1. Sankshepa Sariraka Part1 ASS
Page 4
आनन्दाश्रमसंस्कृतग्रन्थावलि:।
ग्रन्थाङ्क: ८३ अभनिचित्पुरुषोत्तममिश्रकृतसुबोधिनीटीकया रामतीर्थविरचितान्वयार्थ- प्रकाशिकया टीकया च समेतं संक्षेपशारीरकम्ं
अस्य प्रथमाध्यायरूप: प्रथमो भागः । एतत्पुस्तकं वे०. शा० रा० रा० वैद्योपाह्वरङ्गनाथशास्त्रिभिः संशोधितम्। तच्च हरि नारायण आपटे इत्येतैः
पुण्याखयपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम्।
शालिवाहनशकाब्दा: १८३९ सिस्ताब्दा: १९१८
(अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायचीकताः) मूल्यं सार्धरूपकचतुष्यम (४८८)।
Page 6
पस्तावना।
टींकाद्टय समेतस्य संक्षेपशारीरकस्य संक्षेपतः प्रस्तावनाऽभिलिख्यते। यत्प्रसादाज्गदिदं परमानन्दमश्रुते। तं श्रीयतीश्वरं साक्षादत्रिसूनुं नमाम्यहम् ॥ १ ॥ भो भो महाशयाः पण्डितवरा विदितमेवैतद्भवतां यदस्मिंस्तापत्रयपरिष्लुते निःसारे संसारे सच्चिदानन्दं परब्रह्म विहायान्यद्वस्तु न किंचिदपि विद्यते। तथाऽपि नैतत्प्रथममेव कृतशास्त्रपरिश्रमेणापि केनचिज्ज्ञातुं शक्यते । कुतः पुनरनधिगतशास्त्रैर्मन्दधीभिः । यतोऽयं संसारो धनवनितारूपभ्रमाधिष्ठितबहिर्मुखसकलमानवः प्रायो गुरुशास्त्रोपदेशस- मासादितात्मसाक्षात्कारवद्गिरनलंकृतः । ईद्ृशेऽतिकष्टमये विधातृविनिर्मिते प्रपश्े दुर्लभैव प्रथममन्तर्मुखवृत्तिः। कदाचित्कस्यचित्ूर्वाचरितपुण्यपुञ्स्य तत्परिपाकवशाङ्गहादिषु जाता- नादरस्याSSदरतः श्रौतस्मार्तकर्मानुष्ठानक्षपितमनोमलस्यैव श्रेयःसाधने मतिरुदेति। यदि न विघ्नबाहुल्येन भग्नोत्साहस्तदा प्रयतते च स तत्त्वज्ञानसंपादनाय। नातिचिरं भगवत्कृपयैव निरस्तसमीहितप्राप्तिविन्नः सद्गुरूपदिष्टमार्गेणैव स समधिगतपरमार्थतत्त्वः कृतकृत्यो भवति। एतादृशो हि कश्चिन्महात्मा निजकर्मवशात्संसारवारांनिधौ पुनः पुनर्निर्मज्तो जनानुद्धर्तु- काम: श्रुतिनिगूढमात्मतत्त्वं बोधयितुं स्वानुभवपूर्वकं ग्रन्थं निर्मायोपदिशति । गुरूपदेशं विना नैतदात्मतत्त्वं तर्केणाSकलयितुं शक्यं 'नैषा मतिस्तर्केणापनेयेति श्रुतेः । तादृशः किल भगवान्बादरायणो जनानुग्रहायोपनिषत्सु प्रदर्शितमात्मतखं ख्यापयितुं सूत्राध्याय- चतुष्टयीं प्रणिनाय । ततश्च व्याससूत्राणां दुर्विज्ञेयतामाकलय्य भगवद्धिः शंकरगुरुभिः शारीरकमीमांसाभिधं भाष्यं निरमायि । सूत्रभाष्यस्यापि काठिन्यं विज्ञाय तत्रभवद्गिः सुरेश्वरशिष्यैः सर्वज्ञात्ममहामुनिभिर्मुमुक्षुबोधाय भाष्याशयं व्यक्तं कर्तुं संक्षेपशारीरकार्योऽयं पद्यमयोऽध्यायचतुष्टयात्मको ग्रन्थो निर्मितः । ग्रन्थेऽस्मिन्नमुना विदुषा प्रमेयविचारोऽति. स्पष्टतया निरूपितः । अनतिरमणीयोऽप्ययं ग्रन्थो न मन्दधियां बुद्धिपथमवतरिष्यती त्यतो महाव्रताभ्निचिन्मिश्रपुरुषोत्तमपण्डितैः सुबोधिन्या टीकया विभूषितः । तथाच राम- तीर्थस्वामिभिरन्वयार्थप्रकाशिकया व्याख्यया च समलंकृतः । मयाऽल्पधिया टीकाद्वयो- पेतोडयं ग्रन्थः सहजतयाऽध्येतणां रसिकप्रेक्षकाणां च मनः संतोषयेदिति विचार्य वे०शा० काशीनाथशास्त्री आगाशे इत्येतेषां साहाय्येन संशोधितः। यथामति शोधितेऽप्यत्र पुंदोषसुलभतया जायमानानि स्खलितानि सहन्तां दयालवो गुणैकपक्षपातिनो महान्तः सहृदया इति साञ्जलिबन्धं प्रा्थ्यते। वैद्योपनामक- रङ्गनाथशर्मा.
Page 8
आदर्शपुस्तकोल्वेखपत्रिका ।
सटीकस्यास्य संक्षेपशारीरकग्रन्थस्य शोधनावसरे यैर्महाशपैः परो- पकृतये पुस्तकानि प्रदत्तानि तेषां नामानि पुस्तकानां संज्ञाश्त प्रद्शर्यन्ते। अग्निचित्पुरुषोत्तमपण्डितकृतसुबोधिनीटीकाया: पुस्तकानि- (क.) इति संज्ञितम्-पुण्यपत्तननिवासिनां रा० रा० मोरोबादादा फड- णीस इत्येतेषाम्। (ख.) इति संज्ञितम्-पुण्यपत्तननिवासिनां रा० रा० तात्यासाहेब खाजगिवाले इत्येतेषाम्। (ग.) इति संज्ञितम्-पुण्यपत्तननिवासिनां रा० रा० मोरोबादादा फड- णीस इत्येतेषाम्। स्वामिरामतीर्थककृतान्वयार्थप्रकाशिकाटीकाया: पुस्तकानि- (क.) इति संज्ञितम्-यवतमाळनिवासि रा०रा० दत्तात्रेय गणेश दविड स्कूलमास्तर इत्येतेषाम्। (ख.) इति संज्ञितम्-के वलचतुर्थाध्यायमात्रं पुण्यपत्तनस्थडेक्कनकाले- जस्थम्। मूलपुस्तकानि- (क.) इति संज्ञितम्-पुण्यपत्तनस्थ रा० रा० मोरोबादादा फडणीस इत्येतेषाम्। (ख.) इति संज्ञितम्-यवतमाळस्थ रा० रा० दृत्तान्रेय गणेश द्रविड स्कूलमास्तर इत्येतेषाम्। (ग.) इति संज्ञितम्-पुण्यपत्तनस्थ रा० रा० मोरोबादादा फणडीस
(घ.) इति संज्ितम्-पुण्यपत्तनस्थदामले इत्युपाह्वानां वे० शा० रा० इत्येतेषाम्।
केशवशास्त्रिणाम्। ग्रन्थस्यास्य प्रथमाध्यायमुद्रणोत्तरं संकेश्वरमठस्थशंकराचार्याणा- मन्धयार्थप्रकाशिकाटी कापुस्तकं समूलं काश्य। मुद्रितं समागतम्। तत एव प्रथमाध्यायस्य त्रुटि: परिशिष्टरूपेणास्माभि: पूर्णतामापा दिता। अस्य मुद्रणकालः इसवी सन १९१३।
Page 10
ॐ तत्स द्रह्मणे नमः। सर्वज्ञात्ममहामुनिविरचितं संक्षेपशारीरकम्।
अग्निचित्पुरुषोत्तम मिश्रकवृव त सुबोधिनीकृष्णती र्थविरचि- तान्वयार्थकाशिकार्यां समेतम् । सु०टी०-खेलया करनिरुद्धमूधरं हेलया दलितमत्तकुञ्जरम्। छद्यना विजितपद्मसंभवं कैशवं किमपि शैशवं भजे ॥ १॥ आदरेण मगवत्वरायणं मूर्तिमन्तमिव बाद्रायणम्। रामतीर्थमिह नौमि तं गुरुं श्रङ्धया दिव इवाऽडगतं गुरुमू॥२॥ उपकाराय धीराणामग्निचित्पुरुषोत्तम: । श्रीमत्संक्षेपशारीरे निबभनाति सुबोधिनीम् ॥३॥ शास्त्रारम्मे सदाचारप्राप्तमिष्टदेवतात्त्वानुस्मरणात्मकं मङ्गलमाच रन्नेव तत्र भरोतृप्रवृत्त्यङ्गविषयप्रयोजनसंबन्धानाद्यैश्रतुर्भिः श्लोकेरदिदर्श- यिषुराचार्य: प्रथमं विषयोक्तिपरं श्लोकद्वयमवतारयति- अनृतजडविरोधि रूपमन्तत्रयमलबन्धनदुःखताविरुद्धम्। अतिनिकटमविक्रियं मुरारेः परमपद प्रणयादभिष्टवीमि॥ १॥ अनृतेत्यादि। अत्र हि प्रत्यग्ब्रह्मणोरेक्यमज्ञातं विषयस्तेच्च प्रथम- श्लोके. तस्पदार्थप्राधान्येनोच्यते। द्वितीये त्वंपदार्थप्राधान्येन। तृतीये जीव बह्मभेदकबुद्धिमायाद्युपाधितिरस्कारेण पदार्थद्वयशोधनपूर्वकं प्रत्य- ग्व ह्मैक्यमेव ज्ञातं सत्पयोजनीभृतमभिधीयते। चतुर्थे तु वाग्देवताप्रण- तिप्रसङ्गेन विषयफलाभ्यां सह शास्त्रस्य संबन्धः प्रतिपाद्ते। अत्र सुरारिः सत्वप्रधानमायाप्तिबिम्बितं चैतन्यं जगत्पालकं विष्ण्वाख्यं तस्य परमं मायासबन्धरहितं बिम्बात्मकं पदं पद्यते गम्यते ज्ञायते वा मुमुक्षुमिरिति तद्भिष्ट्वीम्यामीद्षण्येन रेवग्रन्थे निरूपयामीत्यर्थः । 'तुरुस्तुशम्यमः सार्वधातुके' इति स्तौतेरीडागमः । यद्वा 'सुर संवे-
१ क. स्तत्मा । २ क. श. स्वयं ग्र"।
Page 11
२ टीकाद्वय समेतं-
ट्टने' इति तौदादिकस्येगुपधकप्रत्ययान्तस्य रूपं मुरति संवेष्टते स्वस्वरूप- मिति मुरोजज्ञानं तन्निवृत्तिरूपश्वेन तद्विरोधिभूतं तत्पद्लक्ष्यं बिम्बचैत- न्यमेव सुरारिस्तस्य परमपदं स्वरूपमेव यथा राहो: शिर इति। तञ्ञ परमं माध्य: परं सर्वप्रमाणपथातीतम्। यद्दा परा मा परिमाणं यस्य तत्परममपरिच्छिन्नमित्यर्थः। तञ्च पद्यते मोहादप्राप्तमिव प्राप्यत इति पद्मभिष्टवीम्याभिमुख्येन प्रत्यगभेदेन तदेकाग्रचित्तः स्मरामीत्यर्थः । अत्र गुणकीर्तनात्मकस्तुनेनिर्गुणे वस्तुन्यसंभवादुपचाराश्रयणम्। तस्य तथा स्मरणे हेतुमाह-प्रणयादिति । प्रक्रृष्य नयः परणयः प्रत्यगर्थस्य मागलक्षणया विरुद्धांशात्प्रकृष्य तत्पदार्थ प्रति नयनादित्यर्थः । यद्वा प्रणयो मक्तिस्तया हि मत्यगभिन्ने ब्रह्मणि चित्तमेकाग्रं भवति, 'भजतां प्रीतिपूर्वकं ददामि बुद्धियोगं तम्' [गी० १० । १० ] इत्या- दिमगवद्गीतोक्ते:। ननु यदि मुररेः परमपदं सकलप्रमाणपथातीतमप- रिच्छिन्नं च तर्हिं कुतस्तस्य प्रमाणाननुभूतस्यानन्तस्याहमिहेवास्मी- त्यात्मानो व्युञ्चरन्ति, इत्यनुभवश्ुतिबोधितान्तत्रयवत्पत्यगभेद: स्मरण वा स्यादित्याशङ्कय तस्य स्वप्रकाशचिदपतया प्रमाणवेद्यत्वेऽवि वेदा- न्तवाक्यजब्रह्माकारवृत्त्यभित्यङ्ग्यतया विद्वदनुभवगोचरत्वान्न स्पृत्य- नुपपत्तिः । नापि प्रत्यगभेदासंभवस्त्वंपर्द्लक्ष्यस्य निकृष्टोपाधेरनन्त- त्वादित्यभिप्रेत्य वेदान्तसिद्धं तत्स्वरूपं दर्शयति पूर्वार्ेन । तत्रानृतजड. विरोधीति च्छेदः। अनुपलब्धिबाधात्खपुष्पकल्पं तित्यवैदिकस्थाSडश- ङ्कामुद्धर्तु विशिनट्टि-रूपमिति। जगतो वास्तवं रुपमित्यर्थः । रुप्यते ह्यनेन सर्वं जगदिति सर्वोधिष्ठानत्वात्साक्षितया सर्वसाधकत्वाच्च, तद्- भावे हि निःस्वरूपमसाक्षिकं सन्न किचित्सिध्येदित्यवश्याभ्युवेयं तदिति मावः। ननु कुत एतत्सत्यस्य जगतोऽधिष्ठानानपेक्षत्वादित्पाशङ्क्य युक्तिभिः प्रपञ्चमिथ्यात्वस्याग्रे प्रपञ्चनीयत्वात्तदुपेक्ष्य 'ब्रह्मैवेदं सर्वम्' [नृसिं० उ० ७] इति। 'ईदं सर्व यद्यमात्मा' [नृ० उ० ५] इति। 'ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तदेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्'॥
१ ख. मा मागं प०। २ क.मि भक्तियो० । ३ क. ग. जत्वन्न°।४ क, ग. ·दवे द्यस्य । ५ क. ग. वाद्दिष्णुमत्वा। ६ क. ग. य ।
Page 12
संक्षेपशारीरकम्। ३
ब्ह्मण्यध्यस्तमेव सर्वं जगन्न सत्यमिति वेदयितुं ब्रह्मणः प्रपश्नविलक्ष-
नृतत्वं बाध्यत्वं जंडत्वमचेतनत्वमन्तत्रयं देशकालस्वरूपपरिच्छेद इति प्रपञ्चधर्मा:।ब्ह्म तु 'सत्यं ज्ञांनमनन्तम् '[तेत्ति०६।१।१ ] इति श्रुते- बांधावधित्व चेतनत्वनित्यत्व विभुत्वसवेतिमकत्वैस्त द्विपरीतामति, तत्रैव सर्वः प्रपञ्चोऽध्यस्त इति। (* तथा मलो रागादिर्बन्धनमस्वातन्त्रपं दुःखभेव दुःखता प्रतिकूलवदेनीयो रजःपरिणाम इति) जीवधर्माः। तद्विरुद्धं च ब्रह्म शुद्धबुद्धमुक्तानन्दमिति, तत्रैव जीवत्वं कल्पितमि- त्यर्थः । ननु तत्पदार्थभूत ईश्वरस्तटस्थ इति तार्किका: कुतस्तस्य
विद्याभ्योऽपि प्रत्यासन्नं परमपद्मात्मनः, 'एष त आत्मा सर्वान्तरः' [ बृहदा० ३।४।१] इत्यादिश्रुतेरित्यर्थः । तथाऽि तस्य जगदु- पादानत्वन परिणामित्वात्कथमुक्तलक्षणत्वमित्यत्राSSह-अविक्रियमिति। अपरिणामीत्यर्थः । यद्वा जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विन- इयतीति षड्भावविकारास्तच्छन्यमित्यर्थः । 'न जायते म्रियते' [कठ०२।१८] इति 'न वर्धते कर्मणा' [बृह०४।४। २३] इति, 'अपूर्वमनपरम्' [बृह० २।५ । १९ ] इति, 'अविनाशि ' [ सर्वो० ३ ] इत्यादिश्युतिभ्यः। उपादानत्वं च मायाद्वारकत्वान्न कौट- स्थ्यविरोधीति वक्ष्यते ॥१॥ अ० टी०-यस्माद्विश्वमुदेति येन विविधं संजीव्यते लीयते यत्रान्ते गगने घना इव महाभायिन्यसङ्गेऽदये।
श्रीरामे रमतां मनो मम सदा हेमाम्बुजे हंसवत् ॥ १ ॥ य च्चैतन्यमनन्यसिद्धममलं प्राणेन वषात्मना साकं नादमर्यी तनुं तनुतरां बिभ्रत्क्रमेणोद्गताम्। वाग्देशे स्फुटवर्णतामुपगतं सर्वार्थविद्योतनं वेदाख्यं दहनं गतोऽस्मि शरणं राभाभिधानं महः ॥ २ ॥
- धनुश्विह्वान्तर्गतो ग्र.थः क. पुस्तके नाति।
१ ख. 'वात्मिक० । २ क. ग. द्धमु°।
Page 13
टीकादय समेतं-
या SSदिक्षान्तविनिर्मिताङ्गविभवा यस्या: प्रसन्नेक्षण- प्रान्तालोकनवर्त्मगः कविवरः संजायते तत्क्षणात्। या वीणावरपुस्तकाक्षविलसद्दोभिश्च नुर्मिर्युता सा वाणी हृदये मुखे वसतु मे सर्वार्थसंदर्शिनी ॥ ३ ॥ सोम: सोमकलाविभषित जटाजूटः प्रसन्नेक्षणो विद्यार्था [दि ] भिरादरेण परितः संसव्यमानो जनैः ।
मच्चित्तान्तरवस्थितः करुणया कुर्यादभीष्टं मम ॥ ४ । आरम्भाः सफला भवन्त्यपि मृणां यस्मिन्प्रसन्नानने देवानामपि यत्प्रसादविरहे मोघा भवन्त्युद्यमाः । स प्रीतो नतिमात्रतो गजमुखो देवोऽमदिष्टां क्िया- मर्थेनोपचितां करोतु विविधां विध्वंस्य विघ्नाटवीम् ॥५॥ यः सर्वश्रुतिमौलिपद्मनिकरं दोधूयमानं महा- वादिवातसमीरणैः स्वकृतसत्सूत्रावनद्धं स्थिरम् । चक्रेडनेकविनेयतोयनिभृतं विष्णोः पढ़ैकायनं वेदव्यासगिरेरिताय मुनये तस्मै नमो विष्णवे॥ ६ ।। येनाद्वंद्वमखण्डमक्षयपदं प्रादर्शि तापापहं भाष्य- ग्रन्यनिबन्धनैः श्रुतिशिरोवाक्यार्थविद्योतिभिः । नित्यो यत्र समस्तसद्गुणगणस्तं शंकराचार्यगी- विख्यातं मुनिमौलिलालितपदद्वंद्वं सदा संश्रये ॥७॥ यत्पादद्वयवन्दनेन सकला दोषा विनेशुः क्षणा- दद्धस्ताम्बुनसंगमेन शिरस श्रीः प्रादुरासीन्मम। य द्वक्त्रोदित वेद मौलिवचनस्याSSकर्णनेनाSSत्मन- स्तत्त्वाज्ञानमली यताऽततमहं वन्दे हरिं श्रीगुरुम्।।८। वैन्युत्पादित आदरेण कृपया ग्रन्थप्रचारो घियो येनैषां मम नूतनामपि बहुग्रन्थान्विशन्यश्रमाः । तेडस्मत्प्रत्युपकारनिस्पृह धियस्तुष्यम्तु पुण्यैषिण- स्तानुद्दिश्य नमस्करोमि मनसा नान्यद्विधातुं क्षमः ॥। ६ ।। संक्षेपृशारीरकमादरेण तदर्थबोधाय यथामनीषम्। विविच्यते यत्कृपयन्तु सम्तः श्रमं मदीयं समुदीक्षमाणः॥१०॥
Page 14
संक्षेपशारीरकम्।
परन्नगंभीरमवेक्ष्य भाष्यं तदर्थजिज्ञासुहिते प्रवृत्तः । सर्वज्ञनामा मुनिरातनोत्सत्पय्यौघबन्धैः प्रथितं प्रबन्धम् ॥ ११ ॥ तस्याहमत्रजुकथेन सम्यकू पदान्वयार्थ प्रकटी करोमि। सिद्धान्तदीपोक्तिमवेक्ष्य मूलशास्त्रं श्रतीर्मूलनिबन्धनं च ॥ १२ ॥ इह हि सर्वज्ञात्मगिरा प्रसिद्धनामा महामुनिरखिलश्रुतिमौलितत्त्वार्थविचारशास्त्रश्री मच्छारीरकाभिधस्य श्रीवेदव्यासमहामुनिकृतसंदर्भात्मकस्य भगवत्वादाभिधानश्रीमच्छंकरा- चार्यकृतभाष्यप्रकटीकृतार्थस्यापि गम्भीरस्य संक्षेपतस्तात्पर्यार्थजिज्ञासूनुपलम्य तदनुग्रहाय श्रीमच्छारीरकशास्त्रप्रकरणवार्तिक मार भमाणस्तत्रा विघ्नपरिसमाप्त प्रचयगमनशिष्टा चारापरिपा-
ननर्थाच्छास्त्रीयाभिधेयप्रयोजने दर्शयति श्रोतृप्रवृत्तिसिद्धयेऽनृतनडेत्यादिना पद्यत्रयेण । अयं ग्रन्थः शास्त्रं च भवति प्रकरणं च वार्तिकं च यतो वक्ष्यति'श्रीमच्छारीरकार्थप्र- कटनपटुताशालि शास्त्रं विदध्मः' इति 'विमृशन्त्विदं प्रकरणं मनसा' इति च। वार्ति- कत्वमप्यस्यार्थतोऽवसीयते तत्कचिद्याख्यानावसरे प्रदर्शयिष्यामः । अस्मिन्हि शास्त्रे. तत्त्वंपदार्थततत्वं च प्रतिपादयो विषयः । तज्ज्ञानाच् तद्गताविद्यातत्कार्यात्मकसंसारब्धबाघः स्वस्वरूपपरमानन्दाविर्भावः प्रयोजनिति स्थितिः । तदुभयमिह मङ्गलाचरणव्याजेन पदत्रयेणाSSदौ संगृह्णाति । तत्राप्यनृतेत्याद्येन लक्ष्यपदार्थमनुक्रामति। एषाऽक्षरयो- जना-मुरारे: परमपद्मभिष्टवीमीत्यन्वयः। मुरनाम्नोडसुरस्य हन्ता श्रीकृष्णो मुरारिरिति सर्वपुराणेषु प्रसिद्धम्। स च जगत्पालनाय कृतावतारो भगवान्विष्णुरेवेति च तत्रैव निर्णीतम्। तथा च मुरारेर्विष्णोरविष्णुशब्दवाच्यस्य यत्परमं निरतिशयं निर्विशेषम- तिशयरूपविशेषहेतुमायासंबन्धाभावात्सर्वोत्कृष्ट पद्यते गम्यते प्राप्यते मुमुक्षुभिरिति पदं स्वरूपं तदहमभिष्टवीम्यभित: सर्वात्मना श्रुतिस्मृतीतिहासपुराणैस्तात्पयेणोपपादितस्वमावे- नाSडभिमुख्येन वा प्रत्यगभेदलक्षणेन स्तवीमि स्तवनं करोमि तत्स्वरूपनिरूपणपर ग्रन्थ करोमीत्यर्थ: । तत्क ख्यातिलाभपूजोद्देशेन नेत्याह-प्रणयादिति। प्रणयः प्रीतिः परमपदैकप्रवणचित्तता तरमात्प्रणयान्निमित्तादित्यर्थः । चित्तस्य विष्णोः परमपदैकनिष्ठा- रूपभक्तिविच्छेदपरिहाराय तत्प्रेमप्रेरितः सन् ग्रन्थकरणे प्रवृत्तोऽस्मीत्यभिप्रायः । कि तत्परमपदं यद्भिष्टवनं प्रतिज्ञायत इत्यपेक्षायां तस्य वाचामगोचरत्वादिदं तदिति निर्देष्ठमशक्त्तेः सत्यज्ञानादिपदैर्वेदान्तेषु यथा तदावेद्यते तथा लक्षणया तत्स्वरूपं ज्ञापयत्यनृतजडविरोधिरूमित्यादिपदद्वयेन। अनृतं तद्यदस्तीति यत्र येनाऽऽत्मना अतीतं सत्तदेव तत्र तेनाऽडत्मना नास्तीति प्रतीतिगोचरः। यथा पुरोदेश इदमित्युल्लिख्यमाने रजतमिदमिति प्रतीतं सत्समयान्तरे शुक्तिरियं न रजतमिति पूर्वप्रतीतविपरीतस्वभावतया गृह्यते तदा तत्र पूर्वदृष्टमनृतमिति प्रसिद्धं लोके। तथा च प्रतिपननोपाधौ निषेधप्रतियोगितया व्यवहियमाणमनृतमित्यर्थः। जडमिति तदभिधीयंते
Page 15
टीकाद्वय समेतं-
यत्स्वव्यवहारे स्वविलक्षणस्वमावं प्रकाशं नियमेनापेक्षते यथा घटपटादि स्वविलक्षणस्वमावं चित्प्रकाशं स्वप्रतिबद्धव्यवहारेडपेक्षते। अनृतं च तज्जडं चेत्यनतजडम्। न हि जाड्य .. मनुतत्वं व्यभिचरति विकारस्य जडात्मनो वाचारम्भणत्वश्रवणात्। नाप्यनृतत्वं 'जाड्यं' व्यभिचरति मिथ्यारजतादेरुक्तजाड्यलक्षणयोगात्। तथा च बुद्धयादिदेहान्तमध्यात्ममधि- दैवं च जडं स्वविलक्षणस्वभाववेद्यत्वात्तथा त्वस्य चाग्रे निरूपयिष्यमाणत्वात्। तथाऽनृतं चैतच्छुक्तिर जतादिवदागमापायित्वात्। तथा चानृनविरोधिरूपं सत्यपद्लक्ष्यम्। सत्यशब्दो हि लोके प्रतीतानृतबाधावधिभूतेषु शुक्तीदमंशादिषु प्रसिद्धोऽतः शुक्ति: सत्या रज्जुः सत्या मरीचिका सत्येत्येवमिद सत्यमिदं सत्यमिति शुक्त्यादिविशेषोपरक्ततयेदमः सत्यशब्द- वाच्यत्वं तत्तद्विशेषांशापोहेन स्वरूपेण तस्यैवेदमः सत्यशब्दलक्ष्यत्रमिति स्थितेः । सर्वेष्वपि व्यवहियमाणेषु बाह्याध्यात्मिकेष्वर्थेषु यदनुगतमवभासतेऽस्त्यस्मीत्येवंरूपेण तदेव तत्तदेहादिविशेषितं सत्सत्यशब्दवाच्यं तद्पोहेन स्वरूपतः सत्यपदलक्ष्यं च भवति। ततश्च यद्विकारजातमनृं बाध्यलक्षणं तद्विरोधि विरोधनस्वमावं सर्वानुश्यूतं सन्मात्रं यत्ततसत्यपद्लक्ष्यं परमं पदमित्यर्थः । तथा जडविरोधि- रूपं चैतत्परमं पदम्। यथा सर्वेधु पूर्वोक्तार्येषु यतस्फुरणमनुगतमवभासते तत्तत्तदर्थविशे- षिबुद्धिवृत्तिविशिष्टं सज्ज्ञानशब्दवाच्यं भवति। तदेव तत्तदर्थाकार बुद्धिवृत्तिविशेषणांशापो- हेनानुगम्यमानं प्रकाशमात्रस्वभावं ज्ञानशब्दस्य लक्ष्यं भवति। तदिदमुच्यते-जडवि- रोधिरूपमिति। तथा चानृतजडरूपप्रपश्चविरोधित्वेन विलक्षणस्वमावत्वन रूप्यते लक्ष- णया ज्ञाप्यते सत्यज्ञानपदाभ्यामित्यनृतजडविरोधिरूपमित्यर्थ: । सत्यज्ञानात्मकं परमं पदमितयुक्तं भवति। यत एवमुत्तलक्षणं परमपदस्वरूपमत इदमेव परमपुरुषार्थरूपमपीत्य भिप्रेत्य तद्विशिनष्टि-अन्तत्रयमलबन्धनदुःखताविरुद्धमिति। अन्तत्रयविरु द्धमिति श्रुतिगतानन्तपद्लक्ष्यत्वं परमपदस्योक्तम्। देशतः कालतो वस्तुतश्च यस्यान्तो निरूप्यते तदन्तत्रयवत्। यथा घटादि देहादि वाऽन्तत्रयवत्। अभूत्वा भावित्वाद्भूत्वा चामावित्वात्तत्कालतोन्तवत्। मूर्तत्वाद्देशतोऽप्यन्तवत्। वस्तुतोऽप्यन्तवदन्योन्याभाव प्रतियोगित्वात्। आकाशकालदिशामप्यन्तवत्त्वं वस्त्वन्तरकृतपरिच्छेद्लक्षणं प्रसिद्धमेव। देशतः कालतश्चान्तवत्त्वं तु तेषामुत्पत्तिप्रलयश्रुतिनिरूप्यम्। तथा चेदमेवमन्तवदिति य्मि- न्ननुगते सत्यज्ञानात्मके व्यवहियते तत्रान्तवतामवधितयाऽनुस्यूताकारमन्तविरोधितयाS नन्तपदेन तदेव परमपदमावेद्यत इत्यर्थः। अत्रान्तनिषेंधात्मकत्वाद्नन्तत्वस्यान्तत्वस्यान्त- पदव्युत्पत्त्यैव तव्द्युत्पत्तिरवगता प्रतियोगप्रसिद्धिव्यतिरेकेण तद्भावे पृथग्व्युत्प्त्त्यनपे- क्षणात्। तथा चानन्तपदमन्तवद्धस्तुनिषेधं वदत्सर्वनिषेधानुगतमवाधि लक्षयतीति युक्त मनन्तपदस्य परमपद्ज्ञापकत्वमिति। तथा मलविरुद्धं चैतत्परमपदम्। मलशब्देन तत्प्र- सिद्धं यद्वस्तु याथात्म्यप्रतीतिप्रतिबन्धकृद्यथा पङ्कदिग्घमादर्शादि। तद्विरुद्धं चापगत मलत्वेन व्यवहियमाणं शुद्धमिति प्रसिद्धम्। तथा च परमपद्स्वरूपावमासप्रतिबन्धकृद-
Page 16
संक्षेपशारीरकम्। ७
नाद्यनिर्वचनीयाऽविद्या 'अनृतेन हि प्रत्यूढा' [छा० ८।३ । २] इत्याद्यनकश्रु- तिषु परमात्मवस्तुयाथात्म्यावभासन्तिव्वकतवेन प्रसिद्धा। सैव तस्याशुद्धिकरी चेत्या- कमनि मलस्तस्यां हि सत्यामशुद्धोऽस्मीति प्रत्यक्पदार्थो मन्यतेप्रक्षालितमिन वस्त्रादि। तथा च 'शुद्धमपापविद्धम्' [ईशा (] इत्यादिश्रुतिपदं क्षालनादिना संस्कृतेषु पदार्थेष्वयं शुद्धोऽयं शुद्ध इति शुद्धपद्वाच्यंतयाऽवगम्यमानेशु गृहीतव्युत्पत्तिकं सच्छुद्ध पदं तत्तद्विशेषां शपरित्यागेनानृताविद्यादिमलरहितं परमं पदं विशदयति । तदिदमुच्यते- मलविरुद्धमिति। तथा बन्नविरुद्धं चैतत्परमं पदम्। बन्धनं हि रज्जुकाष्ठलोहादि- भि्निग्रहगं प्रसिद्धम् । तच्चार्थानां स्वातन्त्रयविघाति । तद्विरुद्धं मुक्तत्वं स्वात- न्यम्। तदिदमुच्यते-बन्धनविरुद्धमिति । तथा च मुच्यमानगोवत्सादौ व्युत्पन्नं 'विमुक्त[ श्र्व ] विमुच्यते' [कठ० । ६।१] इत्यादिश्रतिगते मुक्तपदं तत्तदर्थानुगतसचचिन्मात्रं परमपद लक्षणया बोधयतीति नित्यमुक्तपरमपदभित्यर्थः । तथा दुःखताविरुद्धं चैतत्परमपदम् । स्वार्थे तद्धितः। दुःखविरुद्धमेतत्। दुःखविरुद्धं हि सुखमिति लोके प्रसिद्धं निरुवाधिकपरेमास्पदम्। तच्च लोके विषयविशेषमोगनिबन्ध- नतया नानाव्यपदेशास्वदं भवत्यन्नसुखं पानसुखं शायनसुखमित्यादिना। तत्र सर्वत्र सुखमित्यनुस्यूतं दुःखविरुद्धाकारं तत्ता्विषयोपरक्तान्तःकरणवृत्तिविशिष्टाकारेण सुखशब्द- वाच्यं विशेषांशपरित्यागेनानुगतमविशेषमनवच्छिन्नम् 'आनन्दो ब्रह्म' [तै० ३। ६। १ ] इत्यादावानन्दपदेन लक्ष्यत इत्यर्थः । तथा चानृतजडपरिच्छिन्राशुद्धास्व- तन्त्रनिरुपाधि्र मानास्पदप्रपञ्च विरोधि सत्यज्ञानानन्तशुद्धमुक्तपरमान्दरुपं विष्णो: परमप- दमिति तत्पदलक्ष्यं वस्तु निर्दिष्टमिति। अत्र तत्प्ररश्वाकारविरोधित्वेन लक्ष्यमाणत्वाल्लक्ष्या- कारभेदप्रतीतावपि न तस्मिन्नाकारमेदो वा परमार्थतोऽस्ति तदनिरूपणात्। अतः सत्यज्ञा नादिपदकदम्बेनाखण्डैकरसं वस्त्वावेद्यत इति तात्पर्यार्थः । इदानीमुक्तलक्षणपरमपदस्य ताट- स्थयशङ्कां वारयंस्तस्य प्रत्यगेकात्मत्वं तत्त्वमस्यादिवाक्यसिद्धं याथात्म्यमाह-अति- निकटमिति। ज्ञातुरात्मनोऽतिसंनिहितं तस्य स्वरूपत्वमेव न तटस्थं तदित्यर्थः । अत्र निकटमित्यु क्ते कृत्तिकोदये रोहिण्या दिसंनिधिवत्सामीप्यमात्रमुक्तमित्याशङ्कावारणायाती- स्युक्तं तेन च संनिधानं तादात्म्यमेवेति सूच्यते। न ह्यमूर्तयोः स्वतन्त्रयोः प्रत्यग्ब्रह्म- णोलोकप्रसिद्धं नैकव्यं संभवति। तथा च प्रत्यगव्यवहितस्व्ररूपमेवेहा तिनिकटशब्दार्थः । ननु कंथमविकारिपरमपदस्य कर्तृत्वांदिविकारवद्ात्मात्मतेत्याशङ्कायमाह-अविक्रिय- मिति। प्रत्यगभिन्नत्वेऽप्यविक्रिय कूटस्थमित्यर्थः । न हि प्रत्यगात्मनोऽपि स्वतो विकारिस्वमस्ति पराध्यासमन्तरेण तस्मिस्तदनिरूपण्पादिति भावः । एतदुक्तं भवति- मुरारिशब्दनिर्दिष्टः सत्त्वगुणप्रधानकारणमायायां विक्षेकलक्षणायां प्रतिबिम्बितश्च्िद्धातुस्त द्वताभासाविविक्ततया तत्पदवाच्य ईश्वरो भवति। रजस्तमःप्रधानाविद्यादिपद्निर्दिष्टकार्या- वस्थाज्ञान आवरणलक्षणे प्रतिबिम्बितः स एव चिद्धातुस्तद्गताभासाविविक्ततया त्वंपद्वा
Page 17
टीकाद्वय समेतं- V
च्यो जीवो भवति। तत्रोभयत्र कार्यकारणलक्षणोपाध्यंशपरित्यागेनान्विष्यमाणं स्वतोs- विक्कियं कूटस्थसच्चिदानन्दाद्यात्मकप्रत्यग्ब्रह्मरूपं परमं पदं सिध्यतीति। अत्रानृतजडविरो- धिरूपमविक्रियमिति च तत्दार्थकोटौ निर्विशेषोSवान्तरवाक्यार्थो दशितः । अतिनिकटम- विक्रियमिति च तस्य कूटस्थप्रत्यगात्मभेदो महावाक्यार्थो दशितः । द्वितीयविशेषणेन
क्षणं निर्दिष्टमिति श्रोतृप्रवृत्यङ्गतया शास्त्रीये विषयप्रयोजने उक्ते वेदितव्ये ॥ १॥ सु०टी०-तदेवं तत्पदार्थपरं 'जन्मादि' [ १।१।२] इत्यादि सूत्रमर्थतः संक्षिप्य जीवपरं प्रथमसूत्रार्थ संक्षेतुं द्वितीय पद्यं विषयोक्तिपरमेव प्रस्तीति-
स्वाज्ञानकल्पित जगत्पर मेश्वरत्व- जी वत्वभेदकलुषी कतभूमभनावा । स्वाभाविकस्वमहिमस्थितिरस्तमोहा पत्यक्चितिर्विजयते भुवनैकयोनिः ॥ २॥ प्रत्यक्चितिरहंकारोपलक्षितं जीवचैतन्यं त्वंपद्लक्ष्यं सा विजयते सर्वस्मादुपरि तत्पद्लक्ष्येऽभेदेनैव वर्तत इत्यर्थः । ननु जीवः संसारी पूर्वोक्त बह्मविलक्षणः कुतोऽस्य तत्पदार्थेनाभेद इत्याशङ्कयाऽडह- भुवनैकयोनिरिति । यैव हि कार्योपाधिना जीवत्वापन्ना प्रत्यक्चितिः सैवाSडमासद्वारा कारणोपाधिस्था सती भुवनैकयोनिर्राश्वर इति न तयोर्भेद इत्यर्थः, 'अनेन जीवेनाऽडत्मना' [छा० ६।३। २]इति श्रुतेः। कथं तहिं तस्य दुःखित्वपरिच्छिन्नत्वादिप्रतिभास इत्यत्राऽडह- स्वाज्ञानेति। स्वाश्रयविषयानादिभावरूपाज्ञानेन कल्पितो यस्त्रिविधो भेदस्तेन कलुषीकृत आच्छादितो भूमभावः पूर्णानन्दस्वरूपता यस्या इति त्वंपदवाच्योक्तिः। तथा चौपाधिको भेदप्रतिभास इति भावः।ननु कलुषीकृतब्रह्ममावा चेत्कथं निरवद्यत्रह्मरूपा स्वादित्याशङ्कयाSSह- स्वामाविकेति। स्वाभाविकेऽनागन्तुके स्वे महिम्रि पूर्णानन्दरूपे स्थिति- र्थस्या: संसारदशायाम(*पीति शेषः।कल्पिताबह्मत्वेन पारमार्थिक ब्रह्म-
- धनुश्िह्नान्तर्गतग्रन्थः ख. पुस्तकस्थः।
१ क. ग. १दिसू°। २ क.०न्दुस्वरू।
Page 18
संक्षपशारीरकमू।
मावस्य न काऽपि क्षतिरिति भाव: । नम्ब)ज्ञानमनांदित्वाज्जीवस्य बह्मभावं छूषयेदित्यत आह-अस्तमोहेति। अज्ञानस्पाऽडविद्यकत्वेन मिथ्या- त्वान्नैष दोष इत्यर्थ: ॥२ ॥ अ० टी०-ननु प्रत्यग्ब्रह्मणोर्मेद्ात्प्रपश्चस्य परमार्थत्वात्कयं परमपद्स्यानृताद्या त्मकप्रपश्चविरुद्धसत्याद्यात्मता प्रध्यगेकरसता चेति चेतत्राSह-स्वाज्ञानकल्पितेति। यद्वा सत्यज्ञानादिपदैरनृतादिप्रपश्चविरुद्धाकारं स्ववाध्यसत्यत्वाद्यनुगतं प्रत्यगभिन्नं परमं पदं लक्षणया बोध्यत इति यदुक्तं तदयुक्तं वाष्यार्थलक्ष्यार्थयोः संबन्धासंभवात्। न हि विरुद्धस्वभावयोस्तेजस्तिमिरयोः संबन्धो विद्यते। असंबन्धे च न लक्ष्यलक्षणभाव इति चेन्मैवं वस्तुतः संबन्वाभावेपि यथाकर्थंचित्संबन्धोपपत्तेनोक्तदोषावकाश इत्यभिप्रेत्याSह- स्वाज्ञानकल्पितेति। स्वशब्देन पूर्वश्रोकनिर्दिष्टं परमपदं गृह्यते। तदाश्रयं तद्वि- पयं चाजानं स्वाज्ञानं तेन कल्पितं जगत्कार्यकरणसंघातरूपमधिदेवमध्यात्मं च तर्मि- अगति यदुपादानत्वेन निमित्तत्वेन चानुगतं तत्परमे[ श्वरत्वं] संघातद्वयात्मके जगत्यहं- ममाभिमानतयाऽनुप्रवेशेन व्यवहारयोग्यतापत्तिर्जीवत्वं तथा च स्वाध्यस्तानाद्यज्ञानकल्प- तानि यानि जगत्परमेश्वरत्वजीवत्वान्येतान्येव मेदा विशेषास्तैः कलुषीकृतो मलिनीकृतो भूमभावो ब्रह्मभावः पूर्वोक्तलक्षणो यस्याः प्रत्यकचितेः सा स्वाज्ञानकल्तिजगत्परभेश्वरत्व- जीवत्वभेद्दकलुषीकृतभूमभावा, अन्न भूमशब्द्रो न भाववचनः कि तु 4भूमा संप्प्ादा- दध्युपदेशात्, [ब्रह्म० १।३। ८] इतिन्यायेनाखण्डब्रह्मवचन इति विवषित्वा भूमभावेत्युक्तमिति द्रष्टव्यम्। तथा च प्रत्यक्चितिः पूर्वश्लोकोक्तपरमपदलक्षणा स्वाज्ञान- द्वारा जीवेश्वरजगदाकरेण विक्रियमाणा सती त्रिविधस्य भुवनस्य कार्यकरणतदुपाधि- संसष्टत्वात्मना भवनधर्मकस्य योनिरमिव्यक्तिस्थानमधिष्ठानं भूत्वा विजयते सर्वत्र सत्तास्फूर्तिप्रदत्वेनानुगतोत्कर्षेण स्वे महिम्नि वर्तत इति योजना। जगजीवेश्वरत्वानाम- ज्ञानकस्तितत्वमुत्तरत्र स्पष्टी भविष्यति। एवं सति प्रपश्वस्य परमार्थत्वाभावात्कार्यकार- णोपाधिमन्तरेण स्वतो जीवेश्वरभेदाभावाच्च न प्रथमचोद्यस्यार्थवत्ता। तथा यथोक्प्रपश्वस्य स्वाविद्याद्वारा कारणत्वेनानुगमात्परमपदस्य वाच्यार्थसंबन्धे सति लक्ष्यत्वोपपत्तेर्द्वितीयमनि चोदयं निरवकाशीकृतमेव। नन्वेवें स्वाविद्याद्वारा विक्रियमाणायाः प्रत्यक्चितः कथम विक्रियत्वमुक्तं संगच्छत इति तत्राऽऽह-स्वाभाविक स्वमहिमस्थितिरिति। स्वाभाविकोऽन्यानधीनो यो महिमा कूटस्थसच्चिदानन्दलक्षणस्तस्मिन्नेत्र स्थितिरवस्थाकषं यस्या: सा । तथास भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि' [छ.७।२४।१] इति श्रुतेः । तथा च कलितपपश्ाश्रयत्वेन भासमानमति
१ क. ग. नैव न्दा।
Page 19
टीकाहयसमेतं-
परमपदं स्वभावतः सदा कूस्थमेवेत्यर्थः। नन्वविद्यावतः कूटस्थत्वं विरुद्धमविद्यायाः स्वाश्रयविकारहेतुत्वाद्त्यत आह-अस्तमोहेति। परमार्थतो निरस्तमोहा मोहशब्द वाच्याज्ञानस्य सूर्ये दिवान्धपरिकल्पितान्धकारवद्वस्तुत्वात्। न ह्यारोपितेनावस्तुभूतेन परमार्थवस्तुस्वभावो विहन्यत इत्यर्थः। तस्मांत्स्वाज्ञानकल्पितकार्यकारणानुगतस्वाभासा- विविक्ताकारेण त्वंतत्पदवाच्यं तदुत्पत्तिस्थितिलयावधितया तदवस्थासाक्षितया च सच्चि- न्रूदेणानागमापाचिस्वयंप्रका शस्वभावात्मना लक्ष्यं च भवति प्रत्यक्चितिशब्दनिर्दिष्ठं विष्णोः परमं पदमिति न किंचिद्नुपपन्नमिहेति भावः ॥२॥ सु टी०-एवं विधेयत्वेनाभ्र्हितं तत्पदार्थमुपन्यस्योद्देश्यं च स्वंप- दार्थमुक्त्वा प्रयोजनीभूतसमन्वयवाक्यार्थविवक्षया पद्यमुत्थापयति- प्रत्यक्पमाणकमसत्यपराक्पभेदं प्रक्षीणकारणविकारविभागमेकम्। चैतन्यमात्रपरमार्थनिजस्वभावं प्रत्यश्चमच्युतमहं प्रणतोडस्मि नित्यम् ॥३॥ प्रत्यक्रमाणकमिति। मत्यञ्चमच्युतं प्रत्यगभिन्नमित्यर्थः । नित्यं पणतोडस्मि निरन्तरं प्रपन्नोडंस्मि। तस्य प्रपत्तिमात्रलभ्यत्वात् । तदुंक्तं-'मामेव ये प्रपछन्ते' [भ०गी०७।१४] इति। तन्न कथं प्रर्पतुः प्रपदनीयाभेद इत्याशङ््य निष्क्ृटपाधित्वेनेत्याह-प्रत्यश्चमिति। प्रतीपम- श्वतीति प्रत्यक्त्वंपद्लक्ष्यं जीवचैतन्यम्। अच्युनमिति। स्व्ररूपादपच्युतं तत्पद्लक्ष्यं ब्रह्मचैतन्यम्। तथो: सार्मानाधिकरण्यात्सोऽयं पुमानितिवद्ख. ण्डेकरसं चिन्मात्रं वाक्यार्थः।देवाविद्यानिवृत्ती प्रकाशमानमानन्दैक- रसं परमनयोजनम्। ननु प्रमातृप्रमाणादेराविद्यकत्वादखण्डेकरसं कुतः सिध्येदत आह-प्रत्यक्प्रमाणकमिति। वाक्योत्थबह्माकारवृश्यमिव्यक्कप्रत्य गेव प्रमाणं यस्थेत्यर्थः । कथं पुनः सद्वयस्य प्रतीचोऽद्यत्रह्मैक्यमित्य-
पराशूपबुद्धीन्द्रियादिभेदो यस्य, तेन नास्य वस्तुतः सद्यत्वमिति भावः। ननु तत्पदार्थस्यापि वियदादिविकारवरवात्कथमद्धयत्वमित्य- त्राSSह-प्रक्षीणेति। प्रक्षीणो ज्ञानवाधितो मायाकाशादिकारणविकार विभागो यस्पेति। पदार्थद्टयं संशोध्य वाक्यार्थमाह-एदमिति। अद्वि-
१ क. ग. पदनी° । २ क. ग. "मान्यात्सो'। ३ क. ग. मानचै।
Page 20
संक्षेपशारीरकमू। ११
करसतेत्यत्राSSह-चैतन्येति। जडविरोधित्वादिनिमित्तभेदादाचार्यो मातुल इतिवदनेकशब्दपरवृत्तिर्वस्तुतश्वैतन्यमात्रभेव पारमार्थिको निजस्वभावो यस्येत्येताहशं तदित्यर्थः। वक्ष्यते हि-'आदेपेंऽशे नाणुमात्रोऽषि भेद:' इत्यादिना ॥ ३ ॥ अ०दी०-नन्वेवमप्यनुपपत्तिर्दश्यते यतो जगजीवेश्वरादेरविद्याकल्पितले प्रमातृप्रभा- णशास्त्रदेरवि तथात्वान्मिथ्यात्वे सति कथं तेभ्यः परमपदमतिरुपपद्यत इति तत्राSSह-प्रत्य- क्पमाणकमिति। अत्रेदं भवान्प्रष्टव्यः कि प्रमानदिरसत्यत्वे ततः परमपदसिद्धिर्न भवती- स्युच्यते कि वा भवन्त्यपि सा वास्तवी न. भवतीति। आद्येऽपि स्वरूपस्फर्तिलक्षणासिद्धिर्न भवेद्विद्याप्रतिबन्घनिवृत्तिरूपा पेति तत्र नाऽऽद इत्याह-प्रत्यक्प्रमाणकमिति। प्रत्यगिति सर्वान्तरं चित्सदानन्दरूपमात्मतत््रमुचसते। तदेव प्रमायां( णं) प्रपा प्रमितिर्थस्याच्युतस्य परमपदाख्यस्य स प्रत्यक्प्रमाणकस्तमिति विप्रहः। सनेां विशेप- णानां प्रत्यक्चमच्युतमित्यनन विशेष्येण संबन्धः। तस्य स्वरूपस्फुरणं प्रति न प्रमात्राद्य. पेक्षा नित्यस्वप्रकाशचैतन्यरूपत्वादिति भावः । द्वितीयं प्रत्याह-असत्यपराक्पभेद- मिति। परागिति चैतन्यभास्यं दश्यमुच्यते। न सत्यः पराक्प्रभेदोऽविद्यातत्कार्यरूपब- न्वलक्षणो यस्मिन्स तथा तम्। तथा चाSSवरणिक्षपविद्यानिवृत्तिरूपफलस्यवे यक्षानुरूपो बलिरिति न्यायेनावास्तवनिवृत्तिरूपस्याप्यवास्तवत्वान्न तत्र पारमार्थिकप्रमात्राद्यपेक्षेति भावः। यद्वा, असत्य आरोपितः परागर्थः प्रभिद्यते विदीर्यते विनश्यत्यस्मिन्नित्यसत्यपराक्प्र- भेदस्तमिति विग्रहः । तथा च प्रमाणवृत्त्या बाध्यमानः परागर्थो यदात्मतया विलीयते तस्याच्युतस्य बाघाबधितया बाघविषयत्वाभावादसत्यप्रमाणवाघितासत्य प्रपश्चाघिष्टानतया सन्यरूपैवाSSत्मनः सिद्धिरिति भावः । एनेन चरमः पक्षोऽवि प्रतिक्षिप्तो पेितव्यः। एतदुक्तं भवति-स्वरूपस्य नित्यलिद्धतयाऽन्यनपेक्षत्वान्न तत्र प्रमाणमपेक्ष्यत इति प्रमात्रादिवास्तवत्वावास्तवत्वचिन्ता तत्र निरर्थिका। यदयप्यारोपितबन्धनिवृत्तिफलप्रमायां पमात्राद्यपेक्षाऽस्ति तथाऽपि न परमार्थत्वं प्रमात्रदेरेक्ष्यते स्वरूपतो मिथ्याभूतादृपि प्रतिबिम्बवर्णदैध्यादेः सत्यार्थप्रमित्युदयदर्शनात्। तथा च प्रमात्रादी नामवाध्यत्वलक्षण परमार्थत्वमप्रयोजकमुक्तव्यभिचा रादर्थक्रियाकारित्वेन सत्यत्वं तु प्रमात्रादिष्वपि न हीयत इति कल्पितप्रपश्चद्वारकपरमपदसिद्धेर्ननुपपन्नं किंचििति। किंच परमपदस्य न साक्षातप्रमा- णविषयत्वयोग्यताऽस्ति तद्ूारभूतधर्माभावादतोऽपि न तत्स्वरूपसिद्धेः प्रमाणापेक्षेत्यभिप्रेत्य विशिनष्टि-प्रक्षीणकारणविकारविभागमिति। प्रकर्षेण क्षीणो नित्यनिवृत्तः कारणत्वविकारत्वमेदो यस्मिन्यस्मिन्कारणत्वं वा कार्यत्वं वा कदाऽवि नारतीत्यर्थः । प हि निर्धर्मके वस्तुनि प्रमाणपरवृत्तिरस्ति धर्मश्र कयाऽपि व्यपेक्षमा कार्यकारणमावं
Page 21
१२ टीकादय समेतं-
न व्यमिचरनीति रूपादिरूपकार्यधर्महीने परमपदे प्रत्यक्षप्रवृत्तेरयोगात्त्रव्याप्त्या दिमूलक- स्यानुमानार्थावत्त्यादेरप्यसंभवात्सामान्यतो दृष्ठांतृमानस्य च प्रमाणसिद्धे संभावनाहेतुत्वेऽवि स्व्रतो वस्तुतत्वनिश्चायकत्वानुपपत्तेः शब्द्रस्य च पषटीजातिगुणक्रियादिरहिते प्रवृत्त्यसंभ- वान्न परमपदस्य साक्षात्प्रमाणविषयत्वमरित तथाऽपि कथचिल्वक्षणयोपनिषद्धाक्यैस्तत्स्वरूप- मावेद्यत इति भावः । तथा च श्रुतयः 'अन्यदेव तद्विदितादयो अविदितादधि' [के० १। ३]' अशव्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्घवच्च यत्' [ कठो० १। ३ । १९ ] ' अन्यत्रास्मात्कृताकृतात्' [कठ० १। ३ । १४ ] इस्याद्याः। उक्त विश्ेषणमेव विशेषणान्तरण साधयति-एकमिति। 'एकमेवाद्वितीयम्' [छा० ६।२। १ ] इतिश्रुरेकरूामित्यर्थः। न ह्येकमेकरूपं वस्तु पर्णिमते आरमते वा न बा संहन्यते परमार्थत इति न तत्कारणं कस्यापि भवत्याकाशादेस्तथाविधस्य कारणता- दर्शना[त्]। नाप्येकमेररूपं कचिदाश्रितं संहतं वोपलब्घमस्त्यतः कूटस्थासङ्गानवयवा द्वितीयचिदात्मनो न कार्यताऽभिति न कार्यकारणभावो वास्तवोऽस्तीति भावः । ननु
आह-चैतन्यमात्रपरमार्थनजस्वभावमिति। चैतन्यस्वभावमित्युक्ते भावान्तर- योगेप्यविरोध इति शङ्कायामुक्तं मात्रेति। 'विज्ञानघन एव [वृ० २। ४।१५] इति श्रुतेर्न चैतन्यस्य धर्मत्वं धर्मान्तरयोगो वाऽस्तीत्यर्थः । चैतन्यमात्रमेव निजमसाधा रणं रूपमस्केति तथोकः । एतेन कार्यधर्मदेहादिवैशिष्टयं चैतन्यस्य निरस्तम्। अकार्यरूपाज्ञानधर्मकत्वत्यवच्छेदाय, परमार्थति विशेषणम्। सजातीयविजातीयस्वगतधर्म भेदरहितमखण्डरूपमित्यर्थः। अतोऽनतादीनां व्यावर्त्याकाराणां भेदादनेकैः सब्दैनिर्दे- शेऽपि नोपादेयवस्तुतत्त्रे विशेषोऽस्ति प्रतिपत्त्युपायमात्रत्वेन कल्पितत्वाद्यावृत्तेरिति भाव:। एवं प्रथमश्रोकार्थमुपपादितमुपसंहरंस्तत्र नमस्काररूपं मङ्गलकरणमनुवर्तयति- प्रत्यञ्चमच्युतमहं प्रणतोऽस्मि नित्यम्तिति। अच्युतमप्रच्युतैकस्वभावं विष्णो: पस्मनदरूपं प्रत्य्वं प्रत्यगात्मामिन्नं नित्यं सदाऽहं प्रणतोऽस्मि तद्विषयं एव वाङ्गन:काय- प्रणिधानं विधाय स्थिताऽस्मीत्यथः॥ ३॥ सु० टी०-अथ विषयप्रयोजनयोः शास्त्रसंबन्ध विवश्षुस्तृतीयसूत्रार्थ संक्षिपन्त्रह्मणो वेदोपादनत्वं ब्रह्मणि अुतेः परामाण्यं च दर्शयितु नदातिमिकां बाब्देवीं नमस्क्रोति- औत्पत्तिकी शक्तिरशेषवस्तुप्रकाशने कार्यवशेन यस्याः । विज्ञायते विश्वविवर्तहेतोर्नमामि तां वाचमचिन्त्यशक्तिम्॥। ४॥ औत्पत्तिकीति। अत्र हेतोरिति प्रकृतिपञ्चमी विश्वविवर्त स्यातृत्वतोऽन्यपामावस्य हेतूभूताङ्रह्वाणः सकाशादुत्पन्ना ता त्यीरूप
Page 22
संक्षेपशारीरकमू १३
पराचं नमामीत्यर्थः। 'अस्य महतो भूतस्य निःश्वसितमेतद्यदग्वेद:' [बृह०२ ४।१०] इत्यादिश्रुतेः। का पुनरसावित्यपेक्षायामाह-यस्या[ इति] अशे- षवस्तुप्रकाशने कोडर्थः शेष: परार्थः, अपरार्थसर्वप्रधानभूतचिदात्मवस्तु- प्रकाशन औत्पत्तिकी हवामाविकी न तु कृत्रिमा शक्ति: प्रतिपादक- त्वरूप: संबन्धो वैदिकप्रमारूपकार्यलिङ्गेन प्रमीयत इत्यर्थः । यद्वा हेतो- रिति षश्चन्तं वाचो विशेषणम्। 'एत इति वै प्रजापतिर्देवानसृजत' इति श्रुतेः, 'वेदृशब्देभ्य एवादौ ' इत्यादिस्मृतेः, 'शब्द इति चेन्नातः प्र०' [बह्म० १ । ३ । २८] इत्यादिसू्राच्च सूष्टेर्वेद- पूर्वकत्वसिद्धेः । नन्ववाग्गोचरत्रह्मप्रकाशने कथं वाचः शक्तिरित्या-
उपनिषदो मागलक्षणया ब्रह्मबोधनसामर्थ्यमलौकिकमित्यर्थः । तदेवं वेदस्य शास्त्रविषय ब्रह्मणा संबन्धेऽमिहिते सुतरां तद्विचारात्मकशास्तस्य स उक्तो भवति। प्रयोजनेन सहोपायोपेयभाव: स्पट्ट एव ॥ ४ ॥ अ० टी०-तदेवं त्रिभि: पदैः परतत्त्वानुसंधानात्मकमङ्गलाचरणव्याजेन वेदान्तशास्त्रीये विषयप्रयोजने निर्दिष्टे इदानीमुक्तलक्षणे वस्तुतत्वे प्रवर्तमानानां वेदान्तानां प्रामापयं संभावय- न्वेदात्मिकां वाग्देवतां नमस्यति-औत्पत्तिकी शक्तिरिति। तां वाचं नमामीत्यन्वयः । तस्था नमस्कार्यत्वे हेतुं सूचयंस्तां विशिनष्टि-अचिन्त्यशक्तिमिति। अलौकिकत्वादत- कर्याडस्याः शक्तिरित्यर्थः। तच्छब्दापेक्षितं यच्छब्दं पूरयन्नचिन्त्यशक्तिववमस्याः साघयति- औत्पत्तिकीति। यस्या वाचोऽशेषवस्तुप्रकाशन औत्पत्तिको शक्तिः कार्यवशेन विज्ञायत इति संबन्धः। यस्या वाचो निरवशेषवस्तुप्रतिपादन औत्पत्तिक्युत्पत्तिसिद्धा सहजैव न कृत्रिमा केनचित्संकेतिता शक्तिः सामर्थ्य कार्यवरोनालौकिकदेवताधर्मस्वर्गपरब्रह्मप्रत्ययोत्पादक- कार्बलिङ्रेन विज्ञायते तामित्यर्थः । यद्वाऽशेषवस्तु परं ब्रह्म सर्वस्याऽऽत्मत्वादविष्ठान- स्वाध्य तस्य प्रकाशनं लक्षणावृत्त्या ज्ञापनं तत्र सहजा शक्ति: कार्यवशेन सर्वप्रमाणागो- चराप्रमेयस्वमावपरतत्वरफूर्तिरूपकार्यलिङ्गन विज्ञायत इत्यर्थः । तादृशं सामथर्यमस्याः संभावयति-विश्वविवर्तहेतोरिति। ईश्वरस्य विश्वाकारविवर्ते हेतुः स्नष्टव्यार्थस्फूर्ते- निमिस्तकारणं तद्रूपाया इत्यर्थ: । ईश्वरो हि सृष्टिकाले प्राक्रू स्वात्मन्येकीभूतां प्रथमनिः- श्वासत्रसूतां स्वार्थप्रपितां श्रुतिमुपलम्य तत्प्रकाशितमर्थजातं सृजतीति स्थितिः । तथा च मन्त्र :- "एते अ्टग्रमिन्दवस्तिरः पवित्रमाशवः। विश्वान्यभि सौभगा" [ऋ०. सं० अ० ७|ज०१।१० २६ ]इति। ब्राह्मणं चास्य पठ्यते-एत इति वै प्रजापतिर्देवा नमृजतासृग्र- मिति मनुष्यानिन्दष इति पितृंस्तिरः पवित्रमिति अ्हानाशव इति स्तोन्ं विश्वानीति शास्त्र.
Page 23
१४ टीकाद्वय समेतं-
मभिसौभगेत्यन्याः प्रजा इति। तथा च वेदस्य स्व्रार्थबोधसामर्थ्यस्य सहजत्वाद्युक्तं तस्य परमपदतत्तेरे निरपेक्षं निरपवादं च प्रामाण्यमित्यर्थ: ॥४॥ सु० टी०-अथ निर्गुणविषयनिखिलशारीरकशास्त्रसंक्षेपं चिकीर्षु- स्तत्समोप्तिप्रचयप्रत्यूहप्रशमाय विभ्नेशं पूजयति- प्रारम्भा: फलिनः प्रसन्नहृदयो यश्चेत्तिरश्वामपि नो चेद्विश्वसजोऽप्यलं विफलतामायान्त्युपायोदमाः। विश्वैश्वर्यमतो निरङ्कुशमभूयस्यैव विश्वभभोः सोडयं विश्वहिते रतो विजयते दिव्ेश्वरो विश्वकत् ॥ ५॥ प्रारम्भा इति। विघ्वानामीश्वरोऽधिष्ठाता विजयते सर्वस्माद्ठु- परि वर्ततामित्यर्थः। ननु विभ्नविघातार्थमन्य एव किं न पूज्यत इत्य- =ाSSह-विश्वकृदिति । यतः स एव विश्वकृदद्विप्नकरणतननिरासाभ्यां निग्र हानुग्रहस्वातन्त्रयात्सर्वं तदधीनमित्यर्थः । कुतस्तर्हि तत्प्रणतानामपि बिध्ो हश्यत इति चेत्तत्ाSडह-विश्वहिते रत इति। स तु सर्वेषां हितकृदेव
मेवास्य प्रकटयति-प्रसन्नेति। यः प्रसन्नहृदयश्रेत्तदा तिरश्षामपि सुग्रीवा- दीनां किमृत देवमनुष्याणामभिमतप्रारम्भा: फलन्त्येवेत्यर्थः । एवमन- चितो विघ्नकर इत्यादि स्मृत्यर्थोऽपि तत्र प्रसिद्ध इत्याह-नो चेदिति। यो न चेत्पसन्नस्तदा प्रजापतेरपि किमुतास्मदादीनामुपायाँ: प्रारम्भा: सम- न्ताह्वैफल्यमायान्तीत्यर्थः । स्मर्यते हि ब्रह्मणोऽपि वत्साहरणादावभि- मतभङ्ग: । स्वातन्त्रयमुपसंहरति-विश्वैश्वर्यमिति ॥ ५ ।। अ० टी०-तदेवं मङ्गलाचरणद्वारा स्वग्रन्थे शास्त्रीयविषयप्रयोजनतत्प्रमाणानि संभाव्ये- दानीं तत्र दिन्नप्रोत्सारणाय महागणपति पूजयनस्तौति-प्रारम्भा: फलिन इति। सोयं विघ्नेश्वरो विजयते सर्वोत्कपेण वर्तत इति संबन्धः । किलक्षणो विश्वकृद्विश्वस्य कर्ता तत्कर्तणां प्रजापतीनां विघ्नापहरणाद्वा विश्वकर्तेत्यर्थः। न हि विद्योपसृष्टानामभिमतकार्य सिध्यति तदुपसर्गनिवृत्तिश्च न गणपत्यनुग्रहं विनेति युक्तमस्य विश्वकर्तृत्वमित्युपपाद्यति- प्रारम्भा इति पूर्वारेन। स्पष्टोऽस्यार्थः । यत एवमतो यस्थैव विश्वप्रभोर्विश्वस्मि- नस्वतन्त्रस्य विश्वैश्वर्य सर्वेश्वरत्वं निरङ्कशमनिवारितमभूदिति ज्ञायत इति शेषः । ननु निरङ्कुरौश्वर्यवानस्मान्न गणयिण्यतीति कथमेतदनुसरणेनास्मदिष्टसिद्धिरिति तत्राSह-
१ क. 'मातिं प्रपश्चयन्यत्यू"। २ ख. स्तुस्वदो। ३ ख. यायारम्भाः ।.
Page 24
संक्षेपशञारीरकम्। १५
विश्वहिते रत इति। रवयमेव विश्वस्य सर्वस्य कर्तृवर्गत्य हिते कार्यप्रसिद्धयर्थ रतः प्रवृत्तः । तत्र विप्नप्राप्तिः प्राणिमां स्वदोषाशादेव भवति। साऽवि तत्प्रार्थनायां न भवतीति संपूज्य इत्यथः ॥ ५ ॥ सु० टी०-शास्त्रार्थधी प्रतिबन्धकबुद्धिमलक्षालनायाSSदी परमगुरुं व्यासं रूपकेण स्तौति- वाग्विस्तरा यस्य बृहत्तरङ्गा वेलातटं वस्तुनि तत्त्वबोध: । रत्नानि तर्कश्रसरप्रकाराः पुनात्वसौ व्यासपयोनिधिर्नः ॥६॥ वाश्विस्तरा इति। व्यास एव पयोनिधिर्महत्त्वपावनत्वगम्मी- रत्वसाम्याद। असौ नः पुनातु चित्तमलक्षालनेनानुगृह्लातु। यस्य व्या- साब्धेर्वाचः सहस्रशाखादिरूपाः। प्रतिशाखं लक्षचतुर्थाशत्वाद्विस्तरास्त एव बृहत्तरङ्गा व्यासब्धेरुत्थाय तरङ्गवत्क्रमेण शिष्यार्णा श्रोऔैःसंबध्य
वसानत्वात्स एव वेलातटः । तत्त्वंपदार्थशोधनवाकयार्थनिर्णयादिषु ये तर्काणां प्रसरास्त एव रत्नान्युपादेयत्वव्यअ्ज्जकत्वादिसाम्यादि- त्यर्थः ॥ ६ ॥
अ० टी०-इदानी 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन: ' [श्वे० ६।२३] इति श्रुतिमाश्रित्य विद्यारम्भे देवतामफि विधाय गुरुभकिति विदधानः प्रथमं सर्वगुरुं शास्त्रप्रगेतारं श्रीवेदव्यासं समुद्रात्मना रूपय- न्प्रार्थयते -- ्ञाग्विस्तरा इति। असौ व्यासपयोनिधिरनोऽस्मान्पुनातु पवित्रयतु स्वक्क- तशास्त्रार्थज्ञनंप्रदानेन पावयत्वित्यर्थः। प्रार्थनायां लोटू। वाग्विस्तरा वेदान्तार्थव्याख्या नविषया यस्य व्यासपयोनिधर्वृहत्तरङ्गा अन्येरवारणीयप्रचाराः । तेषां तरङ्गाणामिवो- परमस्थानं वेलातटं वस्तुनि परमात्मविपये तत्त्वबोधो यथार्थस्वरूपबोवस्तन्रैव वाग्विस्तराः प्रशाम्यन्ति नान्यत्रेत्यर्थः। न केवलमुपदेशमुखेनैव व्याख्यावाक्यानां तत्त्वावबोघपर्यन्तः प्रचार: किं तु तदर्थव्यवस्थापनतत्प्रति रक्षनिराकरणसमर्थयुक्त्युपबृंहितानामित्यभिप्रेत्याSSइ- रत्नानीति। पदार्थद्वयपरिशोधने वाक्यर्थनिर्णये तदुपयुक्तपमाणादिस्यैर्ये च ये तर्का- स्तेषां प्रसरः प्रसरणं प्रयोगास्तत्र ये प्रकार भेदास्तान्यस्य रत्नानि रत्नवद्र्थाभिव्यञ्जक-
१ क. व्यासस्यैव वाचः । २ क. ग. दाविस्त । 3 क. ग. स्य वचोनों।
Page 25
१६ टीकाद्वय समेतें-
सु० टी०-अथ सत्सप्रदायप्रवर्तकं भाष्यकृतं नमति- वक्तारमासाय यमेव नित्या सरस्वती स्वार्थसमन्विताऽऽसीत्॥ निरस्तदुस्तर्ककलङकपङ का नमामि तं शंकरमर्चिताङघिम्।।७।। वक्तारमिति। तं शंकरं सर्वजगतां मङ्गलकरमीशांशं वा मुनिं नमामि 'यः शंकरोऽसी भविता स ईशः' इति स्मरणात्। अरिंताङरघि- मीशांशत्व संप्रदायप्रवर्तकत्वादिमिर्जगत्पूजितपाद्पझ्नमित्यर्थः । नित्या सरस्वती त्यीलक्षणा य वक्तारं व्याख्यातारमासाद्य तात्पर्यविषयीभूत- स्वार्थसमन्वयसंपन्नाSSसीदित्यर्थः। एवकारेण भर्तृप्रपञ्चमास्करादीन् व्यवच्छिनतति ( तेषां बाधितविरुद्धार्थवक्तृतया श्रुत्यभिमतार्थव्या- ख्यातृत्वामावात्। ननु नित्यायाः श्रुतेर्नित्य एव) स्वार्थसमन्वयः कि तत्राSSचार्यस्य कृत्यमिति नेत्याह-निरस्तेति। तेन हि निरस्ता निर्मू- लिता दुष्टा विरुद्धार्थविषया ये तर्कास्ति एव कलक्का दुरपनेयत्वात्त एव च पक्कास्तेषु लग्नानामुत्थानाशक्तेस्ते यस्यास्तथा च प्रतिबन्धनिरास एव तत्रास्य व्यापार इति माव: ।।७।। अ० टी०-सूत्रकारं पूजयित्वा तद्द्ाष्यकारमाचार्ये नमस्करोति-वक्तारमिति। नित्या वेदलक्षणा सरस्वती यमे वक्तारं स्वव्यास्यातारमासाद्य प्राप्य तेन व्याख्यायमाना स्वार्थसमन्विता स्वाभिप्रेतार्थयुक्ताSऽसीदमृत्। कथंभूता सती निरस्तदुस्तर्ककलङ्पङ्का दुस्तकोंडहैतुकैरुत्प्रेक्षितस्तर्क: स एव कलङ्को लाञ्छनं मालिन्यं तल्लक्षणः पङ्को निरस्तो यस्याः सा तथोक्ता दुस्तर्कनिरासेन व्याख्यायमानेत्यर्थः। तं शंकरं शंकराचार्यमर्चिताङ्यि ब्रह्मविद्यार्थिभि: पूजितचरणं नमाभीत्यर्थ: ।७।। सु० टी .- अथ साक्षाद्ुरुमाराधयति- यदीयसंपर्कमवाप्य केवलं वयं कतार्था निरवयकीर्तयः । जगत्सु ते तारितशिष्यपङ्क्तयो जयन्ति देवेश्वरपादरेणवः ॥८ ।। यदीयेति। ते देवेश्वरपादरेणवो जयन्ति। येषां केवलं संप. र्कमात्रमेव प्राप्य वर्य कृतार्थाः । कथमिति चेद्यतो जगत्सु तारिता:
सुश्िहान्तु तिमन्थः ख. पुस्तकस्थ :!
Page 26
संक्षेपशारीरकम्। १७
शिष्यपङ्कपो यैरेवंभूतास्तेऽत एव निरबद्यकीतयो नि्दोषत्वेन ख्याता इत्यर्थ: । नतु व्य निरवद्यकीर्तय इति योज्यं गुरुपशंसाया एव प्रकृतत्वातूः।।6॥। अ० टी०-इदानी साक्षात्स्वगुरुं सुरेश्वराचार्यमभिपूजयति-यदीयसंपर्कमिति। ते देवेश्वरपादरेणवो जगत्सु संसारमण्डले जयन्तीति योजना। विजयप्रकाशमेत्र वदन्पादरेण- न्विशिनष्टि-तारितशिष्यपङ्कय इति। तारिता: संसारसमुद्र[स्य] परं पारं विष्णोः परमं पदं ब्रह्म विद्यापोतारोपणेन प्रापिताः शिष्यनरम्परा यैस्ते तथा। ते क इत्यपेक्षायामाह- यदीयेति। येषां पादरेणनां केवलं निमित्तोद्देशं विना संपर्कमषाप्य निरवद्यकीर्तयः सत्सु विरूयातसत्कीर्तयः सन्तः कृतार्थ वय जातास्त इत्यन्वयः। येषां गुरूशां चरणरजसाम- प्येवंविधः प्रभावस्तेषां महिमा केन वर्णधितुं शक्यत इति भावः । ८।। सु• टी०-गुरुपशंसार्थोपात्तस्वकृतार्थत्ववर्णनादात्मन औद्धूरयं प्राप्तमपकरोति- गुरु चरणसरोजसंनिधाना- दपि वयमस्य गुणैकलेशभाजः । अपि महति जलाणवे निमग्राः सलिलमुपाददते मितं हि मीनाः ॥ ९ ॥ गुरुचरणेति। यद्यपि गुरोर्गुणार्णवस्य चरणसरोजयोः संनिधानं गुणगणप्रेभवभूमिस्तथाऽपि वयं क्षुद्रास्तल्लेशभजनेनाऽपि कृतार्था इत्यर्थः। चरणयोः सरोजत्वरूपकं गुणसंचारसूचनार्थम्। अत्र च गुरो- र्गुणबाहुल्ये परोपकारित्वे स्वस्य ततोऽल्पत्वे तन्निवासात्तद्वुणलेशां- वाप्त्या कृतार्थत्वे चानुरूपं हष्टान्तमाह-अपीति । यथा मीना महा- जंघे मग्रा: कात्सर्पेन तत्संबद्धा अपि स्व्रस्थाल्पत्वान्मितमेवोपयुअ्जत इत्यर्थः ॥ ९ ॥ अ० टी०-वयं कृतार्था निरवद्यकीर्तय इत्युक्तवता गुरो: प्रभवकथनमिषेगाऽSत्म- क्ावैव्ाभिव्यश्जिितेति भवेत्कस्य चिन्मतिः सा मा भूदिति मन्वानः स्वस्य कृतार्थत्वाद्युक्तेर भिप्रायं प्रकटयन्पुनरपि गुरोरुत्कर्षमाविष्करोति-गुरुचरणेति। गुरोश्ररणकमलसंनिधा. नात्तद्रज:संपर्काद्वयं न तदीयसर्वगुणभाजो येनाऽडत्मानं श्राघयेमह्यपि त्वस्य गुरोर्गुणगणा-
१ खं. पसन° । २ क, ग, "शाष्यास््या। 5209.
Page 27
१८ रीकादवय समेतं-
गाधस्य महागुणानां मध्य एकस्य लेशमंशमात्रं भजामोSतो नास्मद्वचनमात्मस्तुतिपरं कि तु गुरुगुणमाहात्म्यस्थापनपर मित्यभिप्रायः । तत्र गुरूणां गुणसाम्राज्येनुग्राहकत्वे च स्वात्म- नश्च तदपेक्षयाSलत्वे गुरौ नित्यवासितया तद्गुणलेशभननेन कृतार्थत्वे च दृष्टान्तमाह- अपि महतीति । रष्टोऽर्: ॥ ९ ॥ सु० टी०-इत्थमल्पप्रज्ञस्य क्व ते ग्रन्थनिर्माणसामथर्यमिति पुनः प्रसक्त दोषं पूर्ववाक्यस्यानौद्धत्यमात्रपरतया परिहरति- शक्ते गुरोश्र्वरणयोर्निकटे निवासा- न्नारायणस्मरणतश्र निरन्तरायः। शारीरकार्थविषयावगतिप्रधानं संक्षेपतः प्रकरणं करवाणि हृष्पन् ॥ १० ॥ शक्त इति। यतः श्रद्धाराद्द्गुरुचरणसंनिकर्षादहमतीव शक्तोडत एव प्रकरणं करवाणीति योज्यम् । तथाऽपि प्रारिप्सितस्य गुरु- त्वेन विन्नबाहुल्याक्कथं निर्वाह इत्याशङ्क्पाSSह-नारायणेति। ब्रह्मारमे- क्यभावनात इत्यर्थः । गुरोनरियणस्मरणतश्चेति चार्थः । निरन्तरायो निर्विन्नः 'तस्य ह न देवाश्र नाभूत्या ईशते' [बृह० १। ४॥१०]इति श्रुतेः । नतु । 'शास्त्रे कदेशसंबद्धं शास्त्रकार्यान्तरे स्थितम्। प्राहः प्रकरणं नाम ग्रन्थभेदं विपश्चितः'॥ इतिलक्षणात्। कस्य शास्त्रस्य कुवैकदेशे क्व कार्यान्तरे संबद्धमि- दमित्यत्राडह-शारीरकेति। शरीरे भवः शारीरो जीवस्तं ब्रह्मत्वेन कायति बोधयतीति शारीरक शास्त्रं तस्यार्थः प्रयोजनं विषयश्च यद्गह्मात्मेक्यं तत्ताक्षारकारः प्रधानमुद्देइयं यस्य तत्तथा शास्त्रं हि विचारपाधान्यादवगतिं गर्भीकृत्य प्रवृत्तमिदं त्ववगतिप्राधान्येनैवेति स्फुटं कार्यान्तरमिति भाव: । एकदेशसंबन्धमाह-संक्षेरत इति। निर्गुण- विद्यामान्र संक्षेपेणेत्यर्थः। 'शुभ्रूषाश्रवणं चैव ग्रहणं धारणं तथा। ऊहापोहोत्थविज्ञानं तत्वज्ञानं च धीगुणा:।। इंत्येतत्संपत्या हृष्यन्नित्यर्थः॥१०॥
Page 28
संक्षेपशारीरकम्। १९
अ० टी०-नन्वसत्यपर्णत्वात्तव कर्थ ग्रन्थकरणसामर्थ्य क्थे चित्सामर्थ्येऽपि 'श्रेयांसि बहुविघ्नानि भवन्ति महतामपि' इति न्यायेन विन्नवाहुल्यसंभवात्तत्निष्पत्त्यसिद्धि- रितीदमाशङ्कादयं परिहरतस्वचिकीर्षित प्रतिजानीते-शक्तो गुरोरिति। यद्यप्यहं गरो• गुणैकलेशभा क्तथा ऽपि तच्चरणनिकटवासमहि स्रैव तत्कृपया प्ररफुरितशास्त्रार्थसंदर्भतया पूर्गः सन्ग्रन्यं कर्तु शक्त इत्यर्थः। तथा नारायणस्मरणतो निरन्तरायो निविव्धश्चास्मीति योजना। तथा च स्मृति :- 'सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् । येषां हृदिस्थो भगवान्मङ्गलायतनं हिः॥ लाभतषां जयस्तेषां कुतस्तषां पराभवः । येपाभिन्दीवरश्यामो हृद्षयस्थो जनार्दनः'॥ इत्याद्या। यत एवं परिकरसंपन्नोऽहमतो हृष्यन्नव्यग्रमनाः सन्प्रकरणं करवाणीति संबन्धः । करि- व्यमाणप्रकरणस्वरूपं निर्ददिशति-शारीरकार्थविषयावगतिप्रधानमिति। श्रीम- च्छारीरकाख्यं यच्छास्त्रं तस्यार्थो ब्रह्मात्मैक्यं तद्विषयो यस्याः सा शारीरकार्थविषया सा चासाववगतिश्चेति शारीरकार्थविषयावगतिः सा प्रधानमुद्देश्यं यस्य तत्तथेति विग्रहः। अनेन शास्त्रीयविषयप्रयोजनयोर्ग्रहणेन शास्त्रकदेशसंबन्धत्वलक्षणांशः प्रकरणस्य दर्शितः । तथा शास्त्रकार्यान्तरे स्थितिलक्षणांशमाह-संक्षेपत इति । तथा चायमर्यः संपन्नः शास्त्रीययोविषयप्रयोजनयोरिह प्रतिपादनान्नायं ग्रन्थः स्वकपोलकलनितः स्वतन्त्रस्तद्गत- प्रत्यधिकरणार्थानामिह साकल्येना प्रतिपादनादर्थावगतिमात्रपेक्षितांशस्यैवामिनवविप्रतिपत्ति- निराकरणेन प्रतिपादनात्कार्यान्तरस्थापि योगान्न निर्माणवैद्थ्यमपीति प्राचीनाचार्ये: प्रद- शितनानानिबन्धनार्थसारसंग्रहेश शारीरकार्यविषयावगतिं प्रकरणेन विशदी कुर्म इत्यमि- प्रायः ॥१०॥ सु०टी०-गुरुप्रशंसया गुरुव्यतिरिक्तेषु विद्वत्स्वनादरात्तैरपरिगृहीतं प्रकरणं न प्रचरेदिति हदिकृत्य तानपि संमानयति- पदवाक्यमाननिपुणा निपुणं विमृशन्त्विदं प्रकरणं मनसा ॥ गुणदोषनिर्णयनिभित्तंतया प्रथिता हि पण्डितजना जगति॥३१॥ पदवाक्येति पद्वाक्यमानविषयव्याकरणभीमांसान्यायनिपुणा इत्यर्थः। अवधानार्थमाह-निपुणमिति । क्रिया विशेषणम्। परबु- द्धया विचारं प्रतिषेधति-मनसेति। विमृशनत्विति प्रार्थने लोट प्रार्थितानां
१ क. ग. चारणं प्र० ।
Page 29
टीका ट्ुय समेतं-
कारुण्यप्रवृत्तिहेतुमाह-गुणदोषेति। प्रकरणस्य निर्माणे मम स्वातक्यं विशुद्धिस्तु स्वतःप्रवृत्तगुंणदोषविवेचकविद्वद्धीनेत्यर्थः ॥११॥ अ० टी०-यद्येवं स्वगुरुनारायणाश्रयबलादेव तवं ग्रन्थं कर्तु प्रवृत्तस्तर्हि गुरुव्यतिरि- क्रेषु विद्वत्स्वनादरस्त्वया कृत इति प्रतिभयात्तथा च त्वत्कृतं ग्रन्थं विद्वांसो नाSडद्रियेरन्निति न प्रसरिष्यतीत्याशङ्कां परिहरन्सर्वानेव विदुष आवर्जयति-पद्वाक्येति। अर्थस्वरूपमा- त्रबोधको वर्णसंदर्भो गृहीतार्थसंबन्धश्र पदं वाक्यं तु पदानामाकाडक्षादिमतां समूहः प्रम.णं तु तादृग्वाक्यं प्रत्यक्षादि च तेषु निपुणास्तद्याथात्म्यनिरूपणे कुशला ये सन्ति त इदं प्रकरणं मनक्षा विमृशन्तु विचारयन्तु। ऊहांपो हाम्यामत्र सारासारभागी व्यञ्जयनत्वत्यर्थः। हि यस्माद्गुणदोषनिणयेति स्पष्टार्थ । परीक्षणीयोऽयं ग्रन्थो विद्वद्भिर्मया तु ग्रन्थशरीर- मात्रं निष्पाद्यते विशुद्धिस्त्वस्य विद्वदर्धीनैवेति भावः ॥ ११ ॥ सु० टी-ननु विमृशन्तो दोषमपि कदाचिदाविष्कर्युस्ततश्र महद- प्रियं तव स्यादिति चेन्नत्याह- विद्वांसो यदि मम दोषमुद्धिरेयुर्यद्वा ते गुणगणमेव कीर्तयेयुः ॥ तुल्यं तद्दहु मनुते मनो मदीयं कष्टं तद्वत मनुते यदाह मन्दः॥१२॥ विद्वांस इति। यदि स दोषं गुणं वा विद्वांस एव वदेयुस्ततो मदीयं मनस्तुल्यं बहु मनुत इत्यर्थः। दोषकीर्तने हि तदुद्धारान्निर्दोषो ग्रन्थ: स्यादिति माव:। ननु वाडात्रमिद्मन्तस्त्वनि(*मेवेत्याशङ्कच्ाSSह-मन इति। मन पवेदं बहु मनुते न वाझा्रमित्यर्थः । किं विद्वन्मन्यस्याऽपि गुण)दोष- कीर्तैनं भवदिषट नेत्याह-कष्टमिति। बत खेदे तदुक्तस्य ग्रन्थविशुद्धय- हेतुत्वादिति भाव: ॥ १२॥। अ० टी०-यद्यवं तर्हि परीक्षकैर्दृषणमपि कचिदुद्धाव्येत तच्च तवासंमतभिति तैरुपेक्षैव युक्ता ग्रन्थस्येत्वाशङरक्य मैवं वा्यमत्याह-विद्वांस इति। येऽत दूपणमुद्भावयिष्यन्ति ते कि पदवाक्यप्रमाणनिपुणाः पक्षपातशून्याश्च किं वा तद्विपरीता इति विवेचनीयम्। यद्याद्यः कल्पस्तत्र न ममासंमतिर्यतो विद्वांसः पदादिनिरूपणसमर्था यद्येकमपि दोषं ममो- द्विरेयुः कीर्तयेयुर्यद्वा ते मम गुणसमूहमेव कीर्तयेयुस्तदुभयं मदीयं मनस्तुल्यं समानमेव बहु यथा स्यात्तथा मनुत एकस्यापि दोषस्य कीर्तने बहुगुणकीर्तन इबाहं बहुसंतोषमुपे- व्यामि तद्वारा मदज्ञाननिवृत्तिसंभवादिति भावः । द्वितीयं कलपं प्रत्याह-कष्टमिति।
- धनुश्विह्वान्तर्गत ग्रन्थः क. पुस्तके नास्ति।
Page 30
संक्षेपशारीरकम्। २१
मन्दः पूर्वोक्तविद्वद्विपरीतोि यदि विद्वन्मन्यतया गुणदोषौ कीर्तयेत्कीतयतु नाम परं .तु तद्वताहो कष्ट मम मनो बहु मनुते नैतावता मम काचिद्धानिर्भविष्यति तस्यैवानभि- = सु०टी .- (*ननु मन्दोऽपि नावमन्तव्यो भूषणाशक्तावपि दूषणस- मर्थत्वादिति नेत्याह- महामहिन्रामपि यश्र्विकीर्षति स्वभावसंशुद्धतरं तिरो यशः ॥ स नूनमाच्छादयितुं प्रवर्तते विवस्वतो हस्ततलेन मण्डलम्॥१ ३॥ महामहिम्नामिति। यो हि मन्दधीर्मत्सरमात्रान्महतामपि यशोहेतुभूतं ग्रन्थं दोपारोपेण मलिनीकर्तुमिच्छेत्स नूनं करेणाSSदित्पाच्छादनप्रवृत्त
अ०टी०-ननु मन्दोऽपि नोपेक्षणीयो यतः सोऽप्यस्य प्रसरणविघ्नं कर्तु समर्थ इत्यत आह-महामहिम्रामपीति। यो महामहिम्रां स्वापेक्षयाऽधिकमहिमवतामपि स्वभावसंशु- द्धनरं यशो माहात्म्यं तिरस्कर्तुमिच्छति स तु स्वयमेव लोकेस्मिन्नुपहास्यतां गमिष्यति न मम किंचित्कतैं शक्रोतीत्यर्थः। अत्रैव लोकोक्तिं वदन्द्ृष्टान्तमाह-स नूनमिति ॥१३॥ सु०टी०-तदेवं विषयादिप्रदर्शनपुरःसरं प्रकरणमारभमाणस्तस्य वि. चारात्मकस्य तर्करूपत्वेनाप्रमाणत्वान्न साक्षाङ्वह्मात्मैक्यबोधकत्वमिति तत्परिपन्थिदोषनिरासार्थत्वं वाच्यं तदपि न संभवति निर्दोषवेद्जन्यनि- रवद्यबह्मप्रतिपत्तौ प्रमाणविषयदोषासंभवादतः किं तदारम्भेणेत्याक्षिप्य तद्संभवेपि प्रमातरि ब्रह्मत्वासंभावनाकर्तृत्वादिविपरीतभावनयोः संभवात्तन्निवर्तनेनार्थवत्तां साधयितुं पुमपराधेस्य सम्यग्धीप्रतिबन्धकत्वं लोके दर्शयति- पुंरुषापराधमलिना धिषणा निरवय्यचक्षुरुदयाऽपि यथा। न फलाय भत्सुविषया भवति श्रुतिसंभवाडपि तु यथाऽत्मनिधीः ॥ १४ ॥ पुरुषेति। मर्त्सुर्नाम राजवल्लभः कश्चितं च द्विषन्तोऽन्ये राजभृत्या: केन
- धनुश्िह्रातर्गत ग्रन्थः क. पुप्तके नास्ति।
१ क. रणात्न । २ क. ग. धस्यास।
Page 31
.२२ टीकादूय समेतं-
चिद्याजेन देशान्तरं प्रस्थाप्य मर्त्सुर्पृत इति राज्े न्यवेदयन्। तं च पुनरा गतं कृच्छरेणाप्यलब्धराजदर्शनं राजोपवने विलीनं कदाचिद्कस्माद्राजाS- वलोक्य पिशाचमिवाSSशङ्रक्य भीतः प्राद्रवदिति प्रथा। तन्न निर्दो- षचक्षुर्जन्याऽपि भर्त्सुविषया राज्ञो बुद्धिर्भत्सुसृत इति प्राक्तनदृढवि परीतभावनाप्रतिबद्धा सती यथा भर्त्सुरेवाडयं न पिशाच इति भर्त्सुस्व रूपनिश्रयात्मकफलाय न मवति, तथा निर्दोषश्ुतिसंभवाऽप्यहं ब्रह्माऽस्मीत्यपरोक्षात्मविषया बुद्धि: प्रमातु: प्रागुक्तासंभावनादिप्रतिब-
त्यर्थ:।१४। अ० टी०-यदर्थ देवतागुरुनमस्कारविद्वदावर्जनादिप्रकाशनमेतावता ग्रन्थेन दर्शितं तभि- दानीं ग्रन्थारम्भं करिष्यञ्शङ्कोत्तरत्वेन विचारशास्त्रस्य कृत्यं तावद्विवेचयति-पुरुषापरा- धेति। अन्नेयमाशङ्का ननु शारीरकस्याथांत्रगतिस्ततो जायते न वाऽडद्ये तत एव तदर्था- वगतेरयं ग्रन्थो व्यर्थ । द्वितीये विषयासिद्धेः प्रकरणारम्भासिद्धि: प्राकृतदर्थावगतरभा- वात्। तथा शारीरकस्यापि वेदान्तवाक्यार्थावगिहेतुत्वमनुपपन्नं तत्रापि वेदवाक्येभ्य एव तदर्थप्रमितौ विचारशास्त्रवैयर्थ्यांत्। ततस्तदप्रतिपत्तौ विषयासिद्धेरारम्भासंभवात्। तस्मा- च्छा स्त्रप्रकरणयोरारम्भहेतुं न पश्याम.इति। अत्रोत्तरं-सत्यं वेदवाक्येभ्य एव तदर्प्रमितिरुत्पद्यते. शारीरकाच्च शारीरकार्थावगतिरिति तथाडप्यसंभावनादिपुरुषदोषप्रतिबन्धवशात्प्रमाणसाम- ग्रीतो जायमानाऽपि प्रमिति: फलपर्यन्ता न जायते कि तु मज्जनोन्मज्जनवद् प्रतिष्ठितेव भवति।, अतस्तादृशप्रतिबन्धव्युदासेन प्रमाणजन्यायाः प्रमिते: स्वविषयप्रतिष्ठत्वनिश्चलीकरणाय विचार- शास्त्रमारम्भणीयं तस्यातिगम्भीरत्वात्तत्तात्पर्यविशदीकरणाय प्रकरणमपीति चतुर्मिः पदैः प्रतिपाद्यते। तत्राेनेन रमाणसामग्री तो ाा्वपरेभायन्त्यपि प्रमा प्रति-
यमाख्याथिका वृद्धप्रवादपरम्परागता भर्त्सुर्नाम कशचित्कस्पद्वाज्ञः सचिवः । स कदा चित्केनापि निभित्तेन राज्ञा दूरदेशान्तरं प्रति तत्रत्यदस्युवधोदेशेन प्रस्थापितः। तरिंमंश् तत्र चिरं बिलम्बिते सति तत्प्रतिपक्षभूतैरमात्येस्तद्वेषवशाद्रत्सुर्भृतो दस्युभिर्हत इत्युद्वोष्य राज्ञेऽभिज्ञानपूर्वकं तन्मरण मिथ्यैवाऽडवेदितम्। एवं निश्चितविपरीतप्रत्यये लोके राजनि च सति भर्त्सुः स एव दस्यून्पराजित्य राजधानीमागच्छन्स्वद्वेषिभिः कृतं स्वमरणोद्धोषं
१ क. 'तम । २ क,"'ग. रूपात्म । ३ क. ग. त्वाद्व"।
Page 32
संक्षेपशारीरकम्। २३
नगस्गतमाकर्ण्य तज्ज्ञासया विसृज्य स्वपरिवारं स्वयमेकाकी राजधानीमागत्य राज्ञो दर्शनमाङ्काक्षमाणः क्वचिद्वक्षदेशमाश्रिय स्थितः । तदा दैवात्तं देशं गतेन राज्ञा दृष्टो मत्सुरयमित्यवगतश्च। तथाऽपि तन्मरणश्रवणसंस्कारप्रावल्यात्प्रतिबद्धप्रमितिफलः पिशाचोऽयं जात इति विपरीते प्रतिपद्यते स्मेति तदिदमाख्यानं सूचयन्नाह-पुरुषापराधेति। यथा निरवद्यचक्षुरूदयाऽप्यदुष्टप्रमासामग्रीजग्याSपि राज्ञो घिषणा भत्सुविषया पुरुषस्य तस्यैव द्रशुरपराधेनासंभावनार्येन मलिना कलुषिता सती न फलाय भवति स्वप्रमेयैकानि छ्ठतया तत्प्रयुक्तव्यवहारप्रवर्तिका न भवति तथा निर्दुष्टवेदवाक्यजनिताऽप्यात्मविषया धीर्न फलाय भुक्तिरूपफलप्राप्तये न भवतीत्यर्थः। देहादिष्वहंममेत्याद्यनुभवसंस्कारप्राबल्या- दसंभावनाद्यभिभूता सती श्रुतिसंभूतादपे मतिन सहसा स्वविषयप्रतिष्ठा जायत इत्युक्तं भवति ॥१४ ॥ सु० टी०-इयमपि तर्हिं कि मत्सुधीवत्निष्फलैव नेत्याह- पुरुषापराधविगमे तु पुनःप्रतिबन्धकव्युदसनात्सफला। मणिमन्त्रयोरपगमे तु यथा सति पावकान्वति धूमलता।१५।। पुरुषेति। शास्त्रीय विचारतः पुरुषापराधनिरसने सति सफलेत्यर्थः। तथा
धारणात्मकत्वात्संशयाद्यास्कन्दितं भवतीति तन्निरासार्थ विचारमपेक्षत इति माव:। मणीति। यथा हि दाहसमर्थादपि वह्नेर्मणिमन्त्रप्रतिबद्धश- क्तेस्तद्पसारण एव धुमलता दाहजा मवति नान्यथेत्यर्थः ।।१५।। अ०टी०-तर्हि राज्ञो भत्सधीवव्वेद जनिताऽपि श्रोतुरधीर्निफलैवेत्यत आह-पुरुषापरा- धविगम इति। पुनर्विचारानन्तरं पुरुषापराधस्यासंभावनादिहेतोर्दोषस्य विगमेSासरणे सति प्रतिबन्धकस्यासभावनादिलक्षणस्य व्युदसनान्नाशनात्लैव प्रममितिः सफला फलपर्यन्ता भवति। तत्र द्ृष्टान्तमाह-मणिमन्त्रयोरिति। मणिमन्त्रयोः प्रतिबन्धकयोरपगमे तु सतीति योजना ॥ १५ ॥ सु०टी०-ननु यथा धर्मविचारो वाक्यार्थज्ञानस्य हेतुर्न प्रतिबन्धनि वृत्तेस्तस्या: कारणत्वानभ्युपगमादेवं ब्रह्मविचारोऽपि स्यादित्याशङक्य तस्या अहेतुत्वैऽपि तत्सरवे सामधयाः कार्यासंभवाद्वश्यापेक्षिता तन्निवृ- त्तिरिति तदर्थ एव सर्वो विचार इत्याह-
१ क. त्वेऽपि सा° ।
Page 33
२४ टीकाद्वय समेतं-
पुरुषापराधविनिवृत्तफलः सकलो विचार इति वेदविदः । अनपेक्षतामनुपरुध्य गिरः फलवद्दवेत्पकरणं तदतः ॥ १६ ॥ पुरुषेति -- सकल इति धर्मब्रह्मविषयः सर्वोडपीर्तयर्थः। वेद्विदो जैमि- न्यादयः धर्मजिज्ञासासूत्रे, तैरपि विचारविधे: स्वीयाज्ञानसंदेहादिपति- बन्धनिरासस्येव फलत्वाभ्युपगमादिति भावः।तदभ्युपगती बीजमाह- अनपेक्षतामिति 1 औत्पत्तिकसूत्रे पदपदार्थसंबन्धनित्यतया वाक्यार्थेड पि वेदस्य प्रामाण्यहेतुत्वेन याऽनपेक्षतोक्ता तामनुपरुध्य तामबाधित्वे- त्यर्थः। तदत इति। तस्मादृत एव प्रतिबन्धनिवर्तकत्वात्प्रकरणं फलव- दित्यर्थः ॥ १६ ॥ अ०टी०-शास्त्रप्रकरणयोः पुरुषापराधनिवृत्तिफलं वेदवित्संमत्या द्रढपत-पुरुषा- पराधविनिवृत्तिफल इति। सकलो विचारो धर्मब्रह्मविषयः काण्डद्वयपरः सर्वोऽपी. त्यर्थ: । अतो विचारस्य प्रतिबन्धनिरासफलत्वादविरो वेदवाक्यस्यानपेक्षताम् 'अर्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् '[जै० १।१।९] इत्यत्र निर्णीतामनुपरुच्या- बाधित्वा तच्छास्त्रं प्रकरणं फलवत्सार्थकं भवोदिति योजना ॥ १६ ॥ सु० टी०-ननु शास्त्रेणैव प्रतिबन्धस्य निरस्तत्वाक्किं प्रकरण- नेत्याशङवय पुरुषापराधानामसंख्यत्वात्पुनःपुनरुद्ध्वे तन्निरासायोत्त- रोत्तरग्रन्थनिर्माण मित्याह- पुरुषापराधशतसंकुलता विनिवर्तते प्रकरणेन गिरः । स्वयमेव वेदशिरसो वचनादथ बुद्धिरुद्भवति मुक्तिफला॥७ पुरुषेति। गिरो वाक्यजबोधस्येत्यर्थः। शतेत्यानन्त्योपलक्षणं परिह्वते ष्वपि भूय: शङ्कोत्थानात्तैः संकुलता प्रतिबन्धः। न चैतावता वेदस्य नैरपेक्ष्यं हीयत इत्याह-स्वयमेवेति। अथ प्रतिबन्धनिरासे स्वयभेव निर- पेक्षादुपनिषद्वाक्यादविद्यानिवृत्तिफला बह्मात्मैक्यावधारणरूपा वुद्धि- रुद्दवतीत्वर्थः ॥१७॥
रणग्रहणं शास्त्रस्याप्युपलक्षणम्। अथ शास्त्रादिना पुरुषापरावेऽपसारिते सत्यनन्तरं
१ क. ग. तैरितिनि° ।२ क. वे पदार्थनित्यवत्तया। ग, त्रे पद्ार्थसंबन्धस्य नित्यवत्तया वा।३ क. ग. ध्य तस्या उपाविनेत्य।
Page 34
संक्षेपशारीरकम्। २५
मुक्तिफला बुद्धिवेदशिरसो वचनात्स्वयमेत्रोद् न विचारस्य वाक्यप्रित्युत्पतावप्युप- योग इत्यर्थ: ॥ १७॥
सु० टी०-नतु विचारो वाक्यार्थधीहेतुरवश्यं वाच्यः शक्तिज्ञान- वत्तात्पर्यज्ञानव्यापिशाब्द्धीमात्नहेतुत्वात्तस्य च विचाराधीनत्वादृत- स्तद्पेक्षत्वेऽपि नाप्रामाण्यं वेदस्येत्याशङ्कय तस्य करणत्वादिविकल्पा- सहतवेन दूषयति- स्वाध्यायवन्न करणं घटते विचारो ना्यङ्गमस्य परमात्मधियः प्रसूतौ ॥ सापेक्षताSSपतति वेदगिरस्तथात्वे बह्मात्मनः प्रमितिजन्मनि तन्न युक्तम् ॥१८॥ स्वाध्यायवदिति। तत्र हि विचार: करणमङ्ग वा 'यद्यधीतेन स्वाध्या बेनार्थ विद्यात्' इतिविधौ स्वाध्याय दष विचारात्मना श्रवणेनाSडरमानं विद्यादित्यात्मविचारो ब्रह्मधीकरणं तत्राSडह-न करणामेति। पक्षद्वययु- 65 तर्करूपस्य साक्षाद्वस्तुस्वरूपानवगाहित्वेनाप्रमाणत्वान्न वाक्यार्थबोधे करणत्वं घटत इत्यर्थ:। अस्तु करणीभूतवाक्यस्याङ्क विचारस्तदुक्तम्- 'इत्तिकर्तव्यताभागं मीमांसा पूरयिष्यति' इति। प्रमाणानामनुग्राह- कस्तर्क इत्यपीति चेत्तत्राऽऽह-नापीति। अस्य वाक्यस्य फलपर्यन्तात्म- धीजनने विचारोऽङ्गमित्यपि न श्रवणविधेरन्यपरत्वस्य वक्ष्यमाणत्वेन विनियोजकामावादनुपकारकत्वाज्च करणोपकारस्य शक्त्यादिज्ञानेनेव सिद्धेरित्यर्थः । अस्तु प्रमाणाननुग्राहकत्वेऽपि प्रमान्ननुग्राहकत्वात्फलो- पंकार्यङ्गमिति चेन्नेत्याह-सापेक्षतेति। तथात्वे तत्प्रकारेणापि विचारस्या- वश्यापेक्षितत्व इत्यर्थः । वामदेवादेश्व तं विनाऽपि गर्भस्थस्यैव ज्ञानो- त्पत्तेरिति भाव: ॥१८।।
१ क. ग. हवे तदूष । २ क. ग. इति नि°। ३ क. कानु, ४ क. रत्वे। ५ क. म. दिविज्ञाने। ६ क, कत्वा।
Page 35
२६ टीकाद्टय समतं-
अ० टी०-ननु युक्त्यनुसंधानातप्राग्वाक्यस्य फलवद्वि,ज्ञानाजनकत्वात्तदनन्तरं च तज्ज- नकत्वात्कथं विचारस्य वाक्यात्प्रमित्युत्पत्तावनुप्रथोगः। न च सूत्रादिविचारग्रन्थनां सादि- स्वादनादिवेदवावयानुपकारितोत वाच्यं तेषां सादित्वेऽि तव्दुत्पाद्यन्य।य।नामनादित्वात्तदनु- संधानस्य च सर्वदा संभवाद्विच रस्य चन्यायातमकत्वान्नित्यवत्सहककारित्वोपपत्तेविचारो वेदस्य
ध्याययोन समपधानतया समुच्चय इति भावः। तर्हि करणभूतस्य रवाध्यायस्येतिकर्तव्यता रूपो विचार आझ्नेयादीनाभिव तदङ्गानि स्पात्। एवं च सति। 'सर्मे प्रमीयमाणे हि वेदेन करणात्मना । इतिकर्तव्यताभागं मीमांसा पूर येग्यति'॥ इत्यभियुक्तवचनं "प्रमाणाग्राहकास्तर्काः " इति तर्कलक्षणं चोपपन्नार्य भविष्यतीति चेतत्राSह-नाप्यङ्गन्मस्येति। अस्य स्वाध्यायम्य विचारोऽङ्गमपि न भवतीत्यर्थः। न तावद्यागस्य व्रीह्याविकारकवदस्य प्रमाणस्रूपोपकारित्वं संभवति। वेदस्यानादितया स्वरूप- सिद्धौ कारकानपेक्षणात्स्वार्यबोधनशक्तेश् तक्ष्यौत्पत्तिकत्वेन तत्रापि सहायानपेक्षित्वात्। नापि प्रयाजादिवत्फलोपकारित्वमस्योत्प्रीक्ष्यते। करणस्यास्य साक्षात्फले विज्ञाने स्वशक्तिमा-
स्वरूपमात्रे न सहायपेक्षा तद्गताज्ञानादिननधव्वंसतय च स्वकार्यप्रमित्युदयनान्तरीयकतवेन तत्रापि न विचारसहकार्यपक्षेति भावः । विवारनिरपेक्ष एव स्वाच्याययंस्वरू स्वफले चित्यु क्तमेवार्थ विपक्षे दोषप्रदर्शनेन द्रढयति-सापेक्षतेति। तथाते विचाररूप- तर्कसहायपेक्षतवे वेदगिरः स्वाध्यायस्य वेदान्तवाक्यस्य ब्रह्मात्मनः प्रमिसिजन्मनि ब्रह्मात्मविपय रुप्रमित्युत्पादने सापेक्षता पुरुष बुद्धिपहायपेक्षत्वमापनति। न चेष्ट- पतिरित्याह-तन्न युक्तमिति। तत्सापेक्षत्वं तस्य न युक्तं तत्प्रमाणं बाद- रायणस्यानपेक्षत्वादित्य नपेक्ष-वलक्षणस्वतःप्रामाण्यव्यवस्थापनविरोधादित्यर्थः। तथा चाभियुक्तवचनं तर्कलक्षणं चासभावनादिप्रतिबन्धनिरासद्वारा फलोपकारकत्वोपचाराभिप्ता- यमिति न विरोध इति द्रष्टव्यमेतेन। ननु युक्त्याद्यनुसंधानात्न्नानित्यादिनोक्तौ युक्त्याऽन्व- यव्यतिरेकावन्ययानीतौ। एवं च सति रवाध्यायजन्यायां प्रनितौ तस्याः फलपर्यन्तत्वे च प्रतिबन्धकनिरासे विचारस्योपयोगो नान्यत्र नाप्पत्यानुरयोग एवेति सिद्धमिति भाव: ॥१८॥
Page 36
संक्षेपशारीरकमू।
सु० टी०-कि चन तावच्छक्तिज्ञानवत्तात्पर्यज्ञानमंपि जाब्दधी- मात्रहेतुर्येन तद्दारा विचारोऽि तद्ध्ेतु: स्यादित्याह- व्युत्पन्नस्य. हि बुद्धिजन्म सहसा वाक्यश्रतौ दृश्यते वाक्यार्थे न ततोऽस्ति बुद्धिजनने मीमांसनव्यापृतिः।। तेनार्थात्करणादिभावजनने भीमांसनस्याऽडश्रिते वेदार्थपरमितौ तु वेदवचसः सापेक्षताऽSयास्यति॥१९॥ व्युत्पन्नस्य हीति। यस्माद्वाक्यश्रवणानन्तरं व्युत्पन्नस्यैव सहसा वाक्या- र्था धीर्दश्यते नेतरस्य।ततोऽन्वयव्यतिरेकाभ्यामस्तु व्युत्पत्तिः कारणं न तु तात्पर्यज्ञानं तथा साकाङरक्षयोग्यत्वादिना निश्चिते तद्विलम्बेन शाब्दबोधा
दीर्घेण दण्डेन प्रहरतीत्यादी दीर्घताया हस्ताद्यन्वयतात्पर्यसंशयेऽपि संमुग्धवाक्यार्थधीदर्शनान्न शाब्दे सर्वत्र तात्पर्यज्ञानं हेतुरिति न तद्द्े- तोविचारस्य वाक्यार्थधीजननव्यापार इत्यर्थः । किंचैवं विचारे सति वाक्यार्थज्ञानं तस्मिंश्र सति सिद्धान्तकोटचुपस्थिती संशयाद्यवतारे विचारारम्भ इत्यन्योन्याश्रयः स्यात्। ननु द्ृष्व्य इत्यात्मदर्शनमुददिश्य श्रोतव्य इत्यनेन विचारो विधीयत इत्यन्यत्रोक्ते: कथं विचारस्य वाक्यार्थबोधाहेतुत्व मित्याशङ्क्याSSह-तेनेति। यदि करणीभूतस्य वेदस्य शक्तितात्पर्यगोचरतया शब्दसंस्कारको विचारोऽर्थात्करणकोटी निवेशात्करणत्वेनोपचर्यते, प्रतिबन्धापनयस्य वा पुरुषोपकारस्याषि कथंचित्करणोपकारित्वमाभित्याङ्गत्वेनोपचर्यते, तथाऽपि वेदः सापेक्ष- तादूषणं नातिवर्तत इत्यर्थः । वस्तुतस्तु ज्ञानमात्रस्याफलत्वेन पूर्वसि- द्धलवेन चानुद्देश्यत्वादप्रतिबद्धज्ञानद्ंशेन विचारविधिवाच्यस्तस्य चार्थाल्ोहितोष्णी षादिविधिव द्विशेषणांशपर्थवसाने प्रतिबन्धकाण्नयन- स्यैव फलत्वं फलतीति न वाक्यार्थबोधाहेतुत्वेऽपि विचारस्य नैष्फल्यम्। यद्वा यास्यतीति च्छेदः । तेनाङ्गत्वादिना विचारस्य वाक्यार्थवोधाहेतुत्वे सत्यर्थात्प्रतिबन्धापनये करणत्वादिभजने वेदार्थ- प्रमितौ या सापेक्षताSSपादिता सा यास्यति न भविष्यतीत्यर्थः।। १९।.
१ ख. कारत्व । २ क. म्. °न विधिव्यस्तस्प नार्था°। ३ क. गं. 'थप्रति०।
Page 37
२८ टीका दुय समेतं-
अ०टी०-नर्नु वाक्यस्य सामर्थ्यादेव स्वार्थनधनऽि चक्षुष आलोकापेक्षावच्छब्दरय व्युत्पत्तिग्रहपिक्षावच्च विचारस्याप्यवश्यापेक्षणाद्ुक्तमस्य वाक्यप्रमित्युत्पादने सहकारित्व- मिति चेन्नेत्याह-व्युत्पन्नस्येति। लोके वेंद वा वाक्यश्षतौ वाक्यश्रवणे सति व्युत्पन्नस्य पदपदार्थसंगतेर्वाक्यार्थे विषये सहसा तत्क्षणमेव बुद्धिजन्म दश्यते हीति निश्चितं नाव्युत्पन्नस्थे- त्यर्थः । एतदक्तं. भवति-न चक्षुष आलोकवच्छळदस्य व्युत्पत्तिग्रहवद्वा विचारो वाक्यार्थ. प्रमित्युत्पत्तौ शव्देनापेक्ष्यते विचारप्रवृत्ते: प्रागेव व्युत्पन्नस्य गृहीतशन्दसामर्थ्यादेव तदर्थ- प्रमित्युत्पत्तेर्दर्शनात्। क्वचिदेव हि विचारापेक्षा दयते यत्रार्थविरोधशङ्कया वा शब्दस्य वृत्त्यन्तरणार्थान्तरविषयत्वं शङ्कया वा वाक्षोत्थज्ञानस्य फलपर्यन्तता नावभासते तत्र ताह शशङ्कानिरासाय विचारस्यावसरः। शङगाभावे तु न तद्पेक्षा यदि विचारत्म्रागव्युत्पन्नस्येव।्। वाक्यादर्थधीर्नोत्पद्येत तर्हि सिद्धान्तस्यैककोटिकरणेन विचार एव न प्रकर्तेत विषयासिद्धे रतो दृष्टान्तो दिषम इति भावः । यत एवं विचारस्यान्यार्थतैवात इंद सिद्धमित्याह- न ततोऽस्ति बुद्धिजनने मीमांसनव्यापृतिरिति। वाक्यार्थ इति पदमत्राप्यनुष- ज्यते। तस्माद्वेदप्रामाण्याविघातमिच्छता विचाररय कस्णभावेनाङ्गभावेन वा वाक्यार्थप्रमिति- हेतुनाऽम्युपगन्तुं युज्यत इति फलितिमुपसंहरति-तेनार्थादिति। आयास्यतीति च्छेद: स्पष्टार्थ: ॥१९ ॥। सु० टी०-ननु शास्त्रविषयप्रत्यक्त्रह्मैक्यावगतौ प्रतिबन्धनिरासेन विचारस्यार्थवत्तोक्ता।न च सा संभवति जीवत्वस्य वास्तवतवा तत्त्यागेन जीवस्य ब्रह्मणैक्यासंभवाद्विपयासिद्धेः। अत एव बन्धस्य पारमार्थिकत्वेन ज्ञानानिवर्त्यत्वात्प्रयोजनासिद्धि:। एवं च कुतः शास्त्रारम्म इत्याक्षिप्य 'बन्धाध्यासोऽगतार्थत्वं संभवोऽन्याधिकारिणः । विषयादेश्र संसिद्धिः' इत्यादि्चतुर्वर्णकप्रथमसूत्रस्य प्रथमवर्णकार्थभूतं बन्धाध्यासं सकल- तन्त्रोपोद्घातरूपमादौ संक्षिपति- आच्छाय विक्षिपति संस्फुरदात्मरूपं जीवेश्वरत्वजगदाऊतिभिमृषैव।। अज्ञानमावरणविभ्रमशक्तियोगा- दात्मत्वमात्रविषयाश्रयताबलेन ॥ २० ॥ (*आच्छाद्येति। अज्ञानं कर्तृ वस्तुतो निर्विभागमप्यात्मस्वरूपं जीव-
- धनुश्विह्वितग्रन्थः ख. पुस्तकस्थः।
१ क. ग. नधनिगपेन दि°। २ क. म. 'धतासं।
Page 38
संक्षेपशारीरकमू। २९ त्वेश्वरत्वजगदाकारैविक्षिपति) विमजत इत्यर्थः । 'ररपं रूपं प्रति- रूपो बभूव' [बृ० २।५। १९] 'तदैक्षत बहु स्वां' [छा० ६।२ । ३] इत्यादिश्ुतिभ्यः । अत्र च विक्षिपति विभक्तं कुरुत इत्पर्थाध्यासोक्ते- रन्यथाख्यात्यसत्ख्यात्यीनिरासः । तथा विक्षिपति (*विभक्तमवभास- यतीति ज्ञानाध्याससूचनादख्यातिनिरासः । एवमाकृतिभिरितीदन्तवेन विभक्ततया) विशिष्यत इत्यर्थः । तेन ज्ञानाकारनिरासादात्मख्याति- प्रतिक्षेपश्चाभिमत इत्युन्नीयते। तेनायं जीवत्वादिविक्षेपोSनिर्वचनीय एव न वास्तव इत्याह-मृषैवेति। तथा हि प्रपञ्चो निर्वचनीयो दृश्य- त्वात्। शुक्तिरजतवत् । न च साध्यविकलो हषान्तः । तथाहि न तावत्स्वतन्त्रोपस्थितेष्टमेदाग्रहः शुक्तौ प्रवर्तक इत्यख्यतिरुपपद्यते प्रवृति- त्वावच्छेदेनेष्टपुरोवर्तिज्ञानस्य हेतुतायां लाघवेन ज्ञानवित्तिवेद्यस्य वैशिध्चस्यैव शीघरस्फर्तेर्वच्छेदकत्वकल्पनात्तेन विना प्रवृत्त्यभावाद्वाघ काभावाच्च दण्डकारणतायां दृढत्ववंत्र तु भेदाग्रहस्य तस्य तदानी मनुपस्थितेविरोधिग्रहकूटाभावत्वेन गुरुत्वाज्च। अत एव 'न तद्धेतोः' इति न्याय: स्वरूपभेद्वादिनो भेदाग्रहासंभवाज्च। शाब्द्ानुमि- त्यादौ च योग्यताद्यसंसगाग्रहस्यैवमेव हेतुत्वे शब्दादिभ्रमो दुर्वारोऽ-
प्रपश्चः। अस्तु तर्ह्यन्यथाख्यातिः स्मर्यमाणरजतस्याध्यासः शुक्ताविति चेन्नेन्द्रियासंनिकृष्टस्य प्रत्यक्षतानुषपत्तेः । ननु विशेष्यस्य संनिकर्पो विशिष्टधीहेतुर्न तु विशेषणस्यापीति चेन्न लाघवेन विषयसंनिकर्षतयैव हेतुत्वादवच्छेदकलाघवे च व्यक्तिगौरवस्याप्यदोषत्वात्।अन्यथा पर्वतेऽपि वह्निविशिष्टप्रत्यक्षापत्तेः।न च संस्कारः प्रत्यासत्तिः तदा हि समाने विषये
त विशिष्टप्रत्यक्षनियमे स्मृतिमात्रविलयापत्तेः। नापि स्मरणं चक्षुःप्र त्यासत्तिः। तन्न प्रत्यभिज्ञाभिन्ने ज्ञाने ज्ञानस्य च बहिरिन्द्रियाप्रत्यास- त्तित्वात्कविकाव्यमूलमानसज्ञानस्यापि चाक्षुषत्वापत्तेश्र । अस्तु तन्म- नस एव प्रत्यासत्तिः जनकेन्द्रियप्रत्यासत्तिमात्रं च हेतुर्न तु जनकयावदि: न्द्रियप्रत्यासत्तिरगौरवात्। मानसत्वे तु मनोमात्रजन्यत्वमेव तन्त्रमिति
- धनुशिह्नितग्रन्थः ख. पुस्तकस्थः।
Page 39
३० टीका द्वुय सभेतं-
रपाध्यकारितवापत्तेश्र। नापि दोषः प्रत्यासत्तिः । तवाबाध्ये रजताशे
वा सत्वात्। दोषोऽसनिकृष्टमप्यपरोक्षपतीति चेन्न शक्तरर्थापत्ति रुक्तेश्रान्यथाऽप्युपपाद्यत्वात्। अत एव रजते सदेव वैशिष्ट्यं शुक्तौ भातीत्यपास्तं तस्य शुक्त्यननुयोगित्वात्तदनुयोगिकस्य चात्र मानातू। अन्यथेदंरजततत्तादात्म्यानीति समृहालम्बनादिदं रजतमिति भ्रमस्या- विशेषापत्तेः । अतो बाध्यत्वादपरोक्षत्वाच्च मिथ्येवे तद्वैशिष्यं भाती- त्यगत्याऽभ्युपेयम्। एवं रजतमप्यस्तु । किंच लाघवेन स्वयोग्यद्रव्य- विषयप्रत्यक्षमात्रे संयोगस्य प्रत्यासत्तित्वकल्पनान्नान्यत्र सतो रजत- त्वस्य शुक्तौ लौकिकसाक्षात्कारसंभवः। नाप्युपनीतभानं शुक्तिगतत्वेन रजतत्वस्य प्रागननुमवात् ।यत्र हि पूर्व यद्गहीतं तस्थेव तत्रोपनयात्। अत एव यत्र चन्दने पूर्व सौरमं न गृहीतं तत्रानुमानभेव नोपनयः। ननु यद्धर्मावच्छेदेन पूर्व यद्धर्मग्रहस्तद्धर्मवत्त्वज्ञानमेव तदुपनीतमान- सामग्रीनतुयत्र पूर्व यङ्रहः। अस्ति चात्रापि चाकचक्य विशेषावच्छेदेन पूर्व रजतत्वग्रह इति चेत्तहिं धूमवत्त्वावच्छेदेन पूर्व वह्निग्रहादस्तु पर्वते वह्नच्युपनय इत्यनुमानोच्छेद: । न चानुमितिसामग्री बलवती समाने विषये प्रत्यक्षसामधर्या बलवत्वात्परामर्शकालीनचक्षुःसंनिकर्षादग्निप्त्य- क्षानु (* भवात्। न चोपनीतप्रत्यक्षसामग्रीतः समाने विषयेऽ्यनुमि- तिसामग्री बलवतीति वाच्यं संशयोत्तरव्याप्यभ्रमान्भ्मप्रत्यक्षान)तपतत्या- पत्तेः। न च दोषयुक्तप्रत्यक्षसामग्री बलवती भ्रमानुमित्यभावापत्ते- व्याप्यभ्रमात्मप्रत्यक्षदोपस्य भ्रमानुमितिकरणत्वात्। न च मानान्तरो- च्छेदस्तस्याSडपाद्यत्वात्। नन्वेवं चन्दनं सुरभी तिव द्धूम वान्व ह्विमा नि -र न्युपनीतभानं स्थात्। ननु पर्वतो वद्निमानिति पर्वतत्वावच्छेदेन पूर्व वन्ह्यग्रहादिति चेत्तहि चाकचक्यवद्रजतमित्येवोपनीतभानं स्यान्न तु पुरोवर्ति रजतमिति। न च चक्षुःसंयुक्ते पुरोवर्तिनि रजतत्वोपनयरूप विशिष्टभानसामग्रीतस्तादशमानमिति वाच्यं पर्वतेऽपि तुल्यत्वात्। न चैवं धूमवान्वह्निमान्पर्वतश्ेत्यनुमित्याकार: स्यादिति वाच्यम्। प्रकृ- तेऽपि चाकचक्यवद्रजतं पुरोवर्ति चेति स्थात्। नन्विदं रजतमिति
- धनुश्रिवह्नितग्रन्थः ख. पुस्तकरथः ।
१ क. ग. •वं रजतं भा। २ ए. °बच्च ज्ञा"।
Page 40
संक्षेपशारीरकम्। ३१
तुल्यंम्। कथं तर्हिं वह्निमनुमिनोमीध्यनुव्यवसायः समर्थनीय इति चेत्वदुक्त्ामुपनीतमानसामग्रीं पृच्छ। यया मानान्तरोच्छेद: प्रसश्व्ितः। स्वीकुरु वा मानान्तरानुच्छेदनाय पूर्वोक्तामेव सामग्रीमिति यत्किंचिंदे- तत्। नाप्यसदेव तद्रजतं भासत.इत्यसर्ख्यातिरिन्द्रिया संबद्धस्यापा रोक्ष्यासंमवात् । न हि सदसतोः संयोगः समवायस्तादात्यं वा संभवति, नापि स्वरूपसंबन्धोऽसतो निःस्वरूपत्वात् । कि च प्रत्यक्षे विषय: कारणं न चासतः कारणत्वं सत्वगर्भत्वात्तस्येति।नापि ज्ञानमेव रजतारमना भासतेऽहं रजतमिति भानापत्तेः । न च नीलादिबोघा: स्वांशमेव बािरध्यवस्यन्तो भ्रान्ताः बोधत्वात्स्वप्रबोधवदिति वाच्यम स्यामेवानुमिती व्यभिचारात् । इयमपि भ्रान्तवेति चेत्सिद्धं तर्हिं नीलदिधियामभ्रान्तत्वम् । किंच नीलादिज्ञानस्य स्वमात्रावसा यित्वं नीलस्य ज्ञानांकारत्वं चन तावत्स्वनैव गृह्यते तस्य नील- मात्रग्राहित्वात्। अत एव न वैद्यत्वसहोपलम्भनियमादिलिङ्गकानु- मित्याऽपि तस्या अनात्मग्राहित्वे वा किमपराद्धं नीलादिज्ञानैरित्यात्म-
शुक्त्यभेदेनोत्पादितम निर्वच नीयमेव रजतं भ्रमविषय इत्यनिच्छद्भधिर- ग्युपेथमेवमात्माविद्योत्थप्रपञ्चोऽपीति। ननु तर्हि सोऽपि शुक्तिरजतव. द्वाध्य: स्थादिति चेन्नैतच्चिचं बाध्यत एव ह्यसौ वक्ष्यमाणश्रुतियुक्तिभिः। अपरोक्षवाधस्तु नास्ति तद्धिष्ठानसाक्षातकारस्यानुत्वन्नत्वादिति सर्वं सुस्थम्। नन्वद्वैतात्मनि स्वतःप्रकाशमाने कुतो विभागाध्यास इत्पत आह-आच्छाद्येति। आत्मनस्त्त्त्वं व्यवधायेत्यर्थः। नन्वात्मरुपाच्छा दनेऽज्ञानतकार्याेरपि कृतः सिद्धिरित्याशङ्क्य विशिनष्टि-संस्फुरदिति। स्वतः स्फुरताऽत्मचैतन्येनैव तत्सिद्धिरित्यर्थः।ननु ज्ञानाभावमात्र- स्याज्ञानस्य कथमावरकत्वं मावत्वेऽपि तमोवदावरकत्वमात्रं स्यान्नतु विक्षेपकत्वम दष्टचरत्वादित्याशङक्पाSSह-आवरणेति। चिदात्मनि ज्ञाना- मावासंभवान्मूढोऽहमस्मीति च भावेत्वेनानुसवात्सवितुरिव मेवादि • स्फुरतोंडप्यात्मनस्तदावरकमभ्युपेयं दोषाणां चाऽऽवरकत्ववद्विक्षेपकत्व स्यापि दावाग्निदग्धवेत्रबीजादिषु दर्शनाद्विक्षेपस्य च मिथ्याभूतस्य भावकार्यत्वात्तत्समानस्वभावं भावरूपाज्ञानमेवोपादानं युक्तमिति
१ क. कामनुप'। २ क. ग. वत्ंना 1३ क. ग्वक्षेत्र°।
Page 41
३२ टीका टुय समेतं-
शक्तिद्वययोगान्न किंचिदनुपपन्नमिश्यर्थः। आवरणशक्तिर्नास्ति बह्मं न प्रकाशते चेति व्यवहारहेतु: शक्तिः । विभ्रमशक्तिस्तु विपरीतार्थ- प्रदर्शनशक्ति:। नन्वेवमज्ञानस्य जगदुपाद्गानत्वे ब्रह्मविवर्तत्वं
त्वात्। तथा ह्येकमेव बह्माज्ञानद्वारा नानात्वं प्रतिपद्यते। तच्च नानात्वं ब्रह्मापेक्षया विवतोडतत्त्वतोऽ्यथाभावत्वादज्ञानापेक्षया च परिणामोऽनिर्वचनीयाज्ञानस्य त्वतोऽन्यथाभावत्वात्। एवं च ब्रह्मविवर्तो जगदिति ब्रह्माज्ञानपरिणाम इत्यर्थः । आज्ञानपरि- णामो जगदिव्यज्ञा *तब्ह्मविवर्त इत्येक एवार्थः । तत्र चेतनत्वा- दात्मवाज्ञात: कारणमज्ञानं त्वचेतनद्वारमिति वक्ष्पति । नन्वज्ञा)न-
त्वेति। आत्मत्वमात्मस्वरूपं विषय आश्रयश्ष यस्य मामहं न जानामी- त्यनुभवात्तस्य मावस्तत्ता तदेव तस्य बलमत्राध्यस्ततया तत्सत्तया लब्धसत्ताकं सदावरकं मवति। त्चिदाभासानुविद्धं च लोहमिव रस- विद्धं विक्षेपकं च भवतीत्यर्थः ॥२०॥। अ०टी०-तद्ेवं प्रकरणाद्वेदान्तवाक्येभ्यः स्व्रसामर्थ्यादेव ब्रह्मात्मप्रमित्युत्पत्तौ प्रतिबन्ध- निरासेन तस्या: फलपर्थन्तत्वायोपयोगो न प्रमिते: करणेतिकर्त:्यभावेन तदुत्पत्तावुपयोग इति स्थितम्। तत्रेदमाशङ्क्यते उक्तप्रकारेण शास्त्रप्रकरणयोरुयोगस्तदा स्याद्यदि वाक्या- द्रह्मात्मैक्यावभासि ज्ञानं जायेत। जातस्य वा संसारबन्धनिवृत्तिः फलं संभाव्येत। यावता जीवब्रह्मणोः संसारित्वासंसारित्वादिविरुद्धधर्मवतोमेदे प्रामाणिके सति वौक्यसहत्त्रेगापि तदैक्यं बोधयितुं न शक्यते। तथाSऽत्मनि दृश्यमानस्य प्रमातृत्वकतृत्वभोक्तृत्वादिरूपस्य बन्धस्य प्रत्यक्षसिद्धस्य परमार्थस्य ज्ञानेन बाघासंभवाज्ज्ञानस्य चाज्ञानमात्रविरोधित्वप्रसिद्धेरि- ति। अतो विषयप्रथोजनयोरसंभवाद्वेदान्तविचारशास्त्रपरकरणारम्भासिद्विरिति चेन्नवें भेदबन्ध
रित्यभिप्रेत्य चिदात्मनि भेदविपर्यासयोस्तदज्ञाननिबन्धनत्वं तावदाह-आच्छाय्य विक्षिपतीति। अयमर्थ :- अस्त्यज्ञानं नाम किं चिद्हमज्ञो मां न जानाभीति स्फुर स्यप्यात्मन्यनुभवसिद्धं न तज्ज्ञानाभावरूं ज्ञानरूं प्रत्यगात्मनि तदसंभवात् । न चाऽडत्मा कादाचित्कज्ञानाश्रयो येन तस्मिन्ज्ञानाभावोडि संभाव्येत। तदग्युर्वगमेऽवि तश्मिन्नहमिति मामिति चोलिरुयमाने कथ तस्मिन्ननुभवाभावः। सति प्रतियोगिनि तदमा- वासिद्धेः। तस्मान्नाभावात्ममज्ञानं नापि सलक्षणं भावरूपं तथा सत्यात्मादिवत्स्वातन्त्र्या-
- धनुश्वि ह्वेतो ग्रन्थः ख, पुस्तकस्थः।
Page 42
संक्षेपशारीरकम्।
पत्तैर्जा नवाध्यस्वानुपपत्तेश्र। नापि नरशृङ्गकल्पमपरोक्षत्वेनावभासात्। तक्ष्मात्सदसद्विलक्षण- मनिर्वचनीयं मिथ्याभूतमनुभवमात्रसिद्धमज्ञानम्। तथ् निराश्रयं निर्विषयं च संभवत्या- श्रयविषयसापेक्षत्वेनैव तत्प्रतितेरित्येतदाह-संस्फुरदात्मरूपमिति। एषाऽक्षरयो जना-अज्ञानं यथाव्याख्यातस्त्रमावं संस्फुरत्स्वमहिम्नैव स्वप्क्ाशरूपेण सम्यग्भासमान- मात्मन: प्रत्यग्रूपस्य रूपं याथात्म्यं परिपूर्णमखण्डाद्वयब्रह्मलक्षणमाच्छाद्य प्रतिबध्य तदेवाSSतमरूपं जवश्वरत्वजगदाकृतिभिर्भोक्तृनियन्तृभोग्याकारैरनेकधा विक्षिपति विविध क्षिपति विकिरतीति। स च विक्षेप आवरणं चानिर्वचनीयाज्ञानकृतत्वान्मृवैव न परमार्थन इत्यर्थः । तथा च चिदात्मनि जीवेश्वरभेदप्रतिमासस्य प्रतीचि जगद्वन्घप्रतिभासस्य चाज्ञा-
वेदान्तादेविषयाद्यमावशङ्कावकाश इति भावः। ननु कथमज्ञानस्थैतादृशं सामर्थ्यमित्य- पेक्षायामाह-आवरणविभ्रमशक्तियोगाढिति। आच्छादनविक्षेपकसामर्थ्ययोः सहजसिद्धत्वादित्यर्थः । यथा चक्षुःंनिकष्टतया स्वरूपेणावमासमानेऽपि पुरोवर्तिनि रज्जुखण्डेऽन्धकारो रज्जुतत्वांशं तश्य निजं रूपमाच्छाद्य तमेत्र सर्पधाराद्यत द्रपत्वेनानेकविध विक्षिपति। सहजसामर्थ्यादेवमिदमज्ञानमपीति भावः। नन्वेवं सत्यज्ञानस्य स्वात- न्तयापत्तौ सांख्यमतप्रव्रेशो ब्रह्मवादिनामित्याशङ्क्य तस्य चित्पारतन्त्र्याम्युपगमा- न्यैवमित्याह-आत्मत्वमात्रविषयाश्रयताबलेनेति। आत्मत्वमात्मस्वरूपं तन्मा- त्रमेव न जीवेश्वरत्वविशेषितमाश्रयो विषयश्च यस्याज्ञानस्य तस्य भावस्तत्तैतदेव बलं तेनेत्यक्षरार्थः। आत्मन्यध्यस्तं ह्यज्ञानं तत्मत्तया लब्घसत्ताकं सत्तत एवैतादशं सामर्थ्य प्रतिपद्यते। अतोऽज्ञानात्मना SSवरणमात्मचैतन्याभासानुविद्ध सद्रसविद्धमिव लोहं विक्षेपणश- किंच लमत इति भावः। एतेनाविष्ठानगतमेवाज्ञानं तद्वलनिर्भासितं सत्तदेवाSडच्छाद्य तदेव विक्षिपतीति प्रतिपादनेनान्यथाख्यात्यादेर्वादिभिरुत्प्रेक्षितपक्षभेदस्य निराकरणमप्यर्थात्कृतं वेदितव्यम् ॥ २०॥ सु. टी०-नन्वेवमात्मन आवृतविक्षिप्तत्वेनासत्कल्पस्य कथं बलत्वं तथात्वे चोपजीव्यस्य तस्य कथमज्ञानेनावरणविक्षेपौ तस्मादात्मव्यति- रिक्तमज्ञानस्य बलमास्थेयमित्याशङ्कयाSSह- पश्यक्त्वमात्रविषयाश्रयताबलेन पत्यक्स्वरूपमविधाय पराग्विवर्तैः ॥ प्रत्यञ्चमद्वयमशेषविशेषहीनं विक्षिप्य तिष्ठति तदग्रहणं सृषैव ॥ २१ ॥ प्रत्यकूल्वति। न ह्यात्मनि कल्पितस्याज्ञानस्याSSरमनोऽयद्वलं संमवत्य- १ ख. 'त्वेनोप। S
Page 43
३४ टीका टय समेतं -
ध्यस्तस्याधिष्ठानैकजीवनत्वादात्मावरणं त्वज्ञानेवत्तस्य दुर्निरुपत्वात्।
तु स्वसाधकप्रत्यकचैतन्याकारम्। तदेव त्वस्य बलं सत्तांस्फूर्तिप्रदत्वादि त्येतदाह-प्रत्यक्स्वरूपमपिधायेति। उपजीव्यं प्रश्यगंशममाच्छाद्येत्यर्थः। एक- स्याप्यावृतानावृतत्वमविरुद्धमिति वक्ष्यते। तथाच तदज्ञानं कर्तृ उक्तेन बलेनाद्वयत्वाननिरविशेषमपि प्रत्यश्चं पराग्विवर्तैजीवत्वादिभिरविक्षिष्य बहुधा विभज्यानादे: कालाद्विदोदयं यावत्तस्य स्थाने स्वात्मानमभिषि्य सृषैव तिष्ठति। वस्तुतः कालत्रयेऽपि नास्तीति योज्यम्।ननु भावरू. पाज्ञानसिद्धौ सर्वमेतदुपपद्यते, तत्रैव तु किं मानमिति चेदहमज्ञ इत्य- नुभव एव।ननु ज्ञानाभावगोचरोडयं न तु भावरूपाज्ञानविषय इति चेन्न मयि ज्ञानं नेति भासमान एवाऽडत्मनि ज्ञानेऽज्ञानाभावग्रहानुपपत्तेः । न चायं घटादिज्ञानविशेषाभाषग्रह एवेति वाच्यं प्रतियोगितावच्छे- दकप्रकारकप्रतियोगिज्ञानस्याभावधी हेतुत्वेन घटज्ञानत्वेन तदनुपस्थिती तदभावग्रहासंभवादुपस्थितौ च घंटज्ञानाभावाभावात्। न च तदाडप्य- त्मनि घटत्वप्रकारकज्ञानं नासत्येव प्रतियोगिधियो घटतेवप्रकारकत्वम- कारत्वादिति वाच्यं ज्ञानत्वस्यैव प्रकारतानुभवेनात्र तादशोपस्थिते: खपुष्पकल्पनात्। नन्वभावग्रहे सप्रकारकप्रतियोगिज्ञानमात्रं हेतुरन्य. थात्वन्वकारबोधो न स्वादिति ज्ञानत्वे न तदुपस्थितावपि घट. ज्ञानाभावधीसंभव इति चेत्तर्हिं द्रव्यत्वादिप्रकारक(घटज्ञानेऽपि घटो नास्तीति प्रतीति: स्यात् । न च फलीभूतज्ञाने प्रतियो- ग्यंशे यत्प्कारतया भासते तत्प्रकारक)प्रतियोगिज्ञानं हेतुः । अस्ति च प्रकृते ज्ञानत्वप्रकारकं तज्ज्ञानमिति वाच्यं पीतरूपवत्तयोपलभ्य-
रकप्रतियोगिधीसत्वात्। ननु घर्टेशाब्द्रादिज्ञानामावप्रतिमासोऽयम्। प्रतियोगिज्ञानं चात्र स्मृतिरूप न शाब्दमिति नोक्तदोष इति चेन्न
त्वस्य च दूपितत्वात्। अपि चैवं घटज्ञानस्यात्यन्ताभावः प्राग- भाव: प्रध्वंसो वा गृह्यते। नाद्यस्तस्याऽडतमन्यभावात्। नापरस्तस्य साम-
- धनुश्र्विह्वान्तवतग्रन्थः क. पुस्तके नास्ति।
१ ख. नवृत्त' । २ क ख. ननिति' । ३ क. वटःज्ञानाभावात्। ४ क. ग. ·त्यप्कारकत्वा°। ५ क. ग. ट शब्दादि।
Page 44
संक्षेपशारीरकम् ॥. ३५
ग्रीकालग्राह्मत्वात्। नेतरः प्रतियोगिन्यतीतत्वानुलखात्। कि च यत्र यत्प्र- कारकप्रतियोगि ज्ञानं तत्न तत्पकारावच्छिन्नप्रतियोगिकामावज्ञानं न संभवतीति व्याप्तेरपि ज्ञानवत्यात्मनि न कदाचिदप्यज्ञत्वानुभवसंभव:। ननु ज्ञानस्यावश्यवैद्यत्वानभयुपगमात्स्ववृत्ति वर्तमानज्ञानाग्रहे स्मृतज्ञान- सामान्याभावानुमव आत्मनि सभवतीति चेन्न स्वससतयैव ज्ञानस्य स्वाश्रये स्वाभावधीविरोधित्वाद्वेद्यज्ञाने च मानाभावाद्घटस्तत्र दृष्ट इति घटवज्ज्ञानस्मृतेज्ञतति घटे घटो ज्ञातो न वेति कदाऽपि संशयाभा वाञ्च। नन्विच्छानन्तरमिष्टं न वेति संशयादर्शनात्साSवि स्वप्रकाशा स्यादिति चेन्न तस्या: सुखादिवद्वश्यवेद्यत्वादेव तदुपपत्तेः । न. च
न च ज्ञानस्यामानकत्वं कदाचिद्वेद्यत्वनियमादिति चेदेवमपि ज्ञानो सरकाले संशयापत्तिरपरिहार्येत्युभयतःपाशा रज्जुः । तस्पादात्मनि सामान्यतो विशेषतश्चः ज्ञानाभावप्रतीत्यसभवान्द्भावरूपमेवाज्ञानं स्वाविरोधिसाक्षिज्ञनिनाहमज्ञ इत्याकारेण प्रतीयत इत्यकामेनापि स्वीकरणीयम्। अनुमानं च चैत्रप्रमा चैव्रस्थप्रमित्यभावभिन्नस्थानादे- ध्वैसिनी प्रमात्वान्मेन्नप्रमावत्। तमोनिवृत्त्यव्यवहितोत्तरचाक्षुपज्ञानं स्वविषयावरणस्वनिवर्त्यस्व देशस्थभावपूर्वकमव्यवहृतार्थव्यवहतिहेतुत्व :- त्तमसि प्रथमोत्पन्नदीपप्रभावदिति। विवरणकारानुमाने तु स्वप्राग- भावव्यतिरिक्तेति साध्यविशेषणं ज्ञानपागभावपुर्वकत्वेनार्थान्तरवार- णाय।न च ज्ञानं प्रागभावनिवृत्तिरूप न तु तन्निवर्तकमतः स्वनिवत्थ- पदेनैव तद्वारणमिति वाच्यम्। अद्यन्तवतो ज्ञानस्यानाद्यनन्तप्रागभा- बध्वंसात्मतानुपपत्तेः । अन्यथा प्रागभावधरंसात्मकभावप्रतियोगित्वेन तयोर्जन्यत्वविनाशित्वापत्तेः । अतः प्रतियोगिभिन्ना तन्निवृत्तििति मतमवलम्ब्योक्तम्। न चाभावस्यानावरणत्वात्स्वविषयावरणपदेनैव बद्वारणम्। विषयस्फुरणविरोधित्वं ह्यावरणत्वं (*तच्च प्रागभावेडप्य- हिति। एवं चोत्तरज्ञाननिवर्त्थपूर्वज्ञानवारणाय तत् ।.) सुखहेतुविषयज्ञा नप्रतिबन्धकदुरितिवारणाय-सवनिवत्येति। विषयनिष्ठावरणे भिन्नप्रमा- सृनिष्ठाज्ञानसिध्यर्थ-स्वदेशगतेति । मिथ्याज्ञानव्यावर्तनाय-वस्त्वन्त- रेति। पक्षहेतुद्ृष्टान्तास्त्वेवमेव द्रषव्या: ॥२॥
- धनुश्विह्नितग्रन्थः क. पुस्तके नास्ति। १ क, ग.नंसं ।
Page 45
३६ टीकादूय समेतं-
षयकाज्ञानकृतमिति किमित्य म्युपेयते तत्र प्रमाणाभावाद्भावे वाडज्ञानस्य स्वातनत्र्यापत्तेराम्मा भ्रयतावलेनेत्ययुक्तं स्यादात्मन: स्वत एवाज्ञानप्रेस्कत्वेन तद्वलकरत्वे च विकारित्वापत्तेरज्ञा- नसहायतया तथात्वेऽन्योन्याश्रयत्वापातादतो जीवेश्वरत्वजगदाकृतीनां यथाप्रताति परमार्थ- स्वभेवारतु किमविद्याकल्पितत्वकल्पनया प्रमाणहीनयेति चेत्तत्राSह-परत्यकत्वमात्र विषयाश्रयताबलेनेति। अयमर्थ :- न तावदज्ञानं स्वतन्त्रमम्युपगन्तुं शक्यते तस्य जडत्वेनानात्मत्वे सति स्वातन्त्रथेणायं घट इतिवदिदमज्ञानमिति प्रतीतिप्रसङ्गात्। नचैवं प्रतीयते किं त्वहमज्ञो मय्यज्ञानमयमज्ञ इति वा परश्रयत्व्रेनैव तद्नुभवात्तस्य पास्तन्त्रय- मकसीयते। अतश्चेतनाश्रयत्वं तावदस्य निश्चितमिति स्वाश्रये चेतने प्रत्यगात्मन्येवाज्ञान- मावरणविक्षेपरूपमतिशयं जनयेत्स्वासंबद्धे तज्ननेSतिप्रसङ्गात्। तथा च तस्य चिदात्म- विषयताऽपि सिद्धा येन यत्रातिशयः क्रियते स तस्य विषय इति स्थितेः। न चात्र प्रमाणाभाको 'नीहूरेण प्रावृता जत्प्या च इत्यादिश्रुतेः प्रमाणत्वात्। इहाप्यग्रे प्रमाणस्य वक्ष्यमाणत्वात्। नाप्यात्मनोऽज्ञानप्रेरकत्वेन विकारित्वप्राप्तिरविकृतस्थैव रज्जुखण्डादे: स्वासेपित सर्पविसर्पणा दिवाज्ञा नवकार हे तुस्वोपपत्तेरज्ञा नविशिष्टस्याज्ञानप्रेर कत्वा
कारमेदस्य परमार्थत्वमुपपद्यते तस्याज्ञानान्वयव्यतिरेका नुविधायित्वात्। जवस्य चैतन्यात्मन ईश्वरस्य च तद्रूपस्योपाधिमे दमन्तरेण स्वरूपतो भेदानिरूपणादुपाधिभूतस्य च कार्यकारगरू पजगंत उत्पत्तिप्रलयश्रवणादागन्तुकत्वे सत्याद्यन्तवतो रज्जुसर्पादिव विद्याकल्पितत्वाव्यमि-
न्दरूपताया अस्थलाद्यनेकश्तुतिभिस्तात्पर्थेण प्रतिपादनाच्च न पूर्वश्ोकोपपादितार्थें कोडकि दोष इति। अक्षरार्थ: सुगमः । यद्वाऽSमत््रम त्र विषया श्रथता ब ले न् ज्ञा न मा ्न न्या्वर णकक् क्षेपौ करोतीत्ययुक्तमावरणविभ्रमशक्तिमतस्तस्य स्वत एव तत्कर्तृत्वसंभवात्। अन्यथा् स्वाश्रयविघातापत्तेराव्रियमाणं विक्षेप्यं व तस्याSऽत्मातिरिक्त विषयान्तरमन्वेषणीथम्। तच्चान्यथाख्या त्यादेरनड्गीकारादद्वैतवादिनां दुःसंपादनितीमाम्शङ्ां परिहरन्पूर्वपद्योक्त- मर्थ विशदयति-प्रत्यकत्वमात्रविषयाश्रयताबलेनेति। तत्पूर्वोक्तमज्ञानशब्दितमग्र हणविद्यार्यं प्रत्यक्त्वरूपं परिपूर्णानवच्छिन्नसच्िदानन्दलक्षणमविधाय स्वरूपेग मालमानेSि यथोक्त्रूपेणानवमासमानतामापाद्योतियावत्। यथेद्मित्येवेरुपेष् मासमानमेव पुरोतर्ति शुक्त्यादि शुक्तिरूपेणानन्यसाधारणतयाऽनवभासमानमविद्यया भवति। तद्वत्सर्वानुभवसदा-
संपर्कादिति यत्तदस्याविधानमित्यर्थः । सच्विद्ास्य विभोरात्मनोऽस्ति प्रकाशत इति स्वरू. पाप्रतिबद्धव्यवहारेऽन्यानपेक्षतया निव्यवश्परकाशे अहेऽपि ताददरपमात्मत्ततवं नास्ति न
Page 46
संक्षेपशारीरकम्। ३७
गम्यत इति भावः । परागिति चैतन्यभात्यमुक्तलक्षणात्मस्वभा व विपरित्वमां धीयते। तद्रूपेण ये विवर्ता विशेषाकारवृत्तयोऽहंकार।दिलक्षणास्तैस्तमेवासाधारणस्व- भावं प्रत्यश्चमात्मानं विक्षिप्य विविधं क्षिप्त्वा देवतिर्यङ्मनुष्यस्थावरादिमेदेनानेकधाऽव- मासास्पदं कृत्वा तिष्ठति। तदेवं क्रियमाणं मृषबाSSवरणं विक्षेपरूपं च न वस्तुतो यथा स्वरू- पावरणरजताद्याकारविक्षेपौ तथेत्यर्थः । यथा वा सुप्ते पुं.येकत्मित्रावरणविक्षेपौ तद्वदित्यर्थः । एतच्चाज्ञानस्य निरपेक्षात्स्वसामथ्यान्न भवतीत्याह-प्रत्यकत्वेति। प्रत्यक्त्वमात्रं यथा व्याख्यात प्रतीचः स्वरूपं तदेव विषय आश्रयश्च यस्य भावस्तत्ता तस्य बलेनोपबृंहणेन चैतन्यव्याप्ततयेत्यर्थः । न हि चिदात्मव्याप्तिमन्तरेणाचेतनस्य स्वकार्यसमर्थस्यापि कार्य- करत्वं संभवतीति भावः । एतेनाSSवरणादिशक्तमतोऽप्यज्ञानस्य स्वातन्त्र्याशङ्का पराकृता। ननु यद्वलादज्ञानरय विक्षेपसामर्थ्य तदेवाSSत्मतत्वं स्वयमेवानेकधा विक्षिप्यतां किमज्ञा नाभ्युपगमेनेत्यत आह-अद्यमिति। अविकारि कूटस्थभित्यर्थः । कुत एतदित्यत आह-अशेषविशेषहीनमिति। यत्केनापि विशेषेण कंदाचिद्युज्यते तद्विक्रियते न निविशेषमयं तु प्रत्यगात्माSशेषविशेषहीनोऽतः वूटस्थ इत्यर्थः । तथा च यदे कमविक्रि- यमनाधेयातिशयमलुप्तप्रकाश स्वभावमिति च प्रमाणेनावधारितं तस्य तद्विपरीताकारावभासो न स्वाभाविको नाप्यन्योपरागात्परमार्थत उत्पन्नः संभाव्यत इत्यतो मृषैवेत्यज्ञानाविद्यादि- शब्दवाच्यानिर्वचनीयनिबन्धन इति युक्तमुक्तं मृषैनेति। एतेनाज्ञानस्य स्वाश्रयविघ्याताप- त्तिदोषपरिहारायाऽडत्मातिरिक्त विषयान्तरमन्वेषणीयमित्युक्तं परास्तं वेदितव्यम्। विषया- न्तरस्य परमार्थत्वे तस्याज्ञानकल्पितत्वानुपपत्तेरपरमार्थत्वे तस्यारोपमात्रससिद्धस्याधिष्ठानम- न्तरेणानुपपत्तेः । अधिष्ठानं च तदेव भवति यदज्ञानावृतस्वभावविशेषं वस्तु वस्त्वन्तरात्म- नाऽवमासमानम्। अत आवरणविक्षेपयोः समानाधिकरणत्वनियमादावरणस्य चामर्तेऽनव- यवे द्रव्यगुणादिवस्तुकृतत्वासंभवादज्ञानकृतत्वे निश्चिते तस्याSSश्रय एव विषय इति तत्रैव तत्कृतो विशेष इति नाSSश्रयविघातित्वदोषावकाशः परमार्थतः स्वाश्रये तस्याकि- चित्करत्वादिति सर्वे समञ्जसम् ॥ २१ ॥ सु० टी०-ननु कथं स्फुरतोऽप्यात्मनोSभावभूतमावरणं कल्पयित्वा जीवत्वादिविभागस्या निर्व चनीपत्वं साध्यते कल्पनालाघवेन मास्करादि- वत्परिणामवादाश्रयणेन पारमार्थिकत्वमेव कि नाभ्युपेयत इत्याश- डक्य कूटस्थस्य ब्रह्मणो वस्तुतो वैपरीत्येन परिणामसंभवादज्ञानद्वारा च परिणामाभ्युपगमे रज्जुसर्पादिवद्निर्वचनीर्यताया एव भङ्गयन्तरेण
१ क. ग. यतया।
Page 47
स्वीका्रात्पस्त्र परावभासत्वादिलक्षणयोगाच्चाध्यस्तमेव. विपशीतमरप- त्वादिकं ब्ह्षणीत्याह- प्रत्यक्षलिङ्गवचनानि हि दर्शयन्ति निर्दुःखनित्यसुखविग्रहतां प्रतीचः॥ निर्दुःखनित्यसुखविग्रहभू्नि नास्मि- न्संभाव्यते दाश पुरोदितमल्परूपम् ॥ २२ ॥ प्रत्यक्षेति। यतो वक्ष्यमाणानि प्रत्यक्षादीनि प्रतीचो निर्दुःखनित्य- सुखत्वं बोधयन्ति। सुखत्वेनापरिच्छिन्नत्वमाह नाल्पे सुखमस्तीति।भूमैव सुखम' [छा०७।२३।१] इति श्रुतेरतोऽस्मिन्नपरिच्छिन्ने भूष्नि हृगात्मनि जीवत्वादिपरिच्छिन्नं रूपं न कथंचिद्वास्तवं संभाव्यत इति तत्र तत्प- थवान्यथानुपपत्तिरेवाध्यस्तत्वे मानमित्यर्थः ।। २२।। अ० टी०-नन्वात्मन्यनिर्वचनीया विद्याविलासात्मकमनिर्व चनीयमेवाखण्डानन्दानुमवस द्रक्षविपरीतरूं वेश्वरजगदन्घादिलक्षणमात्मा तु सदैवाशेपविशेषहीन इत्यत्र कि प्रमा- णमिति चेत्तत्राSडह-प्रत्यक्षलिङ्गेत्यादिना। प्रतीचः प्रत्यगात्मनो निर्दुःखनित्यसुख विग्रह[ता] मखण्डानन्दकूटस्थरूपतां प्रत्यक्षलिङ्गवचनानि दर्शयन्ति हीति योजना। हिशव्दो वक्ष्यमाणप्रत्यक्षा दिप्रमाणानां यथो क्तात्मपरतया निश्चितत्त्वज्ञापनार्थः तदेवं प्रमाणासिद्धे प्रती-
न परमार्थ संभाव्यत इत्याह-निदुःखनित्येत्युत्तरार्धेन। निर्दुःखादिलक्षणे भूम्नि परिपूर्णे ब्रह्मण्यस्मिन्प्रमाणावगते दशि सर्वसाल्षिरूंप पुरोदितं जीवजगदीश्वरादिलक्षणमल्प- रूपं परिच्छिन्नं सापेक्षस्वभावं परमार्थतो न संभाव्यत इति योजना ॥ २२॥ सु० टी०-तत्र प्रत्यक्षमुपन्यस्यति -- प्राज्ञे सुखं समनुभूय समुत्थितः सन् सर्वप्रकारविषयप्रतिपत्तिशून्ये ।. सुप्तोऽहमत्र सुखमित्यनुसंदधानः सर्वोऽपि जन्तुरवगच्छति तस्य सौख्यम् ॥ २३ ॥ प्राज्ञ इति। प्रकृषट विषय कालुष्यरहितमा समंतात्साक्षिसुखंजानात्यस्मि- न्निति प्राज्ञ:। सुधुप्ति: पूर्णसुखस्याSवृतत्वादिति। तस्यामवस्थायामात्मा-
१ क. ग. रावमराभेद्स। २ क. ग. पूर्वसु।
Page 48
संक्षेपशारीरकम्। ३९
भिन्न सुखं विक्षेपाभावात्सम्यगनुभूय पश्चात्सुखमह सुत आसमित्यनु- संद्धान: सर्वोऽवि जीवस्तस्य प्रतीच: सुखत्वं प्राज्ञे प्रत्यक्षेणानुभवतीति
कमेव तत्मुखमितिचेत्तन्नाSSह-सर्वप्रकारति। तदानीं भीतिकवासनामयसर्व- प्रपश्चविलयात्तत्प्रतिपत्तिशून्ये प्राज्ञे विषयसुखस्यासंभावितत्वादित्यर्थः । तदानीं दुःखस्मृत्यसंमवेन दुःखाभावगोचरोऽपि नायमनुभव इति भाव:। अस्तु तर्हि समुत्थितस्यायमनुभवो दुःखस्मृत्यमावानुमितदु खानुपल- वध्यनुमितदुःखाभावगोचर एवेत्याशङक्याऽडह-समुत्थितः सन्। झटि- त्यनुमानावलिं विनैवानुसंदधान इति। समुत्थानं हि प्रथममविद्यायां सूक्ष्मचिदाभासद्वारा ततः स्थूलस्थूलतराभासेपु प्राणबुद्धिमनइन्द्रियश-
इत्येतदनन्तरम विलम्बेनैवोक्तपरामर्श इति नास्य दुःखा भविगोचरत्वमि- त्यर्थ:। दुःखस्मृत्यभावस्य दुःखानुपलब्ध्यव्याप्यत्वाच्चेति भावः।ननु
ज्ञानसुखसाक्ष्यनुभवस्य तु साक्षिरूपस्य नित्यतवेनाविशिन: संस्काराहेतु- त्वांत्। कुतः स इति चेदुच्यते सुखमस्वाप्सं मूढ आसं सुखमन्वभूवमि- त्युत्थितस्य परामर्शातसुखाज्ञानसाक्षात्काराविद्यावृत्तित्रयं सुपुप्तावितिवि- वरणकाराः। वार्तिककृतस्तु सुपुप्तावविद्याया गुणसाम्येन परिणामासं- भवात्स्वापावस्थागत भूतत्वं साक्षिण्युपचर्यातीतत्वपरामर्श इत्याहु: अज्ञाश्रयसंस्कारात्कथमहंविशिष्टाश्रयः परामर्श इति चेन्न, अज्ञ/श्रयस्मृते- रेव जाग्रज्जाताहंकारसामानाधिकरण्येन तदाकारत्वादिति दिकू ॥२३। अ०टी०-तत्र प्रत्यक्षं सर्वजनप्रसिद्धं सौषुप्तानुभव तावदाह-प्राज्ञे सुखमिति। 'प्राज्ञे सुखं समनुभूय समुत्थितः सन्सर्वोऽषि जन्तुरहमत्र सुखं यथा स्यात्'। तथा सुप् इत्यनुसदधानोऽस्य चिदात्मनः सौरयं सुखात्मतां निर्विषयानन्दस्वभाव- मवगच्छतीति संबन्धः। प्राज्े प्रज्ञाप्रधाने निर्विशेषचिदात्मनि सुषुप्त्यवस्थापन्ने सुखं स्वरू- पानन्दं समनुभय सम्यगव्यधानेन स्वप्रकाशस्वरूपचैतन्यात्मनाऽनुभूय प्रकाशमानाखण्डस्व- रूपसुखात्मना स्थितवेति यावत्, यद्यपि 'सति संपद्य न विदुः सति संपद्ामहे'[ छा० ६। ९ । २ ] इति श्रुतेस्तत्रा विद्यासद्ा वो ऽवगतस्तथानि तदानी तस्या विक्षेपाभावान्न सा स्वरूपसुखं भेत्तुमलमिति न व्यवधानकरत्वमिति द्रष्टव्यम्। ननु तत्रापि
१ क. ज्ञानाश्र। २ क. ज्ञानाश्र"।
Page 49
४० टीकाद्वुय समेतं-
जन्यसुखसंभवात्तदेवानुभूतं परामृश्येतेति कथमात्मनो यथोक्तमुखरू नत्वसिद्धि- रित्यत आह-सवेप्रकारविषयप्रतिपत्तिशून्य इति।प्राज्ञविशेषणमेतत्। सर्वप्रकाराः परोक्षापरोक्षार्थविषयकानुभवस्मृतिरूपाः प्रतिपत्तयो ज्ञानानि तैः शून्ये विषयज्ञानरहित इत्यर्थः । तथा च विषयज्ञानाभावे तज्जन्यस्य सुखस्यापि तत्राभाव इति परिशेषात्स्वरू- पसुखस्यैव तन्नानुभव इत्यर्थः । यद्वा सुखमत्र सुप्त इति दुःखाभावस्यैवायं परामर्शो न सुखस्येत्याशङ्कामपनुदन्प्राज्ञावस्थां विशिनष्टि-सर्वप्रकारेति। सर्वप्रकारो यो विषयो भावात्मकोSमावात्मकश् तस्य प्रतिपत्तिशून्य इत्यर्थः । विषयज्ञानवत्वे सुषुप्तित्वव्याघाता- दिति भावः। न च तदानींतनदुःखामाव इदानीमनुमीयते न पुनस्तत्रानुभूतस्य सुखस्य दुःखाभावस्य वाडयं परामर्श इति वाच्यं तद्नुमा[प]कलिङ्गानिरूपणादिति दिक् ॥ २३ ॥ सु० टी०-लिङ्गमपि दर्शयति- सवं यदर्थमिह वस्तु यदस्ति किंचि- त्पारार्थ्यमुज्झति च यन्निजसत्तयैव।। नद्वर्णयन्ति हि सुखं सुखलक्षणज्ञा- स्तत्प्रत्यगात्मनि समं सुखताऽस्य तस्मात् ५२४॥ सर्व.मेति। इह जगति यत्किंचिद्वस्त्वस्ति। अस्तीति द्वितीय मावविकार उच्यते। विक्रियमाणमनात्मजातमित्यर्थः । तत्स्वं यदर्थं सर्वाेक्षया यत्प्रधानमित्यर्थः। तत्मुखमिति तल्लक्षणविदो वर्णयन्तीति संबन्धः। ततश्ष। निजसत्तया सर्वानात्मशेषित्वं सुखत्वं सुखरूपपरिणामः। अतिव्याप्ति -! वारणाय निजेत्यादि। तस्य स्वरूपसुखाभिव्यअ्जकत्वेनैव सर्वशेषित्वं न निजसत्तथेति। सर्वशब्देन सुखस्यापि संग्रहेऽसंभवस्तद्वारणायानात्मेति। लक्षणान्तरमाह-पारा्थ्यमिति। यत्स्वरूपसत्तयाऽनन्यार्थमित्पर्थः । आन - न्ाद्धयेवेति पञ्चम्यानन्दस्य सृध्याद्यङ्गत्वात्। असंभववारणाय स्वरूपेत्यादि। अविद्याद्वारा ह्यानन्दः सृध्यङ्गेन स्वरूपेणेति । सुख- स्थानन्यार्थत्वं व प्रसिद्धम्। न हि सुखेन किंचित्क्ियते। न घतस्य क्वापि विनियोगोडस्ति। स एव हि परम उपकार: फलं च पुरुषार्थ- त्वादित्यत्र वृत्तेरेव भोकत्ङ्गत्वमुक्तमित्यविरोधः । लक्षणयोर्लक्ष्पनिष्ठता माह-तत्प्रत्यृगात्मनीति । तदस्य रूपं प्रतिचक्षणायेतिषठीचतुर्थीभ्यां ह्ैतस्याऽड्त्मनि विनियोगालंक्षणदयमपि पूर्णसुखे प्रत्यगात्मनि च
Page 50
संक्षेपशारीरकम्। ४१.
तुल्यमित्यर्थः 1आत्मा सुखस्वरूपः स्वसत्तया सर्वशेषित्वात्स्वतोऽन- न्यार्थत्वाद्ा यन्नैवं तन्नैवं यथा घटादीति व्यतिरेकी। आत्मसुखमेव हि धर्भजन्यसत्वपरिणामैर्नानात्वेनाभिव्यज्यमानं विषयसुखं न त्वन्यदिति नान्वयित्वाशङ्का॥ २४ ॥ अ० टी०-एवं सुखमस्वाप्समित्युत्थितश्य परामर्शान्यथानुपपत्तिसिद्ध: सौषुप्तानुभवः प्रत्यक्ष उक्तस्वरूपात्मनि प्रमाणं व्युत्पाद्य लिङ्गमित्युक्तमनुमानं च तत्रोपपाठ्यतिसर्व यद्र्थमिति। निरुपाधिकानुकूलवेद्यं हि लोके साक्षात्प्रियमिति प्रतिद्धम्। तच्च सुखमेव नान्यदन्यत्र तादर्श्येनैव प्रियत्वानुभवात्। तञ्च सुखं प्रत्यगात्मैव नान्यत्तयोरेकलक्षण- स्वात्। यतः सुखलक्षणज्ञा एवं सुखलक्षणं वर्णयन्ति। कथं, सर्व यज्ायापुत्रादि वस्तु प्रिथत्वेन लोके प्रसिद्धमिह व्यवहारभूमावस्ति यदर्ष यस्याभिव्यक्त्यर्थ सत्प्रियत्वेनाभि- मतं यत्पुरस्कारेण यत्प्रियत्वेन वाऽऽदीयत इत्यर्थः । तत्सुखमिति संबन्धः । एताव- त्युक्ते भृत्यभार्यादावतिव्याप्तिः। भृत्यादे: स्वव्याप्यं प्रति शेषत्वेऽवि स्वाम्यपेक्षया परा- र्थत्वात्।तदर्थमुक्त-यत्पाराथ्यमुज्झतीति। स्वयमन्याशेषत्वे सति सर्वान्यशेषितं सुखलक्षणभित्यर्थः । एवमपि स्वपुत्रावर्तिनि सुखेSतिव्यापतिः। तस्मिन्नपि पित्रा ज्ञायमान उक्तलक्षणसद्भ्ावादित्यत उक्ते-निजसत्तयैवेति। स्वसत्तामात्रेणैव पारा्थ्य त्यजति न स्वसत्तायां लेशेनाप्यन्यशेपतां भजत इत्यर्थः । पुत्रादिगतसुखस्य पुत्रादावुक्तलक्षण त्वेऽि पित्राद्यपेक्षया तत्सुखशेषत्वाद्युक्तं ततो व्यावृत्यर्थे विशेषणमिति। इदं यत्सुख लक्षणं तल्लक्षणज्ञा वद्न्ति तत्प्रत्यगात्मनि समम्। यतः प्रत्यगात्माऽपि यथोक्तसुख- लक्षणयोगी। न हि प्रत्यगात्मा कदाऽपि कस्यचिच्छेषो भवति भत्याद्यवस्थशरीरगत- स्यापि तस्य स्वरूपेण स्वाम्यादिशेषत्वाभावात्सर्वत्र प्रीतेश्च तदर्थत्वेन तच्छेषत्वात्। तथा च चिदात्मा सुखरूः सुखलक्षणयोगित्वात्सुखवदित्यनुमानमुक्त्तमित्यर्थः ॥२४॥ सु०टी०-लिङ्गान्तरमाह- प्रेमाऽनुपाधिरसुखात्मनि नोपलब्धः स प्रत्यगात्मनि कमेरपि नित्यसिद्धः । प्रेयःश्रुतेरपि ततः सुखतानुमानं नैयायिकोऽपि न दृगात्मनि निहनुवीत ॥ २५॥ प्रेमेति। आत्मा सुखस्वरूपो निरुपाधिप्रेमास्पदत्वान्न यदेवं न तदेवं पथा पुत्रादीति। प्रथमपादेन व्यतिरेकव्याप्तिमाह-असुखात्मनि सुता. दावात्मोपाधिक एव प्रेमेत्यर्थेः । पक्षधर्मत्वासिद्धिं परिहरति-स इति ।
Page 51
४२ टीका्वय समेतं-
स निरुपाधि: प्रेमा प्रत्यगात्मनि नित्यसि्ध एव क्ृमेरपीयमाशी: 'मा न भूवं भूयासम्' इत्यादिप्रसिद्धेः। अन्यथा तस्य दुःखपरिहा- राय पलायनं सुखाय च च्छायाद्युपसर्पणं न स्यात् ।'तदेतत्प्रेयः पुत्रात्'[बृहृ०१।४।८] इत्यादिश्ुत्याऽपि हेत्वसिद्धिः परिहृते. त्याह-प्रेय इति। आश्रयासिद्धिमुद्धरति-दगात्मनी ते । ततः प्रागुक्ताद्ध्े- तोर्हगात्मनि सुखत्वानुमानं नैयायिकोऽप्यसुखात्मवाद्यपि नापह्रोतुमल- मित्यर्थः । नन्वसिद्धविषयेच्छा भवति सिद्धे वाऽडत्मनि कथमिच्छा- त्मकप्रेमेति। मैवं न हि प्रेमात्मिकेच्छा साध्यविषया तस्या आशी- रूपाया: सि्धेऽपि दृष्टेः । किं तु स्वर्गो मे स्यादित्याद्यम्यर्थनीयफल- विषयैवेति न किंचिदेतत् ॥२५॥ अ० टी०-ननु सुखस्याSSमगुणत्वावगमादहं सुखीत्येष तदनुभवादहं सुखमित्यनु- मवामावाच् नाSSतमा सुखरूपोSतो डनुमानमनुभवबाितविषयमिति नैयायिकादयो मन्यन्ते। तान्प्रति बोधयन्नाSSत्मनः सुखरूपत्वे लिङ्गान्तरमाह-प्रेमाऽनुफाधिरिति। अनुपाधिः प्रेमा प्रीतिरसुखात्मनि सुखभिन्नस्वरूपेSचेतने नोपलब्धः केनापीति सुखस्य तावन्निरुपाधिकप्रेमा- स्पदत्वं प्रपिद्धम्। स प्रेमास्पद्भावः प्रत्यगात्मनि नित्यसिद्धो नित्यानुभवसिद्धः कृमेर- पीति वदन्नात्र विवाद: कस्यचिदिति दर्शयति। तस्याऽत्माSपि सुखरूप इत्यर्थः । न हि सुख स्वसत्तायां चैतन्यं व्यभिचरति येन द्रव्यमात्रस्य चेतनस्य गुणः स्यात्। न च चेतनया प्रकाश्यमानत्वात्तदव्यभिचारो न चेतनात्मकत्वादिति वाच्यं समानाश्रययो- रसमानकालयोः प्रकाश्यप्रकाशकभावानुपपत्तेः । न हि सुखचैतन्ययोराश्रयमेदोऽस्त्यणु- परिमाणमनःसंयोगविशिष्टात्ममात्रदेशत्वादुभयोः । तथा चैकेन मनःसंयोगेन जातं सुखमु स्पत्तित एव प्रकाशमानं स्वात्मचैतन्यव्याप्ं सत्प्रकाशते स्वयमेव वा प्रकाशत इति विवेके कारणाभावान्न सुखचैतन्यप्रकाश्यत्वनिश्चयः । तथा सुखचैतन्ययोमेदे सति कार्य- योस्तयोरेकस्मिन्नात्मनि यौगपद्यमवि न संभाव्यते मनःसंयोगरूपस्यासमवायिकारणस्य क्रममन्तरेण तत्र कार्यक्रमायोगात्। अन्यथा ज्ञानेच्छाप्रयत्नादीनामवि यौगपद्यापत्तेः। एवं सति भिन्नकालयोरनयोर्विनष्टाविनष्टयोन साक्षात्प्रकाश्यप्रकाशकभाव एकाश्रयत्वमात्रेण तद्भ्रावे त्वात्मगतघर्मादेः परिमाणस्यातीतज्ञानादेश्र प्रत्यक्षता युगपत्स्यादतो न चैतन्यभास्यं सुखमिति चैतन्यस्वरूपमेव तत्परिशेषात्सिद्धम्। चैतन्यं चाऽऽतमैव न तद्गुणश्चेतनभिन्नस्य जडत्वाजडस्य च घटादिव चेतनाश्नयत्वानुपपत्तेस्तस्मादात्मैव चैतन्यं चैतन्यमेव च सुखमिति सि- द्धम्।न च सुखचैतन्य योरुत्पत्तिविना शानुभवात्कथं नित्यात्मस्वरूपतेति शङ्क्यं बुदद्धिवृत्त्युपाधि-
१ क. °दिश्रुतेः ।
Page 52
संक्षेपशारीरकम्। ४३ तथा चायं प्रयोग :- आत्मा सुखरूप: परमप्रेमास्पदत्वाद्यनैवं तत्रैवं यथा घंटो नायं तथा तस्मान्न तथा किं तु सुखरूप एवेति। न च सुखत्यापि मम सुखमित्यात्मशेषत्वानुभवात्न परमप्रेमास्पदत्वमस्ति कुतस्तद्रूपत्वेनाSSत्मनस्तद्भाव इति वाच्यं सुखस्योपकारकत्वाभावा च्छेषत्वानुपपत्तेः । न ह्यनुपकारकं कस्यचिच्छेषो भवति। न ह्यात्मनि सुखाभिव्यक्ति- व्यतिरिक्तः कोऽप्युपकारो निरूपणपथमवतरति। तस्मान्मम सुखं सुख्यहमित्याद्यनुभवस्थो. क्तोपाधिनिबन्धनत्वादस्मिन्ननुमाने न कोऽपि दोष इत्युपसंहरति-ततः सुखतानुमा- नमिति। यत एवमतो दृगात्मनि चित्स्वरूपे प्रत्यगात्मनि सुखतानुमानं नैयायिकोS- प्यनुमानतर्कशास्त्रनिष्णातोऽपि न निह्नुवीत नापलपेदित्यर्थः । अपिशब्दात्सांख्यादिभिर स्यापह्ववप्रसङ्गो दुरापास्त इति द्योत्यते। एवं लिङ्गशब्दोदितमनुमानमुपपाद्य वचनशब्दनि- दिष्टं श्रतिवाक्यमुदाहरति-प्रेथःश्रुतेरपीति। 'तदेतत्प्रेयः पुत्रात्ंप्रयो वित्तात्प्रेयोS- न्यस्मात्सर्वस्मादन्तरतरं यद्यमात्मा। स योऽन्यमात्मनः प्रिय त्रुवाणं ब्रयात्प्रियं रोत्स्य- तीति ' [वृ० १।४।८]' आत्मनस्तु कामाय सवे प्रिय भत्रति'[ बृ० २। ४।५] ' विज्ञानमानन्दं ब्रह्म '[ बृ० ३। ९।२८] 'आनन्दा ब्रह्मेति व्यजा नात्' [तै० ३ । ६।१ ] इत्यादिश्रुतेरपि परमानन्दरूप एवाऽडत्मा निश्चीयत इत्यर्थः । तथा च सुखचैतन्यसततानां मिथो भेदानिरूपणात्सच्चिदानन्दरूपोऽशेषविशेषहीन आत्मा कूट- स्थनित्य उक्त्ैः प्रमाणैः सिद्ध इति तस्मिस्तद्विपरीताकारावभासोSविद्याविलसित इति सिद्धम् ॥ २५ ॥ सु० टी०-वचनान्यर्थमुखेनोदाहरति- आनन्दविग्रहमपास्तसमस्तदुःखं वस्तुस्वभावपरिकल्पितसर्वभेदम् । आत्मानमध्ययनविध्यनुसारिणस्तं प्रत्यक्षतः श्रुतिशिरःसु समामनन्ति ॥ २६ ॥ आनन्देति। नित्यस्वाध्यायविधिमनुसरन्तो ब्रह्मविद उपनिषत्स्वो- त्मानमानन्दादिरूपमामनन्ति 'विज्ञानमानन्दं बह्म'[ बृह० ३।९। २८] 'अमयं वै ब्रह्म '[बृ० ४।४। २५ ] इत्यादिना । ननु
अपास्तं दूरीकृतमध्यात्मादिभेदृभिन्नं दुःखं येन 'नैनं कृताकृते
१ क. रिवर्जित ।२ क. ग.त्स्वात्मन आन ।
Page 53
४४ रीकाहूय समेतं-
तपतः'[बृह० ४।४।६२] शोकं मोहं जरां मृत्युमत्येति [बृह० ३।५।१] इत्यादिश्ुतेः। ततश्र राजसवुद्ध्युपाधेरेव तद्दु :- खमिति माव:। तथाऽपि द्वैतस्य प्रत्यक्षत्वात्सति च तस्मिन्दुःखस्या- वर्ननीयत्वात् द्वितीयाद्वै भयं मवति' [ वृह० १।४। २] इति भ्रुतेः कथं निर्दुःखत्ञेत्याशङ्क्याSSह-वस्तिविति। वस्तुनः स्वमावः कूट- स्थासङ्गाद्वितीय चिन्मात्रता तेन हेतुना परिकल्पितोऽध्यस्तः परिवर्जि तैति पाठे निषिद्धः सर्वो भेदो जीवत्वादिद्वैतं यत्र 'नेह नाताड़स्ति' [बृह० ४।४॥१९ ] इति श्रुतेः ॥२६॥ अ०टी०-एवमुपपादितेऽरयें विद्वदनुभवमप्यनुकूलयति-आनन्दविग्रहमिति। यद्वा यद्येवंलक्षण एव वस्तुत आत्मा ता्ह स स्वरूपेण नित्यं भासमानोऽपि कस्मात्सर्वेंषां तथा नावभासत इत्यत आह-आनन्दविग्रहमिति। अपास्तसमस्तदुःखमित्यनृतजाड्या- दयनात्मधर्मानास्कन्दितमित्यर्थः । अध्ययनविधिशब्देन विधिवदधीतो वेदो लक्ष्यते। वेदानुसारिणस्तदर्थविचारपरा इति यावत्। ते श्रुतिशिरःसु तात्पर्येण लोच्यमानासूपनिषत्स प्रत्यक्षतोऽपरोक्षत एवाSडत्मानं समामनन्ति सम्यरजानन्त्यनुमवन्ति तद्यथार्थता कथयन्तीति वा। अत्र औपनिषज्ज्ञानमन्तरेणाSSत्मयाथास्म्यं सर्वेषां न मासत इस्यभिप्रायः ॥२६॥ सु० टी०-नत्वहमित्यहंकारामेदप्रतीतेः कथमुक्तरूप आत्मा न चाहंकार आत्मन्यध्यस्तो मानाभावात्प्रत्युत परमपेमास्पदत्वादितत्निक्षः तथैवोपलस्यत इति स एवाSऽतमेत्याशड्क्याSडह- अध्यस्तमल्पवपुरस्य न वास्तवं त- त्प्रत्यक्पराग्द्यमिद हि परस्परस्मिन्। अध्यस्ततां प्रति समर्थमबोधमात्र- मन्योन्यरूपमिथुनीकरणे निमित्तम् ॥२७। अध्यस्तमिति। तत्तस्मादुक्तकात्मस्वरुपविपररीतत्वादस्य प्रतीचो भूम- रुपस्यात्पवपुरहमिति साभासान्त:करणाद्यात्मकं परिच्छिन्नं रुपम- धयस्तमनृतमेव दश्यत्वात्परत्र परावभासत्वाच्चेत्यर्थः । सत्वमेमारप- दत्बादेश्ववाघिष्ठानात्मगतस्यैव तत्रानुमव इति भावः। नन्वध्यस्त्रमपि
2 क: ग. "परममे"
Page 54
संक्षेपशारीरकम्। ४५ 1
शुक्तिरजतादि सत्यमेवेत्यत्राSSह-न वास्तवमिति। उक्तरीत्यां सस्यानि- रवचनीयत्वसाधनादित्यर्थः। नन्वधिष्ठानाध्यस्यमानांशद्योलेखित्वं भ्रमस्य दष्टमहमिति. प्रत्ययस्त्वेकरूपो दष्टमात्रविषयः कथमध्यास इत्याशड्क्याSSह-प्रत्यक्परागिति। अहमनुभवेऽपि निपुणं निरूप्यमाणे हग्हश्यात्मना प्रत्यगंशः परागंशश्र मासते । तस्य चेदमनिदरूपस्य तप्ायःपिण्डवद्विरुद्धोमयरूपत्वाद्ध्यासं विनैकत्वबोधासंभवात् । एतदुमरयं परस्परस्मिन्परस्परात्मत्वेनाध्यस्तता प्रति योग्यमित्यर्थः । मनु प्रत्यक्पराचीः साहश्याभावाद्विशुद्धे चाऽडत्मनि दोषस्या्यसंमवा- दारोप्यस्य च पूर्वमननुभवैन संस्काराभावात्कथं परस्पराध्यास इत्यत आह-अबोधमात्रमिति। स्फुरतोऽपि तत्वानवबोधः सर्वत्राध्यासपुष्कलका- रणं स चाऽडत्मन्यनुमवसिद्धश्रवेत्काऽत्र विसामग्रीत्यर्थः । अन्योन्येति। अन्योन्यार्थाध्यासे मिथुनीकरणे चेत्यर्थः। प्रत्यक्परागूप ह्यन्योन्यात्मक- मन्योन्यधर्मवच्चाध्यस्त तस्य मिथुनीकरणं नाम ज्ञानाध्यासस्तदुमया- वच्छिन्नमेकं ज्ञानमिति यावत्। असंसर्गाग्रहनिबन्धनत्वानभ्युपगम- दित्युमयत्राज्ञानमेव निमित्तमिति माव:। ततश्र प्रत्यगज्ञानमेव बुद्धूया- द्यात्मना तदुमयोपरक्तज्ञानात्मना च परिणममानमहमिति साक्षिवि- षयः। तदुक्तमविद्यैव बाह्यदोषापेक्षया रजताकारेण साक्षिचैतन्यस्य रजतावच्छेदज्ञानामासाकरेण च परिणममाना स्वकार्येण सह साक्षिविषयत्वमापद्यत इति । अयमर्थ :- दुष्टेन्द्रियस्य शुक्तिसंनिकर्षा- दिदमिति प्रमाणवृत्तिर्भवति। तत्प्रतिफ लित शुक्त्यवच्छिन्न चैतन्य निष्ठशु- क्ित्वाज्ञानं रागसस्कारादिसचिवं शुक्त्या सह मिथ्यातादात्म्यापन्न- रजतात्ममा परिणमते। इदमाकारवृत्त्यवच्छिन्नचित्निष्ठशुक्तिविषयत्वा- ज्ञानं तु ज्ञानसंस्कारसहकृतं साक्षिरजतसंबन्धापादकरजतज्ञानात्मना। तज्च जडत्वान्न स्वविषयसाधकमिति सविलासाज्ञानं साक्षिविषय इति। अन्र केचित् किं रजतज्ञानात्मकाविद्यावृत्त्या तथा विनाऽपीदमाकार- वृत्त्यमिव्यक्तसाक्षिणैव रजतप्रतिमासोपपत्तेः । अध्यस्तरजतादेः प्रमा- गागम्यत्वेनाSSवरणरहितत्वादावरणाभिभवार्थं चिदुपेकारार्थ वा वृत्ते- रन्यत्र स्वीकारात। अत एव ज्ञानसुखादी न वृत्त्यन्तरमुपेयते तेषामनावृ- तचैतन्याध्यस्तत्वादेव मानसंभवादत्यथावृत्तावपि वृत्यन्तरापेक्षायामन-
१ क. 'सतइ। २ ख, "परागार्थ ।
Page 55
४६ टीका द्य समेतं-
वस्थापत्तेः। नापि संस्कारार्था वृत्तिः, रजतविशिष्टचिन्नाशेनैव सुखादा- विव तज्जननात्। न चार्थनाशजसंस्कारस्य स्मृत्यहेतुत्वादवृत्तिसिद्धि: सुखादावेव तत्कल्पनाद्वृत्त्यन्तरापेक्षया धर्मकल्पनामात्रत्वेन लघुत्वाच्च। न च ज्ञानसंस्कारस्यारथीहेतुत्वमन्वयव्य तिरेकाभ्यामिहैव तत्कल्पनात्। अत एव प्रातीतिकं रजतं दोपादेरप्यावश्यकरजतोत्पादेनैवार्थवत्वमिति वद्न्ति। अत्रोच्यते-अनावृतचैतन्याध्यस्ततामात्रस्य जडमान- प्रयोजकत्वेऽनुमेयवह्वचादेरभानापत्तिस्तत्र विषयगतावरणभङ्गानङ्गीका- रात्। कथं तरहि तत्र वह्निमानमनुमारूपवृत्त्याऽन्तःकरणावच्छेदेन वह्नि- विषयकाज्ञानापसारणात्। वह्निमहं न जानामीत्यनुभवेन वह्नावात्मनि चाज्ञानसाधनात्तदन्यतरापसारणस्य च वहनिव्यवहारहेतुत्वमिति वक्ष्पते। ततश्र तदाकारवृत्तिविषयत्वमेवास्वच्छतामसेषु मानप्रयोजकमास्थेयम्। स्वच्छान्त:करणसुखादिमाने च वृत्तिं विनाऽपि तदाकारत्वसंभवाच्चि- त्प्रतिबिम्बाश्रयत्वमपीति जडप्रतिमासे दय्येव गतिः । चैतन्यं हि यदा- कारवृत्ती प्रतिबिम्बते तन्भासयति प्रतिबिम्बाश्रयं च वृत्त्यादिकं तथा दर्श- नातू। न च क्वचिद्वृत्ति: क्वचित्प्रतिबिम्बाश्रयत्वं तन्त्रमित्यननुगमः।सर्व- जडप्रतिभासानुगत्वं हि चैतन्याकारत्वमेव प्रयोजकं बूमः । चैतन्यं यदा- कारं भवति तत्पतिभासत इत्यर्थः। चैतन्यस्य च तदाकारत्वं न स्वतोऽ सङ्गत्वालिकिंतु क्वचित्प्रतिबिम्बात्क्कचित्तदाकारवृत्तिसंबन्धादि (#त्यन्य- देतत्। तत्र स्वच्छान्त:करणतद्दर्मेषु प्रतिबिम्बादस्वच्छतामसेषु तु तदा कारवृत्तिसंबन्धा)देवेति कुतो रजताकारवृत्तिं विना तन्भ्भानम्। नचाध्यस्त- रजतस्यास्वच्छतामसस्य चित्पतिबिम्बाश्रयत्वमभ्युपगन्तुं युक्तमस्वच्छ- रजतसंस्कारसंस्कृताविद्यारब्धत्वेनास्वच्छत्वादिति सिद्धाSविद्यावृत्तिः। ननु परोक्षे तदाकारवृत्तिरपरोक्षे त्वनावृतचिदृध्यस्तत्वं तन्त्रमस्तु । मैवं सामान्यसामग्रीं विना विशेषसाम्या अहेतुत्वेन तत्राप्य- स्वच्छतामसमात्रमानहेतुवृत्तिविषयत्वस्यापरिहार्यत्वात्। किंच रजतस्य विषयावच्छिन्नसाक्षिमास्यत्वेऽहं रजतवानिति प्रतीतिः स्थान्न त्वहं रजत- ज्ञानवानिति। किंच त्वन्मतेऽर्थसंस्कारस्य स्मृतिहेतुत्वं ज्ञानसामधर्या अर्थहतुत्वं चावलप्तं कल्प्यमिति गौरवम्। प्रातीतिकत्वं च प्रतीतिकाला- वयकालासत्वं नतु प्रतीतिजन्यत्वं संस्कारादेरपि प्रातीतिकत्वापतेः।
- धनुश्विह्वित ग्रन्थः क. पुस्तके नास्ति।
Page 56
संक्षेपशारीरक्म्। ४७
न च साक्षिकालान्यकाल: संभवतीत्यविद्यावृत्तिरेव तत्प्रतीतिः । ननु
विशिष्टविषयं वृ्त्त्यन्तरं प्रवर्तकं कल्प्यमिति गौरवमिति चेन्नैकावच्छिन्न- जलदूर्पण योरेकमुख प्रतिबिम्बव देकावच्छिन्न सत्य मिथ्यावस्तुद्वयेऽप्येकचि- तिबिम्बाभ्युपगमेन शुक्त्यभेदापन्नरजतस्फुरणस्य फलस्यैकत्वात्प्रवृत्त्युप- पत्तेरिति संक्षेपः ॥ २७ ॥।
अ०टी०-तस्मादात्मनो यथोक्तप्रत्यक्षा नुमानागमविद्वद नुभव सिद्धस्वरूपाद्विपरीताकाराव- भास: सर्वोऽपि तस्मिन्नज्ञानेनाध्यस्त एव न वास्तव इति सिद्धा शास्त्रादेर्विषयप्रयोजनसंभावने- त्युपसंहरति-अध्यस्तमिति। यदिदमल्पवपुर्जीवेश्वरजगल्लक्षणमस्य चिदात्मनस्तन्न वास्तवं कि त्वष्यस्तमाविद्यकमित्यर्थः । एतदुक्तं भवति-प्रत्यगात्मा ह्यनाद्यनिरवचनीययाSविद- याSSवृतनिजतत्त्व: प्रथमं तद्विवर्तेषु बुद्धयादिदेहान्तपदार्थष्वहमित्यभिमानवाञ्जायते सोऽय- महंकाराध्यासः। तेनायं बुद्धयादिभिस्तद्धमैश्राविविक्तमात्मानं मन्यमानो जीवोऽहं संसा- रीति मन्यते। ततो देहबाह्यं स्वाविद्याप्रत्युपस्थापितं कार्यकारणात्मना भोक्तृमो- ग्यात्मना नियन्तुनियम्यरूपेणेशितव्येश्वररूपेण च कल्पयन्निदभित्यात्मनः पृथक्तेना- ध्यस्यति। तत इदमेव भासगृहीते तस्मिल्छोभनाशोभनाध्यासपूर्वकं ममेदमनुकूलं प्रति- कूलमित्यादिप्रकारमनुभवति। एवमहमध्यासपूर्वकः सर्वो व्यवहारोऽध्यस्त एवा. स्याऽडत्मनो न तात्विक इति। ननु कथमहमित्यनुभवोऽध्यासात्मको द्याकारावभासाभा- वादहमित्येकरसात्ममात्रप्रतिभासादध्यासत्वे त्विदं रजतमितिवद्वैरूप्यानुभवो भवेत्तदभावात्रा- यमध्यास एतस्याध्यासत्वासतिद्धावेतत्पूर्वस्य बाह्यावमासस्यानध्यासत्वसिद्धिरिति चेत्तत्रा SSह- प्रत्यक्परान्द्वयमिदं हीति। हि यस्मादिदमात्मनोऽहमित्यवभासमानं वपुः प्रत्यकूप राग्रूपेण द्वयं व्याकारमेव विवेकिनां भातीत्यक्षरार्थः। आत्मन: स्वसत्तायां प्रकाशमानत्वं तावद्व्यभिचररितमन्यथा तस्मिन्संदेहविवर्ययाज्ञानानामपि प्रसङ्गात्। न ह्यात्मसत्तायां कस्यचित्कढाचित्संदेहादि संभवाते संदेहादेरसाक्षिकत्वायोगात्तत्साक्षिण एवाऽडत्मत्वात्त- स्थानवभासे संदेहादेरेवासिद्धे: स्वतःप्रकाशमान एव सर्वदाSSत्मेति स्थितेः । आत्मन्यवभा- समानेऽवि सुषुप्त्यादावहमवभासव्यभिचारादागन्तुक आत्मन्यहमवभासोऽन्योपरागनिबन्ध- न इति निश्चीयते। ततश्राSSगमापायवत्त्वादहंकारो नाऽडत्मा तद्वधितया तदधिष्ठानतया चानुगतः सद्ूप आत्मा। एवमहंकार आत्मान्यत्वे सत्यन्यावभास्यस्तद्वभासकतया तस्मिन्स्फुरणरूपेणानुगत आत्मा तथा कर्तृत्वभोक्तृत्वप्रमातृत्वादिविक्कियावानहंकारस्तद्द्रष्टा चाऽडत्मेति। तदेवं द्रष्टदृश्यभावेन साक्ष्यसाक्षिभावेनाSSगमापायितदवधित्वेन चाऽडत्माहं.
१ क, ग. 'तिभावाभ्यु"।
Page 57
४८ टीकाद्वयसमेतं-
कारयोर्षिवके संति विरुद्धस्वमावयोस्तयोरेकत्वावमासो Sन्योन्याध्यांस निबन्धनशुक्तीदमंशरज- तमोरिवेत्यभिप्रायः। यत एवं विरुद्धस्वभावयोरध्यासं विनैकत्वावभासासंभवः। इद द्वयं युष्मदस्मत्प्रत्य यगोचरात्मकमात्माहंकाररूपं पर स्परस्मिन्नन्योन्यस्मिन्नध्यस्ततां प्रति मिथ्या ज्ञानगोचरत्वं प्रति समर्थ योग्यं जडस्याहंकारस्य सच्चिदात्मनि तादात्म्याध्यालाभावे सत्तास्फूर्त्योरसंभवाचिदात्मनश्च कूटस्थस्याहंकारे तथाध्यासामावे कर्तृत्वादिविकारवत्त्वाव- मासायोगात्परस्परस्मिन्नध्यस्तमित्यर्थः। अन्यतरस्मिन्नन्याध्यासपक्षेSनात्मन आत्मैक्या- ध्यासे तस्य विषयत्वेनावभासो न स्यादात्मनश्चानात्मात्ममाऽप्यासे तस्यापि जडत्वापसौ जगदान्ध्यप्रसङ्गः । इतरेतराध्यासे तूभयोरप्युभयात्मनाऽवभासान्नोक्तदोषप्रसङ्ग इति भावः । अत्र शून्यत्वापत्तिप्रसङ्गं स्वयमेवाग्रेऽपाकरिष्यति। ननु सादृश्यादिदो- षाध्यस्यमानविषयानुभवसंस्कारािष्ठानसंप्रयोगरूपकारणत्रयं विना कथमांत्मानात्मनोरध्यास इत्यत आह-अबोधमात्रमन्योन्यरूपमिथुनीकरणे निमित्तमिति। अज्ञान- मेवाSडस्मानात्माध्यासे निमित्तं पुष्कलं कारणं न सादृश्यादि तत्रापेक्षणीयमित्यर्थः ॥२७॥ सु० टी०-साहश्यज्ञानादेरध्यासहेतुत्वं व्यभिचारेण निरस्यति- सादृश्यधीप्रभृति न त्रितयं निमित्त- मध्यासभूमिषु जगत्यनुगच्छतीदम् । ब्राह्मण्यजातिपरिकल्पनमात्मनीष्टं जात्या न साम्यमुपलब्धमिहास्ति किंचित्॥२८॥ सादृश्यधीति। सर्वाध्यासाननुगतत्वान्न हेतुत्वाभिमतमेतत्चितयं साद्ठ- इयधीदोषसंस्कारात्मक्मध्यासनिमित्तमित्यर्थः । साहृश्यधियो व्यभि- चारस्थानमाह-ब्राह्मण्येति। ब्राह्मणोऽहमिति जात्यध्यास आत्मनि सर्वैरिष्यते। अन्यथा 'ब्ाह्मणो यजेत' 'ब्ाह्मणो न हन्तव्यः' इति विधिनिषेधव्यवस्थानुपपत्तेस्तत्र च न सादृश्यमस्तीत्यंर्थः । ननु सोऽपि त्रितय निमित्तोऽध्यासत्वादिति नेत्याह-जात्येति। आत्मनि हि जात्या साहृश्यमनुपलन्धिबाधितं द्योरपि गुणक्रियावयवशून्यत्वात् 'न तस्य प्रतिमा'[श्वेता० ४। १९] इति श्रुतेश्चेत्यर्थः । ततश्र रजताद्यध्या- सेष्वार्थिकं तञ्रयं न त्वध्यासमात्राङ्गमिति मावः ॥ २८॥ अ० टी०-ननु सादृश्यदर्शनादेरप्यध्यासकारणस्य लोकेऽन्वयव्यतिरेकाम्यामव-
बसंसकारादि यत्रितयमध्यासनिमितं प्रसिद्धमस्ति तदिदं जगत्यध्यासभूमिषु सर्वत्र नानुग -..
Page 58
संक्षेपशारीरकमू। ४३
च्छंति न व्याप्रोतीत्यर्थः। तत्र सादृश्यधियो व्यमिचारस्थलमाह-ब्राह्मण्यजातीति। अहं ब्राह्मण इत्यहमवभासे प्रत्यगात्मनि ब्राह्मण्यजात्यध्यास आस्तिकैरिष्टस्तत्राSSतमनो जात्या न केनाप्यंशेन किंचित्साम्यमुपल्धमिह व्यवहारभूमावसीति योजना २८ ।। सु० टी०-नन्वत्रापि प्रमेयत्वादिना साहश्यमस्तीत्याशङ्क्य न
न चैतयोस्तदस्तीत्याह- भूय स्त्व वत्तनुगुणावयव क्रियाणां
सादृश्यवस्तु न चिदात्मनि किंचिदत्र जात्यादिभिः सह निरीक्षितमस्ति तादकू ॥ २९।। भूयस्त्ववदिति। इह गोगवयादावभियुक्ततजैमिन्यािभि: सामान्यपूगा-
भूयस्त्ववतीनां गवादितनुगतगुणावयवक्रियाणामिति। नन्विति पाठे गुणादीना भूयस्त्वं सादृश्यवस्तक्तमिति स्वार्थे वतिर्व्याख्येयः। गुणानां शुककृत्व- दीर्घत्वादीनि सामान्यानि, अवयवानां पादपृष्ठत्वादीनि, क्रियाणां गमनभक्षणचर्वणत्वादीनि तेषां समूह एव वपुर्यस्य। ननु 'आकाश- वत्सवंगतश्च नित्यः' इति वैदिक प्रयोगादृध्यासानुपपत्या चाऽडतमन्यपि किंचित्साद्ृश्यं कल्प्यमित्याह-नेति। अत्र चिन्मान्रात्मनि तादृगपि सादृशयं न किंचिदृस्तीत्यर्थः। न च नित्यत्वसर्वगतत्वाद्यवि जातिसा दृश्यमनुवृत्तकारणात्मिकाया जातेरनित्यत्वाज्जात्यवृत्तित्वेनासर्वगतत्वा- च्चेति माव: ॥ २९॥ अ० टी०-कथं जात्यात्मनो: सादश्याभाव इत्यपेक्षायामभियुक्तप्रसिद्धसादृश्यलक्षण- माह-भूयस्त्ववन्नन्विति। ननुशन्दः खल्थे। गुणानां रूपादीनामवयवानामङ्गसंस्था- नविशेषाणां क्रियाणां मत्यादीनां वा भूयस्त्वं विद्यते यत्र तददूयस्त्वव [द्]सतवेव तत्सामान्यपूग- चपुः संर्वसामान्यस्वरूपमितीह व्यवहारभूमावभियु क्त्तः प्रामाणिक विद्धद्भ्िरुक्तमिति योजना। अत्रोदाहरणानि-अग्निज्वालावत्पिङ्गल इति रूपतो गोसदशो गवय इत्यवयवतो मजगा- मीति क्रियात इत्यादि। अय वाऽत्र भूयस्त्वविति बतिप्रयोग: स्वारयें द्रष्टव्यः।
१ ख. बजनु । २ क, ग. न्मावरेचात्म"।
Page 59
५२ टीका टय समेतं-
नसंज्ञा प्रसिद्धा। अधितिष्ठति ह्येनें सकार्यो मोह इति।स च नाध्यस्तः। अतोऽयमस्थानेऽविषये शून्यत्वापादनभ्रम इत्यर्थः, । ननु यदाधारमा- रोप्यं मासते तद्धिष्ठानं तच्ञाSSरोप्येडध्यस्तमेवान्यथा परस्पराध्यासी न स्यादित्याशङ्क्याSSह-नाSSघार इति। अध्यस्तस्याSडधारत्वेन मास- माने शुक्तीदमंशे नाधिष्ठानगोरित्यर्थः। किंच शबले संमूष्टतयाऽध्यस्तोङ विष्ठानांश आधारस्तदुक्तमतट्रपोऽपि. तादूप्येणाSSरोप्यबुद्धी स्फुरन्ना- धार इति। न चासावधिष्ठानीभवितुमहति परस्पराश्रयाद्घिष्ठाने सत्य- ध्यासोऽध्यासे सत्यधिष्ठानामतीति भावः।यद्वाऽन्योन्याध्यासे निरास्पद सच्छन्य जगत्स्यादिति तर्केण केषाचिद्वादिनं जेतुं महानयं संभ्रम उत्साहोडस्थाने न युक्त इत्यर्थः । संभ्रमे हेतुमाहमहतामिति । अनूनम- ज्ञानं येषां तेषां मध्ये महतां शून्यवादिनां निर्बन्ध: परमतखण्डने श्द्धातिशयः। यद्दा निरास्पद्मिदं चौद निरविषयमित्यर्थः॥३॥ अ० टी०-परस्पराध्यासे निरधिष्ठानत्वेन शून्यवादप्रसङ्ग इति यच्चोद्यमिह कैश्चि- दुद्भाव्यते तत्परिहरति-संसिद्धेति। अयमर्थ :- अज्ञाते बस्तुनि विपरीतावभासो भ्रम इति स्वविवादम्। तत्राज्ञानं म जडाश्रितमित्यमे वक्ष्यते। तथा च सर्वेषु भ्रमेषु हश्य- मोनविषयस्याज्ञातं चिदात्मतत्त्वमेवाधिष्ठानम्। तच् क्वचिद् विद्यामात्रव्यवहित क्वचिद््याव- हारिकविषयानषङ्गितया तत्तद्विपयाकारतामापन्नमिति स्थितिः। आधारस्तु समारोप्य- विषयस्य यत्समानाधिकृततयाऽवभासः स उच्यते यथेदमाकरिक्येण रनतस्फुरणम्। तथा च भ्रान्तिविषयभेदेन भ्रान्तौ भासमानाकारतया पुरोवर्तिवस्त्वाधारस्तदेव आ्रान्तावन वमासमानशुक्त्यादिविशेषाकारामेदेनाघिष्टानमुच्यते। अत्रोभयत्रेदमाकारः साधारणः ।स एव सन्मात्रं ब्रह्म चिदात्मरूपम्। तदेवाविद्यावृतं व्यावहारिकशुत्तया दिवि रोषवेषेणाधिष्ठान- मध्यस्यमानरज्तादितादात्म्थेन वेषेणाSडघार इत्यधिष्ठानाधारयोमेंदाह्वाध्यारोप्या मेदेन गृह्यमाणाकारस्याSडघारांशस्य मिथ्याधिष्ठानांशस्य बाघाभावात्तस्य बाघोत्तर कालमवशशि्य माणत्वान्न शुन्यावशेषचाद्यावसर इति। एषाऽक्षरयोजना-सविलासमोहविषये सकार्या- ज्ञानावृत्ते वस्तुनि चिदात्मन्यध्यसनस्याध्यासस्याधिष्ठानगीरविष्ठानतवप्रसिद्धि: संसिद्ध सम्यग्युक्त्यालोचनतः सिद्धा नाऽडघार आरोप्यावशुक्ठितया प्रतीयमानाकारे वस्तुनि। तत एवंसतीदं जमदन्योन्याध्यसने सति निरास्पदं निरधिष्ठानं सच्छून्यं स्वादिति केषां- चिदस्थानेऽनक्सरे महान्संभ्रम आर्भटी जायते। कुत इत्यत्र निमित्तमाह-निर्बन्ध- मात्राश्रयादिति । निर्बन्ध आग्रहस्तन्मात्रवमुदित्यर्थः । तेषां निबन्धकरणे हेतुं ताद्वि-
१क. म.नं कार्ये मो० २ क. नमित्य ।२ क. ग. "मिति भा"।
Page 60
संक्षेपशारीरकम्। ५३
शेषणेनाSSह-अनूनतमसामिति। अनल्पतमसाम विवेकिनामित्यर्थः । महतामिति। 'तेषामुपहासार्थ विशेषणम्। एवमधिष्ठानाधारभेदस्य युक्त्यनुभवसिद्धत्वेपि तमनालोच्याSS- ग्रहं कुर्वन्तो महान्त इत्यर्थः ॥ ३१ ॥
ध्यस्तस्यान्याधारत्वायोगादतः कथमुक्तरीत्या शून्यतोद्धार इत्याश्-
अधिष्ठानमाधारमान्रं यदि स्या- त्पसज्येत सत्यं तदा चोधमेतत्। न चैतत्सकार्यस्य मोहस्य वस्तु- न्यधिष्ठानगीर्गोचरे लोकसिद्धा ॥ ३२ ॥ अधि)ष्ानमिति। यन्निष्ठतया मिथ्यारजतादि मासते सोऽिष्ठानसामान्यांश आधार इत्युक्तं तन्मात्रमेव चेदधिष्ठानं स्यात्सत्यं शून्यता प्रसज्वेत नतु तथेत्यर्थः । यतः सकार्यमोहघिषये विशेषांश एवाधिष्ठानगीलोकसिद्धा। तद्वोधादेव हि भ्रमो निवर्तते। तेन 'य एव लौकिकाः' इति न्यायेन तथव शास्त्रेऽपीति नोक्तदोष इत्यर्थः । न चाऽडश्रयत्वविषयत्वेत्या- द्यग्रिमविरोधः । तस्य प्रतिबिम्बभूतवस्त्वभिप्रायत्वात्। आमासपक्षे ह्याधाराधिष्ठानयोर्भेदः । अत्र केचित्-'अध्यस्तमेव हि' इति न्यायान्भ्मविषय इदमंशः सत्येदमंशास्द्धिन्नः।स चाविद्यावृत्तिगोचरो बाध्यः। शुक्तीदमंशस्तु प्रमाणवृत्तिगोचरो न बाध्यः। न चेदंत्वाद्वयवि-
नचाविद्यावृत्त्या 'शुक्तीदत्वाभेदेनैव रजतं बोध्यतां कि मिथ्येदंतयेति वाच्यं प्रमाणवृत्त्यविद्यावृत्त्योविरुद्धयोरेकत्र कार्येडप्रवृत्तेः । न चावि- द्यावृत्तेनदंत्वं विषयो रजतप्रतीतिरिदमि प्रथत इत्यादिविरोधादिति वद्न्ति। तन्न। उक्तरीत्या शुक्तीदंतासंसगाध्यासेनैवेदं रजतमित्यध्या सोपपत्तौ मिथ्येदंत्वकल्पने मानाभावाद्वौरवाक्किंचेत्युत्तरश्लोकविरो- धाच्च। अध्यस्तमेव हीति तु स्वरूपेण संसृष्टतया वाऽध्यस्तमेव भ्रमवि- षय इत्यर्थः । प्रमाणवृत्त्य विद्यावृत्त्योश्रैकस्फुरणेनैककार्यत्वस्थोपपादि-
- धनुचिह्नितग्रन्थः ख. पुस्तकरथः।
१ क. ग. र्यसाध्यस्तथान्याधारष्ठा।
Page 61
५४ टीकाद्वय समेतं-
[त]खात्। चित्सुखाचार्यैरपीदंतासंसर्गोडप्यनिर्वचनीय इत्युक्तं नेदं- त्वमिति दिक् ॥ ३२ ॥ अ० टी०-ननु कथमधिष्ठानाधारयोरित्थं भेदकलनं यतो लोके यदवच्छेदेनाSडरो- प्यावभासस्तदेव वस्त्वधिष्ठानमिति चाऽडघार इति च प्रसिद्धमित्यत आह-अधिष्ठान- माधारमात्रमिति। पूर्वार्धर्थः स्पष्टः । न चैतत्। अधिष्ठानमाधारमात्रं न भवतीत्यर्थः। तर्हि किं तदित्यत आह-सकार्यस्थेति। सविलासाज्ञानस्य गोचरे विषये तेनाSSवृते वस्तुन्यधिष्ठानगीलोकसिद्धा विवेकिजनप्रसिद्धेत्यर्थः । विवेकिनो हि भ्रमकालेऽध्यस्य-
वगच्छन्तीति भावः । तदेवमिष्ठानाधारयोराकारभेदेनाSघाराकारस्य मिथ्यातवेऽप्यिष्ठा नाकारस्य सत्यत्वात्र शन्यताशङ्कावकाश इत्युक्तम् ॥ ३२ ॥ सु० टी०-इदानीमाधारावट्टम्भेनापि सत्यानृतमिथुनीकरणतया
किं चानृतद्वयमिहाध्यसितव्यमिष्टं स्याच्चेन्तदा भवति चोयमिदं त्वदीयम्। सत्यानृतात्मकभिदं मिथुनं मिथश्रे- दध्यस्यते किमिति शून्यकथापसङ्ग: ।।३३॥ कि चेति। इहान्योन्याध्यासे यद्यनृतद्वयमेव परस्परात्मतयाऽध्यसित- व्यमिष्टं स्यात्तदा शून्यता प्रसज्येत द्वयोरपि बाध्यत्वात् ।न चैवं कि तु सत्यं प्रत्यगनृतं परागर्थ: स्वरूपतोऽप्यध्यस्तत्वात्तपोर्मिथोऽर्धेयासश्े- त्प्रतीच: पराक्संसृष्टत्वाकारेण बाध्यत्वेऽपि स्वरूपेण सत्यत्वात्न शून्यत्व. प्रसङ्ग इत्यर्थः ॥ ३३ ॥ अ० टी०-इदानीमधिष्ठानाधारयोरक्याङ्गाकारेऽपि नायं प्रसङ्ग इत्याह-कि चानृत- द्वय मिति। इहाSडत्मानात्मनोरध्यासेऽनृतद्वयं परस्परमध्यसितव्यमिष्ट चेत्स्यात्तदा हवेदीय- मिदं चोद शून्यत्वापादलक्षणं भवति। इदं मिथुनं सत्यानृतात्मकं मिथुनमध्य एकं संसृ- शटरूपेणानृतमवि स्वरूपेण सत्यं अ्रमात्पूर्वमारोप्योत्पत्तिहेतुत्वेन तत्काले तस्य सत्ताप्रदत्वेन बाधोत्तरकालं तद्वधित्वेन च यदरिति तत्सत्यमेव। यतोऽपरमनृतं स्वरूपेणाप्यध्यस्थमा-
१ क. रभूतारू°।
Page 62
संक्षेपशारीरकम्। ५५.
नत्वात्। भ्रम कालात्पूर्वोत्तरकालयोस्तत्स त्वे प्रमाणाभावात्। एवं सत्यानृतात्मकं भिथुनं चेन्मिथोऽन्योन्यमध्यस्यते किमिति शून्यकथाप्रसङ्गो विनाऽडग्रहमित्यर्थः ॥३३ ॥ सु०टी०-नन्वन्योन्याध्यास एव किं प्रमाणमित्याशङ्क्याहंकारा- ध्यासस्यास्फुटत्वात्प्रसिद्ध एव रजताध्यसे प्रथमं साधयति- इदमर्थवस्त्वपि भवेद्जते परिकल्पितं रजतवस्त्विदमि । रजतभ्रमेऽस्य च परिस्फुरणान्न यदि स्फुरेन्र खलु शुक्तिरिव।। ३४।। इदमर्थेति। रजतं तावदिदमि शुक्त्यादावध्यस्तमिति संप्रतिपन्नमेव- मिदमंशोऽपि रजतेऽध्यस्त इति। साध्यं हेतुमाह-रजतभ्रम इति । भ्रान्तौ मासमानत्वाद्रजतवदित्यर्थः । व्यतिरेके शुक्तिविशेषांशवदित्यर्थः। यद्वा यदीदंत्वमनध्यस्तं स्यान्न भ्रमे स्फुरेच्छ्रुक्तित्ववदिति तर्क उक्तः । रजते पुरोवर्तित्वलक्षणेदंत्वास्फुरणे तद्र्थिप्रवृत्तिरपि न स्यादिति निर्गलि- तार्थः॥३४ ॥ अ० टी०-स्यदतदेवं यदि परस्पराध्यासः क्वचिद्ृष्टपूर्वस्तदभावे कथमात्मानात्मनोरुक्त्ता- ध्याससंभावनेति चेन्न सर्वत्र तद्दर्शनादित्युदाहरणमाह-इदमर्थवस्त्वपीति। इदंशब्दप्र- त्ययगोचर एव वस्तु तदपि रजते परिकल्पितमध्यस्तं भवेत्। तथा रजतरूपं च वस्त्विदाम कल्पितं भवेत् । कुत एवमित्यत आह-रजतभ्रम इति। रजतमिदमित्यस्मिन्भ्रमेड- स्येदमश्रकाराद्रजतस्य चाभेदेन परिस्फुरणादित्यर्थः । विमतमधिष्ठानसामान्यमारोप्यात्म- नाऽध्यस्तं भ्रान्तौ स्फुरमाणत्वान्रमरूप्यांशवदिति। तथा रजतभिदमात्मनाऽध्यस्तं तत्र त्रैकालिकनिषेधप्रतियोगित्वाद्यत्रैवं यथाश्नुतिस्वरूपमिति भावः । विपक्षे बाधकमाह-न यदीति। यदीतरेतरत्राध्यस्तमुभयं न भवेत्तदा शुक्तिरिव भ्रमज्ञाने न स्फुरेतखल्विति योजना । न ह्यनध्यस्तं किंचिद्पि भ्रमो मासत इत्यर्थ: ॥३४॥ सु० टी०-एवं परस्परार्थाध्यासेऽध्यस्तं प्रमाणयति- रजतप्रतीतिरिदमि प्रथते ननु यद्देवभिदमित्यपि धीः। रजते तथा सति कथं न भवेदितरेतराध्यसननिर्णयधीः॥ ३५॥ रजतेति। एकैवेदं रजतमिति धीस्तत्र यथा रजतस्पेदमा तादात्म्यं मासत एवमिद्मोऽपि रजततादृात्म्यमित्यनुभव एवात्रेतरेतराध्यासे मानमित्यर्थः ॥ ३५।।
१ क. दंस्यम । २ ख. निगर्वः। ३ ख. एवमर्थाध्यां सेडनुमानमुक्त्वा ज्ञानाध्यासेडव्य।
Page 63
५६ टीका दूय समेतं-
अ० टी'-नचोंक्तेडयें विवादाव का शोऽनुमवसिद्धत्वादित्यनुभवं सर्वजनप्रसिद्धं प्रमाणयाति- रजतप्रतीततिरिति। यथाSनिदमात्मनो राजतस्येदमि प्रतीति: प्रथते प्रसिद्धा वर्ततेऽनुभू- यते यद्वदित्यर्थः । एवमिदमित्यपि धी रजतात्मकेदंकारावभासात्मिका धीरपि रजते प्रथते । ननु निश्चितमेवैतदित्यर्थः । तथासति वरतुतो . विविक्तयोरन्योन्यात्मनाSवभासमानत्वे सति कथमितरेतराध्यसननिर्णयरूपा धीर्न भवेद्धवेदेवेस्यर्थः ॥३५॥
- सु० टी०-अन्रोक्तानुमानमूलभूतां व्यात्तिं प्रकटपति- अध्यस्तमेव हि परिस्फुरति श्रमेषु नान्यत्कथंचन परिस्फुरति भ्रमेषु। रज्जुत्वशुक्तिशकलत्वमरुक्षितित्व- चन्द्रैकताप्रभृतिकानुपलम्भनेन ॥ ३६ ॥ अध्यस्तमेव हीति। अध्यस्तस्यैव भ्रमे स्फुरणादिदमंशोऽप्यध्यस्त इति साधितमित्यर्थः । ननु 'सर्व ज्ञानं धर्मिण्यभ्रान्तम्' इति न्यायादन- ध्यस्तोऽपीदमंशः प्रथतामिति नेत्याह-नान्यदिति। अन्यत्स्वरूपेण संस- टतया वाऽनध्यस्तमित्यर्थः । धर्मिण्यभ्रान्तमिति च धर्मिस्वरूपेऽभ्रान्तं न तु संसर्गेऽपीत्पर्थः । कथं न स्फुरतीति चेदनुभवबाधादेवेत्याह-
स्फुरणानुपलम्भादित्यर्थः ॥ ३६ ॥। अ० टी०-पूर्व श्लो को क्त्ता नुमानतर्कयो्व्याप्तिमाह-अध्यस्तमेव हीति। यद्द्रमेषु परि- रफरति तदध्यस्तमेव हि परिस्फुरति यथा भ्रमदष्टसर्परजतजल्विचन्द्रादीत्यर्थः । यदनध्यस्तं तन्न भ्रमेयु परिस्फुरति रज्जुत्वादीत्यर्थः । इदमत्र तात्पर्यै-द्विविधो ह्यध्यासो निरुषाधिक: सोपाधिकश्च। तत्र स्वरूपेण भासमानेऽप्यनवभासमानयाथात्म्थे वस्तुनि वस्त्वन्तरात्मनाS- वभासो निरुनाधिको यथा शुक्त्यादौ रजताद्यध्यासः । यत्र भासमानेऽवि वस्तुयाथात्म्ये संनिहितोपाधिसामर्थ्यात्करणपाटवाद्दा भेदविपर्यासाद्यवभासः स सोपाधिकाध्यासो यथा प्रतिबिम्बद्विचन्द्रद्यध्यासः । तयोरिहाहंकारात्मनोर्निरुपाधिकाध्यासे दृष्टान्तः शुक्तिरजता- ध्यास उक्तः । तत्र चेतरेतराध्यासः प्रसिद्ध इत्यतो नाऽSत्माहंकारयोरितरेतराध्यासोऽसं- भावित इति ॥ ३६ ॥ सु०टी०-ननु रजतादिश्रमे द्वैरूप्यावमासादस्तु परस्पराधयासो न
: क. "ध्यासस्तत्र
Page 64
संक्षेपशारीरकम्। १७
thss साधनीयमित्याह- इतरेतराध्यसनमेव ततश्विवतिचेत्ययोरपि भवेदुचितम्। रजतभ्नमादिषु तथाडवगमांन्न हि कल्पना गुरुतरा घटते॥३७॥ इतरेति। चितिचेत्ययोर्योऽय महमित्यध्यासः सोऽपि ततोऽध्यासत्वादेव हेतोरितरेतराध्यासः नुचिता स्थादित्यर्थः । अत एवाहमुपलम इत्यहमि चैतन्यातुमवः । न चान्यगतत्वेन गुह्यमाण: स्वविशेषांशोऽिष्ठानत्वं विरुणद्धि, इमे रङ्गर- जते इत्यन्योन्यभ्रम इवेति भाव: । व्यात्तिं स्मारयति-रनतेति। प्रका- रन्तरे कल्पनागौरवमाह-न हीति। द्वैरूप्यावभासश्चात्रापि विवेकि- नामस्त्येवेति भाव:। चित्रादिशब्दवच्चाहंशब्दस्य शबलवाचित्वान्न शब्द- दयप्रयोगः ।। ३७।। अ० टी०-नन्वस्तु लोके परस्पराध्यासो दृष्टत्वादिदमिति च रजतमिति व्याकारा चभासोपपत्तेश्र स नाऽडत्माहंकारयोः संभवति भासमानसामान्यांशाभासमानविशेषांशरू-
स्पराध्यासत्वानुमानोपपत्तेः कल्पनायाश्रेह दृष्टविपरीताया गौरवपराहतत्वाद्विवेकवतां द्याका राभासस्य स्फुटत्वाच्च भैवमित्याह-इतरेतराध्यसनमेवेति। अक्षरार्थः स्पष्टः । प्रत्यक्पराक्टयमिदं हि परस्परस्मिन्नित्यत्राहमित्यवभासे व्याकारत्वस्यास्माभिरुपपादित- स्वादात्मनः स्वरूपेण स्फुरणेऽपि स्व्राभाविकविशेषास्फरणस्यानुभवसिद्धत्वादात्मनो विषय- त्वाभावेन द्याकारताया अवभासमानाया अप्यसष्टत्वात्तथानुलेखोपपत्तेश्र नात्रानुपपन्नं किंतिदिति भावः ॥३७॥ सु० टी०-उपपादित मितरेतराध्यासं सोपपत्तिकसुपसंहरति- अनुभूतियुक्त्यनुमितित्रितया- दितरेतराध्यसनसिद्धिरतः । चितिचेत्य वस्तुयुगलस्य न चे- चितयस्य वाधनमिहाऽडपतति॥३८॥ अनुभूतीति। अस्मात्पूर्वोक्तानुमव युक्त्य नुमानरूपाश्चितयाच्चितिचेत्ययुग- छस्येतरेतराध्याससिद्धिरन्यथा त्रितयस्यावि बाधापत्तेरित्यर्थः ॥ ३८ ।।
Page 65
टीकाटवय समेतं-
युक्तीति । रजतप्रतीतिरिदमि प्रथत इत्यस्मिन्पद्य उपपादिताऽनुभूतिः । ततः पूर्वपद्य इदमर्थवस्त्वपि भवदित्यस्मिन्नुक्ते युक्त्यनुमिती। ततस्तस्मात्कारणाटुक्तानुभूत्यादिन्नितयाि-
तदोक्तत्रितय स्यानुभूत्यादेर्वाधिनं तद्विरोध इहाऽऽपंततीति योजना ॥ ३८॥ सु. टी०-नन्वज्ञातत्वेऽपि सादृश्यादिरहितस्य निरंशस्य प्रतीचोऽ- विषयिण: कथमध्यासाधिष्ठानत्वं लोके सहशसावयवपराग्विषयाणामेव शुक्त्यादीनामधिष्ठानत्वदर्शनादिति शङ्कते- सदृशसांशपराग्विषयेषु चेद्दवति दोषवशाज्जगति भ्रमः । भवतु तत्सकलं वदितुं वयं तदुपचारवशाद्दृशि शक्नुमः॥३९॥ सदृशेति। कथंचित्सादृश्यादिसंपादनेन प्रौट्या परिहरति-भवत्विति। उप- चारो व्यवहारस्तत्सामथ्याचचिदूपेऽप्यात्मनि तत्सर्वं सुवचमित्यर्थः। तथा ह्यन्त:करणस्य देहेन्द्रियापेक्षया प्रत्यकत्वं स्वच्छत्वं सूक्ष्मत्वं चा्ति चैत- न्यसादृश्यं सांशत्वमपि चैतन्यस्याविद्यावशादखण्डस्यापि जीवत्वब्रह्म. त्वाद्यात्मकमस्ति पराक्त्वमपि साभासान्त:करणे तद्विविक्तत्वेन स्पशी- भावाद्विषयतामिवाSSपन्नस्य शक्यमुत्प्रेक्षितुमनादित्वाच्च पूर्वपूर्वापे- क्षया सवमिदमुत्तरोत्तराध्यासे शक्यसमर्थनमिति भावः॥३९॥ अ० टी०-नन्वेवमुक्तरीत्याSत्मनि स्वानुभवमात्रसिद्धानाद्यनिर्वचनीयं पूर्वभ्रमं संस्का- रसचिवमज्ञानमात्रं पुष्कलकारणमासाद्याहंकाराद्यध्या ससंभवेऽप्यात्मनो Sिष्ठा नत्वा संभवाल ्क
सादृश्यदर्शनात्तस्य जात्याद्यध्या सेऽव्यभिचारेSपि द्रव्याध्यासे तदभावादहंकारस्य चाध्यस्यमा- नस्यान्तःकरणात्मकस्य द्रव्यत्वात्तस्य च जडस्य चिदात्मना सादृश्यासंभवाद्ध्यासानुपपात्तिः। तथा तत्र करणदोषः प्रमातृदोषश्च प्रसिद्धस्तावप्यत्र न संभवतः प्रत्यगात्मनः करणागोचर स्वात्प्रमात्रन्तराभावाच्च। तथा विषयतया गृह्यमाणसामान्यांशोडगृह्यमाणविशेषांशोडविष्ठानेS- न्यस्याध्यासो दृष्ट इहाऽडत्मनो निरंशस्य स्वयंज्योतिषस्तदभावान्नाधिष्ठानत्वसंभव इत्या- क्षेपमुत्थाप्य परिहरति-सट्कशसांशेति। जगति लोके परागर्थे यो भ्रमो भवति सदश सांशपराग्विषयेषु भवति। तथात्वस्या SSतमन्यसंभवान्नात्राध्याससंभव इत्याक्षेपभागस्य पूर्वार्ध- स्यार्थ: । भवतु तत्सकलमुक्तप्रकारं सर्वमव्यासकारणमात्मन्यवि यतो वय तदुक्तं सर्वमुपचार- वशाद्दृश्यात्मन्यवि वदितुं शक्नुमः संपादयितुं पारयाम इति परिहारभागस्यार्थः ॥१९॥
Page 66
संक्षेपशाररिकम्। 48
सु० टी०-उक्तपरिहारस्यापसिद्धान्तत्वशङ्कामपनयति अपि च भाष्यकदेव तदबवी- द्विषयतायुपचारसमाश्रयात्। स्ववचसैव न तावदिति ब्रुव- न्सकलमात्मनि विभ्वमसिद्धये॥ ४० ॥ अपि चेति। न तावदस्मत्कल्पितोडयं परिहारः कि तु माष्यकृदेवोप- चारमाशित्य सर्वमिद विषयत्वादिकमात्मनि विभ्रमसिद्धचर्थमब्रवीदि- स्यर्थः । न च माष्यकृदुक्तिरनुप्लब्धिबाधितेत्याह-स्ववचस्ेति। कण्उरवे- णैव न त्वभिप्रायगत्येत्यर्थः । भाष्योक्तिमाह-न तावदिति।अध्यासभाष्ये 'कथ पुनः प्रत्यगात्मन्यविषयेऽध्यासो विषयतद्दर्माणाम्' इत्याक्षिप्य 'न तावद्यमेकान्तेनाविषयोऽस्मत्प्रत्ययविषयत्वात्' इति त्ुवन्नित्यर्थः। अस्मत्प्रत्ययोऽन्तःकरणं तत्राभिव्यक्त: सन्विषय इव भवतीति। स ह्यविद्यायामाभासाविवेकेन सूक्ष्मप्रतििम्बात्मना प्रविष्टोऽस्पट्टोऽपि प्रत्युपाधौ साभासान्त:करणे स्थूलप्रतिबिम्बात्मना प्रविष्टः सचछीतभा नावेव स्वर्मानुवद्मिव्यक्त: स्वप्रकाशोऽपि स्पषीभावमात्रेणोपचाराद- स्मत्प्रत्ययविषय इत्युच्यते ॥ ४० ॥ अ० टी०-कथं तत्संपादनमित्यपेक्षायां भाष्यकारैरेव संपादनप्रकारस्योक्तत्वान्नास्मा- किस्तत्र यत्न: कार्य इत्यभिप्रेत्य भाष्यवचनमुदाहरति-अपि च भाष्यकृदेवेंति। यद्वा
तथाप्रतिपादनादित्याह-अपि च भाष्यकृदेवेति। न तावदयमेकान्तेनाविषयोऽस्म- स्प्रत्ययविषयत्वादित्यादि ब्रवन्भाष्यकृदेवोपचारसमाश्रयात्तद्विषयादि सकलं स्ववचसैवाव्रवी- दिति योजना । किमर्थमात्मनि प्रत्यग्ब्रह्माण बहिरुपलब्धभ्रमानुरोधेन विभ्रमसिद्धय इत्यर्थ:। अयं भाव :- अस्मत्प्रत्ययाभिमतं परिणाम्यन्तःकरणं तच्चाऽSत्मवसस्वच्छं सूक्ष्म- देहाद्यपेक्षया प्रत्यग्भवतीत्यस्त्यस्याSत्मना सादृश्यम्। केनाप्यंशेन सश्यं र्वतर मृग्यते न सर्वात्मनेति स्थितिस्तदिहाप्येवं सुसंपादमिति नात्र सादृश्याभावः । तथाSडत्मन एकरसरयाष्यज्ञानसंबन्धायत्तमगह्यमाणविशेषांशं रफुरणसामान्यांशरू- पम शद्यमप्रत्यक्त्वब्रह्मत्वाद्यात्मकं सुसंवादम्। निरंशस्य स्वयंज्योतिषोऽप्यात्मन: स्व. रूपे भासमानस्यापि परिपूर्णपरबह्मरूपेणानवभासात्प्रतीचश्र. निर्विशेषतया निर्विकल्पत्यान्यत्रा
१ ख. "कृत्तदे०
Page 67
६० टीका द्ुय समेतं-
विशेषतो Sनवभासमानस्यापि स्फुटमन्तःकरणेSवभासनात्तद्वताभासाविवकेन स्फुटाभिव्यक्त-
वाद्विषयत्वमप्यस्य सुसंपादम्। न चाध्यासे सत्यन्तःकरणसिद्धौ तत्राSडत्मनो विषयत्व- सिद्धिस्तत्सिद्धावन्तःकरणं तत्राध्याससिद्धिरित्यन्योन्याश्रय इति वाच्यमध्यास्त- प्रवाहस्यानादित्वात्पूर्वपूर्वाध्याससिद्ध विषयभावे चिदात्मन्युत्तरोत्तराध्याससंभवात् । ए्तेन करणदोषप्रमातृदोषावपि संभावितौ व्याख्यातौ। एवमात्मन्यनात्माध्यासेऽवि दोषसंप्रयो- गयोः संभवादुक्तांशद्वयवत्तया विषयत्वाधिष्ठनयोरि संभवात्संस्कारस्य पूर्वपूर्वभ्रमजन्यस्य सुलमत्वान्नासंभावनेहाप्यध्यासस्येति ॥। ४० ॥।
तम्न्रं न तु सादृश्यादीत्याह-
रपरोक्षमास्पदमपेक्ष्य भवेत्। मनसः स्वतो नयनतो यदि वा स्वपनभ्रमादिषु तथा प्रथितेः ॥४१ ॥
अपरोक्षेति। अपरोक्षरूपाSपरोक्षविषया या भ्रमधीः साऽपरोक्षाघि-
व्यमिचारादित्यर्थः । नन्विन्द्रियागोचरस्याऽडत्मनोऽपारोक्ष्यमषि द्वुर्घट• मित्याशङ्क्याSSह-मनस इति। यदि वेति। व्यवस्थार्थ क्वचिन्मनसः कचिरस्वतः क्वचिञ्चक्षुरादित इत्यर्थः । क्वेदमवधारितमित्यत्राSSह- स्वपनेति ॥४१ ॥ अ० टी०-विषयस्वादेरच्यासप्रयोजकत्वमम्युपगम्य चेदमुक्तं वस्तुतस्तु न तदपेक्षानिय-
दोषवशात्तादा त्म्यावभाससंमवात्। तस्मादपरोक्षत्वमात्रमपरोक्षभ्रमाधिष्ठानत्वेडपेक्ष्यते। तच्च यत्र स्वत एव संभवति तत्र न संप्रयोगस्याप्यपेक्षेत्य भिप्रेत्यापरोक्षत्वाच्चेति भाध्यार्थमाह-अपं- रोक्षरूपविषय भ्रमधीरिति। कथमपरोक्षत्वमास्पदस्येत्येतदुपपादयति-मनस इति। क्चिन्मनोवृत्तिमात्रग्राह्यत्वेन कवचित्स्वतःस्वप्रकाशत्वेन। यदि वा क्ावि नयनादिसंप्रयोग-
१ क. ग, दुष्करमि।
Page 68
संक्षेपशारीरकम्। ६१ ..
वशनेति यथादर्शनव्यवस्था। तत्र प्रत्यगात्मनः स्वतोऽपरोक्षतया न विषयत्वापेक्षतेत्यर्थः । नवु स्वतोऽपरोक्षत्वमात्रेणाध्यासः कुत्र दृष्ट इत्यत आह-स्वपनभ्रमादिषु तथा प्रथितेरिति॥ ४१ ॥ सु० टी०-नन्वात्मभिन्नस्य स्वतोऽपरोक्षत्वाभावात्ताहशेऽध्यास: क संप्रतिपन्न इत्याशङ्क्य 'आत्मनि चैवं विचित्राश्च हि' [ ब्र० सू० अ० २। पा० १ । सू० २८] इतिन्यायसिद्धे स्वप्नध्रम एवेत्याह- स्वतोऽपरोक्षा चितिरत्र विश्रम- स्तथाऽपि रूपाकृतिरेव जायते। मनोनिमित्तं स्वपने मुहुर्मुहु- रविनाऽपि चक्षुर्विषयं स्वमास्पदम्॥ ४२॥ स्वत इति। चितिस्तावद्वाहकान्तराभावात्स्वसत्तायां संशयादिराहि- त्यात्स्वयंज्योतिष्टभ्वुतेश्र स्वतोऽपरोक्षा रूपादिहीनतया सादृश्यादि शून्या स्वप्रभ्रमाधिष्ठानं तथाऽप्यत्र चितौ सवमे निद्धादोषादूपाद्याकार एव भ्रमश्रक्धुविषयं मनोगम्यं वा रूपवद्धिष्ठानं विनाऽपि पुनःपुनर्जा- यते-'स हि स्वपो भूत्वा' [बृ०४।३७] इति श्रुतेः। यद्दा चक्षुरादि- व्यापारोपरमात्कथं रूपाकृतिरित्यत्राऽडह-मनोनिमित्तमिति। मनोगतरूपा- दिवासनानिमित्तमित्यर्थः । रवप्ने तैजसजीवभोग्यत्वेन वासनापुअ्जशे वस्थ मनसोऽवस्थानात्। अन्रेदं विचारणीयं-किं ब्रह्मचैतन्यं स्वप्नब. हाषिछानमुत जीवचैतन्यमिति। आद्ये व्यावहारिकः सन्नज्ञातसत्ताक: स्वपप्पञ्ः स्यात्। अन्त्येऽपि किं जागरे तस्य बाधः किंवालय इति। अन्र षदृन्ति, अवस्थात्रेयाविष्टं ह्यात्मचैतन्यं भवति। स्थूलान्त :- करणोपहितं जागरे, वासना विशिष्टान्त:करणोपहितं स्वप्ने, सुषुप्ती च सूक्ष्म तदुपहितमिति। तत्र जाग्रदवस्थोपहितं चैतन्यं स्वप्नभ्रमाधिष्ठानं जाग- राे चांहं चैत्र इति तादृगधिष्ठानबोधात्तद्वाधः।एवं च स्वप्नस्य जाग्रत्यप- अरपैलक्षण्ये संति प्रमातरि बाध्यत्वं वक्ष्यमाँणमुपपत्स्यते। स्वप्रान्ते सुषुप्ति-
१ क. ग. 'द्वे स्वत्वभ्र० ।२ क. ग. त्रयवशिष्टं। ३ ख. नावाशी 1,४ ख. "स्थो- चिंतं। ५ क. ग. 'धे ये चा°। ६ ख. क्षण्यं स°। ७ क. ग. माणमुत्पत्स्य।
Page 69
६२ टीकाद्वय समेतं-
श्रेत्स्वप्रसृष्टेर्लय एव। तद्भिप्रायेण वक्ष्यति 'क्षीणे तु तत्र लयमेति' इत्या- दीति न पूर्वोत्तरविरोधः। बुद्धयाघ्युपहितजीवरूपं हि'तत्मृद्वा तदेवानु- प्राविशत्' [तै० २। ६। १] इत्यादिश्युतेरीशकल्पितत्वेन व्यावहा. रिकत्वाच्छुक्त्यादिवद् धिष्ठानेत्वयोग्यम्। तन्निष्ठाश्र जीवकल्पिताज्ञाना वस्था: स्वप्नभ्रमोपादानभूता अहं चैत्र इत्यादिजाग्रद्वोधेन बाध्यन्ते शुक्तिज्ञानेनेव रजतोपादानाज्ञानावस्था इति। न चैवं सत्यहं गजोऽहं नीलमिति स्वन्नाकारापत्तिरिति वाच्यम्। न हि स्वप्नः सर्वोऽपि तादा- त्म्याध्यासः कि तु जाग्रत्संस्कारनुसारात्कश्चित्तथा। कश्वित्तु संसर्गा- ध्यासोऽहं राजाडयं गजो मम क्षेत्रमिति तदाकारदर्शनादिति। तदिदमा- पातरमणीयम्। तथा हिन तावदीशकल्पितस्थूलान्तःकरणोपहितं चैतन्यं स्वप्नकालेऽस्ति यत्तदधिष्ठानं स्थात्। नापि तज्ज्ञानं जागरादिजन्यं स्वन्न- भ्रमबाधकं भवितुमर्हतीति। तद्द्वि किं साक्षिज्ञानमविद्यावृत्तिरन्तःकरण- वृत्तिवां। नाऽडय्यो तयोरज्ञानानिवर्तकत्वेनाबाधकत्वात। नान्त्योऽन्त :- करणवृत्तेरज्ञातबोधकत्वादन्तःकरणस्य चाज्ञातसत्तानभ्युपगमेन प्रमाण- वेद्यत्वात्स्वस्मिंश्च स्ववृत्तेरसंभवादित्यास्तामसङ्गहेण। के चिद्वच्छिन्ना- नवच्छिन्नसाधारणं चिन्मात्ं स्वप्नाधिष्ठानमाहुः। तच्च साधारणचिन्म त्रस्य परस्परविरोधे हीत्यादिन्यायेन दुर्निरुपत्वादेव नोपपद्यत इति कि प्रपश्चेन। शरीरावच्छिन्नं चैतन्यं तद्धिष्ठानमित्यपरे। तद्तिस्थवीयः। न हि जागरादौ शरीरबोधं विना स्वप्नानिवृत्तिघंटज्ञानादृपि तन्निवृत्तेः। अन्ये त्वाहुरन्तःकरणोपलक्षितं पैतन्यमधिष्ठानमिति। तन्मते शुद्ध- चित एवाधिष्ठानत्वाज्जागरे स्वप्नस्य न बाधः स्यात् । तथा च सति प्रमातरि बाध्यत्वं नोपपद्यते। तस्मादतुपहितचैतन्यं जाग्रत्प्रपञ्चाधि- छ्ानं जाग्रदुपहितं तु स्वप्नप्नपञ्चाधिष्ठानमिति वृद्धाः। श्रुतिश्र-'यानि ह्येव जाग्रत्पश्यति तानि सुप्तः '[बृह० ४।३। १४ ] इति। एवं च जागरादावावश्यकजाग्रद्स्तूपहित चिद्गोचरप्रामाणवृत्त्या सति प्रमातरि स्वप्रबाध उपपद्ते। तत्र चाधिष्ठानतावच्छेदकं घटत्वाद्येद जाग्रदुप- हितत्वं तूपलक्षणं सर्वनामशक्ती बुद्धिस्थत्ववत्। तथा च जागदनुंभूतव-
त्वात्स्वरूपमात्रेण प्रथमानं निद्धादीषजाग्रत्संस्काराटृट्टसहकृताज्ञानेन
१ क. ग. नत्वायो । २ ख. दित्यलम° । ३ क. त्रेणाप्र० । ४ क. ग. तोषं ज्ञा'।-
Page 70
संक्षेपशारीरकम्। ६३
सूक्ष्म प्रंपश्चाह्मना विवर्तमानं स्वेनैव मास्यते'अस्य लोकस्य सर्वावतो मात्रामपादाय [वृ०४।३।९] इत्यादिश्ुतेः । अत्र तिरोहित. जाग्रदुपाधिविशेषस्य चिन्मात्स्य संस्कारद्वारकाविद्यावृत्त्यापादितजीव साक्ष्यमेदस्य स्वतोऽपरोक्षस्फुरणमेवाधिष्ठानसामान्यज्ञानम्। अज्ञा-
बाधः। मूलाज्ञानाकार्यत्वादविद्यातिरिक्तदोषजन्यत्वाच्च स्वप्नस्य न व्यावहारिकतेति दिक ॥ ४२॥ अ० टी०-कथ सवप्े स्वतोऽपरोक्षे परोक्षविभ्रम इत्यपेक्षायामनुभवमाश्रित्य तदुपपाद- यति-स्वतोऽपरोक्षा चितिरिति । अत्र सर्वजनप्रसिद्धे सवपने चितिः भ्रत्यग्रृपा संवित्स्वतोऽपरोक्षा तथाऽपि न तावदियमक्षगम्या तदाऽक्षाणामुपरमान्नापि मनोगम्या तस्य तत्प्रकाशस्य तत्प्रकाशकत्वानुपपत्तेः । परिशेषात्स्वत एवापरोक्षेति। तथाऽपि स्वत एवापरोक्षत्वेऽपि विषयतयाऽपरोक्षत्वाभावेऽपीति यावत्। रूपाकृतिरनेकविषयाकाराकारितो विभ्रमो मुहुर्महुर्जायत एवेति योजना । तत्र निमित्तमाह-मनोनिमित्तमिति। मनोगतोद्बुद्धवासनानिमित्तमित्यर्थः । तत्र बाह्यस्य विषयस्याभावाद्वासनाश्रयमनःपरिणाम- मात्रत्वात्स्वप्रस्येति न तस्य तदा विषयग्रहणकरणतया निमित्तत्वमिति भावः। तदेव स्पष्टयति-विनाऽपीति। चक्षुविषयं बह्यरूपादि स्वमास्पदमालम्बनं विनाऽपि रूपाकृत्िर्जायत एवेति संबन्धः । मुहुर्मुहुरिति वद्न्नानुभवसिद्धेऽर्ये विप्रतिपत्याशडकेति द्योतयति ॥४२॥ सु० टी०-आरोप्याधिष्ठानयोरेकेन्द्रियग्राह्यत्वस्य व्यभिचारं वक्तुं मनःप्रमाणत्वाभ्युपेत्यवादेन मानसे नमसि चाक्षुषाध्यासं दर्शयति- मनोवगम्येऽप्यपरोक्षताबला- त्तथॉऽम्बरे रुपमुपोल्लिखन्त्रमः । सितादिभेदैर्बहुधा समीक्ष्यते तथाक्षिगम्ये रजतादिविश्वमः ॥४३॥
चछुकुं नभो नीलं नभ इति नानारूपोल्लेखी भ्रमो दृश्यतेऽतो नोक्तनियम इत्यर्थ: । एवं स्वतोऽपरोक्षे मनोपरोक्षे च स्व्रप्नभ्रमनभोनैल्यभ्रमावुदा- हत्य नयनत इत्यस्योदाहरणमाह-तथाSक्षिगम्य इति। व्याख्यातम्। यथ्ेतिपाठे तृतीयोदाहरणं हष्टान्तपुरस्कारेणोक्तमिति योज्यम्। ननु
Page 71
६४ टीकाद्वय समेतं-
नाSडकाशो मानसो बाह्यत्वान्मनसो बहिरस्वातन्त्रयादृपि तु साक्षिवेद्य एवेति चेन्न बाह्यस्य प्रमाणेनैव ज्ञाततया साक्षिषेद्यतान्नमसश्व बहि- रिन्द्रियागोचरस्य मानसत्वमन्तरेणाज्ञाततयैव भानप्रसङ्गात्। तदुक्तं ज्ञात- तथा विषयः प्रमाणव्यवधानमपेक्षत इति। कथं तर्हि सुखादे: कल्पित- रजातादेश्व ज्ञातत्वेनानुभव इति चेत्तेषामान्तरत्वेनानावृतत्वाद्वाह्यस्य तु नमसो घटादिवदावृतत्वेनाSSवरणभङ्गाय प्रमाणापेक्षणान्मनोवैद्यत्वमग. त्याऽम्युपेयम् । न च तस्य बहिरस्वातन्त्रयं 'मनसा ह्रेव पश्यति' [मैत्रयुप० ६ । ३० ] इत्यादिश्ुत्या बाह्यानामपि मनोवेद्यताया दर्शि- तत्वाद्वहिरस्वातन्त्रयोक्तिश्र केवलमनोविषया। न चानर्पिताकारं मनः साक्षात्कारसमर्थमिति चक्षुरेव तत्राSSकारार्पकमुपेयम्। ननु कर्थं नीरूपे नमसि चक्षुषः प्रवृत्तिस्तस्य रूपपुरस्कारेणैव द्रव्येषु प्रवृत्तिरिति चेत् सत्यमेतेत। नतु स्वीयरूपपुरस्करेणेत्यत्र किंचिन्नियामकमस्ति पीतः शङ्गो रक्त: स्फटिक इत्यन्यरूपद्वाराऽपि चक्षुष्प्रवृत्तिदर्शनात्। न च तत्र रूपवृत्तिशौक्कयस्यैवाभिभवो न रुपस्येति वाच्यं तथाऽप्युद्भू- ताभिभूतरूपस्पर्शस्य सुवर्णस्य चाक्षुषत्वप्रसङ्गात्। ततश्राऽडलोकादि- रूपोपहिते नमसि तह्वाराऽपि चक्षुष्परवृत्त्यविरोधः। अप्रत्यक्षेऽपीति माष्यं तु रूपानुपधानकालीनमानसत्वाभावपरं परमतेन वा। नचान्य- रूपद्वाराऽपि रूपवत्येव चक्षुष्पवृत्तिगौरवादुद्भूतरूपं गृह्नदेव हि चक्षु: प्रवर्तते न तूद्भूतरूपवत्येवेति। अस्तु तहिं चाक्षुषमेव नभ इति चेन्ना- रूपिद्रव्यत्वान्महत्त्वे सत्युद्भूतरूपवत्त्वस्य द्रव्यचाक्षुषत्वे तन्न्नत्वात्। ततश्रात्र रुपद्वौरकचक्षुरर्पिताकाशाकारमनोवृत्तिविपये नीलत्वाद्यारोप इति भाव: ॥४३ ॥
• अ०टी०-'मनसः स्वतो नयनतो यदि वा' इत्यत्र स्वत इति भाग उदाहरणमुक्तं प्रपाश्चि- तमिदानीं मनसाऽपरोक्षी कृते विषयऽपि चाक्षुषभ्रमो दृष्ट इत्युदाहरति-मनोवगम्थेSपीति। इदमत्राSSकृतमस्ति ह्याकाशे नीलं नमस्तलमभवदित्यादि चाक्षुषो भ्रमः सर्वजनीनस्त- त्राSSकाशस्य स्फुरणमन्तरेण तत्राध्य स्यमाननैल्यादिस्फुरणायोगात्तत्त्फुरणं तावद्वक्व्यम्। न हि परोक्षेघिष्ठानेऽपरोक्षभ्रम उपपद्यते। एवं स्थिते नमसः स्वप्रकाशता नास्ति येनाSS-' त्मनीव स्वतःसिद्धोऽध्यासः स्याज्डत्वस्य तस्मिन्प्रमाणसिद्धत्वात्। नापि चक्षःस्पर्शनाम्यां तस्सिद्धिर्नीरूपस्पर्शत्वात्परिशेषान्मनसैव तदध्यक्षताऽम्युपेया। न च मनसो बहिरस्वात-
१ क. ग. 'स्यपुंरु'। २.क. तत्तनुस्वी° । ३ क. ग. 'हारैक"।
Page 72
संक्षेपशारीरकम्। ६५. न्यात्तेन बाह्याकाशग्रहानुनपत्तिरिति वाच्यं चक्षुद्वारा तस्य बहिर्गमनोपपत्तेः। सर्वत्र हि भ्रभेषु चिदात्मैवाज्ञातोऽविष्ठानमिति प्रतिष्ठापितम् । स च मनसो बहिर्न स्फुटं व्यज्यते बहिरर्ये च मनस इन्द्रियपारतन्त्र्यादकस्माद्वहिः प्रसरन्नयनद्वारोपरि विवर्पिणा मनसाऽव- गुण्ठ्यमाननभोवच्छिन्ने विदात्मनि नैल्यादिभ्रम उपपद्यत इति नभसो मनोग्राह्मत्वसिद्धि- रिति। अनेन चोदाहरणेनाधिष्ठानस्थाऽडरोप्येण सहैकज्ञानविषयत्वयोग्यता नास्तीति सिध्यति। तदेषाऽक्षरयोजना-मनोवगम्येऽप्यम्बरे नमस्यपरोक्षताबलादपरोक्षचिदात्मा- मिन्यक्तिमलांदूप नीलपीताद्युपोद्िखन्नतमासयन्भ्रमः सितादिमेदैर्वहुधा बहुप्रकारस्तथा समीक्ष्यते यथाऽक्षगम्थे शुक्त्यादौ रजतादिविभ्रम इति ॥ ४३ ॥ सु. टी०-तथाऽपि ज्ञातसामान्यांशमज्ञातविशेषांशमधिष्ठानं न चाऽडत्मनो निरंशस्य तत्संभव इत्याशङ्क्याभेदेऽपि ज्ञाताज्ञातत्वसंभव- भुपपाद्यति- ज्ञातेऽपि तावति ततोऽनतिरिक्तरूपेड- व्यज्ञानतः स्फुरणमस्फुरणं च दृष्टम्। दूरस्थयोर्ननु वनस्पतिवस्तुनोस्त- द्वेदो न दृष्टिविषयोऽवगते च ते नः॥४४॥। ज्ञातेऽपीति। तावति तन्मात्रे तद्भिन्न इत्यर्थः । ईद्टशे वस्तुनि ज्ञातेऽ व्यज्ञानवशात्तस्यैव स्फुरणमस्फुरणं च दृष्टमित्यर्थः। कुत्र दृष्टमित्य- नाऽडह-दूरस्थयोरिति। दूरस्थे वनस्पतिदय एकोडयं वनस्पतिरिति अ्रमो भवति। तत्र चानवस्थाभयादन्योन्याभावप्रतियोगिप्रमाणयोर- निरूपणाञ्च भेदस्य वनस्पतिस्वरूपानतिरेकात्तत्स्फुरणेऽपि मेदास्फुरणं दष्मित्यर्थः । तें वस्तुनी नोऽस्माकमवगते। तयोर्भेदस्तु तदभिन्नोऽपि न नो दृष्टिविषय इत्यर्थः। नतु तत्रापि वनस्पतित्वेन स्फुरणं भेदत्वेना- स्फुरणं तच्च भिन्नमेवेत्याशङक्पाऽडह-तत इति। शब्दान्तरामिलप्यत्वेन भेदेऽवि स्वरूपेणामिन्नमेव भेदरूपं वनस्पतिरूपादित्यर्थः । इतश्र ज्ञातस्याज्ञातत्वं न विरुद्धं त्वदुक्तमर्थ न जानामीत्यर्थे भासमान एव तद्ज्ञानानुभवात्। ज्ञानवद्ज्ञानस्यापि विषयनिरुष्यत्वात्सविषयके च विषयस्थैव विशेषणत्वाज्ज्ञातस्य च विशेषणत्वात् । न च तत्र ज्ञात- सामान्यांश एवाज्ञाननिरूपकस्तस्य प्रमाणावगतस्याज्ञानाविषयत्वात्। परबुद्धिस्थविशेषस्याशक्यज्ञानत्वात्क्थं. विशेषकत्वमिति चेदज्ञाततया
Page 73
६६ टीकाटय समेसं-
रप्यनभ्यासदृशायां ज्ञातेऽवि जलादौ संशयाभ्युपगमादिति दिक।४४॥
णसामान्यांशा गृह्यमाणविशेषांशशबलत्वदर्शनादन्यत्रSSत्मनि चांशाभावान्न तस्याध्यासाधि- छानतेति चोदं परिहर्तुमधिष्ठा नत्वेंशवतत्वमप्रयो ि तु ामा नस्व रूपा नतिरिकस्थैवाभास - मानत्वमित्यत्रोदाहरणमाह-ज्ञातेSपीति। ज्ञातेऽपि भासमानेऽपि वस्तुनि तत्रापि तावति। तावतीव्येतद्विवृणोति-ततोऽनतिरिक्तरूप इति। शब्दान्तरवाच्यवेषेणातिरेके वस्तुगत्या भासमानस्वरूनानतिररिंक्त इति यावत्। तादृशे वस्तुन्यज्ञानतो दोषवशा- रफुरणमस्फुरणं च दृष्टम्। कुत्रेत्यपेक्षायमाह-दूरस्थयोरिति। वनस्पतिरूपयोर्व- स्तुनानरन्तर्येण स्थितयोर्दूरस्थयोः परमार्थतो भिन्नयारेकत्वाध्यासे स्फुरणमस्फुरणं च दृष्ट- भित्यनुषङ्ग:। एतदेवाभिनयनाSSह-तन्देद इति। ते वनस्पतिवस्तुनी अवगते चापि तद्भेदो नोऽस्माकं न दृष्टिविषयो नन्वेतदविवादमित्यर्थः । तत्र विद्यमानो मेदो न गृह्यमाणवनस्पतिस्वरूपाद्भिन्नोSनवस्थादिदोषप्रसङ्गादिति भावः। यथा भासमानेऽि वनस्प- तिशब्दवाच्यवेषेण वृक्षस्वरूस वस्तुगत्या तदनतिरिक्तोऽपि तद्भेदो मासमानेऽपि भेदशब्द- वाच्यवेषेण भासते तथाSSत्मादिशव्दवाच्यवेषेण भासमानोऽपि चिदात्माSहंकारादयध्यास- काले वस्तुगत्या तदनतिरिक्ताद्वयब्रह्मादिशब्दवाच्यवेपेण न भासत इति युक्तं चिदात्मनोड प्यधिष्ठानत्वमित्यर्थः ॥ ४४ ॥ सु० टी०-ननु शुक्त्यादी ज्ञाताज्ञातांशयोरियं शुक्तिरिति शब्दद्द- यवाच्यत्वेन भेददर्शनान्नैकस्य ज्ञाताज्ञातत्वमित्याशङ्क्य तत्र सन्नप्यंश- भेदस्तद्प्रयोजक इत्याह- यत्रापि दैवगतितोऽस्त्यतिरिक्तभावो रूपात्प्रतीतिविषयादितरत्र रूपे। त्राप्यबोधघटनां प्रति नाङ्गभाव-
यत्रापीति। यत्रापि शुक्त्यादौ प्रतीतादिदंरूपादितरत्राप्तीते विशेषांशे दैवाद्देदो विद्यते तत्रापि तस्य भेदस्यापुनरुक्तशब्दवाच्यादिदरूपादृति- रिक्तवपुष: शुक्त्यादेरज्ञाततां प्रति नाङ्गत्वमित्यर्थः ।। ४५।।
१ क. ख. ननु।
Page 74
संक्षेपशारीरकम्। ६७
अ० टी०-ननु स्फुरदस्फुरद्रूकयोर्भेंद एव नामेदो यथेदमाकारशक्त्याकारयोः सामान्यवि- शेषयोरेकत्वायोगाद्वेदस्यापि स्वरूपरूपत्वे विप्रतिपत्तेरित्याशङ्क्य तादशस्याज्ञातविशेषस्या- विष्ठानत्वं प्रत्यप्रयोजकत्व्मवमित्याह-पत्रापीति। प्रतीतिविषयाद्रपादिदशब्दवाच्याका- सदितरत्र रूपे शुक्तित्वादिशब्दवाच्याकारे यत्रापि दैवगतितः स्वभावत एवातिरिक्तमावो भिन्नत्वमरिति तत्रापि तस्य विद्यमानस्यापुनरुक्तरुपादिदंशब्दवाच्या कारादतिरिक्तवपुः शुक्ति शब्दवाच्याकारस्याबोधघटनां प्रति नाङ्गभावोऽधिष्ठानस्याज्ञातत्वसंपादनेन विशेषणभाव इति योजना। एतदुक्तं मवति-इदमाकारेण भासमानस्य पुरोवर्तिवस्तुनो यद्यपि शुक्तित्वादि- रूपो विशेषो विद्यते तथाऽपि न तद्दासमानाकारादर्थान्तरं तथा सत्युत्तरकाले त्वियं शुक्ति- रिति पूर्वावभासतेदन्तात्मना न गृह्येत। तस्मादिदं रजतामति रजतात्मना गृह्यमाणमेव वस्तु वस्तुगत्या शुक्त्यामपि तथा नावभापतत इति भासमानभेव भासत इति युक्तं न पुन- रिदमिति भासमानमन्यदज्ञायमानं शुक्तित्वधर्मकमन्यदिति प्रमाणमस्यत्त्यन्तमेदे गवाश्र- वत्सामान्यविशेषभावायोगात्। अभेदेपि केनापि निमित्तमेदेन त्मेदकल्पनया व्यवहारो- पपत्तेरिति॥४५ ॥ सु० टी०-इदत्वशुक्तित्वधर्मभेद एव ज्ञाताज्ञातत्वावच्छेदक इति चेन्नेत्याह-
त्रिकोणता स्यान्न तु वस्तुवृत्या। तथाडपि तत्स्थं न पृथक्त्वभिष्टं तदशवुद्धत्वंनिमित्तभूतम् ॥४६ ॥ शुक्त्तीदमंशादिति। अप्रतीता त्रिकोणता शुक्तित्वं यद्यपि प्ररतीताच्छुक्ती- दंत्वाद्वस्तुतः पृथक्तथाऽपि तत्संस्थं पृथवत्वं तस्या: शुक्तिताया अप्रवु- द्धत्वे निमित्तं नेष्टमिति संबन्ध: ॥ ४६ ॥। अ०टी०-उक्तमेवार्थ विशद्यति-शुक्तदमंशादिति। इदं रजतमित्यवभासकाले या पुरोवर्तिनि त्रिकोणतोपलक्षणमेतत्का लपृष्टत्वांदरिति।अप्रतीताप्रतीयमाना वतते सावमास मानाच्छुक्तीदमंशाद्वसतुवृत्त्या न तु पृथक्स्यात्। तथाऽपि तत्स्थमिद्मित्यवभासमानाकारगतं शब्दान्तरवाच्यवेषेण यत्पृथकत्वं तदप्रबुद्धत्वनिभित्तभूत नष्टमज्ञानावच्छेदकतया गृह्यमा- णांत्पृथगर्थतवं तस्य नेष्टमित्यर्थ: ॥ ४६ ॥ सु० टी०-कर्थं नेष्टमिति चेदुक्तव्यभिचारादेवेत्याह- यतः प्रपश्यन्नपि भेदिनः स्वं वनस्पते रूपमभ्षिन्नमस्मात्।
Page 75
६८ टीकाद्य समेतं-
न भेदमस्य प्रतिपयतेडक्ष्णा वनस्पतेः पार्श्वगतात्परस्मात् ॥.४७। यत इति। यस्मान्ेदवतो वनस्पतेः स्वं रूपं प्रपश्यन्नप्यस्माद्वनस्पतेः सकाशादभिन्नं पार्श्वस्थाद्वनस्पतेः सकाशादस्य मेदमक्ष्णा न प्रति-
त्यर्थ: ।। ४७॥ कुत एतदित्यपेक्षायां प्रागुक्तव्यभिचारादित्याह-यतः प्रपश्यन्नपीति। अस्मात्म तियोगिभूताद्वनस्पतेस्तदपेक्षया भदिनो धर्मिणः स्वं स्वभूत भेदमभिन्नमपि पश्यन्नपि पुमानस्य मेदिन: पार्श्वगतात्परस्माद्गनस्पतेमेदमक्ष्णा न प्रतिपद्यत इति योजना। एकस्य भेदिन इत रस्मान्ेदं वस्तुस्वरूपभूतमेवाक्षणाSपश्यन्निदमस्माद्भिन्नमित्येवमाकारेण तदेव न पश्यतीत्ये- तदनुभवसिद्धमतः प्रतीयमानाकारादप्रतीयमानाकारस्य परमार्थतोऽन्यत्वकलपनमयुक्तमि- त्यर्थ:। भेदस्य वस्तुस्वरूपत्वं तद्धर्मत्वं वा नोडस्माकं संमतं किं तु वस्तुस्वरूपातिरिक्तो भेद: प्रामाणिको नास्तीति। तथा चोत्तरत्र निरूपयिष्यते। अतो नात्र कोऽपि दोष इति भाव: ॥४७॥।
सप्रत्यभिज्ञनयनोत्थधियो घटादे: स्वाभाविकात्स्ववपुषोऽनतिरिक्तरूपः । स्थेमाऽप्रबोधविषयो विषयत्वमेती- त्यङ्गीऊतं ननु मितेडपि घटादिकेऽर्थे ॥ ४८. । समत्यमिज्ञेति। प्रमाणात्निश्चितेऽपि घटाद्यर्थे तस्यैव स्वरुपादनतिरिक्त: स्थेमा स्थिरमावः पूर्वमप्रबुद्धोऽपि सप्रत्यमिज्ञस्य पुंसो नयनोत्था या धी: (* सोऽयं घट इति प्रत्यभिज्ञात्मिका तस्या: पश्चाद्विषयो•भवतीति सर्वेरव्यङ्गीकृतमित्यर्थः । न हि) स्थैय नाम कश्वििद्वुणः क्रिया धर्मान्तरं वाऽपि तु वस्तुस्वरूपमेव पूर्वापरकालसंबन्धं निमित्तीकृत्य स्थेमोच्यते। एवं च क्षणिकवादिनां प्रत्यक्षेपि घटादौ तदभिन्नस्थैर्याज्ञानं चेदज्ञान-
- धनुश्रििह्वान्तर्गतग्रन्थः कपुस्तके नास्ति।
१ क. तेऽस्माद्न°।
Page 76
संक्षेपशारीरकम्। ६९
साम्राज्यसीमनि प्रतीि ज्ञातेऽज्ञानाविरोध इति किमु वक्तव्यमिति भाव:॥४८ ॥ अ० टी०-ज्ञातादनतिरिक्तरूपस्यैवाज्ञातत्वमित्यत्र सर्वसंमतमुदाहरणमाह-सप्र. त्यभिज्ञेति। प्रत्यभिज्ञेति तत्कारणमुद्दुद्धसंस्कारोSभिधीयते। प्रत्यभिज्ञाशब्दितोद्वुद्धत- त्तांशसंस्कारसहितनयन संप्रयोगोत्थाया धियो घटादे: स्थेमा स्थैये घटादिकार्यें मितेऽप्यभि- ज्ञाप्रत्यक्षेणावगतेऽप्यप्रबोधविषयः सन्विषयत्वमेतीत्यङ्गीकृतं ननु सर्वरिति योजना ।
इत्यर्थः । नहि स्थेमा नाम वस्तुनो गुणक्रिकियादिरूपो धर्मः कोऽपि प्रसिद्धोऽस्ति किं तु वस्तुस्वरूपमेवानेककालसंबन्धनिमित्तवशातस्थेमेत्युच्यते। एवंविधोऽप्ययं घट इति प्रत्य- क्षेणाभिज्ञालक्षणेन गृह्यमाणेडपि घटे तत्स्वभावभूतोऽपि स्थेमा न भासते सोडयं घट इति प्रत्यभिज्ञाप्रत्यक्षेण तु भासत इत्येकस्थैवानशस्याभानादभानं भानं चानुभूयत एवेति नानुपपत्तिरिहेति मावः ॥। ४८ ॥ सु० टी०-एवं च निरंशस्यापि सिद्धमात्मनोऽधिष्ठानत्वमित्युप- संहरति- एवं स्फुरत्यपि द्ृगात्मनि तत्स्वरूपे- णास्फूर्तिभाजि परिकल्पिततोपपन्ना। स्वाज्ञानतो जगदिदं परमेश्वरोऽसौ जीवोऽहमित्यपि विभागवतोऽल्पकस्य ॥ ४९। एवमिति। प्रत्यगनिदरूपेण स्फुरत्यपि चिदात्मनि नित्यमुक्ताद्वयान- न्दरूपेणास्फूर्तिमाज्यघिष्ठाने स्वाज्ञानमात्रदोषादल्पकस्याहंकारादेरध्य- स्तता प्रागुक्तयुक्तिभिरुपपन्नेत्यर्थः । अल्पक रूपं विशिनष्टि-जगदिति । इद्मिति साक्षिसिद्धत्वादसाविति परोक्षत्वाद्विमागो नानात्वं तद्वत इत्यर्थः । यद्यपि स्फुरति चिदात्मनि नास्ति न भातीतिव्यवहारयो- ग्यतालक्षणमावरणं नास्ति विरोधात्तथाऽपि तदृत्यन्ताभिन्नेऽप्यद्वयान- न्दरूपेऽनुभूयमानत्वादेव तद्ङ्गी क्रियते। न ह्यज्ञानावृतत्वं तद्वेष्टितत्वं येन विरोध: स्थात्किंतूक्तव्यवहारयोग्यत्वमेवेति मावः ॥४९॥
१ क. ग. 'ते नाज्ञानि°।
Page 77
७० टीका दूय समेतं-
अ० टी०-इदानीमुक्तष्टान्तसिद्धमर्थ दार्श्न्तिके योजयन्प्रत्यक्चैतन्यमात्रेण स्फुर- त्यप्यात्मनि नित्यमुक्तब्रह्मस्वरूपेणारफुरणादंशकल्पनां विनाऽप्यव्याससिद्धिरिति दर्शयति- एवं स्फुरत्यपीति। एवमुक्तदृष्टान्तानुसारेण दृगात्मनि प्रत्यग्ूपे त्वमर्थे स्फुरत्यपि ततस्वरूपेण तदर्थाद्वयानन्दब्रह्मरूपेणास्फूर्तिभाि स्फुरणरहिते जगदिदमसौ परमेश्वरोऽहं जीव इति विभागवतोऽल्पकस्य परिच्छिनस्य प्रपश्चस्य स्वाज्ञानतः परिकल्पिततोपपन्नेति योजना ॥ ४९ ॥ सु० 2ीc-एवमल्परूपस्याध्यस्तत्वे साधिते बन्धतद्नर्थत्वतत्कारण- मुक्तित दर्थत्वतत्कारणात्मकं घट्क सिद्धमित्याह- अल्पं रूपं बन्धनं प्रत्यगात्मा बद्धोडनेन स्वच्छचैतन्यमूर्तिः । स्वात्माज्ञानं कारणं बन्धनेऽस्य स्वात्मज्ञानान्तन्निवृत्तिश्र मुक्तिः ॥ ५० ॥ अल्पं रूपमिति। अल्पं परिच्छिन्नं कर्तृत्वादि रूप्यत इति रूपं यन्नाम- रूपकर्मात्मकं तदस्य भूश्री बन्धनमिव बन्धनमित्यर्थः । ननु कुतोडस्या- ल्परूपस्यानर्थत्वमित्यत्राSडह-बद्ध इति। अनेनाल्परूपेण धर्मधर्म्यध्या- सात्मकेनाSडत्मा बद्धो निगडित: स्वच्छोऽप्यस्वच्छ इव विज्ञोऽप्यज्ञ इवानिशं बम्भ्रमीि। ननु कुटस्थासङ्गचिदेकरसः सन्कथमयभीदृ्शी दशामापन्न
कारणं नान्यदित्यर्थः । नन्वीहशस्य सहजमोहान्धरूपमग्रस्य विवशस्य कुतो बन्धविच्छित्ति: स्यादित्यत्राऽडह-स्वात्मेति। आत्मनोऽद्यानन्द- ब्रह्माभेदेन यज्ज्ञानं तत एवास्य समूलबन्धनिवृत्तिरित्यर्थः । तस्या उपाद्यत्वमाह-मुक्तिरिति। सा हि मुक्तिरखिलानर्थनिर्मुक्तपूर्णानन्दा- वाप्तिरूपत्वात् परमपुरुषार्थ इत्यर्थ: ॥ ५० ॥ अ० टी०-एवं जगदादिभेदस्याSत्मन्यविद्यया कल्पितत्वप्रतिपादनेन किमुक्त्तं भवतीति चेत्तदाह-अल्पं रूपमिति । यदल्पं परिच्छिन्नमात्मनः प्रमातृत्वादिरूपं तद्न्धनम्। बन्धोSविद्याकृतः । अनेन बन्धनेन स्वमावतः स्वच्छ चैतन्यमूर्तिरपि प्रत्यगात्मा बद्धो निगडितः। एवं सतीदं फलितिमित्याह-स्वात्माज्ञानं कारणमिति। स्पष्टार्थः।
१ क. म्नो ब°। २ क. स्वस्थो। ३ क. स्वस्थो इ। ४ क, इवान।
Page 78
संक्षेपशारीरकम्। ७१
परमार्थत्वे बन्धस्याज्ञाननिवर्त्यत्वासंभवान्निर्विकारे कूटस्थात्मनि क्रियासाध्यार्थासंभवाचा- निर्मोक्षप्रसङ्ग इत्यात्मन्यहंकारादिबन्धनस्याध्यस्तत्वं सिद्धभिति भावः ॥५०॥ सु० टी०-नन्वनाद्विभावरूपस्याज्ञानस्य ब्रह्मवदेव निवर्तनासंभवा- त्कुतस्तस्य निवृत्तिरूपा मुक्ति: फलमित्याशङ्क्य तस्य मिथ्यात्वेन ज्ञाननिवर्त्यत्वं साधयति- अज्ञानमप्यविदुषोऽस्य न तु स्वतोऽस्ति
अज्ञातताऽप्यनवबोधनिबन्धनैव नाऽऽत्माश्रयत्वमपि चोदयितव्यमत्र॥५१॥ अज्ञानमपीति। तथा हि अज्ञस्य त्वात्मन्यज्ञानान्वयः किं स्वामाविकः कल्पितो वा नाऽडद्य इत्याह-नत्िति। कुत इत्याह-चैतन्येति। स्वभा- वत आत्मन्यज्ञानमस्ति चेद्स्तुभूतं स्थात्। न च स्त्रप्रकाशचिदात्मके वस्तुनि वस्तुतोऽज्ञानं वर्तितुमहति प्रकाशतमसोविरोधात्। तथाS- ज्ञानमात्मधर्मश्रेत्स्वयं विनश्यदात्मानं विकुर्यात्।'उपयन्नपयन्धर्मो विकरोति हि धर्मिणम्' इतिन्यायात्। तथाऽज्ञानस्य वस्तुत्वे द्वैतापत्ति- रिति चित््व निर्विकारत्वाद्वयत्वश्रुतिविरोध इत्यर्थः। द्वितीयमङ्गी करोति- अज्ञातताऽपीति। अपिस्त्वर्थः । तथात्वे हि मध्यंदिनालोकमण्डले कौशि- कादिकल्पितान्धकारवद्विरोध: स्यादिति भावः । नन्वेवमज्ञानेनैवा ज्ञानकल्पनायामात्माश्रयत्वमिति नेत्याह-नाऽडत्मेति। अनादि ह्यज्ञा- नमज्ञानतन्त्रमज्ञातत्वमप्यनादीति क्वाSडत्माश्रय इति भावः। यट्राऽ- तानिर्वचनीयवादे नानुपपत्तिर्दूषणमिति भावः । केचित्तु सत्कार्या- सत्कार्यवादिनोरभिव्यक्तावुत्पत्ती च नाऽडत्माश्रयक्षेत् किमु मायावादिन इत्यर्थमाहुः॥५१॥ अ० टी०-तदेवमाच्छाद्य विक्षिपतीत्यारम्येयता ग्रन्थेनाSSमनि दृष्टबन्धस्य सजातीय- , विजातीयस्वगतभेदप्रतीतेश्राविद्याकल्ितत्वान्मिथ्यात्े सिद्धे जीवब्रह्मणोः पारमार्थिकमेकत्वं तत्साक्षात्करिण च-तद्विद्यानिवृत्ति: परमानन्दस्वरूपाभिव्यक्तिश् विभाव्यत एवेति शास्त्रादेः सिद्धे विषयप्रयोजने इति प्रतिपादितमिदानीमुक्ताज्ञाननिब्न्धनत्वं बन्वस्य तदोपपद्यते यद्या- रमन्यज्ञानं संभाव्यते नतु तत्तत्र संभाव्यते स्वभावविरोधादिति ये मन्यहते तान्प्रति बोधयंश्रिदात्मन्यज्ञानं कर्थचिद्धट्यति-अज्ञानमपीति। अयमर्थ :- किमज्ञानं परमा-
Page 79
७२ टीकाद्टय समेतं-
र्थतश् चिदात्मनि न संभवतीत्युन्यते किं वा प्रतिभासतोऽपीति विकल्प्याSS्यमङ्गी करो- त्यज्ञानमिति पूर्वार्घेन । अपिशब्दो बन्घदृष्टान्तार्थः । बन्धवद्ज्ञानमप्यस्थाSSत्मनोSविदुषो.S- ज्ञानित्वेन मासमानस्य स्वतः परमार्थतो न त्वस्ति। तत्र स्वभावविरोधहेतुमाह-चैत- न्येति। जडस्याज्ञानस्य चैतन्येन स्वभावतो विरोधः। तथा सविकारनिर्विकारत्वाम्यां धर्म- तोऽवि विरोधः। तथा कार्यकरणादिरूपेग सद्वयमज्ञानमद्दयश्चाSडत्मेति व्यतहारतोऽपि विरोधस्ततो विरोधान्नाज्ञानमात्मनि परमार्थमभ्युपगम्यत इत्यर्थः । द्वितीयं निराक- रोति-अज्ञातताऽपीति। आत्मन्यज्ञातसंत्रन्धोऽप्यज्ञाननिर्वृत्त इत्यर्थः । एवं सत्य- ज्ञानसंबन्धादज्ञानसंबन्ध इत्यात्माश्रयत्वापत्तिरिति चेन्नोच्वे्यित्याह-नमश
वायोगाच न परमार्थोऽज्ञानसंबन्धो नापि नास्तीति वक्तुं शक्य इत्यतो नोक्तदोषोSत्राव- तरति परमार्थत्वमपेक्ष्य ह्यात्माश्रयत्वादितर्कविरोध इति भावः ॥५१॥ अज्ञानादेवाज्ञानकल्पने प्रमाणमाह- द्वारं तमोन्वयमपेक्ष्य दृशा हि दृश्यं संगच्छते सकलमत्र न नो विवाद:। मोहोऽपि दृश्यवपुरत्र च संवदध्वे तस्मात्तदन्वयनिमित्तमपीह मोहः ॥५२ ॥ द्वारमिति। आत्मन्यज्ञानसंबन्धोज्ञानकृतो दग्दृश्यसंबन्धत्वाद्घट- ज्ञानसंबन्धवत्। प्रसाध्याङ्गकत्वाद्याप्तिसूचनार्थो हिशब्दः। अयमर्थ :- यस्माद्सङ्गया हशा ( सकलमेव दृश्यं घटादि संबध्यमानमज्ञान- संबन्धं द्वारीकृत्याS5धयासिकेन तादात्म्येनैव सं)बर्ध्यतेऽन्यस्य संयोगसम- वायादेरशक्यनिरूपणत्वादिति वक्ष्यति 'न संकरो नापि च संयुतिः' इत्यादि। 'आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते' इति च वार्तिकं तस्मान्नात्र व्यास्ौ विवदितव्यमित्यर्थः । हेत्वसिद्धिमुद्धरति- मोहोपीति। अहमज्ञ इत्यनुमवादित्यर्थः । अन्र चेति। व्याप्तौविवादो न तु हेतो: पक्षधर्मत्व इत्यर्थः । ततश्वात्रापि मोहनिमित्तंत्वमिति निग- मयति-तस्मादिति ॥ ५२॥
- धनुश्विह्नितग्रम्थः क, पुस्तके नासि।
Page 80
संक्षेपशारीरकम्।
अ० टी०-नन्वेवं विनये बोधिते कथं व्युत्थितेऽनेन बोध्येत। स खल मानयुक्ती विना नार्थमवबौद्धुं क्षमत इति चेत्सत्यं नासौ बिना मानं बुध्यते यदि मानगम्थ भवोन्नेहं तथा तथाऽप्यनुभवसिद्धस्याप्यज्ञानस्य प्रमाणयुक्तिम्यां सिद्धप्रक्ारो वक्तत्यो विना प्रमाणयुक्ती। इदमज्ञाननिबन्धनमेव न परमार्थमिति संभावना बुद्धयनुदयादिति चेतर्हि ते अप्यत्र सुसंपादे इत्यमित्रेत्य प्रमाणं तावदाह-द्वारं तमोन्वयमिति। सकलं दृश्पं बाह्याम्यन्तरं च यदस्ति तत्सर्वे तमोन्वयमज्ञानसंब्रन्धमपेक्ष्य हि दृशा चैतन्यात्मना संगच्छते दर्शनविष्रयतया संबध्यत इत्यत्र नोडस्माकं न विवाद इत्यक्षरयोजना। इदमौप- निषदं दर्शनं विनाऽज्ञानं दृशो न दश्यसंबन्धोऽस्तीति सर्वस्य दृश्यध्यस्तयैवंसिद्धेरध्यासस्य च विनाऽज्ञानमसंभवादिति भावः । एतावता व्याप्तिरुक्तेदानी हेतोः पक्षधर्मता दर्शयन्ननु- मानमाह-मोहोडपीति। संवदध्व इत्यन्तं पक्षधर्मताप्रदर्शनपरम्। मोहस्यापि दृश्यरूपत्वे न विवाद इत्यर्थः । तस्मादित्यनुमानमृक्तम् । तथा च प्रयोग :- आत्मन्य- यमवभासमानो मोहसंबन्धो मोहायत्ता दृश्यत्वान्मोहकार्यप्रपश्ववदिति।न च मोहान्यत्वमु- पाधिस्तस्य साधनव्यापकत्वान्मोहपंबन्धस्यापि दृश्यस्य मोहान्यत्वात्। एवमप्याSSल्माश्र यत्वदोषपरिहाराय मोहान्तरनिबन्धनत्वमेकस्मान्न कल्प्यत इति न वाच्यं गौरवापतेरनव- स्थाप्रसङ्गाच्च। तस्मात्परपरिकलतविशेषसमवायादिवन्मोहोऽवि स्वपरनिर्वाहरः संभाव्यत एवेति भावः ॥ ५२॥ सु० टी०-ननु कथं प्रपश्चकल्पनोपक्षीणस्याज्ञानस्य स्वकल्पकत्व- मपीत्याशङ्क्य स्वपरनिर्वाहकस्वमावत्वादित्याह- संविद्धुरं वहति तद्विषयोपयुक्कतां स्वात्मन्यपि स्वरसतः स्वकरूपसिद्धेः । कार्यप्रपञ्चपरिकल्पनमात्ममोहा- नमोहपकल्पनमपीति तथोपपन्नम् ॥।५३॥ संविदिति। यथा हि प्रमाणकलभूता संवित्सव विषयघटादिमिद्धौ स्व्र सिद्धी चोपयुक्तां धुरं तद्विपयाज्ञानसंशयादिनिवृत्तिभारं वहत्युभयमपि साधयतीत्यर्थ एवमज्ञानादेव प्रपस्नकल्पनमज्ञानकल्पनं चोपपत्र- मित्यर्थः। ननु संवित्संविदृन्तरवेद्यैव स्वस्य स्व्रविषयत्वासंभवादित्याश- ङूाSSह-स्वरसत इति। संविदन्तरवेद्यत्वेऽनवस्थानात्स्वसत्तायां संशया- दिराहित्यात्स्वव्य वहारे परानपेक्षेव संविदित्याद्युक्तमायम् ।।५३ ।। अ० टी०-इदानीमत्र युर्क्ति संवित्स्वप्रका शत्ववादिमतेनाSSह-संविच्वुरं वहतीति। यथा संवित्संवेदनं तद्विषयोपयुक्तां सविषयव्यवहारोपयोगिनी धुरं मारं तद्यवहारनिर्वहणशाक्तिं १०
Page 81
७१ टीका टय समेतं-
वहति घत्ते स्वात्मन्यपि संविद्धिषये स्वकरूपसिद्धेः स्वव्यवहारसिद्धयर्थ स्वरसतः स्वमा- वादेव तां धुरं वहति। यथेदं परेषामुपपन्नमिष्टं गत्यन्तराभावात्तथाSस्माकमप्यात्मानि कार्य प्रपश्वपरिकल्पनं मोहप्रकल्पनमप्यात्ममोहदिवेत्युपपत्नमेव नानुपपन्नमति योजना। संविद: परमार्थभूतायाः परमार्थ एव स्वपरव्यवहारनिर्वाहकपामर्थ्य चेदुपपन्नं मन्यसे तदा सर्वप्रमाणासहस्यानुभवमात्रसिद्धतयाऽनपोह्यस्य मोहस्य यथादृष्टं स्वपरव्यहारनिर्वाहसाम- थर्यमुपपत्रं कस्मान्न मन्यसे मोहे सर्वानुपपत्तरलंकारत्वादिति भावः ॥५३ ॥ सु० टी०-संवित्स्वप्रकाशत्वे विप्रतिपन्नं प्रति निदर्शनान्तरमाह- आत्मा प्रसाधयति वेद्यपदार्थजातं स्वात्मानमप्यवगतिक्षमशक्तियोगात्। स्वाज्ञानमेवमिदमात्मपरप्रक्लृप्रौ शक्तं भवेदिति न किंचन दौस्थ्यमस्ति ॥५४॥ आत्मेति। यथाऽडत्मा वेद्यं घटादिकं स्वं चावगतिसमर्थज्ञानाख्यगुण- योगात्साधयति। आत्मकार्यव्यवहारसहकारित्वाज्ज्ञानं शक्तिरित्युक्तम्। एवमज्ञानमपि शक्तिवशात्स्वपरकल्पकं स्यादित्यर्थः ।। ५४।। अ० टी०-येषां संविदः स्वप्रकाशत्वं नेष्टं तेषां संमतमुदाहरणमाह-आत्मा प्रसाधयतीति। आत्मा प्रमाता जीवः स यथाऽगमक्षमशक्ति योगाज्ज्ञानृत्वनिर्वाहकसा- मथ्ययोगाद्वेद्यपदार्थजातं प्रसाधयति स्वगतावगभेन व्याप्वन्परिच्छनत्त स्वात्मान मप्व तै शक्तियोगेन ज्ञात्रन्तरनिरपेक्षः सन्प्रसाधयति । अन्यथाऽनवस्थाप्रसङ्गादित्यर्थः । एवमिद- मनुभवसिद्धं स्वाज्ञानं चिदात्माश्रयविषयमात्मपरप्रक्लत्तौ चिदात्मन्यज्ञानततकार्यसंबन्धक- लनायां शक्तं भवेदित्यङ्गीकारे न किमपि दौस्थयं विद्यत इत्यर्थ: ॥ ५४॥ सु० टी०-नन्वात्मनो ज्ञानाख्यशक्तिमत्वाद्स्तु स्वपरसाधकत्वम- ज्ञानस्य तु परशक्तिभूतस्य शक्त्यन्तराभावादज्ञानान्तरमेवाज्ञानसाधक- सुपेयमेवं चानवस्थेत्याशङ्क्य परदृष्टयेव दष्टान्तान्तरमाह- भेदं च भेयं च भिनत्ति भेदो यथैव भेदान्तरमन्तरेण। मोहं च कार्य च विभर्ति मोह- स्तथैव मोहान्तरमन्तरेण ॥ ५५ ॥ भेदं चेति। यथैवं हि मेदोऽन्योन्याभावो भेद्यं घटव्टद्दयं मिथो मिन्नं बोधयत्यात्मानमपि भेदं घटादेर्भैद्यात्सकाशान्द्िनत्ति न तु तदर्थ
Page 82
संक्षेपशारीरकमू।
स्वप्रतियोगिकं भेदान्तरमपेक्षतेऽनवस्थानात्तथा मोहोऽपि मोहान्तरं विना मोहं तत्कार्य च कल्पयतीत्यर्थः ।। ५५॥ अ० टी०-पुनरपि परेषां बहुसंमतं दृष्टान्तमाह-मेदं चेति। यथा भेदो घटपटादिनिष्ठः स्वाश्रयं भेद्यं मिथो भिन्दन्भेदं स्वात्मानं भेद्यं च स्वाश्चयमपि भेदान्तरमन्तरेण स्वव्यति- रिक्तं भेदं विना स्वयमेव भिनत्तीत्यविवादमेवान्यथाSत्राप्यनवस्थाया दुष्परिहारत्वादि- त्यर्थः। मोहं च कार्य चेत्युत्तराधयोजना सुगमा। एतदुक्तं भवति-अज्ञानं ह्यवमासमा- नमाश्रयविषयपारतन्त्र्येणावभासत इति स्वयं व्यवहारे तद्पेक्षं भवतीत्यात्मसंसर्गितयैव भासते। आत्मा तु स्वसत्तास्फूर्त्योंनिरपेक्षोऽन्यानपेक्ष एवावभासत इति स्थितौ सर्वदा संस- र्गिणमात्मानं स्वसत्तास्फूर्तिप्रदतयाऽज्ञानं स्वयमेवाऽडश्रयते यथा निरवयवत्वे स्वतोसंसर्गि- णमाकाशं घटादयोऽवकाशसंसर्गमन्तरेणाSडत्मानमलभमानाः स्वयमेवाSडकाशन संसूज्यन्ते तद्वदिति ॥ ५५ ॥ सु०टी०-एवं ाष्योक्ते बन्धमिथ्यात्वे साधिते यदि शास्त्रारम्मो- पोद्घात आदावध्यासः किमिति तहहि सूत्रकृतोपेक्षित इत्याशङ्कच 'सूत्रेष्वेव हि तत्सर्वम्' इति न्यायाद्सीत्रस्य भाष्यविषयत्वायोगा- दर्थगत्या सन्नित एवेत्याह- ब्रह्मज्ञानं सूचयन्सूत्रकारो बन्धोत्पत्तेर्हैतुविध्वंसनाय। एतत्सर्वं सूचयामास तस्मादे- तत्सर्व भाषते भाष्यकारः ॥ ५६ ॥ ब्रह्मज्ञानमिति। 'अथातो ब्रह्मजिज्ञासा' [व० सू० १।११] इति मुमुक्षोर्ब्रह्म जिज्ञासोपदेशादधिकारिविशेषणस्य मोक्षस्य बन्धहेत्व- ज्ञानध्वंसात्मकस्य बह्मज्ञानं साधकमिति सूचयन्बन्धस्य सत्यत्वे ज्ञान- निवत्यत्वानुपपत्तेरेतत्सर्वे पूर्वोक्ताध्याससाधनप्रबन्धं मुनिः सूचया- मासेत्यर्थः । तेन नासूत्रितार्थवर्णनं माष्यकृत इत्याह-तस्मादिति। ननु ज्ञानमंध्यस्तस्यैव निवर्तकमिति नायं नियमः पूर्वज्ञानस्योत्तरज्ञानेने- च्छाया: स्वविषयज्ञानेन शोकस्य सुहृद्दर्शनेन पापस्य सेतुदर्शनेन विषस्य गरुडध्यानेन प्रवृत्तिप्रागभावस्य प्रवर्तकज्ञानेन निवृत्तिदर्शना- दिति चेन्न तत्त्वज्ञानत्वेन निवर्तकत्वस्य विवक्षितत्वादुत्तरज्ञानादेस्तु विरो- धिगुणत्वेन सिद्धित्वेन सुहज्ज्ञानत्वेन विहितक्रियात्वेन प्रवृत्तिसामग्री-
Page 83
७६ टीकाद्वय समेतं- त्वेन यथायर्थं निव्तकत्वात्। प्रकृतेऽप्यात्मज्ञानत्वेनैव निवर्तकत्वमिति चेन्नाहमिति ज्ञानादृपि बन्धनिवृत्त्यापत्तेः । 'अहं ब्ह्मास्मि' [बृ० १।४।: १०] इति ज्ञानमेव निवर्तकमिति चेत्तदेव हि तत्त्वज्ञानम् 'आत्मानं चेद्वि- जानीयाद्यमस्मि'[बृह०४॥४।१२]इत्यादिश्रुतेः। तत्वज्ञानतेन निवर्तकत्वं च न निवत्यस्य मिश्यात्वं बिना निर्वहति। तथा हि न तावद्बुद्धयादिप्रपश्चपहित ब्ह्मज्ञानं तत्त्वज्ञानं मवति ब्रह्मणो वस्तुत- स्तथात्वाभावात् किं तु विशुद्धब्ह्मज्ञानम् । विद्युद्धिश्र प्रपश्चराहि- स्यम्। न च सत्यभ्रपञ्चाश्रये तदानीभेव तद्राहित्यं वर्तते न चावर्तमा- नस्य साक्षातकारविषयत्वसंभवो पेनासी भाविनी निष्पपश्चतामवगाहेत। अस्तु प्रपश्चोपादनत्वेन ज्ञानमेव तत्त्वज्ञानमिति चेन्न मृदादेस्तथालवेन ज्ञानेऽपि घटाद्यनिवृत्तेर्द्वष्टविपरीतस्य चाकल्पनात्। तस्मात्प्रपश्चसत्त्त्व- कालेऽपि ब्रह्मणि निष्पपञ्चत्वप्रमा वाच्या सा चन प्रपश्चममिश्यात्वं विनेति। तथाऽपि करथं स(*प्रपञ्चे प्रपश्चराहित्यं तद्धति तदत्यन्तामा- वासच्वादिति चेन्न तत्समसस्ताकस्यैव तदत्यन्ताभावस्य तद्वत्यवृत्तेव्याव- हारिकस्य च प्रपञ्चस्य स्वकालेऽपि)ब्रह्मणि पारमा्थिकात्यन्ताभावाविरो- धात्। (+अत एव तरैकालिक निषेधस्य परमार्थटटृष्टरजतामावविषयत्वमुक्ते विवरणे। शुक्तो परमार्थत्वेन हष्टयन्मिथ्या रजतं तत्प्रतियोगिकाभावात्म- काधिष्ठानविषयत्वं हि तदथों न तु लौकिकापणस्थरजताभावविष- यत्वस्। तस्यान्न निषिध्यमानत्वे मिश्यात्वापत्तेः।'नेह नाना '[बृह० ४।४ । १९ ] इति श्रुत्या हश्यमानप्रपञ्चस्थेवाऽडत्मनि शुक्तौ प्रतीय- मानरजतस्यैव तञ्र चैकालिकाभावप्रतीतेश्र। घटस्य तद्भावामावत्व वच्चाधिष्ठानस्य भावस्याप्यध्यस्तनिरूपितामावत्वं न विरुध्यते। केचित्तु रजतस्य परमार्थत्वाकारेण प्रतियोगिमति यस्त्रैकालिकाभावस्तत्परोऽयं ग्रन्थः । परमार्थत्वस्य व्यधिकरणत्वे च प्रतियोगिनो मिथ्यात्वमपि सिध्यतीति उयाचक्षते। सर्वथाऽप्युपपत्नः प्रपञ्च कालेऽपि ब्रह्मणि प्रपश्चा- भावः) इति संक्षेप: ॥।५६।। अ० टै०- तदेव मातृत्वादिबन्धस्या SSत्मतस्वानवभासानाद्यनिरवचनीया विला समा्त्व- प्रतिपादनेव युष्मदसमत्प्रत्ययगोचरयोरित्यादिना भाष्येण संग्रहविवरणाम्यां निरूपित बन्ध- मिथ्यात्वमिह युक्त्या प्रतिष्ठापितं तेनैव शास्त्रादेरविषयप्रयोजनवत्तवं चोपपादितं यद्येवे शास्त्रारम्मकर्तव्यतौपयिकतयाSSदावेव विषयप्रयोजने वक्तव्ये तदर्थ चाध्यासो वर्णनीय-
- ख. पुस्तकस्पोडयं अ्रन्थः। + ख. पुस्तकस्थोऽयं ग्रन्थः।
Page 84
संक्षेपशारीरकम्। ७७
स्तदा माष्यसूत्रानुसारित्वनियमात्सूत्रकारेणानुक्तमेतत्सर्व कर्य भाष्यकारो वर्णयति स्मेत्या- शङ़क्य सूत्रकरेणाप्युक्तत्वान्नात्र शङ्कावसर इत्यभिप्रेत्योंकत भाष्यार्ये सूत्रव्यापारं दर्शयति- ब्रह्मज्ञानमिति। 'अथातो ब्रह्मजिज्ञासा' [व्र० सू० १।१।१] इति प्रथम- सूत्रे ब्रह्मजिज्ञासापदेनाथशब्दसूचिताधिकारिविशेषणमोक्षसाधनं ब्रह्मज्ञानमित्यर्थात्सूत्रका- रेण सूत्रितम्। यतो ब्रह्मज्ञानाय विचारकर्तव्यत्वप्रतिज्ञा तस्य फलतत्साधनत्वयोरन्यतर- त्वामावे न युक्ता। तत्र ज्ञानस्य सुखदुःखप्राप्तिनिवृत्त्योरन्यतरत्वाभावात्तत्साघनत्वमर्थात्सू- त्रितमेवेति प्रयोजनं तावत्सूत्रितं तच्चाधिकारिविशेषणमोक्षाख्यं बन्धनिवृत्तिरूपम् । स यदि देवः परमार्थभूतः स्यात्तक न ज्ञानेन निवर्हणार्हों भवेत्। यतो ज्ञानमज्ञानस्यैव निव- रतकं न परमार्थस्यातो ज्ञानेन बन्धनिवृत्ति सूचयता तस्य मिथ्यात्वमपि सोपपत्तिकं सूचि- तमेवेति गम्यते। यन्निरूपणमन्तरेण सूत्रार्थों न निरूपितः स्यात्तत्सर्व सूत्रसूचितमेव सूत्रेषु सूचनस्यालंकारत्वादिति। तस्मात्सुत्रसूचितस्यैवार्थस्य भाष्यकारेण प्रतिपादनान्नास्य सूत्रा- संगतिशङ्कावकाश इति तात्पर्यार्थः । अक्षरार्थः सुबोध: । एवं सूत्रभाव्यैकवाक्यतानिरूप- णेनास्य ग्रन्थस्य वार्तिकत्वमपि ध्वनितम् ॥५६॥ सु० टी०-अध्यासवर्णकमुपसंहरन्संभावितविषयप्रयोजनत्वाच्छा- स्रारम्भं निगमयति- तस्मादध्यस्तमेतत्सकलमपि दशौ भूमरूपांतिरिक्तं रूपं स्वाज्ञानमात्रादिति भवति परब्रह्मधीबाध्यमेतत्। ईशित्रा दिप्रभेदप्रतिहतिफलकज्ञानदौस्थ्यापनुत्यै श्रीमच्छारीरकार्थप्रकटनपदुताशालि शास्त्रं विदध्मः ।।५७।। सस्मादिति। एतत्प्रत्यक्षं सकलमपि कर्तृत्वभोक्तृत्वादि स्वाज्ञानमात्रा- देव दोषांदूद्दशौ चिदात्मन्यध्पस्तं कुत इत्याह-भूमेति। भूमरूपे हि ब्रह्मण्यल्परूपं परत्र परावमासत्वाद्ध्यस्तभेव संभवतीत्यर्थः। ततः किमि- त्यत आह-इतीति। अध्यस्ततासिद्धी च ब्रह्मधीबाध्यत्वं सूत्रितं सिद्धं मवतीत्यर्थः । तेन विषयादिसंभवाच्छ्रीमच्छारीरकार्थब्रह्मात्मैक्यस्य यत्प्रकटनमपराधापनयेन स्फुटीकरणं तत्र यत्पदुत्वमुपपत्तिाहुल्यं तदुक्तं शारख्त्रं समासव्यासाम्यां चतुर्लक्षणीनयसंग्रहाच्छास्त्रकल्पं प्रक- रणं कुर्म इत्यर्थः । तन्निर्माणफलमाह-ईशित्रादीति। जीवेशादिमेदा- ध्यासप्रतिह तिफ लकवाक्योत्थज्ञानस्य यदौस्थ्यं प्रतिबन्धात्फलपर्यन्तता राहित्यं तन्निराकर्तुमित्यर्थः ॥५७॥
Page 85
56 टीका टूय समेतं-
अ० टी०-यस्मादेवं सत्रभाष्यकाराभ्यां शास्त्रीयविषयप्रयोजनभिद्धये बन्घमिथ्या- त्वमुपपादितं तस्माद्युक्तमेवास्मभिरिहाSडदौ तन्निरूपणं कृतमित्युपसंहरति-तस्मादः ध्यस्तमेतत्सकलमपीति। यसमादेवं तस्माद्द्टशश्रिदात्मनो यद्भ्रमरूपं ब्रह्मरूपं तद- तिरिक्त सकलमप्येतत्परिच्छेदविषयत्वा द्रुपेणावभासमानरूपं स्वाज्ञानमात्रादध्यस्तमिति कृत्वां
निवृत्तिप्रयोजनयोरिह संभवाच्छास्त्रमारम्भणीयमेतदित्याह-ईशित्रादीति। ईश्वरो जीवो जगदिति च यः प्रमेदो द्वैतावभासलक्षणस्तस्य प्रतिहतिर्वाधरूपा निवृत्तिस्तदेव फलं प्रयोजनं यस्य तच् तज्ज्ञानं चेति तथा तस्य दौस्थ्यमसंभावनाद्यास्कन्दितत्वेन स्वविषय एव नैश्चल्या भावस्तस्थापनुत्त्यै निरासाय श्रीमच्छारीरकार्थप्रवटनपटतया शालि शोभमान शास्त्रं शास्त्रार्थसंग्रहप्रधानं ग्रन्थं विदध्मः कुर्म इति योजना। यद्यप्यस्य ग्रन्थस्य प्रकरणतं पूर्वमुक्तं तथाऽपि मोक्षपुरुपार्थसंबद्धप्रमेयज्ञानस्याप्यत्र संक्षेपविस्त- राम्यां प्रतिपाद नाच्छास्त्रलक्षणमप्यस्तीति प्रदर्शनाय शात्ररं विद्ध्म इत्युक्तमिति द्रष्टव्यम्। एवमपि सूत्रभाष्टपरतन्त्रत्वाद्विचारशरीरस्य सर्वस्येह साक्षादप्रतिपादनादिदं प्रकरगं च प्रागुक्तरीत्या सूत्रभाष्योक्तानुक्तादिविचारत्वाद्वार्तिकं चेद्मिति भावः ॥ 4७॥ सु० टी०-अगतार्थवर्णकमवतारयिष्यन्नतु यदि ब्रह्मान्यतः सिद्धं किं तद्विचारेणाथासिद्धं न शक्यं विचारयितुं वेदान्तादापातप्रतिपत्रं विचा- यमिति चेत्। केयमापातप्रतिपत्तिर्न पदजन्या ब्रह्मपदे व्युत्वत्यभावा- दृत एव न तत्समभिव्याहृतवाक्यजन्या किंचिद्बह्मास्तीति प्रतिपत्ति: सेति चेन्न तस्या बुभुत्सामात्रहेतुत्वेन विचाराहेतुत्वादतो न ब्रह्म विचार्य न वा बन्धनिवृत्तिस्तत्फलमित्यादावाक्षिप्य समाधत्ते- भीमांसितव्यमनयैव सदद्वितीयं भीमांस्यमेव च सदात्मतयाऽनयैरतत्। ज्ञातं प्रयोजनमनेन पथेदमस्या- स्तन्नान्तरीयकतया च तमोनिवृत्तिः ॥५८ ॥ मीमांसितव्यमिति। न तावदन्यतः सिद्धमेव ब्रह्मेह विचार्यं तस्योपनिष-
स्थितमनयैव मीमांसया मीमांसितव्यमखण्डानन्दात्मना ज्ञातव्यम् । ब्रह्मण औपनिषद्त्वेन तद्विचारस्यैव तन्निश्रायकत्वीचित्याङ्वह्लपदस्य व बृहत्यर्थानुंगमेन सर्वानुवृत्तसत्तास्फुरणात्मनि व्युत्पन्नत्वादात्मशब्दस्य
Page 86
संक्षेपशारीरकम्। ७३
'यञ्चSSप्रोति यदादत्ते' इति प्रत्यगर्थ एव प्रसिद्धेस्तयोरैक्यस्य विचार्य- स्वसंभवात् । तद्दर्शयति-मीमांस्यमवेति। सत आत्मत्वेनाज्ञानादनया मीमांसया तदेवाऽडत्माभेदेन मीमांस्यं नान्यन्नियोगादीत्वर्थः। नन्व्वस्तु ब्रह्मात्मैक्यं विचार्यत्वाद्विषयः फलासिद्धिस्तु तद्यस्थैवेत्याशङ्कयाSडह- ज्ञातमिति। अनेन प्रागुक्तेन यथाडस्या मीमांसाया इद्मेव प्रत्यगभिन्न- मद्यानन्दं ब्रह्म ज्ञातं सत्प्रयोजनं भवतीत्यर्थः। नन्वेवं बन्धनिवृत्तिर्न फलं स्यात्ततश्र प्रागुक्तविरोध इत्यत आह-तन्नान्तरीयेति। ब्रह्मात्मबोधे सति तमोनिवृत्तेरर्थसिद्धत्वेन मनवन्न सापि पृथगुद्देश्यतया फलमित्यर्थः । ननु तमोनिवृत्तेरधिष्ठा- नमात्रत्वेनाऽडत्माभिन्नायाः प्रागपि सत्वात्करथं ज्ञानसाध्यत्वमिति चेद्यस्मिन्सत्यग्रिमक्षणे यत्सत्वं यदभावे चाभावस्तस्यैव तत्साध्यत्वात्। अस्ति च ज्ञाने सत्यग्रिमक्षणेऽज्ञाननिवृत्तिरुपात्मसत्वं तद्भावे चाज्ञा-
दिति। अस्तु तमोत्यन्ताभावरतमोनिवृत्तिस्तस्यानादित्वेन ब्रह्मा भेद- योग्यत्वान्न तमोध्वंसस्तस्य प्रतियोग्यसमानकालत्वादिति चेन्न प्रतियो- गिसमसत्ताकस्पैव तस्य तद्समानकालत्वमित्युक्तत्वादिति दिक् ॥५८।। अ० टी०-ननु यद्यपि प्रत्यगात्मनि भेदविपर्यासयोरुक्त्तन्यायेन मिथ्यात्वात्पारमा- र्थिकं तद्दवयं विषयस्तज्ज्ञानाच्च तद्गताज्ञानबन्धहानिः प्रयोजनं च स्यादिति संभाव्यते तथाऽप्युक्तविषयप्रयोजने न संगते इव प्रतिभाति। तथा हि वाक्यविचारात्मक हीदं शास्त्रमभिमतं न तर्कशास्त्रवद्युक्तिमात्रेणोत्प्रेक्षितार्थनिरूपणपरम् । तत्र चानन्यलब्धः शब्दार्थ इति न्यायादुक्तविषयस्य वेदान्तैकगम्पता वक्त्या। साऽन्र विचार्यमाणा न लम्यते सकलस्य विषयस्यान्यतः सिद्धौ विचारवैयर्थर्यादसिद्धौ च विषयालिद्वेनिर्विषय- विचारानुत्थानात्। न च वेदान्तेभ्य आनातप्रतिपन्नविषयस्य फलस्य विशेषतो निणयफलविचारो भविष्यतीति वाच्यं विकलपासहत्वात्। कि पदात्प्रतीतिरापातप्र- तिपत्तिरुक्तवाक्यान्नाSडघ्यो मानान्तरागोचरस्य ब्रह्मात्मनः संगतिग्रहांसंभवात्वदा-
गात् न मानान्तरप्रवेशे च तत्र शब्दस्यानुवादकतया प्रामाण्यायोगादिति केचि-
वेदान्तेषु तदनयैव मीमांसितव्यम्। 'अथातो ब्रह्मजिज्ञासा'[ब्र० १।१।१] इत्या- दिसूत्र संदर्भरूपेणैव विचारशास्त्रेण विचारणीयमित्यक्षरार्थः । अय भावः-न चात्यन्ता- प्रसिद्धिविरषयस्याम्युरगम्यते येन विचारस्य निर्विषयतयाऽनुत्यानशङ्गा। नापि गथावन्निधि-
Page 87
60 टीकाद्वयसमेतं-
तरूपा तत्प्रसिद्धिर्येन विचारवैयर्थ्य स्यात्। वेदान्तेभ्य आपातप्रतिपन्ने वाक्यार्थे तक्य प्रतीयमानब्रह्मात्मैकत्वादन्यप्रवृत्तिशङ्कावारणेन तदेकप्रतिष्ठत्वनिश्चयाय विचार आरम्य इति न विचारवैयथ्यांदिशङ्कावकाशः। न च पदाद्वाक्याद्वा, तत्प्रतीतिरिति विकल्पावसरः पदार्थस्य लोकसिद्धत्वात्। लोके हि सच्छब्दः सन्मात्रविषयोऽस्त्यादिशब्दैर्व्यवहियते। तथाऽद्वितीपादिशब्दश्च द्वितीयाभाव एकस्मिन्वस्तुन्यवगतसामर्थ्यः । तथा ब्रह्मशब्दोऽपि संक्ोचकाभावान्निरवग्रहमहद्वस्तुनि स्वसामथ्यीदेव व्युत्पन्न इति नाव्युत्पन्नशङ्काऽपि। अतो नात्र दोषः कोऽपि। अनयैवाद्वितीयं सन्मीमांसितव्यमिति वदता यथोक्तं विषयस्यान्य- साधारणत्वमुक्तम्। नह्यद्वितीयात्मवस्तु लोकप्रमाणत्वाभिमतात्प्रत्यक्षादेः सिद्धं तथा सति वादिविवादादर्शनप्रसङ्गात्। नापि शास्त्रान्तरात्तत्तिद्धिस्तस्य सर्वस्य भेदतत्त्व्रपरत्वादात्म- न्यौपनिषदत्वविशेषणश्रवणाच्च। तस्मादनयैव मीमांसयोक्तार्थो ज्ञेय इति। ननु यद्यापि ब्रह्मोपनिषदेकवेद्यमुपनिषद्श्चास्मिन्नेव शास्त्रे विचार्यन्त इति ब्रह्मास्य विषयस्तथाSपि तस्याऽSत्मैक्यं न श्रुतिविचारशास्त्रविषय आत्मनस्ततोऽन्यत्वादित्याशङ्का न कार्येत्याह- मीमांस्यमेवेति। अनया मीमांसया तत्सद्वह्मात्मतयैव प्रत्यगेकरसतयैत्र मीमांस्यमित्य- न्वयः । सर्वश्रुतिषु 'अथमात्मा ब्रह्म' [बृ० २।५।१९ ] इत्येवंरुपेणैव ब्रह्मण
दृस्य चोपाधिभेदमन्तरेण स्वमावतो निरूपयतुमशक्यत्वाच्च न प्रतीचो भेदेन ब्रह्मदर्शन- मुपपद्यतेऽत एव सर्वश्षुतिषु 'तत्त्वमसि' [छा०६।१६।३] इत्यादिवाक्यगतपद- सामानाधिकरण्यविषयशोधनाय विचारशास्त्रारम्म इति भावः । यदुक्तं प्रयोजनमप्यत्र न संभाव्यत इति तत्राSऽह-ज्ञानमिति। अनेन पथा यथोक्तेन प्रत्यगेकरसत्वलक्षणेनेदं सदादिशब्दनिर्दिष्टं ब्रह्मज्ञानं सत्प्रयोजनं परमानन्दरूपत्वात् 'ब्रह्म वेद ब्रह्मैव भवति' [मु० ३।२। ९ ] इति ब्रह्मवेदनस्य ब्रह्मभवनफलश्रवणादज्ञातं ब्रह्म प्रत्यक्तत्वं विषयीकृत्य प्रवृत्तविचार द्वारकवेदान्तवाक्यजन्यज्ञानस्य ज्ञातं तदेव प्रयोजनं नान्यत्साध्य- रूपमित्यर्थ: । ननु तमोनिवृत्तेः साध्यत्वात्सैव संसारनिदाननिवृत्तित्वेनाभिलाषगोचरत्वाच्च फलमित्याशङ्क्याSSह-तन्नान्तरीयकतया चेति। तमोनिवृत्तिश्च न ज्ञानव्यापार- साध्या [अपि] तु तन्नान्तरीयकतया तत्त्व्ज्ञानोद्यमात्रेण विरोधात्स्वयमेवाज्ञानतमो
पृथक्फलत्वमित्यर्थः ॥। १८॥
सु० टी .- ननु विषयादिसिद्धावपि नैतच्छास्त्रमास्म्मणीयमस्य शक्तितात्पर्यनिर्णयार्थत्वात्तस्य च पूर्वतन्त्रेणैव 'शास्त्रस्था वा तन्नि- मित्तत्वात्' [जै० मि० अ० १। पा० ३। सू० ९]'संविग्धेपु वाक्यशेषात्ं' [जै० मि० १ ।४ । २९ ] इत्यादिभि: सिद्धेः
Page 88
संक्षेपशारीरकम्। ८१. धर्मजिज्ञासासूत्रे च वेदार्थमात्रजिज्ञासायाः प्रतिज्ञातत्वेनाविचारितवेद-
न च गतार्थमिदं प्रतिभाति नो न हि विधे: पदमात्मसमीक्षणम्। न खलु यागददातिजुहोतिव- न्पुरुषतन्त्रमिहाऽडत्मनि दर्शनम्॥५९ ॥ न चेति। चोदनाप्रमाणकस्य धर्भस्य समन्वयप्रमाणकस्य च ब्रह्मणो विचारभेदान्नेदं शास्त्रं तेन गतार्थमित्यर्थः । ननु द्ृष्टव्य इत्यादिवि-
डक्याSडह-न हीति। पदं विषयः। न ह्यात्मज्ञानं विधेयं नियोगावि- षयत्वादित्यर्थः । तथा हि न स्वरूपचैतन्यं विधेयं तस्य नित्यत्वेनाननु- षेयत्वात्। नापि चरमवृत्तिर्निष्फलत्वात् ।न चाविद्यानिवृत्ति: फलं नान्तरीयकत्वेनानुद्देश्यत्वात्। न चाSडत्मज्ञानं संस्कारत्वेन विधेयमात्म- नोऽसंस्कार्यत्वात्। नापि करत्वङ्गतया प्रकरणाद्यमावात्फलित्वाच्च। न च फलश्रुतिरर्थवाद: परस्पराश्रयाज्जुह्वादिवत्क्रत्वव्यभिचाराभावाच्च। नापि लिङ्गात्क्रत्वङ्गता सामान्यसंबन्धं विना तद्भावात्। न च वेदार्थज्ञान वत्कत्ववश्यापेक्षितत्वान्न सामन्यसंबन्धापेक्षेति वाच्यमशनायाद्यतीता त्मज्ञानस्याधिकारविरोधिन: कतुभिरनपेक्षितत्वात्। कि च स्वव्यापारे पुरुषो नियुज्यते न च ज्ञानं पुरुषतन्त्रमतोऽपि न विधेयमित्याह- न खल्विति। न हि ज्ञानं कर्तुमकर्तुमन्यथा कर्तु वा शक्यं वस्तुप्रमाणप- रतन्त्रत्वाद (*निच्छतोऽपि दुर्गन्धादिज्ञानदर्शनादिच्छतोऽपि लोश्टादौ सुवर्णज्ञानादर्शनान्नियोज्यतन्त्रत्वे च)योषिदग्न्यादिदृष्टिवदृतत्वज्ञानत्वा- पाताच्जेत्यर्थः । यञ्च सूत्रे धर्भपदं वेदार्थमात्रपरमित्युक्तं तन्नानुपपत्तिं विना लक्षणाया अन्याय्यत्वादिति ॥५९॥ अ० टी०-गद्यप्येवं शक्यप्रतिपाद्यत्वादनन्यसाधारणत्वाच्च ब्रह्म संविषयः स्यात्तदेव घ ज्ञातं सन्निरतिशयानन्दरूपत्वात्प्रयोजनं तत्साक्षात्का ज्ञानना्तरीयकतया च तदततमो- निवृत्तिश्र प्रयोजनं भवतीति विचारशास्त्रस्योक्तविषयप्रयोजनाम्यां तद्व्त्वरसिद्धिस्तथाऽपि पूर्वभीमांसयैव समस्तवेदार्थविचारस्य कृतत्वात्पृथग्विचारो नाऽडर्घव्यो वाक्यार्थनिर्णयापेक्षि-
- धनुश्विह्ञान्तर्गतग्रन्थः क. पुस्तके नास्ति।
Page 89
.ट२ टीकाद्टय समेतं-
तस्य न्यायस्य तत्र गतत्वादिति चेन्नत्याह-न च गतार्थमिदमिति। नोSस्माकमिद वेदान्तविचारशास्त्रं गतार्थमन्यतो निवृत्तार्थ न प्रतिभाति तत्र वेदान्तवाक्यानामेकदेश स्याप्युदाहरणादर्शनात् 'अथातो धर्मजिज्ञासा' [जै० १।११] इतिप्रतिज्ञासूत्रे धर्मस्यैव यागादिलक्षणस्य विचारयत्वेन प्रतिज्ञातत्वाच्चोदनासूत्रे च तस्यैव लक्षणप्रमाणयो- रुपन्यासादुत्तरसूत्रेष्वपि प्रतिलक्षणं च तद्विचारेण शास्त्रसमाप्तिदर्शनान्न पूर्वमीमांसाविचारे- णास्य गतार्थतेति चकारार्थः । ननु विध्यपेक्षितविचारस्य सर्वस्यापि तत्र कृतत्वाद्विधिरहि- तवाक्यानां चार्थवादादीनां विध्येकवाक्यतया फलवदर्थावबोधकत्वप्रकारदर्शनेन विधिविशेषतवेन प्रामाण्यनिर्णयन्यायस्यापि तत्र गतत्वाद्वेदान्तविज्ञानस्यापि विधिविषयत्वाद्विध्यपेक्षितार्थसम- र्पकत्वेन तच्छेषत्वाद्वा प्राग्विचारण विचारितत्वोपपत्तेरन पृथग्विचाराईमिदमिति चेत्तताSSह न हि विधेः पद्मात्मसमीक्षणमिति। आत्मसमीक्षणं वेदान्तवाक्योत्यं प्रत्यगे- करसब्रह्मज्ञानं न विधे: पदं विषय: साक्षाद्वा परम्परया वा न घियो योग्य इत्यर्थः।तत्र साक्षाद्विधिविषयत्वाभावे हेतुमाह-न खल्विति। योगदानहोमवदिह वेदान्तेषु आत्मनिदर्शनं न खलु पुरुषतन्त्रं प्रयत्नप्रातिपादं तस्य तत्त्वज्ञानतवन भ्रमाणवस्तुत- न्त्रत्वादग्नावन्नित्वज्ञानवदपुरुषतन्त्रस्य चाविधेयत्वादित्यर्थः । इहाऽडत्मनीति सामा नाधिकरण्यं वाऽऽत्मनि ब्रह्मत्वदर्शनमित्यर्थः। नाप्यर्थवादादिन्यायोऽन्यविधिशेषताS- स्यास्त्यनारभ्याधीतत्वात स्वार्थे फलराहित्याभावाच्चेति भावः ॥१९॥ सु० टी०-विधेयानिरूपणादृपि न ब्रह्मज्ञानं विधेयमित्याह- अपि च रूपितगोचरता विधेर्न परमात्मधियोऽस्ति च रूपणम्। अविदिते परमात्मनि तद्धियो न खलु रूपितता घटनान्विता ॥ ६ ॥ अपि चेति। अज्ञाते विषये पुंसो नियोक्तुमशक्यत्वाद्यजेतेत्यादिवदि हापि विधिप्रवृत्तेः प्राग्विषयनिरूपणं वाच्यम्। न चाऽडत्मनोऽनुप- स्थिता तज्ज्ञानरूपविषयनिरूपणं घटत हत्यर्थ: ॥६० ॥
सु० टी० -- अस्तु तर्हि 'सत्यं ज्ञानमनन्तम्''[तैत्ति० २। १।१] इत्यादिभि: प्रागपि विधेरात्मज्ञाने को दोष इतिचेत्तत्राSSह- विदितता परमात्मन इष्यते यदि वृथा विधिरस्य धियो भवेत्।
Page 90
संक्षेपशारीरकम्। ८३.
निखिलभेदनिदाननिवृत्तितो भवति तद्विषयादि च दुर्लभम् ॥६१॥ विदिततेति। एवं हिसति तद्ीविधानं व्यर्थ विधिकृत्यस्य प्रागेव सिद्धेरित्यर्थः । विधी सत्यात्मज्ञानें तस्मिंश्ध सति विधिरित्यन्योन्या- श्रयक्च। अशक्यश्च विधिरित्याह-निखिलेति। विधेः प्रागात्मनो ज्ञाने
सु० टी०-नन्वस्तु विधेः प्राक्परोक्षमात्मज्ञानं विषयादिनिरूपक्- मपरोक्षस्यैव भेदाध्यासनिवर्तकत्वादिति शक्यो विधिः । किं चात्र 'विज्ञाय प्रज्ञां हुर्वीत'[बृह० ४।४।२१] इत्याद्यक्तज्ञानाभ्यासा- - साक्षात्काराद्विद्यानिवृत्तिरिति धर्मविचारेणैव गतार्थत्वमित्याश- क्ूयाSSह- इति न धर्मविशेषसमर्पणं श्रुतिशिरोवचनैः क्रियते ततः । भ्रवति धर्मविचारगतार्थतानवसरः परमात्मविचारणे॥ ६२॥ इति नेति। वेदान्तानां ज्ञानाभ्यासविधिपरत्वे ब्रह्मपरत्वे च वाक्यभेद: संभवत्येकवाक्यत्वे स चान्याय्यः। न चान्यपरे्योऽपि देवतादिवद्वह्म-
ज्ञानानिवर्तकत्वान्मोक्षसाधन ब्रह्मात्मैक्यपरवेदान्तविचार आवश्यक इति न गतार्थत्वमित्यर्थः ॥ ६२॥
सु० टी०-वेदान्तानामविधिपरत्वे तत्रत्यलिङनदीनां का गतिरिति चेत्तत्राSडह- अर्हायिर्थे च कत्यस्मरणमभिमतं पाणिने: प्रार्थनादौ लिङ््लोडादेश् वृत्ति: प्रचुरमभिमता पाणिनेर्जैमिनेश्र।
१ क. "रोधतान्य° । २ क. 'नान्यसा° । ग. 'नानन्यसा"। ३ क. म. पुत्रादिसा।
Page 91
८४
तस्माद्वेदान्तवाक्ये पठितमपि लिडवन्यथा योजनीयं विध्यर्थासंभवेन स्फुटमुदितनयादेतदन्यागतार्थम् ॥६३॥ अर्हादीति। 'अरहे कृत्यतृचश्र'' विधिनिमन्त्रणामन्त्रणाधीट्टसंप्रश्न- प्रार्थनेषु लिड्' 'लोटच' इति नानार्थत्वेनानुशासतः पाणिने: कृत्यानामर्हाद्यर्थत्वं लिङादेश्व प्रार्थनाद्यर्थत्वमभिमतं जैमिनेरवि 'विष्णुरुपांशु यष्टव्य:' 'जर्तिलयवाग्वा जुहुयात्' इत्यादो विध्यसं- मवादर्थवादत्वं वदतो लिङनदेरर्थान्तरे वृत्ति: प्राचुर्येणामिमतैवेत्यतो द्रष्टव्य इत्यादिष्वप्यसंभवद्विधानेषु दर्शनार्ह आत्मेत्येवमन्यथैव लिडदि योउयमित्याह-तस्मादिति। एतदिति। अविधिलक्षणत्वादेतच्छास्त्रं विधि- शास्त्रेणागतार्थमित्यर्थः ॥६३ ॥ ।६३ ! सु० टी०-अथाधिकारिसंभवमुपपाद्यितुं नन्वेवमपि न ब्रह्म वि- चार्यमधिकार्यमावात्सवस्यापि ह्यधीतवेदस्य धर्मविचारानन्तरं तद्नुष्ठान एव प्रवृत्तेः। न च मुमुक्षुरत्राधिकारी तस्यासंभवात्मसिद्धसुखपरिहारे- णालौकिकमोक्षसुख इच्छानुपपत्तेः 'यावजीवजरामर्यादि' श्रुतिवि- रोधेन कर्मत्यागस्याप्यनुपपत्तेरित्याशङ्कामपाकरोति- एकाहाहीनसत्रद्यविधिविहिताने ककर्मानुभाव- ध्वस्तस्वान्तोपरोधा: कथमपि पुरुषाश्विद्दिदृक्षां लभन्ते। यज्ञेनेत्यादिवाक्यं शतपथविहितं कर्मवृन्दं गृहीत्वा स्वोत्प- न्याम्रीनसिद्धं पुरुषविविदिषामात्रसाध्यें युनकक्ति। ६४ ।। एकाहेति। यद्यपि प्रायेणाधीतवेद: कर्मस्वेव प्रवर्तते सहजरागादि- कषायदूषितान्त:करणत्वात्तथाऽपि ये तावज्जोतिष्टोमाद्येकाहद्विरात्रा- दहीनसहस्र संवत्सरान्तसन्रसत्राहीनार्थविधिदवय विहित द्वादशाहादनेक- निरभिसंधिकृतकर्मानुभावक्षीणचित्तमलाः सत्पुरुषा: 'कश्िद्धीरः' [कठ० ४। १] इत्यादिभ्ुतिविषयास्ते साधनसंपन्नाः सन्तः करथं चिदीश्वरानुग्रहादनित्येफलकर्मविधी नेविरक्त विषयानवधारयन्तो नित्य- निरतिशयानन्दं मोक्षमेव पुमर्थसारमनुसरन्तस्तदुपायभूतचिदात्मविवि-
१ क. "आातति° ।२ क. म. "त्यकर्मफलि"। ३ क. नवि°।
Page 92
संक्षेपशारीरकम्। ८५
दिषामाध्तुवन्तीति नाधिकार्यसंभव इत्यर्थः। नन्वेकाहादीनां स्वर्गा- घर्थत्वेन विहितानां चित्तशुद्धिद्वारा विविदिषाहेतुत्वे कि मानमिति चेत्तताSऽह-यज्ञेनेति। 'विविदिषन्ति यज्ञेन' [बृह० ४।४। २२] इत्यादिवाक्यमेव शपतथश्रुतिविहितमेकाहाहीनादिकर्मवृन्दमात्मविवि- दिषासाधनत्वेन विनियुङ्क इत्यर्थः । नन्वन्यत्र विनियुक्तानामन्यत्र विनियोगविरोध इति नेत्याह-गृहीत्वेति। तत्तत्कर्मकाण्डीयोत्पत्ति- विधिस्थकर्मस्वरूपमात्रानुवादेनेत्यर्थः । तेन 'एकस्य तूभयत्वे संयो- गपथकत्वम्' [जे० ४।३।५] इति न्यायात् 'खादिरे बभ्नाति' इति कत्वर्थोत्पन्नखादिरत्वादे: 'खादिर वीर्यकामस्य' इत्यादिना फले विनियोगय द्विरोध इति माव:। ननु नात्र संयोगपृथकत्वसंभवः 'फलं चाकर्मसंनिधौ ' [जै०२।३। २५] इति न्यायेन प्रकरणान्तरीय- विविदिषाफलस्य कर्ममेद्कत्वात्। तथाचाक्तम्- 'उपादेयो गृणो यत्र भवेत्मकरणान्तरे। तैत्राकर्मान्तरं युक्तमुद्देश्ये त्वन्यकर्मता'॥ इति। (* उपादेयो ह्याहवनीयादिर्दूरस्थहोमाद्युद्देशेनापि शक्पविधान- त्वान्न कर्म भिनत्ति। न त्वेवं देशकालफलादुद्देश्यत्वात् ।) न ह्यस्य फलस्य दूरस्थयज्ञादयुद्देशेन विधि: संभवत्यविधेयत्वात्। नापि यज्ञादेर्द्वूरस्थस्य ज्ञानकाण्डे विपेरिवृत्तिरा्ति । येन 'संनिधौ त्वविमा- गात् ' [जै० २। ३। २६ ] इति न्यायेन 'सभे दर्शपूर्णमासाभ्याम्' इत्यादो समादेरदर्शपूर्णमाससंबन्धवद्विविदिषाफलस्यापि यज्ञादिसंबन्ध- विधिः स्यात्। नापि यज्ञादिनामभिरुपस्थितानां तेषां विविदिषायां विनियोग इति युक्तम् । संनिधेरिव नान्नो विध्यपेक्षित कर्मोपस्थाप- कत्वाभावात्। मावना हि फलसंबन्धाय विधिनाऽपेक्षिता न धात्वर्थः। यथाऽडहु: - 'नौम्ना घात्वर्थमात्रं च संनिधाप्येत शक्तितः ।
- धनुश्विह्नितग्रन्थः क पुस्तके नास्ति।
१ क. तत्र क°। २ क. परीतवृ°। २ क. ग. नानाधा।
Page 93
०६ टीकादयसमेतं-
तस्मादन्यदेवेदं विविदिषाफलं यज्ञादीति त एवोमयलिङ्गादित्य+ युक्तं तत्र सूत्रमपीति प्राप्त उच्यते स्यादयं भावनावादिनः स्वमते दोषोऽस्मन्नये तु धात्वर्थव्यतिरिक्तमावनानभ्युपगमान्नानुपपत्तिः। तथा हि पचतीत्यत्राधिश्रयणादिविक्कित्यन्ता पांकक्रियैव धातुनाऽभिधी- यते सैव निष्पाद्यतयाSSख्यातेन। नच तद्भिन्ना भावना नाम काचित्क्ि याऽस्ति याऽऽख्यातेनोच्येत। सर्वाख्यातानुगतः करोतीति सामान्यव्या- पारांश एव भावनेति चेन्न धात्वर्थमात्रानुस्यूतक्रियासामान्यस्यैव करो- त्यर्थत्वात्। एतच्च सम्यगुपपाद्यिष्यामः । ततश्र तान्येव यज्ञादीनि नान्नोपस्थितानि विविदिषायां विनियुज्यन्त इति। ननु तान्येवेत्ययुक्तं विपरिवृत्त्यमावात। न हि यजेतेत्यादिविधिवदसत्वभूतकर्मोपस्थापकं यज्ञादिपदं तस्य लिङ्गसंख्यादियोगितयोपस्थापकत्वादिति चेन्न यत्किं चिद्धर्मभेदस्य विपरिवृत्त्यविरोधित्वात् । तदुक्तमाचार्यै :- 'दिव्येव स- द्रह्मात्र दिव: परम्' इत्युच्यते (*पथा वृक्षाग्रे श्येनो वृक्षाग्रात्परतः इयेन इति नाभिप्रत्यभिकाविरोध इति। प्रतितिष्ठन्तीत्य) त्रेव विविदि- षाकामा यजेरन्ददयुरिति विपरिणताख्यातानुषङ्गेण वा ताद्ृगर्थलाभात्। त्वयाऽप्यतिरात्रश्रतुर्विशं प्रायणीयमहरित्यादीनां प्रकरणान्तरेऽपि नाम्रो पस्थितानां फले विधानादकर्मान्तरत्वस्येष्यमाणत्वात्। (+'एष वाव प्रथमो यज्ञानाम्' इत्पत्रापि यज्ञशब्दोपस्थितानां दूरस्थानामेव कर्मणाम- ग्रिष्टोमोत्तरकालत्व विधावकर्मान्तरत्वाभ्युपगमाञ्च)इत्यलं विस्तरेण॥६४।। अ० टी०-विहितं कर्मवृन्दं स्वाध्यायजपतदर्थानुष्ठानलक्षणं स्वोत्पत्याम्रानसिद्धं तत्तद्साधारणोत्पत्तिविधिभिरवगतं यथा स्यात्तथा गृहीत्वा पुरुषाणां विविदिषासाध्यमात्रे विविदिषारूपफलसाघनतया युनक्ति विनियोजयतीति योजना। ब्रह्मविविदिषामात्रसि द्रयर्थ कर्मकाण्डोक्तकर्मणां विनियोजकं यज्ञेनेत्यादिवाक्यमुक्तकमे प्रमाणमित्यर्थः । न च तत्तस्फलार्थतयाऽन्यत्र विनियुक्तानां कर्मणां पुनरिह विविदिषायां कथमुपयोगो विधातुं शक्यते विनियुक्तविनियोगासंभवादिति वाच्यमुत्पत्तिवाक्यसिद्धकर्मस्वरूपस्यैवेह यज्ञादि- शब्दैरनूद्य विविदिषायां विनियोगात्तत्र त्यफलान्तरसाधनत्वांशस्येहानुपादानात्। तथा च यथा 'अग्निहोत्रं जहोति' इत्यादुत्पत्तिव्ाक्यमेकमपि नित्यकाम्यविनियोगसाधारणमेवं विवि-
- धनुश्विह्नितग्रन्थः ख० पुस्तकस्थः ।+ अय मवि ग्रन्थोऽ्ति ख. पुस्तकंटव। : षष्टि तमादि श्रलोकचतुष्टयस्य टीका नोपलब्धा-चतुःषष्टितमश्लोकस्यापि टीकार्ध नास्ति।
१ क, ग. तेनोच्यते।
Page 94
संक्षेपशारीरकम्। 69
दिषार्थत्वेऽप्यविरोधः । अत एवोकं-स्वोत्पर्याम्रानसिद्धमिति । एतेन प्रयो- गपेदाप्रसङ्गोऽपि व्याख्यातः। कर्मणां शुद्धिद्वारा विविदिषाहेतुत्वं च येन केन चन यजतापि वा दर्विहोमेनानुपहतमना एव भवति, इंदं मेSनेनाङ्गं संस्क्रियते महायज्ञैश्च ब्राह्मीयं क्रियते तनुर्थस्यैतेऽष्ाचत्वारिंशत्संस्कारा इत्यादिश्रुतिस्मृतिसिद्धं 'सर्वापेक्षा च ' [ ब्र० ३ । ४ २६ ] इतिन्यायसिद्धं चेति नात्रानाश्वासकारणमस्तीति भावः ॥ ६४ ॥ सु० टी०-तत्र यद्यपि रागिबहुले जगति मुमुक्षुदुर्भिक्षाद्विरलाधि- कारिको मोक्षस्तथाऽपि प्रागुक्त एव कश्चिदुपशान्तचित्तमलोऽधिकारी मुक्तेर्ब्रह्मज्ञानसाध्यत्वाज्ज्ञानस्य च 'तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत' [ मुण्ड० १।२।१२] इति गुरूपसत्तिसाध्यत्वात्तामन्वतिष्ठदित्याह- उपससाद चतुष्टयसाधनो निशितबुद्धिरशुद्धिपरिक्षयात्। विविदिषुर्विहितैर्विविधाध्वरै- विदितवेद्यतमं विधितद्गुरुम् ॥ ६५॥ उपससादेति। गुरुशिष्यसंवादात्मना शास्त्रपवृत्तेरनादित्वसूचनार्था
वुद्धिरसौ चतुःसाधनसंपन्नो भूत्वा विविदिषुः सन्वेदनार्थ विधि- वत्कर्मसंन्यासादिपुरःसरं बह्मविदामेकपुण्डरीकं गुरुयुपससादेति संबन्ध: ॥ ६५॥
स गुरुमेवाभिगच्छेत्' [ मुण्ड० २। १२ ] इत्यादिशास्त्रसिद्धमर्थमाह-उपससा- देति। अत्र परोक्षभूतार्थलकारप्रयोगो ब्रह्मविविदिषया गुरुपूर्वकवेदान्तश्रवणादौ [पुरु- षधौ ] रेयाणां प्रवृत्तिर्नाधुनातनी किं त्वनादिशिष्टव्यवहारानुवर्तिनीतिद्योतनार्थो गुरु- शिष्यसंवादरूपेणास्य शास्त्रस्य प्रवृत्तिरिति द्योतनार्थक्ेति द्रष्टव्यम्। विविधैर्विहिताध्व ररशुद्धिपरिक्षयान्निशितबुद्धिश्चतुष्टयसाधनो विविदिषुर्भूत्वा विदितवेद्यतमं गुरुं विधिवदुपस- सादेत्यन्वयः । नित्यानित्यवस्तुविवेक इहामुत्रार्थभोगविरागः शमादिसाधनसंपन्मुमृक्षुत्वं चेति साधनचतुष्टयं तद्युक्त इत्यर्थ: ॥ ६ ॥ सु० टीe-नन्वेवं मुमुक्षत्वादिसाधनसंपत्तौ विविदिषा तत्कामस्य
Page 95
टीका द्वूय समेतं- यज्ञादितो बुद्धिशुद्धी मुमुक्षेति चक्रकापत्ति: कथं च प्रसिद्धसुखवि- जातीयेऽननुभूते मोक्षे वाञ्छाऽपि स्थादित्याशङ्क्य सर्वजनीनसहज़- दुःखोपरमसुखेच्छाया एव विवक्षित विवेकान्मोक्षेच्छात्वमुपपाठ्यति- इह जगति हि सर्व एव जन्तु- र्निरतिशयं सुखमुत्तमं ममास्तु । उपरमतु तथोपघातरूपं विषयजदुःखमिति स्पृहां करोति ॥६६॥ सु० टी० -- इहेति। सर्व एव कृमिकीटादिसाधारण: प्राणी न पुन- रुत्कृष्टज्ञानो मनुष्यादिरित्यर्थः । सर्वातिशायि दुःखाननुविद्धं सुखमेव मे सदा भूयादिति तथोपघातरूपं कष्टरूपं विषयजदुःखं विशेषणोप- रमत्विति स्पृहयतीत्येतत्प्रसिद्धमित्यर्थः । तथा च ताद्ृशेच्छाया: प्रागपि सत्वान्न चक्रकादिरिति भाव: ॥६६।। अ० टी०-ननु सुमुक्षुत्वं हि मोक्षेच्छावत्त्वं मोक्षश्र निरतिशयपरमानन्दो नित्यसुख· रूपो निःशेषानर्थनिवृत्त्युपबृंहितः स पुंसामनादौ संसारे न कस्यामप्यवस्थायामनुभवगोचर इति कथमननुभूतसजातीये तस्मिन्निच्छोदयः संभाव्येत तस्मान्मुमुक्षा कथमधिकारिविशेषणमु- पपद्यत इति चेत्तत्राऽऽह-इह जगति हीति। निगद्व्याख्यातं पद्यम्। उपघात. रूपं सुखानुभवविरोधिस्वमावं विषयजदुःखमपि तथा निरतिशयं यथा तथा व्युपरमत्विति योजना। हिशब्देन सर्वजनप्रसिद्धोऽयमर्थो न प्रमाणान्तरमन्वेषणीयमिति सूचितम् ॥६६।। सु० टी०-नन्व्रीदृशेच्छाप्रसिद्धावपि मुमुक्षाप्रसिद्धिनोपपादिते- वेत्यत्राSडह- निरतिशयसुखं च दुःखजात- व्युपरमणं च वदन्ति मोक्षतत्त्वम्। उभ्रयमपि जनोऽभिवाच्छतीति स्फुटतरमस्य सदाऽस्ति मोक्षवाञ्छा ॥६७॥ निरतिशयेति। उत्तरूपं हि सुखं दुःखोपरमं च मोक्षस्वरूपं वदन्त्या चार्याः। तदुभयमप्युक्तरीत्या सर्वोडभिवाञ्छतीति सैव लक्षणतो मोक्ष पाळ्छेति न तस्या अप्रसिद्धिरित्यर्थ: ॥६७ ।।
Page 96
संक्षेपशारीरकम्।
अ० टी०-निरतिशयसुखदुःखनिवृत्त्यथितायामपि मुमुश्ुत्वं कयं सिद्धमित्यत आह-निरतिशय सुखं चेति। यदिदमुभयविधं फलं सर्वपुंसां स्वरसत एवामिलाषा स्पदं तदेव मोक्षतत्त्वं मोक्षविदो वदन्ति। अतः सर्वस्यापि जनस्य स्वरसत एवं मोक्षता- न्छाडस्तीति फलितमाह-उभयमपीति। अनुभूयमानसजातीय एव मोक्षो नात्यन्त- मतज्जातीय इति नोक्तदोषावकाश इति भाषः ॥६७ ॥। सु० टी०-ननु सा वाञ्छा लौकिकविषयत्वान्न मोक्षविषया मोक्षस्य लौकिकमानाविषयत्वेनाप्रसिद्धत्वान्निरतिशयसुखं च योगजधर्मजन्यं नाSडत्मज्ञानजन्यमिति किं तद्ुपायानुष्ठानेनेत्यत आह- उभयमपपि परात्मनः स्वरूपं विमलचिदेकरसं स्वयंत्रकाशम्। इति भवति विना प्रमाणमस्मि-
उभयमपीति। मुक्तिहिं दुःखनिवृत्तिसुखावाप्तिस्वरूपा । तञ्च दयमपि परमात्मस्वरूपमेव। अत एव न योगजधर्मजन्यत्वाशङ्कास्वरूपं चाज्ञा- नव्यवहितं तद्पनयद्वारा तत्त्वज्ञानव्यङ्गयमिति तदुपायानुष्ठानमर्थवत्। ननु स्वरूपत्वेऽपि प्रमाणगोचरत्वात्तदप्रसिद्ध मित्याशङकपाSSह-विम- लेति। यत एव चिदेकरसत्वात्स्वप्रकाशमत एव प्रमाणं विनाऽपि प्रागुक्त- युक्त्ेरस्मिन्मोक्षात्मनि वाञ्छोपपत्ना भवतीत्यर्थः ।। ६८ ।।
व्यते न तत्र पुंसामनुभूतसाजात्यमस्ति विषयभूनसुखादिविष पत्वाल्लाकामिलाषस्येति चेत्तत्राSSह-उमयमपि परात्मनः स्वरूपमिति। अयमर्थ :- वैषयिकमपि सुखमात्मस्वरूपमेव सत्तत्तद्विषयोपभोगं निमित्तीकृत्य विशिष्टाकारमनोवृत्त्युवाधिभिरागन्तु- कैविशेषाकारेणाभिव्यज्यमानं नानेवाSSगन्तुकमिव चावभासते। मनसस्तु लये सुषुप्ती सर्वोपाधिप्रत्यस्तमभयं निरुपाधिकमेकमनागन्तुकं नित्यात्मरूपमत्रभासते। अतः रुखस्य स्वरूपतः स्वयंप्रकाशमानात्मस्वरूनत्वात्तद्विषयाभिलापः परमानन्दाभिलाष एवति नित्यानुभवसिद्ध एवाSऽनन्दरूपो मोक्ष इति न तत्र प्रमाणमन्वेषणीयमिति। तथा
न्तुकं सुषुप्त्यादावात्मनि स्फुरत्यपि दुःखस्य तत्रास्फुरणात्। तथा च तस्याऽSगन्तुकश्य कूटस्थे सदानन्दरूपे चिदात्ननि परमार्थतः संबन्धायोगादष्यस्तं तत्तत्र भासत इति १२
Page 97
९० टीका हप समेतं-
मवेति तत्रापि भवति मुमुक्षोरभिलाष इति यतोडतो विना प्रमाणमस्मिन्ुभयविधः आत्मरूंपे मोक्ष उदितनयादभिवाळ्छनोपपत्तिर्भवतीति योजना ॥ ६८ ॥ सु० टी०-ननूक्तरुपदुःखामावसुखेच्छाया मुमुक्षात्वे सर्वेऽपि मुत्तयु- पाये प्रवर्तेरन्न तु कर्मानुष्ठाने न चैवं द्ृश्यत इत्यत आह- कर्मकाण्डकतबुद्धिशुद्धित- स्तर्किते च खलु मोक्षवस्तुनि । अर्थिताऽस्य घटते प्रयोजक- ज्ञाननुन्नमनसो महात्मनः ॥ ६९॥ कर्मकाण्डेति। 'धर्मेण पापमपनुदति' [महानारा० २२ । १] इति भ्रुतेर्यज्ञाद्यनुष्ठानजन्यया शुद्धया बुद्धेस्तैक्षण्े संजाते नित्यानित्यविवेकान- न्तरं नित्यनिरतिशयानन्दात्मस्वरूपतया मोक्षवस्तुनि तर्किते सति या पुंसां स्वरसतः पुमर्थार्थिता प्रागुक्ता सैवास्य प्रवृत्तिप्रयोजकापातज्ञान- प्रेरितचित्तस्य पुरुषधौरेयस्य वस्तुतो मोक्षविषयत्वेन. पर्यवरसिता सती ब्रह्मज्ञानाधिकारसंपादनाय घटत इति न सर्वेषामधिकारपसङ्ग इत्यर्थ: ॥ ६९ ॥ अ० टी०-यद्येवमुक्तन्यायतः सर्वेषामेव मोक्षेच्छा समस्ति तर्हि कस्मात्सर्व एव निरतिशयसुखदुःखनिवृत्तिमिच्छन्तोवि मोक्षेच्छया तदर्थ श्रवणादौ न प्रवर्तन्त इत्या- शेङयोभयापरिज्ञानात्तत्रिज्ञानहेत्वभावाच्च सर्वेषामिति न सर्वे प्रवर्तन्त इत्यभिप्रेत्याSSह- कर्मकाण्डेति। मानवानां सहस्त्रुषु यः कश्चिदनेकजन्मसु कर्मकाण्डोक्तकर्मप्रभावकृतबु- द्विशुद्धितो ऽशेषकर्मसाध्यं फलमनित्यमात्मैवैंकोSसाध्यत्वान्नित्य इत्येवं विवेकतः कर्मफललक्ष- णात्संसारात्कर्यं मे मोक्ष: स्यादिति मोक्षवर्त्म तर्कयति। एवं तकिते मोक्षमार्गे वेदान्तेष्वापातदर्शनेन 'तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते' [छा०८।१।६] 'नास्त्यकृतः कृतेन' [ मुण्ड० १.। २। १२] इत्यादिना कर्मफलस्यानित्यत्वं 'तरति शोकमात्मवित्' [छा० ७।१।३] 'ब्रह्म वेद ब्रह्मैव भवति' 'ब्रह्मविदाप्नोति परम्' [तै० २।१।१]'तत्र को
१ क. °पि सुखोपा°।
Page 98
संक्षेपशारीरकम्। ९१
मोहः कः शोक एकत्वमनुपश्यतः' [ईशा ७] इत्याधै्व्रहात्मज्ञानस्य नित्यपुरुषार्थ. हेतुतां चावगच्छति। एतेन प्रयोजकज्ञानेन नुन्नमात्मज्ञानसाधनेन श्रवणादौ प्रेरितं मनो यस्य तस्यास्य तर्कितमोक्षमार्गस्य महात्मनोऽद्रचित्तस्य सर्वकर्मतत्साधनसर्वसङ्गपरित्या- गिनः संन्यालिनोऽर्पिंता घटने केवलमोक्षविषया न पुनः सर्वस्य जनस्यारवीधीनशब्दादि विषयानुभववासनाकलुषितस्वान्तस्य तादग्वासनापरवशस्यापीत्यर्थः॥ ६९॥ सु टी०-तथाऽवि कि गुरूपसत्त्या व्युत्पन्नस्यास्य निशितधिय: स्वयमेव वाक्यार्थनिर्णयसामर्थ्यादित्यत्राSSह- धर्मनिर्णयनिमित्तमिष्यते वेदवित्परिषदेव मानवे। तद्ददत्र गुरुणाऽस्य संगतिस्तेन चास्य घटतेऽर्थिता गुरौ॥७०॥ धर्मनिर्णयेति। यथा मानवे शास्त्रे स्वयं निर्णयसमर्थस्यापि वेदवित्स- भैव धर्मनिर्णयनिमित्तत्वेन नियम्यते 'चत्वारो वेदधर्मज्ञाः पर्षत्रैविद्यमेव वा। सा बूते-यं स धर्मः स्यात्' इत्यादिना, तद्वदत्रापि ब्रह्मशास्त्रेS- स्थाधिकारिणो गुरुणा संगतिरसंदिग्ध ब्रह्मनिर्णयनिभित्तं विप्रतिपन्नवे- दार्थनिर्णयत्वीविशेषात् 'आचार्यवान्पुरुषो वेद' [छा० ६।१४।२ ] इति 'आचार्याद्धैव '[छा० ४।९।३] इतिश्रुतेः सूक्ष्मत्वाच्च बह्मनिर्ण- यस्य बहुश्रुतिन्यायापेक्षत्वान्नैकाकिना संभव इति तेनाप्यस्य गुरावर्थित्वं घटत इत्यर्थः ।। ७० ।। अ० टी० -- नन्वेवमपि यस्योक्तसाधनसंपत्तिवशादत्कटा मोक्षेच्छा जायते स किमिति गुरुमुपसीदेत्स्वयमेव वेदार्थ कस्मान्न कल्पयेत्स्वयं व्युत्पन्नबुद्धित्वादिति चेन्नेत्याह- धर्मनिर्णयनिमित्तमिति। मानवे धर्मशास्त्रे दशावराणां परिषदित्यादौ वेदार्थविदां पर्षतसभा धर्मनिर्णयनिभित्तमिष्यते। संदिग्धस्य धर्मस्य निश्चयकरणं तत्संशयनिराकरणेन निर्णयस्य समर्थो विद्वत्समागम एवेति यथाऽवगतम्। मानव इत्युपलक्षणं धर्म- शास्त्रान्तरस्थापि।
तथा च याज्ञवल्क्य :-
'चत्वारो वेदधर्मज्ञाः पर्षत्रैविदयमेव वा। सा ब्रूते यं स धर्म: स्यादेको वाऽध्यात्मवित्तमः' इति। तथा च यथा स्वयं तर्कितस्य धर्मस्य निर्णयाय तद्विदयसमागमोऽर्थ्यते तद्वदस्य मुमुक्षो: स्वयमापातालोचनयोत्प्रेक्षिततत्त्वस्य निर्णयाय गुरुणा तत्त्वनिर्णयसमर्थेन विदुषा संगतिरिष्यत इत्यनुषङ्गः । तथा च धर्मशास्त्रोक्तन्यायात् 'नैषा .तर्केण मतिरापनेया -
Page 99
टीकाहूयसमेतं-
प्रोक्ताऽन्यनैव सुज्ञानाय प्रेष्ट '[ कठो० २। ९ ] इत्यादिश्रुतेश्व येन हेतुना विद्वद्वारै- वार्थनिर्णयः कार्य इत्यवगतं तेन चास्य गुरावर्थिता घटत इति युक्तमेवोक्त्तमुपससादे- त्यत्रेत्यर्थः ॥ ७०॥ ननु यथा पूर्वतन्त्रे 'अथातो धर्मजिज्ञासा' [जै० १॥१॥१] इत्यत्राध्ययनविधेरर्थबोधान्तत्वात्स्नानस्मृतिमतिक्रम्य वेदाध्ययनानन्त- र्थमथशब्दार्थ उक्तस्तथेहाप्याद्यसूत्र उपनिषदध्ययनान्तर्यस्यैवाथश- ब्दार्थसंभवात्। तथा ब्रह्मविचारस्य निवृत्तेवां कर्मिष्वपि संभवेन धर्माधिकारिविलक्षणाधिकर्तव्यविषयामावाच्च किमधिकारिभेदकल्प- नया शास्त्रभेदव्युत्पादनेनेत्यत आह- यः कर्मकाण्डविषयेऽभिहितोऽधिकारी सोडयं प्रवृत्तिषु निवृत्तिषु तुल्यरूपः । अत्राभिधित्सितविशेषणपूगयुक्तोऽ- साधारणस्त्वभिमतः पुरुषो निवृत्तौ॥ ७१॥ यः कर्मति। कर्मकाण्ड उक्तो योरऽर्थी विद्वान्समर्थः शास्त्रापर्युदस्तोऽ- धिकारी सोडयं यागादिप्रवृत्तियु ब्रह्मवधादिनिवृत्तिषु च तुल्यः । स ह्यविवेकी स्वल्पसुखप्राप्त्यव कृतार्थमात्मानं पश्यन्कर्मकतानचेता: पूर्णानन्दब्रह्मविमुखः। यद्धचुदासार्थमथातःशब्दी विनिवेशितौ मुनिना। अन्र तु काण्डेडभिधित्सितं यद्विशेषणजातं विवेकवैराग्यशमादिसंपन्मु- मुक्षुत्वादि तद्युक्त: पुनरधिकारी कर्मपरिहारेण ब्रह्मविद्यैकपरः केवल- निवृत्तिविषयत्वादुभयसाधारणात्कर्माधिकारिणो भिद्यत इत्यतोऽताथ- शब्देन ब्ह्मजिज्ञासां प्रत्यव्यभिचारितया योग्यत्वेन साधनानन्तर्यमेवो- च्यते न त्वध्ययनानन्तर्य तस्य नित्यविधिपाप्तस्याक्षरग्रहणान्ताया वक्ष्यमाणत्वेन श्रवणविधिप्रयुक्तविचाराप्रयोजकत्वाद्यवहितत्वाच्चेति न शास्त्रैक्यसंभावनाऽपीति भावः।।७१॥ अ० दी०-ननु कोऽस्याधिकारिणोऽधिकर्तव्यो विषयो धर्मािकारिविषयविलक्षणो येनात्र धर्माधिकारिविलक्षणोSधिकार्यपेक्ष्यते। न च प्रत्यक्त्व्रमविचारस्तस् कर्मिभिरपि कर्मानुष्ठान-
१ क. म. धायतत्वा:
Page 100
संक्षेपशारीरकम्। ९३
च्छिद्ेषु कर्तुं शक्यत्वात्तदर्थ पृथगधिकार्यनपेक्षणात्। नापि संसारनिवृत्तिरत्राधिकर्तव्यो विषयस्तस्या अप्यौदासीन्यरूपाया निषिद्धनिवृत्तिवत्कर्मिष्वपि संभवादिति चेत्तत्राऽSह-पः कर्मकाण्डविषय इति।अर्थी समर्थो विद्वाञ्शास्त्रेण पर्युदस्त इति विशेषणवत्तया कर्म काण्डे योऽधिकार्यभिहित: सोडयं कर्मकाण्डे विधिप्रतिषेधाभ्यामुक्तप्रवृत्तिनिवृत्तिषु सम इति तावन्मात्रमेव तस्याधिकर्तव्यो विषयः। अत्र निवृत्तौ तु संसारनिवृत्तिनिमित्ते ब्रह्मतत्वविचार रूपे विषय इति यावत्। अभिधित्सितविशेषणपूगयुक्तोऽथशब्देनाSSनन्तर्यार्थन सूत्रकारैर- भिधातुमिष्टो यो विशेषणपूगोऽसाधारणविशेषणगणो भाष्यकारैः प्रकटीकृतस्तेन युक्तो विशिष्टोऽसाधारणः पूर्वकाण्डाधिकारिविलक्षणः पुरुषोऽधिकार्यभिमत इति भवति भेद इत्यर्थः। कर्मानुष्ठाननिष्ठो जात्याद्यभिमानवान्क्रियाकारकफलभेददर्शी च । न तेन तद्विरुद्धब्रह्मात्मचिन्तनं कर्तुमुचितं तस्मिन्सति कर्माधिकारोपमर्दातपुनः कर्मणि प्रवृ्त्यनुदयात्परिशेषादकर्मिविशेषगोचर एव ब्रह्मविचारः सर्वप्रवृ्त्यौदासीन्यलक्षण इति विषय भेदसिद्धावधिकारिभेदसिद्धिरिति भावः ॥७१॥ सु० टी०-ननु तथाऽपि किमधिकारिकल्पनानिर्बन्धेन शास्त्रद्वय- मपि साधारणाधिकारिकमेव कि न स्यादिति चेन्न शास्त्रपरवृत्तिवैलक्ष- ण्यदर्शनादित्याह- शास्त्रं प्रवृत्तिषु निवृत्तिषु तुल्यरूपं साधारणस्य पुरुषस्य पुराऽभ्यधायि। अस्योच्यते सकलकर्मनिवृत्तिभाजः सर्व निवृत्तिविषयं श्रवणादिशास्त्रम् ॥ ७२॥ शास्त्रमिति। साधारणस्य रागिण: पुरा पूर्वतन्त्रेऽभ्यधायि जैमि- निनेति शेषः । अत्र विरक्तस्य संन्यासिन: प्रवृत्तिपर्युदासेन केवलनि- वृत्तिविषयं श्रवणादिशास्त्रमुच्यते बादरायणेनेति शेषः । सर्वमिति
अ० टी .-- ननु किमत्रोक्तव्यवस्थायां प्रमाणमिति चेच्छास्त्रवैलक्षण्यदर्शनमेवे- त्याह-शास्त्रं प्रवृत्तिष्विति। पुरा पूर्वकाण्डे साधारणस्य पुरुषस्य विधिनिषेधयोः सामान्याकारेणाधिकृतस्य त्रिवर्गप्रधानस्येति यावत्। विधिविहितप्रवृत्तिषु निषेधकृत- निवृत्तिषु च तुल्यरूपं साधारणस्वभावं शास्त्रं प्रवृत्तमित्यर्थः । वर्णाश्रमवयोवस्थाद्यभि- मानवतपुरुषाधिकारकं प्रयत्नसाध्यक्रियाफलपरं शास्त्रं पूर्व प्रवृत्तमित्युक्तं भवति। अत्रोत्तर-
१ क. ग. पायः।
Page 101
९४ टीका टय समेतं-
काण्डे त्वस्योक्तविशेषणस्य सकलकर्मनिवृत्तिभाजः सर्वकर्मतत्फलसाधनेभ्यो निवृत्तिं मनो वैमुर्यं भजतस्त्यक्तसर्वैषणस्य वर्णाश्रमाद्यभिमानशून्यस्य संन्यासिनः सर्वं श्रवणादिशास्त्रं निवृत्तिविषयमेवोच्यते न पुनः श्रोतव्य इत्यादावपि : तव्यादीनां प्रवृत्तिपरत्वमस्ती- व्यर्थ: ॥। ७२॥ सु० टी०-ननु कर्मबह्मरूपविषयभेदादृपि शास्त्रभेदसिद्धौ किम- धिकारिमेदेनेत्याश डन्क्पाSSह- शास्त्रद्वैविध्य दष्टे द्विविधमधिकतेर्भेदमप्याश्रयन्ते तद्दैविध्योपलब्धेः पुरुषमधिकवतं शास्त्रयोर्भिन्नमाहुः । शास्त्रार्थद्वित्वहेतोः पुरुषमधिकतं तद्गतं चाधिकारं नो चे्भिनं प्रतीयुर्द्विविधमिह वृथा शास्त्रमापयते हि॥७३।। शास्त्रेति। विषयमात्रभेदाच्छास्त्रभेदेऽतिप्रसङ्गादवश्यं फलभेदो वक्त- व्यस्ततश्र तत्स्वाम्यलक्षणोऽधिकार: सुतरां भिद्यते तन्द्ेदे च तदा. श्रये पुरुषभेदोऽयत्नसिद्ध इत्याह-तह्वैविध्येति। ततश्र शास्त्रार्थभेदसि- द्धिमात्रावटम्भेनाधिकारिभेदानभयुपगमे शास्त्रद्वयवैयर्थ्य स्यादिति प्रतिकूलतर्कमाह-शास्रार्थेति॥। ७३॥। अ० टी०-ननु कथमेवमुक्तविषयशास्त्र प्रवृत्तिद्वैविध्यमात्रं तयोरधिकारिमेदे मानमिति चेदन्यथानुपपत्येत्याह-शास्त्रद्वविध्येति। यत्र शास्त्रस्य द्वैविध्यमस्ति तद्दर्शनादेवाधिकृतेरधिकारस्य विधिपुरुषसंबन्धादिरूपस्य द्विविधं भेदमप्याश्रयन्ते न्याय- विद इति शेषः । आश्रयमन्तरेणोक्ताधिकारासंभवात्तस्याधिकारस्य द्वैविध्योपलब्धेर्हेतोः शास्त्रयोरधिकृत पुरुषं भिन्नमाहुस्त एवेत्यर्थः। नन्वेतच्छास्त्रभेदसिद्धौ सिध्येत्स एव कथमित्यत आह-शास्त्रार्थद्वित्व हेतोरिति। पूर्वोत्तरकाण्डशास्त्रयोरर्थद्वित्वं ताव- त्तत्तद्वाक्यगतिपर्यालोचनायां प्रसिद्धं धर्मब्रह्मलक्षणं साध्यासाध्यरूपमत एवमर्थभेदानुपपतत्या शास्त्रभेद: सिद्ध इत्यर्थः। यथा कर्मकाण्डमध्येऽपि तत्तद्वििफलरूपार्थभेदाच्छास्त्रमे- दस्तदधिकारभेदद्वाराऽधिकारिमेदोऽपि प्रसिद्धस्तथहापीति युक्तम्। विपक्षे दोपमाह- नो चेदिति। शास्त्रार्थद्वित्वहेतोः प्राप्तं शास्त्रं तन्निमित्तमधिकारिणं तद्गतं चाधिकारं भिन्नं पृथगेव चेन्न प्रतीयुर्नाभ्युपगच्छेयुस्तदा द्विविधमपि शास्त्रं वृथा व्यर्थत्वमापद्यते हि निश्चितमिति योजना । अधिकारिणः प्रमितिजनको वेद इतिन्यायाद्विरुद्वार्थयोश्च वेदभा- गयोरेकस्मिन्पुरुष एकदैव स्वार्थसमर्पकतवासंभवात्प्रतिपत्तृभेदाभावे काण्डद्वयमप्यप्रमाणं भवे- दिति भाव: ॥७३॥
Page 102
संक्षेपशारीरकम्। ५५
सु० टी०-तथाऽपि नाधिकारिभेद एतच्छास्त्रस्यापि यमनियमा- दिरूपप्रवृत्ति निवृत्ति विषयत्वादित्याशङ्कयाSSह- यमनियमविधानैर्वाङ्मनःकायचेष्टा- व्युपरमणविशेषैः कथ्यते न प्रवृत्तिः ।। यदि भवति कदाचित्काचिदस्य प्रवृत्ति: श्रतिविहितनिवृत्तेः कर्मणां कत्थनं स्यात्॥ ७४॥ यमनियमेति। अहिंसादियमविधिभि: शौचादिनियमविधिभिश्व वाङ्- मन:कायव्यापारोपरम एव बोध्यते न प्रवृत्तिलेशोऽपि व्याख्यास्यत इत्यर्थ: । यदीति। प्रवृत्तिप्रतिपादने हि 'व्युत्थायाथ मिक्षाचर्य चरन्ति' [वृह० ३।५।१] ' त्यागनैके अमृतत्वमानशुः' [महाना० १०।५] इत्यादिश्तुतिविहितारया: सर्वकर्मणां निवृत्तेव्याकुलीभावः स्यादित्यर्थः ॥७४ ॥ अ० टी० -- यदुक्तमस्योच्यत इत्यत्र सरव श्रत्रणादिशास्त्रं निवृत्तिविषयमेवेति तत्क- थमुपपद्यते संन्यासिनोऽपि यमनियमादिविषयप्रवृत्युपदेशदर्शनादिति चेत्तत्राSडह-यम- नियमविधानैरिति। यमादिविधानैस्तदुपदेशपरैः शास्त्रैरशेषैर्यतिविषयैस्तस्य वाङ्मनः- शरीराणां स्वाभाविकप्रवृत्तिरूपचेष्टाव्युपरमणं निवृत्तिरेव कथ्यते न प्रवृत्तिरिति योजना। कथमित्थमर्थनिर्णय इत्याशड्क्य संन्यासतिधिश्रुतिवशादित्याह-यदि भवतीति। 'एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्ति' [बृह० ३। ५ । १] इत्यादौ लोकत्रयसाधनरूपसकलकर्मणां या श्रुतिविहिता निवृत्तिरननुष्ठानलक्षणा तस्याः कत्थनं वृथाश्लाघनं नैरर्थक्यमेव तदा स्पादिति योजना । यतेरपि विषयत्वे मुमुक्षोः सर्वकर्मसंन्यासविधिशास्त्रविरोधप्रसङ्ग: स्यादित्यर्थः ॥ ७४ ॥ सु० टी०-तथाऽवि अवणादिविधीनां प्रवृत्तिपरत्वान्नोक्तनियम
औदासीन्यविशेषमेव हि परव्रह्मात्मधीजन्मने शास्तीदं श्रवणादिशास्त्रममुना त्वाक्षिप्यते व्यापृतिः
१ क. या: श्रौतक०।
Page 103
९६ टीकादय समेतं-
तां तां व्यापृतिमन्तरेण घटते सा सा न शास्तार्थधी- रित्यर्थाल्वशुनादिभक्षणगतौदासीन्यबोधादिव॥७५॥ औदासीन्येति। इद श्रोतव्य इत्यादि शास्त्रं ब्रह्मात्म्यैक्यज्ञानोत्पत्तयेडना-
क्वचित्कर्मणि प्रवृत्ति 'संन्यस्य भ्रवणं कुर्यात्' इति सर्वकर्मन्यासपू- र्वकत्वविरोधादित्यर्थः । तर्हिं गुरुपसर्पणशास्त्रार्थनिर्णयादिष्ववि न प्रव. तैतेति चेत्तत्राSSह-अमुनेति। ब्रह्मात्मज्ञानोत्पादकेनौदासीन्येनैव स्वान्य- थानुपपत्या गुरुपसतत्यादिव्यापार आक्षिप्यते लशुनपरस्त्रीसेवानिषेधे- नेव तक्क्रियायामौदासीन्यं बोधयता तत्परिपालनान्यथानुपपत्या लशुन- दोष चिन्तनरूप: परस्त्रियां च मातृबुद्धिरूपो व्यापार इति॥७५ ॥ अ० टी०-ननु संन्यासशास्त्रेण लोकत्रयसाधनसर्वकर्मविधिगोचरत्वाभावावगमेऽपि यतेः स्व्राभिलषित मोक्षसाधनज्ञानानुकूलयमनियमादिपूर्वकश्रवणादिव्यापारविधिगोचरत्वे को दोष इतिचेदकर्त्रात्मज्ञानानुदय एवे्यभिप्रेत्याSSह-औदासीन्यविशेषमेव हीति। 'आत्मा वा अरे द्रष्टव्यः'[बृह० २। ४ ॥ ॥] इत्यात्मनो दर्शनार्हत्वोक्तिपरेणा- नेनाSSत्मसाक्षातकारं फलमुद्दिश्य तादर्थ्येन 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः '[ बृ० २ । ५ । ] इत्यादि यत्परब्रह्मात्मधीजन्मने कृतसंन्यासस्य पुंसः श्रवणादिविधायि शास्त्रं तदि्दिमौदासीन्यविशेषमेव हि शास्ति न प्रवृत्ति यतो व्यापृतिः श्रवणादिविपयो व्यापारोऽ- मुना त्वौदासीन्यविशेषशासनेनाSSक्षिप्यतेऽर्यान्निर्दिश्यते न साक्षादिति योजना। औदा- सीन्यविशेषशब्देन सकृत्परित्यक्तसजातीयस्य कर्मणः पुनः प्रसङ्गो यथा न भवति तथाऽ- वस्थानं विवक्षितमेवंविधमौदासीन्यं न श्रवणाद्यात्मज्ञाननिष्टां विना सम्यगवतिष्ठते यतो 'न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् '[भ गी० ३। ५] इतिन्यायेन सर्वथा कर्मनिरोधस्याशक्यत्वमवगतमतः संन्यासशास्त्रावगतसर्वकर्मनिवृत्त्यौदासीन्यमेव श्रवणा- दिशास्त्रैः प्रतिपाद्यते न पुनस्तत्र पुरुषः प्रेर्यते । तथा चाक्त्रात्मतत्वज्ञानानुवृत्ति
सिद्धं तदालोचनदशायां यद्यर्थान्तरप्रतिभासादिनिमित्तः संशयोद्गवस्तदा विना श्रवणं तन्नि वृत्त्यौदासीन्यं नोपपद्यत इत्दर्थसिद्ध श्रवणम्। तथा श्रुतार्थस्यासंभावितत्वप्रतिभ सदशायां मननं श्रुते मतेऽप्यर्थे विपरीतभावनाव्यवधानेनौदासीन्यच्युतौ निदिध्यासनमित्येते अप्यर्थ- सिद्धे भवत इत्येतमर्थमाह-तां तां व्यापृतिमिति। इति हेतोरर्थाच्छाणादिनिष्ठा सिद्धिरिति योजना। तथा चार्थसिद्धेडर्यें न साक्षाद्विधिप्रवृत्तिरित्यतो न यतेः कापि गोचर-
१ क, व्यमि"।
Page 104
संक्षेपशारीरकम्। ९७
तेत्यर्थः । अत्र दृष्टान्तमाह-लशुनादीति। यथा स्त्रभावप्राप्तलशुनभक्षणस्य प्रतिषेधे सति तद्धक्षणनिवृत्त्यौदासीन्यपरिपालनं भक्षणविरोधिसंकल्पक्रियां बिना न निश्चली भवती त्यर्थप्राप्ता सा क्रियेति तद्वदित्यर्थः । तस्माच्छूवणादिशास्त्रस्य संन्यासशास्त्रार्थादर्थान्तरवि घयत्वाभावान्न प्रवृत्तिविशेषपरत्वम् । एवं च मुमुक्षोः कृतसंन्यासस्य वेदान्तश्रवणाद्यभावे प्रत्यचायश्रवणं यथोक्तनिवृत्त्यतिक्रमनिमित्तमेव श्रवणाद्यकरणनिमित्तमिति भावः ॥ ७५॥ सु० टी०-तर्हि निषेधशास्त्रस्य परिपालनपर्यन्तत्वात्कर्थ न प्रवर्तक- hou औदासीन्ये बोधिते शास्त्रवृन्दै- रर्थादस्मात्प्च्युतस्यास्त्यनर्थः ॥ इत्यालोच्य प्रच्युते: प्रापकस्य माबल्येऽर्थे प्रातिलोम्यं विधन्ते॥ ७६ ॥ औदासीन्य इति। न परिपालनं तत्र शास्त्रार्थो लक्षणाप्रंसङ्गाक्िकि तु निवृत्तिमात्रे निषेधशास्त्रेण बोधिते ततः प्रच्युतस्य निषिद्धानुष्ठातुरन. र्थोडस्ति लशुनाशनादेरपातत इष््हेतुत्वेऽवि बलवदनिष्टाननुबन्धित्वं नास्तीत्येतन्निवर्तनान्यथानुपपश्यैव निश्चित्य प्रच्युतिप्रापकस्य रागादे: प्रावल्य औत्कट्ये सति तद्र्थे तद्विषये निषिद्धानुष्ठाने प्रातिलोम्यं विप- रीतसंकल्पं स्वयमनुतिष्ठति न शास्त्रादित्यर्थः ।। ७६॥ ननु श्रवणादिशास्त्रं किमौदासीन्यविशेषमात्रे पर्यवसितं कि वा तत्परिपालनानुकुलायां प्रवृत्तावपीति वक्तव्यम्। तत्राऽडद्ये श्रवणानर्थक्यं संन्यासविधिनैव तत्सिद्धेः। न द्वितीय उभयपरत्वे वाक्यभेदापत्तेरन्यतरपरत्वे च प्राप्तेऽर्थे वैयर्थ्यात्प्रवृत्तिपरतैव स्यादिति भवेदेव यतेर्विधिगोचरत्वमिति चेन्मैवमर्थतोऽपि प्राप्तेऽर्ये विध्यसंभवस्योक्तत्वात्सन्यासशास्त्रस्याप्यौ- दासीन्यस्यानात्मदर्शनवासनाभिः प्रच्याव्यमानस्य तत्प्रच्युतिहेत्द्रवविरोधितया पुनः प्रकारान्तरोपदेशस्यापेक्षितत्वाच्च वैयर्थ्याभावादित्यभिप्रेत्याSSह-औदासीन्य बोधि- त इति। शास्त्रत्ृनदैः संन्यासशास्त्रशतैर्मुमुक्षोर नात्म विषयसर्वप्रवृत्त्यौदासीन्ये बोधिते सत्य- र्थादौदास्रीन्य विधानसामर्थ्यादस्मादौदासीन्यातप्रच्युतस्यानर्थोडस्तीत्यवसीयते। अन्यथौदासी- न्यविधाने शास्त्रस्य यत्नाधिक्यासंभवादित्यालोच्य प्रच्युतेरौदासीन्यविच्छित्तेः प्रापकस्य हेतोर्यत्प्राबल्यमुद्रकस्तस्मिन्सति तदर्थे तत्फले यत्पातिलोम्यं तदभिभवलक्षणं तद्विघत्ते श्रवणादिशास्त्रमिति योजना। तथा चौदासीन्यपरिपालनानुकूलव्यापारचाच्छवणादीनां न प्रवृत्तिपरत्वमित्यर्थः ॥ ७६ ॥ १3
Page 105
१८ टीकाद्वय समेतं-
सु० टी०-ननु निवृत्तिः कर्तव्येति बोधितेऽपि कुतः प्रवृत्तेरनर्थ- हेतुत्वमित्याशङ््क्य दार्शान्तिके साधयति- औदासीन्यं बोधयच्छास्त्रमेत न्नित्यं पथ्यं बोधयत्यस्य पुंसः॥ पथ्यादस्मात्प्रच्युतस्यास्त्यपथ्यं बुद्ध्वा पथ्यं प्रातिलोम्ये यतेत ॥ ७७॥ औदासीन्यमिति। एतद्धिं शास्त्रं श्रतव्य इत्यादिकमनात्मविचारवर्जनं बोधयत्तस्य पुंसो नित्यमात्यन्तिकं पश्यमिति बोधयति ज्ञानद्वारा मुक्ति. हेतुत्वात 'अन्या वाचो विमुश्नथामृतस्यैष सेतुः '[मुण्ड० २।२५] इति ध्रुतेः । तञ्च तदा यद्यस्मात्प्रच्युतस्यानात्मश्रोतुरनिष्टं संसरणं भवति तच्चापथ्यं बुद्ध्वा प्रातिलोम्ये तन्निवर्तने यतेतेत्यर्थः ॥। ७७।। अ० टीe-ननु किमित्येवमौदासीन्यलक्षणायां सर्वक्रियानिवृत्तावेव सर्वविधीरना तात्पर्यं कल्प्यते प्रवृत्तिपरतैवैषां यथावगमं कस्मान्नाभ्युपगम्यत इत्याशङ्क्य प्रवृत्ते रागादि- मूलकत्वाद्रागादेश्चानर्थहेतुत्वाच्छास्त्रस्य तत्परत्वे पुरुषहितशासनस्व्ररूपता हीयेतानर्थकारि- ताडप्यापद्येतेत्यभिप्रेत्यौदासीन्यपरत्वं साधयति-औदासीन्यं बोधयदिति। एतत्सं- न्यासयमनियमश्रवणादिबोधकं शास्त्रमस्य पुंसो नित्यं पथ्यं हितं बोधयति । यद्यपि पुमा- :प्रवृत्तिसाध्यमेव सदःसुखत्वाद्धितं मन्यते तथाऽपि तत्प.रेणामे दुःखरूपत्वान्न हितम्। निवृत्तिसंसिद्ध त्विदानीं दुःखमिव भासमानमपि परिणामेऽक्षयसुखत्वात्तदेव हितमिति मातेव पुत्रहितैषिणी शास्त्रमेतन्निवृत्युपदेशेन नित्यं हितमेवोपदिशतीत्यर्थः । तस्मादस्माद्रागप्र- युक्तप्रवृत्त्यौदासीन्यलक्षणात्प्रच्युतस्यापथ्यमहितं संसाराविच्छेदरूपमस्त वे। एवं पथ्यं बुद्ध्वा प्रातिलोम्य औदारसन्यप्रच्युतिकरस्य कर्मफलरागादेः प्रतिबन्धने यतेत. बुद्धिमानि- त्यर्थ: ॥ ७७| सु० टी०-ननु कथं श्रवणादिशास्त्राण्यपि निवृत्तिपराणि व्याख्या- यन्ते संन्यासशास्त्रादिति चेन्न तस्य काम्यादिनिवृत्तिपरत्वेनाप्युपप- त्तेरित्याशङकां निवर्तयत्ुपसंहरति- वृत्ता प्रवर्तकनिवर्तकशास्त्रसिद्धचै षष्ठे प्रवृत्तिविनिवृत्त्यधिकारिचिन्ता.।
१ क. काराच।
Page 106
संक्षेपशारीरकम्। १९
अत्रैकभेव तु निवृत्त्यधिकारमार्ग- माश्रित्य सूत्रकदथात ईह प्रवृत्तः॥७८ । वृत्तेति। षष्ठे हि प्रवृत्तिनिवृत्तिसाधारणाधिकारचिन्ता वृत्ताडस्यावि शास्त्रस्य तथात्वे पृथगिदमनारम्यं स्थादित्यतोऽत्र निवृत्तिमात्राधिका- राश्रयेणैव सूत्रकार: प्रववृत इति श्रवणादिशास्त्राण्यपि तथा व्यास्पा- तानीत्यर्थ: ।।७८।। अं० टी०-अवश्यं चैतदभ्युपगन्तव्यमन्यथा पूर्वोत्तरतन्त्रयोः पृथगधिकारिनिरूपणानर्थ- क्यप्रसङ्ग इत्याह-वृत्ता प्रवर्तकेति। पूर्वतन्त्रे पष्ठेऽव्याये याऽधिकारिचिन्ता वृत्ता संवृत्ता सा प्रवर्तकनिवर्तकरूपविधिनिषेधात्मकशास्त्रसिद्धयै न सर्वशास्त्रस्य ज्ञानकाण्डरूपस्यापि सिद्धयर्थमित्यर्थः। अत्र तूत्तरे तन्त्र एकमेव निवृत्त्यधिकारमार्ग सर्वानात्मविषयप्रवृत्तिविमुखताप- रिपालनलक्षणमाश्रित्याङ्गीकृत्य 'अथातो ब्रह्मजिज्ञासा' [ब्० १।१।१] इत्यस्मिन्सत्रेऽथातः- शब्दाभ्यामधिकारिविशेषं निरूपयितुं सूत्रकृद्धगवान्वेदव्यासः प्रवृत्त इति योजना। एतदुक्तं भवति-वेदान्तशास्त्रमपि चेत्प्रवृत्तिनिवृत्तिपरमेव स्यात्तदा पूर्वतन्त्रोक्त एवार्थित्वादिमात्रवि- शेषण इहाप्यधिकारी सिद्ध एवेति पृथगधिकार्यपेक्षाभावात्पुनरिह तद्विशषनिरूपणमनर्थकं प्रसज्येत। न चैतदुक्तं यतः कर्माधिकारिण एव ब्रह्मविचाराधिकारे प्रयाजाज्यावेक्षणादिवद्गो- दोहनादिवद्वा ब्रह्मज्ञानस्य कर्माङ्गत्वमनित्यफलत्वं वा तदा प्रसज्येत। कर्मप्रवृत्त्युपमर्दो वाSवश्यं स्यात्। ब्रह्मविचारे प्रवृत्तस्याक्त्रभोक्त ब्रह्माहमस्मीत्येवमात्मानं भावयतोऽहं कर्ता ममेदं कर्मेति विरुद्धप्रतिपत्तेर्बाधितत्वात्। अतोऽथातःशब्दाभ्यां विशिष्टाधिकारिणमिह निरूपयन्सूत्रकारः सर्वकर्मप्रतिषेधमात्रनिष्ठालब्धब्रह्मज्ञानपरं वेदान्तशास्त्रं मन्यत इति गम्यते। तदनुरोधेन श्रवणादिशास्त्रमपि निवृत्तिपरमेवेति मुमुक्षोः सर्वकर्मसंन्यासरूप- सर्वक्रियौदासीन्यबोधकशास्त्राक्षिप्ता श्रवणादिप्रवृत्तिरिति ॥७८॥ सु० टी०-नजु कथं सर्वकर्मनिवृत्तिः शास्त्रार्थः शास्रपाप्तानां प्रतिषेधा संभवादित्यत्राSSह- औदासीन्यप्रच्युतेः प्रापकौ च रागद्वेषौ नापरो हेतुरस्ति। रागद्वे षप्रातिलोम्ये प्रवृत्तिरौदा सीन्य प्रापणाच्छास्त्रतोऽर्थात्।।७९।। औदासीन्येति-विधिशास्त्रस्य प्रवर्तकत्वे हि तन्निषेधो दुर्घटः स्यात्। न य शास्त्रं प्रवर्तकं न च प्रवर्तना विध्यर्थः किं त्वष्टसाधनत्वम् । एतदेवाSSह-सर्वस्या औदासीन्यप्रच्युते: प्रवृत्तेरिति यावत्। रागद्वेषा-
१क. इति पर।
Page 107
१०० टीकाद्वय समेतं-
वेव हेतू इति न विधिशास्त्रं प्रापकमप्राप्तभापकं हि तत् । किं च हितशासकं शास्त्रं न च स्वर्गादि पुरुषस्य वस्तुतो हितं बन्धहेतुत्वात्। किं त्वनादिविषयवासितान्तःकरणस्य मूढस्य तदेव परमोषादेयत्वेवामि- लपतस्तदुपायं चाजानतो यागादिकमस्योपाय इत्येतावन्मात्रबोधनप- रशास्त्रं न प्रवर्तकम्। पुरुषाशयानुसारी च वेद: प्रथमं काम्यानि ततः शुद्धिप्रधानानि कर्माणि प्रतिपाद्य तैः शुद्धसतत्वस्य ज्ञानकाण्डे ब्रह्मनिष्ठामेव तात्पर्यतोऽभिधत्त इति रागादिमूलत्वात् प्रवृत्तेस्तत्प्रा- तिलोम्ये तद्विपरीतसंकल्पदौ या श्वृत्ति: सा निवृत्तिपापकाच्छास्त्- दर्थान्भ्वर्तात्यर्थः।।७९।। अ० टी० -- यत्पर्वमुक्तमौदासीन्यप्रच्युतेः प्रापकप्रकृत्तिनिरोधद्वारा श्रवणादेरपि निवृ- त्तिपरत्वमिति तत्रौदासीन्यप्रच्युतिप्रापकोऽर्यः क इत्यपेक्षायां तं व्युत्पादयन्ुपपादितमर्थमुफ संहरति-औदासीन्यप्रच्युतरिति । यतः स्वाभाविकौ रागद्वेषावेवौदासॉन्यप्रच्युते: प्रापकावन्वयव्यतिरेकानुगृहीतानुभवसिद्धौ नाघरः शास्त्रसिद्धो हेतुरस्ति तदनुपलम्भात्। अतो रागद्वेषप्रातिलोम्ये प्रतिकूलनार्थ या श्रवणादौ प्रवृत्ति: सा त्वौदासीन्यप्रापणाच्छा- स्त्रतोऽर्थान्सिद्धेति योजना। इदमत्र तात्पर्य चिदात्मा स्वभावत एव नित्यमुक्तो निर्मलो निरतिशयानन्दज्ञानसन्मात्रूपोऽप्यनाद्यनिर्वाच्ययाडविद्यया स्वाभाविकया स्वात्मनि कल्पितयाSSवृतनिजतत्वस्तत्कृताने कविक्षेपरूपसमाष्टिव्यष्टिस्थूलसृक्ष्मदेहे ्ववभासकतयाऽनु- गतस्व्राभासाविवेकात्तत्र तत्राहंममाभिमानं कुर्वन्परिच्छिन्नमात्मानं मन्यमान: प्राप्तानर्थोऽप्राप्तपु- रुषार्थश्चास्मि बद्धो दुःखीति च संतप्यते। तदा संतापहरमुपायमन्वेषमाणः शब्दादीन्बाह्या- न्विषयान्प्राप्यैध बि[नि] वृत्तपरिताप इदमेव मम दुःखनिवृत्तिसुखाप्तोः साधनमिति
शेषवशान्नरकतिर्यगादिस्थावरान्तमधोऽघः संसरति। यदा पुनः कथंचिद्यादृच्छिकपुण्योद्वो- धवशात्प्रायः स्व्राभाविकनिषिद्धप्रवृत्तिविमुखो दुःखं सर्व निषिद्धक्रियानुष्ठानप्रयुक्तमेवेति मन्यमानो वेदेभ्य एवाऽडत्मनः श्रेयोऽभिलपति तदाऽपि वर्णाश्रमवयोवस्थाद्यभिमाननिमि- त्ताविद्यादिदोषाभिभूतत्वाक्क्रियाकारकसाध्यमेव पुरुषार्थ मन्यते। तत्र केन साधनेन मयैहिकमामुष्मिकं च श्रेयः संपाद्यमिति बुभुत्सयाऽवस्थितं पुरुषमधिकारिणं तत्तदर्थकामिन- मालोक्य विधिप्रत्तिषेवशास्त्रं तस्य सुखदुःखावाप्तिहानिसाधनमुपदिशदपि न तावन्मात्रे पर्यवसानं पाप्नोति किंत्विदानीमयमस्मन्नियन्त्रिततया मार्गस्थस्तावद्धवतिविति हि तदा मन्यते शास्त्रं न पुनः पुरुषप्रवृत्तौ तस्य तात्पर्यमस्ति विनाऽपि शास्त्रबोधात्फलरागादेव तस्य प्रवृत्तत्वादतः शास्त्रं तस्याज्ञातमुपायमात्रं बोधयति न तत्र प्रवतयति प्रमाणस्याकास्कत्वात्। एवं प्रवर्तमानोऽपि न निरतिशयं श्रेयो लभते तच्चाभिवाञ्छतीति तदुपायश्रद्धां तस्याSS-
Page 108
संक्षेपशारीरकम्। १०१ लक्ष्य तत्राधिकारसिद्धये निष्कामाणि कर्माणि कानिचिदावश्यकानि वर्णाश्रमाद्यनुबन्धीनि बोधयति। तान्येवातितरामनेकजन्मस्वनुष्ठितानि परमेश्वरानुग्रहार्थानि कदाचिदस्य स्वान्तमत्यन्तं निर्मलीकृत्याSऽत्मतत्त्वज्ञानादन्यतो न परमनित्यनिरतिशयश्रेयःप्राप्तिरस्तीति तदेव मया संपादं सर्वमेव कर्मसाध्यफलमनित्यपुरुषार्थसाधनत्वात्याज्यमित्येवं विवेकादिकं जनयन्ति यदा तदा वेद: स्वाभिमतपरमश्रेयोर्थिनं मुमुक्षुमालक्ष्य तस्य सर्वकर्मनिवृत्तिलक्षणं परममौदासीन्यं 'सर्वकर्माणि मनसा संन्यस्याSडस्ते सुखं वशी' [गी० ५।१३] इति भगवतोक्तरूपं संन्यास्यभिलषितार्थसाधनमुपदिशति। तच्चौदासीन्यं निर्विकारात्मस्व- भावानुसंधानं विना न स्थिरी भवतीत्यर्थात्तदर्थ वेदान्तश्रवणादि प्राप्तमन्यस्यासंभवादित्येत- न्पर्यन्तं साधनबोधाय प्रवृत्तं शास्त्रं निवृत्तिपरमेव न प्रवृत्तिपरमिति ॥७९ ॥ सु० टी०-नन्दस्तु हष्टार्थेषु श्रवणादिशास्त्रेषु निवृत्तिनिष्ठत्वेऽप्पर्था-
अशुचेः प्रतिषेधशास्त्रतो न भवत्येव हि वेदचिन्तनम्। श्रवणादिनिवृत्तिशास्त्रतः स्वयमर्थादथ शौचमापतेत्॥ ८० ॥ अशुचेरिति। श्रवणादेरवेदार्थचिन्तनत्वादशुचेश्र 'तस्य वा एतस्यं यज्ञस्य द्वावनध्यायौ यदात्माऽ्ाचिर्यद्देशः 'इति श्रुत्या'स्वाध्याय- भूमिं चाशुद्धाम्' इत्यादिस्मृत्या च तन्निषेधाच्छ्रभवणादिशास्त्रेणै- वार्थाच्छौचमाक्षिप्यत इत्यर्थः ।।८० ।। अ० टी०-भवत्वेवं शास्त्रस्य निवृत्तिपरत्वेन तदाक्षिप्तश्रवणादेर्द्दद्द्वारेणाSSत्म ज्ञानोपकारि- त्वादात्मज्ञाननिष्ठां विना सर्वात्मना निवृत्तिपरिपालनासंभवात्पुरुषस्य विनाडपि साक्षाद्विधिं श्रव- णादौ प्रवृत्तिस्तथाऽपि केवलमदष्टार्थत्रिषवणस्रानचतुर्गुणशौचादौ विना साक्षाद्विधि कथं प्रवृ- त्तिः। न ह्यत्र श्रवणादिवदृष्टः कश्षित्प्रकृतोपकारो विद्यते विध्यनङ्गीकारे च तत्प्रवृत्तेर्यादच्छिकत्वा- पत्तिरिति मिथ्याप्रवृत्तित्वप्रसङ्ग इति चेननेत्याह-अशुचेरितिद्वाभ्याम्। 'नाशुचि्रह्म कीर्तयेत्' इति सामान्यतः प्रतिषेधशास्त्रतोऽशुचेर्वेदचिन्तनं न भवत्येव हीति प्रसिद्धम्। अतः श्रवणादेरपि वेदार्थचिन्तनरूपत्वाद्विना स्नानादिकृतं शौचं तदनुपपत्तेः श्रवणाद्याक्षे- पकनिवृत्तिशास्त्रतः स्वयमेव शौचमप्यर्थादाक्षेपादापतेदवश्यकर्तव्यतया प्रामोतीत्यर्थः । अथशब्दोऽपिशब्दपर्यार्यः ॥।८0।
१ क, ग. स्य हा।
Page 109
१०२ टीकादय समेतं- सु. टी० -- तथाऽपि चातुर्गुण्यं शौचस्य न सिध्येत्तदनाक्षेपादि- त्यताSSह- अचतुर्गुणशौचवारणात्स्वयमेवास्य चतुर्गुशं भवेत्। अचतुर्ष्वशनस्य वारणात्स्वयमेवास्य चतुर्षु भोजनम् ॥८१ ॥ अचतुर्गुणेति। 'एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम्। त्रिगुणं च वनस्थानाम्' इत्युक्तपरिशेषाञ्चातुर्गुण्ये यतीनां प्राप्ते यतीनां तु चतुर्गुणम् ' इतिशास्त्रस्य पाश्गुण्यादिपरिसंख्याफलत्वात्तत एव चातुर्गुण्याक्षेप इत्यर्थः । तथा ' चातुर्वण्य चरे,्क्षम् ' इत्यस्य संक रजेषु मोजनपरिसंख्यार्थत्वाजीवनार्थ च तस्याऽSवश्यकत्वादुपायान्त रानुक्तेश्रार्थाञ्चतुर्षु तैत्तद्वृत्तिबाह्मणेषु मोजनमित्यर्थः ।। ८१ ।। अ० दी०-एवमपि स्नानशौचादेः समयसंख्यानियम: कथमिति चेत्तत्राSह-अचतुर्गु- णेति। अयमर्थ :- लोकतः शास्त्रतश्च सामान्येन तादरस्ानशै।चे सर्वेषां प्राप्ते तयोराश्रमविशेषेषु नियमविशेषोपदशो न तत्परः किं तु न्यूनाधिकनिवृत्तिपरः । अत एव स्मरन्ति-'न्यूनाबिकं न कर्तव्यं शौचसिद्धिमभीप्सता' इति। अतो यतेरप्यनियतकालेषु विना निमित्तं सुखोद्देशादिना स्नानं न कार्यमित्येतत्परं 'त्रिसंध्यादौ स्नानमाचरेत्' इत्यादिवाक्यम्। एवं वाक्यार्थे व्यवस्थिते स्वयमेवास्य त्रिघवणस्नानं सिध्यति। तेन विना त्रिघवणस्नाननिषेधस्यैवा सिद्धे रेवमचतुर्गुणशौचवारणादित्यादि स्पष्टार्थम्। सार्ववर्णिकं मैक्षचरणमित्रत्यापि न चतुर्ष वर्णेषु भिक्षणीयमिति नियमः किं तु ततो बहिर्नेत्यर्थः । यतेरपि भोजनस्य स्वभावप्राप्त- त्वाद्गिक्षातिरिक्तस्योपायान्तरस्य च प्रतिषेधादर्थप्राप्तं चातुर्वर्ण्यभैक्षचरणमित्यभिप्रायः॥८१॥ सु० टी० -- एवं संतोषतपःस्वाध्यायादिष्वपि योज्यमित्याह -- इति योजय सर्वमीदृशं कथितन्यायवशेन सादरम्। विधिहीननिवृत्तिशास्त्रतः कितेऽस्मिन्नधिकारवत्मीनि ॥ ८२ ॥ इति योजयेति। 'असंतुष्टा द्विजा नष्टाः' इति 'शारीरं केवलं कर्म." [म० गी० ४।२१ ] इति वेदान्तभरवणं बिना वर्तमानस्तु संन्यासी पत- त्येवेति प्रतिषेधारदर्थप्राप्तं सतोषादीति सकलमपि तद्वोधकशास्त्रं निवृत्ति-
१ क. करेष्वभो° । ग. करेषु भो°। २ क. ग. तद्ट°।
Page 110
संक्षेपशारीरकम्। १०३
परमेव योजयेत्यर्थः । सादरमिति। त्रिदोषदुष्टा परिसंख्येत्यनादरो न कार्य इत्यर्थः । कुत इत्याह-अस्मिन्पूर्वोक्ताधिकारवर्त्मनि सर्वशास्त्रस्यापि व्यापारविधिहीनत्वेनागत्या तदाश्रयणादित्यर्थः ।।८२।। अ टी०-तदेवं संन्यासिनो नं प्रवृत्तिपरं किमपि शास्त्रमस्तीति प्रतिपादितमुपसंहरन्यदृच्छा- लाभसंतोषादावप्युक्तं न्यायमतिदिशति-इति योजयेति। इति कथितन्यायवशेनोक्तप्रका- रेणैच सर्वमुक्त योजयान्यदपीदृशं यत्याश्रमावलम्बनेनोपदिष्टं संतोषतपःस्वाव्यायादिरूपं योजयासंतोषांदनिवृत्त्यर्थतां जानीहीति शिष्यं श्रोतारमभिमुखीकृत्याSSहेति बोध्यम्। सादरमित्यनेन श्रुतहान्यादिदोषशङ्कयाSत्रानास्था न कार्येति दर्शपति।' असंतुष्टो द्विजो नष्टः' इति निषेधात्संतोषस्यार्थप्राप्तिर्वृथाचेष्टाप्रतिषेधादेव शारीरादितपसोऽप्यर्थप्राप्तिः 'नानुष्यायाद्वहूञ्शब्दान् ' [बृ०४ । ४ । २१] 'अन्या वाचो विमुञ्चथ '[मुण्ड० २।.२ । ५ ] इत्यादिनिषेधादेवोपनिषत्स्वाध्यायस्यार्थप्राप्तिरित्यादि द्र्व्यम् । एवं योज- नायां हेतुमाह-विधिहीनेति। अस्मिन्काथेतेऽधिकारवर्त्मनि मोक्षाधिकारमार्गे विधि- हीननिवृत्तिशास्त्रतो विधिरहितनिवृत्तिपरतया शास्त्रस्य स्थितेरित्यर्थः । तथैव व्यास्येयत्वा- दित्यभिप्रायः ॥८२॥ सु० टी-एकदेशिमतानुाषणेन सांप्रदाययिकं पक्षान्तरमुत्थाप- यति -- इति केचन वर्णयन्ति तद्विपरीतं प्रवदन्ति केचन। प्रविभज्य तदप्युदीर्यते निपुणाचार्यपरम्परागतम् ॥८३ ॥ इति केचनेति। विपरितवादिनः किं प्रवदन्तीत्यपेक्षायामाह-प्रवि- भज्येति। उक्तपक्षपक्षया वक्ष्यमाणस्य श्र्द्धेयतरत्वं प्रकटपति- निपुणेति ॥'८३॥ अ० टी०-उक्तं पक्षं वृद्धसंमतत्वेनोपोद्वलयनपक्षान्तरमपि तथोत्थापयति-इति के च- नेति। केचनाSSचार्या इति निवृत्तिपरं श्रवणादिशास्त्रमिति वर्णयन्ति। के चन त्वाचार्यास्त द्विपरितमुक्तविपरीतं प्रवृत्तिपरमिति प्रतदन्तीत्यर्थः। नन्वेवं विरुद्धवादित्वे कयं प्रामाणि 1 तदाचार्यान्तरमतमपि- शब्दादिदमप्युपपादितं मतं प्रविभज्य विषयावस्थादिभेदेन सम्यग्विभज्योदीर्यते कथ्यते मया प्रतिपाद्यते तत्त्वयाऽवधारणीयमिति शेषः। किमित्येवमुभयमप्याद्रियतेऽन्यतरस्य त्याग एव क्रियतामिति चेन्नेत्याह-निषुणाचार्यपरम्परागतमिति। नैपुण्यं पदवाक्यप्रमा- णकौशलम् ॥ ८३ ॥
Page 111
१०४ टीकाद्टय समेरत-
सु० टी० -- प्रविभज्येत्यादिना प्रतिज्ञातं विभजते- उत्सर्गतः सकलकर्मनिवृत्तिनिष्ठा
अ्ति प्रतिभसवशास्त्रमुखात्मतीता
उत्सर्गत इति। यद्यपि 'यदहरेव विरजेत्'[ जाबालो० ४] इत्या- दिसन्यासशास्त्रैरस्याधिकारिणः सकलकर्मनिवृत्तिनिष्ठतैवोत्सर्गतः सम- पिंता न तु काम्यमात्रनिवृत्ति: शिखायज्ञोपवीतादेरवि निवर्तनात,
प्रतीता प्रवृत्तिरषि काचिदस्तीत्यर्थः । कथं तस्य प्रवृत्तिपरत्वे निवृत्ति- शास्त्रैकवाक्यतेत्याशङ्क्य चेष्टां विशिनष्टि-आत्मबुद्धीति। सा हि चेष्टा न निवृत्तिशास्त्रविरोधिनी कित्वात्मज्ञानप्रतिबन्धकबुद्धिमलापैनयनेन तहार्ढ्य फलेत्येकार्थत्वादेकवाक्यतेत्यर्थः । यद्यपि संन्यासात्मागपि बुद्धि- शुद्धिरस्ति तथाऽपि निःश्वासाभिहतदर्पणंमालिन्यवद्वासनावशादुपची- यमानरजस्तमोलेशाभिभवात्तदृपनायकत्वेन प्रवृत्तिरपीय फलतो निवृ- त्तिरिति माव: ॥।८४ ॥। अ० टी०-प्रविभज्योदीरणमेवाऽऽह-उत्सर्गत इति। अस्य मुमुक्षोरुत्सर्गतः स्वभावतः सकलकर्मनिवृत्तिनिष्ठा संन्यासशास्त्रशतकोटिभिरर्पिता प्रतिपादितेति योजना। वेदान्तेषु बहुषु तदनुसारिस्मृत्यादिग्रन्थे च प्रतिप्रकरणं मुमुक्षोः संन्यासोपदेशदर्शनानिवृ त्तावेवोत्सर्गतस्तात्पर्य गम्यत इत्यर्थः। तथा तदपवादेनान्याऽप्यस्ति काचिच्वेष्टा प्रतिप्रसवशा- स्त्रमुखात्प्रतीता। उत्सर्गतः सिद्धस्यापवादः प्रतिप्रसवः। अपवादशास्त्रवचनादवगतेति यावत्। साडप्यात्मबुद्धिपरिपाकफलाSSमज्ञानस्य सफलोदयप्रतिबन्धदुरितापनयनद्वारा तत्प- रिपाकप्रयोजनेत्यर्थः । तथा च यथा निवृत्तिरात्मज्ञानोपकारकत्वादेवानुष्ठेया न स्वरूपेण तथा काश्चन प्रवृत्तयोऽपि तदुपकारत्वादेव कर्तव्या इति विधिनिषेधयोर्ज्ानाधिकारिण्यपि न विरोधः । न चैवं सति कर्मकाण्डोक्ताधिकारिणोऽस्याविशेष इति शङ्क्यं विशेषोपपत्तेः। तत्र हि जात्याद्यभिमानवन्तमाश्रित्य प्रवृत्तिनिवृत्ती मिथो भिन्नफले विधीयेते।.इह तु त्यक्तजात्याद्यभिमानतया मोक्षैकफलार्थिन एकफले एवेति विशेषोपपत्तेः । तथा चात्र शास्त्रभेदोऽप्यस्ति । इह हि सर्वानात्मविषयप्रवृत्तिनिषेधेन सहाऽऽत्माभिमुखी प्रवृत्तिः
१ क. ग. पनयेतदुत्कर्षफ।
Page 112
संक्षेपशारीरकम्। १०५
कर्तव्यतया विधीयते न तथा तत्र हननादिप्रवृत्तिनिषेधेन सह यागादिप्रवृत्तिः कर्तव्यतया मिधीयते यागाद्यनुष्ठानेऽपि निषेधपरिपालनस्यानुपपश्यभावात। अतो न सांकर्य स्वरूपतः फलतोऽधिकारितश्च कर्मब्रह्मकाण्डयोरिति भावः ।। ८४ ।। सु० टी०-प्रवृत्तिनिवृत्तिशास्त्रद्रयं विभजते- यमस्वरूपा सकला निवृत्तिस्तथा प्रवृत्तिर्नियमस्वरूपा । निवर्तकादत्र यमप्रसिद्धिः प्रवर्तकात्स्यान्नियमप्रसिद्धिः॥ ८५॥ यमेति। अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमा एते निवृत्तिरुपाः शौचतप:संतोषस्वाध्यायेश्वरप्रणिधाना नियमा एते प्रवृत्तिरूपा इत्यर्थः। उमयेषां लक्षणमाह-निवर्तकादिति। अत्रत्यनिवर्तकशास्त्रवेद्या यमा एतत्प्रकरणीयप्रवर्तकशास्त्रवेद्या नियमा इत्यर्थः । वधयागादिवारणाया- त्रत्येति ॥८५॥ अ०टी०-उत्तप्रवृत्तिनिवृर्योः स्वरूपमुदाहरणेन व्युत्पादयति-पमस्वरूपेति.। अहिंसा- स्तेयसत्यब्रह्मचर्यापरिग्रहा यमाः शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः । अन्र श्रवणाद्योऽपि स्वाध्यायेश्वरप्रणिधानयोरेवान्तर्भवन्तीति तेऽपि नियमा इत्यर्थः । उक्तोदाहरणयोरनुरूपं लक्षणद्दयमाह-निवर्तकादिति। निवर्तकशास्रवेद्या यमाः। प्रवर्तकशास्त्रवेद्या नियमा इत्यर्थ: ॥ ८५॥ सु०टी०-ननु निवृत्तेरवैधत्वा(न्नै*तच्छास्त्रस्य विधिशास्त्राद्विशेष इत्या-
विभजते- निवृत्तिरस्ति द्विविधा बहिःस्थिता शरीरसर्वेन्द्रियसंयमात्मिका।
सदात्मकूटस्थचिदेकविग्रहा ॥ ८६ ॥ निवृत्तिरिति। बाह्या यमादिका शरीरेन्द्रियष्यापारोपरमात्मिकाऽडन्त- रव स्तु रूप भैत्य गात्म संश्रयाSपराSसङ्गत्वात्मपश्चाभावरुपत्वाच्चाSSपि निवृत्तिरूपस्तां विशिनष्टि-सदिति। कूटस्थचिन्मान्रत्वेनावस्थितिरुपेत्यर्थः। सत्वस्य घटादावात्मत्वस्य बुद्धचादी प्रत्ययात्कूटस्थेत्यादि ॥। ८६ ॥ * धनुश्िह्ितग्रन्थः पुस्तके नास्ति। १ क. ग. प्रमप्।
Page 113
१०६ टीका टय समेतं-
अ० टी०-तत्र निवर्तकशास्त्रस्य निवर्तकत्वं निषेधकत्वेन कि वा निवृत्तिविघाने- नेति जिज्ञासायां तन्निर्णयाय निवृत्ति तावद्विभजते-निवृत्तिरस्तीति। निवृत्तिर्द्धि- विधाऽस्ति। तत्रैका बहिःस्थिताऽनात्मनिष्ठा। सा का या शरीरादिसंयमात्मिका तच्चेष्टा- त्यागरूपा। तथाऽपरा निवृत्तिरभ्यन्तरवस्तुसंश्रयाSSत्मैकनिष्ठा। सा का या सदात्म- कूटस्थचिदेक विग्रहाSSतमस्वभावभूतेति यावंत्। प्राप्तक्रियाकार्यकरणोपरमरूपा बाह्यनि- वृत्तिर्नि्त्यनिवृत्तक्रियात्मरूपाऽ्भ्यन्तरनिवृत्तिरिति तयोर्भेद इत्यर्थः ॥ ८६॥ सु० टी०-तत्र बाह्याया विधिविषयत्वमतुष्ठेयत्वान्नेत्तरस्या इत्याह- तयोस्तु बाह्या विधिशासत्रलाया प्रयत्ननिर्वर्त्तया प्रतीतेः । विधानशासत्रं विरहय्य लभ्या चितिस्वरूपा त्वितरा निवृत्तिः ॥८७॥ तयोरिति। आन्तरी तु विध्यगोचरत्वात्पड्विधलिद्गपेतमहावा-
अ० टी०-उत्तयोदविविधयोर्निवृत्त्योः का विधेया का वा नेत्यपेक्षायामाह- तयोस्त्विति। बाह्याया निवृत्तेर्विधेयत्वे हेतुमाह-प्रयत्नेति। चितिस्वरूपेतिवि- शेषणेनाऽSभ्यन्तरनिवृत्तेर्विध्ययोग्यत्वे हेतुरुक्तो द्रष्टव्यः ॥ ८७॥ सु०टी०-ननु निवृत्तित्वाविशेषे सत्येका विधेया नापरेत्यत्र को
मायामयी बाह्यनिवृत्तिरिष्टा चिंतिस्वरूपा परमार्थसत्या। तयोर्निवृत्योश्र निवृत्तिशासत्रं विधायकं बाह्यनिवृत्त्यपेक्षम्॥८८ ॥ मायेति। मायापरिणामदेहादिनिष्ठत्वाद्ाह्या निवृसतिरवि मा्यिकी। सा च प्रसक्तव्यापाराभावत्वेन पुरुषतन्त्रत्वाद्विधेया। आत्मरूपा तु पार- मार्थिकी कूटस्थत्वान्न केनचित्कर्तुमकर्तु वा योग्येति न विधेयेत्यर्थ:। तेन यमादिशास्त्रं विधेयबाह्यनिवृत्त्यपेक्षया प्रवृत्तमित्याह-तयो- रिति॥८5॥
Page 114
संक्षेपशारीरकम्। १०७
अ० टी०-उक्तयोर्निवृत्योर्विधेयत्वाविधेयत्ववैलक्षण्ये हेत्वन्तरमाह-मायामयीति। यद्रोक्तनिवृत्त्योः प्रयत्नयोग्यत्वायोग्यत्वे उपपादयति-मायामयीति। क्रियावतां देहादीनां मायामयत्वात्तत्संयमरूपा निवृत्तिरपि मायामयीष्टा तथा चाविद्वद्विपयत्वात्तस्या विधियोग्यत्वं प्रयत्ननिर्वर्त्यतया प्रंतीयमानत्वं चोपपद्यत इत्यर्थः । यतश्चितिस्व्ररूपा निवृतिः परमार्थसत्या कूटस्थात्मरूपाडतो न सा विधेयत्वादिकं भजत इत्यर्थः । बह्यनिवृत्तेः पुरुषपरतत्रत्वादितरस्यास्तदतनत्रत्वाय्युक्तोऽयमुक्तविभाग इति भावः । ततश्वैतत्सिद्धमित्याह- तयोरिति। निवृत्तिबोधकं शास्त्रं तु तयोर्मध्ये या बाह्यनिवृत्तिस्तदपेक्षं सदविधायकं प्रवर्तकमित्यभिमतं नेतरन्निवृत्पेक्षमपि तस्या निषेधशास्त्राविषयत्वादिति योजना॥ ८८॥। सु०टी .- ननु यमादिशास्त्रं विधायकं चेत्कथं निवृत्तिशास्त्रं निवृत्ति- विधायकत्वेनेति चेन्न तर्हिं प्रवृत्तिशात्राद्विशेष इत्यात्राSह- प्रवृत्तिशास्त्रेण समेडपि समते निवृत्तिशास्त्रस्य विधेयबोधने। निवृत्त्यनुष्ठाननिबन्धनत्वतो निवर्तकं शास्त्रमिदं प्रचक्षते ॥८९ ।। प्रवृत्तीति अस्य श्ञास्त्रस्य परवृत्तिशास्त्रेणाबुद्धबोधने समानेऽपि
भेदान्द्ेदः प्रमेयत्वे समानेऽपि मानमेयव्यवहारभेदवदित्यर्थः ॥८९॥ अ० टी०-ननु निवृत्तिशास्त्रं विधायकमित्ययुक्तं व्याघातात्प्रवर्तकं हि विधायकमित्यत आह-प्रवृत्तिशास्त्रेणेति। निवृत्तिशास्त्रस्य यमादिविधायिनो विधेयबोधने प्रवृत्ति- शास्त्रेण समे तुल्येऽपि निवृत्यनुष्ठाननिबन्धनत्वतो निवृत्तेरेव देहेन्द्रियादिव्यापारोपरमरूपाया अनुष्ठेयत्वाबिदं शास्त्रं निवर्तकं प्रचक्षते पण्डिता इति योजना। तथा च यागोऽनुष्ठेय इतिवद्यमादयोऽनुष्ठेया इत्युक्तिसाम्पेडपि यमादे: प्रवृत्तिनिरोधात्मकत्वात्तद्विपयं शास्त्रं निवर्तकमित्युच्यते। याग देस्तु निष्पादि(द्य) रूपत्वात्तद्विषयं शास्त्रं प्रवर्तकिति विशेष इति भाव: ।। ८९। सु० टी०-नन्वत्र पक्षे पूर्वतन्त्रवत्प्रवृत्तिनिवृत्तिरूपाधिकर्तव्या. ेदाद्धिकारिमेदानुपपत्तिरित्याशङ्कय तत्साम्थेऽपि फलवैचित्र्पात्तन्द्ेद- मभिभेत्याSSह- शास्त्रद्येन परिदर्शितसाधनेन साध्यस्पृहापरवशः पुरुषों मुमुक्षुः।
Page 115
१०८ टीकाद्व य समेतं-
शुभ्रूषते गुरुमथेत्युदितः स चात्र वेदान्तवाक्यविषयश्रवणाधिकारी॥ ९०॥ शास्त्रेति। यमनियमशासत्रद्वयप्रदर्शितप्रवृत्तिनिवृत्तिरूपसाधनेन साध्यं यद्रह्मज्ञानं तदिच्छावशीकृतोऽधिकारी गुरुमेव शुश्रूषते 'स गुरुमेवा- भिगच्छेत्' [मु० २।१२ ] इत्यादिश्रुतिशतमनुरुध्यमान इत्यर्थः । नन्वनुभूतविषयरसास्वाद: कथं तदनाहृत्य गुर्वनुसार्येव वृत्त इत्यत्राऽडह. मुमुक्षुरिति। साधनसंपत्तिमहिम्रा तेष्वतीव निर्विण्णो मुक्तिमार्गमेवानुस- रन्नित्यर्थः । अम एव कर्माधिकारिविलक्षणः स एवात्र मुनिनोक्त इत्याह-अथेतीति ॥।९०॥ अ० टी०-एवं सौत्राथशब्दसूचिताधिकारिनिरूपणमुपसंहरति-शास्त्र द्येनेति। यमनियमविधायिनिवृत्तिप्रवृत्तिशास्त्रद्वयेन यत्पारिदर्शित साधनं बहिष्प्रवृत्तदेहेन्द्रियादिव्यापा- रोपरमपूर्वकवेदान्तश्रवणादिलक्षणं तेन साध्यं यत्परिपक्कत्रह्मात्मज्ञानं तस्मिन्या स्पृहाऽ- त्यन्तादरस्तत्परवशः सन्मुमुक्षुः पुरुषो यो गुरुं प्राप्य तं शुश्रूषते सेवते ततो वाSऽत्मत्त्वं ओ्रोतुमिच्छति स च स एवात्रास्मिञ्शारीर के शास्त्रे Sथेत्यथशब्देन वेदान्तवाक्यविषयश्रवणाध- कार्युक्त इति योजना। तथा च चिकीर्षोरम्युदयार्थिनोऽन्य एवायं विविदिषुममुक्षुः सिद्ध इत्यर्थ:। एतदुक्ततं भवति यः कर्मकाण्डोक्तर्निजकर्मभिः स्वनुष्ठितैर्लब्धान्तःकरणसंशुद्धि रीश्वरोपासनाभिः प्राप्तचित्तस्थैर्यः क्रमेण प्राप्तसाधनचतुष्टय अत्मतत्वब्रह्मजिज्ञामुः परित्यक्तसकलकर्मतत्साधनतया परमहंसपारिव्राज्यमुपगतो निवृत्तितत्परस्तदनुकूलतया काश्विद्विधिविहिताः प्रवृत्तीरप्यनुतिष्ठन्विधिवद्ब्रह्मनिष्ठं श्रोत्रियं गुरुमापाततोSधिगतब्रह्मात्म- तत्त्वनिर्णयायोपगच्छति सोऽन् वेदान्ताधिकारीति निश्चितमिति॥९०॥ सु० टी०-एवमधिकारिणं निरूष्य तस्य जिज्ञासाक्रमेण शास्त्राथं विवक्षुस्तत्क्रममवतारयति- स परिपृच्छति कोऽहमसौ च क: सहजमस्य च तस्य च किं पृथक्। उत तयोरभिदेश्वरजीवयो- रिति च संशयसंकुलमानसः॥९१ ॥ स परीति। स उपसन्नोऽधिकारी वेदार्थापातज्ञानस्वानुमव विरोधाव- धानदोधूय मानचित्तसत्व शुद्धिदर्शनान्तराभ्यास प्रसाद् समा सादितशक्ति
Page 116
संक्षेपशारीरकम्। १०९ रमपश्यन् 'आचार्यवान्०' [छान्दो० ६। १४ ।२] इत्यादिभ्रुति- विश्वासलब्धाश्वासोडपि वक्ष्यमाणसंशयनिचयपर्याकुलः पृच्छतीत्यर्थः। प्रश्नप्रकारमाह-कोडहमिति। देहेन्द्रियमनोबुद्धिप्राणतत्साक्षिणां मध्येऽहं कः किं तैः संहतः संसारी विपरीतो वेति त्वंपदवाच्यजिज्ञासा। तथा प्रधानतटस्थेश्वरवासुदेवादिकचतुर्यूहप्रभृतीनां मध्येऽसी परोक्षतया प्रसिद्धः परमात्मा च कः ककि निरवग्रहमहत्त्वसंपन्नो विपरीतो वेति तत्पद्वाच्यजिज्ञासा। ततश्रानयोस्तत्वंपद्वाच्ययोः किं सहजं स्वामा- विकं रूपं किं वा पृथगौपाधिकं रूपमिति तत्त्वंपदलक्ष्यहेयांशजिज्ञासा। ततस्तत्वंपदार्थयोरिश्वरजीवयोः किं वस्तुतोऽभिदा कि वा 'दवा सुपर्णा' [शवेता० ४ । ६ ] इत्यादिश्रुतेर्मिन्नयोरेव सतोः 'तत्वमति' [छा० ६। ८ । ७ ] इत्यादिना 'नाम बह्म' [छा० ७।१।५]इत्यादिवद- मेदेनोपासनं सम्यगूपमिति वाक्यार्थविषयजिज्ञासेति। एतच् प्रश्नजातं मुख्यत योपन्यस्तमन्यदपि वक्ष्यमाणक्रमेण ज्ञेयमित्याह-इति चेति॥९१॥ अ० टी०-एवं प्रारिप्सितस्य अ्रन्थस्य श्रोतृप्रत्यङ्गतया प्रथमं वर्णनीयविवक्षितविषय- प्रयोजनसंबन्धाधिकारिसंभवमुपपादयता प्रथमसूत्रोक्ता शास्त्रारम्भकर्तव्यता समर्थितेदानी सम. र्थितारम्भं मुमुक्षोर्मोक्षसाधनब्रह्मात्मज्ञानाय वेदान्तवाक्यविचारशास्त्रमारभमाण उक्ताघिका- रिणो जिज्ञासाक्रमेण शास्त्रार्थो गुरुणा वत्तव्य इति तज्जिज्ञासाक्रममाह-स परिपृच्छ- तीति। यद्यपि जीवेश्वरजगच्छब्दवाच्यस्य सर्वस्याज्ञानेन चिदात्मन्यध्यस्तत्वमुक्तं पूर्वमिति पुनरिह प्रश्नानवसरस्तथाsiपे विषयप्रयोजनसंभावनासिद्धये तदाचार्यैर्युक्त्या केवलमुक्तं तन्म- माद्यापि नानुभवारूढं जातमिति शिष्यो मन्यत इति नानवसरः प्रश्नस्येति द्रष्टव्यम्। एषाऽक्षरयोजना सोऽधिकारी यथोक्तलक्षणः स्वयमापातेन दर्शनेनावगतमनुवदन्नाचार्य पृच्छति। तत्र तत्त्वंपदार्थयोः स्वरूपं तदैक्यं च शास्त्रेण प्रतिपादनीयं नान्यदरित प्रधानभू- तमिति मत्वा तत्रयं क्रमेण पृच्छति-कोऽहमिति। अहमित्यस्मिन्नवभासे यः स्ु[रिन्] घटरूपादिपरा गर्थव्यावृत्ताकारेण स कः कि देहादिभिः संहतो यथाप्रतिभासं संसार्येव स्वभा- वतः किं वा तद्विलक्षणोऽसंहतः सर्वसंसारसाक्षीति त्वमर्थविषयोयं प्रश्नः । तथाऽसौ शास्त्रैकगम्यः परमात्मा च कः कि निर्विशेषः कि वा सविशेषः सावग्रहमहत्त्वसंपन्नो निर· वग्रहमहत्त्वसंपन्नो वा। अस्मात्संसारित्वाभिमतादात्मनो भिन्नस्वभावः किवाभिन्नस्वभाव इत्यादि- रयं तत्पद्रार्थविषयः प्रश्नः । तथाऽस्याऽत्मनस्त्वमर्थस्य तस्येश्वरस्य तदर्थस्य च पृथक्पृथक्त्वं प्रतीयमानं किं सहजं स्वाभाविकमुत कि वा तयोरीश्वरजीवयोरभिदा भेदाभाव ऐक्यमेव सहजं स्यादितीत्थं चकारात्प्रत्यक्षादिविरोधे सति कथं वेदान्तोत्थाद्वयात्मधीप्रामाण्यमपौरुषेयतया
१ क. नं तस्य रूप।
Page 117
११० टीकाद्वय समेतं-
निर्दोषवेद विरोधात्स्वाभाविकस्य प्रत्यक्षादेर्वा कर्थ तदविरुद्वार्थबोधकतया प्रामाण्यमित्यादि- संशयैः संकुलं व्याप्तं व्याकुलीभूतं मानसं यस्य स तथाविधः सन्पृच्छतीत्यन्वयः । वेदा- न्तवाक्यापातालोचनतो लोकवादिप्रसिद्धितश्वानेकविधसंशयवान्स प्रत्यधिकरणं निवर्तनीया- नेकसंशयवान्पृच्छतीत्यर्थ: ॥९१॥ सु० टी०-अथैवं पृष्टो गुरुः 'यमेव विद्याः शुचिमप्रमसम्।' इत्या- दिशिष्य गुणानुसंधानात्तदानुकूल्पं प्रतिपन्न इत्याह- तीर्थेन तं विविदिषन्तमनन्यभकं संसारसागरभयातुरचित्तवृत्तिम्। एकं मुमुक्षुमधिकारिणमात्मतत्व्र ज्ञाने समीक्ष्य गुरुराह दयाविधेयः ॥ ९२ ॥ तीर्थेनेति। तं पूर्वोक्तमुपसन्नमात्मतत्त्व्र बोधेऽधिकारिणं समीक्ष्य सम्यकुप- रीक्ष्य गुरुराह करुणामात्रवशीकृतः सन्नार्थलिप्सुराप्तकामत्वादित्यर्थः। कुतोऽस्याधिकारित्वनिर्णय इत्याशङ्रक्याSSह-तीर्थेनेति। पावनेन यज्ञाद्यनुष्ठानादिना शुद्धबुद्धित्वादृथवा तीर्थेन विद्याग्रहणोपयोगि- मार्गेण शुश्रपाराधनादिना सद्वृत्तेनेति। अत एव विशिनष्टि-विविदि- पन्तमिति। विविदिषामात्रपेरितं न तु लाभपूजादिहेतुपाण्डित्यप्रेप्सया प्रवृत्तमित्यर्थः । तथा 'यस्य देवे परा मक्ति:'[श्वे० ६। २२]
ग्यादिसंपद्माह-संसारेति। एकमद्वितीयं दुर्लभमित्यर्थः ॥९२॥ एवं शिष्यस्य जिज्ञासाक्रममभिधाय तदनुरोधेन शास्त्रार्थ निर्णिनीषोर्गुरोः शिष्यसंग्रहे. नियमं शिष्यविशेषणैः सूचयंस्तत्प्रवृत्तिनिमित्तमाह-तार्थेन तभिति। तीर्थ शास्त्रं 'निपानागमयोस्तीर्थमृषिजुष्टे जले गुरौ' इत्यभिधानात्। तेन तार्थेन शास्त्रोक्तमार्गेण विविदिषन्तं तं शिष्यमात्मतत्त्वज्ञानेSधिकारिणं समीक्ष्य गुरुराहेत्यन्वयः । अनेन विशेषणेन शास्त्रोक्तविधिमुल्डध्य यथाकथंचिदुपस्थितं तत्त्वजिज्ञासामनादृत्य पाण्डित्यादर्थ वा प्राप्तं च नोपदिशेदित्येको नियम उक्तः । अनन्यभक्तममिति गुरौ देवतात्माभेदेन भक्तियुक्तं देव- वद्गरुं शुश्रूषादिभिः सेवमानं गुरावात्मनीव प्रेम कुर्वन्तमित्युक्त्ैतद्विपरीतो गुरुदेवताभक्ति- रहितो न संग्राह्य इति सूच्यते। यद्वा 'परशिष्यं न बोधयेत्' इतिवचनादन्येनोपदिष्टपूर्व- तयाऽन्यभक्तं नोपदिशेदिति सूच्यते । उक्तविशेषणद्वयवानपि यदि संसारादनिर्विण्णः प्रवृत्तिनिरतः स्ात्तदा सोऽप न ग्राह्य इत्यमिप्रेत्य विशिनष्टि-संसारसागरभयातुर-
Page 118
संक्षेपशारीरकमू। १११
चित्तवृत्तिमिति। व्याधिग्रस्तातुर इव मरणाद्गीतो व्याप्त्युत्सारणेन स्वास्थ्याय व्वरमाणः संसारसागरान्तःपातजनितमहाव्यथातुर आत्मस्वभावावसादभीतः संसारसागरोत्तारणेन मोक्षास्येन स्वास्थ्यं गन्तुं त्वरमाण उपदेशाय संग्राह्यो नान्यादृश इत्यर्थादुक्तम्। एकमिति- विशेषणेन परित्यक्तसर्वस्वपरिवारः संन्यास्युच्यतेऽर्थादसंन्यासी प्रतिपिद्धः । मुमुक्षुमिति तद्े- तुशमदमादियुक्तमित्यर्थः । 'नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः । यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ।। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः' [श्वे० ६२२] इतिश्रुतयः । 'नापृष्टः कस्यचिद्रयान्न चान्यायेन पृच्छतः । जानन्नपि च मेधावी जडवल्ोकमाचरेत् ।।' इत्यादिस्मृतयश्चात्रानुसंघेयाः । गुरोर्दयाविधेय इतिविशेषणेन केवलं परकृपाधीनतयैघ शिष्यः संग्राह्यो न स्वस्य र्यातिलाभपूजाद्युद्देशेनेति विवक्षितं 'यद्यप्यस्मा इमामद्भिः परि- गृहीतां धनस्य पूर्णा दद्यादेतदेव ततो भूय: ' [छा०३। ११।६] इति श्रुतेरि- त्यर्थ: ॥ ९२ ॥ सु० टी०-अथ तस्य यथेष्टप्रशानुकूलोत्साहाय तस्मिन्नात्मनः सौमु- स्यमावेद्यन्पदार्थपूर्वक वाक्यार्थमुपदिशति- वक्ष्यामि वत्स तव वाञ्छितमत्यवस्थ- मत्यन्तमेव च हितं शृणु तन्मनस्कः । त्वं प्रत्यगव्यवहितं तव सुपसिद्धं ब्रह्माद्वितीयमुदितं च तदस्यजस्रम् ॥ ९३ ॥ वक्ष्यामीति। तव वौञ्छितं जिज्ञासितं वाक्यार्थं वक्ष्यामि तत्तन्म- नस्कः शृणु न मनागपि प्रमादं कुर्या इत्यर्थः । तन्र हेतुरत्यवस्थं जाग्र- दादिसकलावस्थातीतत्वाद्दुर्बोधं यत इत्यर्थः । अस्यार्थस्यात्यन्तो- पादेयत्वादृपि सावधानेन माव्यमित्याह-अत्यन्तमिति। कोऽहमिति मश्नस्योत्तरमाह-त्वमिति। न त्वं देहादिस्तत्संहतो वा किं त्वन्योन्या- ध्यासाद्बुध्यादिशबलतया भासमानस्त्वं वस्तुतः प्रत्यगनिदं चिदातमै- वेति त्वंपद्लक्ष्यस्य तत्पदार्थान्वयविरोधिपरागिदमंशहानेन निष्कृ- ष्योक्ति:। तत्र प्रमाणमाह-अव्यवहितमिति। व्यवधायकाज्ञानस्यापि साक्षितया साधकत्वादृतिप्रत्यासन्नं प्रत्यकस्वरूपमनुभवसिद्दमेवान्यथा
Page 119
११२ टीकाद्वय समेतं-
जगदान्ध्यं स्यादित्यर्थः । असौ च क इत्यस्योत्तरं ब्रह्मेति बृहदद्वितीयं निरवग्रहमहत्त्वोपेतम्। तत्पदार्थे मानमाह-उदितं चेति।'सदेव सौम्य' [छा० ६।२।१] इत्यादिश्ुती जगतकारणत्वेन तटस्थेनोपल- क्षितमद्वितीयं ब्रह्मेति त्वमर्थान्वयविरोधिद्वैतांशहानेन लक्ष्यस्य सन्मा- व्रस्य निष्कृष्योक्तिरुत तयोरित्यादिप्रश्ने वाक्यार्थेनोत्तरमाह-तदसीति। अजस्रमित्यभेदस्य नैसर्गिकत्वात्कल्पितो भेद इति नोपासनादिपरत्व- मित्यर्थः ॥ ९३ ॥ अ० टी० -- शिष्यप्रश्नानन्तरं गुरुरुत्तरदानं प्रतिजानानो मद्रौरवादयं प्रतिवक्तुं पुनः पष्टुं वा साशङ्को मा भूदिति तं सावधानमनस्तया प्रोत्साहयति-वक्ष्यामि वत्सेति। हे वत्स सौम्य तव वाञ्छितं विज्ञेयतयेष्टं वक्ष्यामि त्वं तन्मनस्को मयोच्यमानैकार्थमनाः सज्शृणु सादरमवधारयेत्यन्वयः । यतो वक्ष्यमाणं वस्त्वत्यवस्थं व्यावहारिकसर्वावस्थातीतं दुर्बोधमिति यावत्। तर्हि किं तेन श्रुतेनेत्यनादरो न कार्यो यतोऽत्यन्तमेव हितं चावगम- मात्रेणैव सर्वोपद्रवरहितपरमानन्दाविर्भावरूपं चातोऽतिसावधानेन शृण्वित्यर्थः । एवं श्रोता- रमाभिमुख्येन सावधानीकृत्य तत्प्रश्नक्रमेण पदार्थद्वयतत्त्वावेदनपूर्वकं वाक्यार्थ- माह-त्वमित्युत्तरार्धेन । कोऽहमित्यस्योत्तरं त्वं प्रत्यगिति। अहंप्रत्ययावभासिष्वने- केषु मध्येऽविवेकवशादागमापायितयेदंभावमापद्यमानेषु देहादिषु बुद्धिपर्यन्तेषु योऽनागमा- पायितया कदाऽपि नेदंभावमापद्यते किंववनिदमविषयभूतमेव भवति तद्वस्तु प्रत्यगित्युच्यते तत्त्वमसि देहादिसंघाताद्विलक्षणस्तत्साक्ष्यसीत्यर्थः । नात्र प्रमाणमन्वेषणीयं तवानुभवसि- द्धत्वादित्याह-तव सुप्रसिद्धमिति । सुप्रसिद्धे हेतुः-अव्यवहितमिति। द्रष्ट- र्वर्यवहितं केनचिद्वस्तुनाऽन्तरितमतत्स्वरूपं वा स्वावभासे प्रमाणमपेक्षते स्वस्य स्ववेद्यत्वा- नुपपत्तेर्द्रष्ट्रन्तराभ्युपगमेSनवस्थानात्तस्याप्रसिद्धौ च तदन्यस्य तद्दष्टत्वासिद्धिरिति त्वं सर्वस्या- विद्यातत्कार्यलक्षणस्य सर्वदा द्रष्टा न केनचिद्व्यवहितो नाप्यप्रकाश इति त्वत्स्वरूपं तव सुप्रसिद्धं प्रमाणमन्तरेणैवेत्यर्थः । तथा च श्रुतिः-'न दृष्टर्द्रष्टारं पश्ये:'[ बृ ३। ४ । २ ] इत्याद्या 'येनेदं सवं विजानाति तं केन विजानीयात्।[ बृ० ४।५। १५ ] इति च प्रमाणाविषयत्वेनैव स्वतःसिद्धमात्मानमव्रगमयति । एवं कोऽहमितिपृष्टं त्वंपदार्थतत्त्वमवगमय्यासौ च क इति पृष्टं तत्पदार्थतत्त्वमवगमयति-ब्रह्मा- द्वितीयमुदितं चति। ब्रह्म तत्पदार्थस्तच्च न सावग्रहमहत्त्वोपेतं सविशेषं वा भवति किं त्वद्वितीयं निरपेक्षमहत्त्ववनिनिर्विशेषं च ब्रह्मशब्दस्य महत्त्ववाचिनोऽ- सति संकोचके परिपर्णाद्वितीयवस्तुगमकत्वोपपत्तेः । किमत्र प्रमाणमित्यपेक्षायामुक्तम्- उदितं चेति।'सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयम्' [छा० ६।२ । १ ] 'तदेतद्रह्मापूर्वमनपरमनन्तरमबाह्यम्' [बृ० २। ५।१९] इत्यादौ निर्विशेषमेव्
Page 120
संक्षेपशारीरकमू।
तदुक्तमियर्थ :: । चकारेणान्यतःसिद्धब्रल्मानुवादितयोक्तवेदान्तानामद्वितीये तातपर्याभावशक्का निवार्यते 'यत्पुनः सहजस्य च ' इत्यादिना। जीवेश्वरयोर्भेदोडमेदो वा परमार्थ इति छृट तत्रामेद एवं परमार्थो न भेद इत्युत्तरमाह-तदजस्रमिति। तदद्दयं यथा- व्याख्यातं त्ह्मैव त्वमसि न ततो भिन्नः । तत्किं कदाचिन्मोक्षावस्थायां स्यादिति मा शक्किष्ठा इत्यभिप्रेत्याSSह-अजस्रमिति। सदैवाभेदः स्व्रभावतो जीवेश्वरयोर्भेदस्तूपा- विनिबन्धनो भ्रान्त एवेत्यर्थः । सर्वेषां वेदान्तानामुपक्रमादिभिर्लिैस्तात्पर्ये विचार्यमाणे व्रल्मात्मस्वरूपैक्ये पर्यवसानदर्शनान्नात्रापि शङ्का कार्येति भावः । एतत्सर्व पूर्वोपपादित- मध्यासमुपजीव्योक्तमिति, द्रष्टव्यम् ।। ९३ ।।
बन्धादनासादितप्रमाणफलंस्य प्रतिमाप्रतिभासमानदूषणगणानुद्विमा- वयिषोरषि मुर्वनु्ज्ञां प्रतीक्षमाणस्याभिप्रायज्ञो गुरुर्न पुनरयं मामश- क्तमाशङ्क्पान्यत्र गच्छेदुपायान्तरं वा संभावयेदिति दोषद्वय परिहर-
यबत्र पश्यसि विरोधमुदीरय त्वं सयस्ततः परिहराणि तमभयत्नात्। वाक्यं निरस्तसकलप्रतिबन्धकं स- स्वां बोधषिष्यति करार्पितबिल्वतुल्यम् ॥९४॥ यद्यत्रेति। अत्र वाक्यार्थे यदि विरोधं पश्पस्ति वस्तुतो नात्र विरोध- लेशोऽपीति मावः। तं यथेष्टमुद्भावय मा मैषीरित्यर्थः। न चात्र ममा- शक्ति: कदावि संभावनीया। सेवितगुरोरवधारितसर्वतन्त्रसिद्धान्तर- हस्पस्यांनायासेनैव तन्निराससामर्थ्यादित्याह-सद इति। न च बह्म- ज्ञान उपायान्तरं शङ्कनीयमित्याह-वाक्यमिति। उक्तमहावाक्यमेव निर- स्तासंभावनादिपतिबन्धं सत्करतलामलकवन्मुक्तिफखण्डवाक्पार्थ बोधयिष्यति नान्यदिव्यर्थः ॥९४॥ अ० टी०-तदेवं ततवंपदार्थतदैक्यवाक्यार्थलक्षणे शास्त्रार्थ उपदिष्टे सति सम्यगप्रसन्नवदनमिव शिष्यमालोक्य प्रायोऽयं मदुक्तार्ये विरोधं पश्यतीत्यालक्ष्य
१ फ. म. स्प प्र°। १५
Page 121
११५ टीकाइयरस मेतं-
तदपाकरणाय स्वयमेवाSSचार्यः संप्रोत्सहयति-यद्यन्नेति 1. हे सौम्य यद्यत्रास्मढु- पदिष्टे शास्त्रार्थे ववं विरोधं पश्यासि तर्हि तं सम्यगुदीरय कथय निःशङ्कमुद्घाटय। यदि- शब्देन नात्रास्ति विरोधसत्वं तु भ्राम्त्या पश्यसि तमिति द्योतितम्। यतस्त्वत्कल्पिलो विरोधस्ततस्तं त्वदुक्तिसमनन्तरमेत्राविलम्बेन तत्राप्यप्रयत्नाद्विनैव विचारप्रयासं परिहराणि परिहर्तुमिच्छामि। लोड: प्रयोगादत्रासंभावना त्वया न कार्येति द्योत्यते। यत एवं वस्तुतस्तत्र विरोधाभावोऽतस्त्वदुत्प्रेक्षितविरोधनिरासे सति मदुपदिष्टार्थकं वाक्यमेव निरस्तनिखिलप्रतिबन्धकं सत्त्वां प्रत्यग्ब्रह्मतत्त्वं बोधयिष्यति करकल्पितबिल्ववदपरोक्ष- तयैय न परोक्षतयेत्यर्थः ॥ ९४ ॥ सु० टी० -- गुर्वनुज्ञया लब्धप्रसरः प्रथमं पदार्थयोर्विरोधेनान्वयायो- ग्यतया दाक्यार्थबोधमाक्षिपति -- अन्राऽडह सद्यमहं मम रूपमीक्षे तचचादवयं विगणयामि परोक्षमेव। पारोक्ष्यसद्वयविभागयुजोविरोधा- द्वाक्यार्थबोधमतिदुर्लभमेव मन्ये ॥ ९५॥ अत्राऽडहेति। तत्र विरोधमाह-सद्वयमिति। ममत्वंपदवाच्यस्य बुध्यादि- शबलं रूपं सद्टयमीक्षे साक्षात्करोमि तच्च तत्पद्वाच्यमद्वयं विपरीतं गणयामि परोक्षतवेन शब्दादनुमानाद्वा कार्यलिङ्गकादवैमीत्पर्थः । किं तत इत्यत आह-पारोक्ष्येति। पारोक्ष्याद्वयत्वापारोक्ष्यसद्वयस्वविभक्तयोरर्थ- योरभेदविरोधाद्दुर्लभो वाक्यार्थबोध इत्यर्थः ॥९५॥ अ० टी० -- एवं गुरुणाऽनुज्ञातः स्वबुद्धौ प्रतिभातं वाक्यार्थविषयं विराधं वक्तुं प्रत्यवतिष्ठत इत्याह-अन्राSSहेति। अत्र प्रत्यक्षविरोधं तावदैक्यवाक्यार्थविषयमुद्घाट- यति-पद्दयमित्यादिना। अहं मम रूपं स्वरूपं सद्यं सजातीयविजातीयस्वगतभे- दवदीक्षे प्रत्यक्षेणैव प्रमाणेनानुभवामि सुखदुःखादिवैचित्र्यस्वगतधर्मदर्शनेन तथाविधजी- चभेददर्शनेन देहाद्यव्यात्माधिभतादिदर्शनेन च सद्वयभेव सदा प्रत्यगात्मानमनुभवामी- त्यर्थः । ननु श्रुत्युक्तत्वादद्वयमपि तत्त्वंपदार्थैक्यं प्रामाणिकमिति नेत्याह-तञ्चेति । विगणयामि विरुद्धं गणयामि प्रत्यक्षविरुद्ध मन्य इत्यर्थः । ननु प्रत्यक्षमाभासीकृ्याSS- गमः स्वार्थमत्रगमयिष्यतीति नेत्याह-परोक्षमेवेति। न हि परोक्षार्थेनाSडगंमन प्रत्यक्षानुभवो बाधितुं शक्यत इति भावः । तस्माद्वाक्यादपरोक्षं ब्रह्मात्मैक्यमवगम्य [त] इत्याशामात्रमित्याह-पारोक्ष्पेति। अत्रेदं वित्रक्षितं 'तं प्रत्यगव्यवहितं तव सुप्रसिद्ध
Page 122
संक्षेपशाशीरकमून ११५ ब्रह्माद्वितीयमुदितं च तदस्यजस्रम्' इत्यत्र तत्त्वरंपदार्थस्वरूपं तदैक्यं वाक्यार्थ चावोचदा- चार्यः । तत्र यद्यपि पदर्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य प्रथमं पदार्थविषयविरोधीद्धावनं तःसमाधानं चोचितं तथाऽपि सर्ववेदान्तसमन्वयस्यैक्यगोचरत्वात्तस्य च प्राधान्यात्तत्र वेदा. न्तानां प्रामाण्ये दृढीकृते सर्वोडपि विरोध: परिहृतः स्यादिति मत्वाSद्वितीये वस्तुनि वाक्य समन्वमविषयो विरोध उद्धाव्यते परिहरिष्यते चोत्तरत्र। क्षितिजलदहनानिलाम्बराणा- मित्यारभ्य तत्पदार्थविषयं समन्वयविरोधं विशेषतः परिहरिष्यति। न चैवंसति सूत्रानुक्रम• विरोधस्तत्र यद्यपि प्रथमसूत्रेणाधिकारिनिरूपणमुखेन त्वंपदार्थोऽर्थाननिरूपितोऽनन्तरसूत्रद्व- येन च तत्पदार्थो लक्षणप्रमाणाभ्यां प्रतिपादितस्ततश्चतुर्थेन सूत्रेणैक्यवाक्यार्थसमन्वय इति क्रमोऽवभासते तथापि न त्वंपदार्थादिनिरूपणे सूत्रतात्पर्यं प्रथमसूत्रस्य शास्त्रारम्भसमर्थन- परत्वात्। तदर्थस्य सर्वस्येह प्रथमं निरूपितत्वात् । द्वितीयतृतीयसूत्रस्य चेह तव सुप्र- सिद्धं ब्रह्मेति सूचितस्य क्षितिजलदहनेति विविच्यमानत्वादिति ॥९५॥ सु० टी० -- ननु नात्र विरोध: सहूयत्वपारोक्ष्ययोरध्यस्तत्वकलना- दित्याशङ्क्य शब्दस्य तद्वोधनासामर्थ्यमाह- यद्दस्तु सद्वयतयाऽवगतं स्वशब्दा-
यद्वस्तु च व्यवहितं प्रतिपादितं त- त्प्रत्यक्त्या न तु जनः प्रतिपन्तुमीशः ॥९६॥ यदिति। पदार्थसंसर्गस्यैव वाक्येन बोधनाद्बुद्धयादिद्वैतविशिष्टस्याप- रोक्षभत्य ग्रुपस्य त्वमहमादिपदार्थस्य परोक्षवाचितत्पदार्थभूताद्वयत्ववैशि- ध्यबोधनमशक्यं विरोधादित्यर्थ:। व्यवहितं परोक्षं प्रत्यक्तयाऽडत्म- भेदेन पदार्थयोश्च सद्यत्वपारोक्ष्ययोस्त्यागे वाक्यार्थस्यैवानुपपत्तेरिति भाव:॥ ९६॥ भ० टी०-उक्तामेवाखण्डवाक्यार्थानुपपतति स्फोरयति-पद्स्त्विति। रवशब्दात्स्ववा- चकात्वमह मित्यादिशब्दा दद्वस्त्वात्मलक्षणं सद्वयतयाSवगतं कर्तृत्वदिद्वैतविशिष्ट तयैवाविकल- मवभासते तस्याद्वयत्वमद्वयब्रह्म रूपत्वमवगन्तुं वाक्यशतादशक्यमेवेत्यर्थः। तथा यच्च वत्तु व्यव -. हितं परोक्षं तत्पदार्थलक्षणं त्त्सद्वह्मादिशब्दैः प्रतिपादितं तद्वस्तु प्रयक्तया स्वाव्यवहितात्म रूपेग प्रतिपत्तुं न जनः कोऽपीशः समर्थे डस्ति प्रत्यक्पराग्भावेन विरुद्धयो रैक्यज्ञानस्य भ्रभ- त्वापसेरित्यर्थ: ॥ ९६ ॥
Page 123
११६ टीकादूयसमेतं-
सु० टी० -- ननु रजतत्वेन गृह्यमाणस्यापि चक्षुषा शुक्तित्वग्रहव. द्विरुद्धल्वेन प्रतीतयोरपि वाक्येनाभेदो बोध्यतामिति चेन्न चक्ष:शब्दयो: शक्ति वैचित्र्या दित्याह- आकाङ्क्षितं भवति पूरणशक्तियुक्तं यत्संनिधौ पठितमस्य हि संगति: स्ात्। नाऽडकाङूक्षयैव न तु संनिधिनैव वा स्यात् संबन्धिता हि विरहृय्य पदार्थशक्तिम् ॥९७॥ आकाङक्षितमिति। न हि चक्षुष इव स्वसामथ्यंमात्रेण शब्दस्य बोधकत्वमपि तु यत्पद्जातमेकैकं विनाऽपर्यवसितामिंधानं भवति। तथा पूरणशक्तिरन्वयप्रयोजकरूपवत्ता तययुक्तमवाधितान्वयरूपं था। यञ्ञाव्यवहितपदोपस्थितार्थ ताहशमेव वाक्यार्थधीहेतुर्न त्वेकाङ्गवि- कलम्। इह पुनराकाङ्क्षासंनिधिसत्वेऽप्यन्वययोग्यतां बिना न तत्सं- मव इत्यर्थ: ।।९७॥ अ० टी०-ननु रजतमिदमिति पूर्वप्रवृत्तं पुरोवर्तिनो रजतात्मत्वावभासं बाघमानो यथा पश्चाद्गवन्निर्दुष्टचक्षुर्जन्यः प्रत्ययः शुक्तित्त्वमवभासयति तथा प्रत्यग्ब्रह्मणोः प्राकप्रवृत्तं स्वाभाविकभेदप्रत्ययमपबाधमान एव तत्त्वमस्यादिवाक्यजन्यः प्रत्यय ऐक्यमवगमयिष्यतीति
परस्पराकाड्क्षायोग्यतासंनिधिमत्वविशेषितानां हि पदार्थानां संसर्गादिवाक्यार्थो भवति न विपर्ययः । यत्संनिधौ पठितमपि वस्तु यदि पूरणशक्तियुक्तमपेक्षापूरणसमर्थमन्वय- योग्यमिति यावत्। एवंविधं स्यात्तदाकाङ्क्षितं भवति नान्यदयोग्यम्। हि यस्मादस्य योग्यस्यैव संगति: स्यान्नायोग्यस्येति योजनम्। उक्तमेव स्फुदयति-नSSकाङ्रक्षयै- वेति। पदार्थशाक्ें पदार्थसामर्थ्य योग्यतामित्यर्थः । हिशब्दोऽवधारणार्थो लोकप्रसिद्धि- दोतनार्थों वा ॥ ९७॥ सु० टी .- नन्वत्रापि शाब्द्ी योग्यताऽस्त्येव समानविभक्तिकत्वा- द्िति चेतार्थयोग्यतां बिना तस्या अकिंचित्करत्वादित्याह- योग्यत्वमत्र न च तत्त्वमसीतिवाक्ये संबन्धितां प्रति पदार्थयुगस्य भाति।
Page 124
संक्षेपज्ञारीरकम्। ११७
पारोक्ष्यसद्वयविभा गविरोधहेतो- गौरश्व इत्यभिहिते तु यथैव वाक्ये॥ ९८॥ योग्यत्वमिति। न ह्यत्रार्थयोरस्ति योग्यता प्रागुक्तपारोक्ष्यसद्वयत्वविरो धात्समानविभक्तिकत्वेऽपि गरिश्व इत्यादिवाक्यवदित्यर्थः ॥ ९८॥ अ० टी०-अस्त्वेवं प्रकृते किमायातमित्याशङ्कय तत्त्वमर्थयोर्योग्यताविरहं सदृष्टान्त. मुपपादयति-योग्यत्वमत्रेति। एकविभक्त्यन्ततया शब्दयोग्यत्वेऽपि पारोक्ष्यसद्वयवि- भागविरोधान्मिथः संबन्धितां प्रति योग्यत्वमत्र तत्त्वमसीतिवाक्ये न भातीति योजना। यथा गौरश्व इत्यभिहिते वाक्येऽर्थयोर्योग्यताविरहात्संबन्धिता नावगम्यते तथेत्यर्थः ॥९८॥ सु० टी०-ननु यथा सोडयं देवदत्त इत्यत्र तत्तेदन्तारूपविरुद्धांश- परिहारेणाविरुद्द्स्वरूपमात्रलक्षणया शब्दसामस्जस्यमेवमिहापि स्था- दिति चेन्ने त्याह- सोडयंगिरोरिव न लक्षणयाऽपि वृत्ति- र्मानान्तराधिगतिहीनतयाऽSत्मनि स्पात्। मानान्तराधिगतगोचर एव दष्टः शब्दपयोग इह लाक्षणिकस्तु लोके॥ ९९ ॥ सोऽयमिति। न ह्यन्र सोयंशब्दयोरिव पारोक्ष्यसद्वयत्वत्यागेनाविरुद्धा- खण्डचिदात्मनि वृत्ति: संभवति। यद्दि मुख्यार्थसंबन्धित्वेन मानान्तर- सिद्धं तत्रैव शब्दस्य लक्षणा स्यादन्यथा वेच्याल्लक्ष्यस्मृतेरयोगात्। न च चिदात्मा वाच्यशबलांशत्वेन वेदातिरिक्तमानगोचर इत्यर्थः । दृष्श् गङ्गार्यां घोष इत्यादिषु ताद्दृशतीरादी लाक्षणिकपद्प्रयोग इत्याह-मानान्तरेति। ९९॥ अ० टी०-ननु वैदिकपदयोः श्रूयमाणं सामानाधिकरण्यं बिना पदार्थैक्यावसानं न परित्यक्तुमुचितं स्वाध्यायाध्ययनविधिविरोधादतो विरुद्धांशप्रहाणेन लक्षणयाSखण्डार्थपर्यवसितं वांक्यं भविष्यति कोडत्र विरोध इति चेत्तत्राSSह-सोऽयंगिरोरिवेति। उदाहृतवाक्य इवेह लक्षणावृत्यसंभवे हेतुमाह-मानान्तराधिगतिहीनतयेति। मानान्तरागोचरेS- प्यात्मनि लक्षणावृत्तिः कि न स्यादित्याशङ्कय दृष्टविरोधान्मैवमित्याह-मानान्तराधि- गतेति ॥ ९९ ॥
१ क. चेत्तत्ना° । २ क. ग. वा क्याल्व।
Page 125
११८ टीकाटय समेतं-
सृ० टी .- तस्मान्मुख्यलक्षणावृत्त्योरसंभवान्न ब्रह्मणि वाक्यपामा- ण्य मित्याह- तस्मादखण्डविषया न वचःपवृत्तिः संसर्गबोधनमपास्तमयोग्यभावात्।
दूरे प्रमान्तरविरोधनिराससिद्धिः । १०० । तस्मादिति। ननु द्वैतग्राहिपत्यक्षादेः श्रुति विरोधेनाप्रामाण्यादस्तु मृद्घट इतिवद्वाच्ययोरेवाभेदो वाक्यार्थ इतिचेन्न श्रुतिपरामाण्याधीनं माना- न्तरापामाण्यं तदधीनं च श्रुतिपामाण्यमित्यन्योन्याश्रयादित्याह- एवमिति। समन्वयोऽपीति। समन्वयाधीनं प्रामाण्यमपि दुर्लभं दूरे विरोधिन: पामाण्य [विरोध]निरास इत्यर्थः ॥ १०० ॥ अ० टी०-संसृष्टतयाऽखण्डतया वा वाक्यार्थानुपपत्तिमुपपादितामुपसंहरति-तस्मा दिति। यस्माल्लक्षणयाऽपि सामानाधिकरण्यं न घटते तस्मादखण्डविषया न तत्वमादि- वच:प्रवृत्तिरिति योजना । संसर्गबोधनं तु प्रकृतवाक्येऽयोग्यभावादेवापास्तमित्यर्थः। एवं च सति वाक्यगतयोः पदयोः समन्वयः सामानाधिकरण्यलक्षणोऽपि न सिध्येदर्थगतप्रमा- न्तरविगेधिनिराससिद्धिस्तु दूरापास्तेत्याह-एवं न वाक्यगतेति। एतदुक्तं भवति- यद्यति वेदवानयं निरपेक्षं प्रमाणमेव तथाऽपि शब्दशक्तिमनुरुन्धान एव वेदोऽर्थबोधको युक्तः । शब्दश्च लोकावगत्यनुसारी न स्वतत्रः । एवंसति परोक्षापरोक्षत्वादिविरुद्धधर्म संसर्गवतोस्तत्व्रमर्थयोः संसर्गयोग्यतयैव प्रथममवभासात्कुण्ठितशक्तितिया नैकरस्यवाक्यार्थ- बुद्धयुत्पादनसमर्थता वाक्यस्येति ॥ १०० ॥ सु० टी०-सिद्धार्थत्वादृवि नैतद्वाक्यं प्रमाणं सपेक्षत्वादित्याह- किं च प्रमान्तरमपेक्ष्य गिरः प्रवृत्तिः सिद्धेषु वस्तुषु जगत्युपलब्धपूर्वा । ब्रह्मात्मवस्तुनि तथा वचसः प्रवृत्ति- र्यु क्ताऽउत्मनरतु फलवत्परिनिष्ठितत्वात्॥ १०१ ॥ किंचेति। सिद्धेषु हि वस्तुपु मानान्तरसापेक्षेव शब्दस्य प्रवृत्तिरुप- लब्धा. यथा नदीतीरे फलानि सन्तीत्यादौ। सा च ब्रह्मण्यपि सिद्धे तथे-
Page 126
संक्षेपशारीरकमू। ११९ वोपेयेति कथं तत्र वाक्यस्यानधिगतार्थबोधकश्वमात्मनोऽपि फलादिव- व्सिद्धत्वादित्यर्थः ॥ १०१ ॥ अ० टी-इतोऽपि ब्रह्मात्मनि न वाक्यप्रामाण्यमुपपद्यत इत्याह-किं चेति। यत्कार्यविपरीतवस्तुविषयं वाक्यं ्तत्स्वविषये मानान्तरसापेक्षं लोके दृष्ट यथा नदीतीरफल- वाक्यम्। तथाSSत्मनोडपि सिद्धवस्तुचात्तद्विपये मानान्तरसापेक्षमेत्र वाक्यं भवितुमर्हति। अतोऽनुवादत्वापत्तेर्वेदान्ता न ब्रह्मात्मि मानमित्यर्थः । अन्वयार्थः सुगमः ॥ १०१ ॥ सु०टी०-ननु सापेक्षत्वे पौरुपेयत्वं तन्त्रं न तु सिद्धार्थत्वमिति चेन्नाव्यभिचारेण तस्पैव प्रयोजकत्वादित्वाह- नयास्तीरे फलमितिगिर: सिद्धवस्तुपवृत्ते- दष्टा स्वार्थप्रमितिजनने स्वान्यमानव्यपेक्षा। तद्वह्वूल्लण्यपि तु वचसो वैदिकस्याभ्युपेया तस्मादस्मिन्न खलु घटते मानभावः श्रुतीनाम्॥१०२॥ नधा इति। सिद्धे वस्तुनि प्रवृत्तिर्यस्यास्तस्या नद्या इति गिर: स्वार्थ- प्रमिती मानान्तरापेक्षा दृष्टेत्यविशेषाद्वैदिकस्याि ब्रह्मवाक्यस्य सिद्ध गोचरत्वप्रयुक्तैव साऽभ्युपेथेत्यर्थः ।१०२॥ अ० टी०-फलवदित्युक्तं दृष्टान्तं विवृणोति-नद्यास्तीर इति। सिद्धे वस्तुनि प्रवृत्तिर्यस्या गिरः सा तथा तस्या इति विग्रहः । स्वान्यमानं प्रत्यक्षादि दार्टान्तिकमनू-
सु० टी०-सत्यप्यखण्डार्थत्वे वाक्यस्यान्यानधिगतार्थत्वान्न लक्षणा.
नाखण्डवस्तुविषया वचसः प्रवृत्ति- र्लोकेऽपि दृष्टिपथमापतिता कदाचित्। नानापदार्थघटनाविषयत्वहेतो- र्दूरेत्यता श्रुतिशिरोवचनेषु तस्याः ॥१०३ ॥ नेति। तदेव हि कल्पते यद्दृष्टेन न विरुध्यते। न च लोके क्वचिदप्य- खण्डार्थता दृष्टा। वाक्यानां नानापदार्थसंसर्गविषयत्वात्सोऽयमित्यादेश्र
१ ख. "त्तेरिटास्व्रा।
Page 127
१२० टीकाद्टय समेतं-
विवादपदंत्वादित्यर्थः। गुरूणां नियोगशक्तिवद्वेद एव सा कल्प्येतिचेस्ने त्याह-दूर इति। वक्ष्यमाणदोषाद्:ट्टान्तासिद्धेश्व श्रुतिवाक्येषु सा दूरं गतेत्यर्थः। दूरे मवा दूरेत्या तस्या मावस्ततेति। केचिद्वस्तुतः 'अध्यय" त्थप्' इतित्यप्प्रत्ययासंभवाच्छेषाधिकारे 'दुरादेव्य' इति वार्तिकोक्तेरे त्यप्रत्यय:।।१०३ ।। अ० टी०-पूर्व कचिदखण्डेडप्यर्थे वाक्यं प्रमाणं भवदपि प्रकृते वाक्ये तदसंभव उक्त इदानीं क्वापि नाखण्डविषयतया वाक्यप्रामाण्यं संभवत्यनेकपदार्थसंसर्गस्यैव वाक्या- र्थत्वदृष्ट्रित्यभिप्रेत्याSह-नाखण्डवस्तुविषयेति। कथं न दृष्टिपथमापतितः सोऽयं देवदत्त इत्यादौ दृष्टत्वादित्यत आह-नानापदार्थेति। लोकपदमात्रस्यार्थविवक्षया प्रयोगादर्शनाद्वाक्यार्थोदेशे शब्दप्रयोगोऽङ्गीकर्तव्यः स च नानापदार्थसंसर्गविषय इति नाखण्डविषयता कापि वाक्यस्य संभाव्यते देवदत्तवाक्येऽपि नाखण्डार्थता संमतेति भावः। यदैवं लोके मानान्तरेणापि सिद्धत्वादर्थस्य शब्दशक्तिमात्रायत्तत्वाभावेऽप्यखण्डा- र्थता नोपलब्धा तत्र वेदे शब्दशक्तिमात्राधीनार्थे कुतोऽखण्डार्थत्वसंभव इत्याह-दूरे- त्यतेति। दूरे भवं दूरेत्यं तस्य भावो दूरेत्यता। यद्वा दूरेऽत्येतीति दूरेत्यमित्यलुक्। तस्य भावस्तथा दूरगामितेत्यर्थः । श्रुतिशिरोवधनेषु तस्या अखण्डार्थताया दूरेत्यते- त्यन्वयः ॥१०३ ॥ सु० टी०-ननु शक्तपदानां नानापदार्थसंसर्गस्य वाक्यार्थत्वनि यमेऽपि न लक्षकाणामयं नियमोऽनकैरपि पदैरेकस्यार्थस्य लक्ष्यत्वसं-
आदाय मुख्यगुणलाक्षणिकप्रवृत्ती- रर्थं समर्पयति शब्द इति प्रसिद्धम् । आस्वेव नान्यतमयाऽपि वदत्यखण्डं शब्दान्तरात्तविषयादधिकार्थवृत्तेः ॥१०४॥ आदायेति। शब्दो याभिर्वृत्तिमिरर्थ समर्पयति तासु मध्ये नान्यत- मयाऽप्यखण्डार्थसमर्पणं दष्टमित्यर्थः । कुत इत्याह-शब्दान्तरेति । एकपद्समर्पितादर्थान्तरस्यैव पदान्तरैः समर्पणीयत्वनियमादुमाभ्या- मखण्डैकार्थाबोधनादित्यर्थः ॥१०४ ॥ अ० टी०-ननु मुख र्य)वृत्त्याडर्थबोधने नानार्थसंसर्गो वाक्यार्थ इत्ययं नियमो लक्षणागुणवृत्तिभ्यां त्वेकस्यापि पदार्थस्यानेकैरपि पदैः समर्थनादखण्डार्थताऽपि संभाव्यत इवि चेन्नेत्याह-आदाय मुख्यगुणेति। मुख्यादिवृत्तीनां लक्षणं सोदाहरणमप्रे
Page 128
संक्षेपशारीरकम्। १२१
वक्ष्यति। मुख्यादिवृत्तिविशेषमादाय शब्दोऽर्थ समर्पयतीति प्रसिद्वं यद्यपि तथाऽप्येष शब्द आसु वृत्तिष्वन्यतमयाऽपि वृत्या नाखण्डं वदति कुतः शब्दान्तरात्तविषयात्पदान्त- रोपस्थापितादर्थात्पदान्तरस्पाधिकार्थवृ तेरन्यथा पर्यायत्वापत्तेरित्यर्थः ॥ १०४॥ सु० टी०-ननु नानापदैरेकार्थबोधने पौनरुकत्यमेव बाधकं तज्ञ पवृत्ति निभित्तमेदेन परिहर्तव्य मित्यत्राSSह- आधिक्यमुत्सृजति शब्दगणो निजेऽर्थे शब्दान्तरात्तविषयादिति मन्यमानाः । वाक्यत्वमेव पदजातगतं विहन्यु- र्नह्यस्ति हस्तकरशब्दगतं तदेषाम्॥ १०५॥ आधिक्यमिति। कश्विच्छव्द्वगणः स्वार्थे शब्दान्तरोपात्तादाधिक्य त्यजति पदान्तरोपात्तमेव लक्षयतीति यावत् । इति ये मन्यन्ते ते तत्पद्जातस्य वाक्यत्वसेव नाशयन्ति संसर्गाबोधकत्वात्पदान्तरवैयथर्पा- पत्तेः। नह्येकार्थबोधकानां हस्तकर इत्यादीनां गौर्धेनुरित्यादीनां भिन्न- प्रवृत्तिनिमित्तानां वा वाक्यत्वमित्यर्थः ॥१०५ ॥ अ० टी०-नन्वनेकेषां पदानामेकार्थसमर्पकत्वेऽपि न पर्यायत्वापत्तिः प्रवृत्तिनिमि- त्तमेदोपादानेन पर्यायपरिहारोपपत्तेरित्याशड्क्याऽSह-आधिक्यमिति। कयाऽपि चृश्या पदान्तराभिहितेऽर्ये पदान्तरगणः प्रवर्तमान: शब्दान्तरात्तविपयान्निजेऽर्थ आधि- क्यमर्थान्तरत्वमुत्सजतीति ये मन्यन्ते तें पदजातगतं वाक्यत्वं विहन्युः । अन्वितार्थानि हि पदानि वाक्यमन्वयश्च नैकस्मिन्नर्थ इति नास्मिन्पक्षे वाक्यत्वसिद्धिरित्यर्थः । ननु क्थं न वाक्यत्वसिद्धिः संसर्गबोधक:वाभावेऽपि संभूयैकार्थसमर्पकत्वमन्वितत्वलक्षणं वाक्यत्वं किं न स्यादिति चेन्नेव्याह -- न ह्यस्तीति। हस्तकरशब्दगतं तदेकार्थसमर्प कत्वेन संभूयैकवाक्यत्वमेषां शब्दानां न हि एषां वादिनां वार्डर्थाधिक्याभावात्पर्याथत्वा- निराकरणात्। न च प्रवृत्तिनिमित्तमेदात्पर्यायत्वनिरासो गोधेनुशब्दयोः प्रवृत्तिनिमित्तमे देऽप्यपर्यायत्वादर्शनादित्यर्थः ॥ १०५॥ सु० टी०-न च प्रवृत्तिनिमित्तभेदेनापि परिहारोऽपमेयत्वाभ्युपगम- विरोधादित्याह- किं च स्वयंप्रभमलुप्तचिदेकरूपं सर्व प्रमाणविषयाद्वहिरभयुपेत्य । १ क. ने पद° । ग. न्ति ते पद। २ क. ग. म्त गंदा। १६
Page 129
१२२ . टीकाट्टयसमेतं-
आत्मानमात्मनि च शास्त्रमुदाहरन्तः सिद्धान्तमश्र्युपगतं परिपीडयन्ति ॥ १०६॥ किं चेति। 'यतो वाचो निवर्तन्ते'[तैति० २। ४ । १] इति 'एतद्परमयं ध्रुवम् '[बृह० ४। ४ । २० ] इत्यादिश्युतेः स्वपकाशं सर्वप्रमाणवेद्यमात्मानमसङ्गीकृत्य तत्र शास्त्रं प्रमाणमिति षद्तामप- सिद्धान्त इत्यर्थः ॥१०६ ॥ तदेवं शब्दगतिपर्यालोचनायां नाखण्डार्थविषयता व.क्यस्येति स्थितमिदानीं सिद्धान्त- विरोधिप्रसङ्गादपि ब्रह्मात्मवस्तुनो न वाक्यार्थतेत्याह-किंच स्वयंप्रममिति । स्वयंप्रभावे हेतु :- अलुप्तचिदेकरूपमिति । 'नेति नेति'[ बृ० २ । ३ / ६] 'एतदप्रमयं ध्रुवम् ' [ बृ० ४।४ ।२० ] इति चाऽडत्मानं सर्वप्रमाणविषयाद्वहिष्प्र- माणगोचरमभ्युपेत्याS:त्मनि च तस्मिन्नेवेदानी शास्त्रप्रमाणमुदाहरन्तो भंवन्तः सिद्धान्तं स्वाभ्युपगतं बाधन्त इत्येतत्प्रामाणिकानां भवतामयुक्तमित्यर्थः ॥ १०६॥ सु० टी०-अतुपपन्नं च चिदात्मनि वाक्यप्रामाफ्यं प्रमाणफलासं- भवादित्याह- सर्वत्र वस्तुषु जडे्वजडप्रकाशं कुर्वत्प्रमाणमिति संप्रतिपन्नमेतत्। ब्रह्मात्मवस्त्वजडबोधवपुः कुतोडस्मि- न्वेदान्तवाक्यजनिताऽजडसंविदन्या। ७॥ सर्वत्रेति। प्रत्यक्षादिकं हि जडेषु वस्तुष्वजडप्रकाशं स्फुरणमाद्ध- तप्रमाणमिति सर्वसिद्धम्। बोधरूपे च ब्रह्मणि कुतो वाक्पेनाजडरूपा संविदाधीयेत न हि प्रकाशे प्रकाशाधानं संभवत्यालोकादावदष्टे: फलः व्याप्यत्वे जडत्वापत्तेश्रेत्यर्थः ॥ १०७ ॥ अ० टी०-न केवलं सिद्धान्तबाधाप त्तेरप्रमेयत्वमात्मनस्तस्मिन्मानकृत्याभावादर्पीत्याह- सर्वत्र वस्तुष्विति। अजडबोधस्वरूपे ब्रह्मात्मवस्तुनि वेदान्तवाक्यजनिताऽन्या संविद जड प्रकाशात्मिका कुतोडपक्ष्यते न हि प्रकाशमाने सवितरि तत्प्रकाशनाय दीपादय- पेक्षाऽस्तीत्यर्थः ॥ १०७॥
Page 130
संक्षेपशारीरकमू ! १२३
सु० टी०-एवं वाक्यस्य प्रमेयस्वमावनिबन्धनमप्रामाण्यमुकत्वा पमाणस्वमावनिबन्धनमप्याह- किं च. क्रियापदमपेक्ष्य पदानि वाक्य- भावेन सम्यगिह संगतिमाभुवन्ति। नात्र करियापदमपेक्षितमामनन्ति वाक्यं कुतो भवति वेदशिरस्तदानीमू॥१०८॥ कि चेति। पदानि तावन्न क्रियापद्नैरपेक्ष्येण वाक्यतया गुणप्रधान- मावेन सम्यगन्धयं प्रतिपद्यन्ते क्रियाया: प्राधान्यात् । 'भावनैव च वाक्यार्थः स्वकारकविशेषिता' इतिन्यायात्। न च वस्तुनिष्ठेषु वेदान्ते-
दिति कुत एषां वाक्यत्वभित्यर्थः ।।१०८ ।। अ० टी०-एवं प्रमेयस्वभावादपि न वेदान्तप्रामाण्यमित्युक्त्वा पुनरपि शब्दस्व्रभाव- माश्रित्याऽक्षिपति-कि च क्रियापद्मिति। क्रियापदं विना नामपदानामन्वयाप- र्यवसानात्तदपेक्षणीयम्। अत्र तु वेदान्तिनः क्रियापदमपेक्षितं नाऽडमनन्ति यदा तदानी वेदशिरो वेदान्तो वाक्यं कुतो भवति न भवतीत्यर्थः । तत्वमसीत्यादावस्यादिपदमाम्ना- तमप्यनपेक्षितमिति भावः ॥l ८।। सु० टी०-तरहिं पद्समूहत्वेनैवास्तु बोधकत्वमिति चेन्न पदानाम- धस्मारकत्वेनाननुभावकत्वादित्याह- नापूर्वमर्थमुपलम्भयितुं पदानां सामर्थ्यमस्ति परिहृत्य तु वाक्यभावम्। स्वार्थस्मृतिं हि जनयन्ति पदानि लोके विज्ञातसंगतितया न तु कार्यमन्यत् ॥१०९॥ नापूर्वमिति। क्रियारहितनामपद्जातस्याऽडकाङ्गाद्यमावेन वाक्यत्वा- मावान्नापूर्वसंसर्गबोधनशक्तिरस्ति। पूषा प्रपिष्टभाग इत्यत्रापि भागप- दसामर्थ्याक्क्रियापदाध्याहारेणैव बोधकत्वाभ्युपगमादित्यर्थः । कथमिति चेतताSऽह-स्वार्थेति। उक्तं हि पद्म्यधिकामावात्स्मारकान्न विशि- ष्यत इति ॥ ९ ॥
Page 131
१२४ टीकाद्टयसमेतं-
अ० दी०-मन्वनापन्नवाक्यभावान्येव पदान्यखण्डमर्थमवगमयन्त्वति चेन्नापूर्यावग- व्यसंभवादित्याह-नापूर्वमिति। कथं वाक्यभावं विना पदानामपूर्वमर्थमुपलम्भयिसुं सामर्थ्य मास्ति तन्नाऽडह-स्वार्थस्मृतिं हीति। अथ संगतिग्रहे पूर्वमेव विज्ञातार्थ- त्वात्पदानि स्वार्थस्मारकाण्येव न बोधकानीत्यर्थः ॥९॥ सु० टी०-ननु पदानामर्थस्मृतिमात्रहेतुतवेवि पदार्था एव स्मृता वाक्यार्थ बोधयन्तु भाट्टवद्वैयाकरणबद्वा नित्यविभूनां वर्णानामानुपूर्वी- विरहेण पदृत्ववाक्यत्वासंभवात्पद्वाक्यस्फोटावेव वाक्यार्थानुभावकौ
हित्वा न वाक्यपदते प्रतिपत्तिहेतु- वैदो मवेदिति कथं चन बक्तुमीश:। कश्रित्कदाचिद्पि तत्र कुतः श्वतीनां पामाण्यमात्मनि भवेदिति वर्णयन्ति ॥ ११० ॥ हित्वेति। न हि वेदः पदृत्ववाक्यत्वपरिहारेष् वाक्यार्थप्रतिपत्तिहेतु- रित्ति शक्यं वत्तं वर्णमात्रस्यार्थबोधकत्वे जाराराजेत्यनयोरप्यविलक्ष- प्ार्थबोधकत्वापत्तेः। नित्यविभुवर्णानामपि बौद्धयाऽऽनुपूर्व्यां पदवा- क्य विभागसंभवात्पदार्थकरणत्वे च सप्तमप्रमाणापत्तेः । स्फोटस्य च "यावन्तो याद्टशा ये च पदार्थप्रतिपादने। वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥* इत्यादिना मटैरेव निरस्तत्वादित्यर्थः ॥ ११० ॥ अ० टी०-एवं तर्हि माऽसतु वेदान्तानां वाक्यतया पदतया वार्र्थबुद्धिहेतुता प्रकारान्तरेण बोधकता भविष्यतीत्याशङ्कयाऽSह-हित्वा न वाक्यपदते इति। कश्चित्कदाचिदपि वक्तुं नेश इति संबन्धः । न हि वर्णराशेः पदात्पदकदम्बाद्वाक्याच्चान्य- चब्दरूपसर्थबोधकमिति प्रमाणमस्तीति भावः । एवं च सति नाऽडत्मनि वेद्रान्ताः प्रमाणं संभवन्तीति फितमाह-तत्र कृत इति ॥ ११० ॥ सु० दी०- किं च ब्रह्मणो मानान्तरसिद्धत्वे वेदान्तानामनुवादक• तापत्तिरन्यथा सदादिपद्शक्तिग्रहासंभव इत्युमयतःपाशा रज्जुरित्याह-
Page 132
संक्षेपशारीरकम्। १२५
मानान्तरं यदि न चेच्छति शब्दशक्ते- स्तत्र ग्रहः कथमिति प्रतिपादनीयम् ॥१११॥ सु० टी०-किंचेति ॥१११॥ अ० टी०-अपि च वेदान्तेतरमानगोचरता प्रत्यगात्मनोऽभ्युपगम्यते न वेति बिक- ह्प्याsडद्यं प्रत्याह-कि च प्रमान्तरमित्यर्धेन। द्वितीयं विकल्पमनूद्य दूषयति- मानान्तरं यदि च नेच्छतीति ॥ १११ ॥। सु० टी०-अपि चाध्ययनविध्युपात्तत्वाद्वेदस्य प्रयोजनवदर्थपरत्वेन प्रामाण्यं न तु चक्षुरादिवदर्थमात्राकमाहितया प्रयोजनं च प्रवृत्तिनिवृ- त्तिसाध्यमिति कथमनमुष्ठेये ब्रह्मणि प्रामाण्यमित्याह- कि च प्वृत्तिविनिवृत्तिविहीनवस्तु- तत्वप्रतीतिजननान्न च किंचिदस्ति। पुंसः प्रयोजनमतोऽपि न तत्र मानं वेदान्तवाक्यमिति युक्तिमदुच्यमानम् ॥३१२॥ िं च प्रवृतीति। अहेयानुपादेयवस्तुमाव्नबोधनादित्यर्थ इत्युच्यमानं व युक्तिमदित्यन्वयः ॥११२॥ अ० टी०-इतोऽपि न ब्रह्मण वेदान्तमानता युक्ता यतः शब्दप्रामाण्यं पुमर्थोप- योगिन्यर्थे भवति न प्रत्यक्षादिवदर्थमात्रे प्रवृत्तिसाध्यश्च पुमर्थ इति कूटस्थे ब्रह्मणि प्रवृत्त्य- योगान्न तत शब्दमानतेत्याह-किं च प्रवृत्तिविनिवृत्तीति। अतोऽपि वेदान्तवाक्यं तन्न ब्रह्मात्मनि न मानमित्युच्यमानं युक्तिमदित्यन्वयः ॥११२॥ सु०टी०-किंचाज्ञातार्थवबोधकस्यैव मानस्य मेयाज्ञानंनिवर्तकत्वेन प्रमाणत्वमभ्युपगतं जैमिन्यादिभिन च चैतन्यात्मनि कथंचिदृज्ञातंता निरूपयितुं शक्या या प्रमाणेनापनीयेतेति, न तत्र वेदान्तानां मानत्व- मित्याह- अज्ञातमर्थमवबोधयतः प्रमायां हेतुत्वमभ्र्युपगतं ननु वेदविद्धिः।
Page 133
१२६ टीकाटयसमेतं-
अज्ञातता च परमात्मनि दुर्निरूपा विज्ञानमात्रवपुषीति न मानकत्यम् ॥। ११३॥ अज्ञातमिति। मानकृत्यमज्ञानापनयः ॥१३॥ अ० टी०-अपि चाज्ञातार्थबोधकत्वेनैव प्रमाणानां प्रामाण्यमित्युच्यते वैदिकैर्न चाज्ञातत्वमात्मन्यस्ति विज्ञानरवभावताविरोधादतोऽपि न तत्र वेदान्तमानतेत्याह-अज्ञा- तमर्थमिति॥११३ ॥. सु० टी०-ननु चिदात्मन्यप्यज्ञानमस्त्यहमज्ञ शाङ्क्य विरोधेन निराकरोति- इत्यनुमवादित्या
बोधस्वभावकम्बुद्धमनुष्णमुष्णं शीतस्वभावकमशीतमितीदशानि। कः श्रद्दधीत पुरुषो वचनानि तस्मा- ड्ह्नाप्रबुद्धमिति वाक्यमयुक्तमाहुः ॥११४॥ बोधस्वभावकमिति। बोधात्मकं ब्रह्माप्बुद्धमितिवाक्यमनुष्णमुष्णं मम माता वन्ध्येत्यादिवद्विरोधादेव व्याहतमित्यर्थ: ॥ ११४॥ अ० टी०-ननु विज्ञानस्वरूपत्वेप्यात्मनि स्वानुभवसिद्धमज्ञानं माननिरस्यमस्तीति नेत्याह-बोधस्वभावकमिति। विज्ञानस्वभावेऽज्ञानानुभवो न श्रद्धेयो व्याघातादि- त्यर्थः । तस्मादित्यादि फलितार्थोतिः ॥ ११४ ॥ सु० टी०-किंचाज्ञातं मानमेयमिति कोऽर्थः किमज्ञानविशिष्टमज्ञानो पलक्षितमज्ञानोपहितं वा नाऽडय्यो मानस्याज्ञानानिवर्तकत्वापततेः। नेतरो ज्ञातस्यापि पूर्वमज्ञातत्वेन मानमेयत्वप्रसङ्गात्। न च तृतीयोऽपि संभ- वतीत्याह- उपाध्यभावे न भवेदुपाधिम- त्तटस्थमज्ञानमुपाधिरिष्यते। प्रमाणवुद्देर्न तदात्मवस्तुनि स्वयंप्रकाशे न ततोऽत्र मानधीः ॥ ११५॥. उपाध्यभाव इति। अयमर्थ :- अज्ञानं हि प्रमाणबुद्धेर्न विशेषणमुपल- क्षणं वा किं तूपाधिरिष्यतेऽज्ञानविषयस्य प्रमाणबुद्धिविषयत्वमित्यर्थः। १ क. ग. ज्ञा [ त ] ताप0। २ क. मानामे।
Page 134
संक्षेपशारीरकम्। १२७
न चौपाधिकी प्रमाणवुद्धिरुपाध्यमावे संभवति। न चोपाधिसंभव: स्वप्रकाशचिदात्मन्यज्ञानासंभवस्योक्तत्वादतः कथं तस्य वेदाख्यमान- मेयंत्वमित्यर्थः । कथमज्ञानं प्रमाणचुद्धेरुपाधि(रिति *चेदुच्यते-अन्यत्न स्वधर्मसंक्रामकत्वमुपाधित्वमज्ञानं च स्वीयं विषयित्वं प्रमाणबुद्धौ संचारयदुपाधि) रुच्यते। प्रमाणवुद्धेरज्ञानाव्यमिचारि( तया तद्वि- षयित्वातिरिक्तविषयित्वानङ्गीकारात्। यथेच्छादेः स्वाध्पभिचारिज्ञान- विषयित्वमेव) विषयित्वमिति। तटस्थमित्यनेन च संसारितायामन्त :- करणमिध नेदं मेयान्तर्भूतमुपाधिः किं तु हतिहरिशब्दे पशुत्ववत्तद्वहि- र्भूतमेवेति सूचितम् ॥ ११५ ॥ अ० टी०-नन्वज्ञाने सत्येवाSत्मनि प्रमेयत्वदर्शनात्तदभावे तदनुपपत्तेः स्वरूपतोऽ- प्रमेयोऽप्यात्माऽज्ञानोपाधिकः प्रमेयतामक्षत इति चेत्तत्र वक्तव्यं किमज्ञानमात्मनः प्रमेयत्वे विशेषणमुपलक्षणं वेति । तत्र नाऽडद्यं इत्याह-उपाध्यभाव इति। अज्ञानस्य विशे- षणत्वेन प्रमेयत्वोपाधित्वे तस्यापि प्रमेयत्वापत्तौ प्रमाणज्ञानानिवर्त्यत्वप्रसङ्गान्न तस्य प्रमेय- विशेषणता। अतो विशेषणभूतोपाध्यभावे चिदात्मतत्त्वमुपाधिमन्न भवेदिति के[वल]स्यैव तस्य प्रमेयता वक्तव्या तत्र च न मानकृत्यमित्युक्तमित्यर्थः । द्वितीयं प्रत्याह-तटस्थ· मज्ञानमृपाधिरिष्यते प्रमाणबुद्धेरिति। नाज्ञानमात्मन उपलक्षणमपि ककिं तु तटस्थं सत्प्रमाणबुद्धरुपाधिमात्रमिष्यते। उपलक्षणपक्षे कदाचिदज्ञातस्याSडत्मनोऽवगतस्यापि प्रमे- यत्वप्रसङ्ग उपलक्षितत्वस्य सदातनत्वात् । तथा च केवलस्य प्रमेयत्वापत्तिरति मानकृत्या- भावस्तदवस्थः । नन्वज्ञानं नाऽडत्मनो विशेषणं नाप्युपलक्षणं तथाऽपि दृतिहरिशब्दप्रयो- गोपाधौ पशुत्ववदात्मनि प्रमेयत्वव्यवहारप्रवृत्तवुपाधिर्भविष्यत्यतोऽज्ञानमात्मनः प्रमेयत्वे द्वारं स्यादिति चेत्तत्राSSह-न तदात्मवस्तुनि स्वयंप्रकाश इति। तदज्ञानं स्वयंप्रकाश आत्मवस्तुनि न ताटस्थ्येनाप्युपाधि: संगच्छत इत्यर्थः । यत एवमज्ञानासंभव आत्मनि ततो हेतोरत्राऽडत्मनि न मानधीः संभाव्यत इति फलितमाह-न ततोऽत्र मानधी- रिति॥ ११५ ॥ सु० टी०-इदानीं मानमेयत्वमेव तस्य न संभवति व्याघाता- दित्याह- अद्वैतमात्मपदमाहुरनन्यमानं द्वैतं प्रमाणमिह च प्रतिपादयन्ति।
- धनुश्विह्नितम्रन्थो नास्ति क.ग. पुस्तकयोः। अयमपि ग्रन्थो ना्ति क. ग. पुस्तकयोः।
Page 135
१२८ टीकाटय समेते-
वाक्ये निजे पदविरोधमनीक्षमाणा: पाण्डित्यमन्रतिहतं प्रतिलक्ष्य धीराः ॥। ११६ ॥. अद्वैतमिति। अद्वैतं स्वप्रकाशं ब्रह्म द्वैतवेदाचार्यादिपकाश्यमिति वदम्तो निजवाक्यस्थपदानां विरोध न पश्पन्तातत्यर्थः। पाण्डित्यमित्याद्यु पहास: ॥ ११६ ॥ अ० टी०-किंच द्वैतमात्मतत्त्वमित्यङ्गीकृत्य तत्र द्वैतं वेदान्तवाक्यप्रमाणिति वदतां व्याहतवचनता स्पष्टेत्युपहसन्नाह-अद्वैतमात्मपदमाहुरिति। आत्मपदमात्मस्वरूप- मद्वैतमाहुः । तत्र च द्वैतं प्रमाणं प्रतिपादयन्ति । अतों द्वैतमेयस्याद्वैतत्वं व्याहतमित्यर्थः । तथाऽनन्यमानमात्मपदं वदन्ति तत्र च प्रमाणं वदन्तीति च व्याहतिरिति योजना। वाक्ये निज इति स्पष्टार्थम् ॥११६॥ सु०टी०-ननु मातृमानादिकं ब्ह्मकार्यत्वान्न ब्रह्मणो भिन्नमतो नाद्वैतत्वादिविरोध इत्याशङ्क्यानिष्टान्तरमाह- मातृपरमाणमिति मेयविभागभिन्नं ब्ह्नैव चेद्भवति तत्र च वर्णयामः। कूटस्थतापहतिरेकरसत्वहानि: शाक्यैश्ष संधिरिति दूषणमन्यदत्र ॥ ११७॥ मातृप्रमाणेति। उपादानत्वे बह्मणो विकारित्वापत्ते: कौटस्थ्यहानिर्मात्रा- दिविभागव त्व्रा देकरसत्व हा निर्विज्ञानरुपात्ममिन्न बाह्यविषयानभ्युपगमे बौद्धसिद्धान्तापत्तिश्रवेत्यर्थः ॥११७॥ अ० टी०-ननु ब्रह्मणो मानमेयत्वेSद्वैतत्वादिव्याहतिदोषः शड्क्यः प्रमात्रादिभेदस्य ब्रह्मपरिणामरूपत्वेन ततः पृथगर्थेत्वाभावादित्याशङ्कामुत्थाप्य तत्रैकं संित्सतोऽपरं प्रच्य- वत इति न्यायेन परिहरति-मातृप्रमाणमितीति। चेद्रवति परमार्थत इति शेषः । तत्र चास्मिन्पक्षे वर्णयामो दूषणमिति प्रतिज्ञा । यत एकरसत्वहानिरतः कूटस्थतापहति- रिति योजना। न केवलमेतावदपि चात्र शाक्यैबैंद्धिविज्ञानवादिभिः संधिस्तन्मतप्रवेश इति चान्यददूषणं स्यादिति योजना। यतो विज्ञानवादिनो विज्ञानमेवैकं मानं तदेव ग्राह्याका- तरया मेयं प्रमाता च नान्योऽस्तीति कल्पयन्ति तथा भवतामपि कल्पनाप्रसङ्गादि- त्यर्थ: ॥ ११७ ॥
Page 136
संक्षेपश्ञारीरकम्। १२३
सु० टी०-ननु मातृमानावेर्वह्मपरिणामत्वाम्युपगमे हि कौटस्टाहा- निर्न त्वेवं किं तु मात्रादिमानफलपर्यन्तमात्माज्ञानकल्पितम निर्वचनीय- मेवेष्टमिति नास्ति विरोध इति चेत्तर्हि ब्रह्मणोऽषि मानमेयत्वाम्युपग- मेन कल्पितत्वापते: शून्यवादप्रसङ्ग इत्याह- अज्ञानकल्पितमनिर्वचनीयमिषटं मात्रादिमानफलपर्यवसानमेतत्। इत्युच्यते यदि तदा परमात्मनोऽपि मेयत्वतो भवति कल्पितताग्सङ्ग: ।। ११८॥ अज्ञानेति ॥ ११८॥ अ० टी०-अथ ब्रह्मणः प्रमात्रादिभेदो न वास्तवः कि त्वज्ञानकल्पितोऽतो न कूटस्थ त्वादिबाथ इति मतमनूद्य दूषयति-अज्ञानकल्पितमिति। मानफलपर्यवसानमेतन्मा- त्रादि ब्रह्मण्यज्ानकल्पितमनिर्वचनीयमिष्टं न परमार्थमिति यद्युच्यत इति योजना। तदाड स्मिन्पक्षे ब्रह्मण्ोऽपि मेयत्वतः कल्पिवमात्रादिप्रमेयत्वात्कल्पितताप्रसङ्गो भवेत् । न हि कल्पितप्रतीतिविषयोऽकल्पितः स्यान्मा भूद्रान्तिदृष्टरजतादरेकल्पितत्वमित्यर्थः ॥ ११८॥ सु० टी०-ननु सति मेयत्वे ब्ह्मणः कल्पितताप्रसङ्गस्तदेव तु नाङ़गी कुर्मोऽप्रमेयत्वश्रुतिविरोधादिति चेत्तर्ह्र्पमेयं वेदान्तवेद्यमिति वदतां वह्निरदाहयं दहतीतिवत्पतिज्ञाविरोध इत्याह- ब्रह्म प्रमेयमथ नेष्टमिह प्रमाणं वेदान्तवाक्यमिति पक्षपराहतिर्वः । न ह्यपमेयमवबोधयदस्ति मानं नादाह्यदाहक इति प्रथित: कशानुः ॥११९ ॥ ब्रह्मेति 1 पक्षपराहतिमेवाऽऽह-न हीति। ततश्चौपनिषदृत्वभ्ुतिः शास्रयोनिसूत्रं च पीड्येतेत्यर्थः ।। ११९। अ० टी०-अथैतदोषपरिजिहीर्षया ब्रह्मणः प्रमेयत्वमेत्र नेत्यत इति तत्राऽऽह-ब्रह्म ममेयमिति। पक्षपराहतिर्व्याघात इत्यर्थः । व्याहतिमेव दृष्टान्तेनोपपादयति-न ह्याप भेयमिति॥ ११९ ॥
Page 137
रीकाडुयंसमेसं -
. : सु• टी०-ननु विषयत्वेऽपि ब्रह्मणस्तदृतानिर्षचनीयाज्ञाननि- वर्तनसंभवान्न श्रुतिसूत्रपराहृतिरित्याशङ्रक्यानिर्वचनीयाप्रसिद्धया दूष- यति- किं चाप्रसिद्धमिदमत्र जगत्रयेंडपि स्वाज्ञानकल्पितमनिर्वचनीयमेकम् । निःशेषतीर्थद्गुदीरिततन्त्रमार्गे सिद्धे यतः सदसती सकलेऽपि तन्त्रे ॥ १२० ॥ किं चेति। लौकिकपरीक्षकवैदिकेषु सदसद्विलक्षणमज्ञानकल्पितमनि- र्वचनीयं नैकमपि (*वस्तु प्रसिद्धमित्यर्थः। नन्वस्ति शुक्तिरजताद्येव ताहशमिति नेत्याह-सिद्धे इति। यतः सर्वतन्त्रेष्ववि) सदसती एव सिद्धे परस्परविरोधे हि इतिन्यायान्न तद्विलक्षणमस्तीत्यर्थः । शुक्तिर- जताद्यप्यन्यत्र सदेवेति भावः। तन्त्रं विशिनष्टि-निःशेषेति। तीर्थद्ट- ग्मिरुदीरितस्तन्त्रमार्ग: शास्त्रार्थबोधोपायो यत्रेत्यर्थः ।१२०॥। अ० टी०-प्रमात्रादिभेदस्याज्ञानकल्पितान् तीयत्वमङ्गीकृत्य दूषणमुक्तं वस्तुतस्तु लोकवादिप्रसिद्धयभावादनिर्वचनीयत्वमेवासंभव्यतो न कल्पितमेयत्वमपीत्याह-किं चाप- सिद्धमिति । अनिर्वचनीयमप्रसिद्धमित्येतत्स्कुटयति-निःशेषेति। तीर्थदृशः शास्त्रक- र्तारः । अशेषशास्त्रकृदुदीरिततन्त्रमार्गे सकलेऽपि तन्त्रे सर्वस्मिन्नपि शास्त्रे लोकेऽपि यतः संदसती वस्तुनी प्रसिद्धे न तद्विलक्षणमित्यर्थः ॥ १२० ॥ स० टीo-किं च कथं निःस्वरूपस्याज्ञानस्य द्वैतहेतुत्वं 'कथ- मसतः सज्जायेत '[छा० ६।२ । २] इतिश्रुत्यैव निषेधा- दित्याह- अज्ञानमप्यसदभावतया प्रसिद्धे- र्द्वैतभ्रसूतिकदतो न तदभ्युपेयम्। नासत्कदाचिदपि सज्जनने समर्थ वन्ध्यासुता न खलु पुत्रशतं प्रसूते॥ १२१॥ अज्ञानमपीति। न हि मावभूतमज्ञानं मानाभावादृपि तु न ज्ञानमज्ञान-
- धनुश्र्विह्वान्तर्गतग्रन्थः ख. पुस्तकस्थः ।
Page 138
संक्षेपश्ञारीरकमू। १२१ मिति ज्ञानामावतयैव प्रसिद्धेरवस्तुभूतमित्यर्थः । अस्त्वसतोऽपि सदुपा- दानत्वमितिचेन्न दृष्टविरोधादित्याह-वन्ध्येति ।।१२१ ।। अ० टी०-कि च यदुच्यते द्वैतस्याज्ञानकल्पितत्वमित्येतदप्यनुपपन्नं तस्यैवासस्वा- दसतश्च सज्जननासंभवादित्याह-अज्ञानमप्यसदिति। असत्वे हेतुः-अभाव- तया प्रसिद्धेरिति। ज्ञानाभावे त्वज्ञानशब्दार्थस्य प्रसिद्धत्वादित्यर्थः । शिष्टं स्पछ्ार्थम् ॥। १२१ ॥ सु० टी०-शब्दस्य च प्रमाणस्वभावेनं परोक्षबोधकत्वान्नापरोक्षे ब्रह्मणि प्रामाण्यमित्याह -- वाक्यप्रसूतमतिरिन्द्रियजन्यधीव- न्नार्थापरोक्ष्यजननी भवितुं समर्था। तेनास्तु वाक्यजनितात्मपरोक्षबुद्धि- र्ध्रान्तिः सदाऽजडतयाऽनुभवेऽपरोक्षे॥ १२२ ॥ वाक्येति। इन्द्रियेत्यादिवैधर्म्यदट्टान्तः । तर्हिं परोक्षमेवाSडतमज्ञानं वाक्येन जन्यतामितिचेन्नै।SSमन्यजडत्वेन नित्यापरोक्षे परोक्षधीजनने शब्दस्य भ्रान्तिहेतुत्वप्रसङ्गादित्याह-तेनास्विति। स्यादित्यर्थः । नन्वेवं परसंवेद्नानुमितिरपि भ्रान्ति: स्यादिति चेन्न परसंवेद्नस्य व्यवहितत्वेन परोक्षत्वात्॥ १२२ ॥ अ० टी०-भवतु वा यथाकर्थंचिदात्मनः प्रमेयत्वं प्रम त्रादिद्वैतस्य चाज्ञानकल्पि तत्वं तथाऽपि न वेदन्तैर्रह्मण प्रमितिरुत्पादयितुं पार्यते ब्रह्मणो नित्यापरोक्षत्वस्वाभाव्या- चछन्दस्य च परोक्षार्थावभासस्वभावत्वादपरोक्षे वस्तुनि परोक्षज्ञानस्य भ्रमत्वापत्तोत्यिभिप्रे- स्याऽऽह-वाक्यप्रसूतमतिरिति । येन हेतुना वाक्यप्रसृतमतिरिन्द्रियजन्यधीवद- र्थापरोक्ष्यजननी भवितुं न समर्था तेन वेदान्तवाक्यजनिता ब्रह्मात्मनि परोक्षबुद्धिर्भ्रान्ति- रस्तु स्यादिति योजना। कुत इत्यत आह-सदेति। अजडतयेति च्छेदः । अजडतया सदैवानुभवरूपेऽत एवापरोक्ष आत्मनि तद्विपरीतावभासनस्वभावा वाक्यजा धीर्न प्रमा स्यादिति शेषः ॥। १२२ ॥।
१ क. ग. भावत्वेन २ क. ग, आपरो । ३ क, ग. त्वाभात्।
Page 139
१३२ टीकाङटयसमेतं-
स० टी० -- ननु वाक्यस्यापरोक्षधीं हेतुत्वं प्रमेयानुरोधादृम्युपेयमिसत पेत्न प्रमाणस्वमावविरोधादित्याह -- नित्यापरोक्षमपि वस्तु परोक्षरूपं वेदान्तवाक्यमवबोधयति स्वभावात् ।. प्रामाण्यमत्र कथमस्य वदोपपन्नं नह्यन्यदन्यदिति बोधयतः प्रमात्वम् ॥१२३॥ नित्येति। स्वभावादिति। प्रमाणानां स्वसामथ्यतिरस्कारेण विषयस्व. मावानुरोधित्वस्य क्वचिदृप्यदर्शनादित्यर्थः। नन्वपरीक्षं बह्मेत्याकारं वाक्यजं ज्ञानं परोक्षमधि व्यधिकरणाप्रकारकत्वान्न भ्रान्तिरिति चेत्त- ञ्राऽडह-प्रामाण्यमिति। परोक्षार्थविषयत्वं हि पारोक्ष्यं तञ्च व्यवहि- तावमासकत्वम्। न च व्यवहितावभासिनः शब्दस्याव्यवहित- ववेनाSSत्माव भासकत्वं संभवति स्वभावविरोधादिति कथमस्य प्रामा- एयमित्यर्थ: ॥१२३ ॥ अ० टी०-ननु प्रमाणस्य वरत्वधीनत्वादपरोक्षे ब्रह्मात्मनि वाक्यमप्यपरोक्षामेव
मपीति। स्वभावादिति। वाक्यप्रमाणस्व्रभावादित्यर्थः । नहि प्रमाणस्वभावो वस्त्व- धीनो रसवद्द्रव्यसंनिव्क्न चक्षुषा रसस्यापि ग्रहणप्रसङ्गादिति भावः । अस्तु नर्हि परो- क्षज्ञानमप्यात्मनि प्रमाणं तन्मात्रविषय त्वादात्म वस्तुन श्वैकरूपत्वाद्रप इव चक्षुर्जन्यं ज्ञानमिति चेत्तत्राSडह-प्रामाण्यमत्र कथमिति। अत्राऽडत्मन्यस्य वाक्यस्य कथं प्रामाण्यं वद। हि यस्मादन्यदन्यादृशं वस्वन्यदिति तदविपरीताकारं बोधयतो न प्रमात्वमस्ति शुक्तिस्वरूपं रजतमिति बोधयत एवेत्यर्थः । अयं भाव :- आपरोक्ष्यं पारोक्ष्यं च वस्तुधर्मो न ज्ञान- धर्मों यतो ज्ञातुरिन्द्रियमनोव्यवहितोऽर्थः परोक्ष इति तद्विषयज्ञानं च परोक्षमिति व्यव- हियते तदव्यवहितोऽर्थोऽपरोक्ष इति तज्ज्ञानमप्यपरोक्षमिति। तदिह प्रतीचो ज्ञातुः स्वरू थत्वेना सन्ताव्यवहितत्वाद्गह्मणः प्रतीचश् नित्यापरोक्षस्वाभाव्यात्तादृशे ब्रह्मवस्तुनि सामा- न्यादिव्यवधानेन प्रवर्तमानस्वभावः शब्दो नापरोक्षधियं जनयितुमीष्टेऽतोऽर्थविपरीताकार- धीजन कत्वांदप्रमाणं स्यादिति ॥। १२३ ॥। सु० टी०-ननु ज्ञानस्य परोक्षविषयत्वं चेत्पारोक्ष्पं तहांपरोक्षवि-
१ क. ग. वं स्वभा°।
Page 140
संक्षेपशारीरकमू। १३३
षयत्वमपारोक्ष्पमिति भवतु शब्दजन्यमप्यपरोक्षमित्याशक्कयासामर्थ्येन निरस्यति- वस्त्वस्तु नित्यमपरोक्षमिदं तु वाक्यं तद्वस्तु वंक्तुमपरोक्षमशक्तमेव। न ह्यस्ति शब्दजनिताऽत्र जगत्रयेऽपि बुद्धिः करोति खलु या विषयापरोक्ष्यम् ॥१२४॥ वस्त्विति। यद्यपि नित्यापरोक्षमात्मवस्तु तथाऽपि शब्दस्य व्यवहित- बोधन एव सामर्थ्याद्व्यवहिते प्रत्यगात्मन्यप्रामाण्यमेव चक्षुष इव शब्दादौ सर्वप्रमाणानां योग्यस्वविषय एव प्रवृत्तेरित्यर्थः ॥ १२४॥ अ० टी०-तर्हि वस्वधीनत्वाज्ज्ञानप्ामाण्यस्य यथावस्त्वपरोक्षमेव ज्ञानं शब्दोऽपि जनयेदित्याशड्क्यान्यत्र शब्दस्यापरोक्षज्ञानजनकत्वस्य काप्यदर्शनान्मैवमित्याह-वस्त्वसतु नित्यमिति। विमतो नापरोक्षप्रमितिजनकः शब्दत्वात्संमतवदित्यर्थः ॥ १२४॥ सु० टी०-सर्वत्र वस्तुष्वित्यत्र चिदात्मनि संविदुपनयासंभवान्न वाक्यप्रामाण्य मित्युक्तामाशङ्कामुद्धर्तु प्रयतते- अत्राउडह यथ्यपि किमेप्युपनेयमत्र चैतन्यवस्तुनि न संभवति प्रमागैः ॥ अस्त्येव तत्र भवतीति निदानभूत- मज्ञानमात्रमपनेयमनन्यमाने॥ १२५॥ अन्राSडहेति। व्यव हितस्थाप्य निर्वचनीय दूपणप्रस ङ्गेनोपन्यासः। यद्यप्या- त्मनि प्रमाणैः संविदुपनयोऽशक्यस्तथाप्यज्ञानापनय एवास्तु मानकृत्य- मित्यर्थः ॥१२५ ॥।' अ० टी० -- तदेवं मानमेययोः स्वभावपर्यालोचनायां ब्रह्मात्मन्यद्वितीये वेदान्ताना मानत्वमनुपपन्नमित्युपपादितं पूर्वपक्षिणा तत्र सिद्धान्ती प्रकारन्तरेण ब्रह्मणणि मानप्रवृत्ति शङ्कते-अन्नाSSहेति। यत्पूर्वमुक्तमजडप्रकाशे ब्रह्मात्मनि न मानेन प्रकाश आधीयत इति तत्र मानकृत्यं नास्तीति तदङ्गी करोति-यद्यपीति। यद्यपि तत्र मानेनोपनेयं किमपि नास्ति तथाऽप्यपनेयं किमप्यस्तीति न मानकृत्याभाव इत्यर्थः । तदेवाऽ:ह- अनन्यमान इति। अनन्यमाने स्वम्रकाशेऽप्यात्मनीत्यर्थः ॥१२५॥
१ क. ग. त्युकवा श° । २ क, मंप्या।
Page 141
१३४ टीकाड्यसमेतं-
सु० टी०-सोऽपि न संभवति विकल्पासहत्वादिति दूषयति- नैतत्प्रमाणमपनेतृ सतो न ताव-
नाप्यन्यदस्ति सदसयदनेन हेयं तस्मात्ममाणमपनेतृ न कस्यचिद्वः ॥ १२६॥। नैतदिति। एतद्वाक्यात्मकम्। अज्ञानं किं सद्वाऽसद्वा सदसद्वा सर्व थाऽपि न प्रमाणापनोद्यमित्यर्थः। प्रमाणसहस्त्रेणापि सतः सर्पांदेरप नयादर्शनाद्सतश्र नित्यनिवृत्तत्वात्सद्सतश्र विरोधादेवासंभवादि- त्यर्थ: ॥ १२६ ॥ अ० टी०-तत्र यद्यपि बोधस्वभावे ब्रह्मण्यबोधस्वभावमज्ञानं न संभवतीत्युक्तोत्त- रमेतत्तथ!Sप्यसदभावतया प्रतीतेरित्युक्त्वोक्त्तं प्रपञ्चयन्सदादिविकल्पासहत्वेनाज्ञानं दूषयति पूर्ववादी-नैतदिति। अज्ञानं सद्वाऽसद्वा सदसद्वोभयलक्षणं वा यत्प्रमाणेन निव- र्त्येत तत्र नाऽडद्य इत्याह-प्रमाणमपनेतृ सतो न तावदिति।'नाभावो विद्यते सतः'[भ०गी० २ । १६ ] इति स्मृतेः सतो मानानिवर्त्यत्वादित्यर्थः । द्वितीयं निर- स्यन्नाह-नैतन्नियोज्यमसतोऽप्युपघातसिद्धया इति। एतत्प्रमाणमसतो नित्यनिवृत्तत्वादित्यर्थः। न तृतीय इत्याह-नाप्यन्यदस्ति सद्सद्यदनेन हेयमिति। प्रत्येकं सतोऽसतश्चान्यत्सदसदात्मकमेव किमपि न संभाव्यते यदनेन प्रमाणेन हेयमित्यर्थः । चतुर्थपक्षनिराकरणं वक्ष्यमाणं सिद्धवत्कृत्याऽSत्मनि प्रमाणापोत्द्याभ।वमुपसंहरति-तस्मा- दिति शेषेण ॥ १२६ ॥ सु० टी०-किं च मानस्याकारकत्वादृवि नाज्ञानापनेतृत्वमित्याह- मानं न कारकमिति प्रथितं पृथिव्यां
जन्यं न मानफलमित्यपि युष्मदीयाः संविद्ते न खलु जातु चिदक्षरेडस्मिन् ॥ १२७ ॥ मानमिति। अज्ञातज्ञापकं हि मानं नानुत्पन्नोत्पादकमपनेतृत्वे च कुद्दा- लादिवत्कारकत्वापत्तर्मनत्वव्याघात इत्यर्थः। ननु मानस्यापि प्रमाजन- कत्वात्कारकत्वमस्तीति चेन्न त्वयैव तद्नम्युपगमादित्याह-जन्यमिति। जडेष्वपि घटादिषु न मानफलं जन्यमपि तु नित्पैध घटावच्छिन्ना
Page 142
संक्षेपशारीरकम्। ११५ संविद्मिध्यज्यत इति वेदान्तिनः प्रतियन्ति चिदातमनि तु न कदाचि- दृवि, जन्यं मानफलमिच्छन्ति परागर्थप्रमेयेषु था फलत्वेन संमता संवि- व्सैवेह मेयोऽर्थ इत्यभ्युपगमादित्यर्थः ।। १२७।। अ० टी०-अङ्गीकृतेऽप्यज्ञाने यादशेन तादृशेन मानेन न निवर्त्यते मानस्याकारक- त्वात्कारकस्य चामानत्वादित्याह-मानं न कारकमिति। मानस्य ज्ञापकःवप्रसिद्धिविरो- धादित्यर्थः। ननु मानमपि फलस्य जनकत्वात्कारकमिति चेन्न वेदान्तिनस्तत्रासंप्रतिपत्ते- रित्याह-जन्यं न मानफलमिति। युष्मदीया वेदान्तिनो जडेऽप्यर्थे मानफलम र्थस्फूर्तिरूपं न जन्यमिति संविद्रते संवदन्ते स्वी कुर्वन्ति। नित्यैव संविद्विषयावच्छेदेनाभि- व्यज्यमानफलमिति हि ते मन्यन्ते। अक्षरे तु कूटस्थसंविद्रूपेऽस्मिन्प्रत्यगात्मनि न जातुचिन्मा- नफलं जन्यमिच्छन्तीत्यर्थः ॥ १२७॥ सु० टी०-ननु सदसद्विलक्षणमेवानिर्वचनीयमज्ञानमिति नोक्त विकल्पग्रासो नापि कारकतेत्याशङ्कय प्रागुक्तदोषं स्मारयति- नादापि वेदम्यहमनिर्वचनीयभाषां सर्वप्रवादिहृदयान्यपि गाहमानः । तात्पर्यतो न च तथाविधमस्ति किंचि- लोके प्रसिद्धमपि यद्विषयेयमिष्टा ॥ १२८॥ नाद्यापीति। सर्वतान्त्रिकमतानि तात्पर्येणान्विष्यत्नाद्याप्यनिर्वचनीय- भाषामपि पश्यामीति शास्त्राप्रसिद्धिमुकत्वा लोकप्रसिद्धिमपि निर स्यति-नचेति॥ १२८॥ अ०टी०-चतुर्थपक्षनिराकरणं प्राक्सिद्धवत्कृतं प्रपञ्चयति-नाद्यापि वेद्म्यहमिति। सदसदुमय प्रकार विलक्षणम निर्वचनीयमज्ञानमित्यस्य भाषां लक्षण प्रमाणगिरं नाद्याप्यहं वेभि। कथं न वेत्सि नादिशतप्रसिद्धेरित्यत आह-सवेति। सर्वेषां वादिनां हृदयान्यभिप्रायां- स्तात्पर्यतो गाहमानोऽपीत्यन्वयः । तर्हि लौकिकव्यवहारादेव जानीहीति चत्तत्राऽऽह- · न च तथाविधमिति । परंस्परविरुद्धयोः सदसतोरन्यतरनिषेधेऽन्यतरविधानस्यार्थ- सिद्धेर्न सदसद्विलक्षणमनिर्वचनीयं संभाव्यत इति भावः ॥ १२८॥ सु० टी०-ततश्च सापेक्षत्वात्मरयोजनापर्यवसायित्वात्ममाणफलासं- भवाच्चाध्ययनमात्रफला वेदान्ता न ब्रह्मणि प्रमाणमिति समन्वयसूत्रभः थमपूर्वपक्षमुप संहरति- तस्मात्ममाणफलमत्र निरुप्यमाणं ब्रह्मात्मवस्तुनि न संभवतीह किंचित्।
Page 143
१३६ टीका ट्टय समेतं-
कत्यं विना न च निरुपयितुं प्रमाणं वेदान्तवाक्यमिह शक्यमनर्थकत्वात् ॥ १२९॥ तस्मादिति ॥ १२९ ॥ अ० टी०-यस्मादेवं संवेदनसंविधांनं वाऽज्ञानहानं वा न मानुक:्यमात्मन्युपपद्यते तस्मात्तदभावे न तत्र वेदान्तानां प्रामाण्यमुपपद्यत इत्युपसंहरति-तस्मादिति। निगदव्याख्यातं पद्यम् ।। १२९।। सु० टी०-एवं सिद्धे शब्दशक्तिस्वीकारेऽपि ब्रह्मणि वेदान्ताप्रामा- ण्यमुक्त्वा तत्रत्यद्वितीय वर्णकपूर्वपक्षयुक्तिसुपन्यस्यति- कार्यान्वयान्वयिनि वस्तुनि शब्दशक्तिं श्रोतुः प्रवर्तकधियं परिकल्प्य बाल: ॥ चेष्टावशात्पुनरपि प्रविभज्य भागं भागस्य वाचकमिति स्वयमेव वेति ॥ १३० ॥ कार्यान्वयेति। व्युत्पत्तिर्हिं प्रवर्तकवृद्धवाक्यादेव लोके दृष्टा प्रवृत्तिश्र कार्यताज्ञानादेव व्युत्पित्सुना स्वस्मिन्ननुभूता ततश्च बालो गामानयेति वाक्यं श्ुत्वा प्रवृत्तस्य प्रयोज्यवृद्धस्य चेष्टावशात्प्रवृत्तिरूपलिङ्गात्प्रवर्त. कधियं कार्यताज्ञानं स्वद्टृष्टान्तेनानुमाय तच्चाSडनन्तर्यच्छव्द्ृजन्यत्वेन परिकल्व्य गामानयेतिपद्जातस्य प्रथमं सामान्यतः कार्यान्विते शक्ति निश्चिनोति। पुनर्यश्वमानय गां बधानेति प्रयोगेच्छावापोद्दापाम्यां क्रिया विशेषव्यमिचारेऽपि कार्यमात्राव्यभिचाराद्रवादिपदस्य कार्यान्वि- तगवाद्याकृती शक्तिं वाक्यभागं वाक्यार्थभागस्य वाचकत्वेन प्रविभज्य स्वयमेव नैपुण्याद्वेत्तीत्यर्थः । अत्र च कार्यवानिलिङादेः कार्यान्तरा- न्वितार्थत्वायोगादन्यान्वितमात्रशक्तौ च प्रयोजकद्वैरुप्यापत्तेः कार्य- प्रतियोगिकान्वयान्वयित्वं कार्यानुगतमुच्यते॥१३० ॥ अ०टी०-तदेवमुक्तयुक्तिकदम्बैर्वेदान्तव हणोर्मानमेयभावो न संभवतीत्युक्त्वाऽधुना पदानां सिद्धे वस्तुसंगतिग्रहाभावात्कार्यान्वितार्थ एव सर्वसिद्धार्थपदसंगिग्रहाच्छब्दानामर्थबाधनस्य च संगतिग्रहाधीनत्वात्कार्यपरा एव सर्वे शब्दा लौकिका वैदिकाश्वेति मन्यमानानां मतमा- श्रित्य शुद्धे सिद्धे ब्रह्मणि वेदान्तप्रामाण्यमाक्षिपति-कार्यान्वयान्वयिनीति । कार्य लिडादिपदवाच्यो नियोगस्तेनान्वयः कार्यान्वयस्तनान्वयि तत्कार्यान्वयान्वय तस्मि- व्वस्तुनीति विग्रहः। एवं सत्यन्वयान्तयिग्रहणेनकार्याकार्यार्थयोरुभयोरप्यन्त्रयित्वावि-
Page 144
संक्षेपशारीरकमू। १३७
श्षेषास्प्रयोजकद्वै*विध्यकल्पना/प्रसङ्गदोषः परिहनः। बालो व्युत्पितसुः श्रोतुर्मव्यमदृद्वस्पोत्तम- वृद्धप्रयुक्तश्दश्रवणानन्तरं प्रृत्तिहेतुभूतां धियं चेष्ठावशात्स्त्रप्रवृवत्तिष्टान्तेन कार्यविषर्यां परिकल्य तत्र सामान्यत्तः कार्यान्वयान्वयिनि वस्तुनि शब्दशक्ति स्व्रयमेत्र वेतीति प्रथमं योजना। पुनरपि प्रयोगभेदेषु गामानयाश्वमानय गां बवानाश्वं बवान+ ॥ १३० ॥ सु० टी०-नन्वेवं लिङवेः स्वार्थकार्ान्वयान्वयिनि स्वार्थे
त्यक्त: कार्यान्वितार्थ वदितुमलमयं शब्द इत्येष पक्षो नोक्तो योग्येतरार्थान्वितमिति तु पुनः पूर्वमप्येष पक्षः ॥ किं तु स्यादस्य शक्तिर्निजसहजवशादन्वितार्थाभिधाने योग्यत्वादेस्तु पश्र्वात्स्वयमुपनिर्पतेदस्य कार्यैदमथ्पमू।३१॥ त्यक्त इति। कार्यान्विताभिधाने शब्दस्य शक्तिरित्ययं पक्ष उक्तदो- पादगोरवाच्च त्यक्त इत्पर्थः । तक्किं योग्येतरान्विते शक्तिर्नेत्याह- नोक्त इति। अयोग्येनानितरेण वाऽनन्वयाद्गुरुत्वाञ्च नायमप्यस्माभिरुक्त इत्यर्थ: । तर्हि किमभ्युपेयत इति चेत्तत्राSऽह-किं तिति। अन्धितार्थ- वाचित्वमेव शब्दस्य स्वमावः शब्दृभरवणानन्तरं नियमेन तत्मतीतेरि- स्पर्थ:। नन्वेवं सिद्धान्विते सिद्धेऽपि शक्ति: स्यादिति नेष्टसिद्धिस्त. त्राऽडह-योग्यतादेरिति। सिद्धस्य हिन सिद्धेनान्वयो योग्यो 'गुणानां 'च परार्थत्वात्' [जै०६।४॥१३] इतिन्यायात्। नापि कार्यस्य कार्येण दयोः प्राधान्यादृवि तु सिद्धकार्ययोरेव साध्यसाधनभावेन परस्परसाकाङ्क्षयोग्ययोरन्वयः । ततश्र भूतं मव्यायोपदिश्यत इति न्यायात्सिद्धं कार्यार्थमिति ( :- कार्यप्राधान्यात्तत्परः, सर्वो वेद इत्यर्थ:।। ३१ ॥ अ० टी०-शब्दशक्तिरिति केवलं मया पूर्वमुक्तं तदपि तह्ुद्धयनुरोधािदानी त्यक्तमित्यर्थः। कथं तर्हि तवाम्युपगमनिश्चयो न ह्यनिश्चितं वदत्रववेयवचनो भवतीत्यत
- कार्यान्विते शक्तिरित्यम्युपगभे प्रयोजकद्दैविध्यं तथा हि कार्यान्वितानां सिद्धपदानां कार्यान्विते शक्तिः कार्याभिधायितिड पदानां तु कार्यान्तराभवात्सिद्धान्व्रिते सवरूपे वा शक्ति- रिति। + अतः परं चैतच्छ्लोकस्याग्रिमश्लोकस्पापि न पूर्णा टीका। + अर्य ग्रन्थः खपुस्तके।
१ क.पतत्यस्य। १८
Page 145
टीकादूयस
आह-किं तु स्यादिति। अस्य शब्दस्य शक्तिर्निजसहजवशादसाधारणस्व्रभाव.णु ... रतोऽन्वितार्थाभिधाने स्यादिति संबन्धः । सिद्धत्व्रकार्यत्वविशेषांशौदासीन्येन केवलमन्वि तार्थबोधकत्वं शब्दस्वभाव इति निश्चीयत इत्यर्थः । तर्ह्येकस्यैव स्वेन स्वस्यान्वितत्वासंभ• वादन्यान्विते शक्तिग्रह इत्ययमेव पक्षः समागत इत्याशड्क्याऽह-योग्यत्वादेरिति। अस्य शब्दस्य कार्यैदमर्थ्य कार्यैकपरतया तंदन्वितस्यार्थबोधकत्वं पश्चात्सामान्यतोऽन्वित- बोधकत्वशक्त्यध्यवसायानन्तरं योग्यत्वादेराकाड्क्ष्ययोग्यतासंनिधिरूप विशेषणत्रयवशात्तु स्वयमुपनिपतेत्पर्यवसितं भवेदिति योजना। एतदुक्तं भवति सिद्धस्य सिद्धेन कार्यस्य वा कार्येण सहान्वययोग्यताSऽकाड्क्षा वा नास्ति समस्वभावतया परस्परमुपयोगाभावात्कं तु सिद्धकार्ययोनिर्वर्तकनिर्वत्यभूतयारन्योन्याकाड्क्षान्वययोग्यता चेति स्थिते कार्यप्रधानक्रिया पद विना वाक्यपर्यवसानदर्शनात्कार्यप्रधान एव पदान्वय इति कार्यैदमर्थ्य विशिष्टकार्य- परत्वं वाक्ये निश्चीयत इति ॥ ३१ ॥ सु० टी०-ननु किं तत्कार्य यत्परत्वं वेदस्येत्याकाङ्रक्षार्यां):तल्क्ष णामाह- प्रवृत्त्यभावस्य विरोधिकार्यं कालत्रयानन्वितमाहुरेके। स्वगोचरस्येप्सितसाधनत्वं विज्ञापयत्मेरकमाहुरन्ये ॥ १३२॥ प्रवृत्तीति। यस्मिन्सति साधिकारस्य प्रवृत्तिरवश्यंभाविनी स प्रवर्त- नाख्यो विधिव्यापारो धात्वर्थगोचरप्रवृ( * त्यमावविरोधी कार्यार्थ- मित्यर्थः। न च ब्रह्मणि काले वाऽतिव्याप्तिर्बह्मण औदासीन्यात्। कालस्य प्रवृ)त्तितद्भावानुगुणत्वात्प्रवृत्त्यभावविरोधित्वं प्रवृत्ती रागे चास्तीति तद्वारणाय कालत्रयेति कालत्रयानन्वितत्वेन प्रतीषमानमि- त्यर्थः। शब्दभावना तु लिङादितः कालत्रयासंसूष्टत्वेन प्रतीयते । एके माट्टाः। अग्येतु विधिगोचरयागादीट्टसाधनत्वमज्ञातं बोधयदि- च्छाद्वारा प्रवर्तकं कार्यमिति लिडनद्येव कार्यविषयत्वादुपचारेण कार्य- मित्याहुः । अत्र विधिगोचरेति यागादीष्टसाधनताबोधकान्वयव्य- तिरेकवारणाय ॥ १३२॥ अ० टी०ननु किमिदं कार्य नाम यत्परत्वं शब्दस्य प्रतिपाद्यत इत्यपेक्षायां विरोधिकार्यमित्यादिना पक्षद्वयेन। यस्मिन्सति प्रवृत्यभावो न भवति कि तु प्रवृत्तिर्भवत्येव तत्प्रवृ्त्त्यभावविरोधि तदेव
- अयं ग्रन्थः ख. पुस्तकस्थः ।
Page 146
संक्षेप परीरकम्।
कार्य नियोगापरपर्यायमभिमतमित्यर्थः । तस्य विशेषणं कालत्रयानन्वितमिति। अभूदस्ति भविष्यतीत्येवं कालत्रयान्वयितयाऽनवगम्यमानमित्यर्थः। प्रवृत्त्यभावविरोधि कार्यमित्युक्ते रागप्रवृत्योरपि तथ, त्वात्तत्रातिव्याप्तिरिति कालत्रयेत्यादिविशेषणम्। ताथत्युक्ते घटादिशब्दा- त्प्रतीयमाने घटादावतिव्याप्तिसंतत आद्यं विशेषणं कालत्रयानन्विततया प्रतीयमानं कर्तव्यताबुद्धिगम्यं प्रवृत्तिप्रयोजकं कार्यमिति संपिण्डितार्थः । एतच्च लौकिकस्य क्रियाकार्यस्य वैदिकस्य च नियोगास्यस्य साधारणं लक्षणम् । न च श्रेयःसाधनेऽपीदं लक्षणं गच्छतीति वाच्यं श्रेयःसाधनतया प्रतीते विषये साधनान्तरादपि तत्साध्यसिद्धि प्रश्यतः प्रवृत्त्यभावदृष्टेरिति द्रष्टव्यम्। लक्षणान्तरमाह-स्वगोचरस्येति। स्वगोचरस्य विषयस्य धात्वर्थस्येप्सितसाधनत्वं विज्ञापयद्यत्प्रेरकं प्रवर्तकं तत्कार्यमित्यन्य आहुरित्यर्थः। अत्र प्रेरकं कार्यमित्युक्ते रागेऽतिव्याप्तिरत उक्त-स्वगोचरस्येत्यादि। तावति विज्ञापयदि- त्यन्त उक्त इष्टसाधनत्वबोधकप्रमाणेतिप्रसङ्ग इत्यत उक्तं-प्रेरकमिति। प्रमाणस्य ज्ञापकत्वादेव न प्रेरकत्वमिति ततो व्यावृत्तिसिद्धिः । इदं तु लक्षणं धात्वर्थकार्यविलक्षण- नियोगाख्यकार्यविषयं स्वगोचरस्येष्टसाधनत्वज्ञापकत्वनिर्देशात्। न च नित्यनियोगेऽव्याप्ति- रतद्विषयस्येप्सितसाधनत्वानङ्गीकारादिति वाच्यं तत्रापि नियोगस्यैव कृत्युद्देश्यतयेष्टत्वात्तत्र धात्वर्थस्यापीष्टसाधनत्वोपपत्तेस्तत्रापि लक्षणसंभवादिति द्रष्टव्यम्। एवंच सति कृतिसा- ध्यत्वादिना येन केन च विशेषणेन विशिष्टतयेष्टसाधनत्वज्ञानस्य प्रेरकत्वकल्पनेऽपि न कार्य- लक्षणं तत्र गच्छतीष्टसाधनत्वज्ञापकत्वस्येष्टसाधनत्वादिति भावः ॥ १३२ ॥। सु० टी०-नियोगवादिनां कार्यलक्षणमाह- या नान्यमुद्दिश्य कति: प्रवृत्ता तयैव यद््चाप्यतया प्रतीतम्। तदेव कार्य कथयन्ति केचि- द्विचक्षणा: कार्यनिरुपणायाम्॥१३३॥ या नान्यमिति। अनन्योद्देशप्रवृत्तकृतिव्याप्यं कार्यमित्यर्थः । स्वर्गका- मस्य हि साक्षात्स्वर्ग साधयितुमशवनुवत नियोगभेव कार्यमुद्दिश्य यागकृतिः प्रवृत्ता तया व्याप्त ईप्सितरूपो नियोग एव प्रधानत्वात्कार्य- मिति माव:। व्याप्यत्वानुक्ती ताद्ृशकृतिविषयतया स्वर्गस्यापि कार्यत्वं स्थादिति। तदुक्तं न हि स्वर्गः कृतिव्याप्यश्चिरभावित्वात् । किं तु
१ क, ग. द्दशापवृतिकृ । २ क. त्वात्तत्का।
Page 147
१४० टीकाछ्य समेतं-
प्रयोगसमवायी नियोग एव स्वर्गस्यापि नियोज्यविशेषणस्व तदर्थ- त्वाहिति ॥ १३३ ॥ अ० टी०-एवं कार्यस्य तटस्थलक्षणद्वयमित्थं व्यवस्थयोक्त्वा स्वरूपलक्षणं साधारणं तस्योपन्यस्यति-या नान्यमुद्दिश्येति । या कृतिरन्यमुदिश्य न प्रवृत्ता यदेवोदिश्य कृतिः प्रवर्तत इति याचत्। कृत्युद्देश्यं कार्यमित्युक्तं भवति। एतावत्युक्ते फलेऽतिव्याप्ति रत आह-तयैव यद्याप्यतया प्रतीतमिति। कृतिव्याप्यतया प्रतीयमानमित्यर्थः । एतावत्येवोक्ते क्रियाया अधि तव्वाप्यत्वात्तत्र प्रसङ्ग इत्यत आद्यं विशेषणम्। अनन्योदि- ष्टकृतिव्याप्यत्वं कार्यत्वमिति तत्स्वरूपलक्षणं सिद्धम्। एवंलक्षणं यत्तदेव कार्यमिति कचित्का- र्यनिरूपणायां विचक्षणा: कथयन्तीति संबन्धः । तदुक्तं-'कृतिसाध्यं प्रधानं यत्तन्कार्य- मभिधीयते।' इति ॥ १३३ ॥ सु०टी०-ननु चिकीर्षेय रागापरनामधेया प्रवृत्तिहेतुत्वात्कार्य नान्यदिति चेन्नेत्याह- भत्वा रागः कारणं पुंस्पवृत्ते- नैवं कार्यं कार्यरूपं विहाय। रपेणान्येनाSSप्यतेऽस्या निमिन्तं भिन्दन्त्येवं रागकार्ये बहुज्ञाः ॥१३४ ॥ भूत्वेति। रागो हि निष्पन्न एव प्रवृत्तिहेतुरतो न तस्य कार्यत्वं सिद्ध- त्वात्। कार्य तु न भूत्वा प्रवर्तकं कि तु साध्यत्वापरित्यागेन तद्द्ि करिष्यामीति पुरुष: प्रवर्ततेऽतो रागाद्भिन्नं कार्यमित्यर्थः ॥ ३४।। · अ० टी०-नन्वेवंलक्षण कार्यमप्रसिद्धं यत्प्रवर्तकतयाऽभिमतम् । न च प्रवृत्तेः पूर्वावस्थायां कर्तव्यमित्येवमाकारं प्रतीयमानं कार्यमिति वाच्यं चिकीर्षयैवैवं प्रतीयमान- ववात्। कर्तुमिष्यमाणं हि कृतिप्रयोजकतया कर्तव्याकरिण प्रथत इति चेन्मैवं रागकार्य- योर्भेदोपपत्तेरित्याह-भूत्वा राग इति। पुंस्प्रवृत्तेः कारणं यो रागः स भूत्वा स्वरूपेण निष्पद्य पश्चात्तत्कारणं भवति। नैवं कार्यं कार्यरूपं कर्तव्यत्वाकारं विहायान्येन रूपेण निष्पन्त्वाकारेणास्याः प्रवृत्तेर्निमित्तं किं तु निष्पाद्याकारेण प्रवृत्तेः पूर्व प्रतीयमा- नमेव प्रवृत्तिकारणमित्यर्थः । एवं हि बहुज्ञाः पण्डिता रागकार्ये भिन्दन्ति विविच्य जानन्ति नाल्पश्रुता इत्यर्थ: । एवं सिद्धसाव्यत्वरूपस्वभावभेदाद्रागकार्ययोर्न रागमादायोक्तकार्यलक्ष- णस्यार्थान्तस्तेति भाव: ॥। १३४ ॥।
१ क. न्येनेष्यते।
Page 148
संक्षेपशारीरकमू। १४१
स० टी०-ततश्च कार्यान्विते पढ़े शक्तिग्रहान्न स्वार्थे वेदान्ता: प्रमाणमित्याह- आवापोद्वापहेतोः पदमिदममुकस्याभिधाने समर्थ स्वोत्पत्यैवेति शक्तिप्रतिनियममिमं पार्श्ववर्ती तटस्थः। जानात्यालोच्य भूयो नयनिपुणमतिर्भागशः कार्ययुक्ते वस्तुन्येतस्य हेतोरुपनिषदखिला कार्यशेषे प्रमाणमू॥१३५॥ आवापेति। व्युत्पित्सुर्हि पदपिण्डस्य कार्यान्वितवाचित्वबोधानन्तर- मावापोद्दापाभ्यामिद पदमस्यार्थभागस्यामिधाने स्वभावात्समर्थमित्या- लोध्यान्वयव्यतिरेकनैपुण्यात्प्रतिपदं कार्यान्विततत्तदर्थे शक्तिव्यवस्थां तटस्थस्तद्यवहारापविष् एव जानातीत्यतः सर्ववाक्याणां कार्यैदमर्थ्या- द्वेदान्ता अपि क्रिया विधिशेष कर्त्रादिसमर्पणेनैव प्रमाणमित्यर्थ:॥१३५। अ० टी० -- इदानी कार्यलक्षणप्रयोजनमाह-आवापोद्दापहेतोरिति। पुन- रपि प्रविभज्य भागं भागस्य वाचकमिति स्वयमेव वेत्तीत्युक्तस्यायं प्रपञ्चः । एवमुक्तलक्षणे कार्ये पदार्थान्तरविशिष्टे पार्श्ववर्ती तटस्थो व्युत्पित्सुः प्रथमं सामान्येन पदसमूहस्य सामथ्य
कस्यार्थस्याभिधाने स्वोत्प्त्यैव स्वभावादेव समर्थमितीमं शक्तिप्रतिनियमं स्वयमेव जाना- तीति योजना। उक्तमेव स्फुटयति-आलोच्येति। नयनिपुणमतिरन्वयव्यतिरेकालो- चनसमर्थधीः स एव पार्श्वस्थो भूयः पुनः पुनर्बहुपु प्रयोगेषु भागशो वाक्यभागात्पदार्थ- भागं विभज्याऽडलोच्य कार्ययुक्ते वस्तुनि शब्दशक्तिप्रतिनियमं जानातीति पुनरन्वयः । एवं शब्दस्य कार्ये व्युत्पत्तिनिरूपणफलमाह-एतस्य हेतोरिति। एतस्मात्कारणादि- त्यर्थः। अखिलोपनिषत्कयाऽपि विधया कार्यशेषभूतेऽर्थे प्रमाणं न सिद्धे ब्रह्मरूपे प्राधा न्येन प्रमाणमिति सिद्धमितर्थः ॥ १३५॥ सु० टी० -- मानान्तराविषये कार्ये कथं व्युत्पत्तिरित्याशङ्कय भावः नावादिम तेनाSSह- आज्ञादिभेदेष्वनुवर्तमाने प्रवृत्त्यभावस्य विरोधिमात्रे। लिडगदिशब्दस्य स वेत्ति शक्तिं प्रवर्तकाख्याविषयत्वयोग्ये॥१३६॥ आज्ञादीति। आज्ञाभिधादिलोकवेदसाधारणप्रवर्तकव्यापारानुगते प्रवृ- दय मावविरोधिनि प्रवर्तनात्वसामान्ये प्रवर्तकशव्दाख्येयत्वयोग्ये प्रवृत्ति- परलिडादेराकृतिन्यायेन शक्तिं गृह्लातीत्यर्थः ॥ १३६ ॥
Page 149
टीकानट्य समेतं-
अ० टी०-ननु मानान्तराविषयेऽलौकिके नियोगे कथं लिडादिपदव्युत्पत्तिर्यदधी- नान्यपदानां कार्यान्वितार्थो व्युत्पत्तिरभिधीयत इत्यपेक्षायामाह-आज्ञादीति।कि तत्प्रवर्तकाख्याविषयत्वयोग्यमिति तदाह-प्रवृत्त्यभावस्येति। पूर्वोक्तलक्षणे कार्य इत्यर्थ: । यद्यपि साक्षास्टिडादिशब्दस्य वाच्यं नियोगाख्यं कार्य गवानयनादिवन्न प्रत्यक्ष- सिद्धं तथाऽप्याज्ञादिषु नियोगे च प्रवर्तकसामान्याकारेणानुगम्यमने तस्मालिअदिपदव्यु- त्पत्तिः सुगमा। आज्ञादिरूपस्य सर्वप्रवृत्तिषु व्यभिचारादनुगमायोगात्तदनुस्यूतेऽव्यभिचा- शिण प्रवृत्त्यभावविरोधिमात्रे लिडादिपदशक्तिग्रह इति भाव: ॥ १३६ ॥ सु० टी०-जरद्रुरुमते तु लिडन वेदे नियोगस्य लोके धात्वर्थस्या- मिधानादनेकार्थत्वप्रसक्तावाह- अन्ये वदन्ति निरुपाधिनियोगरूपं वेदे भवत्यपुरुषप्रभवे स्वतन्त्रम्। लोके पुनः पुरुषधीरचितेषु कार्यं सोपाधिकं तदिति कारणतो वच:सु ॥ १३७॥ अन्य इति। अपौरुषेये वेद आज्ञाद्युपाधिपारतन्रयाभावान्निरुपाधि नियोग:। लोके तु पुमभिप्ायादिकारणतः सोपाधिरिति क्रियाविषय- कोऽपि पुंनियोगो नियोगत्वेनैव लिडर्थ इति नानेकार्थतेत्यर्थः ॥१३७॥ अ० टी०-सामान्येन लिडादिपदवाच्यमुपरथाप्य तत्रैव मतभेदोपन्यासेन लौकि- कवैदिकनियोगभेदमाह-अन्य इति ॥१३७ ॥ सु० टी०-तथाऽपि लोके सोपाधिके शक्तिवेदे तु केवल इति नैकार्थतेति चेन्नेत्याह-
विज्ञातोपायभावं विषयमनुसरत्पौरुषेयीषु वाक्ष। वेदे कर्तृस्थरागायुपधिविरहितं कर्तृशून्ये ततोऽस्मि- न्सर्वत्रे कस्वभावस्थितवपुषि भवेह्वब्धशक्तिर्लिडगदिः॥१३८। आज्ञेति। आज्ञाऽनुकृष्टस्य निकृष्टप्रेरणा। तद्विपरीता याच्चा पौरुषेय- वाक्येषु यत्कार्य तदाज्ञादिपुमभिप्नायात्मकोपाधिषु व्यअ्जकेषु प्रणिप- तितस्वरूपं. मवति । आज्ञादिरहितधात्वर्थमात्रे नतन्रियोगरुप
Page 150
संक्षेपशारीरकम् i. १४२
भवतीत्यर्थः । तथा साधनेहा चिकीर्षा तया विना सत्यप्याज्ञादौ न भव्तीत्यर्थः । अत एव विज्ञातोपायभावं धात्वर्थमनुसरद्विषयीकुर्षदिट्ट- साधनत्वेनानुपस्थिते धात्वर्थे चिकीर्षानुद्यादित्यर्थः । कर्तृशून्ये तु वेदे यत्कार्य नियोगरूपं न तत्ाSडज्ञाुपरागो न चिकीषवच्छेद: साक्षादकार्यत्वात्। न विषयस्येष्टसाधनत्वावगत्यपेक्षा स्वतन्त्रत्वात्। अत आज्ञादेरुपलक्षणत्वादस्मिल्ीकिके वैदिके च नियोगत्वे नैकरू- पेण स्थिते लिङादेः शक्तिग्रह इत्येकार्थतेत्यर्थः ॥ १३८॥ अ० टी०-लोके कोऽसावुपाविर्नियोगस्य व्युत्पत्तिरपि किमाज्ञाद्युपाधिविशिष्टे केवले घा वेदेऽपि प्रमीयमाणो नियोग: किमस्मादत्यन्तं विलक्षणः कि वा तद्ेकस्वभाव इति च वीक्षायामाह-आज्ञेति। वक्तपुरुषाभिप्रायः । तेषूपाधिषु स्वाभिव्यञ्जकेषु प्रणि- पतितवपुः स्वरूपं यस्य तन्नियोगो रूपमिति योजना। चिकीर्षासानुबन्धं विशेषणं यस्य तथा विशेषणम्। श्रोत्रावगतोपायत्वविषयं धात्वर्थ विषयीकुर्वदिति यावत्। तदेव निरु- पाधिकं व्युत्पादयति-वेद इति। यद्यप्येवं लोकवेदयोः सोपाधिकनिरुपाधिकमेदेन
समत्वात्तस्मिन्नेवैकले रूपे लोकवेदयोर्लिडादिपदव्युत्पत्तिरित्याह-ततोऽस्मिन्सर्वत्रेति। सर्वत्र लोकवेदयोरेकस्व्भावेनोक्तलक्षणेन स्थितं वपुः स्वरूपं यत्तथा तस्मिल्िँडादिर्लब्ध- शक्तिर्भवेदिति योजना ॥ १३८ ॥ सु० टी०-अभिनवनियोगवादिमतमाह- अन्ये भिन्नस्वभावं विविधमभिदधत्यानुरुप्येण कार्यं लोके धात्वर्थरूप श्रुतिवचति पुनस्तन्नियोगाख्यमेव। संमुग्धे तत्र शक्ति शिशुरयमवगम्याऽडदितो न्यायचक्षुः पश्ाद्वेदैकवेयं वदति लिडिति च प्रेक्षते निश्रवयेन ॥१३९॥ अन्यं इति। न सोपाधिकोऽपि लोके नियोगोऽस्ति मानाभावादिति नैकरूप्यम्। किं तर्हि लोके वेदे च स्वानुरूपं क्रियात्वकार्यत्वस्वमावं नानारूपमेवान्ये नियोगवादिन: काय वदन्तीत्यर्थः। नानात्वमेवाऽडह- लोक इति। लोके धांत्वर्थरूपा क्रियेव कार्य काम्यसाधनत्वान्न नियोग:। वेदे तु स्वर्गकामादिनियोज्यपद्सममिव्याहारादेव नियोग: सिध्यती- त्याह-श्रुतीति। तत्र धात्वर्थस्य साक्षात्काम्यासाधनत्वरेन कामिकार्य-
Page 151
१४४ टीकाट्वयसमेतं-
स्वायोगादित्यर्थः । तत्र व्युत्पित्सुः प्रथमं धात्वर्थनियोगरूपमिथीवि- लक्षणकार्यद्वयेऽनयोः कि मुख्यं किममुख्यमित्यविवेकाख्यसंमोहविप्ये सामान्यतः कार्यत्वेन शक्तिमवगम्य पश्चाञ्न्यायहृष्टिः सन्वैदिकनि- योगमेव मुख्यतया लिद् वद्तीति विचारान्निश्चिनोति। अनेकार्थ- त्वस्यान्याय्यत्वादेकत्र मुख्यत्वेऽपरत्र वृत्त्यन्तरेणापि प्रयोग: स्यादिति न्याय: ॥ १३९॥ अ० टी०-नियोगवादिनां साक्षादभिमतं व्युत्पत्तिप्रकारमाह-अन्ये भिन्नस्व- मावमिति। लोके नियोगो लाक्षणिको वेदे तु वाच्य इत्यभिप्रायः स्वर्गकामपुदसम- भिव्याहारादय(न्य)थानुपपत्या तत्र धात्वर्थातिरिक्तनियोगावगमात्। कथं तर्हि विरुद्धस्वभावयोः कार्ययोर्व्युत्पत्तिसिद्धिरिति तत्राSSह-संमुग्ध इति। अयं शिशुर्व्युत्पितसुस्तत्र नियो- गाख्ये कार्ये संमुग्धे साधारणे लौकिकवैदिकत्वविभागप्रत्ययरहित आदितः प्रथमतः शक्ति लिडादिपदसामर्थ्यमवगम्येति योजना। एतदुक्तं भवति-लोके धात्वर्थकार्ये प्रथम- मारब्धा सती लिड़ादिव्युत्पत्तिरलौकिके नियोगे पर्यवस्यति न घात्वर्थमात्रे तस्यानेकरूप- त्वाद्वेदे, स्वर्गकामादिपदसममिव्याहाराक्षणभङ्गुरस्य धात्वर्थस्य साध्यस्वर्गानुकूल्याभावेन तस्य कार्यताबुद्धिगोचरत्वाभावाच्चेति। एवं धात्वर्थस्वरूपमात्रातिरिक्ते नियोगे लिडादिपदश- क्िरित्यादितोऽवगम्य शिशुर्न्यायचक्षुरूहापोहसमर्थः पश्चाद्वेदैकवेद्यं नियोगमेव लिड्पदं वदतीति च निश्चयेन प्रेक्षतेऽव्यवस्यति नियोग एव लिडादिमुर्ख्यो धात्वर्थे तु लाक्षणिको नियोगनिर्वर्तकत्वेन तत्र नियोगत्वोपचारादित्यवगच्छतीत्यर्थः ॥१३९॥ सु० टी०-विपरीतं किमिति नावधारयतीति चेत्तत्ाSSह- धात्वर्थाख्यानशक्ते यदि भवति गुणाद्वर्तितुं वैदिकेऽयं संबन्धाज्ञानहेतोरनलमथ पुनवैदिके शक्तिमान्स्यात। तत्संबन्धात्कियामप्यभिवदितुमलं लक्षणावृत्तितोऽयं लिङ्नशब्दस्तेन कार्ये श्रुतिवचनगते शक्त इत्यध्यवस्येत्॥१४ धात्वर्थेति। यदि घात्वर्थे मुख्यः स्यात्तदा वैदिकनियोगे गुणादुपचा रादवर्तितुं न शक्रोति तत्रालौकिके शक्यधात्वर्थसंबन्धगुणयोगयोरज्ञा. नातू। नियोगार्थत्वे तु तस्य धात्वर्थविषयत्वेनैव सिद्धेः स्वविषयी- भूतं धात्वर्थ लक्षणयाऽवि लिङदिर्वोधयिष्यतीति विमृश्य नियोग एवास्य मुख्यत्वमध्यवस्यरतीत्यर्थः ॥। १४० ॥
१ क. मिथ्यावि'।
Page 152
संक्षेपशारीरकम्। १४५
अ्० टी० -- ननु धात्वर्थकार्ये लिडादिर्मुख्योऽलौकिके नियोगे लाक्षणिक इति विपरीतं कि न स्यादिति शङ्कमानं प्रति पूर्वपद्यदोतितां युक्ति सुटयन्नुक्तव्यवस्थां साधयति-घात्वर्थाख्यानेति। मुख्यया वृत्या बोधको भवेत्। तेन यथोक्तेन हेतुना श्रुतिवचनगते घात्वर्थगति(र्धाति)रिक्ते नियोगे लिडादिः शक्त: क्रियायां लाक्षणिक एवे- त्यव्यवस्येन्निश्चिनुयादित्यर्थः । उभयत्र मुख्यत्वेऽनेकार्थत्वमन्याय्यं प्रसज्येतेति नियोग एव लिढादर्मुर्ख्योऽर्थ इति भाव: ॥। १४० ॥ सु० टी० -- तथाऽपि लिङादियुक्तवाक्यानामस्तु कार्यार्थता न तु सिद्धार्थानां तेषु विशेषणविशेष्यमावाद्यन्वयसंभवादिति चेत्तत्राSडह- एवं शब्दान्तराणां नयनिपुणमतिः शक्तिवित्सन्क्रमेण प्रक्षेपोद्धारदर्शी भवति कतिपयर्वासरैस्तत्र तत्र। *
तस्मात्कार्यान्वितार्थे सकलमपि पदं शक्तिमद्बुध्यमानो भूतायर्थप्रतीतिं प्रति विमुखमनाः शास्त्रतः स्यान्मनुष्यः।।१४१॥ एवमिति। प्राथमिकव्युत्पत्यनुरोधेन द्रव्यमुणादिशब्दानामप्यावापो- दापाभ्यां कार्यान्वितार्थविशेषेषु शक्तिवित्सन्कतिचिद्दिनैरेव निपुणो भव- तीत्यर्थः। यद्वा यथा लिङादीनां कार्य एवं द्रव्यादिपदानां तदभिचा- रिणि शक्तिविद्भवतीति योज्यम्। ततः किमित्यत आह-तस्मादिति। सर्वपदानां कार्यान्वितार्थतं जानञशास्त्रानुभूताद्यर्थप्रतीति प्रति विमु- खमना भवतीत्यर्थ: ।।१४१ ॥ अ० टी०-एवं लिडादेर्नियोगे शर्कति पदव्युत्पत्तिप्रयोजिकामनेकन्यायपेक्षया सम्य- क्प्रतिपाद शब्दान्तराणामपि व्युत्पत्तिरत एव न्याय्या भवतीति दर्शयन्नुपपादितमर्थमुप- संहरति-एवं शब्दान्तराणामिति। एवमुक्तन्यायेनान्वयव्यतरेकालोचनकुशल :*... ........ ।। १४१ 1 सु० टी०-प्रवर्तकवाक्यान्न प्रथमशक्तिग्रहनियमश्चैत्र पुत्रस्ते जाव इत्यादितोऽपि दर्शनादिति चेन्नेत्याह- वाक्याद्द्रूतार्थनिष्ठान्रवति ने तु नृणां शब्दशक्तितीति- ्लिङ्गं श्रोतृस्थबुद्धेर्न हि किमपि भवेदत्र बालोपलभ्यम् ।
- नारय टीका पूर्णा।
१ क. °राणामपि नयनिपुणः श°।२ क, ननुसृ।, १९
Page 153
१४६ टीकादटय समेतं-
यद्वक्त्रादिपसादक्षितितललुठनादीक्ष्यते श्रोतृदेहे॥ १४२॥ वाक्यादिति। न हि सिद्धार्थवाक्याच्छक्तिग्रहः शक्यस्तत्र बालेनोप. लभ्यस्य श्रोतृस्थबुद्धयनुमापकलिङ्गस्यासंभवादित्यर्थः । प्रवर्तकवाक्ये तु तत्संभव उक्त एव। ननु पुत्रो जात इत्यत्र मुखप्रसाद:। मृत इत्यत्र क्षितिलुण्ठना दिलिङ्गमास्तामिति नेत्याह-न हीति। प्रेयसीसुखपरसवत- दमावादिनाऽपि तत्संभवेन व्यभिचारितया तयोरलिङ्गत्वादिः त्यर्थः ॥ १४२ ॥। अ०टी०-स्यादेतदेवं यदि प्रवर्तकवाक्यादेव व्युत्पत्तिरिति नियमो भवेन्न तु तथा किं तु पुत्रस्ते जात इत्यादिसिद्धनिष्ठादप्रवर्तकवाक्यादप्यस्ति व्युत्पत्तिग्रहः श्रोतुर्मुखविकासादिलि्रेन तद्धेतुः पुत्रजन्मज्ञानं तस्यानुमाय शब्दस्य सामर्थ्यग्रहोपपत्तेरिति चेन्नेत्याह-वाक्या- दिति। भूतार्थनिष्ठाद्वाक्यान्नृणां शब्दशक्तिप्रतीतिर्न तु भवतीत्युक्तेऽर्थे हेतुमाह- लिङ्गमिति । अत्र भूतार्थविषये वाक्ये श्रोतृस्थबुद्धेः किमपि लिङ्गं ज्ञापकं न हि भवेन्न लभ्यत इत्यर्थः । ननु श्रातृगतमुखविकासादि वा तस्य क्षितितललुठनरोदनादि वा पुत्रस्ते जातः पुत्रस्ते मृत इत्यादिवाक्यश्रवणानन्तरभावितबुद्धेर्लिङ्गं स्यादिति चेत्तत्राऽडह- न ह्येतदिति। यच्छ्रोतृदेहे वक्त्रप्रसादक्षितितललुण्टनादीक्ष्यत एतत्पुत्रजन्मज्ञानाद्यवगति- नियतं तदेकनिमित्तकमिति नित्यवदव्यभिचरितं तथा निश्चितं न हीति योजना। मुखप्र- स.दादिना सुखानुभवमात्रमुन्नीयते न पुत्रज्ञानमेव सुखहेतुः प्रियासुखप्रसवादेरपि तद्धेतुक. त्वात्। तथा क्षितितललुठनादिना च दुःखानुभवमात्रं कल्प्यते न पुत्रमरणमेव दुःखहेतुः प्राणप्रियामृतेरपि तद्धेतुत्वादतो नेदं व्युत्पत्तौ नियतं निमित्तमिति भूतेऽर्ये शब्दव्युत्पत्ति- रिति भाव: ॥ १४२॥ सु० टी०-ततश्च शक्तिग्रहासंभवान्न सिद्धार्थे वेदान्ताः प्रमाणमि- त्युपसंहरति- तस्मादाध्वं निराशाः श्रुतिशिरसि न तस्यास्ति निष्पन्नरूपे प्रामाण्यं कार्यशून्ये कथमपि च परब्रह्मणि स्वप्रधाने। भूतं भव्यप्रधानं भवति न हि पुनः स्वप्रधानं कदाचि- चछास्त्रस्था: शब्दशक्तिस्थितिनिपुणधियो विस्तरादेवमाहुः॥१४३॥ तस्मदिति। ननु सि्द्धेपि स्वर्गादी वेद्स्य भरामाण्यं त्वयाऽम्पुपेतमि-
Page 154
संक्षेपज्ञारीरकम्। १४७ त्याशहूच तस्य विध्यपेक्षितार्थत्वेन विधिशेषतया तद्ङ्गीकृतमिह तु स्वतन्त्रे ब्रह्मणि तदनुपपन्नमित्याह-कथमपीति। स्वर्गादिवाक्यवच्च ब्रह्मवाक्यानामपि विधिशेषत्वमेव युक्तं भूतभव्यसमुच्चारणन्यायादि- त्याह-भूतमिति। एतच्च यदैकस्मादपूर्वमित्यादिना भाष्यकारादिभिरेव प्रपश्चितमित्याह -- शास्त्रस्था इति ॥ १४३ ॥ अ० टी०-यस्मान्सिद्धे वस्तुनि न शब्दसामर्थ्यसंभवो यस्माच्च सिद्धं वस्तु शब्दात्स्वप्र- मितौ मानान्तरसापेक्षमिति तत्र शब्दस्य सापेक्षं प्रामाण्यं यस्माच्च स्वप्रकाशतया ब्रह्मणः प्रमाणाविषयत्वं कूटस्थतया वा साध्यत्वाद्धानोपादानासंभवेन निष्प्रयोजनत्वमखण्डैकरसतया च संसर्गबोधकवाक्यप्रमाणागोचरत्वं तस्मान्न ब्रह्मणि वेदान्तप्रामाण्यमुपपद्त इत्युपसं- हरति-तस्मादाध्वमिति। श्रुतिशिरसि सिद्धे प्रामाण्यं प्रतीति शेषः । निराशा आध्वं तिष्ठत । किमिति चेत्तत्राऽऽह-न तस्यास्तीति। निष्पन्नरूपे परब्रह्मण तस्य श्रुतिशिरसो नास्ति प्रामाण्यमिति संबन्धः । कुतो नास्तीत्याह-कार्यशूम्य इति। कार्यान्वयरहिते सिद्धे व्युत्पत्त्यभावादित्यर्थः । ननु वेदान्तानामनन्यविषयत्वात्कयाऽपि विधया ब्रह्मण्येव पर्यवसानमेष्टव्यमिति नेत्याह-कथमपीति। कथमपि स्वप्रधाने ब्रह्मणि नास्ति प्रामाण्यामति संबन्धः । कार्यशेष एव सिद्धे वस्तुनि वाक्यं प्रमाणं भवेन्न सिद्ध एव प्राधान्येनेत्येतद्ूतं भव्यायोपदिश्यत इति मीमांसान्यायविदां प्रसिद्धमनुवदन्साध· यति-भूतमिति। शास्त्रस्था इति मीमांसाशास्त्रनिष्णाता इत्यर्थः। न केवलं तेषां शास्त्र औपदेशिकज्ञाननैपुण्यमेव ककि तूहापोहकौशलमप्यस्तीत्यभिप्रेत्य तान्विशिनष्टि- शब्दशक्तीति। शब्दसामर्थ्यनिपुणबुद्धयोऽबाधितमतय इति यावत्। तेऽप्यनास्थयैवैवं कचिदुक्तवन्तो भविष्यन्ति न तात्पर्येणेति नाSSशङ्केत्याह-विस्तरादिति। भूतं भव्यप्रधानमित्यादि विचार्य निर्धार्योक्तवन्त इत्यर्थः ॥१४३ ॥ सु० टी०-परमप्रकृतमुपसंहरति- तस्मादसंगतमिदं प्रतिभाति यन्मे वाक्यप्रमाणकमुदीरितमद्दयत्वम्। इत्येवमेष मम् बुद्धिपथं विरोध: माप्तः प्रभो परिहरैनमनुग्रहाय॥ १४४ ॥ तस्मादिति। दूषणगणमुद्भाव्य तत्त्ववुभुत्सां प्रकटयनन्विनयमवलम्बते- असङ्गतमिदं प्रतिभातीति। न तु वस्तुगत्याऽसङ्गतमित्यर्थः । इत्येवमिति। मम
Page 155
१४८ टीकाहयसमेवं-
पुद्धी स्वापराधादेव विरोध: पतिमाति व तु पस्तुतोऽस्तीति तद्प- नयनेन. मामनुगृहाणेत्यर्थ: ।। ४४।। अ० टी०-यस्मादेवं विचार्यमाणे न्वदुपदिष्टैकात्म्ये वस्तुनि वेदान्तानां न संभाव्यते मानान्तरं च तन्न नासि्ति तस्मात्वदुपदिष्टमर्थ,न संभावयामीत्यभिप्रेत्योपसंहरति-तस्मा- दिति। यद्वांक्यप्रमाणकमद्वयत्वं भवतोदीरितमसंगतमिव मे प्रतिभाति न भताऽसंगत- मुक्तमित्यर्थः । कुतस्तेऽसंगतत्वं प्रतिभासत इति तदाह-इत्येवमिति। इति यत एव- मुक्तप्रकारैर्विरोधो मम बुद्धिपथं प्राप्ोऽतोऽसंगतन्वप्रतिभास इत्यर्थः। तदेवं गुर्वनुज्ञां 'यद्यत्र पश्यसि विरोधमुदीरय त्वम्' इत्यत्रोक्तां प्राप्य स्वमनसि प्रतिभातं विरोधमुपन्यस्थेदानी सिद्धान्तबुभुत्सया स्वोत्प्रेक्षितविरोधपरिहारं प्रार्थयते-प्रमो इति। एनं विरो- धम् 4१४४॥
योर्षिरेधादनन्वयं प्रथम दूषणमखण्डवाक्यार्थाम्युपगमात्सुपरिहरं मन्वान: स्वी करोति- सन्यं यदाह गुरुमान्यदि वाक्यगम्यं संसर्गरूपमिह वेदशिरःस्वभीष्टम् ॥ अस्त्येव तत्र पदयोरुभयोरविरोध: पारोक्ष्यसदयविरोधकतस्तदानीम् ॥ १४५। सतमिति। गुरुमानिति सुशिक्षित इत्यर्थः । यद्दा निखिलसंशयच्छेदि- गुरुमत्वेन प्रोत्साहयति संसर्गवाक्यार्थत्वे ह्यन्र प्रागुक्तो विरोध: स्यान्र बाSसावङ्गी क्रियत इत्पर्थः । अस्त्येवेत । तत्र वाच्ययोरमेदे ॥ १४५ ॥ अ०टी०-एवं प्रार्थित आचार्यं. शिष्योक्तान्दोषा्क्रमेण परिहारैष्यंस्तत्त्वंपदार्थयोरन्वयो विरोधादेव न संभवनीति यः प्रथमोक्तो दोषस्तमखण्डवाक्यार्थाश्रयेण परिहर्तुं संसर्गवा. क्यार्थपक्षोक्तं दोषमङ्गी करोति-सत्यमिति। गुरुमान्गुरुभक्तो भवान्यदाह तत्सत्य- मिति योजना। अङ्गीकृतमेवांशं विशदयति-यदीत्यादिना । यद्यशेषेणेह वेदशिरःसु वाक्यगम्यं संसर्गरूपं यद्यभीषटं रयात्तत्र पक्षे तदानी पदयोरुमयोर्विरोधोऽस्त्ेव। किकत इत्यत भह-पारेक्ष्यसदवयविरोध इति । अर्थविरोधकृत इत्यर्थः । अयं संसर्ग वाक्यार्थो नास्माक्रमिष्टो वेदशिरःस्विति यदिशब्दात्सूचितम् ।.१४५।।-
Page 156
संक्षेपशारीरकम्। १४९ सु० टी०-ननु मेद: संसर्मो वा वाक्यार्थ इत्युक्तं पूर्वकाण्ड इति कभमेवमिति चेत्तत्राSSह- यत्कर्मकाण्डनिपुणैरुंदितं पुरस्ता- द्वाक्यार्थलक्षणमदः पुनरत्र नेष्टम्। भेदादिवर्जितमखण्डमुशन्ति यस्म च्छ्रीबादरायणमतानुगता महान्तः ॥ १४६ ॥ यत्कर्मकाण्डेति। यत्पूर्वमर्थकत्वादेकं वाक्यमित्यत्र व्यक्तिपदार्थपक्षे संसर्गस्य पदार्थान्तर्गतत्वाच्छुकको गौरिति कृष्णाश्वादिव्यवच्छेद्मान्रं वाक्यार्थः । आकृतिपक्षे शुकृत्वगोत्वयोः स्वरूपेणाभिहितयोरन्योन्या- नुरअनात्मकः संसर्गो वाक्यार्थ इति मट्टादविभिरुक्तम्। नैतज्ज्ञानकाण्डेड- भिमतं यतोऽद्वितीये वस्तुनि निष्पतियोगिक भेदसंसगादेरसंभवात्तद्वर्जितं तत्त्वमर्थयोरत्यन्ताभेदमेव वाक्यार्थ माष्यकारादय इच्छन्तीत्यर्थः। महान्त इत्यनेन तन्मतानभियुक्ता मास्करादयो निरस्थन्ते ॥४६ ॥ अ० टी०-ननु संसर्गो वा विशिष्टो वा वाक्यार्थ इति वाक्यार्थलक्षणस्य न्यायविदां प्रसिद्धत्वात्स कथं नाङ्गी क्रियत इति तत्राऽडह-यत्कर्मकाण्ड इति। पुरस्तात्पू- र्वतब्रेऽदो लक्षणमत्र वेदान्तेषु पुनर्नेष्टम्। कुतो नेष्टं तत्राSह-भेदादिवर्जित- मिति। उशन्ति कमनीयतयेच्छन्ति बादरायणमतानुगतानां महत्त्वं पक्षपातराहित्येन अत्यर्थविचारकौशलं वाक्यप्रमेयत्वमेत्र वाक्यार्थसामान्यलक्षणं न संसर्गादिरूपमननुगमादिति भाव: ॥ १४६ ॥ सु० टी०-ननु किं काण्डद्ये वाक्यार्थवैलक्षण्येन न च तत्संभव- त्यपि ज्ञानकाण्डे विविदिषन्तीत्यादावखण्डवाक्यार्थासंभवादित्याश- डाइडह- भेदादिरूपमव बोधयितुं समर्थं यद्वाक्यमस्ति तदखण्डविलक्षणार्थम्। तल्ौकिकं भवतु वैदिकमेव वाऽस्तु • नास्माकमत्र विषये विमतिः कदाचित् ॥१४७॥
Page 157
१५० टीकाहयसमेनं- भेदादीति। न हि वयं ज्ञानकाण्डीयमखिलमपि वाक्यमखण्डार्थमिति ब्रूम: । किं तु सर्वकाण्डेषु लोके वा यद्वाक्यं भिन्नसंसृष्टादिबोधनसमर्थ तत्तर्थमेव न त्वखण्डार्थमिति स्वी कुर्म इत्यर्थ: ।। १४७।। अ० टी०-तथाऽपि पूर्वोत्तरकाण्डयोर्वाक्यत्वाविशेषे किनिमित्तमिदं वाक्यार्थवैलक्षण्य- मिति तत्राडह-भेदादीति। यद्वाक्यं भेदादिरूपं भेदं वा संसर्ग वार्ऽर्थमवबोधयितुं समर्थमस्ति तलौि चैदिकं वा वाक्यमखण्डविलक्षणार्थं भवत्विति योजना। तेष्व- पुनरुक्तपदावसेयानामनेकत्वात्तेषां संसर्गो वा भेदो वा वाक्यार्थः स्वतः प्राप्तस्तस्य चेद्वा- धकं नास्ति तर्हि तत्र स एव वाक्यार्थो वेदे वा लोके वेत्यभिप्रायः। अत्रोक्तविषये वाक्ये नास्माकं कदाचिदपि विमतिरस्ति न हि व्यसनितयाSखण्डवाक्यार्थत्वं वयमिच्छाम इत्यर्थः ॥ १४७ ॥ सु० टी०-किं तर्ह्यखण्डार्थमिष्यत इति चेत्तत्राSडह- यद्वाक्यजातमथ वेदशिरोनिविष्टं यद्वाऽपि लौकिकमखण्डमपास्य नान्यत्। शक्कोति वस्तु वदितुं तदशेषमेव बूयादखण्डमिति तु प्रतिपादयामः ॥। १४८ ॥ यदिति। वैदिकं लौकिकं वा यद्वाक्यजातं तत्त्वमसि सोऽयमित्यादिक- मखण्डार्थाद्न्यत्संसर्गादिरूपं विरोधादेव न शक्रोति वक्तुं तत्सर्वमख- ण्डार्थमेवेति बूम इत्यर्थः ॥ १४८ ॥ अ० टी०-यत्तु वाक्यमुत्सर्गतः प्राप्यमाणभेदादौ बाध्यमानं सन्न पर्यवस्यति तद- खण्डेडर्थे पर्यवस्यतीत्युक्तवाक्याद्वैलक्षण्यं वाक्यान्तरस्य दर्शयति-यद्वाक्यजातमिति। अथेति पक्षान्तरोपक्रमार्थः। वेदशिरोनिविष्टं वातयजातं तत्त्वमस्यादिरूपं अद्वा लौकिकं सोडयं पुमानित्यादिवाक्यजातमखण्डार्थमपास्यान्यद्वस्तुसंसर्गादिरूंपं वदितुं न शक्नोति तदशेषमपि वाक्यमखण्डमेवार्थं द्रूयादिति तु वयं प्रतिपादयाम इति योजना ॥१४८॥ सु० टी०-तत्र लौकिकमुदाहरति- सोडयं पुमानिति हि मुख्यपदार्थयुक्त- वाक्यार्थबुद्धिजननस्य न वाक्यमेतत्। ईशीत वाच्यशबलस्थपदद्दयेन संसृष्टबुद्धिजनने पदयोर्विरोधात् ॥ १४९॥
Page 158
सक्षेपशारीरकम्। १५१ सोऽ्यमिति। एतद्धि वाक्य मुख्यपदार्थयोः संसर्ग बोधपितुं नेष्टे कुत इत्याह-वाच्येति। स इत्यस्य वाच्यं शबलं तद्देशादिविशिष्टमयमित्य- स्यैतद्देशादिविशिषटं तद्वृत्ति यत्पदद्दयं तेन चेत्संसृष्टधीर्जन्येत तदा सोऽयंपद्योगौरश्व इतिवद्विरुद्धार्थत्वेनानन्वयः स्यादित्यर्थः ॥१४९ ॥ अ० टी०-लौकिकं तादृशं वाक्यं तावदुदाहरति-सोऽयं पुमानिति ॥सोऽयं पुमानित्यादि वाक्यजातं हि मुख्यपदार्थयुक्तवाक्यार्थबुद्धिजननस्प नेशीत स्ववाच्यपदार्थ- संसर्गरूपवाक्यार्थं बोधयितुं न शक्नुयादित्यर्थः । कुतो नेशीतेत्यत आह-वाच्यशबल- स्थेति। पद्योरविरोधादिति। विरुद्धार्थल्वेन पदयोरन्वयासंभवादित्यर्थः। अतीतवर्तमान- देशकालांशयोर्विरोधात्तद्विशिष्टपदार्थयोर्विरुद्धत्वेन संसर्गयो ग्यत्वादित्युक्तं भवति ॥१४९॥ सु० टी०-अस्तु तद्वाक्यमयोग्यत्वादप्रमाणमिति चेन्नाSSप्ोक्तत्वाद- खण्डस्वरूपलक्षणया शक्यसमर्थनत्वाच्चेत्याह- एतद्धि सोऽयमिति वाक्यमखण्डनिष्ठं वक्तव्यमत्र गतिरस्ति न काचिदन्या। तद्देशकालमनुळष्य स इत्यनेन नायं पदार्थमुपढौकयते हि नैतत् ॥ १५० ॥ एतद्धीति। न काचिदिति नीलोत्पलवद्विशेषणविशेष्यत्वादिकेत्यर्थः। कथमिति चेत्तत्राSडह-तद्देशेति। एतद्दिं वाक्यं तौ परोक्षौ देशकालौ यस्येदशं विशिष्टं स इत्यनेनोक्त्वाSयंपदस्यार्थमेतद्देशादिविशिष्टं प्रति नोपढौकयते न समर्पयति नानेन संसृजति विशिष्टयोरमेदासंभवात्।तथे- तद्देशादिषु युक्तमप्ययमित्यनुकृष्य तत्पद्वाच्यं प्रत्यपि नार्पयतीत्यर्थः । एतेनेकपद्लक्षणया तद्देशादयुपलक्षितस्यैतद्देशादिविशिष्टाभेद इत्यपास्तं केवलविशिषटयोर्भेदातू। अस्त्वेकत्र कालदवयवैशिष्यबोध इति चेन्नै- कत्वासिद्धेः। देवदत्ते कालद्वयवैशिष्ट्यमित्यस्य च भेदेऽप्युपपत्तेरेतद्वा- क्यादंमेद्बोधनपरा्द्ेइसंशयानिवृत्त्यापत्तेः । अस्तु सोडयं तदभिन्न इति भेदामाव वैशिट्यबोधान्ना खण्डार्थतेति चेन्न तस्य पढानुपस्थितस्य शाब्ड-
लक्षितस्वरूपामेदात्मकवाक्यार्थनिश्रयादेव संशयादिनिवृत्तिः ॥१५०॥
Page 159
१५२
अ० टी० -तस्मादिदं वाक्यं देषदत्तस्वरूपलक्षणयाSखण्डनिष्ठमम्युपेयमिस्याह- एतद्धीति । हि निश्चितमेतत्सोडयं पुमानिति वाक्यमखण्डनिष्ठमेकरसवस्तुमात्रनिः्ठ वक्तव्यमत्र वाक्येऽन्या गतिः प्रकारान्तररूपा न काचिदस्ति। कुत इति चेत्तत्र बक्त्तव्यं किमतीतदेशादिविशिष्टस्यातीतदेशादिविशिष्टेनेति तत्र नाऽडद्य इत्याह-तछ्ेशकाल- मिति। यौ तौ परोक्षौ देशकालौ यस्य तत्तद्देशकालविशिष्टमतीतदेशकालावच्छिन्ं पुरुष- स्वरूपं स इत्यनेन पदेनानुकृष्यानूद्यायं पदार्थमयमिति पदस्यार्थ वर्तमानदेशकालविशिष्टं देवदत्तस्वरूपं न हुपढौकयते न प्रमापयति तद्देशकालविशिष्टार्थवैशिष्टयमेतद्देशकालविशि- ष्टस्य बोधयति सोऽयं पुमानिति वाक्यमिति शेषः । द्वितीयं प्रत्याह-नैतदिति। एतद्देशविशिष्टमपि स्वयमित्यनेन पदेनानुकृष्य स इति पदवाच्यमर्थमप्येतद्वाक्यं न बोध- यतीति योजना। एतद्देशकालविशिष्टार्थवैशिष्टयं तद्देशकालविशिष्टस्य न बोधयतीत्यर्थः । विशिष्टयोद्वयोः परस्परमेकत्वविरोधाद्विरुद्धस्वभावतया संसर्गविरोधाच्चेति भावः ॥ १५०॥। सु० टी०-एवं तत्त्वमसीत्यादावपि द्वश्व्यमित्याह- एवं सतीदमपि तत्त्वमसीतिवाक्य- माश्रित्य लाक्षणिकवृत्तिमखण्डनिष्ठम्। सोडयं पुमानिति यथा वचनं तथाऽस्तु नो चेत्समं हि-तदलाबुनिमज्जनोक्त्या ॥ १५१ ॥ एघमिति। इद्मपि तत्त्वमिति वाक्यं सोऽयमितिवत्पद्द्दये लक्षणामा- रित्याखण्डार्थमस्त्वति संबन्धः । कथं मुख्यार्थसंभवे लक्षणेति चेन्ने- त्याह-नो चेदिति। तथा हि न तावत्तत्वमोर्वैयधिकरण्येनान्वयः समान- नविभक्तिकत्वात्। नापि मृद्घटइतिवत्तादात्म्यार्थत्वं (* जीवस्यावि- कारत्वात्। नापि करादय: शरीरमितिव दंशांशिप रत्वमात्मनो निरंशत्वा. दित्यत्यन्तामेदपरत्वं) वाच्यं तव्व शबलार्थयोरलावुमज्जनोक्तिवद्यो- ग्यमिति न मुख्यार्थसंभव इत्यर्थः ॥।१५१ ॥ अ० टी० -- तथा च मुख्यार्थयोरन्वयासंभवे लक्षणयाऽखण्डार्थनिष्ठत्वं यदा लोके दृष्ट तदा तत्त्वमस्यादिवाक्यस्यापि लक्षणयैवाखण्डार्थनिष्ठत्वं तदृष्टान्तेन सुसंपादमित्याह- एवमिति। सर्वमेव वाक्यं लोके संसर्गादिनिष्ठमेवेति नियमाभावे सतीत्यर्थः । अस्त्वि त्यन्तं सुगमम्। तथाऽनम्युपगमेऽत्रापि पूर्वोक्तप्रकारेण विरुद्धार्थतया वाक्यस्याप्रामाण्यप्र- सङ्गं बाधकमाह-नो चेदिति। अलाबु निमज्चतीत्युक्तिर्यथा प्रत्यक्षविरोधान्न स्वार्थे
- धनुश्वि्वितग्रन्थः क, पुस्तके नास्ति।
Page 160
संक्षेपशारीरकम्। १५२.
प्रमाणं तथा प्रत्यगात्मनो ब्रह्मत्वबोधकमपि वाक्यं संसारित्वानुभवविरोधात्स्वार्थाबोधकं सदप्रमाणं स्यादित्यर्थः ॥ १५१ ॥ सु० टी० -- मानान्तरानधिगते ब्रह्मणि करथं लक्षणेत्युक्तमुद्ध ति- मानान्तराधिग तगोचरगामिनी स्या- च्छव्दस्य लाक्षणिकवृत्तिरिति प्रलापः । सिद्धत्वमात्रमिति लाक्षणिकप्रवृत्ते- र्निर्वाहकारणमनङ्गमतोऽन्यदस्याः ॥ १५२॥ मानान्तरेति। सिद्धत्वमात्रं हि लक्षणायामङ्गं न मानान्तरविशेषितं गौरवात्सिद्धत्वे सति तद्भावेन लक्षणाविरहादर्शनाच्च। तच्च त्वंपद्- लक्ष्ये स्वप्रकाशत्वेन तत्पद्लक्ष्ये च तर्केणास्तीत्यर्थः ॥१५२॥ अ० टी०-अत्र यदुक्तमानान्तरसिद्ध एवार्थे लक्षणाया लोके दृष्टत्वाद्रल्मणश्च मानान्तरागोचरत्वाल्लक्षणयाऽपि नास्मिन्वेदान्तमानतेति तत्राऽऽह-मानान्तरेति । मानान्तराधिगतो यो गोचरो विषयस्तद्रामिनीति योजना । प्रलापोऽनर्थकं वच इत्यर्थः । कुत इत्यपेक्षायां सिद्धत्वमात्रेणैव लक्षणोपपत्तौ मानान्तरसिद्धत्वं क्वचिद्विद्यमानमप्यप्रयोजक- मेव केवलव्यतिरेकाभावादित्याह-सिद्धत्वमात्रमिति। अन्यमानान्तरसिद्धत्वमस्या लक्षणाया इत्यर्थ: ॥ १५२ ॥ सु० टी०-मानान्तरसिद्धेश्व क्वचिदन्वयमात्रेण न प्रयोजकत्व- मिति दष्ान्तेनाSSह- मानान्तराधिगतता हि न लक्षणायां किंचित्करी भवति पिङ्गलतावदग्ेः। धूमस्य जन्मनि हि पिङ्गलता न हेतु- र्यद्यप्यवस्थितवती हुतभुक्शरीरे॥ १५३ ॥ मानान्तरेति। यथा वह्नेः पैङ्गल्यं क्वचिद्विद्यमानमपि न घूमोत्पत्तिप्रथो- जकमपिङ्गलादृपि तदुत्पत्तेः किं त्वग्नित्वमात्रमेवं मानान्तराधीनत्व-
१ क. मिह लां।
Page 161
१५४ टीकाइयसमेतं-
मपि न लक्षणायामित्यर्थः । 'बीहीनवहन्ति' इत्यादौ वैदेत- रमानानधिगतस्थाप्यपूर्वसाधनत्वस्य लक्षणीयत्वदर्शनाद्यभिचारश्रेति भाव:॥१५३ ॥ अ० टी० -- ननु लोके यत्र लक्षणावृत्तिस्तत्र मानान्तरसिद्धार्थविषयत्वान्वयो दथ्ो व्यतिरेकव्याप्त्यभावेऽप्यन्वयमात्रेणाप्याकाशस्य सर्वमूर्तपदार्थमात्रस्य!वकाशदानत्वेन कारण· वत्प्रयोजकत्वोपपत्तरित्याशङ्कयानङ्गमतोऽन्यदस्या इत्युक्तमर्थमुपपादयति-मानान्तराधि- गतता हीति। किंचित्करी प्रयोजिका न भवतीत्यर्थः। तत्रान्वयमात्रेण प्रयोजकत्वाभावे दृष्टान्तः-पिङ्गलतावद्ग्नेरिति । दृष्टान्तं विवृणोति-धूमस्य जन्मनीति। अग्निमात्रमेव धूमजन्मकारणं तद्गतपैङ्गल्यमवस्थितमपि यतो धूमादग्निमात्रसद्भावोऽवगम्यते न पिङ्गलत्वतार्णत्वाद्यपीति। एवमिह मानान्तरसिद्धत्वं न लक्षणावृ्त्या गम्यते कि तु वस्तुमात्रमिति तस्य तत्र सिद्धत्वमात्रमेव प्रयोजकं नेतरत्। ब्रह्म चास्माकं नित्यसिद्ध- मित्यर्थः । आकाशस्य कारणत्वं व्यतिरेकादर्शनेऽप्युपपद्यते तस्य सर्वमूर्तद्रव्यादिज- न्मन्युपयोगदर्शनान्निरवकाशस्य कार्यस्योत्पत्यसंभवादिति तर्कवशात्तस्य कारणकल्पनेति भाव: ॥। १५३ ॥ सु० टी०-ननु तत्वरंपद्योर्जहल्लक्षणायामनात्मैव वाक्यार्थः स्याद- जहत्यां तु नाखण्डार्थसिद्धिरित्यांशङ्क्य तृतीयां वक्तं लक्षणात्रै- विध्यमाह- शब्दस्य लाक्षणिकवृत्तिरपि त्रिधैषा का चिज्जहाति न जहाति च वाच्यमन्या। भागं जहाति न जहाति च भागमन्या सोऽयं त्रिधा भवति लाक्षणिकप्रकारः ॥ १५४ ॥ शब्दस्येति। त्रिधैषा न परेषामिव विधेत्यर्थः । काचिज्जहांति वाच्य मिति संबन्धः । न जहाति सर्वात्मनेति शेषः। मागलक्षणायामपि मागस्याहानादिति ॥१५४॥ अ० टी०-तस्मात्स्वयंप्रकाशतया स्वतः सिद्धे ब्रह्मण पदानां लक्षणावृत्तिरुपपद्यत इति स्थितं तत्र लक्षणायास्त्रैविध्यदर्शनादिह का लक्षणाऽभिमतेत्यपेक्षायां तां निर्धारयितुं सामान्यतो लक्षणां भिनत्ति-शब्दस्येति । काचिज्जहाति वाच्यमित्यनुषङ्गः । स्ववाच्या- र्थमशेषतः परित्यज्य तत्संबन्धिन्यर्थान्तरे शब्दवृत्तिर्जहल्लक्षणेत्यर्थः । अन्याऽजहल्क्षणा
Page 162
संक्षेपशारीरकम्। १५५
स्ववाच्यार्थमशेषमपरित्यज्यार्थान्तरे वृत्तिरित्येतत्। अन्या तृतीया जहदजहल्लक्षणा सा स्ववा- च्यार्थभागमेकदेशं जहाति न जहाति च भामान्तरमित्येवंविधा स्वार्येकदेशे वृत्तिर्जहदजह- लक्षणेत्यर्थः । एवं त्रिधा भवति लाक्षणिकी प्रवृत्तिः शब्दस्य लोके वेदे चेति शेष: ॥। १५४ ॥ सु० टी०-जहतीमुदाहरति- गङ्गापदं हि निजमर्थमपास्य तीरे यद्वर्तते भवति सा जहती प्रसिद्धा। शोण: स्थितो बहिरितीह तु लक्षणाया- मादाय शोणिमगुणं तुरगे प्रवृत्तिः ।।१५५।। गङ्गेति। निजमर्थ स्वशक्यं प्रवाहमित्यर्थः । अजहतीमाह-शोण इति।
णपदस्य स्वार्थविशेषिततुरङ्गविशेषे प्रवृत्तिरित्यर्थः ।।१५५ ॥ अ० टी०-उक्तविधात्रयस्य क्रमेण लौकिकोदाहरणमाह-गङ्गेति। तदाश्रय- भूते तुरगे स्ववाच्यशोणिमगुणमपरित्यज्य या शब्दप्रवृत्तिर्न साऽजहलक्षणे- त्यर्थ: ॥ १५५ ॥ स० टी०-तृतीयामाह- सोडयं पुमानितिव चस्युभयप्रकारा देशादिभागपरिवर्जनतः प्रसिद्धा। पुंसश्र केवलमुपान्ततया पदाभ्या- मेवं त्रिधा भवति लाक्षणिकी प्रवृत्तिः ॥ १५६ ॥ सोडयमिति। अन्र सोयंपदाभ्यां देशकालादिवैशिष्यमागत्यागाद्विशे- व्यदेवदत्तांशमात्रग्रहादुभयप्रकारा जहद्जहलवक्षणा लोकत एव प्रसि- द्वेत्यर्थ: ॥ १५६ ॥ अ० टी०-तृतीयामुदाहरति-सोडयं पुमानिति। उभयप्रकारा जहदजहतप- कारा। पुंसश्व केवलमिति। केवलं स्वरूपमात्रेणोषात्ततया*॥ १५६ ॥।
- एतच्छ्लोकस्य टीका न पूर्णा।
Page 163
१५६ टीकान्वय समेनं-
सु० टी०-लक्षणात्रयेऽवि वैदिकोदाहरणान्वाह -- वेदेडपि लाक्षणिकवृत्तिरियं त्रिधैषा यज्ञायुधीतिवचने तु जहत्पवृत्तिः। वैश्वानरादिवच नेष्वजहत्पवृत्ति- स्वत्वंगिरोरुभयरूपतया प्रवृत्तिः ।१५७ ।। वेदेडपीति। 'स एष यज्ञायुधी यजमानोऽअ्सा स्वर्ग लोकं याति इति यज्ञायुधविशिष्टदेहस्य स्वगंगमनाभावात्स्वार्थदेहत्यामेन यजमा- नात्मस्वरूपं यज्ञायुधिशब्देन लक्ष्यते । तथा 'वैश्वानरमुपारस्व' इति वैश्वानरशब्दन जठराग्निवाचिना स्वार्थोपहित: परमात्मोपास्यत्वेन लक्ष्यते। मागलक्षणा तु महावाक्यस्थतत्त्वंपद्योरेवेत्याह-तस्रमिति। अत्र हि तत्त्वंपद्योः स्वाथशबलगतपारोक्ष्यसद्वयत्व्रभागद्वयवर्जनेन प्रत्यकत्वा
त्यर्थ:। ननु कर्थं शब्दादृपरोक्षधीरिन्द्रियार्थसंनिकर्षोत्पन्नज्ञानत्वस्यैव तल्वक्षणत्वादिति चेन्नाS्Sत्ममनःसंनिकर्षजत्वेन ज्ञानमात्रेडतिव्यासेः। न
मवात्संनिकर्षाननुगमाज्ज।असत्विन्द्रियजत्वमेवेति चेन्न ज्ञानमात्रस्य मनोजन्यत्वात्। इन्द्रियत्वेन तज्जन्यत्वं विवक्षितमिति चेक्किमिन्द्रि- यत्वं स्मृत्यजनकज्ञानहेतुमन:संयोगाश्रयत्वमिति चन्नासंभवात्। संयोग- स्थान्याव्यवृत्तित्वनियमान्निरवयवेन मनसा चक्षुःश्रोत्रादीनां संयोगा- नुपपत्े: । एतेन संयोगगर्भ सर्वमेव तल्लक्षणं प्रत्युक्तम्। अस्तु विषयत्वेन विषयजन्यत्वं प्रत्यक्षत्वमिति चेन्न ज्ञानकालमात्रववृत्तिविषयत्वस्थ तत्पूर्व- माविजनकतानवच्छेदकत्वात् । ननु कालिकातिप्रसङ्गवारंक पूर्वसत्त्व- मपेक्षितम्। इद तु देशिकातिप्रसङ्गवारक न तद्पेक्षितमिति चेदस्त्वेवं तथाऽपि न विषयत्वं घटादे: प्रत्यक्षजनकतावच्छेदकं संभवति। तथा हि किं ज्ञानमात्रं विषयत्वं वा परोक्षज्ञानम्। आद्यमतिप्रसक्तम्। न हि ज्ञानमान्जावच्छिन्नत्वेनार्थस्य साक्षात्कारजनकत्व व्योमादेरवि तज्जनक- तापनेः । अन्त्ये साक्षात्कारावच्छिन्नत्वेन साक्षात्कारजनकत्वमात्माश्र यग्रस्तम्। यत्तु स्वजनकप्रत्यासत्तिप्रतियोगित्वेन तज्जन्यत्वमिन्द्रियज-
१ क. ग. वृत्ति तस्य ।२ ख. रके पू°।
Page 164
संक्षेपशारीरकम्। १५७ न्यत्वं स्वजनकेन्द्रिय प्रत्यासत्याभ्रयत्वेन तज्जन्वृत्वं च विषयजन्यत्वं निर्वो- षमिति तन्नाSSत्मविशेष्य कमानसप्रत्यक्षे द्वयोरप्यव्याप्ते:। आत्मेन्द्रियसं- योगाभावात्स्वजनकत्वस्य स्वजनकतावच्छेद्कपवेशेनाऽडमाश्रयाज्ञ । ईश्वरप्रत्यक्षासंग्रहश्ष।अस्तु तर्हि ज्ञानाकरणकज्ञानत्वं तदिति चेत्संशयो- त्रपत्यक्षाव्यातेः । तत्रापि विशेषदर्शनस्य परामर्शद्वारा करणत्वात्। न चानु (*मवत्वसाक्षाद्वयाप्यजात्यवच्छेदेन ज्ञानकारणत्वामावस्य विव- क्षितत्वान्नाव्याप्तिरिति वाच्यमनु)मितावतिव्याप्त्यापत्तेः। न ह्यनुमिति- त्वावच्छेदेन व्याप्यज्ञानादिकरणं किं तु प्रत्यक्षादिसाधारणवधारणत्वा- वच्छेदेन। अस्त्वपरोक्षत्वं जातिर्लक्षणं तज्च शाब्दादिवोधे नास्तीति चेन्न शाब्दस्य पारोक्ष्यानियमेन ततस्तद्वयावृत्तेरसिद्धत्वात्। अत एव शाब्दतवेन सांकर्यापत्तेरनियतव्यञ्ञकाभावाच्च न सा जाति:। ज्ञानकर- णकमान्नवृत्ति जातिशून्यत्वं तदिति चेन्न । पष्ठप्रमाणज्ञानेऽतिव्याप्ेः। प्रतिशरीरं ज्ञानवैज्ात्याच्च यस्य ज्ञानकरणकमेव प्रत्यक्ष तत्राव्यातेश्च। संदेहेऽपि तद्वारकविशेषणायोगात् । अपि च वाचस्पतिमतेऽवि किं नाम विषयस्य करणाधीनमपारोक्ष्यं न तावदिन्द्रियजधीविषयत्वं मुक्तात्मन्यभावात्। कदाचित्तद्विषयत्वं चेदनुमीयमानवह्नेरपि तदापत्ति: परोक्षवृत्त्यविषयत्वे सति भासमानत्वं तदिति चेन्न गौरवादनावृतसं- विद्भेद्स्यैव वक्ष्यमाणस्य लघुत्वादिति न प्रमाणयुक्तमपारोक्ष्यं शक्य- निर्वचनमिति। तहिं किंप्रयुक्तमपारोक्ष्यमितिचेत्। प्रमेयप्रयुक्तमेव। ननु कीहशं प्रमेयस्यापारोक्ष्यं यत्प्रयुक्तं ज्ञानस्य तदिति चेदनावृतसं- विद्भेद एव प्रमान्रव्यवधानमिति यावत्। अपरोक्षचिद्ध्यस्तस्य हि जगतस्तद्यवधानकृतं पारोक्ष्यं तव्यवधानं च चित्निष्ाज्ञानरुपवरणप- युक्तम्। तच्चापरोक्षाकारावरणं नान्त:करणवच्छिन्नप्रमातृचैतन्येडस्ति तस्य नित्यमभिव्यक्तांपरोक्षाकारत्वानुमवात् । ततश्र यदि घटाद्यव; च्छिन्न चैतन्यं चक्षुरादिप्रणाड्याऽन्तःकरणवृत्त्यभिव्यातं सत्तत्कृतावर- णभङ्गाज्जीवत्वाविरोधि चैतन्यरूपेणानावृतप्रमातृसंविद्भिन्नं भवति तदा घंटादेर्पारोक्ष्यात्तद्विषयं ज्ञानमपरोक्षमुच्यते तव्दयवहितं तु परोक्ष- मिति । अत एव पर्वतांशेऽनुमितिरप्यपरोक्षेवेतीश्वरत्वस्य परोक्ष- धर्मघटितत्वेन धर्मादेश्वानुद्धूतत्वेनायोग्यत्वान्न संविद्भेद इति नित्य- पारोक्ष्यमेव। नन्वेवमनुमिति रुपव ह्वयाकारान्तःकरणवृत्त्यापि वह्े-
- अयं ग्रन्थः क. ग. पुस्तकयोरनास्ति।
Page 165
१५८ टीकाटय समेतं-
स्वनाभग्रावरणत्वात्। कथं तहिं वह्निमानमनुमारूपवृत्त्या प्रमासुनिष्ठ- वरह्मयज्ञातृत्वलक्षणमौत्य निवर्तनादेव। सैव हि सुपुप्तिव्यावृत्तिरुच्यते तत एव पुंसो वहिव्यवहारः । वहनिविषयाज्ञाननिवृत्तिमात्रं हि तद्देतुर्न तु वहिनिष्ठत त्निवृत्तिगौरवादृत एवातुमेयादेज्ञांनकर्मत्वाभावेऽपि ज्ञानाका- रत्वमेव विषयत्वम्। एतेनापरोक्षवृत्तेरेवाज्ञाननिवर्तकत्वमूं। अनुमाना- दीनां तु व्यवहारमात्रहेतुत्वमित्यपास्तम्। तथात्वे ते षाममानत्वापते र्मानत्वस्यैवाज्ञानविरोधितावच्छेद्कत्वान्नतु तद्विशेषत्वस्य गौरवात् । न ह्यज्ञातत्वानिवृत्तौ ज्ञातृत्वव्यवहारोऽपि घटते। अत एवाज्ञात- बोधकत्वं मानत्वं मानाघातासहिष्णत्वं चाज्ञातत्वमित्याचार्याः। अत एव चेदमंशे संशयाद्यमावादावरणामाव इत्यपास्तम् । पराभिमता. त्मनीव ज्ञानसामान्यसामग्रीनिश्चयत्वेनापि तद्ठुपपत्तेरनावृतस्य प्रमाण- वृत्त्यविषयत्वाच्चेति। कथं पुनर्वह्लयसंबन्धाया वृत्तेस्तदाकारत्वमिति चेत्त-
अर्तीताद्यनुमितावध्ययमेव सूक्ष्मरूपानुमेयस्य वृत्तिसंबन्धः । भ्रमानु० मितौ च न मृषा वह्नेरुत्पत्तिरपरोक्षत्वायैव रजतादौ तद्ङ्गीकारात्। अत• स्तत्संसगमात्रमेवानिर्वचनीयं मातीति केचित। एवमपि वह्नचंशेऽन्यथा. ख्यात्यापत्तेराविद्यको वहिः स्वीकार्य एव। तज्जन्म च दोषसंस्काराभ्यां त्भानं च चिदुपरागमात्रार्थया तदाकाराविद्यावृत्त्यैव तस्य तामस- त्वादिति निगर्वः। केचित्तु प्रमातृप्रमेयचैतन्ययोरपरोक्षाकाराभेदस्य व्यव- धायकं विषयगतावरणमिति चाक्षुषादिवृत्त्या तन्द्ङ्गादपारोक्ष्यं घटादे- श्वित्वाकाराभेदस्य तु व्यवधायकं मौठ्चमेवेत्यनुमित्या तन्नाशे चित्वेन प्रमान्नमेदाद्वह्निर्मया ज्ञात इति मानं परोक्षमित्याहुः। अनुमित्या वह्रया- दावत्यन्ताज्ञानत्वापादिकाSविद्यावस्था निव्तते न त्वपरोक्षत्वापादि- करयेके संशययोग्यतन्निवृत्तिमांत्रं तत्रेत्यन्ये। धीसमुल्लासमात्रमित्य- परे। अन्ये तु नास्ति न मार्तीत्यावरणद्वय तन्राऽडदयं परोक्षवृत्तिना- श्यमन्त्यमपरोक्ष. (* वृत्तिनिरस्यमित्याहुः। तथाऽपि कथं वाक्योत्थवृ- तेरपारोक्ष्यं शाब्दवृत्ते: परोक्षाया: स्वविषयगतावरणनिवर्तकत्वामांवा-
- खपुस्तकस्थोडयं ग्रन्थः ।
१ क, मातता त°।
Page 166
संक्षेपशारीरंकम। १५९
द्वित्ति चेत्सत्वं जडेषु हि परोक्षवृश्या) मौठयनिवर्तनेऽपि विषयस्याSSव-
दकमित्यखण्डाकारशाष्त्रवृत्त्या प्रमातुर्मोढये निवृत्ते तद्द्िन्नजाडयरूप- तद्वृत्तेरपारो- क्ष्यमिति। नन्वेवं ब्रह्मविषयानुमितेरव्यपारोक्ष्ापत्तिर्विषयस्यापारोक्ष्प स्वादिति चेन्नानुमितेरध्यापकतावच्छेद्कप्रकारतानियमेन निर्धर्मकब्रह्म- विषयत्वासंभवात्। शब्दस्य तूक्तलक्षणया यथा लक्ष्पतावच्छेदकप्र- कारकधीहेतुत्वं परिभूय निर्धर्मकाखण्डब्रह्मगोचरत्वं तथोपपाद्यिष्यते। अस्तु वा पदादृपि निर्विकल्पकमित्यादिना परेरपि तत्स्वीकाराच्चेत्य- लमतिप्रपश्चेन ॥१५७ ॥ अ० टी०-अत्र वैदिकमप्युदाहरणं क्रमेणाSSह-वेदेऽपीति।' यज्ञायुधी यजमान: स्वर्ग लोकमेति' इति श्रुतौ यंज्ञायुधैः स्फ्यकपालाग्निहोत्रहवण्यादिभिर्विशिष्टो यजमान: स्वर्ग लोकं मच्छतीति प्रतीयते तदयुक्तं ग्रहीतुं यज्ञपात्राणामिहैव दग्धानां सह- गमनाभावात् । अतस्तत्र यज्ञायुधवैशिष्टयं स्वार्थ परित्यज्य तत्संबन्धिनि यजमानमात्रे लक्षणया बर्तत इत्यर्थः । यज्ञपात्रैः सह दह्यमानदेहत्वाद्यजमानविशेषणताऽस्येति द्रष्टव्यम्। अजहल्लक्षणोदाहरणमाह-वैश्वानरादीति। ' वैश्वानरमुपास्ते' इत्यत्र वैश्वानर शब्दो जाठरविराजोर्वाची संस्तदुपाधिक आत्मनि लक्षणया वर्ततेऽचेतनस्य जाठरादे- रुपास्यत्वायोगात्तदुपहितमीश्वरं स्वार्थापरित्यागलक्षणयेति वैश्वानरशब्द इत्यजहल्लक्षणो- दाहरणताऽस्य युज्यत इत्यर्थः । आदिपदेन मनोमयः प्राणशरीर इत्यादिविग्रहः। जहद- जहलक्षणायास्तु प्रकृतमेव महावाक्यमुदाहरणमित्याह-तत्त्वंगिरोरिति। तत्पदत्वं- पदयोरित्यर्थः ॥ १५७ ॥ सु० टी०-'तत्त्वमसि' [छा० ६।८७] ' अयमात्मा बह्म' [माण्डू० २] इत्यादी जहदजहल्लक्षणेत्युक्तं तत्र तत्त्वंपदयोर्बह्मात्मप- दयोवा किं वाच्यं शंबलं किं वा तन्र हेयं किमुपादेयमिति विवेकं तत्पद्समब्रह्मपद्वाच्यं दर्शयति- ब्रह्माज्ञाने ह्यद्वितीयत्वमेकें ब्रह्मण्यन्यच्चाद्वितीयत्वमस्ति । तत्संपर्कात्तत्र चाद्वैतताऽन्या व्युत्पन्नोऽयं ब्रह्मशब्दस्तु तत्र ॥ १५८ ॥ ब्रह्माज्ञान इति। ब्रह्मणि तादाल्येनाध्यस्तेऽज्ञानेऽस्ति ब्रह्मामेदोऽह्वित
Page 167
१६० हीकाठूयसमेतं-
व जगनुपादानतया जगदमेद इति। तत्रास्ति कल्पितमद्वितीयत्वमेकं यद्पेक्ष्प 'मम योनिर्महद्र्ह्म' [म०गी०१४।३ ] इत्युक्तिः। अस्ति च ब्ह्मण्यन्यद्वास्तवमद्वितीयत्वं जगन्भेदस्य कल्पितत्वेन वस्तुतस्तत्राभावा- प्योश्च बह्माज्ञानयोः संपर्कादन्योन्याध्यासान्निर्वृत्ते शबलेऽन्यदद्वैतत्वं सत्यानृताद्वैतताद्वयशबलं यदस्ति तत्रायं ब्रह्मशब्दो व्युत्पन्न इत्यर्थः । बृह्त्वनिमित्तो हि ब्रह्मशब्दः। बृहत्वं च परिच्छेदशून्यत्वं तञ्चाद्विती- यत्वमिति जगत्कारणगताद्वितीयत्वं बह्मशब्दार्थः । तञ्च शबलात्मक- मिति शबलं ब्ह्मशब्दृवाच्यमिति माव: ॥१५८॥ अ० टी०-यदि तत्त्वंपदयोर्जहदजहल्लक्षणा तर्हि किमत्र हेयोपादेयशबलरूपं वाच्यं सोऽयंपदयोरिवत्यपेक्षायां तत्पदवाच्यं तावदाह-ब्ह्माज्ञाने हीति। ब्रह्मण्यध्यस्तमज्ञानं ब्रह्माज्ञानं तस्मिन्नेकमद्वितीयत्वमवास्तवमस्त्यध्यस्तस्याधिष्ठानाङ्गह्मणः परमार्थतो भेदाभावा- दज्ञानविकारस्य च स्थूलसूक्ष्मप्रपञ्चस्याज्ञानाद्वस्तुतोऽर्थान्तरत्वाभावादद्वैतं ब्रह्मज्ञानम् । ब्रह्मणि वस्तुतोऽज्ञानतत्कार्याणामभावाद्वास्तव मेवाद्वितीयत्वमज्ञानगतादवास्तवाद्द्वितीयत्वाद- न्यदस्ति। तत्संपर्कात्तयोरज्ञानब्रह्मणोः परस्परा्यासरूपाच्छाबल्यात्तत्र शबलस्वरूपे चाद्वैत- ताऽन्या परमार्थापरमार्थविलक्षणा व्यवहारमात्राश्रयोभयसाधारणाSस्ति। तत्र शबलरूपे साधारणेद्वैतेऽयं ब्रह्मशब्दो व्युत्पन्न इति योजना। जगत्कारणसमभिव्याहृते वाक्ये 'यतो वा ' [तैत्ति० ३ । १। १] इत्यादौ ब्रह्मशब्दव्युत्पत्तेर्जगत्कारणस्प केवले ब्रह्मण्यसंभवात्तस्मिन् 'मायां तु प्रकृति विद्यात्' [श्वेता० ४।१० ]' देवा- त्मशक्तिम्[श्रवे० १ । ३ ] इत्यादिव चनैर्मायाशबलसिद्धौ जगत्कारणत्वाक्रान्तं मायाश- बलितं ब्रह्मशब्दवाच्यार्थ इति भावः ॥ ११८ ॥ सु० टी०-तवंपदतुल्यार्थस्याऽऽत्मपदस्य वाच्यमाह- प्रत्यग्भावस्तावदेकोडस्ति बुद्धो प्रत्यग्भावः कश्विदन्यः प्रतीचि। प्रत्यग्भावस्तत्कतस्तत्र चान्यो व्युत्पन्नोऽयं तत्र चाऽडत्मेति शब्दः ॥ १५९ ॥ प्रत्यगिति। प्रत्यग्माव आत्मभावः स तावदेकोऽपारमार्थिको बुद्धा- वस्ति तस्या अपि देहादित आन्तरत्वेन प्रतीपाञ्चनात् । अत एव सुखदुःखाद्याधारे बालानामात्मत्वप्रसिद्धिः । अन्यक्ष प्रत्यग्भावस्ता- त्विक: प्रतीचि सुखादिसाक्षिण्यस्ति बुद्धिप्तीचोरन्योन्याध्यासकृते
Page 168
संक्षेपशारीरकम्। १६१ झबले योऽन्य: सत्यानृतप्रश्यत्तवधषशवलात्मक: मत्यग्भावस्तत्रायमा. राशब्द्रो उयुत्पन्न इत्यर्थः ॥। १५९॥ अ० टी०-तवंशब्दवाच्यमपि तथा व्युत्पादयति-पत्यग्माव इति। प्रत्यग्भान आत्मत्वमहं स्वयमित्यादिव्यचहांरार्ह आकारः स एको बुद्धौ तावदस्ति। स च तन्रापार मार्थ आत्मनि बुद्धे: स्वरूपेणाध्यस्तत्वात्। तस्यां च परागर्थदेहादपेक्षयाSSन्तरत्वादापेक्षिक- प्रत्यक्त्वोपपचेरात्मनो विशेषाभिव्यक्तौ निरपेक्षोपाधितया चाऽत्मसंनिधानादात्मत्वसंभवाच्च बुद्धावस्त्येकं प्रत्यक्त्वमपरमार्थमिति सिद्धम्। तथा प्रत्यक्भावः कश्चिदन्या वास्तवः-प्रतीचि बुद्धेरपि साक्षितया तस्या अप्यान्तरे चिदात्मनीत्यर्थः । तत्र बुद्धयात्मनोः शाबल्ये तत्कृत- स्तयोरन्योन्याध्यासकृतः प्रत्यक्भावोऽन्यो वास्तवाचास्तवसाधारणस्तत्रायमात्मेति शब्दो व्युत्पन्न इति द्वितीयार्धयोजना। आत्मशब्दपर्याया अहमादिशब्दा अपि तत्रैव प्रवर्तन्तेऽहंप्रत्ययसमानार्थत्वादेषां शब्दानामहंप्रत्ययस्य चान्त.करणशबलात्मविषयत्वा- दित्यर्थ: ॥ १५९ ॥ सु० टी०-संप्रति हेयोपादेपांशदयमुखेन वाक्यार्थमाह- तच्छन्दवाच्यगतमदयभागमेकं पत्यक्त्वमात्रमविरोधमपेक्षमाणः । त्वंशब्दवाच्यशबलस्थमुपाददानो वाक्यादखण्डमथ तत्त्वमसीति विद्यात् ॥ १६०॥
पारोक्ष्पे विरु्धे विहायाविरुद्धं तच्छव्दवाच्यस्थमद्वयत्वं स्वंशब्दवा- च्यस्थं व म्रत्यवत्वमात्रमुपादाय प्रत्यगेवाङ्ट्यमिति लक्षयंस्तस्त्रमसि- वाक्याद्खण्डं विद्यादित्यर्थः । बरह्मगताद्वयत्वस्य चिन्मान्रतयाऽपरो- क्षप्रत्यगभेदान्वययोग्यत्वाद्ग्रहणं मोहस्थस्य तु विरुद्धत्वाद्धानमा-
त्वाद्सत्यत्वेनायोग्यत्वमिति ॥१६०।। अ० टी०-एवं तत्त्वंपदयोर्वच्यार्थौं व्युत्पाद्य तयोर्लक्ष्यार्थमुद्ृत्य व्युत्पादयति- तच्छन्द इति। तच्छन्दवाच्यगतमेकं वास्तघमद्वयभागं तत्पदेन लक्षणयोपाददान इति संबन्धः। तथा त्वंशब्दस्थं वास्तवं चिद्रूपं प्रत्यक्त्वमात्रं चोपाददान इति पुनः संबन्धः । किमित्येवं भागलक्षणयाडर्येकदेश उपादीत इति तत्राSडह-अविरोध इति। शबले न्युत्पन्नस्य शब्दस्य तदेकदेशे पर्यवसानं लक्षणादेकदेशश्च परस्पराविरुद्ध एकस्वभावश्वेत्यख- ३१
Page 169
१६२ टीकादपस मेतं
णड़वाक्यार्थत्योग्य इत्येवमविरोधमपेक्षमाणो जिज्ञासुरथैवं पदार्थनिश्वयानन्तरं 'तत्वमसि' [छ०६।८।७ ] इति वाक्यादखण्डवाक्यार्थ विद्यादिति योजना। एतदुक्तं भवति- वाच्यार्थावाच्यार्थयोः प्रत्यग्पराम्भावेनापरोक्षत्वापरोक्षत्वाभ्यां च विरोधात्तयोः संसर्गो वा तादात्म्यं वा न संभवतीति वाक्यार्थाबोधकत्वेन वाक्यस्याप्रामाण्यशङ्का मवेत्। सा मा भूदिति स्वतःप्राप्तप्रामाण्यसंरक्षणाय तत्पदार्थे सविकारमज्ञानांशं विहाय त्वमर्थे सविकारं सुंद्धपंशं परित्यज्य स्वप्रकाशचित्सदानन्दात्मकमुभयत्न गतमखण्डं वाक्यार्थ विद्यात् ॥१६०।
आदेयांशे नाणुमात्रोऽपि भेदो य द्प्येवं भिन्नमादाय शब्दौ। वर्तेते त्वय्यद्वयस्वप्रकाशे बाह्यं हेतुं जामिता नास्ति तस्मात् ॥ १६१ ॥ आादेयेति। यद्यपि प्रतीच एवाद्वयन्वाद्द्वयस्य प्रत्यकत्वादुपादेये लक्ष्या- खण्डांशे लेशतोऽपि न भेदोऽस्त्यद्वितीयत्वेन सजातीय विजातीयकृतस्य नीलोत्पलादिवद्धर्मधर्मित्वकृतस्य वा तस्याभावात्तथाऽपि लक्ष्ये त्वच्प- द्वयस्वप्रकाशचिति तत्वंशब्दी बाह्यं वाक्यार्थाप्रविष्टं हेतुं शबला- त्मकं प्रवृत्तिनिमित्तं भिन्नमादाय यतो वर्तेते अतो न पौनरुकत्यमि- त्यर्थ: ॥१६१ ॥ अ० टी०-ननु लक्ष्यांशयोः केनाप्यंशेन भेदोऽरत्युत नाऽडदे नाखण्डार्थत्वसिद्धि- र्द्वितीये पौनरुक्त्यमित्याशङ्कथाऽह-आदेयांश इति। मिथो व्यावृत्तं हेतुं शब्द प्रवृत्तिनिमित्तकार्यकारणत्वलक्षणमादाय वर्तेते लक्ष्यार्थबहि*भूतं ...... ॥। १६१॥ सु० टी०-नन्वद्वैतत्वं द्वैतराहित्यं प्रत्यकत्वं च पराक्त्वराहित्यं तथोः कंथमभेद: प्रतियोगिभेदेन मेदावश्यकत्वाित्यत आह- अद्वैतऽर्थे प्रत्यगर्थोडस्ति तद्व- त्त्यक्तत्वे चादयस्यापि भावः ।
- नैतचछूशोकस्य पूर्णा टीका।
१ कं. य्यदयालप° । ख. य्यदितीयम° । २ क. त्वद्।
Page 170
संक्षेपशारीरकमू।
यथप्येवं नांतिरेकावकाश: पूर्णे तत्वे तत्त्वमर्थोपपचेः ॥१६२॥ अद्वैत इति। यद्यपि तंयो: प्रतियोगिकृतो भेद: पतिभाति तथाऽवि वस्तुतस्तु न कर्थंचिदृषि मेदगन्धोडस्ति यतोडद्ैते तत्पद्लक्ष्पेडर्ये प्रत्य- गर्थः कात्स्न्येनास्ति प्रत्यक्त्वस्य ततोऽतिरेके तस्थाद्वैतत्वव्याघातात्।तथा व्वंपदलक्ष्येऽपि प्रत्यगर्थेऽद्ूयत्वं कात्स्न्येन वर्ततेऽन्पथा तस्याद्वितापेक्षया परावत्वेन प्रत्यकत्वव्याघातात्तस्मान्न तहू्यं मिन्नं किं तूभयमुमयान्त- र्गतमेवेत्यर्थः। तथाऽप्य द्वयत्व प्रत्यक्त्वधर्मभेदा्र्मिभेद: स्यादित्यत्राSS- ह-यद्यपीति। यद्यपि तयोधमावे तथाऽवि वस्तुतरतदमावान्नातिरेकः पूर्णे तत्त्त्रे लक्ष्य मूनाखण्डे द्वयोरन्योन्यात्मत्वेनैवोपपत्तेरित्यर्थः । एक- स्यैव पराक्त्वपरिच्छेदव्यावर्त्यभेदोपाधिक एव भेदावभासी दण्डस्पेवा- वधिभेद्कृतक्ीर घ्त्वाद्यवमास इत्यर्थः ।।१६२॥ अ० टी०-ननु प्रत्यक्ताद्वयत्वयोस्त्त्वंपदार्थयोरैकरस्यं लक्षणविषयत्वेऽपि नोपपद्ते प्रतियोगिभेदेन मिथो भेदप्रतीतेरन्यथाऽन्यतरर्य वैयर्थ्यादत ईषदपि भेद: पृं(प्र)ष्टव्य इति चननेत्याह-अद्वैतेऽर्थ इति। अद्वैते तत्पदार्थें प्रत्यगर्थस्वंपदार्थोडप्यस्ति न ततोऽत्यन्तमीष्द्वा व्यावृत्तः प्रत्यगर्थः । तथा सत्यद्वतस्यासंपूर्णतापत्तेः । तद्वदेव प्रत्य- क्त्वे चाद्वयस्य भावोडभेदेनावस्थानमन्यथा द्वितीयस्वरूपापेक्षया प्रत्यक्त्वप्रसङ्गात्। तस्मादद्वितीयरूपान्न प्रत्यक्तवं बहिर्भूतेनापि प्रत्यक्त्वादद्वैतमिति युक्तमित्यर्थः । यद्वा ननु यद्यप्येवमादेयांशभेदाभावेपि प्रवृत्तिनिमित्तमेदात्पदभेद उक्तस्तथाडपि पदभेदान्यथानुपपत्या पदार्थभेद: कथमप्यङ्गीकर्तव्योऽन्यथाऽन्यतरस्य वैयर्थ्यादिति चेसत्यं न पदवृत्तिनिमित्त· भेदोपरकं पदार्थभेदं वयं निराकुर्महे किं तु पदार्थस्व रूपभेदमित्यभेप्रेत्याSह- अद्वैतेऽर्थ्र इति । अयमर्थ :- तत्पदार्थों ह्यद्वैतमिति प्रसिद्धं तस्मिन् 'एकमेवाद्वि- तीयम् ' [छा० ६। २। १ ] इति श्रुतेः । त्वंपदर्थश्च प्रत्यगर्थः प्रसिद्धः ।'स त आत्मा सर्वान्तरः'[बृ० ३ । ४ । १] इति श्रवणात्। तथा चाद्वतेडर्ये तत्पद- वाच्ये प्रत्यगर्थोऽपि स्वरूपेण विद्यतेऽन्यथा 'एकमेवाद्वितीयमू' [छा०६।२।१] इति' अद्वैतत्वावधारणायोगात्। यथाऽद्वैतेऽर्ये प्रत्यगर्थो विद्यते तद्वत्प्रत्यक्तत्वरे चाद्वयस्यापि भाव: स्वरूपेणावस्थानमरत्यन्यथा तस्य सर्वान्तरत्वश्रतावकस्मादेव सर्वशब्दसंकोचापतेः । अंत श्रुतेः प्रामाण्यान्नानथोः रतम्भकुम्भयोशि स्वभावत एव भेदः कि तु पदवृत्तिनिम- चभेदादेव भेद इत्यर्थः । तर्हि प्रवृत्तिनिमित्तयोर्धर्मयेरद्वितीयत्वप्रत्यकत्वयोः परसपरमसंकी-
१ क, 'त्वे तथा त°
Page 171
१६४
नलाय भिन्नाधिकरणत्वमेष्टव्यमिति पुनः प्राप्तस्तयो: स्वरूपभेद इति चेत्तत्राऽडह-
र्थयोः स्वरूपतो न भेदावकाश इत्यर्थः । कुत इत्याह-पूर्ण इति। अपरिच्छिने सर्वविकारास्पदतया सर्वाधीने स्वयंद्रकाशतया सतःसकुरत्यात्मतत्व इन्यर्थ: ॥ १६२॥ सु० टी०-ननु तत्त्वयोर्विरुद्दार्थयोरेकपद्लक्षणयैव पदान्तरान्वयो- पपचेरस्तु संसर्ग एव वाक्यार्थ इत्याशङ्क्पाSह- न च विनिगमनायां कारणं किंचिदस्ति स्फुट मुभयपदस्था लक्षणा शस्यतेऽतः । न हि विनिगमनायां हेत्वभावे कदाचि- त्कचिदियमुपलब्धा सोऽयमित्यादिवाक्ये॥ १६३॥ न चैति। सत्यमेवमप्येकत्र विनिममकहेत्वमावादुमयपद्लक्षणाश्रयण- मेव युक्तमिच्छाया अव्यवस्थितत्वाद्विनिगमकान्तराभावाच्च सो्यमि- त्यादौ तथा दर्शनादित्यर्थ: । १६३ । अ० टी०-ननु यद्येवमेकदेशलक्षणायामङ्गीकृतारयां विरोधपरिह रादभीष्टवाक्यार्थसि- दविस्तर्दोकपदे लक्षणाश्रयणेऽपि तत्सिद्धेः पदद्वयेऽषि तदाश्रयण्मनर्थकमिति चेनेव्याह- न च विमिनमनायामिति। एकस्मिनेव पदे लक्षणा भवति सर्वत्र न पदान्तरेऽपीति विनिममनायां नियमाभ्युपगमे न च स्फुटं कारणं किमप्यस्ति यद्पि कचिदेकपदलक्षण- याऽपि विरोधपरिहारसंमव इति योजना। नियमाभावे फलितमाह-उमयपदस्थेति। बतो नियमाभावोऽत उभयपदस्था लक्षणा शस्यते प्रकृत इति शेषः । नन्विच्छैव विनि- गमनाहे तुरित्याशड्क्येच्छाया निरङ्कशत्वान व्यवस्थासिद्धिरित्यभिप्रेत्य प्रकृतवाक्यानुरूपो- दा हस्मेनोभयपद्लक्षणा (णां) प्रतिपादयति -- न हीति। रोके पददये लक्षणा क द्षेत सदाह-इयमिति ॥१६३।। सु० टी०-नन्वत्न तत्पदमेव 'यो होता सोऽध्वर्युः' इत्यत्र होतृपद- वत्पू्वं चोदित त्वेनासंजातविरोधित्वादृस्तु मुख्यार्थ त्वंपदं च लाक्षणि- कमिति शङ्कते- प्रथमचरमभावो निणंये कारणं चे- दयमपि नियमो न हान्यथाऽप्यस्य दट्ोः।
Page 172
संक्षेपशारीरक्। १६५१
प्रथम पठितमासी नत्पदं सामवेदे चरमपठितमेतद्दष्टमध्वर्युवेदे॥ १६४॥ प्रथमति। प्राथम्यादेरवि वेदमेदेनाव्यवस्थितत्वान्न विनिगमकत्व मित्याह-अयमपीति। छान्दोग्ये 'तत्वमसि' [६।८७]इति तत्पवृस्य प्राथम्यं यजुर्वेदे तु 'अहं ब्रह्मास्मि' [बृ० १। ४।१०] इत्यहंपद्स्पेति न व्यवस्थितो वाक्यार्थः स्यादित्यर्थः । किंच सर्ववे- दान्तप्रत्ययत्वाङ्गह्मणो वेदभेदेन च पदद्वयस्यापि चरमत्वाल्लक्षणा दुर्वारा। आर्थिकपौवापयादरे तु त्वंपदस्योद्देश्यार्थत्वेन प्राथम्यान्मुख्यार्थत्वे तद्विरोधेन तत्पदार्थगताद्वैतत्वादि हेयमिति विपरीतापत्तिः ॥१६४ ॥ अ० टी०-उक्तमर्थ स्थिरीकर्तुं प्रकारान्तरेणैकपदलक्षणाद्वारमाशड्क्य परिहरति- प्रथमेति। एकपदलक्षणनिर्णये कारणमिति चेत्* ॥। १६४ ।। सु०टी०-ननु सोऽयमित्यत्र प्रयोगाधीनपीर्वापर्यनियमादरत्वेक- पद्लक्षणेत्यन्यत्रापि तथेति चेन्नेत्याह- सोडयं पुमानयमसाविति पौरुषेये वाक्ये तथा व्यतिहतेऽत्र विशेषहेतुः । पूर्वापरत्वमिति शक्यमिदं न वक्तुं मुख्यत्वलाक्षणिकते प्रतिशब्दवृत्त्योः ॥१६५॥ सोऽयमिति। व्यतिहृ ते व्यत्यस्ते अत्राप्ययं स इति व्यत्यासेनापि प्रयो- गान्ने तत्कृताऽपि विनिगमनेति तत्पदद्वयलक्षणैवेत्यर्थः ॥१६५ ॥ अ० टी०-अत्रैव लौकिकमप्युदाहरणमाह-सोऽयमिति। अत्रापि वाक्यमयो- कृणामुच्चारणे पूर्वापरनियमादर्शनादित्यर्थ: ॥ १६५ ॥ सु० टी०-नन्वस्तु त्वंपदे लक्षणा तदर्थस्योद्देश्यत्वेनाविवक्षितवि- शेषणत्वान्न तत्पदे तस्य विपरीतत्वादिति चेन्नैवमपि विरोधापरिहारा- दित्याह- न च भवति विरोधस्योत्थितस्यापनीतिः पद्युगलनिविष्टां लक्षणामन्तरेण।
- नास्य टीका पूर्णा।
१ ख. तिकृते° ।२ क. नकृते।
Page 173
टीकाइपसमेस-
न हि भवति कदाचित्सद्वयस्याद्वयत्वं न च भवति परोक्षः प्रत्यगर्थोऽपि तद्वत ॥१६६॥ न चेति। मुख्यार्थयोरुत्थितस्य हि विरोक्स्य नैकपदलक्षणायामप. नयः । कुत इत्याह-न हीति। त्वंपद्मात्रस्य लाक्षणिकत्वे तल्लक्ष्यपत्प- गर्थस्य न परोक्षेण तत्पदार्थेनाभेद: संभवतीति पदान्तरस्थविरुद्धांशं- त्यागार्थमुमयलक्षणेत्यर्थः । न च मुख्यपदार्थपारोक्ष्यविरोधेन त्वंपदा- र्थंस्यापारोक्ष्पं त्याज्यं सस्य पारोक्ष्य उद्देश्यत्वस्याप्यसंभवादिति भाव:।
शक्त्यैव तत्त्वमोरखण्डार्थत्त्रमिति चेन्न बुद्धिस्थत्वं हिन सर्वनाम्नां प्रधृ- त्तिनिमित्तं तत्प्रकारेण ततोऽनुपस्थितेः। तं पश्पेत्युक्ते बुद्धिस्थं पश्येत्यप्रतीतेः सर्वसर्वनाम्नां पर्यायतापत्तेश्र। किंतूपलक्षणं तेन तदुपलक्षितेषु चैत्रमैत्रा दिपु शक्तिग्रह: स च न प्रत्येकमानन्त्यादिति । बुद्धिस्थप्रकारावच्छि न्नमेव तेषां वाच्यं तत्रापर्यायत्वार्थ प्रश्नोपक्रमबुद्धिविषयप्रकारे कि पदस्य प्रत्यक्ष- बुद्धिविषयप्रकारे इदमेतदोर्व्यवहितबुद्धिविषयप्रकारेऽदस्तदोः संबोध्यता वच्छेदकबुद्धिविषयप्रकारवच्छिन्ने त्वंपदस्योच्चारयितृत्वावच्छेदकधीवि- षयप्रकारावच्छ्िन्नेऽहंपदस्य शक्तिग्रह इत्येवं नियमेन सपकारकबुद्धि- हेतुत्वान्न सर्वनाम्नामखण्डे शक्तिः । तथाऽपि यथा तार्किकाणामनित्या गौरित्यत्र गोपदाज्जातिव्यक्तितत्संबन्धोपस्थितावपि योग्यत्वाद्यक्तेरनि त्यत्वान्वयो न जातेस्तथेह तत्त्वंपदाभ्यां शबलोपस्थितावि योग्यत्वा- चिदंश योरमेदान्वयोऽस्तु किं लक्षणयेति चेन्न पदार्थः पदार्थेनान्वेतीति पदार्थेक देशव्य क्ते: स्वतन्त्रोपस्थितये तैरपि तत्र लक्षणाया अवश्यवाच्य- व्वात्। ननु तेषां परविशेषणत्वेनोपस्थिते लक्षणा यथा गौनित्येत्यत्र
लक्षणयेति मतं तव तत्त्वमोरवि तुल्यमिति। किं च त्वन्मते तत्त्वंपदार्थ-
स्ति यन्निरासाय लक्षणेति मैवं शक्त्युपस्थापितपदार्थान्वये हिद्दश्या गौरितिव दन्वयित्वेन द्रव्यं गौरितिवदन्वय प्रतियोगिव्यावर्तकत्वेन वाडव.
वान्वयो न शुद्धव्यक्तौ। अत्र तु तत्पदार्थे त्वमर्थत्ववैशिषट्यमेकच्र ह्यमिति धीर्न संभवति 'विरोधादिति शुद्धव्यक्त्यन्वयार्थमावश्यकी १ क, कगर। २ क. ग- त्यन्न गोतं।
Page 174
संक्षेपशारीरकम्।
लक्षणा। यञ्च किंचेत्यादि तदप्यसत। अज्ञस्य हि शक्तिग्रहस्तदात्वेंऽ शाषेव न विविक्तौ क तयोमिथ््यात्वनिश्चयः। विवेके तु सति विरो- धान्मिथ्यात्वक्लाप्तिर्लक्षणा साधिकैवेति दिकू ॥१५६ ॥। अ० टी०-अथोद्देश्यत्वात्वंपदार्थस्य तद्रतविशेषणस्य ग्रहगतैकत्ववदविवक्षितत्वात्त- स्पदार्थस्य विधेयत्वात्तद्वतविशेषणस्य पश्वेकत्वादिवद्विवक्षित:वात्वंपदे लक्षणा तत्फ्दे च मुख्यवृत्तितेति नियम उच्येत तथाऽपि तत्पदार्थे पारोक्ष्यविद्यमानत्वात्तस्यापरोक्षचमर्यै- क्यवाक्यार्थानुपपत्तिलक्षणो दोषो न परिहतः स्यादित्यभिप्रेत्याSSह-न च भवतीति। पूर्वार्ध स्पष्टम्। विरोधापनयनाभावं समर्थयते-नहि मवतीति। न हि भवति यथेत्य ध्याहार. सद्वयस्य त्वमर्थस्याद्वयत्वं तदर्थैक्यं संभवतीति चेत्त्वंपदे लक्षणया स्वरूपमात्रमु- पादीयते तर्हि तद्वदेव परोक्षस्यापरोक्षप्रत्यगर्थत्वमपि न संभवतीति दोषसाम्यात्तत्रापि लक्ष- णया स्वरूपोपादानमावश्यकमेवेत्युभयपदलक्षणाSत्र संमतेत्यर्थः । अत्र त्वमर्थगतसद्वितीय- त्वांशपरित्यागवदपरोक्षस्यापि परित्यागे विरोधस्य परिहारादुद्देश्यविशेषणतवेन तस्यापि परि त्याज्यत्वादिति न शङ्कास्पदं प्रत्यङ्मात्रस्यापरोक्षस्वभाववत्स्वभावत्यागे च भावत्यागापत्ते:। न हि ग्रहगतमेकत्वमविवक्षितमिति ग्रहत्वमप्युद्देश्यविशेषणत्वादविवक्षितं भवति तत्स्वभाव- त्वात्। न च स्वयं चाऽऽत्मा परोक्षश्रेति कस्यचिदनुभतः संभाव्यते। तस्मात्पारोक्ष्यसद्व- यविरोधपरिहारायोभयपदलक्षणाSवश्यं ग्राह्येति भाव: ॥ १६६ ॥ सु०टी०-ननु किं लक्षणया विशिष्टयोरभेददर्शनात्तत्वमर्थयोरपि शबलयोरस्त्वमेद एव संसर्गो वाक्पार्थ इति चेन्न विशिष्टाभ्यां केवलः स्थान्यत्वन लक्षणां विना पदाभ्यामुपस्थित्यसंभवादेवेत्याह- अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोईयोः । घटते न यदैकता तदा नितरां तद्विपरीतरूपयोः ॥१६७॥ अविरुद्धेति 1 भवति ह्ययमधुना दण्डी नेति दण्डिनश्रैत्रात्केवले भेद- प्रतीतिः। नचेयं दण्डाभावविषया। तथा सति घटः पटो नेत्यवि धी: पट- त्वामावविषयेति भेदविलयः । दण्डयेवायमिति प्रत्यभिज्ञा तु स्व्ररूपवि- पया तत्श्रैकत्राविरुद्धदण्डकुण्डलद्वयप्रयुक्तयोरपि विशिष्टयोरभेदासं- मवश्रेद्विरुद्धविशेषणविशिष्टयोस्तत्त्व्रमर्थयोरेकता स्थादिति का प्रत्याशे त्यर्थ:। १६७ ।। अ० टी०-ननु यदि विरुद्धानेकविशेषणयोगिनोरपि तत्त्तम्थयोः स्वरूपेणैकत्वं तर्हि तद्विशिष्टयोरेवैकत्वमस्तु सर्वथैकस्यैव विरुद्धानेकविशेषणयोगस्याभ्युपेयत्वादित्याशङ्कय संभवतीति कैमुत्यन्यायेन परिहरति-अविरुद्धविशेषणेति। यथैकस्मिन्पुरुपे
Page 175
१६८ टीकाइबसमेस-
दण्डः कुण्डलमिति चाविरुद्धविशेषणे तयोरेकत्रान्वये विरोधाभावात्तथा चेत्थमवि- रुद्धविशेषणद्यप्रभवत्वेऽपि द्वयोर्विशिष्ठयोरेकपुरुषगतदाण्डिकुण्डालत्वयोयदकता न घटते विशिष्टयोरेकविशेषणयोरपि तत्प्रसङ्गात् । यदैवं तदा तद्विपरीतरूपयोर्विरुद्धयोर्विशिष्ठयोरैक्यं न घटते नितरां किमु वक्तव्यमित्यर्थः । विरुद्धयोरपि विशेषणयोरेकत्रापि संबन्धमात्रं काला- दिभेदापेक्षया Sवच्छेदकस्वभावभेदापेक्षया वा न विरुध्यत इति भावः ॥ १६७ ॥ सु० टी०-ननु तहिं विशिष्टयोरमिन्नविशेष्यकत्वविशिष्टत्वादिना योडभेद: स एवास्तु वाक्यार्थ इति नेत्याह- अथ केनचिदात्मनैकता वचनेन प्रतिपायते तयोः। तदसुन्दरमस्तमेति हि स्फुटमेवं त्रिविधाऽपि लक्षणा ॥ १६८॥ अथेति। यदि हि तत्वंपदार्थयोर्यथासंमवममेदमादाय सामानाधि- करण्यमुपपादनीयं तदा गङ्गायां घोष इत्यत्रापि समीपसत्म्याद्याश्रय- णेन यथासंभवं मुख्यार्थस्यैव परिग्रहे लक्षणामात्रमुच्छिद्येतेत्युपसर्जनी- भूतानुवाद्यपदार्थानुरोधेन प्रधानभूतविवक्षितवाक्यार्थत्यागोडयुक्त आप- देतेति माव: ॥१६८॥ अ० टी०-ननु विशेषणयोर्भेदात्तद्विशिष्टयोर्भेदेऽपि विशेष्याभेदादमेदोऽपि तयोः स्यादित्येवंविधो विशिष्टाभेदो वाक्येन प्रतिपाद्यतामित्याह-अथ केनचिदात्मनेति। एवं केनाप्यंशेन यथाकर्थंचिदभेदमादाय पदयोः सामानाधिकरण्यं चेन्निर्वक्ष्यति तदा त्रिविधाऽपि लक्षणा स्कुटमेवास्तमेति लक्षणोच्छेदप्रसङ्ग इत्यर्थः ॥ १६८॥ सु० टी०-अथ जहल्क्षणयाऽपि वाक्यार्थः संभवतीति प्रौढिमव: लम्बते- साभासाज्ञानवाची यदि भवति पुनर्बहशब्दस्तथाऽहं- शब्दोऽहंकारवाची भवति तु जहती लक्षणा तत्र पक्षे। नौरेषा रौति लोहं दहति विषधरो रज्जुरग्रे तवासा- वित्यत्रेवाऽडत्मवस्तुन्यपि भवतु जहल्वक्षगा को विरोधः ।१६९। साभासेति। व्यवहारातीते बह्मणि व्युत्पत्यसंमवान्न शबलं ब्रह्माहंप- दयो: शक्यं किं तु सामपाज्ञानं सामासाहंकारश्रेति पक्षे रीति नौरयो
१ क ग. ·दमनुमा
Page 176
संक्षेपशारीरकम्।
वहति सर्पो रज्जुरित्यत्र कृत्सस्वार्थपरित्यागेन तत्संबन्धिजनसमूहपह्विस- रपाषिष्ठानलक्षणावदिहापि तदधिष्ठानबह्मलक्षणा स्वादित्यविरोध इत्पर्थः। वस्तुतस्तु निर्विशेषस्यैव व्यवहारातीतत्वाच्छवलवाचित्वमेव युक्तमनें- कार्थत्वस्यान्याय्यत्वाद्वक्ष्पति हि सकलवाङ्मनसातिगता चितिरित्यादि। एवमहंपदस्यापि प्रत्यगर्थस्य परागहंकारमात्रवाचित्वमयुक्तमिति सक- लमुख्यार्थत्यागिजहल्लक्षणातो मुख्यांशस्पर्शिनी मागलक्षणैव ज्याय- सीति ॥ १६९ ॥। अ० टी०-ननु जहदजहल्क्षणयोभयपदनिष्ठया तत्त्वमस्यादिवाक्यस्य विवक्षिताख- ण्डार्थपर्यवसायित्वमुपपादितमिदानीं तदेव वाक्यं जहलक्षणयाऽपि यथोक्ताखण्डार्थनिष्ठ- मित्युपपादयितुं शक्यत इति प्रौढमालम्बनमाह-सामासेति। 'अहं ब्रह्म '[ बृ० १।४।१० ] इतिवाक्ये ब्रह्मशब्दो यदि साभासाज्ञानवाची भवति पुनःशब्दो वाक्यालंकारार्थः । तत्र पक्षे तु जहलक्षणा भवतीति संबन्धः । तथाऽहंशब्दोऽपि यद्यहंकारवाची भवतीति संबन्धः । अस्मिन्नपि पक्षेऽहंशन्देऽपि जहलक्षणेत्यर्थः । एतदुकं भवति वस्तुतत्त्वस्य ब्रह्मात्मस्वरूपस्य वाच्यवाचकसत्रेव्यव हारातीतत्वात्साभासाज्ञानादेश व्यवहार्यत्वात्तत्रैव शब्दप्रयोगोपपत्तेः साभासाज्ञानाहंकारयोः शब्दवाच्यत्वं तदधिष्ठानतवेन चानुगततया तत्संबन्धिनि चिदात्मनि ब्रह्मात्मपदे जहल्लक्षणया वर्तेते इति। अत्र यदि- शब्दप्रयोगादभ्युपगमवादताऽस्य पक्षस्य द्योतिता वस्तुतस्तु वेदान्तेषु ब्रह्मादिशब्दानां प्रत्यग्बह्मण्येत प्रयोगदर्शनात्तस्य तदवाचकत्वेना्मिन्नौपनिषदश्रवणस्य मुख्यत्वय्यागा- पत्तेस्तस्याव्यवहार्यत्वेऽपि स्वरूपतोऽज्ञानाहंकारादिद्वारा व्यवहार्यत्वात्पदव्युत्पत्तिगोचरत्वो- पपत्तेश्च तत्र विशिष्टे व्युत्पन्नस्य पदस्य लक्षणस्वरूपपर्यवसायित्वोपपत्तेश् पूर्वोक्त एव युक्ततर इति भावः । वक्ष्यति च 'सकलवाङ्मनसातिगता चितिः सकलवाङ्मनसव्यव- हारभाक्' इति। अन्यवाचकस्यान्यलक्षकत्वेनार्थपरत्वे दृष्टान्तमाह-नौरेषेति। नौपदेन तत्स्थाः प्राणिनो लक्ष्यन्ते । लोहपदेन तल्लग्नोऽग्निः। तवाग्रेऽसौ विषधरः सर्पो रज्जुरिति योजना। अत्र विषधरपदेन रज्जुर्लक्ष्येति को विरोध इति ब्रह्मणि वाक्यप्रामाण्य एवमपि को विरोध: ॥ १६९ ॥ सु.० टी०-गौणीमपि स्वी करोति- प्रत्यक्त्वादिगुणान्वयेन यदि वा गौण्यस्तु वृत्तिस्तयो- र्ज्रह्लाहंपदयोः परेतरदृशोर्मुख्ये विरोधो यतः। मुख्यार्थानुपपत्तिहेतुकतया गौण्यस्ति वृत्तिर्यतो लोके माणवको विभावसुरसौ सिंहः पुमानित्यपि॥१७०॥ ११
Page 177
टीकानुपसमेतं-
मवतु कथमिति चेदेवं प्रत्यक्त्वसूक्ष्मत्वादि हि स्वरूपमपि गुणत्वेनो- पचर्य तद्योगेनाहंशब्द: परहशि वर्तते। अगनिशब्द इव पेङ्गल्पयोग. न्माणवके ब्ह्मशब्द्ोऽप्यात्मत्वचिस्वा दिसा दृश्यीत्सुखादिसाक्षिणीतीय- मवि भरौढिरगौण्या वृत्तेरुपमारूपत्वादहमिव ब्रह्म ब्ह्मेवाहमित्यमिन्ने मेदृगरभोषमाविरोधादिति ध्येयम्॥१७० ॥ अ० टी०-तथा गुणवृत्त्याश्रयणेऽप्यविरोधमाह-प्रत्यक्त्वादीति। आदिपदा- तसृक्ष्मस्वच्छवे गृह्येते। बुद्धिप्रत्यगात्मनोः प्रत्यक्त्वादिर्गुणस्तत्राSडत्मनः स्वाभाविको बुद्धेस्तु तत्संबन्धादुपचारित इति द्रष्टव्यम्। उक्तं च- 'प्रत्यक्वादतिसृक्ष्मत्वादात्मदृष्ट्रयनुशीलनात्। अतो वृत्तीर्विहायान्या अहंवृत्त्यैव लक्ष्यते' इति ॥ उपलक्षणमेतद्वह्मण्यज्ञाने च कारणत्वाद्वितीयत्वगुणयोः । यद्वाSडदिपदेनाज्ञानब्रह्मगत- कारणत्वादि गृह्यते। अत्रापि ब्रह्मणः सर्वाधिष्ठानतया सर्वसत्तास्फूर्तिप्रदतया च तस्मिन्कारणत्वादिर्मुख्य इतरत्र तत्संपर्काद्रौण इति द्रष्टव्यम्। अथैषाऽक्षरयोजना यदि वा तयोः प्रकृतयोर्ब्रह्माहंपदयोः किलक्षणयोः परेतरदृशोः परापरयोर्ब्रह्मप्रत्यगात्मनो- ईग्जञानं याम्यां ते तथा तयोरिति विग्रहः। प्रत्यक्त्वादिगुणान्वयेन गौणी वृत्तिरस्तु। अहं- पदस्याहंकारे मुख्यस्याSSतमन्युपचार दृत्तिर्ब्रह्मपदस्य साभासाज्ञाने मुख्यस्य परब्रह्मण्युपचारा- दृत्तिश्चास्तु को विरोध इति मुख्ये संभवति किमित्युपचारोऽड्गी क्रियत इति तत्राSSह -- मुख्येति। परोक्षापरोक्षार्थत्वेन तदेकत्वे वाक्यार्थपरत्वविरोध इत्यर्थः। ननु मुख्यार्थासं- भवे वृत्त्यन्तरमपि माऽस्त्विति चेन्नेत्याह-मुख्यार्थेति। स्पष्टार्थम्। यथा प्रत्यक्त्वाद्यात्मन्येव मुख्यमपि बुद्धावुपचार्यते तथाऽहमादिपदस्याहंकारादौ मुख्यस्याSSतमादावुपचारो यथा वा सिंहागनिपदयोः साक्षात्सिंहान च मुख्ययोः पुंसोरुपचारस्तद्वदिति तात्पर्यार्थः॥१७० ॥ सु० टी-ननु किं लक्षणागोण्योर्भेदे मानं परत्र परशब्यवृत्तेरवि- शेषादित्याशङ्रक्य तदभेद्प्यवान्तरलक्षणमेदादस्ति भेद इत्याह- परशब्दवृत्तिरपरत्र भवेदिति यय्यपीदमुभयोः सदशम्। अनयोस्तथाऽपि तु विभागकरं स्फुटमस्ति लक्षणमवान्तरकम्॥ परशब्देति ॥ १७१॥
१ क. °योमुख्यार्थि°।
Page 178
संक्षेपशारीरकम्।
अ०टी० -- ननु लक्षणागुणवृत्योः को भेदः स्वार्थादन्यत्र वृत्तेरुभयोरविशेषादित्या शङ्कय परिहरति-परशव्दवृत्तिरिति। यद्यपि परवाचकशब्दस्य वृत्तिरपरत्रार्थान्तरे भवेदितीदमुभयोर्लक्षणागुणवृत्त्योः सदृदशं समभेवोपचारवृत्तिरित्येकेन पदेनोभयोरप्युच्यमानं तथाऽपि त्वनयोर्वृत्योर्विभागकरंमवान्तरकं लक्षणं स्फुटमसंकीर्णमस्ति लक्षणभेदादनयोरभे- दोऽस्तीत्याह ।। १७१॥ सु० टी०-को लक्षणभेद इति चेत्तत्ाSSह- गुणतो गुणवृत्तिरिष्यते ह्यपरा लाक्षणिकी तु संगतेः। इति भेदकमस्ति लक्षणागुणवृत्त्योरिति वेदवादिनः ॥ १७२॥। गुणत इति। सिंहादिपदस्य स्वशक्यसंबन्धानपेक्षतल्लक्षितगुणयोगनि- मित्ता तत्सदशे वृत्तिर्गौणी तेन सिंहव्यक्ती सिंहनाम्नि पुरुषे च नाति- व्याप्तिगौण्या वृत्तेरसंबन्धिन्यपि सदृश एव च दर्शनात् । न च साहृश्यमेव संबन्धस्तस्य विशिष्टबुद्धयहेतुत्वात्। नचेयं लक्षितलक्षण- पैव गतार्थेति वाच्यं द्विरेफपद्स्येव स्वलक्ष्यभ्रमरपद्संबन्धेन भृङ्ग सिंह- पद्स्य तत्संबन्धपुरस्कारेण पुंस्यप्रवृत्तेः किं तु स्वलक्ष्यगतगुणपुरस्कारे- गैवेति भेदात्। अपरेति। गङ्गापद्स्याशक्यासदशान्वयप्रतियोग्युप- स्थापकस्वशक्यसंबन्धरूपा वृत्तिर्लक्षणेत्यर्थः ॥ १७२॥ अ० टी०-स्फुटं लक्षणभेदभेव दर्शयति-गुणत इति। मुख्यार्थगतसदृशगुणतो योगात्परवाचकस्य शब्दस्य परत्र वृत्तिर्गुणवृत्तिरिष्यते। लाक्षणणिकी वृत्तिस्तथा पराऽन्या सा संगतेर्मुख्यार्थसंबन्धमात्रान्न तद्गुणयोगादित्यर्थः•। शब्दस्य मुख्यार्थगुणयोगादन्यत्र वृत्तिर्गुणवृत्तिर्मुर्ख्यार्थसंबन्धादन्यत्र वृत्तिर्लक्षणावृत्तिरित्यनयोरवान्तरभेद उक्तो भवति । नायं विभागो मयैवोत्प्रेक्षितः कि तु प्राचीनैरेवाSSचार्यनिर्णात इतभिपेत्याSऽह-इति भेदूकमिति। तदुक्तम्- 'अभिधेयाविनाभूते प्रतीतेर्लक्षणेष्यते। लक्ष्यमाणगुणैर्योगाद्ृत्तेरिष्ठा तु गौणता ॥ १७२ ॥ सु० टी०-तत्त्वमसि सत्यं ज्ञानमित्यादेरखण्डान्वयवर्णनफलीभूतं वाक्यार्थानुमवममिनयति- नित्यः शुद्धो बुद्धमुक्तंस्वभाव: सत्यः सूक्ष्म: सन्विभुश्र्ाद्वितीयः ।
Page 179
१७२ टीकाट्ट्यसमेत-
आनन्दाब्धिर्यः परः सोऽहमस्मि प्रत्यग्धातुनान्र संशीतिरस्ति ॥ १७३॥ नित्य इति। योऽयमहमित्यत्रानिद्मंशः स प्रत्यग्धातुः प्रत्यगेकरस- रत्वंपद्लक्ष्यः । पर इति तु तत्पद्लक्ष्यमद्वितीयमुच्यते । अस्मीत्वुम- योरभेद:। नित्य इत्यादीनि परविशेषणानि। तत्र नित्योऽविनाशी, शुद्धो निर्मलो, वुद्धो नित्यप्रकाश:, मुक्तोऽसंसारिस्वभावः, सत्य: पार- मार्थिक:, सूक्ष्मो दुर्दशः, सन्नस्तितामात्रस्वरूप:, विसुर्व्यापकोऽ- द्वितीय: परिच्छेदशून्यः, आनन्दाब्धिरपरिमितानन्दः। एषाम- खण्डार्थत्वं तत्त्वमादिवदिति वक्ष्पति। असंभावनां वारयति- नात्रेसि ॥ १७३ ॥ अ० टी० -- एवं तावत्प्रत्यग््रह्मणोरेकत्वलक्षणोSखण्डै करसात्मको वाक्यार्थो भागलक्षण: समर्थनेनोपपादितो जहलक्षणागुणवृत्तिभ्यां च प्रद्येदानी तादृग्वाक्यार्थज्ञानफलमनुभवं दर्शयन्किमात्मकं पुनस्तदखण्डाद्दयं वर्त्वित्यपेक्षायामवान्तरवाक्य गतिमनुसत्यानुभवममि- वयति-नित्यः शुद्ध इति। रक्ष्यस्य तदर्थस्य ब्रह्मणः प्रतिपादकावान्तरवर्तिनोऽ पुनरुकरूपा एते नित्य इन्यादिदश पदार्था ब्रह्मतत्वपर्यवसिता अनुसंघयन्ते नित्यत्वादि- यक्षण: परोऽस्मीति च वाक्यार्थानुसंधानं भवति। त्वंपद्लक्ष्यस्यानुसंधानं+ यः प्रत्यम्धा- तुरात्मा। अन्रास्मिन्नर्थे संशयो नास्ति ॥ १७३ ॥ सु० टी० -- केचित्नित्यत्वादीनि न स्वरूपलक्षणानीत्याहुस्तन्मनं विवेक्तुमाह- सच्ित्सुखाद्यवपुः कथयन्ति केचि- न्सच्चित्सुखात्मकमिति प्रथयन्ति केचित्। ब्रह्लेतराणि किल नास्य वपूषि तेषां ुद्धौ स्फुरन्त्यपररुपनिवृचिभावात् ॥ १७४ ! सचिदिति। सच्विदानन्दाहयात्मकमेव ब्रह्माह्वय मेदामावोपलक्षितं स्वरूपं सच्चिदानन्दात्मकमेवेत्यन्य उपलक्षणत्वेना्यभावमसहमाना:। कुत एवं संकोच: सद्ब्रह्मेतिवत्नित्यं ब्ह्मेति मतीतेरिति सेतत्राऽडा-
-[ नं भवति। तं परदलकयस्यानुसधानं ] अयंग्रन्थोऽधिकः प्रतिभाति।
Page 180
संक्षेपज्ञारीरकम्। १७३
इतराणीति। बुद्धौ स्फुरन्त्यपि नित्यत्वादीन्यनित्यादिव्यावृत्तिमात्रत्वा- स्रास्य ब्रह्मण: सवरूपाणीति तेषामाशय इत्यर्थः । केचिदित्यस्वरस: । तह्ीजं तु सच्चिदानन्दृपद्वन्नित्यादीनामपि शबलवाचित्वेन मागलक्ष. णया वस्तुपरता वक्ष्यते नित्यादिविरुद्धस्वरूपेडलौकिके शक्तिग्रहानु- पपत्तेरिति ॥६७४।। उक्ते. वाक्यार्थानुसंधानेऽन्यदपि पक्षद्वयमाह-सच्िदिति। कस्मादेवं ते पदार्थ- संकोचमिच्छन्तीति तत्राऽऽह-इतराणीति। किलेत्यनयोः पक्षयोः स्वस्यारुचि सूच- यति। यतः स्वयं नित्यादिपदानि ब्रह्म व्युत्पादयिष्यन्त्याकाशादिना। इतराणि नित्यादीनि विशेषणान्यस्य ब्रह्मणः कुत इत्यत आह-अपरेति। अनित्यादिनिवृत्तिरूपत्वान्नित्या- दिपदार्थानां न भावरूपन्रह्मस्वरूपत्वमित्यर्थः ॥ १७४ ॥ सु० टी०-ननु 'सत्यं ज्ञानमनन्तं बह्म '[तै० २॥१।१] इत्यन्रस्यानां सत्यादिपदानां 'प्राणा वे सत्यं'[वृ० २॥१।२] 'मृत्तिकेत्येव सत्यम्' (छा० ६ । १ । ४] इति प्राणा- दिपु प्रयोगात्कथं ब्रह्मार्थतेति चेद्रह्मपद्शेषमावेन तल्वक्षणत्वादि स्पाह- ब्रह्मेति शेषि पदमत्र हि लक्ष्यमेकं शेषाणि लक्षणसमर्पणमस्य कुर्युः । लक्ष्यार्पणेन सह लक्षणवाचि सरवं संगच्छतेऽरुणपदं क्रयवाचिनेव ॥ १७५॥ व्रक्मेति। जिज्ञास्यब्रह्मणो लक्ष्यत्वेन शेषित्वाङ्गह्मेत्येकं पदं मुख्यं सत्यादिपदानि तु लक्षणसमर्पणेन तच्छेष मूतानीत्वर्थः । तार्हे ब्ह्मप- दस्यैकसंबन्धेन कृतार्थस्य कथं पदान्तरेण संबन्धः प्रतिगुणं प्रधान- स्यानावृत्तेरिति चेल्लक्ष्यपदेन प्रधानभूतेन सर्ववशीकारसमर्थेनानावृत्ते- नैव सह युगपत्सत्यादिपद्सबन्धसंभवादित्याह-टक्ष्येति। हष्टान्तमाहं- अरुणेति। यथाऽरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणातीत्पत्र कार काणा क्रियार्थत्वेन प्रधानक्रयवाचिनाSऽख्यातेनारुणादिकं तृतीया- शृत्या युगपत्संबध्यते तथाऽत्र सत्यं ज्ञानमित्यादिपथमान्तपदानि वाक्येनेत्यर्थः ।। १७५।।
१ क. स्यानुड्व"।
Page 181
१७४ टीकाटूयसमेत-
अ० टी०-एवं प्रकृतवाक्यस्य फलपर्यन्तत्वप्रतिपादनेन ब्रह्मण परामाण्यमुपपाद्ेदानी- भवान्तरवाक्यगतपदानां गुणप्रधानभावेनान्विताभिधायितां व्युत्पादयति-ब्रह्मोति शेषि पद्मिति। अत्र सत्यज्ञानादिवाक्ये। यद्येवं सत्यं ब्रह्मज्ञानं ब्रेति प्रकारेणान्वयः स्यात्तथा च सत्यादीनां परस्परमेकत्वादिसिद्धेरेकब्रह्मस्वरूपलक्षणता तेषां न स्यादने- कस्यैकस्वरूपत्वायोग।दित्याशङ्कय तेषामेकार्थावच्छेदकतया मिथ एकत्वं सदृष्टान्तमाह- लक्ष्यार्पणेन सहेति। लक्षणवाचि सर्व पदजातं लक्ष्यार्पणेन लक्ष्यस्वरूपस- मर्पणद्वारा सह संगच्छत एकतां गच्छतीत्यर्थः । यथाऽरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणातीत्यत्र क्रयवाचिना क्रियापदेनारुणादिपदमेकक्रियावच्छेदकवाक्यभावं गच्छतीति तद्वदित्यर्थः ॥ १७५॥
सु० टी०-तरहिं सत्यज्ञानादीनां परार्थत्वेन परस्परानन्वयान्भ्ेदे तव- भिन्नस्य ब्रह्मण एकरसत्वक्षतिरिति चेन्न तेषामपि पार्ठठिकान्वयाभ्यु- पगमादित्याह- पृष्ठात्परस्परयुजा प्रतिपत्तिरेषा- मेवंविधत्वमुपपादयितुं समर्था। लक्ष्यस्य तस्य महतः क्रयवस्तुवत्स्या- न्सर्वस्य कारकपदस्य परस्परेण ॥ १७६ ॥ पृष्ठादिति। विशेष्यान्वयानन्तरं तदनुपपतत्या या पश्ात्परस्परेणान्वयप्र- तिपत्तिर्यत्सत्यं तज्ज्ञानमित्येवंरूपा सा लक्ष्यब्रह्मण: सत्यज्ञानाद्यात्मत्वेड प्येकरसत्वमुपपादृयितुमलमित्यर्थः । यथाऽरुणादे: क्रीणात्यन्वयानन्तरं पार्सिकी परस्परान्वयधीः क्रयस्य नियतगुणद्रव्यसाधकत्वनिर्वाहिके- स्यर्थ: ॥ १७६ ॥ अ० टी० -- संग्रहेणोक्तमुत्तरावर्थमुत्तरपद्ये स्फुटयति-पृष्ठादिति। तेषां सत्या- दीनां प्रथमं ब्रह्मपदेन प्रत्येकमन्वितानां पृष्ठात्पश्चाद्या परस्परयुजा प्रतिपत्तिर्मिथ एकलक्ष्य- पर्यवसितत्वेन सामानाधिकरण्येन प्रतीतिः सा तस्य लक्ष्यस्य महतो ब्रह्मण एंवंविधत्वं सत्यज्ञानानन्ताद्यात्मकत्वमुपपादयितुं समर्था । अत एकस्यैव ब्रह्मवस्तुनो लक्ष्यलक्षकतया सत्यादीनां विशेषणत्वाद्विशेषणानां च लक्षकाणं लक्ष्यस्वरूपैकपर्यवसाननियमाघुंक्तमेषा. मेकत्वमित्यर्थः। अत्रोक्तं दृष्टान्तं स्फुटयति-क्रयवस्तुवदिति। वस्तुवदिति सर्वस्य कारकपदस्यारुणया पिङ्गाक्ष्येत्यादिकस्य प्रथमं वस्तुना संबद्धस्याप्येकक्रियार्थतयाSन्वयातप- रस्परेणापि संबन्धादेव क्रयवस्तुनिवर्तकत्ववदित्यर्थः ॥ १७६ ॥
Page 182
संक्षेपशारीरकम्। १.३५
तत्वंपदार्थविषयो नय एव योज्य: सत्यादिवस्तुषु न तत्र विशेषकल्पः । सत्यादिशब्दविषयाः शबलास्तदर्थ- भागेपु लाक्षणिकवृत्तिरपीह तुल्या ।। १७७ ।। तत्वमिति। कथं तद्विशेष इति चेच्छबलवाचित्वादित्याह-सत्या- दीति॥ १७७॥। अ० टी०-एवं सत्यादिपदानामन्वयप्रकारमुपपाद्य तेषामर्थभेदादखण्डैकरसब्रह्मस्वरूप. पर्यवसायित्वं कथमित्यपेक्षायां तत्त्वमादिवाक्यार्थनिर्णयन्यायमत्रातिदिशति-तत्त्वमिति। सत्यादिवस्तुषु तत्त्वंपदार्थयार्न्यायो भागत्यागेन लक्षणयाSखण्डवस्तुपर्यवसायित्वे दार्शतः स एव योज्यः । सत्यादिपदानां स्वरूपमात्रपरत्वं पदार्थविषयत्वात्तत्त्वमादीनामैक्यपरत्वं वाक्यार्थविषयत्वादिति वैषम्येऽपि तत्रैतयोरवाक्यार्थयोरखण्डवस्तुप्रतिपादनेन विशेषकल्पो न प्रकारभेदोऽस्तीत्यर्थः । विशेषाभावमेव विशदयति-सत्यादिशब्द्रविषया इति। सत्यादीनां शब्दानामपि शबला विषया वाच्याः । तदर्थभागेषु लाक्षणिकवृत्तिरपीह सत्या- दिपदेषु तुल्या तत्त्वंपदाभ्यामविशिष्टेत्यर्थः ॥ १७७॥ सु० टी०-तत्र सत्यपद्वाच्यं शबलमाह- आकाशादौ सत्यता तावदेका प्रत्यङ्मात्रे सत्यता काचिदन्या। तत्संपर्कात्सत्यता तत्र चान्या व्युत्पन्नोऽयं सत्यशब्दस्तु तत्र ॥ १७८॥ आकाशादाविति। व्योमादौ बुद्धिवृत्तौ च सत्यं ज्ञानमिति धीप्रयोगयो- र्दर्शनादनृतजडस्वभावस्य च तन्मात्रस्य तद्विषयत्वायोगादधिठ्ठानभूनस- त्यज्ञानात्मकब्रह्मविशिष्टाकाशधीवृत्त्यादिकमेव शबलं सत्यज्ञानपदार्थः। तत्ाSडकाशादौ व्यावहारिकमानाबाध्यत्वलक्षणाSस्ति व्यावहारिकी सत्यता प्रत्यङ्रूमात्रे च लक्ष्येऽत्यन्ताबाध्यत्वलक्षणाSस्ति पारमार्थिकी। तयोश्च व्यावहारिकवास्तवसत्ययोराकाशात्मनोः परस्पराध्यासाननिपत्ने
Page 183
टीकाछूपसमेतं-
शबले या सत्यता दयमिथुनीकरणात्मिकाऽन्या सत्यता तत्र सत्पश- उदृस्य शक्तिग्रह इत्पर्थः ॥। १७८॥ अ० टी०-के तर्हि सत्यादिपदानां शबला वाच्यार्था इत्यपेक्षायां क्रमेण तान्व्युत्पा- दयति-आकाशादावित्यादिनेति। आकाशादौ 'देशकालादिशब्दः। एषामविद्या- कार्यत्वेन ब्रह्मज्ञानबाच्यत्वेऽपि व्यवहारे बांधादर्शनादेवान्यलक्षणापेक्षिकसत्यता काचिद्वर्तत आत्मस्वरूपे काचिदन्याSSकाशादिसत्यत्वाद्विलक्षणाSत्यन्ताबाध्यार्थलक्षणा सत्यताऽस्तीति योजना। परस्पराध्यासलक्षणानिमित्तात् । १७८॥। सु० टी०-ज्ञानपद्वाचयं शबलमाह- बुद्धेर्वृत्तौ ज्ञानता तावदेका प्रत्यग्बोधे ज्ञानता काचिदन्या। तत्संपर्काज्ज्ञानता तत्र चान्या व्युत्पन्नोऽयं ज्ञानशब्दस्तु तत्र ॥ १७९ ॥ सुद्धेरिति। बोधेद्धार्यां घटादिवृत्ती संशयाज्ञाननिवृत्त्यनुकूलतारूप व्यावहारिकी ज्ञानतका प्रत्यम्बोधे चान्या वास्तवी चिदात्मतारूपा तत्सं- पर्कादित्यादि पूर्ववत् ॥१७९॥ अ० टी०-ज्ञानपदार्थ व्युत्पादयति-बुद्धेरिति॥१७९॥ सु० टी०-आनन्दपद्वाच्यमाह- बुद्धेवृत्तो तावदानन्दतैका प्रत्यङूमात्रे काचिदानन्दताऽन्या। तत्संपर्कात्तत्र चाऽSनन्दताऽन्या व्युत्पन्नोऽयं तत्र चाऽऽनन्दशब्दः ॥। १८० ॥ बुद्धेरिति। धर्भजन्यसत्वोद्िक्तसुखा का रबुद्धि वृत्तावनुकूल वे दमी यत्व - रूपैव व्यावहारिक्यानन्दता प्रत्यग्बोधात्मनि परमभ्रेमार्हत्वरूपा वास्तवी ॥१८० ॥
न्दतेति पूर्ववत्। आनन्दो नाम विक्षेपोत्कलिकोपशान्त्या स्वस्थता विषयविशेषानुभवाज्जायंमाने बुद्धिविशेषे लौकिकानां सुखित्वप्रसिद्धेरिति। समानमन्यत्।१८० ।।
Page 184
संक्षेपशारीरकम्। १७७ आकाशादौ नित्यता तावदेका प्रत्यक्कमात्रे नित्यता काचिदन्या। तत्संपर्कान्नित्यता तत्र चान्या व्युत्पन्नोडयं नित्यशब्दस्तु तत्र ॥। १८१ ॥ सु० टी०-आकाशादावस्त्यर्वाचीनापेक्षया चिरकालवृत्तित्वाद्यावहा- रिकी नित्यता प्रत्यङमात्रे लक्ष्येSविनाशित्वलक्षणा पारमार्थिकी॥१८१। अ० टी०-आकाशादौ नित्यतेति। अर्वाचीनविनश्वरसावयवरतदाश्रिता- नित्यवस्त्व्पेक्षया चिरकालावस्थायित्वान्तनिरवयवद्रव्यत्वप्रसिद्वेश्वाSSकाशादौ व्यावहारिकी- त्यर्थः ॥ १८१ ॥ आकाशादौ शुद्धता तावदेका मत्यङ्ूमात्रे शुद्धता काचिदन्या। तत्संर्पकाच्छुद्धता तत्र चान्या व्युत्पन्नोडयं शुद्धशब्दस्तु तत्र ॥। १८२॥ सु. टी .- आकाशादावस्ति मलादिलेपरहितत्वलक्षणा शुद्धता लौकिकी प्रत्यगात्मनि चासङ्गस्वादिप्रयुक्ता तास्विकी ॥१८२ ॥ अ० टी०-आकाशादौ शुद्धतेति। निर्लेपत्वं शुद्धल्वम् ।। १८२ ।। गोवत्सादौ मुक्तता तावदेका त्यङूमात्रे मुक्तता काचिदन्या। तत्संपर्कान्मुक्तता तत्र चान्या व्युत्पन्नोऽयं मुक्तशव्दस्तु तत्र ॥ १८३॥ सु० टी०-गोवत्सादावस्ति बन्धविमोकलक्षणा मुक्तता व्यावहारिकी मत्नगांत्मनि तु प्रपश्चोपशमरूपे निःसंसारत्वलक्षणा तास्विकी।१८३। अ० टी०-मुक्तपदं न्युत्पादयति-गोवरसादाविति। वत्सादौ निगडविश्लेवरूपा मुक्तता पारतन्त्र्यविरुद्धा प्रसिद्धा। प्रत्यगात्मनि तु सा स्व्राभाविकी तस्यासज्गत्वश्रत्रणा- दित्यर्थ: ॥१८३॥
Page 185
१७८ हीकाट्ट्यसमेनं-
आकाशादावस्तिता तावदेका प्रत्यक्तच्वे चास्तिता काचिदन्या। तत्संपर्कादस्तिता तत्र चान्या व्युत्पन्नोऽयं तत्र चास्तीतिशब्दः ॥ १८४॥ सृ० टी०-अस्त्याकाशादिरिति व्यवहारादाकाशादावस्तिता व्याव हारिकसत्तालक्षणाडस्ति प्रत्यआम्ात्रे तु पारमार्थिकसत्तारूपा। एवं सूक्ष्मा- दिशब्दानामपि शबलवाचित्वं व्याख्येयम्। तत्र सूक्ष्मता क्षित्याद्यपे- क्षया संहतावयववैधुर्यलक्षणतारतम्येनाSडतमावसाना प्रसिद्धा। सा चाऽडत्मानात्मशबलगता सूक्ष्मशब्दार्थः । विभुता च सर्वगतत्वलक्षणा गगनादावापेक्षिकी सर्वात्मके त्वात्मनि पूर्णा तदुभयशबलं विभुश- ब्दार्थः। अद्वितीयत्वं वस्तुपरिच्छेद्शून्यत्वं सत्तासामान्ये प्रसिद्धं तस्य सर्वविशेषामिन्नत्वात्तञ्च विशेषात्मना भेदसत्वादकृत्स्नमात्मनि तु त्रिवि धपरिच्छेदशून्ये संपूर्णमिति तदुमयशबलमनन्तशब्ार्थः ॥१८४ ॥ - सद्वुद्धिवेद्यता भावप्रत्ययगोचरतेति यावत्। प्रत्यगात्मनि सा सर्वास्पदतया नित्यसिद्धा सूक्ष्मत्व- व्यापकत्वाद्वितीयत्वानामप्युपलक्षणमेतत्। अवयवमूर्छनावैधुर्यमिन्द्रियागोचरत्वं चात्र सूक्ष्मता विवक्षिता। सा चास्ति व्योमादौ लोकसिद्धा। प्रत्यगात्मनि सा सर्वप्रत्यक्तया 'अणोरणी- यान्'[कठ: २ । २०] इतिश्रुतिप्रकाशिता नित्यसिद्धा तत्संपर्कादबादिव्योमान्ततारतम्येन
निरतिशयनिरपेक्षसूक्ष्मतायाश्च संपर्कादेकीभूते तस्मिकछबले सूक्ष्मशब्दो व्युत्पन्नः । तथा विभुत्वमाकाशादौ सर्वगतत्वलक्षणमापेक्षिकं सातिशयं प्रसिद्धम् । प्रत्यगात्मनि तु निर- तिशयं तत् 'यस्मात्परं नापरमस्ति किंचित्' [श्वेता० ३ । ९] इतिश्रुतेः । अन्यत्स- मानम्। अद्वितीयत्वमप्यनन्तत्वपर्यायास्पदम्। तब्नेह वस्तुपरिच्छेदराहित्यमात्रविषयं त्रिभु- त्वनित्यत्वाभ्यां देशकालपरिच्छेदाभावलक्षणस्यानन्तत्वस्य सिद्धत्वात्। एतच्च वस्तुपरिच्छे- दवैघुर्यवति सामान्ये सर्वविशेषाभिन्ने प्रसिद्धं तच्चामुख्यं विशेषात्मना कथंचिद्वेदस्यापि तंत्र सत्त्वात्। आत्मनि त्वेकरसे चिदेकस्वभावे भेदलेशस्याप्यनवकाशात्तदनन्तत्वरं मुंख्यम्। एतयोः संपर्काच्छाबले( ल्ये) सति तत्र व्युत्पन्नाऽद्वितीयशब्दोऽनन्तपदपर्याय इति। अत्रेदं प्रकरणतात्पर्य लोकव्यवहारे सत्यमिदं सत्यमिदं नित्यं शुद्धमिदमिदमित्यादिशब्दप्रत्यय-
१ क, तत्र वि°। २क. ग. 'णनेति त°।
Page 186
संक्षेपशारीरकमू। १७९
गोचराणां पदार्थानामनेकत्वादनेकरूपत्वाच्चैकरूपरूपशब्दप्रत्ययविषयत्वायोगात्तेषु सर्वेष्व- नुगतं सत्यादिपदगोचरः पिण्डेवु सामान्यवत्संभावनीयं तदेवाSSकाशादिषु प्रतीयमानं विशेषाकारपरित्यागेन सत्यादिपदर्गृद्यत इति ॥ १८४ ॥ सु० टी०-नन्वेवमपि सत्यादिशब्दानामुक्तशबलवाचित्वात्कथमख- णडार्थत्वमित्याशकूच पूर्ववल्लक्ष्याभेदादित्याह- यो यः शब्दो यत्कतेऽर्थे निरूढ- स्तत्रैवार्थे लक्षणावृत्तिरस्य। वक्तव्या स्यात्पण्डितैरेवभेतत् पत्यक्पूर्ण बह्म वेदान्तवेद्यम्॥१८५॥ यो य इति। यन्निमित्ते शबले यो यः सत्यादिशब्दो व्युत्पन्नस्तस्य तस्य पदस्य तत्रैव निमित्तभूतेऽर्थेऽखण्डातमके लक्षणावृत्तिर्वाच्या। तथा चाधिष्ठानसत्यत्वादिकृतत्वाच्छबलसत्यत्वादेस्तस्य चत्यिन्ताबाध्य- त्वादिरूपस्य ब्रह्माभिन्नस्थात्रं लक्ष्यत्वान्नानुपपत्तिरित्यर्थः । एवं पूर्वो- करीत्यैतदेव प्रत्यग्वेदान्तवेद्यं पूर्ण ब्रह्मेति वाक्यार्थोपसंहारः॥ १८५॥ अ० टी०-एवं सत्यादिशब्दानां वाच्यार्थानुक्त्वा लक्ष्यार्थमाह-यो यः शब्द इति। यो य इति वीप्सया सर्व एव नित्यः शुद्धो बुद्धमुक्तस्वभाव इति यथोक्ता नित्यादिशब्दाः संगृहीताः । यः शब्दो यत्कृते यन्निमित्तमर्थे विषये निरूढो व्युत्पन्नोऽस्य शब्दस्य तत्रैव तस्मिन्नेवार्थे लक्षणामाश्रित्य शबलः प्रवर्तते तत्रैव तत्पर्यवसानं युक्तं यथा . गोशब्दो गोत्वसामान्यं निमित्तमुपादाय गोत्वाक्रान्तां व्यक्तिमपि व्यवहरद्ष्टयाSभिदधन्न तत्र पर्यवस्यति किं तु प्रवृत्तिनिमित्तभूते गोत्व एवेति हि स्थितिः । तथा सत्यादिशब्दा अपि शबले व्युत्पन्ना आकाशादिप्रपञ्विषया व्यवहियमाणा अपि न तस्मिन्पर्यवस्यन्त्या- काशादीनां तेषां परमार्थतः सत्यत्वनित्यत्वाद्यसंभवात्। किं तु येन परमार्थेन सत्याद्यात्म- केन व्यभिचारिणाऽनुविद्धाः सन्तः सत्यादिपदगोचरा जायन्ते तदेवैकं सत्यादिरूपमिति तत्रैव पर्यवस्यन्ति। तस्मात्प्रपञ्चशाबल्यं तस्य सामान्यस्य व्यक्तिशाबल्यवद्व्युत्पत्तिद्वारमात्रमे- बेति। एवं स्वार्थपर्यवसानमेवेह लक्षणावृत्तिर्विवक्षिता वेदेऽर्थप्रतीतेः शब्दसामर्थ्यनिबन्ध- नत्वातपुंरुषविवक्षानुसारित्वाभावादित्यभिप्रेत्य वेदान्तानां ब्रह्मण प्रामाण्यमेवं सत्युपपन्नमेवेति फलितमाह-एवमेतदिति। एवं सत्युक्तप्रकारेण परागर्थप्रपञ्चव्यावृत्तासाधारणस्वरूपत्वे
१ क, 'त्र लक्षणत्वा° । ग. त्र लक्षत्वा"।
Page 187
१८० टीकाट्टपसमेतं-
सतीति यावत्। एतद्ब्रह् प्रत्यक्तया पूर्णमव्यावृत्ताननुगतरूपं त्वंपदार्थेकत्वान्वययोग्ये वेदान्तवेद्यं प्रतिपादितं भवतीत्यर्थ: ॥१८५ ।।
दादमेढ़े वा पदान्तरपीनरुकत्यमिति चेत्तत्राSSहं- सत्येऽप्यस्ति ज्ञानता ज्ञानतायां सत्यत्वं च स्पष्टमस्त्येव तद्दत्। सत्यप्येषं नातिरेकावकाश: पूर्णे तत्वे ज्ञानसत्योपपतेः ॥ १८६॥ सत्येऽपीति। न तावदत्रार्थमेदाशक्का यतः सत्येऽ्यस्ति ज्ञानता सत्यस्य ज्ञानभिन्नत्वे जडत्वादसत्यत्वं स्यात्तथा ज्ञानस्य सत्यमिन्नत्वे मिथ्यात्वा- दज्ञानत्वापत्तिरित्येवं परस्परान्तर्मावादित्यर्थः। न च पौनरुकत्यं सत्यत्वे- नावाध्यत्वेन कपेण ज्ञानपदेन वक्तुमशक्यत्वाज्ज्ञानत्वेन च रुपेण सत्य- पदेनेति। नन्वेवमपि ज्ञानत्वसत्यत्वयोभेंद एवानृतजडविरोधिरूपत्वात्त- योरित्यर्थाधिक्यं दुर्वारमिति चेत्तताSऽह-सत्यप्येवमिति। औपाधिकध- र्मयोरमेदेऽपि ताभ्यां लक्ष्यमोणनिरुपाधिकस्वरूपस्या मेदाज्ज्ञानसत्यत्व- योरजडपरमार्थपूर्णे तत्त्वे तादात्म्येन समावेशान्नाSSधिक्यमित्यर्थ:॥१८६॥ भ० टी०-ननु प्रतिपदं लक्ष्यार्थानां सत्यज्ञानादीनां मिथो भेदोऽस्युत नाऽडये ब्रह्मानेकाकारं स्यादिति न निरवग्रहमहत्त्वं तस्य स्यादित्येकरसवाक्यार्थासिद्धिर्द्विंतीये त्वेके- नैव पदेन तत्सिद्धेः पदान्तरवैयर्थ्यमिति चेत्तत्राSऽह-सत्येऽप्यस्तीति। अयमर्थः- सत्यादीनां सत्यत्वाद्यात्मनाSभेदपक्षे पदान्तरवैयर्थ्यशङ्काऽयुक्ता। यतः सत्यपदेनासत्यबाध्य प्रपञ्चव्यावर्त्यतया लक्ष्येऽपि ब्रह्मणि तस्य जाडयव्यावृत्तज्ञानपदेन स्वविरोधिजडप्रपञ्चव्या- वृत्ताकारतासमर्पणेऽपि ब्रह्मणोऽत्यन्ताबाध्यतालक्षणं सत्यत्वं तेन न समर्पितं भवेत्। अतः पदभेद एकार्थपर्यवसायित्वे नानपेक्षितः । तर्हिं भेद: सत्याधर्थानामिति प्राप्तं तथा सति प्रथमपक्षोक्तदोषस्तदवस्थ इति चेन्न यतः सत्ये सत्यपद्लक्ष्ये ज्ञानताडस्ति। न हि सत्यपदलक्ष्याद्वहिर्भूता ज्ञानता भवति तथा सति सत्यस्यास्फुरणप्रसङ्गात्। यथा सत्ये ज्ञानताऽप्यस्ति तद्वज्ज्ञानतायां ज्ञानपदलक्ष्यस्वरूपे सत्यत्वं चासत्येव। स्पष्टपद्मुभयत्र योज्यं ज्ञानस्य सत्याद्वहिर्भावे तस्य तुच्छत्वापत्तेर्जगदान्ध्यप्रसङ्ग इत्यर्थः । अत एवं परस्प- रान्तर्भावे सत्यखण्डैकरसवस्तुपर्यवसानं पदानां सिध्यत्येवेति सिद्धम्। अथैवमुच्यते
१ क. म. दवेन रुने ६२ क. ग. "माणा नि° । ३. क. नत्वस° । ४ क. "पदार्थ०
Page 188
संक्षेपशारीरकम्॥ १८१: यद्यप्येवमन्योन्यस्य स्वलक्षितार्थनिया मकत्वेनान्योन्यस्मिन्नन्तर्भावस्तथाSपि न सत्यत्वमेव ज्ञानत्वं नापि ज्ञानत्वमेव सत्यत्वमिति तयोर्भेंदे भाति कथमेकरसार्थसिद्धिरिति तत्राSSह- सत्यप्येवमिति। यद्यप्यनृतत्वविरोधिरूपसत्यत्वस्य जडविरोधित्वरूपज्ञानत्वस्य च परस्परमैकर सं(स्यं) नास्ति। एवंसत्यपि लक्ष्यस्वरूपे मनागपि नातिरेकावकाशो भेदशङ्का- वकाशः ॥ १८६ ॥ स० टी०-एवमानन्वृज्ञानपद्यारपि ज्ञेयमित्याह- आनन्दत्वे ज्ञानता ज्ञानताया- मानन्दत्वं विद्यते निर्विशङ्कम्। सत्यप्येवं नातिरेकावकाशः पूर्णे तत्त्वे ज्ञानसौख्योपपचेः ॥१८७॥ आनन्दत्व इति। ज्ञानस्याSडनन्दृत्व आनन्दस्य चाप्रकाशत्वेऽपुरुषार्थत्वं जडत्वं च स्पात्। दुःखजडविरोधित्वयोरतिरेकेऽपि ताभ्यां लक्ष्यमाणे चिदात्मनि ज्ञानसुखत्वयोः समावेशान्नाऽडधिक्यमिति ॥१८७।। अ० टी०-यथा सत्यज्ञानपदलक्ष्ययोः परस्परतावन्मात्रत्वे शब्दभेदवैयर्थ्याभावः पूर्णा- खण्डैकरसत्वं च तथा ज्ञानानन्दशब्दलक्ष्ययोरप्येतत्स्वं योज्यमित्याह-आनन्दृत्वे ज्ञानतेति। पदयोजना पूर्ववत्। ज्ञानपदलक्ष्यस्यासुखात्मत्वे तस्यापुरुषार्थत्वापत्तौ वेद्य. त्वानुपपत्तिः स्यात्। आनन्दपदलक्ष्यस्यापि ज्ञानस्वरूपातिरेके प्रकाशमानतयाऽसत्तुल्यत्वं जडतयाऽपुमर्थत्वं वा प्रसज्येतेति तात्पर्यार्थः ॥ १८७॥ सु० टी०-सत्यानन्दपद्योरप्याह- आनन्दत्वे सत्यता सत्यताया- मानन्दत्वं निर्विवादं प्रसिद्धम्। सत्यप्येवं नातिरेकावकाशः पूर्णे तत्वे सत्यसौर्योपपततेः ॥१८८॥ आनन्दत्व इसि। आनन्दस्यासत्यत्वे मृगतृष्णावद्नुपावेयतवं सत्यस्या- प्यनानन्दृत्वे हेयत्वाद्सत्यत्वमिति ॥ १८८ ॥ अ० टी०-आनन्दत्वसत्यत्वयोरप्येवं सर्व योज्यमित्याहआनन्दृत्वे सत्यतेति। अत्राप्यानन्दस्यासत्यत्वेऽपुरुषार्थत्वेनानुपादेयता सत्यस्याप्यनानन्दत्वे काष्ठलोष्टादिवदकिं- चित्करत्वादनुपादेयतैव स्यादिति भावः ॥ १८८ ॥
Page 189
१८२ टीकादूयसमेसं-
सु० टी०-सत्यज्ञानाविषूक्तन्यायमवशिष्टेषु सप्तस्वतिद्शति- शेषेडप्यूहं न्यायसाम्यादशेष- मन्योन्यस्मिन्नस्तिता पूर्णता च। अन्योन्यस्याजामिताशब्दशक्ते- रेवं सुस्थं सर्वमुक्तोपपतेः ॥ १८९॥ शेषेऽपीति। संदृद्वितीयादिपद्लक्ष्येष्ववि न्यायसाम्यात्पूर्वोक्त सर्व- मूह्यमित्यर्थः । किं तदित्याह-अन्योन्यस्मिन्निति। अस्तित्वपूर्णत्वयोरवि परस्परान्तर्मावः सत एव पूर्णत्वात्पूर्णस्यैव सत्वात्तथा विरोधिव्यव- च्छेदेन शब्दाभ्यां प्रतिपादनादपौनरुक्त्यं लक्षणभेदेऽवि लक्ष्यार्थयोर नतिरेकान्नाSSधिक्यमेवं नित्यत्वशुद्धत्वसूक्ष्मत्वादावप्यूह्यमित्यर्थः । एवं दशपदार्थानामव्यमिन्नतया वाक्यार्थत्वं सिद्धभित्युपसंहरति-एव- मिति ॥ १८९ ॥ अ० टी०-ज्ञानानन्दसत्येषूक्तन्यायं विशिष्टेु सप्तसु नित्यशुद्धत्वादिपदार्थेष्वति- दिशति-शेषेऽप्यूह्यमिति। कि तदशेषमित्युक्तं तदाह-अन्योन्यस्मिन्नस्तिता पूर्णता चेति। अन्योन्यस्मिन्नन्योन्यस्यान्तर्भावेनास्तितैकैकस्यातिरेकेण पूर्णता च। तथा तत्तदनृतादिविरोध्यर्थव्यवच्छेदमुखेनैव तेन तेन सत्यादिशब्देन वस्तुसमर्पणात्पदान्तरा- वैयर्थ्य च सर्वत्र द्रष्टव्यमित्याह-सुस्थमिति। सुस्थं वस्तुन एकरसत्वं तस्मिन्रेव वाक्यप्रामाण्यं चेत्येतदस्मन्मतमचालनीयमित्यर्थः ॥ १८९॥ सु० टी०-एवं शबलवाच्यत्वमाश्रित्य समन्वय उक्ते न शबलार्थत्वं
बोधात्मत्वे निर्निमित्ते प्रतीचो बोधात्मत्वे तन्निमित्ते तु बुद्धेः। बोधात्मत्वे बुद्धिधर्मो च बुद्धे - रुक्ते साक्षाद्वेदसिद्धान्तविद्विः ॥१९० ॥ बोधेति। नैष्कम्यसिद्धिकारैर्हि प्रतीचो बोधत्वमात्मत्वं च हें निर्नि- मिस्ते स्वामाविके उक्तें। तथा वुद्धेरपि ते तन्निमित्ते तेन सह परस्परा-
१ क- ग, सदिय° । २ क. वाचित्व। ३ ख- द्धे तत्वे सा°।
Page 190
संक्षेपशारीरकम्। १८३
ध्यासनिर्ष्यूढे शबले उक्ते। तथा ते बुद्धिधर्मो बुद्धिपरिणामात्मके ध्याव- हारिके उक्ते। एवं तास्विकाध्यासिकपारिणामिकभेदेन त्रिधा बोधात्मत्वे उक्ते।'कूटस्थबोधः प्रत्यक्त्वमनिमित्तं सदाऽडतमनः। बोद्धृताहन्तयो- र्हेतु:' इत्यादिनेत्यर्थः । एवं चान्यननापि शबलवाचित्वं तद्भिमत- मित्युन्नीयत इति माव: ।।१९०।। अ० टी०-यदेतद्रुद्मयादावनात्मनि प्रतीच्यात्मनि च प्रत्यक्त्वादिकमस्ति तदुभयश- बलमात्मनि शब्दवाच्यमिति बुद्धेवृत्तौ ज्ञानता तावदेकेत्यादौ स्वयमुपपादितेऽर्ये नैष्कर्म्य सिद्धावुक्तां सुरेश्वराचार्यसंमतिमर्थतो दर्शयति-बोधात्मत्व इति। एते च बोधात्मत्वे बुद्वेर्धर्मौ तस्यां तयोरन्यसंबन्धनिबन्धनत्वान्न प्रत्यगात्मनस्तस्मिस्तयोः स्व्राभाविकत्वादित्यभि- प्रेत्योभयत्रोक्तयोः प्रत्यक्त्वबोधयोर्व्यवस्थामपि संगमयति-बोधेति। बुद्धेर्धमौं न स्वभाव- भूते उक्ते वेदसिद्धान्तविद्धिराचार्यैः । तथा चोक्तं नैष्कर्म्यसिद्धौ- 'कूटस्थबोधः प्रत्यक्त्वमनिमित्तं सदाऽऽत्मनः । बोद्धताहंतयोर्हेतुस्ताभ्यां तेनोपलक्ष्यते' इति ॥ अस्यार्थ :- चिदात्मनो निर्विकारनित्यबोधः सर्वान्तरत्वं च क्रमेण तत्रा- ध्यस्ताया बुद्धेर्बोद्धलात्मत्वयोर्हेतुः स्वचिदाभासव्याप्त्या तत्र तव्व्यवहारप्रवृत्तिनिमित्तं यत एवं तेन हेतुना ताभ्यामागमापायिबुद्धिगताभ्यां बोधात्मत्वाभ्यां तत्कारणरूपकूटस्थबोधः प्रत्यगात्मोपलक्ष्यत इति । प्रत्यगात्मगतबोधात्मत्वनिमित्ते स्वाभाविकबोधात्मकप्रतीचि बुद्धेरध्यस्तत्वात्तस्यां सिद्धे इति वेदान्तसिद्धान्तविद्भिरक्ते इति योज्यम् ॥ १९० ॥ सु० टी०-तत्त्वंपदार्थन्यायं सत्यादिषु सर्वात्मनाऽतिदिशति- जहतीह च लक्षणा मता गुणवृत्तिश्र तथाऽभयुपेयते। न विशेषविनिर्णयक्षमं किमपीहास्ति विशेषकारणम्॥ १९१॥ जहतीति। यदि सत्यादिशब्दः सामासाकाशवाची न शबलार्थस्तदा कृत्स्नवाच्यत्यागाज्जहल्क्षणा। यद्वा 'सत्यस्य सत्यम्' [ बृहदा० २।१। २० ] इतिश्रुतेस्तस्यापि व्यवहारसत्यत्वात्तद्ुणयोगेन गौण्य- भ्युपेबा तुल्यन्यायत्वादित्यर्थः । वस्तुतः सत्यताद्वयशबलमविवेकादे- कीमूत शुद्धधुत्थबोधात्प्राङ्रन विवेकुं शक्यमिति तदेव वाच्यं युक्तमयं तु पौढिवाद:।१९१॥।
१ क. तं बुद्धयु । २ क. र्थादित्य"।
Page 191
१८४ टीकाठूयसमेस-
अ० टी०-तदेवं सत्यादिपदानां शबलार्थवाचित्वाङ्गीकारेण जहदजहल्क्षणयाSखण्डा र्थपर्यवसायित्वमुक्तमिदानीमाकाशादिगतमेव सत्यत्वादि सत्यादिपदवाच्यं न शबलमित्यङ्गीकृत्य जहल्लक्षणागुणवृत्तिभ्यामपि सत्यादिपदानामखण्डवस्तुपर्यवसानं तत्त्वमस्यादिपदविरुद्धमिति प्रागल्म्येनाऽSह-जहतीह चेति। पूर्वार्ध स्पष्टार्थम्ं। विशेषविनिर्णयक्षमं महावाक्यो- कन्यायादित्यध्याहारः। इह सत्यादौ विशेषकारणं कारणविशेषः ॥ १९१ ॥ सु० टी०-ईश्वरपद्मपि शबलार्थमङ्गीकृत्य सत्यादिवत्स्वरूपलक्ष णतयोपसंहरन्ति केचित्तान्निरस्यति-
तस्मादबोधगतमस्य च तानि कस्मात्। नेष्टानि पूर्ववदिति ब्रुवतो मुखस्य सथः पिधानमनुसृत्य वचांसि कुर्मः ॥।१९२॥ ऐश्वर्यमिति। अनुभवादिवदात्मस्वरूपान्तर्गतमेकमैश्वर्य तत्कृतं माया. गतमेकमू। अस्य च मायाशबलस्याSडत्मन: परस्पराध्यासनिव्यूढं तदु- मयशबलमेकमिति त्रीण्यैश्वर्याणि कुतो नेष्यन्त इति ब्रुवतां मुखमुद्र- णाय पूर्वस्माद्विशेषं बूम हत्यर्थः । १९२ ॥। सु० टी०-ननु यद्यपुनरुक्तार्थैः सत्यादिपदैर्दशभिर्रह्माखण्डं लक्ष्यत इत्यङ्गी क्रियते तर्हीश्वरपदमप्यपुनरुक्तार्थमुपसंहियताम् 'एष सर्वेश्वरः' [ बृ० ४।४ ।२२] इति ब्रह्मणी- श्वरत्वस्यापि श्रवणादिति कस्यचिच्छङ्कामुद्धाव्यापाकरोति-ऐश्वर्यमपीति। अपिशब्दो बोधसत्यादिद्ृष्टान्तार्थः । अनुभवादिवदैश्वर्यमप्यात्मरूपं स्वाभाविकमेकं तस्मादन्यदिति शेषः । अबोधगतं चिदात्मगतैश्वर्यमपरमस्य च तदुभयशबलस्य चापरमैश्वर्यमस्ति। तान्यैश्वर्याणि पूर्ववदीश्वरपदव्युत्पत्त्यर्थतया .कस्मान्नेष्टानीति शङ्काग्रन्थयोजना । इति त्रुवत इति निराकर- णग्रन्थभाग: स्पष्टार्थ: ॥ १९२॥ सु० टी० -- वक्तव्यमाह- ऐश्वर्यवर्णनमतिस्फुटमेव कत्वा नेतीत्यवादि बहुशः श्रुतिभिः प्रयत्नात्। सत्यादिवस्तुनि पुनर्न तथाऽस्ति पूर्व- मुक्त्वा निषेधनमितीह विशेषयुक्तकि: ॥१९३॥ ऐश्वर्येति।'सर्वस्य वशी सर्वस्पेशानः'[ बृ० ४।४। २२ ] इति षशित्वादिना 'य: पृथिध्यां तिछन्'[वृ० ३।७।३] हत्पन्तर्या-
Page 192
संक्षेपशारीरकम्। १८५
मित्वेन 'एवमेवास्मिन्नात्मनि सर्वाणिं भूतानि' [बृ० २।५।१५]इति जगद्यवहाराभयत्वेन तत्रतत्ैश्वषं वर्णयित्वा पश्रात् 'नेति नेति' [घृ० २। ३। ६] इति, 'अस्थूलमनण' [वृ० ३। ८। ८] इति, 'तके- तद्ह्मापूर्वम्।'[तृ० २। ५।१९] इत्यादिद्युतिभि: प्रतिषिध्यते। सत्यज्ञानादेस्तु समाम्नातस्य न क्वापि प्रतिषेध इति प्रतिपत्रोपाधौ निषिध्यमानमैश्वर्य कल्पितमेव स्तुत्यर्थमुपात्तं न सत्यत्वादिवतस्वरूपा- न्तर्गत मित्यर्थः ॥१९३॥ अ० टी०-कथं वचांस्यनुमृत्यास्मन्मुखस्य सद्ः पिधानं कर्तुं शक्यते सत्यादिपदव- न्सर्वेश्वरपदस्यापि ब्रह्मवाक्येषु श्रवणाविशेषादिति चेत्सत्यमस्ति श्रत्रणं किं त्वपवादश्ुतिवच. नात्तदर्थवादतयाऽवतिष्ठत इत्यभिप्रेत्य प्रतिज्ञातमर्थ साधयति-ऐश्वर्यवर्णनमिति। अक्षरार्थोऽतिस्पष्टः । बहुश इत्ययमर्थो बृहृदारण्यके तावत् 'सर्वस्य वशी सर्वस्येशानः' [बृ० ४। ४। २२] 'सर्वमिदं प्रशास्ति' [ वृ० ५ । ६ । १ ] इत्यादिना ब्रह्मण ऐश्वर्य- बर्णनमतिस्फुटं कृत्वा पश्चात् 'स एष नेति नेत्यात्मा' [ बृ० ३। ९ । २६ ] इति सर्व विशेषं तस्मिन्प्रतिषेधति । 'एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च'[वृ० ३।८ ११ ] इत्यादौ प्रतिषेधति। 'अतोऽन्यदार्तम्.' [बृ० ३। ४ । २ ] इत्यपि पदे पदे ब्रह्मस्वरूपातिरिक्तस्यानित्यत्वप्रतिपादनेनैश्वर्यप्रतिषेधो गम्यते। 'तदथा रथनाभौ च रथ- नेमौ चारा: सर्वे समर्पिताः'[बृ० २।५।१५] इत्यादिना 'सर्व एत आत्मानः समर्पिताः' [बृ० २।५।१५]इत्यन्तेन सर्वाश्रपतयैश्वर्यमुपवर्ण्ान्ते 'तदेतद्वह्मापूर्वमन- परमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः' [बृ०२।५।१९] इत्यादैकात्म्यप्रतिपादने- नैश्वर्य प्रतिषेधति। तथा छान्दोग्येपि तेजोबन्नादिकारणत्वेनैश्वर्यं प्रकटीकृत्य 'ऐतदात्म्य- मिदं सर्व तत्सस्यं स आत्मा' [छा० ६।८ । ७] इति पदे पद एकात्मत्वमुपसंहरन्नै- श्वर्यं प्रतिषेधति। तैत्तिरीये च 'सच्च त्यच्चाभवात्। निरुत्तं चानिरुत्तं च निलयनं चानि- लयनं च विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किंच' [तै० २- ६।१] इति सर्वात्मत्वेनैश्वर्य प्रतिपाद 'यदा ह्येवैष एतस्मिन्नदश्येSनात्म्येSनिरुक्तेSनिलयनेS- भयं प्रतिष्ठां विन्दते' [तै० २ । ७।१] इति तत्पुनः प्रतिषिध्यते। एवं प्रतिशाख- मैश्वर्यनिषेधेन/द्वैताखण्डैकरसत्वेनैवातियत्नेन श्रुतिषु ब्रह्मप्रतिपादनान्नैश्वर्यमस्य स्व्राभाविकं कि तु मायातत्कार्योपाधिकृतमेवेत्यर्थः। यथैश्वर्यमुक्त्वा पुनस्तत्प्रतिषिध्यते न तथा सत्यादिवस्तु पूर्वमुक्त्वा प्रतिषेधनं पुनः श्रुतिभि: क्रियमाणमुपलब्धमस्ति। एषां सत्यादीनां स्वाभाविकत्वा- वधारणे विशेषयुक्तिरित्यर्थः। तस्मात्सत्यत्वादिकं ब्रह्मणः स्वरूपत्वेनैव श्रुतिभिरावेद्यते। ऐश्वर्यं तु व्यावहारिकमर्थवादत्वेनैवेति गम्यत इति भावः ॥१९३ ॥ १४
Page 193
१८६ टीकाठूयसमेस
सु० टी०-ननु सर्वपद्लाक्षणिकश्वे ब्रह्मणोऽशाब्दत्वादौपनिषद्ख व्याघात इति चेन्न लाक्षणिकत्वेऽपि शाब्दत्वाविरोधादित्याह- शब्दस्य लाक्षणिकमुख्यविभागभिन्ना वृत्तिर्हि लौकिकवचस्युपलब्धपूर्वा। यस्मादतो न घटते यदि मुख्यवृत्ति- राश्रीयतामिह गिरश्षरमाऽपि वृत्तिः ॥ १९४॥ शब्दस्येति। ननु लक्षणायां अुतहान्यापत्तेर्मुख्यार्थ एवाऽऽश्रीयतामिति चेन्नासंभवादित्याह-न घटत इति ॥ १९४॥ अ० टी०-तदेवं सिद्धान्तो(तेs)पि क्रममारभ्य तत्त्वमस्यादिवाक्यानां सत्यादिपदानां च लक्षणयाऽखण्डे ब्रह्मण्यात्मस्वरूपे समन्वय उक्त इदानीं किमित्येवं लक्षणामाश्रित्या- खण्डे समन्वय इत्याग्रहः क्रियते श्रुतहान्यश्रुतकल्पनाप्रसङ्गादित्याशङ्कय मुख्यार्थासंभवे लक्षणाश्रयणेन वाक्यार्थावगमस्य लोके दृष्टत्वादिहापि मुख्यासंभवाल्लक्षणाश्रयणमित्य- भिप्रेत्याऽह-शब्दस्थेति। मुख्यार्थपरिग्रहे पूर्वं विरोधो दर्शितोऽतश्वरमाऽपि वृत्तिर- विरोधायेहाऽडश्रययत इत्यर्थः ॥ १९४ ॥ सु० टी०-तथाऽपि लाक्षणिकस्याननुभावकत्वादेकमेव पदं लाक्ष: णिकं युक्तमतो नाखण्डार्थत्वमिति नेत्युपसंहरति तस्मादखण्डमवबोधयितुं समर्थो वेदान्तभूमिगतशब्दसमन्वयोऽतः । संसर्गलक्षणमपास्य विरोधहेतो-
तस्मादिति। एवं तत्त्वमस्यादिसमन्वयस्याखण्डानुभवजननसामर्थ्या- त्संसर्गवाक्यार्थं विरुद्धमपास्याखण्डमेवाङ्गी कुर्या इत्यर्थः। लोके विषं मुङ्क्ष्वेत्यादी वेदे च सर्वार्थवादेषु सर्वपद्लणाया हष्त्वात्। नच लाक्षणिकमननुभावकं लाघवेन वृत्तिमच्छव्द्ृत्वेनैवानुभावकत्वादिति माव: ११५।।
१ क. र्यादित्य°।
Page 194
संक्षेपशारीरकम् । १८७
अ० टी०-यस्मादेवमुक्तयुक्त्या सत्यादिफ्दानामखण्डब्रह्मणि पर्यवसानं सिद्धं तस्मात्ता- दग्रह्मपदस्थानीयेन तत्पदेन पारोक्ष्यप्रहाणेनाखण्डब्रह्मणः समर्पणात्वंपदेन चाऽऽत्मपद- स्थानीयेन सद्वितीयत्वादिप्रहाणेन प्रत्यक्चिन्मात्रस्य समर्पणात्तयोश्चैकस्वभावत्वादखण्डार्थे वेदान्तानां समन्वय उपपन्नः संसर्गसमन्वयानम्युपगमेऽपीत्युपसंहरति-तस्मादृख- . णडमिति ॥ १९५॥ सु० टी०-कथं वाक्यादखण्डानुभव इति वीक्षायां तत्कः ममाह- सामानाधिकरण्यमत्र भवति प्राथम्यभागान्वयः पश्वादेष विशेषणेतरतया पश्चाद्विरोधोन्भवः । उत्पन्ने च विरोध एकरसके वस्तुन्यखण्डात्मके वृत्तिर्लक्षणया अवत्ययमिह ज्ञेयः क्रमः सूरिभिः ॥१९६॥ सामानाधिकरण्यमिति। एकवाक्यस्थपदानां युगपद्विशिष्टार्थबोधने प्रवृत्ति- रन्वयः स चैकार्थविषयः सामानाधिकरण्यमनेकार्थगोचरो वैयधिक- रण्यं तत्र नीलमुत्पलमितिवत्तत्वमोरपि प्रथमान्तयोः प्रथममेकार्थत्वल- क्षणसामानाधिकरण्यभानं ततो नीलगुणोत्पलत्वयोरिव तत्त्वमर्थयोर्वि- शेषणविशेष्यता ततो नीलगुणोत्पलत्वजात्यो: संसर्ग इव तत्त्वमर्थयोः संसर्गे विरोधबुद्धिस्ततस्तन्र नीलपद्स्य द्रव्यलक्षणयेवात्रैकप द् लक्ण याऽव्यनुपशान्ते विरोधे पदद्वयस्यापि लक्षणयाऽखण्डैरकरसे वृत्तिरिति कमो ज्ञेय हत्यर्थ: ॥ १९६ ॥ अ० टी०-यद्येवं केन क्रमेण तर्ह्यखण्डार्थावगतिर्विदितपदार्थस्यापि पुंसो न हि प्रथमत एवाखण्डार्थावगमोऽस्तीति तत्राऽह-सामानाधिकरण्यमिति*॥१९६।। सु० टी०-किमेतत्संबन्धत्रयं पदानामर्थानां चेति वीक्षायां तद्यव- स्थामाह- • सामानाधिकरण्यमत्र पदयोर्ज्ेयस्तदीयार्थयोः संबन्धस्तु विशेषणेतरतया ताभ्यां सहास्याऽडत्मनः।
- नास्य टीका पूर्णा।
Page 195
टीकाटुंयसमेत-
संबन्धोऽप्यथ लक्ष्यलक्षणतया विज्ञेय एवं बुधै- रेतान्यर्थपदानि बुद्धिपदवीमारोहणीयानि तु ॥ १९७॥ सामानाधिकेति। अधिक्रियत इत्यधिकरणमर्थस्तत्समानं ययोस्ते तथा तन्दाव इत्यर्थ: तज्ञ पदयोरेकविमक्त्यन्तत्वात्ततस्तदर्थयोरविशेषणविज्ञे- व्यतया संबन्धो ज्ञेयस्तती विरोध उमाम्यां विशेषणविशेष्याभ्यां शब- लाभ्यां सहास्याऽडतमनः शुद्धस्य लक्ष्यलक्षणसंबन्धः शबलयोलक्षण- स्वमात्मनो लक्ष्यतेति। अर्थपदान्यर्थप्रतिपत्तिस्थानानि ॥१९७ ॥ अ० टी०-ननु किमेतेऽन्वयाः शब्दानामर्थानां वाऽ्थवोभयोर्विभागेन वेति जिज्ञासाया- माह-सामानाधिकरण्यमिति। अत्र तत्त्वमस्यादिवाक्ये पदयोस्तत्त्वंपदयोः सामानाधि- करण्यं संबन्धो ज्ेय इति संबन्धः। एतत्सत्यादिपदानामप्युपपद्यते। अयमपि पदानामेकार्थ- वृत्तित्वं सामानाधिकरण्यम्। इह पदयोरकविभक्त्यन्ततयैकार्थबोधानुगुणव्यापारवत्त्वात्सामाना- धिकरण्यं प्रथमं प्रत्येतव्यमित्यर्थः। ततस्तदीयार्थयोर्वाच्ययोर्मिथ्याविशेषणविशेष्यभावे संबन्धो ज्ञेयो वाक्यवृत्तेरनवगमे वाक्यार्थानवगमात्। अर्थान्वयावगमस्य पदान्वयावगमा- नन्तर्यम्। विशेषणविशेष्यभावो नाम व्यावर्तकव्यावर्त्यभावः । यथा विशेषणैर्विशेष्यं सजातीयादेर्व्यविर्त्यते तथा विशेषणान्यपि तदेकनिष्ठतया नियम्यन्तेऽन्यथा तदिशेषणतया संबन्धो विज्ञेय इति। अत्र येयं वाच्यार्थलक्षितव्या लक्ष्यार्थप्रतीतिः सा पदशक्तितात्पर्य निबन्धनेऽपि पदयोर्लक्षणावृत्तिरुच्यते। यतः पदशक्त्या पदार्थप्रतीतौ सत्यां बिरोधात्तत्रा- न्वयाप्रतीतौ तत्प्रतीति: सा पदशक्तितात्पर्यनिबन्धनेति कदम्बतात्पर्यगौरवतयोपस्थाप्यतेऽतः पददृत्तिर्लक्षणेति। तदुक्तं नैष्कर्म्यसिद्धौ- 'सामानाधिकरण्यं च विशेषणविशेष्यता। लक्ष्यलक्षणसंबन्धः पदार्थः प्रत्यगात्मनाम्' इति ॥ अत्रत्यं बहुवचनं पदार्थयोः प्रत्यगात्मनश्चेति वा पदशब्देन पदद्वयमर्थशब्देन च दय विवक्षित्वा वा योज्यम्। अयं च क्रमो बुद्धिमद्धिरादरणीय एवेत्याह-एवं बुधेरिति। एवमुक्तक्रमेण। एतानि सामानाधिकरण्यादीन्यर्थपदान्यर्थस्य प्रतिपत्तिस्थानानि बुधैर्बुद्धिमद्विर्बुद्धिपद वीमारोहणीयानि बुद्धौ धारणीयानि तुशब्दो धारणार्थः । नैव विस्मर्त- व्यानीत्यर्थः ॥ १९७ ॥
सु० टी०-ननु वाच्यसंबन्धित्वेनानुपस्थिते शुद्धे कथं लक्षणोप-
१ क. ग. तो विशे°।
Page 196
संक्षेपशारीरकम्। १८९
स्थिते तु शक्तिग्रह एव संभवति किं शबलशक्तिमाभित्य लक्षणाक्केशे नेत्पाशड्क्याSSह- निःसंधि. बन्धनमिदं चिदचित्स्वरूपं संकीर्णमन्तरपरिस्फुरणेन शून्यम्। आ चित्तशुद्धिफलतः स्फुरितोपपते: शब्दार्थसंगतिमिहैव तु गृह्णतेऽज्ञाः ॥ १९८॥ निःसंधीति। आङ्मर्यादायाम्। चित्तशुद्धिफलभूताया: स्फुरितोपपत्ते: प्रागिदं चिद्चित्स्वरूपं चित्स्वरूपं प्रत्यगचित्स्वरूपमन्त:करणं तह्दूयं संकीर्ण परस्पराध्यासादेकीमूतमत एवानयोरन्तरं मेदो लेशतोऽपि न सफुरतीत्यतोऽतैव शबल उपस्थिते शब्दार्थसंगतिमविवेकिनो गृह्णत इत्यर्थः । शबलमपि गुणगुण्यादि विविच्यमानं दष्मतो निःसंधीत्युक्तं ततोऽपीदं दुर्विवेचं यतः संधिर्बन्धनविवेचनप्रदेशस्तद्रहितमनयोर्बन्धनं संघटनमनयोरितरेतराध्यासस्य हृद्यग्रन्थिसंज्ञस्यानादित्वेन हढमूल. त्वाद। तस्मावृत्ञावस्थायां शक्तिग्रहः शबल एव संभवति न केवल इति ॥१९८॥ अ०टी०-ननु 'यो यः शब्दो यत्कृतेऽर्ये निरूढः' इत्यत्राऽऽत्मगतमेव प्रत्यक्त्वादिकं प्रयोजकीकृत्य सत्यादिपदानां तत्र तत्राऽकाशादिषु प्रवृत्तिरिति भवतोक्त्तमेवं चेद्यनिमित्ती- कृत्यान्यत्रार्थे व्युत्पत्तिस्तत्रैव कस्मात्सत्यादिपदानां व्युत्पत्तिर्नाSSश्रीयत इति चेदाश्रीयत एव यतो व्युत्पत्तिकाले यद्यपि प्रतीच्येव शब्दशक्ति: स्वाभाविकी तथाऽपि तदा विवेकानवगमादेव शबले व्युत्पत्ति: पूर्व प्रतिष्ठापितेति न विरोध इत्युत्तरमाह-निःसंधि बन्धनमिति। रूपभेदप्रतिभासेनापि शून्यमत्यन्तमेकरसमात्मानात्मविवेकनियामकतां मर्यादीकृत्येत्यर्थः 1 १९८॥ सु० टीe-अस्तु चिदृचिद्विमागानन्तरमेव व्युत्पत्ति: केवलात्म नीति चेन्न विपरीतक्रमत्वादित्याह- शब्दार्थसंगतिविदामथ सत्त्वशुद्धे- रुत्पन्नतर्कदृढलोहशलाकया तु।
१ क. ग. 'स्तु चिद्धिभा।
Page 197
१९० टीकाइृयसमेतं-
दृश्यं हशं च निपुणं द्वयमन्तरेण निक्षिप्या दगदशोः क्रियते विभागः ॥१९९॥ शब्दार्थेति। यतः खल्वहमादिशब्दार्थेषु व्युत्पन्नानां तत्तात्पर्यांनुसरण- शंक्तानामेव पश्चात्सत्त्वशुद्धयाख्यधीतैक्ष्ण्य प्रभावा विर्भूतसत्त र्कलक्षणलो- हशलाकया दश्यं हशं च षठ्ठयर्थे द्वितीया दृग्टश्ययोरत्यन्तसंकीणयो- मध्ये निपुणं निक्षिप्या तद्विवेकगोचरयेति यावत्। हम्दश्ययोविभाग: क्रियतेऽतो न प्राग्विवेकावकाश इत्यर्थः । सत्तर्क स्त्वहकारादि स्वभि- न्नसाक्षिकं हश्यत्वाद्घटवत्स्वसाक्षिकत्वे कर्तृकर्मत्वविरोधः। न चानु- मवबाधो दुःखित्वप्रेमास्पदृत्वाभ्यामहंबुद्धौ द्वैरुप्यानुमवात्स च दष्टा वृग्यपो ृश्यत्वे जडत्वापत्तेः । अत एव सर्वावस्थानुगतत्वेन नित्यत्वादे कत्वाञ्च मङ्गरनानाबुद्धिवृत्तिमिन्नः । बुद्धिश्र सुषुप्ती नश्यन्ती नाऽडत्मा दृगेव तु सर्वदाऽव्यभिचारिणीति नूनं सैवाऽऽतमेत्यादिः॥१९९॥ अ० टी०-एवं तर्हि विवेकिनामेवर सत्यादिशब्दव्युत्पत्तिरस्तु किमिवे किजनव्युत्पादने नेत्यत आह-शब्दार्थसंगतिविदामिति। सत्त्वमन्तःकरणं तस्य शुद्धिरनेकजन्मानुष्ठित निजकर्मतावितश्वरानुग्रहकृतः प्रसादस्तादृश्याः सत्त्वशुद्धेर्निमित्तभूताया उत्पन्ना तर्करूप विचारात्मिका दृढाडबाधिता लोहशलाका तया किविषयव्यापारया दृश्यं दृशं चेति द्वयम न्तरेण चिज्जडयोर्द्योर्मध्ये निपुणं प्रयुक्तं यथा स्यात्तथा निक्षिप्तयेति तथा व्युत्पन्नानामि पुरुषाणां यदा शुद्धान्तःकरणतया सम्यग्विचारे प्रवृत्तिर्येषां भवति तैरेव शास्रतात्पर्यविद्धि रात्मानात्मनोर्विवेक: क्रियत इति व्युत्पतिरस्त्विति न शङ्कावकाश इति तात्पर्यार्थः ॥१९९/ सु० टी०-नन्वज्ञावस्थायां शबलस्ाव्यनिश्चयात्तत्र शक्तिरित्यवि कुतो निर्णय इति चेत्तदानीं विशिष्याज्ञानेऽपि पश्चात्तथाऽवसायादि त्याह- शुदध्युत्थतर्कजनितं चिदचिद्दिभागं प्राप्य स्थिता: पुनरिमां गिरमुद्गिरन्ति। सत्यादिशब्दगण एष तु तत्र तत्र व्युत्पत्तिमाञ्छबलवस्तुनि नो हशीति ॥ २००॥ शुद्युत्थेति। उक्त्ेन शुद्ध्युत्थतर्केण यैथविंदचिद्विभाग: प्राप्तस्ते तस्य
१ क. ग बिदि°।
Page 198
संक्षेपशारीरकमू। १९१ दशायामेवं वदन्ति सत्यादिशब्दृगणोडयं तत्तच्छबले व्युत्फनो न केव- लायां दृशीति। नत्वज्ञदशायां तेन पूर्व शक्तिर्गृहीता पश्राद्भागलक्ष- णेत्यपि विवेकदशायामेव ज्ञायत इत्पर्थः ॥ २०० ॥ अ० टी० -- यदि व्युत्पत्तिकाले सर्वथैव विव्रेकाभावस्तर्हि कथमवगम्यते शबले व्युत्प- त्तिरिति तत्राSडह-शुद्धयुत्थेति । तथा च शुद्धान्त:करणानामुत्तरभावि दृग्दृश्य- विभागज्ञानमपेक्ष्य व्युत्पत्तिः पुरा शबले जाते निश्चीयते तस्माद्युक्तमुक्तं सत्यादिपदानां चिदात्मनि शबलद्दारैव व्युत्पत्तिरिति भाव: ॥ २०० ॥ सु० टी०-अत एवानेकशक्तिकल्पनाऽपि न प्रसज्यत इत्याह- एकत्र शक्तिग्रहणोपपत्ता- वनेकक्लप्तिः क्रियते किमर्थम्। इत्येतदेवं सति नास्ति चोयं पुराऽस्य पुंसः परमाविवेकात्॥ २०१॥ एकत्रेति । हशि दृश्ये वा शक्तिग्रहेण वाक्यार्थबोधोपपत्तौ किमि- त्यनेकात्मके शबले शक्ति: कल्प्या तत्र दृश्ये चेज्हल्लक्षणा द्वशि शक्तौ लक्षणैव नेत्यपि बोध्यम् । एवं सति नास्ति विभागात्पूर्व व्युत्पित्सो: पुंसः परमाविवेकाद्दग्दृश्ययोरत्यन्तमविवेचनादित्यर्थः ॥ २०१॥ अ० टी०-परमविवेकापन्ने वस्तुनि व्युत्पत्तेः साधनाच्छबले व्युत्पत्त्यङ्गीकारेSनेकत्र शक्तिकल्पनाप्रसङ्ग इत्ययमपि दोषः परिहृत इत्याह-एकत्र शक्तिग्रहणेति। पुरा विवेकोदयात्पूर्व पुंसो व्युत्पित्सोः परमविवेकादत्यन्तमविवेकादेकत्वेनैवार्थप्रतिभानादिति हेत्वर्थः । अम्यत्सुगमम्। मिथ्याभूते दृश्ये न सत्यादिपर्यवसानं कि तु तदधिष्ठाने दगा- त्मन्येवेति नानेकशक्तिकल्पनं परमार्थ इति भावः ॥ २०१॥ सु०टी०-इदानीं किं शक्यशबलसंबन्धित्वेनोपस्थिते चिदात्मनि मागलक्षणा किं वा तद्संसृष्ट एव केवलात्मनीति दूषयितुं विकल्पयति- अत्राऽडह वाच्यशबलान्वितवस्तुनीयं तद्वर्त्मना भवति लाक्षणिकी प्रवृत्तिः ।
१ क. ग. किं शब्र।
Page 199
१९२ ठीकाटटयसमेसं-
किंवा तदन्धितविलक्षणवस्तुनि स्पा- च्छब्दस्य नोभयमपि प्रतिभाति युक्तम् ॥२०२॥ अन्रेति। तदवर्त्मना शबलसंबन्धद्वारा दयमपि वक्ष्यमाणदोषाद्युक्तमि- स्वर्थ: ॥ २०२॥। अ० टी०-नन्वस्त्वेवं व्युत्पत्तिमार्गस्तथाऽऽत्मनि कथं लक्षणावृत्तिरुपपद्यत इति शिष्याक्षेपमुत्थापयति-अत्राSSहेति। वाच्यं यच्छबलं तदन्विते संबन्धवस्तुन्यात्मनि शबलद्वारेण किं वाच्यसंबन्धित्वेनाऽऽत्मा लक्ष्य इत्येकोडयं विकल्प उक्तः। विकल्पान्तरमाह- किमिति। शबलान्वितविलक्षणमसंबद्धं यद्दस्त्वात्मनि तस्मिन्वा कि शब्दस्य लाक्षणिकी प्रतृत्तिरिति द्वितीयविकल्पयोजना । कि वाच्यार्थसंबन्धे वाऽऽत्मा लक्ष्य इत्यर्थः । विवेकद्वयं दूष [यति]-नोभयमिति॥२०२।। सु०टी०-आद्ये दोषमाह- संबन्धिरूपं यदि वस्तु लक्ष्प- मखण्डवाक्यार्थमतिः कुतस्त्या। अनन्वितं वस्तु पदार्थलभ्ष्यं न लक्ष्यते कुत्रचिदत्र लोके ॥ २०३ ॥ संबन्धीति। तत्संबन्धितया लक्ष्यत्वं चेन्नाखण्डार्थधीः स्थाद्विशेषण विशेष्ययो: परस्परतावन्मात्रत्वाभावादित्यर्थः । अन्त्ये तु लोकविरोध इत्याह-अनन्वितमिति ॥ २०३ ॥ ॥ २०३/* सु० टी०-दोषद्वयमपि निराकरोति पूर्वक्षणे भवति वाच्यपदार्थभाग- भागित्वसंगतिरिहाSSत्मनि निर्विभागे। मोहोपदर्शितवपुर्घटते ततोऽस्मि- कछब्दस्य लाक्षणिकवृत्तिरदोषेदुष्टा॥ २०४॥ पूर्वेति। निर्विभागात्मनि यद्यवि मुख्येन शबलेन सह भागमागि-
- त्र्यधिक्शतद्वयश्लोकस्य टीका नास्ति।
१ क. ग. म्बन्धित्वेन द°। २ क. षद्षटा।
Page 200
संक्षेपशारीरकम्।
स्वरूप: संबन्धी वास्तवो नास्ति तथाऽपि वाक्यार्थधीपूर्वक्षणेडस्त्या- विदक: संबन्धस्ताहशस्यापि मिथ्यारजतसंत्रन्धस्य शुक्तिलक्षकत्वा- धिगतेः। स चातात्विकत्वान्न वाक्यार्थधीविषय इति नाखण्डार्थत्वक्ष- तिरित्यर्थः। शक्यसंबधो हि लक्षणा न तु वास्तवत्वविशेषितो गौरवा- दिति मान ॥२०४ ॥ अ० टी०-उत्तरमाह-पूर्वक्षण इति। वाक्यार्थप्रतीतेः पूर्वकाले वाच्यभागस्या- नात्मांशस्य यो भागस्तेन यद्धाभ्यत्वं तद्रूपा संगतिः। वाच्यार्थैकदेशेनाविवेकदशायामा- त्मनोऽप्येकदेशित्वेनावास्तवः संबन्धोऽस्तीत्यर्थः। समुदाये व्युत्पन्नस्य शब्दस्यैकदेशवृत्तितया मागलक्षण यैवेहार्ङ्गीकारालक्ष्यभागस्य चाऽडतमनः स्त एकरसत्वादखण्डवाक्यार्थता घटत इत्याह-घटते ततोऽस्मित्निति। यत एवमुक्तप्रकारेण वाच्यार्थः संभवति ततोऽ- स्मिन्नद्वितीये प्रत्यगात्मनि लाक्षणिकव्ृत्तिरदोषदुष्टेत्यर्थः ॥ २०४॥ सु० टी०-नन्वेवमपि ( लक्ष्पार्थधीः संबन्धित्वाकारा स्थान्ना- खण्डाकरेति चेन्नेत्याह- संबन्धिता भवति लाक्षणिकप्रवृत्ते: सर्वत्र कारणमितीदमभीष्टमेव। संबन्धिताकरणमेव तु लाक्षणिक्या बुद्धेरनिष्टमिह तव्यभिचारदृष्टेः ॥ २०५॥ संबन्वितेति। सर्वत्रापि) मुख्यसंबन्धो लक्षणाबीजमिति सत्यं ननु (तु) लाक्षणिकी धीर्मुख्य संचन्धित्वमाकरोत्येव किं तुतदुपलक्षितस्वरूपमात्र- मेवेति झूम: कल्पकाज्ञाननाशेन वाक्यार्थधीकाले तत्संबन्धित्वनाशाद- तोऽवशिष्टाखण्डमात्राकारैव सा भवतीत्यर्थः। ननु तीरादिलक्षणायां गङ्गसंबन्धित्वाकारो दृष इति चेन्न व्यभिषारादित्याह-इहेति । क्वचि- दार्थिकं तन्न लक्षणामात्रव्यापकमित्यर्थः ।। २०५।। अ०टी०-ननु कल्पितो वा वास्तवो वाऽस्तु संबन्धः सर्वथा मुख्यार्थसंब्रन्धितयैव लक्ष्यार्थावगतिरिति पूर्वक्षण इवोत्तरक्षणेऽपि संबन्धस्यावस्थानादखण्डार्थासिद्धिदोषतादव- स्थ्यमित्यत आह-संबन्धिता मत्रतीति। अस्माकमप्यभीष्टमेव्र न संबन्धिता
- चिद्वितप्रन्थोडयं ख. पुस्तकस्थ:।
Page 201
१९४ टीकाछवूय समेतं- भवतीति तर्हि कथमखण्डार्थत्वसिद्धिस्तत्राSSह-संबन्धिताकरणमिति। संबन्धित्वा- क.रेण वस्तु लक्ष्यते संबन्धोपलक्षितस्व्ररूपेणैव। तथा च कल्पितसंबन्धेनैव द्वारेण केवलस्य लक्ष्यमाणत्वादखण्डविषयैव वाक्योत्था बुद्धिर्मोहस्य तदानीं विलयात्तत्कल्पितसंबन्धोऽपि पूर्वक्षण एवाभून्नोत्तरक्षणे पुनरस्ति देवदत्तस्येव तत्तदेशकालवैशिष्ट्यमिति भावः । ननु गङ्गायां घोष इत्यादौ संबन्धिकरणस्यापिं दृष्टत्वात्कथं संबन्धोपलक्षितमेव लक्षणमिति निश्चीयत इति चेन्मैवं व्यभिचारादित्याह-तद्यभिचारहट्टेरिति। लक्षणस्थले संब. न्धिताकरणस्य व्यभिचारादिति भावः ॥ २०५॥। सु० टी०-व्यभिचारस्थानमाह- यत्रैष काक इदमेव तु देवदत्त- वेश्मेति लाक्षणिकवृत्तिरिहाभ्युपेता। काकास्पदत्वमवधीर्य तथाऽपि वेश्म- मात्राळतिर्भवति लाक्षणिकी तु बुद्धिः ॥ २०६॥ यत्रेति। किं देवदत्तगृहमिति प्रश्ने काकास्पदं देवदत्तगृहमित्युत्तरं लाक्षणिकम्। न च तद्बुद्धि: काकास्पदृत्वमाकरोति प्रश्षोत्तरयोस्तुल्य- विषयत्वनियमात्किं तु तद्वधीरणेन तल्लक्षितं वेरममात्रं काकापगमेऽवि तदर्थप्रतीते: काकस्य वेश्मान्तर्मवन प्रतीतौ तद्विगमे वेश्मैकदेशभ- दधी: स्यादित्यर्थः ।। २०६।। अ० टी०-कुत्र व्यभिचारदृष्टिरिति तत्राऽडह-यत्रैष काक इति। काकसं- बन्धोपलक्षित वेश्मैव लक्ष्यते संब्रन्धस्य वेश्मानन्तर्भूतत्वादन्यथा काकसंबन्धविगमे वेश्मै- कदेशमङ्गप्रसङ्गादिति भावः ॥ २०६ ॥ सु० टी०-ननु काकास्पदृत्वमुपलक्षणत्वादस्तु तथा शबलं तु स्वांशभूताखण्डलक्षकत्वान्नोपलक्षणमिति चेन्न तस्यापि स्वानुपरत्त- धीजनकत्वादुपलक्षणत्वं सोडयमित्यादौ तदिदंपदार्थवदित्याह- सोऽयमित्यपि पदार्थरूपकं लक्षणं यदुपलक्षणं हि तत्। अंशिता यदि पदार्थलक्ष्पयो- रग्ुह्यते ननु पुनर्विरोधिता ॥ २०७॥ सोऽयमिति। अथ त्रापि विशिष्टयोरवंच्ययोरेंशांशिसंबन्धेन लक्षक
Page 202
संक्षेपशारीरकम्। ११५ -
स्वासदाकारैव देवदृत्तधीरिति चेत्तहिं विरोधस्तद्वस्थ इत्याह -- अंश(शि)- तेति ॥ २०७ ॥ अ० टी०-उपलक्षणादस्मात्स्वरूपलक्षणे विशेषो भविष्यतीत्याशड्क्य तत्रापि विशेषोऽस्तीत्युदाहरणमाह-सोऽयमिति । सोऽयंदेवदत्तवाक्येऽपि पदार्थस्वरूपात्मकं लक्षणं तदुपलक्षणमेवेत्यभ्युपेयम्। विपक्षे दोषमाह-अंशितेति। वाच्यलक्ष्यार्थयोर्यदं- शिता गृह्यते वाच्यार्थाशसंबन्धविशिष्ट एव यदि लक्ष्यार्थो लक्षणया गृह्यत इत्यर्थः । तदा पुनः पूर्ववन्ननु निश्चितं विरोधिता तदवस्थेत्यर्थः ॥ २०७॥ स० टी०-लक्षणया साधितमखण्डार्थत्वमुपसंहरति- एवं तावल्क्षणावृत्तिहेतो- शनीतैषाऽखण्डवाक्यार्थबुद्धिः। मुक्त्वाऽपीमां लक्षणावृत्तिमेषा वक्कुं शक्येत्युच्यतेऽनन्तरेण ॥ २०८॥ एवमिति। मुख्यवृत्त्याऽप्यखण्डार्थत्वं सुवचमिति प्रौढिमाभित्याSSह- मुक्त्वाऽपीति ॥२०८ ॥ • अ० टी०-यदुक्तं पूर्वपक्षावसरे संसगार्थतया वाऽखण्डार्थतया वा न ब्रह्मात्मनि वेदा- न्तप्रामाण्यमिति तदेवमुक्तयुक्तिरखण्डार्थत्वसमर्थने[ति] परिहृतं यत्पुनरुत्तं-'नाखण्ड'- वस्तुविषया वचसः प्रवृत्तिलें।केऽपि दृष्टिपथमापतिते(ता)' क्ाप्यखण्डार्थतैव नास्तीति तदप्यु- क्ाखण्डार्थयुक्त्या परिहृतमेव्रेत्युपसंहरत्यधिकं तत्र विवक्षन्-एवं तावदिति। अतो . नोक्तदोषः कोऽम्यस्मन्मताखण्डार्थ इंति शेषः। अधिकविवक्षां प्रतिजानीते-मुक्त्वाS. पीमामिति। अखण्डवाक्यार्थबुद्धिरनन्तरेण पद्येनोच्यत इति योजना। विनाऽपि लक्ष- णावृत्तिमपुनरक्तंशक्तशब्दानामखण्डार्थतवं लोकेडपि वक्तुं पार्यत इत्यर्थ: ॥ २०८॥ सु०टी०-मुख्यवृत्त्या क्वाखण्डार्थत्वमिति चेत्तन्ाSऽह- भिन्नाभिन्नरवौ घटादिवचसा साकं समुचारिता- वन्यूनांनधिके घटादिविषये तावत्मवृत्तौ तव। नो चेद्विश्वसुजोऽपि दुष्परिहरा भेदादिमालाऽडगता भेदादेरपि तत्र वाच्यमपरं भेदादिकं स्यादिति ।२०९॥ भिन्नेति। मिन्नो घट इति घटपदेन सह सामानाधिकरण्येनोच्चारितौ कुदन्तत्वारसम मिव्याहृतार्थो भिन्नाभिन्नशब्दी न घटादृतिरिक्ततं वदतो
Page 203
टीकादूयसमेर्त-
घटतावन्मान्रप्रतीतेः। ननु मिन्नो मेदवानित्वधिकः प्रतीयत एव न
णिकभेदाभेदपरम्परापत्तेः । तथा हि कि तयोर्घटान्द्ेदोऽस्ति न था। आद्ये तस्य तस्यापीत्यनवस्था। अन्त्ये तु घट एव तावित्यखण्डार्थ- नैवेति॥ २०९ ॥ अ० टी०-अत्राखण्डार्थते केनापि विवादो न कर्तव्य इति दर्शयितुमिदमुदाहरप्ं तावदाह-मिश्नाभिन्नरवाविति। भिन्नाभिन्नशब्दौ घटादिवचसा साक मिन्नो घटोड- भिन्नो घट इत्येव समुच्चारितौ घटादिविषयेऽन्यूनानधिके घटादिप्रातिपदिकमात्रे तावतप- बृत्तौ। अतोऽस्मिन्वाक्ये पदद्वयात्मके विनाऽपि लक्षणामखण्डार्थता दष्टेत्यर्थः । भिन्ा भिन्नशब्दार्थयोर्भेदामेदयोर्घट।दिस्वरूपाद्वेदाभ्युपगमे दोषमाह-तव नो चेदिति। भेदादिशब्दस्य वस्तुतन्मान्रत्वं चेन्नाभ्युपेयते तदा तवैवं भेदवादिनो भेदादिमाल् परम्परा बिश्वसजो ब्रह्मणोऽपि दुष्परिहराSनिवार्याSSगताऽनवस्था प्रात्तेत्यर्थः। कथ- मिति ताुपपादयति -- मेदादेस्पीति मेंदस्य तावद्धर्मिणो भेदे
भेद्यनेत्येवं तत्र तत्र भेदे परो भेदो वाच्यः स्यादिति। तथा भेदपक्षेऽपि यद्यभेदो धर्मो धर्मिणो भिद्यते तदा न तद्वशात्तयोरभेदबुद्धि: स्याद्विनेनैक्यप्रतीतेर्भ्र्र्मव्वात्। तथा चाभे- दधर्मिणोर्धर्मधर्मिभावसिद्धयर्थमभेदान्तर स्येष्टव्यत्वादनवस्थादोषस्तदवस्थ इति तत्परिहाराय भेदाभेदयोरपि वस्तुतावन्मात्रत्वमङ्गीकार्यमित्यखण्डार्थतं सिद्धमित्यर्थः ॥ २०९ ।। सु० टी०-तार्है घटभिन्नशब्दयोः पर्यायत्वादेकस्य पौनरुक्त्यमिति चेस परवृत्तिनिमित्तमेदादित्याह- परस्पराभावमुपाददानो निमित्तमर्थेषु हि भिन्नशब्दः प्रवर्वतेऽन्ये त्ु घटादिशब्दा निजं निजं वाच्यमुपाददानाः॥२१० परस्परेति। अन्यप्रतियोगिक घटस्वरूपात्मक परस्परामावं निमित्तमु- पाददानो भिन्नशब्दो दृव्यमुणादिषु प्रवर्तते। अन्ये तु घटादिशब्दा निज जात्यादिकमिति भेद इत्यर्थ: ॥ २१०॥ अ० टी०-एवं चेद्धिन्नाभिन्नषदयोर्धटपदेन सह पर्यायत्वप्रसङ्गात्सहप्रयोगायोग इत्या- शाड्कय प्रवृत्तिननिमित्तमेदानमैवमित्याह-परस्परामावमिति। भिन्नशब्दः परस्पराभावं निमित्तमुपाददानो हार्थेषु घटादिषु प्रवतते। अन्ये तु धटादिशब्दा निजं निजं वार्च्य घट. स्वादिकं निभित्तंमुपाददाना अर्थेषु प्रवर्तन्त इति योजना । परस्पराभावो मिन्नशन्दस्य
Page 204
संक्षेपशञारीरकम्।
तटस्थ एव निमित्तं न तु घटत्वादिचद्वाच्यतवेनेति द्रष्टव्यम्। अन्यथाऽखण्डार्थत्वसिद्धेरिति भाव: ॥२१० ॥ सु० टी०-अभिन्नशब्द निमित्तमाह- परस्पराभाव विहीनंभावा- दभिन्नशब्दस्य घटे प्रवृत्तिः। घटस्वरूपैकनिबन्धना तु घटादिशब्दस्य घटे प्रवृत्तिः॥२११॥ परस्परेति। अन्योन्याभावशून्यत्वलक्षणवस्तुस्वरूपपर्यवसितधर्मान्नि- मित्तत्वेनोपात्ताद्मिन्नशव्द्प्रवृत्तिर्षटशब्दस्य तु घटत्वनिबन्धनेत्यखण्डा- र्थत्वसहप्रयोगादित्यर्थः ।। २११॥।
विहीनभांवान्निमित्तादिति योज्यम्। घटस्वरूपं घटपातिपदिकार्थो घटत्वं वा तन्मात्रनि- बन्धनेत्यर्थः । घटे घटादौ प्रवृत्तिरित्यर्थः । अन्यत्सुगमम् । अत्रापि परस्पराभावविहीन ताया भावस्वरूपमात्रत्वात्तस्या वाच्यतया निमित्तत्वेऽपि नाखण्डार्थत्वविरोध इति दष्ट- व्यम् ॥ २११ ॥ सु० टी०-एकपद्लक्षणयाऽप्यखण्डार्थत्वसंभव हत्याह- अबोधनाशश्वितिरित्यमुष्मि- न्पददये तवेकरसात्मनिष्ठे । अगौणमेकं पदमन्यदत्र द्वितीय वृत्तीतरसंगमाय ।। २१२॥। अबोधेति। अबोधो ज्ञानापनोद्यात्मनाऽभिव्यक्तमज्ञानं तस्य नाशोड पिषानरूपापत्तिरेवाधिष्ठानं तु चितिरेवेत्यखण्डार्थपरे वाक्य एकं पदं मुख्यमितरद्वितीयवृत्ति लक्षणावृत्तीत्यर्थ: ।। २१२ ।। अ० टी०-विनाऽपि लक्षणामखण्डार्थत्व उदाहरणमुक्तं प्रतिपादैकपदलक्षणयाडप्यस
Page 205
१९८ टीकादटय समेतं-
तुशब्दः पूर्वोदाहरणाद्दिशेषमस्य द्योतयति। किलक्षण एकरसात्मनिष्ठे सामानाधिकर- प्यादेकरसात्मवस्तुमात्रनिष्ठ इत्यर्थः । अत्रास्मिन्पदद्दय एकं पदमगौणं स्वार्थे मुर्य- वृत्तिकम्। अन्यदत्र वाक्य इतरसंगमायार्थान्तरसिद्धये द्वितीयवृत्ति लक्षणावृत्तिम- दित्यर्थः ॥११२॥ सु० टी०-किमत्र मुख्यं कि लाक्षणिकमिति चेत्तवाSSह- अज्ञाननाशपदमत्र हि मुख्यमिष्टं
तेनान्वयाय चितिवाचि पद स्ववाच्ये सौवं समुज्झति मतेः परिणामरूपम् ॥ २१३॥ अज्ञानेति। ब्रह्माकारान्तःकरणवृत्तिविद्या तन्निबन्धना याऽबोघस्य
त्यर्थ:। तत्सामानाधिकरण्योपपत्यर्थ तु तद्बुद्धिवृत्तिविशिष्टचैतन्यवाचि चितिपदं स्ववाच्यगतं स्वव्यक्षकं धीपरिणामांशं समुज्झति भागलक्षण- येत्यखण्डार्थतेति ॥ २१३ ॥ अ० टी०-किमत्र मुख्यं किं वा लक्षणिकमित्यत आह-अज्ञाननाशपक्- मिति। अज्ञाननाशपदस्य मुख्यत्वे हेतुमाह-विद्यानिबन्धनेति। विद्यानिबन्धन-
वृत्युपाधिना मुख्यवृत्त्याऽज्ञाननाशपदं चिति वर्तते। तथा च विद्यानिबन्धना वाक्यजन्यधी- वृत्तिनिमित्तका या निवृत्तिस्तया समर्पणं विषयनिवेशो यस्य तत्पदं तथोक्तं तस्मादित्यर्थः । चितिवाचि पदं मतेः परिणामरूपमिति संबन्धः । मतिपरिणामशबलवाचि पदमित्यर्थः । इदं तु पदं तेनाज्ञाननाशपदेनान्वयाय सामानाधिकरण्याय सौवं स्वस्येदं सौवं स्ववाच्याका· रमर्य समुज्झति त्यजति जहदजहलक्षणया पदान्तरेण समानार्थ भवतीत्यर्थः ॥ २१३॥ सु० टी०-ननु विपरीतमिद यद्विधिमुखं पदं लाक्षणिकं निवृत्ति- वाचकं तु मुख्यमिति चेन्नेत्याह- विधिपदानी हि भागसमर्पणा- दपरभागनिराकरणादपि।
१ ग. र्वकत्वा।
Page 206
संक्षेपशारीरकम्। १९९
अविषयात्ममर्ति जनयन्ति नो न तु सृषार्थनिवृर्त्तिगिरस्तथा ॥ २१४॥ विधीति। शबलार्थानि हि विधिपदानि न केवलात्मनि मुख्यवृत्ति- समर्थानि ततोऽतास्विकमागं निराकृत्य वास्तवमंशं समर्पयन्ति ब्रह्मा- कारां वृत्तिं जनयन्ति न तु सृषार्थस्थाज्ञानमयादेनिवृत्तिवाचिनोऽबो-
छानरूपस्य मुख्यवृतत्यैवोक्तत्वाहित्यर्थः। ने चावाग्गोचरत्वविरोध: स्वरू पेणावाच्यत्वादिति ॥२१४॥ अ० टी०-नन्वेतदयुक्तं यच्चैतन्यवाचित्वेन प्रसिद्धं तल्लक्षणया वर्तते निवृत्तित्राचकं तु पदं मुख्यवृत्त्येति चैद्विधायकपदानां शबले व्युत्पन्नानां प्रत्य्बात्रेऽमुख्यव्ृ्त्त्ययोगान्निषे- धपदानामध्यारोपितनिवृत्तिमात्रार्थत्वादारोपितनिवृ त्तेश्वाधिष्ठानत्वाद िष्ठानात्म निवृ त्ति रुपपद्य त इति परिहरति-विधिपदानीति। सत्यं ज्ञानमित्यादीनि विधिपदानि हि स्व्वाच्य- शबलस्यैकदेशस्य समर्पणाद्भागान्तरस्य परित्यागाच्च भागलक्षणया नोऽस्माकमविषयात्म- मति जनयन्ति मृषार्थनिवृत्तिपरा गिरस्तु न तथा न लक्षणयाSविषयात्मनि वर्तन्त इ.ते योजना। परोपाध्यपेक्षयैवाऽडत्मनो निवृत्तिरूपत्वाभिधानातस्वेन रूपेण तस्य न निवृतति- रूपता स्वरूपस्यान्यानपेक्षत्वादतो निवृत्यात्मना परापेक्षेण वाच्यत्वेऽपि निरपेक्षेण स्वरूपे- णावाच्यत्वोपपत्तेरविषयत्वविशेषणमात्मनो न विरुद्धमिति भाव: ॥ २१४ ॥। सु० टी० -- मुख्य वृत्त्याSखण्डार्थान्तरमाह --
भेदोऽभिन्न: संविद: स्वप्रकाशाः । इत्येतस्मिन्वियते नार्थभेदो वेदान्तानामप्यखण्डस्तथाऽर्थः॥ २१५॥ . भेद, इति। अन्न भेदस्य स्वाश्रयत्व आत्माश्रयो भेदान्तराश्रयत्वेऽन्यो- न्याश्रयानवस्थादिप्रसङ्ग इति भेदात्मकं स्वरूपमेव भिन्नशब्दार्थः । एवमतिरेके मेदामेदनिर्वाहके धर्मेऽपि द्रष्व्यम्। संविद इत्यत्र स्वपदस्य प्रकाशकपदस्य समासस्य च संविदेवार्थ इति। उपसंहरति -- वेदान्ता- नामिति ॥। २१५॥ १ क. ग. नवाचागो°। २ क, ग. के भेदनि"।
Page 207
२०० टीकाट्यसमेतं-
अ० टी०-पुनरपि लक्षणां विनैवाखण्डार्थत् उदाहरणान्तरमाह-मेदो मिन्न इति। अतिरेको नाम भेदात्मकत्वनिर्वाहक्ो धर्मविशेषः। भेदातिरेकपदयोर्भिन्नातिरिक्त- पदयोश्च सामानाधिकरण्येनैकरसार्थता तावदभ्युपगन्तव्या। न चेह पदार्थयोर्विशेषण विशेष्यभावरूपसंसर्ग एव वाक्यार्थो नाखण्डार्थ इति वाच्यं स्वरूपभेदवादिनं प्रत्यस्यो- दाहरणात्। तेन चानवस्थादिदोषभयात्स्वरूपतावन्मात्रताया भेदस्येष्टत्वादिति तात्पर्यार्थः । भिन्नाभिन्नरवाविति पूर्वोक्तमुदाहरणं धर्मभेदवादिनं प्रतीति ज्ञेयम्। संविदः स्वपकाशा इति पदद्वयेऽपि पूर्ववदखण्डा।र्थताऽवगम्यते। यतः स्वप्रकाशपदेनापि संविदेवाभिधीयते। न हि संविदतिरिक्तः प्रकाशपदाभिधेयोऽर्थोडस्ति तदन्यस्य सर्वस्य जडत्वात्। स्वश्चासौ प्रकाशश्चेति समासार्थोऽपि स एव नान्यो लभ्यते। तथा च संविदः स्वप्रकाशत्वमभ्युप- गच्छतामस्मिन्वाक्येSखण्डार्थत्वमभिमतमेवेति। इत्येवमुक्तप्रकारेणैतस्मिन्मेदो भिन्न इत्यादि- वाक्येजर्यमेदो न विद्यते यथा तथा वेदान्तानामप्यखण्ड एवार्थऽस्त्वित्यर्थः ॥१५॥ सु० टी०-प्रागुक्तमनूद्य पाणिनिनाऽपि 'प्रातिपदिकार्थलिङ्गप- रिमाणवचनमात्रे प्रथमा'इति सूत्रेण प्रकृतिविभक्त्योरेकार्थत्वं वढः ताऽखण्डार्थत्वं सूचितमित्याह- एवं तावदखण्डवस्तुविषये शब्दान्वयो दर्शितो लोके दृष्टनयेन पाणिनिवचोऽप्यस्यैव संसूचकम्। येनायं स्मरति प्रकत्यभिहिते वृक्षादिके केवले तन्मात्रे प्रथमेति सूत्रव चसैवाऽडयां चिभक्तिं मुनिः॥२१६।। एवमिति। यद्यपि लिङ्गसंख्ये अवि तदर्थस्तथाऽपि वृक्षादावलिङ्गे गुणादावसंख्येऽपि प्रयोगाद्खण्डार्थताऽक्षतेति भावः ॥२१६॥ अ० टी०-एवं वेदान्तवाक्यानां न्यायवशेनाखण्डार्थत्वं साधयता संसर्गो वा विशिष्टो वा वाक्यार्थो नाखण्डार्थः कापि दृष्ट इत्युक्तवाक्यार्थ याखण्डेतरनिष्ठत्वनियमोS पोदित इदानीं न्यायसिद्धमेव।खण्डार्थत्वमभियुक्ततरपाणिन्याचार्यसंमत्याSपि द्रढयति- एवं तावदिति। दृष्टनयेनेत्यत उक्तार्थानुवादः । अस्योक्तार्थस्याखण्डवाक्यार्थस्य पाणि- निवचोऽपि संसूचकमस्त्येवेति योजना। तदेवार्थतोऽनुक्रामति-येनेति। यस्मादित्यर्थः। तन्मात्रे प्रथमेति प्रातिपदिकार्थे प्रथमेति सूत्रार्थः संगृहीतः। यस्मादयं मुनिस्तन्मात्रे प्रथमेति सूत्रवचसा प्रकृत्यभिहिते प्रातिपदिकोक्ते वृक्षादिके केवले प्रत्ययार्थान्तरासंस्पृष्ठे प्रथमाविभक्तिरिति स्मरत्येव तस्मात्पाणिनिवचोऽप्यस्यैव संसूचकमिति योजना। प्रातिपदि- कप्रथमाविभक्त्योरखण्डार्थता पाणिनेरपि संमतेत्यर्थः ॥ २१६ ॥
१ क. षयः श"।
Page 208
संक्षेपशारीरकम्। २०१
सामानाधिकरण्यमन्वयगिरा हेतुं वदत्यादरा- नस्यैवाथ विशेषणं समिति च व्यावृत्तये गृह्यते। गौणान्मुख्यमयं भिनत्ति भगवान्व्यावर्तकेनामुना
सामानेति। स हि 'तत्तु समन्वयात् '[ब० सू० १ ।१।४] इति सूत्रेऽन्वयशब्देनैव तत्त्वमसीति तुल्यविभत्तयन्तत्वेन सामानाधि- करण्ये प्राप्ते यत्तस्यान्वयस्याSSदरेण समिति विशेषणं वदति तब्ूनं गौणात्सामानाधिकरण्याद्यावर्त्य प्रकृतं मुख्यमखण्डमभिप्रैतीति गम्यते नीलोत्पलवद्यथा शुक्काद्यावर्तयितुमुत्पलं नीलपदेन विशिष्यते तथेत्यर्थः। नन्वप्रसिद्धं गौणमिति नेत्याह-स्फुटतरेति।। २१७।। अ० टी०-एवं तत्त्वमस्यादिवाक्यस्याखण्डार्थविषयं प्रामाण्यं युक्त्याडभियुक्तसंमत्या- चोपपाद वेदान्तसूत्रकारैरप्ययमेवार्थः समन्वयसूत्रे निरूपित इति प्रदर्शयितुं सूत्रगतसमन्व- यपदार्थ तावदाह-सामानाधिकरण्यमन्वयगिरेति। 'तत्तु समन्वयात् '[ त्र० १।१।४ ] इतिसूत्रे तुशब्दो वेदान्तानामर्थान्तरपरत्वशङ्काव्यावर्तकः । तच्छब्दः प्रतिज्ञार्थः । तद्गह्म जन्मादिसूत्रे लक्षितं 'शास्त्रयोनित्वात्' [ब्र० १।१।३ ] इति सूत्रे शास्त्रैकगम्यत्वेन चोक्तं यत्तदेव वेदान्तप्रमेयं तत्प्रमेयका एव वेदान्ता इति प्रतिज्ञावाक्यार्थः । तत्र हेतु :- समन्वयादिति। तत्र सोपसर्गस्य हेतु[ भूत]स्यार्थ विविच्य कथयति-अन्वयगिरा सामानाधिकरण्यं हेतुमादराद्वदत्यन्वयादितिपदेन तत्त्वंप- दयोः सत्यादिपदानां प्रत्येकं ब्रह्मपदेन च सामानाधिकरण्यादिहेतुं वदतीत्यर्थः । ब्रह्मात्मैक्ये तात्पर्यग्राहिभिर्लिद्गैर्वाक्यानां तात्पर्यावगमादित्युक्तं भवति। तत्र समुपसर्गस्यार्थं प्रयोज- नमाह-तस्यैवेति। अनेन कुतः किं व्यावर्त्यत इत्यपेक्षायामाह-गौणादिति। अयं भगवान् बादरायणाचार्योडमुना विशेषणेन गौणात्सामानाधिकरण्यान्मुख्यं सामाना- धिकरण्यं भिनत्ति व्यावर्तयति। व्यावृत्तिमात्रे दृष्टान्तः-नीलोत्पलवस्तुवदिति। सामानाधिकरण्ये गौणमुख्यभेदासिद्धौ कथमिदं गौणव्यावृत्यर्थमित्यत आह-स्फुटत- रद्वैविध्यसन्भावत इति। सामानाधिकरण्यस्येति शेषः ॥ २१७ ॥ सुं० टी०-द्वैविष्यमाह- तद्धि द्विधैकाधिकरण्यमुक्तं गौणं च मुख्यं च विविच्य सद्दिः। .१६
Page 209
टीकाट्ट्यसमेत-
संसर्ग रूपार्थनिवेशि गौं मुख्यं त्वखण्डार्थनिविष्टमाहुः ॥२१८॥ तद्धीति। अन्वयशव्दितमैकाधिकरण्यं गौणमुख्यमेदेन द्विधेष्टमि स्पर्थः । द्वे विधे विविनक्ति-संसर्गेति। मेदघटितं तादात्म्यं संसर्गः । घथा नीलगुणोत्पलत्वसंसृष्टनानारसार्थनिविटं सामानाधिकरण्यं तद्दि सखण्डत्वे ऽप्ये कार्थधी हे तुत्व गुण योगाट्गौणम्। अखण्डार्थनिविषं तु मुख्यं तस्य धीविक्षेपकखण्डरहित निरुपचरितैक्यगोचरत्वादित्यर्थः ॥ २१८।। अ० टी०-द्वैविध्यमेव स्फुटयति-तद्द्ीति। ऐकाधिकरण्यं सामानाधिकरण्यं किं गौणं कि वा मुख्यमिति तदाह-संसर्भरूपार्थेति ॥२१८॥ सु० टी०-किं पुनस्तत्सामानाधिकरण्यं यद्विशेषौ मुख्यगौणाविति चेचत्राSडह -- आदाय नानाविधकारणानि गिरामथैकत्र तु या प्रवृत्तिः । नामाहुरैकाधिकरण्यनाम्ना विपश्वितो वेदाशरःसु विभ्ाः ॥२१९॥ आदायेति। भिन्नप्रवृत्तिनिमित्तानां पदानामेकत्रार्थे वृत्ति: सामानाधि- करण्यमित्यर्थः । अस्ति च नीलमुत्पलं सोडयं पुमानिति गौणमुरुययो- रिवृं सामान्यमिति माव: ।२१९।। अ० टी० -- संसर्गार्थनिवेशिनोऽखण्डार्थनिवेशिनश्चान्वयस्य सामानाधिकरण्यविशेषत्वं दर्शयितुं सामानाधिकरण्यसामान्यलक्षणमाह-आदायेति। नानाविधकारणानि विभि- न्नानि प्रवृत्तिनिमित्तानीत्यर्थः । गिरां बह्दीनामेकत्रार्थे प्रवृत्तिः सामानाधिकरण्यमित्युक्ते पर्या- यशब्देष्वतिव्याप्तिरतो नानाविधकारणान्यादायेत्युक्तम्। एकत्रेति। पदपरित्यागेन चोक्ते लक्षणे वैयधिकरण्ये प्रसङ्ग इति तद्वारणायैकत्रेति। वेदशिरःसु विपश्चितं इत्य- न्वयः ॥ २१९ ॥ सु० टी०-गौणमुख्यावुदाहरति- नीलं सुगन्धि महदुत्पलमम्बुशायी- त्येवंप्रकारमिह गौणमुशन्ति सन्तः।
Page 210
संक्षेपशारीरकम्। २०२
सोडयं पुमानुदशरावमतो विवस्वा- नाकाशगो रविरसाविति मुख्यमाहुः ॥ २२०॥ नीलमिति। नीलमित्यादीनां नानारसतत्तदुणजातिविशिष्द्वव्यवृत्ति- त्वेऽवि व्यावृत्तिकार्थधीहेतुत्वेनोपचाराद्टोणं सामानाधिकरण्यं सोडयं
उदशरावस्थसूर्याभासाविवेकेन प्रविष्टः प्रतिबिम्बात्मा यः सूर्य: स आकाशगो रवि (* रेतेनात जलपात्रगत्वाकाश्गत्वाभ्यसुपलक्षितो रवि- रखण्डः प्रतीयत इति । मुर्यत्वमत्र रविपुंसोस्त) चद्दाकयस्थपदोपा. तविशेषणखण्ड साहित्यमेवाखण्डार्थत्वं न वस्तुत इति ध्येयमू॥ २२० ॥ अ० टी० -- इदानी गौणमुख्यरूषौ सामानाधिकरण्यमेदौ विभज्योदाहरणेन क्रमेण बुद्धिमारोहयति-नीलं सुगन्धीति। उत्पलपदेन नीलादिषदानां सामानाधिकरण्यं. यत्तद्रौणमुशन्ति मन्यन्ते सन्तो विद्वांस इत्यर्थः । मुख्यमुदाहरति-सोऽयमिति। य उदशरावगतो विवस्वानसावाकाशगो रविरिति योजना ॥ २२० ॥
नेतरस्येति चेत्सामानाधिकरण्यरयात्र कृत्स्नत्वादितरत्र चापूर्णत्वादि- त्याह एकत्र वृत्तिरिति लक्षणमत्र मुख्यं संसर्गवस्तुनि पुनर्न हि तद्घटेत। नानारसे हि विषये वचसां प्रवृत्ति- र्नीलं सुगन्धि महदुत्पलमित्यमीषाम्॥ २२१॥ एकत्रेति। अत्यन्तैकरसवस्तुनिष्ठवाक्ये ह्योकत्र वृत्तिरिति लक्षणमाअ्ज- स्येन घटते संसगर्थथिकवाक्ये त्वत्यन्तमेदाभावेऽपि सखण्डनानारसार्थ- विषयत्वान्न तदित्यर्थ: । २२१॥ अ० टी०-कुतोऽखण्डार्थान्वयस्य मुख्यत्वं संसर्गान्नयस्प वा गौणत्वमित्यपेक्षाय सामानाधिकरण्यस्व रूपलक्षणस्याखण्डार्थान्वये संपूर्णत्वादितरत्र तदभावादिति विशेषमाह-
- ख. पुस्तकस्थोऽयं अन्थश्विव्नितः ।
१क. 'वृत्यैका' । २ क. गसामञ्।
Page 211
ठीका द्वयसमेतं-
एकत्र वृत्तिरिति। अत्र सोऽयमित्यादावखण्डार्थवाक्ये पदयोरेकत्र वृत्तिर्निरुपचारै- ताऽस्तीति सामानाधिकरण्यलक्षणं मुख्यं युक्मिति योज्यम्। संसर्गवस्तुनि तन्मुख्ये कुतो न घटत इत्यत्र हेतुमाह-नानारसे हीति। गुणगुण्याद्यात्मकत्वेन विषयस्य नानारसत्वम्। सुगमाऽत्र योजना ।। २२१।। सु० टी०-एकत्रेत्यस्य व्यावत्य वैयधिकरण्यं लक्षपति- नानाविधैर्बहुभिरेव निमित्तभेदै- र्भिन्नेषु वस्तुषु गिरामथ या प्रवृत्ति: । सर्वत्र वैयधिकरण्यमिति प्रसिद्धा सा शब्दवृत्तिकुशलव्यवहारभूमौ॥ २२२ ॥ नानेति। भिन्नवृत्तिनिमित्तानां मिन्नार्थेषु वृत्तिरवैयधिकरण्यमि- न्यर्थ: ।। २२२।। अ० टी०-' आदाय नानाविधकारणानि' इत्यस्मिन्पद्ये सामानाधिकरण्यलक्षणार्थें वैयधिकरण्ये प्रसङ्गवारणायैकत्र तु या प्रवृत्तिरित्येकत्रशब्दः प्रयुक्तस्तत्रैव नानाविधकार- धानीति पर्यायशब्दवारणाय च प्रयुक्त:। तत्र कि वैयधिकरण्यपर्याययोः स्वरूपमित्याका- ड्क्षायां तयोर्लक्षणे क्रमेण दर्शयति द्वाभ्याम्-नानाविधैरित्याद्याभ्यम्।सपष्टोऽर्यः। अत्र भिन्नेषु वस्तुष्विति सामानाधिकरण्यव्युदासः । सुगममन्यत्॥ २२२ ।। सु० टी०-भंन्नप्रवृत्तिनिमित्तानामित्यस्य व्यावत्यॅ पर्यायत्वमाह- अभिन्नहेतुर्विषये समाने विभिन्नवाचामथ या प्रवृांत्तिः । पर्यायनाम्ना प्रवदन्ति धीरा: प्रवृत्तिमेनां वचसां बहूनाम् ॥ २२३॥ अभिन्नेति। अभिन्नप्रवृत्ति निमित्तानामेकस्मिन्नर्थे वृत्ति: पर्याय इत्यर्थः बहूनामभिल्नार्थप्रत्यायकत्वं हि तत्। तदुक्तं-'पर्यायाणां प्रयोगो हि यौगपद्येन नेष्यते' इति ॥२२३ ॥ अ० टी०-पर्यायलक्षणमाह-अभिन्नहेतुरिति। विभिन्नंवाचां समान एक- स्मिन्विषये या प्रवृत्तिरभिन्नहेतुरेकनिमित्तकैनां वचसां प्रवृति धीराः पर्यायनाम्नाडभिवद-
Page 212
संक्षेपंशारीरकम्। २०५
न्तीत्यन्वयः । बहूनां वचसामेकार्थे प्रवृत्तिः पर्याय इत्युक्ते स्तम्भः कुम्भ: पर्वत इत्यादौ प्रसङ्गस्तदर्थ समाने विषय इति। एवमपि सामानाधिकरण्ये प्रसक्तिरित्यत उक्त्मभिन्नहे- सुरिति। अभिन्नहेतु: समाने विषये प्रवृत्तिरित्युक्तेडयं घटोडयं घट इति धारावाहिकघटपदे प्रसङ्ग इत्यत उक्तं विभिन्नवाचामिति ॥ २२३ ॥ सु० टी०-वैयधिकरण्यपर्यायावुदाहरति- कुडयं गृहस्य सरसोऽम्बुजमस्य वस्त्र- मित्यत्र वैयधिकरण्यमपि प्रसिद्धम्। एवं मुखं वदनमाननमित्यमीषां पर्याय- ताऽपि विदितैव पुरोक्त्हेतोः ॥ २२४ ॥ कुड्यमिति। वैयधिकरण्यस्य विरुपनानार्थविषयत्वेन धीविक्षेपक- त्वात्। पर्यायत्वस्याप्यन्यायश्चानेकशब्दत्वमिति न्यायेन सर्वांनादित्वा- देकन्र मुख्यत्वे विनिगमनाभावादृगत्यैवाभ्युपेयत्वेन जघन्यत्वात्पश्चा- दुक्तिः ॥ २२४ ॥ अ० टी०-उक्तलक्षणयोर्वैयधिकरण्यपर्याययोः क्मेणोदाहरणान्याह-कुड्य- मिति। पूर्वार्धोत्तरार्धयोरुभयोरुदाहरणे स्पष्टार्थे ।। २२४ ।। सु. टी०-अस्तु तर्हि तत्त्वमसीत्यत्राप्येतयोरन्यतरोऽन्वयः किम- खण्डाग्रहेणेति चेन्नासंभवादित्याह- पर्यायता न खलु तत्त्वमसीति वाक्ये नापीह संभवति भेदकभेय्यभावः । तत्वंपदार्थगतमेकरसैकभागं तत्त्वंपदे समुपलक्षयतो विरोधात् ॥ २२५।। पर्योयतेति। न ह्यन्र पर्यायता भिन्नप्रवृत्तिनिमित्तत्वाद्युगपत्प्रयोगाज्च। नावि राज्ञ: पुरुष इतिवद्वैयधिकरण्यं तुल्यविभक्तिकत्वात् । ईशेशि- तध्यादिसंबन्धविवक्षायां तु-'षछ्तुत्पत्तिस्तु मेदकात्' इतिन्यायेन तस्य त्वमसीति स्यान्न तत्त्वमसीति। न च षष्ठचर्थ एवाविरोधाल्लक्ष्य उपक्रमोपसंहारादिविरोधापत्तेः । तस्मादुक्तलक्षणयैवाविरोधसमर्थनः मिति न्याय्यमित्यर्थः ॥ २२५ ॥।
Page 213
२०६ टीकाठूप समेमें-
अ.० टी०-यद्येवमन्वयप्रकारा बहवः सन्ति तर्हिं तत्त्वमस्यादेः किमित्यखण्डार्थ- त्वमेवेत्यभिनिवेश इति चेच्न प्रकारान्तरासंभवादित्याह-पर्यायतेति। तत्त्वमसीति- वाक्ये न खलु पर्यायता संभवति पदयोः प्रवृत्तिनिमित्तमेदे तदयोमात्। नापीह भेदकभे- दभावलक्षणं वैयधिकरण्यं संभवत्येकविभक्त्यन्तव्वेन तदयोगात्। अनेनैव विशेषणविशे- ष्यभपवरूपामुख्यसामानाधिकरण्यान्वयोडषि निरस्तः। कुत इति तत्र हेतुमाह-विरोधा- दिति। पदवाच्यार्थयोर्विरोधाद्विरुद्धयोर्विशेषणादिभावा संभवात्। परिशेषा त्तत्त्वंपदार्थ - गतो वाच्यार्थनिष्ठो य एकरसोऽखण्डचिदात्मक एको भागस्तमेकरसैकभागं तत्त्ंपदे समु- पलक्षयतः सम्यगेकरसत्वेनैव संसर्गभेदवैशिष्टयांशेनाप्यसंस्पृष्टतया लक्षयत. इत्यखण्डार्थ- परमेवेदं वाक्यं मुख्यं च सामानाधिकरण्यं समन्वयशब्दार्थ इति सर्वं समजसमिति सिद्ध- मिसर्थ:॥२२५॥ सु० टी०-संप्रति सत्यं ज्ञानमनन्तमित्याद्यवान्तरवाक्यमप्यख- ण्डार्थं लक्षणवाक्यत्वात्मकृष्टप्रकाशादिवाक्यवदित्याह-
प्रष्टप्काशध्वनी व्यक्तिमकां यथा लक्षणावर्त्मनोपक्षिपेताम्। शशाङककादिशब्दार्थ संकीर्तने स- चिदानन्दशब्दाः परं ब्रह्म तद्दत् ॥ २२६ ।।. प्रकृष्टेति। यथेह ज्योतिश्रक्रे कश्चन्द्र इति प्रश्ने प्रकृष्टप्रकाशश्रन्द् इत्युत्तरे प्रकृष्टप्रकाशशब्द्ौ स्वार्थत्यागेनाखण्डां चन्द्रव्यक्तिं लक्षयत- स्तथा कि बह्मेत्याकाङक्षायां सच्चिदानन्दादिशन्दा अपीत्यर्थः ।।२२६। अ० टी०-तदेवं मुख्यसामानाधिकरण्यान्वयाख्यसमन्वयस्य तत्त्वमस्यादिवाक्येषू- पपादनेन तेषामखण्डार्थता सम्यक्प्रतिपादिताऽथेदानीमवान्तरवाक्यस्यापि सत्यादिपद- कदम्बस्य तथैवाखण्डार्थतां प्रतिपादयितुं दृष्टान्तमाह-प्रकृष्टप्रकाशेति। शशाङ्का- दिशब्दार्थसंकीर्तने शशाङ्कश्न्द्र इत्यादिशब्दार्थस्योदेशे सति यथा प्रकृष्टप्रकाशघ्वनी लक्ष- णावर्व्मनैकां चन्द्रव्यक्तिमुपक्षिपेतां चन्द्रस्वरूपे जिज्ञासिते सति प्रकृष्टप्रकाशश्चं्द्र •इति- लक्षणनिर्देशेन जिज्ञासित चन्द्रस्वरूपपरे वाक्ये यथा प्रकृष्टपदं प्रकाशपदं चाप्कृष्टाप्रका- शवद्वस्तुव्यावृत्तं चन्द्रप्रतिपादिकार्थ लक्षणया बोधयत इत्यर्थः । दार्ध्टान्तिकमाह-सजि- दानन्दृशब्दाः परं ब्रह्म तदूदिति ॥२२६॥
Page 214
संक्षेपशारीरकम्।
सु० टी०- ताहै नीलमुत्पलमित्यावेरपि वाच्यत्यामेनाखण्डलक्षक- एव संभवात् संसर्गार्थत्वभङ्ग इति नेत्याह- न नीलोत्पलाया गिरो व्यक्तिनिष्ठाः स्ववाच्यार्थसंसर्गमात्राभिधानात्। विरोधे हि वाच्यच्युत्तिर्नाविरोधे गिरां लक्षणाऽत्रापि चेदस्तु साम्यम् ॥२२७॥ न नीलेति। तस्याखण्डार्थत्वं स्वार्थसंसर्गाभिधानपरत्वादित्यर्थ:। ननूकं वाच्यार्थहानेनेति नेत्पाह-विरोध इति। तन्र संसर्गार्थत्वाविरो- धादित्यर्थः । अखण्डतात्पर्यकस्वे तु भवत्येवेत्याह-लक्षणाडता- पीति ॥२२७॥ अ० टी०-नन्वेवं यदि वाच्यार्थपरित्यागेन लक्षणयाखण्डार्थता स्वी क्रियते तर्हि सर्वत्रैवं वत्तुं शक्यत्वान्नीलमुत्पलमित्यादावपि तथात्वप्रसङ्ग इति चेत्तत्राऽडह-नीलो- त्पलाद्या मिरो व्यक्तिनिष्ठा इति। नीलं सुगन्धि महदुत्पलमित्याद्या गिर: स्वभावतः स्ववाच्यार्थसंसर्गमात्राभिधानाद्वेतोर्न व्यक्तिनिष्ठा एकव्यक्तिमात्रपर्यवसिता न भवन्तीत्यर्थः । तन्र हेतुमाह-विरोधे हीति। वाच्यार्थान्वयिपदार्थप्रतीतिषि- रोधे हि गिरां वाच्यच्युतिर्लेक्षणा चाविरोधायाSSद्रियते न त्वविरोधेऽपीत्यर्थ :* । यदि कचित्प्रयोगविशेषे नीलोत्पलादिवाक्येऽपि विरोधस्फूर्त्या वाक्यार्थसिद्धिस्तदा तत्रापि लक्षणा स्यादित्याह-अत्रापि चेदस्तु साम्यमिति। नीलोत्पलादिवाक्येऽपि सत्यादिवाक्यचन्द्रलक्षप्पादिवाक्यसाभ्यमस्तु लक्षणयाऽखण्डैकार्थपरत्वमस्तु को विरोध इत्यर्थ: ॥ २२७॥ सु० टी०-कथमत्राखण्डार्थत्वसंभत इश्यत्राSSह- न नीलत्वजत्याश्रयव्यक्तित: स्या- द्विभिन्नोत्पलत्वाश्रयव्यक्तिरेषा। तथैवोत्पलत्वाश्रयव्यक्तितः स्या-
मेदृस्य कल्पनामात्रत्वादित्यर्थः ॥ ५२३॥
- अविरोधादिति पूर्वत्र हेतुरित्यर्थः । विरोधे ह्येकव्यक्तिमा्रपर्यवसितत्व्र नीदमुत्पलम तिपद्योर्नाविरोध इति भाव:।
Page 215
टीकादुप समेत-
अ० टी० -- नीलोत्पलवाक्ये यदा लक्षणाप्रसङ्गस्तदा* कथं तत्राखण्डार्थत्वप्रतीति- रिति तद्व्युत्पादयति-न नीलत्वजातीति। अत्र नीलोत्पलपदयोर्नीलत्वोत्पलत्वजाती वाच्यार्थौ जातिसंसष्टे व्यक्ती अपि वेति हि मीमांसकतार्किकयोः संमतिस्तत्राशेषवाच्या- र्थपरित्यागेन वा तदेकदेशपरित्यागेन वा त+संबन्धिन्येकदेशे वा व्यक्तिमात्रे पदवृ- त्तिर्लक्षणाSSश्रीयते यदा तदा तत्राप्यखण्डार्थता निरपवादेति तात्पर्यार्थः । पदयोजना तु एषोत्पलत्वजात्याश्रयव्यक्तिर्नीलत्वजात्याश्रयव्यकक्तितः सकाशाद्विभिन्ना न स्यादिति। तथा= नीलत्वजातिरितरस्या अन्या भविष्यतीत्यपि न शङ्कास्पदमित्याह-तथैवेति। पूर्ववद्योजना। तथा च व्यक्तिस्वरूपस्य सन्मात्रत्वाद्गव्यत्वगुणत्वयोश्च तत्र कल्पितत्वात्। सद्रृपाया व्यक्तेरभेदादखण्डार्थत्वमत्रापि नानुपपन्नमित्यर्थः ॥ २२८॥ सु० टी०-कथं तर्हि नीलोत्पलादौ न क्वाप्यखण्डप्रयोगस्तन्नूनं तद्संभवादिति नेत्याह -- न नीलोत्पलादिप्रदेशेषु किंचि- द्विरां लक्षणाकारणं तेन तत्र। न नीलोत्पलत्वादिकव्यक्तिनिष्ठा गिरस्ता भवेयुः प्रमाणाहते नः ॥ २२९ ॥ न नीलेति। तत्र मुख्यार्थेऽव्यविरोधेन वाक्यप्रामाण्योपपत्तेर्न लक्षणा न त्वसंभवाद्विरोधं विनाऽपि लक्षणाश्रयणेऽतिप्रसङ्गादित्यर्थः ।२२९॥ अ० टी० -- यद्येवमखण्डार्थत्वमित्थमत्रापि संभवति तर्हि कुतः सर्वेषामत्राखण्डार्थत्वसं- प्रतिपत्तिर्न जायतेSतोऽत्र :- तद्विप्रतिपत्तेरेवं वाच्यार्थपरित्यागेनाखण्डार्थवृत्तिता व्याख्यानं भवतां साहसमेवेति मन्य इति चेत्तत्राऽह-न नीलोत्पलादिप्रदेशेष्विति। नीलोत्प- लादिवाक्यप्रयोगप्रदेशेषु गिरां पदानां लक्षणाकारणं किंचिन्नेत्यन्वयः । न दृश्यत इत्यर्थः । यत एवं तेन हेतुना नोऽस्माकं प्रमाणादटते कारणं विना ता नीलोत्पलाद्या गिरो न नीलोत्पलत्वादिव्यक्तिनिष्ठा भवेयुरिति योजना। मुख्यार्थोपादानेनात्र वाक्यार्थस्य संभा- वितत्वान् लक्षणयाऽखण्डार्थत्वस्वीकारः क्रियते न पुनर्लक्षणायाx असंभवात् (?)। न हि गङ्गायां घोष इत्यत्र लक्षणा स्वीकृतेति गङ्गायां मीना इत्यत्रापि तत्स्वीकारः कार्यः । न चैवमपि गङ्गापदे लक्षणाभावो घोषपदान्वये तदङ्गीकारात्। तस्मात्प्रकृष्टप्रकाश
- यवातदापदाभ्यामम्युपगमवादं दर्शयति।+जातिविशिष्टव्यक्तिशक्तिपक्षे पक्षह्य तड़िति ।
X भीमांसकतार्किकयो: पूर्वोक्तप्रकारेण लक्षणासंभवस्योक्तत्वात्।
Page 216
संक्षेपशारीरकमू। २०९
इत्यादौ स्वरूपप्रत्यायनपरेष्वेव लक्षणा न त्वविरोधेन* संसूष्ठार्थपरेष्वपीति सर्वमुपपत्र- मिति भाव: ॥ २२९ ॥। सु० टी०-ननु गुणगुणिभेद्स्य कल्पनामात्रत्वाद्भेद एव युक्त हत्य खण्डलक्षणेति चेत्तवाSह- इदमुपेत्य किमप्युदितं मया न तु तयोरिदा परमार्थतः ।
र्भवति लक्षणयाऽपि गृहीतयोः ॥२३०॥ इदमिति। गुणगुणिनो: कथं चिद्मेदमङ्गीकृत्याखण्डार्थत्वं मयोत्तं न तु वस्तुतस्तयोरत्यन्तामेदो गुणगुणित्वव्यवहवारार्थमीषदृवि मेदस्या- वश्यवाच्यत्वाल्लक्षणयाऽप्यभेदासंभवादित्यर्थः। नीलपदेनापि द्रव्यव्यः क्तिलक्षणायां लक्षितलक्षणापत्तेः ॥२३० ॥। अ० टी०-ननु यद्येवमुक्तप्रकारेण लक्षणाहेत्वभावात्संसष्टार्थतैत्राभिमता नीलोत्पला- दिवाक्ये तर्हि किमिति 'न नीलत्वजात्याश्रयव्यक्तितः स्यात्' इतिपद्ये तस्याखण्डा- र्थता समर्थितेति तत्राऽऽह-इदमुपेत्य किमप्युदितं मयेति। प्रौढितोऽयमम्यु० पगमवादो ममेत्यर्थः । परमार्थतस्तु तयोरनीलोत्पलपदार्थयोरभिदाडमेदलेशोऽपि नास्ती- त्यर्थः। ननु लक्षणया व्यक्तिमात्रग्रहे कथमभेदाभाव इति तत्राSऽह-गुणगुणित्वकृत इति। लक्षणया गृहीतयोरपि तयोरनीलोत्पलपदार्थयोर्गुणगुणित्वक्वतोऽतिशयो भेदले शोऽपि भवत्येवेति योजना। अयं भाव :- गुणत्वावान्तरजातिनीलत्ववाचिनीलपदेन गुण- विशेषभूता नीलव्यक्तिर्लक्षणया सिद्धयन्ती सिध्येन्नोत्पलद्रव्याभिन्ना तथा द्रव्यत्वावान्तर- जात्युत्पलत्ववाचि यदुत्पलपदं तेन द्रव्यविशेषोत्पलव्यक्तिर्लक्षणया सिध्येन्न नीलगुणाभि- न्नाऽनयोर्गुणगुणिभावेन भेदस्य प्रतीयमानस्यानपवादात्। न च सन्मात्रमेवाभ्यां पदाभ्यां लक्ष्यत इति वाच्यं लक्ष्यमाणयोर्व्यक्त्योः सन्मात्रत्वाभावात्। न हि गुणगुणिभावेन विवेकत: प्रतीयमानयोर्व्यक्त्योः सन्मात्रत्वं संप्रतिपन्नं येन व्यक्तिलक्षणा सन्मात्रविषया स्यात्, व्यक्त्यनुगताखण्डसन्मात्रलक्षणायां लक्षितलक्षणाप्रसङ्गात् । तथा च स्याद- तिप्रसङ्गांत्सर्वव्यवहारलोपोऽन्ततो गत्वा सर्वपदानां न सन्मात्रार्थत्वाव्यभिचारा- दिति ॥२३० ॥
- नीलमुत्पलमित्यादिवाक्येषु विरोधे तु तत्राप्यस्तीति प्रतिपादठयिष्यत्यनन्तरश्लोक इति भांव:।
Page 217
६१० टीकादटयसमेतें-
सु० टी०-तरहिं प्रकृष्टप्रकाशादाववि संमृष्टार्थतापत्तिः प्रकृष्टपफाश स्वजात्याश्रयव्यक्त्योर्गुणगुणित्वकृतमदेन मुख्यार्थान्वय संभवाच्चन्द्रव्य क्तिपरत्वे वा लक्षितलक्षणापत्तेरित्याशङ्क्पाSडह- प्रळष्टप्रकाशत्वजाती हि लोके
तयोरन्वये कीर्त्यमाने तु ताभ्यां शशाङ्काभिधानाभिधेयं न लक्यम् ॥ २३१॥ प्रकृष्टेति। प्रकृष्टप्रकाशपदवाच्ययोर्जा्योरन्वये ताम्यां प्रतिपाद्यमाने सममिध्याहृतचन्द्रपदाभिधेयं चन्द्रस्वरूपं न लम्येतेत्यर्थः ।। २३१॥ अ० टी०-नन्वेवं नीलोत्पलादिवाक्यवत्संसर्गपरत्व संभवात्प्रकृष्टप्रकाशादिवाक्यस्या- प्यखण्डार्थनिष्ठता नास्तीति नैष दृष्टान्तः सत्यादिवाक्यस्याखण्डार्थत्वे समअ्जस इति चेत्तत्राऽऽह-प्रकृष्टप्रकाशत्वजाती हीति । ताभ्यां प्रकृष्टप्रकाशाभिधानाभ्यां तयो: प्रकृष्टप्रकाशत्वजात्योः स्ववाच्ययोरन्वये संसर्गे कीर्तयमाने तु शशाङ्काभिधानाभि- धेयमज्ेन पृष्ट चन्द्रप्रातिपदिकार्थरूपं न लभ्यमित्यबुभुत्सितार्थप्रतिपादनपरतयाऽस्यानव- धेयवचनत्वापत्तिरित्यतो लक्षणयाSखण्डार्थपरत्वमस्याभ्युपेयमित्यर्थः । प्रकृष्टप्रकाशयोः संतमसखद्योतगतयोश्चन्द्रे संकीर्णत्वेऽपि तयोर्जातिवचननिर्देशो वैशे,षिकप्रक्रियानादरेणेति * द्रष्टव्यम् ॥२३१ ॥ सु० टी०-न लभ्यतां कि तत इति चेत्तताSऽह -- शशाङ्काभिधानाभिधेये हि पृष्ठे तदेवोत्तरेणापि निर्णेयमत्र।
तदाक्षिप्ततद्वचञ्जकव्यक्तिनिष्ठः ॥।२३२।। शशाङ्केति। चन्द्रपातिपदिकार्थस्य पृष्टत्वात्प्रश्ोत्तरयोश्ष तुल्यविषय- तानियमाद्न्यथानपेक्षितवादित्वापत्तेरुत्तरमवि तत्परमेव वक्तुमुचित- मित्यर्थ:। (+संसृष्टाभिधाने कथमुत्तरस्यातत्परत्वमिति चेत्तत्राSडह-
- अन्यथा सांकर्याज्जातिरेव न स्यादिति भाव:। +क. पुस्तके नायं ग्रन्थः।
१ क. ग. काश्यादा°।
Page 218
संक्षेपशारीरकम्। २११
पकष्टेति। प्रकृष्टप्रकाशपद्वाच्यजात्योयोंयं परस्परान्वयः स साक्षादंसंभ- वन्ननुपपत्या तद्यश्ञकगुणव्यवत्योरन्वये पर्यवस्यति न चन्द्रव्यका- वित्यर्थ:) ।। २३२। अ० टी०-नन्वस्य चन्द्रप्रातिपदिकार्थत्वमेव किभित्यभ्युषेयते येन तदप्रतिपादनेऽ- स्यानवधेयवाक्यत्वापत्तिरिति चेत्तत्राऽह-शशाङ्काभिधानाभिधेये हि पृष्ठ इति। यदुद्दिश्य प्रश्नपवृत्तिस्तदेवोत्तरवाक्येनापि निर्णेयमिति हि न्यायमार्गः । तदत्रा- स्मिञ्ज्योतिर्मण्डले कश्चन्द्रपदाभिलम्य इति चन्द्रपातिपदिकार्थस्यैव तदनभिज्ञेन पृष्टत्वात्ततस्व्र- रूपप्रतीत्यनुरूप एवोत्तरवाक्यप्रवृत्तिर्युक्ता तत्र प्रकर्षप्रकाशवैशिष्टयस्य प्रतिपादने यश्चन्द्रः स प्रकृष्टप्रकाश इति पदयोजना भवेत्तत्र चानवबुद्धोद्देश्यचन्द्रस्वरूपस्य श्रोतुवैशिष्टयप्र- तीतिः कस्येदं वैशिष्टयमिति साकाङक्षत्वान्न पर्यवसितार्था जायेत। यदा तु यः प्रकृष्ट- प्रकाश: स त्वद्गभुत्सितश्चन्द्रपदाभिधेय इति योजना तदा स्वावबुद्धप्रकर्षप्रकाशशब्दार्थ- तया तत्संबन्धिनि चन्द्रस्वरूपे भवत्येव पर्यवसिता मतिरिति प्रकृष्टप्रकाशपदयोश्चन्द्रस्वरूप- मात्रपर्यव सितत्वमेघोत्तरवाक्येऽपि युक्तं न वैशिष्टयबरमित्येतमर्थममिप्रेत्य प्रकृतयोः पदयो- र्लक्षणया चन्द्रैकव्यक्तिनिष्ठत्वं दर्शयति-प्रकृष्टप्रकाशत्वजात्यन्वयोऽयमिति। वाच्ययोर्जात्योः पदसामर्थ्यसिद्धयोरन्वयः प्रतीयमानोऽयं ताभ्यामाक्षिप्ता या तत्वजिका व्यक्तिश्चन्द्रपदवाच्या तन्निष्ठस्तत्रैव पर्यवसित इति योजना। सामान्यान्वयस्यान्यत एव सिद्धत्वादप्रतिपाद्यत्वात्ततो विशेषान्वयस्तावद्वाक्यार्थोडङ्गीकर्तव्यः । स च वाच्यप्रकृष्टत्व- प्रकाशत्वाम्यां द्वाराभ्यां तदाश्रयव्यक्तावेव पर्यवस्यति। तच्च न लक्षणं विनेति लक्षणाड्य त्रावश्यंभाविनी लक्ष्यव्यत्तयोक्ष स्वरूपतो भेदानिरूपणादखण्डार्थताऽपि सिद्धेति भाव: ॥। २३२ ।।
सु० टी०-न चासी चन्द्रपातिपदिकार्थ इत्याह- शशा ङ्काभिधानाभिधेयो न चेष्टः शशाङ्कस्य तेजोविशेषत्वहेतोः। ततश्र्वोपपन्ना जहल्लक्षणातः पुरोक्ता पदाभ्यामखण्डार्थसिद्धि: ॥ २३३ ।। शशाङ्केति। कुत इत्याह वुभुत्सितस्य तेजोविशेषात्मकत्वेन गृणद्ूय- संसर्गावात्मकत्वात् । अतः प्रकृष्टप्रकाशपदाभ्यां जातिलक्षणवाच्य-
Page 219
२१२ टीकाहूयसमेतं- स्यागेन तात्पर्यविषय चन्द्र्यक्तिलक्षणादखण्डार्थतं जहलक्षणातो न सु भागलक्षणातः शबलवाचित्वामवादित्यर्थः । ततश्चाखण्डार्थमांत्रे हटान्त :- पुरोक्तेति। प्रकृष्टपकाशध्वनी इत्यत्रोपक्रान्तेत्यर्थः ॥ २३२॥ अ० दी०-एतमेव पूर्वपद्े तदाक्षिप्तंतव्व्यञ्जकव्यक्तिनिष्ठ इत्युपक्षिप्तमर्थमुपपादयति- शशाङ्केति। कुतो नेष्ट इति तत्र हेतुमाह-शशाङ्कस्थेति। अयमर्थ :- शशाङ्क- पदाभिलप्पोऽर्थो हि तेजोविशेषो व्यक्तिरेव तस्याश्चैकत्वान्न तत्र जातिरस्त्यतः प्रकृष्ट- प्रकाशशब्दस्य शशाङ्काभिधानाभिधेयः शशाङ्कत्वजातिर्वाच्योऽर्थो न चेष्ट इति। फलित माह-ततश्रेति। जहलक्षणा प्रकृष्टत्वप्रकाशत्वधर्मरूपवाच्यार्थपरित्यागेन तदाधारतेजो- विशेषात्मकव्यक्तिमात्रनिष्ठा पदवृत्तिरुपपन्नेत्यर्थः । ततश्वैकव्यक्तिनिष्टवे पदयोः सिद्धे सति पुरोक्ताऽखण्डार्थसिद्धिरुपपन्ना पदाभ्यामित्यर्थः ॥ २३३॥ सु. टी०-तथाऽपि नाखण्डार्थसिद्धिर्जातिवाचिम्यां पदा्म्या स्वाश्र- बव्यक्ती समुलदूध्य चन्द्रव्यक्तिलक्षणानुपपत्तेस्तथात्वे वा लक्षितलक्ष-
प्रकर्षः प्रकाशातिरिक्तो न चात्र प्रकाश: प्रकर्षातिरिक्त्तो न चात्र। वहिश्रन्द्रमस्ति स्वरूपातिरेक- स्तयोश्र्वन्द्रमस्येकतैवातिमात्रम् ॥। २३४। प्रकर्ष इति। बहिश्वम्दं चन्द्रादन्यत्रान्धकारादौ प्रकर्षस्य खद्योतादी प्रकाशस्य च व्यक्ति मेदेऽपि तत एव पद्योरपौनरुकत्येऽवि चन्द्रे तयो- रन्योन्य चन्त्रृव्य क्तेश्रात्यमामेक्यमस्त्येवेत्यर्थः ।। २३४।। अ० दी०-नन्वेवमपि नाखण्डार्थत्वसिद्धिः प्रकर्षप्रकाशाख्यधर्मयोरन्योन्यं चन्द्रव्य- केश् भेदादिति चेत्तत्राऽऽह-प्रकर्ष इति। अन्यत्र तमःखद्योतगतयोः प्रकर्षप्रका- शयोर्भेदेऽप्यत्र चन्द्रस्वरूपे न तयोरन्योन्यं स्वरूपतोऽतिरेकश्चन्द्रव्यक्ेश्च न ताभ्यामति- दक इत्यर्थः । कुत इति चेत्तत्राऽऽह-बहिश्रन्द्रमस्तीति। तयोः प्रकर्षपकाशयो- बेहिश्चन्द्रं चन्द्राद्वूहिश्वन्द्रस्वरूपांत्पृथक्स्वरूपातिरेकः स्वरूपतो भेदो न चेत्यनुषज्यते। तस्मात्तयोश्वन्द्रमस्यतिमात्रमत्यन्तमेकतैव चन्द्रमस्तैव परमार्थतस्तयोरित्यन्यादृशस्य चन्द्रे
Page 220
संक्षेपशारीरकम्। २१३
सु० टी०-तार्हे साङ्क्यपित्तेरत्रापि भेद एवास्त्वति चेन्नाननु- मवादित्याह- न चन्द्रप्रकाशपरकर्ष प्रकाशा-
तथाऽस्य प्रकर्षप्रकाशं प्रकर्षा- चतो नानयोरस्ति भेदे भ्रमाणम् ॥ २३५॥ न चन्द्रेति। प्रकाशप्रकर्षो हि प्रकाश एव तथेतरोऽपि प्रकर्षात्मा न हि चन्द्रे तयो: कश्िविद्वन्धरसादाविव भेदं पश्यतीति तदनुपलम्भात्तादटृकू- प्रकाशात्मक एव चन्द्र इति न भेदगन्धोऽपीत्यर्थः। नीलमुत्पलं सुग- न्धीत्यादौ तु रूपगन्धादेर्मदोपलम्माछुक्तं संसृष्टार्थत्वमिति॥२३५ ॥। अ० टी०-कुतो भेदाभाव इति चेदभेदानुभवविरोधादेवेत्याह-न चन्द्रप्रका- शपकर्षमिति। चन्द्रे यः प्रकाशस्तस्य च यः प्रकर्षस्तं प्रकाशात्प्रकाशस्वरूपात्तदी- याच्चान्द्रमसात्पृथग्विविक्तमिह व्यवहर्तृपाणिषु न कश्चिदुत्पश्यति न कोऽपि सम्यग्भेदं पश्यतीति यावत्। यथा प्रकर्षस्यास्य प्रकाशभेदरतथा प्रकाशस्याप्यस्य प्रकर्षाभेद इत्याह -- तथास्येति। प्रकर्षात्तदीयान पृथक् कश्चिदुत्पश्यतीहेति पूर्वेणान्वयः । ततो भेदानुभवाभावादभेदेनैवानुभवादनयोर्भेदे नास्ति मानमुत्प्रेक्ष्यमाणानां मानानामबा- धितानुभवविरोधादित्यर्थः । अर्थाच्न्द्रव्यक्तेश्वानयोरभेद उक्तो वेदितव्यस्तस्याश्व प्रकर्ष- प्रकाशातिरिक्तस्वरूपस्यानुभवाभावाद्गेदकल्पनायां प्रमाणाभावाच्चेति। अयं भावः-रूपर- सादिवत्प्रकर्षप्रकाशयोर्न स्वरूपभेदः कस्य चित्स्फुरति ततश्वेदृशप्रकाशातिरिक्तस्याSSका- रस्य चन्द्रेऽभावादेव चन्द्रस्य स्वरूपमिति निश्चीयतेऽस्याश्च प्रतीतेर्बाधकादर्शनाच्चन्द्रस्व- रूपमात्रपर्यवसितौ प्रकृष्टप्रकाशशब्दाविति ॥ २३५॥ स० टी०-एवं विरुद्धासमभिव्याहृतमपि प्रकृष्टादिवाक्यमखण्डार्थ
त्यत्रापि तदुपसंहरति- तथा सचिदानन्दशब्दास्तदर्थ तथा तत्त्वमावात्मनो ब्रह्मभावम्।
१ क. नातुभ ।
Page 221
टीकाहूयसमेतं-
विरोधान्मिथो, लक्षणावर्त्मनेम। किमर्थ न संभूय वक्तुं समर्थौ ॥ २३६ ॥ तथेति। प्रकृष्टप्रकाशादिशब्दववित्यर्थः । तदर्थ तत्पद्लक्ष्यमखण्ड- मित्यर्थः । यदा गुणशब्दानामप्यखण्डार्थत्वं तदा शबलार्थौ तत्वंशब्दा स्वार्थविरोधात्कथमखण्डं लक्षयितुमशक्तावित्यर्थः ।। २३६।। अ० टी०-एवं दृष्टान्तेऽखण्डार्थपरत्वं वाक्यस्योपपाद्य दार्टान्तिकेऽपि तत्परत्वं सिद्धमित्येतदाह-तथा सच्चिदानन्देति। यथा प्रकृष्टः प्रकाश इति च पदे चन्द्र- स्वरूपमात्राकाड्क्षायां प्रवृत्ते लक्षणया चन्द्रस्वरूपं प्रतिपादयतस्तथा सच्चिदादिशन्दा ब्रह्म- स्वरूपमात्राकाड्क्षायां प्रवृत्तास्तदर्थ तत्पदार्थस्वरूपं संभूय लक्षणया कस्माद्वक्तुं न समर्थाः किं तु प्रागुक्तवर्त्मना समर्था एवेति योजना। तथा तथा च सति सत्यादिपदनामख- ण्डैकरसब्रह्मपरत्वे सतीतियावत्। तत्तमौ तत्पदं त्वंपदं चेमौ शब्दावात्मनः परिशोधितस्य प्रतीचो ब्रह्मभावं सत्यादिलक्षणतत्पदार्थानन्यत्वं स्ववाच्यार्थाशयोर्मिथो विरोधात्तदेकदेशा- विरुद्धार्थलक्षणया संभूय वक्तुं किमर्थ न समर्थाविति योजना। तथा च ब्रह्मात्मविषया- वान्तरवाक्यैस्तात्पर्येण प्रतिपादिते तत्त्वे स्वरूपतो भेदलेशस्याष्यसंभवान्महावाक्यैरप्यखण्ड एवार्थ: पदार्थपरिशोधनदशायां निरस्यमानोपाधिभेदवशात्प्राप्तभेनुवादेनाSSमैव ब्रह्म ब्रह्ैवाऽडत्मेति प्रतिपाद्यत इत्यत्र न कोऽपि विन्न इति सिद्धमिति भाव: ॥ २३६ ॥ सु० टी०-नन्वात्मनो ब्रह्ममावस्य पयसो दृधिभाववत्संसर्गारूप- स्वात्कथमखण्डत्वमिति चेल्लक्ष्याशाभेदादित्याह- प्रत्यक्तत्त्वं लक्षयेत्त्वंपदार्थ- स्तच्छब्दार्थो लक्षपेदद्वितीयम्। एवं पूर्ण प्रत्यगात्मानमेतौ शब्दौ बूतो लक्षणावर्त्मनैव ॥ २३७॥ प्रत्यगिति। त्वंपदृं हि स्वार्थाच्छबलाद्दुःखित्वाद्यंशमतारिविकं हित्वा स्वांशं लक्षयेत्तत्पद्मपि पारोक्ष्यादि विसज्याद्वितीयमात्मांशमेवेत्येव- मेतावुक्तलक्षणया पूर्णमात्मानमेव बूत इत्यखण्डार्थतेत्यर्थः ।। २३७॥ अ० टी०-किमत्र लक्ष्यं लक्षकं वेति वीक्षायां पूर्वोक्तमेव स्मारयति-म्रत्यगिति। त्वंपदार्थस्त्वंशब्दवाच्योऽर्थः पदप्रवृत्तौ द्वारभूतः प्रत्यक्तत्त्वं याथात्म्यं 'चैतन्यैकस्वभावं उक्षयेत्। तथा तच्छन्दार्थो वाच्यरूपोडद्वितीयं ब्रह्मतत्वं लक्षयेत्। विरुद्धांशप्रहाणेनावि-
Page 222
संक्षेपशारीरकम् । २१५ रुद्धार्थस्वरूपमात्रे पर्यवसितं स्वावाचकं पदद्वयं संपादयत इत्यर्थः । यद्वा प्रत्यक्तत्व्रं त्वंप- दार्थ इति लक्ष्यस्वरूपनिर्देशः । लक्षयेखंपदमिति शेषः । उत्तरत्राप्येत्रं योजना । अख- ण्डताऽर्थस्यैताषता कथं सिद्धेति तदाह-एवमिति। अक्षरार्थः सुगमः। अध्यात्माधि- भूतरूपोपाध्यंशोद्धारेण स्वस्वार्थलक्षकत्वात्परि्छेदप्रहाणे सत्यपरिच्छिन्नैकरसं चिदात्मानमे- बैतौ शब्दौ ब्रूतो ज्ञापयत इति विवक्षितोर्यः ॥२३७॥ सु० टी०-ननु लक्षणया त्यक्तयोरपि दुःखित्वपारोक्ष्पयो: कर्थ निवृत्तिर्न हि गङ्गावेस्तीरादिलक्ष्पज्ञानाद्विनाशो दृश्यते ततश्राखरण्ड- वोधेऽपि न प्रागवस्थातः कश्विवद्विशेष इति विफलमिदं वेदान्तजन्यं ज्ञानमिति चेन्नेत्याह -- पारोक्ष्यं च ब्रह्मणि प्रत्यगर्थे दुःखित्वं च ध्वान्तसंभूतमाहुः । सम्यग्ज्ञानध्वस्तमोहस्य पुंस: प्रध्वंसेते हेत्वभावे फलत्वात् ॥ २३८॥ पारोक्ष्यं चेति। ब्रह्मणि पारोक्ष्यादि प्रतीचि च दुःखित्वादि बह्माज्ञान- जन्यत्वाद्सत्यमतो ब्रह्मज्ञानेन स्वहेत्वज्ञाननिवृत्ती ते बाध्येते फलत्वा. दज्ञानकार्थत्वात्सविलासाज्ञाननिवृत्तेर्वाधत्वादित्यर्थः । गङ्गादेस्तु तीरा- द्यज्ञानाजन्यत्वान्न तज्ज्ञानेन बाध इति ॥२३८॥ अ० टी०-नन्वेवमपि न वाक्यार्थस्यैकरसता संभवति यतः पदाभ्यां परित्यक्तस्या- ध्यात्माधिभूतलक्षणस्योपाधेः पदार्थस्वरूपेऽवस्थितिस्तयोर्लक्ष्यमाणवस्त्वाश्रितत्वात्। न हि सोडयंपदाभ्यां भागारित्यागेन लक्ष्यमाणदेवदत्तस्वरूपैक्येऽपि परित्यक्तदेशादिवैशिष्टयमपग- च्छत्यतो न पूर्वावस्थातः कोऽप्यतिशय इत्याक्षपमाशङ्कमानः परित्यक्तांशस्य पुनरवस्थाने कारणाभावात्प्रकृतवाक्यार्थे नाक्षेपावसर इति प्रकृतोपयुक्तमर्थमाह-पारोक्ष्पं चेति। ब्रह्मणि तत्पदार्थे यत्पारोक्ष्यं प्रत्यगर्थे त्वंपदार्थे च यदुःखित्वं तदुभयं ध्वान्तसंभूत चिद- विद्याविलासितमाहुर्वेदान्तत्त्वविद इति शेषः । यतोऽयमर्थो निर्णीतोऽतः सम्यग्जानेन ध्वस्तो मोहः सर्वविकारमूलकारणं यस्य तस्य पुंसः पदार्थद्वयगतपारोक्ष्यदुःखित्वे पध्वंसे ते नाऽडत्मानं धारयत इत्यर्थः । तत्र लौकिकं न्यायं दर्शयति-हेत्वभाव इति। बीजा- भावे तत्कलाभाव इति न्यायादित्यर्थः । तथा च तद्देशकालवैशिष्टयस्याविद्यामयत्वाभावा- देवदत्तस्त्ररूपज्ञानेन न तन्निवर्तत इह तु सद्वितीयत्वादेरात्माविद्याविलासत्वाद विद्यानिवृत्तौ निवर्तते शुक्तितत्ज्ञानेन शुक्त्ज्ञाननिवृत्ताविव तत्कल्पितं रजतत्वमिति भावः ॥ २१८॥
Page 223
२१६ . टीकाहूय समेतं- सु० टी० -- ननु गुरुमते प्रथमावगतं क्रियाकार्यत्वमुत्सृज्य विषेकव- शायां वैदिककार्ये लिङादेरिव तंत्वमादेरव्यज्ञस्य प्रथमावगतशबलश- क्तिमुत्सृज्य विवेककालावगताखष्डार्थ एव शक्तिराश्रीयतां किं लक्षण- येति चेन्न प्रवृत्तिनिमित्तासंभवादित्याह- षष्ठीजातिगुणक्रियादिरहिते सर्वस्य विज्ञातरि प्रत्यक्षे परिवर्जिताखिलजगह्दैतप्रपश्चे हशौ। संत्यक्तव्यवधानके परमके विष्णोः पदे शाश्वते त्वय्यज्ञानविनिर्मिता न हि गिरो मुख्यप्रवृत्तिक्षमाः॥ २३९॥ षष्ठीति। त्वयि निर्विशेषे तत्वमादिगिरो न मुरयवृत्तिसमर्थाः। कुत हत्य- पेक्षायां विशिनष्टि पठठीत्यादिना।षषी संबन्ध इत्यर्थः। संबन्धनिनित्ता हि समासतद्ध्विताद्यो जातिनिमित्ता गवाद्यः शब्दा गुणनिमित्ता: शुक्का- दय: क्रियानिमित्ता: पाचकादयः स्वरूपनिमित्ता डित्थाद्यः। तत्र ब्रह्म न तावत्संबन्धनिमित्तैः शब्दैरभिधेयमसङ्गत्वान्न जातिगुणक्रिया निमित्तै- रधर्मकत्वान्नापि स्वरूपनिमित्तेन व्यवहारातिवर्तिनि स्वरूपे तन्निबन्धन- व्युत्पत्ययोगात्। अत एवाSऽह-सर्वस्य विज्ञातरीति। सर्वसाक्षिणि सर्वां- न्तरे सर्वशक्तिग्राहकमानागोचरे। तर्हि नित्यपरोक्ष: स्यान्नेत्याह-प्रय्यक्ष इति। विज्ञातृत्वेनापरोक्षत्वेऽप्यज्ञैरनिरुप्य माणे। तर्हिं विज्ञव्युत्पत्तिविषय- त्वादस्तु विज्ञातृपद्वाच्यत्वमिति नेत्याह-परीति । तदृपि विज्ञेयापे- क्षत्वान्ना्डत्मन: स्वरूपमिति न ज्ञेयसंबन्धहीनस्य विज्ञानृपद्वाच्यत्वमपी त्यर्थः । तर्हिं किमस्य स्वामाविकं रूपमिति तत्राSSह-दशाविति। किं तदेताहशं वस्तु जगद्विलक्षणमिति तदाह-परमक इति। ननु जगत्कार- णस्य पदं जगत्संबन्धि कुतो नेत्यत्राऽऽह-शाश्वत इति। न तद्वस्तुतः कारणमधिष्ठानमात्रत्वादित्यर्थः । तर्हयधिष्ठानत्वेन व्यवहितत्वात्परोक्ष स्यादिति नेत्याह-संत्यक्तेति। न हि तत्पद्मात्मनो व्यवहितं स्वरूपत्वा- व्य्यवधानस्य कल्पितत्वादित्यर्थः। अवस्तुभूताश्ष गिरो न वस्तुनि संब- न्धमर्हन्तीत्याह-ज्ञानेति । वस्तुतः स्वप्रकाशत्वेऽप्यावृतत्वाच्छ्रुद्धे च किंचिल्लिङ्गाभावाद्व्युत्पत्ति बिना शब्दापवृत्तेर्न तत्र शक्तिग्रह इति तत्वमू ॥२३९ ॥
Page 224
संक्षेपशारीरकम्। २१७
अ० टी०-थद्येवं प्रपञ्चास्पृष्ाद्वितीयात्मतत्वं प्रतिपिपादयिषितं वेदाप्तानां तर्हि तदेव साक्षाच्छब्दशक्त्यैव प्रतिपाद्तां किमेवं लक्षणाप्रयासेनेति चेन्मैवं शब्दस्याSडत्मतसे प्रवृत्तिनिमित्ताभावादित्याह-षषीजातीति। षष्ठीशब्देन तदर्थः संबन्धो लक्ष्यते संब- न्धराहित्याद्राजपुरुषशब्दवद्राजपुरुषें न ब्रह्मण शब्दप्रवृत्तिरित्यर्थः । जातिर्गोत्वादिसामान्यं तन्निमित्तो गोशब्दो यथा द्रव्ये प्रवर्तते न तथाSत्रेत्याह-जातिरहित इति। एकव्यक्ति- कत्वाज्जातिराहित्यम्। नीलादिशब्दा हि द्रव्येषु गुणनिमित्ताः प्रवर्तम्ते नीलमुप्पलमित्यादौ न तथाSत्रेत्याह-गुणरहित इति। 'केवलो निर्गुणक्च' [श्वे०६।११ ] इति श्रुते- र्गुणराहित्यम्। क्रियानिमित्तकाश्च पा[ च ] कादयो नात्र क्रियाऽपीत्याह-क्रियारहित इति।'निष्कलं निष्क्रियम्' [श्वे० ६ । १९ ] इति श्रुतेरस्य क्रियाराहित्यमादि- पदात्स्वरूपसंकेतसादृश्यादिग्रहः। न ह्यस्य डित्थादिशब्दवद्गोत्वादिजातौ गोलादिशब्दवद्दा स्वरूपतः संकेत उपपद्यते व्यवहारागोचरत्वादस्य 'अदृष्टमव्यवहार्यम् ' [माण्डू० ७] इति श्रुतेः । यथा सादृश्यनिबन्धनः शब्दश्रन्द्रमुखत्वादिर्न तथाऽस्य केनचित्सादृश्यमस्ति गुणावयवाद्यभावात् 'न संदृशे तिष्ठति रूपमस्य '[कठ० ६ । ९ ] इति श्रुतेश्चेत्यर्थः।
इति। परित्यक्ताखिलानात्मद्वैतविस्तारे कार्यकारणधर्मवर्जित इति यावत्। षष्ठयर्थादयो हि कार्यकारणात्मके वस्तुन्येवोपलभ्यन्ते नायं तथेति षष्ठयादिरहित इत्यर्थः । अत्र हेत्वर्थ विशेषणं-सर्वस्य विज्ञातरीति। अशेषस्य विज्ञातुर्न विज्ञेयधर्मसंसर्ग इत्यर्थः । स कि नित्यमपरोक्षस्तर्हि स नास्तीत्यपि शङ्का स्यादिति नेत्याह-प्रत्यक्ष इति। नित्यापरोक्ष इत्यर्थः । प्रत्यक्षत्वे हेतु :- द्ृशाविति। चित्स्वरूपस्याSडत्मनः परोक्षतवे हेत्वभावात्सर्वावस्थाननुसंधानप्रसङ्गाच्ेति भावः । पारोक्ष्याभावे हेत्वन्तरमाह-संत्यक्त- व्यवधानक इति । व्यवहितोऽर्थो हि द्रष्टुः परोक्षो भवति न त्वात्माSSत्मनोऽव्यव- हितो न परोक्ष इत्यर्थः। स किमहंकारादिरूपो नेत्याह -- परमक इति। पर एव परमः परम एव परमकोऽहंकारादिभ्यस्तत्कारणविद्यायाश्च परस्तादुपलक्ष्य इत्यर्थः । 'अप्राणो ह्यमना: शुभ्रोऽक्षरात्परतः परः ' [मुण्ड० २ ।१।२] इति श्रुतेः । यद्वोक्तवस्तु- नोऽपरोक्षदय्रूपत्वेऽप्यपुरुषार्थसंबन्धादुपेक्ष्यमेतदिति तत्राSSह -* परमक इति। परमान- न्दस्त्रभाव, इत्यर्थः । उक्तविशेषणवस्तुस्व्ररूपमाह-विष्णोः पद इति । परमात्मस्वरूप इत्यर्थः । विष्णुपदशब्दस्य पुराणोक्तवैकुण्ठलोकविषयत्वशङ्कां वारयति-शाश्वत इति। सदैकरूपे नित्य इत्यर्थः । स किं प्रत्यगात्मनोरऽर्थान्तरं हन्त तर्हि परोक्ष एवेत्यत आह- त्वयीति। प्रत्यक्स्वरूप इत्यर्थः । कि च शब्दस्यापि प्रपश्चान्त:पातितया मायामयत्वान्न सत्यवस्तुनि संबन्ध उपपन्न इत्याह-अज्ञानविनिर्मिता इति ॥ २३॥॥
- कशव्दस्य मुख्यवांचित्वात।
Page 225
२१८ रीकाटवुयसमेतं-
सु० टी०-नन्वात्मनो मनोवेद्यत्वान्न व्यवहारातीतत्वमतः कथं तत्र गिरो न प्रवर्तन्त इति चेत्तन्राSऽह- आस्तामत्र वच:प्रवृत्तिविरहः प्रत्यक्त्वहेतोर्द्वशि- व्यापाराय मनोऽपि न प्रभवति ध्राम्यत्पराग्भमिषु। एवं चेदखिलप्रमाणपदवीः षोढा विभिन्ना भवा- नुल्लङ्ध्य व्यवतिष्ठते त्वयि गिरः स्यान्मुख्यवृत्तिः कथम्॥ २४०॥ आस्तामिति। तत्र वचो न प्रवर्तत इत्यल्पं मयोक्तं वस्तुतः सर्वान्तरं मनोऽपि न तत्र व्याप्रियत इति कव शक्तिग्रहावकाश इत्यर्थः । कुत इति चेत्तन्राSSह-प्रत्यक्वेति। इन्द्रियेभ्यः प्रतीपाञ्चनादित्यर्थः। प्रवर्ततां मनः प्रतीच्यपीति चेन्नेत्याह-भ्राम्यदिति। प्रमाणसहकारेण बाह्येषु ध्याधियमाणं न तत्प्रत्यग्ग्रहणयोग्यमित्यर्थः। 'पराश्चि खानि '[ कठ० ४ । १ ] इति श्रुतेः । एवं च 'मनसा ह्येव पश्यति' [मैत्यु० ६।३० ] इत्यादिश्रुत्या मनस एव सर्वग्राहकत्वान्मनोविषयत्वामावे सर्वमानावि- षयत्वान्न वाग्विषयत्वमित्याह-एवं चेदिति ॥ २४०॥ अ० टी०-इदानीं मनोविषयत्वमप्यात्मनो निराकुर्वस्तस्य सर्वप्रमाणाविषयत्वे कैमु- तिकं न्यायं दर्शयति-आस्तामत्रेति। अत्राऽडत्मनि शब्दप्रवृत्तिनिमित्तानामसंभवा- द्वचसां प्रवृत्तिविरहो य उपपादितः स तिष्टतु तावत्तत्र कि वक्तव्यं यतो मनोऽपि यत्र दृशिव्यापाराय न प्रभवति। कीदृशं पराग्भूमिषु ्राम्यत्सर्वानात्मवस्तूनि विषयीकुर्वत्। कस्मादित्यत आह-प्रत्यकत्वहतोरिति । आत्मन आन्तरत्वादविषयत्वादित्यर्थः । मनोवृत्युत्पादनद्वारा हि सर्वप्रमाणानां विषयेषु प्रवृत्तिस्तद्यत्र न प्रभवति तत्र सर्वप्रमाणा- विषयत्वं विशेषतः शब्दविषयत्वं च किमु वक्तव्यमित्याह-एवं चेदिति। एवं मनसोऽ- प्यविषयत्वे सति भवान्प्रत्यक्चिदात्मरूपः घोढा विभिन्ना अखिलप्रमाणपदवीः सर्वप्रमाण- प्रचारमार्गानुल्लङ्मय व्यवतिष्ठते। त्वयि गिरो वाक्यस्य पदस्य वा मुख्यवृत्तिः कथं स्यान्न कथमपि द्वाराभावादित्यर्थः ॥ २४० ॥ सु० टी०-ननु लक्षणागम्यत्वेऽप्यात्मनः कर्मतं दुर्वारमिति नेत्याह- आत्मानं नं तु कर्मतामुपनयञ्छब्दो वदेल्लक्षणा- मार्गेणापि यतः पराग्विषयवन्नास्येष्यते कर्मता।
१ क. ग. ति कर्थ श°।
Page 226
संक्षेपशारीरकम्। २१९ .
प्रत्यक्त हि विरुध्यते यदि भवेदस्याऽSत्मनः कर्मता यदत्कर्म न तस्य तस्य भवंति प्रत्यक्त्वभावो यत:॥२४१।। आत्मानमिति। शब्दमेयत्वेऽप्यविषयत्वेन फलाव्याप्यत्वान्नाSडतमन: कर्मत्वमित्यर्थः । ननु मेयत्वादेव कर्मत्वमिति नेत्याह-यत इति। परा- ग्वस्तुन एव कर्मतया मेयत्वं प्रतीचस्त्वकर्मत्वेऽपि मेयत्वं वृत्तिव्याप्यत्वेन भवतीत्यर्थः । (* नन्वात्मानं जानामीत्यनुभवादात्मनः कर्मत्वमिति नेत्याह-प्रत्यक्ता हीति। कर्मत्वे प्रत्यवत्वविरोधः। अनुभवस्तु सामासा- न्त:करणविषयज्ञानाध्यासरूपो नाऽडत्मविषय इत्यर्थः ।) विरोधं कथ- यति-यद्यदिति। क्रियाव्याप्यस्य तत्फलशालिन इदरूपस्य कर्मत्वंन कूटस्थस्य स्वप्रकाशस्याऽSत्मनस्तट्विरुद्दस्येत्यर्थः ॥। २४१॥ अ० टी०-यद्येवमात्मत्त्वं शब्दो मुख्यवृत्त्या विषयत्वालक्षणावृत्त्या विषयी करोतीति मतं तदपि लोके लक्षणयोपस्थाप्यमानस्यापि तीरादेः शब्दकर्मत्वदर्शनादात्माSपि कर्म वेदा- न्तशब्दानां स्यादिति चेन्नेत्याह-आत्मानमिति। लक्षणामार्गेणाप्यात्मानं बोधयञ्छब्दस्तं कर्मतामुपनयन्कर्मीकुर्वन्न तु वदेद्वोधयेदिति योजना। ननु. तीरादिवन्मेयत्वादस्यापि. कर्मता स्यादिति चेन्नानुभवविरोधादनुमानानुत्थानादित्याह-यत इति। कर्मत्वेन विषयव्वेऽना- त्मत्वं प्रयोजकं न प्रमेयत्वमित्यभिप्रेत्य पराग्विषयवदित्युक्तं यथा पराग्विषयस्य कर्मताडस्ति न तथाऽस्याऽऽत्मनः कर्मतेष्यते तथाऽननुभवादसंभवाच्च प्रमेयत्वं त्वकर्मणोऽि कथं- चित्प्रमाकृतातिशय+विशेषयोगितामात्रेणाप्युपपद्यत एवेति भावः । न केवलं कर्मत्वेनाननु- भवादेवाSSत्मनः कर्मत्वानङ्गीकारः प्रव्यक्त्वकर्मत्वयोर्विरोधादपीति युक्तिमप्यत्रोपोद्वलयति- प्रत्यक्ता हीति। हिशब्देन सर्वसाक्षितया सर्वान्तरतया च परागर्थव्यावृत्ताकारेणाह- मित्युलिख्यमानतया च प्रत्यक्ता श्रुव्यनुभवप्रसिद्धा द्योत्यते। कुतो विरुध्यत इति चेत्कर्मणः पराक्तवेनैव व्याप्तत्वादित्याह -- यद्यत्कर्मेति। प्रत्यकस्वभावः प्रत्यक्ता ॥ २४१॥ सु०टी-अस्तु करणव्यापारविषयत्वादात्मनः कर्मत्वमिति चेन्नेत्याह- वागादेः खलु बाह्यवस्तुविषयो नाऽडत्मा यतो नाऽडत्मनि · व्यापारं करणस्य कस्यचिदपि प्रेक्षामहे न्यायतः । यत्किंचित्करणं जगत्रयगतं तत्प्रत्यगात्मेक्षितं बाह्ये वस्तुनि वर्ततेऽनुभवनं तत्र प्रमाणं मतम् ॥ २४२॥ चागादेरिति। वागादेहि करणस्य बाह्यमेव विषयो न लात्मा। ततश्र
- अर्यं ग्न्थः क. पुस्तके नासित। + अज्ञाननिवृचिरूः।
Page 227
२२०
मनःशब्दौ नाऽडतमविषयौ करणत्वाञ्चक्षुश्विति। विपक्षे मनःपामाण्या- पत्तिः। न चेष्ापत्तिरात्मनः स्वप्रकाशत्वेन सुखादीनां च साक्षिमास्प- त्वेनासाधारणविषयाभावात्। अंत एव न बहिर्मात्रविषयत्वमुपाधिर्है- तुव्यास्तेस्तर्कमूलत्वेनास्य साध्याव्यापकत्वात्। तत्र सव्यात्तिकं हेतु- माह-यत इति। कस्यचिद्पीति व्याप्त्यर्थम्। ननु विराजः सर्वज्ञस्याSS- त्मनि वागादिव्यापारसंभवइति नेत्याह-न्यायत इति। न्यायमेवाह- यत्किंचिदिति। समष्टिव्यषट्यात्मकं ब्रह्मादिकीटान्तगतं करणमित्यर्थः । 'पराष्चि' [कठ० ४ । १] इत्यादिश्तेरसंकोच एव न्यायः । करणस्य' कर्तृव्याषारविषयतामाह-प्रत्यगिति। सामासान्त:करणमासकेन तद्वि- वेकाज्च प्रमातृत्वमापन्नेन साक्षिणेक्षित सच्विदाभ करणं जडमप्यजडव त्यवर्तत इत्यनुभव एवात्र मानमित्वर्थः ॥। २४२ ॥ अ० टी० -- किं च मनःशब्दौ न साक्षादात्मविषयौ करणत्वाच्चक्षुरादिवदित्यनुमा- नादप्यात्मनोऽकर्मव्वसिद्धिरित्याह-वागादेरिति। 'पराञ्चि रवानि' [कठ० ४ १ ] इति श्रुतिसिद्धनिश्चयद्योतकः खलुशब्दः । बाह्यवस्त्वेव बागादेर्वाङमनसयोर्विषयो नाऽडतमा विषयः । कुतः कस्यचिदपि करणस्याऽऽत्मनि प्रतीचि व्यापारं न्यायतो न प्रेक्षामहे करणत्वाद्वाङ्मनसी चक्षुरादिवन्नाऽ्मगोचरव्यापारे इत्यर्थः । करणगोचरस्य जड- त्वनियमाज्जडस्य च करणाधिष्ठातृत्वासंभवादात्मनोऽपि तथात्वे जडत्वापत्तौ जगदान्ध्यप्र- सङ्गात्करणाव्यापारप्रसङ्गाच्चाऽडत्मा न करणगोचर इति भावः । उक्तन्यायमेवानुभव- प्रमाणकतया विशदयति-यत्किंचिदिति। जगत्रयगतं य्त्किंचित्करणमस्ति तत्प्रत्य- गात्मेक्षितं सत्स्वाभासव्याप्त्या प्रकाशितं सद्वाहे वस्तुनि द्रव्यगुणादौ वर्तते प्रवर्तते। किमत्र प्रमणं तदाह -- तथाऽनुभवनमिति। यथा-'केनेषितं पतति प्रेषितं मनः। केन प्राणः प्रथम: प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति [के० १]इति प्रश्नपूर्वकं 'श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणश्क्षुषश्क्षः । अतिमुच्य धीरा: ' [ केनो० २ ] इति श्रुत्या निर्णीत तथा विद्वदनुभवनं तत्रोक्तार्थे प्रमाणं मतमिष्टमिति योजना ॥ २४२ ।। सु० टी०-प्रतीच: शब्दाविषयत्वमुपसंहरति- प्रत्यगूपमतो न शब्दविषयो बुद्धेरवेयं यतो बुद्धिर्यत्र हि वर्तते स विषयः शब्दस्य नाऽऽत्मन्यसौ।
Page 228
संक्षेपशारीरकम्। २२१:
तेनाSत्मानमसौ न गोचरयितुं शब्दः क्षमो मुख्यया वृत्त्यैवेतरयाऽपि तेन न तया तस्याऽडत्मनः कर्मता॥२४३। प्रत्यगिति । अतो न प्रत्यग्वस्तु शब्दस्य विषयः कर्मेत्यर्थः । यतो बुद्धयविषयस्तथाऽप्यौपनिषदृत्वादस्तु शब्दविषय इति चेन्नेत्याह- बुद्धिरिति। बुद्धयविषयमात्मानं न शब्द: कर्मीकर्तु शक्रोति बोधस्य वुद्धिविपरिणामत्वाहित्यर्थः ॥। २४३।। अ० टी०-इत्थं प्रत्यगात्मनोSविषयत्वं प्रतिपाद विषयत्वायोग्यत्वादेवाविषयत्वमपि तससेत्युक्तार्थ निगमयति-प्रत्यग्ूपमत इति। यतो बुद्धेरवेद्यत्वं प्रत्यग्रूपमतो हेतोर्न शब्दविषय इति संबन्धः । ननु व्यधिकरणमेतद्बुद्धिगम्यत्वाभावाच्छब्दगम्यत्वाभाव इति। न हि चक्षुरगम्यत्वाच्छब्दस्य श्रोत्रागम्यत्वं साध्यते। 'तं त्वौपनिषदं पुरुषम् '[ बृह० ३। ९ । २६ ] इतिश्रुतिबाधितविषयं चैतत्स्यादित्याशड्क्य व्यापाराय मनोऽपि न प्रभवतीत्युक्तं प्रपञ्चयन्परिहरति-बुद्धियत्र हीति। यत्र विषये बुद्धिर्वर्तते शब्दस्य स एव विषयो नान्यः । न हि चक्षुःश्रोत्रयोरिवानयोर्विषयभेदः सर्वप्रमाणानां मनोगोचर एव प्रवृत्तेः । न हि मनःप्रत्याख्यायकस्यापि प्रमाणस्य विषयसंबन्धस्तदवबोधनं वोपप- द्यतेऽतो यत्र शब्दवेद्यत्वं तत्र बुद्धिवेद्यत्वं यन्न बुद्धिवेद्यत्वाभावस्तत्र शब्दवेद्यत्वस्याप्यभाव इति निश्चीयते । एवमप्यात्मनि किमायातमिदमायतमित्याह-नाSSत्मन्यसाविति। असौ बुद्धिरात्मनि न. वर्तते आत्मानं न विषयी करोतीत्यर्थः । व्यापकाभावाद्वयाप्यस्थाप्य. भाव इति फलितमुपसंहरति-तेनेति। असौ शब्द इति संबन्धः । वृत्त्यैवेत्यत्रैवकारो भिन्नकमो नैव कर्मतेति योज्यो नैव गोचरयितुमिति पूर्वेण वा योज्यः । इतरया लक्षणा- वृत्या तेनोक्तन्यायेन तया लक्षणया वृत्या बोध्यमानस्याप्यात्मनो न कर्मतेति सिद्धमित्यर्थः। औपनिषदत्वमप्यकर्मतयैवेति भावः ॥२४३ ॥ सु० टी०-नन्ववेद्यत्वे प्रतीचः शास्त्रयोनित्वप्रतिज्ञाविरोधो वेद्यत्वे तु समन्वयात्मकहेतुविरोध इति शङ्कते -- नन्वज्ञेयािदं भवेय्यदि मम प्रत्यक्स्वरूपं ततः . पामाण्यं कथमस्य वेदशिरसस्तत्र प्रतिज्ञायते। यन्मेयं न भवेत्कदाचिदपि तद्वेदान्तवेयं भवे- दित्येतद्वचनं पराहतपद वक्तुं न युक्तं बुधैः ॥ २४४॥ नन्विति। अवेदये मम स्वरूपे कथं वाक्यप्रामाण्यमित्यर्थः । वाक्यस्यैष
१ ग. णामित्वा°। २ क. ग. अचोये।
Page 229
२२२ महिमा यद्ज्ञेयमपि बोधयतीति चेन्न विरोधादित्याह-यदिति। तथा चैकवं कृकवाक्यांशविरोधः प्रतिज्ञाविरोध इति निग्रहस्थानम्॥ २४४॥ अ० दी०-यद्येवं सर्वप्रमाणाविषयत्वमात्मनो विशेषतः शब्दाविषयत्वमप्यम्युपेयते तर्हि ब्रह्मण्येव वेदान्तवाक्यप्रामाण्यप्रतिज्ञाविरोधः शास्रयोनित्वाधिकर[ण]विरोधंश्वेति चोदयति- नन्वज्ञेयमिदमिति। ममेदं प्रत्यक्स्वरूपं यद्यज्ञेयं सर्वप्रमाणाविषयो भवेत्ततस्तदा तत्र प्रन्यक्स्वरूपेऽस्य वेदशिरसः प्रामाण्यं कथं प्रतिज्ञायत औपनिषदैरिति योजना । अविष येऽपि वेदान्ता: प्रमाणं किं न स्युरिति चेन्मैवं विरोधादित्याह-पन्मेयं न मवेदिति। स्पष्टार्थ: । प्रमाणाविषयश्च प्राम्ाणिकश्चेति व्याहतवचनं विदुषां न शोभत इति भाव: ॥। २४४॥। सु० टी०-अवेद्यत्वेऽपि न वाक्यप्रामाण्यमविरुद्धमिति समा० धत्ते -- नैतद्स्तुनि कल्पितस्य जगतो वाक्यप्रसूतप्रमा- बुद्धिर्मूलधगिष्यते तव निजस्वाकारमात्रग्रहात्। कर्मत्वं न करोति वाक्यजनिता बुद्धि: स्वरूपे तव स्वाकारग्रहणेन केवलमियं संसारमूलं दहेत् ॥ २४५॥ नैतदिति। वाक्यजा हि तज निजस्वरूपमात्राकारा बुद्धिवृत्ति: स्वाभिव्यक्तचिन्महिम्ना वस्तुन्यध्यस्तस्य प्रपश्चस्य मूलभूतमज्ञानं दृहतीत्युपपन्नम्। तत्र वाक्यस्य प्रामाण्यं सिद्धं तु निवर्तकत्वादिति न्यायादित्यर्थः । तार्ह तद्वृत्त्याहितसंवित्फलाश्रयत्वेनाऽडत्मनः कर्मत्वं दुर्वारमिति चेन्नेत्याह-कर्मत्वमिति । संविदात्मके संविदन्तराजननात्क- मत्वं फलव्याव्यत्वं न करोतीत्यर्थः । संविद्जनने कथमज्ञाननिवर्तकत्व- मित्यत्राSSह-स्वाकारेति। इयं वृत्तिरात्माकारतामात्रेणेव संवित्फल विनाऽप्यविद्यां निवर्तये दात्मन एव संविदूपस्य वृत्यवच्छिन्नस्य फलस्था नीयत्वाद्घटादेस्तु संविदूपत्वाभावाद्ज्ञाननिवृत्तावस्ति संविदन्तरापेक्षेति युक्तं कर्मत्वमित्यर्थ: ॥। २४५ ।।
नैतदिति। नैतदस्मद्वचनं पराहतपदमिति योज्यम्। कुत इत्यत आह-वस्तुनीति। यतो वेदान्तमहावाक्यप्रस्ता प्रमारूपा बुद्धिरन्तःकरणवृत्तिस्तव त्वमर्थभूतस्य निजोऽसाधा-
१.क. म. वस्तुक। २ ख, "केपि सं।
Page 230
सेक्षेपशारीरकम्। २२१
पत्येति यावत् । वस्तुनि कल्पितस्य जगतो मूलधड्मूलाज्ञानप्रदग्ध्रीष्यतेऽस्माभिरङ्गी क्रियतेऽतो मूलोन्मूलनेनाSSत्मनि संसारनिवृत्तिकलस्थ समर्पणात्तस्मिन्वेदान्तानां प्रामाण्य- मविरुद्धमित्यर्थः। फलवद्धि ज्ञानमज्ञातवस्तुनि निश्चयरूपं जनयदेव हि वाक्यं प्रमाणं तदेतावताऽपि सिद्धमित्यभिप्रायः । तदुक्तं द्रविडाचार्यै :- 'सिद्धं क्षु निवर्तकत्वात्' इति। ननु विषयस्य कर्मतामन्तरेण बुद्धेस्तदाकारग्रहणायोगातप्राप्तं पुनरात्मनः कर्मत्वमि- त्यत आह-कर्मत्वं नेति। अयमर्थ :-- कथमपि क्रियाकृतातिशययोगितया व्यवहार- योग्यत्वमात्रं कर्मत्यं विवक्षितं चेत्तदङ्गी करियते स्वाध्यस्ताज्ञानतस्कार्यनिवृ्त्यतिशयस्य वाक्य जवृत्तिकृतस्याSSत्मन्यङ्गीकारात्। न चैवमतिशययोगित्वे विकारित्वापत्तिरारोपितनिवृत्ते- र्विकारहेतुत्वासंभवात् । अथ वृत्तिकृतस्फूर्त्याश्रयतयाSऽरमनः कर्मत्वमिति चेत्तन यतस्तव स्वरूपे स्वयंप्रकाशात्मनि वाक्यजनिता बुद्धि: कर्मत्वं स्वकृतफलव्याप्यत्वलक्षणं न करोति प्रकाशस्वभावे तस्मिन्ननुपयोगादिति। ननु संविदनुत्पत्तौ कथमज्ञानमपि निवर्तेताऽडगन्तु- कसंविद्विरोधाद्धि तनिनिवृत्तिरिति चेत्तत्राSऽह-स्वाकारग्रहणेनेति। इयमात्माभिमु- र्येन वाक्यजनिता बुद्धिः स्वाकारग्रहणेन केवलम् । स्वशब्दः प्रकृतात्मवचनः । न आत्मचैतन्यव्याप्ततयोत्पत्तित एवाSऽत्माकारापत्तिमात्रेण संसारमूलमज्ञानं दहेदिति योजना। एतदुक्तं भवति-यद्यपि बुद्धिवृत्तिरेव केवला नाज्ञानहन्त्री जडत्वान्नापि चिन्मात्रं तद्धन्तृ विरोधाभावात् । तथाप्युभयसंवलने सत्यज्ञानं निवर्ततेऽग्न्ययःपिण्डन्यायेनेति। तन्रापि चिज्जडयोरेव विरोधाच्चैतन्यमेवाज्ञाननिवर्तकं तत्स्वरूपेणोदासीनमपि काष्ठायःपिण्डा- दारूढ इतागनिर्विशिष्टबुद्धिवृत्तिफलकारूढं सदज्ञानादि दहेदत एवंरूपतायाश्चिदात्मप्रकाश- स्याऽडगन्तुकत्वादज्ञानविरोधित्वं चोपपन्नम्। जडविषयेऽपि यद्यपि चित्परकाशः स्वरूपेण न जन्यते तथाऽपि विषयावच्छेदेन विषयात्मता तत्र वृत्तिकृतेति जन्यतोपचर्यते, आत्म- नस्तु प्रागेव प्रकाशस्वरूपत्वात्तत्र वृत्तिद्वारा प्रकाशसंचारापेक्षेति विशेषः । आकारग्रहणं तु करणसामर्थ्यनिबन्धनं सर्वत्राविशिष्टमेव । तस्माद्वेदान्तप्रमाणसामर्थ्यादेव वृत्तेरात्माकार- त्वसिद्धेः प्रकाशमान आत्मनि प्रकाशरूपफलाजननाच तत्कर्मकत्वायोगाद्वेदान्तवेद्यत्वेऽपि न चिदात्मतत्त्वस्य कर्मतेति सर्व समञ्जसमिति॥ २४५॥ सु० टी०-अजडबोधकमानस्य संवित्फलानपेक्षत्वं परेषामपि भ्सि- द्धमित्याह -- संविद्व्युत्पादकं यद्चनमभिमतं कर्म मीमांसकानां तत्कर्मत्वं.न तावत्क्षिपति घटपटायर्थसंवित्स्वरूपे।
Page 231
२२४ टीकाट्टयसमेसं-
कि त्वज्ञानापनुत्या फलवदभिमतं तत्र शिष्यस्य तद्द- त्सर्वं वेदान्तवाक्यं फलवदिदमपि प्रत्यगात्मस्वरूपे ।।२४६।। । माट्टानां हि ज्ञानताख्या संविरतस्वप्रकाशा गुरूणां च घटा- दिज्ञानं तयोश्र संविदोर्व्युत्पादकम्। संवित्केन वद्येति प्रश्ने स्वसंवेद्येत्यु सरवाक्यम्। तन्न तावत्स्वविषये संवित्स्वरूपे कर्मत्वं करोति तद्विषय- संविदन्तराजनकत्वात्। तथाऽपि तेषां तद्वाक्यं प्रमाणत्वेनाभिमतमेवं प्रतीचि संवित्फलाजनकमपि वेदान्तवाक्यमित्यर्थः । तेषामपि तट्वाक्यम- फलमेवेष्टमिति चेन्नेत्याह-किं तिवति। संविदि परपकाश्यत्वभ्रमसंशया. पनुत्या तद्वाक्यं फलवदेव तैरिष्टमित्यर्थ: ॥ २४६। अ० टी०-अजडात्मप्रमाणस्य स्वविषये संविदजनकत्वेन प्रामाण्यमस्माभिरुक्तमन्यै- रपि वादिभिरभ्युपेयमेवेत्यभिप्रेत्य प्राभाकरस्य भाटृस्य चात्र संमतिमाह-संविद्व्युत्पादक- मिति। प्राभाकराणां संवेदनं विषयविज्ञानाख्यं स्वप्रकाशमिति मतं भाट्टानां च विषयप्राक व्याख्यं विज्ञानजन्यं फलं स्त्रप्रकाशमभिमतमेव स्वप्रकाशतयाSविषयत्वेSपि संविदो व्युत्पादकं परप्रकाश्यत्वादिविप्रतिपत्तिविपर्य [य]योरपनयनेन तत्स्वरूपव्युत्पादकं यद्वचनं कर्ममीमां- सकानामभिमतं तद्वचनं घटपटादयर्थसंवित्स्वरूपे न तावत्कर्मत्वं क्षिपति संविद्रूप फलं तत्र नोत्पादयति। तथासति संविदः स्व्रप्रकाशत्वाङ्गीकारबाधादित्यर्थः । तर्हि कि .करोतीति चेत्तदाह-किं त्वज्ञानापनुत्त्येति। अस्वप्रकाशभ्रान्त्यादिनिवृत्या केवलं तत्र स्ववि- षये फलवत्तद्वाक्यं प्रमाणमभिमतं शिष्यस्य व्युत्पाद्यस्य श्रोतुः स्व्रविनेयस्येत्यर्थः । तद्वदि- त्यादि सुगमम्॥ २४६ ॥ सु० टी०-तथाऽपि क्वचित्संविदाधायकत्वेन प्रामाण्यं क्वचिदज्ञा- नापनुत्येति वेरुप्यमिति चेत्तथाऽन्यत्र दर्शनादित्याह- अकार्यस्वरूपस्य कार्यत्वमिष्टं यथा कारकैर्मूर्तमुत्सारयन्िः। तथैवाभमेयस्य मेयत्वमिष्टं
अकार्येति। यथा हि पाकादाविन्धनादेरुत्पादकत्वेनैव कारकत्वमकार्ये तु. भूछिद्रादी व्योमात्मनि खनित्रादेरुत्पादकत्वासंभवान्मृदादिमूर्तव्- .व्यापसारकत्वेनव करणत्वमिष्यते तथा प्रमाणत्वमपि जडेषु संविदाधा-
Page 232
संक्षेपशारीरकम्। २२५
नावनुभूतमध्यप्रमेये चिदात्मनि फलाधानासंमवात्तमोनिरासकरवेनैवेट- मित्र्थः । तमश्र तज्जं चेत्यर्थः ॥ २४७॥ अ० टी० -- येषां स्वयंप्रकाशं किमि नाभिमतं तान्प्रति करणजन्यातिशयाश्रयत्वा- भावेऽपि करणगोचरतया तद्विषयत्वव्यवहांरयोग्यत्वं संमतयति-अकार्यस्वरू- पस्येति। अकार्यस्वरूपस्य रूपावयवादिहीनतयाSनिष्पाद्यस्त्ररूपस्याSSकाशादेर्यथा तद्विरोधि मृर्तमुत्सारयद्भिलौंकिकै: परीक्षकैरपि कार्यत्वमिष्टं तथैवाप्रमेयस्येति सुगमम् । तद्वन्मूर्तवदुत्सारयाद्गिरस्माभिरिति शेषः । मूर्तेषु कारकादिषु कारकाणामुत्पादकतया कारक• स्वेऽपि यथा तेषाममूर्ते व्योमादौ तास्वरूपाभिव्यक्तिविरोध्युत्सारणमात्रेणैव कारकातवं तथा प्रमाणानां संविदुस्पादकत्वेन जडेषु प्रामाण्येSपि संविदूपे चिदात्मनि तत्स्व्रभावाभिव्यक्ति विरोष्यपसारकत्वेनैव प्रामाण्यमिति निरवद्यमिति भावः ॥ २४७॥ सु० टी०-ननु वाक्योत्थवृत्त्या समूलाज्ञानदाहश्रेच्छृण्वन्तोऽपि बहवो यं न विद्युरितपादि विरुध्येत निददिध्यासनादिवैफल्यं चेत्पाश- डयापराधोपशमेन स्वच्छाया एव वृत्ते: फलपर्यन्तत्वमिति दर्शयति- वाक्योत्थापितबुद्धिवृत्तिरमला यज्ञादिभिर्निश्वला वेदान्तश्रवणादिभिः स्फटिकवत्स्वच्छा सती तावकम्। रूपं दर्पणवद्विभर्ति परमं विष्णोः पदं संनिधे- रेतस्मादिह कारणादथ भवेत्संसारबीजक्षयः॥ २४८॥ वाक्येति। एतस्मादेव फलपर्यन्तावगतेः कारणादिहाऽडत्मनि संसार- मूलाज्ञानस्य क्षयो न तु प्राथमिक्यैव वृत्त्येत्यर्थः । का पुनरसौ या तत्कालश्षुतेन स्मृतेन वा वाक्येनोत्थापिता प्रमाणमूलत्वादज्ञानदाहस- मर्था बुद्धिवृत्तिरपराधकल्पितब हवर्थाकारपरिहारेण स्वच्छा सती तावकं केवलात्मस्वरूपं प्रतिफलितं विभर्त तत एवेत्यर्थः । किं तत्केवलं रूप- मित्यत्राSऽह-परममिति। मायातीतं विष्णोः पदमित्यर्थः। नजु वयव- हितं तंत्कथं बिभर्तीत्याशङ्क्य मोहकल्पितव्यवधानस्य संविन्महिम्ता विलीनस्वादित्याह-संनिधेरिति। वृत्तेः प्रतिबिम्चग्रहणयोग्यतामाह- स्फटिकेति। ननु रागादिदूपितबुद्धिजत्वेन कृतः स्वच्छेत्याह-अमलेति।
१ क. ग. मश्वाज्ञानज पे०२क ग. द्धिविये। २९
Page 233
२२६ टीकाट्ुय समेतं-
त्याह-मिश्वलेलि 1 श्रवणादिमिर्पराधनिरासादेकरसे वस्तुन्पेकाग्रतया निश्चलेत्यर्थः। दृष्टान्तमाह-दर्पणेति। यथा दर्पणो निर्मलो निश्चलः स्वच्छ: संनिहितिश्र मुखाद्याकारं प्रतिबिम्बितं विमर्तीत्यर्थः। 'अथाSS- दर्शतलप्रख्ये पश्यत्यात्मानमात्मनि' इति समृतेः ॥२४८॥ अ० टी०-तदेवमात्मासाधारणाकारग्रहणेनैवाज्ाननिवृत्तिमात्रफलतया ब्रह्मणि बेदा- न्तप्रामाण्यमुपपादितमुप संहरन्बुद्वेरात्माकारग्रहणक्रममाह-वाक्योत्थापितेति। वेदान्त- वाक्येनोत्पादिता बुद्धिवृत्तिस्तावकं रूपं दर्पण इव मुखस्वरूप निभर्ति। कीदृशं विष्णोः परमं पदं निर्विशेषपरमात्मरूपम्। कुतः संनिधेर्मुखसंनिहितदर्पणवच्चिदात्मसंनि- धानादित्यर्थः । ननु वाक्यजनिता चेद्दत्तिरात्मसंनिधानमात्रात्तत्तत्वं गृहीयात्तदा सकृच्छू- चणमात्रेऽपि वाक्यश्राविणां सर्वेपां कस्मात्तत्वावभासो न जायत इति बेद्रागादिदोषप्रति- बन्धादित्यभिप्रेत्य वृत्ति विशिनष्टि-अमला यज्ञादिभिरिति। परमेश्वरार्पणेन निष्काम- तया सम्यगनुष्ठितैः स्वाश्रमविहितधमैर्यज्ञादिभिरमला क्षपितरागादिमलेत्यर्थः । निर्मलबुद्धि-
पत्या विवाददर्शनादसंभावनाप्रस्तेयं बुद्धिवृत्तिः कथमुक्तरूपतत्त्वरं बिभयादित्यत आहर निश्चलेति । पुनःपुनर्वेदान्तश्रतणमनननिदिध्यासनैरसंभावनादिरहिततया स्व्रविषये तच्वे निश्चला सतीत्यर्थः । श्रवणादिपराणामपि केषांचिद्यथापूर्व संसारपवृत्तिदर्शनान्न संभावित उक्तार्थ इत्याशङ्कय पुनर्विशिनष्टि-स्फटिकवत्स्वच्छेति। विपरीतवासना- क्षयपर्यन्तं निदिध्यासनेन स्वच्छीकृतेत्यर्थः । यदेवमुक्तलक्षणायां बुद्धिवृत्तौ ब्रह्मात्मतत्त्वस्य प्रतिफलनं जायत एतस्मात्कारणादथ वुद्धिवृत्युदयसमय एवेहाSडत्मनि संसारबीजक्षयो भवति ॥ २४८॥ सु० टी० -- संप्रति प्रतिज्ञाहेत्वोः शास्त्रयोनिसमन्वययोरुक्तमविरो- धमुपसंहरति -- एवं वेदशिरः प्रमाणमुदितं प्रत्यक्स्वरूपे तव कर्मत्वं विरहय्य तत्र न हि नो वाधः प्रतिज्ञागिरः । कर्मत्वं न करोति बोधयति च स्पष्ट वचो बैदिकं रूपं तावकभेवमस्य भरवति प्रामाण्यमत्राऽडत्मनि॥ २४९।। एवमिति। तव प्रत्यकस्वरूपे फलानाअये करणव्यापाराविषये चोक्त रीत्या कर्मत्वं विनाऽप्यज्ञाननिवृत्तिमात्रेण वाक्यं प्रमाणमित्युक्तमिति न त्वदुक्तप्रतिज्ञाविरोध इत्यर्थः । न च हेतुविरोधोपीत्याह-कर्मत्वमिति। "तावक रूपं बोधयति समन्वयेनेत्यर्थः ॥ २४९॥
Page 234
संक्षेपशारीरकम्। . २२७
अ० टी० -- विधिमुखेन प्रवृत्तवाक्यार्थनिरूपणप्रकरणमुपसंहरति-एवं वेदशिर: प्रमाणमिति। अविषयत्वेनैवाSSत्मानं बोधयन्ति वेदान्तवाक्यानीति प्रतिज्ञातार्थपति- पादनोपसंहारपरं पूर्वार्धम्। उपपादितार्थानुवादेन वेदान्तानां ब्रह्मात्मनि स्थिरीकृतप्रामा- ब्योपसंहारपरमुत्तसर्धमित्यर्थभेदान् पौनरुक्तयशङ्का कार्या। अक्षरार्थः सष्टः । २४९।। सु०टी .- अधुना मुख्यवृत्त्वाडांप नेतिनेतिवाकयाद्दंतासंद्धो कि लक्षप्पयेति मण्डनमतमुपन्यस्यति- पृष्ठेन पूर्णवपुषा क्रियते प्रतीति- नैतीतिवाक्यजनिता जगतो निषेधी। प्राधान्यमस्तु विधिना समभेव तस्मा- चस्याथ वा भवतु तद्चनं मधानम् ॥२५० ॥ पृष्ठेनेति। यद्यपि नेतीतिवाक्यजनिता धी: शब्दशकत्या मूर्तामूर्तजग- न्निषेधाकारा प्रथमं जायते न ब्रह्माकारा तथाऽपि निषेधस्य निराधार स्यासंभवात्पृष्ठेन पश्चाद्धर्मिणमाक्षिप्य परिच्छिन्नस्य सर्वात्मना निषे- धात्तद्विलक्षण पूर्ण रूपेणाSSक्रियते तदाकास भवतीत्यर्थः । तेन नेतिने- नीतिवाक्यस्यावि पूर्णाकारधीजनकत्वाद्विधिना तत्त्वमसीत्यादिवाक्येन समप्राधान्यमस्तु। यद्वा 'अथात आदेशः' [वृ०२। ३।६] इत्यादेशसमाख्यया तस्य पूर्णात्मबोधे विनियोगात्तदेव प्रधानम् । तत्वमसीति विधिवाक्यं तु शबलार्थत्वेन निर्भागवुद्धयहेंतृत्वाच्तस्यार्थ- बाद इत्यर्थः।। २५०॥ अ० टी०-एवं तत्त्वमस्यादिवाकमस्य मुक्तिफलतत्वज्ञानोत्पादकत्वमुपपाद निषेध- वाक्यस्यापि सत्यादिवाक्यवत्तत्रोपकारं वक्तुं प्रकरणान्तरमारभमाणः परमतं तावदाह- पृष्ठनेति ।. नेतिनत्यादिवाक्यजनिता. जगतः सर्वस्यानात्मजातस्य निषेधी प्रतीति्न निषेधमात्रे घर्यवस्यति. धर्मिण्पमवधिमन्तरेण निषेस्यापर्यवसानातपृष्टेन पश्चाद्धर्भिणमवधि- भूतमाश्रित्य पर्यवस्यन्ती सा प्रतीति: पूर्णवपुपा क्रियते पारिच्छिनस्य परागर्थस्य सर्वात्मना निषेधादर्थात्तद्विपरीतब्रह्माकारा जायत इत्यर्थः । एवं सजातीयविजातीयस्वगतसमस्तभेद- निकरस्यं समूलस्य प्रतिषेधेनाद्वित्रयाखण्डैकरसवस्तुपर्यवसानं यस्मान्तस्माद्विघिना तत्त्वम- स्यादिवाक्येन कैवल्यकलवद्विज्ञानजनकतया समं. तुल्यं प्राधान्यमेवास्तु निषेधवाक्यानां विधिनिषेधवाक्यानामेकार्थत्वाद्विकल्पो ब्रह्मात्मैक्यज्ञानं प्रत्यत्त्वित्यर्थः। अथ. वा तद्वचनं
१ क. परमाणम।
Page 235
२२6. टीकाइूय समेस-
निषेधवाक्यं तस्य विधिवाक्यस्य प्रधानं भवतु सर्वथा निषेधवाक्यं प्रधानमेवेत्यभि- प्रायः॥ २५० ।। सु० टी०-समप्राधान्यसुपपाद्यति- अद्वैतीकरणं निषेधवचनादुत्पन्नबुद्धेरपि तुल्यं तत्त्वमसीतिवाक्यजनितप्रत्यक्पतीत्या सह। आर्थ शाब्दमथााप वा भवतु तांत्क तन यद्ा विधिं- र्नो कर्तुं शबलार्थगोचरतया निर्भेदमर्थं क्षमः॥२५१॥ । नेतीतिवाक्यजवुद्धेरवि विधिवाक्योत्थधिया पूर्णाकारत्वा- ज्ञाननिवर्तकत्वसाम्यात्तत्साम्यमित्यर्थः। ननु नेर्तीत्यत्राSडथं तदाकारत्वं विधौ तु शाब्दमित्याशङक्याप्रयोजकतया निरस्यति-कि तेनेति। निषेधप्रामाण्यमाह-यद्वेति । विधेः सखण्डार्थस्याखण्डबुद्धयहेतुत्वा दित्यर्थ: ।। २५१ ॥ अ० दी०-स एवैकदेशी पक्षद्वयेऽपि क्रमेण हेतू आह-अद्वैतीकरणमिति। अद्वैतात्मबोधनमित्यर्थः । ननु निषेधवाक्यजन्या प्रतीतिरर्थादद्वैती क्रियते विधिवाक्यजन्या तु साक्षान्मुखत एवेति वैधम्यात्कथमनयोस्तुल्यार्थत्वमिति चेन्नाप्रयोजकत्वादस्य विशेष- स्येत्याह-आर्थमिति। तदद्वैतीकरणमार्थ वाऽथापि शाब्दं वा भवतु कि तेन विशेषेण फलमेदाभावादित्यर्थः । निषेधवाक्यप्राधान्ये हेतुः-यद्वेत्यादि । विधिर्विधिवाक्यं शबलार्थगोचरतया निर्भेदमखण्डमर्थ कर्तुमैक्यं मुख्यं बोधयितुं न क्षमो यतोडतो निषे- व्योपस्थापकतया तदपि निषेधशेष एवेति योजना ॥ २५१ ॥ सु० टी०-न च मागलक्षणया विधेनिर्मेदाकारधीहेतुत्वमित्याह- संबन्धजातविरहान्न च लक्षणाडस्मि- न्संभाव्यते परिह्ृताखिलदृश्यराशौ। ब्रह्मात्मवस्तुनि ततः प्रतिषेधवाक्य- शेषत्वभेतु विधिरित्यपि केचिदन्ये।। २५२ ॥। संबन्धोति। वास्तव संबन्धाभावादित्यर्थः । तत्र हेतुः-परिद्वतेति। तत्रापि हेतुमाह-नहमा:मेति। असङ्गत्वादिश्रुतेः शक्यसंबन्धाभावान्नात्र लक्षणIS- पीति निषेध एव प्रधानमित्यर्थः ।। २२२।।
१ ग. धिरनपक°।
Page 236
संक्षेपशारीरकमू।
अ० टी० ननु लक्षणया विधिवाक्यानामपि मुख्यैकार्थता स्यादिति चेननेति पुनः स एवाऽडह-संबन्धजातमिति। यद्यपिप्राग्वाच्यार्थसंबन्धोपपादनमपि लक्षणासि- द्धये कृतं तथाऽपि पुनराक्षिप्यते पूर्वोक्तसंबन्धस्यावास्तवत्वात्तत्प्रयुक्तलक्षणाडप्यवास्तवीति ततोऽर्थसिद्धिं परमार्थाममन्यमानस्येयं प्रवृत्तिरिति द्रष्टव्यम्। अतो वस्तुतः संबन्धजातस्य संयोगादेरसङ्गे चिदात्मन्यभावादित्यर्थः । परिहृतांखिलदृश्यराशाविति विशेषणं संबन्धजात- विरहे हेतुः । फलितमाह-तत इति ॥ २५२॥ सु० टी०-दूषयति- वाक्यं मुक्तिफलां धियं जनयति स्पष्ट विधिव्यापृतं साक्षादेव तव स्वरूपकथनान्नैवं निषेधात्मकम्। अध्यारोपितरुपभेदविलयव्यापारनिष्ठं तव स्वाकारग्रहणक्षमां न हि धियं कर्तुं समर्थं यतः॥।२५३।। वाक्यमिति। विधीयते साक्षान्निरूप्यते न त्वभाववत्प्रतियोगिव्यवधि- नेति भावात्मकं वस्तुं विधिस्तत्र व्यापृतं वाक्यं कल्पितसंबन्धालक्ष- णया मुक्तिफलां धियं जनयतीत्येतत्स्पट्मित्यर्थः । कुत इत्याह-साक्षा- दिति। तव प्रतीचो यत्स्वरूपं पूर्णता तद्वोधनादित्यर्थः। ननु नेतीत्यपि तत्समर्थमेवेत्यत्राऽSह-नैवमिति। तस्य प्रपश्चनिषेधमात्रार्थत्वादित्यर्थः। ननूक्तमर्थात्तदृपि तदाकारधीहेतुरिति नेत्याह -- अध्यारोपितेति। तद्द्धि कल्पितमूर्तामूर्तादिप्पश्चाषह्ववमान्रपरमार्थादृपि न पूर्णाकारधीहेतुरि- त्यर्थः । धर्मसिद्धौ हि निषेध एव न सिध्येन्न तु तदनुपपत्या धर्मि- सिद्धिः। निषेधसामथ्यं हि लिङ्गम्। न च प्रत्यक्षविधिश्रुती सत्या लैङ्रिकसामाख्यानिकश्ृतिकल्पनेति माव: ॥२५३॥ अ० टी०-एकदेश्युत्प्रेक्षितं पक्षद्वयमपि सिद्धान्ती दूषयति-वाक्यं मुक्तिफला मिति। विधिव्यापृतं वाक्यं साक्षाद्व्यापारान्तरव्यवधानं विनैव तव स्वरूपकथनात्स्पष्ट- मसंदिग्धमविपर्यस्तं च यथा स्यात्तथा मुक्तिफलां धियं जनयत्येवं विधिवाक्यवन्निषेधात्मकं वाक्यं. न·मुक्तिफलां धियं जनयतीति योजना। कुतो नैवमित्यत्र हेतुमाह-अध्यारोपि तेति। रूपभेद: प्रपञ्चो विलयः प्रतिषेधः। यतस्तव स्वाकारप्रहणक्षमां धियं कर्तु न समर्थमतो नैवं निषेधात्मकमिति संबन्धः । जडाजडयोः पारमार्थिकसंबन्धस्यासंभवात्काल्प- निक एव संबन्धः प्रागुक्तः । न हि चित्यध्यासं विना जडस्य सिद्धिरस्यतो दैवेनैव जडस्य चित्संबन्ध आसादित इति लक्षणोपपत्तिः। संबन्धमात्राल्लक्षणोपपत्तौ परमार्थत्व-
Page 237
२३० . टीकाट्टय समेतें-
विशेषणस्य तत्राकिंचित्करत्वमित्येतदष्युपपादितमेव। निषेधावधेरपि निषिव्यमानं संब-धस्याव- श्यापेक्षितत्वादन्यथाSपसत्तप्रतिषेधप्रसङ्गात्प्रमाणप्रसिद्धं च न निषेद्धुं शक्यत इत्यधिष्ठान- निषेव्ययोरारोप एव संबन्धोऽन्युषेय इति, स्थिते. चिदात्मन आभासद्वारा दृश्येन सह कल्पितसंबन्धाललक्षणया प्रत्यम्ब्रह्मस्वरूषाकारां वियं जनयितुं शक्ोत्येव तत्त्वमस्यादिविधि- वाक्यमित्यभिप्रायः ॥ २५३॥ सु० टी०-नतु नाभेदाकारमेब ज्ञानमविद्यानिवर्तकं किं त्वस्थूलाद्या कारमपीति चेत्तत्राSSह- अस्थूलादिवच: समु्थितमतिर्नाSSकारमादास्यते साक्षादद्दयवस्तुनस्तव विभोरज्ञानविच्छेदिनः । अज्ञातस्य हि वस्तुनो न हि धिया स्वाकारसंवेदन मुक्त्वा तद्विषयस्य विश्वमकतो ध्वान्तस्य विध्वंसनम्॥२५४॥ अस्थूलेति। अस्थूलादिवाक्यजाि धीरज्ञानात्तव्व्वेद्मापन्नस्य तक पतीच आकारं ब्रह्माभेदं नाSऽदातुमलमस्थूदिवचसां तद्बोधकत्वादि- न्यर्थ: । तथाऽवि सर्वस्थूलाद्िनिषधादेवाज्ञाननिवृत्ति: स्पादिति चेन्न्केव त्याह-अज्ञातस्येति। अमेदाकारमेव हिज्ञानमभेदावरकाज्ञाननिवर्तक तस्य समानविषयज्ञाननाश्यत्वान्न निषेधाकारमित्यर्थः ।। २५४।। अ० टी०-एवं विधिवाक्यानां साक्षादद्वयबोधनमुपपाद्य निषेधवाक्यानां तदसंभवमु- पपादयति-अस्थलादीति। निषेधवाक्यजा मतिर्विभो: परिपूर्णस्याज्ञानविच्छेदिनोऽज्ञा- नविरोध्याकारस्याद्वयवस्तुनस्तवाSSकारं ना,SSदास्यते. न ग्रहीष्यतीति योजना ।. अयं. भाव :- न हि निषेधवाक्यं साक्षादेव ब्रह्मात्मानं गोचरयेत्तस्य, तत्रासामर्थ्यात्। नाप्यर्थात्प्रमा- णान्तरमन्तरेणार्थसिद्धस्याधिष्ठानस्य ब्रह्मात्मत्वनिश्वयायोगात्। निषेवान्यथानुपपत्या किंचि- दसत्यवधिभूतमित्येतावत्तावत्सिध्यति न पुनः कि तद्वस्तु यदवशेषो निषेध इत्याकाड्क्षा शाम्यत्यतो निषेधवाक्यं न ब्रह्मात्माकारां घियं जनयितुं पारयतीति न विधिवाक्यसमं तदपेक्षया प्रधानं वा किं तु विधिवाक्यशेषभूतमेवेति। तर्हि मा भृदात्माकारा धीः समस्त- द्वैतनिषेधेऽनर्थस्तावच्छाम्यत्यात्मा च स्वयंप्रकाशत्वात्स्वयमेव प्रथतेति चेनेत्याह-अज्ञातस्य चेति। स्वाकारेत्यत्र स्वशब्दो धीवचनोऽथवाऽडत्मस्वरूपवचनः । आदे पक्षेऽज्ञातस्य वस्तुनः संबन्धि यत्स्वाकाररूपं संवदेनं तन्मुक्तवा विहाय ध्वान्तस्य विध्वंसनं नं हि धिया क्रियत इति योजना । ध्वान्तविशेषण तद्विषयस्य विभ्रमकृत इति च। अज्ञातवस्तु- विषयस्य तत्स्वरूपविशेषाच्छादकस्य तस्मिन्विभ्रमकृतो विक्षेपकारिणश्चेत्यर्थः। यदा पक्षान्तरं तदाऽज्ञातवस्तुनः स्वोऽसाधारणो य आकारः सत्यज्ञानादिलक्षणस्तत्संवेदनं तदव- भासनं विना घिया बुद्धिवृ्त्या तद्विषयस्य विभ्रमकृतो व्वान्तस्य विध्वंसनं न हि क्रियत्
Page 238
संक्षेपशारीरकमू। .२३१
इति योजना। यदि साक्षाद्वह्मात्माकारधीवृत्युदयो नं भवेत्तदा तद्विषयव्वान्तनिवृत्तिर्न 'स्यादयतो न निषेधमावेण द्वैतानर्थस्य तत्कारणाज्ञानस्य वा निवृत्तिरधिष्ठानयाथात्म्पज्ञानं विना निवृत्ययोगादन्यथा निषेधानन्तरं किमिदमति जिज्ञासा न स्यात्। न चाज्ञानानिवृ-
सु० टी०-रज्नौ सर्पभ्रमात्पलायमानस्य नायं सर्प इति शाब्द- घोधादप्यज्ञाननिवृत्तेर्नोक्तनियम इति चेन्न तत्रं भ्रमषिलयेऽपि किं तदिति जिज्ञासादर्शनान्नाज्ञाननिवृत्तिरित्याह- रज्जवज्ञानविजृम्भितस्य फणिनो रज्जुप्रकाशक्षमं विज्ञानं विरहय्य न प्रशमनं हष्ट निषेधे कते। तद्वत्पत्यगवियया विरचितं संसारदुःखंन तत्सं- वित्तिं विरहृव्य शाम्यति धिया नेतीतिशब्दोत्थया ॥२५५॥ रग्जवज्ञानेति। अज्ञानकार्यस्य सर्पस्य नायं सर्प इति शतकृत्वो निषे- घेडव्यधिष्ठानज्ञानं विना स्वहेत्वज्ञानानिवृत्तेर्न प्रशमनं प्रकृष्ट शमनं हषट किं तु स्वकारणे लयमात्रमित्यर्थः । अत एव तत्र पुनर्भ्रमसंशयादि दश्यत इति। एवमविद्याकार्यमपि दुःखं तत्त्वमस्यादिवाक्यजज्ञानं विना नेत्यस्थूलमित्यादियाक्यजधिया स्वहेत्वज्ञानानिवृत्तेर्न शाम्यती- त्यर्थः ॥। २५५॥ अ० टी०-अधिष्ठानतस्वज्ञानं विना निषेधमात्रात्तदज्ञाननिवृत्त्यसंभवे दृष्टान्तमाह- रज्ज्वज्ञानेति। ऋज्वर्थमिदं पद्यम् ।। २५५ ।। सु० टी०-तर्हिं निषेधवाक्यानामफलत्वादानर्थक्यमित्याशङ्क्य
अस्थलादिवचो निषेधकतया भेदस्य संशोधना- •द्वाक्यार्थान्वयसिद्धये नु घटते वाच्यार्थलक्ष्यार्थयोः । एवं तत्त्वमसीतिवाक्यगतयोस्तत्वंपदोक्तार्थयोः संशुद्धयैव तु नेति नेति वचनं मोक्षाय साक्षान्न तु॥२५६॥ अस्थूलेति। तद्धि न स्थूलाद्यतिरिक्तपरं लक्षणापत्तेः किं तु नत्रो मुख्यार्थत्वेनासूर्यंपश्या राजदारा इतिवन्निषेधकत्वेन वाच्यार्थलक्ष्यार्थ-
१ क. ग. रत्वनियमत्वभि २ क. ग. त्रसर्पभ्र०।
Page 239
२३२ टीकाट्टय समेतं- पोर्मेदकस्प हेयाशस्य मिश््यांत्वप्रदर्शनेनाखण्डवाकपार्थसिद्धावुपयु- ज्यते 'आनर्थक्यात्तदङ्गेषु' [ जै०मि०३।१।१८] इतिन्यायान्न तु साक्षाद्खण्डधीजननेनेत्यर्थः । ननु नेतीत्यस्य साक्षादमेद्बोधकत्वमा- चार्यैरुक्तं न तस्य प्रौढिमात्रत्वादित्याह-एवमिति। तत्वंपदार्थशोधन- प्रणाड्यैव तन्मोक्षोपयोगीत्यर्थः ॥। २५६ ।। अ० टी०-तदेवं न निषेधवाक्यं मुक्तिफलां धियं जनयति न चास्य विधिवाक्येन साम्यं नापि प्राधान्यमिति निर्धारितं तर्हि किमर्थानि निषेधवाक्यानीति तदाह-अस्थूलादीति। अस्थूलादिवचो भेदस्य स्थूळत्वादिधर्मकस्य प्रप्चस्य निषेवकतया वाच्यार्थलक्ष्यार्थयोः संशोधनाद्वाक्यार्थान्वयसिद्धये तत्त्वमसिवाक्यगततत्त्वंपदार्थयोर्वाक्यार्थान्वयित्वसिद्धये घटत इति योजना। वाक्यार्थान्वयिपदार्थोपस्थापकत्वेन निषेववाक्यानां महावाक्यशेषतयाडर्य- वत्त्वं घटत इत्यर्थ;। अस्थूलादिवाक्योक्तं न्यायम् 'अथात आदेशो नेति नेति' [बृ० २। ३ । ६ ] इत्यादिष्वतिदिशति-एवं तत्त्वमसीति। एषमस्थूलादिवाक्यवन्नेतिवचनमपि तत्त्वमसीतिवाक्यगतयोस्तत्वंपदोक्तार्थयोः संशुद्धैव संशोधनेनैव तु द्वारेण कथंचिन्मो- क्षाय भवेन्न तु साक्षादिति योजना। अ्रेयमभ्यधिका शङ्का भाष्यकारैर्हि नेतिनेतिवा- क्यार्थस्य निषेधमुखेनैव साक्षादवगतिपर्यन्तता बृहदारण्यकभाष्ये निरूपितैवमेव नेति- नेतिवचनमित्यादिनेति। तदपि पदार्थशोधने निषेधवाक्यनां स्व्रातन्त्र्यमभिप्रेत्याध्यस्तरूप- निषेधस्य ब्रह्मावगतिपर्यन्तत्वमुक्तं न तु साक्षान्महावाक्यनिरपेक्षत्वमभिप्रेत्य यतस्तैरेव सह- स्नोपदेशग्रन्थे तत्वमसिप्रकरणे विधायकप्रमाणं विना वस्वसिद्धिरिति 'किमन्यद्ग्राहयेत्काश्चेः तप्रमाणेन तु केनचित्' इत्यादिना प्रबन्धेन प्रतिष्ठापितमतोऽस्मदुक्तमुपपन्नमिति ॥२१६॥। सु० टी० -- एवमङ्गप्रधानवाक्यानामिव विधिनिषेधयोरवांक्यैकवा- क्यतोक्ता संप्रत्यैरंकृत्वोद्गेयमितिविधिप्राप्तानुवादस्य न गिरा गिरेत्या- देरिव नेतीत्यादेरर्थवादृतयैकवाक्यत्वमिति मतान्तरमुपन्यस्यति -- अन्ये पुनर्विधिवचोजनितात्मबुद्धि- सामर्थ्यसिद्धमनुवक्ति निषेधवाक्यम्। द्वैतोपमदमिति शासति शिष्यवर्ग तच्च प्रशस्तमनवय्यमभीष्टमेव ॥ २५७ । अन्य इति। नेतीत्यादिवाक्यं हि तत्त्वमस्यादिवाक्यजाखण्डार्थबुद्ि सामर्थ्यसिद्धं द्वैतस्य तत्र वैकाल्यासतत्वमनुवद्तीति पद्मपादाचार्या वद्न्तीत्यर्थः । अस्मिन्पक्षे पदैकवाक्यताभ्युपगमात्। प्राशस्त्यमाह- तव्वेति ॥२५७॥'
Page 240
संक्षेपशारीरकम्।
अ० टी०-मतान्तरमाह-अन्ये पुनरिति। सत्यज्ञानादिविधिवचोजनितात्मवु दिरखण्डाद्यात्मतत्त्वावगाहिनी तत्त्वमादिवाक्यजंन्या च तथाविधैवाऽSत्मबुद्धिस्तत्सामर्थ्या- स्सिद्धमद्वयवस्तुनि तात्पर्येण बोध्यमाने तद्विरुद्धद्वैतापवादस्यार्थसिद्धत्वान्तं द्वैतोपमर्दमनुवक्ति निषेधवाक्यमतोऽनुवादकत्वान्न स्वसन्त्रमित्यर्थः । अन्ये पुनरिति शासति शिष्यवर्गमिति संबन्ध:। इमं पक्षमङ्गी करोति-तञ्च प्रशस्तमिति। यतोऽनवदं निर्दुष्टमतश्चाभीष्टमेवे- त्यनुवादस्यार्थमतिदाढर्यार्थत्वादिति भाव: ॥। २५७।। सु० टी०-लोकेडपीदं संप्रतिपत्रमित्याह- दृष्टश्र रज्जुविधिनाऽवगतार्थवस्तु- सामर्थ्यसिद्धभुजग प्रशमानुवादः । रज्जुस्तवाग्रम इयं न भुजङ्गमोऽय- मित्येव तद्ददिह योजयितव्यमेतत् ॥ २५८॥
सामर्थर्पसिद्धाध्यस्तसर्पाभावानुवादो नायं सर्प इत्येवं नेतीत्यादिकमपी- त्यर्थ: ॥। २५८॥ अ०टी०-अस्य पक्षस्याङ्गीकारे हेतुमाह-दृष्टश्चेति। अनुवादप्रकारमभिनयतति- रज्जुस्तवेति। स्पष्टार्थमन्यत् ॥ २५८॥ सु० टी०-ननु न तत्त्वमस्यादे: प्राधान्यं झटित्यज्ञानानिवर्तकत्वा- दर्थवादोपबृंहितस्य तस्य तथात्वं चेन्नेतीत्यादेरपि तुल्यमित्याश- दक्याSSह- अस्यैव तत्त्वविनिवेदनशक्तिभाजः संसारमूलविनिवृत्तिफ लपसूतौ। सामर्थ्यमस्ति पदुभिः परिबृंहितत्वा- द्वेदान्तभूमिगतपञ्चविधार्थवादैः ॥ २५९॥ अस्यैकेति। पटुभिरर्थवादैः परिवृंहितत्वेऽप्यस्यैव विधेरेव सामर्थ्यन तु नेतीत्यादेरित्यर्थः । अन्र हेतुस्तत्वेत्यादि। शक्तस्य हि सहकारिण उपकुर्षन्तीत्पर्थः ।। २५९।।
१ म. मित्यत्र त"।
Page 241
टीकाट्वय समेत-
अ० टी०-निषेधवाक्यानां पदार्थशुद्धयर्थत्वं वा विधिवाक्यजन्यज्ञामसामर्थ्यसिद्धा- ज्ञानतत्कार्यनिवृत्यनुवादकत्वं वा न साक्षाद्वस्तुप्रतिपादकत्वमित्युपपाद्य परोक्तं निषेध- चाक्यस्य स्वरातन्त्र्यमसंगतमेवेति द्योतयन्विधिवाक्यस्यैव शेषितां प्रपञ्चयति-अस्यैवेति। अस्यैव विधिवाक्यस्य। एवकारान निषेधवाक्यस्य संसारमूलविनिवृत्तिफलप्रसूतौ सामर्थ्य- मस्ति। अत्र हेत्वर्थ विशेषणं-त्वविनिवेदनशक्तिभाज इति। स्वरूपसमर्पण- सामर्थ्यस्य विधिवाक्य एव संभवादित्यर्थः । तत्रैव हे:वन्तरमाह-पटुभिरिति। अर्थ- वादानां पटुत्वमद्वैतज्ञापकयुक्तिपरत्वादिति बोध्यम् । अत्राप्यस्यैवेत्यनुव्ृत्ते: पञ्चविधार्थ- चादोपबृंहणं न निषेधवाक्यस्येत्यर्थः ॥ २५९ ॥ सु० टी०-ननु के पञ्चार्थवादा: कथं च ते विधेरेवोपकुरईन्ती त्यत्राSडह- सांष्टास्थांतेपलयसंयमनपवेश- व्यापारजांतकथनच्छलतः प्रवृत्तेः । सानुग्रहादवगतिः खलु तत्त्वमादे- र्वाक्यात्परस्य घटते न ततोऽपरस्मात् ॥ २६०॥ सृष्टीति। सृष्टिः 'यतो वा इमानि '[ तैत्ति० ३ । १ ] इति । स्थितिः 'येन जातानि जीवन्ति '[तै० ३।१ ] इति। प्रलयो 'यत्प्रयन्ति' [तै० ३। १] इति। संयमनं 'योऽन्तरो यमयति' [बृह० ३।७।१] इति । प्रवेशः 'तत्मृङ्टा तदेवानुप्राविशत्' [तैतति० २।६] इत्याद्युकत्वा'स यश्चायं पुरुषे यश्चासावादित्ये स एक:' [तैत्ति० ३।१०]इति। 'एष त आत्माऽन्तर्याम्यमृतः' [बृहदा० ३।७।३] इत्पदि यजुर्वेदे। छान्दोग्ये च 'बहु स्याम्' [छा० ६ । २ । ३ ] इत्युपक्रम्य 'तत्त्वमसि'[छा० ६।८ ७ ] इत्युपसंहारादस्त्यर्थवादानुग्रहो विधिवाक्यस्येति । स एव विधि: 'अथ संपत्स्ये' [छा० ६।१४। २] इत्यादिवाक्यशेषावगतमुक्तिफ लतया स्वार्थपरः प्रधानमतस्तत्वमादेरेव सा परस्थावगतिरतुंग्रहादृवि घटते नापरस्मान्निषेधवाक्यात्तत्र धर्मिण एवासिद्धयाऽनुग्रहाभावादि- त्यर्थः । अत्र सृध्या सार्वात्म्यं स्थित्या सर्वोधिष्ठानत्वं अलयेनाद्विती-
१ क. जालक०। २ क. ग. ्र्वाद्भिभ्त्वं।
Page 242
संक्षेपशञारीरकम् । . २३५ वत्वं संयमनेन सर्वान्तरत्वं प्रवेशेन जीवत्रह्मैक्यं सिध्पर्तीत्यनुग्रहः। छलतः प्रवृत्तैरिति तत्कथनस्थ निष्फललेन मुक्तिफलाद्वैतबोधनपरतपैव प्रवृत्तैरित्यर्थः ॥ २६० ॥ अ० टी०-अर्थवादानां स्वरूपकथनपूर्वकं तत्र हेतुमाह-सृष्टिस्थितीति। एषामर्थवादत्वं स्वार्थे फलराहित्येन फलवद्विज्ञानवाक्यशेषत्वात् 'वायुर्वै क्षेपिष्ठा' इत्यादिवदिति द्रष्टव्यम्। अत्र सृष्टयादित्रयं विजातीयजडप्रपश्चस्य स्वतन्त्र्यनिराकरणेन। तेन चिदात्मनो द्वैतभावं वारयति। प्रवेशवादस्तु स्रष्टुरेव साक्षाज्जीवरूपतां दर्शयन्सजातीयभेदं तस्यापा- करोति। नियमनवादस्तु तस्य सर्व.नियन्तृत्वोक्त्या सर्वाधिष्ठानत्वमनन्याधीनत्वं च सर्व- प्रत्यक्त्वं च दर्शयति। एवमेतैर्भोग्यभोक्तृत्वानामेकत्र कल्पितत्वोक्त्या सर्वकल्पनाधि- ष्टानस्य चिदात्मनः कल्पितप्रपञ्चाभेदेन 'सर्वं खल्विदं ब्रह्म' [छा० ३ । १४ । १] इति वावयस्य वाच्यार्थत्वं प्रदर्श्यते। कार्यस्य वाचारम्भणपदर्शनपरवाक्यैकवाक्यतया चापबा धित प्रपञ्चाकारस्य लक्ष्यार्थत्वमिति विवक्षन्नाह-व्यापारजातकथनच्छलत इति। कथनमिषेणेति यावत् । प्रवृत्तेर्थवादवाक्यानामिति शेषः । सानुग्रहादेवमर्थवःदपञ्चक- कृतानुग्रहसहितात्तत्त्वमादेर्वाक्यात्खलु परस्परमात्मनोऽवगतिर्यथार्थानुभवो घटते। ततस्तत्त्व- मादिविधिवाक्यादपरस्मान्निषेधवाक्यान्न परस्यावगतिर्घटते निषेधवाक्यस्य सष्टयादि- कृतोपकारानिरूपणादित्यर्थः ॥ २६० ॥ सु० टी०-सूत्रकृदृभिप्रायादपि विधेः प्राधान्यमित्याह- सूत्रं तन्तु समन्वयादिति विधिव्यापारनिष्ठं वचो मोक्षायेति निवेदनाय कतवान्वेदान्तवेदी मुनिः।
स्वातन्त्र्चः सकलेऽपि वेदशिरसि स्वैरं चरन्नीश्वरः ॥२६१॥ सूत्रमिति। विधिव्यापृतमेव तत्त्वमादिवाक्यं रात्रिसत्रवदार्थवादिके मोक्षे लिङ्गेन विनियुक्तमिति निवेदयितुं मुनिः 'तत्त समन्वयात्' [बह्म- १।१।४ ] इति सूनं कृतवानित्यर्थः । अखण्डार्थानां हि समन्वयः संमवति निषेधप्राधान्ये तु तत्तु निषेधादित्यवक्ष्यत्। मुनित्वे हेतुमाह- वेदान्तेति। 'एतमेध विदित्वा मुनिः' [ बृह० ४।४।२२ ] इति शुतेः । कथमिदं ज्ञातवानित्यत्राऽSह-न्यायेनेति। तर्केणेत्यर्थः। कथमस्थेदृशंसाम-
Page 243
२१६ टीकाट्टयसमेत-
एर्वंमित्यत्राऽऽह-ईश्वर इति। 'दवापरे द्वापरे विष्णुर्व्यासरूपी महामुनिः' इति स्मृते: । ईश्वरत्वलिङ्गमाह-सकलेऽपीति। ताह स्वार्थामावाध् प्रवर्तेत नेत्याह-ऊरीकृतेति। लीलयेव लोकानुग्रहायेत्यर्थः ।। २६१।। :: अ० टी०-तथा च तत्पदार्थशोधनार्थमेव निषेधवाक्यं न स्वरूपबोधनार्थमिते- तत्सूत्रकारप्रवृत्तिपर्यालोचनयाऽप्येवमेवेति दर्शयति-सुत्रमिति। सम्यगखण्डार्थतयाS- न्वयः समन्वय इति समन्वयशब्दार्थः । वेदान्तवेदी वेदान्तानां सम्यगर्थवेदनशीलः। अनेनास्य वेदान्तविषये ज्ञानसंशयविपर्ययराहित्यं सूचितम्। वेदान्तवेदी मुनिर्विधिव्यापार- निष्ठं वचो मोक्षाय न तु निषेधव्यापारनिष्ठमित्यर्थाल्लभ्यत इति निवेदनाय 'तत्तु समन्वयात्' [ब्र०१।१।४ ] इति सूत्रं कृतवान्। निषेधवाक्यगतपदान्वयस्य निषेधैकप- देन ब्राह्मणपरिव्राजकन्यायेन सिद्धत्वात्तद्विवक्षायां तत्तु निषेधादिति निर्दिशेत्। नैवं निर्दि- शत्यतो विधिव्यापारनिष्ठमेव वाक्यं वस्तुग्राहकमित्यर्थः । कि कुर्वनेवं सूत्रं कृतवान्मुनि- र्न्यायेन युक्तिनिवहेनाशेषवेदान्तगतपदवाक्यव्यापारमर्थप्रतिपादन प्रवृत्तिप्रकारमाकलयन्ननेकैः सूत्रपदैर्निबन्नन्तित्यर्थः । अनेनाविचारपूर्वत्वशङ्का सूत्रप्रणयनेऽस्य निरस्ता। किमित्ययं सूत्रशास्त्रनिर्माणे प्रवृत्त इत्यत आह-ऊरीकृतस्वातन्कप इति। अपर्यनुयोज्य इत्पर्थः । कुत एतदपीति यत ईश्वरः समर्थ इत्यर्थः । कृतमप्यनेन शास्त्रं वचनान्तरेण तन्त्रान्तेरण वा प्रतिहन्येतेति नेत्याह-सकलेSपीति। समस्तवेदान्तवाक्याविरोधेनैव प्रवृत्तत्वात्तन्त्रान्तरस्य पौरुषेयतया मूलप्रमाणापेक्षस्य वेदान्तविरोधे बाधितार्थतया प्रति- पक्षत्वासंभवादित्यर्थः ॥ २६१॥ सु० टी .- नेतीत्यादेविध्यद्गत्वमपि सूत्रकृतैवोक्तमित्याह- वाकयार्थान्वयितत्पदार्थकथने नेतीति वाक्यं पुनः साक्षात्सूचयति स्म सूत्रऊदतस्तत्तत्परं निश्चितम्। एवं हस्ततलार्पितामलकवत्तात्पर्यसंवेदने सत्यन्यादगुदीरयन्ति यदि तत्क्षन्तुं कथं शक्नुमः ॥२६२॥ वाक्यार्थेति। विधिषाक्यार्थान्वयितत्पदार्थशोधन इत्यर्थः। प्रकृतै- तावलं हि प्रतिषेधति ततो बवीति च भूयः '[ब० सू० ३। २.। २२] इति सूत्रे। अतस्तच्छोधनपरं न तु मोक्षपरमित्यर्थः । ततभ निषेधस्वा- तन्डयवर्णनं न क्षन्तव्यमित्याह-एवमिति॥२६२॥ अ० टी०-एवं विधायकवाक्यनामेव साक्षादात्मस्वरूपपर्यवसानेन मोक्षसाधनज्ञानो- * त्पादकत्तेत्यत्र सूत्रकारस्य संमतिमुक्त्वा निषेधवाक्यं तु केवळं तत्पदार्थपरिशोधनपरमेवेत्य-
Page 244
संक्षेपशारीरक्रम्। २३७
त्रापि,'प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः' [ब्र० ३ । २ । २२ ३ इति सूत्रोक्तमर्थ संकलयंस्तत्संमतिमाह-वाक्यार्धान्वयीति। स्पष्टान्वयपदेन पूर्वार्धेन सूत्रकृत्संमतिर्दर्शितोत्तरार्धेन तु युक्त्या संमत्या चोपपादितं तात्पर्यमुपसंहरति-एवं हस्तेति ॥ २६२ ॥ . सु० टी०-विधी निषेधोपकारमाह- सत्यं ज्ञानमनन्तमित्यभिहिते संभावना नीयते नास्थूलादिवच:समुद्भ्वधिया द्वैतोपमर्द विना। तेनावान्तरवाक्यलक्ष्यविषयां बुद्धिं दृढीकुर्वता सर्वद्वैतनिषेधकेन वचसा वाक्यार्थधीर्जन्यते॥ २६३॥ सत्यमिति। सत्यं ज्ञानमित्यादिस्वरूपलक्षणैरद्वैते प्रतिपादिते स्थूलादि- द्वैतानुवृत्तेरस्थूलादिवाक्यजबुद्धय्ा तद्पह्ववं विना संभावना न नीयते न प्राप्यते। अतस्तेन वचसा सर्वद्वैतनिषेधादसंभावनां निरस्य तल्लक्ष्याद्वैतव- द्धिं दृढीकुर्वता तत्त्वमसीत्यादितोऽखण्डधीर्जन्यत इत्यर्थः ॥ २६३॥ अ० टी०-इदानीं निषेधवाक्यानां तत्पदार्थशुद्धावुपकारप्रकारं दर्शयति-सत्यं ज्ञानमिति। अस्थूलादिवचनैः समुद्धवो यस्यास्तया धिया कृत्वा यो द्वैतोपमर्दस्तं विना सत्यं ज्ञानमनन्तमित्यभिहितेऽखण्डवस्तुनि संभावना न नीयत इति योजना। तत्पदलक्ष्यार्थे सत्यज्ञानादिवाक्यैस्तात्पर्येण प्रतिपादिते वाच्यशबलैकदेशस्य हेयांशस्य पृथगवस्थाने सर्वात्मनाSखण्डाद्वयवाक्यार्थस्यासंभावनास्पदत्वाद्यतो न तत्र निश्चिता दृढा मतिर्भवति तेन कारणेन सत्यज्ञानाद्यवान्तरवाक्यलक्ष्यार्थविषयां बुद्धिं दृढीकुर्वता सर्वद्वैतनि- षेधकेन नेतिनेत्यस्थूलमित्यादिवचसा हेयांशस्यापबाधने सति वाक्यार्थधीर्यथोक्ता निश्चला जन्यतेऽतः सत्यादिवाक्यैकवाक्यतया पदार्थपरिशोधनपरं सर्वमेव निषेधवाक्यं न साक्षाद-
म०टी०-एवं निषेधैर्लक्ष्यार्थे शोधिते विधिवाक्यान्निविचिकित्स ममेद साक्षात्कुर्षित्याह- अस्थूलादिव चोनिरस्तनिखिलद्वैतप्रपश्वं परं जाग्रत्स्वभसुषुप्तिवर्जितमिदं प्रत्यकस्वरूपं तथा।
Page 245
२३० टीकादूयसमेतं-
एकीळत्य परस्परेण पदयोरर्थद्वयं तत्त्वतः प्रत्यकू चाद्यमद्दयं च तदिति प्रेक्षस्व निःसंशयमू॥२६४॥ अस्थूलादीति। परं परोक्षत्वेन कल्पितं परमात्मस्वरूपमिदं चापरोक्षे प्रत्ययूपमेवं तात्विकं पदार्थद्वयं परस्परेणैकीकृत्येक्षस्वेत्यर्थः। शबलयो- मिन्नत्वावगमात्कथमे की करण मित्याशड््क्योपाधिवर्जनेन शोधितत्वादि- त्याह-अस्थूलादीति॥ २६४ ॥ अ० टी०-एवं विधिनिषेधवाक्याभ्यां लक्ष्यार्थशोधने सति कथं वाक्यार्थधीजन्मेति तदाह-अस्थूलादिव चोनिरस्तेति। अशेषनिषेधवाक्यनिरस्तनिखिलद्वैतप्रपञ्ं सत्यज्ञानादिलक्षणं परं परमात्मानं तत्पदार्थ जाग्रदाद्यवस्थासाक्षित्वेनान्वयव्यतिरेकाभ्यामवस्था- धर्मसंस्पृष्टतया संशोधितमिदं त्वंपदार्थसाक्षिलक्षणं प्रत्यक्स्वरूपं च पदयोस्तत्त्वमोरर्थद्वयं पदार्थप्रतीतिसमये सर्वाधिष्ठानत्वेन सर्वावभासात्मना चावगतं सच्चिद्रपं परस्परेणैकीकृत्यो- पाधिद्वारं विना स्वतो भेदादर्शनात्तत्त्वतः स्वत एवैकीभूतं प्रेक्षस्व्र निःसंशयं निःशङ्कं यथा स्यात्तथा भो: सुबुद्ध इति योजना। कथमेकीभूतमीक्षणीयमिति तदभिनीय व्यपदिशति- प्रत्यक्चादयं ब्रह्म। चकारोऽवधारणार्थः। प्रत्यगात्मा निष्प्रपञ्वं ब्रह्लैव न ततोऽर्यान्तरं तथाडदयं च ब्रह्म तत्प्रत्यगात्मस्वरूपमेव न तटस्थमिति प्रेक्षरवेत्यर्थः ॥ २६४॥ सु० टी०-ननु व्यवहितस्य ब्रह्मण: परोक्षत्वात्कथं प्रत्यक्षत्वमिति चेत्परिशोधनेन व्यवधानापनयादित्याह- अद्वैतं परिशोधितं भगवतो विष्णोः परं यत्पदं तच्छब्देन समर्पितं परिगृहीतादेयमात्मप्रभम्। यच्चोपाधिविवर्जितं तव निजं साक्षात्स्वरूपं तयो- रेकत्वं परिवर्जितव्यवधिकं प्रत्यक्षमीक्षस्व भोः ॥ २६५॥ अद्वैतमिति। यञ्ञ तेच्छब्दलक्ष्यमह्वैतमस्थूलादिवाक्यैनिरस्तहेयांश यञ्ञ तव बुद्ध्यादिवर्जितं प्रत्यगूप तयोरेकत्वं निरस्तव्यवधित्वादृतिसंनिहित मीक्षस्वेत्यर्थ: ॥ २६५ ।। अ० टी०-ननु ब्रह्मणः परोक्षत्वात्परोक्षमेवेदं तत्तवरं स्यात्कथमपरोक्षप्र्यग्ैक्येन निःसंशयं तदीक्षणमित्यत आह-अद्वैतं परिशोधितमिति। भगवतो नित्यसिद्धनि- रक्कुशौश्वर्यवतो विष्णोः श्रीनारायणस्य जगत्कारणतयेपलक्षितस्य यत्परमं पदं सत्यज्ञाना-
१ क ग. कथितं । २ क. तत्पदल'।
Page 246
संक्षेपशारीरकम्। धात्मक स्वरूपं परिगृहीतादेयं यथा स्यात्तथा तच्छन्देन समर्पितं विरुद्धांशप्रहाणेन तच्छब्दलक्षितमिति यावत्। आत्मप्रभं स्वप्रकाशंस्वभावम्। इदं विशेषणं पदार्थद्वयसाधा- रण-झेयम्। य् देहेन्द्रियमनोबुद्धिप्राणाहंकारोपाधिवर्जितं तव निजमसाधारणं साक्षान्नि- रुपचरित स्वरूपमेतदुभयं यत उंक्तविधया परिवर्जितव्यवधिकं व्यवधायकोपाधिरहितमतः प्रत्यक्षमीक्षस्व भोः। निरस्तोपाधिकस्य स्वयंप्रकाशस्य चिदात्मनस्तरवंपदलक्षितस्वरूपस्य परोक्षावभासहेत्वभावादिति भाव: ॥ २६५ ॥ सु० टी०-ननु शोधितयोरपि नैक्यसंभवस्तत्पदार्थस्य सत्यज्ञाना- दिरूपत्वान्मम तु तद्विपरीतत्वानुभवादित्याशङक्याSSह- अनृतजडविभ क्तदु:खतुच्छा- सहनवपुः परमं पदं मुरारेः। परिहृतसकलप्पञ्चमात्मा तव तदवेहि तमो निरस्य वाक्यात् ॥ २६६ ॥ अनृतेति। सत्यत्वादनृतासहं चित्वाच्चेत्यजडरूपासहमद्वैतत्वाद्विमक्त रूपासहं सुखत्वाद्दुःखासहं सत्त्वात्तुच्छरूपासहमस्थूलादिवाक्यैः परि- हृतद्वैतप्रपञ्चं यन्मुरारे: परमं पढं तदेव तव स्वरूपं विपरीतं त्वज्ञानक ल्पितत्वादौपाधिकमिति वाक्यादज्ञानं निरस्य जानीहीत्यर्थः । मुखं व्यादाय स्वपितीतिवत् त्वानिर्देशः॥२६६॥ अ० टी०-नतु यद्यप्येवं परिशोधितयोः पदार्थयोः स्वरूपतो विरोधाभावादेकरसत्वं सम्यगवगन्तुं शक्यते तथापि तवोपदेशं सम्यगवधारयतऽपि ममानृतजा्यादिविरोधि- ब्रह्मात्मता किमिति न यथावदवभासत इति चेत्सम्यक्पदार्थतत्त्वावधानाभावादित्यभिग्रेत्यो- कपदार्थतत्त्वोक्तिपूर्वकं वाक्यार्थ पुनः स्मारयति-अनृतजडेति। विभक्तेत्यन्तवत्त्वनि- र्देशः ।• तुच्छत्वमसर्वमनृताद्यसहनवपुः सत्यज्ञानानन्तानन्दसदवूप परमं पदमत एव परि- हतसकलप्रपञ्वं यत्तदेव तवाSडत्मेति त्वमवेहि। कि कृत्वा भेदप्रतिभासहेतुं तमोSविवेक- लक्षणं वाक्यान्निरस्येति योजना। पुनः पुनरवस्थात्रयापोहेन त्वमर्थस्वरूपबिवेके तदवि- वेकलक्षणतमसो विलयादात्मब्रह्मणोर्भेदहेत्वभावानिःसंशयमात्मेत्येवैकलक्षणं ब्रह्मेक्षसवे- त्यभिप्रायः ॥ २६६ ॥ सु० टी०-एवं यतनेन गुरुणोपदिक्मप्यात्मतत्वमनादिवासनाबश्षी-
Page 247
वीकाइकसमेसं-
कृतः शिष्यो न अहष्पादिति शङूया भहालोनिर्विचिकित्समेव ज्ञानं मुक्तिहेतुरिति साधयति- श्रद्धत्स्व सौम्येति हि शास्ति शास्त्रं श्रद्धाधनत्वश्रुतिरस्ति चान्या। श्रद्धा तु यस्येत्यपरं च वाक्य- मधीयते संशयकुत्सनाय ॥ २६७ ॥ श्रद्धत्स्ेति। शास्त्रं छान्दोग्यश्रुतिः। 'श्रद्धावित्तों मूत्वा' इति माध्प न्दिनश्रुतिः। 'यस्य स्यादृद्धा न विचिकित्साऽस्ति'[छा० ३।१४। ४] इति काण्वश्रुतिः । चकारात् 'श्रद्धावालँमते ज्ञानम्'[गी० ४। ३९ ] इति स्मृत्यादिकं सूचितं तेन संशयस्य श्रुत्यादिभिर्निन्दितत्वान्न पामाणिकेडर्थेडश्रद्धा कार्येत्यर्थः ॥। २६७।। अ० टी०-एवमुपपादितेऽपि करतलामलकवत्ततत्वे यत्तवाविश्वासास्पदमिवावभासते तत्तवात्र श्रद्धादाढर्याभावाद्यतः श्रद्धाऽपि सूक्ष्मवस्त्ववधारणकारणमाम्नायतेऽतः श्रद्धालु- तया मयोक्तमालोचयेत्यभिप्रेत्याSह-श्र्धत्स्व सोम्येति हीति। शास्त्रं छान्दोग्य- षष्टगतम् 'एवं महान्न्यग्रोधस्तिष्ठति श्रद्धत्स्व सोम्य' [छा०६। ६२ । २] इति शास्ती- त्यर्थः । अन्या श्रुतिर्बृहदारण्यकाख्या 'श्रद्धावित्तो भूत्वा' इति श्रद्धाधनत्वश्रुतिरस्तीत्यर्थः । तथा छान्दोग्य एव तृतीयप्रपाठके 'यस्य स्यादद्ा न विचिकित्साऽस्ति' [छा० ३ ।१४ ४ ] इत्यपरं वाक्यमधीयते। शास्त्रे श्रद्धाविधानप्रयोजनमाह-संशयकुत्सनायेति। अतः श्रद्धयैवोपबृंहितं वाक्यजातं संशयादिनिवर्तकमिति भावः ॥ २६७ ॥
अज्ञो विनश्यति पुमानतिमूढभावा- दश्रद्धयोपहतबुद्धिरतोऽपि कष्टः । कष्टाच कष्टतर एव तु संशयात्मा दुःखी सदेति भगवानपि वासुदेवः ॥ २६८॥ अज्ञ इति। अज्ञस्तावन्मुक्त्युपायाज्ञानादेव संसरति। सोऽपि शद्दधान- श्रेत्कदाचिद्ठुरुमाराध्य जानीयादर्पीत्यश्रद्दधानस्ततोऽपि कष्टः। ततोऽपि त्यक्तकर्मा ब्ंह्मतत्वे च संदिहान उमयमार्गभ्रष्टः कट्टमागीति 'अज्ञ- धाशद्धानश् संशयात्मा विनश्यति'[गी० ४।४०] इत्याहेत्पर्थ: ।
Page 248
संक्षेपशारीरकम्। २४१ अ० टी०-श्रुतिशासितऽर्थे भगवद्रीतास्मृतिमप्युदाहरति-अज्ञो विनश्यतीति। अज्ञश्चाश्रइधानश्च संशयात्मा विनश्यति" [गी० ४ । ४० ] इतिभगवद्वच नविवर- णाथकमिदं पर्म्। अतोऽप्यज्ञादप्यश्रद्धयोपहतबुद्धि: कष्टो ज्ञात्वाऽपि स्त्रहितमविश्वा- सतः प्राप्तपुरुषार्थत्यागित्वाद्विनष्ट इत्यर्थः । संशयात्मा तु कष्ठादश्रद्धोपहतबुद्धेरपि कष्टतरोS- तिनष्टस्तस्यैकत्रापि निश्चयाभाषेनास्त्रस्थमनस्कंत्वादतो भगवान्वासुदेवः सदा दुःखीति समाहेत्यर्थः ॥ २६८॥ सु० टी० -- इत्थमतिस्पटटोप दिष्टे क्वाश्रद्धासंशयावकाश इति हृष्यन्तं शिष्यमाश्वासयति-
तच्चाद्वैतमपास्य मोहजनितं पारोक्ष्यमात्मा ह्वभूत्। एवं वेदशिरःपदान्वयवशादेकत्वमेकान्ततः सिद्धं प्रत्यगनन्तयोरिति तव श्रेयः समापतिं गतम् ॥२६९॥ रूपमिति। तावकं प्रत्यग्रूपमद्वैतं सदुज्झितद्वयमभूत्तव सद्यत्वं निवृस- मित्यर्थः । तञ्नाद्वैतं पारोक्ष्यमपास्य प्रत्यगेवाभूत्तस्य पारोक्ष्यं निवृत्त- मित्यर्थः । एवं च पद्योरखण्डान्वयवशाल्लक्ष्ययोः प्रत्यगनन्तयोरैका- न्तिकमेकत्वं सिद्धमिति तव श्रेयः पुरुषार्थसर्वस्वं समात्ति सम्य- गात्ति गतमित्यर्थः । कृतं कृत्यं प्राप्तं प्रापणीयमात्मलाभात्न परमि- न्युक्ते: ॥ २६९ ।। अ० टी०-ननु यः श्रद्धां न करोति तं प्रतीदमुदाहरणीयमहं तु विरोधादेव न तवोक्तं प्रतिपद्य इति चेन्मैवं विरोधस्य प्राक् परिहृतत्वादिति स्मारयति-रूपं तावक- मिति। तावकं रूपं द्वयहेतूपाधिनिरसनेनोज्झितद्वयं सदअ्सा साक्षादद्वैतमेत्राभूत् । तच्चाद्वैतं मोहजनितं पारोक्ष्यमपास्याऽडत्मा प्रत्यगभूत्। पारोक्ष्यसद्वयत्वे कारणत्व्रकार्य- त्वोपाधिकृते तयोरपोहे सति हेत्वभावात्पारोक्ष्यादिनिवृत्तौ पूर्णात्मता तव स्वयमेव्राSSविर्भूते- त्यर्थः । यत एवमतः सिद्धं ब्रह्मात्मनि मुक्यवसानं वेदान्तपामाण्यमित्युपसंहरति-एव- मिति। स्पष्टार्थम् ॥ २६९ ॥ सु० टी०-कि च वैशेषिकैरव्यखण्डार्थोऽभ्युपेय इति कासंभावना- पसक्ग इत्याह- संबन्धः समवाय इत्यपि पदे वैशेषिकोच्चारिते नाखण्डव्यतिरिक्तवस्तु वदितुं शक्तोऽनवस्थाभयात्। १ क. ग. त्थमिति" । २ क. कं पामू°। ३१
Page 249
टीकानूय समेत-
पञ्चानां समवायितेतिवचनव्याघातभीतेरपि संबन्धान्तरमस्य नाभिमनुते वैशेषिकः कातरः ॥ २७० ॥ संबन्ध इति। समवायः संबन्ध इति वैशेषिकोक्ते पदे पद्यतेऽनेनेति व्युत्पत्या वाक्य इत्यर्थः। अखण्डादन्यत्प्रतिपाद्यमस्तीति न स वक्तुं शक्कोति संबन्धान्तराभ्युपगमेऽनवस्थानात्समवायाभ्युपगमे द्रव्या- दीनां पञ्चानां समवायित्वमिति प्रशस्तपादोक्तिव्याघातादनवस्थानाज्च संयोगाभ्युपगमे द्रव्यत्वापत्तेः स्व्ररूपसंबन्धस्य स्वामिन्नत्वेSखण्डा- र्थत्वाविरोधाद्भ्विन्नत्वेऽनवस्थानादिति विचार्य. कातरो निष्पतिम- इत्यर्थः ॥ २७० ॥ अ० टी०-एवं वाक्यस्याखण्डार्थत्वमुपपाद्य वादिभिरपि नात्र विवादः कर्तव्य इति सर्ववाद्यविप्रतिपत्या स्व्रपक्षं द्रढयति-संबन्ध इत्यादिना। संबन्ध्यनाश्रितस्य संबन्धस्या- भावात्तदाश्रितः संबन्धो वाच्यः । आश्रितत्वं च संबन्धाधीनमिति हि स्थितिः । तत्र सम- वायः संबन्ध इति पदद्वयात्मके वाक्ये वशेषिकोच्चारितेSखण्डव्यतिरिक्तवस्तु वदितुं न कोऽपि शक्तो वैशेषिकमते स्थित्वा न वक्तुं शक्यत इत्यर्थः । कुतोऽनवस्थाभयात् । सम• वायस्य संबन्धिसंबन्धे समवायातिरिक्तसंबन्धस्यानिरूपणात्समवायान्तराभ्युपगमः कार्यः । तथा च तस्यापि संबन्धत्वात्समवायान्तरापेक्षेति स्यादनवस्थेत्यर्थः । भवत्वनवस्था को दोष इति चेत्स्वसिद्धान्तबाध एवेत्याह-पञ्चानामिति। समवायातिरिक्तानां पञ्ञानां द्रव्यादिपदार्थानां समवायित्वं साधर्म्यमितिवचनव्याघातभीतेरप्यस्य समवायस्य संबन्धान्तरं वैशेषिको नाभिमनुते। यतः स्वसिद्धान्तभङ्गात्कातरो भीत इत्यर्थः । अतोऽत्र गत्यन्तराभावा- द्वैशेषिकमते तावत्सिद्धमखण्डार्थत्वमित्यर्थः ॥ २७० ॥ सु० टी०-प्राभाकरैरप्यखण्डार्थोडभ्युपेय इत्याह- शब्दो गकार इति लौकिकमस्ति वाक्यं विस्पष्टमस्ति च पदद्यमत्र वाक्ये। प्राभाकरे च समये न गकारमात्रा-
शब्द इति। एतद्वाक्यस्थपद्द्वयेनापि न तन्मते गकारस्वरूपादृधिक किंचित्प्रतिपाद्यमस्तीत्यखण्डार्थत्वं सिदध मित्यर्थः ॥ २७१ ॥ अ० टी०-प्राभाकरं प्रत्यप्याह-शब्दो गकार इति। अस्मिन्वाक्ये। सुबोधम- न्यतू ॥ २७१॥1
Page 250
संक्षेपश्ञारीरकम्।
हु० टी०-ननु शब्दशब्देन शब्दत्वं जातिरुच्यतेऽपरेण गक। हत्यर्थभेद इति चेन्नेत्याह- शब्दत्त्वज्ातिवचनो न हि शब्दशब्द: श्रोत्रोपलम्भनतयां तु निबन्धनेन। वर्णान्त्रवीति न हि जातिरिहाभ्युपेता साक्षाद्गकारमयमाह गकारशब्दः ॥ २७२॥। शब्दत्वेति। स हि श्रोत्रग्राह्मयत्वेन तटस्थोपाधिना निमित्तेन गकार विष्वेव वर्तने न शब्दत्वजाती व्यक्षकाभावादीपाधिकधर्मेणाप्यनुग धीसंभवे गत्वादिजात्यमावाच्चेति। तथाऽवि धर्मान्वितगकारप्रतिपार नान्नाखण्डार्थत्वमिति चेन्नेत्याह-साक्षादिति। धर्मस्यापि व्यक्तिपरय सानाद्वर्णात्स्वरूपे कार इति विधानाद्यमपि साक्षादकारमात्रमेवाsSी स्यर्थः ॥ २७२॥ अ० टी०-प्राभाकरसमये गकारवाच्यभेव शब्दस्यापि वाच्यमिति कुतोSवगम तत्राऽडह-शब्दत्वजातीति। शब्दशब्दो न हि शब्दत्वजातिवचनः । जातिवाा त्वाभावेऽपि जातिं पुरस्कृत्य शब्दव्यक्तिं वदिष्यतीति चेत्तत्राह-श्रोत्रेति श्रोत्रोपलभ्यमानत्वेनोपाधिना निमित्तभूतेन शब्दो वर्णान्ब्रवीति। श्रोत्रग्राह्यत्वमेव शब्द न जातिस्तत्र प्रमाणाभावादनेनैवोपाधिना सर्वशब्देष्वनुगतव्यवहारोपपत्तौ जातिकल्प योगादित्यर्थः । अत एवेह शब्दे प्राभाकरैर्जातिर्न ह्यभ्युपेताऽतः शब्दशब्दो य वर्णमात्रं ब्रते तथाऽयमपि गकारशब्दः साक्षाद्रकारमाह। अतः शब्दो गकार : सामानाधिकरण्यमखण्डगकारमात्रपरमिति स्थितम् ॥ २७२॥ सु० टी० -- तस्मान्नाखण्डार्थत्वे तैपिव दितव्यमित्याह- तस्मादखण्डविषये वचने विवाद प्राभाकरा: परिहरन्तु न चेदशक्यम्। निर्वोदभेतदिह वाक्यमितोऽन्यथा चेद- स्यार्थकल्पनमभीप्सितमिष्टहांनिः ॥ २७३॥
१ क. पेगका।
Page 251
२४४- टीकाट्टय समेतं-
तस्मादिति। उक्तवाक्ये गत्यन्तराभावादित्यर्थः । इतोऽन्यथेति। संसर्गा- र्थत्वाभ्युपगमे जातिवाच्यत्वाश्रयणात्सिद्धान्तहानिरित्यर्थः॥ २७३॥ अ० टी०-एवं स्थिते प्राभाकरैरखण्डवाक्यार्थे विवादो न कार्य इत्याह-तस्मा- दिति। न चेत्ते विवादं परिहरेयुस्तदैतच्छब्दो गकार इति वाक्यंमिह शब्दार्थव्यवहारे निर्वो- दुमशक्यमुक्तन्यायादित्यर्थः। विपक्षे दण्डं पातयति-इतोऽन्यथेति। जातिवाचित्वकल्पनया चेदस्य वाक्यस्य संसृष्टार्थकल्पनमभीप्सितं तदेष्टहानिः सिद्धान्तक्षतिरित्यर्थः ॥ २७३॥ सु० टी० -- पाणिन्युक्तिमपि पुनः स्मारयति- प्रातिपदिकान्यनतिरिक्तविषयाणि प्राह भगवान्प्रथमशब्दितविभक्त्या। पाणिनिरतः सकलतर्कसमयज्ञो वष्टि वचसोरनतिरिक्तविषयत्वम् ॥२७४ ॥ प्रातिपदिकानीति। स हि प्रथमाख्यविमक्त्याऽभिन्नार्थानि प्रातिपदि- कान्याह। अतः सोऽपि पदयोरखण्डविषयत्वं वष्टि कामयत इत्यर्थः। कि तत इत्यत्राSऽह-सकलेति। तस्य सर्वपार्षदृत्वेन तत्संमत्या सर्व- संमतिरन्नीयत इत्यर्थ: ।। २७४ ।। अ० टी०-अत्र पाणिन्याचार्यसंमतिमप्याह-प्रातिपादिकानीति। भगवा- न्पाणिनिः प्रथमशन्दितविभक्त्याऽनतिरिक्तविषयाणि प्राहेत्यन्वयः । सकलतर्कसमयज्ञ इतिविशेषणेन पाणिनिसंमत्यैव सर्ववादिसंमतिरिति सूचयात। तथा यतोऽर्थभेदाभावोऽतो हेतोर्वष्टि वचसोर्धातुभावप्रत्यययोरनतिरिक्तविषयत्वमखण्डार्थतवं प्राहेति संबन्धः ॥२७४।। सु. ट०-नाखण्डविषया वच:प्रवृत्तिलोकेऽपीत्युक्तं निरस्यति- इयं घटव्यक्तिरितीदृशेषु च प्रसिद्धमेवैकरसार्थगोचरम्। ... पदद्वयं लोकवचःसु तेन च .-. प्रशस्यते नात्र विवादसंग्रहः॥२७५। इयमिति। सर्वनाम्नो बुद्धिस्थव्यक्तिवाचित्वाद्घटपदस्यापि व्यक्तिप- दसामानाधिकरण्येन तत्परत्वात्तत एव च विभक्त्यर्थैकत्वेनापि स्वरूपा- मेदृस्य लक्ष्यत्वादीद्वशेषु लोकवाक्येष्वपि पद्द्रयमखण्ठार्थमिति नात्र प्रिवाद इस्पर्थ: ॥। २७५॥
Page 252
संक्षेपशारीरकमू . २४५ .
अ०टी०-तथाऽन्यदपि सर्वपरीक्ष कसमतमुदाहरणमाह-इयं घटव्यक्तिरिति। 'सर्व- नामप्रसिद्धार्थ प्रसाध्यार्थविघातकृत्' इति न्यायेन संनिहितोपाधिवशादियमित्यस्य वस्तुस्वरूप- वाचकता तावत्सिद्धा। घटव्यक्तिशब्दस्य च व्यक्तिवाचकता संमतैव। तथा चेयं घटव्यक्ति- रियं पटव्यक्तिरितीद्ृशेषु वाक्येषु लोकवच:सु पदद्वयमेकरसार्थगोचरं प्रसिद्धमेवेत्यन्वयः। चकारोऽप्यर्थ ईदृशेषु लोकवचःस्विति संबध्यते। तेन चेत्यादि स्पष्टार्थम्। चकारोऽत्रायं परीक्ष[क]संवादैः प्रागुक्तैः सहास्य समुच्चयार्थः ॥ २७५॥ सु० टी०-यञ्ञ बह्म मानान्तरयोग्यं सिद्धत्वात्फलवदिति वेदस्या- नुवाद्कत्वमुक्तं तत्र सधर्मकत्वमुपाधिमाह- न च प्रमाणान्तरयोग्यतायां प्रंयोजकं स्यात्परिनिष्ठितत्वम्। यतः प्रमाणान्तरयोग्यतायां प्रयोजकं रुपरसादिमत्त्वम् ॥ २७६ ॥ न चेति। सिद्धत्वं न तत्र प्रयोजकं किं तु रूपरसादिमत्त्वं धर्मत्वमि- त्यर्थ: ॥। २७६ ॥। अ० टी०-तदेवमखण्डवाक्यार्थे न कस्यापि विवाद इति प्रदर्शनेनाखण्डे ब्रह्मात्मनि वेदान्तपामाण्यं निरपवादमिति प्रतिष्ठापितमिदानीं यदुक्तं परिनिष्टितस्य वस्तुनो मानान्तर- योग्यत्वाद्वह्मात्मनश्च परिनिष्ठितरूपत्वान्न तत्र मानान्तरनिरपेक्षं वाक्यप्रामाण्यं संभवतीति तत्राSडह-न च प्रमाणान्तरयोग्यतायामिति। सविशेषत्वमेव मानान्तरयोग्य- तायां प्रयोजकं न परिनिष्ठितत्वं मानान्तरयोग्यत्वस्य सविशेषव्याप[क]त्वादित्यर्थः । विमतं मानान्तरयोग्यं परिनिष्ठितत्वातस्तम्भादिवदिति प्रयोगः सविशेषत्वमुपाधिरित्युक्तं भवति॥२७१॥ सु० टी०-न च तस्य साधनव्यापकत्वमात्मनो निर्धर्मकत्वादृतोऽत्र मानान्तरायोग्ये ब्रह्मणि निरपेक्षं सद्वेदान्तवाक्यं प्रर्माणमेवेत्याह- ततोऽस्तु रूपादिविहीनरूपे प्रमान्तरागोचरचित्स्वरूपे। वच: प्रमाणान्तरनिःस्पृहं सत् प्रमाणमत्राऽडत्मनि निर्विवादम्॥२७७॥
१ ग. मापणीयमे।
Page 253
टीकांद्वयसमेतं-
सत इति। निर्षिवादं निरपवादम्॥२७७॥ अ०टी०-न च साधनव्यापकत्वमित्याह-ततोऽस्तु रूपादिविहीनरूप इति। रूपादिविहीनस्वरूपत्वं तावदात्मवस्तुनोऽ्शब्दमित्यादिश्रुतिसंमतं वादिसमतं च चित्स्वरूपत्वादेव प्रमाणान्तरागोचरत्वमिति न साधनव्यापकत्वादीत्यर्थः । स्पष्ट मन्यत् ।। २७७।। सु० टी०-उपाध्यन्तरमाह- लोकप्रसिद्धपदगोचरतानिमित्त- मन्यप्रमाणविषयत्वमिह प्रसिद्धम्। लोकप्रसिद्धपदगोचरता न चास्मि- न्व्रह्मात्मनीति च तदत्र निवारणीयम् ॥ २७८। लोकेति। मानान्तरयोग्यत्वे स्वतन्त्रलौकिकवाक्यगम्यत्वं निमित्तमु पाधिरित्यर्थः । साधनव्यापकत्वमुद्धरति -- लोकेति। न च ब्रह्मण्यलो किके तद्स्तीति तन्मानान्तरसापेक्षत्वमत्र निवारणीयमित्यर्थः॥। २७८। अ० टी०-ननु मानान्तरयोग्यत्वं न रूपादिमत्त्वव्याप्तं रूपादिहीनेऽपि कालादौ माना न्तरयोग्यत्वदर्शनादतः साध्याव्यापकत्वमुपाधेरिति चेत्तर्हि लोकव्युत्पन्नपदवाच्यत्वं माना न्तरयोग्यतायामुपाधिरस्वित्याह-लोकप्रसिद्धेति। इह व्यवहारभूमौ। अत्रा साधनव्यापकत्वं पराकरोति लोकप्रसिद्धेत्युत्तरार्धेन। अत्र ब्रह्मात्मनि तदन्यप्रमाणवि षयत्वं निवारणीयमित्यर्थः । न च पूर्वोक्तोपावेरपि साध्याव्याप्तिः कालादेरपि सगुणतं सविशेषत्वाद्रृपांदिमत्वशब्देन विशेषत्वमात्रस्य विवक्षितत्वाद्वह्मणि च विशेष्रभावादि द्रष्टव्यम् ॥ २७८॥ सु० टी०-किं च तवैव कार्यवादिन इद दूषणमित्याह- लोकप्रसिद्धपदगोचरताऽस्ति कार्य तेनास्तु कार्यपरवाक्यमशेषतस्ते। मानान्तरेषु परतन्त्रतया प्रमाणं स्वार्थे न दूषणभिदं श्रुतिमस्तकेषु ॥ २७९॥ लोकेति। तव हि नियोगे लौकिकपद्गोचरत्वमस्ति लिडदिलोकक्य त्पन्नत्वात्तेन च कार्यपरं सर्वे वेद्वाक्यं स्वार्ये मानान्तरपरतन्त्त्वेनाड
१ क. 'प्रयुक्तप0 । २ क. ग. देलौंकिक।
Page 254
संक्षेपशारीरकम्। २४७ माणं स्यावित्यर्थः । स्वतोऽप्पापततिं निरस्यतति-नेति। वेदान्तेषु तद्भावा- दित्यर्थः ॥ २७२॥। अ० टी०-एवं सति कार्यवाक्यस्य मानान्तरसापेक्षत्वप्राप्तिर्न बेदान्तवाक्यस्येति लोकप्रसिद्धपदगोचरत्वस्य मानान्तरगोचरत्वाव्यभिचारं द्रढयति-लोकप्रसिद्धपदगो- चरताऽस्ति कार्य इति। कार्यवाचिनो लिडादिपदस्य लोक एव व्युत्पन्नत्वात्कार्ये लोकप्रसिद्धपदगोचरताऽस्ति तेन हेतुना कार्यवादिनः कार्यपरवाक्यमशेषतोऽशेषेषु माना. न्तरेषु परतत्रतया स्वार्थे प्रमाणमस्त्विति योजना । इदं दूषणं मानान्तरायत्तं स्वार्ये प्रामाण्यमित्येवंरूपं न श्रुतिमस्तकेष वर्तते ब्रह्मपदस्य लिडादिपदवलौकिकपदत्वाभावा- दित्यर्थ: ॥ २७९॥ सु० टी०-क्रियां विना न वाक्यत्वमित्युक्तं निरस्यति- न च क्रियाकारितसंहतानि पदानि लोके नियमेन वक्तुम् । समीहते पक्वमतिः पदानां करियां विनाऽप्यन्वयदर्शनेन ॥ २८० ॥ न चेति। प्रधानया क्रियया कारिता संहतिसत्रयो येपामीहशान्येव पदानि प्रयोक्तुं पक्कमतिर्व्युत्पन्नमतिः समीहत इति नायं नियम:। क्रियां विनाऽपि पदानामन्वयदर्शनादित्यर्थः॥ २८० ॥ अ० टी०-यत्पुनः क्रियां बिना पदानामन्वयायोगाक्क्रियापदाङ्गीकारे च वाक्यस्य तत्प्राधान्यान्न सिद्धे प्रामाण्यसंभव इत्युक्तं तत्राऽऽह-न च क्रियेति। पक्कमतिः प्रेक्षा- पूर्वकारी ॥।२८०। सु० टी०-उदाहरणमाह- महीभुजोडयं पुरुषो मनस्वी वनस्पतेस्तत्फलमित्यपीह। कियां विनाऽप्यन्वयवन्ति लोके पदानि दृष्टानि बहूनि वकुः॥ २८१ ॥ महीति । वक्तुरीदशवाक्येषु क्रियां विनाऽप्यन्वितानि पदानि दट्टानीति संबन्धः। न चात्रापि क्रियापदाध्याहार: संबन्धमात्रपरत्वे- नान्र तद्संभवादिति भाव: ॥। २८१ ।।
Page 255
२४८. टीकाटूयसमेत-
अ० टी०-क्रियापदं विनाऽपि पदानामन्वयदर्शनमुदाहरति-महीमुजोऽयमिति। इह लोके क्रियां विनाऽप्यम्वयवन्ति बहूनि पदानि वक्तुर्मुखान्निर्गतानि दृष्टानीति योजना। उदाहरणार्थ: सुगमः । संबन्धनिष्ठत्वादेतादृशवाक्यानां नात्र क्रियापदाध्याहारसंभव इति भाव: ।। २८१॥। सु० टी०-इष्यते च प्रकृतेऽपि क्रियापद्मित्याह- क्रियापदं वेदशिरःस्वपीष्यते विवक्षितार्थानुगुणं तु तत्मतम्। विवक्षितार्थप्रतिपत्तिघाति तु क्रियापदं स्वीकृतमप्यनर्थकम् ॥२८२॥ क्रियेति। ननु तद्भ्युपगमे विवक्षितार्थमङ्ग इति नेत्याह-विवक्षितेति। याहक्क्रियापदाङ्गीकारे वस्तुपरत्वं न विहन्यते तादृवगित्यर्थः। ननु तर्हिं कार्यपरमेव लिङादि तत्र किं नेष्यत इति चेद्विवक्षितार्थविरोधित्वा- हित्याह-विवक्षितेति। यथा 'दभ्ेन्द्रियकामस्य जुहुयात्' इत्यत्र विव- क्षितदधिफ लसंबन्धविरोधि क्रियापद्मानर्थक्यात्संनिहितहोमानुवाद् इति ॥ २८२ ॥ अ० टी०-क्रिययाऽन्वयसंभव इत्यम्युपगमेऽपि वेदान्ते न विर्वक्षितार्थत्वविरोध इत्याह-क्रियापद्मिति। यत्र क्रियापदमिष्यते तद्विवक्षितार्थानुगुणमेवेष्यते। यत्तु क्रियापदं विवक्षितार्थप्रतिपत्तिघाति तत्स्वीकृतमपि निर्थकमतो वेदशिरःस्वपि स्वार्थप्रतिः पत्यविघातकतयाऽर्यप्रतीत्यनुकूलमेव क्रियापदमेष्टव्यं तदप्यस्तीत्यर्थः ॥ २८२ ॥ सु० टी०-किं तदनुगुणं क्रियापद्मिति चेत्तत्ाऽडह- अस्त्यस्म्यसीति च पदं प्रचुरं क्रियाया वेदान्तवाक्यगतमादरतः पठन्ति । तन्मात्रतः सकलवेदशिरःपदानां संघातसिद्धिरिति वेदशिरोनिषण्णाः ॥। २८३ ।। अस्त्यस्मीति। अस्ति ब्रह्माहं बह्मास्मीत्येतावृशक्कियापदैर्वस्तुसत्तामात्रा-
मन्यन्त इति शेष: ॥ २८३ ।
Page 256
संक्षेपशारीरकम्। २४९
अ० टी०-किमत्र क्रियापदं यदङ्गीकारे वाक्यस्य वस्तुपरत्वाविरोध इति तत्राSऽह- अस्त्यस्म्यसीति। अस्तीति भ्रुवतोऽन्यत्र कथं तदुपलम्यते। ब्रह्मास्मि त्त्वमसीति च वेदान्तवाक्यगतं क्रियायाः पदमिति संबन्धः । तन्मात्रतस्तादृशक्रियायोगमात्रतो वेद- शिरेनिषण्णा: संप्रतिपना इति शेषः । न चैवरंविधक्रियाङ्गीकारेSपि वाक्यस्य क्रियाप्राधा- न्याद्वस्तुपरत्वानुपपत्तिरिति वाच्यमस्त्यादिशब्दस्य सत्तामात्रविषयत्वात्। न हि सत्ताऽवि •
क्रिया तस्या वस्तुस्वरूपमात्रत्वादन्यथा द्रव्येतरपदार्थानामसदात्मत्वप्रसङ्गात्। तस्माद्वस्तु- स्वरूपसत्तैव क्रियात्वोपचारेणाSऽख्यातपदेनोथ्यते । अतो नैतादृशक्रियापदैर्वस्तुप्राधान्य- हानिरिति भाव: ॥ २८३ ॥। सु० टी०-नन्वेवं सत्युपनिषदां सापेक्षत्वपरसङ्ग इति प्राभाकरीयं चोद्यमनुभाषते- यन्तु प्रमाणमनुभूतिरिति प्रमाण- सामान्यलक्षणमनूय पुनर्वदन्ति। सत्ताप्रमाणघटनां प्रति योग्यताऽतो नास्त्यर्थनिष्ठ्वचनेष्वनपेक्षतेति ॥२८४॥ यत्त्विति। अनुभूतिः प्रमाणमिति प्रमाणसामान्यलक्षणं (#लोकसिद्ध. मनूद्य प्रमाणप्रवृत्तियोग्यता सत्तेति सत्तालक्षणं) वदन्तीत्यतो वस्तुनिष्ठ- चाक्येषु सत्ताविषयत्वान्नानपेक्षत्वरूपं प्रामाण्यमस्तीत्यर्थः ॥। २८४। अ० टी०-यद्यस्त्यर्थनिष्ठं वाक्यं स्यात्तदा सत्तायाः प्रमाणयोग्यतालक्षणत्वाय्मा- णयोग्यतैव वाक्यार्थः स्यात्तथा च प्रमाणान्तरयोग्यताऽपि स्यादिति मानान्तरसापेक्ष- त्वप्रसङ्ग इति प्राभाकराणां चोदमनुवदति-यत्तु प्रमाणमिति । अनुभूतिः प्रमाणमिति प्रमाणसामान्यलक्षणं स्वशास्त्रसिद्धमनूद्य यत्तु पुनर्वदन्ति तहुर्घटमिति परेण संबन्धः i कि वदन्ति तदाह-सत्तेति। प्रमाणघटनां प्रति योग्यता सत्ता प्रमाणाधीना सत्तेति यावत्। एवं यतोऽतोऽस्त्यर्थनिष्ठत्रचनेषु नानपेक्षतेति वदन्तीति योजना·।। २८४ ।। सु० टी०-दूषपति- तद्दुर्घटं न खलु संविदिय स्वयोग्या न ह्यात्मनि स्थितिमुपैष्यति योग्यताडस्या:।
- ग्रम्थोऽयं क, पुस्तके नासि।
Page 257
टीकाट्ट्यसमेत-
वस्त्वन्तरोपनिहितस्वपदत्वहेतो- र्नह्यात्मरूपदहने दहनस्य शक्तिः ॥ २८५॥ तदिति। कथं दुर्घटमित्यत्राऽऽह-न खल्विति। अनुभूतिहिं संवित्तय्ो ग्पता प सत्तेत्युक्तम्। न च संवित्संविद्योग्या विषयताया भिन्ननिष्ठत्वेन स्वात्मन्यभावात् । नापि संविदृन्तरयोग्या स्वप्रकाशत्वात्। न च परोक्षसंविद्विषयत्वात्तथा तद्नावश्यकत्वादिति न सा सती स्यात्तदे- तदाह-न हीति। कुत इत्याह-वस्वन्तरेति। वस्त्वन्तरं घटादि तत्रोपनि- हिंत स्वपद स्वकर्मत्वं यथा तस्या मावस्तत्त्वं तत इत्यर्थः । न ह्यात्मेति। यथा वह्लेर्वस्त्वन्तरमेव दाहं नाऽडत्मेत्यर्थः॥। २८५॥ अ० टी०-अनूदितं मतं दूषयति-तद्दुर्घटमिति। कथं दुर्घटमिति तदाह- न खल्विति। इयं संविन्न खलु स्वयोग्या स्त्रग्राह्या न भवतीत्यर्थः । तत्र हेतु :- न हीति। योग्यता त्राह्यताऽत्मनि प्राहकस्वरूपे स्थिर्ति निष्ठां न ह्युपैष्यति। कुत इत्यत आह-अस्था वस्त्वन्तरेति । पदशब्दो विषयवचनः । विषयस्य भावो विषयत्वं स्वं च तद्विषयत्वं च स्व्रविषयत्वं वस्त्वन्तरेणोपनिहितं च तत्स्वपदत्वं चेति वस्त्वन्तरोपनिहितस्वपदत्वं तस्माद्वेतोरिति विग्रहः। स्व्रातिरिक्तप्रमा- णवस्तुकृतत्वाद्ग्राह्यगतविषयत्वस्येत्यर्थः। भेदाभावे ग्राह्यग्राहकत्वायोगे दृष्टान्तं द्योतयन्नाह- न हीति। आत्मरूपदहने दहनस्वरूपदाहे तस्यैव दहनस्य न हि शक्तिर्दष्टा दाह्यदाह- कभेदाभावादित्यर्थः । एकस्यैवैकदैकस्यां क्रियायां कर्मकर्तृभावेन गुणप्रधानत्वविरोधान्ना- नुभूति: स्ववेद्या नाप्यन्यवेद्याऽन्यस्य जडत्वे वेदकतासंभवादजडत्वे तस्याप्यनुभूतिमात्र- त्वात्समानस्वभावतया प्रदीपयोरिव मिथो विषयविषयिभावायोगादनुभूतिर्न मानग्राह्मेति मानयोग्यत्वं सत्त्वभितिपक्षेऽनुभूतेरसत्त्वप्राप्तिरिति भाव: ॥।२८५।। सु० टी०-ततः किमिति चेत्तताSऽह- संवित्पमाणघटनां प्रति योग्यतां चे- न्नेयं बिभर्ति न सती भवितुं समर्था। तयोग्यतैव यदि मातृघटादिसत्ता तस्याप्यसत्त्वमिति शून्यमुपाजिहीथाः ॥२८६॥ संविदिति। प्रमाणघटनां प्रति प्रमाणविषयत्वं प्रति। अस्तु संविद:
Page 258
संक्षेपशारीरकम्। २५१ सती किं नश्छिन्नमिति चेत्तताSऽह-तद्योग्यतेति। तस्या असत्त्वे मातृमान- घटादेरपि तद्योग्यता। लक्षणसत्त्वामावे शून्यवाद इत्याह-सून्यमिति। उपाजिहीथा उपागच्छे: ॥। २८६ ।. अ० टी०-उक्तमेवार्थ स्फुटयन्सत्त्वस्य मानाधीनतायां सर्वार्थासिद्धि दोषं प्रसख्- यति-संवित्ममाणघटनामिति। इयं संविदिति संबन्धः । प्रमाणविषयतां चेन्न बिभर्तीत्यर्थः । तदा प्रमाणाधीना सत्तेति मते सा सती भवितुं न समर्था सत्त्वासिद्धेर- नुभूतेरसत्त्वमेव स्यादित्यर्थः । एवमनुभूतेः प्रमाणस्यासत्त्वे तद्योग्यतालक्षणं सत्वमितरे- षामपि न स्यादिति जगच्छून्यतापत्तिरित्याह-तद्योग्यतैवेति। तस्यापि मातृघटादे- रपीति यावत्। उपाजिहीथा उपगतवानसीत्यर्थः ॥ २८६॥ सु० टी०-तस्मादन्यादशमेव सत्त्वमभ्युपेयमित्याह- वस्तुस्वभाव इति सत्त्वमतो गृहाण तच द्विधेति वितथावितथत्वभेदात्। सत्त्वं द्विरूपमितरेतरसंकरेण सच्छब्दवाच्यमिति च व्यवहारकाले॥ २८७॥ वस्तुस्वभाव इति। बाधायोग्यं वस्तुस्वरूपमेव सत्त्वं न तु मानान्तरयो- ग्यत्वमित्यस्त्पर्थनिठ्ठवाक्येषु न सापेक्षत्वमित्यर्थः। तथाऽपि नावाग्गोचरे शुद्धेऽस्त्यादिशब्दवृत्तिरिति तद्वाच्यं शबलं बकुं सत्तादयं विभजते- तच्चेति। तञ्च सत्वं द्विधेति गृहाणेत्यनुषङ्ग: । अवितथस्य व्यवहाराती तत्वेन शबलस्येद वाच्यत्वमित्याह-सत्वमिति। संकरेण परस्पराध्यासे- नैकी मूत द्विरूपं सत्वं व्यवहारदशीयां सच्छब्दृवाच्यमित्यपि गृहाणे- त्यर्थः ।। २८७ ।। . अ० टी०-तस्मादनुभृतिः प्रमाणमित्यङ्गीकुर्वता मानयोग्यत्वं सत्त्वमिति दुराग्रहं परित्यन्य वस्तुस्वरूपमेव सत्त्वमिति ग्राह्यमित्याह-वस्तुस्वमाव इति । स्त्वस्य वस्तुस्वभावत्वे तस्य मानाधीनत्वासिद्वेर्मानान्तरयोग्यता दूरापास्तेति सिद्धमिति भावः । तथाऽपि सन्मात्रे ब्रह्मण्यवाच्ये कथमस्त्यर्थनिष्ठस्य शब्दस्य प्रवृत्तिरिति तत्राSडह- तच्च द्विधेति। तच् सत्त्वं द्विधेति गृहाणेत्यनुषङ्ग: । परमार्थत्वापरमार्थ[त्व]भेदाद्विधे- त्यर्थ: । एकमेवर सत्त्वं चिदात्मरूपं स्वरूपतो बाधानिरूपणादवितथं तदेव बाध्यदृश्यो:
Page 259
२५१: ठीकाठूयसमेसं-
परकतया बाध्यत्वाद्वितथं च न स्त्वद्वैविध्यमपि निरपेक्षमस्तीति भावः तब द्विरूपं सत्त्वमविवेकापननं सक्यवहारकाले सच्छन्दवाच्यमिति गृहाणेत्यन्वयः । स्वरूपेणावाच्यमपि ब्रह्म शबलाकृति सद्वाच्यमिति भवेच्छन्दवृत्तिगोचर इति भाव:॥।२८७।। सु. टी०-तत्र शबलार्थत्वे विरोधाद्वाक्यानंन्वय इति मागलक्ष- णामाह- उत्सृज्य तत्र वितथांशमथेतरस्मि- न्संवित्स्वरूपपरमार्थसति स्वरूपे। बुद्धिं कुरु प्रणिदधत्प्णयेन भूत्रि ब्रह्माहमस्मि परमार्थसदित्यजस्रम्॥ २८८॥ उत्सृज्येति। वितर्थांशमुत्सृज्याथेतरस्मिन्नुपादेये परमार्थसति स्वीये रूपे प्रणिद्धवेकाय्रं मनः कृत्वाऽहं ब्रह्मास्मीति बुद्धिं कुर्वित्यर्थः । अस्मीत्वस्यार्थः परमार्थसदिति ॥२८८॥ अ० टी०-शबलस्य शब्दगोचरत्वेऽपि स्वरूपे कथ शब्दप्रवृत्तिस्तदभावे च कयं तत्र वाक्यस्य प्रामाण्यमिति शङ्कायां वेद्यांशप्रहाणेन शोधिते पदार्थस्वरूपे लक्षणया पर्यवसानसंभवादयुक्तं तत्र शब्दप्रामाण्यमित्याह-उत्सृज्य तत्रेति। इतरस्मिन्नित्युक्तां- शस्वरूपमाह-संविदिति। संवित्स्वरूपं च तत्परमार्थसच्चेति। तथाऽस्मिन्स्वरूपे वस्तुनि भूम्नि परिपूर्ण इति योज्यम् । एवंविधे स्वरूपे प्रणिदधत्प्रणयेन सम्यगाहितस्ने- हेन सादरतरवृत्येति यावत् । परमार्थसद्वह्माहमस्मीत्यजस्तरं निरन्तरं बुद्धिं कुर्विति योजना ॥। २८८ ॥ सु० टी०-कि च प्रमान्तरमिहेत्यादिश्लोकोक्तं चोद्यमुद्धरति- बह्म स्वयंग्रभमतः शबलेषु तस्य मानान्तरानधिगतेष्वि शब्दशक्ति:। रूपेषु वृद्धजनसंव्यवहारहेतो: शक्या ग्रहीतुमुदितेन पथाऽनभिज्ञैः ॥२८९॥ अ्रहोति। स्वयंत्रमत्वादेव मानान्तरानधिगतेष्वपि शबलस्वरूपेपु प्रत्यगातमादिपदानां शक्तिर्वृद्धव्यवहारेण सुग्रहैव सिद्धत्वमात्रस्य शक्तिधीहेतत्वादित्यर्थः । उदितेन पथा निःसंधिबन्धनमित्यत्रो- फेन ।। २८९ ॥ १ क. ग. उचिते°।
Page 260
संक्षेपलारीरकम्।
अ० टी०-यत्पुनरुक्तं ब्रह्मणो मानान्तरगोचरत्वे वेदान्तानामनुवादत्वं स्यात्तदगो चरत्वे तत्र न शब्दशक्तिग्रह इत्यबोधकतेति तत्परिहरति-ब्रह्म स्वयंप्रममिति। यतो ब्रह्म स्वप्रकाशमतो मानान्तरानधिगतेष्वपि तस्य ब्रह्मणो रूपेषु वृद्धजनसंव्यवहारहे- तोरनभिज्ञैः प्रागुदितेन पथा शब्दशक्तिर्ग्रहीतुं शक्येति योजना। ब्रह्मणो मानाविषयत्वे स्वयंप्रकाशत्वात्तस्यानात्मशबलान्यपि रूपाणि साक्षिसिद्धानि भवन्ति व्यवहारदशायामिति तन्निबन्धनस्तेषु प्रागुपपादितप्रकारेण सत्यादिशब्दशक्तिग्रहः संभवतीति नोक्तदोषद्वयाव- काश इति भाव: ॥ २८९॥ सु० टी०-अलौकिकमायाशबलब्रह्मभूमादिपदानां शक्तिग्रहोपा- यमाह- लोकप्रससिद्धार्थपदान्तराणां समीपसंकीर्तनतोपि शक्तिः। ब्रह्मादिशब्दस्य सुखावसेया यथा हि यूपादिगिरस्तथैव॥२९०।। लोकेति। लोके प्रसिद्धानि यानि 'यतो वा इमानि' [तैत्ति० ३। १] इत्यादिपदानि तेषां समीपे 'तङ्ह' [छा० १।७।५] इत्येवं ब्ह्मशब्दसंकीर्तनाज्जगत्कारणमद्दैतं ब्रह्मशब्दार्थ इति निर्श्चीयते तथा 'यत्र नान्यत्पश्यंति नान्यच्छृणोति नान्यद्विजानाति स भूमा '[छा० ७।२४। १] इत्यादो भूमादिशब्दार्थ इति। यथा'यूप तक्षति यूपमष्टास्री करो- हेयग्िमाद्र्धीत' इत्यादिपसिद्धार्थपद्समभिव्याहारात्तत्तत्संस्कार विशेष- विशिष्टे दारुणि यूपशब्दस्याSडधानसंस्कृते चाग्रावाहवनीयादिपद्स्प शक्तिग्रह हत्यर्थः ॥ २९० ॥ अ० टी०-बहलक्षणवाचिनां सत्यादिपदानां व्युत्पत्तिप्रकारः 'आकाशादौ सत्यता ताव- देका' इत्यादिना प्रागुपपादित इदानी लक्ष्यवाचिव्रह्मपरमात्मसदादिपदानां व्युत्पत्तिप्रकारमाह- लोकप्रसिद्देति। लोकप्रसिद्धार्थपदान्तराणि ब्रह्मादिपदेभ्योऽन्यान्यस्ति भाति सत्यमिदमित्या- दीनि तेषां समीपे संकीर्तनतस्तत्समभिव्याहारादपि ब्रह्मादिशब्दस्य शक्ति: सुखावसेयेति योजना। अपिशब्दात्सरूपतोऽपि शक्ति: सुखावसेयेति। एतदुक्तं भवति-बृहतिघात्वर्थ- स्तावत्पसिद्धो लोके महत्त्वावद्योतकः । स च स्वार्थसंकोचकप्रकरणोपपदयोरभावे निरङ्कश एवावतिष्ठते। तच्च निरङ्कशमह्त्वं दृश्येषु न संभावितं दृश्यस्य सर्वस्य देशतः कालतो वस्तुतश्च परिच्छेदादतो ब्रह्मशब्द एव बृहेधातोर्निष्पन्नः स्वमहिम्रा प्रपञ्चविलक्षणं ब्रह्म
१ कं. ग. 'त्यग्रीनाद°। २ क. ग. संस्तुते।
Page 261
११ू४. टीकाट्टयसमेस-
ग्राहयतीति स्वरूपतोऽपि ब्रह्मपदस्य ब्रह्मण व्युत्पत्तिः। तथाऽस्ति भाति सत्यं ज्ञानमित्या- दीनि पदानि व्यवहारदष्टया लोके प्रसिद्धार्थघटपटादिविषयाणि तैः सह ब्रह्मपदस्य समभिव्याहारे सति 'यतो वा' [ तै०.३ । १ । १ ] इत्यादिवा क्यैर्जगदुदयस्थितिलय- हेतुत्वेन नियम्यमानं सर्वजगदाधारभूतं सर्वकार्यस्यूतं महद्वस्तु ब्रह्मेति वैदिकपदकद म्वसत्यज्ञानादिवा क्यगतब्रह्मशब्दव्युत्पत्तिरप्युपपद्यत इति । प्रसिद्धपदसमभिव्याहारादष्यप्र- सिद्धपदार्थव्युत्यन्तिर्भवतीत्यत्र दृष्टान्तमाह-यथा हीति। यूपादीत्यादिपदादाहवनीय- ग्रहः। यथा यूपशब्दार्थो लौकिकोऽपि 'खादिरो यूपो बैल्वो यूपो यूपं तक्षति यूपमष्टा- स्त्री करोति' इत्यादिष्ड प्रसिद्धार्थखादिरादिपदसमभिव्याहारात्तक्षणविशेषादिसंस्कृतः काष्- विशेषो यूप इति व्युत्पत्तिर्जायते तथा 'आहबनीये जुहोति' इति प्रसिद्धार्थहोमवाचि आहवनीय इति व्युत्पत्तिर्भव- तीति ॥। २९० ॥ सु० टी०-संप्रति शक्तिग्रहं विनाऽप्युपनिषत्पदानां ब्रह्मणि प्रमि- तिजननसंभव इत्याह- विनाऽपि शक्तिग्रहणं पदानां परात्मनोर्वाचकभावभाजाम्। भवेत्परब्रह्मणि वेदवाक्यात्म्रतीतिरन्यप्रतिषेधनेन ॥ २९१ ॥ विनाडपीति । परात्मनोर्जीवब्रह्मणोवांचकानां पदानां शक्तिग्रह
ब्रह्मणि विषये प्रतीतिर्भवेदित्यर्थ: ॥२९१॥ अ० टी०-मा भूद्ह्मणि कथचिदपि शब्दशक्तिग्रहो विनाऽपि तेन तत्र वेदान्त- प्रामाण्यसंभवादित्याह-विनाऽपीति । परस्तत्पदार्थ आत्मा त्वंपदार्थस्तयोः परात्म- नोर्वाचकभावभाजां पदानां ब्रह्मात्मादिशब्दानां शक्तिग्रहणं विनाऽप्यन्यप्रतिषेधनेनानात्मा- पोहेन वेदवाक्याद्वह्माणी प्रतीतिर्भवेदिति योजना ॥ २९१ ॥ सु० टी०-व्युत्पत्तिं विना वाक्यार्थबोधेऽतिप्रसङ्ग इति चेन्न पढा: न्तरव्युत्पश्यैव तत्सिद्धिरित्याह- नञ्रः प्रपश्चपतिपादकस्य च प्रतीत्य शक्तिं व्यवहारतः स्थितः ।
१ क. ग. तिबोव
Page 262
संक्षेपज्ञारीरकम्। . २५५
पदस्य शक्रोति परं समीक्षितुं श्रुतेः प्रपञ्चपतिषेधमार्गतः ॥ २९२॥ नञ इति। नञपदस्य निषेध्यप्रपश्चवाचचिमूर्तामूर्तादिपदस्य च व्यवहारा- छक्तिं प्रतीत्य स्थितः सन्नेतीत्यादितस्तंत्निषेधद्वारा परिशिष्यमाणमा त्मानं व्रहुं शक्नोतीत्र्थ: ।। २९२॥। अ० टी०-ननु निषेधवाक्यवर्तिनामपि पदानां तुल्या व्युत्पत्यपेक्षेति चेत्सत्यं तेषां त्वनात्मविषयव्युत्पत्त्यैव ब्रह्मणि प्रवृत्तिसंभवात्पृथक्तत्र न व्युत्पर्यपेक्षेत्याह-नञ्रः प्रपश्चेति। व्यवहारतो व्यवहारे स्थितः पुमान्प्रपञ्चप्रतिपादकस्यानात्मवाचकपदस्य नजो नञ्पदस्य च शक्ति प्रतीत्य श्रुतेर्वेदान्तवाक्यात्प्रपञ्चप्रतिषेधमार्गतः परं ब्रह्म समीक्षितुं शक्कोतीति योजना। अभ्युपगम्यवादोऽयं विधिवाक्यं विना वस्त्वसिद्धेरुक्तत्वात्। यद्वा संभवद्वाद एवायं सर्चानात्मनिषेधस्य सावधित्वादवधेश्वैकत्वान्निषेध्यासजातीयत्वाच्च परिच्छेदज्ञापकहेत्व• भावादपरिच्छिन्वस्तुत्वेनावधर्श्रह्मपदगोचरत्वोपपत्तेः । न चैवं सति पूर्वापरोक्तिपराहतिः पूर्वत्र निषेधवाक्यानामखण्डवस्तुनि स्वातन्त्र्याभावमात्रस्योपपादितत्वादिह पदार्थसन्मात्र- स्योपस्थापकतया ब्रह्मपदार्थसमर्पकत्वस्य त्रिवक्षितत्वादिति द्रष्टव्यम् ॥ २९२॥ सु० टी० पूर्व' परवृत्त्याद्यहेतो्वाक्यस्य न मामाण्यमित्युक्तं तत्र न प्रवृत्यादिहेतुत्वं मामाण्ये तन्त्रं कि तु प्रमाहेतुत्वम्। न वा प्रवृत्त्यादि विषयत्वं मेयत्वे तन्त्रमपि त्वज्ञातत्वमेवेत्याह- ब्रह्मास्मीति वचो निविष्टपदयोर्मानं भवेदन्वयः साक्षादद्यवस्तु तस्य च भवेन्मेयं ततस्तद्गतेः। यषत्र प्रमितिं करोति भवति पामाण्यमत्रास्य च स्पष्ट दृष्टमिदं हि युक्तिघटितं रूपे यथा चक्षुषः॥ २९३॥ ब्रह्मास्मीति। पद्योरन्वयोऽन्वितं पदद्वयमित्यर्थः । तन्मानं भवेब्रह्मा- त्मयमाहेतुत्वादेवमद्वितीयं ब्ह्म तस्य मेयं भवेन्मानान्तरानधिगतत्वा- दित्यर्थ: । तार्हि ग्रावाण: प्रुवन्त इत्यपि स्वार्थे मानं स्यान्नेत्याह- यदिति। यथ्यन्र प्रमाजनकं तत्तत्र प्रमाणं यथा रूपे चक्षरि- स्पर्थ: ॥। २९३ ॥
१ क. ग. र्वपतीत्यस्थितः सभा ।
Page 263
टीकाङुयसमेसं-
अ० टी० -- यत्पुनः प्रवृत्तिनिवृत्त्यनुपयोगिनि वस्तुनि न प्रामाण्यं शब्दस्येत्युत्त तन्रेदं वक्त्तव्यं कि प्रामाण्योपयोगित्वेनार्थस्य प्रवृत्त्याद्युपयोगोऽपेक्ष्यते कि वा प्रयोजनसि द्धयर्थमिति तत्र नाऽडद्यो बोधकत्वेनैव प्रामाण्यसिद्धेरित्याह-ब्रह्मास्मीति वच इति। वचो वाक्यम्। अन्वयः सामानाधिकरण्यरूपः संबन्धः । समानाधिकृतं पदद्वयात्मकं वाक्यं मानं भवेदित्यर्थः । तस्य च वाक्यस्य साक्षादद्वयवस्तवेकरसं ब्रह्मात्मकं मेयं भवे- दिति संबन्धः । कुत इत्यत आह-ततस्तद्गुतेरिति । तस्मात्प्रमाणात्तस्य प्रमेयस्याव- गमादित्यर्थः । उक्तमर्थ सामान्यव्याप्तिकेनानुमानेन साधयति-यद्यत्रेति। विमतं विमते प्रमाणं तत्र प्रमितिजनकत्वाद्यद्यत्र प्रमिति जनयति तत्तत्र प्रमाणं यथा रूपे चक्षुरित्यर्थः । इदं हि युक्तिघटितमित्यस्यायमर्थः । ज्ञानं ह्युत्पद्यमानं न निर्विषयमुत्पद्यते विषयप्रकाशनं च तस्य स्वभावः । तथा च येन केनापि करणेनोत्पन्नं ज्ञानं करणदोषाद्वाधकज्ञानाद्वा बिना नाप्रमा भवेदुत्सर्गतः सर्वज्ञानानां प्रमारूपत्वोपगमात्। एवंसति वेदान्तवाक्यानाम- दुष्टज्ञानकरणत्वात्तद्विषयापहारिमानान्तराभावाच्चार्थावबोधकत्वेनैव प्रामाण्यं चक्षुरादिवदुपप- न्नमिति ॥ २९३ ॥ सु० टी० -- तहहिं सोऽरोदीत्यादेरवि स्वार्थे प्रामाण्यं स्पादिति चेन्नेत्याह- मानान्तरानधिगतं परिनिष्ठितं य- द्वेदः समर्पयति चेतसि तत्परः सन् । तत्तथ्यमेव भवतीति समाश्रयस्व श्रेयस्करो विधिगिरोऽवगतो यथैव ॥ २९४ ॥ मानान्तरेति। तत्र स्वार्थे तात्पर्यामावादमामाण्यं यत्पुनमननान्तराज्ञातं सिद्धमपि वस्तु तात्पर्येण वेद: समर्पयति तद्वेदपमाणकमेव मवति। यथा विधिवाक्यावगतो धर्म इति समाश्रयस्वेत्यर्थः ॥ २९४॥ अ० टी०-ननु नोक्तयुक्त्यनुमानाम्यां ब्रह्मणि वेदान्तमानत्वसिद्धिर्युक्ता सोडरो- दीदित्यादिवाक्ये मानान्तराबाधितार्थबुद्धिजनकत्वेऽपि स्वार्थे प्रामा्यादर्शनादतः प्रवृत्ति- निवृत्युपयोग्यर्थकत्वाभावात्सप्तद्वीपा वसुमतीवाक्यवदप्रामाण्यं वेदान्तानामिति द्वितीयं पक्ष- माशड्क्य सोऽरोदीत्सप्तद्वीपेत्यादिवाक्यानां स्वार्थमात्रज्ञानस्याफलत्व।देवाप्रामाण्यं न प्रवृस्या- धुपयोग्यर्थाबोधकत्वात्मकृतवाक्ये तु स्वार्थज्ञानस्य साक्षात्फलवत्त्वादित्यभिप्रेत्याSS- मानान्तरेति-यत्परिनिष्ठितं सिद्धं वस्तु वेदः समर्पयति तद्वस्तु तथ्यमेव तथारूपमे-
Page 264
संक्षेपशारीरकम्।
वेति समाश्रयस्वेति योजना। तर्हि 'वायुर्वै क्षेपिष्ठा देवता' इत्यादेरपि तथा भूतार्थतवेन प्रामाण्यं स्यादित्यत आह-मानान्तरानधिगतमिति। तथाऽपि सोडरोदीदियादौ प्रसङ्गोऽत उक्त तत्पर: सन्निति। तात्पर्य ,साक्षात्फूलवदर्थावब्रोधकत्वं सोडरोदीदित्यादौ न साक्षात्फलवदर्थावबोधकत्वमिति विशेषः। फलवत्स्वार्थब्ोधकत्वेन प्रामाण्ये दृष्टान्तमाह- अेयस्कर इति। यथैव विधिगिरो विधिवाक्याच्छेयस्करोऽर्थाऽवगतस्तथेयर्थः। तस्मा- चचोदनाया इव धर्मे ब्रह्मणि समन्वयस्य प्रामाण्यमविशिष्टं तात्पर्येणार्थावत्रोधकत्वाविशेषा- दिति भाव: ॥ २९४ ॥ सु० टी०-नन्वज्ञातत्वेऽपि न ब्रह्म वेदपमेयमकार्यत्वात्तथा समन्यः योऽपि न तत्र प्रमाणमचोदनात्वादिति चेत्तत्रSSह- निष्पन्नमेव यदि वा पुरुषप्रयत्न- निष्पायमस्तु तदनङ्गमिह प्रमेये। एवं विधिर्भवतु शब्दसमन्वयो वा प्रामाण्यकारणमिंदं न वदन्ति सन्तः ॥२९५॥ निष्पन्नमेवेति। इह प्रमेये धर्मेडद्वैते वा निष्पन्नत्वं निष्पाद्यत्वं वा न शब्दप्रमेयत्वप्रयोजकं किं त्वनधिगतत्वतात्पर्यविषयत्वे एव तथाविधत्वं समन्वयत्वं वा न प्रामाण्ये तन्त्रमपि त्वज्ञातार्थत्वतत्परत्वे एव लाघ- वादित्यर्थः ।। २९५॥। अ० टी०-नन्वज्ञातार्थत्वतत्परत्वे यद्यपि वेदप्रामाण्यप्रयोजके तथाऽपि न तन्मात्रेण प्रामाण्यसिद्धिः किं त्वर्थस्य प्रयत्ननिष्पाद्यत्ं शब्दस्य चोदनात्वं चापेक्ष्यैव प्रमाणप्रमे- यभाव इति चेत्तत्राऽऽह-निष्पन्नमेवेति। प्रमेयेडर्ये यननिष्पन्नत्वं निष्पाद्यत्वं वा त्न शब्दपामाण्येऽङ्गमिह शब्दार्थ व्यवहार इत्यर्थः । यथा प्रमेये नियमाभाव एवं विधि- रित्यादि सुगमम् । सन्त इदं विधित्वं समन्वयत्वं वा प्रामाण्यकारणं न वदन्तीत्यर्थः । अज्ञातार्थत्वतत्परत्वयोः सतोरपि विषयगतकार्यत्वस्य वा वेदगतचोदनात्वस्य वाडभावमा- त्रापराधेनाप्रामाण्यदर्शनाननेदमुभयत्र कारणमिति भावः ॥ २९५ ॥ सु. टी०-ननु क्वचित्सिद्धं वेदे प्रमेयं क्वचित्साध्यमित्यननुगमापतेः कार्यमेव वेदार्थ इति चेन्नेत्याह- नीलैकगोचरतया नियतं न चक्षु- र्नाप्यस्य पीतविषये नियमोडस्ति शक्तेः।
Page 265
ीकाङ्यसमेलं-
तद्दन्न वेदवचसामपि शक्तियोग: कार्यादिवस्तुषु कथं च न पक्षपाती ॥ २९६ ।।. नीलेति। यथा हि रूपत्वावान्तरजातिविशेषा नीलत्वपीतत्वाद्यो न चक्षुविषयत्वे प्रयोजका: किंतु रूंपत्वमेवं वेदशक्तिविषयत्वेऽपि कार्यत्वं सिद्धत्वं वा न प्रयोजकं कि त्वज्ञातत्वादिकं तञ्ञ सिद्धकार्यसाधार- णमिति क्वाननुगम इत्यर्थः ॥ २९६॥ अ० टी० -- ननु चक्षुरादे रूपादिवद्वेदस्यापि किंचिन्नियतप्रमेयं वत्तव्यं न तु सिद्धं वा साध्यं वेत्यनियम उक्त इति चेन्मैवमवान्तरविषयभेदस्य चक्षुष्येकस्मिन्नपि दर्श- नात्तस्य च तत्राप्रयोजकत्वादित्याह-नीलैकेति। अस्य चक्षुषः शक्तेरिति संबन्धः। कार्यादिवस्तुष्विति कार्ये वा सिद्धे वोभयस्मिन्वेत्यर्थः । तथा चाजञातज्ञापकत्वेनैव वस्तुनि प्रामाण्यं चक्षुषो वा वेदस्य वा न विषयविशेषनियतत्वेनेति भाव: ॥२९६॥ सु० टी०-किं च जैमिनेरपि न चोदनाखं प्रामाण्यप्रयोजकमाम- मतमपि त्वनपेक्षत्वं तच्चात्रापि तुल्यमेवेत्याह- यद्वादरायणमतं परिगृह्य पूर्व श्रेयस्करेऽनधिगते खलु चोदनायाः। प्रामाण्यमुक्तमिदमस्य समन्वयस्य वस्तुस्वरूपकथनेऽप्यविशिष्टमस्ति ॥ २९७ ॥ यद्वादरायणेति। यत्पूर्वम् 'अर्थेऽनुपलब्धे तत्प्माणम्' [जै० १।१।५] इति बाद्रायणमतमाशरित्याज्ञाते धर्मे चोदनायाः प्रामाण्यं जैमिनि- नोक्तं तदस्य सभन्वयस्याप्यज्ञातब्रह्मबोधकस्य समानमित्यर्थः ।।२९७।। अ० टी०-ननु जैमिनिना पूर्वतन्त्रे 'आम्नायस्य क्रियार्थत्वात्'[ जै० सृ० १।२ । १ ] इत्यादिनाSSक्षेपसमाधानाभ्यां सर्वस्य वेदस्य क्रियापरत्वप्रतिपादना- (नात्) क्रियायाश्च चोदनालक्षणत्वात्कार्यत्वं चोदनात्वं च वेदे मेयमानत्वप्रयोजकं न त्वनियमेनाज्ञातज्ञापकत्वादिति चेन्नेत्याह-पद्वाद्रायणमतमिति ।'औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्या- नपेक्षत्वात् '[जै० सू० १।१। ५] इत्यस्मिन्सूत्रे पूर्व प्रथमाम्नायस्येत्यादेरिति
१ क. ग. तच्छेषप०।
Page 266
संक्षेपशारीरकम्। २५
शेष: । पूर्वोक्त्ेऽस्मिन्सूत्रेऽनुपलब्धेडर्ये तत्प्रमाणं बादरायणस्यानपेक्षत्वादिति बादरायणा- चार्यमतमनधिगतार्थविषयत्वमनपेक्षालक्षणवेदप्रामाण्यमिति परिगृह्य श्रेयस्करेऽनधिगतेजर्ये धर्मरूपे यत्खलु प्रामाण्यमुक्तं जैमिनिनाऽSचार्येणेदं प्रामाण्यप्रयोजकमस्य समन्व यस्यति सुगमम्। तथा चोत्तरमीमांसा कारबादरायणमतस्यानुकर्षणेनानुपलब्धे मानान्तरा- नधिगतेऽर्थे वेदशब्दप्रामाण्यस्य साधितत्वज्जैमिनेरपीदमेव प्रामाण्यप्रयोजकमभिमतं लक्ष्यते न चोदनात्वं कार्यार्थत्वं वा तच्च सिद्धे ब्रह्मणि समन्वयप्रामाण्येऽपि समानमिति न पूर्वतन्त्रकृद्वचनविरोधः । तत्र यदाम्नायस्येत्यादिना सिद्धबोधिवाक्यानां वििशेषलेन प्रामाण्यनिरूपणं तत्कर्मकाण्डगतार्थवादवाक्यविषयं वेदितव्यमिति भाव: ॥२९७ ॥ मानान्तरानधिगतं त्ववगम्यमानं मेयं अवेदिति हि मेयविदो वदन्ति। मानान्तरानधिगते विषयेऽवबोधं कुर्वत्पमाणमिति मानविदां प्रसिद्धिः ॥ २९८॥ सु०टी०-एतच्जानधिगतं प्रवृत्तावगतिकं मेथमनधिगते बोधजन- कमानमिति वद्तां भट्टादीनामपि संमतमित्याह-मानान्तरेति ॥ २९८॥। अ० टी०-न पुनरिदं पूर्वतन्त्रे सूत्रकारस्यैव संमतमपि तु तव्व्याख्यातणां शबरस्वा- मिप्रभृतीनामपीत्याह-मानान्तरानधिगतं त्विति। निगदव्याख्यातं पद्यम्।।२९८।। सु० टी०-ततश्च धर्मे चोदनाप्रामाण्यमिच्छन्भ्िर्मह्मण्यपि समन्व- यमामाण्यमेषितव्यं तुल्यन्यायत्वादित्याह- एवं सतीह यदि वेदशिरो न मानं श्रेयस्करे विधिगिरोऽपि न मानता स्पात्। शेयसकरे विधिगिरो यदि मानता स्या- द्वस्तुस्वरूपकथनेऽपि समन्वयस्य ॥ २९९॥ एवं सतीति। अज्ञातार्थत्वतत्परत्वयोरुमयत्राविशेषे सतीत्यर्थः ।।२९९।। अ० टी०-एवमुक्तेन प्रकारेण प्रामाण्यप्रयोजकस्योभयत्रापि तुल्यत्वात्सर्ववैदिक- संमतत्वाच्च चोदनाया धर्मे प्रामाण्यमिच्छाद्धिः समन्वयस्य ब्रह्मण्यपि प्रामाण्यमेष्टव्यमन्यथा तत्रापि तदसिद्धिरित्युपपादितमर्थ निगमयति-एवं सतीति। इह ब्रह्मात्मनि श्रेयस्करे स्वर्गादिश्रेयःसाधने यागादौ समन्वयस्य मानता स्यादित्यनेनानुषङ्गः । न विधिलक्षणत्वं वेदप्रामाण्यमपि त्वबाधितानधिगतान्यशेषार्थे फलवाद्विज्ञा[ न ]जनकत्वमिति भाव: ॥२९९/
Page 267
टीकाठूयसमेंत-
सु० टी०-ननु प्रयोजनवदर्थावबोधकत्वेन शब्दस्य भामाण्यं.नप. वस्तुमात्रकथनपरेषु वेदान्तेषु विधाविव सुखदुः खपरिहारादिफलसंभव इति कथं दयोस्तुल्यत्वमिति शङ्कते- वस्तुस्वरूपकथने ननु नास्ति पुंस: किंचित्फलं विधिवच:सु पुनः प्रवृत्तिः। संभाव्यते फलमतः किल वस्तुनिष्ठ वाक्यं विधिस्तुतिपरं त्विति जैमिनीयाः ॥३००। वस्तुस्वरूपेति। का तहिं वेदान्तानां गतिरित्यत्राSSह-अतः खत्वि- ति। फलाभावाद्विध्यपेक्षितकर्तृस्तुतिपरत्वं तेषामित्यर्थः ॥ ३०० ॥ अ० टी०-ननु प्रयोजनपर्यवसितत्वं शब्दप्रामाण्ये प्रयोजकं तथैव व्युत्पत्तेर्वेदस्य च विशेषतोऽप्यव्ययनविधिना प्रयोजनवदर्थावबोधफलत्वस्य दर्शितत्वात्प्रयोजनाभावेऽर्थ- वादत्वप्रसङ्गात्प्रयोजनं च तद्यतपुरुषप्रकृतिसाध्यमतो वस्तुस्वरूपमात्रज्ञानस्य पर्य- वसानाभावात्सिद्धार्थर्वरूपपरत्वेन वाक्यप्रामाण्यासंभव इति मीमांसकः शङ्कते- वस्तुस्वरूपकथन इति। प्रवृत्तिः प्रवृत्तिसाध्यमिति यावत्। किलेत्यस्मिन्मते स्वस्या- नभिरुचि सुचयति। तर्हि वेदे वस्तुनिष्ठवाक्यस्य का गतिस्तामाह-वस्तुनिठठं वाक्यं विधिस्तुतिपरमिति ॥ ३०० ॥ सु० टी०-सत्यमप्रवृत्तिपराणामपि तेषां फलवदर्थावबोधकत्वा. दस्ति प्रामाण्यमिति परिहरति- स्यादेतदेवमनवयपुमर्थसिद्धि- वैदान्तवेद्यविषयावगतौ न चेत्स्यात्। स्वाराज्यमत्र कवलीकतभोगभूमी संपूर्णमस्य विदुषो भवतीति दष्टम्॥ ३०१॥ स्यादेतदिति। स्वादेवं यदि वेदान्तार्थावगतौ पुमर्थो न सिध्येन्द्रवति हि तस्यासुत्पन्नायामस्य विदुषः संपूर्ण स्वाराज्यं (स्वानन्दानुमवि- तृत्वं 'स स्वराह्मवति' [छा० ५।२५।२] इति धुतेः। नत्
*अन्योडयं ख. पुस्तकत्थ:।
Page 268
संक्षेप्शारीरकम्-। . २६१ निर्विषयत्वान्मोक्षसुखस्य न तल्लाभेन कृतार्थ)त्वमित्याशक्य विशि- नषि-कवलीकृतेति। कवलीकृता ग्रस्तांः स्वस्मिन्नन्तर्माविता विषय मोगमूमय: स्वर्गाद्यो येन तत्तथाएतस्याSSनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' (बृ० ४ । ३ । ३२ ) इति धुतेः ॥ ३०१॥ अ० टी०-सत्यं प्रयोजकत्वमत्र प्रामाण्ये प्रयोजकतयाऽम्युपेयं तत्तु प्रदृत्तिनिवृत्ति- व्यतिरेकेणापि लभ्यते विशेषतश्चात्र वेदान्तार्थज्ञाने संपूर्ण फलं लभ्यत इति नाध्ययन- विधिविरोध इत्यभिप्रेत्य परिहरति-स्यादेतदेवमिति। वेदान्तवेद्यविषयावगतावनवद- पुमर्थसिद्धिर्न चेत्स्यात्तदैतदेवं स्यात्प्योजनाभावादप्रामाण्यप्रसङ्ग: स्यान्नैतदस्तीति योजना। कथमिति तदाह-स्वाराज्यमत्रेति। वेदान्ताः विद्वदनुभवो वा सप्तम्यर्थः। अत्रास्य विदुषः स्वाराज्यं संपूर्ण भवतीति दृष्टमित्यन्वयः। स्वाराज्यविशेषणं संपूर्णत्वसाधकं कवलीकृतभोगभूमीति। कवलीकृता स्वात्मन्युपसंहृता ब्रह्मादिस्तम्बपर्यन्ता कर्मफलभोग- भूमिर्यस्ंमस्तत्तथोक्तम्। तथा च श्रुतय :- 'ब्रह्मविदामोति परम्' [तै० २। १।१] 'ब्रह्म वेद ब्रह्मैव भवति' [मुण्ड० ३।२।९] स स्वराड्भवति* [छा० ७।२५ / २ ] ' आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन' [ तै० २। ४। १ ] इत्याद्याः ॥ ३०१ ॥ सु० टी०-ननु स्वाराज्यं प्राप्तस्यापि 'स यदि पितृलोककामो मवति' (छा० ८।२।१) इत्यादिकामश्रवणादृस्ति ततोऽ्यधिकं मोगस्थानमिति नेत्याह- यस्यापि विभुषि कतार्थतया निषण्णा: शकादयो जलचरा इव सागरस्य। प्रत्यक्स्वभावकमपास्तसमस्तदुःखं तद्वैष्णवं सुखमवाप्तवतः किमन्यत् ॥ ३०२॥ यस्यापीति। यस्याSS नन्द्राब्धेविपुषि लवमात्रेऽपि स्वर्गमुखे शक्रादृप: कृतार्थतया निषण्णा नातः परतरं पद्मस्तीत्यध्यवस्य तद्रक्षणे प्रतिक्षणं यतमाना यथा जलचरा: क्षुद्रा: सागरस्य बिन्दुमात्रेणापि परमप्रीति- माज इत्यर्थः । तदेतादृशमानन्दाब्धिं वैष्णवं प्राप्तवतो विदुषः किमन्य- दभ्यर्थनीयं स्यादिति शेष:। ननु तत्सुखं दूरस्थतया परोक्षं परिच्छित्त- मेवेत्यत्ाSSह-प्रत्यक्स्वभावकमिति। प्रत्यकस्वरूपत्वाददूरमपरीक्षं चेत्यर्थः।
Page 269
'टीकाछटुवसमेत-
निरबद्यत्वमाह-अपास्तेति। 'स यदि पितलोककामः' इत्वादीनि तु सगुण विद्यैश्वर्थपराण्यर्थवादरूपाणि वेति भावः ॥३०२।। अ० टी०-कवली कृतभोगभूमीति स्वासज्यविशेषणेन स्वाराज्यशब्दिते मोक्षानन्दे वैषयि कानन्दानामशेषाणामन्तर्भावः सूचितस्तमेवार्थ विशदयति-यस्यापीति। यस्य परमानन्दस्य विप्नुष्यपि परमानन्दस्यांशमात्रेऽपि स्वानुभवगोचरे शक्रादयश्चतुर्मुखान्ताः सर्व एव प्राणिनः कृतार्थतया निषण्णा यस्य लेशलाभमात्रेण कृतार्थमात्मानं मन्यन्ते स्म यथा सागरस्य विप्रुषि जलचरा इति पूर्वार्धयोजना। यदैवं सर्वप्राणिनां स्वस्वबुद्धिवृत्यविच्छिन्नतयोत्पत्तिबिनाशवति विषयभूते दुःखानुविद्धे सातिशयेSपि चेतसुखलेशे लब्धे कृतार्थता भवति तदाऽखण्डानन्दरूपं मोक्षसुखं लब्धवतः कृतकृत्यतयाऽन्यत्र नैरपेक्ष्यं भवतीति किमु वक्तव्यमित्याह- प्रत्यक्स्वमावमिति। अनेन मोक्षसुखस्य विषयत्वनिरासादनित्यत्वसातिशयत्वादिदोषः परास्तः । अपास्तसमस्तदुःखमिति प्राप्तपरमानन्दस्यानभिभवं निरन्तरं दर्शयति। यदे- तादृशं यस्य लेशमात्रलाभोऽपि कृतार्थताहेतुस्तद्वैष्णवं विष्णोः पूर्णात्मनः स्वरूपभूतं सुखमवाप्तवतः किमन्यद्विषयसुखमर्थनीयं न किमपीत्यर्थः । तथा च श्रुती भवतः- 'एतस्यैवाSSनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति '[बृह० ४ । ३ । ३२ ] इति 'सोऽश्रुते सर्वान्कामान्सह ब्रह्मणा विपश्विता' [तै० २। १। १ ] इति। भगव- त्स्मृतिरपि 'यावानर्थ उदपाने सर्वतः संघ्लुतोदके। तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः'॥ [भ० गी० २ । ४१] इति। एतेनेदमपास्तं वेदितव्यमभिलषितलाभेनैव पुंसां कृतार्थत्वाद्विषयोपभोगविकले मोक्षसुखे चाभिलाषाभावान्न तल्लाभेन कृतार्थतेति यद्रागिभिरभिधीयते निरतिशयनित्यानन्दस्य सर्वाभिलाषविषयत्वात्तस्यैव च मोक्षसुखत्वादिति ॥ ३०२॥ सु० टी० -- ननु कथमीहशस्य मोक्षसुखस्य ज्ञानमात्रात्माम्तिर्न हि पित्तदूनरसनस्य मधुरो गुड इति ज्ञानमात्रान्माधुर्यप्राप्तिस्तस्माद्रोगहर- भेषजादिपानवद्दोषमोषकं कर्माव्यपेक्षणीयमिति मास्कराद्यस्तान्निर- स्यति- अज्ञानमात्मविषयं भवहेतुभूतं प्रच्छादकं च परमात्मसुखस्य तूर्णमू।
१ क. ग. 'याण्येवे"
Page 270
संक्षेपशारीरकमू्। • २६२
मांसाय हन्ति यदि तत्र किमर्थनीयम् ॥३०३॥ अज्ञानमिति। ज्ञानमात्रापनोद्यम ज्ञानमेव हि परमात्मसुखस्य प्च्छादकं नान्यतज्ज तूर्णं झटिति। ननु क्रियाफलवट्विलम्बेन वाक्पजाखण्डार्ट्म- मतिर्हन्ति चेक्किमिति तन्निमित्तं साधनान्तरं प्रार्थनीयमित्यर्थः । तर्हि मननाद्यपि नापेक्षेत नेत्याह-विपाकमिति । प्रतिबन्धनिरासमित्यर्थः । पित्तादेस्तु ज्ञानानपनोद्यत्वान्भेषजापेक्षेति विशेष: । श्रुतिश्च 'नास्त्य कृत: कृतेन ' [मुण्ड० १।२।१२] इति। स्मृतिरपि- 'कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते। तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिन: 'इति ॥३०३॥ अ० टी०-नन्वेतादशस्य मोक्षानन्दस्य कथं ज्ञानमात्रात्सिद्धिर्महते फलाय हि महायासानुष्ठानं कुर्वन्ति महाधियोऽपीति चेन्मैवमज्ञानमात्रव्यवहितवान्मोक्षानन्दस्य ज्ञानमात्रस्यैव तन्निवृत्तयेऽपेक्षणादित्याह-अज्ञानमिति। विषयशब्द आश्रयत्वस्याप्यु- पलक्षणार्थः । आत्माश्रयमात्मविषयं चाज्ञानमिति यावत्। भवहेतुभूतमिति विक्षेपकत्वम- ज्ञानस्योक्तम्। प्रच्छादकमित्यावरणनिर्देशः । एवमुक्तैर्विशेषणैरज्ञानमेव स्वकार्यसहितं सर्वानर्थहेतुरिति दर्शितम्। यद्येवंविधमज्ञानं त्रय्यन्तवाक्यजनितात्ममतिरसंभावनाद्यपोहेन विपाकमासाद्य तूर्ण हन्ति तदा किमन्यत्परमानन्दमोक्षाभिव्यक्तावर्थनीयमिति योजना। यदिप्रयोगोSत्रासंदेहे संदेहारोपो वेदाः प्रमाणं चेदितिवदिति द्रष्टव्यम् ॥ ३०३ ॥ सु० टी०-नन्वात्मसुखस्य नित्यप्ाप्तत्वेन ज्ञानासाध्यत्वादपुरुषार्थ- त्वमिति चेन्न प्राप्तस्याप्यत्र प्राप्यत्वभ्रमनिवृत्ते: पुरुषार्थत्वदर्शनादित्याह- करमुष्टिनिविष्टमुत्तमं कनकं प्रस्मरणादलब्धवत्। प्रतिभाति तदाप्वाक्यतः प्रतिपत्या लभते यथा जनः॥।३०४॥ परमात्मपदं पराकतद्वितयं पाप्तमपि स्वभावतः । अनंवाप्तवदेव लिप्सते लभते चैवमयं प्रमाणतः॥ ३०५॥ करमुष्टीति ल्लोकद्वयेन । स्वमुष्टिगतस्य विस्मृतस्य कनकस्य प्राप्तस्या- व्यज्ञानव्यवहि त त्वेनाप्राप्तत्व भ्रमाल्लिप्सायामाप्तवाक्यजज्ञानाद्यवधानाप: नयद्वारा प्राप्तिं यथा पुरुषार्थतया लोको मन्यत एवं परमात्मसुखमपि पराकृतविभागत्वेन स्वमावादेव नित्यप्राप्तमव्यविद्यया विभक्तव्यवहि- तत्वाध्यासेनानवापमिव मन्वानो लब्धुमिच्छति ज्ञानमात्रायेव च महा:
Page 271
२६४ सीकाछुय समेत -े
वाक्यजन्यादृज्ञानव्यवधिनिरासे सति लमत इवेत्याह-लभत इति । प्रमाणतो न तु कर्मादितः ॥ ३०४॥। ३०५।। अ० टी०-नन्वप्राप्तप्राप्तिरनपह्वतपरिहारो वा पुरुषार्थो न तु भ्रान्तिनिवृत्तिमात्र- मिति चेनैवं भ्रान्तिनिवृत्तिमात्रेणापि लोके पूर्वसिद्धपुरुषार्थलाभदर्शनादिति सदृष्टान्तमाह- करमुट्टीतिद्वाभ्याम्। प्रस्मरणाद्विस्मरणादलब्धवत्प्रतिभाति न त्वलब्धं तदित्यर्थः । आप्तवराक्यतो जाता या प्रतिपत्तिस्तयेत्यर्थः । चरणाभरणे समारोपितफणिनिवृत्तिरप्याप्त- वाक्यजज्ञानमात्रकृता Sत्रोदाहर्तव्या। दृष्टान्तमुक्त्वा दार्ध्टान्तिकमाह-परमात्मपद्मिति। सदैव स्त्रभावतः पराकृतद्वितयं नित्यप्राप्तमपीति योजना । लिप्सते भ्रान्त्येति शेषः । प्रमाणतो वेदान्तवाक्यतो लभते। एवमिति यथादृष्टान्तमित्यर्थः । अयमित्यधिकार्युक्ति: ॥३०४॥॥३ ॥
सु० टी०-तदेवं समन्वयसूत्रप्रथमवर्णकोक्तन्यायात्सिद्धे ब्रह्मणि शास्त्रपामाण्येऽवि संभवति ब्रह्मानन्दावाप्तिः फलमित्युक्तं यजु सर्ववाक्याणां कार्यार्थत्वाङ्गह्मापि कार्यशेष इति विधिफलमेव मोक्ष इत्युक्तं तन्निराकरोति- न स्वाध्यायवदाप्यता न च पुनस्त्ेताश्निवज्जन्यता न व्रीह्यादिवदस्य संस्क्ृतियुजा नो सोमवद्दिक्रिया। पाठाधानजलोक्षणाभिषवणैः कूटस्थरूपं हि त- डूलापास्तविकारजन्ममरणं निःश्रेयसं साधनैः ॥ ३०६ ॥ न स्वाध्यायेति। यस्माद्वह्मैव निःश्रेयसं नान्यदृतो न तद्विधेयक्रियाफल- मित्पर्थः । अस्तु ब्रह्मात्मिका मुक्तिरपि विधिफलमिति चेन्न विधिफ- लस्य कर्मत्वेन प्रा्यविकार्यादिरूपत्वनियमाङ्गह्मणश्र नित्यस्य तथात्वा- संभवादित्याह-नेत्यादि। न हि साधनैः पाठादिमिस्तस्याSडप्यत्वादिसं- मवस्तथा हि न तस्याध्ययनविधिविहितपाठक्रियया स्वशाखावदाप्य-
खम्। नापि व्रीहीणामिव ब्रीहीन्प्रोक्षतीतिविहित प्रोक्षण संस्कार्यत्वम्। नापि सोमस्येव सोमममिषुणोतीत्यादिविहिता भिषवणेनान्यथामाव लक्षणं विकार्यस्वम्। कुत इत्यत आह-अपास्तेति। अत्रापि हेतुमाह- कृटस्थेति ।२०६ ॥।
Page 272
संक्षेपशारीरकम्।
अ० टी०-एवं प्रवृत्तिनिवृत्तिरहितकेवलात्मतत्त्वप्रतिपत्तौ परमप्रयोजनसिद्धिरुपपा- दिता वेदान्तानां तत्र प्रामाण्यसिद्धय इदानीमात्मतत्वात्मकस्य मोक्षस्य न क्रियासाध्यत्वं संभाव्यते तस्य क्रियानुप्रवेशयोग्यत्वाभावादिति, दर्शयञ्ज्ञानमात्रायत्तो मोक्ष इति प्रागुक्तं दृढी करोति-न स्वाध्यायवदिति। उत्पत्त्याप्तिविकारसंस्कारा हि क्रियासाध्या नातः परं तत्साध्यमस्ति*। ब्रह्मरूपं तु निःश्रेयसं नान्यतमेनापि रूपेण साध्यं तस्य कूटस्थनित्य- त्वान्नित्यनिवृत्तानर्थत्वाच्चेति विवक्षितोऽर्यः । अभिषवणैः साधनैरित्यन्वयः। पाठादिपदानि स्वाध्यायादिपदैर्यथाक्रमं योज्यानि । अस्येति यथोक्तनिःश्रेयसस्येत्यर्थः। अस्य पाठेन साधनेन स्वाध्याय+ वदाप्यता नेत्येवं प्रत्येकं विभज्य योज्यम्। जलोक्षणं जलेन प्रोक्षणम- भिषवणं कण्डनादि ॥ ३०६॥ सु० टी०-ननु 'ब्रह्मैव सन्बह्माप्येति '[बृ० ४।४ । ६] इति ब्रह्ममावाप्तिश्ुतेरस्तु विधिफलमेव मुक्तिरिति नेत्याह- ब्रह्नैव सन्निति वचः प्रथमश्रुतत्वा- दप्येति शब्दमुपसंहरणस्थमुच्चैः। प्रच्यावयत्स्वविषयादुचिताद्वलीयो ब्रह्मात्मनोरनतिरेकमसाध्यमाह॥३०७॥ ब्रह्ैवेति। ब्ह्मैव सन्नित्येतदुपक्रमस्थं वचनं 'मुख्यं वा पूर्वचोदनात्' [जै०१२।२। २३ ] इतिन्यायेनासंजातविरोधित्वाद्गलीय इत्युपसं- हारस्थं दुर्बलमप्पेति शब्दं ब्ह्ममावाप्तिलक्षणात्स्वविषयात्म्रच्यावपत्स- द्धमेव ब्रह्मात्मनोरमेदं तात्पर्येणानुवद्ति ननु(तु) साध्यमिति क्व विधिकलतेत्यर्थः । ३०७ ॥। अ० टी०-ननु 'ब्ह्ैव सन्ब्रह्माप्येति'[बृ० ४ ।४ ।६ ] इति ब्रह्मभाव- स्याऽडव्यत्वश्रवणात्तस्य क्रियासाध्यत्वमस्तीति प्रतीयत इति चेत्तत्राऽऽह-बह्मैव सन्निति वच इति। प्रथमश्रुतानुसारेण चरमश्रुतं नेयमिति न्यायाद्रल्नैव सन्नितिवचोऽस्मि- न्वाक्ये प्रथमश्रुतत्वादुपसंहरणस्थं चरमश्रुतमप्येतिशब्दमुचितान्मुख्यात्स्वविषयादुचैः स्फुटं प्रच्याव्यं ब्रह्मात्मनोरसाध्यमनतिरेकमाह यतो बलीयः प्रथमश्रुतत्वेनासंजातविरोधित- याऽतिप्रबलमिति योजना। ब्रह्मैव सन्निति ब्रह्मभावस्य नित्यसद्भावावधारणविरोधादप्ये- तिशब्दस्तत्रोपचरितार्थः करकलितकनकपिण्डन्यायेनाभिव्यक्त्यपेक्ष इति भावः ॥ ३०७॥
- एतजतुष्टयव्यतिरिक्तं क्रियासाध्यं नास्तीति भाव:।+ तथैतस्य ज्ञानेनाप्यश्ाततेति भाषः।
Page 273
२६६ टीकादवय समेतं-
सु० टी-नन्वाख्यातप्रधानत्वाद्टाक्यस्याव्येतिपद चरमत्वेऽपि मुख्या. र्थयुक्तं ब्रह्मैव सन्निति तु नामत्वेनाप्राधान्यात् 'गुणे त्वन्यार्थक- रपना' इति न्यायादुपचरितार्थं देवो भूत्वा देवानप्येतीतिवदिति चेन्नाप्यै-
आग्रेय इत्याययपि तद्धितान्त- मष्टाकपालादिसमन्वितं सत् । आख्यातशब्दस्य धुरं िभर्ति भव्यार्थसंवित्तिनिबन्धनत्वात् ॥ ३०८ ।। आग्रेय इति। भूतार्थबोधकं नाम भव्यार्थबोधकमाख्यातं न तु सुबन्तं तिङन्तं वा यथाऽडग्रेयोऽटटाकपालो भवतीत्याग्रेयपदं सुबन्तमपि द्रव्य-
ख्यातस्य धुरं कारयं बिभर्तीत्यर्थः ॥३०८॥ अ० टी० -- ननु नायं न्यायोऽ युक्तो वाक्येषु सर्वत्राSडख्यातपदस्यैव प्रधानत्वा- न्ामपदस्याप्रधानत्वात्प्रधानानुरोधेनाप्रधानं नेयमिति न्यायस्यैवात्र प्रयुक्तत्वादप्येति शब्द एव मुख्यार्थ इतरो गौणार्थ इति चेन्मैवं सुबनतत्वतिडन्तत्वयोर्नोमाख्यातविभागनिया- मकत्वाभावादर्थवशादेव तन्नियमदर्शनादप्येतीत्ययमाख्याताभास इत्यभिप्रेत्य नाम्नोऽप्याख्या- तत्वमर्थवशादित्येतदुशहरति-आग्रेय इत्यादीति। भूतार्थबोधकं पदं नाम भव्या- र्थबोधकं पदमाख्यातमिति तयोर्लक्षणे न सुप्तिडन्तत्वं यत अग्नेय इत्यादि तद्धितान्तं सुब- न्तमपि पदमष्टापालादिसमन्वितमग्नेयोऽष्टाकपाल: पुरोडाश इत्येवमाकारं सदाख्यातशब्दस्य यजत्यादेर्धुरमर्थकृत्यं बिभर्ति पूरयति। कुत इत्यपेक्षायां द्रव्यदेवतासंबन्धस्य यागाविनाभू- तत्वात्तदवगमे तत्प्रतीतेस्तस्य च भव्यत्वादाग्नेयोऽष्टाकपाल इत्यनयोर्भव्यार्थधीहेतुत्वादर्थव- शादाख्यातत्वमस्य सिद्धमित्याह-मव्यार्थसंवित्तिननिबन्धनत्वादिति। आदमा- दिपदमैन्द्राग्रमित्यादिसंग्रहार्थ द्वितीयमेकादशकपालादिसंग्रहाय। अष्टाकपालादिसमन्वित- मित्यस्यायमर्थ :- ' साऽस्यदेवता' इति देवतैदमर्थ्ये तद्धितस्यास्य विधानादगिर्देव- ताऽस्येति पदविग्रहेऽस्येति सर्वनाम्नः संनिहितार्थपरत्वात्तेन विना तस्याभिधानपर्यवसा- नासंभवादष्टाकपालपदेन तदविषय एव समर्र्यते नार्थान्तरमिदमर्थमस्य विशेषणविशेषभूतं वाऽत आग्नेयपदस्याभिधानपर्यवसानायाष्टाकपालसमन्वितत्ववचनमिति ॥ ३०८.॥
आख्यातमेव सदिद भ्वतीति नाम भव्येतरार्थमेतिजन्मनिबन्धनत्वात्। १ म. मपि ज।
Page 274
संक्षेपशारीरकम्।
अप्येतिशब्दमपि तद्वदिमं प्रतीमो
आख्यातमेवेति। यथा चात्रैव वाक्ये मवतिपदं तिडन्तत्वादाख्यातमवि सदर्थतो नामैवाननुष्ठेयभवनात्मकसिद्धार्थबुद्धिजनकत्वात्। एवमप्ये- तिशब्दोऽपि नामैव ब्रह्मैव सन्निति प्रथमश्षुतस्वतैःसिद्धब्रह्ममावधीवि- रोधात्। अन्यथा देवो भूत्वेतिवद्धह्म भूत्वेति वदेदित्यर्थः ॥ ३०९ ॥ . अ० टी०-नन्वाग्रेयोऽषटाकपालो भवतीति तत्राSडस्यातपदस्य सत्त्वात्तदधीना तत्र भव्यार्थत्वप्रतीतिर्न तद्धितान्तपदावसेयद्रव्यदेवतासंबन्धमात्रावगमादिति चेन्मैवं भवति- शब्दस्यानुष्ठेयार्थाबोधकत्वेन भव्यार्थत्वाभावादित्याह-आख्यातमेव सदिदमिति। भवतीतीदंशब्दत आख्यातमेव सदर्थतो नामैवेति योजना। कुत इति तत्राऽडह- मव्येतरेति। भवतिशब्दे साध्यार्थाप्रतीतेरित्यर्थः। उक्तं न्यायं प्रकृते योजयति- अप्येतिशब्द्ृमपीति। एवं भवतिशब्दवदिममप्येतिशब्दमपि प्रतीमोऽर्थतोऽस्यापि नाम- त्वादित्यर्थः । अत्रापि हेतुमाह-मव्येतरेति । प्रथमश्रुतविरोधादेव भव्यार्थबुद्धिहेतु- त्वाभावादित्यर्थः ॥ ३०९॥ सु० टी०-ततश्च नाप्येतीत्यस्य प्राधान्यमित्याह- वल्लैव सन्नितिगिरं प्रति शेषितायै नाप्येतिगीरियमलं कथितोपपत्तेः। आख्यातभेव खलु नाम पदस्य शेषि
ब्रह्मैवेति। कथितेत्युपसंहारदौर्बल्यादित्यर्थः ॥ ३१० ॥ अ० टी०-अतश्चाप्येतिशब्दस्यार्थत आख्यातत्वाभावादेव नास्मिन्वाक्ये प्रांधान्यं- मपीत्याह-ब्रह्मैव सन्नितिगिरमिति। शेषितायै प्राधान्याय नालमिति संबन्धः। कथितोपपत्तिमेव स्फोरयन्नाख्यातस्य स्वार्थे स्थितस्य प्राधान्यं मया न भज्यतेऽस्य त्वाख्यातत्वबाधनान्न स्वार्थतेत्याह-आख्यातमेवेति ॥ ३१०॥ सु० टी० -- तस्माद्गुण भूताप्येतिषद् मुपचरितार्थमित्याह- ब्रह्लैव सन्निति ततः प्रथमश्रतं स- दप्येतिशब्दमपसारयति स्ववाच्यात्।
१ क, नृतं च नि°
Page 275
टीकाट्यसमेतं-
अस्याङ्गभावविरहादमुना सहातो ब्रह्मात्मनोरनतिरेकमुशन्ति धीराः ॥३११॥ अहैवेति। लक्षणाबीजमाह -- अंस्येति । सन्नित्यन्तस्य । अमुनाऽप्पे-
त्पर्थ: ॥ ३११॥ अ० टी०-तस्माद्रह्वैव सन्निति शब्द एवात्र प्रधानं नाप्येतिशब्द इत्युपपादित- मुपसंहरति-ब्रह्मैव सन्निति तत इति। अतो हेतोरस्य ब्रह्ैव सन्नित्यस्यांङ्ग- भावकिशहादमुनाऽप्येतिपदेन सह ब्रह्मात्मनोरनतिरेकमनेन वाक्येन प्रतिपाद्यमुशन्ति धीरा इति योजना। अमुना सहास्याङ्गभावविरहादिति वा संबन्धोऽस्मिन्पक्षे प्रच्यावयतीत्यस्य हेतुरस्येत्यादिसहान्त इति द्रष्टव्यम् । अत इत्यादिरत्र विद्वव्संवादप्रदर्शनार्थः ॥३११॥ सु० टी०-एतजाSSख्यातप्राधान्यमभ्युपेत्योक्तं वस्तुतो ज्ञानकाण्डे नाम प्रधानमेव सर्वमिति न मोक्षस्य विधिशेषत्वमित्याह- भव्याय भूतमिति किं च विधिप्नधाने काण्डे नयोडयमिह तद्विपरीतमाहुः । भूताय भव्यमिति भूतपरं हि सर्वं वेदावसानमिति सूत्रकदाचचक्षे॥ ३१२॥ मव्यायोति। मूतं मव्यायोपदिश्यत इत्ययं न्याय: कर्मकाण्डविषयस्तत्र विधिप्राधान्यादिह तु वस्तुपाधान्याद्विपरीतमाहुरित्यर्थः। तत्र हेतुमाह- भूतेति। यज्ञादिवाक्यस्यापि परम्परया विज्ञेयब्रह्मशेषत्वमिति 'सवपिक्षा व यज्ञादिभ्यतेः'[ब० सृ० ३।४।२६] इति सूत्रकृदाहेत्यर्थः॥३१२॥ अ० टी०-स्वार्थस्याSSख्यातपदस्य प्राधान्यं सर्ववाक्यसाधारणमित्येतदङ्गीकृत्य प्रकृतेऽप्येतिशब्दस्य स्वार्थप्रच्युतेरेवाप्राधान्यमित्युक्तमिदानीं वस्तुतो नायमपि, नियम इत्याह-भव्याय भूतमिति। भूत भव्यायोपदिश्यत इति नयो न्यायो विधिप्रधाने काण्डे भव्यार्थपदं प्रधानं भूतार्थपदमखिलमपि तच्छेषार्थसमर्पकत्वेन तदङ्गमिति फर्मकाण्डे स्थितो न्याय इत्यर्थः । कि चेतिपदं युक्त्यन्तरोपक्रमार्थ तत्प्रथमं द्रष्टव्यम्। इह तु वेदा- न्तेषु तद्विपरीतमाहुर्न्यायविद इति शेषः । वैपरीत्यमेवाऽडह-मूताय मध्यमितीति।
१ क. ग. यतश्वाख्या।
Page 276
संक्षेपशारीरकम्। २६९ भव्यवादस्य भूतार्थत्वे प्रमाणमाह-मूतपरं हि सर्वमित्यादि। सर्वं वेदावसानं सर्वे वेदान्ता इति यावत्। सूत्रकृद्वादरायण आचचक्षे 'तत्तु समन्वयात्' [ब्र० सू० १। १ । ४ ] इत्यादिभि: सूत्रैरिति शेषः । यदि सर्वे वेदावसानमिति पाठस्तदाऽय- मर्थ :- हि यस्मात्सर्ववेदानां' कर्मोपासनापराणामप्यवसानं परिसमाप्तिलक्षणं भूतपरं सिद्धब्रह्मात्मपरमिति सुत्रकृदाचचक्ष इति योंजना । तथा चोक्तं 'सर्वापेक्षा च यज्ञादिश्रुतेः' [ब्र० सू० ३ । ४ । २६ ] इत्यग्निहोत्रादि तु तत्कार्यायै- वेति च ॥। ३१२ ।। स० टी०-न केवल त्रयो वेदा इत्यादिवद्वह्मवत्यु(*पक्रमस्थत्वादेव बलीय इत्याह- ब्रह्लैव सन्निति ततोऽपि बलिष्ठमेत- दप्येतिशब्दमवसानगतं व्यपेक्ष्य। तस्मादमुष्य परिपीडकमेतदेव ब्रह्नैव सन्निति पद गुणकल्पनायै॥ ३१३॥ ब्रह्मैवेति। ततोऽपि वेदान्तानां मूतपरत्वन्यायादृपीत्यर्थः । किम)वेक्ष्य षलिष्ठमित्यत्राSSह-अप्येतीति। कि तत इत्याह-तस्मादिति। अमुष्या- प्येतीत्यस्य परिपीडकं बाधकं सद्गौणत्वं कल्पयतीत्यर्थः ।। ३१३।। अ० टी०-अस्मिन्मते ब्रह्लैव सन्नित्यस्य सुतरां प्राबल्यमित्याह-ब्रह्मैव सन्निति ततोऽपीति। तत इति भव्यस्यापि भूतार्थत्वादित्यर्थः । अपीति प्राथम्यादपीत्यर्थः । तत इह भूतभव्यन्यायवैपरीत्यादवसानगतमप्येतिशब्दमपेक्ष्यापि ब्रह्मैव सन्नित्येतत्प्रथंम श्रुतं पदं बलिष्ठमेवेति योजना। फलितमाह-तस्मादिति। अमुष्याप्येतिशब्दस्य गुणकल्पनायै गौणत्वकल्पनार्थमेतदेव ब्रह्मैव सन्नितिपदं परिपीडकं मुख्यार्थात्प्रच्यावकमिि योजना ॥ ३१३ ॥
दिभिर्शह्मात्मेक्यज्ञानेन ज्ञानकर्मसमुच्चयद्वारा वा न साध्यं निःशेयसः मपि त्वविद्यामात्रव्यवहित त्वात्तत्निरासेन विद्यैकव्यङरग्यमेवेत्याह- निःश्रेयसं न खलु साध्यमतः क्रियाभि- ्ञानेन वा द्वयसमुच्चयवर्त्मना वा।
- अयं ग्र थः ख. पुस्तकस्थः ।
Page 277
२७व टीकाटय समेतं-
उत्पत्तिरात्तिविकवती च न संस्कृतिश्र्व यस्मान्न संभ्रवति वर्णितवर्त्मनेह ॥३१४॥ निःश्रेयसमिति। तथा हि ज्ञानंकर्मसाध्या मुक्तिरुक्तदोषात् । न चाविकृत ब्रह्मपाप्तिः क्रियाधीना निर्विशेषात्मविद: प्राणात्मकलिङ्गा- त्क्रमणनिषेधाद्विकारस्य च लिङ्गस्याविकृतदेशगमनासंभवात् । न च जीवस्योपहितचिदूपस्य स्वतो गमनं संभवतीत्यतो नित्यैव मुक्ति:। तदुक्तं 'तत्कवल्यमतः साध्यमुपचारात्म्रचक्षते' इति ॥ ३१४॥ अ टी० -- यत एक्मप्येतिशब्दो नाप्राप्तिप्राप्तिपरो यतश्चतुर्विधक्रियाफलविलक्षणो मोक्षोडतो न क्रियासाध्यः किंत्वविद्यामात्रव्यवहिततया विद्यैकलम्य एवेत्युपसंहरति- निःश्रेयसं न खल्विति। अत आभ्यः प्रागुक्तयुक्तिम्यो निःश्रेयसं न खलू नैव क्रियाभि: केवलाभि: साध्यं ज्ञानेन वा न साध्यं ज्ञानस्याकारकत्वात्। द्वयसमुच्चयवत्मना वा ज्ञानकर्मसमुचयोपायेन वा न साध्यं कुतो यस्मादिह निःश्रेयसेऽस्मदभिमते वर्णितव- र्मना प्रागुक्तयुक्तिमार्गेणोत्पत्तिराप्तिविकृती न च नैव संभवन्तीति शेषः । संस्कृतिश्व न. संभवतीति योजना । तथा च श्रुतिः 'एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् '[बृह० ४ । ४ । २३ ] इति ॥ ३१४ ॥ सु० टी०-तस्मात्पवृत्त्यादिरहित वस्तुबोधकत्वं वेदान्तानां न दोष: स्तत्फलस्यासाध्यत्वादित्याह-
ब्रह्मात्मवस्तुविषयावगतेर्न दोषः । सर्वश्रवर्तकनिवर्तकमूलदाहा- रस्वाराज्यहेतुरिति भूषणमेव तन्नः ।। ३१५॥ तस्मादिति। प्रत्युत गुण एवेत्याह-सर्वेति। सर्वप्रवर्तकनिवर्तकरागद्वे- षादेर्मूलस्याज्ञानस्य निःशेषदाहं एवं सति भवति न प्रवृत्त्यादिपरत्वे कर्मभिस्तद्संभवात् 'रसोऽप्यस्य परं दृष्टा निव्तत' [म०गी० २1,५९] इति रमृतेरतस्तद्वर्जितत्वं स्वाराज्यहेतुत्वादलंकार एवेत्यर्थः ।। ३१५॥। अ० टी०-एवं सति प्रवृत्तिनिवृत्त्यगोचरवस्तुपरत्वे वाक्यस्य न प्रामाण्यमिति यदुक्तं तन्नास्माकं दोषाय यतस्तत्साध्याभावात्प्रत्युत गुणायैव प्रवर्तकरागादेतद्वीजस्याज्ञानस्य
१ क. ग. स्मृत्यन्तर°।
Page 278
संक्षेपशारीरकम्। २७१
चैवं सति दाहसिद्धेः प्रवृत्त्यादिपरत्वे तदसंभवात्तदसंभवे चानर्थनिवृत्तिपुरुषार्थासिद्धिरित्य- भिप्रेत्य पूर्वप्रकृतमुपसंहरति-तस्मात्प्रवृत्तीति। स्पष्टार्थः ॥ ३१५ ॥ सु० टी०-ननु कस्य निःशेपदाहः स्वपकाशचिदात्मन्यज्ञानासंभव- स्योक्तत्वादिति चेत्तत्राSडह- अज्ञातताऽपि घटतेऽत्र दशोऽनुभूते- र्जानामि नाहमिति दृश्यपि दृश्यते हि। अज्ञाततानुभवनं न च वास्तवं त- दज्ञाततोद्वहति कल्पिततां हि तस्याः ॥३१६ ॥ अज्ञासतेति। (*गात्मनोऽप्यज्ञानविषयता घटते कुतोऽनुभूतेरनुभूयमा- नत्वादित्यर्थः । असिद्धिं परिहरति-जानामीति। हगात्मन्यप्यबाधाडनु- भवादेवाम्युपेयतेऽरजत इव शुक्ती रजतमित्यर्थः। बोधस्वभावकमबुद्धि- मित्याद्युक्तविरोध इति चेत्तत्राऽऽह-न चेति। बोधसमसत्ताकमेव ह्यज्ञा- तत्वं बोधात्मनि विरुद्धमित्यर्थः । नन्वज्ञातत्वस्य कल्पित्वमज्ञानान्तरा- ज्चेदनवस्था स्वतश्रेदात्माथ्रय इत्यत्राऽऽह-अज्ञाततेति। तस्याः स्त्रपर- निर्वाहकत्वस्योक्तत्वादित्यर्थः ॥ ३१६ ॥) अ० टी०-यत्पुनरुक्तमज्ञातार्थविषयत्वं प्रमाणानां प्रामाण्यमात्मनश्च स्व्रयंप्रकाशतवन्न तस्मिन्नज्ञानं संभवतीत्यतो न वेदान्तानां ब्रह्मणि प्रामाण्यमिति तत्राऽऽह-अज्ञातताS- पीति। अत्र दृगात्मन्यप्यज्ञातता घटत इति संबन्धः । परागर्थे यद्यपि नाभिमतम- ज्ञातत्वं वेदान्तिनां तथाऽप्यङ्गीकृत्यात्रापीत्यपिशब्दप्रयोग इति द्रष्टव्यम्। कुत एतज्ज्ञान-
जानामीति दृश आत्मनोऽज्ञतयाऽनुभतेर्हेतोर्हि यस्मादृश्यप्यज्ञाततानुभवनं दृश्यत इति योजना। यद्येवमनुभवबलेनानुपपत्तिर्निरस्यते तर्ह्यनुभवबलादेवाSSत्मन्यज्ञातता वास्तवी स्यादिति नेत्याह-न च वास्तवं तदिति। तदनुभवमात्रसिद्धमज्ञातत्वं न वास्तवं प्रामाणिकं हि यस्मादस्या अज्ञातताया अज्ञातता कल्पिततामुद्हृति दृक्स्वरूपे प्रामाणिके दृगात्मन्यनुपप- धमानत्वेंडप्यनुभूयमानत्वादज्ञातता स्वात्मनः कल्पिततां गमयतीत्यर्थः ॥ ३१६॥ सु० टीकि चाज्ञानस्य ज्ञानाभावत्वे चिदात्मनि तद्विरोध: स्यात्तत्तु ज्ञानानिरुप्यत्वान्धावरूपमेवेत्याह- अज्ञानमित्यजडबोधप्तिरस्क्रियात्मा जाड्यं च मौठ्यमिति च प्रकति: भसिद्धा । * अयं ग्रन्थः ख. पुस्तकस्थ:
Page 279
२७२ टीकाहटयसमेस-
सा चातिदुःस्थितवपुर्दशमद्वितीया- मालिङ्गति स्म घृतपिण्ड इवाग्निमिद्धम् ।३१७॥ अज्ञानमिति। अजडस्य बोधात्मन: स्वप्रकाशस्य तिरस्क्रिया आवरणं तदात्मिका जगद्विक्षेपोपादानं प्रकृतिः 'अज्ञानेनाऽडवृतं ज्ञानम्' [म० गी०५।१५ ] 'मायां तु प्रकृति' [श्वे० ४।१०] इत्यादिषु प्रसिद्धा । ननु तस्या न जानामीतिरुपादूपान्तराप्रसिद्धेरभावत्व्रमेव वक्तव्यमि- ति चेत्तन्नाSडह-जाडयं चेति। जडप्रपश्चस्य जडोपादानं सिध्यल्लाघवादेकं सिध्यति तदेव स्वकार्येऽनुस्यूतं जाड्यमित्यनुभूयत उपादानातिरिक्ते जाडये मानाभावात्। उपादानं चाज्ञानमेवेति। तदेव जाडयं तञ्ञ स्वस्मिन्नपि जडव्यवहारहेतु: परेषां प्रमेयत्ववत् । एवमज्ञो मूढोऽहमि- त्यनुभवान्मौठयमप्यज्ञानमेव तञ्च निष्पतियोगिकत्वाद्भावरूपमिति माव:। सा त्हि सत्यैवास्तु सांख्यवदिति चेन्नेत्याह-सा चेति। मावा.
सहत्वाज्चातिदुःस्थितत्वेन कल्पितैवेत्पर्थः । कथं पुनार्निवर्त्यायास्तस्या निवर्तकेन चैतन्येन प्रतिभास इत्यत्राSSह-दृशमिति । समिद्धमपि नाशकमम्मिं प्रतिबद्धदाहशक्तिं यथा नाश्योऽपि घृतपिण्ड आलिङ्गति
प्रकाश्यत हत्यर्थः । ३१७॥ अ० टी०-ननु किमिदमज्ञानं नाम न तावजज्ञानाभावः स्वरूपज्ञानस्य नित्यत्वेन तदभावासंभवान्नापि वृत्तिज्ञानाभावस्तस्य वृत्त्यविषये चिदात्मन्यसंभवादथ ज्ञानादन्यदज्ञान- मिति मतं तदा घटस्याप्यज्ञानत्वप्रसङ्गोऽथ ज्ञानविरोधि तदिति मतं तदपि न तथात्वे मानाभावादिति चेन्मैवं ज्ञानविरोध्यज्ञानमिति पक्षस्योपपत्तेरित्याह-अज्ञानमितीति। अजडबोधतिरस्क्रियात्मा प्रकृतिरज्ञानमिति प्रसिद्धेत्यन्वयः । स्वयंप्रकाशत्वं बोधस्याजडत्वं स्व्रतःसिद्धप्रकाशाच्छादनस्वभावेत्यर्थः । सा प्रकृतिरेव ज्ञानपर्युदासेनाज्ञानमिति च ज्ञान- विरोधित्वेन जाडयमिति चास्व्च्छतया मौढ्यमिति च प्रसिद्धा श्रुतिस्मृतिपुराणेष्तिति योजना। तथा च श्रुतिः-'मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् । ' [श्वता० ४ । १० ] ' नीहारेण प्रावृताः' 'तम आसीत्तमसा गूढम्। ' इत्याद्या। 'मम माया दुरत्यया' [भ०गी० ७। १४ ] 'तरत्यविद्यां वितताम्' इत्यादिस्मृतयश्चात्र सह- स्रशः। नन्वेवमात्मनि चेत्प्रमाणसिद्धा प्रकृतिस्तर्ह्यस्या विरोधाभावादेव सत्येति चेन्नेत्याह-
१ क. दते रप°।
Page 280
संक्षेपशारीरकम्। २०१
सा चेति। सा च प्रकृतिरतिदुःस्थितवपुः सत्यद्वितीयां दंशमालिङ्गते स्मेति भूतत्वनि- देशो चिद्दनुभनाभिप्रायः । विरोिनोरपि संबन्धे दंष्टान्तमाह-घृतपिण्ड इति। एतदुक्तं भवंति यद्यपि चैतन्याज्ञानयोर्भावाभावात्मत्वे विरोधाभावस्तथाऽपि वष्यघातकभावविरोध: संभवति। एवं च घृतपिण्डानलयोरिव भावयोरेवानयोः संबन्ध इति प्रकृतेरभाववैलक्षण्य- सिद्धेर्जगदुपादानताऽपि शास्त्रप्रसिद्धा सिद्धा भवति। न चाज्ञानस्याऽऽत्मन्यनादिकालमा- रभ्यावस्थानाद्वध्यघातकयोस्तदभावविरोध इति वाच्यं निवर्तकोपनिपातपर्यन्तं संबन्ध- स्याऽडवश्यकत्वाद्विरोधिनोरपि यथा मन्दप्रकाशतमसोस्तथा। यथा च सनेहवर्त्यादिसह- कारिधिशेषसंवलनेन वा मेघाद्यावरणापगमेन वा प्रकाशस्योपबृंहितत्वे प्राबल्ये सति निःशे- षतमोनिवर्तकता तथा वाक्योत्थबुद्धिवृत्तिसंवलनरूपसह कार्युपेततया प्राबल्ये सति निःशे- षाज्ञाननिवर्तकत्वोपपत्तिर्दश्यते हि दाह्यदाहकयोर्विरुद्धस्त्रभावयोरप्यरणिपावकयोरा विशेषाभि- व्यक्तेः संबन्ध इति ॥ ३१७॥ सु० टी०-नन्वहमज्ञ इति जडाहंकारनिष्ठाज्ञानामावानुमवोऽयमि- ह्याशङ्क्य जडसंबन्धित्वेनाज्ञानासिद्धेर्वक्ष्यमाणत्वाद्विधिमुखेन प्रसि द्वेश्व चित्निष्ठमावरूपाज्ञानानुभव एवायमित्याह- चिद्धस्तुनश्िविति भ्वेत्तिमिरं तमिसरं ताभिस्रमन्धतमसं जडिमा तमिस्रा। माया जगत्पकतिरच्युतशक्तिरान्ध्यं निद्रा सुषुप्तिरनृतं प्रलयो गुणैक्यम्॥३१८॥ चिद्वस्तुन इति। चिदूपस्य विषयस्य चित्येवाश्रये तिमिरादिपद्धाच्यम- ज्ञानमित्यर्थः । तिमिरतमिस्रतामिस्रान्धतमसान्ध्यशब्दा आवरणावस्था मेदनिमित्ता: श्रुतिस्मृतिप्रसिद्धाः । तमिस्रा रात्रिरविद्याया रात्रित्वेन प्रसिद्धेः। निद्रासुपुप्तिप्रलयगुणैक्यशब्दाः कार्यस्य कारणरूपेणावसस्थि- तिनिमित्ताः ।।३१८।। अ.० टी०-नन्वेवं वस्तुगत्या चिदात्मन्यसंभवदप्यज्ञानं किमिति तस्मिन्नभ्युपेयते किमिति च तत्र युक्तिसंचारे यत्यतेऽतश्विदात्मनोऽन्यत्रैवास्तु तन्माऽस्तु वा कुत्रापीति चेन्मै- धमनुभवसिद्धत्वादस्यापलापासंभवात्तस्य भावरूरपत्वसमर्पकैस्तिमिरादिशब्दैः श्रतिस्मृतिपुराणे-
चिदूपं यद्दस्तु परमार्थसत्तस्य या स्वरूपभूता चित्तस्यां तिमिरं भवेन्नानात्मवस्तुनि तत्राज्ञा. ३५
Page 281
२७४ टीका्टयसमेतं-
नासंभवस्य वक्ष्यमाणत्वादित्यर्थः । तिमिरादिशब्दा हि निष्प्रतियोगिकमर्थमावेदयन्त्यतोऽ ज्ञानमितिशब्दों ज्ञानपर्युदासेनोच्यमानोऽप्यधर्मशब्दवन्नाभावंविषय इति भावः ॥३१८.॥ सु० टी०-नतु कथं चिन्मान्ाश्रयविषयमज्ञानमहं बह्म न वेदेति जीवाअयत्वेन ब्रह्मविषयत्वेन चानुभवादृतश्राहंकारविशिषटं चैतन्यमज्ञा- - नाश्रय इत्यभ्युपेयमिति चेत्तत्राSऽह- आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला। पूर्वसिद्धतमसो हि पश्चििमो नाऽडश्रयो भवति नापि गोचरः॥३१९॥ आश्रयत्वेति। जीवब्रह्मविभागशून्या केवलैव चितिरज्ञानस्याSSभरयत्वं विषयत्वं च मजते न त्वहंकारादिविशिष्टेत्यर्थः । कुत इत्याह-पूर्वसि- द्वेति। जीवेश्वरविभागस्याविद्यातन्त्रत्वात्ततः पूर्वमविद्यासिद्धिर्वाचया। तस्याश्च स्वकल्पितविभागो जीव ईश्वरो वा नाऽडभयो न वा विषयः संभवति तत्सिद्धेः पूर्व तद्सिद्धेरित्यर्थः। ततश्राहंकारोपलक्षितप्रत्यगा- अर्यविषय एवाज्ञत्वानुभव इति मावः । यद्यपि चाज्ञानवज्जीवेश्वर- विभागोऽ्यनादिस्तथाऽपि तस्याज्ञानतन्त्रत्वादज्ञानविभागयोः पौर्वा- पर्यमध्यनादीति कल्प्यते वैदिकवर्णपद्वाक्यपीर्वापर्यवदिति। अत्र वदन्ति। कथं चिन्मान्राश्रयादज्ञानाजीवे संसारस्तस्य विशिषटचिटूप- त्वेन चिन्मात्रमिन्नत्वाद्ज्ञानस्य च स्वाश्रय एव कार्यजनकत्वात्। उपाधे: प्रतिबिम्बपक्षपातित्वव्याप्तेरिति चेत्कीहशं तन्न तावत्तत्र स्वधर्मभासकत्वमज्ञत्वकर्तृत्वादेरज्ञानधर्मत्वामावात्। नापि तत्र स्वकार्य- भासकत्वं तत्कार्यस्य विच्छेदादेर्विम्बेऽपि हष्टेः। नापि स्वकार्यधर्म- मासकत्वं दर्पणादावहष्टेः। अज्ञानाश्यचित एव बिम्बप्रतिबिम्बरूप- त्वात्तत्र बन्ध इति चेदीश्वरेपि तत्म्रसङ्ग इति उच्यते- 'उपाधिकृतधर्माणामध्यासो नियमेन यत्। प्रतिबिम्बे भवत्येषोपाधेस्तत्पक्षपातिता। ' नयनगोलकोपाधिप्रत्युक्ता हयल्पता न कदाऽपि बिम्बेऽध्यस्यते कि स्वक्षिपुरुष एव। न चासो गोलकधर्म इति वाच्यम्। गोलकस्य ततोऽ- व्यधिकत्वात्। एवं जीवगताज्ञत्वकर्तत्वाद्यप्यज्ञानप्रयुक्तं न त्वज्ञानधर्मः।
१ क. ग. य एवाश्रय"।
Page 282
संक्षेपशारीरकम्। २७५
चेतनस्यैव तदुपपतेः। प्रतिबिम्ब एव स्वधर्मासअ्जकत्वं वा तत्पक्षप- तित्वं दर्पणेन स्ववर्णमालिन्यबिम्बमेदादे: प्रतिबिम्ब एवाऽडसअ्जनातू। अज्ञानेनापि स्वनिष्ठस्य बह्मभेदस्य जीव एवाSडसख्जनं कृतं न सर्वज्ञे विम्बे। ननु बिम्बेऽप्युपाधिधर्मभेदमानान्नोक्तनियम इति वेन्न तस्योपाधिघर्मत्वाभावात्। बिम्बे दर्पणस्थबिम्बभेदासख्जने बिम्बमुखं ग्रीवास्थमुखं नेति ज्ञानापत्तेः । प्रतिबिम्बभेद्श्व तत्र स्फुरन्न दर्पणधर्म इति युक्तो जीव एव संसार इति। यञ्चोक्तमीश्वरेऽपि तत्प्रसङ्ग इति तन्नाज्ञानस्य सर्वज्ञेश्वरं वशिनं प्रति वाक्यार्थत्रह्मस्वरूपनावरकत्वेन तत्र भ्रमाजनकत्वात्। न हि विशेषदर्शितो भ्रमः संभवतीति सर्वं सस्थम् ॥ ३१९॥ अ० टी०-ननु चिन्मात्राश्रयविषयत्वमज्ञानस्यायुक्तं ज्ञानवदज्ञानस्यापि विषयाश्रयभेद- स्याभ्युपेयत्वात्तथा चाहमज् इत्यनुभवादहंकारविशिष्टचैतन्यमाश्रयः परमात्मा तु विषय इति त्ेदसिद्धिरिति चेत्तत्राऽSह-आश्रयत्वविषयत्वेति। अज्ञानं प्रतीति प्रथमं योज्यम्। निर्विभागेति निरवयवत्वोक्त्या स्वरूपभेदो निरस्तः । केवलेति सजातीयविजा तीयभेदनिरासः । एवकारेण स्वगतधर्मभेदव्युदासः । एवंविधा चिदेवाज्ञानं प्रत्याश्रयत्ववि- षयत्वभागिनीत्यर्थः । कुत इत्यत आह-पूर्वसिद्द्धेति। प्राक्सिद्धस्याज्ञानस्य पश्चिमः पश्चात्सिद्धस्तत्कार्यभूतोऽहंकारादिस्तद्विशिष्टो वा चिदात्मा नाऽडश्रयो भवति नापि गोचरः कार्यस्य कारणाश्रयत्वायोगात्तव्व्यापकत्वायोगाच्चेत्यर्थः । अतोऽहमज् इत्यज्ञत्वानुभवोऽप्यन्तः- करणोपलक्षितप्रत्यङ्निर्विभागचिद्विषय एवेत्यभ्युपेयमिति भावः ॥ ३१९॥ सु० टी०-यञ्चोक्तमज्ञानमप्यसदित्यादि तद्दूषयति- नाभावताऽस्य घटते वरणात्मकत्वा- न्नाभावमावरणमाहुरभावशौण्डाः। अज्ञानमावरणमाह च वासुदेव- स्तन्ावरूपमिति तेन वयं प्रतीमः ॥३२०॥ नाभावतेति। नाभावरूपमज्ञानमावरकत्वाद्वित्यादवत्। न च हेत्व- सिद्धि: सुपुसी ब्रह्मानवमासस्याऽडवरणैकप्रयुक्तत्वात्। न चासौ भेद- कृतोऽमेदृस्य 'स्वमपीती भवति' [छा० ६।८।६] इत्यादि- श्रुतिन्यायसिद्धत्वात्। नापि ग्राहकाभावकृतस्तत्स्वप्रकाशत्वस्यापि श्रुतियुक्तिसिद्धत्वात्। आवरणं च तत्र नाज्ञा (*नादन्यदित्यत्र मान- *ग्रन्थोऽयं ख. पुस्तकस्थः ।
Page 283
टीकादूपसमेतं- मस्ति। अज्ञानस्याSSवरकत्वे च 'नीहारेण प्रावृताः' इत्यादिश्ुतिर्मानम्। न चाज्ञा)नमपि न तदेति वाच्यं 'न किंचिद्वेदिषम्' इति परामर्शात। प्रतितर्कमप्याह-नेति। तार्किका अपि नामावस्याऽडवरैकत्वमाहुः सर्व-
[भ०गी०५। १५] इति गीताऽप्यत्र मानमित्याह-अज्ञानमिति ॥३२०.॥ अ० टी० -- पूर्व शब्दनिर्देशसामर्थ्येनाज्ञानस्याभावविलक्षणत्वमुक्तमिदानी युक्त्याऽप्य- भाववैलक्षण्यमुपपादयति-नामावताऽस्येति। विमतमज्ञानं नाभावो वरणात्मकत्वा- दावरकत्वात्पदवदित्यर्थः। आवरकत्वेऽप्यभावता कि न स्यादिन्यत आह-नामावमाष- रणमिति। अभावशौण्डा अभावस्वभावविदस्तार्किका इत्यर्थः । हेत्वसिद्धि परिहरति- अज्ञानमिति। 'अज्ञानेनाऽवृतं ज्ञानं तेन मुह्यन्ति जन्तवः।' [भ० गी० ५॥१५] इत्यज्ञानस्याऽडवरकत्वं भगवान्वासुदेव आहेत्यर्थः । 'तस्मिंश्वान्यो मायया संनिरुद्ः '[श्वे० ४।९] इत्यादिश्रुतिसमुच्चयार्थश्रकारः। उपनयननिगमने कथयति-तन्भावरूपमिति। तदज्ञानं भावरूपमिति निगमननिर्देशः । तेनेत्युपनयनकथनम्॥ ३२० ॥ सु० टी०-व्यासवचनादृपि न हेत्वसिद्धिरित्याह- एक: शत्रुर्न द्वितीयोऽस्ति शत्रु- रज्ञानतुल्यः पुरुषस्य राजन्। येनाऽडवृतः कुरुते संभमत्तो घोराणि कर्माणि सुदारुणानि। ३२१ ॥ एक इति। येनाज्ञानेनाऽSवृतस्तिरोहितज्ञान: सन्नित्यर्थः । घोराण्यै- हिकभयंकराणि। वारुणान्यामुष्मिकनरकफलानि । ३२ १ । अ० दी० -- अत्रैवार्थ इतिहासवचनमप्युदाहरति-एकः शत्रुरिति। घेराणि साहसानि सुदारुणानि दु सहविपाकानि ॥ ३२१ ॥ सु० टी०-अर्थापत्तिरप्यज्ञानस्य मावत्वे मानमित्याह- जाड्यं जगत्यनुगतं खलु भावरूप मौढ्यं च पुंगतभिति प्रतिभाि ताहकू। जाड्यं च मौद्यमिति चानुभवप्रसिद्ध- मज्ञानमाहुरपवर्गपिधानदक्षम् ॥ ३२२॥ जाज्यमिति। जगति सर्वत्रानुस्यूतं मावरूपं जाड्यं मासमानं जडात्म- १. क. म. रपकर्मत्व।
Page 284
संक्षेपशारीरकम्। २७७
कमुपादानं कल्पयन्भ्ावरूपमेव कल्पयति। तथा सर्वपुरुषेष्वनुभूयमानं मौठयं तादगेव निष्पतियोगिकं प्रतिमातीति बहिजांड्यात्मनाऽन्तर्मो- ैचात्मनाऽनुभवसिद्धमज्ञानमेव बन्धकारणमाहुरित्यर्थः ॥। ३२२ ॥। अ० टी०-इतश्च भावरूपत्वमज्ञानस्येत्याह-जाड्यं जगतीति। जगति देहघ- टादौ कार्येऽनुगतमनुभूयमानं खलु जाड्यं भावरूपमिति प्रतिभाति तथा पुंगत मौढयं च तादम्भावरूपमिति प्रतिभातीति योजना। जगत्यात्मनि च दृश्यमानं जाड्यं मौढयं च कार्यत्वात्स्वानुरूपमुपादानं कलपयति। न हि चेतनं जडस्योषादानं भवति परिशेषादचेत- नंमुंपादानं सदज्ञानं सिध्यति तस्य चाभावरूपत्वे कार्योपादानत्वासंभवाद्वावरूपमेव तदज्ञानमुलीयत इत्याह-जाड्यं च मौढयमिति चेति। जगद्रतं जार्ड्यं चाSडत्मगतं मौढयमिति चानुभवेन प्रसिद्धमनुभवबलादनुमानतश्च प्रसिद्धमज्ञानमेवापवर्ग- पिधानदक्षं परमानन्दज्रह्मात्माच्छादनावरणविक्षेपकरत्वेन संसारोत्पत्तिस्थितिनिर्वाहकमित्या- हुर्श्रह्मविद इत्यर्थ: ॥ ३२२॥ सु० टी०-ननु नाज्ञानं बन्धकारणं 'यतो वा इमानि भूतानि' [तैत्ति० ३।१।१] इत्यादिश्युतौ ब्रह्मण एव सर्वोपादानत्वश्रुतेरिति कुतो जडेष्वज्ञानानुगतिरिति चेत्तत्राSडह- साभासमेतदुपजीव्य चिदद्वितीया संसारकारणमिति प्रवदन्ति धीराः । साभासमेतदिति संसृतिकारणत्वे द्वारं परं भ्वति कारणता दृशस्तु ॥ ३२३ ॥ साभासमिति। यतश्रिदृद्वितीया न तन्न द्वैतं वास्तवमतः सामासमज्ञानं हारीकृत्येव सा जगद्विवर्तोपादानं न केवलेति प्रवदन्ति तदन्यत्वमि- त्यादौ व्यासादय इत्यर्थः। ननु नासङ्गायाः सर्वशक्तिमत्याश्चितेरुपजी- व्यमज्ञानमसंबन्धादनुपयोगाच्च। तथात्वे वा तदेव कारणमस्तु किं ब्रह्मणेत्यत आह-साभासमेतदिति। कूटस्थासङ्गस्य ब्रह्मण: सामासाज्ञा- नावच्छेदं विना कारणत्वासंभवात्तदुपपादकत्वेन द्वारमात्रमज्ञानं कार- णत्वं तु शक्तिमत्याश्च्ित एवेत्यर्थः 'प्रकृति स्वामधिष्ठाय' [म० गी० ४। ७ ] इति स्मृतेः ॥३२३॥ अ० टी०-ननु कथमज्ञानस्य बन्धरूपजगत्कारणत्वं यावता : आत्मन आकाशः संभूत: [तै० २ । १। १] ' आत्मन एवेदं सर्वम् ' [छ०७।२६१]
Page 285
२s6 टीकाद्वय समेनं-
इव्यादिश्रुतय आत्मन एव ब्रह्मरूपात्तदुत्पत्त्यादि बोधयन्तीति चेत्सत्यं साभासाज्ञानद्वारा ब्रह
साभासं चित्यध्यासेन चिदाभासखचितमेतदज्ञानमुपजीव्योपाधिं पुरस्कृत्याद्वितीया कूटस्थां- द्दयानन्दरूपा चिच्चिदात्मा ब्रह्मेति यावत्संसारकारणं न केवलमिति धीरा धीमन्तो वेदान्तार्थ निपुणबुद्धयः प्रवदन्ति। 'तर्हि तद्धेतोरेवास्तु कि तेन ' इतिन्यायेनाज्ञानमेवास्तु जगतः कारणं माडस्तु तथा तस्य कूटस्थत्वादिति चेन्नेत्याह-साभासमेतदित्युत्तरार्घेन। सर्वश्रतिषु ब्रह्मण एव प्राधान्येन जगत्कारणत्वश्रवणात् 'मायां तु प्रकृति* [श्रे० ४॥ १० ] इत्यादौ तु मायायाः 'मायिनं तु महेश्वरम्' [ श्वे० ४ । १० ] इतिवाक्यशे- षेणेश्वराधीनत्वश्रुतेर प्राधान्यावगमाच्चातः कारणता तु दृशश्विदात्मन एव तस्य कूटस्थतया स्वतो जगद्रूपत्वेनाSSविर्भावासंभवात्तस्य संमृतिकारणत्वे द्वारं सहकारिमात्रपरं भवति। जडस्यास्य द्वारत्वमपि कथमित्यत आह-साभासमेतदितीति। इति यत एतदज्ञानं साभासमतो द्वारमिति योजना। एतदुक्तं भवति-अज्ञानस्य तत्र तत्रेश्वरशक्तित्वश्रवणाच्छ- केश्र शक्तिमत्परतत्रत्वादविद्याश क्तेश्षाSSत्मन्यध्यस्ततया तावन्मान्नत्वादभेदे सत्यज्ञानकारण- श्रवणमपि ब्रह्मकारणपरमेव ब्रह्मण एव रज्जुशुक्त्यादीव सर्परजताद्यात्मनाSविद्यया विवर्तमा- नत्वादिति ।। ३२३ ।। सु० टी०-न ब्रह्म जगत्कारणं प्रधानस्य परमाणूनां वा तथात्वसं- भवादिति सांख्याद्यस्तान्निरस्यति- यावद्दृशोऽन्यदिह संसृतिकारणं त- द्वेदान्तवादिसमये न मतं जडत्वात्। यथज्जडं भवति संसुतिकारणं त- न्नेति स्फुटं वदति सूत्रकदत्र यस्मात्। ३२४।। यावदिति। नाचेतनस्य स्वातन्त्रयेण जगत्कारणमिष्टमस्माभिः 'ईक्षते- नाशब्दम्' [बह्म सू० १।१।५] इत्यादिषु सूत्रकृतैव जडकार- णस्य युक्तिभिर्निरासादित्यर्थः ॥ ३२४॥ अ० टी०-ननु जडशक्ते: स्वातन्त्र्येण कारणत्वाभ्युपगमे को विरोध इति तत्राSडह- यावद्दृशोऽन्यढिति। अथ वा कुत एवं व्यवस्थाऽडस्थीयते सूत्रकतप्रवृत्तिपर्यालोच- नयेत्याह-यावद्द्टशोऽन्यदिति। दशोऽन्यद्चेतनं संसृतिकारणं यावत्सांख्यादिभिरुत्प्रे- क्षितं तदिह वेद्रान्तवादिसमये न मतं नेष्टं कुतो जडत्वात्स्वतःप्रवृत्त्याद्यसमर्थत्वादित्यर्थः ॥ कथमिदं वेदान्तिनो न मतमित्यवगम्यते तत्राऽडह-यद्यदिति।' रचनानुपप्रत्तेश्ष नानु-
Page 286
संक्षेपशारीरकम्। २७९
मानम्' [त्र० सू० २ । २ । १ ] 'डभयथाडपि न कर्मातस्तदभावः' [त्र० सू० २। २।१२ ] इत्यादिभि: सूत्रकृता स्वतत्रजडकारणस्य स्पष्ट निराकरणादित्यर्थः ॥३२४॥ सु० टी०-ननु 'आकाशाद्वायुर्वायोरगिः' [तैत्ति० २। १।१] इति जडानामपि कारणत्वश्चुतेः कथमेतदिति चेत्तत्राSSह- अजडकारणभावनिबन्धनं सकलमेव जडं न तु कारणम्। इति हि वेदशिर:ु विचक्षणाः कपिलपक्षनिराकरणे जगुः ॥ ३२५॥ अजडेति। माष्यकारादयोऽपि सांख्यमतनिराकरणे रचनानुपपत्ति- सूत्रे स्थित्वेति होचु: । किं तद्जडस्य चैतन्यस्य कारणत्वे द्वारमात्रं सकलं जडं न स्वतः कारणमिति। तन्नाऽडत्मन आकाशजन्मनि तमो- द्वारमाकाशत्वापन्नादात्मनो वायुजन्मनि नभस्तमसी वायुरूपपन्नाच्च तेजोजन्मनि वायुतमसी (*तेजस्त्वापन्नाच्च जलोत्पत्तौ तेजस्तमसी) जलत्वापन्नाञ्च पृथिवीजन्मनि जलतमसी इति ॥३२५॥ अ० टी०-तदेव स्पष्टयति-अजडेति। अजडस्य चिदात्मनः कारणभावे कारणत्वव्यवहारयोग्यत्वे सकलमेव जडमविद्याकाशादिव्याकृतमव्याकृतं च निबन्धनं द्वारं भवति न तु स्वयं कारणमित्यर्थः । इति हीति स्पष्टार्थम्। वेदशिरःसु विच- क्षणा भाष्यकारप्रभृतयो महान्त इत्यर्थः ॥३२५॥ सु० टी०-एकदेशिमतमाह- शबलमात्मपदेन निगयते सकलमात्मजमित्यपि च श्रुतिः । शबलमात्मपदं जगतस्ततः प्रकतिरित्यपरे च जना जगुः ॥ ३२६ ॥ शबलमिति। 'आत्मन आकाशः' [तै० २।१।१) इत्यादिश्रुतिः सकलमात्मजमित्याह। तत्राज्ञानशबलं ब्रह्माऽSत्मशब्देनोच्यते तत्रैव व्युत्पत्तेः। अतस्तदेव जगदुपादानं कार्येषु चिदंशजाड्यांशयोरनृवृत्ति- दर्शनादित्याहुरित्यर्थः ॥। ३२६ ।।
- क. पुस्तके नास्त्ययं प्रन्थः ।
Page 287
टीकाट्यसमेतं-
अ० टी०-' देवात्मशक्ति स्वगुणैर्निरूढाम्' [श्वे० १ । ३ ] 'इन्द्रो मायाभिः' [बृ० २।५। १९ ] इति श्रुत्यनुसारेण ब्रह्मैव कारणमज्ञानं शक्तिस्तत्र द्वारमित्युक्तं तत्र पुनर्वचनान्तरमाश्रित्य मतान्तरमाह-शबल,मात्मेति। आत्मपदेन तत्पर्यायसद्गह्मादिपदेन च शबलमज्ञानविशिष्ठं तर्वं निगद्यते। श्रुतिरपि-सकलमात्मजमिति। 'आत्मन आकाश: संभूत: '[तै० २ । १ । १ ] इत्यादिरूपा पठयत इति शेषः । चकारोऽ- वधारणार्थः । फलितमाह-शबलमात्मपद्मिति। अज्ञानविशिष्टश्चिदात्मा जगत उपादानकारणमित्यपरे जगुरित्यर्थः ॥ ३२६ ॥ सु० टी०-तत्किं कर्तृत्वमपि शबलस्यैव नेत्याह- सुक्कतदुष्क्तकर्मणि कर्तृतां मतिगतात्मचितिप्रतिबिम्बकम्। वजति तद्दद: परमात्मनो जगति याति तमःप्रतिबिम्बकम् ॥ ३२७॥ सुकृतेति। यथा हि पुण्यापुण्यकर्तृत्वमात्मनो बुद्धिगतामासाविवि- कस्य प्रतिबिम्बचैतन्यस्यैव बुद्धिस्तु तदाभ्रयमात्रमिति 'कर्ता शास्त्रा- र्थवस्वात्' (ब० सू० २। ३। ३३) इत्यत्र स्थितमेवं जगत्कर्तृत्वमपि परमात्मन: साभासतमःप्रतिबिम्बस्यैव न विशिष्टस्येत्यर्थः ।। ३२७। अ० टी०-अत्रैवाधिष्ठातृकारणते विशेषमाह-सुकृतदुष्कृतेपि। मतिगतात्मचै- तन्यप्रतिबिम्बकं जीवाख्यं सुकृतदुष्कतकर्माणे कर्तृतां व्रजति यद्वदित्यव्याहारः । तद्वदद: परमात्मनोऽपि तमसि कारणोपाधावज्ञाने प्रतिबिम्बकमीश्वराख्यं जगति कर्तृतां यातीति योजना। यथाऽन्तःकरणप्रतिबिम्बस्यैव कर्तृत्वं 'कर्ता शास्त्रार्थवत्वात्' [ब्र० सू० २। ३। ३३ ] इतिन्यायान्न त्वन्तःकरणविशिष्टस्य तथा जगत्कर्तृत्वमपि तमःप्रतिबिम्बस्यैव न तमोविशिष्टस्येत्यर्थः ॥ ३२७॥ सु० टी०-ननु किं द्वेरुप्येणोपादानत्वं कर्तृत्वं च प्रतिबिम्बस्यैवाSड- स्तामिति नेत्याह- सुळुतदुष्कतयोः शबला यथा भरवति कारणमात्मचितिस्तथा। गगनवायुपुरःसरकारणं परमचेतनता शबलाळतिः॥३२८॥ सुकृतेतिI.यथा बुद्धिशबला चितिः पुण्यापुण्ययोरुपादानं तयोः परिणामरूपत्वात्। कूटस्थात्मपरिणतेः शाबल्याधीनत्वात्तथाऽज्ञानशः
Page 288
संक्षेपशारीरकम्। २०१ बलेव गगनादिपरिणामोपादानं न प्रतिबिम्बात्मिकेश्यर्थः । चेतनता चैतन्यम् ॥३२८ ॥ अ० टी०-तर्ह्ापादानत्वमपि प्रतिबिम्बस्यास्तु किमनात्मशाबल्येने:यत आह- सुकृतदुष्कृतयोरिति। यथाऽन्तःकरणशबलाऽडतमचितिः सुकतदुष्क्ृतयोः कारणमुपा- दानं भवति सुकतादे: परिणामात्मत्वात्परिणामस्य च चिदात्मनीऽन्तःकरणशाबल्याधीनला- च्छबलमुपादानं यथेत्यर्थः । तथा गगनेत्यादि सुगमम् । कूटस्थस्यापरिणामित्वाज्जडस्य
सु. टी०-दूषपति- शबलताकवलीकततावशा- त्परमचेतनतैव निगयते। शबलमात्मपदेन न कथ्यते शबलमात्मनिवृत्तिनिबन्धनम् ॥३२९ ॥ शवलतेति। परमचेतनता सर्वोपाधिविवर्जितं चैतन्यं तदेव तत्र जिज्ञा- स्यत्वादात्मपदेन निगद्यते 'यत्परः शब्दः' इति न्यायान्न तु शबलं तस्य
वलीकृतं तद्भिधीयत इति निमित्तमात्र शाबल्यमित्यर्थः ॥३२९॥ अ० टी०-तदेतदन्यमते शोधयित्वा स्त्रमते प्रवेशयति-शबलताकवलीकृ- ततेति। आत्मपदेन तत्पर्यायैश्च शबलं न कथ्यते कि तु परमचेतनतैव निगय्यते। चेतनता चैतन्यरूपं तस्याः परमत्वं सर्वोपाधिरहितत्वं निर्विशेषत्वमित्येतत्। तर्हिं शबल- तायाः कोपयोग इति तदाह-शबलमात्मनीति। वृत्तिः शब्दप्रतृत्तिस्तत्कारणं शबलता लक्षणया चित्स्वरूपे शब्दपर्यवसाने द्वारमित्यर्थः। कथं द्वारतेति तत्र संबन्विता
चेतनाया आत्मसात्कृतत्वात्तस्मिन्नन्तर्भतत्वादित्यर्थः । परमचेतनायाः शबलताकवलीकृत-
सु० टी०-(* तर्हि शबलमात्मादिपद्वाच्यमिति व्यवहार: किनिब- नधन इति चेत्तन्राऽडह- शबलतापरिधानसमन्वया- न्परमचेतनताऽSत्मगिर: पदमू।
- अय अन्थः क. पुस्तके नास्ति।
Page 289
टीकाटटयसमेतं-
भवति तेन जनस्य तु विश्रमः शबलंमात्मगिरः पदमित्ययम्॥३३०॥ शबलतेति। शावल्यद्वारा तात्पर्थविषयीभूतं शुद्धमेवाSडरमादिशब्दै- 'रुच्यते। जनस्य त्वज्ञस्य) तद्विवेकाच्छबलमात्मपद्वाच्यमित्ययं भ्रमो भवतीत्यर्थः । ३३०॥ अ० टी०-एवं शबलमात्मादिशब्दवाच्यमित्ययं भ्रम इत्युक्तद्वारत्वानुवादेन स्वमतमु- पसंहरति-शबलतापरिधानसमन्वयादिति। आत्मगिरः पदं व्युत्पत्तिस्थानं भवति तेन हेतुनेत्यर्थः ॥ ३३० ॥ सु० टी०-ननु कथं व्यवहारातीतस्य शुद्धस्य कारणत्वं वाच्यत्वं चेति मायावशादित्याह- बहु निगय किमत्र वदाम्यहं शृणुत संग्रहमद्दयशासने। सकलवाङ्मनसातिगता चितिः सकलवाङ्मनसव्यवहारभाक्॥ ३३१॥ बहु निगद्येति। प्रत्येकोक्तौ यत्र गौरवात्संक्षेपोक्तिं शृणुतेत्यर्थः । संग्रह- माह-अद्वयेति। अस्मन्मते हि सकलव्यवहारातीता चितिः शुद्धैव स्वाध्यस्तघटकुड्याद्यंधिश्ठानतया तत्तदात्मना स्फुरती सकलक्रियाका- रकव्यवहारहेतु: स्वतो रजतव्यवहारातीतेव शुक्तिरज्ञानद्वारा रजतरङ्ग- दिव्यवहारमागिति।' त्वं स्त्री त्वं पुमानसि' [श्वे० ४।३]
अ० टी०-तदेवमात्मन एव तत्तच्छब्दैः समर्पणात्तस्यैव कारणत्वं श्रुतिभिरभिधी- यते। अनात्मशाबल्यं तु तत्र द्वारमात्रमिति सिद्धः सर्वश्रुतिसमन्वयः केवले चिदात्मनीति स्थितमिदानी न केवलं ब्रह्मादिशब्दवाच्यत्वकारणत्वयोरेवायं न्यायः किंतु सर्वव्यवहारेऽ- पीत्याह-बहु निगद्येति। अद्वयशासने वेदान्तशास्त्रे संग्रहमर्थसंग्रहं सकलवाङ्मन- सागोचरैव चितिस्तत्तव्व्यवहारसमये तत्तदर्थशाबल्येन सकलवाङ्मनसव्यवहारभाग्भन्नति नान्यज्जडं तद्विशिष्टं चैतन्यं वेत्यर्थः। उक्तं च- 'अक्षमा भवतः केयं साधकत्वप्रकल्पने। किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम्' इति ॥ ३३१ ॥
१ क. लतात्ग°।
Page 290
संक्षेपशारीरकम्। २८२ सु०टी०-ननु केबलस्य जगदुषादानत्वं चेत्किमज्ञानद्वारकल्पनयेति तताSSह- चित्रायाग: पशुफल इति शूयमाणेऽपि चित्रा- .
पूर्व द्वारं पशुफलतयाऽडक्षिप्यते तत्र तद्दत्। चैतन्यात्मा जगदुदयकच्छयतेऽत्रापि पश्चा- न्मायादीनां भवति जगति द्वारभावः फलेऽस्मिन् ॥३३२॥ चित्रेति। यथा 'चित्रया यजेत पशुकामः' इति यागस्य चिरनष्टस्य कालान्तरीय फल हेतुत्वश्रुत्यन्यथानुपपत्याऽपूर्व द्वारमाक्षिप्यते तद्वत् 'सत्यं ज्ञानमनन्तम्'[तै० २।१।१] इत्याद्युक्त्वा 'तस्माद्वा एतस्मादा- त्मन आकाश: संभूत:' [ते० २।१।१]इति कूटस्थचिदात्मनस्त-
कर्मादेद्वारित्वं कल्प्यत इत्यर्थः । मायिकप्रपञ्चं प्रति ब्रह्मणो वास्तवकारण- त्वासंमवाज्जगदाकरेणान्यथाभावमापद्यमानां मायामनुसृत्य तद्धिष्ठानं ब्रह्मापि तथैव स्फुरज्जगदुपादानमिति व्यवह्नियत इति भावः॥३३२॥ अ० टी०-कथमात्मनः केवलस्य सर्वसंव्यवहारेऽज्ञानादेर्द्दारित्वमवसितमिति वीक्षायां तत्सदष्टान्तमाह-चित्रायाग इति। 'चित्रया यजेत पशुकामः' इति वाक्येन चित्रायाग: पशुफल इति श्रूयमाणेपि साक्षात्पशुफलत्वे चित्रायागजन्यमपूर्व तत्र पशुफ- लतया मध्ये क्षिप्यते यद्ददिति योज्यम्। यथा श्रूयमाणफलसाधनत्वान्यथानुपपत्या क्षणि- कस्यापि यागस्य कालान्तरभाविफलसाधनत्वसिद्धयेऽपूर्वद्वारत्वमास्थीयत इति दृष्टान्तार्थः । दार्टान्तिकमाह-तद्वच्चैतन्यात्मेति। अस्मिन्फले फलभूते जगतीति संबन्धः । पश्चाद- नुपपत्तिप्रतीतिद शायामित्यर्थ: ॥३३२॥ सु० टी०-इतश् शुद्धचैतन्यमेवाज्ञानद्वारा कारणमित्याह- कारणत्वमुपलक्षणं चिते- रब्रह्मणो न खलु तद्विशेषणम्। इत्यपीदमुपपयते तदा चेतना भवति कारणं यदा। ३३३ ॥। कारणत्वमिति। लक्ष्यस्य ब्रह्मणो जगत्कारणत्वं न विशेषणं किं तूपलक्षण मेवेत्यपि वक्ष्यमाणं केवलस्य कारणत्व एवोपपचते। अज्ञान-
Page 291
२०४ टीकानूष समेसं-
मात्रस्य शवलस्य वा कारणत्वं चेत्तद्यावत्स्वरूपमावित्वेन विशेषणमेव स्वादिति ॥ ३३३ ॥ अ०दी०-तदेवं कूदस्थचिदेकरसस्य जडप्रपश्चकारणत्वं भूयमाणमप्यन्यथानुयपत्या मायां तत्र कल्पयति कादाचित्कप्रवृत्तिनिमित्ततया च मायाद्वारतः प्राप्तोपादानकर्तृभावस्य चिदारमनो लोकशास्त्राभ्यामवगतं कालादृष्टादिकारणं सिद्ध मेवाङ्गीकृतं शास्त्रकारैरिति चिदा- त्मैव कारणमित्यङ्गीकार्यमन्यथा कारणत्वस्योपलक्षण त्ाङ्गीकारविरोधादित्याह-कारणत्व- मिति। जगत्कारणत्वस्य चिदात्मनिष्ठत्वाभावे कारणत्वस्य तदुपलक्षणता न सिध्येत्तच सस्य साभासाज्ञानद्वारकत्वे समञ्जसमन्यथा विशिष्टस्य कारणत्वे विशिष्टमेत्र लक्ष्यं स्यात्तथा च तस्य सत्यज्ञानादखण्डस्वरूपपरवाक्यविरोध इति भाषः। अक्षरार्थस्वतिरो- हितः ॥ ३३२ ।। सु० टी०-ननु शबलगतेनैव कारणत्वेन ब्रह्मण उपलक्षणसंभवाल्न शुद्धस्य कारणत्वमिति चेत्तत्राSऽह- अन्यदेव यदि कारणं भवे- न्कारणत्वमुपलक्षणं कथम्। चेतनस्य घटतेऽन्यगामिना वस्तु नान्यदुपलक्ष्यते यतः ॥ ३३४ ॥ अन्यदेवेति। विशिष्टात्केवलस्यान्यत्वात्तदुतेन कारणत्वेन न ब्ह्मण उपलक्षणं संभवति घोषगतकाकवत्वेन चैत्रगृह्स्यानुप्लक्षणादि त्पर्थः ।। ३३४ ।। अ० टी०-उक्तमेवार्थमुपपादयति-अन्यदेवेति। साभासाज्ञानमेवेत्यर्थः। चेत- नस्य केवलचिदात्मन इति यावत्। कथं न घटत इति तत्राऽऽह-अन्यगामिनेति। न हि विशिष्टगतेन कारणत्वेन केवलो लक्ष्यते विशिष्ात्केवलस्य भिन्नत्वालक्षणस्य लक्ष्या- स्पृष्टत्वादसंबद्धरक्षणे चातिप्रसङ्गादित्यर्थः । तरमात्साभासाज्ञानं चिदात्मन एव कूटस्थस्य सर्वाधिष्ठानतया सर्वससास्फुरणप्रदत्बेन सर्वानुगमरूपस्योषादानत्वस्य सर्वप्रकारविकास्कारि- मायाप्रतिबिम्बितत्वेन तस्मिन्नाभासविक्षेपकत्वरूपकर्तृत्वस्य च द्वारमेव न स्वयं कारणमिति सिद्धम् ॥ ३३४ ।। सृ० टी०-एवं चाज्ञानसिद्धावज्ञातमर्थमवबोधयेत इति चोधे निरस्तमित्याह- अनवबुद्धमतः श्रुतिमस्तकै- विषयतामुपपादयितुं क्षमम्। १ क. म. वज्ञातशञा"। २ क. 'यति इति बा नि'
Page 292
संक्षेपशारीरकम्। २८५
अनुभवात्मपद तमसा यतः पिहितमेतदिह प्रतिभांसते ॥३३५॥ अनवयुद्धमिति । अतःः श्रुतियुक्तिम्थामज्ञानसिद्धेरनवबुद्धमात्मस्वरू- पमनुभवात्मकमपि वेदान्तैर्विषयामावंनेतुं शक्यमित्यर्थः । (*अत्र च प्रत्यक्षमुपोद्वलयति-तमसेति। इह साक्षिण्येतदात्मपदं तमसा पिहितं भासते मामहं न जानामीत्यर्थः) ॥ ३३५॥ अ० टी०-तदेवं श्रुतिस्मृतिशास्त्रयुक्तिभिरुपपादितमज्ञानमात्मान ब्रह्मण्युपगन्तव्यमिति स्थिते तस्यैव ब्रह्मणोऽज्ञातत्वात्परमानन्दरूपतया फलरूपत्वाच्च तत्र वेदान्तानां निरपेक्ष प्रामाण्यं सिद्धमित्युपसंहरति-अनवबुद्धमिति। यत एवमज्ञानं ब्रह्मात्मनि सर्वव्यवहार- प्रवृत्तिद्वारमतो हेतोः श्रुतिमस्तकैर्वेदान्तैरनवबुद्धमज्ञातमात्मतत्त्वं विषयतां स्वपतिपाद्यतामुप- पादयितुं क्षमं समर्थमेव । अत इत्युक्तमेव हेतु परामृशति-अनुमवात्मपद्मिति। एतदनुभवात्मपदमिति संबन्धः । नित्यानुभवरूपमात्मस्वरूपमिह संसारदशायां यतस्तमसा पिहितं प्रतिभासतेSतोऽनवबुद्धमिति योजना ॥ ३३१॥
यदि: पामाण्यमुपपाद्य किं चापसिद्धमित्यादि चोद्यमुद्धरति- अज्ञानकल्पितमनिर्वचनीयमस्मि- न्राबालवृद्धमविवादपद पसिद्धम्। सवमे तथा च भगवानपि वक्ष्यतीदं संध्येडस्ति सृष्टिरिति पक्षनिराससिद्धयै ॥ ३३६॥ अज्ञानेति। इह दर्शने यदज्ञानकल्पितरूपमनिर्वचनीयं साधितं न तद्वि वाद्पदं यतः स्वन्न एव तदाबालवृद्धं प्रसिद्धमित्यर्थः । तथा हि न तावत्स्वप्ः स्मृतिस्तत्तद्वेशवैशिष्चस्य प्रागननुभूतत्वात्प्रत्येकसंस्कारस्य च विशिष्टस्मृतिजनकत्वे मानामावात्। नापि चक्षुरादिनाऽनुभूयते तस्योपरतत्वात्। नापि मनसा तस्य बहिरप्रवृत्तेः।नाप्यसदेव भासतेऽ- परोक्षत्वात्। न च साक्षात्करोमीत्यनुभूयमानमुपनीतमानमात्रं कल्प्प- मित्यपरोक्षात्मन्यध्यस्त एव स्वप्नपपञ्च इति प्रपशचितप्रायम्।'अवि- घया मन्यते'[बृह्० ४।३ । २० ] इति श्रुतेश्र। सूत्रकृदपि 'संध्ये सृष्टिराह हि' [ब० सू० ३।२।१] इत्यत्रास्ति स्वमेऽवा-
- धनुश्विह्वान्तर्गतअन्थः ख. पुस्तकस्थः।
Page 293
२८६ टीकाट्य समेनं-
स्तवी सृष्टिराह हि ध्रुतिः 'अथ रथान्सथयोमान्पथः सृजते' [ बृ० ४ ।३। ९ ] इत्याशङ्क्य'मायामानं तु कात्सन्येनानभिव्य- कस्वरूपत्वात् [ ब० सू० ३। २। ३ ] इत्युचितसामग्रीविरहादृनि- र्वचनीयत्वं वक्ष्यतीत्याह-तथा चेति॥ ३३२॥
प्रमात्रादि द्वैतसाधकमित्यभ्युपगमे ब्रह्मणोऽपि मात्रादिवन्मेयत्वादज्ञानकल्पितत्वप्रसङ्गस्त- स्यामेयत्वे चासिद्धिप्रसङ्ग: प्रमात्रादेश्वाज्ञानकल्पितत्वमप्रसिद्धमिति तत्राप्रसिद्धतां तावत्प- रिहरति-अज्ञानकल्पितमिति। यदज्ञानकल्पितं तदनिर्वचनीयं प्रमात्राद्यनिर्वचनी- यमज्ञानकल्पितत्वादित्यनुमाने व्याप्तिग्रहणाय शुक्तिरजतादावस्मिन्निदमनिर्वचनीयत्वमाबा- लबृद्भमविवादपदं निदर्शनं प्रसिद्धं भ्रान्तेः सविषयाया अनिर्वचनीयत्वं लोकेSविवादभि- त्यर्थः । न केवलमस्या अनिर्वचनीयत्वं लोकसिद्धमपि तु न्यायतोऽपि निर्णीतमित्यभिप्रेत्य सूत्रकारप्रवृत्तिमत्रोदाहरति-सव्रप्े तथा चेति। तथा च वक्ष्यतीदमित्यन्वयः। तत्र हि 'संध्ये सृष्टिराह हि' [व्र० सू० ३ । २ । १ ] इत्यादिना पूर्वपक्षसूत्रसंदर्भेण स्वमस्य सत्यत्वमुपक्षिप्य 'मायामात्रं तु कार्त्स््येनानभिव्यक्तस्वरूपत्वात्'[ ब्र० सू० ३। २ । ३ ] इतिसिद्धान्तसूत्रेणानिर्वचनीयत्वं स्वम्नस्येति स्थितमिति तात्पर्यार्थैः । संध्येस्ति सृष्टिरिति शङ्ङितपूर्वपक्षनिराससिद्धयै मायामात्रमिति सिद्धान्तसूत्रेण स्म इंदम- निर्वचनीयत्वं भगवान्वक्ष्यतीति योजना ॥ ३३६ ॥ सु० टी०-कथं पुनः स्वप्नकल्पस्य वेदाचार्यादेः सत्यब्रह्मबोधकत्वं न हि बाष्पधूमः सत्यवहनिं बोधयतीति चेत्तत्ाSऽह- मिथ्यासुषि: सवितृमण्डलमध्यवर्नी
दषटः शरीरकरणप्रविभागरूपं मृत्युं निवेदयति सत्यभिदं प्रसिद्धम् ॥ ३३७॥ मिथ्येति। निश्छिमै रविमण्डले दोषान्मिथ्यैव हश्यमान: सुषिर्द्रपुर- चिरेणैव शरीरस्य स्थूलस्य कारणस्य च लिङ्गदेहस्य मिथोविभामा- त्मकं तातत्विकमेव मृत्युं निवेद्यतीति प्रसिद्धमैतरेयकबाह्मणे'न चिरमिव जीविष्यतीति विद्यात्' इत्युपक्रम्य 'छिद्र इवाऽडदित्यो दश्यते' इति श्रुतेरित्यर्थः । बाष्पधूमादृपि सत्यवद्धिबोधः क्वचिदशं- नाद्विरुद्ध इति भाव: ॥३३७॥
Page 294
संक्षेपशारीरकम्। २८७
अ० टा०-सदेवमज्ञानान्वयव्यतिरकानुविधागितया प्रमातृप्रमेयप्रमाणादिविभागस्य प्रपश्चस्य शुक्तिरजतस्वप्रादिषदनिर्वध्धनीयत्वमुपपाद्य ब्रह्मणः प्रमेयत्वाप्रमेयत्वपक्षयोरुक्तदो- षद्वयस्यापि प्रागेवाप्रमेयस्यापि वेदान्तप्रमेयत्वोपपादनेन परिहृतत्वान्न तत्र पुनर्वक्तव्यमि- त्यभिप्रेत्येदानीमनृतेन प्रमात्रादिना कथमविषयत्वेनापि सत्यवस्तुप्रतिपादनं संभाव्यत इति शङ्कां लोकप्रसिद्धदृष्टानतेनापाकरोति-मिथ्यासुषिरिति । सवितृमण्डलस्थस्य सुषेर्मि- थ्यात्वमदृष्टदोषवत्पुरुषैकदृष्टिविषयत्वाददुष्टपुरुषद्ृष्टय पोह्यत्वाच्चेति द्रष्टव्यम् । कस्यचिद्दष्टुः कदाचित्प्रत्यक्षदाष्टिपथमापतितः सवितृमण्डलमध्यवर्ती मिथ्यासुषिरचिरेण द्रष्टः सत्यं मृत्युं निवेदयतीति प्रसिद्धमनिष्टदर्शनानुघादिग्रन्थादाविति योजना। शरीरकरणेति मृत्युस्वरूपक- थनं जीवस्य स्वरूपतो मरणाभावद्योतनपरं प्रासङ्गिकं झ्ेयम् ॥ ३३७ ॥ सु० टी०-न चास्मत्कल्पित एवायं परिहार इत्याह- स्वम: शुभाशुभफलागमसूचक: स्या- न्मिथ्याऽपि सन्निति च सूत्रकदाह यत्नात्। गुर्वादि सर्वमिदमद्दयबुद्धिहेतु- र्मायानिबन्धनमिति प्रतिपादनाय ॥ ३३८ ॥ सप्न इति। स्वप्नस्तावन्मिथ्याSपि सन्वास्तवशुभाशुभ्फेलावेदको भवतीति 'सूचकश्र हि श्रुतेराचक्षते च तद्विदः' [बह्म० ३। २।४ ] इति सूत्रे 'यदा कर्मसु काम्येषु स्त्रियं रवप्रेषु पश्यति। समृद्धिं तत्र जानीयात्इति श्रुत्याद्यवषम्भेन सूत्रे तदृपि यत्नतो वक्ष्यर्तीत्पर्थः । यत्ने निमित्तमाह-गुर्वादीति । मायिक्रमपि गुरुवेदादि सत्यब्रह्मधीहेतुरिति प्रतिपाद्यितुमित्यर्थः ॥ ३३८ ॥ अ० टी०-मूत्रकारेणाप्यनृतस्य सत्यसूचकत्वं 'सूचकश्च हि श्रुतेराचक्षते च तद्विदः'[ब्र' सू० ३। २ । ४ ] इत्यत्रोक्तमित्याह-स्वम्ः शुभाशुभफलेति। इति दार्टान्तिकार्थप्रतिपादनाये- त्यर्थ: ॥ १३८ ॥ सु० टी०-ननु शुक्तिरजतादेः सत्यत्वेऽपि तज्ज्ञानस्य व्यधि करणप्रकानकत्वेन विसंवादोपपत्तेः किमनिर्वचनीयकल्पनयेति चेत्त- त्राSडह- भ्रान्तिप्रतीतिविषयो न च सन्न चास- न्नाकाशतत्कुसुमयोर्न हि साडस्ति नापि।,
१ क. ग. फलोत्पाद।
Page 295
२06 रीकाद्टयसमेतं-
तस्या भवेत्सदसदात्मकगोचरत्वं न ह्रस्ति तत्किमपि यत्सदसत्स्वरूपम्॥ ३३९॥ भ्रान्तीति। भ्रान्तिर्नाम रजताद्याकाराऽविद्यावृत्तिस्तदवच्छिन्नं साक्षि- चैतन्यं भ्रान्तिप्रतीतिस्तस्याश्र विषयो रजतादि: स च न सस्। बाध्य- स्वाद्यतिरेके नमोवत्। अन्यत्र सतश्वान्यवामानमित्युक्तमस्त्वसत्ख्यांति- रनैत्याह-न चासन्िति। दृश्यत्वाद्यतिरके खपुष्पवदित्यर्थः । नोमयातम- कश विरोधादित्याह-नापीति ॥। ३३९ ॥। अ० टी०-ननु भ्रान्तिविषयस्यानिर्वचनीयत्वं न लौकिकपरीक्षकसंमतमतो दृष्ा- *म्तासिद्ेः कथं प्रमात्रादेरनिर्वचनीयत्वानुमानमिति तत्राSSह -- भ्रान्तिप्रतीतिविषय इति। सत्याकाशे भ्रान्तिविषयत्वादर्शनान्न सन्भ्रान्तिविषयः। असत्याकाशकुसुमे चाभा- वान्नाप्यसन्निति विभागेनार्थयोजना संश्वेदाकाशवन्न बाध्येत। असंश्रेत्खपुष्पवन्नाप- रोक्षी भवेदित्यर्थः । यतः सा भ्रान्तिराकाशतत्कुसुमयोर्नास्ति। अतो भ्रान्तिप्रतीतिविषयो न च सन्न चासनिति पदयोजना। प्रत्येकं सदसत्पक्षासंभवेऽपि समुच्चितं पक्षान्तरं संभवेदित्याशड्क्याSह-नापि तस्या मवेदिति। विरुद्धसमुच्चयस्य क्वाप्यसंभवा- दिव्यर्थः ॥ १३९॥ सु० टी०-अस्तु निरालम्बनैव भ्रान्तिविषयानिरूपणादिति चेन्ने त्याह- आलम्बनं च विरहय्य न विश्रमस्य ज्ञानात्मनो भवति जन्म कदाचिदत्र। सिद्धं ततः सदसती व्यतिरिच्य किंचि- दालम्बनं भ्रमधियः सकलपवादे॥ ३४० ॥ आलम्बनमिति। न हि कदाचिन्निविषयं ज्ञानमुत्पद्यते निराकारत्वा- पत्तेः । अनुभवविरोधाद्विशेषतश्वापरोक्षमन्यथा जानातेरकर्मकत्वप्र- सङ्गो भ्रान्तस्य क्वाप्यपवृत्तिप्रसङ्ग इति विषय: सिध्यन्परिशेषात्सद्सद्वि लक्षण: सिध्यर्तत्याह-सिद्धमिति ॥३४० ।। अ०टी०-गतेन पद्येन सद्वादिनोSन्यथाख्यात्यख्यातिवादिन आत्मख्यातिवादिनश्च निरा- कृता: सदसद्वादी जैनोऽपि दिगम्बरो निर्धुतस्तर्हि निरालम्बास्तु आ्रन्तिंरिति स्वभाववादिमत- माभासयति-आलम्बनं च विरहय्येति। निरालम्बनज्ञानोदयविभ्रमज्ञानोदयादर्शनात्सा- लम्बनता तावद्रान्तेः सिद्धैवान्यथा भ्रमोदयसमनन्तरं पुरःस्थितविषयं प्रति धावनं ततः
Page 296
संक्षेपशारीरकम्।
पलायनं वा नोपपद्येतेत्यभिप्रायस्तस्मान्निर्वच नायसदस दुभयात्मक प्रकारत्रयविर्लक्षणमार्नवर्च- नीयं भ्रान्तिप्रतिभास्यमिति सर्वैराढतमेवेति नाप्रसिद्धिरनिर्वचनीयताया इत्युपसंहरति- सिद्धं तत इति। अर्थस्यानिर्वचनीयत्वे तद्धियोऽम्यनिर्वचनीयताऽर्थसिद्धाऽन्यथा तद्वी त्वायोगादिति भाव: ॥ ३४० ॥ सु० टी०-यञ्च वाक्यप्रसूतमतिरित्यत्र वाक्यं नापरोक्षधीहेतुरि-
न्ता इत्युक्तं तत्रोक्तहेतौ दशमस्त्वमसीति वाक्ये व्यमिचारं परोक्षविषयत्वं
ब्रह्मात्मवस्तु निरवय्यचिदेकरूपं वह्नचुष्णतावदपरोक्षवपुः स्वभावात्। निर्दोषवेदशिरसो वचनादतोऽस्मिन् ब्ह्मात्मवस्तुनि भवेदपरोक्षबुद्धिः। ३४१ ॥। प्रह्मात्मेति। यतो ब्रह्मात्मवस्तु शुद्धचैतन्यरूपमत एवापरोक्षवपुर्यथा षह्नि: स्वमायादुष्ण एव तद्दत् । अतोऽस्मिन्विपये निर्दोषवेदवाक्या- जायमाना बुद्धिवृत्तिरपराक्षव मवेदिति न सा भ्रान्तिः । न हीन्द्रिय- जत्वमपारोक्ष्यं सुखादिप्रत्यक्षे तद्भावात्तस्य विषयप्रयुक्तत्वेन प्रपश्चि: तत्वाञ्चेन्यर्थः।३४१॥ अ० ढी०-भावरूपमज्ञानं न ज्ञानाभाव एवेत्येतद्वलात्मनो वाक्यविषयत्वसमर्थनाव- सरे प्रसङ्गतः प्रतिपादितमिति पूर्वपक्षक्रममुल्ङ्व्य 'वाक्यप्रसूतमतिरिन्द्रियजन्यधीवत्' इत्यादिना शब्दस्य परोक्षार्थधीजननस्व्रभवत्वान्नापरोक्षं ब्रह्म बोधयितुं शक्रोति शब्द इति यदुक्तं तत्परिहरति-ब्रह्मात्मवस्त्विति। ब्रह्मात्मवस्तु वह्न्युष्णवत् स्वभावादपरोक्ष- चपुरित्यन्वयः । तत्र हेतुगभ विशेषणं-निरवद्यचिदेकरूपमिति । चिद्रृपमपि द्रव्यांशसंवलितं चेत्स्यादपि कदाचित्परोक्षमित्यत एकेतिविशेषणम् । तथाप्युत्पत्यादिवि- कारयोगे स्यादन्यापेक्षेति परोक्षताऽपीत्यत उक्तं निरवद्येति। एवंभूतवस्तुनि वेदान्तवाक्यं न परोक्षां वियमुपजनयेदित्याह-निर्दोषति। वेद [ शिरसो ] वचनादिति वेदान्तव- चनादित्यर्थः । तस्य निर्दोषेतिविशेषणात्प्राक्प्रतिपादितं प्रामाण्यं सूचितम्। यदि नित्यापरोक्ष चैतन्यस्वरूपे ब्रह्मात्मनि वेदान्तवाक्यं परोक्षामेत्र धियं जनयेत्तदाऽन्यथाभूतेऽ र्थेडन्यथाधीत्वात्तद्वियो भ्रान्तितेति तज्जनकं वाक्यमप्रमाणमेव स्यात्तचायुक्तं वेदस्य निर्दो- षत्वेन प्रामाण्यस्य संमतत्वादिति नात्र परोक्षधीजनकत्वशङ्का कार्या। यद्यंपि सामान्यद्वारा ३७.
Page 297
टीकादूपसमेत-
प्रवर्तमान: शब्दो लोके परोक्षबुद्धिजनको दृष्टस्तथाऽपीह नित्यप्रत्यक्त्व परत्वाददशमस्त्वमसीति- चदपरोक्षामेव धियं लक्षणया वृत्त्या जनयेदिति भाव: ॥ ३४१ ॥ सु० टी०-अस्याश् वृत्ते: फळं वर्णयन्नैतत्माणमपनेतृ सत इत्यादि चोद्यमुद्धरति -- सा चोपनेयरहिते विषयिण्यनन्तेऽ- निर्वाच्यमग्रहणमात्रमपाकरोति। स्वोत्पत्तिलब्धनिजवस्तुबलेन तत्र तापत्रयं समुपशाम्यति निर्निमित्तम् ।।३४२।। सा चेति। सा वाक्यजाऽपरोक्षवुद्धि: प्रमाणत्वात्स्वाभिव्यक्तब्रझ्माका रताबलेनानन्ते मात्रादिविभागविलयात्पूर्णतयाऽवशिष्यमाणे वृतत्यभि- व्यक्ततामात्रेण प्रमेयवदुपचरिते वस्तुतो विषयत्वामावादुपनेयस्फुरणर- हितेऽनर्थबी जमज्ञानमात्रमपनयर्तीत्यर्थः। प्रागुक्तचोद्यनिरासाय विशि- नष्टि-अनिर्वाच्यमिति। अपाकरणं च बाधस्तस्य चाधिष्ठानतापत्तिमात्रत्वा- न्न मानस्य कारकत्वचोद्यमपीति भावः। तत्रेति। तत्राज्ञानेऽपनीते निमि- तनाशात्तापत्रयमाध्यात्मिकादिभेदभिन्नं सम्यगुपशाम्यतीत्यर्थः ।।३४२।। अ० टी० -- यत्पुनरुक्तमविषयत्वाद्गह्मणस्तस्मिन्नोपनेयोऽपनेयो वाडतिशय उपपद्यत इति तत्रोपनेयाभावेऽप्यपनेयं किमपि भवेदिति प्रमाणकृत्याभावचोदं पराकरोति-सा चेति। सा वेदान्तजन्या धीरनन्ते ब्रह्मण्यग्रहणमात्रमपाकरोतीति संबन्धः । मात्रपदेन तत्र प्रका- शजननं व्यावर्त्यते। अनिर्वाच्यमित्यग्रहणविशेषणेन सदसदादिरूपस्य न ज्ञाननिवर्त्यत्व- संभव इति विकल्प्य दूषणमुद्गतम्। अनिर्वचनीयता तस्य साधितैवेति द्रष्टव्यम् । अस- हायमकारकं च ज्ञानं कथमनिर्वचनीयमपि पराकुर्यादिति चेत्तत्राऽऽह-स्वोत्पत्तिल. न्धेति। स्वोत्पत्तित एव लब्धमालिङ्गितं यन्निजमसाधारणं वस्तु स्वार्थलक्षणं तंदेव बलं तन्मात्राकारतालक्षणं तेन तावन्मात्रेणाग्रहणमात्रमपाकरोतीति संबध्यते.। तथा चोत्पद्यमानैव स्वविषयमवभासयन्ती सा धीर्न स्वोत्पत्तिव्यतिरिक्कं सहायं स्वविषयाकारापत्तावपेक्षते नापि स्वविषयाज्ञानापनये सहायापेक्षा तस्य विषयावभासनान्त- रीयकत्वादन्यथा विषययाथात्म्यावभासासंभवादतो न कारकत्वाभावोऽपि दोषः 'कारकक्ृत्य- स्येहाभावात्। तस्मादभ्यासं वा सहायान्तरं वा स्वोदयमात्रातिरिक्तं व्यापारं वाऽनपेक्ष्यै- वाऽऽत्मन्यज्ञानं विहन्ति वाक्यजन्या धीरिति भावः । तथाऽपि प्रमातृत्वादिबन्धनिवृत्तये साधनान्तरमपेक्षीयमिति चेन्नेत्याह-तत्रेति। अज्ञाननिमित्तत्वात्तापत्रयाख्यबन्धस्य स्वकारणे तस्मिन्ज्ञाने निवृत्ते सति निर्निमित्तं सत्तापत्रयं समुपशाम्यतीत्यर्थः ॥३४२ ॥
Page 298
संक्षेपशारीरकमू। २९
सु०टी .- पूर्वं मुक्ते: साध्यत्वासंभवान्न कार्यपरा वेदान्ता इत्युक्तमिदानीं न कस्थापि वाक्यस्य कार्यार्थत्वमिति विवक्ु: कार्यव्यु- स्पात्तिं दूषयितुमनुमाषते -- वाक्यात्पवर्त कनिवर्तकरूपभाज: पुंसः प्रवृत्तिमुपलक्ष्य धियोडनुमानात। कार्यान्विते शिशुरवैति पदस्य शक्ति- मित्युच्यते यदि तु तत्र व्य वदामः ॥ ३४३ ॥ वाक्यादिति। गामानय परिहर सर्पमित्यादिवाक्यात्प्रयोज्यस्य पुंसः प्रवृत्ति निवृत्ति चोफ्लभ्य कार्यान्वितज्ञान एव तद्धेतुत्वेनानुमिते शब्दस्य शक्तिं शिशुरवगच्छतीति चेद्ठुरुणोच्यते तत्र बूम हत्पर्थ: । २४३॥ अ० टी०-यत्पुनः 'कार्यान्वयान्वयिनि वरतुनि शब्दशक्तिम्' इत्यारम्य विस्त- रेणोक्तं कार्यविषयैव शक्तिर्वृद्धव्यवहारे गृह्यते न सिद्धवस्तुविषयाऽतो वेदान्तानां न. सिद्धे. ज्ह्मणी प्रामाण्यमिति तदपाकर्तुमनुवदति-वाक्यादिति। यदि त्वत्यन्तोऽनुवादपरः॥ धिय: कार्यधियः । दूषण्मस्य प्रतिजानीते-तत्र बयं वदाम इति ॥३४३॥ सु० टी०-वक्तव्यमाह- योग्येतरान्वितपदार्थनिवेदने तु शब्दस्य शक्तिरिह वृद्धजनप्रयोगे। विज्ञायते न खलु कार्यसमन्वितेऽर्थे कार्याभिधायिषु पदेष्वपि तत्वसङ्गात् ॥३४४॥। योग्येति। वद्यषि प्रवर्तकादिवाक्यात्कार्यान्वितविषयैव बुद्धिरनुमिता तथाऽपि व्यभिचारादन्यलभ्यत्वाच्च न तत्र शक्ति: कल्प्यते कि तु योग्ये- तरान्वित एव। अन्यथा कार्यवाचिलिडादिपदेष्ववि कार्यान्तरान्विता र्थत्वप्रसुङ्गादित्यर्थः ॥ ३४४॥ अ० टी०-तत कार्ये शब्दशक्तिित्ययुक्तमतिप्रसङ्गात्। कि ववितरान्वित इत्येक युक्तं तच्चान्वीयमानं योग्यमेवायोग्यस्य वाक्यार्थप्रतीत्युपयोगितयाऽन्वयायोगात्तस्माद्योग्ये- तरान्विते शब्दशक्तिरित्यम्युपेयमित्याह-योग्येतरेति। तुशब्दोऽस्मिन्पक्षे प्रयोजक*
- कार्यान्वये शक्तिरित्यम्युपगमे प्रयोजकह्वैविध्यं तथा हि कार्यान्वितानां कार्यान्विते शब्द- शक्ति: कार्यभिधायिनां त्वन्यान्विते स्वस्वरूपे वेति तदेवाSS कार्यसमन्वित इंति।
Page 299
२१२ टीकाद्य समेतं-
द्वैविष्यकल्पनागौरव प्रसङ्गव्यावृत्यर्थः। कार्यसमन्वितेऽर्यें कस्माच्छब्दशक्तिर्न विज्ञायते तन्राSडह-कार्यामिधायिष्विति'। कार्याभिधायिषु लिडादिपदेष्वपि कार्यान्वितार्थ- रवप्रसङ्गादेतस्मिन्वाक्ये कार्यान्तराभावादन्यान्विते स्वरूपे कार्यपदशक्त्यभ्युपगमे च प्रयोज- कगौरवं प्रसज्येतेत्यर्थः ॥ ३४४॥ सु० टी०-किंच लिङादीनां कार्यान्विते शक्ति: सिद्धान्विते वा नाऽडय्य इत्याह- कार्यान्वितार्थविषया यदि शब्दशक्ति: कार्यार्थवाचिषु लिङदिषु कार्यमन्यत्। वक्तव्यमापतति तत्र च कार्यमन्य- द्वक्तव्यमेव भवतीत्यनवस्थितिः स्पात्॥३४५॥ कार्येति। लिङादिष्वपि कार्यान्वितार्थशक्ती तद्दाव्यान्वयप्रतियोगित- वाऽन्यत्कार्य वक्तव्यमेवं तस्य तस्यापीत्यनवस्था। द्वितीयकार्यस्य प्रथमकार्यान्विततया वाच्यत्वेऽन्योन्याश्रयः कार्यान्वयान्वयिस्वार्थव- चित्वे चाऽडत्माश्रय इत्यर्थः ॥ ३४५ ॥
न्वितार्थविषया यदीति। लिडादिशब्दवाच्यकार्यस्य प्रत्यन्वयितया कार्यान्तरस्या म्युषगमे सस्यापि कार्यान्तरान्वितस्यैव पदगोचरतेव्यनवस्था प्रसज्येत ततो दूरमधि गत्वाSन्यान्विते शक्तिरम्युपेयैवेत्यर्थ: ॥ ३४५॥ सु० टी०-नाषि द्वितीय इत्याह- सिद्धान्वितं यदि लिङनदिपदानि कार्य बयुर्विनश्यति तदा नियमस्त्वदीयः। यो बर्णितः सकलमेव पदं स्वमर्थं कार्यान्वितं वदति नान्यमिति स्वशास्त्रे॥। ३४६ ॥ सिद्धान्वितमिति। कार्यान्वितस्वार्थवाचकमेव सर्वे पदमिति स्वशास्त्री- यसमयभङ्गापत्तेरित्यर्थः ॥ ३४६ । अ० टी०-तर्हि भततु सिद्धान्वितं यदि लिडादिवाच्यमिति चेत्तदा तब सिद्धान्त- विरोध इस्याह-सिद्धान्वितं यदीति। नियमः सिद्धान्तः । कोऽयं सिद्धान्तस्त- माह-यो वर्णित इति ॥ ३४६ ॥
Page 300
संक्षेपशाशीरकमूं। २९३
सृ० टी०-किं च लघुनि निमित्ते संभवति न गुरुनिमित्तकल्पने- स्याह- योग्येव्वरान्वित निमित्तकशब्दशक्ति- व्युत्पत्तिरेव यदि संभवभागिनी स्यात्। आश्रीयते किमिति कार्यसमन्वितेऽर्थे शब्दस्य शक्तिरसदर्थविशेषणेन॥ ३४७॥ योग्येतरेति। योग्येतरान्वितं निमित्तं यस्या ईहशी शब्दशक्तिव्युत्पत्ति- रेव लिडादिसाधारणी संभवति चेत्किमिति व्यर्थकार्यविशेषणनिरूपि- तैव साऽडश्रीयत इत्यर्थ:॥ ३४७॥ अ० टी०-अथोच्येत योग्येतरान्वित एवार्थेऽस्तु शक्तिरेतावताऽपि न मन्मतहानिर्यतो योग्यतासिद्धस्य कार्येण कार्यस्य च सिद्धेन न त्वकार्येणैव सिद्धस्य योग्यतेतीतरान्वितत्वप- क्षेऽपि कार्यान्वयस्यानपोदितत्वमिति कार्यान्विते शक्तिर्मम विवक्षितेति चेत्तताह-योग्येत रान्वितनिमित्तकेति। संभवभागिनी संभविता स्यादित्यर्थः । एवकारव्यावर्तितमंशं स्पष्ट- यति-आश्रीयत इति। सिद्धार्थे शब्दशक्त्यभावस्याद्याप्यनिश्चितत्वादन्वायनः कार्य- त्वविशेषणमसदर्थस्तेन विशेषणेन विशिष्टेन कार्येण समन्वित इत्येवंविधेऽर्थे शब्दस्य शक्ति: किमित्याश्रीयत इति योजना। एतदुक्तं भवति यदि योग्येतरान्विते शब्दशक्तिराश्रीयते त्वयाऽपि तदा कार्यान्वितत्वविशेषणमनर्थकं योग्येतरत्वमात्रस्यान्वयप्रतियोगित्वे संभवति कार्यत्वस्यापि तत्कल्पनायां योग्येतरकार्यान्वितेड़र्यें शक्तिरिति स्यात्तथा च गैौरवमापदते। योग्येतरत्वांशं विहाय कार्यान्वितमात्रस्य प्रतियोग्यत्वाङ्गीकारे तु कार्यपदस्य स्वरूपनि- ष्ठता प्रसज्येत कार्यान्तराभावाद्यत्किंचित्कार्यान्तरान्वयस्य चासंनिधानादेवात्राप्रसङ्गादयोग्य- त्वाच्च शब्दस्य तदन्वितस्वार्थत्वायोगाद्योग्यकार्यान्वित इति कल्पनायामपि तस्येतरत्वा- नपायाद्योग्येतरत्वमात्रमवास्तु सर्वत्रान्वयप्रतियोगीति ॥। ३४७ ॥ सु० टी०-तर्ह्यन्वितेऽपि शक्तिर्न स्यादिति चेत्तत्राSऽह- यत्राविशेषितनिमित्तकताविरोधे किंचिन्निवारकमुदीक्षितमस्तु तत्र। किंचिद्विशेषण़विशिष्टमभीष्टशक्ते- व्स्तु प्रयोजकमिदं पुनरत्र नास्ति ॥ ३४८॥ यत्रेति। यत्रेष्टशक्तेरविशेषितनिमित्तकत्वे बाधकं यथा शुद्धपदार्थ-
Page 301
२९४ टीकाद्वयुसमेतं-
शक्तावन्ववस्याशाब्दृत्वप्रसङ्गादि तत्रान्वितत्वमात्रमस्तु विशेषणं न तु कार्यविशेषणं विना काऽपि क्षतिरित्यर्थः । ३४८॥। अ० टी०-ननु कार्यत्वस्य व्याववर्याभावेऽप्यन्वयदर्शनादेव विशेषणताSSश्रीयतां . मध्यमवृद्दप्रवृत्त्यनुमितज्ञानगोचरेऽर्ये प्रथमश्रुतोत्तमवृद्धवाक्यस्यान्वयमात्रेण शक्तिफल्पनावदिति चेनेलाह-यत्राविशेषितेति। यत्र वाक्यादावविशेषितस्य कार्याकार्यादिविशेषणरहित- स्यार्थमात्रस्य शब्दशक्तिनिमित्तकता नियामकतेति यावत्। तथाविधनिमिचकताव (वि)रोधे प्रथमं संमुग्धाकारेणार्थमात्रस्य शक्तिनिमित्तस्वीकार इति बावत्। किंचिन्निकारकं बाधकम- न्वयांशादे: प्रत्ययासंभवलक्षणमुदीक्षितं दृष्ट स्यात्तत्र किचिद्विशेषणविशिष्टं तत्तदर्थान्वयादिं- विशेषणविशिष्टं वस्त्वभीष्टशक्तः प्रयोजकमस्त्विति योजना। यत्र कार्य विनाऽन्वयाद्यप्ति- पत्तिस्तत्र कार्यान्विततार्थस्य शब्दशक्तिविषयो यत्र विनाऽपि कार्यान्वयं शक्तिगोचरता विर्व- हति तत्र योग्येतरान्वितमात्रेण तत्सिद्धेः कृतं कार्यविशेषणेनेत्भिप्रेव्याSSह-इदं पुनरत्र नास्तीति। अत्र कार्यत्वेनाकार्यत्वेन वा विशेषितस्यार्थस्य शब्दशक्तिप्रयोजकत्वाङ्गी- कारे पुनरिदं पूर्वोक्तं बाधकं नासत्यन्वयप्रतियोगितायाः सर्वपदार्थसाधारण्यात्कार्यत्वमेंक तन्निरूपकमिति विशेषपरिग्रहे हेत्वभावादित्यर्थः । न चैकंसति सर्वत्रार्थमात्रमेव शब्द- शक्तिप्रयोजकं नान्वयोऽपीत्यन्विताभिधानवादस्वीकारहानिरिति वाच्यं केवलेऽर्थे शब्द- प्रयोगादर्शनेन तत्र शक्तेरग्रहणात्। प्रतीयमानान्वयस्य च वाचकान्तराभावात्कार्याकार्य- साधारण्यात्सर्वेषां पदानामन्वयांशेऽपि शक्तेरवश्याभ्युपेयत्वमस्तीति तत्स्वीकारो न तथा कार्यस्य वाचकान्तराभावो लिड्ादिपदस्यैव तद्वाचकत्वादिति न कार्यत्वमन्वयप्रतियोगितया शक्तिनियामकमिति भाव: ॥ ३४८॥ सु० टी०-अत एव न कार्यान्वयान्वयिनि शक्तिरित्याह- कार्यान्वयान्वयिनि वस्तुनि शब्दशक्ति- रित्युच्यते यदि तदाऽपि समानमेतत्। अन्वीयमानवचनत्वमतोपपत्तौ कार्यान्वयान्वयिविशेषणगीर्वृथेति॥३४९.॥ कार्यान्वयेति। अन्धीयमानवस्तुमात्राभिधानपक्षस्यैवोपपत्तावित्यर्थः। स्वंस्य स्वान्वयान्वयित्वे स्वस्य विशेषणविशेष्यत्वापत्तेश्र ॥ ३४९॥ अ० टी० -- शाक्तिग्रहनियामकत्वेनाभिमते पदार्थान्वये कार्यमवच्छदेकं न भवति सर्वेषामेव पदार्थानामितरान्वितत्वेन शब्दगेोचरतायास्तुल्यत्वादन्यथा प्रयोजकद्वैविध्यकल्प-
१ क. अनः सवक
Page 302
संक्षेपशारीरकमू। २१५
नागौरवादिदोषप्रसङ्ग इत्युक्तं तत्र यदुक्तं शक्ति: कार्यान्वयान्वयिनीलङ्गीकारे न प्रयोजक- भेदादिदोष इति सदनूद्य दूषयति-कार्यान्वयान्वियिनीति। अस्मिन्नपि पक्षे विशे- षणव्रैयर्थ्यदोषस्तदवस्थ इति दूषणमुक्तमेत्र स्पष्टयत्यन्वीयमानेत्यर्धेन। अन्वीयमानार्थमात्र- चाचक: शब्द इति मतस्योक्तविधयोपपत्तौ सत्यां कार्येत्यादिविशेषणमनर्थकं कचित्सतोऽपि तस्य व्यावर्त्याभावेनाझ्निपैङ्गल्यादिवदप्रयोजकत्वादित्यर्थः । कार्याकार्यार्थसमुदाये यदि कार्या· न्वयान्वयित्वं सत्तामात्रेण शब्दशक्तिप्रयोजकं तदा सिद्धान्वयान्वयित्वस्यापि सर्वत्र सत्तावि शेषाचदपि कस्मात्प्रयोजकं न स्यादतो विशेषणमनर्थकमिति भावः ॥ ३४९॥ • सु० टी० -- ननु तदागमे हि तद्दृश्यत इति न्यायेन प्रयोजकशब्द जप्रतीतिविषयत्वादेव कार्यान्वये शक्तिरिति चेलनैवमतिप्रसङ्गादित्याह- वक्तज्ञानविवक्षयोरपि भवेच्छन्दार्थता तावके पक्षे शब्दमनु प्रतीतिरुभयोरस्त्येव यस्मात्तयोः । ययच्छब्दमनु प्रतीतिपदवीमारोहदुत्प्रेक्ष्यते तत्तद्वाच्यमिति स्थितौ न हि तयोः शब्दार्थतावर्जनम्॥३५॥॥ वक्तुज्ञानेति । त्वन्मते वक्तृज्ञानविवक्षयोरवि प्रयोजकवाक्यान्नि यतोपस्थितत्वेन तैद्विशिष्टकार्यान्विते शक्ति: स्यादित्यर्थः । तयोर्वा- क्यरचनोपक्षीणत्वादशब्दार्थत्वं चेत्तुल्यं कार्यान्वयबुद्धेरपि प्रवृत्तिजन्मो- पक्षयादिति माव: ॥ ३५० ॥ अ० टी० -- कार्यत्वस्यान्वयमात्रेण शक्तिनियामकत्वेऽतिप्रसङ्गं दोषान्तरमाह-वक्तृ- ज्ञानविवक्षयोरपीति। लोके वाक्र्यप्रयोक्तुर्वाक्यार्थज्ञानविव्रक्षयोरपि शब्दात्प्रतीयमा- नत्वाच्तयोरपि तव मते शब्दार्थता भवेत्। हेत्वसिद्धिशङ्कामनुभवालम्बनेन निराकरोति- शब्दमनु प्रतीतिरिति। तावके पक्ष इत्येतत्स्फुटयति-यद्यदिति । न हि तयो- रित्यादि निगमनं विमते वक्तृज्ञानविवक्षे अपि शब्दशक्तिगोचरे शब्दात्प्रतीयमानत्वाद्यद्देवं तदेवं यथा कार्य तथा चेमे तस्मात्तथेति प्रयोगः ॥ ३५० ॥ सु० टी०-अस्तु तयोरवि शब्दार्थत्वं को दोष इति चेत्तताऽह- वेदे वक्तुरभावतस्तदुभयं नास्तीह यस्मादतः शब्दो वाचकशक्तिमुज्झति निजा तत्र स्ववाच्यं बिना। वाच्ये वाचकशक्तिमिच्छति भवान्नान्यत्र तत्र श्रुते- रपामाण्यमिति स्फुटं तव भवेद्वुद्धेरनुत्पत्तितः ।। ३५१ ॥ वेद इति। वेदे वक्तुरमावेन तज्ज्ञानविवक्षयोरभावाद्वैदिक: शब्द: स्ववा. १ क. ण्यमति।
Page 303
२९६ टींकाद्ूपसमेतं-
व्यान्तर्गतं तदुमयं विना वाचकशक्ति जह्यादित्यर्थः। ननु यथा तवावाच्येऽपि ब्रह्मणि शब्दपरवृतत्तिरेवं वाच्यांशरहिते ममापीति चेन्नान्यत्रानभ्युपगमादित्याह-वाच्य इति। अन्यत्र लोक इत्यर्थः। नान्यत्रेति पाठे न वाच्यैकदेश इत्यर्थः । बुद्धेर्षकृज्ञातविवक्षितकार्या- न्वायबुद्धेः॥३॥ अ० टी०-तयोरपि शब्दार्थत्मङ्गीकुर्वाणं प्रत्याह-वेद इति। थस्मादिह वेदे वक्तुरभावतस्ततस्तदुभयं वक्तुर्ज्ञानविवक्षारूपं नास्त्यतस्तस्माद्वेदरूपः शब्दस्तन्र वेदे निर्जा वाचकशक्तिमुज्झति परित्यजति। कुतः स्त्रवाच्यं विना वक्तृज्ञानविवक्षारूपस्ववाच्याभावा- दित्यर्थः । ननु तयोर्वाच्यत्वाभावेऽपि शब्दगोचरता भविष्यति यथा तवावाध्येऽपि ब्रह्मणि लक्षणया शब्दगोचरतेति चेन्मैवं तव प्रतिज्ञाभङ्गप्रसङ्गादित्याह-वाच्ये वाचकशक्ति- मिच्छति मवान्नान्यत्रेति। कि ततोऽनिष्टमिति तदाह-तत्र ्रुतेरिति॥३५१॥ सु० टी०-किं च कार्यान्वितशक्तिवादिन: सोमेन पजेतेति विशिष्टविधिर्न स्यादित्याह- न च सोमयागपदयोरुअयोरपरस्परेण घटतेऽत्र युजा। पदजातभेतदखिलं हि निजं विषयं समर्पयति कार्ययुतम्॥३५२॥ न चेति। तवन्मते हि सोमयागपद्योलिर्ड्थेनैवान्वयः स्यात्तस्यैव कार्यत्वान्न तु परस्परं तयोरकार्यार्थत्वादित्यर्थः ॥ ३५२॥ अ० टी०-तदेवं कार्यस्यान्वयमात्रदर्शनं न शब्दशक्तिनिरूपणक्षममतिपसङ्गादित्युक्त- मिदानी कार्यत्वोपाधिकेऽन्यान्विते शब्दशक्तिरिति वदतः क्रियाकारकान्वयासिद्धिश्च स्यादि त्याह-न च सोमयागपदयोरिति। अत्र त्वत्पक्षे 'सोमेन यजेत' इत्यत्र सोमे- नेतिपदस्य यजेतेतिपदस्य च करणकार्यभावरूपा युजा योगोऽपरस्परेण मिथो न च घटते। हि यस्मादेतदखिलं पदजातं निजं विषयं कार्ययुतं समर्पयति। तथा च वाक्यनि- विष्टानां सर्वेषामेव पदानां प्रत्येकं कार्यान्तिितस्वार्थमात्रे पर्यवसितत्वात्कारकवाचिनां पदानां परस्परान्वयासिद्धावेकक्रियार्थतया तेषां संभूयकारित्वासंभव।देकवाक्यार्थतवासिद्धि स्तात्पर्यार्थः ॥ ३५२ ॥ पक्षान्तरेऽपीदं दूषण मतिदिशति- कार्यान्वयान्वयिनि शक्तिरिति स्थितौ च कार्यान्वयान्वितमतिर्न परस्परेण। संबन्धितामतिरतश्र न सिद्धिमेति सर्वो विशिष्टविधिरित्यपि दूषणं वः ॥ ३५३ ॥ कार्यान्चयेति। तत्रापि पक्षे कार्यान्वयान्वितमतिरेव स्पान्न परस्परान्वि:
Page 304
संक्षेपशारीरकम्।
तधीरित्वर्थः । ननु कार्यान्वयधीनिर्वाहाय परस्परसंबन्धिताSपि स्पादिति चेतत्राSऽह-अतश्वेति। अयं मावः-अत्र हि सोमशब्दो नो-
वोत्पत्तिवाक्यस्वात्। अतः सोमविशिष्ट एव यागोऽत्र विधीयत इति तरपैव कार्यान्वयो वाच्यः।न च त्वन्मते ततः प्राग्विशिष्टविषयससिद्धि:। न च समिव्याहारादेव तस्सिद्धिरिति वाच्यं प्रयुक्ताद्विप्रतिपत्तिर्न (*प्रयुक्तकदेशादिति वद्तस्तव वाक्यैकदेशक्रियाकारकार्म्या तदभि- घेयकार्यादन्यत्र) प्रतीत्ययोगाद्विधेयनिश्वयमन्तरेण वाक्यार्थानिश्र- यात्। न च लोकत एव क्रियाकारकविशिष्टधीरलीकिकाग्रेयादेस्तवृ- संमषादिति संक्षेपः ॥ ३५३॥ अ० टी०-कार्यान्वयान्वयिनीतिपक्षेऽ्ययं दोषः समान इत्याह-कार्यान्वयान्व- विनि शक्तिरितीति । कार्यान्वयान्व्रितमतिः केवलं पदेभ्यः स्यादिति शेषः । न परस्परेण संबन्धितामतिः स्यात्पदार्थविषयेति शेषः। तथा च कि स्यादिति यत्स्यात्तच्छ- व्वित्याह-अतश्चेति। 'सोमेन यजेत' 'पशुना यजेत' इत्यादिः सर्वो विशिष्ट- विधिः सिद्धिं नैतीत्यपि वो दूषणमिति योजना। यद्यपि कार्यान्वयपूर्वकोऽपि पदार्थानाम- रुणादिन्यायेन संबन्धः संभवेत्तथाऽपि विशिष्टविधिर्न तावता सिध्येत्। विशिष्टविधिर्हि सोमविशिष्टं यागं प्रतिपद्य तद्विषयो नियोग: प्रतिपत्तव्य इत्येवं प्रतीयमानाकारोडभिप्रेयते स कार्यान्वयात्प्राक्सोमयागयोरन्वयासिद्धौ कुतस्त्योऽन्यतस्तत्सिद्धौ कार्यान्वयपुरःसरत्वकल्प- नानर्थक्यमित एव तत्सिद्धौ वाक्यावृत्तिलक्षणवाक्यभेदप्रसङ्ग इति भावः ॥ ३५३ ॥ सु. टी०-ननु योग्यान्वितामिधानेऽपि कथं विशिष्टविधिवाक्यार्थ- सिद्धिर्विशेषान्वयस्य पश्राद्माक्यत एव सिद्धेरिति चेतसत्यं मम योग्यता- वशायुगपदेव सोमकरणको याग इष्टसाधनमित्यन्वयसंभवादित्याह- योग्येतरान्वितपदार्थगतैव शब्द- शक्तिः स्थिता यदि पुनर्घटते तदाऽयम्। सर्वो विशिष्टविधिरस्तु तथैव तस्मा- युक्तं तैथेतरदितीदमपीह भाष्यम् ॥ ३५४॥ योग्येति। न च ममापि परम्परया कार्यान्वयात्सोमकरणकयागे कार्य- * चिह्नितग्रन्थोऽयं, खपुस्तकस्थः । १ ख. तदेत°।
Page 305
२१८ टीकाट्वयसमेतं - मिति धी: स्यादिति वाच्यं यागकार्यसंबन्धात्पूर्व सोमस्य कर्थविदृवि यागसंबन्धानुपपत्तेः । योग्यताबलादकार्येणाव्यन्वय इत्युक्तावन्विता- मिधानमतप्रवेशापत्तेः । अत्र च.पक्षे कि विधिवाक्यस्थपदानामेकस्यै- वार्थ: फलमावनायां करणमुत सर्वेषामिति संशयेऽवैरुप्याय सर्वेषा
सतीतरत्पदजातं तदर्थ मवतीत्यपूर्वाक्षेपकयजिपदेनैव तदितरपदा- न्वयं दर्शयद्यदैकस्मादपूर्व तदेतरत्तदर्थमिति माष्यमपि संगच्छत इत्याह-युक्तमिति। त्वत्पक्षे त्वपूर्वेणान्वयस्वीकारात्तन्भ्ाव्यमसंगतं स्यादित्यर्थः ।। ३५४॥। अ० टी०-त्वत्पक्षेऽपि कथं विशिष्टविधिसिद्धिर्यतोऽन्यान्विते पदशक्तिरिति वादि- नोडपि तव प्रधानभूतार्थे न ह्यन्वयः प्रष्टव्यः प्रधानं च यागादिविधौ कार्यमेवेति त्वदु- कतरीत्याSत्रापीतरेषां मिथोऽन्वयाभावः समान इति चेत्तत्राऽऽह-योग्येतरान्वितेति। यदि शक्तिर्यथा वर्णिता स्थिता तदा पुनः सर्वोऽयं विशिष्टविधिर्घटते योग्येतरान्विते शब्द- शक्तिरिति पक्षे परस्परान्वयस्यापि शब्दसामर्थ्यसिद्धल्वात्कार्यान्वयव्यवधानाभावात्तस्मात्तथै- चास्तु योग्येतरान्विरितस्वार्थे शब्दशक्तिरित्येवमेवास्तु किं कार्यान्वयकल्पनेनेत्यर्थः। अत्र कार्यस्य न शब्दशक्तिनियामकत्वेन प्राधान्यमस्ति किंत्वन्यपदार्थापेक्षयेति प्रधानान्वयो न हीयत इति भावः । अस्मिन्पक्षेऽस्मदीये यदैकस्मादपूर्व तदेतरत्तदर्थमिति शबरभाष्यवचन- मप्यनुकूलमित्याह-युक्तं तथेतरदितीदमिति। इतरत्तदर्थमिति भाष्यखण्डस्यायमर्थ :- किं भावार्थादपुर्वनिष्पत्तिः कि वा नामार्थादिति संदेहावसर एकस्यापूर्वनिष्पादकत्वेऽन्यस्य तच्छेषत्ववद्यदैकस्मादपूर्व तदेतरत्तदर्थमिति भाष्यकार आह स्मेति। तथा च भावार्थानां नामार्थानां च कार्य विनाऽपि मिथः प्रथमं संबन्धोपपत्तेः पुनः शेषिभूतकार्य प्रति सर्वस्यार्थकदम्बस्य शेषत्वोपपत्तिरिति न कार्यप्राधान्यस्यानुपपत्तिरिति सर्वं समञ- सम् ॥ ३५४ ॥ सु० टी०-ननु प्रवर्तकत्वं शब्द्स्यानुभूयते तञ्ञ प्रवर्तनाकारकार्या: भिधायित्वे स्यान्नेष्टाभ्युपायबोधकत्व इति शङ्कते- शब्द: प्रवृत्तिजनको न तु बोधकश्रे- न्नैतत्परवर्तकधियो जनकत्वहेतोः ।
शब्द: प्रवर्तयति नैष पुनः पुमांसम्॥३५५॥ 'शब्द इति। परिहरति-नैतदिति। न हि कार्याभिधानेन बाद्यादिव:
Page 306
संक्षेपशारीरकम्। २९९ स्पवर्तकः शब्दोऽमानत्वप्रसङ्गादृव्युत्पन्नवीतरागयोरवि प्रवर्तनापत्तेश किं तृ. प्रवर्तकज्ञानजननेनेत्यवश्यं ब्ञाच्यमेवं चेदिध्हेतुत्वबोधनमात्रोपक्षीण: शब्दो न पुंस्पवृत्तेरपि हेतुस्तस्या रागादित एव संभवादित्यर्थ: ।३५५।। अ० टी०-योग्येतरान्वितस्वार्थ बोधयति शब्द इत्युपपादितं तत्रेदमाशड्क्यतें शब्दस्य हि प्रवर्तकत्वमेव प्रथममवसीयते शब्दश्रवणसमनन्तरं मध्यमवृद्दस्य प्रवृत्तेरुपल- म्भादतः प्रथमं शब्दः प्रवर्तक इति कल्पना भवति प्रवृत्तेश्च ज्ञानपूर्वकत्वात्तया तद्धेतुज्ञा- नमनुमीयते तच्च प्रवर्तकार्थविषयमिति शब्दानन्तर्याच्छब्दस्य प्रवर्तकार्थज्ञापकत्वं पश्चात्क- ल्प्यते प्रवर्तकं च कार्यज्ञानमिति स्वात्मदृष्टान्तेनाध्यवसितं तथा च यदि शब्दस्य प्रवर्तक- कार्यैकार्थनियमं परित्यज्य कार्याकार्यसाधारणत्वं कल्प्यते तदा शब्दस्य प्रथमावगतं प्रव- र्तकत्वं बाध्यं स्यात्तस्मात्प्रवृत्तिजनक एव शब्द इति प्रवर्तककार्यैंकगोचरो न सामान्ये- नार्थबोधक इतीमां शङ्कामनूद दूषयति-शब्द: प्रवृत्तिजनको न तु बोधक- श्रेदिति। एतावान्पूर्वपक्षानुवदो व्यक्तीकृतार्थकः। दूष्यति-नैतदिति। कुत इत्पत आह-प्रवर्तकधियो जनकत्वहेतोरिति। शब्दः साक्षान्न प्रवर्तकस्तथा सति तं शण्वतां सर्वेषामपि प्रवृत्तिमसङ्गात् कि तु प्रवर्तकज्ञानमात्रजनकः स्वसामर्थ्या- द्रवति प्रयत्नसाध्येऽर्थे तत्र यः स्वानुकूलतया प्रवर्तकज्ञानवान्भवति स प्रवर्तते न. सर्व इति युज्यत इत्यर्थ:। तर्हि कार्यज्ञानस्यैव प्रवर्तकत्वात्कार्यबोधकत्वमेव शब्दस्याभ्युपेयमिति चेनेत्याह-इष्टाभ्युपायेति। एष शब्द इष्टाभ्ुपायमतिजन्मनिमित्तभुतः कृतिसाध्ये- ष्टसाधनत्वज्ञानोत्पादकमात्रो न पुनः पुमांसं प्रवर्तयति तस्याकारकत्वादित्यक्षरार्थः । तथा च शब्देन पुंसामिष्टभ्युपाये बोधिते प्रवृत्तिसाध्यं चेत्तदिष्टमवगच्छति पुरुषस्तदेष्टरागाकृष्टः स्वयमेव प्रवर्तते न चेद्रागवांस्तदा फलसाधनत्वं शब्दादवगच्छन्नप्युदास्त इति युक्ततरोऽयं. पक्ष इति भावः ॥ ३५५॥ स० टी०-शब्दमान्नस्य कार्यार्थत्वं दूषितमुपसंहरति- तस्मादसंगतभिवं यदुशन्ति केचित् कार्यान्वितार्थविषयैव तु शब्दशक्ति:। तत्र प्रयोगमभिवीक्ष्य तथा प्रतीतिः कल्प्येति वर्णितनिजेष्टविघातहेतोः ॥ ३५६ ॥ तस्मादिति। तत्र कार्यान्विते वक्तुः प्रयोगं भरोतुश्च तथा प्रतीतिं वीक्ष्य तद्विपयैव शक्ति: कल्प्येति यत्केचिदिच्छन्ति तद्संगरतं वर्णित-
Page 307
टीकाद्वयसमेतं-
अ० टी०-कार्यान्वितेऽर्थे कार्यान्वयान्वयिनि वा शब्दशक्तिरितिपक्षनिराकरण- भुपसंहरति-तस्मादसंगतमिदमिति। तस्मादित्युक्तमेव स्पष्टयति-वणितेति। तस्माद्वर्णितनिजेष्टविघातहेतोरिदमसंगतमिति संबन्धः। किमसंगतमित्यपेक्षायामिदमा परां- मृष्ठमर्थमाह-यदुशन्तीति। शक्तिशब्दाग्र इतिशब्दोऽव्याहार्यः । तत्रेत्यादि कल्प्ये- त्यन्तं कार्यान्वितार्थे शक्तिरिति प्राप्त्युपायकथनपरम्। तत्रापि कल्प्येति यदुशन्ति तदि- • दमप्यसंगतमिति योज्यम् । यद्वा कार्यान्वितार्थविषयैव तु शब्दशक्ति[ रिति ]यत्केचिट्ठ- शञन्ति तस्मात्प्रमाणाभावात्पूर्वोक्तदूषणवशाच्चेदमसंगतमिति योजना । कुतः प्रमाणाभावः कार्ये प्रयोगदर्शनस्य प्रमाणत्वादित्याशड्क्याडह-तत्रेति। तत्र कार्ये शब्दप्रयोगमभि- वीक्ष्य शब्दविषये कार्यस्यान्वयमात्रमभिवीक्ष्येति यावत् । तथा प्रतीतिः कार्यान्विते शब्दशक्तिरैति प्रत्ययोऽनुभवो यदि कल्प्येति यदिपदं योज्यम् । तदप्यसंगतमि- सध्याहारानुषङ्गौ विज्ञेयौ। कुत इति तत्राऽडह-वणितेति। विशिष्टविध्यसि- द्विरिष्टविघातो वक्ष्यमाणप्रकारेण तत्पक्षे वैदिकनियोगासिद्धिश् तस्माद्वेतोरित्यर्थः॥३५६॥ सु० टी०-किंच कार्ये व्युत्पत्यसंभवाद्पि न तद्न्विते शक्ति- रित्याह- वेदैकगम्यमिति कार्यमभीष्टमस्मितू- छक्तिग्रहोऽपि न पदस्य समञ्जसोऽयम्। शक्तिग्रहं च परिहृत्य न बोधकत्वं शब्दस्य शक्यमिह वक्तमशङ्गितेन॥ ३५७। वेदेति। लिखविवाच्यं कार्यं वेवैकगम्यमित्यभ्युपगमादस्मिन्माना -. न्तरानुपस्थिते न शक्तिग्रहः शक्य इत्यर्थः । न च वेदादुपस्थिते शक्ति
धर्मिणि कार्यत्वेन शक्तिग्रहेऽन्विताभिधानकाले च स्वर्गकामान्वया- योग्यत्वाद्घटादिकं निरस्य यागविषयकं कार्यमित्यपूर्वे पर्यवंस्यतीति वाच्यम्। प्रकृत्यर्थयागान्वयस्य प्राथमिकत्वेन तदन्वयातुपपत्था, व्युत्प- त्तिकाल एव घटादिपचुरदव्यगुणादिनिरासे कार्ये धर्मिणि व्युत्पत्यनु- पपत्तेः । वेदैकवेद्यादन्यत्रैव शक्तिग्रहोऽङ्गमिति चेन्नेत्याह-रक्तिग्रहं
अ०टी०-कि च कार्यान्विते स्वार्थे पदशककिरिति कार्यत्वं शक्तिनियामकभिय-
Page 308
संक्षेपशारीरकम्। १२१ म्युपगच्छतो वैदिकनियोगासिद्धिरितीष्टविघातं स्पष्टयति-वेदैकगम्यमिति । अभीष्टं प्राभाकराणामिति शेषः । किं तत इत्यत आह-अस्मित्निति। अयं शक्तिग्रहोऽस्मिन्नपि नियोगे पदस्य न समञ्जस इत्यन्वयः । अयमपि लौकिको भावार्थकार्यविषय उक्तः । पदपदेन लिडादिरुच्यते। एतदुक्तं भवति-न तावद्वैदिको नियोगो वैदिकलिडादेः प्रत्येतुं शक्यते तस्य मानान्तरागोचरतया संगतिग्रहयोग्यत्वाभावात्तद्ोचरत्वे वाडपूर्वत्वहा- नाद्वैदिकादेव पदात्तत्संगतिग्रहेऽन्योन्याश्रयत्वप्रसङ्गात् । तस्मान्न नियोगसिद्धिरिति। माऽस्तु तत्र संगतिग्रहो विनाऽपि तेन शब्दस्य तत्र पर्यवसानादिति चेन्नेत्याह-शाक्ति ग्रहं चेति। अशद्कितेन प्रामाणिकेन पुंसेत्यर्थः ॥ ३५७॥ सु० टी०-तर्हिं नियोगवन्मानान्तरापूर्वे ब्रह्मण्यपि व्युत्पतत्यसंभव इति चेल्नेत्याह- शश्वत्स्वयं प्रभमलुप्तचिदात्मभूतं विष्णोः परं पदममुत्र तु शब्दशक्ति:। शक्या ग्रहीतुमतिबुंद्धिमनस्यपीति शास्त्रपमाणकमदः प्रवदन्ति सन्तः ॥ ३५८॥ शश्वदिति। यतः परं पदं नित्यस्वप्रकाशत्वादात्मत्वेनाव्यवहितत्वाच्च प्रसिद्धम तोऽमुष्मिन्बुद्धिमनोतिवर्तिन्यपि शबलार्थब्रह्मादिपदशक्तिरु- करीत्या सुग्रहा न तु कार्ये तस्य जडतवेनाप्रसिद्धत्वादित्यर्थः ।।३५८॥ अ० टी०-मानान्तरागोचरेऽपि नियोगे स्यान्युत्पत्तिर्यथा तथाविधे ब्रह्मणि तवेति चेन्न वैषम्यादित्याह-शश्वत्स्वयंप्रभमिति। शश्वत्सदा वेदान्तवेद्यस्य पदस्य करथं सदा स्वयंप्रभत्वमित्यत आह-अलुप्तचिदात्मभूतमिति। एवंविधं यद्विष्णोः परं पदं ब्रह्माख्यममुत्रामुष्मिन्पदे किलक्षणेऽतिबुद्धिमनससि। अतिक्रान्ते बुद्धिमनसी येन तत्तथा तस्मिन्संकल्पाध्यवसायागोचरेऽपि विष्णोः परमे पदे शब्दशक्तिर्ग्रहीतुं शक्येति योजना। इति हेतोरदःपदं शास्त्रप्रमाणकं घटत इति सन्तः प्रवदन्तीति नास्मत्पक्षे काऽप्यनुपपत्ति- रित्यर्थः। ब्रह्मण: सर्वव्यवहारातीतत्वेऽपि स्वयंप्रकाशमानप्रत्यक्चैतन्यात्मतया नित्यस्फुर- णात्तस्मिन्ब्रह्मात्मादिशब्दसंकेतः सुग्रहो नियोगस्य तु जडत्वात्सदैव मानाधीनप्रकाशत्वा- न्मानान्तरेण तदसिद्धौ तत्र शब्दशक्तिगहः स्वमेऽपि दुर्लभ इति भावः ॥३५८॥ सु० टी०-किं च सिद्धार्थवाक्यादृप्याद्यव्युत्पत्तिसिद्धेर्न कार्यान्विते शक्तिरित्याह जात इत्यादिश्लोकाभ्यां- जातः सुतः सकलवंशविवर्धनस्ते विभेतिवाक्यसमनन्तरमस्य बुद्धि: ।
Page 309
३O२ टीकाइूपसमेसं-
श्रोतुर्मुखाऊतिवशेन तु पुत्रजन्म- वस्तुन्यवश्यमनुमीयत एव बालैः ॥ ३५९ ॥ भूतार्थनिष्ठवचनांदपि शब्दशक्ति: शक्या ग्रहीतुमुदितेन पथानभिजैः। तन्र प्रवर्तकनिवर्तकवाक्यमूल- .शक्तिग्रहैकनियमस्य न हेतुरस्ति ॥ ३६०॥ जात: सुत इत्यादिदूतवाक्यभ्रवणानन्तरमस्य पितुर्हर्षप्रसन्नमुखाका-
वज्ञानं जात: सुत इत्यादिवाक्यजन्यं तदन्वयाद्यनुविधायित्वात्संप- तिपन्नवदिति। तस्य हर्षहेतुज्ञानस्य पुत्रपदाक्कितवस्त्रपदर्शनादिलिद्गैर-
शक्यमिति नाSSघ्यव्युत्पत्तिवशात्कार्यार्थत्वनियम इत्यर्थः॥३५९॥३६०॥ अ० टी०-एवं प्रवर्तकवाक्यमूलव्युत्पत्तिरित्यङ्गीकृत्यापि सा सिद्धसाध्यसाधारणी व्युत्पत्तिर्न कार्यैकनिष्ठेति साधितमिदानी सिद्धार्थमात्रनिष्ठवाक्येऽपि व्युत्पत्तिः संभवतीति सोदाहरणमाह-जातः सुत इति। अत्रेयमाख्यायिका-कश्चित्किल कचित्कुतश्चिद्देशा- न्तरादागतो देशभाषानभिज्ञस्तद्भाषाव्युत्पित्सुरवगतस्वभाषार्थश्च पुरुषः । स कदाचित्कस्य- चिद्धहवेदिकायामुषितस्तत्र पुत्रजन्मवृत्तमन्वभूत्। स पुनस्तत्पितरं प्रति गच्छता वार्ताहारेण सह पुत्रपितृसमीपे गतो वार्ताहारनिगदितवाक्यमुपाशृणोदिति तामत्र सूचयति स्म निबन्धकारः । अत्रैषाऽक्षरयोजना बालैर्यथोक्तव्युत्पित्सुमिर्हे विप्र ते सकलवंशविवर्धनः सुतो जात इतिवाक्यसमनन्तरं वार्ताहारवाक्यश्रवणसमनन्तरमस्मदुपलब्धपुत्रजन्मवस्तुनि बुद्धिरस्य श्रोतुः पितुर्मुखाकृतिवशेन स्मितविकसत्कपोलनयन चेष्टारोमोद्वेदादिलक्षणेन प्रहर्षचिडेनावश्यमनुमीयत एवेति। तुशब्दः शोकमोहलिङ्गाद्विशेषणार्थो वाक्यश्रवणस मनन्तरं हर्षमात्रिद्गदर्शनेऽपि न पुत्रजन्मैव तद्धेतुत्वेनानेनोक्त इति कल्पनायां न प्रमाणमस्तीति न शङ्गनीयं मानान्तरेण पुत्रजन्मनो हर्षहेतुत्वं निश्चितवतोऽत्र च तदृष्टवतो देशिकस्य स्वदृष्टहेतुपरित्यागेन हेत्वन्तरशङ्कानुत्थानात्तेन तदेव हर्षहेतुत्वेनानुमी-
प्रदर्शकेन वार्ताहारेण प्रियावृत्तान्तो निवेदयत इति कल्पना युक्तिमती। तस्माच्नयजन्मै- वानेन वाक्येन निवेदितभित्यवगच्छत्येवायं व्युप्तित्सुरित्ययमर्थोऽवश्यपदेन सूचितः॥३५९॥ १. ख. घ. र्थवस्तुव"।.
Page 310
संक्षेपंशारीरकम्।
अ० टी०-तथा च तत्र विनाऽपि कार्यानुसरणं शक्तिग्रहोऽपि सेत्स्यंतीत्याह- मृतार्थनिष्ठवचनाद्पीति। उदितेन पथेति। पुत्रस्ते जात इत्यादुक्तपकारेणे· त्मर्थः। एवं च सति कार्यवाक्यमूलैव व्युत्पत्तिरिति नियमस्ते भग्न इत्याह-तत्र प्रवर्तक इति २६० ॥ सु० टी०-तथाऽपि विशेषव्युत्पत्तिः प्रवर्तकादिवाक्यादेवाऽडवापो- द्वारापेक्षणादिति चेन्नेत्याह- सामान्यतः प्रथममेष पदार्थपिण्डो वाच्योऽस्य वाचकमिदं पदपिण्डरूपम्। इत्याकलथ्य पुनरेष विशेषतोऽपि शब्दार्थसंगतिमवैति जनस्तटस्थः ॥ ३६१॥ सामान्यत इति । पिण्डः समूहः। बालो हि प्रथममेष पदार्थगणो वाच्य इदमाकाङक्षादिमत्पद्कइम्बकमस्य वाचकमित्याकलय्य विशेषा- ज्ञानात्पुनरपि तटस्थ इत्यस्य कोर्ऽर्थो वक्तारमपृच्छन्नेव पुत्रो जात इति वाक्ये वाक्यान्तराद्वुत्सागतपदावापेन पुत्रजातपदोद्धारेण च वत्सा- गतादिपदानां वाच्यविशेषमवगच्छतीति न तदर्थमपि प्रवर्तकवाक्या- पेक्षेत्यर्थ: ॥ ३६१॥ अ० टी०-तदेवं सामान्यतः प्रवर्तकवाक्यानपेक्षमेत्र सिद्धयर्थनिष्ठव्राक्ये स्यादाद्या व्युत्पत्तिरित्युक्तं तस्या विशेषपर्यवसानार्थमपि न प्रवर्तकवाक्यापेक्षा सिद्धनिष्ठवाक्येष्वेवाSSवा- पोद्वापाभ्यां तदुत्पत्तेरितीदानीं व्युत्पत्तिप्रकारमाविष्करोति-सामान्यत इति। प्रथमं पूर्वशब्दश्रवणसमय एष स्वयमनुभूयमानः पदार्थपिण्डोऽर्थकदम्बो वाच्यः । अस्यार्थ- पिण्ड स्येदं पदपिण्डरूपं पदसमुदायो वाचकं बोधकमिति सामान्यतः संमुग्धाकारेणाSSक- लय्य पुनः प्रयोगभेदभ्रवणकाल एष तटस्थो जनो व्युत्पित्सुरावापोद्दापाभ्यां विशेषतोऽपि शब्दार्थसंगति पदविशेषस्य पदार्थविशेषसंबन्धमवैति जानातीति योजना। प्रियवाक्याख्या-
एव व्युत्पत्तिरिति मुधा कार्यस्य तद्धेतुत्वनियमकल्पनेत्येतदप्यत्रोक्तं वेदितव्यम्॥ ३६१॥ सु० टी०-किं च कार्यान्वयमतिं विनाऽपि प्रसिद्दपद्समभिष्याहा रादृपि शक्तिग्रहो हटट इत्याह- काठ्ैः स्थाल्यां पचति विविधैरोदनं पूर्णिकेति श्रुत्वा बाल: सपदि मनुते काष्वशब्दस्य शंक्तिमू।,
Page 311
३०४ टीकाटट्यसमेतं-
दट्टा तस्मिम्पचनकरणं प्रज्वलत्काष्ठजातं न्यायोपायादितरवचसाँ शक्तिषु प्राक्मवीणः ॥। ३६२॥। काठ्ठैरिति। पूर्णिका दासी। तथा च काठ्ठपातिपदिकमात्रार्थानमिज्ञ: शिशुरेतटाक्यं श्रुत्वा पदान्तराणां प्रागेव गृहीतशक्तित्वावृत्र वाक्ये पत्पाककरणं तदेव काठ्ठपद्शक्यमिति जानातीत्पर्थः ।। ३६२॥ अ० टी०-इदानीं विनाऽपि कार्यानुप्रवेशं प्रसिद्धपदसमभिव्यहारादपि पदव्युत्प- त्तिरादया भवतीति प्रतिपादयति-काठ्ठैः स्थाल्यामिति । पूर्णिका नाम काचि त्पक्त्री काठ्ठैः पचतीति वाक्यं श्रुत्वा बाल: पचनकारणप्रज्वलत्काष्ठजातं च दृष्ट्रा तस्मि· न्वाक्ये काष्ठप्रातिपदिकस्य शाक्तिं सपदि मनुते जानातीति योजना। कथं पाकसाधने- ष्वनेकेषु तत्र दृश्यमानेषु सत्सु दारुषु काष्ठपदशक्ति गृद्णातीत्यत आह-न्यायो- पायादिति। पारिशेष्यन्यायरूपादुपायादित्यर्थः । एतदपि कुत इत्यत आह-इतरेति । काठ्ठैरित्यत्र वचनविभक्त्योः स्थाल्यादिपदानां च शक्तिषु प्रागेव प्रवीणो व्युत्पन्न इत्यर्थः । एवं प्रभिन्नकमलोदरे मधुनि मधुकरः पिबतीत्याद्यप्यत्रोदाहरणं द्रष्टव्यम्॥ ३६२॥ सु० टी०-किं च कार्य एव नियोगाखये न प्रमाणमस्ति दूरे तस्य
न च किमपि नः कार्य नाम प्रमाणपथानुगं यदिह तु पुनर्लिङ्लोडादेरुपैष्यति वाच्यताम्। न खलु तदितो धात्वर्थादेः पृथग्व्यवसीयते ब्रजतु तदिह श्रेयोहेतुर्लिडनदिपदार्थताम्॥ ३६३ ॥ न चेति। ननु यजेतेत्युक्ते किंचित्कुर्यादिति कर्तव्यांशः प्रतीयते तदेव कार्यमिति चेन्नेत्याह-न खल्विति। द्धिगोदोहनाद्यादिशब्दार्थो धात्वर्थादिरेव तत्र साध्यतया कर्तव्याकारेण प्रतीयते न तु तद्तिरिक्ं किंचिदित्यर्थः । ननु पचतीत्यादी-धात्वर्थे सत्यपि न कर्तव्यता भती- यत इति तदतिरिक्तं कार्यमिति चेन्न श्रेयोहेतुत्वावच्छिन्न एव धा्वर्थ: कर्तव्याकारेण लिङ्ादिवाच्य: स्यादित्याह-प्रजतविति ।। २६३ ॥।. अ० टी०-इयता संदर्भेण कार्यपदार्थमङ्गीकृत्य तस्य न व्युत्पत्तिप्रयोजकतेत्युपपा दितमिदानीं कार्यमेव त्वदभिमतं न प्रामाणिकं कुतस्तस्य शक्तिग्रहपयोजकतेत्याह- न च किमपीति। इह लोके वेदे वा। चशब्दः किचेत्यर्ये। तुशब्दः कार्याम्यु-
१ क. हनत्वादि"।
Page 312
संक्षेपशारीरकम्। ३०५
पगमव्यावृत्त्यर्थः । पुनःशब्दः पादपूरणार्थः । नन्वानययुत्त सत्यामयमं कर्तव्यमिति कर्तव्याकारकार्यस्यावगमात्कथमस्य प्रमाणपथाननुगम इति चेन्नेत्याह-न खलु ताित इति। धात्वर्थः क्रिया। आदयदात्कारकादिम्रहर। कठः कर्तव्यस्तृप्तिः कार्येति कारकफल- योरपि कर्तव्यश्वप्रतीतेः । इतः प्रसिद्धाद्धात्वर्थादेः सकाशारंपृथक्न खलु तत्कार्य व्यवसीयत इत्यन्वयः । ननु न साध्यस्वभावमात्रत्वं कर्तव्यत्वं येन लिडादेः क्रियाद्यतिरिक्तार्थता न स्यात्किं तु मयेदानीमिदं कार्यमिष्येवमाकारं न तथा क्रियादिर्वर्तमानादिप्रयोगेऽपि। यतः क्रियादि साध्यस्वभावं प्रतीयमानमपि न यथोक्तकर्तव्याकारं प्रतीयतेऽतः कर्तव्याकारं कार्यमन्यत्तदेव लिडादिपदवाच्यमिति चेनेत्याह-व्रजतु तदिहेति। इह विधिवाक्येषु तत्किया दिवस्तु श्रेयोहेतुरिष्टसाधनं भूत्वा लिडादिपदवान्यार्थतां व्रजत्वित्यक्षरार्थः । श्रेय :- साधनत्वाव्छिन्नः क्रियादिरेव कर्तव्याकारेण प्रतीयमानो लिडादिपदवाच्यो वर्तमानत्वाद्या- करेण प्रतीयमानस्तु लकारान्तरवाच्य इति नानुपपन्नं किंचिदिति न क्रियादिभिन्नकार्यसि- द्विरिति भाव: ॥ ३६३॥ सु० टी०-ननु लिङादिवा्या कर्तव्यता शेयोहेतुत्वमेव्रेति कुप्ो निर्णीतमिति चेत्तदन्यस्य लोके प्रवृत्तिहेतुत्वाप्रसिद्ध्ेरित्याह- न खलु जगति श्रेयोहेतुप्रतीत्युदयाद्टते पुरुषव चनात्क्वापि प्राज्ञ: प्रवर्तितुमर्हति। पुरुषवचनाच्छेयोहेतुप्रती त्युदये पुन- स्तदनुवशगो रागोत्पत्तौ ततः स हि चेष्टते॥३६४॥ न खल्विति। अन्यत्र तथात्वेऽपि प्रैषादिजन्यायां शाक्दपवृती कार्यता ज्ञानहेतु: स्यादितिचेन्न विषं सुदक्ष्ेत्यादावप्रवृत्तेः । तत्रापि श्रेयोहे- सुत्वज्ञानस्पैव प्रवर्तकत्वादित्याह-पुरुषेति 1 व्यतिरेकमुकत्वाऽन्वयं दर्श- यति-पुरुषेति। ओदनं भुङ्क्ष्वेत्यादौ तेन रागमूलत्वात्मवृत्तेरप्योजक: पैषादिरित्यर्थ: । ३६४।। अ० टी०-ननु लिडादिपदवाच्यः कर्तव्याकारः श्रेयोहेतुत्वमेत्रेति कुतोऽवसीयत इति चेंल्ोके श्रेयोहेतुत्वप्रतीतेः प्रवर्तकत्वेन प्रसिद्धत्वात्तदन्यस्याप्रसिद्धत्वाच्चेय्याह- न खलु जगतीति। पूर्वधयोजना स्पटा। व्यतिरेकमुक्त्वाऽन्वयं वदञ्छाब्देडपि व्यवहारे न क्लपादन्यत्प्रवर्तकमाशङ्कनीयमित्याह-पुरुषवचनाच्छ्रेय इति। प्रती-
१ क. द्यात्पु°।
Page 313
३०६ टीकाद्टयसमेतं-
त्युदये पुना रागोत्पत्तौ सत्यां तदनुवशमो रागानुवर्ती सम्स हि यस्माच्चेष्टते ततस्तस्मात्सर्वेत्र कृतिसाध्यश्रेयोहेतुत्वज्ञानोद्बुद्धराग एव प्रवर्तको नार्थान्तरमित्यर्थः ॥३६४॥ सु० टी० -- अस्तु तार्हे राग एव लिखर्थः साक्षात्प्रवर्तकरमादिति चेन्न तस्य साक्षाच्छव्दाजन्यत्वेन तद्ध्ेतावेव श्रेयोहेतुत्वज्ञाने शक्तिक- ल्पनादित्याह नयनिपुणेत्यादिश्लोक्काम्यां- नयनिपुणधीर्चालश्रेष्टां समीक्ष्य समीहितुः कततदुचितव्याप्िज्ञानः पुरा निज आत्मनि। परतनुगतं श्रेयोहेतुभतीत्युद्योत्थितं चरितविषये रागं तस्य प्रर्वतकमिङ्गति ॥३६५॥ प्रवर्तकोत्थाननिबन्धने ततः समीहितोपायविशेषवस्तुनि। गिरोडनुमाय प्रतिपत्तिहेतुतां विशेषसिद्धौ तु समीहते पुनः ॥३६६॥ बालो हि प्रयोज्यवृद्धस्य चेष्टां समीक्ष्य स्वात्मन्येव प्रवृत्ते: श्रेयोहेतुताधी जन्यरागपूर्वकत्वेन गृहीतव्याप्तित्वात्तस्य वृद्धस्य प्रवृत्ति- विषये गवानयनादी रागं परात्मगतमपि प्रवृत्तिहेतुलेनानुमिनोति। ततश्र प्रवर्तकस्य रागस्योत्थाननिबन्धन उत्पत्तिहेती समीहितोपाय वस्तुनि लिङादियुक्तवाक्यस्य सामान्यतो बोधकत्वशकत्तिमनुमापकस्य पदाशस्य कोऽर्थाँशो वाच्य इति पुनः शक्तिविशेषसिद्धी यतत इत्यर्थ: ॥ ३६५॥ ३६६ ।। अ० टी०-तथाऽपि व्युत्पित्सोर्बालस्य कथमित्थं व्युत्पत्तिस्तस्य बालतादिति चेन्न तस्य स्वव्यवहारे व्युत्पन्नतया परत्रापि न्यायसंचारसमर्थत्वादित्याह-नयनिपुणधी- रिति। नयनिपुणधीत्वे हेत्वर्थ विशेषणं कृततदुचितेत्यादि। स्वात्मनि पूर्वमेव कृतं प्रवृत्तेरिष्टसाधनत्वज्ञानपूर्वकत्वसाधनोचितव्याप्तिज्ञानं देन स बाल: समीहितु: प्रवर्तेमानस्य वृद्धस्य चेष्टां समीक्ष्य परतनुगतं रागं तस्य प्रवर्तकमितीङ्गति कल्पयतीति योजना। प्रव- र्तकरागोत्पत्तौ निमित्तमाह-शरेयोहेतुप्रतीत्युदयोस्थितमिति। इष्टसाधनत्वज्ञाना- दुत्पन्नमित्यर्थः '1 चरितविषय इति। अनुभूते प्राग्व्युत्पन्ने विषय इत्यर्थः । एतदुक्तं. भवति-बांल: स्वयं प्रवर्तमानो निवर्तमानो वा बुद्धिपूर्वकारित्वादिष्टं म इदमिति बुद्धा
Page 314
संक्षेपशारीरकम्। ३०७
प्रवर्ततेऽनिष्ट म इदमिति बुद्धा च निवर्तते तत्रापि न बोधमात्रात्तदुभयं तस्य भवति कि तु. प्रवृत्तिनिवृत्तिविषयरागद्वेषाम्यां कदाचिद् बुद्दाऽप्यौदासीन्यदर्शनात्। अत एवं स्वव्यव- हारे प्रवृत्तिनिवृत्ति कारणमन्चयव्यतिरेकाभ्यां निश्चित्य तदृष्टान्तावष्टम्भेन परस्मिन्नपि व्यवह- तरीष्ानिधज्ञानजनितरागद्वेषौ प्रवृत्तिनिवृ्त्त्योः कारणे इति कल्पयति। तथा च शाब्देऽपि व्यवहारे शब्दतः प्रवृत्तिहेतुरागोत्पादकश्रेयःसाधनतावबोधमुत्पन्नमनुमाय बद्दषु तथाविध प्रयोगेष्वावापोद्दापाभ्यां लिड्वादिपदवाच्यतां श्रेयःसाधनतायाः कल्पयतीति ॥ ३६५.।। एतमेव संगृहीतमर्थं क्रमेण त्रिमि: पद्यैर्व्युत्पादयति-प्रवर्तकोत्थाने- त्यांदिना। ततः परतनुगतरागानुमानानन्तर प्रवर्तकस्य. रागस्योत्थाने समुदये यन्नि- बन्धनं कारणं तस्मिन्समीहितोपायविशेषवस्तुनि गिरो वाक्यस्य प्रतिपत्तिहेतुतां प्रथमं सामान्यतोऽनुमाय पुनर्विशेषसिद्धौ समीहते यतत इत्यर्थ: ॥ ३६६॥ सु० टी०-कथं यतत इत्यावापोद्धाराम्यामित्याह-पदान्तरस्येति द्वाभ्यां-
स्तथा परस्योद्धरणादितो गिरः । विशेषसिद्धिं लभ्षते प्रपत्नवा- न्पदार्थसंबन्धगतां विचक्षणः ॥३६७॥। लडादिशब्देऽपगते लिडगदौ प्रत्यागतेऽभीप्सितसाधनत्वम्। पतीयते तेन लिंङादिशब्द- स्तदर्थवाचीति स वेच्ति बालः ॥ ३६८ ॥ वथा हि गामानपेतिवाक्याद्रामितिपदमुद्धृत्याश्वं बधानेत्यतोड (*श्व मितिपदस्याSडवापादृस्य मागस्यायं मागो वाचक इति विशेष- सिद्धिं लभते तथा पचनीत्यतो) लडुद्धारेण तस्य स्थाने लिङादी प्रक्षिमेपचेतेत्पेव मिष्टसाधनत्वं ज्ञायत इत्यन्वयव्पतिरेकाभ्यामिट्टसाध- नत्वशक्तो लिड़िति व्युत्पद्यत इत्यर्थः ॥३६७ ॥ ३६८॥
- धनुश्िद्वान्तर्मतग्रन्थः क. पुस्तके नास्ति।
१ क. लिड गदि ।
Page 315
३०८ टीकाट्टयसमेनं-
अ० टी०-अस्य वाक्यांशस्य पदस्यास्मिन्वाक्यार्थाशे पदार्थे वृत्तिरिति विशेषनि र्णयार्थ कथमयं प्रवर्तत इत्यपेक्षायामावापोद्वापाभ्यामित्याह-पदान्तरस्थेति। इहाश्वमा- नयेतिवाक्ये पूर्वश्रुतगामानयवाक्यगतगोषदात्पदान्तरस्याश्वपदस्यान्यतः प्रयोगान्तरादानय- नात्तथेतो गिरो गामानयेति वाक्याद्वोपदस्योद्धरणात्पदार्थसंबन्धगतां विशेषसिद्धि प्रयत्नवा- न्विचक्षणो व्युत्पित्सुर्लभत इति योजना। विचक्षणो मेधावी प्रयत्नवानावापोद्धारविचार- निरतः । विशेषसिद्धिरुद्धियमाणं पदं यदर्थसंबद्धं प्रतीयते तस्य पदस्प स एवार्थः । तथो- दुप्यमानं च पदं यदर्थसंबद्धं स एव तस्यार्थ इति निश्चयः ॥ ३६७॥ तत्रापि विशेषतो लिडादेरिष्टसाधनत्वांशवाचकत्वसिद्धयनुगुणावापोद्धारौ दर्शयति- लिङादिशब्देऽपगत इति। लिड्लोट्तव्यादिशब्दे पूर्ववद्धाक्यप्रयोगभे- देष्वपगते प्रत्यागते च सर्वत्राभीप्सितसाधनत्वं प्रतीयते न गवादिपदवत्प्रतिप्रयोगमर्थान्त- रनिष्ठत्वमित्यर्थः । तेन सर्वत्रैक्यार्थप्रत्यायकत्वेन तदर्थवाची लिङ्लोट्तव्यपञ्चमलकाररूप: शब्द इष्टसाधनत्ववाचीति स बालो वेचीति योजना ॥ ३६८ ॥। सु० टी० विशेषसिद्धिरपि न कार्यान्वितत्वादिरुपेणत्याह- योग्येतरान्विततया न च वाच्यताऽस्य कार्यान्वितत्ववपुषा सुतरां न चेष्टा। किं त्वन्वितत्ववपुषा न विशेषणस्य किंचित्प्रयोजकमिहास्ति निरुपणायाम्॥ ३६९॥ योग्येति। अयोग्येनानितरेणानन्वयात्कार्यान्वयस्य च दूषितत्वा-
विशेषणीयमित्वाह-कि तिति। साकाङ्क्षयोग्यासन्नतत्तत्पदोद्वोधि-
न वाक्यार्थसिद्धिरिति माव: ॥ ३६९॥ अ० टी० -- तर्हि तत्तत्पदार्थस्य केन रूपेण वाच्यत्वं कि योग्येतरान्बितत्वेन कि वाऽनन्वितत्वेनाथ वा साधारणत्वेन नाऽडघः कल्पनागैरवान्न द्वितीयोऽन्वयस्याशान्दत्वाप- त्तेर्न तृतीय: साधारणस्यान्यस्य प्रकारस्यासंभवात्कार्यान्वितत्वस्यैव परिशेषादिव्याशड्क्य मैवमवधीरितविशेषणेनान्वितल्वेन वाच्यतेत्यङ्गीकारे सर्वदोषपरिहारादित्याह-योग्येत. रेति। अस्य पदार्थस्य न चेष्टा वाच्यतेत्यनुषङ्गः। विशेषणस्य कार्यत्वयोग्यत्वादिरूपस्ये- त्र्थ: । ३६९ ।
Page 316
संक्षेपश्ञारीरकम्। ३०९
सु० टी०-ननु किमन्विताभिधानेन पदोपस्थितैः पदायैरेवान्वयबो- धोपपत्तेरिति केचित्तान्निरस्पति- यत्केचिदाहुरभिधाय निजान्पदार्था- नेतावतोपरतवन्ति पदानि तेभ्यः। पश्च्ाद्विशेषणविशेष्यतया तु तेषां संसर्गबुद्धिरपराऽवतरिष्यतीति ॥ ३७० ॥ यत्केचिदिति। यत्तावद्भाट्टा आहुर्न पदैर्वाक्यार्थो बोध्यते तेषां पदार्थ- बोधोपक्षीणत्वात्। अन्यथा हि विस्मृतपूर्ववर्णानां पदानामन्त्यवर्णमा- त्राद्यथा न पदार्थावगतिस्तथा विस्मृतपूर्वपदानामपि वाक्यार्थधीर्न स्यात्। दृश्यते तु सा दीर्घतरेषु वाक्येषु। तस्मात्पदार्थेभ्य एवोषस्थि- तेभ्यो विशेषणविशेष्यमावेन संसर्गबोध इत्यभिहितान्वय इति ॥३७०। अ० टी०-अन्वितत्वरूपेण वाच्यत्वमित्ययुक्तं स्वेन रूपेणार्थानामेव वाच्यत्वादन्व- यप्रतिपत्तेरभिहितार्थनिबन्धनतवेन साक्षाच्छाव्दत्वानङ्गीकारादिति तार्किकमतमुत्थापयति- यत्केचिदिति। इति यत्केचिदाहुस्तददुर्घटमिति परेणान्वयः । किमाहुस्ते तदाह- अभिधायेति। पदानि वाक्यगतानि निजानसाधारणान्पदार्थानभिधायैतावताsभिधान- मात्रेणोपरतवन्त्युपरतानि भवन्तीत्यर्थः । अयं भावः-यद्यपि संगतिग्रहणसमये प्रथमं पदार्थानां मिथोऽन्वितताऽप्यनुभूता तथाऽप्यावापोद्भाराभ्यां विभज्यमानदशायां केवल एव पदार्थे पदपर्यवसानमवधारितम्। अन्यथा योऽर्थो येनार्थेनान्वितस्तदा प्रतीतः सोऽप्यर्थ- स्तदेकपदवाच्यः स्यादिति क्रियामात्रोच्चारणेऽपि सकलपदार्थप्रतीतिः स्यादिति पदान्तरो- च्ारणवैयर्थ्यापातः । तस्मात्केवलानेवार्थानभिदधति पदानीति। तर्हिं कथं वाक्यार्थप्रत्यय इत्यपेक्षायामाह-तेभ्यः पश्चादिति । पश्चात्सर्वपदार्थबोधानन्तरं तेभ्योऽभिहितेभ्यः पदार्थेभ्यस्तेषां विशेषणविशेष्यतया संसर्गबुद्धित्वपरा पदार्थबुद्धिभ्योऽवतरिष्यति जनिष्यत इत्यर्थः । एवंसति वाक्यार्थस्य संसर्गस्य साक्षादशाब्दत्वेऽपि नाशाब्दत्वप्रसङ्ग: पदानां पदार्थेषु स्वसामर्थ्यपर्यवसानेऽपि स्वोच्चारणप्रयोजनस्यापर्यवसानाद्वाक्यार्थप्रतीतेरेवेह प्रयो. जनत्वात्। तदुक्तं भट्टपादैः- साक्षादद्यपि कुर्वन्ति पदार्थप्रतिपादनम्। वर्णास्तथाऽपि नैकस्मिन्पर्यवस्यन्ति निष्कले॥ वाक्यार्थमिति ये तेषां प्रवृत्तौ नान्तरीयकम् ॥ पाके ज्वालेव काष्टानां पदार्थप्रतिपादनम् ॥ इति। तस्मासंसर्गप्रत्ययस्य न मानान्तराधीनत्वशङ्केति भावः॥३७० ॥
Page 317
सु० टी०-तद्दूषयति- तदुर्घटं न खलुं किंचिदपि प्रमाण- मस्या: प्रसाधकमुदीरितकल्पनायाः । येनोपलब्धिविषयत्वमुपागतानि संसृष्टमेव तु पदानि पदार्थमाहुः ॥ ३७१ ॥ तदुर्घटमिति। न खल्वस्यामक्लप्तकल्पनायां किंचिन्मानमस्ति गौरवा- स्पसिद्धि विरोधादुपायान्तरोपस्थितपदार्थेम्यो वाक्यार्थबुद्धचदर्शनाद्दीर्घ- वाक्येऽवि स्मर्थमाणपदार्थबोधिपद्वत्तां वाक्यस्थानुमाय वाक्यार्थबो- धाञ्जेत्यर्थः । कुत इत्याह-येनेति। वृद्धव्यवहाराद्द्वि पदान्येव प्रथमोप- स्थितत्वात्संसृष्टपदार्थधीहेतुतया बालेन कल्प्यन्ते न पदार्थास्तेषां केवलानामनुपस्थितेरनागता दिरूपत्वेनाहेतुत्व।ज्चेत्यर्थः ।। ३७१ ।। अ० टी०-उत्थापितं दूषयति-तद्दुर्घटमिति। कुत इत्यपेक्षायामत्र प्रम्मणासं- भवादित्याह-न खल्विति। पदार्थबोधव्यवधानेन पश्चात्संसर्गबुद्धिर्भवतीत्यस्या उदी- रितकल्पनायां: प्रसाधकं प्रमाणं न खल्वस्तीति योजना। कुतो नास्तीत्यत आह- येनेति। येन हेतुना श्रोत्रेन्द्रियेणोपलब्धिविषयत्वमुपागतानि पदानि श्रूयमाणानि पदा नीति यावत् । संसष्टमेव पदार्थमाहुरन्यथा तत्राSSकाड्क्षानुदयप्रसङ्ग इत्यर्थः । प्रवृच्या हिं विशिष्टार्थज्ञानमनुमीयते तस्य च शब्द: कारणतवेन कल्प्यतेऽतः संसूष्टबोधकत्वमेव पदाना- मिति व्यवधानकल्पनं प्रामाणिकमिति भावः ॥३७१॥ सु० टी०-अत एव न शुद्धपदार्थमात्रे शक्तिस्तस्य व्युत्पत्तिदशाया- मनुपस्थितेरित्याह- नासंसृष्टपदार्थबुद्धिपदयोः पूर्वापरत्वप्रमां मुक्त्वा कारणकार्थतावगतये कश्ित्समर्थस्तयोः । पौर्वापर्यमुदीक्ष्य हेतुफलतां सर्वत्र संगुह्हते नो चेत्सर्वमसंगतं भवति वः सर्वव्यवस्थाहतेः ॥ ३७२॥
त्वाग्रहान्न तत्र पदस्य शक्ति गृह्लाति पौर्धापर्य विना हेतुफलत्वग्रहेऽति- प्रसङ्गादित्यर्थ: । तथाऽपि लाथवादावश्यकपदार्थमात्र एव शक्तर्गुद्य- तामिति चेन्नान्वयाशक्यत्वे गौरित्युक्ते किं चरति तिष्ठति वेत्यन्वपविशे-
Page 318
संक्षेपशारीरकमू। १११
षजिज्ञासानुत त्यापत्तेः। न च कारकेण क्रियया च क्रियाकारकसामान्या- क्षेपात्तदुपपत्तिरिति वाच्यमकारकक्रिययोरवि तद्दर्शनाद्यात्तिस्मृत्यादि-
देव शाब्दत्वे धूमोऽस्तीत्यतो वहियोधस्याषि शाष्ट्रत्वापत्तेरपदार्थ -. स्थापि वाक्यार्थत्वेऽतिप्रसङ्गाज्च। न चान्वयस्य शक्यत्वे तस्य पदार्थव- द्विशेषणत्वात्संसर्गमानापत्तिः। यतोऽस्मन्मते शक्तिग्रहविषयीभूतसंस- र्गसामान्यमेव पदें: स्वज्ञानोद्वोधितसंस्काराकाङक्षादिसहकारेण घटी- यत्वादिविशेषार्मना बोध्यमानं वाक्यार्थोऽभ्युपेयते। न त्वेवमपि संमष्टः पदार्थः स च संमष्टेनान्वेति न शुद्धेनेत्यवर्जनीयं संसगा्तिर- ज्ञानमिति चेत्कथमवर्जनीयम्। यदा यत्संसर्गघटितः पदार्थः स एव रूपान्तरेण वाक्यार्थ इष्यते। थथा समवायिना समवे(*तस्य संबन्धः संयो) गिना संयुक्तस्पेत्यादी। न (+चैवमन्वितमन्वितेनान्वेतीत्यन्वयस्वीकारे तु नव विरो)धस्त्वयाऽपि विशेषजिज्ञासानुरोधेनान्वयसामान्योपस्थिति- स्वीकारास्सा चाSडक्षेपिकी शाब्दी वेत्येतावान्मेद: समवायवानित्यादौ च पदार्थस्थापि संसर्गत्वदर्शनाच्च तद्विरोध इति दिक्॥ ३७२॥ अ० टी० -- नन्वावापोद्वापाभ्यां स्वयं प्रतिपत्तिसमये पदार्थमात्रबोधस्य दर्शनात्तत्रैव शक्तिरिति मम्यत इति चेन्मैवमित्याह-नासंसृष्टेति। असंसृष्ठपदार्थबुद्धेः पदस्य च पूर्वापरस्वप्रमां मुक्त्वा पौर्वापर्यप्रतीति बिना तयो: कारणकार्यतावगतये न कश्चित्समर्थोडस्ति। यतो व्यवहर्तारो विपश्चितः पदार्थयोः पौर्वापर्यमुदीक्ष्य सर्वत्र प्रत्यक्षादिस्थलेऽपि हेतुफ- लयो: कार्यकारणत्वं संगृह्ते नो चेत्पूर्बापरत्वज्ञानं विना चेत्कार्यकारणभावग्रहस्तदा सर्वम- संगतं भवति युष्माकं सर्वत्र कार्यकारणव्यवस्थाभङ्गादिति योजना । एतदुक्तं भवति- पौर्वापर्यप्रत्ययो हि सर्वत्र कार्यकारणभावे प्रमाणमित्यविवादम्। न च केवलपदार्थप्रत्यय- पदयोः पौर्वापर्ये मानमस्ति व्युत्पत्तिसमये तयोः पौर्वापर्याग्रहात्परप्रवृत्तिहतुविशिष्टप्रत्ययाधी- नत्वाद्व्युत्पत्तेः स्वयं पदार्थविवेकसमयेऽप्यवगतपदार्थगोचरत्वाद्विवेकस्य न तत्र तयोः पौर्वापर्यग्रहः । यः पुनर्व्युत्पन्नस्य वाक्यार्थप्रतिपत्तिसमये शब्दश्रवणानन्तरं पदार्थबोधः स व्युत्पत्तिवैपरीत्यान्न शाब्द: किं तु संबन्धिदर्शननिमित्ता स्मृतिरेवेति नानयोः पौर्वापर्य प्रमाणतोऽवधृतं तदभावेऽपि कार्यक.रणत्वकल्पनायां सर्वव्यवस्थाबाध इति ॥ ३७२ ॥
*क. अय ग्रन्थः कपुस्तके नास्ति। +क. अयं ग्रन्थः कपुस्तके नास्ति।
१ क. ग.र ्रथः सं०। २ कं. ग. न्तरमि°।
Page 319
२१२ टीकाट्टयसमेतं-
सु० टी०-कथ तहि पोवापि्याग्रहे यागस्वर्गयोरहैतुफलत्वग्रह इति पेत्तन्ाSSह- पूर्वापरान्वयबलेन हि कारणत्व- कार्यत्वसंगतिमिह प्रतियन्ति लोके। नो चेद्भवेदनियमो न च तत्र कर्तुं कार्याणि कारणविशेषमुपाददीरन्॥ ३७३॥ पूर्वापरेति। प्रत्यक्षादिना यत्कारणकार्यत्वं प्रतियन्ति तत्रैव तन्नियमो न तु वेदेऽपीत्यर्थः । अन्यथा कार्यविशेषार्थिनां नियमतः कारणविशे- षोपादानं न स्यादित्याह-नो चेदिति॥३७३ ।। अ० टी०-ननु यागादेः स्वर्गादश्च पौर्वापर्यप्रत्ययाभावेपि कार्यकारणभाव इष्टस्त- स्कथमयं नियम इति चेदागमैकगम्यव्यतिरिक्तविषयेऽस्य नियमस्याबाधान्मैवमित्याह- पूर्वापरेति। इह लोके। न वेदेडयं नियम इत्यर्थः । विपक्षे दोषमाह-नो चेदिति। इदमस्य कार्यमस्येदं कारणमिति नियमो न स्यादित्यर्थः । अनियमाम्युपगमे दण्डं पात- यति-न च तत्रेति। नियमाभावे कार्यविशेषार्थी कारणविशेषं नाऽऽददीत। आदत्ते तु तं लोक इत्यतो नियमोऽभ्युपेयः । स च पूर्वापरत्वग्रहाधीन इति यत्र पूर्वापरत्वा. निश्चयस्तत्र कार्यकारणाभावाग्रह इति लोके सोऽड्रीकृतः सर्वत्रेत्यर्थः ॥३७३॥ सु० टी०-पदान्येव शुद्धपदार्थस्मृतिद्वाराऽन्ववं बोधयन्तीति मतं निरस्यति- पदजातबुद्धिजनिता भवति व्य्तिषक्तबुद्धिरिति तावदिह। न विगानमस्ति भवतामपि चेद्यवधानकल्पनमकारणकम् ॥३७४॥ पदजातेति। पद्जातबोधेनैव परस्परान्वितस्वार्थबुद्धिर्जन्यत इत्यम्युप- गतं चेच्छ तया साक्षादेव सा जन्यता कि शुद्धपदार्थस्मृतिव्यवधिकल्प-
हाञ्च। न चाशक्यमपि शक्यान्वयमेव बोधयतीति नातिप्रसङ्क इति वाच्यम्। गङ्गायां घोष इत्यादो घोषादिपदैरशक्यतीरान्वयानुमवस्वी- कारात्स स्वशक्यान्वयोऽपीति चेत्तहि घोषान्वितकाकान्वयस्यापि ततोऽनुमवप्रसङ्गात्तदुपस्थापकपदामावान्न त्रथेति चेतुत्यमन्वयेऽपीति संक्षेप: ।। ३७४।। १ क. तिषक्ति।
Page 320
संक्षेपशारीरकंम्। .२१३
अं०टी०-ननु पौर्वापर्यप्रत्ययाद्यो वाक्यवाक्यार्थप्रत्यययोः कार्यकारणा(ण)भावोऽवगतः
'कार्यकारणभावमपहाय प्रकारान्तरेण पौर्वापर्यभावं केवले पदार्थज्ञानपदयोर्वयं बरूमो येना- व्यवस्थापातादिदोषं प्रसञ्जयेमेति चेन्मैवं वार्कयवाक्यार्थबुद्धयोर्मव्ये शब्दजन्यतया पदार्थ- बोधस्य सङ्ावे प्रमाणाभावाक्यापारकल्पनस्याप्ययोगादित्याह-पदजातेति। व्यति षक्तबुद्धिर्याक्यार्थरूपसंसर्गबुद्धिः । सा भवतामपि चेत्पदज, तबुद्धिजनितेति संमतं भवति तदा न तावदिहाऽडवयोर्विगानं विप्रतिपत्तिरस्तीति योजना। एवं सति व्यवधानकल्पन पदा- र्थबोधव्यवधानेन वाक्याद्वाक्यार्थबाधकल्पनमकारणकमप्रामाणिकमित्यर्थः । यद्वा पदजा- तबुद्धिजनिता भवति व्यतिषक्तबुद्धिरिति तावदिह लोके प्रसिद्धमित्यव्याहारः । भवतामपि चेदिह न विगानमस्ति तदा व्यवधानकल्पनमकारणकमिति योजना। पदजाततात्प- र्यजन्या तावद्वाक्यार्थबुद्धिर्व्यवधानपक्षेऽप्यभ्युपेयाऽन्यथा वाक्यस्य निस्तात्पर्यत्वप्रसङ्गादप्रमा- णत्वाप त्तेरतो नात्र विवदितुमुचितं मानान्तरनिबन्धनपदार्थबोधानां विशिष्टार्थबोधकत्वादर्श- नादिति भाव: ।| ३७४ ।। सु० टी०-ननु काष्ादेज्वालादिव्यवधिनाऽपि हेतुत्वदर्शनादृत्रापि तथेति चेन्नेत्याह- व्यतिषक्तबुद्धिजनकं सकलं पदजातमित्यनुमतं यदि वः। व्यवधानकल्पनविडम्बनया किमिहाअसैव जनकं भवतु॥३७५॥ व्यतिषक्तेति। तत्र दर्शनादस्तु तथाऽत्र तु पद्जातमेवोक्तरीत्या व्यति- षक्तधीजनकं संभवति चेक्किं प्रणाडयेत्यर्थः । न च पदार्थस्मृति- धर्यापारः करणस्य व्यापारानियमान्नियमे वा शक्तिषीजन्यसंस्कारोद्वो धस्यैव पद्ज्ञानजन्यस्य व्यापारत्वात्। न च पदार्थस्मृतिर्विशेषणधी त्वेनोपेया तस्या: क्वापि विशिष्टबोधाहेतुत्वात्। न चैवं वाक्यार्थबो- धस्य स्मृतित्वापत्ति: समानविषयसंस्काराजन्यत्वादिति दिकू ॥३७५॥ अ० टी०-ननु व्यवधानेनापि कारणत्वं लोके दृश्यते पाकादौ काष्ठादीनां जाला- दिव्यवधानेन कारणत्वदर्शनात्तद्वत्पदजातस्यापि व्यवधानेन हेतुत्वे को दोष इति चेन्न दृष्टान्तवैषम्यादित्याह-व्यतिषक्तबुद्धीति। विस्पष्टाऽक्षरयोजना। दृष्टान्ते हि काष्ठा- दीनां ज्वालादिव्यवधानेन पाकादिहेतुत्वं प्रत्यक्षेणावधृतमिह न तथा कल्पकं प्रमाणमिति वैषम्यं द्रष्टव्यम् ॥ ३७५ ॥ सु० टी०-ननु क्वचितमणाडयाश्रयणमपि दष्टमरुणयेश्यादाविति १ फ. ति षिक०। .
Page 321
२१४. टींका द्य समेतं-
मवतु पदार्थस्मृतावेव पदव्यापार इति चेन्न तस्य गत्यमावप्रयुक्तत्वा. दित्याह- पारम्पर्यं ह्यगतिकगतिं कारणादाश्रयन्ते नोत्सर्गेण स्फुरति विद्ु्षां यत्र तत्र प्रणाडी। श्रुत्या सोमकरयमनुगतः साधनत्वेन हित्वा साक्षान्भावं ह्यरुणिमगुणः प्रापदेनामशक्तेः ॥३७६॥ पारम्पर्यमिति। कारणस्य हि साक्षान्भ्ाव [उ] त्सर्गः स यत्र न स्फुरति तत्र पारम्पर्याश्रयणमगत्याऽनुमवस्येव स्पृतौ न तु तत्संभवेऽपीत्यर्थः । अस्ति चेद्मरुणादावित्याह-श्रुत्येति। तृतीयाश्ुत्या क्रयं प्रति साधन- सवेनानुगतोऽरुणिमाSमूर्तत्वेन साक्षात्तद्सामथ्यािनां प्रणाडी क्रयसाध- नी भूतैकहायन्यवच्छेदद्वारा तद्द्वेतुत्वं प्रापदित्यर्थः ॥ ३७६॥। अ० टी०-ननु प्रथमावगतोऽपि साक्षाद्भातः परित्यज्यते यथा 'अरुणयैकहायन्या सोमं क्रीणाति' इत्यत्रारुण्यादेस्तृतीयया साक्षाच्छूतं साधनत्वं परित्यज्य गोद्रव्यव्यवधानेन साधनत्वं कल्पितं तथेहापि कि न स्यादिति चेन्नेत्याह-पारम्पर्यं हीति। अगतिकानां मुख्यगतिशून्यानां गतिरगतिकगतिः। यत्पारम्पर्यमाश्रयन्ते विद्वांसस्तामगतिकगतिमेवाSSश्र- यन्त इति योजना। तक्षप्याश्रयणं कारणाद्यथाश्रुतसाक्षाद्भावासंभवात्। यतो विदुषां न्यायोSत्र यत्प्रकारविदां यत्रोत्सर्गेण प्राप्तः संबन्धसाक्षाद्भावो न स्फुरति घटमानतया नावभासते तत्र हि प्रणाडीपारम्पर्यमिति योजना। तत्रोदाहरणमाह-भ्ुत्येति। अरुणयेतिवाक्ये श्रुतोऽ- रुणिमगुणस्तृतीयाश्रुत्या निरपेक्षरवलक्षणया मुख्यया वृत्त्या साधनत्वेन सोमक्रयमुपगतः साक्षात्सोमकरयसाधनत्वेनारुणयेतितृतीयया करणार्थया संबद्धः श्रुतं साक्षाद्गावं मुख्यसं- बन्धं हित्वाSशक्ते: शक्त्यभावादेनां प्रणाडी प्रापदिति योजना । तत्र हि गुणादेः साध- नत्वं साक्षाच्छूतं न हि तेन सोमक्रयः कर्तुं शक्यते पराश्रयत्वाद्रुणादेः स्वतो निर्व्यापार- त्वात्। अतस्तत्र श्रुतमपि मुख्यसंबन्धं परित्यज्य द्रव्यव्यवधानेन प्रणाड्या साधनत्वमा- स्थीयते। अत्र तु न तथा साक्षाद्रावे काचनानुपपत्तिरतो वाक्यार्थप्रतिपत्तिसमये पदा- र्थबोधो भवन्नपि न पदशक्तिनिबन्धनः किं तु स्मृतिरेवेति नात्र व्यवधानकल्पनावकाश इति भावः । तथा च 'साक्षाददयपि कुर्वन्ति 'इत्यादि भट्टवचनं न व्युत्पत्तिबिषयं किं तु प्रतिपत्तिसमयपदार्थबोधविषयमिति द्रष्टव्यम् ॥ ३७६ ॥ सु० टी०-पदैवनाऽप्युपस्थितानां पदार्थानां योग्यतादिज्ञानेऽन्व-
१ क. ग. दिना ज्ञा"।
Page 322
संक्षेपशारीरकमू । ३१५
पधीदर्शनादन्यत्रापि पदार्थस्मृतावुपक्षीणानि पदानीति शङ्कूते श्रेतिमा- मानमिति द्वाम्यां- श्वेतिमानमभिपश्यतः पुरः शृण्वतस्तदनु हेषितध्वनिम्। •तद्दत्र खुरमुद्गरस्वनं श्रवेतरूपतुरगोऽटतीति घी: ॥३७७। तददत्र पदजातबुद्धिभिर्बोधिताखिलपदार्थहेतुकः। सर्वशब्दविषयार्थसंगतेः प्रत्ययो भ्रवति योग्यतादिभिः॥३७८॥। यथा ह्योवंविधस्य पुंसः श्वेताश्वकर्तृकधावनान्वयधीश्षाक्षुषादिपदार्थ करणिकैव न प्रत्यक्षादिजन्या दूरस्थत्वाल्लिङ्गामावाच्चेत्येवमत्रापि पद- जातवुद्धिबोधितसर्वपदार्थकरणकः संसर्गबोधो भवतीत्यर्थः । न चास्य बोधस्याशाब्दृत्वं शब्दमूलकत्वादिति माव्ः ॥३७७॥ ३७८॥ अ० दी०-ननु मानान्तराधिगतानामपि पदार्थानां संसर्गबोधकत्वं प्रसिद्ध तथा चेहापि पदार्थबोधानन्तरं भवत्संसर्गबोधः पदार्थबोधजन्य इति निश्चीयतेऽतस्तदविरोधेन पदजातस्य संसृष्टार्थबोधकत्वं पदार्थबोधव्यवधाने[ने]ति कल्म्यमिति वक्तुमर्थानां संसर्गबो- धकत्वप्रकारं पूर्वपक्षी कथयति-श्वेतिमानमिति। द्रव्यविशेषानिक्वयाच्छ्ेतिमानम- भिपश्यत इत्युक्तं श्वैत्यमात्रं चक्षुषा पश्यतस्तदनन्तरमेव हेषितध्वनिमश्वजात्यसधारणशब्दं शृण्वतस्तद्वदत्र हेषितध्वन्युदयस्थले खुरमुद्गराभिघातस्वनवत्कठिनं खुराभिधातशब्दं चः गृण्वतः पुंसो विभिन्नेन्द्रियावगतरूपशब्दाभ्यां श्वेतरूपतुरगोऽदतीति धीर्भवतीत्यर्थः । ३७ ७ ।। तथा च पदार्थधियां वाऽवगतपदार्थानां वा. संसर्गधीहेतुत्वमिहापि कल्पनीयं पदानां तु पदार्थवीष्वेवोषक्षय इलि स एवाऽडह-तद्वदत्र पद्जातेति। उक्तदष्टा- न्तवदत्र वाक्ये पदजातबुद्धिभि: प्रतिपदं क्रमोणोत्पन्नमतिभिर्बोधिता येऽखिलपदार्थास्तद्धे- तुकः सर्वशब्दविषयाणामर्थानां संगतेः संसर्गस्य योग्यतादिभिराकाड्क्षायोग्यतासंनिधानैः सहकारिभिः प्रत्ययो भवतीति योजना । संसर्गविषयः प्रत्यय उक्तविधया भवती- स्पर्थ: ॥ ३७८॥ सु० टी०-दूषयति- नैतत्क्लृप्तनिमित्ततोऽपि घटते ससर्गधीरीदृशी श्वेताश्वस्त्वरितोऽभिधावतितरामित्यादिका योत्थिता। कार्य वलृप्तनिबन्धनं यदि भवेन्नास्यापरं कारणं कल्प्यं तेन पदार्थजातजनिता नैषा मतिर्लिङ्गजा॥३७९॥ नैतदिति। न तावत्संसर्गज्ञानं पदार्थप्रमाणकं कल्प्यं गौरवांत। कलमम-
Page 323
३१६ टीकाट्टय समेतं-
माणादेवोपपते: पदार्थजन्यत्वे चाशाब्द्तापते: शब्दमूलकत्वेनैव शाब्द-
जैवैषा मतिर्न पदार्थजन्येत्यर्थः ।। ३७९॥ ·अ० टी०-परिहरति सिद्धान्ती-नैतंदिति। कुत इत्यत आह-क्लप्तनिभि- त्तत इति। श्वेतोऽश्वस्त्वरितोऽभिधावतितरामित्यादिकया प्रतीतिरुत्थितेदृशी संसर्गधीः क्लप्तनिमित्ततोऽपि घटत इति योजना। तथा हि-अत्रत्यपदार्थबोधे क्लप्तं हि निमित्तम- नुमानं गम्यते खुरशब्दलिङ्गेन चतुष्पदोऽनुमानाद्धेषितशब्देनाश्वानुमानाच्छ्ेतद्रव्यसामान्यस्य च दृष्टस्य विशेषापेक्षत्वाद्द्व्यान्तरस्यात्रासंभवमन्यतो निश्चित्य परिशेषादश्व एवेति निश्चय- सिद्धेरित्यर्थः । अत्रानुमानातिरिक्तमेव कारणं कल्प्यतामित्याशड्क्याप्रसिद्धकल्पनातः प्रसि- द्धोपादानं न्याय्यमित्यभिप्रेत्य परिहरति-कार्यमिति। क्लप्तनिबन्धनमेव कार्य यदि भवेत्संपद्येत तदाऽस्य कार्यस्यापरं कारणं न कल्म्यं सर्वलोकप्रसिद्धेनानुमानेनैवात्र पदार्थ- संसर्गबोधसिद्धौ मानान्तरजन्यत्वं तस्य न कल्पयितुं शक्यते विरोधादित्यर्थः । येनैवं हेतुनाऽनुमानगृहीतपदार्थसंसर्ग एवायमवभासत इति स्थितं तेनैषा मतिः पदार्थजातजनिता न किं तु लिङ्गजेति सिद्धमित्यर्थः ॥ ३७९॥ सु० टी०-ननु यथाऽडनुमानिकोऽपयर्थः प्रत्यक्षेणावि गृह्यत एवं पदार्थप्रमाणेनावि गृह्यतामिति चेन्न प्रत्यक्षवत्पदार्थानां प्रामाण्यस्य
पादार्थ न पृथक्पमाणमपरं नानापमाणोन्भ्वं नाप्येतत्फलमत्र पक्षयुगले कल्प्यं निमित्तान्तरम्। क्लमं लिङ्गमतोऽपि निर्वहृति चेन्संसर्गधीरीदृशी पादार्थी न पृथक्प्रमा न च फलं नानाप्रमाणोन्भवम् ।३८०। पादार्थमिति। पदार्थात्मकमित्यर्थः। तथा हि न तावत्यपदार्थात्मकं मानान्तरं तत्फलं च श्वैत्याश्वत्वादिब्ोधकप्रत्यक्ष लिङ्गात्मकनानाप्रमा- णोन्द्वं विशिष्ज्ञानमङ्गीकर्तुमुचित यतः पक्षद्वयेऽवि निमित्तान्तवक- ल्पनापत्तिरित्यर्थः । अत्र फले पदार्धाना निभित्तत्वं प्रत्यक्षलिङ्गयो: संभूयैकार्थबोधकत्वमिहैव कल्प्यमिति गौरवम। लिङ्गादिकं तु वलप्त- मित्याह-कलपमिति। लिङ्गमिति प्रत्यक्षस्याप्युपलक्षणम्। ननु लिङ्ग-
Page 324
संक्षेपशारीरकम्। ३१७
श्वै त्य प्रत्यक्षा नन्तरमयं श्वेतोऽश्वात्मको हेषाकर्तृत्वान्मतवदित्यश्वे सिद्धेडयं च. धावति खुरध्वनिविशेषकर्तृत्वादिति लिङ्गादेव तदर्थसिद्धेर्न तद्व- (ह)यं कल्प्यमित्यर्थः ।। ३८० ।। अ० टी०- एवं तर्हि यैर्मीनैः श्वैत्यादर्थाः प्रसिध्यन्ति तैरेव तेषां संसगाशोऽवि प्रतीयतां यथा पदैरेवं पदार्थविषयैस्तैषां संसर्गबोधो भवतामिति चेन्नेत्याह-पादार्थ- मिति। पादार्थ पदार्थजनितमपरं प्रत्यक्षादिभ्यो भिन्नं पृथक्स्वतन्त्रं प्रमाणं न भवति पदार्थविषयकज्ञानाद्वाक्यार्थज्ञानं पदार्थनिबन्धनं प्रमाणान्तरं न भवतीत्यर्थः । एवं तत्संसर्गज्ञानं नानाप्रमाणोद्रवं चक्षुराद्यनेकममाणोद्भवं नानापदोद्भवं वा फलं नाप्यनेकेषां प्रमाणानामिदमेकं फलं भवतीत्यर्थः । कुंत इत्यत आह-अन्र पक्षेति। पृथक्प्र- माणत्वपक्षे नानाप्रमाणफलत्वे च निमित्तान्तरं कल्प्यं यत इत्यर्थः। नानाप्रमाणानां संभूयै- कार्थबोधकत्वस्यान्यत्राप्रसिद्धेरिति भावः । अगत्येह तत्कल्प्यतामिति चेनेत्याह-कलसं लिङ्गमिति। लिङ्गविधया बोधकत्वं प्रसिद्धमित्यर्थः । फलितमाह-अतोऽपीति। क्लप्तादेवास्मादीदृशी श्वेतोऽश्वो धावतीत्येतादृशी संसर्गधीनिर्वहति चेत्पादार्थी न पृथक्प्रमा न नानाप्रमाणोद्द्रवं फलमपीति सिद्धमित्यर्थः । तस्मात्कवाप्यर्थानां संसर्गबोधकत्वस्यासंभ- वाच्छब्दश्रवणानन्तरं भवन्त्योऽप्यर्थधियो न वाक्यार्थधीहेतवो नापि शब्दजनिताः प्रमितयः प्रागुक्तन्यायेन पदार्थविषये तासां स्मृतित्वादतः परिशेषात्पदजातवशादेव पूर्वोक्तविशिष्टा- र्थप्रत्ययसिद्धिरिति तात्पर्यार्थ: ॥ ३८०॥ सु० टी०-मतदवयं निरस्तमुपसंहरति- नाससृष्टमतो वदन्ति वचनान्याहु: कियासंगतं योग्येनान्वितमेव केवलमभून्याहुः स्वमर्थ यतः। एवं सत्यपवर्जितक्तियमलं निष्पन्नरूपं सर्दी संसर्गादिविवर्जितं च वदितुं वस्तुस्वरूपं श्रुतिः ॥ ३८१।। नासंसृष्टमिति। अतः किमित्यत आह-एवमिति। अन्वितशक्तत्वे सर्त्यपि विशोधांन्भ्ागलक्षणया श्रुतिः स्वस्य जीवस्य रूपमज्ञातबह्मैक्य बोध- वितुमलं पर्याप्तेत्यर्थः। कार्यान्वयनिरासफलमपवर्जित क्रिय मित्यमिहि- तान्वयनिरासफलं संसर्गादिविवर्जितमिति ॥३८१॥
१ क. ग. त्वासंमत° । २ ग. 'न्ति-नच तान्या।
Page 325
३१८ टीकाहयसमेर्त-
सृष्मत इति। आहुः कियासंगतमिंत्यत्र नकारोऽनुषञ्जनीयः । तथा चायमर्थ :- वत्र नानि पदान्यसंसष्टमर्थ न वदन्ति नापि कार्यान्वितमिति । कुत इत्यत आह- योग्येनेति। केवलं कार्याकार्यत्वविश्ेषणरहितं सामान्यतो योग्येनान्वितमेतमेव स्कं स्व- मर्थममूनि पदानि यत आहुरिति योजना। न चैवंसति पदान्तरवैयर्थ्यप्रसङ्ग इति वाच्यं तस्यार्थविशेषाभिव्यक्त्यर्थत्वादिति भावः । तदेवं प्रवर्तकादिवाक्येष्वपि वस्तुस्वरूपे शब्दशक्तिर्न कार्यान्वित इति स्थिते वेदान्तानामपि कार्यानपेक्षणात्पूर्वोक्तप्रकारेणाखण्डे ब्रह्मणि प्रामाण्यमविरुद्धमित्याह-एवं सतीति। एवं सति श्रतिनिष्पन्नरूपं वस्तु वदितुमळमित्यन्वयः । वस्तुविशेषणद्वयं स्पष्ठार्थम् । संसर्गादीव्यादिपदेन भेदवैशिष्टये गुह्येते ।। ३८१ ।। सु० टी०-नन्वस्तु नियोगवादिनामन्विताभिधानाग्रहस्तदुललग्य-
चेसत्राSडह- अभिहित घटनांडथ वाउन्विताना- मशिहितिरस्त्वथ बा न पक्षपातः । कचिंदंपि समयेडस्ति नः कदाचि- दहुघटनात्मकवस्तुनिष्ठवाक्ये॥ ३८२॥ अभिहितेति। 'तमेतं वेदानुवचनेन' [बृह० ४।४।२२] इत्याद वन्वितामिधानोपयोगादत्र तन्निरूपितं वस्तुतस्त्वभिहितान्वयोऽन्वि- ताभिधानं चास्तु नास्माकं कोऽवि पक्षपातः। यतो बहुसंसर्गनिष्ठ- वाक्य एव तयोरूपयोगो न व तादृशं वाक्यमस्माभिविचारयिषित- मित्यर्थः ॥ ३८२ ॥। - अ० टी०-नन्वखण्डोर्थवादिनां कथमेवमन्विताभिधानवादे कार्यवादिनामिब कार्या- न्वितत्ववादे निर्बन्ध इति चेत्सत्यं वरतुतस्तथैव नास्ति निर्बन्ध इत्याह-अभिहितघ- टनाऽथवेति। बहुघटनात्मकवस्तुनिष्ठवाक्ये संसर्गात्मकवस्तुनिष्ठवाक्येऽभिहितानामन्वयो वाऽस्वन्वितानां वाडभिहितिर्न तत्रास्माकमतीव पक्षपातोऽस्यास्माभिर्विचारयषितत्वाभावा- दिति समुदितोऽर्यः । स्पष्टाऽत्र पदयोजना । ३८२।।
Page 326
संक्षेपशारीरकम्। ३१९'
सु०टी०-आस्माकीने तु महावाक्ये न तथो: संभव हत्पाह अभिहितघटना न चोपपन्ना परदशि नाभिहितिस्तथाऽन्वितानाम्। अनधिकविकलार्थगोचरत्वा- न्न तदुभयं श्रतिमस्तके पदानाम् ॥ ३८३ ॥ अभिहितघटनेति। परहशि केवलचिदात्मन्युमयमध्यनुपपन्नं वेदान्तस्थ-
त्वादित्यर्थः ॥ ३८३ ॥ अ० टी०-अस्माभिर्षिचारयितुमिष्टे तु वेदान्तवाक्ये नोभयोरपि संभवस्तस्यैकरसार्थनिष्ठ- त्वादित्यनादरे कारणमाह-अभिहितघटना न चेति। अभिहितानामर्थानां घटना परदशि न चोपपन्ना तथाऽन्वितानामर्थानामभिहितिरपि नोपपन्नेति योजना। परदशीति। असङ्गस्व्र- प्रकाशचिदात्मनो Sनिर्देशात्तस्यान्वितत्वेनानन्वितत्वेन वा Sभिधानायोग्यता व्वनिता। अतस्ताद- ग्वस्तुविषयस्य शब्दस्य न संसर्गादिगोचरत्वमित्याह-अनधिकेति। अधिकेत्यन्वितत्वमु- च्यते। चिकलेति केवलमुक्तम्। यद्यात्मवस्तु केवलं तथाऽप्यन्वयप्रतियोगितया स्वरूपेण वा नाभिधानयोग्यं स्वप्रकाशत्वादिति विकलोक्त्यभिप्रायो द्रष्टव्यः । अधिकश्चासौ विकलश्च स चासावर्थश्चेत्यधिकविकलार्थः। नाधिकविकलार्थोऽनधिक विकलार्थस्तद्रोचराणामिति विग्रहः। उक्तार्थमन्यत् ॥३८३॥ सु० टी० -- तत्र पक्षद्वयेऽपि पदार्थज्ञाने विशेषमाह- अभिहित घटना यदा तदानीं स्मृतिसमबुद्धियुगं पदे विधचः । परदशि पुनरन्विताभिधाने पद्युगलात्स्मृतियुग्ममेव पूर्वम् ॥३८४ ॥। अभीति। मट्टमते हि पदानां पदार्थधीमात्रपर्यवसानात्स्वमावशका्या साक्षाह्टचिकमेव पढं न स्मारकम्। न च शक्तपद्मात्रकरणकमपि ज्ञानं व्युस्पत्तिकालाधिगत(*विषयत्वात्स्मृतिः । न हि गृहीतग्राहित्वमात्रं स्मृतित्वं किं तु संस्कारमात्रजन्यत्वम् । अधिगत)गोचरं तु ज्ञानमनु-
*खै. पुस्तकस्थोऽयं अ्रन्थः।
Page 327
३२० टीकाद्य समेतं-
वाद:। स्मृतिसमत्वाञ्च तत्र स्पृतिव्यवहारोऽत एवं 'स्मारकान्न विशिष्यते' इस्युक्तं तेनास्मिन्पक्षे तत्वंपदे पदशक्तिजन्यत्वात्स्मृतिसमं शबलपदार्थज्ञानद्वयं परमात्मनि जनयतः । अन्विताभिधाने तु पदशक्त- रन्वितविषयत्वात्केवलपदार्थविषयं ज्ञानद्वय नं पदकरणकं किं तु संब- न्धिदर्शनोद्बुद्ध संस्कारमान्रजन्मत्वात्समृत्यात्मकमेव विधत्तः । इदम- भ्युपेत्योक्तम् । व्यतिषक्तेत्यत्र स्मृतेर्व्यापारत्वनिरासात। पूर्वमिति मागलक्षणातः पूर्वमित्यर्थः॥ ३८४ ॥ अ० टी०-तर्हि किमित्यन्विताभिधानसमर्थने यत्न आस्थित इत्याशङ्कयास्त्यत्र प्रकृतोपयोगोंऽशत इत्यभिप्रेत्य प्रथमं पदद्वयगतमुपजीव्यं दर्शयति-अभिहितघटना यदेति। पदे तत्त्वरंपदे स्मृतिसमबुद्धियुगमित्यभिहितान्वयपक्षे पदजत्वातपदार्थधीर्न स्मृतिः परं त्ववगतविषयत्वात्स्मृतिसमेत्यर्थः । पदयुगं परदृशि स्मृतिसमबुद्धिं विधत्त इत्यन्वयः । अन्विताभिधाने पुनः पूर्वं पदार्थप्रतीतिसमये पदयुगलात्परद्याशि स्मृतियुग्ममेवेति योजना। अस्मिन्पक्षे त्वन्वितविषयत्वात्पदशक्तेः केवलार्थधीः स्मृतिरेवेत्यर्थः । अत उभयमतानुरोधेन तत्त्वंपदार्थविषया धी: स्मृतिसमा स्मृतिरेवेति यथा तथाऽस्तु। एतावताऽप्यखण्डार्थनिष्ठता वाक्यस्य न विहन्यत इति भाव: ॥ ३८४॥ सु० टी०-वाक्यार्थबुद्धौ विशेषमाह- स्मृतिसमपदजन्यबुद्धियुग्मा- त्परदृशि मोहनिवर्तनं परेषाम्। परदृशि पदजस्मृतिद्वये स्या- न्पदयुगलात्ममितेः समुद्भवो नः ॥ ३८५॥ स्युसीति। परेषाममिहितान्वयवादिनां मोहनिवर्तनमखण्डवाक्यार्थ- ज्ञानं स्मृतिसमात्पदार्थज्ञानद्वयान्न तु शब्दात्। अस्मन्मते तु पद्द्या- देवान्वितशक्तात्पदार्थस्मृतिद्वये सत्यखण्डधीरित्यभिमतसिद्धिसाम्येऽपि न्यायत्वादेवान्विताभिधानमिष्यते ॥३८५॥ अ० टी०-उक्तं मतद्वयं विभज्योभयत्र फलं वदन्नन्विताभिधानवादे विशेषमभि- दधानस्तन्र यत्नाधिक्ये कारणं सूचयति-स्मृतिसमपदेति। परेषामभिहितान्वयवा- दिनां परददशि परमात्मनि प्रत्यभ्रूपे स्मृतिसमं यत्पदद्वयजन्यबुद्धियुग्मं तस्मान्मोहनिवर्तन- मज्ञानादिबन्धनिवर्तकं साक्षाद्रह्मज्ञानमिति सिध्यति। नो ऽस्माकमन्विताभिधानवादिनां परदाशी पदज़स्मृंतिद्वये सति पदयुगलात्प्रमितेः संसर्गबोधस्य समुद्वः स्यादिति योजना ।
Page 328
संक्षेपशारीरकम्। १२१ यद्यप्येवं विवक्षितार्थसद्धिः पक्षद्वयेपि समाना तथाप्यमिहितान्वयत्रादे पदयोः पदार्थ-
अन्विताभिधानवादे तु पदार्थस्व्ररूपस्मारकत्वेपि पदयोस्तत्रापर्यवसानादन्वयस्य शब्दत्वा स्पदजन्यज्ञानान्तरस्य प्रमाणरूपस्य चाभावाद्मक्यार्थज्ञानं भवति साक्षाच्छान्दी प्रमेति. विशेषदर्शनादन्विताभिंधानवादाग्रहोऽस्माकमिति भावः ॥ ३८५॥ सु० टी०-इदानीं भूतस्य मध्यार्थत्वान्भृव्यभावनाशेषखवेन भूनत्र- झोपदेश इति माट: मत्यवतिठ्ठते- औदासीन्यप्रच्युतिपापकेऽर्थे लिङ्लोडादेलोकतो ज्ञातशक्तेः । पुंसो वेदे प्रेरकत्वेन कल्प्या लिङ्लोडादेरभविनैवानृतन्त्रे ॥ ३८६ ॥ औदासीन्पेति । औदासीन्यप्रच्युतेः प्रवृत्यात्मिकायाः प्रापके प्रव. र्तनासामान्य आज्ञादिसर्वप्रवर्तकधर्मानुगते लोकव्यवहारादवगतशक्ते. लिंङादेरपुरुषतन्त्रे वेदे पुंसे यागादौ प्रेरकत्वेनाSSज्ञाद्यसंभवात्मवर्त. कशष्दव्यापारात्मिकाऽभिधा मावनैव प्रवर्तनात्वेन वाच्येति कल्ण्यत इत्यर्थ: ॥ ३८६ ॥। अ० टी० -- तदेवं कार्यान्विते पदशक्तिग्रहात्कार्यविषयमेव वेदप्रामाण्यमिति प्रत्यव- स्थानस्योत्तरं दत्तं तत्प्रसङ्गेन चान्विताभिधानं निरूपितमिदानी भावनावादनिरासेन वेदा- न्तानां ब्रह्मणि प्रामाण्यं दृढीकतुं तमुत्थापयति-औदासीन्वेति। पुंस्प्रवृत्तिरौदासी- न्यप्रच्युतिस्तत्प्रापकोऽर्य आज्ञादि: पुंस इति पदं प्रथमं यो्यम्। पुंस औदासीन्येति। औदासीन्यप्रच्युतिप्रापक आज्ञादावनुगते प्रवर्तकात्मनि लिङ्लोडदेलोकतो वृद्धव्यवहा- राज्ज्ञातशक्तेर्विज्ञातशक्तित्वादनृतश्रे वेद आज्ञादिपुरुषाभिप्रायाभावात्तत्र लिङ्लोडादेर्वाच्या भावनैव प्रेरकत्वेन कल्प्येति योजना। यद्वा लोकतो लोके लिड्लोडादेरौदासीन्यप्रच्युति प्रापकेडर्यें ज्ञातशक्तेस्तस्य चानृतन्त्रे वेदे श्रूयमाणलिड्लोडादे: पुंसः प्रेरकत्वेन भावनैव्र वाच्या कल्प्या तत्राSडज्ञाद्यभावादिति योजना। एदमपि प्रवर्तनात्मनि लिडादिश क्तेर्लोक- वेदयो: समत्वान कार्यवादिन इव भावनावादिनो वैयधिकरण्यमिति भावः ॥ ३८६॥ सु० टी०-तर्हि लौकिकेऽपि सैवास्तु प्रवर्तिकेति चेन्न दष्टनैवाSS
आज्ञायर्थः प्रेरकः पौरुषेये लिङूलोडादेरभावना वेदवा क्ये।
Page 329
३२२ टीकाटटय समेसं-
न्पुंसंबद्धे पेरकस्ते हि वाक्ये।। ३८७॥ आज्ञादीति। लोके हि पौरुषेयत्वाद्वाक्यानामाज्ञादि: संभवति वेदे तु वक्तुरभावेन तद्भावाद्भिधा मावनैवेत्युमयानुमतं प्रवर्तनात्वमेव डिडर्थ इत्यर्थः।। ३८७ ।। अ० टी० -आज्ञादिसापेक्षत्वेन तन्निरपेक्षत्वेनोपाधिनोक्तं लोकवेदयोर्लिडादिवाज [क]भेदं स्पष्टयति-आज्ञाद्यर्थः प्रेरक इति। एवं व्यवस्थायां हेतुमुत्तरार्घेनाSSह- पुंसोऽमावादिति। अभावादिति च्छेद: । तद्रतेति वेदगतेत्यर्थः । ते ह्याज्ञादय इत्यर्थः ॥ ३८७॥ सु० टी०-ननु यदि बेदे पुंसोऽमावः कस्तर्हि तत्र मावकः को वा माव्य: कुतो वा तद्यापारो भावनेत्याशङ्क्याSSह- लिङ्लोडादिर्भावकस्तन्र भाव्या- नुष्ठेयेऽर्थे पुंस्पवृत्तिः प्रसिद्धा। लिङ््लोडादे: पुंस्पवृत्त्यंशनिष्ठो व्यापारो यस्तं विदुर्भावनेति॥३८८ ॥ लिड्लोडादिरिति। चेतनस्थानीयो लिडादिरेव तत्र प्रवर्तकतया मावको यागादावनुष्ठेये पुंसपवृत्तिर्मा्या प्रवर्तनात्मकव्यापारे प्रवृत्तरेव तद्यापारस्य पुमभिप्नायस्थानी- यस्य मावनात्वमित्यर्थः । माव्यंनिष्ठो हि मावकव्यापारो भावनाऽधि- अयणादिर्धात्वर्थों न माध्यनिष्ठो विक्कित्याविश्व न मात्रकव्यापार इति तद्यवच्छेद्: । ३२८॥ अ० टी०-यदि वेदे भावना लिडर्थः कस्तर्हि तस्या भावको भाव्यः करणमितिक- र्तव्यतारूपं चेति वीक्षायामाह-लिङ्लोडादिर्मावक इति। भावको भार्वनामि- व्यञ्षकः । अनुष्ठेयोऽर्थो यागादिर्वात्वर्थ: ।पुंस्प्रवृत्तिः प्रयत्न औदासीन्यप्रच्युतिरिति यावत्। शब्दभावनास्व्ररूपमाह-लिङन्लोडादे: पुंस्पवृत्त्यंशनिष्ठ इति। अंशनिष्ठस्तद्विषयक इत्यर्थः । पुरुषप्रवृत्तिरूपभाव्यांशविषयको यो लिकादिव्यापारस्तं भावनेति विदुर्भावना- वादिन इत्यर्थ: ॥ ३८८ ॥
Page 330
संक्षेपशारीरकम्।
सु० टी०-किं पुनरस्याः करणमितिकर्तव्यताचेत्यन्राSSह- करणमिह लिङनदेर्ज्ञांनमेवाङ्गभागः पुनरभिरुचिहेतुर्द्दश्यते च प्रशंसा। विधिरयमिह तन्त्रे जैमिनीये न कार्य न च भवति विधिनः श्रेयसो हेतुरर्थ: ॥।३८९। करणमिति। गृहीतसंगतिकलिअदिज्ञानमेवास्याः करणं तत एव पुंस्प- वृत्तेः । इतिकर्तव्यता तु वाकयशेषस्था प्रशंसा 'वायुर्वै क्षेपिठा' इत्यादिरमिरुचिहेतुत्वेन प्रवृतत्युपकारित्वादित्यर्थ: । एवं हि लिङादि- वाच्या मार्वना: स्वाध्यायविधिना विधीयन्ते लिङादिर्मांवयेत्। किं पुरुषप्रवर्तनं केन गृहीत्तसंगलिकस्वज्ञानेन कथमार्थवादिकप्राश्यस्त्यज्ञा- नानुगृहीतेनेति। तथा ह्यथ्ययनसंस्कृतैरक्षरेर्यथा शक्यते तथा पुंस उप. कर्तव्यमिति हि तस्यार्थे ष्टे संभवत्यद्ष्टाकल्पनात्। शवपते क लिङा- दिभिमहीतशक्तिकैरेव पुंस्पेरणं कर्तुमिति तत्रैव लिङादीन्नियुआनस्य स्वाध्यायविधेरेव श्ुतसामर्थ्यानुमितैकदेशवतोऽयं सर्वो व्यापार इति। ननु नियोग इष्टसाधनता वा लिर्ड्थोऽस्तु किमलौकिक्या शब्दभावन येति चेत्तत्ाSSह-विधिरिति। अपूर्वे शक्तिग्रहासंभव उक्त इष्टसाधनता-
रित्यर्थः ।।३८९॥ अ० टी० -- एवं भावकं भाव्यं चोक्तवा करणमितिकर्तव्यता चेत्यंशद्वयं विशदयति- करणमिति। इह शब्दभावनायां लिआदेर्ज्ञानमेव करणं लिडादिशब्देन तव्यापारों भावना लक्ष्यते भावनाज्ञानं करणमित्यर्थः । स्वज्ञानकरणिका शब्दभावनेति मीमांसकप्र- सिद्धिः । अभिरुचिहेतुः प्रशंसा पुनरङ्गभागो दृश्यते। पुंसः कर्मसु प्ररोचकार्थवादजन्या प्रशंसा कर्मादिस्तुतिरिहेतिकर्तव्यताभागो दृश्यते। तत्र तत्र विधिसंनिधौ पुंस्प्रवृत्यात्मकभा- व्यनिष्पादन उपकारकत्वेन घिद्यत इत्यर्थः । जैमिनीये तन्त्रे शास्त्रे येयमुपपादितभाव- नाडयं विधिर्लिडादर्थों.न कार्य नियोगो विधिर्भवंति। न च नाषि श्रेयसो हेतुरर्थ इष्टसा- धनत्वरूपोऽर्थो विधिर्भवति नोऽस्माकं मीमांसकानां जैमिनीयानामिति योजना॥ ३८९॥
१ क. ग. 'वुचेन । २ क. ग. वना न स्वा।
Page 331
३२४ टीकाद्वय समेतं-
सु० टीe-तहिं तस्या: प्रत्ययार्थत्वात्तत्प्राधान्येनैवार्थान्तराणासन्वयः स्याद्गुरोरिव नियोगप्ाधान्येनेति चन्न प्रत्ययार्थत्वेऽषि कर्तृसंख्यादि: व द्गुण भावेनान्वयाविरोधादित्याह- विधिरिह गुणभूतः प्रत्ययार्थोऽपि नित्यं भवति च पुरुषोत्था भावनाऽस्य प्रधानम्। भवति दशलकारप्रत्ययैः साडभिधेया विधिविहितलकारैभावना शब्दहेतुः ॥ ३९०॥ विधिरिति। क्रियापेक्षयैव सर्वेषामन्वयादर्थभावनाया एव प्राधान्य- मित्याह-नित्यमिति। पुरुषोत्था पुंध्यापारात्मिकाऽ्थंभावनाऽस्याभिधा- रुपस्य विधे: प्रधानमित्यर्थः । कथमेकस्य प्रत्ययस्यानेकभावनावाचि- त्व मित्याश ङ्ूचाSSसया तत्वविधित्व रूपभेदेनेत्याह-भवतीति। शब्दहेतु: शब्दव्यापाररूपेत्यर्थः ॥। ३९०।। अ० टी०-तहि पदान्तरार्थानामनया शब्दभावनया सहान्वयप्रकारः कथमिव्यपे क्षायां तमाह-विधिरिहेति। प्रत्ययार्थोडि विधिः शब्दभावनात्मेहार्थकदम्बे गुणभूत एव नित्यं न प्रधानभूत इत्यर्थः । तहि किमत्र प्रधानं तदाह-मवात चेति। एकस्मि- न्वाक्ये प्रत्ययार्थत्वेऽपि द्वयोः प्राधान्यायोगाक्क्रियाकाडक्षया चेतरषामन्वयादर्थभावनात्मिका पुंस्किरयैवात्र प्रधानमित्यर्थः । कथमेकस्य प्रत्ययश्य भावनाद्वयवाचित्वमिति चेन्नायं दोषो रूपभेदे द्वयवाचकत्वोपपत्तेरित्याह-भवति वशलकारेति। सारडर्थभावना दशलका रप्रत्ययैस्तिबादिभि: सवैरेव एकारैरभिधिया भवति। शब्दहेतुर्भावना शब्दभावना विधौ विहित लकारै र्िडादि भिरेवाभिधेयेत्यनुवते। तथा च लिडास्तिडत्वेन टिडलेन चाSडकार- भेदादुभयविधभावनावाचकत्वोपपत्तिरित्यर्थः ॥ ३९०॥ सु० टी०-क्रियात्वाविशेषेपि कथमेतस्या एव प्राधान्यं नेतरस्या इति चेदिट्टानिष्टमाव्यकत्वाभ्यामित्याह- भवति च पुरुषार्थकर्मिकेयं पुरुषनिमित्तकभावना न तद्दत्। भवति तु विधिशब्दकर्तृकाऽन्या न हि निरवयपुमर्थता प्रवृत्तेः ॥३९१॥ भवति चेति। अर्थमाव (* ना हि स्वर्गादिकर्मिका फलवत्वास्प्रधानं * क. पुम्तकेडयं ग्रन्थो नात्त।
Page 332
संक्षेपशारीरकम्। ३२५
न तु विधिच्यापाररूपाभिधा कष्टप्रवृत्तिसाध्य)कत्वादिव्याह-न तद्व- दिति। निरवद्येति। साक्षादिति शेष: ॥ ३९१ ॥ अ० टी०-इदानीमर्थभावनाया अपि भाव्यादंशानाह-मवति च पुरुषार्थे- त्यादिना। इयं पुरुषनिमित्तकभावनाडर्थात्मिका पुरुषार्थकर्मिका स्वर्गादिपुरुषार्थभाव्या भवतात्यर्थः । उपलक्षणमेतत्करणतिकर्तव्यत्वयोः । धात्वर्थयागादिकरणं प्रयाजादङ्गजात- मितिकर्तव्यतेति योज्यम्। अन्या तु या विधिशब्दकर्तृका लिडादिशब्दव्यापारात्मिका शब्दभावना सा न तद्वदर्थभावनावत्पुरुषार्थभाव्या न भवतीति योजना। कुत इत्यत आह-न हीति। पुंस्प्रवृत्तिर्हि तस्या भाव्या न हि तस्याः प्रवृत्तेर्निरवद्यपुमर्थत्वं केशरूपत्वादिव्यर्थः ॥ ३९१॥ सु० टी०-मावनात्वाविशेषे कुतोऽयं विशेष इति चेत्तन्ाऽऽह- अभिमतपशपुत्रवृष्टिनाक- प्रभृतिकभाव्यगता हि भावनेयम्। अनभिमतसुदुष्करातिदुःखां नयति तु भाव्यपदं प्रवृत्तिमन्या। ३९२॥
अभिमतेति। इयं हर्थमावनाऽन्तरङ्गतया समानप्रत्ययोपात्तविधिभ्ु- स्याSवरुद्धा समानपदोपात्तमपि घात्वर्थमुल्लङध्याभिमतपशुपुत्रादिक- मेव माध्यमङ्गी करोत्यनिष्टमाव्यायामस्यां सत्यां चेतनस्य प्रवर्तयितुम- शक्यत्वात्। अपरा पुनरन्यभाव्यकत्वे प्रवर्तनात्वव्याघातादनभिमतामपि प्रवृत्तिमेव दुःखहेतुत्वाद्दुष्करां माव्याशं नयति प्रापयतीत्यर्थः ।।३९२। अ० टी०-पुरुषार्थकर्मिकार्थभावनेत्युक्तं तदेव स्ष्टयति-अभिमतेति पूर्वार्धेन। तद्विलक्षणं शब्दभावनाभाव्यं विभजत उत्तरार्धेन-अनभिमतेति। नयति पुरुषमिति शेषः । सुगममन्यत् ॥! ३९२ ।। सु० टी-नन्वेवं लि ादिभिर्धीत्वर्थान्वित भावनाभिधानेडमिहिता. न्वयवाद्मङ्ग इति तत्राSSह-प्रत्ययेति द्वाभ्याम- प्रत्ययप्रकतिशब्दतो बहि- दियतेडभिहित संगर्तिश्व न।
१ क. दुःखं न०।२ ख. ग. घ, श् नः।
Page 333
३२६ टीकाटट्यसमेतं-
पत्ययपकतिशब्दयोः पुन- नित्यमन्वितधियो निभित्तता ।। ३१३॥ भावनाद्वय मतोडवबोध्यते धातुवाच्यघटितं लिङनदिभिः । प्रत्ययार्थगुणवस्तुवाचिनो धातवः प्रकतयो हि धातवः ॥ ३९४ ॥ अन्यत्रैवास्माकमभिहितान्वयः प्रकृतिप्रत्यबार्थयोस्तु प्रत्ययार्थ सह मूत इत्यादिव्युत्पत्तिबलादेकप्रत्ययार्थानां व लिङ्गसंख्याकारकोपग्र. हविशेषभावनाट्वय रूपाणामनन्वितानामेकशेष विना युगपदेकशब्दे- नाभिधानासंभवादन्वितगोचरयैकश्ञकत्पा नित्यमन्विताभिधानमङ्गी क्रियत इति लिङ्वादिभिरवि धातुवाच्ययागाद्यन्वितं भावनादयं गुणप्रधानभावापन्नमेव बोध्यते माशस्त्यज्ञानानुगृहीतेन गृहातशक्ति- कविधिज्ञानेन यागकरणिकां स्वर्गंफलिकामितिकतव्यतोपेतामेकक्तृकां. कश्रमिश्वायफलामर्थभावनां कुर्यादिति। तथावि धात्वर्थस्यैव प्राधा- न्यमस्तु मुख्यत्वादिति चेन्न प्रथमप्रतीतस्य विशेषणत्वेन गुणत्वीचित्या- दित्याह-प्रत्ययार्थेति। प्रकृतिसमाख्ययाSप गुणत्वमेवेत्याह-प्रकृतय इति।. प्रतीयते येनार्थः स प्रत्ययस्तस्मात्प्रथमं क्रियत इति प्रकृतिः।३९३।९४॥ अ० टी०-अनयोश् भावनयोः प्रतीत्याकारः क इत्यपेक्षायां घात्वर्थप्रतीव्याकार- व्युदासेन नानयोराकारभेंदो ग्रहीतुं शक्यते धात्वर्थघटित यैवानयोर्नियमेनाभिधानादित्याह- प्रत्ययप्रकृतीति। प्रत्ययो लिडादिर्लडादिश्व प्रकृतिर्धातुर्धातुप्रत्ययात्मकैकपदरूपाच्छ- व्दतो बहिः पृथगभिहितसंगतिरर्थसंबन्धो न विद्यते। चकारोऽवधारणार्थः । प्रकृतिप्रत्य- ययोरर्थभेदो नैव विद्यत इत्यर्थः । तत्र लिङ्धं ज्ञापकमाह-प्रत्ययेत्युत्तरार्घेन। पुनः- शब्दो यस्मादर्थे। प्रत्ययप्रकृतिशब्दयोर्यस्मादन्वितधियोऽपृथम्बुद्धेर्निमित्तता. विशिष्टैकव्युत्पा- दकता सदैवानुभवसिद्धेति शेषः॥३९३॥ अ० टी० -- यस्मादेवं प्रकृतिप्त्यययोरेकीभूय विशिष्टबुद्धिहेतुताऽच्यवसिताडंतो हेतों- र्िआ्दिभिर्विधिप्रत्ययैर्धातुवाच्यघटितं प्रकृत्यर्थोपरक्तं भावनाद्यं विवक्ष्यते न प्रकृत्यर्थाका- रात्पृथगिित्याह-मावनाद्वयमत इति । यजेतेत्यत्र हि यजतिघात्वर्थो यागस्तस्य. कर्तव्यताऽत्र प्रतीयते यागं कुर्यादिति । तत्र कुर्यादित्यत्र कृतिस्तत्प्रेरणा चावसीयते l. तत्राप्याख्याताशैन कृतिरुच्यते । तद्विशेषणलिद्धा कर्तव्यता । तदुभयमेकेनैव पदेनोचचार्य-
Page 334
संक्षेपशारीरकम्। ३२७
भाणं न पृथम्बुद्धिगोचरतामाचरति। तथा व प्रकृतिप्रत्ययार्थयोः स्वरूपतो भेदेऽपि गुण प्रधानभावेनैकीभूतत्वादेकपदोपात्ततयैकप्रत्ययगंम्यतेति भावः । तत्र कस्य गुणभाव: कस्य वा प्राधान्यमित्यपेक्षायामाह-प्रत्ययार्थेति। प्रत्ययार्थस्य गुणभूतं विशेषणीभूतं यद्वस्तु क्रियालक्षणं तद्वाचिनो धातवोऽर्थांत्प्रधानविशेष्यवस्तुवाचिनः प्रत्यया इत्यर्थः । धातूनां गुणार्थत्वे हेतुमाह-प्रकृतयो हि धातव इति । प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रृतः प्रत्ययस्तु प्राधान्येनेति हि वदन्ति। युक्तं चैतत्सर्वधातुषु विभिन्नेष्वपि प्रत्ययाना स्वरूपतो भेदाभावाच्च प्रकृत्ितदर्थभेदकृत एव भेद इति धातुभि: प्रत्यया विशेष्यन्त इति ॥३९४ ॥। सु० टी०-एवं च सर्वस्यापि वेदस्य मावनैद्मश्यान्न मूते ब्रह्मणि प्रामाण्यमित्याह- भव्याय भूतमुपदिश्यत इत्यवोच- न्पूज्यास्ततः सकलमेव च वेदशास्त्रम्। कार्यप्रधानमिति निश्रििनुमोऽस्मदीये तन्त्रे च कार्यमुदितः पुरुषपयनः ॥ ३९५॥ भध्यायेति। पूज्या जैमिन्यादयो द्रव्याणां कर्मसंयोगे भूतं मव्यायोप दिश्यत इति न्यायमाहुस्तस्माद्गह्मावेद्कमपि शास्त्रं मावनापेक्षितकरत्रा- दिपरमिति निश्िनुम इत्पर्थः । ननु मट्टानां नियोगामावात्कुतस्त- त्प्राधान्यमिति तत्राSऽह-अस्मदीय इति। प्रयत्नोऽर्थमावनैवास्मन्मते कार्यमित्यर्थः ॥ ३९५॥ अ० टी०-एवं भावनावाक्यार्थमुपपादय तस्मिन्रेव सकलस्य वेदस्य प्रामाण्यं न सिद्धे वस्तुनि भूतभव्यन्यायादित्याह-मव्याय भूतमिति। पूज्याः शबरस्वामिनः । तत्कि कार्य यत्पर सकलं वेदशास्त्रमित्यपेक्षायामाह-अस्मदीय इति। पुरुषप्रयत्नः कार्यमुदितो न नियोगरूपमित्यर्थः ॥ ३९५॥ सु० टी०-दूषयति- अभिदधाति करोति च लिङ्गपदं श्रुतिवचःसु निजामपि भावनाम्। न च करोति न वक्ति च ता पुन- र्नरवच:स्विति दुःशकमुच्यते ॥ ३९६:।। अभिदधातीति। श्ुतिवाक्येध लिङ्शब्दो निजामेपि स्वधर्ममूंतामपि
Page 335
१२८ रीकाटुपसमेसं-
शब्दमावनाममिधत्ते करोति व स्वध्यापाररूपर्वान्नरवचःसु पुनस्ता न करोति न वक्ति व तत्रामिधाया अभावादिति यदुच्यते तद्दुःशक मित्यर्थः । स्वध्यापारस्य स्वयममिधाने स्ववृंत्तित्वापत्ेः शञ्दस्य थ 'प्रमाणत्वेन कारकत्वासंभवात् 'य एवं लौकिका:' इत्यादिन्यायेन लोकवेदयोररथामेदात्वल प्तकल्व्यविरोधासैति मावः ॥ ३९६॥ अ० टी०-एतदपि मतं दूषयति सिद्धान्ती-अभिदधातीति । श्रुतिवचःसु लिड्पदं निजामपि स्वन्यापाररूपामपि शब्दभावनामभिदधाति करोति निष्पादयति चार्थभावनेति दुःशकमुच्यते । स्वव्यापारस्य स्वयमभिधाने स्ववृत्तिविरोधापत्तेरित्यर्थः । तथा नरवच:सु लौकिकवाक्येषु तां भावनां न करोति न वक्ति चेति व्यवस्थाङ्गीकरणं दुःशकमुच्यते मीमांसकैरिति योजना। लोकवेदयोरेकस्यैव शब्दस्य वैरूप्याङ्गीकारे लोकवेदाधिकरणविरोध: शब्दान्तराणामिव सर्वत्रैकरूपत्वसंभवे व्यर्थ च वैरूप्यकथनं वेदे पृथग्व्युत्पत्तिद्वाराभावात्प्रमाणस्य सतो वेदस्य कारकत्वेऽप्रमाणत्वापत्तेश्चेति भावः ॥३९६॥ सु० टी० -- नन्वपोरुषेये वेद आज्ञादेरसंभवादृगत्या द्वैरुप्यमिति चेन्न संभवत्यैकरूप्ये तत्कल्पनानौचित्यादित्याह- वक्तृत्वमेव घटते यदि लिङ्पदस्य सर्वत्र नार्धजरतीयमिदं प्रशस्तम्। सामर्थ्यमेकरसमेव यदोपपन्नं नानारसं न खलु तत्परिकल्पनीयम् ॥३९७॥ वक्तृत्वमिति। लिङादिपदृस्य प्रमाणत्वाल्लोकवेद्योरवैरूव्येण वाचक- त्वमेव संभवति चेन्नैकत्र वक्तृत्वमेकत्र च कारकत्वमित्यर्धजरतीयत्वं प्रशस्तमित्यर्थ: । युवत्यास्तस्मिंस्तस्य च जरत्यामरुचेरर्धजरती जटिल: . कामयत इत्यर्धजरतीयन्यायः । अन्यथा कल्पनागौरव मित्याह-सामर्थ्य- मिति ॥ २९७ ॥ अ० टी-ननु नेदं वैरू्यं दोषाय भवति दैवेनैवास्योपसादितत्वालोके शब्द: पौरु- षेयो वेदे त्वपौरुषेय इति स्वभाववैरूप्यस्याSSश्रयणात्मवृत्तिवैरूप्यस्याप्युपपत्तेरिति चेन्न स्वरूपवैरूप्यस्य गत्यन्तराभावादगत्या तदाश्रयणमितरत्रैकरूपत्वसंभवे वैरूप्यकल्पनागौरव- मगामाणिकमयुक्त पौरुषेयत्वापौरुषेयत्वभेंदादर्थे प्रवृत्तिवैरूप्यकल्पनेऽन्येषामपि पदानां तत्क- ल्पनप्रसङ्गो लीक्रवेदाधिकरणानारम्भप्रसङ्गश्वेत्यभिप्रेत्य परिहरति-वक्तृत्वमेवेति बोधकतेनैंव प्रामाण्यात्सर्वत्र लोके वेदे च लिसपदस्य वक्तृत्वमेव यद्ेकरूपेण घटते
Page 336
संक्षेपशारीरकमूं। ३२१
तदाऽर्धजरतीयमिदं वैरूप्यकल्पनं न प्रशस्तम्। कस्मान्न प्रशस्तमिति चेत्कल्पनागौरव्ा- दिल्ाह-साम्थ्यमिति। स्पष्टार्थः ॥३९७ ।। सु० टी०-मत्पक्षे व्वैकरूष्पान्नोक्तदोष इत्पाह- श्रेयोहेतुत्ववाची यदि भवति तदा संभवत्येकरूपा शंक्तिस्त्वस्याभिधाने न तु भवति तदा कारकोऽयं प्रवृत्तेः । श्रेयोहेतुश्रव वाच्यः श्रुतिवचास तदा पौरुषेये च तुल्यः क्लृप्श्वासौ न कल्प्यः श्रुतिवचसि यथा भावना लिङ्ूनिबद्धा॥३९८।। श्रेय इति। लोके वेदे च श्रेयोहेतुत्वमेव (*लिङ् वदतीति न शक्तिवै- चित्र्यमित्यर्थः। ननु ममाप्यभिधाज्ञाद्यनुगतं प्रवर्तनात्वसामान्यमेव) लोकवेद्साधारणं लिङर्थ इति चेत्तहिं वक्तुः कण्ठतालवादिव्यापार- स्यापि प्रवर्तकत्वेन लिङदिवाच्यतापत्तेः। ननु यज्ज्ञांतं प्रवर्तकमाज्ञादि तत्रैव प्रवर्तनात्वेन शक्ति: कण्ठताल्वादियत्नस्तु स्वरूपसन्नेव तथेति चेन्नासिद्धेः। तथा ह्याज्ञादिज्ञानं न प्रवर्तक सत्यपि तस्मिन्ननिष्ट्हेता- वपवृत्तेः। अथ तस्येष्टसाधनताक्षेपकत्वं तर्हि सैवाSSवश्यकत्वादुपजीव्य- त्वाच्च हेतुरिति किमन्तर्गडुनाभिधादिज्ञानेन। किं चेष्टमाव्यकक्रिया- भिधानमभिधा तच्छक्तिर्वा नान्त्य: शक्ते: शव्द्ाजन्यरवेनाव्यापारत्वात्।
रिति दिकू। मन्मते तु लिङः कारकत्वविरोधोऽपि नास्तीत्याह- नत्विति। प्रवृत्ते: प्रवर्तकव्यापारस्य। न वा लोकवेदाधिकरणविरोधोऽपी- त्याह-श्रेय इति। नापि क्लप्कल्प्यविरोध इत्याह-क्लृप्त इति। तव वेदे यथा भावना कल्प्या नैवमसावित्यर्थः । लिङ्निबद्धा लिङ्वाच्ये- त्यर्थ: ॥ ३९८॥ अ० टी० -- इह गौरवमप्यगत्याSSश्रीयते लौकिकस्य लिडादिवाच्यस्याSSज्ञादेवेदेऽसं- भवादिति चेत्तर्हि भावनाविधिवाद एव त्यज्यतां यत्र गौरवादिदोषापत्तिः साधनताविधि- चाद आश्रीयतां यत्र न वैरुप्यादिदोष इत्यभिप्रेत्याऽऽह-श्रेयोहेतुत्ववाची यदीतिं। तस्य श्रेयोहेतुत्वाभिधाने लिखादेरेकरूपा लोकवेदयोः शक्तिर्भवति वैरूप्यं न भवतीत्यर्थः ।
*क. पुस्तके नायं मन्थः।
Page 337
२२० टीकाद्वय समेतं-
एवं सति वेदस्य कारकत्वदोषोऽपि परिहतः स्यादित्याह-न तु मवतीति। तदा श्रेयोहेतुवाचित्वेऽय लिडादि: प्रवृत्तेः कारको न तु भषति प्रवर्तको न भवतीत्यर्थः । वाच्यस्याप्यैकरूप्यमस्मिन्पक्ष इत्याह-श्रेयोहेतुश्रेति ।.शब्दभावनापक्ष इवास्मिन्पक्षे प्रसिद्धकल्पनाशङ्काऽपि नास्तीत्याह-कलप्तश्वासी न कल्ण्य इति । श्रुतिवचसि यथा लिड्निबद्धा भावना कल्प्या तथाऽसौ श्रेयोहेतुर्िडर्थतया न कल्प्यो लोकत एव तत्सिद्धेरतो न लोकवेदाधिकरणविरोधोऽप्यस्मिन्मत इत्यर्थ: ॥ ३९८॥ सु० टी०-ननु माऽस्तु शब्दभावनाऽर्थमावना तु प्रमाणसिद्धा नापह्वोतुं शक्येति तद्वस्थं तच्छेषकर्तृपरत्वं वेदान्तानामित्याशङ्क्य तामप्युन्मूलयति- धात्वर्थतोऽन्या न च भावनाऽस्ति यां भावनां वक्तुमलं लकारः। धात्वर्थमुद्धिच्य न पुंस्पयत्नो लोके यतो भाति निरूपणायाम्॥ ३९९॥ धात्वर्थ इति। आख्यातानि यां मावनां कर्तृव्यापाररूपां वक्तुम- हन्तीति त्वयोच्यते सा धात्वर्थातिरिक्ता नास्तीत्यर्थः । सा हि पचावधिश्रयणादिर्यजौ स्वत्वत्यागः संकल्पो वा गतौ स्पन्दः स च धात्वर्थ एवेति। ननु पाक करोति गमनं करोतीति सर्वधात्वर्थानुगतक- रोत्यर्थः प्रयत्न एव तदागमन्यायेन प्रत्ययार्थ इंति चेन्नेत्याह-घात्वर्थमिति। सोऽपि धात्वर्थभिन्नो न निरूप्यते लोके रथो गच्छतीत्यादावचेतनेऽ- ्याख्यातप्रयोगादित्यर्थः ।न च तत्र लक्षणा मुख्ये बाधकाभावात्। तर्हि स्पन्द एव भावनाप्रत्ययार्थ इति चेन्न यजेतेत्यादावात्मकर्तुके तद्भावादोदासीन्यप्रच्युति: स्पन्द्यत्नसाधारणी सेति चेत्क तरहिं शब्दमावना शब्दे स्पन्दयत्नयोरमावात्। तस्मात्सर्वधात्वर्थानुगतक्रिया- सामान्यमेव करोत्वर्थः । तदुक्तं 'कृभ्वस्तयः क्रियासामान्यवधना:' इति 'करोति रर्थेष्विव सर्वधातून्' इति च। एतेनाSSरयातेषु करोतिसामा- नाधिकरण्यं व्याख्यातम्। न च करोत्यर्थस्यान्योत्पादानुकूलत्वेन
न्नस्य तस्यानुप्लब्धिबाधात्। न च ज्ञानस्येव ज्ञेयेन करणीभूत-
१ क. त्वर्थातिरिक्तौ नास्त्यवति।
Page 338
संक्षेपशारीरकम्।
धात्वर्थेन निरूप्यत्वान्न ततः पृथगुपलब्धिरिति वाच्यं स्वसमयपरिमाषा- मात्रस्य परं प्रत्युपन्यासानर्हत्वादिति संक्षेप: ।। ३९९।। अ० टी०-यत्पुनरर्थभावनात्मिका क्रिया लकारवाच्येत्युक्तं तदप्ययुक्तमित्याह- धात्वर्थतोऽन्येति। घात्वर्थः किया। नन्वस्ति घात्वर्थातिरिक्ता भावना पुरुषप्रयत्नो हि प्रत्ययवाच्या भावना मनआदिचेष्य च धात्वर्थ: प्रकृतिशब्दवाच्येति तयोर्भेदादिति' चेनेत्याह-धात्वर्थमिति। उद्विच्यातिक्रम्य लकास्वाच्यः पुंस्प्रयतो निरूपणायां क्रिय- माणायां यतो लोके न भात्यतो यां भावनां वक्तुमयं लकारोऽलं समर्थ: सा भावना घात्वर्थतोऽन्या न चास्तीति योजना। रथाद्यचेतनकर्तृकेष्वास्यातप्रयोगेषु प्रत्ययवाच्यस्य प्रयत्नस्यादर्शनान्न च तत्र तत्प्रयोग उपचरित इति वाच्यं लोकस्य तत्रोपचाराभिमानाभा- वात्सर्वस्यापि कारकस्य स्वव्यापारकर्तृत्वस्य मुख्यत्वात्तत्र करोति गच्छतीतिमुख्यप्रयो -: गोपपत्तेश्चेति भाव: ॥। ३९९ ।। सु० टी०-कार्यदूषणमुक्तमुफसंहरति- न कर्मकाण्डेडपि ततो नियोगो न भावनाऽप्युक्तनयेन तस्मिन्। न तद्दयं वेदशिरःसु तस्मा- चतो न कार्यार्थपराणि तानि ॥४०० ॥ न कर्मेति। कर्मकाण्डेडपि नियोगभावनावाद्योनिरस्तत्वात्सुतरां वेदा- न्तेषु तयोरसंभव इति न कार्यार्थमपरा वेदान्ता न नियोज्यपरा: कर्तृ- परा वेत्यर्थ: ॥। ४०० ।। अ० टी०-तदेवं नियोगवादस्य भावनावादस्य चायुक्तत्वाच कर्मकाण्डेपि तदुभर्य कि पुनर्वेदान्तेष्वविधिप्रधानेष्वित्युपसंहरति-न कर्मकाण्डेSपीति। तस्मिन्कर्मकाण्डे भावनाऽपि नेत्यन्वयः । तद्दवयं नियोगो भावना चेत्यर्थः । तम्मादिति प्रमादपाठो यस्मा- दिति पठनीयम्। यस्माद्वेदशिरःसु न तद्दयमस्ति ततो न तानि वेदशिरांसि कार्यार्थ- पराणीति योजना। यद्वा तस्मादित्येतत्पद्यादौ योज्यं तस्मान्न कर्मकाण्डेऽप्रीति। तत इति प्रथमश्चुतो लिडादिवाची ततो लिडादेरित्यर्थः । अन्यत्समानम् ॥४०0॥ सु०'टी०-कि च कार्यवादिमतेऽपि न सर्वशास्त्राणि कार्यपराणि 5निषेध चोदनासु तद्मावादिति क वेदान्तेषु तदाशक्केत्वाह- अपि च प्रतिषेधचोदना विषय: स्यात्मतिषिद्धकर्मणः ।
Page 339
३३२ टीकाददयसमेस-
फलगर्धिनिवृत्तिरेव सा न नियोगो न च तस्य गोचरः ॥४०१ ॥ अषि चेति। न पिबेदित्यादिचोदंना या हिं प्रतिषिद्धस्य पानादेः फलस्पृहानिवृत्तिरेव विषयः। सां चौदासीन्यलक्षणा पानादिपागभा- वरुपत्वे मा क ार्यत्वान्न नियोगो न वाऽननुद्वेयत्वाल्नियो गविषयोपीत्पर्थः। अत एव न भावनारूपोडपीति भाव: ॥।१॥ अ० टी० -- अपि च नियोगो बा भावना बा यद्यप्यम्युपगम्यते तथाऽि कर्मका- ठडेऽपि न सर्वत्र तत्संभचो निषेधवाक्येषु तदनिरूपणादित्याह-अपीति। ब्राह्मणो न हन्तव्य इत्यादि नञर्थशिष्ठवाक्यगम्यं ब्राह्मणहननादि प्रतिषिद्धकर्म तस्य प्रतिषिद्धकर्मणो या फलगर्धिनिवृत्तिः फलप्रार्थनौदासीन्यरूपोपरतिः सैव प्रतिषिद्धचोदना विषयः स्यान्न नियोगो नापि तस्य नियोगस्य गोचरो विषयभूतो घात्वर्थः प्रतिषेधचोदना विषयः स्यादिति योजना। नियोगग्रहणं भावनाया अप्युपलक्षणम् । नापि भावना भाव्यो वा तथेत्यर्थः ॥ एतदुक्तं भवति-निषेधवाक्यं तावन्नञर्थनिष्ठं प्रसिद्धं नञर्थश्च निवृत्तिरौदासीन्यलक्षणा क्रियाया इष्टसाधनत्वं तत्फलस्येष्टत्वं च मोहात्प्रतीतमत्र निषिध्यत इति स्पष्टी करिष्यति। तस्मानियोगो वा भावना वा नात्र वाक्यार्थो वाक्यं चेदं वैदिकं स्वार्थपरप्रमाणमेवेति न सर्वो वेदो विधिपर इति ॥ ४०१ ॥ सु० टी०-न निवृत्तिरेव नञ्रर्थः पर्युदासादेरवि तदर्थत्वेनानुहेयत्व- संभवादिति चेन्नेत्याह- नञ: स्वसंबन्धिपदार्थवस्तुनो निवृत्तिरर्थ: सहजः पसिद्धितः । अनीक्षणादौ व्रतशब्दसंगते: परप्रयुक्त खलु मानसी क्रिया ॥ ४०२। मन इति। विवेन्नेत्युक्ते स्वरसतः पानकर्तव्यतानिवृत्तिरेव प्रतीयल इति सैव नत्रो मुखयोऽर्थः प्रसिद्धेरनेकार्थताया अन्याय्यत्वाञ्चेत्यर्थः। का तर्ह नेक्षेतोद्यन्तमित्यादी गतिरिति चेत्तन्ाऽऽइ-अनीक्षणादांकिति। 'अथातः प्रजापतिव्वतम् 'इन्यनुद्धेयार्थव्रतशव्दोपक्रमात्तत्प्रयुक्तैव तत्रा नीक्षणसंकल्पलक्षणा त्रयो वेदा इत्युपक्रमातुरोधादिवोच्वैर्कपेत्यादा- वृगादिष्द्स्य वेद्लक्षणेति । न च प्रकृते लक्षणाबीजमस्तीति भाव :.
Page 340
संक्षेपशारीरकम्। ३३३
अ० टी०-ननु कर्थ निवृत्तिरेव मअर्थ इत्याश्रीयते पर्युदासवृत्तेरपि संभवादिति चेत्सत्यमत्र सा न संभवतीत्याह-नञ्रः स्वसंबन्धीति। सहज उत्पत्तिशिष्टः स्व्राभा- विक इति यावत्। नेत्युक्ते स्वरसतः संबन्धिनिवृत्तेरेव पुरःस्फूर्तिदर्शनान्न पर्युदासस्तथेति मुख्यार्थसंभवेऽर्थान्तरं न कल्प्यमित्यर्थः । कथं तर्हि- 'नेक्षेतोदन्तमादित्यं नास्तं यन्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ।। इत्यादौ पर्युदासाश्रयणमिति चेत्कारणान्तरवशादित्याह-अनीक्षण- दाविति। अनीक्षणादौ नेक्षेतेतिवाक्यविहिते नेक्षेऽहमिति या मानसी क्रिया नञर्थ- पर्युदासेन स्वीकृता सा खलु परप्रयुक्ता । कुतो व्रतशब्दसंगतेः 'अथातः प्रजापतिव्रतम्' इति वाक्यस्यानुष्ठेयवाचिना व्रतशब्देनोपक्रमादनुष्ठेयपरत्वावगमात्तन्मध्यपातिनोऽनीक्षण- विधेरप्यनुष्ठेयव्रतशब्दसंगतेर्हेतोरित्यर्थः । अत उपक्रमतन्त्रया नेक्षेतेत्यादौ पर्युदासाश्रयणं न तन्न नञो मुख्यवृत्तित्वमिह तु तथाविधकरणाभावान्न मुख्यार्थपरित्यागो युक्त इति भाव: ।। ४०२ ।। सु० टी०-अन्यथा हि विधिनिषेधविभागोऽपि तव न स्यादि- श्याह- अपि च प्रतिषेधचोदना न तु भिद्येत भवन्मते विधेः। विधिरेव तु चोदनाडखिला न हि वेदे वचनं निवर्तकम् ॥४०३ ॥ अपि चेति। निवृत्तिनियोगवादिनो हि विधिवत्प्रतिषेधस्यापि कार्या- र्थत्वाविशेषात् प्रतिषेधचोदना न विधेर्भिद्येत द्वयोरपि प्रवर्तकत्वादि- त्यर्थः । अत एव निवृत्तिप्रयत्नविधायकत्वेन विधिभेदत्वं निषेधस्पेति मतमप्यपास्तं लक्षणाप्रसङ्गात् फलादिभेदाच्च। तदुक्तम्- 'फलबुद्धिप्रमेयाधिकारिबोधकभेदतः । पश्चधाऽत्यन्तभिन्नत्वान्भेदो विधिनिषेधयोः'॥ इति॥४०३॥ अ० टी०-कि च प्रतिषेधवाक्यस्याप्यनुष्ठेयार्थनिष्ठत्वे विधिप्रतिषेधभेदासिद्धिरतोऽपि निषेधवाक्यं नानुष्ठेयपरमित्याह-अपि च प्रतिषेधचोदना न त्विति। भवन्मते विधे: सकाशात्म्रतिषेधचोदना न तु भिद्येतेत्यन्वयः। यतोऽस्मिन्पक्षेSखिलाऽपि चोदना विधिरेवातो वेदे निवर्तकं वचनं न हि किमपि सिध्यतीत्यर्थः ॥४०३॥
Page 341
६३४. टीकाद्वय सभेंतं-
सु० टी०-निषेधानां निवृत्तिनिष्ठत्वेपि मवतः किमापातमिति चत्तत्ाSSह- प्रतिषेधवाक्यवदतः सकलं. विधिशून्यमेव फलवद्द्वतु। वचनं त्रयीशिरसि तत्त्वमसि- प्रभृति प्रतीचि तमसोऽपहतेः ॥ ४०४ ॥ प्रतिषेधेति। कार्यरहितप्रतिषेधवाक्यवद्वेदान्तवाक्यमपि तत्व्रमादि विधिशून्यमपि तमोनिवर्तकत्वेनैव फलवत्वात्प्रतीचि प्रमाणं भवेदिति किं नाऽडयातमित्यर्थः ॥। ४०४ ॥ अ० टी०-भवत्वेवं निषेधवाक्यं निवृत्तिनिष्ठमेव किमेतावता तवाऽडयातमिति चेद्वेदान्तवाक्यानामप्यविद्यानिवृत्तिमात्रेण प्रतिषेधवाक्यवदननुष्ठेये वस्तुनि प्रामाण्यसिद्धि- रितीदमायातं ममेत्याह-प्रतिषेधवाक्यवढिति। यत एवं वेद: सर्वोडपि न. विधि- निष्ठोऽतोSविधिप्रधानप्रतिषेधवाक्यवत्रयीशिरसि तत्त्वमसिप्रभृति सकलवचनं विधि- शून्यमेव विधिनिरपेक्षभेव फलवत्प्रमाणं भवतु तेन सदः प्रतीचि तमसोऽनादज्ञानस्य संसारबीजस्यापहतेर्बाधनादिति योजना ॥ ४०४ ॥ सु० टी०-निवृत्तिरेव नञ्रर्थ इति वक्तुं मतान्तरे दूषणायो- पन्यस्यति- नामधातुसहितो नतिष्यते पर्युदासविषयो मनीषिभिः। न प्रसक्तविनिवृत्तिवाच कोड- बाह्मणादिषु तथोपलम्भनात् ॥४०५॥ नामेति। नत्रो विषयभेदेन पर्युंदासो निवृत्तिश्र मुख्योऽय:। तन्र नामधातुम्यामन्विता नञ्रूपर्युदासार्थो न निदृत्तिवाचीति माट्ठा:। तदुक्तं- 'नामधात्वर्थयोगेन नैव नञय् प्रतिषेधकः।
अन्र लक्षणाया अप्यनादित्वान्मुस्यन्वोकि:॥।४०५ ॥
Page 342
संक्षेपशारीरकम्। ३१५
अ० टो० -. तदेवं निषेधवाक्ये नञः स्वसंबन्ध्यभाव एवार्थो मुख्यो न पर्युदास इति यदुक्तं तन्न थुक्तं भाहैरन्यथोपपादनादिति' तन्मतमुत्थापयति-नामधातुसहित इति।अयमर्थ :- 'बराह्मणो न हन्तव्यः' इत्यत्र ब्राह्मणो नामार्थो हननं धात्वर्थो नियोगादि- स्तव्यार्थ इति स्थितिः । तत्र नामसहितो धातुसहितो वा यदा नञ्ुपादीयते तदा स पर्थुदासविषयो मनीषिभिरिष्यत इति योजना। नामधातुभ्यां योगे प्रसक्तविनिवृ- त्तिवाचको नञ् नेष्यत इति योज्यमुक्तपर्युदासवृत्तावुदाहरणमब्राह्मणादिष तथोपलम्भना- दिति ॥ ४०५॥ सु० टी८ -- नामयोगनिमित्तकमाह-
नामान्वयादाश्रितपर्युदासः । अन्यं विरुद्धं च सदाऽभिधत्ते नोधन्तमित्यादिषु धातुयोगात् ॥४०६ ॥ अब्राह्मणेति। नाम्नाऽन्वयान्नामान्वयं निमित्तीकृत्येत्यर्थः । अन्यं बाह्मणातक्षत्रियादिं विरुद्धं धर्मविरुद्धमधर्मममिधेत्ते निरूढलक्षणयो- पस्थापयतीदमुपलक्षणम्। ब्राह्मणधर्मश्दावपि पञ्चम्यर्थमविधित्वं सहार्थतृतीयार्थ च लक्षयत इति। धात्वन्वयनिमित्तकमाह-नोदन्त- मिति ॥ ४०६ ॥ अ० टी०-उदाहरणं नजो नामान्वये धात्वन्वये च क्रमेण विभजते-अबा- ह्माणाधर्मेति। आश्रितः पर्युदासो येन स तथा। अब्राह्मण इत्युक्ते ब्राह्मणसददशो ब्राह्म- णाभासः क्षत्रियादिरित्यन्यमभिधत्तेऽधर्म इति तु धर्मविरुद्धमर्थान्तरमभिधत्त इति योजना। तथा च नजो नामयोगे यथायथं तदन्यतद्विरुद्वार्थयोर्मुख्यत्वात्पर्युदासवृत्तिरप्यस्य मुख्यै वेति भाव:। धातुयोगेऽप्याह-नोदयन्तमिति। धातुरीक्षणम्। अनीक्षणमितीक्षण- विरुद्धार्थ पर्युदासवृत्त्यैष नञभिधत्त इति योजना ॥ ४०६ ॥ सु० टी०-कथमिति चेत्तनाSडह -- नोयन्तमित्यत्र नञेक्षणार्थ- समीपकार्यान्तरमुच्यते हि। ततश् नेक्षिष्य इतीदृशी स्या- तसंकल्पना संनिहितत्वहेतोः ॥ ४०७॥ १ क, ग. ०से विरुद्वल।
Page 343
२३६ टीकाद्दय समेतं-
नोदन्तमित्यत्रेति। 'नेक्षेतोद्यन्तमादित्यम्' इत्पत्र वतोपकरमादीक्षण धात्वर्थसमीपस्थमीक्षितृनिषठ नेक्षिष्य इति संकल्परूप कार्यमीक्षण पर्युदासेन नत्रा लक्ष्यतेऽनीक्षणात्मकप्रतिषेधार्थं प्रति संनिहितत्वादपे- क्षितत्वाचेत्यर्थ:॥४०७ ॥। अ० टी०-एतदेवोपपादयति-नोद्यम्तमित्यत्रेति। ईक्षणार्थसमीप ईक्षणार्थसमी- पस्थं कार्यान्तरं संकल्परूपमुच्यते हि नोद्यन्तमित्यत्र नजेति योजना। यस्मिन्नीक्षितारी तंदी- क्षणं वर्तते तत्स्थं तद्विरुद्वं कार्यान्तरं नञा पर्युदासवृत्त्या समर्थ्यत इत्यर्थः। किमाकारं तत्का- र्यान्तिरं तदाह-ततश्रेति। एवं संकल्पनाऽत्र कुतः स्यादित्यत आह-संनिहितत्वहेतो- रिति। मानससंकल्पनायाः प्रतिषेधार्थ प्रति संभिहितत्वातप्रतिषेधो हि संकल्पेन परि पाल्यत इत्यतो युक्तमिह तादृड्मानसंक्रियापरत्वं वाक्यस्येत्यर्थः ॥ ४०७॥ सु० टी०-कुत निवृत्तिर्नञर्थस्तदाह- द्विजं न हन्यान्न कलअमया- दित्यादिवाक्ये विधिनाऽस्य योगात्। प्रसज्यमानार्थनिवृत्तिमात्रं नञर्थ इत्याश्रितमादरेण ।। ४०८॥ द्विजमिति । अत्र हन्यादिति' हननकर्तव्यत्वं रागग्राप्तं लिङनुवदृति तया च नञ्रोऽन्वये प्रसक्तहननव्यापारनिवृत्तिलक्षणमौदासीन्यमान्नमेव नओर्ऽर्थो न संकल्पादीत्यर्थः ॥४०८॥। अ० टी०-नञस्तदन्यतद्विरुद्धयोः पर्युदासार्थत्वमुदाहृत्य तस्य स्वसंबन्ध्यभावार्थत्व- भिदानीमुदाहरति -- द्विजं न हन्यादिति। अत्र नामधात्वर्थप्रतिषेधकतया तद्योगो नञो न युक्त: प्रत्यक्षविरोधात्परिशेषाद्विधिनैवास्य योग इति विध्यर्थाभावमात्रपरमत्र नञ््- पदमित्यर्थः । अक्षरयोजना सुगमा ॥४०८॥ सु० टी०-प्रामाकरास्त्वन्यथा वर्णयन्तीत्याह- नायां न हन्यां न पिबेयमित्यपि वाक्येषु नञ्वत्सु वदन्ति मानसीम्। संकल्परूपां विधिवर्तिनीं करियां नोयन्तमित्यादिवचःस्विवापरे ॥ ४०९ ॥
१ क. ति न ह।
Page 344
संक्षेपशारीरकम्। ३३७
नादयामिति। इत्यपीत्यस्वरसोद्वारस्तद्वीजं तु मुख्यार्थसंभवेऽपि लक्षणा- श्रयणम्। ते हि नाद्यादित्यादिवाक्येषु प्रत्ययापेक्षया संनिकृष्टेन
लनहेतुभूतां संकल्पात्मिकां क्रियां विधिबन्धनी विधियोग्यां विधिवाच्यां वा नियोगक्रियां नोद्यन्तमित्यादिष्विव नत्रर्थ वदन्तीत्यर्थः ।।४०९।। अ० टी०-अन्ये त्वत्रापि नेक्षेतत्यादावित् धातुनाऽन्वयं नञः परिकल्प्य नादा मित्याद्याकारां मानसी संकल्पक्रियामिच्छन्तीति सर्वत्र पर्युदास एव नञोऽर्य इति युक्त- मिताह-नाद्यां न हन्यामिति। अपरे विधिवर्तिनी मानसी क्रियां वदन्तीत्न्वयः। सुबोधमन्यत् । ४०९ ॥ सु० टी० -- ननु कर्थं प्रधानप्रत्ययपरित्यागेन धातुना नञ्रन्वयं कृत्वा लक्षणां कल्पयन्तीत्यगत्येत्याह- वाक्येषु नञ्वत्सु निवृत्तिमात्रं प्रमेयमित्यभ्युपगम्पमाने। प्रत्यक्षमानेन विरुध्यते हि निवृत्तिशास्त्रं न च युज्यते तत् ॥ ४१० ॥ वाक्येष्व्िति। निषेधैर्निवृत्तिमात्रबोधने प्रत्यक्षविधिश्रुतिविरोधस्तस्य प्रवर्तकत्वादित्यर्थः ।।४१०॥ अ० टी०-ननु प्रत्ययार्थेन प्रवानेन नञोऽन्वयं परित्यज्य धातुनाSप्रधानेनान्वयः पर्युदासश्च कस्मादाश्रीयत इति चेत्तथात्वे प्रत्यक्षविरोधादित्याह -- वाक्येषु नञ््व- रिस्वति। प्रत्यक्षविरोधं न हि कलअ्मित्यत्र वक्ष्यति। निवृत्तिशास्त्रं निषेधवाक्यात्म- कम्। इष्टापति परिहरति-न च युज्यते तदिति। मानान्तरविरोधे शास्स्य
सु• टी०-अन्यथा माष्यविरोध इत्यपि वदन्तीत्याह- प्रवर्तकं वाक्यमुवाच चोदनां निवर्तकं नैवमुवाच भाष्यकतू। ततश्र विघ्नो न हि चोदनाडस्ति सा प्रवर्तिका या न भवेदिति स्थितिः ॥ ४११।
Page 345
टीकाटटय समेसं-
प्रवर्तकमिति। माष्यकृता हि चोदनेति क्रियाया: प्रवर्तकं वाक्यमित्युक्ततं न निवर्तकमपीति ततस्तत्स्वरसादृपि (*वक्तव्या लक्षणेत्यर्थः।। ४११.। अ० टी० -- भाष्यकारवचनानुसारेणपरप्यत्र धातुयोगेन नञ्रः पर्युदासार्थतैवाङ्गीकार्ये- त्याह-प्रवर्तकमिति। भाष्यकृच्छबरस्वामी चोदनासत्रे प्रवर्तकं वाक्यं चोदनामुवाच। चोदनेति क्रियायाः प्रवर्तकं वचनमिति। एवं निवर्तकं निषेधवाक्यं चोदनां नोवाच। यद्यत्रापि प्रत्ययप्राधान्यं विवक्षितत्वात्तन्निवृत्तिर्नञर्थः प्रतिषेधवाक्येषु भवेत्तदा चोदनेति- क्रियायाः प्रवर्तकं निवर्तकं च वचनमित्यवक्ष्यत्तन्ावादीत्। ततश्व हेतोरेव विन्नः सा चोदना न ह्यस्ति या प्रवर्तिका न भवेदिति स्थितिः शास्त्रमर्यादेति। अन्त इति शब्दोS- ध्याहार्य: ॥ ४११ ॥ सु० टी०-नञर्थद्वैविध्यमुक्तं दूषयति- न नामयोगो न च धातुयोगो लिडदियोगोडंपे न कारणं नः । नञ्रः स्वसंबन्धनिवृत्तिमात्रं स्वतोडभिधेयं परतोऽन्यदस्य ॥ ३१२॥ न नामेति। नामादियोगो नञ्रर्थवैचित्रये न) कारणमित्यर्थः । ननूक्त- स्थलेषु तथा दष्टमिति नेत्याह-नञ इति। नत्रो निवृत्तिरेव मुख्योऽर्थः। प्रसिद्धिविरोधादिना त्वन्यत्वविरु्द्धत्वादिकमपि लक्ष्यमबराह्मणादा- वित्यर्थः ॥। ४१२ ॥ अ० टी०-एवं मंतविशेषमुत्थाप्य तत्र विषयव्यवस्थया नञोऽर्थद्वैविध्यमुक्तं दूष- यति सिद्धान्ती-न नामयोग इति। न कारणं नञोरऽर्थव्यवस्थायामिति शेषः । नोऽस्माकमिष्टमिति योज्यम्। तर्हि कथं निषेधपर्युदासव्यवस्थेति चेत्तत्राऽऽह-नञ्र इति। स्वसंबन्धिनिवृत्तिमात्रं नञ्रः स्वरसतोऽभिवेयं निवृत्तिरेवास्य सर्वत्र नामधातुप्रत्य- यानां योगेऽप्यर्थः स्व्रभावतोऽन्यत्त्वर्थान्तरं पर्युदासादिरूपं परतः कारणान्तरादि- त्यर्थ: ॥ ४१२ ॥ सु० टी०-कुत एवमिति चेत्तद्वयभिचारादित्याह- तथा हि नाग्रे करिणीति नाम्रा गजोऽत्र नास्तीति च धातुयोगे।
*क. पुस्तकेऽयं ग्रन्थो नास्ति।
Page 346
संक्षेपशारीरकम्।
लिडनदियोगेऽपि निवृत्तिररथों विषं न. खादेदिति नञ्पदस्य । ४१३॥ तथा हीति। नाम्ना योग इत्यनुषङ्गः । यथा हि नेयं पुरतः करिणी किं तु निबिडा तरुच्छाया न चेहास्ति हस्ती किं तु गिरित्रविवरस्थ: प्रस्तरोडयं न चेदमद्याद्विषमिदमित्यादौ नामादियुक्तस्यापि नत्रो
Tu अ० टी०-कुत एवमिति चेत्वदुक्तव्यवस्थाया व्यभिचारदर्शनादित्याह-तथा हीति। नाग्रे करिणीत्यत्र नो नामयोगे करिण्या निषेध एव .... तत्पर्युदासेनार्थान्तरं तत्कल्पनानिमित्ताभावादित्यर्थः । अत्र गजो नास्तीति धातुयोगेऽस्धातुयोगे च गजाभाव एव नञर्थः प्रतीयते। न खादेदिति लिडादियोगेऽपि नञ््पदस्य निवृत्तिरेवार्थः प्रतीयत इत्यर्थ: ॥ ४१३ ॥ सु० टी०-वेदेऽपि व्यमिचारोदाहरणमाह- तथा श्रुतौ नेतिवच:सु नाम्नि नानेह नास्तीति च धातुयोगे। तथा विधानेन कलअमया- न्नञाऽविशेषेण निवृत्तिरर्थ: ॥४१४ ॥ तथेति। 'अथात आदेशो नेति नेति' [बृ० २।३।६ ] इति नामयोगे, 'नेह नानाडस्ति' [बृ० ४।४।१९] इति धातुयोगे, 'न कलअ्जमद्यात्' इति विधियोगे च प्रसक्तमूर्तामू तद्वैतादेर्भक्षणश्रेय- स्करत्वादेश् निवृत्तिरेव नञ्रर्थो निरूपितः । प्रकृतैतावत्त्वं हि प्रतिषेध- तीत्यादौ नाबाह्मणादिवत्पर्युदास इत्यर्थः ।। ४१४। अ० टी०-लोकप्रयोग इव श्रुतिप्रयोगेऽपि व्यभिचारमाह-तथा श्रुताविति। 'अथात आदेशो नेति नेति' [बृ० २ । ३ । ६ ] इत्यादिवाक्येष्वित्यर्थः । 'नेह नानाडस्ति किंचन' [बृह० ४। ४ । १९] इत्येतच्छन्दोनुरोधेन नानेह नास्तीति व्यत्यस्य प्रयुक्त नञ्रः सर्वत्राविशेषेण निवृत्तिरर्थो न कापि स्वरसतः पर्युदासार्थत्वं सर्वत्र
सु० टी०-अस्तु तत्रापि पर्युदास इति चेन्नेत्याह- औदासीन्यं पुरुषगतभेवाविशेषान्नञर्थो भ्रांन्तिभासे सति तु विषये यत्र यत्रैव दृष्टः ।
Page 347
३४० हीकाटय समेतं-
नौदासीन्यं पृथगिह भवेदात्मचिन्मात्ररूपात् सिद्धे वस्तुन्यवसितमतो वेदवाक्यं निषेधे ॥ ४१५॥ औदासीन्यमिति। प्रमाणपाप्तस्य निषेधासंभवात्तदृन्वितंस्य नञ्रः . कदाचित्पर्युदासार्थताऽपि स्याद्भ्रान्तिप्रसक्तान्वितस्य तु तस्थ सर्वत्र निवृ त्तिरेव तद्विषयौदासीन्यरूपा मुख्योऽर्थ इत्यर्थः । ननु निवृत्तिरषि प्रयत्नविशेषरूपाऽनुष्ठेयेति नत्याह-नौदासीन्यमिति। भ्रान्तिप्रसक्तस्य
सिद्ध निष्ठत्वं निषेधस्येत्यर्थः ।। ४१५।। अ० टी०-एवं तर्हि कथं प्रतिनियता व्यवहारव्यवस्था सर्वत्र निवृत्त्यर्थत्व इति चेत्तत्राSडह-आदासीन्यमिति। विषये भ्रान्तिप्राप्ते सति यत्र यत्रैष नञदष्टस्त सर्वत्र पुरुषगतमौदासीन्यमेव नओोऽर्थोSविशेषान्नामादियोगकृतविशेषाभाबादिति योजना सुशब्द: प्रमाणप्राप्तविषयव्युदासार्थः । 'न हन्यात्' इत्यादौ प्रतिषिभ्यमानक्रियाफल प्रार्थनाया भ्रान्तिप्राप्तत्वान्निषेधसंभवात्तत्र प्रसज्यप्रतिषेध एव नर्थः प्रमाणप्राप्तस्य प्रतिषेद्ध मशक्यत्वात्तत्र पर्युदास इति व्यवस्थासिद्धिरित्यर्थः। ननु निवृत्तिरपि व्यापारोपरमलक्षणाड नुष्टेया भविष्यत्यतो निवृत्तिनिष्ठमपि वाक्यं कार्यनिष्टमेवेति चेन्नेत्याह-नौदासीन्य मिति। आत्मचिन्मात्ररूपादौदासीन्यं प्रसक्तक्रियाया अकरणरूपं पृथगन्यदनुप्रेयं वस्त्विह निषेधवाक्य प्रतीयमानं न भवेद्धान्तिप्राप्तपार्थनायाः परमार्थतोऽभावात्तनिवृत्तिर्न प्रत्यगा न्मनोऽर्थान्तरं संभवतीत्यर्थः । फलितमाह-सिद्धे वस्तुनीति। निपेधे निषेधस्थते वेदवाक्यं सिद्धे वस्तुन्येव प्रमाणमिति निश्चितमित्यर्थः ॥ ४१५॥ सु० टी०-भाष्यविरोधमुत्तं निरस्पति- प्रवर्तकं वाक्यभुवाच चोदना निधाय बुद्धी वचनं निवर्तकम्। द्वितीय सुत्रे भगवान्बहुश्रुतो न चोदनाद्वित्वनिवारणाय तत् ॥ ४१६॥. प्रवर्तकामेति। भाष्यकृता यत्परवर्तक वाक्यं चोदनेत्पुक्तं न तज्चोदना द्वितं वारयितुं किं तु निवर्तनाया अप्यपलक्षणं प्रथमसूत्रे नञ्परश्लेषे
१ ख. म. घ. दुनां ।)
Page 348
संक्षेपशारीरकम। ३४१ णाधर्मस्यापि जिज्ञास्यत्वेन प्रतिज्ञाततया द्वितीय सूत्रेऽप्यर्थपदेन निषेधचोदनालक्षणोऽनर्थः इयेनादिरधर्म इत्यस्यापि लक्षयितुमुचित- त्वादित्यर्थ: ॥ ४१६॥ अ० टी०-यत्पुनर्भाष्यकारेण प्रवर्तकवचनवन्निवर्तकं वचनं चोदनाशब्दार्थतेन न. व्याख्यातमिति निवृत्तिर्न चोदनार्थ इति गम्यत इति तन्नोपलक्षणत्वाद्गाष्यवाक्यस्येत्याह- प्रवर्तकमिति। भाष्यकारो भगवान्बहुश्रुतः सर्वज्ञो यत्प्रवर्तकं वाक्यं चोदनामुवाच तन्निवर्तकं वचनमपि बुद्धौ निधायैव न चोदनाद्वित्वनिवारणाय तद्दचनमन्यथा 'चोदना- लक्षणोडर्थो धर्मः' [जै० १।१। २] इतिसूत्रेऽर्थग्रहणं श्येनाद्यधर्मव्यावृत्त्यर्थमर्थ- पदमिति तद्भाष्यं चानपेक्षं स्यान्निषेधेषु चोदनाभावात् 'चोदनाचक्षणो धर्मः' इत्येताव- तैवानतिव्याप्तधर्मलक्षणसिद्धेरिति भावः ॥ ४१६ ॥ सु० टी० -- एवसुपपादितं निवृत्तिपरत्वं प्राभाकरो दूषयति- ननु निवृत्तिपरत्वमुद्दीरितं विघटयामि निषेधगिरामिह। न हि कलञ्जमिति प्रतिपायते यदि तदानयनेन विरुध्यते ॥४१७॥ नन्विति। किं कलअ्जपदार्थस्य नञ्रा निषेध उत तदन्वितमक्षणस्य किं वा तत्फल प्रार्थनाया: प्रत्ययार्थस्याथ वा मत्क्लप्स्य भक्षणविषय- नियोगस्थेति। तत्र नाऽडय्य इत्याह-न हीति। मक्ष्यत्वेन प्राप्तमिदं कलअं नेत्युक्ते तद्वोधकचक्षुषा विरोधोऽन्यथा निषेधोऽपि न सिध्ये- दिति ॥ ४१७॥ अ० टी०-इदानी प्राभाकरमतमुत्थापयति-ननु निवृत्तीति। विघटनप्रकार- माह-न हीति। नञो नामान्वयेन प्रतिषेधपरत्व इदं कलञ्जमिति प्रत्यक्षेण विरोधः स्फुट इत्यर्थः ॥ ४१७॥ सु० टी०-द्वितीय तृतीयाशाशङ्कय निषेधति- अथ कलअपदार्थगभक्षणं न हि तदाऽप्यमुनैव विरुध्यते।
१ ख. ग. व.रामहम्।
Page 349
३४२ टीकाट्वय समेतं-
अथ तदीयफलस्पृहयाऽन्वयो न हि तदप्यनुभूतिपराहतम् ॥ ४१८॥ अथेति। कलक्जमक्षणस्य हश्यमानत्वाज्चक्षुषेव विरोध इत्यथ:। मक्षणश्रेयस्करत्वनिषेधश्चेदनुभवविरोध इत्याह-अथेति ।। ४१८।। अ० टी० -- धात्वन्वयेऽपि स एव दोष इत्याह-अथ कलञ्जेति। भक्षणस्यापि प्रत्यक्षत्वादित्यर्थः । तर्हि नियोगमेव प्रत्ययार्थमादाय तन्निषेध: प्रत्ययसंगतनञर्थ इत्यपि न वाच्यमित्याह-अथ तदीयफलेति। यतस्तदप्यनुभवविरुद्धं तदा हि नियोगतः प्राप्त- भक्षणस्यैव निषेधो न यदच्छाप्राप्तभक्षणस्य निवृत्तिः सि्यर्तीत्यर्थ: ॥४१८॥ सु० टी०-चतुर्थमाशङ्कते- अथ तदीयनियोगनिवर्तनं भवतु भक्षणमस्ति तदिच्छया। न हि नियोगनिवृत्तिनिवेदने सति कलअ्जमभक्ष्यमितीङ्गचते ॥४१९॥ अथेति। मक्षणनियोगनिषेधेऽपि रागप्राप्तमक्षणे दोषाभावान्निषेध- शास्त्रवैफल्यमित्याह-भवत्विति। ननु तन्नियोगनिषेधादेव भक्षणस्यानर्थ- हेतुत्वं कल्प्यमिति नेत्याह-न हीति । कृष्यादौ नियोगाभावेऽप्यनर्था. दर्शनादित्यर्थः॥४१९॥ अ० टी० -- ननु नियोगनिषेधादेव भक्षणस्यानर्थहेतुत्वकल्पनाद्यादच्छिकतया प्राप्त- भक्षणिवृत्तिः सेत्स्यतीत्याशङ्कय तदपि मनोरथमात्रमित्याह-अथ तदीयनियोग- निवर्तनमिति। भक्षणनियोगनिवर्तनं नञर्थो भवत्विति शङ्कानुवादभागः । दूषणभागो भक्षणमस्ति तदिच्छयेति। तत्तदाऽपीच्छया प्राप्तं भक्षणमसत्येव निवर्तत इत्यर्थः । तदेवो- पपादयति-न हीति। नञवता वाक्येन नियोगनिवृत्तिनिवेदने सत्यपि कलञ्जमभक्ष्य- मनर्थहेतुरिति नेङ्गयते न कल्प्यते कृष्यादिवद्दृष्टफलस्य तेनाप्रतिषेधादित्यर्थः । अप्राप्तप्रति- बेधश्चायं नियोगनिवृत्तिपक्षो भक्षणे नियोगाभावाद्रागत एव तत्प्राप्तेरित्यपि द्रष्टव्यम्॥४१९॥ सु० टी०-अस्तु तार्हे कस्यचिद्विगीतसुखादेनिवृत्तिर्नञ्रर्थ इति चेन्न तस्याशाब्दृत्वेन नञ्रन्वयायोग्यत्वादित्याह- इह कलअपदेन नञ्रन्वयो भवति वाडस्य नञ्रोऽदिसमागमः । १ ख. ग. घ. मम्तु त°।
Page 350
संक्षेपशारीरकम्। ₹४३
अदिगतेन लिडनदिपदेन वा सह समेति नञत्र गंतिस््रयी ॥ ४२० ॥
तिरिक्तस्य चात्र वाक्ये तत्संबन्धिनोऽमावात्कस्य निवृत्तिरनञ्रर्थ इत्यर्थः । त्रयीत्युप्लक्षणम् ॥४२० ॥ अ० टी० -- तहुक्तिभ्योऽन्यदेव किमपि निषेध्यमिह भविष्यतीति चेन्नेत्याह-इह कलअ्र्ेति। अदिसंगमो भक्षणान्वयो वा भवति अदिगतेन भक्षणधात्वर्थसंगतेनेति यावत् । अत्र नञोऽन्वये त्रयी गतिश्चतुर्थी नात्रास्ति द्वाराभावादित्यर्थः ॥ ४२०॥ सु० टी०-तर्हि कर्थंचिदुक्तपक्षेष्वेव युक्तिरनुसरणीयेति चेन्नोन्भ्ा वितदूषण ग्रस्तत्वादित्याह- उदितपक्षपरिग्रहकारिणां न च निषेधगिरामुपपादने। भवति शक्तिरतस्तु निषेधगी-
उदितेति। शक्तिः साम्थ्यम्। तहिं कि निषेधवाक्यमनर्थकमेव नेत्याह-अतश्चेति। मक्षणाभावविषयको नियोग एव तदर्थ इति बला: दृम्युपेयमित्यर्थः ।।४२१॥ अ० टी०-तर्होष्वेव पक्षः कश्वित्कथंचिन्निर्वहणीय इति चेन्नासंभवादित्याह- उदितपक्षेति। उदितपक्षपरिग्रहकारिणां नामधातुप्रत्ययान्वयानां निषेधगिरां निवृत्ति- परत्वोपपादने शक्तिर्न च भवति तदसंभवस्योक्तत्वादित्यर्थः । तर्हि निषेधवाक्यानां का गतिरिति तामाह-अतश्चेति। निषेधगीरपीत्यपिशब्दो विधिगीर्द्ष्टान्तार्थः। नियोग- परेति धात्वर्थनिषेधनियोगपरेत्यर्थः । न च भक्षणादेः कर्तव्यत्वनिवृत्तिवाक्यार्थपक्षे माना न्तरविरोध इति भाव: ।। ४२१ ।। स० टी०-ननु नियोगभेद: शास्त्रमेदोत्स चानुबन्धभेदादिति तेद- संभवें कुतो हननादिनिषेधशास्त्रभेद: कुतश्र तन्नियोगभेद इति चेच्तः घ्राsडह- यथा च यागाद्नुबन्धभेदा- द्विन्नेषु शास्त्रेषु नियोगभेद: ।
Page 351
३४४ टीकादय समेतं-
निवर्त्यभेदादपि तद्वदस्य निवृत्तयोऽपि ह्यनुबन्धभूताः ॥४२२ ॥ यथा चेति 1 अतु पश्चाद्ष्यते वंयवच्छेदकनयेति यागदानहोमादिर्धा- हवर्थोऽनुबन्धस्तत्र विधा यथा तन्भेदात्तत्तच्छास्त्रभेदे तद्विषयकमंपूर्व भिद्यत एवमन्रापि निषेध्यपानादिभेदेन निवृत्तिरूपविषयाणां मेदात्त- द्विषयनियोगभेदसिद्धिः। निवृत्तीनामपि मनोव्यापारनिरोधात्मतयाऽनु-
अ० टी०-यदि निवृत्तिनियोगो निषेधवाक्येषु वाक्यार्थस्तर्हि नाद्यान्न हन्यादित्या- दिनिषेधशास्त्राणां मिथो न भेदः स्यान्निवृत्तिनियोगस्यैकत्वादिति चेन्नेत्याह-यथा च यागादीति। यथा विधिशास्त्रेऽपि यागदानहोमाद्यनुबन्धभेदादवच्छेद कभेदाद्भ्िन्नेधु शास्त्रेषु सत्सु तत्तद्विषयनियोगभेरेऽङ्गीकृत इति शेषः । तद्वदस्य निवत्यभेदान्निषेध्यभे- दादपिशब्दाद्धात्वर्थनामभेदान्निषेधभेदाच्च भेद इति योजना। हि यस्मान्निवृत्तयो निषेधा उपलक्षणमेतन्निषेध्यादयोऽप्यनुबन्धभृता निवृत्तिनियोगस्येत्यर्थः । निषेध्यभेदान्निषेधभेदा- त्तद्विषयनियोगभेदे सति निषेधशास्त्रवाक्यस्यापि भेदः सिध्यतीत्युक्तं भवति ॥ ४२२ ॥ सु० टी०-ननु मत्पक्षे तृप्तिहेतुभक्षणस्य निवर्तनानुपपत्थाSनर्थहे- तुत्वसिद्धिस्तव तु निषिद्धप्रवृत्तस्थैव नियाज्यत्वात्तत्निवृत्तिमात्रेण नियो- गसिद्द्ेः कुतः प्रवृत्तेरनिष्हेतुत्वसि्धिरिति चेन्न कुतश्रिदित्याह- निवृत्तिसिद्धयाऽपि नियोगसिद्धि: प्रवर्तमानस्य न गर्तपातः । निषिद्धचेष्टा निरयस्य हेतु- र्नियोगतो नाध्यवसीयते हि ॥ ४२३॥ निवृत्तीति। निवृत्तिशास्त्रान्नियोग एव सिध्यति तस्पैव लिडर्थतान्न तु मक्षयितुर्हन्तुर्वा नरकपातो मानाभावादित्यर्थः । ननु योऽवगुरेतं पातयादिति वाक्यशेषात्म्रवृत्तावनर्थः कल्प्यतामिति नेत्याह-निषिद्धेति । नियोज्यस्य निवृतत्या नियोगस्य नैराकाङ्क्ष्यान्नार्थवादेस्तदनपेक्षितफ- ससमर्पणं शक्यमित्यर्थः । किंच न तावन्नियोगस्य यातनाफलत्वं कार्यस्य फलानपेक्षत्वादनिष्टस्य नियोज्याविशेषणत्वाच्च। नापि तद्वि- षयीभूतनञ्रर्थस्य तस्य
१ ख. ग. घ. निवृत्तिभे।
Page 352
संक्षेपशारीरकम्। ३४५ लौकिकत्वेन विध्यसंस्पर्शात। वाक्येनैवानि्ेतुत्वप्रति वाढने वा वाक्यमेदादृवगोरणाभावेनापूर्व कुर्याल्। अवगोरणं च यतिनाहेतुरिति। कथं चेवं वाक्येनापि प्तिपाद्येत (+ सिद्धे व्युत्पत्यभावात्। कर्थं च क्षणिकमवगोरण कालान्तरीययातना साधयेत्। अपूरवद्वारेति चेद्या) गादेरपि तथोपपत्तावपूर्वाभिधानवैयंथर्यात्। न हववगोरणादिविषयक अषि कार्यान्तर तवास्तीति दिकू ॥। ४२३ ॥ अ० ढी०-मन्वस्मिन्पक्षे निषिद्धानुष्ठानस्य कथमनर्थहेतुत्वसिद्धिरिति चेन्न कर्थ-
तुत्वं विनाऽपि निवृत्तिमात्रसिद्धयाSपि नियोगसिद्धिर्भवति नित्यनियोगवदस्यापि फलनि- रपेक्षत्वाद्विषयनिवृत्तिमात्रेण नियोगसिद्धेरित्यर्थः । एवं निषेधवाक्यस्यापि नियोगनिष्ठत्वरा- न्रिषिद्धक्रियायां प्रवर्तमानस्य न गर्तपातो निरयंप्राप्तिः शास्त्रतोऽवगम्यत इति शेषः। तदेवोषपादयति-निषिद्धचेष्टेति। हि यस्मान्निषिद्धचेष्ठा निरयस्य हेतुरिति नियो- गतो विधितो नाध्यतसीयते। न खंलु विधिना विना वेदवाक्यादपूर्वार्थावधृतिरंस्ति । विधिश्च नियोगमात्रपरो नित्यविधितन्न तु स्वर्गकामादिविधिवत्कलवंन्नियोगपरः। न हि निषेधवाक्येषु स्वर्गकाम इत्यादिवद्वर्तपातपरिहारकामो नाद्यान्न हन्यादित्यादि प्रतीयतेऽतो न नियोगतोऽनर्थहेतुःवं कलज्जंभक्षणादेरवसीयत इत्यर्थः। निपिद्धक्रियानिवृत्यनुष्ठाने तद्वि- रोधिनिषिद्धानुष्ठानासिद्धौ गर्तपाताभावोऽर्थसिद्ध इति भावः ॥ ४२३॥ सु० टी०-ननु मियोगोडपुरुषार्थायां निवृत्तौ नियोक्तुमशकनुवन्नर्था- दवक्षणादिपवृत्तेरनर्थहेतुश्वं कल्पयस्विति चेतस्यादेवं यदि निवृत्त साक्षातमेरयेन्न तु तथेत्याह- नियोग एवैष पुमान्नियुज्यते नियोगसिद्धयै तु पुनर्नियुज्यते। परत्र कर्मस्वथ वा निवृत्तिषु स्थितिः प्रसिद्धेति नियोगवादिनाम् ॥४२४॥ नियोग एवेति। नियोगो हिस्वतः कृत्युद्वेश्यत्व्रांन्मां कुर्विति स्वात्मन्येव पुरुषं नियुक्के स्वस्य चापूर्वरूपत्वेन साक्षान्निर्वाहाशक्तेविषयककृतिरेव
4 ख. पुस्तकस्थोऽयं ग्रन्थः ।
१ क. ग. त्वात्तन्मा कु।
Page 353
३४६ रीका ट्वयसमेसं-
नियोंगकृतिरिति विषये यागादौ निवृत्तो वा स्वसिद्धयर्थमेव नियुद्ध इति सिद्धान्तादपुरुषार्थाया अषि निवृत्ते: प्रधानभूतनियोगप्रयुक्त्याऽ नुष्ठानसंभवान्न प्रत्यवायकल्पनेत्यर्थः ।।४२४ ।. अ० टी०-नन्वभिमतफलकलञ्जभक्षणादिनिवृत्तौ विशिष्टफलाभावे पुरुषं प्रेरयितुमश- कनुवन्नियोगो निवृत्तेरनर्थपरिहारत्वकल्पनयाऽर्थात्प्रवृत्तेरनर्थफलत्वं कल्पयेन्न फलहीन एवेति चेन्न निवृत्तौ साक्षात्प्रेरणाभावादित्याह-नियोग एवैष इति। एष पुमानधिकृतो नियोग एव साक्षान्नियुज्यते प्रथमतः पुननियोगस्य साक्षात्कृतिसाध्यत्वासंभवात्। नियोगसिद्धयै तु निवृत्यनुष्ठानेऽपि नियुज्यते न पुनः साक्षादेन तत्र फलकल्पनमित्यर्थः। एतच्च परत्र कर्मसु प्रवृत्तिरूपेष्वथ वा निवृत्तिरूपेषु कर्मसु च तुल्या। इतीत्थं नियोगवा- दिनां स्थिति: प्रसिद्धा सर्वत्र नियोगसिद्धिरेव साध्या। धात्वर्थस्तु नियोगसिद्धयर्थमेवानुष्ठेयो नियोगस्य साक्षात्कृतिसाध्यत्वासंभवात्फलं तु कामिनियोगेऽप्यनुद्देश्यो नियोगविशेषसामर्थ्य- सिद्ध इति भाव: ॥ ४२४ ।। सु० टी०-ननु मक्षणादिपागभावरूपाया निवृत्तेरनादित्वात्कथम- षेयत्वमिति चेत्तत्परिपालनद्वरेणेत्याह- प्रवृद्धरागस्य निवृत्तयोऽस्थिरा- स्ततः स्थिरत्वाय नियुज्यते पुमान्। निवृत्तिदेशेषु नियोगबुद्धितो निवृत्तिमूर्ध्वं परिपालयिष्यति॥ ४२५॥ प्रवृद्वेति। मक्षणादिषु सुखलोभेन प्रवृद्धरागस्य पुंसो निवृत्तयो न स्थैर्यभाजस्तत्प्रच्यावकरागप्रावल्यात्ततश्र निवृत्तिदेशेषु प्रतिषेधेषु नियोग: स्यादिति बुद्ध्या निवृत्तिं पालयत्विति तस्या: स्थैर्याय पुमा- न्पेर्यत इत्यर्थः ॥। ४२५॥ अ० टी०-ननु निवृत्तिर्नाम क्रियानुत्पादस्तस्याः प्रागेव सिद्धत्वात्कथमनुष्ठानमिति चेत्तत्राSडह - प्रवृद्धरागस्येति। निषिध्यमानक्रियाफलेषु प्रवृद्धो रागो यस्य तस्य प्रवृद्धसगस्य निवृत्तयोऽस्थिरा निवृत्तिप्रागभावस्य प्रच्युतिर्हि तस्य जायत इत्यर्थः । ततो हेतो: स्थिरत्वाय निवृत्तिस्यैर्याय पुमान्निवृत्तिदेशेषु निवृत्तिनियोगविषयेषु नियुज्यते। कथं नियोगतस्तत्स्थैर्यमिति तदाह-नियोगबुद्धित इति। नियोगबुद्देरुर्थ्व निवृचि परिपालयिष्यतीति नियोगबलान्निवृत्तिनिष्ठ एव भवतीत्यर्थः ॥४२५॥
Page 354
संक्षेपशारीरकम्। ३४७
सु० टी० ननु नियोगवादिभिरभावानभ्युपगमात्कुती निवृत्तिनियो- गविषय इति चेत्तत्राSSह- अनादजग्घेश्र निवृत्तिनिष्ठा- विशिष्टदन्तौष्ठनिविष्टसंवित्। अनन्यसंसर्गिपदार्थसंवि- त्निवृत्तिरित्येष हि राजमार्ग: ॥ ४२६ ॥ अनाद्येति। चर्वणाद्यविशिष्टकेवलद्न्तैष्ठविषय संविदुपत्वाद क्यम्ष णनिवृत्तिरनुष्ठानयोग्यैवेष्यत इत्यर्थः । कृतो मावात्मिका संविदमाव इति चेत्तद्व्यवहारहेतुत्वादित्याह-अनन्येति। अन्यन्निषेध्यं भक्ष्यादि तत्संसर्गशून्यस्य दन्तादेधर्मिण: कैवल्येन ज्ञानमेव निवृत्तिबुद्धयाल- म्बनमिति प्रसिद्धमेवेत्यर्थः । तदुक्तं- 'गुरुर्धियमभावस्य स्थाने स्थानेऽभिषिक्तवान्' प्रसिद्धमेव लोकेऽस्मिन्बुद्वबन्धु: प्रमाकरः' इति ॥४२६॥ अ० टी०-ननु नञर्थस्याभावस्य प्राभाकरैरनङ्गीकारादभावस्यैव निवृत्तिशब्दार्थ- त्वात्कथं तत्र नियोगस्तदनुष्ठानं वेति चेत्तत्राऽऽह-अनाद्यजग्धेक्षेति। नाSS- द्यमनादयमभक्ष्यं तस्यानाद्यस्य जग्वेर्भक्षणस्य निवृत्तिनिष्ठा नाम विशिष्टदन्तोष्टनिविष्ठसं- चित्। विशिष्टेति कैवल्यमुच्यते। अविशिष्टेति वा छेदः। केवलदन्तोष्ठनिविष्टसंविदिति यावत्। निर्व्यापारतया ज्ञायमानदन्ताद्यवस्थानमजग्विरित्यर्थः । नञर्थोऽपि नाभाव इल्वाह-अनन्थेति। केवलपदार्थसंविदित्यर्थः । सर्वत्र हि धर्मिणो निषेध्यसंसर्गवैधुर्य- कैवल्यमेव ह्यभावप्रतीतिरालम्बनमिति भावः ॥ ४२६ ॥ सु० टी-उक्तं नियोगवादिपक्षमाक्षिपति- ननु समीहितसाधनता लिडे लशुनगृअनभक्षणसंश्रया। अवति वाच्यतयाऽभिमताऽस्य नो नञ्रपि तद्विनिवृत्तिनिवेदक: ॥ ४२७॥ नन्विति। प्रधानान्वयस्याभ्यर्हितत्वान्नञ्ञस्तावल्लिडैनव संबन्ध: । तद्- र्थश्व मक्षणेष्साधनत्वमिति तन्निवृत्तिरनञ्रर्थ इत्यर्थः ॥ ३२७ ॥ -
Page 355
टीकाद्टय समेतें -
अब टौ०-ननु यदुक्ते नामादीनामन्यतमस्यापि निषेधोऽ प्रत्यक्षविरोधान्न संभवतीति नञो नाभावपरत्वमिति तदसदिष्टसाधनताभावपरत्वसंभवादिति कस्यचिच्छङ्का- मुत्थापयति-ननु समीहितेति। लशुनादिभक्षणसंश्रया समीहितसाधनता लिडो वाच्यतया तोड़स्माकमभिमता भवति। अस्य निषेधवाक्यस्य संबन्धी यो लिङ् तस्य लिड़ इति योज्यम्। अस्य लिड़ इति सामानाधिकरण्यं वा। अथवाड़स्य प्रकृतवाक्यस्य संबन्धी नञ्रपीति संबध्यते। तद्विनिवृत्तिनिवेदक इष्टसाधनताभावबोधक इत्यर्थ:॥४२७॥ सु० दी०-एतच्च पूर्वपक्षी दूषयति-
नहि निषिद्धपदार्थनिमित्तक: सुखलवः पुरुषस्य न विद्यते॥ ४२८॥ तदसदिति। प्रत्यक्षतो लशुनादिभक्षणतस्तृप्तिफलोनदवदर्शनाद्वाघितम दमित्यर्थः ।। ४२८॥। अ० दी०-एतदपि नोपपद्ते प्रत्यक्षविरोधादित्याह-तद्सदिति। सुख हि सर्वप्रवृत्तीनां फलमिष्टं तदिह प्रत्यक्षं लशुनगञ्जनपर्युषिताशनादिष्टफलोद्गवस्य प्रत्यक्षत्वा- छशुनादिभक्षणस्य समीहितसाधनत्वनिवृत्तिपरत्वं नज्जोऽनुपपन्नमिव्यर्थः। लशुनं कन्दवि शेषः श्रेतो दुर्गन्विर्गृञ्जनं तु लशुनाकार आरक्त: कन्दः । पर्युषितं दिनान्तरपक्कमन्नम्। उक्त्मेव व्यतिरेकमुखेण व्यनक्ति-न हीति। न विद्यत इति नहि कि तु विद्यत एवे- न्यर्थ:। पूर्व निरस्तोड़प्ययं पक्षः पुनराशड्क्य पूर्वपक्षिणा दूषितः सिद्धान्तिनोSजैवाडड दरं दृष्ट्रेति द्रष्टव्यम् ॥ ४२८॥
अदृष्टदोषं परिहृत्य शंसतः कलञ्जमास्वाय सुखित्वमात्मनः । पुमानबोधोपहतः समीहते तदीहिताशावपरा निषेधगीः ॥४२९ ॥ अद्क्षेति। प्रार्थनार्थया हि लिडव नझ्ञ: संबन्धः। प्रार्थना चाहटदोप- (+ गून्येष्टसाधनजन्ये सुखे मुख्येति तन्निषेधार्थत्वे न किंचिद्दूषणमि-
*खर. पुस्तकस्थोयं ग्रन्थः।
Page 356
संक्षेपशारीरकम्। ३४९
त्यर्थ:। कलञ्जमक्षणादृदृद्ृदोषर)हितमात्मनः सुखित्वं झ्ंसतः सकाशा- च्छृत्वेति शेषः । अबोधोपहतो भ्रान्तः समीहते प्रार्थयते ।४२९।। अ० टी०-तस्मात्कस्यचिदपि निषेधासंभवान्तिवृत्तिनियोगनिष्ठं निषेधवाक्यमिति प्राभाकरमतं प्राप्तमाभासयति-अदृष्टदोषमिति। अलौकिकं शास्त्रैकगम्यं दोषं दुःखफलं परिहत्यानादृत्य कलअं विषलिप्तेषु हतमृगमांसमास्वाद्याऽडत्मनः सुखित्वं शंसतः प्रार्थयमानस्य पुंसो यदीहितं, पार्थितं तदीहिताभावपरा निवृत्तिगीरित्यन्वयः। तस्येहितस्य योऽभावस्तव्परं निषे- धवाक्यमित्यर्थः। ईहितमीहा तच्च तदीहितं च तदीहितमिति विग्रहः। ननु कलआ्स्वादनेनाSS- त्मन: सुखित्वप्रार्थनाया अपि प्रत्यक्षसिद्धत्वान्न निषेधमर्हतीत्याशड्क्य तादृशोऽनुभवो. न. प्रमाणं कि तु भ्रम इत्याह-पमानबोधोपहतः समीहत इति। यस्मादित्यध्याहार्यम्। यस्मात्पुमानेवं प्रार्थयमानोडबोधौपहतः कलञ्ञभक्षणजन्यभाव्यनर्थाज्ञानग्रस्तोऽरण्यप्रदेशेS; तिरमणीयदर्श नेन्द्रवारुणीफलभक्षणे प्रवृत्त इव तत्परिपाकानभिज्ञः क्षुधितः समीहते प्रार्थ- यते। तस्माद्गान्तिसिद्धप्रार्थनाविषयत्वालिड़स्तन्निवृत्तिपरो ननित्यभिप्रायः । न च धर्मिणो निषेध्यसंसर्गराहित्यकैवल्यमेवाभावप्रत्ययालम्बनं निषेध्यसंसर्गराहित्यस्यैव तदालम्बनत्वाद- न्यथा तन्नापि विधिमुखप्रत्ययवैद्यत्वप्रसङ्गातकेवलभावस्य तथात्वाव्यभिचारादिति भावः ॥ ३२९ ॥ सु० दी०-त्था च फलपार्थनायाः प्रत्यक्षत्वेऽपि भ्रममूलत्वात्ममा- णमूल कादृष्टमयरहितत्वं तस्या: प्रतिषिध्यते सविशेषणे हीतिन्यायादि- त्याह- नरकपातविवर्जनवर्त्मना भवतु विभ्रवधात्परमार्थतः। मम सुखित्वमितीच्छति यत्पुमा- न्न तदितीह निषेधगिरोच्यते ॥ ४३०॥ मरकेति। यद्विप्रवधात्परमार्थतो नरकपातवर्जित सुखित्वं ममास्त्विति प्रार्थयते तन्नेत्यर्थः ॥४३० ॥ अ० टी०-नन्वनुभूयमाना प्रार्थना तादशी कथ निषेद्धु शक्यत इति चेन्न तस्याः प्रामाणिकत्वस्य निषेधोपपत्तेरित्याह-नरकपातेति। ब्रह्मवधादौ प्रवर्तमानः पुरुषो मम विप्रवधादस्मान्मया क्रियमाणानरकपातविवर्जितमार्गेणानिष्टाननुबन्धित्वप्रकारेण सुखित्वं भवत्विति यत्परमार्थतः परमात्मबुद्धयेच्छतीति यत्तन्ेतीह वेदेषु निषेधगिरोच्यते। वस्तु-
१ क. "था वैफल्यमा।
Page 357
३५० टीकाद्वय समेतं-
गव्या बलवदनिष्टानुबन्धिन्यामेव क्रियायां त्वैषरीत्यं मोहात्कल्पयन्पुमास्तित्र प्रवर्तमानस- क्क्रियायास्तत्कल्पितसमीहितसाधनत्वाभावंबोधनेन श्रुत्या स ततो निवर्त्यत इति भ्रान्तिष तिपनेष्टसाधनताभावबोधकमेव निषेधवाक्यं नानुष्ठेयबोधकमिति तात्पर्यार्थः॥४३०॥ सु० टी०-निषेधस्य विशेषणसंक्रान्तत्वमेव स्पष्ट्यति-प्रमाणत इति द्वाभ्यां- प्रमाणतो नास्ति निषिद्धकर्मणः फलस्पृहाऽदृष्टभषयं विना तव।
न तात मानेन फलस्पृहाऽत्र ते॥ ४३१॥ इति श्रतिः शास्ति निषिद्धकर्मणि प्रवृत्तिमन्तं पुरुषं नञ्रन्विता। न चायमर्थोडपहतः प्रमान्तरै- र्नहि प्रमाणैरपरैर्विरुध्यते ॥ ४३२ ॥ निषिद्धकर्मणः सकाशादिति हेतुगर्भ विशेषणम्-श्रुतिरिति नञसंबद्धा प्रार्थनार्थलिङ्श्रुतिः प्रवृत्तिमन्तं मोहात्प्रवृत्त्युन्मुखम् । न चैवं सति मानान्तरविरोध इत्याह-न चेति। अपहृतो बाधित: ॥ ४३१-४३२॥ अ० दी०-पूर्वपद्योक्तमेव स्फुटयति-प्रमाणत इति। या तवादृष्टभयं विना पारल्ैकि- कभयानादरेण निषिद्धकर्मणो विप्रवधादे: फलप्रार्थना सा प्रमाणतो नास्ति प्रमितिमूला सा न भवतीत्यर्थः । यत एवं तस्माद्धे तात वत्साबोधप्रभवादज्ञानमूलाद्भमात्तत्र प्रवर्तसे ते फलस्पृहा या जायते सा प्रमाणतः परमार्थतो नेति योजना ॥ ४३१ ॥ उपपादितां निषेधवाक्यशक्तिमुपसंहरति-इति श्रुतिः शास्तीति निषिद्धकर्मण प्रवृत्तिमन्तं पुरुषं नञ्रपदेनान्विता श्रुतिरित्यस्मदुक्तप्रकारेण शास्ति बोधयती- व्यर्थः। प्रकृतश्रुतिवाक्यं न स्वार्थपरिति नाऽडशङ्का कार्येत्याह -- न चायमर्थ इति।
युक्तो न मानान्तरेण प्रापित इत्यर्थः । अनेनास्यानुवादत्वशङ्का निरस्ता। न ह्ययमर्थः केनचित्प्रमाणेन क्वचित्सिद्धस्तथाडपि गुणवादो भविष्यतीत्याशाऽपि न कार्येत्याह- न हीति। विरोधिनः प्रमाणान्तरस्यानिरूपणादित्यर्थः । न च प्रकृतिक्रियाफल ईस्सित- १ क. पकृतः । ग. पहतः।
Page 358
संक्षेपशारीरकम्। ३५१
क्वविरोध: शङ्कनीयस्तस्याभ्रान्तित्वोपषादनान्मानान्तरस्य तद्विरोधिनोऽदर्शनाच्छूतेः प्रामा ण्यस्य स्थितत्वादिति भाव: ॥ ४३२ ॥ सु• टी-भ्रान्तिप्रसक्तानिष्टानुबन्धिफल प्रार्थनानिवर्तकरवं निषेध-
भुजङ्गभोगं सुकुमारशीतलं निदाघसंतापनिवृत्तये शिशुम्। भ्रमादुपादित्सुमुदीक्ष्य कातरा निवर्तयेत्तज्जननी यथा तथा ॥ ४३३॥ भ्रमादनर्थस्य निदानमादरा- त्कतार्थतायै लशुनादिभक्षणम्। नञन्विता वैदिकचोदनाऽप्य सौ विधित्सुमालक्ष्य निवर्तयिष्यति॥४३४ ॥ यथा हि तज्जननी तद्द्वितकारिणी मयरहितसंतापनिवृत्त्यर्थ भुज- ङ्मुपादित्सुं शिशुं निवर्तयत्येवं निषेधश्रुतिरपि सर्वहितेषिणी निषि- द्धकर्माभिमुखान्भ्रान्तानित्यर्थ: ।।४३३।। ४३४।। अ० टी०-भ्रान्तिनिवृत्तिमात्रोपक्षीणं निषेधवाक्यमित्यत्र दृष्टान्तमाह-मुजङ्गमो- गमिति। स्पष्टार्थः ॥। ४३३ ॥ दार्ष्टान्तिकमाह-भ्रमादनर्थस्येति। पूर्वपद्यान्ते स्थितस्तथाशब्दोऽस्मिन्पद्ये योज्यः । वस्तुगत्याऽनर्थस्य निदानं लशुनादिभक्षणं भ्रमात्कृतार्थताया आदराद्विधित्सुं पुरुषमज्ञमसा- वपि नञ्न्विता वैदिकचोदना निवर्तयिष्यतीत्यन्वयः ॥ ४३४ ॥ सु० टी०-एवं निषेधश्रुतेरनिवृत्तिनिष्ठतासुपपाद्य विषयासंभवान्नि- योगपक्षं प्रतिक्षिपति- क्रियानुप्रवेशं विना पागभावः प्रसक्तक्रियाया न निर्वोदुमीशः।
त्पदत्वं नियोगस्य भारवार्थवद्दः ॥४३५॥
१ क. र्थतद्दाः।
Page 359
३५२ टीकाद्वय समेतं-
क्रियेति। कोडत्र नियोगस्य विषयो न तावद्भक्षणामोवसंकल्पो लक्ष णाप्रसङ्गात्। नापि मक्षणादिपागभावस्तस्य निष्पन्नरूपस्य क्रियानु प्रवेशमण्तरेणाननुष्ठेयत्वाद्वुणङ्वव्य्वत् । यथा नीचैः सदो मिनुयादि त्यादौ नीचैस्त्वादिर्गुणः सदोमानादिक्कियानुप्रवेशं बिना वृंष्टिकामा. दिनियोगस्य। यथा वा द्रव्यं दधि गोदोहनादिहोमप्रणयनाद्यनुप्वेश विनेन्द्रियपशुकामादिनियोगस्य न विषय इत्यर्थः । प्रसक्तक्रियाया: पागभाव इति संबन्ध:। पदृख्वं विषयत्वं भावार्थवदिति व्यतिरेकहः- शान्तो यथा मावार्थ: साध्यत्वाद्विषयो न तथा नामार्थ इत्यर्थः।३३५।। अ० टी० -- एवं स्वाभिमतं भान्तिप्रतिपन्नक्रियाफलप्रार्थनानिवृत्तिनिष्ठत्वें निषेधवाक्य- स्योपपाद्य पराभिमतं नियोगनिष्ठत्त्रं नैव संभवतीति प्रतिपादयति-क्रियानुप्रवेश मिति। अयमर्थ :-- विधेर्द्यनुप्ठेयो भावार्थो विषयस्तद्वारेण नामार्थोडपि तद्विषयो न साक्षादिति हि शास्त्रस्थितिस्तथा च निषिद्धक्रियायाः प्रागभावोऽनुष्टेय इति वदता सस्य गुणद्रव्यवदारुण्यदध्यादिवत्रियानुप्रवेशेन नियोगविषयत्वं षक्तव्यं तेन विना प्रसक्तक्रियायाः प्रागभावो नियोगस्य पदत्वं नियोगनिर्वतकतया तद्विपयत्वं निर्वोदुं नेशो म समर्थः कुतो निष्पन्नभावाद्गुणद्रव्यवन्निष्पन्नस्वरूपत्वाद्वो युष्पत्पक्ष इति योजना। भाषार्थवदिति वैधर्म्यदृष्टान्तो यथा भावार्थः पुरुषकृतिसाध्यत्वात्साक्षान्नियोगविषयो न तथा प्रागभावो
सु० टी०-अस्तु तस्यापि पालनक्रियानुपवेशाद्विषयत्वमिति वेश्ने त्याह- न पाल्यत्वयोगादलंभूष्णुभावो यतः पालनं श्रूयते नात्र वाक्ये। न खल्वश्रुतं गृह्यते न्यायहाना- यथा न श्रुतं त्यज्यते तन्द्रयेन ॥ ४३६॥ नेति। अलंभूष्णुभावः समर्थत्वं नियोगविषयतामिति शेः। नन्व- श्ुतमपि नियोगसिद्धयर्थ कल्प्यमिति नेत्याह-न खस्विति। न ह्यश्रुतं पालनं न हन्यामिति संकल्पो वा विषयत्वाय कल्प्यते न्यांबह्ानाच्छ्र- तमुख्यार्थोपपत्तावश्ुतलक्षणाकल्पने गौरवादित्यर्थः ॥।४३६॥ अ० टी०-तर्हिं निवृत्तिं पालयेदिति पालनक्रियानुप्रवेशेन विधिविषयः प्रागभावो
१ क. "यहीनं य°।
Page 360
संक्षेपशारीरकम्। ३५३
भविष्यतीति चेन्नव्याह-न पाल्यत्वयोगादिति। अत्रेदं वत्तव्य-परिपालनेनानुष्ठे- मतवं प्रामभावस्य युक्त्या कल्प्यते श्रुत्या वा प्रंतीयंत इति तत्र नाऽडच इत्याह- न पाल्यत्वेति। भूष्णुभावी भवनशीलत्वं प्रागभावस्येति शेषः । न हि प्रामभावस्याना- दिसिद्धस्व पाल्यत्वरसंबन्धात्साध्घत्वमलं योग्यमित्यर्थः । न द्वितीय इत्याह-यत इति। अश्रुतमषि कल्प्यत इति चेन्न न्यायविरोधादित्याह-न खल्विति। त्रुतं प्रसक्तक्रि-
व्र्थ: ॥४३६। सु० टी०-कथं श्रुतहानिरिति चेत्तत्राऽह- उदासीनता च शुता नञ्पदार्थो नियोगे सति त्याज्यत। याति सयः। अतयोग्यभावादयोग्यः पदार्थो न वाक्यार्थभागिष्यते जैमिनीयैः ॥ ४३७॥ उदासीनतेति। निषेधे श्रुते या वधादिप्रवृत्तेरवारितोऽसमीत्युदासीनता भतीता सैव नञ्ञर्थः श्रीतः सा नियोगपक्षे त्यज्यते प्रवर्तकत्वकल्पनात्। ननु लिङर्थनियोगत्यागेऽपि श्रुतहानिरिति नेत्याह-अतद्योग्येति। नियो. गस्योक्तन्यायेन नञ्रर्थान्वयायोग्यत्वादित्यर्थः । जैमिनीयेमाट्ैः।।४३७।। अ० टी०-ननु यो ननो मुख्योऽर्थः प्रतिषेधः श्रुतः स एव नियोगविषयस्तस्य तु पालनानुप्रवेशेनानुष्ठेयत्वमित्येतावदिह वयं ब्रूमोऽतो न श्रुतहान्यश्रुतकल्पनाप्रसङ्ग इति चेन्नैवमप्युपपद्यत इत्याह-उदासीनता चेति। चशब्दोऽवधारणार्थः । नञ्र्पदार्थ इहोदासीनतैव श्रुता या सा नियोगेऽभ्युपगम्यमाने सति सद्यस्त्याज्यतामेति। कुतः- अतद्योग्यभावाद्विधिं प्रति विषयत्वेनान्वययोग्यत्वाभावात्। न ह्यौदासीन्यमनुष्ठेयं भवत्य- नुष्ठेयं च,न विधिविषय इत्यर्थः । अयोग्यस्यार्थस्य वाक्यार्थतया परिग्रहो न न्यायवित्सं- मत इत्याह-अयोग्य: पदार्थ इति ॥४३७ ॥ सु० टी०-कि च नियोगपक्षे प्रत्यवायासिद्धिरवि दूषणमिति भागुक्तं समुच्चिनोति- निषिद्धक्रिया प्रत्यवायाय नेति स्वकर्णो जनः प्रोर्णते पापभीरुः।
Page 361
३५४ समाकर्ण्य दुर्भाषितं पार्श्ववर्ती न पापाक्षरं किंचिदेतादृगन्यत् ॥४३८॥ निषिद्धेति। इष्टापत्ति निरस्यति-स्वकर्णाविति। ततश् शिष्टविगर्हण -. मिति भाव: । किं चैवं वदन्स्वजनैरवि परिहार्यः स्थादित्याह-पार्श्वेति।
दुर्भाषितमिति। इतश्रेदं दुर्भाषितम्। न हि दुरिताभावकामादन्यो नियो- ज्यः संभवति मक्षणप्रवृत्तस्य नियोज्यत्वानुपपत्तेर्नञ्रर्थविशेष(*णीभूतस्य मक्षणस्य नियोज्याविशेषणत्वादुमयविशेषणत्वे वाक्यभेदातू। नन्वि- शेष)णस्यैव सत आर्थ नियोज्यविशेषणत्वमिति चेदेवमश्रुतस्यापि तथात्वे जीवतः शुचेरेव विश्वजिदादावपि नियोज्यत्वसंभवान्नियोज्या- न्तरकल्पना न स्यात्स्वर्गकामधर्मिकल्पनात आख्यातार्थाक्षिप्कर्तृसाम- थर्यप्राप्तस्य जीवनस्य विशेषणत्वमात्रकल्पने लाघवाञ्चेति तन्न्यायभङ्ग: प्रयुक्तिलाघवाय तत्कल्पनं तु प्रकृतेऽपि तुल्यमिति संक्षेपः । ४३८॥ अ० टी०-तदेवमत्र विषयाभावान्न निषेधवाक्यस्य नियोगनिष्ठत्वसंभव इति प्रति- पादितं यत्पुनरुक्तं निवृत्तिपरिपालनेन नियोगकर्तव्यतायां पर्यवस्यति निषेधवाक्यं न तु प्रवर्तमानस्य गर्तपाते तत्प्रमाणमिति तदत्यन्तमसंगतं सर्वलोकप्रसिद्धिविरोधादित्याह- निषिद्धक्रियेति। निषिद्धक्रिया प्रत्यवायाय पापाय नेति दुर्भाषितं ममाSSकर्ण्य पापभीरुः पार्श्ववर्ती जनः स्वकर्णौ प्रोर्णुते कर्णरन्ध्रं पूरयत्याच्छादयतीत्यन्वयः । यत एतादृगन्यन्न किंचित्पापाख्यमस्त्यतः प्रोर्णुत इत्यर्थः। अविगीतसज्जनप्रसिद्धेर्भ्रान्तिमूलत्त्राभावाद्यथा तत्प्रसिद्धिविरोधो न भवति तथा निषेधवाक्यव्याख्यानमुचितं न विपरीतमिति भाव: ॥। ४३८ ॥ सु० टी०-दृष्टविरुद्धश्च प्रत्यवायानभ्युपगम इत्याह- निषिद्धक्रिया प्रत्यवायाय नो चे- नदा दुःखमाकस्मिकं सर्वपुंसाम्। सुखं पुण्यमूलं यथा सर्वपुंसां तथा दुःखमप्यस्तु वः पापमूलम् ॥ ४३९॥ निषिद्धेति। न चादृष्टमेव तद्ेतुस्तस्यैकरूपत्वे सुखदुःखवैचित्र्यानुप- पत्तेः। ततश्र सुखहेतुसुकृतवद्दुरितमपि दुःखकारणमुपेयमित्याह- सुखमिति ॥ ४३९ ॥ * क. पुस्तके नायं अ्रन्थः।
Page 362
संक्षेपशारीरकम्। ३५५
अ० टी० -- कि च निषिद्धक्रियाव्यतिरेकेण दुःखहेतुत्वनिरूपणात्सैव तद्वेतुरित्य- ङ्वीकरणीयमित्याह-निषिद्द्क्रिया प्रत्यवायाय नो चेदिति। आकस्मिकमका- रणकं स्यादित्यध्याहारः। न ह्यकारणकार्योत्पत्तिः संभवत्यतो दृष्टकारणस्य कस्यचिदभा- वेऽपि कदाचिज्लाग्निकण्टकादिसंसर्गद्वारकं दुःखं दृश्यमानमदृष्टमेव कारणं कल्पयति। अदृष्टं-च क्रियाजन्यं क्रिया च निषिद्धैव पापम्लनिति। निषिद्धक्रियोत्पन्नपापादृष्टमुलक- मेव सर्व सर्वेषां प्राणिनां दुःखमिति भावः । एवं सति यथा सर्वपुंसां सुखं पुण्यमूल- मित्यविवादं तथा दुःखमपि वो युष्माकं पाथमूलमस्तु नात्राधेजरतीयं युक्त- मित्यर्थः ॥ ४३९॥ सु. टी०-नन्वस्तु दुःखं पापजन्यं पापं तु निषिद्धक्रियाजन्यमेवे- त्येतत्कुत इति चेत्तत्ाSडह- निषिद्धक्रियां चोदितस्याक्ियां वा विना नास्ति पापस्य निष्पत्तिहेतुः । ततस्तद्वयं पापनिष्पादकत्वा- द्व्वेत्पत्यवायस्य नित्यं निदानम् ॥४४० ॥ निषिद्धेति। विहिता विहित क्रिययोरतद्धेतुत्वेन परिशेषान्निषिद्धक्रियैव तद्धेतुः 'अकुर्वन्विहितं कर्म निन्दितं च समाचरन्'इति स्मृतेः। तत्रा कुर्वन्नित्यनेन तत्कालीनान्यकरणं निषिद्धमेव लक्ष्यते। तदुक्तं- 'स्वकाले यद्कुवस्तत्करोत्यन्यद्चेतनः । प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यते'इति॥ एतदेवाSऽह-अत इति। द्वयं निषिद्धकरणविहित कालीनान्यकरण. - रूपमित्यर्थः । प्रत्यवायस्य दुःखस्य।। ४४० ॥ अ० टी०-ननु दुःखं पापमूलमस्तु पापं तु न निषिद्धक्रियाजन्यं कि त्वन्यत इति चेन्मैवमित्याह-निषिद्ध क्रियां चोदितस्येति। चोदितस्याक्िया विहितस्याननु- ष्ानम् । सुगममन्यत् ॥४80 ॥ सु० टी०-नन्वकरणस्य यथाशुतस्यैव हेतुत्वसंभवे कि लक्षणायां मानमिति चेत्तत्ाSSह- निषिद्धक्रिया दुःखनिष्पत्तिहेतु- भवेलक्षणं चोदितस्याकियाऽस्य।
१ ख. क्रियस्य।
Page 363
३५६ रीकाद्वयसमेतं-
अभावान्न भावस्य निष्पततिंरिष्टा भवेल्वक्षणं ज्ञायमानस्वभावः ॥४४१ ॥ निषिद्वेति। नित्यक्रियाया आवश्यकत्वान्यथांनुपपत्त्या तत्काले कर्मा- न्तरनिषेध: कल्पयते। ततोऽक्रियास्थलीयमपि पापं निषिद्दक्रियाजन्य पापत्वाद्विप्रवधादिपापवदित्यर्थः । अकुवंन्नित्यादेस्तहिं का गतिस्त- त्राऽडह-भवेदिति। अस्य दुःखस्य लक्षणं झञापकमित्वर्थः। हेत्वर्थं एक शतृप्रत्ययोऽस्तु कथं लक्षणार्थ इति चेत्तत्राSडह-अभावादिति। 'कथम- सतः सज्जायेत' [छा०६।२।१] इति श्रुतेः। कथं तर्हिं हेतुत्वप्र- सिद्धिस्तत्राऽऽह -- भवेदिति। सूचकतया लक्षणेऽपि हेतुत्वप्ससिद्धि:
अ० टी० -- नन्वेवमि चोदितस्याक्तियैव प्रत्यवायनिदानमिष्यते न निषिद्धक्रियैता- वतैव दुःखस्याSSकस्मिकत्बशङ्कापरिहारादुभयहेतुत्वे चाननुगमाद्वौरवाच्चेति चेनेत्याह- निषिद्दक्रिया दुःखेति। दुःखनिष्पत्तौ निषिद्धक्रियैव हेतुर्भवेन्न विहिताकरणमि- न्यर्थः । चोदितस्याक्रियात्बस्य प्रत्यवायपदवेदनीयस्य दुःखस्य लक्षणं ज्ञापकं भवेन्नोत्पा- दकमित्यर्थः । एवं व्यवस्थायां नियामकमाह-अभावादिति। अकरणं ह्यभावो न ह्यभावाद्भावस्य दुःखादेर्निष्पत्तिरिष्टा वेदविद्धिरिति शेषः । तथा च श्रुति :- 'कथ- मसतः सज्जायेत '[छा०६।२।२ ] इति। यत्तु तार्किकैः प्रागभावप्रतिबन्ध- काभावयोर्भावहेतुत्वमिष्यते तदभावस्य निःस्वभावत्वनिर्व्यापारत्वापादनेन निराकरणीय- मिति दिक। तर्हि कथमकरणस्याप्यभावत्वात्प्रत्यवायज्ञापकत्वं स्यादिति चेत्तत्राSSह- भवेललक्षणमिति । विहितकरणाभावो ज्ञायमानस्वभावः सलक्षणं भवेन्न स्वरूपेण केवलं तस्याकारकत्वात् । तज्ज्ञानादेव प्रत्यवायज्ञानभिति भाव: ॥। ४४१॥ सु० टी०-ननु तवापि निषेधानां निवृत्तिमात्रनिष्ठत्वात्कृतः प्रवृत्ते: पापहेतुत्व सिद्धिस्तत्राSSह- निवृत्तिनिष्ठे तु निषेधवाक्ये निषिद्धकर्माचरणादनर्थः । प्रतीयतेऽर्थादिति तत्र युक्तं दुःखं नृण। दुश्वरितैकमूलम् ॥ ४४२॥। निवृत्तीति. ।अदृष्टमयर हित निषिद्द क्रिया फल प्रार्थनानिषेधस्य विञ्रे-
Page 364
संक्षेपश्ञारीरकमू। ३५७
षणसंक्रान्तेरर्थान्निषिद्धकर्मणोऽदवष्टमयसिद्धिरिति सिद्धं पांपमूलत्वं दुःखस्येत्यर्थ: ॥४२॥ अ० टी०-निषिद्धक्रियायाः पापहेतुत्वेऽपि निषेधवाक्यस्य कथं प्रामाण्यमुपपन् मिति तत्राऽह-निवृत्तिनिष्ठे त्विति। निषेधवाक्ये निवृत्तिपरे स्थिते सत्पर्थादनुप पत्तिंबलान्निषिद्धकर्माचरणनिमित्तकोऽनर्थ इति प्रतीयत इति यतस्तत्रैवं सति नृणां दुःखं दुधरितैकमूलमिति युक्तमिति योजना। अदृष्टभयविरहितनिषिद्धफलप्रार्थनानिषेधनं नञ्- वता वाक्येन क्रियमाणं निषिध्यमानफलप्रार्थनाहेतुभूतक्रियाया अनिष्टफलहेतुत्वं विनाऽनु- पवन्नमित्यनर्थ हेतुकक्रियानिवर्तकत्वेन निषेधवाक्यप्रामाण्यमुपपन्नमित्युक्तं भवति ॥४४२।। सु० टी०-ननु कि विवक्षितार्थस्याऽडरथिंकत्वकल्पनया निषेध- शास्त्रमेव साक्षान्निषिद्ध क्रियाया अनिष्ट्हेतुत्वं बोधयत्विति चेन्नेत्याह- समीहितोपायतया लिङन्वया- त्पतीयमानस्य तु अक्षणादिनः । न पर्युदासाश्रयणेन नञ्पदा- दनिष्टेहतुत्वमंतिर्भवष्यति ॥४४३॥ समीहितेति। लिडनडन्वंथो यस्येद्टशान्नञपदादिव्हेतु व्वेन प्रती यमान - स्यापि भक्षणादेरनिष्टहेतुत्वधीः पर्युदासेनैव स्यात्तत्र च मुख्यार्थत्यागो लक्षणाप्रसङ्गश्रेत्यर्थः। ४४३॥ अ० टी०-ननु लिडर्थमिष्टसाधनत्वमाश्रित्य नञश्च तत्पर्युदासमर्थमाश्रित्य कलञ्ञ- भक्षणादेरनिष्टसाधनत्वमिति निषेधवाक्येनाञ्जसैव प्रतिपादतां कि विवक्षितस्यार्थस्याडडरथ- कत्वकल्पनयेति चेन्नेत्याह-समीहितेति। समीहितोपायतया प्रतीयमानस्य भक्षणा- दिनो भक्षणहननादेर्नञ्पदात्पर्युदासाश्रयणेनानिष्टहेतुत्वमतिर्न भविष्यतीति योजना। किंल- क्षणान्वपदाहिडन्वयात्। लिडाऽन्वयो यस्य नञ्रपदस्य तलिडन्वयं तस्मादिति बिग्रहः ॥ ४४३॥ ताहँ पर्युदास: क्वापि न स्यादिति चेन्न मुख्यार्थासंभवे तस्याऽडप- बादिकत्वांदित्याह- तथा हि संबन्ध्युपमर्दबुद्धये समर्थमुत्सर्गमुपेक्ष्य नञ्पदम्।
Page 365
३५८ टीकाद्य समेतं-
न पर्युदासाय विनाऽपवादक ततो निवृत्त्यर्थपरं तदिष्यते॥ ४४४ ॥ तथा हीति। औत्सर्गिकं हि नञ्र्ः स्वसंबन्ध्यभावबोधकत्वं बाघके- नापद्यते यथा नानुयाजेषु येयजामहं करोतीत्यादौ। तेन हि विशेष- निषेधशास्त्रेण बलवताऽपि यजतिषु येयजामहं करोतीति सामान्यशास्त्र- विहितं येयजामहकरणं नात्यन्तं बाधितुं शक्यते स्वोपजीव्यत्वान्निषे- धस्य प्राप्तिसापेक्षत्वात्। तथा च तुल्यबलयोरट्दोषविकल्पापत्तेस्तत्प रिहारायानुयाजव्यतिरिक्तेष्विति पर्युदासलक्षणाश्रयणम्। न च नाद्यां- दित्यादौ किंचिद्वाधकमस्तीत्यर्थः । ४४४ ॥ अ० टी०-कुतो न भविष्यतीत्यत आह-तथा हीति। नन्पदमुत्सर्गं मुख्य- वृत्त्याऽभावनिष्ठत्वमपेक्ष्य संबन्ध्युपमर्दबुद्धये समर्थ यत्तदपवादक निमित्तं विना लक्षणया पर्युदासाय समर्थ स्यात्। न चापवादकमिह किमप्य्ति ततः करणान्निवृत्त्यर्थपरं तन्नन् पदमिष्यत इति योजना ॥।४४४॥। सु० टी०-इतश्र मुख्यार्थसंभवे न लक्षणा युक्तेत्याह- अतः प्रसज्यप्रतिषेधसंभवा- न्न पर्युदासाश्रयणं प्रशस्यते। न पर्युदासाश्रयणं विना भवे- दनिष्टहेतृत्वनञ्रर्थकल्पना ॥ ४४५॥ अत इति। न चानिष्ट्हेतुत्वमपि मुख्यार्थोडस्त्वति वाच्यमनेकार्थत्व- स्यान्याय्यत्वादित्याह-न पर्युदासेति। लक्षणाश्रयणं विनेत्यथः।४४५।। अ० टी०-तथाऽपि किमत्र युक्तं पक्षद्वयेऽपि दोषदर्शनादेकत्र विवक्षितार्थस्याSडर्थि- कत्वमपरत्र नो लाक्षणिकत्वमिति चेत्तत्राऽऽह-अतः प्रसज्येति। अत इत्यस्य विवरणं प्रसज्यप्रतिषेधसंभवादिति। मुख्यवृत्तिसंभवे लक्षणाश्रयणेनार्थान्तरकल्पनं न प्रशस्यत इत्यर्थः । अतो विवक्षितार्थस्य मुखत एव प्रतीतेरसंभवादार्थिक तत्प्रतीतिरेतादृशे विषये न दोषायेति भावः । तर्हिं विनैव पर्युदासं साक्षादेव नञाऽनिष्टहेतुत्वमुच्धतामिति चेन्नासंभवादित्याह-न पर्युदासाश्रयणमिति॥४४५॥ • सु० टी०-कथं लक्षणा नञ्रूलिडो: संबन्धादनिष्ट्हेतुत्व सिद्धैदिति चेन्नेत्याह- अभीष्टहे तुत्व लिडर्थ पृष्ठतो ह्यनर्थहेतुत्वनञ्रर्थकल्पना।
Page 366
संक्षेपशारीरकम्। ३५९
न पर्युदासं परिहृत्य कल्प्यते नपर्युदासः प्रतिषेधसंभवात् ॥ ४४६ ॥ अभीष्टेति। अभीष्टहेतुत्वलिडर्थसंबन्धेन नञ्र इष््हेतुत्वामाव एवार्थः स्थान्नानिष्टहेतुत्वम्। न च स एवार्थोडस्तु प्रत्यक्षविरोधस्योक्तत्वादिति पर्युदास एव कल्प्यः। न च मुख्यार्थसंभवे स युक्त इत्यर्थ: ॥ ४४६ ॥ अ० टी० -- कथं न भवेदिति चेत्तदित्थमित्याह-अभीष्टहेतुत्वेति। अभीष्ट- हेतुत्वलिडर्थमादाय तत्पृष्ठतो लिडो नञन्वयस्वीकारेण वाक्यत्वसंपत्तौ तद्वशादनिष्टहेतुत्व- प्रतीति: स्यात्। तथा चेष्टहेतुत्वपर्युदासमन्तरेण न केवलेन नञा क्रियाया अनिष्टहेतुता प्रत्याययतुं शक्यते। ततश्च विना लक्षणं नञोऽपर्युदास: पर्युदासादते नानिष्टार्थत्वबोधक- तेति तात्पर्यार्थः । तर्ह्यस्तु पर्युदास एवेत्यत आह-न पर्युदासः प्रतिषेधसंभवा. दिति। प्रागुक्त्न्यायेन नञ्रः प्रतिषेधार्थपरत्वोपपत्तेरित्यर्थः । अक्षरार्थः सुगमः॥४४६॥ सु० टी० -- एवं च कार्यवादिन उभयतःपाशा रज्जुरित्याह- प्रमाणमिच्छन्प्रतिषेधचोदनां समस्तवेदस्य न कार्यगोचरम्। प्रमाणभावं प्रतिपत्तुमीश्वरो निषेधवाक्ये तदसंभवादतः ।। ४४७॥ ममाणमिति। निषेधप्रामाण्यमिच्छस चेन्न सर्वो वेद: कार्यपरे निषे- धवाक्यस्य सिद्धनिष्ठत्वात्कार्यपरस्थैव प्रामाण्यं चेन्निषेधस्यापामाण्य- मित्यर्थः ।। ४४७ ।। अ० टी० -- एवं निषेधवाक्यस्य निवृत्तिनिष्ठत्वमेव न कथमपि प्रवृत्तिनिष्ठत्वमिति प्रतिपादनेन तव प्रकृते किमायातमिति चेदिदमायातमित्याह-प्रमाणमिच्छन्नितिः प्रतिषेधचोदनां प्रमाणमिच्छन्वादी समस्तवेदस्य कार्यगोचरं प्रमाणभावं प्रतिपत्तुं नेश्वरो न समर्थ: । कुतोऽत उक्तन्यायान्निषेधवाक्ये तदसंभवात्कार्यनिष्ठत्वासंभवादिति योजना ॥ ४४७ ॥ सु० टी०-एवं च क्व वेदान्तेषु विधिनिष्ठत्वाशङ्केत्याह- अतो न वेदान्तवचःसु विद्यते विधिंर्नियोगो न च शब्दभावना।
१ ग. वायतः।
Page 367
३६० टीकाछट्य समेस-
न कर्मकाण्डेडपि नियोगतोऽस्त्यसौ यतो निषेधेषु न विदयते विधि:॥ ४४८॥ अत इति-विधिरिष्टसाधनता नियोगो वैदिकं कार्य शब्दमावमाS 'मिधाशक्तिश्वकारादर्थमावनाऽपि नास्तीत्यर्थः । नियोगतो नियमतंः। तत्र हेतु :- यत इति ॥ ४४८॥ अ० टी०-तथा च विनैव नियोगादर्थतवं वेदान्तानां प्रामाण्यं युक्तमेवेति कैमुत्य- न्यायेनाSSह-अतो न वेदान्तवचःस्विति। विधिरिष्टसाधनं कृतिसाध्यं विधेयं- मिति यावत्। नियोगोऽपूर्वाएयं कार्यं शब्दभावना च न वेदान्तवचःसु विद्यतेऽहेयानुपा- देयवस्तुमात्रपर्यवसितत्वाद्वेदान्तानामित्यर्थः। यतः कर्मकाण्डेडप्यसौ विधिर्नियोगतो नियमेन नास्ति निषेधवाक्येषु विधेरविद्यमानत्वात्तत्र कुतो ज्ञानप्रधाने काण्डे विधेरव- काश इत्यर्थ: ॥| ४४८ ॥ सु० टी०-एवं कर्मकाण्डस्य कार्यपरत्वानियम उक्तो यद्यपि स्यात्तथाऽपि न वेदान्तेषु तत्संभव इत्याह- उपेत्यवादं परिगृह्य चोच्यते नियोगनिष्ठाऽस्तु निषेधगीरपि। तथाऽपि वेदान्तवचःसु विद्यते विधेर्न गन्धोपि विरोधकारणात् ॥ ४४९ ॥ उपेत्येति। गन्धोऽपि लेशोऽपीत्यर्थः । तत्र हेतुमाह-विरोधेति । विधिपरत्वे वस्तुपरत्वामावाद्गह्मासिद्धिरुमयपरत्वे व वाक्यमेद इत्य- र्थ:॥ ४४९॥ अ० टी०-निषेधवाक्यानां स्वरूपतोऽर्यतश्च विचार्यमाणे न नियोगपरत्वं संभवतीति प्रतिपादितमिदानीं यदि निषेधवाक्यानामपि विधिपरत्वं विधेश्च नियोगत्वमभ्यु- गम्येत तदाऽपि न वेदान्तेषु विधेरवसरोऽस्तीत्याह-उपेत्यवाद्मिति। उपेत्यवादोऽ- ड्रीकारवादस्तं परिगृह्याSSश्रित्येति यावत्। तमेवाSSह-नियोगेति। निषेधगीरपि नियोग- निष्टाऽस्तु भवतु न नः काचित्क्षतिरित्यर्थः । तथाऽपीति सुगमम् ॥ ४४९॥ सु० टी०-विरोधकारणादित्युक्तमेब प्रपश्चयति- ज्ञानं विधातुं न हि शक्यमेत- न्न शक्यते कर्तुमकर्तुमेतत्।
Page 368
संक्षेपशारीरकम्। ३६१
तथाऽन्यथा कर्तुमशक्यमेत-
ज्ञानमिति। यद्धि कर्तुमकर्तुमन्यथा कतु शर्क्पं तदेव विधीयते। न व ज्ञानं पुरुषतन्त्रं धस्तुप्रमाणपरतन्त्रत्वादित्युक्तमित्यर्थः ।। ४५०।। अ० टी०-विरोधकारणादित्युपक्षिंप्हेतुं प्रपञ्चयति पद्यत्रयेण-ज्ञानं विधातु मित्यादिना। वेदान्ता अपि विधिपरा इति वदतेद वक्तव्यं किमत्र विधेयमिति म्रह्मंज्ञानं विधेयमिति चेन्न तदशक्तेरित्याहाऽडद्येन पद्येन। यत्पुरुंषेण कर्तुमकर्तुमन्यथा वा कंर्तुं शक्यं सद्विधेयं थथा गमनादि न तथा ज्ञाममित्यती न विधेयं तदित्यर्थः । तत्र हेतुमाह-प्रमाणमेयैक्निबन्धनत्वादिति। मानमेयपरतत्रत्वादपुरुषतन्त्रत्वा दित्यर्थः ॥ ४५० ॥ सु० टी०-ब्ह्मज्ञानकर्तव्यताविधौ च विशेषणीभूतं ब्रह्मज्ञानं विषे: मागवगन्तव्यं तदज्ञाने तदसंभवादित्याह- बह्मज्ञानं जानता बह्मबुद्धे: कर्तव्यत्वं शक्यते ज्ञातुमेतत्। न ह्यज्ञात्वा ब्रह्मबुद्धिं तदीयं कतर्व्यत्वं कश्विदीष्टे ग्रहीतुम् ॥४५१ ॥ ब्ह्मज्ञानमिति ॥ ४५१ ॥ अ० टी०-कि च विधेयब्रह्मज्ञानस्य स्वरूपानवबोधे तस्य कर्तव्यत्वं न ह्यवनोजु शक्यतेऽतस्तद्विज्ञेयं तच्चाशक्यमित्याह-ब्रह्मज्ञानं जानतेति। सपशर्थम् ॥ ४५१॥ सु० टी०-ज्ञायतां ब्रह्मज्ञानं को दोष इति चेन्न ब्रह्मात्मकविषया निरूपणादित्याह- ब्रह्मज्ञानं ब्रह्मणि ज्ञायमाने ज्ञातुं शक्यं नान्यथा तच तद्दत्। विन्यातं चेद्वल्नणस्त्त्वमस्य प्राप्ता मुक्तिर्नास्ति कत्यं विधीनाम् ॥ ४५२॥
१ ग. अतोडन्य०।
Page 369
३६२ टीकाटय समेतं-
ब्रह्मति । विषयोऽपि निरूप्यतामिति चेत्तहिं विधिफलीभूतमुक्तिपासे- विधिवैयथ्यमित्याह-विज्ञातमिति। तत्त्वं स्वरूपं 'ब्रह्मविद्धह्मैव मवति' [मुण्ड० ३। २ । ९ ] इतिध्रुतेः ॥४५२॥ अ० टी०-ज्ञायतां तार्हि विधेयं ब्रह्मज्ञानमिति चेत्तत्र वक्तष्यं विशिष्टज्ञानस्य विशे- षणज्ञानपूर्वकत्वाद्विशेषणीभूतं ब्रह्मानवगतमवगतं वेत्युभयथाऽपि नात्र ज्ञानविधिसंभव इत्यभिप्रेत्याSडह-ब्रह्मज्ञानं ब्रह्मणि ज्ञायमान इति। तच्च ब्रह्मज्ञानमिति संबन्धः । नान्यथाऽज्ञाते ब्रह्मणीत्यतोऽस्मिन्पक्षे न विधिरित्यर्थः । तद्वत्तथैव पक्षान्तरेऽपि न विधिसिद्धिरित्यर्थः । तदेवाऽऽह-विज्ञातमिति। अस्य विदुषः प्राप्ते फले तद- र्थकृत्याभावादित्यर्थः ॥ ४५२ ॥ सृ० टी०-ननु न ब्रह्मज्ञानादेव झटिति मुक्तिस्तस्या विधेयज्ञान- फलत्वेन स्वर्गादिवत्कालान्तरभावित्वादिति चेन्नेत्याह- दृशो विराट्सूत्रशरीरगोचरं परस्पराध्यासमबोधसंभवम् । अनर्थमाहुः श्रुतिमस्तके स्थिता- स्ततोऽस्य विद्यासमयैव मुक्तता ॥४५३ ॥ दृश इति। चैतन्यस्य विराद्सूत्रशब्दितसमष्टिव्य ष्ट्यात्मकस्थूलसूक्ष्म. शरीर द्यमन्योन्याध्यासं विभेमि न रम इत्याद्यव्यासकोटिसकुलमनर्थम-
मुक्तता बोधसमकालैव न स्वर्गादिव द्विलम्बितेति न तस्या विधिफउ- त्वमित्यर्थः ।४५३॥ अ० टी०-ब्रह्मज्ञानमात्रेण कथं मुक्तिपराप्तिर्ज्ानमांत्रात्पुरुषार्थादर्शनादिति प्रसङ्गप्राप्तामा. शङ्कां परिहरति-हशो विराडिति । विराटस्थूलं सूत्रं सूक्ष्मं च यत्समष्टिव्यष्टयात्मकं शरीरमभिमानास्पदं भोगायतनं तद्रोचरं तद्विषयमबोधसंभवमनाद्यज्ञानोत्थं परस्पराध्यासं चिज्जडयोस्तादात्म्यावभासलक्षणं दृशः प्रत्यगात्मनोऽनर्थमादुः श्रुतिमस्तके स्थिता वेदा- न्तविद इति योजना। यत एवमात्मन्यध्यस्त एवायं. संसारानर्थस्ततोऽस्य विदुषो विद्या- समयैव विद्योत्पत्तिसमय एव मुक्ता निवृत्तबन्धनता रज्जुतर्व्रज्ञानोदयसमय इव भयादिनि- वृत्तिरित्यर्थः । तभा च भ्रमगृहीतस्य बन्धस्य ज्ञानोदयमात्रान्निवृत्तौ पुमर्थत्वदर्शनान् ज्ञान- सिंद्धावन्यदपेक्षणीयमिति भाव: ॥४५३॥
Page 370
संक्षेपशारीरकम्। २६३
सु० टी०-ननु बन्धस्याविद्यात्मकत्वेऽप्यनादित्वेन हढमूलत्वान्न विद्याजन्ममात्रान्निवृत्तिः शक्येत्यस्ति ज्ञानाम्यासविधेरवकाश इति पेन्नेत्याह- अनायविय्यापटनेत्र बन्धनं प्रसह्य वेदान्तनिबन्धना मतिः। स्वजन्ममात्रेण दृढाऽऽत्मगोचरा समूलदाहं दहतीति हि श्रुतिः ।। ४५४ ।।
मागा: षडनादय इत्यनादिरविद्या सैव च नेत्रबन्धनं यथा पटो नेत्रस्य दर्शनहेतोरावरकत्वाद्वन्धनमेवमविद्याऽि दृगात्मन आवरकत्वेन भोक्क- त्वादिनिबन्धकारणं तथाऽपि वेदान्तजन्याखण्डाकारा हढा विचार- निरस्तापराधकोटित्वादविचालिनी बुद्धिवृत्तिरपरोक्षत्वाद्ध्वियां वस्तुप- क्षपातित्वाच्च बलवती प्रसह्य बलात्स्वजन्ममात्रेण तेन न जन्मैव विषये वुद्धेर्व्यांपार इष्यत इति न्यायात्तद्न्धनं समूलमुन्मूलयतीति।'तरति शोकमात्मवित्'[छा०७।१।३] इति श्रुतिराहेत्यर्थः ॥।४५४ ॥ अ० टी० -- अनर्थस्याध्यस्तत्वेऽि दृदभावितस्य सहसा ज्ञानोदयमात्रेण निवृत्तिः संभवतीति तदर्थमभ्यासो विधेय इति चेन्मैवमज्ञानकल्पितस्याज्ञाननिवृत्तौ निवृत्युत्पत्तेरज्ञा- ननिवृत्तेश्र ज्ञानोदयमात्रायत्तव्वादित्याह-अनाद्यविद्येति। वेदान्तनिबन्धना वेदा- न्तप्रमाणजाता मतिरात्मगोचराSSत्मतत्वब्रह्माकारा दृढाSसंभावनादिदोपैरचालिता स्वज- न्ममात्रेप्पानादविद्यापटरूपनेत्रबन्धनं चिदात्मनो यथावदवभासनाच्छादनरूपं समूलदाहं यथा स्यात्तथा प्रसह्य दहति नाशयतीति हि प्रसिद्धा श्रतिः 'ब्रह्म वेद ब्रल्लैव भवति' [मुण्ड० ३ । २ । ९ ] इत्याद्येति योजना । उत्पन्नेऽपि यथोक्तविज्ञाने केषांचित्सम्य ग्बन्धनिवृत्यदर्शनं केवलात्मतत्वाकारेण दृदतया विज्ञानस्यानुदयादिति द्रष्टव्यमत एव वृदेति विशेषितेति ।४५४ ॥ सु० टी०-तस्माद्ब्रह्मज्ञानाज्ञानविकल्पग्रासान्न बह्मज्ञाने विधि संभव इंत्याह- विज्ञाते ब्रह्मणि स्याद्विधिरयमफलः प्रत्यये तस्य तद्व- न्नाज्ञातब्रह्मकर्मा विधिविषय इति प्रत्ययो बुद्धियोग्यः ।
१ क. हलो ज्ञा।
Page 371
३६४ टोकाद्वव समेतं-
ब्रह्मात्मप्रत्ययेऽतो विधिरनवसरः सवथा चिन्त्यमान- स्तस्माहूह्लाम्मवस्तुन्यवसितमखिलं विद्धि वेदान्तवाक्यम् ॥४५५॥ विज्ञान इति। बह्म ज्ञातें चेतस्य प्रत्यये ज्ञाने योऽ( यं विधि: स. निष्फल: स्यादित्यर्थः । अज्ञातं केन्न शक्यो विधिरित्याह-तद्वदित्यादि। अज्ञानं ब्रह्म कर्मविषयो) यस्य प्रत्ययस्य स तथा ततश् तृतीयप्रकास- भावान्न ब्ह्मज्ञाने विध्यवसर इत्याह-सर्वथेति। तर्हिं किमनर्थका वेदान्ता इति नेत्याह-तस्मादिति ॥ ४५५॥। अ० टी०-प्रासड्गिक परिसमाष्य प्रकृतं विध्यसंभवमुपपादितमुपसंहरति- विज्ञाते ब्रह्मणीति। ब्रह्मण विज्ञाते सते तस्य ब्रह्मणः प्रत्ययेडयं विधिरफल: स्यादिति योजना । पुमर्थसिद्धे: कर्तव्यानबशेषादित्यभिप्रायः । तद्वत्तथाऽज्ञातब्रह्मकर्मो प्रत्ययो विधिविषय इति न बुद्धियोग्य इत्यन्वयः । न ज्ञातुं शक्यो विषयास्कुरणे विधेरवगमस्याशक्यत्वादित्यर्थः । ब्रह्मात्मप्रत्ययेत्युत्तरार्ध स्पष्टार्थम् ।४५९॥ सु० टी०-इतश्ष न बह्मज्ञाने विधिरित्याह- विरुद्धन्निकस्य द्यापत्तिदोषा- न्न शक्यं विधानं धियः संग्रहीतुम्। यथा वाजपेये गुणस्येह तद्व- ततो नास्ति वेदान्तवाक्ये विधानम् ॥ ४५६॥ विरुद्धेति। बधा 'वाजपेयेन स्वाराज्यकामो यजेत' इतिस्वाराज्यफ- लकयागविधिपरे वाक्ये वाजपेयशब्दः किं गुणविधिरुत नामधेयमिति संदेहे यागे वाजपेयात्मकगुणविधान वक्ष्यमाणविरुद्धत्रिकद्रयापत्तिदा- . षादशक्यमिति नामधेयत्वं सिद्धान्तितं तद्वदिहापि द्रष्व्य इति वाक्ये तत एव दोषान्न बह्मज्ञाने विधि: शक्यत इत्यर्थः ॥ ४५६॥ अ० टी०-इतश्च न ब्रह्मज्ञाने विधिसंभव इत्याह-विरुद्दधत्रिकस्येति। धियो विधानं संग्रहीतुं न शक्यं विरुद्धन्निकस्य द्वयापत्तिदोषादित्न्वयः। प्रकृते ज्ञानविधौ विरुद्धन्निकद्वयापत्तिमुत्तरपद्ये वक्ष्यति। यन्न विरुद्धन्निकद्वयप्रसङ्गस्तत्र विधिर्न संभवती- त्यंत्रोदाहरणमाह-यथा वाजपेये गुणस्येति। अयमर्थ :- 'वाजपेयेन, स्वारा- ज्यकामो यजेत इति श्रयते। तत्र संशयः किमयं गुणविधिरुत कर्भमामधेयमिति। गुणवि- धिरिति तावत्पापं वाजमन्तं तत्पेयमस्मिनस्तीति वाजपेयगुणविशिष्टतया प्रकृतज्योतिष्ोमस्यैव
- चिह्वितोऽयं ग्रन्थः ख. पुस्तकस्थ
Page 372
संक्षेपशारीरकम्। ३६५
विधिसंभवारस्वाराज्यफलस्य गुणविधिनिबन्धनत्वोपपत्तेः । 'दम्नेन्द्रियकामस्य' इत्यादाविवेति चेदत्र ब्रूम :- नात्र गुणविधिरुपपद्यते विरुद्धत्रिकद्वयापत्तेः । तथा हि यदा यागमुद्दिश्य वाजपेयगुणस्तस्मिन्विधीयते तदा यागस्योद्देश्यव्वमनुवाद्यत्वं प्रधानत्वमिति त्रिकं प्राम्ोति। यदा पुनः स्वाराज्यफलमनूद्य तादर्थ्येन यागविधिस्तदा फलापेक्षया यागस्य तस्यैवोपादेयत्वं विधेयत्वं शेषत्वं चेति त्रिकं प्राम्नोति। तथाचोद्देश्यत्वोपादेयत्वयोरनुवाद्यत्वविधेयत्वयोः प्रधानत्वगुणत्वयोरेकस्मिन्नेकदा विरोधादेकेन वाक्येनोभयात्मबोधानुपपत्तेर्नेंदं वाक्यं गुण- विधिपरं कि तु कर्मनामधेयमिति प्रमाणलक्षणे स्थितम् । दधिविधिवाक्ये तूत्पत्तिसिद्ध- जुहोत्यनुवादेन दधिविधिपरत्वात्संयोगपृथकत्वाच्च न तत्र विरुद्धन्निकद्वयापत्तिरिति द्रष्टव्यं यथा वाजपेयविधौ पूर्वपक्षे गुणंविधौ विरुद्धत्रिकद्दयापत्तिरिहापि तद्वद्विद्याविधानेऽपि तदापत्तिः स्यादतो वेदान्तवाक्ये नास्ति विधानमित्यर्थः ॥४५६ ॥ सु० टी०-किं तद्विरुद्धत्निकद्वयमिति चेत्तन्नाSSह- उद्दिश्यमानत्वमनूदयमान- भावः प्रधानत्वमितीदमेकम्। तथाऽप्युपादेयविधेयशेष- भावप्रभेदं त्रिकमन्यदत्र॥ ४५७॥ उदिश्यमानेति। अत्र यथासंख्यक्रमेण त्रिकयोविरुद्धत्वमुपादेयत्वं ह्यनुष्ठेयत्वं कृतिसाध्यतया निर्देश्यत्वमुद्देश्यत्वस्थाननुष्ठेयत्वरूपस्य सिद्ध- वन्निर्देश्यत्वस्य विरोधि सिद्धं हि फलाद्युद्दिश्य यच्छब्दादिना निर्दिश्यं यागादिकं कर्तव्यतया विधीयते। तथा (* विधेयत्वमभ्राप्तत्वे सति प्रापणीयत्वमनद्यमानत्वस्य प्राप्तत्वेन कीर्त्यमानत्वस्य विरोधि। तथा) शेषत्वमन्योद्देश प्रवृत्तकृतिव्याप्यत्वमनन्यार्थत्वलक्षणप्राधान्यविरोधि।
विधेयत्वं शेषत्वं तु तद्याप्यमिति विवेकः ॥। ४५७ ॥ अ० टी०-विरुद्धन्निकस्वरूपं तावदाह-उद्दिश्यमानत्वमिति। सिद्धवनिर्दि- इ्यमानत्वमुद्दिश्यमानत्वमनुपादेयत्वमित्यर्थः। अनूद्यमानभावोडनुवाद्यत्वं प्रधानत्वं शेषित्व- मित्येकं त्रिकम्। तथाऽन्रान्य्रिकमिति संबन्धः । अपिशब्दस्त्रिकयोर्यथासंख्यं विरोधस्फोर- णार्थ:। उपादेयत्वमुद्देश्यत्व विरुद्धमनुष्ठेयत्वमितिया बत्। पुरुषस्य कृतिर्हपाा नम्। सा च किंचिदुददिश्य किंचिद्रोचरीकृत्य भवति। यथा स्वर्गादिफलमुद्देश्यं सिद्ध वन्नििश्यते
- अयं ग्रन्थः ख. पुस्तकस्थ: ।
Page 373
३६६ टीकाद्वयसमेतें-
नोपादीयते। देशकालादि च तदवच्छेदेन च साध्यतया निर्देश्यं सर्वेमुपादेयं यथा यागादि। तथा च पुरुषकृतिसाध्यत्वाभ्यामनयोरविरोधः सुप्रसिद्धः । विधयत्वमनुवाद्यत्वविरोधिप्रमेयत्वं पूर्वसिद्धं ह्यनूद्यतेऽसिद्धं च प्रमीयत इन्यवयोरपि सिद्धसाध्यभावो. विरोधः । शेषशेषिणो- श्वोपकारकत्वोपकार्यत्वाभ्यां भेदे सति स्वरूपविरोधः प्रसिद्ध एव। तदेवमनयोस्त्रिकयोरेक विरोधादेकेन बाक्येन कचित्प्रतातिरुपपद्यत इति तात्पर्यार्थः ॥४५७॥ सु० टी८ -- कथं पुनर्बहधीविधौ विरुद्धत्रिकद्वयमिति तदाह- एकेन बाक्येन धियो विधानं प्रत्यक्पमित्सा च यदि प्रतीचि। त्रिकं दवयं तत्र विरुद्धमेन- त्प्रसज्यते कष्टमतः किमन्यत् ॥४५८॥
एकेनेति। यदि 'आत्मा द्रष्टव्य' इत्येतेनैव वाक्येनाSSतमधीविधान- मात्मापरोक्षपमित्सा चाSडश्ीयते तदा प्रताच्येव त्रिकदयमुक्त प्रसज्यन इत्यर्थः ॥ ४५८ ॥ अ० टी०-ज्ञानविधिपक्षे कथं विरुद्धत्रिकागम इत्यत आह-एकेन वाक्ये- नेति। यद्येकेन वाक्येन 'आत्मा वा अरे द्रष्टव्यः' [बृ० २ ।४।५] इत्यादि- नाऽडत्मतत्वधियो विधानं प्रत्यगात्मन: प्रमित्सा स्वरूपावधारणेच्छा चाभिमता तऋर तदा प्रतीच्यात्मन्येताद्विरुद्धं त्रिकद्वयं प्रसज्यतेऽतः किमन्यत्कषं वाक्यस्याप्रामाण्यापचे रित्यर्थ: ॥४५८ ॥ सु० टी०-कथमिति चेत्तताSSह- उद्दिश्यमानं तदनूदमान- भूतं प्रधानं च धियो विधाने। प्रमीयमाणं पुनरात्मवस्तु तदास्पद स्यादितरत्रिकस्य ॥ ४५९ ॥ उद्दिश्यमानमिति। तथा हि यः प्रत्यक्ं ( वत्वं) जानीयाज्ज्ञानेनाSडप्रुया- दिति प्रत्यञ्चमुद्दिश्य तदनुवादेन तच्छेषतया धीर्विधेयेत्यतः प्रथमत्रिकं स्यात। पुनश्र्वः प्रत्यगपरक्षप्रमामिच्छतस्तदुद्देशेन परोक्षबह्मज्ञानाम्या- स विधानाद्विधिप्रमेयस्य प्रतीचोऽज्ञातस्य ज्ञाप्यन्वाद्विधेयत्वम्। विधिं
Page 374
संक्षेपशारीरकम्। ३६७
विधेयज्ञानविशेषणत्वाद्गुणभावश्र स्यांदित्यर्थः ।। ४५९।। अ० टी०-आत्मनि कस्मिन्पक्ष एक त्रिकं कस्मश्वापरमित्यपेक्षायामाह-उद्दि- इय्मानमिति। तदात्मवस्तु धियो बिधाने ज्ञानविधिपक्ष उद्दिश्यमानमनूद्यमानभूतं प्रधानं चेति त्रिकात्मकं स्यात्। तदेवाSत्मवस्तु प्रमीयमाणं पुनारतरत्रिकस्याSS- स्पदं स्यादिति योजना। एतदुक्तं भवति-आत्मानं जानीयादित्यात्मतस्त्रमुद्दिश्य तदनूद्य तच्छेषतथा च यदा ज्ञानं विधेयं तदोद्देश्यत्वादित्रिकं तत्र भवति । आत्मनः ममीयमाणते पुनरुपादेयत्वादित्रिकं प्रविशति। तद्यथा मोक्षकाम आत्मानं जानीयादिति विधि- स्वरूपे मत्यगात्मविशेषितज्ञानविषयके मोक्षोद्देशेन विधेयज्ञानविषयतयाSSतमनो विधेयत्वा दुपादेयत्वविधेयत्वशेषत्वानि प्रामुयुः । यद्यप्यात्मनोऽनुष्ठेयत्वरूपमुपादेयत्वं नास्ति तथाऽपि मोक्षोद्देशेन प्रवृत्ताया: कृतेः प्रत्यग्ज्ञानसाधनविषयायाः प्रत्यगात्मत्त्वानुभवपर्यन्तमनुपरमा- न्सैवानुभवद्वारा प्रत्यग्विषये भवतीत्यनुष्ठेयत्वमुच्यते। शेषत्वं तु मोक्षसाधनज्ञानविशेषणत्वा- दुपपन्नम् । विधेयत्वं चास्याऽत्मनः प्रयेयत्वं विधेरज्ञातज्ञापनरूपत्वादिति द्रष्टव्यम्। यदा त्वात्मनः प्रमेयत्वमपि तदा ज्ञानं प्रति तस्योद्देश्यत्वानुवाद्यत्वशेषितानि प्रामुयुस्तदेतदुर्घट- मिति ॥४५९ ॥ सु० टी०-दष्टान्तेऽपि त्रिकद्दयमाह- प्रथमत्रिकं यजिनिगयगतं गुणसंगतेरवगमे भवति। चरमत्रिकं यजिनिगय्यगतं फलसंगतेरवगमे तु पुनः ॥४६० ॥ प्रथमेति। यद्यजेत तद्वाजपेयेनेत्येवं यागमुद्दिश्य यवाग्वात्मकगुणवि- धावुद्देश्यत्वादित्रिकं यागे मवति स्वाराज्यमुद्दिश्य यागविधी पुनरुपा- देयत्वादित्रिकं यागे स्यादिति विरुद्धमित्यर्थः ॥ ४६०॥ अ० टी०-वाजपेये दृष्टान्ते विरुद्धत्रिकद्वयमुक्तमुपपादयति-प्रथमत्रिकमिति। 'घाजपेयेन यजेत' इति वाक्येन वाजपेयाख्यगुणसंगतेरवगमे गुणविधिपरत्वाभ्युपगमे यजिमिगद्यगतं यागगतं प्रथमत्रिकमुद्देश्यत्वानुवाद्यत्व प्रधानत्वरूपं भव्रति। तथा फलसंगते- • खवगमे स्वाराज्यफलोद्देशेन यागविध्यम्युपगमे तस्मिन्नेव यजिनिगदये चरमत्रिकमुपादेयत्त् विधेयत्वंशेषत्वरूपं संगतं भवतीति योजना ॥ ४६० ॥
Page 375
३६८ टीकाट्वय समेत- सु० टी०-नन्वस्तु क्रमेण यागे गुणफलसबन्धो विरेधाभावा- दिति नेत्याह- सक्दुचरन्यजत्तिरेष गुणं न फलं च संगमयितुं क्षमते। कथितत्रिकद्दयविरोधवशा- द्यजिवस्तुनीति ननु नीतिविदः।। ४६३।। सकृदिति। सकृच्छतस्य यजेतेतिविधे: क्रमिकसंबन्धद्वयबोधन आवृत्ति- प्रसङ्गाद्यौगपद्ये तूक्तविरोधादुभयथाऽपि वाक्यमेद इत्यर्थः ॥ ४६१॥ अ० टी०-किमतः सिद्धं भवतीत्यपेक्षायां विरुद्धयोस्त्रिकयोरेकत्र यौगपद्याप्रमिते- र्षौक्याप्रामाण्यं सिध्यतीत्यभिप्रेत्याSह-सकृदुच्चरन्निति। एष यजतिः सकृदुचर- न्नुचार्यमाणो यजिवस्तुनि यागस्वरूे गुणं फलं च संगमयितुं संगतमुवंगमायतुं न क्षमते। कुतः -- कथितत्रिकद्वयविरोधवशादिति। ननु नीतिविदो वदन्तीति योजना ॥ ४६१ ॥
इति वाजपेयगतनीतिवशा- दपि नाऽऽत्मवस्तुविषयावगतौ। विधिरस्ति तेन विधिशून्यतया परमात्मवस्तुविषयोपनिषत् ॥४६२॥ इतीति ॥ ४६२ n
माह-इति वाजपेयेति। वाजपेयवाक्यप्रवृत्तिपर्यालोचनादप्यात्मवस्तुविषयावंगतावातम- प्रमितौ विधिर्नास्तीत्यन्वयः । विध्यसंभवे सिद्धमर्थमुपसंहरति-तेनेति॥ ४६२॥ सु. टी०-ननु भिन्नफलसगुण निर्गुण विद्याभेदप्रसिद्धेरर्थाकत्वा-
स्मिति चेन्नेत्याह- सगुणवाक्यमपीह समन्वितं भवति निर्गुणवस्तुनि सर्वशः।
Page 376
संक्षेपशारीरकम्। ३६९
न खलु निर्गुणवस्तुस्मन्वयं न सहते सगुणस्य समन्वयः॥४६३॥ सगुगेति। सगुणवाक्यमपि सर्व निर्गुण एव समन्वितमैश्वर्यादीना. फलामासत्वाद्गुणांशस्य च प्रमेयाभासत्वाद्वास्तवफलस्य चैक्येन कल्पा- (3) का ङ्क्षत्वादत एकवाक्यत्वमविरुद्धमित्यर्थः।तर्हिं सगुणविद्यात्वव्या- घात इति चेन्न तत्राप्यवान्तरतात्पर्यादित्याह-न खल्विति। अस्य सगु- णवाक्यस्य सगुणे समन्त्रयो महातात्पर्येण निर्गणवस्तुसमन्वयं सहत एवेत्यथ:॥४६३ ॥ अ० टी०-तदेवं ज्ञानविधिपरा वेदान्ता इति पक्षं निराकृत्योपासनाविधिपरा वेदान्ताः स्युः कथं विधिशून्यता ब्रह्मात्मवस्तुविषयोप निषदित्येकदेशिमतान्तर माशड्क्योपास नावाक्याना न शेष्यर्थपरत्वमिति प्रतिपादयति-सगुणवाक्यमपीति। सर्वशः सर्वमपि सगुणवाक्य- मिह निर्गुणवस्तुनि समन्वितं भषति न विपरीतमित्यर्थः । कथमित्यत आह-न खल्विति। यद्यपि सगुणवाक्यं सगुणपरमित प्रतिभाति तथाऽपि सगुणसमन्वयस्य निर्गुणे समन्वयाविरोधात्सगुणवाक्यं निर्गुणे समन्वयं न सहत इति न खलु कि तु सहत एवेत्यर्थ: ।। ४६३॥ सु० टी०-कथं सहत इत्याह- सत्यासत्यवपुस्तथा हि सगुणं ब्रह्मास्य विद्या तथा तद्वत्तद्विषयस्य वेदवचसस्तात्पर्यमेवंविधम्। तेनावान्तरमस्य वेदवचसस्तात्पर्यमन्याद्ृशं चान्यन्निर्गुणवस्तुतत्त्वविषयं संकीर्त्यंते भागशः ॥। ४६४।। सत्येति। निर्गुणमेव ह्यविद्याकल्पितोपाधिशचलं सगुणं तज्ञ स्वरूपेण सत्यं शावल्येनासत्यमिति सत्यासत्यात्मकमेवं सगुणविद्यासगुणवाक्य- तात्पर्थ तत्फलं च स्वं सत्यासत्यविषयमेवेत्यर्थः । ततः किमित्यत आह-तेनेति। अस्य वाक्यस्य विशिष्टकेवलविषयं तात्पर्यदवयं तत्राSड- द्यमुपासनाङ्गमवान्तरतात्पयं वुद्धिशुद्धिमात्रहेतुत्वादमुखुयं तश्वावेदक- भ्रुतेमृषागुणेषु वस्तुतोऽतात्पर्यात्। निर्गुगविषय तु महातात्पर्य मुरूयं
१ क, ग. धायां स"। YU
Page 377
३७० टीकाद्टय समेतं-
सृषागुणाधिष्ठानस्य तत्कालेऽवि तच्छून्यत्वादिति न मुख्यामुख्ययोर्दि- रोध इत्वर्थ: ॥ ४६४॥ अ० टी०-कथमित्थं व्यवस्थाऽडसथीयते बिनिगमनायां हेत्वभावादिति तत्राSSह- सत्यासत्यवपुरिति । यत्सगुणं ब्रह्म तत्सत्यासत्यवपुर्यतः स्वरूपतः सत्यं सद्रह्मावि- द्यातत्कार्योषाध्युपवानवशा्सगुणं ब्रह्म भवत्यतः सत्यासत्यवपुः सगुणं ब्रह्मेत्यर्थः । तत्र श्रुतिप्रसिद्धं प्रमाणयति-तथा हीति। तथा हि श्रुतिः-' सर्वकर्मा सर्वकामः सर्वगन्धः' [छा० ३।१४।२]'वाकू पादः प्राणः पादश्वक्षुः पादः श्रोत्रं. पाद:' [छा०३ । १८।२] ' प्राची दिक्कला प्रतीची दिक्कला'[छा० ४। ५ । २ ] इत्याद्या। न हि निरञ्जनस्य निरवयवस्यासङ्गकूटस्थात्मनो ब्रह्मणः स्व्तः पादा वा कला वा कर्मादिर्वा विशेष उपपद्यत इति। तथा यथा ब्रह्म सगुणं सत्यास- त्यवपुस्तथाऽस्य विद्या सगुणब्रह्मविषया विद्या सत्यासत्यवपुरित्यर्थः। यथाविषयं हि ज्ञानमिति तदपि तथेति भावः । यथा विषयतज्ज्ञाने तद्वत्तद्विपयस्य सगुणब्रह्मविषयस्य वेदवचसस्तात्पर्यं स्वार्थपामाण्यलक्षणमेवंविधं सत्यासत्यवपुरित्यर्थः । सत्यासत्यशबलित- विषयत्वादिति भावः । यत एवं तेन हेतुनाऽस्य सगुणब्रह्मविषयस्य वेदवचसो वेदवा- क्यस्य तात्पर्यमवान्तरसंज्ञितमन्यादृशं निर्गुणवाक्यतात्पर्याद्विलक्षणं सत्यानृतशबलविषय- मित्यर्थः । चस्त्वर्थः । निर्गुणवस्तुतत्त्वविषयं तु तात्पर्यमन्यादृशं परमार्थकरसवस्तुविष- यमिति भागशो विभागेन संकीर्त्यते श्रुतिषु सूत्रशास्त्रेषु चेत्यर्थः। एतदुक्तं भवति- यद्यपि सगुणवाक्यानामुपासनाविषयाणामुपासनाविधिपरत्वादुपास्यस्वरूपपरत्वं नास्त्युभयप- रत्वे वाक्यभेदप्रसङ्गात्तथा निर्गुणवस्तुप्रकरणस्थानामपि सविशेषवाक्यानामपवादशेषाध्यारो- पविषयत्वाद्विशेषे तात्पर्ये नास्ति तथाऽपि विशिष्टस्य तेषु प्रतीयमानत्वादन्यतश्चाप्रभित- त्वाद्विशिष्टेऽपि वस्तुनि तात्पर्यमङ्गी क्रियते विशिष्टस्य स्वरूपाव्यभिचारादतो विशिष्टविषय- तात्पर्य विशेष्यस्वरूपमपि स्पृशतीति कृत्वा विशिष्टविषयं स्वरूपविषयं चेति प्रकरणविभागेन विशिष्टविषयमवान्तरतात्पर्यं स्वरूपविषयं महातात्पर्यमिति च विभागेनोच्यत इति । ४६४ ॥ सु० टीe-नतु कथं सगुणवाक्यं सत्यासत्यविषयं सत्यासत्ययोरवि- रुद्द्त्वेन विशिष्टबुद्धयसंभवादिति चेन्नेत्याह- रूप्यज्ञानं रजतमिदमित्येवमुत्पय्यमानं सत्यासत्यं विषयमपृथग्दर्शयत्येकमेव। तद्वम्मानं सगुणविषयं सत्यमिथ्यावभासं संसृष्टार्थद्वयमति हद दर्शयत्येकमेतत् ॥४६५॥. १ क. तस्मान्मानं । २ क. "यमात"।
Page 378
संक्षेपशारीरकम्। ३७१
रुग्येति। शुक्तावुत्पद्यमानं रूप्यज्ञानमधिष्ठानं सत्यमारोव्यं चासत्य- मिति न मेदेन दर्शयति कि त्वेकमेव सत्यानृतावभासमिददृत्ति रजत- वृंत्यवच्छिन्नं स्कुरणं जनयतीत्युक्तं तद्दत्समुणवाक्यमपि सत्यमिथ्याव- मासमेकमित्यर्थः ॥ ४६५॥ अ० टी०-ननु सत्यासत्ययोर्विरुद्धस्वरूपयोः कथ वैशिष्ट्यमिति चेन्नाय दोषो दृष्टत्वादित्याह-रूप्यज्ञानमिति। निगदव्याख्यातं पद्यम्। न चैवंसति शुक्तिरजत- ज्ञानवत्सगुणज्ञानस्य मिथ्याज्ञानत्वात्सगुणवाक्यस्याप्रामाण्यं स्यादिति वाच्यं गुणवैशिष्टय- स्यापि व्यावहारिकसत्यत्वाद्वय/वहारिकप्रामाण्योपपत्तेश्चोदनाया इव धर्माधर्मयोः रवार्थे प्रत्य- क्षादीनामिव च तत्त्वदृष्ट्या तु नास्त्येव सगुणवाक्यस्य सगुणे तत्वे प्रामाण्यं कि तु तस्यापि निर्गुण एव पर्यवसानं कल्पितमेव निर्गुणवस्तुप्रतीत्यङ्गतयाऽनूद्यतेऽतो म कोपि विरोध इति गमयितव्यम् ॥ ४६५॥ सु० टी० -- ननु विशिष्टविधौ पृथक्तात्पर्यादर्शनाद्विशिष्टक्षियस- गुणवाक्यस्य विशेष्ये विशिष्टे च तात्पर्यभेंदे वाक्यभेद इति नेव्याह- तद्बुद्धिमात्रफलतैव च तत्परत्वं वेदान्तवादिसमये न तु शेषभावः । शेषत्वमक्षरकलापगताप्तिमात्रं प्रत्येव नाध्ययनमर्थधियो विशेषः ॥४६६ । लहुद्धीति। न ह्यस्माकं मीमांसकानामित तत्प्रतीनिशेषत्वं तात्पर्य येन स गुणप्रतीतिशेषस्थ निर्गुणधीशेषत्वं विरुध्येत किं तु तद्बुद्धिमात्रफल- त्वम्। तच्जैकस्यापि वाक्यस्य नानाबुद्धिफलत्वसभवादविरुद्धम् । अस्ति च सुणवाक्यजज्ञानादुपासनेनाभ्युद्यस्त्त्वविषयतया मुक्तिश्र. फलमिति नानार्थता विशिष्टविधिस्त्ेकफल इति विशेष इत्यर्थः । अत एव तेषामध्ययनविधिरर्थाववोधेऽध्ययन तद्दारा स्वाध्यायं च विनियुंड्क्त इत्यर्थप्रतीतिशेषत्वादृध्ययनस्यार्थबोधपरता। अस्माकं तु न तस्पार्थबोधे विनियोगस्तस्वाशाब्दत्वात्। किं त्वक्षरात्ौ तस्या:
अर्थधीफलकत्वमेव वेदस्यार्थपरत्वमित्याह-शेषतमिति.॥.४६६।। अ० टी०-सगुणवाक्यं सत्यासत्यबिषयके तथात्वेऽपि तस्म नाप्रामाण्यमित्युक्तं सच्ेदमाश्ञाड्कयते वाक्यस्य सत्यासत्यपरतया तात्पर्यद्वैविध्यमिष्यते विशिष्टस्वरूपयोरन्यक्र
Page 379
३७२ टीकाद्वय सभेतं-
स्मिन्नेव चैकं ता:पर्यमिति तत्राऽडदे वाक्यभेदप्रसङ्ग एको दोषोऽपरश्वाशक्यप्रत्ययत्वं था सोमेन यजेतेत्यादौ विशिष्टैक्यपरत्वव्यतिरेकेण न विशेषणे विशेष्ये वा तात्पर्य प्रत्येतुं शक्यते तथा सति वाक्यस्य विशिष्टपरत्वायोगात्तथाऽत्रापि गुणविशिष्टब्रह्मपरत्वव्यतिरेकेण संगुणे परित्यक्तगुणे च ब्रह्मणि न तात्पर्यमवरगन्तुं शक्यतेतदा विशिष्टविषयत्वासंभवा- 'दुपास्यत्वाद्यप्रतीतावुपासनाद्यसिद्धिप्रसङ्गात्'। द्वितीये ऽन्यतरस्या स द्विर्गुणविशिष्टैकवस्तुपरत्वे केवलस्व रूपासिद्धि: के वलस्वरूपपर त्वेऽन्यासिद्धिरिति तत्राSह-त द्बुद्धि मात्रफल तै - वेति । तस्मिन्र्थे बुद्धिस्तहुद्धिस्तदेव फलं यस्य वाक्यस्य तत्तद्वुद्धिमात्रफलं तस्य स्वभावस्तत्रेदमेव वाक्यस्य तत्परत्वं वेदान्तवादिसमये मतं न तद्वयवधानेन बुध्धन्तरमिति योजना। ननु शेषत्वं तात्पर्य मीमांसका इच्छन्ति तत्कथं भवद्भिर्नानुमन्यते तत्राऽडह- न तु शेषभाव इति। तात्पर्य मतमिति योज्यम्। शेषत्वं तात्पर्य चेत्तदैकस्योभयं प्रति शेषत्वायोगात्सगुणे निर्गुणे चैकस्य वाक्यस्य तात्पर्य विरुध्येत फलं ववेकस्यापि वाक्यस्यानेकमपि न विरुष्यते तत्रोदाहरणं वक्ष्यत इति। ननु शेषत्वं चेन्न तात्पर्य कथं तर्ह्यध्ययनस्यार्थावबोधशेषतया तत्तात्पर्यकत्वं मीमांसकैरिष्यत इति चेदिष्यतां नाम तैस्तथा नास्मािरध्ययनाङ्गत्वमर्थावबोधसयाभ्युपेयते क्षरावाप्तेरेव तथांत्वाङ्गीकारादित्याह-शेषत्व- मक्षरेति। अर्थावबोधरयानुष्टानाद्याक्षिप्ततयैव सिद्धेर्न तत्राध्ययनं विधिना विनियुज्यत इति भाव: ॥४६६ ॥ सु० टी०-नन्वध्ययनस्यार्थधीशेषत्वाभावे तत्फलकत्वमपि कथ- मित्यत्राSSह- तच्छेषभावमनपेक्ष्य च तत्फलं स्या- दाधानवन्न हि तदङ्गमिह क्रतूनाम्। अग्न्यङ्गमेव हि तदिष्टमथापि तस्य सर्वकतुष्वधिकृतिः फलमभ्युपेतम् ॥ ४६७॥ तच्छेषभावमिति। यथाSडधानं प्रकरणाद्यमावादकरत्वङ्गमप्याहवनीया- दिनिष्पत्तिद्वारा क्रतुसिद्द्िफल कमेवमध्ययनमप्यर्थधीशेषत्वं विनाऽपि तत्फलकमक्षरापेरपुरुर्षाथत्वादित्यर्थः। ननु क्रत्वङ्गाग्न्याश्रितमाधानमस्तु पर्णमर्यान्यायेन क्रत्वङ्गमिति नेत्याह-न हीति। प्रागाधानादग्नीनामा- हवनीयत्वाद्यभावेनाक्रत्वङ्गत्वान्न तदाभ्रितत्वेन कत्वङ्गमित्यर्थः । किमङ्गं. ताह तदित्यत्राSSह-अग्न्यङ्गमिति। अग्नीनादधीतेति द्वितीयाश्रुतेरित्यर्थः। कथमपुरुपार्थानामग्रीनां फलत्वमित्यत्राऽह-अथापीति । अपिः. समु.
Page 380
संक्षेपशारीरकमू।
चये। तस्याऽडधानस्याध्ययनस्य चाग्गिमत्ताविद्वत्तासंपादनेन सवकत्व. धिकारः फलमित्यर्थः ॥ ४६७॥ • अ० टी०-ननु यद्यर्थबोधं प्रति स्वाध्यायाध्ययनस्य शेषत्वं न स्यात्तर्हि नार्थावबोधस्त- स्य फलमपि स्यादिति चेन्मैवं तच्छेषत्वं विनाऽपि तत्फलत्वदर्शनादित्युदाहरणेनाSSह- तच्छेषमावमनपेक्ष्येति । अप्यर्थे चकारोऽनपेक्ष्यापीत्यर्थः । आधानवदित्युक्तं दृष्टान्तं स्पष्टयति-न हीत्यादिना। श्रुत्यादेर्वा प्रकरणादेर्वा विनियोजकप्रमाणस्यात्राभावात्त- दभावे च क्रत्वङ्गत्वानिश्चयादित्यर्थः । तर्हि किमाधानं न कस्याप्यङ्गमेव नेत्याह-अग्न्य- ङ्गमेव हि तदिष्टमिति । ब्रीहीन्प्रोक्षतीत्यत्र प्रोक्षणस्य न्रीह्यर्थत्ववदग्रीनादधातीति द्वितीयाश्रुतेराधानस्याप्यग्न्यर्थत्वावगमात्। अत एव फलान्तरकल्पनाया अनवकाश इत्यग्न्यङ्ग- त्वमेवाSSधानस्येत्यर्थः । तर्हि निष्प्रयोजनमेवाSधानं स्यादभिनिष्पत्तेरफलत्वादिति चेत्त- त्राऽडह-अथापीति। यद्यप्याधाननिबन्धनं किमपि फलं साक्षान्नास््यथापि तस्याSS धानस्य सर्वक्रतुष्वधिकृतिः पुरुषस्याधिकारसिद्धिः फलमभ्युपेतं मीमांसकैरपीति शेषः । आहवनीयादी नामग्रीनां क्रत्वङ्गत्वात्क्रतुनिष्पादनद्वारेण क्रतूपकारादाधानस्यािनिद्वारा क्रतुफल-
र्नाङ्ग्त्वकल्पनेति भाव: ॥ ४६७ ॥ सु० टी०-ननु यदि तद्दीमात्रफलत्वं तत्परत्वं तर्हि मन्त्रार्थवादा- नामवि स्वार्थधीहेतुत्वात्तत्परत्वं स्यादिति चेन्न फलवत्तद्धीफल कत्वस्येव तात्पर्यादित्याह- मन्त्रार्थवादगतमध्ययनं तदर्थ- मात्रप्रतीतिफलमित्यपि नाभ्युपेतम्। विध्यर्थबुद्धिमनुसृत्य फलावसान। सा तद्वनीति तदतत्परतोपपातिः ॥४६८ ॥ मन्त्रेति। स्वाध्यायविधिना वेदस्य पुरुषार्थे विनियोगान्मन्त्रार्थवादयोः स्वार्थप्रतीतिस्तज्जन्याऽव्यपुरुषार्थत्वान्न फलत्वेनेष्टा विध्यर्थधीस्तु फल- वनीति तामनुसृत्य तद्पेक्षितानुष्ठेयस्तृतिप्राशस्त्यधीलक्षणैव मन्त्राद्य. थंधी: फलवतीति तत्र तत्परतेत्यर्थः ॥ ४६८॥ अ० टी०-यद्येवं तद्बुद्धिमात्रफलत्वं तत्परेतं तारहि मन्त्रार्थवादानामपि तत्परल्प्रस- भस्तेषामपि स्वार्थबुद्धे: कार्यत्वात्कार्यस्य च कारणं प्रति फलत्वादिति चेननेत्याह-मन्त्रार्थ- वादेति। नाभ्युपेतं जैमिनीयौरिति शेषः। मन्त्रार्थवादयोः स्वार्थबुद्धेः पुमर्थापयोगितेनाना-
Page 381
३७४. टीकाट्वुयसमेतं-
काडक्षिततया फलत्वासंभवादफले च तात्पर्यानुषपत्तेरित्र्थः। कथ तर्हि तयोः प्रामाण्यमिति तभ्राऽडह-विध्यर्थबुद्धिमिति। विध्यर्थबुद्धिर्हि पुमर्थसाधनविषयत्वेव फलव्रत्या- काड्क्षितविषयत्वासथा च फलावसानां विध्यर्थबुद्धिमनुसृत्य सा मन्त्रार्थवादजनिता बुद्धि स्तद्वती कलवतीति तदतत्परतोपपत्तिर्विध्यर्थप्राशस्त्यादिद्वारेण विथ्यर्थपरत्वं तव्परत्वं ताव्पर्य- वत्वमुपपद्यते स्वार्थे च फलाभावादतत्परत्व चेत्यर्थः । तद्वुद्भिमात्रफलतैव तत्परत्वभित्यत्र मन्त्रादिव्यावृत्त्यर्थ मात्रपदमिति ज्ञेयम्। प्रयोजनवती हि बुद्धिर्वावयस्य फलं नेतरेति भाव: ॥। ४६८ । सु० टी०-एतञ्च तत्परत्वान्यपरत्वनिरवंचनं सर्ववेद्वित्संमत वित्याह- सपयोजनकबुद्धिकारणं वाक्यमाहुरिह तत्परं बुधाः । सपयोजनकबुद्धिशेषधीहेतुमन्यपरमाश्रयन्ति च॥ ४६९॥ सप्रयोजनेति। यद्वाक्यं फलवद्यदर्थधीजनक तत्तत्परं यञ्च फलवट्दा- क्यान्तरार्थधीशेषभूतधीजनकं तद्न्यपरमित्याहुरित्यर्थ: ४६९। अ० टी०-ननु वाक्यजन्यत्वे समाने बुद्धेः प्रयोजनवत्याः फलत्वं नेतरस्या इत्येत- न्कथमवगम्यत इति चेद्दृद्वव्यवहारादित्याह-सप्रयोजनकेति। सष्टार्थं पद्यम्॥४६९/ सु० टी०-तारहै किं देवतास्वर्गादिबोधकानामपि मन्त्रादीनां क स्वार्थपरत्वमिति नेत्याह- मन्त्रार्थवादवचसामपि गोचरेषु सौवेष्ववान्तरमुशन्ति च तत्परत्वम्। केचित्रयीशिरसि खिन्नधियो मुनीन्द्रा- स्तचद्धियो विधिषु शेषतया निवेशात् ॥४७०॥ मन्त्रेति। अनुषयुक्तार्थानां प्राप्तार्थानां चान्यपरेत्वं युक्तं विध्यपेक्षिता- प्राप्तार्थानां तु सौवेषु स्वसंबन्धिष्वप्यर्थेषु तात्पर्यमवान्तरमिच्छन्तीत्यर्थः। तथा च विधौ महातात्पर्यमस्त्येवेति भावः । कथमुशन्तीत्यत्राऽड्ह- तत्ताद्विय इति। देवतास्वर्गादिधियस्तां ध्यायेद्वपट्रकरिष्यन्निति स्वर्ग कामो यजेतेत्यादिविधिषूपयोगितया निवेशादित्यर्थः ॥ ४७० ।।. अ० टी०-द्देवं प्रयोजनबुद्धिर्वाक्यस्य फलं ताफत्त्वमेव तत्परत्वं न स्वार्थबु- द्विमात्रं वाक्यफलं तथा तर्हि कथमङ्गवाक्यानां स्वार्थबुद्धिफलं स्यादिति चेत्कश्विह्रया
१ क, म. परत्वमुक्तं.।
Page 382
संक्षेपशारीरकम्। ३७५
तदाऽयं समाधिर्बोद्धव्यः। आकाडक्षितार्थबुद्धेर्वक्यफलत्ादङ्गवाकयानां च प्रधानाकाङ़- क्षितेत्थंभावसमर्पकत्वेन तद्धियः फउत्वादस्ति तंद्वाक्यानां स्वार्थे तात्पर्य न चैवरंसति प्रधानविधिशेषार्थत्वानुपपत्तिः साक्षातपुमर्थाकाङूक्षया तदुपेतवाक्यान्तरार्थशेषतया तत्रैव महातात्पर्येऽपि स्वार्थविषयेऽवान्तरतात्पर्यमिति व्यवस्थोपपत्तेः साङ्गस्यैव कर्मणः फलव- त्वादङ्गप्रधानविषयं सर्वमेव वाक्यं स्वार्थे फलघन्न तथारऽर्यवादादिवाक्यं तस्याऽडरादुपका- रकत्वे Sप्यनुष्ठानाङ्गत्वाभावादित्यङ्गवाक्यानामर्थवादादिवाक्यानां च विशेष इत्येवं मन्त्रार्थवादानां न स्वार्थे तात्पर्यमित्यु क्तस्योत्सर्गस्यापवादं बादरायणमतमाश्रित्याSSह -- मन्त्रार्थवाद- वचसामपीति। सौवेषु स्त्रकीयेषु गोचरेषु मन्त्रार्थवादवचसामपि तत्परत्वं त्रयीशिरसि खिन्नधियः क्षुण्णियः केचिन्मुनीन्द्रा उशन्ति जानन्त्यड्गी कुर्वन्तीति योजना। मन्त्रार्थवादानां न स्वार्थपरत्वं तेषां विधिपरत्वादिति शङ्कावारणायावान्तर- मिति विशेषणम्। एतदुक्त भवति- 'विरोधे गुणवादः स्यादनुवादोऽघधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः'॥ इतिन्यायेनोक्तत्वाद्गुणव, दानुवादयोः स्वार्थपरत्वाभावेऽपि प्रमाणान्सरविरोधतत्पूर्वकत्वयोरभावादस्ति स्वार्थपरत्वं तथाऽपि स्वार्थबुद्धेरनाकाडक्षितार्थ- भूतार्थवादेषु
त्वात्साक्षात्फलवत्त्वाभाव इत्यवान्तरतात्पर्य स्वार्थेऽ्युपगम्यते। अन्यथा यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्निति व्यानविधेर्व्येयविषयाकाङक्षितत्वात्तस्प चान्यतोSसिद्धे: शब्दमात्रस्याध्येयत्वाच्च ध्यानविध्यसिद्धिप्रसङ्गोऽतः स्वार्थस्यानन्यलभ्यतया तात्पर्यगोचरत्वमिति। नन्वेवमपि स्वार्थबुद्धेरफलत्ान्मन्त्रार्थवादानां तहुद्विमात्रफलत्वं सात्पर्य न लभ्यत इति तत्राऽऽह-तत्तद्द्विय इति। देवताविग्रहवत्त्वादिधिय इत्यर्थः । विधिषु स्वर्गाद्यर्थयागादिविधिष्वित्यर्थः । शेषतयेंति। यस्यै देवताया इति प्रयोगोप- योगितया तत्तत्स्वर्गादिफलविशिष्टविध्यर्थप्रतिपत्त्युपयोगितया वा शेषतया निविष्टत्वादि- व्यर्थ:। तदेवमुक्तविधायाः स्वार्थधियः फलवत्वात्तद्वुद्धिमात्रफलत्वमेव सर्वत्र तात्पर्यं न शेषभाव इति व्यवस्थितमेव तदिति भावः ॥। ४७० ॥ सु० टी०-ननु सगुणवाक्यानामवान्तरतात्पर्येणोपासनापरत्वे नियो- गनिष्ठत्वं पुनरापन्नमिति नेत्याह- श्रेय:साधनता लिर्डन्थ इति च प्रागुक्तमत्यादरा- चछेय:साधनयागदानहवनादर्थैकनिष्ठ ततः। सर्वं कर्मवचो नियोगपरता तस्यापि नाऽडलोचने वरक्तव्यं किमुतास्य वेदशिरसः सा नेति भूयोऽपि.न: ॥१७१॥ १ ग. कव्या कि°।
Page 383
३७६ टीकाट्टयसमेतं-
श्रेय इति। श्रेय:साधनतैव लिर्ड्थो न नियोगादीति प्रागेवोक्तत्वात्। कर्मविधिवाक्यमपि सकलं श्रेयोहेतुत्वपरमेवेति तदालोचने क्रियमाणेऽवि चेन्नियोगादिपरता नास्ति तदा वेदशिरसः सा मास्तीति कि भूयो वक्त- व्यमिति संबन्ध:॥।४७१॥। अ० टी०-उक्तन्यायेन सगुणवाक्यानामपि निर्गुणे ब्रह्मण महातात्पर्य गुणविशिष्टे तस्मिन्नवान्तरतात्पर्यमुपासनावाक्यगतानां तु विधिपदानां स्वार्थ एव तात्पर्थ न ब्रह्मणि तत्प्रत्यायकत्वाभावात्तेषां बिहितोपासनानां तु चित्तैकाग्र्यसंपादनद्दारा ब्रह्मावगत्युपयोगित्वा- दिति कर्मकाण्डानां नियोगनिष्ठत्वेऽपि सर्वेषां वेदान्तानां निर्विशेषब्रह्मपरत्वमेव न नियो· गस्पर्शित्वं भावनास्पर्शित्वं वा कर्मकाण्डेऽपि प्रतिषेधचोदनानां न नियोगनिष्ठत्वमितीयता प्रबन्धेन प्रतिपादितमिदानीं कर्मकाण्डेऽपि न नियोगो भावना वा भावी किमुत वेदान्ते- ष्विरिति वक्तुं पूर्वोक्तमाकर्षति तद्गतविशेषनिरूपणाय-श्रेय:साधनतेति। यतः श्रेयः- साधनता लिडर्थ इति प्रागस्माभिरत्यादराद्युक्तिभिरुपपाद्योक्तम्। चोऽवधारणे। उक्तमेवेति संबध्यतेऽतः सर्वं कर्मवचः श्रेयःसाधनयागदानहवनाद्यर्थैकनिष्ठ न नियोगनिष्ठमिति योजना। यदैवं तस्यापि कर्मकाण्डस्याप्यालोचने निरूप्यमाणे न नियोगपरता लभ्यते भावनापरता वा तदा भूयोपि पुनरपि किमु वक्तव्यमस्य वेदशिरसः सा नियोगादिपरता नास्तीति नोऽस्माकमाकूतमित्यर्थः ॥ ४७१॥ सु० टी०-तह मट्टगुरुप्रभृतिभिः कर्मकाण्डस्य भावनानियोगनि- उतया व्याख्यानं कथं कृतमिति चेन्न सूत्रभाष्यविरोधेन तस्यापव्याख्या- नत्वादित्याह- श्रेयःसाधनयागदानहवनायर्थेषु कार्यात्मसु सर्वं कर्मवचः प्रमाणमिति तु ग्राह्यं वचो जैमिनेः । भाष्यं पश्यत शाबरं स्फुटतरं यो यागमित्यादिकं श्रेयःसाधनयागमान्रवचनं धर्माभिधानं वदत् ॥ ४७२॥ श्रेय इति। यागादिषु श्रेयःसाधनत्वात्कर्तव्यात्मकेषु सरवं विधिंवाक्यं प्रमाणमिति बोधयत् 'चोदनालक्षणोऽर्यो धर्मः' [जै० १॥ १!२] इत्ति यज्जैमिनेर्वचनं तन्न्यायानुगतत्वाद्गाह्यमित्यर्थः। ननु श्रेयोहेतुत्वमेव चोदनाशब्दोदितस्य विधेरर्थस्तस्याभिमत इति कुतो निर्णीतमिति वेद्भाष्यानुसारादित्याह-भष्यमिति। यो यागमनुतिष्ठति तं धार्मिक
१ क. हि वेद्गु°।
Page 384
संक्षेपशारीरकम्। ३७७
हत्याचक्षत इति शेयस्करत्वं धर्मशब्दारथं वद्ता तत्प्रमापकस्य विधेस्त- दर्धत्वं सुध्यक्तमेषोक्तमित्यर्थः ॥ ४७२ ॥। अ० टी० -- न चास्माकमेवदमाकूतमपि तु.जैमिनेः सूत्रकारस्य तत्सूत्रभाष्यकारस्य चास्मद्विवक्षानुसारित्वदर्शनात्तद्भाष्य इत्याह-श्रेय:साधनयागेति। जैमिनेराचार्यस्य 'अथातो धर्मजिज्ञासा' [ जै० १।१।१]6चोदनालक्षणोऽर्थो धर्मः [जै० १। १ । २ ] इत्यत्र यद्धर्मवचस्तत्कार्यात्मसु साक्षात्कृतिसाध्येषु श्रेयःसाधनयागाद्यर्थेपु प्रमाणं ग्राह्यं न नियोगे भावनायां वेति योजना। प्रयत्नपरतन्त्रश्रेयःसाधनवित्रय एव सौत्रधर्मशब्दो विवक्षितोऽवगन्तव्य इत्यर्थः । कुत इत्यत आह-भाष्यमिति। यो यागमनुतिष्ठति तं धार्मिक इत्याचक्षत इत्यादिकं शाबरं भाष्यं सौत्रधर्मपदव्याख्यानपरं स्फुटतरं संदेहविपर्ययशङ्काकलङ्करहितं यथा स्यात्तथा सूत्रगतधर्माभिवानं श्रेयःसाधनया- गमात्रवचनं वदत्पश्यतेति योजना। भाष्यकारेण सौत्रधर्माभिधानस्य श्रेपःसाधनयागादि- वाचकत्वेन व्याख्यातत्वात्सूत्रकारस्याप्येषोऽर्यों विवक्षित एत्रेति गम्पत इत्यर्थ: ॥ ४७२ ॥ सु० टी०-नन्वेवं धर्मशब्दस्य यागवाचित्वे नपुंसकता स्थात् 'तानि धर्माणि प्रथमान्यासन्' इत्यादिवैदिकप्रयोगादतोऽपूर्ववाचित्वं तस्पेति चेत्तताSSह- पुंलिङ्गताऽपि घटते कतुगामिनोऽस्य सूक्ष्मात्मना भवति हि कतुरप्यपूर्वम्। तेन क्रतोरुपचरन्नभिदां पुमान्स्यात् क्रीबस्तु धर्ममिति हि क्रतुवाचकले॥ ४७३॥ पुंलिङ्गतेति । यद्यवि 'अदृष्टे पुंसि धर्मः स्यात्कृीबो यागादिके मतः' इति कोशात्कतुवाचिनो नपुंसकतैव तथाऽपि क्रतुरेव सूक्ष्मात्मनाऽपूर्व भवतीति कतोरपूर्वाभेदमुपचर्य सूते पुंलिङ्गप्रयोग इत्यर्थ: ॥४७३॥ अ०टी०-ननु धर्म इति द्वितीयसूत्रे पुंलिङ्गप्रयोगस्य स्पष्टवात्क्रियावाचित्वमव्रगन्तुं न शक्यतेऽपूर्ववाचित्वमेव हि तदा युक्तं वैदिकप्रयोगेषु 'धर्मो विश्वस्य जगतः प्रतिष्ठा' [महाना० २२ । १] 'तानि धर्माणि प्रथमान्यासन् ' इत्यादिष्वपूर्वपुंलिङ्गतयुा क्रतौ च नपुंसकलिङ्गतया प्रयोगदर्शनादिति चेत्तत्राऽऽह-पुंलिङ्गताSपीति। अस्य धर्मशब्दस्य ऋतुगामिनोऽपि पुंलिङ्गता घटते हि यस्मात्क्रतुरेव सूक्ष्मात्मनाऽपूर्व भवति ' ते वा एते आहुती हुते उत्क्रामतः' 'पञ्चम्यामाहुतावापः पुरुषवच्चसः' [छा० ५। ११ १ ] इति श्रुत्यो: फलारम्भकापूर्वस्य क्रियापरिणामत्वावगमादित्यर्थः । तैन
Page 385
३७८ टीफादुय समेतं-
हेतुना क्रतोरभिदामुपचरन्पुमान्स्यात्। कार्यकारणयोरभेदोपचारात्क्रतावपि धर्मशंब्दः पुंलिङ्ग: स्यादित्यर्थः । केवलक्रतुवाचकत्वे• तु धर्ममिति क्रीनः स्यात्। तथा च फलसाधन- त्वाकारविहितक्रियावाची धर्मशब्दः सूत्रभाष्ययोर्नानुपपन्न इत्यर्थ: ॥ ४७३॥ सु० टी०-नन्वेवं श्रेयोहेतुक्रियाविधो तस्या: क्त्रपेक्षत्वेन स्वर्ग- कामादिपद तत्समर्पकं स्यान्नाधिकारिपरमिति स्वर्गकामाधिकरणवि- रोध इति चेन्न तत्र भावनावांदिपरिहारस्य मयाऽम्युपेयत्वादित्याह- इष्टाभ्युपायवचनो लिडिति स्थितौ च स्यान्ावनावचनताऽस्य यदा तदा च। कर्तुर्भवेदधिक्वतिस्तु नियोगवादे स्वाम्ये स्थिते सति भवेदथ कर्तृभावः ॥।४७४॥ इष्टेति। यदि हीष्ट्हेतुत्वं लिड्थों यदि वा मावनोमयथाऽपि विध्य र्थस्य क्रियारूपत्वात्प्रथमं कर्त्रपक्षेति स्वर्गकामः कर्तृत्वेनान्वेति। माट्टानां तु पश्चाद्भावना इट्टमाव्यकत्वानुरोधेन स्वर्गस्य माव्यत्वात्त- त्कामस्याधिकारित्वान्वयः। अस्माकमपि यागे मत्कर्तृकत्वज्ञानेऽपि स्वस्थ तत्फलभोक्तृत्वाज्ञाने तद्तुष्ठानासंभवात्कतुरेवाधिकारित्वान्वय इति न विशेष: । नियोगपक्षे तु नियोगस्यैव प्राधान्यात्तस्य च कार्यरूपस्य
चानधिकारित्वात्परथमं नियोज्य एवापेक्षित इति तथैव स्वर्गकामस्या- न्वयः। तस्य च स्वप्रवृत्तिविषये धात्वर्थे मन्नियोगसाधनत्वान्मदीयमिदं कर्माहमत्र स्वामीति मादृ्थ्यज्ञानाधिकारित्वान्त्रयः । ततस्तत्रैव घात्वर्थे मत्कृतिसाध्योडयमिति कर्तृत्वान्वय इति क्रममात्रभेदान्नाधिकरण- विरोध इत्पर्थ: ।। ४७४।। अ० टी०-ननु श्रेयःसाधनक्रियाया विधिवाक्यार्थत्वे क्रियाकाड्क्षया स्वर्गकाम- पदस्य कर्तृसमर्पणार्थत्वं स्यादधिकारपरत्वं न सिध्येत्तथा च स्वर्गकामाधिकरणविरोधस्तत्र स्वर्ग कामपदस्याधिकारिपरत्वनिर्णयादिति चेन्नेत्याह-इषाभ्युपायवचन इति। लिडि- ष्टांभ्युपायवचन इत्यस्मत्पक्षस्थितौ चापरमस्य लिडो यदा भावनावचनता स्यात्तदा भट्टमते चाधिकृतिस्त्वधिकारः कर्तुर्भवेत्। प्रथमं क्रियापेक्षया कर्तृत्वेनान्वितस्य क्रियासाव्यफलस्त्रा- म्यादधिकारत्वेनान्वयो भवेन्नियोगवादे तु स्वाम्थेऽधिकारान्वये स्थिते सत्यथानन्तरं कर्तृ- भाव: कर्त्रन्वयो भवेदित्यक्षरार्थः । इदमिह विवक्षितं-यदा नियोगो लिडर्थस्तदा तस्य
Page 386
संक्षेपशारीरकम्। ३७१ विषयनियोज्याभ्यामेब प्रतीतेर्नियोगप्रतीत्यनुबन्धित्वेन नियोज्यतयैव' प्रथमं पुमानन्वेति ममेदं कार्यमिति प्रतिपद्यमानो हि नियोज्य उच्यतें। यस्मादुक्तं-'नियोज्यः स च कार्यं यः स्वकीयतवेन बुध्यते' इति। स एव स्वर्गकामस्य ममायं नियोग इति प्रतिपद्यमानोड़- धिकार्युच्यते श्रुतनिय,गस्यानिष्पन्नाकारत्वात्तन्निष्पत्तिमन्तरेण च स्वर्गादिफलासिद्धेर्नियो -. गस्य कार्यत्वे सति तस्य प्राग्विपयत्वेनावगतघात्वर्थस्य करणत्वेन संमतस्यानुष्ठानद्वारा मियोगनिष्पादकत्वात्कर्तृत्वं पश्चात्प्रतिपद्यत इति स एव कर्तोच्यत इति प्रक्रिया। यदा भावना लिडर्थस्तदा शब्दभावनाभाव्यार्थभावनायाः प्रयतनस्य क्रियानुकूलतया तद्दतः प्रथमकर्तृत्वेन क्रियायामन्वये सति फलकामिन: कर्तृत्वात्कर्तुरधिकार इति प्रक्रिया। यदा तु क्रियायाः श्रेयःसाधनतवं लिडर्थस्तदाऽपि भावनावाद इव कर्त्रन्वयपूर्वक एवाधिकारा- न्वयोऽभ्युपगत इति भावनावादिभिरुक्त् एव स्वर्गकामाधिकरणसिद्धान्तोऽस्माभिरभ्युपग- म्यतेऽतो नियोगानादरेऽपि नाधिकरणविरोधोऽस्माकं स्यात् । न चैकस्य द्विरन्वयासंभव- श्वोदनीयो नियोगवादिभिरपि स्वाम्यन्वयानन्तरं कर्त्रनवयस्य स्व्रीकारात्केवलं पौर्वापर्यमात्रे विरोधो नत्वेकस्य द्विरन्क्यकल्पनायामिति। स्वर्गकामाधिकरणे चाधिकारान्वयस्य कर्त्र- न्वयात्प्राथम्यं नोक्तं प्रतीयते कि त्वधिकारिपरं फलपरं वा स्वर्गकामपद न कर्तृपरमित्ये- तावदेव तत्रोक्तं गम्यते। यजेतेत्यत्र श्रेयःसाधनतावच्छिन्नस्य भावनावच्छिन्स्य वा धात्व- र्थस्य कर्तुर्र्थसिद्धत्वात्। स्वर्गकामपदस्य फलपरत्वे चाधिकारान्वयोऽर्थसिद्धो भवति कर्तुः क्रियायाः फलनिर्देशे तत्कामितया तत्र तस्याधिकृतत्वोपपत्तेः । न चैवमार्थिक- त्वेऽधिकारान्वस्य तात्पर्यगोचरत्वायोगः शङक्योऽनन्यलभ्यत्वप्रयुक्तत्वात्तात्पर्यगोचरत्वस्य न. मुखतो गम्यमानत्वपेक्षा तस्येति श्रेयःसाधनता लिडर्थ इति वादे न कोऽपि विरोध इति ॥४७४॥ सु० टी०-नन्विष्टसाधनतापक्षे विधेनापवृत्तप्रवर्तकत्वं फलेच्छयैव पुंसः प्रवृत्तत्वादिति नेत्याह- इष्टाश्र्युपायो विधिरात्मनीच्छामुत्पादयन्प्रेरकतामुपैति। इष्टाक्युपायेऽवगते लिडनदेरिच्छा फलादेनमुपैति सयः ॥४७५॥ इष्टेति। विधिर्हि रागारफले प्रवृत्तस्यापि पुंस उपायविशेषाज्ञानान्त- तरापवृत्तस्य स्वात्मनीक्षेपाय इच्छामुत्पाद्यंस्तत्र प्ेरयतीति सोऽप्रि प्रवर्तनात्मक एवेत्यर्थः। दुःखात्मके तत्र कथमिच्छेति चेत्तत्ाSडह- इष्टेति ज्ञानेच्छाकृतीनां समानविषयत्वान्नाज्ञात इच्छेति लिङादित इटाभ्युपाये ज्ञाते फलमहिश्ैव तद्भ्युपायमिच्छा विप़यी करोती- त्यर्थ: ।। ४७५ ।।
Page 387
३८० टीकाद्टय समेतं-
अ० टी०-नन्वज्ञातज्ञापकत्वमप्रवृत्तप्रवर्तकत्वं च विधे: स्वरूपमाचक्षते तत्रेद्यंम्यु- पायत्वज्ञान स्यामवृत्तप्रवर्तनात्मकत्वरूपं विधिलक्षणं न. विद्यत उपायज्ञानमात्राव्प्रवृत्त्यदर्श- नात्फलेच्छायाश्च सामान्यतः प्रवृत्तविषयत्वान्नियोगस्य त्वप्रवृत्तविषयत्वात्कुर्विति साक्षात्प्रवर्त- नारूपत्वाच्च युक्तं प्रवर्तकत्वमिति चेत्तत्राऽऽह-इष्टाभ्युपायो विधिरिति। फलेच्छुत्वात्सामान्यतः प्रवृत्तोऽपि य उपायाज्ञानादुपायविशेषे न प्रवृत्तस्तस्मिन्नान्माने पुरुष इष्टाम्युपायो विधिरिच्छामुत्पादयन्प्रेरकतामुपैतीति योजना। यद्वा यथोक्तो विधिरात्मनीषा- भ्युपाये पुरुषस्येच्छामुत्पादयन्प्रेरकतामुपैतीति योजना। तत्रोक्तड्यें युक्तिमाह- इषाभ्युपायेऽवगत इति। यद्यपि फले राग: पूर्वमुत्पन्नोऽपि न प्रवर्तक उपायविशे- षाज्ञानात्तथाऽपि लिडादेः सकाशादिष्टाभ्युपायेंडवगते सत्युपायविशेषे ज्ञाते सति फलात्सका- शादिच्छैनमुपायविशेषं प्रति सद्यस्तक्षणमेवैति। फलेच्छया साधनविशेषमिच्छतः साधन विशेषज्ञानानन्तरं तत्रेच्छा जायते। सा तत्र पुरुषं पूर्वं फलेच्छामात्रदशायामप्रवृत्तं फलसाधनविशेषे प्रवर्तयतीतीष्टाम्युपायविधिपक्षेऽपि न लक्षणांशाभाव इति सिद्धम् / फलेच्छा साधनेच्छाहेतुः साधनेच्छा च प्रवृत्तिहेतुः सा च साधनज्ञानाधीनेति भावः ॥ ४७५॥ सु० टी०-ननु नियोगादि: साक्षात्प्रवर्तको नतु रागादिद्वारेति स एव विधि: स्पान्नेष्टसाधनतेति चेन्नत्याह- नियोगकोट्याऽपि नरो न कश्वि- दिच्छां विना दुःखनिदानभूतम्। करोति कर्मेह पुमर्थरागा- त्मवृत्तिरेवेति हि राजमार्ग: ॥ ४७६॥ नियोगेति। अनिच्छतो हि नियोगमावनालक्षैरवि न प्रवृत्तिरतः सोऽपि स्वविषये फलहेतौ रागमुत्पाद्यैव प्रवर्तयेन्न वाद्यादिवत्साक्षादि- त्यर्थ:। ननु नित्ये फलाभावान्नियोग एव प्रवर्तक इति नेत्याह- पुमर्थेति। नित्येऽपि 'कर्मणा पितृलोकः' [बृ० १।५।१६]इत्या- दिफलभ्रवणाद्वाग एव प्रवर्तक इत्यर्थः ।। ४७६॥। अ०टी०-रपक्षे रागोत्पादनद्वारा विधेः प्रवर्तकत्वोपपादनेन शङ्कितं दोषं परिहन्प यदुक्तं नियोग: साक्षान्मवर्तक इत्यत्यन्तासंभवीति दूषयति-नियोगकोट्याऽपीति। नियोगकोव्या नियुज्यमानोऽपि नरः कश्विदिच्छां विना न कर्म करोति यतः कर्मकरणं दुःखनिदानभूतमिति योजना। तरमादिह कर्मणि पुमर्थरागात्तत्प्रयुक्तसाधनरागादेव भ् वृच्ती राजमार्ग: संर्वेदोषपरिमोषिरहितः पन्था इतर्थः । नियोगो हि नियुज्यमानविषये
Page 388
संक्षेपशारीरकमू। ३८१
रागमुत्पादयन्नेव प्रवर्तको न तु रागवत्साक्षाज्ज्ञातेऽपि नियोगे रागहीनस्य प्रवृ्त्यदर्श नात्। रागस्तु न नियोगमात्राङ्गवति तस्य दुःखात्मकत्वा्किं तु फलसाधनताबोधात्तस्मा- त्फलरागिणो नियोगादपि साधने रागोत्पादादेव प्रवृत्तिर्न नियोगमात्रादिति स्थितौ स्वेष्ट- सावनत्वज्ञानस्यावश्याभ्युपेयत्वात्तत एव साध्यफलरागिण इच्छया प्रवृत्तिरित्यस्मिन्पक्षे न कोडपि दोष इति भाव: ।।४७६॥। सु० टी०-नन्विष्टसाधनत्वेन कार्यत्वे मेघच्छायादेरपि तदापत्तिरिति नेत्याह- इष्टाभ्युपायस्य च कार्यभाव: प्रयत्ननिष्पाद्यतयोपपन्नः । स चावसेयो वचनाल्लिङादेः प्रत्यक्षतो रागनिबन्धनस्तु ॥४७७ ॥ इष्टेति। प्रयत्ननिष्पाद्यतया विशिष्टस्येष्टाभ्युपायस्य कार्यभाव उपपत्र एवेत्यर्थः । तथा चेष्टकरणताज्ञानं प्रवर्तकं करणत्वं च कर्तृव्यापारविष- यत्वं तद्यापारश्र कृतिस्तेनैतद्रोचरप्रवृत्त्येष्टं भवतीति ज्ञानं प्रवर्तकमिति माव: ननु कृत्युद्देश्यत्वं कार्यत्वं तञ्ञ प्रत्यक्षमेव स्वयमेव हि जानन्तीति न्यायादिति। कथं तस्य लिडदि (* बोध्यत्वमित्यत्राऽऽह-स चेति। कृतिसाध्यतालक्षणं हि कार्यत्वं ज्ञातं प्रवर्तकं तच्चापाप्तत्वाललिडादि)बोध्यं न ते फलविषयं कृत्युद्देश्यत्वमित्यर्थः ॥। ४७७॥ अ० टी०-नन्विष्टसाधनज्ञानस्य चन्द्रातपादावपि भावाद्रागद्वारेणापि न नियमेन प्रवर्तकतेति व्यभिचारमाशड्क्याऽडह-इष्टाभ्युपायस्येति। कार्यभावो नियमेन कर्तव्यता प्रयत्ननिष्पाद्यतयोपपन्नः प्रयत्ननिष्पा द्यत्व लक्षणकार्यत्वविशिष्टेष्टसाधनत्वज्ञानस्य नं प्रवर्तकत्वव्यभिचार इति भावः । उक्तवक्षणमिष्टसाधनत्वं कुतोऽवसीयते त्वयेति तदाह- स धेति। स उक्तलक्षण इष्टाभ्युपायस्य कार्यभावो लिडदेर्वचनाच्छन्दादवसेयो विज्ञेयो रागनिबन्धनस्तु कार्यभावः प्रत्यक्षतो मानप्रत्यक्षात्साक्षिप्रत्यक्षाद्वाऽवसेय इत्यक्षरार्थः । एतदुरतं भवति लिडादिशब्दो हि प्रवर्तकार्थवाचक इत्यविवादं तत्र कृत्युद्देश्यताविशिष्टं
- ख. पुस्तकेऽयं अ्रन्थः ।
१ क. ग, 'तु कृत्युद्देश्यतं फलविषयमि"।
Page 389
३८२ टीकाद्वय समेतं-
यत्कार्यत्वं परैः प्रवर्तकत्वेनाभिभतं तन्न लिडादिशब्दार्थस्तस्य चिकीर्षाविषयीकृतस्य प्रत्य- क्षावसेयत्वाच्छन्दार्थत्वायोगादनन्यलभ्यो हि शब्दार्थोडभिमतः । तस्मादन्य एव प्रवर्तको लिडदर्थः । स च प्रयत्ननिष्पाद्यत्व लक्षणकार्यताविशिष्टेष्टाभ्युपायः। सोऽपि ज्ञायमानः सन्प्रवर्तकस्तादगुपायज्ञाने सति फलरागिणः प्रवृत्त्यवश्यंभावात्तत्र चेष्टाभ्युपायांश्स्यानन्य- 'लभ्यतया लिडद्यर्थत्वं प्रयत्ननिर्व्त्याशस्य तु यद्यपि स्वरूपेणानन्यलम्यत्वं नास्ति तथाऽपी- ष्टम्युपायविशेषविशिष्टत्वाकारेण तदस्तीति सर्वथा प्रयत्नपरतन्त्रश्रेयःसाधनत्वमेव्र ज्ञायमानं प्रवर्तकं तज्ज्ञानं च लिडादेरेवेति नास्मन्मते कोऽपि दोष इति ॥ ४७७॥ सु० टी०-एवं कार्यताद्वैविध्ये किं मानमिति चेत्तत्राSSह- कार्यत्वमिच्छावशवर्ति किंचि- दिष्टाभ्युपाये निजमस्य किंचित्। निजं लिडनदेरवसेयमस्य साक्षिप्रसादादितरप्रतीति: ।। ४७८॥ कार्यत्वमिति । कृतिहिं किंचिदुद्दिश्य किंचिद्विषयीकृत्योत्पद्यते तत्र यत्कृतिविषयत्वलक्षणं कार्यत्वमुपायविषयं तन्निजं स्वाभाविकं कृतेस्त. त्पर्थन्तत्वात्तञ्ञानन्यलभ्यत्वाद्विधिप्रमेयमन्यञ्च कार्यत्वं रागनिबन्धनत्वेन प्रत्यक्षत्वान्न शास्त्रीयमित्यर्थः ।। ४७८ ।। अ० टी०-ननु कार्यत्वस्यैकत्वात्कथमित्थं विभाग: केवलं कार्य प्रत्यक्षाक्सेयमिष्टाम्युः पायत्वविशिष्टं लिडादवसेयमिति तत्राऽडह-कार्यत्वमिति। इष्टाभ्युपाये यागादौ किंचि त्कार्यत्वमिच्छावशवर्ति यथा नियोगवादिनां कृत्युद्देश्यत्वरूपं कार्य तत्रैवेष्टाभ्युपाये किंचिन्नि- जमसाधारणं कार्यत्वमस्ति कृतिसाध्यत्वरूपस्य कार्यत्वस्य स्वाभाव्यात्। तत्रास्य यन्निजं कार्यत्वं लिडादेरसेयं तक्क्रियास्वभावत्वाक्क्रियायाश्राSSख्याताव सेयत्वालकारसामान्यवाच्य- मित्यर्थः । इतरप्रतीतिः कृत्युद्देश्यतारूपकार्यत्वप्रतीतिः साक्षिप्रसादात्प्रत्यक्षत इति यावत्। चिकीर्षितत्वं हि कृत्युद्देश्यत्वं चिकीर्षा तु रागः स जायमान एव नियतविषयः सन्साक्षिणाऽवभास्यमान एव जायते मनसाऽवसेयतया वेति प्रत्यक्ष इतरप्रतीतिरि- त्यर्थः ।। ४७८॥। सु० टी०-कृतिसाध्येट्टसाधनत्वस्य लिङर्थत्वे विद्वत्संमतिमप्याह- जानात्यर्थे लिङ्पदं गौणमाहु- र्जानात्यर्थ: कर्तृतन्त्रो न हीष्टः।
Page 390
संक्षेपशारीरकम्'। ३८३
यागायर्थे कर्तृतन्त्रे हि मुख्यो लिङ्लोडादि: श्रेयसो हेतुभूते॥। ४७९॥ जानातीति। आत्मानं जानीयादित्यपुरुषतन्त्रे ज्ञाने कृतिसाध्यांशामा- वाहलिङपदं गौणमाहगुराचार्याः । मुख्यार्थमाह-यागादीति। तत्रांश- दयस्यापि संभवादित्यर्थः ।। ४७९॥ अ० टी०-कृतिसाध्यत्वविशिष्टमेवेष्टसाधनतं लिडर्थ इत्यत्र विद्वत्संमतिमाह- जानात्यर्थ इति। ज्ञाघात्वर्थे यलििड्पदं प्रवर्तते जानीयादिति तद्रौणमाहुराचार्या अनियोज्यविषयत्वात्कुण्ठी भवन्तीत्यत्र तत्र हेतुमाह-जानात्यर्थ इति। साध्यत्वांशा- भावात्प्रमाणवस्तुपरतन्त्रस्य ज्ञानस्य कृतिसाध्यत्वासंभवादित्यर्थः । तर्हि कुत्र लिडादिर्मु- ख्यस्तदाह-यागाद्यर्थ इति। कर्तृतन्त्रहेतुगर्भ विशेषणम् । श्रेयसो हेतुभूत इति विशेषणमुभयत्र योज्यम् ॥ ४७९ ॥ सु० टी०-अस्तु जानात्यर्थेऽपि श्रेयोहेतुत्वामावादेव गौणत्वमिति चेन्नेत्याह- जानात्यर्थे श्रेयसो हेतुभाव- भागोडबुद्धो बोध्यते लिङ्गपदेन। यागायर्थे श्रेयसो हेतुभावो मुख्यो बोध्यः कर्तृतन्त्रो न गौणः। ४८०।। जानातीति। ब्रह्मज्ञानस्य वाक्यशेषोपस्थितमोक्षहेतुत्वमज्ञानं लिडा बोध्यते नतु कृतिसाध्यत्वमकर्तृतन्त्रत्वात्तस्येति। तत एव गौणत्व- मित्यर्थः। यागादीति। श्रेयसो हेतुभावस्तद्वाचको लिङादिरित्यर्थः । स मुख्यो ज्ञेय: कर्तृतन्त्रत्वादित्यर्थः ॥। ४८० ॥ अ० टी०-ननु जानात्यर्थे विधेरमुख्यमिष्टसाधनत्वबोधासंभवादेव भवत्वितरत्र च मुख्यत्वं तत्संभवादेवास्तु किमिति तत्र कृतिसाध्यत्वांशभावाभावाभ्यां तथा कल्प्यत इति चेन्मैवमिष्टसाधनत्वांशबोधस्य जानात्यर्थेऽपि संभवादित्याह-जानात्यर्थे श्रेयस इति। ज्ञाधात्वर्थेडपि ब्रह्मज्ञानादौ श्रेयसो मोक्षादेर्हेतुभावभागः प्रागबुद्धो लिडा बोध्यते। 'तद्वि- जिज्ञासस्व' [तै० ३। १।१] 'तमेत्रैकं जानथ, आत्मानम्' [ मुण्ड० २।२ ५]' स म आत्मेति विद्यात्' [कौ० ३ ।८ ] इत्यादिवाक्येषु लिड्लोडादिपदैर्ज-
१ क. वाक्यांशोप। 1
Page 391
३८४ टीकाद्य समेतं-
ह्मात्मज्ञानस्य मोक्षरूपश्रेयःसाधनत्वं बोष्यते तथाऽपि तत्र कृतिसाध्यता नास्तीति तत्र लिडादिर्गौण इत्यर्थः । इतरत्र तु न गौणस्तस्य कर्नृतन्त्रत्वादेवेत्याह-यागाद्यर्थे श्रेयस इति ॥४८० ॥
मित्याह- सु० टी०-यागादवच्च अवणादिष्वपि कृतिसाध्यत्वाद्विधेर्मुख्यतव-
यागायर्थे मुख्यता यद्ददस्य ब्रह्मज्ञानस्यान्तरङ्गेषु तद्दत्। तर्कादीनां कर्तृतन्त्रत्वहेतो-
यागादीति। ननु अवणादेरपि ज्ञानात्मकत्वेनाकर्तृतन्त्रत्वात्कथं तत्र मुख्यतेति नेत्याह-तर्कादीनामिति। तेषां युक्त्यनुसंधानादिरूपत्वेन तर्का- द्यात्मत्वात्कर्तृतन्त्रत्वन गौणेत्वहेत्वभावादित्यर्थ:।। ४८१।। अ० टी०-ननु ब्रह्मज्ञानस्य ज्ञेयावगतितन्निबन्धनसंसारनिवृत्तिरूपफलसाधनत्वस्या- न्वयव्यतिरेकाभ्यामव्रगम्यमानत्वान्न।नवबुद्धताऽस्त्यतो न तत्र लिडादिभि: साधनत्वांशोऽपि बोध्यत इति चेत्तत्राऽऽह-यागाद्यर्थे मुख्यतेति। अयमर्थ :- श्रुतवेदान्तस्य यद्यपि न लिडादेः साधनत्वावगमस्तथाऽप्यश्रुतवेदान्तस्य सामान्यत उक्तप्रकारेण साधनत्वप्रतीताव- व्यनन्तरं फलादर्शनाच्छङकाग्रस्ततया साधनत्वमवबुद्धमिति शास्त्रबोध्यं तत्स्याद्रह्मज्ञान- साधने श्रवणादौ तु तादृशेऽपि कृतिसाध्यत्वस्यापि सत्त्वान्मुख्य एव लिडादिरिति। अक्ष. रयोजना तु अस्य लिडादेर्यागाद्यर्थे यद्वन्मुख्यता तद्वद्वह्मज्ञानस्यान्तरङ्गे श्रवणादावपि मुख्यता। तत्र हेतुमाह-तर्कादीनामिति। कर्तृत्वं तत्र हेतोर्यागादिवत्कृतिसाध्य- त्वांशस्य तत्र भावादित्यर्थः । मननादीनां कर्तृतन्त्रत्वं साधयति-ज्ञानादर्वागिति। आत्मसाक्षात्कारोदयात्प्राक्कर्तुः करोमीत्यभिमनस्यानपायच्छवणादिविधौ लिकदेर्गौं- णत्वकल्पनायां प्रमाणाभावादिति । तथा च कृतिसाध्यत्वतदभावाभ्यामेत्र लिकरादेर्मु- ख्यामुख्यत्वव्यवस्था न श्रेयःसाधनत्वतदभावाभ्यामिति निर्णयः ॥ ४८१ ॥ सु० टी०-ननु तरहिं भूतस्य मव्यार्थत्वादात्मवाक्यानां श्रवणाद्यर्थत्वं स्यादिति नेत्याह- भूतस्य भव्याय यथोपदेशः क्रियापरे वस्तुपरे तु काण्डे।
१ क. 'तामुख्यभा । २ क. णत्वाभा।
Page 392
संक्षेपशारीरकम्। २८५
न हीष्टमेवं विपरीतमास्मि- न्भव्यस्य भूताय सदोपदेशः ॥ ४८२ ॥ भूतस्येति। क्रियापर इत्यादि हेतुगर्म कर्मकाण्डे हि क्रियाप्राधान्या- सयंह तु सर्वधाकषाणां वस्तुपरत्वान्व्यस्य भूतार्थत्वमिति विपरीतमि- स्यर्थः ॥ ४८२ ॥ अ० टी० -- यद्येवं ब्रह्मज्ञानेऽपि लेशतो विधिरज्ञातश्रेयःसाधनत्वबोधाद्गवेच्छूवणादौ च सं्त्रीत्मना मुख्यस्तर्हि 'आत्मा वा अरे द्रष्ठव्यः श्रोतव्यः' [ बृह० २। ४।५ ] इत्यादिवि- विश्रवणानुरोधेन विधिनिष्ठत्वमेव वेदान्तानामभ्युपेयं न वस्तुनिष्ठत्वं 'भूतं भव्यायोपदि- इ्यते' इतिन्यायादिति चेत्तत्राऽऽह-मूतस्येति। वस्तुपरे तु काण्ड एवं न हीष्टमि- व्यन्वय: ॥। ४८२ ॥। सु० टी०-कथं विपरीतमिति चेत्तत्राSSह- भष्यप्रतीतावुपयोगभाजो भवन्ति कार्त्स्न्येन च सिंद्वादाः । क्रियाप्रधाने न तथाडत्र किं तु भूतप्रतीतौ खलु भव्यवादाः ॥ ४८३ ॥ भव्येति। कर्मकाण्डे हि नामार्थानां द्रव्यगुणादीनां क्रियासाधनस्वा. द्दूतार्थवाक्यानां मष्यप्रतीतावुपयोगित्वमिह त्वद्वैतपराणां सिद्धवादानां न विधायुपयोग इत्पर्थः । श्रवणादीनामपि भूतब्रह्मबुद्धी नास्त्युपयोग इति चेन्नेत्याह-भूतेति। तद्विषयप्रतिबन्धनिरासादेरुक्तत्वादित्यर्थ:।।४८३।। अ० टी०-कुत एवं विभागव्यवस्था काण्डयोरुमयोरपि शब्दप्रमाणत्वाविशेषाद्वेद- स्वाविशेषाच्चेति चेदर्थवशादित्याह-मव्यपरतीताविति। क्रिपाप्रवाने काण्डे सिद्ध- वादा भव्यप्रतीतौ कात्स्न्येनोपयोगभाजो भवन्ति भव्यशेयविषया एव भघन्ति भव्यप्रती- तेरेव तन्र पुरुषार्थानुबन्धित्वाद्गूतप्रतीतेरफलार्थत्वात् । 'फलवत्संनिधावफलं तदङ्गम्' इति न्यायादित्यर्थः । ज्ञानकाण्डे विपरीतमेतदित्याह-न तथाSत्रेति। वैपरीत्यमेत्र विमृश्य स्फुठयति-किं तु भूतेति ॥४८३ ॥ सु० टी०-ननु विषयसमर्पणेनोपनिषदामस्तु श्रवणादिशेषत्व्रमिति
भव्यप्रतीतौ न हि कश्विदर्थो भूतप्रतीतौ पुनरस्ति मुक्तिः । १ क. सिद्दिवा।
Page 393
३८६
श्रोतव्य इत्यादि ततो विधानं भूतोपदेशानुगुणं समस्तम्॥ ४८४ ॥ भव्येति। न हि भरवणादौ फलान्तरमस्ति। आत्मधीपरिपाकफलरवे तु फलवदात्मधीफलानासुपनिषदामेव प्राधान्यमित्यर्थः । ततश्र सर्वमपि श्रवणादिवाक्यं तत्त्वमस्यादिवाक्यस्थैवोपकरणमित्याह-श्रोतव्य इति ।। ४८४ II अ० टी०-किमित्येवमननुगमोऽभ्युपगम्यते वेदान्तेष्वपि पूर्वकाण्डतुल्यत्वाय भव्य- !निबन्धन एव फलसंबन्ध: कल्प्यतामिति चेन्नासंभवादत्रेत्याह-मव्यप्रतीती न हीति। वेदान्तेषु भव्यप्रतीतौ कश्षिदर्थः पुरुषार्थो न हि दृश्यते श्रूयते वा नापि कल्पयितुं शक्यते कल्पकाभावादित्यर्थः । कथमित्यत आह-भूतप्रतीतौ पुनरस्ति मुक्तिरिति । 'ब्रह्म वेद ब्रह्मैव भवति' [ मुं. ३ । २ । ९ ] इत्यादौ भूतब्रह्मप्रतीतौ मुक्तिश्रवणा- द्विद्वव्प्रत्यक्षभावाच्चास्य प्रामाणिकत्वे सतीतरत्र फलकल्पनया शेपित्वकल्पनायोगादित्यर्थः । तस्मात् 'फलवत्संनिधावफलं तदङ्गम् ' इति न्यायेन वेदान्तेषु सर्वो विधिस्तत्त्वमस्यादि- भूतोपदेशशेष एवेत्युपसंहरति-श्रोतव्य इत्यादीति ॥४८४॥ सु० टी०-ननु प्रवृत्तिपराः श्रवणादिविधयो निवृत्तिपराद्वैतश्रुतीनां कथमनुगुणा इति चेत्सत्यमेकवाक्यत्वकल्पित लाक्षणिकाद्यर्थद्वारे त्याह- आदाय मुख्यगुणलाक्षणिकप्रवृत्ती- र्भव्यप्रतीतिजनकैः सह भूतवादाः । संबन्धिनो विधिवचःसु तथाऽन्न सर्वे अव्यार्पणाः परिवृढप्नतिपादकेन ॥ ४८५॥ आदायेति। यथा विधिकाण्डे भूतवादा मन्त्रादयो नानावृत्तिपुरस्का- रेण विधिभि: संबद्धा यथैन्द्यादिमन्त्रा गाईपत्याद्यर्थाः क्षेपिष्ठाद्यर्थ- वादा वायव्यादिविध्यर्थास्तथा अवणादिविधयोपि निवृत्तिपरा: सन्तो म्रह्मप्तिपादकमहावाक्येन संबद्धा इत्यर्थः ।। ४८५।। अ० टी०-कथं वेदान्तेषु भव्योपदेशस्य भूतवस्तुप्रतीत्युपयोगप्रकार इत्यपेक्षायां तद्र्शयन्द्रष्टव्य इत्यादिविधौ 'न विधौ परः शब्दार्थः' इति न्यायेन दर्शनस्यापि कर्तृ-
१ क. त्वेऽपि फ०।
Page 394
सक्षेपशारीरकमू ३८U
तघ्ज्रंत्वमेष्टव्यमित्येप पूर्वपक्ष्याम्रहोऽषि निराकृत इत्याह-आदाय मुख्येति। यथा विधिवच:सु कर्मकाण्डे भूतवादा मुख्यमुणलाक्षणिकप्रवृत्तीरादाय भव्यप्रतीतिजनकैः सह संबन्धिनो भवन्ति तथाऽत्र वेदान्तेषु सर्वे मव्यार्पणा भव्योपदेशाः पिवृदस्य प्रभोर्ब्रहा- त्मनः प्रतिपादकेन सह संबन्धिनो भवन्तीति योजना। एतदुक्तं भवति-भव्याभिधाय्या- ख्यांतविरोधे नामपदानामर्थवादादिपदानां च तत्संबन्धसिद्धये क्रियाकाण्डे लक्षणाद्याश्रयणं' युक्तं तत्र भव्यप्राधान्यात्। इह तु सिद्धव्रह्मप्राधान्यात्तदभिधायिना ब्रह्मादिपदेन सत्त्वम- स्यादिवाक्येन वाडविरोधेन संबन्धसिद्धये विधयो लक्षणाद्यादाय पर्यवस्यन्ति। न विधौ परः शब्दार्थ इति विधिशब्दोऽपि विवक्षितार्थपरो न लिडदिपरोऽतो न. न्यायविरो- धोऽपीति ॥ ४८५॥ सु० टी०-ननु मन्त्रादीनामनुवादत्वाद्युक्त लक्षणाश्रयणं अवणादौ तु न विधौ पर: शब्दार्थ इत्ययुक्तमिति चेन्न गुणे त्वन्यायकल्पना इति गुणत्वस्यैवोपचारप्रयोजकत्वाद्विधाववि 'ब्रीहीनवहन्ति' इत्यादावपू- वसाधनत्व लक्षण्पाश्रयणाच्चेत्याह- सिद्धार्थवादिव चनेषु न गौणतादि- दोषाय कर्मपरवाक्यगतेषु यद्दत्। कार्यार्थवादिवचनेषु न गौणतादि- र्दोषस्तथोपनिषदीति समानमेतत् । ४८६ ।। सिद्धार्थेति। यथा तत्र प्रधानान्वयसिद्धचर्थत्वाद्गौणत्वादिर्न दोपस्त- धोपनिषर्दीत्यर्थः । एतदेवोक्त मौदासीन्यविशेषमित्यादिना ॥ ४८६ ।। अ० टी०-एवमप्यमुख्यार्थत्वं दोष एवेति चेन्नायं दोष: कर्मकाण्ड इव नामपदानां प्रधानान्वयसिद्धयर्थत्वादित्याह-सिद्धार्थेति। स्पष्टा योजना ॥ ४८६॥ सु० टी०-न केवलमत्र काण्डे भूतमव्यन्यायव्यत्यये मानमेयादि- मावोऽवि विपरीत इत्याह- मानेन मेयावगरतिश्र युक्त धर्मस्य जाड्याद्विधिनिष्ठकाण्डे। मेयेन मानावगतिश्र युक्ता वेदान्तवाक्येष्वजडं हि मेयम्॥ ४८७॥ मानेनेति। तन्न बीजमाह-धर्मस्यति। जडस्य मानविषयत्वसंभवादि- १ ख. वादब।
Page 395
३८ अीकाद्वय समेतं-
स्थर्थ:। इह तु मेयस्य ब्रह्मणश्चित्वेनाविषयत्वात्तदेव स्वाकारवृत्त्यात्म कमानसाधकमित्यर्थः ।। ४८७ ।।. अ० टी०-ननु वेदप्रमाणत्वाविशेषेऽपि पूर्वोत्तरकाण्डयोवैरूप्यकल्पनमयुक्तमेवे्त चेदत्यल्पमिदमुच्यते सर्वप्रसिद्धयोरपि, मानमेययोर्गभ्यगमकभावोऽप्यत्र विपरीतो न चाय- भपि दोष रवेति वाच्यं वस्तुस्वरूपानुसारिंत्ान्मानमेयभावस्येत्याह-मानेन मेयेति। जडं हि स्वयमप्रकाशस्वभावत्वात्। परतः प्रकाशमपेक्ष्य प्रमितं भवेत्। तत्प्रकाशकं च प्रमाणं यद्यपि स्वरूपतो जडं तथाडपि चिदाभासव्याप्तमेव सत्तदन्यावभासकमित्यजडेन जडं मेयमिति स्थितिः । तथा च धर्मस्य जडत्वान्मानमेयता कर्मकाण्डे। ज्ञानकाण्डे तु मेयस्य ब्रह्मण: स्वप्रकाशस्वभावत्वादजाड्यात्तेन मेयभूतेन मानस्यावगतिर्युक्ता। तस्मान्मेयाभासक- मपि मानं येन सिध्यति तन्न मानमेयं किं तु विपरीतम्। न चैतावता ब्रह्मणो वेदान्त- वेद्यत्वप्रसिद्धिविरोध: स्वयं नित्यप्रकाशमानस्थैव ब्रह्मात्मनः प्रकाशावरणाविद्यापसारम -: श्रेण यथावदभिव्य क्त्यपेक्षत्वाद्वेदान्तवेद्यत्वप्रसिद्धेरिति भावः ॥४८७॥ सु०्टी-आख्यातप्रधानं वाक्यमित्यप्यत्र विपरीतमित्याह- कर्मप्रधानेतिगते च काण्डे वाक्यत्वमाख्यातपदप्रयुक्तम्। ब्रह्मप्रधाने श्रुतिमस्तकेडस्मि- न्नामप्रधानं वचनं समस्तम् ॥४८८॥ कर्मप्रधान इति। अतिगतेऽतीते काण्डे कर्भप्राधान्यात्तदर्थाख्याता- न्वयप्रयुक्त मन्येषामेकवाक्यत्वमिह तु ब्रह्मधियः फलवत्वात्तत्प्रधानं सर्व- मित्यर्थः ॥। ४८८ ।। अ०टी०-न चैतावदेवापि च नैरुक्तप्रभृतिभिरुक्तं वाक्यलक्षणमप्यत्र विपरीतमित्याह- क़र्मप्रधानेति। अतिगतेऽतिकान्ते पूर्वस्मिन्नित्यर्थः। चशब्दः किंचेत्यर्थे। तन्र वाक्यत्वं माख्यातपदप्रयुक्त तत्प्रधानमेव भव्यावगतेरेव तत्र फलवत्वादित्यभिप्रायः । श्रुतिमस्तके तु भूतब्रह्मावगतेरेव फलवत्वात्प्रधानं समस्तं वचनमिति हेतुरनुसंघेयः ॥। ४८८॥ सु० टी०-किमत्राSडख्थातवैलक्षण्य मित्यत्र प्रागुक्तं स्मारयति- कार्यप्रधानमखिलं च पदं सुबन्त- माख्यातभेव फलतः खल कर्मकाण्डे। नद्ूत्तिङन्तमापे वेदशिरःसु सर्वं नामैव तद्धि परिनिष्ठितवस्तुनिष्ठम्॥ ४८९।
Page 396
संक्षेपशारीरकम्। ३८९'
कार्येति। तन्राSडग्रेयादि सुबन्त फलत आख्यातमत्र तु तिङम्तमप्य- स्यस्मीत्यादि फलतो नामैवेत्युक्तमित्यर्थ: ।। ४८९॥ अ० टी०-एतादृशवैरूप्यं न मयैवाSSश्रितं भवद्भिरप्यर्थवशादाश्रितं दृश्यत इत्याह- कार्यप्रधानमिति। कर्मकाण्डे खलु सुबन्तपंद नामत्वेन प्रसिद्धमपि यत्कार्यप्रधानं कार्यार्थनिष्ठमस्ति तदखिलं फलतोऽर्थवशादाख्यांतमेव युष्माभिरम्युपगतमिति शेषः । तद्वद्वेदशिरःसु सर्वं तिडन्तमप्याख्यातत्वेन प्रसिद्धमपि पदं नामैव नामार्थकमेव तद्धि यतः परिनिष्ठितवस्तुनिष्ठमस्माभिर्थवशादग्युपगतमिति योजना ॥ ४८९॥ सु० टी०-उक्तमेवोदाहरणेन व्यनक्ति-
सर्व सुबन्तमपि भव्यपरं प्रसिद्धम्। साऽस्येतितद्धित समन्वित संनिधाने नामैव तन्भवति यद्नवतीति तद्दत् ॥ ४९० ॥ आग्नेयमिति। 'आग्नेयोऽष्टाकपालो भवति''ऐन्द्रं दृधि" आश्विनं धूम्रमालभेत' इत्यादा द्रव्यदेवतासंबन्धान्यथानुपपत्या 'आग्रेयेन यजेत' इत्यादिविधिकल्पनेन भव्यपरत्वात्सुबन्तमप्याख्यातमित्यर्थः । तथा 'साडस्य देवता' इतिसूत्रविहिततद्धितसंनिधौ यन्भवतीत्या- ख्यातं तद्साध्यार्थत्वान्नाऽडत्मेत्यर्थः । तद्धदित्युत्तरश्लोके योज्यम्॥४९०॥ अ० टी०-कर्मकाण्डे नामपदस्याऽडस्यातत्वं कुत्राऽडश्रितं दृश्यत इति तदाह- आग्रेयमिति। आग्नेयादिपदानां भव्यपरत्वप्रसिद्धौ निमित्तमाह-साSस्येतीति। 'साऽस्य' इतिसूत्रेण हविषो देवतैदमर्थ्ये तद्धितस्य विधानात्। द्रव्यदेवतासंबन्धात्म- कत्वाच्च यागस्य तत्प्रसिद्धिरित्यर्थः। नाम्नामाख्यातत्वापत्तिमुक्त्वाऽडख्यातानां नामत्वा- पत्तिप्रकारमाह-तद्द्वितसमन्वितेति। यद्भवतीत्याख्यातं तदप्याग्नेयित्यादितद्वित- समन्विततया संनिधाने नामैव भवति नामार्थक एवार्थवशाद्गवतीति योजना। यत् 'आग्नेयोऽष्टाकपालो भवति' इत्यत्रोक्तविधया तद्धितस्य नाम्नोऽपि क्रियार्थत्वं नामात्मक- तद्वितान्वयात्क्रियार्थस्यापि भवततिपदस्य नामत्वं च भवद्धिरिष्टमिति समुदितार्थः । यथैवं भवतामर्थवशात्प्रसिध्यति क्रमस्तथाऽस्माकमपीत्याह-तद्दिति ॥४९० ॥ सु०टी०-क वेदान्तेषु तिङन्तं नामेति तत्राSSह- अस्त्यस्म्यसीति च तिङन्न्तपदानि स्ति वेदान्तवाक्यनिलयानि तथाऽपि तानि।.
Page 397
३९० रीकाद्टय समेते-
.ना ऽSख्यातशब्दनिजशक्तिधुरं वहेयु- रस्तित्वमात्रविषया हि निषक्तिरेषाम्॥ ४९१ ।. अस्तीति । अस्ति ब्रह्म तत्त्वमस्यहं ब्रह्मास्मीति यानि तिङन्तानि: तान्यपि तद्वद्यथाऽडग्रेयवाक्ये भवतीति पदं नाSडख्यातशककेर्धुरं विषयं भव्यरूपं वहति तथेत्यर्थः । तत्र हेतु :- अस्तित्वेति । अस्तित्वं सत्ता निषक्तिरन्वयः ।।४९१॥ अ०टी०-तदेवोदाहरति-अस्त्यस्म्यसीतीति। कथं न वहेयुरित्यत्र हेतुमाह-अस्ति- त्वमात्रेति। स्वरूपसन्मात्रे निपक्तिः पर्यवसानमेषामस्त्यादीनामित्यर्थः। अन्यत्राप्यसत्या- देराख्यातत्वं वस्तुस्वरूपसत्ताया: क्रियात्वोपचारेणाङ्गी क्रियते न तु भाव्यवाचित्वेन। न हि घटोऽस्तीत्यत्र घटस्वरूपसत्तातिरिक्तं किंचिद्धव्यमनुष्ठानसाध्यं प्रतीयते । तथा च सामान्यवत्स्वप्यर्थेषु प्रयुज्यमानोऽस्त्यादिर्यदा वस्तुसत्तामात्रपरस्तदा वेदान्तेषु निःसामान्य- विशेषवस्तुपरेषु किमु वक्तव्यमरत्यादेर्भव्यार्थत्वासंभव इति भाव: ॥ ४९१॥ सु० टी .- अस्त्यादेरपि घात्वर्थत्वेन क्रियात्वात्तत्निष्ठस्याSडख्या- तत्वाविरोध इति चेन्नेत्याह- पूर्वापरीभूनपदार्थनिष्ठ- माख्यातमाख्यातविदो वदन्ति। कूटस्थसत्तावगतिप्रधान- माख्यातवत्साधु तिङन्तमाहुः ॥४९२॥ पूर्वेति। न हि धात्वर्थमात्रं क्रिया किं तु पूर्वापरीभूतं साध्यस्वभावं वस्तु क्रियेति तद्वाचकमाख्यातं मुख्यं यत्तु सत्तामात्रावमत्यर्थ तदुपचा- रादेव साधु न तु मुख्याख्यातमित्यर्थः ॥४९२॥ अ० टी० -- ननु घात्वर्थस्य क्रियात्वादस्यादेरपि पच्यादिवक्क्रियात्वाविश्येषायुक्तमाख्या- तत्वमेवति चेन्नेत्याह-पूर्वापरीभूतेति । पूर्वापरीभृतः साध्यस्वभावो यः पदार्थो विक्वेदाद्यात्मकस्तन्निष्ठं पदमाख्यातमित्याख्यातविदो वदन्ति। क्रिया ह्याख्यातार्थः । सा च साध्यस्वभावेति। तत्रैवाSSख्यातत्वं मुख्यमिच्छन्त्याख्यातविद इव्यर्थः । असाष्यस्वभावे गौण तदित्याह-कूटस्थसत्येति। तिडन्तं पदं यत्कूटस्थसत्ताक्गतिप्रधानमस्त्यादिरूपं तदाख्यातवदाख्यातसदृशं न साक्षादाख्यातमिति साध्वाहुर्युक्तमेव वदन्तीत्यर्थः। सत्तावा- दिनस्तिडन्तपदस्याSSख्यातत्वं गौणं तद्वाच्यस्य कल्पितक्रियात्वाश्रयणेन शब्दसाधुत्वमात्रार्थ तत्प्रयोगादिति. भावः.॥४९२॥
Page 398
संक्षेपशारीरकम्। ३ सु० टी .- प्रामाकरः शङ्कूते- अस्तित्ववस्तुविषयोपिषन्निषक्ति- राश्रीयते यदि तदा प्रमितं प्रमेयम्। तस्यास्तवाऽSपतति मानमितत्वमेव ह्यस्तित्वमात्मगतमभ्युपयन्ति धीराः ॥ ४९३॥ अस्तित्वेति अस्तित्वं सत्ता स एव वस्तु परमार्थस्तद्विपयोपनिषदि- त्युक्ती तस्या अनुवादित्वं स्थान्मानमितत्वमेव ह्यस्तित्वं नान्यदित्यभ्यु- पगमादित्वर्थः ।। ४९३।। अ० टी० -- अस्तित्वमात्रनिष्ठं वेदान्तवाक्यमित्येतदुपश्रुत्यासहमानः प्राभाकरश्वो- दयति-अस्तित्वेति। निषक्तिः पर्यवसानं तस्या उपनिपदः प्रमेयं प्रमितं मानवि- षयीकृतं तव मत आपततीति योजना। एतदेव विद्वत्प्रसिद्धयोपपादयति-मानमित- त्वमेव हीति। मानाधीनत्वात्सर्वत्र सत्तावगमस्येत्यर्थः । ४९३॥ सु० टी०-तर्हिं मानमितत्वस्य क्षणिकत्वात्ततः प्रागूर्ध्व वा सत्वं न स्पादिति चेत्तत्राSSह -- अथवा मितियोग्यतास्तिता निरवदयास्तु समस्तवस्तुषु । परमात्मनि तत्प्तीयते सकलं वेदशिरः प्रवर्तताम्॥४९४ ॥ अथवेति। मितियोग्यताया वावङ्ृव्यमावित्वात्सैव सत्ताऽतो बह्मणि सहप्रतीत्यर्थमित्यर्थः । तथा च तत्र तद्मावेऽप्रामाण्यं भावे चानुवादि- स्वमिति भाव: ।। ४९४।। अ० टी०-यदि मानविषयत्वमेत्रास्तित्वं तदा मानसंबन्धस्य क्षणिकत्वात्क्षणि- कमेव वस्तु स्यादित्याशड्क्य मानयोग्यत्वमेव्र मेयत्वमिति पक्षान्तरं स एवाऽडह-अथ वेति । समस्तवस्तुष्वात्मन्यनात्मसु च मितियोग्यता निरवद्या समस्तदोपरहिता शङ्कि- तदोषरहिता Sशङ्कितदोषरहिता वाऽस्तिताSस्तु योग्यताया यावद्वस्तुभावित्वादित्यर्थः। उक्तं सामान्यन्यायं प्रकृते योज्यमित्याह-परमात्मनीति । तथा च मानान्तरसापेक्षत्वं स्यादिति भवतामनपेक्षत्वलक्षणं वेदान्तप्रामाण्यं न सिध्येन्मानान्तरायोग्ये सिद्धे शब्दप्र- वृत्तेरसंभवादिति भाव: ॥। ४९४ ॥
Page 399
३९२ 'टीकाद्वयसभेतं-
सु०टी०-मानयोग्यत्वं कदाचिन्मानविषयत्वमबाध्यत्वं वाऽडय्यं दूष- यति- तदसुन्दरमात्मसंविदोरमि सत्ता भवताऽ्युपेयते।
तदिति। एवं च तवाप्यात्मनि संविदि च सत्ताभ्युपगमविरोधस्तये- रुक्तलक्षणाभावादित्यर्थः । त्रिपुटीप्रत्यक्षे ह्यात्मा प्रमातैव न प्रमिति -. विषयः संविञ्च स्वपकाशा न मित्यन्तरविषय इति। द्वितीये तु नानु- वादित्वप्रसङ्ग इति माव: ॥४९५॥ अ० टी-मानविषयत्वं मानयोग्यत्वं वा सर्वस्यास्तित्वं तदभावे नास्तित्वमेवेति प्राप्तो दोषो न मयैव परिहरणीयस्तवापि तुल्यत्वादित्यभिप्रेत्य तन्मनेन व्यभिचारमाह-तदसु- न्दरमिति। भवता प्राभाकारेण । विषयत्वहीनयोरिति। आत्मनो विषयसंवि- दाश्रयत्वेनैव स्फुरणं न विषयत्वेन संविदश्व स्वयंप्रकाशमानतया न वेद्यतयेत्यम्युपगमान्न तयोर्मितियोग्यत्वमितत्वसंभवः । तथाचैतदेव चेद्वस्तुनः स्त्वं तदाऽऽत्मसंविदोस्तवासत्वर- प्रसङ्ग: ।। ४९५।। सु० aी०-तदेवं तत्त्वमस्यादे: सत्यज्ञानादिवाक्यस्य च ब्रह्मणि समन्वयमुपपाद्य 'यतो वा इमानि' [तैत्ति० ३।१।१] इत्यादेस्तटस्थलक्ष- णवाक्यस्य जन्मादिसूत्रन्यायेन समन्वयं विवक्षुर्यज्जगज्जन्मादिकारण- मित्यनूद्य तद्गह्वेत्युपदेशो नोपपद्यते प्रसिद्धकार्याणां प्रसिद्धहेतुजन्यत्वा- क्क्षित्यादीनां च कार्यत्वे मानाभावादित्याशङ्क्य जगतः कारणसि- द्धयर्थ तस्य कार्यत्वं साधयति- क्षितिजलदहनानिलाम्बराणं जनिमनुमाय विभक्तताबलेन। जगति हि जनिमद्विभज्यमानं घटघटिकाि समीक्ष्यते समस्तम् ॥ ४९६ ॥ • क्षितीति। क्षित्यादयो जनिमन्तोऽन्याधीनसत्ताका इत्पर्थः। तेनाना- द्यज्ञानतत्संबन्धादौ ने व्यभिचारो विभक्तत्वात्, धर्मिसमानसत्ताकभेद- प्रतियोगित्वादित्यर्थः । तेन ब्रह्मणि न व्यिचारः । तत्राSडकाशादि- भेदस्यातातत्विक़त्वात् । तथा चायमर्थः-क्षित्यादीनां विभक्तत्वेन. जन्यत्वमनुमाय तन्र कारणं तर्कयन्तीत्युपरितनेन संबन्धः ।न च परा-
Page 400
संक्षेपशारीरकम्" ३९३
भिमतात्मनि व्यभिचारस्तस्याहंकारात्मत्वेन जन्यत्वात। बलशब्दसू- चितां व्यान्तिमाह-जगतीति! यद्विमक्तं तज्जनिमद्यथा घटादीति समी क्ष्यते मत्यक्षेण व्याप्तिर्गृह्यत हत्यर्थ: ॥४९६॥। ० टी० -- एवमियता ग्रन्थसंदर्भेणाखण्डे ब्रह्मात्मेंनि सिद्धे तत्त्वमत्यादिमहावाक्यस्य सत्यज्ञानाद्यवान्तरवाक्यस्य च पर्यवसानप्रकारः पूर्वोद्धावितदोषनिराकरणेन प्रपञ्चित इदानी जगत्कारणवादिवाक्यजातस्य तत्पदार्थे ब्रह्मणि समन्त्रयप्रकारकथनायोत्तरसंदर्भः प्रवर्तते त्वंपदार्थनिरूपणपूर्वक वेदान्तानां व्रझ्मात्मनि समन्वयः पूर्वमुपपादित इदानी तत्पदार्थोपल- क्षणभूतवाक्यजातसमन्वयप्रकारनिरूपणेन स एव समन्वयो दृढी क्रियते यतो यावदुपल- क्षणवाक्यं प्रकृतब्रह्मगामितया नावधार्यते तावदुपलक्षितस्य सत्यज्ञानादिरूपता पूर्वोपपा- दिता न सिध्येदित्यतस्तदुपपादनीयमिति तत्र सृष्ट्यादिवाक्यैर्जगत्कारणमुद्दिश्य तस्मिन्ब्रह्मध्वं विधीयते ब्रह्म चोदिश्य तस्मिञ्जगत्कारणत्वरं नोभयथाऽपि जगतोऽकार्यत्वात्तत्कारण-
त्याशड्क्य जगत्कारणमनूद्य तस्य ब्रह्मत्वप्रतिपादनं शक्यमिति वक्तुं जगतः कारणवत्त्व सिद्धये कार्यत्वं तावत्साधयति-क्षितिजलदहनानिलाम्बराणामिति। अयमर्थः- पञ्चमूतात्मकं हि जगदभिमतं तत्र भौतिकेषु तावत्कार्यतवे विप्रतिपत्तिर्नास्यतस्तत्साधर्म्या- द्रूतेष्वपि कार्यत्वमनुमेयमेव्र विभक्तताबलेन विभक्त:व्रादिति हेतुसामर्थ्येन क्षितिजलदहनानि- लाम्बराणां जनिमनुमाय तर्कयन्तीत्युत्तरपद्यगतेन संबन्धः । व्रिमतानि महाभूतानि जनि- मन्ति विभक्तत्वादिति। अवयवद्वयमुक्त्वा तृतीयं व्याप्त्याख्यमत्रयवरमाह-जगति हीति। यद्यद्विभक्तं तत्तज्जनिमत्। यथा घटघटिकादीति व्याप्तिर्निरवद्येत्यर्थः। न च विभक्तत्व्हेतुरात्मन्यनैकान्तिकस्तस्य सर्वसत्तारूपतया कुतश्चिद्विभागासंभवात्पक्षे च तदनुभवसिद्धमिति नासिद्धिशङ्काडपीति गमयितव्यम् ॥ ४९६॥ सु० टी०-हेत्वन्तरेणानुमानमाह-
क्षितिजलदहनेषु तत्पदेशा- ज्जनिसहितानुपलक्य तद्वलेन। क्षितिजलदहनत्वलिङ्गमार्गा- दपि जनिमेष्वनुमाय तर्कयन्ति ॥ ४९७ ॥ क्षितीति। अत्र वाय्याकाशयोरतीन्द्रियत्वादनुक्ति । महाक्षित्यादीना विप्रतिपन्नजनिमत्वानां प्रदेशान्मागान्वेदिकाचन्द्रकान्तजलनिर्मटयादी- अनिमतो दृष्ट्ा तद्दश्टन्तेन क्षितित्वाज्जलत्वात्तेजसत्वाित्यादिलि क
Page 401
३९४ टीकाद्वय समेतं- नावि जन्यत्वमनुमाय तर्कयन्ति। इद कारणपुर्वकं कार्यश्वाद्घटादिंब- दिति ॥४९७ ॥ अ० टी० -- विगतानि मह्यादीनि भूतानि जनिमन्ति विभक्तत्वाद्घटादिवदित्यनु- .मानं सर्वभूतपक्षीकरणेनाभिधाय प्रत्येकपक्षीकरणेनाप्यनुमानान्तराण्याह-क्षितिजलेति।* अत्राविप्रतिपन्नेनैकदेशेनैकदेशान्तरं विप्रतिपन्नं साध्यत इत्यनुमानप्रकारभेदो दर्शितः। तथा हि विप्रतिपन्ना क्षितिर्जनिमती क्षितित्वान्नदीस्रोतसा समुह्यमानमृत्सिकताकृतभूप्रदेशवत्। तथा चिमतं जलं विमतं तेजो विमतो वायुरित्येते जनिमन्तो जलत्वात्तेजस्वाद्वायुत्वाच्चन्द्रकान्तजानि- तजलवदरणिमथनोद्धूततेजोवद्वयजनाभिघातजन्यवायुवदिति प्रत्येकं क्रमेण प्रयोक्तव्यम् । एवं सिद्धे भूतचतुष्टयस्योत्पत्तिमत्त्वे वियतोSप्युत्पत्तिरनुमेया। विमतं वियदुत्पत्तिमद्दूतत्वात्पृ- थिव्यादिवदिति। न च वियदनुत्पत्तिमन्निरवयवद्रव्यत्वादात्मवदिति सत्प्रतिपक्षताशङ्काSवि- देतरत्वे सति चेतनावत्त्वोपाधेः संभवाद्वेदान्तिनः प्रतिदृष्टान्ते साधनवैकल्याच्च। न हि द्रव्यत्वमात्मनो वेदान्तिनो मन्यन्ते निर्गुणत्ाम्युपगमादात्मनो निर्गुणस्य च द्रव्यत्वायोगात्त- स्माद्वियदप्युत्पत्तिमदिति द्रष्टव्यम्। एवं कार्यत्वे सिद्धे कारणं विना कार्यासंभवात्सिद्धकार्यभावस्य जगतः कारणं तर्कयन्ति केनचिदस्य कारणेन भवितव्यं किं तद्युक्तं चेतनमचेतनं वेत्यर्थः ॥ ४९७ ॥ सु० टी०-न केवलं कारणमात्रं किं तु तस्य चेतनत्वमपि तर्क यन्तीत्याह- जनिमद्भवदेतचेतनादेव हेतो- र्घटवदिति पुनस्तत्कारणे चेतनत्वम्। अनुमिमत उद्के कार्यतालिङ्गतोऽमी जगति हि परिदृष्टं चेतनादेव कार्यम् ॥४९८॥ जनिमदिति। जनिम्क्षित्याद्यटष्टाद्वारकचेतनहेतु्कं कार्यत्वाद्विति। पुनस्तत्कारणे चेतनत्वमुदकें कार्यत्वनिश्रयानन्तरमनुमिमत इत्पर्थः । व्याप्तिमाह-जगतीति ॥४९८॥ अ० टी०-इदं कारणपूर्वकं कार्यत्वात्संमतवदिति तर्किते कारणे चेतनत्वमप्यनुमा- नादुन्नेतुं शक्यत इत्याह-जनिमदिति। एतज्जगच्चेतनादेव हेतोः कारणान्ाचेतना- दित्येवकारार्थो जनिमदभवदिति। पुनरुदर्क उत्तरकाले कार्यतालिङ्गतः कार्यत्वेन हेतुना. घटादिदृष्टान्तेन तंत्कारणे चेतनत्वमप्यनुमातारोऽनुमिमत इति योजना। घटादिदृटष्टान्ते
Page 402
संक्षेपशारीरकमू। ३९४
व्यात्तिं घटयति-जगति हीति। विमतं चेतनकारणक कार्यत्वाद्धटवद्वटादिश्वेतनका- रणको निश्चित एवेति वाक्यार्थः ।४९८॥. सु० टी०-एवमनुमानसिद्ध जगत्कारणत्वानुवादिनी श्रुतिरिति शङ्का- मेकत्व सर्वज्ञत्वाद्यसिद्धयापत्या दूषयति- जगदुदयनिमिचं चेतनं किं तु नाना किमु भवतु तदेकं सर्ववित्सर्वशक्ति। इति भवति तु पश्रात्कारणे चेतनेऽस्मि- न्ननवगतिनिमिन्त: संशयो दुर्निवार:।५९९ ॥ जगदिति। यद्यपि किंचिज्जगत्कारणमनुमानात्सिध्यति तथाऽपि तत्किं नानाऽनेककर्तृकगृहकुड्यादिदर्शनात्। अथवैक सर्वज्ञं सर्वशक्तीत्येवम- स्मिन्ननुमिते चेतने पश्चाद्ज्ञाननिमित्तः संशयो न निवार्यते लाघवा. देककर्तृत्वेन निश्चितेऽपि पटादौ पश्चाद्न्यथात्वदर्शनादित्यर्थः। एकत्वस- वंज्ञत्वादिमिर्व्याप्त्यग्रहात्सामान्यतो दृषाच् विशेषासिद्धेः पक्षधर्मता- याश्च पक्षीयत्वमात्रसाधकत्वात्सोपाधित्व प्रत्यनुमानादिभिश्र तार्किकानु. मानानामसाधकत्वादित्यन्यत्र विस्तरः ॥ ४९९॥ अ० टी०-एवं चेतने जगत्कारणेऽनुमानतः सिद्धेऽपि पुनस्तस्मिन्नेकानेकविषयः संशयो भवति। न च तदेकत्वं नानात्वं वाऽनुमानमात्रान्निश्चेतुं शक्यत एकस्यापि गोपु- रस्तम्भादेरनेकचेतनपूर्व कत्वदर्शनादनेकेषामपि सूपौदनशाकानामेकेन निर्माणदर्शनाच्। अतोऽनुमानाज्जगत्कारणस्य न सर्वज्ञत्वसर्वेश्वरैकत्वानां सिद्धिरित्यभिप्रेत्य संशयोत्पत्तिप्रका- रमाह-जगदुद्येति। अनवगतिनिमिच्तः श्रुतेरन्यस्य निर्धारणहेतोरभावादज्ञाननिमित्तः संशयो दुर्निवारोऽनुमानशतेनापीत्यर्थः । सामान्यतो दृष्टानुमानाद्विशेषनिश्चयासंभवात्सर्व- ज्ञत्वादिविशेषणवत्तया व्याप्तिग्रहाभावादेवानुमातुमशक्यत्वात्पक्षधर्मतायाश्च सपक्षदृष्टरूपाद्र- पान्तरासाधकत्वादन्यथा जगत्कारण ईश्वरे सांख्यादीनां विप्रतिप्त्यभावप्रसङ्गात्। तार्कि- कानुमाने च शरीरत्वोपाधेः संभवाद्विप्रतिपन्नं न सर्ववित्कर्तृकमसर्ववित्कर्तकमिति वा शरीरि कर्तृकमिति वा कार्यत्वात्संमतवदिति प्रयोगसंभवाच्च । न च विशेषणस्य प्रसिद्धयप्रसि- द्वयोर्व्याघातः सर्वज्ञशब्दार्थस्य लोके सामान्यतः सिद्धत्वेऽपि प्रकृते जगत्कारणे तदसिद्धेः। यृदीदं चेतनकर्तृकं स्यात्तर्हि शरीरिकर्तृकमपि स्यादशरीरस्य चेतनावतः; सत्वे प्रमाणा- दर्शनादि त्यादितर्कबाधितत्वाच्वानुमानाच्च विवक्षितेश्वरासिद्धिरिति भावः ॥ ४९९॥
Page 403
३९६ टीकाट्टय समेतं-
सु० टी०-कंथं पुनः श्रुतितोऽप्येकत्वसर्वज्ञत्वादिसिद्धिरिति चेस- ्ाSSह -- श्रुतिव चनविशेषाचेतने कारणेडस्मि- न्यत इति निरंवयादेकताधीरथाऽSया। प्रकतिरिति च तस्मिन्कारणे पश्चमीयं जनयति दृढबुाद्धिं तद्विधानादिहैव ॥ ५००॥ . भ्ुतीति। अस्मिन्रनुमानसिद्धे चेतने 'यतो वा इमानि '[तैत्ति० ३ १।१ ] इतिसिद्धवत्कारणं दर्शयन्त्या: श्रुतेर्यो वचनविशेष: पञ्चम्पे- कवचनरूपस्तस्मात्तज्जगत्कारणमेकमिति निश्चितमित्यर्थः । किं च
प्रकृतिशिति। तत्र कारणे प्रकृतिरितीमां बुद्धिं पञ्चम्येव जनयितुमर्हति 'जनिकर्तुः प्रकृतिः' इति तद्विधानान्न त्वनुमानादीत्यर्थः।सर्वज्ञत्वा- दिबोधिकाश्च 'यः सर्वज्ञः सर्ववित् (मुण्ड० १।१।९) इत्याद्य: प्रसिद्धा एवेति भाव: ।। ५०० ॥। अ० टी०-एवं सर्वज्ञत्वाल्पज्ञतवैकत्वानेकत्व।दिसंशयबदुादानमथ्यस्य जगतः कर्तुश्चे- तनान्यत्स्यात्। कुलालादेरन्यस्य मृत्पिण्डादेर्घटाद्युपादानस्य लोके दर्शनात्किं वा स एव कर्ता चेतनवदुपादानमप्यूर्णनाभिवदूर्णानां तार्किकात्मवद्वाSSत्मगुणानां स्यादिति संदेहः स्यात्तथा सहकारिकारणमप्यूर्णतन्तुनिर्माण ऊर्णनाभेरिव बाह्यं नास्ति कि वा कार्पाससूत्र- निर्माण इव काष्ठयन्त्रादि बाह्यमप्यस्तीति संशयो भवेदेतदपि संशयजातं न श्रतेरन्यतो निवर्तयितुं शक्यत इत्यभिप्रेत्य श्रुतिवशान्तनिर्णयप्रकारमाह-श्रुतिवचनेति । 'यतो वा इमानि' [ तै० ३ । १। १ ] इत्यस्मिन्वेदान्तवाक्ये यत इति निरवद्याच्छूतिवचन- विशेषादिति संबन्धः । निरवद्यान्तनिरपेक्षपमाणरूपाच्छूतिविशेषाद्वचनविशेषाच्वेत्यर्थः। यत इत्यत्र पदे प्रातिपदिके यच्छब्दः श्रतिविशेष एकवचनान्तत्वं वचनविशेष इति विभागः । तथा चेतनमनुमानात्सिद्धं कारणं यत इति यच्छन्दप्रातिपदिकेनानूदैकवचनश्रुत्या तस्म- श्वेतने कारण एकताधीरादा प्रथमा जायते। अथानन्तरं यत इति यस्मादर्थे तसेः प्रयोगादियं पञ्चमी विभक्तिस्तस्मिन्प्रागुक्ते कारण एकस्मिन्प्रकृतिरुपादानमिति दृदबुद्धिं जनयति। कथं पञ्ञम्याः प्रकृत्यर्थत्वमित्यत आह-तद्विघानादिति।'जनिकर्तुः प्रकृतिः' इति विशेषविधानादित्यर्थः । इहैवास्मिन्नेवोपादाने पञ्चम्या विधानादित्यर्थः।
१ ग.थाडमात्।
Page 404
संक्षेपशारीरकम्'। ३९७
यच्चेतनं कारणमुपादानं चेति 'यत' इति श्रुत्या निरपेक्षया निर्णायतेऽत एव स्वाङ्ग- बाहर्भूतं सहकारि कारणान्तरमप्यत्र नास्तीति सिद्धमस्यैकत्वं सर्वशक्तित्वं चेति भावः ॥। ५०0॥ सु० टी०-ननु प्रत्ययार्थयोरेकत्वप्रकृतित्वयोः प्रकृत्यर्थान्वयात्कथं परस्परान्वय इति शङ्कते-एकत्वमिति श्रोकाभ्याम्- एकत्वमेकवचनादवगम्यमानं यच्छब्दवाच्यनिलयं यत इत्यभुष्मिन्। वाक्ये जगत्प्रकतिगामितर्यां निविष्टां संख्यां विभक्त्यभिहिते वचनं हि नाऽऽह ॥५०१॥ एकवचनावगतमेकत्वं प्रकृतिरेकेत्येवंविधविभक्त्यर्थप्रकृतिगामितया न विद्यो वचनस्य विभक्त्यर्थगतसंख्यानभिधायकत्वादित्यर्थः ॥५०१॥ अ० टी०-अत्र वचनविभक्तिबलादुक्तामेकत्वप्रकृतिसिद्धिं पूर्ववाद्याक्षिपति-एक- त्वमिति। यत इत्यमुष्मिन्वाक्य एकवचनादवगम्यमानं यदेकत्वं तद्यच्छब्दवाच्यनिलयं यच्छन्दप्रातिपादिकगतमेव न विभक्त्यर्थप्रकृतित्वगतमिति योजना। कुत एवमित्यत आह- जगत्पकृतीति। हि यस्माद्वचनं विभक्तभिहिते पञ्चमीवाच्ये जगत्प्रकृतिगामितया निविष्टां जगदुपादानगततेन प्राप्तां संख्यां नाSSह न कथयतीति योजना। एकत्वविवक्षायां यदेकवचनं विधीयते तत्प्रकृतिभृतप्रातिपदिकगतमेवैकत्वं गमयति न प्रत्ययात्मविभक्त्यर्थगतं वचनवाच्यसंख्याया विभक्त्यर्थगततया क्वाप्यनुपलम्भादिति तात्पर्यार्थः ॥५०१॥ सु० टी०-कुत इत्याह- न हि विभक्त्यभिधेयपदार्थगं वचनमाह निज विषयं क्वचित्। वचनवाच्यगतं न वदन्ति च स्वमभ्िधेयमशेषविभक्तयः ॥ ५०२॥ न. हीति। वचनस्य विभक्त्यर्थकारकान्वितस्वार्थबोधकत्वं न संमवति
हेत्वभावाञ्चेत्यर्थः। एवं विभक्तेरषि वचनार्थन्वितस्वार्थबधनासामथ्य- मित्याह-वचनेति॥५०२॥
2 ग. या न विद्य: सं०।
Page 405
३९८ रीका द्वय समेतं-
अं० टी०-नन्वाकाड्क्षादिवशाद्विभक्तिवाच्यमततयाऽपि संख्याSभिधीयतामिति चेंन्रै वमेवमपि क्काप्यदर्शनादित्याह-न हि विभक्तीति। वचनं कर्तृ तन्निजं विषय स्ववाच्यमेकत्वादिकमर्थ विभक्त्यभिधेयपदार्थगतं कारकगतं न ह्याह न कथयति क्चिदिति योजना। तर्हि विभक्तिर्वचनार्थगतं स्वार्थमभिदध्यादिति चेत्तदप्यप्रसिद्धमेवेत्याह-वचन- वाच्यगतमिति॥५०२॥ सु. टी०-'पशुना यजेत* इत्यत्रेवौपादानिकान्वयबलेन परिहर्तु चोद्यमनुंवद्ति- प्रातिपदिकार्थगतमेव वचनानि स्वं स्वमभ्िषेयमभिधातुमलमर्थम्। प्रातिपदिकार्थगनमेव निजमर्थ वक्ति च विभक्तिरपि नेह वचनार्थे॥ ५०३॥ पशुनेतिपदे तृतीयया करणत्वं हि पशोर्निवेधते। वचनेन पशोरिहैकता न पुनः सा करणस्य कथ्यते॥ ५०४॥ प्रातिपदिकेतिद्वाभ्याम्। वचनविभक्ती प्रातिपदिकार्थगतमेव स्वं स्वमर्शम भिधातुमलं न परस्परार्थगतं तयोः प्रकृत्यर्थान्वितस्वार्थान्कयबोधकत्व- व्युत्पत्ते: । तेन पशुनेत्यत्रापि विभक्त्या पशोः करणत्वमुच्यते तस्यैव मुख्यत्वात्तस्यैव च संख्येयत्वादेकत्वं न तु करणकारकस्येकत्वमिति यद्यपि वक्तं शक्यते तथाऽपि यथा तत्र पशुरेक: करणमिति धीस्तथा त्रैकं जगदुपादानमित्यपि धीरविरुद्धेति माव:॥५०३॥५०४॥ अ० टी०-सत्यं विभत्तिवचने प्रातिपदिकार्थगततयैव स्वार्थमादधतो नान्योन्यार्थ- गततया तथाऽपि प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूतः प्रत्ययस्तु प्राधान्येनेति न्यायातप्रत्य- यार्थोपरक्त एव प्रकृत्यर्थः प्रतीयते न केवलं प्रातिपादिकार्थस्तथा प्रातिपादिकार्थीमरक्त एव अ्रत्ययार्थोऽपि प्रतीयते न केवल इति स्थितौ प्रातिपदिकार्थः प्रतीयमानो विभक्ति- वचनार्थन्वित एवावगम्यतेऽतो विभक्त्यर्थान्वितप्रातिपादिकार्थगततेन. वचनार्थ: प्रतीयते निभक्त्यर्थो वचनार्थान्वितप्रातिपदिकतयेति युगपद्वचनविभक्तर्थान्वितत्वेनैव यत इत्यक्र 2 च्न्द्रार्थप्रतीतिस्तरिमननेकप्रकृतिते शब्दसामर्थ्यादव सिध्यत इत्येतत्सर्वमभिप्रेत्य परिहार-
Page 406
संक्षेपशारीरकम्" ३९९
माह-प्रातिपदिकार्थेति। वचनानि प्रातिपदिकार्थगतमेव स्वं स्वमर्थमभिधातुमलं समर्थानि प्रक्ृत्यर्थोपरक्त्मेव स्वार्थमभिदधति वचनानि न विभक्त्यर्थोपरक्तमित्यर्थः । तथा विभक्तिरपि प्रातिपदिकार्थगतमेव निजमर्थ धक्तीह यत इति पदेन च पुनर्वचनार्थान्वित- स्थार्थ न च वक्तीत्यर्थः । तस्मादत्र यत इति प्रातिमदिकवाच्यश्चेतन एकः प्रकृतिश्वेति प्रतीतिर्न तु प्रकृत्येकत्वयोः परस्पराबच्छेदः शब्दशक्त्या भातीत्यभिप्रायः ॥५०३॥ ननु ' पश्चुना यजेत' इत्यत्रैकप्रत्ययोपात्तयोः करणत्वैकत्वयोः संनिकर्षा- तिशयात्प्रथमं परस्परसंबन्धावगतिः पश्चात्तु पदश्रुत्या प्रातिपदिकार्थेन संबन्धोऽवगम्यत इंत्याहुर्न्यायविदोऽतोऽत्रापि कथं न स्यादिति चेन्नैवमत्रापि पशुरूपप्रकृत्यर्थगततयैव करण-
र्यस्मिन्पदे या तृतीया विभक्तिस्तया पशोः करणत्वं हि निश्चितं निवेदते केवलवचना- भिहितस्यैकत्वस्येत्यर्थः। तथा च घचनेनापीह पदे पशोरेकता निवेदते न पुनः सैकता करणस्य कथ्यतेऽतो नानेनास्मदुक्तिविरोध इत्यभिप्रायः ॥ ५०४ ॥ सु० टी०-कथं तत्रापि व्युत्पत्तिं परिभूयैकः पशुः करणमिति धीरिति चेत्तताSSह- अनुपपत्तिबलेन विधेस्तयोः करणतैकतयोरवगम्यते। करणतैकपशोरिति संगति- र्न घटते हि विधिर्विरहृम्य ताम्॥५०५॥ अनुपपत्तीति। करणत्वैकत्वान्वितपशुंविध्यनुपपश्या तयो: संगतिर. सगम्यत इत्यर्थः । कथं तत्संगतिं बिना विध्यनुपपत्तिरिति चेत्त्राSडह- न घटत इति। कारकस्य किंचि्धर्मावच्छेदं बिना क्रियानन्वयात्प्रकृ -· स्यर्थान्वितमेकत्वमेवावच्छेदकं कल्प्यते तथा पश्वन्वितैकत्वस्यापि कार कद्वाराऽपूर्वसंबन्धात्तन्निर्वाहाय करणावच्छेद्कत्वमित्येक: पशुः करण- मिति संगति: कल्प्यत इत्यर्थः ॥ ५०५॥ अ०टी०-कथं तर्हि तत्रैकपशुकरणतवागतिरिति चेत्तत्र गुरुमतमाश्रित्याऽडह, अनुपपत्तिबलेनेति । विधेरनुपपत्तिबलेन विध्यन्यथानुपपत्तिरूपेणोपादानप्रमाणेनै- कपशोः करणतेति तयोः करणैकतयोः संगतिरषगम्यते न वचनविभक्तिसामर्थ्यादिति योजना। विध्यनुपपत्तिमेत्र स्फुटयति-न घटत इति। तां करणत्ैकत्वयोः संगर्ति विरहय्य विधिर्नियोगो न घटते। नियोगो हि स्वसंनिविश्रतसमस्तार्थजन्यधात्वर्थनिर्वत्यंतया
Page 407
४०.० टीकादवयसमेतं-
प्रमीयमाणस्तदनुरोधेन करणैकत्वयोरपि संगति विना न प्रमीयत इति तामाक्षिपती त्यर्थः ॥। ५०५ ॥ सु० टी०-नन्वेवमेकपशोः करणत्वमिति संगतिराक्षेपलम्यत्वादा- र्थिकी स्यान्न शाब्दी तथा क यश्रार्थारदर्थो न स चोदनार्थ इति शब्द- 'तात्पर्याविषयत्वान्न तस्य नियोगप्रवेश इत्याशङक्यौपादानिकस्यापि शाब्दृत्वं गुरुणाऽम्युपगतमित्याशयेनाSSह- उपादानतः संख्यया संगतिः स्या- दवच्छेदकत्वेन संख्या निवेशात्। पशोरेतयोस्तेन मार्गेण कार्ये निवेशोपपत्तेरुपादानमानात् ॥५०६॥ उपादानत इति। विध्याक्षेपादित्यर्थः । पशो: करणस्यावच्छेदकत्वेन द्विसंख्यादिव्यावर्तकत्वेनैकत्वसंख्यया संगति: स्यादित्यर्थः । अस्त्वयं संगति: शाब्दी किं तत इत्याह-एतयोरिति। एतयोः करणत्वैकत्वयो- स्तेन मार्गेण स्वाश्रयपशुद्धारेण संगतयोरुपादानप्रमाणेन नियोगनिवेशो- पपत्तेर्नोक्तदोष इत्यर्थ: ॥ ५०६ ॥ अ० टी०-ननूपादान प्रमाणं संगतिमात्रमाक्षिपेत्संगति बिना विध्यनुपपत्तेरिति तत्र संग- तिविशेष एकपशचुकरणकनियोगलक्षणः कुतः सिध्येदिति तत्राऽऽह-उपादानत इति। उपादानतो विध्याक्षपात्संख्ययैकत्वसंख्यया करणत्वस्य संगतिः स्यात्। करणत्वस्य हि घात्वर्थसंबन्धः स्वभावसिद्धः पशोश्च धात्वर्थावच्छेदकत्वेन करणता तृतीयाश्रुत्यैव समधिगता तत्रैकत्वसंगतौ किं कारणमित्यपेक्षायामाह-अवच्छेकत्वेनेति। पशोरवच्छेदकत्वेनेत्यन्वयः। तत्रैवैकवचनश्रुत्या पशोरवच्छेदकत्वेन संख्यानिवेशाद्धेतोरित्यर्थः । एवं सति तेन मार्गेण . धात्वर्थकरणत्वमार्गेणोपादानमानादेतयोः पश्वेकत्वयोरपि कार्ये निवेशोपपत्तेरित्यक्षरयोजना। एतदुक्तं भवति-'पशुना यजेत' इति तृतीयाश्रुत्या पशोर्यागकरणता तावदभ्युपगम्यते तन्र पशुपदस्य जातिवचनत्वात्तेन संख्याविशेषानवगमात्पशुपदावगतस्य पशोः, कया संख्ययाऽ्वच्छिन्नोऽहं यागं निर्वर्तयेयेति भवत्याकाड्क्षा तथैकवचनावगतैकत्वसंख्यायाश्च ग्राहकप्रयोगवचनवशात्कार्यार्थतयाऽवगतायाः केन द्वारेणाहं कार्ये निविशेयेति भृवत्या- काडक्षा। एवंसति पशोरेकत्वसंख्यावच्छिन्नस्य करणमेकसंख्यायाश्च पश्ववच्छेदेन धात्वर्थ- करणत्वमित्येकपशोः करणत्वमिति तद्विध्यन्यथानुपपत्तिलक्षणात्प्रमाणादेकपशुकरणकयाग- विषयकरणको नियोग इति घात्वर्थद्वारा कार्ये निवेश इत्येकपशोः करणत्वावगम इति
Page 408
संक्षेपशारीरकम्।' ४०१
सु० टी०-अस्तु पशुनेत्यत्र विध्याक्षेपाद्वचनविभकस्य(+र्यान्व्यः प्रकृते तु विधेरमावान्न स्यादिति शङ्कते-' न चैवं विधि: कश्विदत्रति न स्पा- दुपादानतः संगतिर्यत्पदार्थे। विभक्त्यर्थसंख्यार्थयोर्नेह कश्वि- दतो वा इमानीति वाक्ये विधिर्नः॥ ५०७॥ न चेति। यत्त इत्यत्र विभक्त्य) र्थप्रकृतित्वस्य सम्यक्रू ख्यायतेऽने- नेति। संखपैकवचनं तदर्थस्य च संबन्धो न स्थादित्यर्थः । नन्वत्रापि 'तद्विजिज्ञासस्व'[तै० ३। १ । १ ] इति विधिरस्तीति चेत्सत्यं स तु तद्ह्मेति वाक्यशेषात्पुरुषार्थत्रह्मविचारपरो न च तस्य पश्ुविधि- वत संख्याद्यपेक्षेति न तदाक्षेपकत्वमित्याह-नेहेति ॥ ५०७ ॥ अ० टी०-सर्हत्राप्युपादानमानादेवास्तु प्रकृतितवैकत्त्रयोः संगतिप्रमितिरिति चेन्मैत्र- मिह विध्यभावादित्याह-न चैवमिति। अत्र 'यतो बा ' [ तै० ३।१।१ ] इत्यस्मि न्वाक्य एवंविधो विधिर्षिभक्त्यर्थसंख्यार्थयोरेकत्वसंगति विनाऽनुपपद्यमानो न च नैव्र विद्यत इति हेतोर्यापदार्थे यच्छब्दप्रातिपदिकार्थे विभक्त्यर्थसंख्यार्थयोरुपादानतः संगतिर्न स्पादिति योजना। इहापि विधिरम्युपेयतां कार्यगौरवादिति चेन्नेत्याह-कश्चिदिति। नोऽस्माकं सिद्धान्त इति शेषः । विध्यम्युपगमे सिद्धान्तभङ्गप्रसङ्गादिति भावः ॥५०७॥ सु० टी०-विध्यमावेऽप्यनुपपत्तिरेवात्र तयोः संबन्धसाधिकेति समाधते- अवितथमिदमेवमेतदस्मि- न् खलु विधेर्वचनं पठन्ति वाक्ये। यत इति घटते तथाऽपि योगो वचनविभक्तिनिगय्योरिहापि। ५०८॥ अवितथमिति। सत्यं यत इति वाक्ये विधिशब्द न पठन्ति तथाऽपि . पशाविवात्रापि वचनविभक्तयर्थयोः संबन्धो घटत इत्यर्थः ॥ ५०८॥
- ख. पुग्तकस्थोडयं ग्रनथः ।
Page 409
४०२ टीकाद्टय समेतं-
अ० टी०-तर्हिं कथमिह विभक्तर्थसंख्यार्थयोः संगत्यधिगतिरिति चेद्विध्यभावेऽप्य- नुपपचि: संगत्यधिगमे हेतुरित्याह-अवितथमिति। अस्मिन्वाक्ये विधिर्नास्तीत्य- स्मन्मतमिदमवितथं सत्यमेवैवमेतन्नान्यथेति योजना। वाक्यस्य ब्रह्मवस्तुलक्षणपरत्वाद्विषि- कल्पने तदसिद्धप्रसङ्गादित्याकृतम्। विधिप्रत्ययाश्रवणादप्यत्र न विधिरित्याह-अस्मि. न्निति। यत इत्यस्मिन्वाक्य इति संबन्धः । यद्यप्येत्रं विध्यभावस्तथाऽपि बचनविभक्ति- निगद्ययोरिहापि योगो घटत इति योजना ॥ ५०८ ॥ सु० टी०-कस्यात्र संबन्धं विनाऽनुपपत्तिरिति तत्राSSह- एकत्वमेकवचनेन समर्पितं य- यच्छव्दवाच्यनिलयं यत इत्यमुष्मिन्। पश्चम्युपात्तमपि यत्पकतित्वमस्मि- न्संगच्छते तदुभयं पशुवस्तुनीव ॥ ५०९॥ एकत्वमिति। अत्र यद्वचनसमर्पितं यच्छब्दार्थगतमेकतवं यञ्च पञ्चम्यु- पातं प्रकृतित्वं तद्द्वय विधिनाऽप्यस्मंश्रेतने संगच्छतेऽ्न्यथा प्रकृतिप-
चेतनानुवादेन ब्ह्मत्वोपदेशानुपपत्तेरित्यर्थः ।। ५०९॥ अ० टी०-विध्यभावे च कयाऽनुपपत्त्या वचनविभक्तिनिगद्ययोर्योगो घटत इत्यपे- क्षायामाह-एकत्वमिति। यत इत्यमुष्मिन्वाक्ये यच्छब्दवाच्यनिलयं प्रातिपदिकार्थ- निष्ठमेकवचनेन समर्पितं यदेकत्वं पञ्चम्युपात्तमपि यत्प्रकृतित्वं तदुभयमस्मिन्यच्छब्दार्थे चेतने पशुवस्तुनीव संगच्छते संगतं भवतीति योजना । एकवचनपञ्चम्योरपि विशिष्टार्थपरतया प्रयुक्तत्वाद्विशेष्यसंगतिमन्तरेण तदनुपपत्तेर्विनाऽपि विधिं पशुवस्तुनीवात्रापि चेतनसंगति- सिद्धिरिति भाव: ।।५०९॥ सु० टी०-एतदेव विवृणोति- एका या प्रकतिः समस्तजननी तहह्न जिज्ञास्यता- मित्यत्रापि हि वस्तुनिष्ठवचने शक्यैव तत्संगतिः । विज्ञातुं विधिमन्तरेण च तथाSऽनर्थक्यभीत्या न हि स्वाध्यायाध्ययनैकगोचरविधेरापातमर्थं विना ॥ ५१०.॥
Page 410
संक्षेपशारीरकम्।' ४०३
द्यत्वानुपपत्तिरेवैकत्वप्रकृतित्वयोः संबन्धमाक्षिपतीत्यर्थः । विध्यनुपप- त्तिरष्य स्त्येवेत्याह-तथेति। न हीद्मर्थं विना स्वाध्यायविधे: सकाशा- दायातमिति संबन्ध: । प्रकृतित्वैकत्वयरन्वयं विनाऽऽनर्थक्याद्द्टृष्टा-
अ० टी० -- तथाऽप्यत्र संबन्धाक्षेपक विविच्यतामिति चेंदुच्यत इत्याह-एका येति। यत इत्यादौ 'तद्विजिज्ञासस्व तद्ह्' [तै० ३ । १।१] इत्यन्ते वाक्ये: यत इति पदेन वचनविभक्तिभ्यां प्रमीयमाणैका प्रकृतिरिमानि भूतानीति सर्वनरमश्रुतेः संकोचकाभावात्समस्तजननीव तद्गह्म जिज्ञास्यतामित्यत्र वस्तुनिष्ठवचनेऽपि हि तत्संगति- श्वेतनवस्तुसंगतिर्विज्ञातुं शक्यैवेलि योजना । एतदुक्त भवति ब्रह्मलक्षणपरत्वाद्वाक्यस्य लक्ष्यमाणं ब्रह्मैव जगतः कारणत्वानुगुणं संबन्धमाक्षिपेत्तथा च यादशेन लक्षणेन ब्रह्म स्व- पदशक्त्यविरोधेन पूर्णात्मतया लक्षितं स्यात्तादृशलक्षणसिद्धयनुगुणनकृतित्वैकत्वयोरपि यच्छव्दवाच्यताधिष्ठातृचेतनावच्छेदद्वारेणैका प्रकृतिः सर्वजननीति विज्ञातुं शक्यते विधिं विनैवेति। यदि विधावाग्रहस्तर्हि सोऽप्यत्रास्त्येव संसर्गावगतिनिमित्तभृत इत्याह-तथाSSनर्थक्यभीत्येति। अध्ययनविधेरानर्थक्यभीत्यैतद्विधिप्रयुक्ताक्षेपसं- भवादि त्यर्थः। तामेव वि्यनुपपाततिं स्फोरयति-न हीति। यत इन्यादिवाक्यस्याSS- पाततः स्वभावतः स्वसामर्थ्यसिद्धमर्थ विना स्वाध्यायाध्ययनैकगोचरविधेर्न ह्यृपपत्तिरिति योजना। अयं भाव :- विधे: फलवत्वनियमादध्ययनविधेश्चार्थावबोधफलत्वादक्षरग्रहणा-
लानुपपत्या संसर्गसिद्धिरितीहाम्युपपन्नेति ॥ ५१०॥ सु० टी०-एवं च पश्ुनेत्यत्र विध्यनुपपत्येव लक्षणवाक्यगते यत इति पदेऽपि विशिष्टलक्ष्यबोधनानुपपत्यैव वचनविभकत्पर्थान्वयसिद्धि- रित्युपसंहरति- वचनार्थविभक्तिवाच्ययोरुपपन्नाऽन्वयबुद्धिरर्थतः । पशुनेतिपदे यथा तथा यत इत्यादिपदेऽपि लक्षणे॥५११॥ वचनार्थेति ॥ ५११॥ अ० टी०-अभ्युपगम्येदमु क्तमध्ययन वशात्संसर्गसिद्धिरिति वस्तुतः सा सर्वत्र शब्द- सामर्थ्यादर्थसामर्थ्याद्वा संसर्गसिद्धिरम्युपेयाऽन्यथा स्वाध्यायविध्याकिप्संसर्गवशाद्विशिष्टा- र्थबोधः सति च विशिष्टार्थबोधे दृष्टतया तस्य विधिं प्रति फलत्वकल्पनेतीतरेतराश्रयत्व- प्रसङ्गात्। तक्षमादेता दो विषयेऽर्थसामर्थ्यमेव संसर्गाक्षेपकमभ्युपेयं तंदत्राप्यस्तीत्याह-
Page 411
४०४
वचनार्थेति। पशुनेतिपदे यथा तथा यत इतिषदे रक्षणे लक्षणपरेऽपि। आर्दिंपदात् 'तरमादेतह्रह्म नामरूपमन्नं च जायते [सुं० १।१।९] 'एतस्माज्ायते प्राणः [मुं० २। १।३ ] ' तस्माद्वा एतस्मादात्मन: ' [ तै० २। १। १] इत्यादौ वचनार्थविभक्तिवाच्ययोरर्थत एकप्रातिपदि कगतविशिष्टर्थ प्रत्याय नसामर्थ्यादन्वयबुद्धिरुपप स्रेति योजना ॥। ५११॥ सु. टी०-विधिं बिना कथमत्राSSक्षेप इति चेत्पधानापेक्षापा अविशेषादित्याह- विधिनिष्ठवाक्यमाप बोधयति स्वमपेक्षितं विषयमर्थवशात्। परमात्मनिष्ठमपि तुल्यमिद बचसोद्वयोरपि तु रूपमनः ॥ ५१२॥ विधीति विधिरषि हि विशिष्टार्थपरत्वात् प्रधानापेक्षितं संबन्ध बोधयति तत्परत्वं चात्रापि तुल्यमित्यर्थः। सर्वे चैतद्गु रूमतेनोक्तं मट्ट-
न्तरं प्रकृत्यर्थान्वय इति नानुपपत्तिः ॥५१२॥ अ० टी०-ननु पशुनेतिपदे विधिरेवाSSक्षेपकस्तत्र विधेर्मावात्किमिदमुच्यतेउर्थंसा- मर्थ्यादाक्षेपस्तत्रापीति चेत्तत्राऽऽह-विधिनिष्ठेति। परमात्मनिष्ठमषि वाक्यमर्थवशा- वस्वमपेक्षितविषयं बोधयतीत्यन्वयः। अत इदं तुल्यं द्वयोरपि वचसोर्विधिमदविधिमद्दा- क्ययो रूपमिति योजना। तुशब्दः पादपूरणार्थः । विधेरपि हि संसर्गार्थबुद्धत्वबलादेव संरगक्षिपकव्वं तच्च पदान्तरार्थानामविशिष्ठमतः सर्वेषामि, पदार्थानां तुल्यमाकाडक्षाघनुरो- धेन रंसर्गविशेषाक्षेपकत्वमिति भाव: ॥५१२॥ सु० टी०-वनु जगत्कारणत्वस्य बह्मणश्रापरसिद्धत्वात्कर्थ लक्ष गत्वं लक्ष्यत्वं चेति तत्राSडह- एकं चेतनमस्य यत्मकतितामापन्नमुत्येक्ष्यते नदूह्नेति निशामयेति निपुणं बूते परब्ह्मणः । सिद्धं लक्षणमादरेण महता व्यावर्तयद्रल्लण- स्तत्त्वं तत्त्वमसीतिवाक्यनिलयं तच्छब्दलक्ष्यं वचः ॥५१३।। एकमिति। यंत इत्यादिवाक्यं हि यज्जगतः कारणमुत्पेक्ष्यते तङ्ह्ेत्य-
Page 412
संक्षेपशारीरकम् । ४०५
नुंभानसिद्धं जगत्कारणमनूद्य तद्धह्मति विद्धीत्येवं, लक्षणं वदति। तज्ञ निपुणमप्रसिद्धयभावादित्यर्थः । नापि लक्ष्याप्रसिद्धिरित्याह- सत्त्वमसीति। तद्वाक्यस्थन्रह्मादिपद्सामर्थ्यसिद्धं तत्त्वमित्यर्थः । महावा- क्यादेव ब्रह्मसिद्धेः किं लक्षणेनेति. चेन्न प्रधानादिव्यावृत्तबह्मासिद्धौ महावाक्याप्रवृत्तेरित्याह-व्यावर्तयदिति। ब्रह्मणस्तत्त्वमनवच्छिन्नचिदान- न्दैकरूपं परिच्छिन्नजडानर्थरूपेभ्य: प्रधानादिभ्यः प्रयत्नेन व्यावर्तय- दित्यर्थः । महावाक्ये च तत्पदार्थशोधनमेव लक्षणस्योपकार इत्याह- तच्छव्देति ॥ ५१३॥ अ० टी०-ननु तथाऽपि कथं ' यतो वा इमानि ' [ तै० ३। १ । १ ] इति सिद्धवन्निर्देशो न द्यन्यतः सिद्धमनपेक्ष्य तत्संभवः सिद्धवनिर्देशभङ्गेन वाक्यस्य विशि- ष्टकारणत्वप्रतिपादनपरत्वे च ब्रह्मलक्षणपरत्वासंभवादुभयपरत्वे वाक्यभेदप्रसङ्गादेवंविधं यज्जगत्कारणं तद्रह्ेति च विशिष्टतया विधानायोगादिति चेत्तत्राऽऽह-एकं चेतन- मिति। चेतनं जगत्कारणमस्तीत्यनुमानात्तावत्सिद्धं तथैकमिति यद्यप्यनुमानान्न निश्चयस्त-
(षाS)क्षरयोजना-अस्य जगतः प्रकृतितामुपादानतामापन्नं यदेकं चेतनमुत्प्रेक्ष्यते संभाव्यते तद्रह्लेति निशामय जानीहीति सिद्धमुस्प्रेक्षासिद्धं ब्रह्मणो लक्षणं निपुणं विवक्षितलक्ष्यसि- द्धयनुगुणं यथा स्यात्तथा ब्रूते 'यतो वा' इत्यादिवाक्यमिति शेषः। कि कुर्वन् महताSडदरेण परमतात्पर्थेण ब्रह्मणस्तत्त्वं व्यावर्तयदबह्मरूपात्परपरिकल्पितजगत्कारणकला- पात्कार्याच् ब्रह्म व्यवच्छिन्ददित्यर्थः । तथा चानुमानसंभावनाभ्यां सिद्धचेतनैककारणस्व- रूपानुवादेन ब्रह्मणो लक्षणाभिधानं न विरुध्यत इति भाव:। निपुणं यदु्प्रेक्ष्यत इति यदा संबन्धस्तदा जगत्कारणे विपरीतोत्प्रेक्षा प्रकाराणामाभासत्वं यथा स्यात्तथा यदुत्प्रे- क्ष्यत इत्यर्थः। भवत्वेवं लक्षणस्य कथंचित्प्रसिद्धिर्लक्ष्यस्य ब्रह्मण: कथं सिद्धिस्तस्यापि हि सिद्धिर्वक्तव्याऽन्यथा कस्येदं लक्षणानुमानमित्यनध्यवसायादित्याह-तत्त्वमसीति। तत्त्वमस्यादिमहावाक्यगतं सद्गह्मेत्यादिपदं तघ्छब्दलक्ष्यब्रह्मणस्तत्त्वं स्वरूपं ब्रूत इति योजना। महावाक्यादिनिविष्टब्रह्मादिपदसामर्थ्यासेद्धं ब्रह्म लक्ष्यमिति भावः ॥ ५१३॥ सु० टी०-लक्ष्यासंबद्धस्यास्य कथं लक्षणत्वमित्याशङ्क्य लक्ष्य- बहिर्मूतमेवेदं लक्षणमुपलक्षणत्वादिति वक्तुं लक्षणप्रकारानाह- लक्ष्यस्य लक्षणमिह त्रिविधं प्रसिद्धं लोके स्वलक्षणममुष्य विशेषणं वा।
Page 413
४०६ टीफाद्य समेंनं-
यद्दोपलक्षणमिमानि च लक्षणेन व्यावर्णयामि पृर्थगेव तु तत्मतीहि॥ ५१४ ॥ रक्ष्यस्येति। स्वरूपविशेषणोपलंक्षणमेदात्रिविर्धं लक्षणमित्युक्त्वा किमेषां भेदकमित्यत्राSSह-इमानीति ॥५१४॥ अ० दी०-तदेवं यतो वा इत्यादिवाक्यस्य लक्षणपरत्वे न कोऽपि दोष इति निर्णातमिदानी लक्षणमिदं स्वलक्ष्यं लक्षयतस्वासंबद्धत्वेन तल्क्षयेत्स्वसंबन्धितेन वा नाऽडद्योऽतिप्रसङ्गान द्वितीयोऽसङ्गस्य ब्रह्मणो लक्षणसंबन्धाभावादतः करथ लक्ष्यल- क्षणसंभव इति शङ्कायां वास्तवसंबन्धाभावेऽपि. कथंचिदस्ति संबन्ध इति. स्वसंबन्धि तयैव लक्ष्यं लक्षयेदिदं लक्षणमिति दर्शयेतुं लक्षणभेदं व्युत्पादयति-लक्ष्यस्येति। इह लोके व्यवहारभूमौ स्वलक्षणं स्वरूपलक्षणममुष्य स्वरूपस्य विशेषणं विशेषलक्षणमु- पलक्षणं कदाचित्कथंचित्संगतिमात्रेण लक्षणमिति लक्ष्यस्य लक्षणमिह त्रिविधं प्रसिद्धमिति संबन्धः । किमेषामसंकीण लक्षणमुदाहरणारूढमिति वीक्षायामाह-इमानीति। पृथ- गेव तु लक्षणेन व्यावर्णयामीत्यन्वयः । लक्षणभेदेनेत्यर्थ: ॥५१४॥ सु० टी०-सामान्यलक्षणं विना विभागासंभवात्तदाह- लक्ष्यार्थनिष्ठमुपलब्धमतोऽन्यतोऽर्था- न्निःशेषतो यदतिरिच्य तदर्थवस्तु। लक्ष्यं निवेदयति लक्षणमेतदाहुः सामान्यलक्षणमिदं त्रिषु लक्षणेषु ॥५१५॥ लक्ष्यार्थेति। लक्ष्येतरसमानासमानजातीयव्यावृत्तलक्ष्यनिवेदकं लक्षा णमित्यर्थः। लक्ष्यार्थनिष्ठमिति संभवप्रदर्शनार्थम्।।५१५॥ अ० टी०-लक्षणविभागकथनं प्रतिज्ञातं तस्य विभागस्य धर्मिसामान्यकथनमन्त- रेण सम्यक्कथनाश क्तेर्लक्षणसामान्यलक्षणं तावदाह-लक्ष्यार्थेति। यद्धर्मरूपं नस्तु तदर्थवस्तु लक्ष्यं निवेदयत्येतह्क्षणमाहुरित्यन्वयः । स चासावर्थक्चेति तदर्थस्तदेव वस्तु परमार्थमिति तदर्थवस्त्विति विग्रहः । कि कृत्वाSतोऽन्यतोऽर्थानिःशेषतोऽतिरिच्य। अतो
सर्वस्मादतिरिच्य व्यावत्येत्यर्थः। लक्ष्यार्थनिष्ठमुपलब्धमिति च मध्ये निर्दिष्ट्यच्छन्दार्थस्प
एतच्छक्काव्यावृत्तय इर्द विशेषणद्वयम्। मद्यस्य निःशेषतः सजातीयविजातीयव्यावर्तकं
Page 414
संक्षेपशारीरकम्। ४०७
सदन्निष्ठमुपलभ्यते तत्तस्य लक्षणमित्युक्तं भषति। एतत्कथनोपयोगमाह-सामान्यल- /क्षणमिति। त्रिष्ु वक्ष्यमाप्पेष्वित्यर्थः ॥ ५१५ ॥ सु० टी० -- स्वरूपलक्षणं लक्षयति -. लक्ष्यस्वरूपमपि सयदमुष्य साक्षा- दर्थान्तराद्रवति भेदकमेतदाहुः। अस्य स्वलक्षणतयैव तु लक्षणं खं छिद्ं जलं द्रवमितीदृशमत्र लोके ॥५१६ ॥ लक्ष्येति। अन्यव्यावर्तकं निरुपाधिकं रूपमित्यर्थः । धर्मस्येव स्वरू- पस्यापि विलक्षणत्वेन व्यावर्तकत्वसंभवादाद्यं जलादेः स्वच्छत्वादौ स्फटिकादिसाधारणेSतिव्याप्तिवारकं द्वितीयं तटस्थलक्षणे तृतीयं विशे- षणे। उदाहरणमाह-खं छिद्रभिति। न च छिद्रत्वं धर्म आकाशाति-
अ० टी०-तत्र स्वरूपलक्षणस्य लक्षणमुद्देशक्रममनुरुध्याSह-लक्ष्यस्येति। अत्र स्वरूपग्रहणेन विशेषलक्षणादौ प्रसङ्गो व्यावर्त्यत एवमुत्तरत्रापि विशेषणकृत्यमनुसं- धेयम्। अमुष्य लक्ष्यस्यार्थान्तराद्यत्साक्षाद्वेदकं भवत्येतस्य लक्ष्यस्य स्वलक्षणतयैव स्वरूप- भूततयैव लक्षणमाहुर्लक्षणबिद इति योजना। अस्योदाहरणमाह-खं छिद्रमि- त्यादि॥५१६॥ सु. टी०-किं विशेषणलक्षणमिति तदाह- स्वानुरक्तमतिजन्मकारणं यत्पुनर्भजति लक्ष्यवस्तुनि। तद्विशेषणतयाऽस्य लक्षणं केसरादिकमिवाश्ववस्तुनः ॥५१७॥ स्वानुरक्तेति । लक्ष्यव्याप्त्या स्वानुरक्तधीकारणत्वे सत्यन्यव्यावर्त- कत्वं व्याप्त्येति क्षितिविशेषणसुगन्धित्वादौ स्वानुरक्तेति तटस्थलक्षणे व्वशवर्तके त्यु द्देश्यविशेषणेऽतिव्याप्तिवारणाय ॥ ५१७॥ अ० टी०-विशेषलक्षणस्य लक्षणमाह-स्वानुरक्तेति। सानुरक्ततया नित्यस्व- संबदतया लक्ष्यस्वरूपावियुक्ततयेति यावत्। यत्पुनर्लक्षणं वस्तुनि स्वानुरक्तमतिजन्मनि हेतुतां भजति तदस्य लक्ष्यस्य विशेषणतया लक्षणमिति योजना। उदाहरणं-केसरा- विकमिति। आदिपदं शोणत्वादिसंग्रहार्थम् ॥ ५१७॥
१ ग. घ. भवति।
Page 415
टीकाटयसमेत-
सु०टी०-उपलक्षणलक्षणमाह- स्वानुरक्तमतिजन्महेतुतां लक्ष्यवस्तुनि निरस्य लक्षणम्। अस्वरूपमपि तस्य यद्भवे- त्काकवत्तदुपलक्षणं विद्ुः ॥५१८॥ स्वेति। लक्ष्यगोचरस्वानुरक्तधीहे तुत्वशुन्यमस्वरूपं स्वेतराखिलध्यावृ त्तलक्ष्यनिवेदकमुपलक्षणमाद्यं विशेषणे द्वितीयं स्वरूपलक्षणे तृतीयं लक्षणाभासेऽतिव्याप्तिवारकम् ॥ ९१८॥ अ० टी०-उपलक्षणस्य लक्षणमाहोत्तरपद्येन-स्वानुरक्तेति। लक्ष्यवस्तुनि स्वानुरक्तमतिजन्महेतुतां निरस्य तज्वयतिरेकेणेत्यर्थः । एतेन विशेषलक्षणव्यावृत्तिः सिद्धा। अस्वरूपमपीति स्वरूपलक्षणव्यावृत्तिः । तस्य लक्ष्यस्यैधंविधं यल्लक्षणं भबेदुपलक्षणं विदुरिति योजना । उदाहरणमाह-काकवढिति। यथा काकनिलयं यद्ृश्यते तद्दे- वदत्तगृहमित्यत्रोपलक्ष्यस्य गृहस्यास्वरूपभूतस्तत्र विशेषणतया न तु प्रविष्टः काको देव- दत्तगृहं लक्षयत्येवंविधमुपलक्षणमित्यर्थः ॥ ५१८॥ सु० टी०-नन्वीदृशस्योपलक्षणत्वेऽपि प्रकृते किमायातमिति तत्राSSह- विश्वोन्भवस्थितिलयप्कतित्वमस्य चिद्दस्तुनो यदसहायपरिग्रहस्य। तद्वूर्णनीयमुपलक्षणमेव कस्मा- दूह्नेति लक्ष्यपदशक्त्यविरोधहेतोः ॥ ५१९॥ विश्वेति। अस्य चिद्धस्तुनोSकृतस्वव्यतिरिक्तकर्तृपरिग्रहस्य यज्जगत्प्र. कृतित्वं लक्षणं तदपि काकादिवदुपलक्षणमेवेति नास्य ब्रह्मणा सह वास्तवसंबन्धापेक्षेत्यर्थः । विशेषणमेव तत्कुतो नेति चेत्तत्राSऽह- ब्रह्मेति। प्रधानभूतलक्ष्यत्रह्मैपदार्थविरोधान्न तत्तथेत्यर्थः ॥ ५१९॥. अ० टी०-एवं लक्षणभेदे स्थिते प्रकृते वाक्य उपलक्षणार्थतमेवोते प्रकतिमुपपा- दयलँक्षणान्तरपरत्वमस्य प्रतिषेधति-विश्वोन्भ्वेति। अस्य चिद्वस्तुनोऽसहा-
१क.' हेतुः । २ क. ग 'नोऽकर्वृस्त्र° । ३ क. ह्वण एवार्थ।
Page 416
संक्षेपशारीरकम् । ४०९
पपरिग्रहस्याद्वितीयस्य लक्ष्यभूतस्य यद्विश्वोद्धवस्थितिलयप्रकृतित्वं लक्षेणं तदुपलक्षणमेव वर्णनीयं न लक्षणान्तरमिति योजना । प्रतिज्ञायां हेतुमाह-कस्मादित्यादिना। ब्रह्मेति यल्लक्ष्यपदं तस्य या शक्तिस्तस्या अविरोधसिद्धयर्थ पदशक्तेरसंकोचार्थमित्यर्थः
सु० टी०-कुतस्तद्विरोध इति चेत्तत्ाऽडह- विश्वोद्धवस्थितिलयपक्वतित्वरूप- मेकाकिनो यदिह लक्षणमुच्यमानम्। --- तद्रह्लणो यदि विशेषणरूपभिष्टं बह्मेति लक्ष्यविषयस्य पदस्य भङ्ग:॥५२०॥ षिश्वेति। यदिदं लक्षणमुच्यमानं हृश्यते तच्चेद्विशेषणं स्यात्तस्य घ्ह्मधर्मत्वेन सत्यत्वाद्बृहत्यर्थस्यापरिच्छेदस्य मङ्गांलक्ष्यवाचिब्ह्मपदृश- क्तिसंकोच: स्यादित्यर्थः । उपलक्षणत्वे त्वाविद्यकं तदिति नोक्त- दोष:।। ५२० ॥ अ० टी०-उक्लक्षणस्य विशेषलक्षणत्वे को विरोध इस्युक्त इत्यत भाह- विश्वोद्भ्वेति पद्यान्तरेण । एकाकिनोऽखण्डाद्वयस्येत्यर्थः। जगत्कारणत्वस्यापि लक्ष्यविशेषणत्वे बृहत्यर्थस्याद्वयत्वस्य भङ्गाल्लक्ष्यवाचित्रह्मपदशक्तिसंकोचप्रसङ्ग इत्यर्थः । तत्संकोचे च वाक्येनानेनाखण्डं ब्रह्म लक्षितं न स्यात्तस्य चालक्षणे 'अधीहि भगवो ब्रह्म'[तै० ३ । १ । १] इत्युपक्रमविरोध इति भावः ॥ ५२० ॥ सु• टी०-ननु स्थितेऽपि लक्ष्पस्य काल्पनिकत्वात्तद्वाचिपदमङ्ग- स्तुल्य इति लक्ष्यलक्षणपदयोः किं मुख्यं किममुख्यमिति संशये लक्ष. णमेव पूर्वचोदितत्वेना संजातविरोधित्वान्मुख्यमस्त्विति चेन्नेत्याह लक्ष्यार्थवाचि पदमत्र हि लक्षणार्थे
चह्ेति लक्ष्यविषयं च पदं समर्थं भूमानमेव वदितुं न तु मर्त्यमल्पम् ॥५२१ ॥
१क, ग, दगदत् लक्ष्य।
Page 417
४१० 'टीकाद्वयसमेतं-
लक्ष्येति। अत्र हि वाक्ये पश्चादुपात्तमपि लक्ष्यपद्मेव प्रधानं तदर्थस्य जिज्ञास्यत्वात्। लक्षणं तु तद्ङ्गतया गुणभूतमिति लक्ष्यानुरोधेनैव नेयमङ्गगुणविरोधे व तांदर्थ्यादिति न्यायादित्यर्थः । नन्वीषन्वेदाङ्गी- . कारे कथं ब्रह्मपदमङ्ग इति तत्राSSह-ब्रह्मेति। ब्रह्मपदं हि बृहिधातो- वर्युत्पन्नं भूमानमेव 'यत्र नान्यत्पश्यति' [छा० ७।२४ । १.] इत्यादिना लक्षितं वक्तुं समर्थ न तु यदल्पं तन्म्त्यमित्यादिना लक्षितं परिच्छिन्नमित्यर्थः ॥५२१॥ अ० टी०-ननूपलक्षणत्वपक्षेऽपि लक्षणस्य काल्पनिकत्वात्तद्वाचिपदभङ्गप्रसङ्गस्तुल्यस्तत्र किं वरमिति विशेषनियामकं वाच्यमित्यत आह-लक्ष्यार्थवाचीति। अत्र हि लक्षणार्थें वाक्ये लक्ष्यार्थवाचि पदं प्रधानमुद्देश्यविषयत्वादितरल्लक्षणवाचि सर्व शब्दजातं गुणभूतं तच्छेषभूतार्थविषयत्वादित्याहुस्तद्विद इत्यर्थः । गुणानुरोधेन प्रधानभङ्गो दोषायाप्रधानानुरो- धेन गुणभङ्गो न दोषाय प्रत्युत गुणायैव प्रधानार्थत्वाद्गणस्येत्यभिप्रायः। ननु ब्रह्मपदस्य लक्ष्यार्थतया प्रधानत्वेऽपीषद्वेदाङ्गीकारेण लक्षणधर्मकब्रह्मविषयकत्वाभ्युपगमे न विरोध इति चेन्मैवं पदस्वारस्यस्याकस्मादेव भङ्गप्रसङ्गादित्यभिप्रेत्याSSह-ब्रह्मेतीति। न च ब्रह्मपदस्येषदपि भेदमादाय वृत्तिसंकोचो युक्तो भूमलक्षणवाक्ये सर्वभेदरहितं ब्रह्म भूमेति प्रतिष्ठापितत्वात्तेन विरोधापत्तेरिति सूचयति-मूमानमिति। तथा च श्रुतिर्भूमलक्ष- णपरा पठ्यते 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा '[ छा० ७।२४ । १ ] इति। सर्वभेदरहितमविषयभूतं वस्तु भूमेत्यभिधाय तद्द्रढिम्ने तद्विपरी- तस्य परिच्छिन्नस्याश्रह्मणः स्वरूपमाह श्रुतिः 'अथ यत्रान्यत्पश्यत्यन्यच्छणोत्यन्यद्वि- जानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्' [छा० ७।२४।१] इति विशेषलक्षणपरत्वनिराकरणेनैवास्य स्वरूपलक्षणार्थत्वमपि निराकृतं वेदितव्यं यस्य धर्मत्वमपि नास्ति न नितरां तस्य स्वरूपमपीति ॥५२१ ॥ सृ० टी०-तस्मात्प्रधानानुरोधेन लक्षणमुपलक्षणत्वेन नेवं 'गुणे. त्वन्यायकल्पना' इतिन्यायादित्याह-
युक्तं ग्रहीतुमुपलक्षणगोचरत्वम्। ब्रह्मेति चैतदुपलक्ष्य समर्पणार्थ- मेवं समञ्जसमिदं पदजातमस्मिन्॥ ५२२ ॥ तस्मादिति । ५२२ ॥
Page 418
संक्षेपशारीरकम्। ४११
अ० टी०-उपपादितमर्थमुपसंहरति-तस्मादिति। प्रधानपदभङ्गभयाङ्वह्न- पदस्वारस्यभङ्गभयाद्गुणानां लक्षणार्थानां पदानामुफ्लक्षणगोचरत्वं ग्रहीतुं युक्तमिति योजना। ब्रह्मेति चैतत्पदमुपलक्ष्यब्रह्मवस्तुसमर्पणार्थमिति च ग्रहीतुं युक्तमिति पूर्वेणान्वयः । एवमुक्तप्रकारेणास्मिन्वाक्य इदं पदजातं विभागेनान्वितार्थं सत्समञ्जसमाकाङक्षितार्थ- समर्पकंतयेत्यर्थः ॥५२२ ॥ सु० टी०-ननु यदि लक्षणं न ब्ह्मणः स्वरूपं तद्धर्मों वा तर्ह किमर्थमिद्मित्याशङक्य प्रागुक्तमेव प्रयोजनं स्मारयति- लक्ष्यस्वरूपकथनाय न लक्षणानि नाप्यस्य वाचकामिदं पदमित्यमुष्मै। व्यावृत्तमेतदखिलादितरार्थजाता- दित्येतदेव वदितुं ननु लक्षणानि ॥ ५२३ ॥ लक्ष्येति। न हि.तटस्थलक्षणं (स्वरूपकथनाय। न हि यः पर्थक्के शेते स राजेत्युक्ते पर्यङ्कशायित्वमपि राज्ञः) स्वरूपं भवत्येवं जगत्कारण- त्वमपीत्यर्थः । नापीति । तस्य लक्ष्यपदाप्रवृत्तिनिमित्तत्वादित्वर्थः । अमुष्मे प्रयोजनायेति शेष: ॥५२३॥ अ० टी० -- तदेवं 'यतो वै' [तै० ३ । १ ।: १ ] इत्यादिवाक्यस्य लक्षणप- रत्वं निर्धारितं लक्षणं चैतदुपलक्षणमेवति च तत्रेदं लक्षणं किमर्थमुपादीयत इति वीक्षायां वस्तुस्वरूपज्ञप्त्यर्थमिति केचिन्मन्यन्ते. मानान्तरैरज्ञातस्वरूपं ब्रह्म लक्षणंवाक्यैर्हि ज्ञाप्यत इत्येतदेव लक्षणकृत्यमिति तेषामभिप्रायः । अन्ये तु. श्रुतिः स्वयमेव सत्यज्ञानादिकं वस्तु, प्रतिपाद्य यदेवंविधं वस्तु तत्तत्पदस्यार्थ इति बक्त्तीति संज्ञासंजञिसंबन्ध एव लक्षणकृत्यं नान्य- दित्याड्ुस्तदुभयं दूषयन्स्वमतं लक्ष्यस्येतरेभ्यो व्यावृत्तिरेव लक्षणप्रयोजनमित्युपपादयति- लक्ष्य स्वरूपकथनायेति। सजातीयविजातीयव्यावृत्तिरेव, लक्षणकृत्यं नाज्ञातवस्तुस्वरूप ज्ञप्तिरिति ॥ ५२३ ॥।
द्धयर्थं तृदिति चेन लक्ष्यलक्षणयोर्मानान्तरसिद्धत्वादित्याह- लक्ष्यस्वरूपमुपलक्ष्य नदेकनिष्वं दष्टवा च लक्षणमनेन तदेव लक्ष्यम्।
- धनुश्विह्रान्तर्गतग्रन्थः क. पुस्तके नास्ति।
Page 419
४१२ टीकाद्वय समेतं-
व्यावर्त्य बोधयितुमुत्सहते जनोडयं तन्वान्तरादिति यतः प्रतिपन्नमेतत् । ५२४॥. लक्ष्येति। इतरव्यावर्तकत्वेनैव-तत्प्रसिदधेर्नैव मित्यर्थः॥५२४॥ अ०टी०-कुतो निर्णय इति चेत्तत्राऽऽह-लक्ष्यस्वरूपमुपलभ्पेति। अयमर्थ :- लक्षणं हि लक्ष्यगततयाऽवगतं सत्तलक्षयेन्नानवगतमिति सर्वेषामनुभवमार्गागतम्। तथा च यन्निष्ठं तल्लक्षणमवगम्यते तदपि लक्ष्यं नात्यन्तमज्ञातं तथा सति लक्ष्यसंबद्धतया लक्षणप्रतीत्य संभवात्कस्थेदं लक्षणं स्यादिति तरमालक्ष्यस्वरूपं पदसामर्थ्याद्वा प्रमाणान्तराद्वोपलम्यं लक्षणं च तदेकनिष्ठं लक्ष्यस्यासाधारणधर्मरूपं दृष्टाऽवगम्यानेन लक्षणेन तदेव लक्ष्यं तत्त्वान्तरादलक्ष्यभूतादर्थान्तराख्व्यावर्त्य पृथगुद्गृत्य परं बोधयितुमयं जन उत्सहते नान्यथेति यत एतव्तिपन्नं सर्वजनप्रसिद्धमतो नाज्ञातज्ञापनं लक्षणकृत्यमित्यक्षरार्थः ॥५२४॥ सु० टी०-अत एव पृथिव्या: स्वरूपं तत्पद्वाच्यत्वं च जानन्त एव गन्धवत्वादिना जलाविव्यावृत्तिमात्रं वादिन: साधयन्तीत्याह- संज्ञासंजञिसमन्वयावगतये नेष्टं क्वचिल्क्षणं व्यावृत्तिप्रतिपत्तिमात्रजनकं लक्ष्ये भवेदन्यतः । लक्ष्यं लक्षणवर्त्मना हि जगति व्यावर्तयन्तोऽन्यत- स्ततल्लक्षण मादरेण महता संगृह्णते वादिनः ॥५२५॥ संज्ञेति ॥५२५॥ अ० टी०-अज्ञातवस्तुज्ञापनार्थं लक्षणमिति मतं निराकृत्य संज्ञासंजञिसंबन्धप्रती- त्यर्थ लक्षणमिति मतं निराकरोति-संज्ञासंज्ञीति। कचिदिति गोसदशो गवय इत्या दावपि लक्षणे गवयादिसंज्ञायाः संजञिना सह संबन्धप्रतीत्यर्थता नावगम्यते कि त्वन्यव्या- वृत्त्यर्थतैव। यतो व्यावृत्ततया प्रतिपन्नस्यैकसंज्ञासंज्ञिसंबन्धावगतिरित्यतो न लक्षणं कापि यथासंबन्धसिद्धिफलमिष्टमित्यर्थ: । सर्वथाऽपि लक्षणकथनमन्यतो ्यावृतिपरतिपति मा तर र्थमिति परिशेषात्सिद्धमित्याह-व्यावृत्तीति। सजातीयविजातीयव्यावृत्तिरेव लक्षण- कृत्यमित्येतदेव सर्ववादिनामधि संमतमित्यतोऽयं सर्वतन्त्रसिद्धान्त इत्यभिप्रेसाSSह- लक्ष्यं लक्षणवर्त्मनेति ॥५२५॥ सु० टी०-उक्तन्यायं प्रकृत उपसंहरति- तस्माह्वह्रणि वाच्यवाचकयुजासिद्धयै श्रुतिर्नाश्यधा- ज्ज़न्मायस्य समीक्षितस्य जगतो यह्ूह्मणो लक्षणम्।
Page 420
संक्षेपशारीरकम्। ४१३
नापीदं स्वकरूपबोधनपरं संकीर्तितं ब्रह्मणः किंत्वब्रह्मपदार्थतोऽस्य सकलाद््यावृत्ततासिद्धये ॥५२६ ॥ तस्मादिति। अस्येत्यस्यार्थः समीक्षितस्येति। जन्मादि जन्मादिहेतु- त्वम् ॥ ५२६॥ अ० टी०-तस्मादस्मन्मतं निर्दुष्टं सिद्धमित्युपसंहरति-तस्माद्गह्मणीति । वाच्यवाचकयुजासिद्धया इति। संज्ञासंज्ञियोगसिध्धर्थमित्यर्थः । अस्येत्यस्य व्याख्यानं- समीक्षितस्येति। प्रत्यक्षादिप्रमाणसंनिधापितस्येत्यर्थः । जगतो जन्मादि यल्लक्षण- मिति संबन्धः । ब्रह्मणः स्वकरूपेति संबन्धः । अज्ञातब्रह्मस्वरूपबोधार्थमपि नेदं लक्षण- " मित्यर्थः । सुगममन्यत् ॥ ५२६ ॥ सु० टी०-ननु सजातीय विजातीयव्यावृत्तिर्लक्षणार्थो न चाद्विती- यस्य ब्रह्मणस्तद्स्तीति किमस्य लक्षणेनेति तत्राSSह- परिच्छिन्नवस्तुव्यवच्छेदसिद्धचै जगाद श्रुतिर्लक्षणं ब्रह्मणस्तत्। परिच्छिन्नता प्रापिता पूर्वपक्षे परब्रह्मणस्तन्निषेधार्थमेतत् ॥ ५२७॥ परिच्छिन्नेति। वास्तवस्य तस्याभावेऽप्यविद्याकल्पितपरिच्छिन्नवस्तु- व्यवच्छेदार्थमेव तदित्यर्थः । नन्वेकमेवेति प्रतिज्ञया ब्ह्मपदसाम- थर्याद्वा तत्सिद्धेः किं लक्षणेनेति चेत्तत्राऽऽह-परिच्छिन्नतेति। प्रधान- परमाण्वादिकारणत्वपूर्वपक्षे ब्रह्मण: परिच्छिन्नता प्राप्तेति तां निषेद्दु- मित्यर्थः । न च नित्यानित्यसंयोगविरोधः श्रुतिवत्तर्काणामनादि: त्वात् ॥ ५२७ ॥ अ० टी०-नन्वद्वैतवादे व्यवच्छेद्याभावात्कथमन्यव्यावृत्त्यर्थ लक्षणमिति चेत् सत्यं परमार्थतो ब्रह्मणोऽन्यस्य सजातीयस्य विजातीयस्य चाभावेऽपि भ्रान्तिकल्पित- मस्ति चेतनाचेतनात्मकं जगत्परिच्छिन्ं ततो व्यवच्छेदार्थं लक्षणकथनमित्याह-परि- च्छिन्नेति। ननु यथोक्ताज्जगतः परिच्छिन्नाद्वह्मणो व्यावृत्तिरपि परिवृढत्वार्थकब्रह्मपद- सामर्थ्यवशात्सिद्धेति कि लक्षणेनेति चेत्तत्राSऽह-परिच्छिन्नतेति। यद्यपि शब्दसा मर्थ्यात्परिवृढ्मपरिच्छिन्ं किंचिद्धह्नेति भवति प्रतीतिस्तथाSपीदं तदिति लोके शास्त्रान्तरेषु
Page 421
४१४ सेकाटयसमेतं-
तन्निषेधार्थमेतल्क्षणमषेक्षितमेवेत्यर्थः। सामान्यतः पदसामर्थ्यदवगतस्य वस्तुनः स्वरूप विशेषसिद्धये लक्षणमर्थवदिति भावः ॥५२७॥ सु० टी०-कुत्र पूर्वपक्षे ब्रह्मण: परिच्छेद्पसंक्तिरिति चेतत्राSSह- कालस्वभावपरमाण्वसुभृत्प्रधान- स्कन्धप्रतीत्यखिलशून्यकथामसङ्गे। जन्मादिसूत्रमवतीर्णमियं श्रुतिश्रव तस्मादिदंपरमिदं द्वितयं प्रवृत्तम्॥५२८॥। कालेति। कालविशेषाच्छमाशुमप्रापे: स एव कारणमिति ज्योति- विद्:। अतिप्रपल्नेनापि मृदादिभ्यो दधि न भवतीति स्वभाव एव हेतु- रिति चार्वाका: । परमाणव इत्यार्हतवैशेषिकाद्य: । असुमृत्समट्टि- जींव इति नैरुक्ता: । असुमृती व्यट्टिजीवा एव कर्मद्वारेति मीमांसका:। प्रधानमिति सांख्याः । रूपं संज्ञा संस्कारो वेदना विज्ञानमिति पञ्च स्कन्धा इति सौत्रान्तिकवैभाषिकौ। विज्ञानमिति योमाचारः। अखिलं गून्पमिति माध्यमिकः । एषां वादात्मिकार्यां प्रसक्ता्यां जन्मादिसूत्र यत इत्यादिका 'सदेव ' [छा० ६ । २ । १ ] इत्यादिका श्रुतिश्रा- वतीर्णेत्यर्थः । तत्र हि सदेक चेतनं प्रकृतिश्र ब्रह्मेत्युक्तं तत्र काल- स्व मावपरमाणुप्रधानानामचेतनत्वाच्छन्यस्यासत्वाजीव विज्ञानस्कन्धा- नामनेकत्वाद्धिरण्यगर्भस्य विकृतित्वान्निरासः । लस्मादिति 1. इछंपरं कालाविव्यावृत्तिपरमिस्यर्थः ।। ५२८॥ अ० टी०-कि तत्थरिच्छिन्रं ब्रह्म पूर्वपक्षे प्रतिपन्नमिति चेत्तदाह-कालस्वमा वेति। जगतः कारणं काल इति ज्योतिर्विदः स्वभाव इति स्वभाववादिनो नास्तिक- विशेषाश्चार्वाकादयः, परमाणव इति वैशेषिकाः, असुभृज्जीवः कारणमिति हैरण्यगर्भाः, प्रधानमिति सांख्याः, स्कन्ध इति स्कन्धवादिनो बौद्धाः, प्रतीतिरेवेति विज्ञानवादिनोडखि- लशून्यमसदेव कारणमिति माध्यमिकाः, एतेषां कथाप्रसङ्गे वाद्युत्प्रेक्षितकारणविचारप्रसङ्के तन्निरासाय जन्मादिसूत्रमवतीर्णमियं 'यतो वा इमावि' [तै० ३। १। १३ इति- श्रुतिश्चावतीर्णा यस्मात्तस्मादिदं द्वयं सूत्रं श्रतिश्वेदंपरं कारण्मात्रपरं प्रवृत्तम् । अतः परिच्छिनकारणव्युदासेनापरिच्छिनं किमपि कारणं सिध्येत्कालो वा प्रधानं वाऽन्यदेव गा स्वकार्यापेक्षया परिवृढ जगतकारणं श्रुतिसूत्राम्यां निगद्यते न त्रिविधपिष्छेदरहितमद्दय- मखण्डं बस्त्विति, पूर्वमक्षिभिः परिच्छेदः प्रापित इति भावः ।।५२८/
Page 422
संक्षेपशारीरकम्। ४१५
स० टी० -- नन्वधिष्ठात्रधिष्ठेययोरमेदस्वाSSवश्यकत्वान् परिच्छिलस्प व्यवच्छेद इति शङ्कते- अधिष्ठात्रधिष्ठेयभावेन योनि- र्निमित्तं च यत्कारणं जन्मभाजाम्। परिच्छिन्नवाऽस्यापि संभावितैव पतीचोऽस्य भेदे परैरुच्यमाने ॥ ५२९॥ अधिष्ठात्रिति। जन्मभाजामुपादानं चेङ्रह्म तस्य परमाणूनामिवाधिष्ठाता कश्षन वक्तव्य: । तेनास्पास्य चोपादाननिमित्तयोमेदे तार्किकेरुच्यमाने भतीच: परिच्छिन्नता पुनः संभावितेत्यर्थः ।५२९।। अ० टी०-नतु श्रुतिवचनविरोधादित्यादिभिः पद्यैर्लोकत एव सामान्यतोऽनुमानसि- दस्य चेतनकारणत्वस्य तर्कितसंभावितैकत्वस्य विशेषतो निर्णीतत्वाद्वाक्यस्य च समस्तप- रिच्छिन्नार्थव्यावृत्तपरिपूर्ण बह्मलक्षणपरतायाः सिद्धत्वात्कुतः पुनः परिच्छिन्नत्वशङ्केत्याशङ्कय प्रकारान्तरेण परिच्छेदशङ्काप्राप्तिं दर्शयन्नाह-अधिष्ठात्रिति। जन्मभाजां कार्यार्णा योनिरुपादानें निमित्तं च यत्कारणमस्यापि कारणस्याप्यधिष्ठात्रधिष्ठेयभावेन नियम्य- नियामकत्वेनास्य प्रसिद्धस्य कारणात्मनः प्रतीचो जीवात्मनश्च भेदे परैस्तार्किकैरुच्यमाने परिच्छिन्नता संभावितैवेति योजना। अतस्तटस्थेश्वरपरमिदं सूत्रं श्रुतिश्वेति पूर्वपक्षप्राप्तिः रिति भाव: ॥। ५२९॥ सु० टी० -- परिहरति- ततस्तन्निषेधार्थमेत द्वभाषे श्रुतिर्बह त्मिन्नता तस्य कस्मात्। प्रतीचोडपि हि ब्रह्मता नित्यसिद्धा दृशो भेदसिद्धिर्निरालम्बनेति ॥ ५३० ॥ e तत इति। तन्निरासार्थमेव 'यतः' [तै० ३। ११] इत्यादिभुति-
कुत एकेनैथोभयसिद्धेरित्यर्थः । तथाऽपि जीवान्द्ेदः प्रत्यक्ष इति नेत्याह-प्रतीच इति। प्रत्यगपि हि नित्यसिद्धं बह्मैव हयूपत्वाद्दवशक्ष
i श्र० टी० -- यत एवं पूर्वपक्षपात्ति: शन्दमात्रान्न समाधीयतेडती' लक्षणं तत्समा
Page 423
४१६ टीकाठ्यसमेसं-
धानार्थ युक्तमुपपादयितुमित्याह-तत इति। यत एवं पूर्वपक्षशक्का ततो हेतोस्तन्नि- षेघार्थ शङ्कितपरिच्छेदनिषेधार्थमेतद्रहम श्रुतिर्बभाषे लक्षमामासेत्यर्थः । अतस्तस्य प्रती- चस्तद्विन्नता कस्मात्स्यात्कस्मान्न स्याद्विरुद्धवर्माक्रान्त[त]या तयोर्भेदस्यो क्तत्वादित्यत आह- प्रतीचोऽपि हीति। नित्यसिद्धा स्क्भावसिद्धा चिद्रूपत्वविशेषादित्यर्थः। चिद्रूपत्वेपि भेद: कि न स्यादित्यत आह-हश इति। दृशो ज्ञानरूपस्वयंप्रकाशस्वभावस्य भेदसिद्धि- र्भेदप्रतीतिर्निराम्बना विषयशून्या भ्रान्तिरेवेत्यर्थः। उपाधिभेदमन्तरेण स्वरूपभेदानिरूपणा- दित्यर्थः ॥ १३० ॥ सु० टी०-तस्मादिदं लक्षणमेव निमित्तोपदानजीवभेदाशङ्कामु- च्छिनत्ति स्वरूपसिद्धयादिपरत्वस्य निरस्तत्वादित्याह- जगत्कारणत्वं पुनर्यत्र दृष्ट न तल्लक्षणं तत्स्वरूपप्रसिद्धचै। स्वरूपे यतो लक्षणे दृश्यमाने पसिद्धं ततो लक्ष्यवस्तुस्वरूपम् ॥ ५३१॥ जगदिति। लक्षणकाले स्वरूपस्य प्रसिद्धत्वाद्यवच्छेद एव तत्फल- मित्यर्थः।। ५३१॥ अ० टी०-तदेव महावाक्यप्रयुक्तव्रह्मपदेनाव्रयवशक्त्या परिद्ृढवस्तुनि प्रतिपन्ने सति सस्य संकोचकारणाभावेन नित्यशुद्धबुद्धमुक्तस्वभावसर्वज्ञसर्वशक्तितया संभाविते तस्मि न्पुनरपि पूर्वोक्तप्रकारेण परिच्छेदशङ्काप्राप्तौ तद्यवच्छेदार्थ जगत्कारणतलक्षणतेतथं परि- चछेदव्यावृत्तिसिद्धिरित्युपपादितमतो यदुक्तं स्वरूपसिद्धयर्थमिदं ब्रह्मणो लक्षणमुच्यत इति तदसंगतमेवेति सिद्धमित्युपसंहरति-जगत्कारणत्वमिति। यत्र जगत्कारणत्वं लक्षणं दष्ट तल्लक्षणं तत्स्वरूपसिद्धयै न भवति कि त्वन्यव्यावृत्तिसिद्धय इत्यर्थः। कुत इत्यत आह- स्वरूपेति। यतो यस्मात्स्वरूपे लक्ष्यस्वरूपे लक्षणे तन्निष्ठतया दृश्यमाने सत्येव ततो लक्षणालक्ष्यवस्तुस्वरूपं प्रसिद्धं लक्ष्यस्थतया चाप्रसिद्धस्य कचिल्वक्षणत्वादर्शनान्न स्वरूप. सिद्धयर्थत्वं लक्षणस्येत्यर्थः ॥ ५३१॥ सु० टी०-तथाऽप्यमिन्ननिमित्तोपादानत्वस्य मानान्तरासिदधस्वा- त्कथं सिद्धवल्वक्षणत्वेनोक्तिरिति शङ्कते- निमिन्तं च योनिश्व यत्कारणं त- :त्परं ब्रह्म सर्वस्य जन्मादिभाजः ।
Page 424
संक्षेपशारीरकम्।' ४१७
इति स्पष्टमाचष्ट एषा श्रुतिर्नः कथं सिद्धवंल्लक्षणं सिद्धिबाह्यम् ॥५३२ ॥ निमित्तमिति। सर्वस्य यन्निमितं योनिश्र तद्रस्मेति संबन्ध:। सिद्धबाहयं. मानांन्तरासिद्धम् ।। ५३२।। •अ० टी०-ननु जगतः कारणमात्रभनुमानादिसिद्धमनूद्यानेन लक्षणेन तस्य ब्रह्मत्वं विधीयते कि वा भिन्ननिमित्तोपादानरूपं नाऽडद्यस्तस्य लोकदष्ठयनुसारेणैव परिच्छिन्राचेतन- स्वसंभवे तस्मिस्तद्विपरीत ब्रह्मत्वविधानायोगादित्यभिप्रेत्य द्वितीये वस्तुसत्तासिद्धिपरमेत्र वाक्यं स्यान्न लक्षणपरमिति शङ्कते-निमित्तमिति। निमित्तं च योनिरुपादानं चेत्येकं यत्सर्वस्याशेषस्य जन्मादिभाजो जन्मस्थितिलयभाजः कारणं तत्परं ब्रह्मेति नो Sस्मान्प्रत्येवं 'घतो वै' [तै० ३। १ । १ ] इत्यादिश्रुतिः स्पष्टमसंदिग्धं यथा स्यात्तथाSSचष्ठे कथयति। एतादृशस्य कारणस्य लोके प्रसिद्धवभावाज्जगज्जन्मादिनिमित्तोपादानतयाऽपूर्व ब्रह्मैषा श्रुतिः मतिपादयतीत्यर्थः । एवं सति कथमिदं सिद्धिबाह्यं स्वरूपासाधकं सिद्धवल्ल· क्षणं स्यान कथमपीत्यर्थः ।। ५३२ ।। सु० टी०-लक्षणवाक्यस्य स्वशऽनुवादृत्वात्तदंशप्रसिद्धिरवशयं वाच्येत्याह- न खल्वीदृशं कारणं लोकसिद्धं यतोऽनूद तल्लक्षणं तेन लक्ष्यम्। व्यवस्थापयन्ती प्रवुत्तैवमेषा विधन्तेनुवक्तीति चैतद्विरुद्धम् ॥ ५३३॥ न खल्विति। ततश्र कथं तदनुवादेन लक्ष्यव्यवस्थापनाय श्रुतिः प्रवृत्तेत्यर्थः । नन्विदमेव वाक्यं बोधकमनुवादकं च स्थादिति नेत्याह- विधत्त इति। सकृच्छ्रतस्योमयार्थत्वासंभवादित्यर्थः ।। ५३२।। अ० ठी०-एतादृशस्यापि कारणस्य 'एकं चेतनमस्य यत्प्रकृतितामापन्नमुत्प्रेक्ष्यते' इत्यन्र प्रसिद्धमवोचामेति चेत्तत्राऽऽह-न खल्वीदृशमिति। लोकशब्देन प्रत्यक्षा- दिप्रमाणमभभिप्रेयते। जनश्रुतिमात्रमीदृदशं कारणं प्रत्यक्षादिप्रमाणान्यतमेनापि न खलु सिद्धू मित्यर्थः। यद्यप्येकं चेतनमित्यादौ संभावनोक्ता तस्या उत्प्रेक्षामात्रत्वादुत्प्रेक्षायाश्चार्थनियमा भावानत्सिद्धं न सिद्धमेवेति भाव्यं यतः प्रमाणसिद्धेस्तत्कारणलक्षणमनूद तेन लक्षणेन तलक्ष्यं व्यवस्थापयन्त्येषा श्रुतिः प्रवृत्तेति मतं तदीदशं कारणं न खलु कोकसिद्धमिति योजना। मा भूत्तर्हि लोकतः सिद्धिः श्रुतिरेवैषा यत इत्येकवचतपथ्चमीभ्यामेतादृशं कारणं ५३
Page 425
४१८ टीकाट्टयसमेतं-
साधयत्विति चेन्मैवमंस्याः भ्रुतेरनुवादस्वरूपत्वदसुवादविद्यानयारेकेस्मिन्वाक्ये मत्मेतुमन्-
सु० टी०-परिहरति- अनुवददिदमेवं वाक्यमर्था- दुपनयतीदृशकारणं प्रसिद्धम् । अनुवदनमशक्यमन्यथा स्या- दवगतयोचरमेच हीदमिष्टम् ॥ ५३४ ॥ अनुवददिति 1 यदीदशं तब्रह्मेत्येवं सिद्धषदनुवव्दिदमेव थस इति वाक्यप्रसिद्ध स्यानुषादानुपपत्तेरीदशमभिन्न निममित्तो पादान मर्थादोधप- तीत्यर्थः ।। ५३४॥ अ० टी-परिहरति-अनुवद्दिदमिति। इदमेव वाक्यमेकें चेतनं सर्वें सर्व- शक्ति जगतोऽधिष्ठातृ प्रकृतिश्रेति मत्कारणं संभाव्यते तद्लेत्यनुबदतिद्धवन्निर्दिशदर्या- स्सिद्धवननिर्देशसामर्थ्यादिदृशं कारणं प्रसिद्धमुपनयंत्रि विदधाति। अर्थसिद्धिमेवोपपाद- यति-अनुवदनमिति । इदमनुतदनमित्यर्थः । एतद्रुक्तं भबति प्रमिति विनाऽनु- वादायोगादन्यतश्राप्रमिते: मामाण्यभूतया अ्रत्यैतादृशस्य जगत्कारष्वस्य सिद्धवदनुवादादेवेदं ब्रह्म कारणं प्रामाणिकं वान्यदन्यैरप्रेक्षितं प्रधानादीत्यर्थाद्विधिरपि सिध्यतीति ॥१३४।। सु० टी०-तत्र दृष्टान्तमाह- यथा विशिष्टस्य विधानतोऽर्था- द्विशेषणानां घटते विधानम्। स्थितेऽनुवादेऽपि तथेह योज्य- मनूयमानेऽपि जगन्निदाने । ५३५ । यथेति। यथा 'सोमेन यजेत' 'आग्रेयोऽटाकपाल:' इत्याददिविशि- षविध्यन्यथानुपपजयाऽर्थाद्विशेषणानामपि विधिः सिध्यति तथेहाप्यनु- •वाद्सामथर्यादेव ताहक्कारणसिद्धिरित्यर्थ: । अनुवादृत्वमेव' कुत इति चेत्तन्नाSSह-स्थित इति। यच्छव्दादियोगिश्ेनेति शेष: ॥५३५॥ अ० टी०-अनुवादबलादेवार्धाद्विधिसिद्धौ दृष्टान्तमाह-यथा विशिषटस्येति। सोमेन यजेत : इत्यादौ यथा सोमादिविशिष्टस्य यागस्य विधानादर्थाद्विशेषणानां सोमा- दीनामपि विधानं घटते विभिष्टविधौ हि विशेषणमपि विधीयते तस्य चाप्रसिद्धत्वे सिद्ध-
Page 426
संक्षेपशारीरकम्। ४१९
वत्कारेण: विशिष्टविधानायोगाद्विषयस्य दध्यादाविवः वाक्यन्तरप्रापितस्येहाभावाद्यथा विशे- षणविधानमर्थसिद्धमिति: दृष्टान्तभागार्थः । दार्श्टान्तिक्माह-स्थित इति । तथेहापि. वाक्येऽनुवादे स्थिते सत्यनुवादबलादनूद्यमानेऽपि. जगन्निदानेऽर्थाद्विधानं योज्यमित्यर्थः ।' मतो भूतोत्पत्तिस्थितिलया भवन्तिं तद्रह्नति भूतोत्पत्त्यादिहेतुत्वाधारस्य ब्रह्मत्वविधानं, भूतो-
कारंप्पवस्तु सिद्धिरित्यवसीयते। यथा 'सोमेन यजेत.' इत्यत्र. सोमविशिष्टयागविधाने. विधेय- विशेषणस्य सोमस्य कुतश्चित्सिद्धिराक्षिप्यते तद्वत् । यद्यपि दृष्टान्ते, सोमस्य. विशेषणत्वं दारष्टान्तिके जगदुत्पत्यादिहेतुत्वस्योपलक्षणत्वमिति वैषम्यमिति तथाऽपि. सिद्धवन्निर्देशसा- मर्थ्यादर्थस्वरूपसिद्धौ दृष्टान्ते न विरोध इति गमयितव्यम्॥५३५॥ सु० टी०-नन्तनुवादिश्वुतेरेबार्थादृवि ताहक्कारणप्रमितौ व्यापारभे दाद्वाकयभेद इति चेन्नानवादानुपपत्तिकल्पितवाक्पान्तरादेव तत्ममितेर्म-
अथ बाऽनुवादमुपलक्य ततोड- नुपपद्यमानवपुषः प्रमिते: । अपरं निमिन्तमिह कल्प्यमिति प्रवदन्ति केचिदभियुक्ततराः ॥ ५३६ ॥ यथ वेति। अपरं निमितं वाक्यान्तरं कल्प्य न त्विदमेव तत्पभापक- मित्यर्थः ॥ ५३६ ॥ अ०टीबयदा प्रमाणभलया श्रुत्याऽनुवादादेवेदं प्रामाणिकमिति कल्प्यते तदा प्रमाणेन सहैक तत्कल्प्यत इत्यन्यदेवात्र प्रमाणमनुवादबळ्त्कल्पितं स्यान्न व्वनुवादश्रुतेर- र्याद्विघायकत्वकलप्तिरर्थादषि विधौ वाक्यभेदस्यापरिहरणीयत्वादिति. पूर्वापरितोषेणाSSह- अथ वाऽनुवाद्मिति। प्रमिति विनाऽनुपपद्यमानवपुषो Sसंभावितार्थंस्यानुवादमुपलभ्य ततोऽनुवादादुपपादिकायाः प्रमितेरुत्पादकमपरं निभित्तं प्रमाणमिह कल्प्यं न विवदमेव वाक्यं तस्ा: प्रमितिर्निमित्तमिति केचिदभियुक्ततराः प्रवदन्तीति योजना। अत्र तरपः प्रयोगादयमेव पक्षोऽत्र युक्त इति भाव: ॥ ५३६॥ सु.टी०-कथं तहिं विशिष्टविधावर्थाद्विशेषणविधिरुक्त इति नेळ सा.हि गुरोरपव्याख्यैवेत्याह- अपि विशिष्टविधौ वचनान्तसा- दनुपपत्तिबलानुमितादिह।
Page 427
४२० 'टीका द्वुय समेतं-
विधिरशेषविशेषणगोचरो न तु पुनस्तत एव विधानतः ५३७। अपीति। तत्रापि सिद्धवद्विशेषणविशिष्टविध्यनुपपत्तिकल्पितत- पद्विध्यन्तरादेव तस्य तत्तद्विशेषणविशेष्यविषयत्वं न तु स एव विधि- स्तन्त्रेणाSSवृत्त्या वा विशेषणादौ व्याप्रियते विशिष्टपरत्वविरोधाद्वाक्य-
अ० टी०-तहिं विशिष्टविधौ कथमिति चेत्तत्रापीत्थमेव युक्तमित्याह-अपि विशिष्टविधाविति। विशिष्टविधावपीह विशिष्टविधिवाक्ये विशेषणत्वसिद्धवत्कारेण विशिष्टविधानानुपपत्तिबलानुमिताद्वचनान्तरादि शेषणविधायकविष्यादेवाशेष विशेषणगोचरो विधि: कल्प्यते न तु नैव पुनस्तत एव विधानतो विशिष्टविधायकादेय वाक्याद्विशेषण- विधिसिद्धि: कसप्येति योजना। कि तद्विशेषणविधायकं वाक्यान्तरमिहानुषघत्तिबलात्सि- द्धमित्यन्वेषणानैवं सति स्यादिति न शङ्काय। अस्मादेवानुवादबत्यत्तत्सद्वावस्य तत्प्रका- रस्य च निश्चितत्वोपपत्तेस्तथैव प्रकृतवाक्येऽपि प्रमाणान्तरान्वेपणप्रसङ्गानवसर इति दष्टव्यम् ॥ ५३७॥ सु० टी०-नन्वेवमनुवादसाम्थ्यादेव जगत्कारणसिद्धो न स्वरूप- सिद्ध चर्थ लक्षणमित्युक्तविरोध इति नेत्याह- जन्मादिलक्षणमिद जगतो यदुक्तं सड्ूह्मणस्तदिह चिह्नतयोपदिष्टम्। नास्मिन्प्रमाणमपरे पुनरेतदेव ब्रह्मप्रमाणमनुमानभुदीरयन्ति ॥ ५३८ ॥ जन्मादीति। इंद ब्रह्मणशिह्वतया व्यावर्तकतयैवोपदिष्ट न प्रमाणतया मानान्तरसिद्धानुवादित्वादित्यर्थः । अस्तु लक्षणवाक्यमेवानुमानत्वेन ब्ह्मणि प्रमाणमिति तार्किकाशङ्कामनुवद्ति-अपर इति ॥५३८॥ • अ० टी०-तदेवमुक्तप्रकारेणानुवादमुखेनाद्वितीय चेतनकारणसमर्पणसंभवात्तेन लक्ष- णेन ब्रह्मणो महावाक्यगतब्रह्मपदशक्त्या सामान्यतः प्रसिद्धस्य परिच्छिन्नवस्तुव्यवच्छेदेन निरड्कुशमहत्त्वोपेततया लक्षयितुं शक्यत्वाद्यथाश्रुतिलक्षणार्थमेवेदं 'यतो वा. इमानि भूतानि' [तै० ३ । १ । १] इत्यादिजगत्कारणवादिवाक्यं नत्वत्यन्तमप्रसिद्धब्रह्मण प्रमाणकथनार्थमिति सिद्धमिति स्वमतमुपसंहरति-जन्मादीति। यदिदं जगतो जन्मा-
Page 428
संक्षेपशारीरकमू। ४२१
दिलक्षणं जन्मस्थितिलयरूपमुक्तं श्रुत्या तत्सद्रह्मणः सच्छब्दनिर्दिष्टस्य प्रकाशसन्मात्रत- त्वस्य ब्रह्मणश्चिह्वतयोपदिष्टं लक्षणत्वेनैवाSSख्यातं न पुनरस्मिन्व्रह्मणि प्रमाणमिदं वाक्य- मभिगतमित्यर्थः। नास्मिन्प्रमाणमिति निषेवस्य कुतः प्राप्तिरिति तत्राऽह-अपरे पुन- रिति। लक्षणकथनमुखेनापीदं वाक्यं ब्रह्मणि प्रमाणमेवेति युक्तं यतोऽपरे नैयायिकादय एतदेव वाक्य ब्रह्मसद्भावसाधकप्रमाणमनुमानं कार्यलिङ्गमुक्तमित्युदीरयन्त्यतः प्राप्तेः प्रति- षेधः कृत इत्यर्थः ॥ ५३८ ॥ सु० टी०-तेषामभिप्रायं विवृणोति- कार्यानुभानपरतन्त्रमिद हि शास्त्रं शास्त्रस्य नोपकरणं तदितीक्षमाणाः । तद्दुर्घटं न खलु कारणमद्वितीयं चैतन्ययुक्तमिति कार्यवशात्प्रतीमः ॥५३९॥ कार्येति। इदं शास्त्रं न स्वतन्त्रमर्थान्तरशङ्काग्रस्तत्वात्। किं तु कार्या. नुमानसिद्धजगत्कारणानुवाद्कत्वात्तत्परतन्त्रमिति पश्यन्तोऽनुमानतु- ल्यविषयत्वाल्लक्षणवाक्यानामनुमानतया योजनमिच्छन्ति । अस्तु को दोष इति चेत्तत्राऽऽह-तदिति। कार्यलिङ्गकानुमानाद्धि कर्त्रेकत्वमपि न सिध्यति कुत उपादानाभिन्नः सर्वज्ञः । नित्यकृतिस्वीकारे हि तस्य ज्ञानसिद्धिरेव दुर्लभा जन्यकृतिस्त्वशरीरस्य बाधितैव यदर्थ ज्ञानापे- क्षेत्याह-चैतन्येति। कार्येति। कार्यत्वादीनामीशेन कर्त्रा व्याप्त्यग्रहादि- त्यर्थः ।। ५३९॥ अ० टी०-अनुमानवादिनामभिप्रायं प्रकटयति-कार्यानुमानपरतन्त्रमिति। इदं शाखत्रं 'यतो वै' [तै० ३ । १ । १] इत्यादिरूपं कार्यलिङ्गानुमानपरतन्त्रं हि निश्चितमेव तदनुमानं शास्त्रस्य नोपकरणं शास्त्रोक्तेऽर्ये संभावनापनयेन शास्त्रोपकारकं न भवतीतीक्षमाणा एतदनुमानमुदीरयन्तीति पूर्वेणान्वयः। कार्यलिङ्गकानुमानसिद्धेश्वरप्रणीतत- याऽSप्वाक्यत्वाद्धि वेदप्रामाण्यमतो ब्रह्मण वाक्यवृत्तिसंभवेऽपि तस्यानुमानगम्याधिकार्थ- समर्पकत्वाभावादनुमानात्मनैवैवंविधवाक्ययोजनमुचितमिति भावः। एवं युक्तिसिद्धं मतं कस्माद्गवद्भिरपनेष्यत इति चेदसंभवादेवेति तन्मतं दूषयति-तद्दुर्घटमिति। दुर्धदमेव प्रकटयति-न खल्विति। अक्षरार्थस्वतिरोहितः । एतदुक्तं भवति-अस्य वाक्य- स्यानुमानोपन्यासार्थत्वमेव यदाSडश्रीयते तदा यादृशं ब्रह्मेह जगत्कारणतया प्रतिपिपाद- यिषितं तादृशं न सिध्येत्सर्वाचेतनस्वभावविलक्षणं हि ब्रह्मेह कारंणत्वेनोपुलिलक्षयिषितं न
Page 429
४२२ टोकाद्वय समेलं-
हि. कार्यत्वादिलिद्गानां तादृशे व्याप्तिसिद्धिरस्ति: दृष्टान्तभूतस्य ताद्ृस्यासंभवादद्वितीया- खण्डवस्तुनश्चेतनस्यानङगीकारे च. ब्रह्मपदशक्तिरकस्मातसंकुचेतस्मात्सामान्यतः प्रसिद्धस्य जमत्कारण्पस्य सर्वोपादाननिमित्ततया सर्वानुस्यूतसन्मात्रत्वेन. परिपूर्णब्रह्मत्वमन्यतोSप्रसिद्ध लक्षयितुमेवेदं वाक्यमनन्यशेषभूतं प्रवृत्तमिति ॥ ५३९॥ सु० टी०-ननु यथा लिङ्गस्व सर्वज्ञेन सह न व्याप्तिरेवं शब्दस्यापि न तत्र शक्तिरिति तुल्यमिति चेत्तत्ाSSह- वेदान्तवाक्यमिह येने यथा प्रवृत्तं लोकप्रसिद्धपदशक्तिमुपाददानम्। विश्वोद्धवस्थितिलयप्रकतौ निमिन्ते सच्चित्सुखात्मनि परात्मनि नैवमन्यत् । ५४० ॥ वेदान्तेति। लोकसिद्धपद्शकत्यनुसाराद्विलक्षणयाऽपि शब्दस्व तत्र प्रवृत्तिरुपपादिता लिङ्गस्य तु न व्याप्त्या पक्षधर्मतया वा विना सामर्थ्य- मित्यर्थः ॥ ५४० ॥ अ.० टी०-नन्वागमोऽि कथमीद्शे मानान्तरागोचरे कारणे ब्रह्मणि मानं स्यात्तस्यापि मानान्तराधीनव्युत्पत्त्यधी नत्वादर्थबोधनप्रवृत्तेरिति चेन्मैवमागमस्य. ब्रह्मण प्रामाण्यप्रका- रस्य पूर्वमुपपादित्वादिति तदेव स्मारयति-वेदान्तवाक्यमिति। इह ब्रह्मप्पि परमात्म नीति संबन्ध: ।। ५४०॥ सु० टी०-ननु याहशमनुमानात्कारणं सिध्यति तत्परतयैव भ्रुतियों- ज्या तत्सापेक्षत्वात्तस्या इति चेत् श्रुतहान्यादिपसङ्गादित्याह- भङ्वत्वा कथंचिदनुमानवशेन सिद्धे सर्वेश्वरे कणभुगादिभ्िरुच्यमाने। वेदान्तवाक्यमपि योज्यमतोऽनुमाने सापेक्षतोपनिषदां यदि साहसं तत् ॥।५४१॥ भडकवेति। अनुमानलभ्ये सर्वेश्वरे परिच्छिन्ने वेदान्तवाक्यं भङ्वत्ा कर्थंचिद्रौण्यादिनाऽपि योज्यमिति दर्पेणोपनिषदा सापेक्षतोकिरती न्व्वियमात्रसिद्धिपत्यनी कत्वात्साहसमित्यर्थ:।।५४१॥
१ ग. न पथा। २ ग. "मानस्प" L
Page 430
संक्षेपशारीरकम्। ४२३
अ० टी०-सत्यमेतादृशें कारणमनुमानान्न सिध्यत्येव तथाऽनि यादशं तु सिध्यत्य नुमानात्तद्विषयमेव बेदान्तवाक्यसपि योज्यमतोऽलुमानसापेक्षत्वाच्तस्येति कण्पादिदिमतमाश- डक्य श्रुतहान्यश्रुतकल्पनाप्रसङ्गान्मैवमित्याह-मङ्क्त्वेति। अद्वितीये ब्रह्मणि जगतोऽभिन्ननिमित्तोपादाने श्रुतेः प्रवृत्तिस्बारस्यं शब्दसामर्थ्यनिबन्धनं भङ्कतवाऽनुमानवशेन सिद्धे सर्वेश्वरे तटस्थे वेदान्तवाक्यमपि कथंचिद्योज्यमित्यतोऽनुमान उपनिषदां यंदि सापेक्षता कल्प्येत तत्साहसमिति योजना। पुरुषोत्प्रेक्षितानुमानवशादपौरुषेयवेदवाक्यस्य स्वारस्यभङ्गेनानुमानानुगुणत्वकल्पनं प्रामाणिकानां न युक्तमिति भाव: ॥५४१॥
थमत्र तदाभयणं साहसमिति चेत्तत्राSSह- निष्कारणं श्रुतिशिरोवचनस्य भङ्गं ये वर्णयन्ति सहसा स्वमनोरथेन। दीपस्य दावदहनस्य न ते किमर्थं ज्वालां पिबन्ति कथनीयमिदं बहुजैः॥ ५४२॥ निष्कारणमिति 1 सर्वथा यत्र मुख्यार्थानुपपत्तिस्तत्र तथाऽस्तु तां विना तु लौकिकवाक्येष्ववि मुख्यार्थमङ्ग: साहसमेव श्रुतिवाक्यस्य तु माना- न्तरागोचरार्थस्व न्यायानुगतमुख्यार्थसंमवेऽपि सहसा बलेन तात्पर्य- मज्ञात्वाऽपि स्वकल्पितन्यायविरोधानुसंधानमात्रेणोपचरितार्थतं ये वर्ण- यन्ति ते दाषदृहनज्वालामपि कृतकत्वाज्जलवच्छीतलामनुमाय विवेयु- रित्यर्थः।। ५४२सु अ०टी०-ननु सर्वेषां वेदान्तानां न मुख्यार्थलाभः काप्यस्ति लाक्षणिक्या वृत्तेरपि बाहुल्येवोपळम्भादतोSत्रापि केषांचित्पदानामनुमानगुणतया तादृशवृत्त्याश्रयणं न साहस- मित्रि चेन्मैवमतिसाहसत्वादिह तत्कल्पनाया इत्याह-निष्कारणमिति। निगदव्या ख्यातं पद्मम्। सर्वत्रापि मुख्यार्थस्यान्वयासंभवप्रकारप्रयुक्ता लक्षणेति स्थितिरिह च मुख्यार्थसंभव उपपादितो निष्कारणमेव्र मुख्यार्थत्यागोऽतिसाहसमेव विशेषतो वेदवाक्येषु वेदार्थस्य मानान्तरागम्यत्वाद्यथाशब्दमेवाSSश्रयणीयत्वान्मानान्तरागम्ये त्वर्थे तदनुरोधा- दपि स्यात्कचिच्छन्द उपचारवृत्तिरिति भाव: ॥। १४२॥
१ क. क्यस्यानुपा।
Page 431
४२४ टीका टय समेतं-
सु०टी०-अस्त्यत्रापि लक्षणाबीजमन्वयायोग्यत्वमिति कथं निष्का रणत्वमिति शङ्कते- ननु सच्चिदादिवपुषो जगतः
परमात्मनो न हि पदार्थयुजा रहितेह संभवति योग्यतया ॥५४३ ॥ नन्विति। सञ्चिदद्वितीय कूटस्थस्य यच्छब्दार्थस्य पञ्चम्या जगत्प्कृति स्वबोधनमहेतुकमेव तस्योपादानत्वायोग्यतवेन प्रकृतिप्रत्ययार्थयोरन्वया- संभवादित्यर्थः ।। ५४३॥। अ० टी०-नम्वत्रापि मुख्यार्थान्वयासंभवोऽस्ति लक्षणानिमित्तमिति चोदयति- ननु सच्चिदादिवपुष इति। सच्चिदादिवपुषः कूटस्थस्य परमात्मनो जगतः प्रकृतित्व- बोधनमकारणकं संभावनाकारणरहितम्। कुत इत्यत आह-न हीति। योग्यतया रहिता पदार्थयुजा पदार्थयोग इह शब्देजर्ये वा न हि क्वचित्संभवतीति योजना। कार्यो- पादानत्वायोग्ये तत्प्रतिपादकशब्दवृत्तिमुख्यत्वं युक्तमित्यर्थः ॥ ५४३॥ सु० टी०-कथमुपादानत्वायोग्य आत्मेति चेत्तत्ाSऽह- उपादनता सच्चिदानन्दमूर्ते- र्विरुद्धा जडेष्वेव सा दृश्यते हि। विरुद्वैः पदार्थैर्न वाक्यार्थसिद्धि- र्न खल्वग्निनोक्षेदितीहान्वयोऽस्ति ।।५४४॥ उपादानतेति। चेतनोपादानकत्वे कार्यमपि जगच्चेतनं स्यादिति तत्र जाड्य प्रत्यक्षविरोधोऽप्रसिद्धकल्पना चेत्यधिष्ठाता चेतन उपादानं त्वचे- तनमेवोचितमित्यर्थः॥ ५४४॥ ननु काडत्रोपादानयोग्यत्वायोग्यतेति तामाह-उपादानतेति। अचेतनं जगत्प्रति सच्चिदानन्दरूपस्य चेतनस्योपादानता विरुद्धप्रमाणान्तरबाधितेत्यर्थः । तत्र हेतुमाह. जडेष्वंवेति। हि यतो यत्रोपादानत्वं दृष्टं तत्राचेतनत्वमेवोपलव्धमित्यर्थः । अचेतनस्य चेतनोपादानकत्वासंभवफलमाह-विरुद्वैरिति। विरुद्धार्थासंगतावुदाहरणमाह- न खल्विति। तस्मादयोग्यानामन्वयाभावस्य लोकसिद्धत्वाद्धवतां च संप्रतिपन्नत्वाच्चेत- नस्याचेत्नोपादानव्वानिश्चये सति वाक्ये प्रतीयमानमप्युपादानतवं न विवक्षितं कि.तु
Page 432
संक्षेपशारीरकमं। ४२५
कार्योत्पत्यादौ नियतस्याधिष्ठातुरीश्वरस्य सद्भावपरतिपादनानुकलेन लक्षणया गौण्या वृत्या वेदान्तवाक्यं योज्यमित्यभिप्रायः ।५४४॥ सु टी०-परिहरति- उपादानता चेतनस्यापि दष्टा यथा स्वनसर्गे विचित्रे प्रतीचः । यथा चोर्णनाभस्य सूत्रेषु पुंसां यथा केशलोमादिसृष्टी च हष्टा ॥५४५ ॥ उपादानेति। चेतनस्यापि प्रतीच उपादानत्वं स्वमसृष्टी द्ष्टमम्यस्य . तच्नासंभवाद्बिद्यायाश्र द्वारमात्त्वादेवं जागरेऽपीत्यर्थः । तथाहि घढः सन्निति सत्तादात्म्यासुभवो न पराभिमतसत्ताजातिविषयस्तज्जातौ माना- माधात्। न व सदनुगतधीरेव तन्मानं तस्याः सत्संबन्धमात्रविषयतया मृट्घट इतिषद्धर्मिविषयत्वेनाप्युपपन्नत्वेन धर्मासाधकत्वात्। न च घट- निष्ठ्खेन प्रतीते: सा धर्मस्तस्या बाधायोग्यत्वरूपाया घटेऽवृत्तेः। न हि घटस्याबाध्यत्वे मानमस्तीति कालत्रयावाध्यश्रिदात्मैव सर्वत्रोपा- दानतयाऽनुस्यूतः सद्बुद्धिविषयो जाड्यबुद्धिस्त्वविद्याकृतेति द्रश्व्यम । एवं लुताकीटस्य सूत्रे पुसां केशलोमादावुपादानत्वश्रुतेः । न च लूता तन्तोर्निमितं तत्र तन्तोर्लयविरोधात। नापि केशादेर्देह उपादानं मृते दर्शनात् ॥५४५ ॥ अ० टी० -- यदचेतनं कार्य तदचेतनोपादानकं न कापि चेतनोपादानकमिति व्याप्ते- व्यभिचारं वदन्परिहरति-उपादानतेति। प्रतीचः प्रत्यगात्मनो निद्राभिभूतसकल- करणग्रामस्येत्यर्थः । ऊर्णनाभो लताकीटः । अन्यत्प्रसिद्धं दृश्यते ्विति सिद्धान्तस्तत्रैतद्धा व्यकारैः प्रपश्चितमिह संगृहीतमिति द्रष्टव्यम्। न चोर्णनाभपुरुषयोरचेतनभाग एवाचेतनो- पादानं न चेतनभागोऽपीति वाय्यं लोकप्रसिद्धस्यैव दृष्टान्तितत्वालोके चोर्णनाभादौ चेत- नत्व प्रसिद्धेः। न हि घटकुड्यादिवदूर्णनाभपुरुषादिरूपमचेतनं मन्यन्ते लौकिकास्तस्मान्न काचिदिहानुपपत्तिरिति भाष: ॥ ५४५ ॥ सु० टी०-परेषामपि चेतनोपादानत्वं प्रसिदधमित्याह- बुद्धयादिकार्येष्वपि चेतनोडयं भवेदुपादानमितीष्यते च।
१ क. म. न्धस्य घ नि° । २ क ग ल चेतनध।
Page 433
४२६ र्टीकाछूपसमेतं-
आत्मा गुणी ते च गुणा: प्रसिद्धा गुणी गुणानां प्रक्ृतिश्र सिद्धा ॥ ५४६ । बुष्यादीति। बुद्धिसुखादिषु ज्ञानशक्त्याधार आत्मोपादानमिति तार्कि- कैरिष्यते गुणगुणिमावाभ्युपगमादित्यर्थः ।। ५४६॥ अ० टी०-लोकदृष्टया व्याप्तेर्व्यभिचारमुक्त्वा वैशेषिकादिदृष्टयाऽप्याह-बुद्धया- दीति। इष्यते च वैशेषिकादिभिरिति शेषः । एतदेव स्पष्टयति-आत्मा गुणीति। आत्मा बुद्ध्यादिगुणोपादानं गुणत्वात्पटादिवदित्यर्थः ॥ ५४६ ॥ सु० टी०-ततश्च श्रेतनोपादानानुवादो युक्त इत्युपसंहरति- आकाङक्षादिविद्यते योग्यतान्ता यस्मादस्मिन्नागमे जायमाने। सामग्री या वैदिकैरस्य दष्टा तस्मायुक्त योनिता चेतनस्य ॥ ५४७॥ आकाड्क्षेति। अस्मिंश्रेतने विषय आगमसंबन्धिनि ज्ञाने जायमानेऽ स्य यत इतिवाक्यस्याSडकाङक्षादिरूप सामग्री वैदिकैर्द्षा यस्मा- द्विद्यते तस्माद्योनिता तस्य युक्त्तेत्यन्वयः ॥ ५४७ ॥ अ० टी० -- एतौ च चोदपरिहारौ यद्यप्यविरोधाध्यायसंगतौ तथाऽपीह जगत्कारण- वादिवाक्यगतपदानामन्वययोग्यतासिद्ध्यर्थमानीतावतो योग्यतायाः सद्भावाच्चेतनोपादानक- त्वमचेतनस्य वाक्यादवगन्तुं शक्यमित्यवान्तरप्रकृतमुपसंहरति-आकाङ्क्षादीति। आदिपदात्संनिधिर्गृह्यते। यस्मादस्मिन्ब्रह्मण्यागमे वेदान्तवाक्ये बोधकतया जायमानेडभि- व्यज्यमानेडस्मिन्नागम इति सामानाधिकरण्यं वाऽस्याऽडगमस्य या सामग्री वैदिकैर्दष्टा साऽडकाडक्षादिर्योग्यतान्ता विद्यत इति योजना। शब्दस्य स्त्रार्थमुख्यत्वे सिद्धे फलितमाह- तस्माद्युक्ेति। योनितोपादानता । यद्वाऽस्मिन्यत इत्याद्यागमे या सामग्री वैदिकैर्षा साऽडकाड्क्षादिर्योग्यतान्ता जायमाने जनिमद्विषये विद्यते यत्प्रकृतित्वं ब्रह्मणः प्रतिपाद्यत इति योजना। शेष समानम्। अथवा शब्दस्यार्थबोधने याऽडकाड्क्षादिरूपा सामग्री वैदिकैर्दष्टा साडस्मिन्नागमे जायमाने विषये विद्यत इति योजना। सर्वथाऽपि योग्यार्थसं- बन्धोऽस्मिन्विद्यत इत्यर्थ: ॥ ५४७॥
१ ग. ममाजाय।
Page 434
संक्षेपशारीरकम्। .४२७
सु० टी०-तस्माज्जिज्ञास्यत्वेनोक्तस्य ब्रह्मणो लक्षणार्थमेव यतः हत्यादि न त्वनुमानार्थमित्याह- तस्मादेतल्लक्षणं चिह्हमाहु- नैतत्तस्मिन्व्रह्मणि स्यात्म्रमाणमू। आम्नायस्य स्वप्रधानत्वहेता- लिंङ्गस्यास्मिञ्छेषभावाच नित्यम् ॥५४८॥ तस्मादिति। न प्रमाणमनुमानात्मकमित्यर्थः । श्रुतिः संदिग्धार्थत्वा- दनुमानसापेक्षेति चेत्तत्राऽऽह-आम्नायस्येति । श्रुतिरपौरुषेयत्वात्स्वतः प्रमाणं कार्यलिङ्गं तु तत्र तर्कमात्रमित्यर्थः ॥ ५४८॥ अ० टी०-तस्मान्मुमुक्षेर्जिज्ञास्यब्रह्मलक्षणार्थमेव यतो वा इत्यादिवाक्यं नानुमानों- पन्यासार्थमिति सिद्धमिति परमप्रकृतमुपसंहरति-तस्मादिति। एतज्जगज्जन्मादिहे तुल्वं ब्रह्मणो लक्षणमाहुवैदिका इति योज्यम्। लक्षणशब्दस्य क्वित्प्रमाणेऽपि प्रयोगदर्शनात्प्र- माणतेह मा भूदित्यर्थ चिह्नमित्युक्तम्। एतद्वाक्यं तस्मिञ्जगत्कारणे ब्रह्मणि प्रमाणमनुमान- रूपं न स्यान्नैतदनुमानविधया ब्रह्मणि प्रमाणमित्यर्थः । कुत इत्यत आह-आम्राय- स्येति। स्वप्रधानत्वमाम्नायस्यापौरुषेयतया मानान्तरानपेक्षत्वं तस्माद्गेतोः । न ह्यपौरुषे- यस्यात्यन्तातीन्द्रियार्थबोधनसामर्थ्यस्याप्यागमस्य पुरुपबुद्ध्युत्प्रेक्षितव्याप्त्यादिसहायमपेक्ष्यानु- मानतया बोधकत्वं वैदिकैरग्युपगन्तुं युक्तमित्यर्थः । न चेश्वरसद्धावानुमानापेक्षत्वाद्वेदस्या- नुमानसिद्धेश्वरप्रणीततया वेदप्रामाण्यस्य लक्षयितत्यत्वात्कथं न सापेक्षत्वमागमस्येति वाच्यमस्याः शङ्काया: पूर्व मीमांसकैरेव प्रथमपादे परिहृतत्वादत्रापि तद्विशेषस्य वक्ष्यमा- णत्वादिति भावः । किंचास्मिन्नाम्नाये लिङ्गस्य कार्यत्वलक्षणस्य नित्यं सदा शेषभावादुत्प- न्यर्थवादतयैव तस्य श्रतिषूपन्यासादनुमानस्यैवास्य श्रुतिसापेक्षतेत्यर्थः । दृष्टव्याप्युपजी- विनो लिङ्गस्यात्यन्तातीन्द्रियार्थे बुद्धिजननसामर्थ्याभावाच्चेति चकारार्थः ॥५४८॥ सु० टी०-तेन सृष्टिवाक्यानां नानाविधोपक्रमविरोधान्न सूष्टी तात्वर्ये किं तूक्तक्रमेण ब्रह्मण्येवेत्याह- इत्थं जगत्कारणवादिवाक्यं समन्वितं ब्रह्मणि तत्पदार्थे। तल्लक्षणं तस्य तटस्थभूत- मानन्त्यसिद्धयै कथययथोक्तम्॥५४९ ॥
Page 435
४२८ टीकाट्यसमेतं-
इत्थामति। कथमित्वाह-तदिति। तत्तटस्थलक्षणं तत्पदार्थे परिच्छे- दृव्यावृत्त्यै कथवदित्यर्थः । ५४९॥ अ० टीब-यतो वा इत्यादिजगत्कारणवादिवाक्यस्य ब्रह्मणि समन्वयप्रकारमुयभादि- तमुपसंहरति-इत्थमिति। इत्थमुक्तप्रकारेण तत्पदार्थे ब्रह्मणि जगत्कारपत्ादिवाक्यं समन्वितमित्यन्वयः । कि कुर्वदित्युच्यते तस्य ब्रह्मण आनन्त्यसिद्धयै परिचछेदव्यावृत्यर्थ तदस्थभूतमुपलक्षणभूतं यथोक्तं जगज्जन्मादिहेतुत्वं तलक्षणं तस्य ब्रह्मणो लक्षणं कथय- न्सदिति योजना ॥ ५४९ ॥ सु० टी०-ताई बह्मातिरिक्तनिमित्तामावे कथं सृष्टिवैचित्रयमित्या शङ्क्य वाक्यं विशिनष्टि- स्वात्मानमेव जगतः प्रकति यदेकं सर्गे विवर्तयति तत्र निभित्तभूतम्। कर्माsSकलय्य रमणीयकपूयमिश्रं पश्यन्नृणां परिवृदं तदितीर्यमाणम् ॥५५० ॥ स्वात्मानमिति। यदेकं चेतनं सर्गकाले तन्निमित्तमूतं नृणां जीवानां रमणीयं पुण्यं कपूयं पापं तदुभयमिश्रं च त्रिविधं कर्मास्येद्मस्येद्मि- त्यसंकीर्ण पशयद्यद्भोगनिमितं यत्तसेन सृजामीत्याकलय्य तदनुरूपेण स्वात्मानमेव मायया विवर्तयति 'तदात्मानं स्वयमकुरुत' [ तैत्ति० ७।८] इति श्ुतेः । तङ्गह्मेतीर्यमाणं लक्षणं कथयदिति पूर्वण संबन्ध: ।। ५५० ॥ अ०टी०-विवक्षितब्रह्मा नुगुणसम र्पिकां वाक्यवृत्तिमुपपादितामभिनयेनाSSह-स्वात्मा- नमिति। यदेकं वस्तु सर्गें सर्गकाले प्राप्ते तत्र तस्मिन्सर्गे निमित्तभूतं नृणां प्राणिनाँ नग्रहण श्रैष्टयात्। रमणीयं शुभं कपूयमशुभं मिश्रं शुभाशुभसाम्यलक्षणमिति त्रिविधं कर्म पश्य- दर्वगच्छदाकलय्य संगृह्य सहकारितयोपादाय च तदनुसारेण स्वात्मानमेव जगतः प्रकृति कत्वा विवर्तयति मायया जगद्रूपतामाषादयति तत्परिवृदं ब्रह्म सर्वजञं सर्वशक्ति नित्यशुद्ध- वादिस्व्रभावमितीर्थमाणमित्येवं लक्षणं कथयदिदं वाक्यं ब्रह्मण समन्वितमिति पूर्वेणैक योजना ॥ ५५० ॥ सु० टी०-ताहें कि समन्वयसूत्रेण जन्मादिसूत्रेणैव वाक्पार्थ- सिद्धेरिति चेत्तत्राSSह- पदवृत्तिसमन्वयावुभ प्रतिपायौ प्रथमे हि लक्षणे। तदवान्तरवाक्यव्त्मना पदवृत्तिः प्रथमं भ्रकीर्तिता ॥५५१॥
Page 436
संक्षेपशारीरकम्। ४२९ पंदेति। प्रथमाध्याये हि पदार्थवाक्यार्थी निरूप्यो तत्र पदलक्ष्यनि- रूपणप्राप्ताववान्तरवाक्यद्वारा पद्वृत्तिरेव निरूपिता न वाक्यार्थ इति तंदर्थ तत्र सूत्रमित्यर्थः ॥५५१॥ अ०टी०-तदेवं जन्मादिसूत्रे जगत्कारणवादिवाक्यानां समन्वयो निरूपित इत्युक्तं तत्रे- दमाशड्क्यते यथा समन्वयसूत्रे सर्वेषामेव वेदान्तवाक्यानां प्रत्यक्स्वरूपे ब्रह्मणि समन्वय इत्युत्सर्गतः सिद्धौ पुनः 'आनन्दमयोऽभ्यासात्' [ब्र० सू० १।१।१२] इत्यारभ्येदभिदं वाक्यमस्मिन्नस्मिन्स्वरूपेण समन्वयं गच्छतीति तत्तदाशङ्कानिराकरणेन पश्चादेव विचारितस्तथा 'यतो वा इत्याद्यपि जगत्कारणवादिवाक्यजातं विचार्यता किमिति प्रथममस्य विचारः कृत इति तत्रोपपत्तिमाह-पदवृत्तिसमन्वयाविति। हि यस्मात्प्रथमे लक्षणे समन्वयाध्याये पदवृत्तिस्तत्त्वंपदयोः स्वार्थे वृत्तिः समन्वयो नाम तयोरेव पदयोर्वाक्यतामापन्नयोरखण्डे ब्रह्मात्मनि पर्यवसानमेतौ पदवृत्तिसमन्वयावुभौ प्रथमाध्याये प्रतिपादौ न समन्वयमात्रं प्रतिपादं तत्तस्मादवान्तरवाक्यवर्तर्मना दार्थमात्र विषयवाक्यगतिप्रकारेण प्रथमं पदवृत्तिः प्रकीर्तिता पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य पदार्थपरवाक्यविचारो युक्त एव। आनन्दमय इत्यादिविचारस्तु सर्वोs[पि] समन्वयविषय एषेति सामान्यतः सिद्धसमन्वयस्य विषयविशेषेण वाक्यविशेषयोजनार्थ इति तस्य युक्त एव पश्चाद्विचार इत्यर्थः ॥ ५५१॥ सु० टी०-उद्देश्यार्थत्वात्ताहि त्वंपद्वृत्तिरेव प्रथम वाच्येति चेत्सत्य- मुक्तेव सा प्रथमसूत्र इत्याह- आये सूत्रे त्वंपदस्योदितत्वा- दृत्तेरस्मिंस्तत्पदस्योच्यमाना। वृत्तिजेया तत्पदार्थे द्वितीये प्रत्यङ्न्मात्रे त्वंपदस्योदितैव ॥ ५५२ ॥ आद्य इति। जिज्ञासासूत्रे हि त्वंपदवृत्तिस्थातःशब्दाभ्यामधिकारि- निरूपणच्छलेनोक्तेति द्वितीयसूत्रे तत्पदस्याद्वैते वृत्ति: क्रमपास्तैव ज्ञेये- त्यर्थ:। तार्है सूत्रद्वयोक्तयोर्मिन्नत्वादभेदवाक्यार्थविरोध इति न चेतत्राSऽह-प्रत्यगिति। अद्वैतामेदाविरोधिनि प्रत्यङ्मात्रे लक्ष्य इत्पर्थ: ।। ५५२॥ अं० टी०-तर्हि त्वंपदवृत्तिरपि प्रथममेव वक्तव्या सत्यं साऽप्युक्तैव प्रथमसूत्र इत्याह- आद्य इति। खंपदस्य वृत्तेरिति संबन्धः । अस्मिन्द्वितीयसूत्र उच्यमाना वृत्तिस्तत्पदस्य
Page 437
४३० ट्ीकाटय समेतं-
ज्ञेयेति 'संबन्धः । कस्मिन्नर्थे पदयोरनयोर्वृत्तिरिति तत्राऽडह-तत्पदार्थ इति। अद्वितीये तत्पदार्थे तत्पदस्य वृत्तिः प्रत्यद्मात्रे सर्वान्तरचिदूपे त्वंपदस्य वृत्तिरुदितैवोक्तैव भवतीत्यर्थः ॥ १५२ ॥ सु टी०-प्रत्यङमात्रस्य.शुद्धस्य कथमधिकारित्वं साधनसंपत्त्यमा- वादिति चेत्तत्राSडह- अनधिकारिणि शुद्धचिदात्मके
शमदमादिसमन्विततेष्यते भवति तेन चितोऽप्यधिकारिता ॥५५३ ॥ अनधिकारिणीति। यद्यपि शुद्धः शमद्मादिसंपद्माजनत्वान्नाधिकारी तथाऽप्यात्मानात्मनो: परस्पराध्यासादनात्मभूतलिङ्गधर्मशमदमाद्यन्वि- तता प्रतीचोऽप्याध्यासिकी संभवतीत्यर्थः ॥। ५५३॥ अ० टी०-ननु कथं प्रथमसूत्रे त्वंपदस्य प्रत्यङ्मात्रे वृत्तिरुक्ता तस्याधिकारिनिरूपण- परत्वादधिकारिणश्च साधनचतुष्टयविशिष्टस्य प्रत्यङ्मात्रत्वायोगादिति चेन्नैवं प्रत्यङ्मात्रस्यैवा- धिकारित्वादित्याह-अनधिकारिणीति। शुद्धचिदात्मस्वरूपे स्वतोऽनधिकारिण्यधिका- रित्वधर्मरहिते दृगद्शोः प्रत्यक्पराचोरितरेतरविभ्रमात्परस्पराध्यासानन्निमित्ताच्छमदमादिस- मन्विततेष्यते। तेनाध्यासनिबन्धनेन शमादिना योगेन चितोऽपि स्वतो निर्विशेषचिदूप स्याऽSत्मनोऽिकारिता युक्तेति योजना। चिद्रूपात्मनोऽन्यस्य जडस्य शमदमादिमत्त्वस्याधि- कारिवत्त्वस्यासंभवादुक्तविधया चिदात्मस्वरूपस्यैवाधिकारितेति प्रथमसूत्रेऽधिकारिनिरूपण- द्वारेण त्वंपदस्य प्रत्यगात्मनि वृत्तिरुक्त्तैवेत्यर्थ: ॥ ५५३॥ सु० टी० -- तथाऽपि स्वतो मुक्तासङ्गचिदात्मनि शुद्धे शमदमाद्य: ध्यासोऽपि कथमिति चेत्तत्राSSह- अनधिकारितया दगवस्थिता स्वरसतः परमेश्वरविग्रहा। घनतम: पटलावरणान्वया- दुपगता श्रवणायधिकारिताम् ॥५५४॥
१ क. ख. ग. पिता।
Page 438
संक्षेपशारीरकम्। ४३१
अनधिकारीति। यद्यपि दक्परमेश्वरत्वात्स्वभावतोऽसंसारितयैवाव- स्थिता तथाऽपि स्वाज्ञानमेव घनं तम इंध तदेव हयूपस्याऽडतमन: पटल इव चक्षुरावरकमांसखण्ड इव तेन हि हगाध्रियत इव तदन्वयाद्धि- कारित्वमापन्नेत्यर्थः ॥५५४॥ अ० टी०-यदि प्रतीच एवाधिकारित्वमिष्यते तर्हि तस्य स्वाभाविकमेतदिष्यतां किमध्यासकल्पनयेत्याशड्क्य स्वतोऽसंभवादित्युक्तं प्रपञ्वयति -- अनधिकारितयेति। दृश: स्वरसतोऽनधिकारितयाSवस्थाने हेतुगर्भ विशेषणं-परमेश्वरविग्रहेति। अन- विकारिस्वरूपब्रह्मरूपत्वादित्यर्थः। अतोऽव्यासमूलत्वमेत्र युक्तं परिशेषादित्याह-घनतम इति। स्पष्टार्थ: ॥ ५५४ ॥ सु० टी०-तार्हे न प्रत्यङ्मात्रस्याधिकारित्वं किं तु स्वाध्यस्तलि- ङ्विशिष्टस्यैव विशिष्टश्र जड इति कथं तस्य विद्यामुक्ती इति चेत्तत्राSSह- अज्ञानतज्जघटना चिदधिक्रियायां द्वारं परं भवति नाधिछतत्वमस्याः । नाचेतनस्य घटतेऽधिकतिः कदाचि- त्कर्तृत्वशक्तिविरहादिति वक्ष्यते हि॥ ५५५॥ अज्ञानेति। चिन्मान्रस्यैवाधिकारित्वे ज्ञानतज्जसंबन्धो द्वारमेव न सस्याधिकारिकोटिप्रवेश इत्पर्थः । तत्र हेतुमाह-नेति। अचेतनांशस्य पुद्धयादेरधिकर्तव्यगोचरज्ञानाद्यभावाद्कर्तृत्वमिति 'कर्ता शास्त्रार्थव- त्वात्'[व० सू० २।३।३३] इत्यत्र सूत्रकृद्वक्ष्यतीत्यर्थः ॥५५५॥
धिकारिता वक्तव्या तथा च तस्यैव मोक्षफलान्वयित्वमपीत्यध्यासनित्यताप्रसङ्ग इति
यामधिकारे द्वारं निमित्तमात्रपरं भवति। अस्या अज्ञानतज्जघटनाया अपि नाधिकृतत्वं दृमात्म्रनोऽधिकार उपाधित्वमनात्मसंबन्धस्य न विशेषणत्वमित्यतो नोक्तदोष इत्यर्थः । तत्र युक्तिमाह-नाचेतनस्येति। कर्तुरेवाधिकारादचेतनस्य च कर्तृत्वासंभवस्य रचनानुपपत्तेश्र नानुमानमित्यम्रे वक्ष्यमाणत्वादित्यर्थः ॥ ५५५॥
Page 439
४३२ टीकाद्वय समेतं-
सु० टी०-जनु प्रथमसूत्रे कर्मविचारानन्तर्यस्याथशब्दार्थत्ान्न तस्याधिकारिपरत्वमिति चेन्नेत्याह- उपसत्तिवाक्यअधिकारिणि य- त्कथितं संमन्विततया मथमम्। इदमेव चेतसि निधाय तु त- न्मुनिना प्रकीर्तितमुदारधिया ॥ ५५६ ॥ उपसत्तीति। परीक्ष्य लोकानित्याछयुपसत्तिवाक्यं विशिष्टाधिकारिपर- मिति यत्पर्वमुपससादेत्यादौ कथितं तदर्थमेव चेतसि निधायेदमथात इत्यादि मुनिनोक्तमतस्ताहशस्यैव साधनसंपन्नस्य गुरूपसत्तेर्त्रहमवि- चारविधिसंनिधौ श्रूयमाणाया अपेक्षिताया आनन्तर्यमथशब्दार्थो नानपेक्षितकर्मविचारानन्तर्यमित्यर्थः ॥५५६॥ अ० टी०-तस्मात्प्रत्यक्चित एवाज्ञानद्वाराऽविकारित्वादधिकारनिरूपणेन प्रत्यड्मात्रे न्वंपदस्य वृत्तिनिरूपणाडडय्ये सूत्र उपपन्नेति स्थितं तथाऽपि प्रत्यङ्मात्रे त्वंपदस्य वृत्तिकथ- नमत्र विवक्षितमिति कतोऽवगम्यत इति चेत्तत्राऽऽह-उपसत्तिवाक्यमिति। अयमर्थ :- ' अथातो ब्रह्मजिज्ञासा' [ब्र० सृ० १।१।१] इत्यस्मिन्सूत्रेऽथातः- पदाभ्यामधिकार्युक्तो ब्रह्मजिज्ञासापदेन च 'तद्विजिज्ञासस्त्र' [तै० ३। १। १] इति श्रुतिपद्षमुदाहृतं तत्र च लोण्मध्यमपुरुषेण यो नियुज्यते सोऽत्र साधनचतुष्टयसं- पन्नोऽथातःपदाभ्यां सूत्रित इत्यधिकारिसमर्पकमुपसत्तिवाक्यम्। तदेतदाह-अधिकारि- णीति। यदुपसत्तिवाक्यं तदविजिज्ञ।सस्वेत्यादिरूपं प्रथमं प्रथमसूत्रेSधिकारिणि समन्विततया यत्कथितं तदिदमेव त्वंपदस्य प्रत्यञ्जात्रे पर्यवसानमित्यस्मदुक्तमेवोति स्वमनसि निधायोदा. रधिया मुनिना प्रकीर्तितमिति ॥५९६ ॥ सु० टी०-कथ तार्है सूत्रकृता प्रथमसूत्रे शिष्योपसत्तिवाक्यं नोदां- हृतमिति चेत्तत्राSडह -- शिष्योपसत्तिवचनानि समन्वितानि शिष्ये चिदात्मनि परात्मनि नित्यमुक्ते। इत्येतदत्र कथितं मुनिना त्वमर्थे त्वंशब्दवृत्तिकथनाय परे प्रतीचि॥ ५५७ ॥ शिष्येति। तत्र हि 'तद्विजिज्ञासस्व तब्रह्म'[तैत्ति० ३।१।१ हत्युदाहतं तत्र मध्यमपुरुषेण त्वंपदार्थभूतो नियोज्य: साधनसंपन्जोऽथातः
Page 440
संक्षेपश्ञारीरकम्r ४३३
शब्दाभ्यां समापित इत्येवंभूते शिब्ये चिदात्मनि त्वमर्थे सर्वाण्युपस सिवाक्यानि समन्वितानीति त्वंपद्वृतिकथनाय सुनिनोक्तमेवेत्यर्थ: ॥ ५५७॥ अ० ती०-उक्तमेव रपष्ठयति-शिष्योपससिवचनानीति। परे संघारत विलक्षणे प्रतीचि प्रत्यगात्मनि त्वंशब्दवृत्तिकथनायेत्यर्थः । उपसन्नं प्रति तत्त्वरमसीत्युप- देशानमहावाक्य उपपन्नस्त्वंशव्दार्थः । अत उपसत्तिवाक्योदाहरणेन त्वंपदहुत्तिविवक्षा सक्षयते। स चोपसन्नः शिष्यी नित्यमुक्तः पर एवरेति ब्रह्मविपरीतरूपस्य मिथ्यांत्व-
तात्पर्यार्थः । ५५७।। सु० टी०-ततश्च पदवृत्तिकथनार्थत्वमेव सूत्रयोरित्याह- उपसदनवचोविचारमार्गा- चमितिपदस्य परात्म-ाह वृत्तिम्। कथयति भगवान्द्वितायसूत्र तदितिपदस्य परात्मनीति भेदः ॥ ५५८ ॥ उपेति। इहाडडद्यसूत्रेऽथशव्द्रेनोपसत्तिवाक्यद्वारा त्वंपदस्य वृत्ति मुक्त्वा जन्मादिसूत्रे यत इत्यादिवाक्यार्थविचारेण तत्पदवृत्तिमपि मुनिः कथयर्तीत्यर्थः ।।५५८॥
इनेति। परमात्मनि संघातात्परस्मिन्प्रत्यगात्मनि। इह प्रथमसत्रे पदयं रेान्न भदो न पदा- र्थयोः सरूपेण भेद इति दर्शयतुमुभयत्र परात्मग्रहणमिति द्रष्टव्यम् ॥ ५५८॥ सु० टी०-ननु सूतद्वषेऽपि पद्वृत्तिकथनमात्रेणार्थासिद्धेर्वक्यार्थ- बोधोपयोगिनी युक्तिरपि वाच्या तथा च वाक्यभेद इति चत्तत्राSSह- आवृत्त्या वा तन्त्नवृत्त्याऽथ वेदं सूत्रं युक्तिं वेदवाक्योपयुक्तामू। अप्याचष्टे बृंहणीमन्तरेण स्वार्थे युक्तिं वेदवाक्यं न पुष्टम् ॥ ५५९॥ आवृत्येति। अर्थान्तरविवक्षया पुनरुवारणमावृत्तिः । बह्धर्थविवक्षया सकुदुज्चारणं तन्त्रम्। ततश्चेदं सूतद्द्य सूत्रत्वेन बद्वर्थसूचकावाः,
Page 441
४३४ •टीकाद्वय समेतें-
तांत्पर्यविषयतत्तदर्थं प्रत्यङ्गत्वेन प्रतिप्रधानं गुणावृत्तिन्यायादावृत्ति- व्याख्यया वा सकृच्छतस्या्यर्थद्वयाङ्गत्वेन तन्न्नवृत्त्या वा तत्तद्वेदवा. क्योपयुक्तां युक्तिमप्युपदिशतीत्यर्थः । कुत इयं क्विष्टकल्पनेति चेत- त्राSडह-बृंहणीमिति। स्वांर्थे गम्भीरार्थविस्तारिणी युक्तिं विना वेद- वाक्यं न पुषट न सम्यग्वाक्यार्थबोधनक्षममित्यर्थः।।५५९॥ अ० टी०-ननु कथं वाक्यगतिनिरूपणमात्रेण निमित्तोपादानात्मकमेकमद्वितीयुं कारणं सिध्येद्वादिभिस्तु तद्विपरीतस्य कारणस्य युक्तिभिर्निरूपणादिति चेन्नैष दोषो बिर्माक्षे. तकारणसमर्थनायाSऽवृत्तेस्तत्रेण वा समाश्रयणोपपत्तेरित्याह-आवृत्त्या वेति। जन्मा- दयस्य यतो भवति तद्रह्मेति सूत्रवाक्ययोजनायां स्थितायामस्यैव सूत्रस्याSवृ्त्या वा जन्मा- दयस्य यतस्तत्र ब्रह्मणोऽर्थान्तरमित्येवं विधयाऽथवा तव्रवृ्त्या नान्यद्वह्मणः कारणं जगत् इत्यत्रापेक्षितयुक्तीनामपि संग्रहेणोच्चारणं तत्र वृत्तिस्तया वेत्यर्थः । अनेकार्थविबक्षया सकृद्वाक्योच्चारणं तत्रमिति तल्क्षणमुक्तस्यैव वाक्यस्य तदर्थोपपादनपरतया पुनरुच्चा रणमावृत्तिरिति तद्विवक्षा । इत्थमक्षरयोजना-'जन्माद्यस्य यतः'[ ब्र० सू० १॥११ २ ] इतीदं सूत्रमावृत्त्या वा तत्नवृ्त्याऽय वा वेदवाक्योपयुक्तां बृंहणीं युक्तिमप्याचष्टे वेदवाक्योपयुक्तिमन्तरेण विनेति वाक्यगताक्षरार्थानुकूल्युक्ति[ व्यति ररिकेष्प वेदवाक्यं न पुष्टं तस्मात्तदर्थोपपादकयुक्तिमप्याचष्ट इत्यर्थः ॥ ५५९॥ सु० टी० -- एवं सूत्राभ्यामुक्तवाक्ययोः पदार्थद्वये तात्पर्थमपेक्षि- तमुकत्वा महावाक्यार्थमुक्तवानित्याह- त्वंपदार्थविषयं समन्वयं तत्पदार्थविषयं ततः क्रमात्। तस्य शेषमपरं च वर्णय- न्नुक्तवानथ महावचोगतम् ॥५६० ॥ त्वमिति। तस्य तत्पदान्वयस्यापेक्षितं शेषं न्यायं सर्वज्ञत्वादिसाधकं नृतीयसूतरे वर्णयन्नित्यर्थः ॥५६०॥ अ० टी०-एवं महावाक्यगतपदवृत्तिमुक्वा क्रमप्राप्तं महावाक्यसमन्वयं निरूपयतुं समन्वयसूत्रमित्याह-त्वंपदार्थविषयमिति। त्ंपदार्थविषयं समन्वयमाद्े सूत्रे चर्णयंस्ततोऽनन्तरं क्मात्तत्पदार्थविषयं समन्वयं द्वितीये सूत्रे वर्णयन्नथानन्तरं महावचोगतं समन्वयमुक्तवान्महामुनिरिति योजना । तर्हि मध्ये 'शास्त्रयोनित्वात्' [व्र० सू० १। १ । ३ ] इतिसूत्र किमर्थमित्यपेक्षायां तस्योपयोगितामाह-तस्य शेषमपयं हीति।
Page 442
संक्षेपशारीरकम्। ४३५.' अयमर्थ :- तस्य जन्मादिसूत्रस्य शेषमर्थसि द्वसर्वज्ञत्वसाधनन्यायेन निःश्वासवदबुद्धिपूर्घसृष्टतया वेदस्यानपेक्षत्वलक्षणप्रामाण्याविरोधेन सकलवेदोपादानतया सर्वावभासकज्ञानस्वरूपत्व- सिद्धयर्थ वर्णयन्मध्ये 'शास्त्रयोनित्वांत्' [ब्र० सृ० १.।१।३] इतिसत्रं प्रणीत- वानिति ॥. ५६० । सु० टी०-तर्हि तत्पदार्थोपयोगित्वादीक्षत्य धिकरणमप्यादौ स्यादिति चेन्न वेन विनाऽपि तत्सिद्धेरित्याह त्वंपदस्य दृशि वृत्तिमद्ये तत्पदस्य च निवेदयन्मुनिः । प्रत्यगद्दयपरं समन्वयं शेषिणं पुनरथात्रवीत्तयोः ॥५६१॥ त्वंपदेति ।. पदयोरथद्वये वृ्त्ति निवेद तयोः शेषिणं प्रत्यगद्याभेदपर समन्वयमबरवीदित्यर्थः । पदार्थज्ञानमात्रादज्ञानानिवृ तेस्तन्निवर्तकमभे- वज्ञानं फलवत्वाच्छेपीति भावः । ईक्षत्यादेवादिनिरासमात्रार्थतेन पश्चादुक्ति: ।५६१॥ अ०टी०-एवं पदद्वयवृत्तिनिरूपणानन्तरं महावाक्यनिरूपणं क्रमप्राप्तमेव स्पष्ट यति-त्वंपदस्येति। दशि. प्रत्यगात्मनि त्वंपदस्य वृत्तिमद्ये ब्रह्मणि तत्पदस्य च वृत्ति निवेदयन्मुनिस्तच्छेषभूतां. पदद्वयवृत्ति प्रथमं निवेदयन्निति यावत् । अथानन्तरं कमप्राप्तं तयोः शेषिणं प्रत्यगद्वयपरं समन्वयं प्रत्यगद्वये. ब्रह्मण्यैक्यरूपेण समन्वयं पुनरत्र- बीदिति योजना। सूत्रत्रयेण पदार्थद्वयपदद्दयशक्यसमन्वयं प्रतिपाद्य चतुर्थसत्रेण तयोर्बो- क्यार्थरूपाखण्डाद्वयाननदात्मनि समन्वयमत्रवीदित्यर्थः ॥ ५६१॥
शक्नोति सिद्धमवबोधयितुं च. वाक्यं शक्नोति कार्यरहितं वदितुं च वाक्यम्। शक्नोत्यखण्डमवबोधयितुं च. वाक्यं शक्नोति मुक्तिफलमर्पयितुं च वाक्यम् ॥५६२॥ शक्नोतीति । सिद्धार्थे व्युत्पत्तिसमर्थनादित्यर्थः । नियोगादिनिरासा- ज्ञाकार्येऽपि शब्दसामथ्यांदखण्डार्थसिद्धौ महावाक्यस्य फलपर्यवसान- मिट्यर्थः ॥ ५६२॥
Page 443
'४३६ ठीकादयसमेतं-
अ०टी०-अथ चतुर्थे सत्रे वाक्यार्थेऽखण्डे समन्वयमव्रवीदित्यादिना विस्तरेण समन्वयसू- त्रार्थस्योषपादितत्वात्तदिदानी संक्षिप्याऽडह-शक्रोतीति। मानान्तरनैरपेक्ष्येण सिद्धं ब्रह्मा- त्मवस्वतबोधयितुं समर्थ कार्यरहितमिति कार्यशेष:वरहितं स्वप्रधानमेवेत्यर्थः । अखण्डमिति भेदसंसर्गरहितमित्यर्थः । मुक्तिफलमिति' मुक्तिः फलं यस्य तन्मुक्तिफलं तत्त्वसाक्षात्कार- रूपं ज्ञानमित्यर्ः । स्वार्थे फलतद्विज्ञानजंननसामर्थ्यमिति कर्मशेषार्थपरव्व्मनेन निरस्तंम्। एतेऽर्थाः पुर्वमेव निपुणतरन्यायतः प्रतिपादिताः स्मर्तव्या इति भाव: ॥५६२॥ सु० टी०-तदेवं निरमुणनिरूपणपवृत्तोऽि सगुणवाक्यमपीत्या:
जामुपास्ये ब्रह्मणि द्वितीयस्य ताहशमेव ज्ञेये ब्रह्मणि तृतीयस्यार्थं सामान्यतः संग्रृह्याव्यक्ताजादिपदानामपि ब्रह्मविषयत्वं चतुर्थपादार्थ भूमादिपदार्थकथनेनैव सिद्धमभिप्रेत्याध्यायार्थस्य समन्वयनिरूपणस्य फलं वर्णपति- एतत्समन्वयनिरूपणभेवमर्मि- न्युद्धिस्थतामुपगते सति वाक्यजन्यम् । विज्ञानमद्यगते न ततोऽन्यदन्य-
इति. श्रीदेवेश्वरपूज्यपाद्शिष्यश्रीसर्वज्ञात्ममहामुने: कृतौ संक्षेपशारीरके प्रथमोऽध्यायः ॥१॥
रतदिति। फले नियोक्तुमनुवद्ति। अस्मिन्निरूपण एवमुक्तरीत्या सुद्धिस्थे सति प्रत्यगद्वयाभेदज्ञानं तदेव वाक्यजमन्यत्तु यन्द्ेदवि- षयमापातज्ञानं न तद्ाक्योत्थं किं तु तात्पर्याज्ञानविजृम्भितमिति निश्चयो भवेदित्यर्थः । विचाराद्पराधविधुनने तु वाक्यान्मुक्तिफला धीरिति माव: ॥ ५६३॥
शारीरकसुबोधिन्यामध्यायः प्रथमोगमत् ।।१॥ इति संक्षेपशारीरकव्याख्यायां सुबोधिन्यां प्रथमोS- ध्याय: ।.
१ क म. र्गुणानि। २म. 'तीचि।
Page 444
सेक्षेपशारीरकम।
अ० टी० -- एवं सूत्रत्रयार्थ विस्तरेण प्रतिपाद्य 'ईक्षतेर्नाशब्दम् 'ब्र० सू० १ ॥ . १। ५ इत्याद्युत्तरसूत्रगतन्यायसंदर्भ भाष्योक्तमेव सिद्धवत्कृत्य समन्वयाध्यायमुपसंहरति- एतत्समन्वयनिरूपणमिति। यथाशास्त्रं यथान्यायमस्माभिः कृतमिति शेषः I समन्वयनिरूपणफलमाह-एंव मिति•। एवमुक्तप्रकारेण समन्वये बुद्धिम्भतामुपगते, सत्यधीतस्वाध्यायस्य समधिगतशब्दन्यायतत्त्वस्य, पुंसो यद्वाक्यजन्यं शब्दस्वारस्यजन्यं विज्ञानं तदद्व्यगतं प्रत्यग्वह्मैक्यगतं ततोऽन्यन्न भवत्यर्थान्तरगतं न भवत्येवान्यत्तद्विरुद्धार्थविषयम- नेकविधं यद्विज्ञानं तत्पुंसोSपराधकृतं पुरुषदोपनिबन्धनमेवेत्येव प्रतीतिः प्रत्यय उदियादु- स्पद्येतेति योजना। वेदान्तवाक्यरूपप्रमाणगतासंभावनापोहेन वाक्यार्थे बुद्धिनियमसिद्धि: समन्वयविचारफलमित्यर्थः ॥ ५६३ ॥
समन्वयाभिचः प्रथमोऽव्यायः समाप्तः ॥ १ ॥