Books / Samnyasa Upanishad

1. Samnyasa Upanishad

Page 1

संन्यासोपनिषदियं संन्यासिपटलाश्रयम्‌ ।

सत्तासामान्यविभवं स्वमात्रमिति भावये ॥

ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्र्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं

माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण-

मस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते

मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ अथातः संन्यासोपनिषदं व्याख्यास्यासामो

योऽनुक्रमेण संनस्यति स संन्यस्तो भवति । कोऽयं संन्यास

उच्यते कथं संन्यस्तो भवति । य आत्मानं क्रियाभिरगुप्तं करोति

मातरं पितरं भार्यां पुत्रवन्धूननुमोदयित्वा ये

चास्यर्त्विजस्तान्स्वांशं पूर्ववत्त्वाणित्वा वैश्वानरेष्टिं

निर्वपेत्सर्वस्वं दद्याद्यजमानस्य गा ऋत्विजः सर्वेः पात्रैः

सभारोप्य यदाहवनीयेऽग्निहोत्र्यपचने

सभ्यावसथ्यौधक्ष प्राणापानव्यानोदानसमनान्सर्वस्वेभु

सभारोपयेत् । सशिखाकेशानखवस्रुज्य यज्ञोपवीतं छित्वा पुत्रं

दृष्ट्वा त्वं यजस्त्वं सर्वमित्यनुमन्त्रयेत् ।

यदपुत्रो भवत्यात्मनमेवं ध्यात्वाडनवेक्षणः:

प्राचीमुदीचीं वा दिशं प्रव्रजेच्च । त्रिषु वर्षेषु

भिक्षाचर्यं चरेत् । पाणिपात्रेणाशनं कु्रियात् ।

औषधवदहनमाचरेत् । औषधवदशनं प्राश्नीयात् ।

यथालाभमशनीयात्प्राणसन्धारणार्थं यथा मेधोवृद्धिनिर्णं

जायते । कुशो भूत्या ग्राम एकरात्रं नगरे पञ्चरात्रं

चतुरोमासान्वार्षिकान्ग्रामे वने नगरे वापि वसेत् ।

वृक्षीर्णवस्त्रं वल्कलं वा प्रतिगृह्णीयानान्त्रतप्रतिगृहीयाद्व्यशक्तो

भवति क्लेशतस्तप्यते तप इति । यो वा एवं क्रमेंण सन्यस्यति यो वा

एवं पश्यति किमस्य यज्ञोपवीतं कास्य शिखा कथं वास्योपसर्पणमिति ।

तं होवाचेदमेवास्य तद्यज्ञोपवीतं यदातमध्यानं विद्या शिखा

नीरैः सर्वत्रावस्थितैः कार्यं निर्वर्तयन्नुदरपात्रेण जलतीरे निकेतनम्‌ ।

ब्रह्मवादिनो वदन्त्यस्तमित आदित्ये कथं वास्योपसर्पणमिति ।

तान्होवाच यथाहनि तथा रात्रौ नास्य नक्तं न दिवा तद्येतदृपिणोक्तम्‌ ।

संकृदिवा हैवास्मै भवति य एवंविद्वानेतनात्मानं संधत्ते ॥

Page 2

1

1

इति प्रथमोऽध्यायः ॥ १॥ ॐ चत्वारिंशत्संस्कारसंप्राप्तः सर्वतो विरक्तस्त्रिगुणद्वैमेत्याशासुयेष्ट्याहुत्कारं दग्ध्वा साधनचतुष्ट्यसंप्राप्तः एव संन्यस्तुमर्हति । संन्यासं निःश्रेयं कृत्वा पुनर्नं च करोति यः । स कुर्यात्रृचछ्रुमानं तु पुनः संन्यस्तुमर्हति । १।१॥ संन्यासं पातयेच्चास्तु पतितं न्यासयेतु यः । संन्यासविघ्नकर्त्ता च व त्रिनेतान्पतितान्विदुः ॥ २॥ इति॥

3

अथ षण्ढः पतितोऽक्विकलः स्त्रैणो बदिरोडम्बकः मूकः पाषण्डकुक्करी लिङ्गी कुटी वैष्णानसहरद्रिजौ भृतकाध्यापकः शिपिविष्टोऽनग्निको नास्तिको वैराग्यवतः प्येते न संन्यासाहाँः । संन्यासता यद्यपि महावाक्योपदेशे नाधिकारणः ॥ आरूढपतितापत्यं कुन्खरी श्यावदन्तकः । क्षीणस्थाढ्यविकलो नैव संन्यस्तुमर्हति ॥३॥

4

संप्रत्यवसितानां च महापातकिनां तथा । ब्रात्यानामभिशस्तानां संन्यासं न कारयेत् ॥ ४॥

5

व्रतयज्ञतपोदानहोमस्वाध्यायवर्जितम् । सत्यशौचपरिभ्रष्टं संन्यासं न कारयेत् ॥ ५॥

6

एते नाहन्ति संन्यासमातुरेण विना क्मम् । ॐ भूः स्वाहेति शिखामुत्पाट्य यज्ञोपवीतं बहिर्निवसेत् । यशो बलं ज्ञानं वैराग्यं मेधां प्रयच्छेति यज्ञोपवीतं छित्वा ॐ भूः स्वाहेत्यप्सु वस्त्रं कटिसूत्रं च विसृज्य संनस्तं मयेतिं त्रिवारमभिमन्त्रयेत् । संन्यासिनं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः । एष मे मण्डलं भित्वा परं ब्रह्माधिगच्छति ॥ ६॥

7

ऋषिं कुलान्यतीतानि ऋषिमागमिकानि च । कुलान्युद्वदते प्राज्ञः संन्यस्तुमिति यो वदेत् ॥ ७॥

8

ये च सन्तानजा दोषा ये दोषा देहसंभवा: । प्रेषामिन्निदेहत्सर्वस्तुशरीरिन्त्रिव काञ्चनम् ॥ ८॥

9

सखा मा गोपायति दण्डं परिग्रहेत् । दण्डं तु वाणवं सौम्यं सतवचं समर्पवकम् । पुण्यस्थलसमुत्पन्नं नानाकल्मषशोधितम् ॥ ९॥

10

अदग्धमहंतं कीटैः पर्वग्रन्थिविराजितम् । नासादग्धं शिरस्तुल्यं भुवोर्वा विभ्रियादितः ॥ १०॥ दण्डातमनोस्तु संयोगः सर्वथा तु विधीयते ।

Page 3

११

न दण्डेन विना गच्छेद्दिदृक्षेक्षेपत्रयं बुधः । जगज्जीवनं जीवनाधारभूतं माते ममन्त्रयस्व सर्वसौम्येन्ति कमण्डलुं परिगृह्य योगपट्टाभिषिक्तो भूत्वा यथासुखं विहरेत् ॥

१२

त्यज धर्ममधर्मं च उभे सत्यानृते त्यज । उभे सत्यानृते त्यक्त्वा येन त्यजसि तत् त्यज ॥

१३

वैराग्यसंन्यासी ज्ञानसंन्यासी ज्ञानवैराग्यसंन्यासी कर्मसंन्यासीत चातुर्विध्यमुपागत: । तदर्थेति दृष्टानुश्रविक-विषयवेतुण्यमेत्य प्राकुण्य कर्मविशेषात्संनyst: । स वैराग्यसंन्यास: । शास्त्राज्ञानात्पापुण्यलोकानुभवश्रवणात्प्रज्ञोपे रत: देहवासनां शास्त्रवासनां लोकवासनां त्यक्त्वा वमनान्नमिव प्रवृत्ति सर्व हेयं मत्वा साधनचतुष्टयसंपन्नो यः संन्यास्यति स एव ज्ञानसंन्यास: । कर्मेण सर्वमभ्यस्य सर्वमनुभूय ज्ञानवैराग्याभ्यां स्वरूपानुसंधानेन देहमात्रावशिष्ट: संनस्य जातरूपधरो भवति स ज्ञानवैराग्यसंन्यास: । ब्रह्मचार्य समाप्य गृही भूत्वा वानप्रस्थाश्रममेत्य वैराग्याभावेऽप्याश्रमक्रमानुसारेण यः संन्यास्यति स कर्मसंन्यास: । स संन्यास: षड्विधो भवति कुटीचकबहूदकहंसपरमहंसतुरीयातीतावधूताश्रमेति । कुटीचक: शिखायज्ञोपवीति दण्डक मण्डलुधार: कौपीनशाटीकन्याधर: पित्रुमातृगुरुवाच्याधरपर: पितृरक्खन्निश्रिकयादिमात्रसाधनपर एकन्नात्रादनपर: श्वेतोद्र्धपुण्ड्रधारी त्रिदण्डी । बहूदक: शिक्षादिकन्यासधर-स्त्रिपुण्ड्रधारी कुटीचकवत्सर्वस्मो मधुकर वृत्त्यष्टकवलाशी । हंसो जटाधारी त्रीपुण्ड्रोद्र्धपुण्ड्रधारी असंक्लृप्तमाधुकरन्नाशी कौपीनस्वण्डतुण्डधारी । परमहंस: शिक्षायज्ञोपवीतपरहित: पञ्चगुहेपु करपात्री एककौपीनधारी शाटीमेकामेकं वेणं दण्डमेकशाटीधरो वा भस्मोद्धूलनपर: सर्वत्यागी तुरीयातीतो गोमुखवृत्त्या फलाहारी अन्नाहारी चेत्नह्नत्रये देहमात्रावशिष्टो दिगंबर: कुणपवच्छरीनृत्तिक: । अवधूतस्त्वनियम: पतिताभ्रशस्त्रवर्जनपूर्वकं सर्ववर्णेष्वगारवृत्या आहारपर: स्वरूपानुसंधानपर: । जगत्तावदिनं नाहं सर्वृक्षत्रुणपर्यन्तम् । यद्र्राह्यं जडमत्यन्तं तत्त्यां कथमहं विभु: ॥

१४

कालेनाल्पेन विलयेन देहो नाहमचेतन: । जडया कर्णशष्कुल्या कल्पमानक्षणस्थया ॥

१५

शून्याकृति: शून्यभव: शब्दो नाहमचेतन: । त्वचा क्षणविनाशिन्या प्राप्योडप्राप्योडयमन्यथा ॥

१६

चित्सादोपलब्धात्मा स्पर्शो नाहमचेतन: । लब्धात्मा जिह्वया तुच्छो लोलया लोलसत्तया ॥

१६

स्वल्पस्पन्दो द्रव्यनिष्ठो रसो नाहमचेतन: ।

Page 4

१७

दृश्यदर्शनयोर्लीनं क्षयिक्षरणविनाशिनोः ।

१५

केवलेऽ द्रष्टरि क्षीर्णं रूपं नाहमचेतनम् ।

१५

नासया गन्धजडया क्षयीणया परिकल्पितः ।

१९

पेलवो नियताकारो गन्धो नाहमचेतनः ।

१९

निर्ममोडमननः शान्तो गतपञ्चेन्द्रियध्रमः ।

२०

शुद्धचेतन एवाहं कलाकलनवर्जितः ।

२०

चैतयवर्जितचिन्मात्रमहमेषोडवभासकः ।

२१

सर्वदाऽऽभ्यन्तरवापी निष्कलोडहं निरञ्जनः ।

२१

निर्विकल्पचिदाभास एक आत्मास्मि सर्वगः ।

२२

मयैव चेतनेनेमे सर्वेऽ घटपटादयः ।

२२

सूर्यादन्ता अवभास्यन्ते दीपेनैवात्मतेजसा ।

२३

मयैवैतः स्फुरन्तीह विचित्रेन्द्रियवृत्तयः ।

२३

तेजसान्तःप्रकाशेन यथाग्निकणपङ्कृदृतयः ।

२४

अनन्तानन्दसंभोगा परोपशमशालिनि ।

२४

शुद्धेऽयं चिन्मयी दृष्टिर्ज्जयत्यखिलदृष्टिषु ।

२५

सर्वभावान्तरस्थाय चैत्यमुक्तचिदात्मने ।

२५

प्रत्यक्चैतन्यरूपाय मह्यामेव नमो नमः ।

२६

विचित्रा: शक्तयः स्वच्छा: समा या निर्विकारया ।

२६

चिता क्रियन्ते समयाः कलाकलनमुक्तया ।

२७

कालत्रयमुपेक्ष्यै हीनायाश्चैत्यबन्धने ।

२७

चित्स्वैत्यमुपपक्ष्यैः समतैवावशिष्यते ।

२५

सा हि वाचामगम्यत्वादस्तामिव श्रावतीम ।

२५

नैरात्मसिद्धातमदगामुपयातैव शिष्यते ।

२९

ईहानीहामयेर्न्त्यां चिदावलिति मले? ।

२९

सा चित्रोत्पादितं शक्ता पाशबद्धद्वै पक्षिणी ।

३०

इच्छोद्रेकसमुत्थेन द्वन्द्वमोहेन जन्तवः ।

३०

धराविरमग्नानां कीटानां समतां गताः ।

३१

आत्मनेउस्तु नमो मह्यमविच्छिन्न्रचिदात्मने ।

३१

परामृश्टोऽस्मि लभ्योऽस्मि प्रोदितोऽस्म्यचिरादहम् ।

३१

उदूतोऽस्मि विकलपेभ्यो योडस्मि सोऽस्मि नमोडस्तु ते ।

३२

तुभ्यं मह्यमनुताय मह्यं तुभ्यं चिदात्मने ।

३२

नमस्तुभ्यं परेशाय नमो मह्यं शिवाय च ।

३३

तिष्ठन्नपि हि नासीनो गच्छन्नपि न गच्छति ।

३३

शान्तोऽपि व्यवहारस्थः कुर्वन्नपि न लिप्यते ।

३४

सुलभध्यायमत्न्तं सुजे?यश्राप्तबन्धुवत ।

३४

शरीरपञ्जकुहरेऽ सर्वेशामेव षट्पदः ।

Page 5

३५

न मे भोगस्थितौ वाञ्छा न मे भोगविसर्जने । यदायाति तदायातु यत्प्रयाति प्रयातु तत् ॥ ३५ ॥

३६

मनसा मनसि च्छिद्रे निरङ्कारं गते । भावेन गलिते भावे स्वस्थस्थस्थामि केवल: ॥ ३६ ॥

३७

निर्भावं निरङ्कारं निरमनस्कमनीहितम् । केवलास्पन्दशुद्धात्मन्येव तिष्ठति मे रिपु: ॥ ३७ ॥

३८

तृष्णारज्जुगुणं छित्वा मच्छरीकपञ्जरात् । न जाने क्व गतोऽहं निरङ्कारपरक्षीणी ॥ ३८ ॥

३९

यस्य नाहंकृतो भावो बुद्धिरस्य न लिप्यते । य: सम: सर्वभूतेषु जीवितं तस्य शोभते ॥ ३९ ॥

४०

योऽन्त:श्रीतलया बुद्धया रागद्वेषविमुक्तया । साक्षिवत्पश्यतीदं हि जीवीतं तस्य शोभते ॥ ४० ॥

४१

येन सम्यक्परिज्ञाय हेयोपादेयमुज्झता । चित्तस्यान्तेऽपिं चित्तं जीवितं तस्य शोभते ॥ ४१ ॥

४२

ग्राह्यग्राहकसंबन्धे क्षीणे शान्तिरुदेति यलम् । स्प्रितिमभ्यागतां शान्तिमनोक्शानामाभिधीयते ॥ ४२ ॥

४३

भ्रष्टबीजोपमा भूयो जन्माद्युरविवर्जिता । हृदि जीवद्विमुक्तानां शुद्धा भवति वासना ॥ ४३ ॥

४४

पावनी परमोदारा शुद्धसत्त्वानुपातिनी । आत्मध्यानमयी नित्या सुपुप्तिस्थेये तिष्ठति ॥ ४४ ॥

४५

चेतनं चित्तरक्तं हि प्रत्यच्चेतनमुच्यते । निरमनस्कस्वभावात्न तत्कलनामलं ॥ ४५ ॥

४६

सा सत्त्यता सा शिवता सावस्था पारमार्थिकी । सर्वज्ञता सा संतृप्तिरनन्तु यत्र मन: क्षतम् ॥ ४६ ॥

४७

प्रलपन्विसृजन्ग्रहण्णुन्मिषन्निमिषत्रपि । निरस्तमननानन्द: संविदमात्रपरोऽस्म्यहं ॥ ४७ ॥

४८

मलं संवेद्यमुक्त्वा मनो निर्मूलनयन्मरम् । आशापाशान्तमं छित्वा संविदमात्रपरोऽस्म्यहं ॥ ४८ ॥

४९

अशुभाशुभसंकरप्: संशान्तोऽस्मि निरामय: । नष्टष्टानिष्टकलन: संविदमात्रपरोऽस्म्यहं ॥ ४९ ॥

५०

आत्मतापरते त्यक्त्वा निर्विभागो जगत्स्थितौ । वज्रस्तभवदात्मानमवलंब्य स्थिरोऽस्म्यहं ॥ ५० ॥

५१

निर्मलायां निराशायां स्वसंवित्तौ स्थितोऽस्म्यहं । ईहितानीहितैरुक्तो हेयोपादेयरर्जित: ॥ ५१ ॥

५२

कदान्तस्तोषमेष्यामि स्वप्रकाशपदे स्थित: । कदोपशान्तममनो धरणीधरकरन्दरे ॥ ५२ ॥

Page 6

53

समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना । निरंशध्यानविश्रान्तिमूर्छस्य मम मस्तके ॥ ५३॥

54

कदा ताणं करिष्यन्ति कुलायं वनपुत्रिका: । संकल्पपादपं तृष्णालातं छित्वा मनोवनम् ॥ ५४ ॥

55

विततां भुवमासाद्य विहराभि यथासुखम् । पदं तदनु यातोडस्मि केवलोडस्मि जयाम्यहम् ॥ ५५ ॥

56

निर्वाणोऽस्मि निरीहोऽस्मि निरङ्गोऽस्मि निरीप्सित: । स्वच्छन्दतोरंजिता सत्ता हृद्याता सत्यता ज्ञता ॥ ५६ ॥

57

आनन्दतोऽपशमता सदा प्रमुदितोदिता । पूर्णंतोदरता सत्या कान्तिसत्ता सदैकता ॥ ५७ ॥

58

इत्येवं विन्तयन्निक्षु: स्वरूपस्थितिमृज्जसा । निर्विकल्पस्वरूपज्ञो निर्विकल्पो बभूव ह ॥ ५५॥

59

आतुरो जीवति चेत्कर्मसंन्यास: कर्तव्य: । न शूद्रस्त्रीपतितोदक्या संभाषणम् । न यतेदेवपूजोत्सवदर्शनम् । तस्मात्र संन्यासिन एष लोक: । आतुरकुटीचकयोर्भूलोकभुवर्लौकौ । बहूदकस्य स्वर्गलोक: । हंसस्य तपोलोक: । परमहंसस्य सत्यलोक: । तुरीयातीतावधूतयो: स्वात्मन्येव कैवल्यं स्वरूपानुसन्धानेन भ्रमरकीटन्यायवत् । स्वरूपानुसन्धानव्यतिरिक्तान्यशास्त्राभ्यास

60

उद्रकुंकुमभारवद्रार्थ: । न योगशास्त्रप्रवृत्ति: । न सांख्यशास्त्राभ्यास: । न मन्त्रतन्त्रव्यापार: । नेतरशास्त्रप्रवृत्तिरन्तरस्ति । अस्वि चेच्छ्रूवालकारव- त्कर्मांचर विदादूर: । न परित्राणामसंकोर्तनपररो यद्यत्कर्म करोति तत्तत्फलमनुभवति । एरण्डतैलफेनवत्सर्वं परित्यजेत् । न देवताप्रसादग्रहणम् । न बाह्यदेवाभ्यर्चनं कुर्यात् । स्वव्यतिरिक्तं सर्वं त्यक्त्वा मधुकरवृत्त्याहारमाहरन्कृषीभूत्या मधोवृद्धिकुरून्निहरत् । माधूकरेण करपात्रेणास्यपात्रेण वा कालं नयेत् । आत्मसंमितमहामहारेदातमवान्नति: । आहारस्य च भागौ द्वौ तृतीयमुदकस्य च । वायो: संचारणार्थाय चतुर्थमवशेषयेत् ॥५९॥ भैक्षेण वर्तयेच्चित्तं नैका न्त्राश्रयी भवेत्कचित् । निरीक्षन्ते त्वनुद्रिग्नास्तद्रुहं यतत्तो व्रजेत् ॥ ६०॥

Page 7

६१

पञ्चसप्तगृहाणां तु भिक्षामिच्छेत्कियावताम् । गोदोहमात्रमाकादक्षेत्रिक्षान्तो न पुनर्वंवजेत् ॥ ६१॥

६२

नक्ताद्दूररुपोपवास उपवासादयाचितः । अयाचिताद्दूं मैक्ष्यं तस्मात्तन्मैक्ष्यं वर्धयेत् ॥ ६२॥

६३

नैव सव्यापसव्येन भिक्षाकाले विशेषृधान् । नातिक्रामेद्दृंहं मोहाद्यत्र दोषो न विद्यते ॥ ६३॥

६४

श्रोत्रियात्रं न भिक्षेत श्रद्धाभक्तितबहिष्कृतम् । व्रात्यस्यापि गृहे भिक्षेच्छ्रद्धाभक्तिपुरस्कृते ॥ ६४॥

६५

माधूकर्मसंस्कृतं प्राक्‌प्रणीतमतमयाचितम् । तात्कालिकं चोपपत्रं मैक्षं पञ्जविधं स्मृतम् ॥ ६५॥

६६

मनःसंकल्परहितांस्वीनृगृहान्नच्युत सप्त वा । मध्यमक्षिकवत्त्वा माधूकर्ममिति स्मृतम् ॥ ६६॥

६७

प्रातःकाले च पूर्वेद्युर्याचकते: प्रापितं मुहुः । तदृक्ष प्राक्‌प्रणीतं तु स्यात्स्थितं कुयात्तथापि वा ॥ ६७॥

६८

भिक्षाटनसमृद्धोगाद्येन केन निमन्त्रितम् । अयाचितं तु तदृक्षं भोक्तव्यं च मुमुक्षुभिः ॥ ६८॥

६९

उपस्थानेन यत्कृतं भिक्षार्थं ब्राह्मणं तत् । तात्कालिकमिति ख्यातं भोक्तव्यं यतिभिस्तदा ॥ ६९॥

७०

सिद्धमन्त्रं यदान्नीं ब्राह्मणेन मठं प्रति । उपपत्त्रमिति प्राहुर्मुनयो मोक्षकार्डक्षणः: ॥ ७०॥

७१

चरेन्माधूकर्म मैक्षं यतिमित्रेच्छुकुलादपि । एकात्रं नतु भुञ्जीत बृहस्पतिसमादपि । याचितायाचिताभ्यां च भिक्षाभ्यां कल्पयेत्स्थितम् ॥ ७१॥

७२

न वायु: स्पर्शदोषेण नाग्निर्दहनकर्मणा । नापो मृत्पुरीषाभ्यां नात्नदोषेण मस्करी ॥ ७२॥

७३

विभूष्मे सन्नमूत्रले व्यज्ज्ञारे भुक्तवज्जने । कालेऽपराक्षे भुञ्जीष्ट भिक्षाचरणमाचरेत् ॥ ७३॥

७४

अभिशस्तं च पतितं पापण्डं देवपूजकम् । वर्जयित्वा चरेदृक्षं सर्ववर्णेषु चापदि ॥ ७४॥

७५

घृतं स्वमूत्रसदृशं मधु स्यात्सुरयासमम् । तैलं सूकरमूत्रं च स्यात्सूपं लशुनसंमितम् ॥ ७५॥

७६

माषापृष्ठादि गोमांसं क्षीरं मृत्समं भवेत् । तस्मात्सर्वप्रयत्नेन घृतादीन्वर्जयेद्यति: ॥ ७६॥

७७

घृतसूपादिसयुक्तमत्रं नाद्यात्कदाचन । पात्रमस्य भवेत्पाणौ नित्यं स्थितिं न येत् । पाणिपात्रत्वरन्योर्गी नासकृदृक्ष्षमाचरेत् ॥ ७७॥

Page 8

78

आस्येन तु यदाहारं गोवन्मृगयते मुनिः । तदा समः स्वात्मसंधु सोऽमृतत्वाय कल्पते ॥

79

आज्यं रधिरामिव त्यजेदेकत्रात्रं पललमिव गन्धलेपनमशुद्धलेपनमिव क्षारमन्त्यजमिव वस्त्रमुच्छिष्टपात्रमिवाभ्यङ्गं स्त्रीसङ्झमिव मित्राह्लादकं मूतत्रमिव स्पृहां गोमांसमिव ज्ञातचरदेशं चण्डालवाटिकादिव स्त्रियमहिमिव सुवर्णे कालकूटमिव सभास्थलं भ्रमशानस्थलमिव राजधानीं कुङ्गीपाकमिव श्रवपिण्डवदेकत्रान्नं न देवतार्चनम् प्रपञ्चवृत्तिं परित्यज्य जीवनमुक्तो भवेत् । आसनं पात्रलोपष्ठ संचयः शिष्यसंचयः । दिवास्वापो वृथालापो यतेर्बन्धकराणि षट् ॥

50

वर्षाभ्योऽन्यत्र यत्स्थानमासनं तदुदाहृतम् । उत्कालाब्वादिपात्राणामेकस्यापीह संग्रहः ॥

51

यतः संव्यवहाराय पात्रलोपः स उच्यते । गृहीतस्प तु वणदेवेदंतीयस्य परिग्रहः ॥

52

कालान्तरोपभोगार्थ संचयः परिकीर्‌तितः । शुश्रूषालाभपूजार्थ यशोऽर्थं वा परिग्रहः ॥

53

शिष्याणां नतु कारुण्याच्छिष्यसंग्रह ईरितः । विद्या दिवा प्रकाइत्वादविद्या रात्रिरुच्यते ॥

54

विद्याभ्यां प्रमादो यः स दिवास्वाप उच्यते । आध्यात्मिकं कथां मुक्त्वा भिक्षावर्तां विना तथा ॥

55

अनुग्रहं परिप्रश्नं वृद्धाज्जल्पोऽन्य उच्यते । एकात्रं मदमात्सर्यं गन्धपुष्टविभूषणम् ॥

56

ताम्बूलाभ्यञ्जने कीडा भोगाकाङ्क्षा रसायनम् । कत्थनं कुत्सनं स्वस्ति ज्योतिष्म कयविक्रयम् ॥

57

क्रियाकर्मविवादेषु गुरुवा॑क्यविलङ्घनम् । संधिषु विग्रहो यानं मृगचंक शुक्लवस्त्रकम् ॥

58

शुक्लोत्सर्गो दिवास्वापो भिक्षाधारस्तु तैजसम् । विषं चैवायुधं बीजं हिंसा तैक्ष्ण्यं च मैथुनम् ॥

59

त्यक्तं संन्यासयोगेन गृहधर्मान्तिकं व्रतम् । गोत्रादिचरणं सर्वं पितृमातृकुलं धनम् ॥ प्रतिषिद्धानि वैतानि सेवानो ब्रजेदवः

90

सुजीर्णोऽपि सुजीर्णासु विद्वांस्त्रीषु न विंवसेत् । सुजीर्णास्वपि कन्यासु सज्जते जीर्णमम्वरम् ॥ स्थावरं जङ्गमं बीजं तैजसं विषमायुधम् ॥

Page 9

9

1

षडेतानि न गृहीयाद्यातिमूत्रतपुरीषवत् ॥ ९?॥

9

2

नैवाददीत पाथेयं यतिः किंचिदनापदि । पक्वमापत्सु गृह्णीयाद्दानं न लभ्यते ॥ ९२॥

9

3

नीरुजस्व युवा चैव भिक्षुरन्नावसथे वसेत् । परार्थं न प्रतिगृह्णीयां न दद्याच्च कथंचन ॥ ९३॥

9

4

दैन्यभावात्तु भूतानां सौभाग्याय यतिष्वरेत् । पक्वं वा यदिपक्वं वा याचमानो व्रजेदधः ॥ ९४॥

9

5

अन्नपानपरो भिक्षुर्वस्वादीनां प्रतिग्रही । आविकं वानाविकं वा तथा पट्टपटानपि ॥ ९५॥

9

6

प्रतिगृह्य यतिश्चैतन्नपतत्येव न संशयः । अद्वैतं नावमाश्रित्य जीवन्मुक्तत्वमाप्नुयात् ॥ ९६॥

9

7

वाग्दण्डे मौनमातिष्ठेत्त्कायादण्डे त्वभोजनम् । मनसे तु कृते दण्डे प्राणायामो विधीयते ॥ ९७॥

9

8

कर्मणा वध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वीत यतयः पारदर्शिनः ॥ ९८॥

9

9

रथ्यायां बहुकस्वाणी भिक्षा सर्वत्र लभ्यते । भूमिः शय्यास्ति विस्तीर्णा यतयः केन दु:खितः ॥ ९९॥

9

10

प्रपञ्चवम्शिलं यस्नु ज्ञानाग्नौ जुहुयाद्यति । आत्मन्यग्नीनसमारोप्य सोऽग्निहोत्री महायति: ॥ ९?०॥

9

11

प्रवृत्तिद्विविधा प्रोक्ता माज्जारी चैव वानरी । ज्ञानाभ्यासवतामेतुर्वानरीभक्तिमेव च ॥ ९?१॥

9

12

नापृष्टः कस्यचिद्रूयाज्ज्ञा चान्नायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोकमाचरेत् ॥ ९?२॥

9

13

सर्वेषामेव पापानां सद्भातो समुपस्थिते । तारं द्वादशसाहस्रमभ्यसेच्छेदेदं हि तत् ॥ ९?३॥

9

14

यस्तु द्वादशसाहस्रं प्रणवं जपतेsन्वहम् । तस्य द्वादशभि: सार्द्धै: परं ब्रह्म प्रकाशते ॥ ९?४ ॥

9

15

तस्य द्वादशभि: सार्द्धै: परं ब्रह्म प्रकाशते । इत्युपनिषत् हरि: ॐ तत्सत् ॥ इति द्वितीयोऽध्याय: ॥ २॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्र्चक्षु: श्रोत्रमथो बलमिन्द्रियाणि च । सर्वाणी सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण-मस्त्व निराकरण मेsस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥ इति संन्यासोपनिषत्समाप्ता ॥