1. Sankshepa Sariraka Part2 ASS
Page 4
आनन्दाश्रमसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्क: ८३ अभिचित्वुरुषोत्तममिश्र कृतसुबोधिनीटीकर्याा रामतीर्थविरचि तान्वयार्थ -र प्रकाशिकया टीकया च समेतं संक्षेपशारीरकम्
अस्थ द्वितीयतृतीयचतुर्थाध्यायरूपो द्वितीयो भागः । एतत्पुस्तकं वे० शा० रा० रा० वैदयोपाह्वरङ्गनाथशास्त्रिभिः संशोधितम् । तंच्च हरि नारायण आपटे इत्येतैः
पुण्याख्यपच्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् ।
शालिवाहनशकाब्दा: १८४० सिस्ताब्दा: १९१८
(अस्य सर्वेडधिकारा राजशासनानुसारेण स्वांयत्तीकृताः) मूल्यं नवाणकाधिकरूपकचतुष्टयम् (४०९)।
Page 6
[ २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ४४२
अथ संक्षेपशारीरके द्वितीयोऽध्यायः ।
सु० टी०-तदेवं समन्वयनिरूपणादृद्वितीये ब्रह्मणि मानाभावप्र- युक्तासंभावनां निरस्य द्वैतग्राहिपत्यक्षादिविरोधान्भेयासंभवं मन्वान उक्तं समन्वयमाक्षिपति- एवं समन्वयनिरुपणयाऽवबोधो जातोऽप्यखण्डविषयो ननु वाक्यजन्यः । मानान्तरेण परिपीडित एव जातो
एवमिति। समन्वयनिरूपणया निष्पन्नोऽप्यखण्डवाक्यार्थनिश्चयो भेदप्रकाशकेन प्रत्यक्षादिमूलकेन मानान्तरेण बाधितविषयो न फलाया- लमित्यर्थः ।। १॥ अ० टी०-तदेवं समन्वयलक्षणगतं विशेषं न्यायतो निरूपितमुपश्षुत्य यध्यपि श्रुति- गतिपर्यालोचनायां सर्वे वेदान्ता अविरोधेनाखण्डे ब्रह्मात्मनि प्रमाणमिति न्यायतो निर्धारितं तथाऽपि प्रत्यक्षादिप्रमाणान्तरविरोधे प्रतिभासमाने न तथैवेति प्रागुक्ते समन्वये मतिसाम्यं मम वर्तत इति मन्वानः शिष्यो मानान्तरमाश्रित्योक्तं समन्वयमाक्षिपति-एवं समन्वये- ति। नन्विति प्रथमं योज्यम्। भेदप्रकाशनेति विरोधिमानान्तरस्व्ररूपकथनम्। अक्ष- ग्रहणमनुमानादेरप्युपलक्षणार्थम् ।। १॥ सु० टी०-नन्धद्वैतश्ुत्यैव स्वविरोधि प्रमाणं बाध्यतां यागस्वर्ग- फलकत्वश्रुत्येव तद्भावप्रत्यक्षमिति चेन्न वैषम्यादित्याह- मज्जत्यलाबु सहसाप्सु शिलाः प्रवन्त इत्यादिकादभिहितादिव वाक्यजातात्। जाताऽपि बुद्धिरपबाधितगोचरेव- मद्दैतबुद्धिरपि भेदधियाऽडत्मनि स्पात् ॥ २ ॥ मज्जतीति। आयतिफलगोचरा हिश्रुतिरलं तादीत्विकप्रत्यक्षं बाधितुं न तु दष्टफला सा हि तेनैव बाधितार्था यथा 'मज्जत्यलाबु आ्रवाणः
१ क. दात्मिक । ५६
Page 7
४४२ टीकाद्वय समेतं-
मूहात्। एवमात्मन्यद्वैतबुद्धिरपि वेदान्तजन्या भेदधिया बाधितेव स्यादित्यर्थः ॥२॥ अ० टी० -- ननु भेदग्राहिप्रत्यक्षादेरभेदबोधकाद्वैतागमस्य व प्रमाणस्वाविशेषे श्रुत्यै- चेतरपरिपीडनं कस्मान्न स्यादित्याशङ्कय प्रत्यक्षविरोधे वाक्यस्थैव बाधदर्शनादेतदेव संभाव्यत इत्युदाहरणमाह-मज्जतीति । अभिहितात्केनचिदिति शेषः । वाक्यजातात्सहसा .
जाताऽपीति संबन्धः । अपबाधितगोचरा बाधितविषयैच यथैवमद्वैतवुद्धिरात्मनि जाताऽपि भेदधिया बाधितगोचरैव स्यादिति योजना॥ २ ॥ सु० टी०-नन्वद्वैतात्मन्यपि श्रुत्यैकगम्थे प्रत्यक्षादेरप्रवृतेः कुतस्तेन भ्रुतिबाध इत्याशङ्क्य जीवस्वरूपे प्रत्यक्षप्रवृत्तेरित्याह- अध्यक्षगोचरमनर्थमवैमि वाक्यं निर्मुक्तमाह मम रूपमनर्थहेतोः । एवं च वेदशिरसोऽक्षनिबन्धनेन ज्ञानेन बाधनमतीव हि दुर्निवारम्॥ ३ ॥ अध्यक्षेति। अहं दुःखीति प्रत्यक्षसिद्धं मम स्वरूपं प्रमातृत्वाद्यनर्थ- संकुलमवैमि। वाक्यं तु 'योऽशनायापिपासे'[ बृह० ३।५।१] 'न लिप्यते लोकद्ुःखेन बाह्यः' [कठ० ५।११]' असङ्गो ह्वयं पुरुष:'[बृह० ४।३।१५] इत्याद्यनर्थहेतोरविद्याततकार्यसंबन्धा- त्निर्मुक्तं मम स्वरूपमाह।न चैतदुभयं विरुद्धमबाध्यं संभवतीत्यवश्यं सर्व- संमतप्रथमप्रवृत्तप्रत्यक्षादिजन्यज्ञानेन वेदान्तानां बाधो दुर्वार इत्यर्थः। तथा च ब्रह्मण: श्ुत्येकगम्यत्वेऽपि तद्द्वैतस्य द्वैतग्राहिप्रत्यक्षप्रतिक्षे- प्यताSSवश्यकीति मावः॥३॥ अ० टी०-अद्वितीयांशे प्रत्यक्षविरोघमुक्वा संसारित्वांशेपि तमाह-अध्यक्षगो- चरमिति। अनर्थ संसारित्वमनर्थहेतोर्निर्मुक्तं मम रूपमाहेति संबरन्धः । फलितमाह- एवमिति। अतीव दुर्निरूप्यं नेति योजना ॥ ३ ॥ सु० टी०-किं चे स्वंसमकक्षकर्मकाण्डविरोधेनापि स्वविषयाप्रति- उस्य वेदशिरसी न प्रत्यक्षादिवाधकत्व्रशक्केत्याह- कर्तृत्वमाह मम कर्मविधिर्नियोग: संबन्धपूर्वकमपास्तसमस्तभेदम् । १ क. ग. हाछत्यैव १ क. ग. च स्वास°। २ क. या प्रविष्ठ"।
Page 8
[२ द्वितीयोऽध्याय: ] संक्षेपशारीरकम्।
मामाह वेदशिरसो वचन तथा च सत्यस्य दुःस्थितमिवाऽऽपतति प्रमात्वम्॥४॥ कर्तृत्वमिति.। ज्योतिषोमादिविधिर्हि नियोगात्मा स्वर्गकामादिक नियोज्यमात्मनि प्ेशयन्नकर्तुर्नियोज्यत्वाभावान्मम कामिनः कर्तृत्वमा- क्षिपति वाक्यं पुनरपास्तनिखिलक्तृत्वभोक्तृत्वादिभेदं मामाहेति कथमस्य समबलश्रुतिप्रतिरु्द्दस्य प्रामाण्यमित्यथः॥४॥ अ.० टी०-एवं प्रत्यक्षादिविरोधमुपपादय कर्मविधिविरोधमाह-कतृत्वमिति। 'स्वर्गकामो यजेत' 'यावज्जीवं जुहुयात्' इत्यादिरूपः कर्मविधिर्नियोगो नियोगरूपः संबन्धपूर्वकं मम कर्तृत्वमाह त्वं कुर्िति नियोज्य संबन्धपूर्वको हि नियोगो विधि: कर्म विधत्त इत्यर्थ:। कर्तृत्वशक्तिहीनं प्रति नियोगासंभवात्स्वर्गकामादेः कर्तृत्वशक्तिमाक्षिपेत्क- र्मविधिरिति भाव: । कर्तृत्वग्रहणं. भोत्तृत्वस्याप्युपलक्षणम्। ननु कर्मविधिभिरेतावता. को विरोध उक्त इति तमाह-अपास्तेति। भेदो विशेषः कर्तृत्वादिविशेषरहितं निर्विशेष- मित्यर्थ: । ननु कर्तृत्वनिर्विशेषत्वागमयोः समत्वाद्विरोधेऽपि कथमकेनेतरबाध इति चेत्सत्यं तथाऽपि. सत्प्रतिपक्षानुमानात्प्रामाण्यदौर्लभ्यमनिवार्यमित्याह -- तथा च सत्यस्येति। सत्यस्य सत्यार्थस्य प्रमाणभूताभेदस्येति यावत्। प्रमात्वं प्रामाण्यम् ॥ ४॥ सु• टी०-किं च विरुद्धयोरावश्यकेऽन्यतरार्थबाधे प्रत्यक्षकर्मवच सोरमिलित योरेकवेदान्तवाधकत्वं युक्तं तथा दर्शनादित्याह- प्रत्यक्षकर्मवचसोरुभयो: समूहः सामर्थ्यवानुपनिषद्विषयापहारे। एकैकमेव तु न पारयतेऽपहर्तु स्वार्थप्रकाशनविधावुभ्योः समत्वम् ॥ ५ ॥ घल्पक्षेति। एकैकमिति। न पारयते न शक्कोति। अपहतुमन्योन्यविषयं बाधितुम । कुत इत्याह- स्वार्थेति।।५। अ० टी०-नन्वेवं सति कर्मविधेरपि प्रमात्वदौःस्थ्यंसाम्यान्न तेनेतरबाधकशङ्केत्या- शङ्कय केवलस्य तस्याबाधकत्वेऽि सहा[य]संपत्या प्राबल्यात्स्याद्वाधकतेत्याह-प्रत्यक्ष- कर्भवचसोरिति। उत्तरार्धारिम्भे यद्यपीति योज्यम् पूर्वाधरिम्भे तथाऽपीति ॥५.॥ सु० टी०-ननु प्रमाणसमूहस्य संभूयकारित्वाभावेन पृथक्पामाण्या-
१ क. दुःखित।.
Page 9
s४४ टीकाद्वय समेतं- [२ द्वितीयोऽध्याय: ]
भावात्कथं, बाधकत्वमित्याशङ्कच ताहि प्रत्यक्षमेव प्राथम्यात्सर्वप्रमाणो- पजीव्यमस्तु बाधकमित्याह- ज्यैष्ठचात्समर्थमथ वाडक्षजमेकमेव तस्यैव कर्मविधिरस्तु सहायभूतः । प्रत्यक्षमेव विधिवाक्यसहायमेव ब्रह्मात्मवस्त्वपहरिष्यति को विरोधः । ६ ।। जयैष्ठयादिति। नन्विदमप्रयोजकं प्रथमप्रवृत्तस्यापि भ्रमस्य जघन्याधि- छ्वानधीबाध्यत्वादित्यत आह -- तस्येति। भ्रमो ह्यन्यथासिद्धत्वाद्दाध्यः प्रत्यक्षं तु कर्मविधिसंवादिविषयत्वेन निःसंदिग्धपरामाण्यमनन्यथाससि- द्धमिति मवति तद्विसंवादिवेदान्तबाधकमित्यर्थः ॥ ६ ॥ अ० टी०-ननु प्रमाणयोः संभूय बाधनायोगात्समूहस्तयोर्बाधक इत्ययुक्तं समूहस्य चाभावाच्चेत्तर्हि प्रत्यक्षमेवास्त्वद्वैतबाधकं कर्मविधयस्तु तदर्थसंवादितया सहायमात्रमिति
पजीवनेन प्रवृत्तत्वादागमस्य प्रत्यक्षात्पाश्चात्यत्वात्कनिष्ठतेति स्थितौ ज्येष्ठं प्रत्यक्षमेवैकमुप- जीव्यं स्वोपजीवकस्य कनिष्ठस्याद्वैतागमस्य स्वार्थबाधने समर्थ स्यादित्यर्थः । ननु ज्येष्ठ- स्यापीदं रजतमितिज्ञानस्य कनिष्ठेन शुक्तितत्त्वज्ञानेन बाधो दृष्टोडतो ज्येष्ठत्वमप्रयोजकमिति चेत्तत्राऽडह -- तस्यैवेति। न ज्येष्ठत्वमात्रं बाधकत्वे हेतुं वदाम: कि तु प्रमाणत्वे सति ज्यैष्ठयं रजतज्ञानस्याप्रमाणत्वादस्तु ज्यैष्टयेऽपि बाध्यता प्रत्यक्षस्य तु प्रमाणत्वं निश्चितप्रमा- णत्वविधिवाक्येन संवादात्सिद्धमतो न तस्य पूर्वस्यापि परेणाSडगमेन बाधशङ्केत्येतदभि प्रायेणोक्तं. तस्यैवेति। प्रत्यक्षमेवेत्युत्तरार्घमुपसंहारार्थम् ॥। ६।। सु० टी०-परिहरति- अत्रोच्यते न खलु वेदशिरांसि मुक्त्वा किचित्पमाणमिह तत्वनिवेदनाय। शक्नोति येन भवतीह विरोधशङ्का वेदान्तवाक्यमुखतोऽवगते प्रतीचि॥७॥ अत्रोभ्यत इति। न हि प्रत्यक्षादेः भुत्या विरोधोऽस्ति तस्य व्यावहारि- कवस्तुमात्रविषयतवेनातत्त्वावेद्कत्वात्। वेदशिरसस्तु व्यवहारातीतब-
१ क, त्वेतचिसं"।
Page 10
[ २ द्वितीयोऽध्याय: ] संक्षेपशारीरकम्।
ह्मविषयस्य तत्त्वावेदकत्वात्। तेन हि स्वविरोधित्वे वा बाधितेऽपि विषयसत्यत्वेऽस्यापि प्रत्यक्षादेरन व्यावहारिकत्वं बाध्यते तस्य शक्तिग्- हादावुपजीव्यत्वात्। अतः कर्तृत्वादिद्वैतजावस्य व्यावहारिकत्वान्न तेन श्रुत्युक्ततातत्विकाद्वयत्वहानिरित्यर्थः। वेदान्तवाक्यानां मुखतस्तात्पर्य- तोऽवगते इह प्रतीचि येन विरोधशङ्केति संबन्ध: ।।७॥ अ० टी० -- तत्र प्रत्यक्षादेर्व्यवहारसमर्थवस्त्ववभासकतया व्यावहारिकमेत्र प्रामाण्यं न तत्त्वावेदकमद्वैतागमस्य तत्त्वावेदकं प्रामाण्यमतोऽतत्तविषयेण प्रत्यक्षादिना न तत्त्वविष- यस्याSSगमस्य बाध: किं तु वैपरीत्यमेव युक्तमित्यभिप्रेत्योभयोर्विषयभेदकथनेन विरोधशक्कां परिहरति-अत्रोच्यत इति। स्पष्टार्थ पद्यम् ।।७। सु० टी०-प्रत्यक्षादेस्तत्वावेदनासामर्थ्य समर्थयते- अज्ञातमर्थमवबोधयदेव मानं तच्च प्रकाशकरणक्षममित्यभिज्ञाः । न प्रत्यगात्मविषयादपरस्य तच्च मानस्य संभवति कस्यचिदत्र युक्त्या ॥८॥ अज्ञातमिति। अभिज्ञा जैमिन्याद्यः। साधकामावप्रयुक्तमेयाज्ञानसंश यादिव्यवच्छेदकं हि मानं तच्चाज्ञातगोचरमेव मानाधीनत्वान्मेयसि्धे- रित्यज्ञातबोधकमेव मानम्। तञ्च न प्रत्यग्विषयाद्वाक्यादन्यस्य संभवत्य- नात्मनोऽज्ञातत्वासंभवादित्यर्थः । युक्त्येति । तथा हि किं प्रत्यक्षाद्ीनों प्रामाण्यं विद्यमानार्थत्वं सद्विषयत्वं वा नाऽडय्यो रजतभ्रमेऽपि तत्सत्त्वात्। नान्त्य: । तद्दि किमर्थक्रियाकारिविषयत्वमबाध्यार्थत्वं वा नाऽडद्यः स्वप्न- साधारण्यान्नापरस्तत्कालाबाध्यार्थत्वस्य स्वमेऽपि सत्त्वात्त्रिकालाबा- ध्यार्थत्वस्यानागतबाधग्रहासंभवेन दुर्जेयत्वादित्यज्ञातज्ञापकत्वं प्रामाण्यं वाच्यम्। अत एवाज्ञाननिवृत्ति: प्रमाणफलमिष्यत इति क्वानात्मवो- धकस्य प्रामाण्यमित्यर्थः ।।८।। अ० टी०-कुतः प्रत्यक्षादेस्त्त्वावेदनलक्षणप्रामाण्याभाव इति चेत्प्रमाणलक्षणस्य तत्र साक्षादवृत्तेरित्याह-अज्ञातमिति। अज्ञातार्थगन्तृत्वं हि प्रमाणलक्षणम् । तच्च तदेव प्रकाशकरणक्षमं स्वविषये प्रकाशकरणसमर्थ मानं प्रसिद्धं तदज्ञातार्थविषयत्वनिब- न्धनमित्यर्थः । अभिज्ञाः प्रमाणतत्त्वविद आहुरिति शेषः । तच्चाज्ञातार्थावबोधकत्वं प्रत्य- गात्मविषयादपरस्य प्रत्यक्षादेः कस्यचिदपि मानस्य युक्त्या विचार्यमाणेऽज्ञाते वस्तुनि न संभवतीति योजना। प्रत्यगात्मनोऽन्यस्याज्ञातत्वाभावादिति भावः ॥। ८ ।।
Page 11
४४६ टीकाद्वय सभेतं- [२ द्वितीयोऽथ्याय: ]
णाद्वितश्रुतिबांध इति चेत्तत्राSSह- सर्वे पराग्विषयमेव हि मानजात वेदावसानवचनानि तु वर्जयित्वा। यद्भातिकं किमपि भौतिकगोचरं त- दूपप्रदीपकनिदर्शनतः प्रसिद्धम् ॥ ९॥ सर्वमिति। सर्व कर्तादिविषयं मानजातं पराग्विषयं वेदान्तातिरिक्त प्रमाणत्वाद्घटादिग्राहिप्रमाणवदित्यर्थः। कर्तृत्वादिविशिष्टस्य पराक्त्वा- त्साक्षिणश्र भेदग्राहिपरमाणागोचरत्वान्न तद्धाध इति भावः । किं चः प्रत्यक्षादिभौतिकमात्रविषयं भौतिकत्वाहीपादिवदिव्याह-यद्धौतिकमिति
अ० टी०-ननु प्रत्यक्षादेरपि प्रत्यग्विषयत्वे संभवत्येतल्लक्षणमितिचेन्न लस्य परा- ग्विषयत्वादित्याह-सर्वमिति। वेदान्तेतरमानानां. पराग्विषयत्वं साधयति-यद्भौ- तिकमिति। प्रत्यक्षादिभौतिकविपयं भौतिकत्वाद्यदेवं तदेवं यथा रूपगोचरप्रदीप इत्यर्थ: ॥ ९ ॥ सु० टी०-ननु यन्भौतिक तन्भौतिकविषयमिति न व्यास्तिरप्रयोज कत्वादूपस्थापि दीपव्यअ्जकत्वापत्तेश्रेत्यन्याहशी व्याप्तिमाह- यद्व्यअ्जकं किमपि लौकिकमीक्षितं त- दयङ्गयेन तुल्यमवलोकितमत्र जात्या। दीपः प्रकाशकतया विदितो हि लोके रूपेण तैजसतया सदृशः प्रसिद्धः ॥ १०॥
यद्वयञ्जकमिति। अत्र लौकिकं यद्यस्जकं तद्यङ्ग्यसजातीयमिति व्याप्ति- रतो न वेदान्ते व्यमिचारो रूपस्य तैजसत्वं स्वमतेन वा तेजःप्रकृतित्वा- तसांख्यमतेन वा ॥ १० ॥ अ० टी०-ननु यद्धौतिकं तद्ौतिकगोचरमिति भौतिकत्वाकारेण व्यातौ रूपे- णापि प्रदीपस्य व्यङ्ग्यत्वापत्तिरित्याशड्क्य व्यञ्जकस्य व्यङ्ायसजातीयत्वनियमे प्रदीष- दृष्टान्तोपादानान्न दोष इत्याह-यद्यक्जकमिति। जाता तुल्यमिति संबन्धः। यद्लअकं
Page 12
संक्षेपशारीरकम्। ४४७
तव्व्यडग्यसजातीयं यथा रूपव्यञ्ञकप्रदीपो रूपसजातीयो दृष्ट इत्यर्थः । रूपप्रदीपयोः केन रूपेण साजात्यं तदाह-तैजसतयेति ॥१०॥ सु6 टी०-एवमपि मनसि व्यभिचारस्तस्य द्रव्यान्तरत्वेन व्यङ्ग्यवैं- जात्यादिति चेन्नेत्याह- बुद्धिः समस्तविषयावगमे प्रवृत्ता साडपि प्रकाश्यविषयेण समानजातिः । बुद्धिश्र भौतिकतया श्रुतिषु प्रसिद्धा तेनास्तु साडपि खलु भौतिकगोचरैव ॥ ११ ॥ चुद्धिरिति। मन-इत्यर्थः । तत्तरकरणसहकारेण समस्तविषयावगमे प्रवृत्ता या बुद्धि: साऽपि प्रकाश्यसजातीयवेत्यर्थः । कुत इत्याह- बुद्धिश्रेति। अस्त्विति समर्थने लोटू। 'अन्नमयं हि सौम्य मनः' [छा० ६। ५।४ ] इत्यादिश्ुतिषु भौतिकत्वप्रसिद्धेभौतिकगोचरत्वमेव तस्या: शक्य समर्थनं न तु परेषामिवाऽऽत्मसुखादिगोचरत्वमित्यर्थः ॥११॥ अ० टी०-अस्या व्याप्तेर्मनसि व्यभिचारमाशङ्कय तदपि भौतिकमेवेति न व्यभि- चार इत्याह-बुद्धिरिति। बुद्धिशब्दोऽन्तःकरणमात्रविषय आत्मनोऽपि बुद्धया प्रका- श्यत्वात्तस्य चाभौतिकत्वादभौतिकत्वमपि तस्याः स्यादिति चेन्नाऽत्मनः स्वप्रकाशत्वा द्बुद्धिव्यङ्गयत्वाभावाद्गौतिकमात्रगोचरत्वेनास्या अपि भौतिकत्वं निरपवादमित्यभिप्रेत्य बुद्धेभौंतिकत्वं साधयति-बुद्धिश्चेति। 'अन्नमयं हि सोम्य मनः' [छा०६। ५ । : ] इत्यादिश्रुतिष्वित्यर्थः । बुद्धिरपि भौतिकगोचरैव भौतिकत्वाच्चक्षुरादिवदित्याह- तेनेति ॥११॥ सृ० टी०-ततश्व जडस्याज्ञातत्वासंभवात्प्रत्यक्षादेश्व सविशेषग्राह- कत्वान्निर्विशेषात्मन्यप्रवृत्तेरनाष्मविषयमेव मानजातमित्युपसंहरति- एवं प्रमाणमखिलं बहिरर्थनिष्ठं वेदान्तवाक्यमपहाय यथोक्तहेतोः । न प्रत्यगात्मविषयं श्रुतिरप्युवांच स्पष्टं पराश्चिवचसाऽर्थमिमं यथोक्तम् ॥१२॥ एषमिति। यथोक्तहेतोर्षेदान्तातिरिक्तमानत्वादिहेतो: । न प्रत्यगिति सतश्ष मिन्नविषयत्वान्न तद्ेदान्तवाधकमित्यर्थः । श्रुतिरपीममर्थं संवद्तीत्याह-श्रुतिरिति ॥१२॥
Page 13
४४८ टीकाट्वुय समेतं- [ २ द्वितीयोऽच्याय: ]
अ० दी.०-तस्माद्वेदान्तवाक्यातिरिक्तं सर्वमेव प्रमाणमनात्मनिष्ठमेवेत्युपसंहरति- एवमिति। श्रुतिरपीन्द्रियाणां पराग्विषयत्वमेव ब्रवीतीत्याह-ध्रुतिरपीति।'पराज्जि खानि' इतिवचसा यथोक्तमिममर्थ श्रुतिरपि स्पष्टं यथा स्यात्तथाऽडद्देत्यन्वयः ॥ १२॥ सु० टी०-श्रुतिं दर्शयति- पराश्चि खानि व्यतृणत्स्वयंभू- स्तस्मात्पराङ्पश्यति नान्तरात्मन्। कश्रिविद्धीरः प्रत्यगात्मानमैक्ष- दावृत्तचक्षुरमृतत्वभिच्छन् ॥ १३॥ पराम्ीति। पराग्विषयार्णीत्यर्थः । खानीन्द्रियाणि व्यतृणद्दिविंसित- वान्पराग्विषयत्वस्य सर्वानर्थहेतुत्वाद्धिंसोक्तिः। स्वयंभूः स्रषा पराङ्- पराचं नान्तरात्मन्नान्तरात्मानं कश्व्िविदाराधितेश्वर आवृत्तचक्षुर्निरुद्ध- चित्तः ।। १३ ।। अ० टी०-तामेव कठवल्ीगतां श्रुतिमुदाहरति-पराञ्चीति। स्वयंभू: स्रष्टा खानी- न्द्रियाणि पराञ्चि पराग्विषयपराङ्मुखाणि व्यतृणद्विंसितवान्। व्यसृजदिति वक्तव्ये व्यतृण- दिति वदन्पराङ्मुखत्वेन तेषां सृष्टिर्हिसैव संसारहेतुत्वादिति दर्शयति। यस्मादेवं तस्मा- नतैरिन्द्रियैः पराडेवानात्मरूपविषयान्पश्यति लोको नान्तरात्मानं पश्यतीत्यर्थः । अत्रेन्द्रिय- ग्रहणं मनसोऽपि ग्राहकं द्रष्टव्यम् । यतः कश्चित्कोऽपि मनुष्याणां सहस्रेष्वमृतत्वं मोक्षमि- च्छन्ावृत्तचक्षुनिगृहीतसर्वे्द्रियश्चक्षुर्ग्रहणमुपलक्षणं प्रत्यगात्मानमैक्षत्पश्यतीत्यर्थः । तथा च प्रत्यगात्मा नेन्द्रियगोचरोऽत एव मानादेरप्यगेचरोऽत्यन्तातीन्द्रियेऽर्ये व्याप्त्याद्यसंभवादिति भाव: ॥ १३ ॥ सु० टी०-नन्वेवं कुतो महावाक्यमपि भौतिकमनात्मविषय न भवतीति चेन्नेत्याह- यत्कर्मभावमनपास्य निजप्रमेये संवित्तिसाधनतया जगति प्रसिद्धम् । मानं जडार्थविषयं तदिहा्युपेयं न प्रत्यगात्मविषयं कथितोपपतेः ॥ १४॥ यत्कर्मभावमिति। यद्धि कर्मी कुर्वन्व्यक्षपति तदेव व्यङ्गयसजातीयमुप- कार्योपकारित्वप्रयुक्तत्वात्साजात्यस्य। तादवशं च जडविषयमेव मानं
Page 14
[ २ द्वितीयोऽध्याय: ] संक्षेपशारीरकम्। ४४९
न स्वात्मविषयं तस्य चिदात्मन्युपकाराजनकत्वादिति न 'तस्यानात्म- विषयत्वप्रसङ्ग इत्यर्थः । कधितेति। यत्कर्मभावमित्यर्धेन । १४ ॥
अ० टी०-ननु श्रुतेरपि शब्दत्वात्तस्य भौतिकत्वादिन्द्रियैरविशेषादनात्मविषयत्वमेवेति चेत्तत्राऽऽह-यत्कर्मभावमिति। यत्म्रमाणं निजप्रमेये कर्मभावमनपास्यापरित्यज्य संवित्तिसाधनतया जगति प्रसिद्धं तन्मानं जडार्थविषयं व्यवहारभूमावष्युपेयं न ततकदाचि- दपि प्रत्यगात्मविषयं कथितोपपत्तेर्व्यञ्जकस्य व्यङ्गयसजातीयत्वनियमादित्यु क्तोपपत्तेरित्यक्षरयो- जना। वेदान्ता अनात्मविषया भौतिकत्व।च्चक्षुरादिघदिति प्रयोगे स्वविषयप्रकाशकरत्वमु- पाधिरित्युक्तं भवति। तथा च 'यद्गौतिकं भवति भौतिकगोचरं तत्' द्वत्यत्र स्वधिषय- प्रकाशकरं सद्गौतिकत्वहेतुर्विवक्षितोऽतो वेदाम्तषु विशेषणाभाषाद्वेतवसिद्धिश्च वस्तुतो वेदस्य चिद्विवर्ततया वक्ष्यमाणत्वाद्धतकार्यत्वं न वेदस्यास्तीति स्व्रप्रकाशकत्वसिद्धिरिति भाव: ।। १४ ॥
सु० टी०-नन्वातमानमकर्मीकुर्वतस्तश्वमादेः कथमात्मबोधकत्वं मानत्वस्य संविदाधानप्रयुक्तत्वादिति चेन्नाविद्यानिवर्तकत्वरेन मानत्व- संभवादित्याह-
यत्तु प्रमाणमवधीर्य निजप्रमेये कर्मत्वमर्थमवबोधयितुं प्रवृत्तम् । तत्म्रत्यगात्मविषयं भवितुं क्षमेत तत्तत्त्वमादिवचनं न ततोऽन्यदस्ति ॥ १५॥
यत्विति। अवधीर्यानाद्वत्य। न चाकर्मीभूतवस्तुबोधकत्वं प्रत्यक्षादे- रिति न तद्विषयत्वमात्मन इत्याह-तदिति ॥१५॥
अ० टी०-ननु प्रमाणमात्रस्य संवितफलाविशेषात्सर्वमेव मानं जडविषयं नाऽडत्मवि- षयमिति चेत्तत्राऽह-यत्तु प्रमाणमिति । अक्षरार्थस्वतिरोहितः । मानानां संवित्फलत्वमात्रं न जडविषयत्वे प्रयोजकं कि तु स्वात्मसंवित्फलख्वमिति भावं सूचयन्निज प्रमेये कर्मत्वमवधीर्य तेन संविज्जनकत्वं प्रत्युक्तं मानत्वं सर्वत्रापि किं त्वविद्यानिवृत्तिमात्रमेव मानत्वं जड्ेष्वपि संविद्धपतयाSविद्यानिवृत्त्यर्थत्वाङ्गीकारादिति भाषः । तर्हि प्रत्यक्षादिरप्य- विषयतया प्रत्यगात्मानं बोधयितुं क्षमेत किमिति तेषामनात्मविषयत्वं नियम्यत इति ५७
Page 15
४५० टीका टय समेतें-
तत्राऽडह-तत्तच्वमादीति।'न चक्षुषा गृह्यते नाधि वाचा नान्यैर्देवैस्तपसा कर्मणा चा' [मुण्ड०३। १।८] 'नावेदविन्मनुते तं बृहन्तम्' इत्यादौ वेदेतरमानानां प्रत्यगा-
रगम्यत्वमपीत्यर्थः ॥ १५॥ सु० टी०-कथं जडविषयमानस्याज्ञातबोधकत्वासंभव इति चेसद-
नाज्ञाततावगतिरस्ति जडेषु पूर्व मेयेषु तत्स्फुरणकारणवर्जितत्वात्। मानोदयान्न हि पुरा किमपीह मानं नापि प्रमेयबलतो जडता हि तस्य ॥ १६ ॥ नाज्ञाततेति। जडपमेयेषु हिन मानप्रवृत्तेः प्रागज्ञातत्त्वसिद्धिरस्ति तदा तेषां स्कुरणे हेत्वभावादज्ञातत्वस्थ तत्प्रतियोगिकत्वेन तन्निरुप्य- त्वादित्यर्थः । तथा हि किं जडानां मानवलेनैव मानात्पूर्व भानं स्वतो वा नाऽडय्य इत्याह-न हीति। नान्त्यः स्वसंवेद्यत्वाभावादित्याह- नापीति ॥१६ ॥ अ० टी०-नन्वेवमुक्तरीत्या प्रत्यक्षादेर्नाSSत्मविषयतेति सिद्धं तथाऽपि 'अज्ञातमर्थ- मवबोधयदेव मानम्' इत्यत्र प्रत्यगात्मन एवाज्ञातत्वं तद्विपये वेदान्त एव तत्त्वावेदनलक्षणं प्रामाप्यं प्रत्यक्षादिविपयस्य नाज्ञातत्वमिति तद्विषयं सर्वमेत्र प्रमाणं न तरवावेदकं कि तु व्यावहारिकमेव प्रामाण्यमिति यदुक्तं तत्र प्रमाणविषयस्यानात्मनोऽज्ञातत्वाभाषः कुत इति वक्तव्यमिति चेत्तत्राज्ञातत्वावगमे हेत्वभावादित्याह-नाज्ञाततेति। अयमर्थो जडे- ष्वज्ञाततामानादवगम्यते स्वप्रकाशतया वा। आद्येऽपि जडावगमप्रमाणवृत्तेः प्रागेवावग- म्यते पश्चाद्वा गम्यत इत्याह-नाज्ञाततेत्याद्येन पद्येन। जडेपु मेयेष्विति संबन्धत इत्यत आह-ततस्फुरणकारणवर्जितत्वादिति। उक्तमेव हेतुमुपपादयति- मानोदयादिति । मानोदयारपुरेह विषयेऽस्याज्ञातत्वे न हि किमपि मानमर्त्यतो मानोदयात्पूर्व नाज्ञाततासिद्धिरित्यर्थः । न द्वितीयो मानोदयात्पश्चाद्विषयेऽज्ञातताया निवृत्तत्वान्न मानावगम्यतेति द्रष्टव्यं मानविरोधि नाज्ञातत्वं संभवतीति भावः । स्वप्रकाश- त्वकल्पं प्रत्याह-नापि प्रमेयबलत इति। तस्य प्रमेयस्य जडता हि प्रसिद्धा।
Page 16
संक्षेपशारीरकम्। ४५१
सु० टी०-नन्वज्ञातमपि मेयं स्वयमेव स्वाज्ञातत्वं बोधयल्किति नेत्याह- नाज्ञाततावगतये स्वयमेव बाह्यं. मेयं समर्थमवबोधविलक्षणत्वात्। नापि प्रमाणमवबोधकमस्ति किंचि- न्मानोदयात्पुर इति स्फुटमश्युपेयम्॥१७॥ नाज्ञाततेति.। जडत्वेनाबोधकत्वादित्यर्थः । नापीति मानप्रवृत्ते: पूर्वं न नद्वोधकं मानमस्तीत्यर्थ: । तथा हि न तावञ्चक्षुरवबोधकमज्ञानस्य तद- योग्यत्वात्। नापि मनः सुषुप्ती तेन विनाऽपि तद्द्भानात् । नाप्यनुमाना- दिकमपरोक्षानुमवत्वादिति मावः।१७॥ अ० टी०-ननु, जंडेष्वज्ञातत्वानुभवादेव तत्साधनसामर्थ्य कल्प्यमिति चेन्नासं- मधादित्याह .- नाज्ञाततेति। अवबोधविलक्षणत्वादिति ज्ञानरूपत्वाभावादित्यर्थः स्पष्टमन्यत्। पूर्वोक्तस्यैवायं प्रपञ्चः। जडेष्वज्ञातत्वानुभवस्तद्विषय प्रमाणानुदयाद्वा तदवच्छि- नचिदावरणाद्वा संभवतीति भाव: ॥। १७ ॥ सु० टी०-ननु माने प्रवृत्ते तदन्यथानुपपत्या मेयस्य प्रागज्ञातत्व कल्प्यमिति चेन्न मानप्रवेशात्पूर्वमज्ञाततावगत्यपेक्षणादन्यथा तद्बुभु- व्साद्यनुत्पादेन मानस्याप्यप्रवृत्त्यापत्तेरित्याह- नाज्ञाततामनवगम्य पुरा प्रवेशा- न्मानस्य किचिदपि मानबलेन बोडुम्। शक्रोति कश्र्विदपि मानबलेन बुद्धं किं वा स्वभाव इति निश्वयहेत्वभावात् ॥१८॥। नाज्ञालतामिति ॥ किंचेवं मानात्पूर्व घटादेरज्ञातत्वाज्ञाने घटादिस्फुर- णस्य मानफलत्वमपि न सिध्येत्तस्य स्वामाविकत्वागन्तुकत्वयोरनि- श्रयादित्याह-मानेति।किमिदं मानेन बुद्ध किं वा बुद्धत्वमेवास्य स्वमाव इत्यनिश्रयादित्यर्थः । न च चक्षुर्व्यापारानन्तर्यात्तज्जन्यत्व- निश्ववयस्तरय प्रागज्ञातत्वाज्ञाने तदानन्तर्यस्यापि दुरवधारणत्वादिति माव:।१८.॥
१ ख. याञ रफुरणं स्कु. ।
Page 17
४५२ टीका दवय समेतं- [ २ द्वितीयोऽध्याय: ]
अ० टी-जनु मा भून्मानप्रवृत्तेः प्राग्जडेष्वज्ञाततासिद्धिर्मा च भूत्प्रत्यक्षेण तत्सि- द्विस्तथाऽपि मानप्रवृत्त्यन्यथानुपपत्या प्रागज्ञातत्वं कल्प्यत इति चेत्तत्राऽडह-नाज्ञा- ततामिति। मानस्य प्रवेशातपुराऽज्ञाततामनवगम्यावगन्तव्यो मयाऽयमर्थ इति बुभुत्सया मानबलेन मानं प्रवर्त्य तद्वलेन विषये ज्ञाततां बोद्धुं कश्विदपि किंचिदीषन्मात्रमपि बोद्ुं न शक्रोतीति योजना। तथा च मानप्रवृत्तेः प्रागेवाज्ञातत्वावगमापेक्षणान्न मानोदयोत्तर- कालं तत्कल्पना संभवतीत्यर्थः । तर्हि बुभुत्सया मानप्रवृत्तिर्मा भूद्दैयगत्या प्रवृत्तेनैव माने- नार्थ जानीयात्तदन्यथानुपपत्या च प्रागज्ञातत्वमवगच्छतीति चेननैवमपि संभवतीत्याह- मानबलेन बुद्धमिति। ज्ञेयस्य वस्तुनः प्रागज्ञातत्वासिद्धा बुद्धमपि तन्मानबलेन वा बुद्धं किं वा स्वभावत एवेति निश्चयो न स्याद्धेत्वभावादित्यर्थः । वस्तुसिद्धेरागन्तुकत्वानि- श्वयात्तदनिश्चये च प्रागज्ञातत्वकल्पनायोगादिति भावः ॥१८॥. सु० टी०-दष्टान्तमाह- प्रक्षालनेन धवलं किमिदं बभूब किं वा पुराऽपि धवलं स्वयमेव वस्त्रम्। इत्येवमेव न विवेक्तुमलं कदापि यो दृष्टवान्न मलिनं वसनं पुरस्तात्॥१९॥ प्रक्षालनेनेति। यथा हि प्रागज्ञातवस्त्रमालिन्यः क्िमिद्मादित एव शुभ्रं प्रक्षालनाद्वेति न विविनक्तीत्यर्थः ॥। १९।। अ० टी०-ननु मा भून्मानाबुद्धत्वनिश्चयो बुद्धत्वमात्रं तावत्प्रत्यक्षमस्ति तेन ग्राग- बुद्धत्वं कल्प्यतामिति चेन्नैवमित्यत्र दृष्टान्तमाह-प्रक्षालनेनेति। यः प्रथममेव धवल वस्त्रदर्शी ततः पुरस्तात्पूर्व कदाचिदषि मलिनं तद्वसनं न दृष्टवान्स एप वस्त्रं प्रक्षालनेन किं धवलमासीकिं पुराडपि पूर्वमपि स्वयमेव धवलमित्येवं विवेक्तुं नालं समर्थो यथेत्यर्थ:।।१९।।
एवं पुराऽनधिगतं यदि नानुभूतं मानेन बोधितमिदं प्रतिभाति मेयमू। न स्वप्रंकाशमिति शक्यमिदं विवेनुं केनापि नैव तदवस्थतयैव दृष्टेः ॥ २० ॥ एवमिति। इद वस्तु मानेनैव बोधितं भाति न तु स्वप्रकाशमिति न केनावि विवेक्तुं शक्यमिति संबन्ध: । तदवस्थतयेव स्फुरदवस्थतयैव
Page 18
[ २ द्वितीयोऽध्याय ] संक्षेपशारीरकम्। ४५३
अ० टी०-दार्श्टान्तिकमाह-एवं पुरेति। अनधिगतमनधिगतत्वं पुरा मानप्रवृत्ते- र्यदि नानुभूतं तहींदं मेयं मानेनाSSगन्तुकेन बोधितं सत्प्रतिभाति न स्वप्रकाशमिदमिति विवेक्तुं केनापि नैव शक्यं यतस्तदवस्थतयैव प्रकाशमानावस्थत्वेनैव मेयस्य दृष्टोरिति योजना। प्रकाशस्या SSगन्तुकत्वादर्शनेSन्यकृतत्वकल्पनायोगात्स्वाभाविकमेवेदमस्येति पुरुषा- नुमानकृतमित्यभिप्रायः ॥ २०॥ सु० टी०-नन्वस्तु परेषां घटादेरज्ञातत्वबोधासमवाद्मेयस्वमस्माकं तु साक्षिणैव तद्वगमसंभवादनात्मविषयमपि चक्षुरादि प्रमाणं स्यादिति चेन्नाज्ञानस्य साक्षिण्यध्यस्तत्वेन जडेषु तद्भावादित्याह- अज्ञातमर्थमवबोधयितुं न शक्त- मेवं प्रमाणमखिलं जडवस्तुनिष्ठम्। किं त्वमबुद्धपुरुषं व्यवहारकाले संश्रित्य संजनयति व्यवहारमात्रम् ॥ २१॥ अज्ञातमिति। जडवस्तुनिष्ठं जडवस्तुविषयम्। कथं तर्हि प्रत्यक्षादिषु पामाण्यं व्यवहार इति चेत्तद्वेतोरज्ञानदोषस्याऽतत्त्वबोधमनुवृत्तेरि- त्याह-किंत्विति। अप्रबुद्धमज्ञानिनं पुरुषमाभित्येत्यर्थः । तेन घटा- द्यर्वच्छिन्नचिन्निष्ठाज्ञाननिवृत्त्या तव्यवहारहेतुत्वमेव तत्पामाण्यमि- त्यर्थः ॥ २१॥ अ० टी०-तस्मादनात्मनो ज्ञातत्वासंभवात्तदविपयस्य मानस्य न तत्त्वावेद्कत्वमस्त्यज्ञा- तार्थाधिगन्तृत्वाभावादित्युपसंहरति -- अज्ञातमिति। तर्हि भ्रान्तिज्ञानवद्वयवहारविसं- वादोऽपि स्यादिति चेन्नेत्याह-किं त्विति। व्यवहारकालेऽप्रबुद्धपुरुषमज्ञानदोषदुष्ट नरमाश्रित्य तदप्रबुद्धवस्तुप्रदर्शनव्यवहारमात्रं संजनयत्यतो व्यवहारकाल एव रजतादिवि- षयभ्रान्तिज्ञानवद्विसंवादाभावात्प्रत्यक्षादिषु प्रमाणत्वव्यवहारो न विरुध्यत इत्यर्थः ॥२१॥ सु० टी०-ननु तहिं सर्वजडानां मिथ्यात्वादूघटादी शुक्तिरजतादा
भाग: किंकृत इति चेन्मिथ्यात्वेऽप्यवान्तरभेदादाप्रबोधं स्व्रपट्टष्टेष्वि- वाSड्ह्मबोधं जाग्रत्प्रपश्चेऽवि तद्यवस्थोपपत्तेरित्याह- आबोधतः सकलमेव हि सत्यमिथ्या- भ्रान्तिपरमाणंविनिवर्त्यनिवर्तकत्वम्।
Page 19
टीकाद्वय समेत- [२ द्वितीयो ऽध्याय: ]
स्वभेडपि दृष्टमिदभेवमिहापि जाग्र- त्काले भवत्वखिलमापरमात्मबोधात् ।। २२।० आबोधत इति। जागरणपर्यन्तमित्यर्थः । आपरमात्मेति । 'यत्र वा अस्य सर्वमात्मैवाभूत् '[बृ० २।४। १४ ] इति श्ुतेः ॥ २२ ॥ अ० टी०-ननु यदि जाग्रदवस्थाज्ञानस्य तत्वानावेदकत्वं तर्हि सम्यग्ज्ञानस्याभा- बाद्धान्त्यादिविभागासिद्धिप्रसङ्ग इति चेन्नैवं मिथ्यात्वेऽप्यवान्तरभेदाव्यवस्थोपपत्तेरिति स्वप्रदृष्टान्तेनाSSह-आबोधत इति। आबोधतः प्रबोधपर्यन्तं यथा स्वमेऽपि सर्वेषां भ्रान्तित्वाभिमते सत्यमिथ्यादि सकलमेव हीदं व्यवस्थितं दृष्टमेवमिहापीति दार्थ: न्तिकभागः स्पष्टार्थः ॥ २२ ॥ उक्तमेव विभागं स्वाप्िकोदाहरणेन व्यनक्ति- सवमे तप्तशिलाधिरोहणगता निःश्रेयसोपायता मिथ्या ब्राह्मणतर्पणादिनिलया सत्या तथा लौकिकी॥ स्त्रक्सत्या तदहिर्मृषैव विदितो निद्धानिवृत्तौ पुनः स्वभे दृष्टमशेषमेव वितथं ग्राहं तथा जागरे ॥२३ ॥ स्वम्न इति। तप्तशिलाधिरोहणं बौद्धागमप्रसिद्धम्। तत्रापि लौि: कविभागमाह-तथेति। अस्तु तद्पि सत्यमिति चेन्न जाग्रति बाधादि- त्याह-निद्रेति। दार्ध्टान्तिके योजयति-ग्राह्यमिति ॥२३ ॥ अ० टी०-आबोधत इति पूर्वपद्योक्तमव विशदयन् पाखण्डिनां शास्त्रमप्रमाण वेदशास्त्रं तु प्रमाणमिति कथं सिध्येत्सर्वस्वप्रवज्जागरितस्यापि भ्रान्तत्वइ[मि]ति शङ्कां, स्वप्रदृष्टान्तेनैव निराकरोति-स्वप इति। शास्त्रीयो लौकिकश्च व्यवहारः सत्यमिथ्या- व्यवस्थया स्वपेऽषि विदितो यावन्निद्रादोषानुवृत्तिरिति संपिण्डितोऽर्थः । निद्रादोषविनि- वृत्तौ पुनः स्वप्ने दृष्टमशेषमेव व्यवस्थयोपलब्धं वितथं मिथ्यैवेति यथा तथा जागरेऽि. यावदविद्यमेव व्यवहारव्यवस्था निवृत्तायामविद्यायां सर्वोडपि व्यवहार: शास्त्रीयो लौकि -- कश्च मृषेति ग्राह्यमित्यवकिष्टभागार्थः ॥ २३॥ सु० टी०-तथा जागर इत्यस्य दष्टान्तस्य शेषं प्रपश्चपति- श्रेय:साधनताऽग्निहोत्रनिलया सत्येति संगुह्यते मिथ्या तप्तशिलाधिरोहणगता शिष्टैः परित्यज्यते।
१ क. ख. ग .. 'त्रत्वस्य.।
Page 20
संक्षेपशासेरकमू
रज्जुः सत्यतया स्थितैव तदहिर्मिथ्यैव तादद्वे- यावन्मूलतमोविदारणपटुर्वियोदयो नाडडगमात्॥ २४॥ श्रेयःसाधनतेति । स्पष्टम् ॥।२४॥ अ० टी०-'ग्राह्यं तथा जागरे' इत्युक्तं दाष्टोन्तिकं प्रपञ्चयति-श्रेयःसाध. नतेति। यावन्मूलतमो [ विदारणपटुः ] सर्वसंसारव्यवहारमूलाविद्यानिवारणपदुविद्यो- दयो यावत्त्त्वमस्यादिमहावाक्यरूपागमान्न भवेत्तावत्पूर्वोक्तं सर्व भवेत् । तस्मिस्तु सति तत्सर्वमपि न भवेदतो वितथमेव सर्वमनात्मजातमित्यर्थः ॥ २४॥ सु० टी०-ननु सर्वस्य स्वप्तुल्यत्वे विज्ञानवादिसमयाविशेष इति
ननु शाक्यभिक्षुसमयेन समः प्रतिभात्ययं च भगवत्समयः । यदि बाह्यवस्तु वितथं तु कथं समयाविमौ न सदशौ भवतः ॥ २५ ॥ नन्विति। शाक्येन वेदप्रामाण्यानभ्युपगमात् कथं तत्समयस्य तदभ्यु- पगन्तृभगवत्पादसमयसाम्यमिति चेत्तत्राSऽह-यदीति। विज्ञानातिरि- क्तवस्त्वनम्युपगमे तत्साम्यं कुतो नेत्यर्थः ॥ २५।। अ० टी०-ननु यदि सर्व बाह्यं वितथमेवेत्यभिमतं भवतां सर्हि कथं वेदशास्त्र- प्रामाण्यं बुद्धशास्त्राप्रामाण्यं च यथाप्रसिद्धमुपपद्यते व्यवहार इत्युक्तं संगत स्यात्साक्षाद्वि- ज्ञानवाद्यादिमतस्यैवाभिधानादिति कश्चिच्चोदयति-नन्विति। साक्यभिक्षुर्बौंद्दो मुनिः। साम्यमेवाभिनीय दर्शयति-यदि बाह्येति ॥२५॥ सु० टी०-अन्वयमुखेनापि तत्साम्यमापाद्यति -- यदि बोध एव परमार्थवपु- र्नतु बोध्यमित्यभिमतं भवति । ननु चाउडश्रितं भवति बुद्धमुने- र्मतमेव कत्स्मिह मस्करिभिः ॥ २६ ॥ यदि बोध इति। तेषां हि ज्ञानादभिन्नं ज्ञेयं ज्ञाने प्रतिभासमानत्वा ज्ज्ञानवत्। अन्यथा ज्ञानज्ञेययोग्रहहियग्ाहकता न स्पाद्संबन्धात् तत्र च
Page 21
४५६ टीकाद्वय समेतं- [१ द्वितीयोऽध्याय: ]
ज्ञानं सत्यं ज्ञेषं त्वनादिवासनाविलसितमिति सिद्धान्त: । मवतामपि च ज्ञानरूपांत्मनि ज्ञेयं सर्वमध्यस्तम् । तद्भिन्नं स्वप्रवदितिषदृता तत्साम्यं दुर्वारमित्यर्थः ॥ २६॥ अ० टी०-घाह्यवैतथ्यमात्रेण कथं मतसाम्यं वैषभ्यस्यापि कथंचित्संभषादिति चेन्नैवं विशेषादर्शनादित्याह-यदि बोध इति। यदि बोधज्ञानमात्रं परमार्थस्वरूपं, न तु बोध्यं परमार्थसदिति भवतामप्यभिमतं भवति तदा ननु निश्चितं मस्करिभिर्वैण- वदण्डधारिभिवैदिकसंन्यासिभिरपि बुद्धमुनेर्विज्ञानवादिनो मतमेत्र कृत्स्नमिहाSडश्रितं भवति तेनापि तथैचाङ्गीकारादिति योजना ॥ २६ ॥ सु० टी०-एकदेशसाम्येन तत्साम्यापादनं चेन्नयायिकादेरेपि बाह्या- र्थाभ्युपगमसाम्यात् सौत्रान्तिकाविशेष: स्यात्सवसाम्येन चेत्तरहि सुगतेन ग्राह्यग्राहकग्रहाणां प्रकाशयप्रकाशकप्रकाशात्मके दीपादाविव वास्तवाभेदाभ्युपगमात्। अस्माभिस्तु कर्तृकरणकर्भक्रियाणां विरोधे- नाभेदासंभवादहं चक्षुषा घटं पश्यामीति मातृमानविषयादीनां परस्परं धर्मिसमसत्ताकविभागस्वीकारान्नाऽडवयो: साम्यमिति समाधचे- ननु मातृमानविषयावगती- रपरस्परं प्रति विभागवतीः । उपयन्भदन्तमुनिना सदशः कथमेष वैदिकमुनिर्भवति ॥ २७॥ नन्विति। अपरस्परमन्योन्यं प्रति विभागो व्यवस्था । मदन्तः सुगतः ।। २७ ॥ अ० टी०-न हि साम्यं मतयोर्मतवैषभ्यस्य स्कुटत्वादिति परिहरति-नन्विति। मातृमानविषयावगतीश्चेत्येवं चतुर्विधं व्यवहारकाले मिथो विभक्ततयाSसंकीर्णमित्युपपन्न- मङ्गीकुर्वन्नेष् वैदिकमुनिर्भदन्तमुनिना बुद्धाचार्येण कथं सदृशो भवति न कथमपीत्यर्थः । विज्ञानमेबैकं ज्ञेयाकारं तच्च क्षणिकमितिविज्ञानवादिमतं मात्रादिचतुष्टयं परस्पर- बिभक्तं नित्यचैतन्यात्मन्यविद्ययाऽथ्यस्तमनिर्वचनीयं तच्च यावन्यवहारं स्थिरमिति वैदिकमु- निमतमेतदेव वैषम्यं मतयोरिति भाव: ॥२७॥
१ क. हमविज्ञि। २.क. °पिषात्वर्था।
Page 22
[२ द्वितीयोडण्याय: ] संक्षेपशारीरकमू। ४५७
सु० टी० -- ननु त्वयाऽपि प्रमातृममाणादिमेदोऽम्युपगतश्रेत्न तर्ह्या
चन्द्रेदस्य नाद्वैतविरोधो नापि विज्ञानवादविशेष इत्याह- परमात्मसंश्रयतमोजनितं भविभक्तमेव तु परस्परतः । स्थिरमश्युपेतमिह नः समये ननु मातृमानविषयप्रभृति ॥२८ ॥ परमात्मेति। (* प्रविभक्तं स्थिरमिति च पराभिमतान्मान्नादेविशेष उक्त: ।) नतु निश्नये॥ २८॥ अ० टी०-ननु त्न्मतेऽपि दृश्यस्य मिथ्यात्े तस्यासत्त्वमेत्र स्यान्न सत्यत्वं ततः कुतबातुर्वि्यं स्थिरं तवेत्याशङक्योक्तमेव वैषम्यं स्फुटयति -- परमात्मसंश्रयतम इति। मातृमानविषयप्रभतीत्यस्य विशेषणानि परमात्मसंश्रयेत्यादीनि। तत्राSडद्ेन विशेषणेन प्रमान्नादेर्श्ञानात्मत्वनिरासो द्वितीयेनैकस्यैव ग्राह्यग्राहकाकारतेत्यस्य निरासस्तृतीयेन क्षणि- कत्वनिरास इति लेशतोऽपि नास्मन्मतस्य बौद्धमतसाम्यमित्यर्थः ॥२८॥ सु० टी०-प्रमान्नादिचतुष्टयं प्रविभक्तं व्यवहाराङ्गं चेत्तद्यवहारार्थ- मपि प्रमात्राद्य्तरापेक्षायामनवस्था स्यात्। न हि तैरेव तङ्हः संभ- वति केर्तृकर्मत्वविरोधादिति पेन्न प्रमाणाधीनसिद्धिकस्यैव प्रमात्राद्यपे- क्षणात्। प्रमान्नादेस्तु सुखादिषत्। साक्षिवेद्यत्वदुदासीनवोघस्य च साक्षिणो निरपेक्षत्वादित्याह- तमसा विनिर्मितमिदं सकलं चतुरः स पश्यति परः पुरुषः। अविकारिबोधवपुरद्दयकः करणैर्विना सकलसाक्षितया॥ २९॥ समसेति। इदू सकलमित्युक्तं विवृणोति-चतुर इति। प्रमात्रादीन्। पोडटय: पुरुषोऽविकारिबोधवपुः स चक्षुरादिभिर्पिना निर्व्यापारनित्य-
- क. पुस्तके नायं ग्रन्थः ।
१ क. ग. कर्मकर्तृत्व०।२ क. ग. 'स्वात्तङु०।
Page 23
४५८ टीकाद्वय समेतं- [२ द्वितीयोऽण्याय: ]
चैतन्येनेवेदं सर्व पश्यतीत्यर्थः । तेनौदासीन्यबोधा्भ्यां साक्षिशब्दार्हत्व- मुक्तं कथं दर्शनक्रियाकर्तुरौदासीन्यमिति तत्राSSह-सकलेति। तावृश- स्यैव साक्षित्वदर्शनादित्यर्थः ।। २९॥ अ० टी०-बाह्यस्य मिथ्यात्वाभ्युपगमेऽप्यसद्वादानम्युपगमान्न बौद्धमतसाम्यमस्म- न्मतस्येति प्रतिपाद्यान्यमपि बौद्धमताद्विशेषमाह-तमसेति। किमिदं तमसा विनिर्मितं सकलमिति जिज्ञासायां साक्षिदृश्यं सर्वमित्याह-चतुर इति। पदार्थान्प्रमात्रादीन्पर- स्तेभ्यो भिन्नः पुरुषः स आत्मा प्रपश्यति। यानेष पश्यतीदं सकलं तमसा विनिर्मितमिति योजना। तस्य मते प्रमात्नादेर्न चिन्निष्ठाज्ञानजत्वं न च स्वात्यन्तभिन्नदृश्यत्वमिति ततो विशेष इत्यर्थः । पुरुषस्य दृश्यदर्शनप्रकारविशेषं वैषम्यान्तरमाह-अविकारीति । विकारो जन्मादिस्तत्संबन्धरहितोडविकारी चासौ बोधवपुश्चाखण्डनित्ज्ञानस्वरूप इत्यर्थः। तस्य विज्ञानं क्षणिकमस्माकं तु चिदात्मा कूटस्थनित्य इति वैषम्यमुक्तं भवति। तस्याने- कानि ज्ञानान्यस्मन्नये पुरुषोऽद्यकः सर्वत्र सर्वदा चैक एवेति च वैषम्यम्। करणैर्विना पश्यतीति संबन्धः । अनेनाविकारिबोधकरूपत्वं समर्थितम्। करणजन्यो हि बोधो विकार्ययं न तथेत्यविकारीत्यर्थः। कथं तर्हि पश्यतीति कर्तृवचनेन निर्देश इति तत्राऽडह- सकलसाक्षितयेति। प्रदीपसवित्रादिवत्सांनिध्यमात्रेणेत्यर्थः । सर्वथाऽपि दृश्यस्य दृशो भेदविलक्षणत्वास्थिरत्वाविद्यानिर्मितत्वानात्मत्वाम्युपगमाद्द्ष्टुश्च कूटस्थनित्यत्वैकत्वा- भ्युपगमादस्मन्मतं शाक्यमतादत्यन्तं विलक्षणं सिद्धमिति भावः ॥ २९ ॥ सु०टी० -- ननु प्रमातुरेव साक्षित्वं दृष स च प्रमाणव्यापारापेक्ष इति कथं करणैर्विनेति चेन्न लोके व्यापाराविष्स्य कर्तृत्वेनासाक्षित्व- प्रसिद्द्वेरिहापि निर्व्यापारस्यासङ्गस्पैव स्वरूपचैतन्येन, साक्षित्वं न सापे- क्षस्पेत्याहं- निजमायया परिगतः पुरुष: परतन्त्रया तु निजया प्रभया। परिकल्पितं सकलमाकलय- न्स हि साक्षितामुपगतो अवति ॥ ३० ॥ निजेति। स्वाध्यस्तया मायया शबलः पुरुषः स्वस्मिन्कल्पितं जगन्नि- जया प्रमया प्रपञ्चाकाराविद्यावृत्तिगतेन स्वचिदामासेनाSSकलयन्सा- क्षितामेतीत्यर्थः। एतञ्जेश्वरस्य सर्वसाक्षित्वं जीवस्य तु साक्षित्वम- विद्याशबलस्थ बुद्धयादिवृत्तिगतामासेनेति द्रष्टव्यम्॥३०॥
Page 24
[२ द्वितीयोऽच्याय: ] संक्षेपशाररकम्। ४५९
अ० टी०-कथं त्वन्मतेऽप्यसङ्गोऽद्वयोऽविकारिबोधरूपः पश्यतीत्युपपद्यत इति मायावशात्सर्वमरमाकमुपपन्नमेवेति साक्षित्वमुक्तं विशदयति-निजमाययेति। स हि पुरुषों निजमायया परिगतः सन्साक्षितामुपगतो भवतीत्यन्वयः। स्वाश्रया स्वविषया स्वा माया निजमाया तया परिगतः स्वचिदाभासव्याप्त्या तादात्म्याध्यासमापन्नः स्वाध्यस्ता मायामवभासयन्साक्षितामुपगत इत्यर्थः । तर्हि कथं विश्वसाक्षित्वं तस्य तत्सङ्गाभावादि- त्यत आह-परतन्त्रयेति। तुशब्दश्चार्थः । परतन्नया स्वाश्रयमायोपाधिगतया निजया प्रभया स्वचैतन्याभासेन स्वाभासया मायया मायानुगतचैतन्येन चेति यावत्। परिकल्पितं सकलमाकलयन्नवभासयन्स्व चैतन्यावभासखचितं कुर्वनिति यावत्। अथ वा निजमायया स्वासाधारणशक्त्या परतत्रया जडया प्रवृत्यादौ चैतन्यसापेक्षयेति यावत् । परिकल्पितं सकलं निजया प्रभया स्वचैतन्येनाSSकलयन्व्याप्तवान्परिगतो व्यापकः साक्षितामुपगतो भवतीति योजना ॥ ३० ॥ सु० टी०-ननु मातृमानादे: स्थैर्यमनुपपन्नं तद्द्ि न तावत्प्त्यक्षेण तस्य विषयमात्रग्राहित्वात्। नापि लिङ्गेन व्याप्तिग्रहस्थलामावात्। नापि प्रत्यमिज्ञया ज्वालादी व्यमिचारात्तस्या हेत्वसंभवेनासंभवाच्च। चक्षुरादे: संबद्धवर्तमानग्राहित्वेन तत्ताग्रहेऽसामर्थ्यात्संस्कारस्य स्पृति- मात्रहेतुत्वेनेद्मनुगवेऽशक्ेरभिज्ञास्मृतिजनने निरपेक्षयोश्च तयोमे लनायोगादयं स इत्याकारमेदाच् तस्या विषयैक्यस्याप्यसंमवादित्याश- क्याSSह- ग्राह्यग्राहकयो: स्थिरत्वगमनी तत्पत्यभिज्ञाप्रमा नोपापत्स्यत चेदसेत्स्यदपि नौ सिद्धान्तयोस्तुल्यता। सा निर्वक्ष्यति सिध्यतीति न यनः स्थैयं स्वरूपात्मकं चैतन्यस्य च भङ्गुरत्वमिव मे सर्वस्य ते दर्शने॥ ३१॥ ब्राह्मग्राहकयोरिति। प्रमेयप्रमात्नोरित्यर्थः । स्थिरत्वमनेककालस्थायित्वं नदगमयतीति तथेदृशी प्रत्यमिज्ञापमा चेन्नोपपन्नाऽमविष्यत्तदाऽडवयोः सिद्धान्ततौल्यमभविष्यत्। सा तु निवक्ष्यति निर्व्यूढा भविष्यतीति हेतोर्मे मम जगतः स्थैर्य सिध्यतीति संबन्ध: । दोषाजन्यत्वेन बाधा- मावेन च प्रत्यभिज्ञाया: प्रामाण्यं ज्वालादौ तन्भ्रमो दोषात्। नच तस्या हेत्वसंभव: संस्कारसहितेन्द्रियस्यैव हेतुत्वात। संयोगे तमोध्वंसे च.निरपेक्षयोरवि चक्षुरालोकयो रूपग्रहे सापेक्षतादर्शनादविष्यासंभवोऽवि
Page 25
४६० टीकाहूय समेतं- [२ द्वितीयोऽध्याय: ]
नेत्याह-स्वरूपेति। तत्तेदन्तोपलक्षितं वस्तुस्वरूपमेव स्थैयं तदेवास्या विषय: सिध्यर्तीत्पर्थः। दृष्टान्तमाह-चैतन्यस्य चेति। यथा तव ज्ञानस्प क्षणिकत्वं स्वरूपं धर्मत्वे स्वलक्षणत्वक्षतेरेवं मम स्थैर्यमधीत्यर्थ:॥। ३१॥ अ० टी०-एवं दशः कुटस्थसाक्षित्वमुपपाद्य स्थिरमम्युपेतमित्यत्रोक्तं दृश्यस्याक्षणि कलक्षणं स्थिरत्वं साधयति-ग्राह्यग्राहकयोरिति। यदुच्यते बौद्धैः सौत्रान्तिकादि- भिर्राह्यस्य विषयस्य ग्राहकस्याऽऽतमचैतन्यस्य च क्षणिकतेति तत्तदा निश्चितं भवेद्यदि तयो> स्थैर्यग्राहकं प्रत्यभिज्ञा्यं क्षणिकत्वानुमानबाधकं न संसिध्येदित्येतदाह म्राह्मग्राहक- योर्विषयविषयिणोः स्थिरत्वगमन्येतयोः प्रत्यभिज्ञा नाम प्रमा चेननोपापतस्यत नोपपलाऽभ- विष्यत्तर्हि नावावयोः सिद्धान्तयोस्तुल्यताऽसेत्स्यदपि सिद्धिमगमिष्यदिति संभाव्येत सा प्रत्यभिज्ञाप्रमा म्राह्यग्राहकयोः स्थैयं सिच्यतीति निर्वक्ष्यति निर्वाहं करिष्यति। कुत्े नयतो नीतितः । यथाऽभिज्ञाप्रत्यक्षे दोषाजन्यत्वबाधाभावाभ्यां न्यायाम्यां स्वार्थाव्यभिचारित्वमे- वमस्या अपि न्याययोगात्स्वार्थसाधकत्वं संभवतीत्यर्थः । न चानयोः स्थैयं नाम धर्मों मयाऽम्युपेयते येन चैतन्यस्य धर्मयोगादेकरसत्वहानिशङ्काग्राहकात्मन इत्याह-स्थैर्य- मिति। चैतन्यस्य चकाराद्ग्राह्यस्य च स्थैर्यं मम मते स्वरूपात्मकमेव न धर्मस्ते दर्शने सर्वस्य भङ्गुरत्वं क्षणिकत्वमिवेति योजना। तेन च विज्ञानक्षणिकत्व योर्धर्मधर्मित्वाम्युपगमे स्वलक्षणत्वमभिमतं हीयेतेति भावः। आहकत्वसर्वविकारसाक्षित्वोपपादनेन पूर्वपद्य एवं स्थैर्य साधितमप्यत्र प्रत्यभिज्ञासामर्थ्यस्योभयतुत्यत्वादम्युच्चयार्थ आ्राहकस्य ग्रहणं कृतं स्वरूपात्मत्वकथनं तु प्रत्यभिज्ञायाः स्वरूपविषयत्वा .... लाप्रत्यभिज्ञानवद्भान्तित्वशड्काब्याद- न्यूर्थमिति च द्रष्टव्यम् ।। ३१ ॥ सु. टी०-नन्वेवं सर्वस्य कल्पितत्वे जागरत्स्वप्रयोन वैलक्षण्यं स्पासतश्र 'वेधम्यांज्ञ न स्वप्ाववत' [ब्ह्म० २। २। २९ ] इति
ननु कल्पितं यदिह जागरितं वद कीदशी खलु विलक्षणता। स्वपनादमुष्य भवतोऽभिमता परिकल्पितत्वमुभयोस्तु समम् ॥३२॥ ननु कल्पितमिति। उमयोर्जाग्रत्स्वप्रयोः ॥३२॥ अ०टी०-एवं बौद्धमतसाम्ये परिहतेऽपि मदुकं जागरस्य स्वमसाम्यं तन्नमखन
Page 26
[ २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ४६१
योर्वैलक्षण(ज्य)स्य सर्वसंप्रतिपन्नत्वादयुक्तमित्याशङ्कते-नन्विति ।. सदपि सत्यत्वेन प्रसिद्धमपि जागरितं कल्पितं चेत्तदा वद कीदृशीति योजना। सुगममन्यत् ॥३२ ॥ सु० टी०-मिथ्यात्वाविशेषेऽपि जाग्रत्मपञ्चस्याविद्यातिरिक्तदो- पाजन्यत्वेन व्यावहारिकत्वं स्वपस्य तु निद्रादिदोषान्तरजन्यत्वेन प्रातीतिकत्वं तथा व्यावहारिकत्वमपि न व्यवहारहेतुत्वं स्वाप्निकेऽपि सत्त्वादृपि तु प्रमातरि सत्यबाध्यत्वम्। सति च तस्मिन्बाध्यत्वं प्रातीति- कत्वमिति वैधम्पेण समाधते- न प्रमातरि सति प्रबाध्यते जागरः स्वपनदृष्टवस्तुवत्। मातृमानविषयोपलब्धिभिः साकमेव तमसो निराळतेः ॥३३ ॥ न प्रमातरीति। ननु जागरस्य बाध एव नास्ति तददर्शनादिति चेन्ने- त्याह-मातृमानेति। 'तत्केन कं पश्पेत् '[बृह० ४।५।१५] इत्या- दिशुत्या प्रमान्नादिभि: सहैव ब्रह्मज्ञानादविद्यानिवृत्तेरुक्तत्वान्नतु स्वप्रा- दिवस्सति प्रमातर्रीत्यतोऽदर्शनमित्यर्थः॥ ३३॥ अ० टी०-मिथ्यात्वांशे वैलक्षण्याभावेऽप्यस्ति वैषम्यान्तरमिति परिहरति-न प्रमातरीति। जाम्रत्स्वप्रयोः प्रमाता ह्येक: प्रसिद्धः प्रत्यभिज्ञानात्। तत्र सवपने सवमे दृष्टवस्तु यथा प्रमातरि स्वमोपलब्धरि सत्येव प्रबाध्यते मिथ्येति निश्चीयते प्रतिपन्नोपाधौ निषिध्यमानत्वात्। तथा जागरः प्रमातरि सति न प्रबाध्यते यतः संसारमलतमोनिवृ- त्तिव्थतिरेकेण न जाम्रङ्गमो निवर्तते तत्त्वमस्यादिमहावाक्यजनितज्ञानेन मातृमानविषयो- पलब्धिभि: सह तमसो निराकृतर्बाधनात्। तस्मात्प्रमात्राद्यभावे च व्यवहाराभावान्न व्यव हारसमये जागरितमिथ्यात्वप्रर्तीत्यवसर इत्यनयोर्विशेष इत्यर्थ: ॥ ३३॥ सु० टी०-ननु कुतोऽयं विशेष इदानीमबाध्यत्वात् सत्यमेव जगक्किं न स्यादिति चेत्तताSऽह- देशकालपुरुषैरवस्थया जागरस्य खलु कारणं तमः । साकमेव सहसा निरस्यते वेदवाक्यजनितात्मसंविदा॥३४॥। दशौति। जाग्रत्कारणं ह्यज्ञानं देशकालावस्थाप्रमानृि: सहैव जाग्र-
Page 27
४६२ टीकाद्वय समेतं- [२ द्वितीयोऽच्याय:]
त्प्रपश्चं प्रसूते न तु ततः पूर्वं देशादिकमस्तीत्यतस्तस्य बंह्मविद्यया देशादिमि: सह चैतन्यावधिरेव बाध इति युक्तं देशादीनामारोप्यको- ्यन्तर्मावादित्यर्थः । मिथ्यारजतस्वप्नमपश्चादिहेत्वज्ञानं तु सत्येव देशादिषु तानि कल्पयतीति युक्तस्तेषां तत्तदेशकालावधिर्बाध इति माव: । ३४॥ अ० टी०-ननूभयोरपि बाध्यत्वाविशेषान्मिथ्यात्वं चेत्समं तर्हि किनिमित्तोऽयं विशेष इति चत्तत्राऽऽह-देशकालपुरुषैरिति ।.अथ वा जागरितस्य प्रमातरि सत्येव बाधाभावात्प्रतिपन्नोपाधौ बाध्यत्वलक्षणं मिथ्यात्वं तस्य न सिध्येदित्याशड्क्याSडह- देशकालेति। यद्वा प्रमात्नादिभिः सह तत्कारणतमोनिराकरणाच्च जागरः प्रमात्रादिषु सर्सु न प्रबाध्यत इत्युक्तमेव सहेतुकमुपपादयति-देशकालेति। अस्यार्थः-मूलाजानं हि जाग्रत्प्रमात्रादेः कारणं तत्र शुक्तौ रजतवद्देशकालव्यवस्था प्रमात्रादिषु सत्स्वेव जाग्रदृश्यमुद्धावयत्यज्ञानविक्षेपात्प्राग्देशादिविभागासिद्धेः कि तु देशादिभिः सहैव चिन्मा- त्राश्रयविषयाज्ञानेन जाग्रद्ृश्यमुद्भाव्यते। तथा च तादय्ञानबाधनेनैव तत्कार्यजाग्रद्वाधो वक्तव्यः । स च वेदान्तवाक्यजनितात्मत्त्वज्ञानैकसाध्य इत्येषाऽक्षरयोजना। जागरस्य कारणं तमोऽज्ञानं वेदवाक्यजनितात्मसंविदा निरस्यते प्रमात्रादिभिरवस्थया जाग्रदादि- लक्षणया च साकमेव सहैव तत्रापि सहसा स्वोत्पत्तिमात्रेण निरस्यते बाघ्यत इत्येवं सत्युभयोर्बध्यत्वेन मिथ्यात्वे समानेऽपि सत्सु देशादिषु बाध्यत्वं सहैव देशादिभिर्बाध्यत्व- मिति च स्वप्जागरितयोर्विशेषः सिद्धः । तथा च चैतन्यस्यैवाज्ञातस्य जाग्रद्माधिष्ठानत्वा- त्तस्मिन्सत्येव तदज्ञानेन सह जायद्वाधनप्रतिपन्नोपाधौ बाध्यत्वमप्यत्राविरुद्धमेवेति मिथ्यात्वं नानुपपन्नम्। तथा सत्सु प्रमात्रादिष्वस्यारोपाभावात्सत्सु तेषु न बाध्यन्ते किं तु तैः सहैवाSSरोपात्सहैव ते बाध्यन्ते। रजतस्वमादौ तद्विपर्यय इति सर्व[मव]दातम्।। ३४।। सु टी०-एतदेव स्वप्नेत्यादिवैधर्म्यदश्टान्तं विवृण्वन्नाह- स्वमदष्टमिह रज्जुसर्पवद्देशकालपुरुषेषु बाध्यते। जागरः पुनरयं तंथाविधं बाधकं न लभतेऽसमीक्षणात् ॥३५॥ स्वमदष्टमिति। देशकालपुरुषेपु सत्स्विति शेषः। तथाविधं तेषु सत्यु जायमानमू। असमीक्षणाद्ननुभवात्।।३५॥ ननु देशादिषु सत्स्वेव स्वप् आरोप्यते जागरस्तु तैः सहेत्यंत्र कि प्रमाणमिति चेद्वाधा- नुभव एवेत्याह-स्वप्रटष्टमिति। स्वमदष्टं हि देशादौ सत्येव बांधितमनुभूयते. तेन
Page 28
[२ द्वितीयोऽच्याय: ] संक्षेपशारीरकमू। ४६३ तत्तस्मिन्सत्येव कल्पितं रज्जुसर्पवदिति गम्यते जागरस्य बाधस्तथा नानुभूयत इति देशकालादिभि: सहैवाज्ञानेन कल्पित इति गम्यत इत्यर्थः । अक्षरयोजना सुगमा ॥३५॥ सु० टी०-एवमुक्तवैलक्षण्येनैव जाग्त्स्वप्रयोः सत्यमिथ्याव्यवहारो- पपत्तेर्न जाग्रत्सत्यत्वाशङकेत्याह- तेन सत्यमिह जागरं विदुः स्वमविश्वमविरुद्धधर्मकमू। आपरात्मपरमार्थदर्शनात्तेन बाधितवपुर्न सत्कचित्॥३६।। तेनेति। प्रमातरि सत्यबाध्यत्वेन स्वन्नविरुद्धतेत्यर्थः । न सत्कचिदिति। थथा स्वप्रस्य बाधितस्यापि पुनर्दर्शनं प्रमातुः सत्वात्नैवं तत्त्वज्ञानवा- घितजागरस्येत्यर्थः ॥ ३६ ॥। अ० टी०-तस्मान्मिथ्यात्वाविशेषेऽप्युक्ताद्विशेषाज्ागरितस्य सत्यत्वं स्वप्नस्य च मिथ्यात्वमिति लोको मन्यते यावद्वह्मात्मदर्शनं तेन बाधितं तु प्रबुद्धस्य स्वम इव सर्वात्मना निवर्तत इत्युपसंहरति-तेन सत्यमिति। स्पष्टाऽक्षरयोजना ॥ ३६ ॥ सु० टी०-कुत एवमिति चेत्तताSऽह -- तत्र सत्यमनतं च भेदतः प्रत्यगात्मतमसा विकल्पितम्। प्रक्षिणोति परमात्मवस्तुगा बुद्धिवृत्तिरविचालिनी सती॥ ३७॥ तन्नेति। प्रत्यगज्ञानेन व्यवहाराबाध्यं जागरितं सत्यं तद्वाध्यं च स्वप्राद्यसत्यमिति विभागेनाSSतमनि कल्पितं द्वैतमात्मवस्त्वाकारा वुद्धि- वृत्ति: प्रक्षिणोति प्रकृषं समूलकाषं कषतीति मूलाज्ञानामावान्न स्वम- जागरी पुनः स्यातामित्यर्थः ॥३७॥ अ० टी०-'तेन बाधितवपुर्न सत्कचित्' इति कुतः स्वप्ादि हि बाधितमपि कालान्तरे भवद्दृश्यते तद्दात्मत्त्त्वज्ञानबाधितमपि कालान्तरे भविष्यतीति संभाव्यत इति तत्राऽडह -- तत्र सत्यमिति। तत्र सच्िदर्पेऽघिष्ठाने प्रत्यगात्मतमसा चिन्मात्रा- श्रयविषयकाज्ञानेन सत्यं जागरितमनृतं च स्वप्रादीति भेदतो विभागेन यल्लोके विक- ल्पितं तत्सर्वं सविभागं परमात्मवस्तुगा बुद्धिवृत्तिरविचारिणी सत्यन्यदप्रतीक्ष्यमाणैव सती प्रक्षिणोति नाशयतीति योजना। एतदुक्तं भवति-व्यवहारदशायां प्रबोधसमये स्वमो बाध्यमानो न परमुलेन सह बाध्यते। यतो निद्रादिद्वारेण प्रत्यगात्मतमसः स्वप्रहेतुता न
Page 29
४६४ टीकाद्वय समेतं- [ २ द्वितीयोऽ्याय: ]
स्वरूपेणातो निद्राकारितमोनिवृत्तावपि मूलभूतस्य सर्वावस्थाविक्षेपहेतुतमसोSनिवृत्तत्वाद्वा धितस्यापि स्वम्ादेः पुनः पुनः संभवो युक्तो निद्रादिहेतोर्मूलतमसो विद्यमानत्वात्। नैवमिह मूलाज्ञानेन सहैव जगत्कल्पनानिरासात्पुनरुद्गवे हेत्वभावान्न पुनस्तस्य भवनसंभा- वनेति॥ ३७॥ सु० टी०-ननु कथमविद्योपादाना बुद्धिवृत्तिस्तात्कालिकी स्वावि- रोधिनीमनादिसिद्धां हढमूलामविद्यां तत्कायं च निवर्तयेदित्याशङ्क्प वस्तुबलेनैव ज्वालेव तरुसंभवा तरुमण्डलीमित्याह- नित्यबोधपरिपीडितं जग- द्विश्रमं नुदति वाक्यजा मतिः। वासुदेवनिहतं धनंजयो हन्ति कौरवकुलं यथा पुनः॥३८॥ नित्यबोधेति। नित्यबोधेनाद्वितीय चैतन्येन परितः पीडितमपहृतसत्ताक तद्द्वयत्ववशेनावस्तुत्वं नीतमिति यावत्। एवंभूतं जगद्विभ्रमं जगदभ्यासं वाक्यजा मतिर्मननपूर्विका बुद्धिवृत्ति: स्वाभिध्यक्तबोधेद्धा निःसंदिग्ध- वस्त्वाकारत्वादृतिबलीयसी सुतरां नुदतीत्यर्थः। बलवत्परिपीडितस्याSS गन्तुकेन स्वजन्येनापीषत्करो बाध इत्यत्र हष्टान्तमाह-वासुदेवेति। कालात्मनेश्वरेण ग्रस्तमित्यर्थः। ('* मयेवैते निहताः पूर्वमेव' (११। ३३) इति गीतोक्ते: ।) धनंजयोऽर्जुन: कुरुवंश्योऽपीति शेषः ॥३८॥ अ० टी०-ननु बुद्धिवृत्तिः कथमविद्यां तत्कार्य च निवर्तयेत्तस्या अप्यविद्याकार्य- तयाSSविद्यकत्वे सति विरोधाभावादिति चेत्तत्राऽऽह-नित्येति। नित्यबोधेन कूट- स्थचैतन्येन परिपीडितमुत्पत्तित एवाभिभूतं जगद्विभ्रमं वाक्यजातमतिर्नुदति नाशयति। एतदुक्तं भवति-जाग्रद्वित्रमो हि जायमानोऽधिष्ठानसत्तास्फुरणाभ्यां व्याप्त एव, जायते। तत्राविष्ठानस्कुरणव्याप्तत्वेऽपि तेन तस्य न बाधोऽनादिकालमारभ्य तेन सत्वाद्विरोधाभा- वात्। वस्तुगत्या तु स्वाधिष्ठानचैतन्यग्रस्तत्वान्नित्यबोधपरिपीडितं भवति जगत्। वाक्यजा तु मतिरन्तःकरणवृत्तिरूपा स्वयमविद्यात्मिकाSपि समूलं जगद्विभ्रमं प्रमाणभूतत्वानुदति। तत्र दृष्टान्तमनुकूलमुदाहरति-वासुदेवेति । यथा पुनः कालात्मना वासुदेवेन पूर्व- मेव निहतं कौरवकुलं धनंजयोऽर्जुनस्तत्कुलोत्पन्न एव वासुदेवमाश्रित्य तेनोत्तेजितः सन्हन्ति स्मेति योजना ॥ ३८ ॥
*क. ग. पुस्तकयोर्नास्त्ययं अ्रन्थः।
Page 30
[ २ द्वितीयोऽष्याय: ] संक्षेपशारीरकम्। ४६५
सु० टी०-एवं स्वमते सत्यासत्यविभागं तस्य ज्ञानवाध्यत्वं च प्रसाध्य परमते त्वयं विभागो न सिध्यतीत्याह- सत्यमेवमनृतं च दुर्लभं ब्रह्मवादिसमयाद्वहिः पुनः । सत्यतो यदि पृथङ् भृषा भवे- त्सत्यमेव तदपि प्रसज्यते ॥ ३९ ॥ सत्यमेघ्रमिति। बहिरन्यत्र मते। कुत इत्यत्राऽSह-सत्यत इति। मृपा- वस्तु किं सत्याद्द्भिन्नमभिन्नं भिन्नाभिन्नं वा नाऽडद् इत्याह-यदीति। सत्यमेवेति। असत्यस्य सत्यप्रतियोगिकभेदाश्रयत्वायोगादित्यर्थः ॥३९॥ अ० टी०-एवं सर्वस्यापि द्वैतस्य मिध्यात्वाविशेषेऽप्यनाद्यनिर्वेचनीयाविद्यातदवस्था- विलसिततया सदसत्व्रस्वभावावान्तरभेदसंभावनादस्मन्मते लोकसिद्धसत्यानृतविभाग उपप- दयते तस्ज्ञानेन चाविद्यात्मकेनापि ब्रह्मवस्तुसमाश्रयबलातसर्वद्वैत निवृत्तिरष्युपपद्यत इति स्वम- तमुपपाद्य द्वैतसत्यत्ववादिमते तु सत्यानृतविभागासंभवमाह स्वमतपरिशुद्धये-सत्यमे- वेति। कथं दुर्लभमिति चेदिदं तावदिह वक्तव्यं सत्यान्मृषा वस्तु भिद्यते न षाऽथवा भेदाभेदाविति तत्राSडद्यमनूद्य दोषमाह-सत्यत इति। तुच्छतवे पृथक्त्वधर्मानाश्रयत्वा- न्मृषावस्तुनोऽपि सत्यात्पृथक्त्वधर्मयोगश्चेदतुच्छत्वरूपं सत्यत्वं प्रसज्यते सदसद्विलक्षण- स्यानिर्वाच्यप्रकारस्थानङ्गीकारादित्यर्थः ॥ ३९॥ सु० टी०-नापि द्वितीय इत्याह- सत्यतो यदि मृषा न भियते सत्यमेव सुतरां तदिष्यताम्। .
न दयात्मकतयाऽनुतं मतं पक्षयोः कथितदूषणद्यात् ॥४०॥ सत्यत इति। सत्यादभिन्नस्य मपात्वे तदभिन्नसत्यस्यापि मृषात्वाप- त्तेरित्यर्थः । तृतीये व्वाह-न द्वयेति। विरोधादपीति द्ृध्व्यम् ॥ ४० ॥ अ० टी०-द्वितीयमनूद् दूषयति-सत्यत इति। सुतरामिति। अस्मिन्पक्षे मृषा- वस्तुनः सत्यतादात्म्यादित्यर्थः। तृतीयमध्युक्तदूषणद्वयेनैव दूपितमित्याह-न दयेति। सत्या- द्विन्नाभिन्नतयेत्यर्थः । पक्षयोः सत्याद्गिन्ाभिन्नयोः प्रत्येकं कथतदूपणद्वयात्प्रत्येकमुक्तद्ष- ..
Page 31
४६६ टीकाट्टय समेतं- [२ द्वितीयोऽघ्याय: ]
णद्यस्प समुच्चयेSप्ंशत एकैकस्य संभवादित्वर्थः। विरोधादयं पक्षोऽपि न संभवतीति द्रष्ट- व्यम्॥ ४० ॥ सु० टी०-माडस्तु सन्यानृतविभागः कि नश्छिन्नमिति चेत्तहिं
देर्मृपात्वमित्यादिविभागोद्घोषणं स्वमते न सिध्येदित्याह- वेदवाक्यविषयस्य सत्यता बुद्धवाक्यविषयो मृषा भवेत्। इत्यदः कथयितुं न शक्नुया-
वेदवाक्येति। बहिर्मुख एतद्भिनिवेशशून्यः।।४१॥ अ० टी०-न केवलमेवं लोकव्यवहारासिद्धिरेव दोषः कि तर्हि स्वपक्षसमर्थनं पर. पक्षदूषणं च परेपां न संभवति सत्यानृतविभागासिद्धेरेवेत्याह-वेद्वाक्येति । तत- स्तन्मते सत्यमिथ्याविभागासिद्धिरिति कथायतुं न शक्नुयादित्यर्थः। अनिर्वचनीयवादे तु सत्यमिथ्याविभागस्य स्वम्र इवाप्रबोधादिकल्पितत्वाङ्गीकारे नैतादृशविकल्पादिप्रसर इति भाव: ।। ४१ ॥। सु० टी-ब्ह्मवादिनस्तु नानुपपत्तिरित्याह- सत्यमेवमनृतं च भेदतः कल्पितं भवतु वर्णितान्नयात्। तत्र तद्घटयितुं हि शक्यते नेतरत्र कथितोपपत्तिभिः ॥४२ ॥ सत्यमेवमिति। एवं तत्र सत्यमित्यत्र श्लोके वर्णितान्न्यायातसत्यानृतं भेदतो विभागेन कल्पितमेव मवत्वित्यर्थः । तत्र ब्रह्मवादे तत्सत्यमनृतं च घटयितुं शक्यते नान्यत्रोक्तविकल्पैरित्यर्थः ।।४२॥। अ० टी०-परिशेषात्सत्यानृतभेदः कल्पित एवाभ्युपेय इत्युपसंहरति-सत्यमिति। वर्णितान्नयान्मिथ्याविशेषेऽप्यवान्तरभेदसाधकन्यायादित्यर्थः । तत्रानिर्वचनीयप्रपञ्चवादे सत्यं मिथ्येति च दवयं घटयितुं शक्यते नेतरत्र प्रपञ्चसत्यत्ववादे कथितोपपत्तिभिर्विकल्प- दूषणसहत्वादित्यादिभिरित्यर्थः ॥४२॥
Page 32
[ २ द्वितीयोऽव्याय: ] संक्षेपशारीरकम्। ४६७
सु० टी०-तस्मात्प्रत्यक्षादिमानजातं पराग्विषय व्याक्हारिकव- स्त्वावेद्कमेव न तु वेदान्तवत्तत्वावेदकमबाधितानधिगतवस्तुबोधकै- र्वेदान्तिरर्थतो बाधितत्वादबुद्धबोधकत्वासंभवाच्चेत्युपसंहरति- व्यावहारिकमतोऽवगम्यतां मानजातमखिलं न तात्त्विकम्। बाह्यवस्तुविषयं विरोधतोऽ- बुद्धबोधविधिशक्यसंभवात् ॥४३॥
अ० टी०-यत, एवमुक्ताभिरुपपत्तिभिर्वेदान्तेतरमानगम्यस्य न परमार्थसत्यत्वं संभा- व्यते तथा यथा प्रसिद्धं वैचित्र्यं चोपपद्यतेऽतो लौकिकवैदिकव्यवहाराविरोधातप्रत्यक्षादिप्रा- माण्यं व्यवहारसमर्थतत्त्वावेदकलक्षणं न तत्वरावेदकलक्षणमज्ञालार्थगन्तृताख्यप्रमाणलक्षणस्य तंत्र तत्त्वतोऽभावादित्येत्त्सर्वैरभ्युपेयमिति परमप्रकृतमुपसंहरति-व्यावहारिकमिति। बाह्यवस्तुकिष्यमाखिलं मानजातमिति संबन्धः । अबुद्धबोधेति च्छेदः ॥। ४ ३ ॥ सु० टी० -- ततश्चोक्तन्यायेंन प्रत्यक्षादेरतत्वावेद्कत्वान्न तैस्तात्वि- कार्थावभासिवेदान्तबाध इति परमप्रकृतमुपसंहरति- एवं न तत्त्वविनिवेदनशक्तियोग: संभाव्यतेऽनधिगताधिगतेरयोगात्। मानान्तरस्य सकलस्य ततश् तेन बाधस्त्रयीशिरसि वर्णयितुं न शक्यः ।।४४। एवमिति ॥ ४४ ॥ अ० टी०-उपपादितमर्थमनूद्य प्रस्तुतं वेदान्तानां प्रमाणान्तरविरोधाभावं निगम- यति-एवमिति। अतत्त्वविषयाणां मानानां तत्त्वगोचरमानबाधने सामर्थ्यासंभवाद्र- जतज्ञानमिक शुक्तिकाज्ञाने प्रत्यक्षादीन्येवातत्त्वविपयाणि वेदान्तैस्तत्त्वरविपयैर्बाध्यानीति भाव:।।४४॥ सु० टी०-ननु यदि प्रत्यक्षमात्रमप्रमाणं कर्थ सूत्रकारो 'भवि चोष्लब्धेः' [बह्म० २।१।१५ ] इति विरोधं परिहर्तु सविकल्प- कस्यैवाSडमासत्वमाह न तु निर्विकल्पकस्येति चेत्तन्राSडह- आरम्भणादिवचसा खल निर्विकल्प- प्रत्यक्षबुद्धिमनुसृत्य विकल्पबुद्दे: । १ क. भावाचचांप।
Page 33
४६८ टीकाद्वयसमेतं- [२ द्वितीयोऽध्याय: ]
आभासतां मुनिरुवाच तदाडस्य भावो विज्ञायते स्फुटतरो गुडजिह्िकायाम्॥४५॥ आरम्भणादीति। यत्तावन्निर्विकल्पप्रत्यक्षबुद्धिं निर्भेदसन्मात्रविषया प्रमाणत्वेनानुसृत्य विभिन्नविकारविषयविकल्पबुद्ेरप्रामाण्यं मुनिरु- वाच। तदा तदुक्तिकालेऽस्य स्फुटो भावो बालानामौषधपानाय जिह्वायां गुडदानवत्प्ररोचनार्थमेवेत्यारम्ममणादिवचसा विज्ञायते। अयं हि तस्य भाव :- त्यजतु तावदयं घटादिविकल्प वीप्रा माण्यदुर्गहं पश्चा- दनुवृत्तसन्मान्रविषर्य निर्विकल्पकमप्याभासी करिष्यामि तत्प्रामाण्ये हि निःसामान्यविशेष प्रत्य डरमात्रविषयतत्त द्विशेषापवादिश्ुतीनां विरोधता- दवस्थ्यादिति॥४५ ॥ अ० टी० -- तदेवं वेदान्तानां प्रत्यक्षादेश तत्त्वातस्वविपयतया द्वैतम्राहिप्रमापैर्व्या- वहारिकार्थावभासमात्रसम्थैर द्वैतात्मवस्तुग्राहिणां वेदान्तानां तत्त्वार्थावभाससमर्थानां न बाध इति यदुपपादितं तद्युक्तियुक्तमपि मूलशास्त्रसूत्रविरोधान्न अ्रद्धेयमिति कस्यचिच्छडका भवेद्यतो 'भावे चोपलब्धेः' [ब्र० सू० २।१।१५] इतिसूत्रे निर्विकल्पक- वस्त्ववभासित्वं प्रत्यक्षस्य विरोधपरिहाराय सूत्रकृद्धिरुक्तं न तु त्त्वानबसेयत्वमतो न सूत्रविरोध इति तत्रा SSह-आरम्भणेति । निर्विकल्पप्रव्यक्षबद्धि निर्भेदसन्मात्रविषयां प्रत्यक्षधियमनुसत्य सन्मात्रप्रत्यक्षस्य प्रामाण्यमड्गीकृत्य विकल्पबुद्धेर्भेदविषयस्य प्रत्यक्षादि- प्रत्ययस्याSSभासतां मिथ्यार्थविषयत्वं यदा मुनिरारम्भादिवचसा 'वाचारम्भणं विकारो नामघेयम् ' [छा०।६।१।४] इतिवचनबलेनोबाच तदाऽस्य भावोऽभिपायः स्फुटतरो गुडजिहिकायां विज्ञायत इति योजना। यथा तिक्तरसमौषधं जिह्ायां गुडलेपनेन बालान्पाययन्ति न तन्न तेषां गुडलेपने तात्पर्यम्। प्रतिपत्तिक्रममपेक्ष्य निर्विकत्पबुद्धेः प्रामाण्याङ्गीकरणं सूत्रकारस्य न तु तात्पर्य सहसा हि प्रत्यक्षस्य सर्वस्य भ्रान्तित्वकथने व्याकुलीभूतं चित्तं न तत्त्वमवगाहेत। अतः कर्थंचिदपि प्रत्यक्षप्रामाण्यमवलम्ब्य ततत्त्वमव- गाहयामि। ततक्ष क्रमेण निर्विकत्पबुद्धेरपि प्रामाण्यमपोह्य बुद्धिशुद्धिमपि. दर्शयिष्यामीति मन्यते न तु निर्विकल्पकस्य प्रामाण्यं विवक्षितं वाचारम्भणादिवचनाश्रयात्। न हि वाचारम्भणादिसर्वविशेषापवादिश्रुतीनां प्रत्यक्षस्य निर्विकल्पप्रामाण्याङ्गीकारेऽपि विरोधस्त- खवतः परिहृतः स्यात्सर्वकार्यानुगतकारणरूपददश्यसत्ताविषयत्वान्निर्बिकल्पकस्य सामान्यविशे- षादिविनिर्मुक्तप्रत्यड्मात्रविषयत्वान्च विशेषे प्रतिषेधश्रुतीनामतः सविकल्पवन्निर्विकल्पक-
१ क, ग. धीममाणदुराग्रहं। २ क, ख, ग. भावाच्ोप°।
Page 34
२ द्वितीयोऽध्याय: ] संक्षेपशारीरकम्। ४६९
स्याऽडभासत्वमेत्र सूत्रकारविवक्षितं गुडजिहिकान्यायेन तत्प्रामाण्याभिधानमिति सूत्रविरो- धोऽस्मदुक्ते शङ्कनीय इति ॥ ४५॥ 'सु० टी०-ननु' सत्संप्रयोगे पुरुषस्थेन्द्रियाणां बुद्धिजन्म तत्प- त्यक्षमनिमित्तं विद्यमानोपलम्मनत्वात्'[जै०१॥१॥४] इति जैमिनिरुभयप्रत्यक्षसाधारणं लक्षणमाह । तत्र च सदित्यर्थसत्ताभि- धानात्प्रत्यक्षमात्रं तत्त्वावेद्कमभिप्रैतीत्यत्रापि तथैव योज्यमिति चेत्त- चाSडह- सत्संप्रयोग इति जैमिनिरप्युवाच यल्क्षणं तदुभयोः समभेव विद्यात्। आपाततस्तदथ युक्तिनिपीडितं स- त्सन्मात्रसंविदि निषीदति निर्विशङ्कम् ॥ ४६ ॥ सत्संप्रयोग इति। तद्पि लक्षणमविचारदशायामुभयोः प्रत्यक्षयोः समं ज्ञायते न विचारे सतीत्यर्थः । कृत इत्याह-अथेति। भावाच्चेत्यादि- युक्तिभिः सविकल्पकस्यार्थव्यभिचारिणः सत्संप्रयोगाजन्यत्वेनाऽडभा- सत्वे निश्चिते सन्मात्रसंविदि निर्विकल्पके निःशङ्कं तत्पर्यवस्यती- त्यर्थ:।४६ । अ० दी०-यदेतदस्मन्मतं प्रत्यक्षादीनां न तत्त्रावेदकं प्रामाण्यमस्ति ब्यावहारिक- मेव तेषां प्रामाण्यं वेदान्तानामेव तत्त्वावेदकत्वमिति तज्जैमिनेरपि संमतमिति यदुक्तं तत्र नियामकमाह-सत्संप्रयोग इतीति । यद्वा स्वमतव्यवस्थायां जैमिनिमतविरोधमा- शङ्क्य तदस्मदनुकूलमेव न प्रतिकूलमित्याह-सत्संप्रयोग इतीति।'सत्संप्रयोगेषु पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्' [जै० १। १।३] इतिसूत्रेण विद्यमानसं- युक्तार्थबुद्धित्वं यत्प्रत्यक्षलक्षणं जैमिनिरप्युवाच तदापाततो विना विचारं प्रतीतिमात्रेणो- भयोः सविकल्पनिर्विकल्पकयोः सममेव विद्यात्साधारणविषयं तत्सूत्रवचनं तत्र विशेषान भिधानालोकानुभवे च विशेषाभावादतस्तदपि प्रत्यक्षलक्षणं 'भावे चोपलब्धेः '[ ब्र० सू० २१। १५ ] इतिबादरायणाचार्यसूत्रसचितयुक्तिनिपीडितं सत्सन्मात्रसंविदि वस्तुमात्र- विषयायां निर्विकल्पिकायां बुद्धौ निर्विशङ्कं निःसंदेहविपर्ययं यथा स्यात्तथा निर्षादति पर्यवस्यतीति योजना। बादरायणोक्तेन न्यायेन सविकल्पकार्थानामसत्त्वनिश्चये सति निर्विकल्पकस्यैव तल्क्षणमिति विवेके सति व्यावहारिकमेव सविकल्पकप्रामाण्यं निर्विक-
१ क. भावाचोप°।
Page 35
४७० टीकाद्वय समेतं- [ २ द्वितीयोऽध्याय: ]
ल्पकस्य च तत्वावेदकमिति प्रत्यक्षप्रामाण्यकक्षाभेदोऽभिमतो जैमिनेरपीत्यर्थः । स्वोक्तां- र्थानुकूलतया पक्षान्तरमाह-यद्वेति। यद्वा संप्रयुज्यमानस्यार्थस्य सदितिविशेषितत्वात् 'सदेव सोम्य' [छा०६ । २ । १] इति च सत्यस्य ब्रह्मात्मरूपत्वनिश्चयात्तस्यैवाज्ञातत्वात्त- द्विषयमेव वस्तुगत्या सर्वमपि प्रमाणं तदनुविद्धेषु पुनरागमापायिषु सविकल्पेष्वर्थेषु, वाचारम्भणमात्रेषु वेदान्तेतरमानानां व्याबहारिकमेव प्रामाण्यमिति जैमिविसूत्रस्याभिप्रायो. बादरायणसूत्रानुसारेणावगम्यते। जैमिनिना विशेषानभिधानाद्वादरायणेन च. विशेषाभिधा- नात्सामान्यवचनस्य च संप्रतिपन्नविशेषवचनानुकूलतया योज्यत्वं शक्यत्वादतो. न केनापि विरोधोऽस्मन्मत इत्यर्थ: ॥ ४६ ॥ सु. टी०-ताहै किं तस्य तत्वावेदकत्वं मुनेरिष्टसिति नेत्याह- तत्रापि दुर्घटमवैति यदा तु तत्त्व-' बोधं विवक्षति विसृज्य विकल्पजालम्। किं कारणं वदति येन स तत्वगानि
तत्रापीति। स यदि तत्रापि निर्विकल्पकऽपि तद्विषयभूतसन्मात्रस्य जङ- त्वेनाज्ञातत्वासंभवाद्दुर्घटं प्रामाण्यमवैति तदा सकलमेवानात्मप्र- त्यक्षजालं विसृज्याज्ञातब्रह्मविषयभेव तात्विकबोधं विवक्षतीत्यर्थः । किं कारणमिति प्रश्नः । कुत एतज्ज्ञातमित्यर्थः । उत्तरमाह-वदति येनेति। अप्रबुद्धमर्थ बोधयदेव विज्ञानं तत्त्वावेदकमिति तल्लक्षणाभिधाना- दित्यर्थः ॥४७॥ अ० टी०-यद्येवं निर्विकल्पकार्थस्य प्रत्यक्षस्य तत्त्वावदेकत्वमेष्टव्यमिति चेन्मैवं तत्रापि परमार्थतोSज्ञातज्ञापकत्वानिरूपणादित्याह-तत्रापीति। तदा तु तत्रापि निर्विक- ल्पकप्रत्यक्षेऽपि दुर्घटमवैति निर्विकल्पकसन्मात्रस्यापि जडत्वादज्ञातत्वासंभवेन तद्विपयस्य प्रत्यक्षस्यापि प्रामाण्यं दुर्घटमिति जानाति। विकल्पजालं निर्विकल्पकं सविकल्पकं च विसृज्य विशुद्धतत्त्वबोधं व्रह्मात्मविषयत्वमेव साक्षात्प्रमाणं विवक्षति निर्विकल्पकमपि प्रत्यक्षं त्त्वावगतिद्वारीभवनलक्षणं व्यवहारसमर्थवस्ववभासितया प्रमाणं. तत्त्वावेदकतयेति. मन्यत इत्यर्थः । कथममित्थं जैिनेरभिप्रायोऽवसीयत इति पृच्छति-किं कारणमिति। तदुत्तरमाह-वदति येनेति। येन कारणेनप्रबुद्धमर्थमवबोधयद्विज्ञानं तत्वगामीति जैमिनिर्वदति तेनेत्थं निश्चय इति योजना। अनधिगतार्थगन्तृत्वं प्रमाणस्वरूपमिति तेनाभिधानात्प्रत्यगात्मनोऽन्यस्य च. स्वरभावतोऽनधिगतत्वानिरूपणादित्यं तदभिप्रायो. गम्यत इति भावः॥। ४७।।
Page 36
[ २ द्वितीयोऽध्याय:] संक्षेपशारीरकम्। ४७१ सु० टी० -- कुत्र तेनेदं लक्षणमुक्तमिति चेत्तत्राऽऽह -- औत्पत्तिके हि भगवानयमप्रबुद्ध- मर्थ प्रमाणविषयं कथयांबभूव। अत्राऽडह तत्र ननु धर्मगतं प्रमाणं तत्वार्थगामि कथितं न परात्मगामि।। ४८ ॥। और्पत्तिक इति। अयं हि जैमिनिरौत्पत्तिकसूत्रे 'अर्थेऽनुपलब्धे तत्प्रमा- णम् ' [ज. सू० १।१।५] इत्यंशेनाबुद्धमेवार्थ प्रमाणविषयमुक्त- चानिति। ननु तत्र सूत्रे पूर्व धर्भस्य जिज्ञास्यत्वेन प्रक्रान्तत्वात्तत्प्रमाणस्य चोदनाया एवाबुद्धबोधकत्वेन तत्त्वावेद्नप्रामाण्यमुक्तं न परमात्मवि- षयमानस्य तत्र तस्याप्रकृतत्वादिति शङ्कते-अत्राडहेति ।४८॥। अ० टी०-कुत्रेदं प्रमाणलक्षणं तेनोक्तमित्याकाडक्षायामाह-औत्पत्तिक इति। अयं जैमिनिर्भगवानशेषार्थदर्शी हि यस्मादौत्पत्तिके सूत्रे 'अनुपलब्धे तत्प्रमाणम्' [ जै० १। १ । ५ ] इत्यन्तेनाज्ञातार्थाधिगन्तृ प्रमाणमिति कथयांबभूव कथितवानित्यर्थः । जैमिनिवचनस्यान्यविषयत्वान्नायमर्थोडभिप्रेत इति मीमांसकश्चोदयति -- अत्राSSहेति। तत्र सूत्रे। ननु हि धर्मविषयं प्रमाणं तत्त्त्रार्थगाम्यनधिगतार्थबोधकमिति तेन कथितं चोदनाख्यं प्रमाणं मानान्तरागोचरधर्मविषयकतया तत्त्वबोधकं तेन तत्र विवक्षितं धर्मप्र• माणनिरूपणस्य प्रक्रान्तत्वान्न परमात्मगामितया कथितं तस्याप्रस्तुतत्वादित्यर्थः ॥४८॥ सु० टी० -- परिहरति- सत्यं यदाह पितृमान्व्यवहार दृष्टि- माश्रित्य तत्कथितवान्मकतोपयोगात्। दूरप्रसारित निसृष्टनिगूढभाव- स्तद्वादरायणमतानयनात्मतीमः ॥ ४९ ॥ सत्यमिति। पित्रादिशिक्षित बुद्धिर्भवांस्तत्र धर्भप्रमाणमुक्तमितति सत्य -र मेवाSडह-किं तु प्रकृतधर्मविचारोपयोगित्वेन व्यावहारिकप्रामाण्य- माश्रित्य जैमिनिस्तत्कथितवान्न तास्विकमज्ञातत्वस्य जडे धर्मेडसं- भवादित्येवं बादरायणमतत्वाकर्षणात्प्रतीमः । चोदनाप्रामाण्ये व्यास- संमतिमदर्शनपरमेव तक्किं न स्यादित्याशङ्य जैमिनिं विशिनष्टि- दूरेति। दूरे शारीरके प्रसारितः प्रवर्तितो निसृषो नैसर्गिको निगूढस्तत्काले
Page 37
४७२ टीकाद्वयसमेतं- [२ द्वितीयोऽच्याय: ]
धर्मविचारविरोधान्न व्यक्तीकृत: श्ुतेवंह्मण्येव तत्त्वावेद्कत्वमिति मावो यस्य वेदान्तनिरुप्यन्यायस्यापि जैमिनिसंमतत्वादिति माव:।४९।। अ० टी०-परमात्मगामिप्रमाणस्थ तत्राप्रस्तुतत्वेऽपि बादरायणमतानुकर्षणलिड्गा· द्वर्णिताभिप्रायोऽस्य गम्यत इति परिहरति-सत्यमिति। धर्मविषयं प्रमाणं तत्र निरूपितमित्येतासत्यं तथैव यदाह भगवान्पितृमान्पित्रादिभिर्वृद्धैः शिक्षितबुद्धिरित्यर्थः । यत्तत्र धर्म एव तत्प्रमाणमवोचत्तद्वयवहारदृष्टिमाश्रित्य कथेतवान् । तस्यैव प्रकृतो- पयोगान्न तत्त्वदष्टिं तस्यास्तदनुपयोगादित्यर्थः । तथाऽपि न तावन्मात्रे व्यवहार एव पर्यवसितधीजैंमिनिर्यतो दूरप्रसारितनिसृष्टनिगूढभावो दूरं वेदान्तेषु प्रसारितो दीर्घी- कृतो निसृष्टश्च तत्रैव नितरां क्षिप्स्तां स्थितिमेवावलम्बमानो निगुदोऽप्रकढितो भावोऽभि- प्रायो यस्य स तथा। एवं भावकल्पनायां लिङ्गमाह-तद्वादरायणमतानयना- दिति। इति बादरायणस्यानपेक्षत्वादिति बादरायणमतस्यानुकर्षणाद्वेदान्तानामज्ञातार्थ- गोचरतया सत्त्वावेदकत्वमभिमतं जैमिनेरित्यर्थः । ब्रह्मणि वेदान्तप्रामाण्यस्थिति कठाक्षी- कृत्य तदविरोधेन व्यावहारिकप्रामाण्यमाश्रित्य धर्मे प्रमाणं निरूपितवान्धर्मविचा- रस्यैव तदा प्रक्रान्तत्वान्न ब्रह्मणि वेदान्तानां प्रामाण्यं मुख्यतोऽभिहितवांस्तस्य तद. चसरे प्रकृतिधर्मविचारबोधादित्यर्थः । अज्ञातत्वस्य जडे धर्मे तत्त्वतोऽसंभवादेतससर्घ- मभिप्रेतं जैमिनेरित्यनुपलब्धे तत्प्रमाणं बादरायणस्य मतमिति बचनादवसीयत इति भाव: ॥६९॥ सु० टी० -- ननु वेदान्तेष्वपि द्रष्व्य इत्यादिविधिश्रवणाच्चोदनाया अपि तत्त्वावेद्कत्वं व्यासाभिभेतमिति चेन्न तद्वाक्यस्थाविधिपरत्वा- दित्याह- दष्टव्य इत्यपि विधिर्न विधिप्रभेय- मात्मानमेव विनियच्छति तत्कुतश्र्वेत्। अज्ञातता च परमात्मन एव यस्मा- यस्माच्च कर्तृवशवर्ति न दर्शनं तत् ॥ ५०॥ द्रष्टव्य इत्यपीति। विधिर्नेति संबन्धः । किपरं तहीदं वाक्यमिति चेत्तत्ाSSह-विधिप्रमेयमिति। विधेरज्ञातज्ञापकस्य प्रमाणस्याSम नमेव प्रमेयं नियच्छत्यात्मैव प्रमाविषयो नान्य इति नियमयतीत्यर्थः । चोद. यति-तत्कुत इति। उपपाद्यति-अज्ञाततेति। आत्मनोऽन्यस्याज्ञातत्वाभावेन मानमेयत्वासंभवादित्यर्थः । इतश्र न विधिरित्याहै-यस्माच्चेति ।। ५०।।
१ क. ग. ह-परमात्मेति।
Page 38
[२ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ४७३
अ० टी०-आत्मन एव मानमेयत्वं त्त्वतोऽस्तीत्येतच्छूत्याऽपि दर्शितमित्याह- दट्टव्येति। आत्मा द्रष्टंष इत्ययं तव्यः श्रूयमाणी न विधिः कि तु विधिप्रमेयं विधिविषयज्ञानविशेष्णतया विधिविषयावेनाभिमतमात्मानमेव नियष्छत्यात्मतत्त्वमेव प्रति- पादयतीत्यर्थः । अथ वा द्रष्टव्य इंत्ययमषि विधिर्विधेः प्रमेयभूतमात्मानं नैव निषध्छति नैव विषर्जयति किं त्वात्मन्येव पर्यवस्यति न विधिमात्र इति योजना। विधौ प्रत्यये प्रत्यक्षे सति कथं विध्यनम्युपगम इति शङ्कते-तत्कुतश्रेदिति । अत्र विवेयाभा- वादिध्यनभ्युपगम इंति परिहरति-अज्ञातता चेति। यस्मात्परमात्मन एवाज्ञातता न विधेयक्रियाया नियोगस्य वा तथार्जउत्वादित्यर्थः । अज्ञातज्ञापनो हि विधिन परमारमनोऽ- न्यं बोषयेत्परमात्मा च न विधेय इति नात्र विधित्वमस्तीति भावः । चकाराद्विवेयज्ञानवि. पयतयाऽपि नाऽजमा प्रतिपाद इत्यर्थः । औत्मदर्शनमपि न विधियोग्यमित्याह-गस्मा· क्ञेति । यद्विधेयत्वेनाभिमतं तद्र्शनं च न विधेयं यस्मादर्शनं न कर्तवश्वर्ति कर्त्रवी नत्वाद्विधेयस्य ज्ञानस्य च तदभावान्न विधेयत्वमित्यर्थः ॥ ५०॥ सु० टी०-नतु 'कृत्याश्च' इति तव्यस् विधावनुशासनाहकथं तस्यान्यपरत्वमिति चेत्तत्राSSह- अर्हे कत्यतृचश्र पाणिनिवचः स्पष्टं विधत्ते यत- स्तस्माद्दर्शनयोग्यतां वदति नस्तव्यो न तत्वान्तरम्। तस्मादात्मपदार्थमात्रनियतं मेयत्वमेकान्ततो दृष्टव्यादिवचो वदत्यनुभवादज्ञात आत्मा यतः ॥५१॥ अर्ह इति। 'अर्हे कृत्पतृचश्र' इति सूत्रं यतोऽहर्थि कृत्यादिकं विधते तस्मादृयमपि तव्यो नोस्माकमज्ञातत्वपुरुषार्थत्वाभ्यां दर्शनयोग्यता- मात्मनो वद्ति न विधित्वमित्यर्थः । ततश्च द्रष्ट्व्यादिवाक्यमात्मैव दर्श- नार्ह इत्यात्मपदार्थस्यैव मेयत्वमैकान्तिकं वदृत्यज्ञातत्वाद्घटं न जाना- मीत्यादावपि (+ घटावच्छिन्नात्मन एवाज्ञातत्वानुभवादित्यर्थः।।५१।। अ० टी०-यद्यस्यापि वाक्यस्याSSत्मैत्र प्रमेयमभिमतं तहि विधौ स्मर्यमाणस्य का गतिरिति तत्राऽडह-अर्ह इति। कृत्यप्रत्ययं तृचप्रत्ययं च 'अर्हे कृत्यतृचः' इति पाणिनिसूत्रात्मकं वचोऽर्हार्थ स्पष्ट बिधत्ते। यतो यस्मादयं तव्यः कृत्यात्मकः प्रत्ययो दर्शनयोग्यतामात्मनोऽस्मान्प्रति बदति न तत्त्वाम्तरं विधिम् । उभयत्र प्रत्ययविधानेऽपि
- खपुस्तकस्थोडयं ग्रन्थः।
Page 39
४७४ टीकाद्टयसमेतं- [२ द्वितीयो ऽथ्याय: ]
नात्र विध्यर्थंता तस्याभ्युपेया पूर्वोक्तविधया तदसंभषात्। कि त्वर्हार्थतैवाम्युपेयाऽडरमनो दर्शनार्हत्वादित्यर्थः । तस्मादात्मैव प्रमेयं न जडमिति सिद्धमित्युपसंहरति-तस्मादिति। द्रष्टव्यादिवच आत्मन एव मेयत्वमज्ञातत्वलक्षणं दर्शनार्हत्वविधानमुखेन वक्ष्यतीति कथं तत्राSडह-अनुभवादिति । यत आत्मैवाज्ञातो न जडस्तथैवानुभवादित्यर्थः
सु० टी०-नन्वातमन एव मेयत्वं जैमिन्यभिमतं चेसतदी)यस्य प्रकृतस्यार्थसंप्रयोगजत्वस्य धर्मे चोदनाप्रामाण्यस्य चोपरोध: स्यादिति चेन्नाविचारितहष्ट्यपेक्षया तदुपपत्तेरित्याह- रूप्यादिविश्रममपेक्ष्य हि शुक्तिकादौ· सत्संप्रयोगजनितैव तु बुद्धिवृत्तिः । तामप्यपेक्ष्य सति संहृतसर्वभेदे सत्संपरयोगजनिता मतिरभ्युपेया ॥ ५२ ॥ रूप्यादीति। यदा हि शुक्त्यादेव्यभिचारितया मिथ्यात्वानुसंधानं नास्ति तदा मिथ्यारजताद्यपेक्षया शुक्त्यादेः सत्वात्तत्संप्रयोगजा शुक्तिसविक- ल्पधीरपि प्रमैव। यक्षा तु शुक्त्यादेस्तथात्वानुसंधानं तदा सविकल्प- कमात्रं भ्रमः । निर्मेदसन्मान्नविषया तु तद्धी: प्रमा सत्संप्रयोगजत्वा- दित्यर्थः ॥ ५२॥ अ० टी०-तस्मादात्मन एव प्रमेयत्वस्य श्रुत्युक्तत्वात्तदनुरोधेन सूत्रकारेणापि तथैव निर्देषुं युक्तत्वान्न जैमिनिसूत्रविरोध इति स्थितं तत्राऽडत्मन एव प्रमेयत्वाङ्गीकारे प्रकृत- विरोध: स्यादर्थसंप्रयोगजलक्षणस्य प्रत्यक्षलक्षणस्य लौकिकप्रत्यक्षSभावप्रसङ्गाचोदनायाश्च धर्मे प्रमाणलक्षणत्वाभावप्रसङ्गादिति पुनराशङ्कायामविचारितदृष्ट्या तदुपपत्तेरने लक्षणा व्याप्तिशङ्केति परिहारमाह-रूप्यादिविभ्रममिति । शुक्तिकादौ तु या बुद्धिवृत्तिः सत्संप्रयोगजनिता शुक्तिकासंप्रयोगजनिता लोकप्रसिद्धा सा रूप्यादिविभ्रममपेक्ष्यैवेति योजना। यद्वा शुक्त्यादेर्व्यभिचारित्वेनानृतत्वं नान्विष्यते तदा भ्रमाद्दृष्टर जताद्यपेक्षया शुक्त्यादेः सत्यत्वाभिमानगोचरत्वात्सविकल्पकाऽपि धीः सत्संप्रयोगजनितैवेति न तत्र प्रत्यक्षलक्षणाव्याप्तिः। यदा तामपि सविकल्पबुद्धिमपेक्ष्य संह्वतसर्वभेदे सति निर्विकल्प कसन्मात्रे शुक्तित्वादिविकल्परहित इति यावत्सत्संप्रयोगजनिता व्यभिचारिसविकल्पकशुक्या- धपेक्षया यत्सन्निर्विकल्पं तत्संप्रयोगजनिता मतिरभ्युपेया न परमार्थतः साऽ्यनधिगतवि- षयेत्यर्थ: ॥ ५२ ॥
Page 40
[ २ द्वितीयोऽव्याय: ] संक्षेपशारीरकम्। ४७५
सु० टी०-तहिं तस्या अव्यभिचारिसन्मात्रगोचरायाः प्रमात्वं नाSडपेक्षिकमिति चेन्नेत्याह- वेदान्तवाक्यजनितां परमात्मबुद्धि- वृत्ति व्यपेक्ष्य पुनरत्र न काचिदस्ति। सन्संप्रयोगजनिता भुवनत्रयेऽपि बुद्धिस्तमोविरचितं हि जगत्समस्तम् ॥ ५३॥
कारधियमपक्ष्य सर्वाऽपि सविकल्पनिर्विकल्पधीरसदर्यैवेत्यर्थः। तत्र हेतुमाह-तम इति। स्वस्य प्रत्यगविद्याविलसितत्वेनाSSत्मातिरेकेणा- सत्त्वादित्यर्थः ।। ५३ ॥। अ० टी०-ननु सन्मात्रस्याव्यभिचारात्तद्वियो नाऽडपेक्षिकसद्विषयता तदपेक्षया सतोऽ- न्यस्याविशेषादित्याशड्क्याSSह-वेदान्तवाक्यजनितामिति। परमात्माकारां बुद्धि- वृत्तिमित्यर्थः । अत्र भुवनत्रयेऽप्यन्या सत्सप्रयोगजनिता बुद्धिवृत्तिर्नास्तीत्यत्र हेतुमाह- तमोविरचितं हीति। प्रत्यक्स्वरूपव्यतिरेकेण दृश्यसन्मात्रस्याप्यभावातप्रत्यग्विषयां धियमपेक्ष्य सर्वाSपि प्रत्यक्षधीरसदर्यैवेति वाक्यार्थः । शुक्त्याद्यनुगतसन्मात्रस्य निर्विक- ल्पस्य यद्यपि प्रत्यग्रपत्वमेव वस्तुतस्तथाऽपि तत्तदर्थानुरक्ततया संसष्टत्वाकारस्य तत्तदर्थ- परतन्त्रतया व्यभिचारत्वान्न परमार्थसत्त्वं किं तु शुद्धस्यैव प्रत्यगात्मन इति तात्पर्यार्थः ।५३ ॥ सु० टी०-एवं धर्मे (+ चोदनायाः प्रामाण्यमप्यापेक्षिकमित्याह- धैर्भेडपि तत्त्वमतिरेव तु नोदनायाः सत्त्वादिवस्तुनि यथाऽक्षनिबन्धना धीः। अज्ञातताऽपि सदृशी व्यवहारकाले तत्वावबोधसमये न तु तत्त्वबुद्धि: ॥५४॥ धर्मेडपीति। प्रत्यगेवाज्ञातं भेयमित्यप्रतिसंधान)दशायां धर्मस्यापि सत्ताविवद्ज्ञातत्वं सत्यत्वं च व्यावहारिकमस्तीति प्रमाणमेव चोदनावा- + ख. पुस्तकस्थोडयं ग्रन्थः ।
१ क. में तु त°। २ क. ग. वाक्यार्थो स्वत।
Page 41
४७६ टीकादुयसमेतं- [२ द्वितीयोऽघ्याय: ]
मस्य प्रकृतविरोध इत्यर्थः ॥ ५४ ॥। अ० टी०-प्रत्यक्षलक्षणस्य लौकिकप्रत्यक्षाव्यापिशङ्कां परिहृत्य मोदनाप्रामाव्यस्य धर्मेऽव्याभिशङ्कामषि तस्यापि प्रत्यक्षज्ञानमयत्वाङ्गीकारेण परिहरति-धर्मे त्विति। चोदनाया विधिवाक्याद्धर्मेडपि या मतिः सा. तत्त्वमतिरेव व्यावहारिकदृष्टया भवाते। यथा, सस्वादिवस्तुषु निर्विकल्पकसविकल्पकवस्तुपक्षनिबन्धना धीस्तद्वदज्ञातत्वाभावाद्भावनात्मनो धर्मस्य न मानमेयतेति च शङ्कास्पदमित्याह-अज्ञातताऽपीति। तत्त्वावबोधसमये तु प्रत्यग्याधात्म्यावधारणकाले पुनधोदनाजनिता वाऽक्षादिजनिता का तत्त्वबुद्धिर्न भवति प्रामपि प्रतिभासत एवाविचारितरमणीयतया त्त्वबुद्धिः सा न परमार्थत इत्यर्थः॥
तत्वावेदनलक्षणं प्रामाण्यमित्यङ्गीकारेणापि न प्रकृतविरोध इति सिद्धम्।।५४। सु० टी०-ननु 'सज्ञ त्यञ्ञामवत्' (तैत्ति० २। ६।१) इति प्रपञ्चस्य ब्रह्मपरिणामत्वध्रुतेः परिणामस्य च परिणामित्रह्मसमानसत्ता- कत्वात्कृतस्तद्वोधकप्रत्वक्षादेर्तत्त्त्वा वेद्कत्व मिति चेत्तत्नाSSह- आरम्भणादिवचनं सकलं प्रवृत्त प्रत्यक्षबुद्धिविषयादपहर्तुमुच्चैः । सत्त्वे यथोदितनयेन विवर्तवाद- माश्रित्य सत्यपरिणामनिवारणेन ।५५ ॥ आारम्मणादीति। वाचारम्मपां विकार इत्यादिवाक्यं हि विकारस्प घटादे: शब्दालम्बनत्वमात्रोक्त्या मृत्तिकेत्येव सत्यमिति च कारणमात्रस- स्यत्वोक्त्या विवर्तवाद्माभ्रित्य सत्यपरिणामे निवार्योक्तन्यायेन प्रत्यक्षा- दिविषयात्परमार्थत्वमपहर्ते यत्नात्प्रवृत्तमतस्तद्विरोघान्न श्ुत्यमिभेतः परिणामवाद इत्यर्थः ।।५५॥ अ० टी०-नमु बादगयणमतमप्येतदेवेति कुतो निश्चेतव्यं न हि प्रत्यक्षादेस्तत्त्रावे- दकत्वं नास्तीति तेन कण्ठतः कथितं दृश्यत इति चेन्मैवं वाचारम्भणवाक्यस्य तेनोदाह- तत्वादिस्याह-आरमष्मणादिव चनमिति। यथोदितनयेन तत्त्वमपहर्तुमिति संबन्धः। केन व्यापारेण प्रवृस्तमिति तदाह-विवर्तवादमिति।'तदैक्षत बहु स्यां प्रजायेयेति सत्तेजोऽसृजत' [छा० ६। २ । ३ ] 'तदास्माने स्वयमकुरुत* [तै० २।७। १ ] इत्यादौ चिदात्मनो जगद्वूपेण परिणामश्रवणात्परिणामसत्यतायां च 'सदेव सोम्ये-
Page 42
[२ द्वितीयोऽच्याय: ] संक्षेपशारीरकमू। ४७७
दमग्र आसीदेकमेवाद्वितीयम्' [छा० ६। २। १ ] 'तत्सत्यम्' [छा० ६ । ८।
सत्यपरिणामनिवारणेन श्रूयमाणपरिणामस्य परमार्थत्वनिरासेन प्रवृत्तमित्यर्थः ॥१५॥ सु० टी०-ननु तद्नन्यत्वमित्यत्र कार्यस्य कारणाभेद उक्त:। सत्यं च ब्रह्म कारणमिति कुतस्तद्मिन्नस्य कार्यस्य सत्यत्वनिवारण- मिति चेत्तन्नाSडह- वाक्यप्रवृत्तिमनुसृत्य च सूत्रकार: सिद्धान्ततामनयदत्र विवर्तवाँदम्। तत्त्वप्रकाशनविधावपहृत्य शक्ति- मारम्भणादिवचनादपरप्रमायाः ॥५६॥ धाक्येति। सूत्रकारस्तावत् 'येनाश्रुतं भ्ुतम् ' [छा० ६।१।३ ] इत्या- घेकविज्ञानेन सर्वविज्ञानरूपवाक्योपक्रममनुसृत्याSSरम्मणादिवचनाद्वि कारघृषात्वबोधकादनात्मप्रमायास्तन्मानस्य च तत्त्वावेदनसामर्थ्यमप- हृत्य तद्नन्यत्वं नाम तद्न्यत्वेनासत्त्वमेवोपपादितवान्न तु तदभिन्नत्वं येन सत्यपरिणामाशङ्केति विवर्तवादमेवासिद्धान्तयदित्यर्थः ॥५६॥ अ० टी० -- तदेवमुदाहृतश्रुत्यभिप्रायमुपवर्ण्य 'तदनन्यत्वमारम्भणशब्दादिभ्यः '[बर० सू० २।१।१४ ] [ए]तादृशं वाक्यमुदाहरतः सूत्रकारस्याप्ययमेवाभिप्रायो गम्यत इत्याह- वाक्यप्रवृत्तिमिति। 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् '[छा० ६ । १। ४ ] त्रीणि रूपाणीत्येव सत्यम्' [छा० ६ । ४ । १ ] रूपेष्वपि सत्यं (?) 'सन्मूला: सौम्येमा: सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः'[छा०६। ८।४] इति वाक्यानां तत्त्वप्रतिपादनप्रवृत्तिमाश्रित्यात्नास्मिञ्शास्त्रे सूत्रकारः सिद्धान्ततामनयदिति योजना। कि कृत्वा सदाह-तत्त्वप्रकाशेति। वचनाद्वचनबलादपरप्रमाया वेदान्तेतरसर्वप्रमाया इत्यर्थ: ।। १६॥ सु० टी०-ननु मोक्त्रापततेरविभागश्रेदित्याशङ्क्य 'स्याल्लोकवत्' [ब० सू० २।३। १३ ] इति समुद्र इव तरङगफेनाद्यात्मना ब्ह्मापि विचिन्रचेतनाचेतनप्रपञ्चात्मनाSनेकरसं भवतीति सूत्रणात्कथं विवर्तः सिद्धान्तः । न च द्वावपि सिद्धान्तौ विरोधादिति चेन्नेत्याह- आरम्भसंह तिविकार विवर्तवादा- नाश्रित्य वादिजनता खलु वावदीति। १ ग. वादे।
Page 43
४७८ टीका द्वुय समेतं- [२ द्वितीयो ऽध्याय: ]
आरम्भसंहतिमते परिहृत्य वादौ द्वावत्र संग्रहपदं नयते मुनीन्द्रः।। ५७। आरम्मेति। जगदुत्पत्तावारम्मादीश्रतुरः पक्षानालम्व्य बादिगण
तिपक्षोत्थितं विरोधं परिहर्तुमीषन्भ्ेदेऽपि हेतुफलभावः सिध्यतीत्य- भिप्रेत्य परिणामं विवत च मुनिः संजग्राहेत्यर्थः ॥।५७ ॥। अ० टी०-ननु 'स्यालोकवत्' [ ब्र० सू० २। ३। १३ ] इति परिणाम वादस्यापि सुत्रितत्वात्कथं बिवर्तवाद एव सिद्धान्तोऽभिमतः सूत्रकारस्येति निश्चीयते न च तर्ह्यभावपि सिद्धान्तावभिमताविति वाच्यं परस्परविरुद्धयोः पक्षयोरेकत्र सिद्धान्तत्वा योगादिति चेत्तत्राऽऽह-आरम्भसंहतीति। संहृतिः संघातवादः । विकार: परिणाम- वाद:। लोकासिद्धे कार्यकारणभावे खल वादिजनता प्रकारभेदान्कल्पयन्ती वावदीत्यतिशयेन वदतीति पक्षचतुष्टयं प्रसिद्धमित्यर्थः । कि तत इत्याह-आरम्भसंहतिमत इति। परिहृत्योपेक्ष्यात्र शास्त्रे मुनीन्द्रो द्वावपि पक्षौ परिणामविवर्तपक्षौ संग्रहपदं प्रयोजनवशा- त्संग्राह्यतां नयते प्रापयति। अयं भाव :- न ह्यस्मिञ्शास्त्रे परिणामवादो विवर्तवादो वा प्रति- पाद्योडभिमतो ब्रह्मण एवैकस्य शास्त्रप्रतिपाद्यत्वाक्किं तु श्रुतस्याद्वितीयस्याऽडतमतच्वस्य प्रतिप- त्युपायतया तत्र यो वादोऽ्न्ानुकूलः स इहोपादेयो न प्रतिकूलः । तथाचाSSरम्भसंहतिवादौ औ्रीततत्त्वप्रतिपत्तिविरुद्धत्वात्तावत्तत्र न संगृहीतावितरौ तवनुकूलत्वात्संगृहीतौ। न. चोभ- योर्मिथो विरोधादेकत्र सिद्धान्तत्वानुपपत्तिः पूर्वोत्तरभूमिकारूपेणाविरोधस्य वक्ष्यमाण त्वादिति ॥ ५७ ॥ सु० टी०-तर्हि दयोः सिद्धान्तत्वाद्विरोघस्तदवस्थ इति चेननैकस्या- म्युपत्यवादत्वादित्याह- तत्रापि पूर्वमुपगम्य विकारवादं भोक्त्रादिसूत्रमवतार्य विरोधनुत्यै। प्रावर्तत व्यवहतेः परिरक्षणाय कर्मादिगोचरविधावुपयोगहेतोः ॥५८॥ तत्रापीति। तयोर्मध्य इत्यर्थः । प्रथमद्वितीये जगत्कारणे वेदान्तसमन्य- यस्य मोक्तृमोग्यादिमेद ग्राहिमानान्तर विरोधशक्कापनुत्त्यै परकीयं परिणा- मवाद्मुपगम्य तद्विषयं च 'भोक्त्ापत्तेः' [बह्म० २।३।१३] इत्यादिसूत्र- मवतार्याप क्वमतिप्रतिबोधनार्थ व्यवहारलक्षणाय प्रावर्ततेत्यर्थः। तक्कि-
Page 44
[२ द्वितीयोऽष्यायः ] संक्षेपशारीरकम्। ४७९
मर्थमित्यत आह-कर्मादीति। प्रथमं विवतोंक्तौ हि कर्तृत्योपासकत्वादि- विलयाद्विद्याधिकारसिद्धयर्थानां कर्मविधीनामुपासनादीनां चापवृत्ति: स्यांदिति॥५८॥ अ० टी०-कथं भूमिकामेदोऽत्रेति तं व्युत्पादयितुमुपक्रमते-तत्रापि पूर्वमिति। तयोः परिणामविवर्तयोर्मध्ये पूर्व प्रथमं विकारवादं परिणामपक्षमुपगम्याभ्युपेत्य भोक्त्रादि- सूत्रमवतार्य विरोधनुत्यै प्रावर्तत सत्रकार इति योजना। यद्यद्वैतमेव तत्त्वं तर्हिं भोक्तृ भोग्यादिविकारभेद(दे) प्रत्यक्षानुभवविरोधोSभेदे सर्वसांकर्यापत्ते(त्ति)रिति विरोधं 'भोक्त्राप- त्तेरैविभागश्चेत्' इति सूत्रभागेणोद्भाव्य 'स्यालोकवत्' [ब्र० सू० २ । १। १३] इति भागेन सर्वस्य ब्रह्माभेदेऽपि न भोक्त्रादेः संकरो जलस्वरूपाभेदेऽपि तरड्गादेरिव परिणामभेदोपपत्तेरिति परिहारं कुर्वन् प्रावर्ततेत्यर्थः । परिणाममाश्रित्य परिहारप्रयोज- नमाह-व्यवहृतेः परिरक्षणायेति। तद्वा किमर्थमिति तत्राऽह-कर्मादीति। आदिपदादुपासना गृह्यते। अयं भाव :- प्रथममेव विवर्तवादाभिधानेन विरोधपरिहारे क्रियाकारकफलभेदाभावादुपास्योपासकादिभेदविलोपाच्च कर्मोपासनाद्यसंभवात्तद्विधीनां प्रामा- ण्याभावः प्रसज्येत । न च तद्युक्तमुपासनाविधीनामस्मिन्नेव शास्त्रे विचार्यमाणत्वा- त्तन्निर्वाहोऽत्रैव वक्तव्यः । तथा कर्मविधीनां चाघिकारिसिद्धिद्वारेणात्रोपयोगात्तनििर्वाहोऽप्य- नुमन्तव्योऽतस्तेषां प्रवृत्तिविषयप्रदर्शनाय परिणामवादः प्रथमं सूत्रितः ॥५८॥ सु० टी०-तहिं प्रथमाभिधानात्परिणाम एव सिद्धान्तः किं न स्यादिति चेन्नेत्याह- साक्षादिहाभिमतमेव विवर्तवाद- माहत्य सूचयति पूर्वमपेक्षमाणः । आरम्भणादिवचनेन विवर्तवादं शक्कोति वक्तुमुदिते परिणामवादे॥ ५९॥ साक्षादिति। इह शास्त्रे विवर्त एव साक्षाद्भिमतः प्रतिज्ञाताद्वैतोप- पाद्कत्वादृतस्तमेवाSSहत्य परिणाममुखेन कार्यकारणयोरत्यन्तमेदनिरा- सेन मुनिः सूचयतीत्यर्थः । तर्हि विवर्त एव पूर्व वत्तव्यो मुख्यत्वादिति चेत्तत्राऽडह-पूर्वमिति। परिमाणस्य विवर्तोपायत्वाद्यापारलाघवमपेक्ष- माण इत्यर्थः । एतदेवाsऽह-आरम्भणादीति। ५९ ॥
१ क. विशेषश्े।
Page 45
४८०
अ० ढी०-नन्विह विवर्सवादस्य सिद्धान्त्त्वाभिधाने को विशेष: प्रयोजनशेषतया निर्देशस्योभयोरप्यविशेषादिति तत्राSह-साक्षादिति। निर्गुणत्रह्माषगतेरत्र प्राधा- न्येन विवक्षितत्वात्तत्र च विवर्तवादस्य साक्षादुपयोगादिहास्मिञ्छास्त्रे साक्षादभिमतं विव- र्तवादमाहत्य मुखतः सूचयति। आहत्येत्युक्त्या पूर्वसूत्रेऽपि विवर्तवाद: सूत्रकारस्याभिप्रेत इति सूच्यते। यद्येवं विवर्तवाद एवात्र प्राधान्येनाभिमतस्तर्हि स एव प्रथमं सूचयितुं युक्त: पश्चादितरस्तस्यात्रामुख्यत्वादिति चेन्मैवं परिणामनिरूपणसापेक्षस्वाद्विवर्तनिरूपणस्य परिणामस्यैव प्राथम्यं युक्तमित्याह-पूर्वमपेक्षमाण इति । पूर्व परिणामम्। तद- पेक्षामेव विशदयति-आरम्मणादीति। प्रथमं परिणामवाद उदिते सत्यारम्भणादि- चचनेन विवर्तवादं वक्तुं शक्कोति नान्यथा कार्यकारणस्वरूपस्याप्रतीतौ तस्प मिथ्यात्वप्र- तिपत्ययोगादित्यर्थः ॥ ५९॥ सु० टी०-तदेव लौकिकटष्टान्तेन स्पषट्यति- आरुह्य भूमिमधरामितराऽधिरोदुं शक्येति शास्त्रमपि कारणकार्यभावम्। उक्त्वा पुरा परिणतिप्रतिपादनेन संपत्यपोहति विकारमृषात्वसिद्धयै ॥ ६० ॥ आरुह्ोति। अधरामधःस्थितां भूमिं पादार्पणस्थानम्। इतरा तदुपरि- भूमिः। इति हेतो: शास्त्रमपीति संबन्धः । ईपदभेदसहपरिणामप्रतिपादृ- नेन कारणकार्यत्वमुपपाद्य संप्रत्यारम्मणाधिकरणेडपोहति परिणामेन प्रसक्तस्येषन्द्ेदस्य सत्यत्वं निषेधति विवर्तसिद्धचर्थमित्यर्थः ॥ ६० ॥. अ० टी०-परिणामधिवर्तयोरुपायोपेयभावेन पौर्वापर्यनियममुपपादयति-आरुह्य भूमिमिति। शक्येति प्रसिद्धमिति शेषः । न केवलं लोकदृष्टान्तमात्रेणायमभ्युपगमः . श्तिगतिपर्यालोचनायामपि परिणामवादस्य विवर्तसिद्धिं प्रत्युपायत्वं प्रतीयत इत्याह- शास्त्रमपीति । पुरा प्रथमं सृष्टिवाक्यैः परिणतिप्रतिपादनेन कार्यकारणभावं ब्रह्मज- गतोरुक्त्वा संप्रतीदानी विकारमृषात्विद्ध्यै तमपोहति 'वाचारम्भणं विकारो नामधेयम्' [छा० ६।१। ४] 'त्रीणि रूपाणीत्येव सत्यम्' [छा० ६। ४ । १]'ऐत- दात्म्यमिदं सर्व तत्सत्यं स आत्मा'[छा० ६ ।८'। ७] इति प्रतिपन्नो- पाधौ प्रतिषेधेन विकारस्य तत्कारणत्वस्य च मिथ्यात्वमावेदयति क्रमेणेत्यर्थः ॥ ६० ॥
Page 46
[ २ द्वितीयोऽध्याय: ] संक्षेपशारीरकम्। ४८१
सु० टी०-सौधाद्यारोहणसोदान इव तस्वप्रतिपत्तिसोपानेऽवि विका- रविवर्तयोरधरोत्तरभावं दर्शयति- विवर्तषादस्य हि पूर्वभूमि- र्वेदान्तवादे परिणामवादः।
स्वयं समायाति विवर्तवादः ॥ ६१॥ विवर्तवादस्येति। तन्निषेध्येषन्भेदप्रसञ्जकत्वेन पूर्वभूमिरित्यर्थः। ध्यव- स्थिते प्रसक्के। स्वयमिति भेदाभेदे सिद्धे भेदस्य तातत्विकत्वनिरसना- दनाया सेनाऽडयातीत्यर्थः।६१॥ अ० टी०-ननु सोपानपर्वणामुपर्यधोभावावस्थानादुक्तमुपरितनस्थानप्राप्तिं प्रत्यधर· स्थानारोहस्योपायत्वमत्र कथमिति चेदत्रापि वस्तुतत्त्वप्रतिपत्तिसोपाने परिणामविवर्तवादयोरध- रोत्तरभूमिभावादेवेत्याह-विवर्तवादस्येति। पूर्वार्धेन प्रतिज्ञातमेवोत्तरार्धेन प्रतिपा- दयति-व्यवस्थित इति। जगत्कारणतया ब्रह्मणः सद्भावसिद्व्यर्थ कार्यकारणभावस्तावद्वक्त व्यस्तस्य चास्मिन्परिणामवादे व्यवस्थिते सति जगतो ब्रह्मपरिणामत्वे निरूपिते विवर्तवादः स्वयं समायाति। कूटस्थस्य ब्रह्मणो मृदादिवत्परिणामानुपपत्तिप्रतिभासादुक्तः कार्यकार- णभावो विवर्त एव पर्यवस्यत्यनुक्ते हि कार्यकारणभावेऽधिष्ठानस्याप्रतिपन्नत्वाद्धान्तित्यप्रती- त्यसंभवादित्यर्थः ॥ ६१ ॥ सु० टी०-ननु प्रथमश्चुतानुसारेण चरमश्चुतंनेयमिति न्यायात् 'एकेन मृत्पिण्डेन सर्व सृन्यम् ' [छान्दो० ६। १। ४] इत्यादिपाथमिकप- रिणामोक्त्यनुसारेण वाचारम्भणमित्यादि व्याख्येयमिति चेन्न 'कथ नु मगवः '[छा० ६।१।४] इति चोदपूर्वकं 'मृत्तिकेत्येव सत्यम्' [छा० ६। १ । ४] इत्यन्तेन विकारमृषात्ववर्णनेन प्रतिज्ञातार्थसाधना. द्विवर्तोपायत्वेनैव श्रुतिसूतराभ्यां परिणामस्योक्तत्वान्न तु तात्पर्येणेति दृष्टान्तेनाSSह- उपायमातिष्ठति पूर्वमुच्चे- रुपेयमाप्तुं जनता यथैव।
१ ख. शामिवा।
Page 47
४८२ टीकाद्वय समेतें- :[ २.द्वितीयोऽध्याय:]
श्रुतिर्मुनीन्द्रश्वव विवर्तसिद्धचै विकारवादं वदतस्तथैव ॥ ६२॥ उपायमिति। यथा हि जनसमूह उपेयं साध्यमासुसुपायं साधनं पूर्वम- नुतिष्ठतीत्यर्थः ॥ ६२॥ अ० टी०-तथा चोपायत्वातप्रथमं परिणामवादाभिधानं युक्तमेव श्रुतेः सूत्रकारस्य चेत्युपसंहरति-उपायमिति। स्पष्टार्थ पद्यम् ॥ ६२।। सु० टी०-ननु कस्यायं परिणामवादः संमतो य इहाम्युपेयत इत्याकाङ्क्षायां तत्तद्वादिपक्षान्विवेकेनोपन्यस्यति- आरम्भवाद: कणभक्षपक्ष: संघातवादस्तु भदन्तपक्षः। सांख्यादिपक्ष: परिणामवादो वेदान्तपक्षस्तु विवर्तवादः ॥६३॥ आरम्भवाद इति। करणेभ्योऽन्यत्तद्दभिन्नं कार्य समवाय्यसमवायिनिमि- त्तैर्जन्यत इत्यारम्मवादः। अणूनां समूह एव घटादि कार्य न तु तद्भि- न्नमिति संघातवादः । कारणस्य तात्विकोऽन्यथाभाब: परिणामोऽता- स्विकोऽन्यथाभावो विवर्त इत्येषां पक्षा इत्यर्थः ॥ ६३।। अ० टी०-वादिप्रसिद्धा आरम्भणादिवादा इत्युक्तं ' वादिजनता खलु वाब. दीति' इत्यत्र तत्र कस्य को वाद इति वीक्षायामाह-आरम्भवाद इति। भदन्तः सुगतः ॥ ६३॥ सु० टी०-ताहै विकारवादस्याभ्युपगमः किमर्थ इत्याशङक्य तत्प्रयोजनं पूर्वसिद्धमेव प्रपञ्चयति- विकारवादं कपिलादिपक्ष- मुपेत्यवादेन तु सूत्रकार: । श्रुतिश्र्व संजल्पति पूर्वभूमौ स्थित्वा विचर्तप्रतिपादनाय ॥ ६४॥ विकारवादमिति। सुबोधम् ॥६४॥ अ० टी०-ननु परिणामवादोऽपि वेदान्तसिद्धान्त एव ब्रह्प्रतिपत्युपायत्वादिति चेननेत्याह-विकारवादमिति। उपेत्यवादेनाभ्युपगमसिद्धान्तेन कपिलादिपक्षं सांख्या
Page 48
[२ द्वितीयोऽव्यायः ] संक्षेपशारीरकम्। ४८३
दिशास्त्रसिद्धं विकारवादमाश्रित्य सूत्रकार इत्यादि सुगमम्। तथा चाभ्युपगमसिद्धान्तान्त- मेतत्याऽभ्युपगमेऽपि न साक्षादयं सिद्धान्त इत्यर्थः ॥ ६४ ॥ सु० टी .- ननु विवर्तोऽपि कारणगतरूपान्तरापत्तिरूपत्वात्परिणा- मप्रभेद एवेति न पृथगुपादातव्य इति चेन्न लक्षणस्य भेदादित्याह- अभेंदिन: सावयवस्य सत्य- विचित्ररूपान्तरदर्शकत्वम् । वदन्ति धीराः परिणाममस्या वसुंधराया इव सस्यसृष्टिम् ॥ ६५॥ अमेदिन इति.। अनेनाSSरम्मवादस्य व्यावृत्तिरारभ्वारम्मकयोर्भेंदात्॥। सावयवस्येति ब्रह्मणः परिणामासंभवसूचनाय। सत्येति । कारणस्य. तास्विकनानाकार्यरूपत्वमित्यर्थः। दर्शकत्वमिति प्रमाणाभिप्रायम्। रूप- न्तरेति संघातव्यावृत्तयर्थ तस्य संहृतेभ्यो रूपान्तराभावात् ।. दृषान्त- माह-अस्या इतिं॥६५॥ अ०टी०-परिणामविवर्तयोर्भेदं तल्क्षणकथनेन व्युत्पादयति-अभेदिन इति। रूपान्तरदर्शकत्वमित्युक्तेऽर्थाद्रूपान्तरस्येति लभ्यते। रूपान्तरस्य. निजरूपाद्रृपान्तरदर्शक्तव धीराः परिणामं वदन्ति। अत्र. विचित्रविशेषणं प्रदर्शनार्थ,न व्यावृत्त्यर्थं, यतो विचित्ररू- पत्वं. विवर्तपरिणामयोः समानरूपम्। अभेदिन इति. विशेषणमारम्भनिवारणायैकस्याSS- सम्भकत्वानङ्गीकारात्। सावयवस्येतिपदं परिणामिवस्तुस्वरूपकथनार्थम् । सत्येति रूप- विशेषणं विवर्तव्यावृ्त्तर्थ रूपान्तरग्रहणेनैव संघातपक्षनिरासो द्रष्टव्यः संघातस्य संहन्तृभ्यो रूपभेदानङ्गीकासात्तद्वादिभिः । यद्वाडमेदिन इत्यनेनैव संघातस्यापि व्यवच्छेद: संहर्तणा- मनेकत्वादित्यर्थ: । अस्या इत्युदाहरणम् ॥ ६५ ॥। सु० टी०-विकाराद्विवर्त व्यावर्तयति- अभेदिनो निर्विकतेरनेक- मुषास्वरूपान्तरदर्शकत्वम्। विवर्तशब्दार्थ इह प्रसिद्ध- स्तरङ्गभेदादिव चन्द्रभेदः ॥६६ ॥ अमेदिन इति। निर्विकृतेरिति पूर्वरूपापरित्यागेन। अनेकेति ब्रह्मवि-
१ क. विवृत्तश ।
Page 49
४८४ टीकाट्वय समेतं- [ २ द्वितीयोऽच्याय: ]
वर्ताभिप्रायेणान्यत्र तन्नियमाभावादत्यक्तपूर्वरुपस्य स्वाभिन्नमिथ्या- रूपान्तरप्रदर्शकत्वरं विवर्तशब्दार्थ इत्पर्थः । उदाहरणं-तरङ्गेति । ६६ ।। अ० टी०-विवर्तलक्षणमाह-अभेदिन इति। निर्विकृतेरिति परिणामव्यावृत्तिः। मृषेतिविवर्तस्वरूपकथनमात्रं न व्यावृत्त्यर्थमेतत्। अथवैतदेव परिणामव्यावृत्त्यर्थ निर्विकृते- रिति स्वरूपकथनार्थमिति द्रष्टव्यम्। अन्यत्समानम्। अत्रोदाहरणं-तरङ्गभेदा- दिवेि ॥६६॥ सु० टी०-उमयोः श्रुतिसिद्धत्वात्कथं विवर्त एव सिद्धान्त इति
अहं प्रजायेय बहु स्वयं स्या- मित्यादिनाऽडदौ परिणाममुक्त्वा। विकारमिथ्यात्वमथ ब्रुवाणा विवर्तवादं श्रतिरानिनाय ॥६७॥ अहमिति। मूलकारणं सदित्यर्थः । 'बहु स्याम्' [ छा०६।२ ३ ] इत्वा - दिना स्वात्मन एवाविचिन्त्यविचिन्रसृज्यशक्तिमत्वेन विचित्रप्रपश्चा रमना परिणाममुकत्वा, अथेत्यर्थान्तरे। 'यद्गे रोहितं रूपम्' [छा० ६।२ । ३ ] इत्यादिना 'त्रीणि रूपाणीत्येव सत्यम्' [छा० ६।
त्त्रप्रदर्शनान्निर्विकारसन्मान्रस्यैव सृषाप्रपञ्चात्मना विवर्तमानत्वं श्रुति- निश्चकर्षेति स एव सिद्धान्त इत्यर्थ: ॥ ६७॥ अ० टी०-एतौ वादौ कुत्र कुत्र अत्योक्ताविति तदाह-अहमिति। आदौ प्रथमं 'तदैक्षत बहु स्यां प्रजायेय' [छा० ६ । २ ।३ ] इति स्वात्मन एव बहुरूप- कार्याभावाशंसनपूर्वकं 'तत्तेजोऽसृजत' [छा० ६।२ ।३ ] इत्यादिना परिणाम- मुक्त्वाऽ्थानन्तरं विकारमिथ्यात्वे 'बाचारम्भणं बिकारो नामधेयम्'[ छा० ।६॥ १ । ४] 'तीणिि रूपाणि' [छा० ६ । ४ ।१] इत्येव सत्यादिना ब्रुवाणा श्रुति- विधर्तवादमानिनाय पूर्वोक्तं परिणाभं विवर्ततवेन व्यवस्थापितवतीत्यर्थः । विचित्रानेवसृज्य- शक्तिमत्वेन ब्रह्मणोऽपि सावयवत्याङ्गीकारात्तस्मिन्नस्ति परिणामलक्षणयोगिता पुनर्वाचार- म्भणगिरा सृज्यशक्तीनां मायात्वस्यार्थादुक्तत्वाद्विशुद्धचिदकेरसस्यैवाऽ्मनो या मायाशक्तय स्ताभिर्विचित्ररूपान्तरापत्तिर्विवर्त एवेति साक्षादभिमतं श्रतिर्दर्शयतीति भावः ॥६७।।
Page 50
[२ द्वितीयोऽच्याय: ] संक्षेपशाररकम् । ४८५
सु० टी०-एवं विवर्तताश्रयण्े सति 'इन्द्रो मायाभिः पुरुरूप ईयते' [बृह०२।५।१९]' संवाम्यात्ममायया' [गी० ४॥६] इति श्रुतिस्मृतिवचनजातमपि प्रतीतिबलाद्विचारदशायां परमार्थतवेनाSऽह- तस्य कार्यकारणात्मना विभक्तस्य प्रपश्चस्य वस्तुत्वमर्दनपरं घदते न तु परिणामपक्ष इत्याह- मायाश्रतिस्मृतिवचः सकलं तथा च वस्तुत्वमर्दनपरं घटते विवर्ते। सर्वस्य कारणविकारविभागभाजः पागाहृतस्य परमार्थतया प्रतीतेः ॥६८॥ मायेति ॥६८॥ अ० टी०-यदा चैवं विवर्त एव साक्षादभिमतो वस्तुगत्या ब्रह्मणः स्वतो निरवय- त्वेन परिणामलक्षणयोगित्वाभावात्तदा 'इन्द्रो मायाभिः पुरुरूप ईयते'[ बृ० २।५। १९]'अज्ञानेनाSडवृतं ज्ञानम्' [गी० ५। १५]'प्रकृति स्वामधिष्ठाय संभवाम्या- रममायया [गी० ४ । ६ ] इत्यादिश्रुतिस्मृतिवचसां सृष्यदेर्मृात्ववादिनामपि सामञ्जस्यं स्थादित्याह-मायाश्ुतीति। तथा चैवमुक्तव्यवस्थायां स्थितायां विवर्ते सिद्धे सति मायाश्रुतिस्मृतिवच: सकलं प्रतीतेर्हेतोः प्राक्परमार्थतया तस्य सर्वस्य जगतः कारण- विकारविभागभाजः कार्यकारणरूपेण विभक्तस्योपमर्दनपरं घटत इति योजना। अतो विवर्त एव साक्षात्सिद्धान्तत्वेनाभिमतः परिणामवादस्य तु पराभिमतस्यैवाभ्युपगममात्रेण सिद्धान्तकोटिनिवेश इति सिद्धम् ॥ ६८ ॥ एवमीषन्भेदगन्धितामात्रेण परिणामवादस्यापि न श्रुतिस्मृतिन्याया- नुगतिश्चेत्कैव कथाऽत्यन्ताभेदाश्रययोः संघातारम्भवाद्योरिति न तयोः सिद्धान्तत्वशङ्कत्याह- संघातवादमुपगम्य तु तत्र पक्षे संहन्त्रभाव इति सूत्रकदाह दोषम्। स्थायी भदन्तसमये न हि कश्विदत्र संघातसंजननशक्तिसमन्वितोऽस्ति ॥ ६९ ॥ संघातेति। उपगम्यानूद्य तक्षीयपक्षे संहन्तुः संहन्यमानानां मेलयितुर- भा्व इति दोपमाहेति संबन्धः । सौन्नान्तिकवैभाषिकयोर्हिं बाह्यान्त-
Page 51
टीकाद्वय समेते- [ २ द्वितीयोंऽच्याय: ]
रार्थाः क्षणिका: सन्ति। तत्र भूत क्षित्यादिचतुष्टयं भौतिकं च. रुपादि चक्षुरादिकं च ते च खरस्ेहोष्णतेरणस्वभावानां क्षणिकानां चतुविध- परमाणूनां संघातात्मके तथा रूपविज्ञानवेदनासंज्ञासंस्कारा आध्या त्मिक: संघात इत्यादि मतम् । तत्र च समुदायिनामचेतनत्वान्न स्वतः- समुदायसंभवः । यद्यपि चित्तं चेतनं तथाऽपि न तस्य देहादिसंघाता- न्पूर्व ज्ञातृत्वमस्ति। आलयविज्ञानमपि विषयविज्ञानाहतेऽसमर्थ तञ्च, संघाताधीनंतदपि स्थाथि चेदात्मैव क्षणिकं चेत्कथं तेन संघातो जन्येत। अनिच्छ तोऽप्रयतमानस्य तद्योगादिकाश्रयणमेवेच्छादीनां हेतुफलभा- वदर्शनादित्यभिप्रेत्य 'समुदाय उभयहेतुकेऽपि तद्प्राप्तिः'[ ब्रह्म० २।२ । १८ ] इति सूतरकृदाह-सूत्रकृदिति.। संहन्त्रभावमाह-स्थायीति । ज्ञानेच्छाद्यनेकक्षणस्थायीत्यर्थ: ॥ ६९। अ.० टी०-यद्येवमङ्गाकरणवादमात्रेणास्य सिद्धान्तकोटिनिवेशस्तर्हि संघातारम्भवाद- योरपि सिद्धान्तकोटिनिवेश: स्यादङ्गीकरणवादस्य तयोरपि, भावादिति चेन्मैवं विशेषोपपत्ते: रित्याह-संघातवादमिति। चतुर्विधानां परमाणनां, पञ्ञानां रूपविज्ञानादिस्कन्धानां च संघातः सृष्टिरिति यो वादः स संघातवादः। तं संघातवादमुपगम्य पूर्वपक्षत्वेनोपस्थाप्य. तत्र पक्षे 'समुदाय उभयहेतुकेऽपि तदप्राप्तिः' [ब्र० सू० २ / २ । १८] इत्यादिि: सूत्रकृत्सहत्रभाव इति दोषमाहेति योजना । तथा च दृपयतुमेव तत्पक्ष- ग्रहो न स्वपक्षसिद्ध्युपायतयेति न तस्यापि सिद्धान्तकोटिप्राप्तिरिति भावः । उक्तमेव दोषं स्फुटयति-स्थायीति। अक्षणिकश्चेतनोऽन्यो वा संघातजननशक्तिसमन्वितः स्थायी, कश्चिदत्र भदन्तसमये नास्ति तदभ्युपगमे सिद्धान्तविरोधादित्यर्थः ॥ ६९ ॥. सु० टी०-ननु कारणगुणस्य कार्ये सजातीयगुणारम्भकत्वनियमा त्कथमनन्ता द्वह्मणश्रेतनात्परिच्छिन्नस्य जडस्य वियदादेरुत्पत्तिरिति वेशे: विकस्य चोद्यं तत्प्रक्रिययैव दूषयति- आरम्भवादमुपगम्य तदीययुक्ते-
वैशेषिकं प्रति महद्वदिदं हि योज्यं यद्वाडपि दीर्घवादिदं जडमित्यनेन॥ ७० ॥ आरम्भेति। उपगम्याभ्युपेत्य। तदीययुक्तेः कारणगुणस्थेत्याय्यक्तयुक्ते: ॥ तत्प्रक्रिया तु परमाणुग्यो द्यणुकादिक्रमेण कार्यद्रव्याणि जायन्ते।.
Page 52
[ २ द्वितीयोऽध्याय: ] संक्षेपशारीरकम
तद्गुणास्तु सजातीयैः समवायिगुणैरारभ्यन्ते रुपादयस्तम्महस्वं च कार- णसंख्यापरिमाणप्रचययोनीत्यादिका तामनुसरन्नेव वैशेषिकं प्रति 'मह- दीर्घवद्वा हस्वपरिमण्डलाभ्याम्' [ब्ह्म० २।२।११ ] इति सूत्रेण व्यमिचारमाह। यथा द्यषकारम्ये महति ऋपणुके समवायि परिमाणं न स्वजातीयगुणारम्भकं तद्वदिदमपि चेतनं ब्रह्म न स्वकार्ये चैतन्यार- म्मकमिति योज्यमिति॥७० ॥ अ० टी०-तथाSSरम्भवादोऽपि तदीयरीत्या तदुक्तूषणसभाधानार्थमेव क्वचिदभ्यु- पगतो न स्वपक्षसाधनायेत्याह-आरम्भवादमिति। तदीययुक्तेरित्ययमर्थः-यद्रुणकं कारणद्रव्यं तत्तादृग्गुणकमेव स्वकार्यद्रव्यं जनयति यथा श्वेतगुणास्तन्तवः श्वेतमेव पट- मिति। तथा च चिद्गुणकं ब्रह्मद्रव्यं यदि जगद्वव्यस्योपादानं तर्हि तदपि चिद्गुणमेव स्यात्त. दभावान्न चिद्रुणब्रह्मोपादानकं जगदिति। अस्यास्तदीययुक्तवैशेषिकं प्रति। तस्य वैशेषि- कस्य प्रक्रियामनुसरन्व्यभिचारमाह सूत्रकार इति। केन सूत्रेणेति तदर्थ सत्रमर्थतः पठति-महद्ददिति। 'महद्दीर्वद्वा हस्वपरिमण्डलाभ्याम्।' [ब्र० सृ० २ । २ । ११ ] इत्यनेन सूत्रेणेति। अणुहस्व्परिणामेभ्यो द्वयणुकेभ्यो यथा महत्र्यणुकं जायते तथा वा तेभ्य एव दीर्घत्यणुकं तद्रदिदं जडं चेतनाज्ायत इति योज्यमित्यर्थः ॥ ७०॥ सु० टी०-महद्ददित्युक्तमेव विवृणोति -- ह्रस्वारब्धं त्र्यणुकमणुभिस्तद्वदारब्धमेत- द्स्वं नो तन्न च तद्णुवत्संमतं तद्वदेतत्। सर्वं कार्यं गगनधरणीमध्यगं चेतनोत्थं निश्िवत्कं नो जडिमघटितं युक्तमित्याचचक्षे ॥ ७१॥ द्वस्वार्यमिति। एतद्दवित््यणुकं यद्यपि ह्रस्वैरणुमिश्र ह्यणुकैरार्धं तथाऽपि नो हरस्वं नाप्यणुपरिमाणवत्तव संमतं तद्वदस्माकमपि सर्व- मेतद्रगनादिकार्य चिज्जन्यमपि निश्चित्कं युक्तमित्याहेत्यर्थः॥ ७१॥ अ० टी०-तमेव सूत्रार्थ विवृणोति-ह्वस्वारंब्धमिति। यत््यणुकं मसिद्धं तद्ध्रस्वारब्धं हस्वैद्वर्यणुकैरारब्धम्। तथाऽपि न तत्व्यणुकं ह्वस्वं नो संमत नेष्ट- मित्येकोऽन्वयः । तद्वद्था हस्वैरारब्धं त्र्यणुकं तद्वदणुभिस्तैरेव द्वयणुकैरेतत््यणुकमा- रब्वं तथाऽपि तदेतत्व्यणुकं नाणु समतं किं तु महद्दीर्ध च तत्संमतमिति पुनर्योजना।
१ ख. ग. रम्यमि"।
Page 53
टीकाद्वय समेतं- [ २ द्वितीयोऽच्याय: ]
यथैवं वैशेपिकाणां समवायिकारणगता गुणाः कार्ये गुणान्तरं संजञातीयमारभन्त इति न नियमस्तद्वन्नोऽस्माकमप्येतत्सर्व कार्य चेतनोत्थमपि निश्चित्कमचेतनमयं च जडिमघठितं कारणचैतन्यविपरीतेन जाउघधर्मेण युक्तमित्येतद्युक्त्मित्याचचक्षे सूत्रकार इति योजना। गगनधरणीमध्यगमिति कार्यविशेषणं गगनमारम्ध धरणीपर्यन्तमित्यर्थः ॥ ७१॥ सु० टी०-सूत्रस्थवाशब्दसूचितं द्यपाकतयणुकपरिमाणयोव्यमि, चारं दर्शयति- ह्नस्वाणुत्वे कारणद्वित्वहेतो- जाते नैते पारिमाण्डल्यहेतोः। दीर्घत्वं यथच्च दीर्घे मह्त्वं द्रव्ये ते द्वे कारणत्रित्वहेतोः॥७२॥ हस्वाणुत्वे इति। द्यणुकगते ये ह्रस्वाणृत्वे ते स्वकारणपरमाणुद्वित्वादेव जाते न तु स्वसजातीयात्तत्पारिमाण्डल्यादिति हि ते मतभेवं कयणुके द्रध्ये यह्वीर्वत्वं यञ्च तत्र मह्त्त्वं ते अपि न कारणपरिमाणजन्ये कितु तद्ुहुत्वसंख्याजन्ये इति क्व त्वदुक्तो नियम इत्यर्थः ॥ ७२॥ अ० टी०-तथा व्द्यणुकपरिमाणमषि तत्कारणगुणविलक्षणमेव संमतमतञ्जन्यं चेल्याह-हस्वाणुत्वे इति। व्द्यणुकगते हस्त्ाणुत्वे कारणपरमाणुगतद्वित्व हेतोर्जाते । एते हस्वाणुत्वे न पारिमाण्डल्यहेतोर्जाते पारिमाण्डल्यस्य स्व्रपरमाणुपरिमाणस्यानारम्भक- त्वाङ्गीकारादन्यथा व्दणुकस्यापि पारिमण्डलत्वापत्तेरित्यर्थः । तथा त्र्यणुकगते दीर्घत्वमहत्त्वे अपि न व्य्यणुकपरिमाणजभ्ये इत्याह-दीर्घत्वमिति । दीर्घे द्रव्ये इति संबन्धः। व्द्यणुकगतदवित्वसंख्याजन्ये ते अभिमते इत्यर्थ: ॥ ७२॥ सु० टी० -- किं च तवापि न सर्वत्रैकरूप्यं कथमन्यथा परमाणुद्द- यादिव द्यणुकं ह्यणुकद्वयादपि न कयणुकं जायत इति। न च तत्कार्य- मण्वेव स्यादिति वाच्यं परमाणुद्वित्वस्य स्वाश्रयाधिकपरिणामारम्मक-
महत्त्वभेव संभवतीत्यलं त्रिभिर्दणुकैः। एवं च कार्यमहत्त्वं क्वचित्का- रणमहत्त्वात्क्कचित्त द्वुहुत्वाच्चेत्यनियतवादिना त्वया नास्मन्मतं शक्यदूष- णमित्याह- द्वयणुकस्य जन्म परमाणुयुगा- न्परिमण्डलादिति कणादमतम्।
Page 54
[ २ द्वितीयोऽष्याय: ] संक्षेपशारीरकम्।
द्वचणुकत्रयाञयणुकजन्म पुन- र्नियमं न कश्यपसुतो वदति ॥ ७३ ॥ व्वयणकस्पेति । परिमण्डलाित्यनेन ह्यणुकपरिमाणाधिक्यं सूचितम्। पुनः पश्रादन्यत्कार्यपरिमाण इत्यर्थः । कश्यपसुतः कणादः ॥७३ ॥ अ०टी०-एवं वैेषिकाम्युपगम इति कुतोऽवगतमिति तत्राSSह-द्यणुकस्येति। पुन- रित्यन्तं स्पष्ठार्थम्। यत एवमिदं मतं दृश्यतेऽतः कश्यपसुतः कणादो नियमं कारणद्र- व्यस्य कार्यग तसजातीयगुणारम्भकमुणाश्रयत्वे कारणगतगुणस्य कार्यसजातीयगुणारम्भक- त्वेन नियमं न वदतीत्यर्थः ॥ ७३॥ सु० टी०-तथाऽपि न प्रतिरबन्दिमात्रेण परपक्षजयस्तेषामिव मवता- मध्यनुपपन्नमस्त्वति चेन्न व्यभिचारेण तत्यायस्यैवाSSभासीकृतत्वा- दित्याह- द्यणुकत्यणुकव्यपाश्रयं परिमाणं प्रति कारणाश्रयः । न तु कारणमिष्यते गुणस्तदवष्टभ्य वयं जिगीषयः ।।७४ ॥ द्यणुकेति। गुण: परिमाणमू । किं तत इत्याह-तदवष्टम्येति। आशित्ये- त्यर्थ: ॥। ७४ ॥ अ० टी०-उक्तमेव व्यभिचारं संगृहाSSह-घ्द्यणाकतयणु कव्यपाश्रयमिति। व्यमिचार प्रदर्शनफलमाह-तद्वष्टभ्येति। तन्मतमाश्रित्य यावत् त्वत्प्रक्रियामेवाSS- श्रित्य वदुक्तनियमस्य व्यभिचारं दर्शयन्तस्वां जयाम इत्यर्थः ॥ ७४ ॥ सु० टी०-अस्तु तर्हि कारणपरिमाणादेव व्य्यणुकञयणाकादिपरि- माणारम्भ इति क व्यभिचार इति चेत्तत्राSऽह- यदि कारणसंश्रयादगुणाद्द््यणुकादेः परिमाणमिच्छति। द्वयणुकादिसैमाश्रये तदा परिमाणेऽतिशयो विरुध्यते॥ ७५॥ यदीति। गुणात्परिमाणात्। तथा च तस्य सजातीयपरिमाणारम्म- कत्वनियमेन व्ययणुकञयणाकयोरपि पारिमाण्डल्यं स्यान्न ततोऽतिशय इत्यप्रत्यक्षत्वं त्रयणुकस्य स्यान्नित्यपरिमाणमनारम्भकमिति स्वसमयभङ्ग- श्रवेत्यर्थ: ॥। ७५ ॥।
१ क. बन्धमा।
Page 55
४९० टीकाट्वय समेतं- [ २ द्वितीयोऽध्याय: ]
अ० टी०-अथ व्यभिचारनिराचिकीर्षया परमाणुपरिमाणात्पारिमाण्डल्यादेव व्द्यणुकप- रिमाणोत्पत्तिर्व्धणुकपरिमाणाच्च त्र्यणुकपरिमाणोत्पत्तिरित्युपगच्छाम इति ब्रूयात्तदप्य- संगतमित्याह-पदीति। अस्मिन्पक्षे सर्वं कार्य परिमण्डलमेव स्यादिति व्यणुकत्रयणुकादौ परिमाणातिशयो न स्यादतश्च त्र्यणुकादेरप्यतीन्द्रियत्वापत्तेरित्यर्थः ॥ ७५॥ सु० टी८-तर्हि परिणामवादः सिद्धान्तोऽस्त्वत्यन्तभेदेऽत्यन्तामेदे च सृद्घट इति सामानाधिकरण्यानुपपत्तेन हि मवति गौरश्व इति गौर्गो- रिति वा तस्मान्भेदाभेद: कार्यकारणयोस्तास्विक इतिचेत्तत्राSSह- परिणामवादमुपगम्य तथा रचनायसंभवमुवाच मुनिः । परमेश्वरं न हि विना घटते जडरूपवस्तुपरिणाम इति॥७६॥ पर्रणामेति। कुतो रचनाद्यसंभवमुवाचित्याह-परमेश्वरमिति। रचना कार्यावयवविन्यासादिरचेतनानां लोके चेतनं विना न हश्यते सांख्यानां चेश्वरानभ्युपगमाज्जीवानां चौदासीन्यान्न प्रधानादेर्महदाद्यात्मना परि- णामसंभवः। न हि स्वयं परिणममानं किंचिदुभयसंमतमस्तीत्यर्थः । भेदाभेदे चोक्तम् ॥ ७६॥ अ० टी०-तदेवं संघातारम्भवादयोर्न स्वीयतयाऽभ्युपगमः किंतु दूषणार्थमेवेह शास्त्रे तन्निबन्धनमिति स्थितं तथा परिणामवादोऽपि परपक्षदूषणार्थमेव क्वचिदभ्युपगत इत्याह-परिणामवादमिति। तथा संघातारम्भवादवन्निराकरणाय परिणामवाद- मुपगम्येति योजना। परमेश्वरं चेतनमधिष्ठातारं विना जडरूपवस्तुनः प्रधानस्य परिणामो न घटत इति जगद्रचनाद्यसंभवं परिणामपक्षे दोषं मुनिरुवाच 'रचनानुपपत्तेश्च नानुमा- नम् [त्र० सू० २ । २ । १ ] इत्यादिभि: सूत्रैरित्यर्थ: ॥ ७६ ॥ सु० टी०-नन्वारम्मादिनिराकरणे कुत्र कीहशः सूत्रकारम्याऽडशय इति जिज्ञासायामाह- ककचिदायुपेत्य कथनं कुरुते परपक्षदूषणकथावसरे। निजपक्षदोषपरिहारपरः क्वचिदभ्युपेत्य वदतीह मुनिः ॥७७॥ कचिदिति। परपक्षदूषणप्रधाने तर्कपादे क्वचिद्वैशेषिकाद्यधिकरणे तत्प्रक्रियामभ्युपेत्य महद्दीर्घवद्वेत्यादिना तद्दोषकथनपूर्वकं स्वमतं साध- यति क्वचितु रचनानुपपत्यादी तन्मतमुपेत्य स्वमतदोषपरिहारं च वद्तीत्यर्थः।।७७॥।
Page 56
[ २ द्वितीयोऽव्याय: ] संक्षेपशारीरकम्। ४९१
न्येति। परपक्षदूषणकथाप्रस्ताव दूषणार्थमेव संघातवादं परिणामवादं चाभ्युपेत्य क्वि- त्कथनं कुरुते। न तन्मते स्वपक्षदूषणपरिहाराय किंचित्पश्यन्नित्यर्थः। आरम्भवादं पुनर्निजपक्षदोषपरिहारं कुर्वन्कचिदभ्युपेत्येह शास्त्रे मुनिर्वदतीत्येष विशेषोऽवगन्तव्य इत्यर्थ: ॥ ७७॥ सु• टी०-उक्तमर्थ विभज्य दर्शयति- परपक्षनिषेधमाचरन्कचिदङ्गीकरणं करोति सः । परदर्शितदोषनुत्तये क्वचिदित्येष विशेष ईरितः।७८॥ परपक्षेति। परिणामादिपक्षनिषेधमित्यर्थः । परेति। वैशेषिकादिदर्शि- तेत्यर्थः।।5८। अ० टी०-मतान्तराङ्गीकरणफलमुक्तमेव स्पष्टयति-परपक्षनिषेधमाचरन्निति। आचरत्निति हेतौ शतृनिर्देश: । परपक्षनिषेधार्थ क्विदङ्गीकार इत्यर्थः । उत्तरं स्पष्टार्थम् ॥।७८|1 सु० टी०-एवं च संघातादिवत्परिणामवादस्यापि निरस्तत्वान्भ्ो- क्त्रापत्तिसूत्रे वादिभिरद्वैतसमन्वये भोक्तमोग्यादिसांकर्यमापादितं तत्स- माधातुं मेदामेदेन परिणाममभ्युपेत्य 'स्थाल्लोकवत्' [त्० सू० २। १। १३ ] इति परिहारं मुनिशाह न तु सिद्धान्ततया सिद्धान्तसिद्धिस्तु तद्नन्यत्वमित्यत्रैवेत्याह- भोक्त्रादिसूत्रे परिणामवाद- माश्रित्य तद्वादिभिरुक्तदोषम्। समादधानो मुनिराह तस्मा- त्सिद्धान्तसिद्धिः पनरुत्तरत्र ॥ ७९ ॥ भोक्त्रादीति॥ ७९॥ अ० टी०-तदेवं प्रसङ्गतो भाष्याद्यनुक्तादर्थकथनेनास्य ग्रन्थस्य वार्तिकत्वं दर्शितं तदेवमुक्तन्यायेन भोक्त्रादिसूत्रे परिणामवादाङ्गीकारः परोक्तदोषपरिहारार्थतया न सिद्धान्तत्वे- नेति स्थितमर्थमाह-मोक्त्रादीति। उत्तरत्रोत्तराधिकरणे तदनन्यत्वमित्यत्रेत्यर्थः॥७९।। सु० टी०-नतु निराकार्यस्याध्यम्युपेयत्व आरम्मादेरपि तथात्वं स्यास्तस्यापि स्वमावादिनिरासेनापेक्षित कार्यकारण भावादि साध कत्वा-
Page 57
४९२ टीकादय समेनं- [२ द्वितीयोऽव्याय: ]
दिति चेन्न तस्य सिद्धान्तानुपयोगित्वेनानपेक्षितत्वात्परिणामस्य त्वभे-
माण्येऽपि नाद्वैतसमन्वयक्षतिरिति वक्तुमभ्युपगम इत्याह- प्रत्यासन्ना परिणतिरियं विभकष्टस्तु पूर्वः संघातादि: सकल उदितो वेदसिद्धान्तसिद्धेः । एतावत्वादियमभ्िमता सूत्रकारस्य भाति भ्रान्तिभ्रट्टस्फुटनयमनःकौशलानां नराणाम् ॥८०॥ प्रत्यासन्नेति। विप्रकृष्ट इति। व्यवहारमान्नहेतुत्वादित्यर्थः। कथं तहिं परि- णाम: सूत्रसंमत इति कैश्चिद्याख्यायत इति चेद्विशेषाज्ञानादित्याह- एतावत्वादिति। सिद्धान्तप्रत्यासन्नत्वादित्यर्थः । मनःकौशलं विचार- चातुर्यम्॥८० ॥ अ० टी०-यद्ेवं तर्हिं द्वावत्र वादौ संग्रहषदं नयत इति किमुक्तमिति तत्राSडह- प्रत्यासन्नेति। वेदसिद्धान्तो वेदान्तसिद्धान्तस्तत्सिद्धेः सिद्ध्यर्थमियं परिणतिः परिणाम बाद: प्रत्यासन्ना विवर्तप्रतिपत्युपायत्वात्पूर्वः प्रागुक्तः संघातादिस्तु सकलः पक्षो विप्र- कृष्टोSद्वैतवेदसिद्धान्ताननुरूपा(पत्वा)दित्यर्थः । परिणामबादः सूत्रकारस्य सिद्धान्तोडभिमत इति केषांचिद्भ्मोऽपि प्रत्यासत्तिवशादेवेत्याह-एतावस्वादिति। मनःकौशलं विवेक- सामर्थ्यम् ॥८0॥ सु० टी०-किंचाSSपाततः शिष्यस्य शुद्धाद्वैतबोधासंमवाद्पि परि- प्ामोडभ्युपेय इत्याह- आरोपद्ृष्टिरपवादकदृष्टिरेवं व्यामिश्रदृष्टिरिति दृष्टिविभागमेतम्। संगृह्य सूत्रकदयं पुरुषं मुमुक्षुं सम्यक्पबोधयितुमुत्सहते क्रमेण ॥ ८१ ॥ आरोपेति। ब्ह्माभिन्नं जगदित्यारोपहृष्टिः। निष्पपश्चं म्रह्मेत्यपवाढ़- दृष्टिः। स्वतो निष्पपञ्ञं मायया सप्रपञ्चमिति व्यामिश्रदृष्टिः। एनं
१ स. म. व. टनिजम । २ क. 'त्याख्यात-क्ा'।
Page 58
[ २ द्वितीयोऽध्याय: ] संक्षेपशारीरकम्। ४९३
दृष्टिविभागं संग्ृह्य सुमुक्षुं प्रति सम्यगनायासेन पुरुषं परमात्मानं बोध- यितुं मुनिरुत्सहत इत्यर्थ: ॥। ८१ ॥ अ० टी०-परिणामवादस्य प्रकृतशास्त्रार्थप्रतिपत्युपायतया प्रत्यासत्तिमवोपपादयति- आरोपदृष्टिरिति। स्पष्टोजर्य: ॥। ८१ ॥ • सु० टी०-उक्तदृष्टित्रयं स्वरूपेण विभजते- आरोपदृष्टि रुदिता परिणामदृष्टि- द्वैतोपशान्तिरपवादक दृष्टिरन्त्या। मध्ये विवर्तविषया दवयमिश्रदृष्टि- व्यामिश्रदृष्टिरधरोत्तरभूमिभावात् ॥ ८२ ॥ आरोपेति। या पूर्वमारोपटृष्टिरुक्ता सा परिणामदृष्टिराद्या ब्रह्मणि पपञ्चाध्यारोपात्। या तु तत्रापवादकट्टष्टिरुक्ता सा सविलासा विद्यो- पशमकाद्वैत साक्षात्काररूपत्वाच्चरमा। व्यामिश्रद्ृष्टिः पुनरतत्त्वतोऽन्यथा- भावविषया ब्रह्मणि प्रपञ्चतद्भावविषयत्वान्मध्यमा। तत्र हेतु :- अधरेति। आरोपापवादभूमिद्वयघटितत्वादित्यर्थः ॥८२।। अ० टी०-किमासां दृष्टीनां स्वरूपं को वा क्रमः कथं वाऽस्य दृष्टिकथनस्य परि- णामवादोपकारित्वप्रदर्शनोपयोग इति वीक्षायां दृष्टस्वरूपक्रमौ तावदाह-आरोपदृष्टि- रिति। आरोपदृष्टिशब्देन परिणामदृष्टिरुदिता सेह प्रथमेति योज्यम्। ब्रह्मात्मकं सर्व जगदिति ब्रह्मणि प्रपञ्चारोपद्ृष्टिरित्यर्थः । द्वैतस्योपशान्तिर्यस्या; सा द्वैतोपशान्तिर्विशेषाद्व- यानन्दात्मब्रह्मदृष्टिर्या भवति सापवाददृष्टिरन्त्या तृतीयतयोदितेत्यर्थः । मायया सप्रपञ्चं स्वतस्तु निष्प्रपञ्चं ब्रह्मेत्यारोपापवादात्मिकेत्येवं या द्वयमिश्रदष्टिर्विवर्तविषया द्वैतमिथ्यात्वाल म्बना सा मध्ये परिणामापवाददृष्टयोर्मध्ये भवतीति व्यामिश्रदृष्टिरित्युच्यत इत्यर्थः । अस्या: कुतो मध्यत्वमित्यत आह-अधरोत्तरेति । आरोपोऽधरभूमिरपवाद उत्तरभूमिस्तयो- र्भावात्सत्त्वादारोपापवादाभ्यां व्यामिश्रणादित्यर्थः । अथ वा कथमित्थमासां दृष्टीनां क्रमनि- यम इति तत्र हेतुमाह-अधरोत्तरभूमिभावादिति उक्तक्रमेणैवाSSसामुद्वादि- व्यर्थ:।। ८२।। सु० टी० -- आसा च दष्टीनामानुपू्व्यं सहेतुकमाह- तत्वावेदकमानदृष्टिरधमा तत्त्वक्षतिर्मध्यमा
Page 59
४९४ टीका द्वय समेतं- [ २ द्वितीयो ऽध्याय: ]
.. जीवैकत्वमुमुक्षुभेदगतितो व्यामिश्रदृष्टिर्द्विधा भिन्ना तत्र च पूर्वपूर्वविलयादूर्ध्वोध्वलब्धिर्भवेत् ॥८३।।
रज्ञाश्रयत्वादनर्थहेतुत्वाङ्गह्मबुद्धेरतिदूरत्वाच्चाधमा । तत्त्वक्षतिः प्रप- श्रसत्यत्वस्यापवादिका विचाराधीना विवर्तहट्टिरारोपोत्तीर्णा शुद्धब- ह्मविषयत्वं वा प्राप्तेत्यतो मध्यमा। अपवाददृष्टिस्तु तत्त्वप्रच्यवा- त्मकस्य द्वैतभ्रमस्य सर्वात्मना क्षयं कुर्वती विशुद्धे ब्रह्मणि परिनिष्ठिता
द्विधा मिद्यत इत्याह-जीवेति। बहवो जीवास्ते च क्रमेण मुमुक्षवोङ नाद्यनन्तश्र संसार इत्येका विवर्तहष्टिः। अपरा त्वहमेवैकः सकल- कार्यकारणसाक्षी मद्विद्याकल्पितं च मुक्तामुक्तविद्वदज्ञानेकजीवेशा- दिभिन्नं जगद्भासते मद्दोधाज्च निवर्तिष्यत इति। कालतोऽप्यासाम धरोत्तरमावमाह-तत्र चेति। तासां मध्य इत्यर्थ: ॥८३॥ अ० टी०-उक्तमेव हेतुमुपपादयति-तत्वावेदकमानदष्टिरिति। या परि- णामदृष्टिः सा तत्त्वावेदकमानजा दृष्टिः प्रत्यक्षादेः प्रमाणस्य तत्त्रावेदकदृष्टयुपेतत्वादारोपदृष्टिः। एषाऽधमा प्रथमा च विशुद्धब्रह्मावगति प्रति दूरस्थत्वादित्यर्थः । तत्वक्षतिः प्रत्यक्षादे- स्त्त्वावेदकत्वक्षतिर्यया सा तथा विवर्तदृष्टिर्मध्यमाSडरोपरूपतामतीत्य केवलापवादरूपत्वं चाखण्डाद्वयब्रह्मालम्वनत्वलक्षणं न प्राप्तेति मध्यमेत्यर्थः। तत्त्वरप्रच्युतिरूपस्य विभ्रमस्य क्षति निवृत्तिं कुर्वत्यपवाददृष्विरन्त्या प्रथममध्यमापेक्षयोत्तमा ब्रह्मैव प्रत्यगेकरसं परमार्थ- सन्नान्यत्किंचिदभूद्धवति भविष्यतीति यद्वेदान्तैकवेद्यत्त्वं तस्य प्रच्युतिस्तिरस्कारो लेश- तोऽपि ब्रह्मान्यवस्तुदर्शनलक्षणः स एव विभ्रमस्तस्य क्षतिर्बाधस्तं कुर्वती परां काष्ठां प्रामोत्यपवाददृष्टिर्मता वाक्यार्थावगति प्रत्यत्यन्तसंनिकृष्टत्वादित्यर्थः । एवं दृष्टित्रैविष्ये तत्क्रमं तत्स्वरूपं चोपपाद मध्यमाया विवर्तदष्टेद्वैविध्यमुपायोपेयभावक्रमस्य विशदीकरण- माह-जीवकत्वेति। एक एवाहं जीवः स्वन इव स्वात्मन्येव स्वाविद्यया कल्पितो जीवभेदप्रतिभासो जीवेश्वरभेदावभासो मुक्तामुक्तादिप्रकारभेदकभिन्न आध्यान्मिकादि प्रकास- जगदवभासश्च। एतच् सर्व मत्कृतेन मत्तत्त्वब्रह्मज्ञानेन निःशेषं निवर्तिष्यत इत्यहमेक एव मुमुक्षुरित्येका गतिः प्रकारः। बहवो जीवास्ते च यथाप्रतिभासं विभिन्नस्वभावा एव सन्ति परमात्मविषयकस्वाश्रयानेकाविद्याविलसिताः क्रमेण च मुमुक्षवोऽनादनन्ताक्ष संसारमोक्षमार्ग इत्यपरा गतिः प्रकारः। एवं जीवैकत्व मुमुक्षभेदगतितो ज्ञानप्रतिपत्तिप्रका- रभेदतो व्यामिश्रदृष्टिर्विभिन्ना ज्ञेयेत्यर्थः । एवं दृष्टिभेदं व्यवस्थाप्याऽसां. दृष्टानामधमसध्य-
Page 60
[ २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ४९५
मोत्तमरूपाणां पूर्वपूर्वविलापनेनोत्तरोत्तरमाप्तिहे तुत्वमित्युपायोपेयभावं संगृह्ाति-तत्र चेति। तासं च मध्य इत्यर्थः ॥ ८३ ।। सु० टी०-विलापनेऽपि तासा क्रममाह- परिणामबुद्धिमुपमृद् पुमान् विनिवर्तयत्यथ वितर्तमतिम्। उपमृद तामपि पदार्थधिया परिपूर्णदृष्टिमुपसर्पति सः॥८४ ॥ परिणामेति। पुमानधिकारी कूटस्थस्य तत्त्वतोऽन्यथाभावासंभवात्तद्बु द्द्वेरुपमर्दे कृत्वाऽनन्तरं व्यावहारिकविवर्तबुद्धिमपि प्राप्तां निवर्तयति दृष्टिमृष्टिमाश्ित्य ततस्ताहशीमपि विवर्तमति पदार्थघिया केवललक्ष्य-
तीत्पर्थः।।८४ । अ० टी०-संग्रहं विवृणोति-परिणामबुद्धिमिति। अयमर्थः-प्रत्यक्षादेरप्यस्ति स्वार्थेषु तत्त्वावेदकं प्रामाण्यं ब्रह्मणः परिणामजगत्सष्ट्यादिवाक्यप्रापितमिति या परिणाम- दृष्टिः प्रथमा तां परिणामदृष्टिं ब्रह्मणो विशुद्धत्वान्निरवयवसन्मात्रत्वाच्च परिणामो न संभवति प्रत्यक्षादेरपि व्यवहारव्यवस्थामात्रहेतुत्वा्व्यावहारिकमेव प्रामाण्यं जीवेश्वरभेदो जीवानां मिथो भेदश्च व्यवहारदृष्टया वर्तत एवेत्येवं या विवर्तदृष्टिस्तयोपमूद परिणामं ब्रह्मणः सहसा प्रतीयमानं विवर्तत्वेनाSSकलय्येति पुमान्परिणामबुद्धिं विवर्तबुद्धयोपमर्द्येति योज्यम्। अथ विवर्तमति परिणामबुद्धेरुपमर्दिनीमपि निवर्तयति दृष्टिसष्टयाश्रयणेन जीवाजीवजगङ्ग- मस्य केवलस्वप्रसाम्यापादनेन च पूर्वोक्तां विवर्तदृष्टिमप्याभासमात्रतयाऽSकलयतीत्यर्थः । पुनस्तामपि दृष्टिसृष्टिरूपां विवर्तमति पदार्थधियाऽपबादरूपया केवललक्ष्यार्थधियोपमृद्य सच्चिदात्मकवस्तुमान्रतया विलाप्येत्यर्थः । सोऽधिकारी तदा परिपूर्णदृष्टिं वाक्यार्थावगति- रूपामुपसर्पति प्रापोतीत्यर्थः । एवमासां दृष्टीनां क्रमेण ब्रह्मावगतिहेतुत्वाद्युक्तं परिणामत्रा दस्य पूर्वभूमिकात्वेनोपायत्वमिति भावः ॥ ८४॥ सु० टी०-ननु मुमुक्षुणा ब्रह्मज्ञाने यतनीयं कि तस्य परिणामादि- दष्येति चेन्न तज्ज्ञानस्य ताद्दृशदृष्टिभेदसाध्यत्वादित्याह- अथशब्दसूचितमुमुक्षुरिमं खलु दृष्टिभेदमुदितक्रमतः ।
Page 61
४९६ टीकाटवय समेतं- [ २ द्वितीयोऽध्याय: ]
उपढौकते विगलिताखिलधी- रवतिष्ठते निजमहिम्नि ततः ॥ ८५ ॥ अथशब्देति। प्रथमसूत्रगतेनाथशब्देन सूचितो यः भ्रवणाधिकारी स सावदिमं दष्टिमेदं क्रमेण प्राप्नोति । ततश्र विगलितद्वैतबुद्धि: सन्नि- जमहिम्नि निजस्वरूपेऽवस्थितो मवति नान्यथेत्यर्थः ॥८५।। अ० टी०-ननु मुमुक्षूणामेता दृष्टय एकैकस्मिन्क्रमभाविन्यो नोपलभ्यन्ते कश्विद्धि परिणामदृष्टिमेव यावज्जीवमेवाऽSलम्बमानो दृश्यते कश्चित्त प्रथममेव विवर्तदृष्टिमपवाददृष्टि वेति चेत्सत्यं सन्तु तादृशा अधिकारिणस्तथाऽप्यत्राथातःशब्दाभ्यां सूचितो यः श्रवणाधि- कारी स एता दृष्टी: क्रमेणावलम्बते वाक्यार्थधिया विगलितनिखिलदृष्टिभेदः सन्निजमहि- म्नाऽवतिष्ठमानो मुक्तो भवतीत्याह-अथशब्दसूचितमुमुक्षुरिति। अक्षरार्थोऽवता- रिकयैव व्याख्यातः । य इह चतुरध्यायीलक्षणस्य संपूर्णशास्त्रस्य श्रत्रणाधिकारी साधन- चतुष्टयसंपन्नः सुचितस्तस्यैवैवं क्रमेण मुक्तिफलावसाना दृष्टयो भवन्तीतरेषां तु तत्त्वश्रद्दा मात्रेण प्रवृत्तानां सम्यक्साधनसंपत्तिरहितानां परिणामे विवर्ते वा दृष्टिः परिनिष्ठिता स्यात्ता- दृशाश्च बहवः पूर्वोक्तस्तु विरल इति न दृष्टिविरोध इति भावः ॥८५॥ सु० टी०-कथं पुनः परिणामविवर्तधियोविरुद्धयोर्बह्मसाक्षात्का- रहेतुत्वमिति चेन्न हेतुहेतुमत्वेनाविरोधादित्याह- परिणाम इत्यथ विवर्त इति बहवोऽहमेव च मुमुक्षुरिति। परिपुष्कलं च परमं पदमि- त्यवगत्य तिष्ठति महिम्नि निजे ॥ ८६॥ परिणाम इतीति। अधिकारी हि प्रथमं सृष्टिवाक्याद्वल्मोपादानं जगदिति पश्यति। ततो ब्रह्मणि प्रसक्ते प्रपश्चे तन्निषेधरूपारम्मणादिन्यायेन विवर्त एंवात्र वाक्यार्थ इति निश्चिनोति। एवमविचारितजीवबहुत्वज्ञानं तदेक- स्वज्ञाने हेतुस्तज्ज्ञानं च मुमुक्षुद्वारा बह्मज्ञाने ततश्र पररिपूर्ण स्वस्वरूप- मित्यवगम्य स्वस्थो भवतीति प्रणाड्या परिणामादिषुद्धेरवि ब्ह्मज्ञान- हेतुत्वमित्यर्थः ।। ८६ ॥। अ० टी०-इमं दृष्टिभेदं मुमुक्षुरुदितक्रम उपढौकत इत्युपक्रमं स्पष्टयति-परि- णाम इतीति । प्रथमं परिणामो ब्रह्मणो जगदित्यवगत्याथानन्तरं विवर्त इत्यवगत्य तत्रापि विवर्ते बहवो मुमुक्षव इति प्रथममवगत्य पश्चादहमेत च मुमुक्षुर्न मदन्ये सन्ती-
Page 62
[ २ द्वितीयोऽव्याय: ] संक्षेपशारीरकम्। ४९७
त्यवगच्छति। पुनर्विबर्तोऽपि नास्ति नित्यशुद्धचित्स्वरूपे ब्रह्मात्मन्यज्ञानस्यासंभवादित्यपव्रा- ददृष्टया परिपुष्कलं परमं पदमखण्डचित्सदानन्दरूपमेवाSSत्मतत्त्वमित्यवगम्य निजे महिम्नि स्वरूपे निर्लुठितिसामान्यविशेषे स्वप्रकाशसदानन्दघने ब्रह्मण्यवतिष्ठते ब्रह्ैव भव्र- तीत्यर्थ: ॥। ८६ । सु० टी०-ननु कथं विवर्तहष्टव्यमिश्रत्वं तस्या अनारोपरूपत्वा, दित्याशङ्कय मध्यत्वमस्या उपपाद्यति- परिणामधियो विवर्तधीरपवादात्मतया व्यवस्थिता। सकलद्वयमर्दिनीं धियं प्रति साऽडरोपगिराऽभिधीयते॥८७॥ उभयव्यतिमिश्ररूपतां भजते तेन विवर्तधीरियम्। प्रथमोत्तमयोद्वयोः पुनर्व्यतिमिश्रीभवनं न विदयते॥८८।। परिणामधिय इति द्वाभ्याम्। यद्यपि परिणाममपेक्ष्य विधर्तधीरपवादरूप
बुद्धिं पति साऽप्यारोपरूपा तत्र व्यावहारिकद्वैतभानात्। अत उमय- व्यामिश्रा विवर्तदृष्टिः । परिणामापवाद्द्टष्ट्योस्त्वनेवंरूपत्वात्केवलतैवे- त्याह-प्रथमोत्तमयोरिति ॥८७ ॥८८॥ अ० टी०-यत्पूर्व विवर्तदृष्टेर्व्यमिश्रदृष्टित्वमुक्तं तत्प्रपञ्चयति-परिणामधिय इति। विवर्तप्रतिपत्तौ वस्तुनः शुद्धत्वप्रतीत्या परिणामस्यापवादाद्विवर्तधीः परिणामधि- योऽपवादतया व्यवस्थिता। सकलद्यमर्दिनीमपवादधियमुत्तमां प्रति तामपेक्ष्येति याबत्। सा विवर्तधीरारोपगिराऽभिध,यते व्यावहारिकदृष्टिरपि परमापवाददृष्ट्यपेक्षया समारोप एवेत्यर्थः।। ८७।।
श्ररूपतामिति। तेन पूर्वपद्योक्त्तेन हेतुनेत्यर्थः । परिणामापवाददृष्टयोस्तु न केनचिद्वयामिश्रताऽस््यतस्तयोः केवलतैवेत्याह-प्रथमोत्तमयोरिति। निमित्ताभावा- दिव्यर्थः ॥ ८८ ॥ सु० टी०-एव मेकत्रैवाधिकारिणि क्रमाद्दृष्टिभेद इत्युक्तं ये तु नैक-
१ क. °य प्रति।
Page 63
४९८ टीकाद्वय समेतं- [ २ द्वितीयोऽध्याय: ]
स्मिन्नेता दृष्टय: संभवन्ति विरुद्धत्वादित्यधममध्यमोत्तमाधिकारिभेदा- श्रयत्वमाश्रयन्ते तन्मतमुपन्यस्यति- रपणधीः परिणाममुदीक्षते क्षपितकल्मषधीस्तु विवर्तताम्। स्थिरमतिः पुरुषः पुनरीक्षते व्यपगतदवितयं परमं पदम्॥८९॥ कृपण्मधीरिति । प्रपश्चाद्विरक्तधीः स तावद्रह्मपरिणाम एव प्रपञ्चोऽहं तु वस्तुतः कर्ता भोक्ता चोपासनेन ब्रह्म प्राप्स्यामीतीक्षत इत्यर्थः । यस्य तु क्षपितकल्मषा धी: स सर्वतो निर्विण्णो वेदान्तश्रवणात्प्रप- स्रस्य विवर्तरूपतामुदीक्षते। यस्तु स्थिरमतिः श्रवणादिभिर्निश्चली- कृतबुद्धि: स निरस्तद्वैतं परास्तद्वैतं परमपद्मेव केवंलं पश्यतीत्यर्थ:। स्थितमतिरितिपाठे स्थितप्रज्ञो जीवन्मुक्त इत्यर्थः ।।८९॥ अ० टी०-पुरुपमतिभेदादेवायं दृष्टिमेदो नैकस्यैव क्रमवर्तिन्य एता दृष्टय इति मतान्तरमाह-कृपणधीरिति। प्रत्यक्षादिप्रमाणतत्प्रमेयेषु यथादर्शनं तत्त्वमतिः कृप- णधीः पुमानिति शेपः । वस्तुविवेचनसामर्थ्यरहितधीरशुद्धान्तःकरण इत्यर्थः । तद्वि- परीतः शुद्धान्त:करणः क्षपितकल्मपधीः परिणाम इति विवर्त इति वा विक्षेपरहिततया तत्त्वेऽतिनिश्चलमतिः स्थिरमतिरिति भेदः ॥ ८९॥
मेदृव्यवस्थितमेव ते वदन्तीत्याह- पुरुषभेदवशाद्द्विविधा भवे- क्क्षपितकल्मषधीरपि मध्यमा। जगदनेक मुमुक्षुकमीक्षते पुरुष एकतरो न तथेतरः ॥९० ॥ पुरुषभेदेति ॥ ९० ॥ अ० टी०-यत्पुनर्मध्ये विवर्तद्वैविध्यमुक्तं तदपि पुरुपभेदादेवेत्याह-पुरुषभेद- वशादिति। एकतरः, द्वयोरेकः । अनेकमुमुक्षकमेवेत्यर्थः ॥ ९० ॥ सु० टी० -- तत्पक्षं प्रतिक्षिपति- इति तु केचिदुशन्ति महाधिय- स्तदपि संभवतीति न दुष्यति।
Page 64
[२ द्वितीयोर्ऽंध्याय: ] संक्षेपशारीरकम् । ४९९
इह तु सूत्रकताऽथ गिरोदितः पुरुष एकविधस्त्रिविधो न तु ॥ ९ १ ॥ इति त्विति। तदृपि न संभवतीत्यतो दुष्यर्तीत्यन्वयः । महाधिय इत्युपहासः।तद्वीजं तु भिन्नाश्रयाणां हष्टीनां परस्परानुपयोगित्वाद्वृथा 'तदाश्रयणमिति सूत्रकारासंमतश्र स पक्ष इत्याह-इह लिति ।। ९१ ।। अ० टी०-उक्तं मतान्तस्मङ्गी करोति-इति तु केचिदिति। तदपि संभा- व्यते। एतादृशा अप्यविकारिणो मतिविशुद्धितारतम्यदशापन्ना इत्यर्थः । अत्राथशब्दसू- चितोऽसवेकविध एवाधिकारीति लस्य क्रमभाविन्य एता दृष्टय इत्यस्मन्मतमित्याह- इह त्विति। एत्दुक्तं भवति-शास्त्रं ह्येतन्न नानाधिकारिकं काम्यकर्मकाण्डवदुपप-
विवर्तदृष्टयोरन्यतरनिष्ठस्य साक्षात्त्त्वप्रतिपत्तिरस्ति। अतो न तमासाद शास्त्रं चरितार्थ भवेत्। यद्यप्यपवाददृष्टिनिष्टस्य तत्त्वप्रतिपत्तिः संभवति तथाऽपि तस्यसा दृष्टिरारोपविषयसि- द्विसापेक्षत्वादध्यारोपदृष्टिमपेक्षत इति प्रथमत एव न भवति ततश्व शास्त्रं तन्मिथो भिन्नानधिकारिणः, अपेक्ष्य न प्रवर्तितुमर्हतीत्येकविध एवात्राथशब्दसचितोऽधिकारी ज्ञेयः। मतान्तराभ्युपगमस्त्वेवंविधा अपि लोके सन्तीत्येतावन्मात्राभिप्रायेणैव न पुनः शास्त्रसंम- तत्वेनात एव तदपि संभवतीत्यपिशब्दप्रयोग इति ॥९१॥ सु० टी०-कुत एवमिति चेत्तत्ाऽऽह- तिसृषु भूमिषु तस्य च तिष्ठतः क्रमवशात्स्वयमुत्तमभूमिका। समुपसर्पति तत्र च तिष्ठतः समुपशाम्यति कारणकार्यधीः ॥९२॥ तिसृष्विति। परिणामादिदृष्टिक्रमेण प्रवृत्तस्य तस्य पूर्वदृष््योः परि- पाके सति स्वयमनायासेनैव परिपूर्णहष्टिः समुपसर्पति। ततश्र कार्य- कारणादिसर्वद्वैतघीः शाम्यनीति तमेवैकमधिकारिणमाशश्रित्य प्रवृत्तं शास्त्रम्। अन्यथा हि सृष्टिवाक्यसमन्वयेन ब्रह्मण्यप्रसक्ते प्रपश्चे कस्य विवर्तत्वं युक्तिभि: साध्यं कि वा नेतीत्यादिभिः प्रतिषेध्य तद्विना च कथं शुद्धात्मप्रतिपादकपदेयत्ता निरूप्या तां बिना च करथं संपद्यावि- र्भाव इत्यादि मुक्तिनिरूपणमिति माक: । ९२॥
Page 65
५०० टीका द्य समेतं- [ २ द्वितीयोऽघ्याय: ]
अ० टी०-तदेवमेकस्यैव क्रमवर्त्यनेकदृष्टयाऽवस्थाप्राप्त्या तादशदृष्टिक्रमावलम्बिशा- स्स्य सामस्येन श्रवणेन कृतार्थत्वोपपत्तेः स एवेह मुख्याधिकारीत्यभिप्रेत्याSडह- तिसृष्विति । क्रमवशात्क्रमेणेति यावत् क्रमवशात्तिसषु तिष्ठत इति संबन्धः । उत्तमभूमिका वाक्यार्थनिष्ठा सा स्वयमेवानायासेन समुपसर्षत्युपगच्छति पदार्थमतिदाढर्ये सति वाक्यार्थमतेरयत्नग्राह्यत्वादित्यर्थः । कारणकार्यधीः प्रपञ्चविषया बद्धिः सम्यगुपा- म्यति तदा निवृत्तसर्वसंसारबन्धो भवतीत्यर्थः ॥९२॥ सु० टी .- अस्मिन्नर्थे हेत्वन्तरमप्याह- श्रुतिवचांसे मुनिस्मरणानि च द्वयविशारदगीरपि सर्वशः । अयमपेक्ष्य दशात्रितयं विना न हि घटामुपयाति कदाचन ॥ ९३ ॥ श्रुतिवचांसीति। सृष्टितत्प्रतिषेधविषयाणीत्यर्थः । मुनिस्मरणानि सूत्रा- दिरुपाणि। दवयविशारदा माष्यकारादयस्तेपां वचनानि चैकस्मिंस्तत्त- द्दृष््यवस्थान्रयमपेक्ष्य घदते न तेन विना परस्पराननुरोधित्वादित्यर्थः ॥। ९३ ॥ अ० दी०-एवं दृष्टिभेदाश्रयणेनेदं शास्त्रं प्रवृत्तमिति कुतोऽवसितं भवतेति वीक्षा
'स्याल्टोकवत्' [ब्र० सृ० २।१।१३ ] 'तदनन्यत्वस् ' [व्र० सृ० २।१ १४ ] इव्ादीनि सृत्राणि मुनिस्मरणानि द्वयविशारदः श्रुतिसूत्रोक्तार्थाविष्करणनिपुणो भाष्यकारतस्य गीर्भाष्यवचनजातमेतत्सर्वमप्यालोक्येत्थं व्यवस्थाप्यते मयेति, योज्यम्। श्रुत्यादिवचांस्यप्येतदृष्टित्रयमपेक्ष्य प्रवृत्तानीति कुतः प्रमाणानिनिश्वय इत्यत आह-त्रय- मपेक्ष्पेति। उक्तदृष्टित्रयमपेक्ष्योक्त्तदशात्रितयं बिना परस्परानुरोवेनोपकार्योपकास्काव स्थासंपादनं बिना घटां घटनामेकपुरुपार्थपर्यवसिततया सामञ्जस्यं न. ह्यपयान्ति कदाचन श्रुतिवचनादीनीति योजना। दृष्टित्रयनिबन्धनमधिकारिदशात्रयं विना श्रुव्यादिव चनानुपूर्व्या: सामच्चस्यं न लक्ष्यते तदपेक्षायां लभ्यत इत्यन्वयव्यतिरेकाभ्यामयमर्थो निश्चेतव्य इत्यर्थ: W ९३ 1 सु० टी० -- तस्माद्विवक्षितार्थोपयोगित्वेन 'स्वाल्लोकवत् [ब० सु. २।१। १३ ] इत्ति परिणामवादमाभित्य सिद्धान्तसि्द्धेः पुरस्ता-
Page 66
[२ द्वितीयोऽच्याय: ] संक्षेपशारीरकम् । ५०१
त्पूर्वं प्रत्यक्षादेस्तात्विकज्ञानोत्पादनशक्तिमनपो्द्यैवोक्तस्य समन्ययस्य प्रत्यक्षादिविरोध: परिहृती न सिद्धान्ततयेत्याह- अतोऽनपोह्ैव च तत्त्वसंवि- दुत्पादनेऽध्यक्षमते: पुरस्तात्। सामर्थ्यमक्षादिविरोधमस्य निवारयामास समन्वयस्य ॥ ९४ ॥ अत इति ॥९४ ॥ अ० टी० -एवमुक्तप्रकारेण विवक्षितार्थोपयोगा:प्रथमं 'स्यालोकवत्' इति परिणाम चादमवलम्ब्य विरोधपरिहारः कृतो न तु सिद्धान्ततयेति सिद्धमुपसंहरति-अतोऽन- पोह्यवेति। यत एवं परिणामवादस्याप्यत्रोपकारिताऽतो हेतोरध्यक्षमतेस्तत्त्व्रसंविदुत्पा- दने सामर्थ्यमनपोह्यानिराकृत्यैव पुरस्तात्प्रथममस्य समन्वयस्याक्षादिविरोधं प्रत्यक्षादिप्रमाण- विरोधं निवारयामास सूत्रकृदिति योजना ॥ ९४ ॥
क्षादेरभ्युपगतमपि तत्त्वावेद्कत्वं विकारमृपात्वकथनेन कारणसत्यत्वप्रद्- र्शनेन चाट्यसमन्वयविरोधापनयार्थ निरस्यन्विवर्तमेव सिद्धान्तयती- त्याह-
संश्रित्य तत्वावगतिक्षमत्वम्। अक्षादिमानस्य निराकरोति समन्वयस्यापनयन्विरोधम् ॥९५॥ इहेति। अपनयन्निति हेतौ शतृ (ता) ।। ९५ ।। अ० टी०-पश्चादारम्भणाधिकरणे साक्षात्सिद्धान्तं विवर्तवादमाश्रित्य प्रत्यक्षादेश्व व्यावहारिकपामाण्याश्रयणेन यथासिद्धव्यवहारव्यवस्थानिरूपणेम विरोधपरिहारं चकारेत्याह- इहाधुनेति। इह शास्त्रे धुना Sखण्डवाक्यार्थानुकूलतया विरोधपरिहारान्तरस्य वक्तव्यत्व- माप्तावारम्भणशब्दशक्तिं संश्रित्याक्षादिमानस्य तत्त्वावगतिक्षमत्वं निराकरोति सूत्रकारः समन्वयस्य विरोधं सम्यगपनयन्निति योजना ॥ ९५॥
१ ग. °पोधैव । २ ग. क्षमितेः ।
Page 67
५०२ टीकाट्टय समेतं-
सु० टी० -- ननु परिणामाभ्रयणेऽपि विरोधपरिहारश्रेक्किं विवर्ता ग्रहेणेति चेत्सत्यं तेन सर्वस्य ब्रह्माभिन्नतया समपश्चाद्वैतसभन्वयविरोध- परिहारेऽवि स्वाभिमताखण्डैकरससमन्वय विरोधस्तद्वस्थ इत्याह-
समन्वयोत्थापितबुद्धिवृत्तिः । अक्षादिभिस्तत्त्वनिवेदने हि सयः परिम्लायति निर्विशङ्कम् ॥९६ ॥ अखण्डेति। निरस्तसमस्तशङ्कमखण्डवाक्यार्थमनुव्रजन्ती विषयीकु: यंती परिम्लायति बाध्यत इत्यर्थः ॥९६ ॥। अ० टी०-ननु परिणामवादाश्रयणेन विरोधः परिहृतश्वेककिं विवर्तवादमाश्रित्या परिहारान्तरकरणेनेति चेदस्यैवाखण्डवाक्यस्यार्थसमन्वयसाधकत्वात्पूर्वस्य तदभावादित्यभि- प्रेत्याSSह-अखण्डवाक्यार्थमिति। अक्षरार्थस्वतिरोहितः । अद्वितीयसन्मात्रे वेदा- न्तसमन्वयस्य विरोध: पूर्व परिहृतो यद्यपि तथाऽखण्डैकरसे तु समन्वयविरोधस्तदवस्थः कार्यकारणाभेदेनाद्वयत्वसि द्वावप्यखण्डैकरसस्यासिद्धेरतस्तत्परिहाराय विवर्तवाद आश्रयणीय इति भाव: ॥ ९६ ।। सु० टी०-अस्तु तर्हिं सविशेष एवाद्वये समन्वयः शास्त्रार्थ इति. चेन्न विशेषस्य वाचारम्मणमिति 'अपागादग्रेरग्नित्वं [छा० ६।४।, १ ] नेह नाना' [बृ० ४।४ । १९ ] इत्यादिभिर्निपिध्यमानस्क श्रुतितात्परयंगोचरत्वादित्याह-
त्रथीशिरोवाक्यमयं प्रविष्टाः । वदन्ति शब्दा इति शब्दशक्ति- निरुपणे पूर्वमुदीरितं हि॥ ९७ ॥ अखण्डमेव्रेति। तत्वमादिवाक्यैकवाक्यभूताः सत्यादिशब्दा अखण्ड निर्विशेषमेवाऽडत्मतत्वं वदन्तीति प्रथमे निरूपितमित्यर्थः ॥९७॥ अ० टी०-तर्हखण्डैकरसे समन्वयो मा मुदद्वैतमात्रं तावत्सिद्धमेव श्रौतमिति चेन्मैवं समन्वयसूत्रादिना समन्वयस्याखण्डैकरसे साधितत्वादित्याह-अखण्डमिति।
Page 68
[ २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ५०३
'भेदसंसर्गरहिततया वस्तुमात्रमेव्राद्वयमसंसृष्टाद्यात्मकमित्यर्थः । सुगममन्यत् ॥ ९७ ॥ सु० टी०-ततः किमित्यत आह- अतो विरोधस्य निराससिद्धचै निरस्यतेऽक्षादिषु तत्त्वभागः । संरक्ष्यते संव्यवहारशक्ति- भागः पुनः सर्वमतोऽनवद्यम् ॥९८॥ अत इति। अखण्डसमन्वयविरोघस्यापनुत्ये प्रत्यक्षादिषु तत्त्वावेद. कत्वभागो निरस्यत्त इत्यर्थः । तर्हि तेषामप्रामाण्यमिति नेत्याह- संरक्ष्यत इति। न तेषां व्यावहारिकप्रामाण्यं निषिध्यत इत्यर्थः । एवं चाख- ण्ड समन्वयो भेदध्यवहारानपलापश्च सिद्ध इत्याह-सर्वमिति ।।९८।
निरस्यत आरम्भणाधिकरण इति शेषः ॥ ९८ ॥ सु० टी०-विवर्ते व्यावहारिकत्वमपि कुतः स्यात्स्वगादिवद्भान्ति- मात्रत्वादिति चेन्नेत्याह- चितिवस्तुनः स्वमहिमस्फुरणे स्वयमेव कारणमिति पगतम्। प्रतिबध्य तच्चितिगताग्रहणं
चितीति। चिद्वस्तुनो हि स्वमहिम्नोऽद्यानन्दरूपतत्वस्य स्फुरणे स्वय- मेवाउडतमोपचारात कारणमिति स्वप्रकाशत्वश्ुत्या प्रज्ञातं तञ्च स्फुरणं प्रतिबध्य प्रत्यगज्ञानदोषो विपरीतबुद्धिंमुपहरति । तद्दोषजन्यत्वेन च प्रत्यक्षादेभ्रान्तित्वं सिध्यत्स्वहेत्वनुसारित्वाद्वस्तुतत्त्वापेक्षमेव भवति न
अ० टी०-यदि प्रत्यक्षादीनां तत्त्वावेदकत्वं न स्यात्तर्हिं व्यावहारिकं प्रामाण्यमपि न स्यात्त्त्वानावेदकेपु शुक्तिरजतादिज्ञानेपु प्रामाण्यलेशस्याप्यदर्शनादिति चेन्नेत्याह-
१ ख. ग. °द्धिमप।
Page 69
.५०४ टीकाद्य समेतं- [२ द्वितीयोऽध्याय: ]
चितिवस्तुन इति। चितिवस्तु प्रत्यगात्मस्वरूपं तस्य स्वमहिमा स्वयाथांत्म्यं स्वरूप- मिति यावत्तस्य स्फुरणे प्रकाशे स्वयं स्त्ररूपमेव कारणं न कारणान्तरापेक्षा स्वप्रकाशत्वा- दिति प्रगतं प्रकर्षेणावगतं श्रुतिस्मृतिपुराणन्यायेरित्यर्थः । अत्र 'स्वयंदासास्तपस्विनः' इतिवस्स्वयमेव कारणमित्यन्यव्यावृत्तिपरं वचनं न स्वकारणत्वविधिपरमिति द्रष्टव्यम्। चितिगताग्रहण्ं तु चिन्मात्राश्रयविषयमज्ञानम्। तच्चितिवस्तु प्रतिबध्य यथावतस्फुरणमाच्छाद्य तस्मिन्विपरीतबुद्धिं संसारित्वपरिच्छिन्नत्वादिविच्छेद्यरूपामुल्लासयति स्फुरत एव चिदा- त्मनो याथातथ्येन स्फुरणमावृत्य तद्रताविद्या सस्मिन्विपरीताकारतामाभासयतीति वेदान्त- प्रक्रियास्थितिरित्यर्थः । एतदिह विवक्षितं प्रत्यगज्ञानजन्यं हि सवं प्रत्यक्षादिप्रमाणं
र्ययेण वाचारम्भणप्रपञ्चाकारावभासकत्वाच्च चिदात्मतत्त्वज्ञानापेक्षया शुक्तिरजतादिज्ञानव- द्धान्तित्वेऽपि व्यवहारसमर्थस्वविषयावभास कत्वस्यानुभवसिद्धत्वान्न व्याबहारिकांशेऽपि तस्य भ्रान्तितेति ॥ ९९॥ सु० टी०-कुत एवमिति चेत्तत्राऽऽह- व्यवहारनिर्वहणशक्तिमसौ न चिदग्रहोऽस्य विनिवारयति। परमार्थवेदनविधिक्षमता- मवखण्डयन्नपि मनःप्रभृतेः ॥१०० ॥ व्यवहारेति। असावज्ञानदोपः प्रत्यक्तत्वावेदनविरोधित्वेन कलप्ः स्वकार्यस्यापि मनआदेस्तत्वावेदनशक्तिमेव खण्डयति कारणस्य कार्ये स्वधर्मसंक्रामकत्वान्न तु तस्य व्यवहारजननशक्तिमध्यवहार्ये ब्रह्मणि व्यवहार्यविपरीतरूपदर्शनस्यैव तद्दोषकार्यत्वात्तत्खण्डने स्वरूपस्येवा. निर्वाहाद्यथा व्यवहार्यशुक्तिगतो दोषोऽव्यवहार्थमिथ्यारजतप्रदर्शक इत्यर्थः ॥ १०० ॥ अ० टी०-ननु प्रत्यगंज्ञानस्य चेत्ततवावभास प्रति दोषत्वं तर्हिं स्तकार्ये मनआदा- वपि तद्दोषमासञ्जयेदन्यथा तस्य तत्त्वावेदकत्वप्रसङ्गादतः कारणदोषदूषितत्वात्तस्य व्यावहारिकमपि प्रामाण्यं न सिध्येदित्याशङ्गां परिहरन्प्रत्यक्षादौ स्वकार्यें नाज्ञानस्य दोषतेत्येतदाह-व्यवहारेति। अस्य मनःप्रभतेर्व्यवहारिकप्रमाणस्यासौ चिदग्रहः
१ ग. नुबन्धः।
Page 70
[१ द्वितीपोऽप्याय: ] संक्षेपशारीरकम्। ५०५
प्रत्यगज्ञानं परमार्थवेदनविधिक्षमतामवखण्डयन्नपि तत्ववेदनजननसामर्थ्य निरुन्धन्न व्यवहारनिर्वहणशक्ति न निधारयतीति थोजना। अज्ञानस्य स्वाश्रयापेक्षया दोषत्वेऽपि न स्वकार्यापेक्षया दोषतवं प्रत्युत गुणत्वमेव यथा काचादेर्नेत्राद्यपेक्षया दोषत्वं स्वहेतुभूतपा- पानुमाने गुणत्वमतो न प्रत्यक्षादेर्व्यावहारिकाशे दोषजन्यतेति न तत्र प्रामाण्यहानिरिति भाव: ॥। १०० ॥ - सु० टी०-सहिं महावाक्यस्यापि मनआदिवत्प्रत्यगज्ञानदोषजत्वास्र तत्वावेद्कत्वं स्यादिति चेन्न विरोधाभावादित्याह- चितिवस्तुबुद्धिजनकस्य पुन- • र्वचसो न खण्डयति शक्तिमसौ। स्वनिबन्धनस्फुरणमेव चिते: प्रतिबध्य तिष्ठति न वाचनिकम् ॥१०१॥ चितीति। क्विद्धि कश्िविद्दोषो मवति हि यथा दूरदोषश्राक्षुषपुरु- पज्ञानस्य प्रतिबन्धको न शाब्दस्पैवं चिद्ग्रहोऽपि प्रतीय: स्वाधीनसफु- रणस्यैष प्रतिबन्धकस्तथेष तत्कल्पनान्न तु महावाक्यप्रमाणकस्येत्यर्थः। ।१०१ ॥ अ० टी०-एवं सर्हि वेदान्तानामपि तर्त्रावेदकत्वं न स्यात्तेषामपि कारणदोषदूषि- तस्वादिति चेत्तन्ाऽऽह-चितिवस्त्वति। असौ चिदग्रहः कस्मान्न खण्डयतीत्यत आह-स्वनिबन्धनेति। चैतन्यस्य स्वरतःप्राप्तप्रकाशमेव प्रतिबभ्नाति वाचनिकं वेदान्तवाक्यजन्यं तु स्फुरणं न बभ्नाति तस्य तत्व्ावेदनशक्ति न खण्डयतीत्यक्षरार्थः । अज्ञानस्य स्वप्रकाशस्फुरणं प्रत्येव दोषत्वं नाSडगन्तुकप्रमां प्रति दोषत्वम्। एवमपि स्त्रकार्ये प्रत्यक्षादावेव कारणज्ञानं स्त्रदोषमासज्ञयति न वेदान्तेषु तेषामज्ञानकार्यगोचरत्वाभावादिति तात्पर्यार्थः ॥ १०१ ।।
वेदान्तेष्वित्येतत्कुत इति चेत्तत्राSडह- प्रत्यक्षादेरेष वोषस्ततोडयं वेदान्तानां नैव दोषानुंषङ्ग:।
१ ग. नुनम्बः।
Page 71
५०६ टीकान्वुय समेतं-
सत्यं वस्तु च्छादयन्नद्वितीयं द्वैतं यस्मादानयत्येष दोषः।।१०२॥ प्रत्यक्षादेरिति 1 सत्यावरणेनासत्यवेद्कत्वमस्य दोषत्वं तज्ञक्षुरादी हश्यते न वेदान्त इति न तत्रायं दोष: कार्योन्नेयधर्माणां यथाकार्यमु- नयनादित्वर्थः । संवि्निष्ठाज्ञानप्राधान्पेन चक्षरादिविवर्तः संवित्माा- न्येन तु वेद्विवर्त इत्यन्ये ।१०२॥ अ० टी०-कारणदोषानुबन्धश्चक्षुरादिष्बिव न वेदान्तेष्विति कुत एतदित्यत आह- प्रत्यक्षादेरिति । पूर्वार्धेनोक्तप्रतिज्ञायां हेतुमुत्तरार्धेनाSह-सत्यं वस्त्विति । द्वैतस्य दोषजन्यत्वात्तद्विषयक प्रत्यक्षादेर्वस्तुतत्त्वावरणविपरीतकारित्वदर्शनात्तस्यैव कारणदोषा- नुविद्धता वेदातानां न तत्वावेदकत्वदर्शनान्न तेषां कारणदोषानुवेध इत्यर्थः । अयं भाव :- प्रत्यक्संविदर्वच्छिन्नं ह्यज्ञानं प्रमाणाकारेण विवर्तते तत्राज्ञानदोषप्राधान्येन चक्षु रादिविवर्तः संवित्प्राधान्येन वेदविवर्त इति स्थितेर्युक्तोऽयं विशेष इति ॥ १०२ ॥ सु० टी०-एवमतत्त्वावेदकत्वेन प्रत्यक्षादीनां प्रत्यङ्मात्रविषयवे- दृान्तष्वबाधकरवं प्रसाध्य संप्रति भिन्नविषयत्वेनाप्याह- कि च प्रतीचि सकलोपनिषत्पवृत्ता मानान्तरं सकलमेव तु तत्पराचि। प्रत्यक्पराग्विषयगोचरयोस्तु बुद्धयोः स्पर्धा न संभवति मेयविभागसिद्धेः ॥ १०३॥ किं चेति। स्पर्धा विरोधः । तत्र हेतुमाह-मेयेति॥१०२॥ अ० टी०- तदेवं प्रत्यक्षादेस्तत्त्वावेदकत्वाभावान्न तेन तश्वावदेकानां बेदान्ताना विरोध इति प्रतिपाद्यविषयभेदेनापि विरोधं परिहरति-किंच प्रतीचि सकलेति। प्रत्यक्- राग्रूपयोर्मिथो विरुद्धसंस्थानयोरर्थ योरवभासकत्वेन भिन्नविषयत्वाद्रवाश्वविषययोरिव ज्ञानयोर्न बाध्यबाधकभावो वेदान्तानां प्रत्यक्षादीनां चेत्यर्थः । अक्षरयोजना सुगमा ॥ १०३ ॥ सु० टी०-किंच किं प्रत्यक्षादेर्मेदविषयत्वं यद्द्वैतसमन्वयविरोधि स्यात्स्वरूपमात्रविषयत्वं वा घढाद्भिन्न इति बोधकत्वं वाऽडय्ये न तन्े: दमानमित्याह- अभिन्न एवैष पटः समीक्ष्यते न भेदगन्धोऽपि पटे समीक्ष्यते। १ क. योग्यनु।
Page 72
[२ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। Y०७
पटेऽपि भेदो यदि कल्प्यते तदा पटो विदीर्यत कुतस्वदा पटः ॥ १०४ ॥ अभिन्न इति। अयं पट इत्यनुभवे मेदामावोपलक्षितस्वरूप एव सोऽ- नुभूयते न तु तत्र मेदलेशोऽप्युलिख्यत इत्पर्थः । द्वितीये त्वाह-पटेड- पीति। पटस्वरूपे. गृह्यमाणेऽवि वराद्देदो गृह्यते चेत्र स किं. पट.एव. तद्न्यो वाऽडये दोषमाह-पटो विदीर्येत. घटादिसापेक्षस्य तस्थ निरपे- क्षपटस्वरूपत्वे व्याहन्येत। यदा घटापेक्षं मेदृत्वं प्राप्य स.विदीर्ण: स्यान्द्ेदस्य विदारणात्मकत्वात्। तस्य चाभावात्मकत्वात्कुतस्तदा भाव- रूप: पटोऽपि स्थादित्यर्थः॥४ ॥ अ०दी०-इतोऽि नानयोर्विरोधो भेदप्रत्ययस्य युक्तिबाधिततवेन, मिश्यात्वप्रसिद्धे- खि्याह-अभिन्नति। समीक्ष्यमाणे. पटे यदि भेदस्तदेदं वक्तव्यं. स्वस्मादेव पटस्य भेदोऽन्यस्माद्वेति तत्राSडये. दोषमाह-पटेडपि मेदो यदीति। स्वस्माद्वेदे हि विश- कलीभाव: पटस्य स्यात्तदा तस्य पटत्हानिः सकलस्यापि स्वतो भेदाभावात्तस्यापि स्वतो भेदे स्वरूपहानेरेवं तच्छकलेष्वपि. तथात्व्ान्निःस्वरूप. एव पटः स्यादित्यर्थ; ।।१०४।। सु० दी०-तदन्यो, वेहयेवंदृषयति- घटात्पटो भिन्न इतीष्यते यदि स्फुट प्रसज्येंत विकल्पिता मिदा।. न सत्यमापेक्षिकमीक्षितं कचि- तथा च यत्नेन निवेदयिष्यतेH १०५॥ घटादिति। घटाद्दिन्न इति तत्र ग्ुह्यते भेद: स व पदभिन्न इत्येवं चेनूनं मेद: कल्पित एव स्यादित्यर्थः । कुत इति चेत्तत्राSSह-न. सत्य- मिति. यत्सापेक्षं तद्सत्य हरष यथा मणौ लौहित्यं तथा यत्सत्यं न तत्सापेक्षं यथाऽडतमा । एतज् तृतीये स्पष वक्ष्यत इत्याह-तथा. चेति।l५॥ अ० टी० -- द्वितीयपक्षमप्यनूद्य दोषमाह-घटादिति। विकल्पिता मिथ्याभूता, मिदा प्रसज्येतान्यापेक्षत्वादित्यर्थः । अन्यापेक्षनिरूपणस्त्रभावत्वेऽि भेदस्य कथं मिथ्या-
१ ग. निरूपय°।
Page 73
५०८ टीकाठय समेतं- [ २ द्वितीयोऽच्याय: ]
स्वमित्यस आह-न सत्यमिति। यदापेक्षिकमन्यापेक्षस्वभाषं तत्कचिदपि न सत्य- मीक्षितं यदापेक्षिकं तदसत्यमेव दृष्टं यथाऽलक्तकादपेक्षं स्कटिकलौहित्यमित्यर्थः। यथा सापेक्षस्वभावके क्वचिदपि न सत्यं तथा यत्नेन निवेदयिष्यते तृतीयेऽध्याये पदार्थशोध नावसरे प्रतिपादयिष्यत इत्यर्थः । तस्माद्गेदो न सत्योऽन्यसापेक्षस्वभावत्वात्स्फटिकलौ- हित्यादिवदित्युक्तं भवति ॥ १०५ । सु० टी०-किं च मेदबुद्धिरपि दुर्निरूपस्वादपामाणिकेत्याह- न भेदबुद्धिर्घटते प्रमाणतो विनाऽपि धर्मिप्रतियोगिसंविदा। न भेदबुद्धिं विरहय्य कल्पते तथैव धर्मिप्रतियोगिधीरपि॥ १०६॥ न भेदेति। मेदो हि घटाद्भिन्नः पट इति धर्म्याभयत्वात्मतियाग्यवधि- कत्वाञ्च। न तदुमयज्ञानं विना मानेन बोधयितुं शक्यते। न च भेद- बोधं विना तदुमयमानमित्यन्योन्यापेक्षत्वमित्यर्थः। तथा हि घटान्भेदज्ञानं तस्यावधित्वज्ञानं विना तञ्च वटस्य न पटमिन्नत्वज्ञानं विनाऽन्यथा पटस्य स्वस्मादृपि मेदमानापत्तेरेवं धर्रित्वस्यापि भेदघटितत्वात्तत्निरुप्य- त्वमिति माव: ।।१०६॥। अ० दी०-इतोऽपि न प्रामाणिको भेद इत्पाह-न भेदबुद्धिरिति। धर्मिप्रति- योगिसंविदा विना प्रमाणतो भेदबुद्धिर्न घटते कस्य कुतो (त) इति तस्या धर्म्यादिबु- द्वयपेक्षत्वात्तथैव धर्मिप्रतियोगिधीरपि न भेदबुद्धि विरह्य्य कल्पत एकस्यैकदैकं प्रति धर्मिप्रतियोगित्वायोगात्। तथा च सिद्धे भेदे धर्मिप्रतियोगिसिद्धिरितीतरेतराश्रयापत्तेर्व भेद: प्रामाणिक इत्यर्थः ॥१०६॥ सु० टी० -- अस्तु तर्हि वैध्म्पधीरेव भेद्धीरिति चेन्नोक्तदोषादे- वेत्याह- परस्पराभावधिया न भेदधी- र्विनोपपन्ना न तया विनेतरा। इतीदमन्योन्यसमाश्रयं यतो मतिद्वयं तेन तदस्तु कल्पितम् ॥ १०७॥ परस्परेति। वैधम्यं हि विरुद्धो धर्मः। स चाऽऽशयमेदज्ञाननिरूप्य :. ।
Page 74
[ २ द्वितीयोऽध्याय: ] संक्षेपशारीरकम्। ५०९
आश्रयमेदधीरपि न वैधम्यज्ञानं बिना। साध्म्यग्रहाद्धि शुक्तिरजतयो- भेदाग्रहेणामेदभ्रमो वैधम्यज्ञानाज्च तन्निवृत्तिरिति सर्वसिद्धमतश्वान्यो-
अ० टी०-अन्योन्याश्रयान्तरमाह-परस्पराभावेति। पूर्व धर्म्यादिबुद्धेर्भेंदबुद्वेश्रा-
विवेकः । सुयोज्यान्यक्षराणि ॥ १०७ ॥ सु० टी० -- किं च जडार्थविषय प्रत्यक्षादेमनकृत्यामावेनाप्रमाणत्वा- दृपि न बाधकत्वमित्याह- असन्निवृत्तिर्न च सन्निवृत्ति- नच्ीपपन्ना सदसन्निवृत्तिः । जडप्रमाणस्य फलं ततोऽपि न तेन वेदान्तजबुद्धिबाधः ।। १०८॥ असदिति। कि संशयादिनिवृत्तिर्मानस्य फलमुत प्रमोत्पत्तिर्नाsडय्यो निवत्यं ह्यसद्वा सद्वा सद्सद्वा त्रितयस्यापि निवृत्त्यतंभवस्योक्तत्वादि- त्यर्थ:।। १०८।। अ० टी०-जडे भेदप्रपञ्चे प्रमाणयोग्यताभावान्न तद्विषया धी: प्रमेत्युक्तमिदानी तत्र प्रमाणकृत्याभावाच्च न तद्धी: प्रमा किं तु भ्रान्तिरेवेत्याह-असन्निवृत्तिरिति। कस्य- चिन्निवृत्तिरुत्पत्तिर्वा सर्वत्र मानफलं वाच्यम्। तत्र निवृत्तिपक्षे किमसन्निवृत्ति: प्रमाणफलं सन्निवृत्तिर्वा सदसन्निवृत्तिर्ना सर्वथाऽपि न संभवतीति क्रमेणाऽडह-असन्निवृत्तिरि- त्याद्येनार्धेन। असतो नित्यनिवृत्तिरूपत्वात्तस्य प्रमाणसाध्यत्वाभवात्सतो ज्ञाननिवरत्थत्ा रांभवावत एव सदसन्निवृत्ययोगः सदसदात्मकवस्तुनोऽभावाच्च तन्निवृत्त्यसंभव इत्यर्थ:॥१०८। सु० टी०-द्वितीये डप्येते विकल्पा अपरिहार्या इत्याह- असत्मसूतिर्न च सत्प्रसूति- ने चोपपन्ना सदसत्पसूतिः। जडप्रमाणस्य फलं ततोऽपि न तेन वेदान्तजबुद्धिबाधः ॥। १०९ ॥। असग्रसूतिरिति । असतः शशशङ्गादेः सत आत्मनः प्रसूत्यसंभवादित- रस्य ब्रासंभावितत्वादित्यर्थ: ॥ १०९॥
Page 75
५१० टीकाठूय समेतं- [२ द्वितीयोऽच्याय:]
अ० टी०-विषयगतकिंचिन्निवृत्ति: प्रमाणफलमिति पक्षं निरस्योत्पत्तिपक्षमपि सतो निराकरोति-असत्पसुतिरिति । यतो विचार्यमाणे जडे प्रमाणकत्याभा- वस्ततोडपि हेतोस्तेन प्रत्यक्षादिना, व वेदान्तजबुद्धिबाध. इति. फलितमाह-ततोS- पीति। १०९॥ सु. टी .- वाषि जडार्थसंविदुत्पत्तिरेव फलं विकल्पासहत्वादि- त्याह जडार्थसंविन्न हि कुर्बंतः फल नदा हि कुर्वत्त्वमपीदृशं भवेत्॥ अकुर्वतस्तत्फलमित्युदीरय- न्विहस्यते दुर्मतिरभकैरपि। ११0॥ जडार्थोति। सा किं तदनुकूलव्यापारवतः फलमुदासानस्य वाउ्डध्रे व्यापारस्यापि कार्यत्वेन कुर्वत्फलत्वं स्वादेवं तस्य तस्यापीत्यनवस्था। निर्ध्यापारात्फलोत्पचेरदर्शनात्। तच्च वद्तो हास्यत्वमित्याह-अकु. र्षत इति।११॥ अ० टी०-यथा सदादिविकल्पासहत्वात्कस्यचदुत्पत्तिर्निवृत्तिवा मानकृत्यं न संभवति तथा जडे मानस्य कुर्वत्त्व्रविकल्पानुपपत्त्याऽपि तत्र संविदुत्पत्तर्मानफलत्वासंभव- माह-जडार्थसंविन्न हीति। कुर्व्त्वं नाम व्याप्रियमाणत्वं तत्र कुर्वतोऽकुर्वतो वाSपि प्रमाणस्य न जडार्थसंवित्फलमुपपद्यते । कुर्वतः फलं. चेत्कर्वत्वस्यापि. कार्यत्वात्तं- दपीदृशं भवेत्कर्वतः फलं भवेत् । तथा च तदपि. तादृशमित्यनवस्थाप्रसङ्गः। कुर्ष- व्वस्याप्यकार्यत्वे तत्फलस्य संवेदनस्थाप्यनादित्वेन फंलत्वाभावप्रसङ्गात्। जडार्थसंवि- दकुर्वतः फलमिति पक्षान्तरं तु सर्वतो लोकानुभवविरुद्धमित्याह-अकुर्पत इति। स्पष्टोऽर्थ:॥ ११० ॥ सु.टी०-नित्येव संविदपनीतावरणफलमिति चेन्नेत्याह- सती न संवित्कियते हि सत्त्वा- न चासती तद्दसत्त्वहेतोः । न चोपपन्नं सदसत्त्वमस्या- स्ततो न कार्यत्वमुपैति संवित ॥ १११ ॥ सतीति। नापि प्रागसती ज्ञातताऽपि फलमित्याह-न. चेति।.असत
Page 76
[ २ द्वितीयोऽच्याय: ] संक्षेपश्ञारीरकमू। ५११ उत्पस्यदर्शनादित्यर्थः । अस्तु ताि भागसत्युत्परपनन्तरं सतीति चेत् स्वमावविरोधादित्याह-न चेति। फलितमाह-तत इति ॥ १११ ॥ अ० टी० -- संविदुत्पादकपर्यालोचनया संविदो मानफलं निरस्य संवित्स्वरूपपर्यालो- चनयाऽपि तन्निरंस्यति-सती न संविदिति। अक्षरार्थः स्पष्टः । सतोऽसतो वोत्पत्ति- मर्नफलमिति पूर्व सामान्यतो विकल्प्य दूषणमुक्तमत्र संविदि विशेषतो विकल्पदूषर्ण कृतमिति विशेष: ॥ १११ ॥ सु० टी०-किंचिदृस्तु मानफलं तस्किं शक्यं मानेनोत्पाद्यमशक्य वा नाऽडय्य इत्पाह- न शक्यमुत्पायमिति प्रशस्यते तदा हि शक्तेरपि जन्यताऽऽपतेत्।
दुतं नभश्रूर्णय मुद्रादिभिः ॥११२॥ न शक्यमिति। शक्त्युपेत मित्यर्थः । तदेति। विशेषणीमूताया: शक्तेर पीत्पर्थः । अन्त्यं दूषपति-अशक्यमिति। न हि सुशिक्षितोऽवि मुद्गराः दिना नमश्चूर्णयर्तीत्यर्थ: ॥११२॥ - अ० टी०-कार्यकारणभावसामान्यविषयमपि दोषं संविदुत्पत्तावाह-न शक्प- मिति। शक्तं करणं शक्यं च कार्यमिति हि स्थितिः । तत्र संवेदनं मानस्य शक्यमशक्यं वाऽडद्ये शक्त्यवच्छिन्नस्य शक्यत्वात्तदा शक्तेरपि जन्यताऽऽपतेत्। शक्तेरपि जन्यत्वे तत्रापि शक्त्यन्तरकल्पना प्रसज्येत। शक्यवच्छिन्नमुत्पाद्यमिति न प्रशस्यते न युक्तिसहित- मित्यर्थः । द्वितीये दोषमाह-अशक्यमुत्पाद्यमिति। अतिम्रसङ्गान्नायमपि पक्षः साधुरित्यर्थः । न चाऽऽत्मन्यज्ञाननिवृत्तिः प्रमाणफलमितिपक्षेऽप्येतद्विकल्पदूषणगणप्रसरणं सममिति शक्यमज्ञानस्यानिर्वचनीयत्वान्मानस्य तन्निवर्तकत्वमप्यनिर्वचनीयत्वमेवेति मान- युक्त्यसहिष्णुताया अस्मन्मतालंकारत्वादिति भाव: ॥११२॥. सु० टी०-अस्तु जडप्रमाणमफलं कि तत इति चेत्तदपामाण्यात्तदिः षयस्यैकानेकत्वासिद्धे मिथ्यात्वमित्याह- जडपमाणस्य फलानिरूपणा- ज्डस्य तत्ं न निरूपणक्षमम्।
Page 77
५१२ रीकाटटयसमेतं- [१ द्वितीषोडध्यायः ]
अतो न मानान्तरमर्थतोऽपि न- स्रयीशिरोवस्तु निराकरिष्यति॥११३॥ जडेति। ततोऽपि किमित्याह-अत इति। अर्थद्वारकोऽप्यद्वैतध्ुतयों मानान्तरविरोध: सोऽपि नास्ति तद्विषयस्य द्वैतस्य मिथ्यात्वा- दिस्पर्थः ।।१३ ।। अ० टी०-एवं जडप्रमाणफलदूषणे फलितमर्थमाह-जडप्रमाणस्येति। प्रत्यक्षादेर्जडप्रमाणत्वाभिमतस्य फलानिरूपणादफलस्य चाप्रमाणत्वात्तस्य भ्रान्तिमात्रत्वे सति सत्प्रमेयस्य जडस्य तत्वं च निरूपणक्षमं न प्रामाणिकं किंत्वनिर्वाच्यमेत तदपीत्र्थः । जडार्थस्याप्रामाणिकत्वे वा किमायातं तदाह -- अत इति। प्रत्यक्षादेरद्वैतागमस्य चाभि- न्नविषयावेन मिथोविरोधपरिहारेऽपि मानान्तरेण धस्त्वन्तरसद्ावावगमे त्वर्थादद्वैतरूप- स्वप्रमेयांशे वेदान्तानां प्रत्यक्षादिभिर्विरोध इति य आर्थिकोऽपि विरोध उत्प्रेक्ष्यते सोऽप्यत्र नावतरति परमार्थमद्वैतार्थबोधकत्वादिति तात्पर्यार्थः। अत उक्तयुक्तिजालान्मानानतरमर्थ- तोऽप्यपिशम्दारस्वरूपेणापि नोऽस्माकं त्रयीशिरोवस्वद्वैतलक्षणं न निराकार्रष्यतीत्यक्षर- योजना ॥ ११३ ॥
तंद्विषयत्वेन प्रामाण्यसंभवाद्वच्छेद्यावच्छेदकयोरात्मप्रपञ्चयोः पामा- णिकत्वे कुतः समन्वयसिद्धिरिति चेत्तत्राSSह- आत्मन्येव समस्तमस्तु यदि वा मानान्तर्र तेन च स्पष्ट वेदशिरोविरुद्धमिति च स्वी कुर्महे कामतः । एवं सत्यपि पूर्वभावि सकलं मानान्तरं बाधते पश्वात्कस्यचिदेव वेदशिरसो जाता परब्रह्मधीः ॥ ११४॥ आात्मभ्येवेति। सप्रपञ्ात्मनीत्यर्थः । मानान्तरमध्यक्षादि । वेदशिरो निष्पपञ्चात्मबोधकम्। तथा च कथं त्वदिष्टसिद्धिरिति चेत्तत्राSSह- एवं सत्यपीति। प्रत्यक्षादेर्वेदान्तस्य च विरोधे सत्यवि। पूर्वभावि संगति- सापेक्षवेदान्तपूर्वभावि। कस्यचिद्विशिष्टाधिकारिणः । बाधते विरुद्ध- योरेकत्रापामाण्यादित्यर्थः ॥१४ ॥। अ० टी०-एवं युक्तिशतेन विरोधे निराकृतेऽपि यदि विरोधान्तरं प्रकारा न्तरेणाSSशङ्कथेत तदङ्गीकृत्यापि परिहारमाह-आत्मन्येवेति। आत्मन एवज्ञात- तया मेयत्वात्तस्यैव भोक्तृभोग्यादिमत्तयाSवस्थानातपत्यक्षादिना च प्रपञ्चविषयगाSडमै-
Page 78
[ २ द्वितीयोऽष्याय: ] संक्षेपशारीरकम्। ५१३
वाऽडवेद्यते नानारूपो वेदान्तैस्तु तद्विपरीत[त]याडद्वैतात्मोपदिश्यते। अत एकविषयत्वेन विरोधस्तदवस्थः । न च प्रत्यक्षादेर्व्यवहारिकप्रमाणत्वाद्वेदान्तानां च तत्त्रावेदकत्वान्न विरोध इति युक्तं वक्तुं प्रत्यक्षादेरपि तत्त्वावेदकतयैव सर्वसंप्रतिपत्तेस्तदानी वेदान्तानाम- प्रवृत्तेर्विरोधाभावात्स्वतः प्रामाण्याच्च तत्त्वावदेकत्वस्यैवाभ्युपेयत्वादिति विरोधशङ्का। एतद- भिप्रेत्योक्तमात्मन्येवेति। समस्तं प्रमाणान्तरमप्यात्मन्येव्रास्तु प्रमाणं तेन स्पष्टं वेदशिरोवि रुद्धमिति च स्व्री कुर्महे कामतस्तदिच्छयेत्यर्थः । उत्सर्गापवादन्यायमाश्रित्याङ्गीकृतं विरोधं परिहरति-एवं सत्यपीति। पूर्वभावि सकलं मानान्तरं सर्वान्प्रत्यविशिष्टं सदुत्सर्गः। सर्वमव प्रमाणं तत्त्वावेदकं प्राप्तं यत्तत्पश्चात्कस्यचिदेव चतुष्टयसंपन्नस्य वेदशिरसो जाता मतिस्तदपवादकतयोत्पन्ना बुद्धिर्बाधते। तेनोत्सर्गादपवादो बलीयानिति न्यायः प्रसिद्धो भूतहिंसाप्रतिपेधाग्निष्टोमीयपश्वालम्भविध्यादौ। अतः प्रत्यक्षादेर्वेदान्तैरेव बाध इति विचा- रतो व्यावहारिकमेव प्रामाण्यं प्रत्यक्षादेर्न तत्त्वावेदकतेति तेन न वेदान्तबाध इत्यर्थः ॥ ११४ ॥ सु० टी०-विपरीतं कि न स्यात्पूर्वस्यैवासंजातविरोधित्वेन प्रबल- त्वादिति चेन्न लोके पश्चाद्ध्ाविन एव विरुद्धस्य बाधकत्वदर्शनादि- त्याह -- पूर्वोत्पन्नमृगाम्बुविश्वमधियो बाधं िना नोत्तरं विज्ञानं समुदेतुमूषरभुवो याथात्म्यमावेदयत्। शक्रोतीति यथा मृगाम्बुधिषणामुन्मुर्यदुत्पयते तद्वद्वेदशिरोवचोजनितधीर्भेदभ्रंमं ब्रह्मणि ॥ ११५॥ पूर्वेति। पूर्वस्य सृगतृष्णोद्कम्रमस्य बाधं विनेयमूषरभूरिति तद्याथा. त्म्यंवेदकं विज्ञानं नोदेतुमहंतीत्यतो यथा तन्मृगाम्बुचुद्धिं निराकुर्वदेवोत्प- द्यते तथा प्रकृतेऽपीत्यर्थः ॥ ११५॥ अ० टी०-पाश्चात्येन पूर्वबाधो लोके प्रसिद्ध इत्याह-पूर्योत्पन्नेति। मृगाम्बु- विभ्रमधीर्मृगतृष्णायामुदकमितिमिथ्याबुद्धिस्तस्याः पूर्वोत्पनाया बाधमपह्वतविषयत्वं विनो- खरभुवो याथात्म्यमाव्रेदयदुत्तरं विज्ञानमुदेतुं न शक्ोतीति प्रसिद्धमिति योजना। उक्त- दृष्टान्तमनूद्य दार्ष्टान्तिके योजयति उन्मृदद्वाधमानमेवोत्पद्यते। ऊखरभुवो याथात्म्यधीरित्य- नुषङ्गः । दार्ध्टान्तिकार्थः सुगमः। तथा च पूर्वप्रवृत्तस्य प्रत्यक्षादेर्मृगतृष्गकोदकव्बा- न्तित्वं सिद्धमित्यर्थः ॥ ११५॥
१ क. °यहत्प० । २ क. 'मं बाधते। ६५
Page 79
.५१४ टीका द्वप समेतं- { २ द्वितीयोऽच्षाय:]
सु० टी०-जैमिनेरपी दममिमतमिश्याह- पौर्वापर्ये पूर्वदौर्बल्यमाह वष्ठेऽध्यायेऽवस्थितो जैमिनिर्यत्। वक्ष्यामस्तत्सर्वमानीय तुभ्यं बुद्धिं स्वीयां सम्यगन्रावधत्स्व ॥। ११६॥ पौर्वापर्य इति।'पौर्वापर्यें पूर्वदौर्बल्यं प्रकृतिवत्'[जै०६॥५।५४] इति सूत्रे ॥ ११६ ।। अ० टी०-पूर्वापरमात्रेण परेण पूर्वबाध इत्ययमर्थो जैमितीयेऽपि तत्रे न्यायतो निर्धारित इत्याह-पौर्वापर्ये पूर्वदार्बल्यमाहेति। पौर्वापर्ये पूर्वस्य निमित्तस्य दौर्बल्यं बाध्यत्वं जैमिनिराचार्यः षष्टेऽव्यायेऽधिकारलक्षणेऽवस्थितो यदाह 'पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् '[जै० सू० ६।५।५४ ] इत्यत्र तत्सर्व विषयाद्यङ्गैः परिपूर्णमानीय संग्रहेणोपानीय तुभ्यं वक्ष्यामो वयम्। अत्रास्मद्वाक्ये स्वीयां बुद्धि सम्यगव- धर्स्वावहितामेकाग्रां कुर्विति योजना। न्यायस्यास्य दुर्बोधत्वादत्र सावधानः सञ्शृण्वि- त्यर्थ:॥ ११६ ॥ सु० टी०-वक्ष्याम इति प्रतिज्ञांतं न्यायं दर्शयति -- उद्धातृपतिहर्तृकर्तृकतया जातौ वियोगौ क्रमा- दस्मिन्कर्मविधिप्योगसमये तंत्रैष नः संशयः । किं सर्वद्विणव्ययो भवतु वा संस्थापनं दक्षिणा- हीनस्येति तदा परं बलवदित्यूचे मुनिर्जैमिनिः॥११५॥ उद्गात्रिति। ज्योतिष्टोमे बहिष्पवमानस्तोत्रार्थमृत्विजः संलग्ना: प्रह्वा
संस्थाप्यः। यदि प्रतिहर्ता सर्ववेदसं दद्यादिति प्रायश्चित्तमाम्नातं तत्र युगपद्पच्छेद्श्रेद्विकल्प" इति विचार्य क्रमेणापच्छेदे संदिह्यते-किं सर्वस्वदाक्षिग्यं क्रतोरदक्षिणस्य वा संस्थापनमिति। तन्रासंजातवि रोधित्वात्पूर्वोत्पन्ननिमित्तकस्य बलवत्वे प्रास्ते परनिमित्तकमेव बल- वत् पूर्वानुपमर्दे परस्थानुत्थानादिति पूर्व परमजातत्वाद्बाधित्वेव जायते परस्थानन्यथोत्पतेर्न त्ववाधेन संभव इति न्यायान्मुनिरुक्त्तवा- नित्पर्थ: ।। ११७।
Page 80
[ २ द्वितीयोऽण्याय: ] संक्षेपशारीरकम्। ५१५
अ० टी०-तदेव विषयादिविभजनेन कथयति-उद्गातृप्रतिहर्तृकर्तृकतयेति। 'अध्वर्युं निष्क्रामन्तमुद्राता संतनुयात्' इत्यादिनोद्वातृप्रभृतीनामृत्विजां सोमयामसु्या- दिने बहिष्पवमानस्तोत्रार्थमेकैकस्येतरेतरसंसष्टतयोत्तरवेद्याः सदः प्रति हविर्धांनस्योत्तरतः प्रसर्पणं विहितम्। तत्र यदि विच्छेदो मध्ये यस्य कस्यापि स्यात्तदा प्रायश्चित्तं तत्तदृत्वि- ग्विच्छेदनिमित्तमाम्नातमविरुद्धं यत्तदथाम्नातमनुष्ठेयमिति तदस्य न्यायस्य न विपयः ॥ यत्पुनरुद्धातृप्रतिहर्त्रोर्विच्छेदे प्रायश्चित्तं विहितं 'यद्युद्राता विच्छिन्दाददक्षिणो यक्ञ: संतिष्ठते यदि प्रतिहर्ता सर्वस्वं दद्यात्' इत्येतचोद्रातुरध्वर्योर्विच्छेदे प्रकृतस्य यागस्य विना दक्षिणादानं समापनं प्रतिहर्तुरुद्वातृसकाशाहविच्छेदे तस्मिन्नेक यागे यजमानस्य सर्वस्त्रदानमित्येव मिथो विरुद्धं प्रायश्चत्तमवगतम्। तत्र द्वयोर्युगपद्विच्छेदे यजमानस्येच्छया विकल्पो निर्धारितः । क्रमेण विच्छेदे पुनरिदं विचार्यते कतरन्निमितं नैमित्तिकं प्रयोजये- दिति। एकस्मिन्नेव कर्मणि सर्वस्वदानदक्षिणाहीनत्वयोरयोगादन्यतरस्यैवानुष्ठेयत्वे कतरद- नुष्ठेयमिति संशयस्यावश्यंभावादित्येतत्सर्वं पूर्वार्धेनोच्यते। तस्यैषाऽक्षरयोजना-यस्मिन्क- मेविधिप्रयोगसमय उद्धातृप्रतिहर्तृकर्तृकतया क्रमाद्वियोगौ जातौ भवतस्तत्रैष नोऽस्माकं. संशयो जायत इति। एप इत्युक्तं संशयमेध स्फुटयति-किं सर्वेति। अत्र यथासं ख्यक्रमो न विवक्षितः श्रुत्याम्नातविरोधादिति द्रष्टव्यम्। तदा पूर्वमसंजातविरोधित्वात्म्र- बलं सदुत्तरं बाधेतेति पूर्वमेव निमित्तं नैमित्तिकं प्रयोजयदिति पूर्वप्राप्तौ जैमिनिमुनिः परमुत्तरं बलवदित्यूचे पूर्वसमये Sस्यानुत्पन्नत्वात्तेनास्य बाध्यत्वायोगादुत्तरस्य च पूर्वोपमर्द- मन्तरेणोत्पत्त्यसंभवादुत्तरमेव बलवत्सत्प्राप्तबाधकं स्वनैमित्तिक प्रयोजयेदिति पौर्वापर्ये पूर्वदौ- र्बल्यमित्यवोचदित्यर्थः । पूर्वोत्पन्नाविच्छेदविषया बुद्धिः पश्चादत्पन्नयर्त्विगन्तरविच्छेद- विषयया बुद्धया बाध्यते। अज्ञायमानयोर्विच्छेदयोरप्रयोजकत्वार्तज्ज्ञानयोरे प्रयोजकतेति. युद्ध्योरेवेदमुदाहरणमिति द्रष्टव्यम्। तदुकं- पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम्। अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेदिति ॥ ११७॥ सु टी०-प्रकृतिवदिति सौत्रं दृष्टान्तं विवृणोति- यद्वत्पात वैकतावतितरामन्योन्य संस्पर्धिनौ धर्मो बाध्यनिवर्तकावभिमतौ बुद्धौ क्रमेणान्वयात्। पाठव्यत्ययसंभवेऽपि हि तयोर्बुद्धिकमो विद्यते पूर्वा प्राळतधर्मधीरितरधीरिन्त्या तथैवोत्थितेः ॥ ११८॥ यद्धदिति। यथा विकृतौ पठितकतिपयधर्मायामपेक्षितपाकृतकथंभा-
Page 81
५१६ टीकाद्वयसमेतं- [२ द्वितीयोऽध्याय: ]
वारयां वचननामधेयचोदनालिङ: प्राकृतधर्मा आतदिश्यमाना: क्चि- द्विरोधे बाध्यन्ते। तत्र प्रापकप्रमाणक्रमेण धर्मयोरविक्कृतावन्वयादुपकार- सापेक्षायां विकृती कलप्ोपकारत्वेन प्रथमप्रासं भाकृतं बाध्यमनन्यथो- रपद्यमानं च वैकृतं बाधकमिति स्वीकृतम्। यथा विकृतावामिचारिके शरमयं बर्हिर्भवतीति प्त्यान्नातेन शरेण प्राकृत कौशं बर्हिर्बाध्यते। ननु न प्राकृतविध्यन्तस्य विक्ृती प्रथमप्राप्तिः किं तु वैकृतस्यैव पाठतः संनिधानाविति चेन्नेत्याह-पाठेति। बुद्धिक्रम उक्तरीत्याऽन्वयक्रमः । तमेव सहेतुकसुपपाद्यति -- पूर्वेति। प्रकृतिवच्छव्दृस्य वैकृतविधिशेष- त्वादित्यर्थः । तथैव विकृतिभावनाका कक्षाक्रमेणैवोत्थिते: प्राप्ते:११८॥ अ० टी०-पौर्वापर्ये पूर्वदौर्बल्यमिति भागं व्याख्याय प्रकृतिवदिति सूत्रभागं दृष्टा- न्तपरं व्याचष्ट-यद्ददिति। प्रकृतावुपदिष्टः प्राकृतो धर्मः । विकृतावुपदिष्टो वैकृतः । तौ च कचिदन्योन्यसंस्पर्धिनौ भिथो वाध्यनिवर्तकावभिमतौ चात्राप्युत्तरेण पूर्वो वाध्य तयाऽभिमत इत्यर्थः । कुतो बुद्धौ क्रमेणान्वयात्। क्रमेण ज्ञायमानत्वादित्यक्षरयोजना । एतदुक्त भवति-अस्ति हि प्रकृतिर्विकृतिश्वेति िहितानां कर्मणां द्वैविध्यम्। तत्र समग्राङ्गसंयुक्ततया विधीयमानं कर्म प्रकृतिः । विकलाङ्गतया विहितं कर्म विकृतिरिति। तयोर्लक्षणे यथा दर्शपूर्णमासौ सर्वासामिष्टीनां प्रकृतिः स्वप्रकरण एव सर्वाङ्गोपेतत- याऽSम्नानात्। 'सौयं चरुं निर्वपेद्रह्मवर्चसकामः' इत्यादया विकृतिर्विकलाङ्गतयाSS- म्नानात्। तथा कचिद्विकृतिविशेपे कतिप्यान्यङ्गानि विधीयन्ते। यथा 'अभिचरन्यजेत' . इत्यभिचारकरणे शरमयं बरहिर्विभीतक इष्मेल्यङ्गविशेषाम्नानम्। तत्र विकृतिविधाविति- कर्तव्यताभावे करणोपकारासिद्धेः करण निर्वृत्तितत्फलयोरप्यनिष्पत्तेरितिकर्तव्यता पेक्षा विद्यते सा चाङ्गानुष्ठाननिवन्धना। अङ्गानि च विकृतौ नाऽडम्नातानीति तदपेक्षायां चोदनासामान्यादिना प्राकृतान्यङ्गानि विकृतावतिदिश्यन्ते दर्शपूर्णमासादिप्रकृतिवत्कुर्या- दिति। यत्र पुनः प्राकृतानि साधनानि कुशमयादीनि बर्हिरादिवस्तूनि विकृतिविधि- प्रतीतिसमय एव प्रथममतिदेशेन प्राप्तानि तैश्च यत्कार्यं निर्वर्तनीयं तदर्थतया यदि विकृतिपरकरणविशेषे वस्तन्तरे शरमयाद्याम्नातं दृश्यते तत्र भवति विरोधस्फुर्तिर्विकल्प. समुच्ययोर्भिन्नप्रकरणत्वेनासंभवात्। तथा चैकेनैव निर्वर्तनीयस्याङ्गोपकारकस्यैकमेव साधनतानुपैतीति तयोरन्यतरेणान्यतरस्य बाधेऽवश्यं कर्तव्ये विकृतावुपदिष्टानां निरवका शत्वात् 'सावकाशनिरवकाशयोनिरवकाशं बलवत्' इतिन्यायादुत्तरेण वेकृतोपदिष्टेन पूर्वमतिदेशमाप्तस्य प्राकृतस्य बाधोऽवसितो यथा तद्वदुद्वातृप्रतिहर्तृकर्तृकविच्छेदेऽपि पूर्व- बुद्धिरुत्तरया बुद्धया बाध्येत्युत्तरमेव निमित्तं नैमित्तिकप्रयोजकं न पूर्वमिति निर्णयः । तथाSन्रापि प्रथमोत्पन्नप्रत्यक्षादिबुद्धि: पश्चादुत्पन्नया वेदान्तवाक्यजनितया बाध्या नान्यथेति
Page 82
[ २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ५१७
सिद्धमिति। यघ्ेवं परेण पूर्ववाद इति नियमस्तर्हि यत्र क्वचिद्विकृतेः कतिपयांङ्गोपेतायाः प्रथममान्नानं प्रकृतेश्व समग्राङ्गायाः पश्चात्पाठस्तत्र प्राकृतैरेवातिदिष्टैवैकृता धर्मा बाध्ये- रंस्तदा प्राकृतानामुत्तरत्वाद्यथापाठक्रमभेदबुद्धयोरुपत्तिरिति चेत्तत्राऽडह-पाठव्यत्यय- संभवेऽपीति। पाटक्रमविपर्यासेऽपि तयोः प्राकृतवैकृतयोर्बुद्धिक्रमो विद्यते। कीदृशः क्रम इति तमाह-पूर्वेति। उक्तबुद्धिपौर्वापर्ये नियामकमाह-तथैवोत्थितेरिति । अयमर्थ :- विकृतिर्हीतिकर्तव्यताभागमाकाडक्षमाणा स्वसंनिधावु[प]दिष्टमङ्गसाधनमसंपूर्ण- त्वान् स्वी करोति प्रकृतौ च समग्रस्य धर्मस्योपदिष्टत्वात्तदेव धर्मजातं चोदनासामान्यादिना स्वी करोति पश्चात्स्वप्रकरणोपदिष्टमपि संनिधिप्रमाणात्स्वी करोति तस्यानवकाशत्वेनोपेक्षा नर्हत्वात्तदाम्नानवैयर्थ्यपरिहारायावश्यं स्वीकार्यत्वात्। तस्मादतिदेशोपदेशबुद्धयोः पूर्वोक्त- क्रमेणैवोत्पत्ते: पाठव्यत्ययेऽपि पूर्वा प्राकृतधीरन्त्या चोपदेशधीरित्यनयोर्नियत एव क्रम इति ॥ ११८ ॥ सु० टी०-ननु 'उच्चैकवा क्रियत उपांशु यजुषा' इत्यत्र त्रयो वेदा असृज्यन्तेत्युपक्रमार्थवादस्थो मन्त्रब्राह्मणवाची वेदशब्दो विध्यु- द्देशगतमपि मन्त्रवाचकमृगादिपदं स्वार्थात्मच्यावयतीत्युक्तत्वात्कथमत्र पूर्वदौर्बल्य मित्याशङ्कच तट्वैलक्षण्यमस्य न्यायस्य दर्शयति- सापेक्षावुदितौ यदा तु भवतः पूर्वापरौ प्रत्ययौ पूर्वस्तत्र निरवर्तको भवति तत्रान्त्यो निवत्यो यथा। वेदोपक्रमजा मतिर्बलवती नर्गादिसंहारजा वेदोपकममुख्यभाग्भवति तैन्नर्गादिवाणी गुणात्॥ ११९॥ सा्पेक्षाविति। परमपि यत्पूर्वसापेक्षं न तत्पूर्वस्य बाधकमुपजीव्यत्वेन पूर्वस्य बलवत्वात्तद्वाधे स्वस्याप्यसंभवादिति पूर्वेणैव तत्र परबाध इत्यर्थः । नर्गादीति । चरमभ्ुतर्गादिशब्दृजेत्यर्थः । वेदेति । त्रोप- कमस्थं वेदपदं मुख्यमुपसंहारस्थमृगादिपदं गुणाल्लाक्षणिकमित्यर्थः। तेन प्रत्यक्षादीनां व्यावहारिकप्रामाण्यं न वेदान्तैर्याध्यत उपजीव्यत्वा- त्तत्वावेद्कत्वं तु सुतरां बाध्यत इति हृदयम् ॥११९॥ अ० टी०-यद्येवं पौर्वापर्ये पूर्वस्योत्तरेण बाध एव न्याय(य्य)स्तर्हि 'प्रथमश्रुतानु- सारेण चरमश्रुतं नेयम्' इतिन्यायस्य को विषय इति तमाह-सापेक्षाविति ।
१ ग. तत्नार्गी।
Page 83
टीका टय समेतें- [२ द्वितीयोऽन्याय: ]
विरुद्धयार्बुंद्धयो: परस्पर नैरपेक्ष्ये परेष पूर्वबाधः। यदा तु पूर्वापस्प्रत्ययौ सापेक्षावुदितौ भवतस्तदा तत्र तयोर्मध्ये पूर्वः प्रत्ययो निवर्तको भवत्यन्त्यस्तु निर्क्त इति निर्णयः । पूर्वापेक्षयोत्पद्यमानस्योत्तरस्य पूर्वाधिरोधेनैवोत्पत्तेः । पूर्वस्य तुत्तरोत्पत्तिसमये नापेक्षा नापि विरोध: किं तु पर्यवसानायैवापेक्षा तदा च विरोध इति तदवस्थायां पूर्वेणोत्तरं मुख्या र्थात्प्रच्याव्यते तद्यथा तथोदाहरिष्याम इत्यर्थः । उदाहरणमाह-वेदोपक्रमजेति । 'प्रजापतिर्वेदानसजत' इत्युपक्रम्य श्रयते-'उच्चैर्ऋचा क्रियत उपांशु यजुगा * इति। तत्रर्गादिशब्दः कि मन्त्रमात्रपरः कि वर्ग्वेदादिपर इति संदेहे मुख्यार्थपरित्रहे बाध- काभावाद्यत्र यजुर्वेदेऽपि नियताक्षरपादावसाना मन्त्रास्तेऽप्युच्ैः प्रयोक्तव्या ऋग्वेदेऽपि ये ब्राह्मणप्रभवा निगदादयो मन्त्रास्त उपांशु प्रयोज्या इति प्रापय्य सिद्धान्तितं 'प्रजापति• र्वेदानसजत* इतिवेदशब्देनोपक्रमादुचै्ऋचा क्रियत इत्पादौ वेंदसंबन्धि किंचिद्विधीयत इति तावत्प्रतीयते पश्चाचर्चा यजुपेति चर्ग्यजुःशब्दयोर्मन्त्रसंबन्धितयोच्चैश्ष नीचैश्व कर्तव्यता भाति तत्र वेदशब्दोपकमजाता मतिरसंजातविरोधितया बलवती स्वार्थपरैव स्वीकर्तव्या। ऋगादिशब्दोपसंहाराज्ाता मतिर्न बलवती स्वार्थपरा न भवत्युपक्रमसापेक्षतया तद्विरोघे स्वार्थपरत्वायोगादित्यर्थः । एतदेव स्फुटयति-वेदोपक्रममुख्येति। तथा चोपक्रमत- न्त्रतयर्गादिशब्दो मन्त्रविशेषे मुस्योऽपि गौण्या वृच्या वेदपर एवेति तस्मादृग्वेदविहिते. कर्मण्यतिदेशे मन्त्रप्रयोगस्योच्चैद्टं विधीयते यजुर्वेदविहिते चोपांशुत्वं न तु यत्र मन्त्रस्तत्र तथा प्रयोग इति निर्णय: ॥ ११९॥ सु० टी०-शारीरकेऽपि प्रथमस्य चरमबाधकत्वं साधितमित्याह- ब्रह्म पुच्छमितिवाक्यगामिनो- र्ब्रह्र पुच्छमेति शब्दयोई्वयोः। ब्रह्मशब्दबलवत्तरत्वतः पुच्छशब्दपरिपीडनं मतम् ॥ १२० ॥ ब्रह्म पुच्छमिति। आनन्दृमयवाक्ये 'ब्रह्म पुच्छं प्रतिष्ठा' [तै० २। ५।१ ] इन्यत्र श्रुतयोर्धह्मपुच्छपद्योमध्ये पूर्वस्य ब्रह्मपदस्य 'ब्ह्मविदा- पोति' [२।१।१] इत्युपक्रमस्थत्वेन 'असन्नेव स भवति' [ने०२६।१] इत्यादिवाक्यशेषगताभ्यासवशेन च बलवत्वाच्चरमं यत्पुच्छ- पदं तत्प्रायपाठप्राप्ताद्वयव वाचित्वात्प्रच्याव्याधिष्ठानलक्षणया परिणी- डितमित्यर्थः ॥१२० ॥ अ० टी०-वेदान्तेष्वपि तादृशमुदाहरणमस्तीव्याह-ब्रह्म पुच्छमितीति।
Page 84
[ २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ५१३
'ब्रह्म पुच्छं प्रतिष्ठा'[तैत्ति० २ । ५।१] इतिवाक्यगतयोर्ब्रह्मपुच्छपदयोः प्रथम-
सारेप चरमश्रुतपुच्छशब्दो लक्षणयाऽवारपरत्वेन नि(नी)यत इति वाक्यार्थः । अक्षर. योजना सुकरा। यदि च ब्रह्मशब्दादप्यानन्दमयस्यैव तद्वाक्योपक्रमे श्रवणात्पाथम्यमुच्येत वदा 'ब्रह्मविदाप्नोति परम्' [सै० २ । १ । १] इति महावाक्योपक्रमगतब्रह्मशब्दा- दानन्दमयशब्दस्य स्वार्थबाधो वत्तव्यः। अत एवोक्तं मान्त्रवर्णिकमेव च गीयत इति ॥१२० ॥ सु० टी०-कथं पुनः 'आकाशस्तल्लिङ्गात' [ब० सू० १।१। २२ ] इत्यत्राSSकाशपद्स्य प्रथमस्य 'सर्वाणि ह वा इमानि भूतानि' [छा०१९१] इत्यादिवाक्यशेषानुसारेण भूताकाशात्म्रच्याव्य ब्रह्मपदृत्वं वणितमिति चेत्तवाSडह- अथ ययुपक्रमणमल्पतरं अवति प्रभूतमुपसंहरणम्। बलवत्तदा चरममेव भवे- दुभयोरविरोधसमये नितराम् ॥१२१ ॥ अथ यदीति। अत्र पूर्वावगताऽप्याकाशश्रुतिरुपसंहारगतबहुतरब्रह्म- लिङ्गानुरोधेनान्यथा नीयते भूयोनुग्रहाय। यथा पञ्चद्शरात्रे चर- मधुतानामपि भूयसामह्वाभैन्द्री सुब्रह्मण्यानुग्रहाय प्राथमिकस्थाप्यमनिष्ठुत आग्रेयी सुबह्ण्या बाध्यते तथेश्यर्थः ॥ १२१॥। अ० टी० -- अयमपि न्यायो न निरपवाद इति प्रदर्शयन्प्रसङ्गाच्छारीरकाधिकरणे प्रदर्शितानां न्यायानां विवेकप्रतिपत्तये पुनर्न्यायभेदानुपन्यस्यति-अथ यदीति। अथशब्दो न्यायान्तरोपक्रमार्थः । यद्युपक्रमणमुपक्रमोऽल्पतरं निर्देशमात्रं भवति उपसंहरणं वाक्यशेषलक्षणं प्रभूतं बहुलं भवति तदोभयोरुपक्रमोपसंहारयोर्विरोध- समये चरममेव नितरां बलवद्धवेदिति योजना। अत्र तरपः प्रयोगादविरोधेऽपि क्वचिद्वाक्य- शेषेणोपक्मगतस्य निर्णयदर्शनादुपसंहरणबलवत्तां सूचयति। यथाऽन्तर्यामिशब्दस्योप-
श्वरत्वनिर्णय इत्यर्थः । 'आकाशस्तलिङ्गात्' [त्र० सू० १।१ । २२ ] ' अत एव. माण:'[ब० सू० १।१।२३ ] ' ज्योतिश्वरणाभिधानात् '[ ब्र० सू०
Page 85
५२० टीकाद्वय समेतं- [ २ द्वितीयोऽच्याय: ]
१ । १ । २४ ] इत्याद्यधिकरणेषु प्रथमश्रुतानामप्याकाशप्राणगायत्र्यादिशब्दानां 'सर्वाणि ह वा इमानि भूतानि [छा० १ । ९ । १] 'त्रिपादस्यामृरतं दिवि' इत्यादिषाक्यशेषगतबहुलिङ्गश्रुत्यादिवशेन स्वार्थब्राधो दर्शित इत्येतदिहोदाह- रणम् ॥ १२१ ॥ सु० टीc-एवं चेत्कथम् 'आत्मगृहीतिरितरवदुत्तरात् '[ब्० सू ३।३। १६ इत्यत्रोपक्रमस्थेनाल्पेनापि निर्विशेषात्मलिङ्गेव्न भूयसामु- पसंहारस्थसविशेषलिङ्गानां बाध इति चेत्तताSह- अथ यदुपक्रमणमल्पमपि प्रतिपादवस्तुविषयं भवति। अविवक्षितार्थविषयं चरमं भवति प्रभूतमपि बाध्यमदः ॥१२२ ॥। अथेति। तत्र हि 'आत्मा वा इद्मेकमेव' [ऐ० १। १] इत्या- हमैकत्वावधारणस्योपक्रान्तस्य विवक्षितस्याऽडअ्स्यानुरोधेन चरमश्रुतं बहृपि सविशेषब्रह्मलिङ्गमविवक्षितार्थविषयत्वा]ाध्यते तात्पर्यानुरो- धित्वाच्छव्दस्येत्यर्थः ॥ १२२ ॥ अ० टी० -- अस्यापि न्यायस्यापवादमाह-अथ यदीति। अक्षरार्थो निगद- व्याख्यातः । अस्योदाहरणम्-'आत्मगृहीतिरितरवदुत्तरात्' [ ब्र० सू० १। ३। १६ ] इत्यत्र हि 'आत्मा वा इदमेक एवाग्र आसीत्' [ऐ० १ । १] इत्यात्मैक- त्वावधारणेनोपक्रमगतेन प्रतिपाद्यार्थविषयेण तद्विपरीतो वाक्यशेषगतो महान्प्रपञ्चस्ताभ्यो गामानयदित्यादि: सविशेषात्मविपयो बाध्यत इति निर्धारितमेवमन्यत्राप्युदाहरणमन्विष्येत्थं न्यायो योज्य: ॥१२२ ॥ प्रत्यक्षा- दिबाधकत्व्र मौष्ण्य प्रत्यक्षस्येव वह्निशैत्यानुमितिबाधकत्व मित्याह- आसन्नवस्तुविषयेण यथाऽक्षजेन बाधो भवत्यनुमितेर्व्यवधानयोगात्। प्रत्यक्त्वमात्रविषयेण तथाऽडगमेन युक्तोऽक्षजादिविषयावगमस्य बाध:॥१२३॥ आसन्नेति। यथा हि प्रत्यक्षेण स्वसंनिकर्पात्पन्नधीवृत्तिद्वारा प्रमान्न- ष्यवहितं प्रमित्सितवस्तुनो विशेषं गृह्णता स्वविरुद्धानुमितिः सांभान्पः
Page 86
[२ द्वितीयोऽच्याय:] संक्षेपशारीरकम्। ५२१
व्याप्त्या साध्यसामान्यं पक्षे निश्चित्य हेतो: पक्षधर्मताबलेन तददिशेषं विषयीकुर्वाणा व्यवहितविषयत्ताद्वाध्यते। तथा प्रत्यक्तमोऽत्यन्ताव्य- वहितो य आत्मा तद्विषयेणाSSगमेन बाह्यप्रपश्चविषयपत्यक्षादिवो. धस्य युक्तो बाध इत्यर्थः ॥१२३॥ अ० टी०-इदानीं प्रासङ्ङगिकं परित्यज्य प्रकृतमेत्र वेदान्तैः प्रत्यक्षादेर्बधं पुनरपि न्यायान्तरेणाSSह-आसन्नेति । संनिहितार्थविषयेणाक्षजेन प्रत्यक्षज्ञानेनानुमितेर्बाधो भव्रति। कुतो व्यवधानयोगाव्वाप्त्यादिज्ञानव्यवधानार्थप्रतिपादनाद्ष्टुः स्वगतव्यापारगो- चरत्वेन व्यवहितार्थत्वाद्वा यथाऽभिरनुष्णः पदार्थत्वादित्यादौ तथा प्रत्युक्तमात्रविपयेण द्रष्टः स्वरूपमात्रगोचरेणाSडगमेन तत्त्वमस्यादिरूपेणाक्षजादिविषयावगमस्य कर्ता भोक्ता धनी गोमानव्राह्ण इत्याद्यात्मकस्य परोपाधिद्वारकतया व्यवहितार्थस्य बाधो युक्त इति योजना ॥ १२३ ॥ सु० टी०-सर्वप्रमाणोपजीव्यविषयत्वादृपि सर्वबाधकत्वं वेदान्ता- नामित्याह- किं चाऽSम्नायवचःप्रमेयबलतः सर्वं प्रमाणान्तरं स्वार्थं साधयतीति तत्सकलमेवाऽडयत्तमस्मिन्भवेत्। ययत्राऽडयतते विरोधसमये तेनास्य तद्वाधने सामर्थ्य न च विद्यते श्रुतिवचोबाधो यथा हि समृतेः॥ १२४॥ किं चेति। सर्वे हि प्रमाणं जडत्वात्स्ववृत्त्यवच्छिन्नसंविद्वलादेव स्वविषयं साधयति। सा च संविदनादिनिधना सर्वसाक्षिणी 'आत्मै- वास्यं ज्योतिर्भवति' [बृह० ४।३ ।६] इत्यादिवेदान्तवाक्यस्य प्रमेयम्। एवं च सर्वेषां प्रामाण्यस्य तव्दवस्थायाश्र संविदायत्तत्वात् सत्यपि विरोधे नैषामुपजीव्यवेदान्तबाधने शक्ति: स्सृतेरिव श्रुतिबाधन इत्यर्थ: ॥ १२४ ॥ अ० टी०-'व्यवहिताव्यवहितार्थविषययोर्विरोधे व्यवहितार्थक ज्ञानमितरेण बाध्यम्' इति न्यायेन वेदान्तप्राबल्यमुक्वा 'उपजीव्योपजीवकयोर्विरोध उपजीव्येनोपरजीवकबाधः' इतिन्यायेनापि वेदान्तप्राबल्यमाह-किंचाSडग्नायेति। आम्नायवचःप्रमेयं प्रमात्रा- दिसाक्षी कूटस्थानुभवस्तद्वलतस्तदाश्रित्य सर्व प्रमाणान्तरं प्रत्यक्षादिकं विधिनिषेधार्थकं च स्वार्थ साधयति प्रमाणप्रमेयभावस्य तन्नियमस्य च नित्यानुभवापेक्षसिद्धिकत्वादिति
Page 87
५२२ टीका ट्वय समेतें- [ २ द्वितीयोऽच्याय: ॥
हेतोरस्मिन्वेदान्तप्रमेये कूटस्थानुभवे तत्सकलमेेप्रमणजामायत्ं ेदुक्तानुभोप जीवकं मानान्तरं भवेदित्यर्थः । यद्यदधीनसिद्धिकं तन्न तस्य बाधकमित्येतत्सा घाय्रत - यद्यताऽडयतत इति। स्पृतिर्धर्मशास्त्रवचनम् ॥ १२४ ॥ सु० टी०-ततश्च वाक्योत्थमतिरेव स्वविषयसेंविदृधीमसिद्धिकवि- वयेन्द्रिय समस्तव्यवहारबाधिकेति सिद्ध मित्याह- बह्माज्ञानसमुद्धवँ ग्रहगणं सातिग्रहं ब्रह्मण: स्वाकारग्रहणेन वेदशिरसो जाता मतिर्बाते। विद्या वस्तुबलेन जन्म लभ्षते माया तु निर्वस्तुका सा तामुद्धवमात्रतः क्षपयति ध्वान्तं यथां भास्कर:॥१२५॥ ब्रह्माज्ञानेति 4 गृह्णन्ति बध्नन्ति क्षेत्रज्ञमिति ग्रहा इन्द्रियाणि तेषा- म्याकर्षकत्वात् । अंतिग्रहा विषयाः । ब्रह्मणः सर्वोधिष्ठानस्य स्वाकारः प्रत्यमद्धयत्वं तद्ग्रहणेन। ननु प्रमाणत्वाविशेषे कथं वेदान्तैः प्रत्यक्षादेर्वाध इति चेत्तताSऽह-विद्येति। वस्तुबलेनाबाधि तविषयत्वेन । सा हि वस्तुनि निश्चिवततात्पर्येण वाक्येन जन्यत इति बलवती। प्रत्यक्षादिनिदानं तु माया निर्वस्तुकेत्पतो जातमाश्रैव विद्या तामविद्यां दुर्बलां निवर्तयति ध्वान्तमिवाSSदित्य इत्यर्थः॥१२५॥ अ० टी०-तस्माद्वेदान्तयाक्योत्था मतिर्विषयेन्द्रियव्यवहारें घाघत इत्युपसंहरति- ब्रह्माज्ञानेति। अहा इन्द्रियाणि 'प्राणो वै ग्रहः' [बृ० ३।२। २] 'चक्षुवै ग्रहः' [बृ० ३। २ । ५ ] झ्यादिश्रुतेः । अतिग्रहा विषयाः 'सरूपेष्ातिग्रहेण गृहीतः' [बृ० ३। २ । ५ इति श्रुतेः । वेदशिरसो महावाक्याज्जाता मतिः सातिग्रहे ग्रह- गणं बाधते। तस्य सत्वात्कथमुक्तमतिबाध्यत्वमित्यत आह-ब्रह्माज्ञानसमुद्भव- मिति। 'इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्वस्य हरयः'[बृ० २। ५।१९] इतिश्रुतेरिन्द्रियाणामात्माज्ञानमयत्वावगमाद्युक्तं ज्ञानबाध्य[त्य]मित्यर्थः । ननु बाधितार्थ- वचनमेतदवगतवाक्यार्थानांमपि केषांचित्तद्वाघादर्शनादिति चेस्तत्रांSऽह-स्वाकारग्र- हणेनेति। स्वोऽसाधारणो यः प्रत्यग्वह्माकारस्तस्य ग्रहणेन प्रत्यगात्मतस्त्राकारग्रहणसा- मर्थ्यादित्यर्थः । चित्तदोषप्रतिबद्धतया केवलात्माकाराग्रहणादेव केषांचिदज्ञानतत्कार्यबा- धादर्शनं न तु वाक्यार्थज्ञानस्य तन्नाशक्ति: सहायापेक्षा वेति भावः। नन्वज्ञानका
१ क. सा त स्ोन्ध।
Page 88
[ २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ५२३:
विद्येति। मेयाकारतयैवोत्पत्तेः । सा च वस्तुबलेन भेयबलेन जन्म लभते। माया व्वज्ञानात्मिका निर्वस्तुका परमात्मवस्त्वाकाररहिता। तथा च स्वप्रकाशपरमार्थवस्त्वाकारा- कारितया. तद्रहितजडमात्राज्ञानादिविरोधित्वाद्विद्याऽविद्यां बाधेतेत्याह-सा तामित्यर्थ: (ति) । १२५ ॥। सु० टी०-तथाडपि दृढभूमितया दुर्निवारः संसारः पस्मपि विद्यो- दयादनुवृत्तेरिति चेत्तत्राSडह- रागद्वेषप्रशाखं विषयगुणसमुद्धासिधीवृत्तिशाखं धर्माधर्मंप्रवृत्तिमचुरसुखस मुद्देग भोगभवालम्। छिन्या: संसारवृक्षं निशितमतिमहाशसत्रनिक्षेपदक्षः पत्यकतत्वस्थलीगं निविदितमतमोमूललब्धपरोहम् ॥१२६॥ समद्वेषेति । निशिता नितसं सूक्ष्मभावं नीता निरस्तसमस्तासंभाव :- नादिदोषा या बुद्धिवृत्ति: सैव महाशस्त्रं तन्निक्षेपेऽत्यन्तं सुशिक्षितम- तिरत्वं तयैव शस्त्रेण संसारवृक्षं छिन्या इत्यर्थ: । तं कीहशं प्रत्यक्त- स्वमेव स्थली स्वैध्यस्तसंसारबीजाविद्यािष्ठानत्वात्तदूतं, तत्राध्य- स्तं. विचित्रानादिवासनानुबद्धत्वेनातिनिबिडं यत्तमस्तदेव मूलमा- थारबन्धस्ततो लब्धः प्ररोहो येन तेन ज्ञाननिवर्त्थत्वं दर्शितम्। रागः सुखानुश्यी लोभो द्वेपो दुःखानुशयी क्रोधस्तावेव प्रकृष्टे मुख्ये शाखे यस्य तदुद्वाश्र या: शब्दादिविषयेपु शोभनत्वादिगुणाध्यासिन्यो धीवृत्तयोऽवान्तरशाखा यस्य। ताभ्यश्च रागद्वेषमूलाभ्यो धर्माधर्महेतु- कर्मसु या प्रवृत्तिस्त्वेतुकाक्ष ये प्रचुरसुखसमुद्धेगरूपा भोगास्त एव प्रवालानि यस्य प्रवालतुल्यत्वेन भोगस्य दाढयं फलानुकत्या च स्वर्गा- वेरप्यतितुच्छत्वं सूचितम् ॥१२६ ॥ अ० दी-विद्ययाSविद्या निवर्ततां नाम द्वैतलक्षण: संसार: कथं. निवर्तनीय इति. तत्राSडह-रागद्वेषप्रशाखमिति। अत्र. वृक्षरूपकालंकारेण संसारवर्णनं वृक्ष इक मूलोच्छेदे स्वमूलाविद्योच्छेदे संसार उच्छियत इति दर्शयति। निशितमतिमहाशास्त्रनिक्षे- पदक्षः संस्कं संसारवृक्षं. चि्छिन्दा इत्यन्वयः । मतेनैशित्यमसंभावनादिप्रतिबन्धराहित्यम्॥ महत्त्वविशेषणेनोत्पन्नायां. विद्यायां प्रयत्नबलाद्यपेक्षाभावः सूच्यते । दक्ष इति सावधानता चित्तवैयत्रयहेतुपरिहारेण. स्थिरीभावः सूचितः । विशेषणैः सवैरस्य वृक्षत्वं प्रपञ्च्यते। तक
Page 89
५३४ टीकाद्वय समेतं- [ २ द्वितीयोऽध्याय: ]
बीजरूपं मूलमाह-निबिडतमेति। अतिनिबिडं महाजडं यत्तम आवरणविक्षेपश- क्तिमदज्ञानं प्रतीच्यध्यस्तं तल्क्षणं यन्मूलं तस्मालब्ध: प्ररोहोऽक्कुरीभावो येन स तथा तम्। कस्मिन्स्थानेऽस्योक्त(प)बीजात् प्रादुर्भाव इति तदर्थं विशिनष्टि-प्रत्यक्त- त्वस्थलीगमिति। ब्रह्मणि स्वबीजेन सहाध्यस्तमित्यर्थः । तत्र ये वृक्षस्योपादानबी- जव्यतिरेकेणापि बाह्यतोयमृदाद्यवयवा उपचयदार्थहेतवः सन्ति ते नैवमिह कि त्वविद्यात एवोपचयोऽप्यस्येति दर्शयन्पुनर्विशिनष्टि रागद्वेपेत्यादिभिर्विशेषणैः । रागादेरविद्याक्षेत्रत्वं पातञ्जलसूत्रेणोपदिष्टम्-'अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ' [ पात०२। ४ ] इति रागद्वेपौ प्रकृष्टे शासे स्थूलविटपौ यस्य। विषयाः शब्दादयस्तेषां गुणाः शोभनाः शोभनरूपाः संकल्पमात्रसिद्धास्तदवभासिन्यो या धीवृत्तयस्ताः शाखाः क्षुद्रा यस्य। रागद्वेषाभ्यां शोभनाशोभनाध्यासाभ्यां वित्रयावभासितो धीवृत्तय उत्पद्यन्ते विटपाभ्यामित्र शाखा इत्यर्थः । अन्तः सूक्ष्मरूपेण वहिर्विस्तृतरूपेण प्रथमानपल्व- स्थानीयमिह यदस्ति तदाह-धर्माधर्मेति। धर्माधर्माभ्यां केवलवासनारूपाभ्यां प्रवृत्ति- वृद्धिर्यस्य प्रचुरा असंख्याताः सुखसमुद्वेगभोगाः सुखदुःखानुभवाः प्रवालाः पत्राणि यस्य धर्माधर्मप्रवृत्तिश्चासौ प्रचुरसुखदुःखभोगप्रवालश्वेति तथा तमिति विग्रहः। तथा च प्रत्यगज्ञानमूलकत्वात्संसारस्य प्रत्यक्तत्वज्ञानेनाज्ञाननिवृत्तौ मूलोन्मूलनेनेव वृक्षः संसक् उद्वर्तेतैवेति न ज्ञानादन्यदज्ञानतत्कार्यसंसारनिवृत्तावपेक्ष्यत इति भाव: ॥१२६॥ सु० टी-ननु नाविद्यामूल: संसारोऽपि तु 'मायां तु प्रकृतिम्' [शवेता० ४।१० ] इत्यादिश्रुतेर्मायिक एवेति नास्य विद्योच्छेद्य. स्वमिति चेसत्राSऽह- प्रत्यग्वस्तुन एव तत्र विषये माया तमः कारणं ध्वान्तं बीजमबोध इत्यपि गिरा वियैव संकीर्त्यते। तस्या एव विलास एष भवता गुर्वादिभेदान्वितः संवलृप्तो न तु विदयते पृथगसौ संध्ये यथा धामनि॥१२७ प्रत्यगिति। प्रत्यग्वस्तुनः स्वस्मिन्विषये याऽविद्या सैव माया तम इत्या- दिगिरा संकीत्यते न तु तयोर्भेद इत्यर्थ:। 'तरत्यविद्यां वितर्तां योगी मायाम्' इति स्मृतेः। ततश्र गुर्वादिभे(*दस्याप्यज्ञानात्मकमायाकार्यत्वाद- ्वैतसिद्धिरप्रत्यूहेत्याह-तस्या एवेति। संकलप्ोऽध्यस्तः । त)देवाSडह-
- ख पुस्तस्थोड़यं ग्रन्थः ।
Page 90
[२ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ५२५
न त्विति। मवतः सकाशात्पृथगित्यर्थः । दटान्तमाह-संध्य इति। स्वप्नटष्ट इव चेतनाचेतनप्रपश्च इत्यर्थः । २७।। अ० टी०-ननु भवेदेतदेवं यद्यज्ञानविलासो भेदप्रपञ्चलक्षणः संसार इत्यत्र प्रमाणं भवेन्न तु तद्दृश्यत इत्यत आह-प्रत्यग्वस्तुन इति। आत्मत्त्वरसंबन्धि प्रत्यक्चै. तन्याश्रितमिति यावत्। तत्र प्रत्यग्वस्तुनि विषये विषयभूते प्रत्यगात्माश्रयं प्रत्यगात्मविषयं च यदज्ञानमविद्या साडविद्यैव माया तम इत्यादिकयाऽपि गिरा जगत्कारणं श्रुतिस्मृति- पुराणेषु संकीर्त्यतेSतोऽज्ञानहेतुकत्वं द्वैतप्रपञ्चस्य संसारस्य प्रामाणिकमित्यर्थः । तस्मात्तस्या अविद्याया एवैष विलासोऽचित्परिणामो गुर्वादिभेदान्वितो भवताऽविद्यावता त्वया संक्वप्तः संकल्पमात्रेणास्तीति प्रतीतिपथमानीतो न त्वसौ परमार्थतः पृथक्पत्यगात्मनो भेदेन स्वतन्त्रो विद्यते। यथा संध्ये धामनि स्वप्नस्थानेSविद्यामात्रविलसितो गुरुशिष्यादिभेदप्रपञ्चः केवल आत्मन्युपलभ्यमानस्ततः पृथड्न विद्यते तद्वदिति योजना। विमतः संसारोऽविद्या विलसितोSविद्यावस्थायामेव विधाव्यमानत्वात्स्व्प्वदित्यर्थः ॥१२७॥ सु० टी०-नतु स्वप्नस्य दोषजत्वेनाध्यस्तताप्रसिद्धेरस्तु द्ृषटरपृथ- ग्भावो जागरस्य तु कथं तस्य तद्वैधम्यादिति चेन्नावान्तरमेदेऽप्यध्यस्त-
मुक्तमुक्ती विद्वदज्ञौ त्वदन्या- वाकाशादिक्ष्मावसानं च विश्वम्। स्वाविद्योत्थस्वान्तनिष्पन्दनं त- द्विज्ञातव्यं मा ग्रहीरन्यथैतत् ॥ १२८॥ मुक्तामुक्ताविति। मुक्तः शुकादिरमृक्तो मैन्रादिर्गुरुविद्वानज्ञश्रैत्र इति स्वभिन्नतया गृह्यमाणो जीवप्रपञ्च आकाशादिपपञ्चश्रेत्येतत्स्वाविद्योत्थं यत्स्वान्तमन्तःकरणं तद्गतानादिवासनाविलसितमेव न तु स्वप्रविलक्षणं सत्यमिति गृहाणेत्यर्थः । 'अजामेकाम् ' [शवे० ४।५] इति भुतेलघवादेकाविद्यासिद्धौ तत्पतिबिम्बरूपो जीव एकोऽप्यविद्ययाडने- कभोक्तमावं प्रतिपन्न इति सर्वव्यवहारोपपत्तौ नानेकजीवकल्पना युक्तेति मावः ॥२८॥
Page 91
५२६ टीकाट्ट्यसमेतं- 1 र द्विती थोऽप्याय :: }ै
अ०टी .- मुर्घादिभेदान्वितः इत्युक्तं प्रपश्चयन्नुपपादितमर्थ विशदयति-मुक्ताम. क्ाविति। अक्षरार्थस्त्वतिरोहितः: । समष्टिव्यष्टिशरीरेषु द्विविधेषु, सत्कारणे. चाव्याऊते. साक्षिण एकत्वात्तदन्यस्य चाऽडत्मनः रवमे प्रमाणाभावाद्विद्वदज्ञमुक्तामुक्तत्वादिविरुद्धध- र्मत्वेन येयमात्मभेदकल्पना या चाऽडकाशादिभोग्यविश्वकल्पनैतत्सर्वं स्वाविद्याप्रसूतान्तःक० रणपर्णतिमात्रं स्वम्वदिति विज्ञातव्यं विवेकिना परमार्थमेत्र तद्यथा दृश्यमानमिति न
सु० टी० -- कथं तर्हि मुक्तामुक्तादिव्यवस्था न ह्यज्ञानैक्ये तस्य ज्ञानान्निवृत्तावन्यत्र कचिद्न्धः संभवति। न हि प्रागूर्ध्वकालेन कश्ि- न्मुक्तो न वा मोक्ष्यत इति शक्य वक्तुं श्रुतिस्मृतिन्यायानुमवविरोधा- दूतः कथं जीवैकत्वमिति शङ्कां हष्टान्तेन प्रत्याचटे- कालोऽती तोऽनादिरेष्यन्न नन्तो मुक्तमुक्तौ तत्र पूर्व तथोर्ध्वम्। तस्मादेतद्दुर्घटं शङ्कसे चे- न्मा शङ्ूकिष्ठाः स्वमदृष्टान्तदृष्टेः॥ १२९॥ कालोऽतीत इति। अनादिरनन्त इति च हेतुगर्भ सुबोधमन्यत्॥१२९॥ अ० टी०-ननु बन्धमोक्षादिव्यवहारस्यानादिकालमारभ्य प्रवृत्तस्याऽगामिनि चानन्ते काले वर्तिष्यमाणस्य श्रुतिस्मृतिन्यायलोकानुभवसिद्धत्वात्तदविरुद्धमिंदं त्रिष्वपि कालेषु बन्धमोक्षादिभागविद्वदादिरूपः प्रत्यगात्मनोऽन्यो नास्तीति वचनमिति चोदयति-कालोS-' तीत इति। अतीतः कालोऽनादिरेष्यन्भविष्यंश्च कालोऽनन्त इति योजना। तत्र तयोः कालयोर्मुक्तामुक्तौ सर्वतः प्रसिद्धाविति शेषः । यस्मादेवं प्रामाणिकोऽयमर्थस्तस्मादेतदुक्त- मस्याSSविद्यत्वं दुर्घटमित्यर्थः । उत्तरमाह-माशक्गिष्ा इति। लोकप्रसिद्धेर्भ्रन्तिमात्रत्वा- छोकप्रवादानुवादित्वाच्च श्रत्यादेर्न तेनेदं प्रमीयते । तथा चाविद्यामात्रविपरीतवर्ति- स्वप्टवन्मिथ्याभूतस्याप्यस्य व्यवहारास्पदत्वोपपत्तेर्दुघटमिति भावः ॥ १२९ ॥.
तुल्यत्व मित्याशङ्कय दष्टान्तेऽपि तत्साम्यं व्याचटे- सुप्तो जन्तुः स्वल्पमात्रेऽपि काले कोटी: पश्येद्वृत्तसंवत्सराणाम्। पश्येत्कोटीरवमागामिनां च जाग्रत्काले योजयेत्सर्वमेतत् ॥ १३०॥
Page 92
प २ द्वितीयोऽध्याय: ] सेंक्षेपशारीरकमू।
सुख् इति ध चकासन्मुक्तामुक्तविद्वदज्ञा दिव्यवस्थामवि. पर्ये- 'दिति ॥१३०# अ० टी०-स्वमौपभ्यमेव प्रपश्वयति-सुप्तो जन्तुरिति ॥१३० ॥ सु. टी० -- जाग्रत्काल इत्युक्तं विवृणोति- कालोऽनादिस्तत्र मुक्त: शुकादि: कालोऽनन्तो मोक्ष्यते तत्र चान्यः । इत्येवं ते बन्धमोक्षव्यवस्था- संसिद्धिः स्यादापरात्मपबोधात् । १३१।
न्मुक्तामुक्तादिभेदव्यवहारस्तत्प्रबोधे त्वैक्यदृष्टिरेवेति भाव:॥१३१॥ अ० टी०-'जाप्रत्काले योजयेत्सर्वमेतत्' इत्युक्तं विशदयति-कालोSना- दिरिति। आप्रबोधात्स्प इवाऽपरमात्मसाक्षा कारात्ते बन्धमोक्षव्यवस्थासंसिद्धि: स्यादा- विद्यकत्वेऽपीत्यर्थ: ॥ १३१॥ सु० टी० -- एवं स्वमतेन बन्धमोक्षव्यवस्थामुपपाद्य तद्विषये मतान्त राण्युपन्यस्यत्ति- अज्ञानं सकलश्रमोन्वनकत्पिण्डेषु सामान्यव- ज्जीवानां प्तिबिम्बकल्पवपुषां बिम्बोपमे ब्रह्मणि। विद्वांसं पुरुष जहाति भजते विद्याविहीनं नरं नष्टानष्टमिवाऽऽत्मपिण्डमधुना जातिस्तथैके जगुः ॥१३२॥ अज्ञानमिति। व्यावहारिकप्रातिमासिकसमस्तद्वैतभ्रमकारणमज्ञानमेकं
पतिव्पक्ति जातिवत्परिसमाप्म्। तच्चोत्पन्नविद्यं, जीवं त्यजति जाति- रिव नष्टां व्यक्तिमनुत्पन्नविद्यं तु नरं मजते जातिरिव विद्यमानां व्यक्ति- मित्येके व्यवस्थां जगुरित्यर्थः ॥ १३२॥ अ० टी०-तदेवमविद्यायास्तत्कार्यव्यवहारस्य च विदुषो निवृत्तत्वाद्न्वमोक्षादिव्यव- स्थाऽपि तं प्रति निवर्तत एघाविदुषस्तु स्वाप्रव्यवहारवत्सा यथानुभवं सिध्यतीत्यविद्यावस्था- यामेव सर्वाऽपि व्यवस्था न विद्यावस्थायामिति स्वमते बन्धमोक्षव्यवस्थोपपादिता तत्रैव
Page 93
५२८ टीकादुय समेतें- [२ द्वितीयोऽप्याये: ]
रणरूप: समस्तद्वैतप्रपञ्चस्तस्योद्धवनकृदज्ञानमेकमेव तच्चानेकजीवाश्रयं ब्रह्मविषयकं च। नचैताबता जीवब्रह्मभेदो वास्तचोऽभ्युपगतो भवति बिम्बप्रतिबिम्बयोरिवौपाधिकभेदाम्युपमै- मादित्यभिप्रेत्याSSह-जीवानामिति। बिम्बोपमे ब्रह्मणि विषये प्रतिबिम्बकल्पवपुर्षा जीवानामाश्रयभूतानामुक्तलक्षणमज्ञानमिति योजना। कथमनेकेष्वेकमज्ञानं प्रवर्तत [इ]त्यत्र दष्टान्तमाह-पिण्डेषु सामान्यवदिति। प्रतिपिण्डं सामान्यमिव प्रतिजीवं कार्त्स्न्येन वर्तत इत्यर्थ: । कथमस्मिन्पक्षे बन्धमोक्षव्यवस्थोपपत्तिरिति तत्राSSह-विद्वांसमिति। यथा नष्टं स्वपिण्डं परित्य्यानष्ट एव जातिस्तिष्ठति न नश्पति तथा मुक्तं विद्वांसं परित्यज्याज्ञानमप्यविद्वांसममुक्तमाश्रित्य तिष्ठति न नश्यतीत्यर्थः । अधुना व्यवहारकाले जातिरिवेत्यन्वयः ॥ १३२ ॥ सु० टी०-कथमेकस्यामविद्यायामेकस्य ब्रह्मणोडनेके प्रतिबिम्बा: कथं वा सत्यामेव तस्यां प्रतिबिम्बत्वापगमात्तेषां मुक्ति: स्वादिति पूर्वास्वरसान्मतान्तरमाह- अज्ञानानि बहून्यसंख्यवपुषो जीवान्मुमुक्षूनपि ज्ञानाज्ञानसमाश्रयाननुयुगं तेषां च निःश्रेयसम्। मायामीश्वरसंश्रयामनुगमात्संसारसंवर्तिनीं केचिद्ैवविघातनिन्नमनसः स्वी चकुरल्पश्रुताः ॥१३३॥ अज्ञानानीति। आध्यात्मिकसुखदुःखकर्तृत्वप्रमातृत्वादिजनकान्यज्ञा- नानि प्रतिजीवं भिन्नभिन्नानि। एवमसंख्या जीवा ज्ञानिनोऽज्ञानिनश्र तेषां च स्वस्वविद्यया प्रतियुगं निःश्रेयसमिति स्वी चक्रुः । कुतस्तर्हि वियदादेः सर्वसाधारण्यं तत्राSSह-मायामिति। सर्वानुगतसंसारप्रवर्तनी मायामीश्वराश्रयां च स्वी चक्रुः । तन्मते च मायायास्तत्वज्ञानेन निवृ- स्यसंभवादद्वैतमङ्ग इत्यरुचि व्यनक्ति-दैवेति। दैवविघातो दुरदष्टप्. तिबन्धस्तेन निमनं वशीकृतं मनो येषामित्यर्थ: ॥१३३॥ अ० टी०-पक्षान्तरमाह-अज्ञानानीति। केचिदज्ञानानि बहूनि स्व्री चक्र रित्यन्वयः । अस्मिन्पक्षे ज्ञानेनाज्ञानस्य निवृत्तिप्रसिद्धिर्न बाध्यतेऽज्ञानबहुत्वाच्च मुक्ता- मुक्त्यवस्था सुस्थेत्यर्थः । असंख्यवपुषो जीवानिति स्वरूपत एव भिन्नाञ्जीवान्स्वी चक्रुरिति प्रत्येकं संबध्यते। मुमुक्षुनपि ज्ञानाज्ञानसमाश्रयान्कांश्चिज्ज्ञानसमाश्रयान् कांश्विदज्ञानस- माश्रयान्स्वी चक्रुः। तेषां च मुमुक्षूणां प्रतियुगं युगे युग एकैकस्य निःश्रेयसं च स्वी चकरुः।
Page 94
[ २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ५२९
मायां चान्यां जीवाज्ञानेभ्य ईश्वरसंश्रयामेकां स्व्री चक्रुः। किलक्षणामनुगमात्संसारसंवर्तिनी जीवाज्ञानेष्वनुप्रवेशतस्वक्षोभकतया च संसारप्रवर्तिकां तत्त्वज्ञानानाश्यां नित्यामित्यर्थः ।
तान् कुत्सयति-दैवेनेति। भाग्यक्षयेण विन्नमवशीकृतं मनो येषां ते तथोक्ताः । विघ्नमनस इति पाठे प्रतिबद्धविवेकबुद्दय इत्यर्थः। एवं पक्षस्वीकारे हेतुगर्भविशेषणम्- अल्पश्नुता इति ॥ १३३ ॥
सु० टी०-अत एवारुचेमतान्तरमाह- आकाशे विहगोऽस्ति नास्ति च यथा तद्दत्परब्रह्मणि स्वच्छे चिंद्पुषि स्वभावविमलेऽसङ्ग शिवे शाश्वते। निर्भेदेऽनुदयव्ययेऽनवयवे विद्या भवेन्नो भवे- दित्येवं निरवयमाहुरपरे पक्षव्यवस्थार्थिनः ॥। १३४॥ सु० टी०-आकाश इति। यदैवेकेनैकस्मिन्नमसि विहगो दश्पते तदैव तत्र स्थानान्तरेऽन्येन विहगाभावो नमसि चांशभेदामावाद्वश्यमे- कस्यैकत्र माषामावावङ्गीकार्यावेवं ब्रह्मण्यपि स्वच्छचिद्ूरूपेऽ- विद्याया: सत्वासत्त्वाविरोधात्तदेवाविद्याश्रयः संसरति तदेव व त्छून्यं क्वचिन्मुक्तमित्येवं केचिव्दवस्थार्थिमो वदन्तीत्यर्थः ।१३४॥। अ० टी०-पक्षान्तरमाह-आकाश इति । यथाऽडकाश एकस्मिन्नेव विहगे सद्भावाभावौ तद्वत्परब्रह्मण्येकस्मिन्नेवाविद्या भवेन्नो भवेदित्येवं निरवद्यमविद्याया दुर्घटत्व- स्यालंकारत्वादेकत्र भावाभावविरोधदोषहीनमद्वैतपक्षपरित्यागप्रसङ्गदोषहीनं चैतन्यमिति मुक्तामुक्तपक्षव्यवस्थार्थिन आहुरिति योजना । ब्रह्मविशेषणानामेषोऽर्यः स्व्रच्छे निर्मल आदर्श इवान्यकृतं नैर्मल्यं न भवतीत्याह-स्वभावविमल इति । तत्र हेतु :- चिद्धपुषीति । स्वभावविमलत्वेऽप्यागन्तुकमलयोगशड्कां वारयति-असङ्ग इति। तत्साधयति-शिव इति। निर्गुण इत्यर्थः । तत्र हेतु :-- शाश्वत इति। अनित्यं हि सगुणं सत्सङ्गि भवति। नेदं ब्रह्म तथेत्यर्थः । शाश्वतत्वं साधयति-अनुदय- ध्यय इति। सर्वस्योदयव्ययसाक्षित्वादधिष्ठानत्वाच्च स्वत उदयनाशशून्यमित्यर्थः। तथाऽप्यविद्याभाषाभावयोरेकत्र विरोधात्तदाश्रयत्वाय कथंचिद्वेदोऽयुपेय इति चेननेत्ाह- निर्मेद इति। स्वभावतो निर्भेदत्वं साधयति-अनवयव इति। भेदाभावेऽप्या- काश इव भावाभावाश्रयत्वं न बिरुष्यत इति भाव: ॥ १३४ ॥
Page 95
५३० रेकाट्टयसमेसं- [ २ द्वितीयोऽघ्याय: ]
सु० टी०-अन्ये त्वेकस्पैकत्र भावामाषी द्वारें विना दुर्घटाविति पड्यन्त एवं स्वी चक्रुरित्याह- शुद्धे वस्तुनि यद्यपि प्रविशति ध्वान्तं मनः कारणं स्वीकत्यैव तथाऽप्युपाधिमपरं बह्मस्वरूपे विशेत्। तच्चान्त:करणं सुसूक्ष्मवपुषा तिष्ठ्द्वहिः सर्वदा चैतन्ये तमसो नियामकमिति स्वी चक्रुरन्ये पुनः ॥१३५॥ शुद्ध इति । कारणं कारणत्वेन कल्पितं यत् ध्वान्तमज्ञानं तद्यदपि शुद्ध एव वस्तुनि प्रविशति तथापि निरंशे तस्मिन्रज्ञानस्य युगपद्भ्ा- वाभावविरोधाद्वच्छेदकं मनोलक्षणमुपाधिं कोटिशः सृध्वा तद्द्वा- रीकृत्य प्रविशेदिति संबन्धः । तज्च यद्यपि सुषुप्त्यादौ लीनं भवति तथाऽपि सूक्ष्मात्मना तिष्ठति । तच्च नाज्ञानाश्रयकोट्यन्तर्गतं तदा हि मनो विशिष्टेऽज्ञानं वर्तेत । न च तत्संभवति कार्ये कारणस्यावृत्तेः। किं तु दृतिहरिशब्द्वार्थे पशुत्वमिव बहिरेव तिष्द्वह्मण्यज्ञानं संबन्धस्य नियामकमित्यतो यत्र मनोनाशस्तत्र नाज्ञानमिति व्यवस्था घटत इत्यर्थः ।। १.३५ ॥ अ० टी०-एकत्रैकस्यैव भावाभावौ निर्द्वारं विरुद्धाविति मन्यमानानां मतमाह- शुद्धे वस्तुनीति । यद्यपि ध्वान्तमज्ञानं शुद्धे वस्तुनि प्रविशति तथाऽप्युपाधिमपरं मनोरूपं कारणं द्वारं स्वीकृत्यैव ब्रह्मस्वरूपे विशेन्न निर्द्वारमित्यक्षरार्थः । अज्ञानं हि विक्षे पस्वभावत्वाद्रह्मणि प्रविशदेवानेकानि मनांसि सजति। तानि चोपाधिमात्रेण स्थितानि द्वारीकृत्य ब्रह्माश्रितं जायत इत्युक्तं भवति। एवंसति व्यवस्थाऽपि सुस्थेत्याह-तञ्चेति। मनसोऽज्ञानाश्रयकोटिनिविष्टतया न तमोनियामकत्वं कि तु ततो बहिस्ताटस्थ्येन 'तिष्ठत् पशुत्वमितर दृतिहरिशब्दार्थ नियमपदज्ञानं ब्रह्मणि नियमयतीत्यर्थः । सुसूक्ष्मवपुषा सर्वदा तिष्ठदिति मनसोऽविनश्वरत्वमाह। तथा च ब्रह्मण्यज्ञानस्य मनोद्वारेणैत्र निवृत्त्यनिवृत्ती अपीत्यविरोधात्सुस्था व्यवस्थेति भावः ॥ १३५ ॥ सु० टी०-केचितु न तावत्स्वतन्त्रमज्ञानं कि तु चैतन्वे स्थित्वा मनः सृजति मनोद्वारा च चैतन्येन संबध्यत इत्यन्योन्याश्रयं पशपन्त इत्थं कल्पयन्तीत्याह -- अज्ञानि ब्रह्म बुद्धीरनुसरति ततः स्थावरं जङ्गमं च स्वाज्ञानादेव भूत्वा कचिदवगतितो भुक्तमन्यत्र बद्धमू।
Page 96
[२ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ५३१
तचाज्ञानं विनष्ट स्थितमथ च तदेवांशभेदोपपते- रेवं सर्वव्यवस्था परमपुरुषगा जाघटीतीति केचित् ॥ १३६ ॥ अज्ञानीति। अनाद्येकाज्ञानसंबद्धमेव ब्रह्म व्यवस्थितानेककार्यानुरोः धादज्ञानकार्यभूता बुद्धीरतुसरति तासु प्रतिभिम्बते । ततश्र स्वाज्ञाना- देव स्थावरजङ्गमादिमावं बुद्धिगताभासेन प्राप्य क्वचिदधिकारिशरीरे साधनसंपत्या ब्ह्मज्ञानोत्पत्तेरुपादानाज्ञानांशतत्कार्यभूतदेहद्वय निवृत्त्या. मुक्तं मवत्यन्यत्र च तद्भावेन बद्धमिति। नन्वज्ञानस्य निरंशस्य
युक्तवोषासंभवादेकाज्ञानस्यापि नाशस्थितिम्यां परमे पुंसि मुक्तामुक्त- व्यवस्था घटत इति। अत्र चैकैकस्याज्ञानांशस्यैकैकजीवोपाधित्वेंडशा-
गातु। अतस्तत्तद्बुद्धिकारण त्वेना ज्ञानस्यांश भे द व्य प देश: । ता र ंश द्वारा व सर्वांशोपेतमज्ञानं तत्तद्बुध्युपाधिके ब्रह्मणि मासते। एकस्यां बुद्धौ विद्योदये लत्कारणांशद्वारा तद्मिन्नं सर्वं निवर्तते। अंशान्तरेण च तिष्वतीत्ययमेवानेकमुमुक्षुपक्ष इत्याचार्येण न दूष्य इति विश्वतीर्थी- यकृतः ॥ १३६ ॥ अ० टी०-यदि मनःसष्ज्ञानस्य तद्द्वारा चैतन्ये प्रवेशस्तदा स्यादितरेतराश्रयता यतोऽस्वतव्रस्याज्ञानस्य. चैतन्यसंबन्धं विना मनःसर्जनासंभव इति मनसश्च सूक्ष्मरूपेण .
सदा स्त्वे तस्यानादित्वासंभवदोषं मन्वानानां पक्षमाह-अज्ञानि ब्रह्मेति। अज्ञान मस्मिन्ननादितया. सहजशक्तिरूपमस्तीत्यज्ञानि, ब्रह्म चिन्मात्रमिति यावत्। तद्रुद्धीरनु- सरति 1 एतदुक्तं भवति-चिन्मात्रगतमेव सदज्ञानं बुद्धीर्मनांसि च सृजति सृष्टा च तत्र तत्रानुगतं वर्तते । ब्रह्म चाज्ञानसंबद्धं सत्ताः बुद्धीरनुसरति तासु, प्रतिबिम्बभावमापद्यत इति। तत एवं परस्परान्वयात्स्वाज्ञानसष्टं स्थावरं जङ्गमं च सर्वं भूतभौतिकलक्षणं स्वाज्ञाना- देव भूत्वा स्वाज्ञानकृतबुद्धिगताभासद्वारेण तत्तद्रावमिवाSSपद्य कचिदुपाधाववगतितस्त्त्व ज्ञानोदयात्तदेव ब्रह्म मुक्तं भवतिः। अन्यत्रावगत्युदयरहिते बद्धं यंथापूर्व संसरदेव भवति। तचचाज्ञानं तस्मिन्नेवमुक्ते ब्रह्मणि विनष्टं स्वकार्येण समस्तद्वैतेन सह बाधितं सर्वात्मना भवति। अथ. च तदेवाज्ञानं स्थितं तस्मिन्नेव ब्रह्मणि स्वकार्यं संसारमापादयद्वतते। कुत एवं स्यादित्यत आह -- अंशभेदोपपत्तेरिति। अयमर्थ :- यस्यां बुद्धौ विद्योत्पत्ति- स्तदुपादानांश एवाज्ञानस्यैकोंऽशस्तद्द्वारा 'बुद्धिनाशात्सर्वात्मना सह कार्येणाज्ञानं नश्यति। उपाध्यन्तरोपादानांशद्वारेण तुः तिष्ठतीत्येवमंशभेदो विवक्षितो न पुनरज्ञान एकदेशस्यैव
Page 97
५३२ टीकाद्दय समेतं- [ २ द्वितीयोऽघ्याय: ]
नाशो नाशाम्तरस्यावस्थानमित्यंशभेदविवक्षा। तचाज्ञानं विनरष्ट स्थितमथ तदेवेत्येक- त्वावधारणविरोधादिति। एवंसति सर्वव्यवस्थेत्युक्तार्थम् ॥ १२६ ॥
गौरवाम्मतान्तरमाह- बाह्याध्यात्मिकवस्तुजातजननी माया हरेर्बन्धिनी शक्तिर्दाशकजालवत्पसरणं प्रामोत्यविय्यावतः । जीवान्संकुचतीच्छया भगवतः सत्याऽस्तु मिथ्याडथ वा सेकोचश्र विलक्षणश्र भवतः स्वाभाविकावित्यपि॥१३७ बाह्येति। तेषां बाह्याध्यात्मिकसाधारणासाधारणपपञ्चदयस्यापि जन- मीश्वरमायैव जीवाज्ञानानां तु भ्रान्तितद्वासनारूपत्वाद्भगवत्तत्वाधर- कत्वमेव न विक्षेपकत्वभिति द्वितीय पक्षाद्विशेष:। सा च माया बन्धनी जीवसंसारकारणं दाशकजालवन्मत्स्यघातकरज्जुवितानवदविद्यावतो जीवान्पति प्रसरति जगत्परिणत्या बभ्नाति। मकत्याद्यावर्जितस्य मगवतः प्रसन्नस्येच्छावशाद्विदुषः * प्रति संकुचति तान्न बध्नाति जालमिव दाशकेछया। ननु सा किं सत्याऽसत्या वा। आद्ये न ज्ञाननिवत्याS- नत्ये ] सैवानाद्यज्ञानमिति न तन्देद इत्यत्राऽऽह-सत्येति । उमय- थाऽवि तन्निवृत्तेमैगवद्धीनत्वान्न सत्यत्वादावभिनिवेष््व्यमित्यर्थः । संकोषविकासयोर्विकारत्वान्मिथ्यात्वे कुतः संसारसत्यतेति चेद्दोषा- जन्यत्वादिश्याह-संकोचश्रेति। विलक्षणो विकास: ॥। १३७ ।। अ० टी०-मतान्तरमाह-बाह्याध्यात्मिकेति। अज्ञानानि बहूनीति पूर्वोक्ते द्वितीयपक्षे साधारणपपञ्च ईश्वरमायाकृतोऽसाधारणस्तु जीवाविद्याकृत, इति मतम्। अत्र तु हरे: परमात्मनो मायाशक्तिर्बाह्याव्यात्मिकवस्तुजातजननी साधारणासाधारणसर्वप्रपञ्च कारणमिति विशेष: । जीवाज्ञानानि तु तेषां भगवत्तत्त्वावरकाण्येव केवलं न विक्षेपकरा- णीसर्थादुक्तं द्रष्टव्यम्। सा च मायाशक्तिरविद्यावतो जीवान्प्रति भगवदिच्छया दाशकानां कैवर्तानां जालवत्प्रसरणं विकासं प्राप्तोतीति तेषां बन्धिनी बन्धकरी भवति भगवदिच्छया जगद्रूपपरिणामं प्राप्ता सती जीवानविदुषो बप्रातीत्यर्थः । भगवत एवेच्छयाऽर्थाद्विदुषो जीवान्प्रति संकुचति तान्प्रति प्रपञ्चमकुर्वती निवर्तत इत्यर्थः । सा च माया सत्या वा
- नायं ग्रन्थ: क, पुस्तके.।
१क. र्बन्धनी।
Page 98
[२ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ५३३ मिथ्या वाऽस्तु नास्माकं तत्राभिनिवेशोऽस्ति परं तूक्तव्यवस्थया तस्याः संकोचश् विलक्षणश्च विकासश्च भवत एवेश्वरानुग्रहाद्विद्वत्सु संकोचो विद्याभावादविद्वतसु विकासश्रे- ह्यर्थः । तौ च संकोचविकासौ स्वाभाविकौ केवलमीश्वरेच्छानिबन्धनौ न विद्यानिबन्धनः संकोचो नाप्यविद्यानिबन्धनो विकास इत्यर्थः ॥ १३७॥ सु० टी०-बन्धमिथ्यात्वस्य मगवतोऽज्ञानाभयत्वस्य च साध्रित- व्वान्नेद्मपि सभ्यगिति मतान्तरमाह- संस्कार्नमसंततिं प्रतिनरं भिन्नां परब्रह्मणि स्वी चक्कुविषये प्रवाहवपुषाऽनादिं तमः केचन। तामुच्छियं समुच्चयेन घटते मोक्षाय कश्विन्नरः ... कथ्वित्तद्विरहेण संसरति ना जीवाश्रया सेति च ॥१३८॥ संस्कारेति। ते हि वाक्योत्थज्ञानप्रागभावरूपैकाSविद्या मिथ्याज्ञान- तत्संस्काररूपा चान्या मावरूपा । सा च प्रवाहरूपेणानादि: प्रति- जीवं मिन्ना। तयोश्र नाग्रहणात्मकाज्ञानजन्य: संस्कारः किंतु पूर्व- पूर्व भ्रमतत्सस्कारा न्निमित्तादण्वादेरात्मनश्रोपदानाद्भपति । तां चा विद्यां कर्मसमुच्चितेन ज्ञानेनोच्छिद्य कश्विन्मोक्षाय लिङ्गशरीरप्रलयाय घटते। कश्वितु समुच्चयामावेन संसरति। सा च जीवाश्रया ब्रह्मविष- • येति न ब्रह्मणोऽज्ञानित्वं नाप्यहमज्ञ इत्यनुभवविरोध इति स्वी चक्र- रित्यर्थ: । १३८। अ० टी०-मतान्तरमाह-संस्कारभ्रमेति। भ्रमो विक्षेपः संस्कारस्तज्जन्यस्तज- नकश्च संस्कारभ्रमयोः संततिः प्रवाह एषैवाविद्या नान्या तदुपादानभूता दण्डायमानाS- विद्याऽस्तीत्पेतदस्य मतम्।तां प्रतिनरं प्रतिजीवं भिन्नां प्रवाहवपुषाSनादिं परब्रह्मणि विषये तमोऽज्ञानं स्वी चक्रुः केचन मण्डनमिश्रमतानुसारिण इत्यर्थः । यद्वा परब्रह्मणि विषये यत्तम: प्रसिद्धं जीवानां ता संस्कारभ्रमसंतति केचन स्व्री चक्कुरिति योजना। तत्र कश्चिनरः समुचयेन ज्ञानकर्मसमुच्चयानुष्ठानेन साधनेन तामविद्यामुक्तरूपामुच्छिद्य मोक्षाय घटते। कश्चिन्ना जीवस्तदविरहेणोक्तसाधननिष्टाभावात्संसरति। सा चाविदया जीवाश्रयेति च तन्मतमित्यर्थ: ॥ १८॥ सु० टी०-अत्र चासङ्गकूटस्थस्य प्रत्यगात्मनो भ्रमतत्संस्काराद्य- संभवात्समुच्चयस्य चतुर्थे निरस्यत्वाच्चात्यन्तायुक्तत्वं हदि कृत्वैवाSडघ्यं पक्षददयं दूषयति-
Page 99
५३४ टीका द्य समेतं- ६२ द्वितीयोऽध्याय: ]
अज्ञस्तावत्पत्यगात्माऽहमज्ञ इत्येवं नः सिध्यति स्वप्रकाशात्। अज्ञातं तु ब्रह्म सिध्येत्कुतो वः सम्यग्ज्ञानाद्ध्रान्तितः स्वमकाशात् ॥१३९॥ अज्ञ इति। अज्ञानीं जीवानां ब्रह्मविषयमज्ञानमिति यदुक तत्र जीवस्य स्वसंवेद्यलवेन स्वस्य स्वाज्ञानस्य च सिद्धावपि बह्मरूपं तस्याज्ञा- तत्वं च मवतां कुतः सिध्येत् कि सम्यगज्ञानाद्घटादिवदुत भ्रान्तित: स्वप्ादिवक्कि वा स्वप्रकाशादात्मवदित्यर्थः ।। १३९.। अ० टी०-एवमुद्गाविताः सप पक्षास्तेष्वादे पक्षद्वये जीवानां ब्रह्मविषयमज्ञानमिति यन्मतं तत्तावदसंगतमित्याह-अज्ञस्तावदिति। सवप्रकाशात्स्वयंप्रकाशज्ञानरूपत्वा- त्प्रत्यगात्माऽहमज इति तावत्सिध्यति नोडस्माकं नात्र विवाद इति शेषः । स्वयं भासमानः प्रत्यगात्मा स्वाश्रितामविद्यां स्वचैतन्याभासखचितां कुर्तन्नहमज्ञ इति स्वस्याज्ञत्वमनुभवती- त्यर्थ:। अज्ञातं तु ब्रह्म स्वरूपेणाज्ञातत्वेन च नोऽस्माकं कुतः सिध्येदिति वक्तव्यम्। कुतःशब्दसूचितं विकल्पं स्फुटयति-सम्यग्ज्ञानादिति। कि सम्यग्जञानाद्भ्रान्तितो. वा. स्वप्रकाशाद्वेति वाच्यमित्यर्थः ॥१३९॥ सु० टी०-आद्ये दोषमाह- सम्यग्ज्ञानाद्रह्णः सिद्धिपक्षे जाडयं तस्य स्याद्घटादेर्यथव।
तस्यापि स्यात्सत्यता तद्देव ॥ १४० ॥ सम्यगिति। ब्रह्मणोऽज्ञातस्य। जाड्यमिति। ज्ञानविषयस्य जडत्वनिय- मादित्यर्थः । अज्ञानस्यापि ततः सिद्धौ तस्य सत्यत्वापत्तिरित्याह- सम्यग्ज्ञानादिति ॥१४० ॥ अ० टी०-तत्राऽडदये कल्पे दोषद्वयमाह-सभ्यग्ज्ञानादिति। वेदनगोच- रस्य जडत्वनियमादित्यर्थः । ब्रह्मणोऽज्ञानसिद्धौ। अज्ञानत्वसिद्धौ तस्याज्ञानस्याषि प्रमाण- सिद्धत्वात्सत्यता स्यात्। तद्वद्वह्मवदेवेत्यर्थः ॥ १४० ॥ सु० टी०-द्वितीये त्वाह-
Page 100
[२ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ५३५
भ्रान्तिज्ञानाद्वह्नणः सिद्धिपक्षे तस्यापि स्यात्कल्पितत्वं तमोवत्। अज्ञातं चेह्रलं नः स्वपकाशं मा भाषिष्ठा नानुभूतिस्तथा नः ॥ १४१ ॥ भ्रान्तिज्ञानादिति। भ्रान्तिविषयस्य बाध्यतया ब्रह्मणोऽपि कल्पितत्वम- ज्ञानादेरिव स्यादित्यर्थः । तृतीयं दोषमाह-अज्ञासमिति। जीवातिरि- कस्य सर्वज्ञबह्मणोऽस्मदाद्यनुमवविरुद्धं स्वप्रकाशत्वं मा वादीरि- त्यर्थ: ॥१४१॥ अ० टी०-दवितीयें दूषयति-भ्रान्तिज्ञानादिति। तृतीयं प्रत्याह-अज्ञातं चेदिति। यद्येवं तदा तथाडनुभूयेत तदभावादज्ञातं ब्रह्म स्वप्रकाशमिति मा भाषिष्ठा मा मृषा वादीरित्यर्थः ॥ १४१ ॥ सु० टी०-परेषां ब्रह्मणोऽज्ञातत्वे ये दोषा उक्तास्ते मायावित्वेऽपि तुल्या इत्याह- अज्ञातत्वे यानवोचाम दोषान् मायावित्वे बह्मणस्तानवेहि। मिथ्याज्ञानात्स्वप्रकाशात्प्रमाण- त्संसिद्धिः स्यात्तस्य तत्कथ्यतां नः ॥ १४२॥ अज्ञातत्व इति। तत्र तानेव विकल्पानाह-मिथ्याज्ञानादिति ।१४२।। अ० टी०-द्वितीयपक्षे यन्मायामीश्वरसंश्रयामिति ब्रह्मणो मायावित्वमुक्तं जीवानां तत्सिद्विरप्युक्तन्यायेन निरसनीयेत्यत्रापि पूर्वविकल्पान्संचारयति-अज्ञानित्व इति। तस्य ब्रह्मणस्तन्मायावित्वमित्यर्थ: ॥ १४२॥ सु० टी०-तानेव दोषानाह- मिथ्याज्ञानाद्ूह्मणः सिद्धिपक्षे मायेव स्यात्कल्पितं तच्च तद्वत्। मानादिष्टं ब्रह्म मायावि चेद्वो मायायाः स्यात्सत्यता जाडयमस्य ॥ १४३॥
१ क. ज्ञानं ने । २ क. हगः स््रः। ३ ग. चे दा मा।
Page 101
५३६ टीकाटटूयसमेतं- L
मिष्येति। मायाया दृश्यत्वेन मिथ्यात्वसिद्धेर्द्ष्टान्तत्वम्। अन्त्ये दोष- माह-मानादिति। मायाविशिष्टस्य मानविषयत्वे विशेषणस्य सत्यत्वं विशेष्यस्य ब्रह्मणो जडत्वं च स्यादित्यर्थः ।।१४३ ॥। अ० टौ०-विकल्पक्रमेण दूषयति-मिथ्याज्ञानादिति। अस्य ब्रह्मणः॥१४३।। सु० टी०-द्वितीये त्वाह- तन्मायावि ब्रह्म चेत्स्वप्रकाशं
मा्यां पश्येद्रह्न चेत्स्वप्रकाशं तत्रापि स्यात्स्वानुभूत्या विरोध:॥ १४४॥ तन्मायावीति। विशिष्टस्य स्वप्रकाशत्वे मायाया अपि स्वप्रकाशत्वेन चिद्ूपत्वादमायात्वमित्यर्थः । बह्म स्वप्रकाशं माया तु तन्भ्वास्या चेत- र्ह्रयनुमवविरोध इत्याह-मायामिति ।।१४४।। अ० टी०-तृतीयं कल्पं प्रत्याह-तन्मायावीति। विशिष्टस्य स्वप्रकाशत्वे विशेषणस्यापि तत्प्रसङ्गादित्यर्थः। मायाया अपि स्वप्रकाशत्वे चिद्रूपत्वात्सत्यत्बाच्च माया- त्वव्याकोप इति द्रष्टव्यम्। ब्रह्मण एव स्वप्रकाशत्वं मायायास्तु तद्वेद्यतेति स्त्रीकारान्नोक्त दोष इति चेत्तत्राऽडह-मार्पा पश्येदिति। अनुभवविरोधान्नेयं कल्पना प्रामाणि- कीतर्थः ॥ १४४ ॥ सु० टी०-विरोधमेव व्यनक्ति- आत्मा मूढः स्वप्काशो यथाडयं नैवं मायि ब्रह्म नः स्वप्रकाशमू। अज्ञादन्यद्बह चेत्स्वप्रकाशं द्वे विस्पष्टे स्वप्रकाशे स्फुरेताम् ॥१४५॥ आत्मेति। मूढोऽज्ञ: नाऽडत्मैव स्वप्रकाशः किं तु तद्विविक्ततया ब्रह्मापीति चेत्तत्राSऽह-अज्ञादन्यदिति। तर्ह्यविवेक एव दुर्घट इत्याह- द्वे इति। अन्यत्वे तत्प्रकाशयत्वे च स्पट्टमेदृत्वमनन्यखवे स्वस्येवाज्ञत्वं मायावित्वं फलितमिति भाव: ।।१४५ ॥ अ० टी०-अनुभवविरोधमेव स्पष्टयति-आत्मा मूढ इति। ननु कथं न ब्रह्म स्वप्रकाकं स्व्रप्रकाशात्माविविक्ततयाऽस्यापि स्वप्रकाशत्ेन स्फुरणोपपत्तेरिति चेत्तत्राSडह-
Page 102
[२ द्वितीयोऽध्याय: ] संक्षेपंशारीरकम् । ५३५
अज्ञादन्यदिति। स्वप्रकाशं ब्रह्माज्ञादन्यदनन्यद्वा। तत्रांऽडद्ये दोषमाह-दे इति। तथाऽज्ञादन्यत्वे स्वप्रकाशत्वे च भेदस्य स्फुटत्वान्नाविवेककल्पनावकाश इति भावः । द्वितीये स्वात्मन एवाज्ञातत्वं मायावित्वं चोक्तं स्यात्तत्र च. ब्रह्माम्यद्वेति स्वपक्षक्षतिरिति दष्टव्यम्॥ १४५॥ सु० टी०-बह्मणो जीवभिन्नस्याज्ञातत्वं निरस्य तस्य जीवभेदमपि विकल्ण्य दूपपति- ज्ञायन्ते चेद्रह्णा जीवभेदा जाडचं तेषां कुडचवन्निर्विवादम्। न. ज्ञायन्ते ब्रह्मणा चेत्तवानी सर्वज्ञत्वव्याहतिर्दुर्निवारा ॥ १४६ ॥ जायन्ते चेदिति। ब्रह्मणा स्वस्माज्जीवानां तेषामन्योन्यं भेदाक्ष यदि ज्ञापन्ते तदा तेषां भिन्नत्वेन वृश्यत्वादनात्मत्वं न चेज्ज्ञायन्ते ब्ह्मण: सार्वज्ञहानिरित्याह-नेति ॥१४६॥ अ० ठी०-यद्यपि जीवा ब्रह्म तन्मायावित्वं च न जानीयुस्तथाऽपि ब्रह्म जीवाम- ज्ञांस्तद्वेदं च जानीयादिति ब्रह्मणो विविक्तजीवसिद्धौ जीवविविक्तब्रह्मसिद्धिरपि भविष्य- तीव्याशङ्काऽपि न कार्या तत्राप्युक्तविकल्पदूषणपसारादित्याह-ज्ञायन्ते चेदिति। स्पष्टोऽर्य: ॥ १४६ ॥ सु० टी०-ब्रह्मणो जीवा: स्वभिन्नतया स्वप्रकाशा इति केन्न
जीवा एते स्वप्रकाशस्वभावा निर्भासन्ते ब्रह्मणश्वेद्विभक्ताः । तेषां भेदः स्वप्रकाशो न वा स्या- द्दोषं बूमो दुर्निवारं द्विधापि॥ १४७॥ जीवा एत इति ॥१४७ ॥ अ० टी०-ब्रह्मणो मिन्नो जीव: स्वयंप्रकाशतया सिद्ध इत्यतो नोक्तदोष इति चेत्तत्राऽडह-जीवा एत इति। ब्रहणो विभक्ताः सन्तो निर्भासम्ते चेदित्यन्वयः। तर्हि विभागस्तेषां स्वप्रकाशो न वेति.वक्तव्यमिति विकल्पयति-तेषां भेद इति। दूषयति-दोषं बूम इति ॥१४७ ॥
Page 103
५३८ रीकाद्वयसमेतें- [ २ द्वितीयोऽच्याय: ]
सु० टी०-तत्राSSघयं दूपयति- तेषां भेद: स्वप्रकाशो यदीष्टः सत्त्यत्वं स्यात्तस्य तेषां तथैव। वेययोऽभीष्टस्तद्विभागो यदि स्या- चानज्ञात्वा तद्विभागो न वेयः ॥ १४८ ॥ त्नेषामिति। ततश्च मेदस्य सत्यत्वान्नाद्वैतसिद्धिरिति माब:। द्वितीयं दूषयति-वेद्य इंति। तान्धर्मिप्रतियोगिनो जीवान्। ततश्र तेषामपि वैद्यत्वाज्जाड्यमित्यर्थः ॥ १४८ ॥ अ० टी०-दुानवारदोषमेवाऽऽह-तेषामिति। तस्य भेदस्य चिदात्मवत्सत्य्त्वं स्यात्तेषां जीवानामपि तथैव सत्यत्वं स्यात् । यद्यपि जीवाः स्वरूपतः सत्यास्तथाऽपि जीवत्बोपाधिवैशिष्टयेन न सत्याः । स्वप्रकाशत्वे तु जीवत्वोपाधिरपि सत्यः स्यात्तथा च ज्ञानेन तन्निवृत्त्यभावादनिर्मोक्षप्रसङ्गो जीवभेदस्य च सत्यत्वेऽद्वैतमतहानिरिति भावः ॥ द्वितीयं कल्पमनूद्य दूषयति-वेद्योऽमीष इति। भेदस्य धर्म्यादिज्ञाननिरूप्यत्वात्तस्य वेद्यत्वे तद्विशेषणीभूतभेदिनामपि जीवानां वेद्यता वक्तव्या तदा च तेषां जडत्वादिप्रसङ्को दुर्निवार इत्यभिप्रेत्याSSह-तानज्ञात्वेति ॥१४८॥ सु० टी०-एवं जीवस्थापि जीवान्तरसिद्धिदूंषणीयेत्बाह- जीवाः सर्वे त्वां प्रति प्रस्फुरन्तः सम्यग्ज्ञानात्मस्फुरन्ति स्वतो वा। यद्ा मिथ्याज्ञानसामर्थ्यतोऽमी पक्षः कस्ते रोचते बूहि तन्मे॥। १४९॥ जीवा इति। उक्ता एव विकल्प: ॥१४९ ॥ अ० टी०-यथेश्वरस्य जीवतद्वेदज्ञानमुक्तन्यायासहिष्णुत्वादुर्वेटं तथा जीवानामपि जीवान्तरतद्वेदज्ञानं दुःशकमित्याह-जीवाः सर्व इति। स्व्रतो वा स्व्प्रकाशा द्वेत्यर्थः ॥ १४९ ॥ सु० टी०-तान्क्रमेण दूषयति सन्यग्ज्ञानादिति दाभ्यामू-
वद्वैतत्वं ब्रह्मणो न प्रंसिध्येत्।
Page 104
[२ द्वितीयोऽध्याय: ] संक्षेपशारीरकम्। ५३९
जीवाः सर्वे मां प्रति स्वपकाशा इत्युक्तिस्ते स्वानुभूत्या विरुद्धा ॥ १५० ॥ सम्यगिति । प्रामाणिकस्य जीवभेदस्य सत्यत्वादित्यर्थः । द्वितीये बाह-जीवा इति। अन्येषामपि तद्वत्सर्वजीवानुभवप्रसङ्गादित्यर्थः ।१५०॥ अ० टी०-विकल्पान्क्रमेण दूषयति-सम्यग्ज्ञानादिति। अद्वैतत्वं ब्रह्मणस्त- वाप्यभीष्टमिति शेषः। द्वितीयेऽनुभवविरोधमाह-जीवा इति ॥ १५० ॥ सु० टी०-तृतीये त्वेक एव जीव इत्याह- मिथ्याज्ञानाज्ीवभेदप्रसिद्धौ सम्यग्ज्ञानादबाध एवाभ्युपेय: । मिथ्याज्ञानादज्जुसर्पः पसिद्ध: सम्यग्ज्ञानात्तस्य बाधोऽपि सिद्धः ॥ १५१ ॥ निथ्येति। तेषां बाध्यत्वेन तदथं बन्धमोक्षव्यवस्थोक्तिरवि वृथे- त्यर्थ: । १५१॥। अ० टी०-तृतीयं निराकुर्वन्नाह-मिथ्याज्ञानादिति। सम्यग्ज्ञानवाध्यत्वे चः तेषां मिथ्यात्वाद्वन्धमोक्षभाक्तवं न स्यात्तथा च तद्वयवस्थास्थापनाय पक्षोद्धावनं तव. निरर्थकमिति भाव: । जीवाः सम्यग्ज्ञानबाध्या मिथ्याज्ञानसिद्धत्वाद्रज्ुसर्पवदिति व्यात्ि- माह-मिथ्याज्ञानादित्युत्तरार्घेन ॥ १५१॥ सु० टी०-एवं जीवानां बह्मविषयाज्ञानाश्रयत्वं ब्रह्म तु मायावी- न्यस्मिन्पक्षे निरस्तेऽस्तु तरहिं ब्रह्मण्येवाज्ञानं तत्रैव तस्य स्थितिना- शाभ्यर बन्धमोक्षाविति तृतीय: पक्ष इति चेत्तत्राSSह- एकोपाधावेकवस्तुप्रसिद्धौ भावाभावौ नेक्षितौ क्वापि लोके। पक्ष्यादीनामस्तिता नास्तिता च. व्योम्न्येकस्मिन्नप्यवच्छिन्न एव ॥१५२ ॥। एकेति। एकस्मिन्नधिकरण एकवस्तुनः प्रसिद्धौ सत्यां तस्पैव तत्र मावामावी न दृष्टो विरोधादित्यर्थः । दृष्टावेकस्मिन्निर्भागेऽवि व्योष्नि पक्षिणां मावाभावाविति चेन्नेत्याह-पक्ष्यादीनामिति। तावपि नैकस्मि- न्राकाशेऽपि तु किंचिदुपाध्यवच्छिन्नकल्पिततत्म्रदेश एवेत्यर्थः॥१५२॥
Page 105
५४० टीकाद्वयसमेतं-
अ० टी०-एवं पक्षद्यनिराकरणेन पारिशेष्यात्प्रत्यगात्मैक एव स्वप्रकाशतया सिव्यति तदास्पदश्चायं प्रत्यगविद्याविलसितो जीवेश्वरजगद्गेदभ्रमः प्रत्यक्चिदाभास्यतया सिव्यर्तत्यभ्युपेयमतश् जीवानामज्ञानित्वं ब्रह्म च तदज्ञानविषयस्तञ्च मायावीत्यादिकल्पना न संभवतीत्युपपादितमिदानीं ब्रह्मण्येवाज्ञानमेकं च तद्रह्मण्येवैकस्मिस्तस्य स्थितिनाशाभ्यां बन्धमोक्षव्यवस्थेति तृतीयः पक्षो य उत्प्रेक्षितः सोपि न युक्तिसह इत्याह-एको- पाधाविति। एकस्मिन्नधिकरण इत्यर्थः । एकवस्तुनः प्रतियोगिभूतस्य संबन्धितया प्रसिद्धौ भावाभावौ लोके क्वापि नेक्षिताविति योजना। न हि द्वारभेदं विनैकास्मिन्नेकस्यै कदा भावाभावौ कचिद्दष्टावित्यर्थः । तत्राSडकाशे विहगोऽस्ति नास्तीति सदुक्तं निदर्शन माशाड्क्य तत्रापि कल्पितप्रदेशभेदं द्वारं विना नास्ति पक्ष्यादिभावाभावावस्थानमित्याह- पक्ष्यादीनामिति। अवच्छिन एव केनचिदुपाधिनेति शेष: ॥l १५२ ।। सु. टी०-नन्ववच्छेदकोपाध्योरपि मावाभावावेकस्मिन्नेव द्वारं विनेति स एव दृष्टान्त इति चेत्तावप्युपाध्यन्तरावच्छिन्न एवेत्याह- सोऽवच्छेदोऽप्यस्ति नास्त्यम्बरे चे- तत्रान्वेष्यः सोऽप्यवच्छिन्नभोवः । सोऽवच्छेवोडप्यस्ति नास्त्यम्बरे चे- दबाढं सस्मिन्सोऽप्य्वच्छिन्न एव । १५३ ॥ सोऽवच्छेद झते। एवमुपाध्यन्तरयोरपि योज्यमित्याह -- स इति । बादमिति। तत्राप्यन्योन्यावच्छेद्संभवात्परैरपि संयोगाद्याधारतावच्छे- द्केषु तथाऽभ्यपगमादित्यर्थ्रः ।।१५३।। अ० टी०-ननु यदुपाधिव्यवच्छिन्ने नभस पक्ष्यादेर्भावाभावौ तदुषाध्यवच्छेदस्यापि भावाभावावेकस्मिन्नाकाश एव भवत इति स एवास्तु दृषन्त इति शङ्कते-सोऽवच्छे- दोऽपीति। तत्राप्युपाध्यन्तरावच्छिन एव नभस तौ स्तो न केवल इति परिहरति- तत्रान्वेष्य इति । अवच्छिन्भावोऽवच्छेदकान्तरेणवच्छिनतवं र्ही ्ैो धर्भीवा- भावावेकस्मिन्नाकाशे स्यातामित्याशङ्क्य तावपि पूर्ववदवच्छिन्नपदेशगतावेव भवेतामन्यत्र भावाभावयोर्निरुपाधिकैक स्मिन्ननुपलम्भादिव्याह-सोऽवच्छेद इत्युत्तरार्घेन ।। १५३॥ सु० टीo-तत्र शङ्कूते -- नन्वेवं स्याद्दुर्निवाराउनवस्था बाढं का नो हानिरिष्टैव साडपि।
१ क. 'व्यः कोडप्य०। २ क. भाग:।
Page 106
[ २ द्वितीयोऽप्याय: ] संक्षेपशारीरकम्। ५४१
कर्मोद्ूतं नः शरीरं शरीरा- त्कर्मोद्भूतिस्तत्र कि नेष्यते सा ॥। १५४ ॥ नन्विति। इष्यत एव सर्वैरहष्टशरीरयोरीदृश्यनवस्थेति परिहरति- .बाढमिति। वस्तुतस्तु संसारानादित्वव इ्वच्छेदप्रवाहे मानाभावादनुपपन्न- स्यापि मायावादिभिरतुभवमात्रेणाभ्युपगमान्नानवस्थेति रहस्यम्॥१५४॥ अ० टी०-तर्ह्यनवस्था दुरवस्थानेति चोदयति-नन्वेवं स्यादिति। अनादि- त्वाददृष्टमूलत्वाच् नेयमनवस्था मूलक्षयकरीति तामभ्यनुजानाति-बाढमिति। ताद श्या अनवस्थाया अन्यत्राप्यदोपतया दृष्टतवाच्च नास्ति दोषतेत्याह-कर्मोद्भूतमिति। कर्म धर्माधर्मलक्षणम्। कर्मशरीरयोः प्रवाहरूपेण कार्यकारणभावे यथाऽनवस्था न दोषाय तथाSन्राप्यवच्छेदकपरम्परायामनवस्था न दोषायेत्यभिप्रायः ॥१५४ ॥ सु० टी० -- मानाभावादृवि न ब्रह्म्यज्ञानस्य भावाभावावित्याह- किं चाज्ञानं ब्रह्मणोऽप्यस्ति नास्ती- त्येतत्कस्मात्वं विजानासि हेतोः । मूढोऽस्मीतिप्रत्ययादस्ति बुद्धि- र्मुक्ते दाहान्मोहनास्तित्वबुद्धि:॥३५५॥ किं चेति। अस्य निरशस्य। कस्मादिति। प्रागुक्तयुक्त्या न कुतो विज्ञायत इत्यर्थः। नतु स्वानुमवाद्ज्ञानसन्भ्रावो विद्वदनुभवाज्च तदभाव: सिध्यतीति शङ्कते-मूढ इति। अस्तिबुद्धिरस्तित्वबुद्धि: ॥ १५५ ॥ अ० टी०-कि च ब्रह्मण्यज्ञानस्य स्थितिनाशयोः साधकाभावाच्च न तौ तत्र भवेता- मित्याह-किंचाज्ञानमिति। अस्य ब्रह्मणोऽज्ञानमिति संबन्धः। प्रश्नं मत्वोभय- मप्यनुभवादेव जानामीत्येकदेशी शङ्ते-मूढोऽस्मीति। पूर्वें मूढोऽस्मीत्यनुभवाद- ज्ञानास्तित्वबुद्धिमुक्ते विदुषि मोहस्याज्ञानस्य दाहान्नास्तित्वबुद्धिर्न ह्यनुभवसिद्धेऽर्ये विवाद इत्यर्थ: ॥ १५६ ॥
मुक्तेडज्ञानं दग्धमित्येतदेवं कस्माद्वेतोर्वत्सि तत्कथ्यतां नः ।
१ क. नास्तीत्येवं क°।
Page 107
टीकाद्वय समेत- [र. द्वितीयोऽध्याय: ]
न्मुक्तेऽज्ञानं दग्धमित्यस्य सिद्धिः ॥ १५६ ॥ मुक्तेऽज्ञानमिति। दृग्धमिति। नास्तीत्यर्थः ॥१५६।। अ० टी०-तर्हि मुक्ते विदुषि तदज्ञाननाशे च साधकं किमपि वाच्यं तदसंभवान्न सात्सिद्विरिति मत्वाSडह-मुक्तेऽज्ञानमिति। प्रमाणादिति सम्यग्ज्ञानादित्यर्थः॥१५६॥ सु० टी० -- पक्षत्रयमपि पूर्ववदेव ूषयति- सम्य्ज्ञानान्मुक्तिसिद्धिर्यदीष्टा नूनं मुक्त: कुडचवत्ते जडः स्यातू।
स्रक्सर्पादिर्मुख्य एवैष मुक्तः ॥१५७ ॥ मुक्त्ो मह्ं स्वप्रकाशश्र्वकास्ती- त्येषा वाणी स्वानुभूत्या विरुद्धा। न ह्यथ्ुत्वा शास्त्रमेतन्मनुष्यः कश्विज्जानात्येष मुक्त: शुकादि: ॥ १५८॥। सम्यग्ज्ञानादिति द्वाभ्याम्। सम्यग्ज्ञानकर्मत्वे जडत्वान्न तस्य मुक्तत्वमाद्य- पक्षे मिथ्यासतस्य न मोक्ष इत्याह-मिथ्येति। द्वितीये त्वनुभवविरोध इत्याह-मुक्त इति। तमेव पतिरेकमुखेणाSSह-न हीति। शुकादिमुक्ति- बोधकशास्त्रमश्नुत्वेत्यर्थः ।। १५७-१५८।। अ० टी०-विकल्पोद्देशकमं विहायाक्रमेणैव दूषयति-सम्यग्ज्ञानादिति । यत्प्रमाणज्ञानात्सिध्यति तत्कर्मतयैव सिध्यति। न ह्यविषयभूतं वस्तु प्रमाणेनावगम्यते। तथा च सम्यग्ज्ञानात्प्रमाणतो मुक्तिसिद्धिरिष्टा यदि तदा वेद्यस्य जडत्वनियमान्मुक्स्ते मते. जडः कुडयवत्स्यादतश्च तस्य न बन्धमोक्षभाक्त्वमित्यर्थः । अथ विकल्पमनूद्य. दूषयति-मिथ्याज्ञानादिति। अ्मिन्पक्षे बन्धमोक्षभागिता तस्यासंभाविनी- त्यर्थ: ॥१५७ ॥ अ० टी०-तर्हि स्वप्रकाशत एव तत्सिद्धिरस्विति मव्यमं पक्षमनूद स कि ताट- स्थ्येन भासते प्रत्यक्रवेन वेति. विकल्पासहत्वादयमपि पक्षोन युक्त इत्याह-मुक्तो
१ क. क. शो प०।
Page 108
संक्षेपशारीरकम्।
मह्यमिति। मुक्तस्य ताटस्थ्ये तमन्यः स्वप्रकाशतया जानातीत्येतदनुभवविरुद्धमेव्र तटस्थस्य वैद्यत्वनियमात्। प्रत्यक्त्वं त्वन्यस्यान्यं प्रत्यनुभवविरुद्धमेवेति 'मुक्तो मह्यं स्वप्रकासश्ष- कास्तीत्येषा वाणी स्वानुभूत्या विरुद्धा' मृषा वागेषेत्यर्थः। ननु शुको मुक्त इत्यादिरूपेण मुक्तसिद्धे: प्रसिद्धत्वाद्गत्यन्तराभावात्स्वप्रकाशतयैव तत्सिद्धिरेष्टव्येति चेन्मैवं तद्विषयकागमप्रमाणमन्तरेण तत्सिद्धेरदर्शनादित्याह-न ह्यश्रुत्वेति। एष मुक्तः शुकादिरित्येतद्वस्तु शास्त्रं श्रुतिस्मृत्यादिलक्षणमश्नुत्वोपलक्षणमेतत् 1 स्थितप्रज्ञलक्षणं तथा मुक्तलिङ्गं वाडबुद्धा मनुष्यो देवेभ्योऽन्यः कश्चिन्न हि जानातीति योजना। तस्मादात्मनः परत्वं तस्य च विद्वख्वं मुक्तत्वं वा स्वाविद्याविलसितमेव यावदज्ञानं भवति स्वतत्त्वज्ञानो- दये तु सर्वमेव निवर्तते न किंचिदवशिष्यते मूलाभावादित्यम्युपेयमिति सिद्धम् ॥१५८॥ सु० टी०-मनउपाध्यवच्छिन्नेऽ्ज्ञानमिति चतुर्थ पक्षमनुाष्य दूष- यति- ताटस्थ्येनोपाधिमादाय मोह- श्र्वैतन्येडस्मिन्स्वप्रकाशे प्रविष्टः । तेनेह स्याद्वन्धमोक्षव्यदस्थे- त्युक्तं यत्माग्दूषणं तस्य सिद्धि: । १५९ ।।. ताटस्थ्येनोपाधिरङ्गं यदि स्या- न्मोहाविष्टेर्वरह्मणि स्वपकाशे। अगनिक्षेपस्योल्मुकं यद्वद्वेवं मोहस्य स्यान्न प्रदेशस्थितत्वम् ॥ १६०॥ तांटस्थ्येनेति द्वाभ्याम्। मनसोऽज्ञानाधारतावच्छेदकत्वे तदवच्छिन्नमात्र- वृत्तेरज्ञानस्य न वियदाखुपादानत्वसंभव उपलक्षणत्वे वा तदनवच्छि- श्र््ड्यज्ञानसत्यान्न व्यवस्थेत्यज्ञानस्य ब्रह्मणि प्रवेशे मनसो द्वारत्वं वाच्यमुलमुकस्थेवभ्नेर्गृहप्रवेशे तथा च तद्द्वारा प्रविष्टमज्ञानमग्निरिव गृहमात्रं कृत्सं ब्रह्म प्राशुयादिति न तत्र तदभावः स्यादित्याह-ताटस्थ्ये- नेति। मोहाविष्टेमोहावेशस्य ॥१५९॥१६०॥ अ० टी०-यः पुनर्मनउपाविद्दारा व्रह्मण्यज्ञानसंबन्ध उपाधीनां च भेदात्तद्द्दा- रेण ब्रह्मण्येव बन्धमोक्षादिव्यवस्थेति चतुर्थः पक्षस्तं दूषयितुमनुभाषते-ताटस्थ्ये- नेति। तेनेति। उपाधिनेत्यर्थः ॥ १५९ ॥
Page 109
टीकाइपसमेलं-
ब० टी०-दूषणमेवाऽह-ताटस्थ्येनेति । स्वप्रकाशे ब्रह्मणि मोहाविष्टेर्मोहा- वेशस्य: यद्युपाधिस्ताटस्थ्येनैवSSश्रयकोटावप्रविष्ट एवाङ्गं हेतुः स्यात्तदा ,मोहस्य न प्रदेश- स्थितत्वं स्यात्किं तु संपूर्ण एव ब्रह्मण मोहावेश: स्पादिति थोजना । तत्र दृष्ठान्तमाह- अिक्षेपस्थेति ॥ १६०॥ सु० टी-उक्तमर्थ हष्टान्सेन स्पष्टयति -- अग्निः क्षिप्तो ह्युल्मुकेन प्रदेश- मात्रव्यामिं वर्जयित्वा समस्तम्। वेश्म व्यामोत्येवमेवेह कत्स्नं ब्रह्म व्याभोत्याधिनाऽस्तं तमोऽवि॥ १६१॥ अभिरिति। आंधिनोपाधिद्वारेण। अस्तं क्षिपं तमोडज्ञानम् ॥ १६१॥ अ० ढी० -- उत्तदृष्टान्तं स्पष्टयन्दार्ष्टान्तिके योजयति -- अग्निः क्षिप्तो हीति। न खुल्मुकेन वेश्मनि क्षिंप्ोडगिर्वेश्मैकदेश एवावतिष्ठते कि तु समस्तं वेश्म यथा दृष्ठास्त एवमेवेह दार्ष्टान्तिक तत्तमोऽप्याधिनोक्तान्त:करणोपाधिना द्वारेण कृत्स्ं ब्रह्म व्यामोति न ब्रह्ैकदेशमतो न तन्निमित्ता व्यवस्थासिद्धिरित्यर्थः ॥१६१॥ सु० टी०-तस्मादुक्तपक्षाणां दुष्टत्वात्मागुक्तव बन्धमोक्षव्यवस्थाSS- भयणीयेत्याह- तस्माद्ह्लाविद्यया जीवभावं प्राप्याऽडसित्वा तावके तु. स्वरूपे। त्वच्चित्तेन स्पन्दितं जीवजात- माकाशादि क्ष्मावसानं च पश्येत् ॥ १६२॥' तस्मादिति। तावके स्वरूप आसित्वा त्वदूपेण स्थित्वेत्यर्थः। स्व्नि- तेन स्पन्दितं त्वद्विद्योस्थविकल्पितम् ।। १६२॥ अ० टी०-यस्माद्वह्मण्येवाविद्यामवेशो नापि तत्र द्वारापेक्षा प्रत्यग्रूपमेव ब्रक्म तादृश एव चिद्रूपे परिकल्पितानि जीवत्वान्यनन्तानि तथेश्वरत्वं तदुपाधिभूतकार्यकारणप्रपञ्चव्यवहा- रस्तद्रताश्च व्यवस्थाः सर्वा अपि त्वदविद्याविलसिता एव तस्य सर्वस्य त्वयि चिद्रूपेऽ्यासा स्वचिदाभासव्याप्ततया स्फुरणमित्यस्मन्मतमेव ग्राह्यमित्युपसंहरति-तस्माब्गह्मेति। आसित्वा स्थित्वा। त्वच्चित्तेनेति चित्तशब्देनाविद्योच्यते ॥ १६२ ॥ १ क. नातत्तमो।
Page 110
[ २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ५४५
सु०टी०-नन्वहमेव मद्वद्यया जीवश्चेरकुतो मे जीवत्वनिवृत्ति- न हि सा ब्रह्मविद्यां विना न हि विद्या वेदाचार्याद्युपायं बिना, नच मदन्यजीवाभावे तत्संभव इति प्रागुक्ताननुसंधानान्मह्यन्तं प्रति परागुक्त- मेव स्मारयति -- स्वीयाविद्याकल्पिताचार्यवेद- न्यायादिभ्यो जायते तस्य विय्या। विधाजन्मध्वस्तमोहस्य तस्य स्वीये रूपेऽवस्थितिश्वत्प्रकारो ॥ १६३॥ स्त्रीयेति। प्रत्यगविद्याकल्पिप्तेत्यर्थः । अत्र केचित्-एकाज्ञानप्रति- बिम्बितस्य जीवस्यैकस्वेऽप्यविद्याकार्यानन्तान्त:करणावच्छिन्नस्य तस्या-
क्षब्ह्मविद्योदेति स आचार्य इति। ताहशे विदुष्यन्योपाध्यवच्छिन्नानां स्वस्वकार्यार्थमनुवृत्तिर्घटते। नचैवं जीवभेद एकस्यैवाविद्याप्रतिबिम्बस्य तत्तदुपाधिना युगपत्क्रमाद्वा विद्यार्थ प्रवृत्तिसंभवादाचार्योऽपि तान् वस्तुतः स्वामिन्नत्वेन जानन्नपि तत्तवृवच्छिन्ने विद्योत्पादार्थमुपदेक्ष्य- तीति योजयन्ति। तत्तु उ्यावहारिक मशानमेदस्याप्येकजीववादिभिरनङ्गी- कारात्प्रकृतासंगतमित्येव योज्यमू। सत्यं वस्तुतस्तु त्वदन्यो गुर्वादि- रनास्ति तथाऽपि यथा स्वाप्निकादृपि गुर्वादेर्मन्त्राविलाभेन कृतार्थता मवत्येवं त्वद्रपापन्नस्यापि ब्रह्मणस्तदीयाविद्याकल्पिताचार्यवेदन्याये- म्यो विद्यापाप्तिः। ततश्र क्षीणायामविद्यायां ( * जीवत्वं विहाय स्वस्वरूपवस्थितिर्भविष्यतीति न किंचिवनुपपन्नमिति।१६३ ।। अ० टी०-यस्वज्ञानि ब्रह्म बुद्धीरनुसरतीति पञ्चमः पक्षस्तत्रापि निर्द्वारं ब्रह्मण्येवा- विद्यायाः स्थितिनाशाभ्युपगमे व्यवस्था न सिध्यति ब्रह्मण्येवैकस्मिन्नखण्डे तत्प्रवेशात्, यदि बुद्धिद्वारभेदादविद्या ब्रह्म प्रविशति बुद्धिभेदाच्च व्यवस्थेत्यम्युपगमस्तदा बुद्धेरुल्मुकवद्द्वा- रमात्रत्वे ताटस्थ्यान्न तद्वशाव्यवस्थासिद्धिः । न च तटस्थाऽपि बुद्धिर्रह्नण्यवि- 'दाभावाभावयोर्नियामिका पशुत्वमिव दृतिहरिशब्दवृत्तेरिति वाय्यम् । तत्र दृतिहरणक-
नियामकत्वोपपत्तेः । अत्र तु ब्रह्मण एकत्वाननिरंशत्वाच्चोपाधिरपि कुत्राविद्याभावा- भावौ नियमयेत्तस्मादयमपि पक्षोऽत्रासंगत एवेति पूर्वोक्तदूषणेनैव दूषित इति। तथा * खपुस्तकस्थोऽयं ग्रन्थः ।
Page 111
५४६ टीकादुषसमेतं- [२ द्वितीयोऽण्याय: ]
षछ्ठसप्तमयो: पक्षयोरपि दूषणं स्फुटमेव । हरेर्मायाशक्तेः प्रत्यगविद्यातिरिक्ताया अवगमहे- सुविकल्पदूषणानाभिहापि प्रसरादीशमायासिद्धौ च जीवेषु तदीयसंकोचविकासासिद्धे: षष्ठे पंक्षे व्यवस्थाया नैव सिद्धिः । सल्वमेऽपि पक्षेऽनादयज्ञानानभ्युपगमे भ्रमतत्संस्कारयोरु- पादाबासरभवादसिद्धि: स्यात् 1 न च तयो: परस्परोपादानता बीजाङ्करयोरिवेति युक्तं गुपत्बाभिमतयोरुप्रादानत्वायोगात्। कार्यस्य स्थितस्य वा कार्यान्तरं प्रत्युपादानत्वासंभ- चाच्च: न चाउडत्मैन्रोपादानमस्तीति वाच्यम् तथासत्युपादाननिवृत्तिमन्तरे कार्यप्रत्ा- हस्याऽऽत्यन्तिकनिवृत्त्यसंभवादात्मनश्च नित्यत्वादनिवृत्तेः संसारमोक्षणाभावप्रसङ्गात्। अवि- कृतस्य कूटस्थस्योपादानत्वादर्शनादात्मनो भ्रमसंस्कारोपादानत्वे विकारित्वापत्तावनित्यत्वा- दिदोघप्रसङ्ग इत्यादिदूप्रणमणोऽतिस्फुट एवेति नैतेषु पक्षेपु प्ृथग्दूषणमाचार्येणाभिहित- मित्रि। यद्येवं सर्वस्यापि जीवाजीवभेदम्रपञ्चस्यैक्वचचिन्मात्र विषयांश्र यैका विद्याकल्पितत्व मि ति मवं तदाSSचार्याद्यभावाव विद्याप्रांततिः । न च विनैवाSचार्यादिना विद्या सिध्यति। आचार्यवान्पुरुषो वेद ' [छा० ६।२४।२] ' तदविद्धि प्रणिपातेन परिप्रश्नेन सेचया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्त्त्वदर्शिनः ॥ [भ० गी० ४। ३४ ] नावेदविन्मनुते तं बृहन्तम् ' इत्यादिश्रुतिस्पृतिन्यायैराचार्यादिपूर्वकत्वावग· मादिद्याप्राप्तिरिति चेत्तत्राऽडह-स्वीयाविद्येति। स्व्राज्ञानकल्पितजगत्परमेश्वरत्वजी- चत्वभेदकलुषीकृतभूमभावेत्यत्र चिदात्मस्वरूपव्यतिरित्तस्य सर्वस्य चिदाश्रयविषयाविद्याक- ल्पितत्वं पूर्वमेव प्रसाधितं तस्मादाचार्यादीनि ज्ञानसाधनान्यन्यस्य जिज्ञासो: स्वीयांबिद्याक- ल्पितानि। आदिपदाच्चित्तसमाधानं गृह्यते। एतेभ्यस्तस्य जिज्ञामोर्विद्या जायते। एवं विधमेवाSSचार्यादिकमभिप्रेत्य श्रुतिस्मृतिवादाः प्रवृत्ता इति नात्र काऽप्यनुपपत्तिरियर्थः। कल्पितकारणेम्यो जाता विद्याऽषि कल्पितैवेति सा न किंचित्करीति च न शङ्का' कार्ये- त्याह-विद्याजन्मेति। विद्योदयानान्तरीयकतयैव मोहध्वस्तिः प्रकाशस्य स्विरोध्यु पमर्दोदयस्वभावत्वदर्शनात्। अतः स्वरूपसत्यत्वाभावेऽपि विषयावभासात्मनैवोदयाद्विष-
पुंसो भवतीति समर्थैव घिद्येत्यर्थः। एतदुकतं भवति-अत्र कल्पितत्ववचनं न समशु- क्िरजतादितुल्यविषयं: तथा सति समर्थार्थक्रियासंभवात्। न च समर्थतेनैव कल्पनाSपीति वाच्यम्। निरविष्ठानकल्पनायोगात्स्वेच्छामात्रकल्पिताच्चाSSचार्यादेः कार्यादर्शनात्। अतो व्यावहारिक प्रमाणाभिमतेनैव ज्ञानेन सर्वधिकल्पाधिष्ठानं ब्रह्नैव ब्रह्मवित्तया कल्पितमाचार्यो वेदाद्यात्मना च कलपितं प्रमाणादिरपि यथाऽज्ञत्वेन परिकल्पित ब्रह्ैव शिष्यः । तस्माद्यथा शिष्यः स्वाविद्याकल्पितमाचार्य ह्वैतं च पश्यति तथा चाSऽचार्योडपि ब्रह्मविद्या
Page 112
[२ द्वितीयोऽच्याय: ] संक्षेपज्ञारीरकम् । ५४७
बाधितया प्रारन्धकर्मशेषवशादनुकर्तमानया स्वाविद्यया शिष्यमन्यच्च पश्यति। दृष् च तस्य बन्धोच्छेदाय तत्त्वमुपदिशनीति न मुक्तस्य भेददर्शनाभावेनोपदेष्टत्वाभावशङ्काडपि। तस्माद्वलैव चिदात्मकं स्वाविद्याकल्पितानेकद्वैतप्रपभ्नं तच्छरीसदयुपाधिवशादापन्रगुरुशिष्या- दिभावं स्वत एव विद्यामुत्पाद्य स्वाविद्यां तया प्रबाध्य निवृत्ताशेषद्वैतबन्धं स्वरूपावस्थितं भवतीति। तथा चोक्तं प्राक्-'सकलवाङ्मनस्तिगता. चितिः सकलवाड्मनसव्यवहार- भाकू' इति ॥ १६३ ॥
सु० टी०-नन्वहमज्ञ इत्याद्यविद्याया) जीवाथयत्वानुमवात्तथाऽचा- वैरपि कस्येयमविद्या यसतवं पृच्छसीत्यादिमाव्ये जीवस्पैवाज्ञानाभिधा- नात् कथं स्वीयाविद्यानाशातस्वीय रुपेऽवस्थितिरिति बह्माअयविषय- त्वोक्तिरिति चेत्तताSSह-
अज्ञानि बह्म जीवो भवति भवति च स्पष्टमज्ञानमस्य प्रागस्पष्ट सदन्तःकरणनिपतित ज्योतिराभासयोगात्। चैतन्यैकप्रतिष्ठं स्फुरति न हि तमस्तादृशं यादृशं त- द्बुद्धिस्थाभसनिष्ठ स्फुरति तदुचिवं जीवमौढ्य्याभिधानम्।
अज्ञानीति। ब्रह्मैव स्वविषयाज्ञानाभ्रयस्ततपतिबिम्बाज्जीवो मवति न तु जीवो भूत्वा पश्चाद्ज्ञानवानज्ञानकार्याहंकाशवच्छिन्नस्पाज्ञानाश्रय- विषयत्वायोगादित्युक्तत्वादित्यर्थः । कथं तर्हयहमज्ञ इतिधीरिति तत्रा- SSह-भवति चेति। अस्य जीवस्य प्राक्सुपुप्तादावस्पटट सदज्ञानं जाग्र- दादावन्तःकरणाध्यासे सति तन्निपतितचिदाभासयोगेन स्पषट सवि- कल्पकं मवत्यहमज्ञ इतीत्यर्थः । तर्ह्यस्पट्टानुभवे मानामावान्न शुद्धचि- दाभयं तदिति चेन्न सुषुप्तादी तन्भ्वानस्य साधितत्वादित्याह-चैतन्यै- केति। बुद्धिप्रतिबिम्बितचित्निंषठ तद्यथा स्फुरति न तथा चिन्मान्रनिष निर्षिकल्पकत्वादित्यर्थः। ततक्ष स्पष्टानुभव निबन्धनमेव माष्यादी जीव- मौठयाभिधानमित्याह-तदिति ॥ १६४।। अ० टीवे-तदेवमेकाविद्याविल सितमेव समरतं द्वैतम विद्या च क्रह्माश्रयविषयेति प्रति- ष्ठापितं तत्राSSचार्यग्रन्थेषु कचिज्जीवस्याज्ञानमभिमतमैति प्रतिभाति कस्याविद्या यस्तवं
Page 113
५४८ टीका छ्ुय समेतं- [ २ द्वितीयोऽच्याय: ]
पृच्छसि तस्य त इति बदाम इत्यादिभाष्यवाक्यदर्शनादत्तस्तस्य गतिर्वाच्येति चेत्त- त्राSडह-अज्ञानि ब्रह्मेति। ब्रह्म चिन्मात्रमज्ञान्यनाद्यज्ञानसंबन्धि जीवो भवति संसारी जायते। एतदुक्तं भवति-अज्ञानं ह्यावरणविक्षेपरूपाकारद्वयवत्। तत्र ज्ञानाप- नोदत्वमावरणाकारः । सर्वकार्यानुगतजाड्यं विक्षपाकारः । यदाSडवरणात्मना चिदात्म तत्त्वमाच्छादयैवावतिष्ठते न तदाऽडमनि जीवेश्वरजगद्भेदाभासो यथा सुषुप्तिप्रलययोः। यदा तु विक्षेपात्मना विवर्तते स्वाधिष्ठानमेवान्यथा प्रथयति तदा यथोक्तमेदावभासः । तत्र यदा स्वाज्ञानाचिदात्मनो ऽज्ञानात्कल्पितान्तःकरणगतचिदाभासद्वारेण तदविविक्ततयाऽह- मस्मीत्यभिमानो भवति तदाऽज्ञानि ब्रह्म चित्स्वरूपं जीवो भवति जीवत्वमनुभवतीति। यथा च चिन्मात्रगतमेवाज्ञानमन्तःकरणोत्पत्तेः प्राक् सुषुप्त्यादावस्पष्टमज्ञानत्वेनानभिव्यक्तं सदन्त:करणनिपतितज्योतिराआसयोगादस्य चिदात्मनोऽज्ञानं सष्टं च भवति। चिन्मात्र गतत्वेन नाजानं स्पष्ट भवति चिदात्मनो निर्विकल्पकत्वादन्तःकरणगताभासद्वारेण लब्ध- विशेषं तु स्पष्ट भवति। अहं न जान इत्येवंरूपेण हि स्फुटमज्ञानं भासते न चिदज्ञमिति। तदेतदाह-चैतन्पैकति। सत्तस्माद्भाष्यकारस्य जीवमौढ्याभिधानमुचितमहं न जाना. मीति विशेषस्फुरणाभिप्रायं भाष्यवचनमित्यर्थः ॥ १६४ ॥ सु० टी०-जीवमौट्याभिधानोपपाद्कतन्द्ाने वैलक्षण्यान्तरमाह- अज्ञानं जडशक्तिमात्रवपुषा जीवाद्बहिः सिध्यति जीवारूढमहं न जान इति तु ज्ञानापनोय्यात्मना। संसिद्धिं प्रतिपथते तदुचितं जीवाज्ञताभाषितं द्वैरुप्ये सति रूपमेकमनिशं भात्येवमन्यन्न हि॥ १६५॥ अज्ञानमिति। जडशक्तिर्बह्मपरतन्त्रमायात्मिका तदात्मना जीवा दहि - रहंकारानवच्छिन्नचिदात्मन्यज्ञानं स्फुरति। जीवाश्रितं पुनरहं न जान इत्याकारेणैव कथमिति चेत्तताSSह-ज्ञानेति। अज्ञानं हि प्रमातृ- गतेन ज्ञानेन बाध्यत्वात्तत्रैव ज्ञानविरोधित्वाकारेण स्वस्वमावेन सिद्धिं लभते। ब्रह्मणि तु स्वबाधकज्ञानाश्ये जडशक्तिमात्रतवेनैव सिध्यतीत्य- तोऽपि विशेषाज्ीवाज्ञत्वाभिधानं युक्तमित्यर्थः ।(* कथं जीवेऽवि ज़ड- शक्तित्वेन न भातीति चेत्तत्राऽडह-द्वैरूप्य इति। अज्ञानद्वैरूप्ये सत्युक्त- युक्त्याउज्ञानरूपं नित्यं साक्षिभास्यमन्यतु जाड्यं न तथेत्यर्थ:)॥१६५॥
- क. पुस्तके नायं अन्थः।
Page 114
[ २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्।
अ० टी०-यदि चिन्मात्रश्य निर्विकल्पकत्वात्तदाश्रयं सदज्ञानमाफुट कार्येण तह्वता- भासेन चोपरागात्सविकल्पकं च भवेत्तर्ह्यन्तःकरणादन्यत्राSSकाशादावपि सविकल्पं भासे- तेति चेत्तत्राऽह-अज्ञानं जडेति। जीवाद्वहिराकाशादावप्यज्ञानं सिध्यति भासत एवेति यावत्। केनाऽऽकारेणेत्युच्यते जडशक्तिमात्रवपुा सर्वकार्यानुगतजाड्यात्मनेत्यर्थः । जीवारूढं त्वहं न जानेऽहमज इत्येवं ज्ञानापनोदात्मना ज्ञानपर्युदासस्वरूपेण ज्ञानविरो व्याकारेण संसिद्धिं प्रतिपद्यते स्फुरणगोचरतामुपैति। तथा च जीवे तद्वहिश्वाज्ञानं यद्यप्यस्ति तथाऽपि यथोक्तद्वैरूप्ये सत्येकं ज्ञानापनोद्याकाररूपं भाति यथा स्पष्टमेवमन्यद्रूपं जडशक्त्या कारं हि यस्मान्न भाति तत्तस्माज्जीवाज्ञताभाषितमुचितं भाष्यग्रन्थ इति योजना ॥१६५॥ सु० टी०-जाड्यरूपं तु ब्रह्मण्पेव मासितुमर्हतीत्याह- जडशक्तिमान्रवपुषा गगनश्वसनादिकार्यजननी भवति। पुरुषोत्तमस्य वशवर्तितया प्रकतिः परस्य जगदेकगुरोः॥१६६॥ जडशक्तीति। अविद्या हि जडशक्तिमायात्मना गगनादिपपञ्चजननी मवतीति तथैव सेश्वरेण हश्यत इत्यर्थः। तार्है सांख्याभिमतप्रधानान्न मिद्येतेति चेन्नेत्याह-पुरुषोत्तमस्येति। जडत्वेन स्वातन्त्रपामावादेवाSSतम- शक्तिमिति चाSSत्मशक्तिलेन भ्रवणात्सत्तास्कृत्वर्थक्रियासामथर्येषु सर्व- ज्ञचैतन्यपरतन्त्रैव सा प्रवर्तत इति न स्वतन्त्रप्धानत्वेनाSडशङ्कू . नीयेत्यर्थः ॥ १६६॥ अ० टी०-अज्ञानस्योक्ताकारभेदे प्रमाणमाह-जडशक्तिमात्रवपुषेति। प्रकृति- र्जगदुपादानमज्ञानं जडशक्तिमात्रवपुषा विक्षेपशक्तिप्रधानाकारेण गगनश्वसनादिकार्य- जननी भवतीति योजना। जडकार्यदर्शनात्तत्कारणं जडप्रधानमवसीयते कारणानुरूपत्वा- त्कार्यस्येत्यर्थः। न चैतावता प्रधानवादाश्रयणप्रसक्तिरित्याह-पुरुषोत्तमस्य वशय- रतितयेति। सत्तारफुरणार्थक्रियास चिदात्मपराधीनत्वेन कार्यकरी न स्व्ातन्त्र्येणेत्यङ्गी- कारान् प्रधानवादप्रसक्तिरित्यर्थः । तथा च श्रुतिः-'यस्तमसि तिष्ठंस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयति'[बृ० ३। ७।१३] इति। परस्येत्यादि पुरुषोत्तमविशेषणद्दयं पुरुषोत्तमत्वसाधकं क्षराक्षराम्यां परस्येत्यर्थः । 'उत्तमः पुरुषस्त्वन्यः' [भ०गी० १५/१७] इति स्मृतेः 'सर्वस्य चाहं हृदि संनिविष्टः' [गी० १५। १५] इति स्मृतेश्वार्थ स्मृत्वा जीवान्तर्याभित्वेन पुरुषोत्तमत्वं तेन तवाने- नोक्तम् ॥ १६६ ।।
Page 115
४५०. टीकादुयस मेतं- [२ द्वितीयोऽभ्याय]
सु०टी०-अस्तु तहहि जीवगतावरकाज्ञानादन्यदेव जाड्यं लक्षणभे- दादिति चेत्र वैलक्षण्यस्व कार्यभेदपयुक्तत्वादमेदानुमानस्य च वक्ष्य- माणत्वादित्वाह- इयमेव सर्वजननी प्कति- वंशिनी शरीरिणमिमं पुरुषम् । अधिरुह्य जीवमहमज्ञ इति स्फुरणैकगोचरवपुः स्फुरति ॥ १६७ ॥ इयमेवरेति। प्रकृतवेत्यर्थः । अमुं जीवमधिरुह्याSSश्रित्य वशिन्यावरण. शक्त्या स्ववशं कुर्वाणा स्वपकाशमपि पूर्वरूपं तिरस्कृत्याहमज्ञ इति ज्ञानापनोद्यात्मना स्फुरति जीवस्य जगदुपादानत्वाभावेन तत्र जड- शक्तिरुपेण मानासंभवादित्यर्थः। स्फुरणकगोचरवपुर्यथा स्वादिति । १६७ ॥ अ० टी०-अज्ञानस्य जड़ात्मतामुपपाद ज्ञानापनोद्यात्मत्वमुफ्पादयतिइयमे- वेति। इयमेव प्रकृतिर्जीवमिमं पुरुषमधिरह्यति संबन्धः । कार्यभूतान्तःकरण्गतचिदा- भासाविवेकद्वारा कार्यात्मभावमागतं चैतन्यं जीवः स एव पुरि शमनातपुरुषस्तमिमं संनिहि- तमपरोक्षं च शरीरिणं शरीरेडभिव्यज्यमानत्वाच्छरीराभिमानित्वाद्दा शरीरक्तं जीवं पुरुष- मधिरुह्य कार्यान्तःकरणद्वारेणाSSरुह्य परिच्छिन्प्रतिभासयोग्यं वृत्वेति यावत्। वशिनी स्वकार्यान्तःकरणतद्विकारैस्तं वशीकुर्वती स्ुरणैकगोचरवपुः साक्षिमात्रविषयरूपा सत्य- हमजो मूढ इत्येवं ज्ञानापनोदात्मना रफुरति जीवेनाSवरणरूपेण ज्ञानापनोद्याकरेणाSS- विर्भवति चिदात्मनः स्वविरोधिरूपावभासं स्वतो नित्यं प्राप्तमपि तिरस्कुर्वती स्फुरतीत्यर्थः । अज्ञानस्याऽSवरणात्मकं रूपमनुभवसिद्धमित्युक्तं भवति ॥१६७ ।। सु० टी०-जीव प्रति ज्ञानापनोद्यतया स्फुरति नेश्वरं प्रतीत्यत्र युक्त्यन्तरमाह- चितिशक्तिवाधितवपुः परमं पुरुषं प्रति स्फुरति सा पकतिः । चितिशाक्तवाधकवपुः पुरुष पुरवर्तिनं प्रति पुनः स्फुरति ॥१६८॥ चितीति। अज्ञानं हि यं प्रति वस्तुस्वरूपमावृणोति तेनैव न जाना- मीत्यनुभुयते । न च नित्यसर्वज्ञेश्वरं प्रति तद्ावृणोबीति तं पति
Page 116
संक्षेपशारीरकम्।
स्वरूपचिच्छवत्वा बाधितरूपैय जडशक्तित्वेन तुच्छतया पारतकषेण स्फुरति स्थलसूक्षमशरीरट्टपनवच्छिन्नं तु जीवं प्रति न जानामीति स्वस्वरूपावरकत्वेन स्वतन्त्रमिव स्फुरतीत्यर्थः ॥। १६८॥ एकस्यैबाज्ञानस्य चैतन्यमेकमेव प्रति स्वातन्त्र्यपारतन्त्र्ये किंकते इत्यपेक्षायामाह- चितिशक्तीति। चितिस्वरूपमेत्र शक्तिः चितेः सर्वाधिष्ठानत्वेन कारणत्वाच्छक्तित्वमु- पचर्यते। सा प्रकृतिश्चितिशक्ता ब्रह्मणः स्वाभाविकेन स्वरूपेण बाधितवपुरभिभूतस्त्र- रूपा सती परमं पुरुषं प्रति स्फुरति। एतदुक्तं भवति यद्यदधीनसत्तास्फूर्तिकं तेन तन्न परमार्थतोऽभिभूयते यथाSSरोपितेन रजतेन शुक्तिस्वरूपं तथाSत्राSSविष्कृतचैतन्याधीन- सत्तास्फूर्तिकेनाज्ञानेन न चैतन्यस्वभावोडभिभूयते। तस्याभिभवे स्वस्प सत्तास्फुरणयोरलं- भवात्। किं तु चिदात्मना स्वाभासविक्षेपद्वारा तस्याSSवरणाकार: स्वस्मिन्नभिभूयते। एत· दस्य चितिशक्तिबाधितत्वं न निवृत्तिनैसर्गिकत्वेन सह वृत्तेरत ईश्वरोऽहमज इति न मुह्य- तीति । जीवे तु विपरीतमित्याह-चितिशक्तिबाधकवपुरिति। अक्षरार्थस्त्वति- रोहितः। कार्यस्यान्तःकरणादेः कारणपरतत्नत्वात्कार्यमात्मत्वेनाभिमन्यमानस्याज्ञानपारतन्त्रयं
शुक्तिसत्तायाः शुक्त्यज्ञानेनाभिभूतस्वभावता। तदिदमुक्तं-चितिशक्तिबाधकवपु- रिति। तथा च कार्यकारणोपाधिद्वयकृतेऽज्ञानस्यैकस्थैकस्मिश्चिदात्मनि स्वातन्त्र्यपारतत्र्ये इत्यभिप्रायः ॥ १६८॥ सु० टी० -- इयमेवेत्यादिनोक्तं मायाविद्ययोरभेदं साधयति- दृश्यत्वजाड्यपरतन्त्रचिदाश्रयत्वै- रमायेश्वरस्य तमआत्मतयाऽनुमेया।
दिक्चन्द्रविश्रममरीचिजलोपमानैः ॥ १६९॥ दश्यत्वेति। ईश्वरमाया जीवाज्ञानाभिन्ना चिद्धास्यत्वास्वप्रकाशत्वा-
। १६९ / अं० टी०-ननु जडशंक्त्यात्मकं मायाख्यमीश्वरेSज्ञानमन्यदेवान्यच्ाSडवरणशक्त्ाखय- मज्ञानं जीवगतमिति हि वदन्ति युक्तं चैतद्विरुद्रूपयोरेकांत्मत्वासंभवादिति नैवमैक्यानुमान- विरोधाद्वेदासिद्धेरित्याद-हश्यत्वेति। ईश्वरस्य माया दृश्यत्वादिमिर्हेतुभि: स्वम्प्रश्थ्ादि-
Page 117
५५२ टीकाटयसमेतं- [ २ द्वितीयोऽच्याय: ]
दशन्तैस्तम्रभत्मतयाऽज्ञानात्मतेनानुमेया। न हि दृश्य जडे परतब्नं चिदाश्रयं च यथो- क्ताजानस्वभाक्मतिवर्तते। न च पक्षे दैश्यत्व्ादभावोऽपि चिर्स्वरूपातिरिक्ते तत्संभवादि- त्यर्थः । बहुदृष्टान्तोपादानं व्याप्तिदृढीकरणार्थम् ॥ १६९ ॥ सु० टी०-कार्यपक्षकमनुमानान्तरमाह -- एकाज्ञानविकल्पितं सकलमेवाSSकाशपूर्व जग- द्वाध्यत्वादिह ययदीदृशमदस्ताद्ृङ्मतं स्वभवत्। बाध्यं चेदमभीप्सितं भवति वस्तस्मादिदं तादशं शुद्धं धूमवदेव साधनभिदं तत्पाञ्चरूप्यान्वयात् ॥ १७० ॥ एकेति। आकाशादि सक्सर्पान्तमेकाज्ञानकल्पितं तत्त्वज्ञानत्वप्रयुक्त- निवृत्तिप्रतियोगित्वात्स्वप्रवत्। यदीदशं बाध्यं तत्ताहमेकाज्ञानकल्पि- तम्। इदमाकाशादि। वो वेदान्तिनाम्। हेतोरसिद्धयादिविरहमाह- शुद्धमिति। 'नेह नाना' [बृह० ४।४।१९] इत्यादिभिवय्यत्स्वमादे- र्वध्यत्वसिद्धेः। पाश्चरूप्यं पक्षधर्मत्वादिना। नाज्ञानसिद्धचार्डर्थान्तर- वांरणायैकेति॥१७० ॥ अ० टी०-अनुमानान्तरमाह-एकेति। पूर्वत्र मायापक्ष इह तु कार्यमाकाशादीति पक्षभेदादनुमानभेदः । बाध्यत्वमधिष्ठानत्त्वज्ञानापनोद्यतवमेतद्दृश्यत्वादेरप्युपलक्षणम्। आका- कपूर्व सकलमेवर व्यावहारिकप्रमाणोपनीतं जगदेकाज्ञानविकल्पितमेकाज्ञानकृतमिति प्रतिज्ञा ।' एकत्वविशेषणमनेकाज्ञानपक्षमादायार्थान्तरत्वशङ्काव्यासेधार्थम्। अज्ञानमिति जगत्कार- णस्य स्वतत्रमायाशङ्काव्यावृत्यर्थम्। यद्वैकेति मायाविद्याख्यस्वरूपभेदराहित्यं विव- क्षितं न प्रत्यगज्ञानान्येशमायाविकल्पितमित्युक्तं भवति। व्याप्तिमाह-इह यद्यद्ी- द्रशमिति। हेत्वसिद्धिं परिहरति-बाध्यं चेदमिति। चेच्छन्दोऽसंदेहे संदहवचनो यदि वेदाः प्रमाणमितिषत्। 'परेऽव्यये सर्व एकी भवन्ति'[मुण्ड० ३। २।७ ] 'अत्र ह्योते सर्व एकं भवन्ति' [बृह० १।४।७] 'नेह नानाऽस्ति किंचन' [ बृह० ४ । ४ । १९ ] इत्यादिश्रुतिभिर्विद्वदनुभवेन च सकारणस्य जगतो बाध्यत्वा- दित्यभिप्रायः । उपनयनिगमने आह-तस्मादिदं ताद्टृशमिति । एषामनुमानानां संक्षेपेणSSभासानुद्धरति-शुद्धमिति। धूमवद्धूमानुमानवदिदं साधनं बाध्यत्वादिरूपं शुद्धं निर्दुषटं तत्तद्वत्पांञ्चरूप्यान्वयात्पक्षधर्मतवादिपश्चरूपोपेतत्वादित्यर्थः । अनेनान्व्र- यव्यतिरेकत्वमेषामनुमानानां व्यतिरेकव्याप्तावात्मा दृष्टान्तः ॥ १७० ॥ सु० टी०-मनु 'आत्मन आकाशः संभूतः' [नेति० २।१।१].
Page 118
[ २ द्वितीयोऽध्याय: ] संक्षेपशारीरकम्। ५५३
इत्यादिश्रुतिविरुद्धं जगतोऽज्ञानहेतुकत्वानुमानमित्याशङ्क्य निराक रोति -- अनुमानमागमविरुद्धमिदं प्रतिवादिनो यदि मतं तदसत्। न तमोऽतिरिच्य जगतो जनक- प्रतिपादकं वचनमस्ति यतः ॥ १७१॥ अनुमानमिति। हुतोऽसदित्याह-न तम इति। आत्मनः कूटस्थस्य परि- णामासंभवात् 'इन्द्रो मायाभिः' [बृ० २ । ५ ।१९] इति च मायापरिणामत्वभ्ुतेः 'त्म आसीत्' [क० सं० ८।७।१७] इत्या- दिश्रुती चाज्ञानस्य जगत्कारणत्वश्रषणादज्ञानमाययोश्षाभेदान्नागमवि-
अ० टी०-ननु 'मायां तु प्रकृतिम्' [श्वेता० ४। १०] इत्याद्यागमानामज्ञा- नव्यतिरिक्तजगदुपादानमायाभिधानत्वात्तैर्ाधित विषयाण्यनुमानानीति शङ्गित्वा परिहरति- अनुमानमिति। तदसदिति दूषणप्रतिज्ञायां हेतुमाह-न तम इति । 'नासदा- सीन्ो सदासीत् ' इत्युपक्रम्य 'तम आसीत्' इति तमस एव जगद्वीजत्ं स्पषट प्रद- इर्थते। तमश्चाज्ञानमेत्र श्रुतिषु श्रूयमाणभिति तदेव कचिन्मायाSक्षरमव्यक्तमसदव्याकृतमि- त्यादिशव्दैरभिलप्यते। अतस्तमोव्यतिरेकेणार्थान्तरं जगज्नकमस्तीति प्रतिपादकं वेदवचनं नास्ति। तस्मान्मायाश्रुतिनानुमानबाधिका। अत एबात्रोपाधिशङ्काडपि न यत इति तम आसीदित्यादिश्रुतिभिर्विरोधादिति भाव: ॥ १७१ ॥ सु० टी०-नन्वज्ञानक्षोभिकेश्वरशक्तिमाया सा य नाज्ञानं कि तु क्षोषत्वादज्ञानसहकारिणीति केन्न दोपान्तरानपेक्षस्यैवाज्ञानस्य जग- द्द्वेतुत्व मित्युक्तत्वादित्याह- विषयकरणदोषान्न भ्रमः संविदि स्या- दपि तु अवति मोहात्केवलादेवमेव। भगवति परमात्मन्यद्वितीये समस्त- द्वयमतिरियमस्तु भ्रान्तिरज्ञानहेतुः । १७२॥। विषयेति। कालाश्मकं चैतन्यमेव मापाक्षोभकं नान्यडिति भाव:। पूर्वमेव व्याख्यातमन्यत्॥१७२ ॥
Page 119
५५४ टीकाद्वप समेतं- [ २ द्वितीयोऽध्याय: ]
अ०टी०-नन्वज्ञानं चेदुपादानं तर्हि सस्य क्षोभकतया सहकारि किचिदम्युपेयं काचादिस्थानीयं तच्चाभ्युपगम्यमानं श्रुतिस्मृतिप्रसिद्धेश्वराश्रयमायाख्यमज्ञानादन्यदेवेति चन्नाज्ञानस्य स्वकार्ये सहकार्यपेक्षाभावादित्यभिप्रेत्याऽह-विषयकरणदोषादिति। पूर्वाध्याये पद्यमिदं व्याख्यातं सर्वत्राज्ञानक्षोभकं चैतन्यमेव्र काचादिरूपेणापि तस्यैव क्षोभकतयाऽवस्थानाङ्गीकारादिति भावः ॥१७२॥ सु० टी०-कथं पुनरेकमेवाज्ञानमेकस्मिन्नेव ब्रह्मणि दुःखित्वसर्व.
नियम्यत्वादिति चेदुक्तवैलक्षण्यादित्याह- अज्ञानिनो भवति दुःखमनेन क्लूपं सर्वेश्वरस्य न खलु प्रतिभासतोऽपि। सर्वज्ञतादिगुणजातममुष्य नास्य संसारिणः स्फुरति मोहसमन्वितस्य ॥ १७३॥ अज्ञानिन इति। आवृतनित्यमुक्तानन्दृत्वस्य जीवस्थेत्यर्थः। अनेनाज्ञानेन चाधकात्मनेत्यर्थः । प्रतिभासतोऽपि स्वस्मिन्निति शेषः । अमुष्येश्वरस्य वशिनोनावरकत्वादस्मिन्नीश्वरे सर्वज्ञत्वजगत्कर्तृत्वादिविक्रियामात्रम- नेनाज्ञानेन क्लूपं मवतीति संबन्धः । जीवस्य सर्वज्ञत्वाद्यस्फुरणे हेतुमाह-मोहेति। एकाज्ञानकार्यस्यापि सर्वज्ञत्वादेरज्ञानावृते जीवे स्फुरणामावो युक्त इत्पर्थ: ।। १७३॥ अ० टी०-नन्वेकस्यैव चैतन्यस्येश्वरत्वे जीवत्वे वैकमेवाज्ञानमुपाधिश्वेत्स्यास्कथ
त्तिरित्याह-अज्ञानिन इति। अनेनाज्ञानेन क्लपं विवर्रतितं दुःखमज्ञानिनो भवति। आवरणप्रधानं ह्यज्ञानं चैतन्यपारतन्त्र्यापादकमित्र जीवे भाति। अतस्तस्मिन्दुःखित्वादि- भ्रमबीजं भवति। अतोऽहं न जान इत्यज्ञानित्वमात्मनि पश्यतो जीवस्यैव दुःखित्वं भवतीत्यर्थः । सर्वेश्वरस्य विक्षेपप्रधानाज्ञानोपाधिकस्य न खलु प्रतिभासतोऽपि दुःखं भवति तस्य ज्ञानप्रतिबन्धकाहंकरणाद्यभावाक्कि तु तस्मिन्स्वाभाविकस्त्ररूपातिरस्कारा- तस्वोपरागतो विक्रियामिवाSSसञ्जयतीव जगत्स्ष्टत्वादिकं धर्मजातमापादयतीवेत्यर्थः । एवमेत्र सर्वज्ञत्वादिव्यवस्थाऽपीत्याह-सर्वज्ञतादीति । अमुष्येश्वरस्य मोहसमन्वित- स्येति जीवस्येश्वराभिन्नस्यापि सर्वज्ञत्वाद्यस्फुरणहेतुः ॥ १७३ ॥
Page 120
[ २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्।
सु० टी०-एवं स्वमतेनोपपादितं भाष्यकारादीनां जीवाज्ञतावच-
जीवन्मुक्तिगतो यदाह भगवान्सत्संप्रदायप्रभु- र्जीवाज्ञानव चस्तदीद्गुचितं पूर्वापरालोचनात्। अन्यत्रापि तथा बहुश्रुतवचः पूर्वापरालोचना- न्नेतव्यं परिहृत्य मण्डनवचस्तद्ध्यन्यथा प्रस्थितम्॥१७४॥ जीवन्मुक्तिगतः इति । जीवन्मुक्तिनिरूपणे स्थित इत्यर्थः । ईदृदगिंति पूर्षोक्तं परामृशति। अन्यत्रापि भाष्ये। मण्डनाययुक्तरीत्याऽवि जीवाज्ञत्वसमर्थ न संभवतीति चेन्न तस्य मतान्तरत्वेन माष्यकारानभि- मतत्वादित्याह-परिहृत्येति ।। १७४।। अ० टी०-तदेवं चिन्मात्राश्रयविषयमज्ञानं तद्वशादेव च चैतन्यस्य जीवेश्वरभाव- स्तद्रतधर्मव्यवस्था चेत्युक्तं तत्र जीवस्याज्ञानमिति सिद्धवत्कृत्य जीवन्मुक्तिप्रकरणे व्यवहा- रोऽस्त्यव्यत्र च. भाष्यकारीय एव तादृशो व्यवहारो दृश्यते सोऽप्युक्तरीत्यैव व्याख्येय. इत्याह-जीवन्मुक्तीति। भगवाञश्रीकृष्णस्तदुक्तेः प्रत्येतव्यत्वे हेत्वर्थ विशेषणं सत्संप्र दायप्रभुिति स. जीवन्मुक्तिगतो जीवन्मुक्तिप्रकरणं. प्रकृत्य स्थितो 'यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति' [भ० गी० २ । ५२] इति यज्जीवाज्ञानवच आह तदीदृगुचितमुक्त- न्यायेन. चिन्मात्राश्रयविषयमप्यज्ञानं जीवकोटावावरकतया स्पष्टी भवतीश्वरकोटौ चिन्मात्रे.चन. तथा स्पष्टी भवतीति कृत्वा जीवाज्ञानध्यवहार इति युक्तमित्यर्थः। अन्यत्रापि ग्रन्थान्तरे च बहुश्रुतो भाष्यकारस्तस्य वच: पूर्वापरालोचनादित्थमेव नेतव्यं किं तु. मण्डनवच: परिहृत्य, व्यक्त्वा हि यस्मात्तदन्यथा प्रस्थितं प्रस्थानान्तरं तज्जीवस्यैवाज्ञानमिति मण्डनस्य मतं. यत्तथैव तदस्तु नास्माकं तदुपरोध्यित्यर्थः । यद्वा भगवानिति भगवत्पादाः श्रीमच्छं कराचार्या उक्ाः । सत्संप्रदायप्रभुरिति च. तद्विशेषणम्। बहुश्रुताः सुरेश्वराचार्यप्रभृतयः ॥ अन्यत्समानम् ॥१७४॥ सु० टी०-अन्यत्रापीत्युक्तं माध्यमर्थतो दर्शयति- जीवस्य कार्यकरणाधिपतेरविद्या दोषान्वितस्य तमसाSSवृतमन्धदष्टेः।
१ क. 'तमूक्टू'।
Page 121
५५६ टीकाद्वयसमेतं- [२ द्वितीयोऽष्याय: ]
ज्ञानं निरावरणमैश्वरमित्यपीदं भाष्याक्षरं कथितनीतिवशेन योज्यम्॥१७५॥ जीवस्येति। अक्षरब्राह्मणेडविद्याविशिष्टः कार्योपाधिरात्मा जीवो निरतिशयज्ञानशक्तिरात्माऽन्तर्यामीत्यादि। तथाऽन्यत्र त्वंन जानीषे धर्माधर्मप्रतिबद्धज्ञानशक्तित्वादहं त्वनावरणज्ञानशक्तित्वाद्वेदेत्यादि । तद्प्युक्तन्यायेन योज्यमित्यर्थः । कार्ये स्थलशरीरं करणं लिङ्गमू। तद्वच्छिन्नस्याविद्येत्यर्थः । अत्र ह्ेतु :- दोषान्वितस्येति। पूर्वपूर्वसंसार- वासना दोष: । त्वं न जानीष इति माष्यं दशयति-तमसेति। अन्ध- हष्टे: प्रतिबद्धज्ञानशक्तः । ज्ञानमिति संबन्धः। तन्त्रेण्रोत्तरार्धद्वय दर्शयति-ज्ञानमिति। ज्ञानं नित्यमुक्तात्मस्फुरणम्॥१७५॥ अ० टी०-तथाऽन्यदपि भाष्ये जीवाज्ञानाभिवायि यत्तदर्थत उपादायोक्तप्रकारेण योज्यमित्याह-जीवस्येति। अक्षरब्राह्मणभाष्ये तावदुक्तमविद्याविशिष्टः कार्यकरणो- पाधिरात्मा जीव उच्यते। नित्यनिरतिशयज्ञानशक्त्युपाधिरात्माऽन्तर्यामीश्वर उच्यते। एतदिह पूर्वार्धेनार्थतोऽनूदितं धर्माधर्मप्रतिबद्धज्ञानशक्तित्वं जीवस्य दोषस्तेन दोषेणान्वि- तस्य जीवस्याविद्या न तद्रहितस्येश्वरस्येति योजना। तमसाSऽवृतमूददृष्टेरिति तस्याविद्या वत्वमनुभवसिद्धमिति दर्शयति। तथा भगवद्रीताभाष्येऽपि-त्वं न जानीषे धर्माधर्म-
यच प्रागुक्तं यच्चान्यत्राप्युक्तं भवेत्तत्सर्वर्मापे कथितनीतिवशेनोक्तन्यायेन योज्यमित्युत्तरार्धे- नाऽडह-ज्ञानं निरावरणमिति॥ १७५ ॥। सु० टी०-कथितनीतिमेव स्पषट्यति- स्पष्टं तमःस्फुरणमत्र न तत्र तद्द- न्सर्वेश्वरे सदिति तत्र निषिध्यते तत्। बिम्बे तमोनिपतिते प्रतिबिम्बके वा देहद्दयावरणवर्जितचित्स्वरूपे ॥ १७६ ॥ स्पधमिति। अत्र जीवे। तत्र सर्वेश्वरे। न तत्स्पटमिति तत्तत्र मिषि- ध्यत इत्यर्थः। अद्वैतवादिनः कथमत्र तन्रेति विभाग इति चेत्तत्ाSSह-
पाधिक (* परिच्छेदशून्य इत्यर्थः १ व्याप्यवृत्तीत्यवच्छिन्नव्यावृत्तौ।
- ख. पुस्तकस्थोडयं ग्रन्थः।
Page 122
[ २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ५५७
प्रतिबिम्बक इति। उपाधिनिष्ठत्वे सत्यौपाधिक)स्वप्रतियोगिकव्याप्यवृत्ति- भेदाश्रय इत्यर्थः । बिम्बे बिम्बेश्वरे। तमोनिपतिते मायाप्रतिबिम्बिते- श्वरे वा। कथमीश्वरे तमो न स्पष्टमिति चेत्तत्राSह-देहद्वयेति। तस्य
अ० टी०-कथितन्यायमेवाSSविष्करोति-स्पटट तम इति। अत्र जीवे तत्र सर्वेश्वरे तम:स्फुरणं तद्वज्जीव इव न स्पष्टमिति कृत्वा तत्र सर्वेश्वरे तत्तमो निषिष्यते न तमःसंबरन्धस्यैवाभावादिति योजना। यदि जीवाश्रितमज्ञानं न भवतीश्वरे च तन्निषि ध्यमानं तदाश्रितं न भवति तर्हि किमाश्रितं तदित्यपेक्षायामाह-बिम्ब इति। विम्बे तमोनिपतिते कारणमायाप्रतिबिम्बित ईश्वरे प्रतिबिम्बके कार्योपाधिमायागताभासविशिष्टे जीवे वा न तम इति नकारानुकर्षणेन योजना। अपि तु चित्स्वरूपे। देहद्वयावरणवर्जितेति चित्स्व रूप विशेषणेनोपाधिसंबन्धं निरस्यति कार्यकारणोपाधिरहिते तदुपलक्षिते सर्वानुस्यूते चिन्मात्रे तम आश्रितमित्यर्थः ॥ १७६ ॥ सु० टी०-एवं च किंचिज्ज्ञो जीवो मूढत्वात्सवज्ञं च बह्माज्ञानत- ज्जराहित्यादित्यर्थकमपि माष्यमावृतत्वानावृतत्वपरं न तु तयोरज्ञान- मावामावपरमित्याह-
सर्वज्ञता पुनरमुष्य परस्य पुंसः। अज्ञानतज्जकरणादिविवर्जितत्वा- दित्येतदेवमुपपन्नतरं हि भाष्यम् ॥ १७७॥ किंचिज्ातेति । एतञ्च जीवस्येश्वरविषयमज्ञानमिति पक्षे न घटते तदेश्वरस्यापि परिणामित्वेन सर्वज्ञत्वासंभवादिति भाव: ॥१७७।। अ० टी०-एवं चिन्मात्रमेवाविद्यावशाज्ीवत्वमीश्वरत्व्रं च भजत इत्यस्मिन्पक्षे जीव- स्याज्ञानित्वादिकमीश्वरस्य सर्वज्ञत्वादिकमित्याद्यभिदधद्भाष्यं समञ्ञसं न विपर्यय इत्यभि- प्रेत्या SSह-किंचिज्ज्ञ तेति। स्पष्टयोजनं पद्यम्। १७७ ।। सु० टी०-उक्तमेव किंचिज्ज्ञत्वं सर्वज्ञत्वं च तत्कारणकथनेन द्रव्यति -- अज्ञोऽहमित्यवगतिर्न परस्य पुंसः सर्वज्ञतावगतिरात्मनि नास्य पुंसः । १ ख, "स्याप०।
Page 123
टीकादय समेतं- با
अत्रापि कारणमहंकतिवर्जितत्वं तेद्वत्तया च परमेडल्पतरे च पुंसि॥ १७८॥ अज्ञोडहमिति। परस्य नाहमज्ञ इति धीर्बुद्धयादावभिमानराहित्यादस्यः चाल्पकस्य जीवस्य नाऽडत्मनि सर्वज्ञतावमतिरहंकृतिबद्धत्वात्ततादा- हम्यापन्नत्वादित्यर्थः ॥। १७८ ॥ अ० टी०-ननु चिन्मात्रस्य चेदज्ञानाज्जीवेश्वरभावस्तर्हि तस्योभयत्र समत्वात्कथमीश्वरे सर्वेज्ञत्वमज्ञानतत्कार्यविवर्जितत्वं च जीवे चाजत्वादिव्यवस्था द्वयोश्चिन्मात्रगताज्ञानायत्तत्वा. विशेषादिति चेत्तत्राऽऽह-अज्ञोऽहमिति। पूर्वार्धोक्तप्रतिज्ञायामुत्तरार्धेन हेतुमाह- अत्रापीति। अत्रोक्तव्यवस्थायामपि परमे पुंसीश्वरेSहंकृतिवर्जितत्वमहंकारात्माभिमानरहि- तत्वं सर्वज्ञत्वादिप्रथनेSज्ञत्वादेरप्रथने च कारणमल्पतरें पुंसि. जीवे चः पुनस्तद्वत्तयाऽहं- कारात्माभिमानवत्तयाSज्ञत्वादिस्फुरणं चेति योजना। तथाच चिदात्मनो जीवकोटावहं- कारादयधिकोपाधिप्रवेशादीश्वरकोटौ च तदभावादयुक्ता यथोक्तव्यवस्थेति भावः ॥ १७८ ॥.
स्यमिति तत्राSSह- बिम्बस्य नापि तमसि प्रतिबिम्बकस्य संघट्टनं क्वचिदहंकरणेन शक्यम्। वक्तुं प्रभो: सकललोकहितावतार- स्वेच्छाविनिर्मितवपुर्वरमन्तरेण ॥ १७९ ॥। बिम्वस्येति। विम्बेश्वरस्य प्रतिबिम्बेश्वरस्य वा न क्वचिदहंकारेण संघट्टनं मोहनं शक्यं वक्तुमह मिहैवेत्यनुमवेन परिच्छिन्नस्य दुःखाद्याभ्रया हंकारस्य सर्वात्मकेश्वरेSसंभवात्तस्य स्वरूपावरणशून्यत्वादित्यर्थः। ननु तस्यापि 'अहं सर्वस्य प्रमवः' [म०गी० १०।८] इत्यादावहंमानः श्रूयत इति चेत्सत्यं स तु नव्यामोहकः स्वेच्छयेव गृहीतत्वादित्याह-सकः लेति। रक्षोवधादिप्रयुक्तं भक्तामिलषितवितरणप्रयुक्तं वा यत्समस्तप्रा णिनां हितं तदर्थमवतारो यस्थेद्टशं स्वेच्छानिर्मितं न तु भोजककर्मा- जितं यन्मायिकं शरीररत्नं तद्यतिरेकेणेत्यर्थः ॥१७९॥
१ ग. तदद्धता ।.
Page 124
[ २ द्वितीयोऽध्याय: ] संक्षेपशारीरकम्। ५५९
अ० टी०-नन्वीश्वरस्याज्ञानसंबन्धश्वेदस्ति तर्ह्यहंकरणसंबन्धोSपि स्यादितरस्येवेति चेन्नेत्याह-बिम्बस्येति । बिम्बस्य चिन्मात्रस्य कचिद्विषयेSहंकरणेनं संघट्टनं चक्तुं न कक्यं तस्य सर्वविकल्पाधिष्ठानतया कूटस्थस्य निर्विकल्पज्ञानरूपत्वान्नापि तमसि कारणाव्याकृतात्मकेऽज्ञाने प्रतिबिम्बकस्य कचिदहंकरणेन संघट्टनं वक्तुं शक्यं तस्याज्ञानतत्कार्याधिष्ठातृत्वेन स्वातम्त्र्यात्तस्मिन्नज्ञानतत्कार्यकृतातिशयायोगादिति योजना। कथं तहीश्वरस्य सतः श्रीकृष्णस्य 'अहमात्मा गुडाकेश' [भ० गी० १० ।२] इत्याद्यहंकरणसंबन्धव्यञ्जकं वचनं तत्राSडह -- प्रभोरिति। सकललोकहिताय योऽवता- रस्तस्मिन्स्वानां भक्तानामिच्छया प्रार्थनया विनिर्मितं संकल्पमात्रेण संपादितं वपुर्वरं वपुः- श्रेष्ठमन्तरेण तद्वर्जयित्वा तत्र हि व्यवहारसिद्धये प्रभुणाऽहंकरणं स्वातन्त्र्येणाङ्गीकृतमिति भाव: ॥ १७९॥
सु० टी०-ननु माऽस्तु तस्याहमध्यासस्तथाऽप्यज्ञानाभयत्वादज्ञानिः त्वबुद्धि: स्पादिति चेन्नेत्याह-
नाहंकति च परिह्ृत्य तमस्विताधी: संभाव्यतेऽपहतपाप्मनि नित्यमुक्ते। तामन्तरेण घटते न च मूढभाव- संभावनाऽपि परमेशितरि प्रसन्ने ॥ १८० ॥
नाहंकृतिमिति। अहमध्यास द्वारैवाहमज्ञ इत्यज्ञत्वधीदर्शनात्स्वाभावि
हत्यर्थः । तद्भावे च नतरां तत्र मूढत्वसंभावनेत्याह-तामिति। प्रसन्नेऽ- नवच्छिन्नतया प्रकाशमाने॥ १८० ॥
चेन्नेत्याह-नाहंकृति चेति। स्वाभाविकं हीश्वरस्यापहतपाष्मत्वादि तादृशे परमेश्वरेऽहं- कृति विरहृ्य स्वतस्तमस्विताधीर्न संभाव्यतेऽपहतपाप्मत्वादिस्वंभावविरोधादित्यर्थः । ताम- न्तरेण तमस्तिरित्वधियं विना मूढभावसंभावनाऽपि परमेशितरि प्रसन्ने स्वभावनिर्मले प्रका- शमाने न च घटते। तथा च चित्सदानन्देश्वरस्व्रभावबाधितवपुष्टातस्मिन्न ज्ञानावरणप्रति- भासस्तदभावे च न मूढभावोऽतः स्वभावानुरोधीश्वरत्वसर्वज्ञत्वादिकमेत तत्र भव्रति न विप- रीतमिति भाव: ॥ १८० ॥।
Page 125
५६० टीकाट्वय समेतं- [ २ द्वितीयो ऽंध्याय: ]
त्वस्पाज्ञत्वव्याप्स्वादिति चेत्र तस्य सर्वज्ञत्वेन वशित्वादित्याह- स्वेच्छाविनिर्मितवपुर्भजनेऽि तस्य नाज्ञानितावगतिरस्ति वशित्वहेतोः । वश्यत्वहेतुकमिदं स्फुरणं नराणां नाहं विजान इति नास्ति हृदीश्वरस्य ॥ १८१॥ स्वेच्छेति। धशित्वेति। अज्ञानं प्रति नियन्तृत्वादित्यर्थः। न हि वशीकृता ज्ञानस्य तत्प्रभवैर्बुद्धयादिभिरभिभवसंभव इति मावः । जीवस्य स्वज्ञा- नपरतम्त्रस्य युक्तस्तद्भिभूतत्वेनाज्ञत्वानुभव इत्याह,-वश्यत्वेति।।१८१।। अ० टी० -- तथाSपीश्वरस्य स्वेच्छाविग्रहेSहंकारादिसंबन्धदर्शनादज्ञत्वाद्यपि तस्मिन्सं- भाव्यत इति चेत्तत्राऽऽह-स्वेच्छाविनिर्मितेति। सत्यं स्वेच्छाविनिर्मितवपुरहंकरण- मपि कदाचिद्गवेत्। एतावता तस्येश्वरस्याज्ञानितावगतिर्नास्ति न कल्प्यते कुतो वशि- त्वहेतोरज्ञानवशित्वात्। न हि योऽज्ञानं वशीकृत्याहंकारं शरीरं च स्वेच्छावशादसृजत तस्य स्त्रातन्त्र्यस्ष्य स्फुटत्वात्तस्मिस्तत्कार्यगतपार तन्त्रयस्याSSरोपसंभावनेत्यर्थः। यस्मान्नरार्णा जीवानां नाहं विजान इतीडं स्फुरणं वश्यहेतुकं कार्यगतपारतन्त्र्यारोपनिमित्तकमतस्तद भावादीश्वरस्य तदावरणरूपेण नाहं विजान इत्यज्ञानसकुरणं नास्ति स्व्रेच्छावतारेऽपी- त्यर्थः ॥ १८१॥ सु० टी०-कथं ताह रघुनाथस्याज्ञत्वादिव्यवहारः पुराणादिषु श्रूयत इति चेन्न तस्य तत्रैव निरङ्कुशैश्वर्षश्रवणेन सर्वज्ञत्वेऽषि संकल्पितकिय- त्कालाज्ञानस्य स्वीकृतमानुषचारित्रयनटनाय स्वयमेव प्रवर्तितत्वा- दित्याह- संकल्पपूर्वकमभूदधुनन्दनस्य नाहं विजान इति कंचन कालमेतत्। बह्मोपदेशमुपलक्ष्य निमित्तमानं तच्चोत्ससर्ज स ऊते सति देवकार्ये ॥ १८२ ॥ संकल्पेति। ननु तदज्ञानं बह्मोपदेशापनोद्यत्याजीवाज्ञानवत्पारवश्यप्र- युक्तमेवाऽडस्तामिति नेत्याह-ब्रहमेति। देवकार्थरक्षोषधानन्तरमिदमज्ञानं
१ ग. जतोडपि। २ क. ग."स्वेन.पि°।
Page 126
[ २ द्वितीयोऽ्याय: ] संक्षेपशारीरकम्। ५६१
हास्यामीति संकल्पितत्वात्स्वयमेवोत्ससर्ज निमित्तमात्रं तु बह्मोपदेश इति त्यागस्वातन्त्रयबोधकपुराणादेव ज्ञायत इत्यर्थ: ।।१८२॥ अ० टी०-नन्वज्ञत्वादिकमपीश्वरस्य श्रीरामावतारे दृष्टमिति चेत्तदपि स्वातन्त्रयवि- जम्भितमेव न जीवानामिव पारतन्त्रयप्रयुक्तं तदज्ञत्वादेः संकल्पपूर्वकत्वश्रवणादित्याह- संकल्पपूर्वकमिति। कंधन कालं दुष्टराक्षसनाशपर्यन्तं नाहं विजान इत्येतदज्ञत्वं
जञत्वसममिति चेन्नेत्याह-ब्रह्मोपदेशमिति। ब्रह्मणः प्रजापतेरुपदेशं निमित्तमात्रं संकल्पत्यागस्य द्वारमात्रमुपलम्याऽSदाथ तख्च देवकार्ये देवकण्टकोद्धारे कृते सत्युत्स- सर्ज संकल्पगृहीतमप्यज्ञत्वं स्व्रातम्त्रयेणैव तत्याज म लोकवज्जन्यविद्याबलादिति गम्यते स्वातन्त्र्यस्य रामे कदाऽपि- तिरोधानादर्शमादित्यर्थः ॥१८२॥ सु• टी०-उक्तमुपसंहरति- अज्ञानवर्जिततया परमेश्वरोऽसौ सर्वज्ञ एव यदहंकतिबन्धहीनः। ज्ञानं निरावरणमिष्टममुष्य यस्मा- ज्जीवस्य सावरणमेव यतोऽनभिज्ञः ॥१८३॥ अज्ञानेति। बुद्धयाद्यध्यासहीनतया स्वगे ना्यज्ञा ने नावृ त त्वादीश सर्वज्ञ इत्यर्थः । जीवस्येति। यतश्च जीवस्य तत्सावरणमत एषोऽनमिज्ञ इत्यर्थः ।। १८३।।
तया तत्सत्वादिति युक्ता सर्वज्ञत्वाज्ञत्वादिव्यवस्थाऽस्मन्मत इत्युपसंहरति-अज्ञानवर्जि ततयेति। यच्छ्दस्तस्मादर्थे प्रथमं योज्यः । यतोऽहंकृतिरूपबन्धहीनोऽस आवरणांत्म- काज्ञानवर्जिततयाऽसौ परोक्षः परमेश्वरः सर्वज्ञ एवेत्यन्वयः। अर्थादहंकृतिबन्धवतोऽज्ञ- त्वमल्पज्ञत्वमनीश्वरत्वं चेत्युक्तं भवति। उक्तव्यवस्थायां पूर्वोक्तं नियामकं स्मारयति- ज्ञानमिति। अमुष्येश्वरस्य ।। १८३ ।। सु० टी०-ननु चेतनत्वाज्ञानाश्रयत्वाविशेषे कुतं इदं जीवेश्वरयो- वैंलक्षण्यमिति तत्राSSह- सर्वप्रमाणफलभूतसमस्तसंवि- ज्ज्ञानं बिभर्ति परमः पुरुषो न जीवः। ७१
Page 127
प६र टीकाद्वय समेतें- [ २ :द्वितीयोऽच्याय:]
ज्ञानं निरावरणमैश्वरमस्तु तस्मा- ज्जैवं च सावरणमस्य विशेषहेतोः॥१८४॥ संर्वेति। सवरषीं प्रमातणां चक्षुरादि्सर्वप्रमाणामिव्यक्ततया तत्कल- एूताया: संविद आवरणाभभिभाव्या: सर्वप्रमेयावच्छिन्नचैतन्यरूपा- स्तासां समूहमनन्तचिदूपः परमात्मैव विभवर्त सर्वप्रमेयोपादानत्वान्न तुं जावः परिच्छिन्नत्वांदितीश्वरज्ञानस्य निरावरणत्वं जीवस्य तु स्वरूपमा- वृतमित्यर्थः ॥१८४ ॥। अ० टी०-ननूभयोश्चेतनत्वाविशेषे कथमीशस्य ज्ञानं निरावरणं जीबस्य 'तत्साब- रणमिति व्यवस्थेति चेत्तत्राऽऽह-सवप्रमाणेति । अग्रमर्थः-अस्ति तावत्सर्वप्रमा- णानां फलभूता विषयस्फुरणाभिधेया संवित्प्रसिद्धा। सा च नाज्ञानेनाभिभाव्या तस्या अज्ञाननिवर्तकत्वादन्यथा विषयव्यवहारासिद्धेः। तस्याश्च प्रतिपमाणव्यापारं जायमानतया भासमानाया उपादानं तावदपेक्ष्यते। तदपि स्वसमानस्वभावा संविदेव सर्वफलोपादनतया :सर्वात्मिकाSखण्डैकरसाऽभ्युपेया। सा च 'विज्ञानमानन्दं ब्रह्म'[बृ० ३।९ २८] इतिश्रुतेर्व्रह्मरूपैय सती तद्धर्मतया व्यवहियत इति। एषाऽक्षरयोजना-सर्वेष्षा अ्रमाणानां फललेन भवन्ती या समस्तसंवित्सर्बा एव संविदस्तदेव ज्ञानं तत्परमः पुरुष्ो विभर्वि स्वात्मतया धारयति न जीवोऽन्तःकरणवृत्तिपरिच्छिन्नचिदाभासमात्रज्ञानत्वात्तस्य। फळितमाह-ज्ञाने निरावरणमिति। तस्मादिति प्रथमं योज्यम्। तथा च चेतन- न्वस्राम्येनेश्वरस्याज्ञतानुमानमेत द्विरोधाद्विपक्षे बाध काभावाच्चाप्रयोजकमिति सिद्धम्॥१८४॥ सु० टी० -- किं च 'तस्य मासा सर्वमिदें विभाति'[कठ० ५। २५ ] इति स्वत एवाज्ञानतत्कार्यभासकत्वश्ुतेरवि निरावरणमैश्वरं ज्ञानभित्याह- अज्ञानतज्जमखिलं जगदात्मभासा नित्यं प्रकाशयति संनिहितः सदात्मा। जीवस्तु नैवमिति सावरणं तदीयँ ज्ञानं निरावरणमैश्वरमुच्यते हि॥ १८५॥ अज्ञानेति १ न हावृतेनासस्कल्पेन ज्ञानेन प्रकाशनं संभवति व्यवहि- तत्वादित्यनावृतचैतन्य ईश्वरः सर्वज्ञो मवर्तीत्यर्थः । यतः सदात्माSत एव संनिहितः । सदधिष्ठानकं हि सर्वमावरणाष्यवधानारसति संनि- हितमित्यर्थः । जीवस्य तु स्वाध्यस्त्राज्ञानव्यवहितेषु क्रमिकमेव ज्ञान- मिति सावरणं तदनुभूयत हत्पर्थ: ॥ १८५।।
Page 128
[ २ द्वितीयोडध्याय: ]: संक्षेपशारीरकम् । ५६३
अ० टी० -- विशेषहेतोरित्युक्तं विशेषमेव. स्फुटयति-अज्ञानतज्जमिति । सदात्मा सच्छब्दनिर्दिष्टः परमात्माऽ्ज्ञानाद्यखिलं जगत्तदधिष्ठानलेन सदा संनिहित स्तस्त- भासा स्वाभाविकेन चैतन्यज्योतिषा प्रकाशयत्यादित्यवत्स्वयं प्रकाशयति ।. आदित्यवत्स्वयं प्रकाशमान: स्वाध्यस्तं सर्व प्रकाशयति। जीवस्तु नैवं तस्य. स्वतःसिद्धज्ञानरूपतवेडप्युपा- धिप्रविष्टतया. परिच्छिन्नत्वादित्यतो हेतोस्तदीयं ज्ञानं सावरणभैश्वरं तु ज्ञानं.निरावरणमित्यु- च्यते। हिशन्दो विद्वत्मसिद्धयवद्योतकः ।जीवस्य हि ज्ञानं पुण्यापुण्यप्रयुक्तं. प्रमाकरणव- द्दोषतारतम्यवशात्तरतमभावेन जायमानमन्तःकरणवृत्तिकञ्चकितं भवति सावरणं वस्तुतत्वा- नवगाहितत्वात्। ईश्वरस्य त्वेवंविधदोषासंबन्धान्नित्यनिरतिशयमेकरूपं. सन्निरावरणमेव्र. भवतीत्यभिप्रायः ॥.१८५॥ सु०टी०-ईश्वरस्थानावृतत्वादेव सर्वसंनिधानान्नित्यसार्वज्यंन त्वज्ञा नसंबन्धाभावावित्यत्र विष्णुपुराणवाक्यं प्रमाणयति- ज्ञानात्मकस्यामलसत्त्वराशे- रपेतदोषस्य सदा स्फुटस्य । कि वा जगत्यत्र समस्तपुंसा- मज्ञातमस्यास्ति हृदि स्थितस्य ॥१८६ ॥ ज्ञानात्मकस्पेति। अमलों रजस्तमोज्यामनभिभृत: सत्त्वराशिर्यस्य सत्वप्र-
क्षत्वेन सर्वदाऽभिव्यक्तस्य सर्वा्तिर्यामिण: किमज्ञातमस्तीव्यर्थ:॥१८६।। अ०, टी०-ईश्वरस्य, निरावरणज्ञानत्वमावरणाभावादेव. न. त्वत्यन्तभेवाज्ञानासंबन्धा- दित्यत्र विष्णुपुराप्पवाक्यं प्रमाणमाह-ज्ञानात्मकस्येति,। अत्रामलसत्त्वराशेरितिपदे- नेश्वरस्याज्ञानसंबन्धः सूचितः सत्त्वस्याज्ञानधर्मत्वात्। अपेतदोषर्येत्यावरणात्मकाज्ञान- संबन्धो निरस्तः। तत्र हेतुगभ विशेषणं सदा स्फुटस्येति। वैपरीत्येन, वाऽनयोरहेतुहेतुमद्धावः। ज्ञानात्मकस्येति सदा स्फुटत्वे हेतुः। समस्तपुंसां हृदि स्थतस्येति सर्वजीवान्तर्यामित्वोक्त्या सर्वजीवविलक्षणतवेन परमेश्वरत्वमुक्तमे वंविधस्यास्य भगवतोऽत्र. जगति कि वाऽज्ञातम विदितं. विद्यते न. किमपीत्यर्थ: ॥१८६॥ सु. टी०-इश्वरस्य वशित्वे जीवस्य च वश्यत्वे पुराणान्तरमाह- मायामसौ वितनुते विभुरेवमेनां स्वेश्वरः सततमेव वशी करोति।.
Page 129
५६४ टीकाद्वय समेतं- [२ द्वितीयोऽच्याय: ]
इत्याददिवाक्य मुपपन्नतरं पुराणे स्वाज्ञानमस्य च वशे चिदधीनभावात् ॥१८७॥ मायामिति। वितनुते कार्यात्मना विस्तारयति यतो विमुस्तद्वशी तदे- वाSऽह-एवमिति। मयतु मायाया वशी तथाऽप्यज्ञानेनाभिभूयेतेति चेन्नेत्याह-स्वाज्ञानमिति। अज्ञानमाययोर भेदस्यो क्तत्वा ज्ञिचछक्तिरुपम्षा- नमपि तद्श्यमित्यर्थः ।। १८७।। अ० टी०-ईश्वरस्य मायावित्वविषयं श्रवणमपि तत्र साक्षाननिर्दिष्टमित्याह-माया- मिति। यतोऽसौ भगवान्विभुरतो मायां वितनुते जगदात्मना विस्तारयति । यतश्व सर्वेश्वरोऽत एवैवमेनां मायां सततमेव वसी करोति न कदाऽपि परवशोऽसावित्यर्थः । इत्यादिवाक्यं पुराणे पठयमानमस्मदुक्त्तरीत्योपपन्नतरमन्यथा तद्वाधितार्थ स्यादित्यर्थः। तत्र मायासंबन्ध एवोक्त ईश्वरस्य नाज्ञानसंबन्ध इति प्रतिभासात्कथमिदमुक्तेऽर्ये प्रमाण-
चेति। चिदधीनभावादज्ञानस्य सत्तास्फूर्त्योरिति शेषः । चितश्चेश्वरस्वरूपत्वाघयुक्तमस्याज्ञा- नवशित्वमित्यर्थः ॥ १८७॥ सु० टी०-ननु भाष्वादो जीव एवाज्ञानमीश्वरे च तन्निषेध: सर्वत्रोद्घुष्यत इति कथमीश्वरेऽज्ञानसंबन्ध इत्याशङ्र्क्य तदूचनं सकलमुक्तरीत्यैव योज्यं न यथाश्ुतमित्याह- जीवाज्ञतावचनमेवमिदं समस्तं सर्वत्र योज्यमितरत्र च तन्निषेध: । तस्मात्समअसमिदं मतमस्मदीय- माचार्यवाक्यमुपपन्नतरं हि तत॥ १८८ ॥ जीवेति। इतरत्रेश्वरे । फलितमुपसंहरति-तस्मादिति। यतोऽज्ञानस्य चिन्मात्राभयत्वेऽपि तत्र तत्र जीवाज्ञतावचनमुपपन्नं तस्मादित्यर्थ:। । १८८ ॥
वोपपाद्योपसंहरति-जीवाज्ञतेतति । समस्तमिदं जीवाज्ञतावचनं वृद्धैरुपनिबद्धमेवम- स्मदुक्तप्रकारेण सर्वत्र ग्रन्थसंनिवेशेषु योज्यम् ।.चिदात्मनि जीवत्वोपाधवेवाSडवरणात्म- काज्ञानस्फुरण मित्यज्ञो जीव इति वृद्धानां वचनमितरत्रेश्वरे तादय्रपस्यास्फुरणाभिप्रायेण
Page 130
[ २ द्वितीयोऽच्याय: ] संक्षेपश्ञारीरकम्। ५६५
तन्निषेध इत्यर्थः । तदेव प्रत्यक्चैतन्यमेवाविद्ययाSनेकजीवेश्वरादिभेदेन प्रत्यवभासत इत्य- स्मन्मतमाचार्यसंमतं युक्तमेवेति सिद्धमुपसहरति-तस्मादिति। तत्रास्मन्मने ॥१८८॥ सु० टी०-कीहशं तन्मतं तदाह -- चैतन्यमेव तु तमस्वि तदपबुद्धं सर्वज्ञमेतदिह विश्वमिमं विभागम्। जीवेश्वरौ च जगदित्यपि निर्मिमीत इत्येव वेदशिरसः प्रथितः प्रचारः ॥१८९ ॥ चैतन्यमेवेति। चिन्मान्रमेवाज्ञानाथयस्तदेवाप्रबुद्धं मूढं सर्वज्ञमपि तदेव। तञ्चेह तमस्विनि चैतन्य इमं समस्तं जीवेशजगद्विमाग निर्भि- मीत इत्यर्थः । न चेदमस्मदिच्छाकल्पितं मतं किं तु सर्ववेदान्तसिद्धमि- त्याह -- इत्येवेति।।१८९॥। अ० टी०-न केवलमाचार्यवाक्यमेवास्मन्मतानुसार्थपि तु वेदान्तवाक्यप्रवृत्तिरपी- दमेव मतमाश्रितेत्याह-चैतन्यमेवेति। तमस्व्यनाद्यज्ञानशबलितं चैतन्यमेव तु स्वतो निर्विभागं स्वगततमोविकारानुरोधेन तच्चैतन्यमप्रबुद्धं कार्योपाधिप्रवेशेनाइं जीवशब्दवाच्यं जायते। एतदेव चैतन्यं सर्वजञं कारणोपाध्यनुरोधेन सर्ववस्तूपरागेण प्रकाशमानं सत्सर्वोवभासकतया सर्वज्ञं च सज्जीवेश्वरौ जगदित्यपि चेमं विश्वविभागमिह व्यव- हारकाले निर्मिमीत इत्येव वेदशिरसः प्रचारः प्रथितः सर्वशाखासु प्रसिद्ध इति योजना। वेदान्तेषु हि ब्रह्मात्मविद्यया तदविद्यानिरासेनाखिलस्यास्य जीवेश्वरजगद्विभागस्य निवृत्तिर्व्रह्मभावापत्तिश्च श्रयते तत्सर्वस्याविद्याकल्पितत्वमन्तरेण नोपपद्यते विद्यापोह्यस्या- विद्यात्मत्वनियमात्सत्यस्य विद्यापोह्यत्वासंभवात्। तद्यथा बृहदारण्यके तावत् 'तदाहुर्य- द्रह्मनिद्यया सरव भविष्यन्तो मनुष्या मन्यन्ते किमु तद्रह्मावेत्' [बृ० १।४।९] इत्याक्षेपपूर्वकं 'ब्रह्म वा इदमग्र आसीत्' [बृ० १।४।१०] इति विद्योत्पत्तेः मागपि ब्रह्मण एवाज्ञत्वमभिधाय 'तदात्मानमेवावेत्। अहं ब्रह्मास्मीति तस्मात्तत्सर्व- मभवत्' [बृ० १।४।१०] इति तस्यैव विद्यया स्व्रतःसिद्धसर्वज्ञसर्वात्मकं ब्रह्मभावं श्रावयति ब्रह्मकण्डिकाश्रतिः। अत्र सर्वमभवदिति. श्रूयमाणसर्वात्मभावस्य न मुख्यार्थत्वं किं त्वपवादार्थत्वं च तथा च यदिदं सर्वं जीवेश्वरजगद्विभागरूपं विश्वं तत्सर्व अह्माभवद्गह्मणः पृथड्नाभूत्तद्भवति भविष्यच्चेत्यर्थः। तथाऽन्यत्राध्यारोपापवादाभ्यां विश्वस्य प्रत्यगज्ञानसिद्धत्वं तद्याथाहम्यज्ञानबाध्यत्वं चावगम्यमानभेकस्वैव चिदात्मनोऽज्ञत्वशुद्धत्वादिकं
१ क. 'वद्यदेतदूत'।
Page 131
५६६ टका द््य समेत- पर द्वितीयो ऽच्याय: ]
स्वाविय्यया स्वविद्यया चोपपन्नमिति. गमयति । तस्माच्छूतिगतिपर्यालोचनायामप्यस्मन्मतं. युक्तमेवेतिभावः ॥१८९ ॥ सु० टी०-ननु तदेव तमस्वीत्ययुक्तमीश्वरस्य सर्वज्ञस्य माथित्वेन. परव्यामोहकत्वादतक्च जीवव्यामोहकरीश्वरमाया जीवाज्ञानास्िन्नैवेति चेत्तन्ाSSस-
जीवेशान जगद्विभागजननी शकिर्जडा दैष्णवी मायेशानगता सती अवति सा जीवावधिर्मोहगीः । जीवानीश्वर एप मोहयति ते जीवा विमुह्यन्त्यतः शश्वद्विश्वदगीश्वरो भवति ते जीवा विमूढा मुहुः ॥१९ व
जीवेशानेति। जीवेश्वरजगन्भेदनिदानभूता या वैष्णवी शाक्ति: सैवेश्वर- गता सती मायाशब्द्वाच्या मवति सैव. च जीवमपेक्ष्य मोहगीरज्ञान- पद्वाच्या मवति वृद्धव्यवहारादित्यर्थः । मोह्यमोहकत्वादियेचित्रयं तु. पूर्योक्तव शित्वादिविनिमित्तकमित्याह-जीवानिति ।।। १९२।। अ० टी०-बन्वीश्वरो. जीवान्मोह्यतीत्यभिधानाच्छतिस्मृत्योरीश्वरमाया जीवभोहकरी जीवाज्ञानादन्यैवेति चेनेत्याह-जीवेशानेति। या जीवादिजगद्विभागजननी प्रत्यग- ज्ञानात्मिका जडा शक्ति: सैवेशानगता सती वैष्णवी माया भवति नान्या। जीवावधि- जीवमर्यादा जीवे स्फुदतरं व्यवह्ियमाणेति यावत्सैव शक्तिर्जीवावधिः सती. मोहगीर्मोहादि- शब्दवाच्या भवतीति योजना । मायामोहयोरनिर्वचनीयत्वस्वभावाविशेषाच् स्वरूपभेदः कि. तूक्तशक्तिवशिलेन तद्वश्यतेन चेशजीवयोमीयित्वमृढत्वव्यपदेशो. मायावीश्वरपारन्त्याजीवस्य
सर्वज्ञत्वाज्ञत्वाद्यपि व्यवस्थितमुपपद्यत इत्पाह्-अत इति.॥१९० ॥ सु० टी०-एवं चाज्ञानैक्येऽपि जीवस्य संसारित्वमाविद्यकमी :- श्वरस्य जगत्कर्तृता माधिकीति वृ्द्ानां प्रसिद्धिर्युक्तुवेत्याह-
अज्ञानिनो भवति मोहविज़म्भितं त- द्दुखं जगज्जनकता परभेश्वरस्य।
Page 132
म २ द्वितीयोऽथ्याय: ] संक्षेपशासेरकम्। ५६७
मायामयी भवति तेन विलक्षणत्व- मेकान्ततः श्रविशिरस्सु तयोः ्रसिद्धम्॥ १९१ ॥ अज्ञानिन इकि। जीवस्येश्वरस्य चेत्यर्थः। तर्हि यस्याज्ञानं भ्रमस्तस्येति न स्वादिति चेत्तत्ाSह-ेनेिवे्ोे कन्ततो वेान्त प्र सिद्धं यट्वैलक्षण्यं तत्वेनेव प्रागुक्तस्वातञ्तयास्वातन्त्रयादिनेत्यर्थः ॥१९१॥ अ० टी०-अत एवैकाज्ञानं प्रति वशित्ववश्यत्ववशादीशस्य जगद्वेतुलं जीवस्य दुःखित्वादिसंसारधमर्वत्वं व्यबतिष्ठत इति प्रकरणोपसंजिहीर्षयाऽऽह-अज्ञानिन इति। तत्प्रसिद्धं दुःखमज्ञानिनो बीवस्य मोहविजृम्भितं भवति परमेश्वरस्य जगज्जनकता मायाम- यीह भवत्युपपद्यत इत्यर्थः । तेन यथोक्तन्यायेनोक्तप्रकारेण च तयोर्जीवेश्वरयोः श्रतिशिरःसु विलक्षणत्वमेकान्ततः प्रसिद्ध न प्रकारान्तरेणेत्यर्थः ॥ १९१ ॥ सु० टी० -- इतोऽपि चिन्मात्रनिष्ठमप्यज्ञानं जीवगततया व्यव- हरन्तीत्याह- चैतन्यस्याज्ञानशक्तेरनादे- रजीवत्वं तु व्यअ्ञकं कल्पयन्तः । जीवारूढं व्यक्तमज्ञानमाहु- जीवो मूढ: कथ्यतेऽतो बहुजैः ॥ १९२॥ • चैतन्यस्ेति। यतोऽनादेरपि चिन्निष्ठाज्ञानशक्तेजीवित्वं व्य्षकमनुभू- यते यथा परेषां व्यक्तियोग्यत्वं जातेरित्यर्थः । कुत इत्याह-जीवारूढ- मिति। ततक्ष जवश्वरजगन्भेदस्य प्रत्यगज्ञानवशादुपपत्तेनाद्वैतसमन्व- यस्य भेदग्राहिप्रत्यक्षादिभिर्बाध इति माव: ॥१९२॥ अ० टी०-एवं सति वृद्धानां जीवाज्ञत्ववचनमप्युक्तप्रकारेणोपपन्नमिति प्रकरणार्थमुप संहरति-चैतन्थस्येति। वैतन्यस्य चिन्मात्रस्य संबन्धिनी या तदाश्रयविषयाऽज्ञाना त्मिका शक्तिस्तस्गा अनादेरज्ञानात्मना व्यञ्ञकं जीवत्वं चैतन्यस्यान्त:करणोपाध्युपरक्तत्वल- क्षणं कल्पयन्त आचार्या जीवारूढं सदज्ञानमज्ञानात्मना व्यक्तमाहुरतो हेतोर्बहुज्ैयिद्वद्भि- र्जीवो मूढ: कथ्यत इत्यपि सिद्धमित्यर्थः । तस्मात्प्रयक्चैतन्यमेवाज्ञानसंबद्धं सदीश्वरभावेन जगत्स्रष्टत्वादिभाग्भवति जीवभावेन च संसरति तस्वज्ञानेन च समस्तविभागप्रहाणेन मुच्यत इत्ययमेव सूत्रकारस्यापि सिद्धान्त इति द्रष्टव्यम् ॥ १९२ ॥। सु० टी०-ननु सूत्रकारस्य नेदटृगमिप्रायो दृश्यते परिणामस्पैव पापशो वर्णितत्वेन तत्रैव तात्पर्योन्नयनादिति चेन्न प्रपश्चस्य व्याषहा-
Page 133
५६८ [ २ द्वितीयोऽच्याय: ]
रिकश्वेन स्वप्ादिवैधव्धकथनाय तद्ूर्णनं न तु सत्त्वबुद्धयाऽन्यथा पूर्वा च्रविरोधादित्याह- अत्रैव वस्तुनि दर्ढ व्यवतिष्ठमानः पौदिभ्रदर्शनपरः पुनरन्यदन्यत्। भाषापदं किमपि निक्षिपति स्फुटं त. दस्माभिरेवमुपपादितमअ्जसैव । १९३॥ .! ' अत्रैवेति। नित्यमुक्ताद्वितीय आत्मा प्रपश्नस्त्वनिर्वचनीय इत्यत्रैव सिद्धान्ते स्थैर्यमापन्नोऽपि प्रौढिपरोऽभ्युपेत्य वादी सन्नन्यदन्यद्भाषा. पदं सूत्रवाक्यं निक्षिपति गृह्णाति । क्वचित् 'स्पाल्लोकवत्' [ ब० २।१।१३ ] इति, परिणामविषयं क्वचित् 'नेतरोऽनुपपत्तेः' [ब० सू०१।१।१६] इति जीवेश्वरभेद्विषयमिति। तर्हि सूत्रकृन्मत- मेव तत्किमिति न भवतीत्यत आह-सफुटमिति। लोकवदित्यादेरन्य- थोपपादितत्वादित्यर्थः ॥१९३॥ अ० टी०-यद्येवं कथं तर्हि 'स्यालोकवत्' [ब्र० २। १ । १३ ] इति सूत्रकारस्य परिणामाभिधानं जीवेश्वरभेदसिद्धवत्कारेण च 'नेतरोऽनुपपत्तेः' [ ब्र० १।१।११] ' अधिकं तु भेदनिर्देशात् ' [ब्र० २ । १ । २२ ] इत्यादिवि- वरणं चोपपद्यत इति चेननायं दोषो यथोक्त एव सिद्धान्ते कंचनोपकारमालक्ष्य प्रौढिवाद- तया तथा निर्देशोपपत्तेरित्याह-अत्रैवेति । चिन्मात्रमेवाविद्याशक्तियोगादुक्तविधया जीवेश्वरादिभेदभागित्यत्रैय वस्तुनि दृढं स्वसिद्धान्तनिश्चिततया व्यवतिष्ठमानः सूत्रकारः प्रौढिदर्शनपरः सन्पुनरन्यदन्यद्भाषापदं किमपि निक्षिपति परिणामवादजीवेश्वरभेदादिद्योतकं पदं कथयति न तत्र तस्य तात्पर्यमित्यर्थः । यद्भाषापदं सूत्रकारोडकथयत्तदस्माभिरेवमुक्तरी- त्याऽ्ञ्जसा सामञ्जस्येनोपपादितमेवेति योजना ॥ १९३ ॥ सु० टी०-इतश्र नेदं सूत्रकृन्मतमित्याह- विस्पष्टमात्ममतमेव हि सर्वधर्म- सूत्रेण सूत्रकदिदं दृढमाचचक्षे। सर्वज्ञतादिपरिपालनतत्परः सं- स्तत्रैव भाष्यकदपीदमुवाच यत्नात् ॥ १९४ ॥ विस्पष्टमिति। 'सर्वधर्मोपपत्तेश्ष '[ब.० सू० २। १ । ३५ ] इति सूत्रेण जगत्कारणत्वतद्धीजसर्वज्ञत्वादिधर्माणां ब्रह्मण्युपपत्ति बवतः
Page 134
[ २ द्वितीयोडप्याय: ] संक्षेपशारीरकम्। ५६९
सूत्रकृतो जगद्विवर्ताधिष्ठानत्वमेवाभिमतं कूटस्थस्य सा्त्विककारणत्वा- संभवादत इंदं यत्मागस्मामिरु्कत तदेव विस्पट्टमातममतत्वेन मुनि- रुक्तवानित्यर्थः । दाढर्यमेव दर्शयति-सर्वज्ञतेति। म तावस्कर्तृत्वमुपादा- मज्ञानं बिना, तज्ञ जगत्कर्तु: सर्वज्ञत्वं बिना कर्तृत्वं च कूटस्थस्य न मार्या विनेति विवर्त पवास्य संमत इत्यर्थः । अत एव भाष्यकारोऽपि सर्वज्ञं सर्वशक्ति महामायं ब्रह्मेति तथेव व्याख्यातवानित्याह-अंत्र- वेति। १९४॥ अ० टी०-नन्वयं सूत्रकारस्य प्रौढिवादो न सिद्धान्तत्वेनाभिमत इति कथमव्र- गम्यते मायावाद एव तथा कि न स्यादिति चेन्मैवं 'सर्वधर्मोपपत्तेश्र ' [ब्र० सू० २। १। ३५ ] इति सूत्रेण स्वपक्षसाधनप्रकरणमुपसंहरता सूत्रकारेणाज्ञानमाययैव कारण- स्वापेक्षितसर्वधमसिद्धिरीश्वरस्येति मुखतो मायावादस्य सिद्धान्तितत्वदर्शनादित्याह- विस्पट्टमिति। इदमेवाSSत्ममतमिति संबन्धः । दृढं विस्प्ष्टं चेदं मायानिबन्धनमी- श्वरस्य कारणत्वाद्युक्तवानिति कथं तस्मिन्सूत्रेऽज्ञानमायादिशन्दादर्शनादिति चेत्तत्राSडह- तत्रैवेति। अस्मिन्नेव सूत्रे सर्वजं सर्वशक्ति महामायं ब्रह्मेति वदन्भाष्यकृदत्नादिदं माययैव ब्रह्मण: सर्वज्ञर्वादिधर्मो जीवेश्वरजगदाकारश्वेत्येतदाहेति तथा च भाष्यवचनांदेव सूत्राभिप्रायस्य सर्वत्र ज्ञायमानत्वान्नात्र विप्रतिपत्यवकाश इत्यर्थ: ॥ १९४ ॥ सु० टी०-एवं स्वमतेन चिन्मान्ाश्रयविषयमज्ञानं जगत्कारण. मित्युक्त्वा जीवस्याज्ञानमिति पक्षं निरस्यति- अज्ञानित्वं ब्रह्मणो जीवता चे- न्नाज्ञानित्वं तत्र जीवस्य युक्तम् । अज्ञानित्वे चान्यदप्यभयुपेत- मज्ञानित्वं ययहो कष्टपिष्टिः॥१९५।। अज्ञानित्वमिति। जीवस्वं हि ब्रह्मणो न स्वाभाविकमसंसारित्वभ्ुति- विरोधात्। नाप्युपाधिकृतपद्वैतवादिनो वास्तवोपाध्यसंभवात्। अत- श्वाज्ञानावच्छिन्नत्वमेव ब्रह्मणो जीवत्वं ेत्तत्राऽऽह-नाझानित्वमिति। किं जीवत्वापादकमज्ञानं तद्वृश्यज्ञानान्व्िन्नसुताभिन्नमाद्ये दोषमाह- अज्ञानित्व इति। अज्ञानित्वस्याविं शुद्धत्रह्मावृत्तित्वेन तदाअ्रयावच्छेदक- मज्ञानान्तरं वाच्यमेवं तस्य तस्यापीत्यनवस्थेत्याह-अदो इति॥१९५॥
Page 135
५७० टीकादूय समेतं- { २ द्वितीयोऽध्याय: ]
अ०टी०-तेदेवं प्रत्यव्बात्राश्रयविषयमज्ञानं तद्विलासश्वायं सर्वो जीवेशादिभेदस्त- स्यैव प्रत्यक्चिन्मात्रस्य विद्योदये सर्वात्ममा निवर्तत इति स्वमतमुप़पादितमिदानी तत्स्थेमार्थ पुनरपि प्रत्यावृत्य जीवस्यैवाज्ञानं ब्रह्मविषयकं न ब्रह्मणोऽज्ञानसंबन्धस्तथात्ये तस्य जीवत्वा- 'पत्तेविशुद्धत्वं ब्रह्मेश्वरो वा न सिध्येदिति ये मन्यन्ते तन्मतं दूषयति-अज्ञानित्वमिति। 'सयं देवतैक्षत हन्ताहमिमास्तिस्त्रो देवता अनेन जीवेनाऽडत्मनाऽनुप्रविश्य' [छा० ६। ३ । २ ] इत्यादिप्रवेशश्रुतीरनुसरता ब्रह्मण 'एत्र स्वसृष्टकार्यानुप्वेशेन जीवभाव इति वसतव्यम्। तत्रेदमभिधीयतां-ब्रह्मणो जीवत्वं नामाज्ञानित्वादन्यदज्ञार्नित्वमेव वेति। नाऽडगो विद्यापोह्यस्य जीवभावस्याविद्यात्मत्वानपायाद्ह्मण्यविद्याप्रवेशात्। द्वितीये ब्रह्मणो जीवता चेदज्ञानित्वमभिमतं त्षत्र पक्षे जीवस्याज्ञानित्वं न युक्तं ब्रह्मण एबाज्ञत्वाज्ीवस्य तदसिद्धेः। कुतो जीवस्याज्ञस्वादिसिद्धिरिति चेत्तत्र वत्तव्यं किं ब्रह्म येनैवाज्ञानेन जीव- वभावमापनं तैनैबाज्ञानित्वं जीवस्याज्ञानान्तरेण वेति। तत्राऽडये स्यादात्माश्रयताऽज्ञान- विशिष्टे जीवऽज्ञानाश्रयत्वामेते स्वाश्रयतापत्तेरित्यथः । द्वितीयमनूद्य दूषयति-अज्ञानि- स्वे चेति। यद्यन्तः पक्षानुयादः। अहोइन्यादिर्दूषणभामः । पिष्टिः पिष्टपेषणं किष्ट कल्पनं
सु० टी०-पुनश्र तद्ज्ञानं शुद्धबह्माश्रयं प्रसजजते बच्च तवानिष्टमे- वेत्याह- अज्ञानित्वं ब्रह्मणश्रानभीष्ट- मस्मिन्पक्षे दुर्निवारं प्रसक्तम्। अज्ञानित्वं बह्मणश्रेदर्भाष्ट- मस्मत्पक्षस्त्यज्यते कस्य हेतोः॥ १९६॥ अज्ञानित्वमिति। अभ्युपेयं चेेनैवालं कि तदवर्च्छिन्ननिष्ठेनाज्ञा[ना]नत रणति भावः । त्वन्मतासिद्धिश्रात्र दूषणमित्याह-अज्ञानित्वमिति। कंस्य हेतोरिति। शुद्धब्रह्माश्रयादंतिरिक्तेन कि साध्यमित्यर्थः ॥१९६॥ अ० टी०-न केवलमस्मिन्पक्षे जीवेडज्ञानाभावोऽपि तु ब्रह्मण्यज्ञानमम्युपगतं स्याद-
पूर्वोक्तमेवानवस्थालक्षणं दूषणं प्रसक्तमतो ब्रह्मण्येवाज्ञानसिद्धिरित्यर्थः। नन्वस्माभिरपि ब्रह्मण्येवाज्ञानमिष्यते किं तु तज्जीवकोटावेब न साधारणतयेत्येतावद्विशेष इति स यदि
१ ग. सज्यते।
Page 136
6 २ द्वितीयोऽथ्याय: ] संक्षेपश्ञारीरकमू। ५७१
ब्रूयात्तत्राऽह-अज्ञानित्वं बह्मणश्रेदमीष्टमिति। तहीश्वरोऽप्यज्ञानोपाधिरित्य- स्मत्पक्ष: कस्मान्निमित्तात्यज्यत एकाज्ञानकल्पितत्वस्योभयत्राविशेषादित्यर्थः ॥ १९६॥. सु० टी.०-कस्येति प्रश्नं मत्वाSSशकूते- शुद्धत्वार्थ ब्रह्मणस्त्यज्यते पे- दस्मत्पक्षेऽप्पस्ति शुद्धत्वमस्य। अस्मत्पक्षे शुद्धता वास्तवी चे- युष्मत्पक्षे कल्पिता शुद्धता किमू ॥ १९७॥ शुद्धत्वार्थमिति.। अ.पहृतपाम्मत्वादिसिद्धयर्यमित्यर्थः । कल्पिताज्ञान- संबन्धेऽवि ब्रह्मण: स्वाभाविकी शुद्धिरनीपै(*नयध्यासाधिठ्ठानस्याध्यास- कालेऽपि निजस्वरूपा प्रच्यवा दित्याह-अस्मत्पक्षेऽपीति.1.). ननु. ब्रह्माज्ञान -- पक्षे वस्तुत एव शुद्धता न प्रतीतितोऽज्ञानित्वेन कल्पिताशुद्द्विसत्त्वा- दिति शङ्कूते-अस्मत्पक्ष इति.।, मवत्पक्ष इत्यर्थ: । युष्मत्पक्षेऽरपि वास्तव्येव. शुद्धि :- प्रपस्चाधिष्ठानेऽस्मिन्कल्पिताशुद्धेरपरिहार्यत्वािति. वक्रोकत्या परिहरति-युष्मदिति ।२९७।।।
भदित्यज्ञानं तत्र. नेष्यत. इति शङ्कते-शुद्धत्वार्थमिति। अज्ञानसंबन्धाभ्युपगभेऽपिः तस्य तत्र. कल्पितत्वान्न वास्तवशुद्धिक्षतिरिति परिहरति -- अस्मत्पक्षेपीति। नन्वेवं, •स.ते वास्तव्येव. शुद्धिः स्यान्न प्रतीतितोऽपीति शङ्कामुत्थाप्य. दूषयति -- अस्मत्पक्ष इति । अक्षरार्थः स्पष्टः । वास्तव्येव विशुद्धिर्न प्रातीतिकीति वदतो वास्तव्याः शुद्धेरविरोधमालम्ब्यः प्रतिभासत. ईश्वरस्याप्यस्ति सविशेषत्वलक्षणाऽ्गुद्धिरिति गूद्ोडभि- प्रायः ।.१९७। सु०टी.०-जीवाज्ञाननिरकरणभुपसंहरति- कष्टः कष्टः कल्पितब्रह्मवाद: श्रेयोमार्गाद्ध्रश्यतो. भ्रान्तबुद्धेः। त्यक्तव्यस्ते सज्जनैरस्मक्षीयः श्रेयोमार्गः श्रेयसे चाश्युपेयः ॥१९८॥ कष्ट :: कष्ट इति। वीप्सयाऽत्यन्तायुक्तत्वं सूचयति-कल्पितेति। स्वोत्मे-
- क. पुस्तकेनास्त्ययं ग्रन्थः ।.
Page 137
५७२ टीकाटुय समेतं- [ २ द्वितीयोऽध्याय: ]
क्षितत्रह्मवाद इत्यर्थः । बह्माथिताज्ञानास्वीकारे बन्धस्याSडविद्यकत्वा- सिद्धेरनिर्मोक्ष इत्याह-श्रेयोमार्गादिति। भ्रश्यन्तं विशिनष्टि-्रान्तबुद्धेरिति। स्वकल्पितानुपपत्नजीवाज्ञानमानिनस्त इति संबन्ध: । किं तत इत्याह- व्यक्तव्य इति। नन्वेतदृपि बहुव्याख्यातुसंमतत्वाद्गाह्यमिति चेन्नाविवेक- मूलकत्वादित्याह-सज्जनैरिति । तत्व दृष्टिमिरित्यर्थः ॥ १९८॥ अ० दी०-ईश्वरस्य व्यावहारिक्यशुद्धिरपि जगसस्रधटृत्वादिलक्षणैव न जीववत्संसा- रित्वलक्षणेति पूर्वमेवोपपादिताऽस्मन्मंत व्यवस्था तस्मादज्ञानकल्पितजीवभावविशिष्टस्यै बाज्ञानं तस्य च विद्यया ब्रह्मभावो मोक्ष इति कल्पितजीवस्य ब्रह्मभाव इति वदतः पक्षः सर्वन्यायविरुद्ध इति नोपादेयः श्रेयोर्थिभिः कित्वस्मत्पक्ष एवोपादेय इत्युपसंहरति- कृष्टः कष्ट इति। सज्जनैः श्ेयोर्थिभि: शुद्धबुद्धिभिः । स्पष्टमन्यत् ॥ १९८॥ सु० टी०-(*ननु यदि ब्रह्मण्यज्ञानं तर्हि तदेव संसरतु किमवच्छि- प्नेन जीवेन कथं तहिं बद्धमुक्तव्यवस्थेति चेदज्ञानतदभावाभ्रयत्वाम्या- मिति तूम: ।) न च नैकतैकस्य युगपद्भावामावी व्योक्नि पक्षयादीनां तदर्शनादिति शङ्कते- एकोपाधावस्तिता नास्तिता च मूढत्वस्य स्वीकता चेत्परस्मिन्। व्योम्म्येकस्मिन्नस्तिता नास्तिता च पक्ष्यादीनां यद्वविष्टा तथैव ॥ १९९ ॥ एकोपाधाविति। यथैव सा पक्ष्यादीनां व्योम्नीषा तथैव परस्मित्रप्पे- कोपाधी मूढत्वस्यास्तिता नास्तिता च स्वीकृता चेदिति संबन्ध:॥१९९॥ अ० टी०-अस्तु ब्रह्मण्येयाज्ञानं तथाप्यज्ञानित्वमेव तस्य जीवरूपत्वं तदसंबद्ध- रूपेण चेश्वरत्वं तस्त्रज्ञानादेव। एवं च नैकत्रैकस्य भावाभावविरोध एकस्मिन्प्याकाशे पक्ष्या- दीनां भावाभावविरोधादर्शनादिति शङ्कते-पकोपाधाविति। परस्मिन्ब्रह्मणि मूढत्वं चेद्गवतेष्यत इति योज्यम्। तदैकोपाधावस्तिता नास्तिता चाज्ञानस्य स्वीकृतैव न विरो- धोऽपि दृष्टान्तसंभवादित्याह-व्योभ्नीति। स्पष्टोऽर्य: ॥ १९९॥ सु० टी०-किमज्ञानसमानसत्ताकस्तदमावस्तदा तत्रास्तीत्युव्यते तद्विषमसत्ताको वा नाऽड्घ्यः।तयोर्िरोधादेकसत्वेऽपराभावननियमात् ।
*क. पुस्तके नःस्त्ययं ग्रन्थः ।
Page 138
[२ द्वितीयोऽप्याय: ] संक्षेपशारीरकम्। ५७३
अन्त्ये वास्तवतद्भावसत्वेऽि बद्धत्वमुक्तत्वयोर्व्यायृत्त्यर्थ तन्भ्भावामा- वयोर्विरुद्धोपाधिद्टयावच्छेदो वाच्यो बिम्बप्रतिबिम्बत्वं वाऽडभ्रयणी- यम्। एवं चानवच्छिन्नमेव संसरत्विति त्वदिष्ट हयेतेत्याह- नैतत्सारं सत्त्वमिष्टं यदि स्या- दस्तित्वादेरिष्टहानिः प्रसक्ता। एकोपाधावस्तिता नास्तिता चे- त्स्यादित्येवं स्वीकतेऽस्मिन्हि पक्षे ॥ २००॥ नैतदिति। सत्त्वमेकवृत्तित्वम्। दूषणान्तरसमुच्चिचीषया पुनस्तं पक्ष- मनुवदृति-एकोपाधाविति ॥२०० ॥ अ० टी०-आकाशे पक्ष्यादेर्भावाभावप्रतीतिरुपािभेदापेक्षयैव न निर्द्वारं कापि भावाभावप्रतीतिरित्यनुभवबलमादाय परिहरति-नैतत्सारमिति। अस्तित्वादेरेस्तित्वना- स्तित्वयोरेकस्यैकस्मिन्स्त्वं यदीष्टं स्यात्तदेष्हानिः प्रसक्तेति योजना। कस्य मते प्रसक्तत्यत आह-एकोपाधाविति । चेत्येतावदिह विवक्षितं चेदिति छन्दःपूरणार्थं: प्रयोग: ॥ २०० ॥ सु० टी० -- तज्च दूषणान्तरमाह- धूमे सत्ता स्यादसत्ता च तस्मि- न्धूमस्यैवं कारणं कल्प्यते किम्। कादाचित्कं कारणं नान्तरेण स्यादित्येवं तस्य क्लपि: कुतो वः ॥ २०१॥ धूमे सत्तेति। पर्वतवृत्तितेत्यर्थः । तस्मिन्धूमे तदैवासत्ता पर्वतावृत्तिताऽपि स्यादित्यर्थः । अस्तु सा व्योम्नि पक्षिण इवेति चेन्नेत्याह-धूमस्यैव- मिति। एवं सतीत्यर्थः । किं कथमित्यर्थः। कादाचित्कत्वाद्बूमः। सका. रण इति कल्प्यमिति चेत्तदृपि न संभवर्तीत्याह-एवं तस्पेति। एवं सति धूमकालेऽवि तत्र तद्भावसत्त्वे धूमाभावकालं इव धूमकालेऽपि तत्कारणवह्निसत्ता कुतः कल्पेत कल्पकाभावनिश्चयादित्यर्थः ।।२०१ ॥ अ० टी०-इष्टहानिप्रसङ्गमेव स्पष्टयति-धूमे सत्तेति। धूमे सत्त्वस्कुरणकाले तस्यासत्त्वस्यापि संभवाद्धमेऽसत्ता स्यात्तस्मिन्नेव स्थाने काले च सत्ता च स्यात्। एवं सति धूमस्य कारणमभनिः कि कल्प्यतेऽनुमीयते नैवेत्यर्थः । यद्वा तस्मिन्धूमेऽसत्ता च
Page 139
टीकाष्टय समेतं-
स्यादिति संबन्ध; ।: तत्रासस्त्रपक्षे तेनाग्यनुमानासंभवं स्फुटयति-कादाचित्कं कार णमिति। कादाचित्क कारणं. लिङ्गमन्तरेण कारणानुमानं न स्यादित्येवं सति तस्पाग्ने: क्लप्तिरनुमानं धूमस्य सत्तासत्त्वपक्षे कुतो वः स्यादित्यर्थः ॥ २०१ ॥ सु० टी०-नन्वभावसत्त्वेऽि धूमनिश्चयादेव तत्कारणं कल्व्यमितिः चेन्न व्योम्नि पक्षिण इब धूमस्यापि तदाश्रये तदानीमभावनिश्चयेन वत्प्रति बन्धादेव, तत्कल्पनानुदयादित्याह- कादाचित्कात्कल्पनां कारणस्य. प्रत्याचक्षीताविरोधं बुवाणः । एकोपाधावस्तिन स्तित्वयोर्हि तस्मादेषा कष्टवलृप्तिर्न कार्या ॥ २०२॥। कादाचित्कादिति। अस्तित्वनास्तित्वयोरेकोपाधावविरोधं बुवाण: कार्यात्कारणस्य कल्पनां प्रत्याचक्षीतेति संबन्धः ।उपसंहति-तस्मादिति, । २०२ । अ० टी०-तदेवमेकोपाधवेंकस्यास्तित्वनास्तित्वे वदन्विरोधं न परिहतु शक्नुया- दित्युपसंहरति-कादाचित्कादिति। हि यस्मादेकोपाधावस्तित्वनास्तित्वयोरविरोधं, त्रुवाण: कादाचित्कात्कार्यात्कारणस्य कल्पनामनुमानं प्रत्याचक्षीत तस्मादेषा कष्टक्लप्तिर्न, कार्येति योजना.।. एकस्मिन्नेव ब्रह्मणि प्रतीत्यैव भावाभावाविति कल्पना न कार्या न्याय- विरोधादनुभवविरोधाच्चेत्यर्थ: ॥ २०२॥ सु० टी०-ननु यथा भवताभेकत्र चैतन्ये स्वतः स्फुरणमद्द्या-
स्तित्वे स्यातामिति शङकूते- ननु चैकरूपचितिवस्तुगतं स्फुरणं तदस्फुरणमेव च वः । अविरुद्धमश्युपगतं द्वितयं तदिवास्तिनास्तियगलं भवत ॥ २०३ । बनु. चेति॥। २०३ ॥। अ० टी०-निरस्तेडप्येवं पक्षे पुनःसिद्धानव्यभिमतं दृष्टान्तमुपालम्य पुर्वपक्षी स्वपक्ष- सथापनं शङ्कते -- नन्विति। स्वप्रकाशसनमात्रत्वमेकरूपत्वं स्वप्रकाशतया स्फरणमज्ञ/-
Page 140
[ २ द्वितीयोऽध्याय:]
नादस्फुरण चेतिद्वितयमेकस्मिन्त्रह्मणि यथा युष्माकमभ्युपगतमस्तीति दृष्टान्तार्थः अस्ति नास्तीति भावाभावरूपं युगलमज्ञानस्म ब्रह्मणि भवत्विति दार्श्ान्तिकार्थः॥२ ० ३ ।। सु० टी०-चैतन्यस्य हिन स्फुरणं धर्मः किंतु वस्तुस्वरूपमस्फुरर्ण हवविद्याकृतमारोपितम् । न चाSडरोपितवास्तवयोर्विरोध:। प्रकृते तु समसत्ताकभावाभावयोविरोध एवेति दृष्टान्तवैषम्यममिप्रेत्य दूषयति- न तदात्मनः स्फुरणमेव निजं परतोऽप्रकाशनमबोधवशात्। न च किंचिदन्यदनयोरुभयो- रविरोधसिद्धिकद्ुदाहरणम् ॥ २०४॥ न तदिति। नापि संयोगादेरिवाज्ञानस्याप्येकत्र मावाभाषौ तवोरवि भिन्नप्रदेशवृत्तित्वात्। न च नमर्यात्मनि वा स्वतः प्रदेशमेदोऽस्तीति न तद्दृष्टान्तेनापि त्वन्मतसिद्धिरित्याह-न चेति ॥। २०४ ॥ अ० टी०-वस्तुतस्तु स्फुरणं भ्रान्त्याऽस्फुरणमित्यस्माकमभ्युपगमोऽतो दृष्टान्तवै नम्यमिति परिहरति-न तदात्मन इति। न तदिति पक्षनिषेधार्थः। यत आत्मनः स्कुरणं निजमेब स्वाभाविकमेव निरपेक्षमत्रेति वा यत् (ति यावत्)। अप्रकाशनं तु नरतोऽन्यस्मात्। तदेवाऽह-अबोधेति। अबोधवशादज्ञानवशादित्यर्थः। अस्फुरणं चेदात्मन आरोपितं स्फुरणं निजं सत्यं सदातनमेवेति नास्माकमुभयमेकनिमित्तकमिति ष्टान्तसिद्धिरिति भावः । एवमन्यत्रापि यत्र यत्र भावाभावसंकरशङ्का तत्र सर्वत्र द्वारभेदेन ॥ तास्त्रिकत्वातास्त्रिकत्वेन बा तत्परिहारोऽस्त्येवेत्याह-न च किंचिदिति ॥२०४॥ सु० टी०-ननु न स्फुरतीति नत्रा स्फुरणामावप्रतीते: कथं नैकत्र रुगपद्भावाभावाविति पूर्ववादिशङ्कामपाकरोति- स्फुरणास्फुरणे च नाउऽत्मन: सदसन्भावतया मनीषिते। स्फुरणं चितिरात्मवस्तुन- स्तदविद्यास्फुरणं च कथ्यते ॥ २०५॥ सुरणेति। नैते भावामावावभिमते किं तर्हि चितिरेवाऽडतमनः
१ क. शमनबो"।
Page 141
५७६ टीकादप़ समेतं- [ २ द्वितीयोऽध्याय: ]
स्फुरणं ताहिपयाभ्रया या भावरुरपाडविद्या सैव स्फुरणविरोधित्वेनास्फु- रणमिति नन्राऽभिधीयते नेक्षेतेत्वादाविवेक्षणविरोधी संकल्प इस्युभयं भावरूपमेवेत्यर्थः ।। २०५।। अ० ही०-आत्मनः स्फुरणास्फुरणयोर्भावाभाषत्वानम्युपगमान्न भावाभावयोरविरोधा
सु० टी०-ततश्जानवच्छिन्नस्यैव ब्रह्मणोऽज्ञानित्वं जीवत्वमिति न किं त्वविद्यानिष्ठचिद्वस्तुप्रतिबिम्ध एवेत्याह- अज्ञानित्वं जीवभावो न तस्मा- ज्जीवत्वादे: कारणं युक्तमेतत्। पाणोपाधेर्वाचको जीवशब्द- श्र्वैतन्यस्य स्यात्प्रसिद्धो हि तत्र ॥ २०६॥ अज्ञानित्वमिति। कुत्र तर्ह्यज्ञानित्वस्योपयोग इति तत्राऽऽह-जीध- र्वादेरिसि। जीवत्वेश्वरत्वादे: कारणमुपाधितया प्रयोजक तहित्यर्थः । कथं तार्हे सुषुप्तादौ न जीवव्यवहारस्तत्राSSह-प्राणोपाधेरिति। प्राणातमकलि- कशरीरोपाधिरात्मा जीवव्यवहारावलम्बनं तत्रैव लोकप्रसिद्धेरतस्त- द्मावान्न सुषुप्ती तद्यवहार इत्यर्थः ॥ २०६॥। अ० टी० -- तस्मादज्ञानित्वं जीवत्वं न भवति कि तु ततोऽन्यदेवेत्याह-अज्ञा- नित्वमिति। तस्मादज्ञानित्वं न जीवभाव आत्माश्रयत्वादिदोषप्रसक्तेरित्यन्वयः । तर्ह. ज्ञानं कोपयुज्यत इति तदाह-जीवत्वादेरिति। जीवत्वस्येश्वरत्वस्य जडप्रपश्चस्य साधारणं कारणमज्ञानमित्यर्थः । तर्हि जीवत्वस्य को विशेषहेतुरिव्यपेक्षायामाह-प्राणो- पाधेरिति। प्राणशब्देन ज्ञानक्रियाशक्त्यात्मकं प्राणेन्द्रियान्तःकरणसंघातरूपमज्ञानस्य प्रथमकार्य लिङ्गशरीरं विवक्ष्यते। तस्मिन्नहमित्यात्मत्वाभिमानेन प्रचिश्य तद्धारणनिमित्तं चिदात्मनो जीवस्वं नाज्ञानित्वमात्रमिति भावः । प्राणोपाधेश्वैतन्यस्य वाचको जीवशब्द: स्यादिति संबन्धः । कुतौऽवगम्यत एतदिति चेत्तत्राऽऽह-प्रसिद्धो हि तत्रेति। प्राणोपाधौ जीवशब्दः प्रसिद्ध इश्यर्थः ॥ २०६ ॥ सु० टी० -- प्रसिद्धो हीत्युक्तमेव व्यनक्ति- अज्ञानजन्यकरणप्तिबिम्बवाचि जीवाभिधानमिह वृद्धजनप्रसिद्धम्।
Page 142
[ २ द्वितीयोऽण्यायः ] संक्षेपशारीरकम्। ५७७
अत्रैव निर्वचनमस्ति च तस्य तस्मा ज्जीवो भवेत्करणपूगवशीकता चित् ॥ २०७॥ अज्ञानेति। करणमन्त:करणादि। अज्ञानादिप्रतिबिम्बचैतन्ये जीवपद ऋूढमित्यर्थः । योगशक्तिरपि तद्विषयैवेत्याह-तत्रैवेति। जीव प्राणधारण इति धाखतनुसारात्। करणात्मकलिङ्गेपहितचैतन्यमेव जीवशब्दार्थ इत्यर्थः ॥ २०७॥ अ० टी०-प्रसिद्मेव स्पष्टयति-अज्ञानेति। करणशब्दो लिङ्गवचनः । प्रति- बिम्बत्वं तस्मिन्नभिमानित्वेन विशेषतोSभिव्यक्तिर्वद्वूजनप्रसिद्धं जीवशब्दोडत्र रूढ इत्यर्थः। जीवपदस्य योगवृत्तिरप्यत्रैवेत्याह-अत्रैवेति। तस्य जीवपदस्यात्रैवोक्तोपाधिके चिदा तमन्येव निर्वचनमस्ति जीव प्राणधारण इति धातुपाठदर्शनादिति योजना। उपसंहरति- तस्मादिति। पूग: समूहः । लिङ्गशरीरवशीकृता चिज्ीवो भवेदित्यर्थः ॥ २०७ ॥ सु० टी०-तस्मात्प्रपञ्चस्य सर्वस्य जीवत्वस्य चाज्ञानकार्यत्वेनाज्ञा- नात्मकत्वाद्वह्लैवाज्ञानाश्रयः परिशिष्यत इत्याह- बरह्नैवाज्ञानि तस्मादिह भवितृमळं नापरं वस्तु किंचि- त्तस्याज्ञानात्मकत्वान्न च तमससि तमस्तन्निवृत्तेरयोगात्। नाज्ञानोत्थस्य विद्याजनिरिह घटते तां बिना तन्न नश्ये- न्न ह्यज्ञानं विनश्येदवगतिजनकज्ञानजन्मान्तरेण॥ २०८॥ ब्रह्नैवेति। इह सिद्धान्ते। ब्रह्मभिन्नस्याज्ञानाश्रयत्व आत्माश्रय इत्याह-न चेति। जडेऽज्ञानवैयर्थर्याञ्चत्यर्थः। जडाभ्रयाज्ञानस्य निघ्ृ- त्ति्रापे दुर्घटेत्याह-तन्निवृत्तेरिति। कुत इत्याह-नेति। न ह्यज्ञानोत्थ- स्य जडस्य प्रमातृत्वं न चाप्रमातुरज्ञाननिवृत्तिरित्यर्थः । अस्तु क्रिय- यैव तन्निवृत्तिरिति नेत्याह-न हीति। विषयामिव्यञ्ञकान्त:करणवृत्तिं विनेत्यर्थः ॥ २०८॥ अ० टी० -- तस्माचचिदात्मन्येवाज्ञानं न जीवे ततोऽन्यत्र जडप्रपञ्चे वेति प्रसिद्धमिति परमप्रकृतमुपसंहरति-ब्रह्मैवेति। अपरं वस्तु नाज्ञानि भवितुमलमित्यत्र मानमाह- तस्याज्ञानात्मकत्वाढिति । तस्य जीवस्याज्ञानकार्यतयाऽ्ज्ञानात्मकत्वादित्यर्थः । तादशे च नाझानमित्यत्र दृष्टान्तमाह-न च तमसीति। आत्माश्रयत्वापत्तेरित्यर्थः ।
१ ग. तनरै ।
Page 143
[ २ द्वितीमोऽव्याय: ]
स्व्वृश्यम्युपगमेपि न तन्निवृत्तिसंभव इत्याह-तन्निवृत्तेरयोगादिति । अयोगमे- वाऽह-नाज्ञानोत्थस्य विद्येति। अज्ञानकार्यस्य जडत्वात्तस्मिन्विद्याजनेरसंभवादि- त्यर्थः। जीवत्वविशिष्टे चिदात्मन्यज्ञानमितिमतेऽप्यात्मश्रयत्वादिदोषो Sनिवृत्तिप्रसङ्गश्रोक्तो वेदितव्यः । माऽस्तु तर्हि तमोनिवृत्तिर्ज्ञानादितिचेतत्राSSह-तां विनेति। ' तमेव विदित्वाSलिमृत्युमेति' इतिश्रुतेर्नाSSत्मविद्यामन्तरेणाज्ञानात्मकतमोनाशः संभवतीत्यर्थः,1 उक्तमेव साधयति-न हीति।'तस्मिन्दृष्टे परावरे' [ मुण्ड० २।२।८] इति श्रुतेः प्रकाशोदयं बिना तमोनिवृत्तेरदर्शनादित्युपपत्तेश्चेत्यर्थः ॥ २०८॥ सु० टी०-अस्तु तर्हि वास्तवमेव जीवत्वं बाधकाभावात्ताहशे चाज्ञानादि संभवतीति चेन्नेत्याह- अज्ञानात्मकवस्तु नाऽऽश्रयतयाऽज्ञानस्य संभाव्यते नाज्ञानात्मकताबहिःऊतमिदं जीवत्वमङ्गीकतम्। नाज्ञानाश्रयमध्यपाति घटते जीवत्वमेतेन व- श्रवैतन्याश्रयमेतदस्तु घटते तत्रैव हीदं तमः॥२०९॥ अज्ञानात्मकेति। अज्ञानघटिते हि नाज्ञानं मवति। न च जीवत्वमज्ञा- नवहिर्मान वास्तवमङ्गीकृतं विद्ृद्धिः 'तत्वमसि'[ छा० ६। ८१७] इत्यादिश्ुतिबाधितत्वादित्यर्थः । फलितमाह-नाझनेति। जीव- सविशिष्टं नाज्ञानाश्रय इत्यर्थः । एतेनोक्तन्यायेन। ततश्र परिशेषाज्चि- दाश्रयमेवेत्यर्थः ॥ २०९ ॥। अ० टी०-जीवत्वस्याज्ञानाश्रयत्वानभ्युपगमे च तवापसिद्धान्तप्रसङ्ग इति वदलुक्त- मुपसंहरति-अज्ञानेति। अज्ञानस्येति च्छेदः। अङ्गीकृतं त्वयेति शेषः । अतः फटितं
सु० टी० -- नन्वेवमद्वयब्रह्माश्रयमज्ञानमित्युक्तं भवति तच्चायुक्तं जीवाश्रयत्वेनानुभवादिति शङ्कते- ननु चादयाश्रयतम:स्फुरणं न कथंचिदत्र न हि तत्स्फुरति। स्फुरदाश्रयस्य तमसः स्फुरणं घटते न चाद्यमिह स्फुरति ॥ २१०॥ नतु चेति। न ह्याद्वयाश्रयं तदनुभवितुं शक्पमद्टयस्यास्फुरणादित्यर्थ:।
Page 144
[२ द्विलीयोऽष्याय :: ] संक्षेपशारीरकम् । ५७९.
तार्है स्वतन्त्रमेव तन्भ्भासतामिति नेत्याह-स्ुरदाश्रयस्येति। अज्ञानस्याSS. श्रयविषयनिरूप्यत्वादविद्यादशायां चाटयस्यामानादित्यर्थः । २१०॥ अ० टी०-चिन्मात्राश्रयमज्ञानमित्येतदनुभव विरुद्वत्वादयुक्तमिति झडकते-नन्वितिः। अत्र व्यवहारभूमौ। तत्र युक्तिमाह-न हि तत्स्फुरतीति। तदद्वयं वस्तु व्यवह र्तणां नहि स्फुरति। तदस्कुरणे तदाश्रिततमःस्फुरणायोगान् ह्याश्रयस्कुरणं विना तद्गतध र्भस्फुरणं संभवतीति प्रसिद्धमेतदित्यर्थः । उक्तमेव स्फुटयति-स्फुरदाश्रयस्थेति। u२१०॥ सु० टी०-समाधत्ते --
नाद्वैतवस्तुविषयं निशितेक्षणानाम् ॥ नाsडनन्दनित्य विषयाश्रयमिष्टभेत- त्मत्यक्त्वमात्रविषयाश्रयतानुभूतेः ॥ २११॥ नेति। सत्यमद्यमेव चैतन्यमज्ञानस्याऽडश्रयो विषयश्च तस्यैवाज्ञान कार्यभेदविरोधित्वेन तद्योग्यत्वास्किं तु नाट्टयत्वाकारेण तस्पाSडश्रयत्व- विषयत्वे तथाऽननुभवादद्यत्वस्याभावघटितत्वादप्रसिद्धत्वेन चाज्ञाना- नवच्छेदकत्वादृषि तु यद्वस्तुतोऽ्दय तदेव प्रत्यक्वैतन्यात्मनाSडश्रयो विषयश्रेति न विरोध इत्यर्थः । तर्हि भावरुपेणाSSनन्दत्वादिनाऽस्तु
न जानाभीत्यनुभवावध्म्भेन प्रत्यङ्मात्राश्रयविषयमेव तदिष्टमि न्यर्थ: ॥ २११ ॥ अ० टी०-सत्यमद्वैताकारेणाज्ञानाश्रयत्वं नेष्यते तथाऽनुभवाभावादेवेति परिहरति- नाज्ञानमिति। निशितेक्षणानां निशितमतीनामस्माकमद्वयसमाश्रयमज्ञानं नेष्टं तटस्थ- ब्रह्माश्रयत्वमज्ञानस्य नेष्टभित्यर्थः । तार्हि चिन्मात्राश्रयस्याज्ञानस्याद्वैताकारं ब्रह्म विषय: स्यादिति रूपभेदेन विषयाश्रयभेद इष्टः स्यादिति चेन्नेत्याह-एवं नाद्वतवस्त्वति। अज्ञानानुभवदशायामद्वैताकारवस्तुनोऽसिद्धत्वादेव विषयतयाऽपि तस्य नाज्ञानावच्छेदकत्व मवभासतेऽद्वैतानुभवदशयां त्वज्ञानमेव नानुभूयत इति कुतो विषयाश्रयभेदानुभव. इत्यर्थ: । अनुभवाभावादेव नाऽ्नन्दसत्याद्यात्मनाऽप्यज्ञानाश्रयविषयतेष्यत इत्याह- नाSडनन्दनित्येति । कथं नेष्टमित्यत आह-प्रत्यकत्वेति। अहमज्ञो मामहं न. जानामीति ह्यज्ञानमनुभूयते नाद्वैतं ब्रह्मानन्दादिरूपमज्ञानं न जानामीत्यतः प्रत्यक्चैतन्या-
Page 145
५८० टीकाद्य समेते- [ २ द्वितीयोऽच्याय: ]
अयधिषयतवेनैवाज्ञाना नुभवाद्वस्तुतस्तस्याद्वयात्मत्वेडपि न तेना SSकारेणाज्ञानावच्छेदकता सस्य शास्त्रैकगम्यत्वादित्यर्थः ॥ २११॥ सु० टी०-नन्वस्तु प्रत्यग्पेणाSSभरयत्वं न तु तेन रूपेण विषयत्वं तस्य प्रतिभासमानखवेनाSSवरीतुमशक्यत्वादिति चेत्तत्ाऽडह- प्रत्यक्त्वमात्रविषयाश्रयमोहहेतोः प्रत्यक्तिरोहित इति प्रतिपादयामः। प्रत्यञ्चमेव खलु वेधि न वेधि चेति प्रत्यक्षमस्ति ननु वेदनमस्य पुंसः ॥२१२॥ प्र्यकत्वेति। मोहृहेतोर्मौहात्कारणादित्पर्थः । विषयस्याज्ञानविशेषण स्वाद्ज्ञानस्य च तदनुपपतेः स्फुरदेव रूपमज्ञानावच्छेद्कत्वेनाSSवृत
ज्ञानादावाश्रयविषयमेदो हष्टस्तथाऽपि तत्र ज्ञातु: स्वात्मनिवृत्तिविरो धात्तथाऽत्र तु तद्भावाल्वाघवादुमयैक्थेऽपि न क्षतिरिति निगर्वः । अत्रार्थेऽनुमषं प्रमाणयति-प्रत्यञ्चमेवेति ॥ २१२ ॥ ज० टी०-नन्वावृतत्वं ह्यज्ञानविषयत्वं प्रत्यभ्ूपेण स्फुरतश्च चिदात्मनः कथं तद्रूपे णाSSवृतत्वं येन विषयत्वं स्यादतो विषयत्वमद्वैताकारस्यान्यस्य वा वक्तव्यमिति चेननेत्याह- प्रत्यकत्वेति। यदाश्रयतया ज्ञानं स्फुरति तस्मिन्नेव तत्कृतोऽतिशयोऽस्तु तमस इट स्वाश्रयादन्यत्न तस्यातिशयजननसामर्थ्याभावादिति प्रतिपादयाम इत्यर्थः । तत्र हेतुमाह- प्रत्यञ्चमिति। प्रत्यक्षमस्ति स्फुटानुभवोऽस्तीत्यर्थः । नन्विति संबोधने । अस्य पुंसोऽज्ञ स्येत्यर्थ: ॥ २१२॥ सु० टी०-नन्वेकस्यैव निरंश चैतन्यस्याSSश्रयत्वेन स्फुरणं विषय त्वेनास्फुरणमिति विरुद्धमिति चेन्न संवित्स्व प्रकाशत्ववादिनामपि वादि प्रतिपत्तिवशेन स्फुदन्त्यामपि संविद्यज्ञातत्वाभ्युपगमवद्विरोधादित्याह- संवित्परिस्फुरति न स्फुरतीति तस्यां वैयात्यदूषितधियस्तु विसंवदन्ते।
१ क. तस्या वैजात्य ।२ क. 'यस्त्ववि"।
Page 146
संक्षेपशारीरकम्। ४८१
अज्ञानतस्तदपि तद्वदिहाद्वयत्वं भादप्यभादिति विमूढधियो वदन्ति ॥ २१३॥ संविदिति। वैयात्येन धाष्टर्येन दूषितधियस्तस्यां संविदि स्फुरणास्फुर- णयोरयद्विवदन्ते तदप्यज्ञानत इति योज्यम्। एवमिहापि मूढधियोऽज्ञा- नादेव मादप्यद्वयचैतन्यमभासमानमिव पशयन्तीत्यर्थः ।।२१३।। अ० टी०-ननु विरुद्धमेवर तत्स्फुरत एव वस्तुनोऽ्फुरणमिति चेन्न संवित्स्वप्रकाश- पक्षे तथा दृष्टत्वादादरणीयत्वादित्याह-संविदिति। तस्या: संविदो वैजात्यं स्वरूपेणैव स्फुरनत्या अपि केनचिदाकारेणास्फुरणरूपमितरपदार्थविलक्षणत्वं. तेन दूषिता कलुषीभूता धीर्येषां ते तथाऽविसंवदन्ते न विसंवदन्त इत्यर्थः । छन्दोविदामपि कचिच्छान्दसः प्रयोगो दृष्टत्वादेव न दुष्टः।यदान विसंवदन्त इति पाठो लभ्यते तदा न. काऽपि चिन्ता। ननु तत्राप्यनुपपत्तिरेवेति चेन्नास्फुरणस्य भ्रमत्वादित्याह-अज्ञानत इति। तदप्यस्फुर- णमपि। स्पष्टमन्यत् ।।२१३ ॥ सु० टी०-ननु स्फुरतो भ्रान्त्याऽपि कथमस्फुरणं विरोधादिति चेन्न स्फूर्त्यस्फूर्त्योर्मावामावत्वानभ्युपगमादित्याह- अव्युत्पत्तिं बिश्रती भाति संवि-
अव्युत्पत्तिं नाशयद्भाति वेयं तस्मादेतच्ोद्यमस्मासु नास्ति ॥ २१४॥ अव्युत्पत्तिमिति। यथा स्वप्रकाशत्वाव्युत्पादनं बिभ्रती संविदज्ञाततया भासते तद्वदृद्वितीयं ब्ह्मापि स्वस्मिन्नव्युत्पत्तिः स्वाध्यस्ताज्ञानं ता्विभ्रद- ज्ञोडस्मीत्यज्ञानाश्रयत्वेनैव मातीत्यर्थः । तर्हि तत्त्वज्ञानवैफल्यमिति चे न्नेत्याह-अव्युत्पत्तिमिति। यथा संवित्स्वप्रकाशत्वेन प्रमिता स्वाज्ञाततां नाशयन्ती मात्येवं ब्रह्मापि वेद्यं वेदान्तजन्यवृत्त्यभिव्यक्तं सत्स्वा- व्युत्पत्तिं नाशयदद्दयत्वेन भार्तीत्यर्थः । २१४। अ० टी० -- ननु स्फुरतो भ्रान्त्याऽपि स्कुरणाभावो विरुद्ध एवेति चेत्तत्राSडह- अव्युत्पत्तिमिति। संवित्प्रत्यक्चिदात्मिका स्वयमलुप्तप्रकाशतया भासमानाडप्यव्युत्पत्ति- मावरणात्मकमज्ञानं बिभ्रती स्वाध्यस्तं धारयन्ती तस्य सत्तां स्फुरणं चाSSपादयन्ती भाति। तद्वदद्वितीयस्वरूपं ब्रह्मापि प्रत्यङ्मात्राकारेणाज्ञानं स्वावरणाकारमिव साधयत्त्वतो भाति। अत आवरणरूपमज्ञानमेव चिढ़ात्मनोऽस्फुरणं न तु स्फुरणाभावः स्वरूपेण च स्फुरण-
Page 147
५८र टीकाटय समेतं- [२. द्वितीयोऽच्याय: ]
मिति स्फुरणारफुरणयोर्भीवाभावरूपत्वाभावान्न विरोध इत्यर्थः। यद्यज्ञानावस्थायाम- प्यात्मन: रफुरणमस्ति तर्हि तत्त्वज्ञानेन किमात्मनि स्याच्तत्राऽऽह-अव्युत्पत्तिं नाश- यदिति। वेद्यं वाक्योत्थबुद्धिवृत्त्यारूढं सत्तदेवाSडत्मतत्त्वमव्युत्पत्तिशब्दितमज्ञानं नाश- यद्वाधमानं भात्यज्ञानावरण्पनिरासाय तत्त्वज्ञानमर्थवदित्यर्थः । यस्मादेवं यथोक्ताज्ञानमेवा- स्फुरणं न तु ज्ञानाभाव: स्वतश्च स्फुरणं नित्यमावरणाज्ञानबाधनाय च तत्त्वज्ञानमप्यर्थव- दित्यस्मन्मते तस्माद्भवतामपि भावाभावविरोधः समान इत्येतच्ोद्यमसमासु न प्रसरतीत्युप- संहरति-त स्मादिति। इदमत्राSSकूतं स्फुरमाणाSपि संविन्न नित्यात्मरूपेण तद्धर्म- त्वेन वा स्थिरत्वक्षणिकत्वाद्यात्मना वा स्फुरति कि तु स्वप्रकाशत्वेन स्वयं भाति। तत्रा- नवभासमान उक्ताकारो न संवित्स्वरूपादन्यस्तथात्वे मानाभावात्तथा च र्वप्रकाशायां संविद्यागन्तुकज्ञानस्थानपेक्षणान्न तदभावनिबन्धनंतदस्फुरणं कि त्वभावविलक्षणाज्ञाननिबन्ध- नमेवेति ॥ २१४ ॥ सु० टी० -- तदवं ब्रह्मैव नित्यमुक्तमज्ञानप्रतिबिम्बितं संसरद्विद्यया सुच्यत इत्युक्तमेवं चेद्रह्मविदः शुकादयो मुक्ता अन्ये त्वज्ञानात्संसर- न्तीति बन्धमोक्षव्यवस्थाशास्त्रं विरुध्येतेति शङ्कते- नन्वेवं चेद्वन्धमोक्षव्यवस्था- शास्त्रं कुप्येन्नाऽडप्रबोधात्प्रवृत्ते: । बद्धो मुक्ते ज्ञानवानज्ञ इत्य- प्येतत्सर्वं यावदज्ञानभिष्टम् ॥ २१५॥ नन्विति। एकजीवपक्षेऽपि स्वप्न इव यावदविद्यं बन्धमोक्षव्यवस्थो- पपद्यत इति परिहरति-नेति। प्रवृत्तेरिति। व्यवस्थाशास्त्रस्येति शेपः। एतदेव व्यनक्ति-बद्ध इति। चैत्रो बद्ध: शुको मुक्त: कश्चिज्ज्ञानी परोडज् इत्यपि सर्वं यावद्विद्यमेकस्यैव सर्वसाक्षिणो विचित्राविद्यकोपाधि- वशादुपपद्यत इत्यर्थ: ।।१५।। अ० टी०-एवभियता ग्रन्थेन न जीवाश्रयमज्ञानं नाप्यद्वैतब्रह्माश्रयं कि तु प्रत्यङ्मात्रा- अयविषयं तन्निमित्तो जीवेश्वरभावो न त्वज्ञानभावाभावाभ्यां तयोरेकत्र विरोधादत एव चाज्ञानस्य स्थितिनिवृत्त्थोरपि ब्रह्मण्यनुपपत्तेर्वन्धमोक्षव्यवस्थाया अपि तत्र न संभव इति प्रतिपादितं तत्र बन्धमोक्षव्यवस्थाभावे तच्छास्त्रविरोधं चोदयति-नन्वेवमिति । एवं चेत्पत्यक्चिन्मात्रगतैकाविद्यानिबन्धना चेव्दवस्थाSडस्थीयते तदा जीवो बद्ध ईश्वरो मुक्तः शुको मुक्तो यज्ञदत्तोऽयं बद्ध इति बन्धमोक्षव्यवस्थाशस्तरं कुप्येद्धेदाभावे तस्य निर्विषय-
Page 148
[ २ द्वितीयोऽच्याय: ] संक्षेपशाररकमूं। ५८३
स्वापत्तेरित्यर्थ: । विद्वद्ृष्टया बन्धमोक्षव्यस्थाभावेऽ्यविद्यादशायामविद्वदृष्ट्या तद्गावान शास्त्रविरोध इति परिहरति-नेति । न शास्त्रं कुप्येदित्यर्थः । कुत इत्यत आह- अप्रवोधात्प्रवृत्तेरिति। विदुषस्तु जीवतः शिष्यादिप्रतिभासो बाधितानुद्टत्तिमात्र: प्रारब्धकर्माक्षिप्ताविद्यालेश निबन्धन एबेति द्रष्टव्यम्। नन्वविद्वदवस्थायामप्यन्यस्याSSमनोS भावात्स्वात्मनि बन्धस्य प्रत्यक्षत्वाद्विदुपो मुक्तस्यान्यस्याभावादाचार्यासंभवे कथं विद्याप्राप्ति रिति चेत्तत्राऽडह-बद्धो मुक्त इति। अक्षरार्थोऽतिरोहितः। व्यवस्थाशास्त्रस्य व्यावहारिकप्रामाण्याव्य्यवहारस्य चाविद्यानिबन्धनत्वादेकस्यैव प्रत्यगात्मनः स्वाविद्याक- ल्पितानेकविचित्रोपाधिभिरनेकधा विभाव्यमानस्य बद्धमुक्तविद्वदज्ञत्वादिव्यवस्था सर्वाऽपि यावदज्ञानं स्वम्र इवोपपन्नैव नितृत्ते त्वज्ञाने तत्कल्पितसकलभेदनिवृत्तेव्यवस्थाप्यविषयाभावा- द्विद्यावस्थायां सर्वव्यवस्थातत्प्रतिपादकशास्त्रादेरप्यभाव इष्ट एवेति भाव :: ॥२१५ ॥ सु० टी०-किं चाध्ययनविधिबोधितस्य व्यवस्थाशास्त्रस्य पुरुषा. र्थपर्यवसायिनो निष्फलाख्यायिकापरत्वायोगान्न ततः शुकादिमुक्तिसि- द्विराधुनिकसंसारोपलम्भविरोधादिति ब्रह्मात्मतामात्रपरमेव तदिति वत्तुं विकल्पयति- किं चैतक्कि बन्धमोक्षव्यवस्था- शास्त्रं यत्नात्तत्परं सत्पवृत्तम् । किं चान्यस्मात्माप्तमेवानुभाष्य तस्या रूपं ब्रह्मतत्वं विदध्यात् ॥ २१६ ॥ कि चैतदिति। किमेतच्छास्त्रं स्वार्थपरमेव प्रवृत्तम्। यत्नादिति। मानान्त- रघाधेऽपीत्यर्थः । उतान्यस्माद्वृद्धव्यवहारात्प्राप्तमेव तस्या मुक्ते रूप- मनूद्येति विकल्पार्थः ॥। २१६ ।। अ० टी०-अपि च बन्धमोक्षशास्त्रस्यान्यपरत्वादपि न तद्विरोध: शङ्कनीय इति वत्तुं विकल्पयति-किंचैतदिति। एतद्वन्धमोक्षादिशास्त्रं यत्नात्प्रवृत्तं तत्र तत्परं सत्प्रवृत्तमिति योजना । अन्यस्मादविद्वल्ोकव्यवहारात्। तस्या इति तच्छब्दो व्यवस्थापरः । शास्त्रविशेषणत्वेनोपात्तापि व्यवस्था बुद्धया निष्कृष्य परामृष्टेतिं द्रष्टव्यम्। रूप्यतेऽस्मि- न्निति रूपं सर्वव्यवस्थातिकल्पास्पदं ब्रह्मतत्त्वमिति योजना ॥ २१६ ॥ सु० टी०-नाऽडद्य इत्याह- शास्त्रं तावत्तत्परं नेष्यते त- दानर्थक्यात्तत्स्वरूपप्रतीतेः ।
Page 149
टीकाट्टय समेतं- [२ द्वितीयोऽध्याय: ]
वक्तुं युक्तं तच्च नोऽभीष्टमेव॥ २१७॥ शास्त्रमिति । तद्ध्येतृणां शुकादिमुक्तिज्ञाने प्रयोजनाभावादित्यर्थः,। द्वितीय इष्ट एवेत्याह-ब्रह्ेति। 'त्ेतत्पश्यत्नृषिवामदेव:' [बृ० १॥ ४ १०] इत्यादिना विद्यया वामदेवादेर्वह्ममावप्राप्तावुक्तायामाधुनिक- स्यापि तदुदेशेन पवृत्ति: सिध्यतीति तत्प्रोचनापरत्वमेव युक्तं तञ्रेष् मेवेत्यर्थः । २१७॥ अ० टी०-तत्राऽडद्यं पक्षं दूषयति-शास्त्रमिति। तद्वन्धमोक्षादिबोधकं शास्त्रं तत्परं स्वरार्थपरं सावन्नेष्यते कुतस्तत्स्वरूपप्रसिद्धेरानथक्यादसौ मुक्तोऽयं बद्ध इत्यादिज्ञाना- त्पुरुषार्थादर्शनादित्यर्थः । तर्हि किंपरं तच्छास्त्रमित्यपेक्षायां तदपि ब्रह्मात्मैक्यपरमेवेति द्वितीयपक्षमङ्गी करोति-ब्रह्मात्मक्येति। जीवस्य ब्रह्मत्वबोधकमहावाक्यशेषतया तदेकवाक्यप्रत्ययपर्यवसानात्तेनार्थवत्त्वं बन्धमोक्षादिशास्त्रस्य वक्तुं युक्तमित्यक्षरार्थः। एत- दुक्त भवति-पूर्वेषां वामदेवादीनां ब्रह्मविद्यया मोक्षप्राप्तिकथनेनेदानींतनस्यापि विद्यया मोक्ष: स्यादेवेत्याश्वाससिद्धिरत्र ब्रह्मात्मैक्यज्ञानस्य प्रबृत्तावेतदर्थवादवाक्यकृत उपकारस्तेन द्वारेणैव तादृशं शास्त्रं ब्रह्मात्मतत्त्वं विदध्यादिति। नन्वर्थवादत्वेऽपि नायं गुणवादस्तस्य मानान्तरविरोधित्वात्तेन व्यवस्थाया असंभवात्। नाप्यनुवादो वामदेवमुक्त्यादेरागमेतरप्र- माणासिद्धेः । परिशेषाद्देवताधिकरणन्यायेन भूतार्थवादतया व्यवस्थाहेतुताऽस्याSडस्थेयेति चेत्सत्यं तदास्थीयत एवेत्याह-तच्च नोऽमीष्टमेवेति। यादृग्व्यवस्थारूपमास्थितं सद्ह्मात्मप्रत्ययोपयोगि स्यात्तादृशं शास्त्रप्रामाण्यं तस्मिन्दष्टमेवेत्यर्थः । न चैवं सत्यन्य- स्माव्याप्तमेवानुभाष्येत्यनुवादकत्वेन विरोध: शङ्कनीयः सामान्यतोदृष्टनिबन्धनत्वादविद्वव्वय- वहारत एतत्प्राप्तेः सामान्यतोदृष्टस्य च संभावनामात्रहेतुत्वेऽपि न निश्चयहेतुता । तस्मात्तदनुवादित्वेऽपि शास्त्रप्रामाण्यादेव बन्धमोक्षव्यवस्थासिद्धिर्ब्रह्माविद्यया बन्धस्तत्व- विद्यया मोक्ष इति या व्यवस्था यत्र हि द्वैतमिव भवति यत्र त्वस्य सर्वमात्मैवाभूदिति शास्त्रोक्ता तां व्यवस्थामुपोद्वलयन्नयमर्थवादस्तच्छेषतया प्रामाण्यमश्ुत इत्यभिप्रायः॥२१७॥ सु. टी०-नन्वेधमविद्वद्द्ृट्टयैव बन्धमोक्षव्यवस्थेत्यायातं ततश्ष न मदन्य: कश्विद्वन्धमोक्षमागस्त्यासी द्वेत्येतदनुभव विरोधाद्भ्र्धेयमिति शङकूते- नन्वन्यो मद्दन्धमोक्षादिभागी भृतो भावी वर्तते वा न कश्वित्।
Page 150
[ २ द्वितीयोऽध्याय: ] संक्षेपशारीरकम्। ५6५
इत्युक्तार्थ स्वानुभूत्या विरोधा- न्नाहं जातु प्रोत्सहे संग्रहीतुम् ॥ २१८॥ नन्वन्य इति। मत् मस इत्यर्थः ॥ २१८॥ अ० टी०-तदेवमविद्वद्टष्टयैव बन्धमोक्षव्यवस्था तद्विषयमेव च शास्त्रमपि न विद्व दृष्टयेत्युक्तमेवं तर्हि वस्तुतो बन्धमोक्षव्यवस्थाया अभावान्मत्तोऽन्यः कश्चिन्मुक्तो बद्धो वा कश्विदपि नास्तीत्युक्तं स्यात्तच्ानुभवविरोधादयुक्तमिति चोदयति-नन्विति। मदन्यः कश्चिदिति संबन्धः । एक एवाऽडत्मा बद्धश्च मुक्तश्र नान्यः कालत्रयेऽपीति योऽर्थो भव- द्विरुक्तस्तमर्थ संग्रहीतुं नोत्सहे स्वानुभूत्या विरोधात्। न ह्यनुभवविरुद्धं युक्तिशतेनापि व्यवस्थितं भवेदनुभवार्थत्वाद्युक्तीनामित्यर्थः ॥ २१८ ॥ सु० टी० -- येनानुमवेन व्यवस्थाविरहोक्तविरोध आपाद्यते तें विकल्पयंति- किं द्वैतानुभवो विरोधपदभाकिं वा परोडस्मीत्ययं यद्ा कश्विदिहापरोऽस्त्यनुभवो यस्ते विरोधावहः । नाद्वैतानुभवः क्षतिं वितनुते तस्पेति युक्तं वचो नापि द्वैतमुपोल्लिखन्ननुभवस्तेनास्य बाधो यतः ॥ २१९॥। किमिति। स कि कर्तृत्वादिद्वैतानुभवः किमदयः पर एवास्मीत्यभेद- विषय: किं वा सविशेषाद्वयवादिवद्वैताद्वैतविषय इति । तत्र क्रममतं स्वीकृत्य द्वितीयं दूषयति-नाद्वैतेति। तस्य बन्धमोक्षव्यवस्थाविरहस्या- द्वयोऽस्मीत्यनुभवो मुक्तिमात्रविषयत्वान्न क्षतिकर इत्यर्थः । आद्ये दोषमाह-नापीति। अस्येदानींतनबन्धमात्रविषयत्वेन शुकादिमुक्त्य- विषयत्वात्स्वयं बाध्यत्वाञ्च न व्यवस्थाविरहबाधकत्वमित्यर्थः ।।२१९।। अ० टी०-येनानुभवेन विरोधात्परमार्थतो बन्धमोक्षादिव्यवस्था नास्तीत्यस्मदुक्तिर्न संगृह्यते कोऽसावनुभव इति वक्तव्यमिति विकल्पयति-किं द्वैतानुभव इति। अध्यात्मादिद्वैतदर्शनं द्वैतानुभवः कि सविरोधपदभाककिमयमस्मदुक्तैऽर्ये विरोधमाचरति कि या परः परमात्माऽस्मीत्ययमद्वैतानुभवो वाक्यजन्यः । यद्वाऽन्य एव कश्चिदिह व्यवहार- भूमावनुभवो द्वैताद्वैतग्राहकोऽस्ति यस्तव विरोधबुद्धिमावहतीति विकल्पत्रयार्थः । तत्र मध्यमे पक्षे न विरोध इति तावदाह-नद्वतानुभव इति। बन्वमोक्षव्यवस्था नास्ति किं तु प्रत्यग्रूनत्रह्मैवास्तीत्यनुभवोऽद्वैतानुभावः । तस्मादस्मदुक्तार्थस्याद्वैतानुभवः क्षति वितनुत इति वचो न युक्तमित्यन्वयस्तस्य तद्रृपत्वेन विरोधाभावादित्यर्थः । आदं
Page 151
टीकादवय समेतं- [ २ द्वितीयोऽध्याय: ]
पक्षं प्रतिक्षिपति-नापीति। अनुभव इत्यत्र क्षतिवितनुत इत्यनुषङ्गः । कुत इव् श्राऽडह-तेनास्येति। तेनाद्वैतानुभवेन समस्तद्वैततदनुभवोपमर्दकेन विद्वत्प्रत्यक्षरूपे- णास्य द्वैतानुभवस्याविद्दृष्ट्या बन्धमोक्षादिव्यवस्थासद्वावोलेखिनो यतो बाधोडत इति योजना। सर्वभेदव्यवस्थोपमर्दाद्वैतानुभवसमये द्वैतानुभवस्यावस्थानाभावात्कथ तेन बाध- शङ्कावकाश इत्यर्थ: ॥ २१९ ॥ सु०टी०-ृतीयपक्षमनुभाषते-
नादङ्गानुभवोऽस्ति कस्यचिदपि स्थानत्रये जीवतः । भास्वच्छार्वरगोचरं ह्यनुभवं विश्वज्नो दृश्यते नास्मिन्संसृतिमण्डले स न भवेत्कस्मादयं चेद्भवेत्॥२२। द्वैतेति। शास्त्राद्विरु्धभेदाभेदविषयज्ञानोत्पादासंमवान्न ततोऽषि द्वैताद्वतबाध इति समाधन-तादृगिति। स्थानत्रये जाग्रवाद्यवस्थात्रये बैलोक्ये वा जीवतो वर्तमानस्य। विरोधादसंभवे दटान्तमाह- भास्वदिति । यथा सूरतिमिरयोरभेदा(*नुभवं बिभ्रज्जगति न कोऽपि दृशयते तथा भिन्नाभिन्नमनुभवन्नित्यर्थः । नतु दष्टान्ते नांस्ति मानें मेदा) भेदे तु 'तत्त्वमसि' [छा०६।८७] इति श्रुतिर्मानमिति चेन्न विरोधाविशेषाच्छरतेस्त्व खण्डार्थत्वेनोपपढितत्वात्। एतदेव विदृ णोति-स इति सूरतिमिराभेदानुभविता चेन्न मवेदयं कस्मान्भवेदिति योउम्॥ २२० ॥ अ० टी०-तृतीयं कल्पमनुवदति-द्वैताद्वैतति। उभयस्येति द्वैतस्याद्वैतस्य चैत्यर्थः। एतादृशोऽनुभव एव नास्ति विरोधात्स्वबाधकत्वं तस्य दूरनिरस्तमेवेति परिहरति-ताह- गिति। स्थानत्रये जाम्रदादिलक्षणे। जीवतो वर्तमानस्येत्यथः। बंद्वा विद्योदयातप्रागृध्व तत्काले च वर्तमानस्येत्यर्थः । विरोधमेव स्पष्टयति -- मास्वदिति। भास्वान्सविता शार्यरं तमः युगपत्सवितृतमोगोचरमनुभवं बिभ्रज्जनोऽस्मिन्संसारमण्डले व्यवहारभूमौ न दृश्यते। अयं चेद्द्वैताद्वैतानुभवो भवेत्तदा स सवितृतमोगोचरोऽनुभवः कस्मान्न भवेदुभयत्र विरौधस्य
- अ्रन्थोऽयं ख. पुस्तकस्थः।
१ ग. धोन्धवस्ये।
Page 152
B २. द्वितीयोडच्याय: ]1 संक्षेंपशाररिकम्। ५८७
तुल्यत्वादिति योजना। व्यवस्थापमाणस्य. व्यवहारगोचरत्वादद्वैतप्रमाणस्य च त्त्त्राशेदकत्वा- न्ानयोः संभूयप्रवृत्तिरित्यतो नायमस्मदुक्तार्थबाधक .. इति.भावः ॥ २२० ।। सु० टी०-तस्माद्वल्लैवाविद्यया प्रतिबि्नात्मना संसरति स्वविद्यया च मुच्यत. इत्ययमेव संप्रदायानुगतः पक्षो सुमुश्षुिरुपाद्वेय इत्युप हरति .- यत एवमत्र न विरोधलवोऽ- प्युपढौकते कथितनीतिवशात्। उपगृह्यतामतमिदं सुदृदं गुरुसंप्रदायवचनानुगतम् ॥२२१॥ यत, इतिः। एवमुक्तयुक्तिमिर्निरस्तसमस्तविरोधतया सुनिश्ववलत्वादि-
मुक्त्यर्थमुपदेशदर्शनान्नैकस्थैव बन्धमोक्षमागित्वं युक्तम्। यथा चैकयै- वाविद्ययकत्र चैतन्ये बहुजीवकल्पन बन्धमोक्षी च तथाSडचार्येः सिद्धान्तसिद्धौवर्णितम्। एवं बह्वाचार्यसंमति श्रुतिसंमतिंच दर्शयि- त्वेत्थमेवाऽडचार्यस्याSSशयस्तृतीये स्फुटी भविष्यति। तस्मादविद्यया सर्वस्य हेयत्वसिद्धयर्थमेव जीवान्तराणां शिष्याविद्याकल्पितत्वोक्तिरि- • त्याङ्ु: ॥ २२ ॥ अ० टी०-तस्माद्वाधकानुभवाभावाद्वस्तुनि बन्धमोक्षव्यवस्थालक्षणमन्यद्वा द्वैतं वस्तुतो नास्तीत्यस्मन्मतं न केनापि विरुध्यत इत्युपसंहरति-यत एवमिति। एकंसत्यत्रास्मन्मते कथितनीतिवशान् विरोधलवोऽप्युपढौकते यतोऽत इदं मतमस्मदीयमपगृह्यतामङ्गी क्रियतां. यंतः सुदृढमबाधितं न केवलं युक्तित एव सुदृढमपि तु गुरुसंप्रदायवेदवचनानुगतं प्रमाणसिद्ध चेति योजना । विवर्तवादे गुरुसंप्रदायवचनानुगतिः पूर्वमेंव दर्शितेति भाक ॥ २२१ ॥ सु० टी०-नतु तत्त्वबोधानन्तरं जीवब्ह्मभेदो निव्ततां प्रपञ्चस्तू परमार्थतः भासमान: कर्थं निवर्तेतेत्याशडक्याSSविद्यकत्वाविशेषादि- त्याह- तव. गाढमूढतमसा रचितं जमदी शजीववपुर्षा सकलम्।
Page 153
टीकाद्वय समेतं- [ २ द्वितीयोऽध्याय: ]
प्रतिभाति तावददृढं दृढव- न्समुदेति यावदवबोधरविः ।।२२२ ।। तवेति। त्वया गाढमनादितया स्वाभाविकत्वेनोढं गृहीतं यत्तमस्तेन रचितमीशजीवाद्यात्मना कल्पितं जगत्। यस्मादृदृढमनिर्वचनीयमत- सतावदेव सत्यं प्रतिभातीत्यर्थः । उत्तरावधिमाह-यावदिति ॥ २२२ ॥ अ० टी० -- इदमुपगृह्यतामित्युक्तमेव स्वमतं दर्शयति -- तव गाढेति। अवबोधर- बिर्वाक्यजन्यज्ञानभास्करो यावत्समुदेति तावत्तव प्रत्यगात्मनो गाढं दृढं मूढेन प्राप्तेन स्वस्मिन्नध्यस्तेन तमसाऽनाद्यनिर्वचनीयेनाज्ञानेन रचितं जगदीशजीवरूपेण विकृतं विश्वमदृढ़मपि दृटवत्प्रतिभाति स्वप्र इवाऽडप्रबोधोदयमुदिते तु तत्त्वावबोधे द्वैतलेशोऽपि न प्रतिभासत इत्यर्थ: ॥ २२२ ॥ सु० टी० -- ननु सकललोकप्रतिपन्नस्येश्वरजगत्प्रबन्धस्यानादेः कथं शुक्तिरजतादिवद्द्दढत्वं संभाध्यमिति चई्विद्याविलत्चेतसां देहात्मा- भिमानवद्पभ्रंशादिवाचकत्वाभिमानवच्चेत्याह- प्रभुरेष सर्वविदहं कपणो जगदेतदद्भुतवितानमिति।
यदिहोद्भवन्ति न तदद्भुतकम् ॥२२३॥ प्रभुरिति। न तदिति। एता हि स्वप्न इव स्वशिरशछेदनादिद्दट्टयोडमूढस्य नाश्षर्थमावहन्तीत्यर्थः ।। २२३।। अ० टी०-नन्वेतदाश्षर्यवद्विचित्रोदय द्वैतप्रपञ्चस्तद्विपरीतस्वभाव आत्मनि प्रतिभा- सत इति चेन्नाविद्यातिमिरावृतदृष्टे: सर्वाश्चर्यसंभवादित्याह-प्रभुरेष इति। स्पष्टार्थ पद्यम्।। २२३ ।। सु० टी०-ननु सर्वजनानुभवविरुद्धमपि विश्वस्यानिर्वचनीयत्वं किमवट्टम्भेनाभ्युपेयत इत्याशङ्क्य सन्तु सहस्रं श्रुतियुक्तयो विद्वदनुभ- वोऽपि तावत्प्रमाणमित्याह- अभयं सनातनमनातुरधी- रवलोकयत्निजमनन्तसुखम्।
१ क. 'विदयया प्लुनचित्तानां दे।
Page 154
[ २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्।
न मुनिः प्रपश्यति किमप्यसुखं सकलं जिघत्सति जगत्स्वचिता ॥ २२४॥। अभयमिति। अनातुरधीरविक्षिप्तधीः । अनन्तसुखं परमात्मानम्। असुखं संसारं जिघत्सति ग्रसते। स्वचिता स्वविद्यया ॥ २२४॥ अ० टी०-अविद्यावस्थस्यैवैवं प्रपञ्चदर्शनं निवृत्तायामविद्यायां विद्वान् किंचिद्ि- चित्रं पश्यति दुःखं वाऽनुभवतीत्याह-अभयमिति। अनातुरधीरविक्षिप्तचित्तो मुनि- स्तत्वज्ञानवाननन्तसुखमपरिच्छिन्नानन्दरूपं ब्रह्म निजं प्रत्यग्रूपं स्व्ररूपमवलोकयन्साक्षात्कु- र्वन् किमप्यसुखं दुःखरूपं संसारं न पश्यति नानुभवति। निजमित्यस्य विशेषणे अभयं सनातनमिति च निर्विकारं नित्यं चेत्यर्थः । कस्मादेवं निजं तत्त्वं पश्यन्दुःखं किमपि न पश्यतीति तत्राऽऽह-सकलमिति। रवचितेतीत्थंभावे तृतीया। यह्मा- त्सकलं जगत्स्वचिता स्वरूपचैतन्यात्मना जिघत्सति स्वादितुमिच्छति स्वात्मसात्करोतीते- तदारोपितनिवृत्तेरधिष्ठानादन्यत्वासंभवादित्यर्थः ॥ २२४॥ सु० टी०-नन्वात्मभिन्नद्वैताभावे कृतो विद्वदनुमवस्यापि सिद्धि- रगुं्वादिस्तदुपायस्यामावात्। न चाविद्ैद तत्साधिका वैपरीत्यादिति चेन्नाविद्याया एव सर्वद्वैतकल्पकत्वं व्यावहारिकगुर्वादिकल्पनया तन्निवर्तकत्वं चेत्युपगमादित्याह- तव चित्तमात्मतमसा जनितं परिकल्पयत्यखिलभेव जगत्। तव कल्पनाविरचितः स गुरु- स्तव रूपमद्यमुदाहरति ॥ २२५॥ तवेति ॥। २२५॥ अ० टी०-नन्वात्मव्यतिरिक्तस्य सर्वस्याविद्यात्मकत्वे साधकाभावान्निजरूपवस्तुनः कुतः सिद्धिर्नचाविद्यैव तत्साधिकेति युक्तं तस्या विपरीतप्रत्ययहेतुत्वान्न चोभयहेतुत्वं विरो- धादिति चेत्तत्राऽऽह-तव चित्तमिति। आत्मतमसा निजाविद्यया जनितं तव चित्त- मखिलमेव जगत्परिकल्पयतीति हि शास्त्रस्थितिरित्यर्थः । तत्र स प्रसिद्धो गुरुरपि तव कल्पनाविरचितः संस्तवाद्वयं निजस्वरूपमुदाहरति बोधयतीति योजना। अविद्या पूर्वपूर्व- प्रपश्चभ्रमसंस्कारसचिवात्मनि लीनं चित्तमुत्पाद्य प्रपश्चमात्मन्यवभासयति सैव कदाचि- द्विशुद्धधिष्रणामुत्पाद्य तत्त्वजिज्ञासां जनयन्ती तत्वज्ञानसाधनं गुर्वादिकमपि कल्पयित्वा तद्वारा स्वरूपप्रकाशमपि जनयतीति नात्र कोडपि विरोध इति भावः ॥ २२५ ॥
Page 155
टाका द्वय समेत- [२ द्वितीयों डव्याय: ]।
सु. टो .- अस्तु तार्है पारमार्थिक एव गुर्वादिमिथ्यात्वे शुक्तिरज- तादिवद्र्यक्रियाकाहित्वासंभवादिति चेन्नार्थक्रियाकारिण: सत्यत्वासं- प्रतिपत्तेहश्यत्वस्य, च मिथ्यात्वव्याप्तत्वादित्याह- न हि चित्तदृश्यमपि, सत्यभिति प्रतिपन्नमस्ति भुवि. किंचिदपि। रशनाभुजङ्गसदशं सकलं जगदिन्द्रजालमिति सिद्धमतः ॥ २२६ ॥ न हीति। ततः किमित्यत आह-रशनेति। तत्सादृश्य्रमाह-इन्द्रजालमिति.B मायिकमित्यर्थः ।। २२६ ।।
सत्यत्वोपपत्तेरितिचेत्तत्राSSह-न हि चित्तेति। यच्चित्तदृश्यं तन्न हि सत्यं काप्युप पादयितुं शक्यं तस्य रशनाभुजङ्गवद्वाध्यत्वनियमाव्ववहाराविसंवादस्य, च.स्त्रम इवाऽप्र- बोधमपपत्तेरित्यर्थः. । तस्माचिचित्तकस्पितस्य सर्वस्याविद्याकल्पितत्वं न. विरुध्यत इत्युप- संहरति-रशनेति। अत इति प्रथमं योज्यम् ॥ २२६ ॥ सु० टी०-नतु कथं कल्पितस्य गुरोरुपदेष्टत्वं न हिस्थाणावध्यस्तः पुरुष: क्वचिदुपदिशतीति चेन्न कल्पितत्वाविशेषेऽपि कस्यचिदेव
परिकल्पितोऽपि सकलज्ञतया. गुरुरेव पूर्णमवबोधयति। परिकल्पितोऽपि मरणाय भवे- दुरगो यथा वतु नभो मलिनम् ॥२२७॥ परिकल्पितोऽपीति। गुरुरेवेत्येवकारः स्थाणुपुरुषादिव्यवच्छेदार्थः॥ . । २२७ ।। अ० दी०-ननु यदि कल्पितोऽप्यथों वस्तु बोधयेत्तदा कोऽयमाचार्यादिष्वाग्रहोS- न्यस्मादपि कल्पितात्ततसिद्धिरस्विति चेत्तत्राSSह-परिकल्पितोऽपीति। यद्वा
१ क, द्धवच: ।
Page 156
:[ २ द्वितीयोऽच्याय: ] सेक्षेपशारीरकम्। ५९१
यद्याचार्याद्यपि कल्पिक्षमेव स्यात्तर्हि कव्पितस्य जडत्वान ततः परमोर्थावबोधप्रात्तिरि- त्याह-पंरिकल्पितोऽपीति। परिकल्पितोऽपि गुरुरेव गुरुत्वेनाभिमत एव पूर्ण ब्रह्मावबोधयति न यत्किमप्यन्यत्कुतः सकलज्ञतया तत्त्वज्ञत्वादिति योजना। एतदुक्त भवति- न हि परिकल्पितस्य परिकह्पितत्वादेव तत्त्वावबोधहेतुत्वमिष्यते किंतु सर्वज्ञत्वादेव सर्वज्ञो हि गुरुत्वेन कल्प्यते न जड इति। यद्वा परिकल्पितोऽपि गुरुः सकलज्ञतयैव परिकल्पितः सन्पूर्णमवबोधयत्येवेति योजना। अन्र कल्पितानामपि कल्पनाविशेषवशाक्ववस्थितचित्रा- र्थक्रियाहेतुत्वस्य लोके दृष्टत्वान्नासंभावना कार्येत्यभिप्रेत्योदाहरणमाह-परिकल्पि- तोऽपि मरणायेति । उरगो रशनायां परिकल्पितः शङ्काबिषेप्पापि मरणदर्शना- दित्यर्थ: ॥ २२७ ॥ सु० टी०-ननु सद्विलक्षणस्य गुर्वादे: कथं कारणत्वं सत्त्त्यगर्भत्वर- त्स्येत्याशङक्य किं सत्त्वमेव कार्यविशेषप्रयोजकमुत तत्कार्यजननसा- मथ्यमिति विकलप्याSSद्यं दूषयति- यदि सत्यमित्यवगतिं कुरुते घटेते घटादपि हुताशनधीः । यदि चानृतं न जनयेत्प्रमितिं ननु चोदनाऽपि जनयेन्न धियम् ॥ २२८ ॥ • यदीति। गुर्वादिर्यदि सामर्थ्यनिरपेक्षः सत्यत्वेनैव बोधयेत्ततो धूमादिव घटादृपि वह्निधीः स्यात्सत्यत्वाविशेषादित्यर्थः । द्वितीये तु भ्रमवि- षयस्यापि शक्तस्य प्रमाजनकत्वं परैरप्यङ्गीकृतमित्याह-यदि चेति। चोदना वाक्यं धियं प्रमाम् ॥२२८॥ अ० टी०-मिथ्याभूतमपि सत्यार्थहेतुः कचिद्धवतीति संभावनामुक्खा सत्यत्वं सत्या- र्थंबोधे न प्रयोजकं किं तु शक्तत्वेनावधारितमात्रमेवेत्याह-यदि सत्यमिति। सत्य- त्वमेव चेत्सत्यार्थबोधहेतुस्तर्हि धूमादिवद्धटादपि हुताशनवीर्घटते घटेत जायेतेश्यर्थः । अनृतं चेत्प्रमिति न जनयेत्तदा निश्चितं चोदना विधिवाक्यमपि धर्मविषयां धियं न जन- येत्तस्यानृतत्वादित्यर्थः। तस्मात्सत्यत्वानृतत्वे न प्रामाण्याप्रामाण्यप्रयोजके किंतु व्यावहारि- कप्रमाणसमधिगता विशेषाः। ते च सत्यत्वपक्ष इवानृतत्वपक्षेऽ्यविशिष्टा इत्यतो नोक्त दोष इति भाव: ॥। २२८।
१ ग. 'ते पठादु।
Page 157
५९२ टीकाद्टय समेतं- [ २ द्वितीयो ऽध्याय: ]
जनयत्यसाविह सृषावपुषा करणीयवस्तुनि माें सुदृढाम्।
स्वरसेन सन्नपि तु वर्णगण: ।। २२९।। जमयतीति। इह लोके वेदे चासौ चोढना सृषावपुवा कल्पितानुपूर्वी स्वराद्विविशिष्टात्मनाऽनुष्ठेयवस्तुनि प्रमां जनयतीति प्रसिद्धमिश्पर्थः । स्वरादिवैशिष्यं तस्या: स्वाभाविकमिति चेन्नेत्याह-धवनीति। वर्णगणो हि चोदना। स च स्वरूपेण सन्नवि सत्योऽपि वायवीयस्य धवनेयें धर्मा उदात्तादयो यो वा क्रमस्तद्घटित एव बोधकः । नित्यविभूनां वर्णानां पौर्वापर्यासंभवादिति तद्ूषेण सृषैवेत्यर्थः ॥। २२९॥। अ० टी० -- चोदनाया अनृतां सिद्धवत्कृत्योक्तं साधयति-जनयत्यसाविति। इह व्यवहारभमावसौ चोदना मृषावपुषा मिथ्याशरीरेण करणीयवस्तुन्यनुष्ठेये यागादौ सुदृढां प्रमाणरूपां मति जनयति। कथमस्या मृषावपुष्ड वर्णात्मकत्वादवूर्णानां च सत्यत्वा- दित्यत आह-ध्वनिधर्मेति । वर्णगण: स्वरसेन स्वरूपतः सन्नपि सत्यो ध्वनिधर्म- भेदैरुदात्तादिभिर्हस्व्रादिभिक्व घटितो विशिष्टः सन्मृषा मिथ्यैव। न हुदात्तादिधर्मविशेष- वैश्िष्टवं बिना वर्णेम्योऽर्थप्रतीतिर्जायते। न च वर्णेषु ते परमार्था व्यभिचारित्वात्कित्वा- रोपिता एवातो ध्वनिधर्मविशिष्टा चोदना मृषा चेत्यर्थः ॥ २२९ ॥ सु० टी०-अस्तु तर्हि वर्णसमूहत्वेनैव तस्या: प्रमाहेतुत्वं न स्वर- क्रमवैशिष्ट्यनेति चेन्न स्वरादिमेदेनार्थभेदस्य नैरुक्तैः स्मर्यमाणत्वादि त्याह- मन्त्रो हीन: स्वरतो वर्णतो वा मिथ्याप्रयुक्ते न तमर्थमाह। स. वाग्वज्ो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ २३० ॥ मत्रो हीन इति। मिथ्याप्रयुक्त इत्यस्यार्थो हीन इत्यादि:। स्वामावि- कस्वरान्यस्वरादियुक्त: सन् न तं विवक्षितमर्थमाह। प्रत्युत विपरी- सार्थबोधकतयाSनिष्ट्हेतुरित्याह-स वाग्वन्र इति। उदाहरणं-सथेति।.
Page 158
(२ द्वितीयोडप्याय: ] संक्षेपशारीरकमू। ५९३
स्व ट्रेन्ब्रहतस्य वृत्रस्योत्पावुनार्थमिन्द्रशभुर्वधस्वेति मन्त्रेण सोम: न- र्तितः। तत्र तत्पुरुषस्वरे प्रयोक्तव्ये प्रमावात्स्वरान्तरप्रयोगाविन्द्र एव तस्य शत्रुर्वभूवेति स्वरविशिष्टस्यैवार्थवत्त्वमेवं क्रंमवतोऽपि राजा जारे-
अ० टी०-उदात्तादयारोपितधर्मविशिष्टस्यैव शब्दस्य बोधकत्वमित्यत्र नैरक्तंसेमति- माह-मन्न्रो हीन इति। स्वरतो वर्णतो वा हीनो यथास्थानमपेक्षितस्वरादिवौरी. ष्टहीनो मत्रः प्रयुज्यमानो मिथ्माप्रयुक्त इत्युच्यते। स्वराद्यन्यथात्वमेव मिथ्यातमित्यर्थः। एवं प्रयुक्तो मन्नो न तमर्थमाह । यस्मिन्नर्थे प्रयुग्यते तमित्यर्थः । न केवलं वियक्षितार्था- कथनमात्रं दोषो मिथ्याप्रयोगेऽपि त्वनिष्टजनकत्वं चेताह-स वाग्वज्जो यजमानं हीनस्तीति। स मघ्रो वाग्वज्रूपः सन्यजमानमनिष्टेन योजयतीत्यर्थः । तत्रोदाहरण- माह-यथेति। त्वष्टा हि देवो विश्वरूपार्ये खवपुत्र इन्द्रेण हते क्ुद्धः सन्निन्द्रनिग्रह- समर्थपुत्रोत्पादनायाSSभिचारिकं कर्म कुर्वन्स्वाहेन्द्रशत्रुर्वर्धस्वेत्यनेन मश्रेणातिशिष्ट सोम- मग्नौ जुहावेत्याख्यायिका वेदे पठयते। तत्रान्तोदात्ततरपुरुषस्वरे प्रयोक्तव्ये बहुंव्रीहिस्वरमादयु- दात्तमिन्द्रपदं मन्ने प्रयुक्तवास्तिन दोषेणोत्पन्नस्य वृत्रासुराख्यस्य पुत्रस्येन्द्रो हंता संवृत्त इत्यनर्थपर्यवसायी मत्रप्रयोगो जात इत्यर्थः । तथा च ब्राह्मणम्-'सवाहेन्द्रशत्रुर्वर्धस्वेति तस्मादस्येन्द्रः शत्रुर्भवेदिति'॥ २३०॥ सु० टी०-तर्हिं स्वरादियुक्ता ध्वमय एव सन्तु चोदना न वर्णा इति चेन्नापसिद्धान्तादित्याह- न च वर्णपूगमपहाय भवे- दिह चोदनेत्यभिमतं विदुषाम्। यदि सत्यमेव गमकं भवति स्फुटम्रमाणभियमप्युदिता॥ २३१॥
समभ्युपेयमित्याह-यदीति ।।२३१।। भ० टी०-नन्वेवं सति यस्य धर्मा उदात्तादयः सैव चोदनाऽस्वतो नानृता चोदना भविष्यतीति चेन्मैवं मीमांसकैस्तथाऽनम्युपगमादित्याह-न च वर्णेति। विदुषां मीमांसकानां वर्णेष्वेवं चोदनात्वमभिमतं न ध्वनिष्वित्यर्थः । तथा घ सत्यमेव गमकं चेत्तदा चोदनायाः प्रामाण्यं न लभ्येतेत्याह-यदि सत्यमिति। इयमपि चोदना ॥ २३१॥
Page 159
५९४ टीकाह्यसमेतें-
स• टी० -- नन्वनित्यानामनन्तवर्णव्यक्तीनामेव धर्मा उदात्ताद्य इंति स्वरक्मवैशिष्यस्य सत्यत्वाद्दृट्टान्तसंप्रतिपत्तिरिति वैशेषिकास्तान् पंति हष्टान्तान्तरमाह- श्रवणेन्द्रियं च किल कर्णगतं परिकल्पनोपरचितं नभसः । वलयं प्रकाशयति शब्दगणं परमार्थमित्यपि कणादमतम् ॥२३२॥ अवणेति। तेषामवि कर्णशष्कुलीमध्यगतं नभोवलयं श्रवणेन्द्रिय शब्द- आहकमाभमतम्। न च सर्वगतस्य नमसो निरंशस्य वलयत्वं कर्ण- स्थत्वं चाऽडस्सं समवतीति भ्रान्त्यैवोपचरितं वलयाकारो न्मोश इत्यभ्युपेयमिति क्वासंप्रतिपत्तिरित्यर्थः । कणादेत्यांदिना स्वमते श्रोत्र: स्य दिर्गाबद्धत्वं सूचितम् ॥३२ ॥। अ० टी०-वर्णानामुत्पत्तिमत्वाच्तद्धर्मा एवोदात्तादय इति न चोदनाया अनृतत्वप्रा- प्तिरिति तार्किकमतमाशडक्य तान्प्रत्युदाहरणान्तरमाह-श्रवणेन्द्रियमिति। कर्णः गतं नभसो वलयं किल श्रवणेन्द्रियमिति परिकल्पनयोपरतं शब्दगण यत्प्रकाशयति तत्प- रमार्थमिति कणादमतमपि दृश्यत एवातो न तैरपि सत्यत्वाग्रहः कार्य इत्यर्थः । न ह्याका- शस्य स्वरूपेण श्रोत्रत्वमस्ति तथा सति सकृदुत्पन्नस्य शब्दस्य सर्वत्रोपलम्भप्रसङ्गः किं तु कर्णदशावच्छिनस्य। न हि सोडवच्छेदो नमसः पस्मार्थो निरवयवस्य पूर्णस्यकदेशतः स्वरूपतो वाऽवच्छेदासंभवादतः कल्पितोऽवच्छेदः कल्पितं च यथाकल्पनमर्थाभावान्मि- थ्यैव तादृशादपि सत्यार्थप्रतिपत्तिरभ्युपगतेति न चोद्यावसर इति भाव: ॥ २३२ ॥ सु० टी०-ततश्च सर्वतान्त्रिकैरसत्यादृषि सत्यबोधाभ्युपगमात्क- ल्पितगुर्वादिजन्यविद्यया भवबन्धनिवृत्तिरविरुद्ेत्युपसंहरति- त्वमतः स्वमोहरचितं गहनं भवसागरं तर परावगतेः।
१ क. गोधारत्वं।
Page 160
Bर द्वितींयो डच्याम: ] संक्षेपशारीरकम्। ५९५
परिकल्पितद्दयनिबन्धनतः परमार्थसंविदुदये सति भोः ॥२३३ ॥ त्वमतः इति ।. परिकल्पितं द्वयं गुर्वादि तन्निबन्धनं यस्या: परावगते- वृत्तिरूपायास्ततः परमार्थसंविदभिव्यक्ताविति योज्यम्।।२३३॥ अ०टी०-तस्मात्कल्पितयैव विद्ययाSविद्यानिवृत्ति कल्पितेनैवाSचार्यादिना विद्यो- सत्ति चाङ्गी कुर्विति शिष्यं प्रत्याह-त्वमत इति । यत एवमविरोधोऽत इत्यर्थः । भोः सुबुद्धे परिकल्पितगुरुशिष्यशास्त्ररूपद्वयनिबन्धनतो द्वैतावष्टम्भेन परमार्थसंविदुदये सति परावगतेः परब्रह्मणः साक्षादभिव्यक्तर्हेतोः स्वमोहरचितं गहनं भवसागरं तर स्वस्थो भवेति योजना. ॥ २३३ ।।: सु० टी०-ननु परेषामनिर्वचनीयाभावाच्चोदनायाः श्रोत्रस्य चाली- कन्वामावेन दष्टान्तासिद्धिरित्याशङ्क्य केमुतिकन्यायेन स्वमतमप- दलयति- ध्रान्तं तथोपचरितं च यथाविभाग- मङ्गीऊतं कणभुगादिमुनीन्द्रमुरुयैः। यन्नास्ति तत्फलनिबन्धनमस्मदीये तन्त्रे तमोविरचितं न फलाय कस्मात् ॥ २३४।। भ्रान्तमिति। भ्रान्तं स्वरादिविशिष्टवर्णजातमुपचरितं च यथोक्तभ्रोत्रं बथाविभागं मतमेदेन । किं तत इत्याह-यदिति। यद्धि भ्रान्तमुपचरितं च पस्मते नास्ति विशिष्टात्मना तदृपि चेत्फलजनकं स्वीकृतं तर्ह्यवि द्याकल्पितं व्यावहारिकं गुर्वादि कुतो न फलायेत्यर्थः ।। २३४॥। अ.० टी०-तदेवं प्रतिबन्धा कल्पितस्य तत्त्वावगतिहे तुत्वमुक्तमिदानी पराभिमतात्स्वा भिमतस्य विशेषं दर्शयन् कैमुतिकन्यायमनुसरति-भ्रान्तमिति। उदात्तादिभेदाविशि- प्वघर्णस्वरूपं भ्रान्तं तथोपचरितमुक्तरूपं श्रवणेन्द्रियं च यथाविभागं स्वस्वमतानुसारेण कणभुगादिमुनीन्द्रमुख्यैरङ्गीकृतं जैमिनीयैः काणादैश्वाभ्युपगतमित्यर्थः । तच्च तैरसदेव सदर्थपतीतिकरणमभ्युपगतमित्याह-यन्नास्तीति। फलनिबन्धनं सत्फलकारणमिति यावत्। परमतयोरुक्तोदाहरणद्वयस्य केनापि रूपेण सत्त्वेऽपि सदर्थप्रतीतिहेतुविशिष्टा- -कारेणापि न. सत्व्मस्त्यारोप्यसंसर्गस्य तैरधिंष्ठाने सत्त्वानङ्गीकारात्। एवमसदपि चेत्सदर्थ परत्यापयेत्तदा Sसद्विलक्षणमनिर्वचनीयं प्रत्यापयेदिति किमु वक्तव्यमित्याह-अस्मदीय
Page 161
५९६ टीकानुय समेते- [ २ द्वितीयो ऽच्याय: ]
हति। तमोविरचितमनाद्यनिर्वचनीयाज्ञा नविलसितमतद्विलक्षणतया सत्वेन प्रतीतियोग्य- मित्यर्थ: ॥ २३४ ॥ सु० टी०-जनु यन्नास्तीत्यसिद्ध भ्रमविषयादेस्तन्मतेऽन्यत्र सत्त्वा- दित्याशङ्क्फ पूर्वोक्तमेव वयनक्ति- असदपि फलवतामश्नुते युष्मदिच्छा- मनुसरदथ कस्मान्मायया निर्मितं सत्। न भवति फलवत्ताभाजनं चित्रमेत- हयमिह न समर्था यूयमत्यन्तशक्ताः॥ २३५॥ असदपाति। यद्यपि रवरादि व्वन्यादायस्ति तथाऽपि तच्छव्दनिद्ठल्वेन
वलयत्वाद्यसदिति नासिद्धिरित्यर्थः। युष्मदिच्छामिति । सदेवार्थक्रिया कारि नासच्छशशृङ्गादी तिप्रसिद्ध चुल्लङ्रघनीमित्पर्थः। सदिति । असद्वि- लक्षण मित्यर्थः । वयमिति। मवतां धाष्र्यमसत्यस्माकं नेत्येतदेवात्र तन्त्र: मित्यर्थः ।। २३५।
प्रत्याह-असदपीति । युष्मदिच्छामनुसरदिति वदताऽसतः फलवत्त्वकल्पने प्रमाण- युक्ती न स्त इति सूचितमसदपि सत्फलार्थ भवत्यसद्विलक्षणं मायानिमितं न भवतीत्ये- तचित्रमहो आश्चर्यमित्यर्थः । अन्यत्सुगमम् ॥ २३५॥ सु० टी०-इदानीं माऽस्तु परेषामसत्यत्य बोधकत्वमस्माकं तु माया- कारणत्वश्रुतिबलेन गुर्वादे: स्वरूपेणासत्यस्याप्यघिष्ठानसत्यतामात्रेणैव तदुपपत्तिरित्याह- परमेव तत्वमगृहीतमभू- दखिलस्य कारणमनर्थकरम्। परमेव तत्त्वमवबुद्धमतः परितृप्रये क्षवति पुष्कलतः ॥ २३६ । परमेवेति। न हयाविद्यासामर्थ्यकृतः संसार: कि त्वधिष्ठानसामर्थ्यादि वि पागेवोक्तत्वाद । परमेव तत्वमज्ञातमखिलबन्धकारणं तदेव कलप-
Page 162
( २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ५९७
सविदवच्छरीरावच्छिन्नजीवरूपेण विद्याजनकं तदेव च स्वकल्पितवाक्य- जन्यवृत्त्यभिव्यक्तं मुक्तिहेतुश्रेत्याह-परमेवेति ॥२३६॥ अ० टी०-कल्पितस्य कल्पिताकारेणैव तत्त्वावगतिहेतुत्वमित्यङ्गीकारे परः कोऽपि दोषं तत्र वक्तुं न शक्नुयादिति स्थितमस्मव्मक्रियायां तु चोदस्यास्योदय एव नास्ती- त्याह-परमवेति। परमेवाखिलक्ष्य कारणं सर्वाधिष्ठानं सत्त्वमविद्यावशादगृहीतं सदनर्थकरमभून्नाविद्यामात्रमनर्थकारणं तस्या: स्वतो जडाया अकिंचित्करत्वात्किंत्वधिष्ठान- सामर्थ्यावलम्बनेनैवाविद्याया अपि सामर्थ्यमेतत्प्रागुक्तमेवाSSत्मत्वमात्रविषयाश्रयताबलेनेत्यतः घरमार्थमेव वस्त्वविदितं सत्साभासाविद्याद्वारा सर्वानर्थहेतुरित्यस्मन्मतमित्यर्थः । पुरुषार्थ- हेतुत्वमपि परमार्थस्य चिद्धस्तुन एवेत्याह-परमेवेत्युत्तरार्घेन । परमेव तत्त्वमनि- र्वचनीयवाक्यार्थबुद्धावभिव्यक्ततयाऽवबुद्धं सत्पुष्कलतः परितृप्तये भवति परिपूर्णचि- त्सदानन्दात्मनाSवस्थानरूपपुरुषार्थायावकल्पते वाक्योत्थावृत्तिद्वारमात्रं न स्वयं पुरुषार्थ- हेतुरित्यस्मन्मतमित्यर्थः । तादृशवृत्तिहेतुत्वमपि परमात्मन एव परिकल्पितविद्वच्छरीरादि- द्वाराSSचार्यभावेन कल्पितवर्णकलापवेदतवेन चेत्यपि द्रष्टव्यम् ॥ २३६ ॥। सु० दी०-ननु मदूपमे मनृत्तिकरं चेत्मागपि श्रवणादिवशात्
धिकारिन्वेन तत्वानवबोधादित्याह- तद रूपमेव तव दुःखकरं यदि तत्र पश्यसि बहिर्मुखधीः। तव रूपमेव तव तृप्तिकरं यदि तत्मपश्यसि निवर्त्य तमः ॥२३७॥ तब रूपमिति। बहिर्मुखधीर्वि वेक वैराग्याद्यमावेनानन्तर्निठवुद्धिरित्यर्थः। इदानीं त्वधिकारसंपत्या साक्षात्कृतात्मतत्त्वस्तमःशमनेन परितृप्तोऽ सीत्याह-तवेति॥२३७॥ अ० टी०-ननु परतत्त्वमेव चेज्ज्ञानाज्ञानाभ्यामर्थानर्थहेजुस्तर्हि तस्य सदा सत्त्वा- सत एव बन्धमोक्षौ स्यातामिति कोऽपराधो मम यत्नो वा को मया कार्यः स्यादिति चेत्तन्राऽऽह-तव रूपमिति। न हि परं तत्त्वं तवत्तो भिनं कि तु तव रूपमेव 'तत्त्व- मसि' [छा० ६ ।८ । ७ ] इव्यादिश्रुतेः । अतो बताहो कष्टं बहिर्मुखधीर्देहादावात्म- बुद्धि: सन्यदि तत्तव तत्त्वं न पश्यसि श्रत्याचार्याभ्यां नावगच्छसि तव रूपमेत्र परं तत्त्वं तव दुःखकरं संसारापादकं भवत्यतस्तवैवापराधात्तव दुःखमित्यर्थः। तदुक्तं भगवता-
Page 163
टीकाद्यसमव- [ र द्वितीयो ऽच्याय:]i
'आत्मैव रिपुरात्मनः' [भ०गी० ६ ।५] इतिः। यदि पुनः श्रुत्याचार्यप्रसादेनानादयरूपः तमो निवर्त्य तत्परं तत्त्वं पश्यसि साक्षादनुभवसि तदेव रूपं तव तृप्तिकरं कृता. थत्वापादकं भवतीत्यर्थः । तदप्युक्तम्-'आत्मैव ह्यात्मनो बन्धुः' [भ०गी० ६।५ इति.॥२२७।1 सु० टी०-तथापि न ज्ञानमात्रेण परितृप्तिः 'कर्मणैव हि संसि-' द्धिम [म० गी० ३।,२०]' इत्यादिस्मृत्या कर्मणो मुक्तिहेतुत्वभ्रवणा- दिति चेन्न कर्मण: सत्त्वशुद्धिहेतुत्वं तदर्थों न मुक्तिहेतुत्वं 'तमेव विदित्वा ' [श्वेता० ३ ।८] इत्यादिश्रुतिविरोधान्मुक्तिस्तु बोधमा- बादेवेत्याह- तव बोधमात्रमुपनेयमत- स्तव मोहमात्रमपनेयमपि। तव बोधमोहजनिहानिकरं वचनं त्रयीशिरसि तत्वमिति ॥ २३८॥ तव बोधेति। अज्ञानमूलकत्वादृपि बन्धस्य ज्ञानैकनिवत्यत्वमित्याह- तव मोहेति। मोहमात्रं निरस्यं न वस्तुन्यतिशयः कश्षिज्जन्यत हत्यर्थः। प्रमाणागोचरस्य मम कुतो बोधोऽबोधनिवृत्तिर्वेति चेत्तत्ाSSह-तव्रेति। बोधजनिद्वारा मोहहानिकरमित्यर्थः ॥। २३८॥ अ० टी०-तदेवं यथोक्तरीत्या सर्वस्यापि द्वैतभानस्याविद्यामात्रत्वे सिद्धे प्रत्यगा- त्मनो हेयोपादेयाभावोऽपि सिद्ध इत्याह-तव बोधमात्रमिति। यतोऽनर्थरूप सर्व- मविद्यामयमात्मा च नित्यशुद्धबुद्धमुक्तस्वभावोऽतः कारणात्तव बोधमात्रं बुद्धिवृत्तिमात्र- मात्मासाधारणाकाराकारितमुपनेयमुपादेयं संपादं नान्यदित्यर्थः । तेन च तवापनेयमपि. मोहमात्रमेव नान्यदित्यर्थः। उत्तबोधजन्मद्वारा मोहहानिमात्रं तत्त्रमस्यादिवाक्यस्यापि, कृत्यं नापूर्वाधानमित्याह-तव बोधमोहेति ॥२३८॥ सु० टी०-नन्वात्मन्यनर्थः पूर्वमासीद्वोधजन्मनि तन्निवृत्तिरित्य- तिशय इति चेन्नेत्याह- तव बोधजन्मनि पुरा न पुन- स्तव कश्विदप्यतिशयो भवति।
Page 164
[ २ द्विलीयोऽच्यायः ] संक्षेपशारीरकम्। "९'
तम एव पूर्वमभवन्न भव- त्यवबोधजन्मनि ततो न परम् ॥ २३९॥ तवेति। बोधे जाते ततः पुरा पश्चाञ्च न कश्विदृतिशयोऽस्तीत्यर्थः। तहिं निवत्यामावाक्किं बोधेनेति तत्राSSह-तम एवेति। बोधे सति प्राग- विद्यमानं तम एव न मवति नापरं किंचिज्जन्यत हत्यर्थः ॥ ३३९॥ अ० टी० -- पूर्वपद्योक्तमात्रशब्दद्वूयव्यावर्त्यमाह-तव बोधजन्मनीति। तव प्रत्यगात्मनो बोधजन्मनि विद्योत्पत्तिसमये पुरा ततः पूर्व पुनर्षिद्योदयानन्तरं वा तव कश्चिदप्युपादानलक्षणो हानलक्षणो वाऽतिशयो न भवत्यनाधेयातिशयकूटस्थस्वरूपत्वात्त- वेत्यर्थः। ननु विद्योदयात् पूर्व ममानर्थोडभूदिदानी तन्निवृत्तिर्जातेत्यतः कथमतिशया- भाव इति चेत्तत्राऽडह-तम एवेति। पूर्वं विद्योदयात्त्वयि तमोऽज्ञानमेवाभवन्न तदति- रिक्तोऽनर्थोऽभूदित्यर्थः । अवबोधजन्मनि सतीदानी न भवति। तम इत्यनुवर्तते। ततस्तमोनिवृत्तेरपरं बोधकृतमतिशयरूपं नाभूदस्ति भविष्यति चेत्यर्थ: ॥ २३९ ॥ सु० टी०-ननु पूर्व तमसा सद्वितीय एवाSSतमाSSसीदिदानीं तद- मिभव इत्ययमेवातिशय इति नेत्याह- न तमोऽपि पूर्वमभवन्न भव- त्यवबोधजन्मनि तमोभिभवः । तम एव केवलमिदं सकलं न तमो विनाऽत्मनि किमव्यभवत्॥ २४०॥ न तमोऽपीति। तमोऽप्यात्मन्यध्यस्तत्वान्न ततः पृथगासीदित्यर्थः। तर्हि 'तन्निवृत्त्याऽषि सातिशयत्वमिति नेत्याह-न भवतीति। कुतस्तर्हि तमो नष्टमिति व्यवहारस्तत्राSSह-तम एवेति। इदं तमोऽस्ति तमो नंष्टमित्यादि सकलं तम एव न वस्त्वित्यर्थः । न तमो विनेति । 'तम आसीत्तमसा गूढम्' इत्यादिश्युतेरित्यर्थः ॥। २४०। अ० टी० -- तर्हि तमसो भावाभावावतिशयौ मयीति कथमनतिशयत्वं ममेति चेन्ने- त्याह-न तमोऽपीति। पूर्व विद्योदयात्तमोऽपि न भवेदेवात एवावबोधजन्मनि तमोभिभवोऽपि न भवति तमसो वस्तुसंस्पर्शित्वाभावादित्यर्थः । तार्हं किमिदमुद्घुष्यते पूर्व तमोडभूदिदानीं तनिवृत्या कृतकृत्यता जातेति चेदेतदप्यज्ञानमेवेत्याह-तम एव केवलमिति। पूर्व तमोऽनर्थकरमभूदिदानी तन्निवृ्त्यैव कृतकृत्योऽभूवमहमित्यादि सकलमपि केवलं तम एवाज्ञानमात्रं न तु तमो विनाडत्मनि किमप्यभवत्। आत्मा
Page 165
से [२ द्वितीपोड़प्याय: ]
सदेकरूप एव तस्मिन्बन्धमोक्षादिकं सर्वमज्ञानादेव भाति ने परमार्थत हत्यभिग्रायः ।।
सु.टी०-नन्वस्त तमस्तत्कार्य व तमोमात्र निवृत्तिस्तु कथं तन्मपी विसेधादिति चेत्तत्ाSऽह- न तमः परिहत्य लभ्यते तमसो हानिमता निरुपणा। इति सा तम इत्युदीरिता न निवृत्तिस्तमसस्तमोमयी ।। २४१ ॥ न तम इति । हानिगता हानिविषया। यतस्तमोद्शायामेव तन्निरू- पणं प्रतियोगितया च तन्निवृत्तिस्तमोऽपेक्षते तस्मादुपचारात् सा तम इत्युवीरिता न तु सा वस्तुतस्तमरोमयी कि त्विछ्ठानरूपा न हि घटनिवृत्तिर्घटमयीत्यर्थः ।॥।२४१॥ अ० टी०-तमसौ निवृत्तिरपि तम एवेति बदुक्ँ तदयुक्तं प्रतियोगितदभावयोरकतवा- दिति भरमान्मम्धानं प्रति बोधयति-न तमः परिहृत्येति। तमसो हानिगता निरूपणा सभो निवर्तत इति प्रतिपादनं यत्तत्तम: परिहृत्यं तमःप्रतियोगितवेनानुलिएय न लम्यत इति कत्वा सा तमोनिवृत्तिस्तम इत्युदीरितोक्ता न त्वात्मवस्त्वपेक्षया न तु तमसो निवृत्तिस्तमोमयीव्यस्माभिरुक्तमिति योजना। अयं भाव :- तमो नाऽऽमनि परमार्थतः संगतं संभाव्यतेऽसङ्गकूठस्थस्वप्रकाशे तद्विपरीतस्य तमसो विरोधात्कि त्वारोपितं तत्र तत्प्तिषिध्यते। यंत्राऽऽरोपितं प्रतिषिध्यते तत्र तननिवृत्तर्यक्षानुरूपो हि बलिरितिन्यायेन तदानुरूप्यादनिर्वचनीयाज्ञाननिवृत्तिरप्यनिर्वचनीयैव। बोधो ह्वत्र निवृत्तिशब्दार्थः ।.स चं कालत्रयाभावबोधलक्षण इत्यप्राप्तमेव प्राप्तवत्प्रतिषिध्यते। दिव्यभ्निवपननिषेधवदितस्तमो- रपा तमोनिवृत्तिरिति वाकप्रवृत्तिमात्रमेतदुक्तं मिथ्यात्वाभिप्रायेण न पुनस्तमःप्रतियोगिका- भावाभिम्रायेपोति ॥। २४१॥ सु० टी०-तथाऽपि यावज्जीवशुत्या विदुषोऽि नित्यनैमित्तिकप्र- वृत्ते: कुतो बोधमात्रान्मुक्तिरिति चेन्न तस्या अविदृद्विषयत्वा- विस्याह -- विधयश्व कर्मविषयाः स्वतम :- पटलावृते स्वयि बहिर्मनसि।
Page 166
[२ द्वितीयोऽध्यायः ] संक्षेपशारीरकम्। ६०१
कुत एव सम्यगवबोधहते तमसि प्रवृत्तिरिति संभवाति ॥ २४२॥ विधयश्ेति। कुतस्तमःपटलावृतविषयत्वं विधीनामित्याशङ्क््य विशि- नष्टि-बहिर्मनसीति। आत्मनो बहिः कर्तृत्वमोक्तृत्वादी मनोभिमानो यह्य ताहशमेव कर्भ विधयोधिकुर्वन्ति न तु सम्यग्बोधहताज्ञानतत्कार्या- ध्यासे त्वपि प्रवर्तन्त इत्यर्थ: ॥। २४२॥ अ० टी० -- तदेवं पत्यक्षादिविरोधं ब्रह्मात्मनि वेदान्तसमन्वये परिह्वत्येदानी कर्मकाण्डे विरोधमपि परिहरति-विधयश्षेति। कर्मविषया विधयश्च स्वतमःपटलावृते बहिर्मनसि त्वयि सति प्रवर्तन्ते तवाविद्यावस्थायां आ्रन्तिसिद्धकर्तृत्वाद्यादाय त्वां प्रवर्तयन्त्यविद्यावद्वि- षयं कर्मकाण्डमित्यर्थः । इदानी सम्यगवबोधेन निराकृते तमसि सतीह कर्मसु कुत एव प्रवृत्ति: संभवति क्रियाकारकफलभेदबुद्धेरुपमर्दित्वाननिर्विषयं कर्मकाण्डं कथं त्वामिदानी प्रवर्तयेदित्यर्थः । विद्यावस्थायामधिकार्यभावाद्विधीनामपि न प्रामाण्यमित्यभिपरायः ॥२४२॥ सु० टी०-नतु जीवन्मुक्तोऽपि भोजनादाविव कर्मस्वपि प्रवर्तता मिति चेन्न कामनाविरहादित्याह- विदिते पदे भगवतः परमे परिपुष्कले परमतृप्तिमतः । तव तृष्णया विरहितस्य कथं विधिषु प्रवृत्तिरपवर्गवतः ॥। २४३ ।। विदित् इति। परिपुष्कले सजातीयादिभेदरहित आत्मतया विदिते तेन ब्राह्मण्याद्यभिमानाभाव उक्त:। तृप्तिमत्वे हेतुः-अपवर्गवत इति। आमकामस्येत्यर्थः'॥ २४३॥ अ० टी०-यथा विद्यायां जातायामपि प्रत्यक्षादि प्रवर्ततेऽन्यथा जीवनासंभवात्तथा विधयोऽपि देहधारणकाले प्रवर्तन्तामिति चेन्न तस्यां दशायां पारलैकिकफलेच्छाभावात्तया विना तदर्थ प्रवृत्यनुपपत्ते: प्रत्यक्षादेश्व बाधितानवृत्तिमात्रत्वाद्विदुष इत्यभिप्रेत्याऽSह- विदित इति। परिपुष्कले क्रियाकारकादिसर्वव्यवहारातीततया परिच्छेदाभावात्परिपूर्णे भगवतः परमे सर्वोत्तमे पदे विदिते साक्षात्कृते सति परमतृप्तिमतः संप्राप्तसकलकामस्य परमानन्दरूपस्य तघात एषार्वाचीनस्वर्गादविविषयया तृष्णया रहितस्यापवर्गवतो निवृत्तसर्व- केशस्य कथं विधिष्व प्रवृत्तिर्न कथमपि द्वाराभावादित्यर्थः ॥ २४३ ॥
Page 167
६०२ टीकाद्वयसमेत- [ २ द्वितीयोऽच्याय: ]
सु०टी०-ननु कथमेकस्य कर्मविधेरेकमेव पति प्रवृत्तिरपरवृत्तिशे- त्याशङूक्य दशाभेदादिति दृष्टान्तमुखेनाSSह- अभिचारकर्मविधयो हि यथा फलभागबाधमनु बाधयुजः । करणादिभागनिरुपाख्यतया विधयस्तथैव परमात्ममतेः ॥ २४४ ॥ अभिचारेंति। यथा हि वैरिवधफलश्येनादिविधयः क्रोधातिशयाब्रह्म- वधेऽपीष्टत्वाद्यभिमानिवन प्रवर्तमाना अपि तस्यैव पुंसो बहुविधनिषे- धशास्त्राभियुक्तस्य श्येनफले बलवदनिष्टहेतुत्वं भावयतो वीतक्रोधस्य फलभागबाधाद्वाधिता मवन्ति तस्मिन्न प्रवर्तन्त एवमद्वैतब्रह्मसाक्षा- त्काराद्ेहादिप्रपञ्चबाधे सति भावनायाः करणाद्यंशत्रयबाधादेवंविदं प्रति न विधयः प्रवर्तन्त इत्यर्थः ॥ २४४ ॥ अ० टी०-ननु फलेच्छाभावेऽपि यावज्ीवादिशास्त्रं कर्तव्यतां कर्मणां बोधयेदे- वातः कथमप्रवृत्तिर्विदुष इति चेत्तत्राऽऽह-अभिचारेति। अभिचारकर्मविधयो 'न हिंस्यात्सर्वा भूतानि' 'नाभिचरेत्' इत्यादिप्रतिषेधशास्त्रार्थज्ञानसंस्कारवतोSभिचार- भावनायाः फलभागस्य भाव्यांशस्य बाधितत्वप्रतिपत्तेर्भाव्यबाधमनुबाधयुजो बाधिता न प्रवृत्तिकरा यथा तथैव परमात्ममतेर्विदुषः करणादिभागनिरूपणाख्यतयाऽद्वैतात्मतत्त्वा- वगमे च कर्तृकरणफलादिसर्वभागस्यैव बाधिततया सर्व एव विधयो बाधयुजो भवन्तीति योजना। एतदिह तात्पर्य-यद्यपि कर्मकाण्डस्य न चक्षुरादिवद्विभ्रमहेतुत्वमस्ति • निर्दुष्टवे- भ्रान्तिसिद्ध क्रिया कारकफलभेदावलम्बनेन तदुपहितमेव स्वार्थ बोधयति कर्मकाण्डं न वेदान्तवाक्यवत्प्रतीयमानभेदापवादेनेति यावद्गे- ददृष्टयनपवादस्तावत्पूर्वप्रवर्तकतया प्रामाण्यं लभते यथाऽभिचारविधिर्हिसादोषानभिज्ञत- याडनेनामुं हिंसिष्य इति भावयन्तं पुरुषमाश्रित्य तद्दृष्टयनपवादेवैव तं तत्र प्रवर्तयन्प्र- माणभावं भजते तद्वत्। यथा पुनर्हिसानिषेधशास्त्रसंस्कारतया बाधितभाव्यांशामभिचार- भावनां पश्यन्तं बोधयितुं प्रवर्तयितुं वा शक्नुवन्नभिचारविधिस्तं प्रति प्रमाणभावान्निवर्तते तथा वेदान्तवाक्याद द्वैतात्मत्त्व्रज्ञानबाधितसकलभेदवन्तं बोधयितुं प्रवर्तयितुं चाशक्नुवन्तः कर्म- विधयो विद्वासं प्रति प्रमाणभावान्निवर्तन्ते ॥ २४४ ॥ सु० टी०-पूर्वश्लोकध्वनितं केमुतिकन्यायमनुसंधने- यदि भाव्यभागविलये न भवे- त्फलभावना कथमिहोत्सहते।
Page 168
[२ द्वितीयोऽव्याय: ] संक्षेपशारीरकम्। ६०३
करणादिभागविलये भवितुं विधिरन्तरेण घटते न. च ताम्॥ २४५॥ यदीति। माध्यरूपैकमागविलयेऽपि चेद्वधादिफलिका (* भावनाः न भवेत्कथमंशत्रयस्यापि विलये नित्यादिकर्मभावना स्यादित्यर्थः । नन्वर्थमावनांऽशत्रया)माके मा मूलिडादिव्यापारात्मिका तु. शब्दमा- वना कृतो नेत्याशङ्क्यार्थमावनाविषया हिसा न तां विना घटत. इत्याह -- विधिरिति० ॥। २४५।। अ० टी०-ननु कथं करणादिबाधेन विधीनामप्रवृत्तिरिति चे्द्रावनाया असंभवा- दित्याह-यदि माव्येति। फलभावनाऽभिचारादौ भाव्यभागविलये सति यदि न. भवेदंशत्रयवती भावना यद्येकांशविरहमात्रेऽपि न भवेदिति यावत्। तदा करणादिभाग- विलये करणेतिकर्तव्यताभाव्यरूपसमस्तांशविलये सतीह वेदान्तेषु विधिर्भवितुं कथमुत्सहते. भावनाऽत्र कथं स्यादित्यर्थः । मा सिध्यतु भावनेति चेत्तत्राऽऽह-अन्तरेणेति। तां भावनामन्तरेण1 विधिर्न च घटते विधिपदं मध्यमणिवदुभयत्र संबध्यते। न हि क्रियाका रकफलभेदमन्तरेण विधिरुपपद्यत इत्यर्थ: ॥२४५॥ सु० टी०-अस्तु मावनाविधावयं दोषो नियोग(+व्रादें तु नानुप- पततिरिति चेश्नेत्याह- अधिकारिणं च विषयं च विना न नियोगबुद्धिरुपपत्तिमती। न विना तमस्तदुभयं घटते. विदितात्मनश्र न तमो घटते ॥ २४६ ॥ अधिकारिणं चेति। नियोज्यमित्यर्थः। विषयं कृतिद्वारा नियोगनिरूपक घात्वथं यॅथां वीतक्रोधस्य वधकामनाविरहान्न इयेन: कार्य इति विषयनियोज्ययोरमावान्न इयेननियोगधीसंभव एवं विदितात्मतत्व- स्यापि तमसो निवृत्तौ तत्कृतयोविषयनियोज्ययरेमावान्न कर्मसु नियो -- गंधीरित्यर्थः) ॥ २४६॥ अ० टी०-भावनाया. अभावे विध्यसंभव इत्युक्तं प्रपञ्चयति-अधिकारिणं चेति। यद्वा भावनावाददृष्टया विध्यभावेऽपि नियोगवाददृष्टया तत्संभव इत्याशड्क्य तत्रापि समाऽनुपपत्तिरित्याह-अधिकारिणमिति। अधिकारी नियोज्यः। नियोज्य
*. अन्थोडयं ख. पुस्तकरथः। + ग्रन्थाडयं ख. पुस्तकस्थः।
Page 169
६०४ टीकाद्टयसमेतं- [ २ द्वितीयोऽध्याय: ]
विषयौ विना नियोगबुद्धिर्नोपपत्तिमती घटत इत्यर्थः । कथमिहाधिकारिविषययोरभावो येन नियोगासंभव इत्यत आह-न विनेति। न हि विनाSऽत्मतत्त्वाज्ञानमहं ब्राह्मणो ममेदं कार्यमित्यादिबुद्धिरुपपद्यते। अस्त्वेतदपीति चेन्मैवं तख्वज्ञानबाधितत्वात्तमस इत्याह- विदितात्मनश्चेति ॥ २४६ ॥ सु० टी०-नन्वविद्वद्विषयत्वे विधीनां बाधितार्थत्वादपामाण्यं स्यादिति चेन्न पारमार्थिकप्रामाण्यवाधेऽपि व्यावहारिकत्वाविरोधादि- त्याह- व्यवहारगोचरमतः सकलं विधिवाक्यमित्यवगतिं मनासि। उपनीय वेदशिरसो विधिभि- र्न विरोध इत्यपि समाकलय॥ २४७॥ व्यवहारेति। ततक्ष न तद्विरोधेन वेदान्तानामपामाण्यं शक्यसंभावन मित्यर्थः।। २४७॥
धकत्वं संभवति कि तु व्यवहारगोचरमेव प्रत्यंक्षवत्तस्यापि प्रामाण्यमित्युपसंहरति .- व्यवहारगोचरमिति। निगदव्याख्यातमिदं पद्यम् ।।२४७।। सु० टी-तदेवं सांख्ययोगादिस्मृतिमिस्तन्न्यायैश्व समन्वयाविरो- धमाद्यपादार्थमेवं समन्वयेत्यादिना तत्तन्मतनिराकरणं चाऽडरम्मणादी त्यादिना द्वितीयपादार्थमेवं सृष्यादिश्ुतीनां जीवश्नुतीनां चान्योन्या- विरोधं तृतीयपादार्थमेकाज्ञानविकल्पितमज्ञानतज्जेत्यादिना निरूप्य तेनैव चेन्द्रियादिश्ुत्यविरोधं चतुर्थपादार्थ सिद्धममिप्रेत्याद्वयपरवेदा- न्तानां मेदग्राहिमानान्तरविरोध(*खण्डनमध्यायार्थमुपसंहरति-' एवं वेदान्तवाक्यैरवगतिपदवीमद्ये नीयमाने प्रत्यक्तत्वे समस्तद्वयकति तमसि क्षीयमाणे च सयः। स्वाराज्ये त्वय्यवासे परमसुखभुजि स्वच्छचैतन्यमात्रे शेषो मानान्तराणामपि दुरवगमस्तत्र दूरे विरोधः॥२४८।। इति श्रीसर्वज्ञात्ममहामुनिविरचिते संक्षेपशारीरकेSविरोधा- भिधो द्वितीयोऽध्यायः ॥२॥ * अन्थोऽयं ख. पुस्तकस्थः।
Page 170
[ २ द्वितीयोऽच्याय: ] संक्षेपशारीरकम्। ६०५ एवमिति। अद्वये प्रत्यक्तस्व्रे वेदान्तैरभिग्यक्तिं नीयमान इति विरोध)- विषय उक्त: समस्तद्यकृतीति मेदस्याSडविद्यकत्वान्न तद्गाहिमि: सम- न्वयस्य विरोध इत्युक्तं स्वाराज्यमित्यादिफलोक्त्या स्वरूपमात्रावशे- षाद्विरोधे कैसुतिकन्यायः सूचितः ॥ २४८॥ इत्यग्निचिदुपाध्यायमिश्रश्रीपुरुषोत्तमविरचितायां सुबोधिन्यां द्वितीयाध्यायसंग्रह:।।२।
अ० टी० -- तस्माद्वेदान्तेभ्योऽद्वैतात्मतत्त्वावगतौ न मानान्तरविरोधः स्वमेऽपि शङ़ कनीयो मानान्तराणामपि तदानीं बाधितत्वेऽसत्त्वावगमादित्यच्यायार्थमुपसंहरति-एवमिति। एवमविरोधेन वेदान्तवाक्यैरद्ये ब्रह्मात्मरूपेSवगतिपदवीं नीयमाने तन्नाSऽन्तरीयकतया समस्तद्वयकृति सर्वद्वैतोपादाने तमसि प्रत्यक्तत्वे सदयः क्षीयमाणे च सति त्वयि स्वच्छचै- तन्यमात्रेऽनुदितानस्तमित स्वप्रकाशज्ञानैकस्वभावे परमसुखभुजि परमानन्दमनुभवति स्वारा- ज्येडवासे मानान्तराणां शेषोऽपि दुरवगमो मानान्तरावशेष एव तदा न भवति तत्रैवं सति तत्कृतो विरोधो दूरापास्त एवेति योजना ॥ २४८॥ इति श्रीकृष्णतीर्थशिष्यरामतीर्थकृतायां संक्षेपशारीरकटीकायामन्वयार्थप्रकाशिकायां द्वितीयोSविरोधाभिधोऽध्यायः समाप्तः ॥२॥
Page 172
अथ तृतीयोऽध्यायः।
सु० टी० -- अध्यायद्वयेन ज्ञानपौष्कल्यसिद्धे: कि तृतीयारम्मेणेत्या- क्षिप्याविरोधेन समन्वयदाढर्यसिद्धावपि साधनाप्रतिपत्तेन ज्ञानपौ- प्कल्यमिति तत्निरूपणायाSSरम्पत इत्याह-
ब्रह्मात्मतामतिरयं पुनरप्युवाच। ब्रह्मात्मताफलशिरस्कमति प्रसूते यत्साधनं तदखिलं प्रतिपित्समानः ॥। १॥ श्रुत्वेति। तेनाविरोधबोधस्य साधनप्रतिपित्साहेतुत्वादृध्याययोः संग- तिरुक्ता। ननूपपन्नत्रह्मात्मतामतेः किमर्थ साधनापेक्षेति तत्राऽडह- व्रह्मात्मतेति 1 उत्पन्नाया अपि विद्याया: परिपाकार्थं कि साधनं मयाऽनुष्ठेयमिति जिज्ञासमान इत्पर्थ: ।।१।। अ० टी०-तदेवं सर्ववेदान्तानां प्रत्यगेकरसे परे ब्रह्मणि समन्वयं विरोधपरिहारेण दृढीकृत्येदानी यथोक्तब्रह्मज्ञानसाधनविचारपरं तृतीयाध्यायमवतारयिष्यन्नादौ शिष्यप्रश्नम- वतारयति-श्ृत्वाऽविरोधमिति। अयं जिज्ञासुः शिष्यः प्रथमाध्यायनिरूपितवे- दान्तसमन्वयस्य परैरुद्धावितसर्वप्रकारविरोधपरिहारं श्रुत्वोपपन्नसमन्वयः सम्यक्संभावित- समन्वयोऽत एव ब्रह्मात्मतामतिर्व्रह्मात्मैक्यमतिरेव सम्यक्तत्त्वज्ञानं नान्यदिति निश्चितमतिः सन्नथाविरोधश्रवणानन्तरं गुरोरविरोधनिरूपणादुपरमानन्तरं वा पुनरप्युवाच पप्रच्छेति योजना, किमिच्छन्रुवाचेति तदाह-ब्रह्मात्मतेति। ब्रह्मात्मता मोक्षस्तदेव फलं परम- पुरुषार्थरूपं शिरस्युह्यमानं यस्या मतेस्तां मति ब्रह्मात्मत्त्व्राविर्भावकारिणीं साक्षान्मोक्ष- फलां धियं यत्साधनं साक्षात्पारम्पर्येण कारणं प्रसूते जनयति तदखिलमशेषं प्रतिपित्समानः प्रतिपत्तुमिच्छन्नुवाचेति योजना ॥ १ ॥ सु० टी०-उक्तजिज्ञासामेव प्रपश्चयति- ऐदंपर्यमखण्डवस्तुविषयं वेदान्तवाक्यस्य य- न्पूर्व वर्णितमस्य भूदपहतिर्मा नाम मानान्तरैः ।
१ ग. योत्थन्र°।
Page 173
६०८ टीकाद्दुयसमेतं- [ ३ तृतीयोऽध्यायः ]
कि त्वस्याः परिनिष्ठितस्वविषयध्वान्तच्छिदो जन्मने विद्याया वचनाहते किमपरं ऊत्यं भवेत्साधनम्॥ २॥ ऐदंपर्यमिति। अस्य मानान्तरैरपहृतिमा भून्नाम कि त्वस्या इत्य- न्वयः । परिनिष्ठितेति । दृढभूमिस्वविषयाज्ञाननिवृत्तिक्षमाया इत्यर्थः। चचनादिति। वाक्यानुसंधानाहत इत्यर्थः ।। २ ।। अ० टी०-एतेन द्वितीयतृतीययोरध्याययोर्हेतुहेतुमद्भावलक्षणः संबन्धो दर्शितः शिष्यवुभुत्सामेव विशदयति-ऐदंपर्यमिति । पूर्व प्रथमाध्याये यद्वेदान्तवाक्यस्या- खण्डवस्तुविषयमैदंपयं वर्णितमासीदस्यदंपर्यक्य मानान्तरैः प्रत्यक्षादिभिरपहतिर्विरोधो मा नाम भूत्तत्परिहारस्योपपादितत्त्रात्तत्र नास्ति ममासंभावनाशङ्का कि स्वन्यदस्ति बुभुस्सित- मिति योजना। तदेवाऽऽह-अस्या इति। अखण्डब्रह्मात्मैक्यमतेरस्या विद्यायाः किलक्षणायाः परिनिष्ठितः सिद्धरूपो यः स्वविषयः स्वममेयं तद्गतव्वान्तमज्ञानलक्षणं छिनत्तीत्येवंविधाया जन्मने वचनान्महावाक्याढते किमपरं साधनं कृत्यं भवेन्मया कर्तव्यं भवेत्तन्मम बुभुत्सितमित्यर्थः । एतदुक्तं भवति-यद्यपि मानान्तरविरोधपरिहाराद्वेदान्त- वाक्यजनिताखण्डवस्तुज्ञानमेव सम्यग्ज्ञानमिति ममास्ति दृढनिश्रयस्तथाऽपि शब्दयुक्ति- परतघ्रतया तदनुसंधानावसर एव तदेवभासते न केवलवस्तुपरतत्रतया ब्रह्मात्माकारेग दृढा विद्योत्पन्ना दृश्यतेऽतः केवलवस्त्वाकारबुद्धयुत्पत्तिसाधनमनुष्ठेयं किमपि भविष्यति यत्सं- पत्तावनायासेनोक्ता बुद्धिर्दढा स्वयमेवोत्पद्यते तद्बुमुत्सितं कृपया कथयेति ॥ २ ॥ सु० टी०-गुरुस्तृतीयस्य पादार्थान्संगृह्णन्साधनानि क्रमेणाSSह- वैराग्यस्य दृढत्वमेकमपरं तत्त्वंपदार्थज्ञता वाक्ये निर्गुणनिष्ठिते च सकले न्यायादियत्तामतिः । सम्यग्ज्ञानसमीपदूरभवयोर्हत्वोर्विवेकज्ञता वाक्यार्थप्रतिपत्तिसाधनमिदं यत्नेन ऊत्यं यतेः ॥ ३ ॥ वैराग्यस्येति। तत्र जीवस्य लोकान्तरगतागतिनिरूपणेन वैराग्यदा- ढर्चमाद्यपादे द्वितीये पदार्थद्वयशोधनं तृर्तीये निर्गुणवाक्येषु शास्त्रान्त- रीयापुनरुक्तपदोपसहार: सगुणेषु ताद्ृशगुणोपसंहारानुपसंहारौ च चतुर्थे तु विद्याया अन्तरङ्गस्य शमादेर्वहिरङ्गस्य च यज्ञादेविवेक इति। एतानि च यतेर्नित्यान्येवेत्याह-यतनेनेति ।।३।। अ० टी०-गुरुः पृष्टमर्थमाधिष्कुर्वन्नाह-वैराग्यस्पेति। वैराग्यदाढर्थमेकं ताव स्कार्य साधनमपरं द्वितीयं तत्त्वंपदार्थशोधनं सकले निर्गुणनिष्ठिते वाक्ये न्यायाद्रुणोपसं-
Page 174
[३ तृतीयोऽन्याय: ] संक्षेपशारीरकम्। ६०९
हारन्यायत इयत्तामतिर्वाक्यपरिमाणावधारणं तृतीयं चकारादुपासनापरवाक्येष्वपीयत्तावधा- रणं समुचीयते । एतदप्युपासकानुग्रहाय भविष्यतीति भावः । चतुर्थ साधनमाह- सम्यगिति। समीपभवो हेतुः संनिपत्योपकारको दूरभव आरादुपकारकः । अनयोरहे- त्वोर्विवेकज्ञतेतीदं चतुष्टयं वाक्यार्थप्रतिपत्तिमस्मिन्नध्याये चतुर्भिः पादैः क्रमेण प्रतिपाद्यमानं यते: संन्यासिनो यत्नेन कृत्यं कर्तव्यमिति योजना। यतिप्रहणेन तस्यावश्यमनुष्ठेयत्व- मेषां विवक्ष्यते । एतेषां साधनानामननुष्ठाने यतेः प्रत्यवायापत्तेः । तथा यतिनैवैतानि सम्यगनुष्ठातुं शक्यानि नान्याश्रमिभिस्तेषां तत्तक्क्रियास्वधिकृतानां सर्वात्मना यथोक्तसाध- ननिष्ठत्वानुपपत्तेरिति च द्रष्टव्यम् । ३ ॥। सु० टी०-नन्वनेकसुखसाधनवति संसारे कथं वैराग्यं कथं वा तस्य विद्याहेतुत्वमिति चेत्तत्राSऽह- संसारदोषमवधारयतो यथाव- द्वैराग्यमुद्भवति चेतसि निष्पकम्पम्। वैराग्यजन्मनि दृढे च सति प्रवृत्ति- स्तत्वंपदार्थपरिशोधनकर्मणि स्यात्॥४ ॥ संसारेति। निष्पकम्पं निश्चलम्। पदार्थविवेचनहेतुत्वाच्च विद्यासाध नत्वमित्यर्थः॥४ ॥ • अ० टी०-तत्र वैराग्यमेव तावत्कथं संपादं को वा ब्रह्मज्ञानोत्पत्तौ तज्जन्य उपकार इत्यपेक्षायामाह-संसारदोषमिति। रागाक्रान्तचित्तस्य पदार्थद्वयतर्वावधारणासंभ- वाद्वैराग्ये सति तु तत्संभवातपदार्थज्ञानपूर्वकवाक्यार्थावधारणानुकूले श्रवणादौ प्रवृत्तिर्वैराग्य- कृत उपकार इत्यर्थः । अक्षरयोजना सुगमा ॥४ ॥ सु० टी०-एवंविधे संसारे दोषावधारणमपि कुत इति चेत्तत्राSडह- संसाररूपमवगच्छ विविच्यमानं यस्मितश्रुते भवति तद्विषया जुगुप्सा। वेदः प्रकाशयति संसरणं यथास्य जीवस्य जन्ममरणे व्रजतः क्रमेण ॥ ५॥ संसारेति। जुगुप्सा निन्दा।.तद्विवेचनोपायमाह-वेद इति। कर्थ मकाशयतीश्याह-जम्मेति। 'पञ्चम्यामाहुतावापः पुरुषवचसो मवन्तीति'
Page 175
६१० टीकाद्ुय समेतें- [ ३ तृतीो ऽध्याय: ]
[छान्दो० ५।९।१] तद्यथाऽनः सुसमाहितम्'[ बृह०४॥३। ३५ ] इत्यादिनेत्यर्थः ॥५॥ अ० टी०-तर्हि संसारदोषमेव कथमहमवधारयेयमिति जिज्ञासमानं प्रत्याह- संसाररूपमवगव्छेति । किंप्रमाणलमाश्रित्य संसारस्य दुष्टत्वं वर्ण्यत इति तत्राऽडह-वेद इति। यथा क्रमेण जन्ममरणे व्रजतोऽस्य जीवस्य संसरणं वेद: प्रकाशयति तथा विधिच्यमानं संसाररूपमवगच्छेत्यन्वयः ॥५॥ सु० टी०-ननु कथं ब्रह्मण: संसरणं नित्यमुक्तत्वादित्याशङ्कय सत्यं न स्वामांविकं तक्किं त्वनाद्यविद्यार्कल्पितलिङ्गशरीरोपाधिकजी- वत्ववशादेवेत्याह- शुद्धः परो न खलु वाङन्मनसव्यतीतः संसारदुःखमतिदुःसहमश्नुवीत। स्वाविद्यया हि पर एव स जीवभाव- मागत्य संसरति लिङ्गसमागमेन ॥ ६ ॥ शुद्ध इति। यतो वागांदिव्यतीतोऽत एव न वस्तुतः संसारदु:खभागि- त्यर्थः॥ ६ ॥। अ० टी०-ननु जीवस्य संसरणमिति कथं विशेषनिरदेशो य.वताउद्वैतवादे परस्मादन्यो न. जीव इति चेतसत्यं तथाऽपि जीवभावापत्यैव चिदात्मनः संसारित्वं न स्वरूपेणेत्येतदुपपा- दयन्नाह-शुद्धः पर इति। परः परमात्मा दुःसहं संसारदुःखं न खल्वश्षवीतेति संबन्धः। कुतो यतः शुद्धो निरअनः। कुतः शुद्धो यतो वाड्बनसव्यतीतो वाड्मनसगोचरसर्वन्यवहारा- तीत इत्यर्थः । न हि सर्वव्यवहारागोचरे वस्तुतः संसारव्यवहार उपपद्यत इति भावः । त्हि कि परस्मादन्यो जीवो यस्य संसारो हन्त तर्हि कथमद्वैतमतस्थितिरित्यत आह- स्वाविद्ययेति। स एक परः परमात्मा स्वाविद्यया स्वाश्रयविषयाज्ञानेन कल्पितलिङ्ग- समागमेन वक्ष्यमाणलिङ्गशरीरात्माध्यासाज्ीवभावमागत्य. संसरति न तोऽन्यो जीवोऽड्गीकृत इत्यर्थः । एतच 'इन्द्रो मायाभिः पुरुरूप ईयते' [ बृह० २। ५।१९] इत्यादि- वेदान्तप्रसिद्धमितिद्योतनाय हिशब्दः ॥ ६ ॥
१ ग. गभ्य सं°।
Page 176
६ २. तृतीयोऽध्याय :: ]; संक्षेपशाररीरकम्।
सु० टी०-तर्हि मुक्तिरवि सोपाधेरव स्याद्वद्वस्यैव. मुक्तिमागित्वा- दिति चेन्नेत्याह- ब्रह्लैव संसरति मुच्यत एतदेव दौवारिकं भवति संसरणं तु तस्य ।: मुक्ति: पुनर्भवति चिद्धपुषैव तस्य स्वाज्ञानत: स्व्रमहिमप्रतिबोधतश्र॥ ७॥ ब्रह्मैवेंति। न सोंपाधिकस्य बन्धो येनैवं स्याकििं तु परस्यैवेत्यर्थः। कथी लहिं शुद्ध: पर इत्युक्तं तत्राSडह-दौवास्किमिति। न तस्य परमात्मरपेण संसारित्वं किं त्वविद्योत्थलिङ्गद्वारकं तत्सापेक्षमित्यर्थः । तहहि मुक्ति- रपि किं सापेक्षरूपेण नेत्याह-मुक्तिरिति। कुतोऽयं विशेष इति चेत्त- त्ाऽडह-खेति। न हि वस्तुस्वभावानुरोध्यज्ञानं येन तत्कृतबन्धस्य वास्तवत्वं स्यात्सम्यग्ज्ञानं तु स्वाभाविकवस्तुमहिमानुरोधीति तक्कृता मुक्तिरवि स्वाभाविकीत्यर्थः ।। ।।। अ० टी०-ननु यस्य बन्धस्तस्यैव मुक्तिरिति नियमात्केत्रलस्य परस्थैव संसारबन्धों, वक्तव्यस्तस्यैव मुक्तिभाक्त्वात्सोपाधिकस्य तस्य. संसारित्वे मुक्तिरपि सोपाधिकस्यैव स्याज्त -- चायुक्तं मुक्तावुपाधिसद्भावे मुक्तत्वव्याघातादिति चेत्तत्राऽह-ब्रह्मैवेति। न ह्युपाधि- विशिष्टस्य संसारोऽस्माभिरुच्यते येन प्रसञ्जयेम विरोधं कि तु ब्रह्मैव संसरत्यतदेव ब्रह्म मुच्यत इति वद्रामः । तहिं किमिति तस्य संसरणे जीवभावों व्याख्यात इति तत्राऽऽह- दीवारिकमिति। तस्य परस्य संसरणं प्रति लिङ्गसमागमनं दौवारिकं ब्रह्मणि स्वतः शुद्धे लिङ्गसंगम: संसारारोपद्वारमात्रं न पुनस्तद्वैशिष्टयेन संसरणमसङ्गस्य तद्वैशिष्टयायोगा- दित्यर्थः । संसार इव मुक्तै तस्य न द्वारापेक्षेत्याह-मुक्ति: पुनरिति। चिद्वपुषेतीत्थं भावे तृतीया. वस्तुतो नित्यमुक्तत्वादित्यर्थः। उक्तव्यस्थायां क्र्मेण हेतुद्वयमाह-स्वाज्ञा- नत इंत्यादि। लिङ्गसमागमस्याज्ञानकृतत्वादज्ञानतः संसरणं तच्च न वस्तुतो वस्तु स्पृश- त्यज्ञानस्याSडरोपितत्वादारोपितस्य चाधिष्ठाने विकारहेतुत्वासंभवादज्ञानकृतोपाधिसंबन्धा- ध्यासद्वारा चिदात्मैव संसरतीत्यर्थः । मुक्ति: पुनः स्वमहिमप्रतिबोधतः केवलवस्तुमहिमानु- रोधिज्ञाननिबन्धना भवतीति वस्त्वनुसारित्वात्तत्त्वज्ञानस्येत्यर्थः । यद्यपि वाक्यजन्यवृत्यधी- नाऽज्ञाननिवृत्तिरूपा मुक्तिस्तथाऽपि स्वरूपानन्दाविर्भावरूपा नान्यापेक्षेति भावः ।।७।। सु० टी०-अज्ञानमेव तहिं लिङ्गद्वारकं स्यात्संसारवदस्व्ाभाविक्- व्वाज्ज्ञानस्य तु वस्त्वनुरोधित्वात्किमन्तःकरणोपरगेणेति चेन्नेत्याह स्वाज्ञानान्वयिनी चिदेव भ्रवति स्वज्ञानमस्या: पुन- र्नार्त्यन्तःकरणोपरागशबलीभावं विना युक्तितः ।
Page 177
६१२ [३ तृतीयोंडन्याय: ]
कूटस्थे न तमस्विता न घटते नो विक्रिया तत्र न- स्तस्मादेष विशेष ईषदुचितः स्वीकर्तुमेते प्रति ॥८ ॥ स्वाज्ञानेति। शुद्धस्याज्ञानसंबन्ध: शबलस्य च ज्ञानित्वमिति युक्तित एवाम्युपेयमित्यर्थः । का युक्तिरिति चेत्तत्रSSह-कूटसप इति। अज्ञानित्वं हि काल्पनिकत्वान्न कौटस्थ्यविशुद्धचादिना विरु- ध्यत इत्युक्तं न तु ज्ञानित्वं तथा तस्य विक्रियारूपत्वात्। एवं चास्य तत्र कूटस्थेऽसंभव एवेति युक्ता परिणामिबुद्धिद्वारतेत्यर्थः । न चैवं ज्ञानस्य वस्त्वनुरोधित्वविरोधो विषयकोटौ बुद्ध्यनपेक्षत्वादिति भाव:। कथं तर्हि भिन्नाश्रयज्ञानाज्ञानयोर्बाध्यबाधकत्वं तत्राSSह-तस्मादिति। द्वयोश्विदाभयत्वात्सद्वारत्वाद्वारत्वरूपे षद्मेद्मात्रेण न काऽपि क्षति- रित्यर्थः । एते प्रति ज्ञानाज्ञाने प्रतीत्यर्थः ॥।८। अ० टी०-एवं तर्ह्यज्ञानमपि परोपाधिकमेवास्तु संसारवत्तस्यापि वस्तुस्वभावानुरो- धित्वाभावाज्ज्ञानस्य च वस्तुस्वभावानुरोधित्वादन्त:करणोपरागमन्तरेणैव तत्प्राप्तिरस्त्विति
पेक्ष्य स्वाज्ञानान्वयिनी भवति युक्तित इति संबन्धः । तथाऽस्याश्चितः पुनः स्वज्ञानमन्त :- करणोपरागलक्षणं शबलीभावं विना युक्तितो नास्तीत्यन्वयः । उभयत्र युक्तिमाह- कूटस्थ इत्यादिना। कूटस्थे निर्विकारचिन्मात्रे तमस्विताऽज्ञानान्वयित्वं न घंटत इ[ति न] अपि तु घटत इति योजना। न ह्यज्ञानसंबन्धः कौटस्थ्यविरोधी चिदात्मस्वरूप- प्रकाश्यस्याज्ञानस्य चिदात्मस्वभावविरोधित्वायोगात्। किं तु विरोधिभवदज्ञानं चिदात्मनः शुद्धत्वादिप्रतिभासं विरुणद्धि। अज्ञानतत्कार्यसंबन्धो ह्यशुद्विरित्यतोऽज्ञानसंबन्धस्य कौट- स्थ्याविरोधान्न परिणाम्यन्तःकरणादिद्वारत्वं कल्यमिति भावः । अज्ञानसंबन्धस्य कौट- स्थ्याविरोधमुक्तं स्फुटयति-नो विक्रिया तत्र न इति। अज्ञानसंबन्धमात्रेण यदि चिदात्मनि विक्रिया भवेत्तदा तस्य विरोधिता स्यात्तन्ास्ति नोऽस्माकं तत्र चिदात्मनि विक्रिया न प्रतिभाति .सुषुप्तावज्ञानसंबन्धेऽपि तत्र विक्रियानुपलम्भादित्यर्थः । अर्थाज्जा- नस्य परिणामिमनोद्रव्यद्वारता सिद्धेत्युपसंहरति-तस्मादिति। ज्ञानं ह्यागन्तुकं परि- णामस्तस्य स्वतःकूटस्थत्वात्परिणामिद्रव्यान्तरसंबन्धद्वारत्वमेष्टव्यं तच्चान्त:करणश।बल्यं तेन विना तददर्शनादेवमपि ज्ञानस्याSSश्रयकोटावेवान्तःकरणद्वारत्वापेक्षणाद्विषयकोटौ तदनपे- क्षणात्केवलवसत्वाकारतया वस्तुस्वभावानुरोधित्वस्य चातिरोध इत्येष विशेष ईषन्मात्र एते ज्ञानाज्ञाने प्रति स्वीकर्तुमुचित इत्यर्थः ॥८॥
Page 178
[ ३ तृतीयोऽच्यायः ] संक्षेपशारीरकम्।
सु० टी०-कोऽसावुपाधि: संसारद्वारमिति चेत्तताSडह- पुर्यष्टकं भवति तस्य परस्य मोहा- ्तेनान्वितस्य तु नभोमलवद्दयलीकम्। दुःखं त्रिधा भवति संसरणाभिधानं नान्यः परादधिकरूपभुदस्ति जीवः ॥९॥ पुर्यष्टकमिति। न तु लिङ्गमात्रमित्यर्थः । त्रिधाऽडभ्यात्मिकादिभेदभिन्नं यद्दुःखन्नयं तदेव संसरणमित्यर्थः । अस्तु तर्हि जीव एव संसारो न परमात्मनीति चेत्तत्राSडह-नान्य इति। स्वतश्चिवदात्मतया न पराज्जीवो भिन्न इत्यर्थः ॥। ९ ॥ अ० टी०-तदेवं चिदात्मनोऽज्ञानसंबन्धोऽज्ञानमात्रद्वारकस्तस्य संसारस्वज्ञान- कार्यलिङ्गसंघातद्वारकस्तत्त्वज्ञानमपि लिङ्गद्वारकं मोक्षस्तु वस्तुस्वभावानुरोध्येवेति चेत्ेतदु- पपादितमिदानी संसरति लिङ्गसमागमेनेत्युक्तं संसरणोपाधिं लिङ्गशरीरं व्याख्यास्य- स्तत्संबन्धस्य संसारहेतुत्वं विशदयति-पुर्यष्टकमिति। तस्य चिदात्मनः परस्य संघातविलक्षणस्य मोहादज्ञानमात्रातपुर्यष्टकं वक्ष्यमाणलक्षणं भवति जायते तेन पुर्यष्टकेना- न्वितस्य तत्तादात्म्याध्यासमापन्नस्य संसरणाभिधानं त्रिविधमाध्यात्मिकादिरूपं दुःखं भवति न स्वत इत्यर्थ: । भवदप्युपाधिवशादुःखं न परमार्थ कि तु प्रतिभासमात्रमेवेत्येतदृष्टान्ते- नाडडह-नभोमलवद्यलीकमिति। नन्वेवं यदि परस्मिन्स्वतः संसारित्वं न संभवति तर्हि किमिति तस्मिन्ुपाधिं परिकल्प्य संसारित्वमारोप्यते परस्मादन्य एव जीव: संसारी कस्मान्नेष्यत इति चेन्मैवं परस्मादन्यस्य जीवस्य स्वरूपतोऽसंभवादित्याह- नान्य: परादिति । जीवस्यापि चित्स्वरूपत्वेन परस्मातस्वतो विशेषाभावा- दिव्यर्थः ॥ ९ ॥ सु० टी०-कुतो नेत्यपेक्षायां जीवः किं परस्यांशभूत उत विका- रोऽथवाऽत्यन्तभिन्न इति विकल्प्प न त्रिधाऽपि संभवतीति दूषयति- नांश: परस्य न च तस्य विकार एष नात्यन्तमेव च विभिन्नवपुः परस्मात्। जीवोऽयमभ्युपगतः कुत एतदेवं ब्रह्मात्मतावचनजातविरोधहेतोः ॥१० ॥ नांश इति। तस्य निष्कलत्वध्ुतेः । न चैतद्विकारः । तेजःप्रमृतीनां
१ ख. घ. पधुगस्ति।
Page 179
६१४ टीकाठूय समेतं- [ ३ तृतीयोंऽथ्याय:]
सूष्टौ ज़ीवस्व पृथवसृष्यनुपदेशात्। 'आत्मानो व्युच्चरन्ति' इत्यस्य जीवोपाधिजनिपरत्वाज्जन्यस्य विनाशनियमेन कृतहान्याद्यापततेः ।न घ तद्द्िन्नो 'नान्योऽतोडस्ति द्रष' [बृ०३। ७।२३] इत्यादि- श्रुतेः । कथं नेत्यत्राSSह-ब्रह्मात्मतेति. ।।१०।। अ० टी० -- जीवस्य परादन्यत्वं प्रतिषिद्धं प्रतिपादयति-नांश इति। अन्यत्ं वदन्प्रष्टव्यः स किं परस्यांशः पुरुषस्य हस्तादिवत्किंवा भूमेरुषरादिवद्विकारोऽथवाSत्यन्त- मेव घटात्पट. इव भिन्न इति पक्षत्रयमपि निषेधति क्रमेण-नांश इति। योऽयं. जीव एष परस्य नांशोऽम्युपगत इत्यादि योज्यम् । निषेधप्रतिज्ञायां प्रश्नपूर्वकं हेंतुमाह- कुत इत्यादिना। तत्त्वमस्यादिवाक्यानां निरुपचरितात्मैक्यपरत्वस्य प्रतिपादित्त्वा- त्तद्विरुद्वेयं कल्पना न प्रामाण्यमर्हतीत्यर्थः ॥ १० ॥ सु०टी०-दूषणान्तरमाह- अपि च विश्वमनुप्रविवेश तत् परममेव पदं परमात्मनः । इति वदत्सु सुहृत्स्विव तत्पर- श्रुतिवच:सु कथं स ततोऽधिकः ॥ ११ ॥ अपि चेति। परमात्मनो मायोपहितं स्वरूपमेव सर्गादौ 'बहु स्याम् [छा० ६।२। ३] इत्येवमीक्षापूर्वकं मायिकं भूतसूक्ष्मजातं सृक्टा तावता च व्यवहारानुपपत्तिमालोच्य 'हन्ताहमिमास्तिस्रो देवताः' [छा०६ । ३ । २ ] सूक्ष्मभूतात्मिका 'अनेन जीवेनाऽSरमनाऽनुप्रविश्य नामरूपे व्याकरवााण '[छा०६।३। २] इति विमृश्य स्वाभिन्नेन जीवरूपेण ताः प्रविश्ष श्रुत्यन्तरोपसहताकाशवायुसहिततेजोबन्नात्मि- कानि पञ्चभूतसूक्ष्माणि प्रत्येकं द्विधा विभज्य द्वितीयभागान्प्रत्येकं चतुर्था कृत्वा पूर्वभागेषु स्वजातीयचतुश्चतुर्भागनिक्षेपेण पञ्चीकृत्य स्थलान्य- करोदित्येवमर्थकच्छान्दोग्यभ्रुतेः 'तत्सृष्टा तदेवानुभाविशत' [तै० २। ६। १]।'पुरः पुंरुष आविशत्' [बृ० २।५।१८] इत्यादिश्ु- त्यन्तरसन्भ्ावाञ्च कथं जीवः परमात्मनोऽधिक इत्यर्थ: ॥११॥ अ० टी०-अपि च स्रष्टुरेवाविकृतस्येश्वरस्य. जीवभावेनानुप्रवेशश्रुतिविरोधाच्च नः जीवस्य ब्रह्मविकारत्वादिपक्षसिद्धिरित्याह-अपि चेति। तत्त्रष्टत्वेनोपलक्षितं परमाः त्मन: परमं पदमिति संबन्धः । 'तत्सृष्टा तदेवानुप्राविशत्'[तैति० २। ६। १]
Page 180
[३ तृतीयोऽच्याय: ] संक्षेपशारीरकमू। ६१५
' अमेन जीवेनाऽऽत्मनाऽनुप्रविश्य' [छा०६।३।२] इत्यादिप्रवेशवादिश्रुतीना- मर्थवादत्वात्स्वार्थाभावे सति न पक्षविरोधितेत्याशङ्कयोक्ततं-तत्परेति। अर्थवादत्वेऽपि प्रमाणान्तरसंवादविसंवादाभावात्स्वार्थपरत्वस्य न्यायप्राप्तत्वादस्ति तत्परत्वमपीत्यर्थः॥ ११॥ सु० टी०-पुर्यट्टकं मोहजन्यमित्युक्तं तभ प्रमाणमाह- प्रच्यावि वस्तु यदिहास्ति निजस्वरूपा- दपच्युतैकरससंविदधीनमस्य। प्रच्यावितास्फुरणमित्यवगत्य तत्र तत्कल्पितं सकलमाकलयानुमानात् ॥१२॥ प्रच्यावीति। अस्याऽडत्मनो निजस्वरूपात्प्रच्यावि भिन्नं यदिहास्ति वस्तु तत्तत्राऽडत्मनि कल्पितं सकलमाकलयेति संबन्ध: । कुत इत्याह- अनुमानालिङ्गादित्यर्थः । किं तदिति चेत्तत्राSSह-अप्रच्युतैकरससंविदधीनमस्य प्रच्यावितास्फुरणमिति। धर्भ प्रधानं प्रच्यावितास्फरणत्वमित्यर्थः । प्रच्यावितं दूरीकृतमस्फुरणं यस्य तत्तथा तस्य मावस्तत्वं संविद्धीनस्फुरणत्वा- त्स्वप्रवदित्यर्थः ॥१२ ॥ अ० टी०-ननु जीवपरयोश्विदृपत्वे समानेऽपि कार्यप्रविष्टस्य परस्यैव जीवभावेऽपि न तयोरत्यन्तमेकरूपत्वं संभवति जीवे परस्माद्वह्मणोSधिकस्य कर्तृत्वादिलक्षणस्य रूपान्त- रस्य दर्शनादिति चेद्दृश्यतां नाम जीवे रूपान्तरं तस्याऽडरोपितताया अनुमानेन निश्चयान्न तत्तस्य स्वाभाविकं किं तु मिथ्येत्यभिप्रेत्याSSह-प्रच्यावि वस्त्विति। अस्य जीवस्य निजस्वरूपात्प्रत्यक्चैतन्यलक्षणाद्यदिह जीवे प्रच्यावि परस्मादुद्रिक्तमागमापायि वा वस्त्वस्ति, प्रतिभासमानतया वर्तते तत्प्रच्यावितास्फुरणं प्रच्याविरूपत्वेन स्फुरणमप्रच्युतैक· रससंविदधीनं कूटस्थसाक्षिसंविदायत्तं न स्वप्रकाशं किं तु दृश्यमेवान्तःकरणादिवदित्यव गत्य दृग्दृश्यविवेकेन निश्चित्य तत्सकलमधिकरूपं तत्र चिदेकस्वभावे प्रत्यगात्मनि कल्पि- तमारोपितमनुमानादाकलय विजानीहीति योजना। विप्रतिपन्नं प्रत्यक्चिन्मात्रादधिकं रूपं प्रत्यक्चिदेकरसाधीनप्रकाशं भवितुमर्हति प्रत्यक्चिदतिरिक्तत्वादागमापायित्वाह्वुद्ध्यादिवदिति प्रयोग: । न च हेत्वसिद्धि: सुषुप्त्यादौ प्रत्यक्चैतन्ये स्फुरत्यपि रूपान्तरस्यास्फुरणेनास्या- तिरेकागमापायित्वयोरध्यवसितत्वात्। तथा च दृश्यस्य कल्पितत्वात्कल्पितस्य चावस्तुत्वात्प्रत्य- क्चैतन्यस्वरूप एव जीवो न तदंशस्तद्विकारोऽन्यो वेति समाकलयेत्यर्थः ॥ १२ ॥ · सु० टी०-नतु स्वाविद्यया शुद्ध आत्मा संसरतीत्युक्त ब्ह्माभ्रयम- ज्ञानमङ्गीकृतं स्यात्तच्चानुभवादिविरुद्धमिति नेत्याह-
Page 181
६१६ हीकाट्वय सभेतं- [३ तृतीयोऽध्याय: ]
चैतन्यवस्तुविषयाश्रय एव मोहो नाद्वैतवस्तुविषयाधयकोडप्रतीतेः। बुद्ध्यादिवेष्टित्तचितो न तमस्वितेति बह्माश्रयत्वमुदितं तमसः पुरस्वात् ॥१३॥ चैतन्येति। चिन्मान्राशयविषय एव मोहः संसारोऽपि तत्रैवेध्यर्थः। कथं तर्हहि ब्ह्मण्येवाज्ञानं न जीव इति चेत्राSडह-बुद्धयादीति। बुद्धघा- दिविशिष्टस्य नाज्ञानमित्येतद्भिप्ायकं तदित्यर्थः ॥१३॥ अ० टी०-नन्वज्ञत्वं संसारित्वं च दृश्यमानं न ब्रह्मण्युपपन्नं तस्य तदयोग्यतवादतस्त- स्मिस्तत्कल्पनमनुभवन्यायविरुद्धमिति चेन्न तथाऽनभ्युपगमादित्याह-चैतन्यवस्त्विति। मोहोजज्ञानं चैतन्यवस्तुविषयाश्रय इत्येवास्माभिरम्युपगम्यते यत्राज्ञानं तत्रैव संसारानुभवश्च नाद्वैतवस्तुविषयाश्रयको न ब्रह्माश्रयविषयकस्तथा प्रतीत्यभावादित्यर्थः । तर्हि ब्रह्मण्येवाज्ञा- नसंबन्धो न जीव इत्ययं निर्बन्ध: प्राक्कतोऽसंगत इति चेत्तत्राऽऽह-बुद्धयादीति। बुद्धयादिसंघातवेष्टितचितो बुद्धयादिगतप्रतिबिम्बस्य वा तद्गताभासमात्रस्य वा न तमास्वि- तेति प्रतिपादयितुमेव पुरस्तात्पूर्व ब्रह्माश्रयत्वमुदितं तमसो नाद्वैतवस्त्वाश्रयत्वाभिप्रायेणे- त्मर्थः ॥१३ ॥ सु० टी०-अस्तु ब्रह्माश्रयत्वमेवेति चेन्न प्रमाणाभावादित्याह- ब्रह्माश्रयं न हि तमोऽनुभवेन लभ्यं नाप्यागमान्न च किमप्यपरं प्रमाणम्। ब्रह्माश्रयत्वविषयं तमसस्ततश्र प्रत्यक्प्रकाशविषयाश्रयमेतदस्तु ॥ १४ ॥ ब्रह्माश्रयमिति। तमसो ब्रह्माश्रयत्वविषयं किमप्यपरं प्रमाणं न चेति संबन्ध: ।। १४ ॥ अ० टी०-नाद्वैतवस्तुविषयाश्रयको मोहः कि तु प्रत्यक्चिदाश्रयविषयक एवेत्युक्त- मुपपादयति-ब्रह्माश्थमिति। अपरमनुमानादीत्यर्थः। न हि ब्रह्म मूदमिति प्रतीतिहे- तुरागमो वाऽनुमानादि वाऽस्तीत्यर्थः । न च किमप्यपरं तमसो ब्रह्माश्रयत्वविषयं प्रमाणं संभवतीति योजना। ततो जडस्य मोहाश्रयत्वासंभवात्परिशेषात्प्रत्यक्चैतन्यविषयाश्रय एव मोह इत्युपसंहरति-ततश्रेति। जीवब्रह्मविभागानालिङ्गितं सर्वभेदकल्पनाधिष्ठानं चिन्मात्र- मिह प्रत्यक् प्रकाश इत्युच्यते। तदाश्रयविषयत्वं मोहस्यास्माकं विवक्षितमिति भाव: ॥ १४ ॥
Page 182
[३ तृतीयोऽध्यायः ] संक्षेपशारीरकम्। ६१७
सु० टी० -- ननु ब्रह्मण्यज्ञानामावे जीवे बलादज्ञानं पाप्तमन्यस्या- मावादिति चेत्तत्राSSह -- जीवत्वमेव तु तदाश्रयमध्यपाति नेच्छन्ति युक्तिकुशला न हि युज्यते तत्। अज्ञानमेव खलु तन्न तमस्तमस्वि चैतन्यवस्तु पुनरस्तु न तद्विरोधः ॥।१५॥ जीवत्वमिति। न जीवत्वं तदाश्रयकोटिप्रविष्टं किं तु चिन्मान्नमित्यर्थः । न हीति। जीवत्वस्य तत्प्रविष्टत्वमित्यर्थः । तत्र हेतुः-अज्ञानमेवेति । अज्ञानित्वमेवेत्यर्थः । कि तत इत्याह-न तम इति। तह निराशयत्व- मज्ञानस्येति नेत्याह-चैतन्येति। निर्विभागं चिद्धस्तु पुनरस्तु तमस्वी- त्यनुषङ्ग: ॥। १५॥ अ० टी०-जीवत्वविशिष्टस्य चिदात्मनो नाज्ञानाश्रयत्वमिष्टमित्येत्प्रतिपादयति- जीवत्वमेव त्विति । कस्मान्नेच्छन्तीत्यत आह-न हि युज्यते तदिति। जीवत्वस्याज्ञानाश्रयमध्यपातित्वं न हि युज्यत इत्युक्तेऽर्ये युक्तिमाह-अज्ञानमेवेति। तज्जीवत्वमज्ञानमेव खलु संसारित्वं हि जीवत्वं तच्ाज्ञानान्वयव्यतिरेकानुविधायित्वादज्ञान- मयमिति तद्विशिष्टस्याज्ञानाश्रयत्वाङ्गीकारे स्यादात्माश्रयतेत्येषाSत्र युक्तिरित्येतदाह-न
कोऽपि न्यायविरोधोऽनुभवविरोधो वाऽस्तीत्युपसंहरति-चैतन्यवस्तु पुनरिति। अस्तु तमस्वीत्यनुषङ्गः ॥ १५ ।। सु० टी०-पुर्यष्टकवेष्टितस्य दुःखमित्युक्तं तत्र पुर्थष्टकं दर्शयति- कर्मेन्द्रियाणि खलु पञ्च तथा पराणि बुद्धीन्द्रियाणि मनआदिचतुष्टयं च। प्राणादिपश्चकमथो वियदादिकं च कामश् कर्म च तमः पुनरष्टमी पूः ॥१६ ॥ कर्मेन्द्रियाणीति। मनआदीति। मनो बुद्धिरहंकारश्विवत्तमिति चतुष्टयम्॥१६॥ अ० टी०-तस्मात्प्रत्यक्चैतन्याश्रयविषयत्वादज्ञानस्य तन्निबन्धनं संसारित्वमपि तस्यैव न पुर्यष्टकविशिष्टस्य पुर्यष्टकं तु तत्र द्वारमात्रमित्युक्तं तत्र किं ततपुर्यष्टकमित्यपेक्षाया सदाह-कर्मेन्द्रियाणीति। कर्म धर्माधर्मलक्षणं तमो भ्रान्तिज्ञानम्। अन्य- त्प्रसिद्धम् । १६ ।। ७6
Page 183
टीकाद्वय सभेतं- [ ३ तृतीयोऽध्यायः ]
सु० टी०-नन्वट्टम्योऽतिरिक्तमपि संसारहेतुरस्ति विद्या पूर्वपज्ञन चेति कथ तत्परित्यागस्तन्राSSह- विद्या च विश्वविषयानुभवोत्थपूर्व- प्रज्ञा च कर्मवचसैव तु संगृहीने। बन्धप्रयोजकतया सदशत्वहेतो- रेकत्र च श्रुतिवचस्युपसंग्रहेण।। १७ ।। विद्या चेति। विश्वविषयानुभवोत्थः संस्कारः पूर्वप्रज्ञा। कथं सेंगृहीते इति तत्राSऽह-बन्धेति। साहश्यान्तरमाह-एकत्रेति। एकवाक्योपात्त- स्वादित्यर्थः॥१७। अ० टी० -- नन्वष्टभ्योऽतिरिक्तमपि संसारप्रयोजकमस्ति विद्यापूर्वप्रज्ञारूपमतः कथमयें संख्यानियम इत्पत आह-विद्या चेति। विद्या वक्ष्ममाणविधा विश्वविषयानुभवोत्था "पूर्वप्रज्ञासंस्काररूपा च कर्मवचसैव कर्मपदेनैव संगृहीते तत्र निमित्तमाह-बन्धेति। एकत्र चैकस्मिन्नेत्र श्रुतिवाक्ये बन्धप्रयोजकतयोपसंग्रहेण सदृशत्वाद्धेतोः । यद्वैकत्र च श्रुतिवचस्युपसंग्रहेण सह पाठेन बन्धप्रयोजकतया सदृशत्वहेतोः समानार्थत्वनिश्चया- दित्यर्थः ॥ १७ ॥ सु० टी०-एतदेव दर्शयति- तें विदेति हि वाक्यमेकमिह च स्पष्टे त्रयं कीर्तितें तस्मात्कर्मवचस्तयोरपि अवेत्संग्राहकं कारणात्। विद्या चात्र चतुर्विधाप्यभिमतैवाSSरम्भिका कर्मवत् संस्कारोडि तथा चतुर्विध इति ज्ञेयस्तथा संभवात्ं ॥१८॥ तं विद्येति। 'तं विद्याकर्मणी समन्वारमेते पूर्वप्रज्ञा च'[बृह० ४। ४।२ ] इति श्रुतौ तयं. कीर्तितमित्यर्थः । तस्मात्कारणादित्यन्वयः। विदयेति अत्रोत्करान्ती। मानसधीमात्रें विद्या सा च विहिता तत्समा प्रतिषिद्धा तत्समा चेति चतुर्विधा यथा कर्म यागबधाहारविहारादि विहित प्रतिषिद्धाविहिता प्रतिषिद्ध भेदेश्वतुरविधमित्यर्थः। कियती प्रश्ञेति तत्राSSह-संस्कार इति। सोऽि विद्याकर्मजन्यः कारणचातुर्विध्याञ्चतु- विंध इत्याह -- तथेति ।। १८।।
१ क. हीता । २ क. ग. भवेत्।
Page 184
[ ३ तृतीयोऽ्डध्याय: ] संक्षेपशारीरकम्। ६१९
अ० टी०-पद्रैकवाक्यतया कर्मणा सह पाठाद्विद्यापूर्वप्रज्ञयोंः कर्मपदेनोपसंग्रहण- मुक्तं स्पष्टयति -- तं विद्येति। इह. वाक्ये. तस्मात्कारणादित्यन्वयः। तदेव संसारप्रयो- जकं विद्यादिस्त्ररूपमाह-विद्या चात्रेति। अत्रोत्क्रान्तिप्रकरणस्थव्राक्ये। विद्या ज्ञानमात्रं मानसं सा चतुर्विधाऽप्यारम्भिकाSभिमता। विहिता तत्समा प्रतिषिद्धा तत्समा चेति विद्या चतुर्विधाऽपि चतुर्विधकर्भवत्संसारारम्भिकाडभिमतैव।तथा संस्कारोऽपि. विद्या- कर्मकृतस्तथा कारणवच्चतुर्विध इति ज्ञेयः। कुतस्तथा संभवात्कार्यस्य कारणानुविधायित्वेन कारणस्य चातुर्विध्ये कार्यस्यापि चातुर्विध्यसंभवादित्यर्थः । तथा च विद्याकर्मपूर्वप्रज्ञा- ख्यैका, पुरी कामाख्यैका कर्मप्रवर्तिका पुरी तमःशब्दितमोहात्मिका कामस्यापि, हेतुभूताऽपरा, पुरीति विवेकः । अन्यत्पुरीपञ्चकं प्रसिद्धम् ॥ १८ ॥ सु० टी०-ननु क्वचिलिङ्गं जीवोपाधिरुच्यते क्वचित्पुर्षष्टकमिति ना
पुर्यष्टकं तदिदमप्यभ्वद्धि लिङ्गन तेनोच्यते तदपि लिङ्गगिरा क्वचित्तु।' पुर्यष्टकं न खलु लिङ्गगिरोडभिधेयं मुख्यं तु सप्दशकं प्रथितं हि लिङ्गम् ॥ १९ ॥' पुर्यष्टकमिति। लिङ्गशब्देन क्वचित्पुर्यट्टकमेवोच्यते लक्षणया सटीरुप- दधातीतिवदित्यर्थः । किं तहिं मुख्यं लिङ्गमिति तत्राऽऽह-मुख्यमिति ।: प्रथितं प्रसिद्धम् ॥ १९ ॥ अ:o टी०-ननु क्वचिलिङ्गशरीरं जीवोपाधित्वेनोच्यते 'आत्मेन्द्रियमनोयुक्तं मोक्तेत्याहुर्मनीषिण: ' [कठ० ३ । ४ ]'लिङ्गं मनो यत्र निषक्तमस्य '[बृह० ४ ।. ४ । ६ ] इत्यादिश्रुतेस्तदपि कि पुर्यष्टकमेव कि वाऽन्यदिति तत्राऽऽह-पुर्यट्टक- मिति। इदमप्युक्तं पुर्यष्टकमपि हि यस्मालि्ङ्गमभवत्प्रत्यगात्मसद्भावगमकमभूत्तेन. हेतुना कचित्तु तदपि लिङ्गगिरोच्यते लक्षणया न मुख्यया वृत्या। कुत इत्यपेक्षायां पुर्यष्टके. लिङ्ग. शब्दस्य प्रसिद्धयभावादित्याह-पुर्यष्टकं न खल्विति। सप्तदशकं तु वक्ष्यमाणं लिङ्गं प्रथितं रिङ्गगिरो मुख्यार्थत्वेन. प्रसिद्धमिति योजना। वक्ष्यमाणसप्तदशकस्याSSमो० क्षमविपरिवृत्ततयाऽनुवृत्तेस्तदेव जीवत्वोपाधिभूतं लिङ्गशव्दस्य मुख्यमभिधेयं न तु विद्याकर्मपूर्व प्रज्ञाभ्र्रान्तिभूत सूक्ष्माण्यपि तेषां प्रतिजन्मविपरिणामभेदादतः पुर्यष्टकेऽपि सप्त- दशकस्य सत्ात्तदपि लिङ्गं जीवोपाधिरित्युपंचारेणोच्यत इति भाव: ।। १९।।.
Page 185
६२० टीकाटय समेतं- [ ३ तृतीयोऽध्याय: ]
सु० टीe-कि सत्सप्दशकं तत्राSडह-
इह तावदक्षदशक मनसा सह बुद्धितत्त्वमथ वायुगणः । इति लिङ्गमेतदमुना पुरुष: खलु संगतो भवति जीव इति ॥ २० ॥ इहेति। अमुनेति। यद्यपि लिङ्गसंबन्धेन जीवत्वं संसरणं तु न पुर्थष्टकं विनेत्पर्थः॥ २०॥ अ०टी०-मुख्यं सप्तदशकं लिङ्गमाह-इह तावदिति। बुद्धिरेव तत्त्वं बुद्धि- तत्त्वं प्राणादिपञ्चकं वायुगण इत्येतत्सप्तदशकं लिङ्गममुना सङ्गतः खल पुरुषो जीव इति प्रसिद्धो भवति। उक्तलिङ्गतादात्म्याध्यासनिबन्धनो हि प्रत्यगात्मनो जीवत्वव्यवहार इत्यर्थ:॥ २० सु० टी०-कुत इति चेत्तताSऽह- न पुराष्टकेन रहितस्य तव क्चिदस्ति संसरणदुःखयुजा। न पुराष्टकेन सहितस्य तथा क्वचिदस्ति दुःखविगमश्र तव ॥ २१ ॥ न पुराष्टकेति। संसरणात्मकं यद्दुःखं तेन युजा संबन्धस्तेनान्वयव्य- तिरेकाभ्यां पुर्थष्टकं संसारहेतुः 'अशरीरं वाव सन्तम्' [छा० ८। १२।१ ] इत्यादिश्युतेरित्यर्थः ॥ २१ ॥ अ० टी०-उक्तलिङ्गस्य जीवत्वनियामकत्वेऽपि न तावन्मात्रेण संसारितं कि तु पुर्यष्टकोपेतस्यैवेत्यत्रान्वयव्यतिरेकौ प्रमाणयन्पुर्यष्टकस्य चिदात्मनि संसरणद्वारत्वमुक्तं सम- र्थयति-न पुराष्टकेनेति। दुःखयुजा दुःखयोगः ॥२१॥ सु० टी० -- तहिं स्वाभाविकस्य तस्य हानासंभवान्मुक्त्यभाव इति चेन्न स्वाभाविकत्वासिद्धेरित्याह -- तव नित्यमुक्तसुखचिद्पुषो न कदाचिदस्ति पुरसंगमनम्।
Page 186
६२ तृतीयोऽध्याय:] संक्षेपशारीरकम्। ६२१
सव मायया विरचितं सकलं पुरसंगतिप्रभृतिक वितथम् ॥ २२ ॥ तबेति। तर्हि कथं संसारस्तत्राSSह-तव माययेति ॥ २२॥। अ० टी०-अयं पुरसंबन्धश्चेदात्मनः स्वाभाविकः स्यात्तदा संसारोऽपि स्वाभाविक एवेति तस्य ज्ञानान्निवृत्तिर्न स्यादिति चेन्मैवं पुरसंबन्धस्याSSरोपितत्वादिल्याह-तव नित्यमुक्तेति। कदाचित्कालत्रयेपीति यावत्। प्रमाणसिद्धनित्यमुक्तसुखचिद्रपत्ववि- रोधादित्यर्थः । तस्मात्पुरसंबन्धस्तरन्न्निबन्धनं संसारित्वा/दिकं च सर्वमात्मनि मोहमात्रायत्त- मित्युपसंहरति-तव माययेति। अनेन स्वाज्ञानत इति पूर्चोक्तं प्रपञ्चितम् ॥। २२ ।। सु० टी० -- उक्तमर्थ दृष्टान्तेन समावयति -- मलिनं नभो न हि कदाचिदभू- द्विमलं कदाचिदभवन्न नक्षः । उभयं नभस्यभवदेवमिह त्वयि नित्यमुक्तचिति संसरणम् ॥ २३॥ ! मलिनमिति। न हि नमसि मालिन्यवैमल्ये स्तस्तस्य शुद्धत्वाक्किं तु घालैरध्यस्येते एवमात्मनि बन्धमोक्षावित्यर्थः ॥। २३।। अ० टी०-कल्पिताभ्यामपि संसारमोक्षाभ्यामात्मनों योगाद्विकारित्वप्रसङ्गो दुर्वार इति चैन्मैवमाभासधर्मस्याविष्ठानास्पर्शित्वादिति दृष्टान्तेनाSSह-मलिनं नम इति। नभसः स्वभावतोऽसङ्गत्वानिनिरवयवत्वाच्च न मलेन संक्लेषः संभवति तथाऽपि मलिनं नभ इति प्रतीयते मलसंल्लेषाभावे च न तन्निवृत्तिरूपं विमलत्वमपि तस्मिन्ुपपद्यते तथाSपि घनधूमा- द्यपाये विमलं नभ इति प्रतीयते। यथेदं द्वयं नभसि भ्रान्तिमात्रं कल्पितमेवैवं चिदा- त्मनि नित्यमुक्तस्वभावे सदैकरूपे संसरणं मोक्षश्वेशयुभयं भ्रममात्रसिद्धं न परमार्थ- मित्यर्थः ॥ २३॥ सु० टी० -- नन्वसिद्धो दष्टान्तोऽनेकान्तवादिनोभयस्यापि नमसि
न हि कल्पनाविरचितं वितथं परमात्मवस्त्ववितथं स्पृशति ।
१ ख. कं च तथा।
Page 187
६२२ टीकाद्टयसमेतं- [३ तृतीयोडथ्याय: ]
परमात्मवस्तु च तथा तमसा परिकल्पितं न किमपि स्पृशति ॥ २४ ॥
युक्तिविरोधाद्नेकान्तवादोऽयुक्त इत्यर्थः ॥ २४ ॥ अ० टी०-यद्यत्र कल्पितं, न. तत्तत्र परमार्थमिति प्रतिपादयन्दार्टान्तिकं प्रपञ्च- यति-न हि कल्पनाविरचितमिति। कल्पनाविरचितं यतो वितथमतोSवितथं परमात्मवस्तु न हि स्पृशतीति योजना। ननु कल्पितस्याज्ञानादिबन्वस्य जडत्वात्स्वयं, स्प्रष्टत्वासंभवेऽपि परमात्मनो निव्यसिद्धस्यः चेतनस्य स्प्रष्टत्वं स्यादिति चेन्नेत्याह- परमात्मवस्तु चेति। कल्पितपरमार्थयोर्विरोधान्नान्योन्यसंस्पर्श इत्यर्थ: ॥ २४ ॥ सु० टी८ -- कल्पितपरमार्थसतो: परस्परासंस्पर्शे दटान्तमाह- न हि भूमिरूषरवती मृगतूड़- जलवाहिनीं सरितमुद्दहृति। मृगवारिपरपरिवारवती- न नदी तथोषरभुवं स्पृशति ॥२५॥ न हि भूमिरिति। ऊषरात्मिकेत्यर्थः ॥ २५ ॥ अ० टी०-कल्पितपरमार्थयोः संस्पृष्टतया भासमानयोरपि पर्परासंस्पर्शित्वे दृष्ान्त माह-न हि भूमिरिति॥२५.॥ सु० टी०-ननु 'तमुत्कामन्तं प्राणोऽनृत्क्रामति'[बृह० ४।४। २ ] ' तदन्तरप्रतिपत्ती रंहति' [ब्रह्म० ३ । १। १] इत्यादि श्रुतिसूत्रसिद्धं संसरणं कथं कल्पितमित्याशङ्कयाऽडह- ..
न तव क्चिद्गमनमस्ति विभो- र्न पुराष्टकस्य जडरूपभृतः । न च मध्यवर्तिजडचिद्दपुषो- र्गमनक्षमं किमपि संभवति॥२६॥ न तवेति। वास्तवसंसरणवादी प्रष्टव्य: किं चैतन्यस्य संसरणमुत पुर- स्याथ मिलितस्येति नाऽडद्य इत्याह-न तवेंति । तत्र हेतुमाह- विभोरिति। नापि द्वितीय इत्याह-न पुरेति। हेतुमाह-जद्देति। न
Page 188
[ ३ तृर्त,योडध्यायः ] संक्षेपशारीरकम्। ६२१
तृतीय इत्याह-न चेति। जडाजडयोविरुद्धयोस्तात्विक संबन्धायोगा- दित्यर्थ: ॥ २६ ॥ अ० टी०-इतश्चाऽत्मनि संसारः कल्पित एवेत्याह-न प्वेति। कचित्परलो- कादौ तव गमन नास्ति विभुत्वात्। विभौ व क्रियासंभवादित्यर्थः । पुराष्ट्कस्यापि न अचिद्मनमस्लि जडस्वरूपत्वात्। न हि जडं स्वतःप्रवृत्तिमदृष्टमित्यर्थः । ननु तथाऽपि चिदात्मपुराष्टकयोर्मध्ये किमपि स्वतोगमनसमर्थ भविष्यति येन स्वयं गच्छता चिदा- तमपुराष्टक अपि नीयेते इत्याशङ्कायामाह-न च मध्यवर्तीति। चिज्जडातिरिक्तस्य वस्तुनोऽसंभवांदित्यर्थः ॥२६ ॥ सु० टी० -- तथाऽपि वटगत्या घटवेष्टिताकाशगमनवत्पुरवेष्टितस्प गमनं कि न स्यादिति तन्राSडह- पुरवेष्टितं न तव चिद्लयं परलोकमार्गमनुसर्तुमलम्। घटवेष्टितं न हि नभोवलयं व्रजति व्रजत्यपि घटे वितते ॥ २७ ॥ पुरवेष्ठितमिति। उपाधिगमनादौपाधिक रूपं नश्यति न तु गच्छतीत्य- सिद्धो हष्टान्त इत्यर्थः । ननु गच्छति घटे घटाकाशगमनस्य प्रत्यक्ष- त्व्वात्कथं दृष्टान्तासिद्धिरिति तत्राSSह -- व्रजत्यपीति। यदि घटे गते नमोऽपि मच्छेत्तदा स प्रदेशो घटेनेव नमसापि शून्य: स्पान्न च तथेति न तत्र नभो गच्छतीत्यर्थः ॥२७।। अ० टी०-ननु यद्यपि चिदात्मा विभुवात्स्वयं न गतिर्मास्तथाSपि पुराष्टपरिवेष्ठि- ततया परिच्छिन्नत्वाद्च्छेदिति चेननेत्याह-पुरवेष्टितमिति । उपाधिगमनेऽपि नौपा- धिकस्य गमनमस्ति घटगमनेऽप्याकाशस्येवेत्यर्थः । उपाध्यपसरणे च स्वरूपस्योपहितत्वम. पसर्पति केवलं न स्वरूपमप्यपसरतीति भावः ॥ २७॥ सु० टी०-ननु नमोन्तरस्थोत्पन्नत्वान्न तच्छत्यत्वं तद्देशस्पेति तत्राSSह- घट एव गच्छति नभस्त्वचलं ब्रजता घटेन तु ततश्र तेतः ।
१ क. ग. ति न न°।२ क, ग. 'तम।
Page 189
६२४ टीकादवय समेत- [३ तृतीयोऽध्याय: ]
परिवेष्टनेन घटखं क्रियते घटखानि तत्र सुबहूनि ततः ॥ २८॥ घट एवेति। निरवयवद्रव्यत्वान्न नभोन्तरमुत्पद्यते कि त्वचलमेव नम हत्यर्थः । का तर्हि नभो गच्छतीति बुद्धेर्गतिरित्वाह-ब्रजतेति। घटख. मिति। नतुं नमोन्तरमित्यर्थ: ॥। २८ ।। अ० टी०-ननु गच्छत्युपाधावौषाधिकस्यापि गमनं दृश्यते घटे गच्छति तदवच्छिना- काशस्य गमनदर्शनादतो नोक्दष्टान्तः स्पष्ट इति चेन्नेत्याह-घट एवेति। कथं तर्हि गमनप्रतीतिर्नभस इति चेत्तत्राSऽह-व्रजतेति। व्रजता तु घटेन नीयमानेनेति यावत्। ततश्च ततः पदे पदे नभसः परिवेष्टनेन घटखं क्रियते तत्र तदा ततो वेष्टमात्सुबहूनि घटखानि केवलं भवम्तीति योजना। तत्र भेदाग्रहाद्वटाकाशो गच्छतीति भ्रमो लोकस्य निरवयवस्य परमार्थतो घटेनाSSकर्षासंभवादित्यर्थः ॥ २८॥
पुरमेव गच्छति चितिस्त्वचला व्रजता पुरेण यदि साऽपि चितिः । परिवेष्टयते तु सुबहूनि तदा वलयानि पूर्ववदुपाश्रयसे ॥ २९ ॥ पुरमेवेति। विपक्षे बाधकमाह-बजतेति। यदि परिवेष्यते तदा चल-
श्रयेथाः ।। २९॥ अ० टी०-दृष्टान्ते साधितमर्थ दार्ध्टान्तिके योजयति-पुरभवेति। साऽपि चितिर्व्रजता पुरेण यदि नभ इव घटेन परिवेष्टयते तदा तु बहूनि वलयानि परिच्छेदान्यू- र्ववत्पूर्वतुल्यानुपाश्रयस इति योजना ॥ २९ ॥ सु० टी०-भवतु चिद्धलयान्तरोत्पत्ति: को दोष इति तत्राSऽह- अळतागमश्र कतनिष्फलता फलतः समापतति कर्तृगतेः।
१ क, थ. कर्बग।
Page 190
[ ३ तृतीयोऽष्याय: ] संक्षेपशारीरकम्। ६२५
अपरस्य भोक्तुरुदयाच्च दिवि व्यसनस्य संततिरहो विषमा॥ ३० ॥ अकृतागम इति। कर्तृगतेरिति । पूर्व येन पुरवेष्टितचैतन्येन कर्म कृतं वस्य गतेर्नाशात्कृतवैयथ्यमित्यर्थः। अपरस्येति। ुलोके मोक्त्त्रन्तरोदयात्तं प्रत्यकृतस्य कर्मण: फलमागच्छेदिति दुरुत्तरं व्यसनमित्यर्थः । विषमा येवाप्रामाण्यापादिकेत्यर्थः ॥३०॥ अ० टी०-तर्ह्येतदेवास्तु परलोकगमनं यत्पुरगमनमनु नैरन्तर्येण चिद्वलयाना जननमिति चेत्तदा महान्दोषः प्रादुःष्यादित्याह-अककृतागमश्चेति। विना करणानुष्ठानं कार्यनिष्पत्तिरकृतागमः कृतप्रयत्नस्य निष्फलत्वं फलजननमन्तरेण पर्यवसानं कृतनिष्फ- लतैतद्दयं फलतोऽर्थात्समापतति। यदि चिद्दलयानां जन्माभ्युपेयत इति योजना। कुत इत्यत आह-कर्तृगतेरपरस्य मोक्तुरुदयाच्चेति। भूगतं हि ब्राह्मण्यादिविशेषित- चिद्लयं कर्मणां कर्तृ तस्य कर्तुर्गतेर्गमनान्नाशात्तत्कृतस्यापि नाश इत्यर्थः । तथा स्वर्गा. दावपरस्य कर्तुरन्यस्य भोक्तुरुदयात्तस्य क्रियाभावेऽपि भोगस्याकृतस्याऽडगम इत्यर्थः । प्रमाणन्यायविरुद्धं कल्पयतो न स्वास्थ्यं कदाऽपीत्याह-व्यसनस्येति। विषमा दुरन्ते- त्यर्थः ॥ ३० ॥ सु० टी० -- ननूपाधे: पुरस्य चलने सत्यपि वेष््यमानस्य चैतन्यस्प सर्वत्रैक्पान्न कर्तृभोक्तुभेद इति तन्राSSह- चलने हयुपाध्यभिमतस्य भवे- ज्जनितस्य तेन विगम: सुदृढम्। ननु कुण्डलापसरणे पुरुषा- दथ न प्रणश्यति न कुण्डलिता ॥ ३१ ॥ चलने हीति। विगमो विनाशः । चैतन्यस्यैक्येऽपि न तन्मात्रस्य कर्तृभोक्तृत्वं किं तु पुरावच्छिन्नचिद्वलयस्य तस्य च भेदात्स एव दोष इत्यर्थः । दषान्तमाह-नन्विति ॥३१॥ अ० टी०-ननु कुतो व्यसनसंततिरापद्यते, उपाविगमनेनौपाधिकं तदेव गच्छतीति प्रतीतेर्बाधकादर्शनात्प्रतिपदमुपाधिगमने चिद्वलयोत्पत्तिनाशकल्पनायोगादतोऽकृताभ्यागमा· दिदोषप्रसङ्गाभावश्च स्यादिति चेन्मैवं. न्यायबाधितत्वादुपाधिगमनेनोपहितगमनस्येति दष्टान्तेनोपपादयति-चलन इति। उपाध्यभिमतस्य चलने जायमाने तेनोपा-
Page 191
६२६ टीका ट्टय सभेसें- [३ तृतीयोऽध्याय: ]
घिना जनितस्यौपाधिकस्य सुदृढं सुनिश्चितं यथा स्यात्तथा वियोगो विच्छेदो विनाशो भवेदिति नोजना। कुण्डटारुनकुण्डल पसरणे जायमानेऽश तदा कुण्ड- लिसन परयनअउ लश्वतंत नतु प्रसिद्धमित्युत्तरार्धयोजना। तथा च कुण्डलापगमे तनाशे वा कुण्डलोपधानविशिष्टस्य कुण्डलिनो नाशदर्शनात्तदवद्वटचलने घट- वेष्टितस्याSडकाशस्य नाश एवाभ्युपेयः । एवं पुरवेष्टितस्य चिद्दलयस्यापि बाश एव पुरचलने युक्त्त इति स्यादेवोक्तदोषप्रसङ्ग इत्यर्थ: ॥ ३१ ॥ सु० टो०-इदानीमुपधिसंबन्धोऽि चैतन्यस्व दुर्निरूप इस्याह- न पुरान्वयश्र तव चिद्धपुष: परमार्थतो भवति तर्कसहः। नभसो यथा घटसमागमनं न ववोऽपि लिङ्गघटितो ब्रजैसि ॥ ३२ ॥ न पुरान्वयश्चेति। यथा नमसो घटसंबन्ध: पारमार्थिको न तर्कसह एवमात्मनोऽपि पुरसंबन्ध इत्यर्थः ।। ३२।। अ० टी०-पुरसंबन्धमात्मनोऽङ्गीकृत्येदमुक्तं वस्तुतः स एवाSत्मनि न संभवती- त्याह-न पुरान्वयश्चेति। नभसो यथा घटसमागमनं परमार्थतस्तु तर्कसहं न भवतीति याज्यम्। फलितमाह-न तत इति। ततोऽपि पुरसंगमस्य दुर्निरूपत्वादपि तत्कृत- चिद्दलयस्य कल्पितत्वान्नाSSतमनो लोकान्तरगमनं भोकृत्वादि वा परमार्थतः संभवतीति न लिङ्गघटितः परिवेष्टितस्त्वं व्रजसीत्यर्थः ॥३२॥ सु० टी०-स कथं न तर्कसह इत्याशङ्क्य कि घटेनाऽSकाशप्रदेशो वेष्ट्यते किं वा कृत्समाकाशमिति विकल्प्याऽडद्य आह- नभसः प्रदेशविरहान्नभसो न घटः प्रदेशपरिवेष्टनकत्। न नभः समस्तमपि वेष्टयते नभसोऽवशेषविरहापतनात् ॥३३॥ नभस इति। द्वितीये त्वाह-न नभ इति ॥३३ ॥ अ० टी०-दष्ठान्तत्वेनोपात्तनभःपरिवेष्टनस्य तर्कासहत्वं तावदुपपादयति-नमसः प्रदेशेति। कि घटेन नभएकदेशः परिच्छिद्यते सर्वात्मना वा। नाऽऽदः संगच्छते यतो
१ क, घ. जति।
Page 192
[₹ तृतीयोऽव्याय: ] संक्षेपशारीरकम्। ६२७
घटो न नभसः प्रदेशपरिवेष्टनकृत्संगच्छते नभसः प्रदेश विरहान्निरवयवत्वेन प्रदेशाभावादि- त्यर्थः । द्वितीयं दूषयति-न नभः समस्तमिति। घटाद्वहिर्नभसोऽभावप्रसङ्गात्तत्र निर्गमनप्रव्रेशादिव्यवहारलोप: स्यादित्यर्थः ॥ ३३॥ सु०टी०-उक्तमर्थ दार्शान्तिके योजयति- परमात्त्मभागपरिवेष्टनक- न्न पुरं तथाऽनवयवो हि पर:॥ न च कत्स्नमेव परमं पुरुषं पुरवस्तु वेष्टयितुमुत्सहते॥। ३४ ॥ परमात्मेति। न चेति। परिच्छिन्नेन पुरेणापरिच्छिन्नस्य पुंसः कृत्स्रवेष- नमशक्यमित्यर्थः।। ३४ ।। अ० टी०-दार्ष्टान्तिकेडपि तयैव तर्कासहत्वमाह-परमात्मेति। स्पष्टार्थ षद्यम् ॥. ३४।। सु० टी०-मवत्वल्पेनापि महत आवरणमङ्गुल्येव सूर्यस्येत्याशङ्क्फ कृत्सस्य पुर्वेष्टने जीवानामीश्वरस्य चासिद्धिप्रसङ्ग इत्याह- यदि कत्स्न एव परमः पुरुषः पुरवेष्टितो भवति जीवतया। न. तदेश्वरो भवितुमुत्सहते न च जीवजातमपरं सकलम् ॥३५॥ यदीति ॥३५॥ अ० टी०-परममहतश्विदात्मनः परिच्छिन्नेन पुरेण कृत्स्नशो वेष्टनमसंभावितमि त्युक्तं तदभ्युपगमे च. दोषान्तरप्रसक्तिर्दुर्वारेत्याह-यदि कृत्स्न एवेति। एकेनैव पुराष्टकसंघातेन चिदात्मनो जीवतया क्रोडीभावे.जीवान्तरमीश्वरो वा नावशिष्येतेत्यर्थः॥३५॥ सु० टी०-मा मूदीश्वरो जीवान्तरं चेति त्राSह- गुरुशिष्यसंगतिरतो न भवे- न्न च बन्धमोक्षनियमो घटते।. विषयं विना सकलमापतति. स्फुटमत्र वेदक्चनं च वृथा ॥३६ ॥ गुरुशिष्येति। एकस्य ज्ञत्वाज्ञत्वादिविरोधादित्यर्थः । अस्तु स्वप्नवदिति.
Page 193
६२८ टीकाद्य समेतं- [३ तृतीयोऽच्याय: ] चेन्न कल्पितस्य तत्त्वोपदेशटत्वायोगात्। युक्तं सर्वज्ञत्वेन कल्पितत्वादिति चेत्तार्हि ब्रह्मैव विद्वत्तयाऽज्ञतया च कल्पितं व्यावहारिकान्योन्यशरी- रद्वारा गुरुशिष्यभावमेतीत्युपेयमन्यथा बन्धमोक्षभाजां जीवानामनुद्र- हीतुरीश्वरस्य च स्वाप्निकतुल्यत्वे निर्विषयत्वात्तत्तज्ज्ञानकर्मफलबन्धमु- वत्यादिव्यवस्थापकवेदाप्रामाण्यापत्तेरित्यर्थः । प्रकटकारास्त्वाहु :- एका तावद्भूतप्रकृतिश्चिन्मात्रस्था माया। तस्पां चित्प्रतिबिम्ब ईश्वरस्तत्परि- णामैः सर्वज्ञः । तस्या एवानिर्वाच्यानन्तप्रदेशेष्वज्ञानाभिधेषु प्रतिबि- मितं तदेव चैतन्यमनन्तजीवव्यवहारास्पदम्। निरंशस्यैकस्थानन्तप्र- तिबिम्बाश्र नमसि हषाः। एवं च मुक्तामुक्तविभागोऽपि सुगमः । यस्य च बिम्बतह्मात्मतानुभवस्तस्य स्वोपाध्यज्ञानमक्के तत्स्वरूपावस्थि- तिर्मुक्तिः । इयमेव च विश्वमायानिवृत्तिः। मायायास्तु मिश्यात्वडव्य- नादित्ववदनुच्छेदाविरोध इति ॥ ३६ ॥। अ० दी०-माऽस्वीश्वरो जीवान्तरं वेति चेत्तत्राऽऽह-गुरुशिष्येति। अतोऽव- शिष्यमाणजीवान्तराभावे गुरुशिष्यसंबन्धादिः प्रसिद्धो व्यवहारो न भवेत्कुत इत्यत आह- न च बन्धेति। बद्धो हि शिष्यो मुक्तश्र गुरुरतो बन्धमोक्षयोर्जीवान्तरानङ्गीकारे व्यवस्थाभावाद्गुरुशिष्यव्यवस्थ।डपि न स्यादित्यर्थः। माऽस्तु काडपि व्यवस्थेति चेत्तत्राऽSह- विषयं विनेति। अत्राव्यवस्थापक्षे सकलं च वेदवचनं स्फुटं यथा स्यात्तथा विषयं बिना वृथाSSपतत्यप्रमाणं भवेदित्यर्थः । एतदुक्तं भवति-जिज्ञासोः शिष्यस्याभावे शास्त्रं कं प्रते बोधयेत्तत्वं तथा ज्ञानव्त्याचार्येऽसति क उपदेष्टा कमाश्रित्य शास्त्रं जिज्ञासुं बोध येत्तथा च गुर्वाद्यभावे निर्विषयं शास्त्रमप्रमाणमेव स्याद्गुरवादिभावश्च मुक्तत्वबद्धतवे विना नोपपद्यते। तथेश्वरामावे चान्तर्यामिब्राह्मणम् 'एष सेतुर्विधरणः '[बृह० ४।४॥ २२] 'एष ह्येव साधु कर्म कारयति ' [कौषी० १ ।८] 'रातिर्दातुः परायणम्' बृह० ३। ९। २८ ] इत्यादीश्वरविषयक्षुतिस्मृत्यादिवादा अपि निर्विषयतया न प्रमाणे भवेयुरिति ॥ ३६ ॥ सु० टी० -- फलितमुपसंहरति- न पुरान्वयोऽत उपपत्तिसहः परमार्थतोऽस्ति परमात्मदृशेः । वियतो घटान्वयवदेव ततः परिकल्पितं पुरसमागमनम् ॥३७॥ न पुरान्वय इति। किं तु विचारासहत्वात्काल्पनिक एवेत्यर्थः ।। ३७ M.
Page 194
[ ३ तृतीयोऽच्याय: ] संक्षेपशारीरकम्। ६२९
अ० टी० -- अत्र परमात्मन एत्राविद्ययानेकजीवभावस्तेषामेकैकस्य बन्धमोक्षभाकत्व- मित्येवं व्यवस्थापक्षमभ्युपगम्याSSचार्यः प्रवृत्तोऽतो व्यवस्थापक्षोऽप्यनेकजीववादोऽस्येष्ट एवेति गम्यते पूर्वत्रैकजीवस्वीकारो गुर्वादेः शिष्याविद्याकल्पितत्वाभिधानं वा सर्वमपि द्वैतस्ष्य तत्त्वज्ञानेन निवृत्तिप्रदर्शनार्थमेवेति निश्चीयते। यद्वा पूर्वत्र सर्वस्य गुर्वादिभेदस्य निदविद्याकल्पितत्वेन मिथ्यात्वनिरूपणं सदद्वैतमेव सत्यं नान्यत्सत्यमस्तीति प्रदर्शनायेह व्यवस्थया जीवसंसारस्य निरूपणं तु व्यवहारदृष्टयेति ग्रन्थकारस्याभिप्रायो गम्यते। सर्वथा युक्तिबाह्यात्परिकल्पित एव पुरसंबन्धस्तद्वारं च चिदात्मनः संसरणं न स्वत इत्युपसंहरति- न पुरान्वयोऽत इति। परमात्मदशे: पुरान्वयो न परमार्थतोऽस्ति तत्रोपपत्त्यसहिष्णु- त्वात्। यद्यत्रोपपत्ति न सहते न तत्तेन परमार्थतः संबध्यते यथा वियतो घटान्वयस्त- थाचायं ततस्तस्मात्पुरसमागमनं परिकल्पितमेवाऽडत्मनो न परमार्थमिति योजना ॥३७॥ सु० टी०-ततश्र तदुपाधिकं परलोकगमनमपि तत्व्वतोऽनुपपत्तेर्न- मश्रलनवत्काल्पनिकमित्याह- यत एवमेतदुपपत्तिपथं न तव प्रयाति विरहय्य तमः । परलोकमार्गगमनं स्वतम :- परिकल्पितं चलनवन्नभसः ॥ ३८॥ यत इति ॥३८ ॥ अ० टी०-एवं सति पुरसङ्गनिबन्धनं परलोकगमनमपि कल्पितमेवास्येत्याह- पत एवमिति। सुगमार्थ पद्यम् ।। ३८।। सु टी०-पुरसंबन्धेनाSडत्मनो गमने पुरेणाहं गच्छामीति स्यादश्वे नेतिवदिति चेत्तत्राSऽह- पुरधर्ममात्मनि विकल्प्य तथा स्वचिदात्मतां च पुरधर्मतया। स्वपुरं स्वयं च दृढमेकतया परिकल्पयन्व्रजसि मूढमतिः ॥३९॥ पुरधर्ममिति। परस्परात्मताध्यासान्न भेदेन प्रतीतिरित्यर्थः ॥ ३९ ॥ • अ० टी०-कथं तर्हि 'उभौ लोकावनुसंचरति' [बृह०४।३।७] इति श्रुत्युक्तगमनमुप- पद्यत इव्यत आह-पुरधर्ममिति। 'स समानः सन्नुभौ लोकावनुसंचरति' [बृ०
Page 195
६३० टीकाद्वय समेतं- [ ३: तृतीयोऽच्याप:]
४। ३. ७ । इति समानश्रुत्या पुरात्मनो: परस्पराध्यासस्योक्तत्वात्पुरात्मनोरन्योन्यधर्मा- ध्यासातपुर आत्मत्वावभास आत्मनि च गमनाद्यवभासस्तयोरेकतापत्या विभाव्यत इति तात्प- र्यार्थः । अक्षरार्थस्वतिरोहितः ॥ ३९।।
नातिकं महावाक्येनेत्याशङ्क्याSडह- परिपूर्णचिद्सघनः सततं स्वमहित्रि तिष्ठसि निरस्तमले। न तथाऽपि तत्त्वमितिवाक्यकतां मतिमन्तरेण तव केवलता ॥ ४० ॥ घरिपूर्णेति। नित्यमुक्तेऽपि त्वयि तर्कजनितज्ञानस्य परोक्षत्वान्नापरो- क्षभ्रमनिवर्तकत्वमित्यर्थः ।।४० ।।
यद्यहं निरस्तमले. स्वमहिम्नि ससतं तिष्ठामि तर्हि कि शास्त्रेण मम कृत्यमित्यत आह- न तथाऽपीति। यद्यपि वस्तुतो नित्यमुक्तोऽसि त्वं तथाऽपि तत्त्वमसीतिवाक्यकृतां मतिमन्तरेण तव केवलता निवृत्ताविद्यातत्कार्यप्रतिभासतया. स्वरूपावस्थानलक्षणं कैवल्यं न भवतीत्यर्थः ।। ४० ।। सु० टी०-कथं तर्हीन्द्रियैरेवापरोक्षं ज्ञानं न भवतीति तत्राSSह- न तव प्रतीचि करणानि बहि- रविषयाणि येन करणानि सदा। सहजं च गाढमतिमूढतमं तम इत्यतः पुरमनुव्रजसि॥ ४१॥ न तवेति। करणानि न प्रत्यग्विषयाणीति साध्यम्। हेतुमाह-बहिरिति। 'पराध्ि खानि' [ कठ० ४।१] इति ध्रुतेः । तर्हिं स्वरूपज्ञानमेव भ्रमं निवर्तयत्विति नेत्याह-सहजमिति। अज्ञानतत्कार्यस्य चैतन्यभास्य- त्वेन स्वरूपचिद्विरोधान्न तेनाज्ञानादिनिवृत्तिरित्यर्थः । अतोऽसङ्ग स्थापि वेदान्तजबोधात्पूर्वे संसरणं युक्तमित्याह-अत इति ॥ ४१ ॥ अ.० टी०-यदि वस्तुतो मयि नास्त्येव संसरणं किमिति नित्यमुक्त्ततां विना वाक्य- श्रवणं न जानामीति चेत्तत्राSSह-न तव परतीचीति। करणानि मनःप्रभृतीन्द्रियाम,
Page 196
[ ३ तृतीयोडध्याय: ] संक्षेपशारीरकमू। ६३१
यानि तव सन्ति तानि प्रतीचि प्रत्यग्विषयाणि न यतः सदा करणानि बाहवर्षयाणि 'पराधि खानि' [कठ० ४ । १] इति श्रुतेरतस्तव स्वरूपनिर्भासः करणसाध्यो न भवतीति न त्वं तैः स्वस्वरूपं जानासीत्यर्थः। स्वतोऽपि तद्यथावन्न भासत इत्याह -- सहजं चेति । अतिमूढतममत्यन्तनिबिडतमं माढं दृढं च सहजमनादिसिद्धं तमस्त्वत्सत- त्वावरणमनुवर्ततेऽतोऽपि न जानासि। तथापि यद्यनुसंधीयते कदा तदा ज्ञातुं शक्यते। अनुसंधानमेव दुर्लभं गुरूपदेशवेदान्तवाक्यं विनेति भावः । यत एवं वाक्यजन्यतत्त्व्र- ज्ञानहीनोऽतः पुरमनुव्रजस्यात्मनो नित्यमुक्ततामजानन्संसारमनुभवसीति॥४१॥ सु० टी०- पुरसहित एवं गच्छतीत्यमूलकमित्याशङ्क्य तत्र मानमाह- स समान इत्युपनिषद्वचनं प्रतिपादयत्युदितमर्थमतः । स्वमनीषिकेति न कदाचिदपि प्रतिपत्तिरत्र भवतो भवतु ॥ ४२ ॥ स समान इति। 'स समान: सन्नुमौ लोकावनुसंचरति ध्यायतीव'
दात्मनो गमनागमनमतात्त्विकमिति वदतीत्यर्थः ।।४२।। अ० टी०-एवमुपाधिपरतत्रं कल्पितमेव परलोकगमनादीति युक्त्ा निरूपितेऽर्ये श्रुतिप्रमाणमवतारयति-स समान इति। धिया समान इत्यर्थः । अतः प्रमाणयुक्ति सिद्धत्वान्नायमर्थ: स्वकपोलकल्पित इति मन्तव्यमित्याह-स्वमनीषिकेति। स्वबुद्धि- कल्पितेतीयं कल्पनेति शेषः । अत्र मद्ूचने ॥ ४२ ॥ सु० टी० -- अज्ञानकल्पितं गमनमित्युक्तमिदानीं प्रतिविभ्बस्य गमन- मिति केचित्तन्मतमाह- पुरहेतुकं यदभवच्च विभो: परिकल्पितं किमपि चित्सदृशमू। जलपात्रहेतुकमिव धुमणे- स्तदसंततं भवति तद्दजति ॥४३॥ पुरहेतुकमिति। विभो: पुष्हेतुकं यद्भवत्तद्गजति। चशब्दातपुरमपि।
१ क. नमित्वु0 । २ ख. ल्पिते कि।
Page 197
६३२ टीकाहूय समेतं- [ ३ तृतीयोऽथ्याय: ]
ननु चिज्जडव्यतिरिक्तप्रकाराभावात्कथं तस्य गमनमिति तत्राSडह- चित्सदृशमिति। किमपि दुर्निरूपमत एव कल्पितम। कुत इदं संभाव्यत
तिरिक्तं तत्प्रतिबिम्बमपि स्यादित्यर्थः। ननु सुषुप्तादावपि पुरनाशोत्पा- दाभ्यां प्रतिबिम्बस्यापि तथात्वे कृतहान्यादि स्यात्तत्राSडह-तदसंतत- मिति। परिच्छिन्नं सूक्ष्ममित्यर्थः । ततश्र विद्यापर्यन्तं सुषुप्तादाववि संस्कारात्मनोपाध्यनुवृत्तेरनैष दोष इत्यर्थः ॥४३ ॥ : अ० टी०-परिकल्पितमपि कि तदात्मनो गमनं तदाह-पुरहेतुकमिति। त्वयि स्वाविद्याध्यस्तपुरहेतुकं यत्किमपि विभोश्चित्सदृशं चिदाभासनं परिकल्पितमभवत्तद- संततं परिच्छिनं भवति तत्परिच्छिन्नत्वाद्रजतीति योजना। चित्सददशं परिकल्पितमित्यत्र दृष्टान्तो-जलपात्रहेतुकमिव द्युमणेरिति। घुमणि: सूर्य: ॥ ४३ ॥ सु० टी०-नतु न पुरं प्रतिबिम्बं वा स्वतो गन्तुमर्हति जडत्वान्ना- व्यात्मोदासीनत्वान्न चानुग्राहकोऽपि दृश्यत इत्याशङ्कां परिहर्तुमी- श्वरोपाधिं साधयति- जडशक्तिरस्ति च परस्य विभो: परमात्मनस्तम इति प्रथिता। पुरमष्टकं तव यथा भवति श्रुतितः प्रसिद्धमिदमप्याखिलम् ॥४४ ॥ जड्डशक्तिरिति। तत्र प्रमाणमाह-श्रुतित इति। तब जीवस्य यथा पुरहे- तुकं जीवत्व्मेवं जडशक्तयुपाधिकमीश्वरत्वमपि 'मायिनं तु' [श्वेता० ४ । १० ] इत्यादिश्रुतिसिद्धमित्यर्थः ॥। ४४ ॥। अ० टी० -- ननु कथमेवमपि परलोकगमनसंभवः पुरस्य न स्वातन्त्र्येण गमनं संभवति जडत्वात्तस्मिस्तदा चिदाभासोऽपि न संभवति बुद्धिद्वारकत्वाचिदाभासोदयस्य बुद्धेश्च तदानीं लीनत्वादिति चेन्न 'तद्यथाऽनः सुसमाहितमुत्सर्जद्यायात्'[ बृह० ४। ३। ३५]' प्राज्ञेनाऽत्मनाऽन्वारूढ उत्सर्जन्याति' [बृह० ४ । ३ । ३५ ] इति- श्रत्युक्तप्रकारेणेश्वराधीनतया गमनसंभवादिति बत्तुं प्राक्प्रतिपादितमर्थ स्मारयति- जडशक्तिरिति। यथा तष जीवस्य पुर्यष्टकं भवत्युपाधिस्तथा परस्य विभोः परमात्मनः परमेश्वरस्य तम इत्येवं प्रथिता जडशक्तिरस्युपाधिरिति योजना। यथा प्रत्यगज्ञानस्यैव तमसो जडशक्तित्वेन परमेश्वरोपाधित्वमज्ञानात्मना च जीवोपाधित्वं निर्वहृति तथोपपादितं
Page 198
[ ३ तृतीयोऽण्याय: ] संक्षेपशारीरकम्। ६२३
पूर्वमेवेति भावः । अंज्ञानिनो जीवस्य पुर्यष्टकयोगो जडशक्त्युपाघेरीश्वरता चेति कुतोऽ वसीयत इत्यत आह-श्रुतित इति ॥ ४४ ॥ सृ० टी०-ततः किमित्यत आह- पुरहेतुकं तव घथा च वपु- रभवतीह जीववचसो विषयः । जडशक्त्युपाधिकममुष्य तथा
पुरेति। तवाज्ञस्य। वपुराकारविशेषः। अमुष्येश्वरस्य। ततश्व तदा यसं गमनमिति माव: ॥४५॥ अ० ठी०-ततः कि जातं तदाह-पुरहेतुकमिति। यथा पुरहेतुकं तवाज्ञस्य जीवषचसो विषयो जीवशब्दवाच्यं वपुराकारविशेषरूपं मव्रति तथामुष्य परमेश्वरस्य जडशक्त्युपाघिकं वपुराकारविशेष उद्धवति एवं तस्य जीवोत्क्ान्तिसमयेऽपि सत्वात्तदा- यत्तमस्य गमनं संभवतीति भावः ॥। ४५ ॥। सु० टी० -- तथाऽपीश्वरनिमित्तकं जीवस्य संसरणमित्यत्र किं मानमिति चेत्तत्राSSह- पुरहेतुरूपघटितस्य हैशे- र्जडशक्त्युपाधिपरमेश्वरतः । भयमुद्धवत्यनव बोधवशा- दिति च त्रयीशिरसि राजपथ: ॥ ४६ । पुरहेस्विति। 'भीपाऽस्माद्वातः पवते' [तैत्ति० २।८।१]'एष एव साधु कर्म कारयति यमुन्निनीषते एष ह्रेवासाधु कर्म कारयति यमधो निनीषते [कौषी० ३।८] इत्यादिश्रतिर्मानमित्यर्थः ॥ ४६।। अ० टी०-परमेश्वरतव्रतया परलोकगमनमित्यत्र श्रुतिप्रसिद्धं जीवस्य संसारमोक्षयोः परमेश्वरायत्तत्वं प्रमाणमाह-पुरहेतुरूपेति । 'यदिदं किं च जगत्सर्व प्राण एजति निःसृतम् । महद्धयं बज्रमुद्यतम्' [कठ० २ । ३ । २ ]। 'यदा ल्ववैष
१ घ. दृशो ज"।
Page 199
६३४; टीकाद्वय समेतं- [ ३ तृतीयोऽच्यायः ]
एतस्मिनुदरमन्तरं कुरुते। अथ तस्य भयं भवति' [तैति० २ । ७ । १] इत्यादि- त्रयीशिरसीत्यर्थः । सुगममन्यत् ॥ ४६॥ सु० टी०-एतदेव प्रपश्चयति- परमेश्वरेण विभुना रणयन् परिवृंहितः शकटबद्वजसि। शकटं हिं शाकटिकयोगवशा- द्वजति स्वयं न परतन्त्रतया ।। ४७॥ परमेश्वरेणेति। विभुना परिबृंहित इति संबन्ध:। 'प्राज्ञेनाऽSतमनाऽन्वा- रूढ:'[बृह० ४।३।३५]। इति श्रुतेः । रणयन्दुःखवशाच्छब्दं कुर्वन् । दृष्टान्तं विवृणोति-शकटं हीति। 'तद्यथाऽनः सुसमाहितम्' [बुह० ४।३ । ३५ ] इति ध्ुतेः ॥४७॥ अतः परमेश्वरतत्रतया मरणावस्थायां पुर्यष्टकगमनमुपपन्नमित्याह-परमेश्वरेणेति। विभुना परमेश्वरेण परिबृंहित उत्तेजितो रणयन्हिक्कादिशब्दं कुर्वञ्छकटवद्रजसीति योजना। शकटदृष्टान्तं स्फुटयति-शकटमिति॥ ४७॥ सु० टी०-ननु परमेश्वराधीनं संसरणं चेत्कुतः कमि वैराग्यं तत्राSडह- पुरवेष्टितः पुरवशानुगतः पुरतन्त्रचिन्निभविभिन्नवपुः । दिवि यातनाभुवि च कर्मफला- न्यनुभूय भूय इह संभवति ॥४८ ॥ पुरवेष्टित इति। पुरवशेति। मूर्छिितत्वेन स्वातन्क्रयाभाव उक्तस्तत्र हेतु :- पुरतश्रेति। पुरगतचिदाभासाविविक्तः। कर्मफलानि यातनादीनि नाना- विधान्यनुभूय पुनरपीह ुवि संभवतीत्यवरोहत्यतो वैराग्यमित्यर्थः४८। अ० टी०-ननु शकटस्याचेतनत्वादुक्त झाकटिकाधीनत्वं जीवस्य चेतनत्वात्कथं चेत- नान्तराधीनं गमनमिति चेन्नैष दोषो जीवस्य चेतनतवेऽपि भ्रान्त्या परतत्रत्वोपपत्तेरित्याह-
१ ख, भसि।
Page 200
[३ तृतीयोऽध्याय: ] संक्षेपशारीरकम्।. ६१५
पुरवेषटित इति। यसः पुरवेष्टितोऽतः पुरवशानुगतः पुरपरतत्रः। कीदृशं तक्पारतकत्र्य तदाह-पुरतन्त्रेति। पुरानुप्रविष्टतया पुरतत्रो यश्चिन्निभश्चिंदाभासस्तेन विभिन्नं विशिष्टं वपुर्यस्य स तथा पुरगतचिदाभासाविवेकादात्मानं परिच्छिन्ं मन्यमान इत्यर्थः। अतः परमेश्वरेण परिबृंहितो व्रजसीति युक्तमिति पूर्वानुषङ्वेण योजना। एवं परलोकगम नस्य मायामयत्वं पारतन्त्रयं च वैराग्यार्थमुपपाद्यावरोहप्रकारमाह-दिवीति। स्वर्गे . यात्रवांभुवि च वैतरण्यादिनरकप्रदेशे च क्वचित्कदाचित्कर्मफलान्यनुभूय पुनः कर्मशेष- वंशादिह मनुष्यलोके यथाकर्म संभवसि जन्म प्रतिपद्यस इत्यर्थः । श्रुतौ. धूमादिमार्गेण चन्द्रस्थलं गतानामवरोहप्रकारकथनं नरकस्थानादवरोहप्रकारस्याप्युपलक्षणार्थमित्यभिप्रेत्य तुल्यवन्निदेश इति द्रष्टव्यम् ।। ४८ ॥ सु० टी.०नतु.' ये केचास्माल्लोकात्प्रयास्ति चन्द्रमसमेव ते गच्छ- न्ति'[कौ० १।२] इति पुण्यभोक्तृत्वमेव श्रूयते न तु यातनाभुव. इति तत्राSSह- सुळतदुष्कत कर्मवशादयं दिवमथो यमसादनमेव वा। अनुभवेन समाप्य पुनर्भही- तलमबोधवशादवरोहति ॥४९ ॥ · सुकृतेति ।'पुण्यः पुण्येन कर्मणा मवति पापः पापेन'[बृह० ४। ४। ५ ] इति श्रुतेर्द्युलोकं यमलोकं वा गच्छन्तीत्यतः सुकृतिपरत्वे न संकोचनीया 'ये के च ' इति श्रुतिरित्यर्थः। ननु समारोपितं चेत्कर्म शेषाआवान्नावरोह :. स्यादिति तत्ाSSह-पुनरिति ।'रमणीयचरणा र्मणीयां योनिमापध्यन्ते '[छाः ५।१०।७] इत्यादिश्रुर्तिसिद्धा- छुशयवशादित्यर्थः ॥ ४९ ॥ अ० टी०-उक्तमेव स्पष्टयति-सुकृतदुष्कृतेति। यमसादनं नरकभूमिः ॥४९।: सु० टी०-ननु कर्मणां संसारहेतुतानियमस्तेषामिह न पुनरावृत्तिःः 'इमं मानवमावर्ते नाऽडवर्तन्ते' [छा० ४।१५।६]। इत्पदि- शुत्या विद्यासमुश्चितानां तेषामनावृत्तिफलश्रवणादिति चेत्तत्राSSह- यदि वा समुच्चयवशात्पुरुष: कमलासनं व्रजति कामुकथीः।
Page 201
६३६ टीकाद्टय समेतं- [३ तृतीयोऽथ्याय: ]
पुनरेव मानवमिमं तु विना परिवर्तमाव्रजति मूढमतिः॥५०॥ यदि वेति। इममिहेति विशेषणार्करूपान्तरे त्वावर्तन्त इति न कर्मणां संसारहेतुत्वं व्यभिचरर्तीत्यर्थः ।। ५०॥ कर्मसंबन्धिनो ज्ानस्योपासनालक्षणस्यापि संसारफलत्वमेवेत्याह -- यदि वेति। शास्त्रीयज्ञानकर्मणोः संसारफलत्वं कामिन एव निष्कामस्य तस्य तु बुद्धिशुद्धिद्वारा सत्त्वज्ञानहेतुत्वादित्यभिप्रेत्योक्तं-कामुकधीरिति। तत्र मतोऽपि यदि मूढमतिः परमात्मरूपप्रत्यक्तत्वज्ञानशून्यस्तदा पुनरेव पुनरपि धरिवर्तं संसारं प्रत्याव्रजत्यागच्छति किंत्विमं मानवं विनाडस्मिन्कल्पे नाऽऽवजति कल्पान्तरे त्ववश्यमाब्रजतीत्यर्थः ॥ ५०॥ सु०टी०-ननु- 'ब्रह्मणा सह ते सर्वे संपात्ते प्रतिसंचरे। परस्यान्ते कृतात्मान: प्रविशन्ति परं पदम्'।
विद्याकर्मणोः फलमिति तत्राSSह- अथ वा स तत्र परमात्ममतिः परिमुच्यते सकलबन्धनतः । क्रमयोगमुक्तिरुदिता श्रुतिषु प्रतिशाखमेवमुपपन्नतरा ॥ ५१॥ अथ वेति। कृतात्मान इति वचनात्परमात्ममतेः कारणास्परिसुच्यते न विद्याकर्मभ्यामित्यर्थः । तत्रापि ज्ञानस्यैव मुक्तिसाधनत्वं चेक्कं समु- च्चयानुष्ठानेनेति तत्राSSह-क्रमेति। मन्दाधिकारिणामिह भवणादिभि- ्ज्ञानसंपादनासमर्थानां बह्मलोंके विशिषोपदेशेन ज्ञानात्वत्त्यर्थ ज्ञानक- र्मानुष्ठानमित्यर्थः ।.५१॥ अ० टी०-समुच्चयफलस्यापि कृतकत्वेन क्षयावश्यंभावातपुनरावृत्तिरुक्ेदानी तु ब्रह्मलोकगतानां तेषामपि केषांचिद्धोगावसाने तन्रोत्पन्नज्ञानवशान्मुक्तिमाह-अथ वेति। परमात्ममतिश्वेदिति शेषः । तन्र प्रमाणमाह-क्रमयोगेति। कमयोगेण क्रमप्राप्त्या ब्रह्मलोकप्राप्तिक्रमेण श्रुतिषु प्रतिशाखं या मुक्तिरुदिता सा त्वेवमस्मदुक्तप्रकारेणोपपन्नतरा' परब्रह्मक्रतूनां क्रममुक्तिस्तद्रहितानां मानवान्तरे पुनरावृत्तिरिति व्यवस्थेति भावः ॥५१॥.
Page 202
[ ३ ततीयोऽध्य,य:] संक्षेपशारीरकम। ६३७
सु० टी०-ननु कर्मणां संसारहेतुत्वं चेत्तदनधिकारिणां स्थावरा- दीनां कुतो न मुक्तिस्तन्राSSह- देवयानपितृयांणयोः पथो- र्ञानकर्मरहितत्वकारणात्। नैकमप्यनुसरन्ति ये पुनः क्षुद्दजन्तव इहोन्दवन्ति ते ॥ ५२ ॥ देवयानेति।'अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्य- सकृदावर्तीनि मूतानि' [छा०५।१०।८]इति श्षुतेर्न तेषां मुक्ति- संभावनेत्यर्थः ॥।५२॥ अ० टी०-क्षुद्रजन्तुभावलक्षणामपि कष्टतरां संसारगति श्रुत्युक्तां वैराग्यार्थमाह- देवयानेति। देवयानमर्चिरादिमार्गः पितृयाणं धूमादिमार्गः । ज्ञानकर्मरहितत्वात्कारणा- द्यथाक्रमं देवयानपितृयाणयोः पथोर्मव्ये ये पुनर्नैकमपि पन्थानमनुसरन्ति त इह भूलोके क्षद्रजन्तवः कीटपतङ्गादिरूपाः सन्त उद्धवन्त्यहो कष्टमित्यर्थः ॥५२॥ सु० टी०-एवं ससारगति वर्णितामुपसंहरति- इति कामुकस्य तव संसरणं शतशो बभूव बत मूढमतेः । इह विभजन्मनि विरक्तमतिः कुरु साधनं यदपवर्गकरम् ॥ ५३॥ इतीति। संसाशयाथात्म्यज्ञानस्य किं फलं तत्राऽऽह-इहदेति।। ५३।। अ० टी० -- संसारचिन्तां संक्षेपण प्रदर्श्य तत्प्रकरणमुपसंहरति-इति कामुक- स्येति । तवेतिपदावृत्तिपाठः प्रामादिकः परिमूढेतियोज्यम्। वैराग्याय संसारवर्णनेन सिद्धवैराग्यस्य कृत्यं व्यपदिशति -- इहेति ॥५३॥ सु० टी०-किं तद्पवर्गसाधनमिति चेत्तत्राSSह- श्रवणादिकं शमदमादिपरः परमात्मनः परमभागवतः ।
१ क. ग, यानयो:।
Page 203
६१८. टीकाद्टय समेतं- [३ तृतीयोऽथ्याय: ]
कुरु तायता परममेव पदं परमात्मनस्त्वमवलोकयसि.॥। ५४ ॥ श्रवणादिकमिति। ज्ञानोत्पत्ती अरवणादे्नैरपेक्ष्यमाह-तावतेति ।। ५४॥ अ० टी०-किं तदपवर्गकरं साधनमिति तदाह-श्रवणादिकमिति। शमदमा- दिपर: परित्यक्तसकलेषणः परमभागवतो भगवत्येव परमात्मन्यर्पितमनाश्च सन्परमात्मनः श्रवणादिकं कुरु तावता श्रवणादिजनितज्ञानमात्रेण सहायान्तरनिरपेक्षेण परमात्मन; परमं, पदं त्वमवलोकयस्येवेति योजना ॥ ५४ ॥ सु० टी०-आत्माज्ञाने का क्षतिरिति चेत्तन्ाSSह .- यदि तन्न पश्यसि हरे: परमं पदमम्बुशीतलभिवेद्धशिराः। न खलु प्रदीप्शिरसोडस्ति सुखं तव दुःखपावकशिखाभिरहो। यदीति। आत्यन्तिकदुःखोच्छित्तेरनन्योपायत्वादित्यर्थः ।।५५।। अ० टी० -- विपर्यये पुंसोऽनर्थप्रदर्शनेन श्रवणादौ प्रोत्साहं जनयति-यदीति। यदि तद्धरे: परमं पदमुक्तसाधननिष्ठः सन्निद्धाशिरा इव शीतलमम्बु न पश्यसि तदा तवाहो कष्ट दुःखपावकशिखाभिः प्रदीप्तशिरसो न खळ् सुखमस्तीति योजना । तीव्रातपा- दिनेद्धशिरा यदि शीतलमम्बु न पश्यति न लभते तस्य यथा न सुखमस्ति तद्वदिति. दृष्टान्तार्थः ॥ ५५.॥ सु० टी०-सप्रयोजनं वैराग्यग्रदर्शनमुपसंहरति- एवं विज्ञाय तापत्रयमतिगहनं मोहमूलं परस्मि- न्नात्मन्यात्मप्रकाशे त्वयि परमसुखे निष्कले निष्कलङके। सत्ये नित्यस्वभावे परिहृतसकलद्वैतकूदानुषङ्गे सम्यग्ज्ञानानुरागं कुरु विषयगतं भिन्धि निर्बन्धमेनम् ॥५६॥ एवमिति। परिह्वतनिखिलानर्थहेतावपि कुटस्थचिदात्मनि त्वयि ताप- त्रयस्थाSडविद्यकत्वेन समग्ज्ञाननिवर्त्यत्वाद्विषयेभ्यो विरज्य तत्साधनपरो भवेत्यर्थः । ननु सहजमेव मे दुःखमित्थाशङ्क्य विशिनष्टि-परमेति। कुत एवं त्राऽऽह-परस्मिन्निति । परभिन्ने। तत्र हेतुमाह-आत्मेति। तत्रापि हेतुर्निष्कले निरंशे। तत्र मानमाह-नितेति । सांशस्यानित्य-
१ क. 'भिइतेः।
Page 204
[३ तृतीयोंऽच्याय:] संक्षेपशारीरकम्। ६३९
त्वात्। तत्साधयति-सत्य इति। अबाध्ये। निर्दोषत्वादृषि तव निर्दुःख- तेत्याह-निष्कलङ्के [इति]। रागाददूपिते ॥५६॥ अ० टी० -- यस्मात्सम्यग्ज्ञानं विनोक्तोSनर्थोSपरिहार्यस्तस्मादाव्यात्मिकादिदुःखत्रयरूपं दुःसहं संसारमुक्तपकारेण विदित्वा तद्विलक्षणे ब्रह्मात्मनि परिपूर्णे सम्यग्ज्ञानावताराय वेद्रान्तश्रव्रणादिनिष्ठो भवेदिति फलितार्माह-एवं विज्ञायेति। एवमुक्तपकारेणाति- गहनं दुरम्तं तापत्रयं मोहमूलं विज्ञाय परस्मिम्नानम.ने त्वयि ब्रह्मस्वरूपे प्रत्यगात्मनि प्रत्यग्रूपे ब्रह्मणि सम्यकज्ञानानुरागं कुरु तज्ज्ञानानुकूले व्यापारे प्रंयत्नवान्भबेति योजना। सर्वाण्येत्र विशेषणानि श्रुत्युक्तब्रह्मस्व्ररूपलक्षणपराणि ज्ञेयानि। एनमनुरागं विषयगतमैहि- कामुष्मिकविषयानुषक्तं निर्बन्धं यथा स्यात्तथा भिन्धि विदारय यथा पुनर्विषयप्रवृत्तिकरो न स्यात्तथा विनाशयेत्यर्थः ॥५६ ॥ सु० टी०-वैराग्यानन्तरं पदार्थजिज्ञासा प्रवर्तत इति तामुस्थापयति- इत्युक्त्वोपरते गुरौ पुनरयं जिज्ञासया प्रेरित- स्तत्वंशब्दनिगयलक्ष्यविषयं शिष्यो गुरुं पृच्छति। वैराग्येऽतिदृढीकते सति यतः प्राज्ञो यतिर्मन्यते संदीसं शिरसीव पावकमिदं संसारदुःखं महत् ॥५७ ॥ इत्युक्त्वेति। कोऽनयो: पौर्वापर्ये हेतुरिति तत्राSSह-वैराग्य इति। विर
'अ० टी०-उत्पन्नवैराग्यस्य तत्त्वंपदार्थशोधनावसर इति क्रमं विवक्षन्पदार्थशोधन- प्रकारजिज्ञासाप्रयुक्तं शिष्यप्रश्नमुत्थापयति-इत्युक्तवोपरत इति। निगद्यो वाच्यार्थः। संसारनिरूपणानन्तरजिज्ञासाहेतुमाह-वैराग्य इति ॥५७ ॥ सु.टी०-तत्र शिष्यस्य प्रश्नं दर्शयितुं वैराग्यसाधनं हेतुत्वेन दर्शयति- वैराग्यं विषयेषु पूर्वमपि मे जातं हरेरर्चना- य्ज्ञादिक्रियया निरस्तफलया किं त्वय दार्व्यं गतमू। संसारस्य निरूपणेन धिगिदं कर्मादिजन्यं फलं विश्वं नश्वरमम्बुबुद्बुदसमं पद्मासनान्तं जगत् ॥ ५८ ॥ वैराग्यमिति। यज्ञादिक्रियया हरेरर्चनादिति संबन्धः। किं तु संसारनि- रूपणेनाद्य दाढर्ये गतमिति योज्यमू। दृाढर्यमेवाभिनयति -- धिगिति॥५८॥
Page 205
.६४० टीकाड्ट्यस मेैतं- [३तृतीयोऽथ्यायः]
अ० टी० -- प्रश्नप्रकारमाह-वैराग्यमिति। निरस्तफलया यज्ञादिक्रियया हरे: परमात्मनोऽर्चनात्पूर्वमपि मे विषयष्ु वैराग्यं जातं कि तद्य संसारस्य निरूपणेन दादरय गतमिति योजना। वैराण्यदाढर्यमेवाभिनयति-धिगिदमित्यादिना॥५८॥ सु० टी०-तर्हि कि प्रश्नेन तावतैव कृतार्थत्वादिति चेत्तत्राऽडह- किं तु त्वंपदलक्ष्यमर्थमधुना कर्तृत्वभोक्तृत्वषो-
कर्तृत्वादिकमस्य कि निजमभृत्स्वाभाविकं जाग्रतः किं वा तत्परतः कुतश्विदभवच्वैतन्यधातोरिति ॥५९ ॥ किं त्विति। वैराग्यमात्रान्न बरह्मज्ञानं तस्य शाब्दस्य पदार्थधीपूर्वकत्वा- दिति युक्त: प्रश्न इत्यमिपेत्याSऽह-तवंपदेति। संदिग्धं हि जिज्ञास्यते। न चात्र संदेहोऽहं कर्ता मोक्तेत्यात्मनो निश्चितत्वादिति चेत्तन्राSडह- कर्तत्वादिकमिति 1 अस्य चिद्धातोनिजमनादिसिद्धं कर्तृत्वादि साहजिक- मौपाधिकं वेत्येवं कर्तृत्वादेः सुषुप्तादावदर्शनेनाSSEमधर्मत्वसदेहात्तद्ध- र्मकत्वतद्रहितत्वाभ्यामनिश्चित आत्मन्युपपन्ना जिज्ञासेत्यर्थः ।।५९।। अ० टी०-एवं संसारनिरूपणफलमुपपन्नं प्रदर्श्य प्रथमं त्वंपदलक्ष्यार्थजिज्ञासामाह- किं तु त्वंपदेति । जाग्रद्धगतयोजीग्रदवस्थापन्नयोः कर्तृत्वभोक्तृत्वयोरपोहमुखतस्त्वं- पदलक्ष्यमर्थमवगन्तुमय मम वाञ्छा जातेति योजना। यद्यपि कर्तत्वादिकं प्रतीच्यध्यस्त- मिति शास्त्रारम्भे जीवप्रकरणे च प्रदर्शितं तथाऽपि तदपोहेन तत्साक्षि त्वंपदलक्ष्यं सम्यजून प्रदर्शितमतः सर्वदृश्यधर्मापवादेन केवल: प्रत्यगात्मा प्रदर्शयितव्य इत्यभिप्रेत्य कर्तृत्वादेरस्वाभाविकत्वमुक्त्तमप्यनुक्तिव कृत्वा संदिहानः पृच्छति-कर्तृत्वादिकमिति। अस्य चैतन्यधातोश्चैतन्यैकस्त्भावस्येति संबन्धः । सुगममन्यत्। कर्तृत्वादेः स्वाभाविकत्वे तदपोहो न शक्यः परकृतत्वे हेत्वपोहेनापोदितुं शक्योऽतोऽन्यकृतं चेत्कर्तृत्वादि तर्हि तदपवादेन साक्षात्प्रत्यभ्रूपं प्रदर्शयेत्यभिप्रायः ॥५९॥ सु० टी०-ननु ब्ह्मात्मैक्यजिज्ञासोः पदार्थजिज्ञासाऽनुपपत्ना व्यधि.
यावत्वंपदलक्ष्यवस्तुविषयो बोधो न मे वर्तते तावन्मे बधिरेषु गीतमिव तच्छौतं वचोऽनर्थकम्। तस्मात्त्वंपदलक्ष्यवस्तुविषयः कर्तृत्वभोक्तृत्वयो जाग्रिद्डूगतयोरपोहमुखतो बोधो ममोत्पाय्यताम् ॥ ६०॥ यावदिति। ब्रह्मात्मैक्यस्य वाक्यार्थत्वात्तस्य व शुद्धपदार्थबोधं विनाड: संमवाद्यक्ता तज्जिज्ञासेत्यर्थः । प्रश्नमुपसंहरति -- तस्मादिति ॥६० ॥
Page 206
[१ तृतीयोऽण्याय] संक्षेपशारीरकमू।
अ० टी०-केवलप्रतीचोSप्रदर्शने को दोष इति तत्राऽह-यावदिति। तच्छौतं
यस्मादेवं तस्मादिति सुगमम् ॥ ६० ॥ सु० टी०-गुरुरुत्तरमाह- कर्त्रादेरवभासकत्वमगमः शुद्धः स्वयंभास्वर- श्रवैतन्येन निजेन तेन भवतः कर्त्रादिबुद्धिश्रमः । कूटस्थस्य चिदात्मनस्तव कुतः कर्तृत्वभोकृत्वयोः शङ्का जागरितेऽपि कारकगणं कर्त्रादिकं पश्यतः॥ ६१॥ कर्त्रीदेरिति। कर्तृमोक्तुप्रमातृत्वादेरित्यर्थः । आदिपदेन क्रियाकरणक- रमभोगतत्साधनमोग्यप्रमातत्करणप्रमेयानां संग्रहः। बाधाभावे कथ भ्रम- त्वमिति तत्राSऽह-कूटस्थस्येति। विमतं दृश्यं विचारासहत्वाच्छक्तिरज-
अ० टी०-आचार्य आह-कत्रादेरिति। शुद्धो दृश्यधर्मसंसर्गरहितः कुतो यत: स्वयंभास्वरः स्वयंप्रकाशः । न हि प्रकाशस्वभावस्य प्रकाश्यधर्मः स्वाभाविकः संभवतीत्यर्थः । अत एव निजेन स्वरूपभूतेन चैतन्पेन कर्त्रादिकं विकारजातं पश्यतः साक्षिमात्रस्येति यावत्। एवंभूतस्य भवतस्तव कर्त्रादिबुद्धिरहं कर्तेत्यादिधीर्भ्रमी मिथ्याज्ञा- नमेव स्वाध्यस्ताहंकाराविवेकनिबन्धन इत्यर्थः । विमतः कर्तृत्वादिर्न द्रष्टधर्मो दृश्यत्वाद्पादि- वदित्यनुमानमाह-तव कुत इति। हेतोर्व्यभिचारमात्मन्याशङ्कयाऽऽह-चिदात्मन इति । चिद्रूपत्वमेव साधयति-कूटस्थस्येति । ज्ञातृत्वादिविकाररहितस्येत्यर्थः । यद्वा निजेन चैतन्येन यतस्त्वं कर्त्रादेरवभासकत्वमगमः स्वयंभास्वरतया शुद्धो दृश्यधर्मानास्क न्दितः संस्तेन हेतुना भवतस्तव कर्त्रादिबुद्धिरहं कर्तेत्याद्या धीर्भ्रमः । कुतो भ्रम इत्यपे- क्षायामाह-कूटस्थस्येति। निर्विकारचिदात्मतया कर्त्रादिकं कारकगणं पश्यतस्तव जागरितेऽपि कर्तृत्वभोक्तृत्वयोः शङ्का कुतः स्यादृश्यानां द्रषट्घर्मत्वासंभवादित्यर्थः॥६१॥ सु० टी० -- मासकस्य मास्यधर्मत्वाभावं सदष्टान्तमाह- व्यापारं सकलस्य भासयति यो भास्वत्करो भास्करो नासौ कर्तृतया जनस्य विदितो भूमौ युलोकस्थितः । एवं स्वे महिमन्यवस्थितवतः संघातमुत्पश्यतः स्वव्यापारसमन्वितं तंव कृतः कर्तृत्वमुत्मेक्षते ॥६२॥ ८१
Page 207
रीकाइबसमेतं- १३ तृतीयो डध्याय: ]
व्यांपारंमिति। आत्मा कर्मृत्वादित्युन्वस्तद्भ्वासकत्वाद्यो यन्भासयति न •स त्वैर्मा यथाऽडडित्यो न लोकष्यापारधर्मा, इति ॥ ६२॥ अ० टी०-ननु कूटस्थस्य कथं कर्त्रादिकारकगणद्रष्टत्वमतो दृश्यदर्शनाय दर्शन- क्रियाऽभ्युपेयाऽन्यथा द्रष्टत्वानुपपत्तेरिति चेन्नेति दृष्टान्तेनोपपादयति-व्यापारमिति। दुलोके स्थितो यो भास्वत्करो भास्करो व्यापारं सकलस्य जगतो भासयति असौ भूमौ स्थितस्म जनस्य कर्तृतया न विदितो न हि सविता प्रतिविषयं प्रकाशं कुर्वन्केनाषि विज्ञातोऽतीवर्थः । द.र्श्टान्तिकमाह-ंवमिति। अक्षरार्थः स्पष्टः । आत्माऽपि स्वरूपभूतचितप्रकाशेय सवितृवदविक्रिय एव सर्वमवभासयत्यन्यथा तस्यापि कारकलवेव
शक्यमिति भावः ॥ ६२॥ सु० ट०-ता कि धर्मः कर्तृत्वादिकमिति चेत्तताSSह- भूतानि पञ्च तव मोहसमुद्धवानि संघातरूपपरिणाममुपागतानि। कुर्वन्ति कर्म फलमश्रुवते च तेषां साक्षी त्वमन्तरविलुप्चिदेकरूपः ॥ ६३ ॥ भूतानीति। आविद्यकभौतिककार्यकरणसंघातस्पैव धर्म इत्यर्थ: १ कि तत्र प्रमाणमिति तन्राSSह-साक्षीति। सांक्षित्वमेवाऽडत्मन: कुत इति तत्राSSह -- अविलुप्तेति ॥ ६३ ।। अ० टी०-कस्य धर्मस्तर्हि सर्वा विक्रियेत्यत आह-भूतानीति। संघातरू- पेति। देहद्वयाकारं परिणतानीतर्थः । तान्येव कर्म कुर्वन्ति तत्फलं चाश्रुवते। कर्तृत्व- भोक्तृत्वलक्षणा विक्रिया साभासस्य भूतसंघातस्यैव तदविवेकात्वय्यध्यारोपितैवाव- भासते न त्वयि कोऽपि विकारोऽस्तीत्यर्थः। यतस्तेषां भूतानामन्तःसाक्षी यतोऽविलुप्तचि- देकरूप इति योजना ॥ ६३ ॥ सु० टी०-कथमचेतनानामषि कर्तृत्वभोक्तृत्वे संभवत इस्पाशङ्क्य विच्छायात इति सहष्टान्तं परिहरति- क्षीरस्य पूर्णे चषके नियुक्ते मणिर्यथा मारकतो महार्ह: 1 क्षीरं समस्तं क्षणमात्रतस्त- करोति तच्छायमनुनतेजाः ॥ ६४ ।।
Page 208
[३ तृर्तीयोंडच्याय: ] संक्षेपशारीरकम्। ६४३.
तथा तमःसंभवमच्छमन्तः र्बहिर्जडिन्नाऽन्वितमन्तरात्मा। जगच्चिदेकच्छवि चित्स्वरूपः करोति सांनिध्यवर्शेन विश्वम् ॥६५॥ क्षीरस्येतिद्वाभ्याम्। तृतीयार्थे षषठी। यथा महार्हमणिच्छायापस्या सम- स्तमपि क्षीरं तच्छाय मवत्येवं तमस्तत्संभवं विश्वमसङ्गस्याप्यात्मनः संनिधिमात्रेणैव तच्चिदाभासानुविद्धं चेतनभिव भवतीत्यर्थः । अस्तु स्वच्छाज्ञानबुद्धयादी चिदामाससतामसमूतभौतिकादी तु कथमिति तत्राSSह-अच्छमन्तरिति। तदृपि सकलमन्तरधिष्ठानचैतन्यसंनिकर्षादच्छ- मेव तदात्मकत्वात् । बहिस्तु जडिम्रा जाड्चेनान्वितं मायिकत्वात्। तेन चाSडमासेन स्वमहिमस्थ आत्मा सर्वमवमासयन्सर्वसाक्षी मव- तीत्यर्थः।६४॥ ६५।। अ० टी० -- नन्ववभास्यसंबन्धं विना नावभासकत्वं संभवति संबरन्धे च विक्रिया माप्तेति चेन्नाSडभासद्वाराSवभासकत्वोपपत्तेरिति वक्तुं दृष्टान्तमाह-क्षीरस्येति। तच्छायं मरक़तमणिच्छायाभासम् ॥ ६४ ॥ अ० टी० -- दार्ष्टान्तिकमाह :- तथा तम इति। यथा मरकतमणिः क्षीरपूर्णच बके निक्षिप्त: क्षीरेण संल्लिष्ट एवान्तःस्थितश्चषकस्थं क्षीरं मरकतमणिच्छायं स्वाकारतामा पादयति तथाऽन्तरात्मा तमःसंभवं जगदन्तरच्छं चैतन्यसंनिविष्टाकारेंण स्फटिकादिवननिर्मलं बहिर्जडिम्नान्वितं जाड्येनाSSस्कन्दितं चिदेकच्छवि चैतन्यच्छायं स्वचैतन्याभाराव्यापं करोति सांनिध्यवशेन न विकारयोगेणे:यर्थः। विश्वंजगदित्ति संबन्धः। सर्वनं जगदित्यर्थः । चित्स्वरूंप इत्यन्तरात्मविशेषणम्। अतोऽशेषस्य जगतश्चिदात्मन्यध्यस्तत्वादाध्यासिके चः संबन्धे, विकाराप्रसङ्गादविक्रिय एवाऽडत्मा संनिधिसत्तामात्रेण स्वाध्यस्तं सर्व चिच्छायं, कुर्वन्नवभासमानोऽवभासक इति व्यपदेशभाग्भवतीति भावः ॥ ६५॥ सु० टी०-प्रतिसंघातमात्म मेदात्कयं वाक्यार्थसिद्धिरित्याशङक्या- पाधिक एवाऽडत्मभेदो न स्वत इत्याह- तान्येव कार्यकरणानि बहुपकारं भेदं च बिश्वति भवानपि तत्र लयनः ।
१. ख. "म्रचित° 1
Page 209
६४४ टीकाट्टय समेतं-" [ ३ तृतीयोऽध्यायः ]
भेदेन भाति जलपात्रनिविष्टमूर्ति- मार्तण्डमण्डलवदन्वयमन्तरेण॥ ६६॥ तान्येवेति। तज्जातीयान्येवेत्यर्थः । भेदं सुरनरतिर्यगादिरूपम्। कर्तृ- त्वादि चेति चार्थः। तत्र लग्नस्तत्रोपाधिगतचिदाभासाविविक्त्तः सन्मित्र इष मातीत्यर्थः । दृष्टान्तमाह-जलेति। अन्व्यं संबन्धम्। वास्तवमिति शंष: ॥ ६६ ॥ अ० टी०-तदेवं सर्वभूतभौतिकविक्रियाजातस्य साधकत्वात्स्वयं विक्रियारहित: कूटस्थचिद्रृप आत्मे:युपपादितं तथापि प्रतिशरीरमात्मभेदस्य प्रसिद्धत्वान्नाद्वैतव्रह्मभावयो- ग्यताऽस्यास्तीति चेन्भैवमुपाधिभेदनिबन्धनत्वाद्वेदावभासस्याकाशस्येव न स्वतो भेदसंभव इत्याह-तान्येवेति। यानि पञ्चमहाभतविकारात्मकानि कार्यकरणानि तान्येव बहुप्रकारं देवमनुष्यतिर्यगादिरूपेण भेदं बिभ्रति चकारात्समशिबह्माण्डरूपेणाभेदं च बिभ्रति। भवानपि चिदात्मान्वयमन्तरेण वास्तवसंबन्धं विनाऽपि तत्र तेपु लग्नोडभि- मानेनाSSत्मभावमापन्नो भेदेन भाति। तथा चैकत्वमनेकत्वं च तवोपाधिनिबन्धनमेव न परमार्थमुपाधयश्च पञ्चभूतव्यतिरेकेण न सन्ति। पञ्चभूतानि च तत्कारणसाभासाज्ञानव्यति- रेकेण न सन्ति। अज्ञानं चाऽत्मन्यध्यस्तमिति न परमार्थतः कोऽपि कस्यापि भेदोऽस्ति। अतः कुतो जीवभेदशक्केति भावः। अपरिच्छिन्स्यासङ्गस्याप्यन्यत्र प्रवेशेन परिच्छिन्नतयाऽवभासे दृष्टान्तमाह-जलपात्रनिविषेति ॥ ६६ ॥।
मिति चेत्तत्राSSह- अध्यात्ममेवमधिभूतमथाधिदैवं सूत्रं विराजमपि पश्यसि साक्षिभूतः। साक्षित्वकारणमशेषजगन्निदान- मज्ञानमात्मचिदवज्वलितं सदैव ॥ ६७ ॥ अध्यात्ममिति। अध्यात्मादिसाक्षित्वेन तद्गतस्य भेदस्याऽडरोप इंत्यर्थः। तत्राध्यात्मं देहादि। अधिमूतमाकाशादि। अधिदैवं करणाधिष्ठातृसू- र्यादि। शेषं स्पष्टम। नन्वसङ्गस्य कथं साक्ष्यप्रतियोगिकं साक्षित्वमपि स्यात्तत्राSSह-साक्षित्वकारणमिति। आत्माविविक्ताभासावद्योतिताज्ञा- नहारेत्यर्थ: ॥ ६७ ॥।
Page 210
[ ३ तृतीयोऽध्याय: ] संक्षेपशारीरकमू। ६४५
अ० टी०-एवं च सति समष्टिव्यष्टिसर्वशरीरसाक्षितया सर्वात्नकत्वं सिद्धमिव्याह- अध्यात्ममिति। यादे साक्षिभूत आत्मा तदा तस्य साक्ष्येण संबन्धो वाच्य एव तदा तदाभासोऽपि सदाऽनात्मसंबद्धः स्यादिति चेत्तत्राऽऽह-साक्षित्वकारणमिति : आत्मचिद वज्व लितमात्म चैतन्याभासख चितमशेष जगन्निदानमज्ञानमेव सदा साक्षित्वकारणम्। तथा च साक्ष्यसंवन्धोऽविद्याध्यस्तो न परमार्थ इत्यर्थः ॥ ६७ ॥
. सु० टी०-नन्वात्मैक्ये प्रमाणाभावान्न भेदस्याऽडरोप इत्याश- इःक्याSडह-
याता सर्वा तावकी तावकीव। देहव्यक्तिर्देहताकारणेन तस्मादात्मा सर्वभृतस्थ एक: ॥ ६८ ॥ देहव्यक्तिरिति । विवादविषयत्वमापन्ना सर्वा देहव्यक्तिर्धमिणी तावकी त्वदात्मवाऽSत्मवती मवितुमर्हतीत्यर्थः । देहताकारणेन देहत्वा- द्धेतोः। तावकीव शिष्यदेहव्यक्तिरिवेति हषान्तः । ततः किं तत्राSह- तस्मादिति ॥६८॥ अ० टी०-सर्वाण्येव कार्यकरणान्येकस्यैवाSऽमन उपाधिभूतानीत्युक्तमर्थमनुमानेन सांधयति-देहव्यक्तिरिति। विप्रतीत्यास्पदत्वं याता सर्वा देहव्यक्तिः पक्षः। सा तावकी त्वदीयैवेति साध्यनिर्देशः । देहताकारणेन देहव्यक्तित्वादिति हेतुनिर्देशः। तावकी देहव्यक्तिरिव संप्रतिपन्नदेहव्यक्तिरिवत्युदाहरणोक्तिः। फलितार्थमाह-तस्मादातमा सर्वभूतस्थ एक इति। विमतानि त्वच्छरीरातिरिक्तानि सर्वाणि त्वयैवाSSत्मनाSSतम- वन्ति शरीरत्वातसंप्रतिपन्नत्वच्छरीरवदिति प्रयोगः । तथा च सर्वशरीरेष्वात्मैक्यं सिद्धमि- त्यर्थः ॥ ६८ ॥ सु० टी०-अन्नैवानुमानान्तरमाह- संविद्च क्तिर्विप्रतीत्यास्पदत्वं याता सर्वा तावकी तावकीव। संविदचक्तिः संविदात्मत्वहेतो- स्तस्मादात्मा सर्वभूतस्थे एक: ॥६९ ॥
Page 211
६४६ टीकाद्वयसभेतं- [३ तृत्षीयो डय्पाय :: ]
याता सर्वा तावकी तावकीव। बुद्धिव्यक्तिर्बुद्धिताकारणेन तस्मादात्मा सर्वभृतस्थ एक: ॥ ७० ॥ अक्षव्यक्तिरविप्रतीत्यास्पदत्वं याता सर्वा तावकी तावकीव। अक्षव्यकिस्त्वक्षताकारणेन तस्मादात्मा सर्वभूतस्थ एक: ॥ ७१ ॥ ज्ञानव्यक्तिर्विप्रतीत्यास्पदत्वं याता सर्वा तावकी तावकीव। ज्ञानव्यक्तिर्ज्ञानताकारणेन तस्मादात्मा सर्वभूतस्थ एक: ॥ ७२ ॥
याता सर्वा तावकी तावकीव। रागव्यक्ती रागताकारणेन तस्मादात्मा सर्वभूतस्थ एक: ॥ ७३॥० द्वेषव्यक्तिर्विपतीत्यास्पदत्वं याता सर्वा तावकी तावकीव। द्वेषव्यक्तिर्द्वेषताकारणेन. तस्मादात्मा सर्वभूतस्थ एक: ॥ ७४॥ संविद्वयक्तिरिति। अनावृतचिद्यक्तिः। एवमस्थूलदेहविषयं बुद्धिव्यक्तिर क्षव्यक्तिरिति। वृत्तिविषयं च ज्ञानादि द्वेषव्यक्तिपर्यन्तम्। प्रयोगस्तु विप्र- तिपन्ना: कार्यकरणसंघाता: शिष्यदेहस्थेनाSSरमनाSSतमवन्तः संघा- तत्वासदीयसंघातवदिति लाघवतकणैकात्म्पसाधक. इति॥६-७४।।
Page 212
[ ३ तृतीयोऽध्यायः ] संक्षेपशारीरकमू। ६४७
अ० टी० -* स्थूलदेहभेदादात्मभेदशङ्का मनुमानेनोदृत्य बुद्धिभेदादपि भेदशङ्गामपा- करोति-बुद्धिव्यक्तिरिति। पूर्ववद्योजना ॥। ६९।। अ० टी०-बाह्येन्द्रियविषयेऽप्याह-अक्षव्यक्तिरिति। अत्र प्रत्येकमपि चक्षु रादिकं पक्षीकृत्य प्रयोक्तव्यं चक्षर्वृत्तिर्विप्रतीत्यास्पदत्वमित्यादि ॥ ७॥
अ० टी०-प्रमाणफलविषयमप्यनुमानमाह-संविद्यक्तिरिति ॥७२॥ अ० टी०-राग इच्छा तत्राप्याह-रागव्यक्तिरिति ॥ ७३॥ अ० टी०-द्वेषो मत्सरस्तत्राप्याह-द्वेषध्यक्तिरिति॥७४॥ सु० टी०-फलितमाह- एवं सतीदमविवेकनिबन्धनं ते कर्तृत्वमात्मनि विभाति न वस्तुभूतम् । बालेन कल्पितमतीव विशुद्धरूपे व्योन्नीच भू्नि भलिनत्वमबोधहेतोः ॥ ७५॥ एवें सतीति। तत्र दष्ान्तमाह-बालेनेति॥ ७५॥ अ० टी०-एवमनुक्तेष्वप्यनुमानं प्रयोक्तव्यं तस्मात्सर्वसाक्षित्वात्कर्तृत्वप्रमुखं संसारि पत्वमात्मन्यविवेकिभिः कल्पितमेव न वस्तुभूतमिति सिद्धमित्युपसंहरति-एवं सतीति। आत्मनि भूम्नीति संबन्धः । निगदव्याख्यातं षद्यम् ॥ ७५॥ •सु० टी०-ननु संघातात्मकानां भूतानामादित्यादिज्योतिर्गणोप- कारादेव कर्तृत्वाद्युपपत्तेः कि चैतन्येन चिदामासेन वेत्याशङ्कक्य समाधत्ते- बाहैरसौ रविनिशाकरवह्निवाग्भि- ज्योतिर्गणैरुपकतोऽपि हि कर्भजातम्। निर्वर्तयन्न खलु तावकमन्तरेण चैतन्यसंनिधिबलं पुरुषः करोति॥ ७६ ॥ बाहैरिति। रवमे मनस एव विषयत्वेन तन्न ज्योतिरन्तराभावात 'अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्रौ शान्तायां वाचि किज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवति '[ बृह० ४। ३। ६ ] इतिश्रुतेश्रवैतन्यज्योतिर्मात्राधीन एव व्यवहारः संभवतीति * मूलकमस्तु पूर्वटीकानुसारेण।
Page 213
६४८ टीकाद्ूपसमेतें- [३ तृतीयोऽध्यायः ] जागरेऽपि घटमहं जानामीत्यादिस्तद्धीन एवेति न तद्वैयर्थ्थशङ्रके- त्यर्थ: ॥। ७६॥ अ० टी०-यद्येवं कर्तृत्वभोक्तृत्वादिः कार्यकरणधर्मोSनातमधर्मस्तदा किमात्मना तभ् कृत्यमस्ति संघातम्रकाशनमेव संघातातिरिक्तात्मकृत्यमिति चेन्नाSदित्यादिज्योतिभिरेव तत्सिद्वेरित्यत आह-बाहयैरसाविति। असौ पुरुषः संघातात्मा कर्मजातमासनी- त्थानगमनागमनादिरूपं निर्वर्तयन्बाह्वैर्देहबहिःस्थितैः रव्यादिभिर्ज्योतिर्गणैरुपकवतोऽपि. प्रकाशेनानुगृहौतोऽपि तावकं त्वत्स्वरूपभूतं चैतन्यसंनिधिबलमाविर्भूतचिदाभासव्या- प्तिरूपमात्मसांनिध्यबलमन्तरेण न खलु करोति स्वव्यापारं न निर्वर्तयतीति योजना। 'अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽगौ शान्तायां वाचि' स्वमाद्यव- स्थायामपि 'आत्मनैवायं ज्योतिषाSSस्ते पल्ययते कर्म कुरुते विपल्येति' [बृ० ४। ३ / ६ ] इति श्तेरवस्थान्तरेऽपि बाह्यज्योतिःप्रकाशितोऽप्यान्तरचैतन्यज्योतिःप्रकाशं विना न किमपि पुरुषः क्तुं शक्रोतीत्यर्थः ॥७६॥ सु० टी०-तर्ह्यव्यभिचाराज्चैतन्यज्योतिप एव समस्तव्यवहारोपयो- गित्वमस्तु किं बाह्यज्योतिपेत्याशङ्क्याऽडह- ज्योतिर्द्वयान्तरित एव हि कर्मजातं सर्वे करोति पुरुषोऽन्नमयः सदैव। कर्मादिकारणविनिर्मितमस्य बाह्यं ज्योतिस्त्वनित्यमनिभित्तकमान्तरं चित्॥७७।। ज्योतिर्दयेति। इन्द्रियैरर्थोपलब्धिजांगरितमिति विश्वजीवव्यवहारस्ये- न्द्रियसापेक्षत्वनियमादिन्द्रियाणां च बाह्यज्योतिरन्तरेणाप्रवृत्तेस्तदृपे- क्षाऽवश्यंभाविनीति न तद्वैयथ्यमित्यर्थः। नन्वन्वयव्यतिरेकाभ्यामस्त्व- न्नमयपुंव्यव हारस्याSSदित्याद्यपेक्षा चैतन्यापेक्षा तु नोपपद्यते केवलव्य- तिरेकाभावादिति चेत्तत्राSडह-कर्मादीति। व्यव हारहेतुत्वाविशेषेऽप्यादि- त्यादीनामनित्यत्वाद्यतिरेकित्वं न चैतन्यस्य नित्यत्वाद्न्यथा मृत- शरीरेणापि व्यवहार: स्यादित्यंर्थः ॥। ७७॥। अ० टी०-यदि जागरणे वाह्यज्योतिःसद्धावेऽप्यान्तरज्योतिरपेक्षा तदा स्वमे बाह्य- ज्योतिरपेक्षाऽपि तुल्या स्यादविशेषादिति चेत्तत्राऽऽह-ज्योतिरिति। अन्नमयः पुरुषः स्थूलसंघातात्मा जयोतिर्वयान्तरितो वहिरादित्य।दिज्योतिषाऽन्तश्चैतन्यज्योतिषा व्याप्त एध हि सर्व कर्मजातं सर्वेन्द्रियैः करोति तस्य भौतिकत्वेन भौतिकउतिरुपकारापेक्षणात्
Page 214
. [३ सृतीयोऽध्याय: ] संक्षेपशारीरकमू। ६४९
आन्तरस्य लिङ्गात्मनोऽपि यद्यपि भौतिकत्वं तथाSपि तस्य नित्यं चैतम्यज्योतिर्मयत्वादान्तरें- णैव ज्योतिषा तस्य व्यवहारोपपत्तिरिति न स्वमादौ बाह्यज्योतिरपेक्षेति भावः । तथाऽपि जागरिते ज्योतिर्द्वयान्तरितत्वमस्य न सिध्यति तत्रान्तर्ज्योतिःसद्धावे मानाभावात्तत्र कर्माविकार्यस्याSSित्यादिज्योतिषैव सिद्धेरित्यत आह-कर्मादीति। अस्य संघाता व्मनो बाह्यं ज्योतिस्त्वनित्यं यतः कर्मादिकारणत्वेन विनिर्मित लोकयात्रामात्रार्थतेन सृष्टम्। यद्दा कर्मादिकारणेन कर्मकरणगमनागमनादिलक्षणेन लिङ्गेन विनिर्मितं विस्पर्ष्ट नितरां मितमान्तरज्योतिरनुमातुं व्याप्तिग्रहणस्थानतवेन निर्णीतम्। अथ वा व्यवहर्तुः प्राणिनो यत्कर्मज्ञानपूर्वप्रज्ञादि तदेव कारणं तेन निर्मितमुपचितं बाह्यं ज्योतिरस्य व्यवहर्तुरनित्यं सर्वदा सर्वव्यवहारेष्वननुवृत्तेरित्यर्थः । चिच्चैतन्यं त्वान्तरं ज्योतिरनिमित्तकमनागन्तुकमनाग मापायि सर्वावस्थासु प्रकाशतयाऽनुगतं नित्यमित्यर्थः । एतदुक्तं भवति-'आदित्ये -नैवायं ज्योतिषाऽडस्ते'[बृ० ४ । ३ । २ ] इत्यादिबाह्यज्योतिरुपभ्यासो न तत्स द्भावविधानार्थः किं तु संघातस्य व्यवहारः प्रकाशव्याप्तो यथा बहिः क्षेत्रादिगमनव्यव हार आदित्यादिज्योतिषा व्याप्त इति व्यप्तिप्रदर्शनार्थः । अतो न तैरेवायं व्यवहरति तेषामभावेऽपि गाढान्धकारवृतगिरिगुहादिषु स्वमे चास्य व्यवहारोपलम्भात्। भवतव्यं तत्र प्रकाशकेन ज्योतिषेति सामान्यतः सिद्धौ परिशेषादात्मज्योतिरान्तरं तत्र प्रकाशकतय सिध्यत्सर्वावस्थाव्यवहारहेतुतयैव सिव्यति। न हि बुद्ध्यन्तर्ज्योतिःप्रकाशनं विन कर्मणि कोऽपि कस्यचिद्व्यवहारो दृष्टः । सुषुप्यवस्थायां सत्स्वपि बाह्यज्योतिःषु व्यवहारा दर्शनात्। तस्मान्नित्येनाSSत्मज्योतिषा नित्यं व्यवहरसि बाह्यं तु ज्योतिर्जातं तवेन्द्रिय प्रृत्तौ सहकारिमात्रमिति सर्वमनवद्यमिति॥७७॥ सु० टी०-ननु कथमान्तरं चैतन्यं बाह्यव्यवहारोपयोगीति चेत्त ताSडह- श्रोतादिजन्यमतिवृत्तिषु बाह्यशब्दा- यर्थाकतिर्विशति कर्मवशेन कर्तुः । बोधाकतिस्तु तव संनिधिमात्रहेतु- र्धीवृत्तिषु प्रविशति स्वरसेन नित्यम्॥ ७८॥ श्रोत्रादीति। कर्तु: कर्मवशेन श्रोत्रादिजन्यमतिवृत्तिषु बाह्यशब्दाद्य र्थाकृतिरविशतीति संबन्धः । ततः किमिति चेत्तत्राऽऽह-बोधाकृतिरिति वुद्धिवृत्ति प्रषेशद्वारा बाह्यार्थसंबन्धसंमवादान्तरस्यावि बाह्यार्थप्रकाश कत्वाविरोध इत्यर्थः । ननु कथं तत्यवेशोऽपि कूटस्थत्वादिति चेत्त
Page 215
६५० टीका दय समेतं- { ३ तृतीयोऽच्याय: ]
नाSSह :-- सवरसेनेति। विकारं विनैवेत्यर्थः। तन्र हेतुमाह-तव संनिधिमा- त्रहेतुरिति। नित्याभेति बाह्यवत्संनिधिकादाित्कत्वं वारयति ॥य॥ अ० टी० -- ननु नित्यत्वेऽप्यान्तरज्योतिषस्तत्कृतोपकार आगन्तुकः स्यादतश्च जागरिते तदभावोऽपि स्यादन्यथा यदा बाह्यं ज्योतिरस्ति तदा स्वभेऽपि तदुपकारः प्रामुयादिति चेन्नैवभित्याह-श्रोत्ादिजन्येति। अश्व बाह्यस्य ज्योतिषोऽनित्यत्वमान्तरस्य नित्यत्कं चोक्तं स्फुटयति-श्ोत्रादिजन्पेति। कर्तुः संघातात्मनः कर्मवशेन भोगहेतुकर्म- प्रयुक्ततया श्रोत्रादिद्वारा जन्या या मतिवृत्तयो बुद्धिपरिणामरूपास्तासु बाह्यशब्दाद्यर्थाकृति- स्तत्तदर्थव्याप्त्या तत्तदर्थाकारो विशति तासां वृत्तीनां स्वसंबद्धाकारता भवतीत्यर्थः । ततो बाह्येन्द्रियग्राह्यज्योतिषस्तत्तदर्थाकारबुद्धिवृत्त्युत्पादकत्वेनैव प्रकाशकत्वाद्वत्तीनां चानि- व्यत्वादागन्तुकतेति भावः । तास्त्रेव धीवृत्तिषु या बोधाकृतिश्चिदाकारः सा तव संनिधि- मात्रहेतुरधिष्ठानतयाऽनुगममान्रहेतुका नित्यं सर्वदा स्वरसेन व्यापारव्यवधानं विना प्रविशति प्रकाशस्य स्वरूपत्वाद्धीवृत्तीनां तत्राध्यासान्नेन्द्रियव्यापारादिव्यव वानापेक्षाSत्ास्तीति वियमेवाSSत्मज्योतिरित्यर्थः । तथा च शब्दादीनां संबन्धाच्छोत्रादिद्वारा कर्तुः कर्मप्रयु- क्ततया बुद्धिवृत्तयो जायन्ते। तास्वेव बाह्यशब्दादिज्योतिरुपकारलक्षणा तदाकृतिर्भवति। इन्द्रियोपरमस्थाने कर्मोपरमहेतुके न तत्प्राप्तिरिति न स्वप्रेऽपि बाह्यज्योतिरुपकार- शङ्केति भावः ॥।७८॥ सु० टी०-तदेव दष्टान्तेनाSSह- स्वाभाविकी हि वियदन्वितता घटादेः क्षीरादिवस्तुघटना पुनरन्यहेतुः । एवं धियामपि चिदन्वितताड़निमित्तं शब्दादिवस्तुघटनां खलु कर्महेतुः ॥ ७९ ॥ स्वाभाविकीति । अन्यहेतु: कर्मादिनिमित्ता । अनिमित्तेति च्छेद: । सुबोधमन्यत् ॥ ७९॥
कारवदित्यनुमानमाशङ्कय तस्गाप्रयोजकतां वदन्नित्यचित्संसर्गस्योक्तं निरुपाधिकत्वं साध- यति-स्वाभाविकीति। घटादिर्हन्यसंसर्गित्वेन प्रसिद्धस्तस्य घटादेर्वियदन्वितता व्योमव्याप्यत्वात्स्वाभाविक्युत्पत्तित एव सिद्धा न तत्र हेत्वन्तरनिबन्धनतेत्येतत्म-
१ स. मित्ताश । २ ख. नार्य तु क"।
Page 216
[३ तृतीयोडथ्यायः ] संक्षेपशारीरकमू। ६५१
सिद्धमित्यर्थः । तस्यैव क्षीरादिघस्तुघटनासंबन्धः पुनरन्यहेतुः प्रापर्यितृतन्त्रोऽनित्य: कादाचित्कः इत्यर्थः । दार्टान्तिकमाह-एवमिति । अनिमित्तमिति पदच्छेदः ।" निमित्तरहितं यथा स्यात्तथा धियां. चिदन्विततोत्पत्तिसिद्धा नित्यैवेत्यर्थः । शब्दादीति स्पध्टर्थम्। तथा च वस्तूनां स्वभाववैचित्र्यादनुमानमप्रयोजकमिति भाव: ॥७९॥ • सु० टी .- किं पुनरेवंभूतबोधाकृतिस्भ्ावे प्रमाणमिति चेसत्राSडह- संवेदनं यदिह मानफलं प्रसिद्धं तच्च प्रमातरि विकारिणि निष्ठितं नः । तस्य प्रमातुरपि साक्षितयाऽन्तरात्मा सर्वस्य तिष्ठति भवानविकाररूपः ॥८० ॥ संवेदनमिति। सर्ववादिनां व्यवहारहेतुत्वेन यत्संवेदनं प्रमाणफल प्रसिद्धं तदिह वेदान्ते बुद्धिवृत्तिपविष्टमात्मचैतन्यमेवेत्यर्थः। ननु संवे- दन नाम प्राकठ्यं तञ्ञाSSतमध्यापारादुत्पन्नं विषयधर्मो नाऽडत्मधर्म इति तत्राSSह-तच्चेति। प्रमेयनिष्ठत्वे रुपादिवत्मातृव्य पारनाश्े व्यवतिष्वते तत्साधारणं च. स्यात्तस्मादात्मचैतन्यमेव बुद्धिवृ्त्त्यवच्छिन्नं संवेदनं नान्यहित्यर्थः । एवं प्रमातृनिष्ठत्वेऽप्यनात्मत्वं तुल्यमिति चेत्त्राऽह- तस्येति। व्यापारोपहितस्यानित्यत्वादनात्मत्वेऽपि निरुपािकस्य नित्य- त्वादात्मत्वाविरोध इत्यर्थः ।। ८० ।। अ० दी०-ननु बोधाकृतिर्न धीवृत्तिषु प्रसिद्धेति चेन प्रमाणफललेन. सर्वप्रसिद्ध- व्वादित्याह-संवेदनमिति। इह व्यवहारभूमौ यत्संवेदनं प्रमित्याख्यं. मानफलं प्रसिद्ध, चक्षुरादिद्वारकबुद्धिवृत्तौ प्रविष्टं सन्मानफलतेन प्रसिद्धमित्यर्थः । भवतु प्रसिद्धं तथाऽपि तस्याSSतमनिष्ठत्वं विषयनिप्ठत्वं वा स्यान्न बुद्धिवृत्तिगतत्वमिति. चेत्तत्राऽSह-तच्चेति। तच् संवेदनं नोडस्माकं मते प्रमातरि निष्ठितम्। किंलक्षणे प्रमातरि विकारिणि। प्रमाणवृ्त्याश्रयो हि प्रमाता वृत्तिश्च परिणामः प्रमातविकार एवेति सविकार एव प्रमाता भवति. विकाित्वं चान्त :- करणस्य नाऽऽमनस्तस्य कूटस्थावात्। प्रमाणफलं च प्रमात्नाश्रयं युक्तं न. विषयाश्रयमिदमहं. जानामीति प्रमात्राश्रयत्वेनैव तस्यानुभवात्। तथाचाऽSतमस्वरूपचैतन्यमेव प्रमातृगतचिदा- भासाविविक्तं प्रमातृनिष्ठं तद्गताभासावसानं सन्मानफलताव्यपदेशभाग्भवति। तस्मात्परि- णाम्यन्तःकस्णगतमेत्र मानफलं. न साक्षाच्चिदात्मगतं नापि. विषयगतं चिदात्मविषययोस्तुः परिणाम्यन्तःकरणव्याप्तिनिबन्धनं प्रमित्याश्रयत्वभानमित्यभिप्रायः। यदि परिणामिन एष प्रमातृत्वं तत्फलभोक्तृत्वं च तर्हि तत्र किमात्मना कार्यमित्यत आह-स्य प्रमातुर-
१ ख. भुन:।
Page 217
६५२ टीका द्वुय समेतं- [३ तूत्तीयोडध्यायः ]
पीति। प्रमातु: सर्वस्यापि साक्षितया तिष्ठतीत्यन्वयः । विकारिणः प्रमातुस्तद्विकारजा- तस्य तद्वयाप्तविषयादेश्च सर्वस्य साक्षितयेत्यर्थः । साक्षित्वेऽपि विकारप्राप्तिमाशङ्याSऽह- अविकाररूप इति। विकाररहित इत्यर्थः । अविकारत्वं साधयति-अन्तरात्मेति। परिणामिनः स्वयं विकारापन्नस्य स्वविकारसाक्षिता संभवतीत्यतः साक्षित्वमात्मनः कृत्यं तृद्वशात्परिणामिन: प्रमातृत्वादित्यभिप्रायः ॥८०॥ सु० टी०-कथमविकारित्वमात्मनोऽहं कर्ताऽहं मोक्तेति विकारान- भवादिति चेत्तत्राऽडह- कर्त्रांदिसनिधिबलेन तवापि कर्तृं- भोक्तप्रमातृवपुरीपतति क्रमेण। तद्बुद्धिसंश्रयमनात्मगतं प्रतीचि शुद्धेऽपि पश्यसि तमःपटलावृताक्षः॥८१। कत्रादीति। कर्तृत्वादिधीरनात्मान्त:करणविषया न त्वात्मविषया कि त्वविवेकादात्मन्यारोण्यत इत्यर्थः ॥८ ॥ अ० टी० -- यद्येवं प्रमातृत्वादिर्बुद्धिगत एव न प्रत्यगात्मगतः प्रत्यमात्मा तु स्वयं- प्रकाशस्तत्साक्षी तर्हि कथमात्मनि प्रमातृत्वादिमाप्तिर्येन तत्र तत्प्रतीयत इति चेत्तत्राऽह- कर्त्रादिसंनिधीति। जपाकुसुमादिसंनिहितस्फटिके लौहित्यादिप्रतीतिकत्कर्तृत्वादिधर्म- कबुद्धयादिषु साक्षितया संनिहिते प्रत्यगात्मनि कर्तृत्वादिप्रतीतिरविवेकनिबन्धनेति तात्प- यार्थः । अक्षुरार्थोडतिरोहितः । अविवेककृतां भ्रान्तिमेवानुभवानुसारेण विशदयति- तद्बुद्धिसंश्रयमिति। तत्कर्तृत्वाद्यज्ञानावृते निजतत्वरे कर्तृतादि्धर्मे ु द्या ्यासादा - भासगतमप्याभासाविवेकादाव्मनि पश्यसीत्यर्थः ॥८१॥ सु० टी-अस्तु पारमार्थिकं कर्तृत्वादि नाऽडरोपितमिति चेत्त- च्राsडह- कर्तृत्वादि च दृश्यवर्गपतित दष्ट: स्वभाव: कर्थ संभाव्येत तव प्रसन्नविमलस्वच्छप्रकाशात्मनः । ययददृश्यतया जगत्यभिमत सर्वस्य तनन्दवे- दूरं दग्गुरिति प्रसिद्धमखिले भूभृत्समुद्दादिकम् ॥८२ ॥ कर्तृलादीति। हश्यस्य द्रहटत्वानुपपत्तेरित्यर्थः । काऽनुपपत्तिरिति चेत्त- त्राऽऽह-यद्यदिति ॥ ८२॥ १ ख. घ. 'तिभ्रमेण. ।.
Page 218
[३ तृतीयोऽध्याय: ] संक्षेपशारीरकमू। ६५३
अ० टी०-तदेवं कर्तृत्वादि न द्रष्ट्गतं दृश्यत्वाद्रपादिघदित्युक्तं तत्र दश्यत्वेऽपि द्रष्ट्र्धर्मता किं न स्यादित्यप्रयोजकतामाशङ्कय द्रष्ट्रघर्मत्वे दृश्यत्वासिद्धिश्चैतन्यवदित्यमिश्रे- त्याऽऽह-कर्तृत्वादि चेति। द्रष्टुस्तवेति संबन्धः । कर्तृत्वादेर्द्दश्यवर्गान्तःपातित्व- मागमापायित्वादिति द्रष्टव्यम् 1 तस्य द्रष्टः स्वभावत्वासंभवसाधनाय विशेषणम्- प्रसन्नेति। प्रसन्नत्वमविकृतत्वं विमळ्त्वमुत्पत्यादिमलरहितत्वं स्वच्छत्वमसङ्गत्वमेवं भूतो यः प्रकाशकः स एवाऽडत्मा स्वरूपं यस्य तस्य तवेत्यर्थः । परिणाम्यागमापायिपरा- धीनसत्ताकं न तद्विरुद्धस्याऽऽत्मनः स्वभावः सेभाव्यत इत्युक्ततं भवति। एवमनभ्युपगमे व्याप्तिविरोधः प्रसज्यत इत्याह-यद्यदिति। सर्वस्य द्रष्टुरिति संवन्धः । दूरमिति। असंसृष्टमित्यर्थ: ॥ ८२॥ सु० टी०-अ्रैव हेत्वन्तरमाह -- एतस्माच् न जाग्रतस्तव अवेत्स्वाभाविकी कर्तुता यद्येषा स्वत एव किं न भवति स्वभेऽपि ते तिष्ठतः । यत्स्वमे परिपश्यसि त्वमखिलं तन्मायया निर्मितं कर्तृत्वादि न सत्यमत्र घटते कार्त्स्न्यानभिव्यक्तितः ।८३।। एतस्मादिति। यद्येषा कर्तृता जाग्रतः स्वाभाविकी भवेत्तर्हि स्वम्रेऽपि तिष्ठतः कि न भवेत्तस्मात्स्वप् इव जागरेऽपि नैषा परमार्थिकीत्यर्थः। वृष्टान्तो विषम इत्याशङ्कयाऽडह-यत्स्वम इति। स्वन्नव्यवहारस्य मायि- कत्वे सौत्रं हेतुमाह-कार्त्स्येति। इन्द्रजालवदुचितसामग्री बिना जाय- मानत्वादित्यर्थः।। ८३ ।। अ०टी०-तदेवं ज्योतिर्द्वयान्तरित एवेत्यारभ्येयता ग्रन्थेन द्रघटृदृश्यभावं साक्षिसा क्षयभावं चान्वयव्यतिरेकाभ्यामुपपादयता 'आत्मनैवायं उयोतिषाऽडस्ते'[ बृ० ४। ३ । ६ ] इत्यादिश्रुत्यनुगतार्थो विशदीकृत इदानीमागमापायितदवध्यन्वयव्यतिरेकपरं स यत्र प्रस्वपितीत्यादिवाक्यमाश्रित्यापि कर्तृत्वादिप्रहाणेन विशुद्धचिद्रूपत्वमात्मनो विशदसृति- एतस्माच्चेति। 'स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामुपादाय स्वयं विहृत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा' [बृ० दा० ४ । ३ । ९ ] इतिश्रुतौ सवमे जाग्रद्गतकर्तृत्वादिप्रह्ाणेन नूतनकर्तृत्वादिनिर्माणश्रवणादेतस्माच्च हेतोस्तव जाग्रतो जाग्रदव- स्थापन्नस्य कर्तृता न स्वाभाविकी भवेत्। कुत इत्यत आह-यद्येषेति। एषां कर्तृता यदि स्वत एव स्वाभाविक्येव स्यान्तदा स्वभेऽपि तिष्ठतस्ते तव किं न भवति कस्मान् स्यात्। तथा चावस्थान्तरे त्वयि व्यतिरेकदर्शनात्कर्तृत्वादिर्न तव स्वाभाविक
Page 219
६५४ टीकाट्वय सभेतं- ६ ₹ तृतीयोऽच्याय: ]
इति निश्यशुद्ध एत सदा त्वमित्यर्थः । ननु जागरित इव स्वप्नेऽपि व्यवहारो दृश्यतेऽतः कथं जाग्रव्व्यवहारस्य स्वने व्यभिचार इति चेन्मैवं स्वामव्यवहारस्य मायामात्रत्वादित्याह- यत्स्वप्र इति। स्वाप्नव्यहारस्य मायामयत्वेनासत्यत्वे 'मायामात्रं तु कार्त्स्न्येनानिव्य कस्वरूपत्यात्'[ब्र० सू० ३। २।३] इतिसूत्रोक्तं हेतुं पातयति-कात्सनर्या- नभिध्यक्तित इति ॥८३ ॥ सु० टी०-इद चाकात्स्न्ये यद्भावः स्वम् इत्याह- कार्त्स्न्य हीष्टमबाधनं न खलु तत्स्वमस्य जाग्रद्विया बाधाद्वाधितमेव सत्यमिति चेन्नैवं विरोधान्मिथः । सत्यत्वे नहि बाधितत्वघटना बाधे च सत्यं कुतः सत्यं बाधितमित्यतीव पदयोः संबन्धिता दुर्घटा।८४ । कात्सन्यं हीति। आख्यातवादी शङ्कते-बाधितमेवेति। बाधस्य मेदग्रह- मात्रतवेन सत्यत्वाविरोधित्वादित्यर्थः । परिहरति-नैवमिति। सत्यत्वबा- सवत्वयोरिति शेषः। पूर्वधीभ्मत्वनिश्चयस्यैव बाधत्वेन प्रसिद्धेरित्यर्थः। परस्पराभावव्याव्यतारूपं विरोधं व्यनक्ति-सत्यत्व इति। स्ववाचनवि- रोधमप्याह-सत्यमिति ॥८४:।। अ० टी०-हेत्वर्थ विशदयति-कारस्न्यं हीष्मिति। रवमे व्यवहियमाणप- दार्थोचितदेशकालादिसद्भावः कात्स्थं तद्यद्यपि स्वमदशायामब्राधितमुचितमिव प्रतीयते तथाऽपि सस्य जागरिते विसंवादात्तद्वाध्यते प्रतीतमपि वस्तुतस्तत्र नाभूदिति हि जाग्रदव- स्थायां तदवगम्यतेऽतो देशतः कालतो वस्तुतश् यदबाधनं व्यवहियमाणार्थानां तत्कात्स्न्य- मिष्टं हीति यत इति योजना। भवतु स्वप्ेपि कात्सन्य नेत्याह-न खल्विति। तदबाधलक्षणं कार्त्स्यमित्यर्थः । भवतु जाग्रद्धिया स्वनस्य बाधस्तथाऽपि कुतोऽस्यासत्यता सत्यमिथ्याविभागस्यासिद्वेरिति कश्िच्छङ्कते-बाधितमेव सत्यमिति चेदिति। बाधितमपि सत्यमेत्रेति चेदिति योजना। व्याघातान्नेयं शङ्केह्ववतरतीति परिहरति- नैवं विरोधान्मिथ इति। विरोधमेत्र स्फोरयति-सत्यत्व इति। सत्यपद हि लोके बाधानर्हे वस्तुनि व्युत्पननं वाध्यपदं च सत्यपदविषयादन्यस्मिन्विषये प्रसिद्धमतः सत्यं बाध्यमित्यनयोरेकस्मिन्विषये सहप्रयोगो दुर्घदो विरुद्धस्वभावयोरैक्यायोगादतो व्युत्पत्तिविरुद्धं बाधितस्य सत्यत्वमित्यर्थः । व्युत्पत्यनुभव एव विभागहेतुरिति भावः॥।८४। सु० टी०-ननु 'मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् [ब. सू० ३।२।३] इति स्वपस्य मिथ्यात्वसिद्धयर्थ दृष्टान्तीकृत-
Page 220
संक्षेपशार्सीरकम्। ६५५
मणिमन्त्रांदिलक्षणमायायाः सत्यत्वेन स्वप्रस्यैव मिथ्यात्वं दुर्लभं कुतस्तसं तद्द्टष्टान्तेन जागरमिथ्यात्वसिद्धिरिति चेत्तत्ाSडह- मायामेनां जागरे लोकसिद्धा- मुक्त्वा तद्रस्वममायां विविच्य। शक्तिव्यापी तत्र सिद्धे गृहीत्वा मायासिद्धं जागरं साधयामः ॥८५॥ मायामिति। मापायाः सत्यत्ववादिनं प्रति जागरे लोकसिद्धां मार्या मिथ्यात्वेन प्रसाध्य तददृष्टान्तेन स्वप्नमायां मिथ्यात्वेन विविच्य तत्र सिद्धे शक्तिव्याप्ती गृहीत्वा जागरे मायिकत्वं साधयाम इत्यर्थः । इयं च प्रतिज्ञा ।८५ ।। अ० टी०-ननु स्वपस्याविद्यामयत्वं भ्रान्तित्वं वा वक्तुं युक्तं न मायामयत्वं मायाया अभ्रान्तेपु मायाविष्रु प्रसिद्धेः स्वप्नस्य च भ्रान्तपुरुषनिष्ठत्वादिति मायाविद्ययोर्भेदमङ्गीकुर्व- तामिह प्रत्यवस्थानावसरमाशडक्य तदनवसरत्वाय मायाविद्ययोरभेदं साधयितुमुपक्रमते- मायामेनामित्यादिना। या माया जागरे जाग्रदवस्थायां लोकव्यवहारे सिद्धा तामेनां प्रसि- द्वामुक्वा भ्रान्त्यविद्याशब्दवाच्यसाधारणतया निरुच्य तद्दत्तत्समानस्त्रभावतया स्वप्नमायां च आरन्त्यविद्यालक्षणां विविच्य निष्कृष्य मायाविद्यादिशब्दानामेकप्रवृत्तिनिमित्ततयैकलक्षण- योगित्वमुपपाद्येति यावत्। तत्रैवंविधेऽनिर्वचनीयेडर्ये ये शक्तिव्याप्ती सिध्यतस्ते गृहीत्वा मायादिशब्दस्य शक्तिं मायाविद्ययोरेकत्वसाधकलिङ्गस्य व्याप्तिं च गृहीत्वेति यावत्। जागरं मायासिद्धमीश्वरमायया रचितमप्यविद्यामयं साधयाम इति प्रतिज्ञापद्ययोजना ॥८५॥ सु० टी० -- अत्र साधनप्रकारं दर्शयति- लोके हि मायाऽघिगता न माया तमोतिरिक्ताडस्ति निरुप्यमाणा। व्याप्तिश्र् शक्तिश् निरुष्यमाणा भविष्यतीहैव तु नेतरत्र ॥ ८६ ॥ लोके हीति। कुतस्तमोतिरिक्ता सा नास्तीति चेत्तत्राऽऽह-व्याप्तिरिति। इहैवाविद्यायामेवेत्यर्थः ।।८६।। अ० टी०-का तर्हि लोकसिद्धा माया वा भ्रान्त्यविद्यादिसाधारण्येन निर्विवक्षिते- व्यपेक्षायामाह-लोके हि मायेति। या लोके प्रसिद्वैन्द्रजालिकैः प्रसार्यमाणाऽधि- गता सर्वजनविदिता सा माया निरुष्यमाएम लक्षणप्रमाणाभ्यां प्रतिपाद्यमाना न तमः
Page 221
६५६ टीकाटूय समेतं- [ १ तृतीयोऽन्याय: ]
शब्दवाध्याविद्यातिरिक्ताडस्ति। एव सति मायाशब्दस्य शक्तिर्मायामयत्वव्याप्तलङ्गानां व्याप्तिश्व निरूप्यमाणेहैवाबिद्यायामेव भविष्यति नेतरत्र न ततोऽर्थान्तर इति योजना॥८६॥ सु० टी०-ननु मणिमन्त्रषधादेरेव मायात्वेन प्रसिद्धत्वान्नाज्ञानं मायेति तब्नाSSह- मायाविनो न मणिमन्त्रमथौषर्ध वा मायेति शक्यमिह वर्णयितुं कृतश्रवेत्। सत्यं हि तत्सकलमिष्टमियं त्वसत्या माया ततोऽन्यदिह किंचन वर्णनीयम्॥८७॥ माथाविन इति। शङ्कते-कुत इति। उत्तरं-सत्यं हीति। ननु मायाऽपि सत्येवास्त्वित्याशक्क्याSSह-इयं तिति। मायाशब्दस्यासत्ये व्युशपन्नस्वा दित्यर्थः ।८७ ॥ अ० टी०-परिशेषप्रमाणेन मायाशब्दवाव्यमनिर्वचनीयमेवेति साधयितुं प्रसक्तप्रति षेधमारभते। तत्र मणिमत्रादियुक्त पुरुषे मायावित्वप्रसिद्धर्मण्यादिरेव माया स च नाविद्या तत्र तत्प्रसिद्धयभावादिति मण्यादौ मायात्वप्रसक्तिमुद्धाव्य निराकरोति-मायाविन इति। मण्यादर्मायात्वं वर्णयितुं न शक्यमित्यत्र हेतुं प्रश्नपूर्वकमाह-कुतश्रेत्सत्यं हीति। मायाशव्दस्य मिथ्यार्थ एव लोके प्रसिद्धत्वान्मण्यादेश्व सत्यत्वान्मण्यादिभ्योऽन्य. देव मायाशब्दवाच्यं किमपि वर्णनीयं न मण्यादीत्यर्थः । लोके माया मया दृष्टेति मिथ्याभूते दृष्टनष्टस्वरूपे वस्तुनि व्यवहारदर्शनान्मण्यादेरतादृशस्य तादृग्व्यवहारायोग्य- त्वान् मण्यादिर्मायेति भाव: ।। ८७॥ सु० टी०-ननु मणििमन्त्रादिपयोगे पुरुषस्य या शक्ति: सैव मायेत्याशङक्य दूपयति- सामर्थ्यमस्य मणिमन्त्रनिमित्तमस्ति माया भविष्यति जनभ्रमहेतुरेषा। इत्युच्यते यदि तदप्यतिफल्गु कस्मात् सामर्थ्यमप्यवितथं हि तदिष्टमस्य ॥८८॥ सामथ्यमिति। अस्य मण्यादिपयोक्तुरित्यर्थः । तद्पीति। शक्तरपि सत्यत्वान्न मायाषद्वाच्यत्वमित्यर्थः ।। ८८।।
१ ख. ब. मशैष २ ख. घ. सफल।
Page 222
[३ तृतीयोऽच्याय: ] संक्षेपशारीरकमू। ६५७
अ० टी०-अथ मणिमश्रादिजन्यं मायाविनः सामथ्य मायेति मतं तदपि न संत्राप्युक्तदूषणानतिवृत्तेरित्याह-सामर्थ्यमस्येति। अस्प मायाविनो मणिमत्रनिमित्तकं यंत्सामर्थ्यमस्त्येषा जनभ्रमहेतुर्माया भविष्यतीत्युच्यते यदीति शङ्काभागयोजना । दू- यति-तदप्यतिफल्विति। सुगममन्यत्॥ ८८ ।। सु० टी०-किं स्वाभाविकी शक्तिर्मणिमन्त्रादिभिरभिध्यज्यते उम्ध केनचिज्जन्यत इति विकल्व्य नोमयथाऽपि घटत इत्याह- न च शक्तिरस्ति सहजा यदि वा जनिताऽस्ति केनचिदिति ब्रुघतः। परिपुष्कलं स्वमतनिर्वहणं भवितुं क्षमं तदनिरूपणतः ।। ८९ । न चेति॥८३ ॥ अ० टी०-न मण्यादिर्माया नापि तज्जन्यं मण्यादिमतः सामर्थ्य किं तु मायाविनः कोडपि शक्तिविशेषो माया। सा चाविद्यातोऽन्येति यदि कश्षिद्बूयात्तस्य पक्षो न निर्वहति विकल्पासहत्वादित्याह -- न च शक्तिरस्येति। अस्य सा शक्तिः कि सहजोत्पत्तित एव सिद्धेति यावद्यदि वा केनचिज्जनिताऽस्त्युत्पत्यनन्तरं केनापि निमित्तयोगेन प्राप्ता वेत्यर्थः। दूषणमुभयत्र साधारणमाह-इति ब्ुबत इति। परिपुष्कलस्वमतनिर्वहणं भवितुं न च क्षममिति संबन्धः । तत्र हेतु :- तद्निरूपणत इति। उभयथाऽपि निरूंपयितुमशक्यत्वादित्यर्थः ॥ ८९॥ सु० टी० -- तदनिरूपणत इत्युक्तमेव साधयति -- न च शुक्रशोणितसमागमने न च गर्भशायिन इयं विदित्। न च मातृयोनिविवरादुदरा- दपसर्पतो बहिरियं घटते ॥ ९० ॥ न चेति। सह जायत इति सहजा। सा कदा जायते कि निषेककाल उब गर्भपरिणतिकाले किं वा जन्मकाल इति निरूपिय तुमशक्यं तदानीमदर्श- नादित्यर्थः ॥ ९० ॥। अ० टी०-सहजत्वपक्षदुर्निरूपत्वं साधयति-न च शुक्रशोणितेति। सहै। जायत इति हि सहजसमुच्यते। तत्र पुंसो रेतोनिषेककाले मातुरुदरप्रवेसे सह जायते
Page 223
६५८ टीकाट्वय समेतं- [ ३ तृतीयोडव्यायः]
किं वा गर्भागारे शरीरपरिणामकालेऽथवा मातुरुदराद्वहिर्निःसरणकाले सा शक्तिरिति विकल्पत्रयं क्रमेणा निराकरोति न च शुक्रशोणितसमागमन इत्यादिना। इयं शक्तिरनु• भवपराहतत्वात्कल्पनाया इत्यर्थः। यद्येतास्व्रवस्थासूक्तशक्तिसंभवः पुरुषस्य भवेत्तदा निषेकादिप्रकारस्य सर्वेषामविशेषात्सव्वेव सा शक्तिः स्वतो वा कार्यतो वोफ्लभ्येत तस्मादेतदसंगतमिति भाव: ॥ ९०॥ सु० टी० -- द्वितीये त्वाह- मणिमन्त्रमौषधमितीदृशकं विरहय्य नापरमिहार्पयति। पुरुषोऽपि कश्विदत एवमियँ परतोऽपि नास्य घटना घटते॥ ९१ ॥ मणीति। मायोपदेशकाले हि मायावी मणिमन्त्राद्येव प्रयच्छति न तु का- चिच्छक्तिमाधत्ते मानाभावादित्यर्थः। परतोऽपि परेणाSडहितेत्य पि।। ९१।। अ० टी० -- आगन्तुकत्वपक्षोऽप्ययुक्त इति प्रतिपादयति-मणिमन्त्रमिति । अस्मिन्पक्षे हि मायाविपुरुपान्तरोपदेशादस्य मायाप्राप्तिर्वक्तव्या। तथा च कश्चिन्मायावी पुरुषोऽपि मणिमत्रं चौषधं वेतीत्थमीदृशकमन्यद्वा विरहृथ्य विनाऽन्यच्छक्तिलक्षणमिहा· स्मिञ्छिष्ये नार्पयति। मणिमत्रमिति द्वंद्वैक्यम्। मायावी पुरुषः पुरुषान्तरे मण्यादिप्रदान- व्यतिरेकेण न शक्तिं कांचिदाधत्ते मण्यादिश्र न शक्तिर्नाषि मायाशब्दवाच्यस्तस्य सत्यत्वा- न्मायायाश्चानृतत्वेन प्रसिद्धत्वादित्यभिप्रेत्याSSह-अत एवमिति॥९१॥ सु० टी०-ननु मण्यादिनिरपेक्षा परव्यामोहकरी परस्य शक्तिरेव माया कार्यैकोन्नेयत्वेन शक्तिलक्षणयोगित्वादिति शङ्कते- अन्यस्य विश्रमकरी पुरुषस्य शक्ति- राकारमन्यमनपेक्ष्य मनीषिता चेत्। वाच्येह लौकिकजनव्यवहारभूमौ मायागिरस्तदपि दुर्घटमिष्टहानेः ॥९२॥ अन्यस्थेति। अन्य सत्यमिथ्यात्वाद्याकारमनपेक्ष्यैव मायागिरो वाच्येति संबन्धः। दूषयति-तदपीति। उुक्रशोणितयोगकाल एव परव्यामोह- कत्वं स्थाच्छकेनैरपेक्ष्याभ्युपगमाकिति न त्वदिष्सिद्धिरित्यर्थः ॥ ९२॥।
१ ख. घ. नामटति।
Page 224
[३ तृतीयोऽथ्यायः]' संक्षेपशारीरकमू । ६५९
अ.० टी०-यद्यपि पुरुषगतशक्तेरस्याः सहजत्वादिप्रकारों न नियमेन निरूपयितुं शक्यते तथाऽपि: प्रसिद्धत्वादेव काचन मायाऽभ्युपेया। सा च शक्तिरेव्रास्तु कार्य प्रत्यन्त- रङ्गत्वात्कार्यैकावसेयत्वेन च शक्तिलक्षणयोगित्वात्। तथा च सत्यानृतत्वलक्षणाकारविशेषा- नादरेण परविभ्रमहेतुः पुंसः शक्तिर्मायेत्यभ्युपगम्यते लोके तादशे विषये मायाशब्द प्रयोगात्। सा कचिदनृताऽपि भवतीति तस्यां. मिथ्यात्वव्यवहारोद्पि क्वाचित्को न. विरुध्यत इत्यभिप्रेत्य पक्षान्तरं शङ्कतें-अन्यस्य विभ्रगकरी। इर लौकिक- जनव्यवहारभूमावन्यमाकारं सहजत्वागन्तुकत्वसत्यत्वमिथ्यात्वादिविशेषमनपेक्ष्यान्यस्य विभ्रमः करी पुरुषस्य शक्तिर्मायागिरो वाच्येति मनीषिता चेदिति योजना। दूषयति-तद्पि दुर्घटमिध्ट्हानेरिति ॥९२॥ सु० टी० -- इधान्तरहानिमप्याह- मायामयत्ववचनादखिलं मृषेति यन्भाष्यकारवचन तदसंगतं स्यात्। प्रत्यक्षमुत्सृजसि कारणमन्यदन्य- यत्किंचिदानयसि कष्टमतः किमन्यत् ॥ ९३ ॥
खिलं सृषेति माष्यकृद्वचनपरित्यागस्तव स्यादित्यर्थः। नन्वस्माकमुचि- एव त्वदीयभाष्यवचनत्याग इति चेत्तत्ाऽऽह-प्रत्यक्षमिति। प्रत्यक्षमेव श्रुतिः 'नेति नेति' [बृह० २। ३। ६] इतिप्रतिपन्नोपाधौ निषे- व्यत्वेनानिर्वचनीयत्वं दर्शयति। तदुत्सृज्य कारणान्तराम्युपगमोडयुक्त इन्यज्ञानमेव मार्येत्यर्थः ।।९३॥। अ० टी०-इष्टहानिमेवाऽऽह-मायामयत्ववचनादिति । 6 मायैक संध्ये सृष्टिरन परमार्थगन्धोऽप्यस्ति' इत्यादिवचनादखिलं मृषेति यद्धाष्यकारवचनमेताद- शामन्यदपि मायाविद्ययोरेकत्वसूचकं च. भाष्यकरवचनं. तत्सत्यमिथ्यासाधारणपुरुषशक्ति. रमायेत्यभ्युपगमेSकारणमप्रमाणं र्यात्तच्वायुक्तमुपजीव्यविरोधादतो भाष्यरूपमूलशास्त्रविरोधा- न्नेयमपि कल्पना घटत इत्यर्थः । अपि प्रत्यक्षं सर्वजनानामनुभवरूपं द्रष्टणां मायाविवि- षयमज्ञानं मायाव्यवहारविषय इति प्रसिद्धमुत्सजि त्यजस्यन्यदन्यत्किंचित्कारणमप्रसिद्धं मायाशब्दप्रवृत्तावानयस्प्रतोऽन्यत्कि. कष्टमव्यवस्थितव चनत्वान्न तव कल्पना प्रामाणिकी- सर्थः ॥ ९३ ॥
१ ख. घ.दकारण स्थात् ।
Page 225
६६० टीका ट्दुय समेतं- [३ तृतीयोऽघ्याय:]
स० टी०-नन्वीश्वरस्य सर्वप्रपञ्चजनन्या: शक्ते:ः 'पराऽस्य शक्तिः' [ श््वेता ६ ।८] इति परत्वेन विशेषितायाः कथमज्ञानरूपतेति चंत्तत्राSडह -- अज्ञानमेव च भविष्यति शक्तिरेषा सर्वप्रपञ्चजननी परमेश्वरस्य। माया श्रुतिस्मृतिवचोभिरुदीर्यमाणा शक्तिग्रहो हि परविश्वमहेतुशक्तै ॥ ९४ ॥ अज्ञानमेघेति। श्रुतिस्मृतिवचोभिरुदीर्यमाणा परमेश्वरस्येषा माया श- क्तिरज्ञानमेव मविष्यतीति संबन्धः । तत्र हेतुमाह-शक्तिग्रहो हीति। मायाशब्दस्येति शेषः । परविभ्रमहेतुशक्तावज्ञाने ॥९४॥ अ० टी०-ननु परमेश्वरस्य जगज्ननी शंक्तिरपि मायेत्युच्यते श्रुतिस्मृतिपुराणेषु न च तस्या अज्ञानत्वं युक्तं तथा सतीश्वरस्यापि भ्रान्तिप्रसङ्गादतोऽज्ञानादन्यदेव मायाख्यं किमपि वाच्यमिति चेन्मैधं परमेश्वरशक्तेरप्यज्ञानत्वाङ्गीकारे विरोधाभावात्सृष्टयादेः परमार्थ- व्वस्याविवक्षितत्वान्न चेश्वरस्य भ्रान्तत्वापत्तिस्तस्याज्ञानवशित्वस्योपपादितत्वादित्यभिप्रे- त्याSडद्-अज्ञानमेव चेति। श्रतिस्मृतिवचोभिरुदीर्यमाणा या परमेश्वरस्य सर्वप्रपञ्चजननी शक्तिरेषाऽज्ञानमेव भविष्यतीति योजना । चकारः शङ्काव्युदासार्थः । नन्वज्ञाने माया- शब्दो विरुव्यते ज्ञाने मायाशब्दप्रयोगादिति चेत्तत्राSऽह-शक्तिग्रहो हीति। परवि- भ्रमहेतुभुता या शक्तिस्तस्यां हि मायाशब्दस्य शक्तिग्रहः परविभ्रमहेतुश्चाज्ञानमिति न विरोध इत्यर्थः । एतदुक्तं भवति-मायावी हि लोके मणिमत्रादिप्रयोगविशेषेण मायां संक्षोभयति। सा च संक्षुभ्यमाणा द्रष्टणां मायाविविषयादज्ञानानार्थान्तरभ्ता। द्रष्टारो हि स्वाज्ञानधिलसितमेवान्यथाभतं वस्तृपलभन्तो भ्रान्ता भवन्ति। यतो माया दृष्टेति त एव मन्यन्ते। अतो दृश्यमानायथार्थज्ञानं विभ्रमस्तमुपजनयन्ती माया सा च द्रष्ट्ज्ञानं तस्य च मध्ादिप्रयोगे स्वतत्रं मायाविनं प्रति तदधीनतया परविभ्रमहेतुशक्तित्वे- नावस्थानात्तदेव मायाव्यपेक्षया मायेत्युच्यते प्रेक्षकेषु च तदधीनतया स्थितत्वादविद्येति व्यवहियिते। अतोऽविद्या मायाशब्दयोर्विभ्रमहेत्वनिर्वचनीयशक्तिरूपैकार्थविषयत्वेऽपि ताददश-
इति H ९४ ॥ सु० टी० -- नमु वैदिकी मायापदव्युत्पतत्ति: सा च यूपादिपद्वत्प्रसि- द्धूपद्सममिव्याहारान्न च सा लौकिकेऽज्ञाने संभवतीति चेत्तन्राSडह-
पयोगसांनिध्यवशेन शक्ति: ।
Page 226
[ ३ तृतीयोऽध्यायः ] संक्षेपशासीरकम्। ६६१ ग्रहीष्यतेऽस्येति समञ्जसं स्या- दलौकिके शब्द इंदं हि युक्तम् ॥९५॥ न चेति। मायाशब्दस्तु नालौकिक इत्यर्थः ॥९५॥ अ० टी०-नन्वेवं लोके मायाया अज्ञानत्वेऽपि वेदे ततोऽन्यत्रैव मायाशब्दव्युत्पत्ति- र्युक्ता समभिव्याहतैः सर्वज्ञादिशब्दैर्मायायाः सर्वज्ञेश्वरत्वादिघटकत्वावगमादज्ञानस्य तदयो- गादिव्याशडक्याडह-न च प्रसिद्धेति। न च समअ्सं स्यादित्यन्वयः । यद्यपि प्रसिद्धार्थपद्समभिव्याहाराद्वेदे पदव्युत्पत्तिग्रहो वर्तते तथाऽपि मायापदस्यास्य न तथा श- क्तिग्रहः समञ्जसोऽस्य तेन विनाऽपि लोके शक्तिग्रहोपपत्तेरित्यर्थः । तत्रास्यात्यन्तालौकि- कत्वाभावादिति हेतुमाह-अलौकिक इति। यूपाहवनीयादिशन्द इत्यर्थः ॥९५॥ सु० दी०-एतदेव व्यनक्ति- अयं तु मायेति न शब्द एव- मलौकिको लौकिक एव तस्मात्। यदर्थवाची जगति प्रसिद्ध स्तमेव वेदेडपि स वक्ष्यतीह ॥९६ ॥ अयं त्विति। नायं यूपादिशब्दतुल्यः कि तु लौकिक एवेत्यर्थः । क्युत्पत्त्यन्तरे लोकवेदाधिकरणविरोध इत्याह-यदर्थेति ॥९६।। अ० टी०-उक्तं हेतुं विशदयति-अयं त्विति। मायेत्ययं शब्दस्त्वेवं यूपादि- शब्दवन्नालौकिकः किं तु लौकिक एव यस्मात्तस्माज्जगति लोके यदर्थवाची यः शब्द: प्रसिद्धस्तमेवार्थ स शब्द इह वेदेऽपि वक्ष्यतीतरथा लोकवेदाधिकरणन्यायविरोधापाता- दित्यर्थः ॥ ९६ ॥ सु० टी०-लौकिकत्वेऽ्यलौकिकार्थत्वमविरुद्धं तथा दष्त्वादिति शङ्कते- ननूद्धिदादेर्यदि नाम लोके प्रसिद्धमर्थान्तरवाचकत्वम्। तथाऽपि भावार्थनिपीडितस्य विजानते कर्मणि शक्तिमस्य ॥९७॥ नन्विति। 'उद्धिदा यजेत' इत्यादौ यजतिसममिव्याहृतत्वादुन्भि-
Page 227
६६२ टीकाद्य समेतं- [ ३ तृतीयोऽध्यायः ]।
त्यर्थः ॥। ९७॥। अ० टी०-ननु 'उद्भिदा यजेत' 'चित्रया यजेत' इत्यादौ योगवृत्त्या वाः वर्णविशेषवाचित्वेन वा लौकिकानामप्युद्विदादिपदानां भावार्थसामानाधिकरण्यबलात्कर्मना- मधेयत्वं व्यवस्थापितं तथेहापि लौकिकमपि मायापदमलौकिकार्थ भविष्यतीति चोदयति- ननूद्िदादेरिति। यदि नामेति यद्यपीत्यर्थः । उद्भिनत्तीत्युद्धिदिति खनित्रादिरलोक. उद्धिच्छब्देन योगवृत्याडभिधीयते। चित्ररूपत्रत्यजा गौर्वा चित्रेति। तथाऽपि यजेतेति भावार्थयजिपदसमभिव्याहारेण लोकप्रसिद्धार्थनिपीडनेनास्योद्विदादिपदस्य कर्मणि शक्ति. कर्मनामत्वं विजानते निरूपयन्ति परीक्षका इत्यर्थ: ॥९७॥ सु० टी० -- गुणविधो वैरुप्याद्विशिष्टविधौ मत्वर्थलक्षणापत्तेरगत्या बन्र कर्मपरत्वमिह्न तु न तथा गत्यन्तराभाव इति परिहरति- सत्यं न. गत्यन्तरमस्ति तत्र ततस्तथा निश्वितमत्र नैवम्। मायागिरोऽज्ञाननिवेदनेऽपि न. काचिदत्रानुपपत्तिरस्ति ।.९८।: सत्यमिति ॥९८॥ अ० टी०-परिहरति-सत्यं न गत्यन्तरमिति। अयमर्थ ;- 'उद्धिदा यजेत पशुकामः' इत्यत्रोद्विच्छब्दो यदि गुणविधिपरोऽभ्युपगम्यते तदा गुणापेक्षया फलापेक्षया च यागे विरुद्धत्रिकद्वयापत्या वैरूप्यमापद्यते। अतो न गुणविधिरत्र युक्तो नाप्यत्र 'सोमेन यजेत' इतिवद्विशिष्टविधिरुपपद्यते मत्वर्थलक्षणाप्रसङ्गात्। न च सेहोपपद्यते सोमपदस्य द्रव्यविशेषे रूढत्वात्तदनुरोधेन तत्र मत्वर्थलक्षणा घटते । उद्धिदादिशब्दस्य तथा क्वचि दर्थविशेषे रूढत्वाभावाद्योगवृत्तेश्व यत्र क्वापि कर्थंचित्संपादययितुं शक्यत्वान्ववस्थितवि- ध्यर्थाप्रतीतेनेह विशिष्टविधिरपि घटतेऽतो गत्यन्तरासंभवादुद्विदादिपदानां कर्मनामधेयत्वं यजिसामानाधिकरण्यादाश्रितमिति। मायागिरो मायापदस्य त्वज्ञाननिवेदनेऽप्यत्र वेदे न काचिदनुपपत्तिरस्ति लोकव्युत्प्त्यनुरोधेनाज्ञानाभिधायित्वेपि विरोधाभावादेतदेवात्र युक्त- मित्यर्थ: ॥ ९८ ॥ सु० टी०-नन्वत्रापीश्वरशक्तेरज्ञानात्मकत्वे तस्य सर्वज्ञत्वानुपपत्ति रस्ति बाधिकेत्याशङ्कयाSSह-
Page 228
[३ तृतीयोऽच्याय: ] संक्षेपशारीरकम्। ६६३
अज्ञानं जडशक्तिमात्रवपुषा सर्वेश्वरस्येष्यते सर्वज्ञत्वविरोधि तन्न च भवेदुक्तप्रकारेण नः । सर्वज्ञेश्वरसंश्रया भवति सैवाज्ञानमाया श्रुतौ तस्मादुद्भिदिवेति वर्णनमिदं वैषम्यदुष्टं तव ॥ ९९॥ अज्ञानमिति। सर्वज्ञत्वेति। अज्ञानस्य स्वकार्यान्तःकरणद्वारैव किंचिज्ज्ञ तासंपाद्कत्वं न चेश्वरस्य तदस्तीत्युक्तेन मार्गेणेत्यर्थः। ननु तह्यज्ञान- लक्षणाभावाद्ज्ञानभिन्नैव मायेत्याशङ्कयाऽSह-सर्वज्ञेति।'माया चा- विद्या च स्वयमेव भवति'[नृसिं० त्तर० ९ ] इत्यादिश्वुतावज्ञानात्म-
सहकार्यभावादनावरणत्वं न त्वज्ञानलक्षणाभावादित्यर्थः ॥५९॥ अ० टी०-नन्वस्त्येवात्रापि विरोधो मायायाः सर्वज्ञेश्वरत्वादिघटकत्वादज्ञानस्य तदयोगादिति चेन्मैवमज्ञानपक्षेऽपि तद्योगोपपत्तेरित्याह-अज्ञानमिति। जडशक्तिमा- त्रवपुपेति विक्षेपशक्तिप्राधान्येनेत्यर्थः । उक्तप्रकारेणेति द्वितीयाध्याये व्युत्पादितप्रकारेणे- त्यर्थः । तथा च या श्रुतौ सर्वज्ञेश्वरसंश्रया माया श्रूयते साऽज्ञानात्मिका मायैव भवति नाज्ञानादर्थान्तरभूतेति योजना। यस्मादेवं तस्मात्तोद्धिदिवेतीदं वर्णनं वैषम्यदुष्टं विषमोऽयमत्र दृष्टान्तस्त्वयोपन्यस्त इत्यर्थः ॥ ९९ ॥ सु० टी०-तथाऽपि नाज्ञानमात्रं साऽज्ञानमात्रे मायात्वाप्रसिद्धे- रिति तत्राSडह- मायाऽनिर्वचनीयमेव तु तमो मायाविनो गीयते द्रुष्टणां भ्रमकारणं विषयता मायाविता तस्य तु। तं हस्त्यादिविकल्पनाघटितवन्मूढाशया जन्तवो रज्जुं सर्पतयेव तद्विरहितं जानन्त्यबुद्धत्ववत् ॥ १०० ॥ मायेति। नाज्ञानमान्रं मायोच्यते किं तु द्रष्टभ्रमहेतुमायाविविषयम- ज्ञानम्। किभत्र मानमिति तत्राSऽह-तमिति। तं हि मायाविनं हस्त्या- दिहीनमषि हस्त्यादिमन्तमिव मूढाः पश्यन्तीत्यर्थः। वाचस्पतिमते तु जीवाश्रया ब्रह्मविषया अनन्ता अविद्याः। तासामाश्रितत्वोपाधिनाS- विद्यात्वम्। तद्वच्छिन्ना जीवा:। तासां च मिलितानां विषयित्वोपा-
१ क. "विना त० । २ ख. हिणं जा°।
Page 229
६६४ टीकादवपसमेतं- [ ३ तृतीयोऽच्यायः]
घिना मायात्वम्। तद्विषय ईश्वरः। तस्याश्र सत्वाद्येकैकगुणप्राधान्ये- नान्तर्यामित्वादिकम्। तया चाऽडरब्ध: साधरणप्पश्चः । तस्य च स्वाविद्यारब्धत्वमेव स्वग्राह्यत्वे तन्त्रं न त्वन्याविद्यानारब्घत्वमपि गौर- वात्। अतश्च न सर्वाविद्यारब्धस्यैकैकेमाग्राह्यत्वापत्तिः। एकमुक्तौ च यावदारम्मकनाशस्यैव द्रव्यनाशकत्वाद्वा खण्डपटन्यायाद्वा प्रपञ्चस- त्वाविरोधः प्रपश्च मेदैक्यभ्रमादिकल्पने गौरवादित्यस्मद्ुरवः ।।१०० ॥ अ० टी०-तथाऽप्यज्ञानमात्रे मायाशब्दप्रयोगादर्शनात्तत्पर्यायत्वमयुक्तमिति चेत्तत्राSSह- मायाऽनिर्वचनीयमिति। द्रम्टणां भ्रमकारणमनिर्वचनीयं तम एव मायाविनो मायेति गीयते न ततोऽर्थान्तरम्। यद्वाSनिर्वचनीयं तमोऽज्ञानं यत्प्रसिद्धं तदेव द्रष्टणां भ्रमकारणं सन्मायेति गीयते नाज्ञानमात्रमिति योजना। तस्य तमसो विषयता तु मायाविता। तथा च मायाविविषयं द्रष्टणां भ्रमोत्पादकं यदनिर्वचनीयमज्ञानं तन्मायाशब्दवाच्यमित्यज्ञानस्यावस्था- न्तरे मायाशब्दवाच्यत्वात्तत्पर्यायत्वादर्शनं न दोषावहमित्यभिप्रायः। प्रतिज्ञातमर्थं साधयति- तं हस्त्यादीति। आद्यो वतिप्रयोगो वस्तुवृत्तापेक्षः । वस्तुतो हस्त्यादिविकल्पनारू- पेणाघटितमपि तद्रपेण घटितमिव मूढाशया जन्तवो जानन्ति। वत्यर्थ स्फुठयति- तद्विरहितमिति विशेषणेन। वस्तुतो हस्त्यादिविकल्पनाविरहितमित्यर्थः । रज्जुं सर्पत- येवेति दृष्टान्तार्थ: स्पष्टः । मूढाशयत्वरं स्फुटयति-अबुद्धत्ववदिति। स्वार्थे भाव- निर्देशः । अबुद्धभिवापूर्वमिवेत्यर्थः । यद्वोपसंहृते मत्रादौ तं मायाविनं तद्विरहितमबुद्धत्वव- दज्ञातमिव जानन्तीत्यर्थः ॥ १०० ॥ सु० टी०-इतश्राज्ञानरूपत्वमित्याह- सम्यग्ज्ञानबलेन तं विरहितं हस्त्यादिभिर्यत्क्षणे जानीयुस्तदनन्तरं न स भवेद्धस्त्यादियुक्त: पुमान्। तेनास्मन्तम एव तत्र विषये मायाऽस्तु मायाविनः सोऽज्ञातो वयमज्ञकोटिपतिता मायी स तेनोच्यते॥१०१॥ सम्यग्ज्ञानेति। अधिष्ठानतत्त्वज्ञानेन सकार्याया निवृत्तिदर्शनादित्यर्थः । अतश्र द्रश््ज्ञानमेव मायिविषयम्। माया न तत्त्वान्तरमित्याह- तेनेति ॥ १०१ ॥ अ० टी०-मायाविविषयसम्यग्ज्ञानेन भ्रमनिवृत्तेश्र तद्विषयो भ्रम इत्याह- सम्यग्ज्ञानेति। यद्वा तद्विरहितमित्यादयुक्तं विशदयति-सम्यग्ज्ञानेति। हस्त्यादि- भिर्विरहितमिति संबन्धः । तस्माद्वष्टणामज्ञानमेव्र मायाविविषयं सन्मायाविनो मायेत्युच्यते।
१ ख. माया स।
Page 230
[ ३ वृतीयोऽष्यायः ] संक्षेपशारीरकम्। ६६५
विषयविषयित्वसंबन्धादेव लौकिकमायाविनो मायावित्वमिति सिद्धभित्युपसंहरति-तेनेति। स्पष्टाऽक्षरयोजना ॥ १०१ ॥ सु० टी० -- एतदृतिप्रसक्तमिति शङ्कते- नन्वेवं सति रज्जुखण्डलकमप्यज्ञातमज्ञानिभि- र्मायावीति गिरोच्यतां न तु तथा लोके प्रतिद्धि: क्रचित्। तेनाज्ञातविलक्षणत्वमुचितं मायाविनो लौकिका मायावीति पुमाक्षमेव निपुणं येनाऽडहुरत्यादरात् ॥१०२॥ नन्विति। रज्जुखण्डावरकतवेन स्थितमज्ञानं मायागिरा च रज्जुखण्डं च मायावीति गिरोच्यतांमित्यर्थः । इष्टापत्तिश्रेत्तत्राSडह-न त्िति । तस्मादन्यदेव तल्लोकानुसारावित्याह-तेनेति। मायाविनोऽज्ञातविलक्षण त्वमुचितमिति संबन्धः । निपुणं परवञ्चनकुशलम् ॥ १०२॥ अ० टी०-ननु चाज्ञानविषये सर्वत्र मायावित्वप्रसिद्वयभावादज्ञानविषयत्वादन्यदेव मायावित्वं वाच्यमिति चोदयति-नन्वेवं सतीति। खण्ड एव खण्डलकम्। मायावि- नोऽज्ञातविलक्षणत्वमुचितमित्यत्र हेतुमाह-लौकिका इति ॥१०२॥ सु० टी०-मायाज्ञानयोरमेदेऽपि वैलक्षण्यमुपपाद्यन्समाधत्ते- नैवं ध्वान्तिनिमित्तकारणमयं संगृह्य पूर्वक्षणे मन्त्रादिशचुरं प्रयत्नजनितं तज्जीवने वर्तते। तेनात्रैव तु लोकरूढिरभवन्मायावितागोचरा यद्वद्वाह्मणतापसिद्धिरभवन्मुक्त्वा परिव्रा जकान् ॥ ० ३ ।। नैवमिति-नाज्ञानविषयत्वमात्रं मायावित्वं किं तु तत्क्षोभकशालित्व. मित्यर्थः । रज्ज्वादेरवि साहश्याद्यज्ञानक्षोमकमस्तीति चेत्तताSह- संगह्येति। स्व्रयत्नोपात्ताज्ञानक्षोमकमन्त्राद्युपजीविनि मायाविशब्दस्य प्रसिद्धिर्भिक्षुव्यतिरिक्तेषु बाह्मणशब्दस्येवेत्यर्थः ॥ १०३॥ अ० टी०-सत्यमज्ञानविषयत्वमात्रान्न भवति मायाविव्यवहारः किंत्वज्ञानक्षोभक- मणिमन्त्रादिमखवमप्यपेक्ष्य मायावित्वव्यवहारस्ततो न विरोध इति परिहरति-नैवं
१ क. ग. स एत । २ क, ह्य सर्व।
Page 231
६६६ टीकादय समेतं- [ ३ तृतीयोऽव्यायः ]
भ्रान्सीति। पूर्वक्षणे द्रष्टणां भ्रमोत्पसे: पूर्वमेवायं पुरुषो मन्त्रादिलक्षणं प्रचुरमनेकविधं भ्रान्तिनिमित्तकारणं संगृह्य यस्माद्वर्तते तेन हेतुनाSत्रैव पुरुष एव मायावितागोचरा लोक- रूढिलोंकप्रसिद्धिरभवदिति योजना। ननु रज्ज्वादेरपि सादृश्यादिद्वारेणाज्ञानक्षोभकत्त्वम- स्तीति तत्रापि कथं मायावित्वप्रयोगो न भवेदित्यत आह-प्रयत्नजनितमिति। भ्रान्तिनिमित्तस्य पुरुषे प्रयत्नजनितत्वं पुरुषविशेषणेन स्फुटयति-तज्जीवन इति। रज्ज्वादेरज्ञानक्षोभकत्वमनियतं कदाचिद्दैवगत्यैव तद्धेतुत्वादयं तु प्रयत्नेन मण्यादिकमज्ञान- क्षोभकं संपाद तेनैव जीवंस्तापरो वर्तत इत्यतोैलोकस्यमायावित्वरसिद्धिर्नेतरत्रे त्यर्थः। रज्ज्वादेः पुरुपस्य चाज्ञानक्षोभकत्वाविशेषेऽपि पुरुष एव मायावित्वप्रसिद्धि- रित्यत्र दृष्टान्तमाह-यद्गुदिति। परिव्राजकानामपि ब्राह्मणत्वाविशेषे तान्विहाय यथा गृहस्थादिष्वेव ब्राह्मणताप्रसिद्धिरभवत्तैर्राह्मण्यजात्यभिमानस्य प्रयत्नेन धारणा- दिव्यर्थः ॥ १०३ ॥ सु० टी०-मवतु लोकेऽज्ञाने मायाशब्द: श्रुतिसूत्रगतस्य तु किमा- ्यातमिति चेत्तत्राSडह- एवं तावल्लोकसिद्धा न माया
शक्तिव्याप्तिप्रत्ययौ वर्णयित्वा
एवमिति। तत्साधनफलमाह-तत्रेति। लोकतः शक्तिव्याप्तिग्रहां छत्या लिङ्गेन च द्वेतस्य मायात्वं साध्यमित्यर्थः ॥१०४ ॥ अ० टी० -- एवं तावदज्ञानं प्रति वशित्वादेव पुंसो मायावित्वं न विषयत्वमात्राद्येन शुक्त्यादेरपि मायावित्वापादनप्रसङ्गोऽज्ञानस्यापि वश्यत्वादेव मायात्वं न विषयत्वभात्रादतो न द्रष्टणामपि मायावित्वप्रसङ्ग इति स्थिते श्रुत्यादिषु श्रूयमाणाऽपि परमेश्वरमाया लोक- सिद्धव्युत्पत्यनुसारेणेश्वरवश्यतया प्रत्यकूचिदाश्रयविषयमेवाभ्युपेया नार्थान्तरमिति सिद्ध- मित्यवान्तरप्रकृतमुपसंहरति -- एवं तावदिति। एवमुक्तयुक्त्या लोकसिद्धा माया मिथ्याज्ञानाद्यतो न भिद्तेऽतश्रात एव लोकवेदाधिकरणन्यायेन तत्र लौकिकमायायाम- ज्ञानात्मिकायां मायाशब्दस्य शक्तिं मायामयत्वलिङ्गस्य व्याप्ति च प्रति प्रत्ययौ वर्णयित्वा मायाविषयशक्तिव्याप्तिज्ञाने अज्ञानविषयत्वेन संपाद्येति यावत्। वेदाद्वैदिकवाक्यालिङ्गाच्च मानादन्यस्य द्वैतस्य मायामयत्वसिद्धिरज्ञानमयत्वसिद्धिवर्णिता भवतीति योजना। विमतं द्वैतमज्ञानमयं मायामयत्वाद्यदेवं तदेवं यथा लौकिकमायामयं हस्त्यश्वादि तथेदं तस्मात्तथेति प्रयोग: ॥।१०४ ॥।
Page 232
[३ तृतीयोऽध्यायः ] संक्षेपशाररिकम्॥ ६६७ अ० टी०-उक्तमेव प्रपञ्चयति- जाग्रद्दरमौ या प्रसिद्धेह माया निर्णीता सा तावदज्ञानमेव। तस्यां शक्तिंव्याप्तिविज्ञानसिद्धे विज्ञातव्या सैव वेदानुमानात् ॥१०५॥ जाग्रदिति। वेदानुमानादिति समाहारः । अन्यत्सुबोधम् ॥१०५॥ अ टी०-इममेव श्लोकार्थ व्यक्ती करोति-जाग्रद्भूमाविति। यद्वा हेतोर्वैय- घिकरण्यशङ्कामपाकरोति-जाग्रद्मूमाविति ।वेदश्वानुमानं च.वेदानुमानं तस्मादिति योज्यम्। सुगममन्यत् ॥ १०५ ।। सु० टी०-ततश्र स्वभेऽपि स्वप्रहगज्ञानाभिप्रायमेव 'मायामात्रम्' [ब ० सू० ३ । २। ३ ] इति सूत्रकृद्वचननित्याह- स्वभेऽप्येवं स्वमद्ङ्मोहमात्रा- दन्या काचिन्न प्रसिद्धाऽस्ति माया ॥ तत्रैवायं सुत्रकारस्य तस्मा- न्मायाशब्दो वर्तते नापरत्र ॥ १०६॥
अ० टी०-यस्मादज्ञानमेव माया नान्यदिति निश्चितं तस्मात्स्वभेऽपि स्वमदृगज्ञा- नव्यतिरेकेण मायाशब्दयोग्योऽर्थो नास्तीति सूत्रकृदज्ञानमयेऽपि रवप्रे मायाशब्दं प्रायु- डक्त मायामात्रं तु कात्स्न्येनानभिव्यक्तस्वरूपत्वात '[व्र० सू० ३। २ ।३] इति परमप्रकृतमुपसंहरति-स्वप्नेऽप्येवमिति। एवमिति जाग्रद्वदित्यर्थः । तत्रैवाज्ञानात्मके. मोह एवायं प्रसिद्धो मायाशब्दः सूत्रकारस्याभिमतो वर्तते नापरत्र सत्यार्थे न वर्तत इत्यर्थः ॥ १०६॥ सु० टी०-तथाऽप्यज्ञानमात्रं त्विति सूत्रे वक्तुमुचितं क्थं माया- मात्रमित्युक्तमिति चेत्सत्यं प्रयोजनवशादित्याह- शक्तिव्याप्तिपत्ययौ कारयिष्य- नसवमे स्थित्वा प्रत्यगज्ञानमात्रे।
२ क. ग. 'किव्ाति।.
Page 233
६६८ टीकादुय समेतं- [१ तृतीयोऽष्याय:]
मायावाचा लोकवत्सूत्रकारो वेंदं लिङ्ग चोपनेतुं प्रवृत्तः ।। १०७ । शक्तिव्याप्तीति। अज्ञानमात्रे मायाशब्दस्य शक्तिं दृश्यत्वादिलिङ्गस्य चाSडविद्यकत्वेन सह व्याप्तिं च ग्राहयिष्यल्ीकसिद्धस्वप्नवज्जागरित- ्याSडविद्यकत्वे 'मा्यां तु' [श्वे० ४।१०] इति वेदं हश्यत्वादि लिङ्ग, व मानत्वेन दर्शयितुं रवमे मायाशबदेन ठयवहृतवानित्यर्थः ॥१०७ ॥ अ० टी०-तथा सूत्रकारस्य स्वमे मायाशब्दयोगे किं प्रयोजनं लोके तत्र तत्प्र- सिद्धयभावेऽपीति चेत्तत्राऽऽह-शक्तिव्याप्तिप्रत्ययाविति। सूत्रकारः प्रत्यगज्ञान मात्रे मायाशब्दमायामयत्वलिक्योः शक्तिव्याप्तिप्रत्ययौ कारयिष्यन्सन्स्वमे स्थित्वा स्वम्- माश्रित्य लोकवद्वेदे च लिन्नं चकारान्मायाशब्दशक्ति चोपनेतुं मायावाचा प्रवृत्तो 'मायामात्रं तु' [ब्र० सू० ३ । २ । ३ ] इति सूत्रेण योजना। लौकिकशक्तिव्या- तिम्रहानुराधेन वेदेऽपि मायाशब्दं प्रत्यगज्ञानमात्रविषयतया नेतुमित्यर्थः ॥१७॥ सु० टी०-आवरकत्वेन मायाज्ञानयोरमेदो मगवताऽपि दर्शित इत्याह- अज्ञानमावरणमावरणं च माया सर्वेश्वरेण हरिणा हृढमप्यधायि। चैतन्यवस्तुन इति प्रतिपदमाना तत्वं तदेकमिति निश्वयतः प्रतीमः ॥१०८॥ अज्ञानमिति। चतन्यवस्तुनोऽज्ञानमेवाSऽवरणमावरणं च मायाऽभ्यधा- थीति संबन्ध: ॥। १०८ ॥ अ० टी०-भगवद्रीतावाक्यादप्यज्ञानमायापदयोरेकार्थत्वं गम्यत इत्याह-अज्ञा- नमावरणमिति। सर्वेश्वरेण सर्वसमेन परमाप्तेन हरिणा चैतन्यवस्तुनोऽज्ञानमावरण- मभ्यधायि। 'अज्ञानेनाऽडवृतं ज्ञानं तेन मुह्यन्ति जन्तवः' [भ०गी० ५।१५] इति। तथा माया च चैतन्यवस्तुन आवरणमभ्यधायि। 'न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः'[भ० गी० ७।१५] इति । दृढमिति क्रियां विशिषन्भगवद्वाक्यस्य प्रामाण्यदाढर्यं सूचयति। इतीत्थं भगवद्वाक्यं च प्रतिपद्यमानास्तन्मायाविद्ययोस्तत्त्वमेकमिति निश्चयतः प्रतीमो वयमिति योजना ॥ १०८ ॥ १ क. बेदे लि।
Page 234
[३ तृतीयोऽध्याय: ] संक्षेपशारीरकम्। ६६९ सु० टी० -- ज्ञाननिवत्थत्वादृवि तयोरेकत्वं मगवतैव दर्शितमि- त्याह- ज्ञानं निवर्तकमपि द्वितयस्य तस्य गीतागतः करुणया भगवानुवाच। तेनापि तत्त्वमिदमेकमिति प्रतीति- रानीयते कथितलक्षणतुल्यभावात् ॥१०९ ॥ ज्ञानभिति ॥१०९॥ अ० टी०-तथा 'ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः'। [भ०गी० ५१९] 'मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते। [भ०गी० ७।१४ ] इति च श्रीभगवत्पा- दैर्मायाज्ञानयोस्तत्त्वज्ञाननिवर्त्यत्वाभिधानाचाज्ञानमाययोः स्वरूपभेदो नास्तीति गम्यत इत्याह-ज्ञानं निवर्तकमिति। तस्य द्वितयस्यापीति संबन्धः । कथितलक्षणेति। विश्नमहेत्वनिर्वाच्या शक्तिर्मायाऽ्ञज्ञानं चैतदेवेति कथिलक्षणतुल्यभावादित्यर्थः । यद्वा ज्ञाना- वरकत्वतत्त्वज्ञाननिवर्त्यत्वरूपलक्षणसाम्यादित्यर्थः ॥१०९॥ सु० दी० -- मगवद्वाक्यमेव विमज्य दर्शयति- नाहं प्रकाश इति तावदनेन मायाऽ- ज्ञानेन चाऽऽवृतमितीतरदप्यभाणि। मामेव ये तु परमं पुरुषं प्रपन्ना ज्ञानेन तु प्रभृतिना च धिया निवृचिः ॥११०॥ नाहमिति।'नाहं प्रकाशः सर्वस्य योगमायासमावृतः'[म० गी० ७ २५ ] इत्यनेन मायाऽडवरणमिति।'अज्ञानेनाSSवृतं ज्ञानं तेन मुह्यन्ति जन्तवः' [म० गी० ५।१५]इत्यनेन चाज्ञानमावरकममाणि। कि तदितरदिति तत्राSऽह-मामैवेति। 'मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते'[म० गी० ७।१४]'ज्ञानेन तु तद्ज्ञानं येषां नाशितमा- (मन:'[भ० गी०५।१६] इत्यादिना ज्ञाननिव्त्यत्वममाणीत्यर्थ:।११०। अ० टी०-मायाज्ञानयोरावरकत्वेन तत्त्वज्ञाननिवर्त्यतवेन च पूर्वश्लोकयोरर्थादुक्ता- न्येव भगवद्वाक्यान्युदाहरति -- नाहमिति। 'नाहं प्रकाशः सर्वस्य योगमायासमा-
१ क. ग. "प्रयत्नाज्ज्ञा।
Page 235
६७० टीकाददयसमेत- [र तृतीयोऽथ्याय: ]
वृतः ' [भ० गी० ७।२५] इत्यनेन तावन्मायाऽभाणीति संबन्धः। 'अज्ञानेनाSSवृतं ज्ञानम्।' [भ० गी०५।१५] चकारात् 'अव्रजानन्ति मां मूढाः' [भ०गी० ९।११] इति चेतरदज्ञानमप्यभाणीति योजना। आवरकत्वं मायाज्ञानयोरुदाहृत्य ज्ञाननिवरत्यत्वमपि तयोर्भगवदुक्तमुदाहरति -- 'मामेव. ये प्रपद्यन्ते मायामेतां तरन्ति ते' [भ० गी० ७:१४]. 'ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः' [भ० गी० ५ ।१६] इतिप्रभृतिगे- व्यादिवाक्येन घिया त्त्त्ज्ञानेन मायाज्ञानयोर्निवृत्तिश्चाभाणीत्यर्थः ॥ ११०॥ सु० टी०-नन्वावरकत्वज्ञाननिवर्त्यत्वाविशेषेऽपिः नानयोरमेदो
ज्ञानस्य प्रागभावादपरमभिहितं प्रत्यगज्ञानमेत- न्संसारव्याधिबीजं कथितनयवशादेव बुध्यस्व बुद्धया। ज्ञानेनाज्ञाननाशं कथयति भगवानेष गीतागतः स- न्न ज्ञानात्मागभावक्षय इति घटतेतत्क्षये तत्पसूतेः॥१११॥ ज्ञानस्येति। नाभावस्याऽSवरकत्वमित्युक्तत्वान्भ्ावरूपमेव वुध्यस्वेत्यर्थः। नापि ज्ञाननिवत्पत्वमप्यभावस्येत्याह-न ज्ञानादिति। तक्ष्षय इति। षछ्ठवर्थे: सप्तमी। तत्प्रसूतेरिति भावप्रधानं तत्क्षयस्य तत्प्रसूतित्वाित्यर्थः । स्वप्रागमावनिवृत्तिरूपमेव ज्ञानमिति माव: ॥१११॥ अ० टी०-एवमज्ञानमाययोरेकत्वाभिधानान्न ज्ञानाभावमात्रमज्ञानमिति च. भगव- द्वचनप्रामाण्यादेव निश्चीयत इत्याह-ज्ञानस्य प्रागमावादिति । कथितनयत्- शादेवेति भगवद्वाक्योपबृंहितोक्तयुक्तिकदम्बादित्यर्थः । भगवताऽ्ज्ञानस्य ज्ञाननिवर्त्य -- त्वाभिधानाच् तस्य ज्ञानाभावान्यत्वसिद्धिरित्याह-ज्ञानेनेति।' मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते' [भ०गी०७।१४ ] इति ज्ञानेनाज्ञानहानि गीतागतः सन्नेष भगवान्कथयतीत्यर्थः । कथमज्ञानस्यैतावता ज्ञानप्रागभावान्यत्वसिद्धिस्तक्य स्वप्रतियोगि- निवर्त्यत्वादिति चेन्मैवं तदसंभवादित्याह-न ज्ञानादिति । अयमर्थः-अभावत- त्प्रतियोगिनोरेकत्रैकदा विरोधाद्यौगपद्यं तावन्न संभवति। तथा च विद्यमाने प्रागभावे न तत्प्रतियोगिन: संभवः। न चानुत्पन्ोऽलब्धात्मकश्व प्रतियोगी स्वप्रागभावं निवर्तयेत्। [अन्त्ययोस्तु पक्षयोरन ज्ञांननिवर्त्यत्ं विरोधाभावात्।] अतो निवृत्ते प्रागभावे तत्प्रतियोगिनः प्रसुतिर्वक्तव्या प्रागभावप्रतियोग्युत्पत्त्योयौगपदं वा तयोरेकत्वं वा वक्तव्यं सर्वथाऽपि न ज्ञाननिवर्त्यस्तत्प्रागभाव इति ज्ञानप्रागभावादन्यदेवाज्ञानपदवाच्यं लब्वात्मकेन ज्ञानेन निव्त्थत इति युक्तमभावान्यत्वमज्ञानस्थेति ॥ १११॥
१ क. ग. ते युक्तितः क्षेपतोऽस्य।
Page 236
[३ तृतीयोऽध्यायः ] संक्षेपशारीरकम्। ६७१
सु० टी०-प्रासदिकं समाप्य प्रकृतमुपसेहरति- मायामात्रमतः समस्तमभवत्स्वभे प्रसिद्धं हशः कर्तृत्वादि तमोमयं वितथमेवाज्ञानमानं यतः । तस्माज्ागरितेऽपि चैवदभवत्स्वाभाविकं यत्पुन- स्वादक्षें तव सर्वदैव तु भवेत्स्वमेऽपि चैतन्यवत् ॥११२॥ मायामात्रमिति । स्वामाविकत्वे बाधकमाह-यत्पुनरिति। तादृशं स्वाभा- विकं कर्तृत्वादे: स्वाभाविकत्वे स्वप्रेऽप्यनवृत्ति: स्याच्चैतन्यववित्यर्थ: #२१२॥ अ० टी०-एवं प्रासङ्गिकं सूत्रकारस्य मायाशब्दप्रयोगकृत्यं प्रदर्श्य प्रकृतमेव कार्त्स्येनानभिव्यक्तस्वरूपत्वेन स्वन्मिथ्यात्वमुक्तमुपसंहरति-मायामात्रमिति। दृश आत्मनः स्वमे प्रसिद्ध कर्तृत्वादि समस्तमत उक्तयुक्तर्मायामात्रं तमोमयं वितथं मिथ्यैवा- भवद्यतोऽज्ञानमात्रमिति योजना। यथा स्वाप्नस्य कर्तृत्वादिव्यवहारस्याSSगमापायित्वा- न्मायातमोमात्रतं तथा जागरितेऽपि कर्तृत्वप्रमुखस्य व्यवहारस्य मायामयत्वमेव्र न स्वाभाविकत्वमित्येतत्सिद्धमित्याह-तस्मादिति। एतदभवत्कर्तृत्वादि मायिकमित्येतत्सिद्ध- मित्यर्थः । स्वाभाविकत्वे दोषं वदन्मायामयत्वं द्रढयति-स्वाभाविकं यत्पुनरिति। यदि पुनरित्यर्थः। तादृक्षं तादृशं कर्तृत्वादिलक्षणं तवाऽडत्मनो यदि पुनः स्वाभाविकं भवेन्तदा चैतन्यवदेव स्वमेऽपि सुषुत्तिप्रलयमुक्तिष्वपि भवेन्न च भवति जाग्रद्वयवहारस्या- वस्थान्तरे व्यभिचारादत आगन्तुकत्वान्मायामयमेत् सर्व व्यवहारजातं न स्वाभाविक- मित्यर्थ: ॥ ११२ ॥ सु०. टी०-कादाचित्कमपि स्वाभाविकमस्तु पक्कामघटगतरक्तत्व- इयामत्ववदिति चेन्न विकारिणि तत्संभवेऽपि कूटस्थात्मन्यसंभवादि- त्याह- सत्यप्यलुप्तचिति यत्त्वयि नास्ति कर्तृ- भोक्तृप्रमातृमुखमन्यदपीह किंचित्। जाग्रद्दशावगतमप्यखिलं न तत्ते स्वाभाविकं भवितुमुत्सहते विरोधात् ॥११३ ॥
१ क. मेवसि°।
Page 237
६७२ टीकाट्वय समेतं- { ३ तृतीयोऽष्याय: ] सत्यपीति। म हालसचिदूपस्थाऽडगन्तुकं कर्तृत्वादि सहजं स्वादि- त्यर्थ: ॥११३॥ अ० टी०-ननु किमित्यागन्तुकत्वमात्रेण मायामयत्वमांत्मनि कर्तृत्वादेरिष्यते कादा- चित्कत्वेऽप्यभ्रश्यामत्वादिवत्परमार्थत्वेऽपि विरोधाभावादिति चेनमैवमात्मनः कूटस्थत्वेना- परिणामित्कदित्याह-सत्यपीति । यत्राऽडगन्तुकधर्मयोगः पारमार्थिकस्तत्र धर्मिण- मविकृत्य न धर्माविर्भावतिरोभावौ पूर्वरूपे स्थिते तत्र रूपान्तरासंभवात्पूर्वरूपस्य चाSS श्रये विनाशायोगादिति परिणामिनः सावयवस्य द्रव्यस्य स्यादागन्तुकधर्मयोगित्वं पार- मार्थिकं न कूटस्थस्य यतस्त्वय्यलुप्तचिति कूटस्थचित्स्व्रूपे सत्यपि यथावस्थितेऽपि यत्कर्तृत्वा(ता) प्रमुखं कार्यकारणभोग्यभोगप्रमेयप्रमितिरूपमम्यदप्याधिदैविकादि जाग्रद्दशा- वगतमप्यखिल व्यवहारजातं नास्ति। यत्त्रयि स्वरूपेण सत्यपि त्वां व्यभिचरतीति यावत्तत्ते तव स्वाभाविकं भवितुं नोत्सहते विरोधाद्वयभिचारिणो धर्मस्य धर्मिस्वभावत्व- विरोधादिति योजना ॥ ११३ ॥ सु० टी०-कथमिति चेत्स्वाभाविकस्यानागन्तुकत्वेन व्याप्तरित्याह- स्वाभाविकी हुतभुजः खलु नोष्णता तं जातु प्रमुश्चति न तामपि जातवेदाः । एवं भवन्तमपि जागरितोपलब्धं स्वभे भवानपि च जामरितं न मुश्चेत् ॥११४ ॥ स्वाभाविकीति। यथोष्णता वहिं न मुख्त्येवं जागरितमपि भवन्तं न व्यमिचरेदित्यर्थः ॥११४॥ अ० टी०-यद्यस्य स्वाभाविकं तन्न तस्याऽडगन्तुकं यथाऽसेरौष्ण्यमिसि स्वाभाविक- स्यानागन्तुकत्वेन व्यापतिं दर्शयन्नुक्तविरोधं स्कुटयति-स्वाभाविकी हुतमुज इति। एवं हुतभुज उष्णतावद्यदि तव जागरितं कर्तृताप्रमुखं स्वाभाविकं स्यात्तर्हि जागरितोपलब्धं स्वमेपि भवन्तं न मु्चेत्। भवानपि च जागरितं न मुञ्चेन्मुञ्चति च भवान्स्वमे जागरितं जागरितं च भवन्तमित्यतो न तव स्वाभाविकं कर्तृत्वादीत्यर्थः॥।११४॥ सु० टी० -- ननु न मुख्त्येवाऽडत्मा जागरितं 'यानि हेव जाग्रत्प- इयति तानि सुप्तः'[बृह० ४।३।१४ ] इति श्रुतेजगिरोपलब्धाना- मेव रवप्े दृश्यमानत्वादिति पेत्तत्राSऽह- स्वभे न जागरितमस्ति मृषात्वहेतोः स्वमस्य सत्यमिति जागरितं वद्ति। १ क. ग. 'घा चहे।
Page 238
[ ३ तृतीयोऽन्याय: ] संक्षेपशारीरकम्। ६७३
स्वमस्य बाधनबलादनृतत्वमुक्तं तस्माच्चिदेव तव रूपमतोऽन्यदार्तम् ॥११५॥ स्वम इति। अनृतत्वेति। स्वप्रे जागरितवद्यवहारस्य मायामात्रत्वेनोक्तत्वा- दित्यर्थः। ननु जागरस्यापि मिथ्यात्वं तुल्यमिति तत्राSSह-सत्यमिति।· बह्मज्ञानातपूर्वे बाधामावाद्यावहारिक सत्यत्वमस्तीत्यर्थः । स्वमस्तु न तथा बाध्यत्वाावृत्याह-स्वप्नस्येति ।।११५।। अ० टी०-ननु सति व्यभिचारे कर्तृत्वादेरस्वाभाविकता स्यात्स एव नास्त्यत एवं भवन्तमित्याद्युक्तमसंगतमित्याशड्क्योक्तं व्यभिचारमुपपादयति-रवप्े न जाग- रितमस्तीति। कुतो नासिति तत्रापि जागरितवदेव व्यवहारदर्शनादित्यत आह- मृषात्वहेतोः स्वप्नस्येति। अनृतत्वहेतोरिति वा पाठः । स्वमस्य मृषात्वं लोकप्र- सिद्धं प्रागुपपादितं स्मर्तव्यमित्यर्थः । ननु जागरितस्याप्यनृतत्वं तव तुल्यमिति चेत्सत्यं तथाऽपि व्यवहर्तृलोकदष्टया तत्रानृतत्वप्रसिद्धयभावात्सत्यत्वस्यैव प्रसिद्धेः सत्यं जागरित- मित्याह-सत्यमिति। जागरितं वदन्तीति स्वभेऽनृतत्वहेत्वसिद्धिमाशडक्याSSह- स्वप्रस्येति। बाधनबलाव्व्यवहर्तृणामेव व्यवहारकाले बाधितत्वप्रतीतिबलात्स्वम्स्यानृत- त्वमुक्तं जागरिते तददर्शनात्सत्यं जागरितं वदन्तीति चोक्तमिति योज्यम्। यस्मादेवं त्वयि कर्तृत्वादिसंसारधर्म भगन्तुकत्वान्न स्वाभाविकस्तस्मात्सदैव कूटस्थशुद्धचित्सदानन्दरूप एव त्वमित्युपसंहरति-तस्मादिति। अतश्विद्रूपादन्यत्वयि प्रतीयमानमार्तं विनाशि न स्रभाविकमित्यर्थः ॥११५॥ सु० टी०-ननु प्रमात्रादिमपञ्चस्य मिथ्यात्वे तस्य बह्मज्ञानसाध- नत्वं न स्यादित्याशङ्क्य 'सूचकश्र हि' (बह्म० सू० ३। २।४) इत्यादिन्यायमेव स्मारयति- स्वमोपलब्धमखिलं वितथं तथाऽपि तत्सूचयत्यवितथं परमार्थवस्तु । जाग्रद्दशावगतमध्यनृतं तथाऽपि तद्वत्तदप्यवगतिक्षममेव भूम्रः॥ ११६ ॥ स्वप्रोपलब्धमिति। अवितर्थ स्वप्नटष्टवाधितविलक्षणम्। परमार्थवस्तु उयवहारसमर्थेट्टादिरूपम् । स्वप्नस्यासत्यस्यापि सत्यबोधकत्ववज्जागर- स्यापि ब्रह्मधीहेतुत्वमित्यर्थः ॥११६ ॥ ८५
Page 239
६७४ टीकाट्वुय समेतें- [३ तृतीयोडध्यायः ]
अ० टी०-यदि जागरितमपि वस्तुतोऽसत्यं तर्हि तस्य तत्वज्ञानहेतुत्वमपि न स्यादित्याशङ्क्य 'सूचकश्च हि श्रुतेशचक्षते च तद्विदः' [त्र० सू० ३। २। ४], इति सूत्रोक्तन्यायमाश्रित्य स्वरूपतो मिथ्याभूतस्यापि सत्यार्थबोधकात्वं न विरुद्धमित्युत्तरमाह- स्थनोपलब्धमखिलमिति। निगदव्याख्यातं पद्यम् ।। ११६ ।। सु० टी०-ननु जागरस्य मिथ्यात्वे बाधः स्यादबाधे वा स्वम- स्यापि न स्यादित्याशङ्क्य सत्यमात्यन्तिकबाधो न द्योरप्पस्ति सवति तु क्षिपोपरमात्स्वप्ने बाधबुद्धिरिति प्रोढिमात्रेणाSडह- स्वमश्नमोऽपि सुळतादिनिबन्धनत्वा- नावत्परिस्फुरति यावददृष्टमस्ति । क्षीणे तु तत्र लयमेति जगन्निदाने गाढे तमस्यनुभवावगते प्रतीचः ॥११७॥ स्वमभ्म इति। 'कर्मणामल्पमहताम्' इति न्यायेनाल्पसुकृताविनिमित्त- त्वादल्पकालं स्फुरतीत्वर्थः । नन्वेवमनन्ताहट्टार्पयोर्जाग्रत्स्वप्रयोर्नि- त्यानुवृत्ती सुपुप्त्यमावः स्वादित्याशडक्याSSह-क्षीणे तििति। तत्रादृटे क्षीण इति संबन्धः । अदष्टमवाहानन्त्येऽपि व्यक्तिरुपेणनित्यत्वातस्व- प्रजागरप्रद्कर्मव्यक्तिनाशे तयोनाशादुत्तरभोगपव्कर्मानुद्वोधे मध्ये सुष्ु- प्त्युपपत्तिरित्यर्थः ।। ११७॥ अ० टी०-ननु स्वप्जागरितयोर्यद्यनृतत्वं स्वरूपतस्तुल्यं तर्हि कं विशेषमाश्रित्य व्यवहारे तयोर्मृपात्वसत्यत्वाभ्यां वैपम्यमुक्तमिति चेत्तत्राSSह-स्वप्नभ्रमोऽपीति । अपि- शब्दो जाग्रदूदृष्टान्तार्थः । अयमर्थ :- यथा जागरितं पुण्यापुण्यकर्मनिवन्धनं तथा स्वमनोऽपि तननिबन्धन एवेति समानं यद्यपि तथाऽपि जाग्रद्गोगो यथा जावज्जीवमेकेनैव शरीरेण निर्वर्तनीय इति जन्मादिमरणान्तं तदारम्भककर्मणामनुपरमो नैवं स्वप्नभोगहेतुकर्मणां तेषां प्रतिस्वमं भिन्नजातीयशरीरादिहेतुतायाः कार्यदर्शनोन्नेयखवात् । तथा च स्वपार- म्भकयोः सुकृतदुष्कृतयोः क्षुद्रत्वात्प्रियमेव स्त्रकार्य कृत्वोपरमात्तन्निबन्धनस्वप्रस्यापि क्षिप्रमेवोपरमो भवतीति सर्वेषां स्वप्नानां परस्परासंगतार्थत्वांक्व्वहारकाल एव तद्वाधप्रतीते- स्तत्र मृषात्वं व्यवहियते। जागरितहेतुकर्मणां यावज्जीवभावित्वेनाक्षुद्रत्वात्स्वकार्य भोगम- समाप्यानुपरमात्प्रतिजागरणं च संगतार्थत्वप्रतीतेस्तस्य बाधितत्वाननुभवाव्यवहारे तस्य
१ क. व. गतप।
Page 240
[३ तृतीयोंऽध्यायः ] संक्षेपशारीरकमू। ६७५
सत्यत्वमिष्यते । सुषुप्तौ स्वम्वज्जागरितस्योपरमेंऽपि पुनर्जागरितान्तरस्य पूर्वप्रारब्धक- र्मशेषफलत्वात्परस्परसंवाद इति विशनोपपत्तेरिति । एषाऽक्षरयोजना यावतसुकृतादिरूपमदृष्ट- मस्ति तावत्स्वप्रभ्नमोऽपि परिस्फुरति जाग्रद्वत्सुकृतादिनिबन्धत्वात्। यथा जाग्रङ्गमो याव- त्कर्मक्षयमनुवर्तते तथा स्वमन्रमोऽपीत्यविशिष्टं कर्मणश्चिराचिरोपरमनिबन्धनं तु वैषम्य- मित्यर्थ: ।. कर्मक्षयादुपरमणं स्वप्रजागरितयोः स्वरकारणे लयमात्रं न. बाध इत्याह- क्षीणे त्विति। तत्र तस्मिन्स्वहेतुकर्मणि क्षीणे तु जगननिदाने गाढे तमसि जागरि तवत्स्वमोऽपि. लयमेति । किलक्षणे तमसि प्रतीचः प्रत्यगात्मनोऽनुभवावगते साक्षिमात्र- सिद्धे साभास इत्यर्थः । स्वप्रजागरितयोः साक्षाद्वाधः प्रत्यक्तत्त्वब्रह्मावगमादेव। ततः प्राक कारणे लयमात्रं तत्रापि मिथः स्वमानामसङ्गानां क्षद्रत्वाच्च बाधितत्वव्यवहारस्तद्वैपरीत्या- ज्ागरिते तदभाव इति भावः । अस्यापरा व्याख्या स्वप्नवत्स्वरूपतो मिथ्यात्वेऽपि जागरि- तस्य भूमावगतिक्षमत्वं संभवति स्वपस्य सत्यार्थसूचकत्ववदित्युक्तम् । तत्र स्वरूपतोऽसतः स्वमस्यैव तावत्कथं सत्यार्थसूचकत्व्रसंभव इत्याशङ्क्य तस्यापि जागरितवत्पुण्यापुण्य- निबन्धनत्वान्नात्यन्तासत्वं परमार्थसद्विलक्षणत्वाभिप्रायेणैव मिथ्यात्वं विवक्षितं सदसदवि- ळक्षणत्वस्यैव मिथ्याशब्दार्थत्वादित्यभिप्रेत्याSSह-स्वम्नभ्नमोऽपीति ।. अक्षरार्थः. पूर्ववत् ।। ११७ । सु० टी०-तथाऽपि क्षणिकाया: करिपायाः कर्थं स्थायिस्वप्रजागर- कारणत्वमिति चेत्तत्राSSह- निष्पादिता सकलकारकवर्गसाध्या. सर्वेण कारकगणेन सहैव तावत्।. तिष्ठेत्क्िया परमसूक्ष्मतयेक्ष्यमाणा, सर्वेश्वरेण पुरुषः फलमत्ति यावत् ॥११८॥ निष्पादितेति । स्थलरूपेण हि क्षणिका क्रिया सूक्ष्मात्मनाऽनुस्थायिनी ततश्र सूक्ष्मात्मना सर्वकारकैः सहैव तावत्तिष्ठेद्यावत्पुरुषः फलमनीति संबन्ध: । तत्र हेतु :- निष्पादितेति। फलार्थ निष्पादितत्वादित्यर्थः । कारकै: सहावस्थाने हेतु :- सकलेति ।. कथमचेतनायाः क्रियायाः फलदातृत्वं तन्राSह-ईक्ष्यमाणेति। ईक्षितेश्वर एवानुरुपं फलं ददती त्यर्थः ।। ११८॥
१ ख. घ. रणग।
Page 241
६७६ [३ तृतीयोऽन्यापः
अ० टी०-ननु यावददृष्टमस्ति तावत्परिस्फुरतीत्ययुक्ततं कर्मणः क्षणमात्रापवर्गिण: फलोपभोगपर्यन्तमवस्थानासंभवादिति चेन्नैष दोषस्तस्यापूर्वात्मनाSवस्थानसंभवादित्याह- निष्पादितेति। पुरुषेणाधिकारिणा निष्पादिता यागादिक्रिया परमसूक्ष्मतयाऽतिसू- क्षमरूपेण तावत्तिष्ठेदिति क्रियाकारकयोजना। यत इयं सकलकारकवर्गेण चरुपुरोडाश- मांसाउयादिना साध्याऽतः सर्वेण तेन कारकगणेन सहैव यदाश्रिता क्रिया निष्पन तैराश्रयैः सहैव सूक्ष्मतयाऽपूर्वात्मना तिष्ठेदित्यर्थः । एतेन क्रियायाः परिणामासंभवाद- वस्थान्तरापेक्षावस्थानानुपपत्तिरिति शङ्का निरस्ता वेदितन्या। कियत्पर्यन्तं तिष्ठेदिति तदाह-यावत् पुरुषो यजमानः फलमत्ति भुडक्ते तावत्तिष्ठतीत्यर्थः । ननु कथं स्वाश्रयैः सह नष्टस्प कर्मणस्तावदवस्थानं न स्वभावविरोधादिति चेत्तत्राऽडह-ईक्ष्य. माणा सर्वेश्वरेणेति। एतदुक्तं भवति -- यद्यपि कर्मोत्पन्नमात्रविनाशस्वभावादपदृ. ज्यत एव तथाऽपि तत्साक्षिणा कर्माध्यक्षेणेश्वरेण तदनुरूपस्य फलस्य कालान्तरे समर्प- णात्तदीक्षाविषयत्वेन विपरिवर्तमानं सत्कर्म स्वफलभोगपर्यन्तं तिष्ठतीति कल्प्यते. । संस्का- ररूपेण च परमेश्वरसाक्षिकं सत्तिष्ठतीति सर्वथा कर्मणः फलहेतुताया वेदेन बोधितत्वा- दथा तस्य फलानुकूलता भवति तथाऽवस्थानमङ्गी करियत इति ॥११८॥ सु० टी०-जाग्रत्स्वप्रयोरज्ञानकार्यत्वात्कथं कर्मफलत्वमिति चेत-
स्वमश्र जागरितमप्युभयं तवैव मोहपसूतमपि कर्मफलं विभाति। कर्मक्षये तदखिलं परमात्ममाया- माश्रित्य सूक्ष्यमवतिष्ठत एव लीनम् ॥ ११९॥ स्वमश्वेति। 'पुण्यः पुण्येन' [बृह० ४।४।५] इत्यादिश्ठुतेवि- चित्रत्वाञ्त कर्मफलत्वमपीत्यर्थः। तर्हि कर्मैव कारणमस्तु किमज्ञानेनेति तत्राSSह-कर्मक्षय इति। कर्मनिमित्तकारणमुपादाना पेक्षायामात्मन: कूट- स्थस्योपादानत्वासंमवात्तन्निर्वाहकमज्ञानमपि कल्प्यत इत्यर्थ: ११९॥ अ० टी०-नन्वेवंसति स्वमनस्यापि न भ्रान्तित्वं कर्मानुरोधित्वाजाम्रद्वदिति चेन्मैवं जागरितस्यापि भ्रान्तित्वाङ्कान्तित्वेऽपि कर्मफलत्वाविरोधादित्याह-स्वप्रश्रेति। कर्म- फलं विभाति व्यावहारिक्या दृष्टयेति शेषः । एवं तर्हि कर्मफलत्वात्संसारस्य कर्मक्षयात्क्षय इति ज्ञानवैयर्थ्य स्यादिति चेन्नेत्याह-कर्मक्षय इति। तदखिलं जाग्रत्स्वमव्यवहार- गोचरतामापनं संसारजातं कर्मक्षये फलभोगेन कर्मविनाशे सति परमात्ममायां स्वमूलका -. -.
Page 242
[ ३ तृतीयोऽष्याय: ] संक्षेपशारीरकम्। ६७७
रणमाश्रित्य तत्र लीनं संस्काररूपतामापन्नं सत्सूक्ष्मं यथा स्यात्तथाऽवतिष्ठत एव नात्य- न्तमुच्छिद्यतेऽतो न त्त्वज्ञानवैयर्थ्यमित्यर्थः । एतेनार्थान्मोहप्रसूतत्वमपि जाग्रत्स्वन्योः संमर्थितं वेदितव्यमतत्प्रसूतस्य तस्मिल्ठँयायोगादिति ॥११९॥ सु०टी०-ननु जाग्रत्स्वप्रयोरज्ञातात्मलीनत्वे प्माणामावात्किम- ज्ञानकल्पनपेति तत्राSडहं- उत्थानलिङ्गकतकल्पनयैतदेवं विज्ञायते न तु तथाऽवगतं तदानीम्। अज्ञानलीनमखिलं जगदस्ति सूक्ष्मं तत्रैव नानुभवनादवगम्यते हि॥ १२० ॥ उत्थानेति । निरन्वयनाशे पुनरुत्थानानुपपत्तेरज्ञानलीनत्वेनावस्थितिः कल्प्यत हत्पर्थः । ननु सौषुप्तानुमवादेव तत्सिद्धेः किमनुमानेनेति तत्राSSह-नख्विति। अननुभवमेव दर्शयति-अज्ञानेति ॥१२० ॥ अ० टी०-यद्येवं सुषुप्तेऽपि संसारस्य प्रत्यगज्ञानशेषतयाऽवस्थानमस्ति तर्हि तदाङ् ज्ञानस्य संसारसंस्कारस्य च विद्यमानत्वात् 'तदभावो नाडीषु तच्छूतेरात्मनि च' [ब्र० सू० ३ । २ । ७ ] इति न्यायेन समर्थ्यमाना प्रत्यगात्मनो विशुद्धिरनुपपन्ना स्यादिति चेत्तत्राऽडह-उत्थानेति। सुषुप्तस्य पुनरुत्थानरूपं यल्लिज्गं तत्कता या कल्पनाऽनुमानरूपा तयैवैतदेवं विज्ञायते सम्यगव्यवधानेन ब्रह्मसंपन्नत्वे ततः पुनरुत्थाना- संभवादस्ति तत्र व्यवधानमिति पुनरुत्थानात्संसारबीजस्य सुषुप्तावप्यवस्थानं कल्प्यत इत्यर्थः । तदानीं सुषुप्तौ तथा नावगतमज्ञानतर्त्कायसद्भावः सौषुप्तानुभवेन न प्रतीत इत्यर्थः । तथेत्युक्तमेव प्रपञ्चयति-अज्ञानलीनमिति । सूक्ष्ममित्यतः परस्तादितिशब्दोडब्याह- र्तव्यः। इति तत्र सुषुप्तावनुभवनान्नैवावगम्यते हीत्यन्वयः ॥ १२० ॥ सु० टी०-तथाऽप्यज्ञाने लीनमिति कुतोऽन्यत्रैव लीनं कि न स्थादिति चेत्तत्राSSह- अज्ञानमेव तु तदाऽवगतं त्वदीयं येनोत्थितो वदसि नावगतं मयाडय। सुप्तेन किंचिदपि गादतमस्यभूवं क्षिप्: समस्तविषयावगमासमर्थः ॥ १२१॥
१ क, येनान्वितो।
Page 243
६७८ टीका दूय समेतं- [ ३. तृतीयोऽध्याय: ].
अज्ञानमेवेति। अज्ञानस्यानुमवात्तत्परित्यज्याननुभूयमानस्यान्यस्यकल्प- नातुपपत्तिरित्यर्थः ।. किमज्ञानानुमवे प्रमाणमिति तत्राSSह-येने- ति । १२१ ॥ अ.० टी०-ननु सौषुप्तानुभवोऽप्युत्थितस्य परामर्शबलात्तादशः कल्प्यत इति चेत्सत्यं सोऽप्यज्ञानमात्रविषय एव न ततोऽधिकविषय इत्याह-अज्ञानमेव त्विति। तदा सुगुप्तौ व्वदीयमज्ञानभेवावगतं न तत्र लीनं जगदपीति गम्यत इति शेषः। कुतो येन कारणेन व्वमुत्थितः सन्नद सुप्तेन सुषुप्तेन मया किंचिदपि नावगतमिति वदसि। गाढे तमसि क्षिप्ो मग्न: सन्समस्तविषयावगमासमर्थोडभूवमिति च वदस्यतो नाज्ञानातिरिक्तं सुुप्तेऽनु- सूतमस्तीति गम्यत इत्यर्थ: ॥१२१ ॥ सु० टी०-ज्ञानाभावविषयोडयं परामर्श इति चेत्तत्राSडह- अज्ञानमत्र यदि नानुभवात्प्रसिद्धं नाज्ञासिषं त्विति कुतस्तव निश्रयोऽभूत्। अज्ञानमस्त्यवगतं च. सुषुप्तिकाले तेनेति निश्ििनु तवानुभवप्रमाणात्॥। १२२॥ अज्ञानमिति। तस्य धर्मिपरतियोगिज्ञानसापेक्षस्य सुषुप्ावसंभवावज्ञाना- नुभवं बिना परामर्शः कुतः स्यावित्यर्थः । फलितमाह-अज्ञान- मिति ॥१२२ ॥ अ० टी०-ननु सुघुप्तावज्ञानानुभवोऽपि नाभूत्परामर्शस्य, विकल्पमात्रत्वात्तस्य चाप्र- माणत्वात्सौषुप्तानुभवकल्पकत्वायोगादिति चेन्मैवं विकल्पस्यापि निर्मूलत्वायोगात्तेन स्वमूल- कल्पनं घदत इत्यभिप्रेत्य पूर्वपद्योक्तमेवार्थ व्यतिरेकमुखेणोपपादयति-अज्ञानमत्रेति। तेन नाज्ञासिषमिति परामर्शन कल्प्यमानात्तन्मूलात्तवानुभवप्रमाणाननिर्विकल्पानुभवात्सुषुप्ति- कालेऽज्ञानमस्ति तचावगतमिति निश्चिनु विश्वसिहीति योजना ॥ १२२॥ सु०टी-ननु सुषुप्तावज्ञानानुमवसत्वरे सुपुप्तित्वं मज्येतेति तत्राSSह- स्पष्टानुभूतिविषयो न तमस्तदानी- मासीदहंकरणहीनतयाडधुना तु। निष्पाय कार्यमिदमंशमहं न. जाने मूढोडस्मि चेत्यवगतेर्विषयत्वमागात ।।१२३॥ स्पष्टेति। तहिं जागरेपि न स्पदमनुभूयेतेति चेत्तव्ाSह-अधुना त्विति। कार्यमहंकारं व्यश्षकं निष्पाद्येत्यर्थः ॥१२३॥
Page 244
[३ तृतीयोऽध्याय: ] संक्षेपशारीरकमू। ६७९
अ० टी०-नन्वेवं तर्हि तत्र तत्र माष्यकारादीनी सुषुप्तावज्ञानाभववचनमसंगतं स्यात् ' स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्व्रं ह्यपीतो भवति' [छा० ६। ८ । १ ] इत्यादिश्रुतिवचनं चेति चेन्मैवमहंकारोपरागाभावेन सुप्तावज्ञानानुभवस्यास्फुटत्वा- भिप्रायत्वात्तत्राज्ञानाभाववचनानामित्याह-स्पट्टानुभूतीति। अहंकारे सति सुषुप्ति- व्याघातात्तदभावे चाहमज्ञ इति विशेषाकारेणाज्ञानाभिव्यक्त्यभावात्सुषुप्तौ विद्यमानमप्यज्ञान- स्रविद्यमानसमं विक्षेपाभावादिति तत्राज्ञानाभाववचनमप्युपपन्नमेवेन्यभिप्रायः। अहंकारा- भावादेव सुषुप्तावज्ञानानुभवस्य स्पष्टताभावो नाज्ञानानुभवाभावमात्रादित्यत्र लिंङ्गमाह- अधुना त्विति। जागरण इति यावत्। अहमित्यत्र योऽयं दृश्यांशः स इदमंशस्तमिदमंशं स्वकार्य निष्पाद्याहं न जाने मूढोडस्मि चेति स्पष्टावगतेर्विषयत्वमागादज्ञानमिति शेषः । तथा च सत्यहंकारे स्पष्टानुभवस्यावश्यंभावात्तदभावे चाभावादहंकाराभावकृतस्तत्र स्पष्ठा- नुभवाभावोऽज्ञानस्येत्यर्थः ॥१२३ ॥ सु० टी०-यद्यज्ञानमनुमूतं सुषुप्ती कुतो मम तदानीं तमो नाऽऽसी- दिति धीरिति चेत्तत्राSडह -- एतावता तव तमोऽपि सुषुप्तिकाले नास्तीति बुद्धिरुदितं गुरुभिश्र्व कैश्िवित्। स्थाने कचित्कचिदतो द्वयमुच्यमानं ग्राह्यं विविच्य भवता विषयं विभज्य ।। १२४॥ एतावतेति। स्पष्टानुभवाभावादित्यर्थः। नन्वाचार्येरप्यात्मशुद्धिप्रकरणे नास्त्यज्ञानं सुषुप्त इत्युक्तमिति चेत्तत्राSऽह -- उदितमिति। तदप्येतावतेव न त्वभावाभिप्रायेणेत्यर्थः । ततश्राज्ञानसत्त्वासत्त्ववचनं स्पष्टत्वास्पट- त्वाभ्यां विविच्य ग्राह्यमित्याह-अत इति ॥१२४ ॥ तथा च प्राकृतदृष्टयनुरोधेन सुषुप्तौ तमःस्वरूपमपि नानुभूतं मयेति या तव दृष्टिः सा तदनुभवस्यास्फुटतवादेवेति सिद्धमित्याह-एतावतेति। अहंकरणाभावेन स्पष्टानु- भवाभावमात्रेणेत्यर्थः । कैश्विद्रुरुभिर्भाष्यकारादिभिरा चार्यश्ववतावतैत कचित्कचित्प्रत्यगात्मनो विशुद्धिप्रतिपादनप्रकरणे सुषुप्तावज्ञानं नास्तीत्युदितम्। यत एवमंतो द्वयमज्ञानसद्भाव स्तदभावश्चेत्युभयमुच्यमानं विषयं विभज्य सद्भाववचनमस्पष्टतया स्वरूपानुभवपरमभाववचनं त्वनुभवस्य स्पष्टत्वाभावपरमिति विषयं विभज्य विविच्योभयमपि वचनं सालम्बनमेव नान्य- तरेणान्यतरस्य बाध इति त्वया ग्राह्यमित्यर्थः ॥ १२४॥
१ क. ता नच त।
Page 245
६८० टीकाह्टुय समेतं- [ ३ तृतीयोडध्यायः ]
सु० टी०-किं तद्वचनह्यमिति तवाह- नाज्ञानमस्ति च सुषुप्तिगतस्य पुंसो गाढे तमस्ययमभूत्पुरुषः सुषुप्तः । इत्युच्यमानमविरुद्धतया विचिन्त्य ग्राह्ं त्वयाऽनुभवयुक्तिनिरूपणेन ॥ १२५ ॥ नाज्ञानमिति। अनुभवयुक्तिनि रूपणेनो क्ते नेत्पर्थ: ॥। १२५॥ अ० टी०-कि तद्द्वयमुच्यमानमिति तदेव स्फुटयति-नाज्ञानमस्तीति। स्पष्टार्थ पद्यम्। अनुभवयुक्त्यनुरोधेनोभयमबिरुद्धतया प्राह्यमित्यर्थः ॥१२५॥ सु० टी०-कथमेवं व्यवस्थावगम इति चेतत्राSऽह- एवं तमोऽपि न बभूव सुषुप्तिकाले भाषान्तरेण पुरुषः पर एव जीवः। निर्बीजतामुपगतः स निरन्वयेन न स्पष्टमत्र तमसोऽनुभवोऽस्ति यस्मात् ॥१२६ ॥ एवमिति। तैरेव व्यवस्था स्पष्टीकृतेत्यर्थः । माषान्तरेण वचोमङ्गय- न्तरेण सुपुपते जीव: पर एव संवृत्त इत्याविना। स जीवो निरन्वयेनो- पाधिसंबन्धाभावेन निर्बीजतां संसारबीजशून्यतामुपगत इत्यपि वाक्पा- न्तरं तद्भिप्रायम्। तदेवाऽऽह-न स्पष्टमिति ॥१२३ ॥ अ० टी०-अन्यदप्यर्थसिद्धं सुषुप्तावज्ञानाभाववचनमाचार्याणामेवमेव योग्यमित्याह- एवमिति। जीव: परः पुरुष एव संवृत्त इति भाषान्तरेण शब्दान्तरेण सुंषुप्तिकाले तमोऽपि न बभूवेति यदाचार्याणामर्थसिद्धं वचनं तदप्येवमेवोक्तप्रकारमेवेति योजना। तत्रैव वचनान्तरमाह-निर्बाजतामिति। स जीवो निरन्वयेनोपाधिसंबन्धविलयेन निर्बी- जतां संसारबीजराहित्यमुपगत इति वचनं विद्यमानमपि सुषुप्तावज्ञानं विक्षेपाभावादविद्य- मानसममकिंचित्करत्वादित्यभिप्रायं ज्ञेयमित्यर्थः । सर्वत्रोपपत्ति पूर्वोक्तां स्मारंयति- न स्पष्टमिति। अत्र स्पष्ट तमसोऽनुभवो नास्ति यतस्तस्मादिति योजना ॥ १२६॥ सु० टी०-एवमेव वृद्धवचनान्तरं नेयमित्याह- अज्ञानतज्जमतिहीनतया सुषुपे शुद्धः परोडसि भगवानसि नित्यमुक्त: ।
Page 246
[ ३ तृतीयोऽण्याय: ] संक्षेपशारीरकम्। ६८१
कामश्र्व कर्म सकलं च तदा कुतस्त्यं चित्सागरेऽनवकरे त्वयि तायमाने ॥ १२७॥ अज्ञानेति। सुपुप्तावुपाधिहानाद्विशुद्धपूर्णचिदात्मनि र्वयि कुतः काम- कर्मादि स्थादित्याद्यर्थकमित्यर्थः। अनवकरेऽवच्छेदरहिते। अत एव तायमाने पूर्णे ।। १२७ । अ० टी० -- तथाऽन्यदपि केषांचिदाचार्याणां वाक्यमुदाहरति-अज्ञानतज्जेति। अनवकरेSनात्मसंकररहिते त्वथि तायमाने परिपूर्णतयाडभिव्यज्यमान इत्यर्थः ॥ १२७ ॥ सु० टी० -- एवं तर्हि मुक्तिप्रसङ्ग इति चेत्तत्राSह- आसीदहं करणमात्मतमोनिमित्ं तज्जाग्रतश् भवतः स्वपतः सुदुःखम्। आनीय दर्शयति तन्न सुषुप्तिकाले बीजक्षयादिति भवानतिनिर्मलोऽभूत् ॥१२८॥ आसीदिति। अहंरूपपरिणताज्ञानं जाग्रत्स्वप्योर्दुःखबीजं न तत्सुपुप्ता- वस्तीति निर्बीजतवाद्युक्तिरमुक्तिश्रोपपद्यत इत्यर्थः । इति भवानिति। न तु सर्वथा निर्मल इत्यर्थः ॥ १२८॥ अ० टी०-यद्येवमस्पष्टतयाऽपि सुषुप्तेऽज्ञानं तिष्ठति तस्मिश्च लीनतया सकलं जगदप्यस्ति तर्हि तत्राऽडत्मनो विशुद्धिः कथमुच्यत इति चेत्तत्राऽडह-असीदिति। आत्मतमोनिमित्तमज्ञानकार्यं यदहंकरणमासीत्ततस्वरूपतः स्वम गतस्य जाग्रतश्च तव सुदुः- खं सुखं च दुःखं चाSऽनीयोद्भाव्य दर्शयति। अतोऽहंकारकञ्चुकेनाSSविष्टत्वादेवाशु द्विरित्यशुद्धिबीजमहंकारो नाज्ञानस्वरूपमात्रमित्यभिप्रायः। सुपुप्तिकाले तदहंकरणं नाऽडसी- दिव्यहंकाररूपसंसारबीजक्षयाद्गवान्सुपुप्तावतिनिर्मलोऽभूदिति योजना। अतः सवाजस्य दुःखस्य तदानीमभावात्सत्यप्यज्ञाने प्रत्यगात्माऽतिनिर्मल एवावगम्यत इत्यर्थः ॥ १२८॥ सु० टी०-नन्वभावरूपमेवाज्ञानं वृद्धासिपेतमिति तत्कथमंकारो- पादानमिति तत्राSSह- सदूपमावरणतानुभवादभीष्ट- मज्ञानमात्मचिति नैशतमोवदेतत्। ज्ञानं दिवाकरवदस्य जडप्रकाश- रूपं निवर्तकमिति प्रवदन्ति धीराः॥। १२९॥
Page 247
६टर टीकादयसमेतं- [३ तृतीयोऽध्यायः ]
सद्रपमिति। आवरकत्वं ज्ञाननिर्त्यत्वं चाङ्गीकुर्वन्भिरभावविलक्षणत्व मज्ञानस्याभ्युपतमिति गम्यत इत्यर्थः । कथं तहिं चतन्यस्याविरुद्धस्या ज्ञाननिवृत्तिस्तत्राSSह-ज्ञानमिति। वृत्त्यभिव्यक्तं ज्ञानं प्रमाणत्वेन विरो- धित्वान्निवर्तकमित्यर्थः ।१२९॥ अ० टी०-अहंकारं प्रत्युपादानत्वमज्ञानस्य यदुक्तमात्मतमोनिमित्तमित्यत्र तत्सिद्ये तस्य भावरूपत्वमुक्तं स्मारयति-सदपमिति। आत्मचिति स्वप्रकाशतया नित्यप्राप्तप्र-' काशस्वभाव आत्मनीति यावत्। अज्ञानमात्मचित्यावरणतानुभवाद्यथावत्स्कुरणाच्छादकतयांड- नुभूयमानत्वादेतत्सद्रूपमभीष्टं नैशतमोवदन्धकारवदिति योजना । विमत सद्रूपमावरकत्वा- त्तमोवदित्युक्तं भवति। न ह्यभावस्य प्रकाशाच्छादकत्वं संभवतीत्यत आवरकत्वादेव तमश्र स्वभावरूपमेष्टव्यं तार्किकैरपीति भावः । नन्वेवंसत्यज्ञानस्य चित्प्रकाशेन विरोधाभावाच्चि- तप्रकाशस्य चाऽऽत्मस्वरूपतया नित्यत्वेनाSSगन्तुकत्वाभावादागन्तुकज्ञानाभावे सति कथ- मज्ञाननिवृत्तिः संभवेदिति चत्तत्राऽह-ज्ञानं दिवाकरवदिति। दिवाकर इव तम- सोऽस्याज्ञानस्य जडप्रकाशरूपं महावाक्यप्रमाणजनितसाभासान्तःकरणवृत्तिलक्षणं निवर्त- कमिति धीरा धीमन्तः प्रवदन्तीति योजना ॥ १२९ सु० टी०-अन्यैरपि मावरूपमेव तवङ्गीकार्यमित्याह- प्रावादुकैरपि तथैव तदेषितव्यं
संवेदने न खलु संविदभावरूपमज्ञान- मश्युपगतं न च बुद्ध्यभावः॥१३० ॥ मावादुकैरिति। अग्रे संविद्वचुत्पादकवाक्योत्थविज्ञानात्म्रागित्यर्थ। तथा हि संवदनरूप आत्मनि किं संवेदनाभावरूपमज्ञानं किं वा बुद्धयभावरूपं नाऽडय्य इत्याह-संवेदन इति। असंभवादित्यर्थः । द्वितीये त्वाह -- न चेति। संवेदनगतबुद्धयमावस्यात्यन्तामावत्वान्न संवेदनं कदाऽपि प्रकाशे- तेत्यर्थः ।। १३० । अ० टी०-अज्ञानस्य भावरूपत्वे वादिभिरपि न विवदितुं शक्यमित्याह-प्रावा दुकरपीति। अस्फुरणमितिच्छेदः । अग्र उत्तरकालमित्यर्थः । संविदभावो वा बुद्धय- भावो या संवेदनेऽज्ञानं भविष्यति कुतोऽस्य भावरूपत्वसिद्धिरिति चेत्तत्राऽऽह-संवे - दन इति। संवेदनस्य वेदनान्तरवेद्यत्वानङ्गोकारान्न संविदभावो बुद्धयभावो वा संविद- स्फुरणमिति परिशेषाद्धावरूपाज्ञानादेव स्फुरणमङ्गीकार्यमितर्थः ॥१३०॥
Page 248
[ १ तृरतीयोऽध्याय: ] संक्षेपशारीरकमू। ६८३
सु० टी०-अतश्चामाव विलक्षणाज्ञानाभिधानमेव युक्तमित्याह- तस्मादशेषजगदेकनिदानभूत- मज्ञानमात्मविषयं न विरुद्धमूचः। वेदावसानवचनानि मुनाश्वराश्र स्थानेषु भूरिषु ततोऽवकरो न कश्र्वित्॥१३१ ॥ तस्मादिति। अवरकरोऽनुपपत्तिः ॥१३१ ॥ अ० टी०-तदेवमज्ञानकार्यस्याहंकारस्य तत्कृतदुःखस्य चाभावात्सुषुप्ते संसाराभाव, उच्यते न त्वज्ञानस्याप्यभावादतक्ष तद्विषयाणि श्रुत्यादिवाक्यानि न विरुद्धानीत्युपसं- हरति-तस्मािति। अवकरः संकरो विरोध इति यावत् । स्पष्टमन्यत् ॥१३१ ॥ सु० टी० -- एवं. कर्तृत्वभोक्तृत्वादेरत्मस्वभावत्वं निराकृत्य साक्षि -- व्व.प्रमातृत्वयोरपि तन्निरस्यति- साक्षित्वमात्मतमसा मतिकञ्चकेन मातृत्वभेतदपि नेह सषुप्तिकाले। यद्धेतुकं भवति यन्न हि तदविना त- वसंभाव्यते न च तदत्र सुबुप्तिकाले ॥ २३२ ॥ साक्षित्वमिति। अविद्योपाधिकं साक्षित्वं बुद्ध चुपाधिकं च प्रमातृत्वमतो हयमपि कल्पितमित्यर्थः। नन्वीपाधिकत्वेऽपि. पटनैल्यवत्स्वाभाविक- मास्तामिति नेत्याह-एतदपीति। नैल्यस्य. यावत्पटमनुवत्तेः स्वामावि- कता न तु. सुपुप्ती व्यभिचारिण: साक्षित्वादेरित्यर्थः। ननु सुपुप्ताव- विद्याया: सत्त्वात्कथं तदुपाधिकसाक्षित्वाभाव इति तत्राSऽह- यद्धेतुकमिति । न तद्विद्यामात्रापेक्षमषि तु साक्ष्यमप्यपेक्षत इत्यर्थ: । अस्तु तद्पीति चेत्तत्राऽडह-न चेति। 'न तु तह्तीयमस्ति। [बृह० ४.।३। २३ ]' इति श्रुतेः । ततश्च कार्यसाक्षित्वं नास्तीत्पर्थः । अज्ञानादिसाक्षित्वोपगमात्। अत्राऽहुः-अविद्याप्रतिबिम्बस्य साक्षित्वे पुरुषान्तरबुद्ध्ि सुखादेरपि प्रत्यक्षतापततिः । तस्यापि स्वबुद्धयादिवत्तत्र ा - वृत्यपेक्षा। न च तत्परं प्रत्यावृतं साक्ष्य भेदे स्वपरविभागाभावात्केवल- • साक्षिभास्यस्य च प्रमातृभेदेडप्यावृतत्वायोगात्। तस्मादन्तःकरणोपहि-
Page 249
६८४ टीकाद्वयसमेतं- [३ तृतीयोऽघ्याय: ]
तस्य साक्षित्वं तद्विशिष्टस्य व प्रमातृत्वमित्यभ्युपेयमिति। अन्र बूम :- भवत्वविद्याप्रतिविम्बित एकः साक्षी तथाऽपि न चैत्रसुखादेमैंन्रं प्रति प्रत्यक्षत्वं साक्षिसंबन्धेऽपि प्रमान्नसंबन्धात्प्रमात्रभेदस्यैवापारोक्ष्य- त्वात्साक्षाद्वा वृत्तिद्वारा तद्बुद्धयवच्छिन्नस्यैव साक्षिणा ज्ञाततया तं प्रत्यपरोक्षत्वेन बोधनादन्यं प्रत्यन्यसुखाद्यवच्छिन्नचितोरा दृशत्वादेत द ् - रथमेव च नानान्त:करणकल्पनादात्मैक्य इव साक्ष्यक्येपि स्वपरविभा- गाविरोधादनावृतसाक्षिण्यध्यस्तत्वस्य च प्रतिभासाप्रयोजकत्वेनाविद्या वृत्तिस्थले साधितत्वात्स्वप्नसाक्षिणोऽवि वासनामयबुद्धयवच्छिन्नवि-
स्कारी न सर्वसाक्ष्यवच्छेदेनेति न पुरुषान्तरे तत्परामशीतिप्रसङ्ग इति दिकू ॥ १३२॥ अ० टी०-ननु सुपुप्तेऽज्ञानानुभव इष्यते चत्तदनुभवितृत्वलक्षणं प्रमातृत्वमपि स्यात्तथा चाहंकारोऽपि तत्र स्यादिति चेन्भैवं साक्षित्वमात्रेणाज्ञानस्य तदाडनुभवादिति परिहरति-साक्षित्वमिति। चिदात्मन आत्मतमसा स्वसंबद्धाज्ञानमात्रेण सा्षित्व- मज्ञानसंबन्धमात्रेणाSSत्मनः साक्षित्वं भवति। नाहंकारापेक्षं तत्सुपुप्तौ च साक्षिमात्राका- रेणैवाज्ञानानुभवनमित्यर्थः। मातृत्वं पुनर्मतिकञ्चुकेनान्तःकरणोपाधिप्रवेशेन भवति नाज्ञा- नरुंबन्धमात्रात्। एतदपि मतिकञ्चुकमिह सुषु्तिकाले नास्ति। तदभावे च तत्र प्रमातृ· त्वमपि नास्ति हेत्वभावे फलाभावादित्याह-पद्द्ेतुकमिति। व्याप्तिमुक्त्वा पक्षधर्मता- माह -- न च तदत्रेति। सुषुप्तावात्मनो न प्रमातृत्वमस्ति तत्र तद्धेत्वभावाद्यत्र यस्य हत्वभावस्तत्र तन्न भवति यथा महाहदे वहयभावे घूमस्याप्यभावस्तथाचायं तस्मात्तथेति प्रयोग: ॥ १३२ ॥ सु० टी०-नन्वेवमनुमवाभावादेव सविलासाज्ञानक्षय: रुपुंपाव- भ्युपेय इति चेत्ताहै पुनरुत्थानाभावेन मुक्त्यापस्तेरित्याह- अज्ञानमस्ति सकलें हि सुषुप्तिकाले तत्र प्रलीनमिति यद्यपि नास्ति पुंसः । स्पष्टानुभतिरप वर्गविलक्षणत्वा- देष्टव्यभेव तु सुषुप्तिभुवस्तथात्वम् ॥ १३३॥ अज्ञानमिति। सुषुप्तस्य स्पष्टाननुमेवऽवि निर्विकल्पकातुमवात्कथम- स्यथा सुखाज्ञानाद्यनसंधानमित्यर्थ: ॥ १३३।।
Page 250
[३्तृतीयोऽध्यायः] संक्षेपशारीरकम्। ६८५
अ० टी०-ननु यदि सुपुप्तावज्ञानानुभवः स्पष्टो नास्ति तदाऽज्ञानमेव तत्र नास्तीति कस्मान्न निश्चीयते तदभावे तत्र लीनं जगदपि नास्तीत्येव कल्पनीयमेवं चाऽऽत्मविशुद्धि- श्रुतिरसंकुचितार्था भविष्यतीति चेन्मैत्रं सुपुप्तेरमोक्षवैलक्षण्याभ्युपेयत्वादन्यथा पुनरुत्थानाभा- वप्रसङ्गादत उत्थानलिङ्गादेवाज्ञानं प्रविलीनस्वकार्य सुषुप्तावस्तीत्यङ्गीकार्यमित्याह-अज्ञा- नभस्तीति। सुपुप्तिभुवः सुषुत्िस्थानस्य तथात्वं प्रिलीनसमस्तस्वकार्याज्ञानवत्त्वमि- त्यर्थ: ।।१३३ ।। सु० टी०-ननु सुपुपे चैतन्याज्ञानयोरविविक्तत्वात्कथं भेदावगम इति शङ्कते- एवं सतीह तमसो न विविच्य वस्तु साक्षान्निवेदयितुमस्ति निदर्शनं चेत्। नैतत्परागवगतेर्विषयो विभाति गाढं तभो न त तथाऽवगतिः प्रतीचि ॥ १३४ ।। सु० टी०-एवमिति। मास्यभासकभावेन तत्राप्यस्ति विवेक इति परिहरति-नैतदिति। ननुः चैतन्यस्थाप्यनुभूयमानत्वादन्योऽनुभविता स्यादिति नेत्याह-न तु तथेति। स्वातिरिक्तप्रकाशनैरपेक्ष्येण स्फुरतो न स्वभिन्नभासकापेक्षेत्यर्थः ।। १३४।। अ० टी० -- यद्यात्मनि सुपुप्तावृप्यज्ञानं यथोक्तरूपमस्ति तारहिं तस्यानागन्तकत्वच्वैत- न्यघतस्वाभाविकमतत्स्यादिति शङ्कते -- एवं सतीति। सुषुप्तावप्यज्ञानसद्धावे सतीत्यर्थः । इह सुषुप्तौ वस्वात्मस्वरूप तमसः सकाशात्साक्षाद्विविच्य निवेदयितुं निदर्शनं प्रमाणं नास्तीति चेदिति योजना। उक्तस्य तमसो दृश्यत्व।देवाऽSत्मस्वभावत्वाभावसिद्धिरिति परिहरति-नैतदिति। गाढं तम; सुषुप्तौ परागवगते; पराक्तवेन दृश्यतयाऽवगतिरनुभ- वस्तस्या विपयो विभाति विषयत्वेनैव तत्राज्ञानानुभव इत्यर्थः । प्रतीचि प्रत्यगात्मनि तथा विषयत्वेनावगतिर्न त्वस्त्यतोऽनुभवानुसारेण प्रत्यक्पराग्भावेनाSSतमाज्ञानयोर्विवेक: सुसंपाद इत्यर्थ: ॥ १३४ ॥। सु० टी०-किं तत इति चेत्तत्ाSडह -- प्रत्यक्पराग्विषयवस्तुविवेचनाय केशो न संत्रवति कस्यचिदत्र जन्तोः। दृश्यं तमो घटपटादिवदेष तस्य दष्टा सुषुप्िभवि चिद्घनविग्रहोडभूत्॥१३५॥
Page 251
६८६ दोंका ट्वय समेत-
प्रत्यगिति। ननु सुपुप्तावज्ञानस्य दश्यत्वादनात्मत्वं परामर्शावटम्मेन वाच्यं न चासौ संभवति तत्राज्ञानानुभवस्य साक्षिरूपस्याविनाशिन: संस्काराजनकत्वादित्याशङ्कच्याSSह-दृश्यमिति। तत्राज्ञानं, न केवलचै- तन्बदृश्यं किं त्वविद्यावृत्युपाधिक चैतन्यदृश्य मित्य विद्यावृत्तिनाशजसं- रकारात्परामर्शः स्थादित्यर्थः । कुतो वृत्तिकल्पनेत्यत्राSSह-एष. इति। चिद्धन विग्रहस्यासङ्गस्य द्रष्टत्वानुपपत्पेत्यर्थः।।१३५। अ० टी० -- उक्तमेवार्थ विविच्य दर्शयति-प्रत्यकपरागिति। अनुभवानुसा- त्वाद्विवेकस्य न क्वेशोऽत्र संभवतीत्यर्थः । नन्वेवंविधा विवेक: स्पष्टत्वाज्जागरिते तु स्यान्न सुषुप्ताविति चेनोत्थितस्प परामर्शस्वभावानुरोधेन कल्प्यमानाज्ञानानुभवस्य तथैव कल्पना- दित्याह-दृश्यं तम इति। सुषुप्तिभुवि तमो घटपटादिवद्दृश्यमभूत् । एष चिद्धनवित्रह आत्मा तस्य द्रष्टाऽभदिति विवेकोपपत्तेरित्यर्थः । उत्थितो हि सौषुप्तानुभवं. परामृशन्नहमे- तावन्तं कालं न किंचिदवेदिषमिति परामृशति। तन्नाहमिति द्रष्टोलिख्यते. नावेदिषभिति चावेदनं ज्ञानपर्युदासेनाज्ञानं द्रष्टर्दश्यत्वेनैशोद्िख्यते। अतस्तदनुसारेण स्वापावस्थायाः मप्यज्ञानं विषयत्वेनाडङमा च. तद्द्रष्टा प्रत्यक्वेनाविषयतयाइभादिति कलप्यत इत्यभिप्नाय, । १३५.॥ सु० टी० -- एवं दुर्विवेकादज्ञानाद्विवेकसिद्धाववस्थाभ्यो विवेक, ईपत्कर इत्याह- तिस्रोऽपि चिद्घनतनोस्तव दृश्यभूता दूरे चकासति मतेर्बहिरेव तावत्। आविस्तिरोभवनधर्मतया ह्यवस्थाः कः संकरो विमलचिद्वपुषश्र ताभिः ॥ १३६ ॥ तिस्रोऽपीति। अवस्थास्तिस्रोऽप्यविर्मावतिरोभावधर्भतया तव चिद्घ- नतनोर््श्यतया दूरेऽत्यन्तं बहिरेव चकासतीति संबन्धः । कस्य तरहिं धर्मा इति तत्राSSह -- मतेरिति। अहं जागर्मीत्यनुभवादात्मधर्मत्वमव- स्थानामिति चेत्तत्ाउडह-कः संकर इति। दृश्यस्य द्रष्टधर्मत्वादि- तैंयर्थ: ॥ १३६ ।। अ० टी०-तथाऽप्यवस्थाव्त्वं मम स्यादिति चेन्नावस्थानामपि तव दृश्यत्वादित्याह- तिस्र इति। मतेस्तिस्त्रोऽष्यवस्था इति संबन्धः । चिद्धनतनोः रवप्रकाशज्ञानरूपस्य तव
१ ख. व. षरतनाऽडभ :. ।
Page 252
[३ तृतीयोऽच्यायः ] संक्षेपशारीरकमू। ६८७
बहिरेव विषयत्वेनैव तावद्दृश्यभूता नाSSत्मधर्मतवेनेति यावत्। हि यस्माद/विस्तिरोभैवनधर्मत- याSSगमापायवत्तया दूरे चकासति पृथगवभासन्ते। तस्माद्विमंलचिद्वपुषस्तय ताभिरवस्थाभि: क: संकरः कुतो वैशिष्टयमिति योजना ॥ १३६ ॥ सु० टी०-कर्थं तर्हयहं जागमीत्यनुषवस्तत्राSSह- त्वय्येव कल्पितमहंकरणं विभर्ति तिस्त्रोऽपि ताः सहितमेव तु तच्च ताभि: 1 त्वच्चित्प्रकाशविषयत्वमुपेत्य भाति स्वाज्ञानवत्तव न रूपमतश्रतुष्कम्॥ १३७॥
नुभव इत्यर्थः। नन्वहंकार एवाSडत्मेत्यात्मधर्मत्वमवस्थानामिति- नेस्यगह-सहितमवेति। अवस्थाभिः सह हश्यत्वान्नाहंकार आत्मेत्यर्थः। फलितमाह-तबेति ॥१३७॥। अ० टी०-नन्ववस्थानां मतिधर्मत्वेऽपि नाऽडत्मनः शुद्धिः सिध्यति सावस्थाया मतेरात्माश्रितत्वान्नान्याश्रयत्वं स्वातन्त्र्यं वा मतेर्युक्तमद्वैतमतविरोधादिति चेत्तत्राऽह- त्वय्येवेति। तिस्रोऽपि ता अवस्थास्त्वाय कलपितमेवाहंकरणमन्तःकरणं बिभर्ति। अवस्थाश्रयभूताऽपि मतिस्त्वय्यज्ञानकल्पिताऽध्यस्तैवेति नाद्वैतमतविरोध इत्यर्थः । तथाS प्यंवंस्थाभ्यस्तद्धर्मकाहंकरणाच्ाऽडत्मा कथं विविच्य प्रत्येतव्य इति चेत्साक्ष्यसाक्षिभावेने- त्याह-सहितमेव त्विति। तच्चाहंकरणं ताभिरवस्थाभिः सहितमेत्र त्वच्चित्प्रकाश- विषयत्वमुपेत्य प्राप्य भांति न स्बतो नापि परस्परमित्यर्थः । अतो दृश्यत्वात्स्वाज्ञानवदिद- मधि चतुष्कमवस्थात्रयमहंकरणं च तव तत्साक्षिणो द्रष्टुर्न रूपं न स्वभाव इत्यर्थः । अतो वस्तुतो मतेरवस्थाना चाभावान्नावस्थातदाश्रयकृताशुद्दिशङ्काऽप्यात्मनोडस्तीति भाव: ॥। १३७ ।। सु० टी०-ननु किं सावस्थस्याहंकारस्य कल्पितववे मानमिति चेद्दुर्निरुपत्वमेवेत्याह- नान्वेति तत्तव चिता व्यतिरेकिता तु : .
दूरे न संभवति तस्य चतुष्टयस्य ।
१ क. ग. 'ति स्वज्ञान।
Page 253
६८८ टीकाद्वष समेतं- [३ तृतीयोऽव्याय: ]
नाभावरूपभ्जनाय समर्थमेत- देवं चिदेव तु चतुष्टयमेतदासीत् ॥१३८॥। नान्वेतीति। तथा हि किमहंकारादेः पारमार्थिकत्वमात्मसंबन्धित्वेन किं वा तद्तिरेकित्वेन नाऽडद्य इत्याह-नान्वेतीति। तद्बुद्धयादि। जडाजडयोर्वीस्तवसंचन्धानुपपत्तेरित्पर्थः । न द्वितीय इत्याह - व्पतिरे- कितेति। चिदभेदेन स्फुरतो भेदे मानाभावादित्यर्थः । तर्ह्यसदेव तन्ने- त्याह -- नाभावेति। असद्वैलक्षण्येनानुमवादित्वर्थः । किं तर्हीत्यत आह- एवमिति। अविद्ययाSSत्मैव तथा तथाऽवमासत इत्यर्थः ॥ १३८॥ अ० टी०-तथाऽपि मतेस्तदवस्थानां च पृथक् सत्त्वान्नाद्वैतता प्रतीचः प्रतीयेतेति चेन्नेत्याह-नान्वेति तदिति। तत्पूर्वोक्त तब चिता चिदात्मकेन तब स्वरूपेण नान्वेति स्वरूपतया वा धर्मतया वा न संबध्यते स्व्रभावविरोधादित्यर्थः । तथा तस्य चतुष्टयस्य व्यतिरेकिता तु त्वत्स्वरूपानाश्रयणेन स्वतत्रता तु दूरे न संभवति नैव संभ- वतीति यावत्। जडस्य विशेषतोऽज्ञानकल्पितस्य सत्तास्फुरणयोः स्वातन्त्रयाभावादित्यर्थः । तर्ह्यत्यन्तासदेवैतत्स्यादिति नेत्याह -- नाभावेति। शून्यरूपत्त्रभजनायाप्येतन्न समर्थ- मपरोक्षत्वादित्यर्थः । परिशेषसिद्धमर्थमाह-एवं चिदेव त्विति। एतच्चतुष्टयं चस्तुतो विचार्यमाणमेवरं सति चिदेव विशुद्धत्वद्रूपमेवाSSसीत्वत्स्वरूपातिरिक्तमिदं नाभूदस्ति भवि- ष्यतीति निश्चयोपपत्तेः प्रतीचोद्वैतता प्रतीयेतैवेति भावः ॥ १३८॥ सु० टी० -- नन्वात्मेव कल्पितः किं.न भवतीति नेत्याह- जाग्रत्स्वममुषुप्तिमूर्छित तनू निष्कान्त्यवस्थासु य- च्चैतन्यं व्यभ्िचारिणीष्वनुगतं तत्सत्यमेवाऽडत्मनः। यत्किंचिद्व्यभिचारि तन्ननु मृषा स्त्रक्सर्पदण्डादिव न्नानुस्यूतचिदात्मवस्तु वदितुं शक्यं मृषा वस्तुवत्॥१३९॥ जाग्रदिति। यद्दि व्यभिचरति स्क्सर्पादि तदेव कल्पितं दृष्टं न चाऽडत्मा तथेत्यर्थः ।।१३९।। अ० टी०-ननुं यदि दृश्यं सरवं कल्पितं तर्हि दृगपि कल्पितैवास्तु वस्तुत्वादिति चेन्मैवं व्यभिचारित्वोपाधिहतत्वादनुमानस्येत्याह-जाग्रत्स्वप्नेति। तनूनिष्क्रान्तिमरणम्। अवस्थानां व्यभिचारित्वं सत्यात्मन्यन्योन्यत्राननुगमात्प्रसिद्धम्। व्यभिचारिणीष्ववस्थासु यदा- तमनश्चैतन्यमनुगतं तत्सत्यमेव। न हि चैतन्यमुक्तावस्था व्यभिचरति। तथा सति अवस्थानां १ ख. घ. षा रज्जुवत्।
Page 254
[३ तृतीयोऽच्याय: ] संक्षेपशारीरकम्। ६८९
सर्वस्यापि दृश्यस्यासिद्धिप्रसङ्गादतो न साधनव्यापकतोपाधेरित्यर्थः । व्यभिचारित्वमेव कल्पितत्वे प्रयोजकं न वस्तुत्वमपीत्यत्रोभयत्र व्याप्तिमाह-यत्किंचिदिति। तननु मृषा तदेव मृपेत्यर्थः । सुगममन्यत् । अस्य पद्यस्यापरा योजना । एवमुक्तचतुष्कस्य चिदात्मव्यतिरेकेण सखं न संभाव्यत इत्यतस्तस्याऽSत्मनि कल्पितत्वमेवेत्युक्तं तदेवेदानी कंल्पितत्वं साधयति -- जाग्रत्स्वप्नेति। विमतं सव चिदात्मनि कल्पितं चिदात्मन्यनुवर्त- • मानेऽपि तद्वयभिचारित्वाद्वयभिचारित्वं त्ववस्थानां व्याख्यातं चिदात्मन्यागमापायित्वं वा तक्व- भिचारित्वं तच्चानुभवसिद्धमिति न हेत्वसिद्धिः । अवस्थानामात्मव्यभिचारित्वे त्वात्मनोऽपि तद्वभिचारः स्यादतो हेतोरात्मनि व्यभिचार इत्याशङ्कयाऽडह-अनुगतमिति। आत्मनोड- वस्थाव्यभिचारित्वे तदसिद्धिप्रसङ्गान्न तत्र हेतुरस्तीति न व्यभिचार इत्यर्थः । इदानी व्यभि- चारिण: कल्पितत्वेऽव्यभिचारिण: परमार्थत्वे च क्रमेण व्याप्तिमाह -- यत्किंचिदिति। ननु निश्चितमित्यर्थः । चिदात्मवस्तु मृपा वदितुं न शक्यमिति संबन्धः । अनुस्यूतेति विशेषणं तत्र हेतुः। अन्याऽप्यस्य योजना। चिदेव तु चतुष्टयमेतदासीदिति चतुष्टयस्य चित्तादात्म्यमङ्गीकृतं चेच्चिदात्मभूतस्य व्यभिचारित्वाच्चिदात्मनोऽपि स्यान्वभिचारिता । ततः-' तदतत्सत्यं' 'स आत्मा' [कौषी० ३ ।८] इत्यादिश्रुतिबाधप्रसङ्ग इति चेन्मैवं व्यभिचारिषु साक्षित्वेनानुगतस्य व्यभिचारासंभवादित्याह-जाग्रत्स्वनेति। व्यभिचारिणीष्ववस्थास्वनुस्यूतत्वेन चिदात्मनः सत्यत्वोक्तावर्थादवस्थानां तासां मृषात्वमपि प्रतिज्ञातमिति सिध्यति । अतस्तदुभयं व्याप्तिमुक्वा साधयति -- यत्किंचिदिति। तस्मान्मृषार्थतादात्म्यस्यापि मृषात्वान्नाSSमन्युक्तदोषशङ्कावकाश इति भावः ॥ १३९॥ सु० टी० -- एवमज्ञानतत्कार्यच्चेतन्यं निष्कृष्य निरूपितं त्वंपद्लक्ष्यं निगमयति- जाग्रत्स्वमसुषुप्तिवर्भकमिदं चित्तं त्वदज्ञानतः प्रांदुर्भूतमतस्त्वमेव सततं त्वत्तो न तज्भियते। स्वाज्ञानं च तवानुभूतिबलतः सिद्धं मृषा तत्त्वतो नाऽऽसीदस्ति भविष्यतीति भवतः पूर्णा चितिः शिष्यते॥१४०॥ जाग्रदिति। अज्ञानजचित्तधर्मा: कर्तृत्वादयोऽज्ञानं च सृपेति पूर्णचि- न्मात्रमेव त्वदूपमित्यर्थः ॥१४०॥।
संबन्धकृताऽशुद्धिः स्यादित्याशङ्कयोक्तानुवादपूर्वकमज्ञानस्याप्यात्मनि कल्पितत्वमाह- जाग्रत्स्वप्रसुषु त्तिधर्मकमिति। उक्तानुवादात्मकेन पूर्वार्धेन पूर्वश्रोकोक्तानुवादपूर्व-
Page 255
६९० टीकाद्वुय समेतें- [३ तृतीयोऽव्यायः]
कमज्ञानस्योपनयनिगमने दर्शिते उत्तरार्धे शङ्कितदोषपरिहार इति विभागः ।स्वाज्ञानं चेति चकारोऽप्यर्थे। स च जाग्रदादिदृष्टान्तार्थः। स्वाज्ञानं च तवानुभूतिबलतः सिद्धं तत्सत्ता- स्फूर्त्यधीनसत्तास्फूर्तिकमतो दृश्यत्वादवस्थावदज्ञानमपि मृषा कल्पितं न परमार्थमित्यर्थः ।" अतः कालत्रये ऽप्यज्ञानतत्कार्यरूपस्य दृश्यस्य चिदात्मनि तत्त्वतोडसंभवाननित्यशुद्धबुद्धस्व्रभाव एवाऽत्मेति फलितिमर्थमाह-अतो नाऽऽसीदिति॥१४०॥ सु० टी०-ननु तर्कोडप्रि8्ठः कथं तद्वलेनार्थनिर्णय इति नेत्याह- ज्योतिर्बाह्मणवाक्यमानबलतः संपूर्णरूपा चिति- रजाग्रित्स्वमसुषुप्तिधर्मरहिता मोक्षाय निश्चीयते। तस्मादस्मदुदीरितं स्वकवपुः श्रद्धत्स्व मानं विना नास्माभि: प्रतिपादिता चिंतिरियं वाक्यार्थसंबन्धिनी॥१४१॥ ज्योतिर्त्राह्मणवाक्येति। किंज्योतिरेवायमित्यारम्यात्रायं पुरुष इत्यन्तेन
श्रद्धृत्स्वेत्यर्थः । इय चितिर्नास्माभिमानं विना प्रतिपादित्रेति संबन्ध: 0 १४१ " अ० टी०-एवमात्मनो नित्यशुद्धत्व उक्तयुक्तीनामनुग्राह्यं प्रमाणं वदन्नर्थादस्माकं मतं न वैशेषिकादिमतवत्स्वबुद्धयम्यूहमात्रसिद्धं किं तु श्रुतिमौलिप्रमाणसिद्धमिति दर्शयति- ज्योतिर्बाह्मणेति। तत्र हि किंज्योतिरेवायं पुरुष इत्यादिनाSत्रायं पुरुप्ः स्वयंज्योति- रित्यन्तेनाऽऽत्मनः सर्वव्यवहारसाक्षितया विशुद्धचैतन्यज्योतिःस्वरूपत्वमुपपाद्य ततः परेण अ्रन्थेनावस्थात्रयस्याSSगमापायित्वोक्तिपूर्वकं महामत्स्यनिदर्शनेनासङ्गत्वं चोपपादाSडत्मने नित्यशुद्धचिद्रपत्वं प्रतिपादितं दृश्यते। अतो नात्र शङ्का कार्येत्यर्थः। मोक्षायेति ब्रह्मभावा- येत्यर्थः। यस्मात्प्रमाणसिद्धोऽयमर्थस्तस्माद्युक्त्याऽस्मदुदीरितं स्व्कवपुः स्वस्वरूपं श्रद्धस्त्र तथैवेति विश्वसिहि। इयं वाक्यार्थसंबन्धिनी चितिरस्माभिर्मानं विना न प्रतिपादिता किं तु मानसिद्धायामेवास्यामसंभावनापोहाय युक्तयोऽभिहिता इत्यर्थ: ॥ १४१ ॥ सु० टी०-उक्तानुवादपूर्वकं शिष्यजिज्ञासामुखेन तत्पद्लक्ष्यवि- चारमवतारयति -- एवं त्वंपदलक्ष्यवस्तु भवता यत्पृष्टमासीतपुरा तन्निर्णतमतोऽन्यदस्ति यदि ते चित्तस्थितं पृच्छ तत्। १ ख. एतत्वं।
Page 256
६३ तृतीयोऽच्यायः ] संक्षेपशारीरकम्। ६९१
बुद्धिस्थं कुरु पूर्वमुक्तमखिलं यद्वक्ष्यमाणं च त- . द्वोद्ुं धारय ते मनः स्थिरतरं श्रद्धाधर्नांयाश्रयः॥१४२॥ एतदिति। श्रद्धैव धनमादिपदेन शान्त्यादि तदाश्रयः सन्नित्यर्थः॥१४२॥ अ० टी०-त्वंपदार्थतत्त्वशोधनप्रकरणमुपसंहृत्य तत्पदार्थतत्त्वशोधनप्रकरणमारभमा- णस्तत्र शिष्यप्रश्नमुत्थापयति-एवं त्वंपदेति । शिष्यजिज्ञासानुसारेण बोध्यमानो ह्यर्थ: सम्यक्तदूबु द्विमारोहतीत्यभिप्रेत्याSSह-अतोषन्यदस्तीति।. अर्थान्तरप्रश्नव्यम्र- तया पूर्वगृहीतस्य विस्मृतिर्मा भूदित्याह-बुद्ध्िस्थमिति। तत्रैव लग्रचित्तश्व मा. भूस्तदा हि प्रतिवचनार्थग्रहणं न भवेदित्यभिप्रेत्याऽह-यद्वक्ष्यमाणमिति। श्रद्धाधना- द्याश्रय इति सृक्ष्मार्थावधारणे श्रद्धाया अन्तरङ्गत्वं. सूचितम् । एवमुक्तवक्ष्यमाणयोरर्थयोः शिष्यबुद्धिसंग्रहकथनं पदार्थज्ञानमात्रान्न ते कृतकृत्यता कि तु. वाक्यार्थज्ञानादेवेति दर्श- यितुमिति द्रष्टव्यम् ॥ १४२ ॥: सु० टी०-शिष्यस्य प्रश्नमुत्थापयति- इत्युक्ते गुरुणा स पृच्छति पुनस्त्वंशब्दलक्ष्यं मम' ज्ञातं न्यायबलेन पूर्वमुदितावस्थात्रयापोहनात्।. तच्छब्देन तु लक्ष्यमर्थमधुना बोड्धुं मनो मामकं. धावत्याशु तमप्यपोह् सकलद्वैतपपञ्चं वद ॥ १४३ ॥ इत्युक्त इति 1. प्रपञ्चापोहेन तत्पद्लक्ष्यं मम बुभुत्सितं तद्वदेत्यर्थः । २४३ । अ० टी०-एवं गुरुणाऽभ्यनुज्ञातः शिष्य उक्तार्थानुवादपूर्वकं तत्पदलक्ष्यार्थबुभुत्सा. माविष्करोतीत्याह-इत्युक्त गुरुणेति। मम ज्ञानं जातं मया सम्यगवधारित- मित्यर्थः । सकलद्वैतप्रपञ्चमपोह्य युक्तिभिर्निरस्य तमपि तत्पदलक्ष्यार्थमपि वद्रेति योजना ॥ १४३ ॥ सु० टी०-ननु प्रसिद्द्त्वेनासंदिग्धत्वान्न तत्पद्लक्ष्यं जिज्ञास्व- मित्याशङ्क्पाSSह- कि सपपश्चभिदमस्त्वथ वा समस्त- द्वैतपपश्चरहितं परिपूर्णरूपम्।
१ घ, 'नाट्याश्र' L.
Page 257
६९२ टीकादय समेतं- [ ३ तृतीयोऽच्यायः ]
यद्वोभयात्मकमिदं परमार्थतोऽस्तु विष्णोः परं पदमितीह विचारणीयम् ॥१४४ ॥. किं सप्रपञ्चमिति। सामान्यतः प्रसिद्धमपि विशेषतः संदिग्धत्वाज्जिज्ञा- स्यत इत्यर्थ: ॥ १४४ ॥ अ० टी०-प्रश्नप्रकारमाह-किं सपपञ्चमिति। परमार्थत इति पदं पूर्वयो- रपि पक्षयोः संवध्यते। इदं ब्रह्म । सुगममन्यत् ॥ १४४॥ सु० टी०-किं पुनरत्र संशयबीजमिति तत्राSSह- वेदान्तवाक्यगतिरत्र बहुप्कारा काचित्कथंचिदिति संशय उत्थितो मे। तन्वं प्रकाशय निवर्तय मोहमूलं मत्संशयं मम हिताय भव प्रसीद ॥ १४५॥ वेदान्तोते। यद्यपि 'वाचारम्भणं' [छा०६।१।४] नेति नेति' [बृ० २।३।६] इत्यादिभिरनिष्पपञ्चब्ह्मोच्यते तथाऽपि 'सर्व- गन्ध: सर्वरसः' [छा०३।१४।२] इत्यादेरवि ब्रह्मपरत्वोक्ते: संशय इत्यर्थः। ततश्र किमुभयमपि श्रुत्येकमानत्वाद्विरुद्धमुत स्वतो निष्प- पञ्चमुपाधितः सप्रपञ्चमिति निष्टद्धितं वदेत्याह-तत्त्रमिति ॥१४५॥ अ० टी०-विचारणीयमित्यनेन संदेहः सूचितस्तमेव संदेहं तद्वीजप्रदर्शनपूर्व- कमाविष्करोति-वेदान्तवाक्यगतिरिति। काचित्कथंचिदित्यस्यायममर्थ :- यद्यपि जन्मादिसृत्रे निष्प्रपञ्चमेव ब्रह्म लक्षितमारम्भणाधिकरणे च तथैवोपपादितं तथाडपि 'सत्यकामः सत्यसंकल्पः' [छा० ८।१।५] सर्वकर्मा सर्वकामः सर्वगन्ध: सर्वरसः ' [छा०३।१४।२] 'वामनीर्भामनीः'[छा० ४। १५ । ३-४ ] इत्येवं सविशेपवाक्याणामपि ब्रह्मपराणां श्रूयमाणत्वाद्वेदान्तवाक्यगतेरेव व्याकुलतादर्शनात्तस्या विषयव्यवस्थया निर्णयस्य च ममानुदयात्पूर्वश्लोकोपन्यस्तस्त्रि- कोटिक: संशयो मम जात इति। किं तत्रोभयविधश्रुतिदर्शनाच्छ्रृत्येकगम्बेडर्ये विरो- वस्यानवगाहनादुभयात्मकमेव ब्रह्म मया प्रत्येतव्यमुपाधिवशाद्ह्म सप्रपञ्वं स्वतस्तु निष्प्र- पञ्चमिति व्यवस्थया वोभयरूपं ब्रह्माभ्युपेयमथवा निष्प्रपञ्चवाक्यस्यान्यपरत्वकल्पनया सप्रपञ्चमेव द्रह्मतत्त्वं ज्ञेयं सप्रपञ्चवाक्यस्यान्यपरत्वकल्पनया वा निष्प्रपञ्चमेव ब्रह्म विज्ञे- थमिति संशयानं मां प्रति त्त्तवं याथात्म्यं ब्रह्मणः प्रकाशय गम मे.हमूलं मत्संशयं निव सय मम हिताय भतर प्रसीद मम प्रसन्नो भवेति ॥ १४५ ॥
Page 258
[३ तृतीयोऽध्याय: ] संक्षेपशारीरकम्। ६९३ सु० टी०-परमार्थतो निष्पपञ्चमेव ब्रह्मेति पक्षमङ्गीकृत्य गुरुराह- न स्थानतोऽप्यस्ति परस्य कश्वि- द्विशेषयोग: परमार्थरूपः । स्वतः पुनर्दूरनिरस्त एव परस्य तत्त्वस्य विशेषयोगः ॥ १४६ ॥ न स्थानत इति। स्थानत उपाधितोऽपि न विशेषयोगः पारमार्थि- कोडस्ति किं तु मृपेत्यर्थः ॥ १४६ ॥ अ० टी०-एवमुपसन्ने जिज्ञासौ शिष्य उभयविधं ब्रह्मेति यत्पकारद्वयेनोत्प्रेक्षितं तन्न युक्तमिति ताद्ुरुराह-न स्थानतोऽपीति। परस्य ब्रह्मणः कश्षित्परमार्थरूपो विशेपयोगः सप्रपञ्चत्वलक्षणः स्थानत उपाधितोऽपि नास्ति पृथिवीमय आपोमय इत्यादौ पृथिव्याद्युपाधियोगाच्छ्यमाणोऽपि विशेषो ब्रह्मणः परमार्थतो नास्तीत्यर्थः । स्थानतोऽपी- त्यपिशब्दसूचितमर्थमाह-स्वतः पुनरिति। स्वतस्तु सुतरां विशेषयोगो दूरनिरस्त एवेत्येतत्साधयति-परंस्य तत्त्वस्येति। परस्य कार्यकरणप्रपञ्चातीतस्य नेति- नेत्यादिलक्षणस्य यत्त्त्वं याथात्म्यं स्वाभाविकं स्वरूपं तस्येत्यर्थः ॥ १४६ ॥ सु० टी०-कथ तह सविशेषत्वं ब्रह्मणः श्रूयत इति चेत्तत्ाऽडह-
मृषा ह्युपाधिप्रभवा विशेषाः। यथा जपापुष्पनिबन्धनः स्या- नमृषा मणेर्लोहितिमा तथैव ॥ १४७॥ स्वभावत इति। न हि चिदेकरसस्य परतोऽपि रूपान्तरं संभवतीत्यतो वैदिकत्वेऽपि बाध्यत्वान्मृषैव तदित्यर्थः । दषान्तमाह-यथेति ।१४७।। अ० टी० -- यद्यपि जन्मादिसत्रे सत्यज्ञानादिरूपं ब्रह्म लक्षितं नेतिनेत्यादिभिः श्रुति- वाक्यैर्निर्विशेषं तदित्यवगतं तथाऽि तस्योपाधियोगात्सविशेषत्वमपि परमार्थमम्युपेयं तस्यापि श्रुतिसिद्धत्वादिति चेन्मैवमुपाधियोगात्प्रतीयमानस्य विशेषस्य मृषात्वादिति सद- ष्टान्तमाह-स्वभावत इति। सैन्धवघनवद्विज्ञानघन एवेत्यवधारणातस्वभावतक्षिदेकरस- स्योपाधिप्रभवा विशेषा: मृषा स्युरिति योजना। यथेति दृष्टान्तार्थः स्पष्टः।तथैवोपािप्रभवा धिशेपा इति पूर्वेणान्वयः । उपाधिसंबन्धस्यापि ब्रह्मणि परमार्थत्वासंभवान्न तद्योगकृतो विशेष: परमार्थोऽतः सविशेषब्रह्मवाक्याणां न स्वार्थपरतेत्यन्यार्थताकल्पनस्यावश्यंभावान्नि-
Page 259
६९४ टीकाद्वय समेतं- [३ तृतीयोऽध्याय: ]
विशेषवाक्याणां च गत्यन्तरासंभवेन स्वार्थपरत्वनिश्चयाननतिर्विशेषमेकरूपमेव. ब्रह्मतत्त्वम- वधेयमिति पक्षान्तरकल्पनाशड्काडपि सर्वा निरस्तैवेति भाव: ॥ १४७॥ सु० टी०-ननु 'एष सर्वेश्वरः' [माण्डू० ६] इत्यादिषु नोपाधि: श्रूयत इति चेत्तवाSSह- मायोपाधेरद्वयस्येश्वरत्वं कार्योपाधेरजीविता च प्रतीचः ।'
संपर्कोत्था रक्ततेवाध्रकादे: १४८ ॥ मायोपाधेरिति। 'मायिनं तु महेश्वरम्' [श्वे० ४। १० ] 'स समान: '[छा० ३। १३ । ४ ] इत्यादिश्ुतेरीश्वरजीवयोरुपाधि: सिध्यर्तात्यर्थः । तर्हि कथं मिथ्यात्वं सविशेषत्वस्येति चेत्तत्राSऽह -- मिथ्यैवेति। निर्विशेषश्रुतिबाधितत्वेन सविशेषश्रुतीनां विशेषांशेSप्राम- ण्यादित्यर्थः ॥१४८॥। अ० टी०-नन्वीश्वरत्वलक्षणो विशेषो ब्रझणि वास्तवोऽभ्युपेयोऽन्यथा तस्यानीश्वरत्व- प्रसङ्गात्तथा प्रतीचो जीवत्वरूपो विशेष: स्वीकरणीय इतरथा तस्यापीश्वरत्वं जडत्वं वा
यस्य ब्रह्मण ईश्वरत्वस्येशितव्यापेक्षत्वाद्विना मायायोगमद्वयस्येशितव्यासंबन्धान्मायाकल्पि- तमेवेश्वरत्वमित्यर्थः । तथा प्रतीचोऽहंकारादिसाक्षिणः स्वस्मिंन्स्वाज्ञानाध्यस्तकार्योपाधिप्रेयु- क्मेव जीवत्वं कर्तृत्वप्रमातृत्वादिसंसारधर्मयोगित्वं हि जीवत्वं कर्तृत्वादि च न तस्मिन्नहं- कारादयुपाधिसंबन्धमन्तरेण निरूपणपथमवतरतीति जीवत्वमप्यौपाधिकमेवेत्यर्थः । उपा- घिसंबन्धकृतोऽपि धर्मः पारमार्थिकः स्यादिति न शङ्कास्पदमित्यौपाधिकस्य मिथ्यात्वमनुमा- नेन साधयति-मिथ्येव स्यादिति । बन्धुजीवप्रसूनं नाम मध्याह्वविकासिरक्तवर्ण- पुष्पविशेषः । अभ्रकं तु सूर्यतप्तजलस्थलनिष्पन्नः शुभ्रवर्णो घात्वाभासविशेषः ॥ १४८॥ सु० टी०-ननु मल्ातकादिकलक्कस्योपाधिकस्थापि यावङ्व्यभा- वित्वेन सत्यत्ववदिहापि सत्यत्वं कि न स्यादिति चेन्न तस्यापि पक्षतु- व्यत्वादित्याह- भल्लातका दिरसयोगनिबन्धनं च वस्त्रे कलङूकितमनेन पथा निरस्तम्। १ क. ग. न्धुवर्प्र ।.
Page 260
[३ तृतीयोऽध्याय: ] संक्षेपज्ञारीरकमू। ६१५
वस्यापि पक्षपतितत्वमभीष्टमेव तस्मादसौ न भवति व्यभिचारभूमिः॥ १४९ ॥ भल्लातकादीति । तस्ष तु दुस्त्यजत्वेन सत्यत्वामिमान इति भाव: ।। ।.१४९ ॥ . अ० टी०-यदौपाधिकं तन्मृषेति न व्याप्तिर्भल्लातकोपाधिकलङ्गिते वस्त्रे व्यभि- चारान्न च तदपि मृषा तस्य सति वस्त्रे वियोगादर्शनात्तथा च व्याप्त्यभावान्नेश्वरत्वा- दिकमुपाधिप्रयुक्तमपि भृषेति चेत्तत्राऽह-मल्लातकेति। अनेन पथेति सर्वेषा- मौपाधिकधर्माणां स्फटिकलौहित्यादिवन्मिथ्यात्वसमर्थनन्यायमार्गेणेत्यथः । अत उक्तो- दाहरणस्यापि पक्षतुल्यत्वान्न तत्र व्यभिचारः शङ्कनीय इत्यर्थः । वस्त्रे भल्लातकरसकलङ्ग वियोगादर्शन तु तद्वियोजनस्य दुःशकत्वादेव न परमार्थत्वात्तदानीमपि तन्तुगतशौक्ल्यस्य वास्तवस्यानपायात्कालिम्रस्तु भल्लातकरससं गतस्यैव प्रतीतेरतो वस्त्रं कलङ्गितमित्यविवेक- निबन्धनो भ्रम इति भाव: ॥ १४९ ॥ सु० टी० -- सविशेषत्वस्यौपाधिकत्वं सदृष्ान्तं श्रुतिसंवादेनोपसं- हरति- यथा ह्ययं ज्योतिरात्मा विवस्वा- नपो भिन्ना बहुधैकोडनुगच्छन्। उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा॥१५०॥ यथा हीति। यथा ज्योतिरात्मा ज्योतिःस्वरूप: सूर्य एकोऽवि बहुधा मिन्ना अंपोऽनुगच्छंस्तासु प्रतिफलन्भेदरूपो भेदेन रुप्यत एवमेकोड- प्यात्मा क्षेत्रेषु पुरेष्वनुगच्छन्नित्यर्थः ॥। १५०॥ अ० टी०-अस्वेवमौपाधिकस्यानृतत्वं चिदात्मनि विशेषवत्त्वमौपाधिकमेवेति कुतो निश्चीयत इति चेच्छूतिप्रामाण्यादिति मन्वानः श्रुतिमेव पठति-यथा ह्ययमिति। अयं हि प्रसिद्धो ज्योतिरात्मा प्रकाशस्वरूपो विवस्वानादित्य एक एव सन्भिन्ना अपो भिन्नस्थानगततया भिन्नानि जलानि बहुधाऽनुगच्छन्प्रतिबिम्बरूपेण प्रविशन्नुपाधिना भिन्नभिन्नजललक्षणेन भेदरूपः क्रियते विशेषयोगः संपाद्ते जलभेदेन भेदो जलकम्पादिना च कम्पादिमत्वमित्यादिविशेषवत्ताप्रतीतिविषमः क्रियते यथेति दृष्टान्तभागार्थः। एवं यथाऽयं दष्टन्तस्तथाऽयमात्मा देवः स्वप्रकाशज्ञानमांत्रस्वरूपोडजो जन्मादिविकारशून्योऽपि क्षेत्रेषु
Page 261
६९६ टीकाद्वय समेतं- [ ३ तृतीयोडव्याय: ]
स्थूलसूक्ष्मशरीरेषु भेदरूपो भेदविशेषविकारवत्तया रूप्यमाणः क्रियते न स्वतोऽस्य भेदो विशेषो विकारोऽस्तीत्यर्थः ॥ १५० ॥ सु० टी०-मायोपाधिकमैश्वर्यमित्येतद्दृढीकर्तुं मतान्तराणि निर- सितुमुपन्यस्यति- ऐश्वर्यमस्य परमात्मन उक्तमन्यैः साक्षात्स्वरूपमवबोधसुखादितुल्यम्। तेनेशते किल यथायथमीशितव्या- न्भृत्यान्प्रतीश्वरतया जगतीभृतोऽपि ॥ १५१॥ ऐश्वर्थमिति। ब्रह्मादिस्तम्बपर्यन्तेष्वनुवर्तमानभैश्वर्य बोधादिवदात्मनः स्वरूपमेव सत्तत्र तत्र सत्त्वाद्युपाधितारतम्यादीशितव्यतारतम्याद्वा तार स्येनाभिव्यज्यते कथमन्यथा परतन्त्राणामर्पीन्द्रभूपादीनां स्वभृत्यान्म.
अ० टी०-परमात्मन ऐश्वर्यं मायोपाधिकमनृतमेवेत्युक्तं स्वमतं स्थिरीकर्तुं मतान्तर- मुत्थापयति-ऐश्वर्यमस्येति। अस्य परमात्मनो यदैश्वर्यं तदप्यवबोधसुखादिवत्सत्य ज्ञानानन्दादिवत्साक्षात्स्वरूपमेवेत्युक्तेऽर्थे युक्तिमाह-तेनंशत इति। किलेत्यस्य पक्षस्यानभिमतत्वं द्योतयति। जगतीभृतो राजानो लौकिकेश्वरास्तेऽपि यथायथं तारतम्यने- शितव्यान्भत्यान्प्रतीश्वरतया तेन लोके तारतम्येन प्रतीयमानेनैश्वर्येणेशते नियन्तारो भवन्ति। तच्चैश्वर्थ तेषां स्वरूपमेव सत्तत्रोपाधिवशात्तारतम्येनाभिव्यज्यते। अन्यथा जडस्य परतब्रतयैश्वर्यायोगात्तेष्वीश्वरत्वव्यवहारो निर्विषयः स्यादित्यर्थः ॥ १५१ ॥ सु० टी०-ननु सापेक्षमुत्पत्तिमदुत्कर्षापकर्षवच्चैश्वर्य कथमात्मनः स्वाभाविकं स्यादिति चेत्सुखादिवदित्याह- नित्यं प्रियादिषु सुखं प्रतिबिम्बितं स- ह्ोके वदन्ति विषयेन्द्रियसंप्योगात्। उत्पन्नमन्यदिति तद्वदिहेश्वरत्वं मायातदुत्थमतिषु प्रतिबिम्बितं सत् ॥। १५२ ।। नित्यमिति। यथा प्रियमोदप्रमोदादिवृत्तिविशेषेषु प्रतिबिम्बितं सुख- मात्मस्वरूपमध्युपाधितन्त्रत्वात्सातिशयत्व्राद्याक रेणोत्न्नमि् प्रथंते तथैश्वर्यमपि मायातदुत्थोपाधिप्रतिबिम्बितं सदित्यर्थः ॥१५२॥
Page 262
[ ३ तृतीयोऽध्याय: ] संक्षेपशारीरकमू। ६९७
युक्ता निरपेक्षनित्यैकरूपत्वादात्मन इति चेत्तत्राऽऽह-नित्यं प्रियादिष्विति। यथा नित्यं कूटस्थं निरतिशयमेकरूपमेव सुखं प्रियादिषु प्रीत्यास्पदविषयाकारबुद्धिवृत्तिष्या- दिपदं प्रीतिष्वेवापकर्षत्वमहत्त्वादिभेदविषयं तेषु प्रतिबिम्बितं सत्प्रतीयमानं लोकविषयेन्द्रिय- संप्रयोगादुत्पन्नमन्यदन्यदिति वदन्ति तद्वदिह परमात्मनीश्वरत्वं मायातदुत्थमतिषु प्रतिबि- म्बितं सत्सापेक्षत्वादिरूपेण प्रतीयते। तत्रापि मायायां प्रतिबिम्बस्य सापेक्षत्वमात्रमन्तः- · करणादिमायाकार्यप्रतिबिम्बे तूत्पत्याद्यपि प्रथत इति भेदः ॥ १५२ ॥ सु० टी० -- तर्हि मायातत्कार्यप्रतिबिम्बश्वर्याणां बहुत्वाद्वहवः सर्वे- श्वरा: स्युरिति नेत्याह- मायानिविष्टवपुरीश्वरबोध एष सर्वेश्वरो भवति सर्वमपेक्षमाणः । बुद्धिपविष्टवपुरेष तथेश्वरः स्पा- दात्मीयभृत्यजनवर्गमपेक्षमाणः ॥। १५३ ॥। मायेति। ब्रह्मण उपाधितारतम्यनियम्यतारतम्ययोरभावात्सर्वेश्वरत्व- मिन्द्रभूपादीनां तु स्थूलसूक्ष्मोपाधितारतम्याद्मृत्यादिनियम्यतारतम्या- च्चेश्वरत्वमात्रमित्यर्थ: ॥ १५३ ॥ अ० टी०-अत्र मायायां प्रतिबिम्बितमीश्वरत्वं नित्यं सर्वापेक्षं च सन्निरतिशयं परमेश्वरत्वं भवति बुद्धिषु प्रतिबिम्बितमीश्वरत्वं तु तारतम्येन हिरण्यगर्भादिषु कर्मनिमि- त्तबुद्धितारतम्यानुरोधात्सातिशयमीश्वरत्वं भवतीत्याह-मायानिविष्ठेति। आत्मीयभृत्येति। यस्य यावदीशितव्यत्वेनोपस्थितं भवति तावदपेक्षमाण इत्यर्थः । उक्तार्थमन्यत्॥ १५३ ॥ सु० टी०-मुक्तस्य तु विद्यया सर्वोपाधिविलयात्स्वामाविकेश्वरषेड- वस्थिंतिः 'स स्वराड्मवति' [छा० ७।२५।२] इति श्रुतेरित्याह- सम्यग्ज्ञानध्वस्तसर्वप्रपञ्चः स्वीये रूपे निर्गुणे निर्विशेषे। पूर्णैश्वर्ये स्वप्रकाशस्वभावे स्वाराज्येस्मिन्स स्वराडेव तिष्ठेत्।। १५४।। सम्यग्ज्ानेति। स मुक्तः स्वराद् सन्पूर्णेश्वर्यात्मकं स्वमेव रूपं लभत हत्यर्थः ।।१५४॥ १ क. म. तिष्ठन्। 66
Page 263
६९८ टीकाद्वय समेतें- [ ३ तृर्तायोऽध्यायः]
अ० टी०-विदुषस्तु मुक्तावस्थायां परमैश्वर्यप्राप्तिदर्शनाच्चाऽतमन ऐश्वर्य स्बयमे- चेति गम्यत इत्याह-सम्यग्ज्ञानेति। निगद्व्याख्यातं पद्यम् ॥१५४ ।। सु० टी०-निर्गुणस्यैश्वर्ये कि प्रमाणमिति चेत्तत्ाSडह- ज्ञात्वा देवें सर्वपाशापहानिः
तस्याभिध्यानान्तृतीयं देहभेदे विश्वैश्वयं केवल आपकामः ॥ १५५॥ ज्ञात्वा देवमिति। देवमीश्वरं ज्ञात्वा साक्षात्कृत्य सर्वपाशानाम- विद्यादिककेशानामपक्षयः । ततश्र न जन्ममृत्यू हेत्वमावादिति । निर्गुणविद्याफलमुकत्वा सगुणविद्याफलमाह-तस्याभिध्यानात्तृतीयमिति। बन्धमोक्षापक्षया विश्वैश्वर्य तद्धि न बन्धो दुःखाभावान्न मुक्ति- रभेदसत्वादिति क्रममुक्तिरुक्ता तां प्राप्य तत्र विद्योत्पत्ती केवल: शुद्ध आप्तकामः पूर्णननन्दो भवतीत्यर्थः । तातत्विकेश्वर्यवादिनस्तु योजयन्ति ज्ञानोदयाद्वेहद्दयमेदे तृतीयमनौपाधिकं विश्वैश्वर्य भाप्त आप्तकामो मवतीति ॥१५५ ॥। अ० टी०-सम्यव्ज्ञानध्वस्तमोहप्रपञ्चः स्वीये पूर्णेश्वर्ये तिष्टेदित्यत्र प्रमाणं श्रुतिमु- दाहरति-ज्ञात्वा देवमिति। तस्य देवस्येश्वरस्याभिध्यानादाभिमुख्येन प्रत्यगभेदेन ध्यानात्तत्प्रसादेन तमेव देवं ज्ञात्वा विश्वैश्वर्यमाप्ोतीति योजना। केन क्रमेणेत्यपेक्षायामाह- सर्वपाशापहानिरिति। पाशाः क्लेशा अविद्यास्मितादयस्तेषां सर्वेषां हानिर्विच्छेद आत्यन्तिकः प्रथममस्य भवतीति। ततः क्षीणैः केशैः क्रेशेषु क्षीणेष्विति यावत्। क्लेश- क्षये तत्प्रयुक्तकर्माभावाज्जन्ममृत्युप्रहाणिर्जन्मादिविकारहानिरस्य सिध्यतीत्यर्थः। ततो देहभेदे वर्तमानदेहस्य भेदने प्रारब्धक्षयान्नाशे सतीति यावत्। उक्तपाशक्वेशहानिजन्ममृत्युप्रहाणि- रूपद्वयापेक्षया तृतीयं विश्वैश्वर्यमामोतीश्वर एव भवतीत्यर्थः । तदा च केवलो निरति- शय आप्तकाम: कृतकृत्य एव तदा भवतीति श्वेताश्वतरीयोपनिषन्मत्रार्थः ॥१५५ ॥ सु० टी०-एवं श्वेताश्वतरवाक्यमुदाहृत्य छान्दोग्यभ्रुतिमुदाहरति- स स्वराडिति च विद्यते ्ुति- वर्णितेश्वरवपुःप्रकाशिनी।
Page 264
[३ तृतीयोऽ्ध्याय: ] संक्षेपशारीरकम्। ६९९
तेन सत्यसुखबोधवद्धवे दीश्वरत्वमिति केचिदूचिरे ॥ १५६ ॥ स. स्वराडिति। स्वाभाविकश्वर्यवादमुपसंहरति -- तेनेति ॥१५६॥ अ० टी० -- स्वाराज्येऽस्मिन्नित्यत्रापि श्रुतिरस्तीत्याह -- स स्वराडिति चेति। 'आत्मक्रीड आत्मरतिरात्ममिथुन आत्मानन्दः स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति' [छा०७।२५.।२]इति श्रुतिर्वर्णितेश्वरवपुःप्रकाशिनी विद्यत इत्यर्थः। उत्थापितं परमतमुपसंहरति-तेन सत्येति ॥१५६ ॥ सु० टी०-दूषयति- तन्न भाति चतुरस्त्रमुच्चकै- स्तत्प्रमाणविरहादिह श्रुतौ । सत्यबोधसुखवन्न तत्परा सत्युवाच यत ईश्वरश्षृतिः ॥।१५७। तन्नेंति। तत्र हेतुमाह-तत्प्रमाणेति। ननूक्ता श्रुतिरिति तन्राऽSह -- न तत्परेति। यथा बोधसुखात्मपरा 'विज्ञानमानन्दम्'[बृह० ३। ९। २८] इति श्रुतिर्नैवमैश्वर्यंपरा काचिदस्तीत्यर्थः ।१५७।। अ० टी०-इदानीमेतद्दूपयितुमुपक्रमते-तन्न माति चतुरस्रमिति । निषेधप्रतिज्ञायां हेतुमाह-उच्चकैस्तत्प्रमाणेति। इहाऽडत्मन ऐश्वर्यस्य स्वाभा- विकावे श्रुतावुपनिषद्ग्रन्थेषूचैस्तत्परतया तत्प्रतिपादकप्रमाणविरहादिति योजना।'एप सर्वेश्वरः' इत्यादिश्रुतिदर्शनात्कथं तत्प्रमाणविरह इति चेन्मैवमेवंिधश्रुतीनां स्वार्थपरत्वासं भवादित्याह-सत्यबोधेति ॥१५७ ॥ सु० टी० -- एतदेव प्रपञ्चयति- तत्परश्रुतिवचःप्रमाणकं सत्यबोधसुखविग्रहं परम्। ब्रह्म तद्वदिह नेश्वरत्वभाक्- तत्परश्रुतिवचःप्रमाणकम् ॥ १५८ ॥ .. तत्परेति। यथा सत्यबोधादिविग्रहं ब्रह्मेत्येतत्परश्रुतिप्रमाणकं नैवमी-
Page 265
७०० टीकाट्वय समेतं- [ ३ तृतीयोऽच्याय: ]
अ० टी०-सत्यबोधादिरू पत्वप्रतिपादकक्षुति वदीश्वरत्वावेदकश्रुतेस्तत्परत्वाभावमुक्तं विशदयति-तत्परभ्रुतिवच इति। सत्यबोधसुखविग्रहं परं ज्ह्म यथा तत्परश्रुतिवच :- प्रमाणकं तद्वदीश्वरत्वभाग्ब्रह्मेह श्रुतिशास्त्रे तत्परश्रुतिवचःप्रमाणकं न भवतीति योजना ॥ १५८ ॥ सु० टी०-तनु वर्णिता फलश्तिरेव तत्र प्रमाणसिति चेन्नेत्याह- या फलश्रतिरिहोपवर्णिता सा न तत्पस्तयाऽवगम्यते। तत्त्वमादिवचनं हि तत्परं तत्परा न तु फलश्रुतिः क्चित् ॥ १५९॥ या फलेति। तस्या अतत्परत्वादित्यर्थः । कि तार्है तत्परं तत्राSऽह- तत्त्वमिति। अस्तु फलश्रुतिरप्यैश्वर्यपरेति चेन्नेत्याह-तत्परेति। यथा हि स्वर्गादिफलश्रुतिर्न तम्परा किं तु विधिपरैवमियमपि तत्त्वसादिवाक्या र्थपरा न स्वार्थपरेत्यर्थः ।१५९॥ 6 अ० टी०-ननूक्ता श्रुतिरैश्वर्यविषयां कथं न तत्परेत्यत आह-या फलश्रुति- रिति। कुतो नावगम्यत इत्यत आह-तत्त्वमादीति। स्वार्थबोधे. दृष्टफलत्वात्त्त्व- मादिवचनस्य स्वार्थपरत्वमित्यर्थः । फलश्रुतिरपि स्वार्थपराऽस्विति चेन्मैवमित्याह- तश्परा नत्विति। कचिदपि फलश्रुतिस्तत्परा न भवति। तस्याः सर्वत्रान्यतःसिद्धफल+ प्रकाशनेन साधकप्रवर्तनपरत्वादित्यर्थः ॥ १५९ ॥
सामगानमपि तत्स्वरूपतां जक्षणं च जगतश्र् सर्जनम् । अश्रुवीत फलवाक्यतः श्रुतं तत्स्वरूपमिति यधुपेयते ॥ १६०॥ सामगानमिति। तदा हि 'साम गायन्नास्ते'[ तैत्ति० ३। १०।५] 'जक्षत्क्रीडन् ' [छा० ८। १२। ३ ] इति 'सोऽस्य संकल्पादेव समुत्तिष्ठति ' [छा० ८। २'। १० ] इत्यादिकमपि फलवाक्यतः
Page 266
[३ तृतीयोऽव्यायः ] संक्षेपशारीरकम्। ७०१
अ० टी०-फलवाक्यावगतस्याप्यर्थस्य स्वरूपत्वाभ्युपगमेऽतिप्रसङ्गश्व स्यादित्याह- सामगानमपीति। एतत्साम गायन्नास्त इति कचित्सामगानमपि फलं विदुषः श्रुतम्। तथा जक्षत्कीडन्रममाण इत्यन्न जक्षणपदवाच्यं हासभक्षणादि श्रुतम्। तथा 'स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति ' इत्यादौ जगतः सर्जनं च फलमवगतम्। तथा च फलवाक्यतः श्रुतं तत्स्वरूपमिति यद्यभ्युपेयते तदा सामगानाद्यपि ततस्वरूपतां ब्रह्मस्वरूपतामश्नुवीतेत्यर्थः ॥ १६० ॥ सु० टी .- नन्वर्थवाद्प्रतीतमपि शोकतरणादिवद्स्तु ब्रह्मस्वरूप. मिति चेत्तत्राSडह -- अर्थवादगतमभ्युपेयते न प्रमान्तरविरोधि यन्मतम्। सामगानमथ जक्षणादि वा तत्परशुतिविरुद्धमुच्यते ॥ १६१ ॥ अर्थवादेति। शोकतरणादेः प्रमाणान्तरविरोधस्य परिहृतत्वाद्म्युपगमो म तु तथा सामगानादावशरीरत्वादिश्वृतिविरोधादित्यर्थः ॥१६१ ॥ अ० टी०-तत्किमिदानीमर्थवादानां कापि स्वार्थपरत्वं नास्त्येव हन्त तर्हि बादराय- णदेताधिकरणन्यायविरोध इति चेत्सत्यं यद्यत्र देवताधिकरणन्यायो लभ्यते नात्र सोड़- स्तीत्याह-अर्थवाद्गतमिति। संवादिविसंवादिप्रमाणान्तराभावे हि देवताधिकरणन्या यावतार इह सामगानादेस्तत्परनिर्विशेषत्वप्रतिपादकश्तुतिनिरोधान्नात्र देवताधिकरणन्याया- चतार इत्जर्थ: ॥ १६१ ॥ सु० टी० -- नन्वैश्वर्यस्य वस्तुपरश्रुतिविरोधामावादस्तु स्वरूपत्व- मिति नेत्याह -- ईश्वरत्वमपि तत्परभ्ुति- नैति नेति परिदुःखिता सती। वारयत्यवशिनष्टि केवलं चित्स्वरूपमनवद्यविग्रहम् ॥ १६२॥
Page 267
७०२ टीकाद्वयसमेत- [ १ तृतीयोऽच्याय: ]
तिपीडेति परितो दुःखितेत्यर्थः। एवं सर्वनिषेधे गून्यत्वमिति नेत्याह- अवशिनष्टीति. ॥। १६२।। . अ० टी०-तर्हि निर्विशेषश्रुतिविरोधात्सामगानादेर्रहमरूपता. मा भूदीश्वरत्वं तु स्वरूपं सुखादिवद्धविष्यति तस्य प्रमाणान्तरविरोधादर्शनादिति चेन्न तस्यापि श्रुत्या निषि- ध्यमानत्वादित्याह-ईश्वरत्वमपीति। मूर्तामूर्तब्राह्मणे हि ब्रह्मण ऐश्वर्यमध्यात्ममधि- दैवं चोपवर्ण्य 'अथात आदेशो नेतिनेति' [बृह० २। ३ । ६] इति तत्परां श्रुतिः परिदुःखिता सती कथमयं जन ईश्वरात्मतत्त्वं जानीयादिति मातेव पुत्रहितैषिणी दुःखं प्राप्तेवेश्वरत्वमपि वारयति प्रतिषेधति । तत्प्रतिषेधे. किमवशिष्यत इति तदाह- अवशिनष्टि केवलमिति। केवलं निर्विशेषं चित्स्वरूपं चिन्मात्रमनवद्यविग्रहं निरपे- क्षस्वरूपं 'सत्यस्य सत्यमिति प्राणा वै. सत्यं तेषामेष सत्यम्' इत्यवशिनष्टि तन्मात्रमे- वेश्वरतत्त्वमवधारयतीत्यर्थः ॥ १६२ ॥ सु० टी०-ननु द्विविधमैश्वयं सोपाधिक निरुपाधिकं चेति तत्ाSS- द्यस्य निषेधेऽप्यन्त्यस्यावशिष्यमाणत्वाङ्गह्मस्वरूपत्वं घटत इति शङ्कूते- सोपाधीश्वरतानिषेधनपरा सा नेति नेतिश्रुतिः साक्षाद्वागवतं निरस्तनिखिलोपाधिस्वरूपं पुनः। विश्वैश्वर्यमिहोच्यमानमधुना मोक्षे ततस्तत्पर- र्वाक्यैरस्य विरुद्धतानवसरो मुख्यं ततो गृह्यताम्॥१६३॥ सोपाधीति। वाक्यैरुच्यमानमिति संबन्ध: ।. तत्परैविश्वैश्वर्य केवल इत्यादिमिं: ।।१:३। अ० टी०-अत्रेश्वरत्वस्य सोपाधिकत्वनिरुपाधिकत्वाभ्यां द्वैविध्यं मन्यमानो वादी निषेधस्य सोपाधिकेश्वरविषयत्वमवशेषस्तु निरुपाधिकेश्वरत्वस्येति प्रत्यवतिष्ठते-सोपा- धीति।'नेतिनेति'[बृ० २ । ३।६] इति या श्रुतिः सा सोपाधीश्वरताः' अमुख्येश्वरत्वस्य निषेधपरा यत्पुनरधुनेह मोक्षे विश्वैश्वर्यं केवल. आप्तकाम इत्यादिवचवै रुच्यमानं विश्वैश्वर्य साक्षाद्भागवतमित्या दिविशेषणद्वयोपेतं. तत्पुनर वशिनष्टीत्यनुषङ्गेण योजना। तत एवं सति तत्परैवाक्यैरनिर्विशेषत्वप्रतिपादकैरस्यैश्वर्यवचनस्य विरुद्धतायाः शङ्कावसर नास्तीत्यर्थः । सिद्धमर्थमुपसंहरति-मुख्यमिति। यतः श्रुतिविरोधाभावस्ततस्तस्त न्मुख्यं स्वाभाविकमेवेदमैश्वर्यमिति गृह्यतामङ्गी क्रियतामित्यर्थ: ॥१६३ ॥
Page 268
[३ तृतीयोऽध्यायः ] संक्षेपशारीरकमू। ७०३
सु० टी०-तर्हिं सामगानादावपि सोपाधिकस्यैय निषेधी निरु- पाधिकं तु ग्राहयं स्यादित्यतिपरसङ्गेन दूषयति -- सामगानमथ जक्षणं जग- त्सर्जनं च निरुपाधिं गृह्यताम्। नेति नेतिवचसा निषिध्यते जक्षणादिकमुपाधिसंश्रयम् ॥ १६४ ॥ सामेति ॥१६४ ॥ अ० टी०-एवं तर्हि सामगामादिकमपि तथा विभज्य निरपेक्षस्वरूपतया मुख्य- मिष्यतामिति सिद्धान्ती प्रतिबन्दीं गृह्ाति-सामगानमिति । सामगानादिकमपि द्विधा विभज्य निरुपाधीश्वरस्वरूपमिति गृह्यतामुपाधिसंश्रयं सोपाधिकं जक्षणादि नेत्यादि- चचसा निषिध्यत इति च गृह्यतामिति योजना ॥ १६४ ॥ सु० टी०-स्यादेवं यदि द्विविधं सामगानादि स्यान्न च तदस्ति मानामावादिति चेदेश्वर्षेपि तुल्यमित्याह- सामगानमथ जक्षणं जग- त्सर्जनं न च खलु द्विघेष्यते। तत्प्रमाणविरहादिहेति चे-
सामेति ॥१६५ ॥ दीश्वरत्वमपि न द्विधा भवेत् ॥ १६५॥
अ टी०-सामगानादेर्निरुपाधिक रूपसद्भावे प्रमाणाभावान्ात्र द्वैविध्यसंभव इति प्रतिबन्दी पूर्ववाद्युद्धरति-सामगानमिति। स्पष्टार्थः । तर्हींश्वरत्वस्यापि द्वैविध्ये मानाभावस्तुल्य इति सिद्धान्ती परिहारसाम्यमाह-ईश्वरत्वमपि। न द्विधा भवेदिति। ईशितव्यापेक्षानियमादीश्वरत्वस्य निरपेक्षं तत्प्रामाणिकं न संभवती- त्यर्थः ॥ १६५ ॥ सु० टी०-तर्हिं ज्ञानसुखयोरपि द्वैविध्ये मानाभावाङ्गह्मस्वरूपानुप- पत्ती जडमसुखं च ब्रह्म स्यादिति नेत्याह- ज्ञानमस्ति खल बाह्यगोचरं निर्विशेषमविनाशि च द्विधा।
१ क. 'धि गम्यताम्। २ क. ग. धेप्सिते०।
Page 269
७०४ टीकाट्वय समेतं- [ ३ तृतीयोऽध्यायः ]
बाह्यगोचरमपोह्य केवला स्वापमोक्षसमये चितिः स्थिता ॥ १६६ ॥ ज्ञानमिति। बाह्यगोचरं सविशेषम्। केवला निर्विशेषा ॥ १६६ ॥ अ० टी०-तर्हि ज्ञानादिकमपि ज्ञेयाधिसापेक्षं कथं स्वरूपं ब्रह्मणः स्यादिति
स्तीति संबन्धः । खलुशब्दः प्रसिद्ध्यर्थः । ज्ञानस्य द्वैविध्यं न शङ्कास्पदमित्यर्थः १ द्वैविध्यमेवाSSह-ब्राह्यति । बाह्यार्थविषयं ज्ञानं विनाशिज्ञानं निर्विशेषं ज्ञानमवि- नाशि तदात्मरूपमित्यर्थः । निर्विशेषं ज्ञानं क्ास्तीति वीक्षायामाह-बाह्यगोचरमपो- ह्योति ॥ १६६ ॥ सु० टी० -- भ्रुतिरषि तह्टैविध्यं कथयर्तीत्याह- पश्यन्न पश्यतिगिरा कथयांबभूव साक्षादनश्वरविनश्वरचिद्विभागम्। तात्पर्यतः श्रुतिवच: स्फुटमेव नैव- भैश्वर्यवस्तुनि विभागवच:श्ुतिर्नः ॥ १६७॥ पश्यन्निति । यथा 'पश्यन्वै तन्न पश्यति' [बृह० ४।३।२३] इति श्रुत्या साक्षादेव सत्यामपि कूटस्थहष्टी वुद्धिवृत्त्यमावकथनान्नित्यानित्य- ज्ञानविभागस्तात्पर्येणोक्तो नैवमैश्वर्यद्वयविषया श्रुतिरस्तीत्यर्थः-॥१६७॥ अ० टी०-बाह्यविषयज्ञानव्युदासेन निरुपाधिकं चितिस्त्ररूपं स्वापादावस्तीत्यत्र किं प्रमाणमिति चेत्तत्राऽऽह-पश्यन्न पश्यतीति।'यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टर्ष्टेर्विपरिलोपो विद्यतेSविनाशित्वात्। न तु तद्वितीयमस्ति ततोऽन्य- द्विभक्तं यत्पश्येत्'[ बृह० ४ । ३ । २३ ] इति श्रुतिवचः साक्षादनश्वरविनश्वरचि- द्विभागं पश्यन्न पश्यतिगिरा तात्पर्यतः स्फुटमेव कथयांब्रभूवेति योजना। उदाहृतश्रु- तिपदानामेषोऽर्थ :- यद्वै तदिति पदानि तत्तत्र सुषुप्त्यादावात्मा न पश्यतीति यद्वै प्रसिद्धं तन्न तथा मन्तव्यमिति शेषः । कुतः पश्यन्वै पश्यन्नेवाऽडत्मा तत्तत्र न पश्यतीति प्रसिद्धः । ननु विरुद्धमैतत्पश्यन्वै तन्न पश्यतीति न विरुद्धमित्याह-न हीति। द्रष्ट- रात्मनो या दृष्टिदर्शनं रूपाद्यवभाससमर्थ ज्ञत्िस्वरूपं तस्या दृष्टेर्विपरिलोफो विनाशो न हि विद्यते। कुत इत्यत आह-अविनाशित्वादिति। विनाशशीलं हि विनाशीत्युच्यते। नेयं दृष्टिस्तथा सर्वविनाशादिसाक्षित्वान्नित्यस्याSऽत्मनः सर्वदा सर्वानात्मव्यावर्तकतयाड्व. स्थानाच। अतोऽविनाशित्वादस्या विपरिलोपों न विद्यते स्वापे चक्षष उपसंहाराचाक्षुष्या
Page 270
[३ तृतीयोऽध्याय:] संक्षेपश्ञारीरकम्। ७०५
मनोवृत्तेर्विलेपेऽपि तद्द्वारा रूपावभासिनी दृष्टिः स्वरूपतो न नश्यतीति पश्यन्नेव तदात्मे- त्यर्थः। तर्हि न पश्यतीति कथमुक्तं तत्र हेतुमाह-न तु तद्वितीयमिति शेषेग। तत्तत्र सुषुप्तौ तत आत्मस्वरूपाद्विमक्तं पृथग्भूतमन्यद्विलक्षणं दृश्यं विषयकरणादिकं न त्वस्ति यत्तदा पश्येत्। अतो दृश्याभावान्न पश्यतीत्युच्यते स्वरूपज्ञानाविलोपात्पश्यन्निति चेति नात्र कोऽपि विरोध इति। यथैव निरुपाधिकज्ञानसद्भावः सोपाधिकाद्विविच्य श्रुत्योच्यते नैवमैश्वर्यवस्तुनि नोऽस्माकमौपनिषदानां विभागवचनपरा श्रुतिरुपलब्धाS- स्तीत्यर्थ: ॥ १६७ ॥ सु० टी० -- एवं सुखद्वैविध्यमपि श्रुतिरेव दर्शयर्तीत्याह- एवं न वा अर इति श्रुतमेव ताव- त्पुत्राद्युपाधिपुरुषस्य सुखं विनाशि। नित्यं निरन्तरमनन्तमपारमुक्तं ब्राह्मं सुखं वचनकोटिशतैश्र यत्नात् ॥ १६८॥ एविति। 'न वा अरे पुत्राणां कामाय'[बृह० २।४।५]इति प्रियादिरूपपुत्राद्याधिकमनित्युसुखं श्रूयते। 'एष एव परम आनन्दः' [बुह० ४। ३ । ३३ ] इत्यादिपु तु नित्यनिरतिशयं ब्रह्मसुख- मित्यर्थः ॥ १६८॥ अ० टी०-ज्ञानवत्सुखमपि द्विविधं प्रसिद्धमिति मन्वानस्तत्र प्रमाणमाह-एवं न वेति। 'न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति'[बृह० २।४।५] इत्यादौ पुरुषस्य पुत्राद्युपाधिकं सुखं विनाशीति तावच्छूतमेव । तथा नित्यं च ब्रह्मसुखं 'विज्ञानमानन्दं ब्रह्म '[ बृह० ३। ९।२८] एषोऽस्य परम आनन्दः [बृ० ४ । ३ । ३२ ] 'आनन्दो ब्रह्मेति व्यजानात्' [बृ ३ । ६।१] 'आनन्दरूपममृतं यद्विभाति' [मुण्ड० २।२७] इत्यादिश्रुतिवचनकोटिशतैर्यतनात्तात्पर्येणोक्तम्। कीदशं तत्सुखं निरन्तरं दुःखादयननु- विद्धम्। अनन्तं कालतोऽन्तरहितम्। अपारं देशतोऽव्यन्तरहितमित्यर्थः ॥ १६८॥ सु० टी०-नत्वेवं द्विविधमैश्वर्य वेदे क्वचिद्वर्णितमित्युपसंहरति- ऐश्वर्यवर्णनमिह द्विविधं न वेदे नित्यं कचित्कचिदनित्यमिति प्रतीमः।
Page 271
७०६ टीकाद्वय समेतें- ।[३ तृतीयोऽध्याय:]
ऐश्वर्यमात्रकथनं पुनरस्ति मोक्षा- द्वोङ्ग न मोक्षसमये च न तत्परं तत् ।१६९॥. ऐश्वर्येति। तर्हि किमैश्वर्यं नाभ्युपेयत एव नेत्याह-ऐश्वर्यमात्रेति। अस्यै- श्वर्यमेष सर्वेश्वर इत्यादिमोक्षादर्वाक्षु भूमिषु व्यवहारदशायामित्यर्थः। नन्वा्ति मोक्षेऽपि तृतीयं देहभेद इत्यादीति तत्राSडह-मोक्षसमय इति। किं तु स्तुतिपरमेवरेंति शेष: ॥ १६९ ॥ अ० टी०-तदेवं ज्ञानसुखयोरद्वैविध्यस्य साक्षाच्छतिसिद्धत्वात्तत्र सोपाधिकयोर्न प्रेत्य संज्ञाऽस्ति 'न प्रियाप्रिये स्पृशतः' [छा० ८।१२ । १] इति चाऽडत्मनि प्रति- षेधो निरुपाधिकयोस्तु श्रतितात्पर्यगोचरत्वादात्मस्वरूपतेति प्रतिबन्दीशङ्कामपोद्य नैवमैश्वर्य- वस्तुनि विभागतचःश्रुतिर्नइत्यत्रोक्तं विवृणोति-ऐश्वर्यवर्णनमिति। ऐश्वर्यमात्रक- थनमिति। 'एप सर्वेश्वरः ' 'सर्वस्पेशानः सर्वस्याधिपतिः' [बृ० ४।४।२२] इत्यादौ नित्यत्वानित्यत्वविशेषानवमर्शनेनैश्वर्यमात्रकथनं पुनर्वेदेऽस्तीत्यर्थः । तच्च श्रूयमाण- मैश्वर्य मोक्षादर्वागयावहारिकमेत तन्न पारमार्थिकमित्यर्थः । यच्च 'विश्वैश्वर्य केवल आप्तकाम:' [श्वे० १।११ ] इति मोक्षसमये च श्रवणं तन्न तत्परं किं तु स्तुतिपर- मेवेशितव्याभावात्तत्रेत्यर्थ: ॥ १६९ ॥ सु० टी०-नन्वैख्वर्यस्यास्वरूपरवे तत्कीर्तनं व्यर्थमिति चेत्तत्राSSह- शियशिरस्त्वकथा खलु यादृशी अवति तादृशमेव तदीरणम्। तदनु नेति च नेति वचः श्रुते- र्यदपि मोक्षगतं स्तुतये हि तत् ॥ १७० ॥ प्रियेति । यथाSऽनन्द्मयब्रह्मण: प्रियशिरस्त्वाद्यस्वरूपमप्युपासनार्थ- त्वान्निर्गुणम्रह्मप्तिपादनोपायत्वेन संकीरत्यते तथैश्वर्थमपीत्यर्थः । कुत इति चेतत्राऽऽह-तदन्विति। तर्हि मोक्षसमये कथनस्य क्वोपयोगस्त- त्राSSह-यदपीलि ॥ १७० ॥ अ० टी०-उक्तमेवार्थमुपपादयति-प्रियशिरस्त्वेति। आनन्दमयस्य ब्रह्मत्व- मिति मसे 'तस्य प्रियमेघ शिरः मोदो दक्षिणः पक्षः'[ तै० २ । ५ १] इत्यादौ व्रह्मणः प्रियमोदाद्यवयनत्वकथा कथनं यादृश्यौपाधिकविषयत्वान्न खलु स्वरूप परा भवतीत्यर्थः । तदीरणमैश्वर्यकथनमपि तादृशमेवौपाधिक्विषयं व्यावहारिकमेवाSड- रोपितरूपत्वादित्यर्थः । कथमिदमवगम्यत इति तत्राSSह-तदन्विति। ऐश्वर्यकथना- 3 घ. र्वाक्षु मो।
Page 272
[३ तूतीयोऽव्याय: ]' संक्षेपशारीरकमू। ७०७
नन्तरं 'स एष नेति नेत्यात्मा' [वृ ३ । ९। २६ ] इति निषेधवचनश्रवणाननि- षिध्यमानस्य चापरमार्थत्वादित्यर्थः । ऐश्वर्यद्वैविध्ये प्रमाणाभावे सति निषेधस्यौपाधिकैश्वर्य- परत्वकल्पनानवकाश इति भावः । मोक्षसमये च न. तत्परं तदित्युक्तं विवृण्वंस्तस्य व्रिषय- माह-यदपि मोक्षगतं स्तुनये हि तदिति। हिशब्दः फलश्रुतेः सर्वत्र स्तुति- परत्वप्रसिद्धिदयोतनार्थः । 'सोऽशनुते सर्वान्कामान्सह' [तै० २। १। १] इत्यादि- वद् 'विश्वैश्वर्य केवलः ' [श्वे० १। ११] इत्याद्यपि विद्यास्तुतिपरमेवेत्यर्थः॥१७०॥ सु० टी०-एवं स्वमतेनैश्वर्यस्यास्वाभाविकत्वमुकत्वा मतान्तरानू सारणापि वर्णयति- स्वातन्त्र्यमीश्वरगिरा गुणमार्गवृत्ति- माश्रित्य पूर्वगुरवः प्रतिपादयन्ति। सिंहस्य शौर्यगुणवत्परभेश्वरस्य स्वातन्त्र्यलक्षणगुणोऽव्यभिचाररूपः॥१७१ ॥ स्वातन्त्र्यमिति। गुणमार्गावृत्तिं गौणीमित्यर्थः । यथा शौर्यगुणः सिंह न व्यभिचरत्येवं स्वातन्त्रयगुणोऽपीश्वरमिति। यथा शौथयोगिनि सिंह- शब्दस्तथा स्वातन्त्रययोगात्निर्गुणेऽपीश्वरशब्दः प्रवर्तत इति वदन्ती- त्यर्थ: । १७१:। अ०टी०-तदेवमीश्वरत्वं न निरुपाधिकमस्त्यतों न तद्रह्मस्वरूपमिति प्रतिपादितमिदानी. सीश्वरश्रुतेर्निरुपाधिके ब्रह्मण्यविरुद्धमर्थ कथयन्तः किं वदन्तीत्याह-स्त्रातन्त्रयमिति। पूर्वे ये वृद्धास्ते च ते गुरवश्चेति पूर्वगुरवस्ते गुणमार्गवृत्तिमाश्रित्य शब्दस्य गौणी वृत्ति- मङ्गीकृत्येश्वरगिरां स्वातन्त्र्यं प्रतिपादयन्ति। एतदेव दृष्टान्तेन स्पष्टयति-सिंहस्पेति। यथा सिंहस्य शौर्याख्यो धर्मः सिंहाव्यभिचारी तथा परमेश्वरस्य स्व्रातन्त्र्यलक्षणगुणोऽव्य- भिचाररूप: स्वातन्त्र्यमीश्वरं न व्यभिचरतीत्यक्षरार्थः । एतदुक्तं भवति-गथा सिहो देव- दत्त इति सिंहगतशौर्यगुणयोगिनि. मनुष्ये सिंहशब्दः प्रयुज्यते सिंहाव्यभिचारिशैर्यगुणयो- गादेवं सिंहशौर्यवदीश्वरस्य स्वातन्त्रयमव्यभिचारीति निरुपाधिके ब्रह्मण्यपीश्वरपदं स्वातन्त्र्य- लक्षणार्थ प्रयुज्यते। यथा सिंह इत्युक्त शौर्य लक्ष्यते तथेश्वर इत्युक्ते स्वातन्त्र्यं लक्ष्यते.। तच्च सिंहे शौर्यव द्रह्मण्यव्यभिचारीति. तद्द्वारकस्तत्रेश्वरपदपयोगः इति ॥ १७१ ॥ सु० टी०-सथं निर्गुणब्रह्मणि स्वातन्त्रयगुणयोग: संभवी तत्परत्वेः- नेश्वरपदापरयोगादिति चेत्तवाSSह- ऐश्वयर्वस्तु परिगृह्य तदत्यजन्तः सामर्थ्यसिद्धि मुपपादयितुं क्वचिच।.
Page 273
७०८ टीकाट्टय समेतं- [३ तृतीयोऽव्याय: ]
सर्वेश्वरभ्तुतिवचः समुदाहरन्ति स्वातन्त्र्यलक्षणगुणस्य तमस्वितायाम् ॥१७२॥ ऐश्वर्यवस्त्विति। क्वचिद्रन्थ ऐश्वर्यवस्तु परिगृह्य तमस्वितायामज्ञानाव- स्थायां तकृत्यजन्तो निरुपाधिकेऽपि स्वातन्त्रयगुणसिद्धिमुपपादयितुं
श्वरमत्रवीदित्यादिभाष्य इति नोक्तदोष इत्यर्थः ॥१७२॥ अ० टी० -- ननु निरुपाधिकब्रह्मस्वरूपपरतयेश्वरपदश्रव्णमेव नास्तीत्युक्तं तत्कथमी-
दित्याह-ऐश्वर्यवस्त्वति। कचिद्ग्रन्थ ऐश्वर्यवस्तु परिगृह्ैश्वर्याभिधायकत्वेन सर्वेश्वर- श्रुतिवचः समुदाहरन्ति भाष्यकारप्रभृतयः । कारणत्वेन चाऽडकाशादिषु यथाव्यपदिष्टोक्ते रित्यत्रापर प्रयोज्यत्वं नेश्वरमव्रवीदिति भाष्यदर्शनात्। एवमन्यत्राप्येतादृशं वचनमन्वेषणी- यम्। तमस्वितायां तमोव्यवस्थायां तदैश्वर्यमत्यजन्तः सन्तो निरुपाधिके ब्रह्मरूपे स्वातन्त्र्य- लक्षणगुणस्य सामर्थ्यसिद्धिमुपपादयितुमेवोदाहरन्ति । अतो. युक्तमेवोच्यते पूर्वगुरुमिि त्यर्थः ॥ १७२ ॥ सु० टी० -- ननु कथं तमस्वितायामैश्वर्याभिधाने निर्गुणेऽपि स्वातन्त्रयगुणस्य सामर्थ्यसिद्धिरित्याश ङ्यान्यथानुपपतत्येति हष्ान्तेनो- पपाद्यति- सिंहश्तुतिर्न घटते यदि शूरताऽस्य न स्यात्तथैव परमेश्वरताश्षुतिश्व। नैश्वर्यलक्षणगुणः परमात्मनश्र्वे- दित्यर्थलब्धिमभिसंदधते महान्तः ॥ १७३ ॥। सिंहेति। यथा देवदत्ते सिंहश्ुत्यन्यथानुपपत्या शौर्यकल्पनमेवमैश्वर्य- लक्षणं ज्ञापकं यस्य स्वातन्त्रपगुणस्य स तथा स चेन्न परमात्मनः स्यात्परमेश्वरताथ्रुतिरपि न स्यादिति तत्सिद्धिरित्यर्थः ॥१७३ ॥ अ० टी० -- कथं तमस्व्यवस्थावर्त्यैश्वर्याभिधानेन निरुपाधिरूपे स्वातन्त्र्यगुणस्य सामर्थ्यसिद्धिरिति चेदन्यथानुपपत्त्यैवेत्याह-सिंहभ्रुतिरिति। यद्यस्य देवदत्तस्य सिंहस्य च शूरता न स्यात्तरि सिंहश्रुतिर्न घटते सिंहाव्यभिचारिशौर्यनिबन्धनत्वास्सिहशब्दस्य। यथाऽयं दृष्टान्तस्तथैव परमात्मन एैश्वर्यलक्षणगुण ऐैश्वर्यलक्षणं ज्ञापकं यस्पेति व्युत्पत्ते: स्वातन्तर्यरूपो धर्मक्षेन् स्यात्तदा तस्मिन्परमेश्वरताश्रुतिः परमेश्वरशब्दो न स्यादित्येवमर्थलन्धि
Page 274
[ ३ तृतीयोऽध्याय: ] संक्षेपशारीरकम्। ७०९
सामर्थ्यप्राप्तिं महान्त आचार्या अभिदधते तत्र तत्र कथयन्तीत्यर्थः । ब्रह्मण व्यवहार- संबन्धापेक्षयाऽपि युज्यमाना सर्वेश्वरश्रुतिः स्वाभाविकं स्वातन्त्रयं विना नोपपद्यते । अतः सर्वेश्वरश्रुतिबलादवार्थास्वातन्त्र्यसिद्धिरित्यभिसंधानेन सर्वेश्वरश्रुति निर्गुणेऽप्युदाहरन्तीत्युक्तं भवति॥ १७३ ॥ सु० टी० -- तर्ह्यर्थलभ्यत्वादभौतत्वं तस्य स्यादिति तत्राSSह- शौतार्थवृत्तिबललक्ष्यमपीह वस्तु श्रौतं वदन्ति निकटत्वमनुस्मरन्तः । आसन्नवृष्टिमपि देवमुदीरयन्ति वर्षन्तमेव हि जना भुवि तादृगेतत् ॥ १७४ ॥ श्रीतार्थेति। यथा यागादेः स्वर्गहतुत्वोकत्याऽर्थलभ्यस्यापूर्वस्य श्रत. त्वमभ्युपेत्य तत्प्राधान्येनेत्थं भावान्वयमिच्छन्ति । एवमिहाऽडर्रिक- स्थापि स्वातन्त्रयस्य श्रौतत्वम्। दृष्टान्तमाह-आसन्नेति। वर्तमानसा भीप्ये वर्तमानवच्छौतसामीप्याच्छ्रौतत्वव्यवहार इत्यर्थः ॥१७४॥ अ० टी०-तथाऽपि श्रतार्थबललभ्यत्वादश्रौतं स्वातन्त्र्यं स्यादिति चेन्नायमपि दोष इत्याह-श्रीतार्थेति। श्रौतार्थे वृत्तिः श्रीतार्थबोधनं तद्वललभ्यं तत्सामर्थ्यात्प्राप्यमपि वस्तु श्रौतमिताह प्रमाणवृत्तिनिरूपणे वदन्ति पण्डिता इति योजना। तथा कथने निमित्तं सूचयन्वक्तृन्विशिनष्टि-निकटत्वमनुस्मरन्त इति । सामर्थ्यसिद्धस्यापि श्रौतार्थ निकटत्वं जानन्त इत्यर्थः । यथा यागादेः स्वर्गसाधनत्वात्साक्षाच्छौताल्भ्यस्यार्थस्य श्रीतत्व- मङ्गी कृत्य तत्प्राधान्येनेतिकर्तव्यत्वान्वयमाचक्षते केचित्तथाSत्रापि स्वातन्त्रयस्याऽडर्थिकत्वेऽपि न श्रौताद्विशेष इति भावः । श्रीतारात्तिमात्रेण श्रीतत्वव्यवहारे दृष्टान्तमाह-आसन्न. वृष्मगीति। आसन्नवृष्टिमपि वर्षन्तं देवमुदीरयन्तीत्यन्वयः । तादृगेतदिति श्रीतार्थ सामीप्याच्छ्ौतत्वव्यवहारः स्वातन्त्र्यस्येत्यर्थः ॥ १७४ ॥ अ०टी०-कथं पुनः 'पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ' [बह्मसू० ३। २। ९] इति सूत्रे तिरोहितत्वेनैश्वर्थस्य
ऐश्वर्यमज्ञानतिरोहितं स- दूध्यानादभिव्यज्यत इत्यवोचत्।
१ क. वर्धन्त । २ क. तं तद्धया।
Page 275
७१० टीकाद्वय समेत- [३ तृतीयोऽध्याय: ]
शरीरिणः सूत्रकदस्य यत्तु तदभ्युपेत्योदितमुक्तहेतोः ॥१७५॥ ऐश्वर्यमिति । कुतोऽम्युपेत्यवादस्तत्राSऽह-उक्तेति.। निषिध्यमानत्वा- दित्यर्थः । १७५॥। अ० टी०-तदेवं स्वातन्त्र्यविवक्षायां निर्विशेषेऽपि ब्रह्मणि सर्वेश्वरश्रुतिर्न विरु- ध्यत ऐश्वर्यं तु तत्परश्रुत्यभावादर्थविरोधाच्च न व्रह्मरूपमिति निरूपितं तत्रैश्वर्यस्यास्वरूप- त्ववर्णनं सूत्रकृद्वचनविरुद्धमित्याशड्क्याSSह-ऐश्वर्यमज्ञानेति। यत्तु सत्रकृदस्यः शरीरिणो जीव्रस्यैश्वर्य ब्राह्मैश्वर्यमज्ञानतिरोहितं सद्ध्यानादीश्वरस्व्ररूपाभिध्यानान्मोक्षद- शायामभिव्यज्यत इति 'पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ' [ ब्र.० सू० ३। २ । ५ ] इति सूत्रेणावोचत्तदम्युपगमवादेन तेनोदितमिति मन्तव्यमुक्तहेतोरेश्वर्ये प्रमाणाभवस्योक्तत्वादित्यक्षरयोजना । अत एव 'विश्वैश्वर्य केवलः'[श्वेता०- १। ११ ] इत्याद्या तत्रार्थवादश्ुतिरुद्ाहृता सा न तत्परेत्यभिप्रायः ॥ १७५॥ सु• टी०-किं च वास्तवैश्वय विनाऽनुपपत्यमावादृपि न तद्वास्त- वत्वं स्वभ्युपेयमित्याह- अथ वा चितिवत्पतीयतां पुरुषस्येश्वरतापि वास्तवीं।. यदि किंचन कारणं भवे- न्न विना सा तदिहात्युपेयते ॥ १७६ ॥ अथवेति। तत्कारणं विना सेश्वरता वास्तवी नेहेति योज्यम् ॥१७६॥ अ० टी०-ननु सूत्रकारोक्तं तथैवेत्यभ्युपगन्तुं युक्तमिति चेत्सत्यं प्रमाणवस्वे तथैव न हि सूत्र णामागमतया प्रामाण्यं कि तु युक्तिसमर्पकतया नचात्रार्थवादवाक्यव्य- तिरेकेण प्रमाणं किंचिदुपन्यस्तमस्त्यतोयमभ्युपगमवाद एवेंति निश्चीयत इत्याह- अथ वेति। अथशब्दस्तदेत्यर्थे। वाशब्दोऽवधारणें । अथ तदा पुरुषस्य जीवस्ये- श्वरताऽपि चितिवद्वास्तवी प्रतीयतां प्रतीयेत वाडङ्ी क्रियेतैवेति योजना। यदि किंचन कारणं प्रमाणं भवेत्तदेति संबन्धः । तत्प्रमाणं विनेह पुरुषे सा वास्तवीश्वरता नाम्युपेय- तेऽतिप्रसङ्गादित्र्थः ॥ १७६ ॥ सु० टी०-अभ्युपेत्यवादृत्वेऽपि कि मानमिति चेत्तत्राSSह- कामादि तत्र च भवेदितरत्र चेति यत्सूत्रकारवचनं तदुदीक्षमाणाः ।
Page 276
[ ३ तृतीयोऽध्याय: ] संक्षेपशारीरकम् 1 ७११
कामादिकेन दहरस्थगुणेन तुल्यं सर्वेश्वरादिगुणजावमिति प्रतीम: ॥१७७॥ कामादीति।'कामादीतरत्र तत्र चाऽडयतनादिभ्यः'[ब० सू० ३१
मपि भ्ुतेः 'य इहाऽडत्मानमनुविद्य ब्रजन्त्येतांश्र सत्यान्कामान्' [छा० ८। १ ।६ ] इति अन्यत्र च 'अत ऊध्व विमोक्षाय बूहि' [बृह०४। ३ । १४ ] इतिलिङ्गात्सगुणनिर्मुणत्वाम्या मेदे स्थितेऽि निर्गुणवाजसनेथिविद्यायां सगुणविद्यागतसत्यकामत्वादिगुणोपसंहारो गुणवत एकत्वात्रघृद्यायतनत्वसेतुत्वादिसाम्याच्च सूत्रितो विभूतिप्रदर्श- नाय नोपासनायंत्यतः कामादिगुणेन तुल्यमवास्तवत्वं सर्वेश्वरत्वादिगु- णस्य जानीम इत्यर्थः ।।१७७ । अ० टी०-सूत्रकदुक्तेरम्युपगमबादत्वनिश्चये स्पष्ट हेतुमाह-कामादीति । 'कामादीतरत्र तत्र चाऽडयतनादिम्यः' [ब्र० सू० ३ ।३ । ३९ ] इतिसूत्रेण दहरविद्यागतानां सत्यकामत्वादिगुणानां बृहदारण्यकगतनिर्गुणविद्यावर्तिनां सर्ववशित्वसर्वे- श्वरत्वादिगुणानां च परस्परत्रोपसंहारः सूत्रकारेणोक्तस्तदेतदाह कामादि सत्यकामत्वादि तत्र च निर्गुणविद्यायामपि भवेदितरत्र च सगुणविद्यायामपि निर्गुणविद्यागतं सर्वेश्वरत्वादि भवेदिति योज्यमित्येवं यत्सू त्रकारवचनं तदुदीक्षमाणाः पश्यन्तः कामादिकेनेति सुग- मम्। तत्र दहरविद्याप्रकरणादुसंहृतानां सत्यकामत्वादीनां निर्गुणविद्यायामुपकारः स्तुति- लक्षणः । स एव वशित्वेश्वरत्वादीनामपि तत्र श्रयमाणानां तुल्यार्थत्वप्रयुक्तत्वादुपसंहारस्य। अत ऐश्वर्य न चितिवत्स्वरूपत्वेनाभिमतं सूत्रकारस्येति प्रतीमो वयमित्यर्थः ॥ १७७॥ सु०टी०-उक्तमर्थ प्रपश्चयति- दहरस्थगुणोप संहृतेः स्तुतिमात्रं विरहय्य नापरम्। फलमस्ति परात्मनिष्ठिते वचने वाजितिरादते महत् ॥१७८ ॥
त्यर्थः। वाजिभिर्वाजसनेविभिरादृते 'स वा एष महानज आत्मा' [बृह० ४।४ । २२ ] इन्यादिविचने ॥ १७८ ॥
Page 277
७१२ षीकाद्वय समेतं- [३ तृतीयोऽध्यायः ]
अ० टी०-दहरस्थगुणोपसंहारस्य निर्गुगविद्यायां न स्तुतिव्यतिरिक्त उपकारोS- स्तीत्याह-दहरस्थेति । परमात्मनिष्ठिते वचनै वाजिभिरादृत दहरस्थगुणोपसंह्ृतेः स्तुतिमात्रं विरहय्यापरं महत्फलं नास्तीत्यन्वयः । यद्यपि सत्यकामत्वादिभिरपि स्वातन्त्रय- मुपलक्षयितुं शक्यत तथाऽपि न तदर्थमेत उपसंहर्तव्याः श्रुतेर्वशित्वादिभिरपि तत्सिद्धेरि- त्यभिप्रेत्य महदिति फलं विशेषितम् ॥ १७८॥ सु० टी०-आस्तां तस्य स्तुतिमात्रं फलं प्रकृते तु. किमायातमिति. तत्राSडह- दहरादुपसंहृतैर्गुणैः सदृशाश्रेद्वशितादिलक्षणाः । न तदा परमात्मरूपतां प्रतिपततुं कलयाऽपि शर्कनुयुः ॥१७९॥ दहरादिति। शव्नुयुरिति पारमार्थिकैश्वर्यवादिन इति शेष: ॥ १७९॥ अ० टी०-सत्यकामत्वादीनां तत्र स्तुतिमात्रफलत्वेऽपि वशित्वादीनामन्यदेव फलमस्तु को विरोध इति चेन्ेत्याह-दहरादिति। सदशाः सदृशोपकारकाः । सुगमाऽक्षरयो- जना। परस्परसादृश्याद्युपसंहारः । सादृश्यं चात्रोपकारसाम्यमेव। अन्यथा सादृश्यमेव न लभेतेत्युपसंहार एव न सिध्येदित्यर्थः ॥ १७१॥ सु० टी०-उक्तमर्थ निगमयति- परमेश्वरतागुणोऽप्यतः स्तुतये तस्य परस्य वस्तुनः । परिकीर्तित इत्युपेयता- मविशेषाद्वशितादिलक्षणैः ॥ १८० ॥ परमेश्वरतेति। उपेयतामित्यकामेनापीति शेषः ॥१८० ॥ अ० टी०-तथा च परमेश्वरत्वगुणोऽपि वशित्वसत्यकामादिगुणतुल्यत्वातस्तुत्र्थ एवेत्याह-परमेश्वरतेति ॥१८० ॥ सु० टी०-विपक्षे बाधकमुपन्यस्यति- कारणत्वमपि चित्मुखादिव- त्तत्स्वरूपमिति किं न गृह्ते।
१ व. शक्नुमः।
Page 278
[३ तृतीयोऽध्याय: ] संक्षेपशारीरकम्। ७१३
ईश्वरत्वविषये विपश्ितां पक्षपातकरणे न कारणम् ॥ १८१॥ कारणत्वमपीति ! ईश्वरत्वेति कारणत्वादितुल्येऽपीति शेषः ।।१८१॥ अ० ठी०-अपिचेश्वरत्वं चेद्रह्मणः स्वरूपं स्यात्कारणत्वमपि स्वरूपं कुतो न ्यात्तस्याप्यनेन तुल्ययोगक्षेमत्वादित्याह-कारणत्वमपीति। न कारणं न प्रमाणवि- शेषो लम्यत इत्यर्थः ॥ १८१ ॥ सु० टी०-बाधकाम्तरमाह- साक्षिताऽपि परमात्मनो भवे- दीश्वरत्ववदियं न संशयः । नित्यसिद्धनिजबोधरूपव- पमेव निरुपाधिकं विभो: ॥१८२॥ साक्षितापीति। यथा विभोरात्मन ईश्वरत्वं नित्यसिद्धबोधरूपवन्निरु पाधिकमेव स्वी क्रियते तथा साक्षिताऽपि भवेदिति संबन्धः ॥ १८२॥ अ० टी०-साक्षिःवेऽप्येतत्तुल्यमित्याह-साक्षिताऽपीति। ईश्वरत्ववदौपाधिकी सापेक्षा साक्षिताऽपि भवेदित्यर्थः । नित्यसिद्धमनपेक्ष यन्निजं स्वं बोधरूपं चैतन्यं तद्वन्नि रुपाधिकमेव विभो रूपं न सापेक्षं साक्षित्वेश्वरत्वादीत्यर्थः । यद्यपि चैतन्यं न स्वरूपा- द्विनं तथाऽपि राहो: शिर इतिवद्धेदोपचाराद्वतिप्रयोगः । यद्वा रूपमेव रूपवदिति पादपूरणार्थो वच्छब्दः । तथाच निरुपाधिकं यन्नित्यसिद्धनिजबोधस्वरूपं तदेव विभो परमात्मनो रूपमित्यर्थ: ॥ १८२ ॥ सु० टी .- ननु साक्षित्वमश्चुतत्वादेव न स्वरूपमुच्यते न त्वीपाधि कत्वादित्याशङ्य तद्वोधिकां ्रतिमाह- एको देव: सर्वभूतेषु गूढ: सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणक्च ॥ १८३॥
१ के. गं. 'शरिवताप० । S0
Page 279
७१४ रीका टय समेतं- [३ तृतीयोडव्याय: ]
एक इंति। अनेन 'हरिबह्मा पिनाकी ' इति पौराणिक भेदस्यावास्तव- त्वमाह मदस्य दुर्निरूपत्वेन कल्पितत्वादेक इत्यर्थः । साधकप्रमाणसः त्वासत्वाभ्यामेकत्वानुपपत्ति निरस्यति -- देव इति। स्वप्रकाश इत्यर्थः । आत्मा स्वभिन्नमास्यो वस्तुत्वाद्घटवदिति चेत्तन्राऽह-साक्षीति। जड. त्वमत्रोपाधिरित्वर्थः । तर्हीक्षणकर्तृत्वात्परिच्छिन्नः स्यात्तताSह-चेता। चिद्रूपः। व्यापाराभावे कथं चेतयितृत्वं तत्राSSह-केवलः । तर्हि प्रका- शगुणं विना कथं प्रकाशकस्तन्राSह-निर्गुणः । केवलस्यासंसृष्टस्यैव कल्पितचिदाभासाविवेकात्प्रकाशकत्वमित्यर्थः। तर्हि जीवादृत्यन्तभिन्न इति तत्राऽऽह-सर्वभूतेष्विति। सर्वात्मक इत्यर्थः । कथं तर्हि जीवेषु भासमानेषु न भासते तत्राSSह-गूटः। अज्ञानावृतः । भेद एव तर्हिं किं नेत्याह-सर्वव्यापी। जीवभेदे वस्तुपरिच्छेदाद्यापित्वभङ्ग इत्यर्थः । नियन्तृनियम्यत्वेन भेदं निरस्यति-सर्वेति। सर्वभूतान्तरात्मत्वेन प्रवेशा- न्नियन्तृत्वमापाधिकमित्यर्थः । सर्वभूतान्तरात्मा चेत्कर्ता भोक्ता च स्यान्नत्याह-कर्माध्यक्षः । कर्मणां कारयितृत्वेन द्रषैव न कर्तेत्यर्थः । तहहं कथं सर्वकर्ता तत्राऽऽह-सर्वभूतेष्वधि उपरि च सत्यैश्वर्यादिति न तत्परतन्त्रस्तत्फलासंसृष्ट इत्यर्थः ॥१८३॥ अ० टी०-ऐश्वर्यवत्साक्षित्वादिकं ब्रह्मधर्मतया न श्रुरतमित्यपि न वाच्यं मत्रोपनिषदि तत्प्रतीतेरित्यभिप्रेत्य श्वेताश्वतरोपनिषन्मत्रान्पठति-एको देव इत्यादिना। एक: सर्वभूतान्तरात्मेति संबन्धः । भूतानि चराचरसंस्थानलक्षणानि। तहि किमाकाशो नेत्याह- देवः प्रकाशस्व्भावः । कि सूर्यादिः । न सर्वभूतेषु गृढः प्रकाशमानचित्स्वभावोऽपि शब्दाद्याकाराभी रागादिगर्भाभिर्बुद्धिवृत्तिभिः संकरात्सर्वभूतेषु बर्तमानोऽपि यथावन्न भासत इति गृढ इत्यर्थः । तर्हि किमड्रादिवत्परिच्छिन्नो मूर्तो वा नेत्याह-सर्वव्यापी देहाद्रहिरपि व्यापनशीलः, ब्रह्माण्डकोटिभिरप्यपरिच्छिन् इत्यर्थः। तस्य नैयायिकेश्वरव त्ताटस्थ्यं वारयति-सर्वभूतान्तरात्मेति। तर्हि कि कर्तृत्वादिस्वभावकः संसार्यात्मक एव न कर्माध्यक्षः कर्मसु बुद्धयादिव्यापारेष्वध्यक्षो राजादिवदधिष्ठातृतया न स्वयं क्रियावत्तयेत्यर्थः । ननु कथमसङ्गस्याSSध्यक्ष्यसंबन्धाभावेऽव्यक्षतेति तत्राSSह-सर्वभूता- धिवास इति। सर्वाणि भूतान्यधिवसन्त्यस्मिन्निति सर्वभूताधिवासः सर्वाश्रयः । यद्वा सर्वेषु भूतेष्वध्युपरि नियन्तृतया वसतीति सर्वभूताघिवासः। तर्हि किं राजादिवत्स्वस्वा- भ्यभिमानोऽस्य विद्यते न साक्ष्युदासीनः । ननु साक्षादीक्षणात्साक्षी स्यात्स कथमुदासीन इत्यत आह-चेतेति। चेता चैतन्यरूपो न तत्कर्ता स्वरूपचैतन्येन संघातस्य चिदा- भासतापादनं चेतयितृत्वम् । तर्ह्यालोक इव प्रकाशगुणव्याप्त्या नेत्याह-निर्गुण इति।
Page 280
[ ३ तृतीयोऽध्यायः ] संक्षेपशारीरकमू । ७१५
तर्हि स्वरूपमेव चेत्यमस्याऽSरोहेन्नेत्याह-केवल इति। कैवल्यं वस्तुतोऽद्वितीयत्वमस- दृत्वं च । तथा चाविद्याध्यस्तचेत्याव्याप्या साक्षित्वादि न. परमार्थ इत्यर्थः ॥ १८३ ॥ सु० टी .- श्रुत्यन्तरमुदाहरति- न तस्य कार्य करणं च विदते न तत्समश्वाप्यधिकश्ष दृश्यते। पराऽस्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्किया च ॥ १८४ ॥' न तस्थेति। कार्य स्थूलशरीरं करणं लिङ्गशरीरम्। कथं जगन्निर्माता तत्ाSऽह-नेति। तत्सम एव नास्ति कुताऽधिक इति। तत्र हेतुमाह- परा। विशिष्टा विविधकार्यजनिका शक्ति: श्रुतिप्रसिद्धा। कथं जडश- क्तिमात्रात्मवृत्तिस्तत्राSSह-स्वाभाविकीति। ज्ञानमेव बलं क्रिया.च. तद -- नुग्रहादेवेत्यर्थः ॥ १८४ ।। अ० टी० -- साक्षित्वे मत्रमुदाहृत्य कारणत्ेश्वरत्वयोरपि मत्रद्यमुदाहरति -- न तस्य कार्यमिति। स्थुलं सक्ष्मं च शरीरमस्य न विद्यत इत्यर्थः । 'तमीश्वराणां परमं महेश्वरम् '[श्व० ६ । ७ ] इति यन्निरतिशयमीश्वरत्वं पूर्वमश्रे प्रतिज्ञातं. तस्या- स्मिन्मन्त्रे कार्यकरणवत्त्वनिराकरणेन. तदधीनज्ञानादिमद्भ्यो जीवेभ्यो व्यावर्तनात्सापेक्षाजी- वैश्वर्याद्विलक्षणं स्वातन्त्र्यमैश्वर्यमस्ेति दर्शित तथाऽे न निरतिशयमैश्वर्यमस्य सिध्यति. खण्डमण्डलपतीनामिव. स्वसमानिश्वर्यवतामधिकैश्वर्यवतां वाऽन्येपामीश्वराणां संभवादिति चेन्नेत्याह-'न तत्समश्चाभ्यधिकश्ष हश्यते' [श्रे० ६।८] इति।लोके. वेदे वा नावगम्यत इत्यर्थः । ज्ञाने कर्मणि वा समर्थस्तत्सम एव नास्ति कुतस्ततोऽभ्य- धिकसंभावनैतदन्यस्य सर्वस्य चेतनस्य संघातपरतत्रज्ञानादिम्त्वादस्मान्न्यूनत्वादन्यस्य वाड. चेतनत्वात्सिद्धमस्य निरतिशयं निरड्कुश चैश्वर्यमिति भावः । ननु कार्यकरणाभावे कथ- मस्य सर्वज्ञत्व सर्वकर्तृत्वसामर्थ्यात्सर्वजगत्कारणत्वेन सर्वेश्वरत्वसिद्धिरिति तत्राऽडह-पराS- स्येति। अस्येश्वरस्योक्तेश्वरत्व निर्वाहिका परोत्कृष्टा सर्वस्मात्कार्यजाताद्वा पराडनादिभता शक्ति- र्मायास्या विविधा विचित्राऽनेकविधकार्याकारपरिणामसामर्थ्यभेदोपेता च श्रयते श्रुतिवाक्ये. भ्योऽवगम्यते 'इन्द्रो मायाभिः पुरुरूप ईयते' [ वृ० २।५।१९] इत्यादि । विविधैवेत्यवधारणेन विकारसमर्थैव सा नासमर्थेति दर्शयति। किं मल्ादानाभिव वलं श्रंमादिसाधनसंपादितेयमीशस्य नेत्याह-स्वाभाविकीति। सिंहादीनां शौर्यवत्स्वभा- वसिद्धा । तथाऽप्यस्या जडत्वात्कथं प्रवृत्त्यािमत्वं तदभावे च तद्योगमात्राकथमीश्वरस्य,
Page 281
७१६. टीकाद्वय समेतं- [ १ तृतीयोऽध्याय: ]
सर्वकर्तृत्वमिति तत्राSSह-ज्ञानबलक्रिया चेति। ईश्वरस्य स्वरूपभूतं यज्ज्ञानं तस्य बलं स्वातन्त्र्याख्यं तेन ज्ञानबलेन क्रिया प्रवृत्यादिलक्षणा यस्याः सा। तथा चकार उक्तविशेषणसमुच्चयार्थः । तथा च स्वस्वरूपस्त्रतन्त्रज्ञानपरतन्त्रस्वाभाविकस्वशक्तिमा- याविवर्तनवशात्सर्वज्ञत्वं सर्वकर्तृत्वं चोपपद्यत इति सिद्धं सर्वकारणतयाऽस्य सर्वेश्वरत्व- मिति ॥ १८४ ॥ सु० टी०-तत्पसङ्गादीश्वरत्वकारणत्वयोरबौधिकां श्रुतिमुदाहरति- न तस्य कश्विवत्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम्। स कारणं वै करणाधिपाधिपो न चास्य कश्विज्जनिता न चाघिप: ।। १८५। न तस्येति। पतिः स्वामी । इशिता नियन्ता। लिङ्गचतेऽनन चैतन्य- मिति लिङ्ग शरीरं तच्व नास्तीत्यतः स्वातन्त्रयात्सर्वकारणम्। करणा- धिपानां जीवानामग्न्यादिदेवानां चाधिप: स्वामी।न चास्य जनि- तोत्पाढकस्तथाधिपोडनुग्राहकः कश्विद्स्तीत्ययमेव सर्वकारणमीश्वर इत्यर्थः ॥ १८५ ॥ अ० टी०-उक्तस्यैवैश्वर्यस्य स्फुटीकरणार्थ उत्तरो मन्त्रस्तमुदाहरति-न तस्य कश्विदिति। पतिः स्वामी। ईशिता नियन्ता चास्य लोके त्रैलोक्येऽपि कश्चि- त्कोऽपि नास्तीत्यनेनास्य परमं स्वातन्त्र्यमुक्त तस्य लिङ्गं च. लोके नैवेति संबन्धः। लिङ्ग्यतेऽनेनेति लिङ्गं कार्यकरणसंघातस्तदस्य नास्ति । अतो न जीववदनीश्वरोऽयं सापेक्षेश्वरो वा कि तु सर्वेश्वर इत्युक्तं भवति। अस्योपरि न कोऽपीत्युक्तमयं सर्वोपरीति वदन्ती श्रुतिरस्य सर्वेश्वरत्वं निरङ्कुशमाविष्करोति-स कारणमिति। स पूर्वोक्त ईश्वरः सर्वस्य कारणसुत्पत्तिस्थितिलयाधिष्ठानं करणाधिपानां सर्वजीवानामप्यधिपोडिष्ठाय पालयिता नियन्तेति यावत्। पुत्रस्य पितुरपि यथाऽन्यः पिताऽस्ति नैवमस्थान्यः कारण- भूतोडस्तीत्याह-न चास्य कश्चिज्जनितेति। जनयितेत्येतत्। अयमेव्र सर्वस्य मूलकारणं नान्यत्तदस्तीत्यर्थः । राजामात्यस्य स्वविधेयान्प्रत्यधिपत्वेऽपि यथाऽन्यो राजा स्वाधिपोडस्ति न तथाऽस्य कोडप्यस्तीत्याह-न चाधिप इति। अयमेव सर्वेश्वरो नान्य इत्यर्थः ॥ १८५॥ सु. टी०-श्रुतितात्पर्यमाह- इति श्रुतिः कारणसाक्षिभाव- मैश्वर्यवद्वकि परस्य पुंसः।
Page 282
[ ३ तृतीयोऽण्याय: ] संक्षेपशारीरकम्।
अतत्परत्वान्न तदिष्यते चे- द्वयं तृतीयं न तथैषितव्यम्॥ १८६॥ . इतीति। अत्र शङ्कते-अतत्परत्वादिति। द्वयं कारणत्वं साक्षित्वं च नेष्यते चेदित्यन्वयः । तदैश्वर्येऽषि तुल्यमिति परिहरति -- तृतीय- मिति १८६ ॥ अ० टी०-यदर्थमेते मन्त्रा उदाहृतास्तमर्थमाविष्करोति-इति श्रुतिरिति। श्रुति: पूर्वोदाह्ृतेतीत्थं परस्य पुंस ऐश्वर्यवत्कारणसाक्षिभावं कारणत्वं साक्षित्वं च वक्ति कथयतीत्यर्थः । कारणत्वसाक्षित्वयोरपि ब्रह्मस्वरूपताऽङ्गीकार्या, ऐश्वर्यवच्छ्ौतत्वाविशे- षादिति ध्वनितोऽर्थः । कारणत्वादिवाक्यस्यातत्परत्वान्न स्वरूपबोधकतेति शङ्गते-अत- त्परत्वादिति। तद्द्वयं नेष्यते चेदित्यन्वयः । दूषयति-तृतीयं न तथेषितव्य- मिति। साक्षित्वकारणत्वापेक्षया तृतीयमैश्वर्यमपि तथा स्वरूपमिति नैषितव्यं नाङ्गी- कार्य विशेषहेतोस्तत्राभावादित्यर्थः ॥ २८६ ।। सु० टी०-एतदेव प्रकटयति- अतत्परत्वं श्रवणस्य तुल्यं त्रिषु त्रयं तेन विवर्जनीयम्। अथेष्टमेकं त्रयमेषितव्यं विशेषहेतोरनिरूपणेन ॥ १८७॥ अतत्परत्वमिति । फलितमाह-त्रयं तेनेति। विपक्षे बाधकमाह- अथेति ॥ १८७॥ अ० टी०-तत्परश्रुत्यभावस्य त्रिष्वपि तुल्यत्वादित्युक्तमेव विशेषहेत्व्भावं साधयति- अतत्परत्वमिति। त्रिषु कारणत्वसाक्षित्वेश्वरत्वेषु श्रवणस्य श्रुतेरतत्परत्वं तुल्यं समानं यतस्तेन हेतुना त्रयं विवर्जनीयं स्वरूपमिति नाभ्युपेयमित्यर्थः । एवमपीश्वरत्वं स्वरूपमिति चेदाग्रहस्तदा साक्षित्वकारणत्वयोरपि स्वरूपत्विष्यतामित्याह-अथेष्टमेकं त्रयमेषितव्यमिति। तत्र हेतुमाह-विशेषहेतोरनिरुपणेनेति । न ह्यत्रै- कस्याङ्गीकार्यत्वे द्वयापेक्षया विशेषहेतुर्निरूपणपथमवतरतीत्यर्थः ॥ १७७॥ सु०टी०-सापेक्षत्वादृप्यैश्वर्यादिकं मृषेत्याह- ईशितव्यमनपेक्ष्य नेश्वरो नेशितव्यमपि तद्वदीश्वरम्।
Page 283
टीकाहयसमेतं- पर तृर्तीयोंऽध्याय :: ]
अन्तरेण घटते ततो मृषा मोहमात्रपरिकल्पितं दयम् ॥ १८८ ॥ ईशितव्यमिति। यस्मादनयोरे कैकानपेक्षमेकैकं न निर्वहत्यतो हयमपि मोहकल्पितत्वान्मृषेति योज्यम् ॥ १८८ ॥ अ० टी०-ननु तर्हि त्रयमपि स्वरूपमिष्यते श्रुतिनिर्देशस्य तुल्यत्वादिति चेन्मैवं सापेक्षतवेन तदसंभवादित्यभिप्रेत्येश्वरत्वस्य तावत्सापेक्षतामाह-ईशितव्यमिति। नेश्वरो घटत इति संबन्धः । तद्वदीश्वववदीशितव्यमपीश्वरमन्तरेण न घटत इति योजना। किं तत इत्यत आह -- ततो सृषा मोहमात्रेति। द्वयमीश्वरत्वमीशितव्यं च परस्परसापेक्षयोरेक, स्यापि स्वरूपानिष्पत्तेर्मोंहमात्रकल्पितं मूषैव द्यमित्यर्थः ॥ १८८ ॥ सु० टी०-कारणत्वमपीहशमेवेत्याह- कार्यवस्तु विरहय्य कारणं न क्चिद्घटायेतुं क्षेममहि। नापि कारणमपोह्य केवलं कार्यवस्तु परिकल्पयेमहि ॥ १८९॥ कार्येति ॥ १८९॥ अ० टी० -- कारणत्वस्याप्याह-कार्यवस्त्विति। समाना योजना ॥ १८९ ॥ सु० टी०-एवमेव साक्षित्वमपीत्याह- साक्ष्यवस्तु परिहृत्य साक्षिता साक्षिणं च परिहृत्य साक्ष्यता । नेष्यते न घटते च तेन त- त्सव्यपेक्षमुभयं परस्परम् ॥ १९० ॥ साक्ष्यवस्विति ॥१९० ॥ अ० टी०-साक्षिताऽपि तथैवेत्याह-साक्ष्यवसत्विति। साक्षिता नेष्यतें साक्ष्यता च न घटत इति यथाक्रमं क्रियाद्वयस्य योजना। तेनोक्तेन हेतुद्वयेन तदुभयं साक्षित्वं साक्ष्यत्वं च परस्परं सव्यपेक्षमतो मोहमात्रपरिकल्पितं मृषेत्यर्थः ॥ १९० ॥ सु० टी-एतच्च तुल्यं प्रमातृत्वादावपीत्याह- न प्रभेयमपहाय मातृता नापि मातृविरहे प्रभेयता। १ ध. मविहा ।.
Page 284
[३ सृतीयोऽथ्याय: ] संक्षेपशारीरकमू।
मातृमेयरहिता न च प्रमा न प्रमाणरहितं प्रमाफलम् ॥ १९१ ॥ न प्रमेयमिति । १९१॥ अ०टी०-समानन्यायतया प्रमातृत्वादिकमॅपि नाऽडत्मस्व्भाव इति सिद्धमित्याह- न प्रमेयमिति। पुंगतं प्रमातृत्वं विषयाकाडक्षं विषयगतप्रमेय:वं च प्रमाकाङ्क्षमुभया काड्क्षा च प्रमा प्रमाणं तद्धि प्रमातारमाश्रित्य प्रमेयं व्यामोति। अत उभयाकाड्क्षं प्रमाणं प्रमाणाकारडक्षं चोभयमितपर्थात्सिध्यति। न हि प्रमाणप्रमेयाभ्यां विना प्रमाता भवति तदभावे सुषुप्तौ तदभावात्। तथा प्रमातृप्रमाणाभ्यामृते प्रमेयं र भवति प्रमि- तत्वव्यवहारस्य वस्तुनि प्रमात्राश्रितप्रमाणव्याप्त्यधीनत्वात्। तथा प्रमाफलं प्रमितिरपि न प्रमाणरहितं सिद्धान्ते चैतन्यगतप्रमितित्वस्य प्रमाणाधीनत्वादित्यर्थः । ईश्वरत्वादिक. मेकैकसापेक्षं प्रमातृत्वादिकं तु मेयादित्रितयसापेक्षमिति भेदः । प्रमातृप्रमाणप्रमेयप्रमि- तीनामेकैकस्य स्वेतरापेक्षसिद्धित्वादित्युक्तं भवति ॥ १९१ ॥ सु० टी०-ईशत्वादिकमेकैकापेक्ष मातृत्वं तु मेयादित्रयसापेक्षमि- व्युक्त्वा कर्तृत्वमपि तथेत्याह- कर्तृ कर्म परिह्ृत्य नेष्यते कर्म कर्तृरहितं न च क्वचित्। कर्तृकर्मरहिता न च क्रिया न क्रियाविरहितं करियाफलम् ॥१९२॥ कर्तृ कर्मेति ।। १९२ ।।
पूर्ववत् ॥ १९२ ॥ अ०.टी०-कर्तृश्वमपि प्रमातृत्ववत्सापेक्षमित्याह-कर्तृ कर्मेति । योजना तु
सु० टी०-सामान्यविशेषात्मा प्रपञ्चः सर्वोऽपि तथेत्याह- सामान्यं न विशेषवस्तुविरहे तस्माद्दिना तन्न च स्वातन्त्र्येण घटामुपाञ्चति ततः सापेक्षमेतदूंद्ृयम्। यत्सापेक्षमिहेक्षितं भवति तन्मायामयं स्वमव- त्तस्मादीश्वरतादि कल्पितवपुः स्वी कुर्महे न्यायतः॥१९३॥
१ घ. "क्षमपेक्षि।
Page 285
७२० टीकाद्वय समेतं- [३ तृतीयोडच्याय:] सामान्यमिति। घटामुपाश्चति घटनामुपैति । तथाऽपि कथं मुषेति चेत्तत्ाSSह-यत्सापेक्षमिति। उपसंहरति-तस्मादिति ॥१९३॥ अ० टी०-प्रमातृत्वादेरात्मस्वरूपत्वपक्षे सामान्यविशेषादेरपि तत्स्वरूपत्वमङ्गीकर्तव्यं स्यात्। सर्वस्यापि ब्रह्मात्मास्पदत्वात्। तच्चायुक्तं सापेक्षत्वादित्याह-सामान्येति। विशेषरूपवस्तुविरहे सामान्यं स्व्रातन्त्र्येण न घटामुपाञ्चति घटना प्रामोति। तथा सस्मा- त्सामान्याद्विना तद्विशेषवस्तु च नच घटामुपाञ्चतीति योजना। ततोऽन्योन्याधीननिरूपणं तदेतत्सामान्यविशेषात्मकं द्वयं सापेक्ष सिद्धमित्यर्थः । कारणत्वसाक्षित्वेश्वरत्वप्रमातृत्वादेः सर्वस्य मिध्यात्वसाधकं हेतुं सापेक्षत्वलक्षणं पक्षेषूपपाद व्याप्तिमप्यस्य कथयति-यत्सापे- क्षमिहेति। विमतं मायामयं सोपक्षत्वाद्यथा स्वमस्तथा चायम्। सापेक्षमित्यवयवचतुष्ट्य- मुक्त्वा निगमयति -- तस्मादीश्वरतादीति। न्यायत उक्तन्यायकदम्बादीश्वरता- दि मायाकल्पितवपुर्न परमार्थमिति स्वी कुर्मह इति योजना ॥ १९३ ॥ सु० टी०-किं सप्रपञ्चं बह्मोत निष्पपञ्चमुतोभयात्मकमिति शिष्येण पृष्ठे सप्रपञ्चत्वापोहेन निष्पपञ्चत्वमुक्तमिदानीमुभयात्मकत्वं भेदामेद- निराकरणेन निरस्यति- अिन्नता भिन्नतया विरुद्धा विभिन्नताऽभिन्नतया तथैव। उपाधिभेदे परिकल्पितेऽपि विना पुनस्तं किमुदीरणीयम्॥१९४ ॥ अभिन्नतेति। ननूपाधिभेदेन द्वयोरविरोध इति नेत्याह-उपाधीति । तमुपाधिभेदमू। तथा च सोऽप्यत्र नास्तीति भाव: ॥ १९४ ॥ अ० टी०-तदेवं कार्यकारणेशितव्येश्वरत्वादेरत्यन्तभेदवादे सापेक्षलेन मिथ्याते प्रसाधिते सति यदि भेदाभेदवादी ब्रयाद्द्विरूपं हि ब्रह्मात्मतत्व्रमिष्यते निर्भेदं समेदं चेति तत्र निर्भेदे सापेक्षरूपं किमपि मा भूत्सभेदे तु सर्वमेवास्तु परमार्थ तस्यानेकात्मकत्वेन सापेक्षरूपत्वाविरोधादिति स प्रष्टव्यो निर्भेदस्य भेदवत्त्वं कि स्वभावसिद्धं किवोपाधिभेद- कृतमिति तत्र नाऽडद्यो विरुद्धस्वभावस्यैकस्यासंभवादित्याह-अभिन्नतेति। न हि विदीर्णस्वरूपो घटस्तदैवाविदीर्णोऽपि भवति। अविदार्णस्वरूपो वा विदीर्णः प्रामाणिक- व्यवहारगोचर इत्यर्थः । द्वितीयमुत्थाप्य निराकरोति-उपाधिभेद इति। तं विरोधं विना तत्रापि किमुदीरणीयं तन्रापि परमार्थतो विरोधपरिहारोऽशक्य इत्यर्थः ॥ । १९४ ॥
Page 286
[३ वृतीयोऽव्यायः ] संक्षेपशारीरकम्। ७२१
सु.टी०-ननु निर्मेदेऽपि नमसि भवति घटादयुपाधिको भेड इति नेत्याह- स्वभावतो यन्मिथुनं विरुद्धं न तन्निभित्तान्तरतः कदाचित्। उपैति सख्यं परमार्थवृत्त्या श्रमादलक्ष्यं न च किंचिदस्ति ॥ १९५॥ स्वभावत इति। स्वतो विरुद्धयोरुपाधितोऽपि सख्यामावान्भान्तस्तत्र भेद इत्यर्थः ॥ १९५ ॥ अ० टी०-नन्वौपाधिके भेदे नास्ति विरोध आकाशादावुपाधिभिन्ने विरोधादर्शना- दित्याशङ्कयोपाधिभदेऽप्युपन्यस्तं विरोधमुपपादयति-स्वभावत इति। स्वभावतो निर्भेदस्योपाधिनिमित्तको भेदो न परमार्थ: संभवत्याकाशादौ तूपाधिकृतो भेदो भ्रान्त एव न परमार्थो निरवयवस्याSSकाशस्योपाधिभिभत्तुमशक्यत्वाद्भ्रमस्तु भवति तस्य वस्तुसत्ता- नपेक्षित्वादित्यर्थः । अक्षरयोजना सुगमा ॥ १९५ ॥ सु० टी०-उक्तडयें दषान्तमाह- न रविशार्वरसख्यकदीक्ष्पते जगति कश्रिविदुपाधिरमोहतः । यदि भ्रवेत्स भवेद्दवतो मतः स न अवेय्यदि सोऽपि न संभ्वेत् ॥१९६ ॥ न खवीति। अमोहतः परमार्थत उपाधिः कश्चिद्रविशावरयोः सख्य- कृन्नेष्यत इति संबन्धः । कि तत इत्याह-यदीति। यदि रवितमसोः सख्यकृदुपाधिर्भवेत्तर्हि भवदभिमतो भिन्नाभिन्नयोरपि सख्यकृद्द्वे- त्तद्भावे नायमपि मवेद्विशेषाभावादित्यर्थः ॥ १९६।। अ० टी०-स्वभावतो विरुद्धयोरुपाधिद्वाराSपि विरोध एवेत्यत्र दृष्टान्तमाह-न रवि- शार्वरेति। शार्वरं तमः । रविशार्वरयोः सख्यकृदविरोधकृत्कश्चिदुपाधिरमोहतो मोहाद्भमादन्यो जगति नेक्ष्यते। यदि रविशार्वरयोर्विरुद्धस्वभावयोरुपाधितोऽप्यमेदो भवेत्तदा भवतो मत इष्टः स भेदाभेदयोरप्यविरोधो भवेत्। स यदि रविशार्वरयोरविरोधो न भवेत्तर्हि सौडपि भेदाभेदयोरविरोधोऽपि न संभवेद्विशोपानिरूपणादिति योजना॥१९६।। 59
Page 287
७२२ टीकादवय समेतें- [ ३ तृतीयोऽव्थायः]
सु० टी०-ननु भ्रमादप्येतदलभ्यं पूर्वदृष्टातिरिक्तस्य भ्रमेऽज्ञानादिति चत्तताSSह -- खमपि खादति खण्डितमीक्षते निजशिरो नयनेन करार्पितम्। किमपि दुर्घटमस्य न विद्यते यदि विमूढमतिर्भवति स्वयम् ॥ १९७ ॥ खमपीति। स्वप्नादी सर्वादृष्टस्याप्येवमादेदर्शनान्नैतदलभ्यमित्यर्थः । उपसंहरति-किमपीति। अज्ञानस्यैव दुर्घटघटकत्वादित्यर्थः ॥१९७।। अ० टी०-भ्रमादलम्यं न च किंचिदस्तीत्युक्तं प्रपञ्चयति-खमपीति। सवमे हि नानाविधा भ्रान्तीरनुभवन्पुरुषः कदाचिन्नभोभक्षणमप्यनुभवति। तथा निजशिरः खण्डितं स्कन्धात्पृथक्कृतं करार्पितं स्वकरे धृतं स्वनयनेनेक्षते । अत एव स्वपाध्याय- विदः स्वशिरश्छेदनादिदर्शनमनिष्टसूचकमामनन्ति। ऐतरेयिणश्चाSSमनन्ति-अथाप्यशि- रसं जिह्मशिरसं वा पश्यति तदप्येवमेव विद्यादिति। न चाघटमानमेतंदित्यंपि वाच्यमि त्याह-किमपीति॥ १९७ ॥ सु० टी०-किं चोपाधेमिथ्यात्वात्तदुपाधिकस्यापि मिथ्यात्वमि- त्याह- इतश्र् निर्भेदकमात्मतत्वं निरुपणे कारणकार्यतादेः। अनादिमायैकनिबन्धनत्वा- दसंभवादस्य तु वस्तुवृत्त्या । १९८॥ इतश्वेति। निरूपणे क्रियमाणे कार्यकारणत्वादेवस्तुवृत्त्याSसंभवेन मायै- कनिबन्धनत्वादिति संबन्ध: ॥ १९८॥ अ० टी०-आरम्भणाधिकरणोक्त्तविवर्तवादन्यायादपि ब्रह्मणो निर्विशेषैकरूपत्वसिद्धि- रित्याह-इतश्रेति । कुत इति चेत्परिशेषादित्यभिप्रेत्याऽऽह-निरूपण इति। कारणत्वादिना हि ब्रह्मणः सविशेषताप्राप्तिस्तस्य च निरूपणेSनादिमायैकनिबन्धनत्वादना- द्यनिर्वचनीयाज्ञानमात्रकल्पितत्वनिश्वयात्। अस्य तु कार्यकारणादेर्वस्तुवृत्या परमार्थ-
Page 288
[३ तृतीयोऽथ्यायः ] संक्षेपशारीरकम्। ७२३
सु०टी०-कथमसंभव इति चेत्तत्र वक्तव्यं किमसतः कार्यत्वादिकं सतो वा सदसतो वा तत्र नाऽडय इत्याह -- असन्न कार्यं गगनपसून- वन्ध्यासुतादेः करणाप्रसिद्धेः। न पागसत्कार्यमिति प्रवादः प्रशस्यते तस्य विरोधहेतोः ॥१९९॥ असदिति । करणमुत्पादनं तद्प्रसिद्धेरित्यर्थः। नन्वत्यन्तासन्नोत्पद्यते किं तु प्रागसत्पटादीति वैशेषिकास्तत्राSऽह-न प्रागिति॥१९९।। अ० टी०-कार्यकारणभावस्य वस्तुतोऽसंभवं कार्यस्यानुपपत्या तावदाह-अस- न्नेति। कार्य कि मागसदुत्पद्यते सद्वा नाऽडद्यो गगनप्रसूनवन्ध्यासुतादेः करणाप्र सिद्धेः करणं निष्पादनं तस्याप्रसिद्धेरित्यर्थ्ः। ननु वत्ध्यासुतादेरत्यन्तासत्वात्तन्मोत्पा- द्विकाय प्रागसदुत्पद्यतामिति चन्नेत्याह-न प्रागिति। कुतो न प्रशस्यते तत्राऽSह- तस्य विरोधहेतोरिति। असतः प्राक्त्वविशेषणयोगस्य युक्तिव्िरोधादित्यर्थः ॥१९९॥ सु० टी०-कथं विरोध इति चेत्तत्राSऽह- विशेषणानामसति प्रवृत्ति- र्न दृश्यते क्वापि न युज्यते च।
वन्ध्यासुतः शूर इतीह यद्त् ॥ २०० ॥ विशेषणानामिति। असतो निःस्वरूपस्य प्राक्तवेन व्यावर्तनायोगादि- व्यर्थः अदर्शनमयोगं च दष्ान्तेन साधयति-युधिष्ठिरादिति। यथा षन्ध्यासुते नैतानि विशेषणानि युज्यन्त इत्यर्थः ।। २०० ॥ अ० टी०-कुतो विरोध इति. चेत्तत्राऽडह-विशेषणानामिति। असतो निःस्वभावलेन प्रसिद्धत्वादेव तस्मिन्विशेषणप्रवृत्तेरदर्शनसंभवश्चेत्यर्थः । तत्रादर्शनमुप- पादयति -- युधिष्ठिरादिति। असतो विशेषणसंबन्धश्वेस्याद्वन्ध्यासुतः शूर इति युधि- द्विरात्प्रागिति च शूरत्वप्राकवाभ्यां वन्ध्यासुतोऽपि विशेष्येतेत्यर्थः ॥२००॥ सु० टी०-एवमुत्पत्तिसंबन्धं निराकृत्योत्पत्तिमपि निरस्यति- उत्पत्तिरप्यस्य निरुप्यमाणा न. काचिदागच्छति युक्तिमार्गमू।
Page 289
७२४ टीकाद्वय समेतं- [ ३ तृतीयोऽध्यायः ]
स्वसत्तया स्वैः समवायिकारणै- रपीह या स्यात्समवायिताऽस्य॥ २०१॥ असज्जनिः सेत्युपवर्ण्यमानं सुदुर्घटं न ह्यसतो युजैभिः। सदेव सद्भिः सह सर्ववस्तु संगच्छते न त्वसदेव सद्भिः ॥ २०२॥ उत्पत्तिरपीति द्वाभ्याम्। ननु स्वसत्तया स्वीयसमवायिकारणैश्र येयमसतः समवायिता सैवास्य जनिरित्युपवर्ण्यत इति चेन्नेत्याह -- खवसत्तयेति । कथं दुर्घटमित्यत्राऽडह-न हीति । कुत इति चेत्तत्राऽऽह-सदेवेति। २०१। २०२॥ अ० टी० -- 'असन् कार्य गगनप्रसूनवन्ध्यासुतादेः करणाप्रसिद्धेः' इत्यत्रासदु-
मयुक्तमित्याह-उत्पत्तिरपीति। कथं न युक्तिमार्गमागच्छतीति चेत्तत्र वक्तव्यं कार्यस्य कारणसमवाय उत्पत्तिः कार्ये वा सत्तासमवाय इत्युभयथाऽप्यसंभव इत्याह- स्वसत्तयेति। अस्य कार्यस्य या स्वसत्तया वा स्वसमवायिकारणैर्वा समवायितोत्पत्तिश- ब्दार्थभूता स्यात्साऽसज्जनिरित्युपवर्ण्यमानं सुदुर्घटमित्युत्तरपद्यगतेन संबन्धः ॥ २०१॥ अ० टी० -- दुर्धटत्वं प्रकटयति -- न ह्यसतो युजैभिरिति। असतः कार्य- स्यैमि: स्वसत्ता स्वसमत्रािकारणैर्युजा योगो न हि संभवति। कुतः संबन्धस्य सद्वसु- धर्मत्वादित्याह-सदेव सद्भिरिति। सत एव सद्भिः संबन्ध इति व्याप्तिविरोधान्ना- सतः सत्सवन्धः संभवतीत्यर्थः ॥ २०२॥ सु० टी० -- अस्तु सतः सद्भिः संबन्धः प्रकृते तु किमायातमिति तत्राSडह- सती हि सत्ताऽस्य पटस्य दष्टा तथैव सन्तः पटतन्तवोडपि। तथा च तैश्वास्य कथ पटस्य संबन्धिता स्यादसतो वदैतत् ॥ २०३॥ सती हीति। संचन्धिनोः सत्त्वस्य प्रत्यक्षत्वात्कथं ताभ्यामसतः संबन्ध इत्यर्थ: ॥ २०३॥ १ ग. तया च।
Page 290
[३ तृतीयोऽव्याय: ] संक्षेपशारीरकम्। ७२५
अ० टी०-सतोरेव संबन्धः सर्वत्र दृष्टो न. सदसतोरसतोर्वेतिनियममेव प्रकटयति- सती हीति। अस्य पटस्य प्रत्यक्षगोचरस्य सतो या सत्ता सा सती हि दृष्टा नासती सत्ता पटे समवायसंबन्धिनी दृष्टेत्यर्थः । तथैव पदतन्तवः पटस्याऽSश्रयभूतास्तन्तवोडप सन्त एव दृष्टा नासन्तः । तथचैवंदृष्टनियमविरोधे सत्यसतस्त्वदभिमतस्य पटस्यास्य तैः सवसत्ता स्वसमवायिभिः संबन्धिता कथं स्यादेतद्वद निरूपयेति योजना ॥ २०३॥ सु० टी०-मा मूत्सत्तया तन्तुभिश्वास्य संबन्धः कि तत इति . चेत्तताSSह- स्वकारणैस्तन्तुभ्षिरेवमस्य स्वसत्तया चान्वय एव जन्म । तवेष्टमेवं सति जन्म तस्य न शक्यते वर्णयितं पटस्य ॥ २०४॥ स्वकारणैरिति। तत्संबन्ध एवास्य जन्मेति त्वद्भिप्रेतजनिलक्षण्ासिद्धि- रेव दोष इत्यर्थः ॥ २०४ ॥ अ० टी० -- तर्ह्यसतो जन्मनिरुक्तिरेवान्या भविष्यतीति चेन्न त्वयेतोऽन्यस्यानङ्गी- कारादित्याह-स्वकारणैरिति। निगदव्याख्यातं पद्यम् ।। २०४।। सु० टी०-ननु पटस्यासत्त्वेऽपि तन्तुसत्तयोः सत्वात्संबन्धाविरोध द्ृति नेत्याह- तदन्वयात्मागसतः कथं स्या- नैंदन्वयो न ह्यसदन्वयाय। सता समर्थ न हि वन्ध्यया त- त्युत्रः समन्वेति कदाचिदत्र॥ २०५।। तदन्वयादिति। न ह्यसत्सता सहान्वयाय समर्थमित्यन्वयः। संबन्धस्य द्याश्रयत्वाद्सतश्राSSभ्रयत्वायोगान्न संबन्ध: सिध्यतीत्यर्थः ॥ २०५।। अ० टी० -- ननु नात्यन्तमसत्कार्य कि तु प्ागसत्तादृशस्य कारणादिना संबन्धः स्यादिति चेनेत्याह-तदन्वयादिति। तेन सत्तादिनाऽन्वयाज्जन्माख्यात्प्रागसतः कार्य- स्यासत्त्वावस्थायां तदन्वयः कथं स्यात्प्रागस्य कार्यस्य वन्ध्यासुतादेरविशेषादित्यर्थः । आक्षिप्तमेवार्थमुपपादयति-नहीत्यादिना। सता सहान्वयायासन्न समर्थभित्यन्वयः। अत्र स्वजन्मनः प्रागित्यर्थ: ॥ २०५॥
Page 291
७२६ टीकाहूयसमेतं- [३. तृतीयोऽ््याय: ] सु० टी० अस्तु तहहिं कारणसंबन्धयोग्यतैव जनिरिति चेत्तन्ाSडह- न च किंचिदन्यदसतो वदितुं पटवस्तुनोऽत्र शकनीयमितः । जनिशब्दवाच्यमनवद्यतया तद्युक्तमेवमसदुभभवनम्॥ २०६ ॥ न च किंचिदिति। सद्सतोः क्वचित्कदाचित्संबन्धदृशने सत्यसतस्त दोग्यता कल्प्या न चासौ क्वापि हष्ट इत्पर्थ: । फलितमाह -- तदयुः कमिति ॥२०६॥ अ० टी०-कारणसत्तासमवायात्प्रकारान्तरं जन्मलक्षणं स्यादित्याशङ्कय. त्वया तस्या- नभ्युपगमादिति दोष: प्रागुक्त इदानी न संभवति च प्रकारान्तरमित्याह-न च किंचि- दिति। असतः पटवस्तुनो जनिशब्दवाच्यमित उक्तादन्यत्किंचित्प्रकारान्तरमत्र वैशेषिक- मतेऽ्नवद्यतया वदितुं न च शकनीयं शक्यमित्यक्षरयोजना। उत्तरक्षणसंबन्धादेरपि तुल्यन्यायत्वादित्यभिप्रायः । उपसंहरति-तद्युक्तमिति। तत्तस्मादेवं विचार्यमाणे सत्यसदुद्गवनमयुक्तमभ्युपगन्तुमित्यर्थः ॥ २०६ ॥ सु० टी०-किं चैवं संबन्धयोग्यतादेर्जनित्वे तवापसिद्धान्तोऽपी त्पाह- न च् वर्णितादपरमत्र भवा- ननुमन्यते जनिवचोर्थमितः । यदि वर्ण्यते किमपि तत्र भवे- त्स्वमतप्रहाणमलिनी करणम् ॥ २०७।। न चेति। इतो वर्णितादन्यं जनिपदार्थ न मवाननुमन्यत इत्यन्वयः। वर्णने च स्वमतप्रहाणमेव मलिनीकरणं दूषणमित्यर्थः ।। २०७।। अ० टी०-ननु कथं प्रकारान्तरासंभवनिश्चयो विचित्रप्रज्ञत्वात्प्राणिनां कस्य- चित्प्रकारान्तरस्यापि स्कुरणोपपत्तेरिति चेत्सत्यं तथाऽप्युक्तप्रकारात्प्रकारान्तरस्य त्वयाऽन- भ्युपगमादभ्युपगमे वाडपसिद्धान्तप्रसङ्गात्तवेत्याह-न च वर्णितादिति। अनुपपत्या प्रकारान्तरं मंस्य इति चेत्ततराऽSह-इतो यदि वर्ण्यत इति ॥२०७॥ सु० टी०-कथं स्वमतप्रहाणमित्यत्राऽह- समवाथिकारणगणेन तथा सह सत्तया च पटवस्तिविह यत्।
Page 292
[ ३ तृतीयोऽध्याय: ] संक्षेपशारीरकम्। ७२७
समवैति तत्कणभुगिच्छति त- ज्जनिशब्दवाच्यमिति नान्यदितः ॥ २०८।। समवायीति। कणमुजा तथैव सूत्रितत्वादित्यर्थः ॥। २०८॥ अ० टी० -- कुतः स्वमतम्रहाणमलिमीकरणं ममेति चेत्कणादसत्रविरोधादेवेत्यभि प्रेत्य तत्सूत्रमर्थतः पठति-समवायिकारणेति। उक्तपदार्थद्वयेन परवस्तु समवैतीति यत्तस्कणभुगिच्छतीत्यत आाह तज्जनिशब्दवाच्यमितो नान्यज्जनिशब्दवाच्यमिच्छतीति योजना ॥ २०८ ॥ सु० टी० -- तर्ह्येतदेव मवत्वित्याशङ्क्याSSह- न तदत्र संभवति युक्तिवशा- दुपवर्णितं तदतिविस्तरतः। न च किंचिदन्यदुचितं भवतो वदितुं स्वपक्षमपरित्यजतः ॥ २०९।। न स्षदिति। दूषितत्वादित्यर्थः । अस्तु ततोऽन्यदेव किंचिदिति चेत्त ताऽडह-न चेति। आद्यक्षणसंबन्ध उत्पत्तिरिति चेन्नासतः कार्यस्याSS द्यक्षणेन संयोगाद्यसंभवात्। अस्तु स्वरूपसंबन्ध इति चेन्नासतो निस्व- रूपन्वात्।क्षणस्वरूपमात्रस्य च संबन्धत्वे कार्यस्यापि चतुर्थक्षणाद्य- षच्छिन्नस्याऽडद्यक्षणेनासता संबन्धत्वापत्तावतिव्यासेः । न च जातः संबन्धश्चेत्येक: कालोऽसंभवात्। तत्संबन्धस्य जन्मत्वाद्सतश्र तद्नुप- पत्तेः। कश्राऽडद्यक्षणः प्रागमावनाशक्षण इति चेन्न प्रतियोगिक्षणमा- त्रस्य तथात्वात्। न च स्वसमानकालपदार्थप्रतियोगिकध्वंसानाधार:
बन्धेऽतिच्यापेः। आद्यक्षणावच्छिन्नस्य स्वपदार्थत्वे चाऽडत्माश्रयात्।
दिकू।। २०९॥ अ० टी०-तहींदमेव सूत्रोक्तं क्थचिन्मया निर्वाह्यमिति चेन्नोक्तदोषस्य परिहर्तुमशक्यत्वादित्याह-न तद्त्रेति। अत्रोत्पत्तौ यथा न संभवति तथा निरूपि- तमित्युक्तं स्मारयति-युक्तिवशादिति। प्रकारान्तराभ्युपगमे चोक्तमपसिद्धान्तप्रसङ्गं सुटयति -- न च किंचिदिति। स्वपक्षमारम्भवादमपरित्यजतो भवतोऽन्यत्किचित्प्र- . कारान्तरं वदितुं न चोचितमित्यन्वयः । त्वन्मते प्रकारान्तरस्यासंभवात्। आरम्भवादे
Page 293
७२८ टीकाट्य समेतं- [ ३ तृतीयोऽव्याय: ]
हि कारणे कार्यस्योत्पत्तेः प्रागसत्त्वमिष्टमसतश्च न केनचित्कोऽपि संबन्धः -संभवति। संयोगसमवायौ हि संबन्धौ। तौ तु भावद्वयधर्मौ न भावाभावयोरभावयोर्वा क्वापि संभ- वतः । तथा च प्राक्कार्यस्य कारणे कोऽप्यवस्थाविशेषो वा कारणगतशक्तिविशेषो वोत्पत्स्यमानस्य कार्यस्य धर्मविशेषो वा कार्यप्रागभावस्तस्य सत्तादिसमवायितयाSभिव्यक्ति श्वोत्पत्तिरितिपक्षान्तरं भवद्धवेत्तस्य सर्वस्य सत्कार्यवाद एव समज्जसत्वात्तत्परिग्रहे स्यादा- रम्भवादस्यासत्कार्यगोचरस्य परित्याग इति भाव: ॥ २०९॥ सु• टी०-उपसंहरति- निरुपणायां न यतोऽस्ति कश्िव- दुत्पत्तिशब्दार्थ इह त्वदीये। पक्षे ततो दुर्घटनाप्रसिद्धि- रसज्जनेरुक्तनयेन तावत् ॥ २१०॥ निरूपणायामिति। असज्जनेर्या दुर्घटताप्रसिद्धि: सोक्तक्रमेणेत्यर्थः ।२१०। अ० टी०-तस्मादुत्पत्तिस्वरूपस्य दुर्धटत्वाच्चासत्कार्यवादो न युक्त इत्युपसंहरति-निरू. पणायामिति। तत उक्तनयेनासज्जनेः प्रसिद्धिस्तावद्ुर्घटितेति संबन्धः ॥ २१० ॥ सु० टी०-द्वितीयं पक्षं दूषयति- सतोऽपि कार्यत्वमयुक्तमेव निरूपणे कारणऊत्यहानेः। न कारणव्यापृतिरत्र शक्या सतः स्वरूपे वदितुं फलाय ॥ २११॥ सतोऽपीति। निरूपणे क्रियमाणे सतोऽपि कार्यत्वमयुक्तं युक्तिरहित- मित्यर्थः ॥ कारणकृत्यहानिमेव विवृणोति-नेति। कार्यस्य लब्धयात्म- कत्वादित्यर्थः ॥ २११॥ अ० टी०-एवमसत्कार्यवादवत्सत्कार्यवादोऽपि न युक्तिसह इत्याह-सतोऽपीति। सत्कार्यपक्षे कथं कारणकृत्यहानिरिति चेत्तत्र वत्तव्यं कार्यस्वरूपत्वसंपादनार्था वा सत्यपि कार्यगुणविशेषाधानार्था वा मलनिरासार्था वाऽभिव्यत्त्यर्था वा कारणव्यापृतिरिति तत्र नाऽडद इत्याह-न कारणव्यापृतिरिति । अत्र सतः स्वरूपे कारणव्यापृतिः फलाय वदितुं न शक्येत्यन्वयः । सतः पुनः सत्त्वसंपादनासंभवात्तत्र निष्फला कारणव्या- पृतिरित्यर्थः ।। २११ ।। १ घ. पटिताप०। क. घटनाप।
Page 294
[ ३ तृतीयोऽच्याय: ] संक्षेपशारीरकम्। ७२९
सु० टी०-अमिध्यक्तिरुपगुणाधानार्थ भवतु कारणव्यापार इति शङ्कते- गुणं क्षिपतकारणमर्थवत्त्वं लभ्षेत चेन्नात्र गुणस्य भावात्। न चेद्गुणोऽसत्करणं प्रसक्त्ं निरर्थकं कारणकर्म तस्मात् ॥ २१२॥ गुणमिति। दूषयति-नेति। अभिव्यक्तेः सत्वादिर्यर्थः। असत्वे बाध- कमाह-न चेदिति। गुणश्चेदसन्नित्यर्थः ॥२१२॥ अ० टी०-द्वितीयं पक्षमनुवदति-गुणं क्षिपदिति। गुगोऽपि तत्र सन्व्ाऽस न्वेति विकल्प्याऽडदं दूषयति -- नात्रेति। सिद्धस्य साध्यतायोगादित्यर्थः । द्वितीयमनु- वदति -- नचेद्गुण इति। अस्मिन्पक्षेऽसत्कार्यमतप्रवेश इति दूषणमाह-अस- त्कारणं प्रसक्तमिति। फलितमाह-निरर्थकमिति। कारणकर्म कारण व्यापारः ॥ २१२।। सु• टी०-अनमिव्यक्तिनिरासार्थस्तर्हि कारणव्यापार इति शङ्कते- मलं निरस्यार्थवदिष्यते चे- म्मलोऽपि सन्नैव निरस्य इट्टः । सतोऽविनाशादसतोऽजनेश्र्व वृथा ततः कारणमत्र पक्षे॥ २१३॥ मलमिति। दूषयति-मलोऽपीति। ततः किमिति चेत्तत्राऽडह-सत इति। यथाऽसतो जनिर्नास्ति तथा सतो नाशोऽपि नास्तीति वृथेव कारणव्यापार इत्यर्थ: ॥ २१३॥ अ० टी०-तृतीयमुत्थापयति-मलं निरस्पेति। र्गुणाधानपक्षोक्तविकल्पदू- षणानतिवृत्तेर्नायमपि पक्षः साधुरित्याह-मलोऽपीति। असन्नपि मलो न निष्पाद्य इति शेषः । उभयत्र क्रमेण हेतुमाह-सतोऽविनाशादिति। अविनाशादिति चछेदः। अजनेरिति च पदं छेदं 'नासतो विद्यते भावो नाभावो विद्यते सतः' [भ०गी० २१६ ] इति भगवन्निर्णय त्र्चनादित्यर्थः । अत्रापि कारणव्यापारवैयर्थ्य फलि- तमित्याह-तृथेति ॥२१३ ॥ ९२
Page 295
S३० टीकाद्य समेतं- स ३ तृतीयोऽच्याय: ]
सु• टी०-उक्तदोषद्वय मुपसंहरति- तस्मादभिव्यक्तिकरी न हेतु- प्रवृत्तिरत्रार्थवती घटेत। न चानभिव्यक्तिनिराससृत्या तस्मान्न सत्कार्यवच: प्रशस्तम् ॥ २१४॥ तस्मादिति। निराससृत्या निरासमार्गेण ॥ २१४ ॥ अ० टी०-गुणाधानार्थत्वनिरासेनैव कारकव्यापारस्याभिव्यक्त्र्थताऽपि निरस्ते-
कारकव्यापारस्य दूषितेत्याह-नचानभिव्यक्तीति। सरकार्यमतनिराकरणमुपसं- हरति-तस्मादिति॥ २१४ ॥ सु० टी०-किं च सद्वादिन: कारणव्यापारः काय च सदेवेति नित्येन नित्यस्य नित्यमभिध्यञ्ञनात्स्वापप्रलयाद्यसिद्धिरित्याह- नित्या च कारकगपस्य सती प्रवृत्ति- र्नित्यं व्यनक्ति सकलं फलमित्यवश्यम् 1 वक्तव्यमत्र न लयो न सुषुप्तिमूर्छे नो चेन्न सुष्टिरिति कष्टमुपस्थितं वः ॥ २१५॥ नित्या चेति। विपक्षे बाधकमाह-नो चेदिति। सदा विद्यमानादृपि कारणान्न कार्य चेत्कुतः सृष्टिरित्यर्थः ॥ २१५॥ अ० टी०-कि बहुना सत्कार्यवादिनः कार्यकारणभाव एव न सिध्यंति स्व्रापाद्य- सिद्धिश्च स्यादित्याह-नित्या चेति। व्यापारस्यापि कार्यत्वान्नित्यसिद्धता वाच्या। अतः कारकगणस्य प्रवृत्तिश्च नित्या सती सकलं फलं स्वकार्यं नित्यं व्यंनक्ती- त्यवश्यं वक्तव्यम्। अत्रैवमुत्पाद्यो पादकव्यापारयोरुत्प्त्युत्पादनयोर्नित्यत्वे सति न लयः प्रलयः सुफुप्तिमूर्छे वा संभवन्ति। अतः कारकप्रवृत्तेः सत्त्वाभ्युपगमोऽनुपपन्न इत्यर्थः। तर्ह्यस्तु कारकव्यापारस्यासत्वमिति चेत्तत्राऽऽह-नो चेदिति। नो चेत्स्त्वं कारकव्यापारस्य तर्हि न सृष्टिः सिध्यतीत्युभयथा वो भुष्माकं सत्कार्यवादिनां कष्टमुपस्थितभित्यर्थः॥२१५॥ सु० टी०-ननु भवतामप्येतच्चोदं समानमित्याशङ्क्य निराक- रोति -- वेदान्तवादिसमयेऽपि समानमेत- च्ोयं परैर्न खलु वाच्यमिहाप्सक्ते:।
Page 296
६३. तृतीयोंऽच्याय: ] संक्षेपशारीरिकम्॥ ७३१
अस्मिन्मते न खलु संव्यवहारमाघ्रे मायामये किमपि दूषणमस्ति यस्मात् ॥२१६.॥ वेदान्तेति। कुतो क वाच्यमिति चेत्तत्राSSह-अस्मन्मत इति ॥ २१६ ॥ अ० टी०-ननु तवापि.सत्त्वमससवरं वा. कार्यादेरेष्टव्यं तथा च तत्रोक्तो दोषस्तवापिं प्रसज्येतेति चेन्नेत्ाह-वेदान्तवाछषीति। अवान्यत्वे हेतुमाह-इहाप्रसक्तेरिति । वेदान्तव्रादेऽस्य चोदस्याप्रसकि साधयति-अस्मिन्मत इति। संवर्यवहारमात्रे देहा त्मव्यवहारवद्व्यवहाराभासे तत्त्वावेदकप्रमाणासिद्ध इति, याव्रत्। अत एव.मायामये सत्त्वास त्वाभ्यामनिर्वचनीयेऽस्मिन्वेदान्तिमते यक्मात्किमपि. दूपणं न खल्वस्ति तस्मात्सत्त्वास्त्व्रप्रयुक्त- दूषणस्येहाप्रक्र्न, तदस्मान्प्रति वाच्यमिति योजना ॥ २१६ ॥ सु० टी-मायामात्रं सर्वमित्येतन्न सांप्रदायिकमिति येन्न बह्मद्- सादिभिरुक्तत्वादित्याह- आत्रेयवाक्यमपि संव्यहारमात्रं कार्य समस्तमिति नः कथयांबभूव । सत्कार्यवादविषयो न हि दोषराशि- र्मायामये भवितुमुत्सहते विरोधात् ॥ २१७ ॥ आत्रेयधाक्यमिति। तेन ह्युक्मसतोऽनिष्पाद्यत्वात्सत्वे प्रवृत्त्यानर्थक्याद- मिव्यकत्पर्थत्वेऽप्य विशेषात्मवृत्ति नित्यत्वात्सदाडभिव्यक्तिमस ङ्गात्संव्यव हारमात्रं कार्यमिति तद्दर्शयति -- सत्कार्येति॥१७॥ अ० टी०-कार्यकारणभावादेः संव्यवहार मात्रत्वं ब्रह्मनन्दिनाऽप्याचार्येण च्छान्दो म्यभाष्ये परैरुक्तदोषाप्राप्यर्थमुक्तमित्याह-आत्रेयवाक्यमपीति। अत्र हि न संव्य वहारमात्रत्वादिति वदता सदसत्कार्यपक्षदूषणेन संव्यवहारमात्रवं कार्यकारणदेरुक्तमिति । तत्र हि संव्यवहारत्वमस्माभिरुपलब्धमित्यर्थः । तत्र सत्कार्यप्रक्षोक्तदोषाप्राप्ति तावदाह- सत्कारथेति। मायामये. सद्विलक्षणकार्यपक्ष इत्यर्थ: ॥ २१७॥ सु० टी०-असत्कार्यवादोक्तोडपि दोषो नास्तीत्याह- काप्पाददर्शनसमाश्रयदोषराशि- र्दूरा्निरस्त इह संव्यवहारमात्रे।,
& ग. अस्मन्न. ॥२ क. वादिवि°।.
Page 297
७३२ हीकादवय समेतं- [ ३ तृतीयोऽध्याय: ]
वेदान्तभूमिकुशलो मुनिरत्रिवंश्य- स्तेनाऽऽह कार्यमिह संव्यवहारमात्रम् ॥२१८॥ काणादेति। कतो निरस्त इत्याह-संव्यवहारेति। सद्सद्विलक्षण इत्पर्थः। फलितमाह-वेदान्तेति ॥ २१८॥ अ० टी०-सत्कार्यवादस्य परिणामपक्षत्वात्तस्य विवर्तवादं प्रति संनिकृष्टत्वेऽपि. यदा सदाश्रयो दोषो न प्रामोति तदा नितरामसत्कार्यपक्षाश्रयदोषप्राप्तिरित्याह- काणादेति। संव्यवहारमात्रेऽसतोऽपि विलक्षणं कार्यादीति मायामयव्यवहार इत्यर्थः । येनैवं पक्षद्वयोक्तदोषाप्राप्तिर निर्वचनीयमते तेन कारणेन वेदान्तभूमिकुशलोऽनरिवंश्यो मुनि- श्रह्मनन्दाख्य इहास्मिन्मते कार्यं संव्यवहारमात्रं सदसद्विलक्षणं मायामयमित्याहेति योजना ॥ २१८ ॥ सु० टी०-ननु तद्वाक्यानामध्यनेकाकारत्वात्कथं ततः सिद्धान्ता- घयवसाथ इति चेद्विवक्षितविवेकादित्याह- षष्ठप्रपाठकनिबद्धमुदीरितं यत् तत्सत्यमेव खलु सत्यसमाश्रयत्वात्। अत्रैव यत्पुनरुवाच समुद्रफेन- दृष्टान्तपूर्वकमदो व्यवहारदृष्टया ॥ २१९॥ षष्टेति। ननु षछ्ठे परिणामोऽप्युक्त इति तत्राSSह-अत्रैवेति ॥१९॥ अ० टी०-ब्रह्मनन्दिवाक्येष्वनेकपक्षप्रतिमानात्तत्र कः सिद्धान्त इति न निश्चीयत इति चेन्नैष दोषः परमार्थनिरूपणावसरेऽभिहित्त्वाद्विवर्तवादस्य सिद्धान्तत्वनिक्षयादि- त्याह-पछ्ठमपाठकेति। छान्दोग्यषष्ठमपाठकव्याख्याननिबद्धं यत्तेनोदीरितं तत्सर्व सत्यमेव खलु निश्चितम्। कुतः सत्यस्षमाश्रयत्वातसद्वस्तुविषयत्वादित्यर्थः । न तत्र परि- णामवादोऽप्युक्त इति सोऽपि कथं न सिद्धान्त इति चेन्न स्त्वाविशेषादित्यादिना स्वय- मेव दृषितत्वालोकव्य तहारदृष्टिमात्राश्रयणेन तदुक्तिरिति निश्चीयत इत्याह-अत्रैवेति । २१ ९ । सु० aी०-कथमेवं निर्णय इति चेतत्राSडह- पूर्व विकारमुपवर्ण्य शनैःशनैस्त- द्दृष्टिं विसृज्य निकदं परिगृह्य तस्मात्।
Page 298
[ ३ तृतीयोऽध्यायः ] संक्षेपशारीरकम्। ७३३
सर्व विकारमथ संव्यवहारमात्र- मद्ैतमेव परिरक्षति वाक्यकारः ॥ २२० ।। पूर्वमिति। यस्मात्तद्द्ृष्टिं विसृज्य तन्निकटं विवत परिगरह्य सर्व विकारं संव्यवहारमात्रं कृत्वाऽद्वैतमेव परिरक्षति तस्मादेवं निश्चय इत्यर्थ: । २२० ॥ अ० टी० -- तर्हि परिणामवादस्य तत्र विस्तरेण कथनं किमर्थमिति चेदद्वैतावगमं प्रति परम्परयोपयोगित्वादित्याह-पूर्व विकारमिति। विकारं परिणामं पूर्वमुपवर्ण्य प्रतिपाद्य शनैःशनैरनुपपत्युद्धावनक्रमेण तद्दृष्टि परिणामदृष्टिं विसृज्य तस्माद्विकारात्परी- णामलक्षणान्निकटं विवर्तदर्शनं परिगृह्याथानन्तरं सर्वं विकारं संव्यवहारमात्रं न. परमार्थ मायामयमेवेति च परिशेषतः परिगृद्य वाक्यकारो ग्रन्थकारोऽद्वैतमेव परिरक्षति पालयति तत्नैव तात्पर्यदृषटिं करोतीति योजना ॥ २२० ॥ सु० दी०-तन्भाष्यकारवचनादप्येवं निर्णीयत इत्याह- अन्तर्गुणा भगवती परदेवतेति प्रत्यग्गुणेति भगवानपि भाष्यकारः । आह स्म यत्तदिह निर्गुणवस्तुवादे संगच्छते न तु पुनः सगुणप्रवादे।। २२१ अन्तर्गुणेति। अस्य व्याख्यानं प्रत्यगगुगेति। अत्यन्ताद्वैतवादे हवि सदा- त्मिका, परदेवता प्रत्यगभिन्ना मवति नान्यथेत्यर्थः ।। २२१। अद्वैतमेव ब्रह्मनन्दिग्रन्थे विवक्षितं न परिणामादीत्येतत्तद्धाष्यकृदूदविडाचार्यवचनादवसी- यत इत्याह-अन्तर्गुणति। परदेवता सदाख्या 'सदेव सोभ्येदमग्र आसीत्' [छा०६।२।१] इत्यत्रोक्ता सा परदेवताऽन्तर्गुणाऽन्तःस्वरूपगुणेति स्वरूपमेवात्र विवक्ष्यते धर्मः। अन्तर्गुणे त्यस्य व्याख्या प्रत्यग्गुणेति प्रत्यगात्मरूपेत्यर्थः। भगवतीति तद्विशेषणं तस्या ईक्षणादौ स्वव्यवहारे स्वातन्त्र्यद्योतनार्थमू। भगवान्सर्वक्ञो भाष्यकारो नन्दिकृतग्रन्थभाष्यकारो द्रवि- डाचार्योडन्तर्गुणा भगवती परदेवसेति यदाह स्म तदिह निर्गुणवस्तुवादे संगच्छते संगतं भवति न तु पुनः सगुणप्रवाद इति योजना। परदेवतायाः प्रत्यक्त्त्वाभिधानमत्यन्ताद्वै- तमत एव संगतं भवति नान्यत्रेत्यर्थः ॥२२१ ॥
Page 299
७३४ टीकाद्वय समेतं- [३ तृतीयोडन्याय: ] सु० टी० -- इतश्च संव्यवहारमात्रं कार्य तथा हि कि भिन्नयो: कार्यकारणभाव, उताभिन्नयोस्तत्र नाऽडद्य इत्याह- न खलु कारणकार्यसमन्वयो. भवति जानुचिदत्र विभिन्नयोः । किमिह सागरसह्यसमाश्रयो भवति कारणकार्यसमन्वयः ॥ २२२ ॥ न खल्विति। तथा सति सिन्धुसह्ययोरवि कार्यकारणभावः स्थादि- व्यर्थः ॥ २२२॥ अ० टी०-किं च भिन्नयोः कार्यकारणभावोऽभिन्नयोर्वेति विकल्पासहत्वादपि माया मयत्वं कार्यत्वादेरित्याह-न खल्विति दाम्याम्। सागरसह्यसमाश्रयः कारणकार्य -- समन्वयः किं भवतीति योजना ॥ २२२ ॥ सु० टी०-नापि द्वितीय इत्याह- न च तथाऽयमभिन्नसमाश्रयो
न हि घटो विदधाति घटं क्वचि- न्न च पटः पटमित्थमनीक्षणात् ॥ २२३॥ न चेति। अभेदे कार्यकारणत्वादर्शनादित्यर्थः । तदेवाऽऽह-न हीति ॥ २२३ ॥ अ० टी०-न च तथेति। अनभिवीक्षणभेव स्फुटयति -- न हि घट इति॥।२२३॥ सु०2ी०-किं च किं कुर्वत्कारणमुताकुर्वदिति विकल्प्याSऽधं दूषयति- कुर्वत्कारणपक्षमाश्रितवतः कुर्वच्व कुर्वत्कतं तत्कुर्वच तथाविधान्यकतमित्येषाऽनवस्था भवेत्। कुर्व दूपमकार्यमिष्टमिति चेन्नित्यं जगज्जायतां नित्यं मा जनि वा विशेषविरहादेतन्समस्तं जगत् ॥२२४॥
Page 300
{३ तृतीयोऽध्यायःबु संक्षेपशारीरकम् ७३५
कुर्वदिति। अनवस्थानात्कुवत्कारणपक्षोनाश्रवणीय एवेत्यर्थः । कुर्य- दूपमकार्यमतो नानवस्थति चेदेवं सति कार्यस्य नित्यमुत्पत्तिरनुत्पत्तिवर्र स्याद्विशेषादित्याह-कुर्वदरूपमिति ॥ २२४ ।। अ० टी० -- कि च् कारणमपि कुर्वदकुर्वद्वा कुर्वच्ेत्तदाऽनवस्था दुष्परिहरेत्याह- कुर्तत्कारणमिति। पक्षमाश्रितवत इत्येपाऽनवस्था भवेदिति संबन्धः । अनवस्थामु- पपादयति-कुर्वच्चेति। कुर्वत्वस्यापि कार्यत्वात्तदपि कुर्वता कृतमिति वत्तव्यं तदप्य- न्येन कुर्वतेत्येवमनवस्था दुरवस्थेत्यर्थः । कुर्यद्रयस्याकार्यत्वान्नानवस्थेति शङ्कते- कुर्वदूपमकार्यमिति। अस्मिन्पक्षे न कार्यकारणभावव्यवस्थेति दूषयति-नित्य- मिति। जगत्कार्यं सदेव जायेत कारणस्य सदैव. कुर्वद्रूफत्वादित्यर्थः । यदि कुर्वत्यपि कारणे विद्यमाने कदाचित्कार्य न जायते तदैतत्समस्तं जगत्सर्वमेव कार्य नित्यं मा जनि वा नैव कदापि जायेत विशेषविरहाद्विशेषहेत्वभावादित्यर्थः ॥ २२४॥
सु० टी०-द्वितीये त्वाह- सर्व सर्वसमुद्धवाय घटते कुर्वन्न चेत्कारणं न ह्यस्मिन्क्चिदस्ति कस्यचिदपि व्यापारवत्ता यतः। तस्मात्कारणकार्यतादि सकलं मायामयं तत्त्वतो नाऽऽसीदस्ति भविष्यतीति सकलं चैतन्यशेषं जगत् ।। -सर्वमिति। तथा सत्यनियमेन सर्वतः सर्वे जायेत क्वचिदृपि कार्ये कस्यचिदृपि कारणस्य व्यापारामावादित्यर्थः । तेनायं कारणकार्य- त्वादिर्मायिक एवेत्याह-तस्मादिति। विचारासहत्वात्तप्लोहपीतोदकन्या- येन चैतन्यमात्रशेषं जगदित्यर्थः ।। २२५।। अ० टी० -- कुर्वत्कारणमित्यादं कल्पं निरस्याकुर्धत्कारणमिति द्वितीयं निराकरोति- सर्वमिति । कारणं कुर्वदरूपं चेन्न भवेत्तदा प्रसुप्तवदवस्थानस्य सर्ववस्तुष्वविशेषात्सर्व सर्वस्मात्समुद्धवेन्न वा किमपीत्यत्राप्यव्यवस्था दुष्परिहरेत्यर्थः। अतिप्रसङ्गापादने हेतुमाह- न हयस्मिन्निति। अस्मिन्नकुर्वत्कारणमितिपक्षे। यस्मादेवं विचार्यमाणे कार्यकारण- भावव्यवस्था प्रमाणयुक्तिसहा न लम्यते तस्मादज्ञानकल्पितमेव सर्वमिति परिशेषतः सिद्धमित्युपसंहरति-तस्मादिति। मायामयत्वमेव विशदयति -- तत्त्वत इति । प्रतीयमानस्य परमार्थतः कालत्रयेऽपि स्त्रतःसत्ताहीनत्वमेव मायामयत्वमित्यर्थः ।
१ ग. °षं महत्।
Page 301
७३६ टीकाटुयसमेतं- [३ तृतीयोऽध्याय:]
तर्हि कि शून्यावसानमेवेदं सकल जगन्नेत्याह-इति सकलमिति। शिष्यत इति शेषश्चैतन्यं प्रत्यग्ब्ह्मात्मकं शेषः कालत्रयसत्वबाधेडर्वधिर्यस्य तत्सकलं जगच्ैतन्यात्पृथक्का- सत्रयेऽपि जगन्नाम न कापि सदित्यर्थः ॥ २२५ ॥ सु० टी०-नन्वकुर्वतोऽपि शक्तस्य कारणत्वान्नाव्यवस्थेति चेत्त- त्राSडह- सकलशक्तिविकल्पनयाऽन्वये सकलशक्यविकल्पनयाऽन्वयः । सकलशक्यविकल्पनयाऽन्वये सकलशक्तिविकल्पनयाऽन्वयः ॥ २२६॥ इति परस्परसंश्रयता यदा वद कथं जगतः परमार्थता। यदि पुनर्जगतोऽपरमार्थता परममस्ति पदं परमात्मनः ॥ २२७ ॥ सकलेति द्वाभ्याम्। कार्यनियमसिद्धौ कारणस्य शक्तिनियमसिद्धिस्त- हिसिद्धौ च कार्यनियमसिद्धिरिति परस्पराश्रयत्वान्न तास्विकं कार्यमि- त्यर्थः। ततः कि तत्राSSह-यदि पुनरिति। जगतो मृषात्वेऽद्वैतं सिद्ध- मित्यर्थः ॥ २२६-२२७ ।। अ० टी०-कुर्वव्कारणमिति पक्षे सर्व सर्वस्माज्ायेतेत्यतिप्रसङ्गदोष उक्तः स नोपपद्यते शक्तिवशादकुर्वतोऽपि कार्यवैचित्र्योपपत्तेरतः कुतो मायामयत्वनिर्धार इति चेत्कश्चिहूयात्तं प्रत्याह-सकलशक्तीति । अयमर्थ :- शक्तिर्हि शक्यनिरूप्याSतः शक्यनियमे सिद्धे सति शक्तिनियमसिद्धिः। अकुर्वतपक्षे चास्य कारणस्यास्मिन्नेव शक्ति. रिति नियमासिद्धे: शक्तिनियमाधीनः शक्यनियमो वक्तव्यस्तथा च स्यात्परस्पराश्रयतेति। एषाऽक्षरयोजना-सकलस्य कारणजातस्य शक्तिविकल्पनयाऽस्य कारणस्यास्मिन्कार्ये शक्तििति कल्पनयाड़म्वये सति सकलस्य कार्यजातस्यास्येदं कार्यमिति विकल्पनयाऽन्वयः सिध्यति। सकलशक्यविकल्पनयेति सुगमम्। शक्तिविकल्पनाऽपि शक्यविकल्पनाधीनेव्यर्थः ॥ २२६ ।। अ० टी०-अतः प्रागुक्तं मायामयत्वमेव जगतः परिशिष्यत इत्याह-इति परस्परेति। सर्वस्य जगतो परमार्थत्वे तत्संसर्गस्याभावात्परमात्मनो विशुद्धिः सिद्धेत्याह- यदि पुनरिति। परमं विशुद्धं परमात्मनः पदं स्वरूपमस्ति परमार्थमिति शेषः ॥२२७/
Page 302
[ ३ तृत्ीयोऽध्याय: ] संक्षेपशारीरकम्। ७३७
सु० टी०-एवमाविद्यकत्वं जगतः प्रसाध्य परपक्ष दर्शयति- चिच्छक्तिः परमेश्वरस्य विमला चैतन्यमेवोच्यते सत्यैवास्य जडा परा भगवतः शक्तिस्त्वविद्योच्यते। संसर्गाच्च मिथस्तयोर्भगवतः शक्त्योर्जगज्जायतेऽ- सच्छक्त्या सविकारया भगवतश्रिच्छक्तिरुद्विच्यते॥२२८॥ चिच्छक्तिरिति। सत्या चिच्छक्तिरसत्या वा विद्याशक्तिस्तदुमयसंसर्गा- जगदुत्पत्तिरित्यर्थः। नन्वविकारायाश्विच्छक्ते: कथं कारणत्वं तत्राSSह- असच्छक्तेति। उद्विच्यते सविकारा क्रियते। तत्र हेतुः-सविकारयेति। यथा स्वरूपेणोष्णो वह्निरतुष्णे लोहादाविष्ण्यं संपादयति तथेत्यर्थः ।। । २२८॥ अ० टी०-शक्तेरपि कल्पितत्वोपपादनेन सशक्तिकं ब्रह्मणः स्वरूपमिति स्वमतम- र्थादुक्तमन्ये तु शक्तिमदेव ब्रह्म वस्तुत इति वदन्तीत्याह -- चिच्छक्तिरिति । परमेश्वरस्यैका चिद्रूपा शक्तिरपरा च जडात्मिका शक्तिरिति शकक्तिद्वयमस्ति तत्र चैतन्य- मेव चिच्छक्तिरुच्यते। सा च विमलोत्पत्त्यादिमलरहिता स्वरूपभूता सत्यैवाव्यभिचारात्। तथाऽस्य परमेश्वरस्यापरा जडा शक्तिर्या सा त्वविद्योच्यते सा चानृतरूपेत्यर्थारििद्धा। तयोरुक्तयोर्भगवतः शक्त्योर्मिथः संसर्गात्तादात्म्याध्यासाज्जगज्ायते। कथं जायत इति तदाह-असच्छक्त्थेति। अनित्यया जडात्मिकयाSविद्याशक्त्या सविकारं प्रामुवत्या धोगाचिच्छक्तिरुद्रिच्यते शक्तिमत्परमात्मस्वरूपादुद्रेकं कार्याकारत्वमापन्ना भत्रति सवि- कारजशकक्तियोगाच्चिच्छक्तिर्जगदात्मना विवर्तत एतदेव जगज्जन्मेत्यर्थः ॥२२८॥ सु० टी०-अनुवद्ति- इत्येवं कथयन्ति केचिदपरे श्रद्धालवस्तत्पुनः कस्यां चिन्धुवि संमतं च विदुषां नेष्टं तु भूम्यन्तरे। कर्मोपास्तिविधानभूभिषु तथा तत्संमतं निर्गुणे तच्वे तत्परवेदवाक्यविषये त्वालोचिते नेष्यंते ॥ २२९ ॥ इत्येवमिति। तत्र दोषं संभावयति-श्रद्धालव इति। तत्किं सर्वथा त्याज्य- मेव नेत्याह-तत्पुनरिति। कथं तहि श्रद्धामात्रभित्युक्तं तत्राSSह-नेष्ठमिति
१ क. 'लोच्पते। 53
Page 303
७6 टीका टवय समेतं- [३ तृतीयोऽध्यायः ]
कुश्र तत्संमसं तन्राऽड़ह-कर्मेति। अविचारदशायामिष्टमित्यर्थः । कुत्र नेष्टं तन्ाSSह-निर्गुण इति। अनिच्छाहेतुमाह-तत्परेति । २२९ H अ० टी०-अस्योत्तरपद्येन संबन्धं घटयति-इत्येवमिति। श्रद्धालव इति। यथाश्रुते सृष्टयादौ निरूदश्रद्धा इत्यर्थः । अयमपि पक्षः क्वचिदुपयुज्यते न सर्वत्रेति प्रकृलेऽस्यासंगतिमाह-तत्पुनरिति।क संमत क् वा न संमतमित्यपेक्षायों तद्विभज्य कथयति-कभेति। तथा यथोक्तं तत्पूर्योक्तविदुपां संमतं कर्मादौ परिणामदृष्टेराश्रयणा- दिव्यर्थः । वेदवाक्यविषये वेदान्तवाक्यगम्ये तु निर्गुणे तत्वे विवर्तवाददृष्ट्याश्रयणेनाSS लोचिते विचारिते तन्नेष्यते तत्परेतिवेदवाक्यविशेषणेन वेदान्तवाक्यानामन्यपरत्वशंङ्का पराक्रियते वेदान्तवाक्यरनन्यथा सिद्धैनिर्गुणे तत्त्व आलोच्यमाने न शक्तिशक्तिमद्धावस्य ब्रह्मणि कल्पनावकाश इत्यर्थ: ॥। २२१॥ सु० टी० -- आलोचनमेव दर्शयति- मूर्तामूर्ततदुत्थलिङ्गपुरुषव्याभिश्रभूता चिति-
संपूर्णे परमे सुखे परिहृताशेषाशिवे शाश्वते सत्ये शुद्धमहिम्नि ताथिनि परे भूम्न्यक्षरे तिष्ठति ॥२३०॥ मूर्तामूर्तेति। चितिर्हि स्वरूपमव्यविद्यावशाद्गह्वणो भिन्नेव शक्तिरिव विकल्यमाना मूर्तामूर्तलिङ्गाध्यासास्पदं नेतिनेतीत्यादिभिस्तु निरस्ता- खिलद्वैता सती निर्दुःखपूर्णानन्दशुदूबह्लात्मनैवावशिष्यत इति कव तदा शक्तिशक्तिमद्भ्ाव इत्यर्थ: ।। २३०॥ अ० टी०-ननु चैतन्यलक्षणा शक्ति: परिणामदृष्टावप्यङ्गीकृता चेत्कथं तर्हि तस्या विबर्तदृष्टावप्यभावस्तस्या मिथ्यात्वानुपपत्तेरित्यत आह-मुर्तामुर्तेति। मूत पृथिव्यत्ते- जोलक्षणं भूतत्रयममूर्त वाथ्वाकाशात्मकं भूतद्वयं ताभ्यां मूर्तामूर्तभूतराशिम्यामुत्थलि- ङात्मा पुरुषो वासनामयलिङ्गशरीरात्मा तेषु व्यामिश्रभूता तादात्म्याध्यासमापना तदनुप्र- वेशेन जीवभावमापन्नेतियावत्। एवंविधा या चितिः सा वस्तुतो ब्रह्मैव सत्युपाधिवशाद्ग- ह्मणो भिन्नेत्र शक्तिरित विभाव्यमाना यदा वीप्सापूर्वकनेतिनेतिवेदान्तवाक्येन प्रध्वस्तसर्व- द्वया निरस्तसर्वोपाविर्भवति तदा संपूर्णेत्यादिविशेषितेऽक्षर तिष्टतीति योजना। संपूर्णे परम इति च भुखविशेषगे अपरिच्छिन्ननित्यसुखरूप इत्यर्थः । परिह्वतं नित्यनिवृत्तमशे- पमशिनमविद्यातत्कार्यरूपं यस्मिस्तस्मिञ्याश्वते निर्विकारेऽत एव सत्ये नित्यसद्रपे शुद्ध-
१ ग. शेषे शि"।
Page 304
[३ तृतीयोडव्याय: ]' संक्षेपशारीरंकम्॥ ७३९. महिम्नि 'निरपेक्षमहत्त्ववति तायिनि व्यापनशीले वस्तुपरिच्छेदराहित्येन निरङ्कशव्या- स्षिमतीति याचत्। परे व्याप्यधर्मसंसगरहिते नामादिम्यः परत्र स्थिते भूम्नि ब्रह्मण्यक्षरे क्षरणरहित इत्यर्थः। तथाचाविद्यावस्थायामेत्र शक्तिशक्तिमडावािव्यवहारो विद्ययाऽवि- द्यायां निवृत्तायां न कोऽपि व्यवहारोंतश्षिच्छक्तरात्मस्वरूपत्वाद्विद्यावस्थायामप्यात्मतन्मात्र तयाऽवस्थानात्वरिणामधर्मकत्वे तदयोगात्सत्या नित्या कूटस्थैवाSSतमचितिस्तस्याः परिणाम- . प्रतीतिर्भ्रम एवेति भाव: ॥. २३० ।। सु० टी० -- जगत्पकाशका निरुपणादृपि तस्प मायामयत्वमित्याह- जगन्महिम्ना न जगत्मसिद्धि- र्न चिन्महिम्नाऽपि जगत्पसिद्धिः: ॥ न च. प्रमाणाज्जगतः प्रसिद्धि- स्ततोऽस्य मायामयताप्रसिद्धिः ॥२३१॥ जगदिति। स्वतथ्वितः प्रमाणान्तराद्वा वस्तुसिद्धिस्तितयमपीह नास्ती- स्यर्थ: ॥ २३१ ।।. अ० टी०-सुनरपि द्वैतमिथ्यात्वं युक्तयन्तरेणाSSह-जगन्महिस्नरेति। जगत सिद्धिर्जगतो निष्पत्तिः प्रतीतिश्व. विवक्षिता ।। २३१ ।।. सु० टी० -- तरितयाभावेऽपि हेतूनाह- जडत्वहेतोर्न जगन्महिम्ना न चिन्महिम्रा तदसङ्गभावात्। न च प्रमाणाच्तदकारकत्वा- त्कतस्य जाड्यादजडा जैनेश्र ॥ २३२ ॥ जडल्वेति। न. चेति। प्रमाणस्याकारकत्वेन जउविषयसंविदुत्पाद्कत्वा- संभवात्। न च संविदुत्पद्यते कृतस्य जडत्वेनासंवित्वात्संवित्ते चाज- न्यत्वादित्यर्थ: ॥: २३२।। अ० टी०-उत्तेषु पक्षेषु त्रिष्वपि जगतः सिद्धयसंभवे क्रमेण हेतृवाह-जडत्व- हेतोरिति। स्वमहिम्रा जगतः प्रसिद्धौ जडत्वव्याहतिः स्यात्तथा चेतनाचेतनमेदव्यव-
१क. जगत्व्र' । २क. जडस्ा।
Page 305
७४० टीकादुय समेतं- [ ३ तृतीयोऽध्याय: ]
हार: प्रमाणप्रमेयादिव्यवहारश्ष लुप्येतेति भावः । तदसङ्गभाबादिति। तस्वाथ्विवितोऽसङ्ग- त्वाज्डाजडयोः संबन्धासंभवादित्यर्थः । तदकारकत्वादिति। तस्य प्रमाणस्य जड़विषय- संविदुत्पादकत्वासंभवादित्यर्थः । यदि प्रमाणेन संवित्क्ियेत तदा सा संविदेव न भवती-' त्याह-कृतस्य जाख्यादिति। यत्कार्यं तज्जडमिति नियमस्य पटादाववधृतस्याभङ्गादि- व्यर्थः। अजडा चेत्संवितदा सा नोत्पद्यत एवाSऽत्मवदित्याह-अजडा जनेश्रेति॥२३२॥ सु० टी०-नन्वात्मस्वभावेनैव जगत्सेत्स्यतीत्याशङूय किमात्माना- त्मनोस्तादात्म्यं संबन्धः किंवा संयोगोऽथ वा समवाय इति विकल्प्य नाऽडय्य इत्याह- न संकरो नापि च संयुतिस्तयो- र्न चास्ति तद्वत्समवायसंभवः । ततो न चिच्चेत्यसमन्वयं प्रति प्रतीयते का च न मूलसंगतिः ॥२३३ ॥। सु० टी० -- न संकर इति। जडाजडयोर्विरुद्धयोर्जलदहनयोरिव तादा- त्यानुपपत्तेरित्यर्थः । न द्वितीय इत्याह-नापीति। संयोगस्य गुणस्य निर्गुणे चैतन्येऽसंभवावित्यर्थः। तृतीये त्वाह-न चापीति।आन्तर्याश्चितो बाह्येपु जडेषु समवायानुपपत्तेरित्यर्थः । अस्तु निरूप्यनिरूपकभावा- देवान्तःकरणसंक्रान्तेर्वा भास्यभासकत्वमिति चेन्नेत्याह-अत इति। निरूप्य निरूपकत्वस्य मूलसंबन्धं विनाडयोगान्निर्विकारचितोऽन्तःकरण- संक्रमानुपपत्तेश्रवेत्यर्थः ।। २३३ । अ० टी०-इदानी प्रमाणात्संविदुत्पत्ति नित्यसिद्धां वा संविदमङ्गीकृत्यापि तस्या जडेन सह संबन्धानिरूपणात्तदधीना जगत्प्रसिद्धिरित्याह-न संकर इति। संकरस्ता- दात्म्यं तयोर्जडाजडयोः स्वभावविरोधात्तमःप्रकाशवत्तादात्म्यं न संभवतीत्यर्थः । संयुतिः संयोग: सोऽप्यनयोर्न युक्तः संविदोऽद्रव्यत्वात्। द्रव्ययोरेव संयोग इति नियमात्। व्यावे वाडस्या रूपादेरसंयोगाद्रूपाद्यसिद्धिप्रसङ्ग इत्यर्थः । तद्वत्संयोगासंभववत्समवायसंभ- वोऽपि न चास्तीत्यर्थः । चित आत्मसमव्रेतत्वाद्विषयेषु तदसंभवादित्यर्थः । विषयविषयि- भावादे: संबन्धान्तरस्य सत्त्वान्न जडासिद्धिरिति चेन्न मूलसंबन्धाभावे तदयोगादित्यभि- प्रेयाऽडह-ततो नेति ॥२३३॥ सु० टी०-अस्तु योग्यतैव मूलसंबन्ध इति चेत्तत्राSडह- न योग्यतामात्रनिबन्धनो भवे- ज्डात्मनोरत्र विवक्षितोऽन्वयः।
Page 306
[ ३ तृतीयोडध्याय: ] संक्षेपशारीरकम्। ७४१
तदा हि तस्या अनपायरूपतः सदाऽडत्मनः स्यादनपायसंसृतिः ॥ २३४॥ न योग्यतेति। कुतो न भवेदिति चेत्तत्ाऽऽह-तदा हीति। अनपाय- रूपतो नित्पत्वादित्यर्थः । ततश्र मुक्त्यभावः स्यादिति भावः ॥ २३४॥ अ० टी०-दृश्यदर्शनयोर्विषयविषयित्वयोग्यतारूपो मूलसंबन्धोSस्तीति चेन्मैव सनि- र्मोक्षप्रसङ्गादयोग्यताया यावद्वस्तुभावित्वेनाविच्छेदादित्याह-न योग्पतेति। विवक्षितोऽ न्वयो विषयविषयिभावः । तस्या योग्यतायाः । स्पष्टमन्यत्॥ २३४॥ सु० टी० -- तवापि संबन्धस्य दुर्निरूपत्वाविशेषात्प्रपञ्चासिद्धिस्तु- ल्येति चेत्तत्राSडह -- अतो वियन्मुख्यमदो जगज्जडं चिदात्मनोऽस्यैव विवर्त इष्यताम्। अनादविद्यापटसंवृतात्मन- स्तदोपलभ्यत्वममुष्य कलपते ॥२३५॥ अत इति। पुर्वोक्तानुपपत्तेरित्यर्थः। जडस्याज्ञातचिद्विवर्तत्वेन मिथ्या तादात््यादुफ्लब्धिरिति हठादिष्यतामित्यर्थः ॥। २३५॥ अ० टी० -- दृग्दृश्ययोः संबन्धस्यानुभवसिद्धत्वात्तद पहवायोगात्कोऽपि संबन्धो वक्तव्य
परिशेषादद: परोक्षापरोक्षात्मकं वियन्मुखमाकाशादिजगज्जडं सर्वमस्यैव चिदात्मनो विवर्तः स्वाविद्यावशान्मिथ्यातादात्म्यलक्षणोऽध्यासो दृग्दश्ययोः संबन्ध इष्यताम्। अविद्यावस्था- यामेवोपलभ्यमानत्वादुक्तसंबन्धस्याध्यासात्मत्वमित्यभिप्रेत्य चिदात्मानं विशिनष्टि -- अना- द्यविद्येति। यद्येवमाध्यासिकः संबन्धो दृशा दृश्यस्याभ्युपगम्यते तदाऽमुष्य दृश्यस्योपल- भ्यत्वं कल्पते घदत इति योजना ॥ २३५ ॥ सु० टी०-कथं पुनः प्रमाणफलभूता परिच्छिन्ना नश्वरी संविद- विद्याश्रयो जगद्धिष्ठानं वा स्यादिति चेन्न कूटस्थत्वात्संविद इत्याह- संवित्तिभेदतदभावतदीयजन्म- नाशादयो न खलु मानबलेन लक्याः ।
१ ग. पायिरु। २ ग. पायिसं'। ३ क, ततो। ४ ख. घ. कल्प्यते।
Page 307
७४२ टीकाहवय समेतं- [ ३ तृतीयोऽध्याय: ]'
न ह्रस्ति मानमिह किंचन तय्दस्या धर्भस्वरूपविषयीकरणे समर्थम् ॥ २३६ ॥ संवित्तिभदेतिः । न हि संविदो जन्मनाशादि प्रमाणात्सिध्यति तस्याः स्वप्रकाशत्वादित्यनित्यबुद्धिवृत्त्यचिवेकादेव तस्या जन्मधीरित्यर्थः । एतदुषपाद्यति-न हीति ॥ २६६ ।।। अ० टी०-ननु प्रमाणफलभूतायाः संविदः प्रतिविषयव्गक्तिभभिद्यमानायाः क्षणध्वं सिन्या उत्पत्त्यादिधर्मवत्याः कथमविद्यावत्त्वं जडभ्रमास्पदत्वं वेति चेन्नायं दोषः कूटस्थ त्वात्संविद इत्याह-संवित्तीति। पूर्वार्ध स्पष्टार्थम्। न ह्यस्ति मानमिहेति। अयमर्थः- न तावत्संविद्वेदादयः संविदा ग्राय्याः स्ववृत्तेः स्वविषयत्वानुपपत्तेः संवेदनस्य फलरूपत्वा- त्फलाश्रयत्वानुपपत्तेश्र। नापि प्रमाणान्तरात्संवेदनस्योत्पत्त्यादिसिद्धिः । मानान्तरमपि जडं चेन्न तेनाजडसंविद्धर्मग्रहः। अजडं चेत्समत्वात्प्रदीपयोरिव परस्परानपेक्षत्वाद्विषयविषयि- त्वासंभवः । तस्माद्यदस्य संवेदनस्य धर्मस्वरूपविषयीकरणे समर्थ तदिह किंचिदपि मानं न ह्यस्तीति सिद्धं तत्रोत्पत्यादिप्रतिभासस्तूत्पत्तिवनिनाशभेदधर्मकबुद्धयविधेककृत एवेति।, ॥ २३६ ॥ सु० टी०-कथं ताह प्रमाणजन्यत्वप्रतीतिः संविद इति तत्राSडह- तस्मान्न मानफलता निरुपाधिकस्य संवेदनस्य घटतेऽविषयत्वहेतोः । एवं च मानफलसिद्धिसमन्व्येन सिद्धिर्जडस्य जगतो न कदाचिदस्ति ॥: २३७।। तस्मादिति। बुद्धिवृत्तेर्जन्यत्वात्तदुपाधिकी चैतन्ये जन्यत्वधीरित्यर्थः। निरुपाधिकस्य मानफलत्वे को दोष इति तत्राSऽह-अविषये त्विति। केवलस्य मानफलत्वग्राहक्कप्रमाणाभावादित्यर्थः। अस्तु तरह सोपाधि- कस्य मानफलस्य प्रपञ्चावमासकत्वमिति चेत्तत्ाSऽह-एवं चेति। परेष्टमानफलभूतज्ञानविषयत्वेन या जडस्य सिद्धिरबुद्धबोधनं सा नास्ति संबन्धानिरूपणादित्यर्थः ॥ २३४॥. अ० टी०-ननु कुटस्था चेतसंवित्तर्ह कथं तस्या मानफलत्वमिति चेत्सत्यं नास्ति स्वतः कि तूपाधिवशादुपचर्यते मानफलत्वं संविद इत्यभिप्रेत्याSSह -- तस्मान्नेति.।
१ क. °विरस्य।
Page 308
[३ तृतीयोऽच्याय:] संक्षेपशारीरकम् १ ७४३
अविषयहेतोः स्वतो विषयरहितत्वादित्यर्थः । अथवा विषयत्वाभावेन जन्माद्यसिद्वेरित्यर्थः । जन्मादौ प्रमाणाभावस्योक्तत्वात्संविदो न प्रमाणविधेयत्वं संभवति तथाऽपि प्रमाणाधीन- धीवृत्तिव्याप्तविषयावच्छेदेनाभिव्यक्त्यपेक्षया फलत्वमुपचर्यत इति भावः । तस्मात्संविद: कूटस्थत्वान मानफलतया संवित्प्रकाश्यं जडमिति सिद्धमर्थमाह-एवमिति। एवं च संविद: कूटस्थत्वेन न मानफलत्वं वस्तुत इति स्थिते सति मानफलरूपा या सिद्धिस्तया समन्वयेन संबन्धेन जडस्य जगतः सिद्धिः कदाचिदपि नास्तीवि । योजना ।। २३७ ॥! सु० टी०-कथं तर्हि जगत्सिद्धिरिति चेसत्राऽडह- इतरेतराध्यसनमस्त्वनयो- रुभयोरतो दृगदशोरनिशम्।
दिह शुक्तिकारजतविश्रमवत्॥ २३८॥ इतरेति। आध्यासिकसंबन्धादेव संविदो जडसाधकत्वं दृश्यस्य हग- विद्याकार्यत्वादित्यर्थः । अपरस्परव्यतिकरोऽन्योन्याध्यास: सोऽनुभूषते घटः स्फुरतीति यथेदं रजतमिर्तीत्वर्थः ।। २३८॥ अ० टी०-तथा चाध्याससंबन्धादेव संविदो जडसावकत्वमिति सिद्धमित्याह- इतरेतरेति। दृग्दृश्ययोः परस्पराध्यासे च घटः स्फुरतीत्यनुभव एव मानमित्याह- अपरस्परेति। तस्मादृगविद्याकल्पितत्वेन दृश्यस्य दृश्यध्यस्ताद्दृशोऽपि तत्राध्यासा- द्द्टश्यस्फुरणमुपपन्नमिति तात्पर्यार्थः ॥ २३८॥ सु० टी० -- तर्हात्मनोऽप्यध्यासाच्छून्यवादाशङ्कायां पूर्वोक्तमेव परि- हारं स्मारंया संसिद्धा सविलासमोहविषये वस्तुन्यधिष्ठानगी- र्नाऽडधारेऽध्यसनस्य वस्तुनि ततोऽस्थाने महान्संभ्रमः । केषां चिन्महतामनूनतमसीं पाण्डित्यगर्वादय- मन्योन्याध्यसने निसस्पदमिदं शून्यं जगत्स्यादिति ॥ २३९ ॥ संसिद्धेति। व्याख्यातम् ॥ २३१ ॥
१ ख. व. "सां निर्बन्धनात्राअयादन्यो।
Page 309
७४४ टीकाद्वय समेतं- [ ३ तृतीयोऽच्याय: ]
अ० टी०-इतरेतराध्यासमुपश्रुत्य शून्यवादप्राप्तिं कश्विददि चोदयेत्तदा' तं प्रति प्रथमाध्यायोक्तमेव स्मारयेत्समाधानमित्येभिप्रेत्य तत्रोक्तमेवेह पठति-संसिद्धेति। निर्बन्धमात्राश्रयादित्यस्य स्थानेऽत्र पाण्डित्यगर्वादमिति पाठः ॥२३९॥ सु० टी०-ननु मृदादिहष्टान्तैः परिणामस्योक्तत्वात्करथं विवर्ताभि- धानमिति चेत्तत्ाSSह -- कपणमध्यमपक्कधियां नृणां मतिविलासविधात्रितयं क्रमात्। परिणतिर्बहुजीवतमस्विता परमपुंसि तमःपरिकल्पना ॥२४० ॥ कृपणेति। बुद्धिविलासप्रकारत्रयमिदं क्रमादधिकारिणामित्युक्तं द्वितीये तन्र कृपणादीनां मध्ये कृपणस्य ब्रह्मपरिणामी जगदिति, मध्यमस्य तु बह्मविवर्तो जगदिति, अज्ञानिनस्तु बहवो जीवा: सन्तीति, परिपक्- धियस्त्वहमेव मुमुक्षुरन्ये मदज्ञानकल्पिता:, परमात्माश्रयविषयं थ तम इति ॥ २४० ॥ अ० टी०-इतश् नास्मन्मते शून्यताप्रसङ्गापादनावसर इति वक्तुमाह-कृपणेति। य इतरेतराध्यासे शून्यताप्राप्तिं मन्यते स कृपणधीर्मन्दबुद्धिरिति यावत्। यस्तु समस्त- कारणतया परस्य सत्वं निश्चित्य तत्स्वरूपं जिज्ञासते स मध्यमधीः । विवर्तपक्षेऽपि यो व्यवहारसंकरं शङ्कमानोऽदवैत एवाभिनिविष्ठमतिर्भवति स पक्कधीः। एतेषां त्रिविंधानां मतिविलासविधात्रितयं कमाहुद्धिविलासतारतम्यक्रमेण परिणत्यादिकल्पनाशास्त्रे क्रियत इति योजना। तत्र कृपणधियं प्रति नाध्यास उपन्यसनीयः किं तु परिणामकल्पनया द्वैतं बोधनीयम्। यस्तु मध्यमधीस्तं प्रत्यध्यास एवोपन्यसनीयः । तदिदनुच्यते- जीवतमस्वितेति। जीवा बहवस्तमस्विरिनश्चेति व्यवहारव्यवस्थोपपादनीया । परमपुंसि तमःपरिकल्पनेति क धियं प्रति ब्रह्मण्येघाविद्याकल्पितः सर्वोडपि जीवेश्वरभेदस्तदाश्रयश्च व्यवहारतद्ववस्था च। ब्रह्मविद्योत्पत्तौ त्वविद्याबाधान्न द्वैतलेशस्याप्यवस्थानमिति न काडवि व्यवस्थेति प्रतिपाद्यतेऽतः प्रतिपादनक्रमापरिज्ञानादेव शून्यतादिवादोद्वाटनमिति भाव: ॥। २४० ॥ सु० टी०-किमत्र क्रमे प्रमाणमिति तत्राSSह- श्रुतिवचांसि मुनिस्मरणानि च द्वयविशारदगीरपि सर्वशः ।
Page 310
[३ तृतीयोऽच्याय: ] संक्षेपशारीरकम्। ७४५
त्रयमपेक्ष्य विधात्रितयं विना न हि घटामुपयान्ति कदाचन ॥ २४१ ॥ श्रुतिवचांसीति। श्रुतिस्मृत्याचार्यवचसां सामञ्जस्यान्यथानुपपत्तिमूलोऽयं क्रम इस्यर्थ: ॥ २४१ ॥ अ० टी०-तर्ह्ययं प्रतिपादनक्रमः किंमूल इतिचेच्छृतिस्मृतितचसां सामज्जस्या- न्यथानुपपत्तिमूल इत्याह-श्रुतिवचांसीति । द्वितीयाध्याय एवायं श्लोको व्याख्यातो दृष्टित्रयनिबन्धना च व्यवस्था तत्रोपपादितेति नेह पुनर्यत्यते ॥ २४१॥ सु० टी०-एवमधिकारिभेदे नानाजीववादापत्तिरिति चेत्तन्ाSSह- पुरुषमेकमपेक्ष्य च भूमिका- त्रितयमस्ति पुरोदितमेव तत्। सदनुसारवशादखिलश्रुति- स्मृतिवचांसि वयं घटयामहे॥ २४२॥ पुरुषमिति। आसां दष्टीनामेकपुरुष संबन्धित्वेनैव तत्वप्रतिपततौ संगतिर्न
अ्ञस्यं नान्यथेत्यर्थ: । २४२॥ अ० टी०-नचाSडसां दृष्टीनां विरुद्धार्थत्वेन भिन्नपुरुषनिष्ठत्वादेकस्यां वस्तुप्रतिपत्तौ न मिथः संगतिरिति शङ्कनीयमासामेकपुरुषसंबन्धित्वस्य पूर्वमुपपादितत्वादित्याह- 9रुषमेकमिति। तदनुसारवशादिति। एकषुरुषवर्तिदृष्टिभेदक्रमानुरोधादखिलश्रुतिस्मृति- वचांसि सामञ्जस्येन वयं घटयामहे प्रतिपादयामो न तु भिन्नपुरुषगताभिर्दृष्टिभिरतो नकोऽपि विरोध इत्यर्थ: ॥ २४२॥ सु.० टी० -- ननु श्रुत्यादीनि दशात्रितयानुसारेण प्रवृत्तानीति कुतो गम्यत इति तत्राSडह- परिणतिं च विवर्तदशा्वयं स्थितमनुक्रमतः श्रतिशासने। अनुशशास मुनिभवर: सुधीः पुरुषबुद्धिमपेक्ष्य यथाक्रमम् ॥ २४३ ॥ परिणति चेति। श्रुतिसिद्धपरिणतिविवर्तदशाद्वयानुसारेण सूत्रकारपवृ- तेरवगम्यत इत्पर्थ: ॥१४३ ॥. १ क. मवेक्ष्य। .
Page 311
७४६ टीकाट्टय समेतं- [३ तृतीथोऽध्यायः ]
अ० टी०-सूत्रगतिदर्शनाच्चायें प्रतिपादनक्रमो विवक्षित इति गम्यत इत्याह- पश्णतिं चेति। विवर्तदशाद्वयं च द्वितीयव्याख्यातं श्रुतिशासने स्थितं परिणर्ति च विवर्तदशाद्वयं सुधीमुनिप्रवरोऽनुक्मतोऽनुशशासेति संबन्धः । कि कृत्वा यथाक्रमं पुरुष- बुद्धिमपेक्ष्य कृपणधीः परिणाममुदीक्षत इत्पाद्युक्तपुंबुद्धिकमानुरोधेनेत्पर्थः ॥ २४३ ॥ सु० टी०-सर्वस्य ब्ह्मकार्यत्वे वेदस्यापौरुषेयत्वेन स्थापितं स्वतः भामाण्यं भज्येतेति शङ्कते -- यदि परिणतिरेषा चिद्विवर्तोडथ वा स्या- द्भवति ननु तदानीं वेदशास्त्रे विरोधः । न हि खलु कतकत्वे पौरुषेयत्वहेतो- र्भवितुमलमियं नो मानता स्वप्रयुक्ता । २४४।। यदीति। कथं विरोध इति त्राSऽह-न हीति। पुरुषकृतवाक्यानां लोके स्वतः प्रामाण्यादर्शनादित्यर्थः। नोऽस्माकमपौरुषेयत्वहेनुका येयं स्वप्रयुक्ता मानता सा भावयितुं नालमित्यन्व्रयः ॥ २४४।। अ० टी०-तदेवं दृश्यस्य ब्रह्मण्यविद्याविलसितत्वान्मिथ्यात्त्वे परिशुद्धमेव नित्यं ब्रह्मेति प्रतिपादितं तत्र परिणामदृष्ट्या विवर्तदृष्टया वा सर्वस्य ब्रह्मकार्यत्वे वेदस्यापि तदन्तर्वर्तित्वाद्वह्मकार्यता स्यात्। तत्र च पौरुषेयत्वेन पूर्वतन्त्रे प्रथमपादे स्थानं चेदस्य स्वतःप्रामाण्यं भज्येतेति शङ्कते-यदि परिणतिरिति । एषा श्रुतिः। वेदशास्ते वेदस्यापौरुषेयत्वशासनपरे पूर्वतन्त्र इत्यर्थः । विरोधमेव स्कोरयति-न हीति। अपौ- रुषेयत्वेतिच्छेदः। अवश्यं चापौरुषेयत्वमङ्गीकार्यमित्याह-इयं न हीति। इयं मानता नोऽस्माकं वैदिकानां स्वप्रयुक्ता स्वतःसिद्धा नाऽडसवाक्यत्वेनेत्यर्थः ॥ २४४ ॥ सु० टी०-मा मूच्छात्नान्तरस्था स्वप्रयुक्ता मानता को दोष इति चेत्तत्ाSडह -- कणभुगभिमतिर्वा कल्पनीया तदानीं सुरगुरुमतमेवोपास्पमाहोस्विदुचैः। इति निपतति चोयं ब्रह्मणो विश्वसृष्टि र्यदि भवति न चेद्ो नित्यमायाति विश्वम् ॥ २४५ ॥ कणभुगिति। न हि परसिद्धान्ताम्युपगमाद्विवक्षितार्थसिद्धि: परतः पामाण्ये हि वेदस्य मूलभूतमानान्तरसापेक्षत्वान्नाद्वैतपत्यग्ब्रह्मसिद्धि-
Page 312
[३ नृतीयोऽच्याय: ] संक्षेपशारीरकम्। ७४७.
बौद्धवद्दा विसंवादित्वादुन्मत्तवाक्यवदपामाण्यं स्यादित्यर्थः । उपसं- हरति-इतीति। तार्हि वेदस्यापौरुषेयत्वमस्त्विति चेत्तत्राSडह-न. चेदिति। न चेद्वेदस्य सृष्टिस्तद्देव विश्वसृष्टौ मानामावाद्वैतं नित्यं सत्यमाया- तीत्यर्थः ॥ २२५॥ अ० टी० -- यद्यपि शास्त्रयोनित्वसूत्रार्थनिरूपणेऽस्य विचारस्यावसरस्तथाSपि तत्र न कृत इह साधनाध्याये वेदस्यापि साधनत्वात्तत्प्रामाण्यं तत्स्वरूपं च व्युत्पाद्यत इति. द्रष्टव्यमस्तु नाम जैमिनीयतन्त्रविरोधेऽपि कि नो हीयत इति चेत्तत्राऽह-कणभ गभिमतिर्वेति । परतः प्रामाण्यमिति कणभुगभिमतिः । सुरगुरुर्वृहस्पतिस्तन्मतं चार्वा- कशास्त्रम् । तद्दि केनचिन्निमिततेन बृहस्पतिना प्रणीतमिति मैत्रोपनिषद्याम्नातं दृश्यते पुराणेषु च.। अतः सुरगुरुमतं चार्वाकदर्शनम्। तत्र वेदानामप्रमाणत्वं प्रतिपादितं तदे- बाप्रमाणत्वमुच्चैर्निःशङ्कतयोपास्यं त्वया वैदिकेनापीत्येवं चोदं निपतति। यदि ब्रह्मणो विश्वसृष्टिरभ्युपगम्यत इति योजना । अत्र विश्वशब्दो वेदविषयः । अत्र कणादमतस्वीकारे वेदस्य मूलत्वेन मानान्तरापेक्षणान्न स्वारस्येनाद्वैतप्रत्यग्ब्ह्मसिद्धिः । सुरगुरुमतस्वीकारे तु. ब्रह्मात्मसिद्धिर्दरापास्तेति भाव: तर्ह्येतदोषपरिजिहीषिया वेदस्य नित्यत्वमाश्रीयत इति. चेत्तदा द्वैतस्य सत्यताप्रसङ्ग इत्याह-न चेद्व इति। न चेद्रह्मणो विश्वसृष्टिरित्यनुषङ्गः। नित्यमकार्य स्वतन्त्रं विश्वमायाति तेन सद्दयं ब्रह्म स्यादिति 'एकमेवाद्वितीयम् '[छा० ६। २ । १ ] इत्याद्यन्नधारणासिद्धिरित्यर्थ: ॥ २४५ ।।. सु० टी०-एतच्चोदं परसंमत्या परिहर्तुमाह- ननु सदशभिद वश्चोद्यमस्मासु कस्मा- द्विनिहित मुभयेषां पूर्वमीमांसकानामू।. अवगतिळतभेतद्वाचकत्वं पदाना- मवगतिरियमिष्टा नश्वरी तत्क्षणेन ।। २४६ ।। नन्विति। कथं साम्यमिति चेतन्ाSSह-अवगतिरिति। ज्ञातानां वर्णानक वाचकत्वाज्ज्ञानस्य च क्षणिकत्वाद्ाचकाकार: क्षणिक एव मवताम- पीत्यर्थः ।। २४६।। अ० टी० -- अस्य चोदस्य परिहारं परस्यासंमतमापाद वक्तुं प्रतिबन्दीमाह- ननु सदशमिति। उभयेषां प्राभाकराप्पां भादनां च पूर्वमीमांसकानां वो युष्माक- मिदं चोदं सदशमतोऽस्मासु कस्माद्विनिहितं प्रक्षिप्तमिति योजना । कथं चोदसाम्यं तदाह-अवगतिकृतमिति । पदानामेतत्प्रसिद्धं वाचकत्वमवगतिकृतमवगभ्यमानानां
Page 313
टीकाट्वय समेतं- [ ३ तृतीयोऽष्याय: ]
हि वर्णानां वाचकत्वं न स्वरूपसतामित्यवगतिकृतं वाचकत्वमित्यर्थः । ततः किमित्यत भाह-अवगतिरियमिति। क्षणध्ंसिन्यवगतिरियं भवद्विरिष्टा, अतः क्षणिकाबगत्यव- च्छिन्नस्य वाचकाकारस्यापि क्षणिकत्वमेव भवतामित्यर्थः ॥ २४६ ॥
सु० टी०-तथापि वर्णानां नित्यत्वान्नोक्तदोष इति चेत्तताह- अवगतिगतमेवापेक्ष्य पूर्वापरत्व- प्रतिनियममियं वो वेदता वेदराशेः । क्षणिकमभवदित्थं वेदशास्त्रं समस्तं कथमिव तदिदानीं वेदशासत्रं प्रमाणम्।।२४७। अवगतीति। क्रमावच्छिन्नानां हि वर्णानां वाचकत्वम्। न च नित्य- विभूनां वर्णानां स्वतः क्रमोस्तीत्यवगतिपौर्वापर्यमपेक्ष्याSSवेदकत्वं वेद्राशेरुपेयम। एवं चावगतिक्षणिकत्वेन वाचकस्य क्षणिकत्वातकथ सामाण्यमित्यथ: ।। २४७।। अ० टी०-इतश्च वाचकाकारस्य क्षणिकत्वमित्याह-अवगतिगतमिति। क्रमा- वच्छिनानां हि वर्णानां वाचकत्वं प्रसिद्धं क्रमश्च वर्णानां स्वतो नास्ति नित्यविभुत्वस्य स्वीकारा त्तस्मादवगतिगतमेव पूर्वापरत्व्रप्रतिनियम मपेक्ष्य, वर्णप्रत्ययक्रमानुरक्तं वर्णक्ममपेक्ष्येति यावत्। वो युष्माकमियं हि वेदराशेर्वेदग्रन्थस्य वेदता वेदयितृता प्रमाणताभिम- तेतियोज्यम्। तथा चोपलन्धिकमावच्छेद्यस्य. वाचकाकारस्य क्षणिकत्वाद्वेदस्य क्षणिकत्वं प्राप्तं न कार्यत्वमात्रमितिकथं भवतां पूर्वमीमांसकानां तद्वेदशास्त्रमिदानी प्रमाणं स्यादिति
सु० दी०-तथाडपि वाक्यार्थे पुरुषवृद्धिपवेशामावात्स्वतः पाम :- एयसंभव इति शङ्कते- पुरुषमतिनिवेशो नास्ति वेदभमेये विषय इति यदीष्टा मानता स्वप्युक्कता॥ 1- स दशमिदमिदामीं कारणं मानतायां परमपुरुषसृष्टे वेदशास्त्रेडप्यभीष्टे॥२४८ ॥
१ क. स्. ग. यं नो वे ।. २ ह. भीषमू।
Page 314
[३ तृतीयोऽव्यायः ] संक्षेपशारीरकम्। ७४९
पुरुषेति। स्वमतसाम्येन परिहरति सद्दशमिति। अमीष्टेडस्माभिरिति शेष: ॥। २४८ ॥ अ० दी०-तत्र प्रामाण्यसमर्थनप्रकारं पूर्वमीमांसकः शङ्कते-पुरुषमतीति। वेदप्रमेये विषये प्रमाणान्तरागोचरे वेदैकगम्येऽर्ये पुरुषमतिनिवेशो नास्तीति कृत्वा यदि वेदस्य मानता स्वप्रयुक्ता निरपेक्षेष्ठा। पुरुषविवक्षाधीनं न वेदप्रामाण्यं किं तु स्वतः सिद्धमेवेति यदीष्यते भवद्गिरित्यर्थः । अयं परिहारोऽस्माकमपि समान इति परिहारसाम्यं सिद्धान्य्याह-सद्वृशमिद्मिदानीमिति। वेदशास्त्रे परमपुरुषसष्टेऽभीष्टेऽपि मानता- यामिदं कारणं सदशम्। बुद्धिपूर्वसृष्टित्वे हि मानान्तरापेक्षत्वलक्षणमप्रामाण्यं शङ्कास्पदं न कार्यत्वमात्रे। अत ईश्वरस्य वेदसृष्टेरबुद्धिपूर्वकत्वाड्गीकारात्तुल्यं समाधानमस्माकम- पीत्यर्थः ॥ २४८ ॥ सु० टी०-कथं सहशत्वमिति तदाह- न हि खलु मतिपूर्वा ब्रह्मण: सृष्टिरिष्टा निगदितुरिव सृष्टिर्वेदविद्यासु नित्यम्। भवति तु पुनरेषा तस्य निःश्वासकल्पा श्रुतिवचनमपीदं वस्तु वक्ति स्फुटं नः ॥२४९॥ न हीति। नन्वीक्षणपूर्वकत्वश्रुतेः कथं न वुद्धिपूर्वकत्वमिति तत्राSSह- निगदितुरिवेति। यथाध्यापकस्यार्थज्ञानपूर्वकरचना नास्ति तथा ब्रह्मण ईक्षणपूर्वकत्वं त्वर्थसूष्टेर्न तु वेदसृष्टेरित्याह-निःश्वासकल्पेति। तत्र मान- माह-श्रुतिवचनमिति। 'अस्य महतो मूतस्य निःश्वसितमेतद्यदग्वेद:' [ वृह० २।४।१०] इत्यादीत्यर्थः॥ २४९॥ अ० दी० -- ब्रह्मण: सृष्टावीक्षणपूर्वकत्वश्रवणात्कथं बुद्धिपूर्वकत्वाभाव इति चेत्त- न्राऽडह-न हि खल्विति। अर्थसष्टेरीक्षणपूर्वकत्वेऽपि ब्रह्मणो वेदसृष्टिर्न खल मति- पूर्वेष्ट भूतसष्टिप्रकरणेष्वेवेक्षणश्रवणात्तत्रैव तदभ्युपगम इत्यर्थः । कथं तर्हि वेदसृष्टिरिति तदाह-निगदितुरिति। वेदविद्यासु निगदितुरध्यापकस्येवाबुद्धिपूर्विका नित्यं सृष्टि- र्भवति ब्रह्मणश्विदात्मनो वेदाकारेणाभिव्यक्ति: प्रथमजहिरण्यगर्भंबुंद्धौ स्वभावतो जायत इत्यर्थ: । तुशन्दो बुद्धिपूर्वकत्वशङ्काव्यावृ्त्यर्थः । वेदसष्टेरबुद्धिपूर्वकत्वे न विवदितव्यं वेदेनैव तथाशासनादित्याह-पुनरेषेति। तस्य ब्रह्मण एषा सृष्टिर्निःश्वासकल्पा श्वासो- च्छासवदबुद्धिपूर्वा 'अस्य महतो भूतस्य, निःश्वसितमेतद्यददग्वेदः'[ वृ० १ ।४। १० ] इत्यादिश्रुतिवचनमपीदं वेदसष्टेरबुद्धिपूर्वत्वलक्षणं वस्तु नोऽस्मान्प्रति स्फुटमसं-
Page 315
७५० टीकादवुय समेतं- [३ तृतीोऽ्यायः ]
दिग्धं बाक्ति। अतो नास्मन्मतेऽपि पौरुषेयत्वदोषप्राप्तिर्वेदस्येत्यर्थः । यद्वा वेदविद्यासु ब्रह्मण: सूष्टिर्निगदितु: सृष्टिरिव नित्यं मतिपूर्वा न हि खल्विष्टेति संबन्धः ।. तर्हिं कथ मिष्टेति तदाह-मवत्विति। तुशब्दो निराकृतपक्षविशेषकः । पुनःशब्दो वाक्यालंका रार्थ: पादपूरणार्थो वा उत्तेऽर्यें श्रुति प्रमाणयति-श्ुतिवचनमिति ॥२४९॥ सु० टी०-पुरुषकृतत्वे वेदस्यार्थसंवादामावादपामाज्यमिति यटुक्ते तत्राSडह-
स्फुटिव गमयन्ति स्वं स्वमन्यानपेक्षम्। विषयमिति हि दृष्टं तद्वदिष्ट च तस्मा- दिह किमपि न चोयं वाच्यमेतन्दरवद्भिः॥२५०॥ अपि चेते। यथा रूपादौ मानान्तरसंवादं विनाऽपि प्रत्यक्षत्वादेः पामाण्यं दृष्ट तथा वेदस्यापि स्यादित्यर्थः ॥ २५० ॥ अ० टी० -- अथ पुरुषबुद्धिपूर्वकत्वं नाप्रामाण्यकारणं किं तु पुरुषसष्टत्वमात्रमिति यद्युच्येत तन्न व्यभिचारादित्याह-अपिचेति। पुरुषकर्म धर्माधर्माख्यं तत उद्धूति- र्येषां तानि पुरुषकर्मोद्धूतिकानि। अवशिष्टाक्षरार्थ: सुगमः । कर्मद्वारा पुरुषसृष्टत्वेऽपी- न्द्रियाणां यथा प्रामाण्याविरोधस्तथा वेदस्याप्यविरोधोऽतः पुरुषकृतत्वमात्रं नाप्रामाण्यप्रा- पकमिन्द्रियेषु व्यभिचारादिति भावः ॥ २५० ॥ सु० टी०-प्रत्यक्षादिभ्यो वैषम्यं शङ्ककते- श्रुतिवचनमनेकं वक्ति तस्येक्षितृत्वं मतिमदिति ततस्तन्नेष्यते कस्य हेतोः । इति यदि मनुषे तन्मैव मंस्थाः कुतश्वे- न्सकलकरणहीनं बहं नः शास्ति शास्त्रम्॥२५१॥ श्रुतीति। अनेकश्रुतिभ्यस्तस्येक्षितृत्वं भूषमाणं शब्दार्थसंबन्धविषद- मपि कथं नेष्यते। ततश्र वेदेऽपि मतिपूर्वकत्वमित्यर्थः । ब्रह्मणः क्वाि मृष्टावीक्षणं नास्ति करणहीनत्वादिति । परिहरति-तन्मैवेति। शास्रमिति
१ ग. "ह तच्छास्ति। क. हणः शा°॥
Page 316
[ ३ वृतीयोऽव्याय: ] संक्षेपशारीरकम्। ७५१
'अपाजो ह्यमना: शुभ्रः' [मुण्ड० २।१।२]'अपाणिपादो जवनो ग्रहीता '[श्वेता० ३। १९ ] इत्यादीत्यर्थः ॥ २५१ ॥
शङ्कते-ध्रुतिवचनमिति। 'सोऽकामयत' [तै० २। ६ । १] इतीक्षणमभि- धाय 'इदं सर्वमसृजत यदिदं किंच [बृ० १। २। ५ ] इत्यविशेषेण सर्वसष्टेरीक्षण- मूर्वकत्वस्य श्रत्रणात्तादृशमेवानेकं श्रुतिवचनं तस्य सामान्येनेक्षितृत्वं वक्ति यतस्ततस्तद्वेद्सर्ज- मपि मतिमन्मन्तिपूर्वकमिति नेष्यते कस्य हेतोः कस्मान्नेष्यत इत्यर्थः । नेयं शङ्का तव प्रमाणमूला किं तूत्प्रेक्षामात्रमूलेति सिद्धान्ती तामनूद् प्रतिषेधति-इति यदीति। कथं न मन्तव्यमिति पूर्वपक्षी पृच्छति-कुतश्चेदिति। सृष्टौ कापि ब्रह्मणो नास्तीक्षणं प्रामाणिकं करणहीनत्वात्तस्यत्युत्तरमाह-सकलकरण ह्रीनमिति।4 अपाणि- पादः'[श्वे० १।३।१९]'अचक्षुष्कमश्रोत्रमवागमनः '[बृ० ३।८1८] इत्यादि शास्त्रं सकलकरणहीनं ब्रह्म नोऽस्मान्प्रति। अतस्तस्य न क्वापि सृष्टावीक्षणम- स्तीत्यर्थः ॥ २५१ ॥ सु० टी०-तर्हिं किमिदं श्रूयमाणमीक्षणमिति तत्राSSह- चितिगतजडशक्तेराय इष्टो विवर्त-
श्रुतिशिरि निषण्णैरीक्षणं कथ्यते त- न्नतु परमपदस्यापीक्षणं बुद्धिवृत्तिः ।। २५२।। चितिगतेति। आद्यो हि मायाविकारो ब्रह्मणशिदामासव्याप उत्तर कार्याणामपि तदन्तर्गतत्वेन तदाकारश्षिवदामासः सर्वस्रष्टव्यविषय इव भवतीति मायाविन उपचारादीक्षणमुच्यते न तु करणजन्यः । सच जडोऽपि चित्संनिकर्षेण तच्छायापन्नत्वाल्ब्धदीततिरवि न प्रमाणमिति न मानान्तरेणार्थमुपलभ्य प्रणीतत्वं वेदस्येत्यर्थः । ततश्रास्य सहजमपि सार्वइपं न सृष्युपयोगीति भाव: ॥२.२॥ अ० टी०-ननु तर्हि 'तदैक्षत' [छा०६।२ । ३] इत्यादि श्रूयमाण- मीक्षणं किमात्मकं तद्वक्तव्यं निर्विषया युक्ता कल्पयितुमिति चेत्तत्राSSह-चितिग- तेंति। चिदात्मनिष्ठाया जडात्मिकाया मायाशक्तेरादो विवर्तो यो विकारः परिणामविशेष इएस्तच्छ्रूतिशिरसि वेदान्तशास्त्रे निषण्णैर्निष्णातैरीक्षणं कथ्यत ईश्वरस्य स्रष्टव्यविषयमा- लोचनमुच्यत इति संबन्धः । जडविवर्तस्यापि जडत्वात्कथमीक्षणपदाभिधेयता तस्येत्या-
Page 317
७५२ टीका द्य समेतं- [ ३ तृतीयोऽच्याय: ]
शाड्क्याSSह-चितिनिकटेति। जडोऽपि स्वरूपतश्चितिनिकटनिवेशाचित्यध्यस्त- मायाकार्यतया चिदाभासव्याप्या चितिनैकटयं चितिनिकटनिवेशस्तस्माच्चिच्छायापत्तिव- शाल्ब्धदीप्तिः प्राप्तप्रकाश इत्यर्थः । प्रविलीनसर्वप्रपञ्चवासनामयाज्ञानस्य प्रथमकार्येड- कुर इव महतो वृक्षस्य सर्वस्योत्तरस्य कार्यस्यान्तर्भावात्तदेवेश्वरस्य सर्वसृज्येक्षणमभिधीयते न तु परमपदस्येश्वरस्यापि जीवस्येव बुद्धिवृत्तिरीक्षणमुपपद्यत इत्यर्थ: ॥ २५२ ॥ सु० टी०-अत्र वैशेषिकः शङ्कते- ननु च डित्थडवित्थपदादिव- न्सकलमेव तु सामयिकं पदम्। अनुमिमीमहि पूर्वनिदर्शना- दनुमितिर्भवतीति किमद्भुतम् ॥२५३॥ नन्विति। विमतः शब्दार्थसंबन्ध: सांकेतिकः शब्दार्थसंबन्धत्वाहित्था दिशब्दार्थसंबन्धव दित्यनुमीमहीत्यर्थः । संभावयति-पूर्वेति ।। २५३ ।। अ० टी०-तदेवं ब्रह्मकार्यत्वेऽपि वेदस्य मानान्तराधीनार्थज्ञानपूर्वकविरचनाभावा- दपौरुषेयत्वमनपेक्षालक्षणप्रामाण्यं च पूर्वतत्रोक्तं न बाधितमपि स्थितं तत्र शब्दार्थसं बन्धस्य प्राचीनस्येदानींतनडित्थादिशब्दार्थसंबन्धदृष्टान्तेन सांकेतिकत्वानुमानात्तादकूसं- बन्धोपेतपदसंहतिरूपवेदवाक्यानां पौरुषेयत्वं बुद्धिपूर्वकत्वलक्षणमपरिहार्यमिति तार्किकश्वो- दयति-ननु च डित्थेति। सामयिकं सांकेतिकम्। व्याप्त्यभावे कथमनुमानप्रवृत्ति-
दिव्यर्थः । विमतानि वेदपदानि पुरुषसंकेतितार्थानि पदत्वाडित्थादिपदवदित्यर्थः ॥२५३॥ सु० टी०-दूषयति- अनादिवृद्धव्यव हारलक्षणे कथं प्रमाणे परिपन्थिनि स्थिते। गवादिशब्दे समयोऽनुमास्यते डवित्थशब्दादिवदेतदुच्यताम् ॥ २५४॥ अनादीति। गवांदिशब्दानामनादिवृद्धव्यवहारे बोधकत्वमन्यथास्वबो- धकत्वमित्येवमन्वयव्यतिरेक्बाधितं सांकेतिकत्वानुमानमित्यर्थः । कथं समयोऽनुमास्यत इत्यन्वयः ।। २५४॥ अ० टी०-व्युत्पत्तिप्रमाणबाधितमेतदनुमानमिति दूषयति-अनादिवृद्धेति। अयमर्थ :- वृद्दव्यवहाराधीना हि लोके प्रथमशब्दार्थसंगत्यधिगतिः । स च वृद्धव्यवहा
Page 318
[ ३ तृतीयोऽध्याय: ] संक्षेपशारीरकम्। ७५३
रोऽपि पूर्वतनवृद्धव्यवहारंदर्शनकृतव्युन्पत्त्यधीनः । सोडपि तद्वदेवेत्येवं वृद्धव्यवहारोडनादि रिति सोऽनादिवृद्धव्यवहारो लक्षणं चिह्नं यस्य प्रमाणस्य शब्दान्वयव्यतिरेकरू- पस्य तदमादिवृद्धव्यवहारलक्षणं तस्मिन्नन्वर्यव्यतिरेकाख्ये प्रमाणे परिपन्थिनि बाधके स्थिते सति गवादिशब्दे कथं समयो डवित्थशब्दादिवदनुमास्यते समयकरणात्प्रागेव वृद्दव्यवहारनिबन्धनायाः शब्दसामर्थ्यानुसारिण्या व्युत्पत्ते: सिद्धत्वादित्यर्थः । वृद्धन्यव- • हारे हि शब्दानामर्थबोधविषयं सामर्थ्यमन्त्रयव्यतिरेकाभ्यामवसीयते न संकेततः प्रथमव्यु- स्पत्तौ संकितिकशब्ददर्शनाद्दृष्टान्ताभावात्। सामर्थ्यं तु कारणस्य कार्यविषये व्यवहारत एव सिद्धमिति युक्तं शब्दार्थसंबन्धग्रहस्य व्यवहारपूर्वकत्वानुमानम् । विमतः शब्दार्थसं- बन्धाधिगमो वृद्धव्यवहारनिबन्धनस्तदन्वयव्यतिरेकानुविधायित्वात्। यो यदन्वयव्यति- रेकानुविधायी स तन्निबन्धनो यथेदानींतनशब्दार्थसंगत्यधिगतो यथा वा तन्त्वाद्यन्वयव्यति रेकामुविधांयी पटादिस्तथा चायं तस्मात्तथेत्यनुमानविरोधेऽनुमास्यत इत्येतदुच्यतां निरू- प्यतामित्यर्थः । सर्गपलयाङ्गीकारेऽपि सुपुत्तप्रतिबुद्धवत्पूर्वकल्पव्यवहारानुसंधाने सर्गादौ प्रादुर्भवन्तो ज्ञानकर्मसिद्धा हिरण्यगर्भादयः पूर्ववदेव व्यवहारं प्रवर्तयिष्यन्तीति श्रुतिस्मृती- तिहासपुराणादिप्रसिद्धत्वात्तदपि न सांकेतिकत्वसिद्धिरिति भावः ॥ २५४ ॥ सु० टी०-ननु संकेतविषयावन्वयव्यतिरेकावित्याशङूक्य नेवं संकेतकर्तरि प्रमाणामावादित्याह- सतः प्रमाणाभिमतेषु पञ्चसु प्रमाणमक्षादिषु किंचिदीक्ष्यते। न हीह संबन्धरि तेन तस्य वः खपुष्पकल्पत्वमभावमानतः ॥ २२५॥ सत इति। मावप्रमाणाभिमतेष्वक्षादिषु पश्चसु मध्ये संबन्धं विनैक- मपि प्रमाणमीक्ष्यत इत्यमावगोचरः स इत्यर्थ: ॥२५५॥ अ०टी०-ननु सर्वजगत्कर्तृतयेश्वरस्य सिद्धत्वाच्छञ्दार्थसंबन्धस्य च जगदन्तःपातित्वात्त- स्यापि तत्कृतनिश्वयाद्वद्धानां च व्यवहारप्रवर्तकत्वं तत्कृतसंकेतानुरोधेन कल्म्यत इति चेन्न तादृशीश्वरे प्रमाणाभावादित्याह-सतः प्रमाणेति। सतः सदर्थस्य सिद्धौ प्रमाणाभिम- तेष्वक्षादिषु प्रत्यक्षानुमानोपमानशब्दार्थापत्तिषु पञ्चसु मध्ये किंचिदपि प्रमाणमिह संबन्धरि शब्दार्थसंकेतयितरि न हीक्ष्यते। एतदुक्त भवति-प्रत्यक्षं तावत्तदविषयमस्माकं नास्त्येव। अनुमानं पूर्वक्लोके तद्विषयं निराकृतमुपमानमपि दृष्टान्ताभावादेव नास्तीति निश्चीयते। शब्द: पुनस्तद्विषयो लौकिकस्तावना्ति जगन्छदार्थसंबन्धयितुर्लोकव्यवहारगोचरलेन
Page 319
हीकाद्दय समेतं-
तद्विषयशब्दप्रमाणरचनायोगात्। अर्थात्पत्तिरपि वृद्धव्यवहारत एवोपक्षीणेति न "त्वदभिम- त्तसंबन्धसाधिका। आगमस्त्वत्रामुपलब्धिपराहत इति न सर्गाद्यकालशब्दार्थसंकेतयितरि सद्भावसाधकं प्रमाणमस्तीति न केवलं भावग्राहिप्रमाणाभावमात्रं प्रत्युत तदभावनिश्चाय-' कमस्ति प्रमाणमित्याह-तेन तस्य व इति। वो युष्माकं तस्य संकेतयितुरी- शवरस्य तेन परिशेष: सिद्धेनाभावमानतोऽभावाख्यप्रमाणेन खपुष्पकल्पत्वमसत्त्वं सिद्ध- मित्यर्थः ॥ २५५॥ सु० टी०-ननु यथा क्वचिदेशे काले वा केन चिदृनुपलभ्यमानमपि घटादिकं नासन्द्भवति तथा संकेतयिताऽपि स्वादिति नेत्याह- पुरोपलब्धो विषयो न दृश्यते यदा प्रमाणैरिह भावगोचरैः । तदा तु तत्रानुपलब्धिकारणं किमप्यभावादपरं हि मृग्यते ॥ २५६ ॥ पुरेति। पूर्व प्रमाणान्तरेणोपलब्धो यः पदार्थस्तत्रामावादन्यदतुपलः ब्धिकारणं कल्प्यते न त्वयं तथेत्यर्थः ॥ २५६॥ अ० टी० -- नन्वस्माकं प्रमाणपञ्चकानुत्पत्तिमात्रे नेश्वराभावो निश्चीयतेऽनुपलब्धि प्रमाणस्य सर्वैरनद्गीकारात्तस्मादनुपल्धिमात्रेण नासत्त्वनिश्चय इति चेत्तत्राऽह- पुरोपलब्ध इति। इह व्यवहारभूमौ यदा भावगोचरैः प्रमाणैः पुरोपलब्धो विषयो न दृश्यते तदा तु तत्र तस्मिन्विषयेऽनुपलब्धिकारणमभावादपरं किमपि सृग्यते पूर्वोपलन्ध- विषये प्रमाणपञ्चकानुदयान्न तदसावनिश्चयः किं तु तदाबी तस्याभावादेवैतद्युक्तं कदा-
सु० टी०-अस्तु प्रकृतेऽपि तथेति चेत्तत्राSSह- अत्यन्तानुपलब्धवस्तुनि पुनर्यः पञ्चकानुद्भव- स्तस्याभावनिमित्तक: स न पुनस्तत्रापरं कारणम्। अन्विच्छन्ति मनीषिणो न हि शशेऽदैष्टे विषाणेडस्सितां तत्रादर्शनकारणान्तरपरा हेत्वन्तरान्वेषिणः ॥ २५७ ।। अत्यन्तेति। ताहशस्य संकेतयितुर्मानान्तरानधिगतस्यादर्शनममावादेव न तत्र कारणान्तरमन्विच्छन्तीत्यर्थः । दृष्टान्तमाह-न हीति। अदृष्टेेति च्छेद:॥ २५७ । १ क. दृष्वा विषाणास्ति°।
Page 320
संक्षेपशारीरकम्। ७४५
अ० टी० -- अत्यन्तानुपलब्धेऽर्थे तुः प्रमाणपञ्चकानुदयमात्रेणैवः विषयस्यात्यन्तास निश्चयस्तस्य तत्र परि्पन्थ्यभावादित्याह-अत्यन्तानुपलब्धेति। तस्याभावनि- मित्तक इति। तस्यात्यन्तानुपलब्धवस्तुनोऽत्यन्ताभावनिमित्तकः स. इत्यर्थः। ननु तत्रास्यानुपलब्धौ कारणान्तरं कल्पयिष्यत इति चेन् लोके तादृश्याः कल्पनाया अनुद यादित्याह-न हिं शशेऽदष्ट इति। शशे शशमस्तके विषाणेऽदष्टेऽनुपलब्धे सति तत्र विषाणेSस्तितां प्रत्यदर्शनकारणपरा: सन्तो हेत्वतराकाङक्षिणो न हि लौकिका भवन्तीति, योजना। शशमस्तके विषाणादर्शनमात्रेणैव तत्र तदत्यन्ताभावनिश्चयो लोकस्येत्यर्थः ॥ एतमिहापि. द्रष्टव्यम् ॥. २५७ ॥।. सु० टी०-संबन्धकरणस्याशक्यत्वादृपि न. सांकेतिकत्वमित्याह- विषमदुर्गमदेशसहस्त्रगः कथमिवैष नरः समयक्रियाम् ॥ सकलशब्दतदर्थनिवेशिनी वद विधातुमलं स्वयमेकलः ॥ २५८ ॥ विषमेति। स्वयमेकलों विषमदुर्गप्रदेशसहस्ररगो भूत्वा सकलशब्दतद्- र्थनिवेशिनी समयक्रियां विधातुं कथमलमिति संबन्ध: ॥ २५८। अ० टी०-यद्यपीश्वरोऽनुमानादिना सिध्यति तथाऽपि न. तस्य शब्दार्थसंबन्ध- संक्रेतकर्तृतवं संभावनास्पदमित्याह-विषमदुर्गमेति । स संकेतयितेश्वरोऽशरीरोऽभ्यु- पगम्यते सशरीरो वा नाऽडद्ये पक्षे तस्य संकेतयतृत्वसिद्धिः संकेतस्य वागादिकरण- साध्यत्वात्। द्विताये लोंकदष्टसाधर्म्येण तदसंभवनिश्चयः । कथमेष नरः कार्यकरण- संघातपारिच्छिनः पुरुष एकल एकाकी सन्स्वयं विषमदुर्गमदेशसहस्त्रगो भूत्ा सकलश- व्दतदर्थनिवेशिनी समयक्रियां विधातुमलं समर्थः स्याद्वद त्वमिति योजना। यथेदानी- तनस्य नरस्य परिच्छिन्त्वादेकत्वाच्च न सर्वशब्दार्थसंकेतयितृत्वमवसीयते तथेश्वरस्यापि. परिच्छिन्नशरीरिवत्त्व एकत्वे च न संकेतायतृत्वसंभव इति निश्चीयत इति भावः । यदि नर इत्स्य स्थाने हर इति. पाठः स्यात्तदाऽपि शरीरवत्त्वपक्षे समाना योजना ॥ २५८ ॥ सु० टी०-यदि कायव्यूहेन वाशक्तिविशेषाद्वा कुर्यात्तदृपि न. संभवतीत्याह- अपि च किचिदपि प्रतिपादकं न हहि यदा पदमस्ति जगन्मुखे।.
Page 321
रीकाद्वयसमेतं [१ तृतीयोऽध्याय:]
अनभिधाय पदेने तदा कर्थ समयमेष करिष्यति शंकरः ॥ २५९॥ अपि चेति। अस्येतिपदेनार्थमुक्त्वाऽयं वाचक इति संकेतः कार्यः। तत्रास्येतिपदेपि संकेतग्रहणे पदान्तरापेक्षणादनवस्थानान्न संकेतसि- द्धिरित्यर्थः ॥ २५९॥ अ० टी०-अथोच्येत जगत्कर्ताSनेकशरीरोपादानेन वैकशरीरत्वेSपि बहुशक्तिमखेन वा सर्वपदार्थेषु सर्वेपां व्यवहारप्रवर्तक इति कल्प्यत इति तदप्यनुपपन्नमित्याह -- अपि चेति। जगन्मुखे जगदुत्पत्तिसमये यदा कस्याप्यर्थस्य प्रतिपादकं किंचिदपि पदं न ह्यस्ति तदा पदेनार्थमनभिधाय कथमेष शंकरः समयं करिष्यति न कथमपीत्यर्थः । एतदुक्तं भवति-परस्परमतेऽपि दृष्टार्थवाचकतयाडपि सिद्धेनैकेन पदेन तमर्थमुक्ा ह्यरयेदं वाचकमिति पदान्तरस्य संकेतः कर्तव्यो यथेदानीमयमसावित्यादिना पदेनार्थमुलिख्य देवदत्तो डित्थ इत्यादिपदान्तरस्य संकेतः क्रियते तद्दत् । एतच्च जगन्मुख एकस्यापि पदस्य वाचकत्वादसंभाव्येवेति ॥२५९॥ सु० टी०-नन्वद्गुल्याद्यभिनयेनार्थं प्रदुर्श्य संकेतः क्रियतामिति चेत्तदृपि दुर्घटमित्याह- अभिनयेन करिष्यति चेदय समयमेतदतीव हि दुर्घटम्। न हि पदार्थसहस्त्रविमिश्रिते गवि तदाऽभिनयात्समयो भवेत् ॥ २६० ।। अभिनयेनेति। तत्र हेतुमाह-न हीति। द्रव्यगुणाद्यनेकविमिभितस्या- र्थस्य विशेषतोऽमिनयासंभवादित्यर्थः ॥ २६० ॥ अ०टीब-अथाप्यङ्गुल्यादिनाSभिनयेनार्थ प्रदर्श्य संकेतः क्रियतामिति चेत्तदपि दुर्धदमित्याह-अभिनयेनेति। अयं शंकरः । दुर्घटत्वमाह-न हि पदार्थेति। पदार्थसहस्रविमिश्रिते द्रव्यगुणादयनेकार्थसंकीर्णे गवि गोपिण्डे तदा जगन्मुखेऽभिनया- समयो न हि भवेदिति योजना। अङ्गुल्यादिनाऽथ प्रदर्श्य शब्दप्रयोगमात्रेण वाच्य- वाचकत्वसंबन्धविवक्षा तावन्न सिध्यत्युच्चार्यमाणशब्दस्य दर्शनादानादिक्रियाविषयत्वश- झाया अपि तदा समुन्मेषादनेकपदार्थसंकर।चैकविषयत्वनियमासिद्वेरिति साव: ॥२६० ।।
१ ङ. पदं न°।
Page 322
[ ३ तृतीयोऽष्याय: ] संक्षेपशारीरकम्। ७५७
सु० दी०-दूषणान्तरमाह- अपि च लौकिकमानबलाश्रपा- दधिगते विषये समयो भवेत्। अनुपलब्धसतत्त्वकदेवता- प्रभृतिकार्यगतः समयः कुतः ॥ २६१ ॥ अपि चेति। सोऽपि संभवल्लौकिके स्पान्न वैदिकेऽनुपलबधस्वरूपे
अ० टी०-इतोऽप्यभिनयेन समयो न शक्यत इत्याह-अपि चेति। अनु- पलब्धेति। अनवगतस्वरूपदेवताप्रभृतिषु कार्येषु गतः समयोडभिनये कुतः स्यान्नैव स्यादित्यर्थः । इतोऽपि शब्दार्थसंबन्धसमयकर्त्रभावो निश्चीयत इत्याह-अपि चेति। यदि कश्चित्समयक्रियां चकार तदा तत्कर्तुः स्मरणेन भवितव्यं तदभावात्तदसत्तवं निश्चीयत इत्यर्थ :- इदं पद्ं पट्पदं ज्ञेयम् *।। २६१ ।। सु० टी०-अस्मर्यमाणकर्तृकत्वादृपि न सककेतिकः शब्दार्थसंबन्ध इत्याह- अपि च कर्तुरनुस्मरणं भवे- यदि चकार पुमान्समयं गिराम्। न खलु कर्तृगबुद्धिबलं विना व्यवहृतिर्भवति व्यवहतरि॥ २६२।। अपि चेति। अन्यत्र तथा दर्शनादित्यर्थः । कर्तृस्मरणप्रयोजकमिति चेत्तन्ा6ऽह-न खल्विति ॥ २६२ ।। अ० टी०-अस्मर्यमाणोडपि कर्ताSभूदिति कल्प्यतां को विरोध इति चेत्तत्राऽऽह- न खल्विति । संकेतितेष्वर्थेषु यो व्यवहर्ता तस्मिन्या व्यवहृतिः संकेतनिबन्धनो व्यवहार: कर्तृगतबुद्धिबलं विना संकेतकर्तृविषयस्मृत्यवलम्बं विना न खलु भवति। यो यत्र संकेतमात्रनिबन्धनो व्यवहारः स तत्र संकेतयितृस्मृतिमन्तरेण नोपपद्यते। प्रक्ृते चन संकेतयितृस्मरणमस्ति लोकस्येति न जगति शब्दार्थसंब्रन्धव्यवहारः संकेतनिबन्धन इत्यर्थः । सांकेतिके व्यवहारे संकेतयितृस्मृतिपूर्वकत्वनियमः कोपलब्ध इति चेत्तदाह-
- अत्र श्रलोकव्यवस्था सुबोधिनीटीकानुसारेण स्थापिता ।
१ क, र्तृकनु"।
Page 323
टीकाट्टय समेतं- [३ तृतीयोडच्याय: ]
न खलु पाणिनीति। पाणिनिकृता संज्ञा 'वृद्धिरादैच्' इस्यादिसूत्रैः कृता वृद्धयादि- संज्ञा, पिङगलकृता संज्ञा 'घी: श्रीः स्त्रीम् ' इत्याद्या मयरसतेत्याद्या च, अनयोः पाणिनि- पिङ्गलयो: स्मरणं विना बुद्धयादिष्वाकारादौ संकेतितेषु पाणिनिपिङ्गलसंज्ञया न खलुं व्यवहरन्ति व्यवहर्तारः किं तु तत्स्मृतिपूर्वकमेवेत्यर्थः । यथेदं पाणिनिशासनमिदं पिङ्गल- शासनमिति तत्कृतेषु ग्रन्थेषु तत्स्मरणपूर्वकः सर्वेषां व्यवहर्तृणामविप्रतिपन्नो व्यवहारो. दृष्टो न तथेह शब्दार्थसंबन्धव्यवहार इति व्याप्तिविरुद्वं जगच्छब्दसंबन्धसंकेतयितृकल्पनमिति, भाव: ॥ २६२। सु० टी०-एतदेव दृष्टान्तेन प्रदर्शयति न खलु पाणिनिपिङ्गलसंज्ञया व्यवहरन्ति तयोः स्मरणं विना॥ पदपदार्थपरस्परसंगति निरभिमीत ततो न जगदगुरुः ॥ २६३॥ न खल्विति । पाणिपिङ्गलसंज्ञा 'वृद्धिरादैव 'त्रिगुरुं विद्धि मका: रम् ' इत्यादिका च तथेत्यर्थः । निगमयति-पदपदार्थेति ॥ २६३ ।। अ० टी०-तस्मात्पदपदार्थसंबन्धो नेश्वरकृत इत्युपसंपहरति-पदपदार्थेति।तत- स्तस्मादिति प्रथमं योज्यम्। न निरमिमीतेति संबन्धः । जगद्रुरुः सर्वपूज्यः परमेश्वरो यतो. मतिमतां प्रवरः सर्वदा सर्वज्ञः स वृषभव्वजो महादेवात्मा सन्कणभुगादिमुनिप्रव- राणां प्रभुरुपास्यः। पुनस्तमेव विशिनष्टि-ननु धरादीति। ननुशब्द: किले- त्यर्थे। पृथिव्यादिजगतो रचनाबलात्कार्यत्वलिङ्गसामर्थ्यादिति यावत्। अनुमितः कल्पि- तोऽनवखण्डितशक्तिकोSप्रतिह तज्ञानेच्छाप्रयत्नसामर्थ्य एवंिध ईश्वरः कणादादिभिरुत्प्रे क्षितः पदपदार्थपरस्परसंगति न निरमिमीतेति योजना । इदं च पद्ं षट्पदं ज्ञेयम् *॥ २६३.॥ २६४ ।।. सु० टी०-पदुक्तं संबन्धकर्तर प्रमाणाभाव इति तदयुक्तमनुमाना संभवादिति शक्कते- मतिमतां प्रवरो वृषभध्वजः कणभुगादिमुनिश्रवरः प्रभुः ।
Page 324
६ ३ तृतीयोडब्याय: 3 संक्षेपशारीरकम्। ७५९
ननु धरादिजगदचनाबला- दनुमितोऽनवखण्डितशक्तिकः ॥ २६४॥ भतिमतामिति। विमतं कार्य सर्वज्ञकर्तृपूर्वक कादाचित्कत्वाद्यतिरेक् आत्मवदित्यनुमित इत्यर्थ: ॥ २६४॥ सु•टी०-एतद्नुमानं सिद्धसाधनतवेन दवषयति- अपि' तु वैदिकवाङ्न्मनसाविगा- नुदितलुप्तचिदेकरसात्मभोः । अभवदानकदुन्दुभिनन्दना- दमतिपूर्वमिदं सकलं जगत् ॥ २६५॥ अपि त्विति । वैदिकाल्लक्षणाद्वारा वेदैकगम्यादख्जसा वाडयनसयो- रप्य विषयादत्र हेतुनिरध्मकनित्यचिन्मात्रादिदं जगदभवदित्यर्थः । कथ-
स्तस्य नन्दन: श्रीकृष्णस्तस्मादित्यर्थः । एवमपि बुद्धिपूर्वकरचनत्वं न वेदस्येत्याह-अमतिपूर्वमिति। 'स ऐक्षत' [बृ०१। २।५] इत्या- देराद्यमायाविकारत्वेन व्याख्यातत्वादिति माव: ॥२६५॥ अ०टी८ -- यदि कार्यलिङ्गसिद्धादीश्वराज्जगद्रचनातद्व्यवहारप्रवृत्ती नाभ्युपगम्येते तर्ह- फर्तवामप्रवर्तकव्यवहारं च किमेतज्जगदङ्गीकृतं नेत्याह-अपि तु वैदिकेति। चैदिको वेदैकगम्यः स चाऽऽदौ वाख्मनसातिगः सवप्रमाणाविषयश्च स चा सावनुदित- लुप्तचिदेकरसश्च नोदिता लुप्ता चोत्पत्तिनाशरहिता या चित्तदेकरसो नित्यचित्सदा-
दमतिपूर्व निःश्वासवदिच्छाप्रयत्नज्ञानानादरेणाभवत्संपन्नमतो न निरध्यक्षत्वं जगतः शङ्कनीयमित्यर्थः । अत्र वैदिकग्रहणेन तार्किकाणां तटस्थेश्वरानुमानं कार्यलिङ्गकं 'यतो वा इमानि' [तै० ३ । १ । १] इत्याद्यभिन्ननिमित्तब्रह्मोपादानपरवेदवाक्यबाघितवि- षयमिति सूचितम्। वाड्बनसातिगत्वविशेषणेन च विवक्षितेश्वरव्याप्तलिङ्गासिद्धिः सूचिताऽनुदितेत्यादिना । नित्यज्ञानस्वरूपत्वोक्तया ज्ञानादिगुणांश्रयतया द्रव्यत्वमी- श्वरस्य परेष्टं पराकवतम्। आनकदुन्दुभिनन्दनादित्यनेन वासुदेवत्वोक्त्या तस्यैव सर्वा- त्मत्वं द्योतितम्। 'वासुदेवः सर्वमिति स महात्मा सुदुर्लभ: ' [गी० ७।१९] इति भगवद्गीतास्मरणात्। तस्मान्न तटस्थेश्वरे मानमस्तीति सिद्धमिति ॥२६५ ॥ १ क. तो नच ख. । २ क. पि च वै।
Page 325
७६० टीकाद्वय समेते- [ ३ तृतीयोऽच्यायः ] सु० टी०-नतु लौकिकवाक्यानां मतिपूर्वकरचनत्वदर्शनांत्तद्दृष्टा- न्तेन वेदिकानामपि वाक्यत्वादिलिङ्गेन तदनुमास्याम इति शङ्कसे- ननु लौकिकव चर्सा नरमतिपूर्वकरचना परिदृश्यत इति वैदिकवचसामनुमिनुमः। वचनं श्रुतिशिरसामपि नरधीऊतरचनं वचनत्त्वत इव लौकिकजननिर्मितिवचनम् ॥२६६॥ नम्विति । श्रुतिशिरसामपि रचनमिति संबन्धः ॥ २६६।। अ० टी०-युक्त्या निरस्तेऽपि वेदस्य पौरुषेयत्वे पुनर्वाक्यत्व्रलिङ्गकेनानुमानेन पौरुषेयत्वं शङ्कते-ननु लीकिकेति । परिदृश्य इत्यन्तं व्याप्तिसद्धावप्रदर्शनपरम्। पूर्वार्धशेषो व्याप्तस्य वचनत्वलिङ्गस्य पक्षधर्मताप्रदर्शनार्थः । ' वेदोऽपि वचनात्मकः ' इति वैदिकवचसामित्यनेन द्योत्यते। सिद्धे व्याप्तिपक्षधर्मत्वे सिद्धमनुमानं प्रयुङ्गे- वचनं श्रुतिशिरसामिति । श्रुतिशिरसां वचनमिति पक्षस्वरूपनिर्देशः । अत्र श्रुतिाशिरसां ग्रहणं प्रकृतशास्त्रानुरोधात्। श्रुतीनां वचनमित्येतावद्विवक्षितम्। नरधकित- रचनमिति साध्यनिर्देशः । नरशब्दः पुरुषवचनः पुरुषबुद्धिपूर्वकरचनं भवितुमर्हतीत्यर्थः । इवेत्यादि दृष्टान्तपरमिति विवेकः । वचनमिवेति योज्यम् ॥ २६६ ॥ सु० टी०-तथाऽपि वैदिकवाक्यानां कश्रिद्वक्ता सिध्यति न तु सर्वज्ञ ईश्वर इति चेत्सोऽवि पक्षधर्मतया सिध्यतीत्याह- न च मादृशजनधीकतरचनं श्रुतिवचनं भ्रवितुं क्षममिति वैदिकरचनाबलभिषतः । अनुमीयत इह शूलभृदिति चेदिदमशुभं न हि वैदिकव चसामभिभवनास्पदमनुमा ॥२६७॥ न चेति। वैदिकरचनेति। अतीन्द्रियधर्माधर्मेश्वरादिबोधकवेदवा. क्यानामस्माहशैरशक्यरचनत्वात्तद्वलेनेत्यर्थः । दूषयति-इदमशुभमिति। तत्र हेतुमाह-न हीति। अनुमया श्रुतेरबाध्यत्वादित्यर्थः ॥२६७॥ अ०टी०-न चानीश्वरपुरुषमादायार्थान्तरताSत्र शङ्क्या पक्षधर्मताबलाद्वेदवाक्यरचयितुः सर्वज्ञत्वसर्वेश्वरत्वादिसिद्धेरित्याह-न च माहशेति। सर्वार्थप्रकाशकवेदवाक्यरचनाबलमि- षतो रचनासामर्थ्यद्वारेण मादृशजनधीकृतरचनंन च भवितुं क्षममिति शूलभन्महेश्वरः श्रुतिवाक्यरचयिताऽनुमीयत इति चेदिति योजना। धर्माधर्मेश्वराणामतीन्द्रियत्वात्तद्विषय
Page 326
· [ ३ तृतीयोऽध्यायः ] संक्षेपशारीरकम्। ७६१
वेदवाक्यानामस्मदादिभिरनी श्वरात्मभिर्विर चयितुमशक्यत्वाज्जीवविलक्षणोSतीन्द्रियार्थदर्शी परमाप्तः सर्वेश्वरो वेदप्रणेतेति सिध्यतीयभिप्रायः। आगमबाधितविषयमिदमनुमानमिति सिद्धान्ती दूषयति-इदमशुभमिति। दृष्टसाधर्म्येण प्रवर्तमानमनुमानं नात्यन्तातीन्द्रि- यार्थबोधकस्वतन्त्रागमस्य बाघकं तत्र तस्यासामर्थ्यात्प्रत्युताऽडगम एव दृष्ान्तादिनिरपेक्षः स्वप्रतिकूलार्थबोधकानुमानस्य बाधक इत्यत इदमनुमानमागमबावितमेत्रेत्यभिप्रायः ॥२६७॥ सु० टी०-प्रत्युताSडगभैरेव बाधितं मतिपूर्वकरचनत्वानुमानमित्याह- ब्रह्म स्वयंभ्रु परमात्मपदस्य वेदो निःश्वासकल्प इति चापरमामनन्ति। वाक्यं तदस्य मतिपूर्वकतानुमानं सयो निरस्यति न चेदपबाधितं स्पात् ॥ २६८॥ ब्रह्मेति। 'परमेष्ठी ब्रह्मणो ब्रह्म स्वयंभु '[बृह० २।६।३ ] इत्येकं पूर्वोक्तं चापरमामनन्तीति संबन्धः । विपक्षे बाधकमाह-न चेदिति। मतिपूर्वकरचनत्वे वेदवाक्यं बाधितमेव स्थादित्यर्थः ॥ २६८।।
अ० टी०-कोऽसावागमो योऽनुमानबाधक इति तमाह-ब्रह्म स्वयं्विति। 'ब्रह्म स्वयंभु ब्रह्मणे नमः' [बृ० २।६।३] 'ब्रम्म स्वयंम्वम्यानर्षत्' इति ब्रह्मादवाच्यवेदस्य स्वयंभुत्वं परानधीनात्मलाभत्वलक्षणमामनन्ति केचिच्छाखिन इति योजना। वेद: परमात्मपदस्य परमात्मस्व्ररूपस्य निःश्वासकल्पोडबुद्धिपूर्वकतया निःश्वासतुल्य इति चापरं चाक्यम्-'अस्य महतो भूतस्य निःश्वसितम्' [बृ० २।४।१० ] इत्यादिकमामन. न्तीति पुनर्योजना । तद्वाक्यमुक्तवाक्यजातमस्य वेदस्य मतिपूर्तकतानुमानं सद्योऽनुमान- प्रयोगसमय एव निरस्यति बाधते नचेद्वाधेनानुमानमिदं श्रुतिवचनं तदा स्वयमपब्राितं स्यान्निविषयं स्यादर्थान्तरासंभवाच्चायुक्तमध्ययन विधिगृहीतस्याक्षरमात्रस्याप्यानर्थक्यायोगा- दिव्यर्थः ॥ २६८॥ सु० टी०-कि च सर्वस्मिन्नषि जगति कूटस्थस्य मायामात्रेणाबु द्धिपूर्वप्रछ्ृत्वादिश्युतौ सत्यां कृतस्तदेकदेशस्य वेदस्य बुद्धिपूर्वकतानु- मानमित्याह- सृजति रक्षति संहरति प्रभुः सकलमेव निविश्य नियच्छाते।
Page 327
टीका दवय समेतं- १ ३ तृतीयोऽच्याय:]
अमतिपूर्वमिति श्रुतिशासने वद कथं मतिपूर्वकतानुमा ॥२६९॥ -सृजतीति। यतो वा इमानि' [तैत्ति० ३।१।१] इति 'योऽ- न्तरो यमयति '[बृह० ३।७१] इति 'महतो भूतस्थ निःश्वसि- तमेतद्यदृग्वेद:'[बृह० २।४।१०] इत्याद्युपक्रम्य 'अयं च लोकः. परश्च लोक: सर्वाणि च अतान्यस्यैवैतानि निःश्वसितानि' [बृह० ३।७।१ ] इति श्रुतिशासने सतीत्यर्थः ॥ २६९॥ अ० टी०-न केवलं वेदसृष्टिरवेश्वरस्यामतिपूर्वा किं तु सर्वजगत्सृष्टिरंपि तथैवेति श्रौतं मतमिव्याह-सृजतीति। अक्षरार्थस्वतिरोहितः । कूटस्थचिद्धातोरीश्वरस्य स्व्रतो जगद्रचनादिव्यांपारसंभवादद्वैतमते चाऽऽगन्तुकस्य हेत्वन्तरस्यायोगात् । 'मायां तु प्रकृतिस्'[ श्वे० ४ । १०] 'देवात्मशक्तिं स्वरगुणैर्निरूढाम् ' [श्वे० १ । ३] 'इन्द्रो मायाभिः पुरुरूप ईयते' [ बृ० २। ५।१९ ] इत्याद्यनेकश्रुतिभिः 'मयाऽ- ध्यक्षेण प्रकृतिः सूयते स चराचरम्' [ भ० गी० ९।१० ] इत्यादिस्मृतिभिश्च माया- विद्याज्ञानादिशब्दवाच्यस्याऽऽत्माश्रयात्मविषयस्य जडस्य सदसद्धयामनिर्वचनीयस्य ब्रह्मणो जगत्सृष्टयादौ द्वारत्वाङ्गीकारादज्ञानमूलकमेव जगत्प्रवृत्तिरिति सिद्धान्तः स्थितो न बुद्धि- मतपुरुषपूर्वकत्वं जगद्वेदरचनायाः शक्यतेऽङ्गीकर्तुमित्येतःसर्वमभिप्रेत्योक्तममतिपूर्वमिति श्रुति- शासन इति। अमतिरज्ञानं तत्पूर्वमित्युदाहृतश्रुतिशासन इत्यर्थ: ॥ २६९ ॥ सु० टी०-ननु वेदस्य प्रमाणत्वायाSडमेनार्थमुपलम्य रचितत्वं
आपोक्तत्वप्रत्यये मानभावो वेदस्यास्य ज्ञायते मानभावे। विज्ञाते सत्याप्तपूर्वत्वसिद्धि- रित्यन्योन्यापाश्रयत्वप्रसङ्ग:॥ २७०॥
त्वमित्यर्थः ।। २७० ।। अ० टी०-एवमपि वेदस्य प्रामाण्यायैवाSSपप्रणीतताऽड्गीकार्या। आप्तप्रणीतस्या- नाप्तप्रणीतस्य वा वाक्यस्य प्रामाण्यायोगादिति चेन्न परस्पराश्रयत्वाद्वेदस्याSSसोक्तव्वप्रमा- णान्वययोरिव्याह-आप्तोक्तत्वेति ॥२७० ॥
Page 328
[र तृतीयोऽच्याय :: ] संक्षेपशारीरिकम्। ७६३: सु० टी०-कथं तर्हि वेदवाक्पस्य प्रामाण्यसिद्धिरिति. चेत्स्वता एवत्याह-
तस्मादेषा स्वपयुक्तपमाण- भावज्ञाना वेदविद्याऽश्युपेया। प्रामाण्यं स्यात्स्वप्रयुक्तं. च. तस्या वस्तुस्थित्या ज्ञप्तिवन्नान्यतस्तत् ॥२७१॥
तस्मादिति।: स्व्प्रयुक्तेति । ज्ञानज्ञापकसामग्रीमात्रज्ञाप्यप्रामाण्येत्यर्थ:। ज्ञप्तिवदुत्वत्तिरपि प्रामाण्यस्य, स्वत. एवेत्याह-वस्तुस्थित्ेति.। उत्पच्ये -- त्यथे: । स्वप्युक्तं ज्ञानोत्पादकसामग्रीमात्रजन्यं न तु गुणाद्यपेक्षमिः व्यर्थ: ।। २७१ ।।
अ० टी०-तर्हि कथं वेदस्य प्रामाण्पमिति चेंत्तस्य स्वत एव प्रामाण्यान्न कार णापेक्षेत्यभिप्रेत्याSह-तस्मादेषेति। यस्सादाप्तप्रणीतत्वेन प्रामाण्यमन्योन्याश्रयग्रस्त- मनाप्तप्रणीतत्वं च. वेदस्य यस्मान्न, निश्चीयते वेदप्रमेयस्य धर्मादेर्मानान्तराविषयत्वादना- सपणयनसंदेहोऽप्यत्र. नावतरति तस्मादेषा वेदविद्या स्वप्रयुक्तप्रमाणभावज्ञानाभ्युपेया.।. स्वप्रयुक्तं प्रमाणभावज्ञानं यस्याः सा तथा ज्ञानस्वरूपग्राहकप्रमाणादेः प्रामाण्यग्रहणं प्रामा- प्यज्ञानस्य स्वप्रयुक्तत्वम्। तथा च यदेव वेदविद्या स्फुरति तदा. प्रमाणतवेनैव स्फुरति न पुनस्तथा स्फुरणे कारणान्तरमपेक्षत इत्यर्थः । जञप्तौ प्रामाण्यस्वतस्त्ववदुत्पत्तावपि, स्वतस्त्वमाह-प्रामाण्यं स्यादिति। तस्या वेदविद्याया उत्पत्तौ च. प्रामाण्यं वस्तु- स्थित्या स्व्रप्रयुक्तं स्यादित्यन्वयः । प्रामाण्यस्योत्पत्तौ स्वप्रयुक्तत्यं नाम ज्ञानजनकादेव हेतो- र्वस्तुस्थित्योत्पत्तौ स्वप्रयुक्तत्वं नाम ज्ञानजनकादेव हेतोर्वस्तुस्थित्योत्सर्गतः प्रामाण्यस्यों- स्पत्तिः। तथा च यदैव यतों हेतोर्वेदस्वरूपाभिव्यक्तिस्तदैव तत एव प्रमाणत्वेनैवाभि- व्यक्तिर्न तस्य प्रमाणस्वरूपत्वसंपादनाय हेत्वन्तरापेक्षेत्यर्थः । ज्ञप्तिवदिति परानपेक्षत्व मृत्पत्तावपि तुल्यमिति. दर्शयति ॥ २७१॥
सु० टी०-व्यवहृतावपि स्वतस्त्वमाह-
ज्ञप्त्युत्पत्त्योर्यद्वदेवं प्रवृत्ता- वस्या युक्ता मानता स्वपयुक्ता।
Page 329
५६४ टीका द्य समेतं- [ ३ तृतीयोऽच्यायः ]
वेदोत्थाया बुद्धिवृत्तेर्न हीय- मुत्पत्याऽन्यत्संविदे काङ्क्षतीति॥ २७२ ॥ ज्ञष्युत्पत्योरिति। ज्ञानव्यवहारसामग्रीमात्रव्यवहार्येत्यर्थः । तत्र हेतु- माह-न हीति। संविद् इत्युपलक्षणमितरार्थमपि नाऽडकाङ्गतीत्यर्थः ॥ । २७२ ॥। अ० टी०-व्यवहारेऽपि प्रामाण्यस्य स्व्रतस्त्त्रमाह-ज्ञव्त्युत्पत्योरिति। प्रवृ. त्तिभिन्नमानस्य संविदुत्पादकत्वलक्षणो व्यापारः स एव प्रमाणव्यवहारः । अस्या वेदो- त्थाया बुद्धिवृ त्तेर्यद्वज्ज्ञप्युत्प्त्योरेवं प्रवृत्तावपि मानता स्वप्रयुक्तति संबन्धः । ज्ञप्त्युत्पत्ति प्रवृत्तिषु स्त्रप्रयुक्तत्वमेव स्फुटयति-न हीयमिति। संविदे संवादाय ॥ २७२॥ सु० टी०-तस्मात्स्वत एव वेदपामाण्यसिद्धेरबुद्धिपूर्वैव वेदादिस- हिरित्युपसंहरति- विश्वं विष्णोरुत्थितं नामरूप निःश्वासादिप्रख्यमित्याह वेदः । यत्तत्तथ्यं वर्त्मना वर्णितेन तस्मान्मिथ्या पौरुषेयानुमानम् ॥२७३॥ विश्वमिति। ततक्च नरशिरःशौचानुमानवदागमबाधितं वेदस्य बुद्धिपू- र्वकत्वानुमानमित्याह-तस्मादिति ॥२७३ ॥ अ० दी० -- तस्मातस्वत एव वेदप्रामाण्यसिद्धरेन्यथा च तत्प्रामाण्यासंभवादबुद्धिपूर्वैव वैदादिसष्टिरीश्वरस्थेति श्रुतियुक्तिम्यां युक्तमेवोक्तमित्युपसंहरति-विश्वं विष्णोरिति। नामरूपमिति विश्वरूपनिर्देशो वाच्यवाचकात्मकमित्यर्थः । नामरूपं विश्वं निःश्वासादिप्रख्यं निःश्वासादितुल्यं विष्णोरुत्थितमिति यद्वेद आह तद्वर्णितन वर्त्मना तथ्यं यथार्थं नास्य वाधकमस्तीति योजना। यस्मादेवं तस्माद्वेदस्य बुद्धिपूर्वकमसष्टत्वानुक्षुतिबाधितत्वाद- प्रमाणमिति सिद्धित्याह-तस्मान्मिथ्या पौरुषेयानुमाननिति॥२७३॥ सु० टी०-यदि परिणतिरेषेत्यादिना प्रसक्ञितं स्वतःप्रामाण्यविरो- धपरिहारमुपसंहरति- परिणामचिवर्तयोरतः परिवलृप्तावपि वेदगोचरः ।
१ ग. त्पदान्य'। ङ. त्पाद्यान्य।
Page 330
[३ तृतीयोऽच्याय: ] संक्षेपशारीरकम्। ७६५
न च चोयलवोऽपि विद्यते कथितेनैव पथानपेक्षितः ॥२७४॥ परिणामेति ॥२७४॥ अ० टी० -- प्राच्यां मीमांसायां प्रथमपादोक्तस्वतःप्रामाण्योत्थविरोधपरिहारं परमध्रकृत· मुपसंहरति -- परिणामविवर्तयोरिति। निगदव्याख्यातं पद्यम्॥२७४ ।। सु० टी०-एवं प्रासङ्गिकचोद्यं परिहत्य तत्वंपदार्थयोहैयोंपादियाभि- धित्सया चतुर्धा विभागं दर्शयति- उपाधिमौपाधिकमान्तरं चि- दाभासनं चित्पतिबिम्बकं च । चिद्धिम्बमेवं चतुरः पदार्था- न्विविच्य जानीहि तदर्थभाजः ॥ २७५॥ उपाधिमिति। चतुर उपाधिचिदाभासप्रतिबिम्बविम्बान। तदर्थभाज- स्तत्पदार्थ गतान् ॥ २७५॥ अ० टी०-तदेवं कार्यकारणादिव्यवहारस्य मायामात्रत्वात्प्रागुक्तेन न्यायेन करण त्वेश्वरत्वादिसमस्तविकल्परहितं निर्विशेषसच्चिदानन्दमात्रं ब्रह्मेति तत्पदार्थो वाक्यार्थान्वय- योग्यतया रुशोधित इदानीं तत्पदार्थे त्वंपदार्थे च कियद्वेयं कियच्चोपादेयमिति विवेत्तुं विभागमाहोक्तस्यैव वैशदयाय-उपाधिमित्यादिना। औपाधिकमित्यस्य व्याख्या- आन्तरमिति। उपाध्यन्तःप्रविष्टमुपाधिस्थत्वविशिष्टं चिदाभासनं चतन्याभासमौपाधिक- मित्यर्थ: ॥ २७५॥ सु० टी०-तत्पदार्थोक्तं विभागं त्वंपदार्थेऽप्यतिदिशति- तथा त्वमर्थेडपि चतुष्टयं तत् विवेचनीयं निपुणेन भूत्वा। मतिश्विदाभासनभेवमस्यां बिम्बं तदीयं प्रतिबिम्बकं च ।। २७६ ।। तथा स्वमर्थ इति। बद्धिचिदाभासप्रतिबिम्बबिम्बाश्चतुष्टयम् ॥२७६॥ अ० टी०-तंपदार्थेडपि चातुर्विध्यमाह-तथा त्वमर्थडपीति। तदेव चतुष्टयं विभजते-मतिरिति। मतिरन्तःकरणमुपाधिः ॥ २७६ ॥ १ ख. ग. घ, ङ. 'पेक्षतः।
Page 331
७६६. टीकाद्वयसमेत- [₹ तृतीयोंडव्याय: ]
सु० टी०-तत्पदार्थगतं चतुष्टयं विवेचयति- उपाधिरज्ञानमनादिसिद्ध-
तदन्विता चित्प्तिबिम्बकं स्या- दुदीर्यते शुद्धचिदेव बिम्बम् ॥ २७७॥ उपाधिरज्ञानमिति। चिद्धदायासनं चिदाभासनं न साक्षाचिन्नापि जडमू। तञ्च चित्संनिधेर्मायायामुत्पन्नमीश्वरत्वं मवति मायाप्रवृत्ति- हेसुतया तदीशनरूपत्वात् । आत्माभासाविविक्त्ता च चित्पतिबिम्बः स इश्वरः शुद्धं चैतन्यमेव च बिम्बमित्यर्थः ॥ २७७॥ अ०टी०-तत्पदार्थगत चतुष्ट्यस्वरूपं विवृणोति-उपाधिग्ज्ञानमिति 1.तदथड- वादिसिद्धमज्ञानमुपाधि: । अस्मिन्नुपाधौ चिदाभासनं चिद्धदाभासनं न साक्षाच्चिन्नापि जडं चित्संनिधिवशादुपाधिधर्मतया जातं तब कारणमायागतं सदीश्वरत्वं चिदात्मनीश्वर- शब्दप्रवृत्तिद्वारमित्यर्थः । तदन्विता यथोक्ताभासाविविक्ततयोक्तोपाध्यनुगता चित्प्रतिबिम्बकं प्रतिबिम्ब ईश्वरपदवाच्यः स्यादित्यर्थः । आभासहेतुभूता शुद्धचिदेव बिम्बमुक्तप्रतिबिम्बापे- क्षया बिम्बमित्युच्यत ईश्वरवाचकतत्पदलक्ष्यं तद्भवतीत्यर्थः ॥ २७७॥ सु० टी०-खंपदार्थे चतुषयं विविच्य दर्शयति- उपाधिरन्तःकरणं त्वमयें जीवत्वमाभासनमत्र तद्दत्।. तदन्विता चित्प्रति िम्चमेव- मनन्वितां तामिह बिम्बमाहुः ॥२७८ ॥ उपाधिरिति।अन्तःकरणगतं चिदामासनं तद्विवेकादारोपिततत्पार- तन्त्रयं जीवत्वं भवति। तद्विविक्ता चित्प्रतिबिम्बो जीवः । शुद्धचि- द्विम्बमित्याहुरित्यर्थः ॥ २७८।। अ० टी० -- इदानी त्वमर्थगतचतुष्टयस्त्ररूपमाह-उपाधिरन्तःकरणमिति। मतिपदस्य प्रतिपदमन्तःकरणमिति.। अत्र त्वमर्थे तद्वदीश्वरत्ववदाभासनं जीवत्व्मन्तःकर-
Page 332
[ ३ तृतीयोऽध्याय: ] सेंक्षेपशारीरकम् १ ७६७
पार तन्त्र्यापादनेन जीवपद प्रवृत्तिनिवृत्तत्वादन्तःकरणगतचिदाभासनं जीवत्वं भवत्याभासा- विवेकेन भासमाना चित्प्रतिबिम्बं जीवो भवतीत्यर्थः। अनन्वितामुपाधितत्स्थाभासतद विविक्का- कारभ्यो विविक्तां तां चिदमिह त्वमर्थे बिम्बमाहुरध्यामतत्त्रविद इति योज्यम् ।२७८॥ सु० टी .- एवं विभागाङ्गीकारे द्वैतापत्तिमाशङकपात्र हेयोपादेयं विमजते- उपाधिना सार्धमुपाधिजन्य- मौपाधिकं सर्वमवेहि मिथ्या। भागं सृषा चित्प्रतिबिम्बकेऽपि बिम्बं पुनः सत्यमशेषमेव ॥ २७९॥ उपाधिनेति। भागमिति। प्रतिबिम्बेऽवि मागस्य मृषात्वमामासांशस्य सृषात्वाद्वशिष्टं तु चैतन्यमेवेति । शून्यताप्रसङ्गं वारयति-बिम्बमिति ॥। २७९ ॥ अ० टी०-उक्तार्थचतुष्कद्वये हेयमुपादेयं चचेदानी विभजते-उपाधिना सार्ध- मिति। उपाधिजन्यमौपाधिकमिति व्याख्येयभावेन योज्यम्। सर्वमौपाधिकमुपाधिना सार्धमुपाधिसहितं मिथ्या न परमार्थ इति पदार्थद्वये ऽव्यवेहि जानीहि उपाधितत्स्थाभासौ न केनापि रूपेण परमार्थावित्यतस्तत्राऽSत्माद्यभिमानस्याज्य इत्यर्थः । प्रतिबिम्बके तु विशेषमाह-मागं सृषेति। चित्प्रतिबिम्बकेऽपि भागमाभासांशं विवित्ततवं मृषेत्यवेहीति योजना। बिम्बं पुनरशेषमेव सत्यमशेषं सत्यमेवेति वा योजना। उपाधितद्वर्मानास्कन्दितं चिन्मात्रमेव पदार्थद्वयेऽपि सत्यं तत्त्वरंपदयोर्लक्ष्यं तदेवोपादेयमन्यत्सर्वमनात्मेति ज्ञात्वा तत्राभिमानत्यागेन हेयमितिभावः ॥ २७९॥ ननु प्रतीयमानस्य मिथ्यात्वेऽतिरिक्तसन्भ्ावे कि मानमिति लोके तथा हष्टत्वादित्याह -- अप्पात्रमप्पात्रगतत्वमेव-
दिवाकरो दिव्यवतिष्ठमानो न शक्यतेऽपोहितुमिद्धतेजाः ॥ २८० ॥
१ ग. ड, हिश्र्व।
Page 333
७६८ ट्टीकाद्वय समेतं- [ ३ तृतीयोऽध्यायः ]
अप्पात्रमिति। अप्पात्रगतत्वमाभासपदार्थ :- नशक्यत इति।अप्पात्रमपि विशिष्टात्मना सृपैव दिवाकरस्तु न सर्वथेत्यर्थः ॥ २८० ॥ अ० ठी० -- एतच्चोक्तं चातुर्विध्यं लौकिकप्रबिम्बेष्वपि प्रसिद्धमेवेत्युदाहरणमाह- अप्पात्रमिति। अप्पात्रमुदकधृकशरावाद्युपाध्यप्पात्रगतत्वमित्याभासनमुक्तम् ।्।्ा अप्पात्र गत इति प्रतिबिम्बोक्तिः। अप्पात्रगतात्परश्च दिवाकरो दिव्यवतिष्ठमान इति शुद्धबिम्ब• मुच्यते। न शक्यत इत्यादिना तस्य सत्यत्वं शुद्धत्वं च प्रतिपाद्यतेऽर्ादवस्थान्तरं सवैं पूर्वोक्तं तस्योपाधिप्रयुक्तं मिथ्याऽशुद्धं चेत्युक्तं भवाि ॥ २८० ॥ सु० टी०-तद्वद्दार्टान्तिकेषि प्रतिपत्तव्यमिति तत्सारुप्येण प्रागु- क्तमेवाऽडह- पुरं पुरस्थत्वमथो पुरस्थं पुराद्वहिः शुद्धमवस्थितं च । तथा परं ब्रह्म सुसूक्ष्मयाऽपि धिया निराकर्तुमशक्यमेव ॥ २८१ ॥ पुरमिति। पुरस्थत्वमामासः। शुद्धमवस्थितं परं ब्रह्मेत्यन्वयः ॥२८१॥ अ० टी०-उक्तदष्टान्तवद्दार्ान्तिकेऽपि प्रतिपत्तव्यमित्याह-पुरमिति। पुरमु- पाधि: पुरस्थत्वं चिदाभासनम्। अथो इत्यव्ययं तथेत्यर्थे पादपूरणार्थम्। पुरस्थमिति प्रतिबिम्बोक्तिः पुराद्वूहिः । शुद्धमिति विम्बकथनम्। तस्यैव शुद्धत्वमुपादे पत्वायोपपादयति- तथा परं ब्रह्मेति। यथा दिव्यवतिप्ठमानो दिवाकरस्तथा पुराद्वहिरवस्थितं शुद्धं परं ब्रह्म सुसूक्ष्मयाऽपि धिया निराकर्तुमशक्यमेव्र सर्वस्य निराकृतेस्तदववित्वादित्यर्थः। तथा च श्रुतिः -- ' पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः' [कठ अ० ३ । ११ ] इति ॥ २८१ ॥ सु० टी० -- एवमुपाधीनामनृतत्वात्तत्कृतं ब्रह्मणि सविशेषत्वं मृपैः वेति सिद्धमित्याह- . न स्थानतोऽप्यस्ति परस्य तस्मा- द्विशेषयोग: परमार्थरूपः । स्वतः पुनर्दूरनिरस्तमेव परस्य तत्त्वस्य विशेषवत्त्वम् ॥ २८२ ॥ म स्थानत इति। स्वत इति निर्विशेषत्वश्चुतिविरोधादित्यर्थः ।। २८२ ।।
Page 334
[३ तृत्तीयोऽच्यायः ] संक्षेपशारीरकम्। ७६९
अ० टी०-तस्मान्निर्विशेषमेव ब्रह्मतत्त्वमिति सिद्धमुपसंहरति-न स्थानतोऽ पीति। स्पष्टार्थम् ।। २८२ ।। सु० टी०-युकत्यन्तरमाह- श्रतेश्र्व तात्पर्यमखण्डरूपे परे पुरस्तादुपपादितं च। ततोऽपि तस्याद्यरूपतोऽन्य- दूपान्तरं कल्पयितुं न शक्यम्॥ २८३ ॥ श्रुतेश्वेति। जन्मादिसूत्रे निर्विशेषं वस्तु लक्षितं तत्र तात्पर्यमखण्ड- रुपे परमात्मन्युत्तराधिकरणैर्वेदान्तानां निरूपितमित्यतो न रूपान्तरं संभाव्यमित्यर्थः ॥२८३॥ अ० टी० -स्वयमेव्रं युक्त्यन्तरैनिर्विशेषं ब्रह्मेति प्रतिपादेदानीमस्मिन्नधिकरणे 'अरू पवदेव हि तत्प्रधानत्वात्' [ब्र० ३ । २ । १४ ] इतिसूत्रे प्राधान्येनोक्तं निर्विशेष- वाक्यानां तत्परत्वं विवृणोति-श्रुतेश्चेति। अखण्डरूपे निर्विशेषे परे ब्रह्मणि श्रुते- स्तात्पर्य पुरस्तान्प्रथमाध्याय उपवर्णितं ततोऽपि समन्वयाध्यायसिद्धन्यायतोऽपि तस्य ब्रह्मण इति सुगमम्। यद्यपि निर्विशेष एव ब्रह्मणि सर्ववेदान्तसमन्वय इति तत्र प्राधान्येन प्रतिपादितं तथाऽपि तत्र 'अन्तस्तद्धर्मोपदेशात्' [ब्र० १।१।२०] इत्यादौ सविशे- • षेऽपि ब्रह्मणि वाक्यानां केषांचित्समन्व्यस्योपपादनात्सविशेषं निर्विशेषं वा ब्रह्मणस्तत्त्व- मिति पुनःशङ्कायां तत्रोक्तं निर्विशेषपरत्वमेत्र हेतुमादाय निर्विशेषत्वमिह व्युत्पाद्यत इति भाव: ॥। २८३ ॥ सु' टी०-नतु 'द्वा सुपर्णा' [श्वे०४।६] इति 'बहु स्यां प्रजायेयं' [छा०६।२ । १ ]इति श्रतिविरोधेन कथमखण्डतात्पर्याभिधानमि-
भेदश्रुतिस्त्वन्यपरा समस्ता समस्तवेदेषु न तत्पराSसौ। अतत्परा तत्परवेदवाक्यै- र्विरुध्यमाना गुणवाद एव ।। २८४ ।। भेदश्ुतिरिति। अन्यपरादृवि देवताधिकरणन्यायेन तत्तिद्धि: कुतो
Page 335
७७० टीकाद्वय समेतं- [३ तृतीयोऽध्यायः]
नत्यत्रSSह-अतत्परेति। प्रमाणाविसेधे हि देवताधिकरणन्यायो न विरोधेऽपीत्यर्थः ।। २८४।। अ० टी०-ननु सविशेषत्वबोधकश्रुतिवशात्सविशेषत्वमपि ब्रह्मणः कुतो न स्यादिति
अपि देवताधिकरणन्यायेन स्वार्थपरत्वमषि कि न स्यादित्याशङ्कय मानान्तरविरोधान्मैव मित्याह-अतत्परेति ॥ २८४ ॥ सु० टी०-विपरीतं कि न स्यादिति चेत्तत्राऽऽह- न हर्थवादा विधिभिर्विरुद्धा विध्यर्थसंकोचकरा भवन्ति । किं तु प्रधानानुगुणं यदेषा- मालम्बनं तत्खलु कल्पनीयम् ॥ २८५॥ न हीति। निर्विशेषश्रुतीनामर्थवत्वेन शेषित्वासतदनुगुणमेतेषामालम्बनं कल्प्यं न तु तद्दाधकत्वमित्यर्थः ॥। २८५।। अ० टी०-ननु सविशेषवाक्यैर्विरोध इतरेषामपि समान इति चेत्सत्ं तथाऽपि निरवकाशतया निर्गुणवाक्यानां स्वार्थैकपरत्वेन प्राबल्यान्न तदर्थमन्यथा नेतुं शक्नुयुः सवि- शेषवाक्यानीत्याह-न हर्थवादा इति । विधित्वं शेषित्वम्। स्पष्टार्थमर्धम्। तर्हि किमर्थवादा निरालम्बना एवेति नेत्याह-किं त्विति। यदेषामर्थवादानां प्रधानानु- गुणं विध्यनुगुणं भवति तत्खल्त्रालम्बनं कयाऽपि वृत्त्या कल्पनीयं न प्रधानविरुद्धार्था- लम्बनत्वमुचितमित्यर्थः ॥ २८५॥ सु० टी०-अस्मिन्नर्थे प्राक्तन्त्रस्थं दृष्टान्तमाह- यथा ह्यजक्षीरविधेः समीपे यज्जर्तिलादेः परिकीर्तनं तत्। प्रधानसंकोचभयादपास्य स्तुत्यर्थमासीद्गुणवाद एव ॥ २८६ ॥ यथा हीति।'न चेदन्यं प्रकल्पयेत्प्रकलृप्तावर्थवादः स्यादानर्थक्यात्व रसामर्थ्याञ्च' [जै०१०।८।७]इत्यत्र सूते दशमे विचिन्तितं जर्ति- लयवाग्वा जुहुयाद्रवीधुकयवाग्वा वान ग्राम्थान्शून्हिनस्ति नाऽडरण्य
१ ख, घ. ङ. स्य स्वमर्थ०।
Page 336
[३ तृतीयोऽच्यायः ] संक्षेपशारीरकम्
बथो खल्वाहुरनाहुतिव जर्तिलाक्ष गवेधुकाश्चेत्यजक्षीरेण जुहुयादिति। तत्र किं जर्तिलेत्यादिविधिरनाहुतिरिति निषेध उतोभावव्यजक्षीरस्तु- व्यर्थाविति संशये जर्तिलहोमविधे: प्रत्यक्षत्वान्निन्दया च निषेधानुमा- नाद्विकल्पे प्राप्ते सिद्धान्तितम्। स्यादेवं न चेदन्यमजक्षीरविधिं प्रक• ल्पयेत्स यदि न स्यादित्यर्थस्तस्य त्वत्र दृष्टत्वात्तस्यायमर्थवाद: स्याद- न्यथा पयोविधानादेव विकल्पसिद्धेनिन्दात्वानिश्चितेश्र निषेधानर्थ- क्यात्परत्र च क्षीरस्तुतावस्य पूर्ववाक्यस्य सामथ्याद्विाक्यैक्ये च. संभवति वाक्यभेदस्यान्याय्यत्वाज्जरतिलैर्जहुयादिति न विधिरनाहुति- रिति नञ्रपि प्रशस्तादृपि जर्तिलादेः प्रशस्त क्षीरमिति पयःस्तुत्यर्थो न प्रतिषेधक इति क्षीरविध्यसंकोचाय यथा यथाश्रितमासीदित्यर्थ: ॥ २८६॥
अ० टी० -- अस्मिन्नर्थे पूर्वतत्रसंमतिमाह-यथा हीति। चयनगतेऽमिहोत्रे श्रूयते-'जर्तिलयवाग्वा वा जुहुयाद्रवेधुकयवाग्वा वा" इति तथा 'अजक्षीरेण जुहोति' इति च। जर्तिला आरण्यतिला गवेधुका आरण्यगोधूमास्तेषां यव्रागूर्मण्डः ! अजायाः क्षीरमजक्षीरम्। अजशब्दस्य जातिवचनत्वाददोषः । अत्र संशयः-कि जर्तिल- गवेधुक होमवादोऽप्यजक्षीरहोम इव. विधिः कि वार्डर्थवाद इति। तत्र विधिप्रत्ययश्रवणाद- ग्निहोत्रस्य च द्रव्याकाडक्षिणः श्रुतद्रव्यपरिग्रहोपपत्तेरजक्षीरेण विकल्पोपपत्तेश्व. विधिवचनो. जर्तिलादिवाद इति प्रापय्य राद्दान्तितम्। 'अनाहुतिवै जर्तिलाश्ष गवीधुकाश्चेत्यजक्षीरेण, जुहोति' इति जर्तिलादिनिन्दापूर्वकमजक्षीरविधानादजक्षीरविधेः प्राधान्यमत्रावगतम्।, तथा च जर्न्तिलादेरपि होमद्रव्यत्वाश्रयण उत्पत्तिविशिष्टस्याजक्षीरस्य विकल्पप्राप्तौ पाक्षिक- सं्तद्विधि: स्यात्स चायुक्तो विकल्पाश्रयणस्यागतिकगतित्वाददृष्टदोषदुष्टत्वादिह च. निन्दा-
क्षीरविधे: प्रकरणित्वेन प्रधानभूतस्य समीपे यज्जर्तिलादेः परिकीर्तनं तदथा प्रधानस्या- जक्षीरविधे; संकोचभयादपास्य विधिपरत्वं निराकृत्य स्तुत्यर्थं गुणवाद एवाऽडसीनिश्चितो. बभुवेति ।। २८६ ।।.
सु० टी०-तथेहाप्याश्रयणीयमिति दार्शन्तिके योजयति-
एवं सतीहापि विरुध्यमानं वचो यदद्वैतपरैर्वचोभिः ।
Page 337
७७२ टीकाट्वय समेतं- [३ तृतीयोऽन्यायः ]
तदस्तु गौणं यदि वा परस्प माया प्रसूतद्वयवादिमुख्यम् ॥ २८७ एवं सतीति। अद्वैतश्रुतिविरुद्धानां सविशेषश्ुतीनां गौणत्वमित्यर्थः । नन्वेकत्र मुख्यस्यान्यत्र गौणत्वं न चात्र तथेति चेत्तत्ाSऽह- यदि वेति। सविशेषत्वमपि मायामयमस्तीति तद्वादित्वेन मुख्यं वा भव- त्वित्यर्थः ।। २८७ ।। अ० टी०-तथाऽन्ापि सविश्ेषवाक्यानां गुणवादेन तत्स्तुत्यर्थत्वमेव युक्तमिति दार्ष्टान्तिकमाह-एवं सतीति। प्रधानानुरोधिनोऽर्यवादा न प्रधान विरोधिन इति न्यायतः सिद्धे सतीत्यर्थः । इह वेदान्तेष्वपि यदनन्यथा सिद्धार्थतया प्रधानभूताद्वैतव- चोभिर्धिरुध्यमानं वचोऽस्ति तद्रौणमस्तु गुरुवादेन स्तुत्यर्थार्थवादोऽस्त्विति योजना । नन्वेवं सविशेषवाक्यानां सर्वथा गुणवादत्व उपासनाविध्यपेक्षितविधेयार्थविशेषसमर्प- कत्वमपि तेषां न स्यादित्याशड्क्य पक्षान्तरमाह-यदि वेति। परस्य ब्रह्मणो माया- प्रसूतं यदद्वयं तद्वादिसन्मुख्यं मुख्यार्थमस्तु यथाश्रुतं सविशेषत्वमपि मायामयमस्तीति तद्विषयत्वं तेषां मुख्यमस्तु । अस्मिन्पक्षे विषयभेदान्न निर्विशेषवाक्यविरोधितेति साव: ॥ २८७॥ सृ० टी०-एतदेव प्रपश्चयति- भेदश्रुतिः कल्पितमेव भेद- मालम्ब्य मुख्यार्थवती भवित्री। अतत्परा तत्परवाक्यभङ्ग- स्त्वितोऽन्यथा याति विना निमित्तम् ॥२८८॥ भेदश्रुतिरिति। नतु मुख्यत्वे वास्तवभेदमेवाSडलम्बतामिति नेत्याह- अतत्परेति। तथा सति तात्पर्योपताद्वैतश्ुतिमङ्गो निर्निमित्तः प्रसज्येते- त्यर्थः ।। २८८।। अ० टी०-भेदश्रुतेरपि चेन्मुख्यमालम्बनमिष्यते तहिं तस्याः कथं चिद्वस्तुसंस्प- र्र्ित्वमेष्टव्यमिति चेत्तदशक्यं तत्परवाक्यविरोधादित्याह-मेद्श्रुतिः कल्पितमेवेति। कल्पितभेदालम्बनेनैव मुख्यार्थवत्वे हेत्वर्थ विशेषणमतत्परेति। उपासनादिपरत्वान्न भेद परेत्यर्थः । विपक्षे दोषमाह-तत्परवाक्यभङ्गस्त्विति। तत्परवाक्यस्य स्वार्थपरत्वा- पहार इति यावत्। जर्तिलादिवाक्यस्थेव स्वार्थापहारोऽप्यस्विि चेनेत्याह-विना निमित्तमिति ॥२८८ ॥
Page 338
[३ तृतीयोऽन्याय: ] संक्षेपशारीरकमू। ७७३ सु० टी०-ननु सगुणोपासनविधिबोधितस्य सविशेषत्वस्य कथं मिथ्यात्वं स्यादिति। तत्राSSहृ -- यदपि किंचिदुपासननिष्ठिता- दचनतः प्रतिभाति परात्मनः। सकलगन्धरसादिमयं वपु- स्तद्पि कल्पितभेदसमाश्रयम्॥२८९॥ यदपीति। उपासनविधिपरात्प्रतीयमानस्यापि तस्य वस्तुपरनिर्वि- शेषश्तिबाधे कल्पितत्वमेव युक्तमित्यर्थः ॥। २८९।। अ० टी०-ननूपासनावाक्यानामुपासनानिष्ठत्वेनार्थवादत्वाभावात्तत्र श्रुतं सवि- शेषत्वं वस्तुधर्म एवेति चेन्नेत्याह-यद्पीति। सर्वगन्धः सर्वरस इत्यादिविशेषणवि- शिष्टं वपुरित्यर्थः ॥ २८९। सृ० टी०-विपरीतमेव कुतो नेत्याशङ्कचाSSह- न खलु निर्गुणवस्तुपरं वच: सगुणवाक्यविरोधनिमित्ततः । स्वविषयादपसारयितुं बला- दतिबलिष्ठपदान्वयमिष्यते ॥ २९० ॥ न खल्विति। कथं नापसारयितुमिष्यत इति चेत्तत्राSSह-अतिबलिष्ठेति। तत्परत्वाद्नन्योपजीवित्वाज्च निर्गुणवाक्यपदान्वयो बलीयान् सगुण-
विधायकानि दुर्बलानीत्यर्थः ॥२९० ॥
अ० टी०-कुतः कल्पितभेदसमाश्रयत्वमिति तत्राSSह-न खलु निर्गुणेति। अयमर्थ :- निर्गुणवाक्यं तावदत्यन्तं बलिष्ठमेवान्योपजीवित्वाभावात्सगुणवाक्यं तु. तद- पेक्षया दुर्बलं निर्गुणवाक्यशेषभूतसृष्टयादिवाक्यसिद्धसर्वात्मब्रह्मस्वरूपानुवादेन तद्विषयो- पासनाविधिपरत्वादत उपजीवकेन दुर्बलेनोपजीव्यं सबल न बाधमर्हतीत्येषाऽक्षरयोजना। अतिबलिष्ठपदान्वयं निर्गुणवस्तुपरं वचः, सगुणवाक्यविरोधनिमित्ततो न खलु स्वविषया- दवलादपसारयितुमिष्यत इति ॥ २९० ॥
Page 339
७७४ टीकाट्वय समेतं- [ ३ तृतीयोऽध्यायः ]
सु० टी०-प्रकरणार्थमुपसंहरति-
सर्वद्वैत विवर्जितं विगलितध्वान्तं शिवं शाश्वतम्। प्रत्यगूपमरूपगन्धरसकं तच्छब्दवाच्य स्थितं वाक्या- र्थान्वयि लक्षितं भगवतो विष्णोः पदं गृह्यताम् ॥२९१॥. तस्मादिति। वाक्यगतिभिर्वाक्यान्वयप्रकारैः । न्यायेनोपाधीनामौपा- धिकानां च सृपात्वसाधकन्यायगणेन। वाक्यार्थान्वयि गह्यतामिति संबन्धः। शोधितं तत्पद्लक्ष्यं वस्तु दर्शयत्यात्मप्रभमित्यादिना शिवमा- नन्दरूपम्। अरूपगन्धरसकं निर्धर्मकमित्यर्थः ।। २११॥ अ० टी०-तत्पदार्थशोधनप्रकरणमुपसंहरञ्छोधिततत्पदार्थलक्ष्यं दर्शयति-तस्मात्त- त्परेति। वाक्यगतयो वाक्यानामर्थावबोधनप्रकाराः। न्यायस्त्वौपाधिकानामुपाधीनां च मिथ्यात्वप्रतिपादनयुक्तिः । प्रत्यग्रूपं प्रतीचः स्वरूपभूतं तटस्थमित्यर्थः । तच्छब्दवाच्ये शबले स्थितमधिष्टानत्वेनानुगतमित्यर्थः । एवं भूतं विष्णोः पदं तत्पदलक्षितं वाक्यार्था- न्वयि गृह्यतामिति योजना ॥। २९१ ॥ सु० दी०-तत्र प्रमाणत्वेन मन्त्रमुदाहरति- अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्। अनादनन्नं महतः परं ध्रुवं निचायनीयं पदमीदृशं हरेः॥ २९२ ॥ अशब्दमिति। नित्यमशब्दं नित्यमस्पर्शमित्येवं सर्वत्र योज्यम्। महतः परमित्यव्यक्तप्राप्ती। धुवमित्यविकारित्वमृच्यते। निचाय्येत्यन्त्यपाद- स्यार्थमाह -- निचायनीयमिति ॥२१२॥ अ० टी०-शोघिते तत्पदलक्ष्ये प्रमाणतेन, काठकमत्रवाक्यमुदाहरति-अश्ञब्द- मस्पशमिति। अशब्दमित्यादौ प्रतिपदं नित्यपदं योज्यं नित्यमशब्दं नित्यमस्पर्श- मित्यादि। अव्ययं गुणावयवापचयनिमित्तव्ययरहितं निर्गुणं निरवयवं चेत्यर्थः । पूर्वारधों- क्प्चभूततद्धर्मव्यावृत्तस्वरूपत्वे हेत्वर्थ विशेषणमनाद्यनन्तमिति पूर्वोत्तराव्रधिविधुरमित्यर्थः। आद्यन्तविकारनिषेधादेव मध्यवर्तिनोऽस्तित्वादयोऽि विकारा: प्रतिषिद्धा वेदितव्याः । महतः परमिति जीवाद्वैलक्षण्यमाह। महानिति बुद्धिरुच्यते. तदुपाधिको जीव इह महानिति
Page 340
[ ३ तृतीयोऽध्याय: ] संक्षेपशारीरकमू। ७४५
विवक्ष्यते तस्मात्परम्। एतावत्युक्तेपि महत्त्वात्परंमव्यक्तमव्याकृताख्यं प्राप्त तदर्थमाह- धुवमिति। अविचलं न परिणामीत्यर्थः । किंबहुना सर्वाचेतनतद्गतचिद्धासलक्षणं तत्त्वं परमात्मानं निचाय्याहमस्मीत्यवगम्य मृत्युमुखात्संसारबन्वनात्प्रकर्षेण मुच्यत इति मत्रार्थः ॥ २९२ ॥ सु० टी०-मन्त्रान्तरमप्याह- भोक्ता भोज्यं प्रेरितारं च मत्वा सर्वे प्रोक्तं त्रिविधं ब्रह्म मे तत्। जीवेशानौ सृज्यमानं जगच्च शुद्धं ब्रह्लेत्याह वेदान्तवाक्यम् ॥ २९३॥ भोक्ता भोज्यमिति। भोक्तेति। द्वितीयार्थे। जीवं प्रपश्चमीश्वरं च तत्रि विधं मत्वा युकत्या विचार्य ब्रह्मैवेति मे मया मन्त्रदृशा प्रोक्तमिति। पूर्वार्धस्यार्थमाह-जीवेशानावित्युत्तरार्धेन ॥। २९३॥ अ० टी०-अत्रैव श्वेताश्वतरोपमिषन्मत्रं पठति-भोक्ता भोज्यमिति । भोक्तेति प्रथमा द्वितीयार्था। भोक्तारं जीवं भोज्यं प्रपञ्चं प्रेरितारं च मत्वा युक्तितो विचार्य सर्व तत्रिविधं मे मह्यं ब्रह्म प्रोक्तं ब्रह्मव्यतिरेकेण नैतत्रिविधमस्ति ब्रह्मैवास्तीति प्रोक्तमिति मघ्नदशो वचनार्थः । एतन्मव्रार्थमाह-जीवेशानाविति ॥२९३॥ सु० टी०-शोधितपदार्थधीरेव मुक्तिसाधनमिति शिष्याभिप्रायमा- लक्ष्य निराकरोति- पदार्थबोधेन कतार्थता न ते मतिः परोक्षा हि पदार्थगोचरा। अतो महावाक्यनिबन्धनैव धी- रबोधविच्छेदकरी भविष्यति ॥ २९४ ॥ पदार्थेति। कुत इति चेत्तत्राSSह-मतिरिति। यद्यपि शोधितं ब्रह्म- मत्यगपावसानं तथाऽपि युक्तितस्तज्ज्ञानं लिङ्गादिंव्यवधानास्परोक्ष नापरोक्षाज्ञाननिवर्तकमित्वर्थः। कुतः पुनरपरोक्षधीः स्यादिति तत्राSSह अत् इति ॥ २९४ ॥ अ० टी०-पदार्थतत्वबोधेनैव कृतार्थता मन्वानं शिष्यं प्रति नैतावता ते कृतार्थता महावाक्यार्थबोधमन्तरेण पदार्थद्वयगतपारोक्ष्यसद्वयत्वांशानिवृत्तेस्तन्निवृत्ति विनाडखण्डान-
Page 341
७७६ टीकाट्टय समेतं- [ ३ तृतीयोऽथ्याय: ]
हि मतिः परोक्षा युक्तिमात्रोपनिबद्धत्वादित्यर्थः । सुगममन्यत् ॥२९४॥ सु० टी० -- ननु श्रुतिवाक्यादृपि व्युत्पन्नानां परोक्षबुद्धिदर्शनात्कथं ततोऽव्यपरोक्षा सेत्याशङ्क्य तस्यापि वाक्यस्य बहुनियमापेक्षत्वमाह- स्वाध्यायधर्मपठितं निजवदशाखा- वेदान्तभूमिगतमादरपालितं च। संन्यासिना परदशा गुरुणोडपदिष्टं साक्षान्महावचनमेव विमुक्तिहेतुः ॥ २९५ ॥ स्वाध्यायेति । अध्ययनविधिबोधितधर्मानतिक्रमेण पठितमित्यर्थः । निजेत्यन्तरङ्गत्वादुक्तम्। आदरेति दीर्धकालनैरन्तर्यादेरप्युपलक्षणार्थमू। संन्यासिनेति।'श्रोत्रियं ब्रह्मनिष्ठम्'[मुण्ड० १ । २ । १२] इति भ्रुतेः ॥ २९५ ॥ अ० टी०-वाक्यमपि स्वार्थ बोधयत्पूर्ववृत्तब दुनियमापेक्षमेव्र बोधयति न यस्य कस्य-
मेव साक्षाद्विमुक्तिहेतुरिति संबन्धः । आदयेन विशेषणेनाध्ययनविधेरत्र प्रामाण्यसूचना- ललिखितपाठादिना नियमहीनाध्ययनेन वा गृहीतवाक्यव्यावृत्तिः क्रियते। द्वितीयेन परशाखागतधाक्यस्य प्राधान्येन ग्रहणव्युदासः स्ववेदशाखासिद्धैरेव कर्मविज्ञानैः स्वस्य श्रेयःप्राप्तिरिति स्मृत्याचारप्सिद्धं शाखारण्डत्वेनान्यशाखानिष्ठस्य निन्दाप्रायश्चित्तयोरुप- लम्भात्। स्वशाखावाक्येन सिद्वेऽर्थे मतिदार्ढ्याय संवादितया परशाखावाक्यग्रहण न प्रतिषिध्यते। आदारपालितमित्यध्ययनात्प्रभति संन्यासकालपर्यन्तमविस्मरणं विवक्ष्यते। तेन च ब्रह्मोज्झत्वादिदोषराहित्यं साधकस्याभिप्रेतम्। 'तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत्स- मित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्' [मुण्ड० २ । १२] इतिशास्त्रमाश्रित्यांSSह- संन्यासिनेति। तस्य परद्शेति विशेषणेन भेदाभेदनिष्ठकुटीचकादिसंन्यासी गुरुत्वे व्यावर्त्यते ॥ २९५ ॥ सु० टी०-महावाक्यादेव मुक्तिफल: साक्षात्कारो भवतीत्यत्र कि प्रमाणमिति तत्राSSह- नावेदविन्मनुते पुरुष बृहन्त- मित्याह वेदवचनं कथमन्यथैतत्।
१ क,ड. विद्धि म । घ. विच्व म।
Page 342
[ ३ तृतीयोऽध्यायः ] संक्षेपशारीरकम्। ७७७
वाक्यान्तरं च कथमाह पुमांसमेन साटोपमौपनिषदत्वविशेषणेन ॥ २९६ ॥ नावेदविदिति। अन्यथा कथमेवमाहेत्यन्वयः । वाक्यान्तरं'तं त्वीप. निषदम्'[बृह० ३।९।२६ ] इत्यादि। साटोपं सगर्वम्॥२२६॥ अ० टी०-वेदाम्तवाक्यादेव प्रत्यक्तत्वावगतिर्मुक्तिहे तुर्नान्यतस्तदवगतिरित्यत्र प्रमा- णमाह-नावेद्विदिति। अत्र वेदशब्दो वेदान्तवचनः। अवेदविद्वेदान्तानभिज्ः वेदान्तवाक्यविचारहीन इति यावत् तं बृहन्तमिति। 'येन सूर्यस्तपति तेजसेद्धः' इति। पूर्ववाक्योक्तः सूर्यादीनामपि प्रकाशकश्चित्सदानन्दः परमात्मा परामृश्यते तं बृहन्तं ब्रह्म- रूपमवदेविन्न मनुते न विजानातीत्याह वेदवचनमेतत्कथमन्यथा स्याद्वह्मात्मतत्त्व्रस्य प्रमा- णान्तरगम्यत्व एतद्वाक्यं निर्विषयप्रमाणं स्यादित्यर्थः । 'तं त्वौपनिषदं पुरुषं पृच्छामि' [बृ० ३ । ९ । २६ ] इत्येतदपि वाक्यमत्र प्रमाणमित्याह-वाक्यान्तरमिति। यदि मानान्तरविषयः परमात्मा भवेत्तदा साटोपं ससंभ्रममौपनिषदत्वविशेषणेन पुमासं कथमाहेति योजना। अन्यवेद्यत्व औपनिषदत्वविशेषणमनर्थकं स्यादित्यर्थः ॥२९६ ॥ ननु 'नावेद्विन्मनुते तं बृहन्तम्' 'तं त्वोपनिषदम् ' [बृह्दव ३। १। २६ ] इति च वेदोप निषदोर्ब्रह्मज्ञानसाधनत्वमुच्यते न तु महावाक्यस्थेति तत्राSSह- उपनिषदिति वेद इत्यपीदं समभिवदन्ति महावचो महान्तः । फलवदवगतिः स्यादन्तरेणैतदेकं वचनमिति न शक्यं वक्तुमित्यादरोडस्मिन्॥२९७ उपनिषदिति। तत्र हेतुमाह-फलवदिति। एतदेक वचनमन्तरेण फलव- दृवगतिः स्यादिति बक्तुं न शक्यमिति योज्यम् ॥२९७॥ अ० टी० -- औपनिषद इतिविशेषणेनोपनिषःु सम्यगवतत्वं पुरुतस्योच्यते। तथा नावेदविदित्यत्र वेदैकवेद्यत्वं पुरुषस्योक्तं तत्रोपनिपदिति वेद इति च वेदैकदेशे सर्वस्यां वेदशाखायां च प्रसिद्धेः कथं महावक्यैकगम्यत्वे ब्रह्मतत्त्व्रस्यैतत्प्रामाण्य स्यादित्यत आह- उपनिषदिति वेद इति। महान्तोऽध्यात्मनिरूपणकुशला उपनिषदिति वेद इत्यनीदं पूर्वोक्तं महावचः समभिवदन्ति प्रसिद्धिपरित्यागेनावयवव्युत्पत्त्या महावाक्ये शब्दद्यं प्रयुअ्त इत्यर्थः । तत्र निमित्तमाह-फलवदिति। एतदेकं महावाक्पलक्षगं ववनम- न्तरेण फलवद्ह्मावगतिः स्यादिति न शक्पमन्यस्य सर्वस्य तत्र परोक्षज्ञानहेतुःादिहेतो
Page 343
टीकाद्वयसमेसं- [३ तृतीयोऽध्यायः ] रस्मिन्महावाक्ये महतामादर इत्यर्थः । अस्मिंश्व पद्ये पूर्वोत्तराधयोर्वृत्तमेद: प्रामादिको ज्ञेयः॥ २९७॥ स० टी०-उपसंहरति- उपनिषदिति शब्दो वेदशब्दश्र तस्मा- च्छतिशिरसि निविष्टो योज्यतामत्र वाक्ये। अपरमखिलमस्यैवाङ्गभूतत्वहेतो- रिह समभिनिविष्टं तद्गिरो वाच्यमासीत्॥। २९८। उपनिषदिति। वेद्यते ज्ञाप्यतेऽनेन परं ब्रह्मेति वेदो महावाक्यम्। तदे वोपनयत्यात्मानं ब्रह्मत्वेनेत्युपनिषदिति योज्यतामित्यर्थः । तार्हि महावा- क्यातिरिक्ते कथं वेदोपनिषच्छव्दावित्यत्राSSह-अपरमिति। अन्यदृपि महा- वाक्यशेषतया तद्स्तर्भतं सदुपनिषश्वदस्य वाच्यमासीदित्यर्थः।। २९८॥ अ० टी० -- यस्मादेवं महतामत्राSSदरस्तस्मान्महावाक्य एव शब्दद्वयं योज्यमित्याह- उपनिषदिति शब्द इति। उप समीपे प्रत्यगात्मानमव्यवधानेन ब्रह्म गमयतीत्युपनि- षन्महावाक्योत्था ब्रह्मविद्या ब्रह्मप्रत्यगात्माडभेदेन वेदयतीति वेदोऽपि सैव सा च महावा- क्यैकनिबन्धनेति श्रुतिशिरसि वेदान्तभागे निविष्ट उपनिषदितिशब्दो वेदशब्दश्वात्र महाव।क्ये योज्यतामिति योजना। तर्हि महावाक्यव्यतिरिक्तेषु शब्देषु कथमुपनिषदादिशब्द· प्रवृत्ति: पाठकानां तत्र तच्छब्दव्यवहारदर्शनाकिति चेत्तत्राSSह-अपरमिति। अपरं महात्राक्यव्यतिरिक्तमखिलं वाक्यमस्य महावाक्यस्याङ्गभूतत्वहेतोरेवैतच्छेषत्वादेवेह 'महा-' वाक्ये समभिनिविष्टमेतदेकवाक्यतयैतस्मिन्नन्तर्भूतं सत्तद्विरो वेदोपनिषच्छब्दवाच्यमासीन प्राधम्येन मुख्यतयेत्यर्थः ॥ २९८॥ स० 2ी0 -- किं पुनर्महावाक्यस्य ब्रह्मज्ञानहेतुत्वे वेदोपनिषच्छब्द्वा च्यत्वे वा गमकमिति चेत्तत्राSSह -- पित्रा तत्त्वमसीतिबोधनमनु स्पष्ट विजज्ञाविति च्छान्दोग्ये यदवोचदेतदिह नो लिङ्गंन भवेज्ज्ञापकम्। सर्वत्रैव महागिरामुपनिषच्छब्दो भवेदग्राहको चेदश्वायमतोऽन्यदस्य निकटं तेनात्र वेदादिगीः॥२९९। पित्रेति। छान्दोग्यषछे हि पित्रा 'तत्वमसि' [छा० ६।८।७] इति प्रतिपाद्नानन्तरं 'तद्दाऽस्य विजज्ञी' [छा० ६।७।६]
Page 344
[ ३ तृतीयोऽध्यायः ] संक्षेपशारीरक्रम् । ७७९
इति साक्षात्तत्त्वबोधेन श्वेतकेतोः कृतार्थत्वदर्शनालिङ्गांत्तदेवः बह्मघी- जनकं वेदोपनिषच्छब्द्वाच्यं चेति निश्चितमित्यंर्थः ।। २९९.।। अ० टी०-तत्त्रमस्यादिमहावाक्यमेव साक्षात्तत्त्वबोधकमितयत्र लिङ्गमाह-पित्रेति। बोधनमनूपदेशसमनन्तरमेव 'तद्धास्य विजज्ञौ' [छा०६।७६]इति स्प्ष्टं छान्दोग्ये यद्रवोचदेतन्नोऽस्माकिह महावाक्यस्यैव साक्षात्तत्त्वबोधकत्वभित्यत्न ज्ञापकं •लिङ्गं भवेत्। तथा च सर्वत्रैव वेदान्तेषु, महागिरां ग्राहक, उपनिषच्छन्दो भवेद्वेदश्चायं महावाक्यलक्षण. एवार्थात्सिद्ध इत्यर्थः । अतोऽन्यन्महावाक्यातिरिक्तमस्य महावाक्यस्य निकटं तदपेक्षितार्थसमर्पकत्वेन. तदेकार्थनिष्ठं यतस्तेन हेतुनाऽन्र वाक्यान्तभागे वेदादि- मीरध्येतणामित्यर्थ: । २९९।. सु. टी०-ननु घात्वर्थस्य विशरणगत्यवसादनलक्षणस्य: ब्रह्मवि- द्यारयां संभवात्सवोपनिषच्छब्दस्य मुख्योडर्यो न महावाक्यमित्याश डूक्याSSह- उपनिषद्वचसा परमात्मधी: सहजशक्तिवशेन निगयते।. उपचरय्य महागिरि वर्तते निकटभावमपेक्ष्य तु मुख्यगीः ॥ ३०॥
कथं तहिं महावाक्ये प्रयोगस्तत्राSह-उपचर्येति ।. ताहै कर्थ तत्र मुखुयगीस्तवाSSह-निक़टेति.।। ३००।। अ०टी .- महावाक्यस्य. साक्षादोधकत्वमात्रेणोपनिषच्छव्दवाच्यत्वं कथं. गम्पत, इत्यपेक्षायामुपनिषच्छन्दस्य तावत्साक्षान्मुख्यार्थमाह-उपनिषद्वचसेति। सहजश- क्तिवशेनेति। सदेरुपनिपूर्वस्य धातोः स्त्रभावसिद्धसामर्थ्येनेत्यर्थः ।तर्हि कथं महा- वाक्य उपनिषच्छब्दो व्याख्यात इति तत्राSऽह-तदुपचर्येति। वाक्यान्तरापेक्षया. मुख्यार्थेऽप्युपनिषत्पदं महागिर्युपचाराद्वर्तत इत्यर्थः । तरहि महावाक्ये मुख्यमिति कथं पूर्वमुपपादितमित्यत. आह-निकटभावमिति। वाक्यान्तरापेक्षया, मुख्यार्थेड प्युपनिषद्रह्मविद्यायां. निकटभावमपेक्ष्स तु. महाव।क्येऽ्युपनिषद्ीर्मुख्येत्युक्तमितिनं. दोष
१ ख .. घ. ङ, तदुपचर्य म. 1
Page 345
७८. टीकाछट्य समेतं- [३ तृतीयोऽध्याय: ]
इत्यर्थ:। विद्यापक्षया महावाक्येषूपनिषद्वेदपदयोरमुख्यत्वेपीतरवाक्यापेक्षया विद्यां प्रति नैकव्यात्तत्र मुख्यत्ववचनं युक्तमिति भावः ॥ ३०० ॥ सु• टी० -- तदेव प्रपश्चयति- उपनिषद्व चसाऽभिहिताऽSत्मघी- र्निकटवर्तिमहागिि मुख्यवत्। उपनिषद्वचनं तदवान्तरे वचसि गौणवदत्र विवक्ष्यते ॥३०१ ॥ उपनिषद्वचसेति। मुख्यवदिति। बहुतरप्रयोगादुपचारोऽपि मुख्यतुल्य इत्यर्थः। अवान्तरवाक्येऽपि प्रयोगबाहुल्यमविशिष्टमिति चेत्तत्राSऽह- तदिति॥ ३०१ ॥ अ० टी०-उक्तमेवार्थ विशदयति-उपनिषद्वचनाभिहितेति। उपनिषदिति वचनेन मुख्यया वृ्त्त्याडभिहिता सती विद्या निकटवर्तिमहागिरि मुख्यवद्विवक्ष्यत इति संबन्धः। तदवान्तरे वचस्युपनिषद्वचनं गौणवदत्र वेदान्तेषु विवक्ष्यत इति योजना॥३०१ सु० टी०-पूर्वोक्तं लिङ्गमेव स्मारयित्वोपसंहरति- यतो महावाक्यत एव पुत्रो विजज्ञिवानस्य पितुः सकाशात्। इति श्रुतं तेन स एव वेद- स्तथैव सैवोपनिषच्च सिद्धा ॥ ३०२॥ यत इति। पितुरुद्दालकस्य सकाशादित्यर्थः ॥ ३०२॥ अ० टी०-साक्षादवगतिहे तुत्वं महावाक्यस्येत्यत्र पूर्वोक्तं लिङ्गं स्मारयति-पतो महावा क्यत इति। पुत्रः श्वेतकेतुः पितुरुद्दालकात्सकाशान्महावाक्यत एवास्य परमात्मनस्तत्वं विजजिवानिति यतो यस्माच्छूतं छान्दोग्ये तेन वेदहेतुत्वेन स एव वेदस्तन्महावाक्यभेव वेदः पुंलिद्गत्वनिर्देशो विधेयाभिप्रायेण। तथैव वेदवाच्यत्ववत्सैवोपनिर्षच सिद्धा।अत्रापि लिङ्गनिर्देश: पूर्ववत् ॥३०२॥ सु० टी०-अन्वयमुक्त्वा व्यतिरेकमप्याह- विना महावाक्यमतों न कश्वि- त्पुमांसमद्वैतमवैति जन्तुः ।
१ क. चनाभिहिता सन्नी नि°।
Page 346
[१ तृतीयोऽच्याय: ] संक्षेपशाररिकम्। ७८१
ततः पदार्थावगमान्न मुक्ति- र्घटिष्यते तस्य परोक्षभावात् ॥ ३०३॥ विनेति। अद्वैतं पुमासमिति संबन्धः । निगमयति-तत इति ॥३०३॥ अ० टी०-तस्मान्महावाक्यादेव तत्त्वावगतिर्मुक्तिफला नान्यतोऽवगतिरिति सिद्ध- . मित्युपसंहरति-विना महावाक्यमिति। अत इति प्रथमं योज्यमुक्तान्न्यायादित्यर्थः। एवं च पदार्थशोधनमात्रेण कृतकृत्यतेति यदुक्तं तदपि सत्यमेवेति सिद्धमित्याह- ततः पदार्थेति। पदार्थावगमान्मुक्त्यभावे हेतुमाह-तस्येति। पदार्थावगमस्य परोक्षत्वादपरोक्षसंसारनिवर्तकत्वासंभवात्ततो न मुक्तिसिद्धिरित्यर्थ: ॥ ३०३ ॥ सु० टी०-तहिं किमर्थ पदार्थनिरूपणमिति चेत्तत्राऽऽह- पदार्थबोधं परिहृत्य वाक्यं न शक्त्तमात्मानुभवावसानाम्। धियं समानेतुमपेक्षितत्वा- दतः स यत्नेन निरूपितोऽभूत्॥३०४ ॥ पदार्थेति। आत्मानुभवेति। अपरोक्षाकारामित्यर्थः ॥। ३०४ ।। अ० टी०-तर्हि पदार्थशोधनं किमर्थ कृतमिति चेन्महावाक्यशेषतयेत्याह- पदार्थबोधमिति। वाक्यमत्राखण्डे ब्रह्मात्मवस्तुनि पदार्थंबोधं परिहृत्यानुभवाबसानां ·धिय समाने तु मुक्तं यतोडतोऽपेक्षितत्वात्स पदार्थो यत्नेन निरूपितोऽभुदिति योजना ॥ ३०४ ॥ सु० टी०-कोऽसी पदार्थो यस्य ज्ञानं वाक्यार्थज्ञाने हेतुरिति तन्राSड़ह- तच्छब्दादवगतमद्वितीयमासी- त्प्रत्यक्त्वं समधिगतं त्वभित्यनेन। प्रत्यक्त्वं न खलु विना द्वितीयमेवं नादैतं भवितुमलं विना प्रतीचा ॥ ३०५ ।। तच्छब्दादिति। तथापि भेदेन ज्ञातयो: कथमखण्डार्थधीरिति तत्राSSह- प्रत्यक्तवं न खल्विति। परस्परतावन्मात्रत्वादित्यर्थः ॥ ३०५ ॥
१ क. °क्मत्रानु।
Page 347
७८२ टीकादवगसमेत- Q३ तृतीयोऽन्याय: ]:
अ० टी०-पदार्थशोधनेन, वाक्यस्य क. उपकारो जायत. इति.वीक्षायां वाक्यार्थे, सभावनैवोपकार इत्याह-वच्छव्दादिति। पदरार्थशोधने. कृते. मिथःपदार्थयोस्तादा तम्यरूपान्वयविरोध्यंशापोहेन. तच्छ्दाद्द्वितीयमवगतमासीत्तत्त्वमित्यनेन. पदेन प्रत्यक्त्व- मवगतमासीदद्वितीयतया प्रत्यड्मात्रेण च. पदद्यलक्ष्यं समधिगतमित्यर्थः । एवंसति तयो- श्वात्यन्तमेकत्वमेव, संपन्नमित्याह-प्रत्यकत्वं न खल्विति। अद्वितीयमद्वितीयब्रह्मात्मत्वं, बिना त्वमर्थस्य प्रत्यक्त्वं न खलु भवितुमलम्। प्रत्यकवं नाम सर्वान्तरत्वं तद्रह्मणो व्यावृ -: ्तस्य न निरङ्कशं भवेदिति पदार्थशोधनेन त्व्रमर्थस्य प्रत्यक्तवं सिध्यद्वह्मात्मनैव सिध्यती- त्यर्थः । एवं प्रतीचा प्रत्यक्तवेन विना न खलु तदर्थस्याद्वितीयत्वं भवितुमलं.न हि प्रतीचो व्यावृत्तस्याद्वितीयता स्यादित्यर्थः । पदार्थशोधने कृते सति तयोर्भिन्नलक्षणत्वव्युदासेनैक- लक्षणतायां संभावितायां महावाक्यात्तदैक्यावगतिसमये तदर्थस्य पारोक्ष्यं त्वमर्थस्य सद्व- यत्वं च निवर्त्यत इति, पूर्णाखण्डैकरसवाक्यार्थसिद्धिरिति. पद्रार्थशोधनमर्थवदितिः भाव: ॥ २०५.॥ सु० टी०-ननु तर्कवशादि सर्वानात्मनिरासेन वस्तु, प्रदर्शित- सेव किं पुनर्वाक्याद्धिकं भवतीति चेत्तत्ाSSह- तर्कप्रतीतिसमयेऽपि तदद्वितीयं प्रत्यक्परिस्फुरति तत्पतिबिम्बितं सत्। वेदान्तवाक्यजनिताद्यबुद्धिभमि- निष्ठं पुनः रफुदतरं भवतीति भेद: ॥ ३०६॥ तर्केति। तदिति तर्कजन्यवृत्तिप्रतिफलितम्। अद्वयेत्यखण्डाकारवृत्ता- वभिव्यक्तं ततश्च तर्कजज्ञानस्य परोक्षत्वादृपरोक्षज्ञानाय वांक्यमि- त्यर्थ: ॥ ३०६ ॥ अ० टी०-ननु तर्कवशादपि सर्वानात्मनिरासेन वस्तु प्रदर्शितं चेककि पुनस्ततो वाक्यादाधिक्यं भवेत्। नचेत्प्रदर्शितं वाक्यार्थसंभावनाऽपि ततः कुतः स्यादितिचेत्तत्राSऽह- तर्कप्रतीतिरिति। तत्प्रतिबिम्बितं तर्कप्रतीतावाविर्भूत सत्प्रत्यक्तवेन परिस्फुरति सर्वा- नात्मनिरासेनाद्वितीयप्रव्यगाकारा धीस्तर्कवशादपि जायत इत्यथः। तर्हिं वाक्यवैयर्थ्यमित्युक्तं नेत्याह-वेदान्तवाक्येति। वेदान्तवाक्यजनिता चासावद्वया च सा शुद्धभूमिश्वेति तथोक्ता तस्यां निष्ठं प्रतिबिम्बितं सन्महावाक्यजन्याद्वयाकारा याऽसंभावनादिराहित्येन शुद्धा भूमिर्बुद्धिस्तन्निष्ठं सत् रफुटतरं भवतीति शेष इत्यर्थ: ॥ ३०६ ॥.
Page 348
: ३ वृतीयोडध्यायः] संक्षेद्शारीरकम् । ७८३
सु०टी०-एतदृपि कुत इत्याशङ्य वाक्यत्केंजबुद्धयो: शुद्धि- सारतम्पादिति हक्षन्तेनाSSह- अधममध्यमशुद्धिनिरुपणे परमशुद्धिनि चाऽऽननमात्मनः । तरतमक्रमतः प्रतिभासते तदिव तत्त्वमिह प्रतिपत्तिषु॥ ३०७॥ अधमेति। प्रतिपत्तिषु बुद्धिवृत्तिषु ॥। ३०७ ॥ अ० टी०-कुत इत्थं व्यवस्थ्रेति चेत्तर्कवाक्यजन्यबुद्धेः शुद्धितारतम्यादिति हेतुम- भिप्रेत्य दृष्टान्तमाह-अधममध्यमेति। दृष्टान्तार्थः स्पष्टः । दार्ष्टान्तिकमाह- तदिवेति॥ ३०७॥ सु० टी०-तारतम्यमपि किनिबन्धनमिति चेजनकस्वभावभेदा- दित्याह- एकदेशमुपलभ्य धर्मिण- श्रवैकदेशमपरं विजानते। धर्मिधीव्यवधिकारणादतो नानुमाऽनुभवनाय वस्तुनः ॥ ३०८॥ एकदेशमिति। ज्ञातसंबन्धस्पैकदेशदर्शनादेकदेशान्तरे बुद्धिरनुमान- मित्युक्तं वृद्धैः। तथा च लिङ्गेन सामान्यव्याप्त्या पक्षे साध्यसामान्यस्य पक्षधर्मतया च तद्विशेषस्य साधनेऽपि प्रमातृव्यवहित स्यैव साधनान्ना- परोक्षता तज्जन्यबोधस्य। वाक्यं तूक्तलक्षणया केवलाकारापरोक्षधी- जनकमिति भेद इत्यर्थः ॥ ३०८॥ अ० टी०-बुद्धौ किनिमित्तं तारतम्यमिति चेज्नकस्वभावभेदादित्याह-एकदे. शमिति। एकदेशदर्शनादेकदेशान्तरे बुद्धिरनुमानमिति हि प्रसिद्धें तथा च धर्मिणः पक्षस्यैकदेशं व्याप्यावच्छिन्नं देशमुपलभ्यापरं व्यापकावच्छिन्नं प्रदेशं विजानतेऽतो धर्मि
१ ख. घ. नि दर्पणे।
Page 349
veY टीकाद्वूय समेतं- [३ तृतीयोऽध्यायः ]
इति योज्यम्। तर्को हि प्रमाणसिद्धेऽर्थे संभावनामात्रहेतुता[त्वा]स्वयं तावन्न ,प्रमाणम- तोऽप्रमाणात्तस्मान्नानुभवोत्पत्तिर्दष्टसाधर्म्येणादृष्टेऽप्यर्थे प्रतीतिमुत्पादयन्नपि व्याप्तिलिङ्गप- क्षादिधीव्यवधानेन तां व्यापकाकारामुत्पादयति । तथा च तस्याः प्रतीतेः साक्षाद्व-' स्तुसंस्पर्शित्वाभावान् ज्ञेयवस्तुयाथात्म्याकारता भवति। अतः सा धीरशुद्धेति तत्र प्रति- बिम्बितमपि ब्रह्मात्मवस्तुसत्तामात्रेण सुघुप्तिव्यावृत्तिमात्रमवभासत इति परोक्षमेव भवति वाक्यं तु लक्षणया स्वगतवृत्या केवलवृ्त्या केवलब्रह्मात्माकारामेव धियं जनयेन्नित्यापरोक्षस्य तर्कतो देहादिसंघाताद्विविक्तस्य चिद्रृपप्रत्यगात्मन एव संशोधिताद्वयब्रह्मत्वावबोधनादतो वाक्यजन्यः प्रत्ययः शुद्धतर इति तत्रैवापरोक्षसंसारनिवर्तकापरोक्षब्रह्माकारता भवतीति युक्तैव यथोक्तव्यवस्थेति भावः ॥ ३०८ ॥ सु० टी०-उक्तानुवादपूर्वकं वादान्तरमवतारयति- एवं तावत्त्वमर्थौ विशुद्धौ बोद्धव्यं चेदन्यदस्तीति पृच्छ। यदद्बुद्धं तत्तदादाय तिष्ठे- र्यच्चाबुद्धं तत्र चाऽऽधत्स्व चेतः॥ ३०९ ॥ एवं तावदिति। सहजबहिर्मुखत्वादुक्तविस्मरणं वक्ष्यमाणाग्रहणं च संभावयन्नाह -- यद्यदिति॥३०९ ।। भ० टी०-पदार्थशोधनप्रकरणमुपसंहृत्य शिष्यस्य चोद्ावसरं ददाति-एवं ताव- दिति । विशुद्धौ परागर्थाद्विविच्य निर्णीतावतः परं बोद्धव्यं चेदन्यत्किमप्यस्तीति मन्यसे तर्हि पृच्छ चित्तस्य स्वाभाविकबाहिर्मुख्यात्संभवत्यवगतेऽपि विस्मृतिरिति श्रुता- र्थाविस्मरणे यत्न आधेय इत्याह-यद्यद्बुद्धमिति। श्रुतार्थानुसंधाने लग्नचित्तत- याऽबुद्धबोधे प्रमादो न कार्यः किं तु तत्रापि कार्यमवधानमित्याह-यच्चाबुद्ध मिति ॥ ३०९॥ सु० टी०-शिष्यस्य प्रश्नमवतारयति- बुडूवा तत्त्वं पदार्थावनुभवविषयं कर्तुकामस्तदैक्यं वाक्याद्वाक्यार्थनिष्ठाच्छतिशिरसि गतादअ्सा तत्तमादेः। तच्छेषापन्नमस्मिन्श्रुतिशिरसि वचोजातमन्ययदस्ति तस्येयत्ताबुभुत्साकुलितनिजमतिःपृच्छति स्मैष भूयः ॥३१०॥
१ क. देदच्चा
Page 350
[३ तृतीयोऽध्यायः ] संक्षेपशारीरकम्। ७८५
बुद्धेति। तत्वमादेवा्यात्तदैक्यम्। अञ्जसा साक्षादनुभवविषयं कर्तु- काम इत्यन्वयः । तच्छेषेति। तदङ्गभूतावाम्तरवाक्यपरिमाणवुमुत्सुरि- स्पर्थ: ॥ ३१० ॥ अं० टी०-एवं गुरुणाऽनुंज्ञातस्य शिष्यस्य प्रवृत्तिमाह-बुद्ध्वा ततत्वंपदार्था- विति। एष शिष्यस्तत्त्वंपदार्थौ बुद्धा वाक्यार्थज्ञाननिष्ठाच्छूतिशिरसि गतात्त्त्वमादेर्वा- "क्यात्तदैक्यं पदार्थैक्यमञ्जसाऽनुभवविषयं कर्तुकामो भूयः पृच्छति स्मेति संबन्धः । वाक्यार्थज्ञाननिष्ठादित्यनन्यशेषत्वं सूच्यते। श्रुतिशिरसि गतादित्यवैदिकव्यावृत्तिः । त्त्व- मादेरित्यस्योपारी वाक्यादित्यध्याहारः । शिष्यप्रश्नप्रवृत्तौ निमित्तं कथयति-तच्छरेषाप- भ्रमिति। अस्मिञ्छूतिशिरसि वेदान्तेष्विति यावत्। शेषापन्नं महावाक्यशेषता गत मन्यदध्यवान्तरसंजितं वचोजातं वाक्यकदम्बोऽस्ति यत्तस्येयत्ताबुभुत्साकुलितनिजमतिः सन्न- वान्तरवाक्यपदेयत्तां जिज्ञासुः सन्नित्यर्थः । यद्यपि तत्पदावगतमद्वितीयं ब्रह्मेति स्थितं तथाऽपि किमात्मकं तदद्वितीयमित्यपेक्षायां सत्यज्ञानानन्दादिवाक्यात्तन्निर्णेयमिति तद्रतपदे- यत्तानिर्धारणार्थः प्रश्न इत्यभिप्रायः ॥ ३१०॥ सु० टी०-प्रश्नमेव दर्शयति- अद्याप्यवान्तरवच: परिणामबोध- वैकल्यमस्ति मम तेन महावचोऽपि। वाक्यार्थबुद्धिमनुभूतिफलावसानां नोत्पादयत्यहरहः भुतमप्यशक्कः ॥३॥ अद्यापीति। अस्तु वैकल्यं किं तत इत्याह-तेनेति ॥ ३११॥ अ० टी०-प्रश्नप्रकारमाह-अद्याप्यवान्तरेति। वैकल्यमभावस्तेनोक्तबोधवै- कल्येन महावचोऽप्यहरहःश्रुतमपीति संबन्धः । अशक्तेरितिपदेयत्तानियमाभावे साकाड़क्ष- त्वाद्यापत्तौ नियतस्वार्थबोधनासामर्थ्यादित्यर्थः ॥३११॥ मु टी०-उक्तमेव विभज्याSडह- विधिमुखेन परस्य निवेदकं वचनजातमवान्तर संजितम्। यदपि भेदनिषेधमुखेन त- ह्परिमितिं प्रतिपाद्य मेडय भो: ॥६१२॥ १ खं. ग. व. ॐ. मे प्रभो।
Page 351
७८६ टीकाद्वयसमेतें [३ तृतीथोऽंच्यायः]
विधिमुखेनेति। ज्ञानानन्दादिभावमुखेनानिषेधमुखेन निवेदकमित्यन- षङ्ग:। परिमितिमियत्तामित्यर्थः ॥३१२॥ अ० टी०-अवान्तरवच इत्युक्तमेव विभज्य दर्शयति -- विधिमुखेनेति । स्ष्टार्थ: ॥ ३१२॥ सु० टी०-गुरुरवान्तरवचरसां परिमाणें दर्शपति- सकलवेदशिरःसु परात्मधी- परवचःसुः परापरबोधतः। अपुनरुक्तपदान्युपसंहर- न्परिमितिं स्वयमेव तु वेत्स्यसि॥ ३१३ ॥ सकलेति। प्रा[प्रमा]णादिविषयं गुणोषसंहारं प्रकृते वारयति-परात्मेति। रापरेति। सगुण निर्गुणविवेकं कृत्वेत्यर्थः।। ३१३॥ अ० टी०-एवं शिष्येण पृष्टे गुरुन्यायेनावान्तरवाक्यपरिंमाणमाह-सकलवेद- शिरःस्विति। प्रथमं सकलवेदशिरःसु परापरबोधतः परविद्याविषयमिदं वाक्यमिदमपर· वविद्याविषयमिति विवेके कृते सति परमात्मधीपरवचःसु परविद्याविषयवाक्येष्वपुनरुत्तप- दानि भिन्नशाखागतान्यप्युपसंहरन्वाक्यपरिमिति स्वयमेव वेत्स्यसि वाक्यपरिमाणं त्वमेव ज्ञास्यसीति। यद्वा सकलवेदशिरःसृत्सर्गतः परमात्मधीपरवचःसु परापरभेदतोऽवान्तर- तात्पर्येणापरविद्याविषयतया भेदे सति परविद्यायामपरविद्यायां च यथायोगमपुनरुक्तपदान्यु- पसंहरन्ुभयत्र वाक्यपरिमितिं स्वयमेव ज्ञास्यसीति योजना ॥ ३१३ ॥ सु० टी०-ननु शुतैरेव पदैर्वह्मज्ञानसंमवे किमुपसंहारेणेत्याश- इंक्याSSह- अपुनरुक्तपदानि विना यतो
अपुनरुक्तपदानि ततस्तत- स्त्वमुपसंहर तत्त्ववुभ्तुत्सया ॥। ३१४॥ अपुनरुक्तेति। तत्तत्पदानुपसंहारे परिपूर्णब्रह्मावगत्ययोगादवश्यं पढ्ा- म्तरोपसंहार इत्यर्थः । फलितमाह-अपुनरुक्तेति। ततस्ततो विद्यान्त: राित्यर्थः।। २१४ ।।
Page 352
[३. वृतीयोउष्यायः ] संक्षेपशारीरकम्:।'
अ०टी०-ननु तन्न तत्र श्रुतैरेंव पदैरलं किमुपसंहारेणेति चेन्भैवं तथा सति. परिपूर्णब्रह्मावगत्यनुपपत्तेरित्याह-अपुनरुक्पदानि विनेति। निर्गुणवाक्येषु तत्व- घुभुत्सयोपसंहरेत्यर्थः । अर्थात्सगुणवाक्येषु विद्यैक्येऽवगते. सति तत्र तत्र श्रुतविशेषणाना- मव्यर्थत्वायापुनरुक्तविशेषणोपसंहार उपासनायोपसंहर्तव्य इति द्रष्टव्यम्। अस्य च. अम्थस्य निर्गणवस्तुविचारैकप्रधानत्वान्न सगुणवाक्यगतिः पृथक्चिन्त्यत. इति न.तदिह स्पष्टीकृतम् ।।३१४ । सु० टी०-उपसंहारे प्रभादं वारयितुं प्रागुक्तविवेक स्माशपति- कुरु. परापरवाक्यविवेचनं तदनुशब्दसमाहरणं कुरु। पियशिरःप्रभृतीनि च. यत्नवा- नृपचितापचितानि परित्यज ॥ ३१५॥ कुर्विति। शब्दसमाहरणं पदोपसंहारम्। परप्रकरणे भ्रूयमाणानामपि पिपशिरस्त्वादीनामुपसंहारं वास्यति-प्रियशिर इति.॥२१५॥ अ० टी०-एवमपुनरुक्तपदोपसंहारे क्रियमाणे प्रमादादपरविद्याव।क्यवर्तिपदोपसं- हारोऽपि कदाचित्परंविद्यायां. स्यात्तथा परविद्यावाक्यवर्तिनः पदस्यापरविद्यायां. तथा मा भूदित्युक्तं विभागकरणं पुनः स्मारयति-कुरु परेति। पर्वभागः स्पदार्थ: । निर्गुणवाक्येपि यत्कचिननिर्गुणवस्तुप्रतिपादनद्वारतयोक्तं परापेक्ष रूपं 'तस्य पियमेव. शिर:' [तै० २.।५ । १ ] इत्यादि तन्निर्गुणमकरणस्थमपि नोपसंहर्तव्यभित्याह- प्रियशिर इति। उपचितापचित्त्वं हि सविशेषत्वापेक्षमानन्दाभिव्यञ्जकोपाधीनामन्त :- करणवृत्तीनां प्रतिप्राण्युपचितापचित रूपत्वात्प्रियशिरस्त्वादयोऽ्व्यवस्थिता इति न.ते. ब्रह्म- स्वरूपलक्षणत्वेनोपसंहार्या इत्यर्थ: ।। ३१५.।।. सु० टी०-परित्यागे हेतुमाह- उपचितापचितानि न निर्गुणे भियशिरःप्रभृतीनि कदाचन। निपुणधीरपि कश्वन योजये- दपि तु कोशगुणाः कथिता हमी॥ ३१६ ॥
न्यूनाधिक सुखव्यक्षकत्वेनोपचितापचितानां विशेषापेक्षितत्वान्न निर्गुणे
Page 353
ठीकाछयसमेतं- [३ तृतीयोऽध्याय: ]
तत्संभव इत्पर्थः । ब्ह्मधर्मत्वामावे कथं ब्रह्मपकरणे पाठस्तताऽह- अपि तु कोशेति। तत्र कोशद्वारेण ब्रह्मणः प्रतिपाद्यत्वात्कोशधर्माः सन्तो म्रह्मतस्वबोधन उपयु्यन्ते। न ब्रह्मधर्मा इत्यर्थ: ॥ ३६६॥
यति-उपचितापचितानि नेति। निर्गुणे निर्विशेषे ब्रह्मण्युपचितापचितरूपाणां प्रियशिरःप्रभतीनां सविशेषत्वकरत्वेन विरोधादेव नोपसंहारो बुद्धिमता क्रियेतेत्यर्थः । ननु यत्र श्रुतानि प्रियशिरस्वादीनि तत्र चेत्संभवन्ति तर्हि ततोऽन्यत्रापि वैदैक्ये सति कथं न संभवेयुरिति चेन्मैवं श्रुतस्थलेऽपि तेषां ब्रह्मधर्मत्वाभावादित्याह-अपि तु कोशगुणा इति। यद्यप्येते श्रुतस्थलेऽपि न ब्रह्मधर्मा विवक्षिता अपि तु कोशधर्मा एच तथाऽपि तत्र कोशद्वारा ब्रह्मण: प्रतिपाद्यमानत्वात्कोशधर्माः सन्तो ब्रह्मण्यप्युपरज्यन्ते केवलमिति ब्रह्मधर्मत्वमेषां कृत्वा चिन्तयाड़यं प्रपथ्चः कृत इति भाव: ॥३१६॥
सु० टी०-उपसंहरति --
इति वच: परिमाणमुदीरितं विधिवच:सु निषेधगिरः शृणु। बहु निषेध्यममूष्वपि तेन ता- स्वपि समाहर पूर्ववदेध तत् ॥३१७॥ इतीति। तहिं किं समाप्ैव गुणोपसहारचर्चा नेत्याह-निषेधेति। निषेधस्य ब्रह्मस्वरूपत्वासंभवात्कथं तद्वाचकपदोपसंहार इति चेत्त- त्राSडह-बहु निषेध्यमिति। स्वरूपकारबुद्यजनक्त्वेि तद्ततत्तदाका- रारेपनिवर्तनादुपपन्नस्तदुपसंहार इत्यर्थ: ।३१७ ॥ अ० टी०-एवं विधिवाक्यपरिमाणं व्युत्पाद्य निषेधवाक्यपरिमाणं वक्तुमाह-इति वच इति। निषेधगिरां परिमाणं शृण्विति संबन्धः । विधिवच:सु तत्तदनृतादिविरोध्यर्थव्य- वच्छेदेन भावात्मस्वरूपावगतिपरेषु सत्यज्ञानानन्तानन्दपदेषु वच:परिमाणं वाक्यपरिमाण- मितीत्थमुदीरितमतः स्व्ररूपावगत्यर्थमेव विधिपदान्युपसंहरणीयानीत्यर्थः । निषेधगिर परिमाणं शृण्वित्युक्तं तत्र विधिपदेभ्यो निषेधपदानामुपसंहारे विशेषमाह-बहु निषेध्य- मिति। अमूषु निषेधगीर्ष्वपि बदु निषेध्यमस्ति। यतस्तेन तास्वपि पूर्ववदेव बिधिपदव- देव तदपुनरुक्तपदाम्तरं समाहरेति योजना। निषेधपदानां तु निषेष्यबहुत्वाननिषेघार्थमेव्ो- पसंहार: कार्य इत्यर्थ: ॥ ३१७॥
Page 354
[ १ तृतीयोऽव्याय: ] संक्षेपशारीरकम्। ७८९
स०टी०-उपसंहारविशेषं पूर्ववद्दर्शयति- अपुनरुक्तनिषेध्यनिषेधकत् बहुपदाहरणं कुरु तास्वपि। यदि पुनर्न समाहरणं भवे- त्परिमितिप्रतिषेधनमापतेत् ॥ ३१८॥ अपुनरुक्तति। नन्वेकेनैव पदेन निषेधसिद्धौ किं बहुपदोपसंहारे- णेति चेत्तत्ाSऽह-यदीति। नानाकारारोपस्येकेन निषेधासंभवादि- त्यर्थ: ।। ३१८ ।। अ० दी०-पूर्ववदेव तदित्युक्ते विवृणोति-अपुनरुक्तनिषेध्येति। तास्वपि निषेधगीर्ष्वप्यपुनरुक्तनिषेव्यनिषेधकृतां बहुपदानामाहरणमुपसंहारं कुरु बहुविशेषणा- नरिषेध्यानां बाहुल्यात्तन्तिषेधे पदानामियत्तानियमो नास्तीति द्योत्यते। निषेधवाक्येषु बद्ठ- पदानुपसंहारे दोषमाह-यदि पुनरिति। परिमितप्रतिषेधे च न सम्यग्रह्मणः शुद्धिः सिध्यतीति भाव: ॥ ३१८॥ सु० टी०-ननु विधिनिषेधोपसंहारयोः कि वैलक्षण्यं येन पृथग्वाद इति तन्ाSडह- विधिवचस्पुभयं तु पदे पदे भवति संग्रहवर्जनरूपकमू। स्वकवपुःपरिकल्पितरूपयो- र्न तु निषेधवच:सु तथा मतम् ॥ ३१९॥ विधीति। बिधिवचसि स्वकवपुःपरिकल्पितरूपयोरजडजडरुपयोरुम- पसंभिन्नमेव रूपं पढे पढ़े मवति। नतु निषेधेषु तथेत्यन्वयः । तर्हिं विधिवचस्युमयस्यापि ब्रह्मरूपत्वापत्तिस्तत्राSSह-संग्रहेति। उभयत्र
मित्यर्थः। ३१९॥
मविशेषात्कुतो विधिनिषेधविभाग इति चेत्तत्राऽह-विधिवचसीति। उभयमित्यु- क्मेव स्फुटयति-संग्रहेति। स्वकवपुःपरिकल्पितरूपयोर्यथासंख्यं संग्रहवर्जनरूपकं स्ववपुषोऽसाधारणब्रह्मरूपस्य संग्रहः साक्षात्प्रतिपादनं परिकल्पितरूपस्यानृतादिप्रपश्चशा-
Page 355
७९० टीकाछय समेतं-
बल्यस्थार्थान्निरासश्ेत्युभयं विधिवचसि पदे पदे भवति निषेधवचःसु न तु तथोभ- यार्थत्वं मतं कल्पितरूषप्रतिषेधमात्र, एव निषेधवचनसामर्थ्यादिति योजना ॥३१९॥ स० दी०-तर्हिं निषेधवाक्येष्ववं स्वी क्रियतामिति नेत्याह- यदिह किंचिदबोधसमुद्दवं तदखिलं प्रतिषेधति केवलम्। न तु किमप्युपगृह्य परे पदे भगवतो निविशेत निषेधगीः ॥ ३२० ॥ यदिहेति। तत्रामावमात्रे संगतिग्रहणादित्यर्थः ॥ ३२० ॥ अ० टी० -- न तु निषेधवचःस्वित्युक्तमेव्र स्पष्टयति-यदिह. किचिदिति। स्पधार्थ: ॥३२० ॥ सृ० दी०-विशेषकथनमुपसंहरति- इति विशेष इह प्रतिपादितो विधिनिषेधगिरोरुभयोरपि। अपुनरुक्तपदाहरणं पुन- रविधिनिषेधवच:स्वविशेर्षितम् ॥।३२१। इतीति।: अविशेषस्तर्हि कुत्रेत्याशङ्कयाSह-अपुनरुक्तेति। अविशेषितं तुल्यमित्यर्थः । ३२१॥ अ० टी०-उपपादितं विधिनिषेधवचसोरर्थविभागमुपसंहरति-इति विशेष
सु० टी०-ननु परिमितैः पदेः कथमपरिमितप्रपञ्चप्रतिषेध: स्या दिति तत्राSSह- श्रुतेपदैरुपसंहृतिशालिति- र्यदवशिष्टनिषेध्यनिषेधनम्। तदपि पूर्वभिहाभिमतं भ्रुतेः श्रुतपदान्युपलक्षणमेव हि।। ३२२॥
१. ग. शेषतः । १ क. श्रुतिप।
Page 356
[ १ तृतीयोऽभ्याय: ] संक्षेपशारीरकम्। ७९१
श्रुतपदैरिति। उपसंहृतिशालिभिर्दशितोप संहारैरित्यर्थः। ननु तैरेव
भुतान्यपि कल्प्यानि श्रुतान्येव वाSडवर्तनीयानीत्यर्थः । किमत्र मान- मिति तत्राSSह-भभिमतमिति। सजातीयविज्जातीय स्वगत मेदशून्यमात्म- तश्वं बोधयन्त्या: श्रुतेरेव तथा तात्पर्य बुध्यत इत्यर्थः ॥ ३२२ ॥ . अ० टी०-पुनर्निषेधवाक्ये विधिवाक्येभ्यो विशेषे हेत्वन्तरमाह-ध्रुतपदैरिति। निषे- धवच:सु बहुपदाहरणं कुर्वित्युक्तं वा विवृणोति-भ्रुतपदैरिति। तत्तत्प्रकरणे साक्षा- च्छूतपदैरन्यत्र श्रुतैरिहोपसंहतैश्वापुनरुक्तपदैः सह शोभमानैःसाक्षाच्छतैरुपसंहतैश्ष पदैरव- शिष्टमनिषिद्धतया बुद्धावारूढं यन्निषेध्यमनात्मरूपं तन्निषेधनं तदपि तादृगर्थनिषेधकपद- मपाह निषेधवाक्येषु पूर्वमभिमतं प्रागेवाभ्याहारेणाप्युपसंहर्तव्यम्। श्रुतौ श्रुतानि पदानि तूपलक्षणमेवानुक्तानामपि निषेध्यनिषेधकपदानां कतिपयनिर्देशस्य प्रदर्शनमात्रत्वादित्यर्थः । विधिवाक्येष्ु यावच्छूतमेवोपसंहियते तावतैव सजातीयविजातीयव्यावृत्ताखण्डस्वरूपसिद्धेः। निषेधवाक्येषु तु यावन्निषेध्यस्य निषेधकपदादर्शनान्निषेष्यान्तरे च बुद्धिस्थे तन्निषेधार्थपद- कल्पनं ब्रह्मण: सर्वानात्मविलक्षणतया सम्यग्विशुद्धये कार्यमिति तात्पर्यार्थः ॥ ३२२॥ सु० टी०-विधिवाक्येऽपि तुल्योडयं न्याय इति चेत्तत्ाSSह- समुपसंहृतशब्दसमन्वितैः श्रुतिपदैर्विधिवाक्यशतैः पुनः । समुपलेक्षणया न परात्मनः किमपि रूपभिहाप्यधिकं मतम् ॥३२३॥ समुपसंहृतेति। तत्राभ्यधिकरूपभावान्नोक्तन्याय इत्यर्थः ॥ ३२३ ॥ अ० टौ०-विधिपदेष्वेतन्न भवतीत्यत्र युक्तिमाह -- समुपलक्ष्यतयेति। सुग- भम्॥ ३२३ ॥। सु० टी० -- तत्र श्ुतपदानुपलक्ष्यं रूपं ब्रह्मणो नास्तीति कुतो ज्ञानमिति चेत्तत्राऽडह- न खलु संभ्रुतसंहृतशब्दयो- रविषयः परमात्मन इष्यते। किमपि रूपममुत्र हि नास्ति नः किमपि मानमतो न तदस्ति नः ॥ ३२४ ॥ १ ख. ग. घ. लक्ष्यतया।
Page 357
७१२ रीकाट् येसमेतं- [ ३ तृतीयोऽप्याय: ]
न खस्विति। वेदैकगम्यस्य ब्रह्मणः श्रुतोपसंहृतपदानवगम्यरूपे माना- मावान्न श्रुतिः पूरणीयेत्यर्थः ॥ ३२४ ॥। अ० टी०-कुतो न मतमित्यत आह-न खल्विति। स्वशाखास्वप्रकरणश्रुतस्य शाखान्तरात्प्रकरणान्तराद्वोपसंहृतस्य च पदस्याविषयभूतः परमात्मनोंऽशो न खल्विष्यत इति योजना। वेदैकगम्यस्य ब्रह्मणः श्रुतोपसंहृतपदावगम्यरूपव्यतिरिक्तरूपसद्धावे प्रमा- णाभावान्नाश्रुतपदकल्पनया पूरणीयत्वं विधित्राक्येष्वित्यर्थः । एतदेव प्रकटयति -* किमपीति। अमुत्र परमात्मनि श्रुतोपसंहृतपदानवगम्यं रूपान्तरं नास्ति हीति प्रसिद्धम्। कुतो नास्तीत्यत आह-किमपि मानमिति। अतः श्रुतिवचनात्परमात्मतप्रतिपादकं मानं किमप्यन्यन्नोऽस्माकं मास्तीति योजना। इदमर्पदं पूर्वपद्येन सहैकीकार्यन्॥३२४॥ सु० टी०-अन्यन्न श्ुतानां पदानामन्यत्रोपसंहारे का युक्तिरिति चेत्तन्ाSडह- गुणतया हि पदानि परात्मनो विधिनिषेधवचःस्ववतस्थिरे। गुणगणो गुणितन्त्रतया गुणी भवति यत्र हि तत्र भवत्यसौ ॥ ३२५॥ गुणतयेति। पदानां ब्रह्मावगत्वर्थत्वाद्यत्र यत्र ब्ह्म भूयते त्र तत्र तानि गच्छन्तीत्यर्थः ।। २२५।। अ० टी०-अन्यत्रोक्तपदानामन्यत्रोपसंहार्यत्वे को न्याय इति चेत्तत्राऽऽह-गुण- तयेति। गुणतया विशेषणार्थतया न प्राधान्येनेत्यर्थः । अतो यत्र गुणी प्रधानभूतोऽर्यों भवति तन्र ह्यसौ गुणगणो भवति कुतः, गुणितन्त्रतया गुणानां गुणिपरतन्त्रत्वादि- त्यर्थः ॥ ३२५ ॥ सु० टी०-उक्तोपसंहारपूर्वकमु त्तरप्रघट्टकमवतारपति- विधिनिषेधवच: परिमाणत- स्तव मया कथितं नयवर्त्मना। यदपरं तव वस्तु बुभुत्सितं तदिह नः पुरतः प्रकटी कुरु॥ ३२६॥ विधिनिषेधेति। प्रश्नमभ्यनुजानीते-यदपरमिति ॥३२६ ॥
Page 358
{ ३ तृतीयोऽध्यायः ] संक्षेपशारीरकम्। ७९३
अ०'टी८-पदोपसंहारप्रकरणमुपसंहरति-विधिनिषेधवच इति। पुनः शिष्यस्य प्रश्नावसरं ददाति-यदपरमिति ॥३२६॥ सु० टी०-गुरुणाऽनुज्ञातः पृच्छति- अन्तरङ्गबहिरङ्गसाधने भेदतः कथय तद्बुभुत्सितम्। ज्ञानजन्मन इदं जिघक्षितं हेयमेतदिति चोपपत्तिभिः ॥ ३२७ ॥ अन्तरङ्गेति। विविच्योक्ते: किं फलमिति तत्राSSह-ज्ञानेति। ज्ञानज- नमने ज्ञानोत्पत्पर्थम्। इद जिघृक्षितमुपादेयमिदं च वज्मित्युपपत्ति- भिर्चुभुत्सितं तत्कथयेति योज्यम् ॥३२॥॥ अ० टी०-गुर्वनुज्ञातः शिष्यः पृच्छति-अन्तरङ्गेति। अन्तरङबहिरङ्गयोर्भेदज्ञानं किमर्थमिति चेज्ज्ञानोत्पत्तावुपादेयहेयविवेकार्थमित्याह-ज्ञानजन्मन इति। उपपत्तिभिः कथयेत्यन्वयः ॥ ३२७ ॥। सु० टी०-अन्तरङ्गबहिरङ्गसाधनज्ञानस्य कुत्रोपयोगस्तदाह-
कार्यमेव यतिभिः प्रयत्नतः । त्याज्यमेव बहिरङ्गसाधनं यत्नतः पतनभीरुभिर्भवेत् ॥ ३२८॥ अश्तरङ्गमिति ॥३२८॥ अं०टी०-तरहि कि हेयं कि चोपादेयमिष्टं तवेति चेत्तत्राऽऽह-अन्तरङ्रमपवर्गेति। कुतस्त्याज्यं बहिरङ्गसाधनमित्मपेक्षायां यत्याश्रमविरोधादित्याह-यत्नत इति ॥३२८॥ सु० टी०-उत्तरं प्रस्तौति- उच्यते शृणु विविच्य साधनं ज्ञानजन्मनि यदूचिवान्गुरुः। अन्तरङ्गबहिरङ्गभेदतः शब्दशक्तिमनुसृत्य वैदिकीम् ॥३२९ ॥
Page 359
७९४ टीकाट्ुय समेतं- { ३ तृतीयोऽध्यायः ]
उध्यत इति। स्व्रोक्त: सांप्रदायिकत्वं प्रकटयति-यदूचिवानिति।।३२२॥ अ० टी०-गुरुराह-उच्यत इति। गुरुराचार्यः। वेदिकीं शब्दशक्तिमनुसत्येति श्रुत्युपदिष्टमार्गमाश्रित्येत्यर्थः ॥ ३२९ ॥ सु० टी-दयोविभागमाह- यच्छतं विविदिषोदयाय न- र्सर्वमेव बहिरङ्गसाधनम्। अन्तरङ्गमवगच्छ तत्पुन- र्यत्परावगतिसाधनं श्रुतम् ॥ ३३०॥ यच्छरसमिति। 'विविदिषन्ति यज्ञेन '[बृह० ४।४। २२] इत्या- दिभ्वुतमिच्छाद्वारा श्रवणादौ प्रवर्तकत्वाद्वहिरङ्गम्।' तस्मादेवंविच्छा- न्तो दान्त: '[बृ० ४१४।२३] इत्यादि । 'ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्'[बृ० ३।५।१] इति च ज्ञानसमका- लतया तत्परिपाकहेतुत्वेन श्रुतत्वादन्तरङ्गमित्यर्थः ॥३३० ॥ अ० टी०-अन्तरङ्गबहिरङ्गपोर्लक्षणभेदोक्या विभागमाह-यच्छ्तमिति। 'तमेतं चेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन [बृ० ४। ४। २२] इत्यत्र यद्यज्ञदानादिकर्मजातं विविदिषोदयाय श्रुतं तत्सवं बहिर ङ्गसाधनमेवेत्यवगच्छ। 'तस्मादेवंविच्छन्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाSडमन्येवाSSत्मानं पश्यांते'' [ बृ० ४। ४ । २३ ] श्रद्धावित्तो भृत्वाSSत्मन्येवाSSतमानं पश्येदित्यादि यत्परावगति- साधनं परमात्मज्ञानोत्पादकतया तत्परिपाचकतया च ज्ञानसहभावि यच्छान्तिदान्त्यादि श्रोतव्य इत्यादिना वेदान्तश्रवणादि च श्रुतं तत्पुनरन्तरङ्गमवगच्छेति योजना ॥ ३ ॥ सु० टी०-प्रकारन्तरेणाप्यन्तरङ्गादिलक्षणमाह- यद्धि कारकतयाऽवगम्यते दूरतस्तदिह साधनं थियः । अन्तरङ्गमखिलं तु तत्पुन- व्र्यञ्जकं भवति यत्परात्मनः ॥ ३३१॥ यद्धीति। यज्ञादिकं बुद्धिशुद्धयादिफलजनकत्वेन कारकत्वाद्वहिरङ्वं श्रवणादिकं त्वात्मस्वरूपज्ञापकत्वेन व्यअ्ञकत्वादन्तरङ्गमित्यर्थः॥३३१॥
Page 360
[३ तृतीयोऽघ्याय: ] संक्षेपशारीरकम् P ७१५
अ०टी०-विविदिषोत्पादनसाधनतया श्रतं बहिरङ्गं सीक्षादविदासहभावितया श्रुतं साधनमन्तरङ्गमिति तयोर्लक्षणमुक्त्वा लक्षणान्तरमाह-यद्धि कारकतयेति। यद्दि कारकतया श्रुतिष्ववगम्यते तदिह शास्त्रे धियों ज्ञानस्य दूरतः साधनमारादुपकारक बहिरङ्गमित्यर्थः । यत्पुनः परात्मनो व्यञ्जकं. भव्नति.साधनं तदखिलमन्तरङ्गसाधनमित्यर्थः । एतदुक्तं भवति ज्ञानोत्पत्तौ येषां कारकाणां दृष्टद्वारोपकारो न दृश्यते तानि कार- काणि यज्ञादीन्यारादुपकारकाणि बहिरङ्गसाधनानीति चोच्यन्ते येपां तु ज्ञानं प्रति दृष्टद्वारोपकारो दृश्यते तानि व्यञ्ञकानि शमादीनि तानि संनिपत्योपकारकाण्यन्तरङ्गसाध- बानि चोच्यन्त इति ॥ ३३१ ॥
कारकस्य करणेन तत्क्षणा- द्भिक्षुरेष पतितो भवेयथा। व्यञ्जकस्य परिवर्जनात्तथा सय एव पतितो भवेदसौ॥ ३३२ ॥ कारकस्थेति। तेन भिक्षोरिदिं नित्यमित्यर्थः ॥ ३३२।। अ० टी०-तत्र संन्यासिना. कारकाणि. सर्वात्मनाSवश्यं हेयानि व्यअ्जकान्यवश्य मुपादेयानि न कदाडपि हेयानीति लक्षणतो विभागकरणफलमाह-कारकस्येति॥३३२ •सु०टी०-ननु ये विविदिषन्ति ते यज्ञादिभिविद्युरिति ज्ञानसाध नत्वश्रुतेर्यज्ञादीनामप्यन्तरङ्गत्वं तुल्यमिति नेत्याह- प्रत्ययार्थविषयं हि कर्मणा मुच्यते विविदिषेयुरित्यतः ।
वेदवीचि विनियोगशासनम् ॥।३३३॥ प्रत्ययार्थेति. । विविदिषेयुरित्यस्यां वेदवाचिसन्प्रंत्ययार्थत्वेनेच्छाया: पाधान्यात्तत्साधनत्वेन यज्ञादिकर्मणां विनियोगविधानं न प्रकृत्यर्थ- ज्ञानार्थतयेत्यतो नान्तरङ्गृत्वमित्यर्थः ॥। ३३३।।
१ क. षाद्वि:1 ख. ग. वादीि।
Page 361
ugE टीका द्वय समेतं -: [ ३ तृतीयोऽष्याय: ]
अ० टी० -- यछूतं विविदिषोदयायेत्यत्र यज्ञादीनां वेदनेच्छासाधनत्वमुक्तततदयुक्तं विविदिषन्तीत्यत्रेष्यमाणज्ञानस्य कर्मत्वेन प्राधान्याद्यज्ञादिकर्मणां ज्ञानसाधनत्वप्रतीतेरिति चेत्तताऽऽह-प्रत्ययार्थेति। विविदिषेयुरिति कर्मणां विनियोगशासनं हि प्रत्ययार्थ- विषयमुच्यते। सन्प्रत्ययार्थे कर्मणां विनियोगः श्रुत्या शास्यमानो दृश्यत इत्यर्थः ॥ यत एवमतः प्रकृत्यिहितार्थे वेदने ज्ञाने वेदवादिविनियोगशासनं नास्ति वेदवादिसंमतं विनियोगशासनं नास्ति। वेदवादेति पाठस्तु ऋज्वर्थ: ॥ ३३३॥ सृ० टी०-ननु वेदनमेव प्रधानं कि न स्यादिति नेत्याह- न प्रधानमपहाय वेदने नान्वयं व्रजति कर्भ साधनम्। संगतिर्धवति वेदनेच्छया वेदनेन न तु कर्मणां क्वचित् ॥ ३३४ ।। न प्रधानमिह वेदन भवे- त्पत्ययार्थविषयां प्रधानताम्। डेत्ससर्ज भगवान्निरङकुशं येन पाणिनिरलङ्व्यशासनः ॥३३५॥ म प्रधानितिद्वाभ्याम् ।'प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्* इतिसूत्रे प्रकृत्यर्थप्राधान्यं परित्यज्य मुनिः प्रत्ययार्थप्रधानतामेव यंत उत्सृष्टवानित्यर्थः ॥ ३३४। ३३५॥ अ० टीश -- प्रत्ययार्थभूतेच्छया वेदानुवचनादीनामन्वयो न प्रकृत्यर्थेन वेदनेनेति कुतोऽवसीयत इति चेत्तत्राऽडह-न प्रधानमिति। प्रकृतिप्रत्ययौ प्रत्ययार्थ, सह . ब्रूतः प्रत्ययार्थस्तु प्राधान्येनेति न्यायात्प्रत्ययार्थस्य प्रधानत्वावधृतेः प्रधानाकाड्क्षानु- रोधेन चेतरेषामन्वयादिह प्रत्ययाभिहितां वेदनेच्छां प्रधानभ्तामपहाय त्यक्त्वा कर्मरूप प्रकृत्यभिहितेन वेदनेनान्त्रयं न व्रजति न्यायविरोधापातादित्यर्थः । उक्तमेव स्पष्टयति- संगतिर्भवतीति ॥३३४॥ अ०. टी-त्हि वेदनस्यैवास्तु प्राधान्यमिति चेन्मैवं संभवतीत्याह-न प्रधान- मिहेति। येन कारणेनाल द्ध्यशासनो भगवान्पाणिनि: प्रत्ययार्थविश्रयां प्रधानतां. निरङ्ुशं.
१क. र. नो-संसर्ज।.
Page 362
[३ तृतीयोऽघ्याय: ] संक्षेपशारीरकम्ं। ७९७
निरपवादं, यथा स्यात्तथोत्ससर्जोत्सर्गतः स्थापितवांस्ततो न वेदनमिह प्रधानं भवेदिति योजना। निरङ्कुशत्वविशेषणादस्योत्सर्गस्यापवादाभावं सूचयति ॥३३५॥ सु० दी०-नतु सन्प्रत्ययादन्यत्रैव तत्प्राधान्यमुक्तमिति नेत्याह- प्रत्यये सनि न चापवादकें किचिदप्युदितवानसौ मुनिः । येन तत्र गुणभावमुद्हे- त्प्रत्ययाभिहितमर्थवस्तु नः ॥३३६ ॥ प्रत्यये सनीति। अर्थवस्तुनो धात्वर्थस्य । ३३६ ॥ अ० टी०-उत्सर्गतः प्रत्ययार्थप्राधान्येपीह तदपवादोऽस्त्वित्याशड्क्य निरङ्कुशविशे- षणसूचितमर्थ विशदयन्नास्यापवाद इत्याह-प्रत्यये सनीति। नोडस्माकं प्रत्ययाभिहित- मर्थवस्त्वथ स्वरूपं येन तत्र प्रकृत्यर्थे गुणभावमुद्धहेत्तदपवादकं सनि प्रत्यथे किंचिदपि मुनिः पाणिनिर्नोदितवानिति योजना ॥ ३३६ ॥ सु० टी०-ननु 'धातोः कर्मणः समानकर्तृकादिच्छायां वा ' इति घात्वर्थस्य सनर्थं प्रति कर्मत्वाभिधानात्प्राधान्यमुक्तमित्यन्यत्रैव प्रत्य- यार्थप्राधान्यमभिग्रैतीति गभ्यते । तदुक्तं-'गुणभूतः प्रकृत्यर्थोऽन्यत्र स्यात्'इति। कि चैवं कमिसंबन्धोऽप्यश्रुतो न कल्प्येत विविदिषा . कामा इति। इच्छायाश्रेष्यमाणत्वमहष्टमतो वेदनमेव प्रधानमिति चेन्नेत्याह- धातोः कर्मण इत्युवाच भ्गवान्यत्पाणिनिस्तत्पुन- . धत्विर्थस्य निवेदयत्यभिमतं प्राधान्यमायुष्मतः । किं त्वार्थ न तु शब्दगम्यमवदत्तेनापि तयोक्ष्यते नोत्सर्गस्य विना निमित्तमपर संकोचनं युज्यते॥। ३३७॥ धातोरिति। आयुष्मतोऽभिमतं धात्वर्थस्य प्राधान्यमित्यन्वयः । ननु- प्राधान्यकथनादेव शाब्दत्वं स्थादिति नेत्याह-तेनापीति। आर्थप्राधा- न्येनापि योजनसंभवान्नोत्सर्गसंकोचो युक्त इत्यर्थः । किं च बह्मा- वगतिकरणत्वे यज्ञादीनां प्रमाणत्वापत्तेरन्यत्रावगतकारकस्वभावभङ्ग: स्थादित्य कामेनापीच्छैव तत्साध्याऽङ्गी कार्येति फलमुखः कमिपदाध्या- हारः। हष च कदाचिदिच्छाया अपि काम्यत्वमातुरस्य बुभुक्षोत्पादा
Page 363
७१८ टीकादूय समेतं- [ ३ तृतीयोऽन्यायः ]
र्थमोषधे प्रवृत्तिदर्शनादेवमशुद्धसत्त्वस्यापि विविदिपार्थ यज्ञादौ-प्रवृत्ति- र्नानुपपन्नेति ॥३३७ ।। अ० टी०-ननु 'धातोः कर्मणः समानकर्तृकादिच्छायां वा' इतिघात्वर्थस्य सनर्थकर्मत्वाभिधानात्सनंर्थं प्रति प्राधान्यं पाणिनिनोक्तमिति चेन्नैवमित्याह-धातोः कर्भण इतीति। आंयुष्मतस्तवाभिमतं प्राधान्यं श्रत्युक्तकर्मान्वयोपयुक्तं न वेदयति न. ज्ञापयंतीत्यर्थः। कथं तारहि तदभिधानमित्याशङ्कयाSSह-कित्वार्थमिति। तेनापीति।. अर्थेनापि प्राधान्येन तत् 'धातोः कर्मण' इत्यत्रोक्तं प्राधान्यं योक्ष्यते यत इच्छाकर्म- व्वप्रयुक्त वेदनस्य प्राधान्यमार्थभेव न शाब्दमतस्तेनाप्यार्थेन तद्योजिष्यत इत्यर्थः । शाब्दप्राधान्यानुरोधेन ह्यन्वयव्यवस्था नार्थप्राधान्यानुरोधेनेति भावः । अत इदमुत्सर्गस्य. न संकोचकं संकोचकान्तरं तु न दृश्यत इति। अपवादाभावे पुनरुत्सर्गस्य स्थितिरिति न्यायमनुसरन्नाह-नोतसर्गस्यति ॥ ३३७ H सु० टी० -- एतदेव प्रपञ्चयति- धातोः कर्मण इत्युक्षीरितमिदं साधारणं दृश्यते शब्दार्थत्वविशेषसूचकतया न ह्यन्र सूत्रे पदम्। धात्वर्थस्य तु कर्मतावचनमत्रोच्चारितं केवलं तत्वार्थेऽप्युपपय्मानमधुना नोत्सर्गपीडाकरम्॥३३८॥ धातोः कर्भण इति। सुबोधः ॥३३८॥ अ० टी०-कर्मत्वप्रयुक्तप्राधान्यस्यार्थत्वमात्रेणाप्युपपत्तौ प्रत्ययार्थप्राधान्यबाधो न.युक्त इत्युक्तं तदेव स्पष्टयति-घातोः कर्मण इत्युद्वीरणमिति 'घातोः कर्मण' इत्युक्तिरेव विशेषसूचकं पदमिति चेन्नास्यान्यथाऽप्युपपत्तेरित्याह-धात्वर्थस्य त्विति ॥३३८॥ सु० दी०-ननु प्रत्ययार्थभृतेच्छायाः प्राधान्यमार्थ प्रकृत्यर्थस्य तु. वेदनस्य शाब्दमिति विपरीतमेव कुतो नेत्यत्राSSह- इच्छायामिति सूत्रकारवचनं प्राधान्यपक्षे भवे- दिच्छार्थस्य समञ्जसं न खलु तत्सन्प्रत्ययार्थे गुणे। धात्वर्थे ननु सन्भवेदिति वदेदिच्छा गुणश्ेद्भ्रवे- दिच्छायामिति व्ति तेन वदति प्राधान्यभिच्छागतम्॥ इच्छायामिति। विपक्षे कि बाधकं तत्राSSह-धात्वर्थे नन्विति ॥३३९॥
१ क. नतु 1.
Page 364
[ ३ तृतीयोऽध्यायः ] संक्षेपशारीरकम्। ७९९
अ० टी०-इच्छाया एव प्राधान्यं शाब्दमित्यस्य तु सूचके पदमत्रास्तीत्याह-इच्छा- यामितीति। इच्छार्थस्य प्राधान्यपक्ष इच्छायामिति सूत्रकारवचनं समञ्जसं भवेत्। सन्प्रत्ययार्थे गुणेऽप्रधाने सति तत्सूत्रकारवचनं न खलु समञ्जसं भवेदिति योजना। एतदुक्तं भवति-प्रकृतिप्रत्ययौ हि गुणभूतार्थविशिष्टं प्रधानार्थं वदतो न तु गुणभूता- र्थस्य पृथग्वाच्यत्वमत इच्छायां सन्नितीच्छाया वाच्यताभिवानात्तस्या एव शब्दतः प्राधान्यं .सूत्रकारस्याभिमतमिति गम्यत इति। यदीच्छाया गुणभावः सूत्रकारस्याभिमतः स्यात्तदा ननु धात्वर्थे सन्भवेदिति ब्रूयान्न त्विच्छायां सन्निति। इच्छायां सन्निति वक्ति। अत इच्छाया एवात्र प्राधान्यं सूत्रकाराभिमतमित्यवगम्यत एवेत्युपसंहरति-धात्वर्थे नन्विति॥३३९॥ सु० टी०-किमतो यद्येवमिति तन्राSSह- तस्मात्कर्म समस्तमेव तु भवेदिच्छाजने: साधनं शास्त्रेणोक्तमतः समस्तमपि तयत्नेन हेयं यतेः । द्रष्टव्यत्वमनूद साधनतया यद्त्प्रतीचः श्रुतं वेदान्तश्रवणादिकं भवति तत्कर्तव्यमावश्यकम् ॥३४० ॥ तस्मादिति। ततोऽपि किं तत्राSऽह-अतः समस्तमपीति। यत्तु न कारकं किं तु ज्ञापकं यथा प्रतीचो दर्शनमनूद्य तत्साधनतया विहितं श्रवणादि तत्कर्तव्यमेवेत्याह-द्रष्टव्यत्वंमिति ॥३४० ॥ भ०टी०-तदेवं यज्ञादीनामिच्छायां विनियोगाद्वहिरङ्गत्वमेवेति यतेर्हेयत्वं सिद्ध- . मित्युपसंहरति-तस्मात्कर्मेति। यक्तसमस्तकर्मा यतिः किंकुर्यादिति तदाह-द्ष्ट- व्यत्वमिति। 'आत्मा वा अरे द्रष्टव्यः' [बृद्व० २ ।४ ।५] इति प्रतीच आत्मनो द्रष्टव्यत्वमनूद्य साधनतया दर्शनसाधनवेन श्रोतव्य इत्यादिवाक्यैर्यदवदान्तश्रवणादिकं श्रुतं तत्कर्तव्यमावश्यकं भवति। शमदमादिरूपनिवृत्तिधर्मनिष्टतया ज्ञाननिष्ठविरोधिव्यापारं परित्यज्य वेदान्तवाक्यार्थालोचनतत्परो भवेदित्यभिप्रायः ॥ ३४० ॥ सु० टी० -- तर्ह्यन्तरङ्गसाधनैरेवाSSत्मज्ञानसिद्धेः कि वेदान्तवाक्ये नेति चेत्तत्राSSह- वेदान्तवाक्यमिह कारणमात्मबोधे हेत्वन्तराणि परिपन्थिनिवर्हणानि। यज्ञादिकानि दुरितं क्षपयन्ति बुद्धे- स्तत्त्वंपदार्थविषयं तम उत्तराणि॥३४१ ॥
Page 365
COO टीकादय समेतं- [ ३ तृतीयोऽध्यायः ]
वेदान्तवाक्येति। वाक्यमेवाज्ञाननिवर्तकं प्रमाणत्वान्नेतरदपरमाणत्वादि- त्यर्थः। न वेदान्तवाक्यं प्रमाणं हेत्वन्तरसापेक्षत्वादिति चेत्तन्ाSSह- हेत्वन्तराणीति। विरोधिनिबर्हणेनैषायुपयोगो नेति कर्तव्यतात्वेनेत्यर्थः । सर्वेषां प्रतिबन्धनिवर्तकत्वे कुतोऽन्तरङ्गत्वादिसिद्धिस्तत्राSSह-यज्ञादि- कानीति। उत्तराणि श्रवणादीनि। ततश्र निरस्य तारतम्येन 'तत्सिद्धि रित्यर्थः ॥। ३४१ ॥ अ० टी०-ननु महावाक्यस्य साक्षाज्ज्ञानहेनुत्वमुक्तं तत्र क एषामुभयेषामनतरङ्गबहि- रङ्गरूपाणां साधनानामुपकारः । न ह्यकर्तव्यस्य वाक्यस्येतिकर्तव्यतयैषामन्वयोऽपि युक्त इति चेत्तत्र परिपन्थिनिबर्हणतयैषामुपकारो महावाक्येषु नेतिकर्तव्यतयेत्याह-वेदान्त- वाक्यमिहेति। हेत्वन्तराणि यज्ञादिकानि श्रवणादिकानि चेयर्थः । तत्र बहिरङ्गाणा- मन्तरङ्गाणां च निरस्यं प्रतिबन्धं विभज्य कथयति-यज्ञादिकानीति। उत्तराणि श्रवणान्यन्तरङ्गाणीत्यर्थः ॥ ३४१॥ सु० टी०-ननु चिन्मात्राश्रयविषयमज्ञानमेकमेव वाक्यार्थज्ञान-
पूर्वोत्तरविरोध इत्याशडक्याSSह- तत्त्वंपदार्थविषयं तम इत्यपीद- मर्वागवस्थजनदृष्टिमपेक्ष्य गीतम्। अज्ञानमुत्तमदशां पुनरेकभेव संसारमूलमपवर्गफला च विद्या॥ ३४२॥ तत्वंपदार्थेति। स्थूलदृष्चपेक्षयैव तदुक्तमित्यर्थः ॥ ३४२॥ अ० टी०-ननु चिन्मात्राश्रयविषयमेकमेवाज्ञानमिति पूर्व प्रतिष्ठापितं तत्कथमिदानी चाक्यार्थज्ञाननिरस्यप्रत्यगज्ञानव्यतिरेकेणान्तरङ्गसाधननिरस्यं तत्त्वंपदार्थविषयमज्ञानं पृथ- गुच्यत इति चेत्सत्यं यत्प्रागुक्तं तत्तथैवेदं तु स्थूलदृष्टयोच्यत इत्याह-तत्त्वंपदार्थेति। अर्वागवस्थजनः सम्यगविदित पदार्थतत्त्तव्रः उत्तमदशां विदितपदार्थत्त्व्रानां बुद्धिमपेक्ष्पे त्यनुपङ्गः । अपवर्गफलां च विद्याऽप्यैकेवरेति योज्यम् ॥ ३४२॥ सु० टी०-ता निवत्याभावाच्छरवणादिवेयथ्यमिति चेत्तताSSह- अज्ञानसंशय विपर्यय रूपकाणि बह्मात्मबुद्धिजनकपति ब न्ध का नि ।
Page 366
[ ३ तृतीयोडध्याय: ] संक्षेपशारीरकम्। ८०१
तत्वं पदार्थविषयाणि निवर्तयन्ति ह्यावृत्तिमन्ति मननश्रवणादिकानि ॥ ३४३॥ अज्ञानेति। ब्रह्मात्मधीप्रति बन्धकाज्ञानादीन्येव तथात्वेनोक्तानि तान्येव निव्त्यानीत्यर्थः । तर्हि अ्रवणानन्तरमेव ज्ञानं स्यात्तत्ाऽऽह- आवृत्तिमन्तीति। अवघातादिव द्द्दट्टफ लत्वा द्ा फ लोद् य म वर्तितान्येव ज्ञान- जनकानि तार्नीत्यर्थः ।। ३४३ ।। अ० टी०-तर्हि तत्त्वंपदार्थविषयं तम इति किमुक्तं तदाह-अज्ञानसंशयेति। तत्त्वंपदार्थविषयाण्यज्ञानसंशयविपर्ययरूपकाणीति संबन्धः । मननश्रवणादिकानीत्यत्रापि तत्त्वंपदार्थविषयाणीति संबध्यते। पदार्थविषयमज्ञानादीह तमो विवक्षितमित्यर्थः ॥३४३॥ सु० टी० -- कीहशं पुनः श्रवणदीनां स्वरूपमिति तत्राSSह- शब्दशक्तिविषयं निरुपणं युक्तितः श्रवणमुच्यते बुधैः। वस्तुवृत्तविषयं निरुपणं युक्तितो मननमित्युदीर्यते ॥३४४ ॥ शब्दशक्तीति। एतच्च तात्पर्यस्याप्युपलक्षणं युक्तितो ब्रह्मणि भ्रुतेः शक्तितात्पर्यावधारणमित्यर्थः । वस्तुवृत्तेति। श्रुतवस्तुनो युक्तिभि: स्थिरी- करणमित्यर्थः ॥। ३४४॥ ·अ० टी०-कानि तानि श्रवणादीनीत्यपेक्षायां तःस्वरूपं दर्शयति-शब्दश- कीति। शक्तिग्रहणं तात्पर्यस्याप्युपलक्षणम्। युक्तितो निरूपणमित्युभयत्र निरूपणपदा- न्वयः ॥ ३४४ ॥ सु० टी०-निदिध्यासनमाह -- चेतसस्तु चितिमात्रशेषता ध्यानमित्यभिवदन्ति वैदिकाः ।
तस्कुरुष्व परमात्मबुद्धये।। ३४५॥ १०१
Page 367
८०२ टीका द्वय समेतं- [ ३ तृतीयोऽध्याय: ] चेतस इति। वाक्योत्थबुद्धिवृत्तेर्ब्रह्मतावन्मात्रतापादनं ध्यानमित्वर्थः। शमादीनामेष्वेवान्तर्मावादेतदेव त्रिकमन्तरङ्गसाधनमित्युपसंहरति- अन्तरङ्गमिति ॥३४५॥
त्तेर्या चितिमात्रशेषता यत्नेन ब्रह्मतावन्मात्रतयाऽवस्थितिस्तध्यानमित्यर्थः । शमदमादीनाम- स्मिन्नेव त्रिके विनाऽन्तर्भावादिदं त्रिकमेवान्तरङ्गसाधनं प्रधानमनुष्ठेयमित्याह-अन्तरङ्ग- मिद्मिति॥३४५॥ सु० टी०-निदिध्यासने प्रकारान्तरमाह- श्रवणमननबुद्धयोर्जातयोर्यत्फलं त- न्निपुणमतिभिरुच्ैरुच्यते दर्शनाय। अनुभवनविहीना यैवमेवेति बुद्धि: श्रुतमननसमानौ तन्निदिध्यासनं हि॥३४६ ॥ श्रवणेति। किं तदित्याह-अनुभवनेति। वाक्यजब्रह्मानुमवव्यतिरिक्ते* त्यर्थ:। तेन यथा यागेऽनुष्ठिते स्वर्गोऽवश्यंभावीत्येवं श्रवणाद्यनन्तरं स्वयमेत्रमेवेति निश्चयरूपा बुद्धिर्या जायते तन्निदिध्यासनमित्यर्थः । दर्शनाय या बुद्धिरित्यन्वयः। तदुक्तं'अपरायत्तबोधोऽत निदिष्पासन सुच्यते'इति ॥ ३४६॥ अ० टी०- निदिध्यासने पक्षान्तरमाह-भ्रवणमननेति । आदरनैरम्तर्यपूर्वकमनु- ष्ठितश्रवणमननबुद्ध्योजांतियोः सम्यङ्निष्पन्नयोर्यत्तक्किमपि फलं तन्निदिध्यासनमिति हि निपुणमतिभिर्दर्शनाय साक्षात्काराय दर्शनसाधनत्वेनेति यावदुच्ैरुच्यत इति संबन्धः ।किं तत्फलमिति तसस्वरूपमाह-अनुभवनेति। श्रुतमननसमाप्ताधनुभवनविहीनैवमेवेति या बुद्धिः सा श्रवणमननबुद्धयोः फलमिति योजना। अनुभवनविहीना साक्षादनुभवरहितेद- मित्थमेवेति परोक्षनिश्वयरूपा बुद्धिरित्यर्थः। पूर्वोक्तं निदिध्यासनं समाधिरूपं पृथगनुष्ठेय- मिदं तु श्रवणमननानुष्ठानव्यतिरेकेण नानुष्ठेयं तयोरेव सम्यगनुष्ठानादेवमेवेति बुद्धेरप्रयत्ने- नोद्धवादित्येष विशेष:। इत्थं वा योजना श्रत्णमननबुद्धयोर्जातयोर्यतकलं कार्य तन्निपुणमति- भिर्चैदर्शनाय साक्षादनुभवनिमित्तमुच्यते न तदतिरिक्तं निदिध्यासनं नामास्तीति कि तच्छवणादिबुद्धिफलं तदाह-अनुभवनेति। हि यस्माच्छूतमननसमात्तौ श्रवणमननयोः सम्यडूनिवृत्तौ या तद्विषयैवमेवेति बुद्धिः किलक्षणर अनुभवनविहीना साक्षाकारत्वरहिता परोक्षनिश्चयरूपा तन्निदिध्यासनं तस्मान्न पृथगनुष्टेयं तदस्तीति ॥३४६ ॥
Page 368
६३ तृतीयोऽध्याय: ] संक्षेपशारीरकम् ॥
सु० टी०-फलितमुपसंहरति- पूर्वाण्यदृष्टपरिपन्थिनिबर्हणानि दृष्टं हरन्ति च विरोधिनमुत्तराणि। वाक्यं निरस्तसकलप्रतिबन्धकं स- दात्मानमद्दयमखण्डमबुद्दमाह॥ ३४७॥ पूर्वाणीति.। हरन्तु ततः किमित्यत्राऽऽह-वाक्यमिति॥३४७॥ अ० टी०-तदेवमन्तरङ्गबहिरङ्गसाधनानां: ज्ञानोदयपरिपन्थिनिबर्हणत्वमेव वेदान्तम हावाक्यमेव केवलं मोक्षफलज्ञानसाधनमित्युपसंहति-पूर्वाण्य दृष्टेति। अबुद्धमज्ञातमा- न्मानमखण्डमद्वयमाहेति. संबन्धः ।. अज्ञातमद्दयमखण्डमातमानमाहेति वा ॥ ३४७.॥ सु० टी० -- एवमनुष्ठितान्तरङ्गसाधनस्य संन्यासिनः किमिहैष जन्मनि विद्या कारीरीफलवदुतान्यत्र स्वर्गवदुतानियमश्चित्ाफलव- विति तत्र नाऽऽद्यः कृतश्रवणानामप्यत्रादर्शनान्नापरः केषाचिदिहैव विद्यादर्शनान्नान्त्यो मानाभावादिति चेत्तत्राSSह- यज्ञादिक्षपितसमस्तकल्मषाणां पुत्रादित्रयगतसङ्गवर्जितानाम्। संशुद्धे पद्युगलार्थंतत्व्रमागे प्रायेणोद्भवति हि जन्मनीह विद्या ॥ ३४८॥ यझादीति। साधनसाद्गुग्यादित्यर्थः॥ ३४८॥ अ० टी०-एवमुक्तान्तरङ्गसाधननिष्ठस्य. संन्यासिन: किमस्मिन्नेव जन्मनि विद्योत्पत्तिः किं वा जन्मान्तरेऽपीति वीक्षायामाह-यज्ञादिक्षपितेति। इह. जन्मनि पूर्वजन्मसु वा कृतयज्ञादीति योज्यम् 'अनेकजन्मसंसिद्धस्ततो याति परां गतिम्' [गी० ६। ४५] बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते' [गी० ७।१९]. इतिभगवद्दच- नात्। पुत्रादित्रयेत्याद्यस्मिन्नेव जन्मनीति ज्ञेयं त्यागादेरन्तरङ्गवात्। एतानि त्रीणि साधनानि क्रमेण हेतुहेतुमद्धावेन यस्य सम्यग्जातानि तस्येह जन्मनि यस्मिञ्जन्मनि अ्रवणादिपौष्कल्यं तक्मिन्नेव्र जन्मनि प्रायेण विद्योङ्गवति ।. प्रायणेतिबलवत्पतिबन्धका- भाव इत्यर्थ: ॥ ३४८॥
Page 369
टीकाद्वय समेतं- [ ३ तृतीयोऽध्यायः ]
सु० टी०-प्रायेणेत्युक्तमेव प्रपञ्चयति- अत्रैव जन्मनि भवेदपवर्गदायि वाक्यप्रसूतमनुभूतिफलावसानम्। ज्ञानं निवाकरनिमित्तवशादमुष्मि- अ्ञन्मन्यपीति वचनादवगम्यते हि॥ ३४९ ॥ अत्रैवेति। वाक्यप्रसूतं ज्ञानमपवर्गदायि भवेदित्यन्वयः। तत्र हेतुमाह- निवारकेति। ज्ञानप्रतिबन्धकविमित्तानुरोधेन। तच्चेन्नास्तीत्यर्थः । अमु- ष्मिन्नपीत्यत्र किं मानं तत्राSSह-वचनादिति ॥३४९।। अ० टी०-उक्तमेवार्थ स्पष्टयति-अत्रैवेति। अपवर्गदायीत्यादिविशेषितं ज्ञानम- त्रैव जन्मनि भवेन्निवारकनिमित्तोदयाभावे सतीव्यर्थात्। निवारकनिभित्तवशा्त्वमुष्मिन्षपि जन्मि भवेत्संपन्नसाधनपौष्कल्यस्य ज्ञानजन्मावश्यंभावि नात्र संशयः कार्य इत्यभिप्रायः । ननु कृतेऽपि चेतसाधने फलं न दृश्यते तर्हि जन्मान्तरे भविष्यतीति का प्रत्याशेतिचेन्न वेदवचन प्रामाण्यात्तत्संभावनोपपत्तेरित्याह-वचनादिति ॥३४९॥ सृ० टी०-कि तद्चनमिति तत्राSSह- ज्ञानोत्पत्ति वामदेवस्य गर्भे श्रत्वा विद्यः साधनं प्राच्यमस्य।
विज्ञातव्यं साधनं प्राच्यमस्य॥ ३५० ॥ ज्ञानोत्पत्तिमिति। गर्भ एवैतच्छयानो वामदेव एवमुवाच' [ ऐत० ५। ४ ] इत्यादिश्रुतेस्तदानी च साधनानुष्ठानासंभवादित्यर्थः । योगेति । 'पार्थ नैवेह नामुत्र' [गी० ६।४० ] इत्यादिभगवद्वचनादृपी- त्यर्थः ॥ ३५० ॥ अ०टी०-वचनमेवोदाहरति-ज्ञानोत्पत्तिमिति। गर्भ एवैतच्छयानो वाम- देव एव मुवाच [ऐ० २। १।५] इति वामदेवस्य गर्भे ज्ञानोत्पत्ति श्रुत्वाउस्म वामदेवस्य प्राच्यं प्रा्जन्मकृतं साधनं विद्यः। अकारणकार्योतपत्त्यसंभवाद्गर्भस्थस्य च साध- नानुष्ानासंभवादित्यर्थः । तत्रैव स्मृतिमुदाहरति-ययोगभ्रष्टेति। 'पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते। नहि कल्पाणकत्कश्चिद्दर्गति तात गच्छति' [गी० ६।४०]
Page 370
[ ३ तृतीयोऽच्यायः ] संक्षेपशारीरकम्। COu' इति भगवद्गीतावचनावष्टम्भतोऽ्यस्य वामदेवादेः प्राच्यं तत्साधनं ज्ञातसाधनं संपन्नमिति ज्ञातव्यमित्यर्थः ॥ ३५० ॥ सु० टी०-नन्वनियतफलत्वे श्रवणादीनामपि सकृदनुष्ठानं स्पादिति तन्नाSडह- चित्रादिवन्भवति साधनजातमस्य ज्ञानपसूतिकरमित्यवगच्छ सर्वम्। अभ्यग्रशुष्यदखिलौषधिकस्य पुंसो वृष्टिप्रदेष्टिरधिकारवशादिहैव॥ ३५१॥ चित्रादिवदिति। अनियतफलत्वे दषान्तो न सकृदनुछठाने। दष्टार्थत्वा- च्ान्नाऽडवृत्तिरित्यर्थः । तार्हिं कारीर्यािरप्यनियतफलत्वं कुतो नेति तत्रSSह-अभ्यग्रेति। कारीरीवाक्यशेषे यस्योषधयो म्लायन्तीति श्रव- णादित्यर्थः ॥। ३५१ ॥ अ० टी०-ननु दृष्टफलानां श्रवणादीनां कालान्तरफलत्वमयुक्तं कृष्यादिवदिति चेन्नैष दोषः। औषधोपयोगादीनां दृष्टफलानामप्यवान्तरव्यापारद्वारेण कालान्तरीयफतत्वदर्शनात्। तथाऽपि जन्मान्तरफलत्वं न दृष्टमिति चेत्सत्यमन्वयव्यतिरेकाभ्यां न दृश्यते तथाऽपि शास्त्राद्यथोक्तादवगम्यत एव श्रवणादीनां विहितत्वात्कालान्तरेSपि तेषां फलहेतुत्वं कल्पनीय.
पशुकाम:' इत्यादीनां पश्वादिफलमुत्सर्गत इहैव प्रतिबन्धात्तु जन्मान्तरेऽपीत्यम्युपगम्यते तद्वदेवमपि द्रष्टव्यमित्याह-चित्रादिवदिति। यदि विहितत्वादस्मिञ्जन्मनि फलदर्श- नेड़पि जन्मान्तरे फलं भविष्यतीति कल्प्यते तरहिं कारीयां कृतायामि कदाचिद्वष्टयदर्शने जन्मान्तरे फलं कल्प्येत्तेति चेन्नेत्याह-अभ्यग्रशुष्यदिति। अभ्यम्रं सांप्रतं शुष्यन्त्य- खिलै।षधयो यस्य तथोक्तस्तस्य पुंसो विहिता वृष्टिप्रदेषटिः कारीर्याख्याडिकारव रादिहैव फलवतीति युक्तमिति योजना। कारीरीवाक्यशेष ओषवीनां म्लायमानत्वश्रवणादभ्यग्रशुष्य- त्सस्यसंजीवनकामस्य कारीरीविधानात्सामान्यतो वृष्टिमात्रस्य यदा कदाचिद्धवत उद्देशेन विधानाभावादैहिकाधिकारत्वादिहैव तत्फलेन भवितव्यं कदाचित्तत्र फलादर्शने साधन- वैकल्यमेव कल्पनीयं ज्ञानसाधनं तु न तथा किं तु चित्रावत्कालान्तरीयफलमपि सिध्य- तीति भाव: ॥ ३५१ ।।
Page 371
८०६ टीका दवय समेतं- [[ ३ तृतीयोऽव्यायः ]
सु० टी०-नन्वन्तरङ्गबहिरङ्गसाधनयोरतुष्ठाने किमिति कर्तव्यता विशेष: कश्विदस्ति किं वा नेति तत्राSSह- बहिरङ्गसाधनमशेषगुरोः परमेश्वरस्य चरणाम्बुजयोः । नियमात्समर्पितमशेषमघं विनिहन्ति बुद्धिनिलयं सुमहत् ॥ ३५२ । बहिरङ्ेति। नियमादिति। फलासङ्गहानेन । यज्ञादिषु मगवत्समर्पणमु- स्कर्षकारणभित्यर्थः ॥। ३५२।। अ० टी०-अन्तरङ्गमहिरङ्गसाधनयोरनुष्ठाने किमिति कर्तव्यविशेष: कश्विदस्ति किं वा नास्तीति विवक्षायामाह बहिरद्रेति। बुद्धिनिलयमिति बुद्धिगताभासाविविक्तजी- वनिलयमिति यावत्। नियमादिति कर्मणि कर्तत्वाभिनिवेशं फलासकि च हित्वा केवलं यज्ञात्मकस्य नारायणस्य तत्तदेव्रतादिरूपेणावस्थितस्य समाराधनरूपमिदं कर्म करिष्य इति प्रारम्भे श्रीमन्नारायणे भगवति सकारकं सफलं चेदं कर्मास्तु। इदं यथोक्तं कर्म कृंतं नारायणार्पणमस्विति वाऽन्ते च संकल्परूपो नियमस्तस्मान्नियमात्समर्पितमित्यर्थः। अत्राSS- द्यशब्देनाऽत्मतत्त्वजिज्ञासोदयप्रतिबन्धकं स्वाभाविकं सकलमेत्र कर्म विवक्ष्यते ॥ ३५२ ॥ सु० टी०-किमन्तरङ्गेष्वप्येवं नेत्याह- न तथाऽन्तरङ्गमुपलब्धिजने- रुपकारकं शमदमप्रभति। तदनुष्ठितं परमहंसजनैः परमात्मतत्त्वमुपलम्भयति ॥ ३५३ ।। न तथेति। परमहंसानुष्ठितत्वमेव तत्रोत्कर्षकरं न तु हरिसमर्पण- मित्यर्थः ॥ ३५३॥
तननास्तीत्याह-न तथेति । शमदमप्रभति यदन्तरङ्गमुपलब्धिजनेरीश्वरत्वज्ञानोत्पत्ते- स्तथा बाहरेङ्गवदूरगतं सन्नोपकारकं किंतृत्पत्तित एव साक्षात्त्त्वज्ञानसाधनमतो न तत्र घरमेश्वरार्पणगुणयोगोऽपेक्ष्यत इत्यर्थः। तर्हि कि कोउप्युत्कर्षहेतुरत्र नास्त्येव न किं त्वन्यदेवात्र परमहंसकृतत्वमुत्कर्षहेतुरस्तीत्याह-तद्नु्ठितमिति। अन्राधिकारिवि- शषकृतत्वमुत्कर्ष इत्यर्थ: ॥ ३५३ ॥
Page 372
[ ३ तृतीयोऽध्याय: ] संक्षेपशारीरकम् ।
सु० टी०-एवंविधविभागे कि मानमिति तत्राSSह- भगवाननादिनिधनः कपया हरिरेव तदाह जगदेकहितः । सकलं समर्ष्य मयि युक्तमना: कुरु कर्म शुद्धिकरमित्यसकत् ॥ ३५४ ॥ न तथाऽन्तरङ्गफलसंन्यसनं क्चिदूचिवानत इति विदितम्। अनपेक्ष्य तत्फलपरित्यजनं परमात्मनिश्वयफलं तदिति ॥ ३५५ ॥ भगवानिति द्वाभ्याम्। 'मयि सर्वाणि कर्माणि संव्यस्य [गी० १८। ५७]'मच्चित्तः सततं मव । मदर्थमपि कर्माणि' [गी० १८। ५७ ] इत्यादिभिरित्यर्थः । नन्विद्मन्तरङ्गेऽपि. समानमिति नेत्याह-न तथेति। इदं विदितमित्युक्तमेध दर्शयति-अनपेक्ष्येति॥३५४-३५५।। अ० टी०-बहिरङ्गेषु भगवत्समर्पणगुणविधाने प्रमाणमाह-मगवानिति। 'मयि सर्वाणि कर्माणि संन्यस्पाध्यात्मचेतसा। निराशीर्निर्ममो भूत्वा युध्यस्त्र बिगतज्वरः ॥' [गी० ३ । ३० ] 'यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः'॥ [गी० १८।४६] मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि' [गी० १२। १०] इत्येवमसकृद्गगवा- नाहेत्यत एतादशं भगवद्गीतावाक्यमिह प्रमाणमित्यर्थः ॥ ३५४ ॥ अ० टी०-एतदन्तरड्गेSपि समानं कि न स्यादिति चेन्नेत्याह-न तथाऽन्त- रङ्गेति। कि विदितं तदाह-अनपेक्ष्पेति। परमात्मनिश्चयफलं तदन्तरङ्गसाधन मिति यतोSतस्तत्फलपरित्यजनमनपेक्ष्य तदनुष्ठेयं परमपदं सुजनैरिति विदितमिति योजना। अन्तरङ्गसाधनानां यज्ञादिवत्फलान्तराभावात्तत्त्वविज्ञानं प्रति व्यवधानाभावाच् न तेषु फलत्यागेश्वरसमर्पणगुणयोगापेक्षाऽस्यतो न समर्पणवचनं साधारणविषयं किं तु बहिरङ्ग- विषयमेवेति भावः ॥ ३५५ ॥
Page 373
टीकाद्वगसमेतं- [ ३ तृतीयोऽव्याय: ]
सु० टी०-युक्त्याSप्येवं विभाग इत्याह- अपि च बन्धनहेतुतया श्रुतं समसमीक्षणकौशलशालिनः। भवति शुद्धिकरं न च बन्धक- न्वति कर्म तथा घटते हि तत् ॥ ३५६॥ अपि चेति। बन्धहेतुतया देहेन्द्रियसंबन्धोपभोग्यफलहेतुतया श्रुतं यज्ञादि मवतु कर्म तथापि समसमीक्षणकौशलशालिन: समदृष्टेरशुद्धि- रूपफलकामनापरिहारेण मगवदर्पणबुद्धचाऽनुतिष्ठतः शुद्धिकरं भवति न बन्धकृदित्यर्थः । कथं बन्धकस्व्रभावस्य तद्वैपरीत्यं तत्राऽ्Sह-तथेति। यथा केवलस्य दध्नो ज्वरहेतुत्वेऽपि मधुसंवलितस्य तस्य पुष्टिहेतुत्वं तथैतद्पि बाध्येषु युक्तमित्यर्थः ॥ ३५६॥ अ० टी०-न्यायतोऽप्येवमेव युक्तमित्याह-अपि चेति। बन्धनहेतुतया स्वभा- वतोSनात्मरूपफलप्रदत्वेनाSSत्मनः संसारबन्धहेतुतया श्रुतं यत्कर्मजातं तत्समसमीक्षण- कौशलशालिनः समस्य ब्रह्मणः समीक्षणं ज्ञानं तस्मिन्कोशलं तदुदयविरोध्यर्थपरित्यागेन तदुत्पत्त्यनुकूलसाधने निष्ठा तद्वतः पुंसस्तच्छुद्धिकरं भवतु। न च बन्धकृद्धवति कर्मेति तद्वहिरङ्गसाधनं तथा भगवत्समर्पणादियोगि घटत एवेत्यर्थः। स्वतोऽशुद्धानां कर्मणामशु- द्विकत्वांशपरिहारेण शुद्धत्वं भगवत्समर्पणवशादिति युक्तमिति भावः ॥ ३१६ ॥ सु० टी०-नन्वन्तराङ्गाणामपि तुल्यमशुद्धत्वं क्रियाकारकररूपावि- शेषादिति नेत्याह- यदिह साधनमात्मधियः श्रुतं न च फलान्तरहेतुतया श्रुतम्। शमदमादिकमत्र तु कौशलं किमपि काङ्क्षितमस्ति न सिद्धये॥ ३५७॥ यदिहेति। एषां ज्ञानहेतुत्वेन बन्धाहेतुत्वात्परमसात्विंकत्वेन शुद्धत्व- मित्यर्थः॥३५७।। अ० टी०-नन्वन्तरङ्गसाधनानामपि तुल्यमशुद्धत्वं क्रियाकारकरूपत्वाविशेषादिति चेन्नेत्याह-यदिह साधनमिति। अक्षरार्थस्वतिरोहितः। अन्तरङ्गसाधनानां बन्ध-
१ म. सकलमी। २ क, वतु शु'। ३ क, वतुक।
Page 374
[ ३ तृतीयोऽव्याय: ] संक्षेपशारीरकम्।
हेतुत्वानवगमात्सम्यग्ज्ञानहेतुत्वावगमाच्च परमसास्त्रिकतया स्वतः शुद्धत्वनवसीयत इति नात्राशुद्धिशक्केति भावः ॥ ३५७ ॥ सु० टी०-साधनोक्तिमुपसंहरति- उक्तें साधनजातमत्र सकलं विद्यासमुंत्पत्तये यस्मिन्कर्मणि वैदिकेन विधिना नुन्नः परिव्राजकः । कर्तृत्वायुपमर्दनेन भवता विद्यानुकूलात्मना कर्तव्यं तदशेषतस्तदनु ते विद्या विपाकं ब्रजेत्॥३५८॥ उक्तमिति। नुन्नः प्रेरितस्तेन परिवाजकस्यात्राधिकार उक्तः । ततः कि तत्राSऽह-भवतेति। कर्तृत्वादीति शेषिविरोधपरिहारायोक्तम् । युक्तिमिस्तदनुपमर्दने ह्यकत्रात्मानुभवरूपविद्याप्रतिबन्धान्न तद्विपाकः स्थादिति ॥३५८॥ अ० टी०-अध्यायार्थमुपसंहरति-उक्तं साधनजातमिति। अत्र तृतीयाध्याये सकलमन्तरङ्गबहिरङ्गरूपं विद्यासमुत्प त्तयेSपेक्षितमुक्तमिः्युपसंहारवाक्यान्वयः। एतचोक्तं साध- नजातं कर्तृत्वादिबुद्धिराहित्येन कर्तव्यमविक्रियब्रह्मात्मविद्योदयाय तत्परिपाकाय चान्यथा
यज्ञादिकर्मचोदनाविषये भाविनीं वृत्तिमाश्रित्य शमादिचोदनायां तु साक्षादिति द्रष्टव्यम्। नुनः प्रेरितः । अशेषतः सर्वमेव्रेति यावत् । तदनुसम्यकसाधनसंपत्तिसमनन्तरं ते तव विद्या विपाकं व्रजेत्फलपर्यन्ता भविष्यतीत्यर्थः। विपाकग्रहणमुत्पत्तेरप्युपलक्षणम्। यद्वा परिव्राजकस्यान्तरङ्गानुष्ठाननिष्ठायां विशेषमाह-पस्मिन्कर्मणीति। शमादियुक्ते वेदा- न्तश्रवणादावित्यर्थः । अत्र परित्राजकग्रहणं यथार्थमेव्र । समानमन्यत् ॥ ३५८॥ सु० टी०-यदि परिव्ाजकानुश्तिस्थैव श्रवणादेविद्यापरिपाकहेतुत्वं तदा वानप्रस्थाद्यनुष्ठितस्य वैयर्थ्य स्यादिति तत्राSSह- वानप्रस्थगृहस्थनैष्ठिक जनैरन्यैश्र वर्णाश्रमैः कर्मव्यध्वनिषेवितं भवति वै जन्मान्तरे पाचकम्। विद्यायाः श्रवणादिलक्षणमिद न ह्वोतदेषां क्वचि- च्छास्त्रेण प्रतिषिद्धमीक्षितमिदं शूद्रस्य इृष्टं यथा ॥३५९॥
१ क्त. र मछिद।
Page 375
टीकाटय समेतें- गृ ३ तृतीयोऽध्यायः ]
अनप्रस्थेति। यतस्तेषां श्रवणाद़िकर्म विमागासेवितें भवंति संन्यास- रूपाङ्गामावात्ततो जन्मान्तरे पारमहंस्याश्रमे फलपर्यन्तं भवतीत्यर्थः। तारहै तेषामधिकारे कि मानमिति चेसत्SS-न हीति। हष्टफलत्वा- त्सामान्यतः प्राप्तोऽधिकारः प्रतिषेधादयोग्यः स च नैषामस्ति यथा शूदस्येत्यर्थः ॥ ३५९ ॥ अ० टी०-नुनः परिव्राजक इति शमादियुक्तश्रवणादौ परिव्राजकस्याधिकर उक्तो न. केवलमस्यैवाधिकारः किंत्वन्येषामपि त्रैवर्णिकानामस्त्यत्राधिकार इत्याह-वानप्रस्थेति। कर्मव्यध्वति। कर्मविरुद्धमार्गरूपम् । यद्वा कर्ममार्गमध्ये वानप्रस्थादिभिर्निषेवितं श्रवणमिदं यज्जन्मान्तरे विद्यायाः पाचकं भवतीति योजना। एतेषां ब्राह्मणरूपजन्मान्तरे पारमहं स्याश्रमप्राप्तौ फलपर्यन्ततां भवतीत्यर्थः । कुत एषामप्यत्राधिकारप्राप्तिरिति चेतप्रतिषे- धादर्शनादेवेत्याह-न'ह्येतदवेषामिति। यथेदं शूद्स्य प्रतिषिद्धं दृश्यते तथैतच्छूवणा- देषां वानप्रस्थादीनां न कचिच्छासत्रेण प्रतिषिद्धमीक्षितमस्ति। अतो दृष्टफलत्वादेव सर्वेषां सामान्यतोऽधिकारप्राप्तौ प्रतिषेधादेव तदपवादो युक्तो यथा शूद्रस्य वेदाध्ययनादिप्रतिषेदर्श- नादध्ययनादयपवादः । न चैपां तथा श्रवणादिनिषेधो दृष्ट इति प्रतिषेधाभावमात्रेण :प्राप्ताधिकारस्थितिरित्यर्थः ॥ ३५९ ॥ सु० टी०-ननु परिव्राजकस्यैवाभावात्कुतस्तस्याधिकार इति तत्राSSह- सर्वश्रुतिस्मृतिवचोभिरयं परित्रा- मुण्डः शुचिः परमहंस इति प्रसिद्धः । ज्ञानाय साधनधनेषु नियुज्यमानः प्रायेण बुद्धिपरिपाकमवाप्स्यतीह ॥ ३६०॥ सर्वेति। तर्हहि कथं तस्य श्रवणादावधिकारस्तत्राSह-ज्ञानायेति। 'संन्यस्य श्रवणं कुर्यात्' इत्यादिभिरित्यर्थः । तर्हिं तस्यापि किं वनस्थादि्वज्जन्मान्तर एव विद्याविपाक इति नेत्याहं-प्रायेणेति। पूर्वमेः वैतदुक्तमित्यर्थः ॥३६० ॥ अ० टी०-यदिं वानप्रस्थादेरधिकारे सत्यपि तत्कृतश्रवणादि जन्मान्तरे पाचकं तदापरमहंसस्यास्मिन्नेव जन्मनि परिपकज्ञानोदय इति कथमध्यवसाय इति चेत्तत्राऽडह- सर्वश्रुतीति। मुण्ड इति। 'सशिखं वपनं कृत्वा त्रितृत्सूत्रं त्यजेद्वुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत्'॥
Page 376
[ र. तूतीर्योऽच्याय:] संक्षेपशारीरकमूं ।4 ११.
'मुण्डोऽपरिग्रहः शुचिरद्रोहः' [जाबा० ५] इत्यादिश्रुतिवचोभिरेतदनुसारिस्मृतिवचो -- भिश्च शिखायज्ञोपवीतादिकर्मसाधनानां साकल्येन त्यागवानित्यर्थः। शुचिरित्यैहिकामुष्मि- कैफलैषणात्यागहेहजात्याद्यभिमानत्यागाच् शुद्ध इत्यर्थः । ज्ञानाय ज्ञानोत्पत्तय: एव साक्षात्साधनधनेष्विति यावत्। प्रायेणेति बलवत्प्रतिबन्धकाभाव इत्यर्थः । साधनचतुष्टय- संपत्या प्राप्तपरमहंसाश्रमस्यैत्र ज्ञानसाधनश्रवगाद्यनुष्ठानस्य साक्षाद्विधानात्परमहंसानुष्ठित- त्वकृत: कचिदुत्कर्षोडस्ति साधनानामिति गम्यते। दृष्टश्व परमहंस एव साङ्गुण्येनानु- ष्वानलक्षण उत्कर्ष इति तस्यैवेह ज्ञानपरिपाकसिद्धिर्नेंतरवर्णाश्रमाणामिति निश्चीयत इति, भाव: ॥ ३६० ।।. सु० टी०-ननु जनकादीनां गृहस्थानामपि विद्योपलम्मश्नवणातक: परिवाजके विशेष इति तत्राSSह- जन्मान्तरेषु यदि साधनजातमासी- त्संन्यासपूर्वकमिदं श्रवणादिरूपम्। विद्यामवाप्स्यति जनः सकलोऽपि यत्र तत्राऽSश्रमादिषु वसन्न निवारयामः ॥३६१॥ जन्मान्तरेष्विति। संन्यासं विना ज्ञानपरिपाके तैद्विधिवैवर्थ्यापत्तेस्तद्वि- धिंबलादेव तेपां जन्मान्तरीयसंन्यासपूर्वकश्रवणाद्यनुमीयत इत्यर्थः। । ३६१॥ अ०टी०-नन्वाश्रमान्तरादिष्वपि परिपक्कज्ञानोदयः कचिदृश्यते तत्कथं तेषां जन्मा -- न्तरे पाचकं साधनानुष्ठानमितिचेन्नैष दोषस्तेषां पूर्वजन्मनि संन्यासपूर्वकश्रवणाद्यनुष्ठानं वृत्तमिति कल्पनादन्यथा संन्यासविधिवैयर्थ्यप्रसङ्गादित्याह-जन्मान्तरष्वति। स्पष्टाS क्षरयोजना ॥ ३६१ ॥ सु० टी -- संन्यासस्य नियमेन ज्ञानसाधनत्वें प्रमाणमाह- वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः। ने ब्रह्मलोकेषु परान्तकाले परामृता: परिमुंच्यन्ति स्वें ॥ ३६२ ॥.
Page 377
८१२ टीकाद्वय समेतं- [३ तृतीयोऽघ्यायः ]
वेदान्तेति। ये पूर्वं शुद्धसत्वास्ते संन्यासपूर्वक कृतभ्रवणादियोगाद्वे- दान्तोत्थविशिष्टज्ञानेन निर्णीतात्मानः कदाचित्तदपरिपाकाद्रह्मलोकं गता: सन्तो ब्रह्मणोऽन्तकाले तेन सह मुच्यन्त इत्यर्थः ॥ ३६२॥ अ० टी०-ब्रह्मविद्यार्थिनः संन्यासकर्तव्यत्वे तद्तः कृतकृत्यत्वे च प्रमाणत्वेन मन्त्रश्रुतिमुदाहरति-वेदान्तविज्ञानेति। प्रागनुष्ठितैर्भगवत्यर्पितैः कर्मपूगैः शुद्धस्त्वाः संन्यासयोगाद्यतयः परमहंसा वेदान्तमहावाक्यजनितविज्ञानेन सुनिश्चितार्थाः समभिव्य- कपरमानन्दाश्च ये ते सरवे परान्तकाले महाप्रलयं ब्रह्मलोकेषु केनापि हेतुना हिरण्यगर्भ- लोकेषु स्थिता अपि परामृताः परमकैवल्यभाजः सन्तः परिमुच्यन्ति परिमुच्यन्त इत्यर्थ: ॥ ३६२॥ सृ० टी०-इतिहासमप्याह- नैता हशं ब्राह्मणस्यास्ति विन्तं यथैकता समता सत्यता च। शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्रवोपरंमः क्रियाश्यः ॥३६३ ॥ नैतादृशमिति। वित्तं हितसाधनम्। एकता निःसहायता। समता सर्वत्र समदर्शिता। सत्यता सत्यभाषिता। शीलं शुमाचारः । स्थितिर्मर्यादानति- क्रमः। दण्डनिधानं हिंसानिवृत्तिः । आर्जवम्कोटिल्यम् ॥ ३६३ ॥ अ० टी०-अत्रैवेतिहासवचनान्यप्याह-नैताहशमिति। एकतैकाकिता सदै- करूपव्यवहारवत्ता वा समता विषमेष्वपि जनेषु समबुद्धिता सत्यता यथार्थभाषिता च शीलं मङ्गलाचारः स्थितिरक्षोभ्यता शीलस्थितिरित्येकपदपाठे शीले निष्ठा दण्ड- निधानं सर्वाभूताभयदानं संन्यासः आर्जवमवक्रता कचिदर्थविशेषे व्यवहारविशेषे वाऽप्यनाग्रह इतियावत्। ततस्ततः क्रियाभ्य ऐहिकामुष्मिकप्रयोजनाभ्य उपरम औदा- सीन्यमित्यर्थः ॥ ३६३॥
यतो यतो निवतते ततस्ततो विमुच्यते। निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि॥ ३६४ ।।
१ क, 'रतिः कि°।
Page 378
[ ३ तृतीयोध्यायः ] संक्षेपशारीरकम्। ८१३.
यत इति। निवृत्तिरेवाशेषदुःखतरणोपाय इत्यर्थः ॥ ३६४॥ अ० टी०-क्रियाभ्य उपरमे यत्फलं तत्प्रत्यक्षमित्येतद्वचनान्तरेणाSSह-यतो यत इति ॥३६४ ॥ किं ते धनेन किमु बन्धुभिरेव वा ते कि ते दारैर्बाह्मण यो मरिष्यसि। आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क गताः पिता च॥ ३६५॥ सु० टी० -- तथा कि ते धनेनेत्यस्यार्थः । अनित्यधनपुत्रादिकं स्यकत्वा नित्यात्मान्वेषणं हितमिति ३६५।। अ० टी० -- सर्वतो निवर्तनाद्दुःखलेशानुभवोऽपि न भवतीति कथं धनादिसुख- साधनसंपत्या सुखोदयाभावे दुःखनिवृत्तेरसंभवादित्याशङ्कय वाक्यान्तरोदाहरणेन परिहरति- किं ते धनेति। हे ब्राह्मण यस्त्वं मरिष्यसि कि धनादिभिः कृत्यं जीवतो हि तत्सुखाय स्यात्तस्मान्मरणात्पूर्वमव धनादि सर्व परित्यज्य गुहां प्रविष्टं बुद्ध्यन्तरनुप्रविष्टं यथावदनभिव्यक्तमात्मानमन्विच्छ तत्स्वरूपान्वेषणं कुरु तत एव तवाक्षयसुखप्राप्तिरित्यर्थः । मरणमवश्यमेवेत्यन्न मानमाह-पितामह इति ॥ ३६५॥ अर्थस्य मूलं निकतिः क्षमा च कामस्य रूपं च वयो वपुश्र। धर्मस्य यागादि दया दमश्र् मोक्षस्य सर्वोपरमः क्रियाभ्यः ॥ ३६६॥ इति श्रीदेवेश्वरपूज्यपादशिष्यसर्वज्ञात्मभट्टारकमहामु- निविरचिते संक्षेपशारीरके साधनलक्षणं तृतीयोऽध्यायः ॥ ३ ॥
सु० टी०-अर्थस्य मूलमिति। निकृतिः शाठयम्। क्षमा सहिष्णुता। शेषं स्पटटम् ॥ ३६६॥ श्रीमन्मह्वेश चरणाब्जमधुव्रताग्नि- चिन्मिभरधीरपुरुषोत्तमनिर्मितायाम्।
Page 379
८१४ [३ तृतीयोऽव्यायः ]
शारीरकार्थसुखबोधनदीपिकाया- मध्याय एष निरगाद्गहनस्तृतीय: ॥ ३ ॥
अ० टी०-चतुर्विधपुरुषार्थानामसाधारणकारणप्रदर्शकं वाक्यमुदाहरन्सर्वक्रियानि- वृत्तिरेव मोक्षस्यासाधारणो हेतुरित्याह-अर्थस्य मूलमिति। निकृतिश्छलम् । अन्ये पुरुषार्था नानाहेतुसाध्या मोक्षस्य त्ेक एव हेतुरित्याह-मोक्षस्येति। सर्व- क्रियोपरमस्य विना तत्वार्थावलम्बनमशक्यत्वात्तेन तत्पूर्वकं तत्त्वज्ञानमुपलक्ष्यते। तथा च, श्रुतिः-'न कर्मणा न प्रजया धनेन त्यागेनके अमृतत्वमानशुः । तमेवर विदित्वाSति, मृत्युमेति नान्यः पन्था विद्यतेऽयनाय' [ महाना० १०।५] इति च ॥ ३६६ ॥
इति श्रीकृष्णतीर्थशिष्यरामतीर्थकृतायां संक्षेपशारीरकटीकायामन्वयार्थप्रकाशिकायां साधनाभिधस्तृतीयोऽध्यायः समाप्त; ।।,
Page 380
अथ चतुर्थोऽध्यायः ।
सु० टी०-एवं साधनविचारं समाप्य फलविचारमारिप्सु: शिष्यस्य प्रश्नमुत्थापयति- उक्तसाधनसमुन्धवा सती किं प्रयच्छति फलं मुमुक्षवे। पत्यगात्ममतिरत्र मे मन- स्यर्िता समुपजायतेऽधुना ॥१॥ उक्तेति। लोके शुक्तिकादिविद्याया अज्ञाननिवर्तकत्वदर्शनाद्वेदे चोङ्गी- थादिविद्याया: कर्मसमृद्धयादिफलदर्शनात्प्रत्यगात्ममतिः कीदशं फलं प्रयच्छति जन्यमजन्यं चेति संदिह्यत इत्यर्थः ॥ १॥ अ० टी० -- + उक्तैः समस्तैः साधनैः संसिद्वैर्जायमानस्य महावाक्योत्थज्ञानस्य कीदृशी फलनिष्पत्तिरिति शिष्यः पृच्छति-उक्तसाधनेति। अत्र फलविषये। किं साधनान्तरफलवत्साध्यरूपमेव्र ब्रह्मज्ञानफलमपि किं वा कूटस्थरूपमिति मे मनस्यर्थिता जिज्ञासाऽधुना समुपजायत इत्यर्थः ॥ १॥ सु० टी०-प्रश्नान्तरमाह- कि निरस्तसह कारिकारण केवलैव फलमर्पेन्मतिः । बाह्यसाधनसहायसंपदा वाऽन्विता फलविधायिनी भवेत् ॥ २ ॥ कि निरस्तेति । क्िमस्याः सहकारिकारणं कर्माद्यस्त्युत नेत्यर्थः। संपदावाचितेतिपाठे तदुपबृंहितेत्यर्थः ॥२॥ अ० टी०-तथोत्पन्नायाः प्रत्यगात्ममतेः स्वफले साव्ये सहकारिकारणमप्यस्युत नास्ति वेति च निर्णेयमित्याह-किं निरस्तेति। ऋञर्थ पद्यम् ॥ २।।
+श्रोकइयटीका ख. पुस्तकादभिलिखिता ।
Page 381
टीकाट्वय समेतं- [४ चतुर्थोऽध्यायः ]
सु० टी०-ननु मोक्षसाधनबह्मज्ञानाय विचारारम्भास्कुतो जिज्ञासा- धकार इरणाराहुक्यावहारव्याजेन परिहरति- एतदप्यहमवैतुमुत्स हे निर्णयं कुरु कपाविधेयधीः । एतदेव हि दयालुलक्षणं यद्िनेयजनबुद्धिवर्धनम् ॥ ३ ॥ एतदपीति। सामान्यतो मोक्षफलत्वे सि्धेऽपि तत्साधनविशेषप्रति- पत्या प्रश्नो घटत इत्यर्थः । प्रश्नबाहुल्यादायासः प्राप्त इति गुरुं क्षमाप- यति-एतदेवेति ॥३॥ अ० टी०-अत्रापि निर्णयो वक्तव्य इत्याह-एतदपीति।' विधेयो निम्न आयत्तः' इत्यभिधानात्कृपाविधेयधीः कृपायत्तधीः कृपापरवशधीरित्यर्थः। बहुशः प्रश्नकरणे- नाऽडयास: प्रापित इति गुरुं क्षमापयन्कृपाविधेयत्वं स्फुटयति-एतद्वेति। विनेयजनाः शिष्यजनाः ॥ ३ ॥ सु टी०-उत्तरमाह- उच्यते न तमसो निवृत्तितः किंचिदस्ति परमात्मधीफलम्। अन्यदल्पमपि साधनान्तरं न व्यपेक्ष्य फलदायिनी च धी: ॥ ४ ॥ उच्यत इति। अज्ञाननिवृत्तिमात्रं विद्याया: फलं न वस्तुतः कस्य चिदुत्पत्तिनिवृत्तिर्वा तत्र च सहकारिनिरपेक्षेव विद्येत्यर्थः ।।४ ।। । अ० टी०-आचार्य आह-उच्यत इति। उत्तरवचनं प्रतिज्ञायोत्तरमाह -- न तमसो निवृत्तित इति। अविद्यानिवृत्तिमात्रं विद्याफलमिति हि प्रसिद्धमतः प्रत्य- गज्ञानबाधनव्यतिरेकेण न किं चिद्दस्तुभूतमुत्पादं वा निवर्तनीयं वाडत्र फलमस्तीत्यर्थः । किं प्रयच्छति फलमिति प्रश्नस्योत्तरमुक्त्वा कि निरस्तसहकारिकारणमिति पृष्टस्योत्तरमाह- अन्यदल्पमपीति। साधनान्तरं व्यपेक्ष्य न फलदायिनीति संबन्धः ॥। ४ ॥ सु० टी०-उमयत्र दृष्टान्तमाह- शुक्तिकाविषयबुद्धिजन्मनः शुक्तिकागततमोनिवृत्तितः ।
Page 382
[ ४ चतुर्थोऽध्याय: ] संक्षेपशारीरकम्। ८१९
नापरं किमपि दृश्यते फरले नापरं च सहकारि कारणम् ॥ ५॥ शुक्तिकेति। ततश्च यद्विद्याफलं तद्ज्ञाननिवृत्तिरेव सहकारि निरपेक्ष चेति व्याप्तिरस्तीत्यर्थः ॥५॥ अ० दी०-अविद्यानिवृत्तिमात्रमेव विद्याफलं तत्र सहकार्यपेक्षा च. नास्तीत्यत्र कि . प्रमाणमित्यपेक्षायामनुमानं प्रमाणमिति वक्तुं व्याप्ति तावदाह-शुक्तिकेति ॥ ५॥ सु० टी०-एवं च तद्दष्टान्तेनाSSत्मविद्यायामपि तद्नुमेयमित्याह- एवमात्मनि तमोनिवृत्तितो नान्यदस्ति परमात्मधीफलम्। नाप्यपेक्ष्य सहकारि कारणं किंचिदात्ममतिरर्पयेत्फलम् ॥ ६ ॥ एवमात्मनीति ॥ ६ ॥ अ० टी०-एवं व्याप्तिमुक्तवाऽनुमानमाह-एवमात्मनीति। विमता परमा- व्मधी: स्वविषयतमोनिवृत्तिमात्रफला तत्र सहकारिनिरपेक्षा च भवितुमर्हति यथार्थधीत्वात्। या यदिषया यथार्थधी: सा, तद्विषयाSविद्यानिवृत्तिमात्रफला सहकारिनिरपेक्षा च दृष यथा शुक्तिकाविषययथार्थधीस्तथा चेयं तस्मात्तथेति प्रयोगः ॥ ६ ॥ सु०टी०-ननु ब्रह्मज्ञानस्य विद्यान्तरवत्संपदादिरूपत्वेनाप्रमाण. व्वात्कथमज्ञाननिवर्तकत्वं प्रमाप्पत्वेऽपि वा साततिशयमोक्षसाधनस्थ कथं साधनान्तरानपेक्षत्वमिति चेत्तत्राSऽह- ब्रह्मज्ञानं प्रमाणं भवति दृढमिदं नात्र कश्विद्विवादो ब्रह्मात्मा चैकरूपो न च बहुरसकस्तत्परत्वाच्छतीनाम्। एवं सत्यद्वयात्मप्रमितिफलमिह द्वैतमूलापनुत्ति- ने ह्यज्ञानापनुत्तेरधिकमपि फलं किंचिदस्ति प्रमाणात्। ७। ब्रह्मज्ञानमिति। पूर्वमेवै तत्प्रयत्नेन सांधितमिति नैतच्चोद्यावकाश इत्यर्थ: भेदामेदमलं निरस्यति-न. चेति। फलितमाह-एवमिति॥ ७॥ अ० टी०-ननु नाविद्यानिवृत्तिमात्रफला ब्रह्मविद्या वैदिकविद्यात्वातप्राणादिविद्याव
दृढं प्रमाणं भवति प्रत्यक्षादिवत्प्रमाकरणजन्यत्वाउत्र च न कक्विद्विवादः । एतेनो
Page 383
८२० टीकादय समेतं- [ ४ चतुर्थोऽच्याय: ]
पाधेः साधनव्यापकत्वं निरस्तम् न च प्रमाणादिज्ञानमपि प्रमाणमितयुपाधेः साध्याव्यापकत्वमपीति वाच्यमित्याह-ब्रह्मात्मा चेति। एकरूपः कूटस्थो न प्राणा- दिवद्विकारवानित्यर्थः । अत एव न च बहुरसकोडनेकावस्थावान् । प्राणादिर्हि बहवस्था -• कोडनेकैर्विशेषणैः प्रत्युपासनविधिभिर्भिद्यमानत्वादतः प्राणादिविद्यानां पुरुषस्वातन्त्र्य-
परमात्मविद्यायास्तु वस्तुपरत त्रत्वादेकरूपब्रह्मात्मालम्वनत्वाच्चास्ति प्रामाण्यमिति महान्विशेष इत्यर्थः। नन्वस्त्वेवं ब्रह्मविद्यायाः प्राणादिविद्यातः स्वरूपतः फलतो वैलक्षण्यं तथाऽप्य- नयाSविद्यानिवृत्तिमात्रमस्तु समस्तद्वैतावभासरूपबन्धनिवृत्तये किमप्यन्यदपेक्षणीयं भवि- व्यतीति चेन्नेत्याह-एवं सतीति। समस्तद्वैतस्य प्रत्यगज्ञानमूलत्वान्मूलनिवृत्त्यैव भौतिकस्याऽड़त्यन्तिकी निवृत्तिरिति द्वैतमूलाज्ञाननिवृत्तिरेवाद्वयात्मप्रमितिफलमिह विव- क्षितं नाज्ञानस्य केवलस्य निवृत्तिरित्यर्थः । अतोऽज्ञानापनुत्तेः पृथगधिकफलं ज्ञानसाध्यं न ह्यस्ति प्रमाणसिद्धमित्यर्थः । द्वैतबन्वस्याज्ञानमयत्वादिति भावः ॥७॥ सु० टी०-किं च ज्ञानं कि स्वोत्पत्यर्थमेव कर्मापेक्षत उतोत्पन्नं सहकाररित्वेनेति तत्र नाऽडद्य इत्याह- निरभिसंधि समर्पितमच्युते विहितमिष्टफलादपि निर्गतम्। यदपि कर्म तदप्यवधीरितं यदि घिया न तया परमर्थ्यते ॥८॥ निरसिसंधीति। कर्मविशेषणं क्रियाविशेषणं वा। विहितमनुष्ठितम् । ईद्ृशं मगवत्यर्पितमतिविशुद्धमपि कर्म चेत्परित्यक्तमित्यर्थः ॥८॥ अ०टी०-एवं सति सहकारिनैरपेक्ष्यमपि सिद्धमिति सहकार्यभावोड़प्यस्य सिद्ध इत्याह- निरभिसंधीति। यदपि विहितं कर्माच्युते परमात्मनि निरभिसंधि फलाभिसंधिरहितं समर्पितमत एवेष्टफलादपि निर्गतं स्वरसतोऽभिलाषिस्वर्गादिफलादपि प्रच्यावितमेवंविध- मत्यन्तविशुद्धं तदपि कर्म धिया यद्यवधीरितं दूरत एव त्यक्तं दूरत एवोपकारकमङ्गीकृत्य स्वसमये तननिरपेक्षतया परित्यक्तमिति यावत्। तया घिया स्वोत्पत्तित एव फलशिरस्कया न परं सहकारिभूतमर्थ्यते। विहितकर्मातिरिक्तस्य सहकारिणोड़तासंभवात्तस्य चानया घिया दूरत एव त्यक्तत्वात्पुनस्तस्याः सहायत्वेनान्यस्य विधानादर्शनानिरपेक्षैव ब्रह्मात्मधीर्मुक्ति- फलाय कल्पत इति तात्पर्यार्थः॥८u
१क. विषि मिय।
Page 384
[ ४ चतुर्थोडध्यायः ] संक्षेपशारीरकमू। ८२१ सु०टी०-नापि द्वितीय इत्याह- समविषमसमुच्चयो न युक्तो न हि जगदस्ति धियः प्रसूतिकाले। क नु बत विहितक्रियासमूहः कथमिव तत्र समुच्योपपत्तिः ॥९॥ समविषमेति। ज्ञानोत्पत्तिसमय एवाविद्यातत्कार्यनिवृत्तो तदन्तर्भूतस्य क्रियासमूहस्यापि निवृत्तेर्न समप्राधान्येन ज्ञानकर्मणो: समुच्चयो गुण- प्रधानत्वेन विषमसमुच्चयो वा घटत इत्यर्थ: ॥ ९॥ स० टी०-ननु कर्मपरित्याग एवायुक्तस्तस्य कर्मणो यावज्ीवक्षुतिविहितत्वात्तस्मा- स्कर्मसमुच्चितमेव ज्ञानं मोक्षसाधनमिति केचित्प्रतिपन्नास्तान्प्रत्याह-समविषमेति । ज्ञानकर्मणोरुमयोरपि प्राधान्यं समसमुच्चयः । ज्ञानं प्रधानं कर्माप्रधानमथ वा कर्म प्रधानं ज्ञानमप्रधानमिति विषमसमुच्चयः । एते समविषमसमुच्चया ज्ञानकर्मणोर्न युक्ताः । तेषाम- युक्तत्वसिद्धये कैमुतिकन्यायेन ज्ञानकाले कर्मणामसंभवमाह-न हि जगदिति। धियः प्रसूतिकाले जगदेव समष्टिव्यष्टिसंघातरूपं न ह्यस्ति निरस्तसमस्तप्रपञ्चनिर्विशेषव्रह्मात्माकारो- दयत्वादिद्याया इत्यर्थः। यदा कर्मणः कारकमेवर जगन्नास्ति तदा विहितः क्रियासमूहः क तु बत न कापीत्यर्थः । तत्रैवं सति कथमिव समुच्चयोपपत्तिरन कथमर्पीत्यर्थः ॥ ९ ॥ सु० टी०-ननु न ज्ञानसमय एव संसारनिवृत्तिनियतेति ज्ञानि- नोडपि कर्मानुष्ानसंभव इति चेन्नेत्याह- अपि च परमहंसस्त्यक्तसर्वैषणः स- लनुभवफलविद्यां साधनैर्यद्यवाप। कथमिव पुनरत्र पाप्तिरस्ति कियाया भवतु तदपवर्गो विद्ययैवैकयाऽस्य ॥ १०॥ अपि चेति । अनुभवो ब्रह्मात्मैक्यसाक्षात्कारः । साधनैरन्तरङ्गैः। एवं च कृतार्थस्य कुतः कर्मानुष्ठाने प्रवृत्तिरित्यर्थः ॥ १० ॥ अ० टीe-इतश्च कर्मणां न सहकारित्वशङ्कावकाश इत्याह-अपि चेति। ज्ञानोत्पत्तावपि विरोधीन्येव कर्माणीति विज्ञाय त्यक्कसर्वैषणः परित्यक्तसाध्यसाधनैषणः सन्परमहेस उत्तमाश्रमं प्राप्तः साधनैर्निवृत्तिलक्षणैरेवानुभवफलविद्यां ब्रह्मात्मानुभवपर्यन्तां तत्त्वधियं यद्यवाप तदाऽस्यां विद्यायां क्रियायाः पुनः प्राप्तिः कथमिवास्ति नैवास्तीत्यर्थः।
Page 385
८२२ टीकाद्वयसमेतं- [ ४ चतुर्थोऽध्याय: ]
तत्तस्मादस्य परमहंसस्य विद्ययैकयैवापवर्गों भवतु भवेदित्यर्थः । तथा च यावज्जीवाद्यु- पबद्धाः कर्मविधयः संन्यासविधिश्रुत्युपरुद्धाः सन्तोऽविरक्तविषया व्यवतिष्ठन्ते। तेषां सामान्य्रतः प्रवृत्तेः। संन्यासविधीनां विरक्तविषयत्वेन विशेषनिष्ठत्वात्सामान्यशास्राद्विशेष- शास्त्रस्य बलीयस्वादिति भाव: ॥ १० ॥ सु० टी०-नन्वात्मज्ञानस्य कर्तृसंस्कारत्वेन लिङ्गादेव कर्मशेषत्व- मिति। मुक्तिसाधत्वाशङ्कैव नास्ति कुतो नैरपेक्ष्यमिति चेत्तत्राSडह- यस्य प्रयोगविधिरस्ति परिग्रहीता द्वारैदमथ्यविनिवेदकमस्य सर्वम्। श्रुत्यादिमानभिह नास्ति तदात्मबुद्धौ तस्मादियं भवतु नः पुरुषार्थभूता॥११॥ यस्येति। न ्रुतिलिङ्गादिकमङ्गाङ्गिभावे प्रमाणं किं तु सहाय- मात्रमू। प्रयोगविधिरेव तु साङ्गे कर्मण्यर्थिनं प्रेश्यन्नैद्मथ्य बिना तद- नुपपत्तेस्त्रन्न मानम्। तस्मिंश्र परिग्रहीतरि सति श्रुत्यादीनि द्वारैदमर्थ्य- मात्रं बोधयन्ति तत्परिग्रहश्र प्रकरणाद्वाक्याद्वा। न च ब्रह्मज्ञानस्य कर्भ प्रकरणपाठेऽस्ति नाषि वाक्यं पर्णमर्यीत्वादिवत्। ज्ञेयस्पाऽडत्मन: करत्वव्यभिचारामावादिति न तज्ज्ञानस्य कर्माङ्गत्वमित्यर्थः । तदुक्तं- 'सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते।
अ० टी०-ननु कर्मणाभेव पुरुषार्थहेतुत्वं ज्ञानस्य तु सर्वत्र तदङ्गत्वभेवत्यात्मतत्त्वज्ञा- नस्यापि कर्माङ्गत्वमेवेति चेन् ब्रह्मात्मज्ञानस्य कर्माङ्गत्वे प्रमाणाभावादित्याह-यस्य प्रयोगविधिरिति। प्रयोगविधिरिति प्रधानविधिरेव ग्राहकावस्थो विवक्ष्यते। तथा च यक्ष्य स्वप्रकरणपठितस्यानारभ्याधीतस्य वा पदार्थस्य परिग्रहीता प्रयोगविधिरस्ति। अस्य सर्वं श्रत्यादिमानं श्रुतिलिङ्गवाक्यप्रकरणस्थानसमास्यालक्षणमङ्गविनियोजकं मान- जातं द्वारैदमर्थ्यविनिवेदकं सामान्यतः प्रयोगविधिपरिगृहीतस्यार्थस्याङ्गभतस्य क्रियास्व- रूपादिनिर्वर्तनद्वारबलादैदमर्थ्यविनिवेदकमनेन द्वारेणेदभेतदर्थमनुष्ठेयमिति ज्ञापकं भवति न स्वातन्त्र्येण श्रुत्यादिकस्य किंचिद्विनियोजकं कि तु प्रयोगविधिरेव विनियोजकः। तद्वि- नियोजकप्रयोगविधिलक्षणं श्रत्यादिलक्षणं चेहाडत्मबुद्धौ नास्ति. भिन्नप्नकरणत्वात्। तस्मादत्र विनियोजकप्रमाणाभावादियमात्मबुद्धिरनोडस्माकं पुरुषार्थभ्ता भवत्विति योजना।, एतदुक्तं भवति-आत्मज्ञानस्य न कर्मप्रकरणसंबन्धो येन प्रयोगविधिना परिगृद्यते।. १ ख. गृह्येत।
Page 386
[ ४ चतुर्थोऽच्याय: ] संक्षेपशारीरकम्। ८२३
नाप्यनारभ्याधीतन्यायावतारोऽत्रास्ति पर्णताया जुहूवदात्मज्ञानस्येह द्वाराभावात्। आत्मैव द्वारमिति चेन्न तस्य जुहूवत्त्त्वव्यभिचाराभावादात्मनो विहिताविहितप्रतिषिद्धसर्वक्रिया- साधारणत्वात्पर्णताया इवेह विनियोजकवाक्याभावाच्च । तथा हि' न तावदिह- रेन्दरा गार्हपत्यमितिवदात्मज्ञानेनेदं कार्यमिति श्रुतिर्द्ृश्यते। नापि बर्हिर्देवसदेनं छिनभीतिवल्िङ्गमुपलम्यते। नन्वस्त्यत्र लिङ्गमन्यथानुपपत्तिकल्पितं यतो देहव्यतिरिक्ता- :मज्ञानस्य पारलौकिकफलकर्मसूपयोगो दृश्यते। अतस्तैस्तदाक्षेप इत्यनेन लिङ्गेन विनियो- गोपपत्तेरितिचेन्नन देहव्यतिरेकादधिकरूपस्य कर्माधिकारविरोधिनो वेदान्तेष्वाम्नानात्। न हि स्वप्रतिकूलमङ्गं किमपि कस्यचिद्गवति। यदि पुनर्देहव्यतिरिक्तस्वरूपमात्रमेग- त्रोच्यते नाधिकमिति मन्येत तथापि न लिङ्गमात्रादङ्गत्वसिद्धिस्तस्य द्वारैदमर्थ्यमात्रे मानत्वादत्र च द्वाराभाव उक्त इत्यतो न लिङ्गमपीहास्ति। वाक्यप्रकरणादीनां त्वत्राSS- शाङ्कैव नास्तीति स्वतन्त्रैव ब्रह्मविद्याऽन्यनिरपेक्षा च पुरुषार्थहेतुरिति। पुरुषार्थश्चाविद्या- निवृत्तिः ।। ११ ॥। सु० टी०-ननु ज्ञानसाध्या तमोनिवृत्तिः किमात्मनो भिन्नोतामि- त्रोताभिन्नामिन्ना। आद्येऽपि किं सत्यसती सद्सती मिथ्या वा। नाSडद्यो द्वैतापत्तेरन द्वितीयो ज्ञानवैयथ्यापत्तिर्न तृतीयोऽसंभवान्न चतुर्थ- इतमसः सत्यतापत्तेरिति चेत्त्राह- सदसत्सदसद्विकल्पित प्रतिपक्षैकवपुर्निवर्तनम्।
सदसदिति। एवमाद्यनुपपत्या पञ्चमी विधाऽम्युपगम्यत इत्यर्थः॥१२।। अ० टी० -- ननु तर्ह्यविद्यानिवृत्तिरेव कीदृशी तस्या आत्मान्यत्वेन सत्वे द्वैततादव- ध्यादात्माद्वैततासिद्धेराव्मत्वेन सरे त्वनादिभावरूपतया निवृत्त्ययोगाद्विद्यावैयर्थ्यम् । वसत्त्वे च खरशङ्गादिवन्नित्यनिवृत्तत्वाद्विद्यावैयर्थ्यमेव। सदसदात्मकता तु बिरोधादेक- Iनुपपन्ना । न चोभयविलक्षणाSनिर्वचनीया सेति वाच्यम्। तस्या अविद्यात्मत्वादनि- त्तिरेवाविद्यायाः स्यादिति चेन्न पञ्चमप्रकाराविद्यानिवृत्तिरित्यभ्युपगमादित्याह-सद्स- देति। तमसो निवर्तनं निवृत्तिः सदसत्सदसद्विकल्पितप्रतिपक्षैकवपुरम्युपगन्यते न न्ासन्न सदसद्रूपं न वा विकल्पितं सदसत्सदसद्विलक्षणमपि तमोनिवर्तनमभ्युपगम्यते। के त्वेभ्यः प्रकारेभ्यो विलक्षणमेतत्प्रतिपक्षैकस्वभावं यत्किंचिदिति पञ्चमप्रकाराज्ञाननि- त्तिरिति यं विद्वांस: कथयन्ति तं वयमभ्युपगच्छाम इत्यर्थः । अस्मिन्पक्षे कि प्रमाण-
१ क. 'हि उपनिषदितिसम्यक्-ऐन्द्रा'१ २ ख, नं दामीति"।
Page 387
८२४ टीकाद्वय समेतं- [ ४ चतुर्थोऽच्याय: ]
मित्यपेक्षारयां सदादिपक्षसहत्वानुपपत्तिरेव मानमित्याह-अन्यथानुपपत्तीति । सदादिपक्षविलक्षणतेन विना याऽनुपपत्तिस्तस्या आपतनं प्राप्तिस्तदेकहेतुतः सदादयनु- पपत्तिप्रमाणत इत्यर्थ: ॥ १२ ॥ सु० टी० -- एवमध्यनुपपत्तिस्तुल्येतति चेन्नेत्याह- सदसत्सदसद्विकल्पितप्रतिबद्धा न भवन्ति वर्णिते। परमात्मतमोनिवर्तनेऽनुपपत्तिप्रतिभासवृत्तयः ॥ १३॥ सदसदिति। प्रतिबद्धास्तदाश्रिताः । प्रतिमासवृत्तयो बुद्धिवृत्तयः। पञ्चमपक्षस्य दुष्टपक्षपरित्यागमात्रत्वात्तत्पक्षोक्तदोषा नात्र प्रतिमासन्त इत्यर्थः ॥ १३ ॥ अ० टी० -- नन्वयमपि प्रकारोऽनुपपन्नोऽस्यापि सदादिविकल्पप्रसरादिति चेन्नैवं संभवतीत्याह-सद्सदिति। वर्णिते पूर्वपद्यनिरूपिते परमात्मतमोनिवर्तने सदादिवि- कल्पितप्रतिबद्धा दोषा न भवन्ति। के त इत्यत आह-अनुपपत्तीति। अनुपप- त्तिप्रतिभासवृत्तयोऽनुपपत्तिप्रतीतिगोचरा इत्यक्षरयोजना। सदादिपक्षचतुष्टयप्रतिबद्धैव हि दोषप्राप्तिः पञ्चमप्रकारस्य तु दुष्टपक्षपरित्यागमात्रत्वात्तस्मिन्पक्षे दोषप्रतिभास एव नावतरतीति भाव: ॥ १३ ॥ सु० टी०-तमोनिवृत्तेः पञ्चमप्रकारत्वे वृद्धसंमतिमाह- चितिभेदमभेदमेव वा दयरूपत्वमथो मृषात्मताम्। परिहृत्य तमोनिवर्तनं प्रथयन्ते खलु मुक्तिकोविदाः ॥१४॥ चितिभेदमिति। एवं तमोनिवृत्तेश्रैतन्याव्वेदाभेदादिविकल्पमपि परि- हृत्येत्यर्थः । मुक्तिकोविदा इषसिद्धिकाराद्य: ॥ १४ ॥ अ० टी०-चैतन्याद्वेदाभेदविकल्पेऽपि चोक्तप्रकारेण पञ्चमप्रकारत्वमेत्राविद्यानिवृ- त्तेरिष्यत इत्याह-चिंतिमेदमिति। मुक्तिकोविदा इष्टसिद्धिकारादय: पण्डिता इत्यर्थः ॥ १४ ॥ सु० टी०-एवमपि कल्पनागौरवमित्यस्वरसादात्मामिश्नैव तमो- निवृत्तिरित्याह- अथ वा चितिरेव केवला व चनोत्पादितबुद्धिवर्त्मना।
१ क. त्वापातात्त । २क. °किषादिनः ।
Page 388
[ ४ चतुर्थोऽध्यायः ] संक्षेपशारीरकम्। ८२५
परमात्मतमोनिवृत्तिगी- र्विषयत्वं समुपैत्युपाधिना ॥१५॥
शब्दार्थ- इत्यर्थ: ॥१५॥ अ० टी०-तमोनाशस्तमोनिवृत्तिरिति दृष्टिमाश्रिय पञ्चमप्रकारत्वाङ्गीकारेणानुपपत्ति- दोषो निराकृतः । इदानी बाध एव निवृत्तिशब्दार्थो न नाश इति परमसिद्धान्तदृष्टिमा- श्रित्याऽडतमैव ज्ञातत्वोपलक्षितस्तमोनिवृत्तिरिति। पक्षान्तरमाह-अथवेति। केवला निर्विशेषा चितिरेव वाक्योत्पादितबुद्धिवर्त्मनोपाधिना वाक्योत्थबुद्धि वत्तिप्रतिफलितव्वन निमि त्तेन परमात्मतमोनिवृत्तिगीर्विषयत्वं समुपैति ॥१५ ॥ सु० टी०-ननु लोके शुक्तिकादेरज्ञाननिवृत्तित्वाप्रसिद्धेः कथ चैत- न्यस्य तथात्वमित्याशङ्क्याSSह- शुक्तिकाविषयबद्ध्धिजन्मना प्रत्यगात्मचितिरेव केवला। शुक्तिकागततमोनिवृत्तिरित्युच्यते दृतिहरि: पशुर्थथा॥१६॥ शुक्तिकेति। यथा दतिहरणकर्तैव पशुत्वरूपतटस्थोपाधिना दृतिहरि- शब्देनोच्यते तथा व्यवहारदशायां स्वाविद्यया शक्तिकात्वमापन्नं चैत- न्यमेव शुक्तिविज्ञानेनावगतं सत्तेनोपाधिना शुकत्यज्ञाननिवृत्तिपदेना- भिधीयत इत्यर्थ: ॥ १६॥ अ० टी०-ननु शुक्तितमोनिवृत्तिः शुक्तितत्वज्ञानातप्रसिद्धा सा च शुक्तिगता न चैतन्यगता शुक्त्तेरचैतन्यत्वात्। तथा चाऽऽत्मन्यनात्मनि चानुगतं चिन्मात्रादन्यदेवाज्ञान- निव्ृत्तिशब्दवाच्यमेष्टव्यमिति चेनैवमित्याह-शुक्तिकेति। शुक्तिकादेः प्रयक्चैतन्यविव- र्तत्वाच्छुक्तिकादज्ञानमपि शुक्तिकाद्यवच्छिन्नाकारप्रत्यगज्ञानमेव न स्व्ातन्त्र्येण। जडस्या. ज्ञानं प्रति विषयत्वेनाSSश्रयत्वेन वा संबन्धोऽस्ति। अतः शुक्तिकाविषयबुद्धिजन्मन शुक्त्वच्छिन्निदभिव्यञ्जकतयोत्पन्नबुद्धिवृत्युपाधिना केवला प्रत्यगतमचितिरेव शुक्तिका- गततमोनिवृत्तिरित्युच्यते । तस्मात्तमोनिवृत्तिः सर्वत्र चैतन्यमांत्रतया चैतन्यगतैवेति नाननुगमशङ्केत्यर्थः ॥१६ ॥ सु० टी०-ननु 'हरतेई्वतिनाथयोः पशौ' इत्यत पशुवाचरुतवेने
१ क. या न सं। १०४
Page 389
८२६ टीकाद्वयसमेतं- [४ चतुर्थोऽध्यायः]
पत्यपो विहितो न हरणमात्रकतारे ताद्टशेऽषि पुंसि प्रयोगामावादिति
वाचको हरणकर्तुरिष्यते शब्द एष हि दतेर्मनीषिभिः । केवलं तु पशुता निमित्ततां बाह्यतः स्थितवती व्रजेदियम् ॥१७॥ चाचक इति। द्ृतेर्हरणकर्तुर्वाचक एव शब्द: कृदन्तत्वात्किं त्वन्वयवि- शेषे द्रृतिनाथयोरुपपद्योः सतोः पशुत्वं तटस्थं निमित्तं भवति न वाच्यान्तर्गतमित्यर्थः ॥१७॥ अ० टी०-दतिहरिः पशुर्यथेति स्वोक्तबुद्धिवृत्तेरुपाधित्वे दृष्टान्त उक्तः । तत्रोपाधि- र्नाम विशेषणोपलक्षणाभ्यामन्यो यथा पशुत्वं तटस्थमेव सद्दृतिहरिशब्दप्रवृत्तिनिमित्त- मित्युक्तं दृष्टान्तं स्पष्टयति-वाचक इति। मनीषिभिरेष दृतिहरिशन्दो दतेर्हरणकर्तुर्हिं वाचक इष्यते। चर्मकोशं द्ृतिपदवाच्यं यो मनुष्यो वाऽश्वो वाऽन्यो वा हरति स योगवृत्त्या हि हरिशब्दवाच्यो भवतीति प्रसिद्धमित्यर्थः । यद्यप्येवं तथाऽपि पशुत्वविवक्ष- यैव दृतिहरिशब्दं प्रयुञ्जते मनीषिणो न दृतिहरणक्तृत्वविवक्षयेति पशुत्वेन नियम्यमानं दृतिहरिपदं पशावेव निविशत इति पशुत्वं दृतिहरिपदस्य विषयभावं भजते पशुत्वं च वाच्याद्वाहिरेव तिष्टति न तु स्वयं वाच्यकोटौ विशेषणतेनेपलक्षणतेन वा प्रविशतीति सती दृतिः "हरतेर्द्वतिनाथयोः पशौ " इति व्याकरणसूत्राद्गम्यत इत्येतत्सर्वमभिप्रे- न्याऽडह-केवलं त्विति। इयं पशुता वाच्यब्ाह्यतः स्थितवती सती दतिहरिशब्दप्र वृत्तौ केवलं निमित्ततां ब्रजेदिति योजना ॥ १७ ॥
एवभेव तु तमोनिवृत्तिगी: शुक्तिकाविषयबुद्धिजन्मना । बाह्यतः स्थितवतैव हेतुना प्रत्यगात्मचिति वर्ततेऽअसा ॥१८॥ एवमेवेति। तटस्थेनैकशुक्तिज्ञानेन निमित्तेन शुक्त्यवच्छिन्नप्रत्यगात्म- चितिशुक्त्यज्ञाननिवृत्तिशब्दो वर्तत इत्पर्थः ॥ १८॥ अ० टी०-प्रक्ृते ऽयनतःकरणवृ त्तेरुपाधित्वमेष्टव्यमिति दार्ष्टान्तिकमाह-एव मेवेति । शुक्तिकाद्यनुगतमेत्र चैतन्यं शुक्त्याद्याकारान्तःकरणवृत्तोपाविना वाच्याद्वाहेनैव सता
१ क. ग. लं दि प°।
Page 390
[ ४ चतुर्थोऽध्यायः ] संक्षेपशाररिकम् ।
नियम्यमानं शुक्त्याद्यज्ञाननिवृत्तिशब्दवाच्यं भवतीति तात्पर्यार्थः । अक्षरयोजना त्वतिसे- हिता ॥ १८ ॥
नटस्थां निमित्तीकृत्याज्ञाननिवृत्तिशब्देन व्यवह्नियत इत्याह- उत्पन्नशुक्तिमतिरात्मचितिर्यथैकॅ शुक्तेस्तमोहतिरिति प्रतिपन्नमेव। आत्माऽपि जातनिजबुद्धिरबोधहानि- रित्युच्यतेऽमलचिदेकरसो न पूर्वम् ॥ १९॥ उत्पन्नेति। न पूर्वमिति। सत्यप्यज्ञाननिवृत्तिरुपत्व इति शेष: ॥ १९॥ अ० टी०-एतदेव दृष्टान्तीकृत्य ब्रहमात्माज्ञाननिवृत्तिशब्दवाच्यं वाक्योत्थब्रह्माकारबु द्धिवृत्योपाधिना, ब्रह्मात्मचैतन्यमेव्रेत्याह-उत्पन्नशुक्तिमतिरिति। उत्पन्ना शुक्ता- कारान्तःकरणवृत्तिरूपा मतिर्यस्या उपाधित्वेनेष्टा सा आत्मचितिरुत्पन्नशुक्तिमतिः सा यथा शुक्तेस्तमोहानिरिति प्रतिपन्नमेव्नमात्माSपि चिदेकरसो जातनिजबुद्दिर्वाक्योत्थबुद्धिवृत्तिजन्मो- पाधि: सन्नबोधहानिरित्युच्यते किलेति सत्यं न पूर्वो यथोक्तबुद्धिवृत्युपाधिजन्मन; प्रामव- स्थितस्तमोहानिरिति नोच्यत इति योजना ॥ १९ ॥ सु० टी०-यदि चिदेवाज्ञाननिवृत्तिः कथं तहिं तादृशधीवृत्त्युत्पत्तेः पूर्वमपि न तथा व्यवह्नियत इति चेत्तदा तन्निमित्ताभावादितिवक्तुमुक्त- हष्टान्तमेव दर्शयति- दृतिहरणकरत्वं पुंति चान्यत्र चेर्दें दृतिहरिरिति लोके नोच्यते वर्तमानम्। अनधिकविकलं सत्कथ्यते तन्पशुस्थं दृतिहरिरिति शिष्टैर्बाह्यहेतोः पशुत्वात् ॥ २०॥ दृतिहस्णेति। दृतिहर्तृत्वमन्यूनानतिरिक्तं पुरुषादौ वर्तमानमप्रि न शिट्टैर्द्वतिहरिशव्देनोच्यते। पश्चुगत तु तन्मात्रमेव तच्छव्देनोच्यत इति हेतो: पशुत्वभेव तच्छव्दप्रयोगनिमित्तं व्युत्पत्तिस्सृतिभ्यामवसीयत इत्यथ: ॥२० ॥
१. ख, व. मेवम्। २ ग. निरुच्येतं केवलः। ३ ख. घ. पूर्व: ४ ख. "हात्मन्यज्ञा"।
Page 391
टीकाद्गसमेतं- [ ४ चतुर्थोऽव्याय: ]
अ० टी०-यदि केवलब्रह्मात्मचैतन्यमेव तमोनिवृत्तिशब्दवाच्यं तर्हि तादृशबुद्धयुत्पत्तेः प्रागपि कुशोऽज्ञाननिवृत्तिरिति नोच्यत इति चेत्तत्र शब्दस्वभाव एष इति वक्तुमुक्तमेव दृष्टान्तमाह-हतिहरणेति। इदं प्रत्यक्षं दृतिहरणकरत्वं पुंसि मनुष्येऽन्यत्राश्वादौ वा वर्तमानं लोके दतिहरिरिति नोच्यते कि तु तद्दृतिहरणकर्तत्वं पशुस्थमनधिकविकलं सदन्यूनातिरिक्तमव्यभिचारि सद्ृतिहरिरिति शब्दैः कथ्यते। बहुवचनं प्रयोगबाहुल्याभि- प्रायं कस्माद्वाह्यहेतोः पशुत्वात्पशुत्वरूपाद्वाच्यबहिर्भूतादित्यक्षरार्थः । दृतिहरणकर्तृत्वं पुरुषादौ वर्तमानं दृतिहरिशब्देन नोच्यते तत्र व्युत्पत्तिव्याकरणस्मरणयोरभावाक्किं तु पशौ वर्तमानं तन्मात्रमेव दृतिहरणपदेनो्यत इति व्युत्पत्तिस्मृतिभ्यां प्रसिद्ध- मतः शब्दस्व्रभावोऽयमिति कल्पनीयम् । निमित्तानुबन्धिनी हि शब्दस्य प्रवृत्तिरिति तात्पर्यार्थः ॥ २०॥ सु० टी०-ननु तत्र 'हरतेहतिनाथयो:' इत्यादिसूत्रानुशासना- दुस्तु तथा दार्ध्टान्तिके तु कथमित्याशङ्रक्याSSह- अयमषि परमात्मा प्रत्यगात्मस्वभावो वचनजनितबुद्धे: प्राक्स्वरूपे स्थितोडपि। न खलु विषयभावं ध्वान्तविच्छेदवाचो व्रजति हि तदुपाधेर्य्ुद्धिवृत्तेरभावात् ॥ । २१ ॥ अयमपीति। अनुशासनाभावेऽपि न्यायसाम्पादिहापि बुद्धिवृत्ति: प्योगोपाधिरभ्युपेथेत्यर्थः ॥२१॥ अ० टीo-अत्र,प्ययमेव न्याय इत्याह-अयमपीति। निगदव्याख्यातानि पद्याक्षराणि एतदुक्तं भवति। प्रकृतेऽ्यज्ञाननिवृत्तिशब्दः प्रत्यक्चैतन्यमेव वदेद्वुद्धविवृत्त्यु- पाधौ सत्येव नासतीति स्वभावोडस्य शब्दस्योपाधेरागन्तुकत्वात्तनिमित्तशब्दप्रयोगोड्या- गन्तुक इति ॥! २१ ॥ सु० टी०-नन्वमावपर्यायो नाशादिशब्द: कथं पैतन्ये प्रवर्तता- मिति चेत्सत्यं नाशादिशब्स्तथा अय त्वज्ञानशब्देन सह समस्तोऽन्य एव भाववाचीत्याह -- अज्ञानदाह इति नैकपदं समासा- न्पूर्वोत्तरे खलु पदे पदतामुषेनः । ज्ञानोद्य तटगतं समुपाददान- स्तस्माच्तमोहतिरवोऽत्र चिति प्रवृत्तः ॥ २२ ५
Page 392
[ ४ चतुर्थोऽघ्याय: ] संक्षेपशारीरकमू। ८२३
अज्ञानदाह इति। अज्ञानस्य दाहोऽज्ञानदाहः।सच न ज्ञानं बिना संभवतीति यौगिकत्वाच्छव्द्ृपरवृत्तिरुपपन्नेत्यर्थः। उपेतः प्राप्नुत इत्यर्थः। तस्माज्ज्ञानोद्यमिति संबन्धः । तटगतं तटस्थोपाधिम् ।। २२॥ अ० टी०-नन्वयं नाशादिशब्दो नञ्पर्यायोऽभाववाचकः प्रसिद्धः स कथं चैतन्ये सद्रूपे वर्तेतेलिचेत्सत्यमभववचनो नाशादिशब्दः स्वभावतोऽत्रायमज्ञानशब्देन समस्यमानो नाशादिशब्दोऽन्योन्याभाववचन इत्याह-अज्ञानदाह इतीति। अज्ञाने दाह इति च स्वभावत इमे द्वे पदे नैकपदं कदापीऽत्यर्थः । समासात्तु निमित्तात्पूर्वोत्तरे पदे अज्ञानमिति पूर्वपदं नाश इत्युत्तरपदमेते पदतामैकपद्यमुपेतः प्राप्नुतः । तथा च समासवशाच्छब्दानामन्य- त्रापि वृत्तिर्दष्टेतीहापि समासत्रशानाशशब्दस्य स्वसंबन्ध्यभावमात्रादन्यत्र वृत्तिरुपपन्नेति फलितमाह-ज्ञानोदयमिति। तस्मादिति प्रथमं योज्यम्। तमोहतिरवोऽत्र प्रकृते तटगतं तटस्थं ज्ञानोदयमुपाधिं समुपाददानक्षिति प्रवृत्तः । तथाचाज्ञानविलक्षणमज्ञानादन्यज्ज्ञानो- दयोपाधिनाऽज्ञानविरुद्धाकारं चैतन्यमज्ञाननाशशब्दार्थ इति न विरुध्यत इति भाव:॥२२॥ सु० टी० -- तर्हिं विषमो हट्टान्त इत्याशङ्क्याSSह- अत्राप्यसौ दृतिहरिः पशुरित्यखण्डः शब्दो न खल्वभिमतोऽवयवार्थयोगात्। धातुश्र वाचकतया हरति: प्रसिद्धो हीन्प्रत्ययश्ष हरतेः परतः प्रसिद्धः ॥ २३॥ अत्रापीति। असावपि शब्दो नाखण्डो, रूढोऽभिमत इति संबन्ध: । हतिं हरतीत्यवयवार्थयोगादित्यर्थः । एतदेव दर्शयति-धातुश्वेति। वाच- कतया हरणक्रियाया इत्यर्थः। इन्प्रत्ययक्च कर्तृवाचकतया प्रसिद्ध इत्यर्थ: ।। २३ ।। अ० टी०-तथा दृतिहरिशब्दस्याप्यैकपद्यादेव विरिष्टार्थनियता वृत्तिराश्रिता तद- बयवास्तु साधारणार्थवाचिन एवेत्याह-अत्राप्यसाविति। अवयवार्थयोगभेव विभजते-धातु श्रेति। हरतिर्धातुर्हरणवाचकतया प्रसिद्धो हृन् हरण इति धातुपाठ- स्मृतेः । चकारोऽवधारणार्थो भिन्नक्रमः प्रसिद्ध एवेत्यर्थः । इन्प्रत्ययश्च हरतेर्धातोः परतः कर्तृवाचकतया प्रसिद्ध एव हीति योजना ॥ २३ ॥ सु० टी०-मवत्वेवं ज्ञानफलमज्ञाननिवृत्तिः कि तत इति चेत्तत्राऽडह- उद्यन्निरस्यति तमश्र तदुद्भवं च वेदावसानवचनादथ वोदितः सन्।
Page 393
टीकाद्वय समेतं- [ ४ चतुर्थोऽध्यायः ]
कंचित्सहायमनपेक्ष्य निवर्तकोऽसौ ॥२४॥ उदन्निति। वाक्योत्थ आत्मानुभवो हुद्यन्नेवोदयोत्तरक्षण एव वाडविद्या तत्कार्य च निरस्यतीति नास्य सहायान्तरापेक्षत्वमित्यर्थः ।। २४। अ० टी०-तदेवमविद्यानिवृत्तिरात्मैवेत्यपि पक्षे न कदाचिदनुपपत्तिरिति स्थितम्। पुनरन्यदत्राSडशड्क्यते। अयमात्मसाक्षात्कारः स्वोदयकाल एवाऽडतमाज्ञानं. निर्वर्तयेत्तदु- त्तरकाले वेति। तत्रोभयथाऽपि न विरोध इत्युत्तरमाह-उद्यननिति । अथ वा वाक्योत्थविद्यायाः सहायानपेक्षत्वं यत्पागभिहितं तत्र युक्तिविशेषं संचारयति- उद्यन्निति । एकात्मवस्तुविषयोऽनुभवो वेदावसानवचनादुद्यन्नेव वाऽथवोदित एव संस्तमश्च कारणं तदुद्ववं च कार्यं सर्व निरस्यति । उदितः सन्नित्यपि न विलम्बः प्रतीयते कि तूदयसमनन्तरमेव्रेति न सहकारिप्रतीक्षाकल्पनावकाश इति द्रष्टव्यम्। यत एवं स्वभावोऽयमनुभवोऽत एवासौ फिचित्सहायंमनपेक्ष्य निवर्तक इति. सिद्धमित्यर्थ:।।२४।। सु० टी०-एतदेव हष्टान्तपूर्वकमुपपाद्यति -- दीपस्तमस्तिरयतीह भवन्कुताश्र्- द्दूत्वा क्षणव्यवधिमात्रमपेक्ष्य नात्र।
तदत्प्रतीच्यवगतौ तमसोऽपहन्तरयाम् ॥ २५॥ दीप इति। सद्वदिति । प्रतीचि याऽवगतिर्बुद्धिवृ्त्त्युपसमादभिव्यक्ति- स्तस्यामित्यर्थः ।। २५॥ अ० दी०-तथाऽपि कि त्त्वमितिचेत्तत्र दीपेन तमोनिवृत्ताविवेदं द्रष्टव्यमित्याह- दीपस्तम इति। भवन्नुत्पद्यमान एव दीपस्तमस्तिरयत्यपसास्यति दर्शनांविषयं. करोतीत्यर्थ: । कुतश्चिन्निमित्तात्प्रतिबन्धवशापुनर्भत्वोत्पद्य क्षणव्यवधिमात्रं क्षणव्यवधान- मात्रमपेक्ष्य तमस्तिरयतीत्यत्र न कश्विद्वादी विवादपदवीमुपयाति। यथाऽ्यं. दृष्टान्त- स्तद्वत्पतीचि, तमसोपहन्त्यामवगतौ विज्ञाने योज्यमित्यर्थः ॥२५.॥ सु० टी० -- व्यअ्षकत्वादृप्यनपेक्षत्वमस्या इत्याह- उत्पन्तिरेव हि धिया स्वफलं प्रदातु- माकाङूक्षिता न च ततोऽपरमर्थनीयमू।
१ ख .. 'स्थिते पु.नः।.
Page 394
[ ४ चतुर्थोऽध्याय: ] संक्षेपशारीरकम्। ८३१
यत्कारकं तदिह काङ्क्षति जन्ममात्रा- दन्यन्नकी: किमपि काङ्क्षति जन्म लब्धा॥२६॥ उत्पत्तिरेवेति बुद्धेहिं फलमदाने जन्मैवापेक्षित नान्यदित्यर्थ: । तदुक्तं-'तेन जन्मैव विषये बुद्धेर्व्यापार इष्यते' इति। व्यतिरेक- मप्याह-यत्कारकमिति। कारकं हयुपकारापेक्षित्वाज्जन्मतोऽन्यत्सहकार्य- पेक्षते न च धीस्तथेत्यर्थः ॥ २६॥ अ० टी०-यद्यप्येवमुभयथाऽपि संभावनाडस्ति तथाऽपि ब्रह्मविद्योत्पद्यमानैवाविद्यां निवर्तयेन्न व्यवधानमीषदप्यपेक्ष्य क्षणमात्रं व्यवधीयत इत्याह-उत्पत्तिरिति । धिया वाक्योत्थया स्व्रफलं प्रदातुमुत्पत्तिरेवाSSकाडक्षिता। एवकारव्यावत्य स्वयमेत्राSSह- न चेति। ततोऽपरमुत्पत्तेरन्यत्सहकारिभूतमर्थनीयं घियो न च विद्यत इति योजना। कुत इत्यत आह-यत्कारकमिति। कारकस्यायं धर्मो यदुत्पद्य स्वकार्ये जनयितव्ये सहकारिप्रतीक्षया विलम्बेते न तु धियः प्रमाणत्वेनाकारकरूपाया इत्येवं सति यत्कारकं तदिह व्यवहारभूमौ स्त्रकार्ये वा स्वजन्ममात्रादन्यत्क/डक्षति धीर्जन्म लब्ब्वा न किमपि काड्क्षतीति योजना ॥ २६ ॥ सु० टी०-अत्र वृद्धसंमतिमाह- प्रत्यक्षसूत्र इदमेव निवेदयिष्यन् न्यायेन जैमिनिरुवाच विदग्धबुद्धि:। सत्संप्रयोग इति तत्र च बुद्धिजन्म शब्दस्य नान्यदिह कि च न ऊत्यमस्ति ॥२७॥ प्रत्यक्षसूत्र इति। ननु तदन्यपरमेवेति तत्राऽडह-तत्र हीति। पुरुषस्ये- न्द्रियाणां बुद्धिजन्मेत्यत्र बुद्धि: प्रत्यक्षमित्युक्तऽवि जन्मनोऽर्थसिद्ध- व्वाज्जन्मशब्दूस्पेदभेव कृत्यमित्यर्थः ।।२७।। अ० टी०-ज्ञानस्य सहकार्यपेक्षा नास्तीत्यत्र जैमिन्याचार्यसत्रताक्यं प्रमाणयति- प्रत्यक्षेति। "सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्" [ जैमिनिन्याय० १।१।४]। इति सत्रे बुद्धिः प्रत्यक्षमित्येतावत्युक्तेऽपि तस्या जन्मार्थात्सिद्धमेवरान्यथे- न्द्रियाणां सत्संप्रयोग इति निभित्तनिर्देशवैयर्थ्यापातात्। तथाऽप्यर्थसिद्धं जन्म जन्मशब्देन निर्दिशन्वुद्धेर्जन्मातिरिको व्यापारोडस्तीत्येतदेव सूत्रकारः सूचयतीति निष्पिण्डितोऽर्यः।
१ ख. ना सम्डस्ति । २ ख. 'म्वनं न०।
Page 395
८३२ रीकाटयसमेतं- [ ४ चतुर्थोऽध्याय :* ]
एषाऽक्षरयोजना विदग्धबुद्धिरजैमिनिः सत्संप्रयोग इति प्रत्यक्षसूत्रे प्रत्यक्षप्रमाणलक्षणसूत्र इदमेव न्यायेन निवेदयिष्यन्ुवाच जन्मातिरिक्तो न बुद्धेर्व्यापारोडस्तीत्येतन्न्यायेन प्रतिः पादयन्बुद्धिजन्मेति पदं प्रायुङ्क। यतस्तत्र सुत्रे बुद्धिजन्मशब्दस्येह लक्षणेनान्य्त्किचन कृत्यमस्ति विनाऽपि तेनातिव्याप्त्यादिनिराससिद्धेरिति ॥ २७॥ सु० टी०-नन्वरेवमपि मतिवृत्तेनिवर्तकामावात्तयाऽपि द्वैतापत्ति- रितिचेन्नेत्याह- वेदान्तवाक्यजनिता मतिवृत्तिरेव- मुत्पत्तितः सकलमेव भवार्णवाम्बु। पीत्वा स्वयं च खलु शाम्यति दग्धलोह- पीतं यथाम्बु चितिमेव तु शेषयित्वा ॥ २८॥ वेदान्तेति। सा हि जातमात्रैवाविद्यातत्कार्य दग्ध्वा स्वयमपि नश्यन्ती चिन्मात्रं शेषयति यथा दग्धलोहपीताम्बु वहनिं स्वं च विनाश्य लोहमात्रं शिनषीत्यर्थः ।। २८॥ अ० टी०-अस्त्वेवं विद्योदयसमनन्तरमेवाविद्यायाः सकार्याया निवृत्तिर्विद्यायास्तु कथं
एवमित्युक्तन्यायेनेत्यर्थः । चितिमेवैकां शेषयित्वा स्वयं च खलु शाम्यति स्वनिवृत्तौ हेत्वन्तरं नापेक्षते। अतोऽनवस्थाप्रसङ्गो न भवतीत्येतदृष्टान्तेनोपपादयति-इग्धलोहेति ।, यथा दग्धलोहपीतमम्बु दाहं शमयति स्वयं च लीयते लोहमात्रमवशेषयति तथा वेदान्तवाक्य-
तते चिन्मात्र चाऽत्मत्त्त्रमत्रशेषयतीत्यर्थः ॥ २८॥ सु० टी०-नन्वविद्यानिवृत्तेस्तत्वज्ञानसाध्यस्त्रभावायाः करथ नित्या- त्मस्वरूपत्व मिति तत्राSSह -- कूटस्थनित्यैव तु मुक्तिरेषा विद्याफ लत्वादिह यद्यदेवम्। तत्तत्तथा दृष्टमशेषमेव यथा हि शुक्त्यादिपदार्थसंवित् ॥ २९॥ कटस्थनित्येति। यद्विद्याफलं तत्कूटस्थं यथा शुक्त्यज्ञाननिवृत्तिरुप: शुक्त्यादिस्फरणमित्यर्थ: ।। २९ ।।
Page 396
[ ४ चतुर्थोऽध्याय: ] संक्षेपशारीरकम्। ८३३
अ० टी०-तदेवमारोपिताविद्यानिवृत्तिमात्रत्यान्मोक्षस्य कूटस्थतवं प्रतिपादितं केचित्तु स्वर्गादिवन्मोक्षस्यापि साध्यत्वमादुस्तानप्रत्याह-कूटस्थेति । शुक्तादि पदार्थसंवि- दिति शुक्त्यादिविषयकप्रमाणफलभूता शुक्यादिस्फूरतिरित्यर्थः ॥ २९ ॥ सु० टी० -- साध्यवैकल्यमाशङ्कयाSSह- जन्मादिषड्भावविकारहीना शुक्त्यादिवस्तुपणिविष्टसंवित्। न प्रागभावाद्यनुभूतिरस्या: स्वतः प्रमाणादपि युज्यते हि॥ ३० ॥ जन्मादीति। तत्र हेतुमाह-न प्रागभावेति। न हि संविदि जन्मादि संभवति पागमावस्य जन्मनो वा तस्यामनुभबासंभवात्तथा हि किं संवित्स्वरूपात्तदनुभवः प्रमाणाम्तराद्वा नोभयमपि युक्तमित्यर्थः।। ३२॥ अ० टी०-दष्टान्ते साध्यवैकल्यमाशड्क्याSSह-जन्मादीति। शुक्त्यादिव- स्तुन्यविशिष्टसंवित्। शुक्त्यादिविशेषणांशहीना सती जन्मादिषड्भावविकारहीना कूटस्थै- वेत्यर्थः। संवित्स्वरूपतो जन्मादिहीनाSसंभावितजन्म दिधर्मत्वाद्यद्त्र न संभवत न ततेन धर्मेण धर्मवद्यथामिः शैत्येनेति प्रयोग: । हेत्वसिद्धिशङ्गां परिहरति-न प्रागभावा दीति। अस्याः संविदो न स्वतः प्रागभावाद्यनुभूतियुज्यते । स्व्रप्रागभावः स्ववेद्यो न घटते नापि प्रमाणादन्यस्मात्तघुज्यत इत्यक्षरार्थः । एतदुक्तं भवति । संविदो जन्मप्राग- भावाद्यनुभवः संविदा तावन्न सिध्यति। स्वसंबन्धितया हि स्वप्रागभावाद्यनुभवो वक्तव्यः स स्वात्मनिवृत्तिविरोधान्न संभवति। नापि प्रमाणान्तरात्तत्सिद्धिर्मानवेद्यत्वे जडत्योपपत्तेः संवित्तव्याघातात्। स्ववेद्यत्वे चायं दोषः समानो वेद्यत्वमात्रस्यैव जडत्प्रयोजकत्वा- त्संविदग्रहणे च तत्संबन्धितया जन्मादिग्रहणासंभवादतोऽसंभावित जन्मादिधर्मत्वादिति हेतुर्नासिद्ध इति ॥ ३० ॥ सु० टी०-कुत इत्यपेक्षायां कि संविदमबुद्ध्वैव तत्पागभावाद्यनु- भूयते किं वा बुद्ध्वा तत्र नाऽडय्य इत्याह- अबुध्यमानो न हि संविदं तत् संबन्धि किंचित्पतिपततुमीशः।
१ क. पिताःविनि" । १ स्. घ. 'सतुन्यविशिष्ट' । ग. स्तूपनिवि' । ३ ख. दिभाष- विकाररहिता अ। १०५
Page 397
८३४ टीकाट्ुय समेतं- [ ४ चतुर्थोऽष्याय: ]
न बुध्यमानोऽपि तथा तदा हि न संविदेषा विषयत्वहेतोः ॥ ३१॥ अबुध्यमान इति। संविदं स्वरूपेण प्रमाणेन वाऽबुध्यमानोऽविषयी- कुर्षन्न तत्संबन्धिप्रागभावजन्मादि विषयी कुर्यादित्यर्थः । नापि द्वितीय इत्याह-न बुध्यमानोऽपीति। स्वतः स्वजन्मादिबोधनासंभवाद्वेद्यत्वेऽस- वित्त्वप्रसङ्गादित्यर्थः ॥ ३१॥ अ० टा०-एतदेव स्पष्टयति -- अबुध्यमान इति। संविदमबुध्यमानोSविषयी- कुर्वन्। कश्चित्तत्संबन्धि किंचित्प्रागभावादि प्रतिपत्तुं न हीशः समर्थः । धर्मिधीसापेक्ष- त्वाद्धर्मबुद्धेरित्यर्थः । तथा संविदं बुध्यमानोऽपि न समर्थः । यतस्तदा ह्येषा संविदेव न भवति विषयत्वाद्धेतोर्विघयत्वे जडत्वापत्तेरित्यर्थः ॥ ३१॥ सु टी०-व्यतिरेकव्याप्त्याSपि कौटस्टयं साधयति- जन्या न मुक्तिर्घटते कुतश्रि- द्वियाफलत्वादिति पूर्वहेतोः । यद्यद्धि जन्यं जगति प्रसिद्धं तच्न्न वियाफलमध्वरादि ॥ ३२॥ जन्येति। यज्जन्यं न तद्विद्याफलं यथा वियदादीति ॥३२॥ अ० टी०-मोक्षस्य कूटस्थत्मं व्यतिरेकव्याप्तिच्छलेनानुमिनोति-जन्या न मुक्तिरिति अध्वरादीति। यथा यागादीत्यर्थः ॥ ३२ ॥। सु० टी०-अत एव मोक्षस्वरुपे कर्मणोऽप्युपयोगो नास्तीत्याह- मोक्षस्वरूपे विफलक्रियोऽसौ विद्याफलत्वादिह यद्यदेवम्। तत्तत्तथा दृष्टमशेषमेव यंथैव रज्ज्वादितमोनिवृत्िः ॥ ३३ ॥। मोक्षेति। असावधिकारी विफलक्रियो विफलकर्मा। मुक्तिर्न कर्म साध्येति यावत् ॥३३ ॥।
१ ग. मम्बसा° । २ ग. ०रूपो दि°।
Page 398
[ ४ चतुर्थोऽध्याय: ] संक्षेपशारीरकम्॥ ८३५
अ० टी० -- तेनैव हेतुना मोक्षस्य कर्मसाध्यत्वप्रतिषेधमुखेनापि कौटस्थ्यमेवानुभि- नोति-मोक्षस्वरूप इति। असौ पुरुषो मोक्षस्वरूपे विफलक्रियः । मोक्षस्वरूपं न. क्रियासाध्यमिति प्रतिज्ञापरमेतद्वाक्यं सिष्ट स्पष्टार्थम् ॥३३॥ सु० टी०-ननु सायुज्यादिमुक्तेः क्रियासाध्यत्वादशतो बाध इत्या- शाङ्क्याSSह- सायुज्यादि न मोक्षपक्षपतितं विद्याफलत्वाहते- र्मानस्या किययोपजन्यत इदं यस्मादुपास्त्यार्पया। सायुज्यादिविवादगोचरपद निःश्रेयसं नो भवे- त्कार्यत्वादिह ययदीदृशमँदो निःश्रेयसं नेक्षितम्। यद्दत्कुड्य घटादि तादृशभिंद तस्मादिदं ताहशं. युक्तं कल्पयितुं न तद्विसदृशं ताद्ृङू न दृष्टं. यतः ॥ ३४॥ 'सायुज्यादि न मोक्षपक्षपतितं विद्याफलत्वाहतेर्मानस्याक्रिययोपेजन्यत इदं यस्मादु- पस्त्याख्यया' इति क्वचिदर्धपद्यं पठन्ति। तस्यायमर्थः-यत्खल्वामरणमभ्य- स्यमानया हिरण्यगर्भोडस्मीति मानस्योपासनया प्रतिमया परिपक्वया. देहान्तेऽचिरादिना बह्मलोकगतस्य रवीयलिङ्गनोपहितस्यैव समट्टिलिङ्ग हदमहमस्मीत्यभिमानात्मकं तादात््यं जायते तत्सायुज्यं तच्च मिथ्या- त्वान्न मोक्षकोटिनिक्षिप्तम्। ततश्च तस्य पक्षवहिर्मावादेव न. तत्र, बाध इत्यर्थ: । सायुज्यफलोपासनायाः क्रियात्वेन विद्यात्वाभावाद्ध्ेत्वभावे- नाडपि न तत्रैकान्तिकताऽपीति। अत्रार्थेऽनुमानमाह-सायुज्या· दीति.।। ३४।। अ० टी० -- ननु सायुज्यादिरूपोऽपि मोक्षः कर्मसाध्यश्चेति तत्र बाध इति चेन्मैवं : तस्य मोक्षत्वासंप्रतिपत्तेरपक्षयत्वादित्याह-सायुज्यादीति। एतदपि पद्यं षट्पदम्। मोक्षपक्षानन्तर्भावे हेतु :- विद्याफलत्वाहतेरिति। आहतिर्हानिर्विद्याफलत्वाभाव्रा- दित्यर्थः । एतेन पूर्वपदयोक्तानुमानेनैकान्तिकेनाSSशङ्काSपि परिहृता सायुज्यादौ विद्या- फलत्वहेतोरवृत्तेः 1 कुतः सायुज्यादेर्विद्याफलत्वाभाव इति तत्राऽडह-मानस्येति। उपास्त्याख्ययेति विशेषणेन पुंपरतत्रत्वं क्रियायाः सच्यते। उपास्तिविधिविहितया पुंपर- तत्रमानसक्रियया यस्मादिदं सायुज्यादि जन्यते तस्मान्न विद्याफलमिति योजना। सायुज्या-
१ ख. व. क्षकमित्ं वि°। २ ख. घ. 'स्याननुनन्यते विह्नया य ।३ स. मठे- निः° । ४ ग. 'पयुज्यत । ५ ए. "न्तिकताश ।
Page 399
८३६ टीका ट्वय समेतं- [ ४ चतुर्थोऽच्यायः ]
देरमोंक्षपक्षपांतित्वाभा वमुक्तमनुमानप्रयोगेण स्पष्टी करोति-सायुज्यादिविवादगोचर- पद्मिति। कार्यत्वहेतुः क्रियासाध्यत्वोक्त्या साधित इति नासिद्धिशङ्कावकाशः । इहे- त्यादि घटादीत्यन्तमुदाहरणवचनम् । सव्याप्तिकं दृष्टान्तवचनमुदाहरणमिति हि तल्लक्ष- णम्। तादृशमिदमित्युपनयवेचनकार्यं चेदमित्यर्थः । निगमनमाह-तस्मादिति कल्प- यितुमित्यन्तेन। तस्मात्कार्यत्वादित्यर्थः । ताद्दशमिति निःश्रेयसं न भवतीत्यर्थः । हेतोरप्रयोजकताशङ्कां परिहरति-न तद्विसहशमिति। दृष्टं कुड्यादि विसदृदशं. नित्यं निःश्रेयसरूपत्वं न कल्पयिंतुं युक्तम्। यतः क्रियासाध्यं तादृशं नित्यं निःश्रेयसरूपं न दृष्टं क्वापीत्यर्थः । कृतकस्यानित्यत्वव्याप्तेरभङ्गादनित्यस्य च निःश्रेयसत्वाभावादिति भावः । न च बन्धध्वेसो मोक्षः क्रियासाध्योऽपि नित्यो भविष्यतीति वाच्यम्। 'ब्रह्म वेद ब्रह्मैव भवति' [मुण्डक ३।२ ९]'पुरुष इत्येव प्रोच्यते' [प्रश्न ६।१] इत्यादिश्रुतौ ब्रह्म- भावस्यैव मोक्षत्वाभिधानात्। अज्ञानमयबन्धनिवृत्तेश्र ज्ञानसाध्यत्वात्क्रियासाध्यत्वाभावस्य पागेवोपपादितत्वादिति द्रष्टव्यम् ॥ ३४॥ सु० टी०-इतोप्युत्पत्तिविनाशरहिता मुक्तिरित्याह- सदसदुद्भवनं न विमुक्तता
सदसतोर्नशनं न विमुक्तता सदसतोर्नशनानुपपत्तितः ।।३५ । सदसदिति। जन्मविनाशाभ्युपगमे हि सती वाडसती वा मुक्तिरवांच्या तयोश्च जन्मनाशी दुर्निरुपावित्युक्तमित्यर्थः ॥। ३५।। अ० टी०-इतश् मोक्ष: कूटस्थनित्य इत्याह-सदसदिति। सदसतोरुत्पत्ति- विनाशयोर्दुर्निरूपत्वस्य प्रागव प्रपश्चितत्वान्न सदसतोर्पत्तिर्ता विनाशो वा मुक्तिि- त्यर्थः ॥। ३५॥ सु० टी०-अस्तु तरहिं कस्पितस्य सालोक्यादेर्जनिर्युक्तिरिति चेत्त- सISSE- न च तमोमयजन्म विमुक्तता न हि तदिष्टमनिष्टतरं हि तत्। न खलु कल्पितजन्मविमुक्ततां समुपगच्छति तदितथं यतः ॥३६ ॥ १ क. "रगतमि" । २ रु. "यनन।
Page 400
[ ४ चतुर्थोऽ्यायः ] संक्षेपशारीरकम् । ८३७
न चेति। तमोमयस्य जन्यस्य हेयत्वेनानभीष्टत्वान्न मुक्तित्वमित्यर्थः । एतदेवोपपाद्यति -- न खल्विति ॥३६ ॥।
स्यैव मोक्षत्वमस्वितिचेन्नेत्याह-न च तमोमयेति। जन्मेति नाशस्याप्युपलक्षणम्। तत्रानिष्टत्वं हेतुमाह-न हीति। मोक्षस्याभीष्टलक्षणत्वात्तमोमयस्य च तद्विरुद्धल्वान्न सस्य मोक्षत्वमित्यर्थः । इतोऽपि न तमोमयजन्मविनाशयोर्मोक्षरूपतेत्याह-न खल्विति। जन्ममुक्ततां जन्मविनाशयोर्विमुक्ततां न समुपगच्छति कश्िदपीति शेषः । यतस्तत्तमोमयं वितथं मिथ्यैवेत्यर्थः । केनाप्यनङ्गीकारायोगत्वाचायं पक्ष एवासङ्गत इति भावः ॥३६॥ सु० टी०-अस्तु तहिं तमोमयस्य सकलस्य निवृत्तिरेव मुक्तिरिति शङ्कते- अथ तमोमयविश्वविकल्पना विलयनात्मकमभ्युपगम्यते। सकलदूषणजातविवर्जितं तदिह मोक्षपदं न निवार्यते ॥ ३७॥ अथेति। एतदङ्गी करोति-सकलेति। तस्या आत्मतावन्मान्रत्वस्योक्त- वान्न कौटस्थ्यादिविरोध इत्यर्थः । मोक्षपदं मोक्षस्वरूपम् ॥ ३७॥ अ्र० टी०-तर्हि तमोमयजन्मनाशो वा मोक्षो मा भूत्तमोमयप्रपञ्चविलय एव मोक्षोS भ्युपगम्यत इति शङ्कते-अथेति। इमं पक्षमङ्गी करोति-सकलेति। तमोमयवि- श्वनिवृत्तेश्वात्मतावन्मात्रताया उपपादनात्कटस्थनित्यैव मुक्तिरित्यत्र न किमपि दूषणम- स्तीति तन्मोक्षपदमिहास्मन्मते न निवार्यते ॥ ३७॥ सु० टी०-ननु ज्ञानाद्विद्या निवर्तमाना कि निरवशेपैव निवर्तत उत प्रारब्धवशात्किंचिदनुवर्तत इत्याशङ्रक्य निःशेषैवेत्याह- सम्यग्ज्ञानविभावसुः सकलमेवाज्ञानत्संभवं सदो वस्तुबलपवर्तनमरुद्यापारसंदीपितः । निलेपेन हि दंदहीति न मनागप्यस्य रुपान्तरं संसारस्य शिनष्टि तेन विदुषः सदो विमुक्तिर्धवा॥३८॥
१ क. तस्य आत्मा।
Page 401
टीकादवय समेत- [ ४ चतुर्थोऽध्यायः ]
सम्यव्ज्ञानेति। वस्तुबल प्रवर्तनमेव मरुद्यापारस्तेन संदीपितिः । निर्लेपेन निःशेषम् ॥ ३८॥ अ० टी०-सिद्धे मोक्षस्यैत्रं कैटस्थ्य इदं विचार्यते यद्यपि ज्ञानोत्पत्यनन्तरमेवा- विद्या निवर्तते तथाऽपि निवृत्ताविद्यस्य मुक्तस्य देहपाते कि कश्चित्कालक्षेपोऽस्युत नेति जिज्ञासायां नेति तावदाह-सम्यग्ज्ञानेति। वस्त्वेव बलं वस्तुबलं तस्य प्रवर्तनमा- विर्भाव: स एव मरुव्द्यापारस्तेन संदीपितः । देहद्वयस्याज्ञानविलसितत्वात्त्त्वज्ञानेन च स्वोदयमात्रेणाज्ञानस्य नाशितत्वान्निराश्रयस्य कार्यस्यावस्थानासंभवात्सदो मुक्तिरेव धुवे- त्यर्थः ॥ ३८॥ सु० टी० -- ननु सद्यो मुक्तिधौव्ये 'तस्य तावदेव चिरम् '[छा० ६। १४ । २ ] इत्यादिजी वन्मक्तिप तिपादकशास्त्रस्य का गतिरिति तत्ाSडह- जीवन्मुक्तिपरत्ययं शास्त्रजातं जीवन्मुक्ते कल्पिते योजनीयम्। तावन्मात्रेणार्थवत्त्वोपपते: सयोमुक्ति: सम्यगेतस्य हेतोः॥ ३९॥ जीवन्मुक्तीति। कल्पिते गुर्वाद। कथं कल्पितविषयत्वे शास्त्रत्वमिकि चेदर्थवादत्वादित्याह-तावन्मात्रेणेति । तस्य हेतो: शास्त्रस्यान्यपरत्वा- द्वेतोः ॥ ३९ ॥ अ० टी०-तर्हि 'तस्य तावदेव चिरं यावन्न विमोक्ष्ये'[ छान्दो० ६ ।: १४ # २ ] इत्यादिजीवन्मुक्तिशास्त्रस्य का गतिरतिचेत्तत्राऽडह-जीवन्मुक्तीति। जीव- न्मुक्ते: प्रत्ययः प्रतीतिर्यस्मात्तज्जीवन्मुक्तिप्रत्ययम्। शास्त्रजातविशेषणमेतत्।. श्रुतेः कथं कल्पितविषयत्वमप्रमाणत्वप्रसङ्गादिति चेन्नैष दोषोडस्याःश्रुतेरर्थवादत्वादित्याह-ताव- न्मात्रेणेति। स्वार्थे फलवत्वाभावाद्विद्यास्तुत्यर्थत्वेन कल्पितजीवन्मुक्तविषयत्व मे वैताट्ट र-ध शवाक्यानामभ्युपेयं तावताऽपि प्रमाणत्वव्याघातादिति भावः । तस्य हेतोर्जीवन्मुक्ति- ज्ञापकशास्त्रस्यान्यपरत्वाद्वेतोः सदो मुक्तिः सम्यड्न्याय्यैवेत्यर्थः॥ ३९॥ सु० टी०-विदुषामनुभवसिद्धा जीवन्मुक्तिरिति चेदस्तु तर्हि तथेत्याह- यद्वा विद्वद्वोचरं योजनीयं तस्या विद्यालेशवत्वोपपतेः। १ क. 'णत्वाज्या।
Page 402
{ ४ चतुर्थोऽच्याय: ] संक्षेपशारीरकमू। ८३९
तस्याभीष्टा निर्निमित्ता निवृत्ति- र्यद्वा विद्यासंततिर्हतुलेशः॥४० ॥ यद्वेति। जीवन्मुक्तिशास्त्रमित्यनुषज्यते । विद्योदये कथमविद्येति चेत्तन्ाSSह-तस्पेति। लेशस्य कि निवर्तकमिति चेत्तत्राSऽह-तस्याभीष्टेति। स्वत एवेत्यर्थः । तर्हिं मूलाविद्याऽपि स्वयमेव निवर्ततां किं ज्ञानेनेति चेत्तत्ाSSह-यद्वेति। जीवन्मुक्तिहेतुभूतं लेशम्। विद्यासंततिः संतन्य मानं वृत्त्यभिव्यक्तं चैतन्यमेव वा निवर्तयत्वित्यर्थः। प्रथमान्तपाठे तन्निवृत्ती विद्यासंततिरूपो वा हेतुलेश इष्यतामिति योज्यम्॥४० ॥ अ० टी०-तथाऽपि विदुषामनुभवसिद्धा जीवन्मुक्तिरिति चेत्तर्हि तत्परा वा सा श्रुतिरस्त्वित्याह-पद्वेति। योजनीयं जीवन्मुक्तिप्रत्ययं शास्त्रमित्यस्यानुषङ्गः। कथं मुक्तस्य जीवनं विद्योदये सत्यविद्यानिवृत्तौ तत्कार्यपाणादिनिवृत्तेरिति चेन्न विदुषोऽ्यवि- द्यालेशस्यावस्थानाङ्गीकारादित्याह-तस्येति। तर्ह्यविद्यालेशस्य कि निवर्तकमितिचेन्न किमपीत्याह-तस्याभीष्टेति। निर्निमित्ता पूर्वप्राप्तत्त्व्रविद्यातिरिक्तनिमित्तानपेक्षेत्यर्थः। नन्वविद्यालेशनिवृत्तिरनिर्निमित्ता चेदविद्यानिवृत्तिरपि तथा स्यादिति ज्ञानवैयथ्व स्यादिति चेत्तत्राडह-यद्वा विद्येति। विद्यासंततिरेवाविद्यालेशनिवर्तको हेतुलेशो निवृत्या विद्यालेशानुरूपोडल्पो हेतुरभ्युपगम्यतामतो न क्वापि विद्यावैयर्थ्यमित्यर्थः ॥४०॥ सु० टी०-नन्वविद्याया लेश एव नारित निरंशायास्तस्या: सर्वा- त्मना वस्तुबोधादेव निवृत्तेर्न च लेशोऽप्यैकान्तिकः क्वचिदविद्याया
ताsडह- जीवन्मुक्तिव्यापृतेः पापको य- स्तस्याविद्यालेशगन्धादिभाषा। नाविदयाया नापि भागस्य तस्या- स्तस्मिन्पक्षे दुर्घटत्वाद्विमुक्तेः ॥ ४ ॥ जीवन्मुक्तिव्यापृतेरिति। मिक्षाटनादिरूपाया इत्यर्थः । तस्या: प्रायिको यो हेतुस्तस्पेत्यर्थः । नन्वविद्यैव जीवन्मुक्तिव्यापृतिप्रापिका तन्भ्ागो चेति नेत्याह-नाविद्याया इति। अविद्यातन्भ्वागावस्थाने मोक्षानुपपत्तेरि- त्यर्थः ।४१ ॥
१ ख. लेशम् । २ क, न्मुक्तव्या।
Page 403
८४० टीकाट्वयसमेतं- [ ४ चतुर्थॉऽध्यायः ]
अ० टी०-नन्वविद्यालेशाव्स्थानमप्यनुपपत्रं वस्तुतत्त्वस्य सर्वात्मना विद्ययाऽवभा- सेऽविद्याया लशतोऽप्यवस्थानानुपपत्तेः । तथा पूर्वाचार्यग्रन्थेष्वविद्यालेशाज्जीवन्मुक्तिरुच्यते कचिदविद्यागन्धात्तदुक्तिः क्वाप्यविद्याछायया कचिदविद्यासंस्कारादिति ततो व्याकुलं चैत- दिति चेत्तत्राSSह-जीवन्मुक्तव्यापृतेरिति। जीवन्मुक्तस्य व्यापृतिर्मिक्षाटनादिव्य- वहारस्तस्य प्रापको यो हेतुस्तस्याविद्यालेशादिभाषा नाम विद्वद्भिः कृतेति योजना । यदत्र जीवन्मुक्तिप्रापकतया न्यायप्राप्तं तदविद्यालेशादि शब्दैरुच्यते सर्वेः सर्वत्रेत्यतो न. व्याकुलतेति भावः । कि तन्न्यायप्राप्तं तदुच्यताभिति चेत्ततस्वरूपं वक्तुं तत्रासंभावितं तावदाह-नाविद्याया इति। अविद्यायास्तावन्न तद्धेतुता नापि तस्या भागस्य तद्धेतुत्वम्। कुत इत्यत आह-तस्मिन्निति । अविद्यातदेकदेशयोरन्यतरस्यापि सत्वे मुक्तत्वविरोधादित्यर्थः ॥ ४१ ॥ सु० टी०-तहिं कि तदिति चेत्तत्राSSह- गन्धच्छायालेशसंस्कारभाषा विज्ञातव्या भाष्यकारीयतन्त्रे। स्वाविदयाया बाधितायाः प्रतीतेः पौर्वापर्येणार्थमालोच्य बुध्या॥। ४२॥ गन्धच्छायेति। माष्यादिग्रन्थे बाधिताविद्याप्रतीतिरेव गन्धच्छायादि- शब्दैरुच्यत इति पौर्वापर्यपरामर्शादवगव्यत इत्यर्थः ।। ४२॥ अ० टी०-इदानीं तत्स्वरूपमाह-गन्धच्छायेति। विद्याबाधितायाः स्क्रवि- द्याया या प्रतीतिः प्रतिभासस्तस्याः प्रतीतेर्गन्धच्छायादिभाषा भाष्यकारीयतन्त्रे ग्रन्थविशे- षेऽन्येषामपि ग्रन्थेषु दृश्यमाना विज्ञातव्या। कथं विज्ञातव्येति तत्रोपायमाह -- पौर्वा- पर्येणेति। बाधिताया एवाविद्यायाः प्रतीतिर्गन्धादिशब्दैरभिलप्यत इति विदुषां ग्रन्थेषु पौर्वापर्यालोचनादवगम्यत इत्यर्थः ॥ ४२॥ सु० टी०-ननु जीवन्मुक्तिपक्षे मापाया अर्थवत्ता मृग्या सैव
जीवन्मुक्तिस्तावदस्ति प्रतीते- ्वैतच्छाया तत्र चास्ति प्रतीते: । द्वेतच्छाया चास्ति लेशप्रतीते- स्तस्मिन्नर्थे स्वानुभूतिः प्रमाणम् ॥४३॥ १ ख. व. या चास्ति लेशप। २ ख. ग. घ. 'या रक्षणायास्ति लेशस्त।
Page 404
[४ चतुर्थोऽध्याथः ] संक्षेपशारीरकम्। ८४१
जीवन्मुक्तिरिति। जीवन्मुक्तिस्तावदनुभवादेवाङ्गीकार्या तन्र द्वैतावभा-
साऽवि स्वीकार्षेत्यर्थः । ४३।। अ० टी० -- मनु बाधिताया अविद्याया अवस्थानं प्रतीतिर्वा न्यायविरुद्धमिति चेत- ब्राऽह-जीवन्मुक्तिस्तावदिति। प्रतीतेरनुभवबला दित्यर्थः । तत्र जीवन्मुक्त्यन् स्थायां द्वैतच्छाया द्वैताभासश्चास्ति प्रतीतेः। एतत्सर्व बाघिताविद्यानुवृत्ति बिना नोपपद्यत इत्याह-द्वैतच्छाया चास्ति लेशपरतीतेरिति। लेशशब्दो बाधिताविद्यावचनो लेशप्रतीतेरेत्र द्वैतच्छायाऽप्यनुभवसिद्वाऽस्त्यकारणकार्यायोगात्तथा कल्पनीयत्वादित्यर्थः । यस्मादेवं तस्मि्ुक्तते सर्वस्मिन्नर्थे स्वानुभूतिः प्रमाणं तस्मादत्र नानुपपत्तिश्चोदनीये- त्यर्थः ।। ४३ ॥ सु० टी०-ननु कथं ज्ञानिनोऽप्यविद्यालेशस्तथात्वे वा क: प्राग- वस्थातो विशेष इति तत्राSSह- ब्रह्मात्मत्वं सान्तरायं पुरस्ता- द्वोधोत्पत्तौ ध्वस्तमोहान्तरायम्। यद्प्येवं द्वैतलेशानुवृत्ते: प्रत्यक्षत्वान्मोहलेशोऽयुपेयः ॥। ४४ ॥ ब्रह्मात्मत्वमिति। अन्तरायस्याविद्यादेर्ध्वैस् एव विशेष इत्पर्थः। ताहि कथं लेशानुवृत्तिस्तत्राSSह-यद्यपीति। मोहलेशो बाधितावस्थाननू। अयं माव :- यथा मन्मुखभेवेदं न मुखान्तरमित्यपरोक्षानुभवब्रा- धितमपि मुखभेदाध्यासहेत्वज्ञानं दर्पणाद्युपाधिप्रतिबन्धान्न निवर्तत इति दर्शनबलादङ्गी क्रियते तथा ब्ह्मसाक्षात्कारबाधितोडपि मोह: प्रारब्धप्रतिबन्धादेवानुवर्तत इति श्रुतिस्मृतिविद्वइनुभवबलादेवाभ्युपेय- मिति ॥ ४४ ॥ अ० टी०-यदि मुक्तावस्थायामप्युक्तविधयाSविद्यालेशोऽप्यस्ति तर्हि पूर्वावस्थातः को विशेष इति चेन्महानेव विशेषोऽस्तीत्याह-ब्रह्मातमत्व्रमिति। पुरस्तादविदोदया· हरव ब्रह्मात्मत्वं स्व्रभावतो भासमानमपि सान्तरायमविद्याततकार्यव्यवहितमासीत्। इदानी बोधोत्पत्तौ सत्यां ध्वस्तो मोहरूपोऽन्तरायो यरि्मिसतत्तथोक्तम्। इदानी मोहव्वंसो विशेष इत्यर्थ: । तर्हयविद्ालेशावस्थानं कथमुक्तमिति तत्राSSइ-रधप्येतमिति। द्वैताभास-
१ ख़. 'मुकततयन'।
Page 405
८४२ टीकादुष समेते- [४ चतुर्थोऽध्याये: ]
स्यानुभवाद्ध्वस्तस्याधि मोहस्यावस्थानं प्रतीतिघलादभ्युपेयमित्यर्थः। पूर्वमविद्यातत्कार्यप्रति- भासो व्यामोहहेतुरनर्थकरश्चाSSसीदिदानीं प्रतिबुद्धस्य स्व्रप्ावभासवद्वाधितानुतृत्तिमात्रत्वाद- किंचित्कर. इत्यस्ति महान्विशेष इति भावः ॥ ४४ ॥ सु० टी०-तर्ह्येवमेव देहान्तरमपि स्यादिति नेत्वाह- तस्माज्जीवन्मुक्तरुपेण विद्दा- नारब्धानां कर्मणां भोगसिद्ध्यै। स्थित्वा भोगं ध्वान्तगन्धपसूतं भुक्त्वाऽत्यन्तं याति कैवल्यमन्ते ॥४५॥ तस्मादिति। प्रारब्धकर्मवेगानुरोधादेव बाधितानुवृत्तिः सिध्यति नक्क्षये तु हेत्वमावादनारम्भे विदेहकैवल्यं भवत्येवेत्यर्थः। अत्रायं निगर्व :- अनेकशक्तिमदज्ञानं तस्य चतुर्लक्षण्यभ्यासाज्जगति पारमार्थिं- कत्वबोधनानुकूला शक्तिनिवर्तते भ्रवणाद्यभ्यासे जाते व्यावहारिकत्व- बोधनानुकूला कृतात्मसाक्षात्कारस्य प्रातिभासिकसत्तासंपादिनी।
तिष्ठति तल्लशाख्यपारब्धभोगान्ते तन्निवृत्तिः कैवल्यमिति॥४५॥ अ० टी०-तर्ह्यनेनैव न्यायेन देहान्तरमपि संभाव्येतेति चन्नेत्याह-तस्मादिति। यद्वोपपादितं जीवन्मुक्तमनृद्य तस्य निरन्तरायाँ परमकैवल्यप्राप्तिमाह-तस्मादिति। विद्वानारब्धानां फलदानाय प्रवृत्तानां कर्मणां भोगसिद्धयै जीवन्मुक्तरूपेण स्थित्वा ध्वान्तगन्धप्रसूतं बाधिताविद्यानुवृत्तिमात्रप्रदर्शितं भोगं भुक्वाऽन्ते भोगावसानेऽत्यन्तं कैवल्यं याति विदेहपरमकैवल्यमश्नते। कूटस्थात्मप्रकाशरूपेणावतिष्ठत इत्यर्थः । अनार- न्धफलानां कर्मणां ज्ञानाग्निना दग्धत्वात्प्रारब्धानां च भोगेन विनाशात्सर्वप्रवृत्तिमूलाया अविद्यायाश्च बाधितत्वाद्विदयासंततेरनुवृत्तेः पुनस्तस्याः प्ररोहासंभवातप्रारब्धभोगावसाने परमकैक्ल्यप्राप्तौ न कोऽपि विन्न इत्यभिप्रायः ॥ ४५॥ सु० टी०-उक्ेऽर्थे प्रमाणमाह -- क्षरं प्रधानममृताक्षरं हरः क्षरांत्मानावीशते देव एक: । तस्याभिध्यानाय्योजनात्तत्वभावा- द्द्रूयश्र्ान्ते विश्वमायानिवृत्तिः ॥। ४६ ॥। १ क. हाया वृ।
Page 406
संक्षेपशारीरिकम्
क्षरं प्रधानमिति। ज्ञानोदयात्पूर्व प्रधीयते्म्गदिति धा ज्ञ नं . मच्च सम्यग्ज्ञानाननिवर्तत इति क्षरम्। यज्ञामृताक्षरं बह्म तड्ाविद्यकं सर्ववृत्त्यभिव्यक्तं सत् ।. हस्तीति हरः। द्ोतत इति देव: । स क्षरात्मा- नावीशत ईटे। तस्येदशस्यामृताक्षरस्य हरस्याभिध्यानान्निदिध्यास-
लक्षणा निवर्तते। निवृत्ता च प्रवृत्तकर्मरूलभोगार्थ बाधिततवेन प्रति- मासमानाऽपि भूयक्ष तन्भ्भोगान्तेऽत्यन्तमेव निवर्तत इत्यर्थः ॥ ४६॥ अ० टी०-जीवन्मुक्तौ तद्वतः प्रारब्धक्षये परमकवह्यप्राप्ती च प्रमाणं मत्रोपनिषद- माह-क्षरं प्रधानमिति। पूर्वमत्रे "अजा ह्येका भोक्तृभोग्यार्थयुक्ता०।श्वेताश्वत- १.।९]" इति निर्दिष्टा साभासा मायेह प्रवानशब्देनानूदयते। तत्प्रधानं मायाख्यं क्षरं विनाशि हरस्तदधिष्ट।तेश्वरोऽमृताक्षरममृतं ब्रह्म शुद्धं तेनाSतमनाSक्षरमार्वनाशी। यद्वा यतक्षरं विनाशि तत्सवं प्रधानं भोग्यं यदमृताक्षरमश्नते व्यामोति सव भोग्यमित्यक्षर- ममृतं चः तदक्षरं चामृताक्षरं भोक्तृरूपमित्यर्थः । एको देवः शुद्धः परमात्माक्षराह्मानौ भोग्यभोक्तारावीशते नियमयति भोक्तृभोग्यकल्पनाघिष्ठानत्वेनानुगतोऽवतिष्ठत इत्र्थः । "यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।. अतोऽस्मि. लोके वेदे च प्रथितः पुरुषोत्तम: " [भ०गी०१५।१८] इति स्मृत्युक्त: पुरुषोत्तम एको देवो यः क्षरत्मानावीशते तस्याभिध्यानादभिमुख्येन प्रत्यगभेदेन चिन्तनादयोजनात्तरिमश्चित्तविलयनेन. प्रत्यगात्मनः परमात्मतावन्मत्रतापत्तिरयोजनं तस्माद्योजनात्तत्त्वभावात्प्रत्यक्पराग्भाव हे तुसवोपाधिविलयने सति प्रत्यगात्मन एव परमात्मभ/वेन
वति व्यावहारिकप्रपञ्चसत्त्वावभासकाकारमाया निवर्तत इति यावत्। भूयश्च पुनरप्यन्ते प्रारब्धकर्मफलभोगावसाने विश्वमायानिवृत्तिरित्यावृत्या योज्ं बाधितप्रतिभासमानाकाराय। अपि विश्वमायाया निवृत्तिर्भवतीत्यर्थः । तथा च. भगवद्गीतास्मृतिः " यो मामेवमसंमूढो जानाति पुरुषोत्तमम्। स. सर्वविद्धजति मां. सर्वभावेन. भारत " [गीता० १५. ।. १९]। इति ॥ ४६ ॥ सु० टी०-ननु निर्गुणविद्याप्रकरणेऽचिरादिकाया गतेः श्रूयमाण- त्वात्तह्वारैष मुक्तिन त्वत्रैव ज्ञानसमकालमिति चेत्तत्राSSह- ब्रह्मादीनामस्ति मुक्तिः श्रुतिभ्य- स्तेषाभेषां नार्चिराया गतिर्व: । १. ख. व. भेषां ना° ।
Page 407
टीकाद्वुथ समेतं- [ ४ चतुर्थोऽव्याय: ]
तस्मादस्या निर्गुणब्रह्मविद्या संबन्धित्वं नेषितव्यं भवाद्भिः ।।४७ ।। ब्रह्मादीनामिति। नार्चिराद्या गतिः संभवतीति शेष:॥ ४७ ॥ अ० टी०-नन्वर्चिरादिना मार्गेण ब्रह्मलोकं प्राप्य मुक्तिरिति श्रुतिप्रसिद्धिस्तत्कथं ज्ञानोदयसमन्तरमेव मुक्तिरिति चेत्तत्राऽह-ब्ह्मादीनामिति। "तदो यो देवानां प्रत्यबुध्यत स एव तदभवत् " [बृ० १। ४ ।१०] इत्यादिश्रु- तिभ्यो 'ब्रह्मणा सह ते सर्वे' इत्यादिस्मृतिभ्यश्च श्रतिग्रहणस्योपलक्षणत्वाद्रह्मा- दानां देवानां प्रागेव ब्रह्मलोके स्थितानामप्यस्ति मुक्तिः श्रुतिस्मृत्यवगतेत्यर्थः । तेषामेषां ब्रह्मादीनां नार्चिराद्या गतिर्मार्गोडस्ति वो युष्माकमप्येतत्संमतमित्यर्थः । तेषामषेति चेत्पाठस्तदैषा प्रसिद्धाऽर्चिराद्येति योज्यम्। यस्मादेवं तस्मादस्या गते्निर्गु- णब्रह्मविद्यासंबन्धित्वं भवद्भिवैदिकैनैितव्यं सगुणविद्यावतां ब्रह्मलोकगमनमार्गोडयमर्चचि- रादिर्न साक्षान्मुक्तिमार्गः साक्षान्मुक्तिस्तु यत्रापि देवानां मनुष्याणां वा ज्ञानोदयस- मनन्तरमेव्रेति युक्तमेवोक्तमित्यभिप्रायः ॥४७॥ सु० टी०-तार्है मनुष्याणामर्चिराद्यपेक्षा मवत्विति चेन्न न तस्य पाणा उत्क्रामन्त्यत्रैव समवलीयन्ते'[बृ० ४।४।६] इत्यादिनि- षेधाित्याह- प्राणोत्कान्तिर्नास्ति भूर्धन्ययैषां नाड्या तस्मायत्र यत्रैव विद्या। तत्रैव स्यान्मुक्तिरित्यभ्युपेयं गत्युत्कान्ती तेन विद्यान्तरेषु॥ ४८ ॥ प्राणोत्कान्तिरिति। तर्ह्यचिरादिगतिश्रुतेः का गतिरित्याह-गत्युत्क्ान्ती इति। सगुणविद्यासंबन्धित्वेऽपि तयोनिर्गण विद्यास्तुत्यर्थस्तत्प्रकरणपाठ इत्यथ: ॥४८॥ अ० टी०-"न तस्य प्राणा उत्क्ामन्त्यत्रैव समवेनीयन्ते [ नृसिंहोत्तरता० ५] "ब्रह्लैव सन्ब्रह्माप्येति " [मृ० ४।४ । ६] श्रुतेर्निर्विशेषब्रह्मविद उत्क्रान्तिप्रतिषे- धादपि न कापि गमनमस्तीत्याह-प्राणोत्क्रान्तिरिति। तर्द्यत्कान्तिगतिश्षुतीनां को विषय इति चेत्सगुणविद्यावद्विषयतेत्याह-गत्युत्क्रान्ती इति॥४८ ॥
१ क. ग. न्यथैषां। २ कं, वलीय०।
Page 408
[ ४ चतुर्थोऽध्यायः ] संक्षेपशारीरकम्। ८४५
सु०टी०-किं चार्चिरा दिगतेज्ञांनकर्मसाध्यत्वात्केवलविद्यासाध्यायां देवादिमुक्तावप्रसङ्ग इत्याह- देवादीनां नास्ति कर्माधिकारो विद्या तेषां केवला मुक्तिहेतुः। पारम्पर्यात्कर्भणामस्य हेतो- र्विद्याङ्गत्वं सर्ववर्णाश्रमाणाम् ॥४९॥ देवादीनामिति। कुत्र तारहहि कर्मणामुपयोग इति चेत्तत्राSSह-पारम्पर्या- दिति।४९॥ अ० टी०-देवादीनां कर्मानधिकृतानामपि मुक्तिभाकत्वावगमादेव विद्यायाः पूर्वोक्त- कर्मादिसहकारिनैरपेक्ष्यं सिद्धमित्याह-देवादीनामिति। हेतुरित्यतो न कर्मसापेक्षा विद्येति शेषः । तर्हि "सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् " [ब्रह्मसूत्र० ३ । ४। २६ ] इति कर्मापेक्षित्वकथनं कथमितिचेत्तत्राऽऽह-पारम्पर्यादिति। अस्य हेतोरस्माद्वेतोः कर्मानधिकारिष्वपि विद्याया मुक्तिहेतुत्वाद्वेतोरित्यर्थः । सर्ववर्णाश्रमाणीं कर्मणां पारम्पर्या- द्विद्ाङ्गत्वमित्यन्वयः । अतो न सर्वापेक्षाधिकरणविरोध इत्यर्थ: ॥ ४९ ॥ सु० टी०-केन द्वारेण पारम्पयं कि वा तत्र प्रमाणमिति तत्राSSह -- पारम्पर्य शुद्धिहेतुत्वहेतो- यंज्ञादीनां भूयते स्मर्यते च। साक्षादेषां मोक्षहेतुत्वभेव- मन्विच्छन्तोऽप्यागमान्न प्रतीमः ॥ ५० ॥ पारम्पर्यमिति। ननु 'ज्ञानं प्रधानं न तु कर्म हीनम्' इत्यादिषु साक्षा- देषां मुक्तिहेतुत्वं श्रूयत इति चेन्न तेष्वपि पौर्वापर्यान्वेषणायां शुद्धि- करत्वमेव निश्ीयत इत्याह-साक्षादेषामिति ॥ ५० ॥ अ० टी० -- केन द्वारेण पारम्पर्य किंचात्र प्रमाणभिति तदाह-पारम्पर्यमिति। शुद्धिहेतुत्वरूपाद्वेतोरित्यर्थः । "धर्मेण पापमपनुदति " [ महानारायण० २२।१] "पुण्यो वै पुण्येन कर्मणा भवति " [बृहृदा० ४।४।५]"विविदिषन्ति यज्ञेन
१ ख. °णां पा।
Page 409
८४६ टीकाटवय समेतं- [ ४ चतुर्थोडन्याय: ]
दानेन" [बृहदा० ४। ४ । २२ ] इत्यादि श्रूयते "तपसा कल्मषं हन्ति" "कषायपक्ती: कर्माणि " इत्यादि स्मर्यते चेत्यर्थः । यदपि कर्मणां साक्षान्मोक्षहेतुत्व- विषयमिव क्वचिच्छतिस्मृतिवचनजातं दृश्यते "कर्मणैव हि संसिद्धिमास्थिता जनकां- दय:" [गीता० ३ । २० ] "एष वः पुण्यः सुकृतो ब्रह्मलोक: " [ मुण्ड० १। २ । ६ ] इत्यादि। तदपि पौर्वापर्थेणान्विष्यमाणं न साक्षात्कर्मणां मोक्षहेतुत्वपरमित्याह- साक्षादेषामिति ॥५० ॥ सु० टी०-शास्त्रार्थ सकलमुक्तमुपसंहरति- इति बहुश्रुतभाषितमुच्चकै: श्तिशिरोवचनानुगतं महत् । समुपदिष्टामिदं कपया मया प्रियमतीव हितं च मुमुक्षवे ।।५१॥ इति बहुश्रुतेति। कृपया न तु लिप्सथेत्यर्थः ॥ ५१ ॥ अ० टी०-आदित आरम्य निरूपितं शास्त्रार्थमुपसंहरति-इति बहुध्रुत माषितमिति। इदं शास्त्रं महदुत्कृष्टं ब्रह्मविद्याहेतुत्वान्महतो ब्रह्मणः प्रतिपादकत्वा- द्वा. महन्मया कृपया ममुक्षवे समुपदिष्टमित्यन्वयः । किलक्षणं. प्रियं श्रवणकालेऽपि प्रीति- करं परिणामेऽतीव हितं पथ्यं च। तस्य बहुश्रुतभाषितमितिविशेषणेन वेदेविदाचार्य- संमतत्वेन शिष्टाऽपरिग्रहदोषशङ्का परास्ता। श्रुतिशिरोवचनानुगतमिति मूलप्रमाणदार्द्य- मस्योक्तम्। उच्चकैः समुपदिष्टमिति संबव्यतेऽ्शेषत इत्यर्थः । उचकैर्बहुश्रुतभाषितः मित्यन्वयेऽपि स एवार्थ: ॥ ५१॥ सु० टी०-अत्र निर्गुण विद्याफलैकदेशभूतजीवन्मुक्तिनिरूपणपाद्य- पादस्य। सगुणनिर्गण विदोरुत्कान्त्यनुत्कान्तिचिन्तां द्वितीयस्य। सग- णविद्याफलोपयोगिगतिगन्तव्यगन्तृचिन्तां तृर्तीयस्थ। निर्गुणविद्याफ- लपूतिरूपस्व रूपाविर्भावसगुणविद्याफलैश्वर्याततिनिरूपणं चतुर्थस्थेति
नोपसंहरति -. एवं समन्वयविरोधनिरासविय्या- निष्पत्तिसाधनफलानि गुरेः क्रमेण।
१ ख. वेदान्तविब्वदा।
Page 410
[ ४ चतुर्थोऽध्याय: ] संक्षेपशारीरकमू। ८४७
विज्ञाय वेदफलमात्मनि सर्वमेव पश्यन्नुवाच कतकत्यमतिः स शिष्यः ॥ ५२ ॥ एवमिति। सर्वमिदमाचार्यादुपश्रुत्य वेदनफलस्य सर्वस्य द्वैतबाधपरमा- नन्दाप्तिरूपस्याSSत्मनि दृष्टत्वात्कृतकृत्यमात्मानं पश्यत्र्छिष्य उवाचे- त्यर्थः । ५२॥ अ० टी०-एवमाचार्ये शेषशास्त्रार्थमुपन्यस्योपरते शिष्यः कि कृतवानित्यपेक्षाया मुक्तशास्त्रार्थशारीरानुवादेन शिष्यः स्वानुभवनिवेदनाय प्रवृत्त इत्याह-एवं समन्व- येति। वेदफलं वेदनफलमात्मनि पश्यन्साक्षादनुभवन्कृतकृत्यमतिः सन्नुवाचेत्यर्थः ॥५२॥
विद्याविग्रहमग्रहेण पिहितं प्रत्यश्चमुच्चैस्तरा- मुत्कष्योत्तमपूरुषं मुनिधिया मुआदिषीकामिव। कोशात्कारणकार्यरूपविकवतात्पश्यामि निःसंशयं क्कासीदस्ति भविष्यति क नु गतः संसारदुःखोदाधिः॥५३॥ विद्येति। कार्यकारणरूपेण विक्ृतादन्नमयादिकोशादनात्मराशेर्मुख्ज- दिषीकामिव प्रत्यक्ं परमात्मानमुच्चैस्तरामज्ञानेन पिहितं सुनिधिया मनननिशितया धियोत्कृष्य निःसंशयं पश्यामीति संबन्धः । क्वासीदि- त्यादि: संसारनिवृत्तेरभिनयः ॥५३॥ अ० टी०-उक्तिप्रकारमेवाSऽह-विद्याविग्रहमिति। कारणकार्यरूपविकृता-
स्तरां मुनिधिया मनननिशितधियोत्कृष्य सम्यक्पृथक्कृत्योत्तमपू्रेषं 'स उत्तम पुरुषः' [छान्दो० ८।१२।३ ] इति श्रुतिप्रदर्शितं पूर्णात्मानं निःसंशयं यथा स्यात्तथा पश्यामीत्यन्वयः किं लक्षणं प्रत्यञ्चं स्वभावतो विद्याविग्रहं ज्ञानस्वरूपमथ चाग्रहेणानिर्व- चनीयाज्ञानेन पिहितमाच्छादितम् । एवं प्रत्यश्चमात्मानमुत्तमपुरुषं परमात्मानमनुभवतो मम संसारोऽत्यन्तमेव्र निवृत्त इत्याह-क्वासीदिति। कालत्रयेऽप्यहं संसारसंबन्धरहित एव सन्नात्माग्रहणाज्ञानवशादेतावन्तं कालं मृवैव संसार्यस्मीति मन्यमान आसम्। इदानी त्वत्प्रसादान्न कदाऽप्यहं संसारी कि तु ब्रह्मैव सदाऽस्मीति ममाद्य निश्चयः संजात इत्यर्थः ॥ ५३ ॥
१ ख, "रूप इ।
Page 411
टीकाद्वय समेतं- [ ४ चतुर्थोऽध्याय: ]
पश्यामि चित्रमिव सर्वमिदं द्वितीयं तिष्ठामि पुष्कलचिदेकवपुष्यनन्ते।
पश्यामि दग्धरशनामिव च प्रपञ्चम् ॥५४ ॥ पश्यामीति। नैतावता मुक्ते: काचिदृपि हानिरित्याह-तिष्ठामीति । तथाऽपि कथं ज्ञानिनः प्रपञ्चानुमव इत्याशङ्कक्य स आत्मानुभवेन वाध्यमान एवोदेतीत्याह-दग्धरशनामिवेति ।। ५४।। अ० टी०-तथाऽपि मे जीवनोभासोऽप्यनुवर्तत इत्याह-पश्यामि चित्रमि- वेति। चित्रमिवेत्यकिंचित्करत्वे दृष्टान्तो यथा चित्रहस्तिनं व्याघ्रं वा चित्रमयं पश्यतोऽपि न भयकम्पादिर्भवत्येवं द्वैतं पश्यतोऽपि मम न संसारित्वावभास इत्यर्थः। कथं द्वैतं पश्यतोऽपि तव पूर्ववद्यामोहाभाव इत्यत आह-तिष्ठामीति। विषयाकारवृत्युपरागाभावात्पुष्कलाS नवच्छिना या चित्तन्मात्रस्वरूपेऽत एवानन्ते त्रिविधपरिच्छेदरहिते पूर्णात्मनि तिष्ठामीत्यर्थः। किंतत्पूर्णात्मन्यवथानं कुण्डे बदरवद्धित्तौ चित्रवदवस्थानं नेत्याह-आत्मानमिति। आत्मनः परमात्मरूपेणानुभव एव तत्रावस्थानं नाम यथा देहादावात्मत्वानुभवो देहादावव- स्थानं तद्वत्। न ह्यमूर्तस्यापरिच्छिन्नस्याऽऽत्मनोऽन्यादृशमवस्थानं संभवतीत्यर्थः। ननु द्वैंत- प्रतिभासे सति कथमद्वयात्मानुभव इति चेन्मैवमद्वयात्मानुभवोदयनान्तरीयकतया द्वैतस्य बाधितत्वादित्यभिप्रेत्याह-पश्यामि दृग्धेति ॥५४॥ सु० टी० -- तथाऽपि द्वैतानुमवेनाद्वैतमानस्यापि बाधः स्वादिति नेत्याह -- अद्वैतमप्यनुभवामि करस्थबिल्व- तुल्यं शरीरमहिनिर्ल्वयनीवदीक्षे। एवं च जीवनमिव प्रतिभासनं च निःश्रेयसो निगमनं च मम प्रसिद्धम् ॥५५॥ अद्वैतमपीति। तस्यानन्यथासिद्धापरोक्षखेनाबाध्यत्वमित्यर्थः । द्वैतं बाधितं चेत्कथ प्रतिभासत इति पूर्ववन्न भासत इत्याह-शरीरमिति । यथा सर्पो मुक्तामपि त्वचं संस्कारवशादात्मत्वेन तद्भिमानरहित एव
१ ख. छ मि निष्क0 । २ क. नाम्यासो । ३ ख. वाभिष्क।
Page 412
[ ४ चतुर्थोऽध्याय: ] संक्षेपशारीरकम् । ८४९
पश्यति तथेत्यर्थः । एवं जीवन्मुक्ती ममानुभव एवं प्रमाणमित्याह-एवं चेति ॥ ५५ ॥ अ० टी०-अद्वैतात्मानुभवो मम न परोक्षरूपो येनापरोक्षप्रप्चदर्शनं सत्यं स्या्त्कि- त्वपरोक्ष एवाद्वैतात्मानुभव इत्याह-अद्वतमपीति। एवमपि शरीरमहिनिर्ल्वयनीव वीक्षे। अंहिनिर्ल्वयनी सर्पत्वक्। यथा सर्पः परित्यक्तं स्व्रकञ्चुकं पश्यन्नपि पूर्ववदात्मत्वेन नाभिमन्यते तथेदं शरीरं कदाचित्पश्यन्नपि माऽडत्मतया जानामीत्यर्थः । एवं च जीव- न्मुक्तिरनुभवसिद्धा ममेत्याह-एवं चेति। जीवनमिवेतीवशब्दो देहादिसंबन्धितया जीवनप्रतिभासो बाधितानुवृत्तिमात्रो न परमार्थ इति द्योतनार्थः ॥ ५५॥ सु० ठी०-इदानीं मदपकारिण: प्रतीकारोऽपि वृत्त इत्याह- अद्वैतवाधकमभून्मम यद्द्वितीय- मद्दैतमस्य बत बाधकमद्य जातम्। मोहाद्दितीयमपबाधकमस्य विद्या- सामर्थ्यतो द्वयनिवर्हणमद्वितीयम्॥ ५६ ॥ अद्वैतेति। अतः परंन द्वैतस्य पुनर्मदपकारसामथ्यमित्याह-मोहादिति। दौर्षल्ये हेतु :- विद्यासामर्थ्यत इति। तस्या वस्त्वनुरोधित्वेन बलवत्त्वा- दित्यर्थः ॥५६॥ अ० टी०-इदानीं मदपकारिप्रतीकारोऽपि लब्ध इत्याह-अद्वेतबाधक मिति। बतेति हर्षे। पुनरपि कदाचिदद्वैतबाधकं द्वैतं भविष्यति न हि न हीत्याह-मोहा- दिति । द्वैतकृतस्याद्वैतबाधस्य मोहमात्रनिबन्धनत्वान्न वास्तवोऽदैतबाधः । इदार्नी मोहस्य समूलोन्मूलनान्न द्वैतस्य पुनरुद्धव इति कुतस्तेनाद्वैतबाधशड्केत्यर्थः । अद्वितीयेन द्वैतबाधनं सत्यं तस्य प्रमाणनिबन्धनत्वादित्याह-विद्यासामर्थ्यत इति ॥५६॥ स० टी०-इदानीं तु प्राक्तनद्वैतानुमवोऽपि ममाश्चर्यमावहती- त्याह- आश्र्वर्यम मम भाति कथं द्वितीयं नित्ये निरस्तनिखिलाशिवचित्मकाशे। आसीत्पुरेति किमिमा: भ्ुतयो न पूर्व येन द्वितीयमंभवत्तिमिरप्रमूतम् ॥५७ ॥
Page 413
हीकाद्वयसमेतं- [ ४ चतुर्थोड्याय: ]
आश्चर्यमिति। निरस्ता [स्तनिखिला]शिवश्रासी चित्प्रकाशश्रेति समासः। पूर्व श्ुत्यर्थाज्ञानान्नाश्चर्यमिति चेतसत्यमनादिश्ुतेरेतावकालमर्थाननु- भवोऽप्यंद्भुत एवेत्याह-किमिमा इति ॥५७ ॥ अ० टी०-इतः पूर्व द्वैतप्रतिभासो यन्ममाभुत्तत्राप्याश्चर्यमेवेदानी मे वर्तत इत्याह- आश्चर्यमेवेति । विरुद्धस्वभावयोरात्मानात्मनोस्तादात्म्यानुभवः कथमासीदित्याश्चर्य- मित्यर्थ: । किमत्राऽडश्वयँ श्रुत्यर्थानवगमादेव तथा प्रतिभासोऽभूंदिदानी तदवगमा- निवृत्त इति चेत्सत्यमनादिनिधनायाः श्रतेरर्थ इतः पूर्व नावगत इत्येतदप्याश्षर्यमित्याह- किमिमा इति॥ ५७॥॥ सु० टी०-ईहशानुभवे च मम त्वदनुग्रह एवं हेतुरिति तात्पर्य- मपीत्याह- त्वत्पादपङ्कजसमाश्रयणं विना मे सन्नप्यसन्निव परः पुरुषः पुराऽडसीत्। त्वत्पादपद्मयुगळाश्रयणादिदानीं नासीन्न चास्ति न अविष्यति भेदबुद्धि: । ५८ ।। व्वत्पादेति । ५८॥ अ० टी०-निवृत्तं च मम सर्वमेवाSSश्वर्यं यतस्त्वदनुग्रहाभावादेव मम संसारानुभ: वोऽभूदिदानी च त्वदनुग्रहान्निवृत्त इत्याह-त्वत्पादृपङ्कजेति। सन्नपीत्यात्मरूपेण सन्नपि तेनाऽSत्मनाSसंन्िवाSSसीदित्यर्थः ॥ ५८॥ सु० टी०-नापीहशस्य त्वदुपकारस्य प्रत्युपकारसमर्थोऽहमस्यात्ति- दुर्लभत्वादाप्तकामस्य च तव क्वाप्यपेक्षाभावादिति कृपामात्रपवृत्तस्य ते सेवनमेव करिष्यामीत्याह- यस्मात्कपापरवशो मम दुश्विकित्सं संसाररोगमपनेतुमसि प्रवृत्तः। त्वत्पादपङ्कजरजः शिरसा दधान-
यस्मादिति॥५९ ॥
Page 414
६४ चतुर्थोडध्याय: ] संक्षेपशाररिकम्।
अ टी०-अस्य च त्वत्कृतोपकारस्य प्रत्युपकारो नासत्येतत्तुल्यस्यान्यस्याभावात्तव च. सर्वतो निरपेक्षत्वान्मयि कृपामात्रप्रयुक्तप्रवृत्तित्वाच्चातस्तव सेवामात्रं करोमीत्याह- यस्मात्कृपेति ॥५९ ॥ सु० टी .- ग्रन्थनिर्माणप्रयोजनमुपसंहरति- संक्षेपशारीरकमेवमेत- त्कतं परिव्राजकमुक्तिहेतुः ॥ गुरुप्रसादात्परिलक्ष्य तत्वं त्रयीशिरस्तत्वनिवेदनाय ॥६० ॥ संक्षेपेति ॥ ६० ॥ अ० टी०-शिष्योक्ति: समाप्ता। इदानीं ग्रन्थकारः प्रारब्धां स्वकृतिमुपसंहरति- संक्षेपशारीरकमिति। त्रयीशिरस्तत्त्वनिवेदनायेति त्रयीशिरसो निकृष्टार्थप्रकटनाये- त्यर्थः ॥ ६० ॥ सु० टी०-भोतृप्रवर्तनाय स्वग्रन्थं यङ्गासाम्येन स्तुवन्मगवति सम- षयति -- अविरलपदपङ्क्तिः पद्मनाभस्य पुण्या चरणकमलधूलिग्राहिणी भारतीयम्। घनतरमुपधातं श्रेयसः श्रोतृसंघा- नसुरसंरिदिव सदो मार्ध्ट माङ्गल्यहेतुः ॥ ६१ ॥ अविरलेति। अविरलपद्पड्गिरियं मारती पद्मनामस्य चरणधूलिग्रा- हिणी सतः श्रोतृसंघाच्छेयस उपधातं मार्द्टित्यन्वयः ॥६१॥ अ० टी०-एतां कृति. भगवति नारायणे समर्पयन्स्वकृतेर्मङलं प्रार्थयते- अविरलेति । इयं भारती श्रेयसो घनतरमुपघातं श्रोतृसंघात्सदो मार्ष्टित्यन्वयः । किलक्षणा भारती माङ्गल्यहेतुर्मङ्गलप्रदेत्यर्थः। तां गङ्गासाम्येन रूपयति-अविरलेति। विरलाऽसंल्लिष्टा पदानां पङ्किर्यस्याः सा विरलपदपङ्किर्नेयं तथेत्यविरलपदपङ़िः । गङ्गाऽपि तथाविधस्वप्रवाहस्थानपङ्गिः प्रसिद्धा । पद्मनाभस्य श्रीमदनन्तपुरवासिनः शेषाङ्के शयानस्य नारायणस्य चरणकमले धूलिग्राहिणी तच्चरणयोः सम्र्पिता सती तथाविधा। गङ्गा तु भगवतः पद्मनाभस्य त्रिविक्रमरूपं धृतवतश्चरणकमलवूलिग्राहिणी
१ ख. निष्टद्वितार्थ। २ क. संघाः सु।
Page 415
८५२ टीकाद्वय समेतं- [ ४ चतुर्थोऽच्याय:]
प्रसिद्धा । अत एव पुण्या पावयित्री भारती गङ्गा चेत्यर्थः । कृतेरस्या माङ्गव्यं नाम सज्जनसंग्रहपूर्वकं तदूद्वारा श्रोतृणां पुरुषार्थासेद्धिरेव ताद्शस्य मङ्गलस्य हेतुरस्त्विति तात्पर्थार्थः ॥६१॥ सु० टी०-ग्रन्थस्य सांप्रदायिकत्वं दर्शयितुं गुरोरात्मनश्र नाम निर्दिशन्ग्रन्थोत्पत्तिसमयं कथयति- श्रीदेवेश्वरपादपङ्कजरजः संपर्कपूताशयः सर्वज्ञात्मगिराडङूकितो मुनिवरः संक्षेपशारीरकम्। चक्रे सज्जनबुद्धिमण्डनमिदं राजन्यवंश्ये नृपे श्रीमत्यक्षतशासंने मनुकुलादित्ये भुवं शासति ॥६२॥ श्रीदेवेश्वरेति ॥६२॥ अ० टी०-ग्रन्थस्य साप्रदायिकत्वं दर्शयितुं गुरोर्नाम कर्तुश्च कालविशेषं नाम च निर्दिशति। श्रीदेवेश्वरेति। सर्वज्ञात्मगिराSङ्कितः सर्वज्ञात्मनामा मुनिवरः संन्यासिश्रेष्ठ इदं संक्षेपशारीरकं नाम ग्रन्थं किलक्षणं सज्जनबुद्धिमण्डनं विद्वद्दद्धयलंकरणं विदुषां शोभाप्रदमित्यर्थः । कदा चक्र इत्यपेक्षयामाह-राजन्यवंश्य इति। क्षत्रिय इत्यर्थः । नृपे राजनीतियावत्। तस्य नाम निर्दिशति-श्रीमतीति। श्रीमन्नाम्नि किलक्षणेऽक्ष- तशासनेSप्रतिहताज्ञ इत्यर्थः । तस्य राज्ञो वंशतश्च श्रैष्ठयमाह-मनुकलादित्य इति। मनुवंप्रकाशक इत्यर्थः । एवंभूते श्रीमन्नाम्नि नृपे भुवं शासति सति सर्वज्ञात्मगिराड़- झ्वितो मुनिवरः संक्षेपशारीरकं चक्र इत्यन्वयः ॥ ६२ ॥ सु० टी० -- समाप्तौ मगवन्नमस्काररूपं मङ्गलमाचरति- भुजङ्गमाङ्गशायिने विहङ्गमाङ्गगामिने। तुरङ्गमाङ्गभेदिने नमो रथाङ्गधारिणे॥ ६३॥ इति श्रीदेवेश्वरपूज्यपादशिष्य सर्वज्ञात्ममहामुनिविरचिते संक्षेपशारीरके फललक्षणं चतुर्थोडध्यायः।
भुजङमाङ्गेति ॥६३ ।। शुभसंप्रदायमणितीरनुसृत्य मतं च रामतीर्थगुरोः। एतत्प्रचन्धरत्नं व्याकारि मया प्रयत्नेन ।। १ ॥
१ क, 'ने मुनितुला ख. ने मनुतुला । २ रचनं
Page 416
[ ४ चतुर्थोडच्याय: ] संक्षेपशारीरकम्। ८५३
इयं संक्षेपशारीरसुखबोधनदीपिकां। अन्तस्तम:प्रशमनी सद्भिः स्नेहेन पूर्यताम्॥ २॥
रुषोत्तममिश्रकृतौ संक्षेपशारीरकसुबोधिन्यां चतुर्थोऽध्याय:।।४ ॥
अ० टी०-आद्यन्तयोः कृतमङ्गला ग्रन्थाः प्रचारिणो भवन्तीति शिष्टप्रसिद्धिम- नुरुष्य ्रन्थस्यान्तेऽपि भगवन्नमस्कारलक्षणं मङ्गलमाचरति-मुजङ्गमाङ्गेति। आदयेन विशेषेन भक्तानामभीष्टदानाय प्रसन्नावस्थोक्त्ता परैस्तिरिभिर्विशेषणैस्तेषां परिपन्थिनिरसनेन संरक्षणाय भगवत्प्रवृत्तिरुक्तेतितात्पय ज्ञेयम्- सिद्धान्तदीपं पुरतो निधाय वेदान्तमन्तर्गृहसंनिविष्टम्। संक्षेपशारीरकरत्नपुअं प्रकाशमादाय मया विविक्तम् ।। १ ।। सर्वज्ञात्ममुनिप्रणीतममलं संक्षेपशारीरकं दृष्टान्तर्विभवं पुरस्कृतमहासिद्धान्तदीपार्चिषा। उन्नीयार्थविभागतः प्रतिपदं संबन्धविद्योतिनी व्याख्या तस्य सतां मनःप्रियकरी व्याख्यातृचित्तौकसः ॥ २॥ नमोऽस्तु तस्मै रामाय हृद्यन्तर्त्योतिषे सते। वायुनेव तृणं येन विचेष्टन्ते प्रजाधियः ॥ ३॥ नमस्तेभ्यो गुरुम्योडस्तु येषां संनिधिमात्रतः । ममान्तस्तिमिरं ध्वस्तं बाह्यं ध्वान्तं रवेरिव ॥ ४ ॥
इति श्रीमत्पर महंसपरित्राजकाचार्यकृष्णतीर्थशिष्यरामतीर्थविरचितायां संक्षेपशारीरकटीकायामन्वयार्थकाशिकायां चतुर्थोड़ध्यायः समाप्तः ।
समाप्तं चेदं टीकाद्वयसमेतं संक्षेपशारीरकम्।
Page 420
परिशिष्टम् ।
अस्माभिरेतट्टीकाशोधनावसरे मुद्रणसमये च पुस्तकान्तरालाभात्तत्ततस्थले त्रुटिदर्शिता, परं मुद्रितपुस्तकलाभे, अध्यायसमाप्तौ परिशिष्टरूपेण सा त्रुटिः पूर्णतामापादित्ा। यद्यप्यत्र केषां चिच्छ्लोकानां टीका नानुपूर्वीतः संगच्छते तथाडपि टीकैक्यं निश्चि मुद्रि- तपुस्तकात्तत्तच्छ्लोकटीका पूर्णेवात्र गृहीता। पेज ८६ श्लो० ६०-६४ अन्वयार्थेटीका-
न केवलं पुरुषतव्राभावादेव ब्रह्मज्ञानस्याविधेयताऽपि तु विषयासिद्वेरपीत्याह- अपि च रूपितगोचरतेति। विधेर्विधानस्य नियोगस्य वा रूपितगोचरताऽन्यतोड- वगतविषयनिष्ठता हि स्वभावो यथा यागादेः क्रियाया विपयस्य लोकतः सिद्धौ सस्मिन्विधिर्द्ष्टो नात्यन्तानवगते धात्वर्थ इत्यर्थः । तर्हि प्रकृतेऽ्यवगतगोचरताविधेः कि न स्यादिति नेत्याह-न परमात्मधिय इति। अयमर्थः-न तावदहमिति सर्वजनीन- माहमज्ञानं विधेयं तदनुष्ठानस्य विनाऽपि विधिं नित्यप्राप्तत्वात्तद्विघानस्य मोक्षकलत्ा- भावाच। अथालौकिकपरमात्मज्ञानं विधेयं तदनुष्ठानस्यान्यतोऽप्राप्तत्वान्मोक्षफलत्ोपपत्ते. श्चेति मतं तदपि न तस्य वेदान्तवाक्येभ्योऽन्यतोऽसिद्धेविषयासिद्धौ विष्यसंभवात्। नहि परमात्मनोऽसिद्धौ तद्विशेपितं ज्ञानं सिध्यति। परमात्मा चौपनिपद एवेति स्थितेरुप- निषद्वाक्यस्य विधिपरत्वेन तेन परमात्मसिद्धिः। परमात्मपरत्वे च न विधिसिद्धिरुमयपरतवे तु वाक्यभेदापत्तिरतो न परमात्मधियो निरूपणमस्तीति। अतो विपयासिद्रेर्न विधि- रित्युपसंहरति-अविदिते परमात्मनीति। रूपितता सिद्धता घटनान्व्रिता प्रामा- णिकी विशेषणासिद्धौ विशिष्टविषयस्याप्यसिद्धेरित्र्थः ॥ ६० ॥ अथ सत्यज्ञानादिवाक्यानां ब्रह्मप्रतिपादकत्वमवान्तरतात्पर्येगाभ्युपेयते ततः सिद्धे ब्रह्मावगमें विधिरिति चेत्तत्राऽडह-विदितता परमात्मन इष्यते यदीति। यदि सत्यादिपदैः परमात्मनो विदितत्वमङ्गी क्रियते तदाऽस्य परमात्मनो धियो ज्ञानस्य विधिरट्टथा निरर्थको भवेत्। कुत इत्यत आह-निखिलभेदेति। निखिलभे दस्याशेपविकल्पस्य संसारलक्षणस्य यन्निदानमनाद्यनिर्वचनीयाज्ञानं तस्य नितृत्तितः परमात्मज्ञानोदयनान्तरी- यकतयाऽपबाधनादविध्यनुष्ठानकार्यस्य प्रागेव सिद्धेस्तत्र विधिरनर्थक इ्पर्थः। न केवल- मस्मिन्पक्षे विधिवैयर्थ्यमशक्यता चत्याह-भवतीति। तद्विपयादपि विध्यपेक्षित- विषयनियोज्यकारकफलाद्यपि तदा दुर्लभं भवति। नहि वेदान्तवाक्यप्रमाणेनाद्वितीयं ब्रह्लैवाहमात्मेत्यवगमे तद्विरुद्धक्रियाकारकफलभेदस्फुर्तिरुन्मिषेद्येन विव्यवसर हत्यर्थः ।
Page 421
परिशिष्टम् १
तस्मात्कर्मकाण्डविषय एव विचारः प्राच्या मीमांसया कृतो न ज्ञानकाण्डविचारोऽतः पृथगारम्भो युक्त एवेति भावः:॥ ६१॥ अंगतार्थत्वसाधनमुपसंहरति-इति न धर्मविशेषसमर्पणमिति। इति यतः श्रुतिश्िरोवचनैर्धर्मविशेषस्य ज्ञानोपासनारूपस्य समर्पणं च क्रियते विनाऽपि विधिसंबन्धं फलवंद्विज्ञानसमर्मकत्वात्। ततस्तस्मात्परमात्मविचारणे धर्मत्रिचारगतार्थतानवसरो भवति पृथगेव ब्रह्मविचारः कार्य इत्यर्थ: ॥ ६२ ॥ ननु वेदान्तेष्वपि 'आत्मा घा अरे द्रष्टव्यः'[बृह २।४।५]* सोऽन्वेष्टव्यः स विजिज्ञासितव्यः'[छा० ८। ७।१] ' तद्विजिज्ञासस्व [तैत्ति० ३। १ । १ ] इत्येवमादिषु विधयः श्रूयन्ते। ते चानन्यार्थो इति कथं वेदान्तेषु विध्यभावेनागतार्थतोच्यत इतिचेन्मैवं तेषामन्यार्थत्वादित्याह-अहाद्यर्थे चेति। न केवलं विधावेव तव्यप्रत्ययो विहितो येन तच्छरवणबलाद्वेदान्तेषु विध्यम्यु- 'पगम: किंतु 'अर्हे कृत्यतृचश्र' [पा० सू० ३ । ३ ।१६९ ] इतिसूत्रयतः 'पाणिनेराचार्यस्पार्हादर्थे चापि कृत्यस्मरणमभिमतमिष्टमेव। तथा लिड्लोडादेश्व प्रत्ययस्य प्रचुरं यथा स्यात्तथा प्रार्थनादौ वृत्तिः पाणिनेजैमिनेश्वाSSचार्यस्याभिमता। भवत्वेवं तथाऽपि प्रकृते किमायातं तदाह-तस्मादिति। अन्यथेति विध्यर्थत्वव्युदासेनार्हार्थ- तयैव योजनीयमित्यर्थः । तत्र हेतुमाह-विध्यर्थेति। सफुटं यथा भवति तथोदितन- यात्पूर्वोक्तन्यायाद्विष्यर्थासंभवेन हेतुनेति योजना। तस्मादेतच्छास्त्रमन्यागतार्थमन्यतो न विचारितार्थमित्यर्थः ॥ ६३॥॥ नन्वेवमुक्तेन प्रबन्धेनासाधारणविषयप्रयोजनत्वेऽषि प्राध्या मीमांसया शास्त्रान्तरेण वा गतार्थत्वाभाबेऽपि नेदमारम्भमर्हत्यविकार्यभावात्। न हि निरधिकारिकं किमपि शास्त्रमस्ति। न चेहाधिकारी कश्विदसाधारणः संभवति। न तावद्वेदाध्ययनवा- निहाधिक्रियते तस्य धर्मब्रह्मजिज्ञासयोः साधारण्याद्वर्मविचारं परित्यज्य ब्रह्म- विचार एव प्रवृ्त्यसंभवात् । तथाऽपि धर्मविचारानन्तरं स एवेह प्रवर्तिष्यत इतिचेन्न तस्य विचारितधर्मानुष्ठान एव प्रवृत्तिसंभवात्। अनुष्ठानाय हि तेन वर्मो विचारितो न केधलमदष्टार्थमिति। तर्ह्यनुष्ठानानन्तरं स एव रविचारमेनं करि- व्यतीति चेन्नानाश्वासापत्तेः । न हि स्वयमधीत्यार्थभवबुध्य सर्वमवबुद्धं वेदार्थमनु- ष्ठाय पश्चाद्वह्मजिज्ञासां करिष्यामीत्यध्यवसायः कस्यचिदुपपद्यते तावत्कालं जीवनं प्रत्यनाश्वासात्सर्वकर्मानुष्ठानाशक्तेश्र। संदेहेडपि शास्त्रीयाधिकारिनियमा सिद्धेर्निरधिकारिकमिदं शास्त्रमापदेत। नन्वधीतस्वाध्यायः कर्मफलरागशून्यतया त्वेतुधर्मजिज्ञासां परित्यज्येहैव मोक्षसाधनं ब्रह्मज्ञानेच्छुर्मुसुक्षावशात्प्रवर्तिष्यत इति चेन्न यथोक्तस्य मुमुक्षोरेवासंभवात्तन्मु-
Page 422
परिशिष्टम्।। ३.
मुक्षोदयह्वैत्वभावादित्याशड्क्प्. मनुष्याणां सहस्रेषु कस्यचिन्मुमुक्षोदयोंडपि संभाव्यत. एवेति, मन्वानस्तत्कारणं, तावच्छ्ौतमनुक्ामति-एकाहाहीनेति.। अत्रैकाहादिग्र हणमग्न्याधेयप्रभत्यारब्धाग्निहोत्रादिह विर्यज्ञसंस्थानामप्युपलक्षणम् । स्मार्तेषु कर्मस्वधिकृत- स्यैव श्रौतेष्वधिकारात्तान्यप्यत्रार्थादुक्तानि ज्ञातव्यानि । एकाहादिशब्दा अग्निष्टोमादिगत- सुत्याहवाचकाः। सुत्याहेषु हि प्रधानकर्म निर्वर्त्यते । अतः प्रधानग्रहे तदङ्गानामपि ग्रह- णमर्थसिद्धमितिमत्वोक्तमेकाहे त्यादीति द्रष्टव्यम् ।. यस्मिन्नहनि प्रातः सवनादिकमप्रभतयो. यागा एकाहशब्देनोक्ताः । अहीनशब्देन द्विरात्रप्रभृतीनि द्वादशाहान्तानि, सुत्यादिनान्ये बोच्यत्ते। एतान्येकाहाहीनाख्यानि कर्माण्येकयजमानकानि। सन्नं नामानेकयजमानकः कर्मविशेषो यत्र यजमाना एवर्तविजो भवन्ति। तच्व द्विविधं द्वादशाहाद्यहर्गणैः साध्यं रात्रि- सत्राख्यमनेकविधं, यत्रोपयन्तीति. विधिः प्रवर्तते सैका विधा सत्नाणाम् । यत्र पुनरास- तेति विधि: प्रवर्तते तान्ययनाख्यानि संवत्सरसत्राणि. गव्रामयनादीनि. सहस्रसंवत्सरान्ता- नीत्यपरा विधेति विभागः। एषां विहितेति विशेषणं फलावश्यंभाव्नियमार्थम्। तथा चैका- हाहीनसन्नद्यानि च. तानि विधिविहितानि. तानि. च. तान्यनेकानि च तानि कर्माणि चेति तथा तेषामनुभाव: सामथ्य तेन ध्वस्तः पराकृतः स्वान्तस्यान्तःकरणस्योपरोधो विद्योदय- प्रतिबन्धलक्षणः पाप्मा येषां ते तथोक्ताः । स्वाधिकारप्राप्तश्रीतस्मार्तसकलकर्मानुष्ठानज- नितपुण्यमाहात्म्थेन. क्षपिताशेषकल्मषा इत्यर्थः । एवंविधाः पुरुषाः कथमपि कथंचिदने- कजन्मानुष्ठितसुक्ृतपिपाकव्रति जन्मनि सति चिद्दिदृक्षां प्रत्यक्चैतन्ययाथात्म्यदर्शनेच्छां ब्रह्मजिज्ञासामितियावत् , लभन्ते । कथमपि लभन्त इति वदता ब्रह्मजिज्ञासाया दौर्लम्यं सूचितम्। तथाचोक्तं भगवता-'मनुष्याणां, सहस्रेषु कश्विद्यतति सिद्धये /.' [भ० गी० ७| ३.] 'बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते' [भ० गी० ७।१९] इति च।. क्षपितसमस्तस्वान्तदोषतया गलितपक्षपातधियः स्फुरितयुक्तिसहस्त्रतया पुरुषार्थ- सारं विचिन्वन्तः साधनचतुष्टयसंपन्नाः सन्त आत्मतत्त्व्रजिज्ञासवो जायन्त इत्यर्थः। नन्वनेंन क्रमेण केऽपि ब्रह्मविविदिषवो भव्न्तीत्यत्र कि प्रमाणमित्याकाडक्षायामाह-पज्ञे- नेत्यादीति। 'तमेतं. वेदानुवाचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाS-, बाशकेन .* [ बृह० ४ ॥ ३. २२ ] इति वाक्यं. शतपथशब्दवाच्यब्राह्मणवाक्यै- श्लो० १३०-१३१ पे० १३७- सिद्धे वस्तुनि शब्दसामर्थ्याभागच्च न.सिद्धे ब्रह्मणि वेंदान्तप्रामाण्यमित्याह-कार्या- न्वयान्वयिनीति। अयमर्थ :- बालो हि गामानयेति प्रयोगश्नवणसमनन्तरं प्रवर्तमानं पुरुषमुपलम्य तस्य प्रवृत्तिलिङ्गेन. तत्कारणतया प्रवर्तकधियं मवानयनकर्तव्यताज्ञानं
मामानयेत्यस्य सामथ्यं प्रतिपद्य धुनरपि, प्रयोगभेद्ेष्वावापोद्वापाभ्यां प्रविभज्य, । वाक्यं
Page 423
४. परिशिष्टम्।
वाक्यार्थ च वाक्यभागं वाक्यार्थभागस्य वाचकमिति च तत्तद्वाक्यार्थभागप्रतीतेस्तत्तद्वा- क्यभागान्वयव्यतिरेकाभ्यां परिकल्य कार्यान्वयान्वयीति वस्तुनि शब्दशक्ति वेत्ति स्वयमेव, व्युत्पादनानपेक्षया प्रत्यक्षादिबन्धनस्वव्यवहारदृष्टान्तेनान्वयव्यतिरेकाभ्यां कार्यकारणभाव- ग्रहणकौशलेन वेत्ति। तत्र यौ वाक्यभागस्य पदस्यान्वयव्यतिरेकानुविधायिनौ वाक्यार्थ- भागस्यान्वयव्यतिरेकौ तौ कार्यान्वयविशिष्टस्य न गवाद्यर्थमात्रस्य। यतो गामानयेति वाक्ये गोपदस्योद्धरेऽश्वपदस्य वाऽन्वये कार्यान्वितस्यैव गोरुद्वारः।आवापश्चाश्वस्य। कार्या- न्वितस्यैव गेोरुद्वारे तद्रतकार्यान्वयस्याप्युद्धारादश्वावापे वाऽश्वगतकार्यान्वयस्याSSवापात् । तथाच कार्यान्वितार्थे सर्वस्य शक्तिरिति निश्चीयते। अत्र कार्यान्वितार्थतं शब्दसामर्थ्यप्रति- योगित्वप्रयोजकमिति स्वीकारे कार्यवाचिपदस्य लिडादेः कार्यान्वितार्थवाचकत्वं कार्यान्त- राभावान्न संभवतीति तत्र स्वार्थेऽन्विते वा शक्तिरम्युपेया स्यात्तथाच प्रयोजकद्वैरूप्यमेष्टव्यं स्यात्तन्मा भूदिति प्रयोजकैकरूप्यसिद्धयर्थमाह-कार्यान्वयान्वयिनीति। कार्यप्रति- योगिको योऽन्वयस्तस्यान्वयि कार्यमन्यद्वा तस्मिञ्श्दशक्तिरिति प्रयोजकैकरूप्यसि- द्विरित्यर्थ: ॥ १३० ॥ ननु कार्यनिरूपितान्वयावच्छिन्नेऽन्वयिनि शब्दशक्तिरिति वदता कार्यत्ावच्छिन्ने कार्ये शक्तेरम्युपेयत्वातस्वेनैव स्वस्य निरूपणं कार्यस्यायुक्तं कल्पनीयं स्यादिति चेत्तत्राSSह- त्यक्त इति। कार्यान्वितार्थे शब्दशक्तिरित्ययं पक्षः परित्यक्तस्त्हि कि योग्येतरान्विते शब्दशक्तिमाश्रयामि नैवमित्याह-नोक्त इति। अयं हि पक्षः पूर्वमप्यनुक्तो मयाऽ- योग्येन वेतरेण वाञ्त्चयस्याप्रसक्तेः । व्यवच्छेद्याभावे योग्यताविशेषणस्य वैयर्थ्यात्। कार्यान्विते शब्दशक्तिरिति पूर्वमुक्तं सिद्धान्विते शब्दशक्तिरित्यस्य पक्षस्य व्यवच्छेदाय। सोडपीदानी त्यक्तस्त्वच्छद्धानुरोधादित्यर्थः । तर्हि कथमभ्युपगम इति चेत्तदाह-किं तु स्यादिति। अस्य शव्दस्य शक्तिर्निजस्वभाववशादन्वितस्वार्थ इत्यर्थः । तर्हि सिद्धान्वि- तेडपि शब्दशक्तिरम्युपेता नेत्याह-योग्यत्वादेस्त्वति। न हि सिद्धस्य सिद्धेनान्वय- योग्यता कार्यस्य वा कार्येणाSSकाड्क्षा वा समस्वभावतया परस्परमुफयोगाभावात् । कि तु सिद्धकार्ययोरेव निर्व्र्यनिर्वर्तकभूतयोरन्वययोग्यताकाडक्षा च तयोश्रान्वयः कार्यप्रधान इति कार्यैदमथ्य विशिष्टकार्यपरत्वं वाक्यस्य सिद्धमित्यर्थः ॥१३१॥ श्लो० १४१ पे० १४५- उपसंहरति-एवमिति। एवं बहुन्यायापेक्षत्वेऽपि शीघ्रमेव व्युत्पत्तिर्भवतीत्याह-
तिरेककौशलं क्षिप्रमेव भवतीति भावः । एवं कार्यान्विते शब्दशक्तिकथनेन किं प्रकृत इति. तदाह-तस्मादिति ॥ १४१॥
Page 424
परिशिष्टम्।
शलो० १५६ पे० १५५- सोऽयमितीति। उभयप्रकारा जहदजहद्रूपा। तदेवोपपादयति-देशादीति। सदेतद्देशकालवैशिष्ट्यरूपभागवर्जनात्। केवलं यथा स्यात्तथा तदिदंपदाभ्यां पुंस उपात्त तया चेत्यर्थः। उपसंहरति-एवं त्रिधेति। गङ्गायां घोष इत्यत्र हि वस्तुतो गङ्गा- संबन्धि यत्तीरं घोषान्वययोग्यं तदेव लक्षणया प्रतीयते न तु गङ्गाविशिष्टतीरम्। तस्य तेन रूपेणान्वयायोग्यत्वात् । अतो गङ्गापदे जहलक्षणैव। एवं बहिः शोणस्तिष्ठतीत्यादौ निष्कृष्टद्रव्यगुणमात्रस्य बहिर्देशस्थित्यनुपपत्तेः शोणगुणविशिष्टस्यैवाश्वस्य नियमेन स्थित्य- व्रगमात्साऽजहललक्षणा स्वार्थमुपादायैव तस्य द्रव्ये वृत्तेः । सोऽयमित्यादौ प्रागुक्तन्याये- नाभेदविरुद्धदेशादिपदार्थभागं परित्यज्य धर्मिस्वरूपं पदार्थभागमुपादायेदं वाक्यमभेदं प्रतिपादयतीति सत्र सा जहदजहद्रपेति लाक्षणिकी वृत्तिस्त्रिवा भवतीत्यर्थः ॥ १५६ ॥ श्लो० १६१ पे० १६२- आदेयांश इति। आदेयांशे लक्ष्यांशे त्वय्यद्वयात्मप्रकाश आत्मस्वरूपे ब्रह्मणीति- यावत्। यद्यप्येवमुक्तप्रकारेण पदार्थयोरणुमात्रोऽपीषन्मात्रमपि केबाप्यंशेनेति यावत्। भेदो नास्ति तथाऽपि यस्माच्छब्दौ तत्त्वंपदात्मकौ बाह्यं लक्ष्यार्थबहिर्भूतं भिन्नं मिथो व्यावृत्तं हेतुं शब्दप्रवृत्तिनिमित्तकं कार्यकारणत्वलक्षणमादाय वर्तते तस्मात्पदयोर्जामिता पुनरुक्तता पर्यायत्वापत्तिर्नास्ति । अतो नोक्तदोषद्वयस्याप्यत्रावकाश इत्यर्थः । लक्ष्यार्थभेदा- भावेऽपि वाच्यार्थभेदात्पदभेदः प्रवृत्तिनिमित्तमेदादव्यावर्त्यभेदाच न पौनरुक्त्यमिति भावः ॥ १६१ ॥ श्लो० १६४ पे० १६५- प्रथमचरमेति। प्रथमपदमसंजातविरोधितया मुख्यार्थमेव् चरमं तु पदं मुख्यार्थांशे तद्विरोधालक्षणामर्हतीत्यस्यार्थस्य न्यायसिद्धत्वात्प्रथमचरमभाव एवैकपदलक्षणानिर्णये कार. णमिति चेदिति शङ्काभागयोजना। अतिप्रसङ्गित्वेन निराकरोति-अयमपीति। अस्य पदपयोगे प्रथमचरमभवस्यान्यथादर्शनमेव वेदगतमुदाहृत्य विशदयति-चरम- पठितमिति। तत्पदमित्यसंसारिवस्तुविषयं पदमितियावत्। अध्वर्युवेदो यजुर्वेदः । तत्र हि 'अहं ब्रह्मास्मि' (बृ० १।३ । १०) इति संसारिविषयं पदं प्रथमं पठ्यत इत्यतोऽत्र पाठनियमाभावात्तदनुरोधे चाव्यवस्थितार्थमिदं वाक्यं स्यादित्यर्थः ॥ १६४ ॥ श्लो० १९६ पे० १८७- प्राथम्यभाकूप्रथमप्रतीतिविषय इत्यर्थः । विशेषणेतरयाऽन्वय इत्यनुषङ्गः । विरोधो द्धवो विरोधस्फुरणम्। उत्पन्ने च विरोधे तत्परिहारेणैकरसक इति योज्यम्॥ १९६.।।
Page 425
परिशिष्टम्। LO
श्लो. २०३ पे० १९२- कथं युक्तं न प्रतिभातीत्यपेक्षायामाद्यं पक्षमनूद्य दोषमाह-संबन्धिरूपमिति ।. संबन्ध्याकारवत्तया लक्ष्यत्वे लक्षणया. विशिष्टविषयत्वादखण्डवाक्यार्थसिद्धिर्दूरापास्तेत्यर्थ: ६ द्वितीयं प्रत्याह-अनन्वितमिति । लोके. वाच्यार्थांसंबद्धे उक्षणायाSदर्शनाद्वेदेऽफि तन्र सा न. युक्तेत्यर्थ: ॥ २०३।
Page 428
संक्षेपशारीरकस्य श्लोकायचरणग्तीकवर्णानुक्तमः ।
श्लोकप्रतीकानि अब श्ो० लोकप्रतीकानि अं० छ्ो० अ अज्ञाननाशपदमत्र हि मुख्य- अकार्यस्वरूपस्य कार्यत्वमिष्टं १ २४७ मिषट 2 २१३ अकृतागमश्च कृतनिष्फलता ३ ३० अज्ञानमप्यविदुषोऽस्य न तु अक्षव्यंक्तिर्विप्रतीत्यास्पदत्वं ३ ७१ स्वतोऽस्ति १ ५१ अखण्डमेवाद्वयमात्मतत्वं ९७ अज्ञानमत्र यदि नानुभवात्म- अखण्डवाक्यार्थमनुव्र जन्ती २ ९६ सिद्धं ३ १२२ अग्नि: क्षिप्तोऽप्युल्मुकेन प्रदेश- २ १६१ अज्ञानमप्यसदभावतया प्रसिद्धेः १ १२१ अचतुर्गुणशौचवारणात् १ ८१ अज्ञानमस्ति सकलं हि सुतु- अजडकारणभाव निबन्धनं १ ३२५ प्तिकाले १३३ २ १३९ अज्ञानमात्मविषयं भवहेतुभूतं १ ३०३ अज्ञातताऽपि घटतेऽत्र दशोड अज्ञानमावरणमावरणं च माया ३ १०८ नुभूते: १ ३१६ अज्ञानमित्यजडबोधतिरस्क्रि- अज्ञातत यानवोचाम दोषा २ १४२ यात्मा १ ३१७ अज्ञातमर्थमवबोधयतः प्रमायां १ ११३ अज्ञातमर्थमत्रबोधयदेव मानं अज्ञानमेव च भविष्यति श- २ ८ ३ ९४ अज्ञातमर्थमवबोधयितुं न शक्तं २ २१ क्तिरेषा
अज्ञानकल्पितमनिर्वचनीय- अज्ञानमेव्र तु तदाऽवगतं
गस्मिन् १ ३२६ त्वदीयं ३ १२१
११८ अज्ञानवर्जिततया परमेश्व-
अज्ञानजन्यकरणप्रतिबिम्बवाचि २ २०७ रोडसौ २ १८३
अज्ञानतजघटना चिदधिक्रि- अज्ञानसंशयविपर्ययरूपकाणि ३ ३४३
यायां १ ५५९ अज्ञानात्मकवस्तु नाश्रयतया २ २०९
अज्ञानतज्जमखिलं जगदात्म- अज्ञानानि बहून्यसंख्यवपुषः २ १३३
भासा २ १८५ अज्ञानि ब्रह्म जीवो भवति अज्ञानतज्जमतिहीनतया सुषुप्ते २ १२७ भवति च १६४ अज्ञानदाह इति नैकप दं. अज्ञानि ब्रह्मबुद्धीरनुसरति ततः २ १३६
समासात् २२ अज्ञानित्वं जीवभावो न तस्मात् २ २०६
Page 429
२ संक्षेपशारीरकस्य-
शलोकप्रतीकानि अ० श्लो० ल्लोकप्रतीकानि अ० श्ो० अज्ञानित्वं ब्रह्मणश्चानभीष्टं १९१ अथ कलज्जपदार्थगभक्षणं ४१८ अज्ञानित्वं ब्रह्मणो जीवता चेत् २ १९५ अथ केमचिदात्मनैकता १ १६८ अज्ञानिनो भवति मोहविजृ- म्भितं तत् अथ तदीययोगनिवर्तनं १ २ १९१ अज्ञानिनो भवति दुःखमनेन अथ तमामयविश्वविकल्पना ३७ २ १२१ क्लप्त २ १७३ अज्ञानं जडशक्तिमात्रवपुषा १६५ अथ यद्युपक्रमणमत्पमपि १२२ २ अज्ञानं जडशक्तिमात्रवपुषा अथवा चितिरेव केवला १५ ३ ९९ अज्ञानं सकलभ्रमोद्रवनक- अथवा चितिवत्प्रतीयतां ३ १७६
्पिण्डेषु २ १३२ अथवाडनुवादमुपलम्य ततः १ ५३६
अज्ञो विनश्यति पुमानतिमूढ- अथवा मितियोग्यताडस्तिता १ ४९४
भावात् १ २६८ अथ शब्दसूचितमुमक्षुरिमं २ ८५
अज्ञोऽहमित्यवगतिन परस्य अथवा स तत्र परमात्ममतिः ३ ५१
पुंस: २ १७८ अदृष्टदोषं परिहृत्य शंसतः १ ४२९ अतोऽनपाहौच च तत्त्व्संविदु- २ ९४ अद्याप्यवान्तरवच: परिणामबोध - ३ ३११ अतो विरोधस्य निराससिद्धये २ ९८ अद्वैतबाधकमभून्मम यद्द्वितीय-४ ५६ अतो न वेदान्तवचःसु विद्यते १ ४४८ अद्वैतमप्यनुभवामि करस्थबिल्व-४ ५५ अतः परत्वं श्रवणस्य तुल्यं ३ १८७ अद्वैतमात्मपदमाहुरनन्यमानं १ ११६ अतः प्रसज्यप्रतिषेधसंभवात् १ ४४५ अत्यन्तानुपलब्धवस्तुनि गुनः ३ अद्वैलीकरणं निषेधवचनादुत्प- २५७ अत्राप्यसौ दृतिहरिः पशुरित्य- न्नबुद्धेरपि १ २५१ अद्वैतेऽर्ये प्रत्यगर्थोऽस्ति तद्वत् १ खण्डः २३ १६२
अत्राह यद्यपि किमप्युपनेयमत्र १ १२५ अद्वैतं परिशोधितं भगवतो
अत्राह वाच्यशबलान्वित- विष्णोः १ २६५
वस्तुनीयं १ २०२ अवममध्यमशुद्धिनिरुपणे ३ ३०७
अत्राह सद्वयमहं मम रूपमीक्षे १ ९५ अधिकांरिणं च विषयं च
अत्रैव जन्मनि भवेदपवर्गदायि ३ ३४९ विना २ २४६
अत्रैत्र वस्तुनि दृढं व्यवतिष्ठ- अधिष्ठात्रधिष्ठेयभावेन योनि- १ ५२९
मान: २ १९३ अधिष्ठानभाधारमात्रं यदि स्यात्१ ३२
अत्रोच्यते न खलु वेदशिरांसि अव्यक्षगोचरमनर्थमत्रैमि वाक्यं २ ३
मुक्त्वा २ ७ अध्यस्तमल्पवपुरस्य न वा १ २७
Page 430
श्लोकाखचरणपरर्ती कवर्णातुक्म:।
श्लोकप्रताकानि श्लो० ल्लोकप्रतीकानि अ० श्लो० अध्यस्तमेव हि परिस्फुरति. अपि च परमहंसस्यक्त्सर्वे- भ्रमेषु ३६ षणः सन् ४. . १० अध्यात्ममेवमधिभूतमथाधिदैवं २ ६७ अपि च पुरुषकर्मोंद्ूतिकानी- अनधिकारिणि शुद्धचिदात्मके १ ५५३ न्द्रियाणि ३ २१० · अनधिकारितया दृगवस्थिता. १ ५५४ अपि च प्रतिषेधचोदना १ ४०१ अनवबुद्धमतः श्रुतिमस्तकैः १' ३३५ अपि च प्रतिषेधचोदना १ ४०३ अनादिवृद्धव्यवहारलक्षणे, ३ २५४ अपि च बन्धनहेतुतया श्रुतं ३. ३१६ अनाद्यजग्घेश्च निवृत्तिनिष्ठा १. ४२६ अपि च भाष्यकृदेव तदब्रवी- १ ४० अनाद्यविद्यापटनेत्रबन्धनं ४५४ अपि. च रूपितगोचरताविधे- १ ६० अनुपपत्तिबलेन विधेस्तयोः १: ५०५ अपि च विश्वमनुप्रविवेश ११ Au १ ३८ अपि विशिष्टविधौ वचना- अनुमानमागमविरुद्धमिदं १७१: न्तरात् १ ५३७ अनुवददिदमेव वाक्यमर्भात् १ ५३४ अपि च लौकिकमानबला: अनृतजडविभक्तदुःखतुच्छा- श्रयात्. ३. २६१ सहनवपु: १ २६६ अनृतजडविरोधिरूपमन्त- अपुनरुक्तनिषे्यनिषेधकृत्. ३ ३१८ १. १ अन्तरङ्गबहिरङ्गसाधने अपुनरुक्तपदानि विना यतः ३ ३१४: ३ ३२७ अन्तरङ्गमपवर्गकाङिभिः अप्पात्रमप्पात्रगतत्वमेव २८० ३. ३२८ अन्तर्गुणा भगवती परदेवतेि ३ २२ १ अबुध्यमानो न हि संविदिं तत् ४. ३१:
अन्यदेव यदि कारणं भवेत् १. १ २१२ ३३४ अन्यस्य विभ्रमकरी पुरुषस्य अब्राह्मणा धर्मगिरोर्नजेष १. ४०६ ३. अन्ये पुनर्विधिवचोजनिताः ९२ अभयं सनातनमनातुरघी: २: २२४
त्मबुद्धि- १ २५७ अभिचारकर्म विधयो हिः यथा २. २४४. अभिदधाति करोति च लिङ्पदं १. ३९६ अन्ये वदन्ति. निरुपाधिनियो: अभिनयेन करिष्यति चेदयं ३. २६० गरूपं १- १३७ अभिन्न एवैष पटः समीक्ष्यते २ १०४ अपरोक्षरूपविषयभ्रमधी- १. ४.१ अभिन्नता भिन्नतया विरुद्धा ३ १९४ अपि च कर्तुरनुस्मरणं भवेत् ३. २६२ अभिन्नहेतुर्विषये समाने १ २२३ अपि च किंचिदपि प्रतिपादकं ३ २५९ अभिमतपश्ुपुत्रवृष्टिनाक- ३९२ अपि तु वैदिकबाड्मनसाति- अभिहित घटनाञ्थवान्विताना-१ ३८२. यान. ३ २६५ अभिहितघटना न चोपपन्न १८३
Page 431
४' संक्षेपशारीरकस्य-
श्लोकप्रतीकानि अ० ललो० ल्लोकप्रतािाननि अ० श्ो० अभिहितघटना यदा तदानी १ ३८४ अस्त्यस्म्यसीति च पदं प्रचुरं अभीष्ट्रहे तुत्वलिड़र्थपृष्ठतः १ ४४६ क्रिया वा १ २८३ अभेदिनो निर्विकृतेरनेक- २ ६६ अह्थूलादिच चोनिरस्तनिखि - अभेदिन: सावयवस्य सत्ये २ ६५ लद्वैतप्रपञ्चं २६४ अयमपि परमात्मा प्रत्यगात्म• अस्थूलादिव चोनिषेधकतया स्वभाव: २१ भेदस्य संशोधनात् १ २९६ अयं तु मायेति न शब्द एव ३ ९६ अस्थूलादिवच: समुत्थितमतिर्ना- अर्थवादगतमभ्युपेयते ३ १६१ कारमादास्यते १ २५४ अर्थस्य मूळं निकृतिः क्षमा च ३ ३६६ अस्यैव तत्त्व्रविनिवेदनशक्ति- अर्हादयर्थ च कृत्यस्मरणम- १ ६३ भाज: १ ६५९
अर्हेकृत्यतृचश्च पाणिनिवचः २ ५१ अहं प्रजायेय बहु स्वयं स्यां २ ६७ अल्पं रूपं बन्धनं प्रत्यगात्मा १ ५0 आ अवगतिग तमेवापेक्ष्य पूर्वापरत्व-३ २४७ आकाङ्कादिर्विद्यते योग्यतान्ता १ ५४७ अवितथमिदमेवमेतत् ५०८ आकाङक्षितं भवति पूरणश अविरलपदप़गि: पम्मनाभस्य क्तियुक्तं १ ९७ पुण्या ४ ६१ आकाशादावस्तिता तावदेका १ १८४ १६७ आकाशादौ नित्यता तावदेका १ १८१ अव्युत्पत्तिं बिभ्रती भाति संवित् २ २१४ आकाशादौ शुद्धता तावदेका १ १८२ अशब्दमस्पर्शमरूपमव्ययं ३ २९२ आकाशादौ सत्यता तावदेका १ १७८ अशुचे: प्रतिषेधशास्त्रतः १ ८० आकाशे विहगोड़स्ति नास्ति असज्जनिः सेत्युपवर्ण्थमानं २०२ च यथा २ ९३४ असत्प्रसूतिर्न च सत्पसुतिः २ १०९ आख्यातमेव सदिदं भवतीति असदपि फलवत्तामश्रते नाम १ ३०९ युष्मदिच्छा २ २१५ आग्नेय इत्याद्यपि तद्धितान्त- १ ३०८ असन्नकार्य गगनप्रसून- ३ ४९० असन्निवृत्तिर्न च सन्निवृस्तिः २ १०८ आच्छादय विक्षिपति संस्कुरदा- १ २० अस्तित्ववस्तुविपयोपनिषन्नि- आज्ञादिभेदेष्वनुवर्तमाने १ १३६ षक्ति: १ ४२३, आज्ञाद्यर्थ: प्रेरकः पौरुषेये १ ३८७ अ्सत्यस्म्यसीति च तिडन्तप- • द्वानि सन्ति १ ४९१/ त्रपु: १ १३८
Page 432
श्लोकाद्यचरणप्रतीकवर्णानुक्रम:। ५
श्रलोकप्रतीकानि अ० श्लो० श्लोकप्रताकानि भ० लो० आध्मन्येव समस्तबस्तु यदि वा २ ११४ आरुह्य भूमिमधरामितराऽघि- 'आत्मानं न तु कर्मतामुपनय• रोदुं . २ ६० जशब्दः १ २४१ २ ८१ आत्मा प्रस्ाधयति वेद्यपदार्थ- आरोपदृष्टिरुदिता परिणामद्ृष्टिः २ ८२ जातं १ ५४ आलम्बनं च विरह्य्य न आत्माSमूढ: स्वप्रकाशो यथाडयं २ १४५ विभ्रमस्य १ ३४० आत्रेयवाक्यमपि संव्यवहारमात्रं २१७ आवापोद्वापहेतोः पदमिदम- आदाय नानाविधकारणानि १ २१९ मुकस्याभिधाने समर्थ १३५ आदाय मुख्यगुणलाक्षणिक- प्रवृत्ती: आवृत्त्या वा तत्रवृ्त्याऽ्य वेदं १ ५५९ १ १०४ आश्चर्यमद्य मम भाति कथ आदाय मुख्यगुणलाक्षणिक- द्वितीयं ४ ५७ प्रवृत्ती: १ ४८५ आदेयांशेनाणुमात्रेऽपि भेदो १ १ १६१ आश्रयत्वविषयत्वभागिनी ३१९
आद्ये सूत्रे त्वंपदस्योदितत्वात् १ ५५२ आसन्वस्तुंविषयेण यथाS-
आधिक्यसुत्सृजति शब्दगुणो क्षजेन २ १२३
निजेऽर्थे आसीदहंकरणमात्मतमौनिमित्तं ३ १२८ १ १०५ आनन्दत्वे सत्यता सव्यतायां १ १८८ आस्तामत्र वचःप्रवृत्तिविरहः १ २४०
आनन्दविग्रहम पास्तसमस्त १ २६ इ
अन्ये भिन्नस्वभावं विविध इच्छायामिति सूत्रकारवचनं ३ ३३९ मभिदधत्यानुरूपेण १ १३९ इतरेतराध्यसनमेव ततः १ ३७
आप्तोक्तत्वप्रत्यये मानभावः ३ २७० इतरेत राध्यसनमस्त्वनयोरुभयो: ३ २३८ आबोधतः सकलमेव हि सत्य- इतश्च निर्भेदकमात्मतत्वं १९८ मिथ्या २ २२ इति कामुकस्य तव संसरणं ३ ५३ आरम्भणादिवचनं सकलं इति केचन वर्णयन्ति तत् १ ८३ प्रवृत्तं २ ५५ इति तु केचिदुशन्ति महाधिय: २ ९१ आरम्भणांदिवचसा खलु निर्वि- इति न धर्मविशेषसमर्पणं १ ६२ कल्प- २ ४५ इति पररपरसंश्रयता यदा ३ २२७ आरम्भवादमुमगम्य तदीययुक्त: २ ७० इति बहुश्रुतभाषितमुच्चकैः ५१ आरम्भवाद: कणभक्षपक्ष: २ ६३ इति योजय सर्वमीदृशं १ ८२ आरम्भसंह तिविकारविवर्तवा- इति वच: परिणाममुदीरितं ३ ३१७ दानू २ ५७ इति वाजपेयगतनीतिवशा- १ ४६२
Page 433
संक्षेपशारीरकस्प-
श्लोकप्रतीकानि अ० श्लो० श्लोकप्रतीकानि अ० ल्ो० इति विशेष इह प्रतिपादितः ३२१ उत्पत्तिरप्यस्ष्य निरूप्यमाणा: ३ २०-१ mY इति श्रुंति: कारणसाक्षिभाव- ३ १८६ उत्पत्तिरेव हि धिया स्वफलं इति श्रुतिः शास्ति निषिद्ध प्रदातुं २६ कर्मणि १. ४३२ उत्पन्नशुक्तिमतिरात्मचितिर्य- इत्थं जगत्कारणवादिवाक्यं १ ५४९ थैव इत्युक्त गुरुणा स पृच्छति पुनः ३ १४३ उत्सर्गतः सकलकर्मनिवृत्ति-
इत्युक्त्वोपरते गुरौ पुनरयं निष्ठा १' ८४. ३ ५७ इत्येवं कथयन्ति केचिदपरे उत्सज्य तत्र वितथांशमर्थेत- ३ २२९ इदमर्थवस्त्वपि भवेद्रजते रस्मिन् ३४ २८८
इदमुपेत्य किमष्युदितं मया २३०. उदासीनता च श्रुता नञूप• १ ४३७
इयमेव सर्वेजननी प्रकृति- २ १६७ उदितपक्षपरिग्रहकारिणां १. ४२१:
इयं घटव्यक्तिरितीदृशेषु च १ २७५. १ ४५७
इष्टाभ्युपायवचनो लिडिति उद्दिश्यमानं तदनूदमान -- १ ४५९
स्थितौ च १ ४७४ उद्गातृप्रतिहर्तृ कर्तृकतया.
इष्टाभ्युपायस्य च कार्यभाव: १ ४७७ जातौ ११७
इष्टाभ्युपायो विधिरात्मनीच्छा १ ४७५. उद्यननिरस्यति तमश्च तदुद्गवं च.४ २४
इह कलञ्जपदेन नञन्वयः १ ४२०. उपचितापचितानि न निर्गुणे ३. ३१६
इह जगति हि सर्व एव जन्तु- १ ६६ उपनिषद्वचसा परमात्मधीः ३ ३००:
इह तावदक्षदशक मनसा ३ २० उपनिषद्व चसाभिहितातमवीः ३०१ २ ९१ उपनिषदिति वेद इत्यपीदं ३. २९७,
ई उपनिषदितिशब्दो वेदशब्दश्व, ईशितव्यमनपेक्ष्य नेश्वरः ३ १८८ तस्मात् ३. २९८: ईश्वरत्वमपि. तत्परश्रुतिः १. उ १६२ उपसत्तिवाक्यमधिकारिण. ५५६ उपसदनवचो विचारमार्गात् १ ५५८. उक्तसाधनसमुद्गवा सती उपससाद चतुष्टयसाधनो. ६९. उक्तं साधनजातमत्र सकलं ३ ३५८ उपादानता चेतनस्यापि दृष्टा ५४५ उच्यते न तमसो निवृत्तितः ४ ४ उपादानता सच्चिदानन्दमूर्ते: १ ५४४. उच्यते शृणु विविच्य साधनं ३ ३२९ उपादानतः संख्यया संगतिः उत्थानलिङ्गकृतकल्पनयैत- स्यात् १ ५०६: देवं ३ १२० उपाधिना सार्धमुपाधिजन्य- ३ २७९.
Page 434
श्लोकाद्यचरणप्रती कवणानुकमः । ७
श्लोकप्रतीकानि अ० श्लो० ल्लोकप्रतीकानि अ० उपाधिमौपाधिकमान्तर च ३ २७९ एतावता न च तमोऽपि सुषुप्ति- उपाधिरज्ञानमनादिसिद्ध- ३ २७७ काले ३ १२४ उपाधिरन्तःकरणं त्वमर्थे ३ २७८ एवमात्मनि समोनिवृत्तितो ४ ६ उपाध्यभाकेन भवेदुपाधिमत् १ ११५ एगमेत तु तमोनिवृत्तिगीः ४ १८ · उपायमातिष्ठति पूर्वमुच्चैः २ ६२ एवं तमोऽपि न बभूव सुषुप्ति उपेत्यवादं परिगह्य चोच्यते १ ४४९ काले ३ उभयमपि परात्मनः स्वरूपम् १२६ १ ६८ एवं तावत्तत्त्वरमर्थो विशुद्धौ ३ ३०९ उभयव्यतिमिश्ररूपतां २ ८८ एवं तावदखण्डवस्तुविषये १ २१६ ए एवं तावल्क्षणावृत्तिहेतोः १ २०८ एकत्वमेकवचनादवगम्यमानं १ ५०१ एवं तावलोकसिद्धा न माया ३ १०४ एकत्वमेकवचनेन समर्पितं यत् १ ५०९ एवं न तत्व्रविनिवेदनशक्ति·
एकत्र शक्तिग्रहणोपपत्ता- १ २०१ योगः २
एकत्र वृत्तिरितिलक्षणमत्र एवं न वा अर इतिश्रतमेव मुरयं १ २२१ तावत् ३ १६८ एकदेशमुपलम्य धर्मिणः ३ ३०८ एवं पुरानधिगतं यदि नानुभूतं २ २० एकाज्ञानविकल्पितं सकलमे. २ १७० एवं प्रमाणमखिलं बहिरर्थ- एका या प्रकृतिः समस्तजननी १ ५१० निषं २ १२ एकाहाहीनसत्रद्वयविधिविहिता १ ६४ एवं विज्ञाय तापत्रयमतिगहनं ३ ५६ एकेन वाक्येन धियो विधान- १ ४५८ एवं वेदशिरः प्रमाणमुदितं एको देव: सर्वभूतेषु गूढः ३ १८३ प्रत्यक्स्वरूप तव १ २४९ एकोपौधावस्तिता नास्तिता च २ १९९ एवं घेदान्तवाक्यैरवगतपदवी २ २४८ एकोपाधावेकत्स्तु प्रसिद्धौ २ १५२ एवं शब्दान्तराणां नयनिपुण- एकं चेतनमस्य यत्प्रकृतिता १ ५१३ मतिः १ १४१ एक: शत्रुर्ने द्वितीयोडस्ति शत्रुः १ ३२१ एवं सतीदमपि तत्त्वमसीति एतत्वंपदलक्ष्यवस्तु भवता ३ १४२ वाक्य- १ १५१ एतत्समन्वयनिरूपणमेव्रमस्मिन् १ ५६३ एवं सतीदमविवेकनिबन्धनं ते ३ ७५ एतदप्यहमवैतुमुत्सहे ३ एवं सतीह तमसो न विवि- एतद्धि सोऽयमितिव्र:क्यमख- च्य वस्तु ३ १३४ ण्डनिष्ठं १ १५० एवं सतीह यदि वेदशिरो न एतस्माच्च न जाग्रतस्तत भवेत् ३ ८३ मानं १ २९९
Page 435
संक्षेपशारीरकस्प-
श्लोकप्रतीकानि अं० श्लो० ल्लोकप्रतीकानि अ० श्लो० एवं सतीहापि विरुध्यमानं ३ २८७ करमुष्टिनिविष्टमुत्तमं १ ३०४ एवं समन्वयनिरूपणयाऽव. कर्तृकमपरिह्ृत्य नेष्यते ३ १९२ बोध: २ १ कर्तृत्वमाह मम कर्मविधिर्नि एवं समन्वयविरोधनिरासविद्या ४ ५२ योग: २. एवं स्फुरत्यपि दृगात्मनि तत्स्व. कर्तृत्वादि च दृश्यवर्गपतितं ३ ८२ रूपे १ ४९, कर्त्रादिसंनिधिबलेन तवापि
ऐदम्पर्यमखण्डवस्तुविषयं कर्तृ ३ ८१ ३ २ कर्त्रादेरवभासकत्वमगम: ३ ६१ ऐश्वर्यमज्ञानतिरोहितं सत् ३ १७५ कर्मकाण्ड कृतबुद्धिशुद्धित- ६९ ऐश्वर्यमप्यनुभचादिवदात्मरूपं १ १ १९२ ऐश्वर्यमस्य परमात्मन उक्तमन्यैः ३ कर्मप्रधानेऽतिगते च काण्डे १ ४८८ १५१ ऐश्वर्यवस्तु परिगृह्य तदत्यजन्तः ३ १७२ कर्मेन्द्रियाणि खलु पञ्च तथा
ऐश्वर्यवर्णनमतिस्फुटमेव कृत्वा पराणि ३ १६ १ १९३ ऐश्वर्यवर्णनमिह द्विविधेन वेदे ३ १६९ कष्टः कष्टः कल्पितब्रह्मवाद: २ १९८ का
औत्पत्तिकी शक्तिरशेष· काणाददर्शनसमाश्रयदोषराशि: ३ २१८ १ कादाचित्का कल्पनां कारणस्य २ २०२ oC अत्पत्तिके हि भगवानयमप्र- कामादि तत्र च भवेदितरत्र बुद्ध- २ V चेति ३ १७७ १ ३८६ औदासीन्यप्रच्युतेः प्रापकौ च कारकस्य करणेन तक्क्षणात्ं ३३ ३३२ १ ७९ औदासीन्यविशेषमेत्र हि परब्र कारणत्वमपप चित्सुखादिवत् ३ १८१ कारणत्वमुपलक्षणं चिते १ ३३३ हात्मधीजन्मने १ ७५ कातस्य हीष्टमबाधनं न खलु आदासीन्ये बोधिते शास्रवन्दै- १ ७६ ३ ८४ औदासीन्यं पुरुषगतमेवावि- तत् कार्यत्वभिच्छावशवर्ति किंचित्ं १ ४७6 शेषा- १ ४१५ कार्यप्रधानमखिलं च पदं औदासीन्यं बोधयच्छास्त्रमेतत् १ ७७ सुबन्त- १ ४८९ क. कार्यवस्तु विरह्य्य कारणं ' ३ १८९ कणभुगभिमतिर्वा कल्पनीया कार्यानुमानपरतत्रमिदं हि तदानी ३ २४५ शास्त्रं १ ५३९ करणमिह लिवदेर्ज्ञानमेत्राङ्ग- कार्यान्वयान्वयिनि वस्तुनि भाग: १ ३८९ शब्दशरकि १ १३०
Page 436
श्लोकाद्यचरणपतीकवर्णानुक्रम: ।
ल्लोकप्रतीकानि अ० ल्ो० क्लोक प्रतीकानि अ० कार्यान्वयान्वयिनि वस्तुनि २ १२४ शब्दशक्ति: १ ३४९/किचिज्ज्ञताऽस्य तमसाSSवृत कार्यान्वयान्वयिनि शक्तिरिति नित्य दृष्टे २ १७७ स्थितौ च १ ३५३ किंचैतक्कि बन्धमोक्षव्यवस्था M २१६ कार्यान्वितार्थविषया यदि किं तु त्वंपदलक्ष्यमर्थमधुना ३ ५९ शब्दशक्ति: १ ३४५ किंते धनेन किमु बन्धुभिरेरव कालस्व्रभावपरमाण्वसुभृत्पर- वा ते ३ ३६५
धान- १ ५२८ कि द्वैतानुभवो विरोधपदभाक् २ २१९ १ १२१ कि निरस्तसहकारिकारणा ४ २ कालोऽनादिस्तत्र मुक्त्त: कि सप्रपञ्चमिदमसत्वथ वा शुकादि: २ १३१ समस्त- ३ १४४ काष्ठैः स्थाल्यां पचति विविधैः ३६२ कुड्य गृहस्य सरसोडम्बुजम- किंच क्रियापदमपेक्ष्य पदानि स्य वस्त्र १ २२४ वाक्य- १ १०८ कुरु परापरवाक्यविवेचनं ३ ३१५ किंच प्रती चिसकलोपनिष- कुवेत्कारणपक्षमाश्रितवतः ३ २२४ त्प्रवृत्ता २ १०३ कूटस्थनित्यैव तु मुक्तिरेषा २९ किंच प्रमान्तरमपेक्ष्य गिरः कृपणर्धाः परिणाममुदीक्षते २ ८९ · प्रवृत्तिः १ १०१ कृपणमध्यमपक्कधियां नृणां ३ २४०
किंच प्रमान्तरमिहाभ्युपय- क्रियानुप्रवेशं विना प्रागभावः १ ४३५
त्प्रतीचि १ १११ क्रियापदं वेदशिरःस्वपीष्यते १ २८२ क्वचिदभ्युपेत्य कथनं कुरुते २ ७७
नवस्तु १ ११२ क्षितिजल दहनानिलाम्बराणां १ ४९६
किंच स्वयंप्रभमलुप्तचिदे क्षितिजलदहनेषु तत्प्रदेशान् १ ४९७
करूपं १ १०६ क्षरं प्रधानममृताक्षरं हरः ४
किचाज्ञानं ब्रह्मणोऽप्यस्ति क्षीरस्य पूर्णे चषके नियुक्तो ३ ६४
नास्ती- २ खं.
किंचानृतद्वयमिहाध्यसि- खमपि खादति खण्डितर्मीक्षते ३ १९७
तव्य- १ २३ ग. किंचाप्रसिद्धमिदमत्र जगत्र- गङ्गापदं हि निजमर्थमपांस्य- येऽपि १ १२० तीरे १ १५५
Page 437
१० संक्षेपशारीरकस्य-
श्लोकप्रंताकामि अ० श्लो० क्लोकप्रतीकानि अ० झो० गन्धच्छायालेशसंस्कारभाषा ४२/चैतन्यस्याज्ञानश क्ेरनादे- २ १९२ 50 गुणतया' हि पदानि परात्मनः ३ ३२५ ज. गुणतो गुणवृत्तिरिष्यते १ १७२ जगत्कारणत्वं पुनर्यत्र दृष्टं १ गुणं क्षिपेत्कारणमर्थत्त्वं २१२ जगदुदयनिमितं चेतनं किंतु ५३१ ३
गुरुचरणसरोजसंनिधाना १ ९ नाना १ ४९९ गुरुशिष्यसंगतिरतो न भवेत् ३ ३६ जगन्महिम्ना न जगत्प्रसिद्धि: ३ २३१ गोवत्सादौ मुक्तता तावदेका १ १८३ जडत्वहेतोने जगन्महिम्ना ३ २३२ प्रह्यग्राहकयोः स्थिरत्वगमनी २ ३१ जडप्रमाणस्य फलानिरुपणा २ ११३ घ. जडशक्तमात्रवपुषा २ १६६ घट एव गच्छति नभस्त्वचलं ३ २८ जडशक्तिरस्ति च परस्य घटात्पटो भिन्न इतीष्यते यंदि २ १०५ बिभो: ३ जडार्थेसंवित्रहि कुर्त्रतः फलं २ ११०
चलने ह्युपाध्यभिमतस्य भवेत् ३ ३१ जनयत्यसाविह मृषा वपुषा २२९ चिच्छक्ति: परमेश्वरस्य विमला ३ २२८ जनिमदभवदेतच्चेतनादेव हेतोः १ ४९८ चितिगतजडशक्तेराय इष्टो जन्मादिलक्षणमिदं जगतो विवर्त: ३ २५२ यदुक्तं १ ५३८
चितिभेदमभेद्षमेव वा १४ जन्मादिघड्भाव विकारहीना ३० 20 oC
चितिवस्तुबुद्धिजनकस्य पुन. २ १०१ जन्मान्तरेषु यदि साधनजात- चितित्रस्तुनः स्व्रमहिमस्फुरणे २ ९९ मासीत् ३ ३६१ चितिशक्तिबाधितवपुः २ १६८ जन्या न मुक्तिघेटते कुतश्चित् ४ ३२ चित्रादिवद्गवति साधनजात- जहतीह च लक्षणा मता १ १९१
मस्य १४०
चित्रायाग: पशुफल इति ३ १३९ जाम्रद्दूमौ या प्रसिद्धेह माया ३ १०५ तमिस्त्रं १ ३१८ जाड्यं जगत्यनुगतं खलु चेतसस्तु चितिमात्रशेषता ३ ३४५/ भावरूपं १ ३२२
चैतन्यमेव तु तमस्तिरि तद- जातः सुतः सकलवंशविवर्ध- प्रबुद्धं २ १८९ नस्ते १ ३५९ चैतन्यवस्तुविषयाश्रय एव जानात्यर्थे लिडूपदं गौणमाहुः १ ४७९ मोहः ३ १३/जानाव्यर्थे श्रेयसो हेतुभाव- १ ४.८०
Page 438
श्लोकाद्यचरणमतीक्वर्णातुक्रम:। ११
लोकप्रतीकानि अ० श्लो० श्लोकप्रतीकानि अ० ल्लो० जीवत्वमेव तु तदाश्रयमध्यपाति ३ १५ तच्छ्दादकगतमद्वितीयमार्सीत् २. ३०५ जीवन्मुक्तिगतो यदाह भगवान् २ १७४ तच्छेषभावमनपेक्ष्य च तत्फलं जीवन्मुक्तिमत्यसं. शास्त्रजातं ४ ३९ स्यात् ४६७ जीवन्मुक्तिव्यापृतेः प्रापको यः ४: ५३०
- जीवन्मुक्तिस्तावदस्तिप्रतीतेः ४ ४३ ततो वियन्मुख्यमदो जगज्डं ३ २.३५ जीवस्य कार्यकरणाधिपतेरविद्या २ १७५ ततोऽस्तु रूपदिविहीनरूपेः १ २७७, जीवा एते स्वप्रकाशस्वभावा २ १४७ तत्परःश्रुतिवचः प्रमाणकं १५८ जीवाजञतावचनमेवमिदं समस्तं. २. १८८ तत्र सत्यमनृतं च भेदतः ३७ जीवा: सर्वे,त्वां प्रति. प्रस्फु- तत्रापि दुर्घटमवैतति यदा तु रन्तः २' १४९ तत्त्र- ४७ जीवेज्ञानजम द्विभागजननी २ १९० तत्रापि पूर्वसुपगम्य विकार- ज्ञप्युत्पंत्योर्यद्वदेवं, प्रवृत्तौ ३: २७२ वादं २ ५८ ज्ञातेऽपि तावति ततोऽनति- तच्त्रावेद कमानडष्टिरधमा २ ८३
रिक्त त्त्वं पदार्थविषयो नय एष ज्ञात्न्ना देवं सर्वपाशापहानि: ३ १५५ योज्य: १७७
ज्ञानमस्ति खलु बाह्यगोचरं: ३. १६६ तत्त्वंपदार्थविषयं तम इत्यपीद• ३ ३४२
ज्ञानव्यक्तिर्विम तीव्यास्पदत्वं, ७२ तथा. तमःसंभवमच्छमन्तः ३ ६५
ज्ञानस्य प्रामभावादपरमभिहितं ३ १११ तथात्वमर्थेऽपि चतुष्टयं तत् ३ २.७६
ज्ञानात्मकस्यामलसत्वराशेः २. १८६ तथा श्रतौ नेति वचःसु ज्ञानोत्पत्ति वामदेवस्य गर्भे २.५.० नाम्नि १ ४ १४ ज्ञानं निवर्तकमपि, द्वितयस्य १ २.३६ 'तस्य ₹ १०९ तथा हि नाग्रे करणीतिनाम्ना. १ ४१३ ज्ञानं विधातुं नहि शक्यमेतत् १: ४५० तथा हि संबन्व्युपमर्दबुद्धये १ ४४४ ज्ञायन्ते चेद्रह्मणा जीवभेदा २ १४६ तथा ह्यजक्षीरविधे: समीपे ३ २८६ ज्योतिर्द्वयान्तरित एव हि तदन्वयात्प्रागसतः कथ स्यात् ३ २०५ कर्मजातं ३ ७७ तदसदिष्टफलोद्गवदर्शना- १ ४२८ १४१ तदसुन्दरमात्मसंविद: १ ४९५ ببع तद्दुर्घटं न खलु किंचिदपि कमेव २. ६. प्रमाणं १ ३७१
त .. तद्दुर्घटं न खलु संविदियं स्वयोग्या १ २८५:
Page 439
१२ संक्षेपशारीरकस्य-
ललोकप्रतीकानि अ० श्लो० छ्लोकप्रतीकानि अ०
तद्धि द्विधैकाधिकरण्यमुक्तं १ २१८ तस्मादभिव्यक्तिकरी न हेतु ३ २१४ तहुद्विमात्रफलतैव च तत्परत्वं १ ४६६ तस्मादशेषजगदेक निदानभूत- ३ १३१०
तद्वदत्र पदजातबुद्धिभि- १ ३७८ तस्मादसंगतमिदं प्रतिभाति तन्न भाति चतुरस्रमुचकैः ३ .१५७ यन्मे १. १४४ तन्मायावि ब्रह्मचेत्सवप्रकाशं २ १४४ तस्मादसङ्गतमिदं यदुशन्ति तमसा विनिर्मितमिदं सकलं २ २९ केचित् १ ३५६
तयोस्तु बाह्या विधिशास्त्रलम्या १ ८७ तस्मादाध्वं निराशा: श्रुति- तर्कप्रतीतिसमयेSपि तदद्वितीयं ३ ३०६ शिरसि न १ १४३ तव गाढमूढतमसा रचितं २ २२२ तस्मादेतलक्षणं चिहमाङ्क: १ ५४८ तव चित्तमात्मतमसा जनितं २ २२५ तस्मादेषा स्व्रप्रयुक्तपर- तव नित्यमुक्तसुखचिद्वपुषः ३ २२ माण- ३ २७१ तव बोधजन्मनि पुरा २ २३९ तस्माङ्गह्मणि वाच्यघाचकयुजा १ ५२६ तव बोधमात्रमुपनेयमतः २ २३८ तस्माद्वह्माविद्यया जीवभावं २ १६२ तव रूपमेव तव दुःखकरं २ २३७ तस्मान्न मानफलता निरुपा- ३ २३७ 'तस्माज्जीवन्मुक्तरूपेण विद्वान् ४५ ताटस्थ्येनोपाधिमादाय मोहः २ १५९ तस्मात्कर्मेसमस्तमेव तु भवेत् ३ ३४० ताटथ्येनोपाधिरङ्गं यदि स्यात् २ १६० तस्मात्तत्परवेदवाक्यगतिभिः ३ २९१ तान्येव कार्यकरणानि बहुप्र- तस्मात्प्रधानपदभङ्गभयाद्गुणानां १ ५२२ कारं ३ ६६
तस्मात्प्रमाणफलमत्र निरूप्य- तिसृषु भूमिषु तस्य च तिष्ठत: २ ९२
माणं १ १२९ तिस्रोऽपि चिद्घनतनोस्तव- तस्मात्प्रवृत्तिविनिवृत्तिविवर्जि- दृश्यभूता ३ १३६ तत्वं १ ३१५ तार्थन तं विविदिषन्तमनन्य- तस्मादखण्डमवबोधयितुं भक्त ९२ समर्थ: १ १९५ त्यक्त: कार्यान्वितार्थ वदितु- तस्मादखण्डविषया न वंच :- मलमयं १३१ प्रवृत्तिः १ १०० तवत्पादपङ्कजसमाश्रय्ण विना मे ४ ५८
तस्मादखण्डविषये वचने त्वमतः स्वमोहरचितं गहनं २ २२२ विवादं १ २७३ व्वय्येव कल्पितमहंकरणं तस्मादष्यस्तमेतत्सकलमपि बिभर्ति ३ १३७
. दुशा १ ५७/ववं पदस्य दशिमद्द्ये १ ५६१
Page 440
श्लोकाद्यचरणप्रती कवणानुक्म:। १३
ल्लोकप्रतीकानि अ० ल्लोकप्रतीकानि अ० श्रो० त्वंपदार्थविषयं समन्वयं १ ५६० धातो: कर्मण इत्युदीरितमिदं ३ .३३८ तेन सत्यमिह जागरं विदुः २ ३६ धातोः कर्मणप इत्युवाच भग- तेषां भेद: रवप्रकाशो यदीष्टः २ १४८ वान् ३ ३३७ धात्वर्थतोऽन्या नच भाव- दहरस्थगुणोपसंहते: द. ३ १७८ नाडरित १ ३९९ दहरादुपसंहतैर्गुणः ३ १७९ धात्वर्थाख्यानशक्तो यदि भवति दीपस्तमस्तिरयतीह भवन्कुत- गुणाद्वतिंतुं १ १४० श्वित् २५ धूमे सत्ता स्यादसत्ता च दतिहरणकरत्वं पुंसि चान्यत्र तस्मिन् २ २०१ चेदं ४ २० न. दृशो विराट्सूत्रशरीरगोचरं १ ४५३ न कर्म काण्डेडपि ततो नियोग:१ दृश्यत्वजाड्यपरत्रचिदाश्रय- २ १६९ न खलु कारणकार्यसमन्वयः ३ २२२ दृष्टक्ष रज्जुविधिनाऽवगतार्थ- न खलु जगति श्रेयोहेतुप्रतीत्यु- वस्तु १ २५८ दयादृते १ ३६४ देवयाणपितृयाणयोः पथोः ३ १२ देवादीनां नास्ति कर्माधिकार: ४ न खलु निर्गुणवस्तुपरं वचः ३ २९० ४९ देशकालपुरुषैरवस्थया न खलु पाणिनिपिङ्गलसं- २ ३४ ३ देहव्यक्तिर्विप्रतीत्यास्पदत्वं ३ ६८ ज्ञया २६३
द्रष्टव्य इत्यपि विधिर्न विधि- न खलु संश्रुतसंहृतशब्दयोः ३ ३२४
प्रमेय- न खल्वीदृशं कारणं योग- २ ५० द्वारं तमोन्चयमपेक्ष्य दृशा हि सिद्धं १ ५३३
दृश्यं १ ५२ न च किमपि नः कार्य नाम
द्विजं न हन्यान्न कलञ्जमद्यात् १ 806 प्रमाणपथानुगं १ ३६३
द्वेषव्यक्तिर्विप्रतीत्यास्पदत्वं ७४ न च किंचिदन्यदसतो वदितुं ३ २०६ ३ द्वैताद्वैतनिवेशिनोऽनुभवना २२० न च क्रियाकारितसंहतानि १ २ २८०
२ न च गतार्थमिदं प्रति भाति नो १
व्यणुकस्य जन्मपरमाणुयुगात् २ ७३ न च तथाऽयमभिन्नसमाश्रयः ३ २२३
ध. न च तमोमयजन्म विमुक्तता ४ ३६
धर्मनिर्णयनिमित्तमिष्यते ७०न चन्द्रप्रकाशप्रकर्ष प्रकाशात् १ २३५ धर्मेऽपि तत्व्रमतिरव तु नोद- न च प्रमाणान्तरयोग्यतायां १ २७६
नायाः २ ५४न च प्रसिद्धार्थपदान्तराणां ३ ९५
Page 441
१४ संक्षेपशारीरकस्प-
ल्लोक प्रतीकानि अ० श्रो ल्लोकप्रतीकानि .लो० न च भवति विरोधस्योत्थित- न नीलीत्पलादि प्रदेशेषु स्यापनीतिः १ १६६ किंचित् १ २२९ न चः मादृशजनधीकृतरचनं ३ २६७ न नीलोत्पलाद्या गिरो व्यक्ति- न. च वर्णपूगमपहाय भवेत् २ २३१ निष्ठाः १. २२७ न च वर्णितादपरमत्र भवान् ३ २०७ ननु कल्पितं यदिह जागरितं २ ३२. - न च विनिगमनायां कारणं ननु च डित्थडवित्थपदादि- किचिदस्ति १ १६३ वत्सकलमेव २५३ न च शक्तिरस्ति सहजा. ननु चाद्वयाश्रयतमःस्फुरणं. २१० यदि वा ३ ८९ ननु चैकरूपचितिवस्तुगतं २ २०३ न च शुक्रशोणितसमागमने ३ ९० ननु निवृत्तिपरत्वमुदीरितं १ ४१७ न च सोमयागपदयोरुभयोः १ ३५२ ननु मातृमानविषयावगती २. २७. न चैवं विधि: कश्चिदत्रेति न ननु लौकिकवचसां, नरमति- स्यात् १ ५०७ २६६
नञः प्रपञ्चप्रतिपादकस्य च १ २९२ ननु साक्यभिक्षुसमयेन समः २ २५
नञः स्वसंबन्धिपदार्थवस्तुनः १ ४02 ननु सच्चिदादिवपुषो जगतः १ ५.४३
न तथाSन्तरङ्गमुपलब्धिजनेः ३ ३१३ ननु. सदृशमिदं वश्चोद्यमस्मासु:
३ ३५५ कस्मात् २४६ بيه
न तदत्र संभवति युक्तिवशात् ३ २०९ ननु समीहितसाधनता लिड्वो १. ४२७
न तदात्मन: स्फुरणमेव निजं २ २०४ ननूद्विदादेर्यदि नाम लोके ३. ९७
न तमोऽपि पूर्वमभवन् २. २४० न न्वज्ञेयमिदं भवेद्यदि मम.
न तम: परिह्ृत्य लभ्यते २ २४१ प्रत्यक्स्वरूपं ततः २४४
न तव कचिद्गमनमस्ति विभो: ३ २६. नन्वन्यो मद्वन्धमोक्षादि भागी २ २१८
न तव प्रतीचिकरणानि बहिः ३ ४१ नन्वेवं चेद्वन्धमोक्षव्यवस्था २ २१५ न तस्य कश्चित्पतिरस्ति वन्वेवं सति रज्जुखण्डलकम- ३ १०२ लोके ३ १८५ नन्वेवं स्यादु र्निवाराऽनवस्था २ १५४: न तस्य कार्य करणं च न पाल्यत्वयोगादलं भूष्णु- विद्यते ३ १८४ भाव: १ ४३६ नद्यास्तीरे फलमिति गिर: १ १०२ न पुरान्वयश्च तव चिद्धपुषः ३ ३२ न नामयोगोन च धातुयोग: १ ४१२/न पुरान्वयोऽत उपपत्तिसह: ३ ३७ न नीलत्वजात्याश्रयव्यक्तितः न पुराष्टकेन रहितस्य तंव ३ २१ स्यात् २२८ व प्रधानमपहाय वेदने ३३४
Page 442
१५
ललोकप्रतीकानि अ० श्लो० श्लोकप्रतीकानि अ० ल्लो० न प्रधानमिह वेदनं भवेत् ३३५ नाज्ञातत्तावगतये स्वयमेव. बाह्यं २ १७ नं प्रमातरि सति प्रबाध्यते २ ३३ नाज्ञाततावगतिरस्ति जडेषु पूर्व २ १६ न प्रमेयमपहाय मातृता ३ १९१ नाज्ञानमद्वयसमाश्रयमिष्टमेवं २ २११ नभसः प्रदेशविरहान्नभसः ३ ३३ नाज्ञानमस्ति च सुषुप्तिग- • न भेदबुद्धिर्घटते प्रमाणतः २ १०६ तस्य पुंसः ३ १२५ नयनिपुणधीर्बालश्चेष्टां १ ३६५ नाद्यापि वेद्म्यहमनिर्वेचनीय- न योग्यतामात्रनिबन्धनो भाषां १ १२८
भवेत ३ २३४ नादां न हन्यां न पिबेयमित्यपि १ ४०९ नरकपातविवर्जनवर्त्मना १ ४३० नानाविधैबहुभिरेव निमित्त न रविशार्वरसख्य कृदीक्ष्यते ३ १९६ त्तभेदैः १ २२२ न शक्यमुत्पाद्यमिति प्रशस्यते २ ११२ नान्वेति तत्तव चिताव्यतिरे· न संकरो नापि च संयुति- किता नु ३ १३८
स्तयो: ३ २३३ नापूर्वमर्थमुपलम्भयितुं पदानां १ १०९
न स्थानतोऽप्यस्ति परस्य नाभावताऽस्य घटते वरणात्म-
कश्चित् ३ १४६ कत्वात् १ २०
नं स्थानतोऽप्यस्ति परस्य नामधातुसहितो नजिष्यते १ ४०५
तस्मात् ३ २८२ नावेदविन्मनुते पुरुषं बृहन्तं ३ २९६ न स्व्राध्यायवदाप्यता न च नासंसृष्टपदार्थबुद्धिपदयोः १ ३७२ पुनः १ ३०६ नासंसष्टमतो वदन्ति वचना १ ३८१ न हि कल्पनाविरचितं वितथं ३ २४ नाहंकृति च परिहृत्य तम- न हि खलुमतिपूर्वा ब्रह्मण: स्विताधी: २ १८० सष्टिरिष्टा ३ २४९ नाहं प्रकाश इति तावदनेन नहि चित्तदृश्यमपि सत्यमिति २ २२६ माया ३ ११० न हि भूमिरूषरवती मृगतृड्- नांश: परस्य न च तस्य जल- ३ २५ विकार एष ३ १० नहि विभक्त्यभिधेयपदार्थगं १ ५०२ निजमायया परिगतः पुरुषः २ ३० न हयर्थवादा विधिभिर्विरुद्धा ३ २८५ नित्यबोधपरिपीडितं जगत् २ ३८ नाखण्डवस्तुविषया वचसः नित्या च कारणगणस्य सती प्रवृत्ति: १०३ प्रवृत्ति: ३ २१५ नाज्ञाततामनवगम्य पुरा प्रवे• नित्यापरोक्षमपि वस्तु परोक्ष- शातू २ १८ रूपमू १२३
Page 443
१६ संक्षेपशारीरकस्प-
श्लोकप्रतीकानि अ.० श्लो० श्लोकप्रतीकानि अ० ल्ो० नित्यं प्रियादिषु सुखं प्रतिबि- निःश्रेयसं न खलु साध्यमतः म्बिंतं सत् ३ १५२ क्रियाभि: ३१४
नित्यः शुद्धो बुद्धमुक्तस्वभावः १ १७३ निःसंधिबन्धनमिदं चिदचि-
निमित्तं च योनिश्च यत्कारणं तस्वरूपं १ १९८
तत् १ ५३२ नीलैकगोचरतया नियतं
नियोग एवैष पुमान्नियुज्यते १ ४२४ न चक्षुः १ २९६
नियोगकोव्याऽपि नरो न नीलं सुगन्धि महदुत्पलमम्बु-
कश्चित् १ ४७६ शायी १ २२०
निरतिशयसुखं च दुःखजात- १ ६७ नैतत्क्लृप्तनिमित्त तोऽपि घटते १७९
निरभिसंधिसमर्पितमच्युते ४ ८ नैतत्प्रमाणमपनेतृसतो न निरुद्धत्रिकस्य द्वयापत्तिदोषात् १ ४५६ तावत् १ १२६
निरूपणायां नयतोऽस्तिक नैतत्सारं सत्त्वमिष्टं यदि
श्चित् ३ २१० स्यात् २ २००
निवृत्तिनिष्ठे तु निषेधवाक्ये १ ४४२ नैत द्वस्तुनि कल्पितस्य जगतो
निवृत्तिरस्ति द्विविधा बहि :- वाक्यप्रसूतप्रमा १ २४५
स्थिता १ ८६ नैतादशं ब्राह्मणस्यास्ति वित्तं ३ ३६३
निवृत्तिसिध्धापि नियोग- नैवं भ्रान्तिनिमित्तकारणमयं ३ १०३
सिद्धि: १ ४२३ नोद्यन्तमित्यत्र नजेक्षणार्थ- १ ४०७
निषिद्धक्रिया दुःखनिष्पत्तिहेतुः १ ४४१ प.
निषिद्धक्रिया प्रत्यवायाय नेति १ ४३८ पदजातबुद्धिजनिता भवति १ ३७४ निषिद्धक्रिया प्रत्यवायाय नो पदवाक्यमाननिपुणा १ '११ चेतु १ ४३९ पदवृत्तिसमन्वयावुभौ १ ५५१ निषिद्धक्रियां चोदितस्याक्रियां पदान्तरस्यागमनादिहान्यतः १ ३६७ वा १ ४४० पदार्थबोधेन कृतार्थता न ते ३ २९४ निष्कारणं श्रुतिशिरोवचनस्य पदार्थबोधं परिहृत्य वाक्यं ३०४ भङ्ग १ ९४२ परपक्षनिषेधमाचरन् २ .७८ निष्पन्नमेव यदि वा पुरुष- परमात्मपदं पराकृतद्वितयं १. २०५ प्रयत्न १ २९९ परमात्मभागपरिवेष्टनकवृत् ३ ३४ निष्पादिता सकलकारकवर्ग- परमात्मसंश्रयतमोजनितं २ साध्या ३ ११८ परमेव तत्त्वमगृहीतमभूत् २ २.२६
Page 444
१७
ललोकप्रतीकानि अ० क्लो० ललोकप्रतीकानि अ० ललो० परमेश्वरता. गुणोऽप्यतः ३ १८० पुरमेत्र गच्छति चितिस्त्वचला ३ २९ परमेश्वरेण विभुना रणयन् ४७ पुरवेष्टितं न तव चिद्वलयं AY ३ २७ परशब्दवृत्तिरपरत्र भवेत् १ १७१ पुरवष्टितः पुरषशानुगतः ३ ४८ पर्यायता न खलु तत्त्व्रमसीति पुरहेतुकं तत यथा च वपुः ३ ४५ वाक्ये १ २२५ पुरहेतुकं यदभवच्च विभो: ३ ४३ परस्पराभावधिया न भेवघी: २ १०७ पुरहेतुरूपघटितस्य दृशे: ३ ४६ परस्पराभावमुपाददानो १ २१० पुरुषभेदवशाद्दिविधा भवेत् ९० परस्पराभाषविहीनभावात् १ २११ पुरुषमतिनिवेशो नास्ति वेंद- पराश्चि खानि व्यतृणतस्वयंभू: २ १३ प्रमेये ३ २४८ परिकल्पितोऽपि सकलज्ञतया २२७ पुरुषमेकमपेक्ष्य च भूमिका ३ २४२ परिच्छिन्व स्तुव्यवच्छेदसिच्धै १ ५२७ पुरुषापराधमलिनाधि- १ १४ परिणति च विवर्तदशाद्वयं ३ २४३ पुरुषापराधिगमे तु १ १९ परिणाम इत्यथ विवर्त इति २ ८६ पुरुषापराधविनिवृत्तफलः १ १६ परिणामधियो विवर्तधीः २ ८७ पुरुषांपराधशतसकुल· १ १७ परिणामबुद्धिमुपमृद्य पुमान् २ ८४ पुरोपलब्धो विषयो न दृश्यते ३ २५६ परिणामविवर्तयारतः ३ २७४ पुर्यष्टकं तदिदमप्यभवद्धि लिङ्गं २ १९ परिपूर्णचिद्रसघनः ३ ४० पुर्येष्टकं भवति तस्य परस्य परिणामवादमुपगम्य तथा २ ७६ मोहात् ३ पशुनेतिपदे तृतीयया १ ५०४ पुरं पुरस्थत्वमथो पुरस्थ ३.२८१ पश्यन्न पश्यति गिरा कथयां पुंलिङ्गताऽपि घटते क्रतुगा- बभव ३ १६७ मिनोडस्य १ ४७३ पश्यामि चित्रमिव सर्वमिदं पुर्वक्षणे भवति वाच्यपदार्थ- द्वितीयं 8 48 भाग- १ २०४ पादार्थ न पृथकपरमाणमपरं १ ३८० पूर्वाण्यदृष्टपरिपन्थिनिबर्हणानि ३ ३४७ पारम्पर्य प्रगतिकगर्ति कार· पूर्वापरान्वयबलेन हिं कारणत्व- १ ३७३ णादा . १ ३७६ पूर्वापरीभूतपदार्थनिष्ठ- १ ४९२ पारम्पर्य शुद्धिहे तुत्वहे तो: ४ ५० पूर्वापर्ये पूर्वदौर्बल्यमाह २ ११६ पारोक्ष्यं च ब्रह्मणि प्रत्यगथें १ ११५ पिंत्रा तर्वमसीति बोधनमनु ३ २९९ पूर्व विकारमुपवर्ण्य शनैः पुरधर्ममात्मनि विकल््य तथा ३ . ३९/ शनैस्तत् २२०
Page 445
संक्षेपशारीरकस्य-
श्लोकप्रतीकानि -अ० ल्लो० ल्लोकप्रतीकानि पृष्ठात्परस्परयुजा प्रतिपत्तिरेषा १ १७६ प्रभुरेष सर्वविदहं कृपणो २ २२२ पृष्ठेन पूर्णवपुषा क्रियते प्रतीति १ २९० प्रमाणतो भास्ति निषिद्धकर्मण: १ ४३१ प्कर्ष: प्रकाशातिरिक्तो न चात्र १ २३४ प्रमाणमिच्छन्प्रतिषेधचोदनां १ ४४७ प्रकृष्टप्रकाशत्वजाती हिलोके १ २३१ प्रवर्तकोत्थाननिबन्धने ततः १ ३६६ प्रकृष्टप्रकाशध्वनी व्यक्तिमेकां १ २२६ प्रवर्तेकं वाक्यमुबाच चोदना १ ४१६ प्रक्षालनेन धवलं किमिदं बभूव २ १९ प्रवर्तकं वाक्यमुवाच चोदनां १ ४११ प्रच्यावि वस्तु यदिहास्ति प्रवृत्तिशास्त्रेण समेऽपि संमते ८९ निजस्वरूपात् ३ १२ प्रवृत्यभावस्य विशोधिकायें २ १३२ प्रतिबेधवाक्यवदतः सकलं १ ४०४ प्रवृद्दर, मस्य निवृत्तयोऽस्थिरा १ ४२५ प्रत्यक्त्वादिगुणान्वयेन यदि वा १ १७० प्राजे सुखं समनुभूय समु्थि- १ २३ प्रत्यक्प्रमाणकमस- १ ३ प्राणोक्कान्तिर्नास्ति मूर्धन्ययैषां ४ अ्त्यक्त्वमात्नविषयाश्रयता १ २१ मातिपदिकान्यनतिरिक्त्कवि- प्रत्यक्तमात्रविषयाश्रयमोहहेतोः २ २१२ षयाणि २७४ प्रत्यक्तत्वं लक्षये त्वंपदार्थ: २३७ प्रातिपदिकार्थगतमेव वचनानि १ ५०३ प्रत्यक्षकर्मवचसोरुभयो: समूहः २ ५ प्रारम्भा: फलिनः प्रस- प्रत्यक्षछिङ्गवचनानि हि दर्श- १ २२ प्रावादुकैरषि तथैव तदेषितव्यं ३ १३० अत्यक्षसूत्र इदमेव निवेदयि- प्रियशिरसत्वकथा खलु यादसी ३ १७० ष्यनू ४ २७ प्रेमानुपाधिरसुखात्मनि नोप- १ "२५ प्रत्यूक्षादेरेख दोषस्लतोऽयं २ १०२ ब. .. प्रत्यक्पराग्विषयवस्तुंविवेचनाम ३ १३५ बहिरङ्गसाध बमशेषगुरो: ३ ३५२ प्रत्यग्भावस्तावदेकोडस्ति बुद्धौ १ १५९ बह्ु निगद्य किमत्र वदाम्यहं १ '३३१ प्त्यग्रुपमतो न शब्दविषय: १ २४३ बाह्याध्यात्मिकवस्तुजातजननी २ १३७ प्रत्ययप्रकृतिशब्दतो बहि: १ ३९३ बाहैरसौ रविनिशाकरवहि- प्रत्यग्वस्तुन एव तत्र. विषये म्रा- २ १२७ वाग्भिः ३ ७६ अ्त्ययार्थविषयं हि कर्मणा ३ ३३३ बिम्बस्य नापि तमसि प्रति- प्रत्यये सनि न चापवांदकं .. ३. ३२६ बिम्ब्र- परत्यासन्ना परिणतिरियं २ १७९ ३. ७० प्रथमचरमभावो निर्णये क़ारणं बुद्धि: समस्तविषयावगमे चत् १ १६४ प्रवत्ता. प्रथमत्रिकं .. यजिनिगद्य गतं १. ४६० बुद्देरवृन्तौ जानता सामदेका १ १७९ २ ११
Page 446
श्लोकादचरणपतीकवर्णानुक्रम:। १९
श्लोकप्रतीकानि अ० श्ो० श्रोकप्रतीकानि अ० श्षो० बुद्धेर्वृत्तौ तावदानन्दलैका १८० ब्रह्मव सन्निति ततः प्रथमश्रुतं. बुध्दादिकार्येष्वपि चेतनोऽयं १ ५४६ सत् ३.११ बुद्धा तत्त्वंपदार्थावनुभव्रविषयं ₹ ३१० ब्रह्मेव सन्नितिवच :- प्रथमश्षु- बोधस्वभावकमबुद्धमनुष्णमुष्णं १ ११४ तत्वात् १ ३०७ "बोघात्मत्वे निर्निमित्ते प्रतीचो १ १९० ब्रल्लैव संसरति मुच्यत एतदेव ₹ ब्रह्मज्ञानं जानता ब्रह्मबुद्धे: १ ४५१ ब्रह्मैवाज्ञानि तस्मादिह भवि- ब्रह्मज्ञानं प्रमाणं भवति दृढ- तुमलं २. २.०८ मिदं ७ भ. ब्रह्मज्ञानं ब्रह्मणि. ज्ञायमाने १ ४५२ भगवाननादिनिधनः कृपया ३: ३५४ ब्रहाज्ञानं सूचयन्सूत्रकासे १ ५६ भड्क््वा कथचिदनुमानवशेन ब्रह्मपु्छमितिवाक्यगामिनो. २ १२० सिद्धे: ५४१ ब्रह्मा प्रनेयमथनेष्टमिह प्रमाणं १ ११९. भवति. च पुरुषार्थकर्मिकेयं १ ३९१ ब्रह्मस्वयंभुपरमात्मपदस्य वेदो २. २.६८ भव्यप्रतीतावुपभोगभाजों १ ४८३ ब्रह्म स्वयं प्रथमतः शबलेषु भव्यप्रतीतो न हि कक्विः तस्य. २८९ दर्थो. १. २. १.२५ भन्याय. भूतमिति किंच. विधि- ब्रह्माज्ञाने ह्यद्वितीयत्वमेकं. १ १५८ प्रधाने. ३१२ प्रक्षात्मत्वं सान्तरायं पुरस्तात् ४. 8.8 भव्याय भूतमुपदिश्यत इत्य० ब्रह्मात्मवस्तु निस्वद्यचिदेकंरूपं १ ३४१. वोचन् ३९५ महमादीनामस्ति मुक्तिश्रुतिभ्यः ४ ४७. ब्रह्माश्रम न हि. तमोSनुभवेन. भल्लातकादिरसयोगनिबन्धनं च ३. १४९.
लभ्यं १: १४ ३९४ भिन्नाभिन्नरवौ घटादिवचसा २०९. ब्रह्मास्मीतिवचो निविष्टपदयो- र्मानं भुजङ्गभोगं सुकुमारशीतलं. ४.३३ १. २९३ ६३ ब्रह्मेतिशेषिपदमन्र हि लक्ष्य- भूतस्य भव्याय यथोपदेश: १ ४८२ मेकं १७५ भूतानि पञ्च तव मोहसमुद्र- ब्रह्ैव सन्निति मिरं प्रति. वानि ६३ शेषितायै १ ३१० भतार्थनिष्ठवचमादपि शब्द- अहाव सन्निति ततोSपि बलि- शक्तिः १ ३६
धुमेतत्: ३१३ भा राग: कारणं पुंस्प्रवृत्ते: १: ११४
Page 447
२० संक्षेपशारीरकस्य
ल्लोकपरतीकानि अ० श्लो० श्लोकप्रतीकानि अ० शो०
भयस्त्वव त्तनुगुणावयवक्रि- १ २९ मानान्तरानधिगतं त्ववगम्यमानं १ १९८ भेदश्रुतिस्त्वन्यपरा समस्ता ३ २८४ मानान्तरानधिगतं परिनिष्ठितं भेदश्रुतिः कल्पितमेव भेद- ३ २८८ यत् १ २९४ भेदादिरूपमवबोधयितुं समर्थ १ १४७ मानेन मेयावगतिश्व युक्ता & ४८७ १ २१५ मानं न कारकमिति प्रथितं भेदं च भेदं च भिनत्ति भेदो १ ५५ पृथिव्यां १ १२७ भोक्ता भोगं प्रेरितारं च मत्वा ३ २९३ मायानिर्वचनीयमेव तु तमो १०० भोक्त्रादिसूत्रे परिणामवाद २ ७९ मायानिविष्टवपुरीश्वरबोध एष ३ १५३ भ्रमादनर्थस्य निदानमादरा- १ ४३४ मायामयत्ववचनादखिलं मृषेति २ ९३ भ्रान्तिज्ञानाद्रह्मणः सिद्धिपक्षे २ १४१ मायामयी बाह्यनिवृत्तिरिष्टा १ ८6 भ्रान्तिप्रतीतिविषयो न च मायामसौ वितनुते विभुरेवमेनां २ १८७ सन्नचासन् ३३९ भ्राम्तं तथोपचरितं च यथा- मायामात्रमतः समस्तमभवत्स्वमे ३ ११२ मायामेनां जामरे लोकसिद्धां : विभाग- २ २३४ ८५ मायोपाधेरद्वयस्पेश्वरत्वं १४८ म. मज्जत्यलाबु सहसाप्सु शिलां: २ २ मायाविनो न मणिमन्त्रमथौषधं
मणिमन्त्रमहौषधमितीढशकं ३ ९.१ वा ३. ८७
मतिमतां प्रवरो वृषभध्वजः ३ २६४ मायाश्रुतिस्मृतिवचः सकलं
मनोवगम्थेऽप्यपरोक्षता बला- १ ४३ तथाच ६८
मन्त्रार्थवादगतमध्ययर्न तदर्थ १ ४६८ २ १५१
मन्त्रार्थवादवचसामपि गोचरेषु १ ४७० मिध्याज्ञानाद्रह्मणः सिद्धिपक्षे १४३
मन्त्रो हीन: स्वरतो वर्णतो वा २ २३० मिथ्या सुषि: सवितृमण्डलमव्य-
मलिनं नभो नहि कदाचिदभूत् २ २३ वर्ती १ ३३७
मलं निरस्यार्थवदिष्यते चेत् ३ २१३ मीमांसितव्यमनयैव सदद्वितीयं १ ५८
महामहिम्नामपि यश्चिकी- १ १३ मुक्तामुक्तौ विद्वदन्भौ त्वदन्या २ १२८
महीभुजोऽयं पुरुषो मनस्वी १ २८१ मुकोऽज्ञानं ब्रह्ममित्येतदेवं १५६.
मातृप्रमाणमितिमेयविभागभिनं १ ११७ मुक्तो मह्ये स्वप्रकाशश्रकास्ती- २ १५८
मानान्तराधिगत गोचरगामिनी मूर्तामूर्ततदुत्थलिङ्गपुरुषव्यामिश्र-३ २३०.
स्यात् १ १५२ मोक्षस्वरूपे विफलक्रियोडसौ ४
मानान्तराधिगतता हि न य.
लक्षणायां १ १५३यच्छूतं विषिद्रिषोदयाय तत् ३३०
Page 448
२१
ललोकप्रतीकानि अ० श्लो० श्लोकप्रतीकानि अ० ल्लो० सज्ञादिक्षपितसमस्तकल्माणां ३ ३४८ यदि वा समुच्चयवशातपुरुषः ३ ५० यत एवमत्र न विरोधलवो २ २२१ यदि सत्यमित्यवगति कुरुते २ २२८ यत एवमेतदुपपत्तिपथं ३ ३८ यदिह किचिदबोधसमुद्गवं ३ ३२० यतो महावाक्यत एव पुत्रो ३ ३०२ यदिह साधनमात्मधियः श्रुतं ३ यतो यतो निवर्तते ३५७ ३ ३६४ यदीयसंपर्कमवाप्य के- १ ८ यतः प्रपश्यन्नपि भेदिन: स्वं ४७ यद्वादरायणमतं परिगृद्य पूर्व १ २९७ यल्कर्मकाण्डनिपुणैरुदितं पुर- यद्यत्र पश्यसि विरोधमुदीरय स्तात् १ १४६ १ ९४ यत्कर्मभावमनपास्य निजप्रमेये २ १४ यद्दत्प्राकृतवैकृतावतितराव- यत्केचिदाहुरभिधाय निजान्प- न्योन्य. १ ११८ दार्थान् १ ३७० यद्वस्तु सद्वयतयाऽवगत स्वश यसु प्रमाणमनुभूतिरिति प्रमाण- १ २८४ ब्दात् १ ९६ यत्तु प्रमाणमत्रधीर्य निजप्रमेये २ १५. यद्वाक्यजातमथ वेदशिरोनि- यत्रापि दैवगतितोऽस्त्यतिरि- विष्टं १ १४८
. कभा- १ ४५यद्वा विद्वद्गोचरं योजनीयं ४0
यत्राविशेषकनिभित्तकतावरोधे १ ३४८ यद्वयञ्ञकं किमपि लौकिकमी- यत्रैव काक इदमेत्र तु देवदत्त- क्षितं तत् २ १०
वेश्मेति १ २०६ यद्धि कारकतयाऽबंगम्यते ३ ३३१
यथा च यागादयनुबन्धभेदा १ ४२२ यमनियमविधानैर्वाड्मनःकाय- यथाविशिष्टस्य विधानतोऽर्थात् १ ५३५ चेष्टा १ ७४
यथां ह्वयं ज्योतिरात्मा विबस्वान् ३ १५० यमस्वरूपा सकला निवृत्तिः १ ८५
यदपि किंचिदुपासननिष्ठितात् ३ २८९ यस्मात्कृपापरवशो मम दुश्चि- कित्सं ४ ५९ णुकादे: २ ७५ यस्य प्रयोगविधिरस्ति परिप्र यदि कास् एव परमः पुरुषः ३ ३५ हीता ११
यद्ि तन्न पश्यसि हरे: परमं ३ ५५ यस्यापि विप्रुषि कृतार्थतया यदि परिणतिरेषा चिद्धिवर्तोऽ- निषण्णा: १ ३०२
थबा स्यात् ३ २४४ यागादर्थे मुख्यता यद्वदस्य '१ ४८.१
यदि बोध एव परमार्थवपुः २ २६ या नान्यमुद्दिश्य कृतिः प्रवृत्ता १ १३३ यदि भाव्यभागविलये न भवेत् २ . २४५ या फलश्रुतिरिहोपवर्णिता ३ १५९
Page 449
२२ संक्षपशारीरकस्य-
छ्लांकप्रतीकानि अ० ल्लो० श्ोकप्रर्तीकानि अ० शो० यावत्वंपदलक्ष्यवस्तुविषयो ३ ६० लक्ष्यस्व रूपकथनाय. न. यावद्दशोऽन्यदिह संसृतिका- लक्षणाय ५२ ₹ रणं तत् १ ३२४ लक्ष्पस्व रूपमप सघद्मुष्य योग्यत्वमत्र नच तत्त्वमसीति स्ाक्षात् र. ५.१६ वाक्ये १ ९८ लक्ष्यस्वरूपमुपलम्य तदेकनिष्ठं १ ५२४ योग्येतरान्विततया न च लक्ष्यार्थनिष्ठमुफ्लब्धमतोऽन्य- वाच्यताडस्य १ ३६९ तोडर्थात् १ ५१५ यो ग्येतरान्वितपदार्थगतैव लक्ष्यार्थवाचि पदमत्र हि. शब्द- १ ३५४ लक्षणार्थे १. ५२१ येोग्येतरान्वितनिमित्तक शब्द लिड्लोडादिर्भा वकस्तत्र शक्तिं १ ३४७ भाव्या १ ३८८ योग्येतरान्त्रितपदार्थनिवेदने तु १ ३४४ लोके प्रसिद्धपदगोचरतानि- यो यः शब्दो यत्कृतेऽ्ये भिन्त- १. २७८ निरूढ: १ १८५ लोके प्रसिद्धपदगोचरतास्ति यः कर्मकाण्डविषयेड़भिहितो- १ ७१ कार्ये १ २७९. र. रजतप्रतीतिरिदभि प्रथते ननु १ लोकपसिद्ध र्थप दान्नसणं १ २९०
रज्जज्ञानविजम्भितस्य फणिनो १ ३५ लाके हि मायाधिगता न २५५ माया रागद्वेष प्रशाखं विषयगुणस- ८६:
मुद्ा- २ १२६ व.
रागव्यक्तिर्विप्रती त्यास्पदत्वं ३ ७३ वक्तारमासाद्ययमेव० ७
रूपं तावकमुज्जितद्वयमभूद- वक्तृत्वमेत्र घटते यदि लिद्ध
द्दत- १ २६९ पदस्य १ ३९७:
रूप्पज्ञानं रजतमिदमित्येवमु- वक्तृज्ञानविवक्षयोरपि भवेच्छ- १ ३५०
त्पद्यमानं ४६५ वक्ष्यामि वत्स तव वाञ्छित.
रूप्यादिविभ्रममपेक्ष्य हि मत्यवस्थ- १ ९३.
शुक्तिका दौ ५२. वचनार्थविभक्तिवाच्ययो- १ ५११.
ल. वरतुस्त्रभाक इति सत्त्वमतो लडादिंशब्देडपंगते लिडादौ ३६८ गहाण १ २८७ लक्ष्यस्य लक्षणमिह त्रिबिधं वस्तुस्वरूपकथने ननु नास्ति पसिद्धं पुंसः
Page 450
श्ोकादयचरणमतीकवर्णानुक्रम:। २३
ल्लोंकप्रतीकानि अ० श्रोकप्रतीकानि अ० ल्लो० वस्त्वस्तु नित्यमपरोक्षमिदं तु विधयश्च कर्मविषयाः स्वतमः २ २४२ वाक्य १२४ विधिनिषेधवच: परिणामतः ३२६ विधिनिष्ठवाक्यमपि बोधयति १ ५१२ सूत्रकार: २ ५६ विधिफ्दानि हि भागसमर्प- वाक्यप्रसूतमतिरिन्द्रियजन्य णात् १ २१४ धीवत् १ १२२ /विधिमुखेन परस्य निवेदकं ३ ३१२ विधिरिह गुणभूतः प्रत्ययार्थोs- भाजः ३४३ पि नित्यं १ १९० विधिवचस्युभयं तु पदे पदे ३ ३१९ नृणां १ १४२ विनाऽपि शक्तिग्रहणं पदानां १ २९१ वाक्यार्थान्वयि तत्पदार्थकथने. विना महावाक्यमतो न नेतीति• १ २६२ कश्चित् ३ ३०३ वाक्येषु नञ््वत्सु निवृत्तिमात्रं १ ४१० विवर्तवादस्य हि पूर्वभूमि: २ ६१ वाक्योत्थापितबुद्धिवृत्तिरमला १ २४८ विशेषणानामसति प्रवृत्तिर्न • वाक्यं मुक्तिफलां घियं जन- दृश्यते २०० यति स्पष्टं १ २५३ विश्वोद्भवस्थितिलय प्रकृति- वागादेः खलु बाह्यवस्तुवि त्वमस्य १ ५१९ षयो नात्मा १ वाग्विस्तरा यस्य बृहत्त- १ ६ रूप- १ ५२० वाचको हरणकर्तुरिष्यते ४ १७ विश्वं विष्णोरुत्थितं नामरूपं ३ २७३ वानप्रस्थगृहस्थनैष्ठिकजनैः ३ ३५९ विषयकरणदोषान्न भ्रमः संवि० १ ३० विकारवादं कपिलादिपक्ष- २ ६४ विषयकरणदोषान्न भ्रमः संविदि २ १७२ विदितता परमात्मन इष्यते. १ ६१ विषमदुर्गमदेशसहस्त्रग: ३ २५८ विदिते पदे भगवतः परमे २ २४३/विस्पष्टमात्ममतमेव हि सर्व- विद्येति हि वाक्यमेव मिह च धर्म- २ १९४ स्पषट ३ १८ विज्ञाते ब्रह्मणि स्याद्विधिरय- विद्या-च विश्वविषयानुभवो- मफल: १ ४५५ त्थपूर्व- ३ विद्याविग्रहमग्रहेण पिहितं · ५३/ वेदवाक्यविषयस्य सत्यता २ विद्वांसो यदि मम दोषमु- १ १२ वेदान्तवाक्यगतिरत्र बहुप्रकारा ३ १४५
Page 451
२४ संक्षेपशारीरकस्य-
श्लोकपतीकानि श्लो० ल्लोकप्रतीकानि अ०ल्लो० वेदान्तवाक्यजनिता मतिवृ• शबलता कवलीकृततावशात् १ ३२९ त्तिरेव ४ २८ शबलतापरिधानसमन्वयात् १ ३३० वेदान्तवाक्यजनिता परमात्म- शबलमात्मपदेन निगद्यते १ ३२६ बुद्धि- २ वेदान्तवाक्यमिह कारणबोधे ५३ शब्दत्वजातिवचनो. न हि ३ ३४१ शब्दशब्द: १ २७२ वेदान्तवाक्यमिह येन यथा- शब्दशक्तिविषयं निरूनणं ३ प्रवृत्तं १ ५४० शब्दस्य लाक्षणिकमुख्यविभाग- वेदान्तवादिसमयेऽपि समान- भिन्ना १ मेतत् १९४ ३ २१६ शब्दस्य लाक्षणिकंवृत्तिरपि वेदान्तविज्ञानसुनिश्चितार्थाः ३ ३६८ त्रिवैषा १ १५४ वेदेऽपि लाक्षणिकवृत्तिरियं शब्दार्थसंगतिविदामथ सत्व- त्रिघैषा १ १५७ शुद्धे: १ १९९ वेदे वक्तुरभावतस्तदुभयं ना- शब्दो गकार इति लौकिक- स्तीह १ ३५१ १ वेदैकगम्यमिति कार्यमभीष्ट- मस्ति वाक्यं २७१ शब्द: प्रवृत्तिजनको न तु मस्मिन् १ ३५७ बोधकश्चत् १ ३५५ वैराग्यस्य दृढत्वमेकमपरं ३ ३ वैराग्यं विषयेषु पूर्वमपि मे शशाङ्काभिधानाभिधेये हि ३ ५८ पृष्टे १ २३२ व्यतिषक्तबुद्धिजनकं सकलं १ २७५ शशाड्काभिधानाभिवेयो व्यवहारगोचरमतः सकलं २ २४७ न चेष्टः १ २३३ व्यवहारनिर्वहणशक्तिमसौ २ १०० शश्वत्स्व्रयं प्रथमलुप्तचिदात्म- व्यापारं सकलस्य भासयति भूतं १ ३५८ यो ३ ६२ शास्त्र दयेन परिदर्शितसाधनेन १ ९० व्यावहारिकमतोऽवगम्यतां २ ४३ शास्त्र द्वैविष्यदष्टे द्विविधम व्युत्पन्नस्य हि बुद्धिजन्म स- १ १९. धिकृते १ ७३ श. शास्त्रं तावत्तत्परं नेष्यते त- २ २१७ शक्तिव्याप्तिप्रत्ययौ कारयि- शास्त्रं प्रवृत्तिषु निवृत्तिषु ष्यनू ३ १०७ तुल्यरूप १ ७२ शक्तो गुरोक्षरणयोर्निकटे० १ १० शिष्योपसत्तिवचनानि समन्वि- शक्रोति सिद्धमवबोधयितुं च तानि १ ५५७ वाक्यं १ ५६२ शुक्तिकाविषयबुद्धिक मना ४ १६
Page 452
श्रोकादचरणप्तीकवणोनुक्रम:। २५
श्लोकप्रताकानि अ.० लो.० लोकप्रतीकानि अ० लो० शुक्तिक़ाविषयवुद्धिज़न्मनः ४ शुक्तीदमंशास्पृथगप्रतीता- १ ४६ सत्येति २ २४ शुद्धत्वार्थं ज्रह्मणस्त्यज्यते चेतू २ १९७ श्रेय:साधनयागदानहवनाद- शुद्धः परोन खलु वाङूमनस- र्थेषु १ ४७२ व्यतीत: ६ श्रेय:साधनता लिडर्थ इति शुद्धे वस्तुनि यद्यपि प्रवि- श प्रागुक्त. १ ४७१ शति ध्वानं २ १३५ श्रोत्रादिजन्यमतिवृत्तिषु शुध्धुत्थतर्कज़नितं चिद्रचिद्धि बाह्यशब्दा ३ ७८ भागं १ २०० श्रौतार्थवृत्तिबललम्यमपीह शेषेऽप्यूहं न्यायसाम्यादशष १ १८९ वस्त ३ १७४ श्रद्धत्स्व सौम्य्रेति हि शास्ति श्वेतिमानमभिपश्यतः पुरः १ २७७ शास्त्रं १ २६७ ष. श्रवणमननबुध्धोज़ातयोर्य- श्ष्ठ प्रपाठकनिबद्धमुदीरित यत् ३ २१९ त्फलं ३ ३४६ श्रवणादिकं शमदमादिपरः प्रष्ठी ज़ातिगुणक्रिया द्रिरहिते १ २३९ ३ ५४ श्रवणेन्द्रियं च किल कर्णगतं २ २३२ स.
श्रीदेवेश्वरपादपडकजरज़: ६२ सकलशक्तिविकल्पनयान्वये ३ २२६ सकलवदशिरःसु परात्मधी ३ श्रुतपदैरुपसंहृतिशालिभिः ३१३ ३ ३२२ सकृदुच्रन्यजतिरेश्र गुणं १ ४६१ श्रुतिवच्नमनेकं वक्ति तस्ये- सगुणवाक्यमपीह समन्वितं १ क्षितृत्वं ३ २५.१ सच्ित्सुखांद्रयवपुः कथयन्ति श्रुतिव चनविशेषाच्चेतने कारणेड- केचितू १ १७४ स्मिनू १ ५०० सती न संव्रिक्कियते हि सत्वा २ १११ श्रुतिक्चांसि ुनिस्मरणानि च R ९३ सती हि सत्ताइस्य पद्रस्य श्रुतिवचांसि मुनिस्मरणानि त्र ३ २४१ दृष्टा २०३ श्रुतेश्च तात्पर्यमखण्डरूपे. २९३. सतीऽपि कार्यत्वमयुक्तमेव ३ २११ सतः प्रमाणपाभिम्तेत्ु पञ्चसु ३ २५५ ३ १ सत्यती यदि भृषरा न भिद्रते २ ४0 श्रेयोहेतुत्ववाची यदि भवति सत्यप्यकषुप्तचिति यत्त्वयि तद्रा ३९८ नास्ति कर्त ३ ११३
Page 453
२६ संक्षपशारीरकस्य-
छ्लोकप्रतीकानि अ० ल्लोकप्रतीकानि अ० छो०
सत्यप्येवं ज्ञातिरेकावकाशः १. १८७ सर्वेप्रमाणफलभूतसमस्तसंवित् २. १८४: सत्यप्रतिज्ञनयनोत्थधियो घटा० १ ४८ सर्वश्रुतिस्मृतिवचोभिरयं परें- सत्यमेवमनृतं च दुर्लभ्ं ₹ ३९ व्राट् ३. ३६० सत्यमेवमनृतं च भेदतः २ ४२ सर्व पराग्विषयमेव हि मान• सत्यासत्यवपुस्तथाहि समुर्ण १ ४६४ जातं. ९. सत्येडव्यस्ति ज्ञानता ज्ञानतायाम्१' १८६ सर्व यदर्थमिह वस्तु यदस्ति सत्यं ज्ञानमनन्तभित्यभिहिते किं- १' २४ संभावना नीयते २६३ सर्व सर्वसमुद्रवाय घटते ३ २२५ सत्यं न गत्यन्तरमस्ति तत्र ३ ९८ स समानमित्युपनिषद्वचनं ३: ४२. सत्यं यदाह गुरुमान्यदि वाक्य- साक्षादिहाभिमतमेघ विवर्त- गम्यं १४५ वाद- ५९. सत्यं यदाह पितृमान्व्यवहारदृष्टि ४९. साक्षिताSपि परमात्मनो भ० सत्संप्रयोग इति जैमिनिरप्युवाचर ४६ वेतु १८२ सदसत्सदसद्विकल्पित- १.२ साक्षित्वमात्मतमसामतिकञ्चु- सदसत्सदसद्वि कल्पितप्तिबद्धा ४ १३ केन १३२ सदसदुद्गवनं न विमुक्तता. ४. ३५ साक्ष्यवस्तु परिहृत्य साक्षिता ३. १९० सदशसांशपराग्विषयेषु चेंद्रव० १ ३९ सा चोपनेयरहिते वितयिण्यन- सद्पमावरणतानुभवादभीष्टं ३ १२९ नतेऽ ३४२ स परिपृच्छति कोऽहमसौ च क: १ ९१ सादश्यधीप्रभति.न.त्रितयं नि १. २८. सप्रयोजनकब्रुद्धिकारणं १ ४६९ सापेक्षावुदितौ यदा तु, भवतः समत्रायिकारणगणेन तथा ३ २०८ समविषमसमुच्चयो न युक्तो पूर्तापरौ ११९ ४ ९: सभीहितोपायतया लिडन्वयात्.१ ४४३ साभासज्ञानवाची यदि भवति
समुपसंहृतशब्दसमन्वितैः ३ ३२३ पुनः १. १६३
. ३ १५४ सम्यग्ज्ञानबलेन तं. विरहिते. ३ १०१ तीया १. ३२३
सम्यग्ज्ञानब्रिभावस: सकल ३८ सामगानमथ जक्षणं जगत् ३. १६४
सम्यरज्ञानाज्ीवर्भेदप्रसिद्धा २. १५.० सामगानमथ जक्षणं जगत् ३: १६५:
सम्दग्ज्ञानाड्रह्मण: सिद्धिपक्षे. २. १४० सामगानमपि तत्स्वरूपतां ३: १.६० १५७. सामर्थ्यमस्य मणिमन्रनिमित्त- स्-त्र. वस्तुष जडेल्बजडप,काशं १ १.०७ मस्त
Page 454
श्लोकादचरणमतीकवर्णानुक्रमः । शू
छ्लोकपतीकानि लो० ललोकप्रतीकानि भ ० खामानाधिकरण्यमत्र पदयीः १९७ सोऽवच्छेदोप्यस्ति नास्त्म्बरे सामानाधिकरण्यमत्र भवति चेत् २ १५३ प्राथम्य- १९६ संकल्पपूर्वकमभूद्घुनन्दनस्य १८२ सामानाधिकरण्यमन्वयगिरा हेतुं १ २१७ संक्षेपशारीरकमेवमेतत् ६० सामान्यतः प्रथममेष पदार्थ- संघातवादमुपगम्य तु तत्र पक्षे २' ६९ पिण्डों १ ३६१ संज्ञासंजिसमन्वयावगतये १ ५२५ सामान्यं न विशेषवस्तुविरहें ३ १९३ संबन्धजातविरहान च लक्ष- सायुआ्यादि न मोक्षपक्षपतितं ४ ३४ णाडस्मिन् १ २५२ सिद्धान्धिरितं यदि लिडादिपदानि संबन्धिता भवति लाक्षणिक- • कारय ३४६ प्रवृत्ते: १. २०१ सिद्धार्थवादिव चनेषु न गौणतादि१ ४८६ संबान्विरूपं यदि वस्तु लक्ष्य- १ २०३ सिंहश्तुतिर्न घटते यदि शूरतास्य ३ १७३ सेबन्धः समवाय इत्यपि पदे २७० सुकतदुष्कृतकर्मणि कर्तृतां १ ३२७ संवित्तिभेदतदभावतदीयजन्म ३ २३६ ३. ४९ सविद्धुरं वहति तद्विषयोपयुक्तं १ ५३ सुकृतदुष्कृतयोः शबला यथा १ ३. ६९ सुप्ो जन्तुः स्वल्पमात्रेंडपि संविव्धुत्पादकं यद्दचनम
· काले. १३० भिमतं कर्म मीमांसकानां १ २४६ मूत्रं तत्तु समन्घयादितिविधि- संवित्परिस्फुरति न स्कुरतीति
व्यापार १ २६१ तस्यां. २.१.३ सजति रक्षति संहरति प्रभु: २६९ संवित्प्रमाणघटना प्रति योभ्यतां सृष्टिस्थिति प्रलयसंयमनप्रवेश- १. २६० चेतू २८६ सोपाधीश्वरता निषेधनंपरा ३. १६३सवेदनं यदिह मानफल प्रसिद्धं ३ 60 सोऽयमित्यपि पदार्थरूपकं २०७ संसारदोषमवधारयतो यथावंत् ३. ४ सोडयं गिरोरिव न. लक्षण- संसाररूपमन्रगच्छ विविच्यमानं पाऽपि वृत्तिः संसिद्धा सविलासमोहविषये १ ३१ सोडयं पुंमानयमसाविति पौरु- संसिद्धा सविलासमोहविषये २३९. षेये १ १६५ संस्कारभ्रमसंतति प्रतिनर भिन्नां २ १३८ साडमं पुमानिति वचस्यु- स्पष्टानुभूतिविषयो न तम .. भयप्रकारा १५६ स्तदानी. १२३ सोंडयं.पुमानिति हि मुख्य. स्पष्टं तमःस्फुरणमंत्र न तत्र २ १७६ पदाथेयुक्त- १. १४९ स्कुरणास्फुरण च नाऽडत्मनः स. २
Page 455
२८
ल्लोकप्रतीकानि अ.० लो० ल्लोकमतीकानि कमृतिसमपदजन्यबुद्धियुग्मा १ ३८५ स्वातन्त्र्यमीश्वरमिरा गुणमार्ग- स्यादेतद्रेवमनवद्यपुमर्थसिद्धि- १ ३०१ वृत्ति स्वकारणैस्तन्तुभिरेवमस्य स्वात्मानमेव जगतः प्रकृति स्वतोड़परोक्षा चितिरत्र विभ्र- १ ४२ यदेकं ५५० स्वम्रदृष्ट्रमिह रज्जुसर्पव- २ ३५ स्वाध्यायधर्मपठितं निजवेद्र- स्वमभ्मोऽपि सुक्ता दिनिबन्ध- श्ाखा २९१ नत्वात ३ ११७ स्वाध्यायवन्न करण घटते- १ १८ स्वपश्च जागरितम्रप्युभयं तवैव ३ ११९ स्वानुरक्तमतिज़न्मकारणं १ ५१७ स्वम तप्तशिलाधिरोहणगता १ ५१८ निःश्रे- १ २३ स्वाभाविकी हि वियदन्वितता रवमे न जागरितमस्ति ऋृषात्व- हेतोः घटादे: ११५ १०६ स्वाभाविकी हुतमुज: खलु . स्वभेडप्येवं स्वम्रदृङ्मोहमात्रातू ३ स्वमोपल्धमखिलं वितथं नोष्णता तं ३ ११४
तथाऽपि ११६ स्वीयाविद्याकल्पिताचार्यवेद १६३
स्वप्: शुभाशुभफलागमसूचक; स्वेच्छाविनिर्मितवपुर्वरमन्तरेण २ . १८१.
स्यातू १ ३३८
३ रवभावतो यन्मिथुनं विरुद्धं १४५ हित्ा न वाक्यपद्ते प्रतिपत्ति- ३ १९५ हेतु १' स्वराड़िति च विद्यते श्रुति; १५६ हस्वाणुत्वे कारणद्वित्वहेतोः ११० ३
साज्ञानकल्पित ज़ग- हुस्वारब्धं त्र्यणुकमणुभिस्तद्व- स्वाज्ञानान्वयिनी चिदेव भवति ३ दाख्धमेतत् २ ७१ V:
समाप्ोडयं संक्षेपभारीरकस्य श्रीकाध्यचरणपतीकवणोनुक्रम:।