असंभवात्' ख-घ. ४. 'शा. झ्विणि' क. ५ 'इदं मम' इति क ख-पुस्तकयोर्नास्ति, ६. 'अत्र च' घ.
Page 545
४९८ साहित्यदर्पणे
अधिकारूढवैशिष्टयं रूपकं यत्तदेव तत् । तदेवादिका रूढवैशिष्टयसंज्ञकम्। यथा मम- 'इदं वक्रं साक्षाद्विरहितकलङ्क: शशघरः सुधाधाराधारश्चिरपरिणतं बिम्बमधरः । इमे नेत्रे रात्रिंदिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे सुखतरः ॥' अत्र कलङ्कराहित्यादिनाघिकं वैशिष्टयम्। विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि ॥३४॥ परिणामो भवेत्तुल्यातुल्याधिकरणो द्विघा। आरोप्यमाणस्यारोपविषयात्मतया परिणमनात्परिणामः ।
नाम्। अधिकारूढवैशिष्टयं रूपकमाह-अधिकारुढेति। अधिकमत्यर्थमारूढं वैशिष्टयं विशेषणं यत्र तदित्यर्थः। सुधावाराधार इति बिम्बस्य विशेषणम्। कलङ्क- रहितत्वादिविशेषणं चन्द्रादेरत्यन्तासंभवीति तत्र तदारोपणादधिकारूढवैशिष्यम्। 'कलङ्कराहित्यादिना' इत्यभेदे तृतीया। परिणामालंकारमाह-विषयात्मतयेति। प्रकृतार्थोपयोगिनि वस्तुनि विषयतादात्म्येनारोप्ये सति परिणाम इत्यर्थः। प्रस्तुत- प्रयोजनसाधनत्वेन प्रसिद्धिरेव प्रकृतार्थोपयोगित्वम्। रूपके सदृशवस्तुनस्तादात्म्यं विषये भासते। इह तु सजातीयफलसाधनतया विषयस्य तादात्म्यमारोप्यमाणे भासत इति विशेषः । तुल्याधिकरणः समानाधिकरणः। सच समानविभक्तिक- पदद्ये प्रयोज्यः । विभिन्नविभक्तिकपदद्वयप्रयोज्यो व्यधिकरण एव तुल्याधिकरणः । संज्ञाबीजमाह-आरोप्यमाणस्येति। परिणमनात् परिणतबुद्धिविषयीकरणात्। बुद्धे: परिणामश्चानाहार्यत्वे सति धारावाहिकत्वम्। रूपके ह्याहार्य एव सकृदभेदबुद्धिः, अनन्तरं साधर्म्यप्रतीतिरेव न त्वभेदबुद्धन्तरम्। इह तु वस्तुनोरेककार्यकारित्वेना- त्यन्ततिरस्कृतभेदयोरभेदप्रतीतिधारेति भावः । इह प्रायेण भवत्यर्थस्य करोत्यर्थस्य
-
परिणाम इति। अन्राहुः शेखरकारा :- उपमानप्रतियोगिकाभेदो रूपकम्। उपमेयप्रतियोगिकाभेदः परिणामः । प्रतीपवत्तत्राभेदे उपमेयप्रतियोगिकत्वतात्पर्यग्राहकं प्रकृतकार्योपयोगः । न तु तच्छरीरेऽस्य प्रवेशः । एवं च यत्रोपमानस्य स्वात्मनैव प्रकृत- कार्योपयोगो यत्र चोदासीनता तत्र रूपकमेव। इत्थं च परिणामो विशेषणसमासायत्तः । रूपकं मयूरव्यंसकादिसमासायत्तं 'मुखचन्द्र' इत्यादौ। यदि तु चन्द्रमुखमिति विप्रयुज्यते तदा विशेषणसमासायत्तमपि रूपकमिति। परे तु-उपमानोपमेयपदानामुपमानप्रतियोगि- काभेदसंसर्गेण बोधकानां 'मयूरव्यंसकादयश्च' इति समासेन विशेषणसमासवाधाच्चन्द्रमु- खमिति प्रयोग एव नेति वदन्ति ॥
-
'संज्ञरूपकम्' घ. २. 'मम' इति नास्ति क-पुस्तके.
Page 546
दशमः परिच्छेदः। ४९९
यथा- 'स्मितेनोपायनं दूरादागतस्य कृतं मम । स्तनोपपीडमाश्लेषः कृतो द्यूते पणस्तया ॥' अन्यत्रोपायनपणौ वसनाभरणादिभावेनोपयुज्येते। अत्र तु नाय- कसंभावनद्यूतयोः स्मिताश्लेषरूपतया। प्रथमार्धे वैयधिकरण्येन प्रयोगः, द्वितीये सामानाधिकरण्येन। रूपके 'मुखचन्द्रं पश्यामि' इत्यादा- वारोप्यमाणचन्द्रादेरुपरञ्जकतामात्रम्, न तु प्रकृते दर्शनादावुपयोगः । इह तूपायनादे्विषयेण तादात्म्यं प्रकृते च नायकसंभावनादावुपयोगः । अत एव रूपके आरोप्यस्यावच्छेदकत्वमात्रेणान्वयः । अत्र तु तादा- त्म्येन। 'दासे कृतागसि-' इत्यादौ रूपकमेव, न तु परिणामः ।
वा धातोः प्रयोगः । तत्र भवत्यर्थस्य प्रयोगो यथा-'तिरस्करिण्यो जलदा भवन्ति'। अत्र योषिद्वात्रावरणरूपप्रस्तुतप्रयोजनसाधनत्वेन प्रसिद्धे पटविशेषे आरोप्यमाणे तत्साधनस्य जलदस्य तादात्म्यारोपः। यथा वा-'मन्दो गन्धवहः क्षारो वह्निरिन्दुश्च जायते। चर्चा चन्दनपड्ढस्य शस्त्रघातः प्रवासिनाम् ॥' अत्र देहदाहादिरूपप्रस्तुतप्रयोजनसाधनत्वेन प्रसिद्धे वसुनि क्षारादावारोप्यमाणे तत्साध नस्य गन्धवहादेर्विषयस्य तादात्म्यारोपः। करोत्यर्थप्रयोगे परिणाममाह-स्मिते- नेति। तृतीयात्राभेदे। उपायनं मण्यादि प्रीत्यर्थ दीयमानं द्रव्यम्। स्तनोपपीरडं स्तनावुपपीडय। तत इत्यत्र कृत इति पाठो न रमणीयः। कथितपदलदोषप्रसङ्भात्। पराजये एतद्दातव्यमित्यङ्गीकृतं द्रव्यं पणः । आरोप्यमाणयोः प्रकृतोपयोगित्वेन प्रसिद्धि विषयतादात्म्यारोपं चोपपादयति-अन्यत्रेति। संभावनान्तरद्यूतान्तरयो- रित्यर्थः । उपयुज्येते हेतू भवतः। अत्र त्विति। प्रस्तुतयोस्तित्यर्थः । स्मिताश्लेष- रूपतया स्मिताश्लेषतादात्म्येन उपयुज्येते इत्यन्वयः । उपयोगित्वेन प्रतीयेते इति तदर्थः । रूपकादस्य भेदमुपपादयति-रूपके इति । उपरञ्जकत्वमात्रमुपलक्षण- लमेव। यथा 'आह्लादकं चन्द्रं पश्यामि' इत्यादावाह्लादकतवस्य दर्शनानुपयोगित्वे- नोपलक्षणत्वं तथेहापीति भावः । न त्विति। चन्द्रस्यदर्शनयोग्यत्वेऽपि यथाह्लादा- दिसाधनत्वेन प्रसिद्धिर्न तथा दर्शनसाधनत्वेनेति भावः । प्रकृते चेति। चकार- स्योपयोगश्चेत्यन्वयः । ननु 'मुखचन्द्रः प्रकाशते' इत्यादौ चन्द्रादेरारोप्यमाणस्य प्रकाशसाधनत्वेन प्रसिद्धिरस्तीति परिणामप्रसङ्ग इत्यतआह-अत एवेति। परि- णामलक्षणे 'विषयात्मतया' इत्यस्य निवेशादित्यर्थः । अवच्छेदकत्वमात्रेण विषय- व्यावर्तकत्वमात्रेण, न तु विषयातादात््येन। अत्र त्विति। परिणामे वित्यर्थः। ननु 'दासे कृतागसि- इत्यादौ पादभेदनरूपकार्यसाधनत्वेन प्रसिद्धस्य कण्टकस्य १. 'माल्यादि' पुस्तकान्तरे. २. 'आश्रलेषरूपतयेति। प्रयुज्यत इत्यन्वयः' इति पुस्तकान्तरेऽधिकम्.
Page 547
५०० साहित्यदर्पणे
आरोप्यमाणकण्टकस्य पादभेदनकार्यस्याप्रस्तुतत्वात्। न खलु तत्क- स्यचिदपि प्रस्तुतकार्यस्य घटनार्थमनुसंघीयते। अयमपि रूपकवदधिकारूढवैशिष्टयो दृश्यते। यथा- 'वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषघयो रजन्यामतैलपूरा: सुरतप्रदीपाः ॥' अत्र प्रदीपानामौषध्यात्मतया प्रकृते सुरतोपयोगिन्यन्धकारनाशे
संदेहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः ॥ ३५॥ शुद्धो निश्चयगर्भोऽसौ निश्चयान्त इति त्रिधा। यत्र संशय एव पर्यवसानं स शुद्धः । यथा- 'किं तारुण्यतरोरियं रसभरोद्धिन्ना नवा वल्लरी वेलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः । उद्गाढोत्कलिकावतां खवसमयोपन्यासविश्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ।।'
पुलकाङ्गुरत्वेनारोप इति परिणाम एवेत्यत आह-दासे इत्यादौ। अप्रस्तुत- त्वादिति। मानभङ्गस्यैव तत्र प्रस्तुतत्वादिति भावः। ननु प्रस्तुतघटकस्यापि प्रस्तु- तत्वमित्यतः पादभेदनमपि प्रस्तुतमत आह-न खल्विति। तत्पादभेदनं घटना- र्थमपीत्यपेरन्वयः । उपपादनार्थमपीति तदर्थः । अनुसंधीयते प्रतीयते। अधिका- रूढवैशिष्टयं परिणाममाह-अयमपीति। परिणामोऽपीत्यर्थः । यत्र हिमालये। संदेहालंकारमाह-संदेहे इति। प्रकृते उपमेयेऽन्यस्योपमानस्य प्रतिभोत्थापितः कविप्रौढोक्तिसिद्धः न तु वस्तुखभावसिद्धः । 'ससंदेहस्तु भेदोक्तौ तदनुक्तौच संशयः' इति काव्यप्रकाशदर्शनात्, 'अनन्वयसंदेहावुपमास्वेव दर्शितौ' इति दण्डिदर्शनाच्चास्य ससंदेह इति संज्ञान्तरम्। संदेह इति संज्ञा तु 'उपमानोपमेय- संशयः संदेहः' इति वामनदर्शनादवसीयते। केचित्तु काव्यप्रकाशकारिकामेवं व्याकुर्वन्ति-भेदेक्तौ तु ससंदेहो भेदानुक्तौ तु संशयः' इत्यलंकारद्वयमेतदिति वदन्ति। तन्न। तथार्थकत्वे विशेष्यं दुर्लभं स्यात्। उपमानोपमेययोर्भेदोक्त्ौ ससंदेह- स्तदनुक्तौ सत्यां संशय इत्यर्थो यदि क्रियते तदा प्रथमस्य व्यतिरेके द्वितीयस्य रूप- कादावतिप्रसङ्गः स्यात् संशयालंकारस्य पृथक्त्वेनाप्युपादानाच्च। 'भेदोक्तौ तदनुक्तौ च संशयः स तु संदेहः' इति काव्यप्रकाशाभिप्रायमाकलय्य अ्रन्थकृत्तथालक्षणं कृत- वान्। वेलायां तीरे उच्छलितस्य उद्गतस्य। उद्गाढोत्कलिकावतामत्यन्तोत्कण्ठाशा- लिनाम्। खसमयस्य ससिद्धान्तस्य साचारस्य वा उपन्यासे ज्ञापने विश्रम्भिणः प्रण- यिनः । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः। 'विश्रम्भ: केलिकलहे
Page 548
दशमः परिच्छेदः। ५०१
यत्रादावन्ते च संशय एव मध्ये निश्चयः स निश्चयमध्यः । यथा- 'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम्। कृतान्तः किं साक्षान्महिषवहनोऽसाविति पुनः समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥' अत्र मध्ये मार्तण्डाद्यभावनिश्चयो राजनिश्चये द्वितीयसंशयोत्था नासंभवात्। यत्रादौ संशयोऽन्ते च निश्चयः स निश्चयान्तः। यथा- 'किं तावत्सरसि सरोजमेतदारा- दाहो खििन्मुखमवभासते तरुण्याः । संशय्य क्षणमिति निश्चिकाय कश्चि- द्विब्बोकैर्बकसहवासिनां परोक्षैः ॥।' अप्रतिभोत्थापिते तु 'स्थाणुर्वा पुरुषो वा' इत्यादिसंशये नाय- मलंकारः । 'मध्यं तव सरोजाक्षि पयोधरभरार्दितम्। अस्ति नास्तीति संदेहः कस्य चित्ते न भासते ।।' अत्रातिशयोक्तिरेव, उपमेये उपमानसंशयस्यैवैतदलंकारविषयत्वात्। विश्वासे प्रणयेऽपि च' इति मेदिनीकरः। अनवहितशिष्यताडनाय या यष्टिः सोपदेश- यष्टिः। शङ्गारिणः कामस्य। निश्चयगर्भ इत्यत्र गर्भपदस्य मध्यार्थलाभिप्रायेण व्याक- रोति-यत्रेति।अयं मार्तण्डः किमिति। लामाजौ समालोक्य प्रतिभटाः प्रति- कूलशूराश्चिरमिति विकल्पान्विदधति। विकल्पानाह-अयमिति। व्यावर्तकधर्म- माह-सखल्विति। इतो गतः सर्वा इत्यादिकृशानुव्यावर्तको धर्मः। एष कृशा- नुर्नियतं सर्वा दिशः प्रसरति। वाय्वभिमुखदिव्यात्रप्रसारिलात्। अयं तु सर्वदिक्प्र- सारी न स इत्यर्थः। महिषवाहनलाभावः कृतान्तव्यावर्तको धर्मः । मार्तण्डाद्यभाव- निश्चयो मार्तण्डादिभेदानुमानं न तु राजनिश्चय इति शेषः । अत्र हेतुमाह- राजेति। द्वितीय संशयानुत्थानात् द्वितीय संशयानुत्थानप्रसङ्गात्। किंतावदिति। संशय्येति योजना। बिब्बोकैर्निरुक्त्तसूचकैश्वेष्टाविशेषैः। बकसहवासिनां पद्मानां परोक्षैरपरिचेयैः । बिब्बोकानभिज्ञलातिशयज्ञापनाय पद्मानां बकसहवासित्वेनोप- न्यासः। प्रतिभोत्थित इत्यस्य व्यावृत्तिमाह-अप्रतिभेति । अत्रोच्चैस्तरतादिना सादृश्यमस्त्येव। प्रकृतेऽन्यस्येत्यस्य व्यावृत्तिमाह-मध्यमिति। अन्रातिशयो- किरेवालंकारो न तु संदेहः। अत्र हेतुमाह-उपमेय इति। एतदलंकारविषय-
Page 549
५०२ साहित्यदर्पणे
यथा- 'मुग्धा दुग्धधिया गवां विदघते कुम्भानघो बल्लवाः कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि। कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्कया सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका।' अस्वरसोत्थापिता भ्रान्तिर्नायमलंकारः । यथा-'शुक्तिकायां रज- तम् इति। न चासादृश्यमूला। यथा- 'संगमविरहविकल्पे वरमिह विरहो न संगमस्तस्याः । सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥' कचिन्देदाद्रहीतृणां विषयाणां तथा कचित्। एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते ॥ ३७॥ क्रमेणोदाहणम्- 'प्रिय इति गोपवधूभि: शिशुरिति वृद्धैरधीश इति देवैः। नारायण इति भक्तैर्व्रहेत्यग्राहि योगिभिर्देवः ॥' लात् संदेहालंकारस्वरूपत्वात्। भ्रान्तिमदलंकारमाह-साम्यादिति। अत्र तत्पदद्वयमप्राकरणिकपरम्। प्रतिभोत्थिता कविप्रौढोक्तिसिद्धा। ननु रूपके उप- मानोपमेयनिगरण रूपायामतिशयोक्तो चातिप्रसङ्ग इति चेत्, न। तयोराहार्यरूपत्वादू भ्रमस्य चाहार्यभिन्नत्वात्। भ्रमप्रमाभिन्नं तृतीयप्रकारकं ज्ञानमाहार्यमिति तत्सि- द्धान्तः । मुग्धा इति । बल्वा गोपाः गवामधः कुम्भान्विदधत इत्यन्वयः । चन्द्रिका किरणः । अत्र कविप्रौढोक्तिसिद्धो भ्रमः साम्यातिशयव्यञ्जकः । अन्र ध्वनि- सत्त्वेऽपि वैचित्र्यविशेषस्यानुभवसिद्धत्वादलंकारत्वेनोपादानम्। अखरसोत्थापिता वस्तुखभावजनिता। अयं भ्रान्तिमान्। शुक्तौ चाकचक्यविशेष एव रजतसा- धर्म्यम्। साम्यादित्यस्य व्यावृत्तिमाह-न चेति। भ्रान्तिनामायमलंकार इत्यनुष- ज्यते। संगमेति।संगमविरह्योरेकतरस्याभीष्टत्वविवेचन इत्यर्थः । इयं भावना- तिशयजन्या भ्रान्तिः कविप्रौढोक्तिसिद्धापि न साम्यग्रहणमूला। उल्लेखालंकार- माह-क्कचिदिति।गहीतृणां बोधकानां विषयाणां हेत्ववच्छेदकादीनां तथाभे- दात् अनेकधा विविधप्रकारेण उ्लेखोऽवधारणम्। प्रिय इति । वृद्धैर्नन्दादिभिः । भफततैरक्ूरादिभिः। अग्राहि अबोधि । योगिभिर्नारदादिभिः । देवः श्रीकृष्णः । 1. आ्रन्तिमानिति । अत्र भ्रान्तिमात्रमलंकारः । भ्रान्तिमानलंकार इति व्यवहार- स्त्वौपचारिकः । तथा चाहु :- 'प्रमात्रन्तरधीर्भ्रान्तिरूपा यस्मिन्ननूदते। स भ्रान्तिमा- निति ख्यातोऽलंकारे त्वौपचारिकः ॥' इति ॥
Page 550
दशमः परिच्छेदः। ५०३
अत्रैकस्यापि भगवतस्तत्तद्रुणयोगादनेकत्वोल्लेखे गोपवैधूप्रभृतीनां रुच्यादयो यथायोगं प्रयोजकाः । यदाहु :- 'यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते। आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधितः ।।' अत्र भगवतः प्रियत्वादीनां वास्तवत्वाद् ग्रहीतृभेदाच्च न मालारूप- कम्, न च आ्रान्तिमान्, न चायमभेदे भेद इत्येवंरूपातिशयोक्तिः । तेथा हि-'अन्यदेवाङ्गलावण्यम्-' इत्यादौ लावण्यादेर्विषयस्य पृथक्त्वे- नाध्यवसानम्। न चेह भगवति गोपवधूप्रभृतिभिः प्रियत्वाद्यध्यवसीयते। प्रियत्वादेर्भगवति तत्काले तात्त्विकत्वात्। केचिदाहुः-'अयमलंकारो नियमेनालंकारान्तरविच्छित्तिमूलः। उक्तोदाहरणे च शिशुत्वादीनां नियमाभिप्रायात्प्रियत्वादीनां भिन्नत्वाध्यवसाय इत्यतिशयोक्तिरस्ति।
नन्वेकस्यानेकरूपेण स्फुरणे किं प्रयोजकं सर्वेषां ग्रहीतृणां वा किमित्येकरूपेण स्फुरणँ न भवतीत्यत आह-अत्रेति। तत्तद्रुणयोगात् प्रियत्वादित त्तत्प्रकारसंबन्धात्। रुच्यादीत्यादिपदेन वक्ष्यमाणकारिकोक्तार्थित्वव्युत्पत्त्योर्ग्रहणम्। यथायोगं यथा- संभवं प्रयोजकाः कारणानि। भगवति यावद्गुणसत्त्वेऽपि रुच्यादिभेदेन विविधप्रका- रेणैव स्फुरणं न त्वेकरूपेण। रुच्यादीनामन्यतमस्य कारणस्य सर्वत्राभावादिति भाव:। यथारुचीति। रुचिरभिलाषः, आर्थेतं प्रयोजनापेक्षिलम्, व्युत्पत्तिर्भावना- रुच्यादीनामनतिक्रमेणेत्यर्थः। भिद्यते भिन्नत्वेनोपपद्यते। आभासो ज्ञानम्। अर्थे विषये। अनुसंधानसाधितः विविधविशेषणज्ञानजनितः । एकविषये व्यक्तिभेदेन विभिन्नप्रकारकज्ञानोत्पत्तौ तत्तद्विशेषणज्ञानसहकृतं रुच्यादिकं कारणमिति भावः। वास्तवतादनारोपितलात्। गृहीतृभेदाच्चेति। एवं च 'पिता प्रजानां शमनो रिपूणां वनीपकानाममरदरमश्च। कविः कवीनां सुहृदां सुधांशुः सतां गुरुर्भूमिपतिः प्रतीतः ॥' इत्यादौ पितृत्वादीनां प्रकाराणामवास्तवत्वेऽपि ग्रहीतृभेदादेव न माला- रूपकमिति भावः । न च भ्रान्तिमानिति। अन्र प्रियत्ादीनां वास्तवत्वादिति हेतुर्बोध्यः। एवं चात्र सादृश्यजनितभ्रमाभावादत्र न भ्रान्तिमानिति भावः । अय- मुक्तोहेखः । तात्त्विकत्वाद् विद्यमानत्वात्। केचिदिति। अयमुल्लेखः अलंकारा- न्तरं विच्छित्तेर्मूलं यस्य सः। अलंकारान्तरसहकृत एवायं विच्छित्तिविशेषं जनय- तीति भावः। प्रियत्वादेर्धर्मस्य शिशुत्वादीनां नियमाभिप्रायादू व्यवच्छेदे तात्पर्याद् भिन्नत्वाध्यवसायः शिशुत्वादिभेदप्रत्ययः । नन्वत्रातिशयोक्तिरेव वैचित्र्यप्रयोजिका
१. 'वध्वादीनां' क २. 'तत्र हि' घ. ३. 'अवश्यंभावेन' इत्यधिक घ-पुस्तके. ४. 'नानारू पकं' इति मुद्रितपुस्तके.
Page 551
५०४ साहित्यदर्पणे
तत्सद्धावेऽपि प्रत्येतृभेदेन नानात्वप्रतीतिरूपो विच्छित्तिविशेष उल्लेख- भिन्नालंकारप्रयोजकः । श्रीकण्ठजनपदवर्णने-'वज्रपञ्जरमिति शर- णागतैः, अम्बरविवरमिति वातिकैः' इत्यादिश्चातिशयोक्तेर्विविक्तो विषयः । इह च रूपकालंकारयोगः । वस्तुतस्तु-'अम्बरविवरं- इत्यादौ भ्रान्तिमत्त्वमेवेच्छति न रूपकम्, भेदप्रतीतिपुरःसरस्यैवारोपस्य गौणीमूलरूपकादिप्रयोजकत्वात्। यदाहुः शारीरक्रमीमांसाभाष्यव्या- ख्याने श्रीवाचस्पतिमिश्राः-'अपिच परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तते इति। यत्र प्रयोक्तृप्रतिपत्रोः संप्रतिपत्तिः स गौणः, स च भेद- प्रत्ययपुरःसरः' इति। इह तु वातिकानां श्रीकण्ठजनपदवर्णने भ्रान्ति- कृत एवाम्बरविवराद्यारोप इति। अत्रैव च 'तपोवनमिति मुनिभिः कामायतनमिति वेश्याभिः' इत्यादौ परिणामालंकारयोगः । 'गाम्भीर्येण समुद्रोऽसि गौरवेणासि पर्वतः ।' इत्यादौ चानेकघोल्लेखे गाम्भीर्यादिविषयभेदः प्रयोजकः । अत्र
आस्तां किमुल्लेखस्यालंकारत्वाङ्गीकारेणेत्यत आह-तत्सन्भावेSपीति। अतिश- योक्तिसद्भावेऽपीत्यर्थः। प्रत्येतृभेदेनेति । एकस्मिन्नीश्वरे गोपवधूप्रभृतीनां रुच्यादिमेदेन प्रियत्वादिप्रतीतिरेतिशयोक्त्यलंकारस्तन्मूलकः। सभ्यानां नानात्वप्र- त्यय एव विच्छित्तिविशेष इति भावः । अम्बर विवरमाकाशावकाशः । रूपकस्य भेद- प्रतीतिपुरःसरत्वे हेतुमाह-गौणीमूलेति । गौणी सादृश्यलक्षणा मूलमत्ये- त्यर्थ:। रूपकादिप्रयोजकत्वादिति। रूपकादिस्वरूपत्वादिति तात्पर्यम्। गौण्या लक्षणाया भेदप्रतीतिपुरःसरत्वे प्राचीनसंवादमाह-यदाहुरिति। परशब्द उपमा- नाभिधायकः शब्दः। परत्र उपमेये लक्ष्यमाणगुणयोगेन प्रतीयमानसाधारणधर्म- संबन्धेन। यत्र यस्मिन्सति प्रयोक्तृप्रतिपत्रोः वक्तृश्रोत्रोः संप्रतिपत्तिः प्रमात्मकसा- दृश्यज्ञानं स गौणः। शब्दव्यापार इत्यर्थः । स च वक्तृतात्पर्यज्ञानविशेषरूपशब्दव्यापा- रश्च। प्रकृते रूपकवैधर्म्य दर्शयति-इह त्विति। भ्रान्तिकृतो विशेषदर्शनजन्यः। अत्रैव श्रीकण्ठजनपदवर्णन एव। परिणामालंकारयोग इति। आरोप्यमाणयो- स्तपोवनकामायतनयोस्तपःकामरूपप्रकृतप्रयोजनोपयोगित्वात्परिणाम इति भावः। विषयभेदेनोहेखमुदाहरति-गाम्भीर्येणेति। 'कामदत्वाच्च लोकानामसि त्वं कल्प- पादपः ॥' इत्युत्तरार्धमस्य । अत्रैकस्य पुंसो हेतुभेदेन समुद्राद्यनेकरूपेणोल्लेखः ।
- श्रीकण्ठेति। बाणकृते हर्षचरिते श्रीकण्ठाख्यो जनपदस्तदवर्णने॥
१. 'गरहीतृ-'ध. २. 'अतिशयोक्ति' इति नास्ति पुस्तकान्तरे.
Page 552
दशमः परिच्छेदः। ५०५
च रूपयोगः । 'गुरुर्वचसि, पृथुरुरसि, अर्जुनो यशसि-' इत्यादिपु चास्य रूपकाद्विविक्तो विषय इति। अत्र हि क्लेषमूलातिशयो- क्तियोगः । प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपहुतिः । इयं द्विधा। क्वचिदपह्ववपूर्वक आरोपः, क्वचिदारोपपूर्वकोडपह्रव इति। क्रमेणोदाहरणम्- 'नेदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङ्गाः । नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः ।।' 'एतद्विभाति चरमा चलचूडचुम्बि हिण्डीरपिण्डरुचिशीतमरीचिबिम्बम्। उज्ज्वालितस्य रजनी मदनानलस्य धूमं दधत्प्रकटलाञ्छनकैतवेन ।।' इदं मम। एवम् 'विराजति व्योमवपुःपयोधिस्तारामयास्तत्र च फेनभङ्गाः' इत्याकारेण च प्रकृतनिषेधो बोध्यः। गोपनीयं कमप्यर्थ द्योतयित्वा कथंचन । २८ ।। यदि श्षेषेणान्यथा वान्यथयेत्साप्यपहुतिः । श्लेषेण यथा- 'काले वारिघराणामंपतितया नैव शक्यते स्थातुम्। उत्कण्ठितासि तरले नहि नहि सखि पिच्छलः पन्थाः ॥' गुरुरिति। गुरुर्विशालो जीवश्च। पृथुर्महान् वैन्यश्च। अर्जुनः शुक्को धनंजयश्। अत्रैकस्य पुंसो वक्षःस्थलाद्यवच्छेदेन गुरुत्वाद्यनेकरुपेणोलेखः। अपहुत्यलंकारमाह- प्रकृतमिति। उपमेयमित्यर्थः । निषिध्य सवभिन्नत्वेनारोप्य अन्यस्थापनमुपनाना- रोपः। इयं चापहुतिश्च। अस्या उभयरूपत्वे विनिगमनाभाव एव प्रयोजक इति भावः। फेनभङ्गाः फेनखण्डानि। अत्र नभोमण्डलादीनां प्रथमं सभिन्नत्वेन पश्चाद- म्वुराशितादिनारोपः । एतदिति। 'हिण्डीरोऽब्धिकफ: फेनः' इत्यमरः । लाञ्छ- नकैतवेनेति कलड्डेष्वभेदव्यञ्जकमिदम्। निषिध्येत्यानन्तर्यमविवक्षितमिति भावः । प्रकारान्तरेणापहुत्यलंकारमाह-गोपनीयमिति। दोतयिता बोधयिला। कथंच- न शब्देन सादृश्यादिना वा। अन्यथा श्लेषभिन्नेन कालखवभावादिना। अन्यथयेत भिन्नत्वेन ख्यापयेत्। काल इति। प्रथमार्ध विरहिण्याः, तृतीयपाद: सख्याः, १. 'वाच्यः' क. सा० द० ४३
Page 554
दशमः परिच्छेदः । ५०७
नह्ययं निश्चयान्तः संदेहः, तत्र संशयनिश्चययोरेकाश्रयत्वेनावस्था- नात्। अत्र तु भ्रमरासंशयो नायकादेर्निश्चयः । किंच न भ्रमरा- देरपि संशयः । एककोट्यनधिके ज्ञाने तथा समीपगमनासंभवात्। तर्हि भ्रान्तिमानस्तु। अस्तु नाम भ्रमरादेर्भ्रान्तिः । न चेह तस्याश्च- मत्कारविधायित्वम्। अपि तु तथाविधनायकाद्युक्तेरेवेति सहृदयसंवे- द्यम्। किंचाविवक्षितेऽपि भ्रमरादेः पतनादौ भ्रान्तौ वा नायिकाचा- दवादिरूपेणैव संभवति तथाविधोक्तिः। न च रूपकध्वनिरयम्, मुखस्य कमलत्वेनानिर्धारणात्। न चापहुतिः, प्रस्तुतस्यानिषेधात् । इति पृथगे- वायमलंकारश्चिरंतनोक्तालंकारेभ्यः । शुक्तिकायां रजतघिया पतति पुरुषे शुक्तिकेयं न रजतमिति कस्याश्चिदुक्तिनायमलंकारो वैचित्र्या- भावात्। भवेत्संभावनोत्प्रेक्षा पकृतस्य परात्मना। वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता॥ ४० ॥
हिण उक्तिरियम्। एकाश्रयत्वेन एकात्मवृत्तित्वेन। तथा चात्र संशयनिश्चययोर्व्य- धिकरणतान्नायं निश्चयान्तसंदेह इति भावः । ननु तत्र तयोः सामानाधिकरण्य- नियमे किं मानमत आह-किंचेति। एककोट्यनधिके एककोटिमात्रावगाहिनि। तथा समीपगमनासंभवात् संदेहप्रसङ्गायोगात्। तर्हि एककोटिमात्रावगाहिज्ञानक- निश्चयत्वसवीकारे भ्रान्तिमानिति। भ्रान्तेर्निश्चयरूपत्वादिति भावः । नायकादयुक्ते- रिति। चमत्कारविधायित्मित्यनेनान्वितम्। उक्तिर्निश्रयः। ननु संबोध्यभ्रान्ति विना तथाविधोक्तेरसंभव एव। एवं चास्य भ्रान्तिमूलकतवं नियतम्। तथा च प्रकृते सैव चमत्कारविधायिनी। तथाविधोक्तिस्तु भ्रमव्यञ्जिकैवेत्यत आह-किंचेति। पतनादाविति। भ्रमव्यञ्जकोपादानं तस्य नियतत्वादाह-भ्रान्ताविति। अवि- वक्षितायामिति लिङ्गव्यत्ययेनान्वयः । चाद्वादिरूपेण चाटादिप्रकारेण। मुखस्य मुखादेः कमलत्वेन कमलत्वादिना अनिर्धारणात् अनारोपात्, प्रत्युत भिन्नत्वेन निर्ण- यात्। पतति रजतार्थ वर्तमाने। तथा च वस्तुतत्त्वमेव नालंकारतप्रयोजकमपि तु वैचित्र्याधायकत्वमेवेति भावः। उत्प्रेक्षालंकारमाह-भवेदिति। संभावना उत्क- टैककोटिकः संशयः। प्रकृतस्य उपमेयस्य। परात्मना उपमानरूपेण। तादात्म्यसंबन्ध- लाभायात्मपदोपन्यासः। प्रकारतवं तृतीयार्थः । तथा च तादात्म्यसंसर्गकोपमान- 1. उत्प्रेक्षेति। उत् ऊर्ध्व गता प्रेक्षा दृष्टिः प्रतिभा वा यस्यां सोत्प्रेक्षा। वितर्कयतः प्रेक्षा हि प्रायेणोक्तविधा जायत इति॥
१. 'एव' इत्यधिकं घ-पुस्तके.
Page 555
५०८ साहित्यदर्पणे
वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः। जातिर्गुण: क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि॥ ४१ ॥ तदष्टधापि प्रत्येकं भावाभावाभिमानतः। गुणक्रियास्वरूपत्वान्निमित्तस्य पुनश्र ताः ॥।४२। द्वात्रिंशद्विधतां यान्ति तत्र वाच्योत्प्रेक्षायामुदाहरणं दिञ्मात्रं यथा- 'ऊरु: कुरङ्गकद्दशश्चञ्चलचेलाञ्चलो भाति। सपताक: कनकमयो विजयस्तम्भः स्मरस्येव ।।' अत्र विजयस्तम्भस्य बहुवाचकत्वाज्जात्युत्प्रेक्षा। 'ज्ञाने मौनं क्षमा शक्तौ त्यागे क्ाघाविपर्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ।।' अत्र सप्रसवत्वं गुणः । प्रकारकोपमेय विशेष्यकोत्कटैककोटिक: संशयः उत्प्रेक्षेत्यर्थः। संदेहालंकारवारणाय उत्कटैककोटिक इति। रूपकभ्रान्तिमदतिशयोक्तीनां निश्चयरूपत्वात्संशयपदेन वार- णम्। उपमानं च क्वचित्संभवि क्वचित्प्रौढोक्तिसिद्धम्। आदं यथा-'गुणा गुणानु- बन्धित्ात्' इति। अत्र प्रसवपदार्थः संभवत्येव। द्वितीयं यथा-ऊरुरित्यादि। अत्र मुरतेच्छारूपस्मरस्य कनकमयविजयस्तम्भः शशविषाणवदलीकः प्रौढोक्त्यैव सिद्धः । परा प्रतीयमाना। सा द्वयोर्वांच्यप्रतीयमानयोः । जातिर्जातिवाचकपदप्रति- पाद्योऽर्थः। एवं गुणादयोऽपि। भावेति। भावाभिमाने जात्यादिरूपभावसंभाव- नायाम्। अभावाभिमाने जात्यादिप्रतियोगिकाभावसंभावनायाम्। एवं च षोडश- प्रकारत्वमुपपन्नम्। निमित्तस्य संभावनाजनकज्ञानविषयसाधारणधर्मस्य। ता उत्प्रेक्षाः। ऊरुरिति। शत्रुमभिभूय तद्विषये धीरैर्यः स्तम्भ आरोप्यते स विजय- स्तम्भ:। विजयस्तम्भपदस्य बहुवाचकत्वादिति। अनेकवृत्तिनित्यसामान्यजाति- त्स्ीकारादिति भावः । गुणोत्प्रेक्षामाह-ज्ञाने इति। शास्त्रादिज्ञाने सत्यपि मौनं जल्पवितण्डाराहित्यम्। क्षमा पराभवानर्हस्यापरावसहिष्णुता। 'लाघा आत्म- प्रशंसा, तस्या विपर्ययोऽभावः । गुणानुबन्धितात् गुणप्रयोजकलवात्। प्रकर्षप्रयोजक धर्मोऽत्र गुणः । तस्य दिलीपस्य। कुक्षिगर्भयोर्विभागः प्रसवः तत्सहिताः सप्रसवाः। ज्ञानादीनां मौनादयुत्पादने प्रसवसंभावना। ज्ञानादिसत्वे एव मौनादीनां गुणलमिति 1. द्वात्निशदिति। वाच्या प्रतीयमाना चेत्युत्प्रेक्षा द्विविधा। इवादिप्रयोगे वाच्या, तदभावे प्रतीयमाना। तत्र वाच्या जातिगुणक्रियाद्रव्याणामप्रकृतानामध्यवसेयता चतु- विधा। तेषां च प्रत्येकं भावाभावाभिमानरूपतया द्वैविध्येनाष्टविधा। भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणक्रियारूपत्वेन षोडश मेदाः । तेषां च प्रत्येकं निमित्तस्य पुनरुपा- दानानुपादानाभ्यां द्वानिशत्प्रकारा इति।
Page 556
'गङ्गाम्भसि सुरत्राण तव निःशाननिखनः । स्नातीवारिवधूवर्गगर्भपातनपातकी ।।' अत्र स्नातीति क्रिया। 'मुखमेणीदृशो भाति पूर्णचन्द्र इवापरः ।' अत्र चन्द्र इत्येकव्यक्तिवाचकत्वाद्रव्यशब्दः । एते भावाभिमाने। अभावाभिमाने यथा- 'कपोलफलकावस्याः कष्ट भूत्वा तथाविधौ। अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ।।' अत्रापश्यन्ताविति क्रियाया अभावः । एवमन्यत्। निमित्तस्य गुणक्रियारूपत्वे यथा-'गङ्गाम्भसि-' इत्यादौ सनातीवेत्युत्प्रेक्षानिमित्तं पातकित्वं गुणः । 'अपश्यन्तौ-' इत्यादौ क्षामतागमनरूपं निमित्तं क्रिया। एवमन्यत्। प्रतीयमानोत्प्रेक्षा यथा- 'तन्वङ्गयाः स्तनयुग्मेन मुखं न प्रकटीकृतम्। हाराय गुणिने स्थानं न दत्तमिति लज्जया ।।' अत्र लज्जयेवेतीवाद्यभावात्प्रतीयमानोत्प्रेक्षा। एवमन्यत्। ननु
ज्ञानादीनां मौनादिप्रयोजकलम्। क्रियोत्प्रेक्षामाह-गङ्गेति। सुरत्राणेति प्रसि- द्धस्य राज्ः संबोधनम् । प्रयाणकालीनवाद्यं निःशानः। अरिवधूवर्गस्य गर्भपातनमेव पातकं पापजननयोग्यकर्म, तद्वान्। पापकर्मा हि गङ्गास्नानं करोति। शब्दोऽपि पापकर्मवानिति तदीयगङ्गाजलसंबन्धे स्नानसंभावना। द्रव्योत्प्रेक्षामाह-मुख- मिति।अपरः प्रसिद्धातिरिक्तः । अयं प्रौढोक्तिसिद्धः । एते दर्शितप्रकारोत्प्रेक्षा- प्रकारा: । कपोलेति। तथाविधौ अतिसुन्दरौ। क्षामतां कृशतम् । ननु कपोलयोः परस्परदर्शनाभावः सिद्ध एव कथमत्र संभावनेति चेत्, न । विरहजनितकृशत्वे परस्परदर्शनाभावजन्यकृशत्वसंभावनायां तात्पर्यात्। पातकित्वं पापजननयोग्यत्वं गुण- क्रियातिरिक्तो धर्मः यथाश्रुतस्य शब्देऽसंभव इति व्येयम्। एतेन 'निष्पन्दमरविन्दा- क्षि नेत्रद्वन्दवमिदं तव। चिरविच्छिन्नमेकान्तं कान्तमाध्यायति ध्रुवम् ।।' इत्यादौ गुणक्रियाभिन्नस्य निष्पन्दत्वादेरपि निमित्तस्य संग्रहः। यद्वा निमित्तस्यापि भावा- भावरूपतवं द्वैविध्यं बोध्यम्। तन्वङ्ग्या इति। कालिम्रा वृतत्वात्। मुखग्रकटी- करणाभाव इति भावः । गुणिने सूत्रवते, अथ च विद्यादिगुणशालिने। दानाभावो हि लज्जासंपादकः । स्तनयोरिति सान्द्रत्वेन हारस्यावकाशाप्राप्तिस्तत्रेयमुत्प्रेक्षा। उत्प्रेक्षां विनापि तव हृदये वस्तुमिवेति फलोत्प्रेक्षां विनापि। उत्प्रेक्षयैव उत्प्रेक्षावा-
Page 557
५१० साहित्यदर्पणे
ध्वनिनिरूपणप्रस्तावेऽलंकाराणां सर्वेषामपि व्यङ्गयत्वं भवतीत्युक्तम्। संप्रति पुनर्विशिष्य कथमुत्प्रेक्षायाः प्रतीयमानत्वम्। उच्यते-व्यङ्ग्यो- त्प्रेक्षायां 'महिलासहस्स-' इत्यादावुत्प्रेक्षणं विनापि वाक्यविश्रान्तिः । इह तु स्तनयोर्लज्जाया असंभवाल्लज्जयेवेत्युत्प्रेक्षयैवेति व्यङ्यप्रतीय- मानोत्प्रेक्षयोर्भेदः । अत्र वाच्योत्प्रेक्षायाः षोडशसु भेदेषु मध्ये विशेषमाह- तत्र वाच्याभिदा पुनः। विनाद्रव्यं त्रिधा सर्वा: स्वरूपफलहेतुगाः ॥ ४३॥ तत्रोक्तेषु वाच्यप्रतीयमानोत्प्रेक्षयोर्भेंदेषु मध्ये ये वाच्योत्प्रेक्षायाः षोडश भेदास्तेषु च जात्यादीनां त्रयाणां ये द्वादश भेदास्तेषां प्रत्येकं स्वरूपफलहेतुगम्यत्वेन द्वादशभेदतया षट्त्रिंशद्वेदाः । द्रव्यस्य स्वरू- पोत्प्रेक्षणमेव संभवतीति चत्वार इति मिलित्वा चत्वारिंशद्वेदाः। अत्र स्वरूपोत्प्रेक्षा यथा पूर्वोदाहरणेषु 'स्मरस्य विजयसम्भः-' इति । 'सप्रसवा इव- इत्यादयो जातिगुणखेरूपगाः। फलोत्प्रेक्षा यथा- 'रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः । विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ।।' अत्राख्यातुमिति भूप्रवेशस्य फलं क्रिियारूपमुत्प्रेक्षितम्। हेतू- त्प्रेक्षा यथा- 'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ।।' अत्र दुःखरूपो गुणो हेतुत्वेनोत्परेक्षितः । एवमन्यत्। उत्त्यनुक्त्योर्निमित्तस्य द्विधा तत्र सवरूपगाः। चकेवाद्यध्याहारेणैव वाक्यविश्रान्तिरित्यन्वयः। अनयोरुत्प्रेक्षाध्वनिप्रतीयमानोत्परे क्षयोः । स्वरूपेति। तादर्थ्यचतुर्थ्यन्तेन तुमुनन्तेन वा पदेन यत्रोत्प्रेक्षा सा फलोत्प्रेक्षा। हेतुविभत्त्यन्तपदेन उत्प्रेक्षा हेतूत्प्रेक्षा। ताभ्यामितरा स्वरूपोत्प्रेक्षा संभवतीति फलहेतुभावेन द्रव्यसंभावनाया वैचित्र्याजनकत्वादिति भावः । पूर्वोदा- हरणेषु 'ऊरु :- ' इत्यादिषु। रामास्तो रामविक्षिप्तः। बाणस्य भूतलप्रवेशो रामवीर्या- तिशयं ख्यापयति। तत्र प्रियाख्यानसंभावना। सषति। सीतां प्रति श्रीरामस्योकि- रियम्। विचिन्वता अन्विष्यता। अत्र सीताचरणासंबन्धः सीताचरणविश्लेषदुःख- १. 'उच्यते' इत्यधिकं घ-पुस्तके. २. 'रूपगाः' इति घ-पुस्तके
Page 558
दशम: परिच्छेदः । ५११ तेषु चत्वारिंशत्संख्याकेषु भेदेषु मध्ये ये स्वरूपगायाः षोडशभे- दास्ते उत्प्रेक्षानिमित्तस्योपादानानुपादानाभ्यां द्वान्रिशद्धेदा इति मि- लित्वा षटपश्चाशद्धेदा वाच्योत्प्रेक्षायाः। तत्र निमित्तस्योपादानं यथा पूर्वोदाहते 'स्नातीव-' इत्युत्प्रेक्षायां निमित्तं पातकित्वमुपात्तम्। अनु- पादाने यथा-'चन्द्र इवापरः' इत्यत्र तथाविधसौन्दर्याद्यतिशयो नो- पात्तः। हेतुफलयोस्तु नियमेन निमित्तस्योपादानमेव । तथाहि- 'विश्लेषदुःखादिव' इत्यत्र यन्निमित्तं बद्धमौनत्वम् 'आख्यातुमिव' इत्यत्र च भूप्रवेशस्तयोरनुपादानेऽसंगतमेव वाक्यं स्यात्। प्रतीयमा- नायाः षोडशसु भेदेषु विशेषमाह- प्रतीयमाना भेदाच् प्रत्येकं फलहेतुगाः ॥४४ ॥ यथोदाहृते 'तन्वङ्गयाः स्तनयुग्मेन-' इत्यत्र लज्जयैवेति हेतुरुत्प्रे- क्षितः। अस्यामपि निमित्तस्यानुपादानं न संभवति। इवाद्य- नुपादाने निमित्तस्य वाकीर्तने उत्प्रेक्षणस्य प्रमातुर्निश्चेतुमशक्यत्वात्। स्वरूपोत्प्रेक्षाप्यत्र न भवति। धर्मान्तरतादात्म्यनिबन्धनायाम- स्यामिवाद्यप्रयोगे विशेषणयोगे सत्यतिशयोक्तेरभ्युपगमात्। यथा- 'अयं राजापरः पाकशासनः' इति। तदेवं द्वान्रिशत्प्रकारा प्रतीय- मानोत्प्रेक्षा। उत्त्यनुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा। ता उत्प्रेक्षाः। उक्तौ यथा-'ऊरुः कुरङ्गकदृशः-' इति। अ- नुक्तौ यथा मम प्रभावत्याम्-'प्रद्युम्न :- इह हि संप्रति दिगेन्तर- माच्छादयता तिमिरपटलेन।
त्वेन संभावितः । मिलित्वेति। 'चतुर्विशतिप्रकारफलहेतूत्प्रेक्षाभिः' इति शेषः । हेतुफलयोस्त्विति। हेतूत्प्रेक्षाफलोत्प्रेक्षयोस्वित्यर्थः । हेतूत्प्रेक्षायामुत्प्रेक्ष्यमा- णस्य फलमेव निमित्तं फलोत्प्रेक्षायां तु हेतुरेवेत्यवधेयम्। असंगतमेवेति। विभत्त्याद्युपस्थापितस्य हेतुतस्य कार्यत्वस्य वा अन्वयानुपयोग्यलाभेनान्वयबोध- विधुरं स्यादित्यर्थः । धर्मान्तरतादात्म्यनिबन्धनायां धर्मान्तरतादात्म्यविषयिण्याम- स्यामुत्प्रेक्षायां विशेषणस्यासंभवितसंपादकधर्मस्य योगे इत्यर्थः । अध्यवसीयमानस्य औ्ढोक्तिसिद्धत्वेनोत्कृष्टत्वमिति विषय स्यापकृष्टत्वरूपमधःकरणमतिशयोक्तिप्रयोजकम्। अभ्युपगमादिति । इवाद्ययोगे संभावनायाः सिद्धत्वेनावभासादिति भावः । १. 'च' घ-पुस्तके पाठः. २. 'दिगन्तं' घ-पुस्तके.
Page 559
५१२ साहित्य दर्पणे
घटितमिवाञ्जनपुञ्ैः पूरितमिव मृगमदक्षोदैः। ततमिव तमालतरुभिर्वृतमिव नीलांशुकैर्भवनम् ।।' अत्राञ्जनेन घटितत्वादेरुत्प्रेक्षणीयस्य विषयव्याप्तत्वं नोपात्तम्। यथा वा- 'लिम्पतीव तमोऽ़ङ्गानि वर्षतीवाञ्जनं नभः । अत्र तमसो लेपनस्य व्यापनरूपो विषयो नोपात्तः। अञ्जनवर्ष- णस्य तमःसंपातः । अनयोरुत्प्रेक्षानिमित्तं च तमसोडतिबहुलत्वं धा- रारूपेणाघःसंयोगश्च यथासंख्यम्। केचित्तु-'अलेपनकर्तृभूतमपि त- मोलेपनकर्तृत्वेनोत्प्रेक्षितं व्यापनं च निमित्तम्, एवं नभोऽपि वर्षणक्रि- याकर्तृत्वेन' इत्याहुः । अलंकारान्तरोत्था सा वैचित्र्यमधिकं भजेत् ॥ ४५ ॥ तत्र सापह्रवोत्प्रेक्षा यथा मम- 'अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः । अप्राप्य मानमङ्के विगलति लावण्यवारिपूर इव ।।' श्लेषहेतुगा यथा- 'मुक्तोत्करः संकटशुक्तिम व्याद्विनिर्गतः सारसलोचनायाः । जानीमहेऽस्याः कमनीयकम्बुग्रीवाधिवासाङ्गुणवत्त्वमाप ।।' रूपकस्येति। अभ्युपगमादित्यन्वयः । विपयस्याधःकरणाभावाद् रूपकस्यैव प्रसर इति भावः । प्रस्तुतस्य विषयस्य। ता निरुक्ताष्टविंशतिप्रकारा उत्प्रेक्षाः । लिम्प- तीवेति। गाढान्धकारवर्णनमिदम्। तमःसंपात इति विषयो नोपात्त इत्यन्वयः । अतिबहुलतवं अतिबहुत्वप्रयुक्तनिबिडसंयोगः। एवं सति साधारणधर्मतमुप- पन्नम्। धारारूपणेति। तमस इति योजना। अधःसंयोगश्चेति। तमसो द्रव्यत्ववादिमतमाश्रित्योक्तम्। व्यापनं चेति। निबिडसंयोगानुकूलव्यापारश्चे- त्यर्थः । एवमिति। अवर्षणक्रियाकर्तृभूतमपीत्यर्थः । उत्प्रेक्षितमित्यनुषज्यते। अत्र धारारूपेणाघःसंपातो निमितं नभसोऽज्जनवर्षणकर्तृत्वेन संभावनायां प्रकृत- स्योपमेयस्य तमसो बोधो दुर्घट इत्यखरसः केचिदित्यनेन सूचितः । अपरे तु 'तमो- Sज्जनत्वेनोत्प्रेक्षितं नीललमत्र निमित्तम्' इत्याहुः । सा उत्प्रेक्षा सापह्ववा अपहुत्यलं- कारमूला। मानमियत्ताम्। संकटेति। कारणस्य गुणवत्त्वप्राप्तिकारणत्वाभावसू- चकम्। गुणवत्त्वमुत्कर्षप्रयोजकधमयोगित्वम्, अथ च सूत्रवत्त्वम्। अपकृष्टजाताना- 1. लिम्पतीवेति। 'असत्पुरुषसेवेव दृष्टिर्विफलता गता ॥' इति तूत्तरार्धम्॥ १. 'अंत क-पुस्तके नास्ति २. 'धारारूपः क. ३. 'वहेत्' घ.
Page 560
दशम: परिच्छेदः । ५१३
अत्र गुणवत्त्वे श्लेषः । कम्बुग्रीवाधिवासादिवेति हेतूत्मेक्षाया हेतुः। अत्र 'जानीमहे' इत्युत्प्रेक्षावाचकम्। एवम्- मन्ये शङ्के ध्रुवं ग्रायो नूनमित्येवमादयः । क्वचिदुपमोपकमोत्प्रेक्षा यथा- 'पारेजलं नीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः । वनावलीरुत्कलिकासह स्रप्रतिक्षणोत्कूलितशैवलाभाः॥।' इत्यत्राभाशब्दस्योपमावाचकत्वादुपक्रमे उपमा। पर्यवसाने तु जलधितीरे शैवालस्थितेः संभावनानुपपत्तेः संभावनोत्थानमित्यु- त्प्रेक्षा। एवं विरहवर्णने-'केयूरायितमङ्गदैः-' इत्यत्र विकासिनी- लोत्पलति स्म कर्णे मृगायताक्ष्याः कुटिल: कृटाक्षः' इत्यादौ च ज्ञेयम्। भ्रान्तिमद्लंकारे 'मुग्धा दुग्धधिया-' इत्यादौ भ्रान्तानां बल्लवादीनां विषयस्य चन्द्रिकादेज्ञनिमेव नास्ति। तदुपनिबन्धनस्य कविनैव कृतत्वात्। इह तु संभावनात्कर्तुर्विषयस्यापि ज्ञानमिति दयो- रभेंदः। संदेहे तु समकक्षतया कोटिद्वयस्य प्रतीतिः। इह तूत्कटा सं- भाव्यभूतैका कोटिः । अतिशयोक्तौ विषयिणः प्रतीतस्य पैर्यवसाने-
मप्युत्तमस्थानवासेन गुणवत्त्वं भवतीति भावः । हारस्य गुणवत्त्वप्राप्तौ सभाव एव हेतुस्तत्रेयमुत्प्रेक्षा। अथ च शुक्तिमध्यापेक्षया कम्बुग्रीवाया महत्त्वमुचितमेव । एवमिति। उत्प्रेक्षावाचका इत्यर्थः। आदिपदात्खलु-किमु-प्रभृतीनां ग्रहणम्। यथा-'रुचयोऽस्तमितस्य भाखतः स्खलिता यत्र निरालयाः खल। अभिसायम- तोविलेपनापणकाश्मीरजपण्यवीथयः ॥', 'पृथुवर्तुलतन्नितम्बकृन्मिहिरस्यन्दनशिल्प- शिक्षया। विधिरेककचक्रचारिणं किमु निर्मित्सति मान्मथं रथम् ॥' इवशब्दस्योत्प्रे- क्षावाचकत्वं प्रसिद्धमिति तन्नोक्तम्। आदिपदेन वा तस्यापि ग्रहणम्। उत्कलिकास- हस्रेण तरङ्गसमूहेन प्रतिक्षणमुत्कूलिताः कूलं प्रापिताः ये शैवालास्तत्तुल्या इत्यर्थः । 'कथितोत्कलिकोत्कंठाहेलासलिलवीचिषु' इति मेदिनी। उपक्म इति । प्रथम- मुपमाप्रतीतिरित्यर्थः । संभावनोत्थापनं संभावनाप्रतीतिः । केयूरायितमिति। अङ्गदैः कंकणैः। अनयोरायतल्ृकोरुपमावाचकत्वादुपकमे उपमाप्रतीतिः । पर्यव- साने तु भुजमध्ये कर्णे च कंकणकटाक्षयोरसंभवात्संभावनोत्थानमित्युत्प्रेक्षा। इदानीं भ्रान्तिमदादिभ्य उत्प्रेक्षाया भेदमुपपादयति-भ्रान्तिमदिति। तदुपनिबन्धनस्य चन्द्रिकादिवर्णनस्य। विषयस्य चेति। चकाराद्विषयिणश्च संग्रहः । समकक्ष- तया तुल्यखरूपतया। उत्कटा निश्चितप्राया संभाव्यभूता अनिर्धारितस्वरूपा। कोटिः १. 'क-पुस्तके समस्त- पाठः. २. 'पर्यवसानात्' ध-पुस्तके.
Page 561
५१४ साहित्यदर्पणे
डसत्यता प्रतीयते। इह तु प्रतीतिकाल एवेति भेद: । 'रञ्चिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु। पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ।' इत्यत्र यत्तर्वादौ तिमिराक्रातन्ता रञ्जनादिरूपेण संदिह्यत इति संदेहालंकार इति केचिदाहुः, तन्न एकविषये समानबलतयाने- ककोटिस्फुरणस्यैव संदेहत्वात्। इह तु तर्वादिव्याप्तेः प्रतिसंबन्धि- भेदो व्यापनादेर्निगरणेन रञ्जनादे: स्फुरणं च। अन्ये तु-'अनेकत्वनि- र्धारणरूपविच्छित्त्याश्रयत्वेनैककोट्वेधिकेऽपि भिन्नोडयं संदेहप्रकारः' इति वदन्ति स्म, तदप्ययुक्तम् । निगीर्णसवरूपस्यान्यतादात्म्यप्रती- तिर्हि संभावना। तस्याश्चात्र स्फुटतया सद्भावानुशब्देन चेवशब्दव- त्तस्या द्योतनादुत्प्रेक्षवेयं भवितुं युक्ता। अलमद्दष्टसंदेहप्रकारक- ल्पनया। 'यदेतचन्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा। अहं त्विदुं मन्ये त्वदरिविरहाक्रान्ततरुणी- कटाक्षोल्कापातत्रणकिण कलक्काङ्िततनुम् ।।'
प्रकारः। एककोटिकज्ञानस्यापि यत्संशयत्वमुच्यते तदनिर्धारणत्वरूपसंशयवर्मयोगाद् गौणमेव। पर्यवसाने शाब्दबोधानन्तरम्। प्रतीतिकांल एवेति। रूपकवदाहा- र्यएवान्यतादात्म्यप्रत्ययः संभावनेति भावः । रज्जिता नीलद्रव्येण लिप्ा। नामितं ग्रह्वीकृतम् । स्थगितं संवृतम्। विषमेषु निम्रभागेषु। संहता अपनीताः । प्रतिसं- बन्धिभेद इति। तथा चैकविषयानेककोटिज्ञानल्वाभावादस्य संशयत्वमनुपपन्नमिति भावः। नन्विदं तमसा तरुशैलादिव्यापनं न तु रजनमित्याद्याकारा नानासंदेहा एवे- त्यत आह-व्यापनादेरिति। निगरणेन अधःकरणेन। एककोट्यधिके- उ्रपीति। भावप्रधानो निर्देशः । एककोटेरुत्कटत्वेऽपीति तदर्थः । निगीर्णेति। निगीर्णत्वमधःकृतत्वं तच्व विच्छित्तिविशेषं प्रत्यकिंचित्करत्वमेव न तु शब्दानुपात्तत्व- मात्रम्। तथा सति 'ऊरुः कुरङ्गकदशः-' इत्यादौ विषयोपादानादव्याप्तिः स्यात्। अन्यतादात्म्यप्रतीतिरुपमानतादात्म्यारोपः। प्रतीतिरत्र निर्धारणरूपा प्रत्येतव्याः । तेनातिशयोक्तिव्युदासः । यदेतदिति। वस्त्विति शेषः । जलदलवलीलां मेघख-
- केचिदिति। अलंकारसर्वस्वकारादयः ॥
१. '-अधिक:' क-घ.
Page 562
दशमः परिच्छेदः । ५१५
इत्यत्र मन्येशब्दप्रयोगेऽप्युक्तरूपायाः संभावनाया अप्रतीतेर्वितर्क- मात्रं नासावपह्नवोत्प्रेक्षा। सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते ॥४६॥ विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । अस्य चोत्प्रे- क्षायां विषयिणोऽनिश्चितत्वेन निर्देशात्साध्यत्वम्। इह तु निश्चितत्वे- नैव प्रतीतिरिति सिद्धत्वम्। विषयनिगरणं चोत्प्रेक्षायां विषयस्याध :- करणमात्रेण। इहापि मुखं द्वितीयश्चन्द्र इत्यादौ। यदाहु :- 'विषयस्यानुपादानेऽप्युपादानेऽपि सूरयः । अधःकरणमात्रेण निगीर्णत्वं प्रचक्षते ।I' इति। भेदेऽप्यभेद: संबन्धेऽसंबन्धस्तद्विपर्ययौ। पौर्वापर्यात्ययः कार्यहेत्वोः सा पश्चधा ततः ॥४७॥
णडसादृश्यं वितनुते धारयति। तथा शशकवचनम्। तद्ूस्दुनः शशकवचनं न ममे- त्यर्थः । वितर्कमात्रं प्रौढोक्तिसिद्धकोटयुपस्थितिमात्रम्। तथा च यदेतदित्यनेन किमप्यनिर्दिष्टस्वरूपं वस्तु प्रस्तुतम्, तस्यात्र शशरूपत्वं प्रतिषिध्य किरणकलङ्करूपत्वं व्यवस्थापितं न तूपमानतादात्म्यं संभावितमिति भावः । अतिशयोत्त्यलंकारमाह- सिद्धत्वे इति। निश्चितविषयिग्राहकत्वे इत्यर्थः । निश्चयरूपत्व इति पर्यवसि- तोरऽर्थः। अध्यवसायपदार्थमाह-विषयेति। विषयिणोऽव्यवसायप्रकारस्य अभे- दप्रतिपत्तिस्तादात्म्यारोपः। सिद्धत्व इत्यस्य व्यावृत्तिमाह-अस्य चेति। अध्यव- सायस्य चेत्यर्थः । निर्देशाद विषयीकरणात्। साध्यतवं व्यक्ताप्रामाण्यत्वम्। प्रतीति- रिति विषयिण इत्यन्वयः । ननु शब्देनानुपादानं निगरणम्, एवं सत्युक्तप्रस्तुताया- मुत्प्रेक्षायामतिशयोक्तौ चोक्तविषयायां कथं लक्षणगमनमत आह-निगरणं चेति। अधःकरणमात्रेण विच्छित्तिविशेषं प्रत्यकिंचित्करत्वेनापकर्षमात्रेण न तु शब्दानुपादानेनापि। भेद इति। भेदे सत्यप्यभेदप्रतिपत्तिरित्यर्थः । एवमग्रेऽपि। पौर्वापर्यात्ययः पौर्वापर्यविपर्यासः । स च पूर्वोत्पन्ने परोत्पन्नत्वारोपः परोत्पन्ने पूर्वो- त्पन्नत्वारोप इत्युभयसरूप एक: प्रकारः । क्रमोत्पन्ने च समकालोत्पन्नत्वारोप इति
- अतिशयोक्तिरिति। अतिशयोऽतिशयिता प्रसिद्धिमतिक्रान्ता उक्तिरतिशयोक्तिः । विषयिणा विषयस्य निगरणमतिशयस्तस्योक्तिरिति रसगङ्गाधरकाराः ॥ 2. भेद इति। भेदेडभेदः, अभेदे भेदः, संबन्धेऽसंबन्धः, असंबन्धे संबन्धः, का- र्यकारणपौर्वापर्यव्यत्यास इति पञ्चविधातिशयोक्तिः ॥
"' 'तदूस्तुनः शशकवचनं' इति लिखितपुग्तके नारि्ति, २. 'प्रतिषिद्धकिरण-' इति मुद्धितपाटः,
Page 563
५१६ साहित्यदर्पणे
तद्विपर्ययौ अमेदे भेदः, असंबन्धे संबन्धः । सातिशयोक्तिः । अत्र भेदेडमेदो यथा मम- 'कथमुपरि कलापिनः कलापो विलसति तस्य तलेऽष्टमीन्दुखण्डम्। कुवलययुगलं ततो विलोलं तिलकुसुमं तद्धः प्रवालमस्मात् ।' अत्र कान्ताकेशपाशादेर्मयूरकलापादिभिरभेदेनाध्यवसायः । यथा वा-'विश्लेषदुःखादिव बद्धमौनम्'। अत्र चेतनगतमौनित्वमन्यदचेत- नगतं चान्यदिति द्वयोर्भेंदेडप्यभेदः । एवम्- 'सहाधरदलेनास्या यौवने रागभाक्प्रियः ।' अत्राधरस्य रागो लौहित्यम्, प्रियस्य रागः प्रेम, द्योरभेदः । अभेदे भेदो यथा- 'अन्यदेवाङ्गलावण्यमन्याः सौरभसंपदः । तस्याः पझ्मपलाशाक्ष्याः सरसत्वमलौकिकम् ॥' संबन्धेऽसंबन्धो यथा- 'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः । शृङ्गारैकरसः सयं नु मदनो मासो नु पुष्पाकरः ।
द्वितीयः । केशपाशादेरित्यादिपदेन भालनेत्रनासाधरग्रहणम्। सादृश्यनिबन्धना- भेदारोपरूपातिशयोक्तिमुदाहृत्य एकशब्दप्रतिपाद्यत्वनिबन्धनाभेदारोपरूपामुदाह- रति-यथा वेति। अत्र युगपद्टृत्तिद्वयस्य स्वार्थोपस्थापकत्व्राङ्गीकारेण शक्यल- क्षययोरेकदैवैकशब्दोपस्थाप्यत्त्मित्यभिप्रायेणाह-अत्रेति। चेतनगतं मौनित्वं व- चनाभावरूपम्, अचेतनगतं च ध्वन्यभावरूपम्। आद्ये शक्तिर्द्वितीये लक्षणा। ता- भ्यामेकदैव उभयमुपस्थाप्यते श्लेषेण। एकशब्दप्रतिपाद्यत्वनिबन्धनाभेदारोपरूपा- मविशयोक्तिमुदाहरति-एवमिति। अत्र द्वयोरप्येकत्वनिबन्धनकार्यसाधनत्वरूपा- तिशयोक्तिरवधेया। अन्यदेवेति। सरसत्वं रसबोद्धत्वम्। अस्या इति। सर्ग- विधौ सृष्टिकर्मणि। चन्द्रः प्रजापतिरभूत्। नुवितर्के। चन्द्रस्य कान्तिमयत्वात्कान्तिप्र- दत्वं संभाव्योक्तम्। मदन इति प्रजापतिरभूदित्यन्वयः । अत्र हेतुः-शङ्गारेति । पुष्पाकरश्वैत्रः । अत्र सौरभ्यसौकुमार्यास्पदत्वं हेतुर्बोध्यः। अस्य प्रसिद्धत्वान्न नि- हेतुकत्वदोषः । यद्ा शृङ्गारैकरस इति चैत्र स्यापि विशेषणम्। ननु विधिरेव क-
१. 'सादृश्य-' इत्यादिः '-अतिशयोक्तिर वधेया' इत्यन्तः पाठ पुस्तकान्तरे नास्ति.
Page 564
दशमः परिच्छेदः । ५१७
वेदाभ्यासजडः कर्थं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।।' अत्र पुराणप्रजापतिनिर्माणसंबन्धेऽप्यसंबन्धः । असंबन्धे संबन्धो यथा- 'यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरद्वयम्। तदोपमीयते तस्या वदनं चारुलोचनम् ।।' अत्र यद्यर्थबलादाहृतेन संबन्धेन संभावनया संबन्धः । कार्यका- रणयो: पौर्वापर्यविपर्ययश्च द्विधा भवति। कारणात्प्रथमं कार्यस्य भावे, द्वयोः समकालत्वेन च। क्रमेण यथा- 'प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाकुलम्। पश्चादुद्भिन्नबकुलरसालमुकुलश्रियः ॥' 'सममेव समाक्रान्तं दवयं द्विरदगामिना। तेन सिंहासनं पित्यं मण्डलं च महीक्षिताम् ।।' इह केचिदाहुः-'केशपाशादिगतो लौकिकोऽतिशयोऽलौकिक- त्वेनाध्यवसीयते। केशपाशादीनां कलापादिभिरध्यवसाये 'अन्यदेवा- स्मादस्या निर्माता नेत्यत आह-वेदेति। वेदाभ्यासेन परमतात्पर्यपर्यालोचनेन जडो विषयोपभोगाचतुरः, अत एव विषयव्यावृत्तकौतूहलः । पुराण इति प्रजाप- तिरिति संबन्धः । मुनिर्मननशीलः । एतेन सृष्टिकर्मणि चित्तैकाअत्वं नास्तीति सूचितम्। तद्विनैतादृशरूपसृष्टिर्न भवतीति भावः। इदं काव्यप्रकाशे शुद्धसंदेहोदा- हरणत्वेनोपन्यस्तम्। तन्मते विधेर्निर्मातृत्वव्यावृत्तिरपि संशयितैवेति न निश्चयान्त- लमस्य। यदि स्यादिति । इयमद्भुतोपमेति दण्डी। नन्विन्दीवरद्वयस्येन्दुम- ण्डले व्यतिरेकप्रतीतिरेव जायते कथं संबन्धाध्यवसाय इत्यत आह-यद्यर्थेति। यदयर्थबलाद् यद्यर्थसामर्थ्याद् आहृतेन कल्पितेन संबन्धेन पदार्थेन संभावनया अध्य- वसायेन संबन्धः।'गरृह्यते' इति शेषः। यदर्थप्रयोग एवायं प्रकारः संभवति आहार्य एव संबन्धाध्यवसाय इति भावः। अत एवोकतं काव्यप्रकाशे-'यद्य्थोंक्तौ च कल्पनम्' इति। द्वयोः कार्यकारणयोः समकालत्वे समकालोत्पन्नत्वे। प्रागेवेति । उत्कलिकाकुलं उत्कण्ठाव्याप्तं जातम्। उद्विन्नानामुत्फुल्लानां बकुलाम्रमुकुलानां च श्रियो जाता इत्यर्थः । सममेव एकदैव समाक्रान्तमारूढं वशीकृतं च। पित्रयं पितु- रागतम्। अनयोः कारणस्यात्यन्तशीघ्रकारितं व्यज्यते। केचित्तु 'सममेवेत्यादिद्वि- तीयप्रकारः 'धुनोति चासिं तनुते च कीर्तिम्' इतिवत् समुच्चयालंकारस्यैव विषयः' १. 'अन्यदेव-' इत्यादि: '-उत्पेक्षा' इत्यन्तः पाठो ध-पुस्तके नास्ति. २. 'संभवेन' इति मुद्रितपुस्तके. सा० द० ४४
Page 565
५१८ साहित्यदर्पणे
ङलावण्यं-' इत्यादिप्रकारेष्वव्याप्तिर्लक्षणस्य' इति, तन्न । तत्रापि ह्यन्यदङ्गलावण्यमन्यत्वेनाध्यवसीयते। तथाहि 'अन्यदेव' इति स्थाने
'प्रागेव हरिणाक्षीणां- इत्यत्र बकुलादिश्रीणां प्रथमभावितापि पश्चाद्भावित्वेनाध्यवसिता। अत एवात्रापीवशब्दप्रयोगे उत्प्रेक्षा । एवमन्यत्र। पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत्। एकधर्माभिसंबन्धः स्ात्तदा तुल्ययोगिता ॥४८ ।। अन्येषामप्रस्तुतानां धर्मो गुणक्र्कियारूपः । उदाहरणम्- 'अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपदशाः । समयेन तेन सुचिरं शयित- प्रतिबोधितस्मरमबोधिषत ।।' अत्र संध्यावर्णनस्य प्रस्तुतत्वात्प्रस्तुतानामनुलेपनादीनामेकबोधन- क्रियाभिसंबन्धः ।
इति वदन्ति, तन्न। विरूपशब्दाभ्यामेव क्रिययोरुपादाने हि समुच्चयखीकारात्। कलापादिभिरध्यवसाये विवक्षिते इति शेषः। अव्याप्तिरिति। अन्यदेवेत्यत्र लावण्यान्तरस्य भेदसत्त्वेनाध्यवसायरूपत्वाभावादिति भावः। एवमन्यत्रापि यथायथं ज्ञेयम्। अन्यदिति । अतिशयप्रतीतये एतद्यक्तेरेव भेदस्तत्राध्यवसी- यत इत्यर्थः। तथाहीति। निरुक्त्ताध्यवसायसीकारेऽनुभवसिद्धोत्प्रेक्षा न स्यादिति भावः । बकुलादिश्रीणामिति। एवमुत्कलिकायाः पश्चाद्भावितापि पूर्वभावि- त्वेनाध्यवसितेति बोध्यम्। एवमिति। उक्तदिशा। अन्यत्र तृतीयचतुर्थप्रकार- योरव्याप्युद्धारो बोद्धव्य इत्यर्थः । तथाहि-तादृशरूपस्य निर्माता विधिरनिर्मा-
तुल्ययोगितालंकारमाह-पदार्थानामिति। अनुलेपनानीति। चन्दनद्रवानि- त्यर्थः । कुसुमानि शुक्कपुष्पाणि। तेन तमखिना समयेन। पतिषु कृतमन्यवोऽबलाः सुचिरं शयितप्रतिबोधितस्मरं यथा स्यात्तथा अनुलेपनादीनि अबोधिषत। बोधिता इत्यर्थः । तमस्यनुलेपनादीनां शुभ्रस्फूर्तिरस्ति, ततश्च स्मरोद्वोधो जायते, मृगमदा- दीनां तमोग्रस्ततया स्फूर्तिर्न संभवतीति भावः । अत्रेति । प्रस्ुते तमसि स्फुर-
- तुल्ययोगितेति। तुल्या योगितान्वयो यत्रेति।
Page 566
दशमः परिच्छेद:। ५१९
'तदङ्गमार्दवं द्रष्टः कस्य चित्ते न भासते। मालतीशशभृल्लेखाकदलीनां कठोरता ॥' इत्यत्र मालत्यादीनामप्रस्तुतानां कठोरतारूपैकगुणसंबन्धः । एवम्- 'दानं वित्तादतं वाचः कीर्तिधर्मो तथायुषः । परोपकरणं कायादसारात्सारमाहरेत् ।।' अत्र दानादीनां कर्मभूतानां सारतारूपैकगुणसंबन्ध एकाहरण- क्रियासंबन्धः । अप्रस्तुतप्रस्तुतयोदीपकं तु निगद्यते। अथ कारकमेकं स्यादनेकासु क्रियासु चेत् ।।४९ ॥ क्रमेणोदाहरणम्- 'बलावलेपादधुनापि पूर्वव- त्प्रबाध्यते तेन जगज्जिगीषुणा। सतीव योषित्प्रकृतिश्च निश्चला पुमांसमभ्येति भवान्तरेष्वपि ।।' अत्र प्रस्तुताया निश्चलायाः प्रकृतत्वे अप्रस्तुतायाश्च सत्या योषित
द्रूपत्वादनुलेपनादीनामपि प्रस्तुतत्वमित्यभिप्रायः । तद्ङ्गमिति। अत्र वर्णनी- यतया नायिका प्रस्तुता। मालत्यादीनां तूपमानत्वेनाप्रस्तुतलम्। गुणक्रियोभयाभि- संबन्धे तुल्ययोगितामुदाहरति-दानमिति। दीपकालंकारमाह-अप्रस्तुतेति। ननु 'कमलमिव मुखं मनोजं-' इत्यादावतिव्याप्तिरिति चेतु, न। साम्यवाचकप- दाभावे सतीत्यस्य विवक्षणीयलात्। एवं वैधर्म्योत्त्यभावे सतीत्यपि बोध्यम्। तेन 'वं समुद्रश्च दुर्वारौ महासलौ सतेजसौ। अयं तु युवयोर्भेदः स जडात्मा पटुर्भवान् ॥' इत्यादिव्यतिरेकालंकारे नातिव्याप्तिः। प्रकारत्रयेण दीपकमाह-अथेति। अथवे- त्यर्थः । अनेकासु क्रियास्वेकं कारकं यदि संबद्धं स्यात्तदापि दीपकं स्यादित्यर्थः । बलावलेपात् सामर्थ्यगर्वात्। अधुनापि अस्मिन् जन्मन्यपि। पूर्ववत्पूर्वजन्मनीव। तेन शिशुपालेन । भवान्तरेषु जन्मान्तरेषु। द्वितीयं दीपकमुदाहरति- 1. दीपकमिति। प्रकृतार्थमुपात्तो धर्मः प्रसङ्गादप्रकृतमपि दीपयति प्रकाशयति सुन्दरीकरोवीति दीपकम्। अथवा। दीप इव दीपकम्। संज्ञायां कन्। दीपसादृश्यं च प्रकृताप्रकृतप्रकाशकत्वनावलयम्।।
Page 567
५२० साहित्यदर्पणे
'दूरं समागतवति त्वयि जीवनाथे भिन्ना मनोभवशरेण तपखिनी सा। उत्तिष्ठति खपिति वासगृहं त्वदीय- मायाति याति हसति श्वसिति क्षणेन ।I' इंदं मम। अत्रैकस्या नायिकाया उत्थानाद्यनेकक्रियासंबन्धः । अत्र च गुणक्रिययोरादिमध्यावसानसद्भावेन त्रैविध्यं न लक्षितम्। तथाविधवैचित्र्यस्य सर्वत्रापि सहस्रधासंभवात्। प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः । एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥५० ॥ यथा- 'धन्यासि वैदार्मि गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि। इतः स्तुति: का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ॥' अत्र समाकर्षणमुत्तरलीकरणं च क्रियैकैव पौनरुत्तयनिरासाय भि- न्नवाचकतया निर्दिष्टा। इदं मालयापि दृश्यते यथा- 'विमल एव रविर्विशदः शशी प्रकृतिशोभन एव हि दर्पणः । शिवगिरि: शिवहाससहोदरः सहजसुन्दर एव हि सज्जनः ॥l' दूरमिति। प्रतिवस्तूपमालंकारमाह-प्रतीति। वाक्ययोर्वाक्यार्थयोः गम्यसाम्ययोः प्रतीयमानोपमानोपमेयभावयोः । तेन 'पदमं मनोजं रुचिरः शशाङ्कः' इत्यादौ नाति- व्याप्तिः। तत्र वाक्यार्थयोरुपमानोपमेयभावप्रत्ययाभावात्। 'प्रकाशते मुखं तस्या- श्रन्द्रमा दीप्यते यथा' इत्यादुपमावारणाय गम्येति। न चात्र प्रागुक्तरीलैकवाक्य- वमेवेति वाच्यम्। अत्र गम्य इत्युपादानादेव तत्र तथा कल्पनात्। अन्यथा भिन्न- वाक्ये उपमाप्रसत्त्यभावेन प्रतिवस्तूपमैव न स्यात्। दृष्टान्तवारणायाह-एको- ्पीति। 'एकरूपः क्वचित्क्वापि भिन्नः साधारणो गुणः' इत्युक्त्तदिशा प्राप्तस्य भिन्न- सामान्यधर्मस्य व्यवच्छेदः पृथग्भिन्नशव्दाभ्यां तेन दीपकस्य व्यवच्छेदः । धन्या- सीति। दमयन्तीं प्रति हंसस्योक्तिरियम्। पौनरुक्त्येति। कथितपदत्वेनेत्यर्थः । भिन्नवाचकतया विभिन्नवाचकत्वेन। इयं प्रतिवस्तूपमा। विमल इति। शिव- गिरि: कैलासः शिवस्य हासस्य च सहोदरस्तुल्यः। नन्वत्र प्रतिवाक्यं धर्मभेद 1. प्रतीति। प्रतिवस्तु प्रत्यर्थमुपमा यस्यामिति ॥ १. 'पद्य' इत्यधिकं क पुस्तके.
Page 568
दशमः परिच्छेद: । ५२१
अत्र विमलविशदादेरर्थत एक एव। वैधर्म्येण यथा- 'चकोर्य एव चतुराश्रन्द्रिकाचामकर्मणि। विनावन्तीर्न निपुणाः सुदृशो रेतनर्मणि ॥' दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम्। सधर्मस्येति प्रतिवस्तूपमाव्यवच्छेदः। अयमपि साधर्म्यवैधर्म्याभ्यां द्विधा। क्मेणोदाहरणम्- 'अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम्। अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ।' 'त्वयि दृष्टे कुरङ्गाक्ष्याः संसते मदनव्यथा। दृष्टानुदयभाजीन्दौ ग्लानिः कुमुदसंहतेः ॥l' 'वसन्तलेखैकनिबद्धभावं परासु कान्तासु मनः कुतो नः । प्रफुल्लमल्लीमधुलम्पटः किं मधु्रतः काइ्ृति वल्लिमन्याम् ।' इदं पद्यं मम । अत्र 'मनः कुतो नः' इत्यस्य 'काङति वल्लिमन्याम्' इत्यस्य चैकरूपयैव पर्यवसानात्प्रतिवस्तूपमैव। इह तु कर्णे मधुधारा- वमनस्य नेत्रहरणस्य च साम्यमेव, न त्वैकरूप्यम्। अत्र सामर्थ्यसम- र्थकवाक्ययोः सामान्यविशेषभावोरऽर्थान्तरन्यासः । प्रतिवस्तूपमादृष्टा- न्तयोस्तु न तथेति भेदः । संभवन्वस्तुसंबब्धोऽसंभवन्वापि कुत्रचित् ।।५१॥ एवेति कथं प्रतिवस्तूपमेत्यत आह-अत्रेति। अर्थतस्तात्पर्यात्। विमलादिपदानां विभिन्नार्थवाचकत्वेऽपि पर्यवसाने तात्पर्यबलाद्वैमल्यरूपकार्थबोधकत्वमिति भावः । अवन्तीरवन्तिदेशोत्पन्ना नारीः । विनाशब्दोऽत् भिन्नार्थः । दृष्टान्तालंकारमाह- दृष्टान्त इति। सधर्मस्य सदृशस्य वस्तुनः सामान्यधर्मस्य प्रतिबिम्बनं प्रणिधानग- म्यसाम्यत्वम्। अन्रापि वाक्ययोरित्यनुवर्तते। तेन 'भह्लापवर्जितैः' इत्यन्न नाति- व्याप्तिः। एकवाक्यलात्। अयमपि दृष्टान्तोऽपि सरंसते नश्यति। ग्लाँनिः संको- चः। मदनव्यथाग्लान्योः संतोषविरोधितात्साम्यम्। अनयोः सत्त्वासत्त्वाभ्यां वैध- मर्यम्। इह त्विति। प्रीतिजनन एव पर्यवसानादैकरूप्येऽपि प्रीतेवैलक्षण्याद्वैलक्षण्य- मिति भावःअत्रति। प्रतिवस्तूपमादृष्टान्तयोरित्यर्थः। न तथा न सामान्यविशेषभावो न वा समर्थ्यसमर्थकभावः। निदर्शनालंकारमाह-संभवन्निति। असंभवन्नबाधितः ।
- दृष्टान्त इति। तदुक्तम्-'दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्' इति ॥ १. 'पान' घ. २. 'रतकर्मणि' क.
Page 569
५२२ साहित्यदर्पणे
यत्र विम्बानुबिम्बत्वं बोधयेत्सा निर्दर्शना। तत्र संभवद्वस्तुसंबन्धनिदर्शना यथा- 'कोऽत्र भूमिवलये जनान्मुधा तापयन्सुचिरमेति संपदम् । वेदयन्निति दिनेन भानुमानाससाद चरमाचलं ततः ।।' अत्र रवेरीद्ृशार्थवेदनक्रियायां वक्तृत्वेनान्वयः संभवत्येव। ईद- शार्थज्ञापनसमर्थचरमाचलप्राप्तिरूपकर्मवत्त्वात् । स च रवेरस्ताचलग- मनस्य परितापिनां विपत्प्राप्तेश्व बिम्चप्रतिबिम्बभावं बोधयति। असं- भवद्वस्तुनिदर्शना त्वेकवाक्यानेकवाक्यगतत्वेन द्विविधा। तत्रैकवा- क्यगा यथा- 'कलयति कुवलयमालाललितं कुटिल: कटाक्षविक्षेपः। अधरः किसलयलीलामाननमस्याः कलानिधिविलासम् ॥' अत्रान्यस्य धर्मे कथमन्यो वहत्विति कटाक्षविक्षेपादीनां कुवलय- मालादिगतललितादीनां कलनमसंभवत्तल्ललितादिसदृशं ललितादिक- मवगमयत्कटाक्षविक्षेपादेः कुवलयमालादेश्च बिम्बप्रतिबिम्बभावं बोध- यति। यथा वा- 'प्रयाणे तव राजेन्द्र मुक्ता वैरिमृगीदृशाम्। राजहंसगतिः पञ्ामाननेन शशिद्युतिः॥।' अत्र पादाभ्यामसंबन्धराजहंसगतेस्त्यागोऽनुपपन्न इति तयोस्तत्सं- बन्धः कल्प्यते, स चासंभवन्राजहंसगतिमिव गति बोधयति। अनेक- वाक्यगा यथा- 'इदं किलाव्याजमनोहरं वपुः तपःक्कमं साधयितुं य इच्छति । ध्रुवं स नीलोत्पलपत्रधारया समिल्लतां छेत्तुमृषिर्व्यवस्यति ।।' बिम्बानुबिम्बत्वमुपमानोपमेयभावं बोधयेत्। 'व्यञ्जनया' इति शेषः । कोऽत्रेति । मुधा निष्प्रयोजनम् । ततो दिनान्तरे । ईदशार्थेति। पूर्वार्घेत्यर्थः । स च वेदन- क्रियान्वयः । बिम्बानुबिम्बभावं सादृश्यम्। तच्चादर्शनप्रयोजकत्वेनेति बोध्यम्। कलयतीति। अत्र धर्मधर्मिणोरुपमाकल्पनम्। धर्मयोरुपमाकल्पने निदर्शनालं- कारमुदाहरति-यथा वेति। मुक्ता त्यक्ता। तयोः पदयोस्तत्संबन्धः राजहंसग- तिसंबन्धः। इदमिति। शकुन्तलामालोक्य दुष्यन्तस्योक्तिरियम्। अव्याजमनोहरं 1. निदर्शनेति। निश्चित्य दर्शनं सादृश्याविष्करणं निदर्शना। दृशेण्वन्तात्स्न्यां भावे सुच् ॥
Page 570
दशमः परिच्छेदः। ५२३
वपुषस्तपःक्कमत्वसाधनेच्छा नीलोत्पलपत्रधारया समिल्लताछेदनेच्छे- वेति बिम्बप्रतिबिम्बभावे पर्यवस्यति। यथा वा- 'जन्मेदं वन्ध्यतां नीतं भवभोगोपलिप्सया। काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया ।' अत्र भवभोगलोभेन जन्मनो व्यर्थतानयनं काचमूल्येन चिन्ता- मणिविक्रय इवेति पर्यवसानम्। एवम्- 'क सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुड्डपेनास्मि सागरम् ।।' अत्र मन्मत्या सूर्यवंशवर्णनमुडुपेन सागरतरणमिवेति पर्यवसानम्। इयं च क्वचिदुपमेयवृत्तस्योपमानेऽसंभवेऽपि भवति। यथा- 'योऽनुभूतः कुरङ्गाक्ष्यास्तस्या मधुरिमाधरे। समास्वादि स मृद्धीकारसे रसविशारदैः ॥।' अत्र प्रकृतस्याधरस्य मधुरिमधर्मस्य द्राक्षारसेऽसंभवात्पूर्ववत्साम्ये पर्यवसानम्। मालारूपापि यथा मम- 'क्षिपसि शुकं वृषदंशकवदने मृगमर्पयसि मृगादनरदने। वितरसि तुरगं महिषविषाणे निदधच्चेतोभोगविताने ।।' इह बिम्बप्रतिबिम्बताक्षेपं विना वाक्यार्थापर्यवसानम्। दृष्टान्ते तु पर्यवसितेन वाक्यार्थेन सामर्थ्याद्विम्बप्रतिबिम्बताप्रत्यायनम् । नापी-
स्भावसुन्दरम्। अर्थादनेन तपःक्मं साधयितुं य इच्छतीत्यर्थः । ऋषिः कण्वः । व्यवस्यति इच्छति। जन्मेदमिति। वीतरागस्योक्तिरियम्। वन्ध्यतां निष्फल- ताम्। एवमिति। उडडपेन क्षुद्रनौकया। उपमेयवृत्तस्य उपमेयधर्मस्य उपमेये बाधादुपमाकल्पनमिति विशेषः। एवं 'मुखं ते चन्द्रमस्पर्धि पङ्कजद्वेषि लोचनम्।' अत्र स्पर्धाद्वेषयोश्वेतनधर्मलान्मुखलोचनयोरसंभवादुपमायां पर्यवसानम्। वृषदं- शको मार्जारः। मृगादनस्तरक्षुः । वितरसि क्षिपसि। अत्र वैषयिकसुखानुभवसं- ताने चेतोनिधानं वृषदंशकवदनादौ शुकाद्यर्पणमिवेत्युपमायां पर्यवसानम् । दृष्टा- न्तादेर्निदर्शनाभेदमुपपादयति-इहेति। निदर्शनायामित्यर्थः । ननु 'कोऽत्र भू- मिवलये-' इत्यादौ जनतापकरः सूर्योऽप्यस्तं याति किमुतान्य इति। दण्डापूपन्या यादर्थान्तरप्रीतिरस्तीतीयमर्थापत्तिरित्यत आह-नापीयमिति । मुक्तानामिति
Page 571
५२४ साहित्य दर्पणे
यमर्थापत्तिः तत्र 'हारोडयं हरिणाक्षीणां-' इत्यादौ सादृश्यपर्यव- सानाभावात्। आधिक्यमुपमेयस्योपमानानन्यूनताथ वा॥५२॥ व्यतिरेक: से च एक उक्तेऽनुक्ते हेतौ पुनस्त्रिधा। चतुर्विधोऽपि साम्यस्य बोधनाच्छव्दतोऽर्थतः ॥५३॥ आक्षेपाच्च द्वादशधा श्लेषेऽपीति त्रिरष्टधा। प्रत्येकं स्यान्मिलित्वाष्टचत्वारिंशद्विघः पुनः ॥५४ ॥ उपमेयस्योपमानादाधिक्ये हेतुरुपमेयगतमुत्कर्षकारणमुपमानगतं नि- कर्षकारणं च। तयोरद्वयोरप्युक्तावेकः प्रत्येकं समुदायेन वानुक्तौ त्रिविध इति चतुर्विधेऽप्यस्मिन्नुपमानोपमेयस्य निवेदनं शब्देनाक्षेपेण चेति द्वादशप्रकारोऽपि श्लेषेऽपिशन्दादल्लेषेऽपीति चतुविशतिप्रकारः । उपमानान्न्यूनतायामप्यनयैव भङ्गया चतुर्विशतिप्रकारतेति मिलित्वा- ष्टचत्वारिंशत्प्रकारो व्यतिरेकः । उदाहरणम्- 'अकलङ्कं मुखं तस्या न कलक्की विधुर्यथा।' अत्रोपमेयगतमकलङ्कत्वमुपमानगतं च कल्कित्वं हेतुद्वयमप्यु- क्तम्। यथाशब्दप्रतिपादनाच्च शाब्दमौपम्यम्। अत्रैव 'न कलक्कि वि-
मौक्तिकानां प्राप्तापवर्गाणं चेत्यर्थः। सादृश्येति। तथा सादृश्यपर्यवसानस्थले निदर्शनैव, विशेषतादन्यत्र लर्थापत्तिरिति भावः । व्यतिरेकालंकारमाह-आधि- क्यमिति। व्यतिरिच्यते उपमानवैलक्षण्येनोपलभ्यते उपमेयमनेनेति व्यतिरेक- पदव्युत्पत्तिरवधेया। आधिक्यपक्षं विकल्पयति-एक इति। नोक्त इति हेता- वित्यनुषङ्गः। शब्दत इवादिशब्दात्। अर्थतस्तुल्यादिपदार्थानुसंधानात्। आक्षेपादू व्यज्नातः। श्लेषेऽपीत्यादिना श्लेषाभावसमुच्चयः । त्रिरष्टधा चतुर्विशतिप्रकारा। निकर्षोऽपकर्षः । प्रत्येकमिति। उत्कर्षकारणानुक्तावपर इत्यर्थः । अनयैव भ- ङ्रयेति। निरुत्तक्रमेणेत्यर्थः । तथाहि-उपमेयस्योपमानान्न्यूनतायां हेतुरुपमेयगतं निकर्षकारणमुपमानोत्कर्षकारणं च। तयोर्द्योरप्युक्तावेकः। प्रत्येकं समुदायेन वा-
१. 'स च' इति घ-पुस्तके नास्ति. २. 'स च' घ.
Page 572
दशमः परिच्छेदः। ५२५
धूपमम्' इति पाठ आर्थम्। 'जयतीन्दुं कलङ्किनम्' इति पाठे त्विव- वत्तुल्यादिपदविरहादाक्षिप्तम्। अत्रैवाकलक्कपदत्यागे उपमेयगतोत्कर्ष- कारणानुक्तिः । कलक्किपदत्यागे चोपमानगतनिकर्षकारणानुक्तिः । द्वयोरनुक्तौ द्वयोरनुक्तिः । श्लेषे यथा- 'अतिगाढगुणायाश्च नाजवद्धङ्गुरा गुणाः ।' अत्रैवार्थे वतिरिति शाब्दमौपम्यम् । उत्कर्षनिकर्षकारणयोर्द्यो- रप्युक्तिः । गुणशब्द: श्रिष्टः । अन्ये भेदाः पूर्ववदूह्याः । एतानि चोपमेयस्योपमानादाधिक्य उदाहरणानि। न्यूनत्वे दिव्मात्रं यथा- 'क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम्। विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु।।' अत्रोपमेयभूतयौवनास्थैर्यस्याधिक्यम्। तेनात्र 'उपमानादुपमेयस्या- धिक्ये विपर्यये वा व्यतिरेकः' इति केषांचिल्क्षणे 'विपर्ययेवेतिपदमन- र्थकम्' इति यत्केचिदाहुः, तन्न विचारसहम्। तथाहि-अत्राधिक- न्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते। अत्र च चन्द्रापेक्षया यौवनस्या- सत्त्वं स्फुटमेव। अस्तु वात्रोदाहरणे यथाकथंचिद्गतिः । नुक्तौ त्रिविध इत्याद्युक्तप्रकारेण चतुर्विशतिविधत्वं बोध्यम्। जयतीति। जयः पराभवः स चापकृष्टत्वेन ज्ञानं तस्य च मुखेऽसंभवात्सादृश्ये पर्यवसानमित्याक्षेप इति भाव: । द्वयोरिति। अकलङ्गिकलङ्किपदयोरित्यर्थः । द्वयोरनुक्तिः उत्कर्षनि- कर्षकारणयोरनुक्तिः । मुखे चन्द्रसादृश्यनिषेधे नैवाधिक्यं प्रतीयते। अतिगाढेति। अतिगाढगुणशालित मुपमेयगतोत्कर्षकारणं भङ्गुरगुणभागितमुपमानाब्जापकर्षकार- णम्। पूर्ववदिति। 'तस्या नाब्जवद्भङ्गरा गुणाः' इति, 'अतिगाढगुणायाश्च नाब्ज- वदुणाः' इति, 'तस्या नाब्जवह्गुणाः' इति प्रकारत्रयमूह्यम्। क्षीणः क्षीण इति। मानिनीं प्रत्युक्तिरियम्। विरमेति। 'मानात्' इति शेषः। यातं यौवनं तु अनि- वर्ति। यौवनं पुनर्न वर्धत इति तात्पर्यार्थः । अन्न पुनर्वर्धनमुपमानचन्द्रोत्कर्षकारणम्। अपुनर्वर्धनमुपमेययौवननिकर्षकारणम्। उपमानन्यूनतायां व्यतिरेकमखवीकुर्वतां मतं दूषयति-अत्रोपमेयेति। चन्द्रास्थैर्यमत्रोपमानं बोध्यम्। तेन 'क्षीणः क्षीणः-' इत्यादावाधिक्यव्यतिरेकेणैव संग्रहसंभवेन विपर्यये वा न्यूनतायां वा तथाहीति सत्त्वासत्त्वे उत्कृष्टत्ापकृष्टत्वे। ननु यौवनास्थैर्यस्याधिक्यस्य निवेदनं प्रकृतस्य मान- भङ्गस्योपकारकमिति तस्यैव वैचित्र्याधायकत्वम्, न तु यौवनासत्त्वस्येत्यत आह- 1. केषांचिदिति। अलंकारसर्वस्वकाराणाम्।।
१. 'वादि' घ.
Page 573
५२६ साहित्यदर्पणे
'हनूमदाद्यैर्यशसा मया पुनर्द्विषां हसैर्दूतपथः सितीकृतः ।' इत्यादिषु का गतिरिति सुधूक्तं 'न्यूनताथवा' इति। सहार्थस्य बलादेकं यत्र स्याद्वाचकं द्योः। सा सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत् ॥५५॥ अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला कार्यकारणपौर्वापर्यविपर्ययरू- पा च। अभेदाध्यवसायमूलापि श्लेषभित्तिकान्यथा च। क्रमेणो- दाहरणम्- 'सहाघरदलेनास्या यौवने रागभाक्प्रियः ।' अन्र रागपदे श्रेषः । 'सह कुमुदकदम्बैः काममुल्लासयन्तः सह घनतिमिरौघैधैर्यमुत्सारयन्तः। सह सरसिजषण्डैः सवान्तमामीलयन्तः प्रतिदिशममृतांशोरंशवः संचरन्ति ॥'
अस्तु वेति। हनूमदाद्ैरिति। दमयन्तीं प्रति दूतत्वेनेन्द्रादिभिः प्रेषितस्य न- लस्य तत्प्रयोजनासिद्धौ विषादोक्तिरियम्। अत्र प्रभुप्रयोजननिष्पादकत्वेन हनूम- दादेरुपमानस्योत्कृष्टत्वं तद्यतिरेकेणोपमेयस्य नलस्यापकृष्टत्वं च प्रतीयते। अत्र दूतयोरुपमानोपमेयभावविवक्षणेSपि उपमानस्यैवाधिक्यम्, न तूपमेयस्येति। सहो- कयलंकारमाह-सहार्थस्येति। सहार्थश्र साकं-सार्ध-समं-सजुः-प्रभृतिः। एकं वस्तु- वाचकमन्वयि। अभेदाध्यवसायमूला अभेदाव्यवसायरूपा। श्लेषभित्तिका श्लेषप्रति- पन्नभेदमूला। अन्यथा अश्लेषभित्तिका। संबन्धिभेदादवगतभेदमूलेति यावत्। सहा- धरेति। सहशब्दस्य रागभजनमर्थः, तृतीयायाः संबन्धितं तस्य च सहार्थेऽन्वयः । सहशब्दस्याव्ययलात्तदर्थस्य द्वारीभूतविभत्तयर्थ विनापि समकालीनतसंबन्धेन राग- भाक्सहार्थैकदेशे रागभजनेनान्वयः । यौवन इति सति सप्तम्याः समकालीनत्व- मर्थः, अस्यापि रागभजनेनान्वयः। अस्या इति तात्पर्यबलादधरदलेन प्रियेण चा- न्वयः । तथा चास्याः प्रिय इदमधरदलसंबन्धियौवनकालीनरागाश्रय इत्यन्वय- बोधः। रागः प्रेम लौहित्यं च, तयोरभेदारोपः। अन्यथा एकलाभावादेकस्योभया- न्वयासंभवेन लक्षणमसंगतं स्यात्। सह कुमुदेति। कुमुदकदम्बस्योल्ासो वि- कासः, कामस्योल्लासो वर्धनम्, तयोः सादृश्येनैवाभेदारोपः। तेजःसंसर्गाभावरूपस्य तिमिरस्योत्सारणं तद्देशे संबन्धाभावः, धैर्यस्योत्सारणं विनाशः, तयोः सादृश्येनैवा- भेदारोपः। सरसिजषण्डानामामीलनं संकोचः, सान्तस्यामीलनं विषमान्तरादाक- र्षणम्, तयोरपि सादृश्येनैवाभेदारोपः। एवं चात्रोल्लासादयः सहशब्दानामर्थाः, क. र्मत्वं ततीयानामर्थः, तस्य सहार्थान्वयः । सहार्थस्य च समकालीनत्वसंबन्धेन उ-
Page 574
दशमः परिच्छेद: । ५२७
इदं मम। अत्रोल्लासादीनां संबन्धिमेदादेव भेदः, न तु श्रिष्टतया। 'सममेव नराधिपेन सा गुरुसंमोहविलुप्तचेतना। अगमत्सह तैलबिन्दुना ननु दीपार्चिरिव क्षितेस्तलम् ।।' इयं च मालयापि संभवति। यथोदाहृते 'सह कुमुदकदम्बैः-' इत्यादौ। 'लक्ष्मणेन समं रामः काननं गहनं ययौ।' इत्यादौ चातिशयोक्तिमूलाभावान्नायमलंकारः । विनोक्तिर्यद्विनान्येन नासाध्वन्यदसाधु वा। नासाधु अशोभनं न भवति। एवं च यद्यपि शोभनत्व एव पर्यव- सानं तथाप्यशोभनत्वाभावमुखेन शोभनवचनस्यायमभिप्रायो यत्कस्य-
ल्लासयन्त इत्यादिपदार्थैकदेशे उल्लासादावन्वयः । तथा कुमुदकदम्बादिकर्मकोल्ला- सादिसमकालीनोल्लासादिकर्तारश्चन्द्रांशव इत्यन्वयबोधः । अत्राभेदाध्यवसायमूलभूतं भेदमुपपादयति-अत्रोल्लासादीनामिति।मटुक्तदिशा संबन्धिभेदाद्भेदो बोध्यः। कार्यकारणपौर्वापर्यरूपातिशयोक्तिमूलां सहोक्तिमुदाहरति-सममेवेति। एकदै- वेत्यर्थः । नराधिपेन अजेन। सा इन्दुमती। अत्राजस्य पतनमिन्दुमतीपतनजन्य- मपि समकालीनत्वेनाध्यवसितम्। इयं च सहोक्तिश्। मूलभूतेत्यादिविवक्षायाः फलमाह-लक्ष्मणेनेति। वस्तुतस्तु यत्र वैचित्र्यमनुभूयते तत्रैवालंकारलम- ड्रीकरणीयम्। अन्यथा 'सह मणिवलयेहिं बाष्पधारा गलन्ति-' इति काव्यप्रकाश- कारदत्तोदाहरणमसंगतं स्यात्। अन्न स्वस्थानाच्च्यवनरूपं गमनमेकमेव। न च गमनयोरेकजातीयत्वेऽपि व्यक्तिभेदाद्भ्ेद इति वाच्यम्। 'लक्ष्मणेन समं रामः का- ननं गहनं ययौ' इत्यादावपि तथाकल्पनस्य संभवात्। व्यावृत्तभावेन तद्विवक्षणस्या- किंचित्करलात्। एवं 'वर्धते सह पान्थानां मूछया चूतमञ्जरी' इति दण्डिदत्तोदा- हरणे तृतीयार्थो वृत्तितम्। मूर्छावृत्तिवृद्धिसमकालीनव्ृद्ाश्रया चूतमञ्जरीत्यन्वयः । विनोक्त्यलंकारमाह-विनोक्तिरिति। यत् यदि। एकपदार्थाशोभनल्वाभावादि- प्रयोजकापरपदार्थव्यतिरेककथनं विनोक्तिरित्यर्थः । यद्यपीति। 'नासाध्वित्यस्य' इति शेषः । पर्यवसानं तात्पर्यम्। तथा च साधुतस्य साघुशब्देनैव प्रतिपादनमुचित-
- विनोक्तिरिति। इयं च न केवलं विनाशब्दस्य सत्व एव भवति। अपि तु वि- नाशब्दार्थवाचकमात्रस्य। तेन नञ् निर्-वि-अन्तरेण-ऋते-रहितेत्यादिप्रयोगे विनोक्तिरेव। अलंकारभाष्यकारस्तु 'नित्यसंबन्धानामसंबन्धवचनं विनोक्तिः' इति लक्षणमाह। तत्र 4मृणालमन्दानिलचन्दनानामुशीरशेवालकुशेशयानाम्। वियोगदूरीकृतचेतनाया विनैव शैत्यं भवति प्रतीतिः ॥' इत्युदाहार्यम्। अत्र शैत्यस्याविनाभावेडपि विनाभावो निबद्धः ।।
१. 'तथा' घ.
Page 575
५२८ साहित्यदर्पणे
चिद्वर्णनीयस्याशोभनत्वं तत्परसंनिधेरेव दोषः । तस्य पुनः सभावतः शोभनत्वमेवेति। यथा- 'विना जलदकालेन चन्द्रो निस्तन्द्रतां गतः । विना ग्रीष्मोष्मणा मस्जुर्वनराजिरजायत ।।' असाध्वशोभनं यथा- 'अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम्। का दिनश्रीर्विनार्केण का निशा शशिना विना।।' 'निरर्थकं जन्म गतं नलिन्या यया न दष्टं तुहिनांशुबिम्बम्। उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन ।।' अत्र परस्परविनोक्तिभङ्गया चमत्कारातिशयः। विनाशन्दप्रयोगा- भावेऽपि विनार्थविवक्षायां विनोक्तिरेवेयम्। एवं सहोक्तिरपि सहश- ब्दुप्रयोगाभावेऽपि सहार्थविवक्षाया भवतीति बोध्यम्। समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः ॥५६॥ व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः ।
मिति भावः। अशोभनत्वाभावमुखेन अशोभनल्वाभावप्रतिपादनद्वारा। तस्य परसं- निधिजातदोषस्य वस्तुनः । पुनर्दोषविगमे सति स्भावत एव, न तु दोषविगमरूपो- पाधे: शोभनत्वमित्यन्वयः। दोषविगमेन यत्र शोभनत्वं भवति सामान्यविषय इति भावः। विनेति। निस्तन्द्रतां निर्मलतम्। अत्र स्वतः सुन्दरयोश्वन्द्रवनराज्योमें- घग्रीष्मोष्मसंनिधानरूपदोषविगमेन शोभनत्वं प्रतिभातीत्यर्थः । परजनातीतं मृतम्। का कुत्सिता विनिद्रा प्रफुल्ला। परस्परस्य दर्शनं विना परस्परजन्मनिरर्थकत्व- मुखेनाशोभनत्वमिति भङ्गयेत्युक्तम्। एवं सहोक्तिरिति। अत एव 'सममेव नराधिपेन सा' इदमित्युदाहरणमुपपन्नम्। समासोत्त्यलंकारमाह-समासोक्ति- रिति। समैः प्रस्तुताप्रस्तुतसाधारणैः। यत्रेत्यव्ययं य इत्यर्थे। लिङ्गं स्त्रीलादि व्य- वह्ियते विशेषेण प्रतीयतेनेनेति व्यवहारोऽवस्थाभेदः । इह तु स्वावस्थासमारोपेणे- त्यादि वक्ष्यमाणखरसाद अत्र व्यवहारसमारोपे कृतप्रकृतविशेषाधानस्यानुभवसिद्ध- तया व्यवहारः । अथवा 'तत्त्वमौपम्ये यत्प्रतीयते' इति प्राचीनोक्तानुसारेण च 1. समेति। समासेन संक्षेपेणोक्तिरर्थद्वयकथनं समासोक्तिः ॥
१. 'दोष-' इत्यादि '-भावः' इत्यन्तः पाठः पुस्तकान्तरे नास्ति. २. 'अत्र वर्षाकालं विना चन्द्र- स्याशोभनत्वं न भवति, शोभनत्वं तु तस्य स्वत एव। वनराजेस्तु त्रीष्मोष्माणं विना शोभनत्वं भव्रत्येव' इति पुस्तकान्तरे पाठ :. ३. यथा-'सहाघरदलेनास्या यौवने रागवान्प्रियः' इति पुस्तकान्तरे पाठः।
Page 576
दशमः परिच्छेदः। ५२९
अत्र समेन कार्येण प्रस्तुतेऽप्रस्तुतव्यवहारसमारोपः। यथा- 'व्याधूय यद्वसनमम्बुजलोचनाया वक्षोजयोः कनककुम्भविलासभाजोः । आलिङ्गसि प्रसभमङ्कमशेषमस्या धन्यस्त्वमेव मलयाचलगन्घवाह ।।' अत्र गन्धवाहे हठकामुकव्यवहारसमारोपः । लिङ्ग साम्येन यथा- 'असमाप्तजिगीषस्य स्त्रीचिन्ता का मनखिविनः । अनाक्रम्य जगत्कृत्सं नो संध्यां भजते रविः ।' अत्र पुंस्त्रीलिङ्गमात्रेण रविसंध्ययोर्नायकनायिकाव्यवहारः। विशे- षणसाम्यं तु क्रिष्टतया, साधारण्येन, औपम्यगर्भत्वेन च त्रिधा। तत्र क्िष्टतया यथा मम- 'विकसितमुखीं रागासङ्गाद्गलच्तिमिरावृतिं दिनकरकरस्पृष्टामैन्द्रीं निरीक्ष्य दिशं पुरः । व्यवहारसमानरूपैव समासोक्तिरनेनाङ्गीकृता। नतु 'परोक्तिर्मेदकैःश्लिष्टैःसमासोक्तिः' इति काव्यप्रकाशलक्षणानुसारेण प्रकृतवाचिना श्िलिष्टविशेषणबलादप्रकृतव्यज्जनरूप- द्वितीयार्थस्योपमानतानङ्गीकारेणासंगतिप्रसङ्गात्। अन्यस्याप्रस्तुतस्य समासेन सकृ- दुच्चारणरूपसंक्षेपेणावस्थाद्वयप्रतीति: समासोक्तिरिति संज्ञाव्युत्पत्तिरवधेया। यद्वा समस्यकार्यादेरासेन उपन्यासेन उक्तिरप्रस्तुतावस्थाव्यञ्जनम्। व्याधूयेति । अत्र नायिकायाः स्तनवसनाक्षेपपूर्वकालिङ्गनमेव कार्ये प्रकृतस्य वायोरप्रकृतस्य नायकस्य चेति समानम्। यदि पुनर्नायिकायास्ताद्ृशालिङ्गनमप्राप्ुतः कस्यचिदात्मनोऽधन्य- वनिवेदनमेतत्स्यात्तदा वायोरप्रकृतत्वान्नेयं समासोक्तिः । किंतु 'धन्याः खलु वने वाताः-' इत्यादिवक्ष्यमाणवद्वैधर्म्येणाप्रस्तुतप्रशंसैव। अहमधन्य इति प्रस्तुतस्य गम्यल्ात्। एवं च 'नवा लता गन्धवहेन चुम्बिता करम्बिताङ्गी मकरन्दशीकरैः' इत्याघुदाहरणमस्यावगन्तव्यम् । यत्र वायुर्वणेनीयत्वेन प्रकृतस्तत्र चुम्बनरूपका- र्यसाम्येन शङ्गारित्रूपनायकावस्थासमारोपश्चारुत्मावहृति। असमाप्तजिगी- षस्येति। मनस्विनो नीतिवेदिनः । अत्र दृष्टान्तत्वेनाप्रकृतयोरपि रविसंध्ययोः प्रकृताङ्गत्वेनैव प्रकृतत्वमवधेयम्। न चायं समासोक्तिमूलकोऽर्थान्तरन्यास इति वाच्यम्। प्रथममप्रकृतार्थप्रतीतेरसंभवात्प्राथमिकप्रतीतिविषयस्यैव समर्थकत्वाङ्गीका- रात्। आरोपितस्त्रीपुंसभावयोः स्त्रीपुंस विशेषत्वाभावेन सामान्यसमर्थकत्वायोगाच्च। साधरण्येन वाच्यव्यङ्ञयगतत्वेन। विकसितेति। मुखमेकदेशो वक्रं च। रागो १. 'प्रथममप्रकृतार्थसमर्थकत्वं विना प्रकृतत्वग्रहासंभवेन समासोक्तेरनवकाशात्' इति पुस्तकान्तरे. २. 'आरोपित-'इत्यादि: 'अयोगाच्च' इत्यन्तः पाठः पुस्तकान्तरे नास्ति. सा० द० ४५
Page 577
५३० साहित्यदर्पणे
जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितं हन्त प्राचेतसीं तुहिनद्युतिः।।' अत्र मुखरागादिशब्दानां क्रिष्टता। अत्रैव हि 'तिमिरावृतिम्' इत्यत्र 'तिमिरांशुकम्' इति पाठे एकदेशस्य रूपणेऽपि समासोक्तिरेव। नत्वेकदेशविवर्ति रूपकम्। तत्र हि तिमिरांशुकयो रूप्यरूपकभावो द्वयोरावरकत्वेन स्फुटसादृश्यतया परसाचिव्यमनपेक्ष्यापि खमात्रवि- श्रान्त इति न समासोक्तिबुद्धिं व्याहन्तुमीशः । यत्र तु रूप्यरूप- कयोः सादृश्यमस्फुटं तत्रैकदेशान्तररूपणं विना तदसंगतं स्यादित्य- शाब्दमप्येकदेशान्तररूपणभार्थमपेक्षत एवेति। तत्रैकदेशविवर्तिरू- पकमेव । यथा- 'जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलअम्। रससंमुही वि सहसा परम्मुही होइ रिउसेणा ।।' अत्र रणान्तःपुरयोः सादृश्यमस्फुटमेव। क्वचिच्च यत्र स्फुटसाह- श्यानामपि बहूनां रूपणं शाब्दमेकदेशस्य चार्थ तत्रैकदेशिविवर्ति रू- पकमेव। रूपकप्रतीतेर्व्यापितया समासोक्तिप्रतीतितिरोघायकत्वात्। नन्वस्ति रणान्तःपुरयोरपि सुखसंचारतया स्फुटं सादृश्यमिति चेत्, सत्यमुक्तम्। अस्त्येव। किंतु वाक्यार्थपर्यालोचनसापेक्षम्, न खलु निर-
रक्तिमा सुरतेच्छा च। गलन्ती नश्यन्ती तिमिरावृतिर्यस्यास्ताम्, पक्षे-गलन्ती स्खलन्ती तिमिरमेवावृतिर्वसनं यस्यास्ताम्। पक्कलवलीफलस्येव पाण्डुच्छाया का- न्तिर्यस्य। कलुषान्तरः कलङ्गमलिनाभ्यन्तरः, पक्षे-ईर्ष्याकषायितचित्तः। अत्र प्ाच्यां बन्धकीव्यवहारश्चन्द्रे नायकव्यवहारश्र प्रतीयते। एकदेशविवर्तिरूपकेण सहास्या विषयविभागं करोति-तत्र हीति। परस्य नायिकारूपणस्य साचिव्यमा- नुकूल्यम्। समात्रेण सुखसामर्थ्येनैव विश्रान्तः वैचित्र्यविशेषे कार्ये उपक्षीणः। जस्स इति। 'यस्य रणान्तःपुरे करे कुर्वाणस्य मण्डलाग्रलताम् । रससंमुख्यपि सहसा पराझुखी भवति रिपुसेना ॥I' इति संस्कृतम् । मण्डलाग्रलतां खङ्गलताम् । रसेन समरेच्छया, सुरतेच्छया च। संमुखी अभिमुखगामिनी। अत्र यदि लिङ्गसा- म्येन मण्डलाग्रलतायां नायिकाव्यवहार: पराझुखत्रूपकार्यसाम्येनापि रिपुसेनायां अ्रतिनायिकाव्यवहार: प्रतीयते, तथापि तदुभयं रणेऽन्तःपुररूपणस्यासंगतिप्रसङ्ग- सापेक्षमित्येकदेशविवर्तिरूपकमेवेदमिति भावः । क्वचिच्च यत्रेति। अत्र साहचर्य-
१. 'विना' इत्यादि: '-रूपण' इत्यन्तः पाठो घ-पुस्तके नास्ति.
Page 578
दशमः परिच्छेदः । ५३१
पेक्षम्। मुखचन्द्रादेर्मनोहरत्वादिवद्रणान्तःपुरयोः स्वतः सुखसंचा- रत्वाभावात्। साधारण्येन यथा-
उदिते वासराधीशे स्मेराजनि सरोजिनी ॥।' अन्र निसर्गेत्यादिविशेषणसाम्यात्सरोजिन्या नायिकाव्यवहारप्रतीतौ स्त्रीमात्रगामिनः स्मेरत्वधर्मस्य समारोपः कारणम्। तेन विना विशेष- णसाम्यमात्रेण नायिकाव्यवहारप्रतीतेरसंभवात्। औपम्यगर्भत्वं पुन- स्त्रिधा संभवति, उपमारूपकसंकरगर्भत्वात्। तत्रोपमागर्भत्वे यथा- 'दन्त प्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ॥' अत्र सुवेषत्ववशात्प्रथमं दन्तप्रभाः पुष्पाणीवेत्युपमागर्भत्वेन समा- सः। अनन्तरं च दन्तप्रभासदशैः पुष्पैश्चितेत्यादिसमासान्तराश्रयेण समानविशेषणमाहात्म्याद्धरिणेक्षणायां लताव्यवहारप्रतीतिः । रूपकग- र्भत्वे यथा-'लावण्यमधुभिः पूर्ण-' इत्यादि। संकरगर्भत्वे यथा-'द न्तप्रभापुष्प-' इत्यादि। 'सुवेषा' इत्यत्र 'परीता' इति पाठे ह्युपमारूप- कसाधकाभावात्संकरसमाश्रयणम्। समासान्तरं पूर्ववत्। समासान्तरम- मर्यादया प्रथमत एवात्राप्रस्तुनोपस्थितिरिति भावः । नायिकाव्यवहारेति। यस्या मुखे स्वाभाविकं सौरभं तस्या एव व्यवहारसमारोपः। ननु श्लिष्टविशेषणस्य द्यर्थशब्दप्रयोगसामर्थ्यादेवार्थान्तरप्रतिपादकतवं साधारणविशेषणस्य तु वाच्यविशे- षाधानेनैवोपलक्षणलात्कथं तेनार्थान्तरप्रतीतिरित्यत आह-अत्रेत्यादि। मात्रप- देन सरोजिन्या व्यवच्छेदः । सरोजिनीविकासे चित्तोल्लासविशेषरूपस्मेरलस्य तादा- त्म्यारोपः । कारणं सहकारि। तेन स्मेरतसमारोपेण। असंभवादिति। साधा- रणविशेषणस्य वाच्यविशेषाधानेनैव उपक्षीणतया व्यङ्ञयबोधे सामर्थ्यांभावादिति भावः।
मिति फलितम्। उपमारूपकयोः संदिग्धत्वे संकरः। दन्तप्रभेति। नन्वेतद्रूपक गर्भमेवेत्यत आह-वेषत्ववशादिति। सुवेषत्स्यान्यथानुपपत्तेरित्यर्थः । पुष्प- पल्लवाभ्यामपि शैरीरशोभाविशेषस्य संभवेऽपि अलिवृन्देन तस्यासंभवात्तत्रैवोपमा समासस्यावश्यकत्वमित्यवगन्तव्यम्। लताप्रतीतौ सुवेषत्वेन शोभालारोपो वेदितव्यः । लावण्येति।अत्र लावण्यमधुनोराह्लादकत्वे लोचनरोलम्बयोः श्यामलादिना स्फुट-
१. 'भूषणादिकृत' इत्यधिकं मुद्रितपुस्तके, २. 'सुवेषत्वस्य' इत्यधिकं पुस्तकान्तरे.
Page 579
५३२ साहित्यदर्पणे
हिम्ना लताप्रतीतिः। एषु च येषां मते उपमासंकरयोरेकदेशविवर्तिता नास्ति तन्मते आद्यतृतीययोः समासोक्तिः। द्वितीयस्तु प्रकार एकदे- शविवर्तिरूपकविषय एव। पर्यालोचने त्वाद्ये प्रकारे एकदेशविव- र्तिन्युपमैवाङ्गीकर्तुमुचिता। अन्यथा- 'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम्। प्रमोदयन्ती सकलक्कमिन्दुं तापं रवेरभ्यधिकं चकार ।।' इत्यत्र कथं शरदि नायिकाव्यवहारप्रतीतिः । नायिकापयोघरेणार्द्रन- खक्षताभशकचापधारणासंभवात्। ननु 'आर्द्रनखक्षताभम्' इत्यत्र स्थित- मप्युपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि संचारणीयम्। यथा- 'दभ्ना जुहोति' इत्यादौ हवनस्यान्यथासिद्धेर्दभनि संचार्यते विधिः ॥ एवं चेन्द्रचापाभमार्द्रनखक्षतं दधानेति प्रतीतिर्भविष्यतीति चेत्, न । एवंविधानिर्वाहे कष्टसृष्टिकल्पनादेकदेशविवर्त्युपमाङ्गीकारस्यैव ज्याय- स्त्वात्। अस्तु वात्र यथाकर्थंचित्समासोक्तिः । 'नेत्रैरिवोत्पलैः पद्मैः-' सादृश्य संभवाद्रूपकाणां बहुत्वाभावाच्च समासोक्तिरेव, नत्वेकदेशविवर्तिरूपकम्। एक- देशविवार्तिरूपकस्य यदेतदुदाहरणं दत्तं तन्मतभेदेनेत्यवगन्तव्यम्। नन्वत्र मध्वादीनां मुखे बाधात्प्राथमिकबोधानुपपत्तिरिति चेतू, न यथा 'मुखचन्द्रं चुम्बति' इत्यादौ चुम्बनस्य चन्द्रे बाधान्मुखे पर्यवसानं तथा मुखसंबन्धस्य मध्वादावसंभवाल्लावण्यादौ पर्यवसानमिति सवीकारात्। नन्वेवमपि पूर्ववत्समासद्वयाङ्गीकारेणोपमागर्भमेवेदमस्तु किमधिकेन रूपकगर्भत्वकल्पनेन इति चेत्, सत्यम्। गैतानुगतिकन्यायेनास्य प्रकारस्य स्वीकाराद् ग्रन्थकृतैव खण्डनीयत्वाच्च। द्वितीयस्त्विति। मुखे मध्वाद्यन्वयस्यासं- भवात्प्रथमत एव पम्माध्याहारेण प्रतीतिः, कुतो व्यज्नामात्रप्राणा समासोक्तिरिति भावः। वस्तुपर्यालोचनयेति। अभिप्रेतार्थबोधनानुरोधेन संचारणीयं याचि- तमण्डलन्यायेनार्पणीयम् । अत्र वैदिकदृष्टान्तमाह-दुश्चेति । अन्यथासिद्धेः सायंप्रातर्जुहोतीति वचनान्तरप्राप्तेः। दध्नि दधिपदे संचार्यते उपक्रम्यते । विधि- रप्राप्तप्रापकत्वरूपविविशक्तिः । तदुक्तम्-'सर्वत्राख्यातसंबन्धे श्रयमाणे पदान्तरे। विधिशक्त्युपसंक्रान्ते स्याद्धातोरनुवादता।' इति यथाख्याते स्थिता विधिशक्ति- रधात्वर्थस्यान्यथासिद्धत्वे तत्रानुपयोगिनी अदग्धदहनन्यायेन पदार्थान्तरस्य विधेय- तायामुपयोगं लभमाना पदान्तरे संचार्यते तथात्रापीति भावः । अनिर्वाह इति। अशक्यनिर्वाहे त्यर्थः । ननु धर्मिकल्पनातो धर्मकल्पना लघीयसीति न्यायेनोपमेयस्यो- पमानत्वकल्पनमपेक्ष्यैकदेश विवर्त्युपमाकल्पना गुरुरित्यत आह-अस्तुवेति। नेत्रै- रिवेति। 'नेत्रैरिवोत्पलैः पझ्मैमुखैरिव सरः श्रियः।पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ।' इति प्रागुक्तोदाहरण इत्यर्थः। अन्यगत्यसंभवात्समासोक्तिप्रकारासंभ-
Page 580
दशम: परिच्छेदः। ५३३
इत्यादौ चान्यगत्यसंभवात्। किं चोपमायां व्यवहारप्रतीतेरभावात्कर्थ तदुपजीविकायाः समासोक्तेः प्रवेशः। यदाहु :- 'व्यवहारोऽथवा तत्त्वमौपम्ये यत्प्रतीयते। तन्नौपम्यं समासोक्तिरेकदेशोपमा स्फुटा ॥l' एवं चोपमारूपकयोरेकदेशविवर्तिताङ्गीकारे तन्मूलसंकरेSपि समा- सोक्तेरप्रवेशो न्यायसिद्ध एव, तेनौपम्यगर्भविशेषणोत्थापितत्वं नास्या विषय इति। विशेषणसाम्ये श्रिष्टविशेषणोत्थापिता साधारणविशेषणो- त्थापिता चेति द्विधा। कार्यलिङ्गयोस्तुल्यत्वे च द्विविधेति चतुःप्र- कारा समासोक्तिः । सर्वत्रैवात्र व्यवहारसमारोपः कारणम्। स च क्वचिलौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः। लौकिके वा शास्त्रीयवस्तुव्यवहारसमा- रोपः। शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्घा। तत्र लौकिकवस्त्वपि रसादिभेदादनेकविधम्। शास्त्रीयमपि तर्कायुर्वेद- ज्योतिःशास्त्रप्रसिद्धतयेति बहुप्रकारा समासोक्तिः । दिब्मात्रं यथा- 'व्याधूय यद्वसनं-' इत्यादौ। लौकिके वस्तुनि लौकिकस्य हठकामुक- व्यवहारादेः समारोपः । 'यै रेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्धिरव्ययमसंख्यतया प्रवृत्तम्। वात्। 'एकदेशविवर्त्युपमैवाङ्गीकर्तुमुचिता' इति पूर्वेणान्वयः। ननु प्रागुक्तयुक्त्योत्प- लादावुपमानत्वं संचारणीयमिति चेत्, न। 'आर्द्रनखक्षताभम्' इत्यत्नार्थ्या उपमाया- अर्थवशेनैव कल्पनाया योग्यत्वात्। प्रकृते तु श्रौत्यास्तदसंभवादिति भावः । न- न्विवशब्दव्यत्ययेनात्रापि व्यवहारसमारोप इत्यत आह-किं चेति। विशेषणानां सादृश्योपलम्भमहिम्रा विशेष्यस्याप्यध्याहारेण प्रथमत एव सादृश्यप्रतीतिरनुभवः सिद्धा तयैव श्रोतुराकाङ्काविरहाद् व्यवहारव्यञ्ञनं न भवतीति भावः । व्यवहार इति। औपम्यगर्भविशेषणसाम्ये सति व्यवहारोऽप्रस्तुतस्य साधर्म्यं तत्त्वं खरूपं वो यत्प्रतीयते तदौपम्यं समासोक्तिर्न भवति तत्र हेतुरेकदेशेति। स्फुटा सर्वानु- भवसिद्धा। तथा च सादृश्यप्रतीतिरेवानुभवसिद्धा न व्यवहारप्रतीतिरिति। नात्र- समासोक्तिप्रसङ्ग इति भावः। तत्त्वप्रतीतौ समासोक्तिमन्ये स्वीकुर्वन्ति तन्मतानुसा- रेणैवाथवा तत्त्वमित्युक्तम्। व्यवहारादेरित्यादिपदेन स्रूपस्य ग्रहणम् । यैरिति।
१' 'भवति' इति मुद्रितपुस्तके.
Page 581
५३४ साहित्यदर्पणे
लोपः कृतः किल परत्वजुषो विभक्ते- स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ।।' अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुव्यवहारसमारो- पः। एवमन्यत्र। रूपकेऽप्रकृतमात्मस्वरूपसंनिवेशेन प्रकृतस्य रूपमव- च्छादयति। इह तु सवावस्थासमारोपेणावच्छादितखरूपमेव तं पूर्वा- वस्थातो विशेषयति। अत एवात्र व्यवहारसमारोपो न तु स्वरूपस- मारोप इत्याहुः। उपमाध्वनौ श्लेषे च विशेष्यस्यापि साम्यम्, इह तु विशेषणमात्रस्य। अप्रस्तुतप्रशंसायां प्रस्तुतस्य गम्यत्वम्, इह त्वप्र- स्तुतस्येति भेद: । उक्तैर्विशेषणैः साभिप्रायैः पैरिकरो मतः ॥५७॥
अत्रेश्वरः संबोध्यः। वृत्तिषु वस्तुषु, पदार्थान्वयेषु च। अव्ययमविनश्वरम्, अव्ययप- द्वाच्यं च। असंख्यतया अनन्तरूपतया, संख्याविशेषप्रतिपादकंतया च । परत्- जुष उत्कर्षभाजस्तव विभक्तर्भेदग्रहस्य, पक्षे-परवर्तिन्या विभक्त: स्ादेर्लक्षणं विशिष्टज्ञानं सूत्रं च। आगमशास्त्रप्रसिद्धे वस्तुनीश्वरे व्याकरणशास्त्रप्रसिद्धवस्तुनो निपातस्य व्यवहारसमारोपः । रूपकादस्याः परैरुपपादितं भेदं दर्शयति-रूपक इति। अप्रकृतं वस्तु आत्मरूपसंनिवेशेन आत्मस्वरूपारोपणेन रूपं स्रूपम्। इह तु समासोक्तौ तु। स्वावस्था ससाधर्म्यम्। तं प्रकृतपदार्थ पूर्वावस्थातः प्रकृतावस्था- मवच्छाद विशेषयति उत्कृष्टत्वेन ज्ञापयति । अन्राप्यप्रकृतमिति कर्तृपदमन्वेति। विशेष्यस्यापीत्यादिना विशेषणस्यापि साम्यं प्रतीयत 'इति शेषः । गम्यत्वं व्यङ्चय- त्वम्। परिकरालंकारमाह-उक्तैरिति। विशेषणस्य प्रकृतोपयोगित्वज्ञापनमि- त्यर्थः । 'विशेषणैः' इति बहुत्वमत्र विवक्षितं तेनैव वैचित्र्यस्यानुभवसिद्धत्वात्। सा- भिप्रायैः प्रकृतार्थपरिपोषणाभिप्रायेण प्रयुक्तकः। यद्यप्यपुष्टार्थस्य दोषलाभिवानात्त- त्निराकरणेन पुष्टार्थस्य स्वीकारः कृतस्तथाप्येकनिष्ठत्वेन बहूनां विशेषणानामेवोपन्यासे
- एवमन्यन्रेति। 'गण्डान्ते मददन्तिनां प्रहरतः क्ष्मामण्डले वैधृते रक्षामाचरतः सदा विद्धतो लाटेपु यात्रोत्सवम्। पूर्वामत्यजतः स्थितं शुभकरीमासेव्यमानस्य ते वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम् ॥' अत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः ॥ 2. परिकर इति। परिकरोति प्रकृतार्थसुपकरोतीति परिकरः साभिप्रायशब्दः सो- इस्मिन्नस्तीति परिकरः। मत्वर्थीयोऽच्। भूषणार्थाभावान्न सुटू । 'साभिप्राये विशेष्ये तु भवेत्परिकराङ्करः । चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः ॥' इति विशेषोऽवधेयः । वृक्षा- ततदक्कर इवायं परिकरान्नातिरिच्यते। परिकरस्याङ्कुर इति व्युत्ल:।।
१. 'वदन्ति' घ.
Page 582
दशम: परिच्छेदः। ५३५
यथा- अङ्गराज सेनापते द्रोणोपहासिन् कर्ण, रक्षैनं भीमाह्ुःशासनम्।' शब्दैः सभावादेकार्थैः श्रेषोऽनेकार्थवाचनम्। 'स्वभांवादेकार्थैः' इति शब्दक्लेषाद् व्यवच्छेदः । 'वाचनं' इति च ध्वनेः । उदाहरणम्- 'प्रवर्तयन्क्रियाः साध्वीर्मालिन्यं हरितां हरन्। महसा भूयसा दीप्तो विराजति विभाकरः ॥' अत्र प्रकरणादिनियमाभावाद् द्वावपि राजसूर्यो वाच्यौ। केचिद्विशेषः सामान्यात्सामान्यं वा विशेषतः ॥५८।। वैचित्र्यमित्यलंकारमध्येऽयं गणित इति काव्यप्रकाशः । अङ्गराजेति । भीमेन बा- ध्यमानं दुःशासनं रक्षितुमशक्कुवन्तं कर्ण प्रत्यश्वत्थास्रो लज्जाप्रतिपादकं वचनमि- दम्। उक्तविशेषणत्रयेण कर्णस्य रक्षणोपयोगित्वं प्रतीयते। तथाविधस्य सपक्ष रक्षणाक्षमतायां लज्जातिशयः प्रतीयत इति। शलेषालंकारमाह-शब्दैरिति। ख- भावादित्यर्थपदस्याभिधेयमात्रपरत्वरूपतात्पर्यग्राहकतवम्। अन्यथा एकाथैरित्ययोग्यं सर्वेषामेव शव्दानां वाच्यलक्ष्यव्यङ्गयरूपनानार्थसंभवात्। वाचनमभिधालक्षणाभ्यां प्रतिपादनम्। एकस्मिन्विशेष्येऽभिधया अपरस्मिन्विशेष्ये लक्षणया अर्थद्यप्रतिपा- दनेऽ्र्थशलेष इति भावः । ध्वनेर्वाचकव्यञ्जनस्य शब्दस्य व्यवच्छेद इति पूर्वेणान्वयः । प्रवर्तयन्निति कर्तरि शक्तम्। सूर्यपक्षे-करस्पर्शेन पावित्र्यजननद्वारा उपयोगि लाक्षणिकम्। तदुक्तं विष्णुसुराणे-'स्पृष्टो यदंशुभिर्लोकः क्रियायोग्योऽभिजायते। पवित्रताकारणाय तस्मै शुद्धात्मने नमः ॥' इति। साध्वीः क्रियाः वेदोदितकर्माणि। हरितां दिग्वृत्तीनां मालिन्यं दैन्यादनौजस्यम्। पक्षे-दिशां तमःश्यामताम्। मह- स्तेजस्तच्च 'अधिक्षेपापमानादेः' इति प्रागुक्त शौर्य वा तेन दीप्तोऽघृष्यः, पक्षे- ज्योतिषा जाज्वल्यमानः । नन्वत्र प्रकरणाद्राजप्रतीतौ सूर्ये व्यञ्ञनैवोपमाध्वनिरे- वायमित्यत आह-प्रकरणादिनियमाभावादिति। आदिना संयोगादिपरि- ग्रहः। नन्वेवं शब्दश्लेष एवायं विभाकरपदस्य राजसूर्योभयवाचकलादिति चेतू, संकीर्णमेवेदमुदाहरणम्। असंकीर्णोदाहरणं तु 'स्तोकेनोन्नतिमायाति स्तोकेनायात्य- धोगतिम्। अहो सुसदृशी वृत्तिस्तुलाकोटे: खलस्य च ।।' अत्रोन्नत्यधोगतिपदास्या- मुत्कर्षापकर्षौ लक्ष्यौ। अप्रस्तुतप्रशंसालंकारमाह-क्वचिदिति। एतच्च वाक्यप- 1. क्वचिदिति । क्वचित्सामान्यादप्रस्तुताद्विशेषः प्रस्तुतः, कवचिद्विशेषादप्रस्तुता- त्सामान्यं प्रस्तुतम्, क्वचित्कार्यादप्रस्तुतात्प्रस्तुतं निमित्तम्, क्वचिन्निमित्तादप्रस्तुतात्प्रस्तुतं कार्यम्, क्वचित्समादप्रस्तुतात्समं प्रस्तुतं चेद्गम्यते तदा पञ्चधाऽप्रस्तुतप्रशंसा स्यादिति निर्गलितार्थः ॥
Page 583
५३६ साहित्यदर्पणे
कार्याननिमित्तं कार्य च हेतोरथ समात्समम् । अप्रस्तुतात्प्रस्तुतं चेद्गम्यते पञ्चधा ततः ॥ ५९॥ अप्रस्तुतप्रशंसा स्याद् क्रमेणोदाहरणम्- 'पादाहतं यदुत्थाय मूर्धानमधिरोहति। स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ॥।' अथास्मदपेक्षया रजोऽपि वरमिति विशेषे प्रस्तुते सामान्यमभि- हितम्। 'स्त्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् । विषमप्यमृतं क्वचिद्धवेदमृतं वा विषमीश्वरेच्छया ।।' अन्रेश्वरेच्छया क्वचिदहितकारिणोऽपि हितकारित्वं हितकारिणो- डप्यहितकारित्वमिति सामान्ये प्रस्तुते विशेषोऽभिहितः। एवं चात्रा- प्रस्तुतप्रशंसामूलोर्थान्तरन्यासः । दृष्टान्ते प्रख्यातमेव वस्तु प्रति- बिम्बत्वेनोपादीयते। इह तु विषामृतयोरमृतविषीभावस्याप्रसिद्धेर्न तस्य सद्भावः । 'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा । कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥'
ञ्वकेऽन्वेति। अप्रस्तुतादिति सामान्यादित्यादिपश्चकस्य विशेषणम्। अप्रस्तुतादिति यथायर्थं लिङ्गविपरिणामाविपरिणामाभ्यां विशेष इत्यादिपश्चकस्य विशेषणम्, ततस्तदा अप्रस्तुतेन प्रस्तुतस्य प्रशंसाव्यञ्ञनम्। यद्वा प्रस्तुतव्यञ्जकमप्रस्तुतकथनमप्रस्तुतप्र- शंसा। पादाहतमिति। बलदेवस्योक्तिरियम्। सामान्यमभिहितमिति। देहिन इति सामान्यवाचकम्। स्त्रगियमिति। अजविलापोऽयम्। अहितका रिविशेषो विषं हेतकारिविशेषोऽमृतम्। नन्वत्र बिम्बप्रतिबिम्बभावसत्त्वात् दृष्टान्त एवायमित्यत आह-दृष्टान्त इति। तस्य दृष्टान्तस्य सद्भावः संभवः । अस्याः संकीर्णोदाहरणं तु 'मणिलुठति पादेषु काचः शिरसि धार्यते। यथैवास्ति तथैवास्तु काचः काचो मणिर्मणि: ॥' अत्राविवेचकेनोत्कृष्टस्यानादरेऽपि नोत्कर्षापचयः । अनुत्कृष्टस्यादरे- डपि नोत्कर्ष इति प्रस्तुतमप्रस्तुतेन वाक्यार्थेन प्रतीयते। इन्दुर्लिप्त इति। ज- डिता निष्पन्दा। कार्कश्यं माधुर्यविपर्यासः । प्रस्तुतं प्रचुरीभूतम्। बर्हस्य श्याम-
Page 584
दशमः परिच्छेद: । ५३७
अत्र संभाव्यमानेभ्य इन्द्वादिगताञ्जनलिप्त्वादिभ्यः कार्येभ्यो वद- नादिगतसौन्दर्यविशेषरूपं प्रस्तुतं कारणं प्रतीयते। 'गच्छामीति मयोक्तया मृगदशा निश्वासमुद्रे किणं त्यक्त्वा तिर्थगवेक्ष्य बाष्पकलुषेनैकेन मां चक्षुषा। अद्य प्रेम मदर्पितं प्रियसखीवृन्दे त्वया बध्यता- मित्थं स्नेहविवर्धितो मृगशिशुः सोत्पासभाभाषितः ।।' अत्र कस्यचिदगमनरूपे कार्ये कारणमभिहितम्। तुल्ये प्रस्तुते तुल्याभिधाने च द्विधा श्रेषमूला सादृश्यमात्रमूला च । श्लेषमूलापि समासोक्तिवद्विशेष्यमात्रेश्रेष श्रेषवद्विशेष्यस्यापि श्रेषे भवतीति द्विधा। क्रमेण यथा- 'सहकारः सदामोदो वसन्तश्रीसमन्वितः । समुज््वलरुचिः श्रीमान्प्रभूतोत्कलिकाकुलः ।' अन्र विशेषणमात्रश्लेषवशादप्रस्तुतात्सहकारात्कस्यचित्प्रस्तुतस्य ना- यकस्य प्रतीतिः । 'पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयने न महानपि स्यात्। अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन ।I' कोमलत्वाभाव एव गहा। संभाव्यमानेभ्य उत्प्रेक्षणीयेभ्यः। अनुक्तनिमित्तेयमु- स्प्रेक्षा। तन्निष्ठकार्यलस्य तद्विषये उपचारादिदमुपपन्नम्। उदाहरणान्तरं तु 'नाध्रातं न कृतं कर्णे स्त्रीभिर्मधुनि नार्पितम्। लद्दिषां दीर्घिकास्वेव विशीर्ण नीलमुत्पलम् ।।' अत्रोत्पलाघ्राणाद्यभावरूपकार्येभ्यः प्रस्तुतायाः शोच्यावस्थाया हेतोः प्रतीतिः। त- तसत्त्वनियतसत्ताकत्वमेव कार्यत्मभावानामवगन्तव्यम्। गच्छामीति। सखायं प्रति कस्यचिदुक्तिरियम्। सोतप्रासं सूक्ष्महासयुक्तम्। मृगशिशुं प्रति मरणसूचकं तादृगाभाषणमत्र कारणम्। विशेषणमात्रस्येति। मात्रपदेन विशेष्यव्यवच्छेदः। विशेष्यस्यापीत्यपिना विशेषणपरिग्रहः। आमोदः सौरभम्, आनन्द्। वसन्तकालो- पकरणपल्लवादियुक्तः। सम्यगुज्वला रुचिर्दीप्तिर्यस्य सः, पक्षे सम्यगुज्वले शृङ्गारे रुचिरभिलाषो यस्य सः । श्रीः शोभा, वेषरचना च। प्रभूताभिः प्रचुराभि- रुत्कलिकाभिरुद्धतमुकुलैराकुलो व्याप्तः, पक्षे-प्रकर्षेण भूतया उत्कालकया नायि- कोत्कण्ठया आकुलो व्याकुलः । पुंस्त्वादपीति। पुरुषभावाद् यदि प्रविचलेत् त्री यदि भवेत्। अधः पातालमपि यदि यायात्। प्रणयने याचननिमित्तं यदि महान्न
Page 585
५३८ साहित्यदर्पणे
अत्र पुरुषोत्तमपदेन विशेष्येणापि श्रिष्टेन प्रचुरप्रसिद्या प्रथम विष्णुरेव बोध्यते। तेन वर्णनीयः कश्चित्पुरुषः प्रतीयते। सादृश्यमात्रमूला यथा- 'एकः कपोतपोतः शतशः श्येनाः क्षुधाभिधावन्ति। अम्बरमावृतिशून्यं हैरहर शरणं विधे: करुणा ॥' अत्र कपोतादप्रस्तुतात्कश्चित्प्रस्तुतः प्रतीयते। इयं च क्वचिद्वैध- रम्येणापि भवति। 'धन्याः खलु वने वाताः कह्ारस्पर्शशीतलाः । राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ।I' अत्र वाता धन्या अहमधन्य इति वैधर्म्येण प्रस्तुतः प्रतीयते। वाच्यस्य संभवासंभवोभयरूपतया त्रिप्रकारेयम्। तत्र संभवे उक्तो- दाहरणान्येव। असंभवे यथा- कोकिलोऽहं भवान्काकः समानः कालिमावयोः। अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः॥' अत्र काककोकिलयोवाकोवाक्यं प्रस्तुताध्यारोपणं विनासंभवि।
स्यात्, खर्वः स्यात्। तदपि तथापि विश्वमुद्धरेत्। इतीयं दिक्। ईदशोऽयं प्रकार: केनाप्यनिर्वचनीयेन पुरुषोत्तमेन विष्णुना प्रकटिता दर्शिता। तेन हि दैत्यहतं रा- ज्यमुद्धर्तु मोहिनीरूपस्त्रीलं प्राप्तम्। जलपुतं विश्वमुद्धर्तुं वराहरूपेण पातालं गतम्। बलिदैत्यापहृतं राज्यमुद्धर्तु पादत्रयभूमियाचननिमित्तं वामनतं प्राप्तम्। राजपक्षे- पुंस्त्वात् पौरुषाद् यदि प्रविचलेद् यद्यधो नीचत्वमपि यायादू याचननिमितं यदि महिमशून्यः स्यात् तदपि विश्वं सवराज्यमुद्धरेदित्ययं प्रकारश्र केनापि पुरुषोत्तमनाम्रा राज्ञा प्रकटितः । विशेष्येणापि विशेष्यवाचकेनापि। प्रचुरप्रसिध्धा भूरिप्रयोगेण, अतिप्रसिद्धा वा। प्रकृतस्यैवात्र व्यङ्ञयत्वं न तूपमानस्येति नोपमाध्वनित्वम्। दयो- रभिधेयत्वाभावान्न श्लेषत्वम्। कश्चित्प्रस्तुत इति। यस्य बहवः शत्रवो गोपनस्थानं नास्ति स इत्यर्थः । इयं च अप्रस्तुतप्रशंसा च। वैधर्म्येणापि विधर्मान्तरव्यञ्जक- वैधर्म्यविशिष्टस्य कथनेनापि। एवं च षट्रप्रकारा अप्रस्तुतप्रशंसेति फलितम् । धन्या इति। दशरथस्योक्तिरियम्। कहारस्य कह्ारवतो जलस्य स्पर्शेन शी- तलाः । सौगन्ध्यप्रतीतिरत्र लक्षणाप्रयोजनम्। अन्रेति। वाता धन्या इति वैध- र्म्येण अहमधन्य इति प्रस्तुत इत्यन्वयः । वाच्यस्य वाक्यार्थस्य। कोकिलोऽहमि-
- 'हरिहरि' घ.
Page 586
दशमः परिच्छेदः । ५३९
उभयरूपत्वे यथा- 'अन्तर्छिद्राणि भूयांसि कण्टका बहवो बहिः। कथं कमलनालस्य माभूवन्भङ्गुरा गुणाः ।।' अत्र प्रस्तुतस्य कस्यचिदध्यारोपणं विना कमलनालान्तर्छिद्राणां गुणभङ्गरीकरणे हेतुत्वमसंभवि। अन्येषां तु संभवीत्युभयरूपत्वम्। अंस्याश्च समासोक्तिवद् व्यवहारसमारोपप्राणत्वाच्छब्दशक्तिमूलत्वा- द्वस्तुध्वनेर्भेदः। उपमाध्वनावप्रस्तुतस्य व्यङ्गयत्वम्। एवं समासोक्तौ श्लेषेऽपि द्वयोरपि वाच्यत्वम्। उक्ता व्याजस्तुतिः पुनः। निन्दास्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुतिनिन्दयो: ६० निन्दया स्तुतेर्गम्यत्वे व्याजेन स्तुतिरिति व्युत्पत्त्या व्याजस्तुतिः। स्तुत्या निन्दाया गम्यत्वे व्याजरूपा स्तुतिः । क्रमेण यथा- 'स्तनयुगमुक्ताभरणा: कण्टककलिताङ्गयष्टयो देव। त्वयि कुपितेपि प्रागिव विश्वस्ता [ द्विद्ं ] स्त्रियो जाताः ।।' इदं मम।
त्यन्तरं विशेषं काकलीकोविदाः सूक्ष्ममधुरध्वनिविदः। वाकोवाक्यमुक्तिप्रत्युक्ती तौ प्रस्तुतौ तयोरध्यारोपणं स्वरूपव्यञ्ञनम्। छिद्राणि विवराणि, दोषाश्च। कण्टकाः तीक्ष्णाग्रवृक्षावयवाः, क्षुद्रशत्रवश्च। गुणास्तन्तवः, यशांसि च। छिद्राणां विवराणां गुणभङ्गरीकरणे पद्मनालतन्तुच्छेदने। अन्येषां कण्टकानाम्। तस्याश्र श्लेषमूलतुल्या- प्रस्तुतप्रशंसायाश्र। समासोक्तिवदिति। समासोक्तौ यथा श्िलिष्टशन्दप्रयोगमा- त्रेण व्यवहारो न प्रतीयते किं तु विशेषणसाम्यानुसंधानेनापि, तथात्रापि विशेष- णसाम्यानुसंधानमप्यपेक्षितम्, शब्दशक्तिमूलवस्तुध्वनौ तु तन्नापेक्षितमिति ततोऽस्या भेद इति भावः। द्योः प्रस्तुताप्रस्तुतयोर्वांच्यत्वं प्रकरणादिनियमाभावादित्यर्थः । व्याजस्तुत्यलंकारमाह-उक्ेति। वाच्याभ्यामापाततः । प्रतीयमानाभ्याम्। ननु निन्दाव्याजेन स्तुतिर्भवत्येव व्याजस्तुतिःस्तुतिव्याजेन निन्दा तु व्याजनिन्दैव भवति कथं व्याजस्तुतिरित्यतः संज्ञया द्विविधं योगार्थमाह-निन्द्येति। स्तनयुगेति। राजानं प्रति कस्यचिदुक्तिरियम्। स्तनयुगे मुक्ताभरणं हारो यासाम्, पक्षे- स्तनयुगान्मुक्ताभरणं यासाम्। कण्टको रोमाश्चः, तीक्ष्णाग्रवृक्षावयवश्च। प्रागितर- कोपात् पूर्वकाल इव। विश्वस्ता अयमस्माकं नापकर्तेति विश्वासाश्रया:, पक्षे- विधवाः । 'विश्वस्ता विधवा समे इत्यमरः । अत्र स्त्रीणां पीडाजनकत्वेनापाततो
१. 'प्रागिव विश्वस्ता अपि कुपित त्वयि रिपुस्तियः' क; 'रिपुस्त्रियः' घ.
Page 587
साहित्यदर्पणे
'व्याजस्तुतिस्तव पयोद मयोदितेयं सञ्जीवनाय जगतस्तव जीवनानि। स्तोत्रं तु ते महदिदं घन धर्मराज- साहाय्यमर्जयसि यत्पथिकान्निहत्य ।।' पयायोक्त यदा भड्गा गम्यमेवाभिधीयते। उदाहरणम्- 'स्पृष्टास्ता नन्दने शच्याः केशसंभोगलालिताः । सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ॥' अत्र हयग्रीवेण सर्गो विजित इति प्रस्तुतमेव गम्यं कारणं वैचि- यविशेषप्रतिपत्तये सैन्यस्य पारिजातमञ्जरीसावज्ञस्पर्शनरूपकार्यद्वारे- पाभिहितम्। न चेदं कार्यात्कारणप्रतीतिरूपाप्रस्तुतप्रशंसा। तत्र कार्यस्याप्रस्तुतत्वात्। इह तु वर्णनीयस्य प्रभावातिशयबोधकत्वेन कार्य- मपि कारणवत्प्रस्तुतम्। एवं च- 'अनेन पर्यासयताश्रुबिन्दून्मु क्ताफलस्थूलतमान्सनेषु। प्रत्यर्पिताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः ।।' अत्र वर्णनीयस्य राज्ञो गम्यभूतशत्रुमारणरूपकारणवत्कार्यभूतं त- थाविधशत्रुस्त्रीक्न्दनजलमपि प्रभावातिशयबोधकत्वेन वर्णनार्हमिति पर्यायोक्तमेव। निन्दा, पर्यवसाने तु शत्रुनाशकत्वेन स्तुतिः प्रतीयते। व्याजस्तुतिरिति। अ- यमर्थस्तुतिः धर्मराजस्य साहाय्याचरणेन आपाततः खतुतिः, पर्यवसाने तु पथिका- पकारेण निन्दा प्रतीयते। पर्यायोक्त्यलंकारमाह-पर्यायोक्तमिति। भङ्गया उ- क्तिवैचित्र्यविशेषेण अभिधीयते अभिधेयवत्स्फुटं प्रतीयते। एवं च पर्यायेण भङ्गया व्यङ्गयस्य स्फुटप्रतिपादनं पर्यायोक्तम्। केशेति। केशानां संभोगाय भूषणाय लालिता: सयत्नं पालिताः । इन्द्रस्यातिपराभवेन भयस्य, ह्यग्रीवोद्याने पारिजातम- ज्ररीणामनुभूततादादरस्य चाभावश्च सावज्ञमित्यनेन प्रतीयते। इत्थं च हयग्रीवेण स्वर्ग: सुतरां जित इति व्यञ्ञयं सुव्यक्तमेव। वैचित्र्यविशेषस्याप्रस्तुतप्रशंसाजन्यवै- चित्र्यादिलक्षणवैचित्र्यस्य प्रतिपत्तये सिद्धये। कार्यद्वारेण कार्याभिधानमुखेन अभि- हितं स्फुटं प्रतिपादितम्। अनेनेति। पर्यासयता पातयता। आक्षेपसूत्रेण ग्रन्थ- नगुणेन। वर्णनाहे वर्णनार्हत्वेन प्रस्तुतम्। पर्यायोक्त्तमेवेत्येवकारेणाप्रसुतप्रशं- साव्यवच्छेदः। काव्यप्रकाशे कार्यात्कारणरूपाप्रस्तुतप्रशंसाया दत्तमुदाहरणं पर्या- 1. भङ्गथेति। येन रूपेण विवक्षितोऽर्थस्तदतिरिक्तः प्रकारो भङ्गी॥
Page 588
दशमः परिच्छेदः । ५४१
'राजन्राजसुता न पाठयति मां देव्योऽपि तूप्णीं स्थिताः कुञ्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते। इत्थं राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा- चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ।' अत्र प्रस्थानोदतं भवन्तं श्रुत्वा सहसैवारयः पलायिता इति का- रणं प्रस्तुतम्। 'कार्यमपि वर्णनार्हत्वेन प्रस्तुतम्' इति केचित्। अन्ये तु-'राजशुकवृत्तान्तेन कोऽपि प्रस्तुतप्रभावो बोध्यत इत्य- प्रस्तुतप्रशंसैव' इत्याहुः । सामान्यं वा विशेषेण विशेषस्तेन वा यदि ॥६१॥ कार्य च कारणेनेदं कार्येण च समर्थ्यते। साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः ॥६२॥ क्रमेणोदाहरणम्- 'बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति। संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥।' योक्तविषयत्वेन संभावयति-राजन्निति। शत्रुजयोद्यतं राजानं प्रति तच्चरस्यो- क्तिरियम्। तवारेभवने वास्तुनि अध्वगैंः पञ्जरान्मुक्तो राजशुकः शून्यवलभौ राजा- दिहीनगरहे चित्रस्थान् राजादीनवलोक्यैकैकमेवमाभाषते। चित्रस्थांस्तानवलोक्य किमाभाषत इत्यत आह-राजन्निति। देव्योऽपि राजपत्न्योऽपि तूष्णीं स्थिता न पाठयन्ति। कुब्जा तद्भ्ोजने नियुक्ता काचित्। कुमारैरेव सचिवैरस्मद्भोजनसहचारैः। अद्यापि इदानीमपि। कार्यमपीति। शुकाभाषणरूपं कार्यम्। अर्थान्तरन्यासालं- कारमाह-सामान्यमिति। व्यापकधर्मावच्छिन्नमित्यर्थः। विशेषेण व्याप्यधर्मा- वच्छिन्नगोचरेण। साधर्म्येण साधर्म्यप्रकारकज्ञानेन वैधर्म्यज्ञानेन वा यदि समर्थ्यते उत्पाद्यते संशयायोग्यत्वादिरूपानुपपत्तिनिराकरणेन दृढप्रतिपत्तिविषयः क्रियत इति यावत्। तदा अर्थान्तरन्यास इत्यर्थः। एवमग्रेऽपि। तेन सामान्येन सामान्यविशे- षयोविधीयमानधर्म एव विशेषसामान्ययोः साधर्म्ये तस्य क्वचित्तादूप्येण क्वचि- द्वयाप्यधर्मेण क्वचिद्यापकधर्मेण ग्रह एव समर्थकः। वैधर्म्य निरुक्तसाधर्म्यविरु- द्धधर्मः । कारणस्य साधर्म्य प्रकृतकार्यसाधनत्म्। वैधर्म्य सविरुद्धखवकार्यविरुद्ध- साधनत्म्। इदं कारणं कार्यस्य साधर्म्यं प्रकृतकारणजन्यत्वम्। वैधम्ये सविरुद्धस्य स्वकारणविरुद्धजन्यतम्। सामान्यविशेषसाधर्म्येण समर्थनमाह-बृहत्सहाय इति। कार्यान्तं कार्यातिशयम्। महाकार्यमित्यर्थः । क्षोदीयानपि अतिक्षुद्रोऽपि। 1. सामान्यमिति। सामान्यं विशेषस्य विशेषो वा सामान्यस्य समर्थक इति भेदद्- यम्। तथा कार्ये कारणस्य कारणं वा कार्यस्य समर्थकमित्यपि भेदद्यम्। एवं च भेदचतु- थ्टये प्रत्येकं साधर्म्यवैधर्म्याभ्यां भेदद्वये भेदाष्टकमुपपद्यते। सा० द० ४६
Page 589
५४२ साहित्यदर्पणे
अत्र द्वितीयार्धगतेन विशेषरूपेणार्थेन प्रथमार्थगतः सामान्योऽर्थः सोपपत्तिक: क्रियते। 'यावदर्थ्यपदां वाचमेवमादाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः ।।' 'पृथ्वि स्थिरा भव भुजङ्गम धारयैनां त्वं कूर्मराज तदिदं द्वितयं दधीथाः । दिक्कुञ्जराः कुरुत तत्रितये दिधीर्षो देवः करोति हरकार्मुकमाततज्यम् ।।' अत्र कारणभूतं हरकार्मुकाततज्यीकरणं पृथिवीस्थैर्यादेः कार्यस्य समर्थकम्। गच्छति प्राप्नोति। साधयतीति यावत्। संभूय मिलिता। नगापगा गिरिणदी। नद्या नगसंबन्धदर्शनेन जलबाहुल्याभावः प्रतीयते, तेन चातिक्षुदलम्। द्वितीया- वगतेन द्वितीयवाक्यार्थसंगतेन विशेषरूपेण विशेषस्वरूपेण नगापगया अर्थेन महान-
यमान: संशयनिरासेन निश्चयविषयः । एकविशेषस्य यदृश्यते बाधकाभावेन तुल्य- न्यायतया तत्सधर्माणामन्येषामपि तत्संभवतीति विशेषदर्शिनां सामान्यविधीयमा- नस्य संशयो निवर्तत इति सुतरां दृढप्रतिपत्तिरिति भावः। अत्र सामान्यसमर्थन- मुखेनास्मतक्षुद्तरस्यापि शिशुपालस्य कालयवनादिबृहत्सहायसंपत्त्यास्मत्पराभवरूप- बृहत्कार्यसाधनत्वं समर्थितमित्यवधेयम्। विशेषस्य सामान्यसाधर्म्येण समर्थनमाह -यावदर्थ्यपदामिति। यावन्त्येवार्थ्यानि प्रकृतोपयुक्तार्थादनपेतानि पदानि यस्यां तां नत्वनुपयुक्तार्थपदैर्बहुलाम्। एतेन वाक्यस्याल्पत्वं सूचितम्। आदाय कथयित्वा। महीयांसो महत्तराः । प्रकृत्या स्वभावेन। मितभाषिणः अल्पवचसः। अत्र व्यञ्नया विधीयमानमपि माधवस्याल्पभाषणं प्रतिपाद्यबाहुल्ये सत्यनुपप- न्नमहत्तरस्य स्वभावत एवाल्पभाषणमिति सामान्यगोचरसाधर्म्यज्ञानेन समर्थ्यते। सामान्यधर्मो विशेषेष्वप्रतिहतप्रसर इति विशेषदर्शनेनानुपपत्तिनिरास इति भावः। कारणसाधर्म्येण कार्यसमर्थनमाह-पृथ्वीति। श्रीरामेण हरधनु- ज्र्यायोगोदमे कृते पृथ्व्यादीनामस्थैर्यादिकं संभावयतो लक्ष्मणस्योकिरियम् । भुजङ्गमोऽनन्तः । एनांपृथ्वीम्। द्वितयमनन्तं पृथ्वीं च। तत्रितये कूर्मानन्तपृ- थ्वीषु। दिवीर्षा धारणेच्छाम्। देवः श्रीरामः। आततज्यं आरूढगुणम्। आतत- ज्यीकरणं गुणयोगानुकूलव्यापारः। पृथ्व्यादीनां स्थैर्यादेः सिद्धत्वे तत्तन्नियोगानुपपत्त्या, स्थैर्यादिविशेषो लक्षणीयः, तस्य च ज्यायोगसंभावनायामनुष्ठितत्वेन कार्यलमक्ष- तमेव, तच्च ज्यायोगसंभावनाया: कारणतग्रहेणैव समर्थ्यते। स्थैर्यांदीनां नियुज्यमा- 1. 'विशेषेण' घ.
Page 590
दशम: परिच्छेदः। ५४३
'सहसा विदधीत न क्रियां-' इत्यादौ संपत्करणं कार्य सहसा विधानाभावस्य विमृश्यकारित्वरूपस्य कारणस्य समर्थकम्। एतानि साधर्म्य उदाहरणानि। वैधर्म्ये यथा- 'इत्थमाराध्यमानोऽपि क्विश्नाति भुवनत्रयम् । शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥l' अत्र सामान्यं विशेषस्य समर्थकम्। 'सहसा विदधीत-' इत्यत्र सहसा विधानाभावस्यापत्प्रदत्वं विरुद्धं कार्य समर्थकम्। एवमन्यत्। हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते। नत्वेन कार्यत्वं प्रतीयते, तच्च कारणमन्तरेण नोपपद्यते, इत्यनुपपत्तिरत्रावधेया। कार्य- साधर्म्येण कारणसमर्थनमाह-सहसेति। अत्र विधीयमानस्य सहसा विधाना- भावस्य किंचिदिष्टं प्रति साधनत्मवगम्यते। तच्च क्वचिदिष्टे साध्यतग्रहमन्तरेण नोपपद्यत इति कार्यस्य समर्थकत्वं संपद्वरणं कार्यमिति कार्य कार्यतप्रतीतिविषयः । कार्यत्प्रतीतिरत्र 'उद्योगिनं पुरुषसिंह्मुपैति लक्ष्मीः' इतिवत् विमृश्यकारित् एव सहसाविधानाभावः पर्यवस्यतीति नानयोर्भेदः । विशेषवैधर्म्येण सामान्यसमर्थनं यथा-'गुणानामेव दौरात्म्याद्धुर्यो धुरि नियुज्यते। अलंजातकिणस्कन्धः सुखं खपिति गौर्गडिः ॥' दुःखावहकर्मप्रयोजकताद्गुणानां निन्दा। धुर्यो धूर्वहनयोग्यः । किणो वहनचिह्नविशेषः । गडिरलसः । अत्र गुणवन्त एव धुर्या भारवहने नियुज्य- न्त इत्यन्ययोगव्यवच्छेदप्रतीतिरन्यत्रायोगग्रहेणैवोपपद्यत इति धूर्वहनयोग्यतया धुर्यविशेषे गडिगवे धूर्वहनायोगरूपवैधम्यज्ञानं समर्थकम्। किणहीनस्कन्धत्वेन सुखखपनेन च भारवहनायोगः प्रतीयते। सामान्यवैधर्म्येण विशेषसमर्थनमाह- इत्थमिति। ब्रह्माणं प्रति बृहस्पतेस्तारकदौरात्म्यनिवेदनमिदम्। क्िश्नाति विबा- धते। शान्येत् अपकारान्निवर्तेत। समर्थकमिति । अनुकूलाचरणेनोपशमाभा- वोऽयोग्यतयानुपपन्न एव। दुर्जनसामान्यखभावेन प्रत्युपकारमात्रोपसाम्यत्वेन वैधर्म्येण समर्थ्यत इति भावः । कारणवैधर्म्येण कार्यसमर्थनं यथा-'बहिरेव चिरा- दनाश्रये विलसत्येष तुषारदीधितिः । भज संपदमत्र संततं ननु संतापमितः प्रसू- यते ।।' चन्द्रस्य संतापजनकत्वानुभवेन संमदजनकत्वे बाधं प्रति संदधतीं विरहिणी प्रति तत्सख्या उक्तिरियम्। अनाश्रये अवचनस्थे। अत्र सूर्यस्य संतापजनकत- प्रदर्शनेन तद्विरुद्धस्य चन्द्रस्य संतापविरुद्धसंमदजनकत्वमुपपन्नम्। कार्यवैधर्म्येण कारणसमर्थनमाह-सहसेति। विरुद्धं विरुद्धजन्यम्। समर्थकमिति। संप- द्विरुद्धकार्ये विपदि विवेकविरुद्धविवेकाभावजन्यत्ज्ञानेन संपदि विवेकजन्यत्वं दृढं प्रत्याय्यते। यज्जन्यं यद्विरुद्धं तत्कारणविरुद्धजन्यमेवेति नियमादिति भावः।अन्न घटलादौ व्यभिचारवारणाय जन्यमिति। काव्यलिङ्गालंकारमाह-हेतोरिति। 1. काव्येति। काव्याभिमतं लिङ्गं काव्यलिङ्गं। तर्कवैलक्षण्यार्थ काव्यग्रहणम्। न ह्यत्र व्याप्तिपक्षधमतोपसंहारादयः क्रियन्ते॥
Page 591
५४४ साहित्यदर्पणे
तत्र वाक्यार्थता- 'यत्त्वन्नेत्रसमानकान्ति सलिले मसं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी। येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥।' अत्र चतुर्थपादे पादत्रयवाक्यानि हेतवः । पदार्थता यथा मम- 'त्वद्वाजिराजिनिर्धूतधूली पटल पक्किलाम्। न घत्ते शिरसा गङ्गां भूरिभारभिया हरः ॥' अत्र द्वितीयार्घे प्रथमार्धमेकपदं हेतुः। अनेकपदं यथा मम- 'पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम्। देव त्रिपथगात्मानं गोपयत्युग्रमूर्धनि ।।' इह केचिद् वाक्यार्थगतेन काव्यलिङ्गेनैव गतार्थतया कार्यकारण- भावेऽर्थान्तरन्यासं नाद्रियन्ते, तदयुक्तम्। तथा ह्यत्र हेतुस्त्रिधा भ- वति-ज्ञापको निष्पादकः समर्थकश्चेति। तत्र ज्ञापकोऽनुमानस्य विषयः, निष्पादकः काव्यलिङ्गस्य, समर्थकोऽर्थान्तरन्यासस्य, इति
वाक्यपदार्थत्वे वाक्यपदान्यतरप्रतिपाद्ये वाक्यार्थस्य पदार्थस्य वा हेतुत्वे व्यङ्गये इति पर्यवसितोऽर्थः । क्रियान्वयसमाप्तौ वाक्यार्थतम्। अन्यथा पदार्थतम्। अ- यमेव हेललंकार उच्यते। यत्त्वन्नेत्रेति । वर्षाजनितोत्कण्ठस्य प्रोषितस्योक्तिरि- यम्। मुखच्छायानुकारी मुखकान्तिसदशः । गताः। मानसमिति शेषः। सादृश्य- विनोदमात्रं सादृश्यमात्रेण विनोदः। मात्रपदेन सङ्गव्यवच्छेदः। दैवेन दुदैवेन। चतुर्थपादे चतुर्थपादप्रतिपाद्ये सादश्यमात्रविनोदाभावे। पादत्रयवाक्यानि पादत्र- यरूपवाक्यत्रयार्थाः । त्वद्वाजीति। अत्र कविप्रौढोक्तिसिद्धं तादृशं पङ्ञिलतवं सं- भाव्यमानभूरिभारभयकरणहरगङ्गात्यागे हेतुः। वास्तवहेतूदाहरणं तु-'वदनाम्बुरु- हालोकनिन्दितेन्दुप्रभाभराम्। लामवेक्ष्य मनोजस्य को युवा न वशंवदः ॥' अत्र पूर्वार्धस्यैकपदार्थस्यार्थः परार्धार्थे हेतुः । पश्यन्त्यसंख्यपथगामिति । अत्र पूर्वार्ध क्रियान्वयसमाप्तौ वाक्यतमनापन्नमनेकपद्घटितं तदर्थस्य हेतुता। अन्नापि कविप्रौढोक्तिसिद्धो हेतुः। संभाव्यमानमात्मगोपनं कार्यम्। वास्तवहेतूदाहरणंतु- 'अपाङ्गान्तनटन्नेन्न वीक्ष्यमाणा मनागपि। अनङ्गसचिवाः कान्ता हरन्ति जगता मनः ॥' कार्यकारणभावेऽर्थान्तरन्यासमनङ्गीकुर्वतः काव्यप्रकाशकारादेर्मतं दूष- यति-इह केचिदिति। पदार्थगतेन काव्यलिङ्गेनार्थान्तरन्यासासंभवादाह- वाक्यार्थगतेनेति। अन्यथा हेतनुक्तौ साकाङ्कतया कारणजिज्ञासया। असमजसं
Page 592
दशमः परिच्छेदः । ५४५ पृथगेव कार्यकारणभावेऽर्थान्तरन्यासः काव्यलिङ्गात्। तथाहि-'य- त्वन्नेत्र-' इत्यादौ चतुर्थपादवाक्यम्। अन्यथा साकाङ्कतयासम- ञ्जसमेव स्यात् इति पादत्रयगतवाक्यं निष्पादकत्वेनापेक्षते। 'सहसा विदधीत-' इत्यादौ तु 'परापकारनिरतैर्दुर्जनैः सह संगतिः । वदामि भवतस्तत्त्वं न विधेया कदाचन ।।' इत्यादिवदुपदेशमात्रेणापि निराकाङ्कतया स्वतोऽपि गतार्थ सहसा विधानाभावं संपद्वरणं सोपपत्तिकमेव करोतीति पृथगेव कार्यकारणभा- वेऽर्थान्तरन्यास: काव्यलिङ्गात्। 'न घत्ते शिरसा गङ्गां भूरिभारभिया हरः। त्वद्वाजिराजिनिर्धूतधूलिभि: पक्किला हि सा ।।' इत्यत्र हिशब्दोपादानेन पक्किलत्वादितिवद्धेतुत्वस्य स्फुटतया नाय- मलंकारः। वैचित्र्यस्यैवालंकारत्वात्। अनुमानं तु विछित्या ज्ञानं साध्यस्य साधनात् ॥६३॥ यथा- 'जानीमहेऽस्या हृदि सारसाक्ष्या विराजतेऽन्तः प्रियवक्रचन्द्रः । उत्कान्तिजालै: प्रसृतैस्तदङ्गेप्वापाण्डुता कुञ्नलताक्षिपंझे।।' अत्र रूपकवशाद्विच्छित्तिः । सुदृढप्रतिपत्तिजननाक्षमम् । पादत्रयगतवाक्यं पादत्रयस्वरूपवाक्यम्। निष्पादक्- त्वेन निष्पादकत्प्रतिपादकत्वेन। स्वतोऽपि हेतूक्तिं विनापि। गतार्थ निःसंशयप्रति- पादितसार्थम्। तथा च हेत्ाकाड्डया यद्वाक्यं यद्वाक्यमपेक्षते तदर्थस्य तदर्थो निष्पादकः, स एव काव्यलिङ्गस्य विषयः। यत्र हेतूपदेशादिना हेतुनिरपेक्षं वाक्यं तत्र हेतुवाक्यस्यार्थः समर्थक एव, स चार्थान्तरन्यासस्य विषयः। एवंविधं भेदमन- द्वीकृत्य समर्थकहेतोरपि काव्यलिङ्गविषयतस्वीकारेऽर्थान्तरन्यासमात्रोच्छेदप्रसङ्ग इति भावः। अनुमानालंकारमाह-अनुमान त्विति। विच्छित्त्या अलंकारादि- कृतवैचित्र्येण। परिपुष्टवैचित्र्यमिति शेषः। साध्यस्य व्यापकस्य। साधनात् साधन- गोचरव्याप्यतज्ञानात्। अनुमिति प्रति साधनस्य हेतुलाङ्गीकारेऽतीतानागतलिङ्ग- कानुमितिर्न स्यात्। जानीमहे इति। विरहवर्णनमिदम्। जानीमहे अनुमिनुमः । 1. अनुमानमिति। तच्चानुमानं स्वार्थपरार्थभेदेन देधा। यत्र मयायमवगतोऽर्थ इति स्वपरामर्शस्य निश्चयः स्यात्तत्स्वार्थम्। यत्र परेणानवगतस्य वस्तुनः प्रतिपादनात्परप्रत्या- यकत्वं तत्परार्थम्। द्विविधमप्येकोडलंकार इति विमर्शिन्यां व्यक्तम्।।
Page 593
५४६ साहित्यदर्पणे
यथा वा- 'यत्र पतत्यबलानां दृष्टिर्निशिताः पतन्ति तत्र शराः । तच्चापरोपितशरो धावत्यासां पुरः स्मरो मन्ये ॥' अत्र कविप्रौढोक्तिवशाद्विच्छित्तिः । उत्प्रेक्षायामनिश्चिततया प्र- तीतिः इह तु निश्चिततयेत्युभयोर्भेदः । अभेदेनाभिधा हेतुर्हेतोर्हेतुमता सह। यथा मम-'तारुण्यस्य विलास :- ' इत्यत्र वशीकरणहेतुर्ना- यिका वशीकरणत्वेनोक्ता। विलासहासयोस्त्वध्यवसायमूलोऽयमलंकारः। अनुकूलं प्रातिकूल्यमनुकूलानुबन्धि चेत् । ६४ ।। यथा- 'कुपितासि यदा तन्वि निधाय करजक्षतम्। बधान भुजपाशाभ्यां कण्ठमस्य दढं तदा ।।' अस्य च विच्छित्तिविशेषस्य सर्वालंकारविलक्षणत्वेन स्फुरणात्पृ- थगलंकारत्वमेव न्याय्यम्।
अन्न रूपकोत्प्रेक्षाभ्यां परिपुष्टवैचित्र्यमनुमानमलंकारः । कविप्रौढोक्तिजन्यविच्छि- त्तिपरिपुष्टवैचित्र्यमनुमानमुदाहरति-यथावेति। तत्तस्मात्। आसामबलानाम्। मन्ये अनुमिनोमि। अन्न 'अबलादृष्टिपातसहचरितशरपातोऽबलापुरोवर्तिचापरोपि- तशरजन्योऽबलादृष्टिपातसहचरितशरपातलात्' इत्यनुमानम्। तत्रेतरस्य बाधा- त्स्मरस्य सिद्धिः। वस्तुतस्त्वलंकारादिसहकारं विनापि यत्र वैचित्र्यमनुभूयते तत्रा- प्ययमलंकारः । यथा-'विकसन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः ।' अत्र वर्षाकालानुमानम्। [अभिधा] हेतलंकारमाह-अभेदेनेति। हेतोर्हेदुमता का- र्येण सहाभेदेनाभेदारोपेण अभिधा हेतुरित्यर्थः। तारुण्यस्येति।अत्र प्रकरणान्ना- यिकाया लाभ:। हासः प्रकाशः । नन्वत्र लक्षणया वशीकरणकारणप्रतीतिरेव न त- भेदप्रतीतिरित्यत आह-विलासहासयोस्त्विति। अध्यवसाय आहार्यभेदप्र- तीतिः। तथा च नायिकाया विलासहासयोः कार्यकारणभावरूपसंबन्धाभावेन कारण- लक्षणाया असंभवादाहार्याभेदप्रतीतिरवश्यमङ्गीकरणीया तत्साह्चर्यात्प्रकृतेऽप्या- हार्यप्रतीतिरेव, न तु लाक्षणिकी प्रतीतिरिति भावः। अनुकूलालंकारमाह-अनु- कूलमिति। अनुकूलानुबन्धि आनुकूल्यकरम्। कुपितेति। नायिकां प्रति सख्या वचनमिदम्। अन्न करजक्षतभुजबन्धयोः प्रातिकूल्यं नायकानुकूल्यपरम्। आक्षे-
१. 'करम्' इति पुस्तकान्तरे.
Page 594
दशमः परिच्छेदः। ५४७.
वस्तुनो वक्तुमिष्टस्य विशेषप्रतिपत्तये। निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा ॥ ६५॥ तत्र वक्ष्यमाणविषये कचित्सर्वस्यापि सामान्यतः सूचितस्य निषेधः, क्कचिदंशोक्तावंशान्तरे निषेध इति द्ौ भेदौ। उक्तविषये च क्वचिद्वस्तु- स्वरूपस्य निषेधः, क्वचिद्वस्तुकथनस्येति द्वौ। इत्याक्षेपस्य चत्वारो भेदाः। क्रमेण यथा- 'स्मरशरशतविधुराया भणामि सख्याः कृते किमपि। क्षणमिह विश्रम्य सखे निर्दयहृदयस्य किं वदाम्यथवा ।।' अत्र सख्या विरहस्य सामान्यतः सूचितस्य वक्ष्यमाणविशेषे निषेवः। 'तव विरहे हरिणाक्षी निरीक्ष्य नवमालिकां दलिताम्। हन्त नितान्तमिदानीमाः कि हतजल्पितैरथवा ॥' अत्र मरिष्यतीत्यंशो नोक्तः । 'बालअ णाहं दूती तुअ प्पिओसि त्ति ण मह वावारो। सा मरइ तुज्झ अअसो एअं धम्मक्खरं भणिमो ।।' अत्र दूतीत्वस्य वस्तुनो निषेधः ।
पालंकारमाह-वस्तुन इति। विशेषप्रतिपत्तये विवक्षितवस्तुनो वत्तुवां वैलक्ष- ए्यसूचनाय। विवक्षितस्य वक्ष्यमाणोक्तरूपद्वैविध्येनाक्षेप स्यापि द्वैविध्यमाह-वक्ष्य- माणोक्तग इति। वक्ष्यमाणविषय उक्तविषयश्चेत्यर्थः । सर्वस्यापि समुदितस्यापि। वक्ष्यमाणविषये विवक्षितकथनाभावस्यैव वैचित्र्यव्यञ्जकत्वमिति। तन्न प्रकारान्तरासं- भवाद् द्वितीयप्रकारस्यैव वस्तुतत्कथननिषेधत्वेन द्वैविध्यमाह-उक्तविषये चेति। स्मरशरशतेति। कृते निमित्तम्। विरहस्य कान्तिविच्छेदस्य। सामान्यतो विरह. त्वेन सूचितस्य स्मरश्रशतेत्यनेन निर्दयहृदयेत्यनेन च व्यञ्जितस्य विषये मरणयोग्य- त्वेनातिमहति निषेध इति विवक्षितस्य वचननिषेधेनैव निषेध इति भावः। इदानीं तयि गतेऽपि सावश्यं मरिष्यतीति तयि तन्निवेदनमनर्थकमिति विवक्षितवस्तुनो विरहस्य मरणाव्यभिचारितरूपवैलक्षण्यं विशेषकथननिषेधेनैव व्यज्यते। विरहविशे- षस्य प्रकरणादिना वाच्यवत्स्फुटप्रतीयमानतया तत्कथननिषेधस्याकिंचित्करत्वेना- भासतम्। तवेति । दलितां विकसिताम्। अत्र जल्पनस्य निन्दया सूचितस्य मरिष्यतीत्यंशस्य सुहृदनिष्टत्वेनाशक्य(वाक्य)वक्तव्यत्वं वस्तुवैलक्षण्यं प्रतीयते। बालअ इति। 'बालक नाहं दूती तस्याः प्रियोऽसीति न मम व्यापारः। सा त्रियते तवायश एवं धर्माक्षरं भणामः ॥' इति संस्कृतम्। दूतीत्वेन कथितात्मनः सख्या वचनमिदम्। धर्माक्षरं यथार्थवचनम्। अत्र खस्मिन् सतोऽपि दूती-
Page 595
५४८ साहित्यदर्पणे
'विरहे तव तन्वङ्गी कथं क्षपयतु क्षपाम्। दारुणव्यवसायस्य पुरस्ते भणितेन किम् ।।' अत्र कथनस्योक्तस्यैव निषेधः । प्रथमोदाहरणे सख्या अवश्यं- भाविमरणमिति विशेषः प्रतीयते । द्वितीयेऽशक्यवक्तव्यत्वादि। तृतीये दूतीत्वे यथार्थवादित्वम्। चतुर्थे दुःखस्यातिशयः। न चायं विहितनिषेधः । अत्र निषेधस्याभासत्वात् । अनिष्टस्य तथार्थस्य विध्याभासः परो मतः । तथेति पूर्ववद्विशेषप्रतिपत्तये। यथा- 'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः। ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ।।' अत्रानिष्टत्वाद्गमनस्य विधि: प्रस्खलद्रूपो निषेधे पर्यवस्यति। विशेषश्च गमनस्यात्यन्तपरिहार्यत्वरूपः प्रतीयते।
त्वस्य निषेधेन दूत्यन्तरवन्नाहं मिथ्या वदामीति स्वैलक्षण्यं व्यज्यते। निषेधस्या- रोप्यमाणत्वादाभासत्वम्। विरह इति। वर्षारम्भे प्रवसन्तं नायकं प्रति सख्या वचनमिदम्। दारुणव्यवसायस्य डुरुच्छेदतत्समीपप्रापणनिश्चयस्य। अत्र 'पूर्वार्वे तत्समीपं त्वं याहीति वक्तुमिष्टं वस्तु तस्य व्यञ्ञकनिषेभ्नेनैवार्थतो निषेधः सिध्ध- तीति न लक्षणगमनानुपपत्तिरित्यभिप्रायेणाह-कथनस्योक्तस्यैवेति। पूर्वार्ध- स्यैवेत्यर्थः। अवश्यंभाविमरणं मरणाव्यभिचारित्वं विरहविशेषस्य वस्तुनो वैलक्ष- ण्यम्। अशक्येति। अवक्तव्यं वचनं यस्य तत्त्वम्। आदिना अतिप्रसिद्धत्व- परिग्रहः। दूतीत्वे यथार्थवादित्वं दूतीत्वे सत्यपि यथार्थवादित्वम्। दुःखस्य दूतीदुः- खस्य। न चाक्षेपालंकारघटकनिषेधो वास्तवनिषेध एव, न तु निषेधाभास इति वा- च्यम्। आक्षेपालंकारे निषेधाभासस्यैव वैचित्र्याधायकत्वाद् इत्यभिप्रायेणाह- नचेति। अयमाक्षेपालंकारघटकनिषेधः। प्रकारान्तरेणाक्षेपालंकारमाह-अनिष्ट- स्येति। परो निरुक्तरूपादन्य आक्षेप इत्यनुषज्यते। प्रस्खलद्रूपोऽत्यन्तमसंभवन् ।
१. 'प्रस्थानरूपः' क. २. 'दुरन्तचेष्टस्य। वर्षासु प्रियविच्छेदहेतुत्वाद् व्यवसायस्य निन्दा। कथ. नोक्तस्यैवेति। उक्तस्यैव सखीकान्तविरहकालयापनकारणजिज्ञासारूपवग्तुन- कथनस्य निषेध इत्यर्थः। अत्र तादृशजिज्ञासा मम दुःखातिशयं जनयतीति तन्निवेदनं न कार्यमिति सख्यन्तरापेक्षयास्य वैलक्षण्यं सूचितम् ।' इति पुस्तकान्तरे पाठः ३. 'दुःखस्य दूनीदुःखस्य' इति पुस्तकान्तरे नारित.
Page 596
दशम: परिच्छेद: । १४९ विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते ॥ ६६ ॥ उक्तानुक्तनिमित्तत्वाद्विधा सा परिकीर्तिता। विना कारणमुपनिबध्यमानोऽपि कार्योदयः किंचिदन्यत्कारणमपे- क्ष्यैव भवितुं युक्तः । तच्च कारणान्तरं क्वचिदुक्तं कचिदनुक्तमिति द्विधा। यथा- 'अनायासकृशं मध्यमशङ्कतरले हशौ। अभूषणमनोहारि वपुर्वयसि सुभ्रुवः ॥'
पाठेनुक्तम्। अत्र वयोरूपनिमित्तमुक्तम्। अन्रैव 'वपुर्भाति मृगीदृशः' इति
सति हेतौ फलाभावे विशेषोक्तिस्तथा द्विधा॥ ६७ ॥ तथेत्युक्तानुक्तनिमित्तत्वात्। तत्रोक्तनिमित्ता यथा- 'धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः । प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः ।।' अत्र महामहिमशालित्वं निमित्तमुक्तम्। अत्रैव चतुर्थपादे 'कि- यन्तः सन्ति भूतले' इति पाठे त्वनुक्तम्। अचिन्त्यनिमित्तत्वं चा- नुक्तनिमित्तस्यैव भेद इति पृथङ् नोक्तम्। यथा- 'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न हृतं बलम्।।' अत्र तनुहरणेनापि बलाहरणे निमित्तमचिन्त्यम्। इह च कार्या- भावः कार्यविरुद्धसद्भावमुखेनापि निबद्धयते। विभावनायामपि कारणा- भाव: कारणविरुद्धसद्भावमुखेने। एवं च 'यः कौमारहरः- इत्यादे- विभावनालंकारमाह-विभावनेति। हेतुं प्रसिद्धकारणम् । किंचिदप्रसिद्धम् । वयसि यौवने। 'वयः पक्षिणि बाल्यादौ वयो यौवनमात्रके' इति कोषः । विशे- षोत्तयलंकारमाह-सतीति। फलाभावे फलाभावकथने सति। अत्र निमित्तं फलाभावप्रयोजकमुत्कण्ठायाः कारणं नायकाद्यभावस्तद्विरुद्धो नायकादिः कार्यमुत्क- ण्ठाभाव:। कार्यकारणविरुद्धसद्भावमुखेन कार्याभावकारणाभावोक्तौ विशेषोक्तिवि- भावनयोः शुद्धोदाहरणे क्रमेण यथा-'धनिनोऽपि स्थिरखवान्ता यौवने धर्मत- 1. विभावनेति। विभाव्यते विचार्यते हेतुरस्यामिति विभावना। बाहुलकादधिकरणे युच् ॥ १. 'फलाभावो' क. २. 'अपि' घ.
Page 597
५५० साहित्य दर्पणे
रुत्कण्ठाकारणविरुद्धस्य निबन्धनाद्विभावना। 'यः कौमार-' इत्यादेः कारणस्य च कार्यविरुद्धाया उत्कण्ठाया निबन्धनाद्विशेषोक्तिः । एवं चात्र विभावनाविशेषोत्त्योः संकरः । शुद्धोदाहरणं तु मृग्यम् । जातिश्रतुर्भिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः। क्रिया क्रियाद्रव्याभ्यां यद्रव्यं द्रव्येण वा मिथः ॥ ६८ ॥ विरुद्धमेव भासेत विरोधोऽसौ दशाकृतिः। क्रमेण यथा- 'तव विरहे मलयमरुद्दवानलः शशिरुचोऽपि सोष्माणः । हृदयमलिरुतमपि भिन्ते नलिनीदलमपि निदाघरविरस्याः ॥' 'संततमुसलासङ्गाद्वहुतरगृहकर्मघटनया नृपते। द्विजपत्नीनां कठिना: सति भवति कराः सरोजसुकुमाराः ॥' 'अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । खपतो जागरूकस्य याथार्थ्य वेद कस्तव ।।' 'वल्लभोत्सङ्गसङ्गेन विना हरिणचक्षुषः । राका विभावरीजानिर्विषज्वालाकुलोऽभवत्।।' त्पराः। अनात्मश्लाघिनः शूरा भूपाला रघुवंशजाः ॥' अत्र स्थिरखान्तलमुन्मा- दविरुद्धं धर्मोपार्जनकारणं वार्धकं तद्विरुद्धं यौवनम् । विरोधालंकारमाह-जाति- रिति। जात्यादैरित्याद्यपदेन गुणक्रियाद्रव्याणां ग्रहणम्। गुणक्रियाद्रव्याणां जात्या सह विरोधस्तु गुणादिभिः सह जातिविरोध एवेति पृथङ् नोक्तः । विरुद्धमेवेति । क्वचिदारोपेण क्वचित्कविप्रौढोत्त्या क्वचित्कालभेदेन क्वचिदीश्वरादिमहिमातिशयेन समावेश लभमानैर्जात्यादिभिः सह जात्यादेर्यदापाततो विरोधभानं स विरोधालं- कार इति भावः । चतुर्भिः पादैर्जात्यादीनां चतुर्णो विरोधमाह-तवेति। गुणेन सह गुणविरोधमाह-संततेति। मुसलं धान्यकण्डनोपकरणम्। भवति लयि। भवता द्विजेभ्यस्तथा वित्तानि दत्तानि यथा तेषां दासीभिरेव कर्मकरणात्त- त्पत्नीनां कराः सुकुमारा जाता इत्यर्थः । अत्र काठिन्यकोमलत्वयोर्गुणयोरापाततो विरोधभानम् । समाधानं तु कालभेदेन। गुणस्य क्रियया विरोधमाह-अज- स्येति। खप्नस्य सिद्धा मनःसंयोगरूपतया गुणलम्। गुणस्य द्रव्येण सह विरोध- माह-वल्लभेति। राकाविभावरीजानिः पूर्णचन्द्रः। अत्र पूर्णचन्द्रेण द्रव्येण सह दाहजनकत्वस्य गुणस्य तादात्म्येनापाततो विरोवभानम्। विरहहेतुकत्वात्तु समाधा- 1. विरोध इति। अयमेव विरोधाभास इत्युच्यते। आ ईषद्भासत इत्याभासः, विरो- श्चासावाभासश्चेति। वस्तुतस्त्वयं जात्यादिभेदानामह्द्यत्वाच्छुद्धत्वश्रेषमूलत्वाभ्यां द्वि- विध इति सहृदयाः । तत्र श्रेषमूलो यथा विन्ध्याटवीवर्णने-'पुष्पवत्यपि पवित्रा' इति॥
Page 598
दशमः परिच्छेद:। ५५१
'नयनयुगासेचनकं मानसवृत्त्यापि दुष्प्रापम् । रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ।।' 'त्वद्वाजि-' इत्यादि, 'वल्लभोत्सङ्ग-' इत्यादिश्लोके चतुर्थपादे 'मध्यंदिनदिनाधिप' पाठे द्रव्ययोर्विरोधः । अत्र 'तव विरह- इत्यादौ पवनादीनां बहुव्यक्तिवाचकत्वाज्जातिशब्दानां दवानलोष्महृदयभेदन- सूर्यैर्जातिगुणक्रियाद्रव्यरूपैरन्योन्यं विरोधो मुखत आभासते। विर- हहेतुकत्वात्समाघानम्। अत्र 'अजस्य-' इत्यादावजत्वादिगुणस्य जन्मग्रहणादिक्कियया विरोधः । भगवतः प्रभावस्यातिशायित्वात्तु समा- धानम्। 'त्वद्वाजि-' इत्यादौ 'हरोऽपि शिरसा गङ्गां न धत्ते इति विरोधः । 'ववद्वाजि-' इत्यादिकविप्रौढोक्त्या तु समाधानम्। स्पष्ट- मन्यत्। विभावनायां कारणाभावेनोपनिबध्यमानत्वात्कार्यमेव बाध्य- त्वेन प्रतीयते। विशेषोक्तौ च कार्यभावेन कारणमेव। इह त्वन्योन्य द्वयोरपि वाध्यत्वमिति भेदः । नम्। क्रियायाः क्रियया सह विरोधमाह-नयनेति। व्याख्यातमिदं प्राकू। प्रहर्षजननक्रियया सह खेदजननक्रियया आपाततो विरोधभानम्। विरहहेतुकत्वात्तु समाधानम्। क्रियाया द्रव्येण सह विरोधमाह-त्वद्वाजीति। अत्र हरेण द्रव्येण सह गङ्गाधारणाभावक्रियायास्तादात्म्येनापाततो विरोधभानम्। द्रव्यस्य द्र- व्येण सह विरोधमाह-वल्लभेति। अन्र चन्द्रसूर्ययोर्द्रव्ययोस्तादात्म्येन विरोध- भानम्। जातिशब्दानामिति। प्रतिपाद्यतया जातीनां पवनत्वादीनामिति शेषः । यद्वा पवनादीनामिति धर्मपरो निर्देशः । पवनत्वादीनामिति तदर्थः । जातिः शब्दो येषाम्। दवानलेति। दवानलत्वेत्यर्थः । मुखतः प्रथमतः । विरहहेतुकत्वा- दिति। मलयमरुदादेर्विरहिणां संतापजनकत्वेन दावानलत्वाद्यारोपात्समावेश इति भावः। नन्वजत्वं जन्माभाव एव कथमस्य गुणत्वमिति चेत्, जातिक्रियाभिन्नाना विशेषणानामपि गुणत्वसीकारात्। विशेषोक्तौ चेति। कार्याभावेनोपनिबध्यमा- नत्वात्कारणमेव बाध्यत्वेन प्रतीयत इत्यन्वयः । इह त्विति। विरोधालंकारे त्वि- त्यर्थः। ननु 'मलयमरुद्वानल-' इत्यादौ रूपकमेवेति चेतू, न। सहानवस्थान- नियमरूप विरोधस्य पुरःस्फूर्तिकतया वैचित्र्याधायकत्वात्। असंगत्यलंकारमाह-
१- 'जन्म* क-पुस्तके नारित. २. 'त्वद्वाजि-' इत्यादि क-पुस्तके नास्ति. ३. मुद्रितपुस्तके तु 'त्वद्वाजिराजिनिर्धूतधूलीपटलपड्गिलाम्। न धत्ते शिरसा गङ्गां भूरिभारिया हरः ॥' इत्यत्र हरपदेन गङ्गाधरत्वानुपस्थितेरापाततो विरोधो न भासते। अत उत्तरार्धभेव पठनीयम्-'गङ्गां गङ्गाघरो धत्ते नातिभारेण मूर्धनि। एवमग्रे हरोऽपि गज्ञाधरोऽपीत्यर्थः ।' इति पाठः. ४. 'जातिः शब्दो येषाम् इति पुस्तकान्तरे नास्ति.
Page 599
५५२ साहित्यदर्पणे
कार्यकारणयोर्भिन्नदेशतायामसंगतिः॥६९॥ यथा- 'सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम्। साकान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजैनाश्रयैरपटवो जाताः स्म इत्यद्धुतम् ।।' अस्याश्रापवादकत्वादेकदेशस्थयोर्वि रोधे विरोघालंकारः ।
कार्यकारणयोरिति। भिन्नदेशतार्यां वैयधिकरण्ये। सा बालेति। सखायं प्रति नायिकामप्राप्य दुःखभाज उक्तिरियम् । अप्रगल्भमनसः कार्याकार्यावधारण- क्षमचेतसः । तस्या वालात्वेन मदुपभोगरूपकार्यावधारणाक्षमत्वं युक्तम्। मम तु तत्प्राह्युपायरूपकार्यावधारणाक्षमत्वमित्याश्चर्यत्वम्। कातराः सभयचेतसः । स्त्रीणां स्वाभाविकं भयम्, मम तु स्मरभयमिति भावः । स्मो वयम्। अत्र बालत्वा- दीनां कारणानां नायिकावृत्तित्वनप्रगल्भमनस्त्वादीनां कार्याणां नायकवृत्तित्वमिति वैयधिकरण्यम् । केचित्तु-'कार्यकारणभावयोर्धर्मयोरत्यन्तं भिन्नदेशतया युग- पदुत्पन्नत्वेन ख्यातिरसंगतिः । एकधर्मिण्यवच्छेदकभेदेन भिन्नदेशतावारणायात्यन्त- मिति। तेन 'दष्टो भुजङ्गेन पदेक्षिघूर्णना-' इत्यत्र नातिव्याप्तिः। दंशनघूर्णन- योरेकस्मिञ्शरीरे संगतिसत्त्वात्। कालभदेन तदुभयख्यातिवारणाय युगपदिति। तेन 'क्रियाशरीरेऽत्र परत्र भोगः' इत्यत्र नातिव्याप्तिः' इत्याहुः । तन्न। 'दन्त- क्षतं कपोले वध्वा वेदना सपत्नीनाम्' इत्यत्र खोक्तोदाहरणे बोधकाभावेन कार्यकारणयोर्युगपदुत्पन्नत्वख्यातिविरहात्। 'सा स्त्री वयं कातराः' इत्यत्र स्त्री- त्वस्य कारणत्वस्योत्पन्नत्वाभावादेव कार्योत्पत्तियुगपदुत्पन्नत्वख्यातिविरहात्। न च स्त्रीत्वस्योत्पन्नत्वमारोप्यमिति वाच्यम्। तस्य वैचित्र्यानावहत्वेन तदङ्गीकारस्यान्याय्य- त्वात्। 'दष्टो भुजगेन-' इत्यादौ युगपदुत्पन्नत्वख्यातिविरहादेवातिप्रसङ्गभङ्गेन तद्वारणार्थमुपात्तस्यात्यन्तपदस्यानर्थकत्वाच्च। अस्मन्मते तु कार्यकारणयोवैयवि- करण्यस्यैव यत्र विच्छित्तिविशेषजनकत्वं तत्रैव तस्यालंकारत्वसवीकारः । 'दष्टो भुजंगेन-' इत्यादौ कार्यकारणयोरवच्छेदकभदसत्वेऽप्यधिकरणस्यैकत्वेन वैयधि- करण्याभावात् 'क्रिया शरीरे-' इत्यादौ वैयधिकरण्यस्य सत्त्वेऽपि तस्य विच्छित्ति- विशेषानाधायकत्वादेव नातिप्रसङ्गः। ननु कार्यकारणयोः सहानवस्थानलक्षणो वि- रोधोऽत्रास्ति तस्यैवात्रालंकारत्वमास्तां किमधिककल्पनयेत्यत आह-अस्याश्चेति। कार्यकारणवैयधिकरण्यरूपाया असंगतेर्विलक्षणवैचित्र्याधायकत्वेन विशेषत्वात्। समानाधिकरणयोर्विरोधे विरोधालंकारस्य विषय इत्यर्थः । विषमालंकारमाह-
१. 'जना्रितैः' घ. २. 'विरोधे' इति क-पुस्तकें नास्ति.
Page 600
दशमः पारेच्छंद: । ५५३
गुणौ क्रिये वा चेत्स्यातां विरुद्धे हेतुकार्ययोः। यद्वारब्धस्य वैकेल्यमनर्थस्य च संभवः ॥७० ॥ विरूपयोः संघटना या च तद्विषमं मतम्। क्रमेण यथा- 'सदः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा। तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते ।।' अत्र कारणरूपासिलतायाः 'कारणगुणा हि कार्यगुणमारभन्ते' इति स्थितेर्विरुद्धा शुक्कयशस उत्पत्तिः । 'आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे॥' अत्रानन्दजनकस्त्रीरूपकारणात्तापजनकविरहोत्त्तिः । 'अयं रल्नाकरोऽम्भोधिरित्यसेवि धनाशया। धनं दूरेऽस्तु वदनमपूरि क्षारवारिभिः ॥' अत्र केवलं काङकितघनलाभो नाभूत, प्रत्युत क्षारवारिभिर्वदन- पूरणम्। 'क वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता। नियतं प्रतिकूलवर्तिनो बत धातुश्चरितं सुदुःसहम् ॥' अन्र वनराज्यश्रियोर्विरूपयोः संघटना। इदं मम। गुणाविति। कार्यकारणयोर्गुणौ विरुद्धौ करिये वा विरुद्धे यत्स्यातां तद्विषममित्य- ग्रेणान्वयः । वैकल्यमभिमतफलानव्याप्तिः। अनर्थस्य अनिष्टफलस्य। विरूपयोरेकत्र वस्तुन्यत्यन्तमसंभवतोः संघटनं मेलनम्। कार्यकारणयोर्गुणविरोधमाह-सद्य इति। कारणगुणा इति। यद्यप्यवय विरूपकार्यगुणक्रिययोरेकावयवरूपकारण- गुणक्रियाजन्यत्वनियमस्तथापि तत्र तथा दर्शनादन्यत्रापि तथातं कविसृष्टौ क- ल्प्यत इति नानुपपत्तिरिति भावः । कार्यकारणयोः क्रियाविरोधमाह-आन- न्दमिति। नायिकां प्रति नायकस्योकतिरियम्। अत्र कारणस्य नायिकायाः क्रिया आनन्ददानं नायिकाकार्यस्य विरहस्य क्रिया शरीरतापनं तद्विरुद्धम्। यद्यप्यान- न्दतापौ गुणौ तथाप्यत्र द्वयोर्धालवर्थघटकत्वेन क्रियात्वेनैव व्यवहारः। तृतीयं प्रकारमाह-अयमिति। अन्न समुद्रसेवया धनप्राप्तिरूपफलस्यानवाप्तिः। क्षार- वारिभिर्वदनपूरणस्यानिष्टस्य प्राप्तिः। सेव्यस्यानभीष्टसंपादकल्वातिशयं स्वस्य दुर- दृष्टातिशयं वा व्यज्ञयति। चतुर्थ प्रकारमाह-क्व वनमिति। अत्रैकम्मिन्वस्तुनि १. 'यत्' घ. २. 'वैकल्पं' घ. सा० द० ४७
Page 601
५५४ साहित्यदपेणे
यथा वा- 'विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये। मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ।' समं स्यादानुरुप्येण श्राघा योग्यस्य वस्तुनः ॥ ७१॥ यथा- 'शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जहुकन्यावतीर्णा। इति समगुणयोगप्रीतयस्तत्र पौरा: श्रवणकटु नृपाणामेकवाक्यं विवन्रुः ।'
श्रीरामेऽत्यन्तमसंभवतोर्वनवासराजश्रीलाभयोर्मेलनं वस्तुतस्तदानीं श्रीरामस्य राज- श्रीलाभ एव नास्तीति न विरुद्धयोः संघटनम्, किंतु दशरथप्रयत्नस्य रामस्य राज्य- लाभरूपफलानव्याप्तिः प्रत्युतानिष्टस्य रामवनवासस्य संभव इति तृतीयप्रकार एवेदं पर्यवस्यति। एवंच 'शरीरादपि मृद्धङ्गी केयमायतलोचना। अयं क्व च कुकूला- ग्निकर्कशो मदनानलः ॥l' इत्युदाहरणमस्य वेदितव्यम्। अन्नाङ्गमार्दवमदनानल- सहनयोरेकत्र नायिकायां मेलनम्। विपुलेनेत्यादयुक्त्वेत्यादावपि विषमत्वं यथायोग- मनुगन्तव्यमिति काव्यप्रकाशोक्तं चतुर्थप्रकार एव संगमयति-यथा वेति। वि- पुलेनेति। सागरशयस्य श्रीकृष्णस्य। मदविभ्रमेण असकलया कटाक्षरूपया पपे पीतः। कटाक्षेण सर्वाङ्गीणं दृष्ट इत्यर्थः। यत्र यदेकदेशेन कुक्षिणा जगत्पीयते स पुन- श्वक्षुरेकदेशेन स्तिरिया पीयत इति विरूपयोर्मेलनम्। चतुर्थः प्रकारः क्वद्वयप्रयोग एव संभवतीति वदन्तः केचिदेतदवयव्यवयवयोः कार्यकारणयोः क्रियाविरोधोदाहरण- मेतद्वदन्ति। तथाहि-कुक्षिरवयवः कारणं तत्कर्तृका भुवनपानक्रिया कुक्षिकार्य- स्यावयविनः सागरशयस्य कर्मतासंबन्धेन पानक्रियया विरुध्यते। भुवनपातृकुक्षि- मतः कटाक्षपेयत्वस्य विरुद्धतया भानादिति, तन्न। प्रेमाणान्तरवेद्यस्य हेतुहेतु- मद्भावस्यात्र बोधाभावेनाप्रत्ययात्। धारणदर्शनरूपयोः पानयोः खतो विरोधाभा- वादू उपदर्शितविरोधस्य क्रियागतलाभावेन प्रकृतानुपयोगिताच्च। समालंकार- माह-समं स्यादिति! आनुरूप्येण योग्यकर्मणा। श्ाघा प्रशंसा। शशिनमिति। 1. सममिति। सह तुल्यतया मीयते इति समम् ॥
१. 'कृष्णशरीरस्य जन्यत्वाङ्गीकारेऽपि जगत्पातृकुक्षेस्तदजनकत्वात् 'योगेश्वर ततो मे त्वं दर्शया- त्मानमव्ययम्' इत्युपक्रम्याभिहितेन 'लेलिहसे ग्रसमान: समन्ताह्लोकान्समग्रान्वदनैर्ज्वलन्निः' इत्यनेन जगत्पालनकर्तुरीश्वरदेहस्य नित्यत्वाभिधानात्' इति पुस्तकान्तरे पाठ:।
Page 602
दशमः परिच्छेद:। ५५५
विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत्। यथा- 'प्रणमत्युन्नति हेतोजीवितहेतोर्विमुञ्चति प्राणान्। दुःखीयति सुखहेतोः को मूढः सेवकादन्यः॥' आश्रयाश्रयिणोरेकस्याधिक्येऽधिकमुच्यते॥ ७२॥ आश्रयाधिक्ये यथा- 'किमधिकमस्य ब्रूमो महिमानं वारिधेर्हरिर्यत्र। अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि ।।' आश्रिताधिक्ये यथा- 'युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत। तनौ ममुस्तन्र न कैटभद्विष- स्तपोधनाभ्यागमसंभवा मुदः ।।' अन्योन्यमुभयोरेकक्रियायाः कारणं मिथः। इयमिन्दुमती कौमुदी अनुरूपमजं शशिनमुपगतेत्यर्थः । एवमग्रेऽपि । समगुण- योर्योगेन प्रीतिर्येषां ते तथा। नृपाणामिन्दुमतीलिप्सया समागतानामजेतरराजा- नाम्। विवन्रुः कथयामासु: । विचित्रालंकारमाह-विचित्रमिति। तद्विरु- द्धस्य इष्टविरुद्धस्य। प्रणमति अपकृष्टो भवति। उन्नतिरुत्कर्षः । जीवितं प्राणरक्षा। दुःखीयति दुःखमिच्छति। अधिकालंकारमाह-आश्रयेति। एकस्याश्रयस्य आ- श्रयिणो वा आधिक्ये महत्त्वातिशये। प्रतिपादे इति शेषः । अज्ञात एवेति। एकदेश एव शयनात्समुद्रस्थैः सर्वेः सत्त्वैन ज्ञायत इत्यर्थः । अत्र 'कुक्षौ निक्षिप्य' इत्यनेन हरेर्महत्त्वमवगम्यते, समुद्रैकदेशे तच्छयनेनाश्रयस्य समुद्रस्यातिशयमहत्त्त्वं व्यज्यते। युगान्तेति। नारदागमे श्रीकृष्णस्य हर्षांतिशयवर्णनमिदम्। युगा- न्तकाले प्रलयसभये प्रतिसंहता: खोदर प्रवेशिता आत्मानः समस्तप्राणिनो येन तस्य कैटभद्विषः श्रीकृष्णस्य यस्यां तनौ जगन्ति सविकासमयन्त्रणं यथा स्यात्तथा आसत तस्यां तनौ तपोधनस्य नारदस्य अभ्यागमसंभवा मुदो न ममुर्नावकाशं प्राप्ताः। अन्न 'जगन्ति' इत्यादिना श्रीकृष्णतनोराश्रयस्याधिक्यमुक्तम्। तत्राव- काशालाभादाश्रितानां मुदामतिमहत्त्वं व्यज्यते। अन्योन्यालंकारमाह-अन्योन्य- मिति । अन्र चेदित्यनुषज्यते। उभयोरेकजातीययोः क्रिययोर्मिथः परस्परं
१. 'जीवन' कख-ग-घ. २. 'संभृताः' घ.
Page 603
५५६ साहित्यदर्पणे
'त्वया सा शोभते तन्वी तया त्वमपि शोभसे। रजन्या शोभते चन्द्रश्चन्द्रेणापि निशीथिनी।' यदाधेयमनाधारमेकं चानेकगोचरम् ॥ ७३ ॥ किंचित्प्रकुर्वतः कार्यमशक्यस्येतरस्य वा। कार्यस्य करणं दैवाद्विशेषस्त्रिविधस्ततः ॥ ७४॥ क्रमेण यथा- 'दिवमप्युपयातानामाकल्पमनल्पगुणा येषाम्। रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्दाः ॥' 'कानने सरिदुद्देशे गिरीणामपि कंदरे। पश्यन्त्यन्तकसंकाशं त्वामेकं रिपवः पुरः ॥' 'गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ। करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ।।' चेत्करणं तदान्योन्यनामालंकारो भवतीत्यर्थः। त्वया सेति। अत्र परस्परशो- भयोः परस्परकारणम्। क्रियापदं गुणस्याप्युपलक्षणम्। तेन 'निशया रुचिरश्चन्द्र- श्रन्द्रेण रुचिरा निशा' इत्यत्राप्ययमलंकारः । 'दुदोह गां स यज्ञाय सस्याय मघवा दिवम्' इत्यादिव्यावृत्तये 'उभयोः' इति । अत्र सवं सं दोहनं प्रत्येव सं सं कारणं न तु परस्परस्य दोहनं प्रति परस्परं कारणम्। अत्र कारणयोः क्रिययोश्र श- व्दैक्यं वैचित्यपरिपोषकमेव, न तु नियामकम्। तेन 'नलेन भायाः शशिना निशेव खया सभाया निशया शशीव' इत्यादौ शब्दभेदेऽप्ययमलंकारः । विशेषालंकार- माह-यदाधेयमिति। यच्छब्दो यदार्थः। इतरस्य शक्यस्य कार्यस्य अप्रक्रा- न्तस्य करणमुत्पत्तिरदेवात्प्रतिसंधानं बिना। दिवमपीति। अनल्पो गुणानां माधुर्यादीनां गुणो यासां ताः । अत्र निर्मातृत्वेन प्रसिद्धाधारान्कवीन् विनापि काव्यरूपाणां गिरां स्थितिः । कानन इति। अत्र भावनातिशयेनैकेनैव स्वभावेन काननादावनेकत्र युष्मत्पदार्थस्य युगपत्स्थितिः। पर्यायालंकारलक्षणे क्रमादित्यस्यो- पादानादत्र परिशेषाद् युगपदित्यस्य लाभः। गृहिणीति। इन्दुमत्या मरणे तत्पत्यु- रजस्यायं विलापः । गृहिणी हृतेत्यन्वयः। एवमन्यत्रापि। लमेव गृहिण्यादि सर्वमिति भावः। इष्टोपदेशकत्वात्सचिवः। मिथो रहसि समीहितसाधकत्वात्सखी। ललिते कला विधौ सुरते। नन्विन्दुमतीहरणमेव सचिवादिहरणं तच्चैकमेव कार्य कथमत्र
- यदिति। आधारमन्तरेणाधेयं न वर्तत इति स्थितावपि यस्तत्परिहारेणाधेयस्यो- पनिबन्धः स एको विशेषः । यच्चैकं वस्तु परिमितं युगपदनेकधा वर्तमानं क्रियते स द्वितीयः । यत्कंचिदारभमाणस्यासंभाव्यवस्त्वन्तरकरणं स तृतीय इति॥
Page 604
दशमः परिच्छेदः । ५५७
व्याघातः स तु केनापि वस्तु येन यथाकृतम्। तेनैव चेदुपायेन कुरुतेऽन्यस्तदन्यथा॥ ७५॥ यथा-'दशा दग्वं मनसिजं- इत्यादि। सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि। व्याघात इत्येव। 'इहैव त्वं तिष्ठ द्रुतमहमहोभिः कतिपयैः समागन्ता कान्ते मृदुरसि न चायाससहना। मृदुत्वं मे हेतुः सुभग भवता गन्तुमधिकं न मृद्धी सोढा यद्विरहकृतमायासमसमम् ॥' अत्र नायकेन नायिकाया मृदुत्वं सहगमनाभावहेतुत्वेनोक्तम् । नायिकया च प्रत्युत सहगमने ततोऽपि सौकर्येण हेतुतयोपन्यस्तम्। परं परं प्रति यदा पूर्वपूर्वस्य हेतुता ॥ ७६ ॥ तदा कारणमाला सात् यथा- 'श्रुतं कृतधियां सङ्गाज्जायते विनयः श्रुतात्। लोकानुरागो विनयान्न किं लोकानुरागतः ।।'
कार्यान्तरोत्पत्तिरिति चेत्, सचिवादिहरणे तात्पर्यात्। व्याघातालंकारमाह-व्या- घात इति। येनोपायेन यथा यत्प्रकारं कृतं तदन्यथा तद्विरुद्धप्रकारमित्यर्थः । हशा दग्धमिति। हरस्य दृशेत्यर्थः । दृशैवेति। कटाक्षरूपया दृशेत्यर्थः । इत्थं क्रियया जयमुक्त्वा रूपेणापि जयमाह-विरूपाक्षस्येति। विरूपमसुन्दरं त्रि- खाल्लोचनानां वामं सुन्दरमतो जय इत्यर्थः । अत्र दृगुपायेन हरेण साधितस्य दाहस्य दृगुपायेनैव वामलोचनादिभिरन्यथाकरणम्। प्रकारान्तरेणापि व्याघातमाह-सौ- कर्येणति। क्रियते कथ्यते। केनापि येनोपायेन तत्कार्यमुच्यते, तदन्येन तेनैवो- पायेन सौकर्येण तद्विरुद्धं कार्य यद्युच्यते तदा व्याघात इति तात्पर्यार्थः । इहैवेति। खमिहैव तिष्ठ, न तु मया सह गच्छ, अधिकं मृदुतमित्यन्वयः। असममतुलम्। कारणमालालंकारमाह-परं परमिति। पूर्वपूर्वस्य कार्यस्य। श्रुतमिति। अध्य- 1. व्याघात इति। यं कंचिदुपायविशेषमवलम्ब्य केनचिद्यन्निष्पादितं तत्ततोऽन्येन केनचित्तत्प्रतिद्वन्द्विना तेनैवोपायविशेषेण यदन्यथा क्रियते स निष्पादितवस्तुव्याहतिहे- तुत्वाद् व्याघातः।। 2. कारणति। अत्र यद्यपि कार्याणामपि माला विद्यते तथापि कारणगुणवर्णनमेव कविसंरम्भ इति 'विवक्षापूर्विका हि शब्दार्थप्रतिपत्तिः' इति न्यायेन कारणमालेत्यभिधानम्।
Page 605
५५८ साहित्यदर्पणे
तन्मालादीपकं पुनः। धर्मिणामेकधर्मेण संबन्धो यद्यथोत्तरम्।७७॥ यथा- 'ह्वयि संगरसंप्राप्ते धनुषासादिताः शराः । शरैररिशिरस्तेन भूस्तया त्वं त्वया यशः ॥' अत्रासादनक्रिया धर्मः । पूर्व पूर्व प्रति विशेषणत्वेन परं परम्। स्थाप्यतेऽपोह्यते वा चेत्सात्तदैकावली द्विधा॥७८॥। क्रमेणोदाहरणम्- 'सरो विकसिताम्भोजमम्भोजं भृङ्गसंगतम्। भृङ्गा यत्र ससंगीता: संगीतं सस्मरोदयम् ।।' 'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषद्दम्। न षट्दोडसौ न जुगुञ्ज यः कलं न गुज्जितं तन्न जहार यन्मनः ॥'
यनमित्यर्थः । कृतधियां पण्डितानाम्। मालादीपकालंकारमाह-तन्मालादीपक- मिति। त्वयीति। तेन अरिशिरसा। तया भुवा। एकावल्यलंकारमाह-परं परमिति। यद्विशेष्यं अपोह्यते निषिध्यते। अत्र शरदि। अत्राम्भोजमृङ्गसङ्गी- तानि उत्तरोत्तरत्र विशेष्याणि पूर्वपूर्वेषु सरोऽम्भोजमृङ्गेषु विशेषणत्वेनोपन्यस्तानि। अपोहने लाह-न तज्जलमिति। अत्र पङ्कजषद्ृदगुज्जितान्युत्तरोत्तरविशेष्याणि पूर्वपूर्वेषु जलपङ्कजषद्देषु विशेषणत्वेनापोहितानि। प्रकारान्तरेणाप्येकावल्यलंकार-
- मालेति। यथा मालायां पूर्वपूर्वग्रथितपुष्पाणामुत्तरोत्तरधारणादुपकारकत्वं तद्वद- त्रापि मालारूपतेति तत्वम्। अप्पयदीक्षितैः पुनरेवमवादि-'वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः। मदेन भाति कलभः प्रतापेन महीपतिः ॥ त्रिविधं दीपकावृत्तौ भवेदावृ- त्तिदीपकम्। वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी॥ उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः । माद्यन्ति चातकास्तृप्ता मादयन्ति च शिखावलाः ॥' इति। इह देहलीदी- पन्यायेनानेकोपकारस्य पदस्यार्थस्योभयोर्वावृत्तौ क्रमेणोदाहरणानि॥ 2. त्वयीति। 'संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्। कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ।।' इति प्रकाश उदाहृतश्च श्रोको वासवदत्तागद्यानु- रूप: ॥ 3. एकावलीति। एकावली हारविशेषस्तत्सदृशत्वादित्याशाधरः॥
Page 606
दशम: परिच्छेदः । ५५९
श्यते। यथा- क्वचिद्विशेष्यमपि यथोत्तरं विशेषणतया स्थापितमपोहितं च ह-
'वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वापीषु। कमलेषु पतन्त्यलयः करोति संगीतमलिषु पद्म् ।।' एवमपोहनेऽपि। उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते। यथा- 'राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम्। सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वसम् ।।' माह-क्वचिदिति। एवमपोहनेऽपीति। 'पुण्यक्षेत्रं न सर्वत्र पुण्यक्षेत्रे न नास्तिकाः । नास्तिकेषु न धर्मोऽस्ति न धर्मे दुःखहेतुता ।।' अन्र पूर्वपूर्वेषु वि- शेष्याः पुण्यक्षेत्रनास्तिकधर्माः । परपरेषु नास्तिकधर्मदुःखहेतुतासु विशेषणत्वेनापो- हिताः। सारालंकारमाह-उत्तरोत्तरमिति। वस्तुनो विशेषस्य उत्तरोत्तरमुत्कर्षः सार उच्यत इत्यर्थः । केचित्तु 'आश्लोकसमापनमुत्तरोत्तरोत्कर्षेणायमलंकारो भवति, तथात्व एव वैचित्र्यविशेषप्रतीतेः' इत्याहुः, तन्न । 'लोकस्रजि दयौर्दिवि चादितेया अप्यादितेयेषु महान्महेन्द्रः। किं कर्तुमर्थीयति सोऽपि रागाज्जागर्ति कक्षा किमतः परा ते ॥' इत्यादौ श्लोकार्धसमाप्तिपर्यन्तमुत्कर्षसत्त्वेनाप्यस्यालंकारस्य संभवात्। राज्यं राज्याङ्कं तत्र वसुधा सारं तत्र सौधमट्टालिकागृहं सारं सौधवर्तिनि तल्पं सारं शय्यावर्तिनि अनङ्गसर्वसवं वराङ्गना सारेत्यर्थः । सर्वत्र निर्धारणे सप्तमी। एतदनुरो- धेनैव राज्यादिपदानां मुख्यार्थपरित्यागः। तदुपादाने तु सामान्यविशेषभावाभावा- ननिर्धारणे सप्तमी न स्यात्। नहि भवति घटेषु पटः सुन्दर इति। अत्र क्ीबाक्की बयोः क्वीबः स चैकवद्वेति एकशेषेण क्ीबत्मुपपन्नम्। यद्वा राज्ये वसुधा सारं वस्तित्यर्थः । अथवा राज्ये वसुधासारं धनं तद्वदुपादेयमित्यर्थः । तथा च मेदिनी- 'सारो बले स्थिरांशे च यज्ञे पुंसि धने जले। न्याय्ये कीबं त्रिषु वरे' इति। केचित्तु 'राज्ये राजतविषये यानि वस्तूनि तेषु वसुधा सारम्। वसुधायामित्यादावधिकरणे सप्तमी। वसुधायां यानि वस्तूनि सन्ति तेषु पुरं सारम्। एवमग्रेऽपि। सर्वत्र ते- ष्विति निर्धारणे सप्तमी। राजत्वस्याधिकरणत्ासंभवाद्विषयत्वविवक्षा। राज्यवसुधा दीनां सामान्यविशेषभावाभावेन निर्धारणासंभवात् यानीत्यादेरध्याहारः। सारस्य रू. पस्य विशेषणताभावान्न स्त्रीलादि' इत्याहुः, तन्न। धर्मे वेदा इतिवद् राज्ये वसुधेत्यत्र वसुधायाः प्रतिपादकलवाभावेन राज्यतस्य प्रतिपाद्यत्रूपविषयत्वासंभवात् यानीत्य- ध्याहारेण न्यूनपदलदोषप्रसङ्गात् सारस्य विशेषणतं विनोत्कर्षप्रतीतेः सामानाधि- करण्येन विशेषणविशेष्ययो रूप्यरूपकभावसंभवाच्च। नहि भवति चन्द्रः सुन्दरमिति। 1. सार इति। अयमलंकारसर्वस्वकृतोदारनाम्ना व्यवहृतः।
Page 607
५६० साहित्यदर्पणे
यथासंख्यमनूद्देश उद्दिष्टानां क्रमेण यत्।। ७९॥ यथा- 'उन्मीलन्ति नखैर्लुनीहि वहति क्षौमान्चलेनावृणु कीडाकाननमाविशन्ति वलयक्काणैः समुत्रासय। इत्थं वञ्लुलदक्षिणानिलकुहूकण्ठेषु सांकेतिक- व्याहारा: सुभग त्वदीयविरहे तस्याः सखीनां मिथः ॥' क्चिदेकमनेकस्मिन्ननेकं चैकगं क्रमात्। भवति क्रियते वा चेत्तदा पर्याय इष्यते॥ ८० ॥ क्रमेण यथा- 'स्थिता: क्षणं पक्ष्मसु ताडिताघराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे क्रमेण नाभिं प्रथमोदबिन्दवः ।।' 'विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः। वृक्कालशिवास्तत्र धावन्त्यरिपुरे तव ।।'
यदि सारपदस्य धनपरत्वं विवक्ष्यते तदा रूप्यरूपकभावः संभवति। उत्कर्षप्रतीतिस्तु व्यञ्जनयैवेति ध्येयम्। यथासंख्यालंकारमाह-उद्दिष्टानामिति। अनुद्देशः पश्चा- दुद्देशः। बहुत्वमत्राविवक्षितम्। तेन 'ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ। पीतनीलाम्बरधरौ शरदम्बुरुहेक्षणौ II' इत्यादावप्ययमलंकारः । उन्मीलन्तीति। प्रोषितं प्रति तहृहृागतस्य कस्यचिदुक्तिरियम्। उन्मीलन्ति स्फुटन्ति। वञ्जला इति कर्तृपदं संकेतगम्यम्। उुनीहि वज्जलमुकुलानीति कर्मपदं संकेतगम्यम् । वहति दक्षिणानिल इति संकेतगम्यम्। आवृणुत इति संकेत्यम्। आविशन्ति कुहूकण्ठा इति संकेत्यम्। समुत्रासय तानिति संकेत्यम्। वञ्जुलादीनां नामग्रहणे नायि- काया विरहपीडातिशयो भवतीति तत्सखीनामयं साकेतिको व्यवहारः । संके- तश्चात्र योग्यकर्त्राद्यध्याहारः। पर्यायालंकारमाह-क्वचिदेकमिति। भवति खयं भवति। क्रियते परेण क्रियते। स्थिता क्षणमिति। तस्या: पार्वत्याः। तत्र प्रथ- मोदबिन्दुरूपमेकं वस्तु पक्ष्मादावनेकत्र क्रमेण सयं भवति। अनेकस्यैकत्र भवन- मुंदाहरति-विचरन्तीति। अत्रैकस्मिन्रिपुरे विलासिनीनां वृकादीना चानेकानां
- यथासंख्यमिति। ऊर्ध्वै निर्दिष्टा उद्दिष्टाः पश्चान्निर्देशोऽनूद्देशः । ऊर्ध्व निर्दिष्टा- नामर्थानां पश्चान्निर्दिष्टैरथैः क्रमेण संबन्धो यथासंख्यमिति वाक्यार्थः। वामनादयस्त्विम- मलंकारं क्रमसंज्ञयाभिदधिरे। यदाहुः-'उपमेयोपमानानां क्रमसंबन्धः क्रमः' इति॥
Page 608
दशम: परिच्छेद: ५६१
'विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागादरुणाच्च कन्दुकात्। कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥' 'ययोरारोपितस्तारो हारस्तेऽरिवधूजनैः । निधीयन्ते तयो: स्थूला: स्तनयोरश्रुबिन्दवः॥' एषु च क्वचिदाधारः संहतरूपोऽसंहृतरूपश्च। क्वचिदाघेयमपि। यथा-'स्थिताः क्षणं-' इत्यत्रोदबिन्दवः पक्ष्मादावसंहतरूप आधारे क्रमेणाभवन्। 'विचरन्ति-' इत्यत्राधेयभूता वृकादयः संहतरूपारि- पुरे क्रमेणाभवन्। एवमन्यत्। अत्र चैकस्यानेकत्र क्रमेणैव वृत्तेर्विशे- षालंकारादू भेदः । विनिमयाभावात्परिवृत्तेः । पेरिवृत्तिर्विनिमयः समन्यूनाधिकैर्भवेत्। क्रमेणोदाहरणम्- 'दत्वा कटाक्षमेणाक्षी जग्राह हृदयं मम । मया तु हृदयं दत्वा गृहीतो मदनज्वरः ॥।' अत्र प्रथमेडर्घे समेन, द्वितीयेडर्घे न्यूनेन। 'तस्य च प्रवयसो जटायुषः स्वर्गिण: किमिव शोच्यतेडधुना। (केषां) क्रमेण भवनम्। एकस्यानेकत्र करणमुदाहरति-विसृष्टरागादिति।अ- त्रैकः करस्तपसः पूर्वे रागदानार्थमधरे कीडार्थ कन्दुके कृतः। तपःकाले तु कुशाङ्ग- रेऽक्षसूत्रे च कृत इत्ययं क्रमः। अनेकस्यैकत्र करणमाह-ययोरिति। तारः शुद्धमुक्ताघटितः । अत्रैकस्मिन्स्तने पतिसत्त्वे हारस्य तदसत्त्वेऽश्रुबिन्दूनां करणम् । क्वचिदाधेयमपीति। संहतरूपमसंहतरूपं चेत्यर्थः । ननु द्विविधोऽत्र पर्यायः परिवृत्त्यभिन्न एव पूर्वत्र त्यक्त्तग्रहणरूपत्वेन परत्रैकवस्तुत्यागानन्तरापरवस्तुग्रहणरू- पत्वेन परिवृत्तिसंभवादत आह-विनिमयाभावादिति। एकवस्तुत्यागोपाधिका- परवस्तूपादानरूपस्य विनिमयस्याभावादित्यर्थः । परिवृत्तेर्भेद इत्यन्वयः। तथा च पू- र्वत्र वस्तुभेदाभावादपरत्रापरवस्तूपादानं प्रत्यन्यवस्तुत्यागस्य नियमाभावात्पर्यायद्वये परिवृत्त्यभेदसंभावना नास्तीति भावः । परिवृत्त्यलंकारमाह-परिवृत्तिरिति। समेनेति। दयोरेवोपादेयलात्समत्वम्। ज्वरस्य भयहेतुत्वान्न्यूनलम्। परिसंख्या- 1. परिवृत्तिरिति। विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम्॥
Page 609
५६२ साहित्यदर्पणे
येन जर्जरकलेवरव्यया- त्क्रीतमिन्दुकिरणोज्ज्वलं यशः ॥' अत्राधिक्येन। प्रश्नादप्रश्नतो वापि कथिताद्वस्तुनो भवेत् ॥ ८१॥ तादृगन्यव्यपोहश्रेच्छाब्द आर्थोऽथवा तदा। परिसंख्या क्रमेणोदाहरणम्- 'किं भूषणं सुदृढमत्र यशो न रल्नं किं कार्यमार्यचरितं सुकृतं न दोषः। किं चक्षुरप्रतिहतं घिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम्॥।' अत्र व्यवच्छेद्यं रलनादि शान्दम्।
लंकारमाह-प्रश्नादिति। कथिताद् उपादेयत्वेन निर्णीयोक्तात। तादृगिति। कथितसदृशेत्यर्थः । व्यपोहो निषेधः । अत्र वाच्यव्यपोह्यां प्रश्नपरिसंख्यामाह- किमिति। भूषणमत्युत्कर्षप्रयोजकम्। सुदृढं स्थिरतरम्। रत्नस्य भङ्गापहरणादिस- त्वान्न तथात्वम्। आर्येर्मन्वादिभिश्चरितं सुकृतं पुण्यजनकं तपस्यादि, न दोष: पाप- जनकः परदारगमनादिः। किमप्रतिहतं चक्षुरुत्कृष्टज्ञानसाधनं धिषणा मनो न नेत्रम्। तस्यावकरप्रतिहन्यमानत्वात्। जानातीति। प्रत्युत्तरपरितुष्टस्य प्रश्नकर्तुः प्रत्युत्तर- यितृप्रशंसेयम्। यैद्वा खस्यैवोत्तरमभिप्रेत्य प्रश्नान्तरमाह-जानातीति। सदसद्वि- वेकं को जानातीति प्रश्नः। तदभिप्रायबोधेन रुष्टस्योत्तरमिदम्-त्वदपर इति। त्वं तुन जानासीत्यर्थव्यपोहोत बोध्यः । केचित्तु 'तदपरः' इति पाठं कल्पयित्वा 'घिषणातोऽपरः' इति व्याचक्षते, तैन्न। धिषणाप्रशंसायां जानातीत्यन्वयापत्तेः।
- परिसंख्येति। परिशब्दोऽत्र वर्जनार्थकः। 'परेर्वर्जने' इति पाणिनिसूत्रात्। संख्या बुद्धि: । 'यत्सांख्यैः प्राप्यते स्थानम्' इति भगवद्वचनात्। तेन वर्जनबुद्धि: परिसंख्येत्य- न्वर्थमभिधानम्। सा चैषा प्रश्नपूर्विका अप्रश्नपूर्विकेति द्विविधा। प्रत्येकं च पुनः शाब्द- त्वार्थत्वाभ्यां द्विविधेति चतुविधा। यत्र कविप्रतिभोत्थापितेतरव्यावृत्तिस्तत्रैवालंकार- विषयः । तेन 'पञ्च पञ्चनखा भक्ष्या धर्मतः परिकीर्तिताः। गोधा कूर्मः शशः खङ्गी शल्य- कश्चेति ते स्मृताः ॥' इत्यादिशास्त्रीयपरिसंख्यायां नालंकारतेत्यन्यत्र विस्तरः ॥
१. 'तद्परः' घ. २. 'यद्वा-' इत्यादि: '-बोध्यः' इत्यन्तः पाठः पुस्तकान्तरे नासिति ३. 'तत्र' इति पुस्तकान्तरे नास्ति.
Page 610
दशमः परिच्छेदः। ५६३
'किमाराध्यं सदा पुण्यं कश्च सेव्यः सदागमः । को ध्येयो भगवान्विष्णुः किं काम्यं परमं पदम् ।।' अत्र व्यवच्छेद्यं पापाद्यार्थम्। अनयोः प्रश्नपूर्वकत्वम्। अप्रश्नपूर्वकत्वे यथा- 'भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्तरे। चिन्ता यशसि न वपुषि प्रायः परिद्ृश्यते महताम् ।' 'बलमार्तभयोपशान्तये विदुषां संमतये बहु श्रतम्। वसु तस्य न केवलं विभोर्गुणवत्तापि परप्रयोजनम् ।।' श्लेषमूलत्वे चास्य वैचित्र्यविशेषो यथा- 'यसि्मिंश्व राजनि जितजगति पालयति महीं चित्रकर्मसु वर्णसंकरा- श्वापेषु गुणच्छेदाः-' इत्यादि। उत्तरं प्रश्नस्योत्तरादुन्नयो यदि ॥ ८२ ॥ यच्चासकृदसंभाव्यं सत्यपि प्रश्न उत्तरम्। यथा मम- 'वीक्षितुं न क्षमा श्वश्रूः खामी दूरतरं गतः । अहमेकाकिनी बाला तवेह वसतिः कुतः ॥' अनेन पथिकस्य वसतियाचनं प्रतीयते। प्रतीयमानव्यपोह्यां प्रश्नपरिसंख्यामाह-किमाराध्यमिति। कार्यमित्यर्थः। पुण्यं कार्ये न पापं, नरकसाधनत्वात्। सत्समागमः, सेव्यो नासत्समागमः, पापसाधन- त्वात्। विष्णुर्ध्येयो न धनं, भयप्रमादादिसाधनत्वात्। वाच्यव्यपोह्यामप्रश्नपरिसं- ख्यामाह-भक्तिरिति। व्यसनमनुशीलनम्। युवतिरूपकामास्त्रे। प्रतीयमानव्य- पोह्यामप्रश्नपरिसंख्यामाह-आर्तभयोपशान्तये, न परपीडनाय। संमतये सम्य- ग्ज्ञानाय, न विवादाय। श्रुतमध्ययनम्। तस्य दशरथस्य। चित्रकर्मसु न मनुष्येषु। वर्णानां शुक्कादिद्रव्याणां विप्रादीनां च संकरो मेलकः। चापेषु न जनेषु गुणस्य मौ- र्व्याश्छेदो द्वैधीभवनमथ च गुणस्य विद्यादेश्छेदो विरहः। उत्तरालंकारमाह-उत्त- रमिति। उन्नयः प्रणीयमानत्वम्। असकृदिति प्रश्ने उत्तरे चान्वेति। असंभाव्यं 1. उत्तरमिति। प्रश्नेऽ्सति यद्युत्तरात्प्रश्नस्योन्नयः कल्पनं तदेकमुत्तरम्। अपि चास- कृत्प्रश्ने सति यदसंभाव्यं संभावयितुमशक्यमसकृदुत्तरं प्रतिवचनं तत्पुनरपरसुत्तरमिति योजना। अयं चोत्तरालंकारो द्विविधोऽपि प्रश्नोत्तरयोरन्यतरस्योभयोश्च साभिप्रायत्वेन निरभिप्रायत्वेन च चतुर्विध इत्यष्टधा।। १ 'जितजगति' इति क-ख-पुस्तकयोर्नास्ति.
Page 612
दशमः परिच्छेदः । ५६५
'विललाप स वाष्पगद्गदं सहजामप्यपहाय धीरताम्। अतितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिणाम् ।।' अत्र च समानन्यायस्य श्रेषमूलत्वे वैचित्र्यविशेषो यथोदाहृते 'हारोडयं- इत्यादौ। न चेदमनुमानम्। समानन्यायस्य संबन्धरूप- त्वाभावात्। विकल्पस्तुल्यवलयोविरोधश्चातुरीयुतः। यथा-'नमयन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियन्तामाज्ञा मौ्व्यो वा।' अत्र शिरसां धनुषां च नमनयोः संधिविग्रहोपलक्षणत्वात्, संधिविग्रहयोश्चैकदा कर्तुमशक्यत्वाद्विरोधः। स चैकपक्षाश्रयणपर्यव- सानः। तुल्यबलत्वं चात्र धनुःशिरोनमनयोर्द्वयोरपि स्पर्धया संभाव्यमा- नत्वात्। चातुर्ये चात्रौपम्यगर्भत्वेन। एवं 'कर्णपूरीक्रियन्ताम्' इत्य- त्रापि। एवं 'युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः'। अत्र श्लेषावष्टम्भेन चारुत्वम्। स्तमत्र समानो धर्मः । मुक्तानां वर्णनीयत्वेन प्राकरणिकत्वम्। विललापेति। सोऽजः । द्रव्यतमत्र समानो धर्मः । अयसो वर्णनीयल्ाभावादप्राकरणिकत्वम् । संबन्धरूपत्वाभावादिति। व्याप्तिरूपल्वाभावादित्यर्थः । व्याप्तिश्च ज्ञाप्यज्ञापक- योरव्यभिचरितसामानाधिकरण्यरूपः । प्रकृते तु एकस्य साधर्म्यग्रहेण औचित्यात्त- त्समानस्य तादृशवर्मान्तरग्रहो भवतीति ज्ञाप्यज्ञापकयोर्व्यांत्यसंभवादिति भावः । विकल्पालंकारमाह-विकल्प इति। तुल्यवललं तत्तदुदाहरणे यथाय्थं बोध्यम्। अर्थतोऽलंकारादेः चारुतावैचित्रयं यदि स्यादित्यर्थः । 'विरोधश्चान्तरा यतः' इति याठस्तु न सम्यक्। अर्थासंगतेः । 'चातुरी यतः' इति पाठे तु यतो विरोधाच्चातुरी वैचित्र्यं स विकल्प इत्यर्थः। नमयन्त्विति। बलवद्युयुत्सोरुक्तिरियम्। अरय इति कर्तृपदमत्रोह्यम्। कर्णपूरीक्रियन्तां कर्णभूषणसदृशीक्रियन्ताम्। कर्णसंगती- क्रियन्तामिति यावत्। अरिभिरिति कर्तृपद्मत्रोह्यम्। नन्वसमर्थस्य शिरोनमनं समर्थस्य धनुर्नमनमिति कथं तुल्यबलतमत आह-अत्र शिरसामिति। संधि- विग्रहयोवैरोच्छेदाय राजाद्यनुष्ठेयत्वात्तुल्यबलत्वम्। विरोधमुपपादयति-संधि- विग्रहयोरिति। ननु सर्वत्रोदाहरणे तादृशविरोधो न संभवतीत्यत आह-स चेति। विरोधश्वेत्यर्थः । तुल्यबलयोरेकतरस्यैव प्रकृतेऽन्वय एकपक्षाश्रयणं यस्य स इत्यर्थः । तथा च तुल्यबलयोरेकस्मिन्प्रकृतेऽनन्वयविरोध इति परमतात्पर्यम्। इदानीं धनुःशिरोनमनयोर्यथाकर्थंचित्तुल्यबलतमुपपाद्योपलक्षणं विनैव लक्षणं संग- मयति-तुल्यबलत्वमिति। वक्तुः स्पर्धाजन्यमंभावनाविषयल्ादित्यर्थः । चा- तुर्यमिति। वैचित्र्यमित्यर्थः। औपम्यगर्भत्वेनेति । शिरोनमनस्योत्कट- त्वेन धनुर्नमनस्योपमानत्वेन पर्यवसानमिति भावः। युष्माकमिति। अत्र तनुने- सा० द० ४८
Page 613
५६६ साहित्यदर्पणे
'दीयतामर्जित विचं देवाय ब्राह्मणाय वा।' इत्यत्र चातुर्याभावान्नायमलंकारः । समुच्चयोऽयमेकस्मिन्सति कार्यस्य साधके॥ ८४॥ खलेकपोतिकान्यायात्तत्करः स्यात्परोऽपि चेत्। गुणौ क्रिये वा युगपत्स्यातां यद्ा गुणक्रिये ।। ८५।। यथा मम- 'हहो धीरसमीर हन्त जननं ते चन्दनक्ष्माभृतो दाक्षिण्य जगदुत्तर परिचयो गोदावरीवारिभिः । प्रत्यङ्गं दहसीति मे त्वमपि चेदुद्दामदावाभिव- न्मच्तोडयं मलिनात्मको वनचर. किं वक्ष्यते कोकिलः॥।' अत्र दाहे एकसिमिंश्चन्दनक्ष्माभृज्जन्मरूपे कारणे सत्यपि दाक्षिण्या- दीना हेत्वन्तराणामुपादानम्। अत्र सर्वेषामपि हेतूना शोभनत्वात्स- द्योग.। अत्रैव चतुर्थपादे मत्तादीनामशोभनाना योगादसद्योगः।
त्रयोर्भवार्तिय्मनसावनक्षमत्वेन तुल्यबललम्। तयोरेकतरस्यैव भवार्तिशमनरूपे प्रकृतकार्यें हेतुत्वेनान्वयो न तु समुच्चयवदुभयोरिति विरोव। श्लेषावष्टम्भेन श्लेषा- नुकूल्येन। 'पतत्यविरत वारि नृत्यन्ति शिखिनो मुदा। अद्य कान्त कृतान्तो वा डु सस्यान्त करिष्यति ॥' अत्र विप्रलम्भश्वङ्गारावष्टम्भेन चारुतम् । एवमन्यत्रापि यथायथ चारुतमवगन्तव्यम्। चारुतार्थत इति यटुक् तस्य व्यावृत्तिमाह-दीय- तामिति। अन्न देवव्राह्मणयोरुतमपात्रत्वेन तुल्यबलतम्। प्रकृते दाने एकतर- स्थैव सबन्ो न तूभयोरित्यस्ति विरोव । समुच्चयालकारमाह-समुच्चयोऽय- मिति। खलेकपोतिकान्यायश्च-'वृद्धा युवान शिशव कपोता सले यथामी युगप- त्पतन्ति।' यथा भक्षणार्य कपोताना खले युगपत्पतन तयैककार्यानुष्ठानार्थ युगपद- नेकस्योपस्थापनम्। प्रकारान्तरेण समुच्चयालकारमाह-गुणाविति । गुणश्च कियाभिन्नवर्ममात्रम्। क्रिया धालर्थरुपा। हंहो इति। विरहिण उ्तिरियम्। दाक्षिण्य दक्षिणदिग्भवत्वम्, अय च सारल्यम्। कि वक््यते कोकिल इति। कोकल सुतरा दाहजनको भवतीति भाव । अयमर्थापत्त्यलकारसकीर्ण। सतामु- पादेयाना कारणाना केवलाना योग सद्योग। तेपामेवानुपादेयाना योगोऽसद्योग।
1 तत्कर इति। चेत्परोऽन्योपि तत्कर. नस्य कार्यस्य सपादक स्यात्। एष एक प्रकार गुणयो. क्रिययोर्गुणक्रिययोवा यौगपद्येनावस्थान त्रिविध इति चतुविध.। सोडय समुच्चय सद्योगेऽसद्योगे सदसद्योगे च भवतीति त्रिधा भिदते॥
Page 614
दशमः परिच्छेदः। ५६७
सदसद्योगो यथा- 'शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्घनपरायणः सततदुर्गतः सज्जनो नृपाङ्गनगतः खलो मनसि सप्त शल्यानि मे ॥' इह केचिदाहु :- 'शशिप्रभृतीनां शोभनत्वं खलस्याशोभनत्वमपि सदसद्योगः' इति। अन्ये तु-'शशिप्रभृतीनां खतःशोभनत्वं धूसरत्वा- दीनां त्वशोभनत्वमिति सदसद्योगः ।' अत्र हि शशिप्रभृतिषु धूसरादे- रत्यन्तमनुचितत्वमिति विच्छित्तिविशेषस्यैव शोभनत्वे प्रक्रमादिति। इह च खलेकपोतवत्सर्वेषां कारणानां साहित्येनावतारः। समाध्यलंकारे त्वेक- कार्य प्रति साधके समग्रेऽप्यन्यस्य काकतालीयन्यायेनापतनमिति भेदः। 'अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम्। मुखमानतं च सखि ते ज्वलितश्रास्यान्तरे स्मरज्वलनः ॥' अत्राद्येडर्घे गुणयोर्योगपद्यम्, द्वितीये क्रिययोः। उभयोर्योगपद्ये यथा-
उभयमिश्रणे सदसद्योगः। शशीति। मे मनसि सप्तैव शल्यानि दुःखदायकल्वात्। किं किमित्याह-शशीति। स्वाकृतेः शोभनशरीरस्य अनक्षरं वचनहीनम्। धनप- रायणो धनलालसत्वेन सदसद्विवेकहीनः । शशिप्रभृतीनामिति सज्जनपर्यन्तानाम् । धूसरत्वादीनामिति सततदुगतत्पर्यन्तानां ग्रहणम्। खलस्य तु सतोऽशोभनत्वं नृपाङ्गनगतत्वस्य शोभनत्वमिति वैपरीत्येन सदसद्योगः । मनोदुःखं प्रति धूसरत्वादि- विशिष्टाश्षन्द्रादयः कारणानि कारणीभूतानां विशेष्याणां विशेषणानां च यथासंभवं सतामसतां च योग एव सदसद्योग इति भावः । अन्येषां मतमुपपादयति-अत्र. हीति। विच्छित्तिविशेष स्यैवेत्येवकारेण मनसीत्यादेर्व्यावृत्तिः। नन्वेतन्निरर्थकमत आह-मनसीति। तथा च वाक्यसमापकत्वेनैव तत्सार्थकमिति भावः । प्रथम- मतं दूषयति-नृपाङ्गनगत इति । विशेष्यस्यैवेत्येवकारेण विशिष्टव्यवच्छेदः। तथा चात्र विशेष्यविशेषणयोर्योग एव वैचित्र्यावहो नतु विशिष्टानां योगः । क्रमभे- दरूपदोषावहत्वादिति भावः। समाध्यलंकारादस्य भेदमाह-इहेति। साहित्येन मिलितत्वेनावतारः। समग्रे समर्थे पर्याप्ते काकतालीयन्यायेन अप्रतिसंहतत्वेनापतन- मुपस्थापनम्। यत्र कार्यविशेषं मिलितान्येव कारणानि जनयन्ति समुचयस्य विषयः। यत्र त्वेकस्मिन्कारणे फलसाधनायानुष्ठीयमाने दैवादुत्पन्नेन कारणान्तरेण तत्फलस्य सुकरत्वं स समाधिरिति भावः। गुणयौगपद्ये समुच्चयमाह-अरुणे चेति। १. 'समाधानं' इति मुद्रितपुस्तकेऽधिकम्।
Page 615
५६८ साहित्यदर्पणे
'कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः । पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ॥।' 'धुनोति चासिं तनुते च कीर्तिम्।' इत्यादावेकाधिकरणेऽप्येष दृश्यते। न चात्र दीपकम्। एते हि गुणत्रियायौगपद्ये समुच्चयप्रकारानियमेन कार्यकारणकालनियमविप- र्ययरूपातिशयोक्तिमूलाः । दीपकस्य चातिशयोक्तिमूलत्वाभावः । समाधि: सुकरे कार्ये दैवाद्वस्त्वन्तरागमात्। यथा- 'मानमस्यन निराकर्तु पादयोरमे पतिष्यतः । उपकाराय दिष्टयेदमुदीर्णै घनगर्जितम् ।।' प्रत्यनीकमशक्तेन प्रतीकारे रिपोर्यदि ॥८६॥ तदीयस्य तिरस्कारस्तस्यैवोत्कर्षसाधनः । तस्यैवेति रिपोरेव। यथा मम- 'मध्येन तनुमध्या मे मध्यं जितवतीत्ययम् । इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभौ हरिः॥' प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् ।।८७।। निष्फलत्वाभिधानं वा प्रैतीपमिति कथ्यते। नायिकां प्रति सख्या उक्तिरियम्। नयने वृत्ते इति शेषः । कलुषमिति। रोषक- षायितमित्यर्थः। सितपड्डेरुहस्य सोदरा सादृशी श्रीः शोभा यस्य तत् । अस्य वैयधि- करण्ये एव प्रयोगप्राचुर्य विच्छित्तिविशेषजनकत्वं च । क्वचित्सामानाधिकरण्येऽपि प्रयोगमाह-घुनोति चेति। कार्यकारणयोः कालनियमः पौर्वापर्य तस्य विपर्ययो यौगपद्यमारोपितं झटिति फलोत्पादनप्रतिपत्त्यर्थम्। समाध्यलंकारमाह-समा- धिरिति। दैवादकस्माद् वस्त्वन्तरागमात्कारणान्तरसमाधानात्कार्ये सुकरे सति समाधिरित्यर्थः। एतेन प्रकरान्तकारणेन कार्यस्य दुष्करत्वं प्रतीयते। मानमिति। सखायं प्रति कस्यचिदुक्तिरियम्। दिष्टया भाग्येन। उदीर्णमुत्पन्नम्। प्रतीपालं- कारमाह-प्रसिद्धस्येति। निष्फलत्वाभिधानमिति। उपमानस्येत्न्वयः। 1.प्रत्यनीकमिति। अनीकेन सदृशं प्रत्यनीकम्। सादृश्यस्य यथार्थत्वेनैव संग्रहे पुनः सादृश्यग्रहणाद्गुणीभूतेऽपि सादृश्येऽव्ययीभावः । लोके प्रतिपक्षस्य तिरस्कारायानीकं प्रयुज्यते। तदशक्तौ प्रतिपक्षसंबन्धिनः कस्यचित्तिरस्कारः क्रियते। स चानीकसदृशप्र- युज्यमानत्वात्प्रत्यनीकमुच्यते। अत्र च प्रतिपक्षगतं बलवत्त्वम्, आत्मगतं दुर्बलत्वं च गम्यत इति पण्डितराज: ।। 2. प्रतीपमिति। प्रतिगच्छन्त्यापो यस्मिन्निति प्रतीप निम्नोन्नतस्थलम्,तत्सादृश्यादलं- कारे लक्षणा। 'ऋक्पू :- ' इत्यादिनाप्रत्ययः । 'ध्यन्तरुपसर्गेभ्योऽप ईत्' इतीदादेशः ॥
Page 616
दशम: परिच्छेदः। ५६९
क्रमेण यथा- 'यत्त्वन्नेत्रसमानकान्ति सलिले ममं तदिन्दीवरं- इत्यादि। 'तदूकं यदि मुद्रिता शशिकथा हा हेम सा चेद्दयुति- स्तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत्स्मतं का सुधा। धिक्कंदर्पधनुभुवौ यदि च ते कि वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेघसः ॥' अत्र वक्रादिभिरेव चन्द्रादीनां शोभातिवहनात्तेषां निष्फलत्वम्। उक्त्वा चात्यन्तमुत्कर्षमत्युत्कृष्टस्य वस्तुनः ॥ ८८॥ कल्पितेऽप्युपमानत्वे प्रतीपं केचिदूचिरे। यथा- 'अहमेव गुरु: सुदारुणाना- मिति हालाहल तात मा स्म दप्यः । ननु सन्ति भवाद्ृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ।।' अत्र प्रथमपादेनोत्कर्षातिशय उक्तः । तदनुक्तौ तु नायमलंकारः । यथा-'ब्रह्मेव ब्राह्मणो वदति' इत्यादि। मीलितं वस्तुनो गुपिः केनचित्तुल्यलक्ष्मणा ।। ८९॥।
अभिधानं ज्ञापनं उपमानोपमेयभावे वैपरीत्यमत्रेति प्रतीपमुच्यते। द्वितीयपक्षे निष्फलल्ाभिधानेनोपमेयस्य प्रकर्षप्रतीतेरुपमानप्रातिकूल्यमिति प्रतीपमुच्यते। आद्ये उपमानस्योपमेयत्वकल्पनेन द्वितीये वैफल्याभिधानेनापकर्षः प्रतीयते। तद्व- क्रमिति । शशिनः कथा सौन्दर्यप्रशंसा। हाशब्देन हेम्र: शोच्यतम, तेन च तस्य वैफल्यं प्रतीयते। विफलार्थो वा हाशव्दः। हारितं विफलीभूतम्। यद्वा-हा खेदे, रितं गतम्। नष्टमिति यावत्। यत्सत्यमिति। वेधसः सर्गकरमः पुनरुक्तवस्तु- हीन इति यद्गीयते तत्सत्यमेवेत्यर्थः। एतेन केशपाशादिसत्त्वे चामरादीनां वैफल्यं प्रतीयते। वैफल्यसुपपादयति-वक्रादिभिरेवेति। प्रकारान्तरेण प्रतीपालं कारमाह-उक्त्वेति। येन धर्मेण उत्कर्ष उच्यते तेनैव धर्मेणाप्रसिद्धमप्युपमानं त्वं कल्प्यस इति भावः । अपिकारात्पूर्वोक्तप्रकारयोः समुचयः। अहमेवेति। हे हालाहल, हे तात, अहमेव सुदारुणानां गुरुरिति दर्पवान्मा भूः। कथमित्यत आह- नन्विति। ननु भोः, अस्मिन्भुवने दुर्जनानां वचनानि भूयो यथा स्यात्तथा सन्ति। अत्र दारुणत्वातिशयः सामान्यगुणस्तद्योगादुपमानत्वमभूतपूर्वमपि दारुणत्वांशे दर्प- िषेधादनुभूतमेव विवक्षितम्। ब्रह्मेवेति। अत्रोत्कर्षो गन्य एव न तु वाच्यः ।
Page 617
५७१ साहित्यदर्पणे
अत्र समानलक्षणं वस्तु क्वचित्सहजं क्वचिदागन्तुकम्। क्रमेण यथा- 'लक्ष्मीवक्षोजकस्तूरीलक्ष्म वक्षःस्थले हरेः। ग्रस्तं नालक्षि भारत्या भासा नीलोत्पलाभया ।।' अत्र भगवतः श्यामा कान्ति: सहजा। 'सदैव शोणोपलकुण्डलस्य यस्यां मयूखैररुणीकृतानि। कोपोपरक्तान्यपि कामिनीनां मुखानि शङ्कां विदधुर्न यूनाम् ।।' अत्र माणिक्यकुण्डलस्यारुणिमा मुखे आगन्तुकः । सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः। यथा-
अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः ॥' मीलिते उत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानम्। इह तूभयोस्तु- ्यगुणतया भेदाग्रहः। तहुणः सगुणत्यागादत्युत्कृष्टगुणग्रहः ।।९०॥। यथा-
नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ।' मीलिते प्रकृतस्य वस्तुनो वस्त्वन्तरेणाच्छादनम्। इह तु वस्त्व- न्तरगुणेनाक्रान्तता प्रतीयत इति भेदैः । मीलितालंकारमाह-सामान्यमिति। प्रकृतस्य प्रस्तुतस्यं अन्यतादात्म्यमितरभि- न्नत्वेनापरिचेयलम्। मल्िकेति। 'धम्मिलः संयताः कचाः' इत्यमरः । अन्नाभि- सारिकावर्णनीयत्वेन प्रस्तुताश्वन्द्रिकाभिन्नत्वेनापरिचिताः । तद्गुणालंकारमाह-तहुण इति। अत्युत्कृष्टगुणस्य अर्थात्संनिकृष्टस्य वस्तुनोऽतिनिबिडगुणस्य ग्रहः स्फूर्तिः । अत्युत्कृष्टेति गुणविशेषणं सगुणतिरोधाने बीजम्। जगादेति। अत्र प्रक्रान्तो बलदेवः कर्ता। नन्वत्रोत्कृष्टगुणेन निकृष्टगुणतिरोधानमस्तीति मीलितादस्य को भेद इत्यत आह-मीलित इति। इह तु तद्गुणे तु। संनिकृष्टगुणेन खगुणस्यैव तिरोधानं 1. तह्गुण इति। तस्योत्कृष्टगुणस्य गुणा अस्मिन्निति तद्रुणः ।।
१. 'भेदः' इति नास्ति घ-पुस्तके.
Page 618
दशम: परिच्छेद:। ५७१
तद्रूपाननुहारस्तु हेतौ सत्यप्यतदुणः। यथा- 'हन्त सान्द्रेण रागेण भृतेऽपि हृदये मम। गुणगौर निषण्णोऽपि कथं नाम न रज्यसि॥' यथा वा-
'गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ।' पूर्वत्रातिरक्तहृदयसंपर्कात्प्राप्तवदपि गुणगौरश्दवाच्यस्य नायकस्य रक्तत्वं न निष्पन्नम् । उत्तरत्राप्रस्तुतप्रशंसायां विद्यमानायामपि गङ्गायमुनापेक्षया प्रकृतस्य हंसस्य गङ्गायमुनयोः संपर्केऽपि न तद्रू- पता। अत्र च गुणाग्रहणरूपविच्छित्तिविशेषाश्रयाद्विशेषो क्तेर्भेदः।
न तु वस्तुनः । मीलिते तु वस्तुनोऽपीति विशेषः । मीलिते स्वजातीयोत्कृष्टगुणति- रोधानमत्र तु विजातीयोत्कष्ट गुणेनापकृष्टगुणतिरोधानं 'सवगुणत्यागात्' इत्यनेन लभ्यत इत्यपि बोध्यः। अनेन सामान्यालंकारादप्यस्य भेदस्तत्र 'सदशैगुणैः' इत्युपादानात्। अतद्गुणालंकारमाह-तद्रपेति। तद्रूपस्य उत्कृष्टगुणवस्तुनो गुणस्याननुहारः। अपकृष्ट- गुणेन वस्तुना अग्रहणमित्यर्थः । हेताविति। उत्कृष्टगुणवस्तुसंनिधानमत्र हेतुरव- धेयः । रागेण अनुरागेण भृते पूर्णे। गुणगौर यशःशुक्ल । शुक्कगुणस्य रक्त्तगुणयोगेन रक्तलं सुतरां जायते। ्अत्र शलेषादनुरागरक्तित्रोरेकत्वाध्यासादेतदुपपद्यते। अन्न प्राकरणिकेन नायकेन प्राकरणिकस्य नायिकाहृदयस्य गुणाग्रहणम्। प्राकरणिकेनाप्रा- करणिकगुणाग्रहणेऽप्ययमलंकार इत्याह-राजहंसेति। चीयते गङ्गाजलसंपर्के- णोपचीयते। अपचीयते यमुनाजलसंपर्केणोपक्षीयते। प्राप्तवदपि भवितुं योग्यमपि। ननूत्तरत्राप्रस्तुतप्रशंसया सवसंबन्धिगुणग्राही जन एव प्रकृतो न तु राजहंस इति प्रकृतस्याप्रकृतगुणाग्रहणोदाहरणं कथमेतत्संगच्छतामत आह-उत्तरत्रेति। प्र० स्तुतस्य प्रतिपाद्यत्वेन प्राकरणिकस्य गङ्गायमुनाम््वपेक्षया प्रतिपाद्यत्वेन राजहंसस्या- पेक्षिकं प्रकृतत्वमिति भावः । नन्वत्र कारणसत्त्वे कार्यानुत्पत्तिरस्तीति विशेषोत्त्य- लंकार एवायमित्यत आह-अत्र चेति। विच्छित्तिविशेषाश्रयादू वैचित्र्यविशेष-
- तदिति। उत्कृष्टगुणपदार्थसंनिधानाख्ये हेतौ सत्यपि तद्रूपस्योत्कृष्टगुणस्याननुहारो न्यूनगुणेनाननुवर्तनमतद्गुणः । तस्योत्कृष्टगुणस्य गुणा अस्मिन्न सन्तीति ॥
१. 'तु' क-ख.
Page 619
५७२ साहित्य दर्पणे
वर्णान्तरोत्पत्त्यभावाच्च विषमात्। संलक्षितस्तु सूक्ष्मोऽर्थ आकारेणेङ्गितेन वा ॥ ९१ ॥ कयापि सूच्यते भङ्गा यत्र सूक्ष्मं तदुच्यते। सूक्ष्म: स्थूलमतिभिरसंलक्ष्यः। अत्राकारेण यथा- 'वकरस्यन्दिस्वेदबिन्दुप्रबन्वैर्द्वष्ट भिन्नं कुङ्कुमं कापि कण्ठे। पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खङ्गलेखां लिलेख।।' अत्र कयाचित्कुङ्कुमभेदेन संलक्षितं कस्याश्चित्पुरुषायितं पाणौ पुरुषचिहृखङ्गलेखालिखनेन सूचितम्। इङ्गितेन यथा- 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकूतं लीलापझं निमीलितम् ।।' अत्र विटस्य भ्रूविक्षेपादिना लक्षितः संकेतकालाभिप्रायो रजनी- कालभाविना पद्मनिमीलनेन प्रकाशितः । व्याजोक्तिर्गोपनं व्याजादुद्भिन्नस्यापि वस्तुनः ॥९२॥
संबन्धात्। कारणसत्त्वे कार्यानुत्पत्तिरूपवैचित्र्यादुक्तवैचित्र्यं विलक्षणम्। तत्प्रयो- जकलादलंकारस्य वैलक्षण्यमिति भावः। ननु नायिकाहृदयादिरूपकारणगुणस्य विरुद्धस्ततसंपृक्तनायकादिरूपकार्यगुण इति विषमालंकार एवायं संपर्कस्य कार्यल्ात्सं- पृक्तस्यापि कार्यतमुपचर्यत इत्यभिप्रायेणाह-वर्णान्तरेति। कार्यस्य कारणगुण- विरुद्धगुणोत्पत्तावेव विषमस्य विषयः। प्रकृते तु तदभावान्न तद्विषय इति भावः । विषमादिति। भेद इत्यन्वयः। सूक्ष्मालंकारमाह-संलक्षित इति। आकारो धर्मः। इङ्गितं क्रियाभङ्गी विदग्धचेष्टा। मतेः स्थूलतं गहनार्थाग्राहितम्। वक्र- स्यन्दीति। कापि वयस्या तन्व्याः नायिकायाः कण्ठे वक्रात्स्यन्दिभिः स्वेदबिन्दु- संतानैर्भिन्नं रेखारूपकृतविभागं कुङ्गमं दृष्टा तस्याः पुंस्तं सुरते पुरुषायितं व्यञ्ञयन्ती ज्ञापयन्ती स्मिला तस्या एव पाणौ खङ्गलेखां लिलेख। पुरुषायिताया एव वक्रगलित- स्वेदानां गण्डे गलनं संभवति न तूत्तानसुप्तायाः। अतः सूक्ष्ममपि पुरुषायितं लक्षितं पुरुषधर्मस्य खङ्गलेखायाः सस्मितलिखनेन प्रकाशितम्। खङ्गलेखा खङ्गाकृतिचिह्नवि- शेषः पुंसां हस्ते तिष्ठति। कुङ्गुमभेदोऽत्राकारः। एतदेवाह-अत्र कयाचिदिति। संकेतेति। संकेतकालजिज्ञासुमित्यर्थः । विटं धूर्तमुपनायकं ज्ञाला ्रविक्षेपादि- तदिङ्गितादिना ज्ञात्वेति बोध्यम्। हसता हर्षसूचकचेष्टावता नेत्रेणार्पितं ज्ञापितमाकूत- मभिप्रायो यस्य यत्र वा तद्यथा स्यात्तथा निमीलितमित्यर्थः। संकेतकालाभिप्रायः संकेतकालजिज्ञासा। व्याजोत्तयलंकारमाह-व्याजोक्तिरिति। व्याजात्कारणा-
Page 620
दशमः परिच्छेदः । ५७३
यथा- 'शैलेन्द्र प्रतिपाद्मानगिरिजाहस्तोपगूढोल्स- द्रोमाञ्चा दिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । आः शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं
नेयं प्रथमापह्ुतिः, अपह्रवकारिणो विषयस्यानभिधानात्। द्वितीया- पह्ुतेर्भेदश्र तत्प्रस्तावे दर्शितः । स्वभावोक्तिर्दुरूहार्थस्क्रियारूपवर्णनम्। दुरूहयोः कविमात्रवेद्ययोरर्थस्य डिम्भादेः स्वयोस्तदेकाश्रययो- श्रेष्टासरूपयोः । यथा मम-
मात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन्विक्रमेण। न्तरोद्भावनच्छलाद् उद्भिन्नस्य कार्यादिना व्यक्तीभूतस्य। शैलेन्द्रेति । शैलेन्द्रेण हिमालयेन प्रतिपाद्यमानाया दीयमानाया गिरिजाया: पार्वत्या हस्तस्योपगूढेन संप- केणोह्सन् यो रोमाञ्चादि: पुलककम्पादिस्तेन विसंस्थुलोऽयथाभूतो योऽखिलवि- धिव्यासङ्ग: समस्तवैदिकक्रियासंबन्धस्तस्य भङ्गेनाकुलो व्याकुलः । शैलस्य हिमालय- स्यान्तःपुरवर्तिनो ये मातृकामण्डला मण्डलीभूना मातरस्तेषां गणैः। अत्र रोमा- श्चादिना कार्येणोद्भिन्नः स्वकीयोद्भावविशेषः शैत्यरूपकारणान्तरोद्भावनेन शिवेन गोपितः । ननु प्रकृतगोपनेनाप्रकृतोद्भावनमपह्वुतिरुक्ता तदनयोः को भेद इत्यत आह-नेयमिति। प्रथमाऽप्रकृतनिषेधपूर्वकप्रकृतस्थापनरूपा। विषयस्य अप्रकृ- तारोपविषयस्य। अन्र तु गोपनाकारिभिन्नेन काव्यादिना विषयो व्यज्यत एव, नत्वभिधीयत इति भावः । द्वितीयापहुतेः, 'गोपनीयं कमप्यर्थ द्योतयिता कथंचन। यदि श्लेषेणान्यथा वान्यथयेत्साप्यपहुतिः ॥' इत्युक्तलक्षणायास्तत्प्रस्तावे' दर्शित इति। अन्र गोपनकृता गोपनीयं प्रथममभिधीयते, अत्र तुन तथेति भावः। खभा- वोक्त्यलंकारमाह-स्वभावोक्तिरिति। व्याचष्टे-दुरूहयोरिति। डिम्भादेरि- - इत्यमरः। सपदं स्कीयपरतायां व्याचष्टे-स्वयोरिति। तस्याप्यवधारणपरता- माह-तदेकाश्रययोरिति। डिम्भादिमात्रगतयोरित्यर्थः । कारिकास्थे क्रियारूपपदे व्याचष्टे-चेष्टास्वरूपयोरिति। स्रूपं वर्णसंस्थानादि। तत्र डिम्भस्य क्रिया- वर्णनं यथा-'करारविन्देनं पदारविन्दं मुखारविन्दे विनिवेशयन्तम्। वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ।' आदिपद्ग्राह्यस्य तरक्षोः क्रियावर्णन- माह-लाङ्गूलेनेति। क्षितितलमिति काकाक्षिन्यायेन पूर्वापरयोरन्वेति। आत्मनि 1. शैलेन्द्रेति। अत्र रोमाश्वादिनोद्विन्नो रतिभावः शैत्यप्रक्षेपणेनापलपितः ।।
Page 621
५७४ साहित्यदर्पणे
स्फूर्जद्भुंकारघोषः प्रतिदिशमखिलान्द्रावयन्नेव जन्तू- न्कोपाविष्टः प्रविष्टः प्रतिवनमरुणोच्छूनचक्षुस्तरक्षुः ।l' अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः ॥ ९३ ॥ यत्प्रत्यक्षायमाणत्वं तन्भाविकमुदाहृतम्। यथा- 'मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः । येनैकचुलके दष्टौ दिव्यौ तौ मत्स्यकच्छपौ ।।' यथा वा- 'आसीदञ्जनमत्रेति पश्यामि तव लोचने। भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ।।' न चायं प्रसादाख्यो गुणः । भूतभाविनोः प्रत्यक्षायमाणत्वे तस्याहे- स्वदेहे अवलीय लीनो भूला। अतिवामनीभूयेति यावत्। प्रतिवनं यावद्वनम्। तर- क्षुर्व्याघ्रविशेषः। ईद्ृशक्रिया अकृत्रिमा रुष्टतरक्षोरेव। वर्णवर्णनं दण्डाचार्येणोदाह- तं यथा-'तुण्डैरातात्रकुटिलै: पक्षैर्हरितकोमलैः। त्रिवर्णराजिभिः कण्ठैरेते मज्जुगिरः शुका: ॥' संस्थावर्णनं यथा-'पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजसरं दीर्घग्रीवः स भवति खुरास्तस्य चलार एव। शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानात्रमात्राना- स्तामेतद्रजति स पशुर्दूरमेह्यहि याम: ॥' अत्र विपुलपुच्छखुरचतुष्टयदीर्घग्रीवा अश्व- स्यैव संस्थानानि। भाविकालंकारमाह-अद्भुतस्येति। प्रत्यक्षायमाणलं वर्णना- विशेषवशेन प्रत्यक्षवद्भासमानतं भावो वक्तुरभिप्रायः । स च वर्णनीयगोचरवति स्वरूपस्तद्योगाद्भाविक तद्योगश्च व्यञ्ञकत्वेन। अद्भुतस्य प्रत्यक्षायमाणत्वे भाविकमाह- मुनिरिति। दिव्यौ विष्णोरवतारौ तौ प्रसिद्धौ। अत्र चुलुकीकृतसमुद्रे दृश्यमान- दिव्यमत्स्यकच्छपरूपमद्भुतं वस्तु वर्णनाविशेषवशेन मुनिः संनिकृष्टश्रोतृणां प्रत्यक्षव- द्वासते। भूतभाविनोः प्रत्यक्षायमाणत्वे भाविकमाह-आसीदिति। अत्रा- नयोः अत्र पूर्वार्धे भूतस्य परार्धे भाविनः प्रत्यक्षायमाणतं नयनशोभाविशेषवशेना- ञ्ञनं सौन्दर्यातिशयवशीकृतस्य धनिनः पत्युरादरातिशयेन भूषणसंभारमनुमाय सख्या तथाभिहितं यथा भूतभाविनामप्यञ्ञनभूषणसंभारौ संनिकृष्टश्रोतृणां प्रत्यक्ष- वद् भासेते। केचित्तु 'यौवनोद्भेदाद्नं विनापि चक्षुषि तच्छोभा भूषणाभावेऽपि वपुषि तच्छोभारम्भः' इति व्याचक्षते, तन्न। तादृशार्थस्य व्यञ्जकाभावेनाप्रतीतेः । भूतभाविनोरज्नभूषणयोः प्रत्यक्षायमाणत्वे तत्कृतचारुत्व एव तात्पर्यात्। ननु संनि- कृष्टपदार्थस्य वर्णनातः प्रत्यक्षायमाणतं तदा भवति यदि प्रसन्नार्थाः शव्दाः प्रयु- ज्यन्ते। एवं सति प्रसादाख्यो गुण एवायमित्यभिप्रायेणाशङ्कते-न चायं प्रसा- दाख्यो गुण इति। भूतभाविनोरित्यद्भुतस्याप्युपलक्षणम्। तस्य प्रसादगुणस्य। 1. भाविकमिति। कविगतो भाव आशयः श्रोतरि प्रतिबिम्वत्वेनास्तीति, भावो भावना वा पुनः पुनश्चेतसि निवेशनं सोऽ्रास्तीति व्युत्पत्तिः ।।
Page 622
दशमः परिच्छेदः। ५७५
तुत्वात्। न चाद्ुतो रसः । विस्मयं प्रत्यस्य हेतुत्वात्। न चातिश- योक्तिरलंकारः । अध्यवसायाभावात्। न च भ्रान्तिमान्। भूतभावि- नोर्भूतभावितयैव प्रकाशनात। न च सभावोक्तिः । तस्य लौकिक- वस्तुगतसूक्ष्मधर्मस्भावस्यैव यथावद्वर्णनं स्वरूपम्। अस्य तु वस्तुनः प्रत्यक्षायमाणत्वरूपो विच्छित्तिविशेषोस्तीति। यदि पुनर्वस्तुनः क्रचि- त्खभावोक्तावप्यस्या विच्छित्तेः संभवस्तदोभयोः संकरः ।
'अनातपत्रोप्ययमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः। अचामरोऽप्येष सदैव वीज्यते विलासबालव्यजनेन कोऽप्ययम् ।।' अत्र प्रत्यक्षायमाणस्यैव वर्णनान्नायमलंकारः । वर्णनावशेन प्रत्य- क्षायमाणत्वस्यास्य सरूपत्वात् । यत्पुनरप्रत्यक्षायमाणस्यापि वर्णने प्रत्यक्षायमाणत्वं तत्रायमलंकारो भवितुं युक्तः । यथोदाहृते 'आसीद- ञ्जनम्-' इत्यादौ।
अद्भुतस्य प्रत्यक्षायमाणतपक्षे शङ्कते-न चाद्भुतो रस इति। विस्मयं चमत्का- रम्। चमत्कारायोगे रसरूपत्ासंभवादिति भावः। नन्वन्र वर्णनीयगतः कोऽप्यतिशयः प्रतीयत इत्यतिशयोक्तिरेवायमित्याशङते-न चातिशयोक्तिरिति। अध्यवसा- याभावाद् अभेदारोपाभावात्। ननु भूतभाविपदार्थांभाववति तत्प्रकारकप्रतीतिरत्रा- स्तीति भ्रान्तिमानेवायमित्याशङ्कते-न च भ्रान्तिमानिति। भूतभाविनोर्वर्तमा- नत्वेन भानेऽपि भ्रमः संभवतीति तद्वारणाय भूतभावितयैवेत्युक्तम्। प्रकाशनात्तद्वति विषयीकरणात्। तस्य स्वभावोत्तयलंकारस्य। सूक्ष्मेति। कवितृमात्रवेद्य इत्यर्थः । यथावद्वूर्णनं संभावनातिक्रमेण वर्णनम्। अस्य भाविकालंकारस्य तु। विच्छित्ति- विशेषोऽस्तीतिशब्दो हेतौ। अनातपञ्रोऽपीति। अत्र सदनुमानवशेन वक्तः प्रत्यक्षायमाणयोः सितातपत्रचामरयोर्वर्णनम्, नतु वर्णनाविशेषवशेन श्रोतृणां तयोः प्रत्यक्षायमाणमिति। नास्ति भाविकावसर इति भावः । अस्य भाविकालंकारस्य। नन्वेवमासीदअ्नमित्यादावपि सदनुमानवशेन प्रत्यक्षायमाणतवर्णनमिति नास्य विषय इत्यत आह-यत्पुनरिति। यद् यदा धर्मिसंनिकर्षादिरूपहेत्वभावदशाय मित्यर्थः । वर्णने इति। वर्णने वाग्वैचित्र्यविशेषे सतीत्यर्थः । तत्रायमिति। तत्राप्ययमित्यर्थः। न चातपत्रोऽपीत्यादावप्युक्तरीत्या भाविकप्रसक्तिरिति वाच्य- मू श्रोतृणां धर्मिसंनिकर्षाभावेन प्रत्यक्षायमाणलाभावात्तस्यापि प्रकृतोपयोगित्वेन
Page 623
५७६ साहित्यदर्पणे
लोकातिशयसंपत्तिवर्णनोदात्तमुच्यते। ९४॥ यद्वापि प्रस्तुतस्याङ्ग महतां चरितं भवेत्। क्मेणोदाहरणम्- 'अधः कृताम्भोधरमण्डलानां यस्यां शशाङ्कोपलकुट्टिमानाम्। ज्योत्स्ानिपातात्क्षरतां पयोभि: केलीवनं वृद्धिमुरीकरोति ॥' 'नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥' रसभावौ तदाभासौ भावस्य प्रशमस्तथा ॥९५॥ गुणीभूतत्वमायान्ति यदालंकृतयस्तदा। रसवत्प्रेय ऊर्जस्वि समाहितमिति क्रमात् ॥ ९६ ॥ तदाभासौ रसाभासो भावाभासश्च। तत्र रसयोगाद्रसवद्लंकारो यथा-'अयं स रसनोत्कर्षी- इत्यादि। अत्र शृङ्गारः करुणस्या- ङ्गम्। एवमन्यत्रापि। प्रकृष्टप्रियत्वात्प्रेयः । यथा मम- 'आमीलितालस विवर्तिततारकाक्षीं मत्कण्ठबन्धनदरश्लथबाहुवल्लीम् प्रस्वेदवारिकणिकाचितगण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः ।।' विवक्षीणीयलात्। उदात्तालंकारमाह-लोकेति। लोकानतिशेतेSतिकरामिति या संपत्तिर्धनसमृद्धिस्तस्या वर्णना व्यजनया ज्ञापनम्। अन्यविधमुदात्तालंकारमाह- यद्वेति। महतां प्रस्तुतसंबन्धिमहताम्। चरितं महत्त्वप्रतिपादकसाधर्म्यम्।
नगर्या उरीकरोति सवीकरोति। प्राप्नोतीति यावत्। अन्र पौराणां समृध्तिशयो व्यङ्गयः। नाभीति। नाभे: प्रभिन्नमुत्पन्नमम्वुरुहमासनं यस्य तेन। अमुं समुद्रम्। अत्र प्रस्तुतसमुद्रस्य महत्त्वव्यञ्ञकं सर्वलोकसंहारकस्य हरेश्वरितम्। रसवदाद्यलंकार- चतुष्टयमाह। रसभावाविति। गुणीभूतरसान्तरादीनामुत्कर्षाधायकत्वेनाङ्गत्वम्। रसस्येतराङ्गत्वे रसवत्। भावस्येतराङ्गत्वे प्रेयः । आभासयोरितराङत्वे ऊर्जखिव। भावप्रशमस्येतराङ्गत्वे समाहितमित्यर्थः । 'न भावहीनोऽस्ति रस :- ' इत्युक्त्दिशा
कारप्रसङ्ग इति व्येयम्। एवमन्यत्रापीति। वीरादेः शङ्गारादज्ञत्वेऽप्युदाहरणा- न्यूह्यानीत्यर्थः । करुणस्य भावाद्यङ्गत्वे उदाहरणं गुणीभूतव्यञ्ञ्यप्रकरणे 'मानो- न्नतां प्रणयिनीं-' इत्यादि ख्वयमेवोक्तम्। आमीलितेति। अलसेन रसा-
Page 624
दशमः परिच्छेदः। ५७७
अत्र संभोगशृङ्गारः स्मरणाख्यभावस्याङ्गम्। स च विप्रलम्भस्य । ऊर्जो बलम्, आनौचित्यप्रवृत्तौ तदत्रास्तीत्यूर्जखि। यथा- 'वनेऽखिलकलासक्ताः परिहृत्य निजस्त्रियः । त्वद्वैरिवनितावृन्दे पुलिन्दाः कुर्वते रतिम्।' अत्र शृङ्काराभासो राजविषयरतिभावस्याङ्गम्। एवं भावाभासो- डपि। समाहितं परीहारः । यथा- 'अविरलकरवालकम्पनैर्ध्रुकुटीतर्जनगर्जनैर्मुहुः। दद्दशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात्' अत्र मदाख्यभावस्य प्रशमो राजविषयरतिभावस्याङ्गम्। भावस्य चोदये संधौ मिश्रत्वे च तदाख्यकाः । तदाख्यका भावोदयभावसंधिभावशबलनामानोऽलंकाराः । क्रमे- णोदाहरणम्- 'मधुपानप्रवृत्तास्ते सुहृद्धिः सह वैरिणः । श्रुत्वा कुतोऽपि त्वन्नाम लेभिरे विषमां दशाम् ।' अन्र त्रासादयो राजविषयरतिभावस्याङ्गम्। 'जन्मान्तरीणरमणस्याङ्गसङ्गसमुत्सुका। सलज्जा चान्तिके सख्याः पातु नः पार्वती सदा ॥' अत्रौत्सुक्यलज्जयोक्ष संधिर्देवताविषयरतिभावस्याङ्गम्। वेशजनितालस्येन विवर्तितं स्थिरीकृतं तारकं यस्य तादृशमक्षि यस्यास्ताम्। मत्क- णठबन्धने दरश्रथा ईरषच्छिथिला बाहुवल्लिर्यस्यास्ताम्। पुलिन्दाः किरातविशेषाः। अन्र परोढाविषयत्वाच्छृङ्गाराभासः। एवं भावाभासोऽपीति। भावाभासस्या- ङत्वेऽपीत्यर्थः । एतदुदाहरणं यथा-'बन्दीकृत्य नृपद्विषां मृगदशस्ताः पश्यतां प्रेयसीं श्लिष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः। अस्माकं सुकृतैर्द्टशो- र्निपतितस्यौचित्यवारांनिधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभि: स्तूयसे ॥' अन्र राजविषयरतिभावस्योत्तरार्घंद्योत्यो भावः । शत्रुविषयत्वादाभासरूपोऽज्गम् । अविसलेति तवेक्षणे त्वत्कर्मदर्शने सतीत्यर्थः। भावोदयादीनामलंकारत्रयमाह-भाव- स्य चेति। चकारादू गुणीभूतत्वमायाति। चेत्यनुवर्तते। अत्रायातीति सप्तम्य- 1. भावोद्येति। भावस्योदय उद्गमावस्था, संधिद्वयोर्विरुद्धयोः स्पर्धित्वेनोपनिबन्धः, शबलता बहूनां पूर्वोपमर्देन निबन्ध इति॥ १. 'अनिशमिति' मुद्रितपुस्तके, सा० द० ४९
Page 625
५७८ साहित्यदर्पणे
'पश्येत्कश्चिच्चल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्मः क्वासि यासि। इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्ते: कन्या कंचित्फलकिसलयान्याददानाभिधत्ते।।' अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबाधौत्सुक्यानां शबलता राजवि- षयरतिभावस्याङ्गम्। इह केचिदाहुः-'वाच्यवाचकरूपालंकरणमुखेन रसाद्युपकारका एवालंकाराः। रसादयस्तु वाच्यवाचकाभ्यामुपकार्या एवेति न तेषामलंकारता भवितुं युक्ता' इति। अन्ये तु-'रसाद्यु- पकारमात्रेणेहालंकृतिव्यपदेशो भाक्तश्चिरंतनप्रसिद्धयाङ्गीकार्य एव' इति। अपरे च-'रसाद्युपकारमात्रेणालंकारत्वं मुख्यतो रूपकादौ तु वाच्याद्युपधानम्, अजागलस्तनन्यायेन' इति। अभियुक्तास्तु- 'सव्यञ्जकवाच्यवाचकाद्युपकृतैरङ्गभूतै रसादिभिरङ्वितो रसादेर्वाच्यवा- चकोपस्कारद्वारेणोपकुर्वद्धिरलंकृतिव्यपदेशो लभ्यते। समासोक्तौ तु नायिकादिव्यवहारमात्रस्यैवालंकृतिता, नत्वासादस्य, तस्योक्तरीतिविर- हात्' इति मन्यन्ते। अत एव ध्वनिकारेणोक्तम्- 'प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः॥' न्तमवगन्तव्यम्। योग्यलात्। पश्येदिति। चल इतोपसर। श्रमभरेण किंचि- त्निद्रायिता झटिति चेतनां प्राप्याह-व्युत्क्रम इति। वैपरीत्यमित्यर्थः। इदानीं रसवदादीनामलंकारतमस्वीकुर्वतां केषांचिन्मतमाह-इह केचिदिति। वाच्य- वाचकरूपालंकरणमुखेन शब्दार्थसरूपशोभाजननद्वारेणेह रसवदादावलंकृतिव्यपदे- शोऽलंकारपदप्रयोगो भाक्तो गौणः । चिरंतनप्रसिद्धया प्राचीनमतेन। वाच्याद्युप- धानं वाच्यवाचकालंकरणम्। अजागलस्तनन्यायनेति। अजागलस्तनो यथा दुग्धानुपयोगी तथा प्रकृतानुपयोगीत्यर्थः। स्वव्यक्चकेति। खमङ्गभूतं रसादि तद्व्यञ्जकाभ्यामेव वाच्यवाचकाभ्यामुपकृतैन तु प्रधानीभूतरसादिव्यज्जकाभ्याम्। प्रत्युत स्वव्यज्जकशब्दार्थघटितत्वेन तयोरुपकारका एवाङ्गरसादयो न तूपकार्याः । एतेन रसादयस्तु वाच्यवाचकाभ्यामुपकार्याँ एवेति य षणमुक्तं तन्निरस्तम्। नन्वत्र गुणप्रधानभावेनालंकारालंकार्यभाव उपपद्यतां समासोक्तौ तु व्यवहारसमारोपजन्या- स्वादस्यालंकारतसवीकारेSलंकार्याभावात्कथं स उपपद्यत इत्यत आह-समासो- कौ त्विति। व्यवहारमात्रस्य प्रस्तुते वस्तुन्यप्रस्तुतसाधम्यारोपमात्रस्य, न तु तज्ज- न्यास्ादस्य। उक्तरीतिविरहात् वाच्यवाचकालंकारद्वारेण रसाद्युपकारकत्वस्याभा- वात्। प्रधान इति। अन्यत्र रसादौ वाक्यार्थे वा। रसाद्युपकारकलमात्रेणालं-
Page 626
दशम: परिच्छेदः। ५७९
यदि च रसाद्युपकारमात्रेणालंकृतित्वं तदा वाचकादिष्वपि तथा प्रसज्येत। एवं च यच्च कैश्चिदुक्तम्-'रसादीनामङ्गित्वे रसवदाद्य- लंकारः। अङ्गत्वे तु द्वितीयोदात्तालंकारः', तदपि परास्तम्। यद्येत एवालंकारा: परस्परविमिश्रिताः ॥९७॥ तदा पृथगलंकारौ संसष्टिः संकरस्तथा। यथा लौकिकालंकाराणामपि परस्परमिश्रणे पृथक्चारुत्वेन पृथ- गलंकारत्वं तथोक्तरूपाणां काव्यालंकाराणामपि परस्परमिश्रत्वे संसृष्टि- संकराख्यौ पृथगलंकारौ। तत्र मिथोऽनपेक्षयैतेषां स्थितिः संसृष्टिरुच्यते॥ ९८॥ एतेषां शब्दार्थालंकाराणाम्। यथा- 'देवः पायादपायान्नः सेरेन्दीवरलोचनः । संतारध्वान्तविध्वंसहंस: कंसनिषूदनः ॥' अत्र पायादपायादिति यमकम्। संसारेत्यादौ चानुप्रास इति शब्दा- लंकारयोः संसृष्टिः। द्वितीये पादे उपमा, द्वितीयार्घे च रूपकमित्य- र्थालंकारयोः संसृष्टिः। एवमुभयोः स्थितत्वाच्छन्दार्थालंकारसंसृष्टिः।
कारतं मुख्यत इति प्रागुक्तमपरेषां मतं दूषयति-यदीति। एवं चेति। उक्त- रीतिविरहादित्यर्थः। प्रत्येकमलंकारानुक्तौ तेषां मेलके संसृष्टिसंकरालंकारावाह- यद्येत इति। एते उक्ता यमकोपमादयः परस्परविमिश्रिता एकस्मिन्पद्ये गद्ये वा स्थिताः । तयोः सामान्यलक्षणमुक्ता विशेषलक्षणमाह-मिथ इति। परस्पर- व्यपेक्षाविरहेणेत्यर्थः । स्थितिरेकस्मिन्पध्ये गद्ये वा शब्दालंका राणा मर्थालंकाराणामुभ- येषां च परस्परानपेक्षया स्थित्या त्रिविधा संसृष्टिः। आदा यथा-'चारुचन्द्रमसं भीरु बिम्बं पश्येदमम्बरे। मन्मनो मन्मथाकान्तं निर्दयं हन्तुमुद्यतम्।'अत्र प्रथमार्धे उपमा, द्वितीयार्धेऽनुप्रासः, तृतीयपादे यमकम्। द्वितीया यथा-'द्विषद्भयस्त्रायतां देव: फुल्लेन्दीवरलोचनः । भवान्धकारसंक्षोभरविः केशिनिषूदनः ॥' अन्र प्रथमार्धे उपमा द्वितीयार्धे रूपकम्। उभयसंसृष्टिर्द्विविधा-शुद्धा, संसृष्टिमिश्रा च। आदा यथा-'तयि वीर परं विराजते दमयन्तीकिलकिश्चितं किल। तरुणीस्तन एव दी- प्यते मणिहारावलिरामणीयकम्।' अत्र यमकानुप्रासाभ्यां शब्दालंकाराभ्यां सह प्रति- वस्तूपमाया अर्थालंकारस्य संसृष्टिः । एकस्मिन्नेव पद्ये चतुविधां संसृष्टिमुदाहरति- देव इति। हंस: सूर्यः। एवमिति।शब्दालंकारयोरर्थालंकारयोश्च सवजातीयत्वेना- 1. संसृष्टिरिति। तिलतण्डुलन्यायेन स्फुटावगम्यभेदालंकारमिश्रणे संसृष्टिरिति। सैषा शब्दालंकारगतत्वे नार्थालंकारगतत्वेनोभयालंकारगतत्वेन च त्रिधा भिदते।
Page 627
५८० साहित्यदर्पणे
अङ्गाङ्गित्वेऽलंकृतीनां तद्वदेकाश्रयस्थितौ। संदिग्धत्वे च भवति संकरस्त्रिविध: पुनः॥ ९९॥ अङ्गाङ्गिभावो यथा 'आकृष्टिवेग विगलद्गजगेन्द्रभोग- निर्मोकपट्टपरिवेष्टनयाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले।।' अत्र निर्मोकपट्टापहवेन मन्दाकिन्या आरोप इत्यपह्नतिः । सा च मन्दाकिन्या वस्तुवृत्तेन यत्पादमूलवेष्टनं तच्चरणमूलवेष्टनमिति श्रेषमु- त्थापयतीति तस्याङ्गम्। श्लेषश्र पादमूलवेष्टनमेव । चरणमूलवेष्टनमि- त्यतिशयोक्तेरङ्गम्। अतिशयोक्तिश्च मन्थव्यथाव्युपशमार्थमिवेत्युत्पे- क्षाया अङ्गम्। उत्प्रेक्षा चाम्बुराशिमन्दाकिन्योर्नयकनायिकाव्यवहारं गमयतीति समासोक्तेरङ्गम्।
यथा वा- 'अनुरागवती संध्या दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥'
न्तरङ्गतया संसृष्टीभूय वैचित्र्यविशेष जनयित्ा संसष्टित्वेनाप्यतिरिक्तवैचित्र्यजनक- वमिति भावः । अङ्गाङ्गित्वे इति। गुणप्रधानभावे इत्यर्थः । एकाश्रयस्थितौ एक- स्मिन्पादे पदे वा स्थितौ। आकृष्टीति। समुद्रमन्थनसमये देवादीनामाकर्षणवे- गेन विगलन् यो भुजगेन्द्रभोगस्य वासुकिदेहस्य निर्मोकपदस्त्यक्तचर्मपट्टः तद्वेष्टनया। तद्वेष्टनच्छलेनेत्यर्थः। पादमूले एकदेशे। पक्षे-चरणसमीपे। अवेष्टत अवहत्। पक्षे-संनाहक्रियावत्यतिष्ठत्। अङ्गाङ्गिभावमुपपादयति-अन्नेति। सा च अपहु- तिश्र। वस्तुवृत्तेन वस्तुगत्या। 'नायकनायिका' इति पाठे नायकेन सहिता नायिका नायकनायिका। द्वन्द्वविषय एकशेषप्राप्तेः। अनुरागेति।अनुरागो लौहित्यम्, सुर- ताभिलाषश्च। संदेहसंकरातिरिक्कस्थले एकाश्रयस्थितेर्विषयो भविष्यतीति चरमो-
- संकर इति। नीरक्षीरन्यायेनास्फुटभेदालंकारमिश्रणे संकरः। स एषोडङ्गाङ्गिभावेन संदेहेनैकाश्रयानुप्रवेशेन च त्रिविधः ।।
१. 'अहरत्' इति मुद्रितपुस्तके.
Page 628
दशमः परिच्छेदः। ५८१
अत्र समासोक्तिर्विशेषोक्तेरङ्गम्। संदेहसंकरो यथा- 'इदमाभाति गगने भिन्दानं संततं तमः । अमन्दनयनानन्दकरं मण्डलमैन्दवम् ।' अत्र किं मुखस्य चन्द्रतयाध्यवसानादतिशयोक्तिः, उत इदमिद- मिति मुखं निर्दिश्य चन्द्रत्वारोपान्मुखम्, अथवा इदमिति मुखस्य च- न्द्रमण्डलस्य च द्वयोरपि प्रकृतयोरेकधर्माभिसंबन्धात्तुल्ययोगिता, आ- होखिच्चन्द्रस्याप्रकृतत्वाद्दीपकम्, किं वा विशेषणसाम्यादप्रस्तुतस्य मु- खस्य गम्यत्वात्समासोक्तिः, यद्वाप्रस्तुतचन्द्रवर्णनया प्रस्तुतस्य मुख- स्यावगतिरित्यप्रस्तुतप्रशंसा, यद्वा मन्मथोद्दीपनः कालः सकार्यभूतच- न्द्रवर्णनामुखेन वर्णित इति पर्यायोक्तिरिति बहूनामलंकाराणां संदेहा- त्संदेहसंकरः । यथा वा-'मुखचन्द्रं पश्यामि' इत्यत्र किं मुखं चन्द्र इत्युपमा, उत चन्द्र एवेति रूपकमिति संदेहः। साधकबाघकयोद्वयोरेकतरस्य सद्भावे न पुनः संदेहः। यथा-'मुखचन्द्रं चुम्बति' इत्यत्र चुम्बनं मुखस्यानुकूलमित्युपमायाः साधकम्। चन्द्रस्य तु प्रतिकूलमिति रूप- कस्य बाधकम्। 'मुखचन्द्रः प्रकाशते' इत्यत्र प्रकाशाख्यो धर्मो रू- पकस्य साघको मुखे उपचरितत्वेन संभवतीति नोपमाबाधकः । 'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्।' अत्र योषित आलिङ्गनं नायकस्य सदशेनोचितमिति लक्ष्म्यालि- ङ्नस्य राजन्यसंभवादुपमाबाघकम्, नारायणे संभवाद्रूपकम् / एवम्- 'वदनाम्बुजमेणाक्ष्या भाति चञ्चललोचनम्।' अत्र वदने लोचनस्य संभवादुपमायाः साधकता, अम्बुजे चासं- भवाद्रूपकस्य बाधकता। एवं 'सुन्दरं वदनाम्बुजम्' इत्यादौ साधारण- धर्मप्रयोगे 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति वचनादुपमा-
कमपि संदेहसंकरं प्रथमं दर्शयति-इद्मिति। संततं सम्यग्व्याप्तम्। पक्षे- संततं तमः स्मरकृताज्ञानं भिन्दानम्। 'इदमाभाति वदनं' इति पाठो न रमणीयः । विषयस्य निगरणाभावादतिशयोकेरसंभवापत्तेः, इदमिति मुखं निर्दिश्येति निर्व- चनासंगतिप्रसङ्गाच्च। 'बदनम् इत्यन्न 'गगनम्' इति पाठोऽपि न सुन्दरः। अव्याव-
Page 629
५८२ साहित्यदर्पणे
समासो न संभवतीत्युपमाया बाधकः। एवं चात्र मयूरव्यंसकादि- त्वाद्रूपकसमास एव। एकाश्रयानुप्रवेशो यथा मम- 'कटाक्षेणापीषत्क्षणमपि निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति पिहिताशेषविषयः । सरोमाञ्चोदञ्चत्कुचकलशनिर्भिन्नवसनः परीरम्भारम्भः क इव भविताम्भोरुहद्शः ।।' अत्र कटाक्षेणापीषत्क्षणमपीत्यत्र च्छेकानुप्रासस्य निरीक्षेतेत्यत्र क्षकारमादाय वृत्तयनुप्रासस्य चैकाश्रयेऽनुप्रवेशः। एवं चात्रैवानुप्रा- सार्थापत्त्यलंकारयोः । यथा वा-'संसारध्वान्तविध्वंस- इत्यत्र रूपकानुप्रासयोः । यथा वा-'कुरबका रवकारणतां ययुः' इत्यत्र रबका रवका इत्येकं बकार-वकार इत्येकमिति यमकयोः । यथा वा- 'अहिणअपओअरसिएसु पहिअसामाइएसु दिअहेसु। रहसपसारिअगीआणं णच्चिअं मोरविन्दाणम्।।' तकल्वातू। तस्माव 'इदमाभाति रुचिरम्' इति पाठो रुचिरः। कटाक्षेणापीति। सान्द्रादिविशेषणद्वयेन आनन्दस्य ब्रह्मानन्दसदृशत्वं प्रतीयते। सरोमाञ्चादुदश्चदू उच्चात् कुचकलशान्निर्भिन्नं विगलितं वसनं यत्र सः । क इवेति। निरुपम इत्यर्थः । कटाक्षेणापीषत्क्षणमपीति वर्णद्वयघटितस्य क्षकारस्य क्रमस्रूपाभ्यां सकृत्साम्याच्छे- कानुप्रासः । पश्चान्निरीक्षेतेति क्षकारमादाय क्रम सवरूपाभ्यामसकृत्साम्यसंभवाद्ृत्त्यनु- प्रासः। एवं चतुर्थपादेऽपि मकारभकारघटितवर्णपिण्डस्य च्छेकवृत्त्यनुप्रासौ वेदि- तव्यौ। एकपदे संकरमाह-अहिणअ इति। अभिनवपयोधरसितेषु पथिक- 1. कुरबका इति। 'विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः। मधु- लिहां मधुदानविशारदा :- ' इत्यवशिष्टा पादत्रयी। अर्थालंकारविषयाणां कुवलयानन्दा- दिपु सूपपादितत्वादिह तद्गतविशेषो न न्यासीति शिवम्।' श्रीमानुदारचरितः श्रुतपारद्ृश्वा जागति भूसुरशशी सरयूप्रसादः । यश्च व्यधाज्जयपुरेन्द्रसमाश्रयेण निर्मत्सरान्तरतमोभिदुरान्निबन्धान्॥ तस्मादजायत महेश्वरपादसेवी दुर्गाप्रसाद इति शास्त्रनिविष्टचेताः । यश्चाधुना जयपुरे गणिते सगोले व्युत्पादयन्द्विजबटून्समयाकरोति॥ तेनेयं दर्पणच्छाया विहिता सारसंहृतिः । यदत्र कुकृतं तत्तु सुकृतं कुरुतानघाः॥
प्रसादविरचिता साहित्यदर्पणच्छाया ज्रह्मार्पणं भवतु॥
Page 630
दशमः परिच्छेदः। ५८३
अत्र 'पहिअसामाइएसु' इत्येकाश्रये पथिकश्यामायितेत्युपमा । पथिकसामाजिकेष्विति रूपकं प्रविष्टमिति। श्रीचन्द्रशेखर महाकविचन्द्रसूनु- श्रीविश्वनाथकविराजकृतं प्रवन्धम्। साहि त्यदर्पणममुं सुधियो विलोक्य साहित्यत्त्वमखिलं सुखमेव वित्त।| १०० ।। यावत्प्रसन्नेन्दुनिभानना श्रीर्नारायणस्याङ्गमलंकरोति। तावन्मनः संमदयन्कवीनामेष प्रबन्धः प्रथितोऽस्तु लोके॥१०१।। इत्यालंकारिकचक्रव र्तिसांधिविग्रहिकमहापात्रश्रीविश्वनाथकविराजकृते साहित्यदर्पणे दशमः परिच्छेदः । समाप्तश्चायं प्रबन्ध:।
श्यामायितेषु दिवसेषु। रभसप्रसारितग्रीवाणां नृत्यं मयूरवृन्दानाम् ।।' इति सं- स्कृतम्। महति उत्सवायते। पथिकानां प्रियाविरहदुःखेन श्यामत्वम्, दिवसानां मेघेनेत्युपमा। पक्षे-पथिका एव सामाजिकास्तेषु नाट्यदर्शनेन सामाजिकानामु- त्सवो भवतीति रूपणम्। पथिकानां मयूरनृत्यं सुखदं न भवतीति महतीत्युक्तम् । वस्तुतस्तु 'मुखचन्द्रं पश्यामि' इत्यादौ यथा समासद्वयसंभवात्संदेहः, तथेहापि 'पहिअसामाइएसु' इति प्राकृतयोनिशब्दद्वयसंभवात्संदेह एवेत्यवधेयम्। एवं चैक- पदवृत्तिसंकरस्योदाहरणम् 'संसारध्वान्तविध्वंसहंसः' इत्याद्यवगन्तव्यम्। यथा वा-'मनो विद्धं सरोजाक्षीस्मरशत्त्या सुनिर्भरम्। सा चेद्विसजते गाढं स्वास्थ्य मालम्बते खलु ॥' इत्याद्युदाहरणमुन्नयेमिति॥ अक्षिपक्षरसचन्द्र (१६२२) संमिते हायने शकवसुंधरापतेः। श्रीलरामचरणाग्रजन्मना दर्पणस्य विवृतिः प्रकाशिता। दोषं कंचन वीक्ष्य सूक्ष्ममतयो द्वित्रा: शपन्त्यत्र चे- त्तन्मां न व्यथयेद्गुरोरपि गिरो निर्दूषणा दुर्वचाः । छात्राणां मतिमादधाति यदसौ गूढार्थ संदीपना- दानन्दं वितनोति यङ्गुणवतां तेनास्म्यमोघश्रमः ॥१ इति श्रीरामचरणतकेवागीशभट्टाचार्यविरचितायां साहित्य दर्पणवित्ृतौ दशमः प्रकाशः ।
१. 'मन्मानसाम्बुजद्वन्द्वं सेव्यमानं मुनीश्वरैः। वाव्छाकल्पतरुं वन्दे रामचन्द्रपदद्वयम्।।' इत्यधिकं पुस्तकान्तरे.
Page 632
साहित्यदर्पण भूमिकायां २१-२२ पृष्ठयोर्वर्णितानां (१ )
चित्रबन्धा नामा कारा:
खङ्गबन्धः। मुसलबन्धः।
जा दि
मे दि श्या दु मा रामा णां शं मा धी:
सी थ या व
्या
भ्रियां बाधित संश्र मा
मा तानतानांसंघट्ट: ष
म हि
म
हा च
द मे वा
भ र
सा
नि या वा था
तं सा य
ल ला
स लो
त 석 서 요 의 의 과 퍼 . 괴 씨 관 에 시 의 의
सा जा
Page 633
(2 )
धनुर्बन्धः।
मु त्स दै ण्या वा
र रु
श क्प्र
दा दा
भी च
म ररात मा छा सी त्रा सात्रा सं त्रा वि प रा धी:
मा
Page 634
( ३ )
शरबन्धः। शूलबन्धः।
वीं न्
दे म वा दया
क शि ता सि लो
षं
रु श प
ना
क
मा
सा स्वा
न ग द म ला रं
दा स्य र्व स म मा
Page 635
( ४ )
शक्तिबन्धः।
का
षा त्र
न्या ना
हलबन्ध:।
नि नन्त पा त्या (सा ह रं) स्य | स्य शि र
तं ग यि त्ा
मा
गा ना धि
Page 636
( ५ )
अष्टभिश्श्वक्र बन्धः।
9
सा रा रण्य सचा नि क्य यानि पात् होति रं ह नित्य न दतिहि हारमक्ष
क रुाम्पाना मा वा मु
मा मात 의 과 H 보 의 액 의 서 석 의 리 레 쇠 회 "म ना हि हि
36 स्तु
ना 19 हिस पया
वी स
S स पवित्रा सता सात्रपर स
लासीष्ामातरार न सासा दार गलासा
5
Page 637
(६ )
पद्मबन्ध:।(पृ. ४६९)
वासा मेउ स्तु
मा रमा त्तधू
षस रव चारु
मुरजबन्धः। (पृ.४७०)
सो से ST EX
x सी
जे मा
ध्री गे म नो यो
Page 638
साहित्यदर्पणस्योदाहरण श्लोकानामकाराद्यनुक्रमणिका ।
अ पृष्ठम् पङ्ि :. पृष्ठम् पङ्गि :. अकलङ्कं मुखं तस्या :... ५२४१ १७ अनायासकॢृशं मध्यं .. ५४९ / ६ अकस्मादेव तन्वङ्ञि ... १३११ १५ अनुयान्त्या जनातीतं ३१८१२ अङ्गानि खेदयसि ... ३२४ । १२ " ... ५२८/ ७ अर्ध्यमध्यमिति अनुरागवती संध्या ... ५८०१ १५ ... १४११ ५ अचला अबला वा स्यु: ३९३ । ३ अनुरागवन्तमपि अनुलेपनानि कुसुमानि ... ४०४१ ४ अजस्य गृह्नतो जन्म ... ५५० । १२ ५१८१ १० अजायत रतिस्तस्या :... ३९७| १९ अनातपत्रोऽप्ययमत्र ५७५/ ७ अत्ता एत्थ निमज्जइ ... ९७॥ १ अनेन छिन्दता मातु: ३८४। ४ अत्युन्नतस्तनमुरो नयने १०६१ अॅनेन पर्यासयता -... ४ ५४० । १४
अत्युन्नतस्तनयुगा -... २२६ । अनेन लोकगुरुणा ... २३३। अत्रान्तरे किमपि वाकू १२६। -२ अन्तःपुरीयसि रणेषु ... ४८१॥ ३ अत्रासीत्फणिपाशबन्ध- ३३०१ १७ अन्तर्छिद्राणि भूयांसि ५३९॥ २ अत्रास्मार्षमुपाध्याय ... ४१०l अन्तिकगतमपि मामिय- १३४। १२ ७ अथ तत्र पाण्डुतनयेन १५३॥ ८ अन्यदेवाङ्गलावण्य -... ५१६॥ १३ अद्य प्रचण्डभुजदण्ड- ३४२। अन्यासु तावदुपमर्दसहासु १५५। ३ अद्यापि देहि वैदेहीं ... ३३१॥ ३ अन्यास्ता गुणरत्नरोहण- ४१५। ६
अद्यापि स्तनशैल ... ३८९। २ " ... ३८१। अधःकृताम्भोधरमण्डलानां ५७६। अप्रियाणि करोत्वेष वाचा ३०१। ११ ४ अधरः किसलयरागः ३१९। अभ्युन्नता पुरस्तादवगाढा २८९/ ७
अधरे करजक्षतं ... ३९४। अमितः समितः प्राप्तैः २०४।
अंध्यासितुं तव चिरात् ३४२ । ११ अमुक्ता भवता नाथ ३६६।
अनङ्गमङ्गलभुवः अयि मयि मानिनि मा कुरु३८०। १ .. ४२७ । ३ अनलंकृतोऽपि सुन्दर ... १०९॥ ६ अयमुदयति मुद्राभज्जनः ४४१ / १०
अनन्यसाधारणधीर्धृता २१५ । अयं मार्तण्ड: किम् ... ५०१॥ ३ अनणुरणन्मणिमेखलं ४०३॥ ८ अयं रत्नाकरोऽम्भोधि- ५५३। १२
१. चन्द्रकलायाम्। २. कालिदासस्य रघुवंशे। ३. कालिदासस्य कुमारसंभवे। ४. धनिकस्य। ५. भवभूतेर्मालतीमाधवे। ६. बालरामायणे। ७. माघस्य शि० शुपालवधे। ८. प्रभावत्याम्। ९. कालिदासस्याभिज्ञानशाकुन्तले। १०. भट्टना- रायणस्य वेणीसंहारे। ११. विश्वनाथस्य। १२. शिशुपालवधे। १३. शिशुपाल- वधे। १४. रघुवंशे। १५. विश्वनाथस्य। १६. विकटनितम्बायाः । १७. वेणीसंहारे। १८. अभिज्ञानशाकुन्तले। सा० द० ५०
Page 639
२
पृ. प. अयं स रशनोत्कर्षी ... पृ. प. २२८। ६ अहिणअपओअरसिएसु ५८२ । १३ .. ४९७॥ ९ अयं सर्वाणि शास्त्राणि आ ४५८। ६ आकृष्टवेगविगलदू ... ५८०। ४ अरविन्दमिदं वीक्ष्य ... ४९१ । १३ आक्षिपन्त्यरविन्दानि ३१७१५ अरातिविक्रमालोक -... ४८५ । आचरति दुर्जनो यत् ४१५/ २ अरुणे च तरुणि नयने ५६७ । १२ अतिगूढगुणायाश्च ... ५२५/ ५ अलमलमतिमात्रं साहसेन २७३। ३ आत्मा जानाति यत्पापम् ३७२। ८ अलं स्थिता इमशानेऽस्मिन्२२०। २ आदाय बकुलगन्धानू ४४७। ५ अलिकुलमज्जुलकेशी ... ३४३ । ११ आदित्योऽयं स्थितो मूढा: २२०। ८ अलिअपसुत्तअ ... १६७॥ ५ आनन्दममन्दमिमम् ... ५५३। अविदितगुणापि ... ५२१ । ७ आनन्दयति ते नेत्रे ... ३७१ । अविरलकरवालकम्पनैः ५७७॥ ७ आनन्दयति ते नेत्रे योऽधुना३७२। ३ अव्यूढाङ्गमरूढपाणि- ४३४। ५ आनन्दितखपक्षोऽसौ ३९६ / १३ अशक्कुवन्सोढुमधीरलोचनः १९४। २ औनन्दाय च विस्मयाय च ३०९। ६ अश्रुच्छलेन सुदृशो ... ५१२ । १३ आंपतन्तममुं दूरा -... २०६। १२ अश्वत्थामा हत इति ... २९३ । ७ आपातसरसे भोगे . ... ३९५ / ११ असमाप्तजिगीषस्य ... ५२९ । ८ औमीलितालसविवर्ति- ५७६। १४ अंसावन्तश्चञ्चद्विकच- ३२१ । ९ आवर्त एव नाभिस्ते ... ३९५। ६ अैसंभृतं मण्डनमङ्गयष्टेः १२३ । ५ आशीःपरम्परां वन्यां २६३ । ७
असंशयं क्षत्रपरिग्रहक्षमा १५१ । ७ आश्लिष्टभूमि रसितारमुच्चै: १४६॥ ४
अस्माकं सखि वाससी ९४ / ११ आसमुद्रक्षितीशानाम् ३५६। ५
V अस्य राज्ो गृहे भान्ति ४८९ । १२ आसादितप्रकटनिर्मल -- २६६ । अस्य वक्ष: क्षणेनैव ... ३२८। ८ आसीदञ्जनमत्रेति ... ५७४।
... ३४२। २ आहवे जगदुद्दण्ड- ... ४९३ / १० अस्या: सर्गविधौ प्रजापति ५१६। १६ आहारे विरतिः समस्त- २२२ ।
अहमेव मतो महीपतेः १०० ॥ ८ आहूतस्याभिषेकाय. १०१॥ ४
अहमेव गुरुः सुदारुणानाम्५६९। ११ आहूतेषु विहङ्गमेषु ... ४०४। ७
१. श्रीमहाभारते द्रोणपर्वणि। २. श्रीहर्षदेवस्य रलावल्याम्। ३. श्रीमहाभारते द्रोणपर्वणि। ४. गाथासप्तशत्याम्। ५. सुबन्धोवोसवदत्तायाम्। ६. शिशुपालवधे। ७. विश्वनाथस्य। ८. वेणीसंहारे। ९. कल्हणस्य राजतरङ्गिण्याम्। १०. विश्रव- नाथस्य चन्द्रकलायाम्। ११. कुमारसंभवे। १२. अभिज्ञानशाकुन्तले। १३. रुद्र- स्य शङ्गारतिलके। १४. प्रभावत्याम्। १५. विक्रमोरवश्याम्। १६. रघुवंशे। १७. गाथासप्तशत्याम्। १८. श्रीमहाभारते द्रोणपर्वणि। १९. महावीरचरिते। २०. शिशुपालवधे। २१. विश्वनाथस्य। २२, शिशुपालवधे। २३. रघुवंशे। २४. भल्टशतके।
Page 640
२
पृ. प. पृ. प. आज्ञा शकशिखामणि- ३९४ / ११ उद्यत्कमललौहित्यैः . ३६९। ७
इ .त्रमितैकभ्रूलत- २९४। ९ इति गदितवती रुषा ... १२०१ ५ ४३१ । १ इत्थमाराध्यमानोऽपि ५४३। ४ ४४७/ १४ इैदं किलाव्याजमनोहरं वपुः३२०। ३ उन्मीलन्ति नखेंर्लनीहि ५६० । ३
५२२ / २१ उपकृतं बहु तत्र किमुच्यते ४० । ७ इदमाभाति गगने " ... .. ५८१। २ उपदिशति कामिनीनां ४९ / २ इंदं वकं साक्षात् ४९८ उर्व्यसावत्र तवाली ... ... ३ ३८२। ६ इन्दुर्विभाति कर्पूरगौरै: ३८२। ८ उवाच मधुरां वाच ... ३७८|७ इन्दुविभाति यस्तेन ... ३७३। ९ उवाच मधुरं धीमान् ३७८१ १० इन्दुर्लिप्त इवाजनेन, .. ५३६ १ १६ ऊ
३२९ । ४ ऊरुः कुरङकदशश्रच्चल- ५०८। ७ इयं स्वर्गाधिनाथस्य ... ३१८। ८ ए
इह पुरोSनिलकम्पित- ५०६। ३ एकं ध्याननिमीलनात् ४१८१
इहैव त्वं तिष्ठ द्रुतम् ... ५५७॥ ६ एक: कपोतपोतः शतशः ५३८। ४
ई एकस्मिञ्शयने परास्मखतया१६८। ४ ईक्षसे यत्कटाक्षेण ... ३८३ । १२ एकस्यैव विपाकोऽयम् २९५ / १६ उ एकत्रासनसंस्थितिः ... १०८११५ डैअ निच्चलनिष्पन्दा ६२॥ ४ एतद्विभाति चरमाचल- ५०५/ उत्कृत्योत्कृत्य कृत्तिम् ... ४०६ / ८ एवमुक्तो मन्र्रिमुख्यैः ३८५। १२
.. १८२/ १७ एवंवादिनि देवषी ... १४८१ १४ उत्क्षिप्त करकङ्कणद्वयमिदम्-११४। १६ एष दुश्च्यवनं नौमि ... ४२२ / ७ उतिष्ठ दूति यामो ... ११६११३ एष मूर्तो यथा धर्म :... ४०१ / १३ उत्फुल्लकमलकेसर -... ३३३ । १३ ऐसा कुडिलधणेण १५४। उत्साहातिशयं वत्स ... २८७|१७ एसो ससहरबिम्बो ... ४११ ३ उदन्वच्छिन्ना भू: ... ३८७१ ६ ऐ डंदेति पूर्वे कुसुमं ततः फलम्३२५। ११ ऐन्द्रं धनुः पाण्डुपयोधरेण ५३२। ५ उदेति सविता ताम्र :... ३८६। ३ ऐशस्य धनुषो भङ्गम् ... ३९४। ४
डैद्दमोत्कलिकाविपाण्डुर २७४ । ... ४०८ १ १३ ओ ओवट्टइ उल्लद्द ... ३७७। २
१. बालरामायणे। २. शिशुपालवधे। ३. कुमारसंभवे। ४. अभिज्ञानशाकुन्तले। ५. विश्वनाथस्य। ६. ययातिविजये। ७. सातवाहनस्य गाथासप्तशत्याम्। ८. मा- लतीमाधवे। ९. बालचरिते। १०. अभिज्ञानशाकुन्तले। ११. रलावल्याभ्। १२. अभिज्ञानशाकुन्तले। १३. अमरुशतके। १४. वेणीसंहारे। १५. अमरु- शतके; सुभाषितावलौ तु पुलिनस्य। १६. विश्वनाथस्य। १७. कुमारसंभवे। १८. विश्वनाथस्य ।
Page 641
8
पृ. प. पृ. प. औ कौलरात्रिकरालेयं ... ३३०। ३ औत्सुक्येन कृतत्वरा ... ४१६११३ कालान्तककरालास्यं .. २९६ | ११ क काले कोकिलवाचाले ... ४५६। १ केटाक्षेणापीषत् कोलो मधुः कुपित एष च ५९/ १० ... ५८२ । ३ कटिस्ते हरते मनः ... ३६३। २ काले वारिधराणाम् ... ५०५/ १९ कैथमुपरि कलापिनः ... ५१६ । ३ का विसमा देव्वगई. ५६४। १ कथमीक्ष कुरद्गाक्षीं .. १६४। ४ 93किं करोषि करोपान्ते ३५२ / १६ कैदली कदली करभः करभः१९९। ९ १४ किं तावत्सर सि सरोजमेतत्५०१। १० कदा वाराणस्यामिह ... १८६१ १५ किं तारुण्यतरोरियं ... ५००/ ११ कपोलफलकावस्या: ... ५०९॥ किं देव्या न विचु -... ३२७/ १७ कपोले जानक्याः करिकलभ४२१। ३ १६ किं भूषणं सुदृढ ... ५६२ ८ कमलालिद्गितस्तारहार- ४०२ । ६ किमधिकमस्य ब्रूमो ... ५५५। कमले चरणाघातं ... ३६४ । २ किमाराध्यं सदा पुण्यं ५६३। कमलेव मतिर्मतिरिव ४९१ । ४५७। कैमलेण विअसिएण ... किरणा हरिणाङ्कस्य ... १५६१ २ किं रुद्धा प्रियया कया ११८। २ कर्ता दयूतच्छलानां जतुमय ३४१। ५ १किं शीकरैः क्रमविमर्दिभि-३२३। ५ कर्पूरखण्ड इव राजति ४०१ । ३ १९ किसलय मिव मुग्धं ... १५५/ ११ कैरमुदयमहीधरखनाग्रे १३६। ११ कुअं हन्ति कृशोदरी ३७५ । ६
करिहस्तेन संबाधे ... ४९६ / १४ कुपितास्य यदा तन्वि ... ५४६/ ११ ४०६ । १२ कुर्या हरस्यापि .. ३७८। कलयति कुवलयमाला ५२२ / १० ३05 कुर्वन्लाप्ताहतानां ... २९८। १२ कलुषं च तवाहितेष्वकस्मात्५६८। १ कुमारस्ते नरावीश ... ३९३। कस्स व ण होइ रोसो २४५/ '१० कूजन्ति कोकिला: ४७१ । कान्तास्त एव भुवनत्रितयेऽपि१९२।१० कृतप्रवृत्ति ... ३६९ । ५ कान्ते तथा कथमपि ... १०४/११ कृतमनुकृत ... ... १७८११२ कानने सरिदुद्देशे ... ५५६ ॥ ९ कृत्वा दीने निपीडनां ... १५४। ८ काप्यभिख्या तयोरासीत् ४० २ / १३ कृष्ठा केशेषु भार्या ... २९७ / ६ कीमं प्रिया न सुलभा २८९ / ३ के द्रुमास्ते क्व वा ग्रामे १३०। १५ कार्तार्थ्य यातु तन्वङ्गी ३६१। १४ के यूयं स्थल एव संप्रति ४५५। ५
१. रलावल्याम्। २. विश्वनाथस्य। ३. विश्वनाथस्य। ४. जयदेवस्य प्रसन्नरा- घवे। ५. विश्वनाथस्य। ६. वेणीसंहारे। ७. विश्वनाथस्य। ८. शङ्गारतिलके। ९. रघुवंशे। १०. अभिज्ञानशाकुन्तले। ११. बालरामायणे। १२. विश्वनाथस्य। १३. विश्वनाथस्य। १४ शिशुपालवधे। १५. बन्धोः । १६. बकस्य। १७. श- झारतिलके। १८. अभिज्ञानशाकुन्तले। १९. उत्तररामचरिते। २० वेणीसंहारे। २१. वेणीसंहारे। २२. विश्वनाथस्य। २३. वेणीसंहारे।
Page 642
ृ. प. पृ. प. केशः काशः स्तबकविकासः४४९। ५ गीतेषु कर्णमादत्ते ... ३६५/ ७ कोऽत्र भूमिवलये ... ५२२ । ३ गुरुतरकलनू पुरानुनादं १२९। ४ कोकिलोऽहं भवान्काक: केरग्रहः सकेतुश्रन्द्र- ५३८१ १४ गुरुपरतन्त्रतया बत ... ६३। २६९ / २ क्वैचित्ताम्बूलाक्त: गुरोर्गिरः पञ्चदिनान्यधीत्य १७६। ... १०६॥ कै सूर्यप्रभवो वंशः ... प्रभामि काव्यशशिनं ... ४००॥ ५२३ । ९ के वनं तरुवल्कभूषणं मृहीतं येनासी: ... ३९२। १२ ५५३ । १६ गृँहिणी सचिवः सखां ५५६१ ११ क्कोकार्य शशलक्ष्मणः ... १९६। २ गरृह्यता भर्जितमिदं ... २९३ / १३ ४ क्षात्रधर्मोचितैधर्मै: ... ४१७॥ घ ३१९ / १२ घटितमिवाज्जनपुजैः ... ५१२ । 9 क्षिपसि शुकं वृषदंशक- ५२३ / १७ घोरो वारिमुचां रव :... ३८८ । २ क्षिप्तो हस्तावलग्नः ... ४१८ । १२ च क्षीण: क्षीणोऽपि शशी ५२५ । ९ चकोर्य एव चतुराश्रन्द्रिका-५२१। २ क्षीरोदजावसतिजन्म- ३६५ । २ चक्राधिष्ठिततां चक्री ... ४०५। २ क्षेमं ते ननु पक्ष्मलाक्षि १७४॥ २८६। V ३
ख " ... ४१६ ॥ खङ्ग: क्ष्मासौविदल्लः ... ४९६। चण्डाल इव राजासौ ... ४०१ । २ ग चण्डीशचूडाभरण- ... ३९६ । १५ गङ्गाम्भसि सुरत्राण -... ५०९। चन्द्रं मुञ्च कुर्गाक्षी ... ३८९ । ८
गच्छ गच्छसि चेत्कान्त- ५४८। ९ चन्द्रायते शुक्करुचापि ४८९ । ३
गच्छामीति मयोक्तया ५३७। चरणानतकान्ताया :... ३८५। ९ nY गता निशा इमा बाले ३७७। ६ चरणपतनप्रत्याख्यानात् १९५/ ७
गर्दभति श्रुतिपरुष ... ४८४। चलण्डामरचेष्टितः ३८२ । ४ V गमनमलसं शून्या दृष्टिः ३०८। ४ चैलापाङ्गां दृष्टिं स्पृशसि २२१ । ४
गाङ्गमम्बु सितमम्बु ... ५७१। चारुणा स्फुरितेनायं ... ३२७। ९
गाढकान्तदशनक्षतव्यथा चित्रं चित्रमनाकाशे ... ४०८११७ गोढालिङ्ग नवामनीकृत- २०७। ३ ४०१/ २१ चिन्ताभिः स्तिमितं मनः १७० । १३ गौण्डीवी कनकशिला- ३७५ । ८ चिरं जीवतु ते सूतुः ४०२ । १९ गाम्भीर्येण समुद्रोऽसि ५०४ / १२/ चिररतिपरिखेदप्राप्त ... १४५/ २
१. विशाखदत्तस्य मुद्राराक्षसे। २. अमरुशतके। ३. रघुवंशे। ४. विश्वना- थस्य। ५. कालिदासस्य विक्रमोर्वश्याम्। ६. विश्वनाथस्य। ७. अमरुशतके। ८. काव्यालंकारे। ९. चन्द्रशेखरस्य। १०. दण्डिनः काव्यादर्शे। ११. मालती- माधवे। १२. अमरुशतके। १३. भारवेः किरातार्जुनीये। १४. शिशुपालवधे। १५. शङ्गधरस्य लटकमेलके। १६. वेणीसंहारे। १७. रघुवंशे। १८. क्षेमेश्वरस्य चण्डकौशिके। १९. वेणीसंहारे। २०. अमरुशतके। २१. अभिज्ञानशाकुन्तले। २२, अभिज्ञानशाकुन्तले। २३. चन्द्रशेखरस्य। २४. शिशुपालवधे।
Page 643
६
ज पृ. प. पृ. प.
जह संहरिन्इ तमो ... ३२११ ५ तद्विच्छेदकृशस्य ... ४०५। ९ जक्षुर्बिसं धृतविकासि ३७८ । १५ तद्वेशोऽसदृशोऽन्याभि: ४०३। ४ जेगाद वदनच्छझ्म ... ५७०११७ तैनुस्पर्शादस्या दरमुकुलिते १३९। २ १९३॥ ८ जनस्थाने भ्रान्तं ... तन्वङ्गयाः खनयुग्मेन ५०९ / १३ २२९ / ६ तैव कितव किमाहितैः १२० । १ जन्मान्तरीणरमणस्याङ्ग- ५७७। १६ जन्मेन्दोर्विमले कुले ... तव विरहे मलयमरुत् ५५० । ८ २९८। ५ तव विरहे हरिणाक्षी ... ५४७ । ११ जन्मेदं वन्ध्यतां नीतं ५२३ । ५ तैवास्मि गीतरागेण ... २६६ / १३ जलकेलितरलकरतल- २५१ । ४ ज्वलतु गगने रात्रौ ... तस्य च प्रवयसो जटायुष: ५६१।१७ १२५ । ४ तस्यास्तद्रूपसौन्दय ... ३४४। ४ जस्स रणन्ते उरए ... ५३०। ११ तस्या मुखेन सदृश ... ४८३/ ७ जाता लज्जावती मुग्धा ३९८। २ तह से झत्ति पउत्ता १२२/ १७ जानीमहेऽस्या हृदि ... ५४५/ १६ तामिन्दुसुन्दरमुखीं ... ३७३ । ५ जीयन्ते जयिनोऽपि ... ३१०। ११ तामुद्वीक्ष्य कुरङ्गाक्षीं ... ३९७/ १६ जुँगोपात्मानमत्रस्तो ... ३६८। ४ १तां जानीथाः परिमितकथां११७। २ ज्ञातिप्रीतिर्मनसि तीरुण्यस्य विलासः ... ... २९७।१८ १२३ । १५ ज्ञाने मौनं क्षमा शकौ ५०८१ १० २0 तिष्ठेत्कोपवशात्प्रभा ४१४ / ६
ज्योत्स्ना इव सिता ... ४०२ / १२ २१ तीर्णे भीष्ममहोदधौ ३००।
ज्योत्स्ाचयः पयःपूरः ३८३ । १५ तीर्थे त्वदीये गजसेतुबन्धातू३८८। ८ २तीव्राभिषङ्गप्रभवेण वृत्ति १४४। १० णंवरिअतं जुअजुअलं ण १४३ । ५ तृष्णापहारी विमलो ... ३२११ १५
त २३ते हिमालयमामन्न्य ३७७। २ ततश्चचार समरे ... ३९३ । १० स्वैद्वाजिराजिनिधूत -- १९०१ ८
तत्पश्येयमनङ्गमङ्गल ... ३२८। ६ ... ५४४/ ७
तेद्रेच्छ सिध्धै कुरु ३७४ । त्वया तपखिचाण्डाल ३२७ । १३ ... ४ तदङ्गमार्दवं द्रष्टुः ५१९ / त्वया सा शोभते तन्वी ५५६। १ ... तैदवितथमवादीर्यन्मम १०७/२० त्वयि दृष्टे कुरङ्गाक्ष्याः ५२१ ।
तैदप्राप्तिमहादुःख -... २१६ । ७ त्वयि संगरसंप्राप्त ... ५५८ ४
तद्वकं यदि मुद्रिता ... ५६९ ॥ ३ त्वामस्मि वच्मि विदुषां २१२१ ७
१. शिशुपालवधे। २. कविमलमल्लाचार्यस्योदारराघवे। ३. वाचस्पतिभट्टस्य। ४. वेणीसंहारे। ५. मालतीमाधवे। ६. उदात्तराघवे। ७. रधुवंशे । ८. वेणी- संहारे। ९. रघुवंशे। १०. विश्वनाथस्य कुवलयाश्वचरिते। ११. कुमारसंभवे। १२. शिशुपालवधे। १३. श्रीविष्णुपुराणे। १४. विश्वनाथस्य। १५. विश्वनाथस्य। १६. शिशुपालवधे। १७. अभिज्ञानशाकुन्तले। १८. कालिदासस्य मेघदूते। १९. वि. श्वनाथस्य चन्द्रकलायाम्। २०. विक्रमोर्वश्याम् ।२१. वेणीसंहारे। २२. कुमारसंभवे। २३. कुमारसंभवे। २४. विश्वनाथस्य ।
Page 644
७
प. पृ. प. स्वाभामनन्ति प्रकृति ... ४०८। २ दूरागतेन कुशलं १३० । २ त्रेस्यन्ती चलशफरी ... १३२ । २ दप्तारिविजये राजन् ... ३६२/ २ त्रिभागशेषासु निशासु १६४/ १० देशा दग्धं मनसिजं ... ४४८ । १०
देत्ते सालसमत्परं भुवि दृश्येते तन्वि यावेतौ ... ३२५ । 9 १०३१४ टैष्टा दृष्टिमधो ददाति १०३॥ ९ दत्वा कटाक्षमेणाक्षी ... ५६१॥ १४ दैष्टिं हे प्रतिवेशिनि ... दैत्वाभयं सोऽतिरथो ... २०६। ३२३। १२ १००। १४ दैधद्विदयल्लेखामिव ... ३०३ । १६ दृष्ट्रेकासनसंस्थिते प्रियतमे१०९। १५ दन्तप्रभापुष्पचिता ... ५३१ । ९ "> ... ४३७/ ११ दॅलति हृदयं गाढोद्वेगो २९९ / ११ दृष्टया केशवगोपराग- २३४/ ८ दलिते उत्पले रके ... ३८१ । १३ देवः पायादपायान्नः ... ५७९१ ११ दशाननकिरीटेभ्यः ... २०८। ७ देश: सोऽयमरातिशोणितज-३३१। १८ दानं वित्तादतं ... ५१९। ५ देहि मे वाजिनं राजन् दासे कृतागसि भवेत् ३९० / १० ४९६ । २ ४१५ / १२ २४दूयं गतं संप्रति शोचनीयतां३८४। १४ दिनं मे लयि संप्राप्त ... ३६४ / १० दीपादन्यस्मादपि ... दिवाकराद्रक्षति यो गुहासु ४०१। २६६/ २ ६ दिवमप्युपयातानां ... ५५६। ७ धनिनोऽपि निरुन्मादा ५४९ / १२ १रदिवि वाभुवि वा ममास्तु१९०। २ 93दिशि मन्दायते धन्यः स एव तरुणो नयने२१२। ३ ... २०६/ ८ धन्यासि वैदर्भि गुणैः ५२० / ११ दीधीवेवीड्सम: ... ४१० । ४ धैन्यासि या कथयसि १०५।१४ दीपयन्रोदसीरन्ध्र --... २३१। ५ धन्याः खलु वने वाताः ५३८। ८ दीयतामर्जितं वित्त -- ५६६। १ धम्मिल्लस्य न कस्य प्रेक्ष्य ३७१। दरीरघाक्षं शरदिन्दुकान्ति ८४। २ धम्मिल्ले नवमल्लिका- २०८१११ दुर्गालङ्वितविग्रहो मनसिजं ५८। ३ धम्मिल्लमर्धमुक्तं कलयति १३१। ५ दुल्लहजणाणुराओ ... २९० । २ धवलयति शिशिररोचिषि ३९८। ८ १दूरं समागतवति लयि ५२०। १ धातुमत्तां गिरिर्धत्ते ... ३७४ । ५
१. कुमारसंभवे। २. शिशुपालवधे। ३. कुमारसंभवे। ४. विश्वनाथस्य प्र- भावतीपरिणये। ५. वेणीसंहारे। ६. प्रभावत्याभ्। ७. मालतीमाधवे। ८. र= घुवंशे। ९. भट्टप्रभाकरस्य। १०. कुमारसंभवे। ११. काव्यालंकारे। १२. कु० लशेखरनृपतेः । १३. रघुवंश। १४. कालिदासस्य मालविकानिमित्रे। १५. च० न्द्रशेखरस्य। १६. रलावल्याम्। १७. विश्वनाथस्य । १८. राजशेखरस्य विद्धशालभजिकायाम्। १९. श्रीहर्षदेवस्य। २० विज्जाकायाः । २१. भवभूते- रुत्तररामचरिते। २२. अमरुशतके। २३. भवभूतेर्वीरचरिते। २४. कुमार संभवे। २५. रलावल्याम्। २६. श्रीहर्षस्य नैषधीयचरिते २७. विज्जाकायाः।
Page 645
V
प. पृ. प. धिन्वन्त्यमूनि मदमूर््छंद-२२७ । १ १४ निर्वीर्य गुरुशापभाषित- ३२३। १६ धीरो वरो नरो याति ... ३७७ । १निःशेषच्युतचन्दनं स्तनतटं६०। २ V धुनोति चासि तनुते ... ५६८। ३ १६ निश्वासान्ध इवादर्श: २००। ४ धृतायुधो यावदहं ... १४६११० निसर्गसौरभोद्भ्ान्त ... ५३१। ३ न १निहताशेषकौरव्यः .. २९७/ १३ ने खलु वयममुष्य दानयोग्या: ११९/७ ३२२ । २ ने च मेऽवगच्छति यथा ११४। १४ नीतानामाकुलीभावं ... ... ४५८। ने तज्जलं यन्न सुचारु ... ५५८१ १२ नेदं नभोमण्डलमम्बुराशि-५०५। ७ न तथा भूषयत्यङ्गम् ... १४७॥ ७ १ नेत्रे खज्जनगञने सरसिज-१०५। ५ न धत्ते शिरसा गङ्गां ... ५४५ / १० नेत्रैरिवोत्पलैः ... ४८८ । ९ न मे रमयिता कोऽपि ३७३ । ११ १० नो चाटु श्रवणं कृतं न च११६। ६ न ब्रूते परुषां गिरं ... १२४/ १६ प न्यक्कारो ह्वयमेव मे .. ६१४ पैणअकुविआणँ दोण्णं १६७॥ नयनज्योतिषा भाति ... ४०२। पद्मोदयदिनाधीशः ... ४९३ / १४ नयनयुगासेचनकम् ... १८५१ १२ पन्थिअ ण एत्थ सत्थरमत्थिर०३। ८
नयने तस्यैव नयने च ... ५५१ । पैन्थिअ विआसिओ विअ१३५। ५ ४०८। १ परापकारनिरतर्दुर्जनैः सह ५४५। ५ नवजलधरः सन्नद्वोऽयम् २ वैरिषदियमृषीणां ... २९२। १० नैवन खपदमङ्गं ३६७। ... १६९ / २ नेवपलाशपलाशवनं ... पैरिस्फुरन्मीन विघट्वितोरवः१५२। २ ४५४। ४ नैष्टं वर्षवरैर्मनुष्यगणना- परिहरति रतं मति लुनीते३९८। १२ ८८| १ नौभिप्रभिन्नाम्बुरुहासनेन ५७६। नपैर्वतमेदि पवित्रं जैत्रं ४०७॥ ५ ६ पल्लवाकृतिर क्ोष्ठी ... ३७७। ९ नाशयन्तो घनध्वान्तं ३८३। ९ مـ नौहं रक्षो न भूतो ... पल्लवोपमितिसाम्यसपक्षं १२८। ३०१ । ३ पैश्यन्त्यसंख्यपथगां ... ५४४ / १० निजनयन प्रतिबिम्बैः- ४३७/ १० २१८। १ निर्माणकौशलं धातु: ४९५ / ११ १२ निरर्थकं जन्म गतं नलिन्याः५२८/९ पश्यामि शोक- ... ३२६ । २२ पश्येत्कश्चिच्चल चपल रे ५७८॥ 93 निर्वाणवैरदहना: ... २७०। ४ पाणिपल्लवपेलवः ... ३७४ । ९
१. वेणीसंहारे। २. शिशुपालवधे। ३. शिशुपालवधे। ४. भट्टिकाव्ये। ५. इनुमन्नाटके। ६. विक्रमोर्वश्याम्। ७. शिशुपालवध। ८. शिशुपालवधे। ९. रत्नावल्याम्। १०. रघुवंश। ११. वेणीसंहारे। १२. बिल्हण-राजकन्ययोः । १३. वेणीसंहारे। १४. वेणीसंहारे। १५. अमरुशतके। १६. भगवतो वाल्मीकेः । १७. वेणीसंहारे। १८. विश्वनाथस्य। १९. चन्द्रशेखरस्य। २०. गाथासप्तश- त्याम्। २१. विश्वनाथस्य। २२. महावीरचरिते। २३. किरातार्जुनीये। २४. त्रिविक्रमस्य दमयन्तीकथायाम्। २५. शिशुपालवधे। २६. विश्वनाथस्य।
Page 646
पृ. प. पृ. प. पाणिरोधमविरोधितवाञ्छं १२७। १० प्रायश्चितं चरिष्यामि ... १४८। २ पाण्डवानां सभामध्ये ... ४७२।४ प्रायेणैव हि दृश्यन्ते कामं ३१९। २ पाण्डु क्षामं वदनं हृदयं पौदाहतं यदुत्थाय १६४१ १४ प्रिय इति गोपवधूभिः ५०३। १४ ५३६ । ५ प्रियजीवितताकौर्य -... ३४४। २ पादाघातादशोकस्ते ... ३९३। २२ प्रेमार्द्रा: प्रणयस्पृशः ... १६३। १५ पान्तु वो जलदश्यामाः ४९४। ४ प्रोज्वलज्वलनज्वाला ३८१ १ १० पारेजलं नीरनिधेरपश्य- ५१३ ॥ ५ ब पुंस्त्वादपि प्रविचलेद्यदि ३७। १५ बलमार्तभयोपशान्तये ५६३१ ७ पूरिते रोदसी ... ... ४१३ । बैलावलेपादधुनापि ... ५१९ / १२ पूर्यन्तां सलिलेन रत्नकलशा३०० । १४ बालअ णाहं दूती ... ५४७। १४ पृथुकारतखरपात्रं ... ४०९३ ५ बाले नाथ विमुञ्च पृथ्वि स्थिरा भव ... बृहत्सहायः कार्यान्तं ... ... १०८॥२ ५४२ । ५ ५४१ । १३ प्रज्वलज्जलवारावतू ... ४०१॥ १ ब्रांह्मणातिक्रमत्यागो ... २३२। प्रणमत्युन्नतिहेतोः ... ५५५ । ३ भ प्रेंणयिसखीसलीलपरिहास- १४४। २ भक्तिर्भवे न विभवे ... ५६३। ५ प्रतिकूलतामुपगते हि विधौ४५७। ४ भैसं भीमेन भवतो ... प्रयाणे तव राजेन्द्र ... भैम धम्मिअ वीसत्थो २७४ । ११ ५२२। १६ २०० । ७ प्रवर्तयन्क्रियाः साध्वीः ५३५। ६ ... ४८७। ७ प्रेवृद्धं यद्वैरं मम खलु २८५ / १६ भाति पद्मः सरोवरे ... ३६२ । ८ प्रससार शनैरवायु: ... ३६२ । ३ भानु: सकृदयुक्ततुरङ्ग एव ३९२१ १० प्रसाधय पुरीं लड्कां राजा ३२२। १८ भिसिणीअलसअणीए १६४१ १७ प्रैंसाधिकालम्बितमग्रपादं १३१।१० भिक्षो मांसनिषेवणं प्रकुरुषे ३४१। १३ प्रस्थानं वलयैः कृतं ... १७१॥ ७ भुक्तिमुक्तिकृदेकान्त- २१४। ५ प्रागेव हरिणाक्षीणां ... ५१७११० भुजङ्गकुण्डली ... ... ४४५/ ६ प्राणप्रयाणदुःखाते -... ३३१। ७ भूतयेऽस्तु भवानीशः ३६५ । ४ प्रीणेशेन प्रहितनख रेष्वङ्ग- १५०। ८ भूमौ क्षिप्तं शरीरं ... ३०२। १५ प्रीतिभं त्रिसरकेण गतानां १४२। ११ भूयः परिभवक्कान्तिलज्जा २८८। श्रीप्तावेकरथारूढौ पृच्छन्तौ२९६। ८ भो लङ्केश्वर दीयतां जनकजा१८१। ५
१ शिशुपालवधे २. शिशुपालवधे। ३. शिशुपालवधे। ४. भल्लटशतके। ५. वे- णीसंहारे। ६. बालरामायणे ७. मालतीमाधवे। ८. शिशुपालवधे। ९. वेणीसंहारे । १० रघुवंश-कुमारसंभवयो: ।११. अमरुशतके। १२. विश्वनाथस्य। १३. शिशुपालवधे। १४ वेणीसंहारे ।१५. वेणीसंहारे। १६. मालतीमाधवे। १७. शिशुपालवधे।१८. अमरुशतके। १९. शिशुपालवधे। २०. भवभूतेर्महावीरचरिते। २१. वेणीसंहारे। २२.गाथासप्तशत्याम्। २३. रघुवंशे। २४. अभिज्ञानशाकुन्तले। २५. विश्वनाथस्य। २६. राजानकरुय्यकस्य श्रीकण्ठस्तवे। २७. वेणीसंहारे। २८. वेणीसंहारे। २९. राजशेखरस्य बालरामायणे।
Page 647
१०
पृ. प. पृ. आ्रतर्द्विरेफ भवता भ्रमता १४९। ११ मानोन्नतां प्रणयिनीं ... २२९ । झ्रूभङ्गे रचितेऽपि दृष्टिमधिकं१६७। १४ मामाकाशप्रणिहितभुजं १४५/ १० म मखशतपरिपूतं मौरमासुषमाचारुरुचा ४६९ / १० ... २९९ । ४ मुग्धा दुग्वधिया ... ५०२। ३ ... ४५६/ ७ मुखमिन्दुर्यथा पाणिः ४८०१ १० मत्वा लोकमदातारं संतोषे२३२। १४ मैआ्रामि कौरवशतं समरे २३०। मुखं तव कुरङ्गाक्षि ... ४९७ / ११ ५ मधु द्विरेफ: कुसुमैकपात्रे २२ । मुखं चन्द्र इवाभाति ... ४०३। ३ २ मधुपानप्रृत्तास्ते ... मुखमेणीदशो भाति ... ५०९/ ४ ५७७॥ १३ मधुरया मधुबोधितमाधवी ४४१। मुश्च मानं हि मानिनि ३७५ । ४
मधुरः सुधावद्धरः ... मुक्तोत्कर: संकटशुक्ति ५१२/ १६ ४७९॥ १ मधुरवचनैः सभ्रूभङैः मुनिर्जयति योगीन्द्रो ... ५७४ । ६
मंध्यस्य प्रथिमानमेति १०७! २ १०२१ १४ २२१ ।
मध्यं तव सरोजाक्षि ... ५०११ १६ मुहुरुपहसितमिवा ... १२०। ३
मध्येन तनुमध्या मे ... ५६८१ १४ मूर्धव्याधूयमान- ... ४०६/ २
मनोजराजस्य सितातपत्रं ४९४। ८ मृगरूपं परित्यज्य विधाय ३२६। १२ मैनः प्रकृत्यैव चलं ... २९३/ १७ मृणालव्यालवलया. ... १२५ / १२
मन्थायस्तार्णवाम्भ :- ४४२ / १० मृत्कुम्भवालुकारन्र- १४० । १०
मन्दं हसन्तः पुलकं ... त्रियते म्रियमाणे या ... ३२८। २ ४४९/ ८ भैयि सकपटं किंचित्कापि१५०। १६ य
मल्रिकामुकुले चण्डि ... यः कौमारहरः स एव २०९।१२ १४१५ यः स ते नयनानन्दकरः ३७२।
मैलीमतल्लीषु वनान्तरेषु ५७० १ ११ ९4यं सर्वशैलाः परिकल्प्य ३७२। १० १९३ १ ११ महदे सुरसंघं मे यत्र ते पतति सुभ्रु ... ३६६। ७ ... ४६०१ १ यत्र पतत्यबलानां ... ५४६। २ महिलासहस्सभरिए ... २०९/ १६ मा गर्वमुद्धह कपोलतले यत्रोन्मदानां प्रमदाजनानां२३५। ११ १२९ । यत्त्वन्नत्रसमानकान्ति ५४४। २ मातः किमप्यसदश ... ३३०१. १० "> ... ५६९ १ २ मानमस्या निराकर्तु :... ५६८॥ यत्सत्यव्रतभङ्ग- ... २८७। मानं मा कुरु तन्वङ्गि ३९८ । ५ यैदाह धात्या प्रथमोदितं १८७। ७
१. विश्वनाथस्य। २. अमरुशतके। ३. शूद्रकस्य मृच्छकटिके। ४. विश्वना- थस्य। ५. वेणीसंहारे। ६. कुमारसंभवे। ७. शिशुपालवधे। ८. शङ्गारति लके। ९. चन्द्रशेखरस्य। १० रलावल्याम्। ११. विश्वनाथस्य। १२. उ- दारराघवे। १३. मेधदूते। १४. विश्वनाथस्य। १५. अभिज्ञानशाकुन्तले। १६. विश्वनाथस्य। १७. शीलाभद्वारिकायाः। १८. कुमारसंभवे। १९. कान्यकु- ब्जाधिपतेर्यशोवर्मणः। २० वेणीसंहारे। २१. रघुवंशे।
Page 648
११
पृ. प. पृ. प यदि मय्यर्पिता दृष्टिः ३७८। ११ रक्तप्रसाधितभुवः ... २७३ । ११ यदि समरमपास्य नास्ति ३३११ २१ रक्षांस्यपि पुरः ... ३६६। यदि स्यान्मण्डले ... ५१७। ५ रजनीषु विमलभानो ... २०८। ३ देतचचन्द्रान्तर्जल ... ५१४। १३ रैज्चिता नु विविधास्तरुशैला५१४। पद्यद्विरहदुःखं .. ३७३। १४ रतिलीलाश्रमं भिन्ते ... ३७८। १३ यद्वीर्य कूर्मराजस्य UY ... ३२२ । रतिकेलिकल: किंचित् ३२५। यद्वद्युतमिव ... ... ३२०। १५ रथ्यान्तश्चरतस्तथा ... १८४। १३ यमुनाशम्बरमम्बर ... २६४। ५ रमणे चरणप्रान्ते ... ३८९ / १२ यातेरिव शर्मिष्ठा. ३२६ । ५ राजते मृगलोचना ... ४८६ । ५ ग्योरारोपितस्तारो ... ५६१ ॥ ५ राजनारायणं ५८१ । ८ शोऽधिगन्तुं सुखलिप्सया३८७। ८ राजन्राजसुता न पाठयति ५४१। १ 7शसि प्रसरति ... ४८५॥ १६ शैजानः सुतनिर्विशेषमधुना३०४। V स्य न सविधे दयिता ४५१ । १ राजीवमिव राजीवं ... ४९०। ८ यॅस्यालीयत शल्कसीन्नि २१। ८ राज्यं च वसु देहश्व ... १८१ । या जयश्रीर्मनोजस्य ... ३८३ । ५ राज्य सारं वसुधा ... ५५९। ८ यान्ति नीलनिचोलिन्यो ३९५। ९ राममन्मथशरेण ताडिता १४७। २ यां विनामी वृथा प्राणाः ३८३। ९ २ याम: सुन्दरि याहि ... १७१॥ २ शैमो मूर्ध्ि निधाय- ... ३८५। २६५ / १३ यावदर्थपदां वाचं ... ५४२ । ३ रावणस्यापि रामास्तो ५१०११५ यासां सत्यपि सद्ुणानुसरणे१२७। २ रावणावग्रहक्कान्त ... ४९४ / १८ युक्त: कलाभिस्तमसां ४०८। ६ रोलम्बा: परिपूरयन्तु १६५/ ११ युगान्तकालप्रतिसंहृतात्मनो५५५। १० ल युष्मान्हेपयति क्ोधाल्लोके २८७। १ लक्ष्मणेन समं राम :... ५२७। ६ ०येन ध्वस्तमनोभवेन ४६१ । ४ लक्ष्मीवक्षोजकस्तूरी ... ५७० । यै रेकरूपमखिलाखपि ५३३। १७ लग्नं रागावृताङ्कया ३९७। १ योऽनुभूत: कुरङ्वाक्ष्याः ५२३ । १३ लैद्ेश्वरस्य भवने ... २७० । १६ योगेन दलिताशयः ... ३६३। ५ लज्जा पज्ज तपसाहणाइँ १०२॥ यो यः शत्त्रं बिभर्ति २९४। २ लताकुज्जं गुजन्मद ... ४२७। ६ र लतेव राजसे तन्वि ... ४०२/ १७ रक्तोतफुल्लविशाललोलनयन: १९३। १५ लीक्षागृहानलविषान्न २८५| १०
१. वेणीसंहारे। २. वेणीसंहारे। ३. अभिज्ञानशाकुन्तले। ४. किरातार्जुनीये। ५. राघवानन्दस्य। ६. विश्वनाथस्य। ७. शिशुपालवधे। ८. शिशुपालवधे। ९. वेणी- हारे। १०. चन्द्रकस्य। ११. वेणीसंहारे। १२. वेणीसंहारे। १३ किरातार्जुनीये। १४. प्रभावत्याम्। १५. रुद्रटस्य काव्यालंकारे। १६. रघुवंशे। १७. उदात्तराघवे । १८. रघुवंशे। १९. रधुवंशे। २०. विश्वनाथस्य। २१. कुन्दमालायाम्। २२, वेणीसंहारे।
Page 649
१२
पृ. प. पृ. प. लाड्गूलेनाभिहत्य ९विपिने क्व जटानिबन्धनं १७७। ... ५७३/ ११ लावण्यमधुभि: पूर्ण- ४९५ / ३ विपुलेन सागरशयस्य ५५४। लावण्यं यदसौ कान्ति: २१३। ५ विभाति मृगशावाक्षी ३७३। ८ लिम्पतीव तमोऽङ्गानि ५१२ / ५ विमल एव रविर्विशद: ५२०/ १५ लीलागतैरपि तरङ्गयतो २९५ / १२ विरहे तव तन्वङ्ि ... ५४८। १ व विलंलाप सबाष्प ११ विलोकनेनैव तवामुना ... ५६५। १ वक्स्पन्दिस्वेद ५७२१ ५ १९०॥ ५ ... वदनमिदं न सरोजं ... ५०६। १२ विलोक्य वितते व्योस्नि ३९० । वदनाम्बुजमेणाक्ष्या ... ५८११ २१ विवृण्वती शैलसुतापि १२२/ ११ वदनं मृगशावाक्ष्या ... ४८४। विसृष्टैशगादधरान्निवर्तितः ५६१। ७ १ वत्सस्य मे प्रकृति -... ३२९ । ८ विसृज सुन्दरि ... ३०७। १२ वैनेचराणां वनितासखानां ५००। वीक्षितुं न क्षमा श्वश्रू: ५६३ । १५ ४ वनेऽखिलकलासक्ा :... ५७७। वेदान्तेषु यमाहुरेकपुरुषं २६४। ३ ७
वर्ण्यते किं महासेनो ... ३७४ । वृद्धोऽन्धः पतिरेष मन्चकगतः १४१। ११ ७ वर्षत्येतदहर्पतिर्नतु घनो ३९१। व्यतिकरमलवं ... ३८५ । ८ .. ५
वल्लभोत्सङ्गसङ्गन ५५० । १४ व्यपोहितुं लोचनतो ... १३२। ९ ... वैसन्तलेखैकनिबद्धभावं-५२१/ ११ व्याजस्तुतिस्तव .. ५४० । १
वाचमुवाच कौत्स: ... ३७८। व्याधूय यद्वसन ... ५२९। २ ४ वाणीरकुडडुड्डीणसउणि २३३। ५ श
वाप्यो भवन्ति विमला: ५५९ । ३ शठान्यस्या :.. ... ९५। २
वारिजेनेव सरसि ४८९। ७ शैशिनमुपगतेयं ... ५५४। ८
वासवाशामुखे भाति ... ३८२। शेशी दिवसधूसरो ... ५६७। २ विकसन्नेत्रनीलाब्जे ... ४५८। ३ शिखरिणि क्व नु नाम २०९/ ३ विकसितमुखीं रागासङ्गात् ५२९ । १३ शिरसि धृतसुरापगे २६३ । ५ विचरन्ति विलासिन्यो ५६० । १४ शिरामुखैः स्यन्दित एव १८११ १० विदूर केयूरे कुरु ... १९७॥ ९ शिरीषमृद्वी गिरिषु ... ४९२/ ४ विधवति मुखाब्जमस्या ४८५। २ २शीतांशुमुखमुत्पले २९५। ८ विनयति सुदृशो दृशो: परागं१६८। १२ शश्रषस गुरून्कुरु ... ३२०। १९ विना जलदकालेन ... ५२८। ४ शून्यं वासगृहं ... २१/ २
१. विश्वनाथस्य। २. जानकीराघवे। ३. वेणीसंहारे। ४. कुमारसंभवे। ५. विश्व- नाथस्य। ६. विश्वनाथस्य। ७. राधवानन्दस्य नाटके। ८. शिशुपालवधे। ९. विश्वनाथस्य राघवविलासे। १०. रघुवंशे। ११. शिशुपालवधे। १२. कुमारसंभवे। १३. कुमारसं- भवे। १४. मालविकायाम्। १५. विक्रमोर्वश्याम्। १६. किरातार्जुनीये।१७.अमिरुशतके। १८. रघुवंशे। १९. भतृहरेः। २० चन्द्रशेखरस्य पुष्पमालायाम्। २१. श्रीहर्षदेवस्य नागानन्दे। २२. रलावल्याम्। २३. अभिज्ञानशाकुन्तले। २४. अमरुशतके।
Page 650
१३
पृ. प. पृ. प. शूरा अमरतां यान्ति ... ३६२ । ५ समाश्लिष्टाः समाश्लेषैः ... १२४। ११ शेफोलिकां विदलितां ... १६५॥ समीक्ष्य पुत्रस्य चिरात्पिता १५३। २ शैलेन्द्र प्रतिपाद्यमान ... ५७३। २ सैरेसिजमनुविद्धं शैवलेनापि १२४। ४ शोणं वीक्ष्य मुखं ९४ । ४ सरसं कईण कव्तरं .. ४५६ / १२ श्रेवणैः पेयमनेकैः ... २६१ ॥ ५ श्रीरस्याः पाणिरप्यस्याः सरागया स्तुतघन- .. ४१८१ १ २९१ । १५ सरोविकसिताम्भोज ... ५५८ १ १० श्रीहर्षो निपुणः कविः ... २६७। १३ सर्वक्षितिभृतां नाथ ३४० । १९ श्रुताप्सरोगीतिरपि .. १०१॥ सर्वसवं हर सर्वस्वं .. ४५९ / ५ श्रुतं कृतधियां सङ्गात् ... ५५७१ १५ स वः शशिकलामौलिः ... ३७३१ ४
श्रुत्वा यान्तं बहिः सहकार: सदामोदो ... १२८११५ ... ५३७ । ११
श्वासान्मुश्चति भूतले १३०। ७ सह कुमुदकदम्बैः ... ५२६ १ १० ... स से हत्वा वालिनं वीरः ... ३७३। २
स एकस्त्रीणि जयति ... ५४९ / १७ सहभृत्यगणं सबान्धवं ३२२ १ १०
स एव सुरभि: कालः ५ सहसाभिजनैः स्त्निग्धैः ४०१ 1 १० .. १२२ । सकलकलं पुरमेतत् ... ४६६ I १ सहसा विदधीत न ... ३९३। ६
सज्जनो दुर्गतो मझः ३९४ । सहाधरदलेना स्या- .. ५१६११० ... 6 सज्जेहि सुरहिमासो २०७॥ ... ५२६ । ८ ... ७ संतीमपि ज्ञातिकुलैक० सौन्द्रानन्दमनन्तमव्यय- ३५२ / ११ ३२९ १ १७ संत्पक्षा मधुरगिरः ४६८ । १४ सी पत्युः प्रथमापराधसमये १०३। १४ ... सदा चरति खे भानु: सौ बाला वयमप्रगल्भमनरुः ५५२। .. ३९२ । ५ सदाशिवं नौमि ... ... ३७७ | ११ सायं स्नानमुपासितं ... २१५/ ७
सदैव शोणोपलकुण्डलस्य ५७० l सार्थकानर्थकपदं ... १४८॥ ६ ८
सदयोमुण्डितमत्त साधे मनोरथशतै- १०८/ ७ ... ४३७ । ८ ...
सद: करस्पर्श- ०. ५५३ । ५ सुचरणविनिविष्टैः ... ४३२ ।
सदः पुरीपरिसरेपि ... १४२। २ सुतनु जहिहि कोपं ... १९५/ २
सद्वंशसंभवः शुद्धः ... ३१७ । १३ सुधेव विमलश्चन्द्रः ... ४०२ / ११
सेममेव नराधिपेन ... ५२७। २ सुनयने नयने ... .. ४०८११९
सैममेव समाक्ान्तं सुभग त्वत्कथारम्भे ... १२८। समय एव करोति ... ५१७। १२ ... ३८४ । १० सुभगे कोटिसंख्यत्मुपेत्य २०९/ ७
१. विश्वनाथस्य। २. विश्वनाथस्य। ३. बालरामायणे। ४. रलावल्याम्। ५. रला- वल्याम्। ६. कुमारसंभवे। ७. विश्वनाथस्य। ८. अभिज्ञानशाकुन्तले ।९. वेणीसंहारे। १० रघुवंश ११. रघुवंशे। १२. शिशुपालवधे। १३. अभिज्ञानशाकुन्तले। १४. वि- क्रमोर्वश्याम्। १५. विश्वनाथस्थ। १६. रघुवंशे। १७. वेणीसंहारे। १८. किरातार्जुन- नीये। १९. विश्वनाथस्य । २०. अमरुशतके; सुभाषितावलौ तु लीलाचन्द्रस्य ।२१. अ- मरुशतके; सुभाषितावलौ तु कल्याणदत्तस्य। २२. शह्ारतिलके। २३. अमरुशतके। सा० द० ५१
Page 651
१४
प्ट. प. पृ. सूचीमुखेन सकृदेव . ४१९ । इ स्वच्छाम्भ: स्रपनविधौ .. १२६ । सूर्याचन्द्रमसौ यस्य .. २२४ । ५ स्वपिहि त्वं समीपे मे ३९० ।१ 3सैषा स्थली यत्र विचिन्वता ५१०। १९ सौर्जेन्याम्बुमरुस्थली ... ४९७/१२ स्वामिन्भङ्गुरयालकं ... १०७/ स्वामी निःश्वसिते सौरभमम्भोरुह- ११०॥ ... ४७८१ ५ स्वामी मुग्धतरो वनं संकेतकालमनसं .. १९२। ५ .. ६३१ १० स्वेच्छोपजातविषयोऽपि ४६५/ ६ ... ५७२ । ९ संगमविरह विकल्पे ह ... ५०२। संग्रामे निहताः शूरा हृते जरति गाङ्गेये ... ३७४ । ११ ... ३२४ । २८
संततमुसलासङ्गात् .. ५५११ १० ... ५२६ ।
संधो सर्वस्वहरणं ... २३२। ५ हन्त संततमेतस्या ... ३७९। ;
संप्रति संध्यासमयः हन्त सान्द्रेण रागेण ... ५७१ । ३ .. ४११ ॥ ८ स्तनयुगमुक्ताभरणा: ... ५३९ / १३ हन्त हन्त गतः कान्तो ४०८ ११५
स्तनावद्रिसमानौ ते हन्तुमेव प्रत्ृत्तस्य ... ३९१ / ५ ... ४०१ । ५ स्तोकेनोन्नतिमायाति हरन्ति हृदयं यूनां ... ३९१/ ... ४६४ । १ स्थिता: क्षणं पक्ष्मसु हरवन्नीलकण्ठोडयं ४०११ ४ ... ५६०१ १० १९०११२ स्नाता तिष्ठति कुन्तलेश्वरसुता ९३। १४ हरस्तु किंचित्- .. हसति परितोषरहितं ... ३२०१ ११ ५० । 9 स्पृष्टास्ता नन्दने शच्या ... ५४०। ह। पूर्णचन्द्रमुखि ... ३००। १ ७ हारोडयं हरिणाक्षीणां ५६४१ ११ स्मरशरशतविधुराया ... ५४७। ८ हितान्न यः संश्णुते ... ३८८१११ स्मरात्यन्धः कदा ... ३६९। ४ हिममुक्तचन्द्र ... .. २११। २ स्मितेनोपायनं दूरात् ... ४९९। २ हीरकाणां निधेरस्य ... ३९५/ ४ स्मेरं विधाय नयनं ... ४८८। ३ हृदि बिसलताहारो ५०६ । १५ स्मेरराजीवनयने ... ४५०। २ हंसश्चन्द्र इवाभाति ४८९ / १० स्रँगियं यदि जीवितापहा ५३६। १६ हंहो धीरसमीर- ... ५६६/ ७
आपाततः प्रेक्षापथमारूढानां कवीनां प्रबन्धानां चाभिधानैः समेतासावनुक्रमणिका समाप्तति शिवम् ॥
१. कृष्णनन्दस्य सहृदयानन्दे। २. विक्रमोर्वश्याम्। ३. रघुवंशे। ४. विश्रव- नाथस्य (१)। ५. कुमारसंभवे। ६. मेण्ठस्य। ७. रघुवंशे। ८. शिशुपालवधे। ९. शङ्गारतिलके। १०. भिक्षाटनस्य। ११ विश्वनाथस्य। १२. वेणीसंहारे। १३. नैषधीयचरिते। १४. कुमारसंभवे। १५. विश्वनाथस्य प्रभावत्याम्। १६. वि-
श्वनाथस्य।