1. Sankshepa Sariraka Sarvajnatma Anvaya Artha Prakasika Ramatirtha Bhau Sastri Vajhe Chowkambha
Page 1
Birla Contra: Library PILANI (kaja:than)
Ctase No, S181.4 Book No : S161S Accession No :. :L4451
REQUEST IT IS EARNESTLY DESIRED THAT THE BOOK BE HANDLED WITH CARE ANO BE NOT MARKES, UNDERLINED OR DISFIGURED IN ANY OTHER WAY, OTHERWISE IT WILL HAVE TO BE REPLACED OR PAID FOR BY THE BORROWER IN THE INTEREST OF THE LIBRARY. LIBRARIAN
Page 2
MUNSHI RAM MANOHAR LAL SANSKRIT & HINDI BOOK-SELLERS NAI SARAK, D E L H 1-6.
2
Page 3
3
Page 4
। सटीक संक्षेपशारीरकस्य । भूमिका।
यस्यानन्दलवेनैव जगदानन्दमश्नुते।। सं वन्दे मत्यगात्मानमसङ्गं नन्दनन्दनम् ॥ १॥ भो भो विद्वास: ! नैतदविदितं श्रीमतां यदस्मिन् मृगतृ- ष्णिकायमाने संसारे हित्वा सच्िदानन्दरूपं ब्रह्म नैकान्ततः किश्विदपि विद्यतेऽन्यद्वस्त्विति। परमेतन्न सकलशास्त्रपारावा- रीणेनापि पथमत एव ज्ञातुं मभूयते । किम्पुनरनाघातश्ञास्त्रग- न्घेः माणिभिः । यतोऽस्मिन् कनककान्तादिरूपे विधातृनिर्मिते जालके मत्स्यायमाना: सर्व एव प्ाणिनः स्वात्मज्ञानविमुखा: संसारचक्रे दिवानिशं बम्धम्यमाणा लेशतोऽप्यात्मतत्वमवगन्तुं न पारयन्ति। उक्तं च- वेधा द्वेधा भमं चक्रे कान्तासु कनकेषु च।। तासु तेष्वप्यनासक्त: साक्षान्वर्गो नराकृतिः ।१॥। इति। तावतापि चात्मनः कृतार्थतां मन्वानास्तत्वतः श्रेय- स्साधनात् पराचीनमुखा भवन्ति। एतादशे विषमतमे विरिश्चि- भपश्चे पाणिनां प्रथमतोऽन्तर्मुखा मटत्तिरेव दुःशका। तेषु केषा- मेव पूर्वाचरितसुकृतपरिपाकवशात् कलत्रपुत्रादिषु जातानाद-
परमार्थतः श्रेयस्साधने बुद्धिरुदेति । उद्यच्छन्ति च ते त- दनुसारम्। वहवश्ैषु तत्वज्ञानाय प्रयतमाना अपि विघ्नवाङ- ल्येन भग्नोत्साहा मध्ये एव विरमन्ति। विरला: पुनस्तेषु
4
Page 5
( २ )
विघ्नैः पुनः पुन्बाध्यमाना अपि समीहितपाप्षिपरिपन्थिविघ्न- जातमविगणय्य द्विगुणीकृतोत्साहाः स्वेष्टसिद्धयेऽहर्निशमविरतं भयतन्ते। तेष्वपि कशिदेव परमार्थतस्तत्वं साक्षात्कर्तु पभव- ति। उक्तं च भगवता- मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये।। यततामपि सिद्धानां कशिन्मां वेत्ति तच्वतः ।। १ ॥ इति। ताहशो हि किल लोकोत्तिर: कश्चिदेव जगति स- र्वान माणिनः स्वाचरितसुकतदुष्कृतपरिपाकवशात् कर्मानुरूपं फलमनुबष्नतः स्वात्मतत्वमविदुष: संसारवारिधी निमज्जतो रष्ट्रा करुणापरिप्लुतचेता लोकानामनुग्रहाय उपनिषदादिपु सुगूढ निक्षिप्तमात्मतत्वमनायासतोऽज्रजनबोघाय ग्रन्थरूपेण उ- पदेष्टुमुद्युङ्क्ते। न हि गुरूपदेशं विनाऽतिदुर्बोधमेतत्तरवं तर्केण झ्ञारतुं शक्यम्। ताहशो हि भगवान् बादरायणो लोकानुग्रहाय उपनिषद्घुष्टस्यात्मतश्वरस्य ख्यापकमध्यायचतुष्टयीरूपेण प्रणि- नाय लोकोत्तरं ग्रन्थम्। तस्य सूत्रत्वादेव संङ्क्षेपं मन्दवु- द्विभिर्दुर्जेयतां नास्तिकमवरैवौद्धादिभिरन्ययिततां व रष्ट्रा भगवन्त आचार्यपादास्तत्वदर्शनाय हढतद्धकच्छा नास्तिकम- तखण्डनपुरस्सरं शारीरकमीमांसाभिधं भाष्यं व्यरचयन् । तस्यापि गाम्भीर्यस्य मन्दधिपणैः दुर्शेयतां, कचिथ्य मुमुक्ष्वजिज्ञा- स्यस विशेषव्रह्मोपासनावाक्यविचारवि्षिप्ततया दुरवबोधतामाक- लय्य तद्विक्षपपरित्यागेन मुमुक्षुजिज्ञास्यं निर्विशेषं ब्रम्म अनायासेन म्ुमुक्षुबोधाय संक्षेपशारीरकारयो ग्रन्थो वार्ति- करूप: पाणायि तत्रभवता सर्वजात्माख््यसुनिना। अ्यं घ मुनिवर: के वा कारल स्वसतया समलश्चकारेति न तस्वतो निशेतुं प्रभूयते। १९४४ तमे विक्रमाब्दे मधु-
5
Page 6
( ३ )
सूदनीसहितमुद्वितस्य संक्षेपशारीरकस्य संशोधकेन धूमि- कार्या तत्रभवतामाचार्यपादार्मा तुर्ष्यवास्थाप्यत। आचार्यपादाश्च समकालिकत्वमेवत्मणे- शु ह्रेरीमठस्थितपाचीन ले- खानुसारेण ख्िस्ताव्दात् माकू चतुश्चत्वारिंक्षतमे वर्षे मादुरास- रिति ज्ञायते। अर्वाक्तनपाश्चात्यमतेन स्त्रिस्ताब्दानामष्टमश्ष- तकस्यान्ते नवमस्यारम्भे वाऽडचार्यार्णं स्थितिरित्यवगम्यते। तत्र समकालिकत्वे पूर्वमनेन स्त्रिस्ताब्दारम्भात् पूर्व तत्सिथ- तिः। उत्तरमतेन चाष्टमे शतके स्त्रिस्ताब्दस्येस्यवगम्यते। परन्तु श्रीयु तवाबूगोविन्ददासमहाशयेन शङ्रेरीमठधिष्ठितानां श्री १०८ नृर्सिंहभारतीपूज्यपादानां सपर्यापेटकस्थितपाचीनहस्तलिखित- पत्रतः इदमवगम्य कथितं यत् पूज्यपादा: सुरेश्वराचार्याः त्रिं- शत्तमाद्विक्रमाब्दादारभ्याष्टशतवर्धाणि पीठमलङकृत्य पूज्यपा- दश्रीनित्यबोधाचार्येषु चिरनिर्व्यूढां स्वधुरमवस्थाप्य ब्रस्भावं गता इति। इम एव श्रीनित्यबोधाचार्यास्सर्वज्ञात्ममुनिसमाखूय- या भथिता: अस्य ग्रन्थस्य पणेतारः । इमे च तल्लेखानुसारत: ७५८ तमे स्व्रिस्ताब्दे पीठमधिरुह ८४८ तमेऽद्वे देवभूयं मासर इत्यवगम्यते। एतस्माच्चास्य ग्रन्थपणेतुराचार्यपादसमयोत्तर- कालिकत्वमवसीयते। भवतु यद्यथावसस्थितम् । पकतं पस्तूयते । अत्र व ग्रन्थे ग्रन्थकर्तुरतिस्पष्टः भमेयविचार: तर्ककर्कशबुद्धि- मतो मुक्ताभिनिवेशान विरचयन् सबहुमानमङ्गीकारयति यु- क्तिपाटवेन स्वमतिपादं प्रततिवादिभिः । अनितरसाधारणोऽयं ग्रन्थो बहीभिष्टीकाभिरलङकृतोऽपि न ताहग्मन्दबुद्धिज्ञेयतामा- वहतीति मन्वानेन तत्रभवता श्रींरामतीर्थस्वामिनाऽन्वयार्थम- काशिकाख्ययाऽन्वर्थया व्याख्यया समलङ्कृतः। अस्य च टीकाकर्तु: कालादिकं नैव जायते। श्रीमदाचार्यपादपणीताया-
6
Page 7
( ४ )
सरुपदेशसहस््यामेतत्पणीता टीका वर्सते इति नामसामान्या- देवावसीयते। सा चेयं टीकाऽतिदुष्पापा मूलयुता रसि- कजनमनःसम्मोदमत्यर्थमावहेदिति महता मयनेनासाध चौ- खम्बासंस्कृतपुस्तकालयाध्यक्षेण श्रीजयकृष्णदासेन मुद्रयितुमा- रब्धा। तस्या: संशोधने नियुक्तो रत्नगोपालभट्टः पथमाध्याय पर्यन्तां तां संशोध्य अनधिगतमनोरथो मध्य एव सहसा कवलीकृत: कृतान्तहतकेन। उत्तरोत्तरमीदगेव विद्वज्जनस्थित्यसहिष्णोः करा- लकलिकालस्य महिमा! तस्या अवशिष्टाध्यायत्रयस्य संशोधने पू- ज्यपादैः श्री ६ पर्वतीयनित्यानन्दपण्डितैर्गुरुवरैर्नियुक्तस्तदर्शि- तपथेन यथामति समशोधयम् । तथा अस्मद्गुरुवरैः द्राविडोपाहै: श्री ६ लक्ष्मणशास्त्रिभिरपि संशोधनार्थमपेक्षितपाचीनतरस्वी- यपुस्तक पदानादिभिर्वहुविधं कृपापात्रीकृतोऽस्मि। शुद्धिपत्रादि- निर्माणकार्ये मित्रवरेण शेंडे इत्युपाहेन सीतारामशास्त्रिणा ब- हूपकृतोऽस्मि। यर्थोमति संशोधितेऽप्यस्मिन् पुंदोषसुलभानि सीसकाक्षर योजकानवधानादिभिर्वा समुपजातानि स्खलितानि मृष्यन्तु दयापरिप्लुतचेतसो गुणैकपक्षपातिनः सहृदयघुरीणा इति सशिरमणामं पार्थयते।
विदुषामनुचर: वसे इत्युपाहो भाऊशासत्री
7
Page 8
सटीक सङ्कपशारीरकस्थ शुद्धिपत्रम् ।
प्रथमाध्यायस्य।
सशुदम् शुद्धम् पु. प. सत् कसिलू तत् कचित् कचित् ३ १८ जडं स्वस्त्रवि जडं स्ववि स्वम्पदकपो त्वम्पदवाच्यो ८ ११ आरम्भा: प्रारम्भा: १५ लन् कर्ते सन् ग्रन्थं कर्तु १९ प्रकरवाणीति प्रकरणं करवाणीति १९ ११ प्रतिपान प्रतिपादनात् १९ १९ स्यासंमवाना स्यासम्भावना २४ एस न न प्रवर्तेता, एव न प्रवर्तेत २७ २० देवमश्ञान, देवमिदमञ्चान ३० १ सीषुपानुभाव: सौषुप्तानुभव: ३५ २५ मित्युक्कमानं मित्युक्तमनुमानं ३६ १ हि च ३६ नान्यदृत्र नान्यद्न्यत्र ३६ 6 मुखीत्येव सुखीत्यव ३७ नसंम्भाव्य ते न सम्भाव्यते ३८ वयजनादि व्यजानादि ३९ Sविद्यया पृत ४० १४ संभव संभव: ४१ २० इतरेतराध्यासन इतरेतराध्यसन ५० १९ स्फुरणस्यानभव स्फुरणस्यानुभष ५० २२ वेषेणा वेषेण ५६ २३ ए तत्सर्व सुख एतत्सवे सूच ६६ स्वाज्ञानामर स्वाशानमा ६७ ४ निरवश्हाछ ६९ १०
8
Page 9
( २ )
अशुद्धम् शुद्धम् पृ० पं० भनेन यथा अनेन पथा ७० विचारेणस्य विचारेणास्य ७१ ७ विधिहिता विधिविहिता ७५ १७ स्वोत्पत्या स्वोत्पच्या ७५ २० कर्मजितो कर्मचितो ८१ १ पुण्यजितो पुण्यचितो ८१ २ कारार्पित करार्पित ९७ १ पृरुण पूरण १०० तस्वसी तत्वमसी १०० १७ वाक्यप्राण्य घाक्यप्रामाण्य १०१ २२ बन्ध्या वन्ध्या ११० १३ शद्वस्यापरोक्ष रहस्यापरोक्ष ११२ पर्श्वावर्ती पाश्ववर्ती ११८ १७ याञ्चा याच्ा ११९ २१ दधत्या नुरू दधत्यानुरू १२० १४ क्षितिललुठ क्षितितललुठ १२२ १९ प्रमाण्यं प्रामाण्यं १२३ सोधयमिति योऽ्यमिति १२६ तद्देशकालान्तो तहेशकाली तौ १५६ १४ प्रयजको प्रयोजक १२७ १७ रूपेणान्वया रूपेण घोषान्वया १२९ त्वय्य द्वतीय त्वय्यद्वितीय २३३ १२ वर्तते वर्तेते १३३ १९ सर्व धिष्ठाने सर्वाधिष्ठाने १३५ मुख्यो मुख्ये १४१ २० ज्षानताऽप्यस्ति तद ज्ञानताऽप्यस्ति न हि सत्य- पद्लक्ष्याद्वहिर्भूता ज्ञानता भवति, तथासति सत्यस्यास्फु- रणप्रसभ्गात् यथा सत्ये ज्ञान- साडप्यस्ति तळ १५३ <
9
Page 10
( ३ )
अशुद्धम् शुद्धम् पृo पं. जडतयापुमर्थत्वं जडतयाऽ्पुमर्थत्वं १५४ १६ व्यत्पप्ति ष्युत्पत्ति १६५ सम्बद्ध यद सम्बद्धं यद्व १६६ सम्बध्या सम्बन्ध्या १६६ १७ लाक्षणिप्रवृत्ते: लाक्षणिकप्रवृत्ते: १६७ १७ चिति वाचि चितिवाचि ६७३ स्वरूपेण स्वरूपेण १७४ २ ससंर्ग संसर्ग १७४ १२ निमित्तका निमित्तिका १७९ निष्किय निष्किय १९१ १५ पदेक संदेक १८२ १६ पोद्वल पोदूबल १८४ प्रत्ति पश्या प्रतिपत्या २०१ ३ निषेध्रो निषेद् भी २०२ श हमथा शाहूमथा २०२ २२ पस्थाकतया पस्थापकतया २०३ 6 दैवेनेष दैवेनैव २०४ १४ नुपत्या नुपपत्त्या २०५ १० उरीकृत ऊरीकृत २१० २१ अपर्यनुयोज्य इत्यर्थः । अपर्यनुयोज्य इत्यर्थः । कुतमप्य कुत एतदपीति यत: ईश्वर: समर्थ इत्यर्थः कृतमप्य २१० २२ पदर्था पदार्थ २१३ २३ प्राभाकर: प्राभाकरा: २१८ ६ कार्ये कार्य २२१ १२ प्रमाण्य प्रामाण्य २३० ७ प्रमाण्य प्ामाण्य २३२ ज्ञानामात्रा ज्ञानमात्रा २३७ त्यधिका युक्ति:, त्यधिकार्युक्ति: २३८ १८ दण्टु: दष्टु: २५९ २३
10
Page 11
(४ )
अशुद्धम् शुद्धम् पृ. पृ.
परसगा प्रसंगा २६९ १७ सिद्धावेक तया सिद्धविकक्रियार्थतया २७० पदम् पदे २७५ ८
नाथन्तर नार्थान्तर २८० भिरुभिव्यते भिरुच्यते २८६ २१ घेदन्त वेदान्त २९३ १४ भावाना भावना २९७ तस ततू ३०३ २ न अर्थनिष्ठ नञर्थनिष्ठ ३०५ १७ स्वबन्ष्य स्वसम्बन्ध्य ३०८ १ द्विन्नेषु भिश्नेषु ३१७ १ पागगतं यागगतं ३४० १० कुण्ठीभवती कुण्ठीभवन्ती तरमा तस्मा ३८६ वेद प्रमाण्य वेदप्रामाण्य ३९७ २१
द्वितीयाध्यायस्य। किमपि भघति ५ १६ चूपप्रदीपक दपं प्र्दीपक ५ १७ शक्रोति शफ्कांति ११ नागमतू नागमात् १४ तत्रेव तत्रेष ७२ १२ सस्पर्धिमी संस्पर्धिनी ७३ २५ तत्वस्थलगि तरवस्थलीग ८२ विविवाद: विवाद: ०२ ज्ानस्बन्घ: जानसम्बन्ध: १०१ १२ प्रति भति प्रतिभाति १०५ २५ धर्मोपरेः धर्मापपसेः १२७ १५ घूमे धूमे १३२ १ विशपतो विशेषतो १३५
11
Page 12
(५ )
अशुद्म् शुद्धम् पृo पं०
वस्तु वस्तु १३५ २१
तस्मिन् नास्मिन् १४४ २१
पुरषष्टित: पुरषेष्टितः २९ २
तेपा तेषां ३६ २३ हरं दूरं ११ तनसङ्तं तदकारणं ५५ १७ परि्रम परविभ्रम ५६ २२ विषयमात्रातत् विषयित्वमात्रात् ६२ २४ तदखिले तदखिलं ७४ मीशीतव्यान् मीशितव्यान ९४ २० श्रति श्रुति १०० ५ उत्पास उत्पप्ति १२४ २२ मूर्तेति मुर्तेति १४० १९ निवृत्ताया निवृस्तायां १४१ १० करीरी कारीरी २१३ ७ सम्भवितं सम्भावितं २४७ v म्यया न्याय २४७ २३ त्यह व्यहं २५४ २१
॥ समाप्तम् ॥
12
Page 13
13
Page 14
श्रीगणेशाय नमः॥ श्रीसरस्वत्ये नमः ॥ भ्रीगुरुभ्यो नमः ॥ श्रीरामाय ग्रहाणे नमः ।। संक्षेपशारीरकम् । श्रीसर्वज्ञात्ममुनिविरचितम्। श्रीरामतीर्थ स्वामिविनिर्मितान्वयारऽर्यमकाशिकार्य- व्याख्याविभूषितम् ।
यस्माद्विश्वम्ुंदेति येन विविधं सञ्जीव्यते लीयते यत्रान्ते गगने घना इव महामायिन्यसक्रेऽदये।।
श्रीरामे रमतां मनो मम सदा हेमाऽम्बुजे हंसवत् ॥ १॥ यचैतन्यमनन्यसिद्धममलं पाणेन घोषात्मना साकं नादम्यीं तनुं तनुतरां बिभ्रत् ऋमेणोद्वतम्।। वाग्देशे स्फुटवर्णतामुपगतं सर्वार्थविद्योतनम् वेदारूयं तदहं गतोऽस्मि शरणं रामाभिधानं महः ॥२॥ या SSदिक्षान्तविनिर्मिताङ्गविभवा यस्या: पसन्नेक्षण- पान्तालोकनवर्त्मग: कविवरः सञ्जायते तत्क्षणात् ।। या वीणावरपुस्तकाक्षविलसद्दोर्भिश्चतुर्भि्युता सा वाणी हृदये मुखे वसतु मे सर्वार्थसन्दर्सिनी॥ ३॥ सोम: सोमकलाविभूपितजटाजूटः मसमेक्षणो विद्यार्थार्थिभिरादरेण परितः संसेव्यमानो जनैः ॥
मचित्तान्तरवस्थित: करुणया कुर्यादमीष्टं मम ।। ४ ।।
14
Page 15
अन्वयार्थप्रकाशिकाविभूषिते
आरम्भा: सफला भवन्त्यपि नृणां यस्मिन् मसमानने देवानामपि यत्मसादविरहे मोघा भवन्त्युद्यमा:।। स पीतो नतिमात्रतो गजमुखो देवोऽस्मदिष्टां क्रिया- मर्थेनोपचितां करोतु विविधां विध्वस्य विघ्राटवीम् ॥५।। यः सर्वश्रुतिमौलिपअ्निकरं दोधूयमानं महा- वादिवातसमीरणैः स्वकृतसत्सूत्रावनर्द्ध स्थिरम् ।। चक्रेऽनेकविनेयतोयनिभृतं विष्णोः पदैकायनं वेदव्यासगिरेरिताय सुनये तस्मै नमो विष्णवे ।॥ ६॥ येनाद्वन्द्वमखण्डमक्षयपदं पादर्शि तापापहं भाष्यग्रन्थनिबन्धनैः श्रुतिशिरोवाक्यार्थविद्योतिभिः ॥ नित्यो यत्र समस्तसद्गुणगणस्तं शङ्राचार्यगी- र्विख्यातं सुनिमौलिलालितपदद्वन्द्वं सदा संश्रये।। ७। यत्पादद्यवन्दनेन सकला दोषा विनेशु: क्षणाद् यद्धस्ताम्बुजसङ्गमेन शिरसि श्री: भादुरासीन्मम ।। यद्वक्त्रोदितवेदमौलिवचनस्याकर्णनेनात्मन- स्तच्वाऽज्ञानमलीयताशु तमहं वन्दे हरिं श्रीगुरुम्।। ८।। यैर्व्युत्पादित आदरेण कृपया ग्रन्थपचारो धियो येनैषा मम नूतनानपि बहुग्रन्थान् विशन्त्यश्रमा ।। तेऽस्मत्मत्युपकारनिःस्पृहधियस्तुष्यन्तु पुण्यैषिण- स्तानुदिश्य नमस्करोमि मनसा,नान्यद्विधातुं क्षमः ॥ ९॥ सह्ेपशारीरकमादरेण तदर्यबोधाय यथामनीषम् ।। विविच्यते तत्कृपयन्तु सन्तः श्रमं मदीयं समुदीक्षमाणाः॥१०।। पसनगम्भीरमवेक्ष्य भाष्यं तदर्थजिज्ञासुहिते पटच: । सर्वज्ञनामा सुनिरातनोत् सत्पद्यौघबन्घैः पथितं पबन्धम्।११।।
15
Page 16
संझेपशारीरके प्रथमोऽध्यायः।१।
सिद्धान्तदीपोक्तिमवेक्ष्य मूलशासत्रं श्ुतीर्मूलनिबन्धनं च।।१२।। इह हि सर्वझात्मगिरा पसिद्धनामा महामुनिरखिलश्रुतिमौलि- तस्वार्थविचारशास्त्रस्य श्रीमच्छारीरकाभिघस्य श्रीवेदव्यास- महामुनिकृतसूत्रसन्दर्भात्मकस्य भगवत्पादाभिधानश्रीमच्छक्करा- चार्यकृतभाष्यपकटीकृतार्थस्थाप्यतिगम्भीरस्य सङ्गेपतस्तात्पर्या- जर्थजिज्ञासूनुपलभ्य तदनुग्रहाय श्रीमच्छारीरकशास्त्रमकरण-
पालनफलं विशिष्टशिष्टाचारानुमितस्मृतिश्रुतिममाणकं स्वेधदेवता-
अनृतजडविरोधिरूपमन्त-
अतिनिकटमत्रिक्रियं मुरारेः पमपदं प्रणयादभिष्टवीमि ।।.१ ।। अनृतजडेत्यादिना पद्यत्रयेण।।अयं ग्रन्थः शास्त्रं च भवति, पकरणं च, वार्ततिक च। यतो वक्ष्यति,श्रीमच्छारीरकार्थभकटन- पटुताशालि शासत्रं विदध्म इति। विमृशन्त्विदं पकरणं मनसेति च । वार्तिकत्वमप्यस्यार्थतोऽवसीयते। तत् कचिद् व्याख्याना- Sवसरे प्रदर्शयिष्याम:।अस्मिन् हि शास्त्रे तत्वम्पदार्थतस्वं तदक्य- वाक्यार्थतरवं च प्रतिपाद्यो विषयस्तज्ज्ञानाच तद्गताविद्या- तत्कार्यात्मकसंसारबन्धबाध: स्वस्वरूपपरमानन्दाविर्भाव: भयो- जनमिति स्थितिः। तदुभयमिह मङ्लाचरणव्याजेन पद्यत्रयेणादो संगृह्नाति। तत्राप्यनृतेत्याधेन लक्ष्यपदार्थमनुक्रामति। एपाइक्षर- योजना। मुरारे: परमपदमभिष्टवीमीत्यन्वयः । सुरनाझ्नोऽ़सुर-
16
Page 17
अन्वयार्थप्रकाशिकाविभूषिते
स्प इन्ता श्रीकृष्णो मुरारिरिति सर्वपुराणेषु प्रसिद्धम्।स च जग- त्पालनाय कृतावतारो भगवान् विष्णुरेवेति च तत्रैव निर्णीतम्। तथाच मुरारेर्विष्णोर्विष्णुशब्दवाच्यस्य यत् परमं निरतिश्यं निर्विशेषमतिशयरूपविशेष हेतुमायासंबन्धाभावात् सर्वोत्कृष्टं पद्यते गम्यते माप्यते मुमुश्षुभिरिति पदं स्वरूपं, तदहमभिष्टवीमि। अभितः सर्वात्मना श्रुतिस्मृतीति हासपुराणैस्तात्पर्येणोपपादित- स्वभावेन आभिमुरयेन वा प्रत्यगभेदलक्षणेन स्तवीमि स्तवनं करोमि तत्स्वरूपनिरूपणपरं ग्रन्थं करोमीत्यर्थः ।तत् कि ख्याति- लाभपूजोद्देशेन १। नेत्याह ।। प्रणयादिति ॥ प्रणयः प्रीतिः परमपदैकप्रवणचित्तता। तस्मात् प्रणयाभ्चिमित्तादित्यर्थः । चितत- स्य विष्णोः परमपदैकनिष्ठारूपभक्तिविच्छेदपरिहाराय तत्मेम- मेरितः सन् ग्रन्थकरणे पटत्तोऽस्मीत्यभिपायः।कि तत्परमपदं, यदभिष्टवनं प्रतिज्ञायत इत्यपेक्षायां तस्य वाचामगोचरत्वादिदं सदिति निर्देष्टमशक्तः सत्यज्ञानादिपदैर्वेदान्तेषु यथा तदावेद्यते तथा लक्षणया तत्स्वरूपं झापयति,अनृतजडविरोरूपमित्यादि- पद्द्येन । अनृतं तद् यदस्तीति यत्र येनात्मना प्रतीतं सतदेव तत्र तेनात्मना नास्तीति प्रतीतिगोचरः। यथा पुरोदेशे इदमित्यु- लिख्यमानं रजतमिदमिति प्रतीतं सत् समयान्तरे शुक्तिरियं, न रजतमितिपूर्वभतीतविपरीतस्वभावतया गृह्यते। तदा तत्र पूर्वदृष्टमनृतमिति प्सिद्धं लोके । तथाच प्रतिपमोपाधौ निषेध- प्रतियोगितया व्यवहियमाणमनृतमित्यर्थः।जडमिति तदभिधीयते यत् स्वव्यवहारे स्वविलक्षणस्वभावं प्रकाशं नियमेनापेक्षते। यथा घटपटादि स्वविलक्षणस्वभावं चित्पकाशं स्वमतिवद्धव्यव- हारेडपेक्षते। अनृतं च तज्जडं चेत्यनृतजडम्। न हि जाख्यमनृतत्वं व्यभिचरति । विकारस्य जडात्मनो वाचारम्भणत्वश्रवणात् ।
17
Page 18
संक्षेपशारीरके प्रथमोऽध्यायः।१।
नाप्यनृतत्वं जाख्यं व्यभिचरति। मिथ्यारजतादेरुक्तजाड्यलक्षण- योगात्। तथाच पुज्धादिदेहान्तमध्यात्ममधिदैवं च नडं स्व- स्वविलक्षणस्वभाववेद्यत्वात्। तथात्वस्य चाग्रे निरूपयिष्यमाण- त्वात्। तथाऽनृतं चैतच्छुक्तिरजतादिवदागमापायित्वात् । तथाचानृतविरोधिरूपं सत्यं सत्यपदलक्ष्यम्। सत्यशब्दो हि लोके पतीतानृतवाधाऽवधिभूतेषु शुक्तीदमंशादिषु मसिद्धोऽतः शुक्ति: सत्या रज्जुः सत्या मरीचिका सत्येत्येवमिदं सत्यमिदं सत्यमिति शुत््यादिविशेषोपरक्ततयेदमः सत्यशब्दवाच्यत्वं तत्त- द्विशेषांशाऽपोहेन स्वरूपेण तस्यैवेदमः सत्यशब्दलक्ष्यत्वमपीति स्थितेः सर्वेष्वपि व्यवहियमाणेषु बाह्याध्यात्मिकेष्वर्थेषु यदनुगत- मवभासतेऽस्त्यस्मीत्येवंरूपेण तदेव तत्तदेहादिविशेषितं सत् सत्यशब्दवाच्यं, तदपोहेन स्वरूपतः सत्यपदलक्ष्यं च भ- बति। ततश्च यद्विकारजातमनृतं बाध्युलक्षणं तद्विरोधि- विरोधनस्वभावं सर्वानुस्यूतसन्मात्रं यत् तत् सत्यपदलक्ष्यं परमं पदमित्यर्थः । तथा जडविरोधिरूप चैतत्परमं पदम्। यथा सर्वेषु पूर्वोक्तार्येषु यत् स्फरणमनुगतमवभासते तत्तदर्थ- विशेषितबुद्धिटृतिविशिष्टं सज्ज्ञानशब्दवाच्यं भवति। तदेव तत्त-
भा्वं ज्ञानशब्दस्य लक्ष्यं भवति। तदिदमुच्यते, जडविरोधिरूप- मिति ॥ तथाचानृतजडरूपप्रपश्चविरोधित्वेन विलक्षणस्वभाव- त्वेन रूप्यते लक्षणया झ्ाप्यते सत्यज्ञानपदाभ्यामित्यनृतजडवि- रोधिरपमित्यर्थः। सत्यज्ञानात्मकं परमं पदमत्युक्तं भवति। यत एवमुक्तलक्षणं परमपदस्वरूपमत इदमेव परमपुरुषार्थरूप- मपीत्यभिमरेत्य तद्विशिनष्टि ॥ अन्तत्रयमलबन्धनदुःखताविरुद्धमि- सि। अन्तत्रयविरुद्धमितिश्रुतिगतानन्तपदलक्ष्यत्वं परमपदस्यो-
18
Page 19
अन्वयार्थप्रकाशिकाविभृपित
क्तम्। देशतः कालतो वस्तुतश्च यस्यान्तो निरूप्यते तदन्तत्रय- वत्। यथा घटादि देहादि चान्तत्रयवत्। अभूत्वा भावित्वाद् भूत्वा वाभावित्वात्तत्कालतोऽन्तवत्। मूर्त्तत्वाद्देशतोऽप्यन्त- वत्। वस्तुतोऽप्यन्तवदन्योन्याभावप्तियोगित्वात् । आकाश- कालदिशामप्यन्तवत्वं वस्त्वन्तरक्रतपरिच्छेदलक्षणं प्रसिद्ध- मेव। देशतः कालतश्चान्तवत्वं तु तेपामुत्पत्तिपलयश्चुतिनि- रूप्यम्।नथाचेदमेवमन्तवदिदमेवमन्तवदिति यस्मिन्ननुगते सत्य- ज्ञानात्मके व्यवहियते तत्रान्तवतामवधितयानुस्यूताकारमन्त- विरोधितयाऽनन्तपदेन तदेव परमपदमावेद्यत इत्यर्थः । अत्रा- इन्तनिषेधात्मकत्वादनन्तत्वस्यान्तपढव्युत्पत्येव तद्व्युत्पत्तिरव- गता। प्रतियोगिप्रसिद्धिव्यनिरेकेण तदभावे पृथग्व्युत्पच्यन- पेक्षणान्। नथाचानन्तपदमन्तवद्रस्तुनिषेधं वढत् सर्वनिषेधानु- गतमवधिं लक्षयनीनि युक्तमनन्तपदस्य परमपदज्ञापकत्व- मिति। तथा मलविरुद्धं चतत् परमपदम् । मलशब्देन तत् प्र- सिद्धं यद्स्तुयाथात्म्थपतीतिपतिबन्धकृत्। यथा पङ्कदिग्धम् आदर्शादि। तद्विरुद्धं चापगनमलत्वेन व्यवहियमाणं शुद्धमिनि प्रसिद्धम्। तथाच परमपदस्वरूपावभासप्रतिबन्धकृदनाद्यनिर्वच- नीयाऽविद्या, अनृतेन हि प्रत्यढा इत्याद्यनेकश्रुतिपु परमात्म- वस्तुयाथात्म्यावभासप्रतिबन्धकत्वेन प्रससिद्धा । सैव तस्याशुद्धि- करी चेत्यात्मनि मलः। तस्यां हि सत्यामशुद्धोऽस्मीति पत्यक्- पदार्थो मन्यतेऽप्रक्षालितमित वस्त्रादि। तथाच, शुद्धमपापविद्ध मित्यादिश्रुतिपदम्। क्षालनादिना संस्कृतेषु पदार्थेष्वयं शुद्धो- 5यं शुद्ध इति शुद्धपदवाच्यतयाऽवगम्यमानेपु गृहीतव्युत्पत्तिकं सच्छुद्धपदं तत्तद्विशेषांशपरित्यागेनानृताविद्यादिमलरहितं परमं पदं विशदयनि। तदिदसुच्यते, मलविरुद्धमिति। तथा बन्धन-
19
Page 20
संक्षेपशारीरकं प्रथमोऽध्यायः ।१। ७
विरुद्धं चैतत् परमं पदम् । बन्धनं हि रज्जुकाष्ठलोहादिभिर्ननि- ग्रहणं प्रसिद्धम्। तच्चार्थानां स्वानन्त्र्यविघाति । तद्विरूद्धं मुक्तत्वं स्वातन्त्र्यम् । तदिदमुच्यते, बन्धनविरुद्धमिति ॥ नथाच मुच्य- मानगोवत्सादो व्युत्पनं, विमुक्तश्च विमुच्यत इत्यादिश्रुतिगतं मुक्तपदं तत्तदर्थानुगतसचचिन्मात्रं परमपदं लक्षणया बोधयतीति नित्यमुक्तं परमपदमित्यर्थः।तथा दुःखताविरुद्धं चेतत् परमपदम्। स्वार्थे तद्धितः।दुःखविरुद्धमिन्येतन्।दुःखविरद्धं हिसुखमिति लोके प्रसिद्धं निरुपाधिकप्रेमास्पदम्। तब् लोके विषयविशषभोगनि- वन्धनतया नानाव्यपदेशास्पदं भवत्यन्नसुखं पानसुखं शयनसुख- मित्यादिना। तत्र सर्वत्र सुखमित्यनुस्यूतं दुःखविरुद्धाकारं तत्त
परित्यागेनानुगनमविशेषमनवच्छिन्नम्, आनन्दो ब्रह्मेत्यादा- वानन्दपदेन लक्ष्यत इत्यर्थः। तथाचानृतजडपरिच्छिन्नाशुद्धास्व- तन्त्रनिरुपाधिमेमानास्पदप्रपश्चविरोधि सत्यैज्ञानानन्तशुद्धमुक्त- परमानन्दरूपं विष्णोःपरमपदमिति तत्पदलक्ष्यं वस्तु निर्दिष्टमिति।। अत्र तत्तत्पपश्चाकारविरोधित्वेन लक्ष्यमाणत्वालक्ष्याकार- भेदभतीतावपि न तस्मिन्नाकारभेदो धर्मभेदो वा परमार्थतो- डस्ति।तदनिरुपणात्। अतः सत्यज्ञानादिपदकदम्वेन अखण्डेक- रसं वस्त्वावेद्यत इति तात्पर्यार्थः ।। इदानीमुक्तलक्षणपरमपदस्य ताटस्थ्याशङ्कां वारयँस्तस्य पत्यगेकात्मत्वं, तत्वमस्यादिवाक्यसिद्धं याथात्म्यमाह ।। अति- निकटमिति । ज्ञातुरात्मनोऽतिसन्निहितं तस्य स्वरूपमेव, न तटस्थं तदित्यर्थः । अत्र निकटमित्युक्ते, कृत्तिकोदये रोहिण्या- सत्तिवत् सामीप्यमात्रमुक्तमिति शङ्गावारणायातीत्युक्तम्। तेन च संनिधानं तादात्म्यमेवेति सूच्यते। न ह्रमूर्त्तयोः स्वतन्त्रयोः
20
Page 21
अन्वयार्थ प्रकाशिका विभूषिते V
पत्यग्ब्रह्मणोर्लोकप्रसिद्धं नैकव्यं संभवति । तथाच प्रत्यगव्यव- हितस्वरूपत्वमेवेहातिनिकटशब्दार्थः ॥ ननु कथमविकारिपरम- पदस्य कर्तृत्वादिविकारवदात्मात्मतेत्याशङ्कायामाह ।। अविक्रिय- मिति॥। प्रत्यगभिन्नत्वेऽप्यविक्रियं कूटस्थमित्यर्थः । न हि पत्यगात्मनोऽपि स्वतो विकारित्वमस्ति। पराध्यासमन्तरेण तस्मिस्तदनिरूपणादिति भाव: ।। एतदुक्त्तं भवति। मुरारिशब्दनिर्दिष्टः सत्वगुणप्रधानकारणमाया- यां विक्षेपलक्षणायां प्रतिविम्बितश्रिद्धातुस्तद्गताभासाविविक्ततया तत्पदवाच्य ईश्वरो भवति। रजस्तमःप्रधानाविद्यादिपद निर्दिष्ट- कार्यावस्थाज्ञाने आवरणलक्षणे प्रतिबिम्बितः स एव चिद्धातु- स्तद्गताभासाविविक्ततया त्वम्पदच्यो जीवो भवति। तत्रोभयत्र कार्यकारणलक्षणोपाध्यंशपरित्यागेनान्विष्यमाणं स्वतोऽविक्रियं कूटस्थसच्चिदानन्दाद्यात्मकपत्यग्ब्रह्मरूपं परमं पदं सिद्धयतीति।। अत्रानृतजडविरोधिरूपमविक्रियमिति च तत्पदार्थकोटौ निर्विशेषोऽवान्तरवषियार्थो दर्शितः । अतिनिकटमविक्रियमिति च तस्य कूटस्थप्रत्यागात्माभेदो महावाक्यार्थो दर्शितः। द्वितीय- विशेषणेन यथानिर्द्व्ष्टस्यैव परमपदस्य परमपुरुषार्थत्वमविद्या-
श्रातृप्ृत्यङ्गतया शास्त्रीये विषयप्रयोजने उक्ते वेदितव्ये। १॥ ननु प्रत्यग्व्रह्मणोर्भेदात् पपश्चस्य च परमार्थत्वात् कथं परमपदस्यानृताद्यात्मकपपञ्चविरुद्धसत्याद्यात्मता मत्यगेकरसता चेतिचेत् तत्राह- स्वाज्ञानकल्पितजगत्परमेश्वरत्व- जीवत्व्रभेदकलुषीकृतभूमभावा।।
21
Page 22
संक्षपशारीरके प्रथमोऽध्यायः ।१ 2.
स्वाभाविकस्त्रमहिमस्थितिरस्तमोहा प्रत्यक्चितिर्विजयते भुवनैकयोनिः ॥ २ ॥ स्वाज्ञानकल्पितेति। यद्वा, सत्यज्ञानादिप्दैरनृतादि- प्रपश्चविरुद्धाकारस्ववाच्यसत्यत्वाद्यनुगतं पत्यगभिन्नं परमं पदं लक्षणया बोध्यन इति यदुक्तं, तदयुक्तम् वाच्यार्थलक्ष्यार्थयोः सम्बन्धासम्भवात् । न हि विरुद्धस्वभावयोस्तेजस्तिमिरयोः सम्बन्धो विद्यते। असम्बन्धे च न लक्ष्यलक्षणभाव इतिचेन्मैव- म्। वस्तुतः सम्बन्धाभावेऽपि यथाकथश्चित् मम्बन्धोपपत्ते- र्नोक्तदोषावकाश इत्यभिप्ेत्याह- स्वाज्ञानकल्पितेति । स्वशब्देन पूर्वश्लोकनिर्दिएं परमपदं गृद्यते।तदाश्रयं तद्विपयं चाज्ञानं स्वाज्ञानम्।तेन कल्पितं जगत्कार्य- करणसङ्गातरूपमधिदैवमध्यात्मं च तस्मिञ्जगति यदुपादानत्वेन निमित्तत्वेन चानुगतं तत्परमेश्वरत्वम् । तत्रव सङ्गातद्वयात्मके जगत्यहम्ममाभिमानितयानुपवेशेन व्यवहारयोग्यतापत्तिर्जीवत्व- म्। तथाच स्वाध्यस्तानाद्यज्ञानकलल्पितानि यानि जगत्परमेश्वर- त्वजीवत्वानि, एतान्येव भेदा विशेपास्तः कलुषीकृतो मलिनी- कृतो भूमभावो ब्रह्मभाव: पूर्वोक्तलक्षणो यस्या: प्रत्यकूचितेः सा स्वाऽज्ञानकल्पितजगत्पर मेश्वरत्वजीवत्वभेदकलुषीकृतभूम- भावा। अत्र भूमशब्दो न भाववचनः, किन्तु, भूमा सम्पसादा- दध्युपदेशादिति न्यायेनाखण्डब्रह्मवचन इति विवक्षित्वा भूम- भावेत्युक्तमिति द्रष्टव्यम् । तथाच प्रत्यक्चितिः पूर्वश्लोकोक्त्त- परमपद्लक्षणा स्वाज्ञानद्वारा जीवेश्वरजगदाकारेण विक्रियमाणा सती त्रिविधस्य सुवनस्य कार्यकारणतदुपाधिसंसष्टत्वाऽSत्मना भवनधर्मकस्य योनिरभिव्यक्तिस्थानम्। अधिष्ठानं भूत्वा २
22
Page 23
१० अन्वयार्थप्रकाशिकाविभूषित
विजयते। सर्वत्र सत्तास्फृर्त्तिप्रदत्वेनानुगतोत्कर्पेण स्वे महिम्नि वर्त्तत इति योजना। जगज्जीवेश्वरत्वानामज्ञानकल्पितत्वमुत्तरत्र स्पष्टीभविष्यति। एवं सति प्रपश्चस्य परमार्थत्वाभावात् कार्य- कारणोपाधिभेदमन्तरेण स्वतो जीवेश्वरभेदाभावाच्च न प्रथम- चौद्यस्यार्थवत्ता।तथा यथोक्तपपश्चस्य स्वाविद्याद्वारा कारणत्वेना- डनुगमात् परमपदस्य वाच्यार्थमंबन्धे सति लक्ष्यत्वोपपत्तेर्द्वितीय- मपि चोदं निरवकाशीकृतमेव।। नन्वेवं स्वाविद्याद्वारा विक्रियमाणायाः प्रत्यक्चितेः कथ- मविक्रियत्वमुक्तं संगच्छतइति,तत्राह।।स्वाभाविकस्वमहिमस्थिति- रिति॥ स्वाभाविकोऽन्यानधीनो यो महिमा कूटस्थसचचिदानन्द लक्षणस्तस्मिन्नेव स्थितिरवस्थानं यस्या: सा तथा। स भगवः! कस्मिन प्रतिष्ठित इति स्वे महिस्रीति श्रुतेः । तथाच कल्पित- प्रपश्चाश्रयत्वेन भासमानमपि परमपदं स्वभावतः सदा करूटस्थमे वेत्यर्थः । नन्वविद्यांवतः कूटस्थत्वं विरुद्धमविद्यायाः स्वाश्रयवि- कारहतुन्वादित्यतआह ।। अस्तमोहेति ॥ परमार्थतो निग्स्त- मोहा। मोहशब्दवाच्याज्ञानस्य मूर्ये दिवान्धपरिकल्पितान्धकार- वदवस्तुत्वात्। न द्यारोपिनेनावस्तुभूतेन परमार्थवस्तुस्वभावो विहन्यन इत्यर्थः । तस्मात् स्व्राज्ञानकल्पितकार्यकारणानुगत- स्त्राभामा विविक्ताकारेण त्वंतत्पदवाच्यं तदुत्पत्तिस्थिति- लयाऽवधितया तदवस्थामाक्षितया च सचिद् रूपेणानागमा- पायिस्वयम्प्रकाशस्वभावात्मना लक्ष्यं च भवति। प्रत्यकूचिति- शब्दनिर्दिएं विष्णोः परमं पदमिति न किश्च्िदनुपपन्नमिहेति भावः ॥ २ ॥। नन्वेवमप्यनुपपत्तिर्दश्यते, यतो जगज्जीवेश्वरादेरविद्या- कल्पितत्वे पमातृपमाणशास्त्रादेरपि तथात्वान्मिथ्यात्वे सति कथ
23
Page 24
संक्षेपशारीरके प्रथमोऽध्यायः।१।
नेभ्यः परमपदप्रमितिरुपपद्यत इति नत्राह- प्रत्य क्प्रमाण कमसत्यपरा कु प्र भेंदं प्रक्षीणकारणविकारविभागमेकम् ।। चैतन्यमात्रपरमार्थनिजस्त्रभावं प्रत्यक्चमच्युनमहं प्रणतोऽस्मि नित्यम्॥ ३ ॥ प्रत्यक्प्रमाणकमिति । अत्रेदं भवान प्रष्टव्यः । किं प्रमात्रादेरसत्यत्वे ततः परमपदसिद्धि्न भवतीन्युच्यने ? किं वा भवत्यपि सा वास्तवी न भवति ? इति। आद्येऽपि स्वरूप स्फृ्तिलक्षणा सिद्धिर्न्र भवेदविद्यापतिबन्धनिव्ृत्तिरूपा वेति। तत्र नाद इत्याह। प्रत्यकपमाणकमिति ॥ प्रत्यगिति सर्वान्तरं चित्सदानन्दरूपमात्मनत्त्वमुच्यते । तदेव प्रमाणं प्रमा प्रमिनि- यस्याच्युतस्य परमपदाग्यस्य स प्रत्यक्प्रमाणकस्नमिनि विग्रहः। सर्वेषां विशेषणानां, पत्यञ्चमच्युतमित्यनेन विशेष्येण सम्बन्धः। तस्य स्वरूपस्फुरणं प्रति न प्रमात्राद्यपेक्षा। नित्यस्त्रपकाश- चैतन्यरूपत्वादिति भावः । द्वितीयं प्रत्याह ॥ असत्यपराक- प्रभेदमिति ॥ परागिति चैतन्यभास्यं दृश्यमुच्यते । न सत्यः पराक्पभेदोऽविद्यातत्कार्यरूपवन्धलक्षणो यस्मिन् स तथा तम् । तथाचावरणविक्षेपाविद्यानिवृत्तिरूपफलस्यापि, यक्षानुरूपो बलि- रिति न्यायेनावास्तवनिवृत्तिरूपस्याप्यवास्तवत्वान्न तत्र पार- मार्थिकपमात्राद्यपेक्षेति भावः । यद्वा असत्य आरोपितः पराग- डर्थः प्रभिद्यते विदीर्यते विनश्यत्यस्मिन्नित्यसत्यपराक्पभेदस्त- मिति विग्रहः । तथाच प्रमाणटतत्या बाध्यमानः परागर्थो यदा- डत्मतया विलीयते तस्याच्युतस्य बाधाऽवधितया वाधविषयत्वा-
24
Page 25
१२ अन्वयार्थप्रकाशिकाविभूषित
SSत्मनः सिद्धिरिति भावः । एतेन चरमः पक्षोऽपि प्रतिक्षिप्ती वेदितव्यः । एतदुक्तं भवति। स्वरूपस्य नित्यसिद्धतयाऽन्यान- पेक्षत्वान्न तत्र प्रमाणमपेक्ष्यते इति प्रमात्रादिवास्तवत्वावास्तव- त्वचिन्ता तत्र निरर्रथका। यद्यप्यारोपितबन्धनिृत्तिफलप्मायां प्रमात्राद्यपेक्षास्ति, तथापि न परमार्थत्वं पमात्रादेरपेक्ष्यते। स्वरूपतो मिथ्याभूतादपि प्रतिबिम्बवर्णदैर्ध्यादेः सत्यार्थपमित्यु- दयदर्शनात्। तथाच पमात्रादीनामवाध्यत्वलक्षणं परमार्थत्व- मप्रयोजकमुक्तव्यभिचाराद्, अर्थक्रियाकारित्वेन सत्यत्वं तु प्रमात्रादिष्वपि न हीयते इति कल्पितपपश्चद्वारकपरमपदसिद्धे- र्नानुपपन्नं किश्चिदिति॥ किश्च, परमपदस्य न साक्षात् पमाणविषयत्वयोग्यताऽस्ति तद्द्वारभूतधर्माभावादतोऽपि न तत्स्वरूपसिद्धेः प्रमाणापेक्षेत्य- डभिप्रेत्य विशिनाष्टि।प्रक्षीणकारणविकार विभागमिति ॥प्रकर्षेण क्षीणो नित्यनिवृत्तः कारणत्वविकारत्वभेदो यस्मिन्। यस्मिन कारणत्वं वा कार्यत्वं वा कदापि नास्तीत्यर्थः । न हि निर्द्धर्मके वस्तुनि प्रमाणप्ट्ृत्तिरस्ति।धर्माश्च कयापि व्यपेक्षया कार्यकारण- भावं न व्यभिचरन्तीति रूपादिरूपकार्यधर्महीने परमपदे प्रत्यक्ष-
भवात्। सामान्यतो दृष्टानुमानस्य च प्रमाणसिद्धे सम्भावना- हेतुत्वेऽपि स्वतो वस्तुतत्वनिश्चायकत्वानुपपत्तेः । शब्दस्य च पष्ठीजातिगुणक्रियादिरहिते पटटत्यसम्भवान्न परमपदस्य साक्षा- त्पमाणविषयत्वमस्ति, तथापि कथश्चिल्लक्षणयोपनिषद्वाक्यैस्त- त्स्वरूपमावेद्यत इति भावः । तथाच श्षतयः । अन्यदेव तद्विदि- तादथो अविदितादधि, अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्, अन्यत्रास्मात् कृताकृतादित्याद्याः॥उक्तं
25
Page 26
संक्षेपशारीरके प्रथमोऽध्यायः ।१। १३
विशेषणमेव विशेषणान्तरेण साधयति ॥ एकमिति ॥ एकमेवा- द्वितीयमिति श्रुतेरेकरूपमित्यर्थः । न ह्येकमेकरूपं वस्तु परिणम- ते, आरभते वा, न वा संहन्यते परमार्थत इति न तत्कारणं कस्यापि भवति। आकाशादेस्तथाविधस्य कारणत्वादर्शनान्नाप्ये- कमेकरूपं कचिदाश्रितं संहतं वोपलब्धमस्ति। अतः कूटस्थासङ्गा- Sनवयवाद्वितीयचिदात्मनो न कार्यताऽपीति न कार्यकारणभावो वास्तवोऽस्तीति भावः॥ ननु कथमेकत्वमेकरूपत्वं चास्य सिद्धये- त् तत्तदनृताद्यर्थविरोध्याकाराणामनेकेषामस्मिन् संभवादित्यत आह ।। चैतन्यमात्रपरमार्थनिजस्वभावमिति ॥ चैतन्यस्वभाव- मित्युक्ते भावान्तरयोगेऽप्यविरोध इति शङ्कायामुक्तं, मात्रेति ।। विज्ञानघन एवेति श्रुतेर्न्र्न चैतन्यस्य धर्मत्वं धर्मान्तरयोगो वा- डस्तीत्यर्थः। चैतन्यमात्रमेव निजमसाधारणं रूपमस्येति तथोक्तः। एतेन कार्यधर्मदेहादिवैशिष्टयं चैतन्यस्य निरस्तम् । अकार्यरूपा- उज्ञानधर्मकत्वव्यवच्छेदाय परमार्थेति विशेषणम्। सजातीय- विजातीयस्वगतधर्मभेदरहितमखण्डरूपमित्यर्थः । अतोऽनृतादीनां ्यावर्त्याकाराणां भेदादनेकैः शब्दन्निर्देशेऽपि नोपादेये वस्तु- तच्वे विशेषोऽस्ति, प्रतिपत्त्युपायमात्रत्वेन कल्पितत्वाघ्ाटत्तेरिति भावः। एवं प्रथमश्लोकार्थमुपपादितमुपसंहरस्तत्र नमस्काररुपं मङ्लकरणमनुवर्त्तयति । प्रत्यश्चमच्युतमऽहं प्रणतोऽस्मि नित्य- मिति ॥ अच्युतमपच्युतैकस्वभावं विष्णोः परमपदरूपं पत्यञ्चं पत्यगात्माभिनं नित्यं सदाहं पणतोऽास्मि।तद्विषय एव वाङ्मन :- कायपणिधानं विधाय स्थितोऽस्मीत्यर्थः ॥३॥ तदेवं त्रिभि:पद्यैः परतत्वानुसंधानात्मकमङ्गलाचरणव्याजेन वेदान्तशास्त्रीये विषयप्रयोजने निर्दिष्टे। इदानीमुक्तलक्षणे वस्तु- तच्वे प्रवर्त्तमानानां वेदान्तानां पामाण्यं संभावयन् वेदात्मिकां
26
Page 27
१४ अन्वयार्थप्रकाशिकाविभूषित
वाग्देवतां नमस्यति- औत्पत्तिकी शक्तिरशेषवस्तु- प्रकाशने कार्यवशेन यस्या: । विज्ञायते विश्वविवर्तहतो- र्नमामि तां वाचमचिन्त्यशक्तिम् ॥ ४ ॥ औत्पत्तिकी शक्तिरिति ॥ तां वाचं नमामीत्यन्वयः । तस्या नमस्कार्यत्वे हेतुं मूचयँस्तां विशिनष्टि।अचिन्त्यशकक्तिमिति।। अलौकिकत्वादतर्क्या अस्या: शक्तिरित्यर्थः । तच्छब्दापेक्षितं यच्छब्दं पूरयन्नचिन्त्यशक्तित्वमस्याः साधयति ॥ औत्प्त्तिकी- ति। यस्या वाचोऽशेपवस्तुपकाशने औत्पत्तिकी शक्ति: कार्य- वशेन विज्ञायत इति संबन्धः । यस्या वाचो निरवशेपवस्तुपति- पादने औत्पत्तिक्युत्पत्तिसिद्धा सहजैव, न कृत्रिमा केनचित् संकेतिता शक्ति: सामर्थ्य कार्यवशेनालौकिकदेवताधर्मस्वर्गपर- ब्रह्मप्त्ययोदयकार्यलिङ्गेन विज्ञायते तामित्यर्थः। यद्वाऽशेषवस्तु परं ब्रह्म सर्वस्यात्मत्वादधिष्ठानत्वाच्च,तस्य प्रकाशनं लक्षणाटृत्या ज्ञापनं, तत्र सहजा शक्ति: कार्यवशेन सर्वप्रमाणागोचरा प्रमेय- स्वभावपरतत्वस्फूर्त्तिरूपकार्यलिङ्गेन विज्ञायत इत्यर्थः । तादृशं सामर्थ्यमस्याः संभावयति ॥ विश्वविवर्त्तहेतोरिति ॥ ईश्वरस्य विश्वाकारविवर्त्ते हेतुः स्रष्टव्यार्थस्फूर्त्तेर्ननिमित्तकारणं, तद्रपाया इत्यर्थः । ईश्वरो हि सष्टिकाले प्राक्स्वात्मन्येकीभूतां प्रथम- निश्वासप्सूतां स्वार्थग्रथितां श्रुतिमुपलभ्य तत्पकाशितमर्थजातं सृजतीति स्थितिः । तथाच मन्त्रः । एते असग्रमिन्दवस्तिरः पवित्रमाशवः विश्वान्यभिसीभगेति । ब्राह्मणं चास्य पठ्यते। एत इति वै प्रजापतिर्देवानसजतासग्रमिति मनुष्यानिन्दव इति
27
Page 28
संक्षपशारीरक प्रथमोऽध्यायः।१। १"
पितृंस्तिर:पवित्रमिति ग्रहानाशव इति स्तोत्रं विश्वानीति शस्त्र- मभिसौभगेत्यन्या: पजा इति ॥ तथाच वेदस्य स्वार्थबोधसाम- शर्यस्य सहजत्वाद् युक्तं तस्य परमपदतत्वे निरपेक्षं निरपवादं च प्रामाण्यमित्यर्थः ॥४॥ तदेवं मङ्गलाचरणद्वारा स्वग्रन्थे शास्त्रीयविषयपयोजनत- त्पमाणानि संभाव्येदानीं तत्र विघ्नपोत्सारणाय महागणप्ति पूजयन् स्तौति- आरम्भा: फलिनः प्रसन्नहृदयो यश्चेत्तिरश्चामि नोचेदिश्वसृजोऽप्यलं विफलतामायान्त्युपायोधमाः ॥ विश्वैश्वर्यमनो निरङ्कुशमभूद्यस्यैव विश्वप्रभोः सोडयं विश्वहिते रतो विजयते विप्नेश्वरो विश्वकृत ॥५॥ प्रारम्भा: फलिन इति॥सोऽयं विन्नेट्टवरो विजयते सर्वो- त्कर्षेण वर्त्तत इति संबन्ध: । किंलक्षणः ? । विश्वकृद् विश्वस्य कर्त्ता। तत्कर्तृणां पजापतीनां विव्ञापहरणद्वारा विश्वकर्त्तेत्यर्थः । न हि विघ्नोपसष्टानामभिमतकार्य सिद्धयति। तदुपसर्गनिवृत्ति श्व न गणपत्यनुग्रहं विनेति युक्तमस्य विश्वकर्तृत्वमित्युपपादय- ति।। प्रारम्भा इति, पूर्वार्द्धिन ।। स्पष्टोडस्याऽक्षरार्थः । यत एव- मतो यस्यैव विश्वपभोविश्वस्मिन् स्वतन्त्रस्य विश्वैश्वर्य सर्वेश्वर- त्वं निरङ्कुशमनिवारितमभूदिति ज्ञायत इति शेषः । ननु निर- कुशेश्वर्यवानस्मान्न गणयिष्यतीति कथमेतदनुसरणेनास्मदिष्ट- सिद्धिरिति? तत्राह ।विश्वहिते रत इति।। स्वयमेव विश्वस्य सर्व- स्य कर्तृवर्गस्य हिते कार्यसिद्धयर्थे रतः प्रव्ृत्तः । तत्र विघ्नमाप्तिः पाणिनां स्व्रदोषवशादेव भवति। साऽपि तत्मार्थनायां न भ- वतीति स पूज्य इत्यर्थः ॥ ५॥
28
Page 29
१६ अन्वयार्थप्रकाशिकाविभूपिते इदानीं, यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ * तस्यै- ते कथिता हर्थाः प्रकाशन्ते महात्मन इति श्रुतिमाश्रित्य विद्या- रम्भे देवताभक्तिं विधाय गुरुभक्तिं विदधानः प्रथमं सर्वगुरुं शास्त्रपणेतारं श्रीवेदव्यासं समुद्रात्मना रूपयन् प्रार्थयते- वाग्विस्तरा यस्य बृहत्तरङ्गा वेलातटं वस्तुनि तत्त्वबोधः ।। रत्नानि तर्कप्रसरप्रकारा: पुनात्वसौ व्यासपयोनिधिर्नः ॥ ६ ॥ वाग्विस्तराइति॥ असौ व्यासपयोनिधिर्न्नोऽस्मान पुनातु पवित्रयतु स्वकृतशास्त्रार्थज्ञानप्रदानेन पावयत्वित्यर्थः । प्रार्थना- यां लोद्। वाग्विस्तरा वेदान्तार्थव्याख्यानविषया यस्य व्यास- पयोनिधबृहत्तरङ्गा .अन्यैरवारणीयपचाराः । तेषां तरङ्गाणा- मिवरोपरमस्थानं वेलातटं वस्तुनि परमात्मविषये तत्वबोधो यथार्थस्वरूपबोधः । तत्रव वाग्विस्तराः प्रशाम्यन्ति, नान्यत्रे- त्यर्थः । न केवलमुपदेशमुखेनैव व्याख्यावाक्यानां तत्वावबोध- पर्यन्तः पचारः, किन्तु तदर्थव्यवस्थापनतत्प्तिपक्षनिराकरण- समर्थयुक्त्युपबृंहितानामित्यभिपेत्याह ।।रत्नानीति॥ पदार्थद्वय- परिशोधने वाक्यार्थनिर्णये तदुपयुक्तप्माणादिस्थैर्ये च ये तर्क्का- स्तेषां प्रसरः प्रसरणं प्रयोगः । तत्र ये प्रकारा भेदास्तान्यस्य रत्नानि रत्नवदर्थाभिव्यञ्जकत्वाद् दुर्भेद्यत्वाच्चेत्यर्थः ॥६॥ सूत्रकारं पूजयित्वा तन्भ्ाष्यकारमाचार्य नमस्करोति- वक्तारमासाद्य यमेव नित्या सरस्वती स्त्ार्थसमन्वितासीतू ॥।
29
Page 30
संक्षपशारीरके प्रथमोऽध्यायः ।१। १७
निरस्तदुस्तर्ककलङ्गपङ्का नमामि तं शङ्करमर्चिताङ्घरिम् ।७॥ वक्तारमिति॥ नित्या वेदलक्षणा सरस्वती यमेव वक्तारं स्वव्याख्यातारमासाद्य प्राप्य तेन व्याख्यायमाना स्वार्थसम- न्विता स्वाभिप्ेतार्थयुक्ताऽमीदभूत्। कथम्भूता सती? निरस्तदु- स्तर्क्ककलङ्गपङ्गा । दुस्तकर्को हैतुकैरुत्मेक्षितस्तक्कः । स एव कलङ्को लाञ्छनं मालिन्यम् । तल्लक्षणः पङ्को निरस्तो यस्या: सा तथोक्ता। दुस्तकर्कनिरासेन व्याख्यायमानेत्यर्थः । तं शङ्करं शङ्कराचार्यमर्चिताङघिं ब्रह्मविद्यार्थिभि: पूजितचरणं नमामी- न्यर्थः ॥७॥ इदानीं साक्षात् स्वगुरुं सुरेश्वराचार्यमभिपूजयति- यदीयसंपर्कमवाप्य केवलं वयं कृतार्था निरवद्यकीर्तयः ॥ जगत्सु ते तारितशिष्यपङ्क्तयो जयन्ति देवेश्वरपादरेणवः ॥८ ।।
यदीयसम्पर्क्कमिति।ते देवेश्वरपादरेणवो जगत्सु संसार- मण्डले जयन्तीति योजना। विजयपकारमेव वदन् पादरेणून विशिनष्टि ॥ तारितशिष्यपङ्क्तय इति ।। तारिता: संसार- समुद्रपरम्पारं विष्णोः परमं पदं ब्रह्मविद्यापोतारोपणेन पापिताः शिष्यपरम्परा यैस्ते तथा । ते के इत्यपेक्षायामाह ॥ यदीये- ति। येषां पादरेणूनां केवलं निमित्तोद्देशं विना संपकर्कमवाप्य निरवद्यकीर्त्तयः मत्मु विर्यातसत्कीर्त्तयः मन्तः कृतार्था ३
30
Page 31
१८ अन्वयार्थप्रकाशिकाविभूषित वयं जातास्ते इत्यन्वयः । येषां गुरूणां चरणरजसामप्येवंविधः प्रभावस्तेषां महिमा केन वर्णयितुं शक्यत इति भावः ॥। ८ ।। वयं कृतार्था निरवद्यकीर्त्तय इत्युक्तवता गुरो: प्रभावकथन- मिपेणात्मश्लाघैवाभिव्यञ्जितेति भवेत् कस्यचिन्मतिः । सा मा भूदिति मन्वानः स्वस्य कृतार्थत्वाद्युक्ेरभिप्ायं प्रकटयन् पुनरपि गुरोरुत्कर्षमाविष्करोति- गुरुचरणसरोजसन्निधाना- दषि वयमस्य गुणैकलेशभाजः ॥ अपि महति जलार्णवे निमाः सलिलमुपाददत मितं हि मीनाः ॥ ९ ॥ गुरुचरणेति ॥ गुरोश्चरणकमलसन्निधानात्तद्रजःसम्पर्काद् वयं न तदीयसर्वगुणभाजो येनात्मानं इलाघयेमहि, अपित्वस्य गुरोर्गुणगणाढ्यस्य महागुणानां मध्ये एकस्य गुणस्य लेशमंश- मात्रं भजामोऽतो नास्मदूचनमात्मस्तुतिपरं, किन्तु गुरूणा माहात्म्यखयापनपरमित्यभिप्ायः । तत्र गुरुणां गुणसाम्राज्ये- डनुग्राहकत्वे च स्वात्मनश्च तदपेक्षयाल्पत्वे गुरौ नित्यवासितया नद्गुणलेशभजनेन कृतार्थेत्वे च दष्टान्तमाह ॥ अपि महतीति ॥ स्पष्टार्थः ॥ ० ॥ नन्वेवं सत्यपूर्णत्वात्तव कथं ग्रन्थकरणसामर्थ्यम् ?। कथ- श्चित्सामर्थ्येऽपि, श्रेयांसि बहुविभ्नानि भवन्ति महतामपीति
हगन् स्वचिकीर्षितं प्रतिजानीते- शक्तो गुरेश्षरणयोर्निकटे निवासा-
31
Page 32
संक्षेपशारीरके प्रथमोऽध्यायः।१। 7९.
न्नारायणस्मरणतश्र निरन्तरायः । शारीरकार्थविषयावगतिप्रधानं संक्षेपतः प्रकरणं करवाणि हृष्यन् ॥ १० ॥ शक्त इति। यद्यप्यहं गुरोर्गुणैकलेशभाकू तथापि तच्चरण- निकटवासमहिम्नँव तत्कृपया प्रस्फुरितशास्त्रार्थसन्दर्भतया पूर्णः सन् कर्त्तु शक्त इत्यर्थः। तथा नारयणस्मरणतो निरन्तरायो निर्विन्नश्चास्मीति योजना । तथाच स्मृतिः- सर्वदा मर्वकार्येपु नास्ति तेषाममङ्गलम्१येपां हृदिस्थो भगवान्मङ्गलायतन हरिः ॥ लाभस्तेषां जयस्तेषां कुतस्तेपां पराभवः * येषामिन्दीवरश्यामो हृदयस्थो जनाद्दन इत्याद्या। यत एवं परिकरसंपन्नोऽहमतो हृष्यन्नव्यग्रमना: सन् प्रकरवाणीति संवन्धः । करिष्यमाण- प्रकरणस्वरूपं निर्द्दिशति॥ शारीरकार्थविषयावगतिपधानमिति।। श्रीमच्छारीर काख्यं यच्छासत्रं तस्यार्थो ब्रह्मात्मैक्यं तद्विषयो यस्याः सा शारीरकार्थविषया।सा चासाववगतिश्चेति शारीरकार्थविषया- ज्वगतिः । सा प्रधानमुद्देश्यं यस्य तत्तथेति विग्रहः। अनेन शास्त्रीय विषयपयोजनयोर्ग्रहणेन शास्त्रैकदेशसंबद्धत्वलक्षणांशः प्र- करणस्य दर्शतः। तथा शास्त्रकार्यान्तरे स्थितमिति लक्षणांशमाह संक्षेपत इति ॥ तथाच अयमर्थः सम्पन्नः । शास्त्रीययोर्विषय- प्रयोजनयोरिह प्रतिपाद् नायं ग्रन्थः स्वकपोलकल्पितः स्व्र- तन्त्रः । तद्गतपत्यधिकरणार्थानामिह साकल्येनाप्तिपादनाद्, अर्थावगतिमात्रापेक्षितांशस्यैव अभिनवविप्तिपत्त्तिनिराकरणेन पतिपादनात् कार्यान्तरस्यापि योगान्न निर्माणवैय्य्थर्यमपीति। पाचीनाचार्येः पदर्शितनानानिबन्धनार्थसारसंग्रहेण शारीरका- डर्थविषयावगतिं प्रकरणेन विशदीकुर्म इत्यभिायः ॥ १० ॥
32
Page 33
२० अन्वयार्थप्रकाशिकाविभूपित
यद्येवं स्वगुरुनारायणाश्रयबलादेव त्वं ग्रन्थं कर्तु प्रव्ृत्त- स्तर्हि गुरुव्यतिरिक्तेषु विद्वत्स्वनादरस्त्वया कृत इति प्रतिभाया- त्। तथाच त्वत्कृतं ग्रन्थं विद्वांसो नाद्रियेरन्निंति, न प्रसरी- सरिष्यतीत्याशङ्गां परिहरन् सर्वानेव विदुष आवर्ज्जयति- पदवाक्यमाननिपुणा निपुणं विमृशन्त्विदं प्रकरणं मनसा ॥ गुणदोषनिर्णयनिमित्ततया प्रथिता हि पण्डितजना जगति ॥ ११ ॥ पदवाक्येति ॥अर्थस्वरूपमात्रबोधको वर्णसन्दर्भो गृहीता- डर्थसम्बन्धश्र पदम् । वाक्यं तु पदानामाकाङ्गादिमतां समूहः । प्रमाणं तु तादृग्वाक्यं पत्यक्षादि च । तेषु निपुणास्तद्याथात्म्य- निरूपणे कुशला थे सन्ति ते, इदं प्रकरणं मनसा विमृशन्तु विचारयन्तु। ऊहागेहाभ्यामत्र सारासारभागौ व्यञ्जयन्त्वित्य- ऽर्थः । हि यस्माद्, गुणदोषनिर्णयेति स्पष्टार्थः ॥ परीक्षणीयोऽयं ग्रन्थो विद्वन्िः, मया तु ग्रन्थशरीरमात्रं निष्पाद्यते। विथुद्धि- स्त्वस्य विद्वदर्धीनेवेति भावः । ११ ।। यद्येवं तर्हि परीक्षकैर्दृपणमपि कचिदुद्भाव्येत । तच्च तवा- डसंमतमिति तैरुपेक्षैव युक्ता ग्रन्थस्येत्याशक्क,मैवं वाच्यमित्याह- विद्वांसो यदि मम दोषमुदगिरेयु- र्यद्वा ते गुणगणमेत्र कीतयेयुः ॥ तुल्यं तद्वहु मनुते मनो मदीयं कष्टं तद् बत मनुते यदाह मन्दः ॥ १२ ॥
33
Page 34
संक्षेपशारीरके प्रथमोऽध्यायः ।१। २१
विद्वांस इति।।येऽत्र दूषणमुन्भावयिष्यन्ति ते किं पदवाक्य- माननिपुणा: पक्षपातशून्याश्च, कि वा तद्विपरीता इति विवेच- नीयम् । यद्याद्यः कल्पस्तत्र न ममासंमतिः । यतो विद्वांसः पदादिनिरूपणसमर्था यद्येकमपि दोषं ममोद्विरेयुः कीर्त्तयेयुर्यद्वा ते मम गुणसमूहमेव कीर्त्तयेयुस्तदुभयं मदीयं मनस्तुल्यं समान- मेव बहु यथा स्यात्तथा मनुते । एकस्यापि दोपस्य कीर्त्तने बहुगुणकीर्तन इवाहं बहुसन्तोषमुपेष्यामि। तद्द्वारा मदज्ञाननि- वत्तिसम्भवादितिभावः । द्वितीयं कल्पं प्रत्याह ॥कष्टमिति॥मन्दः पूर्वोक्तविद्वद्विपरीतोऽपि यदि विद्वन्मन्यतया गुणदोषौ कीर्तयेत् कीर्त्तयतु नाम, परं तु तद् बत अहो कष्टं मम मनो बहु मनुते। नैतावता मम काचिद्धानिर्भविष्यति। तस्यैवानभिज्ञत्वपाकट्यात् सम्यग्विद्वद्व्भिश्चानुगृहीतत्वात् । तथाच तद्चनमुपेक्षणीयमिति भाव: ॥ १२ ।। ननु मन्दोऽपि नोपेक्षणीयो यतः सोऽप्यस्य प्रसरणविघ्नं कर्त्तु समर्थ इत्यत आह- महामहिम्नामपि यश्चिकीषति स्व्भावसंशुद्धतरं तिरो यशः ॥ स नूनमाच्छादयितुं प्रवर्तते विवस्वतो हस्ततलेन मण्डलम् ॥ १३ ॥ महामहिम्नामपीति ॥ यो महामहिम्नां स्वापेक्षयाधिक- महिमवतामपि स्वभावसंशुद्धतरं स्वरूपत एव सुनिर्मलतरं यशो माहात्म्यं तिरस्कर्त्तुमिच्छतति सतु स्वयमेव लोकेऽस्मिन्नुपहास्यता गमिष्यति, न मम किश्चित् कर्त्ु शक्कोतीत्यर्थः । अत्रैव लोकोक्तिं
34
Page 35
२२ अन्वयार्थप्रकाशिकाविभूषित
वदन् दृष्टान्तमाह ।। स नूनमिति ॥ १३ ।। यदर्थ देवतागुरुनमस्कारविद्वदावर्ज्जनादिपकाशनमेतावता ग्रन्थेन दर्शितं तमिदानीं ग्रन्थारम्भं करिष्यञच्छङ्कोत्तरत्वेन विचारशास्त्रस्य कृत्यं तावद् विवेचयति- पुरुषापराधमलिना घिषणा ।। निरवद्यचक्षुरुदयापि यथा॥ न फलाय भच्छुविषया भवति श्रुतिसम्भवापि तु तथात्मनि धीः ॥१४ ॥ पुरुषापराधेति ॥ अत्रेयमाशङ्गा। ननु शारीरकस्यार्थाव- गतिस्ततो जायते न वा। आद्ये तत एव तदर्थावगतेरयं ग्रन्थो व्यर्थः । द्वितीये विषयासिद्धेः प्रकरणारम्भासिद्धिः । पाकू तदर्थावगतेरभावात्। तथा शारीरकस्यापि वेदान्तवाक्यार्था- डवगतिहेतुत्वम् अउपपन्नम् । तत्रापि वेदवाक्येभ्य एव तदर्थ- भमितौ विचारशास्त्रवैयर्थ्यात् । ततस्तदपतीतौ विषया- सिद्धेरारम्भासंभवात्। तस्माच्छास्त्रपकरणयोरारम्भे हेतुं न पश्याम इति। अत्रोत्तरम्। सत्यं वेदवाक्येभ्य एव तदर्थप्रमिति- रुत्पद्यते। शारीरकाच्च शारीरकार्थावगतिरिति । तथाप्यसंभा- वनादिपुरुषदोषपतिबन्धवशात् प्रमाणसामग्रीतो जायमानापि पमिति: फलपर्यन्ता न जायते,किन्तु मज्जनोन्मज्जनवदपतिष्ठितेव भवति। अतस्तादृशपतिबन्धव्युदासेन पमाणजन्यायाः भमितेः स्वविषयप्तिष्ठत्वनिश्चलीकरणाय विचारशास्त्रमारम्भणीयम् । तस्याप्यतिगम्भीरत्वात्तत्तात्पर्यविशदीकरणाय प्रकरणमपीति चतुर्भि: पद्यैः पतिपाद्यते।।तत्राद्येन पद्येन पमाणसामग्रीतो जाता
35
Page 36
संक्षपशारीरके प्रथमोऽध्यायः।१। २३
स्वप्रमेयमवभासयन्त्यपि प्रमा प्रतिपत्तुरसम्भावनादिदोषपति- बन्धवशात् स्वपमेयप्रतिष्ठिता न भातीत्येतद् दृष्टान्तेनोपपादते। अत्रेयमाख्यायिका वृद्धपवादपरम्परागता-भर्च्छुर्भाम कश्रित् कस्यचिद् राजः सचिवः। स कदाचित् केनापि निमित्तेन राजा दूरदेशान्तरं प्रति तत्रत्यदस्युवधोद्देशन प्रस्थापितः । तस्मिंश्र तत्र चिरं विलम्विते सति तत्प्रतिपक्षभूतैरमात्यैस्तद्द्वेपवशान्र्ुर्मृतो दस्युभिर्हत इत्युद्धोष्य राज्ञेऽभिज्ञानपूर्वकं तन्मरणं मिथ्यैवावेदि- तम्। एवं निश्चितविपरीतप्रत्यये लोके राजनि च सति भर्छ: स एव दस्यून पराजित्य राजधानीमागच्छन् स्वद्वेषिभि: कृतं स्वमरणोद्वोषं नगरगतमाकर्ण्य तज्जिज्ञासया विसटज्य स्वपरिवारं स्वयमेकाकी राजधानीमागत्य राजो दर्शनमाकाङ्ममाण: कचिद् वृक्षदेशमाश्रित्य स्थितः । तदा दैवात्तं देशं गतेन राज्ञा दष्टो भर्छ्रयमित्यवगतश्च । तथापि तन्मरणश्रवणसंस्कारपावल्यात् प्रतिबद्धपमितिफल: पिशाचोऽयं जात इति 'विपरीतं प्रतिपद्यते स्मेति ॥ तदिदमाख्यानं सूचयन्नाह ।। पुरुष्मपराधेति ॥ यथा निरवद्यचक्षुरुदयाप्यदुष्टपमासामग्रीजन्यापि राज्ो घिषणा भर्छ्- विषया, पुरुषस्य तस्येव द्रष्टुरपराधेनासंभावनाख्येन मलिना कलुषिता सती न फलाय भवति स्वममेयैकनिष्ठतया तत्पयुक्त- व्यवहारपवर्त्तिका न भवति तथा निर्दुष्टवेदवाक्यजनिताप्यात्म- विषया धीन फलाय,मुक्तिरूपफलप्राप्तये न भवतीत्यर्थः । देहा-
श्रुतिसंभूताऽपि मतिर्न्न सहसा स्वविषयपतिष्ठा जायत इत्युक्तं भवति ॥ १४ ॥ तर्हि राज्ो भर्छुधीवद्वेदजनिताऽपि श्रोतुर्द्धीर्निष्फलैवेत्यत आह- पुरुषापराधतिगमे तु पुनः
36
Page 37
२४ अन्वयार्थप्रकाशिकाविभूपिते
प्रतिबन्धकव्युदसनात सफला ॥। मणिमन्त्रयोरपगमे तु यथा सति पात्रकाङ्जवति धमलता ॥ १५ ॥ पुरुषापराधविगम इति। पुनर्विचारानन्तरं पुरुषापराध- स्यासंभवानादिहेतोर्दोषस्य विगमे अपसरणे सति प्रतिबन्धक- स्यासंभावनादिलक्षणस्य व्युदसनाभाशनात्सैव प्रमितिः सफला फलपर्यन्ता भवति। तत्र दृष्टान्तमाह।। मणिमन्त्रयोरिति॥ मणणि- मन्त्रयोः प्रतिबन्धकयोरपगमे तु सतीति योजना ॥ १५ ॥ शास्त्रपकरणयोः पुरुपापराधनिवृत्तिफलं वेदवित्संमत्या द्रढयति- पुरुषापराधविनिवृत्तिफल: सकलो विचार इति वेदविदः ॥ अनपेक्षतामनुपरुध्य गिरः फलवृद्वेत् प्रकरणं तदतः ॥ १६॥ पुरुषापराधविनिवृत्तिफल इति।।सकलो विचारो धर्म- ब्रह्मविषयः काण्डद्यपरः सर्वोऽपीत्यर्थः। अतो विचारस्य पति- वन्धनिरासफलत्वाद् गिरो वेदवाक्यस्यानपेक्षतामनुपलब्धेर्ऽर्थ तत्पमाणं वादरायणस्यानपेक्षत्वादित्यत्र निर्ण्णीतामनुपरुध्य अवाधित्वा तच्छास्त्रं प्रकरणं च फलवत् सार्थकं भवेद्-इति योजना ॥ १६ ॥ शास्त्रमकरणपयोजनमुपपादितमुपसंहरति- पुरुषापराधशतसंकुलता विनिवर्तते प्रकरणेन गिरः ॥
37
Page 38
संक्षेपशारीरके प्रथमोऽध्यायः ।१। २"
स्वयमेव वेदशिरसो वचना- दथ बुद्धिरुज्जवति मुक्तिफला ॥ १७॥ पुरुषापराधश ते ति।प्रकरणग्रहणं शास्त्रस्याप्युपलक्षणम् । अथ शास्त्रादिना पुरुषापराधेऽपसारिते सत्यनन्तरं मुक्तिफला बुद्धिर्वेदशिरसो वचनात् स्वयमेवोन्भवति, न विचारस्य वाक्य- प्रमित्युत्पत्तावप्युपयोग इत्यर्थः ॥१७॥ ननु युत्तयनुसन्धानात् भागू वाक्यस्य फलवद्विज्ञानाजनक- त्वात्तदनन्तरं च तज्जनकत्वात् कथं विचारस्य वाक्यात् पमित्यु- त्पत्तावनुपयोगः । नच सूत्रादिविचारग्रन्थानां सादित्वादनादि- वेदवाक्यानुपकारितेति वाच्यम्। तेषां सादित्वेऽपि तद्व्युत्पाद्य- न्यायानामनादित्वात्तदनुसन्धानस्य च सर्वदा संभवाद्विचारस्य च न्यायात्मकत्वान्नित्यवत् सहकारित्वोपपत्तेर्विचारो वेदस्य स्वार्थपमित्युत्पादने सहकार्येवास्त्विति चेत्तत्राह- स्व्ाध्यायवन्न करणं घटते विवारो नाप्यङ्गमस्य परमात्मधियः प्रसतौ ॥ सापेक्षतापतति वेदगिरस्तथात्वे ब्रह्मात्मनः प्रमितिजन्मनि तन्न युक्तम्॥१८।। स्वाध्यायवदिति ॥ विचारो युक्तत्वायुक्तत्वव्यवस्थापन- लक्षण: स्वाध्यायवद् वेदवाक्यवत् परमात्मधियः पसूतौ करणं न घटते। युक्तेरभमाणत्वात् प्रमाणेनार्थावगमात् भाग्विषया- भावेनापृटत्तेश्राप्रेयादिवद्विचारस्वाध्याययोर्न सममधानतया समु- व्य इति भाव: । तर्हि करणभूतस्य स्वाध्यायस्येतिकर्त्तव्यता- रूपो विचार आग्रेयादीनामिव तदङ्गानि स्यात्। एवश्च सति, a
38
Page 39
२६ अन्वयार्थ प्रकाशिकाविभूषिते
धर्मे प्रमीयमाणे हि वेदेन करणात्मना* इतिकर्त्तव्यताभागं मीमांसा पूरयिष्यतीत्यभियुक्तवचनं, पमाणानुग्राहकस्तर्क्क इति तर्क्कलक्षणं चोपपसमार्थ भविष्यतीतिचेत्तत्राह।। नाप्यङ्गमस्येति॥ अस्य स्वाध्यायस्य विचारोऽङ्रमपि न भवतीत्यर्थः । न तावद् यागस्य व्रीह्ादिकारकवदस्य प्रमाणस्वरूपोपकारित्वं संभवति । वेदस्यानादितया स्वरूपसिद्धौ कारकानपेक्षणात्। स्वार्थबोधन- शक्तेश्र तस्यौत्पत्तिकत्वेन तत्रापि सहायानपेक्षित्वात् । नाऽपि मयाजादिवत् फलोपकारित्वम् अस्योत्मेक्ष्यते । करणस्याऽस्य साक्षात्फले विज्ञाने स्वशक्तिमात्रातिरिक्तस हायापेक्षाऽनिरूपणात्। भमितिद्वारके च मोक्षफले परमानन्दलक्षणेऽवभासमानस्वरूप- मात्रे न सहायापेक्षा । तद्गताज्ञानादिबन्धध्वंसस्य च स्वकार्य- भमित्युदयनान्तरीयकत्वेन तत्रापि न विचारसहकार्यपेक्षेति भावः। विचारनिरपेक्ष एव स्वाध्यायोऽयं स्वरूपे स्वफले चेत्युक्तमेवार्थ विपक्षे दोपप्रदर्शनेन द्रढयति ॥ सापेक्षतेति ॥ तथात्वे विचार- रूपतर्क्कसहायापेक्षत्वे वेदगिरः स्वाध्यायस्य वेदान्तवाक्यस्य ब्रह्मात्मनः प्रमितिजन्मनि ब्रह्मात्मविषयकप्रमित्युत्पादने सापेक्ष- ता पुरुषबुद्धिसहायापेक्षत्वमापतति । नचेष्टापत्तिरित्याह ।। तन्न युक्तमिति । तत् सापेक्षत्वं तस्य न युक्तम् । तत्पमाणं
स्थापनविरोधादित्यर्थः। तथाचाभियुक्तवचनं तर्क्कलक्षणं चासंभा- वनादिप्तिवन्धनिरासद्वारा फलोपकारकत्वोपचाराभिपायमिति न विरोध इति द्रष्टव्यम्। एतेन, ननु युत्तवाद्यनुसंधानात् भागि- त्यादिनोक्तो युक््यन्वयव्यतिरेकावन्यथा नीतौ। एवश्रच सति स्वाध्यायजन्यायां भमितो तंस्या: फलपर्यन्तत्वे च प्रतिबन्ध- निरासे विचारस्योपयोगो नान्यत्र, नाप्यस्यानुपयोग एवेति
39
Page 40
संक्षेपशारीरके प्रथमोऽध्यायः ।१।
सिद्धमिति भावः ।। १८ ।। ननु वाक्यस्य स्वसामर्थ्यादेव स्वार्थबोधनेऽपि चक्षुष आ- लोकापेक्षावच्छब्दस्य व्युत्पत्तिग्रहापेक्षावच्च विचारस्याऽप्यवश्या- पेक्षणादुक्तमस्य वाक्यपमित्युत्पादने सहकारित्वमितिचेन्नेत्याह- व्युत्पन्नस्य हि बुद्धिजन्म सहसा वाक्यश्रुतौ द्दश्यते वाक्यार्थे न ततोऽस्ति बुद्धिजनने मीमांसनव्यापृतिः । तेनार्थात करणादिभावभजन मीमांसनस्याश्रिते वेदार्थप्रमितौ तु वेदवचसः सापेक्षता यास्यति ॥१९॥ व्युत्पन्नस्थेति ॥ लोके वेदे वा वाक्यश्रुतां वाक्यश्रवणे सति व्युत्पन्नस्य व्युत्पन्नपदपदार्थसंगतेर्वाक्यार्थे विषये सहसा तत्क्षणमेव बुद्धिजन्म दृश्यते हीति निश्चितं, नाव्युत्पन्नस्येत्यर्थः । एतदुक्त्तं भवति। न चक्षुष आलोकवच्छब्दस्य व्युत्पत्तिग्रहवद्दा विचारो वाक्यार्थप्रमित्युत्पत्तौ शब्देनापेक्ष्यते । विचारपट्टत्तेः मागेव व्युत्पन्नस्य गहीतशब्दसामर्थ्यादेव तदर्थप्रमित्युत्पत्तेर्दर्श- नात्। कचिदेव हि विचारापेक्षा दृश्यते। यत्रार्थविरोधशङ्कया वा शब्दस्य वृत्त्यन्तरेणार्थान्तरविषयत्वसङ्कया वा वाक्योत्थ- ज्ञानस्य फलपर्यन्तता नावभासते तत्र ताहृसशङ्कानिरासाय विचारस्यावसरः।शङ्गाभावे तु न तदपेक्षा। यदि विचारात् पाग- डव्युत्पन्नस्येव वाक्यादर्थधीर्तोत्पद्येत तहि सिद्धान्तस्यैककोटि- करणेन विचार एव न, न प्रवर्तेत। विषयासिद्धेः।अतो दष्टान्तो विषम इति भाव: । यत एवं विचारस्यान्यार्थतैवात इदं सिद्ध- मित्याह । न ततोऽस्ति बुद्धिजनने मीमांसनव्यापृतिरिति ।। वाक्यार्थ इति पदमत्राप्यनुषज्ज्यते। तस्माद्वेदपामाण्याSविघात-
40
Page 41
२८ अन्वयार्थप्रकाशिकाविभूषित मिच्छता विचारस्य करणभावेनाङ्गभावेन वा वाक्यार्थपमिति- हेतुता नाभ्युपगन्तुं युज्यत इति फलितमुपसंहरति ॥ तेनार्था- दिति ॥ आयास्यतीति छेद: स्पष्टार्थः ॥ १९ ॥ तदेवं प्रकरणादेर्वेदान्तवाक्येभ्यः स्वसामर्थ्यादेव ब्रह्मात्म- प्रमित्युत्पत्तौ प्रतिबन्धनिरासेन तस्या: फलपर्यन्तत्वायोपयोगो, न पमितेः करणेतिकर्त्तव्यताभावेन तदुत्पत्तावुपयोग इति स्थित- म्। तत्रेदमाशक्काते। उत्तप्रकारेण शास्त्रपकरणयोरुपयोगस्तदा स्याद्यदि वाक्याद्व्रह्मात्मैक्यावभासि ज्ञानं जायेत, जातस्य वा संसारबन्धनिटत्ति: फलं सम्भाव्येत । यावता जीवब्रह्मणोः संसारित्वाऽसंसारित्वादिविरुद्धधर्मवतोर्भेदे प्रामाणिके सति वाक्यसहस्रेणापि तदैक्यं बोधायेतुं न शक्यते। तथाऽडत्मनि दृश्यमानस्य पमातृत्वकर्तृत्वभोक्तत्वादिरूपस्य बन्धस्य प्रत्यक्ष- सिद्धस्य परमार्थस्स ज्ञानेन बाधासम्भवाज्ज्ञानस्य चाज्ञानमात्र- विरोधित्वप्रसिद्धेरिति । अतो विषयप्योजनयोरसम्भवाद्वेदान्त-
श्िदात्मन्येकस्मिन्नविद्ययाध्यस्तत्वादाविद्यत्वे सति तयोर्वाक्य- जन्यपमापोद्यत्वोपपत्तेरित्यभिप्रेत्य चिदात्मनि भेदविपर्यासयो- स्तदजञाननिबन्धनत्वं तावदाह- आच्छादय विक्षिपति संस्फुरदात्मरूपं जीवेश्चरत्वजगदाकृतिभिर्मृषैत ।। अज्ञानमावरण विभ्रमशक्तियोगा- दात्मत्वमात्रविषयाश्रयताबलेन ॥ २० ॥ आळ्छाय विक्षिपतीति ॥ अयमर्थः । अस्त्यज्ञानं नाम
41
Page 42
संक्षेपशारीर के प्रथमोऽध्यायः ।१। २९
किश्चिदहमज्ो मां न जानामीति स्फुरत्यप्यात्मन्यनुभवसिद्धम्। न तत् ज्ञानाभावरूपं, ज्ञानरूपे प्रत्यगात्मनि तदसम्भवात् । न चात्मा कादाचित्कज्ञानाश्रयो येन तस्मिन् ज्ञानाभावोऽपि सम्भाव्येत । तदभ्युपगमेऽपि तस्मिन्नहमिति मामिति चोल्लिख्य- माने कथं तस्मिन्ननुभवाभावः। सति प्रतियोगिनि तदभावासिद्धेः। तस्मान्नाभावात्मकमज्ञानम् । नापि सल्लक्षणं भावरूपम् । तथा सत्यात्मादिवत् स्वातन्त्र्यापत्तेरज्ञानवाध्यत्वानुपपत्तेश्र । नाऽपि नरशृङ्रकल्पमपरोक्षत्वेनावभासात् । तस्मात् सदसद्विलक्षणम् अनिर्वचनीयं मिथ्याभूतमनुभवमात्रसिद्धमज्ञानम् । तच्च न निरा- श्रयं निर्विषयं च सम्भवति। आश्रयविषयसापेक्षत्वेनैव तत्पतीते- रित्येतदाह ।। संस्फुरदात्मरूपमिति ॥ एषाक्षरयोजना । अज्ञानं यथा व्याख्यातस्वभावं संस्फुरत स्वमहिम्नैव स्वपकाशरूपेण सम्यग्भासमानमात्मनः पत्यग्रूपस्य रूपं याथात्म्यं परिपूर्णा- डखण्डाद्यब्रह्मलक्षणमाच्छाद्य प्रतिबद्ध तदेवात्मरूपं जीवेश्वरत्व- जगदाकृतिभिर्भोक्तृनियन्तभोग्याकारैरनेकथा विक्षिपति विविधं क्षिपति विकिरतीति । स च विक्षेप आवरणं चानिर्वचनीया- Sज्ञानकृतत्वान्मृषैव, न परमार्थ इत्यर्थः । तथाच चिदात्मनि जीवेश्वरभेदप्रतिभासस्य प्रतीचि जगद्बन्धप्तिभासस्य चा- डज्ञानकल्पितत्वाद्वाक्योत्थ विज्ञानस्य तदपबाधनेनात्मतत्वाद्वितीय- ब्रह्माऽवभासात्मनोदयोपपत्तेर्त्र वेदान्तादेर्विषयाद्यभावशङ्गाव- काश इति भाव:। ननु कथमज्ञानस्यैताद्य्यं सामर्थ्यमित्यपेक्षा- यामाह । आवरणविभ्रमशक्तियोगादिति ॥ आच्छादनविक्षेपक- सामर्थ्ययोः सहजसिद्धत्वादित्यर्थः । यथा चक्षुःसन्निकृष्टतया स्वरूपणावभासमानेऽपि पुरोवर्तिनि रज्जुखण्डेऽन्धकारो रज्जु- तर्वांशं तस्य निजरूपमाच्छाद तमेव सर्पधाराद्यतद्ूपत्वेनानेक-
42
Page 43
३० अन्वयार्थप्रकाशिकाविभूचिते
विधं विक्षिपति सहजसामर्थ्यादेवमज्ञानमपीति भावः । नन्वेवं सत्यSज्ञानस्य स्वातन्त्र्यापत्तौ सांख्यमतपवेशो ब्रह्मवादिनाभि- त्याशक्का तस्य चित्पारतन्त्र्याभ्युपगमान्मैवमित्याह।।आत्मत्वमात्र- विषयाश्रयताबलेनेति। आत्मत्वमात्मस्वरूपं तन्मात्रमेव, न जीवेश्वरत्वविशेषितमाश्रयो विषयश्च यस्याज्ञानस्य तस्य भाव- स्तत्ता, एतदेव बलं, तेनेत्यक्षरार्थः । आत्मन्यध्यस्तं वज्ञानं तत्सत्तया लब्धसत्ताकं सत्तत एवैतादशं सामर्थ्य प्तिपद्यतेऽतो ज्ञानात्मनाऽऽवरणमात्मचैतन्याभासानुविद्धं सद्रसविद्धमिय लोहं विक्षेपणशक्ति च लभत इति भाव: । एतेनाघिष्ठानगतमेवाज्ञानं सदूबलनिर्भासितं सत्तदेवाच्छाद्य तदेव विक्षिपतीति प्रतिपादनेन अन्यथार्यात्यादेर्वादिभिरुत्मेक्षितपक्षभेदस्य निराकरणमप्यर्थात् कृतं वेदितव्यम् ॥ २०॥। नन्वात्मनस्तर्वानवभासरूपमावरणं भेदविपर्यासरूपविक्षेप- व्ञेत्युभयं स्वाश्रयविषयकाज्ञानकृतमिति किमित्यभ्युपेयते । तत्र पमाणाभावात्। भावे वाऽज्ञानस्य स्वातन्त्र्यापत्तेरात्माश्रयता- बलेनेत्ययुक्तं स्यात्। आत्मनः स्वत एवाझ्ञानप्ेरकत्वेन तद्वल- करत्वे च विकारित्वापत्तेरज्ञानसहायतया तथात्वेऽन्योन्याश्रय- त्वापातात् । अतो जीवेश्वरत्वजगदाकृतीनां यथापतीति परमा- डर्थत्वमेवास्तु, किमविद्याकल्पितत्वकल्पनया प्रमाणहीनयेतिचे- तत्राह- प्रत्यक्त्वमात्रविषयाश्रयताबलेन प्रत्यक्स्व्ररूपमपिधाय पराग्तिवर्तै: ॥
विक्षिप्य तिष्वति तदग्रहणं मृषैत ॥ २१ ॥
43
Page 44
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३१
प्रत्यक्त्वमात्रविषयाश्रयताबलेनेति ।। अयमर्थः । न तावदज्ञानं स्वतन्त्रमभ्युपगन्तुं शक्यते। तस्य अडस्वेना- नात्मत्वे सति स्वातन्त्रयेऽयं घट इतिवद् इदमज्ञानमिति पतीति- पसङ्गात्। न चैवं मतीयते, किन्त्वहमज्ञो मव्यज्ञानमयमज्ञ इति वा पराश्रयत्वेनैव तदनुभवात्तस्य पारतन्त्र्यमवसीयते । अत- श्रेतनाश्रयत्वं तावदस्य निश्चितमिति स्वाश्रये चेतने पत्यगात्म- न्येवाज्ञानमावरणविक्षेपरूपमतिशयं जनयेत्। स्वासम्बद्धे तज्जनने- Sतिपसङ्गात् । तथाच तस्य चिदात्मविषयताऽपि सिद्धा। येन यत्रातिशयः क्रियते स तस्य विषय इति स्थितेः । नचात्र प्रमाणाभावो नीहारेण माट्टता जल्प्या चेत्यादिश्रुतेः प्रमाणत्वा- त् । इहाप्यग्रे प्रमाणस्य वक्ष्यमाणत्वात्। नाप्यात्मनोऽज्ञान- पेरकत्वेन विकारित्वपास्तिः । अविकृतस्यैव रज्जुखण्डादे: स्वा- रोपितसर्पविसर्पणादाविवाज्ञानविकारहेतुत्वोपपत्तेर ज्ञानविशिष्ट-
न्योन्याश्रयत्वापसक्तेः । न च जीवेश्वरजगदाकारभेदस्य पर- मार्थत्वमुपपद्यते । तस्याज्ञानान्वयव्यतिरेकानुविधायित्वात्। जीवस्य चैतन्यात्मन ईश्वरस्य च तद्रूपस्योपाधिभेदमन्तरेण स्वरूपतो भेदानिरूपणादुपाधिभूतस्य च कार्यकारणरूपजगत उत्पत्तिपलयश्रवणादागन्तुकत्वे सत्याद्यन्तवतो रज्जुसर्पादिवद-
त्वाचिदात्मनश्च स्वतोऽशेषविशेषहीनतया अद्यानन्दरूपताया अस्थूलाद्नेकश्चुतिभिस्तात्पर्येण प्रतिपादनाच्च न पूर्वश्लोकोप- पादितार्थे कोऽपि दोष इति अक्षरार्थः सुगमः ॥ यद्वा, आत्मत्वमात्रविषयाश्रयतावलेनाज्ञानमात्मन्यावरण- विक्षेपौ करोतीत्ययुक्तम्,आवरणविभ्रमशक्तिमतस्तस्य स्वत एव
44
Page 45
३२ अन्वयार्थ प्रकाशिकाविभूषिते
तत्कर्तृत्वसम्भवात् । अन्यथा स्वाश्रयविघातापत्तेराव्रियमाणं विक्षेप्यं च तस्यात्मातिरिक्तं विषयान्तरमन्वेषणीयम् । तच्चा- जन्यथाख्यात्यादेरनड्गीकारादद्वैतवादिनां दुःसम्पादमितीमामा- शङ्गां परिहरन् पूर्वपद्योक्तमर्थ विशद्यति । प्रत्यक्त्वमात्रविषया- SSश्रयताबलेनेति ।। तत् पूर्वोक्तमज्ञानशब्दितमग्रहणमविद्यारयं प्रत्यक्स्वरूपमपिधाय पराग्विवर्त्तैर्विक्षिप्य तिष्ठति मृषैवेति सं- बन्धः। प्रत्यगिति जीवेश्वरसाधारणं सच्चिन्मात्रमुच्यते। तस्यैव देहाद्यपोहसमये प्रातिलोम्येनाञ्च्चनात्। तस्य स्वरूपं परिपूर्णा- नवच्छिन्नसचिदानन्दलक्षणमपिधाय स्वरूपेण भासमानेऽपि यथोक्तरूपेणानवभासमानतामापाद्येति यावत्। यथेदमित्येवं रूपेण भासमानमेव पुरोवर्ततिशुत्तादि शुक्तिरूपेणानन्यसाधारण- तयाऽनवभासमानमविद्यया भवति। तद्वत् सर्वानुभवसदात्मना-
भासमानं जायतेऽज्ञानसंपर्कादिति यत्तदस्यापिधानमित्यर्थः । सच्चिद्रूपस्य विभीरात्मनोऽस्ति प्रकाशत इति स्वरूपप्रति- बद्धव्यवहारेऽन्यानपेक्षतया नित्यवत् पकाशे प्रासेऽपि ताद- यपमात्मतत््वं नास्ति न प्रकाशत इति विपरीतव्यवहार-
ति गम्यते इति भावः ॥ परागिति चैतन्यभास्यमुक्तलक्षणा- SSत्मस्वभावविपरीतस्वभावं जडमभिधीयते। तद्रूपेण ये दिवर्ता विशेषाकारवत्तयोऽहङ्कारादि लक्षणास्तैस्तमेवापिहितासाधारणस्व भावं पत्यश्चमात्मानं विक्षिप्य विविधं क्षिप्त्वा देवतिर्यङ्मनुष्य- स्थावरादिभेदेनानेकधाऽवभासास्पदं कृत्वा तिष्ठति। तदेवं क्रियमाणं मृषैवावरणं विक्षेपरूपं च, न वस्तुतो, यथा शुक्तेः स्वरूपावरणरजताद्याकारविक्षेपौ तथेत्यर्थः । यथा वा सुप्े पुंस्ये-
45
Page 46
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३३
कस्मिन्नावरणविक्षेपौ तद्वदित्यर्थः। एतच्वाज्ञानस्य निरपेक्षात् स्व- सामर्थ्यान्न भवतीत्याह।। प्रत्यत्केति॥ प्रत्यत्कमात्रं यथा व्याख्यातं प्रतीच: स्वरूपं तदेव विषय आश्रयश्च यस्य तस्य भावस्तत्ता । तस्या बलेन उपबृंहणेन चैतन्यव्याप्ततयेत्यर्थः । न हि चिदात्म- व्याप्तिमन्तरेणाचेतनस्य स्वकार्यसमर्थस्यापि कार्यकरत्वं संभव- तीति भावः। एतेनावरणादिशक्तिमतोऽप्यज्ञानस्य स्वातन्त्र्याशङ्का पराकृता। ननु यद्धलादज्ञानस्य विक्षेपसामर्थ्य तदेवात्मतत्वं स्वयमेवानेकधा विक्षिप्यतां, किमज्ञानाभ्युपगमेनेत्यत आह ।। अद्यमिति ॥ अिकारिकूटस्थमित्यर्थः । कुत एतदित्यत आह॥ अशेषविशेषहीनमिति ॥ यत्केनापि विशेषेण कदाचिदुज्यते त- द्विक्रियते, न निर्विशेम्,अयं तु प्रत्यागात्माऽशेपविशेपहीनोऽतः कूटस्थ इत्यर्थः । तथाच यदेकमविक्रियमनाधेयातिशयमछुप्त- पकाशस्वभावमिति च प्रमाणेनाऽवधारितं तस्य तद्विपरीताकारा- 5वभासो न स्वाभाविको, नाप्यन्योपरागात् परमार्थत उत्पन्नः संभाव्यते इत्यतो मृषैवेत्यज्ञानाविद्यादिशब्दवच्यानिर्वचनीयनि- बन्धन इति युक्तमुक्तं, मृषैवेति ॥ एतेनाज्ञानस्य स्वाश्रयविघाता- पत्तिदोषपरिहारायात्मातिरिक्तं विषयान्तरम् अन्वेषणीयमित्युक्तं परास्तं वेदितव्यम्। विषयान्तरस्य परमार्थत्वे तस्याज्ञानकल्पित- त्वानुपप त्तेरपर मार्थत्वेतस्यारोपमात्रसिद्धस्याधिष्ठानमन्तरेणानुप- पत्तेः । अधिष्ठानं च तदेव भवति यदज्ञानाटृटतस्वभावविशेषं वस्तु वस्त्वन्तरात्मनावभासमानम् । अत आवरणविक्षेपयोः समाना- धिकरणत्वनियमादावरणस्य चामूर्त्तेऽनवयवे द्रव्यगुणादिवस्तु- कृतत्वासंभवादज्ञानकृतत्वे निश्चिते तस्याश्रय एव विषय इति तत्रैव तत्कृतो विशेष इति नाश्रयघातित्वदोषावकाशः । परमा- डर्थतः स्वाश्रये तस्याकिश्चित्करत्वादिति सर्व समञ्जसम् ॥२१॥
46
Page 47
३४ अन्वयार्थप्रकाशिकाविभूषिते
नन्वात्मन्यनिर्वचनीयाविद्याविलासात्मकमनिर्वचनीय मेवाखण्डा- नन्दानुभवसद्ब्रह्मविपरीतरूपं जीवेश्वरजगद्वन्धादिलक्षणमात्मा तु सदैवाशेषविशेषहीन इत्यत्र किं प्रमाणमितिचेत् तत्राह- प्रत्यक्षलिङ्गवचनानि हि दर्शयन्ति निर्दुःखनित्यसुखविग्रहतां प्रतीच: ।। निर्दुःखनित्य सुखविग्रहभूम्नि नास्मिन सम्भाव्यते दशि पुरोदितमल्परूपम् ॥२२॥ प्रत्यक्षलिष्गेत्यादिना । प्रतीचः प्रत्यगात्मनो निर्दुःख- नित्यसुखविग्रहतामखण्डानन्दकूटस्थरूपतां प्रत्यक्षलिङ्गवचना- नि दर्शयन्ति हीति योजना । हिशब्दो वक्ष्यमाणपत्यक्षादि- प्रमाणानां यथोक्तात्मपरतया निश्चितत्वज्ञापनार्थः। तदेवं प्रमाण- भिद्धे प्रतीचोऽशेपपिशेषहीनाच्युतस्य कूटस्थानन्दरूपत्वे तस्मिं- स्तद्विपरीतरूपमाविद्यकमध्यारोपितमेव, न परमार्थ संभाव्यत इत्याह॥ निर्दुःखनित्येत्युत्तरार्द्धेन।। निर्दुःखादिलक्षणे भून्नि परि- पूर्णे ब्रह्मण्यस्मिन् प्रमाणावगते दश सर्वसाक्षिरूपे पुरोदितं जीवजगदीश्वरादिलक्षणम् अल्परुपं परिच्छिनं सापेक्षस्वभावं परमार्थतो न संभाव्यते इति योजना ॥ २२ ॥ तत्र प्रत्यक्षं सर्वजनमसिद्धं सौपुप्तानुभवं तावदाह- प्राज्ञे सुखं समनुभूय समुत्थितः सन् सर्वप्रकारविषयप्रतिपत्तिशून्ये ।। सुप्तोऽहमत्र सुखमित्यनुसन्दधानः सर्वोऽपि जन्तुरवगच्छति तस्य सौख्यम् ॥२३॥
47
Page 48
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३५
प्राज्ञे सुखमिति ॥ प्राज्ञे सुखं समनुभूय समुत्थितः सन् सर्वोऽपि जन्तुरहमत्र सुखंयथा स्यात्तथा सुप्तइत्यनुसंदधानोऽस्य चिदात्मनः सौख्यं सुखात्मतां निर्विशेषानन्दस्वभावमवगच्छ- तीति संबन्धः । प्राज्ञे प्रज्ञाप्रधाने निर्विशेषचिदात्मननि सुपुप्त्य- वस्थापन्ने सुखं स्वरूपानन्दं समनुभूय सम्यगव्यवधानेन स्व- मकाशस्वरूपचैतन्यात्मनाऽनुभूय पकाशमानाखण्डस्वरूपसुखा- Sडत्मना स्थित्वेति यावत् । यद्यपि सति संपद्यन विदुः सति सं पद्यामह इतिश्रुतेस्तत्राविद्यासभ्भावोऽवगतस्तथापि तदानीं तस्या विक्षेपाभावान्न सा स्वरूपसुखं भेत्तुमलमिति न व्यवधान- करत्वमिति द्रष्टव्यम्। ननु तत्रापि जन्यसुखसंभवात्तदेवानु- भूतं परामृश्येतेति कथमात्मनो यथोक्तसुखरूपत्वसिद्धिरित्यत आह ।। सर्वपकारविषयप्रनिपत्तिशून्य इति। प्राज्ञविशेषण- मेतत्। सर्वप्रकाराः परोक्षापरोक्षार्थविषयकानुभवस्मृतिरूपाः प्रतिपत्तयो ज्ञानानि, तैः शून्ये विषयज्ञानरहिते इत्यर्थः । तथाच विषयज्ञानाभावे तज्जन्यस्य सुखस्यापि तत्राभाव इति परिशेषात् स्वरूपसुखस्यैव तत्रानुभव इत्यर्थः । यद्वा सुखमत्र सुप्त इति दुःखाभावस्यैवायं परामर्शो, न सुखस्ये- त्याशङ्कामपनुदन् माज्ञावस्थां विशिनष्टि ॥ सर्वप्रकारेति ॥ सर्व- प्रकारो यो विषयो भावात्मकोऽभावात्मकश्च तस्य प्रतिपत्तिशून्य इत्यर्थः । विषयज्ञानवच्वे सुषुप्तित्वव्याघातादिति भावः । नच तदानीन्तनदुःखाभाव इदानीमनुमीयते, न पुनस्तत्रानुभूतस्य सुखस्य दुःखाभावस्य वायं परामर्श इति वाच्यम्। तदनुमापक- लिङ्गानिरूपणादिति दिक् ॥ २३ ।। एवं सुखमस्वाप्समित्युत्थितस्य परामर्शान्यथानुपपत्तिसिद्ध: सौषुप्तानुभावः प्रत्यक्षमुक्तस्वरूपात्मनि प्रमाणं व्युत्पाद्य लिङ्ग-
48
Page 49
३६ अन्वयार्थप्रकाशिकाविभूषिते
मित्युक्तमानं च तत्रोपपादयति- सर्व यदर्थमिह वस्तु यदसि्ति किश्चित पारार्थ्यमुज्झति च यन्निजसत्तयैव ।। तद वर्णयन्ति हि सुखं सुखलक्षणज्ञा- स्तत् प्रत्यगात्मनि समं सुखतास्य तस्मात् ॥२४।। सरव यदर्थमिति ॥ निरुपाधिकानुकूलवेद्यं हि लोके साक्षात्पिरियमिति प्रसिद्धम् । तच्ब सुखमेव, नान्यदत्र तादर्थ्येनैव प्रियत्वानुभवात्। तच्च सुखं प्रत्यगात्मेव, नान्यत् । तयोरेक. लक्षणत्वात् । यतः सुखलक्षणज्ञा एवं सुखलक्षणं वर्णयन्ति । कथम्। सर्व यज्जायापु्नादिवस्तु पियत्वेन लोके प्रसिद्धमिह व्यवहारभूमावस्ति तद्यदर्थ यस्याभिव्यतर्थ सत् प्रियत्वेनाभिमतं, यत्पुरस्कारेण यत्पियत्वेनोपादीयते इत्यर्थः । तत् सुग्वमिति सम्ब्धः । एतावत्युक्ते भृत्यभार्यादावतिव्याप्ति- र्भरत्यादेः स्वव्याप्यं प्रति शेपित्वेऽपि स्वाम्यपेक्षया परार्थत्वात्। नदर्थमुक्तं, यत् पारार्थ्यमुज्झतीति ।। स्वयमन्याशेपत्वे सति सर्वान्यशेषित्वं सुखलक्षणमित्यर्थः । एवमपि स्वपुत्रादिवर्ततिनि सुरेऽतिव्याप्तिस्तस्मिन्नपि पित्रा ज्ञायमाने उक्तलक्षणसन्भावा- दित्यत उक्तम् । निजसत्तयेवेति ॥ स्व्रसत्तामात्रेणैव पारार्थ्य त्यजति, न स्वसत्तायां लेशेनाप्यन्यशेपतां भजत इत्यर्थः । पुत्रादिगतसुखस्य पुत्रादावुक्तलक्षणत्वेऽपि पित्राद्यपेक्षया तत्सुख- शेपत्वाद्युक्तं ततो व्याटत्यर्थ विशेषणमिति। इदं यत् सुख- लक्षणं तल्लक्षणज्ञा वदन्ति, तत् पत्यगात्मनि समम् । यतः प्रत्यगात्मापि यथोक्तसुखलक्षणयोगी। न हि प्रत्यगात्मा कदापि
49
Page 50
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ३७
कस्यचिच्छेपो भवति। भृत्याद्यवस्थशरीरगतस्यापि तस्य स्व- रूपेण स्वाम्यादिशपत्वाभावात् । सर्वत्र प्रीतेश्च तदर्थत्वेन तच्छेषत्वात् । तथाच चिदात्मा मुखरूपः, मुखलक्षणयोगित्वात् सुखवदित्यनुमानमुक्तमित्यर्थः ॥२४॥ ननु सुखस्यात्मगुणत्वावगमादहं मुखीत्येव तदनुभवादहं सुखमित्यनुभवाभावाच्च नात्मा सुखरूपोऽतोऽनुमानमनुभववाधित- विषयमिति नैयायिकादयो मन्यन्ने तान् प्रतिवोधयन्नात्मनः सुखरूपत्वे लिङ्गान्तरमाह- प्रेमानुपाधिरसुखात्मनि नोग्लब्धः स प्रत्यगात्मनि कुमेरपि नित्यसिद्ध: ॥ प्रेयःश्रुतेरपि ततः सुखतानुमानं नैयायिकोऽपि न दगात्मनि निन्हुबीत ॥२५॥ प्रेमानुपाधिरिति ॥ अनुपाधिः प्रेमा प्रीतिरमुखात्मनि मुखभिन्ने स्वरूपेऽचेतने नोपलब्धः केनापीति सुखस्य तावन्नि- रुपाधिकप्रेमास्पदत्वं प्रसिद्धम् । स प्रेमास्पदभावः प्रत्यगात्मनि नित्यसिद्धो नित्यानुभवसिद्धः क्रमेरपीति वदन्नात्र विवाद: क- स्यचिदिति दर्शयति। तस्मादात्मापि सुखरूप इत्यर्थः । न हि सुखं स्वसत्तायां चैतन्यं व्यभिचरति येन द्रव्यमात्रस्याचेतनस्य गुणः स्यात्। नच चेतनया प्रकाश्यमानत्वात्तदव्यभिचारो(१)न चेतनात्मकत्वादिति वाच्यम्। समानाश्रययोरसमानकालयोश्च प्रकाश्यप्रकाशकभावानुपपत्तेः । न हि सुखचैतन्ययोराश्रयभेदो- डस्ति। अणुपरिमाणमनःसंयोगविशिष्टात्ममात्रदेशत्वादुभयोस्तथा १ चेतनया = ज्ञानेन ।I ज्ञानेन सुखस्य प्रकाश्यत्वे सुखस्य ज्ञानेन स्नेहे अव्यभिचारात्॥
50
Page 51
३८
चैकेन मनःसंयोगेन जातं सुखमुत्पत्तित एव प्रकाशमानं स्वात्म- चैतन्यव्यापं सत् प्रकाशते स्वयमेव वा प्रकाशत इति विवेके कारणाभावान्न सुखस्य चैतन्यप्रकाश्यत्वनिश्चयः । तथा सुखचैतन्ययोर्भेदे सति कार्ययोस्तयोरेकस्मिन्नात्मनि यौगपद्यमपि नसंम्भाव्यते। मनःसंयोगरूपस्यासमवायिकारणस्य क्रममन्तरेण तत्र कार्यक्रमायोगात्। अन्यथा ज्ञानेच्छापयत्नादीनामपि यौगपद्यापत्तेः । एवं सति भिन्नकालयोरनयोर्विनष्टाविनष्टयोर्न साक्षात्मकाश्यप्रकाशकभावः । एकाश्रयत्वमात्रेण तन्भ्रावे त्वा- Sत्मगतधर्मादेः परिमाणस्यातीतज्ञानादेश्च प्रत्यक्षता युगपत् स्या- दतो न चैतन्यभास्यं सुखमिति चैतन्यस्वरूपमेव तत् परिशेषात् सिद्धम्। चैतन्यं चात्मैव, न तद्गुणः । चेतनाभिन्नस्य जड- त्वाज्जडस्य च घटादिवच्चेसनाश्रयत्वानुपपत्तेः । तस्मादात्मैव चैतन्यं, चैतन्यमेव च सुखमिति सिद्धम् । नच सुखचैतन्ययो- रुत्पत्तिविनाशानुभवात् कथं नित्यात्मस्वरूपतेति शक्काम्।
जाग्रदादिलक्षणायामेवोपलम्भादिति दिक।। तथाचायं प्रयोगः । आत्मा सुखरूपः । परमपेमास्पदत्वात् । य- झनैवं तन्नैवं, यथा घटो, नायं तथा। तस्मान तथा। किन्तु सुख- रूप एवेति। नच सुखस्यापि मम सुखमित्यात्मशेषत्वानुभवाभ् परमप्रेमास्पदत्वमस्ति, कुतस्तट्ूपत्वेनात्मनस्त्ाव इति वाच्य- म्। सुरस्योपकारकत्वाभावाच्छेपत्वानुपपत्तेः । न हनुपकारकं कस्यचिच्छेषो भवति। न ह्यात्मनि सुखाभिव्यक्तिव्यतिरिक्तः कोऽप्युपकारो निरूपणपथमवतरति । तस्मान्मम सुखं, सुख्य-
दोष इत्युपसंहरति ॥ ततः सुखतानुमानमिति ।। यत एवमतो
51
Page 52
संक्षेपशारीरके प्रथमोऽध्यायः।१ ३९
दृगात्मनि चित्स्वरूपे प्रत्यगात्मनि सुखतानुमानं नैयायिको- ऽप्यनुमानतर्क्कशास्त्रनिष्णातोऽपि न निन्हुवीत नापलपेदित्यर्थः । अपिशब्दात् सांख्यादिभिरस्यापह्नवमसङ्गो दूरापास्त इतिद्योत्य- ते। एवं लिङ्गशब्दोदितमनुमानमुपपाद्य वचनशब्दनिर्दिष्टं श्रुति- वाक्यमुदाहरति ॥ प्रेयःश्चुतेरपीति ॥ तदेतत् प्रेयः पुत्रात् प्रेयो वित्तात् मेयोऽन्यस्मात् सर्वस्मादन्तरतरं यदयमात्मा।स योऽन्य- मात्मन: पियं ब्रुवाणं व्रूयात् मियं रोत्स्यतीति। आत्मनस्तु कामाय सर्व प्रियं भवति। विज्ञानमानन्दं ब्रह्म आनन्दो ब्रह्मे- ति व्यजनादित्यादिश्रुतेरपि परमानन्दरूप एवात्मा निश्रीयत इत्यर्थः । तथाच सुखचैतन्यसत्तानां मिथोभेदानिरूपणात् स- चिदानन्दरूपोऽशेषविशेषहीन आत्मा कूटस्थनित्य उक्तैःपमाणैः सिद्ध इति तस्मिस्तद्विपरीताकारावभासोऽविद्याविलसित इति सिद्धम् ॥ २५॥ एवमुपपादितेऽर्ये विद्वदनुभवमप्यनुकूलयति- आनन्दविग्रहमपस्तसमस्तदुःखं वस्तुस्त्रभात्रपरिवर्जितसर्वभेदम् ॥ आत्मानमध्ययनविध्यनुसारिणस्तं प्रत्यक्षतः श्रुतिशिरःसु समामनन्ति ॥२६॥ आनन्दविग्रहमिति॥ यद्वा यद्येवँलक्षण एव वस्तुत आत्मा तर्हि स स्वरूपेण नित्यं भासमानोऽपि कस्मात् सर्वेषां तथा नावभासत इत्यत आह।। आनन्दविग्रहमिति ॥ अपा-
अध्ययनविधिशब्देन विधिवदधीतो वेदो लक्ष्यते। वेदानुसारिण- स्तदर्थविचारपरा इति यावत्। ते श्रुतिशिरःसु तात्पर्येणालोच्य-
52
Page 53
४० अन्वयार्थप्रकाशिकाविभूषिते
मानासूपनिषत्सु प्रत्यक्षतोऽपरोक्षत एवात्मानं समामनन्ति सम्यग्जानन्त्यनुभवन्ति, तद्यथार्थतां कथयन्तीति वा। अत औपनिषदज्ञानमन्तरेणात्मयाथात्म्यं सर्वेपां न भासत इत्यभि- प्रायः ॥ २६॥। तस्मादात्मनो यथोक्तपत्यक्षानुमानागमविद्वदनुभवसिद्धस्व्र- रूपाद्विपरीताकारावभास: सर्वोऽपि तस्मिन्नज्ञानेनाध्यस्त एव, न वास्तवइति सिद्धा शास्त्रादेर्विपयपयोजनसम्भावनेत्युपसंहरति अध्यस्तमत्पवपुरस्य न वास्तवं तत् प्रत्यक्पराग्द्वयमिदं हि परस्परस्मिन् । अध्यस्ततां प्रति समर्थमबोधमात्र- मन्योऽन्यरूपमिथुनीकरणे निमित्तम् ॥ २७॥ •अध्यस्तमिति॥ यदिदमल्पवपुर्ज्जीवेश्वरजगल्लक्षणमस्य चिदात्मनस्तन्न वास्तवं, किन्त्वध्यस्तमाविद्यकमित्यर्थः। एतदुक्तं भवति। प्रत्यगात्मा ह्यनाद्यनिर्वचनीययाऽविद्यया वृतनिजतत्वः प्रथमं तद्विवर्त्तेषु बुद्ध्यादिदेहान्तपदार्थेष्वहमित्यभिमानवाआयते। सोडयमहङ्गाराध्यासः । तेनायं बुद्धादिभिस्तद्धमैश्राविविक्त- मात्मानं मन्यमानो जीवोऽहं संसारीति मन्यते। ततो देहबाह्यं स्वाविद्यापत्युपस्थापितं कार्यकारणात्मना भोक्तृभोग्यात्मना नियन्तृनियम्यरूपेणेशितव्येश्वररूपेण च कल्पयन्निदमित्यात्मनः पृथक्त्वेनाध्यस्यति।तत इदमवभासगृहीते तस्मिञ्छोभनाशोभना- डध्यासपूर्वकं ममेदमनुकूलं प्रतिकूलमित्यादिप्रकारमनुभवति। एवमहमध्यासपूर्वक: सर्वो व्यवहारोऽध्यस्त एवास्यात्मनो, न ताच्विक इति। ननु कथमहमित्यनुभवोऽध्यासात्मको व्याका-
53
Page 54
संक्षेपशारीरके प्रथमोऽध्यायः।१ ४१
रजतमितिवद् द्वैरूप्यानुभवो भवेत्, तदभावान्नायमध्यामः । एत- स्याध्यासत्वासिद्धावेतत्पूर्वस्य बाद्यावभासस्यापि नाध्यासत्व- सिद्धिरितिचेत्तत्राह ।। प्रत्यकपरागृद्यमिदं हीति ॥। हि यस्मा- दिदमात्मनोऽहमित्यवभासमानं वपुः मत्यकूपरागरूपेण द्वयं आ्वकारमेव विवेकिनां भातीत्यक्षरार्थः । आत्मनः स्वमत्तार्या पकाशमानत्वं तावदव्यभिचरितमन्यथा तस्मिन संदेहविपर्यया- डज्ञानानामपि प्रसङ्गात् । न ह्यात्मसत्तायां कस्यचित् कदा- चित् संदेहादि संभवति। संदेहादेरसाक्षिकत्वायोगात्तत्साक्षिण एवात्मत्वात्तस्यानवभासे संदेहादेरेवासिद्धेः । स्वतः पकाशमान एव सर्वदात्मेति स्थितेः । आत्मन्यवभासमानेऽपि सुपुप्त्यादा- वहमवभासव्यभिचारादागन्तुक आत्मन्यहमवभासोऽन्योपराग- निबन्धन इति निश्चीयते। ततश्चागमापायवत्वादहङ्कारोऽनात्मा। तदऽवधितया तदधिष्ठानतया चानुगतः सदूप आत्मा। एवमह- ङ्वार आत्मान्यत्वे सत्यन्यावभास्यस्तदवभासकतया तस्मिन् स्फुरणरूपेणानुगत आत्मा तथा कर्त्तृत्वर्भोक्तृत्वपमातृत्वादि- विक्रियावानहङ्गारस्तद्द्रष्टा चात्मेति। तदेवं द्रष्ट्दृश्यभावेन साक्षि- साक्ष्यभावेनागमापायितदवधित्वेन चात्माहङ्गारयोर्विवेके सति विरुद्धस्वभावयोस्तयोः, एकत्वावभासोऽन्योन्याध्यासनिबन्धनः शुक्तीदमंशरजतयोरिवेत्यभिपायः । यत एवं विरुद्धस्वभावयो- रध्यासं विनैकत्वावभासासंभवे,इदं द्वयं युष्मदस्मत्पत्ययगोचरा- SSत्मकमात्माहङ्काररूपं परस्परस्मिन्नन्योऽन्यस्मिन्नध्यस्ततां पति मिथ्याज्ञानगोचरत्वं प्रति समर्थ योग्यं जडस्याहङ्कारस्य सच्चिदा- SSत्मनि तादात्म्याध्यासाभावे सत्तास्फूर्त्योरसंभवाचिदात्मनश्च कूटस्थस्याहङ्गारे तथाध्यासाभावे कर्त्तृत्वादिविकारवत्वावभासा- डयोगात् परस्परस्मिन्नध्यस्तमित्यर्थः । अन्यतरसस्मिन्नन्याध्यास- us
54
Page 55
४२ अन्वयार्थप्रकाशिकाविभूषित
पक्षे अनात्मन आत्मैक्याध्यासे तस्य विषयत्वेनावभासो न स्या- दात्मनश्चानात्मात्मनाध्यासे तस्यापि जडत्वापती जगदान्ध्य- पसङ्गः। इतरेतराध्यासे तूभयोरप्युभयात्मनावभासान्नोक्त- दोषप्रसङ्ग इति भावः । अत्र शून्यत्वापत्तिप्रसङ्गं स्वयमेवाग्रे- डपाकरिष्यति। ननु सादृश्यादिदोषाध्यस्यमानविषयानुभवसं- स्काराधिष्ठानसंपयोगरूपकारणत्रयं विना कथमात्मानात्मनो- रध्यास इत्यत आह।। अवोधमात्रमन्योन्यरूपमिथुनीकरणे निमि- त्तमिति॥ अज्ञानमेवात्मानात्माध्यासे निमित्तं पुष्कलं कारणं, न सादृश्यादि तत्रापेक्षणीयमित्यर्थः । २७।। ननु सादृश्यदर्शनादेरप्यध्यासकारणस्य लोकेऽन्वयव्ग- तिरेकाभ्यामवगमादात्मानात्मनोश्च विरुद्धस्वभावयोस्तदयोगात् कथम् अवोधमात्रादध्याससिद्धिरित्याशङ्क सादृश्यादेरध्यामा-
सादृश्यधीप्रभृति न त्रितयं निमित्त- मध्यासभूमिषु जगत्यनुगच्छतीदम ।।
जात्या न साम्यमुपलब्धमिहार्ति किश्चित् ॥२८॥ सादृश्यघीप्रभृनीति ॥ सादृश्यकरणदोपसंस्कारादि यत् त्रितयमध्यासनिमित्तं प्रसिद्धमस्ति तदिदं जगत्यध्यासभूमिषु सर्वत्र नानुगच्छति, न व्यापोतीत्यर्थः । तत्र सादृश्यधियो व्यभिचारस्थलमाह । ब्राह्मण्यजातीति ॥ अहं ब्राह्मण इत्यहम- वभासे प्रत्यगात्मनि ब्राह्मण्यजात्यध्यास आस्तिकेरिष्टः । तत्रा- SSत्मनो जात्या न केनाप्यंशेन किश्च्चित्साम्यमुपलब्धमिह व्यव- हारभूमानस्तीति योजना ॥ २८ ॥
55
Page 56
संक्षेपशागीरके प्रथमोऽध्यायः।१। ४३
कथं जात्यात्मनोः सादृश्याभावइत्यपेक्षायामभियुक्तपसिद्ध- सादृश्यलक्षणस्य तत्रासंभवादिति वक्तुं तल्क्षणमाह- भयस्त्ववन्ननु गुणाव्यतरक्रियाणां = सादृश्यवस्तु न चिदात्मनि किन्चिदत्र जात्यादिभिः सह निरीक्षितमस्ति तादृक ॥२९॥ भूयस्त्ववन्नन्विति॥ ननुशब्द: खल्वर्थे। गुणानां रूपादीना- मवयवानामङ्गसंस्थानविशेषाणां क्रियाणां गत्यादीनां वाभूयस्त्वं विद्यते यत्र तद्भूयस्त्ववद्यद्वस्त्वेव तत्सामान्यपूगवपुः सर्वसा-
मिति योजना। अत्रोदाहरणानि । अग्निज्वालावत् पिङ्गल इति रूपतो, गोसदृशो गवय इन्यवयवतो, गजगामीति क्रियात इत्या- दि। अत्र भूयस्त्ववदिति वतिप्रयोगः स्वार्थे द्रष्टव्यः । गुणा- वयवक्रियाणामन्यतमभूयस्त्वं सामान्यमित्यर्थः । यद्रा सामान्य- मित्यत्रापि सामान्यवदिति मतुबर्थो लक्षणीयः । पूगग्रहणमुक्त- गुणादिद्वारव्यतिरेकेणान्यन्न मामान्यद्वारमस्तीति दर्शयितुम्। केतकीगन्धसदृशः सर्पगन्ध इत्यादावपि केनकीसर्पयोर्गन्धगुणतः साम्यं विवक्षितं, न गन्धयोरिति नाव्याप्तिशङ्केति द्रष्टव्यम् । तादृगुक्तलक्षणं सादृश्यवस्तु अत्र पूर्वोक्तलक्षणे चिदात्मनि जात्या ब्राह्मण्यादिरूपया सह न निरीक्षितमस्तीत्यतः सादृश्य- मध्यासव्यापकं न भवतीत्यर्थः ॥२९॥ दोषस्यापि विषयकरणगतस्य व्यभिचारस्थलं दर्शयति - विषयकरणदोषान्न भ्रमः संविदि स्था-
56
Page 57
अन्वयार्थप्रकाशिकाविभूषित
दषि तु भवति मोहात् केवलादेवमेव । भगवति परमात्मन्यद्वितीये विचित्रा द्दयमतिरियमस्तु भ्रान्तिरज्ञानहेतुः ॥ ३० ॥ विषयकरणदोषादिति॥ अस्ति संविन्राम प्रमाणफलं यद्विपयस्फुरणमिति प्रसिद्धम् । तस्य स्वयम्प्काशत्वं नित्यत्वं चाङ्गीकरणीयम्। तस्य जडत्वे तत्संसर्गाद्विपयस्य स्फुरणा- Sसिद्धेः। न हि जडेन जडं प्रकाश्यते। तथा सति विपयस्य स्व्रत एव प्रकाशापत्तेः प्रमाणवैयर्थ्यापातात् । अजडपकाशस्य चाप- काशमानस्यान्यस्फोरकत्वे तज्जन्यान्या विपयस्फूर्तति: स्यात् । साप्यऽप्रकाशमानाचेत्तस्याअप्यन्येत्यनवस्था प्रसज्ज्येत / प्रकाश- मानत्वे चान्याधीनपकाशत्वेऽन्यस्याप्येतत्समानयोगक्षेमत्वात्त- त्पकाशायाप्यन्यापेक्षेति तत्राऽप्यनवस्था दुर्वारा । तस्मात् स्व- पकाशैव प्रमाणफलात्मिका संविदिति। तथा तस्या अनित्यत्वे च न करणविपयोपादानता सङ्गच्छते । तथोज्जडयोरजडफलो- पादानत्वासम्भवात्। नाऽपि प्रमातोपादानम् । तस्यापि चैतन्य- गुणोत्पनेः पाग जडत्वाविशेपात् । चिद्रपत्वे तु तस्य सावित्रा- लोकवत् साधारणेन स्फुरतः सर्वत्रानभिव्यक्तविशेषस्य दर्पणा- दाविव सावित्रालोकस्य विषयविशेपसंसष्टतदाकारावस्थान्त :- करणवत्तिप्रतिफलितत्वेन लब्धविशपतामात्रेण प्रमाणफलत्व- व्यपदेशोपपत्तेन्र मुख्याँ जन्मविनाशौ, दृत्तिनाशादेव विनाशव्यव- हारसम्भवादिति नित्या स्वयम्पकाशरूपा च प्रमितिःप्रमाणफल- मिति स्थिते तस्याः परप्रकाश्यत्वोत्पत्तिविनाश-वत्त्वप्रतिभामो लोकस्य भ्रम एवेत्येतत्सर्वमभिपेत्येदमुच्यते । संविदि प्रमाण- फले परपकाश्यत्वोत्पच्यादिभ्रमो विषयकरणदोपान्न स्यात्।
57
Page 58
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ४'
विषयदोषो हि सादृश्यं भ्रमकारणम्। न हि संवित्संवेद्ययोः प्रकाशजडयोः सादृश्यमस्ति । नाऽपि तत्र करणदोषः । प्ममिते- र्दुष्टकरणजन्यत्वात्। अपि तु तत्र भवन् भ्रमः परिशेषान्मोहादेव केवलादविवेकलक्षणान्भवति। यथाडयं दष्टान्त एवमेवाद्वितीये भगवत्यचिन्त्यैश्वर्ये परमात्मनि सर्वाधिष्ठानतया सर्वस्य स्वरूप- भूते दृश्यमानद्वयमतिरियं विचित्रा जीवेश्वरजगदाकारा भ्रान्ति- रज्ञानमात्रहेतुरस्त्वित्यर्थः । संस्कारस्य त्वस्ति भ्रमकारणता सर्वत्र। स तु पूर्वप्तीतिजन्यो न पूर्वपमितिजन्यः,तस्य तज्जन्य- त्वनियमाभावात् । भ्रमपवाहस्य चानादित्वात् । सम्प्रयोग- सिद्धिं, सदृशसांशपराग्विपयेषु चेदित्यत्रोपपादयिष्यति।अतो मोहे सत्यन्यद् भवतु मा वा, मोहादुद्बुद्धसंस्कारसचिवाद् भ्रमो भवत्येवेति भावः ।। ३० ।। परस्पराध्यासे निरधिष्ठानत्वेन शून्यवादपसङ्ग इति य- चोदमिह केश्रिदुन्भाव्यने तत् परिहरति- संसिद्धा सविलासमोहविषये वस्तुन्यधिष्ठानगी- र्नाधार ऽध्यसनस्य वस्तुनि ततोऽस्थाने महान् संभ्रमः ॥ केपाञि्चिन्महतामनूनतमसां निर्बन्धमात्राश्रया- दन्यो ऽन्याध्यसने निरास्पदमिदं शून्यं जगत् स्या- दिति ॥ ३१ ॥ संसिद्धेति ॥ अयमर्थः ॥ अज्ञाते वस्तुनि विपरीताव- भासो भ्रम इति त्वविवादम्। तत्राज्ञानं न जडाश्रितमित्यग्रे वक्ष्यते । तथाच सर्वेपु भ्रमेषु दृश्यमानविषयस्याज्ञातं चिदात्म- तत्वमेवाधिष्ठानम् । तच्च कचिदविद्यामात्रव्यवहितं, कचि्या-
58
Page 59
४६ अन्वयार्थप्रकाशिकाविभूषिते
वहारिकविषयानुषङ्गितया तत्तद्विषयाकारतामापन्नमिति स्थितिः। आधारस्तु समारोप्यविषयस्य यत्समानाधिकृततयावभास: स उच्यते। यथेदमाकारैक्येन रजतस्फुरणम्। तथाच भ्रान्तिविषया- डभेदेन भ्रान्तौ भासमानाकारतया पुरोवर्ततिवस्त्वाधारः । त- देव भ्रान्तावनवभासमानशुतादिविशेषाकाराभेदेनाघिष्ठानमु- च्यते। अत्रोभयत्रेदमाकार: साधारणः । स एव सन्मात्रं ब्रह्म-
ष्ठानमध्यस्यमानरजतादितादात्म्येन वेषेणाधार इत्यधिष्ठाना-
मिथ्यात्वेऽप्यधिष्ठानांशस्य वाधाभावात् तस्य बाधोत्तरकालमव- शिष्यमाणत्वान्न शून्यावशेपचोद्यावसर इति ॥ एपाऽक्षरयोजना । सविलासमोहविपये सकार्याज्ञानाव्टते वस्तुनि चिदात्मनि अध्यसनस्य अध्यासस्य अधिष्ठानगी- रधिष्ठानत्वप्रसिद्धिः संसिद्धा सम्यग् युक्ालोचनतः सिद्धा, नाधारे आरोप्यावगुष्ठिततया प्रतीयमानाकारे वस्तुनि। तत एवं सति इदं जगदन्योऽन्याध्यसने सति निरास्पदं निरधिष्ठानं सच्छन्यं स्यादिति केपाश्चिदस्थाने अनवसरे महान् संभ्रम आरभटी जायते। कुन इत्यत्र निमित्तमाह ॥ निर्वन्धमात्राश्रया- दिति। निर्वन्ध आग्रहस्तन्मात्रवलादित्यर्थः । तेषां निर्बन्धकरणे हेतुं तद्विशेषणेनाह ॥ अनूनतमसामिति॥ अनल्पतमसामविवेकिना- मित्यर्थः ॥ महतामिति तेपामुपहासार्थ विशेषणम् । एवमधि- ष्ठानाधारभेदस्य युत्नुभवसिद्धत्वेऽपि तमनालोच्याग्रहं कुर्वन्तो महान्त इत्यर्थः । ३१॥ ननु कथमधिष्ठानाधारयोरित्थं भेदकल्पनम् । यतो लोके यदवच्छेदेनारोप्यावभासस्तदेव वस्त्वधिष्ठानमिति चाधार इति च
59
Page 60
संक्षपशारीरके प्रथमाऽध्यायः।१।
पसिद्धमित्यत आह- अधिष्ठानमाधारमात्रं यदि स्यात् प्रसज्जयेत सत्यं तदा चोद्यमेतत् । न चैतत् सकार्यस्य मोहस्य वस्तु- न्यधिष्ठानगीर्गोचरे लोकसिद्धा ॥ ३२ ॥
अधिष्ठानमाधारमात्रं न भवतीत्यर्थः । तहि किं तदित्यत आह॥ सकार्यस्येति ॥ सविलासाज्ञान्य गोचरे विपये तेनावने वस्तु- न्यधिष्ठानगील्ोंकसिद्धा अविवेकिजनप्रसिद्धेत्यर्थः। विवेकिनो हि भ्रमकालेऽधयस्यमानतादात्म्येनावभासमानमपि वाधाऽवधित्वेन
भावः ॥ ३२ ।। तदेवमधिष्ठानाधारयोरकारभेदेनाधाराकारस्य मिथ्यात्वे- डव्यधिष्ठानाकारस्य सत्यत्वान्र शून्यताशङ्ावकाश इत्युक्तम्। इदानीमधिष्ठानाधारयोरैक्याङ्गीकारेऽपि नायं प्रमङ्ग इत्याह-
स्याच्चेत्तदा भवति चोद्यमिदं त्वदीयम् ।। सत्यानृतात्मकामदं मिथुनं मिथश्रे- दध्यस्यते किमिति शून्यकथाप्रसङ्गः ।। ३३ ।। किश्चानृतद्वयमिति । इहात्मानात्मनोरध्यासेऽनृतद्वयं परस्परमध्यसितव्यमिष्टं चेत्स्यात्तदा त्वदीयमिदं चोदं शून्यत्वा- पादनलक्षणं भवति। इदं मिथुनं सत्यानृतात्मकं मिथुनमध्ये एकं
60
Page 61
४८ अन्वयार्थ प्रकाशिकाविभूषिते संसष्टरूपेणाऽनृतमपि स्वरूपेण सत्यं भ्रमात् पूर्वमारोप्योत्पत्ति- हेतुत्वेन तत्काले तस्य सत्तापदत्वेन बाघोत्तरकालं तदऽवधि- त्वेन च यदस्ति तत्सत्यमेव यतः । अपरमनृतं स्वरूपणाप्यध्य- स्यमानत्वाद् भ्रमकालात् पूर्वोत्तरकालयोस्तत्सच्वे प्रमाणाभा- वात्। एवं सत्यानृतात्मकं मिथुनं चेन्मिथोऽन्योन्यमव्यस्यते किमिति शून्यकथापसङ्गो विनाग्रहमित्यर्थः ॥ ३३॥ स्यादेतदेवं, यदि परस्पराध्यासः क्वचिद् दृष्टपूर्वः । तद- भावे कथमात्मानात्मनोरुक्ताध्याससंभावनेतिचेन्न । सर्वत्र त- द्दर्शनादित्युदाहरणमाह- इदमर्थवस्त्वपि भवेद्रजते परिकल्पितं रजतवस्त्विदमि ॥ रजनभ्रमेऽस्य च परिस्फुरणा- न्न यदिं स्फुरेन्न खलु शुक्तिरितर ॥ ३४ ॥ इद्मर्थवस्त्वपीति॥ इदंशब्दृपत्ययगोचर एव वस्तु इद- मर्थवस्तु। तदपि रजते परिकल्पितमध्यस्तं भवेत् । तथा रजत- रूपं च वस्त्विदमि परिकल्पितं भवेत् । कुत एवमित्यत आह।। रजतभ्रम इति ॥ रजतमिदमित्यस्मिन् भ्रमेऽस्येदमश्चकाराद्रजत- स्य चाभेदेन परिस्फुरणादित्यर्थः । विमतमधिष्ठानसामान्यम् आ- रोप्यात्माध्यस्तं भ्रान्तौ स्फुरमाणत्वाद्धमददष्टरप्यांशवदिति। तथा रजतमिदमात्मनाध्यस्तं,तत्र त्रैकालिकनिषेधपतियोगित्वाद्यन्नैवं तन्नैवम् । यथा ुक्तिस्वरूपमिति भावः । विपक्षे बाधकमाह ।। न यदीति।। यदीतरेतरत्राध्यस्तमुभयं न भवेत्तदा शुक्तिरिव भ्रमज्ञाने न स्फुरेत् खल्विति योजना। न ह्यनध्यस्तं किश्चिदपि भ्रमे भासत इत्यर्थः ॥ ३४॥
61
Page 62
संक्षेपशारीरके प्रथमोऽध्यायः।१। ४९
नचोक्तेर्थे विवादावकाशोऽनुभवसिद्धत्वादित्यनुभवं सर्व- जनप्रसिद्धं पमाणयति- रजतप्रतीतिरिदमि प्रथते ननु यद्देवमिदमित्यपि घी: ॥ रजते तथा सति कथं न भवे- दितरेतराध्यसननिर्णयधीः ॥३५॥ रजनप्रतीतिरिति ॥ यथाऽनिदमात्मनो रजतस्येदमि प्रतीतिः प्रथते प्रसिद्धा वर्त्ततेऽनुभूयते यद्वदित्यर्थः । एवमिदमि- त्यपि धीररजतात्मकेदङ्गारावभासात्मिका धीरपि रजते पथते ।। ननु निश्चितमवरतदित्यर्थः । तथा सति वस्तुनो विविक्तयोरन्यो- न्यात्मनावभासमानत्वे सति कथमितरेतराध्यसननिर्णयरूपा धी- ने भवेत् !! । भवेदेवेत्यर्थः ।। ३५ ॥
अध्यस्तमेव हि परिस्फुरति भ्रमेषु नान्यत् कथञ्चन परिस्फुरति भ्रमेपु॥
चन्द्रैकताप्रभृतिकानुपलम्भनेन ॥ ३६ ॥ अध्यस्तमेव हीति॥ यद् भ्रमेषु परिस्फुरति तदध्यस्तमेव हि परिस्फुरति । यथा भ्रमदष्टसर्परजतजलद्विचन्द्रादीत्यर्थः । यदनध्यस्तं तन्न भ्रमेषु परिस्फुरति । यथा रज्जुत्वादीत्यर्थः । इदमत्र तात्पर्यम्। द्विविधो ह्यध्यासो, निरुपाधिक: सोपाधिक- श्रेति। तत्र स्वरूपेण भासमानेऽप्यनवभासमानयाथात्म्ये वस्तुनि ७
62
Page 63
५० अन्वयार्थप्रकाशिकाविभूषिते
वस्त्वन्तरात्मनावभासो निरुपाधिकाध्यासो, यथा शुक्ादौ रज- ताद्यध्यासः । यत्र भासमानेऽपि वस्तुयाथात्म्ये सन्निहितोपाि- सामर्थ्यात् करणापाटवाद्वा भेदविपर्यासाद्यवभासः स सोपा- धिकाध्यासो, यथा प्तिबिम्तद्विचन्द्राद्यध्यासः । तयोरिहाहङ्का- रात्मनोर्निरुपाधिकाध्यासे दृष्टान्तः शुक्तिरजताध्यास उक्तः । तत्र चेतरेतराध्यासः प्रसिद्ध इत्यतो नात्माहङ्कारयोरितरे- तराध्यासोऽसंभावित इति॥ ३६ ॥ नन्वस्तु लोके परस्पराध्यासो दृष्टत्वादिदमिति च रजत- मिति च व्यकारावभासोपपत्तेश्र । स नात्माहङ्कारयोः संभव-
अहमित्येक रूपेणेवावभासादित्याशक्कोहाऽपि निरुपाधिकाध्यास- त्वादेव परस्पराध्यासत्वानुमानोपपत्तेः कल्पनायाश्रेह दष्टविप- रीताया गौरवपराहतत्वाद्विवेकवतां व्याकारावभासस्य स्फुटत्वा- रच मैवमित्याह- इतरेतेंराध्यसनमेव तत- श्चितिचेत्यपोरवि भवेदुचितम् ॥ रजतभ्रमादिषु तथावगमा- न्न हि कल्पना गुरुतरा घटते ॥ ३७ ॥ इतरेतराध्यासनमेवेति ॥ अक्षरार्थः स्पष्टः ॥ प्रत्यक्- परागद्वयमिदं हि परस्परस्मिन्नित्यत्राहमित्यवभासे व्याकारत्व- स्यास्माभिरुपपादितत्वादात्मनः स्वरूपेण स्फुरणेऽपि स्वाभा- विकविशेषास्फरणस्यानभवसिद्धत्वाद् आत्मनो विषयत्वाभावेन व्याकारताया अवभासमानाया अप्यस्पष्टत्वात्तथानुल्लेखोपपत्तेश्र नात्रानुपपभं किश्च्िदिति भावः।३७॥
63
Page 64
संक्षेपशारीरके प्रथमोऽध्यायः।१। ६१
अनुभूतियुक्त्यनुमितित्रितया- दितरेतराध्यसनसिद्धिरतः ॥ चितिचेत्यवस्तुयुगलस्य न चेत् त्रितयस्य बाधनमिहापतति ॥ ३८॥ अनुभूतियुक्तीति ॥ रजतप्रतीतिरिदमि प्रथत इत्यस्मिन् पद्येउपपादिताऽनुभूतिः । ततः पूर्वपद्ये, इदमर्थवस्त्वपि भवेदि- त्यस्मिन्नुक्ते युत्यनुमिती। ततस्तस्मात् कारणादुक्तानुभूत्यादि-
उध्यसनमेव युक्तम्। नचेदेवमभ्युपगम्यते तदोक्तत्रितयस्यानु- भूत्यादेवाधनं तद्विरोध इहापततीति योजना ॥ ३८ ।। नन्वेवमुक्तरीत्यात्मनि स्वानुभवमात्रसिद्धानाद्यनिर्वचनीयं पूर्वभ्रमसंस्कार सचिवमज्ञानमात्रं पुष्कलकारणमासाद्याहङ्काराघ- ध्याससम्भवेऽप्यात्मनोऽधिष्ठानत्वासम्भवात् कथम् उक्ताध्यास- सिद्धिरित्याक्षेपमुत्थाप्य परिहरति- सदशसांशपराग्विषयेषु चेदू भवति दोषवशाज्जगति भ्रमः ॥ भवतु तत सकलं वदितुं वयं तदुपचारवशाद दशि शक्नुमः ॥ ३९॥ सदृशसांशेति ॥ अथवा बहिरर्थेऽध्यासे सादृश्यदर्शना- त्तस्य जात्याद्यध्यासे व्यभिचारेऽपि द्रव्याध्यासे तदभावाद- हङ्कारस्य चाध्यस्यमानस्यान्त:करणात्मकस्य द्रव्यत्वात्तस्य च जडस्य िदात्मना सादृश्यासम्भवादध्यासानुपपत्तिः । तथा
64
Page 65
५२ अन्वयार्थप्रकाशिकाचिभूपिते
तत्र करणदोपः प्रमातृदोपश्च प्रसिद्ध: ॥ तावप्यत्र नसम्भवतः । प्रत्यगात्मनः करणागोचरत्वात् पमात्र- न्तराभावाच्च। तथा विषयतया गृह्यमाणसामान्यांशे अगृह्यमाण- विशेषांशेऽधिष्ठानेऽन्यस्याध्यासो हष्टः । इहात्मनो निरंशस्य स्व- यञ्ज्योतिपस्तदभावान्नाधिष्ठानत्वसंभव इत्याक्षेपमुत्थाप्य परि- हरति ॥ सदृशसांशेति ॥ जगति लोके परागर्थे यो भ्रमो भवति स सदृशसांशपराग्विषयेषु भवति। तथात्वस्यात्मन्यसंभवान्ना- त्राध्याससंभव इत्याक्षेपभागस्य पूर्वार्द्धस्यार्थः । भवतु तत्सकल- मुक्तपकारं सर्वमध्यासकारणमात्मन्यपि यतो वयं तदुक्तं सर्व- मुपचारवशाद् दृश्यात्मन्यपि वदितुं शक्नुमः संपादयितुं पारयाम इति परिहारभागस्यार्थः ॥ ३०॥ कथं तत्संपादनमित्यपेक्षायां भाष्यकारेरेव संपादनप्रकार- स्योक्तत्वान्नास्माभिस्तत्र यत्रः कार्य इत्यभिपेत्य भाष्यवचन- मुदाहरति- अपि च भाष्यकदेव तदव्रबीदू विपयताद्युपचारसमाश्रयात् ।। स्ववचसैव न तावदिति व्रुवन् सकलमात्मनि विभ्रमसिद्ये ॥ ४० ॥ अपिच भाष्यकृदेवेति ॥ यद्वा पत्यगात्मन्युपचारा- द्विषयतादिसंपादनप्रतिज्ञा तवापसिद्धान्तावहेतिचेद्, न हिन हि। भाष्यकारेरेव तथा प्रतिपादनादित्याह । अपिच भाष्यकृदेवे- ति। न तावद्यमेकान्तेनाविषयोSस्मत्पत्ययविषयत्वादित्यादि घ्रुवन् भाष्यक्रदेवोपचारसमाश्रयात्तद्विषयतादिसकलं स्ववचमै- वाऽव्रवीदिति योजना। किमर्थम्। आत्मनि पत्यगव्रह्मणि बहि-
65
Page 66
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ५३
रुपलब्धभ्रमानुरोधेन विभ्रमसिद्धय इत्यर्थः ॥ अयं भावः ।। अस्मत्पत्ययाभिमतं परिणाम्यन्तःकरणम्। तच्चात्मवत्स्वच्छं सूक्ष्मं देहाद्यपेक्षया प्रत्यक च भवतीत्यस्त्यस्यात्मना सादृश्यम्। केनाप्यंशेन हि मादृश्यं सर्वत्र मृग्यते, न सर्वात्मनेति स्थितिः । तदिहाप्येवं सुमंपादमिति नात्र सादृश्याभावः।तथात्मन एकरस- स्याप्यज्ञानसम्बन्धायत्तमगृह्यमाणविशेपांशं स्फुरमाणसामान्यांश- रूपमंशद्यमपि प्रत्यक्त्वव्रह्मत्वाद्यात्मकं सुसम्पादम् । निरंशस्य स्वयञ्ज्योतिपोऽप्यात्मनः स्वरूपेण भासमानस्यापि परिपूर्णपर- ्रह्मरूपेणानवभासात्, परनीचश् निर्विशेषतया निर्विकल्पस्यान्यत्र विशेषतोऽनवभासमानस्यापि स्फुटमन्तःकरणेऽवभासनात्तद्गता- भामाविवेकेन स्फुटाभिव्यक्तेरन्तःकरणनिमित्तत्वात्तत्र विपयव- द्वावाद्विपयत्वनप्यस्य सुसम्पादम् । नचाध्यासे सत्यन्तःकरण- मिद्धौ तत्रात्मनो विपयत्वसिद्धिस्तत्सिद्धावन्तःकरणस्य तत्रा- ध्याससिद्धिरित्यन्योन्याश्रय इति वाच्यम् । अध्यासप्वाहस्या- इनादित्वात् पूर्वपूर्वाध्याससिद्धविषयभावे चिदात्मन्युत्तरोत्तरा- ध्याससम्भवात्। एतेन करणदोपप्रमातृदोपावपि सम्भावितौ व्याख्याती । एवमात्मन्यनात्माध्यासेऽपि दोपसम्पयोगयोः सम्भवादुक्तांशदयवत्तया विषयत्वाधिष्ठानयोरपि सम्भवात् सं- स्कारस्य च पूर्वपूर्वभ्रमजन्यस्य सुलभत्वान्नासम्भावनेहाप्य- उध्यासस्येति॥ ४० ॥ विषयत्वादेरध्यासपयोजकत्वमभ्युपगम्य चेदमुक्तम् । व- स्तुतस्तु न तदपेक्षानियमोऽधिष्ठानारोप्ययोरेकज्ञानविषयत्वाभा-
त्तादात्म्यावभाससम्भवात् । तस्मादपरोक्षत्वमात्रमपरोक्षभ्रमा- Sधिष्ठानत्वेऽपेक्ष्यते । तच्च यत्र स्वत एव सम्भवति, तत्र न
66
Page 67
५४ अन्वयार्थप्रकाशिकाविभूषिते
- अपरोक्षरूप विषयभ्रमधी- रपरोक्षमास्पदमपेक्ष्य भवेत् ॥ मनसः स्त्रतो नयनतो यदि वा स्वपनभ्रमादिषु तथा प्रथितेः ॥ ४१ ॥ अपरोक्षरूपविषयभ्रमधीरिति॥। कथमपरोक्षत्वमास्पद- स्येत्येतदुपपाद्यति । मनस इति ॥ कचिन्मनोद्ृत्तिमात्रग्राह्- त्वेन कचित् स्वतः स्वपकाशत्वेन यदि वा क्वापि नयनादि- संप्रयोगवशनेति यथादर्शनं व्यवस्था। तत्र प्रत्यगात्मनः स्वतो- परोक्षतया न विषयत्वापेक्षेत्यर्थः। ननु स्वतोऽपरोक्षत्वमात्रेणा डध्यास: कुत्र दृष्ट ? इत्यत आह स्वपनभ्रमादिषु तथा प्रथते- रिति ॥ ४१ ॥ कथं रवमे स्वतोऽपरोक्षेऽपरोक्षविभ्रम इत्यपेक्षायामनुभव- माश्रित्य तदुपपादयति- स्वतोऽपरोक्षा चितिरत्र विभ्रम- स्तथापि रूपाकृतिरेत जायते ।। मनोनिमित्तं रवपने मुहुर्मुहु- र्वरिनापि चक्षुर्विषयं स्वमास्पदम् ॥ ४२ ॥ स्वतोऽपरोक्षाचितिरिति । अत्र सर्वजनप्रसिद्धे स्वपने चितिः पत्यकूस्ववरूपा संवित् स्व्रतोऽपरोक्षा । तथाहि । न ताव- दियमक्षगम्या तदाक्षाणासुपरमात्।नापि मनोगम्या। तस्य तत्म- काश्यस्य तत्प्रकाशकत्वानुपपत्तेः परिशेषात् स्वत एवापरोक्षेति।
67
Page 68
संक्षेपशारीरके प्रथमोऽध्यायः।१।
तथापि स्व्रत एवापरोक्षत्वेऽपि विषयतया परोक्षत्वाभावेऽपीति यावत्। रूपाकृतिरनेक विपयाकाराकारितो विभ्रमो मुहुर्मुहुर्जायत एवेति योजना।तत्र निमित्तमाह।। मनो निमित्तमिति ॥ मनोगता उद्बुद्धवासना निमित्तमित्यर्थः । तत्र वाह्यस्य विषयस्याभावा- द्वासनाश्रयमनःपरिणाममात्रत्वात् स्वपस्येति, न नस्य तदा विषयग्रहणकरणतया निमित्तत्वमिति भावः । तदेव स्पष्टयति ॥ विनापीति । चक्षुरविषयं बाह्यरूपादि स्वमास्पदमालम्वनं विना- ऽपि रूपाकृतिर्ज्जायत एवति सम्बन्धः। मुहुर्मुहुरिति वदन्नात्रानु- भवसिद्धेऽर्थे विप्रतिपत्याशङ्केति द्योनयति ॥ ४२ ॥ मनसः स्वतो नयनतो यदि वेत्यत्र स्वत इति भाग उदा- हरणमुक्तं प्रपश्चितम्। इदानीं मनसाऽपरोक्षीकते विषयेऽपि चाक्षुषभ्रमो दृष्ट इत्युदाहरति- मनोऽवगम्येऽप्यप रोक्षताबलात तथाम्बरे रूपमुपालिखन् भ्रमु: ॥ सितादिभेदैर्बहुधा समीक्ष्यत यथाक्षिगम्ये रजतादििभ्रमः ॥ ४३ ॥ मनोऽवगम्येऽपीति ॥ इदमत्राकूतम् । अस्ति ्याकाशे नीलं नभस्तलमलवदित्यादिचाक्षुपो भ्रमः सर्वजनीनः । तत्रा- काशस्य स्फुरणमन्तरेण तत्राध्यस्यमाननैल्यादिस्फुरणायोगात्त- त्स्फुरर्णं तावद्वक्तव्यम्। न हि परोक्षेऽधिष्ठानेऽपरोक्षभ्रम उप- पद्यते। एवं स्थिते, न नभसः स्वपकाशताऽस्ति येनात्मनीव स्वतःसिद्धेऽध्यासः स्यात् । जडत्वस्य तस्मिन् पमाणसिद्धत्वात्। नाऽपि चक्षुःस्पर्शनाभ्यां तत्सिद्धिः । नीरूपस्पर्शत्वात् परिशेषा- न्मनसैव तदध्यक्षताभ्युपेया । नच मनसो बहिरस्वातन्त्र्यात्तेन
68
Page 69
५६ अन्वयार्थप्रकाशिकाविभूषिते
वाह्याकाशग्रहानुपपत्तिरिति वाच्यम् । चक्षुर्द्वारा तस्य वहिर्ग- मनोपपत्तेः । सर्वत्र हि भ्रमेपु चिदात्मैवाऽज्ञातोऽिष्ठानमिति प्रतिष्ठापितम् । स च मनसो वहिर्न्न स्फुटं व्यज्यते । वहिरर्थे च
मनसाऽवगुण्ठ्यमाननभोऽ्वच्छिन्ने चिदात्मनि नैल्यादिभ्रम उप- पद्यत इति नभसो मनोग्राह्यत्वसिद्धिरिति। अनेन चोदाहरणेना- धिष्ठानस्यारोप्येण सहैकज्ञानविषयत्वयोग्यता नास्तीति सिद्ध्य- ति ।। तदेपाक्षरयोजना।।मनोऽवगम्येऽप्यम्बरे नभस्यपरोक्षता- बलाद् अपरोक्षचिदात्माभिव्यक्तिवलाद् रूपं नीलपीतादयुपो- लविखन्नवभासयन् भ्रमः सिनादिभेदेवहुधा बहुपकारस्तथा समीक्ष्यते यथाऽक्षगम्ये शुतादो रजतादिविभ्रम इति ॥४३॥
दन्यत्रात्मनि चांशाभावान्न तस्याध्यासाधिष्ठानतेति चोघं परि- हर्त्तमधिष्ठानत्वे अं वत्वमप्रयोजकं, किन्तु भासमानस्वरूपा-
ज्ञातेऽवि तावति ततोऽनतिरिक्तरूपे- डप्यज्ञानतः स्फुरणमस्फुरणं च दष्टम् ॥ दूरस्थयोर्ननु वनस्पतिवस्तुनोस्तद्- भेदो न दष्टिविषयोऽवगते च ते नः ॥। ४४ ॥ ज्ञातेऽपीति । ज्ञातेऽपि भासमानेऽपि वस्तुनि तत्रापि तावति। तावतीत्येतद्विणोति । ततोऽनतिरिक्तरूप इति ॥ शब्दान्तरवाच्यवेपेणा अतिरेकेऽपि वस्तुगत्याभासमानस्वरूपा- इनतिरिक्ते इति यावत्। तादृशे वस्तुन्यज्ञानतो दोपवशात् स्फुरण-
69
Page 70
संक्षेपशारीरके प्रथमोऽध्यायः।१।
मस्फुरणं च दृष्टम् । कुत्रेन्यपेक्षायामाह । दूरस्थयोरिति॥ वनस्पतिरूपयोर्वस्तुनोन्नैरन्तर्येण स्थितयोर्दूरस्थयोः परमार्थतो भिन्नयोरेकत्वाध्यासे स्फुरणमस्फुरणं च दष्टमित्यनुपङ्गः । एत- देवाभिनयेनाह तद्भेद इति । ते वनस्पतिवस्तुनी अवगते चा- ऽपि तन्देदो नोऽस्माकं न दृष्टिविपयो ननु। एतदविवादमित्य- डर्थः। तत्र विद्यमानो भेदो न गृह्यमाणवनस्पतिस्वरूपान्भिन्नोडन- वस्थादिदोपपसङ्गादिति भावः । तथाच यथा भासमानेऽपि वनस्पतिशब्दवाच्यवेपेण वृक्षस्वरूपे वस्तुगत्या तदनतिरिक्तोऽपि तभ्हेदो भासमानोऽपि भेदशब्दवाच्यवेपेण न भासते तथात्मादि- शब्दवाच्यवेपेण भासमानोऽपि चिदात्माहङ्गाराद्यध्यासकाले वस्तुतस्तदनतिरिक्ताद्यब्रह्मादिशब्दवाच्यवेपेण न भासते इति युक्तं चिदात्मनोऽप्यधिष्ठानत्वमित्यर्थः ।।४४ ।। ननु स्फुरदस्फुरद्ूपयोर्भेद एव, नाभेद:।यथेदमाकारशुत्या- कारयोः सामान्यविशेषयोरेकत्वायोगात्। भदस्यापि स्वरूप- रूपत्वे विप्रतिपत्तेरित्याशङ््य तादृशस्याज्ञातविशेपस्याधिष्ठानत्वं प्रत्यपयोजकत्वान्मैवमित्याह- यत्रापि दैवगतितोऽस्त्यतिरिक्तभावो रूपात् प्रतीतिविषयादितरत्र रूपे ।। तत्नाप्यबोधघटनां प्रति नाङ्गभाव- स्तस्यातिरिक्ततपुषोऽपुनरुक्तरूपात् ॥ ४५॥। यत्रापीति।। प्रतीतिविषयाद्रपादिदंशब्दवाच्याकारादित- रत्र रूपे शुक्तित्वादिशब्दवाच्याकारे यत्रापि दैवगतितः स्वभा- वत एवातिरिक्तभावो भिन्नत्वमस्ति तत्रापि तस्य विद्यमानस्या- डपुनरुक्तरूपादिदंशब्दवाच्याकाराढ् अनिरिक्तवपुप: शुक्तिशब्द-
70
Page 71
५८ अन्वयार्थप्रकाशिकाविभूषिते
वाच्याऽकारस्याबोघघटना प्रति नाङ्रभावोऽधिष्ठानस्याज्ञातत्व- संपादनेन विशेषणभाव इति योजना ॥ एतदुक्तं भवति ॥ इदमाकारेण भासमानस्य पुरोवर्तिवस्तुनो यद्यपि शुक्तित्वादि- रूपो विशेषो विद्यते, तथापि न तन्भ्रासमानाकारादर्थान्तरम् । तथा सत्युत्तरकाले इयं शुक्तिरिति पूर्वावभातेदंतात्मना न गृह्येत। तस्मादिदं रजतमिति रजतात्मना गृह्यमाणमेव वस्तु वस्तुगत्या शुतयात्मकमपि तथा नावभासत इति भासमानमेव न भासत इति युक्तं, न पुनरिदमिति भासमानमन्यदज्ञायमानं शुक्तित्वधर्मकमन्यदिति प्रमाणमस्ति। अत्यन्तभेदे गवाश्ववत् सामान्यविशेषभावायोगात् । अभेदेऽपि केनापि निमित्तभेदेन तन्जेदकल्पनया व्यवहारोपपत्तेरिति॥ ४५॥ उक्तमेवार्थ विशदयति- शुक्तीदमंशात् पृथगप्रतीता त्रिकोणता स्यान्ननु वस्तुवृत्त्या ।। तथापि तत्स्थं न पृथक्त्वमिष्टं तदप्रबुद्धत्वनिमित्तभूतम् ॥ ४६ ॥ शुक्तीदमंशादिति ॥ इदं रजतमित्यवभासकाले या पुरोवर्तिनि त्रिकोणता। उपलक्षणमेतत् कालपृष्ठत्वादेरपि । अपतीता अप्रतीयमाना वर्त्तते साऽवभासमानाच्छुक्तीदमंशाद्वस्तु- ृच्या न पृथक स्यात्। तथापि तत्स्थममिदमित्यवभासमानाकार- गतं शब्दान्तरवाच्यवेषेण यत्पृथक्त्वं तदपबुद्धत्वनिमित्तभूतं नेष्टम्। अज्ञानावच्छेदकतया गरृह्यमाणात् पृथगर्थत्वं तस्य नेष्टमित्यर्थः ॥ ४६ ॥ कुन एतदित्यपेक्षायां मागुक्तव्यभिचारादित्याह-
71
Page 72
संक्षेपशारीरके प्रथमोऽध्यायः।१ ६९
यतः प्रपश्यन्नपि भेदिन: स्वं वनस्पते रूपमभिन्नमस्मात् ।। न भेदमस्य प्रतिषद्यतेऽक्ष्णा वनस्पतेः पारश्वगतात् परस्मात् ॥ ४७ ॥। यतः प्रपशयन्नपीति ॥ अस्मात् प्रतियोगिभूताद्वनस्पते- स्तदपेक्षया भेदिनो धर्मिण: स्वं स्वभूतं भेदमभिन्नमपि पश्यन्नपि पुमानस्य भेदिन: पाशर्वगतात् परस्माद्वनस्पतर्भेदमक्ष्णा न प्रति- पद्यत इति योजना। एकस्य भेदिनइतरस्मान्वेदं वस्तुस्वरूपभूत- मेवाक्ष्णा पश्यन्निदमस्मान्व्भिन्नमित्येवमाकारेण तदेव न पश्यती- त्येतदनुभवसिद्धमतः प्रतीयमानाकारादप्रतीयमानाकारस्य पर- मार्थतोऽन्यत्वकल्पनमयुक्तमित्यर्थः । भेदस्य वस्तुस्वरूपत्वं तद्धर्मत्वं वा नास्माकं संमतं, किन्तु वस्तुस्वरूपातिरिक्तो भेद: पामाणिको नास्तीति। तथा चोत्तरत्र निरूपयिष्यते। अतो नात्र कोऽपि दोप इति भावः।।४७।। ज्ञातादनतिरिक्तरपस्यैवाज्ञातत्वमित्यत्र सर्वसंमतमुदाहरण- माह- सप्रत्यभिज्ञनयनोत्थधियो घटादे: स्व्राभातिकात् स्वतपुषोऽनतिरिक्तरूप: । स्थेमाSप्रबोधविषयो विषयत्त्रमेती- त्यङ्गीकृतं ननु मितेऽषि घटादिकेये ॥ ४८ ॥ सप्रत्यभिज्ञेति । पत्यभिज्ञेति तत्कारणमुद्दुद्धसंस्कारो- ऽभिधीयते। प्रत्यभज्ञाश्दितोद्ुद्धतत्तांशसंस्कारसहितनयन- संप्रयोगोत्थाया धियो घटादेः स्थेमा स्थैय घटादिकेडर्थे मिते-
72
Page 73
अन्वयार्थप्रकाशिकाविभूषित
ड्यभिज्ञापत्यक्षेणावगतेऽप्यपबोधविषयः सन् विषयत्वमेतीत्य ङ्गीकृतं ननु सर्वैरिति योजना । कथम्भूतः स्थेमा स्वाभाविका- दुत्पत्तितिद्धात् स्वपुपो घटादिस्वरूपादनतिरिक्तरूपोऽभिन्नरूप इत्यर्थः। न हि स्थेमा नाम वस्तुनो गुणक्रियादिरूपो धर्मः को- ऽपि प्रसिद्धोऽस्ति, किन्तु वस्तुस्वरूपमेवानेककालसंबन्धनिमित्त- वशात् स्थेमेत्युच्यते। एवंविधोऽप्ययं घट इति प्रत्यक्षेणाभिज्ञा- लक्षणेन गृद्यमाणेऽपि घटे तत्स्वभावभूतोऽपि स्थेमा न भासते, सोडयं घट इति प्रत्यभिज्ञापत्यक्षेण तु भासत इत्येकस्येवानं- शस्याज्ञानादभानं भानं चानुभूयत एवेति नानुपपत्तिरिहे- ति भावः ।। ४८ ।। इदानीमुक्तटष्टान्तसिद्धमर्थ दार्टान्तिके योजयन प्रत्यक- चतन्यमात्रेण स्फुरत्यप्यात्मनि नित्यमुक्तब्रह्मस्वरूपेणास्फुरणाद् अंशकल्पनां विनाऽप्यध्याससिद्धिरिति दर्शयति- एवं स्फुरत्यवि द्ृगात्मनि तत्स्वरूपे- णास्फूर्तिभाजि परिकल्पिततोपन्ना । स्वाज्ञानतो जगदिदं परमेश्वरोऽसी जीवोऽहमित्यवि विभागवतोऽल्कस्य ॥ ४९ ॥ एवं स्फरत्यपीति ॥ एवमुक्तटष्टान्तानुसारेण दृगात्मनि परत्यगूरूपे त्वमर्थे स्फुरत्यपि तत्स्वरूपेण तदर्थाऽद्वयानन्दब्रह्म- पेणास्फृर्त्तिभाजि स्फुरणरहिते जगदिदमसा परमेश्वरोऽहं जीव इति विभागवतोSल्पकस्य परिच्छिन्नस्य प्रपश्चस्य स्वाज्ञानतः परिकल्पिततोपपन्नेति योजना । ४०. ॥ एवं जगदादिभेदस्यात्मन्यविद्यया कल्पितत्वप्रतिपादनेन किमुक्तं भवतीतिचेत्तदाह-
73
Page 74
संक्षेपशारीरके प्रथमोऽध्यायः।१।
अल्पं रूपं बन्धनं प्रत्यगात्मा बद्धोडनेन स्व्च्छचैतन्यमूर्तति: । स्वात्माज्ञानं कारणं बन्धनेऽस्य स्व्रात्मज्ञानात्तन्निवृत्तिश्र मुक्ति: ॥ ५० ॥ अल्पं रूपमिति।।यदल्पं परिच्छिन्नमात्मनः प्रमातृत्वादि- रूपं तद्रन्धनं बन्धोऽविद्याकृतः । अनेन वन्धनेन स्वभावतः स्व्च्छचैतन्यमृत्तिरपि प्रत्यगात्मा वद्धो निगडितः । एवं सतीदं फलितमित्याह ।। स्व्रान्माज्ञानं कारणमिति॥ स्पष्टार्थः । परमार्थ- त्वे बन्धस्य ज्ञाननिवर्त्यत्वामंभवान्निर्विकारे कूटस्थान्मनि क्रिया-
डध्यस्तत्वं सिद्धमिनि भावः ॥ ८० ।। तदेवमाच्छाद विक्षिपतीत्यारभ्येयता, ग्रन्थेनात्मनि दृष्ट-
त्वान्मिथ्यात्वे सिद्धे जीवब्रह्मणोः पारमार्थिकमेकत्वं तत्माक्षा- त्कारेण च तदविद्यानिवृत्तिपरमानन्दत्वरूपाभिव्यक्तिश्च विभा- व्यत एवेति शास्त्रादे: भिद्धे विपयप्रयोजने इति प्रतिपादितम् । इदानीमुक्ताज्ञाननिबन्धनत्वं बन्धस्य तदोपपद्यते यद्यात्मन्यज्ञानं संभाव्येत। न तु तत् तत्र सम्भाव्यते। स्व्रभावविरोधादिति ये मन्यन्ते तान् प्रतिबोधयँश्चिदात्म्यन्यज्ञानं कथश्चिद् घटयति- अज्ञानमप्यविदुषोऽस्य न तु स्त्रतोऽरित
अज्ञानताप्यनत बोध निबन्धनैव मात्माश्रयत्वमपि चोदयितव्यमत्र ॥ ५१॥
74
Page 75
६२ अन्वयार्थप्रकाशिकाविभूषिते
अज्ञानमपीति ॥ अयमर्थः ॥ किमज्ञानं परमार्थतशविदा- SSत्मनि न संभवतीत्युच्यते, किंवा प्रतिभासतोऽपीति विकल्प्या- डडद्यमङ्गीकरोत्य ज्ञानमिति पूर्वार्द्धेन । अपिशब्दो बन्धटष्टान्तार्थः । बन्धवदज्ञानमप्यस्यात्मनो विदुपोऽज्ञानित्वेन भासमानस्य स्वतः परमार्थतो न त्वस्ति। तत्र स्वभावविरोधं हेतुमाह ।। चैतन्येति॥ जडस्याज्ञानस्य चैतन्येन स्वभावती विरोधः । तथा सविकार- निर्विकारत्वाभ्यां धर्मतोऽपि विरोधः। तथाकार्यकारणादि- रूपेण सद्वयमज्ञानमद्वयञ्चात्मेति व्यवहारतोऽषि विरोधः। ततो विरोधान्ाज्ञानमात्मनि परमार्थमभ्युपगम्यत इत्यर्थः । द्वितीयं निराकरोति । अज्ञानताऽप्यनववोधनिबन्धनैवेनि॥ आत्मन्य- डज्ञानसम्बन्धोऽप्यज्ञाननिर्वत्त इत्यर्थः । एवं सत्यज्ञानसम्बन्धाद- जज्ञानसम्बन्ध इत्यात्माश्रयत्वापत्तिरितिचद्, नोच्चैर्वाच्यमित्या- ह।।नात्माश्रयत्वमिति॥अज्ञानसम्बन्धस्य दुर्वचत्वात् सर्वप्रमाण-
उज्ञानसम्बन्धो, नोऽपि नास्तीति वक्तुं शक्य इत्यतो नोक्त- दोपोऽय्ावतरति। परमार्थत्वपक्षे ह्यात्माश्रयत्वादितक्कविरोध इति भावः ॥ ५१ ॥ नन्वेवं विनेये बोधितेऽपि करथ व्युत्थितोडनेन बोध्येत । स खलु मानयुक्ती विना नार्थमववोद्धुं क्षमते इनिचेत्, सत्यम् । नाडसौ बिना मानं न बुद्ध्यते। यदि मानगम्यं भवेन्नेदं तथा।। नथाप्यनुभवसिद्धस्याप्यज्ञानस्य प्रमाणयुक्तिभ्यां सिद्धिपकारो वक्तव्यो विना प्रमाणयुक्ती इदमज्ञानमात्मन्यज्ञाननिवन्धनमेव, न परमार्थमितिसम्भावनावुद्ध्यनुदयादिनिचेत् तर्हि, ते अप्यत्र सु- सम्पादे इत्यभिपेत्य प्रमाणं तावदाह- द्वारं तमोऽन्वयमपेक्ष्य दशा हि दृश्यं
75
Page 76
संक्षेपशारीरके प्रथमोऽध्यायः।१। ६३
सङ्गच्छते सकलमत्र न नो विवाद: ।। मोहोवि दृश्यवपुरत्र च संवदध्वे तस्मात्तदन्वयनिमित्तमपीह मोहः ॥ ५२॥ द्वारं तमोऽन्वयमिति॥ सकलं दृश्यं वाह्यमाभ्यन्तरं च यदस्ति तत्सर्व तमोऽन्वयमज्ञानसम्बन्धमपेक्ष्य हि दशा चैतन्या- SSत्मना सङ्गचछते। दर्शनविषयतया सम्बध्धयते इत्यत्र नोऽस्माकं न विवाद इत्यक्षरयोजना। इदमॉपनिपदं दर्शनं विनाऽज्ञानं दशो न दृश्यमम्बन्धीऽस्तीति सर्वस्य दृशयध्यस्ततयैव सिद्धे- रध्यासस्य च विनाऽज्ञानमसम्भवादिति भावः।एनावता व्याप्ति- रुक्ता। इदानीं हेतोः पक्षधर्मतां दर्शयन्ननुमानमाह । मोहो- जपीति ॥ संवद्ध्व इत्यन्तं पक्षधर्मतापदर्शनपरम्। मोहस्यापि दृश्यरूपत्वे न विवाद इत्यर्थः । तस्मादित्यनुमानमुक्तम् । तथाच पयोगः । आत्मन्ययमवभासमानो मोहसम्बन्धो मोहायत्तो, दृश्यत्वान्मोहकार्यपपञ्चवदिति । न च मोहान्यत्वमुपाधिस्तस्य साधनव्यापकत्वान्मोहसम्बन्धस्यापि दृश्यस्य मोहान्यत्वात्। एव- मप्यात्माश्रयत्वदोपपरिहाराय मोहान्तरनिबन्धनत्वमेव कस्मान्न कल्प्यत इति न वाच्यम्। गौरवापत्तेरनवस्थाप्रसङ्गाच्च। तस्मात् परपरिकल्पितविशेषंसमवायादिवन्मोहोऽपि स्वपरनिर्वाहक: संभाव्यते एवेति भावः ।। ५२।। इदानीमत्र युक्ति संवित्स्वपकाशत्ववादिमतेनाह- संविदधुरं वहति तद्विषयोपयुक्तां स्व्रात्मन्यपि स्त्ररसतः स्वकरूपससिद्धे: ।। कार्यप्रपञ्चपरिकल्पनमात्ममोहाद
76
Page 77
६४ अन्वयार्थप्रकाशिकाविभूपिते
मोहप्रकल्पनमपीति तथोपपन्नम् ॥ ५३ ॥ संविद् धुरं वहतीति॥यथा संवित् संवेदनं तद्विपयोप- युक्तां स्व्रविषयव्यवहारोपयोगिनीं धुरं भारं तव्ववहारनिर्वहण- शक्ति वहति धत्ते। स्वात्मन्यपि संविद्विपये स्वकरूपसिद्धेः स्व- व्यवहारसिद्ध्यर्थ स्वरसतः स्वभावादेव तां धुरं वहति। यथेदं परेपामुपपन्नमिष्टं गत्यन्तराभावात्तथाऽस्माकमपि आत्मनि कार्य- प्रपञ्चपरिकल्पनं मोहपकल्पनमप्यात्ममोहादेवेत्युपपन्नमेव, नानु- पपन्नमिति योजना। संविदः परमार्थभूनाया: परमार्थत एव स्व- परव्यवहारनिर्वाहकसामर्थ्य चेदुपपन्नं मन्यसे तदा सर्वप्रमाणा- डसहस्यानुभवमात्रसिद्धनयाऽनपोद्यस्य मोहस्य यथादए्टं स्वपर- व्यवहारनिर्वाहसामर्थ्यमनुपपन्नं कस्मान्मन्यसे । मोहे सर्वानु- पपत्तेरलङ्गारत्वादिति भावः ।५३।। येपां संविद: स्वप्रकाशत्वं नेष्टं तेषां संमतमृदाहरणमाह आत्मा प्रसाधयति वेद्यपदार्थजातं स्वात्मानमप्यवगतिक्षमशक्तियोगातू ।।
शक्तं भवेदिति न किञ्च न दौस्थ्यमस्ति ॥५४॥ आत्मा प्रसाधयतीति ॥ आत्मा प्रमाता जीवः । स
जातं प्रसाधयति स्वगतावगमेन व्याप्नुवन् परिच्छिनतत्ति। स्वा- त्मानमपि तेनैव शक्तियोगेन ज्ञात्रन्तरनिरपेक्षः सन् प्रसाधयति। अन्यथाऽनवस्थापसङ्गादित्यर्थः । एवमिदमनुभत्रसिद्धं स्वाज्ञानं चिदात्माश्रयविषयमात्मपरपक्ृत्तौ चिदात्मन्यज्ञानतत्कार्यसम्व
77
Page 78
संक्षेपशारीरके प्रथमोऽध्यायः।१ ६५
न्धकल्पनायां शक्तं भवेदित्यङ्गीकारे न किमपि दास्थ्यं विद्यत इत्यर्थः ॥ ५४ ॥ पुनरपि परेपां बहुसंमतं दृष्टान्तमाह -- भेदं च भेदयं च भिनत्ति भेदो यथैव भेदान्तरमन्तरेण ।। मोहं च कार्य च विभर्ति मोह- स्तथैव मोहान्तरमन्तरेण ॥ ५५ ॥ अदश्चेति॥ यथा भेदो घटपटादिनिष्ठः स्वाश्रयं भेघयं मिथो भिन्दन् भेदं स्वात्मानं भेद्यं च स्वाश्रयमपि भेदान्तरम- न्तरेण स्वव्यतिरिक्तं भेदं विना स्वयमेव भिनत्तीत्यविवादमेवा- न्यथात्राप्यनवस्थाया दुप्परिहरत्वादित्यर्थः । मोहं च कार्य चे- त्युत्तरार्द्धयोजना सुगमा।एतदुक्तं भवति॥ अज्ञानं ह्यवभासमान- माश्रयविषयपारतन्त्रयेणावभासत इति स्वयं स्वव्यवहारे तदपेक्षं भवतीत्यात्मसंसर्गितयेव भासते । आत्मा तु स्वसत्तास्फूर्त्योर्निर- Sपेक्षोऽज्ञानानपेक्ष एवावभासते इति स्थितौ सर्वदा संसर्गिण- मात्मानं स्वसत्तास्फूत्तिपदतयाऽज्ञानं स्वयमेवाश्रयते। यथा निरऽवयवत्वेन स्वतोऽसंसर्गिणमाकाशं घटादयोऽवकाशसंसर्ग- मन्तरेणात्मानमलभमाना: स्वयमेवाकाशेन संसज्यन्ते तद्वदि- ति । ५५॥ तदेवं मातृत्वादिबन्धस्यात्मतत्वानवभासानाद्यनिर्वचनीया- Sविद्याविलासमात्रत्वप्रतिपादनेन युष्मदस्मत्पत्यगोचरयोरित्या- दिना भाष्येण संग्रहविवरणाभ्यां निरूपितं बन्धमिथ्यात्वमिह युत्तया प्रतिष्ठापितम्। तेनैव शास्त्रादेविषयपयोजनवत्वं चोपपादि- तम्। यद्येवं शास्त्रारम्भकर्त्तव्यतौपयिकतयाSSदावेव विषय-
78
Page 79
६६ अन्षयार्थप्रकाशिकाषिभूषिते
प्रयोजने वक्तव्ये, तदर्थश्चाध्यासो वर्णनीयस्तदा भाष्यस्य सूत्रा- नुसारित्वनियमात् सूत्रकारेणानुक्तमेतत् सर्व कथ भाष्यकारो वर्णयति स्मेत्याशक्ा सूत्रकारेणाप्युक्तत्वानात्र शङ्कावसर इत्य- डभिप्रेत्योक्ते भाष्यार्थे सूत्रव्यापारं दर्शयति- ब्रह्मज्ञानं सत्रयन् सूत्रकारो बन्धोत्पत्तेर्हेतुविध्वंसनाय ।। एतत्सर्व सुचयामास तस्मा- देतत्सर्व भाषते भाष्यकारः ॥ ५६ ॥ ब्रह्मज्ञानमिति । अथाऽतो ब्रह्मजिज्ञासेति प्रथममूत्रे ब्रह्मजिज्ञासापदेनाथशब्दमूचिताधिकारिविशेषणमोक्षसाधनं ब्रह्म- .ज्ञानमित्यर्थात् सूत्रकारेण सूत्रितम्। यतो ब्रह्मज्ञानाय विचार- कर्त्तव्यत्वप्रतिज्ञा तस्य फलतत्साधनत्वयोरन्यतरत्वाभावेन युक्ता
त्वमर्थात् सूत्रितमेवेोंते प्रयोजनं तावत् सूत्रितम्। तच्चािकारि- विशेषणमोक्षाखयं बन्धनिवृत्तिरूपम्। स यदि बन्धः परमार्थभूतः स्यात्तदा न ज्ञानेन निवर्हणाहो भवेत्। यतो ज्ञानमज्ञानस्यैव निवर्सकं, न परमार्थस्यातो ज्ञानेन बन्धनिवृति सूचयता तस्य मिथ्यात्वमपि सोपपत्तिकं सूचितमेवेति गम्यते।यन्निरूपणमन्तरेण सूत्रार्थो न निरूपितः स्यात्तत्सर्व मूत्रसूचितमेव सूत्रेषु सूचनस्या- उल्कारत्वादिति । तस्मात् मूत्रस्चित्स्येवार्थस्य ् भाष्यकारेण प्रतिपादनावास्य सूत्रासंगतिशङ्गावकाश इति तात्पर्यार्थः । अक्षरार्थः सुबोधः। एवं सूत्रभाष्यैकवाक्यतानिरूपणेनास्य ग्रन्थ- स्य वार्ततिकत्वमपि ध्वनितम् ॥ ५६ ॥ यस्मादेवं सूत्रभाष्यकाराभ्यां शास्त्रीयविषयपयोजनसिद्धये
79
Page 80
संक्षेपशारीरके प्रथमोऽध्यायः।१। ६७
बन्धमिथ्यात्वमुपपादितं तस्मादयुक्तमेवास्माभिरिहादी तनिरूपणं कृतमित्युपसंहरति- तस्मादध्यस्तमेतत्सेंकलमपि दशो भूमरूपातिरिक्तं रूपं स्वाज्ञानामात्रादिति भवति परव्रह्मधीबाध्यमेतत् ।। ईशित्रादि प्र भे द प्रतिह ति फल क ज्ञानदौस्थ्यापनुत्त्यै श्रीमच्छारीरकार्थप्रकटनपटुत्ताशालि शास्त्रं विदष्मः ॥५७।। तस्मादध्यस्तमेतदिति।।यस्मादेवं तस्माद् दृशश्चिदात्मनो यद् भूमरूपं ब्रह्मरूपं तदतिरिक्तं सकलमप्येतत्परिच्छेदविषय- त्वादिरूपेणावभासमानरूपं स्वाज्ञानमात्रादध्यस्तमिति कृत्वा पर- ब्रह्मधीबाध्यमेवैतन्भवति। अतो भेदविपर्यासयोरात्मननि परमा-
वाच्छास्त्रमारम्भणीयमेतद् इत्याह ।। ईशिज्ादीति ॥ ईश्वरो जींवो जगदिति च यः प्रभेदो द्वैतावभासलक्षणस्तस्य प्रतिहति- र्वाधरूपा निषृटत्तिः । तदेव फलं पयोजनं यस्य तच्व तज्ज्ञानं चेति तथा। तस्य यद्दौथ्यमसम्भावनाद्यास्कन्दितत्वेन स्वविषय एव नैश्चल्याभावस्तस्यापनुच्यै निरामाय श्रीमच्छारीरकार्थ- प्रकटनपटुतया शालि शोभमानं शास्त्रं शास्त्रार्थसङ्गहपधानं ग्रन्थं विदध्म: कुर्महे इति योजना । यद्यप्यस्य ग्रन्थस्य प्रकरणत्वं पूर्वमुक्तं, तथापि मोक्षपुरुषार्थसम्बद्धप्रमेयज्ञानस्याप्यत्र सक्षेप- विस्तराभ्यां प्रतिपादनाच्छास्त्रलक्षणमप्यस्तीति मदर्शनाय शासत्रं विदध्म इत्युक्तमिति द्रष्टव्यम् । एवमपि सूत्रभाष्यपरतन्त्रत्वा- द्विचारशरीरस्य सर्वस्येह साक्षादपतिपादनादिदं प्रकरणं च पागुक्तरीत्या सूत्रभाष्योक्तानुक्तादिविचारपरत्वाद्वार्ततिक चेद- मिति भाव: ॥। ५७।।
80
Page 81
अन्वयार्थप्रकाशिकाविभूपिते
ननु यद्यपि प्रत्यगात्मनि भेदविपर्यासयारुक्तन्यायेन मिथ्यात्वात् पारमार्थिकं तदद्वयं विषयस्तज्ज्ञानाव तद्गताज्ञान- बन्धहानि: प्रयोजनं स्यादिति सम्भाव्यते, तथाप्युक्तविषय- प्रयोजने न सकते इव प्रतिभातः । तथा है। वाक्यविचारात्मकं
परम्। तत्र चानन्यलभ्यः शब्दार्थ इति न्यायादुक्तविषयस्य वेदान्तैकगम्यता वक्तव्या । साऽत्र विचार्यमाणा न लभ्यते। सफलस्य विषयस्य अन्यतः सिद्धौ विचारवैयर्थ्यादसिद्धौ च विषयाऽसिद्धोनिर्विषयविचाराऽनुत्थानात्। नच वेदान्तेभ्य आपातपतिपन्नस्य विषयस्य फलस्य च विशेषतो निर्णयफलो विचारो भविष्यतीति वाच्यम् । विकल्पासहत्वात् । किं पदा- त्मतीतिरापातप्तिपत्तिरुत वाक्यात् । नाद्यः। मानान्तरागोचर- स्य ब्रह्मात्मनः सङ्गततिग्रहासम्भवात् पदात् प्रतीत्यनुपपत्तेः । न द्वितीयः । अनवगतसङ्गतिकपदकदम्वरूपाद्वाक्यात् संसष्टार्था- डवगमायोगात् । 'मानान्तरप्रवेशे च तत्र शब्दस्यानुवादकतया पामाण्यायोगादिति केचित् पत्यवतिष्ठन्ते। तान् प्रत्याह- मीमांसितव्यमनयैत सददवितीयं मीमास्यमेव च सदात्मतयानयैतत् ।। ज्ञातं प्रयोजनमनेन यथेयमस्या- स्तन्नान्तरीयकतया च तमोनिवृत्तिः ॥५८॥। मीमांसितव्यमिति । अद्वितीयं सदयत्सच्छब्दनिर्दिष्टं वेदान्तेषु तदनयैव मीमांसया मीमांसितव्यम् । अथातो ब्रह्म- जिज्ञासेत्यादिसूत्रसन्दर्भरूपेणैव विचारशास्त्रेण विचारणीय- मित्यक्षरार्थः ॥ अयं भावः ॥ न चात्यन्तापसिद्धिर्विषयस्या-
81
Page 82
संक्षेपशारीरके प्रथमोऽध्यायः।१। ६९
डभ्युपगम्यते येन विचारस्य निर्विषयनयाऽनुत्थानशङ्का । नाऽपि यथावननिश्चितरूपा तत्पसिद्धिर्येन विचारवैयर्थ्य स्यात् । किन्तु वेदान्तेभ्य आपातपतिपन्ने वाक्यार्थे तस्य प्रतीयमानब्रह्मात्मैक- त्वादन्यत्र पदत्तिशङ्गावारणेन तदकप्तिष्ठत्वनिश्रयाय विचार आरभ्यत इति न विचारवैयर्थ्यादिशङ्गावकाशः । न च पदा- द्ाक्याद्ा तत्पतीतिरिति विकल्पावसरः । पदार्थस्य लोकसिद्ध- त्वात्। लोके हि सच्छब्दः सन्मात्रविषयोऽस्त्यादिशब्दैर्व्य- वहियते। तथाऽद्वितीयादिशब्दश्च द्विनीयाभावे एकस्मिन् वस्तु- न्यवगतसामर्थ्यः । तथा ब्रह्मशब्दोऽपि सङ्गोचकाभावान्निरव- ग्रहाद्वस्तुनि स्वसामर्थ्यादेव व्युत्पन्न इति नाव्युत्पत्तिशङ्कापि। अतो नात्र दोपः कोऽपीति। अनयैवाद्विनीयं सन्मीमांसितव्य- मिति वदता यथोक्तविषयस्यानन्यसाधारणत्वमुक्तम् । न ह्य- ड्द्वितीयात्मवस्तु लोकप्रमाणत्वाभिमतात् प्रत्यक्षादेः सिद्धम् । तथा सति वादिविवादादर्शनपसङ्गात्। नाऽपि शास्त्रान्तरात्त- त्सिद्धिः । तस्य सर्वस्य भेदतत्वपरत्वात् । आत्मन औपनिषद- त्वविशेषणश्रवणाच्। तस्मादनयैव मीमांसयोक्तार्थो ज्ञेय इति॥ ननु यद्यपि व्रह्मोपनिषदेकवेद्यमुपनिषदश्चास्मिन्नेव शास्त्रे विचार्यन्त इति व्रह्मास्य विषयस्तथापि तस्यात्मैक्यं न श्रुतिवि- चारशास्त्रविषयः,आत्मनस्ततोऽन्यत्वादित्याशङ्का न कार्येत्याह।। मीमांस्यमेवेति । अनया मीमांसया तत्सद्वह्मात्मतयैव प्रत्यगेक- रसतयैव मीमांस्यमित्यन्वयः।सर्वश्रुतिष्वयमात्मा ब्रह्मेत्येवंरूपेणै- व ब्रह्मण उपदेशदर्शनात्तटस्थब्रह्मवेदनस्य चात्मनि दृष्टसंसार- निराससाधनत्वासंभवादानर्थक्यापत्तेर्मेदस्य च उपाधिभेदम- न्तरेण स्वभावतो निरूपयितुमशक्यत्वाच्च नपतीचो भेदेन ब्रह्म- दर्शनमुपपद्यते/अत एव सर्वश्रुतिषु तत्वमसीत्यादिवाक्यगतपद-
82
Page 83
७0 अन्वयार्थप्रकाशिकाविभूपिते
सामानाधिकरण्यविषयशोधनाय विचारशास्त्रारम्भ इति भावः। यदुक्त्तं प्रयोजनमप्यत्र न संभाव्यत इति । तत्राह ।। ज्ञातमिति ॥ अनेन यथायथोक्ेन प्रत्यगेकरसत्वलक्षणेनेदं सदादिशब्दनिर्ददिष्टं ब्रह्म ज्ञातं सत् प्रयोजनं परमानन्दरूपत्वात् । ब्रह्म वेद ब्रह्मैव भवतीति ब्रह्मवेदनस्य ब्रह्मभवनफलश्रवणादज्ञातं ब्रह्म प्रत्यक्- तत्वं विषयीकृत्य प्रटृत्तविचारद्वारकवेदान्तवाक्यजन्यज्ञानस्य ज्ञातं तदेव प्रयोजनं, नान्यत् साध्यरूपमित्यर्थः । ननु तमोनि- दृत्तेः साध्यत्वात् सव संसारनिदाननिवृत्तित्वेनाभिलाषगोचर- त्वाच्च फलमित्याशड्ाह ।। तन्नान्तरीयकतया चेति ॥ तमोनि- वत्तिश्च न ज्ञानव्यापारसाध्या, किन्तु तन्नान्तरीयकतया तत्त्व- ज्ञानोदयमात्रेण विरोधात् स्वयमेवाज्ञानं तमो निवर्नते। अतो न यत्नसाध्यता तस्याः । तमोनिव्ृत्तेश्वारोपितनिव्ृत्तित्वादधिष्ठाना- Sडत्ममात्रत्वान्न पृथकफलत्वमित्यर्थः ॥५८॥ यद्यप्येवं शक्यप्रतिपाद्यत्वादनन्यसाधारणत्वाच्च ब्रह्म वि- चारविषयः स्यात्तवेव च ज्ञानं सन्निरतिशयानन्दरूपत्वात् पयो- जनं तत्साक्षात्कारज्ञाननान्तरीकनया च तद्गततमोनिट्टत्तिश्च प- योजनं भवतीति विचारशासत्रस्योक्तविपयपयोजनाभ्यां तद्वत्व- सिद्धिस्तथापि पूर्वमीमांसयेव समस्तवेदार्थविचारस्य कृतत्वात् पृथग्विचारो नारब्धव्यो, वाक्यार्थनिर्णयाऽपेक्षितस्य सर्वस्य न्यायस्य तत्र गतत्वादितिचेन्नेत्याह-
न च गतार्थमिदं प्रतिभाति नो न हि विधेः पदमात्मसमीक्षणम् ॥ न खलु यागददातिजुहोतिवत् पुरुषतन्त्रमिहात्मनिदर्शनम ॥ ५९ ॥
83
Page 84
संक्षेपशारीरके प्रथमोऽध्यायः।१। ७१
न च गतार्थमिदमिति ॥ नोऽस्माकमिदं वेदान्तविचार- शास्त्रं गतार्भमन्यतो निर्द्टत्तार्थ न प्रतिभाति । तत्र वेदान्त- वाक्यानामेकदेशस्याप्युदाहरणादर्शनाद्, अथातो धर्मजिज्ञासेति पतिज्ञासूत्रे धर्मस्यैव यागादिलक्षणस्य विचार्यत्वेन प्रतिज्ञातत्वा- धोदनासूत्रे च तस्यैव लक्षणप्रमाणयोरुपन्यासादुत्तरमूत्रेष्वपि प्रतिलक्षणं च तद्विचारेणैव शास्त्रसमाप्तिदर्शनान्न पूर्वमीमांमावि- चारेणस्य गतार्थतेति चकारारथः। ननु विध्यपे्षितविचारस्य सर्व- स्यापि तत्र कृतत्वाद्विधिर हितवाक्यानां चार्थवादादीनां विध्येक- वाक्यतया फलवदर्थाववोधकत्वपकारप्द्र्शनेन विधिशेषत्वेन पामाण्यनिर्यन्यायस्यापि तत्र गतत्वाद् वेदान्तविज्ञानस्याऽपि विधिविषयत्वाद्विध्यपेक्षितार्थसमर्पकत्वेन तच्छेपत्वाद्रा प्राग्वि- चारेण विचारितत्वोपपत्तेरन्न पृथग्विचाराहमिदमितिचेत्तत्राह ।। न हि विधेः पदमात्मसमीक्षणमिति॥ आत्मसमीक्षणं वेदान्त- वाक्योत्थं पत्यगेकरसव्रह्मज्ञानं न विधेः पद विर्षयः, साक्षाद्वा परम्परया वा न विधियोग्य इत्यर्थः । तत्र सौक्षाद्विधिविषयत्वा- भावे हेतुमाह ।। न खल्विति॥ यागदानहोमवदिह वेदान्तेषु यथोक्तात्मनि दर्शनं जायमानं न खलु पुरुपतन्त्रं पुंपयत्ननिष्पाद्य- म्। तस्य तत्वज्ञानत्वेन पमाणवस्तुतन्त्रत्वादग्नावग्नित्वज्ञानवत्। अपुरुषतन्त्रस्य चाविधेयत्वादित्यर्थः । इहात्मनीति सामाना- धिकरण्यं वा। आत्मनि ब्रह्मत्वदर्शनमित्यर्थः । नाप्यर्थवादादि- न्यायेनान्यविधिशेषतास्यास्ति। अनारभ्याधीतत्वात् स्वार्थे फलराहित्याभावाच्चेति भावः ॥ ५९।। न केवलं पुरुषतन्त्राभावादेव ब्रह्मज्ञानस्याविधेयता, अपि तु विषयासिद्धेरपीत्याह- अपि च रूपितगोचरताविधे-
84
Page 85
७२ अन्वयार्थप्रकाशिकाविभूषिते
र्न परमात्मधियोऽस्ति च रूपणम् ॥ अविदिते परमात्मनि तद्वियो न खलु रूपितता घटनान्त्रिता ॥ ६० ॥ अपिच रूपितगोचरतेति ॥ विधेविधानस्य नियोगस्य वा रूपितगोचरता अन्यतोऽवगतविषयनिष्ठता हि स्वभावो, यथा यागादेः क्रियाया विषयस्य लोकतः सिद्धौ तस्मिन विधिर्द्टष्टो, नात्यन्तानवगते धात्वर्थे इत्यर्थः । तहिं पकृतेऽप्यवगतगोचरता विधेः किन्न स्यादिति? नेत्याह ॥ न परमान्मधिय इति ॥ अय- मर्थः । न तावदहमिति सर्वजनीनमात्मज्ञानं विधेयम् । तदनु- ष्ठानस्य विनाऽपि विधिं नित्यपाप्तत्वात। तद्विधानस्य मोक्ष- फलत्वाभावाच्। अथालौकिकपरमात्मज्ञानं विधेयं तदनुष्ठान- स्यान्यतोऽप्राप्तत्वान्मोक्षफलत्वोपपत्तेश्रेति मतं, तदपि न । तस्य वेदान्तवाक्येभ्योऽन्यतोऽमिद्धेविपयासिद्धो विध्यसंभवात्। न हि परमात्मनोऽसिद्धां तद्विशेपितं ज्ञानं सिद्धति । परमात्मा चौपनिपद एवेति स्थितेरुपनिपद्वाक्यस्य विधिपरत्वेन तेन पर- मात्मसिद्धिः । परमात्मपरत्वे च न विधिसिद्धिरुभयपरत्वे तु वाक्यभेदापत्तिरतो, न परमात्मधियो निरूपणमस्तीति। अतो विषयासिद्धेर्न्न विधिरित्युपसंहरति ॥ अविदिते परमात्मनीति ॥ रूपितता सिद्धना घटनान्विता प्रामाणिकी । विशेपणासिद्धा विशिष्टविषयस्याप्यसिद्धेरित्यर्थः ॥ ६० ॥ अथ सत्यज्ञानादिवाक्यानां ब्रह्मप्रतिपादकत्वमSवान्तर- तात्पर्येणाभ्युपेयते। ततः सिद्धे ब्रह्मावगमे विधिरितिचेत्तत्राह-
िदितता परमात्मन इष्यते
85
Page 86
संक्षेपशारीरके प्रथमोऽध्यायः।१।
यदि वृथा विघिरस्य घियो भवेत् ॥ निखिलभेदनिदाननिवृत्तितो भवनि तदविपयादि च दुर्लभम् ॥ ६१ ॥ विदितता परभात्मन इष्यते यदीति ॥ यदि सत्या- दिपदः परमात्मनो विदितत्वमङ्गीक्रियने तदाऽस्य परमात्मनो धियो ज्ञानस्य विधिर्ट्टथा निर्थको भवेत् । कुत इत्यत आह।। निखलभेदेति॥ निखिलभेदम्याशपविकल्पस्य संसारलक्षणस्य यन्निदानमनाधनिर्वचनीयाज्ञानं तम्य निवृत्तितः परमात्मज्ञानो- दयनान्तरीयकतयापवाधनाद् विध्यनुष्ठानकार्यस्य प्रागेव सिद्धे- स्तत्र विधिरनर्थक इत्यर्थः । न केवलमस्मिन पक्षे विधिवैयर्थ्य- सशक्यता चंत्याह ।। भवतीति ॥तद्विपयाद्यपि विध्यपेक्षितविषय- नियोज्यकारकफलादयपि तदा दुर्ल्भं भवति। न हि वेदान्त- वाक्यप्रमाणेनाद्वितीयं ब्रह्मैवाहमात्मेत्यवगमे तंद्विरुद्धक्रियाकारक- फलभेदस्फूर्त्तिरुन्मिपेद्येन विध्यवसर इत्यर्थ । तस्मात् कर्म- काण्डविषय एव विचार: प्राच्या मीमासया कुतो, न ज्ञानकाण्ड- विचारोऽतः पृथगारम्भो युक्त एवेति भावः । ६१ ।। अगतार्थत्वसाधनमुपसंहरति- इति न धर्मविशेषसमर्पणं श्रुतिशिरोवचनैः क्रियते ततः ॥ भति धर्मविचारगतार्थता- नवसरः परमात्मविचारण ॥ ६२॥ इति न धर्मविशेषसमर्पणमिति ॥ इति यतः श्रुति- शिरोवचनैर्धर्मविशेपस्य ज्ञानोपासनरूपस्य समर्पणं न क्रियते १०
86
Page 87
७४ अन्वयार्थप्रकाशिकाविभूषिते
विनापि विधिसम्बन्धं फलवद्विज्ञानसमर्पकत्वात् । ततस्तस्मात् परमात्मविचारणे धर्मविचारगतार्थताऽनवसरो भवति। पृथगेव ब्रह्मविचारः कार्य इत्यर्थः ॥६२॥ ननु वेदान्तेष्वप्यात्मा वा अरे द्रष्टव्यः सोऽन्वेष्टव्यः म विजिज्ञासितव्यस्तद्विजिज्ञासस्वेत्येवमादिपु विधयः श्रूयन्ते । ते चानन्यार्था इति कथं वेदान्तेषु विध्यभावेनागतार्थतोच्यत इति- चेन्मैवम्। तेषामन्यार्थत्वादित्याह- अर्हाद्यर्थे च कृत्यस्मरणमभिमतं पाणिनेः प्रार्थनादी लिङ्लोड़ादेश्र वृत्ति: प्रचुरमभिमता पाणिनेर्जैमिनेश्र ।। तस्माद्वेदान्तवाक्ये पठितमपि लिङदयन्यथा योजनीयं विध्यर्थासंभवेन स्फुटमुदितनयादेतदन्यागतार्थम् ॥६३।। अर्हाद्यर्थे रेति ॥ न केवलं विधावेव तव्यप्रत्ययो विहि- तो, येन तच्छ्रवणूबलाद्वेदान्तेपु विध्यभ्युपगमः । किन्तु, अर्हे कृत्यतृच इति सूत्रयतः पाणिनेराचार्यस्यार्हाद्यर्थे चाऽपि कृत्य- स्मरणमभिमतमिष्टमेव । तथा लिङ्लोडादेश्च मत्ययस्य प्रचुरं यथा स्यात्तथा पार्थनादौ वृत्ति: पाणिनेज्जैमिनेश्राचार्यस्याभिमता भवत्वेवं तथापि प्रकृते किमायातं, तदाह ।। तस्मादिति।। अन्यथेति विध्यर्थत्वव्युदासेनार्हार्थतयैव योजनीयमित्यर्थः । तत्र हेतुमाह।।विध्यर्थेति । स्फुटं यथा भवति तथोदितनयात् पूर्वोक्त- न्यायाद् विध्यर्थासम्भवेन हेतुनेति योजना। तस्मादेतच्छास्त्र- मन्यागतार्थमन्यतो न विचारितार्थमित्यर्थः ॥६३॥ नन्वेवमुक्तेन प्रबन्धेनासाधारणविषयपयोजनत्वेऽपि माच्या मीमांसया शास्त्रान्तरेण वा नवार्थत्वाभावेऽपि नेदमारम्भमर्हत्य- Sधिकार्यभावात्। न हि निरधिकारिकं किमपि शास्त्रं समस्ति ।
87
Page 88
संक्षेपशारीरके प्रथमोऽध्यायः।१।
न चेहाधिकारी कश्रिदसाधारणः सम्भवति। न तावद्वेदाध्ययन- वानिहाधिक्रियते । तस्य धर्मव्रह्मजिज्ञासयोः साधारण्याद्धर्म- विचारं परित्यज्य ब्रह्मविचार एव मटत्यसम्भवात् । तथापि धर्मविचारानन्तरं स एवेह प्रवर्ततिष्यत इतिचेन्न। तस्य विचारित- धर्मानुष्ठान एव प्रृत्तिसम्भवात्। अनुष्ठानाय हि तेन धर्मो विचारितो, न केवलमदष्टार्थमिति । तर्ह्यनुष्ठानानन्तरं स एव विचारमेनं करिष्यतीतिचेत् । न । अनाश्वासापत्तेः । न दि स्वयमधीत्यार्थमवबुद्ध्य सर्वमवबुद्धं वेदार्थमनुष्ठाय पश्राङ्गह्म- जिज्ञासां करिष्यामीत्यध्यवसायः कस्यचिदुपपद्यते। तावत्कालं जीवनं प्रत्यनाश्वासात्, सर्वकर्मानुष्ठानाऽशक्तेश्र। सन्देहेऽपि शास्त्रीयाऽधिकारिनियमासिद्धेर्ननिरधिकारकमिदं शास्त्रमापद्येत। ननु अधीतस्वाध्यायः कर्मफलरागशून्यतया तद्ेतुधर्मजिज्ञासां परित्यज्येहैव मोक्षसाधनं ब्रह्मज्ञानेच्छुर्मुमुक्षावशात् पवर्ततिष्यत इतिचेन्न। यथोक्तस्य मुमुक्षोरेवासम्भवात्तन्मुमुक्षोदयहेत्वभावा- दित्याशक्का मनुष्याणां सहस्रेषु कस्यचिन्मुम्नुक्षोदयोऽपि सम्भा- व्यत एवेति मन्वानस्तत्कारणं तावच्छ्वौतमनुक्रामति-
ध्वस्तस्व्रान्तोपरोधाः कथमपि पुरुषाश्चिद्दिदृक्षां लभन्ते । यज्ञनेत्यादिवाक्यं शतपथविहितं कर्मवृन्दं मृहीत्वा स्वोत्पत्याम्नानसिद्धं पुरुषविविदिषामात्रसाध्ये युनक्ति ६ ४ एकाहाहीनेति। अत्रैकाहादिग्रहणमग्न्याधेयप्रभृत्या- रब्धाग्निहोत्रा दिहविर्यज्ञसंस्थानामप्युपलक्षणम् । स्मार्तेषु कर्म- स्वधिकृतस्यैव श्रौतेष्वधिकारात्तान्यप्यत्रार्थादुक्तानि ज्ञातव्या- नि । एकाहादिशब्दा अग्निष्टोमादिगतसुत्याहवाचकाः
88
Page 89
अन्वयाथप्रकाशिकाविभूषित
सुत्याहेषु हि प्रधानकर्म निर्वर्त्यते । अतः पधानग्रहे तदङ्गाना मषि ग्रहणम् अर्थसिद्धमिति मत्वोक्तमेकाहेत्यादीति द्रष्टव्यम् । यस्मिन्नहनि प्रातःसवनादिक्रमप्भृतयो यागा एकाहशब्देनोक्ता:। अहीनशब्देन द्विरात्रपरभृतीनि द्वादशाहान्तानि सुत्यादिनान्येव उच्यन्ते। एतान्येकाहाहीनाख्यानि कर्माण्येकयजमानकानि । सत्रं नामानेकयजमानक: कर्मविशेषो, यत्र यजमाना एवर्त्विजो भवन्ति। तच्न द्विविधं द्वादशाहाद्यहर्गणैः साध्यं रात्रिसत्राग्य- मनेकविधं, यत्रोपयन्तीतिविधि: प्रवर्त्तते। सैका विधा मत्राणा- म्। यत्र पुनरासनेति विधिः प्रवर्त्तते तान्ययनाख्यानि संवत्सर- सत्राणि गवामयनादीनि सहस्रसंवत्सरान्तानीत्यपराविधेति विभागः । एपां विहितेति विशेषणं फलावश्यम्भावनियमार्थम् । नथाचकाहाहीनसत्रद्रयानि च तानि विधिविहिनानि तानि च तान्यनेकानि च तानि कर्माणि चेति तथा, तेपामनुभावः सामर्थ्य तन ध्वस्तः पराकृत: स्वान्तस्यान्तःकरणस्योपरोधो विद्योदय- प्रतिवन्धलक्षणः पप्मा येपां ते तथोक्ताः । स्वाधिकारप्ाप्तश्रीत- स्मार्त्तसकलकर्मानुष्ठानजनितपुण्यमाहात्म्येन क्षपिताशेपकल्मपा इत्यर्थः । एवंविधाः पुरुपा: कथमपि कथश्चिदनेकजन्मा- ऽनुष्ठितसुककतपरिपाकवति जन्मनिसनि चिद्िदृक्षां प्रत्यक चैतन्य- याथात्म्यदर्शनेच्छां ब्रह्मनिज्ञासामिति यावत्,लभन्ते । कथमपि लभन्त इति वढ़ता ब्रम्मजिज्ञासाया दार्लभ्यं सूचितम् । तथा- चोक्तं भगवता- मनुष्याणां सहस्रेपु कश्िद्यतति मिद्धये, इति। बहुनां जन्मनामन्ते ज्ञानवान् मां पपद्यत इति च । क्षपितसमस्त- स्वान्तदोपतया गलितपक्षपातधियः, स्फुरितयुक्तिसहस्रतया पुरुषार्थसारं विचिन्वन्तः साधनचतुष्टयसम्पन्नाः सन्त आत्मतत्व- जिज्ञासवो जायन्त इत्यर्थ:नन्वनेन क्रमेण केडपि ब्रह्मविविदिप-
89
Page 90
संक्षेपशागीरके प्रथमोऽध्यायः।१।
वो भवन्तीत्यत्र किं प्रमाणमित्याकाङ्कायामाह।यज्ञेनेत्यादीति।।तमे- तं वेदानुवचनेन ब्राह्मणा विविदिपन्ति यज्ञेन दानेन तपसाऽना- शकेनेति वाक्यं शतपथशब्दवाच्यव्राह्मणवाक्यैर्विहितं कर्मवन्दं स्व्राध्यायजपतदर्थानुष्ठानलक्षणं स्व्रोत्पत्याम्नानसिद्ध तत्तदऽसा- धारणोत्पत्तिविधिभिरवगतं यथा स्यात्तथा गृहीत्वा पुरुषाणां विविदिपासाध्यमात्रे विविदिपारूपफलसाधनतया युनक्ति विनियोजयतीति योजना। ब्रह्मविविदिपामात्रसिद्ध्यर्थ कर्म- काण्डोक्तकर्मणां विनियोजकं यज्ञेनेत्यादिवाक्यमुक्तक्रमे प्रमाण- मित्यर्थः । नच तत्तत्फलार्थतयाऽन्यत्र विनियुक्तानां कर्मणां पुनररिह विविदिपायां कथमुपयोगो विधातुं शक्यते । विनियुक्त- विनियोगासम्भवादिति वाच्यम् । उत्पत्तिवाक्यसिद्धकर्मस्वरृूप- स्यैवेह यज्ञादिशव्दैरनूद्य विविदिपायां विनियोगात्तत्रत्यफला- न्तरसाधनत्वांशस्येहानुपादानात्। तथाच यथाग्निहोत्रं जुहोती- त्यादयुत्पत्तिवाक्यमेकमपि नित्यकाम्यविनियोगसाधारणम् एवं विविदिपार्थत्वेऽप्यविरोधः । अत एवोक्तं, स्वोत्पत्याम्नानसिद्धमिति ॥ एतेन प्रयोगभेदाप- सङ्गोऽपि व्याख्यातः । कर्मणां शुद्धिद्वारा विविदिपाहेतुत्वं च, येन केनचन यजेतापि वा दर्विहोमेनानुपहतमना एव भवति इद- मनेनाङ्गं संस्क्रियते । महायज्ञैश्र यज्ञेश्र ब्राह्मीयं क्रियते तनुः । यस्यते चत्वारिंशत्संस्कारा इत्यादिश्रुतिस्मृतिसिद्धं, सर्वापेक्षा चेति न्यायसिद्धं चेति नात्रानाश्वासकारणमस्तीति भावः ।।६४।।
तद्विज्ञानार्थ स गुरुमेवाभिगच्छेदित्यादिशास्त्रसिद्धमर्थमाह- उपससाद चतुष्टयसाधनो निशितबद्धिरशुद्धिपरिक्षयात ॥
90
Page 91
अन्वयार्थप्रकाशिकाविभूषिते त्रिविदिषुर्विहितैर्विविधाध्वरै- र्विदितवेद्यतमं विधितद् गुरुम् ॥ ६५ ॥ उपससादेति।।अत्र परोक्षभूतार्थलकारप्योगो ब्रह्मविवि- दिषया गुरुपूर्वकवेदान्तश्रवणादौ पुरुषधौरेयाणां पट्टत्तिर्भाधुना- तनी, किन्त्वनादिशिष्टव्यवहारानुवत्तिनीतिद्योतनार्थो गुरुशिष्य- संवादरूपेणास्य शास्त्रस्य प्रवृत्तिरिति द्योतनार्थश्रेति द्रष्टव्य-
विविदिषुर्भूत्वा विदितवेद्यतमं गुरुं विधितदुपससादेत्यन्वयः । नित्यानित्यवस्तुविवेक:, इहामुत्रार्थभोगविरागः, शमादिसाधन- सम्पद्, मुमुक्षुत्वं चेति साधनचतुष्टयम् । तद्युक्त इत्यर्थः ॥६५॥ ननु मुमुक्षुत्वं हि मोक्षेच्छावत्वम्। मोक्षश्र निरतिशयपर- मानन्दो नित्यसुखरूपो निःशेपानर्थनिवृत्त्युपबृंहित: स पुंसा- मनादौ संसारे न कस्यामप्यवस्थायामनुभवगोचर इति कथ- मननुभूतसजातीये नस्मिन्निच्छोदयः सम्भाव्येत । तस्मान्मुमुक्षा कथमधिकारिविशेषणसुपपद्यते इतिचेत् तत्राह- इह जगति हि सर्व एव जन्तु र्निरतिशयं सुखमुत्तमं ममास्तु । व्युपरमतु तथोपघातरूपं विषयजदुःखमिनि स्पृहां करोति ॥ ६६ ॥ इह जगति हीति। निगदव्याख्यातं पद्यम्। उपघातरूपं सुखानुभवविरोधिस्व्भावं विपयजदुःखमपि तथा निरतिशयं यथा स्यात्तथा व्युपरमत्वितियोजना। हिशब्देन सर्वजनप्रसिद्धो- डयमर्थो, नात्र प्रमाणान्तरमन्वेषणीयमिति सुचितम् ॥ ६६।।
91
Page 92
संक्षेपशारीरके प्रथमोऽध्यायः।१।
निरतिशयसुखदुःखनिटृत्त्यर्थितायामपि मुमुक्षुत्वं कथं सिद्ध- मित्यत आह- निरतिशयसुखं च दुःखजात- व्युपरमणं च वदन्ति मोक्षतत्त्वम् ॥ उभयमपि जनोऽभित्राञ्छतीति स्फुटतरमस्य सदास्ति मोक्षवाञ्छा ॥ ६७ ॥ निरतिशयसुग्वं चेति । यदिदमुभयविधं फलं सर्वपुंसां स्वरसत एवाभिलापास्पदं तदेव मोक्षनत्वं मोक्षविदो वदन्ति । अतः सर्वस्यापि जनस्य स्वरसत एव मोक्षवाञ्छास्तीति फलि- तमाह ॥। उभयमपीति ॥ अनुभूयमानसजातीय एव मोक्षो, नात्यन्तमतज्जातीय इति नोक्तदोषावकाश इति भावः ।। ६७ ।।
त्तिश्च मोक्षो भवतेष्यते । न तत्र पुंसामनुभूतसाजात्यमस्ति ।
उभयमपि परात्मनः स्वरूपं विमलचिदेकरसं स्वयंप्रकाशम् । इति भवति बिना प्रमाणमस्मि- न्नुदितनयादभिवाञ्छनोपपत्तिः ॥ ६८॥ उभयमपि परात्मन: स्वरूपमिति ॥ अयमर्थः ॥ वैषयिकमपि सुखमात्मरूपमेव सत्तत्तद्विपयोपभोगं निमित्तीकृत्य
मानं नानेवागन्तुकभिवानित्यमिव चावभासते। मनसस्तु लये सुषुप्तौ सर्वोपािपत्यस्तमयात्रिरुपाधिकमेकमनागन्तुकं
92
Page 93
अन्वयार्थप्रकाशिकाविभूषिते
नित्यात्मस्वरूपमवभासते। अतः सुरस्य स्वरूपतः स्वय- म्प्रकाशमानात्मस्वरूपत्वात्तद्विपयाभिलापः परमानन्दाभिलाप एवेति नित्यानुभवसिद्ध एवानन्दरूपो मोक्ष इति न तत्र प्रमाणमन्वेपणीयमिति । तथा निःशेपदुःखोच्छित्तिरप्यनुभूय- मानात्मस्वरूपान्नातिरिच्यते । तथाहि । दुःखं हि सदेवा- गन्तुकम् । सुपुप्त्यादावात्मनि स्फुरत्यपि दुःखस्य तत्रास्फुरणा- त्। तथाच तस्यागन्तुकस्य कूटस्थे सदानन्दरूपे चिदात्मनि परमार्थतः सम्बन्धायोगादध्यस्तं तत्तत्र भासत इति वक्तव्यम् ।
त्येतदप्यनुभवसिद्धमेव्रेति तत्रापि भवति मुमुक्षोरभिलाष इति। इनि यतोऽतो विना प्रमाणमस्मिन्नुभयविध आत्मरूपे मोक्ष उदितनयादभिवाञ्छनोपपत्तिर्भवतीति योजना ॥ ६८ ॥ यद्येवमुक्तन्यायतः सर्वेपामेव मोक्षेच्छा समस्ति, तर्हि कस्मा- त् सर्व एव निरतिशयसुखवदुःखनिवृत्तिमिच्छन्तोऽपि मोक्षेच्छया तदर्थ श्रवणादों न पवर्त्तन्ते इत्याशङ्कयोपायापरिज्ञानात्तत्परि- ज्ञानहेत्वभावाच्च सर्वेषामिति न सर्वे प्रवर्त्तन्त इत्यभिप्ेत्याह कर्मकाण्डकृतशुद्धिबुद्धित- स्तर्किते च खलु मोक्षवस्तुनि ॥ अर्थितास्य घटते प्रयोजक- ज्ञाननुन्नमनसो महात्मनः ॥ ६९ ॥ कर्मकाण्डेति ॥ मानवानां सहस्रेपु यः कश्रिदनेकजन्मसु
Sनित्यमात्मैवैको साध्यत्वान्नित्य इत्येवं विवेकतः कर्मफललक्षणा- त ससारात् कथं मे मोक्षः स्यादिति मोक्षवर्त्म तक्कयति। एवं
93
Page 94
संक्षेपशारीरके प्रथमोउध्यायः।१। ८१
तर्विकते मोक्षमार्गे वेदान्तेष्वापातदर्शनेन, तद्यथेह कर्मजितो लोकः क्षीयते एवमेवामुत्र पुण्यजितो लोक: क्षीयते, नास्त्यकतः कृतेनेत्यादिना कर्मफलस्यानित्यत्वं, तरति शोकमात्मवित्, ब्रह्म वेद ब्रह्मैव भवति, ब्रह्मविदाप्ोति परं, तत्र को मोहः कः शोक एकत्वमनुपश्यत इत्यादी ब्रह्मात्मज्ञानस्य नित्यपुरुषार्थ- हेतुतां चावगच्छति। एनेन प्रयोजकज्ञानेन नुन्नमात्मज्ञानसाधने श्रवणादो पेरितं मनो यस्य तस्यास्य तर्क्कितमोक्षमार्गस्य महा- SSत्मनोऽक्षुद्रचित्तस्य सर्वकर्मतत्साधनसर्वसङ्गपरित्यागिनः सं- न्यासिनोऽर्थिता घटते केवलमोक्षविषया, न पुनः सर्वस्य जन-
वासनापरवशस्यापीत्यर्थः ॥ ६९॥। नन्वेवमपि यस्योक्तसाधनसम्पत्तिवशादुत्कटा मोक्षेच्छा जायते स किमिति गुरुमुपसीदेत्,स्वयमेव वेदार्थ कसमान्नाकल- येत् स्वयं व्युत्पन्नबुद्धित्वादितिचेन्नेव्याह- धर्मनिर्णयनिमित्तमिष्यते वेदवित्परिषदेव मानवे।। तद्दत गुरुणास्य सङ्गति- स्तेन चास्य घटतेऽर्थिता गुरौ ॥७॥ धर्मनिर्णयनिमित्तमिति ॥ मानवे धर्मशास्त्रे दशावराणां परिषदित्यादी वेदार्थविदां पर्षत् सभा धर्मनिर्णयनिमित्तमिष्यते सन्दिग्धस्य धर्मस्य निश्चयकारणं तत्संशयनिराकरणेन निर्णय- समर्थविद्वत्समागम एवेति यथावगतम् । मानव इत्युपलक्षणं धर्मशास्त्रान्तरस्यापि। तथाच याज्ञवल्क्यः । चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यमेव वा * सा बरते यं स धर्मः स्यादेको वाऽध्यात्म- ११
94
Page 95
८२ अन्वयार्थप्रकाशिकाविभूषिते
वित्तम इति ॥ तथाच यथा स्वयं तर्किकतस्य धर्मस्य निर्णवाय तद्विदसमागमोऽर्थ्यते तद्वदस्य मुमुक्षोः स्वयमापातालोचनयो- त्पेक्षितस्य तत्वस्य निर्णयाय गुरुणा तत्वनिर्णयसमर्थेन विदुषा सङ्गतिरिष्यत इत्यनुषङ्गः। तथाच धर्मशास्त्रोक्तन्यायान्नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठेत्यादिश्रुतेश्। येन हेतुना विद्वद् द्वारैवार्थनिर्णयः कार्य इत्यवगतं तेन चास्य गुरावर्थिता घटत इति युक्तमेवोक्तमुपससादेत्यनेनेत्यर्थः ॥ ७०॥ ननु कोऽस्याधिकारिणोऽधिक र्त्तव्यो विषयो धर्माधिकारि- विषयविलक्षणो येनात्र धर्माधिकारिविलक्षणोऽधिकार्यपेक्ष्येत। न च प्रत्यकूतत्वब्रह्मविचारस्तस्य कर्मिभिरपि कर्मानुष्ठान- च्छिद्रेषु क्त्त शक्यत्वात् तदर्थ पृथगधिकार्यनपेक्षणात्। नाऽपि संसारनिवृत्तिरत्राधिकर्त्तव्यो विषयः। तस्या अप्यौदासीन्य- रूपाया निषिद्धनिवृत्तिवत् कर्मिष्वपि सम्भवादितिचेत्तत्राह- यः कर्मकाण्डविषयेऽभिहितोऽधिकारी सोऽयं प्रवृत्तिषु निवृत्तिषु तुल्यरूप: ॥ अत्राभिधित्सित विशेषणपृगयुक्तो- Sसाधारणस्त्वभिमतः पुरुषो निवृत्तौ ॥ ७१॥ यः कर्मकाण्डविषय इति॥अर्थी समर्थो विद्वाञ्छास्त्रेणा- जपर्युदस्त इति विशेषणवत्तया कर्मकाण्डे योऽधिकार्यभिहितः सोडयं कर्मकाण्डेपि। ननु कोऽस्याधिकारिणः कर्तव्यो विषयो धर्माधिकारिविषयविलक्षणो येन धर्माधिकारिविलक्षणोऽधिकार्य- डपेक्षेत। ब्रह्मविचारश्रेन्न । कर्मिणोऽपि तच्छिद्रेषु विचारयितुं शक्यत्वात्तदा नाधिकार्यन्तरापेक्षणम् । निदृत्तिश्चेत्न पतिषिद्ध- निट्टत्तेरिव तस्या अपि भावादितिचेत्तत्राह ।। यः कर्मकाण्डेति॥
95
Page 96
संक्षेपशारीरके प्रथमोऽध्यायः।१।
निवृत्तिरेव केवलाऽस्य विषयः । तस्य तु प्रवृत्तिः । काचन
ननु किमत्र ममाणम्। शास्त्रवैलक्षण्यदर्शनमेवेत्याह- शास्त्रं प्रवृत्तिषु निवृत्तिपु तुल्यरूपं साधारणस्य पुरुषस्य पुराभ्यधायि॥ अस्योच्यते सकलकर्मनिवृत्तिभाजः सर्व निवृत्तिविषयं श्रवणादिशास्त्रम् ॥ ७२ ॥ शास्त्रं प्रवृत्तिष्विति । संन्यामिविषयत्वाच्छ्रूवणादि- शास्त्रं निषृत्तिविषयं, न प्रव्ृत्तिविधायकमित्यर्थः ।। ७२।। कथं शास्त्रद्वैविध्यदर्शनमत्र प्रमाणमितिचेद् ? अन्यथानुपपच्ये त्याह- शास्त्रद्वैविध्य दृष्टेर्द्विविधमत्निकृतेर्भेदमप्पीश्रयन्ते तदद्वैविष्योपलब्धेः पुरुषमधिकृनं शास्त्रयोर्भिन्नमाहुः ॥ शास्त्रार्थद्वित्वहेतोः पुरुषमधिकृतं तद्गतं चाधिकारं
शास्त्र द्वैविध्येति । शासत्ररद्ैविध्यमधिकारद्वैविध्यं विना- डनुपपन्नम्। तच्चाश्रयद्वैविध्यं विनेत्यर्थः।काऽन्यथानुपपचिरिति- चेत्तत्राह । शास्त्रार्थद्वित्वेति ।। शास्त्रद्वैविध्यमर्थद्वैविध्यं विना नोपपद्यते। तच्चाधिकार भेदं स चाश्रयभेदमित्यनया परम्परया- धिकारिवैलक्षण्यसिद्धिरित्यर्थः ॥ ७३॥ ननु कथं निवृत्तिमात्रविधायि सर्व शास्त्रं स्यात्,संन्यासिनो- जपि प्रवृत्तिशास्त्रं किश्चिद् दृश्यत एवेतिचेत्तत्राह-
96
Page 97
८४ अन्वयार्थप्रकाशिकाविभूषित
यमनियम विधानैर्वाङमनःकायचेष्टा- व्युपरमणमशेषैः कथ्यत न प्रवृत्तिः ॥ यदि भवति कदाचित काचिदस्य प्रवृत्ति: श्रुतितिहितनिवृत्ते: कर्मणां कत्थनं स्यात् ॥७ ४॥ यमनियमेति ॥ यमनियमशास्त्रं हि सर्वे निवृत्तिविषय- मेष्टव्यम् । अन्यथा सर्वकर्मनिवृत्तिविषयसंन्यासशास्त्रेण विरोध- प्रसङ्गादित्यर्थः ।। ७४॥ तथापि कथं शास्त्रं निषृत्तिविषयमिति, तत्राह- औदासीन्यविशेषमत हि परब्रह्मात्मधीजन्मने शास्तीदं श्रवणादिशास्त्रममुना त्वाक्षिप्यते व्यापृतिः ।। तां तां व्यापृतिमन्तरेण घटने सा सा न शास्त्रार्थधी- रित्यर्थालशुनादिभक्षणगतौदासीन्यबोधादिव ॥ ७५।। औदासीन्यावेशेषमिति।।आत्मा वा अरेद्रष्टव्यःश्रोतव्यो मन्तव्यो निदिध्यासितव्य इति द्यात्मदर्शनायानात्मश्रवणादि: पतिपिद्ध्यत एव केवलं, न त्वनेन किश्चिद्विधीयते। सर्वकर्मनि-
रूपत्वाद् नादष्टद्वारणेति द्रष्टव्यम् । यद्यपि संन्यासशास्त्रादेव सर्वकर्मनिषेधः सिद्धो भवति तथाप्यनात्मदर्शनादेर्विशेपतोऽप्यन- ्थहेतुत्वमिति तन्निषेघायावत्ति: क्रियते । तत्परिपालनमात्म- दर्शनं विना नोपपद्यते । तच्चात्मदर्शनं वेदान्तेभ्योर्ऽर्थान्तरपति- भासावस्थायां विना श्रवणं नोपपद्ते। असम्भावितावस्थायां च मननमित्येवम्पकारेण तत्तदनात्मौदासीन्यलक्षणशास्त्रार्था- SSक्षेपाच्छवणादिकर्तव्यता भवति।यथा लथुनभक्षणार्थौदासीन्या-
97
Page 98
संक्षेपशारीरके प्रथमोऽध्यायः।१।
SSक्षेपाट्विपर्रीतसङ्कल्पक्रिया तद्त्। एवश्च निृत्यभावादेव स्यात् प्रत्यवायोऽपि, न श्रवणाद्यकरणादिति निवृत्तिमेवा- धिकरोत्ययमित्यर्थः ॥ ७५॥ नन्वौदासीन्यस्य परिपाल्यत्वं निषेधशास्त्राच्चेत् पटृत्तिरपि शास्त्रीया। अथ शास्त्रमौदासीन्यमात्रे पर्यवसितं, न तर्हि परि- पाल्यता शास्त्राऽनभिमतत्वादितिचेत्तत्राह- औदासीन्ये बोधिते शास्त्रवृन्दै- रर्थादस्मात प्रच्युतस्यास्त्यनर्थः । इत्यालोच्य प्रच्युतेः प्रापकस्य प्राबल्येऽर्थे प्रातिलोम्यं विधत्ते॥ ७६ ॥ औदासीन्य इति॥न शास्त्रात् परिपाल्यत्वं, किन्तु शास्त्री- यनिषेधान्यथानुपपच्या निषिद्धक्रियानुष्ठानस्थानर्थहेतुत्वावगमा- त्, तत्परिहाराय परिपाल्यत्वसिद्धिः । ततश्र,मच्युतेः मापकस्य निषिद्धक्रियारागादे: पावल्ये सति तदर्थे निषिद्धक्रियाफले पातिलोम्यफलत्वमनर्थात्मकत्वानुसन्धानं विधत्त इत्यर्थः ॥७६। ननु करथं निषेधान्यथानुपपत्या निपिद्धक्रियानुष्ठानस्यान- रथहेतुत्वनिश्चितिरिति, तत्राह- औदासीन्यं बोधयच्छास्रमेत- न्नित्यं पथ्यं बोधयत्यस्य पुंसः ॥ पथ्यादस्मात प्रच्युतस्यास्त्यपथ्यं बुदध्वा पथ्यं प्रातिलोम्ये यतेत ।। ७७॥ औदासीन्यं बोधयदिति। पुरुषहितार्थाभिधायिना
98
Page 99
८६ अन्वयार्थप्रकाशिकाविभूषिते शास्त्रेणौदासीन्यं पुरुषहितत्वेनैवोपदिश्यते । यद्यप्यसौ हितमपि निषिद्धकरणमेव सद्यः सुखहेतुत्वान्मन्यते, तथापि लाक्षणिकम्। तन्निवृत्तिलक्षणं तु नित्यं शास्त्रपामाण्यात् । तस्य च हितत्वं न सुखत्वेन, नापि दुःखनिटृत्तित्वेन । तथाऽपतीतेः । नापि सुख- साधनत्वेन । निट्ृत्तेरवस्तुत्वेन साधनत्वायोगात् । अतः परि- शेषाद् दुःखसाधननिव्ृत्तित्वेन निषिद्धक्रियानिव्ृत्तेः पथ्य- त्वम्। अतोऽस्मात् प्च्युतस्य निपिद्धक्रियामनुतिष्ठतो यथाऽन- र्थप्राप्तिलक्षणमस्तीति बुद्ध्वा प्रातिलोम्ये निपिद्धकक्रियापवर्त्तक- रागादिनिवारणे यतेतेत्यर्थः । ७७॥ ननु किमित्येवमार्जवभङ्गेन श्रवणादिशास्त्राणि व्याख्याय- न्ते। संन्यासशास्त्रस्य श्रवणादिव्यतिरिक्तविषयतयाऽप्युपपत्ते- रितिचेत्तत्राह-
अत्ैकमेव तु निवृत्त्यधिकारमार्ग- माश्रित्य सूत्रकृदथात इति प्रवृत्तः ॥७८।। वृत्ता प्रवर्तकेति॥ प्रवर्तकनिवर्तकशास्त्रसिद्ध्यर्थो हधि- कारी पष्ठे निरूपितः । अत्रापि चेत् प्रवत्तिनिट्ृत्तिसाधारणं शास्त्रं, स एवाधिकारीति, पृथगधिकार्य्यभावान्न पृथक् शास्त्रा- Sऽरम्भसिद्धिः। अतः पृथक्शास्त्रमारभमाण: मूत्रकारोडथातः- शब्दाभ्यां विलक्षणमधिकारिणं सूचयतरिवत्तिलक्षणमेव शासत्रं मन्यत इत्यर्थः।अतः सर्वकर्मपतिषेध एव शास्त्रार्थः। तदनुरोधेन
भदत्तिरिति युक्तम्।। ७८।।
99
Page 100
संक्षेपशारीर के प्रथमोऽध्यायः ।१। ८७
ननु कथं सर्वकर्मणां निषेधः १ शास्त्रीयाणां निषेधासम्भ- वादितिचेत्तत्राह- औदासीन्यप्रच्युतेः प्रापकौ च रागद्वेषौ नापरो हेतुरस्ति । रागद्वेषप्रातिलोम्ये प्रवृत्ति-
औदासीन्यप्रच्युतेरिति ॥ औदासीन्यप्रच्युतिरूपायाः सर्वस्यापि क्रियाया रागद्वेपावेव प्रयोजकौ, न तदतिरेकेणापरः शास्त्राख्यो हेतुरस्ति। एतदुक्तं भवति। पुरुषो ह्यात्मानं नित्य- मुक्तमपि सन्नमबोधोपहतः सन् अप्राप्तपुमर्थमपरिहृतानर्थ च भ्राम्यमाणः परिच्छिन्नविपयविशेषजन्यं क्षणिकं सुखं दुःखनि- वृत्ति वा नात्यन्तिकीमेव पुरुषार्थतया परिकत्य तदर्थ साधन- विशेषमनुष्ठातुं तं तं बुभुत्सते, तं प्रति तत्तत्साधनविशेषं प्रति- पादयति विधिप्रतिषेघशास्त्रं, न तु प्रवर्त्तयति। तात्पर्यमात्रमपि नास्ति प्वृत्तौ, शास्त्रतात्पर्य विनाऽपि प्र्ृटत्तेः सिद्धत्वाद्वस्तुतो- डपुरुषार्थे पेरयितुमयुक्तत्वात्। न हि क्रियाकारकाधीनः कश्रित् पुमर्थोऽस्ति । सर्वक्रियाकारकनिरासेनैव हि नित्यसिद्ध: कूट- स्थात्मस्वभावः पुमर्थो लब्धव्यः । अतश्च सर्वक्रियाकारकननि- वृत्या आत्मनिष्ठा शास्त्रस्य विवाक्षितोऽर्थः। तथापि सहसैवोपदेष्टुं न शक्यते। विषयाभिषङ्गचित्तानां तदसम्भवात् । अतः पुरुष- चित्तानुरोधेन काम्यानि कर्माणि शुद्धिप्रधानानि च नित्यानि- प्रकाश्य तैः शुद्धचित्तस्य सर्वकर्मप्रहाणेन ज्ञाननिष्ठा वक्तव्येति शास्त्रं प्रवर्त्तते। अतः शास्त्रमूलत्वाभावात् प्रटटत्तीनां रागद्वेषमात्र- मूलत्वायुक्त: सर्वकर्मणां निषेधः। तत्परिपालनाय रागद्वेषभाति·
100
Page 101
८८ अन्वयार्थप्रकाशिकाविभूषिते
लोम्ये पट्टत्तिरपि युक्तेति सिद्धम्। ७९॥ अस्त्वेवं निषृत्तिनिष्ठत्वेऽपि शास्त्रस्य तदाक्षेपाच्छवणादिप-
वाद,अदष्टार्था तु शौचादिपट्टत्तिः । तत्मिद्धि: कुत इति तत्राह- अशुचे: प्रतिषेधशास्त्रतो न भवत्येव हि वेदचिन्तनम् । श्रवणादिनिवृत्तिशास्त्रतः स्व्रयमर्थादथ शौचमापेतत् ॥ ८० ।। अशुचेरिति ॥ अशुचेः सामान्येन वेदचिन्तनप्तिषेधा- च्छौचेन विना वेदचिन्तनं नोपपद्यते, न च तेन बिना श्रवण- द्यस्तीति श्रवणाद्याक्षेपकशास्त्रेणैव शौचमाक्षिप्यते इत्यर्थः॥८०।। तर्हि शौचस्य चातुर्गुण्यपसिद्धि: कथमितिचेत्तत्राह -- अचतुर्गुण शौचवारणात स्वयमेवास्य चतुर्गुणं भवेत ।I अचतुर्ष्वशनस्य वारणात् स्व्रयमवास्य चतुर्पु भोजनम् ॥ ८१ ॥ अचतुर्गुणेति ॥ चातुर्गुण्यशास्त्रस्य चाचातुर्गुण्यनिषेधार्थ- त्वादर्थादाक्षिप्तं शौचचातुर्गुण्यमित्यर्थः । सार्ववर्णिक भैक्षचरण- मित्यस्यापि वर्णेभ्योऽन्यत्र भिक्षापतिषेधपरत्वाद्ोजनस्य वा- 5वर्जनीयत्वादुपायान्तरस्य च प्रतिषेधादर्थात् मासं चातुर्वर्ण्यभैक्ष- चरणमपीत्याह ।। चतुर्ष्विति ॥ ८१॥ सन्तोषादिनियमान्तरे्वप्ययं न्यायो द्रष्टव्य इत्याह-
101
Page 102
संक्षेपशारीरके प्रथमोऽध्यायः।१। इति योजय सर्वमीट्टशं कथितन्यायवशेन सादरम् ॥ विधिहीननिवृत्तिशास्त्रतः कथितेऽस्मिन्नधिकारवत्मनि ॥ ८२ ॥ इति योजयेति ॥ असन्तुष्टो द्विजो नष्ट इत्यादिप्तिषेधा- त् सन्तोषस्यार्थपाप्तिस्तपश्र शारीरादिलक्षणं शरीरादीनां च्यापारान्तरप्रतिपेधादर्थप्ाप्तमित्यादि द्रष्टव्यम् । सादरमिति॥ श्रुतहान्यादिदोपशङ्कयाऽत्राऽनास्था नकार्येत्यर्थः । तत्र हेतुमाह॥ विधिहीनेति ॥ अस्मिन्नधिकारिमार्गे शास्त्रस्य निटृत्तिपरत्वान्नि- वत्यर्थतया व्याख्यानस्य युक्तत्वादित्यर्थः ॥ ८२॥ इमं पक्षमुपसंहन्य पक्षान्तरमाह- इति केचन वर्णयन्ति त- द्विपरीतं प्रवदन्ति केचन ।। प्रविभज्य तदप्युदीर्यते निपुणाचार्यपरम्परागतम् ॥८३॥ इतीति ॥। विशेपतोऽप्यादरणीयोडयं पक्ष इत्याह। निपुणेति ॥८३ ॥ प्रविभज्योदीरणमेव करोति- उत्सर्गतः सकलकर्मनिवृत्तिनिष्ठा संन्यासशास्त्रशतकोटििरर्पितास्य ।। अरिति प्रतिप्रसवशास्त्रमुखात प्रतीता चष्टात्मबुद्धिपरिपाकफलापि काचित् ॥ ८ ४ ॥ १२
102
Page 103
९० अन्वयार्थप्रकाशिकाविभूषित
उत्सर्गत इति ॥ वेदान्तेषु प्रतिपकरणं तदनुसारिणीषुच स्मृतिषु संन्यासशास्त्रदर्शनात्तात्पर्येणोत्सर्गतः सकलकर्मनिव्ृत्ति- निष्ठा विधीयते। तदपवादेन पवत्तिरपि हि न स्वरूपेण कर्त्तव्या, किन्तु आत्मज्ञानपरिपाकार्थमतः प्रवृत्तीनामपि तदुपकारिणी- नां कर्त्तव्यता न विरुद्धेत्यर्थः ।। ८४।। काडतर प्रटतत्ति: का वा निटृत्तिरिति तत्राह यमस्वरूपा सकला निवृत्ति- स्तथा प्रवृत्तिर्नियमस्वरूपा ।। नित्रर्त्तकादत्र यमप्रसिद्धि: प्रवर्त्तकात स्यान्नियमप्रसिद्धिः ॥८५॥ यमस्वरूपेति ॥ यमा अहिंसादयो नियमाः शौचादयः श्रवणादयोऽपि स्वाध्यायेश्वरप्रणिधानयोरेवान्तर्भूताः । यमाना नियमानां च लक्षणमाह।।निवर्तकादिति।।निवर्तकशास्त्रवेद्या यमांः प्रवर्तकशास्त्रवेद्या नियमा इत्यर्थः ॥ ८५॥ काऽत्र निवृत्तिः, कथं च शास्त्रस्य निवर्तकत्वं, कि निषेध- कत्वेन, किंवा निदृत्तिविधानेनेति तत्र तत्कथनाय निटृात्ति विभजते- निवृत्तिरस्ति द्विविधा बहिःस्थिता शरीरसर्वेन्द्रियसंयमात्मिका ॥
सदात्मकूटस्थचिदेकविग्रहा॥ ८६ ॥ निवृत्तिरस्तीति ॥ कार्यकरणव्यापारोपरमरूपा एका, अन्या त्वात्मस्वरूपभूता । एवं द्विविधेत्यर्थः ॥ ८६ ॥
103
Page 104
संक्षेपशारीरके प्रथमोऽध्यायः।१। ९.१
तयोर्मधये बाह्या निटत्तिर्विधियोग्या, इतरा त्वननुष्ठेयत्वा- द्विधिगम्या न भवतीत्यत आह- तयोस्तु बाह्या विधिशास्त्रलभ्या प्रयत्ननिर्वत्त्यतया प्रतीतेः ॥ विधानशास्त्रं विरह्य्य लभ्या चितिस्त्ररूपा त्वितरा निवृत्तिः ॥ ८७॥ तयोस्त्विति ॥ ८७॥ कुत एवं विधेयत्वाविधेयत्वलक्षणं वैलक्षण्यमिति तत्राह मायामयी बाह्यनिवृत्तिरिष्टा चितिस्वरूपा परमार्थसत्या ।। तयोर्निवृत्योश्च निवृत्तिशास्त्रं विधायकं बाह्यनिवृत्त्यपेक्षम् ॥ ८८॥ मायामयीति ॥ परिणामिनां देहादीनां मायामयत्वात्त- त्रिष्ठा निषृत्तिरपि मायामयी । आत्मनस्तु कूटस्थत्वान्निटत्ति: स्वाभाविकी, न व्यापारोपरमरूपा । अतः परमार्थसत्या। अतः सा पुरुषतन्त्रत्वाभावान् विधेया इत्यर्थः । तत्र कार्यकरण- व्यापारोपरमलक्षणेह निटत्तिस्तद्विधायकत्वेनेह यमशास्त्रमित्याह।। तयोर्निटत्योरिति ।। अन्या तु निषेधशास्त्रार्थविषयपरेत्य- डभिपायः ॥।८८।। ननु विधायकत्वे शास्त्रस्य कर्थ निवर्तकत्वमित्याशक्ा नि-
प्रवृत्तिशास्त्रेण समेऽवि संमते निवृत्तिशास्त्रस्य विधेयबाधने ।।
104
Page 105
अन्वयार्थप्रकाशिकाविभूषिते
निवृत्त्यनुष्ठाननिबन्धनत्व्रतो निवर्त्तकं शास्त्रमिदं प्रचक्षत ।।८९ ।। प्रवृत्तिशास्त्रेणेति।। ८९ ।। नन्वत्रापि प्रटत्तीनां निटत्तीनां चाधिकर्तव्यवैलक्षण्याभावा- दधिकारिवैलक्षण्यं न सिद्धयेदित्याशक्काधिकर्तव्यस्य अवैलक्ष- ण्येऽपि फलवैलक्षण्यमाह- शास्त्रइ्येन परिदर्शितसाधनेन साध्यस्पृहापरतशः पुरुषो मुमुक्षुः ॥ शुश्रूषते गुरुमथेत्युदिनः स चात्र वेदान्तवाक्यविषयश्रवणाधिकारी॥ ९० ॥ शास्त्रद्वयेनेति । यमनियमशास्त्रदवय प्रदर्शितप्टृत्तिनिवृत्ति- लक्षणसाधनेन यत्साध्यं परिपक्वब्रह्मात्मज्ञानं तत्स्पृहापरवशः सन् सर्वमन्यत् कर्म-तत्साधनलक्षणं परित्यज्य शुश्रूपते गुरुम्। ननु ब्रह्मात्मज्ञानवत् स्वर्गादिकमप्यर्थयँस्तत्साधनमप्यनुतिष्ठतु तभ्न संभवति। तेभ्यो निविटृत्सुत्वादित्याह।। मुमुक्षुरिति ॥ एवं तत्व- विविदिपुर्मुमुक्षुश्चिकीर्पोर भ्युदयार्थिनः पृथक्सिद्धोऽधिकारी । य एवंविलक्षणोऽधिकारी, सोऽयमथातःशब्दाभ्यां श्रवणाधिकारि- तया समर्थ्यत इत्याहाथेत्युदित इति ॥ ९० ॥ एवं प्ारिप्सितस्य ग्रन्थस्य विवक्षितविषयपयोजनसंबन्धा- Sधिकारिणां संभवमुपपाद्यारम्भणीयत्वमापाद्यारभमाण उक्ता- डधिकारिणो जिज्ञासाक्रमेण शास्त्रार्थो वक्तव्य इति तज्जिज्ञासा- क्रममाह स परिपृच्छति कोऽहमसौ च कः
105
Page 106
संक्षेपशारीरके प्रथमोऽध्यायः।१
सहजमस्य च तस्य च किं पृथक् ।। उत तयोरभिदेश्वरजीवयो- रिति च संशयसंकुलमानसः ॥ ९१ ॥
स परिपृच्छतीति ॥ कोऽहं, किं देहादिभिः संहतः संसारिस्वभावः, किं वाऽसंहतोऽसंसारिस्वभावः । नन्वात्मन्य- डहङ्कारादेरध्यस्तत्वं साधितम् । तत्कथमस्य चोद्यस्याऽवकाशः । सत्यम्। तत्र विशुद्धचैतन्यस्वभावं त्वम्पदार्थमद्वितीयं च तत्पदा- डर्थ, तयोश्च निरुपचरितमेकत्वं वाक्यार्थ च सिद्धवत्कृत्य संसार- स्याध्यस्तत्वप्रतिपादनेन विषयप्रयोजनयोः संभव उक्तः । अत्र तु तत्वम्पदार्थवाक्यार्थलक्षणविषयस्वरूपं पृच्छयते। अतः पूर्वोक्ताध्यासोपजीवनेन च तत्सतत्वमुच्यते इत्यपुनरुक्तिः। असौ परमात्मा च कः। किं साऽपेक्षिकमहत्त्वसंपन्नः, किं वा निरवग्रह- महत्वसंपन्नः । तथा तयोरात्मपरमात्मनोः पृथक्त्वं भिन्नत्वं स्वा- भाविकं, भ्रान्तं वा। अभिन्नत्वं स्व्ाभाविकमुत भ्रान्तमित्यापा- ततो वेदान्तार्थ प्रतिपद्यमानस्तत्रचानुपपत्तिं पश्यन् पृच्छति आपात- तोऽप्यधीतवेदः, तरति शोकमात्मवित्, ब्रह्मविदाप्नोति परमि- त्यादिप्रदेशषु ब्रह्मात्मादिशब्दितं किश्चिद्विज्ञेयमस्ति । तद्विज्ञाना- च्च शोकादिसंसारप्रहाणेन निरतिशयपुमर्थावाप्तिर्भवतीति प्रति- पद्यते। स्त्रानुभवाच्च संसारित्वम् । तस्य च स्वाभाविकत्वे ज्ञानेन हानासम्भवं मन्वानः, किं मम स्वाभाविकं संसारित्व- मन्यथा वेति पृच्छति । वेदयं च वस्तु, सत्यं ज्ञानमनन्तम्, एकमेवाद्वितीयमित्यादिवाक्येभ्यः प्रतिपद्यमानः प्रमाणान्तर- सिद्धभेदं तद्विरोधाच्चाद्वितीयत्वानुपपत्ति पश्यन् परमात्मा च कीदृश इति च पृच्छति । तथा, अयमात्मा ब्रह्म तत्वमसीति
106
Page 107
९४ अन्वयार्थप्रकाशिकाविभूषिते
वाक्यैरात्मपर मात्मनोरेकत्वपतीतेर्विरुद्धस्वभावतयैकत्वासम्भवा- च्च तयोर्भेदः, अभेदो वा परमार्थ इति पृच्छति। तथा पमाणमपि किमत्र। आत्मनि तावत् किमनुभवः प्रमाणं, किं वोपनिषत्। आद्ये कथमसंसारित्वम् । अहं दुःखीति संसारित्वेनानुभवात्। अन्त्ये कथमात्मत्वम् । अहमित्येवात्मानं सर्वो लोक: पत्येति । तथा ब्रह्मापि किं वेदैकगम्यं, किं वा मानान्तरसिद्धाभिधायी वेद इति। ब्रह्मपदार्थस्यामसिद्धत्वात् पदार्थाप्रसिद्धवाक्यस्या- बोधकत्वात् संशयः । तथा तत्त्वमस्यादिवाक्यं च तयोरेकत्व- मध्यारोपेण किमाचष्टे, किं यथास्थितम् । तथा सिद्धे कथं शब्दभामाण्यमित्यादिकोऽपि संशयो द्रष्टव्यः।का चात्र युक्तिरात्म- परमात्मस्वरूपनिर्णये, तयोरेकत्वनिर्णये च सहकारिणी, तदनुभवसाधनं च कि तदनुभवफलं वा किमित्यतत्सर्व च- शब्देन सूचितम्। पवं प्रत्यधिकरणं निवर्त्यो यः संशयःस सर्वो- पि द्रष्टव्यः । एवमनेकैः संशयैः सङ्कुलमानसः पृच्छति ॥९१॥ एवं शिष्यस्य जिज्ञासाक्रममभिधाय तदऽनुरोधेन शास्त्रार्थ निर्णिनीपुर्गुरो: शिष्यस्य सङ्गहे नियममाह- तीर्थेन तं विविदिषन्तमनन्यभक्तं संसारसागरभयातुरचित्तवृत्तिम् ॥ एकं मुमुक्षुमधिकारिणमात्मतत्त्व- ज्ञाने समीक्ष्य गुरुराह दयाविधेय: ॥ ९२ ॥ तीर्थेन तमिति ॥ शिष्यस्याधिकारं परीक्ष्य विद्या दातव्येति तत्र तीर्थेन शास्त्रीयमार्गेण विविदिषन्तमिति । विद्या- यां तात्पर्य विद्याग्रहणाय शास्त्रतः शिष्टाचारतश्र पाप्तस्य ब्रह्म- चर्यगुरुशुश्रूषादेः सम्यगनुष्ठानेन सद्टृत्तत्वं दृष्ट्ा केवलतस्व-
107
Page 108
संक्षेपशारीरके प्रथमोऽध्यायः।१। ९५
विविदिषुरेवायं, न पाण्डित्यमात्रार्थितयाऽपि पुमर्थसाधनतया किश्चित्कर्तव्यं चिकीर्षति, तत्वविद्यामेव केवलामाशिश्रीषतीति निश्चित्य देवतागुरुभक्तेरन्तरङ्गत्वेन श्रुतिन्यायपसिद्धत्वात्तद्वत्व- मनन्यभक्तत्वमप्यधिकारकारणमेतस्मिन् सर्वस्मिन् सत्यपि संसार वैराग्ये मुमुश्षुत्वे चासति नाधिकार इति तत्सर्वमप्यस्यास्तीति परीक्षापूर्वकं निश्चित्यात्मतत्वज्ञानाधिकरणमालक्ष्य लब्धानुझ्ञ- तया सर्वकर्मतत्साधनसंन्यासेन यथाशास्त्रं स्वपादावुपगच्छन्त- मेकं शिष्यं प्रत्याह॥ गुरुर्दयाविधेयः सन्, न स्वार्थमयुक्त इत्य- डर्थः ॥ ९२ ॥ तत्र गुरोर्महीयस्त्वेन तत्संत्निधौ तदुक्तार्थ शङ्कया प्रतिवक्तुं प्रष्डुं च न पारयेताऽपि। अतस्तस्य विश्रम्भं जनयन् स्वात्मनः सौमुख्यं दर्शयति- वक्ष्यामि वत्स तत वाञ्छितमत्युवस्थ- मत्यन्तमेव च हितं शृणु तन्मनर्कः । त्वं प्रत्यगव्यवहितं तव सुप्रसिद्धं ब्रह्माद्वितीयमुदितं च तदस्यजस्रम् ॥ ९३ ॥ वक्ष्यामि वत्सेति । तचचैतत्तन्मनस्कः शृणु । यस्माद- Sत्यवस्थं व्यावहारिकसर्वावस्थातीतत्वाद् दुर्बोधम् । तथापि नालस्यं कार्य, यतोऽत्यन्तमेव हितमेवमाभिमुख्यं सम्पाद्य चोद- क्रमेणोत्तरमाह ।। त्वं प्रत्यगिति ॥ न त्वं देहादिः, तत्संहतो वा। कि तर्हि!॥ पत्यक् ॥ अहम्पत्ययावभासिष्वनेकेषु मध्ये विवेकवशादिदम्भावमापद्यमानेषु देहादिष्वहङ्कारपर्यन्तेषु च यः कदाचिदपि नेदम्भावमापद्यते, किन्त्वनिदमविषय एव भवति, स पत्यक् त्वमसि। यस्माद् देहादेरात्मन्यध्यस्तत्वं प्रतिपादित-
108
Page 109
९.६ अन्वयार्थप्रकाशिकाविभूषिते
मिति पूर्वोक्ताध्यासोपजीवनेनेदमुक्तम्। यत् पुनः किम्पमाणको- डहमिति पृष्टं, तत्र स्वानुभवपमाणकत्वमित्याह ।। अव्यवहितं तव सुप्रसिद्धमिति ।। प्रत्यग्रूपं हि व्यवधायकस्याविद्यादेरपि साधकत्वेन केनचिदप्यव्यवहितत्वात्तव सुपसिद्धम् । अन्य- नैरपेक्ष्येण सिद्धमित्यर्थः । तेनाऽहं दुःखीति दुःखसाक्षितया स्वात्मानुभवः स त्वत्स्वरूपे प्रमाणं, न दुःखिपत्ययो, नाऽपि शास्त्रम्। शास्त्रेण परोक्षवेद्य आत्माडतो न कोऽपि विरोध इत्युक्तं भवति। असौ च क इति यत्पृष्टं, तत्राह ।। ब्रह्माद्वितीयमिति ॥ निरतिशयमेवास्य महत्वं, न सापेक्षम्। द्वैत
माह। उदितं चेति ॥ सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं, सत्यं ज्ञानमनन्तं ब्रह्म,यतो वा इमानि भूतानि जायन्त इत्यादि- वेदान्तप्रमाणकं ब्रह्म, न मानान्तरसिद्धानुवादेन वेदान्तवाक्या- नां पवृत्तिः, किन्तु जगत्कारणसामान्यानुवादेन तद्विशेषमद्वितीयं ब्रह्म सत्यादिलक्षणं प्रमापयन्ति वेदान्ता इत्यर्थः । यत् पुन- रात्मपरमात्मनोर्भेदोऽभेदो वेतिपृष्टं तत्राह । तदस्यजस्रममिति।। स्वाभाविकमेकत्वं, भ्रान्त्या तु भेदावभामः । निरुपचरितं ह्ेक- त्वं वेदान्तैः प्रतिपाद्यते। उपक्रमोपसंहारैकरूप्यादिलिङ्गैरत्रैव तात्पर्यावगमादित्यर्थः ।।९३॥ एवं तत्वम्पदार्थवाक्यार्थलक्षणं शास्त्रमुपदिश्य शिष्यस्यात्र विरोधबुद्धिमालक्ष्य तामपनयत्राह- यद्यत्र पश्यस विरोधमुदीरय त्वं सद्स्ततः परिहराणि तमप्रयत्नात ।। वाक्यं निरस्तसकलप्रतिबन्धकं सत्
109
Page 110
संक्षेपशारीरके प्रथमोऽध्यायः ।१॥ ९७
त्वां बोधयिष्यति कारार्पितबिल्ततुत्यम् ॥९४॥ यद्यत्रेति । तत्त्वम्पदार्थयोर्विरुद्धरूपत्वात्तदेकत्वं बोधयि- तुमक्षमं वाक्यमिति न विप्तिपत्तव्यम् । वस्तुतो विरोधस्या- भावात्तव बुद्ध्यपराधानुविरोधप्रतिभासः । स च त्वयोक्तमात्र एव निरसिष्यते मया। अनस्तस्मिन्निरस्ते प्रतिबन्धविकल्पत्वा- द्वाक्यमेवान्यनिरपेक्षं सन्मुक्तिफलामपरोक्षां धियं जनयिष्यति। अतो यथा तव बुद्धौ विरोधो भाति तथा तं प्दर्शय। तत्परि- हारे चाहमेव प्रटृत्त इति दर्शयति । परिहराणि ॥ परिहर्तुमि- च्छामीति, लोदूमयोगेण। एवश्चाङ्गीकृत: शिष्यः कृतार्थीकर्तव्य इत्यत्र न्यायः प्रद्शर्शितो भवति ॥ ९४ ॥ एवमनुज्ञातः शिष्यः स्वबुद्धी प्रतिभातं वाक्यार्थविषय- विरोधं वक्तुं प्रत्यवतिष्ठत इत्याह- अत्राह सद्वयमहं मम रूपमीक्षे तच्चाद्वयं विगणयामि परोक्षमेव । पारोक्ष्यसद्दय विभागयुजोर्विरोधादू वाक्यार्थबोधमतिदुर्लभमेव मन्ये ॥ ९५॥ अत्राहेति ।। ननु पदार्थविषयो विरोधः पथमं पष्टव्यः, परिहर्तव्यश्च। पदार्थावगतिपूर्वकत्वाद्वाक्यार्थावगतेः । सूत्रक्रम- श्रैवमनुसटत: स्यात्।तत्र प्रथमसूत्रेणाधिकारिनिरूपणमुखेन त्वम्प- दार्थो निरूपितः । अनन्तरसूत्रद्वयेन च तत्पदार्थः सपमाणको निरूपितः । समन्वयसूत्रेण पुनस्तयोरेकत्वलक्षणो वाक्यार्थो वेदान्तानां तत्र प्रामाण्यनिरूपणपूर्वकं निरूप्यते। ननु भकरणे शास्त्रार्थस्य सर्वस्यानभिधानं न दोषायेतिचेन्। पश्चात्तत्पदार्थ- १३
110
Page 111
९८ अन्वयार्थ प्रकाशिकाविभूषिते
स्य, क्षितिजलदहनानिलाम्बराणामित्यारभ्य निरूप्यमाणत्वात्। अतस्त्वम्पदार्थस्य चाधिकारिनिरूपणे तन्निरूपितत्वादनन्तरं तत्पदार्थो निरूपयितव्यः, पश्राद्वाक्यार्थ इति युक्तमितिचेन्न्ैप दोषः। ब्रह्माद्वितीयमुदितं चेत्यनेन तत्पदार्थस्य सङ्गहेणोक्तत्वात् सूत्रे हि विचारपाधान्येनाद्वितीयं ब्रह्म वेदान्तपमाणकं न परि- च्छिन्नं, नानुमानप्रमाणकमिति यदुक्तं तदत्रावगतिप्रधानप्रकरणे विचारशरीरं सिद्धवत्कृत्य तन्निर्वत्तमर्थमुपदेशप्ाधान्येनाऽहं ्रह्माद्वितीयमुदितं चेति। तस्मादत्र सूत्रक्रममर्थक्रमं चानुरुद्ध्य शास्त्रार्थस्तत्वम्पदार्थद्वयवाक्यार्थलक्षणः शिष्यायाचार्योपदिष्टः सङ्गहेण, त्वं प्रत्यगव्यवहितं तव सुप्सिद्धम्, व्रह्माद्वितीयमुदितं च नदस्यजस्त्रमिति। उपदेशप्रकारविस्तारश्र श्रीसहस्त्रीगद्यपकरणे भाष्यकारेरेवोक्तः । एवं शास्त्रार्थमुपदिश्य, तं शिष्यबुद्धावारोह- यितुं मृत्रोक्ता न्याया अपि प्रयोजकास्तज्जिज्ञासाक्रमेण वक्तव्या इति नस्य चौद्यावकाशो दत्तो, यद्त्र पश्यास विरोधमित्यादिना।। तत्र शिष्यः प्रथममुप्दिष्टे वाक्यार्थे विरोधमुद्भावयति तत्र विरो- धम्योभ्भावनानां बहुपकारत्वाद्वाक्यार्थावगतेश्र प्रधानत्वादत आ- वार्गाऽपि प्रश्नानुरोधेन समन्त्रयसृत्रविषयान न्यायान् विविच्य नच्छेपनया पश्चाज्जन्मादिमूत्रोक्तमपि न्यायं वक्ष्यति।तस्यापि प- योजकत्वात्तदुत्तराधिकरणगतान सुविचारान् सिद्धवत्कृत्य केवलं नन्फलं मुमुक्षोर्जिज्ञासाव्रह्मणि सर्वेषां वेदान्तानां समन्वय- मात्रं निरूपयिष्यति । अतो न शास्त्रार्थप्रतिपादनेन क्रमस्य कोऽपि दोपः। तत्र तत्वम्पदार्थयोः सद्वितीयत्वाद्वितीयत्वाभ्यां पारोक्ष्यापारोक्ष्याभ्यां विरोधमाह । सद्वयमहमित्यादिना, इत्य- परोक्षमाह। तथाच तद्विपयरयोस्तत्वम्पदार्थयोरवविरोधात्तयोरेकत्वे नाभ्यां समन्वयो दुर्लभ इत्याह । पारोक्ष्येति ॥ ननु चात्मनि
111
Page 112
संक्षेपशारीरकं प्रथमोऽध्यायः।२।
ब्रह्मविपरीतरूपस्य ्द्वैतस्याध्यस्तत्वस्य प्रतिपादिनत्वान्नास्ति ब्रह्मात्मनोरेकत्वे विरोधः । सत्यमुक्तम्, अपि तु द्वैतस्यात्मन्य- व्यस्तत्वं नाद्यापि सिद्धम्। प्रत्यक्षलिङ्गवचनैर्हि संसारिरूपविप- रीतस्त्रभावत्वस्य प्रमिता तद्विपरीतरूपप्रथनस्याध्यस्तत्वं बिना- डनुपपत्तेस्तत्मिद्धिः। तत्र प्रत्यक्षं तावदस्फुटं स्फुटेन सांसारिक- प्रत्यक्षेण विरोधादसाधकम्। लिङ्गंतु प्रत्यक्षविरोधादेवासाधक- म्। साधकत्व्रेऽपि तयोः सुखरूपतामात्रं सिद्धयेन्न तु द्वैनविरुद्ध- रूपत्वमतो वचनवलादेव तत्सिद्धिर्वक्तव्या । वचनं तु, नत्व्र- मस्यादि। पत्यक्षादि तु तत्र सहकारिमात्रं स्यात्। तत्तु विरुद्धा- डर्थत्वात्तत्र प्रमाणं न घटत इत्याक्षिप्यत इत्यदोप: ।। ९५।। ननु वाक्यपामाण्यसिद्धयर्थमेव सद्वितीयत्वपारीक्ष्ययो- रध्यस्तत्वं परिकल्प्य विरोधः परिहियतामितिचेन्नेत्याह यद्वस्तु सद्दयनयावगतं स्व्रशब्दामू
यद्वस्तु च व्यवहिनं प्रतिपादिनं तत् प्रत्यक्तया न तु जनः प्रतिपत्तुमीशः ॥ ९६॥
यद्वस्त्विति॥ यदि सद्वितीयत्वपारोक्ष्यवर्जनन प्रत्यङ्मात्र- स्याद्वितीयत्वं बोधयेद्वाक्यं, तदा स्यात्वदुक्तपकारेण विरोध- परिहारः । न त्वत्र तथा सम्भवति। कर्तत्वादिद्वैतविशिष्टतयैव पतीच: स्वशब्दात् त्वम्पदादवसीयमानत्वात् पारोक्ष्यविशिष्टत- यैवाद्वितीयस्य तत्पदावसेयत्वात् पदवाच्ययोश्चार्थयोः संसष्ट- तया वाक्यार्थत्वात् सद्यत्वपारोक्ष्ययोर्वक्यार्थाद्वहिःकर्तुमशक्य- त्वाद्विरोघोऽपरिहार्य इत्यर्थः ॥ ०६ ॥
112
Page 113
१००
ननु रजततया प्रतीयमानस्य वस्तुनो यथा तद्विरुद्धं शुक्ति- त्वं चक्षुषा बोद्धयते, एवमेवात्रापि सत्यपि विरोधे वाक्यसाम-
आकाङ्ङितं भतति परणशक्तियुक्तं यत्सन्निधौ पठितमस्य हि सङ्गतिः स्यात् ॥ नाकाङ्गयैत्र न तु सन्निधिनैव वा स्यात सम्बन्धिता हि विरहय्य पदार्थशक्तिम् ॥ ९७॥ आकाइक्षितमिति ॥ स्वशक्तिमात्रेण बोधकस्य चक्षुप- स्तथा सम्भवति बोधकत्वं, वाक्यस्य तु स्वशक्तिमात्रेण न बो- धकत्वं, किन्त्वाकाङ्कायोग्यतासन्निधिसव्यपेक्षत्वं पदार्थसंसर्गो वाक्येन बोध्यत इति व्युत्पत्तिसिद्धम् । अत्र चाकाङ्कासंनिध्यो- र्भावेऽपि पदार्थयोः संसर्गयोग्यता नास्तीत्यर्थः । पूरणशक्तिरि- ति च, पदार्थशक्तिरिति च योग्यतोक्ता ।।९७।। ननु योग्यताऽप्येकविभत्यन्तत्वादेव पदयोरस्तीत्याशक्का, सत्यं शाब्दी योग्यताऽस्ति, न च तन्मात्रेण संसगवबोधः, कि- न्त्वर्थयोग्यता व्यपेक्षा। सा चेह नास्ति । उक्तविरोधादित्याह- योग्यत्वमत्र न च तत्वसीति वाक्ये संबन्धितां प्रति पदार्थयुगस्य भाति ॥ पारोक्ष्य सद्वय विभागविरोधहेतो- गौरश्व इत्यभिहिते तु यथैव वाक्ये ॥ ९८ ॥ योग्यत्वमत्रेति॥ शब्दयोग्यत्वे सत्यर्थत्वयोग्यत्वाभावा- देवाबोधकत्वे दष्टान्तमाह ।। गौरश्व इनीति ॥ ९८ ॥ नन्वेतादृशे विपये विरुद्धरूपपरित्यागेनाविरुद्धांशे लक्षणया
113
Page 114
संक्षेपशारीरके प्रथमोऽध्यायः।१। १०१
बोधकत्वं प्रसिद्धं सोडयं देवदत्त इत्यादौ।तिद्वन्रापि सद्वितीय रूपं परित्यज्य प्रत्यङ्मात्रं लक्ष्यतां त्वम्पदेन तत्पदेन च पारोक्ष्यं परित्यज्याद्वितीयत्वमात्रं लक्ष्यताम् । अतो योग्यतासिद्धिः। तथाच प्रतीचोऽद्वितीयस्य चात्यन्तमेकरसत्वादखण्डैकरमे वाक्य- प्रामाण्यसिद्धिरितिचेत्तत्राह- सोडयं गिरोरिव न लक्षणयापि वृत्ति- र्मानान्तराधिगतिहीनतयात्मनि स्यात।। मानान्तराधिगतगोचर एव दृष्टः शब्दप्रयोग इह लाक्षणिकस्तु लोके ॥ ९९ ॥ सोऽयं गिरोरिवेत्यादि ॥ यद्धि मुख्यार्थसम्बन्धितया मुख्यार्थगुणयोग्यतया वा मानान्तरसिद्धं, तत्रैवोपचारवृत्यापि वाक्यप्रव्ृत्तिर्दष्टा।ब्रह्मात्मा च मानान्तरायोग्यो वेदैकवेद्य इष्यते। अतो न तत्र लक्षणयाऽपि वाक्यप्रामाण्यसम्भव इत्यर्थः ।।९९।। एवश्चाखण्डविषयतया संसष्टार्थतया चे न ब्रह्मात्मनि वाक्यप्रामा्यसिद्धिरित्युपसंहरति- तस्मादखण्डविषया न वचःप्रवृत्तिः संसर्गबोधनमपास्तमयोग्यभावात् ।। एवं न वाक्यगतशब्दसमन्व्योऽपि दूरे प्रमान्तरविरोधनिराससिद्धिः ॥ १०० ॥ तस्मादखण्डेति । एवं न वाक्यगतपदानां समन्वय एव सिद्धेत्तत्सिद्ध्यभ्युपगमेऽपि प्रत्यक्षादिपमाणसिद्धद्वैतस्य कर्तृत्वादेश्चापबाधनासम्भवादद्वितीयब्रह्मात्मनि वाक्यमाण्यमस- म्भवीत्याह ।। दूर इति ॥१०० ॥
114
Page 115
१०२ अन्वयार्थप्रकाशिकाविभूषिते
अपिच। लोके हि मानान्तरसिद्धानुवादकत्वमेव सर्वत्र सिद्धवस्तुनि शब्दस्योपलब्धम्। अतश्च ब्रह्मात्मन्यपि मानान्तर- सिद्धानुवादकता वेदस्य स्यात्, नापूर्वार्थबोधकतया मामाण्य- मित्याह- किञ्च प्रमान्तरमपेक्ष्य गिरः प्रवृत्तिः सिद्धेषु वस्तुषु जगत्युप्लब्धपूर्वा ।। ब्रह्मात्मवस्तुनि तथा वचसः प्रवृत्ति- र्युक्तात्मनस्तु फलवत्परिनिष्ठितत्वात् ॥ १०१॥ किश्च प्रमान्तरमिति॥१०१॥ फलवदित्युक्तं दृष्टान्तमाविष्कुर्वभ्राह- नद्यास्तीरे फलमिति गिरः सिद्धवस्तुप्रवृत्ति- र्दृष्टा स्तार्थप्रमितिजनने स्वान्यमानव्यपेक्षा ।। तद्वद् ब्रह्मण्यपि तु बचसो वैदिकस्याभ्युपेया तस्मादस्मिन्न खलु घटते मानभावः श्रुतीनाम्१०२॥ नव्यास्तीर इति । सिद्धवस्तुनि पटृत्तिर्यस्या गिरः सा सिद्धवस्तुपटत्तिः । तस्याः स्वार्थप्मितिजनननिमित्ते दृष्टा अस्मादन्यास्मिन्माने प्रत्यक्षेऽप्यपेक्षा। अतो ब्रह्मण्यपि वैदिकस्य वचसः प्रटृत्तिर्मानान्तरापेक्षेति नैरपेक्ष्यलक्षणमस्मिन् ब्रह्मणि श्रुतीनां पामाण्यं न सिज्यतीत्यर्थः ॥१०२॥ पूर्वमखण्डार्थतायां वाक्यपामाण्यसंभवमभ्युपेत्य ब्रह्मणि तु लक्षणावृत्यसम्भवादखण्डविषयतया वाक्यपामाण्यं निरस्तम् । इदानीं तु कापि नाखण्डविषयतया वाक्यपामाण्यसंभव:।अनेक-
115
Page 116
संक्षेपशारीरके प्रथमोऽध्यायः।१। १०३
पदार्थसंसर्गस्य वाक्यार्थत्वादित्याह- नाखण्डवस्तुविषया वचसः प्रवृत्ति- र्लोकडपि दृष्टिपथमापतिता कदाचित्।। नानापदार्थघटनाविषयत्वहेतो- र्दूरत्यता श्रुतिशिरोवचनेषु तस्याः ॥ १० ३॥ नाखण्डवस्त्विति ॥ लौकिकस्य वाक्यार्थावगमेन केवलं शब्दशक्तिरेवाश्रयः । मानान्तरसिद्धार्थत्वात्तदनुसारेणाप्यर्थ- निश्चयसम्भवात्,तथापि नाखण्डार्थता क्वापि इष्टा। वेदे तु शब्द- शक्तिमात्रानवगम्यार्थे कुतः पसङ्गोऽखण्डार्थताया इत्याह॥ दूरेत्य- ता श्रुतिशिरोवचनेषु तस्या इति ॥ १०३ ॥ ननु मुख्यटत्त्या निबोधने नानापदार्थसंसर्गो वाक्यार्थ इत्ययं नियमः। लक्षणागुणटृत्तिभ्यां त्वेकस्यापि पदार्थस्यानेकै- रपि समर्पणादखण्डार्थताऽपि सम्भवतीत्याशक्काह- आदाय मुख्यगुणलाक्षणिकप्रवृत्ती -- रर्थ समर्पयति शब्द इति प्रसिद्धम् । आस्व्रेष नान्यतमयापि वदत्यखण्डं शब्दान्तरात्तविषयादधिकार्थवृत्तेः ॥१०४ ॥। आदाय मुख्येति ॥ सत्यं लक्षणागुणटृत्तिभ्यामपि बोध- कत्वं प्रसिद्धं, नात्र विवादः, तथापि नाखण्डार्थतालक्षणा। गुण- दत्तिपक्षेऽप्येकपदसमर्पितार्थादधिकस्यैवार्थस्य पदान्तरैः समर्प- णीयत्वादित्यर्थः ॥ १०४ ॥ नन्वेकेनैव पदेन समर्पितो योऽर्थस्तस्मादनधिकस्यैव पदा- न्तरैरपि समर्पणे कि बाधकं, पौनरुतवस्य मदृत्तिनिमित्तभेदादेव
116
Page 117
१०४ अन्वयार्थप्रकाशिकाविभूषिते
परिहर्तु शक्यत्वादिति, नेत्याह- आधिक्यमुत्सृजति शब्दगणो निजेऽर्थे शब्दान्तरात्तव्रिषयादिति मन्यमाना: ।। वाक्यत्व्मेव पदजातगतं विहन्यु- र्न ह्यस्ति हस्तकरशब्दगतं तदेषाम् ॥ १०५॥ आधिक्यमिति॥ लक्षणादिपक्षेऽप्येकपदाल्लक्ष्यार्थादाधि- क्यं यदि न स्यात् पदान्तरविषयार्थस्य तर्हि वाक्यत्वं न स्यात्, पदानामन्वयो न स्यात्। न हेकस्मितेवार्थेऽन्वयो नामास्तीत्य- डर्थः। सम्भूयैकार्थममर्थकत्वमन्वितत्वलक्षणं वाक्यत्वमत्राप्यस्तु, संसर्गबोधकत्वाभावेSपीतिचेत्तत्राह ॥न ह्वस्तीति॥ यदि संमर्ग- बोधव्यतिरेकेणाप्येकार्थसमर्पकत्वादेव वाक्यत्वं स्याद् हस्तः कर इत्यत्रापि वाक्यत्वं स्यादित्यर्थः ॥ १०५॥ आत्मनोऽपमेयत्वसिद्धान्तविरोधाच न वेदान्ता: प्रमाण- मित्याह- किञ्च स्वयम्प्रभमलुप्तचिदेकरूपं सर्वप्रमाणविषयाद्वहिरभ्युपेत्य ।। आत्मानमात्मनि च शास्त्रमुदाहरन्तः सिद्धान्तमभ्युपगतं परिपीड़यन्ति ॥ १०६ ॥
किञ्च स्वयम्प्रभमिति॥ १०६॥ न केवलं सिद्धान्तविरोधादभमेयत्वमात्मनः, किं तर्हि १ मानकृत्याऽभावाच्चेत्याह- सर्वत्र वस्तुष जडेष्वजडप्रकाशं
117
Page 118
संक्षेपशारीरके प्रथमोऽध्यायः।१। १०५
कुर्वत्प्रमाणमिति संप्रतिपन्नमेतत् ।। ब्रह्मात्मवस्त्वजडबोधवपुः कुतोऽस्मिन् वेदान्तवाक्यजनिताऽजड़संविदन्या॥ १०७। सर्वत्र वस्तुष्विति॥ अजडप्रकाशो हि मानफलम्। तच्च जडेष्वेव संभवति। आत्मनि त्वजडबोधवपुषि कोऽन्योऽजड- बोध आधीयते, आलोक इव प्रकाश इत्यर्थः ॥ १०७॥ एवं प्रमेयस्वाभाव्यादपि वेदान्ते प्रामाण्यमाक्षिप्य पुनरपि शब्दस्वभावमाश्रित्याक्षिपति- किञ्च क्रियापदमपेक्ष्य पदानि वाक्य- भावेन सम्यगिह सङ्गतिमाप्नुवन्ति ॥ नात्र क्रियापदमपेक्षितमामनन्ति वाक्यं कुतो भवति वेदशिरस्तर्दानीम्॥ १०८॥ किश्च क्रियेति ॥ क्रियाकाङ्मया हि नामे पदानामन्वयस्त- न्कारकसमर्पकतया । अतः क्रियापदव्यतिरेकेण पदानां न वाक्यभाव इत्यर्थः ॥ १०८ ॥ तर्वनन्वितान्येव पदानि वोधयन्त्वितिचेन्न। अपूर्वावगत्यसं- भवादित्याह- नापूर्वमर्थमुपलम्भयितुं पदानां सामर्थ्यमस्ति परिहृत्य तु वाक्यभावम् ॥ स्वार्थस्मृति हि जनयन्ति पदानि लोके विज्ञातसङ्गतितया, न तु कार्यमन्यत् ॥ १०९॥ नापूर्वमिति॥ १०९॥
118
Page 119
१०६ अन्वयार्थप्रकाशिकाविभूषिते
तर्हि वाक्यव्यतिरेकेणान्यदेव शब्दरूपं बोधकमस्तु, यथा वैयाकरणानां स्फोट: स एवेति चेन्नेत्याह - हित्वा न वाक्यपदते प्रतिपत्तिहेतु- रवेदो भवेदिति कथञ्चन वक्तुमीशः॥ कश्चित कदाचिदवि तत्र कुतः श्रुतीनां प्रामाण्यमात्मनि भवेदिति वर्णयन्ति ॥ ११० ॥ हित्वा न वाक्येति।पदतत्संहतिव्य तिरेकेणान्यस्य शब्द- रूपस्याप्रसिद्धत्वात् स्फोटोऽपि कल्प्यमान आकाङ्काद्यनुरोधेन पदानामन्वयो यत्रास्ति तत्रैव कल्प्यते। अन्यथाऽपार्थेऽपि वाक्ये तत्कल्पनापसङ्गात्। अतः पदानामन्वयाभावेन सोऽस्त्येवेति भाव: ॥ ११० ॥ ब्रह्मात्मनः प्रमाणान्तरसिद्धत्वासिद्धत्वयोरनुवादकत्वाव्यु- त्पत्योरन्यतरप्रसङ्गाच्च नात्र वेदान्तप्रामाण्यमित्याह- किञ्च प्रमान्तरमिहाभ्युपयन् प्रतीचि
मानान्तरं यदि च नेच्छति शब्दशक्ते- स्तत्रग्रहः कथमिति प्रतिपादनीयम ॥ १११॥
किश्च प्रमान्तरमिति ॥१११॥ शब्दपामाण्यं च पुमर्थयोगिन्यर्थे, न प्रत्यक्षादिवदर्थमात्रे। पुमर्थश्च पत्तिनिव्ृत्तिसाध्यः । अतस्तदयोग्ये ब्रह्मणि न शब्द- प्रामाण्यमित्याह- किञच प्रवृत्तिविनिवृत्तिविहीनवस्तु-
119
Page 120
संक्षेपशारीरके प्रथमोऽध्यायः।१। १०७
तत्त्वप्रतीतिजननान्न च किञ्चिदरिति ॥ पुंसः प्रयोजनमतोऽवि न तत्र मान वदान्तवाक्यमिति युक्तिमदुच्यमानम् ॥ ११२॥ किश्च प्रवृत्तिविनिवृत्तीति ॥ ११२ ॥। अज्ञातार्थाधिगन्तृत्वेन हि प्रमाणानां प्रामाण्यमिष्यते वैदि- कैः, न चाज्ञातत्वमात्मन्यस्ति विज्ञानस्व्रभावत्वादतोऽपि न तत्र वेदान्तप्रामाण्यमित्याह- अज्ञातमर्थमवबोधयतः प्रमायां हतुत्वमभ्युपगतं ननु वेदविभ्जिः ।। अज्ञातता च परमात्मनि दुर्निरूपा विज्ञानमात्रतपुषीति न मानकृत्यम ॥ ११३ ॥ अज्ञातमर्थमिति ॥ ११३॥ ननु विज्ञानस्वरूपत्वेऽप्यात्मनि अज्ञानमस्त्यतो न मान- कृत्याभाव इतिचेन्न विरोधादित्याह-
कः श्रद्दधीत पुरुषो वचनानि तस्माद ब्रह्माऽप्रबुद्दमिति वाक्यमयुक्तमाहुः ॥११४॥ बोघस्वभावकमिति॥११४ ॥ नन्वज्ञातं मानमेयमिति वदतः कोऽभिप्रायः । किमज्ञान- विशिष्टं मानमेयमिति । तदाऽज्ञानस्यानिट्त्तिप्सङ्ग: । अज्ञानो- पलक्षितस्य मेयत्वे कदाचिदज्ञातस्यावगतस्यापि मेयत्व्पसङ्गः ।
120
Page 121
१०८ अन्वयार्थ प्रकाशिकाविभूषिते
अतोऽज्ञातं मेयमित्येतदसङ्गतमितिचेत्तत्राह- उपाध्यभावे न भवेदुपाधिमत् तटस्थमज्ञानमुपाधिरिष्यते ।। प्रमाणबुद्देर्न तदात्मवस्तुनि स्वयम्प्रकाशे न ततोऽत्र मानधीः ॥ ११५॥ उपाध्यभाव इति ॥ अज्ञानं मेयस्य न विशेषणं, नाप्युप- लक्षणम् । किन्तु उपाधिः । प्रमाणबुद्धेरज्ञाने सत्येवात्मनः भमे- यत्वं, नामति । तथापि च मेये नान्तर्भवति। यथा दतिहरि- शब्दवृत्तौ पशुत्वमित्यर्थः । तत्रोपाधिरित्युक्ते यथा अन्तःकरण- मात्मनःसंसारित्वे उपाधिर्द्वारतया तद्वद् द्वारतया मेयान्तर्भाव- पाप्तावाह ।। तटस्थमिति ॥ न मेयस्वरूपे द्वारतया प्विशत्यज्ञानं किन्तु वहिर्भतं सत् मेयं व्यवस्थापयति । अतः स्वयम्पकाशे आत्मवस्तुनि न ताटस्थ्येनाप्युपाधि: सङ्गच्छत इत्यर्थः॥११५॥ अद्वैतमपमेयमात्मवस्तु तत्र द्वैनं प्रमाणमति वदतो व्याह- तिश्च स्यादित्याह- अद्वैतमात्मपदमाहुरनन्यमानं द्वैतं प्रमाणमिह च प्रतिपादयन्ति ॥ वाक्ये निजे पदविरोधमनीक्षमाणाः पाण्डित्यमप्रतिहतं प्रतिलभ्य धीराः ॥ ११६॥ अद्वैतमिति ॥११६ ॥ ममात्रादिकमपि ब्रह्मपरिणामरूपमतो न तेन ब्रह्मणोऽद्वैत- विरोध इतिचेत्तहि परिणामित्वमस्य दोषान्तरं स्यादित्याह-
121
Page 122
संक्षेपशारीरके प्रथमोऽध्यायः।१। १०९.
मातृ प्रमाणमितिमेयविभागभिन्नं ब्रह्मैव चेदू भवति तत्र च वर्णयामः । कूटस्थतापहतिरेकरसत्वहानिः शाक्यैश्र सन्धिरिति दूषणमन्यदत ॥ ११७॥ मातृप्रमाणमिति ॥ शाक्यैश्र सन्धिरिति ॥ विज्ञानस्व- रूपमेव मानं, ग्राह्याकारतया च तदेव मेयं, प्रमाता चान्यो नास्ती- ति वदतां विज्ञानवादिनां मतपाप्तिश्चेत्यर्थः ॥ ११७॥ अज्ञानवशाङ्ह्मणः प्रमात्रादिरूपेण परिणामो, न वस्तुतः । अतो न कूटस्थत्वादिविरोध इतिचेन्न। ब्रह्मणोऽपि प्मेयत्वेन कल्पितत्वप्रमङ्गादित्याह- अज्ञान कल्पितम निर्वचनीयमिष्टं मात्रादि मानफलपर्यतसानमेतत् इत्युच्यते यदि तदा परमात्मनोऽ्ि मेयत्वतो भवति कल्पितताप्रसङ्गः ॥ ११८॥। अज्ञानकल्पितमिति ॥ ११८ । ब्रह्मणः प्रमेयत्वं नेष्यते, अतो न कल्पितत्वपसङ्ग इति चे- दत्राह- ब्रह्म प्रमेयमथ नेष्टमिह प्रमाणं वेदान्तवाक्यमिति पक्षपराहतिर्वः ॥ न ह्यप्रमेयमत्बोधयदस्ति मानं नादाह्यदाहक इति प्रथितः कृशानुः ॥११९॥ ब्रह्मप्रमेयमिति।अममेयेSपि ब्रह्मणि वेदान्तानां पामाण्य-
122
Page 123
११० अन्वयार्थप्रकाशिकाविभूपित
मस्त्विति चेन्न, व्याहतेरित्याह ।। न ह्यपमेयमिति ॥ ११९॥ अपिच. प्रमात्रादिद्वैतस्याज्ञानकल्पितत्वमनिर्वचनीयत्वमि- त्याद्यपसिद्धं च लौकिकपरीक्षकाणामित्याह किं चाप्रसिद्धमिदमत्र जगत्त्रयेऽवि स्त्राज्ञानकल्पितमनिर्वचनीयमेकम् । निःशेषतीर्थदगुदीरिततन्त्रमार्गे सिद्धे यतः सदसती सकलेऽपि तन्त्रे ॥ १२० ॥ किञ्चाप्रसिद्धमिति ॥१२० ॥ अज्ञानस्य कल्पितत्वमप्यसिद्धमयुक्तं चेत्याह- अज्ञानमप्यसदभावतया प्रसिद्ध- रद्वैतप्रसूतिकुदतो न तदभ्युपेयम । नासत् कदाचिदपि सज्जनने समर्थ बन्ध्या सुता न खलु पुत्रशतं प्रसूते ॥ १२१॥ अज्ञानमप्यसदिति ॥१२१ ॥ शब्दस्य परोक्षवस्तुविषयत्वाच्च न तद्विपरीते ब्रह्मणि वेदा न्तानां प्रामाण्यं, श्रोत्रस्येव रूप इत्याह- वाक्यप्रसूतमतिरिन्द्रयजन्यधीव- न्नार्थापरक्ष्यजननी भवितुं समर्था।। तेनास्तु वाक्यजनितात्मपरोक्षबुद्धि- ्ध्रान्तिः सदाऽजडतयाऽनुभवेऽपरोक्षे ॥ १२२ ॥ वाक्यप्रसृतेति ॥ तथापि वाक्यादात्मन्यपि प्रमितिर्जा-
123
Page 124
संक्षेपशारीरके प्रथमोऽध्यायः ।१। १११
येतेतिचेत् सा तर्हि भ्रान्तिर्विपरीतार्थत्वादित्याह ।। तेनास्त्व- ति । १२२ ।। ननु वाक्यमप्यपरोक्षे वस्तुन्यपरोक्षज्ञानं जनायेष्यति, अतो नायथार्थमितिचेन्न। परोक्षज्ञापनस्वभावविरोधादित्याह- नित्यापरोक्षमवि वस्तु परोक्षरूपं वेदान्तवाक्यमवबोधयति स्वभावातू ।। प्रामाण्यमत्र कथमस्य वदोपपन्नं न ह्यन्यदन्यदिति बोधयतः प्रमात्वम् ॥१२३॥ नित्यापरोक्षमपीति ॥ तर्हि परोक्षज्ञानमप्यात्मनि म- माणमस्तु। न चायथार्थत्वम् । पारोक्ष्यापारोक्ष्ययोर्ज्ञानधर्म- त्वात् परोक्षज्ञानेऽपरोक्षज्ञाने च वस्तुन एकरूपत्वादितिचे त्तत्राह।। प्रामाण्यमत्रेति ॥ अयं भावः । अर्थस्य व्यवृधानाव्यवधानपयु- के पारोक्ष्यापारोक्ष्ये इति हि त्वयेष्यते, युज्यते च। यत्र ह्यर्थ- स्य सामान्यव्यवधानेनावभासस्तत्र पारोक्ष्य दृश्यते । यत्र तु विशेषरूपेण सामान्यव्यवधानं विनेवावभासः, तत्रापरोक्षमिति विषयस्य व्यवहिताव्यवहितत्वपयुक्तत्वावगमात् पारोक्ष्यापरोक्ष्य- योः । अतो ज्ञानस्य निरुपाधिकस्य धर्मो न भवति, पारोक्ष्य- मपारोक्ष्यं च। किन्तु व्यवहितावभासत्वं पारोक्ष्यम्, अव्यवहि- तावभासत्वं चापारोक्ष्यम्। अतश्च परोक्षज्ञाने अव्यवहितस्य व्य- वहितावभासनादयथार्थत्वादपमाणत्वमपरिहार्यमिति ॥ १२३॥। तर्हि विषयस्वभावप्रयुक्तत्वात् पारोक्ष्यापारोक्ष्ययोर्न जनक- स्वभावत्वमभ्युपेयम्। अतश्च शब्दादप्यपरोक्षज्ञांनं जायताम- डव्यवहिते पतीचीतिचेत्तत्राह- वस्त्वस्त नित्यमपरोक्षमिदं त वाक्यं
124
Page 125
११२ अन्वयार्थप्रकाशिकाविभूषिते
तद्वस्तु वक्तु मपरोक्षमशक्तमेव ।। न ह्यस्ति शब्दजनिताऽत्र जगत्त्रयेऽपि बुद्धि: करोति खलु या विषयापरोक्ष्यम् ॥१२४॥। वस्त्वस्तु नित्यमिति ॥ शब्दस्याषरोक्षज्ञानजनकत्व- स्य काप्यदर्शनात् परोक्षज्ञानजनकत्वमेव स्वभावः । तेन व्यव- हितविषयमेव शब्दस्य प्रामाण्यं नाव्यवहितविषयं, यथा चक्षु- रादेरव्यवहितविषयत्वमित्यर्थः ॥ १२४॥ यत् पूर्वमुक्तं स्वयम्मकाशात्मननि संवेदनस्य मानेनाधातु- मशक्यत्वान्न मानकृत्यमिति,तत्रावगतेर संभवेऽपि संसारनिदान- भूताज्ञाननिष्टात्तिर्मानकृत्यमस्तीति चोदयति- अत्राह यद्यपि किमप्युपनेयमत्र चैतन्यवस्तुनि न सम्भत्रति प्रमाणैः ।। अस्त्येव नत्र भवभीतिनिदानभूत- मज्ञानमात्रमपनेयमनन्यमाने ॥ १२५॥ अब्राह यद्यपीति ॥ १२५।। अज्ञानस्यासच्वे सच्चे सदसत्वे च मानेन हेयत्वासंभवेन परिहरति- नैतत्प्रमाणमपनेत सती न तात्र-
नाप्यन्यदस्ति सदसद्यदनेन हेयं तस्मात् प्रमाणमपनेत न कस्यचिद्वः ॥१२६।। नैतत्प्रमाणमिति ॥ १२६ ॥
125
Page 126
संक्षेपशारीरके प्रथमोऽध्यायः।१। ११३
मानस्य कारकत्वाभावाच्च नाज्ानस्य तेन हेयतेत्याह- मानं न कारकमिति प्रथितं पृथिव्यां स्याच्चेत्क्रियावदिदमुज्झति मानभावम् । जन्यं न मानफलमित्यपि युष्मदीयाः संविद्रते न खलु जातु चिदक्षरेऽस्मिन् ॥१२७॥ मानं नेति ।। मानस्य कारकत्वेन ज्ञापकत्वासिद्धिः । कारकत्वज्ञापकत्वयोरसङ्गीर्णतयैव प्रसिद्धत्वादित्यर्थः । ननु मानमपि फलस्य जनकत्वात् कारकमितिचेन्न भवति,तत्रासंपति- पत्तेरित्याह ।। जन्यं न मानफलमिति ॥ जडार्थेऽपि न मानफलं जन्यं, किन्तु नित्यैव संविदभिव्यज्यत इति वेदान्तिनः प्ति- पद्मन्ते। अक्षरे कूटस्थमंविद्रूपे हेयोपादेयवर्जिते मानफलस्य न कदाचिदपि जन्यत्वसम्भव इत्यर्थः ॥ १२७.।। ननु अज्ञानस्य सच्वादिपक्षे निटत्तिर्नोपपद्यत इत्ययं दोषो नावतरति। अनिर्वचनीयत्वाभ्युपगमादितिचेन्न । तादृशस्या- Sप्रसिद्धे: शास्त्रलोकतश्चेत्याह- नाद्यापि वेदयहमनिर्वचनीयभाषां सर्वप्रवादहृदयान्यपि गाहमानः ।। तात्पर्यतो न च तथाविधमस्ति किश्चि- लोकप्रसिद्धमपि यद्विषयेयमिष्टा॥ १२८॥
नाद्यापीति ॥ १२८ ॥ तस्मादज्ञानहानं संवेदनं वा न ममाणकृत्यमस्ति, तद- भावाच न ब्रह्मणि वेदान्तानां मामाण्यमित्युपसंहरति-
126
Page 127
११४ अन्वयार्थप्रकाशिकाविभूषिते
तस्मात् प्रमाणफलमत्र निरुप्यमाणं ब्रह्मात्मवस्तुनि न सम्भवतीह किञ्चित ।। कृत्यं विना न च निरूपयितु प्रमाणं वेदान्तवाक्यमिह शक्यमनर्थकत्वात् ॥ १२९।। नस्मात् प्रमाणेति ॥ १२९॥ सिद्धे वस्तुनि शब्दसामर्थ्याभावाच्च न मिद्धे ब्रह्माण वेदान्तपामाण्यमित्याह कार्यान्वयान्वायिनि वस्तुनि शब्दशक्ति श्रोतुः प्रवर्त्तकधियं परिकत्प्य बालः । चष्टावशात् पुनरवि प्रतिभज्य भागं भागस्य वाचकमिति स्वयमेत वेतति ॥ १३० ॥ कार्यान्वयान्वयिनीति ॥ अयमर्थः ॥ वालो हि गा- मानयेति प्रयोगश्रवणसमनन्तरं प्रवर्त्तमानं पुरुपमुपलभ्य तस्य पतृत्तिलिङ्गेन तन्कारणतया प्रवर्त्तकधियं गवानयनकर्तव्यता- ज्ञानं शब्दश्रवणाSSनन्तर्याच्छव्दकार्यतया परिकल्प्य अनुमा- ख्येयगवानयनकर्तव्यतालक्षणे प्रवर्त्तकगामानयेत्यस्य सामर्थ्य प्रतिपद्य पुनरपि प्रयोगभेदेष्वावापोद्वापाभ्यां प्रविभज्य वाक्यं वाक्यार्थ च वाक्यभागं वाक्यार्थभागस्य वाचकममिति च तत्त-
कार्यान्वयान्वयीति वस्तुनि शब्दशक्ति वेत्ति स्वयमेव व्युत्पादना- Sनंपेक्षया प्रत्यक्षादि निबन्धनस्वव्यवहारदृष्टान्तेनान्वयव्यतिरेका- भ्यां कार्यकारणभावग्रहणकांशलेन वेत्ति। तत्र यौ वाक्यभाग- स्य पदस्यान्वयत्यतिरेकानुविधायिनौ वाक्यार्थभागस्यान्वयव्य-
127
Page 128
संक्षेपशारीरके प्रथमोऽध्यायः।१। ११"
तिरेका तो कार्यान्वयविशिष्टस्य न गवाद्यर्थमात्रस्य ! यतो, गा- मानयेति वाक्ये गोपदस्योद्धारे अश्वपदस्य वा अन्वये कार्या- Sन्वितस्यैव गोरुद्वारः। आवापश्चाशवस्य। कार्यान्वित्स्यैव गोरु- द्धारे तद्गतकार्यान्वयस्याप्युद्धारादउ्वावापे वाश्वगतकार्यान्वय- स्यावापात्। तथाच कार्यान्विरितार्थे सर्वस्य शक्तिरिति निश्चीयते। अत्र कार्यान्वितार्थत्वं शब्दमामर्थ्यपतियोगित्वपयोजकमिति स्व्रीकारे कार्यवाचिपदस्य लिडदेः कार्यान्वितार्थवाचकत्वं का- र्यान्तराभावान्न संभवतीति तत्र स्वार्थे अन्विते वा शक्तिरभ्युपे- या स्यात्तथाच प्रयोजकद्वैरप्यमेष्टव्यं स्यान्।तन्मा भूदिति पयो- जकैकरूप्यसिद्ध्यर्थमाह ।। कार्यान्वयान्वयिनीति ॥ कार्यप्रति- योगिको योऽन्वयस्तस्यान्वयि कार्यमन्यद्वा । तस्मिन् शब्द- शक्तिरिति प्रयोजकैकरूप्यसिद्धिरित्यर्थः ॥ १३० ।। ननु कार्यनिरुपितान्वयावच्छन्नेऽन्वायिनि शब्दशक्तिरिति वदता कार्यत्वावच्छिन्ने कार्ये शक्तेरभ्युपेयत्वात् रवेनेव स्वस्य निरूपणं कार्यस्यायुक्तं कल्पनीयं स्यादिति बेत्तत्राह- त्यक्त: कार्यान्विनार्थ वदितुमलम्यं शब्द इत्येष दक्षो नोक्तो योग्येतरार्थान्विरितमिति तु पुनः पूर्वमप्येष पक्षः ॥ किन्तु स्यादस्य शक्तिर्निजसहजवशादन्विरितारथाभिधाने योग्यत्वादेस्तु पश्चात्स्वयमुपनिपतत्यस्य कार्यैदमर्थ्यम्१३१ त्यक्त इति ॥ कार्यान्वितार्थे शब्दशक्तिरिति अय पक्षः परित्यक्तः । तर्हि किं योग्येतरान्विते शब्दशक्तिमाश्रयामि ? नैवमित्याह ॥ नोक्त इति ॥ अयं हि पक्षः पूर्वमप्यनुक्तो मया अयोग्येन वा इतरेण वाऽन्वयस्यापसक्ते:। व्यवच्छेद्याभावे योग्यताविशेषणस्य वैय्यर्थ्यात् । कार्यान्विते शब्दशक्तिरिति
128
Page 129
११६ अन्वयार्थ प्रकाशिकाविभूषिते
पूर्वमुक्तं सिद्धान्विते शब्दशक्तिरित्यस्य पक्षस्य व्यवच्छेदाय। सोऽपीदानीं त्यक्तः। त्वच्छ्रद्धानुरोधादित्यर्थः । तर्हि कथ- मभ्युपगम इतिचेत्तदाह।।किन्तु स्यादिति॥ अस्य शब्दस्य शक्ति- र्निजस्वभाववशादन्वितस्वार्थे इत्यर्थः । तर्हि सिद्धान्वितेऽपि शब्दशक्तिरभ्युपेता, नेत्याह॥ योग्यत्वादेस्त्विति ॥ न हि सिद्धस्य सिद्धेनान्वययोग्यता। कार्यस्य वा कार्येण आकाङ्का वा समस्व- भावतया परस्परमुपयोगाभावात् । किन्तु सिद्धकार्ययोरेव नि- र्वर्त्यनिर्वर्तकभूतयोरन्वययोग्यताकाङ्वा च । तयोश्चान्वयः कार्य- प्रधान इति कार्येदमर्थ्य विशिष्टकार्यपरत्वं वाक्यस्य सिद्ध- मित्यर्थः ॥१३१ ॥ ननु किमिदं कार्य नाम यत्परत्वं शब्दस्य प्रतिष्ठाप्यते। तत्र लक्षणेन तत्स्वरूपमाह- प्रवृत्यभावस्य विरोधि कार्य कालत्रयानन्विितमाहुरेके ।।
विज्ञापयत् प्रेरकमाहरन्ये ॥ १३२॥ प्रवृत्त्यभावस्थेति ॥ यस्मिन् सति प्टृत्तेरभावो नोप- पद्यते अवश्यम्भावित्वात्तदा पटत्ते: तत् कार्यमित्यर्थः । पवृत्य- भावविरोधित्वं प्रवृत्तेरप्यस्ति । तथा रागस्येति तत्र व्यभि- चारपाप्ती विशिनष्टि । कालत्रयेति । कालत्रयानन्विततया पतीयमानमित्यर्थः । एतदपि घटादिशब्दात् प्रतीयमाने घटादां- वस्तीति तदवच्छेदार्थमाद्यं विशेपणम् । तस्मात् कालत्रयानन्वि- ततया कार्याकारेण प्रतीयमानं पद्ृत्तिपयोजकं कार्यमित्यर्थः । इदं च लौकिकस्य क्रियाकार्यस्य वैदिकस्य नियोगकार्यस्य च
129
Page 130
संक्षेपशारीरके प्रथमोऽध्यायः।१। ११७
साधारणलक्षणम्।नच श्रेय:साधनेऽपीदं लक्षणं गच्छतीति वाच्य- म्। श्रेयःसाधनतया प्रतीते विषये साधनान्तरादपि तत्साध्य- सिद्धिं पश्यतः पटृत्यभावदष्टेरिति भावः । लक्षणान्तरमाह॥ स्व्र- गोचरस्येति॥ प्रेरकमित्येतावत्युक्ते रागे पसङ्गः । तद्व्याटृत्त्यर्थ स्वगोचरस्य धात्वर्थस्येप्सितसाधनत्वं विज्ञापयदिति विशेषणम्। तच्चे ष्टसाधनत्ववोधकपमाणेऽपि गच्छेदिति तव्वाउत्त्यर्थ प्रेरकमिति स्वगोचरस्येप्सितसाधनत्वं च काम्यनियोगे तावत् प्रतिपन्नं नित्य- नियोगेऽपि नियोगस्य कृत्युद्देश्यतयेष्टत्वात्तत्साधनत्वस्य नि- योगाक्षिप्ततया धात्वर्थस्यावगम्यमानत्वादस्त्येव । एवं येनकेन- चिद्विशेपणेन विशिष्टतया इष्टसाधनत्वज्ञानस्य प्रेरकत्वकल्पनेऽपि न कार्यलक्षणं तत्र तु इष्टसाधनत्वज्ञापकत्वस्येष्टसाधनत्वे भावात्। एतच्च लक्षणं धात्वर्थकार्यविलक्षणकार्यविषयमिष्टसाधनत्वज्ञापक- त्वाभिधानाद्, न धात्वर्थकार्यस्यापि । १३२।। इदं चोक्तलक्षणद्यं ताटस्थ्येन कार्य लक्षयति, न स्वरूपेण अतः स्वरूपसमर्पकं लक्षणमाह- या नान्यमुद्दिश्य कृतिः प्रवृत्ता तयैव यद व्याप्यतया प्रतीतम् तदेव कार्य कथयन्ति केचिद तरिचक्षणाः कार्यनिरूपणायाम् ॥ १३३ ॥ या नान्यमिति ॥ अनन्योद्दिष्टकतिव्याप्यत्वं कार्यस्वरूप- लंक्षणमित्यर्थः । तदुक्तं कृतिसाध्यं प्धानं यत्तत्कार्यमभिधीयते इति। एषां च विचक्षणत्वमेवंरूपलक्षणनिरूपणात् ॥ १३३ ।। ननु कार्यत्वं विज्ञापयति यत्तन्नामाऽमसिद्धं यस्य लक्षण- मभिधीयते। नच पटटत्तेः पूर्वावस्थाकार्यमित्येवमाकारं पतीय-
130
Page 131
११८ अन्वयार्थप्रकाशिकाविभूषिते
मानमिति वाच्यम् । चिकीर्षाया एवैवं प्रतीयमानत्वात्। कर्तु- मिष्यमाणमेव हि कृतिप्रयोजकतया कर्तव्याकारेण प्रथत इनि। परिशिष्यमाणस्यैवमाकारत्वायोगादित्याह- भूत्वा रागः कारणं पुम्प्वृत्ते- र्नैवं कार्य कार्यरूपं विहाय।। रूपेणान्येनेष्यतेऽस्या निमितं भिन्दन्त्येवं रागकार्ये बहुज्ञाः ॥ १३४ ॥ भूत्वा राग इति । निष्पन्नो हि रागः प्रवर्तकः । नच नस्य कर्तव्यत्वमिति न रागस्य कृतिसाध्याकारता भवति । अस्मदभिमतं तु कार्य कर्तव्यमिति साध्याकारेणैव प्रवर्तकम् । अतो रागाद्विलक्षणं कार्यमिति साध्यकाकारावसेयमुक्तलक्षणस्य लक्ष्यं प्रसिद्धमित्यर्थः ॥१३४॥। तस्मादेतस्मिन् कारये पदार्थान्तरविशिष्टे प्रथमं पदसमहस्य सामर्थ्य प्रतिपद्य पश्चात् पयोगभेदेष्वावापीद्वापवशात् प्रतिपदं कार्यान्वितेऽर्ये शक्तिरिति व्युत्पत्तिपर्यवसायिनी शक्तिरित्याह-
स्व्रोत्पत्त्यैवेति शक्तिप्रतिनियममिमं पर्श्चावर्ती तटस्थ: । जानात्यालोच्य भूयो नयनिपुणमतिर्भागशः कार्ययुक्ते वस्तुन्येतस्य हेनोरुपनिषदखिला कार्यशेषे प्रमाणम्॥१३५ आवापोद्वापेति । इदं पदममुकस्यार्थभागस्याभिधाने स्व्रोत्पच्यैव स्वभावादेव समर्थमित्येवं कार्ययुक्ते वस्तुनि शब्द- शक्तिपतीतिनियमं भूयो भूयोऽप्यालोच्य जानातीति सम्बन्धः ॥ तत्फलमाह ।। एतस्य हेतोरिति ॥ १३५ ॥
131
Page 132
संक्षेपशारीरके प्रथमोऽध्यायः।१। ११९.
ननु मानान्तरानवगते नियोगे कथं व्युत्पत्तिरिति, तत्राह- आज्ञादिभेदेष्वनुवर्त्तमाने प्रवृत्त्यभावस्य विरोधिमात्रे । लिडदिशब्दस्य स वेत्ति शक्तिं
आज्ञादिभेदेष्विति। आज्ञादिषु नियोगे चानुगतं यत्पवर्तकत्वसामान्यं तत्र लिडदीनां शक्तिग्रहो, न साक्षान्नि- योग इत्यर्थः ।। १३६ ।। मतान्तरमाह- अन्ये वदन्ति निरुषधिनियोगरूपं वेदे भवत्यपुरुषप्रभत स्व्रतन्त्रम ।। लोके पुनः पुरुषधीरचितेषु कार्य सोपाधिकं तदिति कारणतो वच:सु ॥ १३७॥ अन्ये वदन्तीति ॥ लोकेऽप्यस्ति नियोगः, सोपाधिकं कारणतः पौरुषेयत्वकारणान्तरोपाधिनिविष्टे नियोगेऽप्युत्पत्ति- म्। केवलस्य नियोगस्य तु प्रमितिशब्दानां भूतार्थप्रत्यायन- शक्तिर्नास्तीति निश्चित्य तत्र शास्त्रस्य प्रामाण्यं न सम्भवतीति निश्चिनोतीत्यर्थः । अपौरुपेयो वेद एवेति भावः ॥ १३७॥ लोके कोऽसावुपाधिर्नियोगस्य व्युत्पत्तिश्र किं तद्विशिष्ट किं वा केवल इतिचेत्तत्राह- आज्ञायाञ्चाद्युपाधिप्रणिपतितवपुः साधनेहानुबन्धं विज्ञातोपायभावं विषयमनुसरत पौरुषेयीषु वाक्षु ॥
132
Page 133
१२० अन्वयार्थप्रकाशिका विभूषिते
वेदे कर्तस्थगगाद्युपधिविरहितं कर्तृशून्ये ततोऽस्मिन् सर्वत्रैकस्वभावस्थितवपुषि भवेल्लब्धशक्तिर्लिडदिः॥।१३८ आज्ञायाच्जादीति॥ आज्ञादयो वक्तृपुरुषाभिपायाः । तेषु प्रणिपतितवपुर्नियोगरूपमाज्ञादिष्वन्यतमरहिते धात्वर्थमात्रे नास्ति। तत्रापि साधनेहानुबन्धं साधनेहा चिकीर्षा तद्विशिष्टम्। चिकीर्षाभावे तु नास्त्याज्ञादौ सत्यपीत्यर्थः । अत एव च विज्ञातोपायभावं विषयं धात्वर्थमनुसरद्विपयीकुर्वदिष्टसाधनतया- Sनवगते चिकीर्षाकार्य वा न भवतीत्यर्थः । एवं पौरुषेये वाक्ये। वेदे तु पौरुपेयत्वाभावान्नाज्ञाय्युपरागः। नापि चिकीर्पावच्छेदः। न अत एव विषयस्य इष्टसाधनत्वाज्ञाद्यपेक्षा। अतस्तत्र स्वतन्त्रं तस्मिन्नियोगे लोकवेदयोरेकरूपेणैव स्थितरूपे आज्ञादिद्वारेण लक्ष्यनाणो लिडादेः शक्तिग्रहो, न विशिष्ट इत्यर्थः ॥ १३८॥ नियोगवादी साक्षादभिमतं व्युत्पत्तिप्रकारमाह- अन्ये भिन्नस्वभावं विविधमभिदधत्या नुरूप्येण कार्य लोके धात्वर्थरूपं श्रुतिवचास पुनस्तन्नियोगाख्यमेव ।। संमुग्धे तत्र शक्तिं शिशुरयमत्रगम्यादितो न्यायचक्षुः पश्चाद्देदैकवेद्यं वदति लिडिति च प्रेक्षते निश्चयेन ॥ ।। १३९ ॥ अन्ये भिन्नस्वभावमिति ॥ लोके क्रियाकार्यमेव, न त्वाज्ञाद्युपाधिकतयाऽपि नियोगस्तत्रास्ते। वेदे तु स्वर्गकामपद समभिव्याहारान्यथानुपपच्या नियोगः सिद्ध्यति। तत्र च
133
Page 134
संक्षेपशारीरके प्रथमोऽध्यायः।१ १२१
लिडादिव्युत्पत्तिः पर्यवस्यति। लोके धात्वर्थकार्य आरब्धा सती। अतश्च वेद एव लिडादेर्मुख्योऽर्थः, लोके लाक्षणिक इत्यर्थ: ॥ १३९॥ विपरीतं किं न स्यादिति, नत्राह- धात्वर्थाख्यानशक्ता यदि भवति गुणाद्वर्त्तितुं वैदिकेडयं संबन्धाज्ञानहतोरनलमथ पुनवैदिके शक्तिमान् स्यात् । तत्संबन्धात् क्रियामप्यभिवदितुमलं लक्षणावृत्तितोडयं लिङशव्दस्तेन कार्ये श्रुतिवचनगते शक्त इत्यध्यवस्ये- त् ॥। १४० ॥ धात्वर्थाख्यानेति।घात्वर्थकार्ये यदि लिादिर्मुख्यः स्यात् तदा वैदिके नियोगे गुणादुपचारादूर्तितुमनलम्। नियोगस्य धात्वर्थसंबन्धतद्गुणयोगयोरज्ञानात्। वैदिकनियोगे तु मुख्यत्वे तस्य धात्वर्थविषयतयैवावगम्यमानत्वाद्धात्वर्थस्य तत्संबन्धस्य सिद्धत्वात्तत्र लक्षणावृत्तिरुपपद्यते। उभयत्र मुख्यार्थत्वेन कार्य- त्वमन्याय्यं प्रसज्ज्यत इति नियोग एव मुख्य इति भावः । एवं लिडादेरनियोगे शक्तिमनेकन्यायापेक्षया प्रयोजिकां विविच्य प्रतिपद्यावापोद्वापवशादेवमेव शब्दान्तराणामपि बहुन्यायापेक्षया अर्थ विविच्य तत्र शक्तिं गृह्न् कार्यान्वयस्य सर्वत्र भावात् कार्यान्वितेऽर्थे न्यायज्ञतया शक्ति प्रतिपद्यत इति ॥ १४० ॥ उपसंहरति- एवं शब्दान्तराणं नयनिपुणमतिः शक्तिवित् स क्रमेण प्रक्षेपोद्धारदर्शी भवति कतिपयैवीसरैस्तत्र तत्र।। तस्मात्कार्यान्वितार्थे सकलमपि पदं शक्तिमदबुद्यमानो १६
134
Page 135
१२२ अन्वयार्थप्रकाशिकाविभूषित
भूनाद्यर्थप्रतीति प्रति विमुखमनाशशास्त्रतः स्यान्मनुष्यः ॥ १४१ ॥ एवमिति।।एवं बहुन्यायापेक्षत्वेऽपि शीघ्रमेव व्युत्पत्तिर्भवती- त्याह।।कतिपयैर्वासिरैरिति ॥ स्वतः प्रामाण्याद्वालानामवक्रबुद्धि- त्वाद्ुभुत्सुत्वाच्चैतादृशमन्व्रयव्यतिरेककौशलं क्षिपमेव भवतीति भावः ॥ एवं कार्यान्विते शब्दशक्तिकथनेन किं प्रकृत इति, नदाह ।। तस्मादिति ॥ १४१ ॥ स्यादेतदेवं यदि प्रवर्तकवाक्यादेव व्युत्पत्तिः, न तु तथा। किन्तु पुत्रस्ते जान इत्यादिसिद्धनिष्ठादस्तु व्युत्पत्तिः । श्रोतृ- मुखविकासादिलिद्वेन त्भेतुपुत्रजन्मज्ञानमनुमाय शब्दस्य तत्र सामथ्यग्रहोपपत्तिरितिचेत्तत्राह- वाक्याद्भतार्थनिष्ठाज्जवति न तु नृणां शब्दशकक्तप्रतीति- लिङ्गं श्रातृस्थबुद्देर्न हि किमपि भवेदत्र बालोपलभ्यम ॥ न हयेनन पुत्रजन्साद्यवगतिनियतं नित्यवननिश्चितं नो
वाक्यादू भूनार्थेति ॥ तथाहि प्रवर्तकवाक्ये विशिष्टार्थ- प्रवृत्या तद्भियानुमानेनवमत्र विशिष्टार्थज्ञानानुमापकं लिङ्गमस्ति न तु मुखविकासादि लिङ्गं स्यात्,पुत्रजन्मनि। पुत्रस्ते मृत इत्या- दाँ च क्षितिललुठनादि लिङ्गं स्यादिति नेत्याह ॥ न ह्येतत् पुत्रे- नि।। मुसप्रसादादिना सुखानुभवमात्रमुन्नीयते, न पुत्रजन्मा- दि। क्षितिनलत्ुठनादिना दुःखमात्रं, न तन्मरणादि । अतो विशिष्टाडर्थेन शब्दसामर्थ्यकलृप्तिसम्भव इत्यर्थः ॥१४२ ॥ यस्मात् सिद्धे वस्तुनि न सम्भवति शब्दसामर्थ्य, यस्माच्च
135
Page 136
संक्षेपशारीरके प्रथमोऽध्यायः।१ १२३
सिद्धे वस्तुनि मानान्तरसापेक्षं प्रामाण्यं, यस्माच्च स्वपकाशनया प्रमाणाविषयत्वं कूटस्थतया च हानोपादानासम्भवेन निष्पयो- जनत्वमखण्डैकरसतया च संसर्गवोधकवाक्यपामाण्यायोगः । तस्मान्न ब्रह्मणि वेदान्तप्ामाण्यमित्युपसंहरति- तस्मादाध्वंनिराशा: श्रुतिशिरसि न तस्यास्तिनिप्पत्ररूपे प्रमाण्यं कार्यशन्ये कथमपि च परव्रह्माणणि स्वप्रधान ॥ भूनं भव्यप्रधानं भवनि हि न पुनः स्वप्रधानं कदाचि- च्छास्त्रस्थाः शब्दशक्तिस्थितिनिपुणधियो विस्तरादेव- माहु:॥।१४३।। तस्मादाध्वमिति ॥ यद्यपि वस्तुन्यपि प्रामाण्यं स्थात् तथापि विधिशेपतयेव देवताधिकरणन्यायेन प्रमाणाविरुदधे स्यात्, न तु स्वप्रधानतया यथा विवक्षिते ब्रह्मणीत्याह ॥ कथ- मपीति। तस्माद्वेदान्तानामपि विधिनिष्ठमेव प्रामाण्यं तच्दपन- या च सिद्धवादिपदानामन्वय इत्यभ्युपेयमिति सिद्धम्। नथाच न्यायवेदान्तपसिद्धिरपीत्याह । भूतं भव्येति॥ न केवलं मया हुदिता एते न्यायाः, किन्तु जैमिन्यादिभिरुक्ता इत्याह॥ शास्त्र- स्था इति ॥१४३ ॥ पूर्वपक्षमुपसंहरति- तस्मादसंगतमिदं प्रतिभाति यन्मे वाक्यप्रमाणकमुदीरितमद्यत्वम्।। इत्येवमेष मम बुद्धिपर्थं विरोध: प्राप्तः प्रभो परिहरैनमनुग्रहाय ॥ १४४ ॥
136
Page 137
१२४ अन्वयार्थप्रकाशिकाविभूषिते
तस्मादसङ्गतमिति ॥ प्रतिवादिभावं परित्यज्य शिष्य एव भूत्वा सिद्धान्तवुधुत्सामाविष्करोति ॥ इत्येवमिति ॥१४४।। आचार्यः क्रमेण दोषान् परिहरिष्यँस्तत्वम्पदार्थयोर्विरोधा- दन्वयो न सम्भवतीति यः प्रथमोक्तो दोपस्तमखण्डवाक्यार्था- श्रयणेन परिहर्तु संसर्गवाक्यार्थपक्षोक्तदोषमङ्गीकरोति- सत्यं यदाह गुरुमान् यदि वाक्यगम्यं संसर्ग रूपमिह वेदशिरःस्व्रभीष्टम् ॥ अस्त्वेव तत्र पदयोरुभयोर्विरोध: पारोक्ष्यसद्वयविरोधकृतस्तदानीम् ॥ १४५ ॥। मत्यं यदाहेति । संमर्गवाक्यार्थस्तत्र नाड्गीक्रियत इति शेष: ॥। १४५ ।। ननु संसर्गो वा विशिष्टो वा वाक्यार्थ इति वाक्यार्थलक्षण स्य न्यायविदां पसिद्धत्वात् क्थं नाङ्गीकार्यः स इति तत्राह यत् कर्मकाण्डनिपुणैरुदितं पुरस्ताद वाक्यार्थलक्षणमदः पुनरत्र नेष्टम् ॥ भेदादिवर्जितमखण्डमुशन्ति यस्मा- च्छ्रीबादरायणमतानुगता महान्तः ।। १४६ ।। यत्कार्मकाण्डेति ॥ कर्मकाण्डकराक्षिकारेण वाक्यार्थ- विशेषलक्षणं तैरुक्तम्। ज्ञानकाण्डे तु तन्नेष्टम्। अखण्डैकरसत्वस्य वाक्यार्थलक्षणतयोक्तत्वात्। तथाच वाक्यार्थसामान्यलक्षणं वाक्यपमेयत्वमेवेति भावः ॥ १४६ । ननु वाक्यत्वाविशेषेऽपि किं निमित्तमिदं वाक्यार्थवैलक्षण्यं काण्डयोरिति तत्राह-
137
Page 138
संक्षेपशारीर के प्रथमोऽध्यायः।१। १२१
भेदादिरूपमवबोधयितुं समर्थ यदाक्यमरिति तदखण्डविलक्षणार्थम् ॥ तल्लौकिकं भवतु वैदिकमेव वास्तु नास्माकमत्र विषये तिमतिः कदाचित् ॥ १४७॥ भेदादिरूपमिति । वाक्ये ह्यपुनरुक्तपदावसेयानामर्था- नामनेकत्वात्तेपां संसर्गो वा भेदो वा वाक्यार्थः स्वतः पाप्तस्य तस्य वाधकं च नास्तिचेत् स एव वाक्यार्थः । अतः कर्मकाण्डे नाहशलोकवाक्ये च स एव वाक्यार्थोऽस्त्वित्यर्थः ॥ १४७॥ इह तु न तथेत्याह- यदाक्यजातमथ वेदशिरानिविषटं यद्वापि लौकिकमखण्डमपास्य नान्यत् ।। शक्कांति वस्तु वदितुं तदशेषमेव ब्रूयादखण्डमिति तु प्रतिपादयामः ॥१४८॥ यद्वाक्यजातमिति ॥ ज्ञानकाण्डे तु स्वतःप्राप्तोऽपि संसर्गो वा भेदो वा न संभवति, अखण्डार्थता तु संभवति। अतः स एव वाक्यार्थः। लोके च तादृशवाक्यं पसिद्धम् । तच्च सर्व पतिपादयाम इत्यर्थः ॥ १४८॥ लौकिकं तादृशवाक्यमुदाहरति- सोऽयं पुमानिति हि मुख्यपदार्थयुक्त- वाक्यार्थबुद्धिजननस्य न वाक्यमेतत ।। ईशीत वाच्यशबलस्थपदद्दयेन संसृष्टबुद्धिजनने पदयोर्विरोधात ॥ १४९ ॥
138
Page 139
१२६ अन्वयार्थप्रकाशिकाविभूषिते सोऽयं पुमानिति । मुख्यपदार्थयुक्तो यो वाक्यार्थस्त- द्वाच्ययोः संसर्गो वा भेदो वा तद्विषयबुद्धिजननस्य, सोडयं पुमानिति वाक्यं नेशि। ततो वाच्यं यच्छबलं तटस्थं तद्विपयं त- त्समर्पकं यत्सोऽयमितिपदद्यं तेन कारणेन संसष्टार्थद्वयविषय- बुद्धिजनने निष्पादने वाक्यस्याभ्युपगम्यमाने पदयोर्विरोधाद्वि- रुद्धार्थत्वेन पदयोरन्वयासंभवादित्यर्थः ॥ १४९ ॥ तस्मादिदं वाक्यं देवदत्तस्वरूपलक्षणयाSखण्डार्थनिष्ठमभ्यु- पेयमत्याह- एतद्धि सोऽयममिति वक्यमखण्डनिषठं वक्तव्यमत्र गतिरस्ति न काचिदन्या ।। तद्शकालमनुक्कष्य स इत्यनेन नायं पदार्थमुपढौकयते हि नैतत् ॥ १५० ॥ एतद्धीति ॥ अत्र कः पदार्थयोरन्वयासंभव इति तत्राह।। तद्देशकालमिति ॥ से इत्यनेन पदेन तद्देशकालान्ती परोक्षी देश- कालौ यस्य तद्विशिष्टमनुकृष्याभिधाय तद्विशिष्टार्थ पदार्थमेत- ददेशकालविशिष्टं नोपढौकयते न मापयति। वाक्यं तद्देशकाल- विशिष्टार्थवैशिष्ठ्यमेतद्देशकालविशिष्टस्य न वोधयतीत्यर्थः ॥ नैत- दिति ।। एतद्देशकालविशिष्टमपि वस्तु अयमित्यनेनानुकृष्य- तत्पदार्थमपि नोपढोकयते। एतद्देशकालविशिष्टार्थवेशिष्टयमपि तद्देशकालविशिष्टार्थस्य न बोधयति । विशिष्टयोद्योः परस्पर- मेकत्वविरोधादित्यभिसन्धिः ॥ १५० ।। यदैवं लोके मुख्यार्थयोरन्वयासंभवे लक्षणयाऽखण्डार्थत्वं दृष्टं तदा तत्वमसिवाक्यस्यापि लक्षणया अखडार्थनिष्ठत्वं दष्टा- न्तेन सुपतिपाद्यमित्याह-
139
Page 140
संक्षेपशारीरके प्रथमोऽध्यायः।१। १२७
एवं सतीदमपि तत्त्वमसीति वाक्य- माश्रित्य लाक्षणिकतृत्तिमखण्डनिष्ठम । सोडयं पुमानिति यथा वचनं तथास्तु नो चेत् समं हि तदलाबुनिमज्नोक्त्या॥१५१॥ एवं सतीति ॥ तथाऽनभ्युपगमे पूर्वोक्तपकारेण विरुद्धा- ञर्थत्वेनापामाण्यपसङ्गं बाधकमाह । नोचेत् सममिति ॥१५१॥ यत् पुनरुक्तं- मानान्तरसिद्धत्वाभावाललक्षणापि ब्रह्मणि न संभवतीति, तत्राह- मानान्तराविगतगोचरगामिनी स्या- च्छव्दस्य लाक्षणिकवृत्तिरिति प्रलाप: । सिद्धत्वमात्रमिह लाक्षणिकप्रवृत्ते-
मानान्तरेति॥ यद्यपि मानान्तरप्रसिद्ध एवार्थे लक्षणाप- वत्तिर्दष्टा सर्वत्र, न तु सिद्धमात्रे, तथापि सिद्धत्वमात्रमत्र प्रयोजकं मानान्तर विशेषणं तु केवलव्यतिरेकाभावान्न प्रयजको- मित्यर्थः ॥१५२ ॥ नन्वन्वयमात्रेण यथाकाशादेः कारणत्वमेवमत्रापि व्यतिरेक- सिद्धिं विनापि विशेषणं प्रयोजकं भवतु लक्षणायामितिचेञ्नेत्याह- मानान्तराधिगतता हि न लक्षणायां किञ्चित्करी भवति पिङ्गलतावदग्नेः ॥ धूमस्य जन्मनि हि पिङ्गलता न हेतु- र्यद्यप्यवस्थिततरती हुतभुक्शरीरे ॥१५३॥
140
Page 141
१२८ अन्वयार्थप्रकाशिकाविभूषिते
मानान्तरेति॥ आकाशस्य हि व्यतिरेकादर्शनेऽपि कारण- त्वमुपयोगदर्शनात् सिख्यति। निरवकाशस्यामूर्तद्रव्यस्योत्पच्य- 5संभवात्तर्कवशात् कारणत्वं कल्प्यते। मानान्तरसिद्धेऽस्य न लक्षणायां कश्चिदुपयोगोऽस्ति । सिद्धमात्रत्वव्यतिरेकेण घूमो- त्पत्ताविवाग्निपैङ्गल्यस्येत्यर्थः । दृष्टान्तमाविष्करोति॥ धूम- स्येति ॥ १५३ ॥ तस्मात् स्वयम्प्रकाशे सिद्धे ब्रह्मणि पदानां लक्षणावृत्ति- रुपपद्यत इति स्थितम्। तत्र जहदजहल्लक्षणात्र ग्राह्येति वक्तुं लक्षणात्रे विध्यमाह- शब्दस्य लाक्षणिकवृत्तिरपि त्रिधैषा काचिज्जहाति न जहाति च वाच्यमन्या । भागं जहाति न जहाति च भागमन्या सोऽयं त्रिधा भवति लाक्षणिकप्रकारः ॥ १५४॥ शब्दस्येति॥ १५४॥ लोके क्रमेण तासामुदाहरणमाह- गङ्गापदं हि निजमर्थमपास्य तीरे यद्वर्त्तत भवति सा जहती प्रसिद्धा ।। शोण: स्थितो बहिरितीह.तु लक्षणाया- मादाय शोणिमगुणं तुरगे प्रवृत्तिः । १५५।। गङ्गापद्मिति ॥ द्येन । निजमर्थ स्ववाच्यपवाहमपास्य न्यक्त्वा यद् यस्मात्, शोण: शोणिमगुणोऽश्वत्वनियतः॥१५५।। सोडयं पुमानितित्रचस्युभयप्रकारा
141
Page 142
संक्षेपशारीरके प्रथमोउध्यायः।१। १२९
देशादिभागपरिवर्जनतः प्रसिद्धा ॥ पुंसश्च केवलमुपात्ततया पदाभ्या- मेवं त्रिधा भवति लाक्षणिकी प्रवृत्तिः ॥१५६॥ सोडयमितीति॥ उभयप्रकारा जहदजहद्रूपा। तदेवो- पपाद्यति ॥ देशादीति ॥ तदेतद्देशकालवैशिष्टयरूपभागवर्जनात् केवलं यथा स्यात्तथा तदिदम्पदाभ्यां पुंस उपात्ततया चेत्यर्थः । उपसंहरति ॥ एवं त्रिधेति। गङ्गायां घोष इत्यत्र हि वस्तुतो गङ्गासंबन्धि यत् तीरं घोषान्वययोग्यं तदेव लक्षणया प्रतीयते, न तु गङ्गाविशिष्टतीरम्। तस्य तेन रूपेणान्वयायोग्यत्वात्। अतो गङ्गापदे जहल्क्षणैव । एवं, वहिः शोणस्तिष्ठतीत्यादौ निष्कृष्ट- द्रव्यगुणमात्रस्य वहिर्देशस्थित्यनुपपत्तेः शोणगुणविशिष्टस्यैव- अश्वस्य नियमेन स्थित्यवगमात् साऽजहल्लक्षणा।स्वार्थमुपादायैव तस्य द्रव्ये वृत्तेः। सोऽयमित्यादौ प्रागुक्तन्यायेनाभेदविरुद्ध- देशादिपदार्थभागं परित्यज्य धर्मिस्वरूपं पदार्थभागमुपादायेदं वाक्यमभेदं प्रतिपादयतीति तत्र सा जहदजहदूपेति लाक्षणिकी वृत्तिस्त्रधा भवतीत्यर्थः ॥ १५६ ।। एवं वेदेऽपि त्रैविध्यमेवोदाहरणेनाह- वेदेऽवि लाक्षणिकवृत्तिरियं त्रिधैषा यज्ञायुधीतिवचने तु जहत्प्रवृत्तिः ।। वैश्वानरादिवचनेष्त्रजहत्प्रवृत्ति- स्तत््वंगिरोरुभयरूपतया प्रवृत्तिः ॥ १५७।। वेदेऽपीति ॥ यज्ञायुधी यजमान: स्वर्ग लोकमेतीति चाक्येऽन्त्येष्टिप्रकरणस्थे अभिहोत्रकपालादिपा त्रैर्विसिष्टो यजमान: १७
142
Page 143
१३० अन्वयार्थप्रकाशिकाविभूषिते
स्वर्ग गच्छतीति पतीयते। तदनुपपन्नम्। अभिहोत्रपात्राणां प्त्यक्षेणैव दाहाद् यजमानस्याग्निहोत्रकपालादियज्ञायुधविशि- षृस्य स्वर्गगमनायोगाद् यज्ञायुधीशब्दस्तस्मिन् स्वार्थ परित्यज्य वर्तते इति सा जहल्क्षणा मत्वर्थप्रत्ययस्य संबन्धमात्रनिष्ठत्वम- भिमेत्य संबन्धो यजमाने जहल्क्षणेत्युक्तम् । विशिष्टात् केवल- मन्यदित्याशयेन वा जहत्पवृत्तिर्जहलक्षणा दृत्तिवैश्वानरादि- वचनेष्विति, प्रादेशमात्रमभिविमानमात्मानं वैश्वानरम् इत्यत्र वैश्वानरशब्दो जाठरेडय्ौ रूढस्तदवच्छिन्ने आत्मनि वर्त्तते। अन्यथा आत्मानं वैश्वानरमिति सामानाधिकरण्यायोगात् । तथाच स्वार्थापरित्यागेन सहात्मनि वर्तत इति तस्य तत्राजह- लक्षणा। आदिशव्देन सष्टीरुपदधातीत्यत्र सष्टयसष्टीष्टकासु वर्तमान: सृष्टिशब्दो गृहीतः ॥ तत््वंगिरोरिति ॥ तत्वमस्यादि- वाक्यस्थतत्वम्पदयोरित्यर्थः । उभयरूपतया जहदजहद्रूपतया पदद्वयार्थेऽपि अभेदविरोधिविशेषणांशपरित्यागेनापरोक्षचतन्या- डद्ूयानन्दे पदद्वयम उत्तेः सा जहदजहल्लक्षणे यर्थः । एतेन ब्रह्मा- SSत्मनि शक्तब्रह्मादिपदस्य क्थ तत्र लक्षणा।ब्रह्मादिपदलक्ष्यस्य शास्त्रार्थत्वे इदमपि शास्त्रमनात्मनिष्ठमिति दूषणद्वयं परिहृतम् । शबले ब्रह्मणि गृहीतसंगतिकस्य शुद्धे ब्रह्मात्मनि लक्षणोपपत्ते- रिति ॥ १५७॥ ननु कथं तर्हि ब्रह्मशब्दस्य पूर्णब्रह्मार्थत्वं ब्रह्मातिरिक्तस्य सर्वस्य परिच्छिन्नत्वेन तच्छबले पूर्णतारूपबृहत्वासंभवादित्या-
व्रह्माडज्ञाने ह्वद्वितीयत्वमेकं ब्रह्मण्यन्यच्चाद्वितीयत्वमस्ति ॥
143
Page 144
संक्षेपशारीरके प्रथमोऽध्यायः ।१। १३१
तत्सम्पर्कात्तत्र चाह्वैततान्या व्युत्पन्नोऽयं ब्रह्मशब्दस्तु तत्र ॥ १५८ ॥ व्रह्माज्ञाने इति ॥ ब्रह्माश्रयविषयाज्ञान इत्यर्थः । हि यस्माद् ब्रह्माज्ञानमेकमद्वितीयमस्ति तस्य सकलपपञ्चविवर्ता- SSश्रयतया ब्रह्मण्यध्यस्तत्वेन तदन्तर्भूनतया च सजातीया- दिभेदशून्यत्वाद् ब्रह्मणि शुद्धे चान्यदद्वितीयमस्ति तदति- रिक्तस्य सर्वस्य मिथ्यात्वेन जीवानां च तन्मात्रत्वेन स- जातीयादि भेदशून्यत्वात्तत्संपर्कात् तयोः परस्परमधिष्ठानाध्यस्त- तया तादात्म्यात् संटत्ते तत्र तदुभयात्मके शबले अन्याद्वैत- तास्ति। अद्वितीयात्मकस्य तस्याप्यद्वैततानियमात्। एवश्च सति ब्रह्मशब्दस्य वेदान्तेपु जगत्कारणे बहुशः प्रयोगाज्जगत्कारण- त्वस्य केवले सम्भवान्मायां तु प्रकृति देवात्मशक्तिमित्यादि- वचनैर्बृहति शबले व्युत्पत्तिरविरुद्धेत्याह।।व्युत्पन्न इति ॥१५८।। एवं महावाक्यस्थब्रह्मादिपदवाच्यं शबळम् । तत्र शव्दस्य शक्ति व्युत्पत्ति च दर्शयित्वा तद्राक्यस्थाहमादिपदवाच्यशबलं तत्राहमादिपदसम्बन्धग्रहं च दर्शयति- प्रत्यग्भावस्तावदेकोडस्ति बुद्धौ प्रत्यग्भावः कश्विदन्यः प्रतीचि ॥ प्रत्यग्भावस्तत्कृतस्तत्र चान्यो व्युत्पन्नोऽगं तत्र चात्मेति शब्दः ॥ १५९ ॥ प्रत्यर्भाव इति । आन्तरत्वमिति यावत्। बुद्धौ अन्तःकरणे शरीरेन्द्रियाद्यपेक्षया हि तदधिष्ठातन्तःकरणमान्तर- मित्यर्थः। अन्य आपेक्षिकादन्तःकरणनिष्ठपत्यक्त्वादन्यः पतीचि
144
Page 145
१३२ अन्वयार्थप्रकाशिकाविभूषिते
साक्षिणि तस्य य आत्मा सर्वान्तर इतिश्रुतेः । सर्वान्तरत्व- मन्यः पत्यग्भावोऽस्तीत्यर्थः ॥ तत्कृतः ताभ्यां प्रत्यक्त्वाभ्यां कृतः । तत्र तदुभये शबले अन्यः ताभ्यां पत्यक्त्वाभ्याम् अन्यः प्रत्यग्भावोऽस्तीत्यनुपङ्गः। ततः किं, तत्राह । व्युत्पन्नो- डयममिति ॥ तत्र शबले आत्मेतिशब्द: त्वमहमादिशब्दः ।यद्यपि अहमादिशब्दसङ्गतिग्रहसमये तदर्थे शबलत्वं न प्रतीयते, तथापि तस्मिन् विचारकाले तत् सिद्यतीति वक्ष्यति। ततस्तदापि त- दुभयात्मकमेवेत्युक्तम् । १५९।। एवं तत्वम्पदयोर्वाच्यार्थो व्युत्पाद्य तयोर्ल्लक्ष्यार्थमुद्धृन्य व्युत्पादयति- तच्छब्दवाच्यगतमद्दयभागमेकं प्रत्यक्त्वमात्रमविरोधमपेक्षमाणः ।। त्वंशब्दवायशबलस्थमुपाददानो वाक्यादरण्डमथ तत्त्वमसीति तरिद्यात ॥१६०॥ सच्छव्दवाच्यगतमिति॥तच्छब्दवाच्यगतमेकं वास्तव- मद्यभागं तत्पदेन लक्षणयोपाददान इति सम्बन्धः । तथा त्वं- शब्दवाच्यशवलस्थं वास्तवं चिद्नूपं पत्यक्त्वमात्रं चोपाददान इति पुनः सम्बन्धः । किमित्येवं भागलक्षणयार्थेकदेश उपादी- यत इति तत्राह। अविरोधमपेक्षमाण इति ॥ शबले व्युत्पन्नस्य शब्दस्य तदेकदेशे पर्यवसानं लक्षणा। एकदेशश्र परस्पराविरुद्ध एकस्वभावश्राखण्डवाक्यार्थत्वयोग्य इत्येवमविरोधम् अपेक्षमाणो जिज्ञासुरथैवं पदार्थनिश्रयानन्तरं तत्वमसीति वाक्यादखण्डं वाक्यार्थ विद्यादिति योजना ॥ एतदुक्त्तं भवति। वाच्यार्थयोः प्रत्यक्पराग्भावेनापरोक्षपरोक्षत्वाभ्यां च विरोधात्तयोः संसर्गो
145
Page 146
संक्षेपशारीरके प्रथमोऽध्यायः।१। १३३
वा तादात्म्यं वा न सम्भवतीति वाक्यार्थाबोधकत्वेन वाक्य- स्यापामाण्यशङ्का भवेत्। सा माभूदिति स्वतः पाप्तपामाण्य- संरक्षणाय सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं, तत्सत्यम्, आत्मेप्युपक्रमोपसंहारयोरवधार्यमाणाखण्डकरसत्वाविरोधाय च तत्पदार्थे सविकारमज्ञानांशं विहाय त्वमर्थे च सविकारं बुद्धंशं च परित्यज्य स्वपकाशचित्सदानन्दात्मकमुभयपदार्थगतमवि- रुद्धमंशं लक्षणया गृहीत्वाऽखण्डं वाक्यार्थ विद्यादिति॥१६०॥ ननु लक्ष्यांशयो: केनाप्यंशन भेदोऽस्त्युत न । आद्ये ना-
आदेयांशे नाणुमात्रोऽवि भेदो यद्यप्येवं भिन्नमादाय शब्दौ।। वर्तेते त्वय्यद्वतीयप्रकाशे बाह्यं हेतुं जामिता नास्ति तस्मान ॥ १६१ ॥
आदेयांश इति । आदेयांशे लक्ष्यांशे त्वय्यद्वयात्मम- काशे आत्मस्वरूपे ब्रह्मणीति यावत्। यद्यप्येवमुक्तप्रकारेण पदार्थयोरणुमात्रोऽपीपन्मात्रमपि केनाप्यंशनेति यावत्, भेदो नास्ति तथापि यस्माच्छब्दौ तत्वम्पदात्मकौ बाहां लक्ष्यार्थबहि- र्भूतं भिन्नं मिथोव्याटृत्तं हेतुं शब्दपवत्तिनिमित्तं कार्यकारणत्व- लक्षणमादाय वर्त्तते । तस्मात् पदयोजामिता पुनरुक्तता पर्या- यत्वापत्तिर्नास्ति। अतो नोक्तदोषद्वयस्याप्यत्रावकाश इत्यर्थः ॥ लक्ष्यार्थभेदाभावेऽपि वाच्यार्थभेदात् पदभेद: पटटत्तिनिमित्तभे- दादव्यावत्यभेदाच्च न पौनरुतयमपीति भाव:। १६१ ।। ननु पत्यक्त्वाद्वयत्वयोस्तत्वम्पदार्थयोरैकरस्यं लक्षणावि-
146
Page 147
१३४ अन्वयार्थप्रकाशिकाविभूषिते
षयत्वेऽपि नोपपद्यते।प्रतियोगिभेदेन मिथोभेदप्रतीतेः । अन्यथा- जन्यतरस्य वैय्थ्यादत ईषदपि भेद एष्टव्य इतिचेद्, नेत्याह- अद्वैतेऽर्थे प्रत्यगर्थोऽस्ति तद्दत प्रत्यक्तत्वे चाह्वयस्यापि भावः ।। यद्यप्येवं नातिरेकावकाशः पूर्णे तच्चे तत्त्वमर्थोपपत्तेः ॥ १६२ ॥ अद्वैतेरऽर्थ इति॥ अद्वते तत्पदार्थे प्रत्यगर्थस्त्वम्पदार्थो- डप्यस्ति। न ततोऽत्यन्तमीपद्वाव्यावृत्तः प्रत्यगर्थः । तथा सत्य- उद्वैतस्यासम्पूर्णतापत्तेः । तद्वदेवमेव प्रत्यक्तत्वे चाद्वयस्य भावो भेदेनाऽवस्थानमन्यथाऽद्वितीयस्वरूपापेक्षया प्रत्यकृत्वस्य पराक- त्वप्रसङ्गात्। तस्मादद्वितीयरूपान्न प्रत्यकृत्वं वहिर्भूतं नापि प्रत्यक्त्वादर्द्वैतमिति युक्तमित्यर्थः। यद्वा, ननु यद्यप्येवमादेयांश- भेदाभावेऽपि प्रदत्तिनिमित्तभेदात् पदभेद उक्तस्तथापि पद- भेदान्यथानुपपच्या पदार्थभेद: कथमप्यङ्गीकर्त्तव्योऽन्यथान्यतर- स्य वैयर्थ्यादितिचेत् सत्यम्। न पदपव्टत्तिनिमित्तभेदोपरक्तं पदार्थभेदं वर्यं निराकुमहे, किन्तु पदार्थस्वरूपभेदमित्यभिप्ेत्या- डडह ।। अद्वैनेऽर्थ इति ॥अयमर्थः॥ तत्पदार्थो ह्यद्रतमिति पसिद्ध- म्। तस्मिन्नेकमेवाद्विनीयमिति अ्रुतेः । त्वम्पदार्थश्च प्त्यगर्थः प्रसिद्धः । स त आत्मा सर्वान्तर इति श्रवणात्। तथाचाद्वतेऽर्ये तत्पदवाच्ये प्रत्यगर्थाऽस्ति तच्छब्दवाच्ये प्रत्य- गर्थोऽपि स्वरूपेण विद्यते। अन्यथकमेवाद्वितीयमित्यद्वैतत्वावधा- रणायोगात्। यथार्ऽ्र्द्वतेऽर्थे प्रत्यगर्थो विद्यते। तद्वत् मत्यक्तत्वे चाद्यस्यापि भावः स्वरूपेणावस्थानमस्ति। अन्यथा तस्य सर्वान्तरत्वश्रुतावकस्मादेव सर्वशब्दसङ्कोचापत्तेः । अतः श्रुतेः
147
Page 148
संक्षेपशारीरके प्रथमोऽध्यायः ।१। १३'
पामाण्यान्नानयोस्तम्भकुम्भयोरिव स्वभावत एव भेद:, किन्तु पदभवृत्तिनिमित्तभेदादेव भेद इत्यर्थः । तर्हि पटृत्तिनिमित्तयो- र्द्र्मयोरद्वितीयत्वपत्यक्त्वयोः परस्परमसङ्गीर्णत्वाय भिन्नाधि- करणत्वमेष्टव्यमिति पुनः प्राप्तस्तयोः स्वरूपभेद इतिचेत्तत्राह ।। यद्यप्येवमिति ।। यद्यप्येवमुक्तपकारेण पदभेदादर्थभेदावभास- स्तथापि नातिरेकावकाशोऽर्थयोः स्वरूपतो न भेदावकाश इत्यर्थः । कुत इत्यत आह ॥ पूर्ण इति । अपरिच्छिन्ने सर्व- विकारास्पदतया सर्वधिष्ठाने स्वयम्पकाशयितरि स्त्रतःस्फुरत्या-
न हद्वितीयत्वप्रत्यकत्वे धर्मा, किन्त्वेकमेव स्वरूपं परिच्छेद- व्यवच्छेदेन पराकृत्वव्यवच्छेदेन च भेदेन निरूप्यते। तेन व्यवच्छेद्यभेदोपाधिक एवाद्वितीयत्वप्रत्यंकृत्वयोर्भेदावभासः । स्वतस्त्वेकरसमेव। यथा ह्येकमेव दण्डगतं परिमाणमेकापेक्षया दीर्घमन्यापेक्षया तदेव हस्वं च व्यवह्ियते भदेन। न च तावता दण्डपरिमाणे रूपभेदसिद्धिः । तद्वदिदमपीति-॥ १६२ ।। ननु यद्येवमेकदेशलक्षण।यामङ्गीकृतायां विरोधपररिहाराद- भीष्टवाक्यार्थसिद्धिस्तर्हेकपदे लक्षणाश्रयणेऽपि तत्सिद्धेः । पद- द्वयेऽपि तदाश्रयणमनर्थकमितिचेन्नेत्याह- न च विनिगमनायां कारणं किञ्विदर्ति स्फुट मुभयपदस्था लक्षणा शस्यतऽनः ।। न हि विनिगमनायां हेत्वभावे कदाचित् क्वचिदियमुपलब्धा सोऽयमित्यादिवाक्ये ॥१६३॥ नच विनिगमनायामिति । एकस्मिनेव पदे लक्षणा भवति सर्वत्र न पदान्तरेऽपीति विनिगमनायां नियमाभ्युपगमे
148
Page 149
१३६ अन्वयार्थप्रकाशिकाविभूषिते
न च स्फुटं कारणं किमप्यस्ति। यद्यपि कचिदेकपदलक्षणया- जपि विरोधपरिहारसम्भव इति योजना। नियमाभावे फलित- माह ।। उभयपदस्थेति ॥ यतो नियमाभावोडत उभयपदस्था लक्षणा शस्यते । प्रकृत इति शेषः । नन्विच्छैव विनिगमनाहेतु- रित्याशक्कोच्छाया निरङ्कशत्वान्न व्यवस्थासिद्धिरित्यभिप्ेत्य प्रकृतवाक्यानुरूपोदाहरणेनोभयपदलक्षणां प्रतिपादयति ॥ न हि विनिगमनायां हेत्वभावे कदाचित् कचिदिति ।। लोके पद- दये लक्षणा क दृष्टेति, तदाह। इयमुपलब्धा सोऽयमित्यादिवाक्य इति ॥ एतदाकूतम्। न वयं लक्षणां तत्वम्पदयोर्व्यसनितया स्वीकुर्महेऽपि तु विरोधपरिहारेणाखण्डवाक्यार्थसिद्धये । स चैकपदलक्षणायां न सिद्ध्यति । यतस्त्वम्पदलक्ष्यस्य तत्पद- वाच्येनैकत्वेऽभ्युपगम्यंमाने त्वमर्थस्य पारोक्ष्यसपपञ्चत्वादि- रूपतोपदिष्टा स्यात्, सा चानर्थरूपेति तत्परं वाक्यमप्रमाणं भवेत्। तथा तत्पदलक्ष्यस्य त्वम्पदवाच्येनैक्याभ्युपगमे चासंसारिण इश्वरस्य शुद्धस्य संसार्यशुद्धात्मोपदेशपरतायां वाक्यस्य स एव दोप इत्यत उभयपदलक्षणां बिना न फलवद्वाक्यार्थ- प्रत्ययसिद्धिरिति लक्षणां पदयोरङ्गीकुर्महे । तत्सत्यं स आत्मे- त्यैकात्म्यं चात्र विवक्षितमिति ॥ १६३ ।। उक्तमर्थ स्थिरीकर्नु प्रकारान्तरेणैकपदलक्षणाद्वारमाशका परिहरति- प्रथमचरमभावो निर्णये कारणं चे- दयमपि नियमो न ह्यन्यथाप्यस्य दष्टेः ।। प्रथमपठितमासीत्तत्पदं सामवेदे चरमपठितमेतद् दृष्टमध्वर्युवेदे ॥ १६४ ॥
149
Page 150
संक्षेपशारीरके प्रथमोऽध्यायः।१। १३७
प्रथमचरमभाव इति ।। प्रथमं पदमसज्जातविरोधितया मुख्यार्थमेव। चरमं तु पदं मुख्यार्थाशे तद्विरोघाल्क्षणामर्हती- त्यस्यार्थस्य न्यायसिद्धत्वात् पथमचरमभाव एवैकपदलक्षणा- निर्णये कारणमितिचेदिति शङ्गाभागयोजना। अतिपसङ्रित्वेन निराकरोति ।। अयमपीति ॥ अस्य पदपयोगे पथमचरम- भावस्यान्यथादर्शनमेव वेदगतमुदाहृत्य विशदयति ॥ चरम- पठितमिति ॥ तत्पदमित्यसंसारिवस्तुविषयं पदमिति यावत्।। अध्वर्युवेदो यजुर्वेदः । तत्र ह्वहं व्रह्मास्मीति संसारिविषयं पदं पथमं पठ्चत इत्यतोऽत्र पाठनियमाभावात्तदनुरोधे चाव्यवस्थिता- डर्थमिदं वाक्यं स्यादित्यर्थः ॥ १६४॥ अत्रैव लौकिकमप्युदाहरणमाह- सोऽयं पुमानयमसाविति पौरुषेये वाक्ये तथा व्यतिहतेऽत्र विशेषहेतुः ।। पूर्वापरत्वमिति शक्यमिदं न वक्तुं मुख्यत्वलाक्षणिकते प्रति शब्दवृत्योः ॥१६५॥ सोऽयं पुमानिति ॥ तथा व्यतिहृते सोऽयमित्याद्युक्तम- कारेण व्यतिहारेणोच्चारिते शब्ददटत्योर्मुख्यत्वलाक्षणिकते पति इदं पूर्वापरत्वं विशेषहेतुरिति वक्तुं न शक्यम्। अत्रापि वाक्य- पयोक्तृणामुच्चारणे पूर्वापरत्वनियमादर्शनादित्यर्थः ॥१६५॥ अथोद्देश्यत्वात्वम्पदार्थस्य तद्गतविशेषणस्य ग्रहगतैकत्ववद- Sविवक्षितत्वात्तत्पदार्थस्य च विधेयत्वात्तद्गतविशेषणस्य पश्वैक- त्वादिवद्विवक्षितत्वात्वम्पदे लक्षणा, तत्पदे च मुख्यटत्तितेति नियम उच्येत, तथापि तत्पदार्थे पारोक्ष्यस्य विद्यमानत्वात्त- स्यापरोक्षत्वमर्थैक्यवाक्यार्थानुपपत्तिलक्षणो दोषो न परिहतः १८
150
Page 151
१३ अन्वयार्थप्रकाशिकाविभूषिते स्यादित्यभिपेत्याह- न च भवति विरोधस्योत्थितस्यापनीतिः पदयुगलनिविष्टां लक्षणामन्तरेण ।। न हि भवति कदाचित् सद्दयस्याद्वयत्वं न च भवति परोक्ष: प्रत्यगऽर्थोपि तद्वत् ॥१६६।। न च भवतीति ॥ पूर्वार्द्ध स्पष्टार्थम् । विरोधापनयना- भावं समर्थयते, न हि भवति कदाचिदित्युत्तरार्द्ेन ॥ न हि भवति यथेत्यध्याहारः । सद्वयस्य त्वमर्थस्याद्वयतदथैक्यं न स. म्भवतीतिचेत्वम्पदे लक्षणया स्वरूपमात्रमुपादीयते तर्हि तद्देव परोक्षस्य तदर्थस्यापरोक्षप्रत्यगर्थत्वमपि न भवतीतिदोषसाम्या त्तत्रापि लक्षणया स्वरूपोपादानमावश्यकमेवेत्युभयपदलक्षणाSत्र संमतेत्यर्थः । अत्र व्वमर्थगतसद्वितीयत्वांशपरित्यागवदापरोक्ष्य- स्यापि परित्यागे विरोधस्य परिहारादुद्देश्यविशेषणत्वेन तस्या- 5पि परित्याज्यत्वादिति न शङ्गास्पदम् । प्रत्यङ्मात्रस्य त्वम्पदे लक्षणयोपादेयस्य चैतन्यमात्रस्यापरोक्ष्यस्त्रभावत्वात् स्वभा- त्यागे च भावत्यागापत्तेः । न हि ग्रहगतमेकत्वमविवक्षितमिति ग्रहत्वमप्युद्देश्यविशेषणत्वादविवक्षितं भवति। तस्य तत्स्तभाव- त्वात्। न च स्वयं चात्मा परोक्षश्रेति कस्यचिदनुभवः सम्भा- व्यने। तस्मात् पारोक्ष्यसद्वयत्वविरोधपरिहारायोभयपदलक्षणा- S5वशयं ग्राह्येति भावः ॥ १६६ ॥। ननु यदि विरुद्धानेकविशेषणयोगिनोरपि तत्वमर्थयोः स्व- रूपेणकत्वं तर्हि तद्विशिष्टयोरेवैकत्वमस्तु। सर्वथैकस्यैव विरुद्धा-
विशिष्टैक्यं सम्भवतीति कैमुत्यन्यायेन परिहरति-
151
Page 152
संक्षेपशारीरके प्रथमोडध्यायः।१। १३०.
अविरुद्विशेषणद्दय- प्रभवत्वेऽपि विशिष्टयोद्वमोः ॥ घटते न यदैकता तदा नितरां तद्विपरीतरूपयोः ॥ १६७॥ अविरद्धविशेषणेति॥ यर्थकस्मिन पुरुपे दण्डः कुण्डल- मिति चाविरुद्धे विशेषणे। तयोरेकर्देकत्रान्वये विरोधाभावात्। तथाचेत्थमविरुद्धविशेषणद्वयप्रभवत्वेऽपि दवयोर्विशिष्टयोरेकपुरुष- गतदण्डित्वकुण्डलित्वयोर्यदैकता न घटते। विशिष्टयोरैक्ये वि शेषणयोरपि तत्मसङ्गात । यदैवं तदा तद्विपरीतरूपयोर्विरुद्धयो- रैक्यं न घटते नितरामिति किमु वक्तव्यमित्यर्थः । विरुद्धयोरपि विशेषणयोरेकत्रापि सम्बन्धमात्रं कालादिभेदापेक्षया वावच्छेद- कस्वभावभेदापेक्षया वा न विरुद्ध्यन इति भावः । १६७ ।।
जपि तयोः स्यादित्येवंविधो विशिष्टाभेदो वाक्यन प्रतिपाद्य- नामिति, नेत्याह- अथ केनचिदात्मनैकता वचनेन प्रतिगाद्यते तयोः ॥ तदसुन्दरमस्तमेति हि स्फुटमेतं त्रिविधापि लक्षणा ॥ १६८ ॥ अथ केनचिदिति॥ अत्र पूर्वार्द्धमुक्तशङ्गाद्योति, उत्तरार्द्ध- मुत्तरमिति विभागः। अथैवं ्रूयाः, केनचिदात्मना विशेष्यैक्य- कृतेनैक त्वेनाकारेण तयोर्विशिष्टयोस्तत्वमर्थयोरेकता वचनेन महा- वाक्येन प्रतिपाद्यत इति । तदसुन्दरमिति योजना। कुतो-
152
Page 153
१४० अन्वयार्थप्रफाशिकाविभूषिते
डसुन्दरमित्यत आह ।। अस्तमेति हीति ।। एवं केनाप्यंशेन यथाकथश्चिदभेदमादाय पदयोः सामानाधिकरण्यं चेनिर्वक्ष्यति तदा हि त्रिविधापि लक्षणा स्फुटमेवास्तमेति। लक्षणोच्छेदप्रसङ्ग इत्यर्थः॥अयं भावः॥। यदि विरोध्यंशापरित्यागेनापि लाक्षणिक- प्रयोगस्तर्हि सर्वत्र कथन्चिन्मुख्यार्थयोगेनापि वाक्यार्थसिद्धेः कल्पयितुं शक्यत्वाल्लक्षणामात्रोच्छेद: स्यात्। तथाच सोमेन यजे- तेत्यत्रापि सोमयागपदयोः करणकरणिसंबन्धमात्रोपादानेना- ऽपि सामानाधिकरण्योपपत्तेर्मत्वर्थलक्षणाजहत्स्वार्था लुप्येत । गङ्गायां घोषइत्यत्रापि गङ्गासामीप्यमात्रं सप्तम्यर्थइत्यङ्गीकारे जह- त्स्वार्थापि तीरलक्षणा विलोपमियात्। एवं सोडयं देवदत्त इत्य- Sत्रापि सोऽयम्पदयोः स्वरूपमात्रवाचित्वकल्पनयापि सामाना- धिकरण्योपपत्तेर्ज्जहदजहल्लक्षणाऽप्यस्तमियादिति ॥ १६८।। एवं जहदजहल्लक्षणयोभयपदनिविष्टया तत्वमस्यादिवाक्य- स्य विवक्षिताखण्डार्थपर्यवसायित्वमुपपादितम्। इदानीं तदेव वाक्यं जहल्लक्षणयापि यथोक्ताखण्डार्थनिष्ठमित्युपपादयितुं शक्यते इति मौढिमालम्बमान आह- साभामाज्ञानवाची यदि मवति पुनर्बह्मशब्दस्तथाहं- शब्दोऽहङ्कारवाची भवति तु जहती लक्षणा तत्र पक्षे ॥। नौरेषा रौति लोहं दहति विषधरा रज्जुरग्रे तवासा- वित्यत्रेवात्मवस्तुन्यपि भवतु जहलक्षणा को विरोध: १६९ साभासेति ।। अहं ब्रह्मेति वाक्ये ब्रह्मशब्दो यदि सा- भासाज्ञानवाची भवति, पुनःशब्दो वाक्यालङ्कारार्थः । तत्र पक्षे तु जहल्लक्षणा भवतीत संबन्धः। तथाऽहंशब्दोऽपि यद्यहङ्गार- वाची भवतीति संबन्धः । अस्मिन्नपि पक्षेऽ्हंशब्दोऽपि जह-
153
Page 154
संक्षेपशारीर के प्रथमोऽध्यायः।१। १४१
लक्षणेत्यर्थः ॥ एतदुक्तं भवति ॥ वस्तुतत्वस्य ब्रह्मात्मस्वरूपस्य वाच्यवाचकसर्वव्यवहारातीतत्वात् साभासाज्ञानादेश्च व्यवहार्य- न्वात्तत्रैव शब्दपयोगोपपत्तेः । साभासाज्ञानाहङ्कारयोः शब्द- वाच्यत्वं तदधिष्ठानत्वेन साक्षित्वेन चानुगततया तत्संबन्धिनि चिदात्मनि ब्रह्मात्मपदे जहल्लक्षणया वर्त्तेते इति । अत्र यदि- शब्दपयोगादभ्युपगमवादतास्य पक्षस्य द्योतिता। वस्तुतस्तु वेदा- Sन्तेषु ब्रह्मादिशब्दानां प्रत्यग्ब्रह्मण्येव पयोगदर्शनात्तस्य तद- Sवाचकत्वे तस्मिन्नापनिपदत्वश्रवणस्य मुख्यत्वत्यागापत्तेस्तस्या- डव्गवहार्यत्वेऽपि स्वरूपतो ज्ञानाहङ्कारादिद्वारा व्यवहार्यत्वात् पद- व्युत्पत्तिगोचरत्वोपपत्तेस्तत्र विशिष्टे व्युत्पन्नस्य पदस्य लक्षण- या स्वरूपपर्यवसायित्वोपपत्तेश्र पूर्वोक्त एव युक्ततर इति भाव: । वक्ष्यति च, सकलवाज्मनसातिगता चितिः । सकलवाङ्मनस- व्यवहारभागिति। अन्यवाचकस्यान्यलक्षकत्वेनार्थपरत्वे दष्टा- न्तानाह ॥ नौरेषेति । नौपदेन तत्स्थाः प्राणिनो लक्ष्यन्ते। लोहपदेन तल्लग्नोऽग्निः । तवाग्रेऽसो विषधरः सर्पो रज्जुरिति योजना। अत्र विपधरपदेन रज्जुर्ल्लक्ष्येति ॥ को विरोध इति॥ ब्रह्मणि वाक्यप्रामाण्ये एवमपि को विरोध इत्यर्थः ॥१६९ ॥
प्रत्यक्त्वादिगुणान्येन यदि वा गौण्यस्तु वृत्तिस्तयो- र्व्रह्माहम्पदयोः परेतरटृशार्मुख्यो विरोधो यतः ॥ मुख्यार्थानुपपत्तिहेतुकनया गौण्यस्ति वृत्तिर्यतो लोके माणतको विभावसुरसौ सिंह: पुमानित्यपि॥१७०। प्रत्यक्त्वादीति ॥ आदिपदात् सूक्ष्मत्वस्वच्छत्वे एहोते। बुद्धिपत्यगात्मनोः प्रत्यत्कादिर्गुणः । तत्रात्मनः स्वाभाविको,
154
Page 155
६४२ अन्वयार्थप्रकाशिकाविभूषिते
बुद्धेस्तु तत्संबन्धादुपचरित इति द्रष्टव्यम्। उक्तं च, प्रत्यक्का- दतिमूक्ष्मत्वादात्मदृ्ट्यनुशीलनात् *अतो ृत्तीर्विहायान्या अहं- वत्यैव लक्ष्यत इति ॥ उपलक्षणमेतत् । ब्रह्मण्यज्ञाने च कारण- त्वाद्वितीयत्वगुणयोः । यद्वा, आदिपदेनाज्ञानब्रह्मगतकारण- त्वादि गृह्यते। अत्रापि ब्रह्मणः सर्वाधिष्ठानतया सर्वसत्तास्फूर्ति- परदतया च तस्मिन् कारणत्वादिर्मुर्य इतरत्र तत्सम्पर्क्कद्गाण इति द्रष्टव्यम्। अर्थपाऽक्षरयोजना। यदि वा तयोः प्रकृतयोर्व्र- ह्माहम्पदयोः किं लक्षणयोः परेतरदशोः परापरयोर्व्रह्मपत्यगा- डत्मनोर्द्ग्ज्ञानं याभ्यां ते तथा तयोरिति विग्रहः। प्रत्यत्कादि- गुणान्वयेन गौणी वृत्तिरस्तु,अहम्पदस्याहङ्कारे मुखुयस्यात्मन्युप- चाराहृत्तिव्रह्मपदस्य साभासाज्ञाने मुख्यस्य परव्रह्मण्युपचारा- दू ृत्तिश्चास्तु। को विरोध इति। मुर्ये सम्भवति किमित्युप- चारोजड्गीक्रियत इति, तत्राह ।। मुरुये विरोधो यत इति। परोक्षापरोक्षार्थत्वेन तदेकत्ववाक्यार्थपरत्वविरोध इत्यर्थः । ननु मुख्यार्थासम्भवे वत्त्यन्तरमपि मास्त्वितिचेन्नेत्याह ।। मुख्यार्थानुपपत्तिहेतुकतयेति । स्पष्टार्थम् ॥ यथा प्रत्यक्त्वाद्या- त्मन्येव मुरुयमपि बुद्धयादावुपचर्यते तथाहमादिपदस्याहङ्कारादी मुख्यस्यात्मादावुपचारो, यथा वा सिंहाग्निपदयोः साक्षात् सिंहेऽग्नौ च मुख्ययोःपुंसोरुपचारस्तद्वदिति तात्पर्यार्थः ॥१७०।। ननु लक्षणागुणटत्योः को भेदः । स्वार्धादन्यत्र दृत्ते- रुभयोरविशेपादित्याशक्का परिहरति- परशब्दवृत्तिरपरत्र भवे- दिति यद्यपीदमुभयो: सदशम् ॥ अनयोस्तथापि तु घिभागकरं
155
Page 156
संक्षेपशारीरके प्रथमोऽध्यायः।१। १४३
स्फुटमस्ति लक्षणमत्रान्तरकम् ॥ १७१ ॥ परशव्दवृत्तिरिति ॥ यद्यपि परवाचकशब्दस्य वत्ति- रपरत्रार्थान्तरे भवेदितीदमुभयोर्ल्लक्षणागुणटतत्योः सदृशं सममेव उपचारवृत्तिरित्येकेन पदेनोभयोरप्युच्यमानत्वाद् यद्यपीदं सामान्यमस्तीत्यर्थः । तथापि त्वनयोर्व्त्योर्विभागकरमवान्तरकं लक्षणं स्फुटमसङ्गीर्णमस्ति। लक्षणभेदादनयोरवान्तभेदो- डस्तीत्यर्थः ॥ १७१॥ स्फुटलक्षणभेदमेव दर्शयति- गुणता गुणवृत्तिरिष्यते ह्यपरा लाक्षणिकी तु सङ्गते: । इति भदकमस्ति लक्षणा- गुणवत्त्योरिति वेदवादिनः ॥ १७२ ॥। गुणत इति । मुख्यार्थगनगुणसदृशगुणतो गुणयोगात् परवाचकस्य शब्दस्य परत्र वृत्तिर्गुणृत्तिरिष्यते। लाक्षणिकी वत्तिस्तु या परान्या सा सङ्गते्मुख्यार्थसम्त्रन्धमात्रान्न तद्गुण- योगादित्यर्थः । शब्दस्य मुख्यार्थगुणयोगादन्यत्र दत्तिर्गुण- वत्तिर्मुख्यार्थसम्बन्धादन्यत्र वत्तिर्ल्लक्षणा दृत्तिरित्यनयोरवा- न्तरभेद उक्तो भवति। नायं विभागो मयैवोत्पेक्षितः, किन्तु पाचीनरेवाचार्येननिर्णीत इत्यभिपेत्याह ।। इति भेदकमिति।। तदुक्तम्, अभिधेयात्रिनाभूतप्रतीतिर्लक्षणेष्यते * लक्ष्यमाण- गुणैर्योगाद् टृत्तेरिष्टा तु गौणतेति॥ १७२ ॥ एवं •तावत् मत्यग्ब्रह्मणोरेकत्वलक्षणोऽखण्डैकरसात्मको वाक्यार्थो भागलक्षणासमर्थनेनोपपादितो जहल्क्षणागुणवत्ति-
156
Page 157
१४४ अन्वयार्थप्रकाशिकाविभूषिते भ्यां च प्ौढ्या इदानीं तादृग्वाक्यार्थज्ञानफलमनुभवं दर्शयन् किमात्मकं पुनस्तदखण्डाद्यं वस्त्वित्यपेक्षायामवान्तरवाक्यगति- मनुसृत्यानुभवमभिनयति- नित्य: शुद्धो बुद्धमुक्तस्त्रभावः सत्यः सक्ष्मः सन् विभुश्चाद्वितीयः ॥ आनन्दाब्धिर्यः परः सोऽहमस्मि प्रत्यगधातुर्नात्र संशीतिरस्ति ॥ १७३ ॥ नित्यः शुद्ध इति ॥ लक्ष्यस्य तदर्थस्य ब्रह्मणः प्रति- पादकाऽवान्तरवाक्यवर्त्तिनोऽपुनरुक्तरूपा एते नित्य इत्यादि- दशपदार्था ब्रह्मतत्वपर्यवसिता अनुसन्धीयन्ते । तथा प्रत्यग्- धातुरिति त्वम्पदलक्ष्यस्यानुसन्धानम् । तथाच नित्यत्वादिस्त्र- भावो यः परः सेऽहम्पत्यग्धातुरात्माऽस्मि। यः प्रत्यग्धातु- रात्मा सोऽइं नित्यत्वादिलक्षणः परोऽस्मीति च वाक्यार्थानुसं- धानं भवति, नात्रास्मिनर्थे संशीतिः संशयोऽस्तीत्यर्थः॥१७३।। उक्ते वाक्यार्थानुसन्धानेऽन्यदपि पक्षद्वयमाह- सच्चित्सुखाद्वयवपुः कथयन्ति केचित सच्चित्सुखात्मकमिति प्रथयन्ति केचित ॥ व्रह्मनराणि किल नास्य वषूषि तेषां बुद्धौ स्फुरन्त्यपररूपनिवृत्तिभावात् ॥ १७४ ॥ सचित्सुखाछ्वयवपुरिति ।। सत्यज्ञानानन्दानन्तपद- चतुष्टयावसेयपदार्थात्मक ब्रह्मेति केचित् तत्पदार्थस्वरूपं कथय- न्ति। केचिदपरे सच्चित्सुखात्मकमेव ब्रह्म, नानन्तपदविशेषित- मपि, किन्तु पदार्थत्रयात्मकमेवेति प्रथयन्ति प्सिद्धि कुर्वन्तीत्य-
157
Page 158
संक्षेपशारीरके प्रथमोऽध्यायः।१॥ १४५ जर्थः। कस्मादेवं ते पदार्थसक्कोचमिच्छन्तीति, तत्राह ।। इतरा- णीति ॥ किलेत्यनयोः पक्षयोः स्वस्यारुचि सचयति । यतः स्वयं नित्यादिपदानि ब्रह्मणि व्युत्पादयिष्यति, आकाशादौ नित्यतेत्यादिना । इतराणि नित्यत्वादीनि विशेषणान्यस्य ब्रह्मणो वपूंषीति न तेषां बुद्धौ स्फुरन्तीति योजना। इतराण्यस्य न वपूषि स्वरूपभूतानि न भवन्तीति तेषां बुद्धौ स्फुरतीति वा योजना। कुत इत्यत आह ।। अपररूपनिृत्तिभावादिति॥
स्वरूपत्वमित्यर्थः॥१७४॥ एवं प्रकृतवाक्यस्य फलपर्यन्तत्वप्रतिपादनेन ब्रह्मणि पामाण्यमुपपाद्येदानीमवान्तरवाक्यगतपदानां गुणपधानभावेना- ऽन्वितार्थाभिधायितां व्युत्पादयति- ब्रह्मेति शेषि पदमत्र हि लक्ष्यमेकं शेषाणि लक्षणसमर्पणमस्य कुर्यु: ॥ लक्ष्यार्पणेन सह लक्षणवाचि सर्व सङ्गच्छतेऽरुणपदं क्रयवाचिनेव ॥ १७५॥ प्रस्मेति शेषिपदमिति ॥ अत्र सत्यज्ञानादिवाक्ये ब्रम्मे- ति यत्पदं तच्छेषिपदं विशेष्यवाचकमित्यर्थः। कुतो हि यस्मादेकं लक्ष्यं, शेषाणि पदान्यस्य ब्रह्मणो लक्षणसमर्पणं कुर्युः। कुर्वन्ती- ति याषत्। अनेकपदात्मके वाक्ये एकपदपाधान्येनान्वयस्य व- क्तव्यत्वात् पतिपदार्थ पाधान्ये चान्वयाप्तिपत्तेर्वाक्यपयोगवैय- थ्र्यापातादस्य च वाक्यस्य ब्रह्मलक्षणपरत्वाल्लक्षणानां च लक्ष्या-
भावः। यद्येवं, सत्यं ब्रह्म ज्ञानं ब्रह्मेति पकारेणान्वयः स्या- १९
158
Page 159
१४६ अन्वयार्थप्रकाशिकाविभूषिते तथाच सत्यादीनांपरस्परमेकत्वासिद्धेरेकब्रह्मस्वरूपलक्षणता ते- षान्न स्यादनेकस्यैकस्वरूपत्वायोगादित्याशद् तेषामेकार्थावच्छे- दकतया मिथ एकत्वं सदृष्टान्तमाह ॥ लक्ष्यार्पणेन सहेति॥ लक्षणवाचि सर्व पदजातं लक्ष्यार्पणेन लक्ष्यस्वरूपसमर्पणद्वारा। सह संगच्छते एकतां गछतीत्यर्थः । यथाऽरुणया पिङ्गाक्ष्यैक- हायन्या सोमं क्रीणातीत्यत्र क्रयवाचिना क्रीणातीति क्रियापदेना- Sरुणादिपदमेकक्रयावच्छेदकतयैकवाक्यभावं गच्छति तद्वदित्य- डर्थः ॥ १७५ ॥ संग्रहेणोक्तमुत्त रार्द्ध्ार्थमुत्तरपद्येन स्फुटयति- पृष्ठात् परस्परयुजा प्रतिपत्तिरेषा- मेवंविधत्वमुपपादयितुं समर्था।। लक्ष्यस्य तस्य महतः क्रयवसतुवत् स्यात् सर्वस्य कारकपदस्य परस्परेण ॥ १७६ ॥ पृष्ठादिति ॥एपां सत्यादिपदानां प्रथमंब्रह्मपदेन प्रत्येक- मन्वितानां पृष्ठात् पश्चाद् या परस्परयुजापतिपत्तिर्मिथ एक- लक्ष्यपर्यवसितत्वेन सामानाधिकरण्येन प्रतीतिः, सा तस्य लक्ष्यस्य महतो ब्रह्मण एवंविधत्वं सत्यज्ञानानन्दाद्यात्मकत्व- मुपपादयितुं समर्था । अत एकस्यैव ब्रह्मवस्तुनो लक्षकतया सत्यादीनां विशेषणत्वाद्विशेपणानां च लक्षकाणां लक्ष्यस्वरूपैक- पर्यवसाननियमादयुक्तमेपामेकत्वमित्यर्थः। अत्रोक्तं दृष्टान्तं स्फुटयति । क्रयवस्तुवदिति ॥ सर्वस्य कारकपदस्यारुणया पिङ्गाक्ष्येत्यादिकस्य प्रथमं प्रत्येकं क्रयात्मकक्रियावस्तुना संबद्ध- स्याप्येकक्रयार्थतयाऽन्वयात् परस्परेणापि संबन्धादेकक्रयवस्तु-
159
Page 160
संक्षेपशारीरके प्रथमोऽध्यायः।१। १४७
एवं सत्यादिपदानामन्वयप्रकारम् उपपाद्य तेपामर्थभेदाढ़- 5खण्डैकर सब्रह्मस्वरूपपर्यवसायित्वं कथमित्यपेक्षायां तत्त्वमादि- वाक्यार्थनिर्णयन्यायमत्रातिदिशति- तत्त्वम्पदार्थविषयो नय एव योज्यः सत्यादिवस्तुपु न तत्र विशेषकल्पः ।। सत्यादिशब्दविषयाः शबलास्तदर्थ- भागेषु लाक्षणिकवृत्तिरपीह तुल्या ।। १७७॥ नत्त्वम्पदार्थविषयो नय इति ॥ सन्यादिवस्तुपु तत्व- म्पदार्थयोर्यो न्यायो भागत्यागेन भागलक्षणयाSखण्डवस्तुपर्यव- सायित्वे दर्शितःस एव योज्यः। सत्यादिपदानां स्वरूपमात्रपर- त्वं पदार्थविषयत्वात्तत्वमादीनामैक्यपरत्वे वाक्यार्थविषयत्व्रा- दिति वॅषम्ये सत्यपि अत्रैतयोर्वाक्ययोरखण्डवृस्तुप्रतिपादने न वि- शेषकल्पो न प्रकारभेदोऽस्तीत्यर्थः । विशेषाभावमेव विशदयति।। सत्यादिशब्दविपया इति।।सत्यादीनां शब्द्ानीमपि शवला विषया वाच्याः। तदर्थभागेपु वाच्यार्थभागेपु लाक्षणिकटत्तिरपीह सत्यादिपदेपु तुल्या तत्वम्पदाभ्यामविशिष्टेत्यर्थः ॥ १७७॥ के तर्हि सत्यादिपदानां शवला वाच्यार्थाः ? इत्यपेक्षायां क्रमेण तान् व्युत्पादयति आकाशादौ सत्यता ताबदका प्रत्यङमात्रे सत्यता काचिदन्या ।। तत्सम्पर्कात सत्यता तत्र चान्या व्युत्पन्नोडयं सत्यशब्दस्तु तत्र ॥ १७८ ॥ आकाशादावित्यादिना । आकाशादौ देशकालावादि-
160
Page 161
१४८ अन्वयार्थप्रकाशिकाविभूषिते
शब्दार्थः । एषामविद्याकार्यत्वेन ब्रह्मज्ञानवाध्यत्वेऽपि व्यवहारे बाधादर्शनादबाध्यत्वलक्षणापेक्षिकसत्यता काचिद् वर्त्तते। तथा प्रत्यज्मात्रे आत्मस्वरूपे काचिदन्या आकाशादिसत्य- त्वाद्विलक्षणात्यन्ताबाध्यार्थलक्षणा सत्यताऽस्तीति योजना। तत्संपर्क्कात्तयोर्व्यावहारि काकाशादि प्रत्यगात्मनोर धिष्ठेयाधिष्ठान- रूपयोः सम्पर्क्कात् परस्पराध्यासलक्षणान्निमित्तात् तत्र संपृक्ते अविविक्तस्वरूपे चान्या सत्यता व्यावहारिकतात्त्विकत्वमिथुनी- करणरूपास्ति । तत्र मिथुनीभूते शबलरूपे सत्येऽयं प्रसिद्ध: सत्यशब्दो व्युत्पन्न इत्यर्थः । उपपादितोडयं प्रकारोऽस्माभि- राद्यपद्यव्याखयाने। तदप्यत्रानुसन्धेयमिति । एवमुत्तरत्र वाच्यार्थकथनपरेषु शब्देषु योजना स्वयमूह्या ॥ १७८। ज्ञानपदार्थ व्युत्पादयति- बुद्धेर्वृत्तौ ज्ञानता तावदेका प्रत्यग्बोधे ज्ञानता काचिदन्या ।। तत्सम्पर्काज्ज्ञानता तत्र चान्या व्युत्पन्नोऽयं ज्ञानशब्दस्तु तत्र ॥ १७९ ॥। वुद्धेर्व्ृत्ताविति॥ ज्ञानता ज्ञानरूपता बुद्धिट्ृत्ते: स्वतो नडत्वेऽपि व्यवहाराऽविसंवादादर्थप्रकाशात्मत्वस्य। तत्रैका लोकसिद्धा ज्ञानता। पत्यग्वोधे साक्षिस्वरूपे नित्यसिद्धा ज्ञान- तेति समानमन्यत् ॥ १७९॥ तथानन्दशब्दार्थमाह- बुद्धेर्वृत्तौ तावदानन्दतैका प्रत्यङ्मात्रे काचिदानन्दताऽन्या ।।
161
Page 162
संक्षेपशारीरके प्रथमोडध्यायः।१। १४९
तत्सम्पर्कात्तत्र चानन्दतान्या व्युत्पन्नोऽयं तत्र चानन्दशब्दः ॥ १८० ॥ बुद्धेरष्ृत्ती तावदिति॥आनन्दस्वरूपत्वमानन्दतेति पूर्ववत्। आनन्दो नाम विक्षेपोत्कलिकोपशान्त्या स्वस्थता।विषयविशेषा- डनुभवाज्जायमाने बुद्धिदृत्तिविशेषे लौकिकानां सुखत्वपसिद्धेरिति समानमन्यत् ॥ १८० ॥ आकाशादौ नित्यता तावदेका प्रत्यङ्माते नित्यता काचिदन्या ।। तत्सम्पर्कान्नित्यता तत्र चान्या व्युत्पन्नोऽयं नित्यशब्दस्तु तत्र ॥ १८१ आकाशादी नित्यतेति ॥ अर्वाचीनविनश्वरसावयव- तदाश्रितानित्यवस्त्वपेक्षया चिरकालावस्थायित्वान्निरवयवद्रव्य- त्वपसिद्धेश्राकाशादौ नित्यता व्यावहारिकीत्मर्थः ॥१८१॥ आकाशादौ शुद्धता तावदेका प्रत्यङ्मात्रे शुद्धता काचिदन्या तत्सम्पर्काच्छुद्वता तत्र चान्या व्युत्पन्नोडयं शुद्धशब्दस्तु तत्र ॥१ ८२ ॥ आकाशादौ शुद्धतेति ॥ निर्ल्लेपत्वं शुद्धत्वम् ॥१८२।। मुक्तपदं व्युत्पादयति- गोवत्सादौ मुक्तता तावदेका प्रत्यङ्माते मुक्तता काचिदन्या ।। तत्सम्पर्कान्मुक्तता तत चान्या
162
Page 163
१५३ अन्वयार्थप्रकाशिकाविभूषिते
व्युत्पन्नोऽयं मुक्तशब्दस्तु तत् ॥ १८३ ॥ गोवत्सादाविति। वत्सादौ हि निगडतो विश्लेषरूपा मुक्तता पारतन्त्र्यविरुद्धा प्रसिद्धा। प्रत्यगात्मनि तु सा स्वाभा- विकी। तस्यासङ्गत्वश्रवणादित्यर्थः ।१८३।।
आकाशादावस्तिता तातदेका प्रत्यक्तत्वे चास्तिता काचिदन्या ।। तत्सम्पर्कादस्तिता तत्र चान्या व्युत्पन्नोऽयं तत्र चास्तीति शब्दः ॥ १८४ ॥ आकाशादावस्नितेति। अस्तिता सद्बुद्धिवेद्यता भाव- प्रत्ययगोचरतेति यावत् । प्रत्यगात्मनि सा सर्वास्पदतया नित्यसिद्धा । मूक्ष्मत्वव्यापकत्वाद्वितीयत्वानामप्युपलक्षणमेत- त्। तथाहि। अव्यवमूर्च्छनावैधुर्यमिन्द्रियागोचरत्वं चात्र सूक्ष्मता विवक्षिता। सा चास्ति व्योमादो लोकसिद्धा । प्रत्यागात्म- नि तु सा सर्वप्रत्यक्तयाऽणारणीयानिति श्रुतिपकाशिता नित्य- सिद्धा। तत्सम्पर्क्कादवादिव्योमान्तं तारतम्येन वर्त्तमाना मू-
तायाः प्रत्यगात्मगतनिरतिशयनिरपेक्षमूक्ष्मतायाश्च मंपर्क्कादेकी- भूते तस्मिञच्छवले मूक्ष्मशब्दो व्युत्पन्नः। तथा विभुत्वमप्या- काशादौ सर्वगतत्वलक्षणमापेक्षिकं सातिशयं प्रसिद्धम्। प्रत्यगा SSत्मनि तु निरतिशयं तत्। यस्मात् परं नापरमस्ति किश्चिदि- ति श्रुतेः । अन्यत् समानम् । अद्वितीयत्वमपि अनन्तत्वपर्याया- Sडस्पदम्। तच्चेह वस्तुपरिच्छेदराहित्यमात्रविपयम् । विभ्ुत्व- नित्यत्वाभ्यां देशकालपरिच्छेदाभावलक्षणस्यानन्तत्वस्य सिद्ध-
163
Page 164
संक्षेपशारीरके प्रथमोऽध्यायः।१। १५१
त्वात् । एतच्च वस्तुपरिच्छेदवैधुर्यवति सामान्ये सर्वविशेषाभिन्ने मसिद्धम् । तच्चामुख्यं विशेषात्मना कथश्चित् । भेदस्यापि तत्र सच्वात्। आत्मनि त्वेकरसे चिदेकस्वभावे भेदलेशस्याप्यनव- काशात्तदनन्तत्वं मुख्यम् । एतयोः सम्पर्क्काच्छावल्ये सति तत्र व्युत्पन्नोऽद्वितीयशब्दोऽनन्तपदपर्याय इति। अत्रेदं पकरणतात्प- र्यम्। लोकव्यवहारे सत्यमिदं सत्यमिदं नित्यं शुद्धमिदमि- दमित्यादिशब्दपत्ययगोचराणां पदार्थानामनेकत्वादनेकरूपत्वा- चचेकरूपशब्दपत्ययविषयत्वायोगात्तेषु सर्वेध्वनुगतं सत्यादिपद- गोचरः पिण्डेपु सामान्यवत् सम्भावनीयम्। तदेवाकाशादिषु पतीयमानविशेषाकारपरित्यागेन सत्यादिपर्दर्गृद्यत इति।।१८४।। एवं सत्यादिशब्दानां वाच्यार्थानुक्त्वा लक्ष्यार्थानाह- यो यः शब्दो यत्कृतेऽर्थे निरूढ्ध- स्तत्रैवार्थे लक्षणा वृत्तिरस्य । वक्तव्या स्यात् पण्डितेरेवमतत् प्रत्यक् पूर्ण ब्रह्म वेदान्तवेद्यम ॥ १८५ ॥ यो यः शब्द इति ॥ यो य इति वीप्सया सर्वे एव, नित्यः शुद्धो बुद्धमुक्तस्वभाव इति पद्योक्ता नित्यादिशब्दाः सं- गृहीताः।यः शब्दो यत्कृते यन्निमित्तमर्थे विषये निरूढो व्युत्पन्नो- डस्य शब्दस्य तत्रैव तस्मिन्नेवार्थे लक्षणावृत्ति: पण्डितर्वेक्त- व्या स्यादिति सम्बन्धः । एतदुक्तं भवति। शवले पूर्वोक्तलक्षणे तद्गतसत्यत्वनित्यत्वादिधर्म पुरस्करृत्य यद्यपि तत्र व्युत्पन्नाः शब्दास्तानेवाभिदधति तथापि न तत्रैव पर्यवस्यन्ति, किन्तु यन्नि- मित्तमाश्रित्य शबले प्रवर्त्तन्ते तत्रैव तत्पर्यवसानं युक्तम्।यथा गो- शब्दो गोत्वसामान्यं निमित्तमुपादाय गोत्वाक्रान्तां व्यक्तिमपि व्य-
164
Page 165
१५२ अन्वयार्थप्रकाशिकाविभूषिते
वहारदृष्टयाऽभिदधन्न तत्र पर्यवस्यति, किन्तु प्रवृत्तिनिमित्तभूते गोत्व एवेति हि स्थितिः। तथा सत्यादिशब्दा अपि शबले व्युत्पन्ना आकाशादिप्पश्चविषयतया व्यवहियमाणा अपि न तस्मिन् पर्यवस्यन्ति। आकाशादीनां तेषां परमार्थतः सत्यत्वनित्यत्वा- द्यसम्भवात् । किन्तु येन परमार्थेन सत्याद्यात्मकेनाव्यभिचा- रिणाऽनुविद्धाः सन्तः सत्यादिपदगोचरा जायन्ते तदेवैकं सत्यादिरूपमिति तत्रैव ते पर्यवस्यन्ति। तस्मात् प्रपश्चशावल्यं तस्य सामान्यस्य व्यक्तिशावल्यवद् व्युत्पत्तिद्वारमात्रमेवेति।। एवं स्वार्थपर्यवसानमेवेह लक्षणा वृत्तिर्विवक्षिता वेदेडर्थ- प्रतीतेः शब्दसामर्थ्यनिबन्धनत्वात् पुरुपविवक्षानुसारित्वाभावा- दित्यभिप्रेत्य वेदान्तानां ब्रह्मणि प्रामाण्यमेवं सत्युपपन्नमेवेति फलितमाह ॥ एनमेतदिति ॥ एवं सति उक्तपकारेण परागर्थ- पपश्चव्यावृत्तासाधपुरणस्वरूपत्वे सतीति यावत् । एतद् ब्रह्म पत्यक्तया पूर्णमव्याटृत्ताननुगनरूपं त्वम्पदार्थेकत्वान्वययोग्यं वेदान्तवेद्यं वेदान्तैः प्रतिपादितं भवतीत्यर्थः ॥१८५॥। ननु प्रतिपदं लक्ष्यार्थानां सत्यज्ञानादीनां मिथोभेदोऽस्त्युत न। आद्ये ब्रह्मानेकाकारं स्यादिति न निरवग्रहमहत्वं तस्य स्यादित्येकरसवाक्यार्थासिद्धिः। द्वितीये त्वेकेनैव पदेन तत्सिद्धेः पदान्तरवैयर्थ्यमितिचेत्तत्राह- सत्येऽप्यस्ति ज्ञानता ज्ञानतायां सत्यत्वं च स्पष्टमस्त्येव तद्वत ।। सत्यप्येवं नातिरेकावकाशः पूर्णे तत्त्वे ज्ञानसत्योपपत्तेः ॥ १८६ ॥ सत्येऽप्यस्तीति ॥ अयमर्थः ॥ सत्यादीनां सत्यत्वात्मना
165
Page 166
संक्षपशारीरके प्रथमोऽध्यायः ।१ १५३
भेदपक्षे न पदान्तरवैयर्थर्यशङ्का युक्ता । यतः सत्यपदेना- Sसत्यवाध्यपपञ्चव्यावृत्ततया लक्षिनेऽपि ब्रह्मणि तस्य जाड्य- व्यावृत्तज्ञानस्वरूपता। तेन न सिद्ध्यति। तथा ज्ञानपदेन स्व- विरोधिजडप्रपश्चव्यावृत्ताकारता समर्प्पणेऽपि ब्रह्मणोऽत्यन्ता- Saाध्यतालक्षणं सत्यत्वं तेन न समर्पितं भवेत् । अतः पदभेद एकार्थपर्यवसायित्वेऽपि नानपेक्षितः । तहि भेद: सत्याद्यर्था- नामितिप्ाप्तम्। तथा सनि प्रथमपक्षोक्तदोपस्तदवस्थ इतिचेन्न । यनः सत्ये सत्यपदलक्ष्ये ज्ञानताऽप्यस्ति तद्ज्ज्ञानतायां ज्ञान- पदलक्ष्यस्वरूपे सत्यत्वं चास्त्येव।स्पष्टपदमुभयत्र योज्यम् । ज्ञान- स्य सत्याद्हिर्भावे तस्य तुच्छत्वापत्तेरज्जगदान्व्यप्रसङ्ग इत्यर्थः। अन एवं परस्परान्तर्भावे सत्यखण्डैकरसवस्तुपर्यवसानं पढ़ानां सिद्ध्यत्येवेनि सिद्धम् । अथैवमुच्येत । यद्यप्येवमन्योन्यस्वस्व- लक्षितार्थ नियामकत्वेनान्योऽन्यस्मिन्नन्तर्भावस्तथापि न सत्यत्व- मेव ज्ञानत्वं नापि ज्ञानत्वमेव सत्यत्वमिति तयोर्भेदे भानि सति कथमेकरसार्थसिद्धिरिति, तत्राह ।। सत्यप्येवं नातिरेकावकाश इति । यद्यप्यनृतत्वविरोधिरूप- सत्यत्वस्य जडविरोधित्वरूपज्ञानत्वस्य च परस्परमेकरस्यंनास्ति। एवं सत्यपि सत्यादिपदलक्ष्यस्वरूपे मनागपि नातिरेका- डवकाशो न भेदशङ्गावकाशः । तथा सति पदानामेकशेष्यर्थ- तया सामानाधिकरण्यासम्भवपसङ्गात् । तथाच जडानृतविरो- धित्वरूपयोर्ञानत्वसत्यत्वयोर्भावार्थयोरेवातिरेक: परोपाधिपरि- कल्पितत्वाचन्द्रत्वादिसामान्यवदपर मार्थयोर्ननिरुपाधिकस्य सर्व- कल्पनानास्पदस्य लक्ष्यस्वरूपस्य स्वतः सत्यज्ञानरूपत्वेऽतिरेक- लेशोऽप्यस्तीत्यर्थः । कुत एतदित्यपेक्षायां हेतुमाह । पूर्णे तच्चे ज्ञानसत्योपपत्तेरिति ॥ सत्यज्ञानपदाभ्यां लक्ष्यमाणं वस्तु- २०
166
Page 167
१५४ अन्वयार्थप्रकाशिकाविभूषिते
पूर्ण तत्वं तस्मिन् ज्ञानसत्यात्मत्वोपपत्तेरित्यक्षरार्थः। ज्ञानस्य सत्यस्वरूपादतिरेके तस्यानृतत्वापत्तेर्ज्ञानत्वं व्याहन्येत। तथा सत्यस्यापि ज्ञानस्वरूपातिरेकं जडत्वेन शुक्तिरजतादिवत् सत्य- त्वं व्याहन्येत । अतः पूर्णे तच्वे स्वतो भेदरहिते लक्ष्ये वस्तुनि ज्ञानसत्यरूपतर्यकरसत्वं नानुपपन्नमिति भावः ॥ १८६ ॥। यथा सत्यज्ञानपदलक्ष्ययोः परस्परतावन्मात्रत्वं शब्दभेद- वैयर्थ्याभावः पूर्णाखण्डैकरमत्वं च तथा ज्ञानानन्दशब्दलक्ष्य- योरप्येतत् सर्व योज्यमित्याह- आनन्दत्वे ज्ञानना ज्ञानताया- मानन्दत्वं विद्यते निर्विशङ्कम् ॥ सत्यप्येव्ं नातिरेकावकाशः पूर्णे तच्वे ज्ञानसौख्योपपत्तेः ॥१८७ ॥ आनन्दत्वे ज्ञाननेति ॥ पदयोजना पूर्ववत्। ज्ञानपद- लक्ष्यस्यासुख्वात्मत्वे तस्यापुरुपार्थत्वापत्ती वेद्यत्वानुपपति: स्यात्। नथा आनन्दपदलक्ष्यस्यापि ज्ञानस्वरूपातिरेकेडपकाश- माननयाऽसत्तुल्यत्वं, जडतया पुमर्थत्वं वा प्रसज्ज्येतेति तात्पर्या- डर्थः ॥ १८७ ॥ आनन्दत्वसत्यत्वयोरप्येवं सर्वे योज्यमित्याह आनन्दत्वे सत्यता सत्यताया- मानन्दत्वं निर्विवादं प्रसिद्धम् ॥ सत्यप्येवं नातिरेकावकाशः पूर्णे तच्वे सत्यसौख्योपपत्तेः ॥१८८ ॥ आनन्दत्वे सत्यनेति ॥ अत्राप्यानन्दस्यासत्यत्वेऽपुरुपा-
167
Page 168
संक्षेपशारीरके प्रथमोडध्यायः।१।
5र्थत्वेनानुपादेयता सत्यस्याप्यनानन्दत्वे काष्टलोष्ठादिवदकिश्चि- त्करत्वादनुपादेयतैव स्यादिति भावः ॥ १८८ ।। ज्ञानानन्दसत्येपूक्तन्यायं शिष्टेणु सप्तसु नित्यशुद्धत्वादि- पदार्थेष्वतिदिशति- शेषेऽप्यूह्यं न्यायसाम्यादशेप- मन्योऽन्यस्मिन्नस्तिता पूर्णता च।। अन्योऽन्यस्याजामिता शब्दशक्ं- रेवं सुस्थं सर्वमुक्तोपपत्तेः ॥१८९॥ शंषेऽप्यृह्यमिति ॥किं तद्शेपमित्युक्तम्। तदाह ।। अन्योन्यस्मिन्नस्तिता पूर्णता चेति ॥ अन्योन्यस्मिन्नन्योन्यस्या- उन्तर्भवविनास्तिता एकेकस्यानिरेकनिराकरणेन पूर्णता च। शेपे- प्युक्तातिरिक्ते विशेषणगणे न्यायसाम्यादव्योऽन्यस्मिन्नस्तिते- त्याद्युक्तमशेषं तत्त्वमूद्यमिति योजना।तथा तत्तदनृतादिविरोध्य- डर्थव्यवच्छेदमुखेनैव तेन तेन सत्यादिशब्देन वस्तुसमर्पणात् पदान्तरावैयर्थ्य च सर्वत्र द्रष्टव्यमित्याहा।अन्योन्यस्याऽजामिता- शब्दशक्तरिति । पदानामन्योन्यस्य शब्दशक्त: पदसामर्थ्य- स्य जामिता पुनरुक्तता कार्याऽन्तराऽभावेनाऽप्रयोजकता वा नास्तीत्यर्थः । एवमुपपादित ऐकरस्यवाक्यार्थे फलितमुपसंहर- ति। एवं सुस्थं सर्वमुक्तोपपत्तेरिति ॥ उक्तोपपत्तेः प्रतिपादित- न्यायबलादेवं सति दशानामपि पदानां प्रवृत्तिद्वारभेदेऽप्यर्थभेदा- भावान्चावर्त्याकारविरोध्यर्थभेदेन स्व्रार्थसमर्पणद्वारभेदादनेक- पदावैयर्थ्यात् प्र्ृत्तिनिमित्तभेदेनापौनरुताच्च सव सुस्थम् । वस्तुन एकरसत्वं, तस्मिन्नेव वाक्यप्ामाण्यं चेत्येतदस्मन्मत- मचालनीयमित्यर्थः ॥ १८९॥
168
Page 169
१'६ अन्वयार्थ प्रकाशिकाविभूषिते
यदेतद् बुद्धयादावनात्मनि प्रतीच्यात्मनि च प्रत्यक्त्वादिक- मस्ति तदुभयशवलमात्मादिशब्दवाच्यमिति, बुद्धेर्टत्तो ज्ञानता तावदेकेत्यादौ स्वयमुपपादितेऽर्थे नैष्कर्म्यसिद्धावुक्तां सुरेशवग- चार्यसंमतिमर्थतो दर्शयति- बोधात्मत्वे निर्निमित्ते प्रतीचो बोधात्मत्वे तन्निमित्ते च बुद्े: ॥ बोधात्मत्वे बुद्धिधर्मी च बुद्े- रुक्ते माक्षाद्वेदसिद्धान्तविद्विः ॥ १९० ॥ वोधात्मत्व इति ॥ प्रतीचो बोधात्मत्वे ज्ञानत्वप्त्यकत्वे, निर्निमित्ते निमित्तनिरपेक्षे म्वाभाविके इत्यर्थः । बुद्धेस्तु बोधा- Sत्मत्वे तन्निमित्ते पत्यगात्मगतवोधात्मनिमित्ते। स्वाभाविक- बोधात्मकपतीचि वृद्धेरध्यस्तत्वात्तस्यां सिद्धे इति वेदसिद्धान्त- विद्भिरुक्ते इति योज्यम् । तथाचोक्तं नैष्कर्म्यसिद्धा- क्रूटस्थ- वोधःप्रत्यक्त्वमनिमित्तं सदात्मनः * वोद्धृताऽहंतयोर्हेतुस्ताभ्यां तेनोपलक्ष्यते, इति ॥ अस्यार्थः ॥ चिदात्मनो निर्विकारनित्य- वोधः सर्वान्तरत्वं च क्रमेण । तत्राध्यस्ताया बुद्धेर्वोद्धृत्वात्म- त्वयोर्हेतुः स्व्चिदाभासव्याप्त्या तत्र तन्नवहारप्वृत्तिनिमित्तम् । यत एवं तेन हेतुना ताभ्यामागमापायिबुद्धिगताभ्यां बोधात्म- त्वाभ्यां तत्कारणरूपकरूटस्थवोधप्रत्यगात्मोपलक्ष्यते इति । एने च वोधात्मत्वे बुद्धेर्द्ध्मी, तस्यां तयोर्न्यसम्बन्धनिबन्धनत्वान्न
योः पत्यक्त्ववोधयोर्व्यवस्थामपि संमनयति॥ वोधात्मत्वे बुद्धि- धमी च बुद्धेरिति । बुद्धेवधात्मत्वे बुद्धिधर्मो बुद्धेद्धिमीं, न स्वभावभूते उक्ते वेदसिद्धान्तविद्व्िराचारयरित्यर्थः । अत्राप्य-
169
Page 170
संक्षेपशारीरके प्रथमोऽध्यायः।१ १५७
डस्ति तद्चनं, धर्मधर्मित्वभेदोऽस्याः सोऽपि नैवात्मनो यतः ॐ मत्यग्ज्योतिरतो भिन्नं भेदहेतोरसम्भवादिति ॥ अत्राचार्याणां वेदसिद्धान्नवित्पदेन ग्रहणाद्वेदसंमतमस्मदुक्त्तमिति मूचयति । तथाच श्रुतिः, एप त आत्मा सर्वान्तरः, साक्षी चेता केवलो निर्गुणश्चेति चिदात्मनः स्वाभाविकं प्रत्यक्त्वादिकमावेदयति । नथा वुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्ट इति श्रुतिर्घुद्ध्यात्मनोः परस्पराध्यासं परस्परधर्ममा्ङ्कर्य च बृते। तथाच प्रत्यगात्मा ब्रह्मात्मा च स्वगनभेदरहिततया निर्विशेषा- वेवेति युक्तमेवैकरसे वस्तुनि वेदान्तप्रामाण्यमिति भावः। यद्यपि त्वम्पदार्थवाच्य एवैवं शावल्यमुदाहृताचार्यवचने कण्ठोक्तं तथा- प्याकाशादीनां चिदात्मनश्च मिशुनीकरणे सत्यनित्यादिपदाना- मपि शवलवाचकत्वमभिमतमेवेतिद्रष्टव्यम् ॥९० ।। तदेवं सत्यादिपदानां शवलार्थवाचित्वाङ्गीकारेण जहदजह- ल्लक्षणयाऽखण्डार्थपर्यवसायित्वमुक्तम्। इदानीमाकाशादिगन- मेव सत्यत्वादि सत्यादि पदवाच्यं न शबलमित्यङ्गीकृत्य जह- लक्षणागुणटत्तिभ्यामपि सत्यादिपदानामखण्डवस्तुपर्यवसानं तत्वमस्यादिवदविरुद्धमिति प्रागल्भ्येनाह- जहतीह च लक्षणा मता गुणवृत्तिश्च तथाऽभ्युपेयते ॥ न विशेषतिनिर्णयक्षमं किमपीहास्ति विशेषकारणम् ॥ १९१ ॥ जहती चेति। पूर्वार्द्ध स्पष्टार्थम्। विशेषनिर्णयक्षमं महा- वाक्योक्तन्यायादित्यध्याहारः । इह सत्यादौ ॥ विशेषकारणं कारणविशेष:॥ १९१॥
170
Page 171
१५८ अन्वयार्थप्रकाशिकाविभूषित ननु यद्यपुनरुक्तार्थेः सत्यादिपदैद्दशभिर्व्रह्माखण्डं लक्ष्यत इत्यङ्गीक्रियते तहीश्वरपदमप्यपुनरुक्तार्थमुपसंहियताम्। एप सर्वेश्वरइति ब्रह्मणीश्वरत्वस्यापि श्रवणादिति कस्यचिच्छङ्गा- मुन्भाव्यापाकरोति- ऐश्वर्यमप्यनुभवादिवदात्मरूपं तस्मादबोधगतमस्य च तानि कस्मात् ।। नेष्टानि पूर्ववदिति ब्रुवतो मुखस्य सदः विधानमनुसृत्य बचांसि कुर्मः ॥१९२॥ एड्वर्यमपीति॥ अपिशब्दो बोधसत्यादिद्ृष्टान्तार्थः । अनुभवादिवदैश्वर्यमप्यात्मरूपं स्वाभाविकमेकं तस्मादन्यदिति शेषः । अवोधगतं चिदात्मगतैश्वर्यनिमित्तकमन्यदैश्वर्यमपरम् । अस्य च तदुभयनतरलस्य चापरमैश्वर्यमस्ति। तान्यैश्वर्याणि पूर्ववदीश्वरपदव्युत्पत्यर्थतया कस्मान्नेष्टानीति शङ्गाग्रन्थयोजना। इति ब्रुवत इति निराकरणग्रन्थभागः स्पष्टार्थः । १९२ ॥ कथं वचास्यनुसटत्याऽस्मन्मुखस्य सद्यः पिधानं कर्त्तु शक्य- ते, सत्यादिपदवत् सर्वेश्वरपदस्यापि ब्रह्मवाक्येपु श्रवणाविशे- षादितिचेत् । सत्यमस्ति श्रवणम् । किन्त्वपवादश्रुतिवचनात् तदर्थवादतयाऽवतिष्ठत इत्यभिप्ेत्य प्रतिज्ञातमर्थ साधयति- ऐश्वर्यवर्णनमतिरफुटमेव कृत्वा नेतीत्यवादि बहुशः श्रुतिभिः प्रयत्नात् ॥ सत्यादिवस्तुनि पुनर्न तथास्ति पूर्व- मुक्त्वा निषेधनमितीह विशेषयुक्ति: ॥१९३ ॥
171
Page 172
संक्षेपशारीरके प्रथमोऽध्यायः।१ १५९
मर्थः । बृहदारण्यके तावत्, सर्वस्य वशी सर्वस्येशानः सर्वमिदं पशास्तीत्यादिना ब्रह्मण ऐश्वर्यवर्णनमिति स्फुटं कृत्वा पश्चात् स एप नेति नेत्यात्मेति सव विशेषं तस्मिन् प्रतिषेधति । तथा- उन्तर्यामिब्राह्मणे च सर्वनियन्तृत्वरूपमैश्वर्यमाविष्कृत्याक्षरब्राह्मणे पुनर्न तदश्नाति कञ्चन न तदश्नाति कश्चन। एतस्मिन्नु खल्व- Sक्षरे गाग्यीकाश ओतश्च प्रोतश्चेत्यादौ प्रतिषेधति । अतोऽन्य- दार्त्तमित्यपि पदे पदे ब्रह्मस्वरूपातिरिक्तस्यानित्यत्वप्रतिपादनेन ऐश्वर्यप्रतिषेधो गम्यते । तद्यथा रथनाभो च रथनेमौ चारा: ममर्पिता इत्यादिना सर्व एत आत्मानः समर्पिता इत्यन्तेन सर्वा- श्रयतयैश्वर्यसुपवर्ण्यान्ते तदेतद् ब्रह्मापूर्वमनपरमनन्तरमवाह्यमय- मात्मा ब्रह्म सर्वानुभूरित्यद्वयैकात्म्यप्रतिपादनेनैश्वर्य प्रतिषेधति। तथा छान्दोग्येऽपि तेजोऽवन्नादिकारणत्वेनैश्वर्य प्कटीकृत्यै- तदात्म्यमिदं सर्व तत्सत्यं स आत्मेति पदे पटेऽद्वतात्मत्वमुपसंहर- न् ऐश्वर्य प्रतिपेधति। तेत्तिरीये च, सच्च त्यच्चाभवत्। निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञान चाविज्ञानं च सत्यं चानृतं च सत्यमभवत् यदिदं किश्चेति सर्वात्मत्वेनैश्वर्य प्ति- पाद्, यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येSनिरुक्तेSनिलयनेऽभयं प्रतिष्ठां विन्दत इति तत् पुनः प्रतिपिद्ध्यते । एवं प्रतिशाख-
तिपादनानैश्वर्यमस्य स्वाभाविकं किन्तु मायातत्कार्योपाधिकृत- मेवेत्यर्थः । यथैश्वर्यमुत्का पुनस्तत्पतिपिद्ध्यते, न तथा सत्यादि- वस्तुनि पूर्वमुत्का प्रतिषेधनं पुनः श्रुतिभिः क्रियमाणमुपलब्धम- स्ति। एषा सत्यादीनां स्वाभाविकत्वावधारणे विशेषयुक्तिरि- त्यर्थः। तस्मात् सत्यत्वादिकं ब्रह्मणः स्वरूपत्वेनैव श्रुतिभिरा- वेद्यते। ऐश्वर्य तु व्यावहारिकमर्थवादत्वेनैवेति गम्यत इति
172
Page 173
१६० अन्वयार्थप्रकाशिकाविभूषिते
भाव: ॥ १९३ ॥ तदेवं सिद्धान्तोपक्रममारभ्य तत्त्वमस्यादिवाक्यानां सत्या- दिपदानां च लक्षणयाऽखण्डे ब्रह्मण्यात्मस्वरूपे समन्वय उक्तः । इदानीं किमित्येवं लक्षणामाश्रित्याखण्डे समन्वय इत्याग्रहः क्रि- मुख्यार्थामम्भवे लक्षणाश्रयणेन वाक्यार्थावगमस्य लोके दष्टत्वादिहापि मुखया-
शब्दस्य लाक्षणिकमुख्यविभागभिन्ना वृत्तिर्हि लौकिकत्चस्युपलब्धपूर्वा ।। यस्मादतो न घटते यदि मुख्यवृत्ति- राश्रीयतामिह गिरश्चरमापि वृत्तिः ॥ १९४ ।। शब्दस्येति॥ मुख्यार्थपरिग्रहे पूर्व विरोधो दर्शतोऽतश्चरमा 5पि वृत्तिरविरोधायेहाश्रीयत इत्यर्थः ॥ १९४ ॥ यस्मादेवमुक्तयुत्ा सत्यादिपदानामखण्डब्रह्मणि पर्यव- मानं सिद्धम्। तस्मात्तादग्ब्ह्मपदस्थानीयेन तत्पदेन पारोक्ष्य- प्रहाणेनाखण्डब्रह्मणः समर्पणात्चम्पदेन चात्मपदस्थानीयेन स- द्वितीयत्वादिप्रहाणेन प्रत्यक्चिन्मात्रस्य समर्पणात्तयोश्चैकस्व- भावत्वादखण्डार्थे वेदान्तानां समन्वय उपपन्नः संसर्गसमन्वया-
तस्मादखण्डमवबोधयितुं समर्थो वेदान्तभूमिगतशब्दसमन्वयोऽतः । संसर्गलक्षणमपास्य विरोधहेतो- र्वाक्यार्थमद्दयमखण्डमिहाश्रयस्व ॥ १९५॥
173
Page 174
संक्षेपशारीरके प्रथमोऽध्यायः।१। १६१
तस्मादखण्डमिति ॥ समन्वयो यत इत्यध्याहारः। अत इह वेदान्तेषु अद्यमखण्डं वाक्यार्थमाश्रयस्वेति संबन्ध: । किं कृत्वा, विरोधाद्वेतोः संसर्गलक्षणं वाक्यार्थमपास्य तत्र दृष्टिं परित्यज्येत्यर्थः । १९५॥ यद्येवं केन क्रमेण तर्हखण्डार्थावगतिः । विदितपदपदार्थ- स्यापि पुंसो न हि प्रथमत एवाखण्डार्थावगमोऽस्तीति तत्राह- सामानाधिकरण्यमत्र भवति प्राथम्यभागन्वयः पश्चादेष विशेषणेतरतया पश्चाद्विरोधोङ्वः ।। उत्पन्ने च विरोध एकरसके वस्तुन्यखण्डात्मके वृत्तिर्लक्षणया भवत्ययमिह ज्ञेयः क्रमः सूरिभः॥१९६॥ सामानाधिकरण्यमत्र भवतीति॥प्राथम्यभाक् प्रथम- प्रतीतिविषय इत्यर्थः । विशेषणेतरतयाऽन्दय इत्यनुष्गः। विरोधोन्भवो विरोधस्फुरणम्।उत्पन्ने च विरोधे तत्परिहारेणैक- रसक इति योज्यम् ॥ १९६ ।। किमेतेऽन्वयाः शब्दानामर्थानां वाऽथवोभयोर्विभागेनेति जिज्ञासायामाह- सामानाधिकरण्यमत्र पदयोर्ज्ञेयस्तदीयार्थयोः सम्बन्धस्तु वरिशेषणेतरतया ताभ्यां सहास्यात्मनः ॥ सम्बन्धोऽप्यथ लक्ष्यलक्षणतया विज्ञेय एवं बुधै- रेतान्यर्थपदानि बुद्धिपदवीमारोहणीयानि तु ॥१९७॥ सामानाधिकरण्यमत्र पद्योरिति।अत्र तत्वमस्यादि- वाक्ये पदयोस्तत्वम्पदयोः सामानाधिकरण्यं सवन्धो ज्ञेय इति २१
174
Page 175
१६२ अन्वयार्थप्रकाशिका विभूषिते
सम्बन्धः । एतत् सत्यादिपदानामप्युपलक्षणम् । अपर्याय- पदानामेकार्थवृत्तित्वं सामानाधिकरण्यम्। इह पदयोरेक विभत्यन्ततयैकार्थबोधानुगुणव्यापारवत्वात् सामानाधिकरण्यं प्रथमं प्रत्येतव्यमित्यर्थः। ततस्तदीयार्थयोर्वाच्ययोर्मिथो विशेषण- विशेष्यभावेन संबन्धो ज्ेयः । वाक्यवृत्तेरनवगमे वाक्यार्थानव- गमादर्थान्वयावगमस्य पदान्वयावगमानन्तर्यम् । विशेषणविशेष्य- भावो नाम व्यावर्त्तकव्यावर्त्यभावः । यतो विशेषणैर्विशेष्यं सजातीयादेर्व्यावर्त्यतेऽर्थाद्विशेषणान्यपि तदेकनिष्ठतया नियम्य- न्ते ! अन्यथा तद्विशेषणत्वायोगादिति । अथ पूर्वोक्तन्यायेन तस्वम्पदवाच्यार्थयोर्विरोधस्फुरणानन्तरं ताभ्यां वाच्यार्थाभ्यां सहास्यात्मनः सत्यज्ञानादिलक्षणस्य सर्वान्तरचिन्मात्रस्य च लक्ष्यलक्षणतया संबन्धोऽपि विज्ञेय इति योजना। अत्र येयं वाच्यार्थलक्षिततया लक्ष्यार्थप्रतीतिः सा पदशक्क्तितात्पर्यनि- वन्धनेति पदयोल्लेक्षणा वत्तिरुच्यते। यतः पदशत्ता पदार्थ- मतीतौ सत्यां विरोधात्तत्रान्वयाप्रतीतौ तात्पर्याभावनिश्चये सति वाच्यार्थेन स्वसंबन्ध्यर्थः पदकदम्बतात्पर्यगोचरतयोपस्थाप्यते । अतः पददृत्तिर्ल्लक्षणेति ॥ तदुक्तं नैष्कर्म्यसिद्धौ । सामानाधि- करण्यं च विशेषणविशेष्यता* लक्ष्यलक्षणसंबन्धः पदार्थपत्य- गात्मनामिति॥ अत्रत्यं बहुवचनं पदार्थयोः पत्यगात्मनश्रेति वा पदशब्देन पदद्वयमर्थशब्देन च तद्दयं विवक्षित्वा वा योज्यम्। अयं च क्रमो बुद्धिमद्भिरादरणीय एवेत्याह ।I एवं बुद्धेरिति ।। एवमुक्तक्रमेणैतानि सामानाधिकरण्यादीनि अर्थपदानि अर्थस्य प्रतिपत्तिस्थानानि बुधैर्बुद्धिमन्भिर्बुद्धिपदवीमारोहणीयानि बुद्धौ धारणीयानि। तुशब्दोऽवधारणार्थः । नैव विस्मर्तव्यानी- त्यर्थः ॥ १९७ ॥।
175
Page 176
संक्षेपशारीरके प्रथमोऽध्यायः।१। १६३
ननु, यो यः शब्दो यत्कृतेऽर्थे निरूढ इत्यत्रात्मगतमेव पत्यक्त्वादिकं प्रयोजकीकृत्य सत्यादिपदानां तत्र तत्राकाशा- दिषु पृत्तिरिति भवतोक्तम् । एवञ्चेद्यन्निमित्तीकृत्यान्यत्रार्थे व्युत्पत्तिस्तत्रैव कस्मात् सत्यादिपदानां व्युत्पत्तिर्न्नाश्रीयत इतिचेत्, आश्रीयत एव। यतो व्युत्पत्तिकाले यद्यपि प्रतीच्येव शब्दशक्ति: स्वाभाविकी, तथापि तदाविवेकानवगमादेव शबले व्युत्पत्ति: पूर्व प्रतिष्ठापितेति न विरोध इत्युत्तरमाह- निःसन्धिबन्धनमिदं चिदचित्स्वरूपं सङ्कीर्णमन्तरपरिस्फुरणेन शून्यम् ॥ आचित्तशुद्धिफलतः स्फुरितोपपत्तेः शब्दार्थसङ्गतिमिहैव तु गृहतेऽज्ञाः ॥ १९८॥ निःसन्धिबन्धनममिति ॥ आचित्तशुद्धीत्यत्राङ् मर्यादार्थः चित्तशुद्धे: फलभूतायाः स्फुरितोपपत्तिरात्मानात्मविवेकनिया- मिका, तां मर्यादीकृत्य तादृगुपपतत्यनुसन्धानात् पूर्वमज्ञा बाला इहैव शबल एव शब्दार्थसङ्गतिं गृह्णते । तुशब्दः पादपूरणाडर्थः । कुत इत्यपेक्षायामिहेत्युक्तम्। शबलं विशिषन्नविवेकं तत्र स्फुटयति, निःसन्धीत्यादिभिर्विशेषणैः । इदं चिदचित्स्वरूपं सङ्कीर्ण परस्परं सङ्कीर्णतयैव गृह्यमाणं यतोऽन्तरपरिस्फुरणेन रूपभेदप्रतिभासेनापि शून्यमत्यन्तमेकरसमिवावभासमानमिति यावत्। यतो निःसनन्धि यथा स्यात्तथा बन्धनं मिलनं यस्य त- त्तथोक्तम् । सन्धिर्बन्धनज्ञानस्थानं तेन रहितम्। अनयोर्बन्ध एतादृश इति रेखामात्रेणापि न ज्ञातुं शक्यत इत्यर्थः ॥ १९८॥ एवं तर्हि विवेकिनामेव सत्यादिशब्दव्युत्पत्तिरस्तु किम-
176
Page 177
१६४ अम्वयार्थप्रकाशिकाविभूषिते
शब्दार्थसङ्गतिविदामथ सत्वशुद्धे- रुत्पन्नतर्कदढलोहशलाकया तु॥ दृश्यं दशं च निपुर्णं ह्यमन्तरेण निक्षिप्तया दगदशोः क्रियते विभागः ॥ १९९।। शब्दार्थसङ्गतिविदामिति ।। प्रथमं शबले शब्दार्थ- सङ्गतिविदां मध्येऽथानन्तरं कैश्चित् पुरुषवरैद्गद्दशोर्विभागः क्रियते इति सम्बन्धः । केन साधनेनेति, तदाह ।। सत्वशुद्धे- रित्यादिना ॥ सतत्वमन्तःकरणं, तस्य शुद्धिरनेकजन्मानुष्ठित- निजकर्मतोषितेश्वरानुग्रहकृतपसादः । तादृशायाः सत्वशुद्धे- र्निमित्तभूताया उत्पन्ना या तर्क्रूपा विचारात्मिका हढाऽबाघिता लोहशलाका तया। किं विषयव्यापारया दृश्यं दशं चेति द्वयमन्तरेण चिज्जडयोद्योर्मध्ये निपुणं सुपयुक्तं यथा स्या- तथा निक्षिप्येति। तथाच व्युत्पनानामपि पुरुषाणां यदा शुद्धा- न्तःकरणतया सन्यग्विचारे पवत्तिर्येषां भवति तैरेव शास्त्र- ताप्तर्यविद्धिरात्मानात्मनोर्विवेक: क्रियते इति न व्युत्पत्तिकाले विवेक: कस्याऽप्यस्त्यतो विवेकिनामेवेह व्युत्पत्तिरस्त्विति न शङ्कावकाश इति तात्पर्यार्थः ॥ १९९ ॥ यदि व्युत्पचिकाले सर्वथैव विवेकाभावस्तर्हि कथमव- गम्यते शबले व्युत्पत्तिरिति, तत्राह- शुद्धधुत्थतर्कजनितं चिदचिद्विभागं प्राप्य स्थिता: पुनरिमां गिरमुदगिरन्ति॥ सत्यादिशन्दगण एष तु तत्र तत्र व्युत्पत्तिमान् शबलवस्तुनि नो हशीति ॥२ ००॥
177
Page 178
संक्षेपशारीरके प्रथमोऽध्यायः।१। १६५
चारजनितचिदचिद्विवेकं पराप्य ये स्थितास्ते पुनर्विवेकानन्तर- मिमां गिरमुद्गिरन्ति कथयन्ति ॥ एष सत्यादिशब्दगणस्तु तत्र तत्र शबलवस्तुनि व्यत्पत्तिमान्, नो दशि केवले इति इमां गिर- मुद्िरन्तीत्यर्थः । तथाच शुद्धान्त:करणानामुत्तरकालभावि- दृग्दृश्यविभागज्ञानमपेक्ष्य व्युत्पत्तिः पुरा शबले जातेति निश्री- यते। तस्माद् युक्तमुक्तं सत्यादिपदानां चिदात्मनि शबलद्वारैव व्युत्पत्तिरिति भाव:।। २००।। एवमविवेकापन्ने वस्तुनि व्युत्पत्तेः साधनाच्छबले व्युत्पन्य- जग्रीकारेऽनेकत्र शक्तिकल्पनाप्रसङ्ग इत्ययमपि दोष: परिहृत इत्याह- एकत्र शक्तिग्रहणोपपत्ता वनेकक्लप्तिः क्रियते किमर्थम् ॥ इत्येतदेवं सति नास्ति चोदं पुराऽस्य पुंसः परमाविवेकात् ॥ २०१ ॥ एकत्र शक्तिग्रहणेति ॥ पुरा विवेकोदयात् पूर्व पुंसो व्युत्पित्सो: परमा विवेकादत्यन्तमविवेकादेकत्वेनैवार्थपतिभाना- दिति हेत्वर्थः । अन्यत् सुगमम् ॥ मिथ्याभूते दृश्ये न सत्यादि- शब्दपर्यवसानम् । किन्तु तदधिष्ठाने दृगात्मन्येवेति नानेकत्र शक्तिकल्पनं परमार्थत इति भावः ॥ २०१ ॥ नन्वस्त्वेवं व्युत्पत्तिमार्गस्तथाप्यात्मनि कथं लक्षणा दत्ति- रुपपद्यते इति शिष्याक्षेपमुत्थापयति- अत्राह वाच्यशबलान्विितवस्तुनीयं
178
Page 179
१६६ अन्वयार्थप्रकाशिकाविभूषिते तद्वर्त्मना भवति लाक्षणिकी प्रवृत्तिः ।। किं वा तदन्व्रितविलक्षणवस्तुनि स्या- च्छब्दस्य नोभयमपि प्रतिभाति युक्तम् ॥२०२॥ अत्राहेति॥ वाच्यं यच्छबलं तदन्विते तत्सम्बन्धिनि वस्तुन्यात्मनीयं लाक्षणिकी प्वत्तिस्तद्वर्त्मना शबलसम्बन्धद्वारेण किं भवतीति योजना । किं वाच्यार्थसम्बन्धित्वेनात्मा लक्ष्य इत्येकोऽयं विकल्प उक्तः । कल्पान्तरमाह ॥ किं वेति॥ शबलान्वितविलक्षणमसम्बद्धयद्स्त्वात्मा तस्मिन् वा कि शब्द- स्य लाक्षणिकी प्रटत्तिरिति द्वितीयविकल्पयोजना । किं वा वाच्यार्थासम्बन्ध्येवात्मा लक्ष्यत इत्यर्थः। विकल्पद्वयदूषणं प्रति- जानीते ॥ नोभयमपीति ॥२०२॥ कथं युक्तं न पृतिभातीत्यपेक्षायामाद्यं पक्षमनूद्य दोषमाह- संबन्धिरूपं यदि वस्तु लक्ष्य- मखण्डवाक्यार्थमतिः कुतसत्या ॥ अनन्वितं वस्तु पदार्थलक्ष्यं न लक्ष्यते कुत्र चिदत्र लोके।। २०३ ॥ सम्बन्धिरूपमिति ॥ सम्बध्याकारवत्तया लक्ष्यत्वे ल- लक्षणाया विशिष्टविषयत्वादखण्डवाक्यार्थसिद्धिर्दूरापास्तेत्यर्थः। द्वितीयं प्रत्याह ।। अनन्वितमिति ॥ लोके वाच्यार्थासम्बद्धे लक्षणाया अदर्शनाद्वेदेऽपि तत्र सा न युक्तेत्यर्थः ॥ २०३॥। उत्तरमाह- पूर्वक्षणे भरति वाच्यपदार्थभाग-
179
Page 180
संक्षेपशारीरके प्रथमोऽध्यायः ।१ १६७
भागित्व्रसंगतिरिहात्मनि निर्विभागे ॥ मोहोपदर्शितवपुर्घटते ततोऽस्मि- ञच्छब्दस्य लाक्षणिकवृत्तिरदोषदुष्टा ॥ २०४ ॥ पूर्वक्षण इति॥ इह निर्विभागेऽप्यात्मनि पूर्वक्षणे वाक्यार्थ- प्रतीते: पूर्वकाले मोहोपदर्शितवपुः अविवेकप्रतिभासिताऽडकारा वाच्यपदार्थभागभागित्वसङ्गतिर्भवतीत्यन्वयः । वाच्यभागस्या- Sनात्मांशस्य यो भागस्तेन यन्भागित्वं तद्रूपा सङ्गतिर्वाच्यार्थैक- देशेनाविवेकदशायामात्मनोऽप्येकदेशित्वेनावास्तवः सम्बन्धो- डस्तीत्यर्थः । समुदाये व्युत्पन्नस्य शब्दस्यैकदेशवृत्तितया भाग- लक्षणाया एवेहाङ्गीकाराल्लक्ष्यभागस्य चात्मन: स्वत एकरस- त्वादखण्डवाक्यार्थता घटते इत्याह ।। घटते तत इति । यत एवमुक्तप्रकारेण वाच्यार्थसम्बन्धः संभवति ततोऽस्मिन्नद्वितीये प्रत्यगात्मनि लाक्षणिकत्तिर्दोषदुष्टेत्यर्थः॥ २०४॥ ननु कल्पितो वा वास्तवो वाडस्तु सम्बन्धः, सर्वथा मुख्या- ऽर्थसम्बन्धितयैव लक्ष्यार्थावगतिरिति पूर्वक्षण इवोत्तरक्षणेऽपि सम्बन्धस्यावस्थानादखण्डार्थासिद्धिदोषतादवस्थ्यमित्यत आह- संबन्धिता भवति लाक्षणिप्रवृत्तेः सर्वत्र कारणमितीदमभीष्टमेव ।। संबन्धिताकरणमेव् तु लाक्षणिक्या बुद्धेरनिष्टमिह तद्यभिचारदृष्टेः ॥२०५॥ सम्बन्धिता भवतीति॥ लाक्षणिकप्रट्टत्तेः सर्वत्र लोके वेदे वा सम्बन्धिता कारणमिति यदुच्यते इदमस्माकमप्यभीष्टमे- व। न वयं सबन्धितां लक्ष्यस्यापाकुर्मह इत्यर्थः । तर्हि कथम-
180
Page 181
१६८ अन्वयार्थप्रकाशिकाविभूषिते Sखण्डार्थत्वसिद्धिस्तत्राह ।। सम्बन्धिताकरणमिति ॥ इह वाक्ये लाक्षणिक्या बुद्धे: सम्बन्धिंताकरणमेव त्वनिष्टमिति योजना। सम्बन्धित्वाकारेण वस्तु लक्ष्यते । किन्तु सम्बन्धोपलक्षित- स्वरूपेणैव। तथाच कल्पितसम्बन्धेनैव द्वारेण केवलस्य लक्ष्य- माणत्वादखण्डविषयैव वाक्योत्था बुद्धिर्मोहस्य च तदानीं विल- यात्तत्कल्पितसम्बन्धोऽपि पूर्वक्षण एवाभून्नोत्तरक्षणे पुनरस्ति । देवदत्तस्येव तदेतद्देशकालवैशिष्टयमिति भावः ।, ननु गङ्गायां घोष इत्यादौ सम्बन्धिताकरणस्यापि दृष्टत्वात् कथ सम्बन्धोप- लक्षितमेव लक्षितमिति निश्चीयत इतिचेन्मैवं, व्यभिचारादि- त्याह । तव्वभिचारदृष्टेरिति ॥ लक्षणास्थले सम्बन्धिताकरण- स्य व्यभिचारदर्शनादित्यर्थः ॥ २६५॥ कुत्र व्यभिचारदृष्टिरिति, तत्राह- यत्रैष काकु इदमेव तु देवदत्त- वेश्मेति लाक्षणिकवृत्तिरिहाभ्युपेता ।। काकास्पदत्वमवधीर्य तथापि वेश्म- मात्राकृतिर्भवति लाक्षणिकी तु बुद्धिः ॥ २०६॥ यत्रैष काक इति ।। पूर्वार्द्धान्वयो यथापाठ इव ॥ इह लोके।।यद्यपि काकाधिकरणं देवदचवेश्मेति देवदत्तवेश्म लक्ष्य- ते तथापि काकास्पदत्वमवधीर्य काकसंबन्धित्वविशेषं विहाय वेश्ममात्राकृतिरेव लाक्षणिकी बुद्धिर्भवतीति उत्तरार्द्धयोजना। काकसम्बन्धोपलक्षितं वेश्मैव लक्ष्यते। सम्बन्धस्य वेश्मानन्त- र्भूतत्वात् । अन्यथा काकसम्बन्धविगमे वेश्मैकदेशभङ्गपसङ्गादि- ति भाव: । २०६ ॥। उपलक्षणादस्मात् स्वरूपलक्षणे विशेषो भविष्यतीत्याशक्का
181
Page 182
संक्षेपशारीरके प्रथमोऽध्यायः ।१। १६९
तत्रापि न विशेषोऽस्तीत्युदाहरणमाह - सोऽयमित्यपि पदार्थरूपकं लक्षणं यदुपलक्षणं हि तत ।। अंशिता यदि पदार्थलक्ष्ययो- र्गृह्यते ननु पुनर्विरोधिता ॥ २०७॥ सोडयमित्यपीति ॥ सोऽयं देवदत्त इति वाक्येऽपि यत्पदार्थरूपकं पदार्थस्वरूपात्मकं लक्षणं तदप्युपलक्षणमेवे- त्यभ्युपेयमित्यर्थः । विपक्षे दोषमाह । अंशिता यदि पदार्थ- लक्ष्ययोरिति ॥ वाच्यार्थलक्ष्यार्थयोर्यद्यंशिता अंशांशिता गृह्यते वाच्यार्थाशसंबन्धविशिष्टएवयदिलक्ष्यार्थोलक्षणया गृह्यते इत्यर्थः तदा पुनः पूर्ववन्ननु निश्चितं विरोधिता तदवस्थेत्यर्थः ॥ २०७॥ यदुक्तं पूर्वपक्षावसरे संसर्गाथतया वाडखण्डार्थतया वान ब्रह्मात्मनि वेदान्तपामाण्यमिति। तदेवमुक्तयुक्तिभिरखण्डार्थत्व- समर्थनेन परिहृतम् । यत् पुनरुक्तं, नाखण्डवस्तुविषया वचसः मटस्तिल्लोकेऽपि दृष्टिपथमापतितेति क्वाप्यखण्डार्थतैव नास्तीति तदप्युक्ताखण्डार्थयुत्या परिहृतमेवेत्युक्तार्थमुपसंहरति अधिकं च तत्र विवक्षन्- एवं तावलक्षणावृत्तिहेतो- रानीतैषाऽखण्डवाक्यार्थबुद्धिः ॥ मुक्त्वापीमां लक्षणावृत्तिमेषा वक्तुं शक्येत्युच्यतेऽनन्तरेण ॥ २०८ ॥ एवं तावदिति ॥ एषाऽखण्डवाक्यार्थबुद्धिरानीता, अतो नोक्तदोष: कोऽप्यस्मन्मत इति शेषः । अधिकविवक्षां प्रतिजा- २२
182
Page 183
१७० अन्वयार्थप्रकाशिकाविभूषिते
नीते॥ मुक्त्वापीमामिति॥ इमामुक्तां लक्षणावृत्ति मुक्त्वा त्यक्त्वा- Sप्येषाऽखण्डवाक्यार्थबुद्धिर्वक्तुं शक्येत्यनन्तरेण पद्येनोच्यत इति योजना। विनापि लक्षणावृत्तिमपुनरुक्तशब्दानामखण्डार्थत्वं लोकेऽपि वक्तुं पार्यत इत्यर्थः ॥ २०८ ॥। अत्राखण्डार्थत्वे केनापि विवादो न कर्त्तव्य इति दर्शयितु- मिदमदाहरणं तावदाह- मिन्नामिन्नरवौ घटादिवचसा साकं समुचारिता- वन्यूनानधिके घटादिविषये तावत् प्रवृत्तौ तब।। नो चंद्िश्वसटृजोऽपि दुष्परिहरा भेदादिमालाSडगता भेदादेरपि तन्र वाच्यमपरं भेदादिकं स्यादिति ॥ २०९॥ भिन्नाभिन्नरवाविति । भिन्नाभिन्नशब्दौ घटादिवचसा साकं भिन्नो घटोऽभिन्नो घट इत्येवं समुच्चारितौ घटादिविपये- Sन्यूनानधिके घटादिपातिपदिकमात्रे तावत् पटृटत्तौ। अतोऽस्मिन वाक्ये पदद्यात्मक विनाऽपि लक्षणामखण्डार्थता दृष्टत्यर्थः ।
माह ।। तव, नो चेदिति । भेदादिशब्दस्य वस्तुतन्मात्रत्वं चेन्नाभ्युपेयते तदा तवैवं भेदवादिनो भेदादिमाला परम्परा विश्वसृजो ब्रह्मणोऽपि दुष्परिहरा अनिवार्या आगता। अनवस्था प्राप्तेत्यर्थः । कथमिति तामुपपादयति ॥ भेदादेरपी- ति। भेदस्य तावद्धर्मिणो भेदे घटपटयोर्भेदवद्धर्मद्धर्मिभेदस्य ततोऽतिरेकस्यावश्यम्भावात्तस्यापि पूर्वभेदवन्भिन्नत्वान्ेदान्तर- भंद्यतेत्येवं तत्र तत्र भेदेऽपरो भेदो वाच्य: स्यादिति । तथा- भेदपक्षेऽपि यद्भेदो धर्मो धर्मिणो भिद्यते तदा न तद्वशात्त- शोरभेदबुद्धि: स्यात्। भिन्नेनैक्यमतीतेर्भ्रमत्वात्। तथाचाभेद-
183
Page 184
संक्षेपशारीरके प्रथमोऽध्यायः ।१। १७१
स्तदवस्थ इति तत्परिहाराय भेदाभेदयोरपि वस्तुतावन्मात्रत्व- मङ्रीकार्यमित्यखण्डार्थत्वं सिद्धमित्यर्थः ॥२०९॥ एवश्चेद्भिन्नाभिन्नपदयोर्घटपदेन सह पर्यायत्वपसङ्गात् सह- प्रयोगायोग इत्याशक्का प्रटृत्तिनिमित्तभेदान्मैवमित्याह- परस्पराभावमुपाददानो निमित्तमर्थेष हि भिन्नशब्दः ॥ प्रवर्त्ततेऽन्ये तु घटादिशब्दा निजं निजं वाच्यमुपाददानाः ॥२१०॥ परस्पराभावमिति॥ भिन्नशब्द: परस्पराभावं निमित्त- मुपाददानो ह्यर्थेषु घटादिषु प्रवर्त्तते । अन्ये तुघटादिशब्दा निजं निजं वाच्यं घटत्वादिकं निमित्तमुपाददाना अर्थेषु प्रवर्त्तन्त इति योजना। परस्पराभावो भिन्नशब्दस्य तटस्थ एव निमित्तं, न तु घटत्वादिवद्वाच्यत्वेनेति द्रष्टव्यम् । अन्यथाऽखण्डार्थत्वासिद्धेरिति भावः ॥ २१०॥
परस्पराभावविहीनभावा- दभिन्नशब्दस्य घटे प्रवृत्ति: । घटस्वरूपैक निबन्धनात्तु घटादिशब्दस्य घटे प्रवृत्तिः ॥ २११।। परस्पराभावविहीनभावादिति॥ विहीनभावान्निमि- त्तादिति योज्यम्। घटस्वरूपं घटप्रातिपदिकार्थः, घटत्वं वा।
184
Page 185
१७२ अन्वयार्थप्रकाशिकाविभूषिते
तन्मात्रनिबन्धनेत्यर्थः । घटे घटादौ प्रवृत्तिरित्यर्थः । अन्यत् सुगमम्। अत्रापि परस्पराभावविहीनताया भावस्वरूपमात्रत्वा- त्तस्या वाच्यतया निमित्तत्वेऽपि नाऽखण्डार्थत्वविरोध इति द्रष्टव्यम् ॥ २११।। विनापि लक्षणामखण्डार्थत्व उदाहरणमुक्तं प्रतिपाधैकपद- लक्षणयाप्यखण्डार्थत्वमाह- अबोधनाशश्चितिरित्यमुष्मिन् पदद्ये त्वे करसात्मनिष्ठे । अगौणमेकं पदमन्यदत्र द्वितीयवृत्तीतरसङ्गमाय ॥ २१२॥ अबोधनाश इति॥ अज्ञाननाशश्चितिरिति समानाधिकृते- डस्मिन् पदद्ये तुगब्दः पूर्वोदाहरणाद्विशेषमस्य द्योतयति। किंलक्षणे ? ॥ एकरसात्मनिष्ठे ॥ सामानाधिकरण्यादेकरसात्म- वस्तुमात्रनिष्ठे इत्यथेः । अत्रास्मिन् पदद्वये, एकं पदमगौणं स्वार्थे मुख्यव्ृत्तिकम् । अन्यत् पदमत्र वाक्ये इतरसङ्गमाया- डर्थान्तरसिद्धये, द्वितीयवृत्ति लक्षणादृत्तिमदित्यर्थः ॥ २१२॥ किमत्र मुख्यं, किं वा लाक्षणिकमित्यत आह- अज्ञाननाशपदमत्र हि मुख्यमिष्टं विद्यानिबन्धननिवृत्तिसमर्पकत्वात् ।। तेनान्वयायचितिवाचि पदं स्व्वाच्ये सौवं समुज्झति मतेः परिणामरूपम् ॥ २१३॥ अज्ञाननाशपद्मिति ॥ अज्ञाननाशपदस्य मुख्यत्वे हेतु-
185
Page 186
संक्षेपशारीरके प्रथमोऽध्यायः।१। १७३
माह । विद्यानिबन्धनेति ॥ विद्यानिबन्धननिट्ठत्तेरधिष्ठानमात्र-
जन्यबुद्धिवृत्त्युपाधिना मुख्यटत्त्याज्ञाननाशपदं चिति वर्न्तते। तथाच विद्यानिबन्धना वाक्यजन्यधीवृत्तिनिमित्तका या निषृत्ति- स्तया समर्पणं विषयनिवेशो यस्य तत्पदं तथोक्तं तस्मादित्य- ऽर्थः । चिति वाचिपदं मतेः परिणामरूपमिति सम्बन्धः । मति- परिणामशवलवाचिपदमित्यर्थः । इदं तु पदं तेनाज्ञाननाशपदेना- डन्वयाय सामानाधिकरण्याय सौवं स्वस्येदं सौवं स्ववाच्याकार- मर्थ समुज्झति त्यजति।जहदजहल्लक्षणया पदान्तरेण समाना- डर्थ भवतीत्यर्थः ॥ २१३। नन्वेतदयुक्तं, यच्चैतन्यवाचित्वेन प्रसिद्धं तल्लक्षणया वर्त- ते। निषृत्तिवाचकं तु पदं मुख्यटत्त्येतिचेत् । विधायकपदानां शवले व्युत्पन्नानां प्रत्यङन्मात्रे मुख्यटृ्त्ययोगान्निषेधपदानाम-
धिष्ठानात्मनि वत्तिरुपपद्यत इति परिहरति- विधिपदानि हि भागसमर्पणा- दपरभागनिराकरणादपि ।। अविषयात्ममर्ति जनयन्ति नो न तु मृषार्थनिवृत्तिगिरस्तथा ॥ २१४ ॥ विधिपदानीति॥ सत्यं ज्ञानमित्यादीनि विधिपदानि हि स्ववाच्यशबलस्यैकदेशस्य समर्पणान्भागान्तरस्य परित्यागा- च्च भागलक्षणया नोऽस्माकमविषयात्ममतिं जनयन्ति । मृषा- डर्थनिवत्तिपरा गिरस्तु न तथा न लक्षणयाऽविषयात्मनि वर्त्तन्त इति योजना। परोपाध्यपेक्षयैवात्मनो निटृत्त्तिरूपत्वाभिधानात्
186
Page 187
१७४ अन्वयार्थ प्रकाशिकाविभूषिते
स्वेन रूपेण तस्य न निषृत्तिरूपता। स्वरूपस्यान्यानपेक्षत्वादतो निषृत्यात्मना परापेक्षेण वाच्यत्वेऽपि निरपेक्षेणस्वरूपेण वाच्य- त्वोपपत्तेर विषयत्वविशेषणमात्मनो न विरुद्धमिति भाव:।।२१४।। . पुनरपि लक्षणां विनैवाखण्डार्थत्व उदाहरणान्तरमाह- भेदो भिन्नश्चातिरेकोऽतिरिक्तो- 5भेदोडभिन्न: संविदः स्वप्रकाशाः ॥ इत्येतस्मिन् विद्यते नार्थभेदो वेदान्तानामप्यखण्डस्तथार्थः ॥२१५॥ भेदो भिन्न इति ॥ अतिरेको नाम भेदाभेदात्मकत्व- निर्वाहको धर्मविशेषः । भेदातिरेकपदयोर्भिन्नातिरिक्तपदयोश्च सामानाधिकरण्येनैकरसार्थता तावदभ्युपगन्तव्या। न चेह पदा- डर्थयोर्विशेषणविशे यभावरूपससंर्ग एव वाक्यार्थो नाखण्डा- ऽर्थ इति वाच्यम् । स्वरूपभेदवादिनं पत्यस्य उदाहरणात्। तेन चानवस्थादिदोषभयात् स्वरूपतावन्मात्रताया भेदस्येष्ट- त्वादिति तात्पर्यार्थः। भिन्नाभिन्नरवाविति पूर्वोक्तमुदाहरणं धर्मभेदवादिनं प्रतीति ज्ञेयम् । संविद: स्वपकाशा इति पदद्वयेऽपि पूर्ववदखण्डार्थतावगम्यते। यतः स्वपकाशपदेना- जपि संविदेवाभिधीयते । न हि संविदतिरिक्तः प्रकाशपदा- डभिधेयोरऽर्थोऽस्ति। तदन्यस्य सर्वस्य जडत्वात् स्वश्चासौ प्रकाश- श्रेति समासार्थोऽपि स एव, नान्यो लभ्यते । तथाच संविदः स्वपकाशत्वमभ्युपगच्छतामस्मिन् वाक्येऽखण्डार्थत्वमभिमतमेवे- ति। इत्येवमुक्तपकारेणैतस्मिन, भेदो भिन्न इत्यादिवाक्येऽर्थ- भेदो न विद्यते यथा तथा वेदान्तानामप्यखण्ड एवार्थोऽस्त्वि- त्यर्थः ॥ २१५॥
187
Page 188
संक्षेपशारीरके प्रथमोऽध्यायः ।१। १७
एवं वेदान्तवाक्यानां न्यायवशेनाखण्डार्थत्वं साधयता संसर्गो वा विशिष्टो वा वाक्यार्थो नाखण्डार्थः कापि दृष्ट इत्युक्त- वाक्यार्थस्याखण्डेतरनिष्ठत्वनियमोऽपोदितः। इदानीं न्यायसिद्ध- मेवाखण्डार्थत्वमभियुक्ततरपाणिन्याचार्यसम्मत्याऽपि द्रयति- एवं तावदखण्डवस्तुविषये शब्दान्वयो दर्शितो लोके दृष्टनयेन पाणिनिवचोऽप्यस्यैव संसूचकम ॥ येनायं स्मरति प्रकृत्यभिहिते वृक्षादिके केवले तन्मात्रे प्रथमेतिसूत्रवचसैवाद्यां विभक्ति मुनिः ॥२१६॥ एवं तावदिति ॥ दृष्टनयेनेत्यन्त उक्तार्थानुवादः । अ- स्योक्तर्थस्याखण्डवाक्यार्थस्य पाणिनिवचोऽपि संसूचकमस्त्येवे- ति योजना । तदेवार्थतोऽनुक्रामति ॥ येनेति ॥ यस्मादित्य- ऽर्थः। तन्मात्रे प्रथमेति, प्रातिपदिकार्थे प्थमेति मूत्रार्थः संगृहीतः। यस्मादयं मुनिस्तन्मात्रे प्रथमेति सूत्रवचसा प्रकृत्यभहिते प्राति- पदिकोक्ते वक्षादिके केवले प्रत्ययार्थान्तरसंस्पृष्टे प्रथमावि- भक्तिरिति स्मरत्येव । तस्मात् पाणिनिवचोऽप्यस्यैव संसूचक- मिति योजना। प्रातिपदिकप्रथमाविभत्योरखण्डार्थतापाणणिने- रपि सम्मतेत्यर्थः ॥ २१६॥ एवं तत्वमस्यादिवाक्यस्याखण्डार्थविषयं प्रामाण्यं युतया- भियुक्तसंमत्या चोपपाद् वेदान्तसूत्रकारैरप्ययमेवार्थः समन्वय- सूत्रे निरूपित इति प्रदर्शयितुं सूत्रगतसमन्वयपदार्थ तावदाह- सामानाधिकरण्यमन्व्रयगिरा हेतुं वदत्यादरात तस्यैवाथ विशेषणं समिति च व्यावृत्तये गृह्यते ।! गौणान्मुख्यमयं भिनत्ति भगवान् व्यावर्त्तकेनामना
188
Page 189
१७६ अन्वयार्थप्रकाशिकाविभूषिते
नीलेनोत्पलवस्तुवत स्फुटतरं द्वैविध्यसद्भावतः ॥२१७॥ सामानाधिकरण्यमन्वयगिरेति ।। तत्तु समन्वया- दितिसूत्रे तुशब्दो वेदान्तानामर्थान्तरपरत्वशङ्गाव्यावर्त्तकः। त- च्छब्द: प्रतिज्ञार्थः। तङ्रह्म जन्मादिसूत्रे लक्षितं, शास्त्रयोनित्वा- दिति सूत्रे शास्त्रैकगम्यत्वेन चोक्तं यत्तदेव वेदान्तप्रमेयम् । तत्पमेयका एव वेदान्ता इति प्रतिज्ञावाक्यार्थः । तत्र हेतुः ।। समन्वयादिति ॥ तत्र सोपसर्गस्य हेतुपदस्यार्थ विविच्य कथ- यति अन्वयगिरा सामानाधिकरण्यं हेतुमादराद्वदति । अन्वया- दिति पदेन तत्वम्पदयोः सत्यादिपदानां प्रत्येकं ब्रह्मपदेन च सामानाधिकरण्यादिहेतुं वदतीत्यर्थः । ब्रह्मात्मैक्ये तात्पर्यग्राहि- भिर्हिद्गैवक्यानां तात्पर्यावगमादित्युक्तं भवति। तत्र समुपसर्ग- स्यार्थ सपयोजनमाह ॥ तस्यैवेति॥ अनेन कुतः किं व्याव- नर्यत इत्यपेक्षायामद ॥गौणादिति॥। अयं भगवान् बादरायणा- SSचार्योडमुना विशेपणेन गौणात् सामानाधिकरण्यान्मुख्यं सामानाधिकरण्यं भिनत्ति व्यावर्त्तयति। व्यावत्तिमात्रे दष्टान्तो, नीलेनोत्पलवस्तुवदिति॥ सामानाधिकरण्ये गौणमुख्यभेदा- सिद्धौ कथमिदं गौणव्यावृत्त्यर्थमित्यत आह । स्फुटतरद्वैविध्य- सन्भावत इति ॥ सामानाधिकरण्यस्येति शेषः ॥ २१७ ।। द्वैविध्यमेव स्फुटयति- तद्धि द्विधैकाधिकरण्यमुक्त गौणं च मुख्यं च विविच्य सद्विः ॥ संसर्गरूपार्थनिवेशि गौणं मुख्यं त्वखण्डार्थनित्रिष्टमाहुः ॥२१८॥
189
Page 190
संक्षेपशारीरके प्रथमोऽध्यायः।१। १७७
तद्द्ीति॥ ऐकाधिकरण्यं सामानाधिकरण्यं किं गौणं, किं वा मुख्यमिति तदाह । संसर्गरूपार्थेति ॥२१८॥ संसर्गार्थ निवेशिनोSखण्डार्थनिवेशिनश्चान्वयस्य सामाना- धिकरण्यविशेषत्वं दर्शायेतुं सामानाधिकरण्यस्य सामान्य- लक्षणमाह- आदाय नानाविधकारणानि गिरामथैकत्र तु या प्रवृत्तिः । तामाहुरैकाधिकरण्यनास्ना विपश्चितो वेदशिरःसु विप्राः ॥२१९ ॥ आदायेति ॥ नानाविधकारणानि विभिन्नानि पवत्ति- निमित्तानीत्यर्थः । गिरां वह्ीनामेकत्रार्थे प्रवृत्ति: सामाना- धिकरण्यमित्युक्ते पर्यायशब्देष्वतिव्याप्तिरतो नानाविधकारणा- न्यादायेत्युक्तम् । एकत्रेतिपदपरित्यागेन चोक्ते लक्षणे वैयधि- करण्यप्रसङ्ग इति तद्वारणायैकत्रेति । वेदशिरःसु विपश्चित इत्यन्वयः ॥ २१९॥ इदानीं गौणमुख्यरूपौ सामानाधिकरण्यभेदौ विभज्योदा- हरणेन क्रमेण बुद्धिमारोहयति- नीलं सुगन्धि महदुत्पलमम्बुशायी- त्येवंप्रकारमिह गौणमुशन्ति सन्तः ॥ सोडयं पुमानुदशरावगतो विवस्वा- नाकाशगो रववरसाविति मुख्यमाहुः ॥२२० ॥ नीलं सुगन्धीति।। उत्पलपदेन नीलादिपदानां सामाना- २३
190
Page 191
१७८ अन्वयार्थप्रकाशिकाविभूषिते
धिकरण्यं यत्तद्वौणमुशन्ति मन्यन्ते सन्तो विद्वांस इत्यर्थः ॥ मुख्यमुदाहरति । सोऽ्यमिति ।। य उदशरावगतो विवस्वान् असावाकाशगो रविरिति योजना ॥ २२० ॥ कुतोऽखण्डार्थान्वयस्य मुख्यत्वं संसर्गान्वयस्य वा गौणत्व- मित्यपेक्षायां सामानाधिकरण्यस्वरूपलक्षणस्याखण्डार्थान्वये स- म्पूर्णत्वादितरत्र तदभावादिति विशेषमाह- एकत्र वृत्तिरिति लक्षणमत्र मुख्यं संसर्गवस्तुनि पुनर्न हि तद् घटेत । नानारसे हि विषये वचसां प्रवृत्ति- र्नीलं सुगन्धि महदुत्पलमित्यमीषाम् ॥ २२१ ॥ एकत्र वृत्तिरिति ॥ अत्र सोऽयमित्यादावखण्डार्थवाक्ये पदयोरेकत्र वत्तिर्ननिरुपचरितास्तीति सामानाधिकरण्यलक्षणं मुरूयं युक्तमिति योज्यम् । संसर्गवस्तुनि तन्मुख्यं कुतो न घटे- तेत्यत्र हेतुमाह । नानारसे हीति॥ गुणगुण्याद्यात्मकत्वेन वि- षयस्य नानारसत्वम् । सुगमाऽत्र योजना ॥ २२१ ॥ आदाय नानाविधकारणानीत्यस्मिन् पद्ये सामानाधिकरण्य लक्षणार्थे वैयधिकरण्ये प्रसङ्गवारणायैकत्र तुया प्रृत्तिरित्येकत्र- शब्द: प्रयुक्तस्तत्रैव नानाविधकारणनीतिपर्यायशब्दवारणाय च प्रयुक्तः। तत्र किं वैयधिकरण्यपर्याययोः स्वरूपमित्याकाङ्खायां तयोर्लक्षणे क्रमेण दर्शयति, द्वाभ्यां- नानाविधैर्बहुभिरेव निमित्तमेदै- र्भिन्नेषु वस्तुषु गिरामथ या प्रवृत्तिः ।। सर्वत्र वैयधिकरण्यमिति प्रसिद्धा
191
Page 192
संक्षेपशारीरके प्रथमोऽध्यायः।१। १७९
सा शब्दवृत्तिकुशलव्यवहारभूमौ ॥ २२२ ॥ नानाविधैरित्याद्याभ्याम्॥ स्पष्टार्थः। अत्र भिन्नेषु वस्तु- ग्विति सामानाधिकरण्यव्युदासः । सुगममन्यत् ॥ २२२ ।। पर्यायलक्षणमाह- अभिन्नहेतुर्विषये समाने विभिन्नवाचामथ या प्रवृत्ति: ।। पर्यायनास्नाऽभिवदन्ति धीराः प्रवृत्तिमेनां वचसां बहूनाम ॥ २२३ ॥ अभिन्नहेतुरिति ॥ विभिन्नवाचां समाने एकस्मिन् वि- षये या प्रठृत्तिरभिन्नहेतुरेकनिमित्तका एनां वचसां प्रवृत्ति धीरा: पर्यायनाम्नाऽभिवदन्तीत्यन्वयः।बहूनां वचसामर्थे प्रवृत्ति: पर्याय इत्युक्ते स्तम्भ: कुम्भः पर्वत इत्यादौ प्रसङ्गस्तदर्थ समाने विषय इति। एवमपि सामानाधिकरण्ये प्रसक्तिसत्यत उक्तमभिन्नहेतु- रिति॥ अभिन्नहेतुः समाने विषये पटत्तिरित्युक्तेऽयं घटोऽयं घट इति धारावाहिकघटपदे पसङ्ग इत्यत उक्तं, विभिन्नवाचा- मिति ॥ २२३ ॥ उक्तलक्षणयोवैयधिकरण्यपर्याययोः क्रमेणोदाहरणमाह- कुड्यं गृहस्य सरसोऽम्बुजमस्य वस्त्र- मित्यत्र वैयधिकरण्यमिति प्रसिद्धम् ॥ एवं मुखं वदनमाननमित्यमीषां पर्यायताऽपि विदितैव पुरोक्तहेतोः ॥ २२४ ॥ कुउ्यमिति ॥ पूर्वार्द्धोत्तरार्द्धयोरुभयोदाहरणे स्पष्टा
192
Page 193
१८० अन्वयार्थप्रकाशिकाविभूषिते
जर्थे ॥ २२४॥ यद्येवमन्वयप्कारा बहवः सन्ति तर्हि तत्वमस्यादेः किमि त्यखण्डार्थत्वमेवेत्यभिनिवेश इतिचेन्न। प्रकारान्तरासम्भवादिहे त्याह- पर्यायता न खलु तत्त्वमसीति वाक्ये नापीह संभवति भेदकभेद्यभावः ।। तत्त्म्पदार्थगतमेकरसैकभागं तत्त्वम्पदे समुपलक्षयतो विरोधात् ॥ २२५ पर्यायतेति । तत्वमसीतिवाक्ये न खल पर्यायता सम्भ- वति। पदयोः प्रवृत्तिनिमित्तभेदे तदयोगात्। नापीह भेदकभेद्य- भावलक्षणं वैय्यधिकरण्यं सम्भवति । एकविभत्यन्तत्वेन तद- योगात्। अनेनैव विशेषणविशेष्यभावरूपो मुख्यसामानाधिकर- ण्यान्वयोऽपि निरस्तः ॥ कुत इति ॥ तत्र हेतुमाह ॥ विरोधा-
परिशेषात्तत्वम्पदार्थगतवाच्यार्थनिष्ठो य एकरसोऽखण्डचिदात्मक एको भागस्तमेकरसैकभागं तत्वम्पदे समुपलक्षयतः सम्यगेक- रसत्वेनैव संसर्गभेदवैशिष्ट्यांशेनाप्यसंस्पृष्टया लक्षयत इत्य- डखण्डार्थपरमेवेदं वाक्यं मुरुयं च सामानाधिकरण्यं समन्वय- शब्दार्थ इति सर्व समञ्जसमिति सिद्धमित्यर्थः ॥ २२५॥ तदेवं मुख्यसामानाधिकरण्यान्वयाख्यसमन्वयस्य तत्वम- स्यादिवाक्येपूपपादनेन तेषामखण्डार्थता सम्यक् प्रतिपादिता- डथेदानीमवान्तरवाक्यस्यापि सत्यादिपदकदम्बस्य तथैवाखण्डा- डर्थतां प्रतिपादयितुं दृष्टान्तमाह- प्रकृष्टप्रकाशध्वनी व्यक्तिमेकां
193
Page 194
संक्षेपशारीरके प्रथमोऽध्यायः।१ १८१
यथा लक्षणावर्त्मनोपक्षिपेताम् । शशाङ्कादिशब्दार्थसंकीर्तने स- चिदानन्दशब्दा: परं ब्रह्म तद्त ॥ २२६ ॥ प्रकृष्ठप्रकाशेति। शशाङ्कादिशब्दार्थसङ्गीर्नने शशाङ्कश्रन्द्र इत्यादिशब्दार्थस्योद्देशे सति यथा प्रकष्टपकाशध्वनी लक्षणा- वर्त्मना एकां चन्द्रव्यक्तिमुपक्षिपेताम्। चन्द्रस्वरूपे जिज्ञासिते सति प्रकृष्टपकाशश्रन्द्र इति लक्षणनिर्देशेन जिज्ञासितचन्द्र- स्वरूपपरे वाक्ये यथा प्रकृष्टपदं प्रकाशपदं चापक्रृष्टापकाश- वद्वस्तुव्यादृत्तं चन्द्रपातिपदिकार्थ लक्षणया बोधयत इत्यर्थः । दार्ष्टान्तिकमाह॥ सच्चिदानन्दशब्दाः परं ब्रह्म तद्दिति ॥२२६॥ नन्वेवं यदि वाच्यार्थपरित्यागेन लक्षणयाऽखण्डार्थता स्वीक्रियते तर्हि सर्वत्रैवं वक्तुं शक्यत्वान्नीलमुत्पलमित्यादावपि तथात्वप्रसङ्ग इतिचेत्तत्राह न नीलोत्पलाद्या गिरो व्यक्तिनिष्ठाः स्ववाच्यार्थसंसर्गमात्राभिधानात ।। विरोधे हि वाच्यच्युतिर्नाडविरोधे गिरां लक्षणात्रापि चेदस्तु साम्यम ॥ २२७ ॥ न नीलोत्पलाद्या गिरो व्यक्तिनिष्ठा इति।। नीलं सुगन्धिमहदुत्पलमित्याद्या गिरः स्वभावतः स्ववाच्यार्थसंसर्ग- मात्राभिधानाद्वेतोर्न्न व्यक्तिनिष्ठाः। एकव्यक्तिमात्रपर्यवसिता न भवन्तीत्यर्थः । तत्र हेतुमाह।।विरोधे हीति॥ वाच्यार्थान्वयि- पदार्थप्रतीतिविरोधे हि गिरां वाच्यच्युतिर्ल्लक्षणा चाविरोधा- याद्रियते, न त्वविरोधेऽपीत्यर्थः । यदि कचित् प्रयोगविशेषे
194
Page 195
१८२ अन्वयार्थप्रकाशिकाविभूषिते नीलोत्पलादिवाक्येऽपि विरोधस्फूर्च्या वाक्यार्थासिद्धिस्तदा तत्रा- जपि लक्षणा स्यादित्याह॥ अत्रापि चेदस्तु साम्यमिति।नीलो- त्पलादिवाक्येऽपि सत्यादिवाक्यचन्द्रलक्षणादिवाक्यसाम्यमस्तु लक्षणयाऽखण्डैकार्थपरत्वमस्तु, को विरोध इत्यर्थः ॥ २२७॥ नीलोत्पलवाक्ये यदा लक्षणापसङ्गस्तदा कथं तत्राखण्डार्थ- त्वप्रतीतिरिति तद् व्युत्पादयति- न नीलत्वजात्याश्रयव्यक्तितः स्याद विभिन्नोत्पलत्वाश्रयव्यक्तिरेषा । तथैवोत्पलत्वाश्रयव्यक्तितः स्या- न्न नीलत्वजात्याश्रयव्यक्तिरन्या ॥ २२८।। न नीलत्वजातीति॥अत्र नीलोत्पलपदयोर्न्नीलत्वोत्पलत्व- जाती वाच्यार्थो जातिसंसष्टे व्यक्ती अपि वेति हि मीमांसकतार्कि- कयोः संमतिः। तत्राशेषवाच्यार्थपरित्यागेन वा तदेकदेशपरित्या- गेन वा तत्सम्बधिन्यकदेशे वा, व्यक्तिमात्रे पदृत्तिर्ल्लक्षणाश्रीयते यदा तदा तत्राप्यखण्डार्थता निरपवादेति तात्पर्यार्थः।पदयोजना
काशाद्विभिन्ना न स्यादिति । तथापि नीलत्वजातिरितरस्या अन्या भविष्यतीत्यपि न शङ्गास्पदमित्याह । तथैवेति ॥ पूर्वव- दयोजना।।तथाच व्यक्तिस्वरूपस्य सन्मात्रत्वाद् द्रव्यत्वगुणत्वयो श्र तत्र कल्पितत्वात् सद्ूपाया व्यक्तेरभेदादखण्डार्थत्वमत्रापि नानुपन्नमित्यर्थः ॥ २२८।। यद्येवमखण्डार्थत्वममित्थमत्रापि सम्भवति तर्हि कुतः सर्वे- षामत्राखण्डार्थत्वसम्पतिपत्तिर्ञ जायते। अतोऽत्र तद्विपतिपत्ते- रेवं वाच्यार्थपरित्यागेनाखण्डार्थटृत्तिताव्याख्यानं भवतां साहस-
195
Page 196
संक्षेपशारीरके प्रथमोऽध्यायः।१। १८३
मेवेति मन्य इतिचेत्तत्राह- न नीलोत्पलादिप्रदेशेषु किश्विद गिरां लक्षणाकारणं तेन तत्र ।। न नीलोत्पलत्वादिकव्यक्तिनिष्ठा गिरस्ता भवेयुः प्रमाणादते नः ॥ २२९ ॥ न नीलोत्पलादिप्रदेशेष्विति ॥ नीलोत्पलादिवाक्य- पयोगप्रदेशेषु गिरां पदानां लक्षणाकारणं किश्चिन्नेत्यन्वयः। न दृश्यत इत्यर्थः । यत एवं, तेन हेतुना नोऽस्माकं, प्माणादते कारणं बिना, ता नीलमुत्पलमित्याद्या गिरो न नीलोत्पलत्वा- दिकव्यक्तिनिष्ठा भवेयुरितियोजना ।। मुख्याऽर्थोपादानेनात्र वाक्यार्थस्य सम्भावितत्वान्न लक्षणया Sखण्डाडर्थत्वस्वीकार: क्रियते, न पुनर्ल्लक्षणाबा असम्भवात्। न हि गङ्गायां घोषइत्यत्र लक्षणा स्वीकृतेति, गङ्गायां मीना इत्यत्रा- Sपि तत्स्वीकार: कार्यः। नचैवमपि गङ्गापदे लक्षणाभावो घोष- पदान्वये तदङ्गीकारात्। तस्मात्, प्रकृष्टपकाश इत्यादौ स्व- रूपप्रत्यायनपरेष्वेव लक्षणा, न त्वविरोधेन संसष्टार्थपरेष्वपी- ति सर्वमुपपन्नमिति भावः । २२९।। ननु यद्येवमुक्तपकारेण लक्षणाहेत्वभावात् संसष्टार्थतैवा- डभिमता नीलोत्पलादिवाक्ये तर्हि किमिति न नीलत्वजात्याश्रय- व्यक्तित: स्यादिति पद्ये तस्याऽखण्डार्थता समर्थितेति तत्राह- इदमुपेत्य किमप्युदितं मया न तु तयोरभिदा परमार्थतः ॥ गुणगुणित्वकृतोऽतिशयस्तयो-
196
Page 197
१८४ अन्वयार्थप्रकाशिकाविभूषिते
र्भवति लक्षणयापि गृहीतयोः ॥२३०॥ इदमुपेत्य किमप्युदितं मयेति । प्रौढितोऽयमभ्युप- गमवादो ममेत्यर्थः। परमार्थतस्तु तयोर्नरीलोत्पलपदार्थयोरभिदा अभेदलेशोऽपि नास्तीत्यर्थः । ननु लक्षणया व्यक्तिमात्रग्रहे कथमभेदाभाव इति तत्राह ।। गुणगुणित्वकृत इति ॥ लक्षण- या गृहीतयोरपि तयोर्नीलोत्पलपदार्थयोर्गुणगुणित्वकृतोऽतिशयो भेदलेशोऽपि भवत्येवेति योजना । अयं भावः । गुणत्वा- डवान्तरजातिनीलत्ववाचिनीलपदेन गुणविशेषभूता नीलव्यक्ति- र्दक्षणया सिद्ध्यन्ती सिद्धेन्नोत्पलद्रव्याभिन्ना। तथा द्रव्यत्वावा- न्तरजातिवाच्युत्पलत्ववाचि यदुत्पलपदं तेन द्रव्यविशेपोत्पल- व्यक्तिर्ल्लक्षणया सिद्धयेन्न नीलगुणाभिन्ना । अनयोर्गुणगुणि- भावेन भेदस्य प्रतीयमानस्यानपवादात् । नच सन्मात्रमे- वाभ्यां पदाभ्यां राक्ष्यत इति वाच्यम् । लक्ष्यमाणयोर्व्यक्त्योः सन्मात्रत्वाभावात । न हि गुणगुणिभावेन विवेकतः प्रतीय- मानयोव्यक्त्योः सन्मात्रत्वं सम्प्रतिपन्नं येन व्यक्तिलक्षणा स- न्मात्रविषया स्यात्।व्यत्यनुगताखण्डसन्मात्रलक्षणायां तु लक्षित- लक्षणाप्रसङ्गात् । तथाच स्यादतिपसङ्गात् सर्वव्यवहारलोपो- डन्ततो गत्वा सर्वपदानां सन्मात्रार्थत्वाव्यभिचारादिति॥२३०। नन्वेवं नीलोत्पलादिवाक्यवत् संसर्गपरत्वसम्भवात् पकृष्ट- प्रकाशादिवाक्यस्याप्यखण्डार्थनिष्ठता नास्तीति नैष दष्टान्तः सत्यादिवाक्यस्याखण्डार्थत्वे समञ्जस इतिचेत्तत्राह- प्रकृष्टप्रकाशत्वजाती हि लोके प्रकृष्टप्रकाशाभिधानाभिधेये ॥ तयोरन्वये कीर्त्यमाने तु ताभ्यां
197
Page 198
संक्षेपशारीरके प्रथमोऽध्यायः।१। १८५
शशाङ्काभिधानाभिधेयं न लभ्यम ॥ २३१ ॥ प्रकृष्ठप्रकाशत्वजाती हीति ॥ ताभ्यां मकृष्टपकाशा- डभिधानाभ्यां तयो: प्रकृष्टपकाशत्वजात्योः स्ववाच्ययोरन्वये संसर्गे कीर्च्यमाने तु शशाङ्काभिधानाभिधेयमझ्ञेन पृष्ठं चन्द्रभाति- पदिकार्थरूपं न लभ्यमित्यवुभुत्सितार्थप्रतिपादनपरतयाऽस्यानव- धेयवचनत्वापत्तिरित्यतो लक्षणयाऽखण्डार्थपरत्वमस्याऽभ्युपेय- मित्यर्थः । पकृष्टत्वपकाशत्वयोः सन्तमसखवद्योतगतयोश्चन्द्रे स- क्ीर्णत्वेऽपि तयोर्ज्जतिवचननिर्देशो वैशेषिकपक्रियाऽनादरेणेति द्रष्टव्यम् ॥ २३१॥ नन्वस्य चन्द्रपातिपदिकार्थत्वमेव किमित्यभ्युपेयते, येन
शशाङ्काभिधानाभिधेये हि पृष्टे तदतोत्तरेणापि निर्णेयमत्र । प्रकृष्टप्रकाशत्व जात्यन्वयोऽयं तदाक्षिप्ततद्यअकव्यक्तिनिष्ठः ॥ २३२।। शशाङ्काभिधानाभिधेये हि पृष्ट इति ।। यदुद्विश्य पश्नभव्ृत्तिस्तदेवोत्तरवाक्येनाऽपि निर्णेयमिति हि न्यायमार्गः । तदत्रास्मिञ्ज्योतिर्मण्डले कश्चन्द्रपदाभिलप्य इतिचन्द्रपातिपदिका- डर्थस्यैव तदनभज्ञेन पृष्टत्वात्तत्स्वरूपप्तीत्यनुरूपएवोत्तरवाक्य- पवसिर्युक्ता। तत्र प्रकर्षपकाशवैशिष्टयस्य प्रतिपादने यश्न्द्र: स प्रकृष्टपकाश इति पदयोजना भवेत् । तत्र चानवबुद्धोद्देश्य- चन्द्रस्वरूपस्य श्रोतुर्वैशिष्टयपतीतिः कस्येदं वैशिष्टमिति सा- काङ्ृत्वान्न पर्यवसितार्था जायेत। यदा तु, यः पकृष्टपकाशः स त्वद्वुयुत्सितश्रन्द्रपदाभिधेय इति योजना, तदा स्वावबुद्धभकर्ष- २४
198
Page 199
१८६ अन्घयार्थ प्रकाशिकाविभूषिते
प्काशशब्दार्थतया तत्सम्बन्धिनि चन्द्रस्वरूपे भवेत् पर्यवसिता मतिरिति प्रकृष्टपकाशपदयोश्चन्द्रस्वरूपमात्रपर्यवसितत्वमेवोत्तर- वाक्येऽपि युक्तं, न वैशिष्टथपरमित्येतमर्थमभिप्रेत्य पकृतयोः पदयोर्ल्क्षणया चन्द्रैकव्यक्तिनिष्ठत्वं दर्शयति॥ प्रकृष्टपकाश- त्वजात्यन्वयोऽयमिति । वाच्ययोर्जात्योः पदसामर्थ्यसिद्धयो- रन्वयः प्रतीयमानोऽयं ताभ्यामाक्षिप्ता या तथ्ज्जिका जाति- व्यक्चिका व्यक्तिश्चन्द्रपदवाच्या तन्निष्ठस्तत्रैव पर्यवसित इति यो जना। सामान्यान्वयस्यान्यत एव सिद्धत्वादमतिपाद्यत्वात्ततो विशेषान्वयस्तावद्वाक्यार्थोऽङ्गीकर्त्तव्यः । स च वाच्यमकृष्टत्व- प्रकाशत्वाभ्यां द्वाराभ्यां तदाश्रयव्यक्तावेव पर्यवस्यति । तच्च न लक्षणां विनेति लक्षणाप्यत्रावश्यम्भाविनी लक्ष्यव्यतयोश्च स्वरूपतो भेदानिरूपणादखण्डार्थताऽपि सिद्धेतिभावः ।।२३२।। एतमेव पूर्वपद्ये तत्तदाक्षिप्ततव्यञ्जकव्यक्तिनिष्ठ इत्युपक्षिप्त- मर्थमुपपादयति- शशाङ्काभिधानाभिधेयो न चेष्टः शशाङ्कस्य तेजोविशेषत्व्रहेतोः ॥ ततश्रोपपन्ना जहल्लक्षणातः पुरोक्ता पदाभ्यामखण्डार्थसिद्धिः ।। २३३ ॥ शशाङ्गाभिधानाभिधेयो न चेष्ट इति ।। कुतो नेष्ट इति, तत्र हेतुमाह ॥ शशाङ्गस्येति ॥ अयमर्थः ॥ शशाङ्कपदाभि- लप्योऽर्थो हि तेजोविशेषो व्यक्तिरेव । तस्याश्चैकत्वाभ्न तत्र जातिरस्ति। अतः प्रकृष्टपकाशशब्दस्य शशाङ्काभिधानाभिधेयः शशाङकत्वजातिर्वाच्योऽर्थो न चेष्ट इति। फलितमाह ॥ ततश्रे- नि। जहल्लक्षणा प्रकृष्टत्वपकाशत्वधर्मरूपवाच्यार्थपरित्यागेन
199
Page 200
संक्षेपशारीरके प्रथमोऽध्यायः।१। १८७
तदाधारतेजोविशेषात्मकव्यक्तिमात्रनिष्ठा पदट्टत्तिरुपपन्नेत्यर्थः । ततश्रैकव्यक्तिनिष्ठत्वे पदयोः सिद्धे सति पुरोक्ताऽखण्डार्थ- सिद्धिरुपपत्ना पदाभ्यामित्यर्थः ।। २३३ ।। नन्वेवमपि नाखण्डार्थत्वसिद्धिः। प्रकर्षप्रकाशाख्यधर्मयो- रन्योऽन्यं चन्द्रव्यक्तेश्र भेदादितिचेत्तत्राह -- प्रकर्षः प्रकाशातिरक्तो न चात्र प्रकाशः प्रकर्षातिरिक्तो न चात्र । बहिश्चन्द्रमस्ति स्वरूपातिरेक- स्तयोश्रन्द्रमस्येकतैवातिमात्रम् ॥ २३४ ।। प्रकर्षः प्रकाशातिरिक्तो न चात्रेति । अन्यत्र तमः- खद्योतगतयोः प्रकर्षप्रकाशयोर्भेदेऽप्यत्र चन्द्रस्वरूपे न तयो रन्योन्यं स्वरूपतोऽतिरेकश्चन्द्रव्यक्तेश्र न ताभ्यामतिरेक इत्य- ऽर्थः।कुत इतिचेत्तत्राह॥ बहिश्चन्द्रमस्तीति।तयो: प्रकर्षप्रकाशयो- र्बहिश्चन्द्रं चन्द्राद्वहिश्रन्द्रस्वरूपात् पृथक स्वरूचातिरेक: स्वरूपता भेदो न चेत्यनुषज्ज्यते। तस्मात्तयोश्चन्द्रमस्यतिमात्रमत्यन्तमेकतैव चन्द्रात्मतैव परमार्थतस्तयोरितोऽन्यादशस्य चन्द्रशब्दार्थस्याऽनि- रूपणादित्यर्थः ॥ २३४॥ कुतो भेदाभाव इति चेदभेदानुभवविरोधादेवेत्याह- - न चन्द्रप्रकाशप्रकर्ष प्रकाशा- चदीयात् पृथक्कश्चिदुत्पशयतीह।। तथास्य प्रकर्षप्रकाशं प्रकर्षा. त्ततो नानयोरस्ति भेदे प्रमाणम् ॥ २३५ ।। न चन्द्रप्रकाशप्रकर्षभिति॥ चन्द्रे यः प्रकाशस्तस्य च
200
Page 201
१८८ अन्वयार्थप्रकाशिकाविभूषिते
यः मकर्षस्तं मकाशात् प्रकाशस्वरूपात्तदीयाच्चान्द्रमसात् पृथम् विविक्तमिह व्यवहर्त्तृमाणिषु न कश्विदुत्पश्यति, न कोऽपि सम्य- ग्भेदं पश्यतीति यावत्। यथा प्कर्षस्यास्य पकाशाभेदस्तथा प्रका- सस्याप्यस्य प्रकर्षाभेद इत्याह।।तथास्येति।प्रकर्षात्तदीयान्र पृथक्क- ्रिदुत्पश्यतीहेति पूर्वेणान्वयःततो भेदानुभवाभावादभेदेनैवानुभ- वादनयोर्भेदे नास्ति मानमुत्पेक्ष्यमाणानां मानानामबाधितानुभव- विरोधादित्यर्थः । अर्थाच्चन्द्रव्यक्तेश्रानयोरभेद उक्तो वेदितव्यः । तस्याश्च प्रकर्षप्रकाशातिरिक्तस्वरूपस्यानुभवाभावान्ेदकल्पनायां प्रमाणाभावाच्चेति। अयं भावः। रूपरसादिवत् पकर्षपकाशयोर्स्न्ज्र्र स्वरूपभेद: कस्यचित् स्फुरति। ततश्रेद्दशप्रकाशातिरिक्तस्याकार- स्य चन्द्रेडभावादेव चन्द्रस्य स्वरूपमिति निश्चीयते। अस्याश्
चिति ॥ २३५ ॥ एवं दष्टान्तेऽखेण्डार्थपरत्वं वाक्यस्योपपाद्य दार्ष्टान्तिकेऽपि तत्परत्वं सिद्धमित्पेतदाह- तथा सच्चिदानन्दशब्दास्तदर्थ तथा तत्त्वमावात्मनो ब्रह्मभावम् ॥ विरोधान्मिथो लक्षणावत्मेनेमौ किमर्थ न संभूय वक्तुं समर्थो ॥। २३६॥ तथा सच्िदानन्देति ॥ यथा प्रकृष्टः प्रकाशइति च पदे चन्द्रस्वरूपमात्राकाङ्गायां मटत्ते लक्षणया चन्द्रस्वरूपं पतिपादय- तस्तथा सच्चिदादिशब्दा ब्रह्मस्वरूपमात्राकाङ्कायां मटत्ता- स्तदर्थ तत्पदार्थस्वरूपं सम्भूय लक्षणया कस्माद्वक्तुं न समर्थाः, किन्तु प्रागुक्तवर्त्मेना समर्था एवेति योजना। तथा तथाच सति
201
Page 202
संक्षेपशारीर के प्रथमोऽध्यायः।१ १८०.
सत्यादिपदानामखण्डैकरसब्रह्मपरत्वे सतीति यावत्। तत्वमौ तत्पदं त्वम्पदं चेमौ शब्दौ। आत्मनः परिशोधितस्य प्रतीचो ब्रह्मभावं सत्यादिलक्षणतत्पदार्थानन्यत्वम् । स्ववाच्यार्थाशयो- िथोविरोधाप्तदेकदेशाविरुद्धार्थलक्षणया सम्भूय वक्तुं किमर्थ न समर्थाविति योजना। तथाच ब्रह्मात्मविषयाऽवान्तरवाक्यैस्ता- त्पर्येण प्रततिपादिते तच्वे स्व्ररूपतो भेदलेशस्याप्यसम्भवान्महा- वाक्यैरप्यखण्ड एवार्थः पदार्थपरिशोधनदशायां निरस्यमानोपा- धिभेदवशात् प्राप्तभेदानुवादेनात्मैव ब्रह्म ब्रह्मैवात्मेति प्रतिपाद्यते इत्यत्र न कोऽपि विघ्न इति सिद्धमिति भावः ॥ २३६ ।। किमत्र लक्ष्यं, लक्षकं वेति वीक्षायां पूर्वोक्तमेव स्मारयति- प्रत्यक्तत्वं लक्षयेत्त्वम्पदार्थ- स्तच्छब्दार्थो लक्षयेदद्वितीयम् ॥ एवं पूर्ण प्रत्यगात्मानमेतौ शब्दौ ब्रूतो लक्षणावर्त्मनैव ॥ २३७॥ प्रत्यगिति ॥ त्वम्पदार्थस्त्वंशब्दवाच्योऽर्थः पदपटटत्तौ द्वारभूतः प्रत्यक्तत्वं याथात्म्यं चैतन्यैकस्वभावं लक्षयेत् । तथा तच्छब्दार्था वाच्यरूपोऽद्वितीयं ब्रह्मतत्वं लक्षयेत्। विरुद्धांश- महाणेनाविरुद्धार्थस्वरूपमात्रे पर्यवसितं स्ववाचकं पददयं सम्पा- दयत इत्यर्थः। यद्वा प्रत्यक्तत्त्वं त्वम्पदार्थ इति लक्ष्यस्वरूप- निर्देशः। लक्षयेत्वम्पदमिति शेषः । उत्तरत्राप्येवं योजना । अखण्डतार्थस्यैतावता कथं सिद्धेति तदाह । एवमिति॥ अक्षरा- डर्यः सुगमः । अध्यात्माधिभूतरूपोपाध्यंशोद्धारेण स्वस्वार्थ- लक्षकत्वात् परिच्छेदमहाणे सत्यपरिच्छिनैकरसं चिदात्मानमेवैतौ शब्दौ वूतो ज्ञापयत इति विवक्षितोऽर्थः ॥ २३७॥
202
Page 203
१०.० अन्घयार्थप्रकाशिकाविभूषित नन्वेवमपि न वाक्यार्थस्यैकरसता सम्भविनी,यतः पदाभ्यां परित्यक्तस्याध्यात्माधिभूतलक्षणस्योपाधे: पदार्थस्वरूपेऽव- स्थितिस्तयोर्ल्लक्ष्यमाणवस्त्वाश्रितत्वात्। न हि सोऽयम्पदाभ्या भागपरित्यागेन लक्ष्यमाणदेवदत्तस्वरूपैक्येऽपि परित्यक्त- देशादिवैशिष्टयमपगच्छति। अतो न पूर्वावस्थातः कोऽप्यतिशय इत्याक्षेपमाशङ्कमान: । परित्यक्तांशस्य पुनरवस्थाने कारणा- भावात् प्रकृतवाक्यार्थे नाक्षपावसर इति पकृतोपयुक्तमर्थमाह- पारोक्ष्यं च ब्रह्मणि प्रत्यगर्थे दुःखित्वं च ध्वान्तसम्भूतमाहः ॥ सम्यग्ज्ञानध्वस्तमोहस्य पुंसः प्रध्वंसेते हेत्वभावेऽफलत्वात् ॥ २३८॥ पारोक्ष्यं चेति॥ ब्रह्मण तत्पदार्थे यत् पारोक्ष्यं, प्रत्य- गर्थे त्वम्पदार्थे च यद् दुःखित्वं तदुभयं ध्वान्तसम्भूतं चिद- विद्याविलससितमाहुर्वदान्ततत्वविद इति शेषः । यतोऽयमर्थो निर्णीतोऽतः सम्यग्ज्ञानेन ध्वस्तो मोहः सर्वविकारमूलकारणं यस्य तस्य पुंसः पदार्थद्वयगतपारोक्ष्यदुःखित्वे प्रध्वंसेते, नात्मानं धारयत इत्यर्थः । तत्र लौकिकं न्यायंदर्शयति ॥ हेत्वभाव इति।। बीजाभावे तत्फलाभाव इति न्यायादित्यर्थः।तथाच तद्देशकाल- वैशिष्टयस्याविद्यामयत्वाभावादेवदत्तस्वरूपज्ञानेन न तन्निव-
निवर्त्तते शुक्तितत्वज्ञानेन शुक्त्यज्ञाननिट्ृत्ताविव तत्कल्पितं रजतत्वमिति भावः ॥।२३८॥। यद्येवं अपश्चास्पृष्टाद्वितीयात्मतत्वं प्रतिपिपादयिषितं वेदा- न्तानां तहि तदेव साक्षाच्छन्दशतैव पतिपाद्यतां, किमेवं
203
Page 204
संक्षेपशारीरके प्रथमोऽध्यायः ।१। १९१
लक्षणाप्रयासेनेतिचैन्मैवम्। शब्दस्यात्मतत्वे पवृत्तिनिमित्ता- भावादित्याह- षष्ठीजातिगुणक्रियादिरहिते सर्वस्य विज्ञातरि प्रत्यक्षे परिवर्जिताखिलजगदद्वैतप्रपञ्च हशौ॥ सन्त्यक्तव्यवधानके परमके विष्णोः पदें शाश्वते
षष्ठीजातीति ॥ पष्ठीशब्देन तदर्थः सम्बन्धो लक्ष्यते। सम्बन्धराहित्याद्राजपुरुषशब्दवद्राजपुरुषे न ब्रह्मणि शब्दपवृत्ति- रित्यर्थः। जातिर्गोत्वादिसामान्यं, तन्निमित्तो गोशब्दो यथा द्रव्ये प्रवर्तते न तथात्रेत्याह।। जातिरहित इति ॥ एकव्यक्ति- कत्वाज्जातिराहित्यम्। नीलादिशब्दा हि द्रव्येषु गुणनिमित्ता: पवर्त्तन्ते नीलमुत्पलमित्यादौ न तथात्रेत्याह्।। गुणरहित इति॥ केवलो निर्गुणश्चेति श्रुतेर्गुणराहित्यम् । क्रियानिमित्तकाश्च पाठकादयो, नात्र क्रियापीत्याह।। क्रियारहित इति । निष्कलं निष्कियमिति श्रुतेरस्य क्रियाराहित्यम्। आददिपदात् स्वरूपस- ङ्वेतसादृश्यादिग्रहः। न ह्स्य डित्थादिशब्दवद् गोत्वादिजातौ- गोत्वादिशब्दवद्वा स्वरूपतः सङ्केत उपपद्यते। व्यवहारागोचर- त्वादस्य । अदृष्टमव्यवहार्यमिति श्रुतेः । यथा सादृश्यनिबन्धनः शब्दश्चन्द्रमुख इत्यादिन्ने तथाऽस्य केनचित् सादृश्यमस्ति । गुणावयवाद्यभावान्न सदशे तिष्ठति रूपमस्येति श्रुतेश्रेत्यर्थः । पष्ठयर्थादिराहित्ये हेत्वर्थतयात्मानं विशिनष्टि ॥ परिवर्ज्जिता- Sखिलअगद्द्वैतपपञ्च इति ॥ परित्यक्ताखलानात्मद्वैतविस्तारे कार्यकारणधर्मवज्जित इति यावत्। षष्ठयर्थादयो हि कार्य- कारणात्मके वस्तुन्येवोपलभ्यन्ते। नायं तथेति षष्ठयादिरहित
204
Page 205
१९.२ अन्घयार्थप्रकाशिकाविभूषिते
इत्यर्थः । अत्र हेत्वर्थ विशेषणं, सर्वस्य विज्ञातरीति॥ अशेषस्य विज्ञातुर्न्न विज्ञेयधर्मसंसर्ग इत्यर्थः । स किं नित्यपरोक्षस्तर्हि स नास्तीत्यपि शङ्का स्यादिति नेत्याह॥प्रत्यक्ष इति॥ नित्या- परोक्ष इत्यर्थः । प्रत्यक्षत्वे हेतुर्द्दशाविति॥ चित्स्वरूपस्यात्यनः परोक्षत्वे हेत्वभावात् सर्वावस्थाननुसन्धानपसङ्गाच्चेति भावः । पारोक्ष्याभावे हेत्वन्तरमाह ॥ सन्त्यक्तव्यवधानक इति ॥ व्य- वहितोरऽर्थो हि द्रष्टः परोक्षो भवति। न त्वात्मात्मनो व्यवहि- तोऽतो न परोक्ष इत्यर्थः । स किमहङ्गारादिरूपो ? नेत्याह ।। परमक इति ॥ पर एव परमः,परम एव परमकः। अहङ्काराद्रिभ्य- स्तत्कारणाविद्यायाश्र परस्तादुपलभ्य इत्यर्थः । अप्राणो ह्वमनाः शुभ्रोऽक्षरात् परतः पर इति श्रुतेः । यद्वोक्तवस्तुनोऽपरोक्ष-
इति ॥ परमानन्दस्वभावे इत्यर्थः । उक्तविशेषणवस्तुस्वरूप- माह ।I विष्णोः पदे इति ॥ परमात्मस्वरूप इत्यर्थः । विष्णुपद- शब्दस्य पुराणोक्तर्वकुण्ठलोकविषयत्वशङ्गां वाहयति ॥ शाश्वत इंति॥ पदैकरूपे नित्य इत्यर्थः। स किं पत्यगात्मनोरऽर्थान्तरम् ? हन्त तहि परोक्ष एवेत्यत आह ॥ त्वयीति॥ प्रत्यक्स्वरूप इत्य- जर्थः। किश्च शब्दस्यापि प्रपश्चान्तःपातितया मायामयत्वान्न सत्य- वस्तुनि सम्बन्ध उपपन्न इत्याह॥ अज्ञानविनिर्मिता इति॥२३९॥ इदानीं मनोविषयत्वमप्यात्मनो निराकुर्वस्तस्य सर्वपमाण- Sविषयत्वे कैमुतिकन्यायं दर्शयति- आस्तामत्र वचः प्रवृत्तिविरह: प्रत्यक्त्वहेतोर्दशि व्यापाराय मनोऽपि न प्रभवति भ्राम्यत्पराग्भूमिषु॥। एवं चदखिलप्रमाणपदवीः षोढा विभिन्ना भता-
205
Page 206
संक्षेपशारीरके प्रथमोऽध्यायः।१। १९३
नुलङ्ध्य व्यवतिष्ठते त्वयि गिरः स्यान्मुख्यवृत्ति: कथम्
आस्तामत्रेति। अत्रात्मनि शब्दप्रवत्तिनिमित्तानामस- म्भवाद्चसां प्रवृत्तिविरहो य उपपादितः स तिष्ठतु तावत्तत्र किं वक्तव्यम्। यतो मनोऽपि यत्र दशि व्यापाराय न प्रभवति। कीदशं, पराग्भूमिषु भ्राम्यत् । सर्वानात्मवस्तूनि विषयीकुर्वत्। कस्मादित्यत आह ।। प्रत्यकृत्वहेतोरिति ॥ आत्मन आन्तरत्वा- दविषयत्वादित्यर्थः । मनोवृत्युत्पादनद्वारा हि सर्वपमाणानां विषयेषु प्रवृत्तिः । तद्यत्र न प्रभवति तत्र सर्वप्रमाणाविषयत्वं विशेषतः शब्दाविषयत्वं च किमु वक्तव्यमित्याह ।। एवं चेदि- ति।। एवं मनसोऽप्यविषयत्वे सति भवान् प्रत्यक्चिदात्मरूप: षोढा विभिन्ना अखिलप्रमाणपदवीः सर्वप्रमाणप्चारमार्गानुल्ल- ङ्व्य व्यवतिष्ठतेचेत् त्वाये गिरो वाक्यस्य पदस्य वा मुख्य- दृत्तिः करथं स्यान्न कथमपि। द्वाराभावादित्यर्थः॥२४० ॥ यद्येवमात्मतत्वं शब्दो मुख्यवृत्त्यविषयत्वाल्लक्षणाटत्या विषयीकरोतीति मतं, तदापि लोके लक्षणयोपस्थाप्यमानस्यापि तीरादेः शब्दकर्मत्वदर्शनादात्मापि कर्म वेदान्तशब्दानां स्यादि- तिचेन्नेत्याह- आत्मानं न तु कर्मतामुपनयञच्छब्दो वदेल्लक्षणा- मार्गेणापि यतःपराग्विषयवन्नास्येष्यते कर्मता ॥ प्रत्यक्ता हि त्रिरुन्धते यदि भवेदस्यात्मनः कर्मता यद्यत्कर्म न तस्य तस्य भवति प्रत्यक्स्त्रभावो यतः ॥२४१।। आत्मानमिति॥ लक्षणामार्गेणाप्यात्मानं बोधयकच्छब्द- २"१
206
Page 207
१९४ अन्वयार्थप्रकाशिकाविभूषिते
स्तं कर्मतामुपनयन् कर्मीकुर्वन्न तु वदेद् बोधयेदिति योजना।। ननु तीरादिवन्मेयत्वादस्यापि कर्मता स्यादितिचेन्न । अनुभव- विरोधादनुमानानुत्थानादित्याह ।। यत इति ॥ कर्मत्वेन विषय- त्वे अनात्मत्वं पयोजकं न पमेयत्वमित्यभिप्ेत्य पराग्विषयवदि- त्युक्तम् । यथा पराग्विषयस्य कर्मताऽस्ति न तथास्यात्मनः कर्मतेष्यते, तथाऽननुभवादसम्भवाच्च। प्रमेयत्वं त्वकर्मणोऽपि कथश्चित् पमाकृतातिशयविशेषयोगितामात्रेणाप्युपपद्यत एवेति भावः । न केवलं कर्मत्वेनाननुभवादेवात्मनः कर्मत्वानङ्गीकार: प्रत्यकत्वकर्मत्वयोर्विरोधादपीति युक्तिमप्यत्रोपोद्वलयति ।। प्रत्यकता हीति ।। हिशब्देन सर्वसाक्षितया सर्वान्तरतया च परागर्थव्याटृत्ताकारेणाहमित्युल्लिख्यमानतया च पत्यक्ता श्रुत्य- डनुभवप्रसिद्धा द्योत्यते । कुतो विरुद्ध्यत इतिचेत् कर्मणः परा- क्त्वेनैव व्याप्तत्वादित्याह ।। यद्यत्कर्मेति ॥ प्रत्यकूस्वभावः मत्यक्ता ॥ २४१॥ किश्च मनःशब्दौ न साक्षादात्मविषयौ। करणत्वाच्चक्षु- रादिवदित्यनुमानादप्यात्मनोऽकर्मत्वसिद्धिरित्याह- वागादि: खलु बाह्यवस्तुविषयो नात्मा यतो नात्मनि व्यापरं करणस्य कस्यचिदपि प्रेक्षामहे न्यायतः ॥ यत्किश्चित करणं जगत्त्रयगतं तत् प्रत्यगात्मेक्षितं बाह्ये वस्तुनि वर्ततेऽनुभवनं तत्र प्रमाणं मतम ॥२४२॥ वागादेरिति ॥ पराश्चि खानीति श्रुतिसिद्धनिश्वयद्योत- कः खलुशब्दः । बाह्यवस्त्वेव वागादेर्वाङ्मनसयोर्विषयो, नात्मा विषयः । कुतः । यतः कस्यचिदपि करणस्यात्मनि पतीचि व्यापारं न्यायतो न प्रेक्षामहे। करणत्वाद्वाङ्मनसी वक्षुरादिव-
207
Page 208
संक्षेपशारीरके प्रथमोऽध्यायः ।१। १०.५
आत्मगोचरव्यापारे इत्यर्थः। करणगोचरस्य जडत्वनियमाज्जडस्य च करणाधिष्ठातृत्वासम्भवादात्मनोऽपि तथात्वे जडत्वापत्तौ जगदान्ध्यपसङ्गात् करणाव्यापारपसङ्गाच्चात्मा नकरणगोचरइति भावः। उक्तन्यायमेवानुभवपमाणकतया विशदयति। यत् कि- श्विदिति॥ जगत्रयगतं यत्किश्चित्करणमस्ति तत्प्रत्यगात्मेक्षितं सत्स्वाभासव्याप्त्या प्रकाशितं सद् बाह्ये वस्तुनि द्रव्यगुणादौ वर्त्तते पवर्न्तते। किमत्र प्रमाणम्?। तदाह ॥ तथानुभवनमिति॥ यथा, केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति यु- क्तः केनेपितां वाचमिमां वदन्ति चक्षुःश्रोत्रे क उ देवो युन- क्तीति प्रश्नपूर्वकं श्रोत्रस्य श्रोत्रं मनसो मनो यद्ाचो ह वाचं स उ प्राणस्य प्राणश्चक्षुपश्चक्षुरतिमुच्य धीरा इति श्षुत्या निर्णीतं, तथा विद्वदनुभवनं तत्रोक्तार्थे प्रमाणं मतमिष्टमिति योजना॥।२४२।। इत्थं प्रत्यगात्मनोऽविषयत्वं प्रतिपाद्य विषयत्वायोग्यत्वा- देव शब्दाविषयत्वमपि तस्येत्युक्तार्थ निगमयति- प्रत्यग्रपमतो न शब्दविषयो बुद्धेरवेद्यं यतो बुद्धिरयंत्र हि वर्तते स विषयः शब्दस्य नात्मन्यसौ॥ तेनात्मानमसौ न गोचरययितुं शब्द: क्षमो मुख्यया वृत्त्यैवेतरयापि तेन न तया तस्यात्मनः कर्मता ॥२४३॥ प्रत्यगरूपमत इति ॥ यतो बुद्धेरवेद्यं पत्यभ्रूपमतो हेतो- रन शब्दविषय इति सम्बन्धः । ननु व्यधिकरणमेतद् बुद्धिगम्य- त्वाभावाच्छब्दगम्यत्वाभाव इति।न हि चक्षुरगम्यत्वाच्छब्दस्य श्रोत्रागम्यत्वं साध्यते। तं त्वौपनिषदं पुरुषमिति श्रुतिबाधित- विषयं चैतत् स्यादित्याशक्का, व्यापाराय मनोऽपि न पभवती- त्युक्तं पपश्चयन् परिहरति । बुद्धिर्यत्र हीति ॥ यत्र विषये
208
Page 209
१९६ अन्वयार्थप्रकाशिकाविभूषित
बुद्धिर्वर्त्तते शब्दस्य स एव विषयो, नान्यः । न हि चक्षुःश्रोत्र- योरिवानयोर्विषयभेदः सर्वप्रमाणानां मनोगोचर एव पट्टत्तेः । न हि मनः प्रत्याख्याय कस्यापि पमाणस्य विषयसम्बन्धस्तद वबोधनं वोपपद्यते। अतो यत्र शब्दवेद्यत्वं तत्र बुद्धिवेद्यत्वं, यत्र बुद्धिवेद्यत्वाभावस्तत्र शब्दवेद्यत्वस्याप्यभाव इति निश्चीय- ते। एवमप्यात्मनि किमायातम्। इदमायातमित्याह। नात्म- न्यसाविति ॥ असौ बुद्धिरात्मनि न वर्त्तते आत्मानं न विषयी- करोतीत्यर्थः । व्यापकाभावाव्याप्यस्याप्यभाव इति फलितमुप- संहरति ॥ तेनेति ॥ असौ शब्द इति सम्बन्धः । दृष्यैवेत्यत्रैव- कारो भिन्नक्रमः । नैव कर्मतेति योज्यः । नैव गोचरयितुमिति पूर्वेण वा योज्यः ॥ इतरया लक्षणावृत्या॥ तेनोक्तन्यायेन तया लक्षणया वत्या बोध्यमानस्याप्यात्मनो न कर्मतेति सिद्धमित्य- जर्थः । औपनिषदत्वमप्यकर्मतयैवेति भावः ॥ २४३॥ यद्येवं सर्वपमाणाविषयत्वमात्मनो विशेषतः शब्दाविषयत्व- मप्यभ्युपेयते, तर्हि ब्रह्मण्येव वेदान्तवाक्यप्ामाण्यप्रतिज्ञाविरोधः, शास्त्रयोनित्वाधिकरणविरोधश्चेति चोदयति- नन्वज्ञेयमिदं भवैद्यदि मम प्रत्यकस्तरूपं ततः प्रामाण्यं कथमस्य वेदशिरसस्तत्र प्रतिज्ञायते ॥ यन्मेयं न भवेत् कदाचिदपि तद वेदान्तवेद्यं भवे- दित्येतद्वचनं पराहतपदं वक्तुं न युक्तं बुधैः ॥२४४॥ नन्वज्ञेयमिद्मिति ॥ ममेदं प्रत्यक्स्वरूपं यद्यज्ञेयं सर्व- पमाणाविषयो भवेत्ततस्तदा तत्र प्रत्यक्रस्वरूपेऽस्य वेदशिरसः पामाण्यं कथं पतिज्ञायते । औपनिषदैरिति योजना। अविषये- डपि वेदान्ता: प्रमाणं किन्न स्युरितिचेन्मैवं, विरोधादित्याह।
209
Page 210
संक्षेपशारीरके प्रथमोऽध्यायः ।१। १९७
यन्मेयं न भवेदिति ॥ स्पष्टार्थः । प्रमाणाविषयश्च मामाणिकश्चेति व्याहतवचनं विदुषा न शोभत इति भाव: ॥ २४४॥। आत्मतत्वस्याविषयत्वेऽपि तस्मिन् वेदान्तपामाण्यमविरुद्ध- मिति परिहरति- नैतद्वस्तुनि कल्पितस्य जगतो वाक्यप्रसूतप्रमा बुद्धिर्मूलधगिष्यत तव निजस्व्राकारमात्रग्रहात ॥ कर्मत्वं न करोति वाक्यजनिता बुद्धिस्वरूपे तत स्व्राकारग्रहणन केवलमियं संसारमूलं दहेत ॥ २४५॥ नैतदिति। नैतदस्मद्वचनं पराहतपदमिति योज्यम् । कुत इत्यत आह । वस्तुनि कल्पितस्येति ॥ यतो वेदान्तमहावाक्य- पमूता प्रमारूपा बुदद्धिरन्तःकरणवत्तिस्तत्वमर्थभूतस्य निजो- Sसाधारणो यः स्वाकारः स्वाभाविकब्रह्माकारस्तन्मात्रग्रहाद- नात्मांशाऽपोहेनानुगतचिदंशतत्वात्मतापच्येति यावत् । वस्तुनि कल्पितस्य जगतो मूलधकू मूलाज्ञानप्रदग्धी इष्यतेऽस्माभिरङ्गी- क्रियते। अतो मूलोन्मूलनेनात्मनि संसारनिटृत्तिफलस्य सम- र्पणात् तस्मिन् वेदान्तानां परामाण्यमविरुद्धमित्यर्थः । फलवद्वि- ज्ञानमज्ञातवस्तुनि निश्चयरूपं जनयदेव हि वाक्यं प्रमाणम्। तदेतावताऽपि सिद्धमित्यभिपायः । तदुक्तं द्राविडाचार्येः, सिद्धं तु निवर्त्तकत्वादिति। ननु विषयस्य कर्मतामन्तरेण बुद्धेस्तदा- कारग्रहणायोगात् पासं पुनरात्मनः कर्मत्वमित्यत आह ।। कर्म- त्वमित्यत आह । कर्मत्वं नेति ॥ अयमर्थः । कथमपि क्रिया- कृतातिशययोगितया व्यवहारयोग्यत्वमात्रं कर्मत्वं विवक्षितं चे- तदङ्गीक्रियते स्वाध्यस्ताज्ञानतत्कार्यनिटृत्त्यतिशयस्य वाक्यज- वृत्तिकृतस्यात्मन्यक्गीकारात्। नचैवमतिशययोगित्वे विकारित्वा-
210
Page 211
१९८ अन्वयार्थप्रकाशिकाविभूषिते
पत्तिः। आरोपितनिटत्तेर्विकारहेतुत्वासम्भवात् । अथ वृत्तिकृत- स्फूर्च्याश्रयतयात्मनः कर्मत्वमितिचेत्तन्न । यतस्तव स्वरूपे स्व- यम्पकाशात्मान वाक्यजनिता बुद्धि: कर्मत्वं स्वकृतफलव्याप्य- त्वलक्षणं न करोति।प्रकाशस्वभावे तस्मिन्ननुपयोगादिति। ननु संविदनुत्पत्तौ कथमज्ञानमपि निवर्त्तेतागन्तुकसंविद्विरोघाद्धि तञिवृत्तिरितिचेत्तत्राह । स्वाकारग्रहणेनेति ॥ इयमात्माभि- मुरुयेन वाक्यजनिता बुद्धि: स्वाकारग्रहणेन केवलं स्वशब्द: प्रकृतात्मवचनः । आत्मचैतन्यव्याप्तयोत्पत्तित एवात्माकारा- पत्तिमात्रेण संसारमूलमज्ञानं दहेदिति योजना। एतदुक्त्तं भवति। यद्यपि बुद्धि्ृत्तिरेव केवला नाज्ञानहन्त्री जडत्वात्, नापि चिन्मात्रं तद्धन्तृ विरोधाभावात्। तथाप्युभयसंवलने सत्यऽज्ञानं निवर्त्तते, अग्न्ययःपिण्डन्यायेनेति । तत्रापि चिज्जडयोरेव वि- रोधाच्चैतन्यमेवाज्ञाननिवर्त्तकं तत्स्वरूपेणोदासीनमपि काष्ठाय :- पिण्डाद्यारूढ इवाग्निर्विशिष्टबुद्धिवृत्तिफलकारूढं सदज्ञानादि द- हेत्। अत एवंरूपतया चिदात्मपकाशस्यागन्तुकत्वादज्ञान- विरोधित्वं चोपपन्नम् । जडविषयेऽपि यद्यपि चित्पकाशः स्व- रूपेण न जन्यते तथापि विषयावच्छेदेन विषयात्मता तत्र दत्ति- कृतेति जन्यतोपचर्यते । आत्मनस्तु पागेव पकाशस्वरूपत्वान्न तत्र छत्तिद्वारा प्रकाशसञ्चारापेक्षेति विशेषः । आकारग्रहणं तु करणसामर्थ्यनिबन्धनं सर्वत्राविशिष्टमेव । तस्माद्वेदान्तपमाण- सामर्थ्यादेव वृत्तेरात्माकारत्वसिद्धे: प्रकाशमान आत्मनि प्रकाश- रूपफलाजननाच तत्कर्मकत्वायोगाद्वेदान्तवेद्यत्वेऽपि न चिदात्म- तत्वस्य कर्मतेति सर्व समञ्जसमिति ॥२४५॥ अजडात्मपमाणस्य स्वविषये संविदजनकत्वेन प्रामाण्य- मस्माभिरुक्तमन्यैरपि वादिभिरभ्युपेयमेवेत्यभिमेत्य प्राभाकरस्य
21
Page 212
संक्षेपशारीरके प्रथमोऽध्यायः।१। १९९
भाटृस्य चात्र संमतिमाह- संतिदव्युत्पादकं यहचनमभिमतं कर्ममीमांसकानां तत्कर्मत्वं न तावत् क्षिपति घटष्टाद्यर्थसंवित्स्वरूपे ।। किं त्वज्ञानापनुतत्या फलवदभिमतं तत्र शिष्यस्य तद्वत् सर्वेवेदान्तवाक्यंफलवदिदमपि प्रत्यगात्मस्वरूपे॥२४६।। संविदृत्युत्पादकमिति॥ पाभाकराणां संवेदनं विषय- विज्ञानाख्यं स्वप्रकाशमिति मतम्। भाट्टानां च विषयपाकव्याखयं विज्ञानजन्यं फलं स्वप्रकाशमभिमतम् ! एवं स्वपकाशतया विषयत्वेऽपि संविदो व्युत्पादकं परप्रकाश्यत्वादिविपतिपत्ति- विपर्ययोरपनयनेन तत्स्वरूपमुत्पादकं यद्वचनं कर्ममीमांसकाना- मभिमतं तद्वचनं घटपटाद्यर्थसंवित्स्वरूपे न तावत् कर्मत्वं क्षिपति संविदूप फलं तत्र नोत्पादयति । तथा सति संविद: स्वप्काश- त्वाङ्गीकारबाधादित्यर्थः । त्हि किं करोतीति चेत्तदाह ॥ किं त्वज्ञानापनुत्येति। अस्वपकाशत्वभ्रान्त्यादिनिवृतत्या केवलं तत्र स्वविषये फलवत्तद्वाक्यं प्रमाणमभिमतं शिष्यस्य व्युत्पाद्यस्य श्रोतुः स्वविनेयस्येत्यर्थः । तद्वदित्यादि सुगमम् ॥ २४६ ॥ येपां स्वयम्पकाशं किमपि नाभिमतं तान् पति करण- जन्यातिशयाश्रयत्वाभावेऽपि करणगोचरतया तद्विषयत्वव्यव- हारयोग्यत्वं संमतयति- अकार्यस्वरूपस्य कार्यत्वमिष्टं
तथैवाप्रमेयस्य मेयत्वमिष्टं प्रमाणैस्तमस्तद्दुत्सारयद्िः ॥ २४७।।
212
Page 213
२०० अन्वयार्थ प्रकाशिकाविभूषिते अकार्यस्वरूपस्येति । अकार्यस्वरूपस्य रूपावयवादि- हीनतया निष्पाद्यस्वरूपस्याकाशादेर्यथा तद्विरोधिमूर्त्तमुत्सार- यद्भिल्लौकिकैः परीक्षकैरपि कार्यत्वमिष्टं तथैवापमेयस्येति सुग- मम्। तद्वन्मूर्त्तवत् । उत्सारयद्भिरस्माभिरिति शेषः। मूर्तेषु करकादिषु, कारकाणामुत्पादकतया कारकत्वेऽपि यथा तेषा- ममूर्त्ते व्योमादौ तत्स्वरूपाभिव्यक्तिविरोध्युत्सारणमात्रेणैव कारकत्वं तथा प्रमाणानां संविदुत्पादकत्वेन जडेषु पामाण्येऽपि संविद्रूपे चिदात्मनि तत्स्वभावाभिव्यक्तिविरोध्यपसारकत्वेनैव प्रामाण्यमिति निरवद्यमिति भावः ।२४७।।
ब्रह्मणि वेदान्तपामाण्यमुपपादितमुपसंहरन् बुद्धेरात्माकारग्रहण- क्रममाह- वाक्योत्थापितबुद्धिवृत्तिरमला यज्ञादिभिर्निश्चला वेदान्तश्रवणादिभि: स्फटिकवत् स्वच्छा सती तावकमू।। रूपं दर्पणवद्विभर्ति परमं विष्णोः पदं संनिधे- रेतस्मादिह कारणादथ भवेत संसारबीजक्षयः ॥२४८ वाक्योत्थापितेति । वेदान्तवाक्येनोत्पादिता या बुद्धि- वृत्तिः, तावकं रूपं दर्पण इव मुखस्वरूपं बिभर्ति। कीदशम्। विष्णोः परमं पदं निर्विशेषपरमात्मरूपम्। कुतः । सन्निधेः मुख- सन्निहितदर्पणवच्चिदात्मसाभिधानादित्यर्थः । ननु वाक्यजनिता चेद्त्तिरात्मसंनिधानमात्रात्तसत्वं गृह्लीयात् तदा सकृच्छ्रवण- मात्रेऽपि वाक्यश्राविणां सर्वेषां कस्मात्तत्वावभासो न जायते इति चेदुरागादिदोषप्रतिबन्धादित्यभिपेत्य ्चिविशिनष्टि॥ अमला- यज्ञादिभिरिति । परमेश्वरार्पणेन निष्कामतया सम्यगनुष्ठितैः
213
Page 214
संक्षेपशारीरके प्रथमोऽध्यायः।१। २०१
गतेभ्योऽन्यथान्यथा पत्तिपच्या विवाददर्शनादसंभावनाग्रस्तेयं बुद्धिव्ृत्ति: कथमुक्तरूपं तत्वं विभृयादित्यत आह । निश्चला वेदान्तश्रवणादिभिरिति । पुनः पुनर्वेदान्तश्रवणमनननिदि- ध्यासनैरसंभावनादिरहिततया स्वविषये तत्वे निश्चला सती- त्यर्थः । श्रवणादिपराणामपि केषाश्चिद्यथापूर्व संसारपवृत्ति- दर्शनान संभावित उक्तार्थ इत्याशक्का पुनर्विशिनष्टि ॥ स्फटिक- वत् स्वच्छेति॥। विपरीतवासनाक्षयपर्यन्तं निदिध्यासनेन स्वच्छी- कृतेत्यर्थः । यदेवमुक्तलक्षणायां बुद्धिट्टत्तौ ब्रह्मात्मतत्वस्य प्रति- फलनं जायते एतस्मात् कारणादथबुद्धिट्टत्युदयसमय एवेह आत्मनि संसारबीजक्षयो भवेदिति ॥ २४८॥ विधिमुखेन पटत्तवाक्यार्थनिरूपणपकरणमुपसंहरति- एवं वेदशिरः प्रमाणमुदितं प्रत्यक्स्वरूप तब कर्मत्वं विरह्य्य तत्र न हि नो बाधः प्रतिज्ञागिरः ॥ कर्मत्वं न करोति बोधयति च स्पष्टं बचो वैदिकं रूपं तावकमेवमस्य भवति प्रामाण्यमत्रात्मनि ॥२४९॥ एवं वेदशिरः प्रमाणमिति ॥ अविषयत्वेनैवात्मानं बोधयन्ति वेदान्तवाक्यानीति प्रतिज्ञातार्थपतिपादनोपसंहारपरं पूर्वार्द्धम्। उपपादितार्थानुवादेन वेदान्तानां ब्रह्मात्मनि स्थिरी- कृतपामाण्योपसंहारपरमुत्तरार्द्धमित्यर्थभेदान्न पौनरुतयशङ्काकार्या अक्षरार्थः स्पष्टः ॥ २४९॥ एवं तत्वमस्यादिवाक्यस्य मुक्तिफलतत्वज्ञानोत्पादकत्वमु- पपाद्य निषेधवाक्यस्यापि सत्यादिवाक्यवत्तत्रोपकारं वक्तुं २६
214
Page 215
२०२ अन्वयार्थप्रकाशिकाविभूषिते
प्रकरणान्तरमारभमाण: परमतं तावदाह- पृष्ठेन पूर्णतपुषा क्रियत प्रतीति- रनेतीतिव्राक्यजनिता जगतो निषेद्धी॥ प्राधान्यमस्तु विधिना सममेव तसमा- त्तस्याथ वा भवतु तद्चनं प्रधानम् ॥ २५० ॥ पृष्ठेनेति ॥ नेति नेत्यादिवाक्यजनिता जगतः सर्वस्या- Sनात्मजातस्य निषेधी प्रतीतिर्न निषेधमात्रे पर्यवस्यति। धर्मिण- मवधिमन्तरेण निषेधस्यापर्यवसानात् पृष्ठेन पश्चाद्धर्मिणमवधि- भूतमाश्रित्य पर्यवस्यन्ती सा प्रतीतिः पूर्णवपुषा क्रियते। परि- च्छिन्नस्य परागर्थस्य सर्वात्मना निषेधादर्थात्तद्विपरीतब्रह्माकारा जायत इत्यर्थः । एवश्च सजातीयवविजातीयस्वगतसमस्तभेद- निकरस्य समूलस्य प्रतिषेधेनाद्वितीयाखण्डैकरसवस्तुपर्यव- सानं यस्मात्तस्माद्विधिना तत्वमस्यादिवाक्येन कैवल्यफलवंद्वि- ज्ञानजनकतया सम तुल्यं प्राधान्यमेवास्तु निषेधकवाक्यानां विधिनिषेधवाक्यानामेकार्थत्वाद्विकल्पो ब्रह्मात्मैक्यज्ञानं प्रत्य- स्त्वित्यर्थः । अथवा तद्वचनं निषेधवाक्यं तस्य विधिवाक्य- स्य प्रधानं भवतु। सर्वथाऽपि निषेधवाक्यं पधानमेवेत्य- डभिपायः ॥ २५० ॥। स एवँकदेशी पक्षद्वयेऽपि क्रमेण हेतू आह- अद्वैतीकरणं निषेधवचनादुत्पन्नबुद्धेरपि तुल्यं तत्त्वमसीतिवाक्यजनितप्रत्यक्प्रतीत्या सह ।। आर्थ शब्दमथापि वा भवतु तर्रिक तेन यदा विधि- रनों कर्तु शबलार्थगोचरतया निर्मेदमर्थ क्षमः॥२५१॥
215
Page 216
संक्षेपशारीरके प्रथमोऽध्यायः।१ २०३
अद्वैतीकरणमिति ॥ अद्वैतात्मबोधनमित्यर्थः । ननु निषेधवाक्यजन्या प्रतीतिरर्थादद्वैतीक्रियते विधिवाक्यजन्या तु साक्षान्मुखत एवेति वैषम्यात् कथमनयोस्तुल्यार्थत्वमिति चेन्न । अपयोजकत्वादस्य विशेषस्येत्याह॥ आर्थमिति ॥ तदद्वैतीकरण- मार्थ वाऽथापि शाब्दं वा भवतु, किं तेन । विशेषेण फलभेदा- भावादित्यर्थः । निषेधवाक्यपाधान्ये हेतुः, यद्वेत्यादि ।। विधि- र्विधिवाक्यं शबलार्थगोचरतया निर्भेदमखण्डमर्थ कर्त्तुमैक्यं मुख्यं बोधयितुं नक्षमो यतोऽतो निषेध्योपस्थाकतया तदपि निषेधशेष एवेति योजना ॥ २५१॥ ननु लक्षणया विधिवाक्यानामपि मुख्यैक्यार्थता स्यादिति चेन्नेति पुनः स एवाह- संबन्धजातविरहान्न च लक्षणासमन् संभाव्यते परिहताखिलदृश्यराशौ।। ब्रह्मात्मवस्तुनि ततः प्रतिषेधवाक्य- शेषत्वमेतु विधिरित्यवि केचिदन्ये ॥ २५२ ।।
संबन्धजातमिति ॥ यद्यपि प्राग्वाच्यार्थसंबन्धोपपादन- मपि लक्षणासिद्धये कृतं तथापि पुनराक्षिप्यते पूर्वोक्तसंबन्धस्या- Sवास्तवत्वात्तत्पयुक्तलक्षणाप्यवास्तवीति ततोऽर्थसिद्धि परमार्था- ममन्यमानस्येयं पटत्तिरिति द्रष्टव्यम् । अतो वस्तुतः संबन्धजात- स्य संयोगादेरसड़गे चिदात्मन्यभावादित्यर्थः ॥ परिहताखिल- दृश्यराशाविति विशेषणं संबन्धजातविरहे हेतुः । फलितमाह। अत इति ॥ २५२ ॥ एकदेश्युत्मेक्षितं पक्षद्वयमपि सिद्धान्ती दूषयति-
216
Page 217
२०४ अन्वयार्थ प्रकाशिकाविभूषिते
वाक्यं मुक्तिफलां घियं जनयति स्पष्टं विधिव्यापृतं साक्षादेव तव स्वरूपकथनान्नैवं निषेधात्मकम ॥ अध्यारोपितरूपभेदविलयव्यापारनिष्ठं तत्र स्त्राकारग्रहणक्षमां नहि घियं कर्तु समर्थ यतः ॥२५३॥ वाक्यं मुक्तिफलामिति ॥ विधिव्यापृतं वाक्यं साक्षा- व्ापारान्तरव्यधानं विनैव तव स्वरूपकथनात् स्पष्टमसंदिग्ध- मविपर्यस्तं च यथा स्यात्तथा मुक्तिफलां धियं जनयति। एवं विधिवाक्यवन्निषेधात्मकं वाक्यं न मुक्तिफलां धियं जनयति इति योजना। कुतो नैवमित्यत्र हेतुमाह । अध्यारोपितेति ॥ रूपभेद: प्रपञ्चः। विलयः प्रतिपेधः । यतस्तव स्वाकारग्रहण- क्षमां धियं कर्त्तु न समर्थमतो नैवं निषेधात्मकमिति सम्बन्धः । जडाजडयोः पारमार्थिकसम्बन्धस्यासम्भवात् काल्पनिक एव सम्वधः प्रागुक्तः । न हि चित्यध्यासं विना जडस्य सिद्धि- रस्ति। अतो दैवनेव जडस्य चित्सम्बन्ध आसादित इति लक्षणोपपत्तिः । सम्बन्धमात्राल्लक्षणोपपत्ती परमार्थत्वविशेषण- स्य तत्राकिश्चिचित्करत्वमित्येतदप्युपपादितमेव । निषेधाऽवधेरपि
प्रसङ्गात् । प्रमाणप्रसिद्धं च न निषेद्धुं शक्यत इत्यधिष्ठान- निषेध्ययोरारोप एव सम्बन्धोऽभ्युपेय इति स्थिते। चिदात्मन आभासद्वारा दृश्येन सह कल्पितसम्बन्धालक्षणया प्रत्यग्ब्रह्मस्व- रूपाकारां धियं जनयितुं शक्रोत्येव तत्वमस्यादिविधिवाक्याम- त्यभिप्ायः ॥ २५३॥ एवं विधिवाक्यानां साक्षादद्वयबोधनमुपपाद्य निषेधवाक्या- नां नदसम्भवसुपपाद्यति-
217
Page 218
संक्षेपशारीरके प्रथमोऽध्यायः।१। २०५
अस्थूलादिव चःसमुत्थितमतिर्ना कारमादास्यते साक्षादद्दयवस्तुनस्तव विभोरज्ञानविच्छेदिनः ।। अज्ञातस्य हि वस्तुनो न हि घिया स्व्राकारसंवेदनं मुक्त्वा तद्विषयस्य विभ्रमकृतो ध्वान्तस्य विध्वंसनम् २५४ अस्थूलादीति ॥ निषेधवाक्यजा मतिर्विभोः परिपूर्ण-
नादास्यते न ग्रहिष्यतीति योजना। अयम्भावः।न हि निषेध- वाक्यं साक्षादेव ब्रह्मात्मानं गोचरयेत् । तस्य तत्रासामर्थ्यात् नाप्यर्थात्। प्रमाणान्तरमन्तरेणार्थसिद्धस्याधिष्ठानस्य ब्रह्मात्मत्व- निश्चयायोगात् । निषेधान्यथानुपत्या किश्चिदस्त्यवधिभूत- मित्येतावत्तावत् सिद्ध्यति, न पुनः कि तद्वस्तु यदवशेषो निषेध इत्याकाङ्का शाम्यति। अतो निषेधवाक्यं न त्ह्मात्माकारां धियं जनायेतुं पारयतीति न विधिवाक्यसमं, तदपेक्षया पधानं वा। किन्तु विधिवाक्यशेषभूतमेवेति । तर्हि मा भूदात्माकारा धी: समस्तद्वैतनिषेधेऽनर्थस्तावच्छाम्यति। आत्मा च स्वयम्पकाश- त्वात् स्वयमेव प्रथेतेतिचेन्नेत्याह॥अज्ञातस्य चेति॥ स्वाकारेत्यत्र स्वशब्दो धीवचनोऽथवाऽडत्मस्वरूपवचनः। आद्ये पक्षे अज्ञातस्य वस्तुनः सम्बन्धी यः । स्वाकाररूपं संवेदनं तन्मुक्त्वा विहाय ध्वान्तस्य विध्वंसनंनहि धिया क्रियत इति योजना।ध्वान्तविशे- षणे तद्विषयस्य विभ्रमकृत इति च । अज्ञातवस्तुविषयस्य त- त्स्वरूपविशेषाच्छादकस्य तस्मिन् विभ्रमकतो विक्षेपकारिणश्चे- त्यर्थः । यदा पक्षान्तरं, तदाऽज्ञातवस्तुनः स्वोऽसाधारणो य आकारः सत्यज्ञानादिलक्षणस्तत्संवेदनं तदवभासनं विना िया बुद्धिृत्या तद्विषयस्य विभ्रमकृतो ध्वान्तस्य विध्वंसनं न
218
Page 219
२०६ अन्वयार्थप्रकाशिकाविभूषिते
हि क्रियत इति योजना। यदि साक्षाद्वह्मात्माकारधीवृत्युद- यो न भवेत्तदा तद्विषयध्वान्तनिवृत्तिर्ञ स्याद्यतो न निषेध- मात्रेण द्वैतानर्थस्य तत्कारणाज्ञानस्य वा निवृत्तिरधिष्ठानयाथात्म्य ज्ञानं विना निषृत्त्ययोगादन्यथा निषेधानन्तरं किमिदमिति जिज्ञासा नस्यान्नचाज्ञानानिट्ृत्तावात्मापि यथावत् स्फुरेत् स्वय- म्पकाशस्वभावत्वेऽपि तस्याज्ञानव्यवहितत्वादिति भावः।।२५४॥ अधिष्ठानतत्वज्ञानं विना निषेधमात्रात्तदज्ञाननिषत्त्यसं- भवे दष्टान्तमाह- रज्जज्ञानविजुम्भितस्य फणिनो रज्जुप्रकाशक्षमं विज्ञानं विरह्य्य न प्रशमनं दष्टं निषधे कृते ।। तद्वत्प्रत्यगविद्यया विरचितं संसारदुःखं न तत संवित्ति विरहय्यशाम्यति घिया नेतीति शब्दोत्थय।।।२५५।। रज्ज्वज्ञानेति ।। ऋज्वर्थमिदं पद्यम् ॥ २५५ ।। तदेवं न निषेधवाक्यं मुक्तिफलां धियं जनयति । न चा- डस्य विधिवाक्येन साम्यं, नापि प्राधान्यमिति निर्द्धारितम् । तहि किमर्थानि निषेधवाक्यानीति तदाह- अस्थूलादिवचो निषेधकतया भेदस्य संशोधनाद वाक्यार्थान्वयसिद्धये तु घटते वाच्यार्थलक्ष्यार्थयो: ॥
संशुद्धैत्र तु नेतिनेति वचनं मोक्षाय साक्षान् तु ॥२५६॥ अस्थूलादिवचो निषेधकनयेति । अस्थूलादिवचो भेदस्य स्थूलत्वादिधर्मकस्य प्रपश्चस्य निपेधकतया वाच्यार्थ-
219
Page 220
संक्षेपशारीरके प्रथमोऽध्यायः।१ २०७
लक्ष्यार्थयोः संशोधनाद्वाक्यार्थान्वयिसिद्धये तत्वमसिवाक्यगत तत्वम्पदार्थयोर्वाक्यार्थान्वयित्वसिद्धये घटते इति योजना। वाक्यार्थान्वयिपदार्थोपस्थापकत्वेन निषेधवाक्यानां महावाक्या- ऽर्थशेषतयाऽर्थवत्वं घटत इत्यर्थः । अस्थूलादिवाक्योक्तं न्याय- मथात आदेशो नेतिनेतीत्यादिष्वतिदिशति ॥ एवं तत्वमसीति।। एवमस्थूलादिवाक्यवन्नेति नेति वचनमपि तत्वमसीति वाक्य- गतयोस्तत्वम्पदोक्तार्थयोः संशुद्धैव संशोधनेनैव तु द्वारेण कथश्चिन्मोक्षाय भवन्भवेन्न तु साक्षादिति योजना । अत्रेयमभ्य- धिकाशङ्का। भाष्यकारैर्हि नेति नेति वाक्यार्थस्य निषेधमुखेनैव साक्षादवगतिपर्यन्तता बृहदारण्यकभाव्ये निरूपिता । एव- मेव, नेति नेति वचनमित्यादिनेति। तदपि पदार्थशोधने निषेध- वाक्यानां स्वातन्त्र्यमभिप्ेत्याध्यस्तरूपनिषेधस्य ब्रह्मावगति- पर्यन्तत्वमुक्तम्, न तु साक्षान्महावाक्यनिरपेक्षत्वमभिप्ेत्य। यतस्तैरेव सहस्रोपदेशग्रन्थे तत्वमसिपकरण विधायकमाणं विना न वस्त्वसिद्धिरिति किमन्यद् ग्राहयेत् कश्चित् प्रमाणेन तु केनचिदित्यादिना प्रबन्धेन प्रतिष्ठापितम् । अतोऽस्मदुक्तसुपपत्न- मिति ॥ २५६॥ मतान्तरमाह- अन्ये पुनर्विधित्र चोजनितात्मबुद्धि- सामर्थ्यसिद्धमनुतक्ति निषेधवाक्यम् ॥ द्वैतोपमद्दमिति शासति शिष्यवर्गे तच्च प्रशस्तमनवद्यमभीष्टमेव ॥ २५७। अन्ये पुनरिति ॥ सत्यज्ञानादिविधिवचोजनितात्मबुद्धि- रखण्डाद्वयात्मतत्वावगाहिनी तत्त्वमादिवाक्यजन्या च । तथा-
220
Page 221
२०८ अन्वयार्थप्रकाशिकाविभूषिते
विधैवात्मबुद्धिः।तत्सामर्थ्यात् सिद्धमद्वयवस्तुनि तात्पर्येण बोध्य- माने तद्विरुद्धद्वैतापवादस्यार्थसिद्धत्वात्तं द्वैतोपमदमनुवक्ति निषेध- वाक्यमतोऽनुवादकत्वान्न स्वतन्त्रमित्यर्थः ॥ अन्ये पुनरिति ।। शासति शिष्यवर्गमिति सम्बन्धः । इमं पक्षमङ्गीकरोति ॥ तच्च प्रशस्तमिति ॥ यतोऽनवद्यं निर्दुष्टमतश्चाभीष्टमेवेति । अनुवाद- स्यार्थमतिदार्ढ्यार्थत्वादिति भावः ॥२५७।। अस्य पक्षस्याङ्गीकारे हेतुमाह- दृष्टश्च रज्जुविधिनावगतार्थवस्तु- सामर्थ्यसिद्धभुजगप्रशमानुवादः ।। रज्जुस्तवाग्रत इयं न भुजङ्गमोऽय- मित्यत्र तद्वदिह योजयितव्यमेतत् ॥ २५८॥ दष्टश्रेति ॥ अनुवादपकारमभिनयति ॥ रज्जुस्तवेति ॥ स्पष्टार्थमन्यत् ॥ २५८ ॥ निषेधवाक्यानां पदार्थशुद्ध्यर्थत्वं वा विधिवाक्यजन्यज्ञान- सामर्थ्यसिद्धाज्ञानतत्कार्यनिृत्त्यनुवादकत्वं वा न साक्षाद्वस्तु- प्रतिपादकत्वमित्युपपाद्य परोक्तं निषेधवाक्यस्य स्वातन्त्र्यमसङ्गत- मेवेति द्योतयन् विधिवाक्यस्यैव शेषितां प्रपश्चयति- अस्यैव तत्त्वविनित्रेदनशक्तिभाजः संसारमूलविनिवृत्तिफलप्रसूतौ।। सामर्थ्यमस्ति पटुभिः परिबृंहितत्व्रा- द्वेदान्तभूमिगतपञ्चविधार्थवादैः ॥२५९॥ अस्यैवेति ॥ अस्यैव विधिवाक्यस्य । एवकारान्न निषेध- वाक्यस्य संसारमूलविनिटृत्तिफलमसूतौ सामर्थ्यमस्ति। अत्र
221
Page 222
संक्षेपशारीरके प्रथमोऽध्यायः।१। २०९
हेत्वर्थ विशेषणं,तत्वविनिवेदनशक्तिभाज इति ॥ स्वरूपसमर्पण- सामर्थ्यस्य विधिवाक्य एव सम्भवादित्यर्थः । तत्रैव हेत्वन्तर- माह ॥ पटुभिरिति ॥ अर्थवादानां पटुत्वमद्वैतज्ञापकयुक्तिपर- त्वादिति बोध्यम् । अत्राप्यस्यैवेत्यनुट्टत्ते: पञ्चविधार्थवादोप- बृंहणं न निषेधवाक्यस्येत्यर्थः ॥२५९॥ अर्थवादानां स्वरूपकथनपूर्वकं तत्र हेतुमाह- सृष्टिस्थितिप्रलयसंयमनप्रवेश- व्यापारजातकथनच्छलतः प्रवृत्तैः ॥ सानुग्रहादवगतिः खलु तत्त्वमादे- र्वाक्यात्परस्य घटते न ततोऽपरस्मात ॥ २६०॥ सृष्टिस्थितीति ॥ एपामर्थवादत्वं स्वार्थे फलराहित्येन फलवद्विज्ञानवाक्यशेषत्वाद्वायुर्वै क्षेपिष्ठेत्यादिव्रदिति द्रष्टव्यम्। अत्र सृष्टयादित्रयं विजातीयजडप्पश्चस्य स्वातन्त्र्यनिराकरणेन तेन चिदात्मनो द्वैतभावं वारयति।प्रवेशवादस्तु स्रष्टुरेव साक्षाज्जीव- रुपतां दर्शयन् सजातीयभेदं तस्यापाकरोति।नियमनवादस्तु तस्य सर्वनियन्दृत्वोत्या सर्वाधिष्ठानत्वमनन्याधीनत्वं च सर्वप्रत्यकृत्वं च दर्शयति।एवमेतैर्भोग्यभोक्तृनियन्तृत्वानामेकत्र कल्पितत्वोतया सर्वकल्पनाधिष्ठानस्य चिदात्मनः कल्पितपपश्चाभेदेन, सर्व खल्विदं ब्रह्मेति वाक्यस्य वाच्यार्थत्वं प्रदर्श्यते। कार्यस्य वाचा- रम्भणत्वपदर्शनपरवाक्यैकवाक्यतया चापबाधितपपञ्चाकारस्य लक्ष्यार्थत्वमिति विवक्षन्नाह ।। व्यापारजातकथनच्छलत इति ॥ कथनमिषेणेति यावत् । पट्टत्तेरर्थवादवाक्यानामिति शेषः ।
परस्य परमात्मनोऽवगतिर्यथार्थानुभवो घटते । ततस्तत्वमादि- २७
222
Page 223
२१० अन्वयार्थप्रकाशिकाविभूषिते
विधिवाक्यादपरस्मान्निषेधवाक्यान्न परस्यावगतिर्घटते निषेध- वाक्यस्य सृष्ट्यादिवाक्यकृतोपकारानिरूपणादित्यर्थः ॥२६०।। तथाच तत्पदार्थशोधनार्थमेव निषेधवाक्यं, न स्वरूपबोधना- डर्थमित्येतत्सूत्रकारपटटत्तिपर्यालोचनयाऽप्येवमेवेति दर्शयति- सत्रं तत्तु समन्वयादिति विधिव्यापारनिष्ठं वचो मोक्षायेति निवेदनाय कृतवान् वोदान्तवेदी मुनिः ॥ न्यायेनाकलयन्नशेषवचनव्यापारमूरीक्कृत- स्वातन्त्र्यः सकलेऽपि वेदशिरसि स्वैरं चरन्नीश्वरः ॥२६१॥ सूत्रमिति॥ सम्यगखण्डार्थतयाऽन्वयः समन्वय इति समन्वयशब्दार्थः । वेदान्तवेदी वेदान्तानां सम्यगर्थवेदनशीलः। अनेनास्य वेदान्तविषयेSज्ञानसंशयवविपर्ययराहित्यं सूचितम् । वेदान्तवेदी मुनिर्विधिव्यापारनिष्ठं वचो मोक्षाय, नतु निषेध- व्यापारनिष्ठमित्यर्थाल्लभ्यते इति निवेदनाय, तत्तु समन्वयादिति मूत्रं कृतवान्।निपेधवाक्यगतपदान्वयस्य निषेधकपदेन ब्राह्मण- परिव्राजकन्यायेन सिद्धत्वात् तद्विवक्षायां, तत्तु निषेधादिति निर्दिशत्। नैवं निर्दिशत्यतो विधिव्यापारनिष्ठमेव वाक्यं वस्तु- ग्राहकमित्यर्थः । किं कुर्वन्नेवं सूत्रं कृतवान्मुनिः।न्यायेन युक्ति-
रमाकलयन्ननेकै: सूत्रपदैर्ननिवध्नन्नित्यर्थः । अनेनाविचारपूर्व- त्वशङ्का मृत्रपणयनेऽस्य निरस्ता। किमित्ययं सूत्रशास्त्रनिर्माणे पवृत्त इत्यत आह।। उरीकृतस्वातन्त्रय इति।अपर्यनुयोज्य इत्यर्थः । कृतमप्यनेन शास्त्रं वचनान्तरेण तन्त्रान्तरेण वा प्रतिहन्येतेति, नत्याह ।I सकलेपु वेदाशरसि स्वरैरं चरन्निति॥ समस्तवेदान्त- वाक्याऽविरोधेनैव पवत्तत्वात्तन्त्रान्तरस्य पौरुषेयतया मूल-
223
Page 224
संक्षेपशारीरके प्रथमोऽध्यायः।१। २११
पमाणापेक्षस्य वेदान्तविरोधे बाधितार्थतया प्रतिपक्षत्वासंभवा दित्यर्थः ॥२६१॥ एवं विधायकवाक्यानामेव साक्षादात्मस्वरूपपर्यवसानेन मोक्षसाधनज्ञानोत्पादकतेत्यत्र सूत्रकारस्य संमतिमुक्त्वा निषेध- वाक्यं तु केवलं तत्पदार्थपरिशोधनपरमेवेत्यत्रापि, प्रकृतैतावत्वं हि प्रतिषेधति ततो व्रवीति च भूय इति सूत्रोक्तमर्थ संकलयँ- स्तत्संमतिमाह- वाक्यार्थान्वयितत्पदार्थकथने नेतीति वाक्यं पुनः साक्षात्सूचयति स्म सूत्रकृदतस्तत्तत्परं निश्चितम्॥ एवं हस्ततलार्पितामलकवत् तात्पर्यसंवेदने सत्यन्याद्गुदीरयन्ति यदि तक्क्षन्तुं कथ शक्नुमः ॥२६२ वाक्यार्थान्वयीति ॥ स्पष्टान्वयपदेन पूर्वार्द्धेन मूत्रकृत्सं- मतिदशिता। उत्तरार्द्धेन तु युक्या संमत्या चोपपादितं तात्पर्य- मुपसंहरति ॥ एवं हस्तेति ॥ २६२ ।।
दर्शयति- इदारनी निषेधवाक्यानां तत्पदार्थशुद्धावुपकारप्रकारं
सत्यं ज्ञानमनन्तमित्यमिहिते संभावनाSSनीयते
तेनावान्तरवाक्यलक्ष्यविषयां बुद्धिं दढीकुर्वता सर्वद्वैतनिषेधकेन वचसा वाक्यार्थधोर्जन्यते ॥२६३॥ सत्यं ज्ञानमिति ॥ अस्थूलादिवचनैः समुद्वो यस्या- स्तया घिया कृत्वा यो द्वैतोपमईस्तं विना, सत्यं ज्ञानमनन्त- मित्यभिहितेSखण्डवस्तुनि सम्भावना न नीयत इति योजना। तत्पदलक्ष्यार्थे सत्यज्ञानादिवाक्यैस्तात्पर्येण प्रतिपादिते वाच्य-
224
Page 225
२१२ अन्वयार्थप्रकाशिकाविभूषिते शबलैकदेशस्य हेयांशस्य पृथगस्थाने सर्वात्मनाऽखण्डाद्वय- वाक्यार्थस्यासम्भावनास्पदत्वाद्यतो न तत्र निश्चिता हढा मति- र्भवति तेन कारणेन सत्यज्ञानाद्यवान्तरवाक्यलक्ष्यार्थविषयां बुद्धिं दढीकुर्वता सर्वद्वैतनिषेधकेन नेति नेत्यस्थूलमित्यादिवचसा हेयांशस्यापवाधने सति वाक्यार्थधीर्यथोक्ता निश्चला जन्यते। अतः सत्यादिवाक्यैकवाक्यतया पदार्थपरिशोधनपरं सर्वमेव निषेधवाक्यं, न साक्षादविद्यानिवृत्तिफलकवस्तुतत्वसाक्षात्कार- समर्थमित्यर्थः ॥ २६३ ॥ एवं विधिनिषेधवाक्याभ्यां लक्ष्यार्थशोधने सति कथं वाक्यार्थधीजन्मेति तदाह- अस्थूलादिव चोनिरस्तनिखिलद्वैतप्रपञ्चं परं जाग्रत्स्वप्नसुषुप्तिवर्जितमिदं प्रत्यकस्वरूपं तथा ।। एकीकृत्य परस्परेण पदयोरर्थद्वयं तत्त्वतः प्रत्यक्चाद्वयमद्दयं च तदिति प्रेक्षस्त्र निःसंशयम् ॥२६४ अस्थूलादिवचोनिरस्तेति ॥ अशेषनिषेधवाक्यनिरस्त- निखिलद्वैतप्रपञ्चं सत्यज्ञानादिलक्षणं परं परमात्मानं तत्पदार्थ
या संशोधितमिदं त्वम्पदार्थसाक्षिलक्षणं प्रत्यकस्वरूपं च पदयोस्तत्वमोरर्थद्ूयं पदार्थप्रतीतिसमये सर्वाधिष्ठानत्वेन स- र्वाविभासात्मना चावगतं सचचिदूपं परस्परेणैकीकृत्य उपाधिद्वारं विना स्वतोभेदादर्शनात्तत्वतः स्वत एवैकीभूतं प्रेक्षस्व निःसंश- यं निःशङ्कं यथा स्यात्तथा, भोः सुबुद्धे इति योजना। कथमेकी- भूतमीक्षणीयमिति तदभिनीय व्यपदिशति॥ प्रत्यकत्वाद्यं ब्रह्म। चकारोऽवधारणार्थः। प्रत्यगात्मा निष्पपञ्चं ब्रह्मैव, न ततोरडर्था-
225
Page 226
संक्षेपशारीरके प्रथमोऽध्यायः ।१। २१३
न्तरं, तथाऽदयं च ब्रह्म तत्पत्यगात्मरूपमेव, न तटस्थमिति प्रेक्षस्वेत्यर्थः ॥ २६४॥ ननु ब्रह्मण: परोक्षत्वात् परोक्षमेवेदं तत्त्वं स्यात् कथमप- रोक्षपत्यगैक्येन निःसंशयं तदीक्षणमित्यत आह- अद्वैतं परिशोधितं भगवतो विष्णोः परं यत्पदं तच्छब्दन समर्पितं परिगृहीतादेयमात्मप्रभम । यच्चोपाधिविवर्जितं तव निजं साक्षात्स्वरूपं तयो- रेकत्वं परिवर्जितव्यवधिकं प्रत्यक्षमीक्षस्व्र भो: ॥२६५॥ अद्वैतं परिशोधितमिति ॥ भगवतो नित्यसिद्धनिरक्कु- शैश्वर्यवतो विष्णोः श्रीनारायणस्य जगत्कारणतयोपलक्षितस्य परं पदं सत्यज्ञानाद्यात्मकं स्वरूपं परिगृहीतादेयं यथा स्यान्तथा तच्छब्देन समर्पितं विरुद्धांशप्रहाणेन तच्छब्द्रलक्षितमिति याव- त्। आत्मप्रभं स्वप्रकाशस्वभावम् । इदं विशेषणं पदार्थद्वयसा- धारणं ज्ञेयम्। यच्च देहेन्द्रियमनोबुद्धिपाणाहङ्कारोपाधिविव- र्ज्जतं तव निजमसाधारणं साक्षान्निरुपचरितं स्वरूपम् एतदुभयं यत उक्तविधया परिवर्ज्जितव्यवधिकं व्यवधायकोपाधिरहित- मतः प्रत्यक्षमीक्षस्व भोः। निरस्तोपाधिकस्य स्वयम्पकाशस्य चिदात्मनस्तत्वम्पदलक्षितस्वरूपस्य परोक्षावभासहेत्वभावादिति भावः ॥ २६५।। ननु यद्यप्येवं परिशोधितयोः पदार्थयोः स्वरूपतो विरोधा- भावादेकरसत्वं सम्यगवगन्तुं शक्यते तथापि तवोपदेशं सम्य- गऽवधारयतोऽपि ममानृतजाड्यादिविरोधिब्रह्मात्मता किमिति न यथावदवभासते इतिचेत, सम्यकूपदर्थातत्वाऽवधानाभावादि- त्यभिपेत्योक्तपदार्थतत्वोक्तिपूर्वकं वाक्यार्थ पुनः स्मारयति-
226
Page 227
२१४ अन्वयार्थप्रकाशिकाविभूषिते
अनृतजडविभक्तदुःखतुच्छा- ऽसहनवपुः परमं पदं मुरारे: ।। परिहतसकलप्रपञ्चमात्मा तव तदवेहि तमो निरस्य वाक्यात ॥ २६६॥ अनृतजडेति ॥ विभक्त्तेत्यन्तत्वनिर्द्देशः । तुच्छत्वमसत्व- म्। अनृताद्यसहनवपुः सत्यज्ञानानन्तानन्दसद्रपं मुरारेः परमं पदमत एव परिहृतसकलप्पञ्चं यत्तदेव तवात्मेति त्वमवेहि। किं कृत्वा ?। भेदप्रतिभासहेतुं तमोऽविवेकलक्षणं वाक्यानिर- स्येति योजना । पुनः पुनरवस्थात्रयापोहेन त्वमर्थस्वरूपविवेके तदविवेकलक्षणतमसो विलयादात्मब्रह्मणोर्भेदहेत्वभावान्निःसं- शयमात्मेत्येवैकलक्षणं ब्रह्मेक्षस्वेत्यभिभायः ॥ २६६ ॥ एवमुपपादितेऽपि करतलामलकवत्तत्वे यत्तवाविश्वासा- स्पदमिवावभासते तत्तव तत्र श्रद्धादार्ढ्याभावात्। यतः श्रद्धाऽपि सूक्ष्मवस्त्ववधारणकारणमाम्नायतेऽतः श्रद्धालुतया मयोक्तमा- लोचयेत्यभिपत्याह- श्रद्धत्स्व सोम्येति हि शास्ति शास्त्रं श्रद्धाधनत्वश्रुतिरस्ति चान्या ।। श्रद्धा तु यस्येत्यपरं च वाक्य- मधीयते संशयकुत्सनाय ॥ २६७॥ श्रद्धत्स्व सोम्येति हीति ॥ शास्त्रं छान्दोग्यषष्ठगतम्। एवं महान्न्यग्रोधस्तिष्ठति श्रद्धत्स्व सोम्येति शास्तीत्यर्थः । अन्या श्रुतिर्बृहदारण्यकाख्या, श्रद्धावित्तो भूत्वेति श्रद्धाधन- त्वश्चुतिरस्तीत्यर्थः । तथा छान्दोग्य एव तृतीयपपाठके, यस्य
227
Page 228
संक्षेपशारीरके प्रथमोऽध्यायः।१। २१५
स्यादद्धा न विचिकित्सास्तीत्यपरं वाक्यमधीयते । शास्त्रे श्रद्धाविधानपयोजनमाह । संशयकुत्सनायेति ॥ अतः श्रद्धयै- वोपबृंहितं वाक्यजातं संशयादिनिवर्त्तकमिति भावः ॥ २६७॥ श्रुतिशासितेऽर्थे भगवद्गीतास्मृतिमप्युदाहरति- अज्ञो विनश्यति पुमानतिमूढभावा- दश्रद्धयोपहतबुद्धिरतोऽपि कष्टः । कष्टाच् कष्टतर एव तु संशयात्मा दुःखी सदेति भगवानपि वासुदेवः ॥ २६८॥ अज्ञो विनश्यतीति ॥ अज्ञश्राश्रद्धानश्र संशयात्मा विनश्यतीति भगवद्वचनविवरणार्थकमिदं पद्यम् । अतोऽप्यज्ञा- दपि अश्रद्धयोपहतबुद्धि: कष्टो जञात्वापि स्वहितमविश्वासतः पाप्तपुरुषार्थत्यागित्वाद्विनष्ट इत्यर्थः । संशयात्मा तु कष्टादश्र- द्ोपहतबुद्धेरपि कष्टतरोऽतिनष्टस्तस्यैकत्रापि निश्चयाभावेनास्व्र- स्थमनस्कत्वादतो भगवान् वासुदेव:, सदा दुःखीति तमाहे- त्यर्थः ॥ २६८।। ननु योऽश्रद्धां करोति तं पतीदमुदाहरणीयम्, अहं तु विरोधादेव न तवोक्तं प्रतिपद्य इतिचेन्मैवम्। विरोधस्य प्राक्- परिहृतत्वादिति स्मारयति-
तच्चाद्वैतमपास्य मोहजनितं पारोक्ष्यमात्मा ह्यभूत ।। एवं वेदशिरःपदान्त्रयवशादेकत्वमेकान्ततः सिद्धं प्रत्यगनन्तयारिति तत्र श्रेयः समार्प्ति गतम्॥२६९॥। रूपं तावकमिति ॥ तावक रूपं दवयहेतूपाधिनिरसनेनो-
228
Page 229
२१६ अन्वयार्थ प्रकाशिका विभूषिते ज्झितद्वयं सदअ्जसा साक्षादद्वैतमेनाभूत्। तच्चाद्वैतं मोहजनितं पारोक्ष्यमात्मा प्रत्यगभूत् । पारोक्ष्यसद्वयत्वे कारणत्वकार्य- त्वोपाधिकृते तयोरपोहे सति हेत्वभावात् पारोक्ष्यादि निवृत्तौ पूर्णात्मता तव स्वयमेवाविर्भृतेत्यर्थः। यत एवमतः सिद्धं ब्रह्मा- Sऽत्मनि मुत्यवसानं वेदान्तपामाण्यमित्युपसंहरति ॥ एवमिति॥ स्पष्टार्थः ॥ २६९ ॥ एवं वाक्यस्याऽखण्डार्थत्वमुपपाद्य वादिभिरपि नात्र वि- वाद: कर्त्तव्य इति सर्ववाद्यविप्तिपच्या स्वपक्षं द्रढयति- सम्बन्धः समवाय इत्यपि पदे वैशेषिकोच्चारिते नाखण्डव्यतिरिक्तवस्तु वदितुं शक्तोऽनवस्थाभयात् ।। पञचानां समवायितेति वचनव्याघातभीतेरपि सम्बन्धान्तरमस्थ नाभिमनुते वैशेषिक: कातरः॥२७०॥ संबद्ध इत्योदिना ॥ सम्बन्ध्यनाश्रितस्य सम्बन्धस्याभा- वात्तदाश्रितः सम्बन्धो वाच्यः। आश्रितत्वं च सम्बन्धाधीन- मिति हि स्थितिः । तत्र समवायः सम्बन्ध इतिपदद्वयात्मके वाक्ये वैशेषिकोच्चारितेऽखण्डव्यतिरिक्तवस्तु वदितुं न कोऽपि शक्तां, वैशेषिकमते स्थित्वा न वक्तुं शक्यत इत्यर्थः । कुतः ?। अनवस्थाभयात्। समवायस्य स्वसम्बन्धिसम्बन्धे समवाया- तिरिक्तस्य सम्बन्धस्यानिरूपणात् समवायान्तराभ्युपगमःकार्यः। तथाच तस्यापि सम्बन्धत्वात् समवायान्तरापेक्षेति स्यादनवस्थे- त्यर्थः । भवत्वनवस्था, को दोष इतिचेत् स्वसिद्धान्तबाध एव- त्याह ।। पश्चानामिति ॥ समवायात्तिरिक्तानां पञ्चानां द्रव्यादि- पदार्थानां समवायित्वं साधर्म्यमिति वचनव्याघातभीतेरप्यस्य
229
Page 230
संक्षेपशारीरके प्रथमोऽध्यायः।१ २१७
समवायस्य सम्बन्धन्तरं वैशेषिको नाभिमनुते। यतः स्वसिद्धान्त- भङ्गात् कातरो भीत इत्यर्थः । अतोऽत्र गत्यन्तराभावाद्वैशेषिक- मते तावत् सिद्धमखण्डार्थत्वमित्यर्थः ॥ २७० ॥ पाभाकरं प्रत्यप्याह- शब्दो गकार इति लौकिकमस्ति वाक्यं विस्पष्टमस्ति च पद्हयमत्र वाक्ये।। प्राभाकरे च समये न गकारमात्रा- दन्यत् पदद्दयनिगद्यमभीष्टमस्मिन् ॥२७१॥ शब्दो गकार इति ॥ अस्मिन् वाक्ये । सुबोधमन्य- त् ॥ २७१॥ प्राभाकरसमये गकारवाच्यमेव शब्दपदस्यापि वाच्यमिति कुतोऽवगम्यते तत्राह- शब्दत्वजातिवचनो न हि शब्दशब्दः श्रोत्ोपलम्भनतया तु निबन्धनेन ॥ वर्णान ब्रवीति न हि जातिरिहाभ्युपेता साक्षादगकारमयमाह गकारशब्दः ॥ २७२ ॥ शब्दत्वजातीति ॥ शब्दशब्दो न हि शद्धत्वजातिवचनः। जातिवाचित्वाभावेऽपिजातिं पुरस्कृत्यशब्दव्यक्तिं वदिष्यतीतिचे- त्तत्राह॥ श्रोत्रोपलभ्यमानत्वेनोपाधिना निमित्तभूतेन शब्दशब्दो वर्णान् ब्रवीति श्रोत्रग्राह्यत्वमेव शब्दत्वं न जातिस्तत्र प्रमाणा- भावादनेनैवोपाधिना सर्वशब्देष्वनुगतव्यवहारोपपत्तौ जाति- कल्पनायोगादित्यर्थः। अत एवेह शब्दे प्राभाकरैर्जातिर्न् ह्यभ्युपे- ता। अतः शब्दशब्दो यथा वर्णमात्रं ब्रूते तथाऽयमपि गकार-
230
Page 231
२१८ अन्वयार्थप्रकाशिका विभूषिते
शब्द: साक्षाद्गकारमाह। अतः, शब्दो गकार इति सामानाधि- करण्यमखण्डगकारमात्रपरमिति स्थितम् । २७२।। एवं स्थिते पाभाकरैरखण्डवाक्यार्थे विवादो न कार्य इत्याह- तस्मादखण्डविषये वचने विवादं प्राभाकार: परिहरन्तु न चेदशक्यम् ।। निर्वेढमेतदिह वाक्यमितोऽन्यथा चे- दस्यार्थकल्पनमभीप्सितमिष्टहानिः ॥२७३॥। तस्मादिति ॥ नचेत्ते विवादं परिहरेयुस्तदा एतच्छब्दो गकार इतिवाक्यमिह शब्दार्थव्यवहारे निर्वोदुमशक्यमुक्तन्याया- दित्यर्थः। विपक्षे दण्डं पातयति॥ इतोऽन्यथेति॥ जातिवाचित्व- कल्पनया चेदस्य वाक्यस्य संसष्टार्थकल्पनमभीप्सितं तदेष्टहानि: सिद्धान्तक्षतिरित्यर्थः ॥ २७३ ॥ अत्र पाणिन्यांचार्यसंमतिमप्याह- प्रातिपदिकान्यनतिरिक्तविषयाणि प्राह भगवान् प्रथमश्दितविभक्तया ।। पाणिनिरतः सकलतर्कसमयज्ञो वष्टि वचसोरनतिरिक्ततरिषयत्त्रम ॥ २७४॥। प्रातिपदिकानीति ॥ भगवान् पाणिनि: प्रथमशब्दित- विभतयाऽनतिरिक्तविषयाणि माहेत्यन्वयः । सकलतर्क्कसमयज्ञ इति विशेषणेन पाणिनिसंमत्यैव सर्ववादिसंमतिरिति सूचयति। तथा यतोरऽर्थभेदाभावोऽतो हेतोर्षष्टिवचसोर्द्धातुभावप्रत्यययो- रनतिरिक्तविषयत्वमखण्डार्थत्वं माहेति सम्बन्धः ।। २७४।।
231
Page 232
संक्षेपशारीरके प्रथमोऽध्यायः ।१। २१९
तथान्यदपि सर्वपरीक्षकसंमतमुदाहरणमाह- इयं घटव्यक्तिरितीट्वशेषु च प्रसिद्धमेवैकरसार्थगोचरम् ॥ पदद्वयं लोकवचःसु तेन च प्रशस्यते नात्र विवादसंग्रहः ॥ २७५॥ इयं घटव्यक्तिरिति।सर्वनामपसिद्धार्थ प्रसाध्यार्थविघा- तकृदितिन्यायेन संनिहितोपाधिवशादियममित्यस्य वस्तुस्वरूप- वाचकता तावत् सिद्धा । घटव्यक्तिशब्दस्य च व्यक्तिवाचक- ता संमतैव। तथाचेयं घटव्यक्तिरियं पटव्यक्तिरितीदृशेषु वाक्येषु लोकवच:सु पददवयमेकरसार्थगोचरं प्रसिद्धमेवेत्यन्वयः । चकारोऽप्यर्थे। ईदृशेषु लोकवच:स्वपीति सम्बद्ध्ते । तेन चे- त्यादि स्पष्टार्थम्। चकारोऽत्रायं परीक्षकसंवप्दै: भागुक्तैः सहास्य समुच्चयार्थः ॥ २७५॥ तदेवमखण्डवाक्यार्थे न कस्यापि विवाद इति प्रदर्शनेना- डखवण्डे ब्रह्मात्मनि वेदान्तपामाण्यं निरपवादमिति पतिष्ठापितम्। इदानीं यदुक्तं परिनिष्ठितस्य वस्तुनो मानान्तरयोग्यत्वाङ्रस्मा- त्मनश्च परिनिष्ठितरूपत्वान्न तत्र मानान्तरनिरपेक्षं वाक्यपामाण्यं सम्भवतीति तत्राह- न च प्रमाणान्तरयोग्यतायां प्रयोजकं स्यात् परिनिष्ठितत्व्रम् ।। यतः प्रमाणान्तरयोग्यतायां प्रयोजकं रूपरसादिमत्वम् ॥ २७६॥। न च प्रमाणान्तरयोग्यतायामिति ॥ सविशेषत्वमेव-
232
Page 233
२२० अन्वयार्थप्रकाशिकाविभूषित
मेवमानान्तरयोग्यतायां प्रयोजकं, न परिनिष्ठितत्वम्।मानान्तर- योग्यत्वस्य सविशेपत्वव्याप्यत्वादित्यर्थः । विमतं मानान्तर- योग्यं परिनिष्ठितत्वात् स्तम्भादिवदिति प्रयोगे सविशेषत्व- मुपाधिरित्युक्तं भवति ॥ २७६ ।। न च साधनव्यापकत्वमित्याह- - ततोऽस्तु रूपादिबिहीनरूपे प्रमान्तराऽगोचरचित्स्वरूपे । वचः प्रमाणान्तरनिस्पृहं सत् प्रमाणमत्रात्मनि निर्विवादम ॥ २७७ ॥ ततोऽस्तु रूपादिविहीनरूप इति ॥ रूपादिविहीनस्व- रूपत्वं तावदात्मवस्तुनोऽश्दमित्यादिश्चुतिसंमतं वादिसंमतं च। चित्स्वरूपत्वादेव प्रमाणान्तरागोचरत्वमिति न साधनव्यापक- त्वादीत्यर्थः । स्पष्टमन्यत् ॥ २७७॥। ननु मानान्तरयोग्यत्वं न रूपादिमत्वव्याप्ं रूपादिहीनेऽपि कालादौ मानान्तरयोग्यत्वदर्शनादतः साध्याव्यापकत्वमुपाधे- रितिचेत्तर्हि लोकव्युत्पन्नपदवाच्यत्वं मानान्तरयोग्यतायामुपा- धिरस्त्वित्याह- लोकप्रसिद्धपदगोचरतानिमित्त- मन्यप्रमाणविषयत्वमिह प्रसिद्धम् ॥ लोकप्रसिद्धपदगोचरता न चास्मिन् ब्रह्मात्मनीति च तदत्र निवारणीयम ॥ २७८॥ लोकप्रसिद्धेति । इह व्यवहारभूमौ ॥ अत्रापि साधन- व्यापकत्वं पराकरोति, लोकमसिद्धेत्युत्तरार्धेन ।। अत्र ब्रह्मा-
233
Page 234
संक्षेपशारीरके प्रथमोऽध्यायः।१। २२१
Sडत्मनि तदन्यप्रमाणविषयत्वं निवारणीयमित्यर्थः । न च पूर्वो- क्तोपाधेरपि साध्याव्याप्ति:। कालादेरपि सगुणत्वेन सविशेष- त्वात्। रूपादिमत्त्वशब्देन विशेषवत्वमात्रस्य विवक्षितत्वाङ्गह्म- णि च विशेषाभावादिति द्रष्टव्यम् ॥ २७८ ॥ एवं सति कार्यवाक्यस्य मानान्तरसापेक्षत्वप्राप्तिर्न वेदान्त- वाक्यस्येति लोकप्रसिद्धपदगोचरत्वस्य मानान्तरगोचरत्वा- डव्यभिचारं द्रढयति- लोकप्रसिद्धपदगोचरतास्ति कार्ये तेनाऽस्तु कार्यपरवाक्यमशेषतस्ते ॥ मानान्तरेषु परतन्त्रतयाSप्रमाणं स्त्रार्थे न दूषणमिदं श्रतिमस्तकेषु ॥ २७९ ॥ लोकप्रसिद्धपद्गोचरताऽस्ति कार्य इति । कार्ये- वाचिनो लिडदिपदस्य लोक एव व्युत्पन्नत्वात् कार्ये लोक- प्रसिद्धपदगोचरताऽस्ति। तेन हेतुना ते कार्यवादिनः कार्यपर- वाक्यमशेषतोऽशेपेषु मानान्तरेपु परतन्त्रतया स्वार्थे प्रमाणम- स्त्विति योजना। इदं दूपणं मानान्तरायत्तं स्वार्थे प्रामाण्यमित्ये- वंरूपं न श्रुतिमस्तकेषु वर्त्तते। ब्रह्मपदस्य लिडदिपदवल्लौकिक- पदत्वाभावादित्यर्थः ॥ २७९॥ यत् पुनः क्रियां विना पदानामन्वयायोगात् क्रियापदा- डड्गीकारे च वाक्यस्य तत्माधान्यान्न सिद्धे प्रामाण्यसम्भव इत्यु- क्तं तत्राह- न च क्रियाकारितसंहतीनि पदानि लोके नियमेन वक्तुम ॥
234
Page 235
२२२
समीहते पक्कमतिः पदानां क्रियां विनाप्यन्वयदर्शनेन ॥ २८० ॥ न च क्रियेतति ॥ पक्मतिः मेक्षापूर्वकारी॥ २८०।। क्रियापदं विनापि पदानामन्वयदर्शनमुदाहरति- महीभुजोऽयं पुरुषो मनस्वी वनस्पतेस्तत्फलमित्यपीह ॥ क्रियां विनाप्यन्वयवन्ति लोके पदानि दृष्टानि बहुनि वक्तुः ॥ २८१॥ महीभुजोऽयमिति ॥ इह लोके इति ॥ क्रियां विना- उप्यन्वयवन्ति बहूनि पदानि वक्तुर्मुखान्निर्गतानि हष्टानीति यो- जना। उदाहरणार्थः सुगमः । सम्बन्धनिष्ठत्वादेतादृशवाक्यानां नात्र क्रियापदाध्याहारसम्भव इति भाव: । २८१।। क्रिययान्वयसम्भव इत्यभ्युपगमेऽपि वेदान्तेषु न विव्षि- तार्थत्वविरोध इत्याह- क्रियापदं वेदशिरःस्वपीष्यते वरिवक्षितार्थानुगुणं तु तन्मतम् ।। वित्रक्षितार्थप्रतिपत्तिघाति तु क्रियापदं स्वीकृतमप्यनर्थकम् ॥२८२॥ क्रियापदमिति॥ यत्र क्रियापदमिष्यते तद्विवक्षितार्थानु- गुणमेवेष्यते । यज्ु क्रियापदं विवक्षितार्थपतिघाति तत्स्वीकृत- मपि निरर्थकमतो वेदशिरःस्वपि स्वार्थपतिपश्यविघातकतयार्थ- प्रतीत्यनुकूलमेव क्रियापदमेष्टव्यम्। तदिहाप्यस्तीत्यर्थः॥२८२।।
235
Page 236
संक्षेपशारीरके प्रथमोऽध्यायः।१ २२३
किमत्र क्रियापदं यदड्गीकारे वाक्यस्य वस्तुपरत्वाविरोध इति तत्राह- अस्त्यस्म्यसीति च पदं प्रचुरं क्रियाया वेदान्तवाक्यगतमादरतः पठन्ति ॥ तन्मात्रतः सकलवेदशिरःपदानां संघातसिद्धिरिति वेदशिरोनिषण्णाः ॥२८३॥। अस्त्यस्म्यसीति ॥ अस्तीति ब्रुवतोऽन्यत्र कथं तदुप- लभ्यते। ब्रह्मास्मि तश्वमसीति च वेदान्तवाक्यगतं क्रियायाः पदमिति सम्बन्धः । तन्मात्रतस्तादृशक्रियायोगमात्रतः । वेद- शिरोनिषण्णा: सम्प्रतिपन्ना इति शेषः । नचैवंविधक्रियाङ्गीकारे- ऽपि वाक्यस्य क्रियापाधान्याद्वस्तुपरत्वानुपपत्तिरिति वाच्यम् । अस्त्यादिशब्दस्य सत्तामात्रविषयत्वात्। न वि सत्ताऽपि क्रिया तस्या वस्तुस्वरूपमात्रत्वात् । अन्यथा द्रव्येतरपदार्थानामसदा- त्मत्वप्रसङ्गात् । तस्माद्वस्तुस्वरूपसत्तैव क्रियात्वोपचारेणाख्यात- पदेनोच्यते। अतो नैतादृशक्रियापदैर्वस्तुमाधान्यहानिरिति भाव: ।।८३ ।। यद्यस्त्यर्थनिष्ठं वाक्यं स्यात्तदा सत्ताया: प्रमाणयोग्यता- लक्षणत्वात् पमाणयोग्यतैव वाक्यार्थः स्यात् । तथाच पमाणा- न्तरयोग्यताऽपि स्यादिति मानान्तरसापेक्षत्वपसङ् इति माभा- कराणां चोद्यमनुवदति- यत्तु प्रमाणमनुभूतिरिति प्रमाण- सामान्यलक्षणमनूद पुनर्वदन्ति ॥ सत्ताप्रमाणघटनां प्रति योग्यताऽतो
236
Page 237
२२४ अन्वयार्थप्रकाशिकाविभूषिते
नास्त्यर्थनिष्ठवचनेष्वनपेक्षतेति ॥ २८४॥ यत्तु प्रमाणमिति॥अनुभूतिः प्रमाणमिति प्रमाणसामान्य- लक्षणं स्व्रशास्त्रसिद्धम् अनूद्य, यत्तु पुनर्वदन्ति तद् दुर्घटमिति परेण सम्बन्धः । किं वदन्ति, तदाह ॥ सन्तेति॥ प्रमाणघटना प्रति योग्यता सत्ता प्रमाणाधीना सत्तेति यावत् । एवं यतो- Sतोऽस्त्यर्थनिष्ठवचनेषु नानपेक्षतेति वदन्तीति योजना॥२८४। अनूदितं मतं दूषयति- तदू दुर्घटं न खलु संविदियं स्त्रयोग्या न ह्यात्मनि स्थितिमुपैष्यति योग्यताऽस्याः ।। वस्त्वन्तरोपनिहितस्वपदत्व हेतो- र्न ह्यात्मरूपदहने दहनस्य शक्ति: ॥ २८५॥ तद् दुर्घटमति॥ कथं दुर्घटमिति, तदाह ।। न खल्वि- ति ।। इयं संविन्न खलु स्वयोग्या स्वग्राह्या न भवतीत्यर्थः । तत्र हेतुर्न हीति।। योग्यता ग्राह्यता आत्मनि ग्राहकस्वरूपे स्थितिं निष्ठां न ह्युपैष्यति । कुत इत्यत आह ॥ अस्या वस्त्व- न्तरेति ॥ पदशब्दो विपयवचनः । विषयस्य भावो विषयत्वं स्वं च तद्विषयत्वं च स्वविपयत्वं वस्त्वन्तरेण उपनिहितं च तत्स्व- पदत्वं चेति वस्त्वन्तरोपनिहितस्वपदत्वम् । तस्माद्वेतोरिति - डर्थः । भेदाभावे ग्राह्यग्राहकत्वायोगे दृष्टान्तं द्योतयन्नाह ॥ न हीति। आत्मरूपदहने दहनस्वरूपदाहे तस्यैव दहनस्य न हि शक्तिर्दष्टा, दाहदाहकभेदाभावादित्यर्थः । एकस्यैवैकदैकस्या क्रियायां कर्मकर्त्तृभावेन गुणपधानत्वविरोधान्नानुभूतिः स्व- वेद्या, नाप्यन्यवेद्या। अन्यस्य जडत्वे वेदकताऽसम्भवादजडत्वे
237
Page 238
संक्षपशारीरके प्रथमोऽध्यायः।१। २२"
तस्याप्यनुभूतिमात्रत्वात् समानस्वभावतया पदीपयोरिव मिथो- विषयविषयिभावायोगादनुभूतिर्न मानग्राह्ेति मानयोग्यत्वं सत्वमिति पक्षेऽरनुभूतेरसत््वप्राप्तिरिति भावः ॥ २८५॥ उक्तमेवार्थ स्फुटयन् सत्वस्य मानाधीनतायां सर्वार्थासिद्धि दोषं प्रसञ्जयति- संवित् प्रमाणघटनां प्रतियोग्यतां चे- न्नेयं बिभर्त्ति न सती भवितुं समर्था ।। तद्योग्यतैव यदि मातृघटादिसत्ता तस्याप्यसत्त्वमिति शून्यमुपाजिहीथाः ॥२८६॥ संवित् प्रमाणघटनामिति । इयं संविदिति सम्बन्धः । प्रमाणविषयतां चेन्न विभर्त्तीत्यर्थः । तदा प्रमाणाधीना सत्तेति मते सा सती भवितुं न समर्था। सत्वासिद्वेरनुभूतेरसत्वमेव स्यादित्यर्थः । एवमनुभूतेः प्रमाणस्यासत्वे तद्योग्यतालक्षणं सत्वमितरेषामपि न स्यादिति जगच्छ्रन्यतापत्तिरित्याह ।। त- द्योग्यतैवेति ॥ तस्यापि मातृघटादेरपीति यावत् । उपाजिहीथाः उपगतवानसीत्यर्थः ॥ २८६ ॥ तस्मादनुभूतिः प्रमाणमित्यङ्गीकुर्वता मानयोग्यत्वं सत्वमि- ति दुराग्रहं परित्यज्य वस्तुस्वरूपमेव सत्वमिति ग्राह्यमित्याह- वस्तुस्वभाव इति सत्त्वमतो गृहाण तच्च द्विधेति वितथाऽविथत्वभेदात् ।। सत्त्वं द्विरूपमितरेतरसंकरेण सच्छब्दवाच्यमिति च व्यवहारकाले ॥ २८७॥ वस्तुस्वभाव इति । सच्वस्य वस्तुस्वभावत्वे तस्य २९
238
Page 239
२२६ अन्वयार्थप्रकाशिका विभूषिते
मानाधीनत्वासिद्धेर्मानान्तरयोग्यता दूरापास्तेति सिद्धममिति भावः । तथापि सन्मात्रे ब्रह्मण्यवाच्ये कथमस्त्यर्थनिष्ठस्य शब्द- स्य प्रवृत्तिरिति, तत्राह । तच्च द्विधेति । तच्च सच्वं द्विधेति गृहाणेत्यनुषङ्गः । परमार्थत्वापरमार्थत्वभेदाद् द्विधेत्यर्थः । एक- मेव सत्वं चिदात्मरूपं स्वरूपतो बाधानिरूपणादवितथं, तदे- व बाध्यदृश्योपरक्ततया बाध्यत्वाद्वितरथं च न सत्वद्वैविध्यमपि निरपेक्षमस्तीति भावः। तच्च द्विरूपं सच्वमविवेकापन्नं सव्यवहार- काले सच्छदवाच्यमिति च गृहाणेत्यन्वयः । स्वरूपेणावाच्य- मपि ब्रह्म शबलाकृति सद्वाच्यमिति भवेच्छ्दद्ृत्तिगोचर इति भावः ।। २८७।। शवलस्य शब्दगोचरत्वेऽपि स्वरूपे कथं शब्दप्वृत्तिस्तद- भावे च कथं तत्र वाक्यस्य प्रामाण्यमिति शङ्गायां वेद्यांशप्रहा- णेन शोधिते पदार्थस्वरूपे लक्षणया पर्यवसानसम्भवाद्युक्तं तत्र शब्दप्रामाण्यमित्याह- उत्सृज्य तत्र वितथांशमथेतरस्निन् संवित्स्वरूपपरमार्थसति स्वरूपे बुद्धिं कुरु प्रणिदधत् प्रणयेन भूम्ि व्रह्माहमस्मि परमार्थसदित्यजस्रम् ॥२८८ ॥ उत्सृज्य तत्रेति ॥ इतरस्मिन्नित्युक्तांशस्वरूपमाह ।। सं- विदिति । संवित्स्वरूपं च तत्परमार्थसच्चेति तथाऽस्मिन् स्व- रूपे वस्तुनि भूम्नि परिपूर्णे इति योज्यम्। एवंविधे स्वरूपे पणिदधत्प्रणयेन सम्यगाहितस्नेहेन सादरतरट्टत्त्येति यावत्।परमा- र्थसद्रह्माहमस्मीत्यजस्ं निरन्तरं बुद्धिं कुरु इति योजना॥।२८८।। यन् पुनरुक्तं ब्रह्मणो मानान्तरगोचरत्वे वेदान्तानामनुवाद-
239
Page 240
संक्षेपशारीरके प्रथमोऽध्यायः।१। २२७
त्वं स्यात्तदगोचरत्वे तत्र न शब्दशकक्तिग्रह इत्यबोधकतेति तत् परिहरति- - ब्रह्म स्वयम्प्रभमतः शबलेषु तस्य मानान्तरानतिगतेष्वपि शब्दशक्ति: । रूपेषु वृद्धजनसंव्यवहारहेतोः शक्या ग्रहीतुमुदितेन पथानभिज्ञैः ॥२८९॥ ब्रह्म स्वयम्प्रभममिति ॥ यतो ब्रह्म स्वप्रकाशमतो माना- ऽन्तरानधिगतेष्वपि तस्य ब्रह्मणो रूपेपु दद्धजनव्यवहारहेतो- रनभिजैः प्रागुदितेन पथा शब्दशक्तिर्ग्रहीतुं शक्येति योजना। ब्रह्मणो मानाविषयत्वेऽपि स्व्रयं प्रकाशत्वात्तस्यानात्मशवलान्य- डपि रूपाणि साक्षिसिद्धानि भवन्ति व्यवहारदशायामिति तन्नि- बन्धनस्तेषु प्रागुपपादितप्रकारेण सत्यादिशब्द्रशक्तिग्रहः संभव- तीति नोक्तदोषद्यावकाश इति भाव: ॥ २८९॥ ब्रह्मलक्षणवाचिनां सत्यादिपदानां व्युत्पत्तिप्रकारः, आ- काशादौ सत्यता तावदेकेत्यादिना पागुपपादितः । इदानीं लक्ष्य- वाचिव्रह्मपरमात्मसदादिपदानां व्युत्पत्तिप्कारमाह- लोकप्रसिद्धार्थपदान्तराणां समीपसंकीर्तनतोऽपि शक्ति: ।। ब्रह्मादिशब्दस्य सुखावसेया यथा हि यूपदिगिरस्तथैतर ॥ २९० ॥ लोकप्रसिद्धेति । लोकपसिद्धार्थपदान्तराणि ब्रह्मादि- पदेभ्योऽन्यानि अस्ति भाति सत्यमिदमित्यादीनि। तेषां समीपे संकीर्त्तनतस्तत्समभिव्याहारादपि ब्रह्मादिशब्दस्य शक्ति: सुखा-
240
Page 241
२२ अन्वयार्थप्रकाशिकाविभूषिते
डवसेयेति योजना। अपिशब्दात् स्वरूपतोऽपि शक्ति:सुखावसे- येति। एतदुक्तं भवति। बृहतिघात्वर्थस्तावत्प्रसिद्धो लोके मह- च्वावद्योतकः । स च स्वार्थसंकोचकप्रकरणोपपदयोरभावे निर- कुश एवावतिष्ठते। तच्च निरङ्कुशमहत्त्वं दृश्येषु न संभावितम् । दृश्यस्य सर्वस्य देशतः कालता वस्तुतश्च परिच्छेदात्। अतो ब्रह्मशब्द एव बृहेद्धोतोरनिष्पन्नः स्त्रमहिम्ना प्रपश्चविलक्षणं ब्रह्म ग्राहयतीति स्वरूपतोऽपि ब्रह्मपदस्य ब्रह्मणि व्युत्पत्तिः । तथाऽस्ति भाति सत्यं ज्ञानमित्यादीनि पदानि व्यवहारदष्टथा लोके प्रसिद्धार्थघटपटादिविषयाणि। तैः सह ब्रह्मपदस्य सम- भिव्याहारे सति, यतो वेत्यादिवाक्यैर्ज्जगदुदयस्थितिलयहेतुत्वेन नियम्यमानं सर्वजगदाधारभूतं सर्वकार्यानुस्यूतं महद्वस्तु ब्रह्मेति
वतीत्यत्र दृष्टान्तमाह ।। यथा हीति । यूपादित्यादिपदादाहव- नीयग्रहः । यथाधूपशब्दार्थो लौकिकोऽपि, खादिरो यूपो, वैल्वो यूपो, यू्प तक्षति, यूपमष्टास्त्रीकरोतीत्यादिषु प्रसिद्धार्थ- खदिरादिपद समभिव्याहारात्तक्षणविशेषादिसंस्कृत: काष्ठविशेषो यूप इति व्युत्पत्तिर्ज्जायते। तथा आहवनीये जुहोतीति प्र- सिद्धार्थहोमवाचिपदसमभिव्याहाराद् आहुतिपक्षेपाधारोऽगनि- राधानसंस्कृत आहवनीय इति व्युत्पत्तिर्भवतीति ॥ २९० ॥ मा भूद्रह्मणि कथश्चिदपि शब्दशक्तिग्रहो विनापि तेन तत्र वेदान्तपामाण्यसम्भवादित्याह- विनापि शक्तिग्रहणं पदानां परात्मनोर्वाचकभावभाजाम् ।
241
Page 242
संक्षेपशारीरके प्रथमोऽव्यायः ।१। २२९
भवेत् परब्रह्मणि वेदताक्यात् प्रतीतिरन्यप्रतिषेधनेन ॥ २९१ ॥ विनापीति ॥ परस्तत्पदार्थ आत्मा त्वम्पदार्थः । तयोः परात्मनोर्वाचकभावभाजां पदानां ब्रह्मात्मादिशब्दानां शक्ति- ग्रहणं विनाऽपि अन्यप्रतिषेधनेनानात्मापोहेन वेदवाक्याङ्रह्मणि भतीतिर्भवेदिति योजना ॥ २९१ ॥ ननु निषेधवाक्यवर्त्तिनामपि पदाना तुल्या व्युत्पत्यपेक्षेति- चेतु सत्यं, तेपां त्वनात्मविषयव्युत्पन्यैव ब्रह्मणि प्रटृत्तिसम्भवात् पृथक् तत्र न व्युत्पन्यपेक्षेत्याह- नञः प्रपश्चप्रतिपादकस्य च प्रतीत्य शक्ति व्यवहारतः स्थितः ॥ पदस्य शक्कोति परं समीक्षितुं श्रुतेः प्रपश्चप्रतिषेधमार्गतः ॥ २९२ ॥ नञः प्रपश्चेति ॥ व्यवहारतो व्यवहारे स्थितः पुमान् पपञ्चप्तिपादकस्यानात्मवाचकपदस्य नञ्रो नञ्पदस्य च शक्ति प्रतीत्य श्रुतेर्वेदान्तवाक्यात् प्रपञ्चप्तिषेधमार्गतः परं ब्रह्म स- मीक्षितुं शक्रोतीति योजना । अभ्युपगम्य वादोडयं, विधिवाक्यं विना वस्त्वसिद्धेरुक्तत्वात् । यद्वा सम्भवद्वाद एवायं, सर्वानात्म- निषेघस्य सावधित्वादवधेश्चैकत्वान्निषेध्यासजातीयत्वाच्च परि-
पत्तेः । न चैवं सति पूर्वापरोक्तिपराहतिः । पूर्वत्र निषेध- वाक्यानामखण्डवस्तुनि स्वातन्त्र्याभावमात्रस्योपपादितत्वादिह पदार्थसन्मात्रस्योपस्थापकतया ब्रह्मपदार्थसमर्पकत्वस्य विवक्षि- तत्वादिति द्रष्टव्यम् ॥ २९२॥
242
Page 243
२३० अन्वयार्थप्रकाशिकाविभूषिते
यत् पुनः पदत्तिनिवृत्त्यनुपयोगिनि वस्तुनि न प्रामाण्यं शब्दस्येत्युक्तम्। तत्रेदं वक्तव्यम्।किं पामाण्योपयोगित्वेनार्थस्य पद्टत्याद्युपयोगोऽपेक्ष्यते किं वा प्रयोजनसिद्धयर्थमिति । तत्र नाद्यो, बोधकत्वेनैव पामाण्यसिद्धेरित्याह- ब्रह्मास्मीतिवचोनितरिष्टपदयोर्मानं भवेदन्वयः साक्षादद्वयवस्तु तस्य च भवन्मेयं ततस्तद्गतेः ॥ यद्यत्त प्रमितिं करोति भवति प्रमाण्यमत्रास्य च स्पष्टं दृष्टमिदं हि युक्तिघटितं रूपे यथा चक्षुषः॥२९३॥ ब्रह्मास्मीति वच इति ॥ वचो वाक्यम् । अन्वयः सा- मानाधिकरण्यरूपः सम्बन्धः । समानाधिकृतं पदद्वयात्मकं वाक्यं मानं भवेदित्यर्थः। तस्य च वाक्यस्य साक्षादद्वयवस्त्वेक- रसं ब्रह्मात्मकं मेसं भवेदिति संवन्धः । कुत इत्यत आह।। ततस्तद्गतेरिति ॥ तस्मात् पमाणात्तस्य प्रमेयस्यावगमादित्यर्थः । उक्तमर्थ सामान्यव्याप्तिकेनानुमानेन साधयति ॥ यद्यत्रेति ।। विमतं विमते प्रमाणम्। तत्र पमितिजनकत्वात् । यद्यत्र प्रमितिं जनयति तत्तत्र प्रमाणम्।यथा रूपे चक्षुरित्यर्थः। इदं हि युक्ति- घटितमित्यस्यायमर्थः । ज्ञानं ह्युत्पद्यमानं न निर्विषयमुत्पद्यते। विषयप्रकाशनं च तस्य स्वभावः । तथाच येनकेनापि करणेनो- त्पन्नं ज्ञानं कारणदोपाद् वाधकज्ञानाद्वा विना नापमा भवेत्। उत्सर्गतः सर्वज्ञानानां प्रमारूपत्वोपगमात् । एवं सति वेदान्त- वाक्यानामदुष्टज्ञानकारणत्वात् तद्विपयापहारिमानान्तराभावाच्चा- 5र्थावबोधकत्वेनैव प्रामाण्यं चक्षुरादिवदुपपन्नमिति ॥२९३॥ ननु नोक्तयुक्यनुमानाभ्यां ब्रह्मणि वेदान्तमानत्वसिद्धि- र्युक्ता। सोऽरोदीदित्यादिवाक्ये मानान्तराऽवाधितार्थबुद्धि-
243
Page 244
संक्षेपशारीरके प्रथमोऽध्यायः ।१। २३१
जनकत्वेऽपि स्वार्थे प्रामाण्यादर्शनादतः प्वृत्तिनिष्टत्त्युपयोग्यर्थ- कत्वाभावात् सप्तद्रीपा वसुमतीतिवाक्यवदपामाण्यं वेदान्ताना- मिति द्वितीयं पक्षमाशङ्क्, सोऽरोदीत् सप्तद्वीपेत्यादिवाक्यानां स्वार्थमात्रज्ञानस्याफलत्वादेवापामाण्यं न पत्याद्युपयोग्यर्था- डबोधकत्वात्। प्रकृतवाक्ये तु स्त्रार्थज्ञानस्य साक्षात् फलवत्वादि- त्यभिप्रेत्याह- मानान्तरानधिगतं परिनिष्ठितं यद् वेदः समर्यत चेतसि तत्परः सन् ॥ तत्तथ्यमेव भवतीति समाश्रयस्व श्रेयस्करो विधिगिरोऽवगतो यथैव ॥ २९४ ॥। मानान्तरेति ॥ यत् परिनिष्ठितं सिद्धं वस्तु वेद: समर्प- यति तद्वस्तु तथ्यमेव तथारूपमेव्रेति समाश्चयस्वेति योजना। तर्हि, वायुर्वै क्षेपिष्ठा देवतेत्यादेरपि तथाभूतार्थत्वेन प्रामाण्यं स्यादित्यत आह । मानान्तरानधिगतमिति ॥ तथापि, सोऽरो- दीदित्यादौ प्रसङ्गोऽत उक्तं, तत्परः सन्निति॥ तात्पर्य साक्षा- त्फलवदर्थावबोधकत्वं, सोऽरोदीदित्यादौ न साक्षात्फलवदर्थ- बोधकत्वमिति विशेष:। फलवत्स्वार्थबोधकत्वेन प्रामाण्ये दृष्टान्त- माह ॥ श्रेयस्कर इति ॥ यथैव विधिगिरो विधिवाक्याच्छ्ेय- स्करोरऽर्थोऽवगतस्तथेत्यर्थः । तस्माचोदनाया इव धर्मे ब्रह्मणि समन्वयस्य प्रामाण्यमविशिष्टम्। तात्पर्येणार्थावबोधकत्वाविशेषा- दिति भाव:।। २९४।। नन्वज्ञातार्थत्वतत्परत्वे यद्यपि वेदप्ामाण्यप्योजके तथापि, न तन्मात्रेण प्रामाण्यसिद्धिः, किन्त्वर्थस्य परयत्ननिष्पाद्यत्वं शब्दस्य चोदनात्वं चापेक्ष्यैव पमाणपमेयभाव इतिचेत्तत्राह-
244
Page 245
२३२ अन्वयार्थप्रकाशिकाविभूषिते
निष्पन्नमेव यदि वा पुरुषप्रयत्न- निष्पाद्यमस्तु तदनङ्गमिह प्रमेये ॥ एवं विधिर्भवतु शब्दसमन्वयो वा प्रमाण्यकारणमिदं न वदन्ति सन्तः ॥ २९५॥ निष्पन्नमेवेति॥ प्रमेयेडर्थे यन्निष्पन्नत्वं निष्पाद्यत्वं वा तन्न शब्दपामाण्येऽङ्गमिह शब्दार्थव्यवहार इत्यर्थः । यथा प्मेये नियमाभावः, एवं विधिरित्यादि सुगमम् । सन्त इदं विधित्वं समन्वयत्वं वा प्रामाण्यकारणं न वदन्तीत्यर्थः । अज्ञातार्थत्व- तत्परत्वयोः सतोरपि विषयगतकार्यत्वस्य वा वेदगतचोदनात्वस्य
ति भावः ॥ २९५।। ननु चक्षुरादे रूपादिवद्वेदस्यापि किश्चिन्नियतपमेयं वक्तव्यं, न तु सिद्धं वा साध्यं वेत्यनियमो युक्तइतिचेन्मैवम्। अवान्तर- विषयभेदस्य चक्षुष्यकस्मिन्नपि दर्शन्नात्तस्य च तत्राप्रयोजक- त्वादित्याह- नीलैकगोचरतया नियतं न चक्षु- र्नाप्यस्य पीतविषये नियमोऽस्ति शक्ते: ॥ तद्वन्न वेदवचसामपि शक्तियोगः कार्यादिवस्तुषु कथश्चन पक्षपाती ॥ २९६ ॥ नीलैकेति ॥ अस्य चक्षुषः शक्तेरिति सम्बन्धः ॥ कार्या- दिवस्तुष्विरिति ॥ कार्ये वा सिद्धे वोभयस्मिन् वेत्यर्थः । तथाचा- Sज्ञातज्ञापकत्वेनैव वस्तान भामाण्यं चक्षुषो वा वेदस्य वा न विषयविशेषनियतत्वेनेति भावः ॥ २९६।
245
Page 246
संक्षेपशारीरके प्रथमोऽव्यायः ।१। २३३
ननु जैमिनिना पूर्वतन्त्रे, आम्नायस्य क्रियार्थत्वादित्यादिना- SSक्षेपसमाधानाभ्यां सर्वस्य वेदस्य क्रियापरत्वपतिपादनात् क्रियायाश्च चोदनालक्षणत्वात् कार्यत्वं चोदनात्वं च वेदे मेय- मानत्वप्रयोजकं, न त्वनियमेनाज्ञातज्ञापकत्वादीतिचेनेत्याह -- यद्वादरायणमतं परिगृह्य पूर्व श्रयस्करेऽनधिगते खलु चोदनायाः ॥ प्रामाण्यमुक्तमिदमस्य समन्वयस्य वस्तुस्वरूपकथनेऽप्यविशिष्टमस्ति ॥ २९७ ॥ यद् बादरायणमतमिति॥ औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चारथऽनुपलब्धे तत् प्रमाणं बादरायणस्यानपेक्षत्वादिति बादरायणाचार्यमतमनधिगतार्थवि- षयत्वमनपेक्षालक्षणवेदप्ामाण्यमिति परिगृद् शेयस्करेऽनधिगते जर्थे धर्मरूपे यत् खलु प्रामाण्यमुक्तं जैमिनिनाचार्येण इदं प्रामा- ण्यप्रयोजकमस्य समन्वयस्येति सुगमम् । तथाचोत्तरमीमांसा- कारबादरायणमतस्यानुकर्पणेनानुपलब्धे मानान्तरानधिगतेऽर्थे वेदशब्दपामाण्यस्य साधितत्वाज्जेमिनेरपीदमेव प्रामाण्यपयोजक मभिमतं लक्ष्यते, न चोदनात्वं कार्यथत्वं वा । तच्च मिद्धे ब्रह्मणि समन्वयपामाण्येऽपि समानमिति न पूर्वतन्त्रकृद्चनवि- रोधः । तत्र यदाम्नायस्येत्यादिना सिद्धबोधिवाक्यानां विधि- शेषत्वेन प्रामाण्यनिरूपणं तत् कर्मकाण्डगतार्थवादवाक्यविषयं वेदितव्यमिति भाव: ।। २२७॥ न पुनरिदं पूर्वतन्त्रे सूत्रकारस्यैव संमनमपि तु तव्रारया- नृणां शबरस्वामिप्रभृतीनामपीत्याह- मानान्तरानधिगतं त्ववगम्यमानं ३०
246
Page 247
२३४ अन्वयार्थप्रकाशिका विभूषिते मेयं भवेदिति हि मेयविदो वदन्ति ॥ मानान्तरानघिगते विषयेऽवबोधं कुर्वत्प्रमाणमिति मानविदां प्रसिद्धिः ॥ २९८॥ मानान्तरानधिगतं त्विति॥ निगदव्याखयातं पद्यम् ।।२९८।। एवमुक्तेन प्रकारेण प्रामाण्यप्रयोजकस्योभयत्रापि तुल्यत्वा- त् सर्ववैदिकसंमतत्वाच्च चोदनाया धर्मे प्रामाण्यमिच्छद्भ्िः सम- न्वयस्य ब्रह्मण्यपि प्रामाण्यमेष्टव्यमन्यथा तत्रापि तदसिद्धिरित्यु- पपादितमर्थ निगमयति
एवं सतीह यदि वेदशिरो न मानं श्रेयस्करे विधिगिरोऽपि न मानता स्यात् ।। श्रयस्करे विधिगिरो यदि मानता स्याद् वस्तुस्वरूपकथनेऽपि समन्वयस्य ॥ २९९॥ एवं सतीति।। इह ब्रह्मात्मनि, श्रेयस्करे स्वर्गादिश्रेयः- साधने यागादौ, समन्वयस्य मानता स्यादित्यनेनानुषङ्गः । न विधिलक्षणत्वं वेदपामाण्यमपि त्ववाधितानधिगतानन्यशेषार्थे फलवद्विज्ञानजनकत्वमिति भावः ॥ २९९॥ ननु प्रयोजनपर्यवसितत्वं शब्दभामाण्ये प्रयोजकं तथैव व्युत्पत्तेर्वेदस्य च विशेषतोऽप्यध्ययनविधिना प्रयोजनवदर्थाव- बोधफलत्वस्य द्र्शितत्वात् प्रयोजनाभावेऽर्थवादत्वमसङ्गात्। भयोजनं च तद्यत् पुरुषकृतिसाध्यमतो वस्तुस्वरूपमात्रज्ञानस्य पयोजनपर्यवसानाभावात् सिद्धार्थस्वरूपपरत्वेन वाक्यपामाण्या- सम्भव इति मीमांसक: शङ्कते-
247
Page 248
संक्षेपशारीरके प्रथमोऽध्यायः।१। २३५
वस्तुस्वरूपकथने ननु नास्ति पुंसः किञ्चित् फलं विधिवचःसु पुनः प्रवृत्तिः ।। सम्भाव्यते फलमतः किल वस्तुनिष्ठं वाक्यं विधिस्तुतिपरं त्विति जैमिनीया: ॥३०।। वस्तुस्वरूपकथन इति ॥ पवृत्ति: पटत्तिसाध्यमिति या- वत्। किलेत्यस्मिन्मते स्वस्यानभिरुचिं सूचयति । तर्हि वेदे वस्तुनिष्ठवाक्यस्य का गतिरिति तामाह । वस्तुनिष्ठं वाक्ये विधिस्तुतिपरमिति ॥ ३००॥ सत्यं प्रयोजनवत्वमत्र प्रामाण्ये प्रयोजकतयाऽभ्युपेयं, तत्तु पवत्तिनिवृत्तिव्यतिरेकेणापि लभ्यते, विशेषतश्ात्र वेदान्तार्थ- ज्ञाने सम्पूर्ण फलं लभ्यत इति नाध्ययनविधिविरोध इत्यभि- प्रेत्य परिहरति-
रवेदान्तवेद्यविषयावगतौ न चेत स्यात् ।। स्वाराज्यमत्र कबलीकृतभोगभूमि संपूर्णमस्य विदुषो भवतीति दष्टम् ॥ ३०१ ॥ स्यादेतदेवमिति॥वेदान्तवेद्यविषयावगतौ अनवद्यपुमर्थ- सिद्धिर्न्नचेत् स्यात्तदैतदेवं स्यात्, प्रयोजनाभावादपामाण्यपसङ्ग: स्यानैतदस्तीति योजना। कथमिति, तदाह । स्वाराज्यमत्रेति।। वेदान्ता:, विद्वदनुभवो वा सप्तम्यर्थः । अत्रास्य विदुषः स्वा- राज्यं सम्पूर्ण भवतीति दृष्टमित्यन्वयः। स्वाराज्यविशेषणं सं- पूर्णत्वसाधकं, कवलीकृतभोगभूमीति ॥ कवलीकृता स्वात्मन्युप- संहता ब्रह्मादिस्तम्बपर्यन्ता कर्मफलभोगभूमिर्यस्मिँस्तत्तथोक्तम्।
248
Page 249
.२३६ अन्वयार्थप्रकाशिकाविभूषित
तथाच श्रुतयः । ब्रह्मविदाप्ोति परं, ब्रह्मवेद ब्रह्मैव भवति, स स्वराद् भवति,आनन्दं ब्रह्मणो विद्वान्नविभेति कुतश्रनेत्याद्याः३०१ कवलीकृतभोगभूमीति स्वाराज्यविशेषणेन स्वाराज्यशब्दिते मोक्षानन्दे वैषयिकानन्दानामशेषाणामन्तर्भावः सूचितस्तमेवार्थ विशद्यति- यस्यापि त्रिप्रुषि कृतार्थतया निषण्णा: शक्रादयो जलचरा इत सागरस्य ।
तद्वैष्णवं सुखमत्राप्तवतः किमन्यत् ॥ ३०२॥ यस्यापीति ॥ यस्य परमानन्दविप्रुष्यपि परमानन्दस्यांशमात्रेऽपि स्वरानुभवगोचरे शक्रादयश्चतुर्मुखान्ताः सर्व एव प्राणिनः कृतार्थ- तया निषण्णा:, यस्स लेशलाभमात्रेण कृतार्थमात्मानं मन्यन्ते स्म, यथा सागरस्य विपुपि जलचरा इति पूर्वार्द्धयोजना। यदैवं सर्व- माणिनां स्व्रस्वबुद्धिट्टत्त्यवच्छिन्नत्योत्पत्ति विनाश्वति ्तविषय - भूते दुःखानुविद्धे सातिशयेऽपि चेत् सुखलेशे लब्धे कृतार्थता भवति तदाऽखण्डानन्दरूपं मोक्षसुखं लब्धवतः कृतकृत्यतया- ऽन्यत्र नैरपेक्ष्यं भवतीति किमु वक्तव्यमित्याह ।। प्रत्यक्स्व्- भावकमिति ॥ अनेन मोक्षसुखस्य विपयत्वनिरासादनित्यत्व- सातिशयत्वादिदोप: परास्तः। अपास्तसमस्तदुःखमिति पाप्त- परमानन्दस्यानभिभवं निरन्तरं दर्शयति ॥ यदेतादृशं यस्य लेशमात्रलाभोऽपि कृतार्थताहेतुस्तद् वैष्णवं विष्णोः पूर्णात्मनः स्वरूपभूतं सुखमवाप्तवतः किमन्यद् विषयसुखमर्थनीयं, न किमपीत्यर्थः । तथाच श्चुती भवतः । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति, सोऽनुते सर्वान् कामान् सह
249
Page 250
संक्षपशारीरके प्रथमोऽध्यायः ।१। २३७
ब्रह्मणा विपश्चितेति। भगवत्स्मृतिरपि, यावानर्थ उदपाने सर्वतः संप्लुतोदके * तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानत इति।। एतेनेदमपास्तं वेदितव्यम् । अभिलषितलाभेनैव पुंसां कृतार्थ- त्वाद्विषयोपभोगविकले मोक्षसुखे चाभिलाषाभावान तल्लाभेन कृतार्थतेति यद्रागिभिरभिधीयते। निरतिशयनित्यानन्दस्य सर्वा- Sभिलाषविषयत्वात्तस्येव च मोक्षसुखत्वादिति ॥ ३०२ ।। नन्वेतादृशस्य मोक्षानन्दस्य कथं ज्ञानामात्रात् सिद्धिर्महते फलाय हि महायासानुष्ठानं कुर्वन्ति महाधियोऽपीतिचेन्मैवम्। अज्ञानमात्रव्यवहितत्वान्मोक्षानन्दस्य, ज्ञानमात्रस्यैव तन्निटत्तये- डपेक्षणादित्याह- अज्ञानमात्मविषयं भवहेतुभूतं प्रच्छादकं च परमात्मसुखस्य तूर्णम्।। त्रय्यन्तवाक्य जनितात्ममतिर्िषाक- मासाद्य हन्ति यदि तत किमर्थनीयम् ॥३०३॥ अज्ञानमिति ॥ विपयशब्द आश्रयत्वस्याप्युपलक्षणार्थः। आत्माश्रयमात्मविषयं चाज्ञानमिति यावत् ।। भवहेतुभूतमिति विक्षेपकत्वमज्ञानस्योक्तम् । प्रच्छादकमित्यावरणनिर्देशः । एव- मुक्तैर्विशेषणैरज्ञानमेव स्वकार्यसहितं सर्वानर्थहेतुरिति दर्शित- म्। यद्येवंविधमज्ञानं त्रैय्यन्तवाक्यजनितात्ममतिरसम्भावना- दयपोहेन विपाकमासाद् तूर्ण हन्ति तत्र तदा किमन्यत् परमानन्द- मोक्षाभिव्यक्तावर्थनीयमितियोजना। यदि-प्रयोगोऽत्रासन्देहे- डपि संदेहारोपो, वेदा: पमाणं चेदितिवदिति द्रष्टव्यम्॥२०३॥ नन्वपाप्तपाप्तिरपहृतपरिहारो वा पुरुषार्थो, न तु भ्रान्ति-
250
Page 251
२३८ अन्वयार्थप्रकाशिकाविभूषिते सिद्धपुरुषार्थलाभदर्शनादिति सदष्टान्तमाह करमुष्टिनिविष्टमुत्तमं कनकं प्रस्मरणादलब्धवत । प्रतिभाति तदाप्तवाक्यतः प्रतिपत्या लभते यथा जनः |। ३०४ ॥। करमुष्टीति द्वाभ्याम्। पस्मरणाद्विस्मरणादलब्धवत् प्रति- भाति, न त्वलब्धं तदित्यर्थः । आप्तवाक्यतो जाता या प्रति- पत्तिस्तयेत्यर्थः । चरणाभरणे समारोपितफणिनि वृत्तिरप्याप्त- वाक्यजज्ञानमात्रकृतात्रोदाहर्तेव्या। ३०४।। दृष्टान्तमुत्का दाष्टान्तिकमाह- परमात्मपदं पराकृत- द्वितयं प्राप्तमपि स्वभावतः ।। अनवाप्तवदेव लिप्सते लभते चैवमयं प्रमाणतः ॥३०५ ॥ परमात्मपदमिति ॥ सदेव स्वभावतः पराकृतद्वितयं नित्यपाप्तमपीति योजना। लिप्सते भ्रान्त्येति शेषः । पमाणतो वेदान्तवाक्यतो लभते ॥ एवमिति॥ यथादृष्टान्तमित्यर्थः । अय- मित्यधिका युक्तिः ॥ ३०५ ॥
जनसिद्धिरुपपादिता वेदान्तानां तत्र प्रामाण्यसिद्धये। इदानी- मात्मतत्वात्मकस्य मोक्षस्य न क्रियासाध्यत्वं संभाव्यते, तस्य क्रियानुपवेशयोग्यत्वाभावादिति दर्शयन् ज्ञानमात्रायत्तं मोक्ष-
251
Page 252
संक्षेपशारीरके प्रथमोऽध्यायः ।१॥ २३९
मिति प्रागुक्तं दढीकरोति- न स्वाध्यायवदाप्यता न च पुनस्त्रेतामितज्जन्यता न व्रीह्यादिवदस्य संस्कृतियुजा नो सोमवद्विक्रिया॥ पाठाधानजलोक्षणाभिषवणैः कूटस्थरूप हि तद् ब्रह्मापास्तविकारजन्ममरणं निःश्रयसं साधनैः॥३०६॥ न स्वाध्यायवदिति। उत्पन्यापप्तिविकारसंस्कारा हि क्रियासाध्याः, नातः परं तत्साध्यमस्ति। ब्रह्मरूपं तुनिःश्रेयसं नान्यतमेनापि रूपेण साध्यम्। तस्य क्रूटस्थनित्यत्वान्नित्य-
पाठादिपदानि स्वाध्यायादिपदैर्यथाक्रमं योज्यानि ॥ अस्येति ॥ यथोक्तननिःश्रेयसस्येत्यर्थः । अस्य पाठेन साधनेन स्वाध्यायव- दाप्यता नेत्येवं प्रत्येकं विभज्य योज्यम्,।। जलोक्षणं जलेन प्रोक्षणम् । अभिषवणं कण्डनादि ॥ ३०६॥। ननु व्रह्मैव सन् ब्रह्माप्येतीति ब्रह्मभावस्याप्यत्वश्रवणात्तस्य क्रियासाध्यत्वमस्तीति प्रतीयत इतिचेत्तत्राह- ब्रह्मैव सन्निति वचः प्रथमश्रुतत्वा- दप्येतिशब्दमुपसंहरणस्थमुच्चैः ॥ प्रच्यावयत् स्त्रविषयादुचितादू बलीयो ब्रह्मात्मनोरनतिरेकमसाध्यमाह ॥३०७॥ व्रह्मैव सन्निति वच इति ॥ प्रथमश्रुतानुसारेण चरम- श्रुतं नेयमिति न्यायाद, ब्रह्मैव सम्निति वचोऽस्मिन् वाक्ये प्रथम- श्रुतत्वादुपसंहरणस्थं चरमश्रुतमप्येतिशब्दमुचितान्मुखूयात् स्व- विषयादुचैः स्फुटं मच्याव्य ब्रह्मात्मनोरसाध्यमनतिरेकमाह।
252
Page 253
२४० अन्वयार्थप्रकाशिकाविभूषिते
यतो बलीयः । प्रथमश्रुतत्वेनासंजातविरोधितयाऽतिपबलमिति योजना। ब्रह्मैव सन्निति ब्रह्मभावस्य नित्यसभ्भावावधारणवि- रोधादप्येतिशब्दस्तत्रोपचरितार्थः करकलतकनकपिण्डन्यायेना- डभिव्यत्यपेक्ष इति भावः ॥ ३०७॥। ननु नायं न्यायोऽत्र युक्तो वाक्येषु सर्वत्राख्यातपदस्यैव प- धानत्वाभामपदस्यापधानत्वात् प्रधानानुरोधेनाप्रधानं नेयमिति न्यायस्यैवात्र युक्तत्वादप्येतिशब्द एव मुख्यार्थ इतरो गौणा- डर्थ इतिचेन्मैवम्। सुबन्तत्वतिङ्तत्वयोर्नामाख्यातविभागनियाम- कत्वाभावादर्थवशादेव तन्नियमदर्शनादप्येतीत्ययमाख्याताभास इत्यभिप्ंत्य नाम्नोऽप्याख्यातत्वमर्थवशादित्येतदुदाहरति- आग्नेय इत्याद्यपि तद्धितान्त- मष्टाकपालादिसमन्वितं सत ।। आख्यातशज्दस्य धुरं बिभर्ति
आग्रेय इत्यादीति ॥ भूतार्थबोधकं पदं नाम भव्यार्थ- बोधकं पदमाख्यातमिति तयोर्ल्लक्षणेन सुप्तिडन्तत्वम्।यत आग्रेय इत्यादितद्धितान्तं सुबन्तमपि पदमष्टाकपालांदिसमन्वितमाग्रेयो- उष्टाकपाल: पुरोडाश इत्येवमाकारं सदाख्यातशब्दस्य यज- त्यादेर्धुरमर्थकृत्यं विभर्तति पूरयति। कुत इत्यपेक्षायां द्रव्यदेवता- सम्बन्धस्य यागाविनाभूतत्वात्तदवगमे तत्पतीतेस्तस्य च भव्य-
न्वमस्य सिद्धमित्याह ।। भव्यार्थसंवित्तिनिबन्धनत्वादिति ।। आद्यमादिपढ़ मैन्द्रापमित्यादिसंग्रहार्थम्। द्वितीयमेकादशकपाला- दिसंग्रहाय। अष्टाकपालादिसमन्वितमित्यस्याऽयमर्थः । सा
253
Page 254
संक्षेपशारीरके प्रथमोऽध्यायः।१ २४१
डस्य देवतेति देवतैदमर्थ्ये तद्धितस्यास्य विधानादन्नदेवतास्ये- ति पदविग्रहेऽस्येति सर्वनाम्नः सन्निहितार्थपरत्वात्तेन विना तस्याभिधानपर्यवसानासम्भवादष्टाकपालपदेन तद्विपय एव स- मर्प्यते, नार्थान्तरमिदमर्थस्य विशेषणभूतं विशेष्यभूतंवात आग्नेय- पदस्याभिधानपर्यवसानायाष्टाकपालसमन्वितत्ववचनमिति ३०८ नन्वाग्रेयोऽष्टाकपालो भवतीति तत्राख्यातपदस्य सच्वा- त्तदधीना तत्र भव्यार्थत्वपतीतिर्न तद्धितान्तपदावसेयद्रव्यदेव- तासम्बन्धमात्रावगमादितिचेन्मैवम्। भवतिशब्दस्यानुष्ठेयार्था- ड्बोधकत्वेन भव्यार्थत्वाभावादित्याह- आख्यातमेव सदिदं भततीति नाम भव्येतरार्थमति जन्मनिबन्धनत्वात् ॥ अप्येतिशब्दमपि तद्वदिमं प्रतीमो भव्येतरार्थगतबुद्धिनिबन्धनत्वात् ॥ ३०९॥ आख्यातमेव सदिदमिति। भवतीतीदं शब्दतआख्यात- मेव सदर्थतो नामैवेति योजना। कुत इति तत्राह ।। भव्ये- तरेति ॥ भवतिशब्दे साध्यार्थापतीतेरित्यर्थः । उक्तं न्यायं प- कृते योजयति ॥ अप्येतिशब्दमपीति ॥ एवं भवतिशब्दवदिमम- व्येतिशब्दमपि प्रतीमोरऽर्थतोऽस्यापि नामत्वादित्यर्थः । अत्रापि हेतुमाह।। भव्येतरेति ॥ प्रथमश्चुतविरोधादेव भव्यार्थबुद्धिहेतु- त्वाभावादित्यर्थः ॥ ३०॥ अतश्चाप्येतिशब्दस्यार्थत आख्यातत्वाभावादेव नाऽस्मिन वाक्ये पाधान्यमपीत्याह- ब्रह्मैव सन्नितिगिरं प्रति शेषितायै ३१
254
Page 255
२४२ अन्वयार्थप्रकाशिकाविभूषिते
नाप्येतिगीरियमलं कथितोपपत्तेः ॥ आख्यातमेव खलु नामपदस्य शेषि नाख्यातमेतदनृतत्वनिवेदकत्वात् ॥ ३१० ॥ ब्रह्मैव सन्निति गिरमिति । शेषितायै पाधान्याय नालमिति सम्बन्धः । कथेतोपपत्तिमेव स्फोरयन् आख्यातस्य स्वार्थे स्थितस्य प्राधान्यं मया न भज्यतेऽस्य त्वाख्यातत्वबाधना- न्न स्वार्थतेत्याह ।। आख्यातमेवेति ॥ ११० ॥ तस्माङ्रह्मैव सन्निति शब्द एवात्र पधानं, नाप्येतिशब्द इत्युपपादितमुपसंहरति- ब्रह्मैव सन्निति ततः प्रथमश्रुतं स- दप्येतिशब्दमपसारयति स्ववाच्यात् । अस्याङ्गभावविरहादमुना सहाऽतो व्रह्मात्मनोरनतिरेकमुशन्ति धीराः ॥३११ ॥ ब्रह्मैव सन्निति ॥ तत इति ।। अतो हेतोरस्य ब्रह्मैव सन्नित्यस्याङ्गभावविरहादमुनाप्येतिपदेन सह ब्रह्मात्मनोरनतिरे- कमनेन वाक्येन प्रतिपाद्यमुशन्ति धीरा इति योजना। अमुना सहास्याङ्गभावविरहादिति वा सम्बन्धः। अस्मिन् पक्षे प्रच्यावय- तीत्यस्य हेतुरस्येत्यादिः सहान्त इति द्रष्टव्यम् ॥ अत इत्यादि- रत्र विद्वत्संवादपदर्शनार्थः।३११॥। स्वार्थस्याख्यातपदस्य प्राधान्यं सर्ववाक्यसाधारणमित्येत- दङ्गीकृत्य प्रकृतेऽप्येतिशब्दस्य स्वार्थपच्युतेरेवामाधान्यमित्युक्त- मिदानीं वस्तुतो नायमपि नियम इत्याह- भव्याय भूतमिति किञ्च विधिप्रधाने
255
Page 256
संक्षेपशारीरके प्रथमोऽध्यायः।१। २४३
काण्डे नयोऽयमिह तद्विपरीतमाहुः ॥ भूताय भव्यमिति भूनपरं हि सर्वे वेदावसानमिति सत्रकृदाचचक्षे ॥ ३१२ ॥ भव्याय भूतमिति ॥ भूतं भव्यायोपदिश्यत इति नयो न्यायो विधिप्रधाने काण्डे भव्यार्थपदं प्रधानं भूतार्थपदमखिल- मपि तच्छेषार्थसमर्पकत्वेन तदङ्गमिति कर्मकाण्डे स्थितो न्याय इत्यर्थः। किश्चेति पदं युत्यन्तरोपक्रमार्थ, तत् प्रथमं द्रष्टव्यम् । इह तु वेदान्तेषु तु तद्विपरीतमाहुर्न्यायविद इति शेषः । वैपरी- त्यमेवाह ।। भूताय भव्यमितीति। भव्यवादस्य भूतार्थत्वे प्रमाणमाह ।। भूतपरं हि सर्वमित्यादि ॥ सर्व वेदावसानं सर्वे वेदान्ता इति यावत् । मूत्रकृद्वादरायणः। आचचक्षे, तत्तु- समन्वयादित्यादिभि: सूत्रैरिति शेपः । यदि सर्ववेदावसान- मिति पाठस्तदाऽयमर्थः । हि यस्मात् सर्ववेदानां कर्मोपासना- पराणामव्यवसानं परिसमाप्तिलक्षणं भूतपर सिद्धब्रह्मात्मपर- मिति सूत्रकृदाचचक्षे इति योजना। तथाचोक्तं, सर्वापेक्षा च यज्ञादिश्चुतेरिति । अग्निहोत्नादि तु तत्कार्यार्यैवेति च ॥३१२॥ अस्मिन्मते, ब्रह्मैव सन्नित्यस्य सुतरां मावल्यमित्याह- ब्रह्मैव सन्निति ततोऽपि बलिष्ठमेत- दप्येतिशब्दमवसानगतं व्यपेक्ष्य ।। तस्मादमुष्य परिषीड़कमेतदेव ब्रह्मैव सन्निति पदं गुणकल्पनायै॥ ३१३॥ ब्रह्मैव सन्निति ॥ ततोऽपीति ॥ तत इति भव्यस्यापि भूतार्थत्वादित्यर्थः ॥ अपीति ॥ प्राथम्यादपीत्यर्थः । तत इह
256
Page 257
२४४ अन्वयार्थप्रकाशिकाविभूषिते
भूनभव्यन्यायवैपरीत्यादवसानगतमप्येतिशब्दमपेक्ष्यापि ब्रह्मैव सन्नित्येतत्पथमश्रुतं पदं बलिष्ठमेवेति योजना । फलितमाह॥ तस्मादिति।अमुष्याप्येतिशब्दस्य गुणकल्पनायै गौणत्वकल्पना- डर्थमेतदेव ब्रह्मैव सन्नितिपदं परिपीडकं मुखयार्थात् प्रच्यावक- मिति योजना ॥ ३१३॥ यत एवमप्येतिशब्दो नापाप्तपाप्तिपरो यतश्रचतुर्विधक्रिया- फलविलक्षणो मोक्षोऽतो न क्रियासाध्यः, कि त्वविद्यामात्र- व्यवहिततया विद्यैकलभ्य एवेत्युपसंहरति- निःश्रेयसं न खलु साध्यमतः क्रियाभि- र्ज्ञानेन वा द्वयसमुच्चयवर्त्मना वा।। उत्पत्तिराप्तिविकृती च न संस्कृतिश्र यस्मान्न सुंभवति वर्णितवर्त्मनेह॥ ३१४ ॥ निःश्रेयसंन गवल्विति।। अत आभ्यः प्रागुक्तयुक्तिभ्यो निःश्रेयसं न खलु नैव क्रियाभि: केवलाभि: साध्यं ज्ञानेन वान साध्यम्। ज्ञानस्याकारकत्वात्। द्वयसमुच्चयवर्त्मना वा, ज्ञानकर्मसमुच्चयोपायेन वा न साध्यम् । कुतो, यस्मादिह निःश्रेयसेऽस्मदभिमते वर्णितवर्त्मना मागुक्तयुक्तिमार्गेणोत्पत्ति- राप्तिविकृती, न च नैव सम्भवतीति शेपः । संस्कृतिश्च न सम्भ- वतीति योजना ॥ तथाच श्रुतिः । एप नित्यो महिमा ब्राह्मण- स्य न कर्मणा वर्द्धते नो कनीयानिति ॥ ३१४॥ एवं सति प्रवत्तिनिटृत्त्यगोचरवस्तुपरत्वे वाक्यस्य न पा- माण्यमिति यदुक्तं तन्नास्माक दोषाय तत्साध्याभावात्। पत्युत गुणायेव प्रवर्त्तकरागादेस्तद्वीजस्याज्ञानस्य चैवं सति दाहसिद्धे: मटत्यादिपरत्वे तदसम्भवात्तदसम्भवे चानर्थनिटटत्तिपुरुषार्था-
257
Page 258
संक्षेपशारीर के प्रथमोऽध्यायः।१। २४५
सिद्धिरित्यभिप्रेत्य पूर्वप्रकृतमुपमंहरति- तस्मात् प्रवृत्तिविनिवृत्तिविवर्जितत्वं ब्रह्मात्मवस्तुविषयातगतेर्न दोषः ।। सर्वप्रवर्त्तकनिव्त्तकमूलदाहात स्वाराज्यहेतुरिति भूषणमेत्र तन्नः ॥ ३१५॥ तस्मात् प्रवृत्तीति ॥ स्पष्टार्थः ॥ ३१५॥ यत् पुनरुक्तमज्ञातार्थविषयत्वं प्रमाणानां प्रामाण्यमात्मनश्च स्वयम्प्रकाशत्वान्न तस्मिन्नज्ञानं सम्भवतीत्यतो न वेदान्तानां ब्रह्मणि प्रामाण्यमिति तत्राह- अज्ञाततापि घटतेऽत्र दृशोऽनुभूते- र्जानामि नाहमिति दृश्यपि दृश्यते हि।। अज्ञातताऽनुभवनं न च वास्तवं त- दज्ञाततोद्वहति कल्पितता हि तस्याः ॥ ३१६॥ अज्ञानताऽपीति ॥ अत्र दृगात्मन्यप्यज्ञातता घटते इति सम्बन्धः । परागर्थे यद्यपि नाभिमतमज्ञातत्वं वेदान्तिनां, तथा- प्यङ्गीकृत्यात्रापीत्यपिशब्दपयोग इति द्रष्टव्यम् । कुत एतज्ज्ञान-
है ।। दृश इति ॥ नाहं जानामीति दृश आत्मनोऽज्ञतयानुभूते- र्हेतोहि यस्माद् दृश्यप्यज्ञाततानुभवनं दृश्यत इति योजना। यद्येवमनुभवबलेनानुपपत्तिरनिरस्यते तर्ह्यनुभवबलादेवात्मन्यज्ञात- ता वास्तवी स्यादिति, नेत्याह ॥ न च वास्तवं तदिति ॥ तद- नुभवमात्रसिद्धमज्ञातत्वं न वास्तवं पामाणिकम्। हि यस्मादस्या
258
Page 259
२४६ अन्वयार्थप्रकाशिकाविभूषिते
अज्ञातताया अज्ञातता कल्पिततामुद्वहति दक्स्वरूपे पामाणिके दगात्मन्यनुपपद्यमानत्वेऽप्यनुभूयमानत्वादज्ञातता स्वात्मनः क- ल्पिततां गमयतीत्यर्थः ॥ ३१६॥ ननु किमिदमज्ञानं नाम । न तावज्ज्ञानाभावः । स्वरूप- ज्ञानस्य नित्यत्वेन तदभावासंभवात्। नापि टत्तिज्ञानाभावस्तस्य वृत्त्यविषये चिदात्मन्यसंभवात् । अथ ज्ञानादन्यदज्ञानमिति मतं, तदा घटस्याप्यज्ञानत्वप्रसङ्गः। अथ ज्ञानविरोधि तदिति मतं तदपि न,तथात्वे मानाभावादिति चेत्। मैवम्। ज्ञानविरोध्यज्ञान- मिति पक्षस्योपपत्तेरित्याह- अज्ञानमित्य जडबोधतिरस्क्रियात्मा जाड्यं च मौढ्यमिति च प्रकृतिः प्रसिद्धा ॥ सा चातिदुःस्थितवपुर्दृशमद्वितीया- मालिङ्गति स्म घृतपिण्ड इवाग्निमिद्धम्॥३१७॥ अज्ञानमितीति॥ अजडबोधतिरस्क्रियात्मा पकृतिरज्ञान- मिति पसिद्धेत्यन्वयः । स्वयम्पकाशत्वं बोधस्याजडत्वं, स्वतः- सिद्धपकाशाच्छादनस्वभावेत्यर्थः।सा पकृतिरेव ज्ञानपर्युदासेना- उज्ञानमिति ज्ञानविरोधित्वेन जाड्यमिति चास्वच्छतया मौढ्य- मिति च प्रसिद्धा श्रुतिस्मृतिपुराणेष्वितियोजना। तथाच श्रुतिः- मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्, नीहारेण प्राट्टताः, तम आसीत्तमसा गूढमित्याद्या। मम मायादुरत्यया तरत्यविद्यां विततामित्यादिस्मृतयश्चात्र सहस्रशः । नन्वेवमात्मनि चेत् प- माणसिद्धा प्रकृतिस्तर्व्वस्या विरोधाभावादेव सत्यतेति चेन्नेत्याह।। सा चेति ।। सा च प्रकतिरतिदुःस्थितवपुः सती अद्वितीयां दृशमालिङ्गते स्मेति भूतत्वनिर्द्देशो विद्वदनुभवाभिपायः । वि-
259
Page 260
संक्षेपशारीरके प्रथमोऽध्यायः।१। २४७
रोधिनोरपि सम्बन्धे दृष्टान्तमाह ।। घृतपिण्ड इति ॥ एतदुक्तं भवति।यद्यपि चैतन्याज्ञानयोर्भावाभावात्मत्वविरोधाभावस्तथापि वध्यघातकभावविरोधः संभवति । एवं घृतपिण्डानलयोरिव भावयोरेवानयोः संबन्ध इति प्रकृतेरभाववैलक्षण्य सिद्धेर्ज्जगदुपा- दानताऽपि शास्त्रपसिद्धा सिद्धा भवति। नचाज्ञानस्यात्मन्य-
वाच्यम्। निवर्त्तकोपनिपातपर्यन्तं संवन्धस्यावश्यकत्वाद्विरोधिनो- रपि यथा मन्दप्रकाशतमसोस्तथा। यथाच स्नेहवर्च्यादिसहकारि- विशेषसंवलनेन वा मेघाद्यावरणापगमेन वा प्रकाशस्योपबृंहित- त्वेन प्राबल्ये सति निःशेषतमोनिवर्त्तकता तथा वाक्योत्थ- बुद्धिटृत्ति संवलनरूपसहकार्युपेततया प्रावल्ये सति निःशेषाज्ञान- निवर्त्तकत्वोपपत्तिः । दृश्यते हि दाह्यदाहकयोर्विरुद्धस्वभावयो- रप्यरणिपावकयोराविशेषाभिव्यक्ते: संबन्ध इति॥ ३१७॥ नन्वेवं वस्तुगत्या चिदात्मन्यसंभवदप्यज्ञानं किमिति त- स्मिन्नभ्युपेयते, किमिति च तत्र युक्तिसंचारे यत्यते। अत- श्िदात्मनोऽन्यत्रैवाऽस्तु तन्मास्तु वा कुत्रापीतिचेन्मैवम्। अनुभव- सिद्धत्वादस्यापलापासंभवात् तस्य भावरूपत्वसमर्पकैस्तिमिरादि- शब्दैः श्रुतिस्मृतिपुराणेष्वभिधीयमानस्यानात्माश्रयविषयत्वा-
चिद्वस्तुनश्चिति भवोत्तिमिरं तमिस्त्रं तामिस्रमन्धतमसं जडिमा तमिस्रा। माया जगत्प्रकृतिरच्युतशक्तिरान्ध्यं निद्रा सुषप्तिरनृतं प्रलयो गुणैक्यम ॥ ३१८॥ चिद्धस्तुन इति । चिद्रूपं यद्वस्तु परमार्थसत् तस्य या
260
Page 261
२४८ अन्वयार्थप्रकाशिकाविभूषिते
स्वरूपभूता चित् तस्यां तिमिरं भवेन्नानात्मवस्तुनि तत्राज्ञाना- Sसंभवस्य वक्ष्यमाणत्वादित्यर्थः । तिमिरादिशब्दा हि निष्पति- योगिकमर्थमावेदयन्ति। अतोऽज्ञानमिति शब्दो ज्ञानपर्युदासेन उच्यमानोऽप्यधर्मशब्दवन्नाभावविषय इति भावः ॥ ३१८॥ ननु चिन्मात्राश्रयविषयत्वमज्ञानस्यायुक्तं, ज्ञानवदज्ञानस्या- Sपि विषयाश्रयभेदस्याभ्युपेयत्वात्। तथाचाहमज्ञ इत्यनुभवादह- द्वारविशिष्टचैतन्यमाश्रयः, परमात्मा तु विषय इति तन्देदसिद्धि- रितिचेत् तत्राह- आश्रयत्वविषयत्वभागिनी निर्तिभागचितिरेव केवला॥ पर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥ ३१९॥ आश्रयत्वविषयत्वेति ॥ अज्ञानं प्रतीति पथमं योज्य- म्।। निर्विभागेति"॥ निरवयवत्वोत्या स्वरूपभेदो निरस्तः ॥ केवलेति ॥ सजातीय विजातीयभेदनिरासः । एवकारेण स्वगत- धर्मभेदव्युदासः । एवंविधा चिदेवाज्ञानं पत्याश्रयत्वविषयत्व- भागिनीत्यर्थः । कुत इत्यत आह ॥ पूर्वसिद्धेति॥ प्राक्सिद्धस्या- जज्ञानस्य पश्चिम: पश्चात् सिद्धस्तत्कार्यभूतोऽहङ्गारादिस्तद्विशिष्टो वा चिदात्मा नाश्रयो भवति, नापि गोचरः। कार्यस्य कारणाश्रयत्वा- योगात्तव्यापकत्वायोगाच्चेत्यर्थः । अतोऽहमज् इत्यज्ञत्वानुभवो- उप्यन्तःकरणोपलक्षितप्रत्य ङूनिर्विभागचिद्विषय एवेत्यभ्युपेय- मिति भाव:॥ ३१९॥ पूर्व शब्दनिर्देशसामर्थ्येनाज्ञानस्याभावविलक्षणत्वमुक्तमि- दानीं युत्याप्यभावचैलक्षण्यमुपपादयति-
26
Page 262
संक्षेपशारीरके प्रथमोऽध्यायः।१। २४९
नाभावताऽस्य घटते वरणात्मकत्वा- न्नाभावमावरणमाहुरभावशौण्डाः ।। अज्ञानमावरणमाह च वासुदेव- स्तन्ावरूपमिति तेन वयं प्रतीमः ॥ ३२० ॥ नाभावतास्येति ॥ विमतमज्ञानं नाभावः, वरणात्मक- त्वादावरकत्वात् पटवदित्यर्थः । आवरकत्वेऽप्यभावता कि न स्यादित्यत आह । नाभावमावरणमिति । अभावशौण्डाः अभावस्वभावविदस्तार्किका इत्यर्थः । हेत्वसिद्धिं परिहरति ।। अज्ञानमिति॥ अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव इति अज्ञानस्यावरकत्वं भगवान् वासुदेव आहेत्यर्थः । तस्मिंश्चान्यो मायया संनिरुद्ध इत्यादिश्रुतिसमुच्चयार्थश्रकारः । उपनयनिगमने कथयति ॥ तन्भ्ावरूपमिति ॥ तदज्ञानं भावृरूपमिति निगमन- निर्देशः । तेनेत्युपनयकथनम् ॥ ३२०॥ अत्रैवार्थे इतिहासवचनमप्युदाहरति- एक: शत्रुर्न द्वितीयोऽरिति शत्रु- रज्ञानतुल्यः पुरुषस्य राजन् ॥ येनावृतः कुरुते संप्रमत्तो घोराणि कर्माणि सुदारुणानि ॥ ३२१॥ एक: शत्रुरिति ॥। घोराणि साहसानि ॥ सुदारुणानि दुःसहविपाकानि ॥ ३२१॥ इतश्च भावरूपत्वमज्ञानस्येत्याह- जाड्यं जगत्यनुगतं खलु भावरूपं ३२
262
Page 263
अन्वयार्थप्रकाशिकाविभूषिते
मौढयं च पुंगतमिति प्रतिभाति तादक् ।। जाड्यं च मौढ्यमिति चानुभवप्रसिद्ध- मज्ञानमाहुरपवर्गविधानदक्षम् ॥ ३२२॥ जाड्यं जगतीति॥ जगति ॥ देहघटादौ कार्येऽनुगतम- नुभूयमानं खलु जाड्यं भावरूपमिति प्रतिभाति। तथा पुंगतं मौढ्यं च तादग् भावरूपमिति प्रतिभातीति योजना। जगत्या- SSत्मनि च दृश्यमानं जाड्यं मौढ्यं च कार्यत्वात् स्वानुरूपमुपा- दानं कल्पयति। न हि चेतनं जडस्योपादानं भवति परिशेषा- दचेतनमुपादानं सदज्ञानं सिद्ध्यति। तस्य चाभावरूपत्वे कार्यो- पादानत्वासम्भवान्भावरूपमेव तदज्ञानमुन्नीयते इत्याह। जाड्यं च मौढ्यमिति चेति ।। जगद्गतं जाड्यं चात्मगतं मौढ्यमिति चानुभवेन प्रसिद्धमनुभवबलादनुमानतश्च प्रसिद्धमज्ञानमेवापवर्ग- पिधानदक्षं परमानन्दब्रह्मात्माच्छादनावरणविक्षेपकरत्वेन सं-
ननु कथमज्ञानस्य बन्धरूपजगत्कारणत्वं यावतात्मन आ- काशः सम्भूत आत्मन एवेदं सर्वमित्यादिश्रुतय आत्मन एव ब्रह्मरूपात्तदुत्पच्यादि बोधयन्तीतिचेत् सत्यं, साभासाज्ञानद्वारा ब्रह्म तत्कारणं, न केवलमित्यज्ञानोपाधिकव्रह्मकारणत्वपरत्वा- च्छूरुतीनामित्याह- साभासमेतदुपजीव्य चिदद्वितीया संसारकारणमिति प्रवदन्ति धीराः ॥ साभासमेतदिति संसृतिकारणत्वे द्वारं परं भवति कारणता दशस्तु ॥ ३२३ ॥
263
Page 264
संक्षेपशारीरके प्रथमोऽध्यायः।१। २५१
साभासमिति । साभासं चित्यध्यासेन चिदाभास- खचितमेतदज्ञानमुपजीव्योपाधिं पुरस्कृत्य अद्वितीया कूटस्था्या- नन्दरूपा चिच्चिदात्मा ब्रह्मेति यावत्। संसारकारणं न केवल- मिति धीरा धीमन्तो वेदान्तार्थनिपुणबुद्धयः प्रवदन्ति । तहि तद्धेतोरेवास्तु तत् किं तेनेति न्यायेनाज्ञानमेवास्तु जगतः कारणं मास्तु ब्रह्म तथा। तस्य कूटस्थत्वादितिचेन्नेत्याह॥ साभासमेत- दित्युत्तरार्द्धेन। सर्वश्रुतिषु ब्रह्मण एव प्राधान्येन जगत्कारण- त्वश्रवणान्मायां तु प्रकृतिमित्यादौ तु मायायाः, मायिनं तु महेश्वरमिति वाक्यशेपेणेश्वराधीनत्वश्रुतेरपाधान्यावगमाच्चातः कारणता तु दृशश्रिदात्मन एव। तस्य कूटस्थतया स्वतो जगद्रूप- त्वेनाविर्भावासम्भवात्तस्य संसतिकारणत्वे द्वारं सहकारिमात्रं परं भवति। जडस्यास्य द्वारत्वमपि कथमित्यत आह॥ साभा- समेतदितीति ॥। इति यत एतदज्ञानं साभासमतो द्वारमिति योजना। एतदुक्तं भवति। अज्ञानस्य तत्र तत्रेश्वरशक्तित्व- श्रवणाच्छक्तेश्र शक्तिमत्परतन्त्रत्वादविद्याशक्तेश्रात्मन्यध्यस्तत- या तावन्मात्रत्वादभेदे सत्यज्ञानकारणश्रवणमपि ब्रह्मकारण परमेव ब्रह्मण एव रज्जुशुतादीव सर्परजताद्यात्मनाऽविद्यया विवर्त्तमानत्वादिति॥ ३२३॥। ननु जडशक्ते: स्वातन्त्र्येण कारणत्वाभ्युपगमे को विरोध इति तत्राह- यावद दृशोऽन्यदिह संसतिकारणं तदू वेदान्तवादिसमये न मतं जडत्वात ।। यद्यज्डं भवति संसृतिकारणं त- न्नेति स्फुटं वदति सूत्रक्ृदत्र यस्मात् ।। ३२४।।
264
Page 265
२५२ अन्वयार्थ प्रकाशिकाविभूषिते
यावदू दशोऽन्यदिति ॥ अथवा, कुत एवं व्यवस्था- SSस्थीयते? सूत्रकृत्पव्ृत्तिपर्यालोचनयेत्याह॥ यावद् दृशोऽन्य- दिति। दृशोऽन्यदचेतनं संसतिकारणं यावत्सांख्यादिभिरुत्पेक्षि- तं तदिह वेदान्तवादिसमये न मतं नेष्टम् । कुतः । जडत्वात् । स्वतः पट्टत्याद्यसमर्थत्वादित्यर्थः । कथमिदं वेदान्तिनो न मत- मित्यगवम्यते, तत्राह ।। यद्यदिति ॥ रचनानुपपत्तेश्र नानुमान- म्। उभयथाऽपि न कर्मातस्तदभाव इत्यादिभि: सूत्रकृता स्वतन्त्रजडकारणत्वस्य स्पष्टं निराकरणादित्यर्थः ।। ३२४।। तदेव स्पष्टयति- अजडकारणभावनिबन्धनं सकलमेव जडं न तु कारणम् । इति हि वेदशिरस्सु विचक्षणा: कपिलपक्षनिराकरणे जगुः ॥ ३२५ ॥ अजडेति ॥ अजडस्य चिदात्मनः कारणभावे कारणत्व- व्यवहारयोग्यत्वे सकलमेव जडमविद्याकाशादिव्याकृतमव्याकृतं च निबन्धनं द्वारं भवति, न तु स्वयं कारणमित्यर्थः ॥ इति हीति स्पष्टार्थम्। वेदशिरःसु विचक्षणा भाष्यकारप्भृतयो महान्त इत्यर्थः ॥ ३२५।। देवात्मशक्ति स्व्रगुणैनिगूढाम्, इन्द्रो मायाभिरिति श्रुत्य- Sनुसारेण ब्रह्मैव कारणमज्ञानं शक्तिस्तत्र द्वारमित्युक्तम् । तत्र पुनर्वचनान्तरमाश्रित्य मतान्तरमाह- शबलमात्मपदेन निगद्यते सकलमात्मजमित्यपि च श्रुतिः ॥।
265
Page 266
संक्षेपशारीरके प्रथमोऽध्यायः।१। २५३
शबलमात्मपदं जगतस्ततः प्रकृतिरित्यपरे तु जना जगुः ॥ ३२६॥ शबलमात्मेति।। आत्मपदेन तत्पर्यायसङ्गह्मादिपदेन च शबलमज्ञानविशिष्टं तत्त्वं निगद्यते। श्रुतिरपि सकलमात्मज- मिति आत्मन आकाशः सम्भून इत्यादिरूपा पठ्यते इति शेषः। चशब्दोऽवधारणार्थः । फलितमाह । शबलमात्मपदमिति।। अज्ञानविशिष्टथचिदात्मा जगत उपादानकारणमित्यपरे जगु- रित्यर्थः ॥ ३२६ ॥ अत्रैवाधिष्ठातृकारणत्वे विशेषमाह सुकृतदुष्कृतकर्मण कर्ततां मतिगतात्मचिति प्रतिबिम्बकम् ॥ व्रजति तद्ददः परमात्मनो जगति याति तमःप्रतिबिम्बकम ॥ ३२७ ॥ सुकृतदुष्कृतेति ॥ मतिगतात्मचैतन्यमतिबिम्बकं जीवा- SSरयं सुकृतदुष्क्ृतकर्मणि कर्तृतां व्रजति यद्वदित्यध्याहारः । तद्वदद: परमात्मनोऽपि तमसि कारणोपाधावज्ञाने प्रतिबिम्बक- मीश्वरा्यं जगति कर्तृतां यातीति योजना । यथाऽन्त :- करणप्रतिविम्बस्यैव कर्त्तृत्वं, कर्त्ता शास्त्रार्थवत्त्वादिति न्यायान्न त्वन्तःकरणविशिष्टस्य, तथा जगत्कर्त्तृत्वमपि तमःप्रतिबिम्बस्यैव, न तमोविशिष्टस्येत्यर्थः ॥ ३२७।। तर्द्युपादानत्वमपि प्रतिविम्बस्यास्तु किमनात्मशाबल्येने- त्यत आह- सकृतदुष्कृतयोः शबला यथा भति कारणमात्मचितिस्तथा ।।
266
Page 267
२५४ अन्वयार्थप्रकाशिकाविभूषिते
गगनवायुपुरःसरकारणं परमचतनता शबलाकृतिः ॥३२८॥ सुकृतदुष्कृतयोरिति ॥ यथाऽन्त:करणशबला आत्म- चितिः सुकृतदुःष्कृतयोः कारणमुपादानं भवति । सुकतादेः परिणामात्मत्वात् परिणामस्य च चिदात्मनोऽन्त:करणशाबल्या- धीनत्वाच्छबलमुपादानं यथेत्यर्थः । तथा गगनेत्यादि सुगमम् । कूटस्थस्यापरिणामित्वाज्जडस्य स्वतःपटत्त्यभावाच्चेत्यर्थः॥३२८।। तदेतदन्यमतं शोधयित्वा स्वमते प्वेशयति- शबलताकवलीकृततावशात् परमचेतनतैव निगद्यते।। शबलमात्मपदेन न कथ्यते शबलमात्मनि वृत्तिनिबन्धनम् ॥ ३२९॥ शबलताकेवलीकृत तेति।आत्मपदेन उत्पर्यायैश्र शबलं न कथ्यते, किन्तु परमचेतनतैव निगद्यते। चेतनता चैतन्य- स्वरूपं तस्या: परमत्वं सर्वोपाधिरहितत्वं निर्विशेषत्वमित्येत- त्। तहि शबलतायाः कोपयोग इति, तदाह । शबलमात्मनी- ति। वृत्ति: शब्दपवृत्तिस्तत्कारणं शबलता। लक्षणया चित्स्व- रूपे शब्दपर्यवसाने द्वारमित्यर्थः । कथ द्वारतेति, तत्र सम्बन्धि- तां तस्याह।। शबलताकवलीकृततावशादिति । शबलतया- Sनात्मशाबल्येन परमचेतनाया आत्मसात्कृतत्वात्तस्मिन्नन्तर्भूत- त्वादित्यर्थः । परमचेतनायाः शबलताकवलीकततावशाच्छबल- मात्मनि वृत्तिनिबन्धनमित्यन्वयः । ३२९॥ एवश्च शबलमात्मादिशब्दवाच्यमित्ययं भ्रम इत्युक्तद्वार-
267
Page 268
संक्षेपशारीरके प्रथमोऽध्यायः।१ २५५
त्वानुवादेन स्वमतमुपसंहरति- शबलतापरिधानसमन्वयात् परमचेतनतात्मगिर: पदम् ।। भवति तेन जनस्य तु विभ्रमः शबलमात्मगिरः पदमित्ययम् ॥ ३३० ॥ शबलतापरिधानसमन्वयादिति ॥ आत्मगिरः पदं व्युत्पत्तिस्थानं भवति । तेन हेतुनेत्यर्थः ॥ ३३० ॥ तदेवमात्मन एव तत्तच्छब्दैः समर्पणात्तस्यैव कारणत्वं श्रुतिभिरभिधीयते। अनात्मशाबल्यं तु तत्र द्वारमात्रमिति सिद्धः सर्वश्रुतिसमन्वयः केवले चिदात्मनीति स्थितम्। इदार्नी, न केवलं ब्रह्मादिशब्दवाच्यत्वकारणत्वयोरेवायं न्यायः, किन्तु सर्वव्यवहारेऽपीत्याह- बहु निगद्य किमत्र वदाम्यहं शृणुत संग्रहमद्दयशासने ॥। सकलवाङ्मनसातिगता चितिः सकलवाङमनसव्यवहारभाक्॥ ३३१ ॥ बहु निगद्येति।। अद्यशासने वेदान्तशास्त्रे, संग्रहमर्थ- संग्रहम्। सकलवाअ्मनसागोचरैव चितित्स्तत्तव्यवहारसमये तत्त- दर्थशाबल्येन सकलवाख्नसव्यवहारभाग्भवति, नान्यज्जडं त- द्विशिष्ट चैतन्यं वेत्यर्थः। उक्तं च, अक्षमा भवतः केयं साधक- त्वपकल्पने#किन्न पश्यसि संसारं तत्रैवाज्ञानकल्पितमिति॥३३१॥ कथमात्मनः केवलस्य सर्वसंव्यवहारे ज्ञानादेर्द्वारत्वमवसि- तमिति वीक्षायां तत्सदष्टान्तमाह-
268
Page 269
२५६ अन्वयार्थप्रकाशिकाविभूषिते
चित्रायागः पशुफल इति श्रूयमाणेऽपि चित्रा- डपूर्व द्वारं पशुफलतयाक्षिप्यते तत्र तद्त् ॥ चैतन्यात्मा जगदुदयकृच्छ्ूरूयतेऽत्रापि पश्चा- न्मायादीनां भवति जगति द्वारभाव:फले ऽस्मिन्॥३३२॥
चित्रायाग इति । चित्रया यजेत पशुकाम इति वाक्येन चित्रायाग: पशुफल इति श्रूयमाणेऽपि साक्षात्पशुफलत्वे चित्रा- यागजन्यमपूर्व तत्र पशुफलतया मध्ये क्षिप्यते यद्दिति योज्य- म्। यथा श्रूयमाणफलसाधनत्वान्यथानुपपत्या क्षणिकस्यापि यागस्य कालान्तरभाविफलसाधनत्वसिद्धये अपूर्वद्वारत्वमास्थी- यत इति दृष्टान्तार्थः । दार्ष्टान्तिकमाह ॥ तद्वचैतन्यात्मेति ॥ अस्मिन् फले फलभूते जगतीति सम्बन्धः । पश्चादनुपपचि- प्रतीतिदशायामित्यर्थः ॥ ३३२॥। तदेवं कूटस्थचिदेकरसस्य जडप्रपश्चकारणत्वं श्रूयमाण- मप्यन्यथानुपपच्या मायां तत्र कल्पयति कादाचित्कप्रवत्ति- निमित्ततया च मायाद्वारतः पाप्तोपादानकर्तभावस्य चिदात्मनो लोकशास्त्राभ्यामवगतं कालादष्टादि कारणं सिद्धमेवाङ्गीकृतं शास्त्रकारैरिति चिदात्मैव कारणमित्यङ्गीकार्यम्। अन्यथाकारण- त्वस्योपलक्षणत्वाङ्गीकारविरोधादित्याह- कारणत्वमुपलक्षणं चिते- व्रह्मणों न खलु तद्विशेषणम् ॥ इत्यपीदमुपपद्यते तदा चेतना भवति कारणं यदा ॥ ३३३ ॥।
269
Page 270
संक्षेपशारीरके प्रथमोऽध्यायः।१ २५७
कारणत्वमिति ॥ जगत्कारणत्वस्य चिदात्मनिष्ठत्वा- भावे कारणत्वस्य तदुपलक्षणता न सिद्ध्येत् । तच्च तस्य साभासाज्ञानद्वारकत्वे समञ्जसम्। अन्यथा विशिष्टस्य कारणत्वे विशिष्टमेव लक्ष्यं स्यात्। तथाच तस्य सत्यज्ञानाद्यखण्डस्वरूप- परवाक्यविरोध इति भावः । अक्षरार्थस्त्वतिरोहितः ॥ ३३३।। उक्तमेवार्थमुपपादयति- अन्यदेव यदि कारणं भवत् कारणत्वमुपलक्षणं कथम् ॥ चेतनस्य घटतेऽ्न्यगामिना वस्तुनाऽन्यदुपलक्ष्यते यतः ॥ ३३४ ॥ अन्यदेवेति ॥ साभासाज्ञानमेवेत्यर्थः । चेतनस्य केवल- चिदात्मन इति यावत्। कर्थं न घटत इति, तत्राह । अन्य- गामिनेति। न हि विशिष्टगतेन कारणत्वेन केवलो लक्ष्यते । विशिष्टात् केवलस्य भिन्नत्वाल्लक्षणस्य लक्ष्यास्पृष्टत्वादसम्बद्ध- लक्षणे चातिपसङ्गादित्यर्थः । तस्मात् साभासाज्ञानं चिदात्मन एव कूटस्थस्य सर्वाधिष्ठानतया सर्वसत्तास्फुरणप्रदत्वेन सर्वानुगम- रूपस्योपादानत्वस्य सर्वप्रकारविकारकारिमायाप्रतिविम्बितत्वेन तस्मिन्नाभासनिक्षेपकत्वरूपकर्तृत्वस्य च द्वारमेव,न स्वयं कारण- मिति सिद्धम् ॥ ३३४ ॥ तदेवं श्रुतिस्मृतिशास्त्रयुक्तिभिरुपपादितमज्ञानमात्मनि ब्रह्म- ण्यभ्युपगन्तव्यमिति स्थिते तस्यैव ब्रह्मणोऽज्ञातत्वात् परमानन्द- रूपतया फलरूपत्वाच्च तत्र वेदान्तानां निरपेक्षं प्ामाण्यं सिद्ध- मित्युपसंहरति- अनवबु्द्मतः श्रुतिमस्तकै- ३३
270
Page 271
२५८ अन्वयार्थप्रकाशिकाविभूषिते
र्विषयतामुपपादयितुं क्षमम् ॥ अनुभवात्मपदं तमसा यतः पिहितमेतदिह प्रतिभासते ॥ ३३५॥ अनवबुद्धमिति ॥ यत एवमज्ञानं ब्रह्मात्मनि सर्वव्यव- हारप्त्तिद्वारमतो हेतोः श्रुतिमस्तकैर्वेदान्तैरनवबुद्धमज्ञातमात्म- तत्वं विपयतां स्वपतिपाद्यतामुपपादयतुं क्षमं समर्थमेव। अत इत्युक्तमेव हेतुं परामृशति ।। अनुभवात्मपदमिति॥ एतदनु- भवात्मपदमिति सम्बन्धः । नित्यानुभवरूपमात्मस्वरूपम् इह संसारदशायां यतस्तमसा पिहितं प्रतिभासतेऽतोऽनवबुद्धमिति योजना ॥ ३३५ ॥ यत्पुनरुक्तमज्ञानकल्पितमनिर्वचनीयमिष्टं मात्रादीत्यादिना- डज्ञानकल्पितप्रमात्रादि द्वैतसाधकमित्यभ्युपगमेव्रह्मणोऽपि मात्रा- दिवन्मेयत्वादज्ञानकल्पितत्वप्रसङ्गस्तस्यामेयत्वे चासिद्धिपसङ्गः। ममात्रादेश्चाज्ञानकलल्पितत्वमपसिद्धमिति तत्रापसिद्धतां तावत् प- रिहरति- अज्ञानकल्पितम निर्वचनीयमस्मि- न्नाबालवृद्दमविवादपदं प्रसिद्धम् । स्त्रप्ने तथा च भगवानपि वक्ष्यतीदं सन्ध्येऽस्ति सुष्टिरिति पक्षनिराससिद्धयै ॥३३६॥ अज्ञानकल्पितमिति ॥ यदज्ञानकल्पितं तदनिर्वचनीयं पमात्राद्यनिर्वचनीयमज्ञानकल्पितत्वादित्यनुमाने व्याप्तिग्रहणाय शुक्तिर जतादावस्मिन्निदमनिर्वचनीयत्वमाबालदद्धम् अविवादपद निदर्शनं प्रसिद्धम् । भ्रान्ते: सविषयाया अनिर्वचनीयत्वं लोके
27
Page 272
संक्षेपशारीरके प्रथमोऽध्यायः।१। २१९
अविवादमित्यर्थः। न केवलमस्या अनिर्वचनीयत्वं लोकसिद्धमपि तु न्यायतोऽपि निर्णीतमित्यभिप्ेत्य सूत्रकारप्वठत्तिमत्रोदाहरति।। स्वप्ने तथाचेति ॥ तथाच वक्ष्यतीदमित्यन्वयः । तत्र हि, संध्ये सटष्टिराह हीत्यादिना पूर्वपक्षमूत्रसन्दर्भेण स्वप्नस्य सत्यत्वमुप- क्षिप्य,मायामात्रं तु कार्त्स्येनानभिव्यक्तस्वरूपत्वादिति सिद्धान्त- सूत्रेण अनिर्वचनीयत्वं स्वप्नस्येति स्थितमिति तात्पर्यार्थः । संध्येऽस्ति सष्टिरितिशङ्गितपूर्वपक्षनिराससिद्ध्यै मायामात्रमिति सिद्धान्तसूत्रेण स्वप्न इदमनिर्वचनीयत्वं भगवान् वक्ष्यतीति योजना ॥ ३३६ ॥ तदेवमज्ञानान्वयव्यतिरेकानुविधायितया प्रमातृप्रमेयप्रमाणा- दिविभागस्य प्रपश्चस्य शुक्तिरजतस्वन्नादिवदनिर्वचनीयत्वमुप- पाद ब्रह्मणः प्रमेयत्वापमेयत्वपक्षयोरुक्तदोपद्वयस्यापि पागे- वापमेयस्यापि वेदान्तप्रमेयत्वोपपादनेन परिहृतत्वान्न तत्र पुन- र्वक्तव्यमित्यभिप्ेत्येदानीमनृतेन पमात्रादिना कथमविषयत्वेना- डपि सत्यवस्तुमतिपादनं संभाव्यत इत्याशङ्कां लोकपसिद्ध- दृष्टान्तेनापाकरोति ॥ मिथ्यासुषि: सवितृमण्डलमध्यवर्ती प्रत्यक्षदृष्टिपथमापतितोऽचिरेण ॥ द्रष्टुः शरीरकरणप्रविभागरूपं मृत्युं निवेदयति सत्यमिति प्रसिद्धम् ॥३३७ ॥ मिथ्यासुषिरिति ॥ सवितृमण्डलस्थस्य सुषेर्मिथ्यात्वम-
व्यम्। कस्यचिद् दषुः कदाचित् प्रत्यक्षदृष्टिपथमापतितः सवितृ- मण्डलमध्यवर्त्ती मिथ्यासुषिरचिरेण द्रष्टः सत्यं मृत्युं निवेदय-
272
Page 273
२६० अन्वयार्थप्रकाशिकाविभूपिते तीति प्रसिद्धमनिष्टदर्शनानुवादिग्रन्थादाविति योजना ॥ शरीर- करणेति मृत्युस्वरूपकथनं जीवस्य स्वरूपतो मरणाभावद्योतन- परं प्रासङ्गिकं ज्ञेयम् ॥ ३३७॥ सूत्रकारेणाप्यनृतस्य सत्यसूधकत्वं, सूचकश्च हि श्रुतेरा- चक्षते च तद्विद इत्यत्रोक्तमित्याह.
स्तप्न: शुभाशुभफलागमसूचकः स्या न्मिथ्यापि सन्निति च सूत्रकृदाह यत्नात् ॥ गुर्वादि सर्वमिदमद्दयबुद्धिहंतु- र्मायानिबन्धनमिति प्रतिपादनाय ॥३३८॥ स्वपः शुभाशुभफलेति ॥ उक्तदष्टान्तयोर्दाष्टान्तिकमा- ह ।गुर्वादीति॥ इति दार्टान्तिकार्थप्रतिपादनायेत्यर्थः ॥ ३३८।। ननु भ्रान्तिविपयस्यानिर्वचनीयत्वं न लौकिकपरीक्षकसं- मतमतो दृष्टान्तासिद्धेः कर्थं पमात्रादेरनिर्वचनीयत्वानुमानमिति तत्राह- भ्रान्तिप्रतीतिविषयो न च सन्न चास- न्नाकाशतत्कुसुमयोर्न हि सास्ति नापि ।। तस्या भवेत्सदसदात्मकगोचरत्वं न ह्यरि्ति तत्किमपि यत्सदसत्स्वरूपम् ॥३३९॥ भ्रान्तिप्रतीतिविषय इति ॥ सत्याकाशे भ्रान्तिविषय- त्वादर्शनान्न सन् भ्रान्तिविषयः । असत्याकाशकुसुमे चाभावा- न्नाप्यसन्निति विभागेनारडर्थयोजना। सँश्रेद् आकाशवन्न वाध्येत असँश्चेत् खपुष्पवन्नापरोक्षीभवेदित्यर्थः ।यतः सा भ्रान्तिराकाश-
273
Page 274
संक्षेपशारीरके प्रथमोऽध्यायः।१। २६१
तत्कुसुमयोर्न्नस्ति । अतो भ्रान्तिपतीतिविषयो न च सन्न चासन्निति पदयोजना। प्रत्येकं सदसत्पक्षासम्भवेऽपि समुच्चितं पक्षान्तरं सम्भवेदित्याशङ्ाह ।। नाऽपि तस्या भवेदिति॥ विरुद्धसमुच्चयस्य क्वाप्यसम्भवादित्यर्थः ॥ ३३९॥ गतेन पद्येन सद्वादिनोऽन्यथाख्यात्यख्यातिवादिन आत्म- ख्यातिवादिनश्च निराकृताः । सदसद्वादी जैनोऽपि दिगम्बरो निद्र्धूनः । तर्हि निरालम्बाऽस्तु भ्रान्तिरिति स्वभाववादिमत- माभासयति आलम्बनं च विरह्य्य न विभ्रमस्य ज्ञानात्मनो भवति जन्म कदाचिदत्र ।। सिद्धं ततः सदसती व्यतिरिच्य किन्चि- दालम्बनं भ्रमधियः सकलप्रवादे ॥ ३४० ॥ आलम्बनं च विरहय्येति ॥ निरालम्बनज्ञानोदया- Sदर्शनात् सालम्बनता तावद्भ्रान्ते:सिद्धेवान्यथा भ्रमोदयसमन- न्तरं पुरःस्थितविषयं प्रति धावनं ततः पलायनं वा नोपपद्येते- त्यभिप्रायः। तस्मान्निर्वचनीयसदसदुभयात्मकपकारत्रयविलक्ष- णमनिर्वचनीयं भ्रान्तिप्रतिभास्यमिति सवैरादृतमेवेति नापसिद्धि- रनिर्वचनीयताया इत्युपसंहरति ॥ सिद्धं तत इति ॥ अर्थ- स्यानिर्वचनीयत्वे तद्धियोऽप्यनिर्वचनीयतार्थसिद्धाऽन्यथा तद्धी- त्वायोगादिति भाव: ।। ३४० ।। भावरूपमज्ञानं न ज्ञानाभाव एवेत्येतद्ब्रह्मात्मनो वाक्यवि- षयत्वसमर्थनावसरेप्रसङ्गतःप्रतिपादितमिति पूर्वपक्षक्रममुल्लङ्गय वाक्यपसूतमततिरिन्द्रियजन्यधीवदित्यादिना शब्दस्य परोऽक्षा- डर्थधीजननस्वभावत्वान्नापरोक्षं ब्रह्म बोधायेतुं शक्कोति शब्द
274
Page 275
२६२ अन्वयार्थप्रकाशिकाविभूषिते
इति यदुक्त्तं तत् परिहरति- ब्रह्मात्मवस्तु निरवद्यचिदेकरूपं वह्नयुष्णतावदपरोक्षतपुः स्वभावात ।। निर्दोषवेदशिरसो वचनादतोऽस्मिन् ब्रह्मात्मवस्तुनि भवेदपरोक्षबुद्धि: ॥ ३४१ ॥ व्रह्मात्मवस्त्विति ॥ ब्रह्मात्मवस्तु वह्रयुष्णवत् स्वभावा- दपरोक्षवपुरित्यन्वयः । तत्र हेतुगर्भ विशेषणं, निरवद्यचिदेक- रूपमिति ॥ चिद्नपमपि द्रव्यांशसंवलितं चेत् स्यादपि कदा- चित् परोक्षमित्यत एकेति विशेषणम् । तथाऽप्युत्पन्यादिविकार- योगे स्यादन्यापेक्षेति परोक्षताऽपीत्यत उक्तं, निरवद्येति।। एवम्भूतवस्तुनि वेदान्तवाक्यं न परोक्षां धियमुपजनयेदि- त्याह ॥ निर्दोषेति वेदवचनादिति वेदान्तवचनादित्यर्थः । तस्य निर्दोषेति विशेषणात् प्राक प्रतिपादितं पामाण्यं सूचितम्। यदि नित्यापरोक्षचेतन्यस्वरूपे ब्रह्मात्मनि वेदान्तवाक्यं परोक्षा- मेव धियं जनयेत्तदान्यथाभूतेऽर्येऽन्यथाधीत्वात्तद्वियो भ्रान्ति- तेति तज्जनकं वाक्यमपमाणमेव स्यात्। तच्चायुक्तम्। वेद- स्य निर्दोषत्वेन प्रामाण्यस्य संमतत्वादिति नात्र परोक्षधीजनक- त्वशङ्गा कार्या । यद्यपि सामान्यद्वारा प्वर्त्तमानः शब्दो लोके परोक्षबुद्धिजनको दष्टस्तथापीह नित्यप्रत्यक्षपत्यकूतत्व- परत्वाद्दशमस्त्वमसीतिवदपरोक्षामेव धियं लक्षणया वत्या जन- येदिति भाव: ।। ३४१। यत्पुनरुक्तमविषयत्वाद् ब्रह्मणस्तस्मिन्नोपनेयोऽपनेयो वाऽति- शय उपपद्यते इति तत्रोपनेयाभावेऽप्यपनेयं किमपि भवेदिति नमाणकृत्याभावचोदं पराकरोति-
275
Page 276
संक्षेपशारीरके प्रथमोऽध्यायः।१। २६३
सा चोपनेयरहिते विषयिण्यनन्ते-
स्वोत्पत्तिलब्धनिजवस्तुबलेन तत्र तापत्रयं समुपशाम्यति निर्निमित्तम् ॥ ३४२ ॥ सा चेति॥ सा वेदान्तजन्या धीरनन्ते ब्रह्मण्यग्रहण- मात्रमपाकरोतीति संबन्धः । मात्रपदेन तत्र प्रकाशजननं व्या- वर्त्यते। अनिर्वाच्यमित्यग्रहणविशेषणेन सदसदादिरूपस्य न ज्ञाननिवर्त्यत्वसंभव इति विकल्पदूपणमुद्धटृतम् । अनिर्वचनीय- ता च तस्य साधितैवेति द्रष्टव्यम् । असहायमकारकं च ज्ञानं कथमनिर्वचनीयमपि पराकुर्यादितिचेत्तत्राह । स्वोपत्तिलब्धे- ति ।। स्वोत्पत्तित एव लब्धमालिङ्गितं यन्निजमसाधारणं वस्तु स्वार्थलक्षणं तदेव बलं तन्मात्राकारतालक्षणं, तेन तावन्मात्रेणा- Sग्रहणमात्रमपाकरोतीति संवद्धयते । तथाचोत्पद्यमानैव स्व- विषयमवभासयन्ती सा धीर्न स्वोत्पत्तिव्यतिरिक्तं सहायं स्व- विषयाकारापत्तावपेक्षते।नापि स्वविषयाज्ञानापनये सहायापेक्षा तस्य विषयावभासनान्तरीयकत्वाद्, अन्यथा विषययाथात्म्या- वभासासंभवादतो न कारकत्वाभावोऽपि दोषः । कारकक्कत्य- स्येहाभावात् । तस्मादभ्यासं वा सहायान्तरं वा स्वोदयमात्रा- Sतिरिक्तं व्यापारं वाऽनपेक्ष्यैवात्मन्यज्ञानं निहन्ति वाक्यजन्या धीरिति भावः । तथापि प्रमातृत्वादिबन्धनिवृत्तये साधनान्तर- मपेक्षणीयमितिचेन्नेत्याह॥। तत्रेति॥ अज्ञान निमित्तत्वात्तापत्रया- ख्यबन्धस्य स्वकारणे तस्मिन्नज्ञाने निटत्ते सति निर्निभिचं सन्तापत्रयं समुपशाम्यतीत्यर्थः । ३४२।। यत् पुनः कार्यान्वयान्वयिवस्तुनि शब्दशक्तिमित्यारभ्य
276
Page 277
२६४ अन्वयार्थप्रकाशिकाविभूषिते
विस्तरेणोक्तं कार्यविषयैव शक्तिर्द्धव्यवहारे गृह्यते, न सिद्धवस्तु- विषयाऽतो वेदान्तानां न सिद्धे ब्रह्मण प्रामाण्यमिति तदपा- कर्तुमनुवदति- वाक्यात् प्रवर्त्तकनिवर्त्तकरूपभाजः पुंसः प्रवृत्तिमुपलभ्य धियोऽनुमानातू ।। कार्यान्व्रिते शिशुरवैति पदस्य शक्ति- मित्युच्यते यदि तु तत् वयं वदामः ॥ ३४३ ॥ वाक्यादिति॥यदि त्वित्यन्तोऽनुवादपरः ॥धियः कार्य- घियः ॥दूषणमस्य प्रतिजानीते ॥ तत्र वय वदाम इति ॥३४३।। तत्र कार्ये शब्दशक्तिरित्ययुक्तमतिपसङ्गात्, किन्त्वितरा- डन्वित इत्येव युक्तम्। तच्चान्वीयमानं योग्यमेवायोग्यस्य वाक्यार्थ- प्रतीत्युपयोगितयाऽन्वयायोगात् । तस्माद्योग्येतरान्विते शब्द- शक्तिरित्यभ्युपेयमित्याह- योग्येतरान्वितपदार्थनिवेदने तु शब्दस्य शक्तिरिह वृद्दजनप्रयोगे॥ विज्ञायते न खलु कार्यसमन्वितेऽर्ये कार्याभिधायिषु पदेष्वपि तत्प्रसङ्गात । ३४४ ॥ योग्येतरेति।। तुशब्दोऽस्मिन् प्रयोजकद्वैविध्यकल्पनागौर-
ज्ञायते, तत्राह॥ कार्याभिधायिष्विति॥ कार्याभिधायिषु लिडादि- पदेष्वपि कार्यान्वितार्थत्वपसङ्गाद् एकस्मिन वाक्ये कार्यान्तरा- भावादन्यान्विते स्वरूऐ वा कार्यपदशत्यभ्युपगमे च प्रयोजक- गौरवं प्रसज्ज्येतेत्यर्थः ॥ ३४४॥
277
Page 278
संक्षेपशारीरके प्रथमोऽध्यायः।१। २६५
पसङ्गस्येष्टत्वं परिहर्ततु कार्यान्तराभ्युपगमपक्षेऽनवस्थामा- पादयति- कार्यान्वितार्थविषया यदि शब्दशक्ति: कार्यार्थवाचिषु लिडिषु कार्यमन्यत । वक्तव्यमापतति तत्र च कार्यमन्यद वक्तव्यमेव भवतीत्यनवस्थितिः स्यात् ॥ ३४५॥ कार्यान्वितार्थविषया यदीति ॥ लिङादिशब्दवाच्य- कार्यस्य प्रत्यन्वयितया कार्यान्तरस्याभ्युपगमे तस्यापि कार्या- न्तरान्वितस्यैव पदगोचरतेत्येवमनवस्था दुरवस्था प्रसज्ज्येत । ततो दूरमपि गत्वाऽन्यान्विते शक्तिरभ्युपेयैवेत्यर्थः ॥ ३४५॥ तर्हि भवतु सिद्धान्वितमेव कार्य लिडादिवाच्यमितिचेत्तदा तव सिद्धान्तविरोध इत्याह- सिद्धान्वितं यदि लिडादिपदानि कार्य ब्रूयुर्विनश्यति तदा नियमस्त्वदीयः ॥ यो वर्णितः सकलमेत पदं स्वमर्थ कार्यान्वितं वदति नान्यमिति स्वशास्त्रे ॥३४६॥ सिद्धान्वितं यदीति ॥ नियम: सिद्धान्तः । कोऽयं सिद्धान्तस्तमाह ॥ यो वर्णित इति ॥ ३४६ ॥ अथोच्येत, योग्येतरान्वित एवार्थेऽस्तु शक्तिरेतावताऽपि न मन्मतहानिर्यतो योग्यता सिद्धस्य कार्येण कार्यस्य च सिद्धेन, न त्वकार्येणैव सिद्धस्य योग्यतेतीतरान्वितत्वपक्षेऽपि कार्यान्वय- स्यानपोदितत्वमिति कार्यान्विते शक्तिरिति मम विवक्षेति चेत्- तत्राह- ३४
278
Page 279
२६६ अन्वयार्थप्रकाशिकाविभूषिते
योग्येतरान्वितनिमित्तकशब्दशक्ति- व्युत्पत्तिरेव यदि संभवभागिनी स्यात् ।। आश्रीयते किमिति कार्यसमन्वितेऽर्थे शब्दस्य शक्तिरसदर्थविशेषणेन ॥३४७॥ योग्येतरान्वितनिमित्तकेति ॥ सम्भवभागिनी स- म्भाविता स्यादित्यर्थः । एवकारव्यावर्त्तितमंशं स्पष्टयति॥ आ- श्रीयत इति ॥ सिद्धार्थे शब्दशत्यभावस्याद्याप्यनिश्चितत्वादन्व- यिनः कार्यत्वविशेषणमसदर्थः। तेन विशेषणेन विशिष्टेन कार्येण समन्वित इत्येवंविधेऽर्थे शब्दस्य शक्ति: किमित्याश्रीयत इति योजना। एतदुक्तं भवति। यदि योग्येतरान्विते शब्दशकक्तिरा- श्रीयते त्वयाऽपि तदा कार्यान्वितत्वविशेषणमनर्थकम् । योग्ये- तरत्वमात्रस्यान्वयप्रतियोगित्वे सम्भवति कार्यत्वस्यापि तत्- कल्पनायां योग्येतरकार्यान्वितेऽर्थे शक्तिरिति स्यात्। तथाच गौरवमापद्यते। यो्चेतरत्वांशं विहाय कार्यान्वितत्वमात्रस्य प्रति- योगित्वाङ्गीकारे तु कार्यपदस्य स्वरूपनिष्ठता प्सज्ज्येत। कार्या- डन्तराभावाद् यत्किश्चित्कार्यान्तरान्वयस्य चासनन्निधानादेवा- त्रापसङ्गादयोग्यत्वाच्च शब्दस्य तदन्वितस्वार्थत्वायोगाद्योग्य- कार्यान्वित इति कलपनायामपि तस्येतरत्वानपायाद्योग्येतरत्व- मात्रमेवास्तु सर्वत्रान्वयपतियोगीति ॥ ३४७॥ ननु कार्यत्वस्य व्यावर्त्याऽभावेऽप्यन्वयदर्शनादेव विशेषण- ताश्रीयतां, मध्यमटद्धमटत्त्यनुमितज्ञानगोचरेऽर्ये प्थमश्चतोत्तम- वृद्धवाकयस्यान्वयमात्रेण शक्तिकल्पनवदितिचेद्, नेत्याह-
किश्चिन्निवारकमुदीक्षितमस्तु तत् ।।
279
Page 280
संक्षेपशारीरके प्रथमोऽध्यायः।१। २६७
किश्विद्विशेषण विशिष्टमभीष्टशक्ते- र्वस्तु प्रयोजकमिदं पुनरत्र नास्ति ।। ३४८॥ यत्राविशेषितेति।यत्र वाक्यादावविशेषितस्य कार्याकार्या- दिविशेषणरहितस्यार्थमात्रस्य शब्दशक्तिनिमित्तकता निमित्तता नियामकतेति यावत्। तथाविधननिमित्तकतावरोधे प्रथमं संमुग्धा- कारेणार्थमात्रस्य शक्तिनिमित्तत्वस्वीकारे इति यावत्। किश्चि- न्निवारकं बाधकमन्वयांशादेः प्रत्ययासंभवलक्षणं निरीक्षितं दृष्टं स्यात्। तत्र किश्चिद्विशेषणविशिष्टं तत्तदर्थान्वयादिविशेषण- विशिष्टं वस्त्वभीष्टशक्तेः प्रयोजकमस्त्विति योजना । यत्र कार्य विनान्वयाद्यप्रतिपत्तिस्तत्र कार्यान्विततार्थस्य शब्दशक्तिविषयो, यत्र विनापि कार्यान्वयं शक्तिगोचरता निर्वहति तत्र योग्ये- तरान्वितत्वमात्रेण तत्सिद्धेः कृतं कार्यविशेषणेनेत्यभिप्रेत्या- ह।। इदं पुनरत्र नास्तीति ।। अत्रकार्यत्वेनाकार्यत्वेन वा विशेषितस्याऽर्थस्य शब्दशक्तिपयोजकत्वाङ्गीकारे पुनरिदं पूर्वोक्तं बाधकं नास्ति । अन्वयप्रतियोगितायाः सर्वपदार्थसाधार- ्यात् कार्यत्वमेव तन्निरूपकमिति विशेषपरिग्रहे हेत्वभावादित्य- जर्थः। नचैवं सति सर्वत्रार्थमात्रमेव शब्दशक्तिपयोजकं, नान्वयो डपीत्यन्विरिताभिधानवादस्व्रीकारहानिरिति वाच्यम् । केवलेऽर्थे शब्दपयोगादर्शनेन तत्र शक्तेरग्रहणात् प्रतीयमानान्वयस्य च वाचकान्तराभावात् कार्याकार्यसाधारण्यात् सर्वेषां पदाना- मन्वयांशेऽपि शक्तेरवश्याभ्युपेयत्वमस्तीति तत्स्वीकारो न तथा कार्यस्य वाचकान्तराभावो लिडदिपदस्यैव तद्वाचकत्वादिति न कार्यत्वमन्वयप्रतियोगितया शब्दशक्तिनियामकमितिभावः।।३४८ शक्तिग्रहनियामकत्वेनाभिमते पदार्थान्वये कार्यमवच्छेदकं न
280
Page 281
२६८ अन्वयार्थ प्रकाशिकाषिभूषिते भवति । सर्वेषामेव पदार्थानामितरान्वितत्वेन शब्दगोचरता- यास्तुल्यत्वादन्यथा पयोजकद्वैविध्यकल्पनागौरवादिदोषपसङ्ग इत्युक्तम्। तत्र यदुक्तं, शक्ति: कार्यान्वयान्वयिनीत्यड्गीकारे न प्रयोजकभेदादिदोष इति, तदनूद्य दूपयति- कार्यान्वयान्वयिनि वस्तुनि शब्दशक्ति- रित्युच्यते यदि तदापि समानमेतत ।
कार्यान्वयान्वयिविशेषणगीर्वृथेति ॥३४९॥ कार्यान्वयान्वयिनीति।अस्मिन्नपि पक्षे विशेषणवैयर्थ्य- दोषस्तदवस्थ इति दूषणमुक्तमेव स्पष्टयति, अन्वीयमानेत्यर्द्धेन ।। अन्वीयमानार्थमात्रवाचक: शब्द इति मतस्योक्तविधयोपपत्तौ सत्यां कार्येत्यादिविशेषणमनर्थकम् । क्रचित्सतोऽपि तस्य व्या- वर्त्याभावेनाग्निपैङ्गल्यादिवदप्योजकत्वादित्यर्थः । कार्याकार्यार्थ- समुदाये यदि कार्यान्वयान्वयित्वं सत्तामात्रेण शब्दशक्तिपयोजकं तदा सिद्धान्वयान्वयित्वस्यापि सर्वत्र सच्वाविशेषात्तदपि क- स्मात् प्रयोजकं न स्यादतो विशेषणमनर्थकमितिभावः।।३४९॥ कार्यत्वस्याऽन्वयमात्रेण शक्तिनियामकत्वेऽतिमसनं दोषा- Sन्तरमाह- वक्तृज्ञानविवक्षयोरपि भवेच्छब्दार्थता ताबके पक्षे शब्दमनुप्रतीतिरुभयोरस्त्येव यस्मात्तयोः ॥ यद्यच्छब्दमनु प्रतीतिपदबीमारोह दुत्प्रेक्ष्यते तत्तद्वाच्यमिति स्थितौ नहि तयो:शब्दार्थतावर्जनम॥३५० वक्तृज्ञानविवक्षयोरपीति॥ लोके वाक्यपयोक्तुर्वाक्या-
28
Page 282
संक्षेपशारीरके प्रथमोऽध्यायः।१। २६९
डर्थज्ञानविवक्षयोरपि शब्दात् प्रतीयमानत्वात्तयोरपि तव मते शब्दार्थता भवेत्। हेत्वसिद्धिशङ्गामनुभवालम्बनेन निराकरो- ति।। शब्दमनुपतीतिरिति ॥ तावके पक्ष इत्येतत् स्फुटयति।। यद्यदिति॥ न हि तयोरित्यादि निगमनम् । विमते वक्तृज्ञान- विवक्षे अपि शब्दशक्तिगोचरौ शब्दात् प्रतीयमानत्वाद्यद्यदेवं तदेवं यथा कार्य तथा चेमे तस्मात्तथेति प्रयोगः ॥ ३५० ॥ तयोरपि शब्दार्थत्वमङ्गीकुर्वाणं पत्याह- वेदे वक्तुरभावतस्तदुभय नास्तीह यस्मादतः शब्दो वाचकशक्तिमुज्झति निजा तत्र स्ववाच्यं बिना।। वाच्ये वाचकशक्तिमिच्छति भवान्नान्यत्र तत्र श्रुते- रप्रामाण्यमिति स्फुटं तव भवेद् बुद्धेरनत्पत्तितः ॥३५१।। वेद इति ॥ यस्मादिह वेदे वक्तुरभावतुस्तदुभयं वक्तुर्ज्ञान- विवक्षारूपं नास्ति । अतस्तस्माद्वेदरूपः शब्दस्तत्र वेदे नि्जा वाचकशक्तिमुज्झति परित्यजति । कुतः । स्वधाच्यं विना वक्तृ- ज्ञानविवक्षारूपस्ववाच्याभावादित्यर्थः । ननु तयोर्वाच्यत्वाभावे- डपि शब्दगोचरता भविष्यति। यथा तवावाच्येऽपि ब्रह्मणि लक्षणया शब्दगोचरतेतिचेन्मैवम्। तव प्रतिज्ञाभङ्गमसगादित्याह वाच्येवाचकशक्तिमिच्छति भवान्नान्यत्रेति॥ किं ततोऽनिष्टमिति, तदाह ।। तत्र श्रुतेरिति ॥ ३५१॥ तदेवं कार्यस्यान्वयमात्रदर्शनं न शब्दशक्तिनिरूपणक्षम- मतिप्सङ्गादित्युक्तम् । इदानीं कार्यत्वोपाधिकेऽन्यान्विते शब्द- शक्तिरिति वदतः क्रियाकारकान्वयासिद्धिश्र स्यादित्याह- न च सोमयागपदयोरुभयो- रपरस्परेण घटतेऽत्र युजा ।।
282
Page 283
२७० अन्वयार्थप्रकाशिकाविभूषिते
पदजातमेतदखिलं हि निजं विषयं समर्यति कार्ययुतम ॥ ३५२ ॥ न च सोमयागपद्योरिति॥ अत्र त्वत्पक्षे, सोमेन यजे- तत्यत्र सोमेनेति पदस्य, यजेतेति पदस्य च करणकार्यभावरूपा युजा योग: परस्परेण मिथो न च घटते । हि यस्मादेतद- डखिलं पदजातं निजं विषयं कार्ययुत समर्पयति। तथाच वाक्य- निविष्टानां सर्वेषामेव पदानां प्रत्येकं कार्यान्वितस्वार्थमात्रे पर्यवसितत्वात् कारकवाचिनां पदानां परस्परान्वयासिद्धावेक- तया तेषां संभूयकारित्वासंभवादकवाक्यार्थत्वासिद्धिरिति ता- त्पर्यार्थः ।। ३५२ ।। कार्यान्वयिनीति पक्षेऽप्ययं दोष: समान इत्याह- कार्यान्वयान्वसिनि शक्तिरिति स्थितौ च कार्यान्वयान्वितमतिर्न परस्परेण ।। संबन्धितामतिरतश्र न सिद्धिमेति सर्तों विशिष्टतिधिरित्यपि दूषणं वः ॥३५३ ॥ कार्यान्वयान्वयिनि शक्तिरितीति ॥ कार्यान्वया- ऽन्वितमतिः केवलं पदेभ्यः स्यादिति शेषः । न परस्परेण संब- न्धिता मतिः स्यात्, पदार्थविपयेति शेषः । तथाच किं स्यादिति, यत् स्यात्तच्छृण्वित्याह ।। अतश्चेति ॥ सोमेन यजेत, पशुना यजेतेत्यादिः सर्वो विशिष्टविधि: सिद्धिन्नैतीत्यपि वो दूषणमि- ति योजना। यद्यपि कार्यान्वयपूर्वकोऽपि पदार्थानामरुणादि- न्यायेन संबन्ध: संभवेत्तथापि विशिष्टविधिर्न्न तावता सिद्धये- त्। विशिष्टविधिर्हि सोमविशिष्टं यागं प्रतिपद्य तद्विषयो नियोगः
283
Page 284
संक्षेपशारीरके प्रथमोऽध्यायः।१। २७१
पतिपत्तव्य इत्येवं पतीयमानाकारोऽभिप्ेयते । स कार्या- न्वयात् प्राक् सोमयागयोरन्वयासिद्धौ कुतस्त्योऽन्यतस्तत्सिद्धौ कार्यान्वयपुरःसरत्वकल्पनानर्थक्यमित एव तत्सिद्धौ वाक्यटत्ति- लक्षणवाक्यभेदपसङ्ग इति भाव: ॥ ३५३। त्वत्पक्षेऽपि कथं विशिष्टविधिसिद्धिर्यतोऽन्यान्विते पद- शक्तिरिति वादिनोऽपि तव प्रधानभूतार्थेन ह्वन्वय एष्टव्यः । प्रधानं च यागादिविधौ कार्यमेवेति त्वदुक्तरीत्याऽत्रापीतरेषां मिथोऽन्वयाभावः समान इतिचेत्तत्राह- योग्येतरान्वितपदार्थगतैव शब्द- शक्ति: स्थिता यदि पुनर्घटते तदाऽयम ॥ सर्वो विशिष्टावेधिरस्तु तथैव तस्माद युक्तं तदेतरदितीदमनीह भाष्यम् ॥ ३५४ ॥ योग्येतरान्वितेति।।यदि शक्तिर्यथा वर्णिता स्थिता तदा पुनः सर्वोडयं विशिष्टविधिर्घटते । योग्येतरान्विते शब्दशक्तिरि- ति पक्षे परस्परान्वयस्यापि शब्दसामर्थ्यसिद्धत्वात् कार्यान्वय- व्यवधानाभावात्। तस्मात् तथैवास्तु योग्येतरान्वितस्वार्थे शब्द- शक्तिरित्येवमेवास्तु, किं कार्यान्वयकल्पनेनेत्यर्थः।।अत्र कार्यस्य न शब्दशक्तिनियामकत्वेन प्राधान्यम्ति, किं त्वन्यपदार्थापेक्षयेति भ- धानान्वयो न हीयत इति भाव:।अस्मिन् पक्षेऽ्स्मदीये, यदैकस्मा- दपूर्वे तदेतरत्तदर्थमिति शाबरभाष्यवचनमप्यनुकूलमित्याह॥ युक्तं तथेतरदितीदमपीह भाष्यमिति॥ इतरत्तदर्थमिति भाष्यखण्डस्या- डयमर्थः। किं भावार्थादपूर्वनिष्पत्तिः, किं वा नामार्थादिति संदेहा- 5वसरे एकस्यापूर्वनिष्पादकत्वेऽन्यस्य तच्छेषत्ववद्यदैकस्मादपूर्व तदेतरत् तदर्थमिति भाष्यकार आह स्मेति। तथाच भावार्थानां
284
Page 285
२७२
नामार्थानां च कार्य विनापि मिथः प्रथमं संबन्धोपपत्तेः पुनः शेषिभूतकार्य प्रति सर्वस्यार्थकदम्बस्य शेषत्वोपपत्तिरिति, न कार्यपाधान्यस्यानुपपत्तिरिति सर्व समञ्जसम् ॥ ३५४॥ योग्येतरान्वितस्वार्थ बोधयति शब्द इत्युपपादितम्। तत्रेद- माशक्यते। शब्दस्य हि प्रवर्त्तकत्वमेव प्रथममवसीयते। शब्द- श्रवणसमनन्तरं मध्यमटद्धस्य पटृटत्तेरुपलम्भात् । अतः प्रथमं शब्द: प्रवर्त्तक इति कल्पना भवति। प्रट्ृत्तेश्र ज्ञानपूर्वकत्वात्तया तद्धेतुज्ञानमनुमीयते।तच्व प्रवर्त्तकार्थविषयमिति शब्दानन्तर्याच्छब्द- स्य प्रवर्त्तकार्थज्ञापकत्वं पश्चात् कल्प्यते। प्रवर्त्तकं च कार्यज्ञानमि- ति स्वात्मदृष्टान्तेनाध्यवासतम् । तथाच यदि शब्दस्य प्रवर्त्तक- कार्यैकार्थनियमं परित्यज्य कार्याकार्यसाधारणत्वं कल्प्यते तदा शब्दस्य प्रथमावगतं प्रवर्त्तकत्वं वाध्यं स्यात । तस्मात् प्रत्ृंत्ति- जनक एव शब्द इति प्रवर्त्तककार्यैकगोचरो न सामान्येनार्थबोध- क इति इमामाशङ्कामनूद्य दूपयति- शब्द: प्रवृत्तिजनको न तु बोधकश्चे- न्नैतत्प्रवर्तकधियो जनकत्वहेतोः ॥ इष्टाभ्युपायमतिजन्मनिमित्तभूनः शब्द: प्रवर्तयति नैष पुनः पुमांसम् ॥ ३५५॥ शब्द: प्रवृत्तिजनको न तु बोधकश्चेदिति ॥ एता- वान् पूर्वपक्षानुवादो व्यक्तीकृतार्थकः । दूषयति ॥ नैतदिति ॥ कुत इत्यत आह ।। प्रवर्तकधियो जनकत्वहेतोरिति॥ शब्द: साक्षान्न प्रवर्त्तकः । तथा सति तं शण्वतां सर्वेषामपि प्वृत्ति- मसङ्गात्, किन्तु प्रवर्तकज्ञानमात्रजनकः स्वसामर्थ्यान्भ्रवति प्रयन्न- साध्येऽर्थे। तत्र यः स्वानुकूलतया पवर्त्तकज्ञानवान् भवति स
285
Page 286
संक्षेपशारीरके प्रथमोऽध्यायः ।१। २७३
पवर्त्तते,न सर्व इति युज्यत इत्यर्थः।तर्हि कार्यज्ञानस्यैव प्रवर्तक- त्वात् कार्यबोधकत्वमेव शब्दस्याभ्युपेयमितिचेनेत्याह ।। इष्टा- जभ्युपायेति ॥ एप शब्द इष्टाभ्युपायमतिजन्मनिमित्तभूतः कृति- साध्येष्टसाधनत्वज्ञानोत्पादकमात्रो, न पुनः पुमांसं प्रवर्त्तयति। तस्याकारकत्वादित्यक्षरार्थः । तथाच शब्देन पुंसामिष्टाभ्युपाये बोधिते प्ट्टत्तिसाध्यं चेत्तदिष्टमवगच्छति पुरुषस्तदा स इष्टरागा- कृष्टः स्वयमेव प्रवर्त्तते। नचेत्तद्रागवाँस्तदा फलसाधनत्वं शब्दा- दवगच्छन्नप्युदास्त इति युक्ततरोऽयं पक्ष इति भावः ॥३५५॥ कार्यान्वितेऽर्थे कार्यान्वयान्वयिनि वा शब्दशक्तिरितिपक्ष- निराकरणमुपसंहरति- तस्मादसंगतमिदं यदुशन्ति केचित् कार्यान्वितार्थवरिषयैव तु शब्दशक्ति: । तत्र प्रयोगमभिवीक्ष्य तथा प्रतीति: कल्प्येति वर्णितनिजेष्टविघातहेतोः ॥३५६॥ तस्मादसङ्गतमिद्मिति ॥ तस्मादित्युक्तमेव स्पष्टयति ॥ वर्णितेति ॥ तस्माद्वर्णितनिजेष्टविघातहेतोरिदमसङ्गतमिति स- म्बन्धः । किमसङ्गतमित्यपेक्षायामिदमा परामृष्टमर्थमाह॥ यदुश- न्तीति॥शक्तिशब्दाग्रे इति शब्दोऽध्याहार्यः॥तत्रेत्यादि, कल्प्ये- तेत्यन्तं कार्यान्वितार्थे शक्तिरिति प्राप्त्युपायकथनपरम् । तत्रा- ऽपि कल्प्येतेति यदुशन्ति तदिदमप्यसङ्गतमिति योज्यम्। यद्वा कार्यान्वितार्थविषयैव तु शब्दशक्तिरिति यत् केचिदुशन्ति तस्मात् पमाणाभावात् पूर्वोक्तदूषणवशाच्चेदमसङ्गतमिति योजना । कुतः पमाणाभावः । कार्ये प्रयोगदर्शनस्य ममाणत्वादित्याशख्खाह।। तत्रेति।। तत्र कार्ये शब्दयोगमभिवीक्ष्य शब्दविषये कार्यस्या- ३५
286
Page 287
२७४ अन्वयार्थप्रकाशिका विभूषिते
Sन्वयमात्रमभिवीक्ष्येति यावत्। तथा प्रतीति: कार्यान्विते शब्द- शक्तिरिति प्रत्ययोऽनुभव इति यदि कल्प्येतेति यदिपदं योज्यम् । तदप्यसङ्गतमित्यध्याहारानुषङ्गाविह झेयौ। कुत इति, तत्राह।। वर्णितेति । विशिष्टविध्यसिद्धिरिष्टविघातो वक्ष्यमाणपकारेण तत्पक्षे वैदिकनियोगासिद्धिश्र। तस्माद्वेतोरित्यर्थः ॥ ३५६ ॥ किश्च, कार्यान्वितस्वार्थे पदशक्तिरिति कार्यत्वं शक्ति- नियामकमित्यभ्युपगच्छतो वैदिकनियोगासिद्धिरितीष्टविघातं स्पष्टयति- वेदैकगम्यमिति कार्यमभीष्टमस्मि- ञच्छक्तिग्रहोऽपि न यदस्य समञ्जसोऽयम् ॥ शक्तिग्रहं च परिहत्य न बोधकत्वं शब्दस्य शक्यमिह वक्तुमशङ्गितेन ॥ ३५७॥ वेदैकगम्यमिति ॥ अभीष्टं प्राभाकराणामिति शेषः । किं तत इत्यत आह ।। अस्मिन्निति ॥ अयं शक्तिग्रहोऽस्मिन्नपि नियोगे पदस्य न सम्जस इत्यन्वयः ॥ अयमिति लौकिको भावार्थकार्यविषय उक्तः । पदपदेन लिङ्गादिरुच्यते। एतदुक्तं भवति। न तावद्वैदिको नियोगो वैदिकलिङ्गादेः प्रत्येतुं शक्यते। तस्य मानान्तरागोचरतया सङ्गतिग्रहयोग्यत्वाभावात्तद्वोचरत्वे चापूर्वत्वहानाद् वैदिकादेव पदात् तत्सङ्गतिग्रहेऽन्योन्याश्रयत्व- मसङ्गात् । तस्मान्न नियोगसिद्धिरिति । मास्तु तत्र सङ्गतिग्रहो, विनाऽपि तेन शब्दस्य तत्र पर्यवसानादितिचेन्नेत्याह।। शक्तिग्रहं चेति ॥ अशङ्गितेन प्रामाणिकेन पुंसेत्यर्थः ॥ ३५७॥ मानान्तरागोचरेऽपि नियोगे स्याद् व्युत्पत्तिर्यथा तथा- विधे ब्रह्मणि तवेतिचेन्न्न, वैषम्यादित्याह-
287
Page 288
संक्षेपशारीरके प्रथमोऽध्यायः।१। २७"
शश्वत्स्वयंप्रभमलुप्तचिदात्मभूतं विष्णोः परं पदममुन्न तु शब्दशक्ति: । शक्या ग्रहीतुमतिबुद्धिमनस्यपीति शास्त्रप्रमाणकमदः प्रतदन्ति सन्तः ॥ ३५८ ॥ शशवत्स्वयम्प्रभमिति ॥ शश्वत् सदा ॥ वेदान्तवेद्यस्य पदस्य कथं सदा स्वयम्मभत्वमित्यत आह ।। अलुसचिदात्म- भूतमिति॥ एवंविधं यद् विष्णोः परं पदं ब्रह्माख्यममुत्रामुष्मिन् पदम्। किलँक्षणे अतिबुद्धिमनसि अतिक्रान्ते बुद्धिमनसी येन तत् तथा तस्मिन् सङ्कल्पाध्यवसायागोचरेऽपि विष्णोः परमे पदे शब्दशक्तिर्ग्रहीतुं शक्येति योजना। इति हेतोरदः पदं शास्त्र- प्रमाणकं घटत इति सन्तः प्रवदन्तीति नास्मत्पक्षे काप्यनुप- पत्तिरित्यर्थः । ब्रह्मणः सर्वव्यवहारातीतत्वेऽपि स्वयम्पकाश- मानप्रत्यक्चैतन्यात्मतया नित्यं स्फुरणात्तस्मिन् ब्रह्मात्मादि- शब्दसंकेत: सुग्रहः। नियोगस्य तु जडत्वात्। सदैव मानाधीन- प्रकाशत्वान्मानान्तरेण तदसिद्धौ तत्र शब्दशक्तिग्रहः स्वमेऽपि दुर्ल्भ इति भाव: ॥ ३५८।। एवं पवर्त्तकवाक्यमूला व्युत्पत्तिरित्यङ्गीकृत्याऽपि सा सिद्ध- साध्यसाधारणी व्युत्पत्तिर्न्र कार्यैकनिष्ठेति साधितम्। इदानीं सिद्धार्थमात्रनिष्ठवाक्येऽपि व्युत्पत्ति: संभवतीति सोदाहरण- माह- जातः सुतः सकलवंशवरिवर्द्धनस्ते वरिप्रेति वाक्यसमनन्तरमस्य बुद्धि: । श्रोतुर्मुखाकृतिवशेन तु पुत्रजन्म-
288
Page 289
२७१ अन्वयार्थप्रकाशिकाविभूषिते
वस्तुन्यवश्यमनुमीयत एव बालैः ॥ ३५९॥ जातःसुत इति।।अत्रेयमाख्यायिका। कश्चित्किल कचिदा गतः कुतश्चिद्देशान्तरादागतो देशभाषानभिज्ञस्तन्भ्ाषाव्युत्पित्सु- रवगतस्वभाषार्थश्र पुरुपः। स कदाचित् कस्यचिद् गृहवेदिका- यामुषितस्तत्र पुत्रजन्मट्टत्तमन्वभूत् । स पुनस्तत्पितरं प्रति गच्छता वार्त्ताहारेण सह पुत्रपितृसमीपं गतो वार्त्ताहारनिगदितं वाक्यमुपाशृणोदिति तामत्र सूचयति स्म निबन्धकारः । अत्रैषाक्षरयोजना-वालैर्यथोक्तव्युत्पित्सुभिर्हे विप ! ते सकलवंशविवर्द्धनः सुतो जात इति वाक्यसमनन्तरं वार्ताहार- वाक्यश्रवणसमनन्तरमस्मदुपलब्धपुत्रजन्मवस्तुनि बुद्धिरस्य श्रोतुः पितुर्मुखाकृतिवशेन स्मितविकसत्कपोलनयनचेष्टारोमोन्रेदादि- लक्षणेन प्रहर्षचिह्नेनावश्यमनुमीयत एवेति । तुशब्दः शोकमोह- लिङ्गाद्विशेषणार्थः । ाक्यश्रवणसमनन्तरं हर्षमात्रलिङ्गदर्शनेऽपि तेन पुत्रजन्मैव तद्ेतुत्वेनानेनोक्तममिति कल्पनायां न प्रमाणम- स्तीति न शङ्कनीयम्। मानान्तरेण पुत्रजन्मनो हर्षहेतुत्वं नि- श्वितवतोऽत्र च तद् दष्टवतो वैदेशिकस्य स्वदृष्टहेतुपरित्यागेन हेत्वन्तरशङ्गानुत्थानात्तेन तदेव हर्षहेतुत्वेनानुमीयते, नान्यत् परियासुखप्सवादीति निश्चयोपपत्तेः । न हि पुत्रपदालिप्कुङ्कुमाङ्ि- तवासः प्रदर्शकेन वार्त्ताहारेण प्ियाटत्तान्तो निवेदयत इति कल्पना युक्तिमती। तस्मात्तनयजन्मैवानेन वाक्येन निवेदित इत्य- वगच्छत्येवायं व्युत्पित्सुरित्ययमर्थोऽवश्यपदेन सूचितः।३५९।। तथाच तत्र विनापि कार्यानुसरणं शक्तिग्रहोपि सेत्स्यती- त्याह- भूनार्थनिष्ठत्रचनादपि शब्दशक्ति:
289
Page 290
संक्षेपशारीरके प्रथमोऽध्यायः।१ २७७
शक्या ग्रहीतुमुदितन पथाऽनभिज्ञैः ॥ तत्र प्रवर्त्तकनिवर्त्तकवाक्यमूल- शक्तिग्रहैकनियमस्य न हेतुरस्ति ॥ ३६० ॥ भूतार्थनिष्ठवचनादपीति ॥ उदितेन पथेति । पुत्रस्ते जात इत्याद्युक्तप्रकारेणेत्यर्थः । एवश्च सति कार्यवाक्यमूलैव व्युत्पत्तिरिति नियमस्ते भग्न इत्याह ।। तत्र पवर्तकेति॥३६०।। तदेवं सामान्यतःप्रवर्त्तकवाक्यानपेक्षमेव सिद्धार्थनिष्ठवाक्ये स्यादाद्या व्युत्पत्तिरित्युक्तम्। तस्याविशेषपर्यवसानार्थमपि न प्रवर्त्तकवाक्यापेक्षा। सिद्धनिष्ठवाक्येष्वेवावापोद्वापाभ्यां तदुप- पत्तेरितीदानीं व्युत्पत्तिपकारमाविष्करोति- सामान्यतः प्रथममष पदार्थपिण्डो वाच्योऽस्य वाचकमदं पदपिण्डरूपम्। इत्याकलय्य पुनरेष विशेषतोऽपि शब्दार्थसंगतिमवरैति जनस्तटस्थः ॥ ३६१॥ सामान्यत इति॥ प्रथममपूर्वशब्दश्रवणसमये एषः स्वय- मनुभूयमान:पदार्थपिण्डोडर्थकदम्बो वाच्योऽस्यार्थपिण्डस्येदम्पद- पिण्डरूपं पदसमुदायो वाचकं बोधकमिति सामान्यतः संमुग्धा- Sडकारेणाकलय्य पुनः प्रयोगभेदश्रवणकाले एष तटस्थो जनो व्युत्पित्सुरावापोद्वापाभ्यां विशेषतोऽपि शब्दार्थसंगतिं पदवि- शेषस्य पदार्थविशेषसंबन्धमवैति विजानातीति योजना । पिय- वाक्याख्यानवद पियवाक्यान्वाख्यानेऽप्युक्तपकारेण व्युत्पत्ति- सिद्धिर्जेया। कचिदभिनयमार्गेणापि जायतएव व्युत्पत्तिरिति मुधा कार्यस्य तद्धेतुत्वनियमकल्पनेत्येतदप्यत्रोक्तं वेदितव्यम् ॥३६१॥
290
Page 291
२७८ अन्वयार्थप्रकाशिकाविभूषिते
इदानीं विनापि कार्यानुपवेशं प्रसिद्धपदसमभिव्याहारादपि पदव्युत्पत्तिराद्या भवतीति पतिपादयति- काष्ठैः स्थाल्यां पचति विविधैरोदनं पूर्णिकेति श्रुत्वा बालः सपदि मनुते काष्ठशब्दस्य शक्तिम ॥ दष्ट्ा तस्मिन् पचनकरणं प्रज्यलत्काष्ठजातं न्यायोपायादितरवचसां शक्तिषु प्राक् प्रवीणः ॥३६२।। काष्ठैः स्थाल्याममिति ॥ पूर्णिका नाम काचित् पक्री। काष्ठैः पचतीति वाक्यं श्रुत्वा बालः पचनकरणं प्रज्वलत्काष्ठ- जातं च दष्ट्रा तस्मिन् वाक्ये काष्ठपातिपदिकस्य शक्ति सपदि मनुते जानातीति योजना। कथं पाकसाधनेष्वनेकेषु तत्र दृश्य- मानेषु सत्सु, दारुषु काष्ठपदशक्ति गृह्णातीत्यत आह ।। न्यायो- पायादिति॥ पारिशेष्यन्यायरूपादुपायादित्यर्थः । एतदपि कुत इत्यत आह ॥। इतरेति ॥ काठ्ठैरित्यत्र वचनविभत्तोःस्थाल्यादि- पदानां च शक्तिषु भागेव प्रवीणो व्युत्पन्न इत्यर्थः । एवं प्र- भिन्नकमलोदरे मधूनि मधुकर: पिबतीत्याद्यप्यत्रोदाहरणं द्रष्टव्यम् ॥ ३६२॥। इयता संदर्भेण कार्यपदार्थमङ्गीकृत्य तस्य न व्युत्पत्तिमयो- जकतेत्युपपादितम् । इदानीं कार्यमेव त्वदभिमतं न मामाणिक, कुतस्तस्य शक्तिग्रहमयोजकतेत्याह- न च किमपि नः कार्य नाम प्रमाणपथानुगं यदिह तु पुनर्लिङलोडादेरुपैष्यति वाच्यताम्॥ न खलु तदितो धात्वर्थादेः पृथग्व्यवसीयते व्रजतु तदिह श्रेयोहेतुर्लिडािपदार्थताम् ॥ ३६३ ॥
291
Page 292
संक्षेपशारीरके प्रथमोऽध्यायः।१। २७०
न च किमपीति ॥ इह लोके वेदे वा। चशब्दः किञ्चेत्य- जर्थे। तुशब्दः कार्याभ्युपगमव्याटृत्यर्थः । पुनःशब्द: पादपूरणा- जर्थः। नन्वानयेत्युक्ते सत्यानयनं कर्तव्यमिति कर्त्तव्याकारस्य कार्यस्यावगमात् कथमस्य प्रमाणपथाननुगम इतिचेन्नेत्याह। न खलु तदित इति।।घात्वर्थः क्रिया।आदिपदात् कारकादिग्रहः। कटः कर्त्तव्यस्तृप्तिः कार्येति कारकफलयोरपि कर्त्तव्यत्वपतीतेः । इतः पसिद्धाद्धात्वर्थादे: सकाशात् पृथग न खलु तत्कार्य व्यवसीयत इत्यन्वयः । ननु न साध्यस्वभावमात्रत्वं कर्त्तव्यत्वं येन लिडादे: क्रियाद्यतिरिक्तार्थता न स्यात्, किन्तु मयेदानीमिदं कार्यमि- त्येवमाकारम्। न तथा क्रियादिः । वर्त्तमानादिप्योगेऽपि यतः क्रियादिसाध्यस्वभावं प्रतीयमानमपि न यथोक्तकर्त्तव्याकारं प- तीयतेऽतः कर्त्तव्याकारं कार्यमन्यत्तदेव लिडदिपदवाच्यमिति चेन्नेत्याह ।। व्रजतु तदिहेति ॥ इह विधिवाक्येषु तत् क्रियादि- वस्तु श्रेयोहेतुरिष्टसाधनं भूत्वा लिडदिपदवाच्यार्थतां व्रजत्वि- त्यक्षरार्थः। श्रेयःसाधनत्वावच्छिन्नः क्रियादिरेव कर्त्तव्याकारेण प्रतीयमानो लिङदिपदवाच्यो वर्त्तमानत्वाद्याकारेण प्रतीयमान- स्तु लकारान्तरवाच्य इति नानुपपनं किश्चिदिति न क्रियादि- भिन्नकार्यसिद्धिरिति भाव:। ३६३।। ननु लिडदिपदवाच्यः कर्त्तव्याकारः श्रेयोहेतुत्वमेवेति कुतोऽवसीयत इतिचेल्लोके श्रेयोहेतुत्वप्रतीतेः प्रवर्त्तकत्वेन प्र-
न खलु जगति श्रेयोहेतुप्रतीत्युदयादृते पुरुषवचनात् क्वापि प्राज्ञः प्रवर्ततितुमर्हति पुरुषत्र चनाच्छ्रेयोहेतुप्रतीत्युदये पुन-
292
Page 293
२० अन्वयार्थप्रकाशिकाविभूषिते
स्तदनुवशगो रागोत्पत्तौ ततःस हि चेष्टते ॥३६४॥ न ख जगतीति ॥ पूर्वार्द्धयोजना स्पष्टा। व्यतिरेकमु- क्त्वान्वयं वदञ्च्छाब्देऽपि व्यवहारे न क्लप्तादन्यत् प्रवर्त्तकमा- शङ्कनीयमित्याह ।। पुरुषवचनाच्छ्रेय इति ॥प्तीत्युदये पुना रागो- त्पत्तौ सत्यां तदनुवशगो रागानुवर्त्ती सन् स हि यस्माच्चेष्टते ततस्तस्मात् सर्वत्र कृतिसाध्यश्रेयोहेतुत्वज्ञानोद्वुद्धराग एव प- वर्त्तको, नार्थन्तरमित्यर्थः ॥ ३६४॥ तथापि व्युत्पित्सोर्बालस्य कथमित्थं व्युत्पत्तिस्तस्य बाल- त्वादितिचेन्न । तस्य स्वव्यवहारे व्युत्पन्नतया परत्रापि न्याय- संचारसमर्थत्वादित्याह- नयनिपुणधीर्बालश्रेष्टां समीक्ष्य समीहितुः कृततदुचिनव्याप्तिज्ञानः पुरा निज आत्मनि ॥ परतनुगतं श्रेयोहेतुप्रतीत्युद्योत्थितं चरितव्रिषये रागं तस्य प्रवर्त्तकमिङ्गति ॥३६५॥ नयनिपुणधीरिति ॥ नयनिपुणधीत्वे हेत्वर्थ विशेषणं, कृततदुचितेत्यादि। स्वात्मनि पूर्वमेव कृतं पटृटत्तेरिष्टसाधनत्व- ज्ञानपूर्वकत्वसाधनोचितव्याप्तिज्ञानं येन स बाल: समीहितु: प- वत्तमानस्य वृद्धस्य चेष्टां समीक्ष्य परतनुगतं रागं तस्य प्रवर्तक- मितीङ्गति कल्पयतीति योजना । प्रवर्त्तकरागोत्पत्तौ निमित्त- माह ॥ श्रेयोहेतुप्रतीत्युदयोत्थितमिति॥ इष्टसाधनत्वज्ञानादुत्पन्न- मित्यर्थः॥चरितविषय इति॥अनुभूते पाग्व्युत्पन्ने विषय इत्यर्थः। एतदुक्तं भवति। वाल: स्वयं प्रवर्त्तमानो निवर्त्तमानो वा बुद्धि- पूर्वकारित्वादिष्टं म इदमिति बुद्ध्वा पवर्त्ततेऽनिष्टम् इदमिति
293
Page 294
संक्षेपशारीरके प्रथमोऽध्यायः।१। २८१
बुद्ध्वा च निवर्त्तते। तत्रापि न बोधमात्रात्तदुभयं तस्य भवति, किन्तु प्टृत्तिनिव्ृत्तिविषयकरागद्वेषाभ्यां कदाचिद् बुद्ध्वाप्यौ- दासीन्यदर्शनादत एवं स्वव्यवहारे पवत्तिनिवृत्तिकारणमन्वय- व्यतिरेकाभ्यां निश्चित्य तद्दृष्टान्तावष्टम्भेन परस्मिन्नपि व्य- वहर्त्तरीष्टानिष्टज्ञानजनितरागद्वेषी पवृत्तिनिष्टत्योः कारणे इति कल्पयति। तथाच शाब्देऽपि व्यवहारे शब्दतः पटृत्तिहेतुरागो- त्पादकश्रेय:साधनतावबोधमुत्पन्नमनुमाय बहुषु तथाविधयोगे- ष्वावापोद्दापाभ्यां लिडादिपदवाच्यतां श्रेयःसाधनतायाःकल्प- यतीति ॥ ३६५॥ एतमेव संगृहीतमर्थ क्रमेण त्रिभि: पद्यैर्व्युत्पादयति- प्रवर्त्तकोत्थाननिबन्धने ततः समीहितोपायविशेषवस्तुनि ॥ गिरोऽनुमाय प्रतिपत्तिहेतुतां विशेषसिद्धौ तु समीहते पुनः ॥ ३६६॥ प्रवर्त्तकोत्थानेत्यादिना।। ततः परतनुगतरागानुमानानन्तरं भवर्त्तकस्य रागस्योत्थाने समुदये यन्निबन्धनं कारणं तस्मिन समीहितोपायविशेषवस्तुनि गिरो वाक्यस्य पतिपत्तिहेतुतां प्रथमं सामान्यतोऽनुमाय पुनर्विशेषसिद्धौ समीहते यतत इत्यर्थ:॥३६६॥ अस्य वाक्यांशस्य पदस्यास्मिन वाक्यार्थाशे पदार्थे वृत्ति- रिति विशेषनिर्णयार्थ कथमयं पवर्त्ततइत्यपेक्षायामावापोद्वापाभ्या- मित्याह- पदान्तरस्यागमनादिहान्यत- स्तथा परस्योद्रणादितो गिरः ॥ ३६
294
Page 295
२८२ अन्यार्थप्रकाशिकाविभूषिते
विशेषसिद्धि लभते प्रयत्नवान् पदार्थसंबन्धगतां विचक्षणः ॥ २६७॥ पदान्तरस्येति ॥ इहाश्वमानयेति वाक्ये पूर्वश्रुतगामानय- वाक्यगतगोपदात् पदान्तरस्याश्वपदस्यान्यतः प्रयोगान्तरादा- नयनात्तथेतो गिरो गामानयेति वाक्याद्गोपदस्योद्धरणात् पदार्थ- संवन्धगतां विशेषसिद्धिं प्रयत्नवान् विचक्षणो व्युत्पित्सुर्ल्लभत इति योजना। विचक्षणो मेधावी। प्रयन्नवानावापोद्धारविचारं- निरतः। विशेषसिद्धिरुद्ध्रियमाणं पदं यदर्थसंबद्धं प्रतीयते तस्य पदस्य स एवार्थः । तथोदुप्यमानं च पदं यदर्थसंबद्धं स एव तस्यार्थ इति निश्चयः ॥ ३६७॥ तत्रापि विशेषतो लिडादेरिष्टसाधनत्वांशवाचकत्वसिद्ध्य- नुगुणावावापोद्धारौ दर्शयति- लडादिशब्देऽपगते लिडादौ प्रत्यागतेऽभीप्सितसाधनत्वम् ॥ प्रतीयते तेन लिडादिशब्द- स्तदर्थवाचीति स वेत्ति बालः ॥ ३६८ ॥ लडादिशव्देऽपगत इति ॥ लिङ्लोद्तव्यादिशब्दे पूर्व- वद्वाक्यप्रयोगभेदेष्वपगते प्रत्यागते च सर्वत्राभीप्सितसाधनत्वं प्रतीयते, न गवादिपदवत्प्तिपयोगमर्थान्तरनिष्ठत्वमित्यर्थः । तेन सर्वत्रैकार्थपत्यायकत्वेन तदर्थवाची लिङ्लोदूतव्यपश्चमलकार- रूप:शब्दइष्टसाधनत्ववाचीति स बालो वेत्तीति योजना।३६८।। तर्हि तत्तत्पदार्थस्य केन रूपेण वाच्यत्वम्? किं योग्येतरा- Sन्वितत्वेन, किं वाऽनन्वितत्वेनाथवा साधारणत्वेन । नाघः।
295
Page 296
संक्षेपशारीरके प्रथमोऽध्यायः।१। २८३
कल्पनागौरवात्। न द्वितीयोऽन्वयस्याशाब्दत्वापत्तेः । न तृतीयः साधारणस्यान्यस्य प्रकारस्यासंभवात् कार्यान्वितत्वस्यैव परि- शेषादित्याशङ्ा,मैवम्। अवधीरितविशेषणेनान्वितत्वेन वाच्यते- त्य्गीकारे सर्वदोषपरिहारादित्याह- योग्येतरान्त्रिततया न च वाच्यताऽस्य कार्यान्वितत्ववपुषा सुतरां न चेष्टा ।। किं त्वन्तिरितत्ववपुषा न विशेषणस्य किश्चित् प्रयोजकमिहास्ति निरूपणायाम् ॥३६९॥ योग्येतरेति ॥ अस्य पदार्थस्य । न चेष्टा वाच्यतेत्यनु- पङ्गः । विशेषणस्य कार्यत्वयोग्यत्वादिरूपस्येत्यर्थः ॥ ३६९॥ अन्वितत्वरूपेण वाच्यत्वमित्ययुक्तम् । स्वेन रूपेणार्था- नामेव वाच्यत्वादन्वयप्रतिपत्तेरभिहितार्थनिबन्धनत्वेन साक्षा- च्छाब्दत्वानङ्गीकारादिति भाट्टमतमुत्थापयति- यत् केचिदाहरभिधाय निजान् पदार्था- नेतावतोपरतवन्ति पदानि तेभ्यः ।। पश्चाद्विशेषणविशेष्पतया तु तेषां संसर्गबुद्धिरपराऽवतरिष्यतीति ॥ ३७० ॥ यत् केचिदिति । इति यत् केचिदाहुस्तद् दुर्घटमिति परेणान्वयः । किमाहुस्ते, तदाह॥ अभिधायेति॥ पदानि वाक्य- गतानि निजानसाधारणान् पदार्थानभधाय एतावताऽभिधान- मात्रेणोपरतवन्ति उपरतानि भवन्तीत्यर्थः । अयं भावः । यद्- Sपि संगतिग्रहणसमये प्रथमं पदार्थानां मिथोऽन्वितताऽप्यनुभूता तथाप्यावापोद्धाराभ्यां विभज्यमानदशायां केवल एव पदार्थे
296
Page 297
२८४ अन्वयार्थप्रकाशिकाविभूषिते
पदपर्यवसानमवधारितम् । अन्यथा योर्ऽर्थो येनार्थेनान्वितस्तदा पतीतः सोऽप्यर्थस्तदेकपदवाच्यः स्यादिति क्रियामात्रोच्चारणे- पि सकलपदार्थप्रतीतिः स्यादिति पदान्तरोच्चारणवैय्यर्थ्या- पातः। तस्मात् केवलानेवार्थानभिदधति पदानीति। तर्हि कर्थ वाक्यार्थप्रत्यय इत्यपेक्षायामाह।।तेभ्यःपश्चादिति।पश्चात् सर्वपदा- डर्थबोधानन्तरं तेभ्योऽभिहितेभ्यःपदार्थेभ्यस्तेषां विशेषणविशेष्य- तया संसर्गवुद्धिस्त्वपरा पदार्थबुद्धिभ्योऽवतरिष्यति जनिष्यत इत्यर्थः । एवं सति वाक्यार्थस्य संसर्गस्य साक्षादशाब्दत्वेऽपि न अशाब्दत्वपसङ्गः। पदानां पदार्थेषु स्वसामर्थ्यपर्यवसानेऽपि स्वोच्चारणप्रयोजनस्यापर्यवसानाद्वाक्यार्थप्रतीतेरेवेह पयोजनत्वा- त्। तदुक्तं भट्टपादै :- साक्षाधद्यपि कुर्वन्ति पदार्थप्रतिपादनम्। वर्णास्तथापि नैकस्मिन् पर्यवस्यन्ति निष्फले।। वाक्यार्थमितये तेपां पटटत्तौ नान्तरीयकम्। पाके ज्वालेव काष्ठानां पदार्थपतिपादनम् इति॥ तस्मात् संसर्गप्रत्ययस्य न मानान्तराधीनत्वशङ्केति भावः॥।३७०।। उत्थापितं मतं दूषयति- - तद दुर्घटं न खलु किश्चिदपि प्रमाण- मस्या: प्रसाधकमुदीरितकल्पनायाः ।। ये नोपलब्धिविषयत्वमुपागतानि संसृष्टमेव तु पदानि पदार्थमाहुः ॥३७१॥ तद् दुर्घटमिति ॥ कुत इत्यपेक्षायामत्र पमाणासंभवादि- त्याह। न खल्विति ॥ पदार्थबोधव्यवधानेन पश्चात्संसर्गबुद्धि- र्भवती त्यस्या उदीरितकल्पनायाः पसाधकं पमाणं, न खल्-
297
Page 298
संक्षेपशारीरके प्रथमोऽध्यायः।१। २८
डस्तीति योजना। कुतो नास्तीत्यत आह ॥ येनेति॥ येन हेतुना श्रोत्रेन्द्रियेणोपलब्धिविषयत्वमुपागतानि पदानि, श्रूयमाणानि पदानीति यावत्, संसष्टमेव पदार्थमाहुः । अन्यथा तत्राकाल्ला- डनुदयप्रसङ्ग इत्यर्थः । मटत्या हि विशिष्टार्थज्ञानमनुमीयते। तस्य च शब्द: कारणत्वेन कल्प्यते। अतः संसष्टबोधकत्वमेव पदानामिति न व्यवधानकल्पनं प्रामाणिकममिति भावः।।३७१।। नन्वावापोद्वापाभ्यां स्वयम्प्तिपत्तिसमये पदार्थमात्रबोधस्य दर्शनात्तत्रैव शक्तिरिति गम्यत इति चेन्मैवमित्याह- नासंसृष्टपदार्थबुद्धिपद्यो: पूर्वापरत्वप्रमां मुक्त्वा कारणकार्यतावगतये कश्चित समर्थस्तयोः ॥ पौर्वापर्यमुदीक्ष्य हेतुफलतां सर्वत्र संगृह्णते नो चेतू सर्वमसंगतं भवति वः सर्वव्यवस्थाहते:॥३७२॥ नासंसष्टेति ।। असंसष्टपदार्थबुद्धेः पदस्य च पूर्वापरत्व- प्रमां मुक्त्वा पौर्वापर्यप्रतीति बिना तयोः कारणकार्यतावगतये न कश्चित् समर्थोऽस्ति। यतो व्यवहर्त्तारो विपशश्चितः पदार्थयोः पौर्वापर्यमुदीक्ष्य सर्वत्र प्रत्यक्षादिस्थलेऽपि हेतुफलयोः कार्य- कारणत्वं संगृह्णते। नोचेत् पूर्वापरत्वज्ञानं विनाचेत् कार्यकारण- भावग्रहस्तदा सर्वमसंगतं भवति, वो युष्माकं सर्वत्र कार्यकारण- व्यवस्थाभङ्गादिति योजना। एतदुक्तं भवति। पौर्वापर्यपत्ययो हि सर्वत्र कार्यकारणभावे ममाणमित्यविवादम्। न च केवल- पदार्थप्रत्ययपदयोः पौर्वापर्ये मानमस्ति । व्युत्पत्तिसमये तयोः पौर्वापर्याग्रहात् परप्ट्टत्तिहेतुविशिष्टपत्ययाधीनत्वाद् व्युत्पत्तेः। स्वयं पदार्थविवेकसमयेऽप्यवगतपदपदार्थगोचरत्वाद् विवेकस्य न तत्र तयोः पौर्वापर्यग्रहः । यः पुनर्व्युत्पन्नस्य वाक्यार्थप्तिपत्ति-
298
Page 299
२८६ अन्वयार्थप्रकाशिकाविभूषिते समये शब्दश्रवणानन्तरं पदार्थबोधः स व्युत्पत्तिवैपरीत्यान्न शाब्द:,किन्तु संबन्धिदर्शननिमित्ता स्मृतिरेवेति नानयोः पौर्वा- पर्य प्रमाणतोऽवधृतम्। तदभावेऽपि कार्यकारणत्वकल्पनायां सर्वव्यवस्थाबाध इति ॥ ३७२॥ ननु यागादेः स्वर्गादेश्च पौर्वापर्यपत्ययाभावेऽपि कार्य- कारणभावइष्टस्तत्कथमयं नियमइतिचेद्, आगमैकगम्यव्यतिरिक्त- विषयेऽस्य नियमस्यावाधान्मैवमित्याह- पूर्वापरान्वयबलेन हि कारणत्व- कार्यत्वसंगतिमिह प्रतियन्ति लोके।। नो चेह्वेदनियमो न च तत्र कर्तु कार्याणि कारणविशेषमुपाददीरन् ॥ ३७३॥ पूर्वापरेति ॥ इह लोके न वेदेऽयं नियम इत्यर्थः । विपक्षे दोषमाह। नोचेदिति॥ इदमस्य कार्यमस्येदं कारणमिति नियमोन स्यादित्यर्थः । अनयमाभ्युपगमे दण्डं पातयति॥न च तत्रेति॥ नियमाभावे कार्यविशेषार्थी कारणविशेषं नाददीत । आदत्ते तु तं लोक इत्यतो नियमोऽभ्युपेयः । सच पूर्वापरत्वग्रहाधीन इति यत्र पूर्वापरत्वानिश्चयस्तत्र कार्यकारणभावाग्रह इति लोके सोऽड्रीकृतः सर्वत्रेत्यर्थः ॥ ३७३॥ ननु पौर्वापर्यपत्ययाद् यो वाक्यवाक्यार्थप्रत्यययोः कार्य- कारणभावोऽवगतः स पदार्थबोधलक्षणाऽवान्तरव्यापारव्यव- धानेनेत्येतावदस्माभिरुभिच्यते, न तु पौर्वापर्यप्रत्ययसिद्धं कार्य- कारणभावमपहाय प्रकारान्तरेण कार्यकारणभावं केवलपदार्थ- ज्ञानपदयोर्वयं ब्रूमो येनाव्यवस्थापातादिदोषं प्रसञ्जयेमेतिचेन्मैवम्। वाक्यवाक्यार्थबुद्धयोर्मध्ये शब्दजन्यतया पदार्थबोधस्य सन्भावे
299
Page 300
संक्षेपशारीरके प्रथमोऽध्यायः।१। २८७
पमाणाभावाद् व्यापारकल्पनस्याप्ययोगादित्याह- पदजातबुद्धिजनिता भवति व्यतिषक्तबुद्धिरिति तावदिह॥ न विगानमर्ति भवतामपि चेद् व्यवधानकल्पनमकारणकम् ॥ ३७४ ॥ पद्जातेति ॥ व्यतिपक्तबुद्धिर्वाक्यार्थरूपसंसर्गबुद्धि: सा भवतामपिचेत् पदजातबुद्धिजनितेति संमतं भवति तदा न ता- वदिहावयोर्विगानं विप्तिपत्तिरस्तीति योजना। एवं सति व्यव- धानकल्पनं पदार्थबोधव्यवधानेन वाक्याद्वाक्यार्थबोधकल्पनम- डकारणकमप्रामाणिकमित्यर्थः । यद्वा,पदजातबुद्धिजनिता भवति व्यतिषक्तबुद्धिरिति तावदिह लोके प्रसिद्धमित्यध्याहारः । भ- वतामपिचेदिह न विगानमस्ति तदा व्यवधत्नकल्पनमकारणक- मिति योजना। पदजाततात्पर्यजन्या तावद्राक्यार्थबुद्धिर्व्यव- धानपक्षेऽप्यभ्युपेया। अन्यथा वाक्यस्य निस्तात्पर्यत्वपसङ्गाद- डममाणत्वापत्तेः । अतोनात्र विवदितुमुचितम् । मानान्तरनिब- न्धनपदार्थबोधानां विशिष्टार्थबोधकत्वादर्शनादितिभावः।।३७४।। ननु व्यवधानेनापि कारणत्वं लोके दृश्यते। पाकादौ काष्ठादीनां ज्वालादिव्यवधानेन कारणत्वदर्शनात् । तद्वत् पद- जातस्यापि व्यवधानेन हेतुत्वे को दोष इतिचेन्न। दृष्टान्तवैषम्या- दित्याह- व्यतिषक्तबुद्धिजनकं सकलं पदजातमित्यनुमतं यदि वः ॥ व्यवधानकल्पनविड़म्बनया
300
Page 301
२८८ अन्वयार्थप्रकाशिकाविभूषिते
किमिहाञ्जसैव जनकं भवतु ॥ ३७५ ॥ व्यतिषक्तबुद्धीति ॥ विस्पष्टास्याक्षरयोजना । दष्टान्ते हि काष्ठादीनां ज्वालादिव्यवधानेन पाकादिहेतुत्वं प्रत्यक्षेणाव- धृतम्, इह न तथात्वकल्पकं पमाणमिति वैषम्यं द्रष्टव्यम्॥३७५ ननु प्रथमावगतोऽपि साक्षान्भावः परित्यज्यते यथाऽरुण- यैकहायन्या सोमं क्रीणातीत्यत्रारुण्यादेस्वृतीयया साक्षाचुतं साधनत्वं परित्यज्य गोद्रव्यव्यवधानेन साधनत्वं कल्पितं, तथा इहापि किन्न स्यादितिचेन्नेत्याह- पारम्पर्य ह्वगतिकगतिं कारणादाश्रयन्ते नोत्सर्गेण स्फुरति विदुषां यत तत्र प्रनाड़ी॥ श्रुत्या सोमक्रयमनुगतः साधनत्वेन हित्वा साक्षाद्वावं ह्यरुाणमगुणः प्रापदेनामशक्तेः॥३७६॥ पारम्पर्य हाति॥ अगतिकानां मुख्यगतिशून्यानां गति- रगतिकगतिः । यत् पारम्पर्यमाश्रयन्ते विद्वांसस्तामगतिकगति- मेवाश्रयन्ते इति योजना। तदप्याश्रयणं कारणाद्यथाश्चुतसाक्षा- द्ावासंभवात्। यतो विदुषां न्यायोन्नयनप्रकारविदा यत्रोत्सर्गेण प्राप्तः संबन्धसाक्षान्भावो न स्फुरति घटमानतया नावभासते तत्र हि प्रणाडीपारम्पर्यमिति योजना। तत्रोदाहरणमाह।।श्रुत्ये- ति ।। अरुणयेति वाक्ये श्रुतोऽरुणिमगुणस्तृतीयाश्रुत्या निर- पेक्षत्वलक्षणया मुख्यया वत्या साधनत्वेन सोमक्रयमुपगतः साक्षात्सोमक्रयसाधनत्वेनारुणयेति तृतीयया करणार्थया संबद्ध: श्रुतं साक्षान्भावं मुख्यसंबन्धं हित्वा अशक्ते: शत्यभावादेना पणाडीं प्रापदिति योजना। तत्र हि गुणादेः साधनत्वं साक्षा-
301
Page 302
संक्षेपशारीरके प्रथमोऽध्यायः।१। २८९
चुतम् । न हि तेन सोमक्रयः कर्त्तु शक्यते। पराश्रयत्वाद् गुणादेः स्वतो निर्व्यापारत्वात्। अतस्तत्र श्रुतमपि मुख्यसंबन्धं परित्यज्य द्रव्यव्यवधानेन प्रणाड्या साधनत्वमास्थीयते। अत्र तु न तथा साक्षान्ावे काचनानुपपत्तिरतो वाक्यार्थप्रतिपत्ति- समये पदार्थबोधो भवन्नपि न पदशक्तिनिबन्धनः, किन्तु स्मृति- रेवेति नात्र व्यवधानकल्पनावकाश इति भाव: । तथाच साक्षा- दद्यपि कुर्वन्ति इत्यादिभट्टवचनं न व्युत्पत्तिविषयं, किन्तु प्रति- पत्तिसमयपदार्थबोधविषयमिति द्रष्टव्यम् ॥ ३७६ ।। ननु मानान्तराधिगतानामपि पदार्थानां संसर्गबोधकत्वं प- सिद्धम्। तथाचेहापि पदार्थबोधानन्तरं भवन् संसर्गबोधःपदार्थ- वोधजन्य इति निश्चीयते। अतस्तदविरोधेन पदजातस्य संसष्टा- डर्थबोधकत्वं पदार्थबोधव्यवधानेनेति कल्प्यमिति वक्तुमर्थानां संसर्गबोधकत्वप्रकारं पूर्वपक्षी कथयति- श्वेतिमानमभिपश्यतः पुरः शृण्ततस्तदनु हेषितध्वनिम् ।। तद्दत खुरमुदगरस्वनं श्रेतरूपतुरगोऽटतीति धीः ॥३७७॥ शवेतिमानमिति । द्रव्यविशेषानिश्चयाच्छ्ेतिमानमाभ- पश्यत इत्युक्तम्। श्वैत्यमात्रं चक्षुषा पश्यतः, तदनन्तरमेव हेषित- ध्वनिमश्वजात्यसाधारणशब्दं शृण्वतः तद्वदत्र हेषितध्वन्युदय- स्थले खुरमुद्गरस्वनं मुद्धराभिघातस्वनवत् कठिनं खुराभिघात- शब्दं च शृण्वतः पुंसो विभिन्नेन्द्रियावगतरूपशब्दाभ्यां पदार्थाभ्यां श्वेतरूपतुरगोऽटतीति धीर्भवतीत्यर्थः। ३७७॥ तथाच पदार्थघियां वावगतपदार्थानां वा संसर्गधीहेतुत्व- ३७
302
Page 303
२९० अन्वयार्थप्रकाशिकाविभूषिते
मिहापि कल्पनीयम्। पदानां तु पदार्थधीष्वेवोपक्षय इति स एवाह- तद्वदत पदजातबुद्धिभि- र्बोधिताखिलपदार्थहेतुकः ॥ सर्वशब्दविषयार्थसंगते: प्रत्ययो भवति योग्यतादिभिः ॥३७८॥ तद्दत्र पदजातेति॥ उक्तदष्टान्तवदत्र वाक्ये पदजात- बुद्धिभिः प्रतिपदं क्रमेण्मोत्पन्नमतिभिर्वोधिता येऽखिलपदार्थास्त- द्धेतुक: सर्वशब्दविपयाणामर्थाना संगतेः संसर्गस्य योग्यतादि- भिराकाङ्कायोग्यतासन्निधानैः सहकारिभिः प्त्ययो भवतीति योजना। संसर्गविषयः प्रत्यय उक्तविधया भवतीत्यर्थः॥३७८।। परिहरति सिद्धान्ती- नैतत् क्लप्तनिमित्ततोऽपि घटते संसर्गधौरीदृटशी
कार्य क्लृप्तनिबन्धनं यदि भवेन्नास्यापरं कारणं कल्प्यं तेन पदार्थजातजनिता नैषा मतिर्लिङ्गजा ॥३७९॥ नैतदिति ॥ कुत इत्यत आह ।। क्लृप्तनिमित्तत इति ॥ श्वेतोऽश्वस्त्वरितोऽभिधावतितरामित्यादिका या प्रतीतिरुत्थिता ईदृशी संसर्गधीः क्लृप्तनिमित्ततोऽपि घटते इति योजना। तथाहि। अत्रत्यपदार्थबोधे क्लपंहि निमित्तमनुमानं गम्यते खुरशब्दलिड्गेन
दृष्टस्य विशेषापेक्षत्वाद् द्रव्यान्तरस्यात्रासंभवमन्यतो निश्चित्य परिशेषादश्व एवेतिनिश्चयसिद्धेरित्यर्थः । अत्रानुमानातिरिक्तमेव कारणं कल्प्यतामित्याशङ्कापसिद्धकल्पनातः प्रसिद्धोपादानं
303
Page 304
संक्षेपशारीरके प्रथमोऽध्यायः।१। २९१
न्याय्यमित्यभिपेत्य परिहरति ॥ कार्यमिति॥ क्लृप्तनिबन्धन- मेव कार्य यदि भवेत् संपद्येत तदाऽस्य कार्यस्यापरं कारणं न कल्प्यम्। सर्वलोकप्रसिद्धेनानुमानेनैवात्र पदार्थसंसर्गबोधसिद्धौ मानान्तरजन्यत्वं तस्य न कल्पयितुं शक्यते। विरोधादित्यर्थः । येनैवं हेतुनाऽनुमानगृहीतपदार्थसंसर्ग एवायमवभासत इति स्थितं तेन एषा मतिः पदार्थजातजनिता न, किन्तु लिङ्गजेति सिद्धमित्यर्थः ॥ ३७९॥ एवं तर्हि यैर्मानैः श्वैत्यादर्थाः प्रसिद्ध्यन्ति तैरेव तेपां सं- सर्गाशोऽपि प्रतीयताम्। यथा पदैरेव पदार्थविषयैस्तेपां संसर्ग- बोधो भवतामितिचेन्नेत्याह- पादार्थ न पृथक् प्रमाणमपरं नानाप्रमाणोद्वं नाप्येतत्फलमत्र पक्षयुगले कल्प्यं निमित्तान्तरम् । क्लप्तं लिङ्गमतोऽपि निर्वहति चेत्संसर्गधीरीटृशी पादार्थी न पृथक् प्रमान चफलं नानप्रमाणोद्वम् ।। ।। ३८० ॥ पादार्थमिति॥ पादार्थ पदार्थजनितमपरं प्रत्यक्षादिभ्यो भिन्नं पृथक् स्वतन्त्रं प्रमाणं न भवति, पदार्थविपयकज्ञाना्ाक्या- डर्थज्ञानं पदार्थनितन्धनं प्रमाणान्तरं न भवतीत्यर्थः। एतत्संसर्ग- ज्ञानं नानापमाणोन्वं चक्षुराद्यनेकप्रमाणोन्वं नानापदोन्भवं.वा फलं नाप्यनेकेषां प्रमाणानामिदमेकं फलं भवतीत्यर्थः । कुत इत्यत आह।अत्र पक्षेति॥ पृथकूपमाणत्वपक्षे नानापमाणफलत्वे च निमित्तान्तरं कल्प्यं यत इत्यर्थः । नानाप्रमाणानां संभूय एकार्थबोधकत्वस्यान्यत्राप्सिद्धेरिति भावः । अगत्येह तत्कल्प्य- तामितिचेन्नेत्याह। क्लृपं लिङ्गमिति। लिङ्गविधया बोधकत्वं
304
Page 305
२९२ अन्वयार्थ प्रकाशिका विभूषिते
प्रसिद्धमित्यर्थः । फलितमाह॥अतोऽपीति॥ क्तप्तादेवास्मादीदशी श्वेतोऽश्वो धावतीत्येतादृशी संसर्गधीर्निर्वहतिचेत् पादार्थी न पृथक पमा। न च नानापमाणोन्भवं फलमपीति सिद्धमित्य- जर्थः। तस्मात् क्वाप्यर्थानां संसर्गबोधकत्वस्यासंभवाच्छब्दश्रवणा- नन्तरं भवन्त्योऽप्यर्थधियो न वाक्यार्थधियां हेतवो, नापि शब्द- जनिता: प्रमितयः । प्रागुक्तन्यायेन पदार्थविषये तासां स्मृति- त्वात्। अतः परिशेषात् पदजातवशादेव पूर्वोक्तविशिष्टार्थपत्यय- सिद्धिरिति तात्पर्यार्थः ॥ ३८० ॥
हरति- तस्मादन्यान्विते पदशक्तिरित्यस्मदुक्तं स्थितमित्युपसं-
नासंसृष्टमतो वदन्ति न च तान्याह: क्रियासङ्गतं योग्येनान्वितमेव केवलममून्याहुः स्वमर्थ यतः । एवं सत्यपवर्जितकियमलं निष्पन्नरूपं सदा संसर्गादिववर्जितं च वदितुं वस्तुस्वरूपं श्रुतिः॥३८१॥ नासंसष्टमत इति ॥ आहुः क्रियासङ्गतमित्यत्र नकारो- डनुषञ्जनीयः। तथाचायमर्थः। वचनानि पदानि असंसष्टमर्थन व- दन्ति, नापि कार्यान्वितमाहुरिति। कुत इत्यत आह॥ योग्येनेति। केवलं कार्याकार्यत्वविशेषणरहितं सामान्यतो योग्येनान्वितमेव स्वं. स्वमर्थममूनि पदानि यत आहुरिति योजना । नचैवं सति पदान्तरवैयर्थ्यपसङ्ग इति वाच्यम् । तस्यार्थविशेषाभिव्यतयर्थ- त्वादिति भाव: । तदेवं प्रवर्तकादिवाक्येष्वपि वस्तुस्वरूपे शब्द- शक्तिर्नर कार्यान्विते इति स्थिते वेदान्तानामपि कार्यानपेक्षणात् पूर्वोक्तपकारेणाखण्डे ब्रह्मणि प्रामाण्यमविरुद्धमित्याह ।। एवं सतीति॥ एवं सति श्रुतिर्ननिष्पन्नरूपं वस्तु वदितुमलमित्यन्वयः ।
305
Page 306
संक्षेपशारीरके प्रथमोऽध्यायः।१। २९३
वस्तुविशेषणद्वयं स्पष्टार्थम्। संसर्गादीत्यादिपदेन भेदवैशिष्टथे गृहोते ॥ ३८१ ॥ नन्वखण्डार्थवादिनां कथमेवमन्विताभिधानवादे कार्य- वादिनामिव कार्यान्वितत्ववादे निर्बन्ध इतिचेत् सत्यं, वस्तुत- स्तथैव, नास्ति निर्बन्ध इत्याह- अभिहित घटनाऽथवाSन्विताना- मभिहितिरस्त्वथ वा न पक्षपातः ।। क्त चिदषि समयेऽस्ति नः कदाचिद् बहुघटनात्मकवस्तुनिष्ठवाक्ये ॥। ३८२।। अभिहितघटनाथवेति ॥ बहुघटनात्मकवस्तुनिष्ठवाक्ये संसर्गात्मकवस्तुनिष्ठवाक्येऽभिहितानामन्वयो वाSस्त्वन्वितानां वाऽभिहितिः, न तत्रास्माकमतीव पक्षपातोऽस्यास्माभिर्विचार- यिषितत्वाभावादिति समुदितोऽर्थः। स्पष्टात्र पूदयोजना ॥३८२॥ अस्माभिर्विचारययतुमिष्टे तु वेदन्तवाक्ये नोभयोरपि संभवः, तस्यैकरसार्थनिष्ठत्वादित्यनादरे कारणमाह- अभिहितघटना न चोपपन्ना परदशि नाभिहितिस्तथान्विितानाम्॥ अनधिकविकलार्थगोचरत्वा- न्न तदुभयंश्रुतिमस्तके पदानाम् ॥ ३८३ ।। अभिहितघटना न चेति॥ अभिहितानामर्थानां घटना परहाशी न चोपपन्ना। तथाऽन्वितानामर्थानामभिहितिरपि नो- पपन्नेति योजना । परदशीति असङ्गस्वपकाशचिदात्मनो निर्देशा-
306
Page 307
२९४ अन्वयार्थप्रकाशिकाविभूषिते
त् तस्यान्वितत्वेनानन्वितत्वेन वाऽभिधानायोग्यता ध्वनिता। अतस्तादृग्वस्तुविषयस्य शब्दस्य न संसर्गादिगोचरत्वमित्याह ।। अनधिकेति ॥ अधिकेत्यन्वितत्वमुच्यते ॥ विकलेति, केवलत्व- मुक्तम् । यद्यप्यात्मवस्तु केवलं, तथाप्यन्वयप्रतियोगितया स्व- रूपेण वा नाभिधानयोग्यं स्वपकाशत्वादिति विकलोतयभिभायो द्रष्टव्यः । अधिकश्चासौ विकलश्र स चासावर्थश्रेत्यधिक- विकलार्थः, न अधिकविकलार्थोऽनधिकविकलार्थः। तद्गोचराणा- मिति विग्रहः । उक्तार्थमन्यत् ॥ ३८३ ॥। तर्हि किमित्यन्विताभिधानसमर्थने यत्र आस्थित इत्याशक्का अस्त्यत्र प्रकृतोपयोगोंऽशत इत्यभिपेत्य प्रथमं पक्षद्वयगतमुप- जीव्यं दर्शयति- अभिहितघटना यदा तदानीं स्मृतिसमबुद्दियुगं पदे विधत्तः ।। परहश पुनरन्विताभिधाने पदयुगलात स्मृतियुग्ममेव पूर्वम् ॥ ३८४ ॥ अभिहितघटना यदेति ॥ पढे तत्वम्पदे ।। स्मृतिसम- बुद्धियुगमिति। अभिहितान्वयपक्षे पदजत्वात् पदार्थधीर्न स्मृतिः, परं त्ववगतविघयत्वात् स्मृतिसमेत्यर्थः । पदयुगं पर- दृशि स्मृतिसमबुद्धिं विधत्त इत्यन्वयः । अन्विताभिधाने पुनः पूर्व पदार्थप्रतीतिसमये पदयुगलात् परदाश स्मृतियुग्ममेवेति योजना। अस्मिन् पक्षे त्वन्वितविपयत्वात् पदशक्ते: केवला- डर्थधीः स्मृतिरेवेत्यर्थः । अत उभयमतानुरोधेन तत्त्वम्पदार्थ- विषया धीः स्मृतिसमा स्मृतिरेव वेति यथा तथाऽस्तु। एतावता- ऽप्यखण्डार्थनिष्ठता वाक्यस्य न विहन्यत इति भाव:।।३८४।।
307
Page 308
संक्षेपशारीरके प्रथमोऽध्यायः।१। २९५
उक्तं मतद्यं विभज्योभयत्र फलं वदन्नन्विताभिधानवादे विशेषमभिदधानस्तत्र यत्राधिक्ये कारणं सूचयति- स्मृतिसमपदजन्यबुद्धियुग्मात परहाश मोहनिवर्तनं परेषाम् । परदशि पद्जस्मृतिद्वये स्यात पद्युगलात प्रमिते: समुद्वो नः ॥३८५॥ स्मृतिसमपदेति ॥ परेपामभिहितान्वयवादिनां परहाश परमात्मनि प्रत्यग्रूपे स्मृतिसमं यत् पददयजन्यं बुद्धियुग्मं तस्मान्मोहनिवर्न्तनमज्ञानादिवन्धनिवर्त्तक साक्षाड्वह्मज्ञानमिति सिद्ध्यति। नोऽस्माकमन्विताभिधानवादिनां परहाश पदजस्मृति- द्ये सति पदयुगलात् प्रमितेः समुद्भवः स्यादिति योजना। यद्यप्येवं विवक्षितार्थसिद्धिः पक्षद्वयेऽपि समना, तथापि अभि- हितान्वयवादे पदयोः पदार्थयोरेवोपक्षयात्तयोश्च पागवगतत्वा- त्तज्ज्ञानस्य स्मृतिपायत्वाद्वाक्यार्थज्ञानं न शाब्दी प्रमा स्यात् । अन्विताभिधानवादे तु पदार्थस्वरूपस्मारकत्वेऽपि पदयोस्तत्रा- Sपर्यवसानादन्वयस्य शाब्दत्वात् पदजन्यज्ञानान्तरस्य प्रमाण- रूपस्य चाभावाद्वाक्यार्थज्ञानं भवति साक्षाच्छाब्दी प्रमेति वि- शेपदर्शनादन्विताभिधानवादाग्रहोऽस्माकमिति भावः ॥३८५। तदेवं कार्यान्विते पदशक्तिग्रहात् कार्यविषयमेव वेदपामा- व्यमिति प्रत्यवस्थानस्योत्तरं दत्तम्। तत्प्रसङ्गेन चान्विताभिधानं निरूपितम्। इदानीं भावनावादनिरासेन वेदान्तानां ब्रह्मण मामाण्यं दृढीकर्तु तमुत्थापयति-
308
Page 309
२९६ अन्वयार्थप्रकाशिकाविभूषिते
लिङ्लोड़ादेर्लोकतो ज्ञातशक्ते: ॥ पुंसो वेदे प्रेरकत्वेन कल्प्या लिङलोडादेर्भावनैत्रानृतन्त्रे ॥ ३८६ ॥ औदासीन्येति॥ पुंप्रटृत्तिरौदासन्यिप्रच्युतिस्तत्पाप को- 5र्थ आज्ञादि: पुंस इति पदं प्रथमं योज्यम् । पुंस औदासीन्ये- ति। औदासीन्यप्रच्युतिप्रापके आज्ञादावनुगते प्रवर्त्तकात्मनि लिङ्लोडादेल्लोकतो वृद्धव्यवहाराज्ज्ञातशक्तेर्विज्ञातशक्तित्वादन- तन्त्रे वेदे आज्ञादिपुरुषाभिपायाभावात्तत्रत्यलिङूलोडादेर्वाच्या भावनैव प्रेरकत्वेन कल्प्येति योजना। यद्वा, लोकतो लोके लिङलोडादेरौदासीन्यप्रच्युतिमापकेडर्ये ज्ञातशक्तेस्तस्यैवानृतन्त्रे वेदे श्रूयमाणस्य लिङलोडादे: पुंसः प्रेरकत्वेन भावनैव वाच्या कल्प्या। तत्राज्ञाद्यभावादिति योजना। एवमपि भवर्तनात्मनि लिङादिशक्तेल्ोकवेदयोः समत्वान्न कार्यवादिन इव भावना- वादिनो वैयधिकरध्यमिति भावः ॥३८६ ॥ आज्ञादिसापेक्षत्वेन तत्निरपेक्षत्वेनोपाधिनोक्तं लोकवेदयो- र्लिङािवाच्यभेदं स्पष्टयति- आज्ञाद्यर्थः प्रेरकः पौरुषेये लिङलोड़दिर्भावना वेदवाक्ये।।
पुंसंबद्धे प्रेरकास्ते हि वाक्ये ॥ ३८७॥ आज्ञाद्यर्थः प्रेरक इति ॥ एवं व्यवस्थायां हेतुमुत्तरार्द्धेन आह ॥ पुंसोऽभावादिति ॥ अभावादिति च्छेद: ॥ तद्गतेति॥ वेदगतेत्यर्थः । ते हि आज्ञादय इत्यर्थः ॥ ३८७॥
309
Page 310
संक्षेपशारीरके प्रथमोऽध्यायः।१। २९७
यदि वेदे भावना लिड्थः, कस्तर्हि तस्या भावको भाव्य: करणमितिकर्त्तव्यतारूपं चेति वीक्षायामाह- लिडलोडादिर्भातकस्तत्र भाव्या- ऽनुष्ठेयेऽर्थे पुंप्रवृत्तिः प्रसिद्धा॥ लिङ्लोडादे: पुंप्रवृत्थंशनिष्ठो व्यापारो यस्तं विदुर्भावनेति ॥ ३८८॥ लिङ्लोडादिर्भावक इति ।। भावको भावानाभि- व्यञ्जकः । अनुष्ठेयोरऽर्थो यागादिर्द्धात्वर्थः । पुंगटत्ति: प्रयन्नः । औदासीन्यप्रच्युतिरिति यावत्। शब्दभावनास्वरूपमाह।। लिङ्- लोडादेः पुंभट्त्यंशनिष्ठ इति ॥ अंशनिष्ठस्तद्विषयक इत्यर्थः । पुरुषपटटत्तिरूपभाव्यांशविषयको यो लिङादिव्यापारस्तं भावने- ति विदुर्भावनावादिन इत्यर्थः ॥ ३८८ ।।
विशदयति- एवं भावकं भाव्यं चोत्का करणमितिकर्ज्तव्यता चेत्यंशद्वयं
करणमिह लिडदेर्ज्ञानमेवाङ्गभागः पुनरभिरुचिहेतुर्द्दश्यते च प्रशंसा ॥। विधिरयमिह तन्त्रे जैमिनीये न कार्य न च भवति विधिनः श्रेयसो हेतुरर्थः ॥३८९॥ करणमिति॥ इह शब्दभावनायां लिडदेर्शानमेव करण- म्। लिडदिशब्देन तव्ापारो भावना लक्ष्यते । भावनाज्ञानं करणमित्यर्थः। स्वज्ञानकरणिका शब्दभावनेति हि मीमांसकम- सिद्धिः । अभिरुचिहेतु: पशंसा पुनरद्रभागो दृश्यते पुंसः कर्मसु ३८
310
Page 311
२९,८ अन्वयार्थप्रकाशिकाविभूषिते
प्ररेचकार्थवादजन्या प्रशंसा कर्मादिस्तुतिरिहेतिकर्त्तव्यताभागो दृश्यते। तत्र तत्र विधिसन्निधौ पुंभटृत्यात्मकभाव्यनिष्पादने उपकारकत्वेन विद्यत इत्यर्थः । जैमिनीये तन्त्रे शास्त्रे येयमुप- पादिता भावना,अयं विधिर्लि्लिडद्यर्थो, न कार्य, नियोगो विधि- र्भवति। न च नापि श्रेयसो हेतुरर्थ इष्टसाधनत्वरूपोर्ऽर्थो विधि- र्भवति,नोडस्माकं मीमांसकानां जैमिनीयानामितियोजना।३८९ तर्हि पदान्तरार्थानामनया शब्दभावनया सहान्वयप्रकार: कथमित्यपेक्षायां तमाह- विधिरिह गुणभूतः प्रत्ययार्थेऽपि नित्यं भवति चपुरुषोत्था भावनाऽस्य प्रधानम । भवति दशलकारप्रत्ययैः साभिधेया विधिविहितलकारैर्भावना शब्दहेतुः ॥ ३९० ॥ विधिरिहेति ॥ प्रत्ययार्थोऽपि विधिः शब्दभावनात्मा इहार्थकदम्चे गुणभूत एव नित्यं, न प्रधानभूत इत्यर्थः । तर्हि किमत्र प्रधानं, तदाह ।।भत्रति चेति॥ एकस्मिन् वाक्ये प्रत्यया- डर्थत्वेऽपि दयोः प्राधान्यायोगात् क्रियाकाङ्मया चेतरेपामन्वया- दर्थभावनात्मिका पुंक्रियैवात्र प्रधानमित्यर्थः। कथमेकस्य प्रत्यय- स्य भावनाद्वयवाचित्वमितिचेन्नायं दोषो, रूपभेदे द्वयवाचकत्वो- पपत्तेरित्याह ।। भवति दशलकारेति॥ साडर्थभावना दशलकार- पत्ययैस्तिवादिभि: सवैरेव लकारैरभिधेया भवति शब्दहेतु- र्भावना शब्दभावना। विधौ विहितलकारर्लिडदिभिरेवाभिधेये- त्यनुवर्त्तते। तथाच लिङस्तिङत्वेन लिङ्त्वेन चाकारभेदादुभय- विधभावनावाचकत्वोपपत्तिरित्यर्थः ॥ ३० ।। इदानीमर्थभावनाया अपि भाव्याव्यंशानाह-
31
Page 312
संक्षेपशारीरके प्रथमोऽध्यायः ।१। २००.
भवति च पुरुषार्थकर्मिकेयं पुरुषनिमित्तकभावना न तद्दत ।। भतति तु विधिशब्दकर्तकान्या न हि निरवद्यपुमर्थताप्रवृत्तेः ॥ ३९१॥ भवति च पुरुषार्थेत्यादिना ।। इयं पुरुपनिमित्तक- भावनार्थात्मिका पुरुषार्थकर्मिका स्वर्गादिपुरुषार्थभाव्या भवतीत्य- ऽर्थः। उपलक्षणमेतत् करणेतिकर्त्तव्यत्वयोः। धात्वर्थो यागादि: करणम्। पयाजाद्यङ्गजातममितिकर्तव्यतेति योज्यम्। अन्या तु या विधिशब्दकर्त्तृका लिडदिशब्दव्यापारात्मिका शब्दभावना सा तद्वदर्थभावनावत् पुरुषार्थभाव्या न भवतीति योजना। कुत इत्यत आह॥ न हीति ॥ पुंभवृत्तिर्हि तस्या भाव्या। न हि त- स्या: पटत्तेर्ननिरवद्यपुमर्थत्वं, केशरूपत्वादित्यर्थः ।। ३९१॥ पुरुषार्थकार्मकारऽर्थभावनेत्युक्तम् । तदेव स्पष्टयति- अभिमतपशुपुत्तवृष्टिनाक- प्रभृतिकभाव्यगता हि भावनेयम् ॥ अनभिमतसुदुष्करातिदुःखां नयति तु भाव्यपदं प्रवृत्तिमन्या ॥ ३९२ ॥ अभिमतेति । पूर्वार्द्धेन। तद्विलक्षणं शब्दभावनाभाव्यं विभजत उत्तरार्द्धेन ॥ अनभिमतेति॥ नयति पुरुपमिति शेषः। सुगममन्यत् ॥ ३९२। अनयोश्च भावनयोः प्रतीत्याकारः क इत्यपेक्षायां घात्वर्थ- प्तीत्याकारव्युदासेन नानयोराकारभेदो ग्रहीतुं शक्यते धात्वर्थ-
312
Page 313
३०० अन्वयार्थप्रकाशिकाविभूषिते
घटिततयैवानयोर्ननियमेनाभिधानादित्याह- प्रत्ययप्रकृतिशब्दतो बहि-
प्रत्ययप्रकृतिशब्दयोः पुन- र्नित्यमन्वितधियो निमित्तता ॥ ३९३॥ प्रत्ययप्रकृतीति ।। प्रत्ययो लिडादिर्ल्डादिश्र, प्रकृति- र्धातुः। धातुप्रत्ययात्मकैकपदरूपाच्छब्दतो बहिः पृथगभहितसं- गतिरर्थसबन्धो न विद्यते चकारोऽवधारणार्थः । प्रकृतिपत्यय- योरर्थभेदो नैव विद्यत इत्यर्थः । तत्र लिङ्गं ज्ञापकमाह॥ प्रत्यये- त्युत्तरार्द्धेन ।। पुनःशब्दो यस्मादर्थे । पत्ययपकृतिशब्दयोर्य- स्मादन्वितधियोऽपृथगबुद्धेर्न्निमित्तता विशिष्टैकबुद्ध युत्पादकता सदैवानुभवसिद्धेति शेषः ।। ३९३ ॥। यस्मादेवं प्रकृतिप्रत्यययोरेकीभूय विशिष्टबुद्धिहेतुताऽध्यव- सिता अतो हेतोलिंडादिभिर्विधिप्त्ययैर्द्धातुवाच्यघटितं प्रकृत्य- डर्थोपरक्तं भावनाद्वयं विवक्ष्यते, न प्रकृत्यर्थाकारात् पृथगि- त्याह- भावनाद्वयमतोऽव बोध्यते धातुवाच्यघटितं लिडादिभिः ।। प्रत्ययार्थगुणवस्तुवाचिनो धातवः प्रकृतयो हि धातवः ॥ ३९४ ॥ भावनाद्यमत इति ॥ यजेतेत्यत्र हि यजतिघात्वर्थो यागस्तस्य कर्त्तव्यता च पतीयते, यागं कुर्यादिति । तत्र कुर्या- दित्यत्र कृतिस्तत्पेरणा चावसीयते। तत्राप्याख्यातांशेन कृति-
313
Page 314
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ३०१
रुच्यते, तद्विशेपेण लिडन कर्त्तव्यता।तदुभयमेकेनैव पदेनोच्चार्य- माणं न पृथग्बुद्धिगोचरतामाचरति । तथाच पकृतिपत्यया- डर्थयोः स्वरूपतो भेदेऽपि गुणप्रधानभावेनैकीभूतत्वादेकपदो- पात्ततयैकपत्ययगम्यतेति भावः । तत्र कस्य गुणभावः, कस्यवा प्राधान्यमित्यपेक्षायामाह । पत्ययार्थेति॥ पत्ययार्थस्य गुणभूतं विशेषणी भूतं यद्दस्तु क्रियालक्षणं तद्राचिनो धातवोरडर्थात् प्रधान- विशेष्यवस्तुवाचिन: प्रत्यया इत्यर्थः। धातूनां गुणार्थत्वे हेतुमाह॥ पकृतयो हि धातव इति ॥ प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूतः, प्रत्ययस्तु प्राधान्येनेति हि वदन्ति। युक्तं चैतत् । सर्वधातुषु विभिन्नेष्वपि प्रत्ययानां स्वरूपतो भेदाभावात्तदर्थभेदाभावाच्च पकृतितदर्थभेदकृत एव भेद इति धातुभि: प्रत्यया विशेष्यन्त इति ॥ ३९४॥ एवं भावनावाक्यार्थमुपपाद्य तस्मिन्नेव सकलस्य वेदस्य प्रामाण्यं, न सिद्धवस्तुनि । भूतभव्यन्यायादित्याह- भव्याय भूतमुपदिश्यत इत्यवोचन् पूज्यास्ततः सकलमेव च वेदशास्त्रम् ॥ कार्यप्रधानमिति निश्चिनुमोऽस्मदीये तन्त्रे च कार्यमुदितः पुरुषप्रयत्नः ॥ ३९५॥ भव्याय भूतमिति ॥ पूज्या: शबरस्वामिनः । तत् किं कार्य यत्परं सकलं वेदशास्त्रमित्यपेक्षायामाह।। अस्मदीय इति। पुरुषपयत्न: कार्यमुदितो न नियोगरूपमित्यर्थः ॥ ३९५॥ एतदपि मतं दूषयति सिद्धान्ती- अभिदधाति करोति च लिङपदं
314
Page 315
३०२ अन्वयार्थप्रकाशिकाविभूषिते
श्रुतिवचःसु निजामपि भावनाम् ॥ नै च करोति न वक्ति च तां पुन- र्नरवचःस्तिरिति दुःशकमुच्यते ॥ ३९६॥ अभिद्धातीति ॥ श्रुतिवचःसु लिङ्पदं निजामपि स्व्र- व्यापाररूपामपि शब्दभावनामभिदधाति करोति निष्पादयति चार्थभावनामिति दुःशकमुच्यते । स्वव्यापारस्य स्वयमभिधाने स्ववृत्तिविरोधापत्तेरित्यर्थः । तथा नरवचःसु लौकिकवाक्येषु ता भावनां न करोति, न वक्ति चेति व्यवस्थाङ्गीकरणं दुःशकमु- च्यते मीमांसकैरिति योजना। लोकवेदयोरेकस्यैव शब्दस्य वै- रूप्याड्गीकारे लोकवेदाधिकरणविरोधः । शब्दान्तराणामिव सर्वत्रैकरूपत्वसंभवेव्यर्थ च वैरूप्यकल्पनम् । वेदे पृथग्व्युत्पत्ति- द्वाराभावात् प्रमाणस्य सतो वेदस्य कारकत्वेऽपमाणत्वापत्तेश्रे- ति भावः ॥ ३९६ ।। ननु नेदं वैरुष्यं दोपाय भवति। दैवेनैवास्योपसादित- त्वात्। लोके शब्दः पौरुपेयो वेदे त्वपौरुषेय इति स्वभाव-
वैरूप्यस्य गत्यन्तराभावादगत्या तदाश्रयणम् । इतरत्रैकरूप- त्वसंभवे वैरुप्यकल्पनं गौरवमप्रामाणिकमयुक्तम् । पौरुषेयत्वा- डपौरुपेयत्वभेदादर्थे पवृत्तिवैरुप्यकल्पनेऽन्येषामपि पदानां त- त्कल्पनप्रसङ्गो लोकवेदाधिकरणानारम्भपसङ्गश्वेत्यभिप्रेत्य परि- हरति- वक्तृत्वमेव घटते यदि लिड़पदस्य सर्वत्र नार्द्जरतीयमिदं प्रशस्तम् ॥
315
Page 316
संक्षेपशारीरके प्रथमोऽध्यायः।१॥ ३०३
सामर्थ्यमेकरसमेव यदोपपन्नं नानारसं न खलु तत परिकल्पनीयम् ॥२९७।। वक्तृत्वमेवेति ॥ बोधकत्वेनैव पामाण्यात् सर्वत्र लोके वेदे च लिङ्पदस्य वक्तृत्वमेव यद्येकरूपेण घटते तदार्द्धजरतीय- मिदं वैरूप्यकल्पनं न प्रशस्तम् । कस्मान्न प्रशस्तमितिचेत् कल्पनागौरवादित्याह । सामर्थ्यमिति ॥ स्पष्टार्थः ॥ ३९७॥ इह गौरवमप्यगत्याश्रीयते। लौकिकस्य लिडदिवाच्य- स्याज्ञादेर्वेदेऽसंभवादितिचेत्तर्हि भावनाविधिवाद एव त्यज्यतां यत्र गौरवादिदोपापत्तिः, श्रेयःसाधनताविधिवाद आश्रीयतां यत्र न वैरूप्यादिदोष इत्यभिप्रेत्याह- श्रेयोहेतुत्ववाची यदि भवति तदा संभवत्येकरूपा शक्तिस्तस्याभिधाने नतु भवति तदा करारकोऽयं प्रवृतेः॥ श्रयांहतुश्ष वाच्यः श्रुतिवचसि तदा पौरुषेये च तुल्यः क्लप्तश्चासौ न कल्प्यः श्रुतिवचसि यथा भावना लिङिबद्ा ॥ ३९८ ॥ श्रेयोहेतुत्ववाची यदीति ॥ तस्य श्रेयोहेतुत्वाभिधाने लिङ्गादेरेकरूपा लोकवेदयोः शक्तिर्भवति। वैरूप्यं न भवतीत्य- ऽर्थः। एवं सति वेदस्य कारकत्वदोषोऽपि परिहृतः स्यादित्या- ह ।। न तु भवतीति ॥ तदा श्रेयोहेतुवाचित्वेऽयं लिङादिः पवृत्तेः कारको न तु भवति, प्रवर्त्तको न भवतीत्यर्थः । वाच्य- स्याप्यैकरूप्यमस्मिन् पक्ष इत्याह ।। श्रेयोहेतुश्चेति॥ शब्द- भावनापक्ष इवास्मिन् पक्षेऽपसिद्धकल्पनाशङ्कापि नास्तीत्याह।। क्लृप्तश्चासौ न कल्प्य इति।। श्रुतिवचास यथा लिङूनिबद्धा
316
Page 317
३०४ अन्वयार्थप्रकाशिकाविभूषिते
भावना कल्प्या तथाऽसौ श्रेयोहेतुर्द्विडर्र्थतया न कल्प्यो, लोकत एव तत्सिद्धेरतो न लोकवेदाधिकरणविरोधोऽप्यस्मिन्मत इत्यर्थः ॥ ३९८॥ यत्पुनरर्थभावनात्मिका क्रिया लकारवाच्येत्युक्तं, तदप्य- डयुक्तमित्याह- धात्वर्थतोऽन्या न च भावनास्ति यां भावनां वक्तुमलं लकार: ।। धात्वर्थमुद्रिच्य न पुंप्रयत्नो लोके यतो भाति निरूपणायाम् ॥३९९॥ धात्वर्थतोऽन्येति॥ धात्वर्थः क्रिया। नन्वस्तिधात्व- ऽर्थातिरिक्ता भावना। पुरुषपयत्नो हि प्रत्ययवाच्या भावना। मनआदिचेष्टा च धात्वर्थः प्रककतिशब्दवाच्येति तयोर्भेदादिति- चेन्नेत्याह ।। घात्वर्थमिति । उद्रिच्यातिक्रम्य लकारवाच्यः पुंपयत्रो निरूपणाथां क्रियमाणायां यतो लोके न भाति अतो यां भावनां वक्तुमयं लकारोऽलं समर्थः सा भावना धात्वर्थतो- जन्या न चास्तीति योजना। रथाद्यचेतनकर्तृकेष्वाख्यातप्रयोगेषु प्रत्ययवाच्यस्य प्रयत्नस्यादर्शनात् । न च तत्र तत्पयोग उप- चरित इति वाच्यम्। लोकस्य तत्रोपचाराभिमानाभावात्। सर्वस्यापि कारकस्य स्वव्यापारकर्तृत्वस्य मुख्यत्वात्तत्र करोति गच्छतीति मुख्यप्रयोगोपपत्तेश्रेति भावः ।। ३९९।। तदेवं नियोगवादस्य भावनावादस्य चायुक्तत्वान्न कर्म- काण्डेऽपि तदुभयं, किं पुनर्वेदान्तेष्वविधिपधानेष्वित्युपसंहरति- न कर्मकाण्डेऽपि ततो नियोगो न भावनाप्युक्तनयेन तस्मिन् ॥
317
Page 318
संक्षेपशारीरके प्रथमोऽध्यायः।१॥ ३०५
न तद्द्वयं वेदशिरःसु तस्मा- त्ततो न कार्यार्थपराणि तानि ॥ ४०० ॥ न कर्मकाण्डेष्वपीति ॥ तस्मिन् कर्मकाण्डे भावनापि नेत्यन्वयः । तद्दयं नियोगो भावना चेत्यर्थः । तस्मादिति प्रमादपाठः। यस्मादिति पठनीयम् । यस्माद्वेदशिरःसु न तद्दय- मस्ति। ततो न तानि वेदशिरांसि कार्यार्थपराणीति योजना । यद्वा, तस्मादित्येतत्पद्यादौ योज्यम् । तस्मान्न कर्मकाण्डेडपीति।। तत इति प्रथमश्रुतो लिडदिवाची। ततो लिडादेरित्यर्थः । अन्यत् समानम् ॥ ४०० ॥ अपिच नियोगो वा भावना वा यद्यप्यभ्युपगम्यते तथापि कर्मकाण्डेऽपि न सर्वत्र तत्सम्भवो निषेधवाक्येषु तदनिरूपण- दित्याह- अपिच प्रतिषेधचोदना- विषयः स्यात् प्रतिषिद्धकर्मणः ।।
न नियोगो न च तस्य गोचरः ॥ ४०१ अपिचेति ॥ ब्राह्मणो न हन्तव्य इत्यादि न अर्थनिष्ठ- वाक्यगम्यम्। ब्राह्मणहननादिप्तिषिद्धं कर्म । तस्य प्रतिषिद्ध- कर्मणो या फलगर्द्धिनिष्टत्ति: फलपार्थनौदासीन्यरूपोपरतिः सैव प्रतिषिद्धचोदनाविषयः स्यात्, न नियोगो,नाऽपि तस्य नियोग- स्य गोचरो विषयभूतो धात्वर्थः प्रतिषेधचोदनाविषयः स्यादिति योजना। नियोगग्रहणं भावनाया अप्युपलक्षणम्। नापि भावना भाठ्यो वा तथेत्यर्थः। एतदुक्त्तं भवति। निषेधवाक्यं तावन्वर्थ- ३९
318
Page 319
३०६ अन्वयार्थप्रकाशिकाविभूषिते
निछठं प्रसिद्धम् । नञर्थश्र निटृत्तिरौदासीन्यलक्षणा। क्रियाया इष्टसाधनत्वं तत्फलस्येष्टत्वं च मोहात् पतीतमत्र निषिद्ध्यते इति स्पष्टीकरिष्यति । तस्मान्नियोगो वा भावना वा नात्र वाक्या- र्थो, वाक्यं चेदं वैदिकं स्वार्थपरं प्रमाणमेवेति न सर्वो वेदो विधिषर इति॥ ४०१॥ ननु कथं निषृतत्तिरेव नञर्थ इत्याश्रीयते। पर्युदासटृत्तेरपि संभवादितिचेत्, सत्यमत्र सा न संभवतीत्याह- नञ्ः स्वसम्बन्धिपदार्थवस्तुनो निवृत्तिरर्थ: सहजप्रसिद्धितः ॥ अनीक्षणादौ व्रतशब्दसंगतेः परप्रयुक्ता खलु मानसी क्रिया ॥ ४०२॥ नञः स्वसंबन्धीति ॥ सहज उत्पत्तिशिष्टः स्वाभाविक इति यावत्। नेत्युक्ते स्वरसतः संवन्धिनिट्टत्तेरेव पुरःस्फूर्ततिदर्श- नात्। न पर्युदासस्तथेति मुख्यार्थसंभवेऽर्थान्तरं न कल्प्यमि- त्यर्थः। कथं तर्हि, नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन * नोपरक्तं न वारिस्थं न मध्यं नभसो गतमित्यादौ पर्युदासा- श्रयणमितिचेत्, कारणान्तरवशादित्याह ।। अनीक्षणादाविति ॥ अनीक्षणादा, नेक्षेतेति वाक्यविहिते, नेक्षेऽहमिति या मानसी क्रिया नञर्थपर्युदासेन स्वरीकता सा खलु परपयुक्ता । कुतः । व्रतशब्दसंगतेः । अथातः पजापतिव्रतमिति वाक्यस्यानुप्ठेय- वाचिना व्रतशब्देनोपक्रमादनुष्ठेयपरत्वावगमात्तन्मध्यपातिनो-
तया, नेक्षेतेत्यादौ पर्युदासाश्रयणं, न तत्र नञो मुख्यवृत्तित्व- म्। इह तु तथाविधकारणाभावान्न मुख्यार्थपरित्यागो युक्त
319
Page 320
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३०७
इति भावः।। ४०२॥ किश्च, प्रतिषेधवाक्यस्याप्यनुष्ठेयार्थनिष्ठत्वे विधिप्रतिषेध- भेदासिद्धिरतोऽपि निषेधवाक्यं नानुष्ठेयपरमित्याह- अपिच प्रतिषेधचोदना न तु भिद्येत भवन्मते विधे: । विधिरेव तु चोदनाडखिला न हि वेदे वचनं निवर्त्तकम्॥ ४०३ ॥ अपिच प्रतिषेधचोदना न त्विति ॥ भवन्मते विधेः सकाशात् प्रतिषेधचोदना न तु भिद्येतेत्यन्वयः । यतोऽस्मिन् पक्षेऽरखिलापि चोदना, अतो वेदे निवर्त्तकं वचनं न हि किमपि सिद्ध्यतीत्यर्थः ॥ ४०३ ॥ भवत्वेवं निपेधवाक्यं निषृत्तिनिष्ठमेव, किमेतावता तवा- यातमितिचेद् वेदान्तवाक्यानामप्यविद्यानिवृत्तिमात्रेण प्रतिषेध- वाक्यवदननुष्ठेये वस्तुनि प्रामाण्यासिद्धिरितादमायातं ममेत्याह- प्रतिषेधवाक्यवदतः सकलं विधिशून्यमेव फलवद् भवतु ॥ वचनं त्रयीशिरसि तत्त्वमसि- प्रभृति प्रतीचि तमसोऽपहतेः ॥। ४० ४ ॥ प्रतिषेधवाक्यवदिति ॥ यत एवं वेद: सर्वोऽपि न विधिनिष्ठोऽतो विधिप्रधानप्रतिषेधवाक्यवत् त्रयीशिरसि, तत्त्व- मितिप्भृति सकलं वचनं, विधिशून्यमेव विधिनिरपेक्षमेव फल- वत् पमाणं भवतु। तेन सद्यः प्रतीचि तमसोऽनाद्यऽज्ञानस्य संसारवीजस्यापहृतर्बाधनादिति गोजना ।। ४०४ ।
320
Page 321
३०८ अन्वयार्थ प्रकाशिकाविभूषिते
तदेवं निषेधवाक्ये नञ्रः स्वबन्ध्यभाव एवार्थो मुख्यो, न पर्युदास इति यदुक्तं, तन्न युक्तम्। भाट्टैरन्यथोपपादनादिति तन्मतमुत्थापयति- नामधातुसहितो नजिष्यते पर्युदासविषयो मनीषिभिः ।। न प्रसक्तविनिवृत्तिवाचको- Sब्राह्मणादिषु तथोपलम्भनात ॥ ४०५।। नामधातुसहित इति ॥ अयमर्थः । ब्राह्मणो न हन्तव्य इत्यत्र ब्राह्मणो नामार्थः, हननं धात्वर्थः, नियोगादिस्तव्यार्थ इति स्थितिः । तत्र नामसहितो धातुसहितो वा यदा नन्रुपादी- यते तदा स पर्युदासविषयो मनीपिभिरिष्यत इति योजना। नामधातुभ्यां योगे पसक्तविनिद्ृत्तिवाचको नञ् नेष्यत इति योज्यम्। उक्तपर्युदासटत्तावुदा हरणमब्राह्मणादिषु तथोपलम्भना- दिति ॥ ४०५ ॥ - उदाहरणं नञो नामान्वये धात्वन्वये च क्रमेण विभजते अब्राह्मणाधर्मगिरोर्नजेष नामान्वयादाश्रितरपर्युद्दासः । अन्यं विरुद्धं च सदाभिधत्त नोदन्तमित्यादिषु धातुयोगात ।। ४०६ । अब्राह्मणाधर्मेति ॥ आश्रितः पर्युदासो येन स तथा। अब्राह्मण इत्युक्ते ब्राह्मणसदृशो ब्राह्मणाभास: क्षत्रियादिरि- त्यन्यमभिधत्ते। अधर्म इति तु धर्मविरुद्धमर्थान्तरमभिधत्त इति योजना। तथाच नवो नामयोगे यथायर्थं तदन्यतद्विरुद्धार्थयो-
321
Page 322
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३०९
र्मुख्यत्वात् पर्युदासवृत्तिरप्यस्य मुर्यैवेति भावः। धातुयोगे- डप्याह।। नोदन्तमिति । धातुरीक्षणम्। अनीक्षणमितीक्षण- विरुद्धार्थ पर्युदासवृत्या एप नञ्न अभिधत्त इति योजना॥४०६।। एतदेवोपपादयति- नोदयन्तमित्यत्र नञेक्षणार्थ- समीपकार्यान्तरमुच्यते हि॥। ततश्च नेक्षिष्य इतीशी स्यात् संकल्पना संनिहितत्वहेतोः ॥ ४०७॥ नोदयन्तमित्यत्रेति । ईक्षणार्थसमीपे ईक्षणार्थसमीपस्थं कार्यान्तरं सङ्कल्परूपमुच्यते हि, नोदन्तमित्यत्र नञेति योजना। यस्मिश्नीक्षितरि तदीक्षणं वर्त्तते तत्स्थं तद्विरुद्धं कार्यान्तरं नञ्रा पर्युदासवृत्या समर्प्यत इत्यर्थः । किमाकारं तत्कार्यान्तरं, तदा- है ।। ततश्रेति ॥ एवं संकल्पनात्र कुतः स्यादित्यत आह ॥ स- न्निहितत्वहेतोरिति ॥ मानससंकल्पनायाः पतिषेधार्थ प्रति स- ननिहितत्वात् प्रतिषेधो हि संकल्पेन परिपाल्य इत्यतो युक्तमिह तादृख्जानसक्रियापरत्वं वाक्यस्येत्यर्थः । ४०७॥ नञ्स्तदन्यतद्विरुद्धयोः पर्युदासार्थत्वमुदाहृत्य तस्य स्व- संबन्ध्यभावार्थत्वमिदानीमुदाहरति- द्विजं न हन्यान्न कलअ्ञमद्या- दित्यादिवाक्ये विधिनास्य योगात् ।। प्रसज्ज्यमानार्थनिवृत्तिमात्रं नञोर्ऽर्थ इत्याश्रितमादरेण॥ ४०८॥ द्विजं न हन्यादिति। अत्र नामधात्वर्थप्रतिषेधकतया तदू-
322
Page 323
३१० अन्वयार्थप्रकाशिकाविभूषिते
योगो नजो न युक्तःप्रत्यक्षविरोधात् परिशेषाद्विधिनैवास्य योग इति विध्यर्थाभावमात्रपरमत्र नञूपदमित्यर्थः । अक्षरयोजना सुगमा ।। ४०८ ॥ अन्ये त्वत्रापि, नेक्षेतेत्यादाविव धातुनान्वयं नञः परि- कल्प्य नाडद्यामित्याद्याकारां मानसी संकल्पक्रियामिच्छन्तीति सर्वत्र पर्युदास एव नञोरऽर्थ इति युक्तमित्याह- नादयां न हन्यां न पिबेयमित्यपि वाक्येषु नञ्वत्सु वदन्ति मानसीम् ॥ संकल्परूपां विधिवर्तिनीं क्रियां नोद्यन्तमित्यादिवचःस्विवापरे ॥ ४०९॥ नादां न हन्यामिति ।। अपरे विधिवर्त्तिनीं मानसी क्रियां वदन्तीत्यन्वयः । सुबोधमन्यत् ॥ ४०९॥ ननु प्रत्ययार्थेन प्रधानेन नञ्ोऽन्वयं परित्यज्य धातुना- Sप्रधानेनान्वयः पर्युदासश्र कस्मादाश्रीयत इतिचेत्, तथात्वे प्रत्यक्षविरोधादित्याह- वाक्येषु नञ्वत्सु निवृत्तिमातरं प्रमेयमित्यभ्युपगम्यमाने ।। प्रत्यक्षमानेन विरुच्धते हि निवृत्तिशास्त्रं न च युज्यते तत ।। ४१० ॥ वाक्येषु नञ्र्वत्स्विति ॥ प्रत्यक्षविरोधं, न हि कलअ्ज- मित्यत्र वक्ष्यति॥ निछृत्तिशास्त्रं निषेधवाक्यात्मकम् ।। इष्टापत्तिं परिहरति॥ न च युज्यते तदिति॥ मानान्तरविरोधे शास्त्रस्य पामाण्यायोगादितिहेतुश्रकारसमुच्चितोऽत्र योज्यः ।। ४१० ॥
323
Page 324
संक्षेपशारीरके प्रथमोऽध्यायः।१ ३११
भाष्यकारवचनानुसारेणाप्यत्र धातुयोगेन नजः पर्युदासा-
प्रवर्त्तकं वाक्यमुवाच चोदनां नितर्त्तकं नैवमुवाच भाष्यकृत्। ततश्च विदो न हि चोदनाऽस्ति सा प्रवर्त्तिका या न भवेदिति स्थिति: । ४११॥ प्रवर्त्तकमिति॥ भाष्यकृच्छवरस्वामी चोदनासूत्रे प्रवर्त्तकं वाक्यं चोदनामुवाच, चोदनेति क्रियायाः प्रवर्त्तकं वचनमि- ति। एवं निवर्त्तकं निषेधवाक्यं चोदनां नोवाच। यद्यत्रापि प्रत्ययपाधान्यं विवक्षित्वा तन्निवृत्तिर्न्नञर्थः प्रतिषेधवाक्येषु भवे- त्तदा चोदनेति क्रियाया: प्रवर्त्तकं निवर्त्तकं च वचनमित्यवक्ष्य त्। तन्नावादीत् । ततश्र हेतोरेवं विअ्यः ।सा चोदना न ह्य- डस्ति या प्रवर्त्तिका न भवेदिति स्थिति: शास्त्रमर्यादेति। अन्ते इति शब्दोऽध्याहार्यः ॥ ४११॥ एवं मतविशेषमुत्थाप्य तत्र विषयव्यवस्थया नञोऽर्थद्वै- विध्यमुक्तं दूपयति सिद्धान्ती- न नामयोगो न च धातुयोगो लिडादियोगोऽपि न कारणं नः । नञः स्वसम्बन्धिनिवृत्तिमातं स्वतोऽ्भिधेयं परतोऽन्यदस्य ॥ ४१२ ॥ न नामयोग इति ॥ न कारणं, नजोर्ऽर्थव्यवस्थायामिति शेषः। नोऽस्माकमिष्टमिति योज्यम् । तर्हि कथं निषेधपर्युदास- व्यवस्थेतिचेत्तत्राह ।। नञ इति ॥ स्वसंबन्धिनिषृत्तिमात्रं नञः
324
Page 325
३१२
स्व्रतः स्वरसतोऽभिधेयं निष्ठत्तिरेवास्य सर्वत्र नामधातुप्रत्ययानां योगेऽप्यर्थः स्वभावतः। अन्यत् त्वर्थान्तरं पर्युदासादिरूपं परतः कारणान्तरादित्यर्थः ॥ ४१२ ॥ कुत एवमितिचेत््वदुक्तव्यवस्थाया व्यभिचारदर्शनादित्याह तथाहि नाग्रे करिणीति नाम्ना गजोऽत्र नास्तीति च धातुयोगे।। लिडादियोगेऽपि निवृत्तिरर्थो विषं न खाददिति नञ्पदस्य ॥ ४१३ ॥ तथाहीति॥ नाग्रे करिणीत्यत्र नञ्रो नामयोगे करिण्या निषेध एव प्रतीयते, न तत्पर्युदासेनार्थान्तरम् । तत्कल्पनानिमि- त्ताभावादित्यर्थः । अत्र गजो नास्तीति धातुयोगे अस्धातुयोगे च गजाभाव एव नञर्थः प्रतीयते। न खादेदिति लिडादियोगे- जपि नञूपदस्य निष्ृत्तिरेवार्थः प्रतीयत इत्यर्थः ॥४१३॥ लोकप्रयोग इंव श्रुतिप्रयोगेऽपि व्यभिचारमाह- तथा श्रुतौ नेति वचःसु नाम्नि नानेह नास्तीति च धातुयोगे।। तथा विधाने न कलअ्जमद्या- न्नजोडविशेषेण निवृत्तिरर्थ: ॥ ४१४ तथा श्रुताविति॥ अथात आदेशोनेति नेतीत्यादिवाक्येष्वित्य- डर्थः। नेह नानास्ति किश्चनेत्येतच्छन्दोऽनुरोधेन नानेह नास्तीति व्यत्यस्य प्रयुक्तम् । नञ्रः सर्वत्राविशेषेण निवत्तिरर्थो, न कापि स्वरसतः पर्युदासार्थत्वम् । सर्वत्र निटृत्तिलक्षणमुख्यार्थसंभवा दित्यभिप्ायः ।४१४॥
325
Page 326
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ३१३
एवं तर्हि कथं प्रतिनियताव्यवहारव्यवस्था सर्वत्र निट्टत्त्य- डर्थत्वे इतिचेत्तत्राह- औदासीन्यं पुरुषगतमेवाविशेषान्नजोऽ्थों भ्रान्तिप्राप्ते सति तु विषये यत्र यत्रैष ष्टः ।। नौदासीन्यं पृथगिह भवेदात्मचिन्मातरूपात् सिद्धे वस्तुन्यवसितमतो वेदवाक्यं निषेधे॥ ४१५॥ औदासीन्यमिति॥विषये भ्रान्तिपराप्ते सति यत्र यत्र एष नञ्् दृष्टस्तत्र सर्वत्र पुरुषगतमौदासीन्यमेव नञोर्डर्थोऽविशेषाद् नामादियोगकृतविशेषाभावादिति योजना । तुशब्द: पमाणपाप्त- विषयव्युदासार्थः । न हन्यादित्यादौ प्रतिपिद्ध्यमानक्रियाफल- प्रार्थनाया भ्रान्तिपाप्तत्वान्निषेधसंभवात्तत्र प्रसज्ज्यपतिषेध एव नञर्थः। प्रमाणप्राप्तस्य प्रतिषेद्धुमशक्यत्वात्तत्र पर्युदासइति व्य- वस्थासिद्धिरित्यर्थः। ननु निषृत्तिरपि व्यापारोपरमलक्षणाऽनु- ्या भविष्यति । अतो निषृत्तिनिष्ठमपि वाक्यं कार्यनिष्ठमेवेति- चेननेत्याह ॥ नौदासीन्यमिति । आत्मचिन्मात्ररूपादौदासीन्यं पसक्तक्रियाया अकरणरूपं पृथगन्यदनुष्ठेयं वस्त्विह निषेध- वाक्ये प्रतीयमानं न भवेत्। भ्रान्तिपाप्तपार्थनायाः परमार्थतो- डभावात्तन्निष्टत्तिर्न्न प्रत्यगात्मनोऽर्थान्तरं संभवतीत्यर्थः। फलित- माह । सिद्धे वस्तुनीति ॥ निषेधे निषेधस्थले वेदवाक्यं सिद्धे वस्तुन्येव प्रमाणमिति निश्चितमित्यर्थः॥४१५॥ यत् पुनर्भाष्यकारेण प्रवर्तकवचनवन्निवर्तकं वचनं चोदना- शब्दार्थत्वेन न व्याख्यातमिति निृत्तिरन्र चोदनार्थ इति गम्यत इति। तन्न। उपलक्षणत्वान्ाष्यवाक्यस्येत्याह- प्रतर्त्तकं वाक्यमुवाच चोदनां ४०
326
Page 327
३१४ अन्वयार्थप्रकाशिकाविभूषिते
निधाय बुद्धौ वचनं निवर्त्तकम् ॥ द्वितीयसूत्रे भगवान् बहुश्रुतो न चोदनादवित्वनिवारणाय तत् ॥ ४१६ ॥ प्रवर्तकमिति । भाष्यकारो भगवान् बहुश्रुतः सर्वज्ञो यत् प्रवर्तकं वाक्यं चोदनामुवाच, तन्निवर्तकं वचनमपि बुद्धौ निधायैव, न चोदनाद्वित्वनिवारणाय तद्वचनम्।अन्यथा,चोदना- लक्षणोरऽर्थो धर्म इति सूत्रे अर्थग्रहणं, श्येनाद्यधर्मव्याटृटत्यर्थ- मर्थपदमिति तद्भ्ाष्यं चानपेक्षं स्याद, निषेधेपु चोदनाभावा- चोदनालक्षणो धर्म इत्येतावतैवानतिव्याप्तधर्मलक्षणसिद्धेरिति भावः॥ ४१६ ॥ इदानीं पाभाकरमतमुत्थापयति - ननु निवृनिपरत्वमुदीरितं विघटयामि निषेधगिरामहम्॥ न हि कलञ्जमिति प्रतिपाद्यते यदि तदा नयनेन विरुद्धते ॥ ४१७ ॥ ननु निवृत्तीति ॥ विघटनप्रकारमाह । न हीति।। नञ्रो नामान्वयेन प्रतिषेधपरत्वे इदं कलञ्जमिति प्रत्यक्षेण वि- रोध: स्फुट इत्यर्थः ॥ ४१७॥ धात्वन्वयेऽपि स एव दोष इत्याह- अथ कलञ्जपदार्थगभक्षणं न हि तदाप्यमुनैव विरुद्ध्ते।। अथ तदीयफलस्पृहयान्वयो
327
Page 328
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ३१५
न हि तदप्यनुभूतिपराहतम् ॥.४१८॥ अथ कलस्जेति ॥ भक्षणस्यापि प्रत्यक्षत्वादित्यर्थः । तर्हि नियोगमेव प्रत्ययार्थमादाय तन्निपेधः प्रत्ययसंगतनञर्थ इत्यपि न वाच्यमित्याह ।। अथ तदीयफलेति ॥ यतस्तदप्यनुभववि- रुद्धम्। तदा हि नियोगतः पाप्तभक्षणस्यैव निषेधो, न यदच्छा- पाप्तभक्षणस्य निवत्ति: सिद्ध्यतीत्यर्थः ॥४१८॥ ननु नियोगनिषेधादेव भक्षणस्यानर्थहेतुत्वकल्पनाद्यादच्छिक- तया प्राप्तभक्षणनिवृत्तिरपि सेत्स्यतीत्याशङ्का तदपि मनोरथ- मात्रमित्याह- अथ तदीयनियोगनिवर्त्तनं भवतु भक्षणमस्तु तदिच्छया ॥ न हि नियोगनिवृत्तिनिवेदने सति कलञ्जमभक्ष्यमितीङ्गयते ॥ ४१९॥ अथ तदीयनियोगनिवर्त्तनमिति।। भक्षणनियोग- निवर्तनं नञर्थो भवतु इति शङ्गानुवादभाग:।दूपणभागो,भक्षण- मस्ति तदिच्छयेति ।। तत्तदापि इच्छया प्राप्तभक्षणमस्त्येव, न निवर्त्तत इत्यर्थः । तदेवोपपादयति। नत्र्वता वाक्येन नियोग- निटत्तिनिवेदने सत्यपि, कलञ्जमभक्ष्यमनर्थहेतुरिति ने्ते न कल्प्यते। कृष्यादिवद् दृष्टफलस्य तेनाप्तिषेधादित्यर्थः।अपाप्त- प्रतिषेधश्चायं नियोगनिवृत्तिपक्षो भक्षणे नियोगाभावाद् रागत एव तत्माप्तेरित्यपि द्रष्टव्यम् ॥ ४१९॥ तर्ह्युक्तेभ्योऽन्यदेव किमपि निषेध्यमिह भविष्यतीतिचेन्ने- त्याह- इह कलञ्जपदेन नञन्व्यो
328
Page 329
३१६ अन्वयार्थप्रकाशिकाविभूषिते
भवति वास्य नजोऽदिसमागमः । अदिगतेन लिडादिपदेन वा सह समेति नञत्र गतिस्त्रयी।।४२०॥। इह कलञ्जेति ॥ अदिसंगमो भक्षणान्वयो वा भवति। अदिगतेन भक्षणधात्वर्थसंगतेनेति यावत् । अत्र नओऽन्वये त्रयी गतिश्रतुर्थी नात्रास्ति, द्वाराभावादित्यर्थः ॥ ४२० ॥ तर्ह्येष्वेव पक्षः कश्चित् कथश्चिननिर्वहणीय इतिचेन्न। असं- भवादित्याह- उदतपक्षपरिग्रहकारिणां न च निषेधगिरामुपपादने ।। भवति शक्तिरतश्च निषेधगी- रवि नियोगपराभ्युपगम्यताम् ॥ ४२१॥ उदितपक्षेति। उदितपक्षपरिग्रहकारिणां नामधातुपत्य यान्वयानां निषेधगगिरां निटृत्तिपरत्वोपपादने शक्तिर्न्र च भवति। तदसंभवस्योक्तत्वादित्यर्थः । तर्हि निषेधवाक्यानां का गति- रिति, तामाह । अतश्रेति ॥ निषेधगीरपीत्यपिशब्दो विधिगी- र्दष्टान्ताथेः ॥ नियोगपरेति ॥ धात्वर्थनिषेधनियोगपरेत्यर्थः । न च भक्षणादेः कर्त्तव्यत्वनिव्ृत्तिवाक्यार्थपक्षे मानान्तरविरोध इति भाव:।। ४२१ ।। यदि निष्ृत्तिनियोगो निषेधवाक्येषु वाक्यार्थस्तर्हि नाद्या- न्न हन्यादित्यादिनिषेधशास्त्राणां मिथो न भेद: स्यान्नि्वत्तिनि-
यथा च यागाद्यनुबन्धभेदादू
329
Page 330
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ३१७
ज्विन्नेषु शास्त्रेषु नियोगभेद: ॥ निवृत्तिभेदादपि तद्वदस्य निवृत्तयोऽपि ह्यनुबन्धभृताः ॥। ४२२ ॥। यथा च यागादीति ॥ यथा विधिशास्त्रेष्वपि यागदान- होमाद्यनुबन्धभेदादवच्छेदकभेदाद्भिनेषु शास्त्रेषु सत्सु तत्तद्विषय- नियोगभेदोऽड्रीकृत इति शेपः। तद्वदस्य निवर्त्त्यभेदान्निषेध्यभेदा- दपिशब्दाद्धात्वर्थनामभेदान्निषेधभेदाच्च भेद इति योजना । हि यस्मान्निष्टत्तयो निषेधा उपलक्षणमेतन्निषेध्यादयोऽप्यनुबन्धभूता निटृत्तिनियोग स्येत्यर्थः। निषेध्यभेदान्निषेधभेदात्तद्विषय नियोग- भेदे सति निषेधशास्त्रवाक्यस्यापि भेद: सिद्ध्यतीत्युक्तं भ- वति ॥ ४२२ ॥ नन्वस्मिन् पक्षे निषिद्धानुष्ठानस्य कथमनर्थहेतुत्वसिद्धिरि- तिचेन्न कथश्चिदपि, तत्र पमाणाभावादित्याह- निवृत्तिसिद्धयापि नियोगसिद्धि :- प्रवर्त्तमानस्य न गर्त्तपातः ।। निषिद्धचेष्टा निरयस्य हेतु- र्नियोगतो नाध्यवसीयते हि ॥ ४२३ ॥ निवृत्तिसिद्ध्यापीति ॥ निषिद्धानुष्ठानस्य अनर्थहंतुत्वं विनाऽपि निवृत्तिमात्रसिद्धयाऽपि नियोगसिद्धिर्भवति। नित्य- नियोगवदस्यापि फलनिरपेक्षत्वाद्विषयनिर्व्टत्तिमात्रेण नियोग- सिद्धेरित्यर्थः । एवं निषेधवाक्यस्यापि नियोगनिष्ठत्वान्निषिद्ध- क्रियायां प्रवर्त्तमानस्य नगर्त्तपातो निरयपाप्ति: शास्त्रतोऽवगम्यत इति शेषः । तदेवोपपादयति ॥ निषिद्धचेष्टेति ॥ हि यस्मान्नि-
330
Page 331
३१८ अन्वयार्थप्रकाशिकाविभूषिते
षिद्धचेष्टा निरयस्य हेतुरिति नियोगतो विधितो नाध्यवसीय- ते। न खलु विधिना विना वेदवाक्यादपूर्वार्थावधृतिरस्ति। विधिश्च नियोगमात्रपरो नित्यविधिवन्न तु स्वर्गकामादिविधिव- त् फलवन्नियोगपरः। न हि निषेधवाक्येषु, स्वर्गकाम इत्यादि- वद्गर्त्तपातपरिहारकामो नाद्यान्न हन्यादित्यादि प्रतीयते। अतो न नियोगतोऽनर्थहेतुत्वं कलञ्जभक्षणादेरवसीयत इत्यर्थः।निषि- द्धक्रियानिटृत्त्यनुष्ठाने तद्विरोधिनिपिद्धानुष्ठानासिद्धौ गर्त्तपाता- भावोऽर्थसिद्ध इति भावः ॥४२३ ॥ विशिष्टफलाभावे पुरुषं परेरयितुमशक्नुवन्नियोगो निट्टत्तेरनर्थपरिहारत्वकल्पनया- जर्थात् पट्टत्तेरनर्थफलत्वं कल्पयेन्न फलहीन एवेतिचेन्न । निटृटत्तो साक्षात्मेरणाभावादित्याह- नियोग एवैष पुमान्नियुज्यते नियोगसिद्धयै तु पुनर्नियुज्यते।। परत्र कर्मस्वथ वा निवृत्तिषु स्थितिः प्रसिद्धेति नियोगवादिनाम् ॥ ४२४ ॥ नियोग एवैष इति ॥ एष पुमानधिकृतो नियोग एन साक्षान्नियुज्यते। प्रथमतः पुनन्नियोगस्य साक्षात्कृतिसाध्यत्वा- संभवान्नियोगसिद्धय तु निवृत्त्यनुष्ठानेऽपि नियुज्यते, न पुनः साक्षाद्येन तत्र फलकल्पनमित्यर्थः । एतच्च परत्र कर्मसु पदृत्ति- रूपेषु, अथवा निवृत्तिपु निटत्तिरूपेषु कर्मसु च तुल्यम् । इति इत्थं नियोगवादिनां स्थिति: प्रसिद्धा। सर्वत्र नियोगसिद्धिरेव साध्यो, धात्वर्थस्तु नियोगसिद्ध्यर्थमेवानुष्ठेयः । नियोगस्य साक्षात्कृतिसाध्यत्वासंभवात्। फलं तु कामिनियोगेऽप्यनुद्देश्यो
33
Page 332
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३१९
नियोगविशेषसामर्थ्यसिद्ध इति भावः ।। ४२४।। ननु निटृत्तिर्न्नाम क्रियानुत्पादस्तस्या: परागेवसिद्धत्वात् कथमनुष्ठानमितिचेत्तत्राह- प्रवृद्रागस्य निवृत्तयोऽस्थिरा- स्ततः स्थिरत्वाय नियुज्यते पुमान् ॥ निवृत्तिदेशषु नियोगबुद्धितो निवृत्तिमूर्ध्व परिपालयिष्यति ॥ ४२५॥ प्रवृद्धरागस्येति । निपिद्ध्यमानक्रियाफलेषु प्रदृद्धो रागो यस्य तस्य पवद्धरागस्य निषृत्तयोऽस्थिराः । निवृत्तिपागभाव- स्य पच्युतिर्हि तस्य जायत इत्यर्थः । ततो हेतोः स्थिरत्वाय नि- दृत्तिस्थैर्याय पुमान्निटत्तिदेशेषु निवृत्तिनियोगविपयेषु नियुज्यते। कथं नियोगतस्तत्स्थैर्यमिति, तदाह ।। नियोम्रबुद्धित इति ॥ नि- योगबुद्धेरुर्ध्व निषृत्ति परिपालयिष्यति नियोगबलान्नििटत्तिनिष्ठ- एव भवर्तीत्यर्थः ।। ४२५।। ननु नञर्थस्याभावस्य प्राभाकरैरनङ्गीकारादभावस्यैव नि- वृत्तिशब्दार्थत्वात् कथं तत्र नियोगस्तदनुष्ठानं वेतिचेत्तत्राह- अनाद्यजग्घेश्च निवृत्तिनिष्ठा- डविशिष्टदन्तोष्ठनिविष्टसंतरित् ।। अनन्यसंसर्गिपदार्थसंवि- न्निवृत्तिरित्येष हि राजमार्गः ॥ ४२६॥ अनाद्यजग्धेश्रेति ॥ न आद्यमनाद्यमभक्ष्यं तस्यानाद्य- स्य नग्धेर्भक्षणस्य निषृत्तिनिष्ठा नाम विशिष्टदन्तोष्ठनिविष्टसंवित्।। विशिष्टेति कैवल्यमुच्यते। अविशिष्टेति वा छेदः । केवलदन्तोष्ठ-
332
Page 333
३२० अन्वयार्थप्रकाशिकाविभूषिते
निविष्टसंविदिति यावत्ं। निर्व्यापारतया ज्ञायमानदन्ताद्यव स्थानमजग्धिरित्यर्थः । नअर्थोऽपि नाभाव इत्याह।।अनन्येति॥ केवलपदार्थसंविदित्यर्थः । सर्वत्र हि धर्मिणो निषेद्धयसंसरगवैधुर्य कैवल्यमेव ह्यभावप्रतीतेरालम्बनमिति भावः ॥ ४२६ ।। ननु यदुक्तं नामादीनामन्यतमस्यापि निषेधोऽत्र प्रत्यक्ष- विरोधान्न संभवतीति नञ्ो नाभावपरत्वमिति। तदसत् । इष्ट- साधनताभावपरत्वसंभवादिति कस्यचिच्छङ्कामुत्थापयति- ननु समीहितसाधनता लिडे लशुनगृञ्जनभक्षणसंश्रया । भवति वाच्यतयाभिमतास्य नो नञपि तद्विनिवृत्तिनिवेदकः ॥ ४२७ ॥ ननु समीहितेति।। लशुनादिभक्षणसंश्रया समीहित- साधनता लिडे वाच्यतया नोऽस्माकमभिमता भवति। अस्य निषेधवाक्यस्य संम्बन्धी यो लिङ् तस्यलिङ इति योज्यम्।अस्य लिङ इति सामानाधिकरण्यं वा । अथवास्य मकतवाक्यस्य सम्बन्धी नवपीति सम्बधध्यते। तद्विनिष्ृत्तिनिवेदक इष्टसाधन- ताभावबोधक इत्यर्थः ।। ४२७।। एतदपि नोपपद्यते प्रत्यक्षविरोधादित्याह-
लशुनगृञ्जनपर्युषिताशनात ।। न हि निषिद्धपदार्थनिमित्तकः सुखलतः पुरुषस्य न विद्यते ॥ ४२८॥ तदसदिति। सुखं हि सर्वमटत्तीनां फलमिष्टम्। तदिह
333
Page 334
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३२१
प्रत्यक्षम्। लशुनगृञ्जनपर्युषिताशनादिष्टफ लोन्भवस्य पत्यक्षत्वा- छशुनादि भक्षणस्य समीहितसाधनत्वनिव्ृत्तिपरत्वं नञ्ोऽनुपपन्न- मित्यर्थः। लश्ुनं कन्दविशेषः श्वेतो दुर्गन्धिःगृस्जनं तु लशुना- Sडकार आरक्त: कन्दः । पर्युपितं दिनान्तरपक्कमन्नम्। उक्त- मेव व्यतिरेकमुखेन व्यनक्ति॥ न हीति॥ न विद्यत इति न हि, किन्तु विद्यत एवेत्यर्थः । पूर्व निरस्तोऽप्ययं पक्षः पुनराशङ्का पूर्वपक्षिणा दूषितः सिद्धान्तिनोऽत्रैवादरं दृष्ट्रेतिद्रष्टव्यम्।।४२८।। तस्मात् कस्यचिदपि निषेधासम्भवान्नि्ृत्तिनियोगनिए्ठं निषेधवाक्यमिति प्राभाकरमतं प्राप्तमाभासयति- अदृष्टदोषं परिहत्य शंसतः कलञ्जमास्वाद्य सुखित्वमात्मनः ।। पुमानबोधोपहतः समीहते तदीहिताभावपरा निषेधगीः ।।४२९।। अटृष्टदोषमिति॥ अलौकिकं शास्त्रैकर्गम्यं दोषं दुःखफलं परिहत्यानादत्य कलअं विषलिप्तेषुहतमृगमांसमास्वाद्यात्मनः सुखित्वं शंसतः प्रार्थयमानस्य पुंसो यदीहितं प्रार्थितं तदीहि- ताभावपरा निटृत्तिगीरित्यन्वयः । तस्येहितस्य योऽभावस्तत्परं निषेधवाक्यमित्यर्थः । ईहितम् ईहा, तच्च तदीहितं च तदीहित- मिति विग्रहः । ननु कलआस्वादनेनात्मनः सुखित्वपार्थनाया अपि प्रत्यक्षसिद्धत्वान्न निषेधमर्हतीत्याशङ् तादृशोऽनुभवो न पमाणं, किन्तु भ्रम इत्याह ॥ पुमानबोधोपहतः समीहत इति ॥। यस्मादित्यध्याहार्यम् । यस्मात् पुमानेवं प्रार्थयमानोऽबोधोपहतः कलअ्भक्षणजन्यभाव्यनर्थाज्ञानग्रस्तोऽरण्यप्देशे अतिरमणीय- दर्शनेन्द्रवारुणीफलभक्षणे पटृटत्त इव तत्परिपाकानभिज्ञः क्षुधितः ४१
334
Page 335
३२२ अन्वयार्थप्रकाशिकाविभूषिते
समीहते प्रार्थयते, तस्मादू भ्रान्तिसिद्धपार्थनाविषयत्वाल्िडस्त- न्रिष्ृत्तिपरो नजित्यभिप्रायः । न च धर्मिणो निषेध्यसंसर्ग- राहित्यं कैवल्यमेवाभावप्रत्यालम्वनम्। निषेध्यसंसर्गराहित्यस्यैव तदालम्बनत्वात् । अन्यथा तत्रापि विधिमुखप्रत्ययवेद्यत्वप्सङ्गा- त् केवलभावस्य तथात्वाव्यभिचारादिति भावः ॥ ४२९ ॥ ननु अनुभूयमाना पार्थना तादृशी कर्थं निपेद्धुं शक्यत इति चेन्न। तस्या: पामाणिकत्वस्य निषेधोपपत्तेरित्याह- नरकपातविवर्जनवर्त्मना भवतु विप्रवधात् परमार्थतः ॥ मम सुखित्वमितीच्छति यत पुमा- न्न तदितीह निषेधगिरोच्यते ॥४३०॥ नरकपातेति। ब्रह्मवधादौ प्रवर्त्तमान: पुरुषो मम विभ- वधादस्मान्मया क्रियमाणान्नरकपातविवर्ज्जितमार्गेणानिष्टाननु- बन्धित्वप्रकारेण सुखित्वं भवत्विति यत् परभार्थतःपरमार्थबुद्ध्या इच्छतीति यत्तन्नेति इह वेदेषु निषेधगिरोच्यते । वस्तुगत्या बल- वदनिष्टाननुवन्धिन्यामेव क्रियायां तद्वैपरीत्यं मोहात् कल्पयन् पुमांस्तत्र प्रवर्त्तमानस्तत्क्रियायास्तत्कल्पित समीहितसाधनत्वा- भाववोधनेन श्रुत्या स ततो निवर्त्यत इति भ्रान्तिपतिपन्नेष्ट- माधनताभावबोधकमेव निषेधवाक्यं, नानुष्ठेयबोधकमिति ता- त्पर्यार्थः ।।४३०।।।। पूर्वपद्योक्तमेव स्फुटयति प्रमाणतो नास्ति निषिद्धकर्मणः फलस्पृहाऽदृष्टभयं बिना तव ।।
335
Page 336
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ३२३
भ्रमादबोधप्रभवात् प्रवर्तसे न तात मानेन फलस्पृहाऽत्र ते ॥। ४३१ ॥ प्रमाणत इति ॥ या तवादृष्टभयं बिना पारलौकिकभया- नादरेण निपिद्धकर्मणो विभवधादे: फलपार्थना सा पमाणतो नास्ति, भमितिमूला सा न भवतीत्यर्थः।यत एवं तस्माद् हे तात वत्स! अबोधप्रभवादज्ञानमूलाद् भ्रमात्तत्र पवर्त्तसे। ते फलस्पृहा या जायते सा प्रमाणतः परमार्थतो नेति योजना ॥ ४३१ ॥ उपपादितां निपेधवाक्यशक्तिमुपसंहरति- इति श्रुतिः शास्ति निषिद्धकर्मणि प्रवृत्तिमन्तं पुरुषं नञ्रन्विता ॥ न चायमर्थोऽपहृतः प्रमान्तरै-
इति श्रुतिः शास्तीति॥ निपिद्धकर्माण प्रवृत्तिमन्तं पुरुषं नञ्पदेनान्विता क्षतिरित्यस्मदुक्तपकारेण शास्ति बोधयतीत्यर्थः। पकृतश्रुतिवाक्यं न स्वार्थपरमिति नआशङ्का कार्येत्याह॥न चा- डयमर्थ इति ॥ प्रमाणान्तरैरयमेतच्छ्ुत्युक्तोरऽर्थो न चापहृतः । अपशब्दोऽत्रोपशब्दार्थोऽव्ययानामनेकार्थत्वात् प्रयुक्तः।न मानान्तरेण भापित इत्यर्थः । अनेनास्यानुवादत्वशङ्गा निर- स्ता।न ह्ययमर्थः केनचित प्रमाणेन क्वचित् सिद्धः।तथापि गुण- वादो भविष्यतीत्याशापि न कार्येत्याह ।। न हीति॥ विरो- घिनः प्रमाणान्तरस्यानिरूपणादित्यर्थः । न च प्रकृतक्रियाफल ईप्सितत्वधीविरोध: शङ्कनीयः। तस्याभ्रान्तित्वोपपादनान्माना- न्तरस्य तद्विरोधिनोऽदर्शनाच्छुतेः प्रामाण्यस्य स्थितत्वादिति
336
Page 337
३२४ अन्वयार्थप्रकाशिकाविभूषिते
भावः ।। ४३२ ॥। भ्रान्तिनिष्टत्तिमात्रोपक्षीणं निषेधवाक्यमित्यत्र दष्टान्तमाह- भुजङ्गभोगं सुकुमारशीतलं निदाघसंतापनिवृत्तये शिशुम् ॥ भ्रमादुपादित्सुमुदीक्ष्य कातरा निवर्त्तयेत्तज्जननी यथा तथा ॥ ४३३ ॥ भुजङ्गभोगमिति ॥ स्पष्टार्थः॥४३३॥ दार्ष्टान्तिकमाह- भ्रमादनर्थस्य निदानमादरा- त्कृतार्थतायै लशुनादिभक्षणम् । नञन्विता वैदिकचोदनाप्यसौ िधित्सुमालक्ष्य निवर्त्तयिष्यति ॥४३४ ॥ भ्रमादनर्थस्येति । पूर्वपद्यान्ते स्थितस्तथाशब्दोऽस्मिन् पद्ये योज्यः। वस्तुगत्याऽनर्थस्य निदानं लशुनादिभक्षणं भ्रमा- त् कृतार्थतायै आदराद्विधित्सुं पुरुषमज्ञमसावपि नञन्विता वैदिकचोदना निवर्त्तयिष्यतीत्यन्वयः ॥४३४ ॥ एवं स्वाभिमतं भ्रान्तिप्रतिपन्नक्रियाफलपार्थनानिव्ृत्ति- निष्ठत्वं निषेधवाक्यस्योपपाद् पराभिमतं नियोगनिष्ठत्वं नैव संभ- वतीति प्रतिपादयति- क्रियानुप्रवेशं बिना प्रागभावः प्रसक्तक्रियाया न निर्वोदुमीशः ॥
337
Page 338
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३२"
पदत्वं नियोगस्य भावार्थवद् वः ॥४३५॥ क्रियानुप्रवेशमिति॥अयमर्थः।विधेर्ह्यनुष्ठेयो भावार्थो(१) विषयस्तद्द्वारेण नामार्थोऽपि(२) तद्विपयो, न साक्षादिति हि शास्त्रस्थितिः। तथाच निषिद्धक्रियापागभावोऽनुष्ठेय इति वदता तस्य गुणद्रव्यवदारुण्यदध्यादिवत् क्रियानुपवेशेन नियोगविषय- त्वं वक्तव्यम्। तेन विना प्रसक्तक्रियायाः प्रागभावो नियोग- स्य पदत्वं नियोगनिर्वर्त्तकतया तद्विपयत्वं निर्वोढुं नेशो, न समर्थः । कुतः । निष्पन्नभावाह्गुणद्रव्यवन्निष्पन्नस्वरूपत्वाद्वो युष्म- त्पक्ष इति योजना। भावार्थवदिति वैधर्म्यटष्टान्तः। यथा भावा- 5र्थः(३)पुरुषकृतिसाध्यत्वात् साक्षान्नियोगविषयो, न तथा पाग- भावो निष्पन्नत्वेनासाध्यत्वादित्यर्थः ॥ ४३५॥ तर्हि निषत्ति पालयेदिति पालनक्रियानुपवेशेन विधि- विषयः प्रागभावो भविष्यतीतिचेन्नेत्याह- न पाल्यत्वयोगादलं भृष्णुभावो यतः पालनं श्रूयते नात्र वाक्ये।। न खल्तश्रुतं गृह्यते न्यायहीनं यथा न श्रुतं त्यज्यते तद्वयेन ॥ ४३६॥ न पाल्यत्वयोगादिति।।अत्रेदं वक्तव्यम्। परिपालनेना- Sनुष्ठेयत्वं भागभावस्य युत््या कल्प्यते, श्रुत्या वा प्रतीयते ? इति। तत्र नाद इत्याह । न पाल्यत्वेति । भूष्णुभावो भवन- शीलत्वम्।।प्रागभावस्येति शेषः । न हि पागभावस्यानादिसिद्ध- स्य पाल्यत्वसंबन्धात् साध्यत्वमलं योग्यमित्यर्थः । न द्वितीय (१) साध्यार्थः ॥ (२) सिद्धार्थः॥ (३) धात्वर्थो यागः ।।
338
Page 339
३२६ अन्वयार्थप्रकाशिकाविभूषिते
इत्याह ।। यत इति ॥ अश्रुतमपि कल्प्यत इतिचेन्न। न्यायवि- रोधादित्याह ॥न खल्विति।।श्रुतं प्सक्तक्रियायाः फलपार्थना- प्रतिषेधमकस्मात् परित्यज्याश्रुतपाल्यत्वविधिकल्पनं न्यायपथा- नारूढमित्यर्थः ॥ ४३६ ॥ नतु यो नञो मुंख्योऽर्थः प्रतिषेधः ञ्रतः स एव नियोग- विषयस्तस्य तु पालनानुपवेशेनानुष्ठेयत्वमित्येतावदिह वयं ब्रूमो- पतो न श्रुतहान्यश्रुतकल्पनापसङ्ग इतिचेननैवमप्युपपद्यत इत्याह- उदासीनता च श्रुता नञ्पदार्थो नियोगे सति त्याज्यतां याति सदय: ॥ अतद्योग्यभावादयोग्यः पदार्थो न वाक्यार्थभागिष्यते जैमिनीयैः ॥ ४३७॥ उदासीनता-चेति। चशब्दोऽवधारणार्थः। नञ्रूपदार्थ इहोदासीनतैव श्रुता या सा नियोगेऽभ्युपगम्यमाने सति सद्य- स्त्याज्यतामेति। कुतः॥अतद्योग्यभावात्॥ विधिं प्रतिविषयत्वेना- डन्वययोग्यत्वाभावात्। न हौदासीन्यमनुष्ठेयं भवाते। अननुष्ठेयं च न विधिविषय इत्यर्थः। अयोग्यस्यार्थस्य वाक्यार्थतया परि- ग्रहो न न्यायवित्संमत इत्याह । अयोग्यः पदार्थ इति ॥४३७। तदेवमत्र विषयाभावान्न निषेधवाक्यस्य नियोगनिष्ठत्व- संभव इति प्रतिपादितम् । यत्पुनरुक्तं निटृत्तिपरिपालनेन नियोगकर्त्तव्यतायां पर्यवस्यति निषेधवाक्यं, न तु प्रवर्त्तमानस्य गर्त्तपाते तत् पमाणमिति। तदत्यन्तमसंगतं सर्वलोकपसिद्धिवि- रोधादित्याह- निषिद्धक्रिया प्रत्यवायाय नेति
339
Page 340
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३२७
स्त्रकर्णो जनः प्रोर्णुते पापभीरुः ॥ समाकर्ण्य दुर्भाषितं पार्श्ववर्ती न पापाक्षरं किञ्चिदेतादृगन्यत् ।। ४३८॥। निषिद्धक्रियेति ॥ निषिद्धक्रिया प्रत्यवायाय पापाय ने- ति दुर्भाषितं समाकर्ण्य पामभीरुः पाशर्ववर्ती जनः स्वकर्णो प्रोर्णुते कर्णरन्धरं पूरयत्याच्छादयतीत्यन्वयः। यत एतादृगन्य- न्न किश्चित पापाख्यमस्त्यतः प्रोर्णुत इत्यर्थः । अविगीतसज्जन- प्रसिद्धेर्भ्रान्तिमूलत्वाभावाद्यथा तत्मसिद्धिविरोधो न भवति तथा निषेधवाक्यव्याख्यानमुचितं न विपरीतमितिभावः।।४३८।। किश्च, निपिद्धक्रियाव्यतिरेकेण दुःखहेत्वनिरूपणात् सैव तद्धेतुरित्यङ्गीकरणीयमित्याह- निषिद्धक्रिया प्रत्यवायाय नो चे- त्तदा दुःखमाकस्मिकं सर्वपुंसाम ॥ सुखं पुण्यमूलं यथा सर्वपुंसां तथा दुःखमप्यस्तु वः पापमूलम् ॥ ४३९॥ निषिद्धक्रिया प्रत्यवायाय नोचेदिति॥ आकस्मिकम- डकारणकं स्यादित्यध्याहारः।न ह्यकारणकार्योत्पत्तिः संभवति। अतो दृष्टकारणस्य कस्यचिदभावेऽपि कदाचिज्जलाग्निकण्टका- दिसंसर्गद्वारकं दुःखं दृश्यमानमदृष्टमेव कारणं कल्पयति। अदष्टं च क्रियाजन्यम् । क्रिया च निषिद्धैव पापमूलमिति निषिद्ध- क्रियोत्पन्नपापादृष्टमूलकमेव सर्व सर्वेषां प्ाणिनां दुःखमिति भाव:। एवं सति यथा सर्वपुंसा सुखं पुण्यमूलमित्यविवादं तथा दुःखमपि वो युष्माकं पापमूलमस्तु, नात्रार्द्धजरतीयं युक्तमि-
340
Page 341
३२८ अन्वयार्थप्रकाशिकाविभूषिते
त्यर्थः ॥ ४३९॥ ननु दुःखं पापमूलमस्तु, पापं तु न निषिद्धक्रियाजन्यं, किन्त्वन्यत इति चेन्मैवमित्याह- निषिद्धक्रियां चोदितस्याक्रियां वा तरिना नास्ति पापस्य निष्पत्तिहेतुः ॥ ततस्तद्द्वयं पापनिष्पादकत्वा- द्ववेत् प्रत्यवायस्य नित्यं निदानम् ॥ ४४० ॥ निषिद्धक्रियां चोदितस्थेति॥ चोदितस्याक्रिया विहित- स्याननुष्ठानम् । सुगममन्यत् ॥ ४४० ॥ नन्वेवमपि चोदितस्याक्रियैव प्रत्यवायनिदानमिष्यते, न निषिद्धक्रिया। एतावतैव दुःखस्याकस्मिकत्वशङ्गापरिहारादुभय- हेतुत्वे चाननुगमाद्गोरवाच्चेति चेन्नेत्याह- निषिद्धक्रिया दुःखनिष्पत्तिहेतु- र्भवेल्लक्षणं चोदितस्याक्रियास्य ॥ अभावान्न भावस्य निष्पत्तिरिष्टा भवेल्लक्षणं ज्ञायमानस्वभावः ॥ ४४१ ॥ निषिद्धक्रिया दुःखेति । दुःखनिष्पत्तौ निषिद्धक्रियैव हेतुर्भवेन्न विहिताकरणमित्यर्थः । चोदितस्याक्रियात्वस्य पत्य- वायपदवेदनीयस्य दुःखस्य लक्षणं ज्ञापकं भवेन्नोत्पादकमित्य- डर्थः। एवं व्यवस्थायां नियामकमाह॥ अभावादिति॥ अकरणं ह्यभावः। न ह्यभावान्भावस्य दुःखादेर्ननिष्पत्तिरिष्टा वेदविद्भिरि- ति शेषः । तथाच श्रुतिः, कथमसतः सज्जायेतेति। यनु ताकिकैः
341
Page 342
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ३२९
पागभावप्रतिबन्धकाभावयोर्भावहेतुत्वम् इष्यते तद् अभावस्य निःस्वभावत्वनिर्व्यापारत्वापादनेन निराकरणीयमिति दिक।। तर्हि कथमकरणस्याप्यभावत्वात् प्रत्यवायज्ञापकत्वं स्यादि- तिचेत् तत्राह ।। भवेलक्षणमिति । विहितकरणाभावो ज्ञाय- मानस्वभावः सल्लक्षणं भवेन्न स्वरूपेण केवलस्य तस्याकारक- त्वात् । तज्ज्ञानादेव प्रत्यवायज्ञानमिति भावः ।।४४१॥ निषिद्धक्रियायाः पापहेतुत्वेऽपि निषेधवाक्यस्य कथं पा- माण्यमुपपन्नमिति तत्राह- निवृत्तिनिष्ठे तु निषेधवाक्ये निषिद्धकर्माचरणादनर्थः । प्रतीयतेऽर्थादिति तत्र युक्तं दुःखं नृणां दुश्चरितैकमूलम् ॥ ४४२॥ निवृत्तिनिष्ठे त्विति । निषेधवाक्ये निवृटत्तिपरे स्थिते सति अर्थादनुपपत्तिवलान्निषिद्धकर्माचरणनिमित्तकोऽनर्थ इति प्रतीयते इति यतस्तत्रैवं सति नृणां दुःखं दुश्चरितैकमूलमिति युक्तमिति योजना। अदृष्टभयविरहितनिषिद्धफलप्रार्थनानिषेधनं नञ्रवता वाक्येन क्रियमाणं निषिद्ध यमानफलप्रार्थनाहेतुभूतक्रिया- या अदष्टफलहेतुत्वं विनाऽनुपपन्नमित्यनर्थहेतुकक्रियानिवर्त्तक- त्वेन निषेधवाक्यस्य प्रामाण्यमुपपन्नमित्युक्तं भवति ॥४४२॥ ननु लिडर्थमिष्टसाधनत्वमाश्रित्य नञश्र तत्पर्युदासमर्थमा- श्रित्य कलअ्भक्षणादेरनिष्टसाधनत्वमिति निषेधवाक्येनाञ्ज- सैव प्रतिपाद्तां, किं विवक्षितस्यार्थस्यार्थिकत्वकल्पनयेतिचे- नेत्याह- समीहितोपायतया लिङन्वयातू ४२
342
Page 343
३३० अन्वयार्थप्रकाशिका विभूषिते
प्रतीयमानस्य तु भक्षणादिनः ।। न पर्युदासाश्रयणेन नञूपदा- दनिष्टहेतुत्वमतिर्भविष्यति ॥४४३ ॥ समीहितेति॥ समीहितोपायतया प्रतीयमानस्य भक्षणा- दिना भक्षणहननादेन्नञूपदात् पर्युदासाश्रयणेनानिष्टहेतुत्वमति- र्न्र्भविष्यतीति योजना। किलँक्षणान्नत्रपदात् ॥ लिङन्वयात्।। लिङान्वयो यस्य नञ्ूपदस्य तल्लिडनन्वयं, तस्मादिति वि- ग्रहः ॥ ४४३ ॥ कुतो न भविष्यतीत्यत आह- तथाहि सम्बन्ध्युपमर्दबुद्धये समर्थमुत्सर्गमपेक्ष्य नञ्पदम ॥ न पर्युदासय विनापवादकं ततो निवृश्धर्थपरं तदिष्यते ॥ ४४४ ॥ तथा हीति ॥ नञूपदमुत्सर्ग मुख्यटृत्याऽभावनिष्ठत्वम- Sपेक्ष्य संबन्ध्युपमदबुद्धये समर्थ यत्तदपवादकं निमित्तं विना न लक्षणया पर्युदासाय समर्थ स्यात्। न चापवादकमिह किम- डप्यस्ति। ततः कारणान्निटत्त्यर्थपरं तन्नञ्पदमिष्यत इति योजना ॥ ४४४ ॥ तथापि किमत्र युक्तम् । पक्षद्वयेऽपि दोषदर्शनादेकत्र वि- वक्षितार्थस्यार्थिकत्वमपरत्र नञो लाक्षणिकत्वमिति चेत्तत्राह- अतः प्रसज्ज्यप्रतिषेधसम्भवा- न्न पर्युदासाश्रयणं प्रशस्यते ।।
343
Page 344
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३३१
न पर्युदासाश्रयणं बिना भवे- दनिष्टहेतुत्वनञर्थकल्पना ॥ ४४५॥ अतः प्रसज्ज्येति ॥ अत इत्यस्य विवरणं, पसज्ज्य- प्रतिषेधसंभवादिति । मुख्यवृत्तिसंभवे लक्षणाश्रयणेनार्थान्तर- कल्पनं न पशस्यत इत्यर्थः । अतो विवक्षितार्थस्य मुखत एव प्रतीतेरसंभवादार्थिकतत्पतीतिरेतादृशे विपये न दोषायेति भा- वः। तर्हि विनैव पर्युदासं साक्षादेव नञाऽनिष्टहेतुत्वमुच्यतामि- तिचेन्न। असंभवादित्याह ॥ न पर्युदासाश्रयणमिति॥४४५॥ कथं न भवेदितिचेत्तदित्थमित्याह-
ह्यनर्थहेतुत्वनञर्थकल्पना । न पर्युदासं परिहृत्य कल्पते न पर्युदास: प्रतिषेधसंभवात् ॥ ४४६ ॥ अभीष्टहेतुत्वेति । अभीष्टहेतुत्वं लिडर्थमादाय तत्पृष्ठ- तो लिडे नञ्न्वयस्वीकारेण वाक्यत्वसंपत्तौ तद्शादनिष्टहेतु- त्वप्रतीतिः स्यात्। तथाचेष्टहेतुत्वपर्युदासमन्तरेण न केवलेन नञा क्रियाया अनिष्टहेतुता प्रत्याययितुं शक्यते। ततश्र विना लक्षणां नयो न पर्युदास:, पर्युदासादते नानिष्टार्थत्वबोधकतेति तात्पर्यार्थः । तर्ह्यस्तु पर्युदास एवेत्यत आह । न पर्युदासः प्रतिषेधसंभवादिति ॥ प्रागुक्तन्यायेन नञः प्रतिषेधार्थपरत्वोप- पत्तेरित्यर्थः । अक्षरार्थः सुगमः ॥ ४४६ ॥ एवं निषेधवाक्यस्य निवत्तिनिष्ठत्वमेव, न कथमपि पवत्ति- निष्ठत्वमिति प्रतिपादनेन तव प्रकृते किमायातमितिचेद्, इदमा- यातमित्याह-
344
Page 345
३३२ अन्वयार्थ प्रकाशिकाविभूषिते
प्रमाणमिच्छन् प्रतिषेधचोदनां समस्तवेदस्य न कार्यगोचरम ॥ प्रमाणभावं प्रतिपत्तुमीश्रवरो निषेधवाक्ये तदसंभवादतः ।। ४४७ ॥ प्रमाणमिच्छन्निति । प्रतिषेधचोदनां प्रमाणमिच्छन् वादी समस्तवेदस्य कार्यगोचरं प्रमाणभावं प्रतिपत्तुं नेश्वरो न समर्थः । कुतः । अत उक्तन्यायान्निषेधवाक्ये तदसंभवात् कार्य- निष्ठत्वासंभवादिति योजना ॥ ४४७॥ तथाच विनैव नियोगाद्यर्थत्वं वेदान्तानां प्रामाण्यं युक्तमे- वेति कैमुत्यन्यायेनाह- अतो न वेदान्तवचरसु विद्यते विधिर्नियोगो न च शब्दभावना ।। न कर्मकाण्डडपि नियोगतोऽस्त्सी यतो निषेधेषु न विद्यते विधि: ॥ ४४८ ॥ अतो न वेदान्तवच:स्विति ॥ विधिरिष्टसाधनं कृति- साध्यं विधेयमिति यावत्। नियोगोऽपूर्वाख्यं कार्यम्। शब्द- भावना च न वेदान्तवचःसु विद्यते। अहेयानुपादेयवस्तुमात्र- पर्यवसितत्वाद्वेदान्तानामित्यर्थः । यतः कर्मकाण्डेऽप्यसौ विधि- न्नियोगतो नियमेन नास्ति। निषिद्धेषु निपेधवाक्येषु विधेरविद्य- मानत्वात् तत्र कुतो ज्ञानप्रधाने काण्डे विधेरवकाश इत्य- डर्थः ॥ ४४८ ॥ निषेधवाक्यानां स्वरूपतोरऽर्यतश्च विचार्यमाणे न नियोग-
345
Page 346
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३३३
परत्वं संभवतीति प्रतिपादितम्। इदानीं यदि निषेधवाक्याना- मपि विधिपरत्वं,विधेश् नियोगत्वमभ्युपगम्येत तदापि न वेदा- न्तेषु विधेरवसरोऽस्तीत्याह- उपेत्यवादं परिगृह्य चोच्यते नियोगनिष्ठाऽस्तु निषेधगीरपि॥ तथापि वेदान्तवच:सु विद्यत विधेर्न गन्धोऽपि विरोधकारणात् ।। ४४९ उपेत्य वादमिति ॥ उपेत्यवादोऽड्गीकारवादस्तं परि- गरृह्याश्रित्येति यावत् । तमेवाह ॥ नियोगेति ॥ निषेधगीरपि नियोगनिष्ठाऽस्तु भवतु, न नः काचित् क्षतिरित्यर्थः ॥ तथापीति सुगमम् ॥ ४४९ ॥ विरोधकारणादित्युपक्षिप्तं हेतुं प्रपश्चयति पद्यत्रयेण- ज्ञानं विधातुं न हि शक्यमेत- न्न शक्यते कतुमकर्त्तुमेतत। तथाऽन्यथा कर्त्तुमशक्यमेतत प्रमाणमेयैकनिबन्धनत्वात् ॥ ४५० ॥ ज्ञानं विधातुमित्यादिना ॥ वेदान्ता अपि विधिपरा इति वदतेदं वक्तव्यम् । किमत्र विधेयमिति। ब्रह्मज्ञानं विधेय- मिति चेन्न। तदशक्तेरित्याहाऽडद्येन पद्येन। यत् पुरुषेण कर्तु- मकर्तुमन्यथा वा कर्त्तु शक्यं तद्विधेयं, यथा गमनादि। न तथा ज्ञानमित्यतो न विधेयं तदित्यर्थः ! तत्र हेतुमाह॥ पमाणमेयैक- निबन्धनत्वादिति।। मानमेयपरतन्त्रत्वाद् अपुरुषतन्त्रत्वादित्यर्थः ।। ४५० ॥
346
Page 347
३३४ अन्वयार्थप्रकाशिकाविभूषिते
किञ्च विधेयब्रह्मज्ञानस्य स्वरूपानवबोधे तस्य कर्त्तव्यत्वं न हववोद्धुं शक्यते। अतस्तद्विज्ञेयम् । तचाशक्यमित्याह- ब्रह्मज्ञानं जानता ब्रह्मबुद्धे: कर्तव्यत्वं शक्यते ज्ञातुमेतत ।। न ह्यज्ञात्वा ब्रह्मबुद्धि तदीयं कर्त्तव्यत्वं काश्रदीष्टे ग्रहीतुम् ॥ 8५१ ॥ ब्रह्मज्ञानं जानतेति ॥ स्पष्टार्थम् ॥४५१॥ ज्ञायतां तर्हि विधेयं ब्रह्मज्ञानमितिचेत्तत्र वक्तव्यं, विशिष्ट- ज्ञानस्य विशेषणज्ञानपूर्वकत्वाद्विशेषणीभूतं ब्रह्मानवगतमवगतं वे- ति। उभयथाऽपि नात्र ज्ञानविधिसंभव इत्यभिमेत्याह- ब्रह्मज्ञानं ब्रह्मणि ज्ञायमाने ज्ञातुं शक्य नान्यथा तच तद्दत ।। विज्ञातं पैदू ब्रह्मणस्तत्त्वमस्य प्राप्ता मुक्तिर्नारि्ति कृत्यं विधीनाम् ४५२ ॥ ब्रह्मज्ञानं ब्रह्मणि ज्ञायमान इति । तच्व ब्रह्मज्ञानमि- ति संबन्धः । नान्यथा अज्ञाते ब्रह्मणीत्यतोऽस्मिन् पक्षे न विधिरित्यर्थः । तद्वत्तथव पक्षान्तरेऽपि न विधिसिद्धिरित्यर्थः । तदेवाइ।।विज्ञातमिति। अस्य विदुषः पाप्ते फले तदर्थकृत्याभावा- दित्यर्थः ॥ ४५२ ॥ ब्रह्मज्ञानमात्रेण क्थं मुक्तिमासिर्ज्ञानमात्रात् पुरुषार्थादर्शना- दिति पसङ्गपाप्तामाशङ्कां परिहरति- दृशो विराट्सूत्रशरीरगोचरं
347
Page 348
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३३५
परस्पराध्यासमबोधसंभवम् । अनर्थमाहु: श्रुतिमस्तके स्थिता- स्ततोऽस्य विद्यासमयैत मुक्तता ॥ ४५३ ॥ हशो विराडिति॥ विराद् स्थूलं सूत्रं सूक्ष्मं च यत्समष्टि- व्यष्ट्यात्मकं शरीरमभिमानास्पदं भोगायतनं तद्गोचरं तद्विषय- मबोधसंभवमनाद्यज्ञानोत्थं परस्पराध्यासं चिज्जडयोस्तादात्म्या- वभासलक्षणं दृशः प्रत्यगात्मनोऽनर्थमाहुः श्रुतिमस्तके स्थिताः वेदान्तविद इति योजना। यत एवमात्मन्यध्यस्त एवायं संसारानर्थस्ततोऽस्य विदुषो विद्यासमयैव विद्योत्पत्तिसमय एव मुक्तता निटृत्तबन्धनता रज्जुतत्वज्ञानोदयसमयइव भयादिनिवत्ति- रित्यर्थः। तथाच भ्रमगृहीतस्य बन्धस्य ज्ञानोदयमात्रान्निट्टत्तौ पुमर्थत्वदर्शनान् ज्ञानसिद्धावन्यदपेक्षणीयमिति भावः ।।४५३।। अनर्थस्याध्यस्तत्वेऽपि दृढभावितस्य तस्य सहसा ज्ञानोदय- मात्रेण न निष्टात्तिः सम्भवतीति तदर्थमभ्यासो विधेयइतिचेन्मैवम्। अज्ञानकल्पितस्याज्ञाननिटृत्तौ निषृत्त्युपपत्तेरज्ञाननिटृत्तेश्र ज्ञानो- दयमात्रायत्तत्वादित्याह- अनाद्यविद्यापटनेत्रबन्धनं प्रसह्य वेदान्तनिबन्धना मतिः ।। स्वजन्ममात्रेण दढात्मगोचरा समूलदाहं दहतीति हि श्रुतिः ॥ ४५४ ॥ अनाद्यविद्येति । वेदान्तनिबन्धना वेदान्तपमाणजाता मतिरात्मगोचरा आत्मतत्त्वब्रह्माकारा ढा असम्भावनादिदोषै-
348
Page 349
३३६ अन्वयार्थप्रकाशिकाविभूषिते
SSत्मनो यथावदवभासनाच्छादनरूपं समूलदाहं यथा स्यात्तथा प्रसह्य दहति नाशयतीति हि प्रसिद्धा श्रुतिः, ब्रह्म वेद ब्रह्मैव भवतीत्याद्येति योजना। उत्पन्नेऽपि यथोक्तविज्ञाने केषाश्चित् सम्यग्बन्धनिवृत्त्यदर्शनं केवलात्मतत्वाकारेण दृढतया विज्ञान- स्यानुदयादिति द्रष्टव्यम्।अत एव,दृढेति मतिर्विशेपितेति॥४५४॥
मुपसंहरति- प्रासङ्गिकं परिसमाप्य पकृतं विध्यसम्भवम् उपपादित-
विज्ञाते ब्रह्मणि स्याद्विधिरयमफलः प्रत्यये तस्य तद्द- न्नाज्ञातब्रह्मकर्मा विधिविषय इति प्रत्ययो बुद्धियोग्य:॥ ब्रह्मात्मप्रत्ययेऽतो विधिरनवसरः सर्वथा चिन्त्यमान- स्तस्माद ब्रह्मात्मवस्तुन्यवसितमखिलं विद्धि वेदान्त- वाक्यम् ॥ ४५५ ॥ विज्ञाते ब्रह्मणीति । ब्रह्मणि विज्ञाते सति तस्य ब्रह्मणः प्रत्ययेऽय विधिरफलः स्यादिति योजना । पुमर्थसिद्धेः कर्त्तव्यानवशेषादित्यभिप्रायः । तद्वत्तथा अज्ञातव्रह्मकर्मा प्रत्ययो विधिविषय इति न बुद्धियोग्य इत्यन्वयः । न ज्ञांतुं शक्यो विषयास्फुरणे विधेरवगमस्याशक्यत्वादित्यर्थः । ब्रह्मात्मप्रत्यये इत्युत्तरार्द्ध स्पष्टार्थम् ।४५५॥ इतश्च न ब्रह्मज्ञाने विधिसम्भव इत्याह- विरुद्धत्निकस्य द्वयापत्तिदोषा- न्न शक्यं विधानं धियः संग्रहीतुम ॥ यथा वाजपेये गुणस्येह तद्द- त्ततो नास्ति वेदान्तवाक्ये विधानम् ॥ ४५६॥
349
Page 350
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ३३७
विरुद्धत्रिकस्थेति ॥ धियो विधानं सङ्गहीतुं न शक्यं, विरुद्धत्रिकस्य द्वयापत्तिदोषादित्यन्वयः । प्रकृते ज्ञानविधौ वि- रुद्धत्रिकद्वयापत्तिमुत्तरपद्ये वक्ष्यति । यत्र विरुद्धत्रिकद्वयमसङ्ग- स्तत्र विधिर्न सम्भवतीत्यत्रोदाहरणमाह ।। यथा वाजपेये गुण- स्येति ॥ अयमर्थः । वाजपेयेन स्वाराज्यकामो यजेतेति श्रूयते। तत्र संशयः । किमयं गुणविधिरुत कर्मनामधेयमिति । गुण- विधिरिति तावत् पाप्तम्। वाजमन्नं तत् पेयमस्मिन्नस्तीति वाज- पेयगुणविशिष्टतया प्रकृतज्योतिष्टोमस्यैव विधिसम्भवात् स्वा- राज्यफलस्य गुणविधिनिबन्धनत्वोपपत्तेः । दश्नेन्द्रियकामस्ये- त्यादाविवेतिचेत् । अत्र ब्रूमः । नात्र गुणविधिरुपपद्यते विरुद्ध- त्रिकद्वयापत्तेः । तथाहि। यदा यागमुद्दिश्य वाजपेयगुणस्तस्मिन् विधीयते तदा यागस्योद्देश्यत्वमनुवाद्यत्वं प्रधानत्वमिति त्रिकं पाप्नोति। यदा पुनः स्वाराज्यफलमनूद्य तादर्थ्येन यागविधि- स्तदा फलापेक्षया यागस्य तस्यैव उपादेयत्वं, विधेयत्वं, शेष- त्वं चेति त्रिकं पाम्नोति। तथाचोद्देश्यत्वोज्तदेयत्वयोरनुवाद्य- त्वविधेयत्वयोः प्रधानत्वगुणत्वयोरेकस्मिन्नेकदा विरोधादेकेन वाक्येनोभयात्मत्वचोधानुपपत्तेर्न्नेदं वाक्यं गुणविधिपरं, किन्तु कर्मनामधेयमिति प्रमाणलक्षणे स्थितम् । दधिविधिवाक्ये तु उत्पित्तसिद्धजुहोत्यनुवादेन दधिविधिपरत्वात् संयोगपृथत्काच्च न तत्र विरुद्धत्रिकद्वयापत्तिरिति द्रष्टव्यम् । यथा वाजपेयविधौ पूर्वपक्षे गुणविधौ विरुद्धत्रिकद्वयापत्तिरिहापि तद्वद्विद्याविधानेऽपि तदापत्ि: स्यादतो वेदान्तवाक्ये नास्तिविधानमित्यर्थः ॥४५६॥। विरुद्धत्रिकस्वरूपं तावदाह- उद्दिश्यमानत्वमनूद्यमान- भावप्रधानत्वमितीदमेकम् ॥ ४३
350
Page 351
३३८ अन्वयार्थप्रकाशिकाविभूषिते
तथाप्युपादेयविधेयशेष- भावप्रभेदं त्रिकमन्यदत्र ॥ ४५७ ॥
त्वम्। अनुपादेयत्वमित्यर्थः । अनूद्यमानभावोऽनुवाद्यत्वम् । प्रधानत्वं शेषित्वम् । इत्येकं त्रिकम्। तथात्रान्यत् त्रिकमिति सम्बन्धः । अपिशब्दस्त्रिकयोर्यथासंख्यं विरोधस्फोरणार्थः । उपादेयत्वमुद्देश्यत्वविरुद्धम् । अनुष्ठेयत्वमिति यावत् । पुरुष- स्य कृतिर्दयुपादानं, सा चकिश्चिदुद्दिश्य किश्चिद्गोचरीकृत्य भवति। यथा स्वर्गादिफलमुद्देश्यं सिद्धवन्निरद्दिश्य तेनोपादीयते देश- कालादि च । तदवच्छेदेन च साध्यतया निर्देश्यं सर्वमुपादेयम्। यथा यागादि। तथाच पुरुपक्कतिसाध्यत्वासाध्यत्वाभ्यामनयोर्वि- रोधः सुप्रसिद्धः । विधेयत्वमनुवाद्यत्वविरोधि प्रमेयत्वम् । पूर्व- सिद्धं ह्यनूद्यते असिद्ध च प्रमीयत इत्यनयोरपि सिद्धसाध्यभावो विरोधः। शेपशेष्षिणोश्चोपकारकत्वोपकार्यत्वाभ्यां भेदे सति स्वरूपविरोधः पसिद्ध एव । तदेवमनयोस्त्रिकयोरेकत्र विरोधा- देकेन वाक्येन न क्वचित्पतीतिरुपपद्यत इति तात्पर्यार्थः॥४५७।। ज्ञानविधिपक्षे कर्थं विरुद्धत्रिकागम इत्यत आह- एकेन वाक्येन घियो विधानं प्रत्यकप्रमित्सा च यदि प्रतीचि ।। त्रिकद्वयं तत्र विरुद्धमेतत प्रसज्ज्यते कष्टमतः किमन्यत् ॥ ४५८ ॥ एकेन वाक्येनेति ॥ यद्येकेन वाक्येनात्मा वा अरे द्रष्ट- व्य इत्यादिनात्मतत्वधियो विधानं प्त्यगात्मन: प्रमित्सा स्व-
35
Page 352
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३३०.
रूपावधारणेच्छा चाभिमता तत्र तदा प्रतीच्यात्मनि एतद्विरुद्धं त्रिकदयं पसज्ज्यते। अतः किमन्यत्कष्टम् । वाक्यस्यापामाण्या- पत्तेरित्यर्थः ॥४५८ ॥
यामाह- आत्मनि कस्मिन् पक्ष एकं त्रिकं, कस्मिश्चापरमित्यपेक्षा-
उद्दिश्यमानं तदनूद्यमान- भूतं प्रधानं च घियो विधाने ।। प्रमीयमाणं पुनरात्मवस्तु तदास्पदं स्यादितरत्रिकस्य ।। ४५९ ।। उद्दिश्यमानमिति॥ तदात्मवस्तुधियो विधाने ज्ञानविधि- पक्षे उद्दिश्यमानमनूद्यमानभूतं प्रधानं चेति त्रिकात्मकं स्या- त्। तदेवात्मवस्तु पमीयमाणं पुनरितरत्रिकस्यास्पदं स्यादिति योजना। एतदुक्तं भवति। आत्मानं जानीयादित्यात्मतत्वमुद्दि- शय तदनूदय तच्छेषतया च यदा ज्ञानं विधेय तदा उद्देश्यत्वादि- त्रिकं तत्र भवति। आत्मनः प्रमीयमाणत्वे पुनरुपादेयत्वादि- त्रिकं प्रविशति। तद्यथा,मोक्षकाम आत्मानं जानीयादिति विधि- स्वरूपे प्रत्यगात्मविशेषितज्ञानविषयके मोक्षोदेशेन विधेयज्ञान- विषयतयात्मनो विधेयत्वादुपादेयत्वविधेयत्वशेषत्वानि प्राप्नु- युः । यद्यप्यात्मनोऽनुष्ठेयत्वरूपमुपादेयत्वं नास्ति । तथाऽपि मोक्षोद्देशेन प्रटृत्ताया: कृतेः पत्यग्ज्ञानसाधनविषयायाः प्रत्य- गात्मतत्वानुभवपर्यन्तमनुपरमात् सैवानुभवद्वारा प्रत्यग्विषये भवतीत्यनुष्ठेयत्वमुच्यते। शेषत्वं तु मोक्षसाधनज्ञानविशेषणत्वा- दुपपन्नम् । विधेयत्वं चास्यात्मनः पमेयत्वम् । विधेरज्ञातज्ञापन- रूपत्वादिति द्रष्टव्यम् । यदा त्वात्मनः पमेयत्वमपि तदा ज्ञानं
352
Page 353
३४० अन्वयार्थ प्रकाशिकाविभूषिते
प्रति तस्योद्देश्यत्वानुवाद्यत्वशेषित्वानि प्राप्तुयुः । तदेतद् दु- र्घटमिति ॥ ४५९॥ वाजपेये दष्टान्ते विरुद्धत्रिकद्वयमुक्तमुपपादयति- प्रथमत्रिकं यजिनिगद्यगतं गुणसंगतेरवगमे भतति॥ चरमत्रिकं यजिनिगद्यगतं फलसंगतेरवगमे तु पुनः ॥ ४६० ॥ प्रथमत्रिकमिति॥ वाजपेयेन यजेतेति वाक्येन वाजपेया- SSख्यगुणसंगतेरवगमे गुणविधिपरत्वाभ्युपगमे यजिनिगद्यगतं पागगतं प्रथमत्रिकमुद्देश्यत्वानुवाद्यत्वप्रधानत्वरूपं भवति। तथा फलसंगतेरवगमे स्वाराज्यफलोद्देशेन यागविध्यभ्युपगमे त- स्मिन्नेव यजिनिगद्ये चरमत्रिकमृपादेयत्वविधेयत्वशेषत्वरूपं संगतं भवतीति योजना ॥ ४६० ॥ किमतः सिर्द्ध भवतीत्यपेक्षायां विरुद्धयोस्त्रिकयोरेकत्र
सक्कृदुच्चरन् यजतिरेष गुणं न फलं च सङ्गमयितुं क्षमते ।। कथितत्रिकद्वय विरोधवशाद यजिवस्तुनीति ननु नीतिविदः ॥ ४६१॥ सकृदुच्चरन्निति ॥ एष यजतिः सकृदुच्चरन्नुच्चार्यमाणो यजिचस्तुनि यागस्वरूपे गुणं फलं च संगमयितुं संगतमवगम- यितुं न क्षमते । कुतः ॥ कथितत्रिकद्वयविरोधवशादिति ॥ननु नीतिविदो वदन्तीति योजना । ४६१ ॥
353
Page 354
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३४१
तदेवमात्मज्ञानविधौ विरुद्धत्रिकद्वयापत्ति दष्टान्तोक्तिपूर्वक- म्ुपपाद्य तत्फलमाह- इति वाजपेयगतनीतिवशा- दपि नात्मवस्तुविषयाबगतौ।। विधिरस्ति तेन विधिशून्यतया परमात्मवस्तुविषयोपनिषत ॥ ४६२ ॥ इति वाजपेयेति । वाजपेयवाक्यपट्टत्तिपर्यालोचनाद- प्यात्मवस्तुविषयावगतौ आत्मप्रमितौ विधिर्न्नास्तीत्यन्वयः ।। विध्यसंभवे सिद्धमर्थमुपसंहरति ॥ तेनेति ॥ ४६२॥ तदेवं ज्ञानविधिपरा वेदान्ता इति पक्षं निराकृत्योपासना- विधिपरा वेदान्ता: स्युः, कथं विधिशून्यतया ब्रह्मात्मवस्तु- विषयोपनिषदित्येकदोशीमतान्तरमाशड्क्य उपासनावाक्यानां न शेष्यर्थपरत्वमिति(१) प्रतिपादयति- सगुणवाक्यमपीह समन्वितं भवति निर्गुणवस्तुनि सर्वशः ॥ न खलु निर्गुणवस्तुसमन्वयं न सहते सगुणेऽस्य समन्वयः ॥४६३॥ सगुणवाक्यमपीति ॥ सर्वशः सर्वमपि सगुणवाक्यमिह निर्गुणवस्तुनि समन्वितं भवति, न विपरीतमित्यर्थः । कथमि- त्यत आह ।। न खल्विति ॥ यद्यपि सगुणवाक्यं सगुणपरमिव प्रतिभाति, तथापि सगुणे समन्वयस्य निर्गुणे समन्वयाविरो- (१) न सगुणशेषिपरत्वम्॥
354
Page 355
३४२ अन्वयार्थप्रकाशिकाविभूषिते
धात्। सगुणवाक्यं निर्गुणे समन्वयं न सहत इति न खल, किन्तु सहत एवेत्यर्थः ।। ४६३ ॥ कथमित्थं व्यवस्थास्थीयते, विनिगमनायां हेत्वभावादिति- चेत्तत्राह सत्यासत्यत्रपुस्तथाहि सगुणं ब्रह्मास्य विद्या तथा तद्वत्तद्विषयस्य वेदवचसस्तात्पर्य्यमेवंविधम् ॥ तेनावान्तरमस्य वेदवचसस्तात्पर्य्यमन्यादशं चान्यन्निर्गुणवस्तुतत्त्वविषयं संकीर्त्त्यते भागशः ॥४ ६४।। सत्यासत्यवपुरिति ॥ यत् सगुणं ब्रह्म तत् सत्यासत्य- वपुः । यतः स्वरूपतः सत्यं सद् ब्रह्म अविद्यातत्कार्योपाध्युप- धानवशात् सगुणं ब्रह्म भवति । अतः सत्यासत्यवपुः सगुणं ब्रह्मेत्यर्थः । तत्र श्ुतिपसिद्धिं पमाणयति ॥ तथाहीति॥ तथाहि श्रुतिः- सर्वकर्मा सर्वकामः सर्वगन्धः, वाक् पाद: पाण: पाद- श्रक्षुः पादः श्रोत्रं पाद: प्राची दिक्कला प्रतीची दिक्कलेत्याद्या। न हि निरञ्जनस्य निरवयवस्य असङ्गकूटस्थात्मनो ब्रह्मणः स्वतः पादा वा कला वा कामादिर्वा विशेष उपपद्यत इति। तथा, यथा ब्रह्म सगुणं सत्यासत्यवपुस्तथाऽस्य विद्या सगुण- ब्रह्मविषयाऽविद्या सत्यासत्यवपुरित्यर्थः । यथाविषयं हि ज्ञान- मिति तदपि तथेति भावः । यथा विषयतज्ज्ञाने तद्वत्तद्विषयस्य सगुणब्रह्मविषयस्य वेदवचसस्तात्पर्य स्वार्थप्ामाण्यलक्षणमेवं- विधं सत्यासत्यवपुरित्यर्थः । सत्यासत्यशबलितविषयत्वादिति भावः । यत एवं तेन हेतुनाऽस्य सगुणब्रह्मविपयस्य वेदवचसो वेदवाक्यस्य तात्पर्यमवान्तरसंज्ञितमन्यादृशं निर्गुणवाक्यतात्प- र्याद्विलक्षणं सत्यानृतशबलविषयमित्यर्थः । चस्त्वर्थः । निर्गुण-
355
Page 356
संक्षेपशारीरके प्रथमोऽध्यायः।१ ३४३
वस्तुतत्वविषयं तु तात्पर्यमन्यदन्यादृशं परमार्थेकरसवस्तुविषय- मिति भागशो विभागेन संकीर्च्यते श्रुतिषु सूत्रशास्त्रेषु चेत्यर्थः। एतदुक्तं भवति। यद्यपि सगुणवाक्यानामुपासनाविषयाणामुपा- सनाविधिपरत्वादुपास्यस्वरूपपरत्वं नास्ति, उभयपरत्वे वाक्य- भेदप्रसङ्गात्। तथा निर्गुणवस्तुपकरणस्थानामपि सविशेष- वाक्यानामपवादशेपाध्यारोपविषयत्वाद्विशेषे तात्पर्य नास्ति।तथा- डपि विशिष्टस्य तेषु प्रतीयमानत्वादन्यतश्चाप्मितत्वाद्वििष्टेपि वस्तुनि तात्पर्यमङ्गीक्रियते विशिष्टस्य स्वरूपाव्यभिचारादतो विशिष्टविषयं तात्पर्य विशेष्यस्वरूपमपि स्पृशतीति कृत्वा विशिष्ट- विषयं स्वरूपविपयं चेति प्रकरणविभागेन विशिष्टविषयमवा- जन्तरतात्पर्य स्वरूपविपयं, महातात्पर्यमिति च विभागेनोच्यत इति ॥ ४६४ ॥ ननु सत्यासत्ययोर्विरुद्धस्वरूपयोः कथं वैशिष्टयमितिचेन्नायं दोषो, दष्टत्वादित्याह- रूप्य ज्ञानं रजतमिदमित्येवमुत्पद्यमानं सत्यासत्यं विषयमपृथग्दर्शयत्येकमेव।। तद्वन्मानं सगुणविषयं सत्यमिथ्यावभासं संसृषार्थद्यमतिदृढ़ं दर्शयत्येकमेतत ॥ ४६५॥ रूप्यज्ञानमिति ॥ निगदव्याख्यातं पद्यम् । नचैवं सति शुक्तिरजतज्ञानवत् सगुणज्ञानस्य मिथ्याज्ञानत्वात् सगुणवाक्य- स्यापामाण्यं स्यादिति वाच्यम्। गुणवैशिष्टथस्यापि व्यावहारिक- सत्यत्वाद् व्यावहारिकपामाण्योपपत्तेश्चोदनाया इव धर्माधर्म- योः, स्वार्थे प्रत्यक्षादीनामिव च । तत्वदष्टया तुनास्त्येव सगुण- वाक्यस्य सगुणे तच्वे प्रामाण्यं, किन्तु तस्यापि निर्गुण एव पर्यव-
356
Page 357
३४४ अन्वयार्थप्काशि काविभूषिते
सानम्। सगुणं तु कल्पितमेव निर्गुणवस्तुपतीत्यङ्गतयानूद्यते। अतो न कोऽपि विरोध इति गमयितव्यम् । ४६५॥ सगुणवाक्यं सत्यासत्यविषयक, तथात्वेपि तस्य ना- Sपामाण्यमित्युक्तम् । तत्रेदमाशक्काते।वाक्यस्य सत्यासत्यपरतया तात्पर्यद्वैविध्यमिष्यते। विशिष्टस्वरूपयोरन्यतरस्मिन्नेवैकं तात्पर्य- मिति। तत्राध्ये वाक्यभेदपसङ्ग एको दोषोऽपरश्चाशक्यप्रत्यय- त्वम्। यथा, सोमेन यजेतेत्यादी विशिष्टैक्यपरत्वव्यतिरेकेण न विशेषणे विशेष्ये वा तात्पर्य प्रत्येतुं शक्यते । तथा सति वाक्य- स्य विशिष्टपरत्वायोगात् । तथा अत्रापि गुणविशिष्टब्रह्मपरत्व- व्यतिरेकेण सगुणे परित्यक्तगुणे च ब्रह्मणि न तात्पर्यमवगन्तुं शक्यते। तदा विशिष्टविषयत्वासंभवादुपास्यत्वाद्यपतीतावुपा- सनाद्यसिद्धिमसङ्गात् । द्वितीयेSन्यतरस्यासिद्धिः । गुणविशिष्टैक- वस्तुपरत्वे केवलस्वरूपासिद्धि: ॥ केवलस्वरूपपरत्वेऽन्यासिद्धि- रिति तत्राह- तदबुद्धिमात्रफलतैव च तत्परत्वं वेदान्तवादिसमये न तु शेषभावः ।। शेषत्वमक्षरकलापगताप्तिमात्रं प्रत्येव नाध्ययनमर्थधियोऽयि शेषः ॥। ४६६॥ तद्वुद्धिमात्रफलतैवेति ॥ तस्मिन्नर्थे बुद्धिस्तद्बुद्धि:, तदेव फलं यस्य वाक्यस्य तत् तद्बुद्धिमात्रफलं, तस्य भावस्तत्ता । इदमेव वाक्यस्य तत्परत्वं वेदान्तवादिसमये मतं, न तद्व्यव- धानेन बुद्धधन्तरमिति योजना। ननु शेषत्वं तात्पर्य मीमांसका इच्छान्ति, तत् कथं भवन्भिर्भानुमन्यते तत्राह॥न तु शेषभाव इति। तात्पर्य मतमिति योज्यम्। शेषत्वं तात्पर्य चेत्तदैकस्योभयं प्ति शेष-
357
Page 358
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३४५
त्वायोगात् सगुणे निर्गुणे चैकस्य वाक्यस्य तात्पर्य विरुच्धेत । फलं त्वेकस्यापि वाक्यस्यानेकमपि न विरुद््यते। तत्रोदाहरणं वक्ष्यत इति॥ ननु शेषत्वं चेन्न तात्पर्य, कथं तर्वध्ययनस्यार्था- जवबोधशेषतया तत्तात्पर्यकत्वं मीमांसकैरिष्यत इतिचेद्, इष्यर्ता नाम तैस्तथा, नास्माभिरध्ययनाङ्गत्वमर्थावबोधस्याऽभ्युपेयते । अक्षरावाप्तेरेव तथात्वाङ्गीकारादित्याह । शेपत्वमक्षरेति ॥ अर्थाव- बोधस्यानुष्ठानाद्याक्षिप्ततयैव सिद्धेर्न्न तत्राध्ययनं विधिना विनि- युज्यत इति भाव: । ४६६ ।। ननु यद्यर्थबोधं प्रति स्वाध्यायाध्ययनस्य शेषत्वं न स्यात्तर्हि नार्थावबोधस्तस्य फलमपि स्यादितिचेन्मैवम्। तच्छेषत्वं विना- Sपि तत्फलत्वदर्शनादित्युदाहरणेनाह- तच्छेषभावमनपेक्ष्य च तत्फलं स्या- दाधानवन्न हि तदङ्गमिह कतूनाम् ॥ अग्न्यङ्गमेत्र हि तदिष्टमथापि तस्य सर्वक्रतुष्वधिकृतिः फलमभ्युवेतम् ॥ ४६७ ॥ तच्छेषभावमनपेक्ष्येति॥ अप्यर्थे चकारः। अनपेक्ष्या- ऽपीत्यर्थः।आधानवदित्युक्तं दृष्टान्तं स्पष्टयति, न हीत्यादिना ।। श्रुत्यादेरवा प्रकरणादेर्वा विनियोजकप्रमाणस्यात्राभावात्तदभावे च क्रत्वङ्गत्वानिश्रयादित्यर्थः । तर्हि किमाधानं न कस्याप्यङ्ग- मेव १ नेत्याह ॥अग्न्यङ्गमेव्र हि तदिष्टमिति।। व्रीहीन् पोक्षतीत्यत्र प्रोक्षणस्य ब्रीह्वर्थत्ववदग्रीनादधातीति द्वितीयाश्चतेराधानस्याप्य- जग्न्यर्थत्वावगमात्। अत एव फलान्तरकल्पनाया अनवकाश- इत्यऽग्न्यङगत्वमेवाधानस्येत्यर्थः। तर्हि निष्पयोजनमेवाधानं स्या- दग्निनिष्पच्तेरफलत्वादितिचेत्तत्राह । अथापीति॥ यद्यप्याधान-
358
Page 359
३४६ अन्वयार्थप्रकाशिकाविभूषित निबन्धनं किमपि फलं साक्षान्नास्ति, अथापि तस्याधानस्य सर्व- क्रतुष्वधिकृतिः पुरुपस्याधिकारसिद्धि: फलमभ्युपेतं मीमांसकै- रपीति शेषः । आहवनीयादीनामग्नीनां क्रत्वङ्गत्वात् क्रतुनि- ष्पादनद्वारेण क्रतूपकारादाधानस्याग्निद्वारा क्रतुफलत्ववदधीत-
यद्येवं तद्बुद्धिमात्रफलत्वं तत्परत्वं तर्हि मन्त्रार्थवादाना- मपि तत्परत्वप्रसङ्गस्तेपामपि स्वार्थबुद्धेः कार्यत्वात्, कार्यस्य च कारणं प्रति फलत्वादितिचेन्नत्याह- मन्त्रार्थवादगतमध्ययनं तदर्थ- मात्रप्रतीतिफलमित्यवि नाभ्युपेतम् ॥ विद्यर्थवुद्धिमनुसृत्य फलावसानां सा तद्वतीति तदनत्परतोपपत्तिः ॥ ४६८॥ मन्त्रार्थवादेति ॥ नाऽभ्युपेतं जैमिनीयैरिति शेपः । मन्त्रार्थवादयोः स्वार्थवुद्धेः पुमर्थानुपयोगित्वेनानाकाद्विततया फलत्वासम्भवादफले च तात्पर्यानुपपत्तरित्यर्थः । कथं तर्हि नयो: प्रामाण्यमिति तत्राह । विध्यर्थवुद्धिमिति ॥ विध्यर्थबुद्धि- हह पुमर्थसाधनविषयत्वेन फलवती । आकाद्गितविपयत्वात्। नधाच फलावसानां विध्यर्थवुद्धिमनुसतत्य सा मन्त्रार्थवाद- जनिता बुद्धिस्तदूती फलवतीति तदतत्परतोपपत्तिर्विध्यर्थपाश- स्त्यादिद्वारेण विध्यर्थपरत्वं तत्परत्वं तात्पर्यवत्वमुपपद्यते । स्वार्थे च फलाभावादतत्परत्वं चेत्यर्थः । तद्बुद्धिमात्रफलतैव नत्परत्वमित्यत्र मन्त्रादिव्याटृत्त्यर्थ मात्रपदमिति ज्ञेयम् । प्रयो- जनवती हि बुद्धिर्वाक्यस्य फलं, नेतरेति भावः ॥। ४६८ ॥
359
Page 360
संक्षेपशारीर्के प्रथमोऽध्यायः।१। ३८०
ननु वाक्यजन्यत्वे समाने वुद्धे: प्रयोजनवत्या फलत्वं, नेतरस्या इत्येनत् कथमवगम्यत इतिचेद् व्ृद्धव्यवहारादित्याह- सप्रयोजनकबुद्धिकारणं वाक्यमाहुरिह तत्परं बुधाः ॥ सप्रयोजनकबुद्धिशेषधी- हेतुमन्यपरमाश्रयन्ति च ॥ ४६९॥ सप्रयोजनकेति ॥ स्पष्टार्थ पद्यम् ॥ ४६९॥ यद्येवं प्रयोजनवद्बुद्धिर्वाक्यस्य फलं तन्फलत्वमेव तत्पर- त्वं, न स्वार्थबुद्धिमात्रं वाक्यफलं तथा । तर्हि कथमङ्गचाक्या- नां स्वार्थवुद्धि: फलं स्यादितिचेत् कश्विद् व्रयात्तदाऽयं समाधि-
काद्वितेत्थम्भावसमर्पकत्वेन तादभियः फलत्व्नादस्ति तद्राक्यानां स्वार्थ तात्पर्यम्। न चैवं सति प्रधानविधिशेषार्थत्वानुपप- त्तिः। साक्षात्पुमर्थाकाङ्मया तदुपेतवाक्यन्तरार्थशेपतया तत्रैत महातात्पर्येऽषि स्वार्थविषयेवान्तरतात्पर्यमिति व्यवस्थोपपत्तेः। साङ्गस्यैव कर्मणः फलवत्वादङ्गपधानविषयं सर्वमेव वाक्यं स्वा-
इति। एवं मन्त्रार्थवादानां न स्वार्थे तात्पर्यमित्युक्तस्योत्सर्ग- स्यापवादं बादरायणमतमाश्रित्याह- मन्तार्थवादवचसामपि गोचरेषु सौवेष्तवान्तरमुशन्ति च तत्परत्वम् ॥ केचित् त्रथीशिरसि खिन्नधियो मुनीन्द्रा-
360
Page 361
३४८ अन्वयार्थप्रकाशिकाविभूषिते
स्तत्तद्वियो विधिषु शेषतया निवेशात ॥४७०॥ मन्त्रार्थवादवचसामपीति॥ सौवेषु स्वकीयेषु गोचरे- षु मन्त्रार्थवादवचसामपि तत्परत्वं त्रयीशिरसि खिन्नधियः क्षुण्णधियः केचिन्मुनीन्द्रा उशन्ति जानन्त्यङ्गीकुर्वन्तीति योजना। मन्त्रार्थवादानां न स्वार्थपरत्वं तेषां विधिपरत्वादिति शङ्का- वारणायाऽवान्तरमिति विशेषणम् । एतदुक्तं भवति- विरोधे गुणवादः स्यादनुवादोऽवधारिते। भूतार्थवादस्तद्धानादर्थवादस्त्रिधामत, इति न्यायेनोक्त- त्वाद्गुणवादानुवादयोः स्वार्थपरत्वाभावेऽपि भूतार्थवादेषु प्रमाणा- ऽन्तर विरोधतत्पूर्वकत्वयोरभावादस्ति स्वार्थपरत्वम् । तथापि स्वार्थबुद्धेरनाकाद्वितार्थत्वात् साक्षात्फलवत्वाभाव इत्यवा- न्तरतात्पर्य स्वार्थेऽभ्युपगम्यते । अन्यथा, यस्यै देवतायै हवि- र्गृहीतं स्यात् तां मनंसा ध्यायेद् वषद् करिष्यन्निति ध्यानविधे- धर्येयविषयाकाद्वित्दात्तस्य चान्यतोऽसिद्धेः शब्दमात्रस्याध्येय- त्वाच्च ध्यानविध्यसिद्धिपसङ्गोऽतः स्वार्थस्यानन्यलभ्यतया ता- त्पर्यगोचरत्वमिति ॥ नन्वेवमपि स्वार्थबुद्धेः फलत्वान्मन्त्रार्थवादानां तद्गुद्धिमात्र- फलत्वं तात्पर्य न लभ्यत इति तत्राह ।। तत्तद्धिय इति ॥ देवता- विग्रहवत्वादिधिय इत्यर्थः । विधिषु स्वर्गाद्यर्थयागादिविधि- व्वित्यर्थः ॥ शेषतयेति ॥ यस्यै देवताया इति प्रयोगोपयोगि- तया तत्तत्स्वर्गादिफलविशिष्टविध्यर्थप्रतिपत्त्युपयोगितया वा शेष- तया निविष्टत्वादित्यर्थः । तदेवमुक्तविधया स्वार्थधियः फलव- चवात्तद्वुद्धिमात्रफलत्वमेव सवत्र तात्पर्य, न शेषभाव इति व्यव- स्थितमेवैनदिति भावः॥ ४७० ॥
36
Page 362
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ३४९.
उक्तन्यायेन सगुणवाक्यानामपि निर्गुणे ब्रह्मणि महा- तात्पर्य,गुणविशिष्टे तस्मिन्नवान्तरतात्पर्यम्,उपासनावाक्यगतानां तु विधिपदानां स्वार्थ एव तात्पर्य, न ब्रह्मणि । तत्पत्या- यकत्वाभावात्तेषाम् । विहितोपासनानां तु चित्तैकाग्रयसंपादन- द्वारा ब्रह्मावगत्युपयोगित्वादिति कर्मकाण्डानां नियोगनिष्ठत्वे- ऽपि सर्वेषां वेदान्तानां निर्विशेषब्रह्मपरत्वमेव, न नियोगस्पर्शि- त्वं, भावनास्पर्शित्वं वा। कर्मकाण्डेपि प्रतिषेधचोदनानां न नियोगनिष्ठत्वमितीयता प्रबन्धेन प्रतिपादितम् । इदानीं कर्म- काण्डेऽपि न नियोगो भावना वा भावी, किमु वेदान्तेष्विति वक्तुं पूर्वोक्तमाकर्पति तद्गतविशेषनिरूपणाय- श्रेयःसाधनता लिरडर्थ इति च प्रागुक्तमत्यादरा- च्छेयःसाधनयागदानहवनाद्यर्थैकनिष्ठं ततः ॥ सर्व कर्मबचो नियोगपरता तस्यापिम्नालोचने वक्तव्या किमुतास्य वेदशिरसः सा नेति भूयोऽवि नः ।1 ७७१ ॥ श्रेयःसाधनतेति । यतः श्रेयःसाधनता लिडर्थ इति प्रागस्माभिरत्यादराद्युक्तिभिरुपपाद्योक्तम्। चोऽवधारणे। उक्त- मेवेति संबधध्यते। अतः सर्व कर्मवचः श्रेयःसाधनयागदानहवना- दयर्थैकनिष्ठम्। न नियोगनिष्ठमिति योजना। यदैवं तस्यापि कर्मकाण्डस्याप्यालोचने निरूष्यमाणे न नियोगपरता लभ्यते, भावनापरता वा तदा भूयोऽपि पुनरपि किमुत वक्तव्यमस्य वेदशिरसः सा नियोगादिपरता नास्तीति नोऽस्माकमाकतमि- त्यर्थः ॥ ४७१॥ नचास्माकमेवेदमाकूतमपि तु, जैमने: सूत्रकारस्य तत्सूत्र-
362
Page 363
३५० अन्वयार्थप्रकाशिकाविभूषिते
भाष्यकारस्य चास्मद्विवक्षानुसारित्वदर्शनात्तन्भाष्य इत्याह- श्रेयःसाधनयागदानहवनाद्यर्थेषु कार्य्यात्मसु सर्व कर्मवचः प्रमाणमिति तु ग्राह्यं वचो जैमिनेः ॥ भाष्यं पश्यत शाबरं स्फुटतरं यो यागमित्यादिकं श्रेयःसाधनयागमात्रवचनं धर्माभिधानं वदत् ॥४७२। श्रेयःसाधनयागेति । जैमिनेराचार्यस्याऽथातो धर्म- जिज्ञासा, चोदनालक्षरणोरडर्थो धर्म इत्यत्र यद्धर्मवचस्तत्कार्यात्मसु साक्षात्कृतिसाध्येषु श्रेय:साधनयागाद्यर्थेषु प्रमाणं ग्राहं न नि- योगे, भावनायां वेति योजना। प्रयन्नपरतन्त्रश्रेयःसाधनविषय एव सौत्रधर्मशब्दो विवक्षितोऽवगन्तव्य इत्यर्थः । कुत इत्यत आह ।। भाष्यमिति । यो यागमनुतिष्ठति तं धार्मिक इत्या- चक्षत इत्यादिकं शहबरं भाष्यं सौत्रधर्मपदव्यारूयानपरं स्फुटतरं संदेह विपर्ययशङ्काकुलङ्गरहितं यथा स्यात्तथा सूत्रगतधर्माभिधानं
कारेण श्रेयःसाधनयागमात्रवचनं वदत् पश्यतेति योजना । भाव्य- सौन्नधर्माभिधानस्य श्रेयःसाधनयागादिवाचकत्वेन व्याख्यातत्वात् सूत्रकारस्याप्येपोर्डर्थो विवक्षित एवेति गम्यत इत्यर्थः ॥। ४७२॥ ननु, धर्म इति द्वितीयसूत्रे पुँल्िङ्गपयोगस्य स्पष्टत्वात् क्रिया- वाचित्वमवगन्तुं न शक्यते । अपूर्ववाचित्वमेव हि तदा युक्तम् । वैदिकप्रयोगेपु, धर्मो विश्वस्य जगतः प्रतिष्ठा, तानि धर्माणि पथमान्यासन्नित्यादिष्वपूर्वे पुँल्लिङ्तया क्रतौ च नपुंसकलिङ्ग- तया प्रयोगदर्शनादितिचेत् तत्राह- पुँलि्िङ्गताडपि घटते कतुगामिनोऽस्य
363
Page 364
संक्षेपशारीरके प्रथमोऽध्यायः।१ ३"१
सक्ष्मात्मना भवति हि कतुरप्यपूर्वम् ॥ तेन क्नोरुपचरन्नभिदां पुमान् स्यात क़ीबस्तु धर्ममिति हि ऋतुबाचकत्वे ॥ ४७३ ॥ पुँल्लिङ्गनाडपीति । अस्य धर्मशब्दस्य क्रतुगामिनोऽपि पुँल्िङ्गता घटते। हि यस्मात् क्रतुरपि क्रतुरेव सूक्ष्मात्मनाऽपूर्व भवति। ते वा एते आहुती हुते उत्क्रामतः, पञ्चम्यामाहुतावापः पुरुषवचस इति च श्चत्योः फलारम्भकाऽपूर्वस्य क्रियापरि- णामत्वावगमादित्यर्थः । तेन हेतुना क्रवपभिदामुपचरन् पुमान् स्यात्। कार्यकारणयोरभेदोपचारात् क्रतोवपि धर्मशब्द: पुँल्िङ्ग: स्यादित्यर्थः । केवलक्रतुवाचकत्वे तु धर्ममिति क्रीबः स्यात् । नथाच फलसाधनत्वाकार विहितक्रियावाची धर्मशब्दःमूत्रभाष्य- योर्नानुपपन्न इत्यर्थः ।। ४७३ ॥। ननु श्रेय:साधनक्रियाया विधिवाक्यार्थित्वे क्रियाकाङ्मया स्वर्गकामपदस्य कर्तृसमर्पणार्थत्वं स्याद्, अनिकारपरत्वं न सि- द्धयेत्। तथाच स्वर्गकामाधिकरणविरोधः । तत्र स्वर्गकामपद- स्याधिकारिपरत्वनिर्णयादितिचेन्नेत्याह- इष्टाभ्युपायवचनो लिडिति स्थितौ च स्यान्वावनावचनतास्य यदा तदा च।। कर्तुर्भवेदधिक्कृतिस्तु नियोगवांद स्वाम्ये स्थिते सति भवेदथ कर्तभावः ॥४७४॥। इष्टाऽभ्युपायवचन इति । लिङ् इष्टाभ्युपायवचन इत्यस्मत्पक्षस्थितौ च परमस्य लिडे यदा भावनावचनता स्यात् तदा भट्टमते चाधिकृतिस्त्वधिकारः कर्तुर्भवेत्। प्रथमं
364
Page 365
३५२ अन्वयार्थप्रकाशिकाविभूषिते
क्रियापेक्षया कर्तृत्वेनान्वितस्य क्रियासाध्यफ लस्वाम्यादधिकारि- त्वेनान्वयो भवेत् । नियोगवादे तु स्वाम्येऽधिकारान्वये स्थिते सति अथानन्तरं कर्तृभावः कर्त्रन्वयो भवेदित्यर्थः । इद- मिह विवक्षितम्। यदा नियोगो लिर्ड्र्थस्तदा तस्य विषयनि- योज्याभ्यामेव तस्य प्रतीतेर्नियोगप्रतीत्यनुबन्धित्वेन नियोज्य- तयैव प्रथमं पुमानन्वेति । ममेदं कार्यममिति प्रतिपद्यमानो हि नियोज्य उच्यते। यस्मादुक्तम्- नियोज्यः सर्वकार्य यः स्वकीयत्वेन बुद्धयते, इति ॥ स एव स्वर्गकामस्य ममाझमं नियोग इति प्रतिपद्यमानोऽधिकार्यु-
स्वर्गादिफ लासिद्धेर्नियोगस्य कार्यत्वे सति तस्य भाग्विषयत्वेना- वगतधात्वर्थस्य करणत्वेन सम्मतस्यानुष्ठानद्वारा नियोगनि- ष्पादकत्वात् कर्तत्वं पश्चात् प्रतिपद्यत इति स एव कर्तोच्यत इति प्क्रिया। यदा भावना लिर्डर्थस्तदा शब्दभावनाभाव्यार्थ- भावनायाः प्रयन्नस्थ क्रियानुकूलतया तद्दतः प्रथमं कर्तृत्वेन क्रियायामन्वये सति फलकामिनः कर्तत्वात् कर्तुरधिकार इति पक्रिया।या तु क्रियायाः श्रेयःसाधनत्वं लिर्डर्थस्तदापि भावना- वाद इव कर्तृत्वान्वयपूर्वक एकाधिकारान्वयोऽभ्युपगत इति भावनावादिभिरुक्त एव स्वर्गकामाधिकरणसिद्धान्तोऽस्माभि- रभ्युपगम्यते। अतो नियोगानादरेऽपि नाधिकरणविरोधोऽस्माकं स्यात्। न चैकस्य द्विरन्वयासंभवश्रोदनीयो, नियोगवादिभिरपि स्वाम्यन्वयानन्तरं कत्रन्वयस्य स्वीकारात् केवलं पौवापर्यमात्रे विरोधो, न त्वेकस्य द्विरन्वयकल्पनायामिति। स्वर्गकामाधिकरणे चाधिकारान्वयस्य क्त्रन्वयात् प्राथम्यं नोकं प्रतीयते, किन्त्व- धिकारिपरं फलपरं वास्वर्गकामपदं, न कर्परमित्येतावदेव
365
Page 366
संक्षेपशारीरके प्रथमोऽध्यायः।१।
तत्रोक्तं गम्यते। यजेतेत्यत्र श्रेयःसाधनतावच्छिन्नस्य भावना- जर्वच्छिन्नस्य वा धात्वर्थस्य कर्तुरर्थसिद्धत्वात् स्वर्गकामपदस्य फलपरत्वे•चाधिकारान्वयोरऽर्थसिद्धो भवति । कर्तुः क्रियायाः फलनिदशे तत्कामितया तत्र तस्याधिकृतत्वोपपत्तेःनचैवमार्थिक- त्वेऽधिकारान्वयस्य तात्पर्यगोचरत्वायोगः शङ्कः। अनन्य- लभ्यत्वप्रयुक्तत्वात्तात्पर्यगोचरत्वस्य, न मुखतो गम्यमानत्वापेक्षा तस्येति श्रेयःसाधनता लिडर्थ इति वादे न कोऽपि विरोध इति ॥ ४७४ ॥ नन्वज्ञातज्ञापकत्वमपवृत्तप्रवर्त्तकत्वं च विधे: स्वरूपमा-
लक्षणं न विद्यते।उपायज्ञानमात्रात् पवत्यदर्शनात् फलेच्छायाश्र सामान्यतः पटत्तविषयत्वान्नियोगस्य त्वपटत्तविषयत्वात्, कुर्वि- ति साक्षात्पवर्त्तनारूपत्वाच्च युक्तं प्रवर्तकत्वमितिचेत्तत्राह- इष्टाभ्युपायो विधिरात्मनीच्छा- मुत्पादयन् प्रेरकतामुपैति। इष्टाभ्युपायेऽबगते लिङादे- रिच्छा फलादेनमुपैति सदयः ॥ ४७५ ॥ इष्टाभ्युपायो विधिरिति॥ फलेच्छ्रुत्वात् सामान्यतः पटटत्तोऽपि य उपायाज्ञानादुपायविशेषे न पट्टत्तस्तस्मिन्नात्मनि पुरुषे इष्टाभ्युपायो विधिरिच्छामुत्पादयन् प्रेरकताम् उपैतीति योजना। यद्वा, यथोक्तो विधिरात्मनीष्टाभ्युपाये पुरुषस्येच्छा- मुत्पादयन् प्ेरकतामुपैतीति योजना। तत्रोक्तऽर्थे युक्तिमाह।इष्टा- ऽ्भ्युपायेऽवगत इति।।यद्यपि फले रागः पूर्वमुत्पन्नोऽपि न भवर्त- क उपायविशेषाज्ञानात्तथापि लिडदेः सकाशादिष्टाभ्युपायेऽव- ४५
366
Page 367
३५४ अन्वयार्थप्रकाशिकाविभूषिते
गते सति उपायविशेषे ज्ञाते सति फलात् सकाशादिच्छा एन- मुपायविशेषं प्रति सद्यस्तत्क्षणमेवैति। फलेच्छया साधनविशेष- मिच्छतः साधनविशेषज्ञानानन्तरं तत्रेच्छा जायते। सा तत्र पुरुषं पूर्व फलेच्छामात्रदशायामपटृत्तं फलसाधनविशेषे प्रवर्तयती- तीष्टाभ्युपायविधिपक्षेऽपि न लक्षणांशाभाव इति सिद्धम् । फले साधनेच्छा हेतुः, साधनेच्छा च प्टत्तिहेतुः । सा च साधनज्ञानाधीनेति भावः ।। ४७५ ।। स्वपक्षे रागोत्पादनद्वारा विधे: प्रवर्त्तकत्वोपपादनेन शङ्कितं दोषं परिहृत्य यदुक्तं नियोगः साक्षात्पवर्त्तक इति, तदत्यन्ता- Sसंभवीति दूषयति- नियोगकोट्यापि नरो न कश्रि- दिच्छां बिना दुःखनिदानभूतम्॥ करोति कर्मेह पुमर्थरागातू प्रवृत्तिरेवरेति हि राजमार्ग: ॥। ४७६ ॥ नियोगको्यापीति ॥ नियोगकोट्या नियुज्यमानोऽपि नरः कश्चिदिच्छां बिना न कर्म करोति। यतः कर्मकरणं दुःख- निदानभूतमिति योजना । तस्मादिह कर्मणि पुमर्थरागात्तत्य- युक्तसाधनरागादेव पदत्तिरिति राजमार्ग: सर्वदोपरूपपरिमोषि- रहितः पन्था इत्यर्थः । नियोगो हि नियुज्यमानविषये रागमु- त्पाद्यन्नेव प्रवर्त्तको, नतु रागवत्साक्षात्। ज्ञातेऽपि नियोगे राग- हीनस्य टत्यदर्शनात्। रागस्तु न नियोगमात्राद्भवति । तस्य दुःखात्मकत्वात्,किन्तु फलसाधनताबोधात्। तस्मात्फलरागिणो नियोगादपि साधने रागोत्पादादेव प्रवत्तिर्न्न नियोगमात्रा- दिति स्थितौ स्वेष्टसाधनत्वज्ञानस्यावश्याभ्युपेयत्वात् तत एव
367
Page 368
संक्षपशारीरके प्रथमोऽध्यायः ।१। ३५५
साध्यफलरागिण इच्छया पवृत्तिरित्यस्मिन् पक्षे न कोऽपि दोप इति भाव: ।। ४७६ ।। नन्विष्टसाधनज्ञानस्य चन्द्रातपादावपि भावाद्रागद्वारेणापि न नियमेन प्रवर्त्तकतेति व्यभिचारमाशङ्क्याह- इष्टभ्युपायस्य च कार्यभावः प्रयत्ननिष्पाद्यतयोपपन्नः ।। स चावसेयो वचनाल्लिडादेः प्रत्यक्षतो रागनिबन्धनस्तु ॥ ४७७ ॥ इषाभ्युपायस्येति । कार्यभावो नियमेन कर्त्तव्यता- प्रयन्ननिष्पाद्यतयोपपन्नः। प्रयन्ननिष्पाद्यत्वलक्षणकार्यत्वविशिष्टेष्ट- साधनत्वज्ञानस्य न प्रवर्त्तकत्वव्यभिचार इति भावः । उक्त- लक्षणमिष्टसाधनत्वं कुतोऽवसीयते त्वयेति, ततदाह ।। स चेति। स उक्तलक्षण इष्टाभ्युपायस्य कार्यभावो लिडदेर्वचनाच्छब्दा- दवसेयो विज्ञेयः। रागनिबन्धनस्तु कार्यभार्वः प्रत्यक्षतो मानस- प्रत्यक्षात् साक्षिप्रत्यक्षाद्वाऽवसेय इत्यक्षरार्थः । एतदुक्तं भव- ति। लिडदिशब्दो हि प्रवर्त्तकार्थवाचक इत्यऽविवादम् । तत्र कृत्युद्देश्यताविशिष्टं यत् कार्यत्वं परैः प्रवर्त्तकत्वेनाभिमतं तन्न लिडदिशब्दार्थः । तस्य चिकीर्पाविषयीकृतस्य प्रत्यक्षावसेय- त्वाच्छब्दार्थत्वायोगात्। अनन्यलभ्यो हि शब्दार्थोऽभिमतः । तस्मादन्य एव प्रवर्त्तको लिडदयर्थः । सच प्रयन्ननिष्पाद्यत्व- लक्षणकार्यताविशिष्टेष्टाभ्युपायः।सोऽपि ज्ञायमान: सन् प्रवर्त्तक- स्तादृगुपायज्ञाने सति फलरागिणः पटत्यवश्यम्भावात्तत्र चेष्टा- जभ्युपायांशस्यानन्यलभ्यतया लिङद्यर्थत्वम्। प्रयन्ननिर्वर्त्याश- स्य तु यद्यपि स्वरूपेणानन्यलभ्यत्वं नास्ति तथापीष्टाभ्युपाय-
368
Page 369
३५६ अन्चयार्थ प्रकाशिका विभूषिते
विशेषविशिष्टत्वाकारेण तदस्तीति सर्वथा पयत्रपरतन्त्रश्रेयः- साधनत्वमेव ज्ञायमानं प्रवर्तकं, तज्ज्ञानं च लिङदेरेवेति नास्मन्मते कोऽपि दोष इति॥ ४७७ ॥ ननु कार्यत्वस्यैकत्वात् कथमित्थं विभागः । केवलं कार्य प्त्यक्षावसेयमिष्टाभ्युपायत्वविशिष्टं लिडद्यवसेयमिति तत्राह- कार्यत्वमिच्छावरशवर्तति किश्वि- दिष्टाभ्युपाये निजमस्य किञ्चित् ॥ निजं लिडदेरवसेयमस्य साक्षिप्रसादादितरप्रतीतिः ॥ ४७८ ॥ कार्यत्वमिति ॥ इष्टाभ्युपाये यागादौ किश्चित् कार्यत्व- मिच्छावशवर्तति। यथा नियोगवादिनां कृत्युद्देश्यत्वरूपं कार्यम् । तत्रैवेष्टाभ्युपाये किज्जिन्निजमसाधारणं कार्यत्वमस्ति, कृतिसाध्य- त्वरूपस्य कार्यत्वस्य स्वाभाव्यात् । तत्रास्य यन्निजं कार्यत्वं लिङादेरवसेयं तत् क्रियास्वभावत्वात् । क्रियायाश्राख्याता- डवसेयत्वालकार सामान्यवाच्यमित्यर्थः । इतरपतीतिः कृत्युद्देश्य- तारूपकार्यत्वप्रतीतिः, साक्षिपसादात् प्रत्यक्षत इति यावत्। चिकीरपितत्वं हि कृत्युद्देश्यत्वम् । चिकीर्पा तु रागः। स जायमान एव नियतविषयः सन् साक्षिणावभास्यमान एव जायते, मनसा- Sवसेयतया वेति प्रत्यक्षत इतरप्रतीतिरित्यर्थः ॥ ४७८ ॥ कृतिसाध्यत्वविशिष्टमेवेष्टसाधनत्वं लिर्डर्थ इत्यत्र विद्वत्सं- मतिमाह- जानात्यर्थे लिङ्पदं गौणमाहु- जीनात्यर्थः कर्ततन्त्रो न हीष्टः ।।
369
Page 370
संक्षेपशारीर के प्रथमोऽध्यायः।१। ३५७
यागादर्थे कर्तनन्त्रे हि मुख्यो लिङलोडादि: श्रेयसो हेतुभूते ॥ ४७९ ॥ जानात्यर्थ इति ॥ ज्ञाधात्वर्थे यल्िङपदं प्रवर्त्तते जानी- यादिति तद्गौणमाहुराचार्याः, अनियोज्यविषयत्वात् कुण्ठीभव- तीत्यत्र। तत्र हेतुमाह। जानात्यर्थ इति ॥ साध्यत्वांशाभावात् प्रमाणवस्तुपरतन्त्रस्य ज्ञानस्य कृतिसाध्यत्वासंभवादित्यर्थः । तर्हि कुत्र लिडदिर्मुख्यस्तदाह ।। यागाद्यर्थ इति ॥ कर्त्तृतन्त्र इति हेतुगर्भ विशेपणम्। श्रेयसो हेतुभूत इति विशेषणमुभयत्र योज्यम् ॥ ४७९॥ ननु जानात्यर्थे विधेरमुख्यत्वमिष्टसाधनत्वबोधासंभवादेव भवतु। इतरत्र च मुख्यत्वं तत्संभवादेवास्तु, किमिति तत्र कृति- साध्यत्वांशभावाभावाभ्यां तथा कल्प्यत इति चेन्मैवमिष्टसाधन- त्वांशबोधस्य जानात्यर्थेऽपि संभवादित्याह जानात्यर्थे श्रयसो हेतुभाव- भागोडबुद्दो बोध्यते लिङ्पदेन ।। यागादर्थे श्रयसो हेतुभावो मुख्यो बोध्यः कर्तृतन्ते न गौणः ।। ४८० ॥। जानात्यर्थ प्रेयस इति॥ ज्ञाधात्वर्थेऽपि ब्रह्मज्ञानादौ श्रेयसो मोक्षादेर्हेतुभावभागःपागबुद्धो लिडा बोध्यते। तद्विजिज्ञा- सस्व, तमेवैकं जानथ आत्मानं, स म आत्मेति विद्यादित्यादि- वाक्येषु लिङलोडादिपदैर्व्रह्मात्मज्ञानस्य मोक्षरूपश्रेयःसाधनत्वं बोद्ध्यते। तथापि तत्र कृतिसाध्यता नास्तीति तत्र लिडदिर्गोण इत्यर्थः। इतरत्र तुन गौणस्तस्य कर्त्तृतन्त्रत्वादेवेत्याह ।। यागा-
370
Page 371
३५८ अन्वयार्थप्रकाशिकाविभूषिते
दर्थे श्रेयस इति ॥ ४८० ॥ ननु ब्रह्मज्ञानस्य ज्ञेयावगतितन्निबन्धनसंसारनिव्ृत्तिरूपफल- साधनत्वस्यान्वयव्य तिरेकाभ्यामवगम्यमानत्वान्नानवबुद्धताऽस्ति अतो न तत्र लिडादिभि: साधनत्वांशोऽपि बोद्ध्यत इतिचेत् तत्राह- यागादयर्थे मुख्यता यद्दस्य ब्रह्मज्ञानस्यान्तरङ्गेषु तद्दत । तर्कादीनां कर्ततन्त्रत्वहेतो- ज्ञानादर्वाग्गौणताऽमुख्यभावात् ।।४८१।। यागाद्यर्थे मुख्यतेति । अयमर्थः। श्रुतवेदान्तस्य यद्यपि न लिडदेः साधनत्वावगमस्तथाप्यश्रुतवेदान्तस्य सामान्यत उक्तपकारेण साधनत्व्रपतीतावप्यनन्तरफलादर्शनाच्छङ्काग्रस्त- तया साधनत्वमबुद्धमिति शास्त्रवोध्यं तत् स्यात्। ब्रह्मज्ञानसाधने श्रवणादौ तु तादृशेडपि कृतिसाध्यत्वस्यापि सत्वान्मुख्य एव लिङदिरिति। अक्षरयोजना तु- अस्य लिडदेर्यागाद्यर्थे यद्व- नमुख्यता तद्द्व्रह्मज्ञानस्यान्तरङ्गे श्रवणादावपि मुख्यता। तत्र हेतुमाह ॥ तर्कादीनामिति ॥ कर्न्तृतन्त्रत्वहेतोर्यागादिवत् कृति- साध्यत्वांशस्य तत्र भावादित्यर्थः । मननादीनां कर्त्तृतन्त्रत्वं साधयति । ज्ञानादर्वागिति॥ आत्मसाक्षात्कारोदयात् प्राक्कर्तुः करोमीत्यभिमानस्य अनपायाच्क्रवणादिविधौ लिडादेर्गोणत्व- कल्पनायां प्रमाणाभावादिति । तथाच कृतिसाध्यत्वतदभा- वाभ्यामेव लिडादर्मुख्यामुख्यत्वव्यवस्था, न श्रयःसाधनत्वतद- भावाभ्यामिति निर्णयः ।।४८१।। यद्येवं ब्रह्मज्ञानेऽपि लेशतो विधिरज्ञातश्रेय:साधनत्वबोधा-
37
Page 372
संक्षेपशारीरकं प्रथमाऽध्यायः।१। ३५९
द्ववेच्छवणादी च सर्वात्मना मुख्यस्तर्यात्मा वा अरे द्रष्टव्यः श्रोतव्य इत्यादिविधिश्रवणाऽनुरोधेन विधिनिष्ठत्वमेव वेदान्ता- नामभ्युपेयं, न वस्तुनिष्ठत्वम् । भूतं भव्यायोपदिश्यत इति न्यायादितिचेत्तत्राह- भूनस्य भव्याय यथोषदेशः क्रियापरे वस्तुपरे तु काण्डे।। न हीष्टमेवं विपरीतमस्मिन् भव्यस्य भूताय सदोपदेशः ॥। ४८२ ।। भूतस्येति ॥ वस्तुपरे तु काण्डे एवं न हीष्टमित्यन्वयः ॥४८२।। कुत एवं विभागव्यवस्था। काण्डयोरुभयोरपि शब्दप्रमाण- त्वाविशेषाद्वेदत्वाविशेषाचेति चेदर्थवशादित्याह- भव्यप्रतीतावुपयोगभाजो भवन्ति कार्त्स्न्येन च सिद्धवात: । क्रियाप्रधाने न तथात्र किन्तु भूतप्रतीतौ खलु भव्यवादाः ॥४८३॥ भव्यप्रतीताविति।क्रियाप्रधाने काण्डे सिद्धवादा भव्य- प्रतीतौ कात्स्पेनोपयोगभाजो भवन्ति भव्यशेपविषया एव भवन्ति। भव्यप्रतीतेरेव तत्र पुरुषार्थानुबन्धित्वाद् भूतप्रतीते- रफलार्थत्वात् फलवत्सन्निधावफलं तदङ्गमिति न्यायादित्यर्थः । ज्ञानकाण्डे विपरीतमेतदित्याह ।। न तथात्रेति॥ वैपरीत्यमेव विमृश्य स्फुटयति ॥ किन्तु भूतेति ॥ ४८३ ॥ किमित्येवमननुगमोऽभ्युपगम्यते, वेदान्तेष्वपि पूर्वकाण्ड-
372
Page 373
३६० अन्वयार्थप्रकाशिकाविभूषित
तुल्यत्वाय भव्यनिबन्धन एव फलसम्बन्धः कल्प्यतामितिचेन्न्ना- Sसम्भवादत्रेत्याह- भव्यप्रतीतौ न हि कश्िदर्थो भूतप्रतीतौ पुनरस्ति मुक्ति: ॥ श्रोतव्य इत्यादि ततो विधानं भूतोपदेशानुगुणं समस्तम् ॥ ४८४ ॥ भव्यप्रतीती न हीति ॥ वेदान्तेषु भव्यप्रतीतौ कश्चि- दर्थः पुरुषार्थो न हि दृश्यते श्रयते वा।नाऽपि कल्पयितुं शक्य- ते। कल्पकाभावादित्यर्थः । कथमित्यत आह ॥ भूतपतीतौ पुनरस्ति मुक्तिरिति ।। ब्रह्म वेद ब्रह्मैव भवतीत्यादौ भूतब्रह्म- प्रतीतौ मुक्तिश्रवणाद्विद्वत्पत्यक्षभावाच्चास्य प्रामाणिकत्वे सति इतरत्र फलकल्पनया शेपित्वकल्पनाऽयोगादित्यर्थः । तस्मात् फलवत्सन्निधावफलं तदङ्गमिति न्यायेन वेदान्तेषु सर्वो विधि- स्तत्वमस्यादिभूतोपर्दशशेष एवेत्युपसंहरति ॥ श्रोतव्य इत्यादी- ति॥ ४८४॥ कथं वेदान्तेषु भव्योपदेशस्य भूतवस्तुपतीत्युपयोगपकार इत्यपेक्षायां तद्दर्शयन्, द्रष्टव्य इत्यादिविधौ, न विधौ परः शब्दार्थ इतिन्यायेन दर्शनस्यापि कर्त्तृतन्त्रत्वमेष्टव्यमित्येष पूर्व- पक्ष्याग्रहोऽपि निराकृत इत्याह- आदाय मुख्यगुणलाक्षणिकप्रवृत्ती- र्भव्यप्रतीतिजनकैः सह भूतवादाः।। संबन्धिनो विधिवच:सु तथात्र सर्वे भव्यार्पणाः परिवृढ़प्रतिपादकेन ॥ ४८५॥
373
Page 374
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३६१
आदाय मुख्येति । यथा विधिवचस्सु कर्मकाण्डे भूत- वादा मुख्यगुणलाक्षणिकपटृत्तीरादाय भव्यपतीतिजनकैः सह सम्बन्धिनो भवन्ति तथात्र वेदान्तेषु सर्वे भव्यार्पणा भव्योप- देशा: परिवृढस्य प्रभोर्व्रह्मात्मनः प्रतिपादकेन सह सम्बन्धिनो भवन्तीति योजना। एतदुक्त्तं भवति। भव्याभिधाय्याख्यातवि- रोधे नामपदानामर्थवादादिपदानां च तत्सम्बन्धसिद्धये क्रिया- काण्डे लक्षणाद्याश्रयणं युक्तम् । तत्र भव्यपाधान्यात् । इह तु सिद्धब्रह्मपाधान्यात्तदभिधाययिना ब्रह्मादिपदेन तत्वमस्यादि- वाक्येन वा अविरोधेन सम्बन्धसिद्धये विधयो लक्षणाद्यादाय पर्यवस्यन्ति। न विधौ परः शब्दार्थइति विधिशब्दोऽपि विवक्षि- तार्थपरो, न लिडादिपरः। अतो न न्यायविरोधोऽपीति ॥४८५॥ एवमप्यमुख्यार्थत्वं दोष एवेतिचेन्नायं दोष: । कर्मकाण्ड इव नामपदानां पधानान्वयसिद्भ्यर्थत्वादित्याह- सिद्धार्थवादितचनेषु न गौणातादि- र्दोषाय कर्मपरवाक्यगतेषु यद्दत।। कार्यार्थवादितचनेषु न गौणतादि- र्दोषस्तथोपनिषदीति समानमेतत् ॥ ४८६॥। सिद्धार्थेति ॥ स्पष्टा योजना ॥ ४८६॥ ननु वेदपमाणत्वाविशेषेऽपि पूर्वोत्तरकाण्डयोर्वैरुप्यकल्पन- मयुक्तमेवेतिवेद् अत्यल्पमिदमुच्यते। सर्वपसिद्धयोरपि मानमेय- योर्गम्यगमकभावोऽप्यत्र विपरीतः । नचायमपि दोष एवेति वाच्यम्। वस्तुस्वरूपानुसारित्वान्मानमेयभावस्येत्याह- मानेन मेयावगतिश्च युक्ता ४६
374
Page 375
३६२ अन्घयार्थप्रकाशिकाविभूषिते
धर्मस्य जाड्याद्विधिनिष्ठकाण्डे।। मेयेन मानावगतिस्तु युक्ता वेदान्तवाक्येष्वजड़ हि मेयम ॥ ४८७॥ मानेन मेयेति ।। जडं हि स्वयमप्रकाशस्वभावत्वात् परतः प्रकाशमपेक्ष्य प्रमितं भवेत् । तत्पकाशकं च प्रमाणं यद्यपि स्व- रूपतो जडं, तथापि चिदाभासव्याप्तमेव सत्तदन्यावभासकमत्य- डजडेन जडं मेयमिति स्थितिः।तथाच धर्मस्य जडत्वान्मानेन मेय- ता कर्मकाण्डे। ज्ञानकाण्डेतु मेयस्य ब्रह्मणः स्वपकाशस्वभावत्वा- दजा्यात्तेन मेयभूतेन मानस्यावगतिर्युक्ता।तस्मान्मेयावभासकम- डपि मानं येन सिद्ध्यति तन्न मानमेयं, किन्तु विपरीतम्। नचै- तावता ब्रह्मणो वेदान्तवेद्यत्वप्रसिद्धिविरोधः । स्वयं नित्यं प्र- काशमानस्यैव ब्रह्मात्मनः प्रकाशावरणाविद्यापसरणमात्रेण यथा- वदभिव्यत्यपेक्षत्वाद्वेदान्तवेद्यत्वपसिद्धेरिति भावः।।४८७॥। न चैतावदेवाषि च नैरुक्तपभृतिभिरुक्तं, वाक्यलक्षणमप्यत्र- विपरीतमित्याह- कर्मप्रधानेऽतिगते च काण्डे वाक्यत्वमाख्यातपदप्रयुक्तम् ।। ब्रह्मप्रधाने श्रुतिमस्तकेऽस्मि- न्नामप्रधानं वचनं समस्तम् ॥ ४८८ ॥ कर्मप्रधानेति । अतिगतेऽतिक्रान्ते पूर्वस्मिन्नित्यर्थः । चशब्दः किश्चेत्यर्थे। तत्र वाक्यत्वमाख्यातपदपयुक्तं तत्पधान- मेव। तत्र भव्यावगतेरेव फलवत्वादित्यभिभायः । श्रुतिमस्तके तु भूतब्रह्मावगतेरेव फलवत्वात्तत्पधानं समस्तं वचनमिति हेतु-
375
Page 376
संक्षेपशारीरके प्रथमोऽध्यायः।१ ३६३
रनुसन्घेयः।। ४८८ ॥ एताहशं वैरप्यं न मयैवाश्रितं, भवद्भिरप्यर्थवशादाथ्रितं दृश्यत इत्याह- कार्यप्रधानमखिलं च पदं सुबन्त- माख्यातमेव फलतः खलु कर्मकाण्डे ।। तद्वत्तिङन्तमपि वेदशिरःसु सर्वे नामैत्र तद्दि परिनिष्ठितवस्तुनिष्ठम ॥ ४८९॥ कार्यप्रधानमिति ॥ कर्मकाण्डे खलु सुबन्तपदं नामत्वेन पसिद्धमपि यत्कार्यप्रधानं कार्यार्थनिष्ठमस्ति तदखिलं फलतो- 5र्थवशादाख्यातमेव युष्माभिरभ्युपगतमिति शेषः । तद्वद्वेदशिर- स्सु सर्व तिङन्तमप्याख्यातत्वेन प्रसिद्धमपि पदं नामैव नामार्थ- कमेव । तद्धि यतः परिनिष्ठितवस्तुनिष्ठमस्माभिरर्थवशादभ्युपग- तमिति योजना ॥ ४८९ ॥ कर्मकाण्डे नामपदस्याख्यातत्वं कुत्राश्रितं दृश्यत इति नदाह- आग्नेयमाश्चिनमथैन्द्रमितीदशं हि सर्व सुबन्तमपि भव्यपरं प्रसिद्धम् ॥ साडस्येति तद्धितसमन्वितसन्निधाने नामैत्र तङ्जवति यञ्ञवतीति तद्दत । ४९० ॥ आग्नेयमिति ॥ आग्नेयादिपदानां भव्यपरत्वपसिद्धौ निमित्तमाह । साऽस्येतीति । साऽस्येति सूत्रेण हविषो देवतैदमर्थ्ये तद्धितस्य विधानाद् द्रव्यदेवतासम्बन्धात्मकत्वाच यागस्य तत्पसिद्धिरित्यर्थः । नाम्नामाख्यातत्वापत्तिमुक्त्वा-
376
Page 377
३६४ अन्वयार्थ प्रकशकाविभूषिते
Sडख्यातानां नामत्वापत्तिपकारमाह । तद्धितसमन्वितेति ॥ य- द्दवतीत्याख्यातं तदपि आग्नेयमित्यादितद्धितसमन्विततया स- त्निधाने नामैत भवति नामार्थक एवार्थवशाद्भवतीति योजना। यदाग्रेयोऽष्टाकपालो भवतीत्यत्रोक्तविधया तद्ितस्य नाम्नो- डपि क्रियार्थत्वं नामात्मकतद्धितान्वयात् क्रियार्थस्यापि भवति- पदस्य नामत्वं च भवद्भिरिष्टमिति समुदितार्थः ॥ यथैवं भवता- मर्थवशात्म सिद्धय तिक्रमस्तथाऽस्माकमपीत्याह।।तद्वदिति॥४९०॥। तदेवोदाहरति- अस्त्यस्म्यसीति च तिङन्तपदानि सन्ति वेदान्तवाक्यनिलयानि तथानि तानि।। नाख्यातशब्दनिजशक्तिधुरं वहेयु- रस्तित्वमात्रविषया हि निषक्तिरेषाम् ॥४९१॥ अस्त्यस्म्यसीतीति ॥ कथं न वहेयुरित्यत्र हेतुमाह।। अस्तित्वमात्रेति ॥ स्वरूपसन्मात्रे निपक्तिः पर्यवसानमेषामस्त्या- sडदीनामित्यर्थः। अन्यत्राप्यस्त्यादेराख्यातत्वं वस्तुस्वरूपसत्ता- या: क्रियात्वोपचारेणाङ्गीक्रियते, न तु भव्यवाचित्वेन। न हि
पतीयते। तथाच सामान्यवत्स्वप्यर्थेषु पयुज्यमानोऽस्त्यादिर्यदा वस्तुसत्तामात्रपरस्तदा वेदान्तेषु निःसामान्यविशेषवस्तुपरेषु किमु वक्तव्यमस्त्यादेर्भव्यार्थत्वासम्भव इति भावः।।४९१॥। ननु धात्वर्थस्य क्रियात्वादस्त्यादेरपि पच्यादिवत् क्रिया-
पूर्तापरीभूतपदार्थनिष्ठ- माख्यातमाख्यातविदो वदन्ति ॥
377
Page 378
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३६
कूटस्थ सत्तावगतिप्रधान- माख्यातवत्साधु तिङन्तमाहः ॥४९२॥ पूर्वापरीभूनेति । पूर्वापरीभूतः साध्यस्वभावो यः पदा- जर्थो विक्लेदाद्यात्मकस्तन्निष्ठमाख्यातविदो वदन्ति। क्रिया ह्वाख्या- तार्थः । सा च साध्यस्व्रभावेति तत्रैवाख्यातत्वं मुख्यमिच्छन्त्या- SSख्यातविद इत्यर्थः । असाध्यस्वभावे गौणं तदित्याह। कूट- स्थसत्येति ॥ तिङन्तपदं यत्कूटस्थसत्तावगतिप्रधानमस्त्यादि- रूपं तदाख्यातवदाख्यातसदृशं नसाक्षादाख्यातमिति साध्वाहु- र्युक्तमेव वदन्तीत्यर्थः । सत्तावादिनस्तिडन्तपदस्याख्यातत्वं गौणं तद्वाच्यस्य कल्पितक्रियात्वाश्रयणेन शब्दसाधुत्वमात्रार्थ, तत्पयोगादिति भावः ॥। ४९२॥ अस्तित्वमात्रनिष्ठं वेदान्तवाक्यमित्येतदुपश्रुत्यासहमानः प्राभाकरश्चोदयति- अस्तित्ववस्तुविषयोप निषन्निषक्ति- राश्रीयते यदि तदा प्रमितं प्रमेयम् ॥ तस्यास्तवापतति मानमितत्वमेव ह्यस्तित्वमात्मगतमभ्युपयन्ति धीराः ॥ ४९३ ॥ अस्तित्वेति ॥ निषक्ति: पर्यवसानम्। तस्या उपनिषद: पमेयं पमितं मानविषयीकृतं तव मते आपतीति योजना। एत- देव विद्वत्मसिद्योपपादयति ॥ मानमितत्वमेव हीति॥ माना- ऽधीनत्वात् । सर्वत्र सत्तावगमस्यत्यर्थः ।। ४९३॥ यदि मानविषयत्वमेवास्तित्वं तदा मानसम्बन्धस्य क्षणिक- त्वात् क्षणिकमेव वस्तु स्यादित्य।शख्् मानयोग्यत्वमेव मेय-
378
Page 379
३६६ अन्वयार्थ प्रकाशिकाविभूषिते
त्वमिति पक्षान्तरं स एवाह- अथ वा मितियोग्यतास्तिता निरतद्यास्तु समस्तवरतुष॥ परमात्मनि तत्प्रतीतये सकलं वेदशिरः प्रवर्त्तताम ॥ ४९४ ॥ अथवेति ॥ समस्तवस्तुष्वात्मन्यनात्मसु च मितियोग्यता निरवद्या समस्तदोपरहिता शङ्कितदोपरहिता वाऽस्तिताऽस्तु । योग्यताया यावद्वस्तुभावित्वादित्यर्थः। उक्तं सामान्यन्यायं प्रकृते योज्यमित्याह॥ परात्मनीति ॥ तथाच मानान्तरसापेक्षत्वं स्यादिति भवतामनपेक्षत्वलक्षणं वेदान्तपामाण्यं न सिद्धयेत्। मानान्तरायोग्ये सिद्धे शब्दप्रट्टत्तेरसम्भवादिति भावः ।४९४।। मानविषयत्वं मानयोग्यत्वं वा सर्वस्यास्तित्वं तदभावेना- Sस्तित्वमेवेति पाप्तो दोपो न मयैव परिहरणीयस्तवापि तुल्यत्वा- दित्यभिप्रेत्य तन्मरतेन व्यभिचारमाह- तदसुन्दरमात्मसंविदो- रवि सत्ता भवताभ्युपेयते । न तर्योर्विषयत्वहीनयो- र्मितियोग्यत्वमितत्व्रसंभव्ः ॥ ४९५ ॥ तदसुन्दरमिति।।भवता प्राभाकरेण।।विषयत्वहीनयोरिति आत्मनो विषयसंविदाश्रयत्वेनैव स्फुरणं, न विषयत्वेन। संविद- श्र स्वयम्पकाशमानतया न वेद्यतयेत्यभ्युपगमान्न तयोर्मिति- योग्यत्वमितत्वसम्भवः । तथाचैतदेव चेद्वस्तुनः सच्वं तदात्म- संविदोस्तवासत्वप्रसङ्ग: ॥ ४९५॥
379
Page 380
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३६७
एवमियता ग्रन्थसन्दर्भेणाSखण्डे ब्रह्मात्मनि सिद्धे तत्वमस्या- दिमहावाक्यस्य सत्यज्ञानाद्यवान्तरवाक्यस्य च पर्यवसानप्कार: पूर्वोन्ावितदोषनिराकरणेन प्रपश्चितः। इदानीं जगत्कारणवादि- वाक्यजातस्य तत्पदार्थे ब्रह्मणि समन्वयपकारकथनायोत्तर- सन्दर्भ: प्रवर्त्तते। त्वम्पदार्थनिरूपणपूर्वकं वेदान्तानां ब्रह्मात्मनि समन्वयः पूर्वमुपपादितः । इदानीं तत्पदार्थोपलक्षणभूतवाक्य- जातसमन्वयप्रकारनिरूपणेन स एव समन्वयो दढीक्रियते। यतो यावदुपलक्षणवाक्यं प्रकृतव्रह्मगामितया नावधार्यते ताव- दुपलक्षितस्य सत्यज्ञानादिरूपता पूर्वोपपादिता न सिद्धयेदित्यत- स्तदुपपादनीयमिति। तत्र सष्टयादिवाक्येजेगत्कारणमुददिश्य तस्मिन् ब्रह्मत्वं विधीयते ? ब्रह्म वोदिश्य तस्मिज्जगत्कारणत्व- म्१। नोभयथापि । जगतोऽकार्यत्वात् तत्कारणस्याप्रसिद्धे-
तरप्रतिपादनासम्भवादित्याशङ्गय जगत्कारणमनूद्य तस्य ब्रह्मत्व- प्रतिपादनं शक्यमिति वक्तुं जगतः कारणवत्वसिद्धये कार्यत्वं तावत् साधयति- क्षितिजलदहनानिलाम्बराणां जनिमनुमाय विभक्तताबलेन ।। जगति हि जनिमद्विभज्यमानं घटघटिकादि समीक्ष्यते समस्तम् ॥ ४९६॥ क्षितिजलद्हनानिलाम्बराणामिति । अयमर्थः । पञ्चभूतात्मकं हि जगदभिमतम् । तत्र भौतिकेषु तावत् कार्यत्वे विप्रतिपत्तिर्नास्ति। अतस्तत्साधर्म्याद् भूतेष्वपि कार्यत्वमनुमेय- मेव ।। विभक्तताबलेन विभक्तत्वादितिहेतुसामर्थ्येन॥ क्षितिजल-
380
Page 381
३६८ अन्वयार्थप्रकाशिकाविभूषिते
दहनानिलाम्बराणां जनिमनुमाय तर्कयन्तीत्यु त्तरपद्यगतेन सम्ब- न्धः । विमतानि महाभूतानि जनिमन्ति। विभक्तत्वादित्यवयव- द्वयमुत्का तृतीयं व्याप्त्याख्यमवयवमाह । जगति हीति ॥ यद्य- द्विभक्तं तत्तज्जनिमत् । यथा घटघटिकादीति व्याप्तिर्निरवद्येत्य- डर्थः । न च विभक्तत्वहेतुरात्मनि अनैकान्तिकः । तस्य सर्व- सत्तारूपतया कुताश्वेद्विभागासम्भवात् पक्षे च तदनुभवसिद्धमिति, नासिद्धिशङ्कापीति गमयितव्यम् ॥ ४९६ ॥ विमतानि महादीनि भूतानि जनिमन्ति। विभक्तत्वाद् घटादिवदित्यनुमानं सर्वभूतपक्षीकरणेनाभिधाय प्रत्येकपक्षी- करणेनाप्यनुमानान्तराण्याह- क्षितिजलदहनेषु तत्प्रदेशा- अनिसहितानुपलभ्य तद्बलेन ।। क्षितिजलद््हनत्वलिङ्गमार्गा- दपि जनिमेष्वनुमाय तर्कयन्ति ॥ ४९७॥ क्षितिजलेति ॥ अत्राविप्तिपन्नेनैकदेशेनैकदेशान्तरं वि- प्रतिपनं साध्यत इत्यनुमानपकारभेदो दर्शितः । तथाहि । वि- पतिपन्ना क्षितिर्जनिमती। क्षितित्वात्। नदीस्रोतसा समुह्यमान- मृत्सिकताकृतभूप्रदेशवत्। तथा, विमतं जलं, विमतं तेजो, विमतो वायुरित्येते जनिमन्तः।जलत्वात्तेजस्त्वाद्वायुत्वात्। चन्द्र- कान्तजनितजलवत्,अरणिमथनोद्भूततेजोवत्। व्यजनाभिघात- जन्यवायुवदिति। प्रत्येकं क्रमेण प्रयोक्तव्यम्। एवं सिद्धे भूतचतुष्टयस्योत्पत्तिमच्वे वियतोऽप्युत्पत्तिरनुमेया।विमतं वियद् उत्पत्तिमद् भूतत्वात् पृथिव्यादिवदिति।नच वियदनुत्पत्तिम्निर- वयवद्रव्यत्वादात्मवदिति सत्पतिपक्षताशंसा। अविद्येतरत्वे सति
38
Page 382
संक्षेपशारीरके प्रथमोऽध्यायः ।१ ३६९
चेतनावत्वोपाधेः सम्भवात् । वेदान्तिनः पतिदृष्टान्ते साधन- वैकल्याच।न हि द्रव्यत्वमात्मनो वेदान्तिनो मन्यन्ते । निर्गुण- त्वाभ्युपगमादात्मनो निर्गुणस्य च द्रव्यत्वायोगात्। तस्मात् वियदप्युत्पत्तिमदिति द्रष्टव्यम् । एवं कार्यत्वे सिद्धे कारणं विना कार्यासम्भवात् सिद्धकार्यभावस्य जगतः कारणं तर्कयति- केनचिदस्य कारणेन भवितव्यम् । किं तद्युक्तं चेतनमचेतनं वेत्यर्थः ।। ४९७॥ इदं कारणपूर्वकं कार्यत्वात् संमतवदिति तर्किते कारणे चेतनत्वमप्यनुमानादुन्नेतुं शक्यत इत्याह- जनिमदभवदेतच्चेतनादेव हेतो- र्घटवदिति पुनस्तत्कारणे चेतनत्वम् ॥ अनुमिमत उदर्के कार्यतालिङगतोऽमी जगति हि परिदृष्टं चतनादेव कॉर्यम् ॥ ४९८॥ जनिमदिति॥ एतज्जगच्चेतनादेव हेतोः कारणान्नाचेतना- दित्येवकारार्थो जनिमदभवदिति पुनरुदर्के उत्तरकाले कार्यता- लिङ्गतः कार्यत्वेन हेतुना घटादिद्ृष्टान्तेन च तत्कारणचेतनत्व- मप्यनुमातारोऽनुमिमत इति योजना। घटादिदृष्टान्ते व्याप्तिं घटयति। जगति हीति॥ विमतं चेतनकारणकं कार्यत्वाद् घटवत् घटादिश्च चेतनकारणको निश्चित एवेति वाक्यार्थः ॥४९८॥ एवं चेतने जगत्कारणेऽनुमानतः सिद्धेऽपि पुनस्तस्मिन्ने- कानेकविषयः संशयो भवति। नच तदेकत्वं नानात्वं वानुमान- मात्रान्निश्रेतुं शक्यते । एकस्यापि गोपुरस्तम्भादेरनेकचेतन- पूर्वकत्वदर्शनादनेकेषामपि सूपौदनशाकानामेकेन निर्माणदर्शना- च्। अतोऽनुमानाज्जगत्कारणस्य न सर्वजत्वसर्वेश्वरैकत्व्ानां ४७
382
Page 383
३७० अन्वयार्थप्रकाशिका विभूषिते
सिद्धिरित्यभिप्रेत्य संशयोत्पत्तिपकारमाह- जगदुदयनिमित्तं चेतनं किं नु नाना किमु भवतु तदेकं सर्ववित सर्वशक्ति ॥ इति भवति तु पश्चात कारणे चेतनेऽस्मि- न्ननवगतिनिमित्तः संशयो दुर्निवारः ॥ ४९९ ॥ जगदुद्येति । अनवगतिनिमित्तः श्रुतेरन्यस्य निर्द्धारणे हेतोरभावादज्ञाननिमित्त: संशयो दुर्निवारोऽनुमानशतेनापीत्य- ऽर्थः। सामान्यतो दृष्टानुमानाद्विशेपनिश्चयासम्भवात् सर्वज्ञत्वा- दिविशेषणवत्तया व्याप्तिग्रहाभावादेवानुमातुमशक्यत्वात् पक्ष- धर्मतायाश्च सपक्षदष्टरूपादू पान्तरासाधकत्वादन्यथा जगत्कारणे ईश्वरे सांख्यादीनां विप्रतिपत्यभावपसङ्गात्। तार्किकानुमाने च शरीरत्वोपाधे: सम्भवात् । विप्रतिपन्नं न सर्ववित्कर्तृकमसर्व- वित्कर्तृकमिति वा, शरीरिकर्तकमिति वा।कार्यत्वात। संयमन- वदिति प्रतिप्योगराम्भवाच्च। न च विशेषणस्य प्रसिद्धयम- सिद्धयोर्व्याघातः । सर्वज्ञशब्दार्थस्य लोके सामान्यतः सिद्धत्वे- Sपि प्रकृते जगत्कारणे तदसिद्धेः । यदीदं चेतनकर्तृकं स्या- न्र्हि शरीरिकर्तृकमपि स्यादशरीरस्य चेतनावतः सच्वे प्रमाणा- Sदर्शनादित्यादितर्कबाधितत्वाच्चानुमानाच्च विवक्षितेश्वरासिद्धि- रिति भाव: ॥४९९॥ एवं सर्वज्ञत्वाल्पज्ञत्वैकत्वानेकत्वादिसंशयवदुपादानमप्यस्य जगतः कर्त्तुश्चेतनादन्यत् स्यात्।कुलालादेरन्यस्य मृत्पिण्डादेर्घटा- दुपादानस्य लोके दर्शनात्। किं वा स एव कर्त्ता चेतनवदुपा- दानमपि ऊर्णनाभिवदूर्णानां तार्किकात्मवद्वात्मगुणानां स्या- दिति सन्देहः स्यात्। तथा सहकारिकारणमप्यूर्णतन्तुनिर्माणे
383
Page 384
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ३७१
ऊर्णनाभिरिव बाहयं नास्ति, किंवाकार्पाससूत्रनिर्माण इव काष्ठ- यन्त्रादिवाह्यमप्यस्तीति संशयो भवेत्। एतदपि संशयजातं न श्रुतेरन्यतो निवर्त्तयितुं शक्यत इत्यभिप्रेत्य श्रुतिवशान्निर्णय- पकारमाह- श्रुतितरचन विशेषाचेतने कारणेडस्मिन् यत इति निरवद्यादेकताधीरथागात्।। प्रकृतिरिति च तस्मिन् कारणे पञ्चमीयं जनयति दृढ़बुद्धिं तद्विधानादिहैव॥ ५०० ॥ श्रुतिवचनेति ॥ यतो वा इमानि भूतानीत्यस्मिन् वेदा- न्तवाक्ये यत इति निरवद्याच्छुतिवचनविशेषादिति सम्बन्धः । िरवद्याननिर पेक्षपमाणरूपाच्छरुतिविशेपाद्वचनविशेषाच्चेत्यर्थः । यत इत्यत्र पदे प्रातिपदिके यच्छब्दः श्रुतिविशेषः । एकवचना- न्तत्वं वचनविशेष इति विभागः । तथाच चेतनमनुमानात् सिद्धं कारणं यत इति यच्छब्दपातिपदिकेनाऽनूद्यैकवचनश्रुत्या- Sस्मिँश्चेतने कारणे एकताधीराद्या प्रथमा जायते। अथानन्तरं, यत इति यस्मादर्थे तसेः प्रयोगादियं पश्चमी विभक्तिस्तस्मिन् पागुक्ते कारण एकस्मिन् प्रकृतिरुपादानमिति च दृढबुद्धिं जन- यति। कथं पञ्चम्याः प्रकृत्यर्थत्वमित्यत आह॥ तद्विधानादिति॥ जनिकर्तुः प्रकृतिरिति विशेपविधानादित्यर्थः । इहैवास्मिँन्नेवो- पादाने पञ्चम्या विधानादित्यर्थः । यच्चेतनं कारणं तदेकमु- पादानं चेति यत इति श्रुत्या निरपेक्षया निर्णीयते। अत एव स्वाङ्गबाहर्भूतं सहकारिकारणान्तरमप्यत्र नास्तीति सिद्धमस्यैक- त्वं सर्वशक्तित्वं चेति भावः ।। ५०० ॥ अत्र वचनविभक्तिवलादुक्तामेकत्वपकृतिसिद्धिं पूर्ववाद्या-
384
Page 385
३७२ अन्वयार्थप्रकाशिकाविभूषिते
क्षिपति एकत्वमेकतचनादवगम्यमानं यच्छब्दवाच्यनिलयं यत इत्यमुष्मिन् ॥ वाक्ये जगत्प्रकृतिगामितया न विदः संख्यां विभक्त्यभिहिते वचनं हि नाह ॥ ५०१॥ एकत्वमिति।।यत इत्यमुष्मिन् वाक्ये एकवचनादेव गम्य- मानं यदेकत्वं तद्यच्छब्दवाच्यनिलयं यच्छब्दपातिपदिकगत- मेव न विभत्तर्थपकृतित्वगतमिति योजना । कुत एवमित्यत आह।। जगत्पकतीति ॥ हि यस्माद्वचनं विभत्यभहिते पश्चमी- वाच्ये जगत्पकृतिगामितया निविष्टां जगदुपादानगतत्वेन पाप्तां संख्यां नाह न कथयतीति योजना।एकत्वविवक्षायां यदेकवचनं विधीयते तत् पकृतिभूतपातिपदिकगतमेवैकत्वं गमयति, न- प्रत्ययात्मकविभतयर्थगतं वचनवाच्यसंख्याया विभत्त्र्थगततया काप्यनुपलम्भादिति तात्पर्यार्थः ॥५०१।। नन्वाकाङ्कादिवशाद्विभक्तिवाच्यगततयाऽपि संख्याभिधीय- तामितिचेन्नैवमेवमपि क्वाप्यदर्शनादित्याह- न हि विभक्त्यभिधेयपदार्थगं वचनमाह निजं विषयं क्वचित्।। वचनवाच्यगतं न वदन्ति च स्वमभिधेयमशेषविभक्तयः ॥ ५०२ ॥ न हि विभक्तीति ॥ वचनं कर्तृ, तन्निजं विषयं स्ववा- च्यमेकत्वादिकमर्थ विभत्तभिधेयपदार्थगतं कारकगतं न हाह, न कथयति कचिदिति योजना। तत्तर्हि विभक्तिर्वचनार्थगतं
385
Page 386
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ३७३
स्वार्थमभिदध्यादितिचेत्तदप्यपसिद्धमेवेत्याह ।। वचनवाच्यगत- मिति ॥ ५०२ ॥ सत्यं विभक्तिवचने प्रातिपदिकार्थगततयैव स्वार्थमादधतो, नान्योन्यार्थगततया। तथापि, प्रकतिप्रत्ययौ प्त्ययार्थ सह ब्रूतः पत्ययस्तु प्राधान्येनेति न्यायात् प्रत्ययार्थोपरक्त एव भक- त्यर्थः प्रतीयते, न केवलं प्रातिपदिकार्थः । तथा, प्रातिपदिका- जर्थोपरक्त एव प्रत्ययार्थोऽपि प्रतीयते, न केवल इति स्थितौ प्रातिपदिकार्थः प्रतीयमानो विभक्तिवचनार्थान्वित एवावगम्यते। अतो विभत्तर्थान्वितपातिपदिकार्थगतत्वेन वचनार्थः प्रतीयते। विभत्त्यर्र्थोऽपि वचनार्थान्वितप्ातिपदिकतयेति युगपद्वचन- विभत्यर्थान्वितत्वेनैव यत इत्यत्र यच्छब्दार्थप्रतीतेस्तस्मिन्ने- कत्वप्रकृतित्वे शब्दसामर्थ्यादेव मिद्ध्यत इत्येतत्सर्वमभिप्रेत्य परिहारमाह- प्रातिपदिकार्थगतमेव वचनानि स्वं स्वमभिधेयमभिधातुमलमर्थम् ॥ प्रातिपदिकार्थगतमेव निजमर्थ वक्ति च विभक्तिरपि नेह वचनार्थे ॥५०३॥ प्रातिपदिकार्थेति । वचनानि प्रातिपदिकार्थगतमेव स्वं स्वमर्थमभिधातुमलं समर्थानि। प्रकृत्यर्थोपरक्तमेव स्वार्थमभिद- धति वचनानि, न विभत्त्र्थोपरक्तमित्यर्थः । तथा विभक्तिरपि प्रातिपदिकार्थगतमेव निजमर्थ वक्ति। इह यत इति पदे। न च पुनर्वचनार्थे।वचनार्थान्वितस्वार्थ न च वक्तीत्यर्थः। तस्मादत्र यत इति प्ातिपदिकवाच्यश्चेतन एक:प्रकृतिश्चेतिप्रतीतिर्न तु प्रकृत्येक- त्वयोः परस्परावच्छेद: शब्दशता भातीत्यभिपायः ॥५०३॥
386
Page 387
३७४ अन्वयार्थप्रकाशिकाविभूषिते
ननु, पशुना यजेतेत्यत्रैकप्रत्ययोपात्तयोः करणत्वैकत्वयोः सन्निकर्षातिशयात् प्रथमं परस्परसम्बन्धाऽवगतिः, पश्चात्तु पद- श्रुत्या प्रातिपदिकार्थेन सम्बन्धोऽवगम्यत इत्याहुर्न्यायविदोऽतो- Sत्रापि कथं न स्यादितिचेन्मैवम्। तत्रापि पशुरूपप्रकृत्यर्थगत- तयैव करणत्वैकत्वयोरभिधानाद् युगपत्पतीयमानयोरविशिष्ट- प्रतीत्यसम्भवादित्याह- पशुनेति पदे तृतीयया करणत्वं हि पशोर्निवेदयते ॥ वचनेन पशोरिहैकता न पुनः सा करणस्य कथ्यते ॥ ५०४॥ पशुनेति ॥ पशुनेत्यस्मिन पदे या तृतीया विभक्तिस्तया पशोः करणत्वं हि निश्चितं निवेद्यते, न केवलवचनाभिहितस्यै- कत्वस्येत्यर्थः । तथाच वचनेनापि इह पदे पशोरेकता निवेद्यते, न पुनः सा एकता करणस्य कथ्यते। अतो नानेनास्मदुक्तिवि- रोध इत्यभिपाय:।५०४॥। कथं तर्हि तत्रैकपशुकरणत्वावगतिरितिचेत्तत्र गुरुमतमाश्रि- त्याह- अनुपपत्तिबलेन विधेस्तयोः करणतैकतयोरवगम्यते ॥ करणतैकपशोरिति संगति- ने घटते हि विधिर्विरहय्य ताम ॥ ५०५॥ अनुपपत्तिबलेनेति ॥ विधेरनुपपत्तिबलेन विध्यन्यथा- डनुपपत्तिरूपेणोपादानप्रमाणेनैकपशोः करणतेति तयोः करणैक-
387
Page 388
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३७"
तयोः सङ्गतिरवगम्यते, न वचनविभक्तिसामर्थ्यादिति योजना। विध्यनुपपत्तिमेव स्फुटयति । न घटत इति ॥ तां करण- त्वैकत्वयोः सङ्गतिं विरहय्य विधिर्नियोगोन घटते। नियोगो हि स्वसन्निधिश्रुतसमस्तार्थजन्यधात्वर्थनिर्वर्त्यतया प्रमीयमाणस्तद- डनुरोधेन करणैकत्वयोरपि सङ्गतिं बिना न प्रमीयत इति तामा- क्षिपतीत्यर्थः । ५०५॥ ननूपादानप्रमाणं सङ्गतिमात्रमाक्षिपेत् सङ्गतिं विना विध्य- नुपपत्तेरिति। तत्र सङ्गतिविशेष एव पशुकरणकनियोगलक्षणः कुतः सिद्धयेदिति, तत्राह- उपादानतः संख्यया संगति: स्या- दवच्छेदकत्वेन संख्यानिवेशान् ॥। पशोरतयोस्तेन मार्गेण कार्ये निवेशोपपत्तेरुपादानमानात् ॥ ५०६॥ उपादानेति ॥ उपादानतो विध्याक्षेपात् संख्यया एक- त्वसंख्यया करणत्वस्य संङ्गतिः स्यात् । करणत्वस्य हि धात्व- ऽर्थसम्बन्धः स्वभावसिद्धः । पशोश्च धात्वर्थावच्छेदकत्वेन करण- ता तृतीयाश्रुत्यैव समधिगता । तत्रैकत्वसङ्गतौ किं कारणमि- त्यपेक्षायामाह ।। अवच्छेदकत्वेनेति ॥ पशोरवच्छेदकत्वेनेत्यन्व- यः । तत्रैवैकवचनश्चुत्या पशोरवच्छेदकत्वेन संख्यानिवेशाद्धेतो- रित्यर्थः। एवं सति तेन मार्गेण धात्वर्थे करणत्वमार्गेणोपादान- मानादेतयोः पश्वेकत्वयोरपि कार्ये निवेशोपपत्तेरित्यक्षरयोजना। एतदुक्तं भवति। पशचुना यजेतेति तृतीयाश्रुत्या पशोर्याग- करणता तावदभ्युपगम्यते। तत्र पशुपदस्य जातिवचनत्वात्तेन संख्याविशेषानवगमात् पशुपदावगतस्य पशोः कया संख्यया-
388
Page 389
३७६ अन्वयार्थ प्रकाशिकाविभूषिते
जर्वच्छिन्नोऽहं यागं निर्वर्त्तयेयेति भवत्याकाङ्का। तथकवचना- जवग तैकत्वसंख्यायाश्च ग्राहकप्रयोगवचनवशात् कार्यार्थतयाऽवग- तायाः केन द्वारेणाहं कार्ये निविशेयेति भवत्याकाङ्का। एवं सति पशोरेकत्वसंख्यावच्छिन्स्य करणत्वमेकसंख्यायाश्र पश्व- वच्छेदेन धात्वर्थकरणत्वमत्येकपशोः करणत्वमिति तद्विध्यन्य- थानुपपत्तिलक्षणात् प्रमाणादेकपशुकरणकयागविषयकरणको नियोग इति धात्वर्थद्वारा कार्ये निवेश इति एकपशोः करणत्वा- डवगम इति ॥ ५०६ ॥ तर्ह्यत्राप्युपादानमानादेवास्तु प्रकृतित्वैकत्वयोः सङ्गतिप- मितिरितिचेन्मैवमिह विध्यभावादित्याह- न चैवं विधिः कश्विदत्रेति न स्या- दुपादानतः संगतिर्यत्पदार्थे ॥ विभक्त्यर्थसंख्यार्थयोर्नेह कश्चि- दयतो वा इमानीति वाक्ये विधिर्नः ॥ ५०७॥ न चैवमिति ॥ अत्र, यतो वा इत्यस्मिन् वाक्ये एवंविधो विधिर्विभतचर्थसंख्यार्थयोरेकत्वसङ्गतिं विनाऽनुपपद्यमानो न च नैव विद्यत इति हेतोर्यत्पदार्थे यच्छब्दप्रातिपदिकार्थे विभत्तर्थ- संख्यार्थयोरुपादानतः सङ्गतिर्न स्यादिति योजना। इहापि विधि- रभ्युपेयतां कार्यगौरवादितिचेन्नेत्याह ।। कश्रिदिति ॥ नो- डस्माकं सिद्धान्त इति शेषः। विध्यभ्युपगमे सिद्धान्तभङ्गपसङ्गा- दिति भाव:।। ५०७। तर्हि कथमिह विभत्वर्थसंख्यार्थयोः सङ्गत्यधिगतिरितिचेद् विध्यभावेऽप्यस्त्यनुपपत्ति: सङ्गत्यधिगमे हेतुरित्याह-
389
Page 390
संक्षेपशारीरके प्रथमोऽध्यायः । १। ३७७
अवितथमिदमेवमेतदस्मि- न्न खलु विधेवचनं पठन्ति वाक्ये ।। यत इति घटते तथापि योगो वचनविभक्तिनिगद्ययोरिहापि ॥ ५०८॥ अवितथमिति ॥ अस्मिन् वाक्ये विधिर्नास्तीति अस्म- नमतमिदमवितथं सत्यमेव । एवमेतन्नान्यथेति योजना । वाक्य- स्य ब्रह्मवस्तुलक्षणपरत्वाद्विधिकल्पने तदसिद्धिपसङ्गादित्याकूतं विधिप्रत्ययाश्रवणादप्यत्र न विधिरित्याह । अस्मिन्निति ॥। यत इत्यस्मिन् वाक्य इति संबन्धः । यद्यप्येवं विध्यभावस्तथापि वचनविभक्तिनिगद्ययोरिहापि योगो घटत इति योजना ॥५०८।। विध्यभावे च कयाऽनुपपच्या वचनविभक्तिनिगद्ययोर्योगो घटत इत्यपेक्षायामाह- एकत्वमेकवचनेन समर्पितं य- दयच्छब्दवाच्यनिलयं यत इत्यमुष्मिन । पञ्चम्युपात्तमपि यत्प्रकृतित्वमस्मिन् संगच्छते तदुभयं पशुतस्तुनीव ॥ ५०९॥ एकत्वमिति।यत इत्यमुष्मिन् वाक्ये यच्छब्दवाच्यनिलयं प्रातिपदिकार्थनिष्ठमेकवचनेन समर्पितं यदेकत्वं पश्चम्युपात्तमपि यत् पकृनित्वं तदुभयमस्मिन् यच्छब्दार्थे चेतने पशुवस्तुनीव संगच्छते संगतं भवतीति योजना। एकवचनपश्चम्योरपि विशिष्टा- डर्थपरतया प्रयुक्तत्वाद्विशेष्यसंगतिमन्तरेण तदनुपपत्तेर्विनापि विधिं पशुवस्तुनीवात्रापि चेतनसंगतिसिद्धिरिति भाव: ।।५०९।। तथाप्यत्र संबन्धाक्षेपक विविच्यतामितिचेद् उच्यत इत्याह-
390
Page 391
३७८ अन्वयार्थप्रकाशिकाविभूषिते
एका या प्रकृतिः समस्तजननी तद्रह्म जिज्ञास्यता- मित्यत्रापि हि वस्तुनिष्ठत्रचने शक्यैव तत्संगतिः ।। विज्ञातुं विधिमन्तरेण च तथानर्थक्यभीत्या न हि
एका येति।। यत इत्यादौ तद्विजिज्ञासस्व तड्रह्मेत्यन्ते वाक्ये यत इति पदेन वचनविभक्तिभ्यां प्रमीयमाणैका प्रकृतिरिमानि भूतानीति सर्वनामश्चुतेः संकोचकाभावात् समस्तजननीव। तद् ब्रह्म जिज्ञास्यतामित्यत्र वस्तुनिष्ठवचनेऽपि हि तत्संगतिश्चेतन- वस्तुसङ्गतिर्विज्ञातुं शक्यवेति योजना। एतदुक्तं भवति । ब्रह्म- लक्षणपरत्वाद्वाक्यस्य लक्ष्यमाणं ब्रह्मेव जगतः कारणत्वानुगुणं सम्बन्धम् आक्षिपेत्। तथाच यादृशेन ब्रह्म स्वपदशक्त्यविरोधेन पूर्णात्मतया लक्षितं स्यात्तादृशलक्षणसिद्धयनुगुणपकृतित्वैकत्व- योरपि यच्छब्दवाच्यताधिष्ठातृचेतनावच्छेदद्वारेणैका प्रकृतिः सर्वजननीति विज्ञातुं शक्यते विधिं विनैवेति। यदि विधा- वाग्रहस्तर्हि सोऽप्यत्रास्त्येव संसर्गावगतिनिमित्तभूत इत्याह ।। तथानर्थक्यभीत्येति॥ अध्ययनविधेरानर्थक्यभीत्यैतद्विधिपयुक्ता- क्षेपसम्भवादित्यर्थः । तामेव विध्यनुपपत्तिं स्फोरयति ॥ न ही- ति। यत इत्यादिवाक्यस्यापाततः स्वभावतः स्वसामर्थ्यसिद्ध- मर्थ विना स्वाध्यायाध्ययनेकगोचरविधेर्न छुपपत्तिरिति योजना। अयं भावः । विधेः फलवत्वनियमादध्ययनविधेश्च अर्थाव-
मर्गसिद्धिरितीहाभ्युपपन्नेति ॥ ५१० ॥ अभ्युपगम्येदमुक्तमध्ययनवशात् संसर्गसिद्धिरिति। वस्तु-
39
Page 392
संक्षपशारीरके प्रथमोऽध्यायः।१ ३७०.
तस्तु सर्वत्र शब्दसामर्थ्यादर्थसामर्थ्याद्वा संमर्गसिद्धिरभ्युपे- या। अन्यथा स्वाध्यायविध्याक्षिप्तसंसर्गवशाद्वििष्टार्थबोधः । सति च विशिष्टार्थवोधे दृष्टतया तस्य विधिं प्रति फलत्वकल्पने त्वितरेतराश्रयत्वप्रसङ्गात्। तस्मादेनादृशे विपयेऽर्थसामर्थ्यमेव संसर्गाक्षेपकमभ्युपेयम् । तदत्राप्यस्तीत्याह- वचनार्थविभक्तिवाच्ययो- रुपपन्नान्वयबुद्धिरर्थतः ॥ पशुनेति पदे यथा तथा यत इत्यादिपदेऽपि लक्षणे ॥ ५११ ॥ वचनार्थेति। पश्चुनेति पदे यथा तथा, यत इति पढें लक्षणे लक्षणपरेऽपि आदिपदात्, तस्मादेतड्र्म नाम रूपमन्नं च जायते, एनस्माज्जायते प्राणः, तस्माद्वा एतुस्मादात्मन इत्यादौ वचनार्थविभक्तिवाच्ययोरर्थत एकप्रानिपदिकगतविशिष्टार्थप्रत्या- यनसामर्थ्यादन्वयवुद्धिरुपपन्नेति योजना ॥५११॥ ननु पशुनेति पदे विधिरेवाक्षेपकस्तत्र विधेर्भावात् किमि- दमुच्यते, अर्थसामर्थ्यादाक्षेपस्तत्रापिचेत्तत्राह- विधिनिष्ठवाक्यमपि बोधयति॥ स्त्रमपेक्षितं विषयमर्थवशात् ।। परमात्मनिष्ठमपि तुल्यमिदं वचसोर्द्वयोरपि तु रूपमतः ॥ ५१२॥ विधिनिष्ठेति ॥ परमात्मनिष्ठमपि वाक्यम्। अर्थवशात् स्वमपेक्षितविषयं बोधयतीत्यन्व्रयः । अत इदं तुल्यं द्योरपि वचसावििमदविधिमट्वावययो रुपभिति योजना। तुरब्दः पाठ-
392
Page 393
३८० अन्वयार्थ प्रकाशिकाविभूषिते
पूरणार्थः । विधेरपि हि संसर्गावबुद्धत्वबलादेव संसर्गाक्षपक- त्वम्। तच्च पदान्तरार्थानामविशिष्टमतः सर्वेषामपि पदार्थानां तुल्यमाकाङ्लाद्यनुरोधेन संसर्गविशेपाक्षेपकत्वमितिभावः॥५१२।। ननु तथापि कथं, यतो वा इमानीति सिद्धवन्निर्देशः ? न ह्यन्यतः सिद्धिमनपेक्ष्य तत्संभवः । सिद्धवन्निर्देशेन भद्गेन वाक्यस्य विशिष्टकारणत्वप्रतिपादनपरत्वे च ब्रह्मलक्षणपरत्वा- Sसंभवादुभयपरत्वे वाक्यभेदपसङ्गात्। एवंविधं यज्जगत्कारणं तद् ब्रह्मेति च विशिष्टतया विधानायोगादितिचेत्तत्राह- एकं चेननमस्य यत्प्रकृनितामापन्नमुत्प्रेक्ष्यत तद् ब्रह्मेति निशामयंति निपुणं वूने परव्रह्मणः ॥ सिद्धं लक्षणमादरेण महता व्यावत्तयद्रह्मण- स्तत्वं तत्त्त्रमसीति वाक्यनिलयं तच्छब्दलक्ष्यं वचः ॥ ॥ ५१३ ॥ एकं चेतनभिति॥ चेतनं जगत्कारणमस्तीत्यनुमानात्तावत् सिद्धम्। तच्चैकमिति यद्यप्यनुमानान्न निश्चयस्तथापि संभावना- मात्ररूपोत्कटकोटिविषया लाघवतर्केणोत्पेक्षिता अस्त्येवैकता- सिद्धि: । अत्रैऽपाक्षरयोजना। अस्य जगतः प्रकृतितामुपादान- तामापनं यदेकं चेतनमुत्मेक्ष्यते संभाव्यते तह्रह्मेति निशामय जानीहीति। सिद्धमुत्प्रेक्षासिद्धं ब्रह्मणो लक्षणं निपुणं विवक्षित- लक्ष्यसिद्धयनुगुणं यथा स्यात् तथा ब्रूते, यतो वा इत्यादिवाक्यमिति शेषः । किं कुर्वत् । महता आदरेण परमतात्पर्येण ब्रह्मणस्तत्वं व्यावत्तयद्। अब्रह्मरूपात् परपरिकल्पितजगत्कारणकलापात् कार्याच्च ब्रह्म व्यवच्छिन्ददित्यर्थः। तथाचानुमानसंभावनाभ्यां सिद्धचेतनैककारणस्वरूपानुवादेन ब्रह्मणो लक्षणाभिधानं विरु-
393
Page 394
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३८१
द्धयत इति भावः । निपुणं यदुत्पेक्ष्यते इति यदा संबन्धस्तदा जगत्कारणे विपरीतोत्पेक्षाप्काराणामाभासत्वं यथा स्यात्तथा यदुत्पेक्ष्यत इत्यर्थः। भवत्वेवं लक्षणस्य कथश्चित् प्रसिद्धिर्लक्ष्य- स्य ब्रह्मणः कथं सिद्धिः ?। तस्यापि हि सिद्धिर्वक्तव्या । अन्यथा कस्येदं लक्षणानुमानमित्यनव्यवसायादित्याह ।। तत्व- मसीति ॥ तत्वमस्यादिमहावाक्यगतं वचः तङ्रह्मेत्यादिपदं त- च्छब्दलक्ष्यं ब्रह्मणस्तत्वं स्वरूपं व्रृत इति योजना। महावाक्यादि- ति विशिष्टव्रह्मादिपदसामर्थ्यभिद्धं ब्रह्मलक्ष्यमिति भावः।।५१३। तदेवं, यतो वा इत्यादिवाक्यस्य ब्रह्मलक्षणपरत्वे न को- डपि दोप इतिनिर्णीतम्। इदानीं लक्षणमिदं स्वलक्ष्यं लक्षयत् स्वासंबद्धत्वेन तल्लक्षयेत्, स्वसंबन्धित्वेन वा ? नादोऽतिपसङ्गा- न्न द्वितीयोऽसङ्गस्य ब्रह्मणो लक्षणमंवन्धाभावात् । अतः कथं लक्ष्यलक्षणमंभव इति शङ्कायां वास्तवसंबन्धाभावेऽपि कथश्चि- दस्ति संबन्ध इति स्वसंवन्धितयैव लक्ष्यं लक्षयेदिदं लक्षणमिति दर्शययितुं लक्षणभेदं व्युत्पादयति- लक्ष्यस्य लक्षणमिह त्रिविधं प्रसिद्धं लोके स्वलक्षणममुष्य विशेषणं वा ॥ य द्वोपलक्षणमिमानि च लक्षणेन व्यावर्णयामि पृथगेव तु तत्प्रतीहि॥ ५१४ ॥ लक्ष्यस्येति ॥ इह लोके व्यवहारभूमौ स्वलक्षणं स्वरूप- लक्षणम्। अमुष्य लक्ष्यस्वरूपस्य विशेषणं विशेषलक्षणम् उप- लक्षणं कदाचित् कथश्चित् संगतिमात्रेण लक्षणमिति । लक्ष्य- स्य लक्षणमिह त्रिविधं प्रसिद्धमिति संबन्धः । किमेषामसंकीर्ण लक्षणमुदाहरणारूढमिति वीक्षायामाह ।। इमानीति ॥ पृथगेव
394
Page 395
३८२ अन्वयार्थप्रकाशिकाविभूपिते
तु लक्षणेन व्यावर्णयामीत्यन्वयः। लक्षणभेदेनेत्यर्थः ॥५१४॥ लक्षणविभागकथनं प्रतिज्ञातम् । तस्य विभागस्य धर्मि- सामान्यकथनमन्तरेण सम्यक्कथनाशक्तेर्लेक्षणसामान्यलक्षणं ता- वदाह- लक्ष्यार्थनिष्ठमुपलब्धमतोऽन्यतोर्ऽर्था- न्निःशेषतो यदतिरिच्य तदर्थवस्तु ॥ लक्ष्यं निवेदयति लक्षणमेतदाहुः सामान्यलक्षणमिदं त्रिषु लक्षणेषु ॥ ५१५॥ लक्ष्यार्थेति ॥ यद्धर्मरूपं वस्तु तदर्थवस्तु लक्ष्यं निवेदय- ति। एतल्लक्षणमाहुरित्यन्वयः । स चासावर्थश्चेति तदर्थः । तदेव वस्तु परमार्थमिति तदर्थवस्तु इति विग्रहः । किं कृत्वा। अतोऽन्यतोरऽर्थान्निःेपतोऽतिरिच्य। अतो लक्षणीयात् सकाशा- द्योऽन्योरऽर्थस्तस्मादन्यस्मादर्थालक्ष्यसजातीयाद् विजातीयाच्चा- डर्थान्निशेषतः सर्वस्मादतिरिच्य व्यावर्त्येत्यर्थः। लक्ष्यार्थनिष्ठमुप- लब्धमिति च मध्ये निर्दिष्टयच्छब्दार्थस्य लक्षणस्य विशेषणे
रित्यत एतच्छङ्गाव्याव्टत्तये इदं विशेपणद्वयम्। यद्यस्य निःशेपतः सजातीयविजातीयव्यावर्तकं सद् यन्निष्ठमुपलभ्यते तत् तस्य लक्षणमित्युक्तं भवति। एतत्कथनोपयोगमाह । सामान्यलक्षण- मिति॥ त्रिपु वक्ष्यमाणेष्वित्यर्थः । ५१५॥ तत्र स्वरूपलक्षणस्य लक्षणमुद्देशक्रममनुरुद्ध्याह - लक्ष्यस्वरूपमपि सददमुष्य साक्षा- दर्थान्तराज्ज्वति भेदकमेतदाहः ॥
395
Page 396
संक्षेपशारीरके प्रथमोऽध्यायः।१ ३८३
अस्य स्वलक्षणतयैत तु लक्षणं खं छिद्रं जलं द्रवमितीदशमत्र लोके ॥ ५१६॥ लक्ष्यस्वेति॥ अत्र स्वरूपग्रहणेन विशेषणलक्षणादौ प्रसङ्गो व्यावर्त्यते। एवमुत्तरत्रापि विशेषणकृत्यमनुसंधेयम्। अमुष्य लक्ष्यस्यार्थान्तराद्यत्साक्षा ्वेदकं भवति एतदस्य लक्ष्यस्य स्व- लक्षणतयैव स्वरूपभूततयैव लक्षणमाहुर्लक्षणविद इति योजना। अस्योदाहरणमाह ॥ खं छिद्रमित्यादि ॥ ५१६॥ विशेषलक्षणस्य लक्षणमाह- स्वानुरक्तमतिजन्मकारणं यत्पुनभर्वति लक्ष्यवसतुनि ॥ तद्विशेषणतयास्य लक्षणं केसरादिकमिवाइववस्तुनः ॥ ५१७॥ स्वानुरक्तेति॥ स्वानुरक्ततया नित्यं स्वसंबद्धतया लक्ष्य- स्वरूपावियुक्ततयेति यावत् । यत् पुनर्लक्षणं वस्तुनि स्वानुरक्त- मतिजन्मनि हेतुतां भजति तदस्य लक्ष्यस्य विशेषणतया लक्षण- मिति योजना। उदाहरणं, केसरादिकमिति । आदिपदं शोणत्वादिसंग्रहार्थम् ॥५१७॥ उपलक्षणस्य लक्षणमाह उत्तरपद्येन- स्व्रानुरक्तमतिजन्महेतुतां लक्ष्यवस्तुनि निरस्य लक्षणम् । अस्वरूपमपि तस्य यद्भ्वेत् काकवत्तदुपलक्षणं विदुः ॥ ५१८॥
396
Page 397
३८४ अन्वयार्थप्रकाशिकाविभूषिते
स्वानुरक्तेति । लक्ष्यवस्तुनि स्वानुरक्तमतिजन्महेतुतां निरस्य तन्वतिरेकेणेत्यर्थः। एतेन विशेपलक्षणव्यावृत्ति: सिद्धा।। अस्वरूपमपीति ॥ स्वरूपलक्षणव्यावृत्ति: । तस्य लक्ष्यस्य एवं- विधं यल्लक्षरण भवेत्तदुपलक्षणं विदुरिति योजना। उदाहरण- मस्य, काकवदिति॥ यथा काकनिलयं तद् दृश्यते तद्देवदत्तगृह- मित्यत्रोपलक्ष्यस्य गृहस्यास्वरूपभूतस्तत्र विशेषणतया ननु प्रविष्टः काको देवदत्तगृहं लक्षयत्येवंविधमुपलक्षणमित्यर्थः।।५१८।। एवं लक्षणभेदे स्थिते प्कृते वाक्ये उपलक्षणार्थत्वमेवेति प्रकृतमुपपादयल्लक्षणान्तरपरत्वमस्य प्रतिपेधति-
चिद्वस्तुनो यदसहायपरिग्रहस्य । तद्वर्णनीयमुपलक्षणमेव कसमाद्ू ब्रह्मेति लक्ष्यपदशक्त्यविरोधहेतोः ॥ ५१९॥ विश्वोद्द्वेति॥ अस्य चिद्वस्तुनोऽसहायपरिग्रहस्याद्विती- यस्य लक्ष्यभूतस्य यद् विश्वोभ्भवस्थितिलयपकृतित्वं लक्षणं तदुपलक्षणमेव वर्णनीयं, न लक्षणान्तरमिति योजना। प्रतिज्ञायां हेतुमाह।कस्मादित्यादिना । ब्रह्मेति यल्लक्ष्यपदं तस्य या शक्ति- स्तस्या अविरोधसिद्ध्यर्थ पदशक्तेरसंकोचार्थमित्यर्थः ॥ ५१९॥ उक्तलक्षणस्य विशेपलक्षणत्वे को विरोध उक्त इत्यत आह-
मेकाकिनो यदिह लक्षणमुच्यमानम्। तद् ब्रह्मणो यदि विशेषणरूपमिष्टं
397
Page 398
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ३८५
ब्रह्मेति लक्ष्यविषयस्य पदस्य भङ्ग: ॥ ५२० ॥ विशवोद्वेति, पद्यान्तरेण ।। एकाकिनोऽखण्डाद्वयस्ये- त्यर्थः । जगत्कारणस्यापि लक्ष्यविशेषणत्वे बृहत्यर्थस्याद्वयत्व- स्य भङ्गाल्लक्ष्यवाचिब्रह्मपदशक्तिसंकोचपसङ्ग इत्यर्थः। तत्संकोचे च वाक्येनानेनाऽखण्डं ब्रह्म लक्षितं न स्यात् । तस्य चालक्षणे, अधीहि भगवो ब्रह्मेत्युपक्रमविरोध इति भावः ॥ ५२० ।। ननूपलक्षणपक्षेऽपि लक्षणस्य काल्पनिकत्वा त्तद्वाचिपदभङ्ग- मसङ्गस्तुल्यस्तत्र किं वरमिति विशेषनियामकं वाच्यमित्यत आह- लक्ष्यार्थवाचि पदमत्र हि लक्षणार्थे- वाक्ये प्रधानमितरद् गुणभूतमाहुः॥ ब्रह्मति लक्ष्यविषयं च पदं समर्थे- भूमानमेव वदितुं न तु मर्त्त्यमल्पम् ॥ ५२१ ॥ लक्ष्यारऽर्थवाचीति ॥ अत्र हि लक्षणार्थे वाक्ये लक्ष्या- ऽर्थवाचिपदं पधानम् उद्देश्यविषयत्व्रात्। इतरल्लक्षणवाचि सर्व शब्दजातं गुणभूतं,तच्छेषभूतार्थविषयत्वादित्याहुस्तद्विद इत्यर्थः। गुणानुरोधेन पधानभङ्गो दोषाय, प्धानानुरोधेन गुणभङ्गो न दोषाय, मत्युत गुणायैव। पधानार्थत्वाङ्गुणस्येत्यभिपायः। ननु ब्रह्मपदस्य लक्ष्यार्थतया मधानत्वेऽपीषन्भेदाङ्गीकारेण लक्षण- धर्मकब्रह्मविषयकत्वाऽभ्युपगमेन विरोध इतिचेन्मैवम् । पद- स्वारस्यस्याकस्मादेव भङ्गपसङ्गादित्यभिपेत्याह।।ब्रह्मेतीति।। न च ब्रह्मपदस्येषदपि भेदमादाय वत्तिसंकोचो युक्तः । भूमलक्षण- वाक्ये सर्वभेदरहितं ब्रह्म भूमेतिपतिष्ठापितत्वात्तेन विरोधापत्ते- रिति सूचयति । भूमानमिति । तथाच श्रुतिर्भूमलक्षणपरा ४९
398
Page 399
३८६ अन्वयार्थप्रकाशिकाविभूषिते
पठ्यते। यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानानि स भूमेति। सर्वभेदरहितमविषयभूतं वस्तु भूमेत्यभिधाय तद्- द्रढिस्न्े तद्विपरीतस्य परिच्छिन्स्याब्रह्मणः स्वरूपमाह श्रुतिरथ यत्रान्यत् पश्यत्यन्यच्छृृणोत्यन्यद्विजानाति तदल्पमथ यदल्पं तन्मर्त्यमिति। विशेपलक्षणपरत्वनिराकरणेनेव अस्य स्वरूप- लक्षणार्थत्वमपि निराकृतं वेदितव्यम्। यस्य धर्मत्वमपि नास्ति, नवरां तस्य स्वरूपत्वमपीति ॥ ५२१ ॥
तम्मात्प्रधानपदभङ्गभयाद गुणानां युक्तं ग्रहीतुमुपलक्षणगोचरत्वम् ॥ ब्रह्मति चैतदुपलक्ष्यसमर्पणार्थ- मवं समज्जसमिदं पदजातमस्मिन् ॥ ५२२ ॥ तस्मादिति॥ प्रधानपदभङ्गभयाद् ब्रह्मपदस्वारस्यभङ्गभ याद् गुणानां लक्षणार्थानां पदानामुपलक्षणगोचरत्वं ग्रहीतुं युक्तमिति योजना। व्रह्मति चैनत्पदमुपलक्ष्यव्रह्मवस्तुसमर्पणा- जर्थमिति च ग्रहीतुं युक्तमिति पूर्वणान्वयः। एवमुक्तपकारेणास्मिन वाक्ये इदं पढजातं विभागेनान्वितार्थ सत्समञ्जसमाकाद्वितार्थ- समर्पकतयेत्यरथः ॥ ७२२॥ तदेवं, यतो वा इत्यादिवाक्यस्य लक्षणपरत्वं निर्द्धारितं, लक्षणं चतदुपलक्षणमेवेति च। तत्रेदं लक्षणं किमर्थमुपादीयत इति विवक्षायां वस्तुस्वरूपज्ञप्त्यर्थमितिकेचिन्मन्यन्ते। मानान्तरै- रज्ञातस्वरूपं ब्रह्म लक्षणवाक्यैहि ज्ञाप्यत इत्येतदेव लक्षणकृत्य- मिनि नेपामभिपायः । अन्येतुश्चुतिः स्वयमेव सत्यज्ञाना- दिकं वस्तु प्रतिपाद्य यदेवंविधं वस्तु तत्तत्पदस्यार्थ इति वक्तीति
399
Page 400
संक्षेपशारीरके प्रथमोऽ्यायः।१। ३८७
संज्ञासंज्ञिसंबन्ध एव लक्षणकृत्यं नान्यदित्याहुः।तदुभयं दूपयन् स्वमतलक्ष्यस्येतरेभ्यो व्यावृत्तिरेव लक्षणप्रयोजनमित्युपपा- दयति- लक्ष्यस्वरूपकथनाय न लक्षणानि नाप्यस्य वाचकममिरद पदमित्यमुप्मै। व्यावृत्तमेतदखिलादितरार्थजाता- दित्येतदेव वदितुं ननु लक्षणानि ॥ ५२३ ॥
रेव लक्षणकृत्यं, नाज्ञातर्वस्तुस्वरूपज्ञप्तिरिति ॥ ८२३।। कुतो निर्णय इनिचत्तत्राह लक्ष्यस्वरपमुपलभ्य तदेकनिषठं ढष्टा च लक्षणमनेन तदेव लक्ष्मम् ।। व्यावर्त्य बोधयितुमुत्सहत जनोध्ठं तत्त्वान्तरादिति यतः प्रतिपन्नमेनत् ॥ ५२४ ॥ लक्ष्यस्वरूपसुपलभ्येति । अयमर्थः । लक्षणं लक्ष्य-
म्। नथाच यन्निपठं तल्क्षणमवगन्यते तदपि लक्ष्यं, नात्यन्त- मज्ञातम् । तथा सति लक्ष्यसम्तद्धतया लक्षणपतीत्यसम्भवा- त् कस्येदं लक्षणं स्यादिति। तस्मालक्ष्यस्वरूपं पदसामर्थ्या्ा पमाणान्तराद्वोपलभ्य लक्षणं च तदेकनिष्ठं लक्ष्यस्यासाधारण- धर्मरूपं पधऽवगम्य, अनेन लक्षणेन तदेव लक्ष्यं तत्वान्तरा- दलक्ष्यभूतादर्थान्तराव्यावर्त्य पृथगुद्धृत्य परं बोधिदपयं जन उत्सहते, नान्यथेति यत एतत् प्रतिपन्नं सर्वजनप्रसिद्धमतो ना
400
Page 401
३८८ अन्वयार्थप्रकाशिकाविभूषिते
Sज्ञातज्ञापनं लक्षणकृत्यमित्यक्षरार्थः ॥ ५२४॥ अज्ञातवस्तुज्ञापनार्थ लक्षणमिति मतं निराकृत्य संज्ञासंजि- सम्बन्धप्रतीत्यर्थ लक्षणमिति मतं निराकरोति- संज्ञासंजिसमन्वयावगतये नेष्टं कचिलक्षणं व्यावृत्तिप्रतिपत्तिमात्रजनकं लक्ष्ये भवेदन्यतः ।। लक्ष्यं लक्षणवर्त्मना हि जगति व्यावर्तयन्तोऽन्यत- स्तत्तलक्षणमादरेण महता संगृह्णते वादिनः ॥५२५।। संज्ञासंज्ञीति । कचिदिति॥ गोसदृशो गवय इत्यादा- वपि लक्षणे गवयादिसंज्ञायाः संज्ञिना सह सम्बन्धप्तीत्यर्थता नावगम्यते। किन्त्वन्यव्यावृत्यर्थतैव । यतो लक्षणतो व्यातृत्त- तया प्रतिपन्नस्यैव संज्ञासंजञिसम्बन्धावगतिरित्यतो लक्षणं क्ापि यथोक्तसम्बन्न्नसिद्धिफलमिष्टमित्यर्थः । सर्वथापि लक्षण- कथनमन्यतो व्यावृत्तिपतिपत्तिमात्रार्थमिति परिशेषत् सिद्धमि- त्याह ।। व्यादृत्तीति ॥ सजातीयविजातीयव्यावृत्तिरेव लक्षण- कृत्यमित्येतदेव सर्ववादिनामपि सम्मतमित्यतोऽयं सर्वतन्त्र- सिद्धान्त इत्यऽभिप्रेत्याह ॥ लक्ष्यं लक्षणवर्त्मनेति ॥ ५२५॥ तस्मादस्मन्मतं निर्दुष्टं सिद्धमित्युपसंहरति- तस्माद् ब्रह्मणि वाच्यवाचकयुजा सिद्धै श्रुतिर्नभ्यधा- जजन्माद्यस्य समीक्षितस्य जगतो यद ब्रह्मणो लक्षणम्॥। नापीदं स्वकरूपबोधनपरं संकीर्तितं ब्रह्मण: किं त्वब्रह्मपदार्थतोऽस्य सकलाद् व्यावृत्ततासिद्दये।। ॥ ५२६ ॥ तस्मादू ब्रह्मणीति ॥ वाच्यवाचकयुजासिद्धयै इति।।
401
Page 402
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३८९
संज्ञासंजियोगसिद्धयर्थमित्यर्थः॥ अस्येत्यस्य व्याख्यानं समीक्षि- तस्येति॥ प्रत्यक्षादिपमाणसन्निधापितस्येत्यर्थः। जगतो जन्मादि यल्लक्षणमिति संबन्धः।ब्रह्मणः स्वकरूपेति संबन्धः। अज्ञातब्रह्म- स्वरूपबोधार्थमपि नेदं लक्षणमित्यर्थः । सुगममन्यत् ॥ ५२६ ॥ नन्वद्वैतवादे व्यवच्छेद्याभावात् कथमन्यव्यावृत्यर्थ लक्षण- मितिचेत्, सत्यम् । परमार्थतो ब्रह्मणोऽन्यस्य सजातीयस्य वि- जातीयस्य चाभावेऽपि भ्रान्तिकल्पितमस्ति चेतनाचेतनात्मकं जगत् परिच्छिन्म्। ततो व्यवच्छेदार्थ लक्षणकथनमित्याह-
जगाद श्रुतिर्लक्षणं ब्रह्मणस्तत् ॥ परिच्छिन्नता प्रापिता पूर्वपक्षे परव्रह्मणस्तन्निषेधार्थमेतत ॥ ५२७ ॥ परिच्छिन्नेति॥ननु यथोक्ताज्जगतः परिच्छिन्नाद् ब्रह्मणो व्यावृत्तिरपि परिषृढत्वार्थकब्रह्मपदसामर्थ्यवशात् सिद्धेति किं लक्षणेनेतिचेत्तत्राह ।। परिच्छिन्नतेति ॥ यद्यपि शब्दसामर्थ्यात् परिवृढमपरिच्छिन्ं किश्चिद् ब्रह्मेति भवति प्रतीतिस्तथापीदं तदिति लोके शास्त्रान्तरेषु वा पसिद्धमित्यतस्तत्स्वरूपमन्यैरन्य- थोत्मेक्षितमाक्षेपिकमहत्त्वोपेतमेव किश्च्िद् ब्रह्मपदार्थ इति तन्नि षेधार्थमेतल्लक्षणमपेक्षितमेवेत्यर्थः। सामान्यतः पदसामर्थ्यादवगत- स्य वस्तुनः स्वरूपविशेषसिद्धये लक्षणमर्थवदिति भावः ।५२७।। किं तत्परिच्छिनं ब्रह्म पूर्वपक्षे प्रतिपन्नमितिचेत्तदाह- कालस्वभावपरमाण्वसुभृत्प्रधान-
402
Page 403
३९० अन्वयार्थप्रकाशिकाविभूषिते
जन्मादिसूत्रमवतीर्णमियं श्रुतिश्च तस्मादिदम्परमिदं द्वितयं प्रवृत्तम् ॥ ६२८॥ कालस्वभावेति ॥ जगतः कारणं काल इति ज्योति- र्विदः। स्वभाव इतिस्वभाववादिनो नास्तिकविशेपाश्चार्वाकाद- यः । परमाणव इति वैशेषिकाः । असुभृज्जीवः कारणमिति हैरण्यगर्भाः । प्रधानमिति सांख्याः । स्कन्ध इति पश्चस्कन्ध- वादिनो बौद्धाः । प्रतीतिरेवेति विज्ञानवादिनः । अग्विलशून्य- मसदेव कारणमिति माध्यमिकाः। एतेपां कथाप्रसङ्गे वाद्युत्पेक्षित- कारणविचारप्सङ्गे तन्निरासाय जन्मादिमूत्रमवतीर्णम्, इयं यतो वा इमानीति श्रुतिश्चावतीर्णा यस्मात् तस्मादिदं द्वयं सूत्रं श्रुतिश्चेदं परं कारणमात्रपरं प्रट्टत्तम् । अतः परिच्छिन्नकारण- व्युदासेनापरिच्छिन्नं किमपि कारणं सिद्धयेत् कालो वा प्रधानं वा अन्यदेव वा र्वकार्यपेक्षया परिवृढं जगतः कारणंश्रुति- सूत्राभ्यां निगद्यते, न त्रिविधपरिच्छेदरहितमद्यमखण्डं वस्त्वि- ति पूर्वपक्षिभिः परिच्छेदः प्रापित इति भावः । ५२८॥ ननु श्रुतिवचनविरोधादित्यादिभिः पद्यैलोकत एव सामा- न्यतोऽनुमानससिद्धस्य चेतनकारणत्वस्य संभावितैकत्वस्य वि- शेपतो निर्णीतत्वाद्वाक्यस्य च समस्तपरिच्छिन्नार्थव्याटत्तपरि- पूर्णव्रह्मलक्षणपरतायाः सिद्धत्वात् कुतः पुनः परिच्छिन्नत्वशङ्के- त्याशङ्क्य प्रकारान्तरेण परिच्छेदशङ्गापासतिं दर्शयन्राह अधिष्ठात्रधिष्ठेयभावेन योनि- र्निमित्तं च यत्कारणं जन्मभाजाम् परिच्छिन्नतास्यापि संभावितैव प्रतीचोऽस्य भेदे परैरुच्यमाने ॥ ५२९॥
403
Page 404
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३९.१
अधिष्ठात्रिति। जन्मभाजां कार्याणां योनिरुपादनंनिमित्तं च यत्कारणमस्यापि कारणस्याप्यधिष्ठात्रधिष्ठेयभावेन नियम्य- नियामकत्वेनास्य प्रसिद्धस्य कारणात्मनः प्रतीचो जीवात्मनश्च भेदे परैस्तार्किकैरुच्यमाने परिच्छिन्नता संभावितैवेति योजना । अतस्तटस्थेश्वरपरमिदं मूत्रं श्रुतिश्रेति पूर्वपक्षपाप्तिरितिभावः । ॥ ५२९ ॥ यत एवं पूर्वपक्षपराप्तिः शब्दमात्रान्न समाधीयते। अतो लक्षणं तत्ममाधानार्थ युक्तमुपादातुमित्याह- ततस्तन्निषेधार्थमतद् बभाषे श्रुतिर्ब्रह्म तद्जिन्नता तस्य कस्मात ॥ प्रतीचोऽपि हि ब्रह्मता नित्यसिद्धा दशो भेदसिद्धिर्निरालम्बनैव ॥ ५३० ॥ तत इति॥ यत एवं पूर्वपक्षशङ्का ततो हेतोस्तन्निषेधार्थ शङ्गितपरिच्छेदनिषेधार्थमेतद् ब्रह्म श्रुतिर्वभापे लक्षयामासेत्यर्थः। अतस्तस्य प्रतीचस्तद्भिन्रता कस्मात् स्यात् कस्मान्न स्याद्विरुद्ध- धर्माक्रान्ततया तयोर्भेदस्योक्तत्वाददित्यत आह ।। प्रतीचोऽपीति॥। हीति ॥ नित्यसिद्धा स्वभावसिद्धा चिदूपत्वाविशेषादित्यर्थः । चिद्रूपत्वेऽपि भेद: किं नस्यादित्यत आह ॥ दृश इति ॥ दृशो ज्ञानरूपस्वयम्प्रकाशस्य भास्यभेदसिद्धिर्भेदप्रतीतिर्निरालम्बना विपयशून्या भ्रान्तिरवेत्यऽर्थः । उपाधिभेदमन्तरेण स्वरूपभेदा- निरूपणादित्यर्थः ॥५३० ।। तदेवं महावाक्यप्रयुक्तव्रह्मपदेनावयवशत्या परिषृढवस्तुनि प्रतिपन्ने सति तस्य संकोचकारणाभावेन नित्यशुद्धबुद्धमुक्तस्व- भावसर्वज्ञसर्वशक्तितया संभाविते तस्मिन् पुनरपि पूर्वोक्तपकारेण
404
Page 405
३९२ अन्वयार्थ प्रकाशिकाषिभूषिते
परिच्छेदशङ्कापाप्ती तद्व्यवच्छेदार्थ जगत्कारणत्वलक्षणतेत्थं परिच्छेदव्याछृत्तिसिद्धिरित्युपपादितम् । अतो यदुक्तं स्वरूप- सिद्ध्यर्थमिदं ब्रह्मणो लक्षणमुच्यत इति तदसंगतमेवेति सिद्धमि- त्युपसंहरति- जगत्कारणत्वं पुनर्यत्र दष्टं न तलक्षणं तत्स्वरूपप्रसिद्धै।। स्वरूपे यतां लक्षणे दृश्यमाने प्रसिद्धं ततो लक्ष्यवस्तुस्वरूपम् ॥ ५३१॥ जगत्कारणत्वमिति ॥ यत्र जगत्कारणत्वं लक्षणं दृषटं तल्लक्षणं तत् स्वरूपप्रसिद्धयै, न भवति, किं त्वन्यटत्तिसिद्धय इत्यर्थः । कुत इत्यत आह ।। स्वरूपेति॥ यतो यस्मात् स्वरूपे लक्ष्यस्वरूपे लक्षणे तन्निष्ठतया दृश्यमाने सत्येव ततो लक्षणा- लक्ष्यवस्तुस्वरूपं प्रसिद्धं लक्ष्यस्थतया वा प्रसिद्धस्य कचि- लक्षणत्वादर्शनान्न स्वरूपसिद्ध्यर्थत्वं लक्षणस्येत्यर्थः ॥५३१॥ ननु जगतः कारणमात्रमनुमानादिसिद्धमनूद्यानेन लक्षणेन तस्य ब्रह्मत्वं विधीयते, कि वाऽभिन्ननिमित्तोपादानरूपम् । नादः । तस्य लोकदृष्टयनुसारेणैव परिच्छिन्नाचेतनत्वसम्भवे तस्मिँस्तद्विपरीतं ब्रह्मत्वविधानायोगादित्यभिपेत्य द्वितीयवस्तु- सत्तासिद्धिपरमेव वाक्यं स्यान् लक्षणपरमिति शङ्कते- निमित्तं च योनिश्च यत्कारणं त- त्परं ब्रह्म सर्वस्य जन्मादिभाजः ॥ इति स्पष्टमाचष्ट एषा श्रुतिर्नः कथं सिद्धवल्लक्षणं सिद्धिबाह्यम् ॥ ५३२ ॥
405
Page 406
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ३९३
निमित्तमिति ॥ निमित्तं च योनिरुपादानं चेत्येकं य- त् सर्वस्याशेषस्य जन्मादिभाजो जन्मस्थितिलयभाजः कारणं तत् परं ब्रह्मेति नोऽस्मान् प्रत्येवं, यतो वा इत्यादिश्रुतिः स्पष्ट- मसन्दिग्धं यथा स्यात्तथाऽडचष्टे कथयति। एतादृशस्य कारण-
ब्रह्मैषा श्षुतिः प्रतिपादयतीत्यर्थः । एवं सति कथमिदं सिद्धि- बाह्यं स्वरूपासाधकं सिद्धवल्लक्षणं स्यान्न कथमपीत्यर्थः।।५३२।। एतादृशस्यापि कारणस्य, एकं चेतनमस्य यत्पकृतिता- मापत्समुत्मेक्ष्यते इत्यत्र प्रसिद्धिमवोचामेतिचेत्तत्राह- न खल्वीदृशं कारणं लोकसिद्धं यतोऽनूद्य तलक्षणं तेन लक्ष्यम् ।। व्यवस्थापयन्ती प्रवृत्तैवमेषा विधत्तेऽनुवक्तीति चैतद्विरुद्दम ॥ ५३३॥ न खल्वीदृशमिति।। लोकशब्देन प्रत्यक्षादिप्रमाणमभि- भेयते, न जनश्रुतिमात्रम् । ईद्टशं कारणं प्रत्यक्षादिपमाणान्य- तमेनाऽपि न स्वसिद्धमित्यर्थः । यद्यप्येकं चेतनमित्यादौ सं- भावनोक्ता तस्या उत्पेक्षामात्रत्वादुत्प्ेक्षायाश्चार्थनियमाभावात् तत्सिद्धं, न सिद्धमेवेति भावः। यतः प्रमाणसिद्धेस्तत्कारणं लक्षणमनूद्य तेन लक्षणेन तल्लक्ष्यं व्यवस्थापयन्त्येषा ञ्चुतिः प- वृत्तेति मतं तदीदृशं कारणं न खलु लोकसिद्धमिति योजना। मा भूत्तर्हि लोकतः सिद्धिः,श्चतिरेवैषा यत इत्येकवचनपञ्चमीभ्या- मेतादृशं कारणं साधयत्विति चेननैवम् । अस्या: श्रुतेरनुवादस्व- रूपत्वादनुवादविधानयोरेकस्मिन वाक्ये प्रत्येतुमशक्यत्वादि- त्याह ।। विधत्तेऽनुवक्तीति चैतद्विरुद्धमिति॥५३३॥ ५०
406
Page 407
३९४ अन्वयार्थप्रकाशिकाविभूषिते
परिहरति- अनुवददिदमेव वाक्यमर्था- दुपनयतीदृशकारणं प्रसिद्धम् ॥ अनुवदनमशक्यमन्यथा स्या- दवगतगोचरमेव हीदमिष्टम् ॥ ५३४ ॥ अनुवद्दिदमिति॥ इदमेव वाक्यमेकं चेतनं सर्वसर्वशक्ति जगतोऽधिष्टातृ पक्रतिश्रेति यत् कारणं सम्भाव्यते तद् ब्रह्मे-
कारणं प्रसिद्धमुपनयति विदधाति। अर्थसिद्धिमेवोपपाद्यति ।। अनुवदनमिति । इदमनुवदनमित्यर्थः। एतदुक्तं भवति। प्रमितं विनानुवादायोगादन्यतश्चापमिते: प्रामाण्यभूतया श्रुत्यैताद्ृशस्य जगत्कारणस्य सिद्रवदनुवादादेवेदं ब्रह्म कारणं प्रामाणिकं, नान्यदन्यरुत्प्रेक्षितं प्रधानादीत्यर्थाद्विधिरपि सिद्धयनीति।।५३४॥ अनुवादवलादेवार्थाद्विधिसिद्धौ दृष्टान्तमाह- यथा विशिष्टस्य विधानतोऽर्था- द्विशेषणानां घटते विधानम् ॥ स्थितेऽनुवादेऽपि तथेह योज्य- मनूद्यमानेऽपि जगन्निदाने ॥ ५३५॥ यथा विशिष्टस्येति।। सोमेन यजेतेत्यादौ यथा सोमादि- विशिष्टस्य यागस्य च विधानादर्थाद्विशेषणानां सोमादीनामपि विधानं घटते । विशिष्टविधौ हि विशेषणमपि विधीयते । तस्य चापसिद्धत्वे सिद्धवत्कारेण विशिष्टविधानायोगाद् विषयस्य दध्यादाविव वाक्यान्तरपापितस्येहाभावाद्यथाविशेषणविधानमर्थ-
407
Page 408
संक्षेपशारीरके प्रथमोऽध्यायः ।१। ३९१
सिद्धमिति दष्टान्तभागार्थः । दार्प्टान्तिकमाह ॥ स्थित इति॥ तथा इहापि वाक्येऽनुवादे स्थिते सत्यनुवादबलादनूद्यमानेऽपि जग- न्निदानेऽर्थाद्विधानं योज्यमित्यर्थः । यतो भूतोत्पत्तिस्थितिलया भवन्ति तद् ब्रह्मेति भूतोत्पच्यादिहेतुत्वाधारस्य ब्रह्मत्वविधानं भूतोत्पत्यादिहेतुसिद्धिमन्तरेण नोपपद्यते। असिद्धसद्भावस्यानु-
सीयते। यथा, सोमेन यजेतेत्यत्र सोमविश्ञिष्टयागविधाने विधेय- विशेपणस्य सोमस्य कुतश्चित् सिद्धिराक्षिप्यते तद्वत् । यद्यपि दृष्टान्ते सोमस्य विशेषणत्वं,दार्ष्टान्तिके तुः जगदुत्पत्यादिहेतुत्व- स्योपलक्षणत्वमिति वैपम्यमिति। तथापि सिद्धवनन्निर्द्देशसामर्थ्या- दर्थस्वरपसिद्धौ दृष्टान्ते न विरोध इति गमयितव्यम् ॥५३५॥ यदा प्रमाणभूतया श्रुत्याऽनुवादादेव इदं पामाणिकमिति कल्प्यते तदा प्रमाणेन सहैव तत् कल्प्यसइत्यन्यदेवात्र प्रमाणमनु- वादबलात् कल्पितं स्यान्न त्वनुवादश्रुतेरर्थाद्विधायकत्वक्लृपप्तिरर्था- दपि विधौ वाक्यभेदस्यापरिहरणीयत्वादिति पूर्वापरितोपेणाह- अथवानुवादमुपलभ्य ततो- ऽनुपपद्यमानवपुषः प्रमितेः । अपरं निमित्तमिह कल्प्यमिति प्रवदन्ति केचिदभियुक्ततराः ॥ ५३६ ॥ अथवानुवादमिति ॥ प्रमिति विनानुपपद्यमानवपुषो- 5सम्भावितार्थस्यानुवादमुपलभ्य ततोऽनुवादादुपपादिकायाः पमितेरुत्पादकमपरं निमित्तं प्रमाणमिह कल्प्यं,न त्विदमेव वाक्यं तस्याः प्रमितेर्निमित्तममिति केचिदभियुक्ततरा: प्रवदन्तीति योजना। अत्र तरपः प्रयोगाद् अयमेव पक्षोऽत्र युक्त इति
408
Page 409
३९६ अन्वयार्थप्रकाशिकाविभूषिते
भाव: ॥५३६।। तर्हि विशिष्टविधौ कथमितिचेत्तत्रापीत्थमेव युक्तमित्याह- अपि विशिष्टविधौ वचनान्तरा- दनुपपत्तिबलानुमितादिह।। विधिरशेषविशेषणगोचरो न तु पुनस्तत एव विधानतः ॥ ५३७॥ अपि विशिष्टविधाविति ॥ विशिष्टविधावपीह विशिष्ट- विधिवाक्ये विशेषणत्वसिद्धवत्कारेण विशिष्टविधानानुपपत्ति-
गोचरो विधिः कल्प्यते, न तु तेनैव पुनस्तत एव विधानतो वि- शिष्टविधायकादेव वाक्याद्विशेषणविधिसिद्धि: कल्प्येति योजना। किं तद्विशेषणविधायकं वाक्यान्तरमिहानुपपत्तिबलात् सिद्धमि- त्यन्वेषणात्रैवं सति स्यादिति न शङ्गा कार्या। अत्मादेवानुवाद- बलात्तत्सन्भ्रावस्य तत्पकारस्य च निश्चितत्वोपपत्तेस्तथैव प्रकृत- वाक्येऽपि प्रमाणान्तरान्वेषणप्सङ्गानवसर इतिद्रष्टव्यम् ।५३७।।
भवात्तेन लक्षणेन ब्रह्मणो महावाक्यगतब्रह्मपदशतया सामान्य- तः प्रसिद्धस्य परिच्छिन्नवस्तुव्यवच्छेदेन निरङ्कुशमहत्त्वोपेततया लक्षयतुं शक्यत्वाद्यथाश्रुति लक्षणार्थमेवेदं,यतो वा इमानि भूता- नीत्यादि जगत्कारणवादिवाक्यं, न त्वत्यन्तममसिद्धे ब्रह्मणि पमाणकथनार्थमिति सिद्धमिति स्वमतमुपसंहरति- जन्मादिलक्षणमिदं जगतो यदुक्तं सद्रह्मणस्तदिह चिह्नतयोपदिष्टम् ॥
409
Page 410
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३९७
नास्मिन् प्रमाणमपरे पुनरेतदेव ब्रह्मप्रमाणमनुमानमुदीरयन्ति ॥ ५३८॥ जन्मादीति॥ यदिदं जगतो जन्मादिलक्षणं जन्मस्थिति- लयरूपमुक्तं श्रुत्या तत्सङ्वह्मणः सच्छब्दनिर्द्दिष्टस्य प्रकाशस- न्मात्रतत्वस्य ब्रह्मणश्रिह्वतयोपदिष्टं लक्षणत्वेनैवाख्यातं न पुनर- स्मिन् ब्रह्मणि प्रमाणमिदं वाक्यमभिमतमित्यर्थः ॥ नास्मिन् प्रमाणमिति निषेधस्य कुतः पाप्तिरिति तत्राह ।अपरे पुनरिति।। लक्षणकथनमुखेनापीदं वाक्यं ब्रह्मणि प्रमाणमेवेति युक्तम्। यतो- Sपरे नैयायिकादय एतदेव वाक्यं ब्रह्मसन्भावसाधके प्रमाणमतु- मानं कार्यलिङ्रमुक्तमित्युदीरयन्ति । अतः प्राप्तः प्रतिषेध: कृत इत्यर्थः ॥ ५३८ ॥ अनुमानवादिनामभिपायं प्रकटयति- कार्यानुमानपरतन्त्रमिदं हि शास्त्र शास्त्रस्य नोपकरणं तदितीक्षमाणाः ।। तद दुर्घटं न खलु कारणमद्ितीयं चैतन्ययुक्तमिति कार्यवशात प्रतीमः ॥ ५३९ ॥ कार्यानुमानपरतन्त्रमिति।।इदं शास्त्रं, यतो वा इत्यादि- रूपं कार्यलिङ्गानुमानपरतन्त्रं हि निश्चितमेव तदनुमानं शास्त्रस्य नोपकरणं शास्त्रोक्तेडर्थेऽसंभावनापनयेन शास्त्रोपकारकं नभवती- तीक्षमाणा एतदनुमानमुदीरयन्तीति पूर्वेणान्वयः। कार्यलिङ्गकानु- मानसिद्धेश्वरप्रणीततयाप्तवाक्यत्वाद्धि वेदममाण्यमतो ब्रह्मणि वाक्यटत्तिसंभवेऽपि तस्यानुमानगम्याधिकार्थसमर्पकत्वाभावाद- नुमानात्मनैवंविध-वाक्ययोजनमुचितमितिभावः। एवं युक्तिसिद्धं
410
Page 411
३९,८ अन्वयार्थप्रकाशिकाविभूषिते
मतं कस्मान्ववद्विरपि नेष्यते इतिचेदसम्भवादेवेति, तन्मतं दूषय- ति ॥ तद् दुर्घटममिति । दुर्घटत्वमेव प्रकटति ॥ न खल्विति॥ अक्षराऽर्थस्त्वतिरोहितः । एतदुक्तं भवति । अस्य वाक्यस्यानु- मानोपन्यासार्थत्वमेव यदाऽडश्रीयते तदा यादशं व्रह्मेह जगत्- कारणतया पतिपिपादयिपितं तादशं न सिद्धयेत्। सर्वाचेतनस्व- भावविलक्षणं हि ब्रह्मेह कारणत्वेनोपलिलक्षयषितम् । न हि कार्यत्वादिलिङ्गानां तादृशेन व्याप्तिसिद्धिरस्ति। दृष्टान्तभूतस्य तादृशस्यासम्भवात्। अद्वितीयाखण्डवस्तुनश्रेतनस्यानड्गीकारे च ब्रह्मपदशक्तिरकस्मात् संकुचेत। तस्मात् सामान्यतः पसिद्ध- स्य जगतः कारणस्य सर्वोपादाननिमित्ततया सर्वानुस्यूतस- न्मात्रत्वेन परिपूर्णव्रह्मात्मत्वमन्यतोऽपसिद्धं लक्षयितुमेवेदं वाक्य- मनन्यशेषभूतं भटत्तमिति ॥ ५३९॥ नन्वागमोऽपि कथमीदृशो मानान्तरागोचरे कारणे ब्रह्मणि मानं स्यात्। तस्यापि मानान्तराधीनव्युत्पच्यधीनत्वादर्थबोधन- भट्टत्तेरितिचेन्मैवमानमस्य ब्रह्मणि प्रामाण्यपकारस्य पूर्वमुपपादि- तत्वादिति। तदेव स्मारयति- वेदान्तवाक्यमिह येन पथा प्रवृत्तं लोकप्रसिद्धपदशक्तिमुपाददानम् ।। विश्रवोष्वस्थितिलयप्रकृती निमित्ते सच्चित्सुखात्मनि परात्मनि नैवमन्यत ॥ ५४० ॥ वेदान्तवाक्यमिति॥ इह ब्रह्मणि परात्मनीति स- म्बन्धः ॥५४०।। सत्यमेतादृशं कारणमनुमानान्न सिद्ध्यत्येव, तथापि यादृसं तु सिद्धयत्यनुमानात् तद्विषयमेव वेदान्तवाक्यमपि योज्यमतोऽनु-
411
Page 412
संक्षेपशारीरके प्रथमोऽध्यायः।१। ३९९
मानसापेक्षत्वात्तस्येति कणादमतमाशक्का श्रुतह्ान्यश्रुतकल्पना- प्रसङ्गान्मैवमित्याह- भङ्त्तवा कथश्चिदनुमानवशेन सिद्धे सर्वेश्वरे कणभुगादिभिरुच्यमाने ।। वेदान्तवाक्यमपि योज्यमतोऽनुमाने सापेक्षतोपनिषदां यदि साहसं तत ॥ ५४१ ॥ भ ङ्क्त्वेति।अद्वितीये व्रह्मणि जगतोऽभिन्ननिमित्तोपादाने श्रुतेः प्रट्टत्तिस्वारस्यं शब्दसामर्थ्यनिबन्धनं भङ्क्त्वानुमानवशेन सिद्धे सर्वेश्वरे तटस्थे वेदान्तवाक्यमपि कथश्चिद्योज्यमित्यतो- डनुमाने उपनिपदा यदि सापेक्षता कल्प्येत तत् साहसमिति योजना। पुरुषोत्मेक्षितानुमानवशादपौरुपेयवेदवाक्यस्य स्वारस्य- भङ्गेन अनुमानानुगुणत्वकल्पनं पामाणिकानां न युक्तमिति भावः ॥५४१॥ ननु सर्वेषां वेदान्तानां न मुख्यारयलाभः क्वाप्यस्ति । लाक्षणिक्या वृत्तेरपि वाहुल्येनोपलम्भात् । अतोऽत्रापि केषा- श्चित् पदानामनुमानुगुणतया तादृशटत्याश्रयणं न साहसमिति- चेन्मैवम्। अतिसाहसत्वादिह तत्कल्पनाया इत्याह- निष्कारणं श्रुतिशिरोवचनस्य भङ्गं ये वर्णयन्ति सहसा स्वमनोरथेन ।। दीप्तस्य दावदहनस्य न ते किमर्थ ज्वालां पिबन्ति कथनीयमदं बहुज्ञैः ॥५४२॥ निष्कारणमिति॥ निगदव्याख्यातं पद्यम्। सर्वत्रापि मुख्यार्थस्यान्वयासम्भवप्रकारप्रयुक्ता लक्षणेति स्थिति: । इह च
412
Page 413
४०० अन्वयार्थप्रकाशिकाविभूषिते
मुख्यार्थसम्भव उपपादितः । निष्कारणमेव मुख्यार्थत्यागोऽति- साहसमेव विशेषतो वेदवाक्येषु। वेदार्थस्य मानान्तरागम्यत्वा- द्यथाशब्दमेवाश्रयणीयत्वान्मानान्तरगम्ये त्वर्थे तदनुरोधादपि स्यात् कचिच्छन्द उपचारवृत्तिरिति भाव: ॥ ५४२ ॥। नन्वत्रापि मुख्यार्थान्वयासम्भवोऽस्ति लक्षणानिमित्तमिति चोदयति- ननु सच्चिदादिवपुषो जगतः प्रकृतित्वबोधनमकारणकम् ॥ परमात्मनो न हि पदार्थयुजा रहितेह संभवति योग्यतया ॥ ५४३॥ ननु सचिदादिवपुष इति ॥ सचचिदादिवपुप: कूटस्थस्य परमात्मनो जगतः प्रकृतित्ववोधनमकारणकं सम्भावनाकारण- रहितम्। कुत इत्यत आह ।। न हीति। योग्यतया रहिता पदार्थयुजा पदार्थर्यांग इह शब्देऽर्थे वान हि क्वचित् सम्भवतीति योजना। कार्योपादानत्वायोग्ये तत्मतिपादकशब्दवृत्तिमुख्यत्वं न युक्तमित्यर्थः ॥५४३ ॥ ननु कात्रोपादानयोग्यत्वायोग्यतेति, तामाह- उपादानता सच्चिदानन्दमूर्ते- र्विरुद्धा जडेष्वेव सा दश्यते हि विरुद्ैः पदार्थैर्न वाक्यार्थसिद्धि- रन खल्वग्निनोक्षेदितीहान्वयोऽस्ति ॥ ५४४॥ उपादानतेति । अचेतनं जगत् भति सचिदानन्दरूपस्य चेतनस्योपादानता विरुद्धा पमाणान्तरवाधितेत्यर्थः । तत्र हेतु-
413
Page 414
संक्षेपशारीरके प्रथमोऽध्यायः।१। ४०१
माह ।। जडेष्वेवेति ॥ हि यतो यत्रोपादानत्वं दष्टं तत्राचेतनत्व- मेवोपलब्धमित्यर्थः । अचेतनस्य चेतनोपादानकत्वासम्भवफल- माह ।। विरुद्धैरिति ॥ विरुद्धाथसङ्गतावुदाहरणमाह॥ न खल्वि- ति ।। तस्मादयोग्यानामन्वयाभावस्य लोकसिद्धत्वाद् भवता च सम्पतिपन्नाच्चेतनस्याचेतनोपादानत्वानिश्रये सति वाक्ये पतीयमानमप्युपादानत्वं न विवक्षितं, किन्तु कार्योत्पच्यादौ नियतस्याधिष्ठातुरीश्वरस्य सन्भावपतिपादनानुकूल्येन लक्षणया गौण्या उत्या वेदान्तवाक्यं योज्यमित्यभिप्रायः । ५४४।। यद्चेतनं कार्य तदचेतनोपादानकं, न क्वापि चेतनोपादान- कमिति व्याप्तेर्व्यभिचारं वदन् परिहरति- उपादानता चेतनस्यापि दष्टा यथा स्वप्नसर्गे विचित्रे प्रतीच: ।। यथा चोर्णनाभस्य सूत्रेषु पुंसां यथा केशलोमादिसृष्टौ च हषा म ५४५ ॥ उपादानतेति । प्रतीचः पत्यगात्मनो निद्राभिभूतसकल- करणग्रामस्येत्यर्थः । ऊर्णनाभो लूताकीटः । अन्यत् प्रसिद्धम्। दृश्यते त्विति सिद्धान्तः । तत्र एतन्भाष्यकारैः पपश्वचितमिह संगृहीतमिति द्रष्टव्यम्। नचोर्णनाभिपुरुषयोरचेतनभाग एवा- जचेतनोपादानं, न चेतनभागोऽपीति वाच्यम् । लोकप्रसिद्धस्यैव दृष्टान्तितत्वात्। लोके चोर्णनाभादौ चेतनत्वपसिद्धेः । न हि घटकुड्यादिवदूर्णनाभिपुरुषादिरूपमचेतनं मन्यन्ते लौकिकाः । तस्मान्न कदाचिदिहानुपपत्तिरिति भावः ।। ५४५।। लोकदष्टया व्याप्तेर्व्यभिचारमुक्त्वा वैशेषिकादिद्ृष्ट्याप्याह- बुन्ध्यादिकार्येष्त्रपि चेतनोडयं ५१
414
Page 415
४०२ अन्वयार्थप्रकाशिकाविभूषिते
भवेदुपादानमितीष्यते च।। आत्मा गुणी ते च गुणा: प्रसिद्धा गुणी गुणानां प्रकृतिश्र सिद्धा ॥ ५४६ ॥ बुद्ध्ादीति । इष्यते च वैशेषिकादिभिरिति शेपः । एत- देव स्पष्टयति॥ आत्मा गुणीति॥ आत्मा बुद्धादिगुणोपादानं गुणित्वात् पटादिवदित्यर्थः ॥ ५४६ ॥ एतौ च चोदयपरिहारौ यद्यप्यविरोधाध्यायसङ्गतौ तथापीह जगत्कारणवादिवाक्यगतपदानामन्वययोग्यतासिद्ध्यर्थमानीतौ। अतो योग्यतायाः सन्भावाच्चेतनोपादानकत्वमचेतनस्य वाक्याद्
आकाङ्कादिर्विद्यते योग्यतान्ता यस्मादस्मिन्नागमे जायमाने ।। सामग्री या वैदिकैरस्य दष्टा तस्माद युक्ता योनिता चेतनस्य ॥। ५४७॥ आकाङ्गादीति ॥ आदिपदात् सन्धिर्गृह्यते । तस्माद- स्मिन ब्रह्मण्यागमे वेदान्तवाक्ये बोधकतया ज्ञायमानेऽभिव्यज्य- मानेऽस्मिन्नागम इति सामानाधिकरण्यं वा अस्यागमस्य या सामग्री वैदिकर्दष्टा सा आकाङ्कादिर्योग्यतान्ता विद्यत इति योजना। शब्दस्य स्वार्थमुख्यत्वे सिद्धे फलितमाह ॥ तस्माद्युक्ते- ति ।। योनिता उपादानता । यद्वाऽस्मिन् यत इत्याद्यागमे सामग्री वैदिकर्दष्टा सा आकाङ्गादिरयोग्यता च जायमाने जनि- मद्विपये विद्यते यत्पकृतित्वं ब्रह्मणः प्रतिपाद्यत इति योजना । शेपं समानम्। अथवा शब्दस्यार्थबोधने या शास्त्रादिरूपा सामग्री
415
Page 416
संक्षेपशारीरके प्रथमोऽध्यायः। १। ४०३
वैदिकैर्दष्टा साऽस्मिन्नागमे जायमाने विषये विद्यत इति योजना। सर्वथाऽपि योग्यार्थसम्बन्धोऽस्मिन विद्यत इत्यर्थः । ५४७॥ तस्मान्मुमुक्षोर्जिज्ञास्यब्रह्मलक्षणार्थमेव, यतो वा इत्यादि- वाक्यं नानुमानोपन्यासार्थमिति सिद्धमिति परमप्रकतमुपसंहरति- तस्मादेतलक्षणं चिह्नमाहु- र्नैतत्तस्मिन् ब्रह्मण स्यात प्रमाणम् ॥ आम्नायस्य स्वप्रधानत्वहेतो- र्लिंङ्गस्यास्मिन् शेषभावाच्च नित्यम् ॥ ५४८॥ तस्मादिति । एतज्जगज्जन्मादिहेतुत्वं ब्रह्मणो लक्षण- माहुरवैदिका इति योज्यम् । लक्षणशब्दस्य क्वचित् प्रमाणेऽपि प्रयोगदर्शनात् प्रमाणार्थतेह मा भूदित्यर्थ चिह्नमित्युक्तम् । एत- द्वाक्यं तस्मिञ्जगत्कारणे ब्रह्मणि प्रमाणमनुख्ानरूपं न स्यन्नैत- दनुमानविधया ब्रह्मण प्रमाणमित्यर्थः । कुत इत्यत आह॥ आम्नायस्येति॥ स्वप्रधानत्वमाम्नायस्यापौरपेयतया मानान्तरा- Sनपेक्षत्वम् । तस्माद्धेतोः । न ह्यपौरुपेयस्यात्यन्तातीन्द्रियार्थ- बोधनसमर्थस्याऽप्यागमस्य पुरुषबुद्ध्युत्मेक्षितव्याप्त्यादिसहाय- मपेक्ष्यानुमानतया बोधकत्वं वैदिकैरभ्युपगन्तुं युक्तमित्यर्थः । नचेश्वरसन्भावारनमानापेक्षत्वाद् वेदस्यानुमानसिद्धेश्वरप्रणीततया वेदप्रामाण्यस्य लक्षयितव्यत्वात् कथं न सापेक्षत्वमागमस्येति वाच्यम् । अस्या:शङ्गायाःपूर्वमीमांसकैरेव प्रथमपादे परिहृतत्वा- दत्रापि तद्विशेषस्य वक्ष्यमाणत्वादिति भावः । किश्चास्मिन्ना- स्राये लिङ्गस्य कार्यत्वे लक्षितस्य नित्यं सदा शेपभावादुप- पत्त्यर्थवादतयैव तस्य स्तुतिषूपन्यासादनुमानस्यैवास्य श्रुति- सापेक्षतेत्यर्थः । दृष्टव्याप्त्युपजीविनो लिङ्गस्यात्यन्तातीन्द्रियार्थे
416
Page 417
४०४ अन्वयार्थ प्रकाशिका विभूषिते
बुद्धिजननसामर्थ्याभावाच्चेति चकारार्थः ।। ५४८॥ यतो वा इत्यादिजगत्कारणवादिवाक्यस्य ब्रह्मणि सम- न्वयपकार मुपपादितमुपसंहरति- इत्थं जगत्कारणवादिवाक्यं समन्वितं ब्रह्मणि तत्पदार्थे।। तल्लक्षणं तस्य तटस्थभूत- मानन्त्यसिच्धै कथयद् यथोक्तम् ॥५४९॥ इत्थमिति॥ इत्थमुक्तपकारेण तत्पदार्थे ब्रह्मणि जग- त्कारणवादिवाक्यं समन्वितमित्यन्वयः । कि कुर्वदिति ? उच्य ते। तस्य ब्रह्मण आनन्त्यसिद्ध्यै परिच्छेदव्याटत्त्यर्थ तटस्थभूत- मुपलक्षणभूतं यथोक्तं जगज्जन्मादिहेतुत्वं तल्लक्षणं तस्य ब्रह्मणो लक्षणं कथयत् सदिति योजना । ५४० ॥ विवक्षितव्रह्मानुगुणसमर्पिकां वाक्यटत्तिमुपपादितामभि- नयेनाह- स्वात्मानमेव जगतः प्रकृतिं यदेकं सर्गे विवर्तयति तत्र निमित्तभूतम् । कर्माकलय्य रमणीयकपूयमिश्रं पश्यन् नृणां परिवृढ़ं तदितीर्यमाणम् ॥५५०॥ स्वात्मानमिति ॥ यदेकं वस्तु सर्गे सर्गकाले पाप्ते तत्र तस्मिन् सर्गे निमित्तभूतं नृणां प्राणिनाम् । नृग्रहणं श्रैष्ठ्यात्। रमणीयं शुभं, कपूयमशुभं, मिश्रं शुभाशुभसाम्यलक्षणमिति त्रिविधं कर्म पश्यदवगच्छदाकलय्य संगृह्य सहकारितयोपादाय च तदनुसारेण स्वात्मानमेव जगतः पकृतिं कृत्वा विवर्त्तयति
417
Page 418
संक्षेपशारीरके प्रथमोऽध्यायः।१। ४०५
मायया जगद्रूपतामापाद्यति। तत् परिषृढं ब्रह्म सर्वजं सर्वशक्ति नित्यशुद्धत्वादिस्वभावमितीर्यमाणमित्येवँलक्षणं कथयदिदं वाक्यं ब्रह्मणि समन्वितमिति पूर्वेणैव योजना ॥ ५५० ॥ तदेवं जन्मादिसूत्रे जगत्कारणवादिवाक्यानां समन्वयो नि- रूपित इत्युक्तम्। तत्रेदमाशङ्कते। यथा समन्वयसूत्रे सर्वेषामेव वेदान्तवाक्यानां प्रत्यक्स्वरूपे व्रह्मणि समन्वय इत्युत्सर्गतः सिद्धौ पुनरानन्दमयोऽभ्यासादित्यारभ्येदमिदं वाक्यमसस्मिन्न- स्मिन् स्वरूपेण समन्वयं गच्छतीति तत्तदाशङ्कानिराकरणेन पश्चादेव विचारितस्तथा, यतो वा इत्याद्यपि जगत्कारणवादि- वाक्यजातं विचार्यतां, किमिति प्रथममस्य विचार: कृत इति। तत्रोपपत्तिमाह- पदवृत्तिसमन्वयावुभौ प्रतिपादौ प्रथमे हि लक्षणे ।I तदवान्तरवाक्यवर्त्मना पद्वृत्तिः प्रथमं प्रकीर्तिता ॥ ५५१ ॥ पद्वृत्तिसमन्वयाविति ॥ हि यस्मात् प्रथमे लक्षणे स- मन्वयाध्याये पदटत्तिस्तत्वम्पदयोः स्वार्थे दृत्तिः। समन्वयो नाम तयोरेव पदयोर्वा्यतामापन्नयोरखण्डे ब्रह्मात्मनि पर्यव- सानम्। एतौ पदटत्तिसमन्वयावुभौ प्रथमाध्याये प्रतिपाद्यौ, न समन्वयमात्रं प्रतिपाद्यम्। तत्तस्मादवान्तरवाक्यवर्त्मना पदार्थ- मात्रविषयवाक्यगतिप्रकारेण प्रथमं पदटटत्ति: पकीर्तिता । पदा- डर्यज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य प्रथमं पदार्थपरवाक्यविचारो युक्त एव । आनन्दमय इत्यादिविचारस्तु सर्वोऽपि समन्वय- विषय एवेति सामान्यतः सिद्धसमन्वयस्य विषयविशेषेण वाक्य-
418
Page 419
४०६ अन्वयार्थप्रकाशिकाविभूषिते
विशेषयोजनार्थ इति तस्य युक्त एव पश्चाद्विचार इत्यर्थः॥५५१।। तार्हे त्वम्पदद्टत्तिरपि प्रथममेव वक्तव्या। सत्यम् । सा- डप्युक्तैव प्रथमसूत्र इत्याह- आद्ये सूत्रे त्वंपदस्योदितत्वाद वृत्तेरस्मिंस्तत्पदस्योच्यमाना ॥ वृत्तिर्ज्ञेया तत्पदार्थेऽद्वितीये प्रत्यङ़मात्रे त्वंपदस्योदितैव ॥ ५५२ ॥ आद्य इति । त्वम्पदस्य वृत्तेरिति सम्बन्धः । अस्मिन् द्वितीयसूत्रे उच्यमाना वत्तिस्तत्पदस्य ज्ञेयेति सम्बन्धः । कस्मि- ननर्थे पदयोरनयोर्द्टत्तिरिति, तत्राह।। तत्पदार्थ इति ॥ अद्वितीये तत्पदार्थे तत्पदस्य वृत्ति: प्रत्यङ्मात्रे सर्वान्तरचिद्ूपे त्वम्पदस्य वत्तिरुदितैवोक्तैव भवतीत्यर्थः ॥ ५५२॥ ननु कथं प्रथमसूत्रे त्वम्पदस्य प्रत्यङ्मात्रे दृत्तिरुक्ता। त- स्याधिकारिनिरूपणंपरत्वादधिकारिणश्र साधनचतुष्टयविशिष्टस्य प्रत्यङ््मात्रत्वायोगादितिचेननैवम्। प्रत्यङ्मात्रस्यैवाधिकारित्वा- दित्याह- अनधिकारिणि शुद्धचिदात्मके दृगद्दशोरितरेतरविभ्रमात् । शमदमादिसमन्विततेष्यते भतति तेन चितोऽप्यधिकारिता ॥ ५५३ ॥ अनधिकारिणीति।शुद्धचिदात्मके प्रत्यगात्मस्वरूपे स्वतो- Sनधिकारिणि अधिकारित्वधर्मरहिते दृगदृशोः प्त्यकूपराचो- रितरेतरविभ्रमात् परस्पराध्यासान्निमित्ताच्छमदमादिसमन्वित-
419
Page 420
संक्षेपशारीरके प्रथमोऽध्यायः।१। ४०७
ता इष्यते । तेनाध्यासनिवन्धनेन शमादिना योगेन चितोऽपि स्वतो निर्विशेषचिदूपस्यात्मनोऽधिकारिता युक्तेति योजना। चिद्रूपात्मनोऽन्यस्य जडस्य शमदमादिमत्त्वस्याधिकारिवत्वस्या- ऽसम्भवादुक्तविधया चिदात्मस्वरूपस्यैवाधिकारितेति प्रथमसूत्रे ऽधिकारिनिरूपणद्वारेण त्वम्पदस्य प्रत्यगात्मनि दृत्त्तिरुक्तैवेत्य- डर्थः ॥ ५५३ ॥ यदि प्रतीच एवाधिकारित्वमिष्यते तर्हि तस्य स्वाभाविक- मेव तदिष्यतां, किमध्यासकल्पनयेत्याशड्क स्वतोऽसम्भवादि- त्युक्तं प्पश्चयति- अनधिकारितया दृगवस्थिता स्व्रसतः परमेश्वरविग्रहा॥ घनतमः पटलावरणान्वया- दुपगता श्रवणाद्यधिकारिताम् ॥ ५५४॥ अनधिकारितयेति ॥ दृशः स्वरसतोऽनधिकारितया- डवस्थाने हेतुगर्भ विशेषणम्॥ परमेश्वरविग्रहेति ॥ अनधिकारि- स्वरूपब्रह्मस्वरूपत्वादित्यर्थः । अतोऽध्यासमूलत्वमेव युक्तं परिशेषादित्याह ॥ घनतम इति ॥ स्पष्टार्थः ॥ ५५४॥
धर्मविशिष्टस्याधिकारिता वक्तव्या। तथाच तस्यैव मोक्षफला- Sन्वयित्वमपीत्यध्यासनित्यतापसङ्ग इतिचेत्तत्राह- अज्ञानतज्घटना चिद्धिक्रियायां द्वारं परं भवति नाधिकृतत्वमस्याः ॥ नाचेतनस्य घटतेऽधिकृतिः कदाचित
420
Page 421
806 अन्वयार्थप्रकाशिकाविभूषिते
कर्तृत्वशक्तिविरहादिति वक्ष्यते हि॥ ५५५॥ अज्ञान तजजेति॥ अज्ञानतज्जघटना अविद्यातत्कार्याध्यास- श्वितोऽधिक्रियायामधिकारे द्वारं निमित्तमात्रं परं भवति । अस्या अज्ञानतज्जघटनाया अपि नाधिकृतत्वम्। दृगात्मनो- Sधिकारे उपाधित्वमनात्मसम्बन्धस्य न विशेषणत्वमित्यतो नोक्तदोष इत्यर्थः । तत्र युक्तिमाह ॥नाचेतनस्येति ॥ कर्त्तुरेवा- Sधिकारादचेतनस्य च कर्तत्वासम्भवस्य, रचनानुपपत्तेश्र नानु- मानमित्यग्रे वक्ष्यमाणत्वादित्यर्थः ॥ ५५५॥ तस्मात् प्रत्यक्चित एवाज्ञानद्वाराधिकारित्वादधिकारिनि- रूपणेन प्रत्यङ्न्मात्रे त्वम्पदस्य वत्तिनिरूपणादाद्ये सूत्रे उपपन्ने- ति स्थितम्। तथापि प्रत्यङन्मात्रे त्वम्पदस्य वृत्तिकथनमत्र वि- वक्षितमिति कुतोऽवगम्यत इतिचेत्तत्राह- उपसत्तिवाक्यमधिकारिणि यत कथितं समन्विततया प्रथमम् ॥ इदमेव चेतस निधाय तु त- न्मुनिना प्रकीर्तितमुदारधिया ॥ ५५६॥ उपसत्तिवाक्यमिति ॥ अयमर्थः । अथातो ब्रह्मजिज्ञा- सेत्यस्मिन् सूत्रे, अथातः-पदाभ्यामधिकार्युक्तः । ब्रह्मजिज्ञासा- पदेन च, तद्विजिज्ञासस्वेति श्रुतिपदमुदाहृतम् । तत्र च लोण्मध्यमपुरुषेण यो नियुज्यते सोऽत्र साधनचतुष्टयसम्पन्नो- डथातःपदाभ्यां सूत्रित इत्यधिकारिसमर्पकमुपसत्तिवाक्यम् । तदेतदाह ॥ अधिकारिणि यदुपसत्तिवाक्यं तद्विजिज्ञासस्वेत्या- दिरूपं प्रथमं प्रथमसूत्रेऽधिकारिणि समन्विततया यत् कथितं तदिदमेव त्वम्पदस्य प्रत्यङ्मात्रे पर्यवसानमित्यस्मादुक्तमेवेति
421
Page 422
संक्षेपशारीरके प्रथमोऽध्यायः।१ ४०९
स्वमनसि निधायोदारधिया मुनिना प्रकीर्ततितमिति ॥५५६॥ उक्तमेव स्पष्टयति- शिष्योपसत्तिवचनानि समन्वितानि शिष्ये चिदात्मनि परात्मनि नित्यमुक्ते।। इत्येतदत कथितं मुनिना त्वमर्थे त्वंशब्दवृत्तिकथनाय परे प्रतीचि ॥ ५५७॥। शिष्योपसत्तिवचनानीति ॥ परे संघातविलक्षणे प्रतीचि पत्यगात्मनि त्वंशब्ददृत्तिकथनायेत्यर्थः । उपसन्नं प्रति तत्वमसीत्युपदेशान्महावाक्य उपपन्नस्त्वंशब्दार्थः । अत उप- सत्तिवाक्योदाहरणेन त्वम्पददृत्तिविवक्षा लक्ष्यते । स चोप- सन्नः शिष्यो नित्यमुक्त: पर एवेति ब्रह्मविपरीतरूपस्य मिथ्या- त्वनिरूपणसामर्थ्यसिद्धेर्वाक्यार्थान्वययोग्ये पत्यङ्मात्रे त्वम्पद- दृत्तिविवक्षाडय्ये सूत्रे गम्यते इति तात्पर्यार्थः ।५५७ ॥ तस्मात् सिद्धं सूत्रद्यस्य पदद्वयवृत्तिनिरूपणार्थत्वमित्युप संहरति उपसदनवचो विचारमार्गात त्वमितिपदस्य परात्मनीह वृत्तिम् ।। कथयति भगवान् द्वितीयसूचे तदितिपदस्य परात्मनीति भेदः ॥ ५५८ ॥ उपसद्नेति॥ परात्मनि संघातात् परस्मिन् प्रत्यगात्मनि इह प्रथमसूत्रे पदयोरेवात्र भेदो न पदार्थयोः स्वरूपेण भेद इति दर्शयितुमुभयत्र परात्मग्रहणमिति द्रष्टव्यम् । ५५८॥ ५२
422
Page 423
४१० अन्वयार्थप्रकाशिका विभूषिते
ननु कथं वाक्यगतिनिरूपणमात्रेण निमित्तोपादानात्मकमे- कमद्वितीयं कारणं सिद्ध्येत्। वादिभिस्तु तद्विपरीतस्य कारणस्य युक्तिभिर्निरूपणादितिचेनैष दोषः । विवक्षितकारणसमर्थनाया टत्तेस्तन्त्रेण वा समाश्रयणोपपत्तेरित्याह- आवृत्त्या वा तन्त्रवृत्त्याथवेदं सूत्रं युक्ति वेदवाक्योपयुक्ताम्॥ अप्याचष्टे बृंहणीमन्तरेण स्वार्थे युक्ति वेदवाक्यं न पुष्टम ॥ ५५९॥ आवृत्त्या वेति ॥ जन्माद्यस्य यतो भवति तद् ब्रह्मेति सूत्रवाक्ययोजनायां स्थितायामस्यैव सूत्रस्यावत्या वा जन्माद्य- स्य यतस्तन्न ब्रह्मणोऽर्थान्तरमित्येवंविधयाऽथवा तन्त्रवत्तिस्त- या वेत्यर्थः । अनेकार्थविवक्षया नान्यड्रह्मणः कारणं जगत इत्यत्रापेक्षितयुक्तीनामपि सङ्गहेणोच्चारणं तन्त्रवत्तिस्तया वेत्यर्थः। अनेकार्थविवक्षया सकृद्वाक्योच्चारणं तन्त्रमिति तल्लक्षणम् । उक्तस्यैव वाक्यस्य तदर्थोपपादनपरतया पुनरुच्चारणमावत्ति- रिति तद्विवक्षा। इत्थमक्षरयोजना ॥ जन्माद्यस्य यत इतीदं सूत्र- मावृच्या वा तन्त्रवत्त्याऽथवा वेदवाक्योपयुक्तां बृंहणी युक्तिम- प्याचष्टे। वेदवाक्योपयुक्तयुक्तिमन्तरेण विनेति। वाक्यगता- जक्षरार्थानुकूलयुक्तिव्यतिरेकेण तदर्थोपपादकमुक्तिमप्याचष्ट इत्य- जर्थः ॥ ५५९॥ एवं महावाक्यगतपदृत्तिमुक्त्वा क्रमपासंमहावाक्यसमन्वयं निरूपयितुं समन्वयसूत्रमित्याह- त्वम्पदार्थविषयं समन्वयं
423
Page 424
संक्षेपशारीरके प्रथमोऽध्यायः।१। ४११
तत्पदार्थविषयं ततः क्रमातू ॥ तस्य शेषमपरं च वर्णय- न्नुक्तवानथ महावचोगतम् ॥ ५६० ॥ त्वम्पदार्थविषयमिति । त्वम्पदार्थविषयं समन्वयम् आद्ये सूत्रे वर्णयन् ततोऽनन्तरं क्रमात्तत्पदार्थविषयं समन्वयं द्वितीये सूत्रे वर्णयन्नथाऽनन्तरं महावचोगतं समन्वयमुक्तवान् महामुनिरिति योजना। तर्हि मध्ये, शास्त्रयोनित्वादिति सूत्रं किमर्थमित्यपेक्षायां तस्योपयोगितामाह । तस्य शेषमपरं हीति॥ अयमर्थः । तस्य जन्मादिसूत्रस्य शेषमर्थसिद्धसर्वज्ञत्वसाधनं न्या- येन निश्वासवदबुद्धिपूर्वसतष्टतया वेदस्यानपेक्षत्वलक्षणप्ामाण्य- विरोधेन सकलवेदोपादानतया सर्वावभासकज्ञानस्वरूपत्वसिद्धय- 5र्थ वर्णयन्मध्ये,शास्त्रयोनित्वादिति सूत्रं प्रणीतवानिति॥५६०।। एवं पदद्वयवृत्तिनिरूपणानन्तरं महावाक्यनिरूपणं क्रमपाप्त- मेव स्पष्टयति- त्वम्पदस्य दि वृत्तिमद्वये तत्पदस्य च निवेदयन् मुनिः ।। प्रत्यगद्दयपरं समन्वयं शेषिणं पुनरथाव्रवीत्तयोः ॥ ५६१॥ त्वम्पद्स्मेति ।। दृशि प्रत्यगात्मनि त्वम्पदस्य ट्वत्तिम् अद्ये ब्रह्मणि तत्पदस्य च वत्ति निवेद्यन मुनिस्तच्छेपभूतां पदद्वयवत्तिं प्रथमं निवेदयन्निति यावत्। अथानन्तरं क्रमपासं तयोः शेषिणं प्रत्यगद्वयपरं समन्वयं पत्यगद्ये ब्रह्मण्यवचरूपेग
424
Page 425
४१२ अन्वयार्थप्रकाशिकाविभूषिते
समन्वयं पुनरब्रवीदिति योजना। सूत्रत्रयेण पदार्थद्वयपदद्दय- वाक्यसमन्वयं प्रतिपाद्य चतुर्थसूत्रेण तयोरवाक्यरूपाऽखण्डाद्या- नन्दात्मान समन्वयमब्रवीदित्यर्थः ॥५६१॥ अथ चतुर्थे सूत्रे वाक्यार्थेऽखण्डे समन्वयमब्रवीदित्यादिना विस्तरेण समन्वयसूत्रार्थस्योपपादितत्वात्तदिदानीं सङ्विप्याह- शक्कोति सिद्धमतबोधयितुं च वाक्यं शक्कोति कार्यरहितं वदितुं च वाक्यम् ।। शक्कोत्यखण्डमवबोधयितुं च वाक्यं शक्कोति मुक्तिफलमर्पयितुं च वाक्यम् ॥५६२॥ शक्नोतीति ॥ मानान्तरनैरपेक्ष्येण सिद्धं ब्रह्मात्मवस्त्व- वबोधयितुं समर्थम् ॥ कार्यरहितमिति ॥ कार्यशेषत्वरहितं स्वप्रधानमेवेत्यर्थः ॥ अखण्डमिति ॥ भेदसंसर्गरहितमित्यर्थः ॥ मुक्तिफलमिति ॥ मुक्ति: फलं यस्य तन्मुक्तिफलं तत्वसाक्षा- त्काररूपं ज्ञानमित्यर्थः । स्वार्थे फलवद्विज्ञानजननसमर्थमिति कर्मशेषार्थपरत्वमनेन निरस्तम् । एतेऽर्थाः पूर्वमेव निपुणतर- न्यायतः प्रतिपादिताः स्मर्त्तव्या इति भावः ॥५६२ ॥ एवं सूत्रत्रयार्थ विस्तरेण प्रतिपाद्य, ईक्षतेर्नाऽशब्दमित्या- झुत्तरसूत्रगतन्यायसन्दर्भ भाष्योक्तमेव सिद्धवत्कृत्य समन्वया- ध्यायमुपसंहरति- एतत्समन्वयनिरूपणमेवमस्मिन् बुद्धिस्थतामुपगते सति वाक्यजन्यम् ॥ विज्ञानमद्दयगतं न ततोऽन्यदन्यत
425
Page 426
संक्षेपशारीरके प्रथमोऽध्यायः।१। ४१३
पुंसोऽपराधकृतमित्युदियात प्रतीतिः ॥ ५६३ ॥ इति श्रीदेवेश्वरपूज्यपादशिष्यश्रीसर्वज्ञात्ममहामुनेः कृतौ शारीरकप्रकरणे संक्षेपशारीरके प्रथमोऽध्यायः ॥१॥ एतत् समन्वयनिरूपणमिति ॥ यथाशास्त्रं यथान्याय- मस्माभि: कृतमिति शेषः । समन्वयनिरूपणफलमाह । एवमि- ति ।। एवमुक्तपकारेण समन्वये बुद्धिस्थतामुपगते सति अधीत- स्वाध्यायस्य समधिगतशब्दन्यायतत्वस्य पुंसो यद्वाक्यजन्यं शब्दस्वारस्यजन्यं विज्ञानं तदद्वयगतं प्रत्यग्ब्रह्मैक्यगतं ततो- जन्यन्न भवति।अर्थान्तरगतं न भवत्येव। अन्यत्तद्विरुद्धार्थविषय- मनेकविधं यद्विज्ञानं तत्पुंसोऽपराधकृतं पुरुषदोषनिबन्धनमेवे- त्येवं प्रतीतिः प्रत्यय उदियादुत्पद्येतेति योजना॥ वेदान्तवाक्य- रूप प्रमाणगताऽसम्भावनाऽपोहेन वाक्यार्थे सुद्धिनियमसिद्धि: समन्वयविचारफलमित्यर्थः ॥५६३॥ इति श्रीकृष्णतीर्थशिष्यरामतीर्थकृतायां सङ्भेप- शारीर कटीकायामन्वयार्थपकाशिकायां समन्वयाभिधः प्रथमोऽध्यायः संपूर्ण: ।। १ ।।
426
Page 427
427
Page 428
द्वितीयोऽध्यायः ।
श्रीगणेशाय नमः ।। अव. तदेवं समन्वयलक्षणगतं विशेष न्यायतो निरूपपितमुपश्रुत्य, यद्यपि श्रुतिगतिपर्यालोचनायां सर्वे वेदान्ता अविरोधेनाखण्डे ब्रह्मात्मनि प्रमाणमिति न्यायतो निर्धारितं, तथापि प्रत्यक्षादि- प्रमाणान्तरमाश्रित्य उक्तं समन्वयमाक्षिपति- एवं समन्वयनिरूपणयाऽवबोधो जातोऽप्यखण्डविषयो ननु वाक्यजन्यः ।। मानान्तरेण परिपीडित एव जातो भदप्रकाशनकृताक्षनिबन्धनेन । १ ।। एवं समन्वय इति।नन्विति प्रथमं योज्यम्। भेदप्रका- शनंति विरोधिमानान्तरस्वरूपकथनम्। अक्षग्रहणमनुमानादेरपि उपलक्षणार्थम् ॥ १॥ अव. नतु भेदग्राहहिपत्यक्षादेरभेदबोधकाद्वतागमस्य च प्रमाण- त्वाविशेषे श्रुत्यैवैतत्परिपीडनं कस्मान्न स्यादित्याशङ्क, प्रत्यक्ष- विरोधे वाक्यस्येव बाधदर्शनादेतदेव सम्भाव्यते इत्युदाहरणमाह- मज्जत्यलाबु सहसाडप्सु शिलाः प्लवन्त- इत्यादिकादभिहितादिव वाक्यजातात।। जाताऽषि बुद्धिरपबाधिनगोचरैव- मद्दैतबुद्धिरवि भेदधियाऽडत्मनि स्थात् ॥ २ ॥
428
Page 429
२ अन्वयार्थप्रकाशिकाविभूषिते
मज्जतीति ॥ अभिहितात्, केनचिदिति शेष:। वाक्यजातात्सह- सा जाताऽपीति सम्बन्धः। अपबाधितगोचरा बाधितविषयैव य- था, एवमद्वैतबुद्धिरात्मनि जाताऽपि भेदधिया बाधितगोचरैव स्यादिति योजना ॥ २ ॥ अव. अद्वितीयांशे प्रत्यक्षविरोधमुक्त्वाऽसंसारित्वांशेऽपि तमाह- अध्यक्षगोचरमनर्थमवैमि वाक्यं निर्मुक्तमाह मम रूपमनर्थहेतोः ॥ एवं च वेदशिरसोऽक्षनिबन्धनेन ज्ञानेन बाघनमतीव हि दुर्निवारम् ॥ ३॥ अध्यक्षगोचरमिति॥अनर्थ संसारित्चमनर्थहेतोर्मुक्तं मम रूपमाहेति संबन्धः। फलितमाह।एवमिति। अतीव दुर्निरूप्यं चेति योजना ॥। ३ ॥ अव. एवं प्रत्यक्षादिविरोधमुपपाद्य कर्मविधिविरोधमाह- कर्तृत्वमाह मम कर्मविधिर्नियोगः संबन्धपूर्वकमपास्तसमस्तभेदम् ॥ मामाह वेदशिरसो वचनं तथा च सत्यस्य दुःस्थितमिवापतति प्रमात्वम् ॥ ४ ॥ कर्ततृत्वमिति ॥ "स्वर्गकामोयजेत " "यावज्जीवं जुहु- यात्" इत्यादिरूप: कर्मविधिर्नियोगो नियोगरूपः संबन्धपूर्वकं मम कर्तृत्वमाह त्वं कुर्विति। नियोज्यसंबन्धपूर्वको हि नियोगो विधिः कर्म विधत्त इत्यर्थः । कर्तृत्वशक्तिहीनं प्रति नियोगासंभ- वात्स्वर्गकामादिकर्तृत्वशक्तिमाक्षिपेत्कर्मविधिरिति भावः । कर्तृ- त्वग्रहणं भोक्तृत्वस्याऽप्युपलक्षणम्। ननु कर्मविधिभिरेतावता को
429
Page 430
संक्षेपशारीरके द्वितीयोऽध्यायः।२। MY
विरोध उक्त? इति तमाह। अपास्तेति। भेदो विशेषः। कर्तृत्वा- दिविशेषरहितं निर्विशेषमित्यर्थः । ननु कर्तृत्वनिर्विशेषत्वागम- योः समत्वाद्विरोधेऽपि कथमेकेनेतरबाध? इति चेत्सत्यं, तथापि सत्प्रतिपक्षानुमानवत्मामाण्यदौर्लभ्यमनिवार्यमित्याह। तथाचस- त्यस्येति। सत्यस्य सत्यार्थस्य प्रमाणभूतस्य वेदस्येति यावत्। पमात्वं प्रामाण्यम्॥४॥ अव. नन्वेवं सति कर्मविधेरपि पमात्वदौस्थ्यसाम्यान्न तेनेलर- वाधशङ्केत्याशङ्, केवलस्य तस्यावाधकत्वेपि सहायसंपच्या मावल्यात्स्यात् वाधकतेत्याह- प्रत्यक्षकर्मत्चसोरुभयोः समूहः सामर्थ्यवानुपनिषद्विषयापहारे ॥ एकैकमेत तु न पारयतेऽपहर्तु स्वार्थप्रकाशनविधावुभयोः समत्वात् ॥ ५॥ प्रत्यक्षकर्मवचसोरिति ॥ उत्तराधरिम्भे यद्यपीति यो- ज्यम्। पूर्वार्धारम्भे तथापीति ॥ ५॥ अव. ननु प्रमाणयोः संभूय बाधनायोगात्समूहस्तयोर्बाधक इत्ययुक्तं, समूहस्य चाभावादिति चेत्तहि प्रत्यक्षमेवास्त्वद्वैतबाधकं कर्मविधयस्तत्तदर्थसंवादितया सहायमात्रमिति पक्षान्तरमाह- जैष्ठयात् समर्थमथवाऽक्षजमेकमेव तस्यैव कर्मविधिरस्तु सहायभूतः ॥ प्रत्यक्षमेव विधिवाक्यसहायमेवं ब्रह्मात्मवरत्वपहरिष्यति को विरोधः ॥ ६ ॥
430
Page 431
अन्वयार्थप्रकाशिकाविभूषिते ज्यैष्ठ्यादिति । प्रत्यक्षस्य सर्वपमाणोपजीव्यत्वाञ्जयै- ष्ठ्यम्, एतत्सिद्धपदपदार्थोपजीवनेन पटत्तत्वादागमस्य पत्यक्षा- त्पाश्चात्यत्वात्कनिष्ठतेति स्थितौ, जयेष्ठं प्रत्यक्षमेवैकमुपजीव्यं स्वो- पजीवकस्य कनिष्ठस्याद्वैतागमस्य स्वार्थबाधने समर्थ स्यादित्य- र्थः। ननु ज्येष्ठस्यापीदं रजतमिति ज्ञानस्य कनिष्ठेन शुक्तितत्व- ज्ञानेन बाधो दृष्टो डतो ज्येष्ठत्वमपयोजकमिति चेत्तत्राह। तस्यैव इति।नज्येप्ठत्वमात्रं बाधकत्वे हेतुं वदामः, किं तु परमाणत्वे सति ज्यैष्ठ्यं, रजतज्ञानस्यापमाणत्वादस्तु ज्यैष्ठ्ये Sपि बाध्यता, प- त्यक्षस्य तु प्रमाणत्वं निश्चितप्रमाणत्वविधिवाक्येन संवादात्सिद्ध- म्।अतो न तस्य पूर्वस्यापि परेणागमेन वाघशङ्का।एतदभिपायेणो- क्तं, तस्यैव कर्मविधिरस्तु सहायभूत इति। मत्यक्षमेवेत्युत्तरार्धम् उपसंहारार्थम् ॥ द॥ अव. तत्र प्रत्यक्षादेर्व्यवहारसमर्थवस्त्ववभासकतया व्यावहा- रिकमेव प्ामाण्यं न तत्वावेदकं, अद्वैतागमस्य तत्वावेदकं प्रामा- ण्यमतो उतत्वविपर्येण प्रत्यक्षादिना न तत्वविषयस्यागमस्य वाधः, किन्तु वैपरीत्यमेव युक्तमित्यभिप्रेत्योभयोर्विषयभेदकथ- नेन विरोधशङ्गां परिहरति- अत्रोच्यते न खलु वेदशिरांसि मुच्का किं चित प्रमाणमिह तत्त्वनिवेदनाय ।। शक्कोति येन भवतीह विरोधशङ्का वेदान्तवाक्यमुखतोऽवगते प्रतीचि ॥ ७ ॥ अत्रोच्यत इति ॥ स्पष्टार्थ पद्यम् ॥७॥ अव. कुतः प्रत्यक्षादेस्तत्वावेदन लक्षणपामाण्याभाव?इति चेत् प्रमाणलक्षणस्य तत्र साक्षादद्टत्तेरित्याह-
431
Page 432
संक्षेपशारीरके द्वितीयोऽध्यायः।२।
अज्ञातमर्थमवबोधयदेव मानं तञ्च प्रकाशकरणक्षममित्यभिज्ञाः ।। न प्रत्यगात्मविषयादपरस्य तञ्च मानस्य संभवति कस्य चिदत्र युक्त्या ।। ८ ।। अज्ञातमिति ॥ अज्ञातार्थगन्तृत्वं हि पमाणलक्षणं, तच्च तदेव प्रकाशकरणक्षमं स्वविषये प्रकाशकरणसमर्थ प्रमाणं प्रस- द्धम्। तत् अज्ञातार्थ विषयत्वनिबन्धनमित्यर्थः। अभिज्ञाः ममाणत- चविदः।आहुरिति शेषः । तच्चाज्ञातार्थाववोधकत्वं प्त्यगात्मवि- पयादपरस्य प्रत्यक्षादेः कस्यचिदपि मानस्य युत्या विचार्यमाणे अज्ञाते वस्तुनि न सम्भवतीति योजना। प्रत्यगात्मनो Sन्यस्या- ज्ञातत्वाभावादिति भावः ॥।८।। अव. ननु प्रत्यक्षादेरपि प्रत्यग्विपयत्वे सम्भवत्येतल्लक्षणमिति चेन्न । तस्य पराग्विपयत्वादित्याह- सर्व पराग्विषयमत हि मानजाते वेदावसानवचनानि तु वर्जयित्वा।। यद्जौतिकं किमपि भौतिकगोचरं त- द्रूपप्रदीपकनिदर्शनतः प्रसिद्धम् ॥ ९॥ सर्वमिति ॥ वेदान्तेतरमानानां पराव्विषयत्वं साधयति। यन्भ्रौतिकममिति। प्रत्यक्षादि भौतिकविषयं भौतिकत्वाद्यदेवं तदेवं यथा रूपगोचरपदीप इत्यर्थः ॥ ९॥ अव. ननु यद्भौतिकं तन्भौतिकगोचरमिति भौतिकत्वाकारेण व्यास्तौ रूपेणापि मदीपस्य व्यडत्वापत्तिरित्याशक्का, व्यअ्रकस्य व्यङ्सजातीयत्वनियमे पदीपद्दष्टान्तोपादानान दोष इत्याह-
432
Page 433
अन्वयार्थप्रकाशिकाविभूषिते
यद व्यञ्जकं किमपि लौकिकमीक्षितं तद व्यङ्गयेन तुल्यमवलोकितमत्र जात्या ।। दीपः प्रकाशकतया विदितो हि लोके रूपेण तैजसतया सदशः प्रसिद्धः ॥ १० ॥ यह्मञ्जकमिति ॥ जात्या तुल्यमिति संबन्धः । यव्ञ्ञकं तन्ड्यसजातीयं यथा रूपव्यअ्जकपदीपो रूपसजातीयो हष्ट इत्य- र्थः। रूपप्रदीपयोः केन रूपेण साजात्यं? तदाह। तैजसतयेति॥१०॥ अव. अस्या व्याप्तर्मनसि व्यभिचारमाशका, तदपि भौतिक- मेवेति न व्यभिचार इत्याह- बुद्धि: समस्तविषयावगमे प्रवृत्ता साऽपि प्रकाशविषयेण समानजातिः ।। बुद्धिश्च भौतिकतया श्रुतिषु प्रसिद्धा तेनास्तु साडपि खलु भौतिकगोचरैव ॥ ११ ॥ बुद्धिरिति॥ बुद्धिशब्दोऽन्त: करणमात्रविषयः।आत्मनोऽपि बुद्ध्या पकाश्यत्वात्तस्य चाभौतिकत्वादभौतिकत्वमपि तस्या: स्यादिति चेन्न । आत्मनः स्वपकाशत्वाद्वुद्धिव्यङ्त्वाभावान्भौ- तिकमात्रगोचरत्वेनास्या अपि भौतिकत्वं निरपवादमित्यभिपेत्य बुद्धेर्भौतिकत्वं साधयति। बुद्धिश्रेति । "अन्नमयं हि सोम्य- मन " इत्यादिश्रुतिष्वित्यर्थः । बुद्धिरपि भौतिकगोचरैव भौ- तिकत्वाच्चक्षुरादिवदित्याह। तेनेति ॥११ ॥ अव. तस्माद्वेदान्तवाक्यातिरिक्तं सर्वमेव ममाणमनात्मनीष्ट- मेवेत्युपसंहरति- एवं प्रमाणमखिलं बहिरर्थनिष्ठं
433
Page 434
संक्षेपशारीरके द्वितीयोऽध्यायः।२। ७
वेदान्तवाक्यमपहाय यथोक्तहेतोः ॥। न प्रत्यगात्मविषयं श्रुतिरप्युवाच स्पष्टं पराश्चिवचसाऽर्थमिमं यथोक्तम् ॥ १२॥। एवममिति । श्रुतिरपीन्द्रियाणां पराग्विषयत्वमेव ब्रवी- तीत्याह। श्रुतिरपीति। पराश्चिखानीति वचसा यथोक्तमिममर्थ श्रुतिरपि स्पष्टं यथा स्यात्तथाऽडहेत्यन्वयः ॥ १२॥ अव. तामेव कठवल्लीगतां श्रुतिमुदाहरति- पराश्चि खानि व्यतृणत् स्व्रयंभू- स्तस्मात पराङ् पश्यति नान्तरात्मन् ।। कश्रिद्धीरः प्रत्यगात्मानमैक्ष- दावृत्तचक्षुरमृतत्व्मिच्छन् ॥ १३ ॥ पराश्चीति ॥ स्वयम्भू: स्रष्टा। खानीन्द्रियाणि। पराश्चि प- राग्विषयतया पराङ्मुखानि। व्यतणत् हिंसितवान्। व्यसजदिति व्तव्ये व्यतृणदिति वदन्पराङ्मुखत्वेन तेषां सटष्टिर्हिंसैव, संसा- रहेतुत्वादिति दर्शयति। यस्मादेवं तस्मात्तैरिन्द्रियैः पराडेवाना- त्मरूपविषयान्पश्यति लोको नान्तरात्मानं पश्यतीत्यर्थः । अत्रे- न्द्रियग्रहणं मनसोऽपि ग्राहकं द्रष्टव्यम् । यतः कश्चित्को Sपि म- नुष्याणां सहस्रेषु अमृतत्वं मोक्षमिच्छन्नाटृत्तचक्षुर्निगृहीतसर्वेन्द्रि- यः, चक्षुर्ग्रहणमुपलक्षणं पत्यगात्मानमैक्षत् पश्यतीत्यर्थः । तथा च प्रत्यगात्मा नेन्द्रियगोचरो Sत एवानुमानादेरप्यगोचरः। अ- त्यन्तातीन्द्रियेऽर्ये व्याप्त्याद्यसंभवादिति भावः ॥१३॥ अव. वेदान्तानामपि शब्दत्वात्तस्य भौतिकत्वादिन्द्रियैरवि- शेपादनात्मविषयत्वमेवेति चेत्तत्राह-
434
Page 435
अन्वयार्थप्रकाशिकाविभूषिते V
यत् कर्मभावमनपास्य निजप्रमेये संवित्तिसाधनतया जगति प्रसिद्धम् ।। मानं जडार्थविषयं तदिहाभ्युपेयं न प्रत्यगात्मविषयं कथिेतोपपत्तेः ॥ १४ ॥ यत्कर्मभावमिति।यत्प्रमाणं निजपमेये कर्मभावं विषय- त्वमनपास्यापरित्यज्य संवित्तिसाधनतया जगति प्रसिद्धं तन्मा- नं जडार्थविषयं व्यवहारभूमावभ्युपेयम्।नतत्कदाचिदपि प्रत्य- गात्मविषयं भवति। कथेतोपपत्तेः।व्यञ्जकस्य व्यङ्गयसजातीयत्व- नियमादित्युक्तोपपत्तेरित्यक्षरयोजना। वेदान्ता अनात्मविषयाः भौतिकत्वाच्चक्षुरादिवदिति प्रयोगे स्व्विषयप्रकाशकत्वमुपाधिरि- त्युक्तं भवति।तथा च यद्भौतिकं भवति भौतिकगोचरं तदित्य- त्र स्वविषयपरकाशकरं सन्भरौतिकमिति हेतुर्विवक्षितोऽतो वेदान्ते- घु विशेषणाभावाद्धेत्वसिद्धिश्च। वस्तुतो वेदस्य चिद्विवर्तताया वक्ष्यमाणत्वात् भूतकार्यत्वं न वेदस्यास्तीति स्वरूपतोऽपि हे- त्वसिद्धिरिति भाव:॥। १४॥ अव. ननु प्रमाणमात्रस्य संवित्फलत्वाविशेषात्सर्वमेव मानं जडविषयम् इति चेत्तत्राह। यन्तु प्रमाणमवधीर्य निजप्रमेये कर्मत्वमर्थमतबोधायतुं प्रवृत्तम्।। तत प्रत्यगात्मविषयं भवितुं क्षमेत तत्तत्त्वमादिवचनं न ततोऽन्यदस्ति ॥ १५॥ यन्तुप्रमाणमिति ॥ अक्षरार्थस्त्वतिरोहितः। मानानां संवि- त्फलमात्रं न जडविषयत्वे प्रयोजकं, किन्तु स्वाधेयसंवित्फल-
435
Page 436
संक्षेपशारीरके द्वितीयोऽध्यायः।२।
त्वमिति भावं सूचयति। निजपमेयेकर्मत्वमिति। तेन न संविज्ज- नकत्वप्रयुक्तं मानत्वं सर्वत्रापि, किन्त्वविद्यानिवृत्तिमात्रफल- त्वमेव मानत्वम्। जडेष्वपि संविदाधानस्याविद्यानिष्टत्यर्थत्वाङ्गी- कारादिति भावः। तर्हि प्रत्यक्षादिरप्यविषयतया पत्यगात्मानं बोधयिष्यति, किमिति तेपामनात्मविपयत्वं नियम्यते ? इति त- त्राह।तत्तत्वमादीति। "न चक्षुपा गृह्यते नापि वाचा नान्यैर्देवैस्तप- साकर्मणावा"नावेदविन्मनुने तं बृहन्तम्" इत्यादा वेदेतरमाना- नां प्रत्यगात्मविषयत्वनिषेधश्रवणादात्मन औपनिपदत्वविशेषण- श्रवणाच्चोपनिपदेकगम्यत्वमेव, न मानान्तरगम्यत्वमपीत्यर्थः।।१५।। अव. यद्यप्येवमुक्तरीत्या मत्यक्षादेर्नात्मविषयतेति सिद्धम्, तथाप्य- ज्ञातमर्थमववोधयदेव मानमित्यत्र प्रत्यगात्मन एवाज्ञातत्वम्, त- द्विपये वेदान्तानामेव तत्वावेदनलक्षणं प्रामाण्यम्, प्रत्यक्षादि- विपयस्य नाज्ञातत्वमिति तद्विपयं सर्वमेव प्रमाणं न तत्वावेद- कम्, किन्तु व्यावहारिकमेव तत्पामाण्यमिर्ति यदुक्तं, तत्र प्रत्यक्षा- दिविषयस्यानात्मनोऽज्ञातत्वाभावः कुतः ? इति वक्तव्यमिति चे- त् तत्राज्ञातत्वावगमे हेत्वभावादित्याह- नाज्ञाततावगतिरस्ति जडेषु पूर्व मेयेषु तत्स्फुरणकारणवर्जितत्वात् ।। मानोदयान्न हि पुरा किमपीह मानं नापि प्रमेयबलतो जडता हि तस्य ॥ १६ ॥। नाज्ञासतेति॥ अयमर्थः । जडेष्वज्ञातता मानादवगम्यते स्व- प्रकाशतया वा। आद्येऽपि जडावगमप्माणपट्ृत्ते: पागेवावगम्यते पश्चाद्ा।तत्र नाद इत्याह। नाज्ञाततेत्याद्येन पादेन। जडेषु मेये- ष्विति सम्बन्धः।कुतः? इत्याह। तत्स्फुरगकारणवर्जितत्वादिति। २
436
Page 437
१० अन्वयार्थप्रकाशिकाविभूषिते
उक्तमेव हेतुमुपपादयति। मानोदयादिति। मानोदयात्पुरा इह वि- षयस्याज्ञातत्वे न हि किमपि मानमस्ति, अतो मानोदयात्पूर्व न मानेनाज्ञाततासिद्धिरित्यर्थः। न द्वितीयः, मानोदयात्पश्चाद्विपये Sज्ञातताया निषृत्तत्वान्न मानावगम्यतेति द्रष्टव्यम् । मानविरो- घिनः अज्ञातत्वस्य न मानगम्यतेति भावः । स्व्रप्रकाशत्व- कल्पं मत्याह। नापिप्रमेयबलतइति । तस्य प्रमेयस्य जडता हि पसिद्धा। अतो नास्यात्मवत्स्वविषयाज्ञानसाधकतया स्फुरणम- पि इति जडेषु नाज्ञातताऽस्तीत्यर्थः ॥ १६ ॥ अव. ननु जडेष्वज्ञातत्वानुभवादेव तत्साधनसामर्थ्य कल्प्य- मिति चेत् न, असम्भवादित्याह- नाज्ञातताघगतये स्वयमेव बाह्यं मेयं समर्थमत्रबोधविलक्षणत्वात्॥ नापि प्रमाणमत्रबोधकमरि्ति किश्चिन मानोदयात् पुर इति स्फुटमभ्युपेयम् ॥ १७॥ नाज्ञाततेति। अववोधविलक्षणत्वादिति ज्ञानरूपत्वा- भावादित्यर्थः । स्पष्टमन्यत् । पूर्वोक्तस्यैवायं प्रपश्नः । जडेष्व- ज्ञातत्वानुभवस्तद्विपयपमाणानुदयाद्वा तदवच्छिन्नचिदावरणाद्वा सम्भवतीति भावः ॥ १७॥ अव. ननु मा भून्मानपट्टत्ते: माकू जडेष्वज्ञाततासिद्धिः, माच भूत्पत्यक्षेण तत्सिद्धिः, तथापि मानमटृतत्यन्यथाऽनुपपत्या भागज्ञातत्वं कल्प्यते इति चेत् तत्राह- नाज्ञाततामनवगम्य पुरा प्रवेशात मानस्य किंचिदपि मानबलेन बोद्धुम् ॥
437
Page 438
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १२
शक्कोति कश्विदपि मानबलेन बुद्धं किंवा स्वभाव इति निश्चयहत्वभावात् ॥ १८॥ नाज्ञाततेति । मानस्य प्रवेशात्पुराऽज्ञाततामनवगम्य"अ- वगन्तव्यो मयाऽयमर्थ" इति वुशुत्सया मानवलेन मानं प्रवर्त्य तद्वलेन विषयेऽज्ञाततां वोद्धुं कश्विदपि किश्चिदीपन्मात्रमपि वा बोद्धुं न शक्रोतीति योजना । तथाच मानपट्टत्तेः पागेवाज्ञात- त्वावगमापेक्षणान्न मानोदयोत्तरकालं तत्कल्पना सम्भवतीत्य- र्थः। तर्हि ुभुत्सया मानप्रव्ृत्तिर्मा भूदैवगत्या प्रट्ृत्तेनैव मानेनार्थ जानीयात्, तदन्यथाऽनुपपत्या च पागज्ञातत्वमवगच्छतीति चेत्, नैवमपि सम्भवतीत्याह। मानवलेनबुद्धमिति। ज्ञेयस्य वस्तुनः प्रागज्ञातत्वासिद्धो बुद्धमपि तत् मानवलेन वा बुद्धं किंवा स्वभा- वत एवेति निश्चयो न स्यात्, हेत्वभावादित्यर्थः । वस्तुसिद्धेरा- गन्तुकत्वानिश्चयात्तदनिश्रये च पागज्ञातत्वकल्पनाSयोगादिति भावः ॥ १८ ।। अव. ननु मा भून्मानावबुद्धत्वनिश्चयः,-बुद्धत्वमात्रं तावत्म- त्यक्षमस्ति, तेन प्ागबुद्धत्वं कल्प्यतामिति चेत्, नैवमित्यत्र दष्टा- न्तमाह- प्रक्षालनेन धवलं किमिदं बभूव किंवा पुराऽपि धवलं स्वयमेव वस्त्रम् । इत्येवमेव न विवेक्तुमलं कदाचिद् यो दष्टवान्न मलिनं वसनं पुरस्तात् ॥ १९ ॥ प्रक्षालनेनेति ॥यः प्रथममेव धवलवस्त्रदर्शी ततः पुरस्ता- त्पूर्व कदाचिदपि मलिनं तद्वसनं न दृष्टवान् स एष इदं वस्त्रं प्र- क्षालनेन किं धवलमासीतिंक पुराऽपि पूर्वमपि स्वयमेव धवलमि-
438
Page 439
१२ अन्वयार्थप्रकाशिकाविभूषिते
त्येवं विवेक्तुं नालं न समर्थो यथेत्यर्थः ।। १०।। अव. दार्ष्टान्तिकमाह- एवं पुराऽनधिगतं यदि नानुभूतं मानेन. बोधितमिदं प्रतिभाति मेयम् ॥ न स्त्रप्रकाशमिति शक्यमिदं विवेक्तुं केनापि नैत तदवस्थतयैव दष्टेः ॥२० ॥ एवंपुरेति ॥ अनधिगतमनधिगतत्वम्। पुरा मानप्टृटत्तेर्यदि नानुभूतं तर्हि इदं मेयं मानेनागन्तुकेन बोधितं सत्पतिभाति, न स्वप्काशमिदमिति विवेक्तुं केनापि नैवशक्यम्। यतस्तदवस्थत- यैव पकाशमानावस्थत्वेनैव मेयस्य दष्टेरिति योजना। प्रकाश-
स्येति पुरुपो मन्यते, न मानकृतमित्यभिपायः ॥ २० ॥ अव. तस्मादनरिमनोऽज्ञातत्वासम्भवात्तद्विपयस्य मानस्य न तत्वावेदकत्वमस्ति, अज्ञातार्थाधिगन्तत्वाभावादित्युपसंहरति- अज्ञातमर्थमवबोधयितुं न शक्त- मेवं प्रमाणमखिलं जड़वस्तुनिष्ठम ।। किं त्वप्रबुद्दपुरुषं व्यवहारकाले संश्रित्य संजनयति व्यवहारमात्रम ॥ २१॥ अज्ञातमिति॥ तर्हि भ्रान्तिज्ञानवन्रवहारविसंवादोऽपिस्या- दिति चेत्, नेत्याह। किं त्विति।व्यवहारकाले अपबुद्धपुरुषम् अज्ञा- नदोपदुष्ट नरमाश्रित्य तदपबुद्धवस्तुपदर्शनव्यवहारमात्रं संजनय- तिः अतो व्यवहारकाल एव रजतादिविषय भ्रान्तिज्ञानवद्विसंवादा- भावात्प्रत्यक्षादिषु प्माणत्वव्यवहारो न विरुद्ध्यते इत्यर्थः॥।२१॥
439
Page 440
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १३
अघ. ननु यदि जाग्रदवस्थाज्ञानस्य तच्वानावेदकत्वं, तर्हि सम्यग्ज्ञातस्याभावात् भ्रान्त्यादिविभागासिद्धिमसङ्ग इति चेत्, मैवं, मिथ्यात्वेऽप्यवान्तर भेदाव्जवस्थोपपत्तेरिति स्वपदृष्टान्तेनाह- आबोधतः सकलमेव हि सत्यमिथ्या- भ्रान्तिप्रमाणविनिवर्त्निवर्तकत्वम् ॥ स्वप्नेवि दष्टमिदमेवमिहापि जाग्र- त्काले भवत्वखिलमापरमात्मबोधात् ॥ २२ ।। आबोधत इति ॥ आबोधतः प्रवोधपर्यन्तम्। यथा रवमे- Sपि सर्वेपां भ्रान्तित्वाभिमते 5पि सत्यमिथ्यादि सकलमेव हीदं व्यवस्थितं दृष्टम्, एवमिहापीति। दार्प्टान्तिकभागः स्पष्टार्थः॥२२।। अव. आबोधत इति पूर्वपद्योक्तमेव विशदयन् पाखण्डिनां शास्त्रमपमाणं वेदशास्त्रं तु प्रमाणमिति कर्थ मिद्ध्येत्सर्व स्वप्रवज्जा- गरितस्यापि भ्रान्तत्वे, इति शङ्गां स्वप्नटष्टान्तेनैव निराकरोति- स्त्रप्ने तप्तशिलाधिरोहणगता निःश्रेयसोपायता मिथ्या ब्राह्मणतर्षणादिनिलया सत्यातथा लौकिकी ॥ स्रक् सत्या तदहिमषव विदितो निद्रानिवृत्तौ पुनः स्वप्ने दृष्टमशेषमेव वितथं ग्राह्यं तथा जागरे ॥२३॥ स्वन् इति ॥ शास्त्रीयो लौकिकश्च व्यवहारः सत्यमिथ्या- व्यवस्थया स्वमे Sपि विदितो यावन्निद्रादोषानुद्टत्तिरिति सं- पिण्डार्थः । निद्रादोपविनिटृटत्तौ पुनः रवने दृष्टमशेषमेव व्यव- स्थयोपलब्धं वितरथं मिथ्यैवेति यथा, तथा जागरेऽपि यावद- विद्यमेव व्यवहारव्यवस्था, निषृत्तायामविद्यार्यां सर्वोऽपि व्य- वहारः शास्त्रीयो लौकिकश्च मृषेति ग्राह्यमित्यवशिष्टभागार्थ।।२३।।
440
Page 441
१४
अव. ग्राह्यं तथा जागरे इत्युक्तं दार्ष्टान्तिकं पपञ्चयति श्रेयःसाधनताऽग्निहोतनिलया सत्येति संगृह्यते मिथ्या तप्तशिलाधिरोहणगता शिष्टैः परित्यज्यते॥ रज्जुः सत्यतया स्थितैत तदहिर्मिथ्यैव तावद भवेद् यावन्मूलतमोविदारणपटुर्विद्योदयो नागमत् ॥ २४ ॥। श्रय:साधनतेति। यावन्मूलतम इति। सर्वसंसारव्यवहारमू- लाविद्यानिवारणपटुर्विद्योदयो यावत् तत्त्रमस्यादिमहावाक्यरू- पादागमान्न भवेत्तावत्पूर्वोक्तं सर्व भवेत्, तस्मिस्तु सति तत्सर्व- मपि न भवेत् । अतो वितथमेव सर्वमनात्मजातमित्यर्थः ॥२४।। अव. ननु यदि सर्वे ग्राह्यं वितथमेवेत्यभिमतं भवतां, तर्हि कथं वेदशास्त्रपामाण्यं बुद्धशास्त्रापामाण्यं च यथाप्रसिद्धमुपपद्यते व्यवहार इत्युक्तं सङ्गतं स्यात्, साक्षाद्विज्ञानवाद्यादिमतस्यैवाभि धानादिति कश्विच्चोदयति- ननु शार्क्यभिक्षुसमयेन समः प्रतिभात्ययं च भगवत्समयः । यदि बाह्यवस्तु वितथ नु कथं समयात्रिमौ न सदृशौ भवतः ॥ २५॥ नन्विति ॥ शाक्यभिक्षुर्वौद्धः। मुनिसाम्यमेवाभिनीय दर्श- यति। यदिबाह्येति ॥ २५॥ अव. बाह्यवैतथ्यमात्रेण कथ मतसाम्यं वैषम्यस्यापि कथ- श्वित्संभवात्१ इति चेत् मैवं, विशेषादर्शनादित्याह- यदि बोध एव परमार्थवपु-
441
Page 442
संक्षेपशारीरके द्वितीयोऽध्यायः।२।
ने तु बोध्यमित्यभिमतं भवति ॥ ननु चाश्रितं भवति बुद्धमुने- मतमेव कृत्स्नमिह मस्करिभिः ॥२६॥ यदिबोध इति॥ बोधो ज्ञानमात्रं परमार्थस्वरूपं नतु बोध्यं परमार्थसदिति भवतामप्यभिमतं भवति तदा ननु निश्चितं म- स्करिभिर्वेणवदण्डधारिभिरवेदिकसंन्यासिमिरपि बुद्धमुनेर्विज्ञान- वादिनो मतमेव कृत्स्नमिहाशश्रितं भवति। तेनापि तथैवाङ्गीकारा- दिति योजना ॥ २६ ॥ अव. न हि साम्यमनयोर्मतवैपम्यस्य स्फुटत्वादिति परिहरति- ननु मानृमानविषयावगती- रपरस्परं प्रति विभागवतीः ॥। उपयन् भदन्तमुनिना सददशः कथमेष वैदिकमुनिर्भवति ॥२७॥ नन्विति ॥ मातृमानविषयावगतीश्चेत्येवं चतुर्विधं व्यव- हारकाले मिथो विभक्ततया Sसंकीर्णमित्युपयन्नङ्गीकुर्वन्नेष वैदि- कमुनिर्भदन्तमुनिना बुद्धाचार्येण कथं सदशो भवति?न कथम- पीत्यर्थः। विज्ञानमेवैकं ज्ञेयाकारं, तच्च क्षणिकमिति विज्ञानवादि- नो मतम्। मात्रादिचतुष्टयं परस्परविभक्तं नित्यचैतन्यात्मन्यवि- द्ययाऽध्यस्तमनिर्वचनीयं, तच्च यावव्यवद्दारं स्थिरमिति वैदिकमु- निमतम् । तदेव वैषम्यमनयोरिति भावः ॥ २७॥ अव. ननु त्वन्मतेऽपि दृश्यस्य मिथ्यात्वे तस्यासत्वमेव स्या- न्न सत्वं, ततः कुतश्चातुर्विध्यं स्थिरत्वं वेत्याशक्क, उक्तमेव वैषम्यं स्फुटयति --
442
Page 443
१६ अन्वयार्थप्रकाशिकाविभूषिते
परमात्मसंश्रयतमोजनितं प्रविभक्तमेव तु परस्परतः ॥ स्थिरमभ्युपेतमिह नः समये ननु मातृमानवषयप्रभृति ॥ २८॥ परमात्मसंश्रयतम इति॥ मातृमानविषयपभृति इत्यस्य विशेषणानि परमात्मसंश्रयेत्यादीनि। तत्राद्येन विशेषणेन प्र- मात्रादेर्ज्ञानात्मत्वनिरासः । द्वितीयेनैकस्यैव ग्राह्यग्राहकाकारते- त्यस्य निरासः । तृतीयेन क्षणिकत्वनिरास इति लेशतो ऽपि नास्मन्मतस्य वौद्धमतसाम्यमित्यर्थः ॥२८॥ अव. बाह्मस्य मिथ्यात्वाभ्युपगमेऽप्यसद्रादानभ्युपगमान्न वौ- द्धमतसाम्यमस्मन्मतस्येति प्रतिपाद्यान्यमपि बौद्धमताद्विशेपमाह- तमसा विनिर्मितमिदं सकलं चतुरः स् पश्यति परः पुरुषः ॥ अविकारिबोधवपुरद्वयकः करणैर्विना सकलसाक्षितया ॥ २९ ॥ तमसेति॥ किमिदं तमसा विनिर्मितं सकलमिति जि- ज्ञासायां साक्षिदृश्यं सर्वमित्याह। चतुर इति। पदार्थान्मात्रादी- न्परस्तेभ्यो भिन्नः पुरुपः स आत्मा प्रपश्यति। यानेप पश्यतीदं सकलं तमसा विनिर्मितमिति योजना। तस्य मते प्रमात्रादेर्न चि- तिष्ठाज्ञानजत्वं, न च स्वात्यन्तभिन्नदृश्यत्वमिति ततो विशेष इ- त्यर्थः। पुरुषस्य दृश्यदर्शनपकारविशेषं वैपम्यान्तरमाह। अविका- रीति। विकारो जन्मादि: तत्संवन्धरहितो Sविकारी चासौ बो- धवपुश्र। अखण्डनित्यज्ञानस्वरूप इत्यर्थः। तस्य विज्ञानं क्षणिकम्,
443
Page 444
संक्षेपशारीरके द्वितीयोऽभ्यायः।२। १७
अस्माकं तु चिदात्मा कूटस्थनित्य इति वैषम्यमुक्तं भवति । त- स्यानेकानि व्ञानानि अस्मन्नये पुरुषो ऽदयकः सर्वत्र सर्वदा चैक एवेति च वैषम्यम्। करणैर्विना प्रपश्यतीति संबन्ध:।अनेनाविका- रियोधरूपत्वं समर्थितम्। करणजन्यो हि बोधो विकारी, अयं न तथा इत्यविकारीत्यर्थः। कथं तहि पपश्यतीति कर्तवचनेन निर्दे- शः? इति तत्राह। सकलसाक्षितयेति।पदीपसवित्रादिवत्साभिध्य- मात्रेणेत्यर्थः।सर्वथाऽपि दश्यस्य हशो भेदविकक्षणत्वस्थिरत्वा- विद्यानिर्मितत्वानात्मत्वाभ्युपगमात् हशश्र कूटस्थनित्यत्वैक- त्वाभ्युपगमात् अस्मन्मतं शाक्यमतादत्यन्तं विळक्षणं सिद्धमिति भाव:॥। २९ ।। अव. कथं त्वन्मतेऽप्यसंगो जद्यो ऽविकारिबोधरूप: पश्यतीत्युपपद्यते इति चेत्, मायावश्यात्सर्वमस्माकमुपपत्नमेवेति साक्षित्वमुक्तं विशदयति- निजमायया परिगतः पुरुष: परतन्त्रया तु निजया प्रभया ।। परिकल्पितं सकलमाकलयन स हि साक्षितामुपगतो भवति ॥ ३० ॥ निजमाधयेति॥स हि पुरुषो निजमायया परिगत: स- न्साक्षितामुपगतो भवतीत्यन्वयः । स्वाश्रया स्वविषया स्वमाया निजमाया तया परिगतः स्वचिदाभासव्याप्त्या तादात्म्याध्या- समापन्नः स्वाध्यस्तां मायामवभासयन्साक्षितामुपगत इत्यर्थः । तहि कथं विश्वसाक्षित्वं तस्य तत्संबन्धाभावात् ? इत्यत आह। परतन्त्रयेति। तुशब्दश्चार्थः। परतन्त्रया स्वाश्रयमायोपधिगतया निजया प्भया स्वचैतन्याभासेन, साभासया मायया मायाऽनुगत ३
444
Page 445
१८ अन्वयार्थप्रकाशिकाविभूषिते
चैतन्येन चइति यावत्। परिकल्पितं सकळमाकलयन्नवभासयन् स्वचैतन्यावभाप्तखवचितं कुर्वननिति यावत्। अथवा निजमायया स्त्रासाधारणशत्तया परतन्त्रया जडया पवृत्यादौ चैतन्यसापेक्ष- येति यावत्। परिकल्पितं सकलं निजया पभया स्वचैतन्येना- कलयन् व्याप्तुवन् परिगतो व्यापक: साक्षितामुपगतो भवतीति योजना ॥ ३० ॥ अव. एवं हसः कूटस्थसाक्षित्वमुपपाद स्थिरमभ्युपेतमि- त्यत्रोक्तं दृश्यस्याक्षणिकळक्षणं स्थिरत्वं साधयति- ग्राह्मग्राहकयोः स्थिरत्व्रगमनी तत्प्रत्यभिज्ञा प्रमा नोपापत्स्यत चेदसेत्स्यदपि नौ सिद्धान्तयोस्तुल्यता।। सा निर्वक्ष्यति सिध्यतीति नयतः स्थैर्य स्वरूपात्मकं चैतन्यस्य च भङ्गुरत्वमित्र मे सर्वस्य ते दर्शने॥३१॥ ग्राह्यग्राहकयोरिति। यद्च्यते बौद्धैः सौत्रान्तिकादिभिः ग्राह्यस्य विषयस्य ग्राहकस्यात्मचैतन्यस्य च क्षणकतेति तत् तदा निश्चितं भवेत् यदि तयोः स्थैर्यग्राहकं प्रत्यभिज्ञारूयं क्षणिकत्वा- नुमानवाधकं न संसिद्धेदित्येतदाह। ग्राह्यग्राहकयोर्विषयविष- यिणोः स्थिरत्वगमनी एतयोः प्रत्यभिज्ञा नाम प्रमा चेन्नोपाप- त्स्यत नोपपन्नाऽभविष्यत्, तर्हिनौ आवयोः सिद्धान्तयोस्तुल्यता असेत्स्यदपि सिद्धिमगमिष्यदिति सम्भाव्येत।सा पत्यभिज्ञापमा ग्राह्यग्राहकयोः स्थैर्य सिद्ध्यतीति निर्वक्ष्यति निर्वाहं करिष्यति। कुतः?नयतो नीतितः।यथा प्रत्यभिज्ञापत्यक्षे दोषाजन्यत्वबाधाभा- वाभ्यां न्यायाभ्यां स्वार्थाव्यभिचारित्वम्, एवमस्या अपिन्याय- योगात्स्वार्थसाधकत्वं सम्भवतीत्यर्थः । न चानयोः स्थैर्य नाम धर्मो मयाऽभ्युपेयते येन चैतन्यस्य धर्मयोगादेकरसत्वहानिशङ्गा
445
Page 446
संक्षेपशारीरके द्विर्नीयोऽध्यायः।२। १९.
ग्राहकात्मन इत्याह । स्थैर्यमिति। चैतन्यस्य चकाराद्वाह्यस्य च स्थैर्य मे मते स्वरूपात्मकमेव न धर्मः, ते दर्शने सर्वस्य भङ्गुरत्वं क्षणिकत्वभिवरेति योजना। ते तव विज्ञानक्षणिकत्वयोर्धर्मधर्मि- त्वाभ्युपगमे स्वलक्षणत्वमभिमतं हीयेतेति भावः। ग्राहकस्य सर्व- विकारसाक्षित्वोपपादनेन पूर्वपद्े एव स्थैर्य साधितमपि अत्र प- त्यभभिज्ञासामर्थ्यस्योभयतुल्यत्वादभ्युच्चयार्थ ग्राहकस्य ग्रहणं कृतम्, स्वरूपात्मत्वकथनं तु प्रत्यभिज्ञायाः स्वरूपविषयत्वाञ्ज्वा- लापत्यभिज्ञानवद् भ्रान्तित्वशङ्गाव्याटृतत्यर्थमिति च द्रष्टव्यम्॥।३१॥ अव. एवं बौद्धमतसाम्ये परिहतेऽपि यदुक्तं जागरस्य स्व्- परसाम्यं तत् जाग्रत्स्व्प्योर्वैलक्षण्यस्य सर्वसंपतिपत्नत्वादयुक्तम् इत्याशङ्कते- ननु कल्पितं सदपि जागरितं वद कीदशी खलु बिलक्षणता स्वपनादमुष्य भवतोऽभिमता परिकल्पितत्वमुभयोस्तु समम ॥ ३२॥ नन्विति ॥ सदपि सत्यत्वेन प्रसिद्धमपि जागरितं क- ल्पितं चेत्तदा वद कीदृशीति योज्यम्। सुगममन्यत् ॥ ३२ ॥। अव. मिथ्यात्वांशे वैळक्षण्याभावेऽपि अस्ति वैषम्यान्तर- मिति परिहरति- न प्रमातरि सति प्रबाध्यते जागरः स्वपनदृष्टवस्तुवत् ॥ मातृमानविषयोपलब्धिभिः साकमेव तमसो निराकृतेः ॥३३॥
446
Page 447
२० अन्वयार्थप्रकाशिकाविभूषिते
न प्रमातरीति ॥ जागत्स्वप्रयोः ममाता ग्रेकः प्रसिद्धः प्त्यभिज्ञानात्।तत्र सवपने स्वमे हष्टं वस्तु यथा प्रमातरि स्वम्नो- पळब्धरि सत्येव प्रबाध्यते मिथ्येति निश्चीयते, प्रतिपन्नोपाधौ निषिद्मानत्वाद।तथा जागरः पमातरि सति न पबाध्यते। य- तः संसारमूळतमोनिवृत्तिव्यतिरकेण न जाग्रद्भ्रमो निवर्तते।त- श्वमस्यादिमहावाक्यजनितज्ञानेन मावमानविषयोपलब्धिभि: स- इ तमसो निराकते:वाधनात्। तस्मात्ममात्राद्यभावे च व्यवहारा- भावात् न व्यवहारसमये आगरितस्य मिथ्यात्वपतीत्यवसर इति अनयोर्विशेष इत्यर्थ: । ३३ ॥ अव. ननूभयोरपि बाध्यत्वाविशेषान्मिथ्यात्वं चेत्समं तर्हि किनिमित्तो डयं विशेष: १ इति चेत्, तत्राह- देशकालपुरुषैरवस्थया जागरस्य ख़ललु कारणं तमः ॥ साकमेव सहसा निरस्यते वेदवाक्यजनितात्मसंविदा ॥ ३४ ॥ देशकालपुरुषैरिति । अथवा जागरितस्य प्रमा- तरि सत्येव बाधाभावात्पतिपश्रोपाधी बाध्यत्वळक्षणं मिथ्यात्वं तस्य न सिखेदित्याशख्काहदेशकालेति।यद्ा पमात्रादिभि: स- ह तत्कारणतमोनिराकरणाच्च जागरः पमात्रादिषु सत्सु न प- वाध्यत इति उक्तमेव सहेतुकमुपपादयति। देशकालेति।अस्यार्थः। मूलाज्ञानं हि जाग्रत्पमात्रादे: कारणं तत्न शुक्ती रजतवद्देशका- लव्यवस्थापमात्रादिपु सत्स्वेव जाग्रदृदृटश्यमुन्भावयति, अज्ञानवि- क्षेपात्पाग्देशादिविभागासिद्धेः। कि तु देशादिभि: सहैव चिन्मा- त्राश्रयविपयाज्ञानेन जाग्रदृदृश्यमभ्भाव्यते। तथाच तादृगज्ानबा-
447
Page 448
संक्षेपशारीरके द्वितीयोऽध्यायः ।२। २१
धनेनैव तत्कार्यजाग्रद्वाधो वक्तव्यः, सच वेदान्तवाक्यजनिता- त्मतत्वज्ञानैकसाध्य इति। एषाऽक्षरयोजना। जागरस्य कारणं त- मःअज्ञानं वेदवाक्यजनितात्मसंविदा निरस्यते प्मात्रादिभिः अ- वस्थया जाग्रदादिकक्षणया च साकमेव सहैव जाताऽपि सहसा स्वोत्पत्तिमात्रेण निरस्यते बाध्यत इति। एवं सति उभयोर्बाध्यत्वेन मिथ्यात्वे समाने ऽपि सत्सु देशादिषु बाध्यत्वं सहैव देशादिभि- र्बाध्यत्वमिति च स्वमजागरितयोर्विशेष: सिद्धः।तथा चैतन्यस्यै- वाज्चातस्य जाग्रद्भ्रमाधिष्ठानत्वात् तस्मिन्सत्येव तद्ज्ञानेन सह जाग्रद्वाघात् प्रतिपत्रोपाधौ बाध्यत्वमपि अत्राविरुद्धमेव इति मिथ्यात्वं नानुपपन्नम्। तथा सत्यु पमात्रादिष्वस्यारोपाभा- वात् सत्सु तेषु न बाध्यते, किंतु तैः सहैवारोपात्सहैव तैर्बाध्यते। रजतस्वप्रादौ तद्विपर्ययात्तद्विपर्यय इति सर्वमवदातम् ॥ ३४ ॥ भब. ननु देशादिषु सत्स्वेव स्वम्न आरोप्यते, जागरस्तु तैः सह इत्यत्र किं ममाणम् १ इति चेत् बाधीनुभव एवेत्याह- स्त्रप्नदृष्टमिह रज्जुसर्पतद् देशकालपुरुषेषु बाध्यते।। जागरः पुनरयं तथाविधं बाधकं न लभतेऽसमीक्षणात् ॥ ३५ ॥ स्वपटष्टमिति॥ स्वपदष्टं हि देशादौ सत्येव बाधितम- नुभूयते। तेन तत् तस्मिन्सत्येव कल्पितं रज्जुसर्पवदिति गम्यते। जागरस्य बाघस्तथा नानुभूयत इति देशकालादिभि: सहैवाज्ञा- नेन कल्पित इति गम्यत इत्यर्थः । अक्षरयोजना सुगमा ॥३५॥ अव. तस्मान्मिथ्यात्वाविशेषेऽपि उक्ताद्विशेषाज्जागरितस्य सत्यत्वं, स्वपस्य च मिथ्यात्वमिति लोको मन्यते यावद्ब्रम्मा-
448
Page 449
२२ अन्वयार्थप्रकाशिकाविभूषिते त्मदर्शनं, तेन बाधितं तु प्रबुद्धस्य स्वप्न इव सर्वात्मना निवर्तते इत्युपसंहरति- तेन सत्यमिह जागरं विदु: स्वप्नविभ्रमविरुद्धधर्मकम् ॥ आपरात्मपरमार्थदर्शनात् तेन बाधितवपुर्न सत् क्चित् ॥ ३६ ॥ तेन सत्यमिति ॥ स्पष्टाऽक्षरयोजना ॥ ३६॥ अव. तेन बाधितवपुर्न सत्कचिदिति कुतः ? स्वमादि हि वाधितमपि काळान्तरे भवत् दश्यते, तद्वत् आत्मतत्वज्ञानबा- धितमपि कालान्तरे भविष्यतीति सम्भाव्यते इति चेत्, तत्राह -- तत्न सत्यमनृतं च भेदतः प्रत्यगात्मतमसा विकल्पितम् ॥। प्रक्षिणोति परमात्मवस्तुगा बुद्धिवृत्तिरविचालिनी सती ॥ ३७॥
तत्र सत्यमिति ॥ तत्र सचिदूपे डधिष्ठाने प्त्यगात्मतम- सा चिन्मात्राश्रयविषयाज्ञानेन सत्यं जागरितम् अनृतं च स्वमादि इति भेदतो विभागेन यल्लोके विकल्पितं तत्सर्व सविभागं परमा- त्मवस्तुगा बुद्धिष्ृत्ति: अविचालिनी सती अन्यदपतीक्षमाणव सती प्रक्षिणोति नाशयतीति योजना। एतदुक्तं भवति। व्यवहारदशा- यां प्बोधसमये स्वप्रो बाध्यमानो पि न मूलेन सह बाध्यते, यतो निद्रादिद्वारेण पत्यगात्मतमसः र्वप्नहेतुता न स्वरूपेण, अतो निद्राकारितमोनिवृत्तावपि मूलभूतस्य सर्वावस्थाविक्षेपहेतुतमसो
449
Page 450
संक्षेपशारीरके द्वितीयोऽध्यायः।२। २३
Sनिटत्तत्वाद्वाधितस्यापि स्वप्नादे: पुनः पुनः सम्भवो युक्त:, निद्रादिहेतोर्मूलतमसो विद्यमानत्वात्। न एवमिह, मूलाज्ञानेन सहैव तत्कल्पनानिरासात् । पुनरुद्ववे हेत्वभावात्न पुनस्तस्य भवनसंभावनेति ॥ ३७॥ भव. ननु ुद्धिवृत्ति: कथम् अविर्द्या तत्कार्य च निवर्तयेत् तस्या अपि अविद्याकार्यतया, आविद्यकत्वे सति विरोधाभा- वात् ? इति चेत्, तत्राह- नित्यबोधपरिपीडितं जग. द्विभ्रमं नुदति वाक्यजा मतिः ॥। वासुदेवनिहतं धनअयो हन्ति कौरवकुलं यथा पुनः ॥ ३८॥ नित्येति।।नित्यबोधेन कूटस्थचैतन्येन परिपीडितम् उत्पत्तित एवाभिभूतं जगद्विभ्रमं वाक्यजाता मतिर्नुदति नाशयति। एतदु- क्तं भवति। जाग्रद्वित्रमो हिजायमानो Sधिष्ठानसत्तास्फुरणभ्यां व्याप्त एव जायते, तत्राधिष्ठानस्फुरणव्याप्तत्वेऽपि तेन तस्य न बाधः, अनादिकालमारभ्य तेन सत्वाद्विरोधाभावात् । वस्तुग- त्या तु स्व्ाधिष्ठानचैतन्यग्रस्तत्वान्नित्यबोधपरिपीडितं भवति जगत्, वाक्यजा तु मतिरन्त:करणवृत्तिरूपा स्वयमविद्यात्मिका डपि समूळं जगद्विभ्रमं विरोधिव्रह्माकारग्राहितिया तप्तायोगोळ- कवत्स्वभावमापन्नाऽत एवाभिभूतजाज्या देदीप्यमानाऽऽगन्तुकी प्रमाणभूतत्वान्नुदति।तत्र दष्टान्तमतुकूळम् उदाहरति। वासुदेवेति। यथा पुनः काळात्मना वासुदेवेन पूर्वमेव निहतं कौरवकुळं धन- अयोर्ऽर्जुनस्तत्कुलोत्पन्न एव सब् तमेव वासुदेवमाभित्य तेनोत्ते- जितः सन् हन्तिस्मेति योजना ॥ ३८ ॥
450
Page 451
२४ अन्वयार्थप्रकाशिकाविभूषिते अव. एवं सर्वस्यापि द्वैतस्य मिथ्यात्वाविशेषेऽप्यनाद्यनिर्व चनीयाविद्यातदवस्थाविळसिततया सदसत्स्वभावत्वेनावान्तर- भेदसंभवादस्मन्मते लोकसिद्धसत्यानृतविभाग उपपद्यते।तत्वज्ञा नेन चाविद्यात्मकेनापि वस्तुसमाश्रयबलात्सर्वद्वैतनिवृत्िरप्युपप- द्यत इति स्वमतम् उपपाध, द्वैतसत्यत्ववादिमते तु सत्यानृत- विभागासम्भवमाह स्वमतपरिशुद्धये- सत्यमेवमनृतं च दुर्लभं ब्रह्मवादिसमयाद बहिः पुनः ॥ सत्यतो यदि मृषा पृथग् भवेत सत्यमेव तदृपि प्रसज्यते ॥ ३९ ॥ सत्यमेवेति॥कथं दुर्ळभम्? इति चेत्, इदं तावदिह वक्त- व्यम्। सत्यान्मृषा वस्तु भिद्यते न वा अथवा भेदाभेदाविति। तत्राध्यमनूद्य दोषमाह। सत्यत इति। तुच्छत्वे पृथकृत्वधर्माना- श्रयत्वात् मृषा वस्तुनो ऽपि सत्यात्पृथत्कधर्मयोगश्चेत् अतुच्छ- त्वरूपं सत्यत्वं प्रसज्यते। सदसद्विळक्षणस्यानिर्वाच्यपकारस्या- नश्गीकारादित्यर्थः ॥ ३९॥ अध. द्वितीयमनूद्य दूषयति- सत्यतो यदि मृषा न भिद्यते सत्यमेव सुतरां तदिष्यताम।। न द्वयात्मकतयाऽनृतं मतं पक्षयोः कथितद्षणद्दयात ॥ ४० ॥ सत्येति॥ सुतरामिति। अस्मिन्पक्षे मृषावस्तुनः सत्यता दात्म्यादित्यर्थः। तृतीयमपि उक्तदूषणद्वयेनैव दूषितमित्याह। न
451
Page 452
संक्षेपशारीरके द्वितीयोऽध्यायः।२। २५
कथितदूषणद्वयात् प्त्येकम् उक्तदूपणद्वयस्य समुच्चयेऽपि अंशत एकैकस्य सम्भवादित्यर्थः । विरोधादयं पक्षो ऽपि न सम्भ- वतीति द्रष्टव्यम्॥ ४० ॥ अव, न केवलमेवं लोकव्यवहारासिद्धिरेव दोष:, किं तर्हि स्त्रपक्षसमर्थनं परपक्षदूषणं च परेषां न सम्भवति, सत्यानृतवि- भागासिद्धेरेव इत्याह- वेदवाक्यविषयस्य सत्यता बुद्धवाक्यविषयो मृषा भवेत ॥ इत्यतः कथयितुं न शक्नुयाद ब्रह्मवादिसमयाद बहिर्मुखः ॥ ४१ ॥ वेदवाक्येति ।। यतस्तन्मते सत्यमिथ्याविभागासिद्धि: इति अतः कथयितुं न वाक्नुयादित्यर्थः । अनिर्वचनीयवादे तु सत्यमिथ्याविभागस्य स्वप्ने इवापवोधाद्विकल्पितत्वाङ्गीकारे न एताहशविकल्पादिपसर इति भावः ।।४१॥ अघ. परिशेषात्सत्यानृतभेद: कल्पित एवाभ्युपेय इत्युप- संहरति- सत्यमेत्रमनृतं च भेदतः कल्पितं भवतु वर्णतान्नयात ।। तत्र तद घटयितुं हि शक्यते नेतरत्र कथितापपत्तिभः ॥ ४२ ॥ सत्यमिति।। वर्णितान्नया मिथ्यात्वाविशेषेऽप्यवान्तरभे- दसाधकन्यायादित्यर्थः । तत्र अनिर्वचनीयपपश्चवादे सत्यं
452
Page 453
२६ अन्वयार्थप्रकाशिकाविभूषिते मिथ्येति च द्वयं घटयितुं शक्यते, नेतरत्र प्रपश्चसत्यत्ववादे कथितोपपत्तििः विकल्पदूषणासहत्वादिभिरित्यर्थः ।। ४२ ।।
परमार्थसत्यत्वं सम्भाव्यते तथा प्रसिद्धं वैचित्र्यं चोपपद्यते, अ- तो लौकिकवैदिकव्यवहाराविरोधात्प्रत्यक्षादिपामाण्यं व्यवहा- रसमर्थतत्व्रावेदकलक्षणं न तत्वावेदकलक्षणम्, अज्ञातार्थग- न्वृताऽडर्यपमाणलक्षणस्य तत्र तत्वतोऽभावात् इत्येतत्सर्वैर- भ्युपेयमिति परमप्रकृतमुपसंहरति -- व्यावहारिकमतोऽवगम्यतां मानजातमखिलं न तात्विकम् ॥ बाह्यवस्तुविषयं विरोधतो-
व्यावहारिकमिति । वाह्यवस्तुविपयम् अखिलं मान- जातमिति सम्बन्धः । अवुद्धवोधेति च्छेदः ॥ ४३ ॥ अव. उपपादितमर्थमनूद्य प्रस्तुतं वेदान्तानां प्रमाणान्तर- विरोधाभावं निगमयति- एवं न तत््व्रविनिवेदनशक्तियोगः संभाव्यतेऽनधिगताधिगतेरयोगात ।। मानान्तरस्य सकलस्य ततश्र तेन बाधस्त्रयीशिरसि वर्णायेतुं न शक्यः ।। ४४॥ एचमिति॥ अतत्वविपयाणां मानानां तत्वगोचरमानवाध- ने सामथ्यसम्भवात् रजतज्ञानममित्र शुक्तिकाज्ञानेन प्रत्यक्षादी-
453
Page 454
संक्षेपशारीरके द्वितीयोऽध्यायः।२। २७
न्येवातत्वविषयाणि वेदान्तैस्तत्त्वविपयैर्वाध्यानीति भावः ।।४४।। अव. तदेवं वेदान्तानां पत्यक्षादेश तच्वातत्वविषयतया द्वैत-
णां वेदान्तानां तत्वार्थावभाससमर्थानांन वाध इति यदुपपादि- तं तयुक्तियुक्तमपि मूलशास्त्रसूत्रविरोधान्न श्रद्धेयमिति क्वचिच्छ- ङ्ा भवेत्। यतः 'भावाच्चोपलब्धेः' इति सूत्रे निर्विकल्पकवस्त्वव- भासित्वं प्रत्यक्षस्य विरोधपरिहाराय सूत्रकृन्भिरुक्त न तत्वान- वसायित्वम् अतः सूत्रविरोध इति तत्राह- आरम्भणादिवचसा खलु निर्विकल्प- प्रत्यक्षबुद्धिमनुसृत्य विकल्पबुद्धे: ॥ आभासतां मुनिरुवाच तदाऽस्य भावो विज्ञायते स्फुटतरो गुडजिद्विकायाम् ॥ ४५ ॥ आरम्भणेति॥ निर्विकल्पप्रत्यक्षवुदद्धिं निर्भेदसन्मात्रविष- यां प्रत्यक्षधियमनुसत्य सन्मात्रपत्यक्षस्य पामाण्यमङ्गीकृत्य विक- ल्पबुद्धे: भेदविषयस्य प्रत्यक्षादिप्रत्ययस्य आभासतां मिथ्याडर्थ- विषयत्वं यदा मुनिः आरम्भणादिवचसा 'वाचारम्भणं विकारो नामधेयम्' इतिश्रुतिवचनबलेन उवाच तदाऽस्य भावोऽभिप्रायः स्फुटतरो गुडजिद्विकायां विज्ञायते इति योजना। यथा तिक्तर- समौपधं जिह्वायां गुडलेपनेन वालान्पाययन्ति न तत्र तेषां गुड- लेपने तात्पर्य, तद्वदत्रापि प्रतिपत्तिक्रममपेक्ष्य निर्विकल्पकबुद्धेः पामाण्याङ्गीकरणं, सूत्रकारस्य नतुतात्पर्यम्। 'सहसा हि प्रत्यक्ष- स्य सर्वस्य भ्रान्तित्वकथने व्याकुलीभूतं चित्तं न तत्त्वमवगा- हेत अतः कथंचिदपि प्रत्यक्षप्रामाण्यमवलंब्य तत्वमवगाहयामि ततश्च क्रमेण निर्विकल्पबुद्धेरपि मामाण्यमपोह्य बुद्धिशद्धिमपि
454
Page 455
२८ अन्धयार्थ प्रकाशिकाविभूषिते दर्शयिष्यामि' इति मन्यते, न तु निर्विकल्पकस्य प्रामाण्यं विवक्षितं, वाचारम्भणादिवचनाश्रयात्। न हि वाचारम्भणादिसर्वविशेषा- पवादिश्चतीनां प्रत्यक्षस्य निर्विकल्पपामाण्याङ्गीकारे Sपि विरोध- स्तच्वतः परिहृतः स्यात्। सर्वकार्यानुगतकारणरूपदृश्यसत्ताविष- यत्वान्निर्विकल्पकस्य सामान्यविशेषादिविनिर्मुक्तपत्यञ्मात्रविष- यत्वाच्च विशेषपतिषेधश्रुतीनाम्।अतः सविकल्पकवन्निर्विकल्पक- स्य आभासत्वमेव सूत्रकार विवक्षितम्, गुडजिहविकान्यायेन तत्मा- माण्याभिधानमिति न सूत्रविरोधोऽस्मदुक्ते शङ्कनीय इति ॥४५॥ अव. यदेतदस्मन्मतं पत्यक्षादीनां न तत्वावेदकं पामाण्यम- स्ति व्यावहारिकमेव तेषां प्रामाण्यं वेदान्तानामेव तत्वावेदकत्व- मिति, तत् जैमिनेरपि सम्मतमिति तदुक्ति तत्र नियामिकामाह- सत्संप्रयोगइति जैमिनिरप्युवाच यलक्षणं तंदुभयोः सममेत्र विद्यात। आपाततस्तदथ युक्तिनिपीडितं सत् सन्मात्रसंतिदि निषीदति निर्विशङ्कम् ॥ ४६॥ सत्सम्प्रयोगइतीति ॥ यद्ा स्वमतव्यवस्थायां जैमिनि- मतविरोधमाशड्क, तत् अस्मदनुकूलमेव न प्रतिकूलमित्याह।स- त्संप्रयोग इतीति।'सत्सम्पयोगे पुरुपस्येन्द्रियाणां वुद्धिजन्म तत्म- त्यक्षम्' इति सूत्रेण विद्यमानसंयुक्तार्थबुद्धित्वं यत् पत्यक्षलक्षणं जैमिनिरप्युवाच तत् आपाततो बिना विचारं पतीतिमात्रेण उभयोः सविकल्पकनिर्विकल्पकयोः सममेव विद्यात्। साधारणविषयं तत्सू- त्रवचनं तत्र विशेषानभधानालोकानुभवे च विशेषाभावात्।अतस्त- दपि प्रत्यक्षलक्षणं 'भावाच्चोपलब्धेः' इति बादरायणाचार्यसूत्रस्- चितयुक्तिनिपीडितं सत् सन्मात्रसंविदि वस्तुमात्रविषयायां निर्वि-
455
Page 456
संक्षेपशारीरके द्वितीयोऽध्यायः।२। २९
कल्पिकायां बुद्धौ निर्विशङ्कं निःसंदेहविपर्ययं यथा स्यात्तथा नि- षीदति पर्यवस्यतीति योजना। बादरायणोक्ेन न्यायेन स- विकल्पकार्थानामसत्वनिश्चये सति निर्विकल्पकस्यैव तल्लक्षण- मिति विवेके सति व्यावहारिकमेव सविकल्पकपामाण्यं निर्वि- कल्पकस्य च तत्वावेदकत्वमिति प्रत्यक्षपामाण्यकक्षाभेदोऽभिमतो जैमिनेरपीत्यर्थः । यद्वा संयुज्यमानस्यार्थस्य सदिति विशेषित- त्वात् सदेव सोम्येति च सत्यस्य ब्रह्मात्मरूपत्वनिश्चयात्तस्यैवा- ज्ञातत्वात्तद्विषयमेव वस्तुगत्या सर्वमपि ममाणम्। तदनुविद्धेषु पुनरागमापायिषु सविकल्पेष्वर्थेषु वाचारंभणमात्रेषु वेदान्तेतर- मानानां व्यावहारिकमेव प्रामाण्यमिति जैमिनिसूत्रस्याभिपायो बादरायणसूत्रानुसारेणावगम्यते। जैमिनिना विशेषा- नभिधानाद्वादरायणेन च विशेषाभिधानात्सामान्यवचनस्य च संप्तिपन्नविशेपवचनानुकूलतया योजायेतुं शक्यत्वात्। अतो न केनापि विरोधो डस्ति अस्मन्मते इत्यर्थः ॥ ४६ ॥ अव. यधेवं निर्विकल्पकार्थस्य प्रत्यक्षस्य तत्वावेदकत्वमेष्ट- व्यम् इति चेत्, मैवं। तत्रापि परमार्थतोऽज्ञातज्ञापकत्वानिरूप- णादित्याह- तत्रापि दुर्घटमवैति यदा तु तत्त्व- बोधं विवक्षति विसृज्य विकल्पजालम् ॥ कि कारणं वदति येन स तत्त्वगामि विज्ञानमर्थमवबोधयदप्रबुद्दम्। ४७।। तत्रापीति ॥ यदा तु तत्रापि निर्विकल्पकपत्यक्षे Sपि दु- र्घटमवैति निर्विकल्पकसन्मात्रस्यापि जडत्वात् अज्ञातत्वासम्भवेन वद्विषयस्य प्रत्यक्षस्यापि पामाण्यं दुर्घटमिति जानाति तदा विक-
456
Page 457
३० अन्धयार्थप्रकाशिकाविभूषिते
ल्पजालं निर्विकल्पकं सविकल्पकं च विस्टज्य विशुद्धतत्वबोधं ब्रह्मात्मविषयमेव साक्षात्पमाणं विवक्षति । निर्विकल्पमपि प्र- त्यक्षं तत्वावगतिद्वारभवनलक्षणव्यवहारसमर्थवस्त्ववभासितया प्रमाणं, न तच्वावेदकतयेति मन्यते इत्यर्थः। कथमित्थं जैमिनेर- भिप्नायो जवसीयतेः इति पृच्छति। किं कारणमिति।तदुत्तरमाह।व- दति येनेति। येन कारणेन अप्रबुद्धमर्थमवबोधयद्विज्ञानं तत्वगामीति जैमिनिर्वदति तेनेत्थं निश्चय इति योजना। अनधिगतार्थगन्त- त्वं प्रमाणस्वरूपमिति तेनाभिधानात्पत्यगात्मनो डन्यस्य च स्वभावतो अनधिगतत्वानिरूपणादित्थं तदभिपायो गम्यते इति भाव:॥। ४७ ॥ अव. कुत्रेदं प्रमाणलक्षणं तेनोक्तम् ? इत्याकाङ्कायामाह- औत्पत्तिके हि भगवानयमप्रबुद्ध- मर्थ प्रमाणविषयं कथयाम्बभूव ।। अत्राह तत्र ननु धर्मगतं प्रमाणं तत्त्वार्थगामि कथितं न परात्मगामि ॥। ४८ ॥ औत्पत्तिक इति। अयं जैमिनिर्भगवानशेषार्थदर्शी हि य- स्मात् औत्पत्तिके सूत्रे 'अनुपलब्धे तत्पमाणम्' इत्यनेनांशेन- अज्ञातार्थधिगन्त प्रमाणमिति कथयांवभूव कथितवानित्य- र्थः। जैमिनीवचनस्यान्यविषयत्वान्नायमर्थो डभिमेत इति मीमां- सकश्रोदयति। अत्राहेति । तत्र सूत्रे ननु हि धर्मविषयं पमाणं तत्त्वार्थगामि अनधिगतार्थबोधकमिति तेन काथतम्। चोदनाख्यं पमाणं मानान्तरागोचरधर्मविषयकतया तत्त्वबोधकं तेन तत्र विवक्षितं धर्मपमाणनिरूपणस्य प्रक्रान्तत्वात्, न परमात्मगामितया कथितं तस्याप्रस्तुतत्वादित्यर्थः ॥४८ ॥
457
Page 458
संक्षेपशारीरके द्वितीयोऽध्यायः।२। ३१
अव. परात्मगामिप्माणस्य तत्रापस्तुतत्वे Sपि बादरायण- मतानुकर्पणलिङ्गाद्वर्णणिताभिपायोऽस्य गम्यते इति परिहरति- सत्यं यथाऽडह पितमान् व्यवहारदष्टि- माश्रित्य तत् कथितवान् प्रकृतोपयोगातू।। दूरप्रसारितनिसृष्टनिगूढभाव- स्तदबादरायणमतानयनात् प्रतीमः ॥ ४९ ॥ सत्यमिति॥ धर्मविषयं प्रमाणं तत्र निरूपितमित्येतत्सत्यं तथैव यथाSडह भवान्।पितृमान् पित्रादिभिर्ट्द्धैःशिक्षितवुद्धिरित्य- र्थः। यत् तत्र धर्मे एव तत् प्रमाणमवोचत् तत् व्यवहारदृष्टिमाश्रित्य कथितवान्, तस्यैव प्रकृतपयोगात्, न तत्वदृष्टिं तस्यास्तदनुपयो- गादित्यर्थः । तथापि न तावन्मात्रे व्यवहारे एव पर्यवसितधीः जैमिनि: यतः दूरमसारितनिसष्टनिगूढभावःदूरं वेदान्तेषु पसा- रितो दीर्घीकृतो निसष्टश्व तत्रैव नितरां क्षिप्स्तां स्थितिमेवा- वलम्बमानो निगूढो डपकटितो भावो डभिप्रायो यस्य स तथा। एवं भावकल्पनायां लिङ्गमाह।तद्वादरायणमतानयनात्पतीम इति। 'बादरायणस्यानपेक्षत्वात्'इति वादरायणमतस्यानुकर्पणाद्वेदान्ता- नामज्ञातार्थगोचरतया तत्वावेदकत्वमभिमतं जैमिनेरित्यर्थः। ब्र- ह्णि वेदान्तपामाण्यस्थितिं कटाक्षीकत्य तदविरोधेन व्यावहा- रिकप्रामाण्यमाश्रित्य धर्मे पमाणं निरूपितवान्, धर्मविचारस्यैव तदोपक्रान्तत्वात्। न ब्रह्मणि वेदान्तानां प्रामाण्यं मुखतोऽभिहित- वान्,तस्य तदवसरे प्रकृतधर्मविचारविरोधादित्यर्थः। अज्ञातत्वस्य जडे धर्मे तत्वतोऽसम्भवात्। एतत्सर्वमभप्रेतं जैमिनेरिति 'अनु- पलब्धे तत्प्रमाणं बादरायणस्य मतम्' इति तद्वचनादवसीयते इति भाव: ।। ४९।
458
Page 459
३२ अन्वयार्थप्रकाशिकाविभूषिते
अव. आत्मन एव मानमेयत्वं तत्वतोऽस्तीत्येतच्ुत्याऽपि दर्शितामत्याह- द्रष्टव्य इत्यपि विधिर्न विधिप्रमेय- मात्मानमेव विनियच्छति तत् कुतश्चेत् ॥ अज्ञातता च परमात्मन एव यस्माद यस्माच्च कर्तवशवर्ति न दर्शनं तत् ॥ ५०॥ द्रष्टव्य इति ॥ आत्मा द्रष्टव्य इत्यप्ययं तव्यः श्रूयमाणो न विधिः, किन्तु विधिप्रमेयं विधिविपयज्ञानविशेषणतया विधि- विषय त्वेनाभिमतमात्मानमेव नियच्छति आत्मतत्वमेव प्रतिपाद- यतीत्यर्थः। अथवा द्रष्टव्य इत्ययमपि विधिर्विधेः प्मेयभूतमात्मानं नैव विनियच्छति नैव विवर्जयति, किन्तु आत्मन्येव पर्यवस्यति न विधिमात्रे इति योजना। विधौ प्रत्यये सति कथं विध्यनभ्युपगम इति शङ़कते। तत्कुतर्श्रेदिति। अत्र विधेयाभावाद्विध्यनभ्युपगम इति परिहरति।अज्ञातताचेति। यस्मात्परमात्मन एवाज्ञाततान विधेय- क्रियाया नियोगस्य वा तयोर्जडत्वादित्यर्थः। अज्ञातज्ञापको हि विधिर्न परमात्मनोऽन्यं बोधयेत् परमात्मा च न विधेय: इति नात्र विधित्वमस्तीति भावः। चकाराद्विधेयज्ञानविपयतयाऽपि नात्मा प्रतिपाद्य इत्यर्थः । आत्मदर्शनमपि न विधियोग्यम् इत्याह। यस्मच्चिति। यद्विधेयत्वेनाभिमतं तद्दर्शनं च न विधेयं, यस्मा- दर्शनं न कर्तवशवर्ति, क्त्रधीनत्वात् विधेयस्य, ज्ञानस्य च तद भावान्न विधेयत्वमित्यर्थः ॥ ५०॥ अव. यद्यस्यापि वाक्यस्यात्मैव प्रमेयमभिमतं, तर्हि विधौ स्मर्यमाणस्य का गतिः ? इति तत्राह- अर्हे कृत्यतचश्र पाणिनिवच: स्पष्टं विधत्ते यत-
459
Page 460
संक्षेपशारीरके द्वितीयोऽध्यायः।२। ३३
स्तस्माद् दर्शनयोग्यतां वदति नस्तव्यो न तत्त्वान्तरम्॥ तस्मादात्मपदार्थमात्रनियतं मेयत्वमेकान्ततो द्रष्टव्यादिवचो वदत्यनुभवादज्ञात आत्मा यतः॥।५१॥ अर्हे इति॥ कृत्यप्रत्ययं तृच्पत्ययं च 'अर्हे कृत्यतृचश्च' इति पाणिनिमूत्रात्मकं वचोऽहर्थि स्पष्ट विधने यत: तस्मात् अयंतव्यः कृत्यात्मकपत्ययो दर्शनयोग्यतामात्मनः अस्मान्मति वदति न तत्वान्तरं विधिम्। उभयत्र प्रत्ययविधानेऽपि नात विध्यर्थना त- स्याभ्युपेया पूर्वोक्तविधया तदसंभवात्, किन्त्वहर्रथितवास्युपेया आत्मनो दर्शनाहत्वादित्यर्थः। तस्पादात्ैय प्रमेयं न अउमिति सिद्धम् इत्युपमंहरति: तम्मादिति। द्रष्टव्यादिवचः आत्यन एव मेयत्वमज्ञातत्वलक्षणं दर्शनार्ईत्वविधानगुखेन वक्ष्यतीति कथ ? तत्राह। अनुभवादिति।यतः आत्मेवाज्ञतो नु जड: तथेवानुभवा- दित्यर्थः ॥ ५१॥ अव. तस्मादात्मन एव प्रमेयत्वस्य श्रुत्मुक्तत्वीत्तदनुरोधेन सूत्र- कारेणापि तथैव निर्देष्टंयुक्तत्वाम जैमिनिनूनविरोध इति स्थित- म्।तत्रात्मन एव प्मेयत्वाडगीकारे प्कतविरोध: स्वात्।अर्थसंपयोग- जत्वलक्षणस्य प्रत्यक्षलक्षणस्य लौकिकप्रत्यक्षे अभावपरुद्गात्, चो- दनायाश्च धर्मे प्रमाणलक्षणत्वाभावमसङ्गादित्ति पुनराशक्कायास् अविचारितटृष्ट्या तदुपपत्तेरन लक्षणाव्यासिशङ्वेति परिहारपाह- रूप्यादिविभ्रममपेक्ष्य हि शुक्तिकादौ सत्सम्प्रयोगजनितैव तु बुद्धिवृत्ि: । तामप्यपेक्ष्य सति संहृतसर्वभदे सत्सम्प्रयोगजनिता मतिरभ्युेया ॥ ५२ ॥ ५
460
Page 461
३४ अन्वयार्थप्रकाशिकाविभूषिते
रूप्यादिविभ्रममिति ॥ शुक्तिकादौ तु या बुद्धिद्ृत्ति: सत्संप्रयोगजनिता शुक्तिकासंप्योगजनिता लोकपसिद्धा सा रूप्यादिविभ्रममपेक्ष्यैवेति योजना। यदा शुक्ादेव्यभिचारित्वे- नानृतत्वं नान्विष्यते तदा भ्रमाद्दष्टरजताद्यपेक्षया शुत्यादे: सत्यत्वाभिमानगोचरत्वात्सविकल्पकाऽपि घीः सत्संपयोगजनि- तैवेति न तत्र प्रत्यक्षलक्षणाव्याप्तिः। यदा तामपि सविकल्पवुद्धि- मपेक्ष्य संहृतमर्वभेदे सति निर्विकल्पकसन्मात्रे शुक्तित्वादिवि- कल्परहिते इति यावत् नत्संमयोग जैनिता व्यभिचारिसविकल्प- कशुतवाद्यपेक्षया यत् सत् भिर्षिकल्पं तत्संपयोगजनिता मतिर- भ्युपेया तदा न परमार्धतः साऽव्यनविगतविपस्पर्यः ॥२२।। अघ. नतु सन्माव्रसयाणभिवारावदियी नारेसषिकसदि पयता तदपेक्षया सतो उनस्याविरय्रदिलालाठ- वेदान्तवावयजनितां परमात्मसुदि- वृत्ति व्यप्ेक्ष्य पुनरत्र न का चिदरित ।। सत्सम्प्रयोगजनिता भुवनवयेदवि बुद्धिस्तमोविरचितं हि जगत् समस्तम ॥ ५३॥ वेदान्तवाक्यजनितामिति॥ परमात्माकारा बुद्धिट- त्तिमित्यर्थः । अत्र भुवनत्रये Sपि अन्या सतसमयोगजनिता वु- द्धिवृत्तिर्नास्तीत्यत्र हेतुमाह। तमोविरचितं हीति।प्रत्यकूस्वरूप- व्यतिरेकेण दृश्यसन्मान्रस्याप्यभावात्मत्यग्विपयां धियमपेक्ष्य सर्वाऽपि प्रत्यक्षधीरसदर्थैवेति वाक्यार्थः। शुक्तावनुगतसन्मात्रस्य निर्विकल्पस्य यद्यपि प्त्यय्पत्वमेव वस्तुतः तथापि तत्तदर्थानुर- क्ततया संसष्टत्वाकारस्य तत्तदर्थपरतन्त्रतया व्यभिचारित्वान्न परमार्थसत्वं, किन्तु शुद्धस्यैव पंत्यगात्मन इति तात्पर्यार्थः।५३॥
461
Page 462
संक्षेपशारीरके द्वितीयोऽध्यायः ।२। ३५
अव. प्रत्यक्षलक्षणस्य लौकिकप्रत्यक्षाव्याप्तिशङ्गां परिहृत्य चोदनापमाणस्य धर्मे डव्याप्तिशङ्गामपि तस्यापि प्रत्यगज्ञान- मयत्वाङ्गीकारेण परिहरति- धर्मेडवि तत्त्वमतिरेव तु चोदनायाः सत्त्वादिवस्तुनि यथाऽक्षनिबन्धना घीः ॥ अज्ञातताऽपि सदशी व्यवहारकाले तत््त्रावबोधसमये न तु तत्त्ववुद्धि: ॥ ५४ ॥ धर्मेऽपीति॥ चोदनायाः विधिवाक्यात् धर्मे या मतिः सा तत्वमतिरेव व्यावहारिकदष्ठ्या भवति, यथा सत्वादिवस्तुपु निर्वि- कल्पकसविकल्पकवस्तुपु अक्षनिबन्धना घी: तदत्। अज्ञातत्वाभा- वाद्धावनात्मनो धर्मस्य न मानमेयनेति चन शङ्कास्पदमित्याह। अज्ञाततापीति। तत्ताववोधसमये तु पत्यग्य्थात्म्यावधारण काले पुनश्चोदनाजनिता वा अक्षादिजनिता वा तत्वयुद्धिर्न भवति । पागपि पनिभापत एवाविचारितरमणीयवया तत्ववुद्धि: सा न परमार्थन इत्पर्थः। तस्माव्यावहारिकपामाण्याश्चयणेन चोदनादि- पामाण्योपपसेर्वदरायणमतानुशोषेज प्रममात्मन्येव तत्वावेदनलक्षणं मामाण्यमित्यज्ञीकारणापि न पककतविरोध इति सिद्धम् ॥५४॥। अव. ननु बादरायणमतमेतदेवेति कुती निश्चेतव्यम्?।न हि प्रत्यक्षादेस्तत्वावेदकत्वं नास्तीति तेन कण्ठतः कयितं दृश्यते इति चेत्, मैवमू। वाचारम्मणवाक्यस्य तेनोदाहतत्वादित्याह- आरम्भणादिवचनं सकलं प्रवृत्तं
तत्त्वं यर्थोदितनयेन विवर्तवाद-
462
Page 463
३६ अन्वयार्थप्रकाशिकाविभूषिते
माश्रित्य सत्यपरिणामनिवारणेन ॥ ५५ ॥ आरम्भणादिवचचनमिति। यथोदितनयेन तत्वमपहर्तु- मितिसंबन्धः।केन व्यापारेण पटृत्तम्? इति तदाह।विवर्तवादमिति। 'तदेक्षत तसेजोऽसटजत तदात्मानं स्वयमकुरुत' इत्यादौ चिदात्मनो जगदूपेण परिणामश्रवणाठ, परिणामसत्यतायां च'सदेकमेवाद्वितीयं' 'तत्सत्यम् इत्युपक्रमोपसंहारयर णडाद्वितीयवस्तुसत्यत्वावगम- विरोधपाप्तिमालक्ष्य विवर्तवादमाश्रित्य सत्यपरिणामनिवारणेन श्रूयमाणपरिणामस्य परमार्थत्व्रनिरासेन पृत्तमित्यर्थः ।५५॥ अघ. तदेवमुदाहृतश्ृत्यभिपायसुपवर्ण्य 'तदनन्यत्वमारम्भ- णशब्दादिभ्यः' इति तादृशवाक्यमुदाहरतः सूत्रकारस्याप्यय- मेवाभिपायो गभ्यते इत्याह- वाक्यप्रवृत्तिमनुसृत्य च सूत्रकारः सिद्धानततामनदत्र विवर्तवादम्।। तत्वप्रकाशनविधावपहृत्य शक्ति- मारम्भणदिवचनाद्परप्रमायाः ॥ ५६॥ वाक्यपव्त्तिसतिति॥'वाचारम्भणं विकारो नामधेयं मृ- त्तिकेत्येव सत्यम्' 'त्रीणि रूपाणीत्येव सत्यम् ' 'सन्मूला: सोन्येमाः सर्वाः प्रजाः सदायतनाः सत्पततिष्ठाः' इति वा- क्यानां तत्वपतिपादनपवत्तिमाश्रित्य अत्र अस्मिन् शास्त्रे सूत्रकारःद्धान्ततामनयदिति योजना । किं कृत्वा ? तदाह। तत्त्वप्रकाशेति। वचनात् वचनवलात्। अपरपमायाः वेदान्तेतरस- र्वपमाया इत्यर्थः ॥ ५६॥ अव. ननु 'स्यालोकवत्' इति परिणामवादस्यापि सूत्रितत्वा-
463
Page 464
संक्षेपशारीरके द्वितीयोऽध्यायः।२। ३७
त्कथं विवर्त्तवाद एव सिद्धान्तो Sभिमतः सूत्रकारस्येति निश्री- यते?। न च तर्हुभावपि सिद्धान्तावभिमतात्रिति वाच्यम्। परस्पर- विरुद्धयोः पक्षयोरेकत्र सिद्धान्तत्वायोगादिति चेत्, तत्राह- आरम्मसंहति विकारविवर्तवादा- नाश्रित्य वादिजनता खलु वावदीति। आरम्भसंहतिमते परिहृत्य वादौ द्ावत्र संग्रहपदं नयंते मुनीन्द्रः । ५७॥ आरम्भसंहतीति॥ संहतिः संघातवादः। विकार: परि- णामवादः। लोकसिद्धे कार्यकारणभावे खलु वादिजनता प्रकार- भेदान् कल्पयन्ती वाव ीति अतिशयेन वदति इति पक्षचतुष्टयं पसिद्धमित्यर्थः।किं ततः ? इत्यत आह। आरम्भसंहतिमते इति। परिहत्योपेक्ष्य अत्र शास्त्रे मुनीन्द्रो द्वावपि पक्षी परिणामविवेर्त- पक्षौ संग्रहपदं प्रयोजनवशात्संग्राह्यतां नयते पपयति।अयं भावः। न हस्मिञ्शास्त्रे परिणामवादो विवर्तवादो वा प्रतिपाद्यो ऽभि- मतः, व्रह्मण एवैकस्य शास्त्रपतिप,दत्वात्. किंतु श्चतस्याद्वितीय- स्यात्मतत्वस्य प्रतिपत्युपायतया तत्र यो वादो डत्रानुकूलः स इहोपादेयो न पतिकूल: । तथाच आरम्भसंहतिवादौ श्रौततत्वम- तिपत्तिविरुद्धत्वात् तावत् तत्र न संगृहीतौ, इतरौतु आ्नुकूल्यात्सं- गृहीतौ। न च उभयोर्मिथोविरोधादेकत्र सिद्धान्तत्वानुपपत्तिः, पूर्वो त्तरभूमिकारूपेणाविरोधस्य वक्ष्यमाणत्वादिति ॥५७॥ अव. कथं भूमिकाभेदो Sत्र? इति तं व्युत्पादयितुम्ुपक्रमते- तत्रापि पूर्वमुपगम्य विकारवाद भोक्त्रादिसूत्रमवतार्य विरोधनुत्त्यै।।
464
Page 465
३८ अन्वयार्थप्रकाश्रिकाविभूपिते
प्रावर्तत व्यवहतेः परिरक्षणाय कर्मादिगोचरविधावुपयोगहेतोः ॥५८॥ तत्रापि पूर्वमिति।तयोः परिणामविवर्तयोर्मध्ये पूर्व प्रथमं विकारवादं परिणामपक्षमुपगम्य अभ्युपेत्य भोक्त्रादिसूत्रमवतार्य विरोधनुत्यै प्रावर्तत सूत्रकार इति योजना।यद्यद्वैतमेव तत्वं तर्हि भोक्तृभोग्यादिविकार भेदप्रत्यक्षानुभवविरोधः, अभेदे सर्वसाङ्क र्यापत्ते: इति विरोधं 'भोक्रापत्तेर विशेषश्चेत्' इति मूत्रभागेनोन्भाव्य 'स्याल्लोकवत्' इति भागेन सर्वस्य ब्रह्माभेदे ऽपि न भोक्कादे: संङ्करः, जलस्व्ररूपाभेदे ऽपि तरङ्गादेरिव परिणामभेदोपपत्तेरिति परिहारं कुर्वन्पावर्तत इत्यर्थः। परिणाममाश्रित्य परिहारप्रयोज- नमाह।व्यवहृतेः परिरक्षणायेति। तद्ा किमर्थम्इति तत्राह। कर्मा दीति। आदिपदादुफसना गृह्यते।अयं भावः। प्रथममेव विवर्तवा- दाभिधानेन विरोधपरिहार क्रियाकारकफलभेदाभावादुपास्यो- पासकादिभदविलोपाच कर्मोपासनाद्यसम्भवात्तद्विधीनां प्रामा- ण्याभावः प्रसज्येत। न च तयुक्तम्। उपासनाविधीनामस्मिन्नेव शास्त्रे विचार्यभाणत्वात्तननिर्वाहो Sव्ैव वक्तव्य:तथा कर्मविधीनां
पवृत्तिविषयप्रदर्शनाय परिणामवादः प्रथम सूतितः ॥५८॥ अव. नन्विह विवर्नवादस्य लिद्धान्तत्वाभिधाने को विशेष: पयोजनशपतया निर्देशस्योभगोरप्यविशेपात् ? इति तत्राह- साक्षादिहाभिमतमेव विवर्तवाद- माहत्य सूत्रयति पूर्वमपेक्षमाणः ।। आरम्भणादिवचनेन विवर्तवाद
465
Page 466
मस्षेपशारीर के द्वितीयोऽध्यायः।२। ३९
शक्नोति वक्तुमुदिते परिणामवादे ॥ ५९॥ साक्षादिति ॥ निर्गुणव्रह्मावगतेरत्र पाधान्येन विवक्षि- तत्वात्तत्र च विवर्त्तवादस्य साक्षादुपयोगात् इह अस्मिञ्शास्त्रे सा- क्षादभिमतं विवर्तवादमाहृत्य मुखतः सूत्रयति। आहत्येत्युता पूर्वमूत्रे Sपि विवर्त्तवाद: मूत्रकारस्याभिपेत इति मूच्यते। यद्येवं विवर्तवाद एवात्र प्राधान्येनाभिमतस्तर्हि स एव प्रथमं सूत्रयितुं युक्तः पश्चादितरः तस्यात्रासुख्यत्वादिति चेत्, मवम् । परिणाम- निरूपणमापेक्षत्वाद्विवर्ननिरूपणस्य परिणामस्येव प्राथम्यं यु- क्तमित्याह। पूर्वमपेक्षमाण इति।पूर्व परिणामम्। तदपेक्षामेव विशद- यति। आरम्भगादीति। प्रथमं परिणामवादे उठिते सात आर- म्भणादिवचनेन विवर्तवादं ववतुं शकोति नान्यथा। कार्यकारय- स्वरूपस्याप्तीतों तस्य मिथ्यात्वमतिपतपयोगहित्वर्थ: ।।५९।।
पादयति- आरुह्य भूमिमधरामितराडघिरोढुं शक्येति शास्त्रमि कारणकार्यभावम् । उक्त्वा पुरा परिणतिप्रतिपादनेन संप्रत्यपोहति विकारमृषात्त्रसिद्धै ॥ ६० ॥ आरुह्यभूमिमिति ॥ शक्येति, प्रसिद्धमिति शेषः। न के-
परिणामवादस्य विवर्तसिद्धिं प्रति उपायत्वं प्रतीयत इत्याह।शास्त्रम- पीति। पुरा प्रथमं सष्टिवाक्यैः परिणतिप्तिपादनेन कार्यकारण- भावं ब्रह्मजगतोरुक्त्वा संपति इदानीं विकारमृपात्वसिद्धयै तमपो-
466
Page 467
४० अन्वयार्थप्रकाशिकाविभूषिते
हति 'वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्यव सत्यम्' 'ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा' इति च प्रतिपन्नोपाधी पतिषेधेन विकारस्य तत्कारणत्वस्य च मिथ्यात्वमावेदयति क्र- मेणत्यर्थः ॥ ६० ॥ अव. ननु सोपानपर्वणामुपर्यधोभावावस्थानाद्युक्तमुपरितन- स्थानप्ाप्तिंप्रति अधरस्थानारोहस्योपायत्वम्, अत्रकथम्ःइति चेत्, अत्रापि वस्तुतत्वप्रतिपत्तिसोपाने परिणामविवर्त्तवादयोरधरो- त्तरभूमिभावादेवेत्याह- विवर्तवादस्य हि पूर्वभूमि- रवैदान्तवादे परिणामवादः ।। व्यवस्थितेऽस्मिन् परिणामवादे स्वयं समायाति विवर्तवादः ॥ ६१ ॥ विवर्त्तवादस्येति॥पूर्वार्धेन प्रतिज्ञातमेव उन्रार्धेन पति- पाद्यति। व्यवस्थित इति।जगत्कारणतया ब्रह्मणः सन्भावसि- द््यर्थ कार्यकारणभावस्तावद्वक्व्यः । तस्य चास्मिन्परिणामवादे व्यवस्थिते सति जगतो ब्रह्मपरिणामत्वे निरूपिते विवर्तवादः स्वयं समायाति। कूटस्थस्य ब्रह्मणो मृदादिवत्परिणामानुपपत्ति- प्रतिभासादुक्तः कार्यकारणभावो विवर्ते एव पर्यवस्यति। अनु- क्ते हि कार्यकारणभावे अधिष्टानस्यापतिपन्नत्वाद् भ्रान्तित्व- प्रतीत्यसम्भवादित्यर्थः ॥ ६१॥ अव. तथा चोपायत्वात्परथमं परिणामवादाभिधानं युक्तमेव श्रुतेः सूत्रकारस्य च इत्युपसंहरति- उपायमात्तिष्ठति पूर्वमुच्चे-
467
Page 468
संक्षेपशारीरके द्वितीयोऽध्यायः।२। ४१
रुपेयमाप्तुं जनता यथैव ।। श्रुतिर्मुनीन्द्रश्च विवर्तसिध्धै विकारवादं वदतस्तथैव ॥ ६२॥ उपायमिति ॥स्पष्टार्थ पद्यम् ॥ ६२॥ अव. वादिपसिद्धाः आरम्भादिवादा: इत्युक्तं वादिजनता खलु वावदीतीत्यत्र, तत्र कस्य को वाद: ? इति वीक्षायामाह- आरम्भवाद: कणभक्षपक्ष: संघातवादस्तु भदन्तपक्ष: ।। सांख्यादिपक्ष: परिणामवादो वेदान्तपक्षस्तु विवर्तवादः ॥६३ ॥ आरम्भवाद इति ॥ भदन्त: सुगतः ॥ ६३ ॥ अध. ननु परिणामवादो पि वेदान्तसिद्धान्त एव ब्रह्म- प्रतिपत्युपायत्वादिति चेत्, नेत्याह- विकारवादं कपिलादिपक्ष- मुपेत्यवादेन तु सूत्रकारः ॥ श्रुतिश्च संजल्पति पूर्वभूमी स्थित्वा विवर्तप्रतिपादनाय ॥ ६४ ॥ विकारवादमिति॥ उपेत्यवादेन अभ्युपगमसिद्धान्तेन कपिलादिपक्षं सांख्यादिशास्त्रसिद्धं विकारवादमाश्रित्य सूत्र- कार इत्यादि सुगमम्। तथा चाभ्युपगमसिद्धान्तान्तर्गततया अभ्युपगमेऽपि न साक्षादयं सिद्धान्त इत्यर्थ: ॥ ६४ ॥ अव. परिणामविवर्तयोर्भेदं तल्लक्षणकथनेन व्युत्पादयति-
468
Page 469
४२ अन्वयार्थप्रकाशिकाविभूषिते
अभेदिन: सावयवस्य सत्य- विचित्ररूपान्तरदर्शकत्वम । वदन्ति धीरा: परिणाममस्या वसुन्धराया इव सस्यसृष्टिमू ॥ ६५॥ अभेदिन इति ॥ रूपान्तरदर्शकत्वमित्युक्ते अर्थादूपान्तर- स्येति लभ्यते, रूपान्तरस्य निजरूपाद्रूपान्तरदर्शकत्वं धीरा: परिणामं वदन्ति। अत्र विचित्रविशेषणं प्रदर्शनार्थ नव्याटत्यर्थम्। यतो विचित्ररूपदर्शकत्वं विवर्तपरिणामयोः समानरूपम् । अभे- दिन इति विशेषणं आरम्भनिवारणाय। एकस्यारम्भकत्वानङ्गी- कारात्। सावयवस्येति पदं परिणामिवस्तुस्वरूपकथनार्थम्।सत्ये- ति रूपविशेषणं विवर्तव्यावृत्त्यर्थम्। रूपान्तरग्रहणेनैव संघातपक्ष- निरासो द्रष्टव्यः, संघातस्य संहन्तृभ्यो रूपभेदानङ्गीकारात्तद्वा- दिभिः। यद्वा अभेदिन इत्यनेनैव संघातस्यापि व्यवच्छेदः, संह- नर्तृणामनेकत्वादित्यर्थः । अस्याः इति उदाहरणम् ॥ ६५॥ अव. विवतळक्षणमाह- अभेदिनो निर्विकृतेरनेक- मृषास्वरूपान्तरदर्शकत्वम् ॥ विवतशब्दार्थ इह प्रसिद्ध- स्तरङ्गभेदादिव चन्द्रभेदः ॥ ६६॥ अभेदिन इति ॥ निर्विकृतेरिति परिणपामव्यादृत्तिः। मृपे- ति विवर्तस्वरूपकथनमात्रं न व्याटृत्यर्थमेतत् । अथवा एतदेव परिणामव्याटृत्यर्थ, निर्विकृतरिति स्वरूपकथनार्थमिति द्रष्टव्यम्। अन्यत्समानम् । अत्रोदाहरणं तरङ्गभेदादिवेति ॥ ६६॥
469
Page 470
संक्षेपशारीरके द्वितीयोऽध्यायः।२। ४३
अव. एतौ वादौ कुत्र कुत्र श्रुत्योक्ती ? इति तदाह- अहं प्रजायेय बहु स्व्यं स्या- मित्यादिनाऽऽदौ परिणाममुक्त्वा।। विकारमिथ्यात्वमथ बुवाणा विवर्तवादं श्रुतिरानिनाय ॥ ६७ ॥ अहमिति॥आदौ प्थमं 'तदैक्षत बहुस्यां पजायेय'इति स्वात्म- न एव बहुरूपकार्यभावाशंसनपूर्वकं 'तत्तेजोऽसजत' इत्यादिना प- रिणाममुक्त्वा, अथ अनन्तरं विकारमिथ्यात्वं 'वाचारम्भणं वि- कारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्' इत्यादिना ब्रुवाणा श्रु- तिः विवर्तवादमानिनाय पूर्तोक्तं परिणामं विवर्तत्वेन व्यवस्थापि- तवतीत्यर्थः । विचित्रानेकसज्यशक्तिमच्वेन ब्रह्मणोऽपि सावयव- त्वाङ्गीकारात्तस्मिन्नस्ति परिणामलक्षणयोगिता, पुनर्षाचारम्भ- णगिरा सृज्यशक्तीनां मायामयत्वस्य अर्थादुक्तत्वात् विशुद्धचि- देकरसस्यैवात्मनः आद्याः मायाशक्तयः ताभिर्विचित्ररूपान्तराप- त्तिर्विवर्त एव इति साक्षादभिमतं श्रुतिर्दर्शयतीति भावः ।६७।। अव. यदा चैवं विवर्त एव साक्षादभिमतः, वस्तुगत्या ब्रह्मणः स्वतो निरवयवत्वेन परिणामलक्षणयोगित्वाभावात्, तदा 'इन्द्रो मायाभिः पुरुरूप ईयते' 'अज्ञानेनाटृतं ज्ञानं' 'प्रकृर्ति स्वामधि- ष्ठाय सम्भवाम्यात्ममायया' इत्यादिश्रुतिस्मृतिवचसां सष्टया- देर्मृपात्मत्ववादिनामपि सामअ्स्यं स्यात् इत्याह- मायाश्रुतिस्मृतिवच: सकलं तथा च वस्तुत्वमर्दनपरं घटते विवर्ते।। सर्वस्य कारणविकारविभागभाजः
470
Page 471
४४ अन्वयार्थप्रकाशिकाविभूषिते
प्रागादतस्य परमार्थतया प्रतीतेः ॥ ६८ ॥ मायाश्चतीति।।तथाच एवं उक्तव्यवस्थायां स्थितायां विवर्त्ते सिद्धे सति मायाश्रुतिस्मृतिवच: सकलं प्रतीतेर्ैतो: पाकू परमा- र्थतया आदृतस्य तस्य सर्वस्य जगतः कारणविकारविभागभा- जः कार्यकारणरूपेण विभक्तस्य उपमर्दनपरं घटते इति योजना। अतो विवर्त एव साक्षात्सिद्धान्तत्वेनाभिमतः, परिणामवादस्य तु पराभिमतस्यैवाभ्युपगममात्रेण सिद्धान्तकोटिनिवेशः इति सिद्धम् ॥ ६८ ॥ अव. यद्येवमङ्गकिरणवादमात्रेण सिद्धान्तकोटिनिवेशः तर्हि संघातारम्भवादयोरपि सिद्धान्तकोटिनिवेश: स्यात्, अङ्गाकरण- वादस्य तयोरपि भावादिति चेत्, मैवम्। विशेपोपपनतेरित्याह- संघातवादमुपगम्य तु तत्र पक्ष संहन्त्रभाव इति सूतरकृदाह दोषम् । स्थायी भदन्तसमये न हि कश्रिदत संघातसंजननशक्तिसमन्वितोऽस्ति ॥ ६९॥ सङ्ातवादमिति॥ चतुर्विधानां परमाणूनां पञ्चानां रूपविज्ञानादिस्कन्धानां च संघातः सष्टिरिति यो वाद: स सं- घातवादः, तं सङ्गातवादम् उपगम्य पूर्वपक्षत्वेनोपस्थाप्य, तत्र पक्षे 'समुदायउभयहेतुकेऽपि तदप्ाप्तिः' इत्यादिभिः सूत्रकृत् संहन्त्र भाव इति दोषमाहेति योजना। तथा च दूषयितुमेव तत्पक्षग्रहो न स्व्रपक्षसिद्ध्युपायतया इति न तस्यापि सिद्धान्तकोटिमाप्तिरिति भावः। उक्तमेव दोपं स्फुटयति । स्थायीति । अक्षणिकश्चेतनः अन्योवा संघातजननशक्तिसमन्वितः स्थायी कश्रित् अत्र भद- न्तसमये नास्ति, तदभ्युपगमे सिद्धान्तविरोधादित्यर्थः ॥ ६९॥।
471
Page 472
संक्षेपशारीरके द्वितीयोऽध्यायः ।२। ४५
अध. तथा आरम्भवादोऽपि तदीयरीत्या तदुक्तदूषणस- माधानार्थमेव कचिदभ्युपगतो न स्वपक्षसाधनाय इत्याह- आरम्भवादमुपगम्य तदीययुक्ते- स्तत्प्रक्रियामनुसरन् व्यभिचारमाह॥। वैशेषिकं प्रति महद्वदिदं हि योज्यं यद्वाऽपि दीर्घवदिदं जडमित्यनेन ॥ ७० ॥ आरम्भवादमिति॥ तदीययुक्तेरिति। अयमर्थः। यह्ठणकं कारणद्रव्यं तत् तादग्गुणकमेव स्वकार्यद्रव्यं जनयति। यथा ्वेतगुणास्तन्तवः शवेतमेव पटं जनयन्ति । तथा च चिद्गुणकं ब्रह्मद्रव्यं यदि जगद्द्रव्यस्योपादानं तर्हि तदपि चिद्गुणमेव स्यात्, तदभावान्न चिह्ुणब्रह्मोपादानकं जगदिति अस्यास्तदीययुक्तेः वैशेषिकं प्रति तस्य वैशेपिकस्य प्रक्रियामर्नुसरन् व्यभिचारमाह सूत्रकार इति योजना। केन सूत्रेण ? इति नदर्थ सूत्रम् अर्थतः पठति। महद्वदिति। 'महद्दीर्घवद्वा हस्तपरिमण्डलाभ्याम्' इत्यनेन सूत्रेणेति। अणुहस्वपरिमाणेभ्यो अ्यणुकेभ्यो यथा महत् त्र्यणुक जायते, यथा वा तेभ्य एव दीर्घत्र्यणुकं तद्वत् इदं जडं चेतना- ज्जायते इति योज्यमित्यर्थः ॥ ७० ॥ अव. तमेव सूत्रार्थ विदृणोति-
हस्व्रारब्धं तर्यणुकमणुभिस्तद्वदारब्धमेतद हस्वं नो तन्न च तदणुवत्संमतं तद्देतत । सर्व कार्य गगनधरणीमध्यगं चेतनोत्थं निश्चित्कं नो जडिमघटितं युक्तमित्याचचक्षे॥७१॥
472
Page 473
४६ अम्ययार्थप्रकाशिका विभूषिते
हस्वारब्धमिति॥ यत् त्र्यणुकं मसिद्धं तद्धरस्वारब्घं इस्वैर्णुकैरारब्धं तथापि तत् त्र्यणुकं हस्वं नो संमतं नेष्टम् इत्येकोऽन्वयः। तद्वत् यथा हस्वैरारब्धं त्र्यणुक तद्वत् अणुभिस्तैरेव व्वणुकैरेतत्त्र्यणुकमारब्धं तथापि तदेतत्त्र्यणुकं नाणु संमतं, किन्तु महद्दीर्घ च तत् संमतमिति पुनर्योजना। यथैवं वै- शेषिका्णा समवायिकारणमता गुणा: कार्ये गुणान्तरं सजाती- यमारभन्ते इति न नियम: तद्वत् नः अस्माकमप्येतत्सर्वे कार्य चेतनोत्थमपि निश्चित्कम् अचैतन्यमयं च जडिमघटितं कारण- चैतन्यविपरीतेन जाड्यघर्मेण युक्तम् इत्येतत् युक्तम् इत्याचचक्षे सूत्रकार इति योजना। गगनधरणीमध्यगमिति कार्यविशेषणं, गगनमारभ्य धरणीपर्यन्तमित्यर्थः । ७१॥ अव. तथा व्णुकपरिमाणमपि तत्कारणगुणविलक्षणमेव संमतम् अतज्जन्यश्च,इत्याह- हस्वाणुत्वे कारणद्वित्वहेतो- जते नैते पारिमाण्डल्यहेतोः ॥ दीर्घत्वं यद् यध् दीर्घे महत्त्वं द्रव्ये ते ह्े कारणत्रित्वहेतोः॥७२॥ हस्वाणुत्वे इति ॥ अ्णुकगते इस्वाणुत्वे न पारिमण्ड- ल्यहेतोर्जाते, पारिमाण्डल्यस्य परमाणुपरिमाणस्य अनारम्भ- कत्वाङ्गीकारात्। अन्यथा व्णुकस्यापि परिमण्डलत्वापत्तेरित्यर्थः। तथा त्र्यणुकगते दीर्घत्वमहत्वे अपि न व्णुकपरिमाणजन्ये इत्याह। दीर्घत्वमिति। दीर्घे द्रव्ये इति सम्बन्धः । व्णुकग- तत्रित्वसंख्याजन्ये अभिमते इत्यर्थः । ७२॥ अव• एवं वैशेषिकाभ्युपगम इति कुतोऽवगतम्? इति तत्राह-
473
Page 474
संक्षेपशारीरके द्वितीयोऽध्यायः।२॥ ४७
द्यणुकस्य जन्म परमाणुयुगात परिमण्डलादिति कणादमतम् । दव्यणुकत्रयात् त्र्यणुकजन्म पुन- र्नियमं न कश्यपसुतो वदति ॥ ७३ ॥ झ्णुकस्येति॥ पुनरित्यन्तं स्पष्टार्थम्। यत्त एवमिदं मतं दृश्यते अतः कश्यपसुतः कणादः नियमं कारणद्रव्यस्य कार्यगतस- जातीयगुणारम्भकगुणाश्रयत्वे कारणगतगुणस्य कार्यसजाती- यगुणारम्भकत्वे च नियमं न वदतीत्यर्थः ।। ७३।। अव. उक्तमेव व्यभिचारं संग्रह्याइ-
परिमाणं प्रति कारणाश्रयः ।। न तु कारणमिष्यते गुण- स्तदवष्टभ्य वयं जिगीषवः ॥ ७४ ॥ द्वणुकत्र्यणुकव्यपाश्रयमिति । व्यभिचारमदर्शनफ- लमाह। तदवष्टभ्येति । तन्मतमाश्रित्येति यावत् । त्वत्पक्रियामे- वाश्रित्य त्वदुक्तनियमस्य व्यभिचारं दर्शयन्त: त्वां जयाम इत्यर्थः॥ ७४ ॥ अध. अथ वयभिचारनिराचिकीर्षया परमाणुपरिमाणात्पा- रिमाण्डल्यादेव व्वणुकपरिमाणोत्पत्ति: व्वणुकपरिमाणाच्च त्र्यणु- कपरिमाणोत्पत्ति: इत्यभ्युपगच्छाम इति श्रयात, तदप्यसङ्गतम् इत्याह- यदि कारणसंश्रयादू गुणाद द्दयणकादेः परिमाणमिच्छति ॥
474
Page 475
अन्वयार्थप्रकाशिकाविभूषिते
द्यणुकादिसमाश्रये तदा परिमाणेऽतिशयो विरुध्यते ॥ ७५॥ यदीति॥ अस्मिन्पक्षे सर्वे कार्य परिमण्डलमेव स्यादिति व्वणुकत्र्यणुकादी परिमाणातिशयो न स्यात्। अतश्च त्र्यणुकादेर- व्यतीन्द्रियत्वापत्तेरित्यर्थः ॥ ७५॥ अव. तदेवं संघातारम्भवादयोने स्वीयतयाऽभ्युपगमः, किंतु दूषणार्थमेव इह शास्त्रे तन्निबन्धनमिति स्थितम् । तथा परिणामवादोऽपि परपक्षदूषणार्थमेव क्चिदभ्युपगत इत्याह- परिणामवादमुपगम्य तथा रचनाद्यसंभवमुवाच मुनिः । परमेश्वरं न हि बिना घटते जड़रूपवसतुपरिणाम इति ॥ ७६॥ परिणामवाद्मिति ॥ तथा संघातारम्भवादवन्निराक- रणाय परिणामवादमुपगम्येति योजना। परमेश्वरं चेतनमधि- ष्ठातारं विना जडरूपवस्तुनः प्रधानस्य परिणामो न घटते इति जगद्रचनाद्यसम्भवं परिणामपक्षे दोपं मुनिरुवाच 'रचनानुपप- तेश्र नानुमानम्' इत्यादिभि: सूत्रैरित्यर्थः ॥ ७६ ॥ अव. तस्मात् न एतादृशैरभ्युपगमवादैः सिद्धान्तत्वपासि: इत्युपसंहरति- क्क चिदभ्युपेत्य कथनं कुरुते परपश्चदृषणकथावसरे ॥ निजपक्षदोषपरिहारपरः क्व चिदभ्युपेत्य वदतीह मुनिः ॥७७॥
475
Page 476
संक्षेपशारीरके द्वितीयोऽध्यायः।२। ४९
क्वचिद्भ्युपेत्येति॥ परपक्षदूषणकथापस्तावे दूषणार्थमेव सङ्गातवादं परिणामवादं चाभ्युपेत्य क चित्कथनं कुरुते, न तन्मते स्वपक्षदूषणपरिहाराय किश्चित्पश्यन्नित्यर्थः। आरम्भवादं पुनर्निजपक्षदोपपरिहारं कुर्वन् कचिदभ्युपेत्य इह शास्त्रे मुनिर्व- दतीत्येष विशेषोऽवगन्तव्यः इत्यर्थः। ७७॥ अव. मतान्तराङ्गीकरणफलमुक्तमेव स्पष्टयति- परपक्षनिषधमाचरन् क चिदङ्गीकरणं करोति सः ॥। परदर्शितदोषनुत्तये क चिदित्येष विशेष ईरितः ॥ ७८ A परपक्षनिषेधमाचर न्निति॥आचरत्निति हेतौ शतुर्निर्देशः, परपक्षनिषेधार्थ क्वचिदङ्गीकार इत्यर्थः । उत्तरं स्पष्टार्थम् ॥७८॥ अव. तदेवं पसङ्गतो भाष्यानुक्तादर्थकथनेन अस्य ग्रन्थस्य वार्तिकत्वं दर्शितम्। तदेवमुक्तन्यागेन भोक्रादिसूत्रे परिणा- मवादाङ्गीकार: परोक्तदोषपरिहारार्थतया न सिद्धान्तत्वेन इति स्थितमर्थमाह- भोक्त्रादिसत्रे परिणामवाद- माश्रित्य तद्वादिभिरुक्तदोषम् ।। समादधानो मुनिराह तस्मात् सिद्धान्तसिद्धि: पुनरुत्तरत्र ॥ ७९॥ भोक्त्रादीति ॥ उत्तरत्र उत्तराधिकरणे तदनन्यत्वमि- त्यत्रेत्यर्थः ॥ ७९॥। ७
476
Page 477
५० अन्वयार्थप्रकाशिकाविभूषिते
अव. यद्येवं तर्हि द्वावत्र वादौ संग्रहपदं नयत इति कि- मुक्तम् ? इति तत्राह- प्रत्यासन्ना परिणतिरियं विप्राकृष्टस्तु पूर्वः संघातादिः सकल उदितो वेदसिद्धान्तसिद्धे: ।। एतावत्त्ादियमभिमता सूत्रकारस्य भाति भ्रान्तिभ्रष्टस्फुटनिजमनाकौशलानां नराणाम्।८०।। प्रत्यासन्नेति।। वेदसिद्धान्तो वेदान्तः तन्सिद्धे: सिद्धर्थम् इयं परिणतिः परिणामवादः प्रत्यासन्ना विवर्त्तपतिपत्युपायत्वात्, पृर्वः मागुक्त: संघातादिस्तु सकल: पक्षो विपकृष्टः अद्धैतवेदसििद्धा- न्ताननुरूपत्वादित्यर्थः। परिणायवाद: सूत्रकारस्य सिद्धान्तोडभि- मतः इति कपाश्चित् भ्रमोऽपि प्रत्यासत्तिवशादेव इत्याह। एता- वच्वादिति। मनःकोशलं विवेकसामर्थ्यम् ॥८०।। अव. परिणमवादस्य प्रक्तशास्त्रार्थपतिपत्त्युपायतया प-
व्यामिश्रदृष्टिरिति दृष्टिविभागमेनम् ॥ संगृह्य सूत्रकरृदयं पुरुषं मुमुक्षुं सम्यक् प्रबेोधयितुमुत्सहते क्रमेण ॥ ८१ ॥ आरोपदृष्टिरिति ॥ स्पष्टार्थः ॥ ८१ ॥ अव. किमासां दृष्टीनां स्वरूपं, को वा क्रमः, कथं वाडस्य दृष्टिकथनस्य परिणामवादोपकारित्वपदर्शनोपयोगः ? इति वीक्षायां दृष्टिस्वरूपक्रमी तावदाह-
477
Page 478
संक्षेपशारीरके द्वितीयोऽध्यायः ।२। ५१
आरोपटृष्टिरुदिता परिणामदृष्टि- द्वैतोपशान्तिरपवादकटष्टिरन्त्या ।। मध्ये विवर्तविषया द्वयमिश्रदष्टि-
आरोपदृष्टिरिति॥ आरोपटप्टिशब्देन परिणामदृष्टिरुदिता सा इह प्रथमा इति योज्यम्। ब्रह्मात्मकं सर्व जगदिति ब्रह्मणि पपश्चारोपदृष्टिरित्यर्थः। द्वैतस्योपशान्तिर्यस्याः सा द्वैतोपशान्ति: निर्विशेषाद्वयानन्दात्मव्रह्मदृष्टिः या भवति सा अपवाददष्टिः अन्त्या तृतीयतयोदितेत्यर्थः। मायया सपपञ्चं स्वतस्तु निष्पपश्चं ब्रह्म इति आरोपापवादात्मिका इत्येवं या द्यमिश्रदृष्टिः विवर्तविपया द्वैत मिथ्यात्वालम्वना सा मध्ये परिणामापवादहप्ट्योर्मध्ये भवती- ति व्यामिश्रदृष्टिरित्युच्यते इत्यर्थः । अस्या: कुतो मध्यत्वम् ? इत्यत आह। अधरोत्तरेति। आरोपोऽधरभूमि: अपवाद: उत्त- रभूमि: तयोर्भावात्सत्वात्, आरोपापवादास्यां व्यामिश्रणादि- त्यर्थः । अथवा कथमित्थमासां दष्टीनां क्रमनियमः ? इति तत्र हेतुमाह। अधरोत्तरभूमिभावादिति। उक्तक्रमेणैव आसामुन्वा- दित्यर्थः ॥८२॥ अव. उक्तमेव हेतुमुपपादयति- तत्त्वावेदकमानदृष्टिरधमा तत्त्वक्षतिर्मध्यमा तत्त्त्रप्रच्युतितरिभ्रमक्षतिकरी तत्रान्त्यदष्टिर्मता ॥ जीवैक त्वमुमुक्षुभेदगतितो व्यामिश्रदृष्टिर्द्विधा भिन्ना तत्र च पूर्वपूर्वविलयादृ्धव्वोध्वलब्धिर्भवेत ॥८३॥ तत्वावेदकमानटृाष्टिरिति ॥ या परिणामदृष्टिः सा
478
Page 479
५२ अन्वयार्थप्रकाशिकाविभूषिते
तत्वावेदकमानजा दृष्टिः, प्रत्यक्षादे: प्रमाणस्य तत्वावेदकहृष्टयु- पेतत्वात् आरोपदृष्टिः, एषाऽधमा पथमा च विशुद्धब्रह्मावगति पति दूरस्थत्वादित्यर्थः । तत्त्वक्षतिः प्रत्यक्षादेस्तत्वावेदकत्वक्ष- तिः यया सा तथा विवर्तदृष्टिःमध्यमा, आरोपरूपतामतीत्य के- वलापवादरूपत्वं चाखण्डाद्वयव्रह्मात्मालम्बनत्वलक्षणं न प्राप्तेति मध्यमेत्यर्थः। तत्वप्च्युतिरूपस्य विभ्रमस्य क्षतिं निवृत्ति कुर्वती अपवाददृष्टिः अन्त्या प्रथममध्यमापेक्षया उत्तमा, ब्रह्मैव प्त्यगे- करसं परमार्थसन्नान्यत्किश्चिदभूद्भवति भविष्यतीति यद्वेदान्तै- कवेद्यतत्वं तस्य प्रच्युतिस्तिरस्कारो लेशतोऽपि ब्रह्मान्यवस्तुद- शनलक्षणः स एव विभ्रमस्तस्य क्षतिर्बाधस्तं कुर्वती परां कार्ष्ठा पाप्ताऽन्त्याSपवाददृष्टिरमता, वाक्यार्थावगतिं प्रति अत्यन्तं सन्नि- कृष्टत्वादित्यर्थः । एवं दृष्टितैविध्यं तत्क्रमं तत्स्वरूपं चोपपाध, मध्यमाया विवरतदष्टद्वैविध्यम् उपायोपेयभावक्रमस्य विशदीकर- णायाह। जीवैकत्वेति। एक एवाहं जीव: स्वमे इव स्वात्मन्येव स्वा- विद्यया कल्पितो जीवभेदप्रतिभासो जीवेश्वरभेदावभासो मुक्ता- मुक्तादिपकारभेदकभिन्न आध्यातत्मिकादिपकारजगदवभासश्र, एतच्च सर्व मत्कृतेन मत्तत्वब्रह्मज्ञानेन निःशेषं निवर्तयिष्यते इति अहमेक एव मुमुक्षुरित्येका गति: प्रकारः। वहवो जीवास्ते च यथा- प्रतिभासं विभिन्नस्वभावा एव सन्ति परमात्मविषयकस्वाश्रया- नेकाविद्याविलसिता: क्रमेण च मुमुक्षुवोऽनादयनन्ताश्च संसारमार्गे इति अपरा गतिः प्रकारः। एवं जीवैकत्वमुमुक्षुभेदगतितः पति- पत्तिप्रकारभेदतो व्यामिश्रदष्टिर्द्विधा भिन्ना ज्ञेयेत्यर्थः । एवं दृष्टि- भेदं व्यवस्थाप्य आसां दृष्टीनाम् अधममध्यमोत्तमरूपाणां पूर्वपूर्व- प्रविलापनेन उत्तरोत्तरपाप्तिहेतुत्वम् इत्युपायोपेयभावं संगृह्लाति। तत्र चेति। तासां च मध्ये इत्यर्थः ॥। ८३ ॥
479
Page 480
संक्षेपशारीरके द्वितीयोउध्यायः।२। ५२
अघ. संग्रहं विष्ृणोति- परिणामबुद्धिमुपमृद्य पुमान् विनिवर्तयत्यथ विवर्तमतिम्॥ उपमृद्य तामपि पदार्थधिया परिपूर्णदृष्टिमुपसर्पति सः ॥। ८४ ॥ परिणामबुद्धिमिति।अयमर्थः। पत्यक्षादेरप्यस्ति स्वार्थेपु तत्वावेदकं पामाण्यम् । ब्रह्मण: परिणाम एव जगत् सटष्य्या- दिवाक्यप्रमितमिति या परिणामदृष्टिः पथमा तां परिणामहाष्टिं, ब्रह्मणो विशुद्धत्वान्निरवयवसन्मात्रत्वाच्च परिणामो न संभव- ति, प्रत्यक्षादेरपि व्यवहारव्यवस्थामात्रहेतुत्वा्यावहारिकमेव पामाण्यं, जीवेश्वरभेदो जीवानां मिथो भेदश्र व्यवहारदृष्ट्या वर्तते एव इत्येवं या विवर्तदृष्टिः तयोपमृद्य, परिणामं ब्रह्मणः सहसा प्रतीयमानं विवर्तत्वेनाकलय्येति। पुमान् परिणामबुद्धि विवर्तवुखध्या उपमृद्येति योज्यम्। अथ विवर्त्तमतिं परिणामबुद्धे- रुपमार्दनीमपि विनिवर्तयति दृष्टिसटष्ठ्याश्रयणेन जीवा- जीवजगद्भ्रमस्य केवलस्वप्रसाम्यापादनेन च पूर्वोक्तां विवर्त्तह- ष्टिमप्याभासमात्रतया आकलयतीत्यर्थः । पुनस्तामपि दृष्टिस्टष्टि- रूपां विवर्त्तमातें पदार्थधियाऽपवादरूपया केवललक्ष्यार्थधिया उपमृद्य सच्चिदात्मकवस्तुमात्रतया विलाप्येत्यर्थः। सोऽधिकारी तदा परिपूर्णदृष्टि वाक्यार्थावगतिरूपामुपसर्पति पाम्तोतीत्यर्थः । एवमासां दष्टीनां क्रमेण ब्रह्मावगतिहेतुत्वाद्युक्तं परिणामवादस्य पूर्वभूमिकात्वेनोपायत्वमिति भावः॥।८४ ।। अव. ननु मुमुक्षूणामेता दृष्टय एकैकस्मिन् क्रमभाविन्यो नोपळ- भ्यन्ते, कश्वित् हि परिणामदृष्टिमेव यावज्जीवमेवावलम्बमानो दृश्यते,
480
Page 481
५४ अन्वयार्थप्रकाशिकाविभूषिते
कश्चित्तु प्रथममेव विवर्त्तदृष्टिमपवादद्टष्टि वा इति चेतु, सत्यम्। सन्तु तादृशा अधिकारिणः तथापि अत्र अथातःशब्दाभ्यां सूचितो यः श्रवणाधिकारी स एता दष्टी: क्रमेणावलम्बते, अन्ते च वाक्यार्थ- घिया विगलितनिखिलदृष्टिभेद: सन् निजमहिम्न्यवतिष्ठमानो मुक्तो भवतीत्याह- अथशब्दसूचितमुमुक्षरिमं खलु दृष्टिभदमुदितक्रमतः ॥ उपढौकते विगलिताखिलधी- रवतिष्ठते निजमहिम्नि ततः ॥८५ ॥ अथशव्दसूचितमुमुक्षुरिति ॥ अक्षरार्थो अवतारि- कयैव व्याख्यातः ।य इह चतुरध्यायीलक्षणस्य सम्पूर्णशास्त्रस्य श्रवणाधिकारी साधनचतुष्टयसम्पन्नः सूचितः तस्यैव एवं क्रमेण मुक्तिफलावसाना: दष्टयो भवन्ति, इतरेषां तु तत्वश्रद्धा- मात्रेण पटत्तानां सम्यकूसाधनसम्पत्तिरहितानां परिणामे विव- र्त्ते वा दृष्टिः परिनिष्ठिता स्यात्, तादृशाश्च बहनः, पूर्वोक्तस्तु विरल इति न दृष्टिविरोध इति भावः ।।८५।। अव. इमं दृष्टिभेदं मुमुक्षुरुददितक्रमतः उपढौकते इत्युक्तमेव च क्रमं स्पष्टयति- परिणाम इत्यथ विवर्त इति बहवोऽहमेव च मुमुक्षुरिति॥ परिपुष्कलं च परमं पदमि- त्यवगत्य तिष्ठति महिम्नि निजे ॥ ८६॥ परिणाम इति ॥प्रथमं परिणामो ब्रह्मणो जगत् इत्यवगत्य
481
Page 482
संक्षेपशारीरके द्वितीयोऽध्यायः।२। ५५
अथ अनन्तरं विवर्त्त इत्यवगत्य तत्रापि विवर्ते बहवो मुमुक्षव: इति पथममवगत्य पश्चादहमेव च मुमुक्षुर्न मदन्ये सन्तीत्यवग- च्छति। पुनर्विवर्तोऽपि नास्ति नित्यशुद्धचित्स्वरूपे ब्रह्मात्मनि अज्ञानस्यासम्भवात् इत्यपवाददृष्टया परिपुष्कलं परमं पदम् अ- खण्डचित्सदानन्दरूपमेवात्मतत्त्म् इत्यवगम्य निजे महिन्नि स्व्ररूपे निर्लुठितसामान्यविशेषे स्वपकाशसदानन्दघने ब्रह्मण्य- वतिष्ठते ब्रह्मैव भवतीत्यर्थः ॥ ८६ ।। अव. यत्पूर्व विवर्तदृष्टेव्यामिश्रदाष्टित्वमुक्तं तत्पपश्चयति- परिणामधियो विवर्तधी- रपवादात्मतया व्यवस्थिता ॥ सकलद्वयमर्दिनीं धियं प्रति साऽडरेपगिराडभिधीयते ॥८७॥ परिणामधिय इति ॥ विवर्त्तपतिपत्ती वस्तुनः शुद्धत्वपतीत्या परिणामस्यापवादात् विवर्तधीः परिणामधियः अपवादतया व्यव- स्थिता, सकलद्वयमर्दिनीमपवादधियम् उत्तमां प्रति तामपेक्ष्येति यावत्, सा धी: आरोपगिराऽभिधीयते, व्यावहारिकदृष्टिरपि परमापवाददृष्टयपेक्षया समारोप एवेत्यर्थः ।। ८७॥। अव. अतो विवर्तदृष्टिः आरोपापवादव्याममिश्रेत्युक्तम् इत्याह- उभयव्यतिमिश्ररूपतां भजते तेन विवर्तधीरियम । प्रथमोत्तमयोई्योः पुन- वर्यतिमिश्रीभवनं न विद्यते॥ ८८ ॥ उभयव्यतिमिश्ररूपतामिति । तेन पूर्वपद्योक्त्तेन हेतु-
482
Page 483
५६ अन्वयार्थपकाशिकाधिभूषिते नेत्यर्थः । परिणामापवाददृष्टयोस्तु न केनचिव्यामिश्रताऽस्ति, अतस्तयोः केवलतैवेत्याह। पथमोत्तमयोरिति। निभित्ताभावा- दित्यर्थः ॥ ८6 ॥ अव. पुरुषमतिभेदादेवायं दृष्टिभेदो न एकस्यैव क्रमवर्तिन्य एता दृष्टय इति मतान्तरमाह- कृपणधी: परिणाममुदीक्षते क्षपितकल्मषधीस्तु विवर्तताम ।। स्थिरमतिः पुरुषः पुनरीक्षते व्यपगतद्वितयं परमं पदम् ॥ ८९ । कृपणधीरिति ॥ प्रत्यक्षादिपमाणतत्ममेयेषु यथादर्शनं तत्त्वमतिः कृपणधीः, पुमानिति शेषः । वस्तुविवेचनसामर्थ्य- रहितघी: अथुद्धान्ताकरण इत्यर्थः । तद्विपरीतः शुद्धान्त:करणः क्षपितकल्मषधीः । परिणाम इति विवर्न इति वा। दिक्षेपरहिततया तच्वे निश्चलमतिः स्थिरमतिरिति भेदः ।८९॥ अव. यत्पुनर्मध्ये विवर्तद्वैविध्यमुक्तं तदपि पुरुषभेदादेवे- त्याह- पुरुषभेदवशाद विविधा भवेत क्षपितकल्मषधीरपि मध्यमा । जगदनेकमुमुक्षुकमीक्षते पुरुष एकतरो न तथेतरः ॥ ९० ॥. पुरुषभेदवशादिति ॥ एकतरो द्वयोरेक: अनेकमुमुक्षुकं जगदीक्षते, न तथा इतरोऽन्योऽनेकम्रुमुक्षुकमीक्षते, किन्तु एकमुसुश्षुकमेवेत्यर्थः ।।९० ॥
483
Page 484
संक्षेपशारीरके द्वितीयोऽध्यायः ।२। ५७
अव. उक्तमपि मतान्तरमङ्गीकरोति- इति तु के चिदुशन्ति महाधिय- स्तदपि सम्भवतीति न दुष्यति ॥ इह तु सत्रकृताऽथगिरोदितः पुरुष एकतरिधस्त्रिविधो न तु। ९१ ॥ इति तु केचिदिति॥ तदपि सम्भाव्यते एतादृशा: अप्य- धिकारिणो मतिविशुद्धितारतम्यदशापन्नाः इत्यर्थः।अत्राथशब्द- सूचितः अस्त्वेकविध एवाधिकारीति तस्य क्रमभाविन्यः एताः दृष्टय इत्यस्पन्मतमित्याहाइह त्विति।एतदुक्तं भवति। शास्त्रन्त्वेतन्न नानाधिकारिकं काम्यकर्मकाण्डवदुपपद्यते, परमपुरुषार्थमोक्ष-
विवर्तदष्ड्योरन्यतरनिष्ठस्य साक्षात्तत्वप्तिपत्तिरस्ति, अतोन तमासाद्य शास्त्रं चरितार्थ भवेत्। यद्यप्यपत्राददृष्टिनिष्ठस्य वत्व- प्रतिपत्तिः सम्भवति तथापि तस्य सा दृष्टि आरोपविपयसिद्धिसा- पेक्षत्वादध्यारोपद्टष्टिमपेक्षते इति प्रथमत एव न भवति। ततश्र शास्त्रं तान् मिथो भिन्नानधिकारिणोऽपेक्ष्य न प्रवर्तितुमर्हतीत्ये- कविध एवात्राथशब्दमूचितो ऽधिकारी ज्ञेयः। मतान्तराभ्युपगम- स्तु एवंविधा अपि लोके सन्तीत्येतावन्मान्नाभिप्ायेणैव, न पुनः शास्त्रसम्मतत्वेन, अत एव तदपि सम्भवतीत्यपिशब्दप्रयोग इति ॥ ९१ ॥ अव. तदेवमेकस्यैव क्रमवर्त्यनेकदष्ट्यवस्थापाप्त्या तादशह- ष्टिक्रमावलम्बिशास्त्रस्य सामस्त्येन श्रवणेन कृतार्थत्वपपत्तेः स एव इहामुष्याधिकारीत्यभिपेत्याह- तिसृषु भूमिषु तस्य च तिष्ठतः
484
Page 485
५८ अन्वयार्थप्रकाशिकाविभूषिते
क्रमवशात् स्वयमुत्तमभूमिका ॥ समुपसर्पति तत्र च तिष्ठतः समुपशाम्यति कारणकार्यधीः ॥ ९२ ॥ तिसृष्विति ॥ क्रमवशात् क्रमेणेति यावत्। क्रमवशात्ति- सषु तिप्ठत इात सम्बन्धः। उत्तमभूमिका वाक्यार्थनिष्ठा सा स्व- यमेव अनायासेन समुपसर्पति उपगच्छति, पदार्थमतिदार्ढ्ये सति वाक्यार्थमतेरयत्नग्राह्यत्वादित्यर्थः । कारणकार्यधीः पपञ्चविषया बुद्धि: सम्यगुपशाम्यति तदा निट्टत्तसर्वसंसारबन्धो भवती- त्यर्थः ॥ ९२ ।। अव. एवं दृष्टिभेदाश्रयणेनेदं शास्त्रं प्टटत्तमिति कुतोऽव- सितं भवतेति वीक्षायामाह- श्रुतिवचांसि मुनिस्मरणानि च द्यविशारदगीरपि सर्वशः । त्रयमपेक्ष्य दशातितयं बिना न हि घटामुपयान्ति कदाचन ॥ ९३ ॥ श्रुतिवचांसीति।"सटष्टिवाचारम्भणैतदात्म्यतत्वम्" इत्यादि- वाक्यानि श्रुतिवचांसि, "स्याल्ोकवत्तदनन्यत्वम्"इत्यादीनि सूत्राणि मुनिस्मरणानि द्वयविशारदः श्रुतिसूत्रोक्तार्थाविष्कर- णनिपुणो भाष्यकारः तस्य गीर्भाष्यवचनजातम् एतत्सर्वमप्या- लोक्य इत्थंव्यवस्थाप्यते मयेति योज्यम् ।श्रुत्यादिवचांस्यप्येतत् दृष्टित्रयमपेक्ष्य प्टृत्तानीति कुतः पमाणान्निश्चयः इत्यत आह। त्रयमपेक्ष्येति। उक्तृष्टित्रयमपेक्ष्य उक्तदशात्रितयं विना परस्परा- नुरोधेनोपकार्योपकारकावस्थासम्पादनं विना घर्टां घटनाम् ए-
485
Page 486
संक्षेपशारीरके द्वितीयोऽध्यायः।२। ५९
कपुरुपार्थपर्यवसिततया सामञ्जस्यं न ह्ुपयान्ति कदाचन क्ष- तिवचनादीनि इति योजना। दृष्टित्रयनिबन्धनमधिकारिदशा- त्रयं विना श्वत्यादिवचनानुपूर्व्याः सामअ्रस्यं न लभ्यते, तद पेक्षायां लभ्यते इत्यन्वयव्यतिरकाभ्यामयमर्थो निश्चेतव्य: इत्यर्थः ॥ ९३ ॥ अव. एवमुक्तप्रकारेण विवक्षितार्थोपयोगात्प्रथमं "स्या- लोकवत्" इति परिणामवादमवलम्ब्य विरोधपरिहारः कतः न तु सिद्धान्ततयेति सिद्धमुपसंहरति- अतोऽनपोदैव तु तत्त्वसंवि- दुत्पादनेऽध्यक्षमिते: पुरस्तात ॥ सामर्थ्यमक्षादिविरोधमस्य निवारयामास समन्वयस्य ॥ ९४ ॥ अतोऽनपोद्यैव इति ॥ यत एवं परिणामवादस्याप्यत्रो- पकारिता अतो हेतोः अध्यक्षमितेस्तत्वसंविदुत्पादने सामर्थ्यमन- पोद्य अनिराकृत्यैव पुरस्तात्पथममस्य समन्वयस्य अक्षादिविरोधं प्रत्यक्षादिपमाणविरोधं निवारयामास सूत्रकृदिति योजना।।९४।। अव. पश्चादारम्भणाधिकरणे साक्षात्सिद्धान्तं विवर्तवाद- माश्रित्य, प्रत्यक्षादेश्र व्यावहारिकपामाण्याश्रयणेन यथासिद्ध- व्यवहारव्यवस्थानिरूपणेन विरोधपरिह्वारं चकारेत्याह- इहाधुनारम्भणशब्दशक्तिं संश्रित्य तत्त्व्रावगतिक्षमत्वरम् ॥ अक्षादिमानस्य निराकरोति समन्वयस्यापनयन् विरोधम् । ९५॥
486
Page 487
६० अन्वयार्थप्रकाशिकाविभूषिते
इहाधुनेति ॥ इह शास्त्रे अधुना अखण्डवाक्यार्थानुकूल- तया विरोधपरिह्वारान्तरस्य वक्तव्यत्वपाप्तौ आरम्भणशब्द- शक्ति संश्रित्य अक्षादिमानस्य तत्वावगतिक्षमत्वं निराकरोति सूत्रकारः समन्वयस्य विरोधे सम्यगपनयन्निति योजना ॥९५॥ अव. ननु परिणामवादाश्रयणेन विरोध: परिहतश्चेत्, किं विवर्तवादमाश्रित्य परिहारान्तरकरणेन? इति चेत, अस्यैवाखण्ड- वाक्यार्थसमन्वयसाधकत्वात् पूर्वस्य तदभावादित्यभिप्रेत्याह- अखण्डवाक्यार्थमनुव्रजन्ती समन्वयोत्थापितबुद्धिवृत्ति: ।। अक्षादिभिस्तत्त्वनिवेदने हि सद्ः परिम्लायति निर्विशङ्कम ॥ ९६॥ अखण्डवाक्धार्थमिति ॥ अक्षरार्थस्त्वतिरोहितः । अद्वितीयसन्मात्रे वेदान्तसमन्वयस्य विरोधः पूर्व परिहतः य- द्यपि, तथाप्यखण्डैकरसे तु समन्वयविरोधस्तदवस्थः, कार्यका- रणभेदेनाद्वयत्वसिद्धावपि अखण्डैकरसस्यासिद्धेः, अतस्तत्परिहा- राय विवर्तः आश्रयणीयः इति भावः ॥ ९६।। अव. तर्ह्यखण्डेकरसे समन्वयो मा भूत्, अद्वैतमात्रं तावत्सि- द्धमेव श्रौतमिति चेत्, मैवम्। समन्वयसूत्रादिना समन्वयस्या- खण्डैकरसे साधितत्वादित्याह- अखण्डमेवाद्यमात्मतत्वं
वदन्ति शब्दा इति शब्दशक्ति- निरूपणे पूर्त्रमुदीरितं हि ॥ ९७ ॥
487
Page 488
संक्षेपशारीरके द्वितीयोऽभ्थायः।२। ६१
अखण्डमेवेति । भेदसंसर्गरहिततया वस्तुमात्रमेवाद्वयं न संसष्टाद्यात्मकमित्यर्थः । सुगममन्यत् ॥ ९७॥ अव. अतो विवर्तवादाश्रयणेन आरम्भणाधिकरणपट्टत्तिर्यु- क्तैवेत्याह- अतो विरोधस्य निराससिध्धै निरस्यतेऽ्रक्षादिषु तत्त्वभागः । संरक्ष्यतेSसंव्यवहारशक्ति- भाग: पुनः सर्वमतोऽनवद्यम् ॥ ९८ ॥ अतः इति ॥ निरस्यते आरम्भणाधिकरणे इति शेष:। ९८।। अव. यदि प्रत्यक्षादीनां तत्वावेदकत्वं न स्यात् तहि व्या- वहारिकं प्रामाण्यमपि न स्यात्, तत्वानावेदकेषु शुक्तिरजतादि- ज्ञानेषु प्रामाण्यलेशस्याप्यदर्शनादिति चेत्, नेत्याह-
चितिवस्तुनः स्वमहिमस्फुरणे स्वयमेव कारणमिति प्रगतम् ॥ प्रतिबध्य तच्चितिगताग्रहणं विपरीतबुद्धिमुपढौकयति ॥ ९९ ॥ चितिवस्तुन इति ॥ चितिवस्तु प्रत्यगात्मस्वरूपं तस्य स्वमहिमा स्वयाथात्म्यं स्वरूपमिति यावत् । तस्य स्फुरणे प- काशे स्वयं स्वरूपमेव कारणं न कारणान्तरापेक्षा स्वप्रकाश- कत्वादिति पगतं प्रकर्षेणावगतं श्रुतिस्मृतिपुराणन्यायैरित्यर्थः । अत्र "स्वयं दासास्तपस्विनः" इतिवत्स्वयमेव कारणमित्यन्य- व्यावृत्तिपरं वचनं न स्वकारणत्वविधिपरमिति द्रष्टव्यम् । चिति-
488
Page 489
६२ अन्वयार्थप्रकाशिकाविभूषिते
गताग्रहणं तु चिन्मान्नाश्रयविषयमज्ञानं तु चितिवस्तु पतिबध्य यथावत्स्फुरणमाच्छाद्य तस्मिन् विपरीतबुद्धि संसारित्वपरिचछ- अनत्वादिविक्षेपरूपामुल्लासयति, स्फुरत एव चिदात्मनो याथा- सथ्येन स्फुरणमाधत्य तद्गताविद्या तस्मिन् विपरीताकारतामा- भासयतीति वेदान्तप्रक्रियास्थितिरित्यर्थः। एतदिह विवक्षितम्। पत्यगज्ञानजन्यं हि सर्वे पत्यक्षादिपमाणं तत्ममेयजातं च। तथा-
कत्वात्तद्विपर्ययेण वाचारम्भणप्पश्चाकारावभासकत्वाच्च चिदा- त्मतत्वज्ञानापक्षया शुक्तिरजतादिज्ञानवद् भ्रान्तित्वेऽपि व्यव- हारसमर्थस्वविषयावभासकत्वस्यानुभवसिद्धत्वान्न व्यावहारि- कांशेऽपि तस्य भ्रान्तितेति ॥ ९९॥ अव. ननु प्रत्यगज्ञानस्य चेतत्वावभासं प्रति दोषत्वं तर्हि स्वकार्ये मनआदावपि तद्दोषमासअ्जयेत्, अन्यथा तस्य तत्वावेद- कत्वमसङ्गात्। अतः कारणदोषदूषितत्वात् तस्य व्यावहारिकमपि पामाण्यं न सिद्धयेदित्याशङ्कां परिहरन्प्रत्यक्षादी स्वकार्ये ना- ज्ञानस्य दोषतेत्येतदाह- व्यवहारनिर्वहणशक्तिमसौ न चिदग्रहोऽस्य विनिवारयति॥ परमार्थवेदनविधिक्षमता- मवखण्डयन्नपि मनःप्रभृतेः ॥। १०० ॥ व्यवहारनिर्वहणशक्तिमिति ॥ अस्य मनःमभृतेः व्यावहारिकपमाणस्य असौ चिदग्रहः पत्यगज्ञानं परमार्थ- वेदनविधिक्षमतामवखण्डयअ्रपि तत्वावेदनजननसामर्थ्य नि- रुन्धअपि व्यवहारनिर्वहणशक्तिं न निवारयतीति योजना।
489
Page 490
संक्षेपशारीरके द्वितीयोऽभ्यायः।२। ६२
अज्ञानस्य स्वाश्रयापेक्षया दोषत्वे डपि न स्वकार्यापे- क्षया दोषत्वं पत्युत गुणत्वमेव, यथा काचादेर्नेत्राद्यपेक्षया दोषत्वं स्वहेतुभूतपापानुमाने गुणत्वम् । अतो न प्रत्यक्षादेर्व्याव- हारिकांशे दोषजन्यतेति न तत्र पामाण्यहानिरिति भावः॥१००।। अव. एवं तर्हि वेदान्तानामपि तत्वावेदकत्वं न स्यात् तेषा- मपि कारणदोपदूषितत्वादिति चेत्, तत्राह- चितिवस्तुबुद्धिजनकस्य पुन- रवचसो न खण्डयति शक्तिमसौ॥ स्त्रनिबन्धनस्फुरणमव चितेः प्रतिबद्य तिष्ठति न वाचनिकम् ॥ १०१॥ चितिवस्त्विति॥ असौ चिदग्रहः कस्मान्न खण्डयतीत्यत आह। स्वनिबन्धनेति। चैतन्यस्य स्वत््पाप्तपकाशमेव प- तिबध्नाति, वाचनिक वेदान्तवाक्यजन्यं तुस्फुरणं न प्रति- षघ्नाति तस्य तत्वावेदनशक्ति न खण्डयतीत्यक्षरार्थः । अज्ञान- स्य स्वपकाशस्फुरणं प्रत्येव दोषत्वम्। एवमषि स्वकार्ये प्रत्यक्षा- दावेव अज्ञानं स्वं दोषमासअ्जयति न वेदान्तेषु, तेषामज्ञा- नकार्यगोचरत्वाभावादिति तात्पर्यार्थः ॥ १०१॥ अव. कारणदोषानुबन्धश्चक्षुरादिष्विव न वेदान्तेष्विति कुतः एतत् ? इत्यत आह- प्रत्यक्षादेरेव दोषस्ततोऽयं वेदान्तानां नैव दोषानुबन्धः ।। सत्यं वस्तु च्छादयन्नद्दितीयं द्वैतं वस्मादानयत्येष दोषः । १०२ ॥
490
Page 491
६४ अन्वयार्थप्रकाशिकाविभूषिते
सत्यं वस्त्विति । द्वैतस्य दोपजन्यत्वात् तद्विषयकप्रत्यक्षादेर्व- स्तुतत्वावरणविपरीतकारित्वदर्शनात् तस्यैव कारणदोपानु- विद्धता, वेदान्तानां तु तथ्वावेदकत्वदर्शनान्न तेषां कारणदो- षानुबन्धः इत्यर्थः । अयं भावः। प्रत्यकूसंविदवच्छिन्नं व्ज्ञानं प्रमाणाकारेण विवर्तते, तत्राज्ञानदोषपाधान्येन चक्षुरादि- विवर्त्तः, संवित्माधान्येन वेदविवर्त्त इति स्थिते युक्तोडयं विशेषः इति ॥ १०२ ॥ अव. तदेवं प्रत्यक्षादेस्तत्वावेदकत्वाभावान्न तेन तत्वा- वेदकानां विरोध इति प्रतिपाद्य, विषयभेदेनापि विरोधं परिहरति- किं च प्रनीचि सकलोपनिषत प्रवृत्ता मानान्तरं सकलमेव तु तत्पराचि। प्रत्यक् पराग्विषयगोचरयोश्च बुद्धयोः सर्द्धा न सम्भवति मेयविभागसिद्ेः ॥ १०३ ॥ किं च प्रतीचि सकलेति ।। प्रत्यक्परा्ूपयोः मिथो- विरुद्धसंस्थानयोरर्थयोरवभासकत्वेन विषयोरिव ज्ञानयोर्न बाध्यवाधकभावो वेदान्तानां पत्यक्षादीनां चेत्यर्थः । अक्षरयोजना सुगमा ॥ १०३ ॥ अव. इतोऽपि नानयोर्विरोधो भेदपत्यययुक्तिबाधितत्वेन मिथ्यात्वपसिद्धेरित्याह- अभिन्न एवैष पटः समीक्ष्यते न भेदगन्धोऽपि पटे समीक्ष्यते ।।
491
Page 492
संक्षेपशारीरके द्वितीयोऽध्यायः।२। ६५
पटेडवि भेदो यदि कल्प्यते तदा पटो विदीर्येत कुतस्तदा पटः ॥ १०४ ॥ अभिन्नेति। समीक्ष्यमाणे पटे यदि भेदस्तदा इद वक्त- व्यम्, स्वस्मादेव पटस्य भेदोऽन्यस्माद्वेति। तत्राद्ये दोषमाह। पटे डपि भेदो यदीति। स्वस्मान्वेदे हि विशकलीभावः पटस्य स्यात्, तदा तस्य पटत्वहानि: शकलस्यापि स्वतो भेदाभावात्, तस्या- पि स्वतो भेदे स्वरूपहाने: एवं शकलेष्वपि तथात्वान्निःस्वरूप एव पटः स्यादित्यर्थः ॥१०४ ॥ अव. द्वितीयपक्षमप्यनूद्य दोषमाह- घटात् पटो भिन्न इतीष्यते यदि स्फुटं प्रसज्येत विकल्पिता भिदा।। न सत्यमापेक्षिकमीक्षितं क चित् तथा च यत्नेन निवेदयिष्यते ॥ १०५॥ घटादिति ॥ विकल्पिता मिथ्याभूता भिदा मसज्येत अन्यापेक्षत्वादित्यर्थः । अन्यापेक्षनिरूपणस्वभावत्वे Sपि भेदस्य कथं मिथ्यात्वम् ? इत्यत आह।नसत्यमिति। यदापेक्षिकम् अ- न्यापेक्षस्त्रभावं तत् कवचिदपि न सत्यमी्षितं यदापेक्षिकं तदस- त्यमेव दष्टं, यथा SSलक्तकाद्यपेक्षकं स्फटिकलौहित्यमित्यर्थः । यथा सापेक्षस्वभावकं कचिदपि न सत्यं तथा यत्रेन निवेदयि- ष्यते तृतीयेऽध्याये पदार्थशोधनावसरे पतिपादयष्यते इत्यर्थः। तस्मान्वेदो न सत्यः अन्यसापेक्षस्वभावत्वात्स्फटिकलौहित्या- दिवदित्युक्तं भवति ॥ १०५॥ इतो Sपि न प्रामाणिको भेद: इत्याह-
492
Page 493
६६ अन्वयार्थप्रकाशिकाविभूषिते
न भेदबुद्धिर्घटते प्रमाणतो बिना च धर्मिप्रतियोगिसंविदा॥ न भेदबुदद्धिं विरह्य्य कल्पते तथैव धर्मिप्रतियोगिधीरपि॥१०६॥ न भेदवुद्धिरिति ॥ धर्मिप्रतियोगिमविदा बिना प्रमाण- तः भेदवुद्धि: न घटते, कस्य कुतो भेदः इति न स्यात् धर्म्या- दिबुद्ध्यपेक्षत्वात्, तथैव धर्मिपतियोगिधीरपि भेदबुद्धिं विरहय्य न कल्पते, एकस्यैकदा एकं प्रति धर्मिप्रतियोगित्वायोगात्। तथा च सिद्धे भेदे धर्मिप्तियोगिसिद्धि: इतीतरेतराश्रयापत्तेर्न भेद: प्रामाणिक: इत्यर्थः ॥ १०६ ।। अव. अन्योन्याश्रयान्तरमाह- परस्पराभवंधिया न भदधी- र्विनोपपन्नी न तया विनेतरा॥ इनीदमन्योन्यसमाश्रयं यतो मतिद्वयं तेन तदस्तु कल्पितम ॥ १०७॥ परस्पराभावेति॥पूर्व धर्म्यादिबुद्धर्भेदबुद्धेश्वान्यान्याश्रय-
न्योन्याश्रयतोच्यते इति विवेक: । सुयोज्यान्यक्षराणि ॥१०७॥ अव. जडे भेदप्रपश्चे प्रमाणयोग्यताऽभावान्न तद्विषया घी: प्रमेत्युक्तम्। इदानीं तत्र प्रमाणकवत्याभावाच्च न तद्धी: प्रमाणं किन्तु भ्रान्तिरेवेत्याह- असन्निवृत्तिर्न च सन्निवृत्ति-
493
Page 494
संक्षेपशारीर के द्वितीयोऽध्यायः।२। ६७
ने चोपपन्ना सदसन्निवृत्तिः ।। जडप्रमाणस्य फलं ततोऽपि न तेन वेदान्तजबुद्धिबाधः ॥१०८॥। असन्निवृत्तिरिति॥ कस्यचिन्निवृत्ति: उत्पत्तिर्वा सर्वत्र मानफलं वाच्यं, तत्र निदृत्तिपक्षे किमसन्निटत्ति: प्रमाणफलं स- त्रिव्ृत्तिर्वा सदसन्निदत्तिर्वा ? सर्वथापि न सम्भवतीति क्रमेणा- ह। असन्निवत्तिरित्याद्यनार्द्धेन। असतो नित्यनिवृत्तिरूपत्वात् तस्य प्रमाणसाध्यत्वाभावात्, सतो ज्ञाननिवर्त्यत्वासम्भवात्, अत एव सदमन्निवृत्ययोगः सदसदात्मकवस्तुनो डभावाचच तन्निटतत्यसम्भव इत्यर्थः। १०८ ।। अव. विपयगतकिश्चिन्नित्ति: प्रमाणफलमिति पक्षं निर- स्य उत्पत्तिपक्षमपि तनो निराकरोति- असत्प्रसूतिर्न च सत्प्रसृति- ने चोपपन्ना सदसत्प्रसृति: । जडे प्रमाणस्य फलं ततोऽषि न तेन वेदान्तजबुद्धिबाधः ॥ १०९॥ असत्प्रसृतिरिति ॥ यतो विचार्यमाणे जडे पमाणकृ- त्याभावः ततोऽपि हेतोस्तेन पत्यक्षादिना न वेदान्तजबुद्धिवाध: इति फलितमाह। ततोऽपीति। स्पष्टार्थः ॥ १०९॥ अव. यथा सदादिविकल्पासहत्वात्कस्य चिदुत्पत्तिर्निदृत्ति- र्वा मानकृत्यं न सम्भवति, तथा जडे मानस्य कुर्वत्वाकुर्वत्ववि- कल्पानुपपत्या तत्र संविदुत्पत्तेर्मानफलत्वासम्भवं माह- जडार्थसंविन्न हि कुर्वतः फलं
494
Page 495
६< अम्वयार्थप्रकाशिकािभूषिते
तदा हि कुर्वत्वमपीदृशं भवेत ।I अकुर्वतस्तत्फलमित्युदीरयन् विहस्यते दुर्मतिरर्भकैरपि॥ ११० ॥ जडार्थसंविन्न हीति॥ कुर्वत्वं नाम व्यामियमाणत्वम् । तत्र कुर्वतो डकुर्वतो वाऽपि प्रमाणस्य न जडार्थसंवित् फलमु- पपदते। अकुर्वतः फलं चेत्कुर्वच्वस्यापि कार्यत्वात् तदपीद्टशं भवेत् कुर्वतः फलं भवेत्, तथा च तदपि तादृशमित्यनवस्थापसङ्गः। कु- र्वत्वस्यापि कार्यत्वे तत्फळस्य संवेदनस्थाप्यनादित्वेन फलत्वा- भावपसङ्गात्, न हि जडार्थसंवित् कुर्वतः फलमित्यर्थः।पक्षान्तरं तु सर्वलोकानुभव विरुद्धमित्याह। अकुर्वत इति। स्पष्टार्थः ॥११०। अव. संविदुत्पादकपर्यालोचनया संविदो मानफलं नि- रस्य, संवित्स्वरूपपर्यालाचनयाऽपि तन्निरस्यति- सती न संतित क्रियत हि सत्वा- न्न चासती तद्वदसत्त्वहेतोः ॥। न चोपपन्नं सदसत्त्वमस्या- स्ततो न कार्यत्वमुपैति संवित ॥ १११ ॥ सती न संविदिति॥ अक्षरार्थः स्पष्टः । सतोऽसतो वोत्पत्तिर्न मानफलमिति पूर्व सामान्यतो विकल्प्य दूषणमुक्तम्, अत्र संविदि विशेषतो विकल्प्य दूषणं कथ्यते इति विशेषः।।१११। अव. कार्यकारणभावसामान्यविषयमपि दोषं संविदु- त्प्तावाह- न शक्यमत्पाद्यमिति प्रशस्यते
495
Page 496
संक्षेपशारीरके द्वितीयोऽसपायः ।२।
तदा हि शक्तेरपि जन्यताऽऽपतेत ।।
द्रतं नभश्चूर्णय मुदगरादिना ॥ ११२ ॥ न शक्यमिति॥ शक्तं कारणं शक्यं च कार्यमिति हि स्थितिः । तत्र संवेदनं मानस्य शक्यमशक्यं वा। आद्ये शत््यव- च्छिन्नस्य शक्यत्वात् तदाशक्तेरपि जन्यताऽडपतेत्। शक्त्तेरपि ज- न्यत्वे तत्रापि शतयन्तरकल्पना प्रसज्येत । अतः शक्यमुत्पाद्य- मिति न प्रशस्यते, न युक्तिसहमित्यर्थः । द्वितीये दोषमाह। अशक्यमुत्पाद्यमिति। अतिपसङ्गान्नायमपि पक्षः साधुररित्य- र्थः। न चात्मन्यज्ञाननिवृत्ति: प्रमाणफलमिति पक्षे डप्येतद्विक- ल्प्य दूषणगणपसरणं सममिति शङ्कम्। अज्ञानस्यानिर्वचनी यत्वान्मानस्य तन्निवर्तकत्वमप्यनिर्वचनीयृमेवेति मानयुत्यसहि- ष्णुताया: अस्मन्मतालङ्गारत्वादिति भावः ॥११२।। अव. एवं जडप्रमाणदूषणे फलितमर्थमा- जडप्रमाणस्य फलानिरूपण- ज्डस्य तत्वं न निरूपणक्षमम् ॥ अतो न मानान्तरमर्थताऽपि न- स्त्रयीशिरोवस्तु निराकरिप्यति ॥११३ ॥ जडप्रमाणस्थेति॥ प्त्यक्षादेर्जडप्रमाणत्वाभिमतस्य फला- निरूपणात् अफलस्य चापमाणत्वात्, तस्य भ्रान्तिमात्रत्वे सति तत्ममेयस्य जडस्य तत्वं च न निरूपणक्षमं न प्रामाणिक, किं- त्वनिर्वाच्यमेव तदपीत्यर्थः । जडार्थस्यापामाणिकत्वे ध किमा- यातं ? तदाह। अत इति। प्रत्यक्षादेरद्वैतागमस्य च भिन्नविष-
496
Page 497
अन्वयार्थप्रकाशिकाविभूषिते
यत्वेन मिथो विरोधपरिहारेपि मानान्तरेण वस्त्वन्वरसन्भरावा- वगमेऽर्थादद्वयरूपस्य प्रमेयांशस्य वेदान्तानां प्रत्यक्षादिभिर्वि- रोध इति यः आर्थिकोऽपि विरोध उत्परेक्ष्यते सोऽप्यत्र नाव- तरति, परमार्थसदद्वैतार्थाबाधकत्वादिति तात्पर्यार्थः । अतः उ- क्युक्तिजालात् मानान्तरम् अर्थतोऽपि अिशब्दात्स्वरूपणापि नोडस्माकं त्रयीशिरोवस्तु अद्वैतलक्षणं न निराकरिष्यती- त्यक्षरयोजना ॥ ११३॥ अव.एवं युक्तिशतेन विरोधे निराकृते Sपि यदि विरोधान्तरं प्रकारान्तरेणाशङ्कोत तदङ्गीकृत्यापि परिहारमाह- आत्मन्येव समस्तमस्तु यदि वा मानान्तरं तेन च स्पष्टं वेदशिरो विरुद्धमिति च स्वीकुर्महे कामतः ॥ एवं सत्यपि पूर्वभावि सकलं मानान्तरं बाधते पश्चात् कस्य चिदेव वेदशिरसो जाता परब्रह्मधी:११४॥ आत्मन्येव समस्तमिति। आत्मन एवाज्ञाततया मेयत्वा- त् तस्यैव भोक्तृभोग्यादिमत्तयाऽवस्थानात्पत्यक्षादिना च प्रपश्च- विषयत्वेनात्मैवावेद्यते नानारूप:, वेदान्तैस्तु तद्विपरीततयाSद्वै- तात्मोपदिश्यते। अतः एकविषयत्वेन विरोधस्तदवस्थः । न च प्रत्यक्षादेव्यवहारिकपमाणत्वाद्वेदान्तानां च तत्वावेदकत्वान्न विरोध इति युक्तं वक्तुं, प्रत्यक्षादेरपि तत्वावेदकतयैव सर्वसंप- तिपत्तेः तदानीं वेदान्तानामपट्टत्तेर्विरोधाभावात्स्वतः प्रामाण्याच्च वत्वावेद कत्वस्यैवाभ्युपेयत्वादिति विरोधशङ्का, एतदभिप्ेत्योक्तम् आत्मन्येवेति। समस्तं प्रमाणान्तरमप्यात्मन्येवास्तु प्रमाणं तेन स्पष्ट वेदशिरो विरुद्धमिति च स्वीकुर्महे कामतस्तवेच्छयेत्यर्थः । उत्सर्गापवादन्यायमाश्रित्याङ्गीकृतं विरोधं परिहरति। एवं स-
497
Page 498
संक्षेपशारीरके द्वितीयोऽध्यायः।२। ७१
त्यपीति। पूर्वभावि सकलं मानान्तरं सर्वान्प्रत्यविसिष्टं सत् उत्स- र्गः, सर्वमेव प्रमाणं तत्वावेदकं प्राप्त यत् तत् पश्चात्कस्य चिदेव साधनचतुष्टपसंपन्नस्य वेदशिरसो जाता मतिस्तदपवादकतयोत्प- न्ना बुद्धिबधिते। उत्सर्गादपवादो बलीयानिति न्यायः प्रससि-
त्यक्षादेर्वेदान्तैरेव बाध इति विचारतो व्यावहारिकमेव प्रामाण्यं पत्यक्षादेर्न तत्वावेदकतेति तेन न वेदान्तवाध इत्यर्थः ॥११४॥ अव. पाश्चात्येन पूर्ववाधो लोकेऽपि पसिद्ध: इत्याह- पूर्वोत्पन्नमृगाम्बु विभ्रमधियो बाघं बिना नोत्तरं विज्ञानं समुदेतुमूषरभुवो याथात्म्यमावेदयत् ।। शक्रोतीति यथा मृगाम्बुधिषणामुन्मद्यदुत्पयते तद्वद्वेदशिरोवचोजनितधीर्भेदभ्रमं ब्रह्मणि ॥ ११५॥ पूर्वोत्पन्नमृगाम्वुविभ्रमधिय इति।। मृगाम्बुविभ्रमधीः मृगतृष्णायामुदकमिति मिथ्याबुद्धिस्तस्या: पूर्वोत्पन्नाया बाधम् अपहृतविषयत्वं विना ऊपरभुवो याथात्म्यमावेदयदुत्तरं विज्ञान- मुदेतुं न शक्रोति इति मसिद्धमिति योजना। उक्तदृष्टान्तमनूद्य दार्ध्टान्तिके योजयति। उन्मृद्यत् बाधमानमेवोत्पद्यते ऊषरभ्रुवो याथात्म्यधीरित्यनुषङ्गः । दार्ष्टान्तिकार्थः सुगमः। तथा च पूर्वप- वृत्तस्य प्रत्यक्षादेर्मृगतृष्णिकोदकवद्धान्तित्वं सिद्धमित्यर्थः।।११५। अव. पूर्वापरमात्रेणापरेण पूर्वबाध इत्ययमर्थो जैमिनीयेऽपि तन्त्रे न्यायतो निर्द्धाररितः इति- पैौर्वापरयें पूर्वदौर्बल्यमाह षष्ठेऽध्यायेऽवस्थितो जैमिनिर्यत ॥
498
Page 499
७२ अन्वयार्थप्रकाशिकाविभूषिते
वक्ष्यामस्तत्सर्वमानीय तुभ्यं बुद्धिं स्व्रीयां सम्यगन्रावधत्स्व ॥ ११६ ॥ पौर्वापर्ये पूर्वदौर्बल्यमाह इति ॥ पौर्वापर्ये पूर्वस्य निमित्तस्य दौर्वल्यं बाध्यत्वं जैमिनिराचार्यः षष्ठेऽध्यायेऽधिकार- लक्षणेSवस्थितो यदाह "पौर्वापर्ये पूर्वदौर्बल्यं पकृतिवत्" इत्य- त्र, तत्सर्व विषयाद्यक्गः परिपूर्णमानीय संग्रहेणोपनीय तुभ्यं व- क्ष्यामो वयम् अत्रास्मद्वाक्ये स्वीयां बुद्धिं सम्यगवधत्स्व अवहिता- मेकाग्रां कुर्विति योजना। न्यायस्यास्य दुर्बोधत्वादत्र सावधा- नः सन् शृण्वित्यर्थः ॥ ११६॥ अव. तदेव विषयादिविभजनेन कथयति- उद्गातृप्रतिहर्ट्टकर्तकतया जातौ वियोगौ क्रमाद यस्मिन् कर्मविधिप्रयोगसमये तत्रैव नः संशयः ॥ किं सर्वद्रविणव्ययो भवतु वा संस्थापनं दक्षिणा- हीनस्येति तदा परं बलवदित्यूच मुनिर्जैमिनिः॥११७॥ उद्गातृप्रतिहर्तकर्तृकतयेति॥। "अध्वर्यु निष्क्रामन्तमुद्गा- ता सन्तनुयात्"इत्यादिनाद्गातृप्रभृतीनामृत्विजां सोमयागे सुत्या-
दः प्रति हविर्धानस्योत्तरतः पसर्पणं विहितं, तत्र यदि विच्छेदो मध्ये यस्य कस्यापि स्यात्तदा पायश्चित्तं तत्तदंत्विग्विच्छेदनिमित्त- माम्नातम् अविरुद्धं यत्तद्यथाऽडम्नातमनुष्ठेयमिति तदस्यम्यायस्य न विषयः, यत्पुनः उद्गातृपतिहत्रोर्विच्छेदे प्रायशश्चित्तं विहितं "य- दुद्गाता विच्छिन्वाददक्षिणो यज्ञः सन्तिष्ठते यदि प्रतिहर्ता सर्वे स्वं दद्यात्"इत्येतच्ोद्गातुरध्वर्योर्विच्छेदे मकतस्य यागस्य विना द-
499
Page 500
संक्षेपशारारके द्वितीयोऽध्यायः।२। ७३ क्षिणादानं समापनं, पतिहर्जुरुद्रातृसकाशाद्विच्छेदे तस्मिन्नेव यागे यजमानस्य सर्वस्वदानम् इत्येवं मिथो विरुद्धं पायश्चित्तमवगतम्। तत्र दयोर्युगपद्विच्छेदे यजमानस्येच्छया विकल्पो निर्द्धारितः। क्र- मेण विच्छेदे पुनरिदं विचार्यते कतरन्निमित्तं नैमित्तिकं पयोजये- दिति। एकस्मिन्नेव कर्मणि सर्वस्वदानदक्षिणाहीनत्वयोरयोगात् अन्यतरस्यैवानुष्ठेयत्वे कतरदनुष्ठेयमिति संशयस्यावश्यंभावात् इत्येतत्सर्व पूर्वार्द्धेनोच्यते। तस्यैषाऽक्षरयोजना। यस्मिन् कर्मवि- धिपयोगसमये उद्गातृपतिहर्तृकर्तृकतया क्रमाद्वियोगौ जातौ भवतः तत्रैष नो डस्माकं संशयो जायते इति। एप इत्युक्तं संशयमेव स्फुटयति । किं सर्वेति। अत्र यथासङ्ख्य- क्रमो न विवक्षितः श्रुत्याम्नानविरोधादिति द्रष्टव्यम्। तदा पूर्वमसआ्जतविरोधित्वात्पवलं सत् उत्तरं बाधेतेति पूर्वमेव नि- मित्तं नैमित्तिकं प्रयोजयेदिति पूर्वपक्षपाप्तौ जैमिनिर्मुनि: परम् उत्तरं बलवदित्यूचे। पूर्वसमये ऽस्यानुत्पन्नत्वात्तनास्य बाध्यत्वा- योगात्, उत्तरस्य च पूर्वोपमर्दमन्तरेणोत्पत्यसम्भवादुत्तरमेव बल- वत्सत् पाप्तबाधकं स्वनैमित्तिकं प्रयोजयेदिति "पौर्वापर्ये पूर्वदौर्बल्यं पकतिवत्" इत्यवोचदित्यर्थः। पूर्वोत्पन्ना विच्छेदविषया बुद्धि: पश्रादुत्पन्नया ऋत्विगन्तरविच्छेदविषयया बुद्ध्या बाध्यते, अज्ञायमानयोर्विच्छेदयोरप्रयोजकत्वात् तेन ज्ञातयोरेव प्रयोजक- तेति बुद्ध्धोरेवेदमुदाहरणमिति द्रष्टव्यम् । तदुक्तम् । पूर्वात्परबलीयस्त्वं तत्र नाम पतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्म घियां भवेदिति ॥११७॥ अव. पौर्वापर्ये पूर्वदौर्बल्यमिति भागं व्याख्याय प्रकृतिव- दित्ति सूत्रभागं दष्टान्तपरं व्याचषे-
१०
500
Page 501
७४ अन्वयार्थप्रकाशिकाविभूषिते
धर्मो बाध्यनिवर्तकावभिमतौ बुद्धौ क्रमेणान्वयात।। पाठव्यत्ययसम्भवेऽपि च तयोबुद्धिक्रमो विद्यते पूर्वा प्राकृतधर्मधीरितरधीरन्त्या तथैतोत्थितेः ॥११८॥ यद्दिति॥ प्रकृतावुपदिष्टः प्राकृतो धर्मः, विकृतावुपदिष्टो वैकृतः, तौ च क्वचिदन्योन्यसंस्पर्द्धिनौ मिथो वाध्यनिवर्तका- वभिमतौ च, अत्राप्युत्तरेण पूर्तो वाध्यतयाऽभिमतः इत्यर्थः । कुतः १ बुद्धो क्रमेणान्वयात्। क्रमेण ज्ञायमानत्वात् इत्यक्षर- योजना। एतदुक्तं भवाति। अस्ति हि प्रकृतिर्विकृतिश्रेति विहि- तानां कर्मणां द्वैविध्यम्। तत्र समप्राङ्गसंयुक्ततया विधीयमानं कर्म प्रकृतिः, विकलाऊ्तया विहितं कर्म विकृतिरिति तयोर्लक्षणे। यथा दर्शपूर्णमासौ सर्वासामिष्टीनां प्रकृतिः, स्वपकरणे एव सर्वा-
विकृतिः, बिकलाङ्गतयाऽडम्नानात्।तथा कवचिद्विकृतिविशेषे कति- पयान्यङ्गानि विधीयन्ते।यथा"अभिचरन्यजेत"इत्यभिचारपकर- णे "शरमयं वहिः वैभीतक इध्म" इत्यङ्गविशेषाम्नानम्। तत्र वि- कृतिविधावितिकर्त्तव्यताऽभावे करणोपकारासिद्धे: करणनिवृत्ति- तत्फलयोरप्यनिप्पत्तेरितिकर्त्तव्यताऽपेक्षा विद्यते। सा चाङ्गानु- ष्ठाननिबन्धना। अङ्गानि च विकृतौ नाम्नातानीति तदपेक्षायां चोदनासामान्यादिना प्राकृतान्यङ्गानि विक्कतावततिदिश्यन्ते "द- रशपूर्णमासप्रकृतिवत्कुर्यात्" इति । यत्र पुनः प्राकृतानि साधना- नि कुशमयादीनि वर्हिरादिवस्तूनि विकृतिविधिपतीतिसमये एव प्रथममतिदेशेन प्राप्तानि, तैथ्र यत्कार्य निर्वर्त्तनीयं तदर्थतया य- दि विकृतिप्रकरणविशेपे वस्त्वन्तरशरमयाद्याम्नानं दृश्य- ते तत्र भवति विरोधस्फूर्तिः विकल्पसमुच्चययोर्भिन्नपकरणत्वे-
501
Page 502
संक्षेपशारीरके द्वितीयोऽध्यायः ।२। ७५
नासम्भवात्। तथाचैकेनैव निर्वर्त्तनीयस्याङ्गोपकारकत्वस्यैकमेव साधनतामुपैतीति तयोरन्यतरेणान्यतरस्य वाधेऽवश्यकर्त्तव्ये विकृतावुपदिष्टानां निरवकाशत्वात् "सावकाशनिरवकाशयोर्नि- रवकाशं वलवत्"इति न्यायादुत्तरेण वैकृतोपदिष्टेन पूर्वमतिदेश- पाप्तस्य पाकृतस्य वाधोऽवसितः।यथा तद्दुद्गातृपतिहर्तकविच्छे- देऽपि पूर्वबुद्धिरुत्तरया बुद्ध्या वाध्येत्युत्तरमेव निमित्तं नैमित्ति- कपयोजकं न पूर्वमिति निर्णयः । तथाऽत्रापि प्रथमात्पन्नप- त्यक्षादिवुद्धि: पश्चादुत्पन्नया वेदान्तवाक्यजनितया वाध्या ना- न्यथेति सिद्धमिति। यद्येवं परेण पूर्ववाध इति नियमस्तर्हि यत्र कचिद्विकृतेः कतिपयाङ्गोपेतयाः प्रथममाम्नानं, प्रकृतेश् स- मग्राया: पश्चात्पाठस्तव्राह। पाठव्यत्ययसम्भवेडपीति । पाठ- क्रमविपर्यासेऽपितयोः प्राकृतवैकृतयोर्वुद्धिक्रमो विद्यते। कीदृशः क्रमः ? इति तमाह। पूर्वेति। उक्तबुद्धिपौवीपर्यनियामकमाह। तथैवोत्थितेरिति । अयमर्थः। विकृतिर्हि इतिक र्त्तव्यताभागमाका- द्वमाणा स्वसन्निधावुपदिष्टमङ्गसाधनमसम्पूर्णत्वान्न स्वीकरो- ति, पकृतौ च समग्रस्य धर्मस्योपदिष्टत्वात्तदेव धर्मजातं चोदना- सामान्यादिना स्वीकरोति, पश्चात्स्वप्रकरणोपदिष्टमपि सन्निधि- पमाणात्स्वीकरोति, तस्यानवकाशत्वेनोपेक्षाऽनर्हत्वात्, तदाम्ना- नवैयर्थ्यपरिहारायावश्यं स्वीकार्यत्वात्। तस्मादतिदेशोपदेशबु- द्व्यो: पूर्वोक्तक्रमेणैवोत्पत्तेः पाठव्यत्ययेऽपि पूर्वा प्राकृतधीः अन्त्या चोपदेशधीरित्यनयोर्नियत एव क्रम इति ॥ ११८॥ अव. यद्येवं पौर्वापर्ये पूर्वस्योत्तरेण बाध एव न्यायस्तर्हि पथमश्चुतानुसारेण चरमश्चुतं नेयमिति न्यायस्य को विषयः ? इति तमाह- सापेक्षावुदितौ यदा तु भवतः पूर्वापरप्रत्ययौ
502
Page 503
७६ अन्यारथप्रकाशिकाविभूषिते
पूर्वस्तत्र निवतको भवति तत्रान्त्यो निव्त्यो यथा। वेदोपक्रमजा मतिर्बलवती नर्गादिसंहारजा वेदोपकरममुख्यजा भवति तन्नर्गादिताणी गुणात।।११९।। सापेक्षाविति ॥ विरुद्धयोर्बुद्धयोः परस्परं नैरपेक्ष्ये परेण पूर्ववाधः। यदा तु पूर्वापरपत्ययौ सापेक्षावुदितौ भवतस्तत्र तदा तत्र तयोर्मध्ये पूर्वप्रत्ययो निवर्तको भवति, अन्त्यस्तु निवर्त्यः इति निर्णयः । पूर्वापेक्षयोत्पद्यमानस्योत्तरस्य पूर्वाविरोधेनै- वोत्पत्तेः, पूर्वस्य तूत्तरोत्पत्तिसमये नापेक्षा नापि विरोध:, किन्तु पर्यवसानायैवापेक्षा तदा च विरोध: इति तदवस्थायां पूर्वेणो- त्तरं मुख््यार्थीत्पच्याव्यते तद्यथा तथोदाहरिष्याम: इत्यर्थः।उदा- हरणमाह।वेदोपक्रमजेति । "पजापतिर्वेदानसजत" इत्युपक्रम्य श्रूयते "उच्चैऋरचा क्रियते उपांशु यजुषेति"। तत्र ऋगादिशब्दः किं मन्त्रमात्रपर: किंवा ऋग्वेदादिपर इति सन्देहे मुख्यार्थपरिग्रहे बाघकाभावाद्यत्र यजुर्वेदेऽपि नियताक्षरपादावसाना: मन्त्रास्ते- डप्युच्चै: पयोक्तव्याः, ऋग्वेदेपि ये ब्राह्मणपभवाःनिगदादयोऽपि मन्त्रास्ते उपांशु प्रयोज्या: इति प्रापथ्य सिद्धान्तितम्।"मजापतिर्वेदा- नस्टजत" इति वेदशब्देनोपक्रमात् "उच्चैर्ऋचा क्रियते" इत्यादौ वे- दसम्बन्धि किश्चिद्विधीयते इति तावत्पतीयते, पश्चाच्च ऋचा यजुषे- तिऋग्यजुःशब्दयोर्मन्त्रस्तम्बन्धितया उच्चैश्च नीचैश्र कर्तव्यता भाति, तत्र वेदशब्दोपक्रमजाता मतिरसआ्तविरोधितया बलवती स्वा- र्थपरैव स्वीकर्त्तव्या, ऋगादिशब्दोपसंहारात् जाता मतिर्न बलवती स्वार्थपरा न भवति उपक्रमसापेक्षतया तद्विरोधे स्वार्थपरत्वायो- गादित्यर्थः । एतदेव स्फुटयति । वेदोपक्रममुर्यजेति। तथा चोपक्रमतन्त्रतया ऋगादिशब्दो मन्त्रविशेषे मुख्योऽपि गौण्या
503
Page 504
संसेपशारीरके द्विरतायोऽध्यायः।२। ७७
सच्या वेदपर एवेति। तस्मात् ऋग्वेदविहिते कर्मणि अनादेशे मन्त्रपयोगस्योच्चैस्त्वं विधीयते । यजुर्वेदविहिते चोपांशुत्वं, न तु यत्र मन्त्रस्तत्र तथा प्रयोग इति निर्णयः ॥ ११९॥ अव. वेदान्तेष्वपि तादृशमुदाहरणमस्तीत्याह- ब्रह्मपुच्छमितिवराक्य गामिनो- ब्रह्मपुच्छमिति शब्दयोर्वया: ॥ ब्रह्मशब्दबलवत्तरत्वतः पुच्छशब्दपरिपीडनं मतम् ॥ १२० ॥ ब्रह्मपुच्छमितीति॥ "ब्रह्मपुच्छं पतिष्ठा" इति वाक्यगतयो- ब्रह्मपुच्छपदयोः पथमश्रुतब्रह्मशब्दस्य निरपेक्षत्वात्पुच्छशब्दस्या- वयववाचिनो जवयविसापेक्षत्वात्प्रथमश्रुतब्रह्मपदानुसारेण चर- मश्रुतएच्छशब्दो लक्षणयाSSधारपरत्वेन निमत इति वाक्यार्थः। अक्षरयोजना सुकरा। यदि च ब्रह्मशब्दादप्यानन्दमयस्यैव त- द्वाक्योपक्रमे श्रवणात्माथम्यसुच्येत तदा "ब्रह्मविदाप्नोति परम्" इतिमहावाक्योपक्रमगतब्रह्मशब्दादानन्दमयशब्दस्य स्वार्थबाधो वक्तव्यः। अत एपोक्तम् "मान्त्रवर्णिकमेव च गीयते"इति॥१२०॥ अव. अयभपि न्यायो निरपवाद इति मदर्शयन् पसङ्गा- च्छारीरकाधिकरणे पदर्शितानां न्यायानां विवेकप्रतिपत्तये पु- नर्न्यायभेदानुपन्यस्यति- अथ यद्युपकरमणमल्पतरं भनति प्रभृत मुपसंहरणम्॥ बलवत्तदा चरममेव भवे- दुभयोर्विरोधसमये नितराम् ॥ १२१॥
504
Page 505
७८ अन्वयार्थप्रकाशिकाविभूषिते
अथ यदीति॥ अथ शब्दो न्यायान्तरोपक्रमार्थः । यदुप- क्रणम् उपक्रमोऽल्पतरं निर्देशमात्रं भवति, उपसंहरणं वाक्यशेष- लक्षणं प्रभूतं बहुलं भवति तदा उभयोरुपक्रमोपसंहारयोर्वि रोधसमये चरममेव नितरां बलवन्भवेदिति योजना । अत्र तरपः पयोगादविरोधेऽपि कचिद्वाक्यशेषेणोपक्रमगतस्य निर्णय- निदर्शनादुपसंहरणबलवत्तां सूचयति। यथाऽन्तर्यामिशब्द- स्योपक्रमगतस्यानिश्चितार्थतया अविरुद्धार्थत्वेऽपि वाक्यशे- षात् अदृष्टो द्रष्टाऽऽत्माऽमृतादिरूपात् चेतनेश्वरत्वनिर्णयः इत्यर्थः। "आकाशस्तलल्लिङ्गात्""अत एव प्राणः" "ज्योतिश्चरणा- भिधानात्" इत्याद्यधिकरणेषु पथमश्रुतानामप्याकाशमाणगा- यत्र्यादिशब्दानां "सर्वाणि ह वा इमानि भूतानि" "त्रिपादस्या- मृतं दिवि"इत्यादिवाक्यशेषगतबहुलिङ्गश्रुत्यादिवशेन स्वार्थ- बाधो दर्शितः इत्येवदिहोदाहरणम् ॥ १२१॥ भव. अस्यापि न्यायस्यापवादमाद- अथ यद्युपकमणमल्पमपि प्रतिपाद्यवस्तुविषयं भवति ॥ अतिवक्षितार्थविषयं चरमं भतरति प्रभतमपि बाध्यमदः ॥ १२२ ।: अथ यदीति ॥ अक्षरार्थो निगदव्याख्यातः । अस्योदाह- रणम्। "आत्मा गृहीतिरितरवदुत्तरात्" इति।अत्र हि "आत्मा वा इदमेक एवाग्र आसीत" इत्यात्मैकत्वावधारणेनोपक्रमगतेन पति- पाद्यार्थविषयेण तद्विपर्रातो वाक्यशेषगतो महान्प्रपञ्चः "ताभ्यो गामानयत्" इत्यादिसविशेषात्मविषयो बाध्यत इति निर्धारितम्। एवमन्यत्राप्युदाहरणमन्विष्येत्थं न्यायो योज्य: ॥। १२२।।
505
Page 506
संक्षेपशारीरके द्वितीयोऽध्यायः।२। ७९
अव. इदानीं मासङ्रिकं परित्यज्य पकृतमेव वेदान्तैः मत्य- क्षादेबािं पुनरपि न्यायान्तरेणाह- आसन्नवस्तुविषयेण यथाऽक्षजेन बाधो भवत्यनुमितेर्व्यवधानयोगात। प्रत्यक्त्वमात्रविषयेण तथाऽडगमेन युक्तोऽक्षजादिविषयावगमस्य बाधः ॥'१२३ ॥ आसन्नेति ॥ सन्निहितार्थविषयेणाक्षजेन प्रत्यक्षज्ञानेनानु- मितेर्बाधो भवति, कुतः?व्यवधानयोगात् व्याप्त्यादिज्ञानव्यवधा- नार्थप्रतिपादनात, द्रष्टः स्वगतव्यापारागोचरत्वेन व्यवाहिताथे- त्वाद्ा। यथाऽगिरनुष्णः पदार्थत्वादित्यादौ। तथा प्त्यत्कमात्र- विषयेण द्रष्ट: स्वरूपमात्रगोचरेणागमेन तत्वमस्यादिरूपेणाक्ष- जादिविषयावगमस्य कर्त्ता भोक्ता धनी गोमान् ब्राह्मण: इत्या- द्यात्मकस्य परोपाधिद्वारकतया व्यवहितार्थस्य बाधो युक्त इति योजना ॥ १२३ ॥ अव. व्यवहिताव्यवहितार्थविषययोर्विरोधे व्यवहितार्थकं ज्ञा- नमितरेण बाध्यमिति न्यायेन वेदान्तपावल्यमुक्त्वा, उपजीव्यो- पजीवकयोर्विरोधे उपजीव्येनोपजीवकबाध इति न्यायेनापि चे दान्तमावल्यमाह -
किं चाम्नायवचः प्रमेयबलतः सर्व प्रमाणान्तरं स्वार्थ साधयतीति तत्सकलमेवायत्तमस्मिन्भवेत् ॥ यद यत्रायतते विरोधसमये तेनास्य तद्वाधन सामर्थ्य न च विद्यते श्षतित्रचोबाधोयथा हि स्मृतेः १२४
506
Page 507
८० अन्कचार्थप्रकाशिकाविभूषित
किश्चाम्ना्थेति ॥ आम्नायवचः पमेयं प्रमात्रादिसाक्षी कू- टस्थानुभवस्तद्बलतस्तदाश्रित्य सर्व प्रमाणान्तरं पत्यक्षादिकं वि- धिनिषेधार्थकं च स्वार्थ साधयति, पमाणपमेयभावस्य तन्नियम- स्य च नित्यानुभवात्मापेक्षसिद्धिकत्वादिति हेतोरस्मिन् वेदान्त- प्रमेये कूटस्थानुभवे तत्सकलमेवेतरत्प्रमाणजातम् आयत्तं भवेत् उक्तानुभवोपजीवकं मानान्तरं भवेदित्यर्थः । यद्यद्धीनसिद्धिकं तन्न तस्य वाधकमत्येतत्साधयति । यद्यत्रायतते इति । स्मृतिः धर्मशास्त्रवचनम् ॥ १२४ ॥ अव. तस्माद्वेदान्तवाक्योत्था मतिः विषयेन्द्रियव्यवहारं बाधते इत्युपसंहरति- ब्रह्माज्ञानसमुद्जवं ग्रहगणं सातिग्रहं ब्रह्मणः स्वाकारग्रहणेन वेदशिरसो जाता मतिर्बाधते॥। विद्या वस्तुबलेने जन्म लभते माया तु मिर्वस्तुका सा तामुद्जवमात्रतःक्षपयति ध्वान्तं यथा भासकरः॥१२५॥ ब्रह्माज्ञानेति॥ग्रहाः इन्द्रियाणि "पाणो वै ग्रहश्चक्षुर्वै ग्रहः" इत्यादिश्रुतेः । अतिग्रहाः विषयाः "स रूपेणातिग्रहेण गृहीतः" इतिश्रुतेः। वेदशिरसो महावाक्याज्जाता मतिः सातिग्रहं ग्रहगणं बाधत। तस्य सत्यत्वात्कथम् उक्तमतिबाध्यत्वम् १ इत्यत आह। व्र- हाज्ञानसमुद्भवमिति।"इन्द्रो मायाभिः पुरुरुप ईयते"युक्ता हास्य हरय" इतिश्चुतेः इन्द्रियाणामात्माज्ञानमयत्वावगमाधुक्तं ज्ञान- बाध्यत्वमित्यर्थः । ननु बाधितार्थवचनमेतत्, अवगतवाक्या- र्थानामपि केषाश्चित्तद्वाधादर्शनादिति चेत्, तत्राह। स्वाकारा- ग्रहणेन । स्वोऽसाधारणो यः पत्यग्व्रह्माकारस्तस्य ग्रहणेन मत्यगात्मतत्वाकारग्रहणसामर्थ्यादित्यर्थः । चितदोस्पतिबद्धत-
507
Page 508
संक्षेपशारीरकें द्वितीयां उध्यायः।२। ८१
या केवलात्माकाराग्रहणादेव केषाश्चिद ज्ञानतत्कार्यबाधादर्शने, न तु वाक्यार्थज्ञानस्य तत्राशक्ति: सहायापेक्षा वेति भाव:। न-
कथमज्ञानादिनिवर्तकता? इति चेत्,तत्राइ।विद्येति। विद्याया: मेया- कारतयैवोत्पत्तेः, सा च वस्तुबलेन मेयबलेन जन्म लभते, माया तु अज्ञानात्मिका निर्वस्तुका परमार्थवस्त्वाकाररहिता। तथाच स्त्रप्रकाशपरमार्थवस्त्वाकाराकारितया तद्रहितजडमात्राज्ञा- नादिविरोधित्वाद्विय्या Sविद्यां वाधेतेत्याह। सा तामिति। स्पष्टार्थः ॥ १२५।। अव विद्यया ऽविद्या निवर्ततां नाम द्वैतलक्षणः संसार: कथं निवर्तनीयः १ इति तत्राह- रागद्वेषप्रशाखं विषयगुणसमुद्भासिधीवृत्तिशाखं धर्माधर्म प्रवृत्तिप्रचुरसुख समुद्देगभोगप्रवालम्।। छिन्द्याः संसारवृक्षं निशितमतिमहाशस्त्रनिक्षपदक्षः प्रत्यक्तत्वस्थलींगं निचिडतमतमोमूललब्धप्ररोहम्॥१२६॥ रागद्वेषप्रशाखमिति। अत्र वृक्षरूपकालङ्कारेण सं- सारवर्णनं वृक्ष इध मूलोच्छेदे स्वमूलाविद्याछेदे संसार उच्छि- दयते इति दर्शयति। निशितमतिमहाशस्त्रनिक्षेपदक्षः सन् त्वंसं- सारवृक्षं छिन्घा: इत्यन्वयः । मतेनैशित्यम् असम्भावनादिपति- बन्धराहित्यम् । महत्वविशेषणेनोत्पन्नायां विद्यायां भयत्रबला- दपेक्षाऽभाव: सूच्यते । दक्ष इति सावधानता चित्तवैयग््यहेतुप- रिहारेण स्थिरीभाव: सूचितः । विशेषणैः सर्वैरस्य वृक्षस्वं पपञच्यते। तत्र बीजरूपं मूलमाह। निबिडतमेति। अतिनिबिडं महाजडं यत्तम: आवरणविक्षेपशक्तिमदज्ञानं मतीच्यध्यस्तं त- ११
508
Page 509
४२
लक्षणं यन्मूलं तस्माल्लव्य: परोहो अङ्कुरीभावो येन स तथा तम्। कस्मिन् स्थाने ऽस्योक्तबीजात्मादुर्भावः? इति तदर्थ विशि- नष्टि। मत्यकूतश्वस्थलगिमिति । ब्रह्मण स्ववीजेन सहाध्य- स्तममित्यर्थः । तत्र यद्यपि वृक्षस्योपादानवीजव्यतिरेकेणापि बा- प्तोयमृदाद्यवयवा उपचयदारढ्यहेतवः सन्ति, नैवमिद्द, किन्त्वविद्यात एवोपचयोऽप्यस्येति दर्शयन् पुनर्विशिन- ष्टि। रागद्वेषेत्यादिभिर्विशेषणैः । रागादेरविद्याक्षेत्रत्वं पात- अलसूत्रेणोपदिष्टम् "अविद्या क्षेत्रमुत्तरेषां प्रसुप्नतनुविच्छिन्नो- दाराणाम्" इति। रागद्वेषी प्रकृष्टे शाखे स्थूलविटपौ यस्य, विषया: शब्दादयस्तेषां गुणा: शोभनाशोभनरूपा: सङ्कल्पमा- त्रसिद्धास्तदवभासिन्यो या धीटृत्तयस्ता: शाखाः क्षुद्रा: यस्य, रागद्वेषाभ्यां शोभनाशोभनाध्यासाभ्यां विषयावभासिन्यो धीृत्तय उत्पद्यन्ते तिटपाभ्यामिव शाखाः इत्यर्थः । अन्तः सू- क्ष्मरूपेण बहिर्विस्तृतरूपेण प्रथमानं पल्लवस्थानीयमिह यदस्ति तदाह। धर्माधर्मेति। धर्माधर्माभ्यां केवलवासनारूपाभ्यां प्रवृत्ति: दृद्धिर्यस्य, प्रचुरा असङ्ख्याता: सुखसमुद्वेगमोगा: सुखदुःखा- नुभवाः प्रवाला: पत्राणि यस्य, धर्माधर्मपटत्तिश्रासी पचुरसु- खदुःखभोगपवालश्रेति तथा तमिति विग्रहः। तथाच प्त्यग- ज्ञानमूलकत्वात्संसारस्य प्रत्यक्तत्वज्ञानेनाज्ञाननिट्टत्तौ मूलो न्मूलनेन च वृक्ष: संसार: उद्धर्तेतैवेति न ज्ञानादन्यत् अज्ञान- तत्कार्यसंसारनिवृत्तावपेक्ष्यते इति भावः॥१२६॥ अव. ननु भवेदेतदेव, यथज्ञानविलासो भेदपपञ्चलक्षणः संसार इत्यत्र पमाण भवेत्। न तु तद् दृश्यते इत्यत आह- प्रत्यग्वस्तुन एव तत्र विषये माया तमः कारणं
509
Page 510
संक्षेप्शारीरके द्वितीयोऽध्यायः।२।
ध्वान्तं बीजमबोध इत्यपि गिराऽविच्चैव संकीर्त्यते । तस्या एव विलास एष भता गुर्वादिभेदान्वितः संक्लप्तो न तु विद्यते पृथगसी संध्ये यथा धामनि॥१२७॥ प्रत्यग्वस्तुन इति । आत्मतच्वस्य संबन्धि प्रत्यकूचै- तन्याश्रितमिति यावत् । तत्र पत्यग्वस्तुनि विषये विषयभूते। पत्यगात्माश्रयं प्रत्यगात्मविषयं च यदञ्ञानम् अविधा साऽवि- ैव माया तमः इत्यादिकयाऽपि गिरा जगत्कारणं श्रुतिस्मृ- तिपुराणेषु सङ्कीर्त्यते, अतोऽज्ञानहेतुकत्वं द्वैतप्रपञ्चस्य प्रामाणि- कमित्यर्थः । तस्मात् तस्याः अविद्याया: एवैष विलासो विपरि- णामो गुर्वादिभेदान्वितो भवता Sविद्यावता त्वया संकलूप्तः संकल्पमात्रेणास्तीति प्रतीतिपथमानीतः न त्वसौपरमार्थतः पृथक् प्रत्यगात्मनो भेदेन स्वतन्त्रो विद्यते, यथा सन्ध्ये धाम- नि स्वपस्थाने Sविद्यामात्रविलसितो गुरुशिष्यादिभेदमपञ्चः केवल आत्मन्युपलभ्यमान: ततः पृथकू न विद्यते तद्वदिति योज- ना। विमतः संसारोऽविद्याविलसित: अविद्यावस्थायामेव वि- भाव्यमानत्वात्स्वप्वदित्यर्थः ॥। १२७॥ अव. "गुर्वादिभेदान्वितः" इत्युक्तं पपश्चयन् उपपादितमर्थ विशद्यति- मुक्तामुक्तौ विद्वदज्ञौ त्वदन्या- वाकाशादि क्ष्मावसानं च विश्वम ।I स्वाविद्योत्थस्वान्तनिष्पन्दनं तद विज्ञातव्यं मा ग्रहीरन्यथैतत ॥ १२८॥ मुक्तामुक्तािति ॥ अक्षरार्थस्त्वतिरोहितिः । समष्टिव्य-
510
Page 511
ष्िशरीरेषु द्विविधेषु तत्कारणे चाव्याकृते साक्षिण एकत्वात् अन्यस्य चात्मनः सच्चे पमाणाभावात् विद्दज्ञमुक्तामुक्तत्वादि- विरुद्धधर्मत्वेन येयमात्मभेदकल्पना या चाकाशादिभोग्यवि- इवकल्पना एतत्सर्वे स्वाविद्यामसूतान्त:करणपरिणतिमात्रं स्त्रप्रवदिति विज्ञातव्यं विवेकिना, परमार्थमेव तद् यथाद्ृश्य- मानमिति न ग्राह्मम्, अविद्यान्वयव्यतिरेकानुविधायिन: स्वप्रा- दिवदविद्यामात्रशरीरत्वादित्यर्थः ।। १२८।। अव. ननु बन्धमोक्षादिव्यवहारस्यानादिकालमारभ्य प्र- वृत्तस्यागामिनि चानन्ते काले वर्त्तिष्यमाणस्य श्रुतिस्मृतिन्याय- लोकानुभवसिद्धत्वात् तद्विरुद्धमिदं "त्रिष्वपि कालेषु बन्धमोक्षा- दिभाकू अविद्वदादिरूपः प्रत्यगात्मनोऽ्न्यो नास्ति" इति वचनमिति चोदयति- कालोऽतीतो इनादिरेष्यन्ननन्तो मुक्तामुक्तौ तत्र पूर्व तथोर्ध्वम् ॥। तस्मादेतद् दुर्घटं शङ्कसे चेत्
कालोऽतीत इति॥ अतीतः कालोऽनादि: एष्यन् भ- विष्यंश्च कालोऽनन्त इति योजना। तत्र तयोः कालयो: मुक्तामु- क्ौ सर्वतः पसिद्धाविति शेषः । यस्मादेवं प्रामाणिकोऽयमर्थः तस्मादेतत् उक्तमस्याविद्यात्वं दुर्घटमित्यर्थः। उत्तरमाह। माशङ्कि- ष्ठाः इति। लोकप्सिद्धे: भ्रान्तिमात्र त्वाल्लोकपवादानुवादित्वाच्च श्रुत्यादेर्न तेनेदं प्रमीयते। तथा चाविद्यामात्रविपरीतवर्तिस्व- अवन्मिथ्याभूतस्याप्यस्य व्यवहारास्पदत्वोपपत्तेर्न तद् दुर्घटमि- ति भावः ॥। १२९ ॥
51
Page 512
संक्षेपशारीरके द्वितीयोऽध्यायः।२। ८५
अव. स्व्रम्नौपम्यमेव भपश्चयति- सुप्ता जन्तुः स्वल्पमात्रेऽि काले कोटी: पश्येद वृत्तसंवत्सराणाम् ।। पश्येत्कोटीरेवमागामिनां च ज ग्रत्काले योजयेत्सर्वमेतत् ॥ १३० ॥ सुसो जन्तुरिति ॥ १३० ॥ अव. "जाग्रत्काले योजयेत्सर्वमेतत्" इत्युक्तं विशदयति- कालोऽनादिस्तत्र मुक्तः शुकादि: कालोऽनन्तो मोक्ष्यते तत्र चान्यः ।। इत्येवं ने बन्धमोक्षव्यवस्था- संसिद्धिः स्यादापरात्मातबोधातू ।। १३१ ।। कालोऽनादिरिति ॥ आपवोधात् स्वप्न इवापरमात्म- साक्षात्कारात्ते बन्धमोक्षव्यवस्थासंसिद्धि: स्यात्, आविद्यकत्व्वे- डपीत्यर्थः ॥१३१॥ अव. तदेवमविद्यायास्तत्कार्यव्यवहारस्य विदुषो निटृत्त- त्वात् बन्धमोक्षादिव्यवस्थाऽपि तं प्रति निवर्तते एव, अविदुषस्तु स्वाप्रव्यवहारवत्सा यथाऽनुभवं सिध्यतीत्यविद्यावस्था- यामेव सर्वाजपि व्यवस्था न विद्यावस्थायामिति स्वमते बन्ध- मोक्षव्यवस्थोपपादिता। तत्रैव पक्षानन्यान् उक्तार्थविमलीकर- णायोपन्यस्यति- अज्ञानं सकलभ्रमोज्जवनकृत पिण्डेषु सामान्यव- ज्जीवानां प्रतिबिम्बकल्पवपुर्षां बिम्बोपमे ब्रह्मणि ॥
512
Page 513
विद्वांसं पुरुषं जहाति भजते विधाविहीनं नरं नष्टानष्टमिवात्मपिण्डमधुना जातिस्तथैके जगुः॥१३२॥ अज्ञानमिति॥ सकलभ्रम: साधारणासाधारणरूप: स- मस्तद्वैतप्पञ्चः तस्योद्भवनकृत् अज्ञानमेकमेव तच्चानेकजीवाश्रयं ब्रह्मविषयकं च, न चैतावता जीवब्रह्मभेदो वास्तवोऽभ्युपगतो भवति, बिम्बप्रतिबिम्बयोरिवौपाधिक भेदाभ्युपगमादित्यभिप्ेत्या- ह। जीवानामिति । बिम्बोपमे ब्रह्मण विषये प्रतिबिम्बकल्पव- पुर्षा जीवानामाश्रयभूतानाम् उक्तलक्षणमज्ञानमिति योजना। कथमनेकेष्वेकमज्ञानं प्रवर्तेत? इत्यत्र दष्टान्तमाह। पिण्डेषु सामान्य- वदिति। प्रति पिण्डं सामान्यमिव प्रतिजावं कार्त्स्येन वर्त्तते इत्यर्थः। कथमस्मिन्पक्षे बन्धमोक्षव्यवस्थोपपत्ति: १ इति तत्राह। विद्वांस- मिति। यथा नष्टं स्वपिण्डं परित्यज्यानष्टे एव जातिस्तिष्ठति न नश्यति, तथा मुक्तं विद्वांसं परित्यज्याज्ञानमप्यविद्वांसममु- क्तमाश्रित्य तिष्ठति न नश्यतीत्यर्थः । अधुना व्यवहारकाले जातिरिवेत्यन्वयः ॥१३२ ॥ अव. पक्षान्तरमाह- अज्ञानानि बहून्यसंख्यवपुषो जीवान् मुमुक्षूनपि ज्ञानाज्ञानसमाश्रयाननुयुगं तेषां च निःश्रेयसम्।। मायामीश्वरसंश्रयामनुगमात संसारसंवर्तिनी के चित् दैवविघातनिन्नमनसः स्वीचकुरल्पश्रुताः॥१३३ अज्ञानानीति ॥ केचित् अज्ञानानि बहूनि स्वीचकुरित्य- न्वयः । अस्मिन्पक्षे व्ञानेनाज्ञानस्य निषृत्तिप्सिद्धिर्न वाध्यते, अज्ञानबहत्वाच्च मुक्तामुक्तव्यवस्था सुस्थेत्यर्थः। असक्ख्यव-
513
Page 514
संक्षेपशारीरके द्वितीयोऽभयायः।२।
पुषो जीवानिति। स्वरूपत एव भिन्नान् जीवान, स्वीचकुरि- ति प्रत्येकं सम्बध्यते। मुमुक्षूनपि ज्ञानाज्ञानसमाश्रयान् कांश्चि- त ज्ञानसमाश्रयान् कांश्चिदज्ञानसमाश्रयांश्र स्वीचक्रु:, तेषां च मुमुक्षूणां प्रतियुगं युगे युगे एकैकस्य निःश्रेयसं च स्वी- चक्रुः, मार्या चान्यां जीवाज्ञानेभ्य: ईश्वरसंश्रयामेकां स्वीचकु:, किंलक्षणाम्? अनुगमात् संसारसंवर्ततिनीं जीवाज्ञानेष्वनुपवेशात्त- व्वक्षोभकतया च संसारप्वर्तिकां तत्वज्ञानानाश्यां नित्या- मित्यर्थः । अस्मिन्पक्षे उद्वैतवाद परित्यागापत्तेर्मायाSविद्यातन्ेद- स्वीकारोऽनर्थक इति पक्षोपन्यासावसर एव। तान् कुत्सयति। दैवेति। भाग्यक्षयेण निघ्नमवशीकृतं मनो येषां ते तथोक्ताः। विघ्नमनस इति पाठे प्रतिबद्धविवेकबुद्धयः इत्यर्थः । एवं पक्ष- स्वीकारे हेतुगर्भविशेषणम् अल्पश्चुताः इति ॥१३३॥ अव. पक्षान्तरमाह- आकाशे विहगोऽस्ति नास्ति च यथा तद्वत् परब्रह्मणि स्वच्छे चिद्धपुषि स्त्रभावविमलेऽसङ्गे शिवे शाश्वते ॥। निर्भेदेऽनुदयव्ययेऽनवयवेऽविद्या भवेन्नो भवे- दित्येवं निरतद्यमाहुरपरे पक्षव्यवस्थार्थिनः ॥ १३४॥। आकाशेति ॥ यथा SSकाशे एकस्मित्रेव विहगस- द्वावाभावौ तद्वत् परब्रह्मण्येकस्मिन्ेवाविद्या भवेदित्येवं निर- वद्यम् अविद्याया दुर्घटत्वस्यालङ्कारत्वादेकत्र भावाभावविरोध- दोषहीनम् अद्वैतपक्षपरित्यागमसङ्गदोषहीनं चैतन्मतं मुक्तामुक्त- पक्षव्यवस्थार्थिनः आहुरिति योजना।ब्रह्मविशेषणानामेषोऽर्थः। स्वच्छे निर्मले। आदर्श इवान्यकृतं नैर्मल्यं न भवतीत्याह ! स्व- भावविमळे इति। तत्र हेतुश्चिद्वपुषीति। स्वभावविमले जप्यागन्तु-
514
Page 515
अन्वयार्थप्रकाशिकाविभूषिते
कमलयोगशङ्कां वारयति।असङ्के इति। तत्साधयति। शिवे इति। निर्गुणे इत्यर्थः । तत्र हेतुः । शाश्वते इति । अनित्यं हि स- गुणं सत्सङ्गि भवति नेदं ब्रह्म तथेत्यर्थः । शाश्वतत्वं साधयति। अनुदयव्यये इति। सर्वस्योदयव्ययसाक्षित्वादधिष्ठानत्वाच्च स्व- तः उदयनाशशून्यमित्यर्थः। तथाऽप्यविद्याभावाभावयोरेकत्र विरोधात्तदाश्रयत्वाय कर्थचिन्ेदो डभ्युपेय इति चेत्, नेत्याह। निर्भेद इति। स्वभावतो निर्भेदत्वं साधयति। अनवयवे इनि। भेदाभावे डप्याकाश इव भावाभावाश्रयत्वं न विरुद्ध्यते इति भावः॥। १३४॥। अव. एकत्रैकस्यैव भावाभावौ निर्द्वारं विरुद्धाविति मन्य- मानानां मतमाह- शुद्े वस्तुनि यद्यपि प्रतरिशति ध्वान्तं मनः कारणं स्थ्रीकृत्यैव तथाऽप्युपाधिमपरं ब्रह्मस्वरूपे विशेत ॥ तच्चान्त:करणं सुसूक्ष्मतपुषा तिष्ठद् बहिः सर्वदा चैतन्ये तमसो नियामकमिति स्व्रीचकुरन्ये पुनः॥१३५॥ शुद्धे वस्तुनीति ॥ यद्यपि ध्वान्तमज्ञानं शुद्धे वस्तुनि प्रविशति तथाऽप्युपाधिम् अपरं मनोरुषं कारणं द्वारं स्वीकृत्यैव ब्रह्मस्वरूपे विशेत न निर्द्वारमित्यक्षरार्थः। अज्ञानं हि विक्षेपस्व- भावत्वाङ्रह्मणि प्रविशदेवानेकानि मनांसि सटजति, तानि चो- पाधिमात्रेण स्थितानि द्वारीकृत्य ब्रह्माश्रितं जायते इत्युक्तं भवति। एवं सति व्यवस्थाऽपि सुस्थेत्याह। तच्चेति । मनसो नाज्ानाश्रयकोटिनिविष्टतया तमोनियामकत्वं किन्तु ततो वहिस्ताटस्थ्येन तिष्ठत् पशुत्वमिव दतिहरिशब्दार्थनियम- वदज्ञानं ब्रह्मणि नियमयतीत्यर्थः । सुसूक्ष्मवपुषा सर्वदा ति-
515
Page 516
संक्षेपशारीरके द्वितीयोऽध्यायः।२।
ष्वदिति ममसो विनश्वरत्वमाह। तथाच ब्रह्मण्यज्ञानस्य मनो- द्वारेणैव निषृत्यनिषृत्ती अपीत्यविरोधात्सुस्था व्यवस्थे- ति भावः ।। १३५॥ अव. यदि मनः सष्टा Sज्ञानस्य तद्द्वारा चैतन्ये पवेशः तदा स्यादितरेतराश्रयता, यतो Sस्त्रतन्त्रस्याज्ञानस्य चैतन्यसम्बन्धं विना मनःसर्जनासम्भव इति। मनसश्च सूक्ष्मरूपेण सदा,स- ववं तस्यानादित्वात्कार्यत्वासम्भवः इति दोषं मन्वानानां प- क्षमाह- अज्ञानि ब्रह्म बुद्ीरनुसरति ततः स्थावरं जङ्गमं च स्त्राज्ञानादेव भृत्वा क चिदवगतितो मुक्तमन्यत्र बद्हम।। तच्चाज्ञानं विनष्टं स्थितमथ च तदेवांशभेदोपपत्ते- रेवं सर्वव्यवस्था परमपुरुषगा जाघटीर्तप्रति के चित।।१३६।। अज्ञानि व्रह्मेति । अज्ञानमस्मिबनादितया सहजश- क्तिरूपमस्तीत्यज्ञानि ब्रह्म चिन्मात्रमिति यावत्। तद् बुद्धीरनु- सरति। एतदुक्तं भवति। चिन्मात्रगतमेव सदज्ञानं बुद्धीर्मनांसि सजति, सटष्टा च तत्र तत्रानुगतं वर्त्तते, ब्रह्म चाज्ञानसम्बद्धं सत् ताः बुद्धीरनुसरति तासु पतिबिम्बभावमापद्यते इति। तत एवं परस्परान्वयात्स्वाज्ञानस्टष्टं स्थावरं जङ्गमं च सर्वे भूतभौ- तिकलक्षणं स्वाज्ञानादेव भूत्वा स्वाज्ञानकृतबुद्धिगताभास- द्वारेण तत्तद्भ्ावमिवापद्य कचिदुपाधाववगतित: तत्त्वज्ञानोदया- प्देव ब्रह्म मुक्तं भवति, अन्यत्र अवगत्युदयरहिते बद्धं यथा- पूर्व संसरदेव भवति, तच्चाज्ञानं तस्मिन्रेव, मुक्ते ब्रह्मणि वि- नष्टं स्वकार्येण समस्तद्वैतेन सह बाधितं सर्वात्मना भवति। अथ च तदेवाज्ञानं स्थितं तस्मिभेव ब्रह्मणि स्वकार्य संजारमा- १२
516
Page 517
पाद्यदर्तते। कुत एवं स्पात् ? इत्यत आह। अंशभेदोपपत्तेरि- ति। अयमर्थः । यस्यां बुद्धौ विद्योत्पनिस्तदुपादानांश एवा- ज्ञानस्यैकोंश: तद्द्वारा बुद्धिनाशात् सर्वात्मना सह कार्येण अज्ञानं नश्यति, उपाध्यन्तरोपादानांशद्वारेण तु तिष्ठतीत्येव- मंशभेदो विवक्षितः, न पुनरज्ञाने एकदेशस्यैव नाशों Sशान्तर- स्यावस्थानम् इत्यंशभेदविवक्षा, तचचाज्ञानं विनष्ट स्थितमथ च तदेवेत्येकत्वावधारणविरोधादिति। एवं सति सर्वव्यवस्थेत्युक्ता- र्थम् ॥ १३६॥ अथ. मतान्तरमाह- बाह्याध्यात्मिकवस्तुजातजननी माया हरेर्बन्धनी शक्तिर्दाशकजालवत प्रसरणं प्राप्नोत्यविद्यावतः । जीवान् सक्कुचतीच्छ्या भगवतः सत्याऽस्तु मिथ्याऽथ वा सङ्कोचक् तरिलक्षणश्च भवतः स्वाभाविकावित्यपि।१३७।। बाह्याध्यात्मिकेति ॥ अज्ञानानि बहूनीति पूर्वोक्ते द्वि- तीयपक्षे साधारणपपश्चः ईश्वरमायाकृत: असाधारणस्तु जीवा- विद्याकृत इति मतम् । अत्र हरेः परमात्मनः मायाशक्तिर्वाश्या- ध्यात्मिकवस्तुजातजननी साधारणासाधारणसर्वमपश्चका- रणमिति शेषः । जीवाज्ञानानि तु तेषां भगवचत्वावरकाण्येव केवलं, न विक्षेपकाणीत्यर्थादुक्तं द्रष्टव्यम्। सा च मायाशक्तिरवि- धावतो जीवान्मति भगवदिच्छया दाशकानां कैवर्त्तानां जा- लवत्मसरणं विकासं पामोतीति तेषां बन्धनी बन्धकरी भवति। भगवदिच्छया जगदूपपरिणामं प्ाप्ता सती जीवानविदुषो बध्रा- सीत्यर्थः। भगवत एवेच्छया डर्थाद्विदुषो जीवान्पति संकुचतीति, तान्पति भपश्चमकुवेती निवर्तते इत्यर्थः । सा च माया सत्या
517
Page 518
संक्षेपशारीरके द्वितीयोऽडयाय:।२।
वा मिथ्या वा डस्तु नास्माकं तत्राभिनिवेशो डस्ति, परं वुक्तव्यवस्थया तस्या: सङ्कोचश्र विलक्षणश् विकासय भवतः। तौ च सक्कोचविकासौ स्वाभाविको केवलमीश्वरेच्छानिबन्ध- नौ। न विद्यानिबन्धनः सङ्कोचो नाप्यविद्यानिबन्धनो विका- स इत्यर्थः ॥ १३७॥ अव. मतान्तरमाह- संस्कारभ्रमसन्तर्ति प्रतिनरं भिन्नां परब्रह्मणि स्त्रीचक्रुर्तिषये प्रवाहवपुषाऽनार्दि तमः के चन।। तामुच्छिद्य समुचयेन घटते मोक्षाय कश्चिन्तरः कश्चित्तद्विरहेण संसरति ना जीवाश्रया सेति च॥१३८।। संस्कारभ्रमेति॥ भ्रमो निक्षेप:। संस्कारस्तज्जन्यः तज्ज- नकश्च। संस्कारभ्रमयोः सन्ततिः प्रवाहः एषैवाविद्या नान्या तदु- पादानभूता दण्डायमाना Sविद्याऽस्तीत्येतदस्य मतम्। तां मतिनरं भतिजीवं भिन्नां प्वाहवपुषा Sनादिं परव्रह्मणि विषये तमः अ- ज्ञानं स्वीचक्रु: केचन मण्डनमिश्रमतानुसारिण: इत्यर्थः । यद्वा परब्रह्मणि विषये यत्तम: पसिद्धं जीवानां तां संस्कारभ्रम- सन्तर्ति केचन स्वीचक्रुरिति योजना। तत्र कश्विमर: समुच्चया- नुष्ठानेन साधनेन तामविद्यामुक्तरूपामुच्छिद्य मोक्षाय घटते। कश्चिमा जीव: तद्विर हेणोक्तसाधननिष्ठाऽभावात् संसरति, सा चाविद्या जीवाश्रयेति व तन्मतमित्यर्थ:॥१३८ ॥ अव. एवमुद्भाविता: सप पक्षा तेष्वाद्यपक्षदये जीवानां ब्रह्मविषयमज्ञानमिति यम्मतं तत्तावदसङ्वमित्याह- अज्ञस्तावत प्रत्यगात्माऽ्द्दमञ्ञ-
518
Page 519
इत्येवं नः सिध्यति स्वप्रकाशात । अज्ञातं तु ब्रह्म सिध्येत् कुतो वः सम्यग ज्ञानाद् भ्रान्तितः स्वप्रकाशात् ॥१३९॥ अज्ञस्तावदिति ॥ स्वपरकाशात् स्वयंप्रकाशज्ञानरूपत्वा- त्पत्यगात्मा "अहमजः" इति तावत्सिक्यति नोऽस्माकं, नात्र विविवाद इति शेषः।स्वयं भासमान: प्रत्यगात्मा स्वाश्रितामवि- द्यां स्व्रचैतन्याभासखचितां कुर्न् "अहमज्ः" इति स्वस्याज्ञत्वम- नुभवतीत्यर्थः । अज्ञातं तु ब्रह्म स्वरूपेणाज्ञातत्वेन च वो युष्मा- कं कुतः सिद्धयेदिति वक्तव्यम् । कुतःशब्दस्चितं विकल्पं स्फु- टयति। सम्यग्ज्ञानादिति। कि सम्यग्ज्ञानाभ्द्रान्तितो वा स्वम- काशाद्वेति वाच्यमित्यर्थः ।। १३९। अव. तत्रादे कलपे दोपद्वयमाह- सम्यग्ज्ञानाद् ब्रह्मण: सिद्धिपक्ष जाड्यं तस्य स्याद् घटादेर्यथैत।। सम्यग्ज्ञानाद् ब्रह्मणोऽज्ञानसिद्धौ तस्यापि स्यात् सत्यता तहदेव । १४० ॥ सम्यगज्ञानादिति ॥ वेदनगोचरस्य जडत्वनियमादि- त्यर्थः । ब्रह्मणो Sज्ञानसिद्धौ अज्ञातत्वसिद्धौ तस्याज्ञानस्यापि प्रमाणसिद्धत्वात्सत्यता स्यात् तद्वत् ब्रह्मवदेवेत्यर्थः ॥ १४० ॥ अव. द्वितीयं दूषयति- ्रान्तिज्ञानाद् ब्रह्मण: सिद्धिपक्षे तस्यापि स्यात् कल्पितत्वं तमोवत् ।।
519
Page 520
संक्षेपशारीरके द्वितीयोऽध्याय।२।
अज्ञातं चेद् ब्रह्म नः स्व्प्रकाशं मा भाषिष्ठा नानुभूतिस्तथा नः ॥ १४१ ॥ भ्रान्तिज्ञानादिति ॥ तृतीयं प्रत्याह। अज्ञातं चेदिति । यद्येवं तदा तथाऽनुभूयेत तदभावादज्ञातं ब्रह्म स्वपकाशमिति मा भाषिष्ठाः मा मृषा वादीरित्यर्थः ॥ १४१॥ अव. द्वितीयपक्षे यत् "मायामीश्वरसंश्रयाम्" इति ब्रह्मणो मायावित्वमुक्तं, जीवानां तत्सिद्धिरप्युक्तन्यायेन निरसनीये- त्यत्रापि पूर्वविकल्पान्सञ्चारयति- अज्ञातत्वे यानतोचाम दोषान् मायावित्वे ब्रह्मणस्तानवेहि ॥ मिथ्याज्ञानात् स्त्रप्रकाशात् प्रम्ाणात् संसिद्धि: स्यात्तस्य तत् कथ्यतां नः ॥ १४२ ॥ अज्ञातत्वे इति।तस्य ब्रह्मणः। तत् मायावित्वमित्यर्थः।।१४२॥ अव. विकल्पक्रमेण दूषयति- मिथ्याज्ञानाद् ब्रह्मणः सिद्धिपक्षे मायेव स्यात् कल्पितं तच्च तद्वत् ॥ मानादिष्टं ब्रह्म मायावि चेद् वा मायायाः स्यात् सत्यता जाड्यमस्य ॥ १४३ ॥ मिथ्याज्ञानादिति ॥ अस्य ब्रह्मणः ।।१४३।। अव-तृतीयं कल्पं पत्याह- तत् मायावि ब्रह्म चेत् स्त्रप्रकाशं
520
Page 521
१४
मायाडवि स्याद् ब्रह्मवत् स्त्रप्रकाश ।। मार्यां पभ्येद् ब्रह्म चेत् स्वप्रकार्श तत्रापि स्थात् स्वानुभूत्या विरोध: ॥। १४४ ॥ तन्मायावीति ॥ विशिष्टस्य स्वमकाशत्वे विशेषणस्या- पि तत्मसङ्गादित्यर्थः। मायाया अपि स्वपकाशत्वे चिद्नूपत्वात्स- त्यत्वाच्च मायात्वव्याकोप इति द्रष्टव्यम्। ब्रह्मण एव स्वपकाशत्वं मायायास्तु तद्वद्यतेति स्वीकारालोक्तदोष: इति चेत्, तत्राह। मार्या पश्येदिति। अनुभवविरोधान्नेयं कल्पना पामाणिकीत्यर्थः॥।१४४॥। अव. अनुभवविरोधमेव स्पष्टयति- आत्मा मूढ़: स्वप्रकाशो यथाऽयं नैवं मायि ब्रह्म नः स्वप्रकाशम् ॥ अज्ञादन्यद ब्रह्म चेत् स्वप्रकाशं द्वे विस्पष्टे र्वप्रकाशे स्फुरेताम् ॥ १४५॥ आत्मा मूढ इति॥ ननु कर्थं न ब्रम्म स्वपकाशं स्वपकाश- त्मावीर्व क्ततयाऽस्यापि स्वमकाशत्वेन स्फुरणोपपत्तेरिति चेत, तत्राह। अज्ञादन्यदिति। स्वमकाशं ब्रह्म अज्ञात् अन्यत् अनन्यद्दा? तत्रादे दोषमाह। द्वे इति। तथाऽज्ञादन्यत्वे स्वपकाशत्वे भेदस्य स्फुटत्वाभविवेककल्पनाऽवकाश इति भाव: । द्वितीये स्वात्मन एवाज्ञातत्वं मायावित्वं चोक्तं स्यात्। तत्र व ब्रह्मान्यन्मायावीति पक्षक्षतिरिति द्रष्टव्यम् ॥ १४५ ॥ अब. यद्पि जीवा: ब्रह्म तन्मायावित्वं च न जानीयु:, तथापि ब्रह्म जीवानज्ञांस्तव्जेदं च जानीयादिति ब्रह्मणो वि- विक्तजवविसिद्धी जावविविक्तमझ्सिद्धिरपि भविष्यतीत्याश्ा-
52
Page 522
संक्षेपशारीरके द्वितीयोऽध्यायः।२। डपि न कार्या, तत्राप्युक्तविकल्पद्षणमसारादित्याह- ज्ञायन्ते चेद् ब्रझ्मणा जीवमेदा जाड्यं तेषां कुड्यवन्निर्विवादम् ॥। न ज्ञायन्ते ब्रह्मणा चेत्तदानी सर्वज्ञत्वव्याहतिर्दुर्निवारा॥ १४६॥ ज्ञायन्ते चेदिति ॥ स्पष्टार्थः ॥ १४६ ॥ अव. ब्रह्मणो जीवा: स्वयंपकाशतया सिध्यन्ति अतो नो- क्तदोष: इति चेत्, तत्राह- जीवा एते स्वप्रकाशस्त्रभात्रा निर्भासन्ते ब्रह्मणश्चेद् विभक्ताः ॥ तेषां भेदः स्त्प्रकाशो न वा स्थाद् दोषं ब्रूमो दुर्निवारं द्विधाडपि। १४७॥ जीवा एते इति॥ ब्रह्मणो विभक्ता: सन्तो निर्भासन्ते चेदित्यन्वयः । तर्हि विभागस्तेषां स्वप्काशो न वेति वक्तव्यमि- ति विकल्पयति। तेषां भेद इति। दृषयति। दोषं ब्रूम इति ॥१४७।। भव. दुर्निवारं दोषमेवाह- तेषां भेद: स्त्रप्रकाशो यदीष्ट: सत्यत्वं स्थान्तस्य तेषां तथैव वेघ्योऽभीष्टस्तद्विभागो यदि स्यात तानज्ञात्वा तदिभागो न वेद्य: ॥। १४८॥ तेषामिति ॥ तस्य भेदस्य चिदात्मवत्सत्यत्वं स्पात् तेषा
522
Page 523
९६
जीवानामपि तथैव सत्यत्वं स्यात्। यद्यपि जीवा: स्वरूपतः स- त्यास्तथापि जीवत्वोपाधिवैशिष्टयेन न सत्या:। स्वपकाशत्वे तु जीवत्वोपाधिरपि सत्य: स्यात् । तथा च ज्ञानेन तन्नित्त्यभा- वादनिर्मोक्षपसङ्गः। जीवभेदस्य च सत्यत्वे Sद्वैतमतहानिरिति भाव:। द्वितीयं कल्पमनूद्य दूषयति। वेद्योऽभीष्ट इति। भेदस्य धर्म्यादिज्ञाननिरुप्यत्वात् तस्य वेद्यत्वे तद्विशेषणीभूतभेदिनाम- पि जीवानां वेद्यता वक्तव्या। तदा च तेषां जडत्वादिपसङ्गो दुर्निवारः इत्यभिप्ेत्याह। तानज्ञात्वेति ॥ १४८॥ अव. यथेश्वरस्य जीवतन्भेदज्ञानम् उक्तन्यायासहिष्णुत्वाद्- दुर्घटं, तथा जीवानामपि जीवान्तरतन्द्रेदज्ञानं दुःशकमित्याह- जीवा: सर्वे त्वां प्रति प्रस्फुरन्तः सम्यग् ज्ञानात प्रस्फुरन्ति स्व्रतो वा ।। यद्ा मिथ्याज्ञानसामर्थ्यतोऽमी पक्षः कसते रोचते ब्रूहि तन् मे ॥१४९ ॥ जीवा: सर्वे इति ॥ स्वतो वा स्वप्काशाद्वेत्यर्थः ॥१४९॥ अव. विकल्पान् क्रमेण दूषयति- सम्यग ज्ञानाजीवभेदप्रसिद्धा- वह्वैतत्वं ब्रह्मणो न प्रसिद्धेत् ॥ जीवा: सर्े मां प्रति स्वप्रकाशा इत्युक्तिस्ते स्वानुभूत्या विरुद्धा ॥ १५० ॥ सम्यरज्ञानादिति ॥ अद्वैतत्वं ब्रह्मणः, तवाभीष्टमिति शेष: । द्वितीयेऽनुभवविरोधमाह। जीवा इति ॥ १५० ॥
523
Page 524
संक्षेपसारीरके द्वितीयोऽध्यायः।२। ९७
अव. तृतीयं निराकुर्वबाह-
सम्यगज्ञानाद बाध एवाभ्युपेयः ।। मिथ्याज्ञानाद्रज्जुसर्पः प्रसिद्ध: सम्यगज्ञानात्तस्य बाधोऽपि सिद्धः ॥ १५१॥ मिथ्याज्ञानादिति॥ सम्यग्ज्ञानवाध्यत्वे च तेर्षां मिथ्या- त्वाद् बन्धमोक्षभावत्वं न स्याव, तथा च तव्यवस्थास्थापनाय पक्षो- द्ावनं न तव निरर्थकमिति भावः । जीवाः सम्यग्ज्ञानबाध्या: मिथ्याज्ञानसिद्धत्वाद्रज्जुसर्पवदिति व्याप्तिमाह। मिथ्याज्ञाना- दित्युत्तरार्घेन ॥ १५१।। पक्षट्वयनिराकरणेन पारिशेष्यात्प्रत्यगात्मैक एव स्वप्रकाशतया सिद्ध्यति, तदास्पदश्चायं प्रत्यगविद्याविल- सितो जीवेश्वरजगन्भेदभ्रमः प्रत्यक्चिदाभास्यतया सिद्ध्यती- त्यभ्युपेयम्। अतश्च जीवानामज्ञानित्वं ब्रह्म च तदज्ञानविषयस्तच्च मायावीत्यादिकल्पना न सम्भवतीत्युपपादितम् । इदानीं ब्रह्म- ण्येवाज्ञानमेकं च तदू ब्रह्मण्येवैकस्मिस्तस्य स्थितिनाशाभ्यां बन्धमोक्षव्यवस्थेति तृतीयः पक्षो यः उत्पेक्षितः सोऽपि न यु- क्तिसहः इत्याह- एकोपाधावेकवस्तुप्रसिद्धौ भावाभावौ नेक्षितौ कापि लोके।। पक्ष्यादीनामस्तिता नास्तिता च
एकोपाधाविति ॥ एकस्मिन्नधिकरणे इत्यर्थ:। एकव- १३
524
Page 525
स्तुनः प्तियोगिभूतस्य सम्बन्धितया पसिद्धी भावाभावी लोके कापि नेक्षिताविति योजना। न हि द्वारभेदं विना एकस्मिन्नेक- स्यैकदा भावाभावी कचिद् दष्टावित्यर्थः।तत्राकाशे विद्दगोऽस्ति नास्तीति तदुक्तं निदर्शनमाशक्य, तत्रापि कल्पितपदेशभेदं द्वारं विना नास्ति पक्ष्यादिभावाभावावस्थानमित्याह। पक्ष्या- दीनामिति। अवच्छिने एव, केनचिदुपाधिनेति शेषः ॥१५२। अव. ननु यदुपाधिव्यवच्छिनने नभसि पक्ष्यादेर्भावाभावौ तदुपाध्यवच्छेदस्यापि भावाभावावेकस्मिन्नाकाशे एव भवत इति स एवास्तु दष्टान्त: इति शङ्कते- सोऽवच्छेदोऽप्यस्ति नास्त्यम्बरे चत् तत्रान्वेष्यः कोऽप्यवच्छिन्नभावः ।। सोऽ्वच्छेदोड़प्यस्ति नास्त्यम्बरे चेत बाढ़ं तस्मिन्सोऽप्यवच्छिन्नएव॥ १५३ ॥ सो डवच्छेदो 5पीति ॥ तत्राप्युपाध्यन्तरावच्छिनने एव नभास तौ स्तः न केवले इति परिहरति।तत्रान्वेष्यः इति। अ- वच्छिन्नभावो Sवच्छेदकान्तरेणावच्छिन्नत्वं तर्हि तस्यैवोपा- घेर्भावाभावावेकस्मित्राकाशे स्यातामित्याशक्का, तावपि पूर्वव- दरवच्छिन्प्रदेशगतावेव भवेताम् अन्यत्र भावाभावयोनिरुपाधि- कैकस्मिन्नतुपलम्भादित्याह। सोऽवच्छेद इत्युस्तरार्घेन॥१५३। अव. तर्द्यनवस्था दुरवस्थानेति चोदयति- नन्वेवं स्याद दुर्निवराराऽनवस्था बाढं का नो हानिरिष्ठैध साऽपि। कर्मोदभूतं नः शरीरं शरीरात
525
Page 526
संेपशारीरके द्विलीयीऽभ्याय:।२।
कर्मोदभृतिस्तन्र कि नेव्यते सा ।। १५४॥ मन्बेवं स्यादिति ॥ अनादित्वाददृष्टमूलत्वाच नेयमन- वस्था मूलक्षयकरीति तामभ्यनुजानाति। बाढमिति। तादृश्या: अनवस्थाया: अन्यत्राप्यदाषतया दष्टत्वाच नास्ति दोषतेत्या- ह। कर्मोद्भूतमिति । कर्म धर्माधर्मलक्षणम्। कर्मशरीरयो: पवाह- रूपेण कार्यकारणभावे यथाऽनवस्था न दोषाय तथाऽताप्य- वच्छेदकपरम्परायामनवस्था न दोषायेत्यभिायः ॥।१५४॥ अव. किं च ब्रह्मण्यज्ञानस्य स्थितिनाशयोः साधका- भावाच्च न तौ तत्र भवेतामित्याह- किं चाज्ञानं ब्रह्मणोऽस्यास्ति नास्ती- त्येतत्कस्मात्वं विजानासि हेतोः ।। मूढोऽस्मीति प्रत्ययादस्ति बुद्धि- रमुक्ते दाहान्मोहनास्तित्वबुद्धि:।। १५५।। किश्चाज्ञानमिति ॥ अस्य ब्रह्मणोऽज्ञानमिति सम्बन्ध: । पश्नं मत्वा उभयमप्यनुभवादेव जानामीत्येकदेशी शङ्कते। मूढोऽस्मीति। पुर्व मूढो Sस्मीत्यनुभवादज्ञानास्तित्वयुद्धि:, मुक्त्े विदुषि मोहस्याज्ञानस्य दाहान्नास्तित्वबुद्धि:, न हनुभवसिद्धेऽर्ये विवाद इत्यर्थः ॥ १५५॥ अव. तर्हि मुक्ते विदुषि तदझाननाशे च साधकं किमपि वाच्यं तदसम्भवान्न तत्सिद्धिरिति मत्वाऽडह- मुक्तेऽज्ञानं दग्धमित्येतदेवं कस्माद्देतोर्वेत्सि तत् कथ्यतां नः ॥ मिथ्याज्ञानात् स्वप्रकाशात्प्रमाणा-
526
Page 527
: २००
न्मुक्तेऽज्ञानं दग्धमित्यस्य सिद्धिः ॥ १५६॥ मुक्तेज्ञानमिति॥प्रमाणादिति सम्यगज्ञानादित्यर्थः॥१५६॥ अव. विकल्पोद्देशक्रमं विहायाक्रमेणैव दूषयति- सम्यक् ज्ञानान्मुक्तिसिद्धिर्यदीष्टा नूनं मुक्त: कुड्यवत्ते जडः स्यात्॥ मिथ्याज्ञानान्मुक्तिसिद्धिर्यदीष्टा स्रक्सर्पादिप्रख्य एवैष मुक्त: ॥ १५७॥ सम्यगज्ञानादिति ॥ यत् प्रमाणज्ञानाल्सिद्ध्यति तत् कर्म- तयैव सि्ध्यति, न ह्वविषयभूतं वस्तु पमाणेनाषगम्यते, तथा च सम्यरज्ञानात्ममाणतो मुक्तिसिद्धिरिष्टा यदि तदा वेद्यस्य जड- त्वनियमात् मुक्तस्यात्मनो जडत्वापत्तिः। अस्मिन्नपि पक्षे बन्ध- मोक्षभागिता तस्यासम्भाविनीत्यर्थः । १५७।। अव. तर्हि स्वपकाशत एव तत्सिद्धिरस्त्विति मध्यमं पक्षमनूद, स कि ताटस्थ्येन भासते मत्यक्त्वेन वेति विकल्पासहत्वा- दयमपि पक्षो न युक्त इत्याह- मुक्तो मह्यं स्त्रप्रकाशश्रकास्ती- त्येषा वाणी स्वानुभूत्या विरुद्धा ।। न ह्यश्रुत्वा शास्त्रमेतत् मनुष्यः कश्चिज्ानात्येष मुक्त: शाकादिः ॥ १५८॥ मुक्तो महयमिति। मुक्तस्य ताटस्थ्ये तमन्य: स्त्रपकाश- तया जानातीत्येतदनुभवविरुद्धमेव तटस्थस्य वेद्यत्वनियमात्, पत्यत्कं त्वन्यस्यान्यं पत्यनुभवविरुद्धमेवेति "मुक्तो महं स्व-
527
Page 528
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १०१
प्रकाशश्चकास्ति" इत्येषा वाणी स्वांनुभूत्या विरुद्धा। मृषा वागे- वेत्यर्थः।ननु"शुको मुक्तः" इत्यादिरूपेण मुक्तसिद्धेः प्रससिद्धि- त्वाद्गत्यन्तराभावात्स्वपकाशतयैव तत्सिद्धिरेष्टव्येति चेत्, मैव- म्। तद्विषयकागमपमाणमन्तरेण तत्सिद्धेरदर्शनादित्याह। न साश्रुत्वेति। एष मुक्त: शुकादिरिति एतद् वस्तु शास्त्रं श्रुतिस्मृत्या- दिलक्षणमश्रुत्वा, उपलक्षणमेतत्, स्थितपज्ञलक्षणं तथा मुक्तलिम्ं चाबुदृध्वा मनुष्यो देवेभ्योऽन्यः कश्चिन्न हि जानातीति योजना। तस्मादात्मनः परत्वं तस्य विद्वत्वं मुक्तत्वं वा स्वावि- धाविलसितमेव यावदज्ञानं भवति, स्वतत्वज्ञानोदये तु सर्वमेव निवर्त्तते न किश्चिदवशिष्यते मूलाभावादित्यभ्युपेयमि- ति सिद्धम् ॥ १५८ ॥ अव. य: पुनर्मनउपाधिद्वारा ब्रह्मण्यज्ञामम्बन्धः उपाधीर्ना च भेदात्तद्द्वारेण ब्रह्मण्येव बन्धमोक्षादिव्यवस्थेति चतुर्थः पक्षः तं दूषयितुमनुभाषते- ताटस्थ्येनोपधिमादाय मोह- श्ैतन्येऽस्मिन् स्तप्रकाशे प्रविष्टः ।। तेनेह स्याद् बन्धमोक्षत्यवस्थे- त्युक्तं यत्प्राग्दूषणं तस्य विद्धि ॥ १५९॥ ताटस्थ्येनेति ॥ तेनेति। उपाधिनेत्यर्थः ॥ १५९॥ अध. दूषणमेवाह- ताटस्थ्येनोपाधिरङ्गं यदि स्यान मोहाविष्टे ब्रह्मणि स्वप्रकाशे॥ अग्निक्षेपस्योल्मुकं यहदेवं
528
Page 529
१०२ अन्वयार्थप्रकाशिकाधिभूषिते
मोहस्य स्यान्न प्रदेशस्थितस्वम ॥ १६०॥ ताटस्थ्येनेति । स्वपकाशे ब्रह्मण मोहाविष्टे मोहावे- शश्च यदुपाधिस्ताटस्थ्येनैवाश्रयकोटावपविष्ट एवाऊ हेतु: स्यात् तदा मोहस्य न प्देशस्थितत्वं स्यात्, किंतु सम्पूर्णे एव ब्रह्मणि मोहावेशः स्यादिति योजना। तत्र दष्टान्तमाह। अगनिक्षे- पस्येति ॥ १६० ॥ अव. उक्तदृष्टान्तं स्पष्टयन् दार्ष्टान्तिके योजयति- अग्निः क्षिप्तो ह्युल्मुकेन प्रदेश- - मात्रव्यापति वर्जयित्वा समस्तम् ।। वेश्म व्याप्रोत्येवमेवेह कृत्स्नं ब्रह्म व्याप्पोत्याधिनाऽस्तं तमोडपि ॥१६१॥ अग्नि: क्षिप्ो हीति॥ न छुल्मुकेन वेश्मनि क्षिप्तोऽगि- र्वेश्मैकदेशे एवावतिष्ठते, किंतु समस्तं वेश्म। यथा दृष्टान्ते ए- वमेवेह दार्ष्टान्तिके तत् तमोऽपि आधिना उक्तान्त:करणोपा- घिना द्वारेण कृत्स्रं ब्रह्म व्यापोति म ब्रह्मैकदेशम् अतो न तन्निमित्ता व्यवस्थासिद्धिरित्यर्थः ॥ १६१॥। अव. यस्माङ्वह्मण्येवाविद्याभवेक्षो नापि तत्र द्वारापेक्षा, परत्यभ्रूपमेव च ब्रह्म, तादृशे एव चिद्नूपे परिकल्पितानि जी- वत्वान्यनन्तानि, तथेश्वरत्वं, तदुपाधिभूतकार्यकारणपपञ्चव्यवहा- रः तद्गताश्च व्यवस्था: सर्वाः अपि त्वदविद्याविलसिता एव, तस्य सर्वस्य त्वयि चिद्नूपे 5ध्यासान्वचिदाभासव्याप्तया स्फुरणम् इत्यस्मन्मतमेव प्राल्ममित्युपसंहरति -- तस्माद ब्रह्मावविचया जीवभाव
529
Page 530
संक्षेपशारीरके द्वितीयोऽभयाय।२। १०३
प्राप्यासित्वा तावके सु स्वरूपे।। स्वच्चित्तेन स्पन्दितं जीवजात- माकाशादि क्ष्माऽवसानं च पश्येत् ॥ १६२ ॥
तस्माद्वस्ति॥ आसित्वा स्थित्वा। त्वचिनेनेति चित्तस- व्देनाविद्योच्यते ॥ १६२॥ अघ. यस्तु "अज्ञानि ब्रह्म बुद्धीरनुसरति"इति पश्चमः पक्षस्तत्रा- पि निर्द्वारं ब्रह्मण्येवाविद्याया: स्थितिनाशाभ्युपगमे व्यवस्था न सिध्ध्यति, ब्रह्मण्येवैकस्मित्रखण्डे तत्पवेशात्। यदि बुद्धिद्वार- भेदादविद्या ब्रह्म प्रविभ्ति बुद्धिभेदाच्च व्यवस्थेत्यभ्युगमस्तदा बुद्धेरुल्मुकवत्तद्वारमात्रत्वे ताटस्थ्यान्न तद्वशा्वस्थासिद्धि: । न च तटस्थाऽपि बुद्धिर्व्रह्मण्यविद्याभावाभावयोर्नियामिका पशुत्वमिव दतिहरिशब्दप्रटृटत्तेरिति वाच्यम्। तत्र दतिहरणकर्त्तृ- त्वाधिकरणानामनेकत्वादनेकरूपत्वाच्च • स्वसमानाधिकरणे एव दतिहरिकर्तृत्वे दतिहरिपदनियामकत्वोपपत्तेः । अत्र तु ब्रह्मण एकत्वात्निरंशत्वाच्चोपाधिरपि कुत्राविद्याभावाभावी नियमयेत्, तस्मादयमपि पक्षो Sत्रासङ्गत एवेति पूर्वोक्तदूषणे- नैव दृषित इति। तथा षष्ठसप्मथोः पक्षयोरपि दूषणं स्फुट- मेघ। हरेमयाशक्ते: मत्यगविद्यातिरिक्ताया अवगमहेतुविकल्प- दूषणानामिहापि मसरात् । ईशमायाऽसिद्धौ च जीवेषु तदी- यसफ्कोचविकासासिद्धे: पष्ठपक्षे व्यवस्थाया: नैव सिद्धि: ।.स- समेऽपि पक्षे Sनादज्ञानानभ्युपगमे भ्रमतत्संस्कारयोरुपादाना- सम्भवादसिद्धि: स्थात्। न च तयो: परस्परोपादानता बीजा- हुरयोरिवेति युक्तम्। गुणत्वाचयोरुपादानत्वायोगात्, कार्यस्य नष्टस्य कार्यान्तरं मत्युपादानत्वासम्भवाच। न चास्मै-
530
Page 531
१०४ अन्वयार्थप्रकाशिकाविभूषिते
वोपादानमस्तीति वाच्यम्। तथा सत्युपादाननिवृत्ति- मन्तरेण कार्यपवाहस्यात्यन्तिकनिवृत्त्यसम्भवात् आत्मनश्च नि- त्यत्वादनिटृत्तेः संसारमोक्षणाभावमसङ्गात्। अविकृतस्य कूट- स्थस्योपादानत्वादर्शनादात्मनो भ्रमसंस्कारोपादानत्वे विका- रित्वापत्तावनित्यत्वादिदोषपसङ्गः इत्यादिदूषणगणो Sतिस्फुट एवेति नैतेषु पक्षेषु पृथक् दूषणमाचार्येणाभिहितमिति।यध्ेवं स- र्वस्यापि जीवाजीवभेद प्रपश्चस्यैकचिन्मात्रविषयाश्रयैकाविद्याक- ल्पितत्वमिति मतं, तदा आचार्याद्यभावान्न विद्यापाप्ति:, न च विनैवाचार्यादिना विद्या सिद्ध्यति "आचार्यवान्पुरुषो वेद" "तद्विद्धि प्णिपातेन परिप्रश्नेन सेवया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तच्वदर्शिनः" "नावेदविन्मनुते तं बृहन्तम्" इत्यादि- चेत, तत्राह- स्व्रीयाविद्याकल्पिताचार्यवेद- न्यायादिभ्यो जायते तस्य विद्या।। विद्याजन्मध्वस्तमोहस्य तस्य स्वीये रूपेऽवस्थितिः स्त्रप्रकाशे॥ १६३॥ स्वीयाविद्येति । "स्वाज्ञानकल्पितजगत्परमरेवरत्वजीव- त्वभेदकलुषीकृतभूमभावा" इत्यत्र चिदात्मस्वरूपव्यतिरिक्तस्य सर्वस्य चिदाश्रयविषयाविद्याकल्पितत्वं पूर्वमेव पसाधितम्। तस्मादाचार्यादीनि ज्ञानसाधानान्यप्यस्य जिज्ञासोः स्व्रीयावि- दाकल्पितानि। आदिपदाच्चित्तसमाधानं गृह्यते। एतेभ्यस्तस्य जिज्ञासोर्विद्या जायते, एवंविधमेवाचार्यादिकमभिपेत्य श्रुतिस्मृ- विवादा: प्रवृत्ता इति नात्र काऽ्यनुपपत्तिरित्यर्थः। कल्पितका-
531
Page 532
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १०५
रणेम्यो जाता विद्याऽपि कल्पितैवेति सा न किश्चित्करीति च न शङ्का कार्येत्याह। विद्याजन्मेति। विद्योदयनान्तरीयकतयैव मोहध्वस्तिः, पकाशस्य स्वविरोध्युपमर्दोदयस्वभावत्वदर्शनात्। अतः स्वरूपसत्यत्वाभावेऽपि विषयावभासात्मनैवादयात्, विषयस्य च परमार्थत्वात्तद्वतमोहनिव्टत्तिमात्रेण कण्ठगतमणिवल्लब्धस्वरूप- लाभे कृतकृत्यता पुंसो भवतीति समर्थैव विद्येत्यर्थः।एतदुक्तं भवति। अत्र कल्पितत्ववचनं न स्वप्नशुक्तिरजतादितुल्यविष- यं, तथा सति समर्थार्थक्रियाऽसम्भवात्। न च समर्थत्वेनैव कल्पनाऽपीति वाच्यम्। निरधिष्ठानकल्पनाडयोगात्।स्वेच्छामा- त्रकल्पिताच्चाचार्यादे: कार्यादर्शनात। अतो व्यावहारिकपमाणा- भिमतेनैव ज्ञानेन सर्वविकल्पाधिष्ठानं ब्रह्मैव ब्रह्मवित्तया कल्पि- तमाचार्यः, वेदाद्यात्मना च कल्पितं प्रमाणादिरपि, यथाऽज्ञत्वेन परिकल्पितं ब्रह्मैव शिष्यः । तस्माद्यथा शिष्यः स्वराविद्याकल्पित- माचार्य द्वैतं च पश्यति तथाऽडचार्यो ऽपि ब्रह्मविद्याबाधित- याऽपि प्रारब्धकर्मशेषवशादनुवर्तमानया स्वाविद्यया शिष्यमन्य- व पश्यति, हष्ट्रा च तस्य बन्धोच्छेदाय तत्त्वमुपदिशतीति न मुक्तस्य भेददर्शनाभावेनोपदेष्टृत्वाभावशङ्काऽपि। तस्माद्कह्मैव चिदात्मकं स्वाविद्याकल्पितानेकद्वैतपपश्चं तत्तच्छरीराद्युपाधिवशा- दापननगुरुशिष्यादिभावं स्वत एव विद्यामुत्पाद्य स्वाविद्या तया पबाध्य निव्ठत्ताशेषद्वैतबन्धं स्वरूपावस्थितं भवतीति। तथा चोक्तं भाक "सकलवाञ्मनसातिगता चितिः सकलवाज्यनसव्य- पहारभागिति॥ १६३ ॥ अष. तदेवमेकाविद्याविलससितमेव समस्तं द्वैतम्, अविद्या च म्रह्माश्रयविषयेति प्रतिष्ठापितम्। तत्राचार्यग्रन्थेषु कचिज्जीवस्या- नन्त्यमभिमतमिति पतिभ ति "कस्याविद्या? यस्त्वं पृच्छसि तस्य १४
532
Page 533
१०६ अन्वयार्थप्रकाशिकाविभूषिते
ते इति वदाम:" इत्यादिभाष्यवाक्यदर्शनात्। अतस्तस्य गति- र्वाच्येति चेत्, तत्राह- अज्ञानि ब्रह्म जीवो भतति भवति च स्पष्टमज्ञानमस्य प्रागस्पष्टं सदन्तःकरणनिपतितज्योतिराभासयोगात।। चैतन्यैकप्रतिष्ठं स्फुरति न हि तमस्तादृशं यादृशं तद् बुद्धि- स्थाभासनिष्ठं स्फुरति तदुचितं जीवमौढ्याभिधानमू॥१६४।। अज्ञानि ब्रस्मति।ब्रह्म चिन्मात्रम् अज्ञानि अनाद्यज्ञानस- म्बन्धि जीवो भवति संसारी जायते। एतदुक्तं भवति।अज्ञानं ह्ावरणविक्षेपरूपाकारदयवत् तत्र ज्ञानापनोद्यत्वमावरणाकारः, सर्वकार्यानुगतजाड्यं विक्षेपाकारः । यदाऽडवरणात्मना चि- दात्मतत्वमाच्छाद्यैवावतिष्ठते तदा न चिदात्मनि जीवेश्वर- जगन्देदावभास: यथा सुषुप्तिपलययोः । यदा तु विक्षेपात्मना विवर्तते स्वाधिष्ठानगेवान्यथा प्रथयति तदायथोक्तभेदावभास:। तत्र यदा स्वाज्ञानाचिदात्मनो डज्ञानात्कल्पितान्त:करण- गतचिदाभामद्वारेण तदविविक्ततया "अहमस्मि" इत्यभिमानो भवति तदा ज्ञानि ब्रह्म चित्स्वरूपं जीव्रो भवति जीवत्वमनु- भवतीति। तथा च चिन्मात्रगतमेवाज्ञानमन्तःकरणोत्पत्तेः भाकू सुषुप्त्यादावस्पष्टम् अज्ञानत्वेनानभिव्यक्तं सत् अन्तःकरणनि- पतितज्योतिराभासयोगादस्य चिदात्मनो डज्ञानं स्पष्ट च भवति, चिन्मात्रगतत्वेन नाज्ञानं स्पष्ट भवति चिदात्मनो निर्विकल्पक- त्वात्, अन्त:करणगताभासद्वारेण लब्धविशेषस्य तुस्पष्ट भवति, "अहं न जाने" इत्येवंरूपेण हि स्फुटमज्ञानं भासते न चिदज्- मिति। तदेतदाह। चैतन्यैकेति। तत्तस्माद्भाष्यकारस्य जीवमौ- ढ्याभिधानमुचितम्, "अहं न जानामि" इति विशेषस्फुरणा-
533
Page 534
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १०७
भिप्रायं भाष्यवचनमित्यर्थः॥ १६४॥ अव. यदि चिन्मात्रस्य निर्विकल्पकत्वात्तदाश्रयं सदज्ञानम- स्फुटं स्वकार्येण तद्गताभासेन चोपरागात्सविकल्पकं च भवेत् तर्हि अन्तःकरणादन्यत्राकाशादावपि सविकल्पं भासेतेति चेत्,तत्राह- अज्ञानं जडशक्तिमात्रतपुषा जीवाद बहिः सिध्यति जीवारूढमहं न जानइति तु ज्ञानापनोद्यात्मना ।। संसिद्धिं प्रतिपद्यते तदुचितं जीवाज्ञताभाषितं द्वैरूप्ये सति रूपमेकमनिशं भात्येवमन्यन्न हि॥१६५॥ अज्ञानं जडेति। जीवात् बहिः आकाशादावप्यज्ञानं सि- ज््यति भासते एवेति यावत्। केनाकारेण? इत्युच्यते। जडश- क्तिमात्रवपुषा सर्वकार्यानुगतजाड्यात्मनेत्यर्थः । जीवारूढं तु "अहं न जाने ऽहमजः" इत्येवं ज्ञानापनोआ्मात्मना ज्ञानपर्युदास- स्वरूपेण ज्ञानविरोध्याकारेण संसिद्धिं प्रुतिपद्यते स्फुरणगो- चरतामुपैति। तथा च जीवे तद्बहिश्चाज्ञानं यद्यस्ति तथापि यथोक्तद्वैरूप्ये सति एकं ज्ञानापनोद्याकाररूपं भाति यथा स्पष्टम् एवमन्यदूपं जडशत्याकारं हि यस्मान्न भाति तस्माज्जीवा- ज्ञताभाषितमुचितं भाष्यग्रन्थे इति योजना ॥ १६५ ॥ अव. अज्ञानस्योक्ताकारभेदे ममाणमाह- जडशक्तिमात्रवपुषा गगन- श्वसनादिकार्यजननी भवति ॥ पुरुषोत्तमस्य वशवर्तितया प्रकृतिः परस्य जगदेकगुरोः ॥ १६६ ॥। जडशक्तिमान्नवपुषेति।। पकृतिर्जगदुपादानमज्ञानं
534
Page 535
१०८ अन्वयार्थप्रकाशिकाविभूषिते
जडश्तिमात्रवपुषा विक्षेपशक्तिपधानाकारेण गगनश्वसना- दिकार्यजननी भवतीति योजना। जडरूपकार्यदर्शनासत्का- रणं जडपरधानमवसीयते, कारणानुरूपत्वात्कार्यस्येत्यर्थः। न चैतावता पधानवादाश्रयणमसक्तिरित्याह। पुरुषोत्तमस्य वश्ञवर्त्तितयेति। सत्तास्फुरणार्थक्रियासु चिदात्मपराधीनत्वेन कार्यकरी न स्वातन्त्रयेणेत्यङ्गीकारान्र प्धानवादपसक्ति- रित्यर्थः । तथा च श्रुतिः "यस्तमसि तिष्ठन् यस्तमोऽन्तरो यमयति" इति। परस्येत्यादि पुरुषोत्तमविशेषणद्वयं पुरुषो- त्तमत्वसाधकं, क्षराक्षराभ्यां परस्येत्यर्थः । "उत्तमः पुरुषस्त्व- न्यः"इतिस्मृतेः, "सर्वस्य चाहं हृदि सन्निविष्टः" इतिस्मृतेश्व अर्थ स्मृत्वा सर्वजीवान्तर्यामित्वेन पुरुषोत्तमत्वं जगदेकगुरोरित्य- नेनोक्तम् ॥ १६६ ॥ अव. अज्ञानस्य जडात्मतामुपपाद्य ज्ञानापनोद्यात्मत्वसुपपा- दयति- इयमेत्र सवजननी प्रकृति- वैशिनी शरीरिणमिमं पुरुषम् ॥। अधिरुह्य जीवमहमज्ञ इति स्फुरणकगोचरवपृः स्फुरति ॥ १६७॥ इयमेवेति ॥ इयमेव प्रकृतिर्जीवभिमं पुरुषमधिरुत्येति सम्बन्धः। कार्यभूतान्त:करणगताभासाविवेकद्वारा कार्यात्मभाव- मागतं चैतन्यं जीवः, स एव पुरि शयनात्पुरुषः तमिमं सन्नि- हितमपरोक्षं च शरीरिणं शरीरे Sभिव्यज्यमानत्वाच्छरीरा- भिमानित्वाद्वा शरीरवन्तं जीवं पुरुषमधिरुत्व कार्यान्त:क- रणद्वारेणारुह परिच्छिन्नपतिभासयोग्यं कृत्वेति यावत। व-
535
Page 536
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १०९
शिनी स्व्कार्यान्तःकरणतट्विकारैस्तं वशीक्कुर्वती स्फुरणैक- गोचरवपुः साक्षिमात्रविषयरूपा सती "अहमझ्ो मूढः " इत्येवं ज्ञानापनोद्यात्मना स्फुरति, जीवे स्वेनावरणरूपेण ज्ञानापनोद्या- कारेणाविर्भवति चिदात्मनः स्वविरोधिरूपाभासं स्वतो नित्यं माप्तमपि तिरस्कुर्वतीत्यर्थः । अज्ञानस्यावरणात्मकं रूपमनुभ- वसिद्धमित्युक्त भवति ॥ १६७। अव. एकस्यैवाज्ञानस्य चैतन्यमेकमेव प्रति स्वातन्त्र्यपार- तन्त्रये किंकृते इत्यपेक्षायामाह- चितिशक्तिबाधितवपुः परमं पुरुषं प्रति स्फुरति सा प्रकृतिः । चितिशक्तिबाधकवपुः पुरुष पुरवर्तिनं प्रति पुनः स्फुरति ॥ १६८॥ चितिशक्तीति॥ चितिस्वरूपमेव शक्तिः, चितेः सर्वाधि- ष्ठानत्वेन कारणत्वाच्छक्तित्वम् उपचर्यते । सा प्रकृतिश्चितिश- तथा ब्रह्मण: स्वाभाविकेन स्वरूपेण बाधितवपुः अभिभूतस्वरूपा सती परमपुरुषं प्रति स्फुरति। एतदुक्तं भवति।यत् यदधीनसत्ता- स्फूर्तिकं तेन तत् परमार्थतो डभिभूयते यथाऽडरोपितेन रज- तेन शुक्तिस्वरूपं, तथाऽत्राविष्कृत चैतन्याधनसत्तास्फूर्तिकेना- ज्ञानेन न चैतन्यस्वभावो डभिभूयते, तस्याभिभवे स्वस्य सत्तास्फुरणयोरसम्भवात्, किन्तु चिदात्मना स्वाभासविक्षे- पद्वारा तस्थावरणाकार: स्वस्मिन्रभिभूयते, एतदस्य चिति- शक्तिवाधितत्वं न निवृत्ति: नैसर्गिकत्वेन सहठत्ते:। अतः "ईश्वरो जहमज्ञः"इति न सुह्यतीति। जीवे तु विपरीतमित्याह। चितिशक्ति बाधकवपुरिति ।. अक्षरार्थस्त्वतिरोहितः । कार्यस्यान्त:करणादेः
536
Page 537
अन्वयार्थप्रकाशिकाषिभूषिते
कारणपरतन्त्रत्वात्कार्यमात्मत्वनाभिमन्यमानस्य जीवस्य अज्ञान- पारतन्त्रयं कार्यधर्ममात्मन्यध्यारोपयतोऽज्ञानेनाभिभूतनिज- स्वभावता भवति, यथाऽऽरोपितरजतोपरक्तशुक्तिसत्ताया: शुतयज्ञानेनाभिभूतस्वभावता। तदिदमुक्तं चितिशक्तिबाधकवपु- रिति। तथा च कार्यकारणोपाधिद्यकृते अज्ञानस्यैकस्यैकस्म- शिदात्मान स्वातन्त्र्यपारतन्त्र्ये इत्यभिभायः ॥ १६८ ।। अव. ननु जडशत््यात्मकं मायाख्यमीश्वरेऽज्ञानमन्यदेव, अ- न्यच्चावरणशत्त्यार्यमज्ञानं जीवगतमिति हि वदन्ति। युक्तं चै- तत्। विरुद्धरूपयोरेकात्मत्वासम्भवादिति चेत्, मैवम्। ऐक्या-
दृश्यत्वजाड्यपरतन्त्रचिदाश्रयत्वै- र्मायेश्वरस्य तमआत्मतयाऽनुमेया॥ स्त्प्न प्रपश्चरजतभ्रमलिङ्गदेह- दिक्चन्द्रिभ्रममरीचिजलोपमानैः ॥१६९॥ दृश्यस्वेति ॥ ईश्वरस्य माया दृश्यत्वादिभिर्हेतुभिः स्वप्नन- पश्चादिद्ृष्टान्तैस्तमआत्मतया Sज्ञानात्मतया Sज्ञानात्मत्वेनानुमे- या, न हि दृश्यं जडं परतन्त्रं चिदाश्रयं च यथोक्ताज्ञानस्व्रभाव- मतिवर्तते।न च पक्षे दृश्यत्वाद्यभावोऽपि, चित्स्वरूपातिरिक्ते त- त्सम्भवादित्यर्थः। बहुदृष्टान्तोपादानं व्याप्तिदृढीकरणार्थम्॥१६९।। अव. अनुमानान्तरमाह- एकाज्ञानविकल्पितं सकलमेवराकाशपूर्व जगदू बाध्यत्त्रादिह यद्यदीदृशमदस्तादृग् मतं स्वप्रत्रत ॥। बाध्यं चेदमभीप्सितं भवति वस्तरमादिदं ताइशं
537
Page 538
संक्षेपशारीरके द्वितीयोऽभ्यायः।२। १११
शुद्धं धूमवदेव साधनमिदं तत्पाश्रूप्यान्तयाता।१७•।। एकाज्ञानेति ॥ पूर्वत्र मायापक्ष:, इह तु कार्यमाकाशा- दीतिपक्षभेदादनुमानभेद: । बाध्यत्वम् अधिष्ठानतत्वज्ञानापनो- दत्वम्, एतद् दश्यत्वादेरप्युपलक्षणम्। आकाशपूर्व सकलमेव व्यावहारिकपमाणोपनीतं जगत् एकाज्ञानविकल्पनम् एकाज्ञान- कृतमिति प्रतिज्ञा। एकत्वविशेषणम् अनेकाज्ञानपक्षमादायार्थान्त- रत्वशङ्गाव्यासेधार्थम्। अज्ञानमिति च जगत्कारणस्य स्वतन्त्र- मायात्वशङ्गाव्याटृत्यर्थम्। यद्वा एकेति मायाऽविद्याख्यस्वरूपभे- दराहित्यं विवक्षितं, न प्रत्यगज्ञानान्येशमायाविकल्पनमित्युक्तं भवति। व्याप्तिमाह। इह यद्यदीदृशमिति। हेत्वसिद्धिं परिह- रति। बाध्यं चेदमिति । चेच्छब्दोऽसन्देहे सन्देहवचनो "यदि वेदा: पमाणम्" इतिवत्। "परेऽव्यये सर्वे एकीभवन्ति" "अत्र हेते सर्व एकं भवन्ति" "नेह नानाऽस्ति किञ्चन" इत्यादिश्रुति- भिर्विद्ृदनुभवेन च सकारणस्य जगतो बाध्यत्वादित्यभिपायः। उपनयनिगमने आह। तस्मादिदं तादृशमिति। एषामनुमानानां सङ्ग्ेपेणाभासानुद्धरति। शुद्धमिति । धूमवद् धूमानुमानवदिदं साधनं बाध्यत्वादिरूपं शुद्धं निर्दुष्टं तद्वत् । पाश्चरूप्यान्वयात् प- क्षधर्मत्वादिपश्चरूपोपेतत्वादित्यर्थः । अनेनान्वयव्यतिरेकित्वमे- पामनुमानानां सूचितम्। व्यतिरेकव्याप्तावात्मा हष्टान्त:।।१७०।। अव. ननु "मायां तु प्रकृतिम्" इत्याद्यागमानामज्ञानव्यति-
यहित्वा परिहरति- अनुमानमागमविरुद्धमिदं प्रतिवादिनो यदि मतं तदसत ॥
538
Page 539
११२
न तमोडतिरिच्य जगतो जनक- प्रतिपादकं वचनमरिति यतः ॥ १७१॥ अनुमानमिति ॥ तदसदिति दूषणपतिज्ञायां हेतुमाह। न तम इति। "नासदासीभो सदासीत्" इत्युपक्रम्य "तम आ- सीत्" इति तमस एव जगद्ीजत्वं स्पष्ट मदश्यते, तमश्राज्ञान- मेव श्रुतिषु श्रूयमाणमिति तदेव कचिन्मायाक्षरमव्यक्त मसदव्याकतमित्यादिशब्दैरभिलप्यते, अतस्तमोव्यतिरेक्रेणा- र्थान्तरं जगज्जनकमस्तीति मतिपादकं वेदवचनं नास्ति त- स्मान्मायाश्रुतिर्नानुमानबाधिका, अत नावतरति इति "तम आसीत" इत्यादिश्चुतिभिर्विरोधादिति भाव:॥। १७१ ।। भव. नन्वज्ञानं चेदुपादानं तहि तस्य क्षोभकतया सह- कारि किश्िदभ्युपेयं काचादिस्थानीयं तच्चाभ्युपगम्यमानं
अव्ञानस्य स्वकार्ये सहकार्यपेक्षाऽभावादित्यभिपेत्याह- व्रिषयकरणदोषान्न भ्रमः संविदि स्था- दपि तु भवति मोहात केंवलादेवमेव।। भगतरति परमात्मन्याद्वितीये समस्त- द्वयमतिरियमस्तु भ्रान्तिरज्ञानहेतुः ।। १७२ ॥। विषयकरणदोषादिति ॥ पूर्वाध्याये पद्यमिर्द व्या- खयातम्। सर्वत्राज्ञानक्षोभकं चैतन्यमेव, काचादिरूपेणापि तस्यैव कषोभकतयाऽवस्थानाङ्गीकारादिति भाव: ।।१७२।। अव. नन्वेकस्यैव वैतन्यस्येश्रत्वे जीवत्वे चैकमेवा-
539
Page 540
संक्षेपशारीरके द्वितीयोऽष्यायः।२।
चेत, अज्ञानोपाधेरे कत्वेऽपि पूर्वोक्त रूप भे दा त्तदुप प्रचिरित्याह- अज्ञानिनो भवति दुःखमनेन क्लसं सर्वेश्चरस्य न खलु प्रतिभासतोंऽपि ।। सर्वज्ञतादिगुणजातममुष्य नास्य संसारिणः स्फुरति मोहसमन्व्रितस्य ॥ १७३ ॥ अज्ञानिन इति ॥ अनेनाज्ञानेन क्लसं विवर्तितं दुःखम- ज्ञानिनो भवति, आवरणप्रधानं ह्वज्ञानं चैतन्यपारतन्त्र्या- पादकमिव जीवे भाति, अतस्तस्मिन् दुःखित्वादिभ्रमबीजं भवति, अतो "अहं न जाने" इति अज्ञानित्वमात्मनि पश्यतो जी- वस्यैव दुःखित्वं भवतीत्यर्थः । सर्वेश्वरस्य विक्षेपप्रधानाज्ञानो- पाधिकस्य न खलु प्रतिभासतोऽपि दुःखें भवति, तस्य ज्ञान- पतिबन्धकाहङ्करणाद्यभावात्, किन्तु तस्मिने स्वाभाविकस्वरूपा- तिरस्कारात्स्वोपरागतो विक्रियामिवासअ्जयतीव जगत्स्ष्टृत्वा- दिकं धर्मजातमापादयतीवेत्यर्थः। एवमेव सर्वज्ञत्वादिव्यवस्थाS- पीत्याह। सर्वज्ञतादीति। अमुष्य ईश्वरस्य। मोहसमन्वितस्येति जीवस्येश्वराभिन्नस्यापि सर्वज्ञत्वाद्यस्फुरणहेतुः ।। १७३।। अव. तदेवं चिन्मात्राश्रयविषयमज्ञानं तद्वशादेव च चैतन्यस्य जीवेश्वरभाव: तद्गतधर्मव्यवस्था चेत्युक्तं, तत्र जीवस्याज्ञान- मिति सिद्धवत्कृत्य जीवन्मुक्तिमकरणे व्यवहारो डस्ति, अन्यत्र च भाष्यकारीय एव वाहशो व्यवहारो दश्यते सो उप्युक्तरी- त्यैव व्याख्येय: इत्याह- जीवन्मुक्तिगतो यदाह भगनान् सत्सम्प्रदायप्रभु- १५
540
Page 541
११४
र्जीवाज्ञानवचस्तदीदृगुचित पूर्वापरालोचनात ।। अन्यत्रापि तथा बहुश्रुतवचः पूर्वापरालोचना- नेतव्यं परिहृत्य मण्डनव्रचस्तद्धयन्यथा प्रस्थितम्॥१७४॥ जीवन्मुक्तीति॥ भगवान् श्रीकृष्णः । तदुक्त्तेः मत्येतव्यत्वे हेत्वर्थ विशेषणं सत्सम्पदायपभुरिति । सः जीवन्मुक्तिगतः जीवन्मुक्तिपकरणं पकृत्य स्थितः " यदा ते मोहकलिलं पुद्धिर्व्यतितरिष्यति" इति यज्जीवाज्ञानवचः आह तत् ईद्दगुचित- म् उक्तन्यायेन चिन्मात्राश्रयविषयमप्यज्ञानं जीवकोटावावरकत- या स्पष्टीभवतीति। ईश्वरकोटौ चिन्मात्रे च न तथा स्पष्टीभवती- ति कृत्वा जीवाज्ञानव्यवहार इति युक्तमित्यर्थः। अन्यत्रापि ग्रन्था- म्तरे च बहुश्रुतो भाष्यकार: तस्य वच: पुर्वापरालोचनादित्थमेव नेतव्यं, किन्तु मण्डनवन्वः परिहृत्य त्यक्का, हि यस्मात् तत् अन्यथा पस्थितं पस्थानान्तरं,तत्, जीवस्यैवाज्ञानमिति मण्डनस्य मतं यत् तथैव तदस्तु नास्माकं तदुपरोध्यमित्यर्थः।यद्धा भगवानिति भगवत्पाद: श्रीमच्छङ्कराचार्य उक्तः । सत्सम्पदायमभुरिति च तद्विशेषणम्। बहुश्रुताः सुरेश्वराचार्यमभृतयः । अन्यत्समा- नम् ॥ १७४॥ भव. तथा अन्यदपि भाष्यं जीवाज्ञानाभिधायि यत् तव् अर्थतः उपादाय उक्तपकारेण योज्यमित्याह- जीवस्य कार्यकरणाधिपतेरविद्या- दोषान्वितस्य तमसाऽऽवृतमूढदष्टेः ।। ज्ञानं निरावरणमैश्वरमित्यपीदं भाष्याक्षरं कथितनीतिवशेन योज्यम् ॥ १७५॥
541
Page 542
संक्षेपशारीरके द्वितीयोडड्याय: ।२। १११
जीवस्येति ॥ अक्षरब्राह्मणभाष्ये तावदुक्तम् "अविद्यावि- शिष्टः कार्यकरणोपाधिरात्मा जीव उच्यते, नित्यनिरतिशयज्ञा- नशक्त्युपाधिरात्माऽन्तर्यामीश्वर उच्यते" एतदिह पूर्वार्धेनार्थतो नृदितम्। धर्माधर्मपतिबद्धज्ञानशक्तित्वं जीवस्य दोष: तेन दोषे- णान्वितस्य जीवस्याविद्या न तद्रहितस्येश्वरस्थेति योजना। तम- साऽऽृतमूढदृष्टेरिति तस्याविद्यावत्वमनुभवसिद्धमिति दर्शयति। तथा भगवद्गीताभाव्ये ऽपि "त्वं न जानीषे धर्माधर्मभतिबद्ध- ज्ञानशक्तित्वात, अहं नित्यशुद्धबुद्धमुक्तस्वभावत्वादनाव- रणज्ञानशक्तित्वाद्वेद" इत्यादि यदुक्तं, यथ मागुक्तं, यच्चान्यत्रा- प्युक्तं भवेत् तत्सर्वमपि कथितनीतिवशेनोक्तन्यायेन योज्यमि- त्युत्तरार्धेनाह। ज्ञानं निरावरणमिति॥ १७५॥ अध. कथितन्यायमेवाविष्करोति। स्पष्टं तमःस्फुरणमत् न तत्र तद्वत सर्वेश्चरे तदिति तत्र निषिध्यते त्तत। बिम्बे तमोनिपतिते प्रतिबिम्बके वा
स्पष्टं तम इति। अत्र जीवे, तत्र सर्वेश्वरे, तमःस्फुरणं त- द्वत् जीव इव न स्पष्टमिति कृत्वा तत्र सर्वेश्वरे तत् तमः निषि जवयते न तमःसम्बन्धस्यैवाभावादिति योजना। यदि जीवाश्रित- मज्ञानं न भवति ईश्वरेच तत् निषिद्यमानं तदाश्रितं न भवति तहि किमाश्रितं तत् १ इत्यपेक्षायामाह। विम्बे इति। तमोनिपतिते कारणमायापतिबिम्बिते ईश्वरे पतिबिम्बके कार्योपाधिमायाग- ताभासविशिष्टे जीवे वा न तम इति, नकारानुकर्षणेन योज- ना। अपि तु चिल्स्वरूपे । देहट्रयावरणवर्जितेति चित्स्वरूपवि
542
Page 543
११२
शेषणेनोपाधिसम्बन्धं निरस्यति। कार्यकारणोपाधिरहिते तदु- पलक्षिते सर्वामुस्यूते चिन्मात्रे तमः आश्रितमित्यर्थः॥ १७६॥ अध. एवं च चिन्मात्रमेवाविद्यावशाज्जीवत्वमीश्वरत्वं च भजते इत्यस्मिन्पक्षे जीवस्याज्ञानित्वादिकम् ईश्वरस्य सर्वज्ञत्वा- दिकमित्याद्यभिदधन्ा्यं समअ्जसं न विपर्यये इत्यभिमेत्याइ- किश्चिज्ज्ञताऽस्य तमसांऽवृतनित्यदष्टेः सर्वज्ञता पुनरमुष्य परस्य पुंसः ॥
दित्येतदेव्र मुपपन्नतरं हि भाष्यम् ॥ १७७ ॥ किश्चिज्ज्तेति ॥ स्पष्टयोजनं पद्यम् ॥ १७७॥ अव. ननु चिन्मात्रस्य चेदज्ञानाज्जीवेश्वरभावः तहि तस्य उभयत्र समत्वात् कथमीश्वरे सर्वज्ञत्वमज्ञानतत्कार्यविवार्जतत्वं च, जीवे चाजत्वादिव्यवस्था, द्वयोशचिन्मात्रगताज्ञानायनस्वाविशेषा- दिति चेतु, तत्राह- - अज्ञोऽहमित्यवगतिर्न परस्य पुंसः सर्वज्ञताऽवगतिरात्मनि नास्य पुंसः ॥ अत्रापि कारणमहङ्कृतिवर्जितत्वं तद्वत्तया च परमेऽल्पतरे च पुंसि ॥ १७८ ॥ अज्ञो 5हमिति ॥ पूर्वार्द्धोक्तमतिज्ञायामुत्तरार्घेन हेतुमाइ। अत्रापीति। अत्र उक्व्यवस्थायामपि परमे पुंसीश्वरे दङ्कुतिन- जिंतत्वम् अहङ्कारात्माभिमानरहितत्वं सर्वझञत्वादि मथते अज्ञत्वा- देरमथने च कारणम्, अल्पसरे पुंसि जीवे च पुनस्तदततयाऽर- क्ारात्माभिमानवसथाऽज्स्वादिसफुरणं घेवि योजना । तथा च
543
Page 544
संक्षेपशारीरके द्वितीयोऽध्यायः।२। ११७
चिदात्मनो जीवकोटावह्ाराय्यधिकोपाघिपवेशात् ईश्वरकोटौ च तदभावाधुक्ता यथोक्तव्यवस्थेति भाव: ।। १७८ ।। अध. नन्वीश्वरस्याज्ञानसम्बन्धश्रेदस्ति तहहझरणसम्ब- न्धो जपि स्यादितरस्येवेति चेत, नेत्याह- बिम्बस्य नापि तमसि प्रतिबिम्बकस्य सङ्घटटनं क चिदहङ़करणेन शक्यम् । वक्तुं प्रभो: सकललोकहितावतार-
विम्बस्येति ॥ बिम्बस्य चिन्मात्रस्य कचिद्विषये ऽदड्करणेन सङ्गटटनं वक्तुं न शक्यं, तस्य सर्वविकल्पाधिष्ठानतया कूटस्थस्य निर्विकल्पज्ञानरूपत्वात्। नापि तमसि कारणाव्याकतात्मकेऽज्ञाने पतिषिम्बकस्य क्रचिदहङ्करणेन सङ्गट्टनं वक्तुं शक्यं, तस्या- ज्ञानतत्कार्याघिष्ठातृत्वेन स्वातन्त्रयात् तस्मिन्रज्ञानतत्कार्यकृता- तिशयायोगादिति योजना। कथं तरहि ईश्वरस्य सतः श्रीकृष्ण- स्य "अहमात्मा गुडाकेश" इत्याद्यहङ़करणसम्बन्धव्यञ्जकं वचनं? तत्राह। प्रभोरिति। सकललोकहिताय यो Sवतारस्तस्मिन्स्वानां भक्तानामिच्छया प्रार्थनया विनिर्मितं संङ्कल्पमात्रेण सम्पादितं चपुर्वरं वपुःश्रेष्ठमन्तरेण तद्वर्जयित्वा, तत्र हि व्यवहारसिद्धये मशुणाऽहङ्करणं स्वातन्त्र्येणाङ्गीकृतमिति भावः ॥ १७९॥।
स्याज्ञानित्वस्फुरणं स्यादिति चेव्, नेत्याह- नाहङ्कृति च परिहत्य तमस्विताधीः सम्भाव्यतेऽपहृतभप्मनि नित्यमुक्ते। +'
544
Page 545
११८
तामन्तरेण घटते न च मढभाव- सम्भावनाऽपि परमेशितरि प्रसन्ने ॥ १८० ॥ नाहड्कृतिं चेति॥ स्वाभाविकं हीश्वरस्यापहतपाप्म- त्वादि तादृशे परमेश्वरे डइङ्कृति विरह्य्य स्वतः तमस्विता- धीर्न सम्भाव्यते अहतपाप्मत्वादिस्वभावविरोधादित्यर्थः ।ताम- न्तरेण तमस्वित्वधियं विना मूढभावसम्भावनाऽपि परमेशि- तरि मसन्ने स्वभावनिर्मले पकाशमाने न च घटते। तथा च
वरणप्रतिभासः तदभावे च न मूढभावो Sतः स्वभावानुरोधी- श्वरत्वसर्वज्ञत्वादिकमेव तत्र भवति न विपरीतमिति भाक:॥१८०।। अव. तथापीश्वस्य स्वेच्छाविग्रहे Sहक्कारादिसम्बन्धदर्श- नात् अज्ञत्वाद्यपि तास्मिन्सम्भाव्यते इति चेतु, तत्राह-
नाज्ञानिताऽवगतिरस्ति वशित्वहतोः ॥ वश्यत्वहेतुकमिदं स्फुरणं नराणां नाहं विजानइति नास्ति तदीश्वरस्य ॥१८१॥ स्वेच्छाविनिर्मितेति । सत्यं, स्वेच्छाविनिर्मितवपुषो- डहङ्करणमपि कदाचिद्वेद् ? एतावता तस्येश्वरस्याज्ञानिताऽव गतिर्नास्ति न कल्प्यते । कुतः? वशित्वहेतो: अज्ञानवशित्वात्, न हि योऽज्ञानं वशीकृत्याइङ्कारं शरीरं च स्वेच्छावशादसजत तस्य स्वातन्त््यस्य स्फुटत्वात् तस्मिस्तत्कार्यगतपारतन्त्र्यस्यारोपसम्भा- वनेत्यर्थः । यस्मानराणां जीवाना "नाहं विजाने"इद स्फुरणं वश्यत्वहेतुकं कार्यगतपारतन्त्र्यारोपे निमिचम्, अतस्तद भा-
545
Page 546
संस्षेपशारीरके द्वितीयोऽभ्यायः।२। ११९
वादीश्वरस्य तदावरणरूपेण "नाईं बिजाने" इति अज्ञामस्फुरणं नास्ति स्वेच्छयाऽवतारे ऽपीत्यर्थः ।।१८१। अव. नन्वज्ञत्वादिकमपीश्वरस्य श्रीरामावतारे दष्टमिति चेत्, तदपि स्वातन्त्रयविजृम्भितमेव, न जीवानामिव पारतन्त्रयम- युक्तं, तदश्त्वादे: सङ्कल्पपूर्वकत्वश्रवणादित्याह- सङ्कल्पपूर्वकमभूद्रघुनन्दनस्य नाहं विजानइति कं चन कालमेतत् ।। ब्रम्मोपदेशमुपलम्य निमित्तमात्रं त्वोत्ससर्ज स कृते सति देवकार्ये ॥ १८२ ॥ सङ्कल्पपूर्वकमिति॥ कञ्चन कालं दुष्टराक्षसनाशपर्यन्तं "नाहं विजाने" इत्येतदजत्वं संङ्गल्पपूर्वकमभूत् नाहङ्करणपार- वश्येनेत्यर्थः । नन्वौपदेशिकविद्यापोहितत्वांत्तस्याप्यज्ञत्वं जीवा- ज्ञत्वसममिति चेत्, नेत्याह। ब्रह्मोपदेशमितिन ब्रह्मण: पजापते- रुपदेशं निमित्तमात्रं संङ्कल्पत्यागस्य द्वारमात्रमुपलभ्यादाय तच देवकार्ये देवकण्टकोद्धारे कृते सति उत्ससर्ज, सङ्कल्पगृहीत- मप्यज्ञत्वं स्वातन्त्र्येणैव तत्याज न लोकवज्जन्यवविद्याबलादि- ति गम्यते, स्वातन्त्यस्य रामे कदाऽपि तिरोधानादर्शना- दित्यर्थः ।। १८२।। अव. तस्मादीश्वरस्याज्ञानसम्बन्धे डपि ज्ञानावरणाभा- चात् इतरस्याइङ्टारकञ्चुकितया तत्सच्वादिति युक्ता सर्वजत्वा- दिव्यवस्थाऽस्मन्मते इत्युपसंहरति- अज्ञानवर्जिततया परमेश्वरोऽसौ सर्वध्ञ एव यदहङ्कृतिबन्धहीनः ॥
546
Page 547
१२०
ज्ञानं निरावरणमिष्टममुष्य यस्मा- जीवस्य सावरणमेव यतोऽनमिश्ञः ॥।१८३ ।। अज्ञानवर्जिततयेति॥ यच्छदवस्तस्मादर्ये पथमं योज्यः। यतो डहङ्कृतिरूपबन्धहीनो तः आवरणात्मकाज्ञानवर्मिततया 5सौ परोक्ष: परमेश्वरः सर्वज्ञ एवेत्यन्वयः। अर्थादहङ्कृतिबन्ध- वतो उज्ञत्वमल्पज्ञत्वमनीश्वरत्वं चेत्युक्तं भवति। उक्तव्यव- स्थायां पूर्वोक्तं नियामकं स्मारयति। व्ञानमिति । अमुष्य ईश्वरस्य ॥ १८३ ॥ अव. ननूभयोश्रेतनत्वादविशेषे कथमीशस्य ज्ञानं निराव- रणं जीवस्य तत्सावरणमिति व्यवस्थेति चेत, तत्राह- सर्वप्रमाणफलभूतसमस्तसंवि- उज्ञानं बिभर्ति परमः पुरुषो न जीत्: ।। ज्ञानं निराधरणमैश्वरमस्तु तस्मा- जैवं च सावरणमस्य विशेषहेतोः ॥१८४॥। सर्वप्रमाणेति ॥ अयमर्थः । अस्ति तावद् सर्वपमाणानां फलभूता विषयस्फुरणाभिधेया संवित्पसिद्धा, सा च नाज्ञानेना- भिभाव्या तस्या: अज्ञाननिवर्तकत्वात्, अन्यथा विषयव्यवहारा- सिद्धेः, तस्याश्च प्रतिपमाणव्यापारं जायमानतया भासमानाया उपादानं तावदपेक्ष्यते, तदपि स्वसमानस्वभावा संविदेव स- र्वफलोपादानतया सर्वात्मिका Sखण्डैकरसाऽभ्युपेया, सा च "विज्ञानमानन्दं ब्रह्म" इतिश्रुतेर्त्रसमरूपैव सती तद्धर्मतया व्य- वहियते इति। एषाऽक्षरयोजना। सर्वेषां प्रमाणानां फलत्वेन भवती या समस्तसंवित्सर्वा एव संविद: तदेव ज्ञानं तत् पर-
547
Page 548
संक्षेपशारीरके सितीयोडप्यायः।२। १२१
मः पुरुषो विभर्ति स्वात्मतया घारयवि न जीव:, अन्त:करण- वृत्तिपरिच्छिन्नचिदाभासमात्रज्ञानत्वात्। तस्य फलितमाह। ज्ञानं निरावरणमिति। तस्मादिति प्रथमं योज्यम् । तथा च चेतन- त्वसाम्येनेश्वरस्याज्ञताऽनुमानम् एतद्विरोधाद्विपक्षे वाधकाभावा- च्ापयोजकमिति सिद्धम् ॥१८४॥ अव. "विशेषहेतोः" इत्युक्तं विशेषं स्फुटयति- अज्ञानतजमखिलं जगदात्मभासा नित्यं प्रकाशयति सन्निहितः सदात्मा ।। जीवस्तु नैतमिति सावरणं तदीिं ज्ञानं निरावरणमैश्वरमुच्यते हि ॥ १८५॥ अज्ञानतञ्जमिति ॥ सदात्मा सच्छब्दनिर्दिष्टः परमा- त्मा अज्ञानाद्यखिलं जगत् तदधिष्ठानत्वेन सदा सन्निहित: सन् स्वभासा स्वाभाविकेन चैतन्यज्योतिषा प्काशयति आदित्यवत्स्वयं प्रकाशमान: स्वाध्यस्तं सर्वे प्रकाशयति, जी- वस्तु नैवं, तस्य स्वतःसिद्धज्ञानरूपत्वेऽप्युपाधिमविष्टतया प- रिच्छिन्नत्वात्, इति अनो हेतोः तदीयं ज्ञानं सावरणम्, ऐ- श्वरंतु ज्ञानं निरावरणमित्युच्यते । हिशब्दो विद्वत्मसिद्धय- वद्योतकः । जीवस्य हि ज्ञानं पुण्यापुण्यपयुक्तं पमाकरणदो. वतारतम्यभाघेन जायमानम् अन्तःकरणससिकञ्चुकितं भवति सावरणं व्रस्तुतन्वानवमाहित्वात्, ईश्वरस्य त्वेवंविधदोषाभा- वात्तरतमसंबन्धाभावात्नित्यनिरतिश्चयमेकरूपं सत् निरावरणमेव भवतीस्यभिभ्नायः।।१८५॥। अष. ईश्वर्य मिरावरपाजनत्वम् आधरणाभावादेव, नत्व- ल्पन्तमेवाज्ञानासंक्षधात् इत्यत्र विष्णुपुराणनाक्यं प्माणमाद- १६
548
Page 549
१२२ से
ज्ञानात्मकस्यामलसत्व्राशे- रपेतदोषस्य सदा स्फुटस्य ।। किं वा जगत्यत्र समस्तपुंसा- मज्ञातमस्यारिति हृदि स्थितस्य ॥ १८६॥ ज्ञानात्मकस्येति॥ अत्र अमलसत्वराशेरितिपदेनेश्वरस्या ज्ञानसंबन्ध: सूचितः, सतत्वस्याज्ञानधर्मत्वात्। अपेतदोषस्येत्या- वरणात्मकाज्ञानसंबन्धो निरस्तः । तत्र हेत्वर्थ विशेषणं सदा स्फुटस्येति। वैपरीत्येन वा नयोर्हेतुहेतुमन्भावः। ज्ञानात्मकस्येति सदा स्फुटत्वे हेतुः। समस्तपुंसां हृदि स्थितस्येति सर्वजीवान्त- र्यामित्वोक्या सर्वजीवविलक्षणत्वेन परमेश्वरत्वमुक्तम्। एवंविध- स्यास्य भगवतो Sत्र जगति कि वाऽज्ञातम् अविदितं विद्यते, न किमपीत्यर्थः ।। १६ ॥। अव. ईश्वरस्य मायावित्वविषयं श्रवणमपि तत्र साक्षान्नि- र्दिष्टमित्याहं- मायामसौ वितनुते विभुरेवमेनां सर्वेश्वरः सततमेव् वशीकरोति। इत्यादिवाक्यमुपपन्नतरं पुराणे स्वाज्ञानमस्य च वशे चिदधीनभावात ।।१८७।। मायामिति॥ यतो Sसौ भगवान् विसुः अतो मार्यां वि- तनुते जगदात्मना विस्तारयति। यतश्र सर्वेश्वरः अत एवैवम् पनां मायां सततमेव वशीकरोति, न कदाऽपि मायापरवशी Sसावित्य- र्थः। इत्यादिवाक्यं पुराणे पव्यमानम् अस्मदुक्त्तरीत्योपपस्रतरम्, अन्यथा तत् बाधितार्थ स्यादित्वर्य:। तत् मापासंबन्ध एवोक्त:
549
Page 550
संसेपशारीरके द्वितीयोऽभ्याय:।२। १२३
ईश्वरस्य नाज्ञानसंबन्ध: इति पतिभासात् कथमिदसुक्ते डर्ये म- माणमिति चेत, मैवम्। मायाऽविद्याऽज्ञानशब्दानामर्थभेदाभावा- दित्यभिप्रेत्याह। स्वाज्ञानमस्य चेति। चिद्धीनभावात, अज्ञानस्य सत्तास्फूरत्योरिति शेष: । चितश्चेश्वरस्वरूपत्वाशयुक्तमस्या्ञानव- सित्वमिस्यर्थः ।। १.८७। अब. एवं जीवेश्वर पोरज्ञत्व सर्वझ्ञत्वधर्मव्यवस्थाऽभिधायि- ग्रन्थगतिम् अव्ञानोपाधिकतयैवोपपाद उपसंहरति- जीवाज्ञतावचनमेवमिदं समस्तं सर्वत्र योज्यमितरत्र च तन्निषेध: ।। तस्मात् समअसमिदं मतमस्मदीय- माचार्यवाक्यमुपपन्नतरं हि तत्र ॥ १८८ ॥ जीवाजतेति। समस्तमिदं जीवाज्ञतावचनं वृद्धैरुपनिषद्ध एवम् अस्मदुक्तमकारेण सर्वत्र ग्रन्थसाभवेशेष्ठु योज्यम्। चिदात्मनि जीवत्वोपाधावेवावरणात्मकाज्ञानस्फुरणम् इति "अज्ञो जीवः" इति वद्धानां वचनम्। इतरत्रेश्वरे ताह्ृयूपस्यास्फुरणभिपायेण तन्निषेध: इत्यर्थः । तदेवं पत्यक्चैतन्यमेवाविद्ययाऽनेकजीवेश्व- रादिभेदेन प्रत्यवभासते इत्यस्मन्मतम् आचार्यसम्मतं युक्तमेवेति सिद्धमित्युपसंहरति । तस्मादिति । तत्र अस्मन्मते ॥ १८८॥ भव. न केवलमाचार्यवाक्यमेवास्मन्मतानुसारि अपितु वे- दान्तवाक्यपटत्तिरपीदमेव मतमाश्रितेत्याह- चैतन्यमेव तु तमस्विरि तदप्रबुद्धं सर्वज्ञमेतदिह विश्वमिमं विभागम् ॥ जीवेश्वरौ च जगदित्यपि निर्मिमीत-
550
Page 551
१२४
इत्येत वेदशिरसः प्रथितः प्रचारः॥१८९॥। चैतन्यमेवैति॥ तमस्वि अनादज्ञानशबलितं चैतन्यमेव तु स्वतो निर्विभागं स्वगततमोविकारनुरोधेन तत् चैतन्यम् अपबुद्धं कार्योपाधिप्वेशेनाजं जीवशब्दवाच्यं जायते । एतदेव चैंतन्यं सर्वज्ञं कारणोपाध्यनुरोधेन सवर्वस्तूपरागेण प्रकाशमानं सत् स- र्वावभासकतया सर्वजञं च सत् जीवेश्वरौ जगदित्यपि चेमं वि- श्वविभागम् इह व्यवहारकाले निर्मिमीते इत्येव वेदशिरसः प्रचारः प्रितः सर्वशाखासु प्रसिद्धः इति योजना। वेदान्तेषु हि ब्रह्मात्मविद्यया तदविद्यानिरासेनाखिळस्यास्य जीवेश्वरजग- द्विभागस्य निवृत्तिर्व्रअभावापत्तिश्र श्रूयते, तत् सर्वस्याविद्या- कल्पितत्वमन्तरेण नोपपद्यते, विद्यापोद्यस्याविद्यात्मत्वनियमात् सत्यस्य विद्यापोद्यत्वासम्भवात् । तद्यथा बृहदारण्यके तावत् "य हेतद् ब्रह्मविद्यया सर्व भविष्यन्तो मनुष्या मन्यन्ते किमु त- द्रह्मावेत्" इत्याक्षेपपूर्वकं "ब्रह्म वा इदमग्र आसीत्" इति वि- दोत्पत्तेः प्रागपि ब्रह्मण एवाज्ञत्वमभिधाय "तदात्मानमेवावेदह ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्" इति तस्यैव विद्यया स्वत :- सिद्धसर्वजञं सर्वात्मकं ब्रह्मभावं श्रावयति ब्रह्मकण्डिकादिश्रुतिः। अत्र"सर्वमभवत्'इति श्रूयमाणसर्वात्मभावस्य न मुख्यार्थत्वं किं- त्वपवादार्थत्वम्। तथाच यदिदं सर्वे जीवेश्वरजगद्विभागरूपं वि- इवं तत्सर्चे तद्गसमाभवत् ब्रह्मण: पृथङनाभूद्भवति भविष्यच्चेत्यर्थः। तथा ऽन्यत्राध्यारोपापवादाभ्यां विश्वस्य पत्यगज्ञानसिद्धत्वं तद्याथात्म्यज्ञानबाध्यत्वं चावगम्यमानम् एकस्यैव चिदात्मनो- Sज्ञत्वसर्वज्ञत्वशुद्धत्वादिकं स्वाविद्यया स्वविद्यया चोपपन्नमिति गमयति। तस्माच्छुतिगतिपर्यालोचनायामप्यस्मन्मतं युक्तमेवे- ति भाव: ।। १८९॥
551
Page 552
संक्षेपशारीरके द्विवीयोऽध्यायः।२। १२५
रीश्वरमाया जीवमोहकरी जीवाज्ञानादन्यैवेति बेत्, नेत्याह- जीवेशानजगद्विभागजननी शक्तर्जडा वैष्णती मायेशानगता सती भवति सा जीवावधिर्मोहगीः ॥ जीवानीश्वर एष मोहयति ते जीवा तरिमुह्यन्त्यतः शश्त्रद्विश्वदगीश्वरोभवति ते जीवा त्रिमूढा मुहुः॥९॥ जीवेशानेति ॥ या जीवादिजगद्विभागजननी मत्यगज्ञा नात्मिका जडा शक्ति: सैवेशानगता सती वैष्णवी माया भवति नान्या। जीवावधिः जीवमर्यादा जीवे स्फुटतरं व्यवहयमाणेति यावत्। सैव शक्ति: जीवावधिः सती मोहगी: मोहादिशब्दवाच्या भवतीति योजना। मायामोहयोरनिर्वचनीयत्वस्वभावाविशेषा- भ्र स्व्ररूपभद:, किन्तूक्तशक्तिवशित्वेन तद्वययत्वेन चेशजीवयो- र्मायित्वमूढत्वव्यपदेशः, मायावीश्वरपारतन्त्वयात् जीवस्य माया- मोहितित्वव्यपदेशव्यवहारश्चोपपद्यते इत्यभिप्ेत्याह। जीवानी- श्वर इति। एवं सति सर्वज्ञत्वाज्ञत्वाद्यपि व्यवस्थितमुपपद्यते इत्याह । अत इति ॥ १९० ॥ अव. अत एवैकाज्ञानं प्रति वशित्ववश्यत्ववसादीशस्य जग- देतत्वं जीवस्य दुःखित्वादिसंसारधर्मवत्वं व्यवतिष्ठते इति म-
अज्ञानिनो भवति मोहविज़म्भितं त- द्ुःखं जगज्नकता परमेश्वरस्य ।। मायामयी भवति तेन विलक्षणत्व- मेकान्ततः श्रुतिशिरःसु तयोः प्रसिद्धम॥१९१॥
552
Page 553
१२६
अज्ञानिन इति॥ तत् मसिद्धं दुःखम् अज्ञानिनो जीवस्य मोहविजृम्भितं भवति, परमेश्वरस्य जगज्जनकता मायामयी भ- वति, उपपदते इत्यर्थः। तेन यथोक्तन्यायेनोक्तमकारेण च तयोः जीवेश्वरयोः श्रुतिशशिरःसु विलक्षणत्वमेकान्ततः मसिद्धं न पकारान्तरेणेत्यर्थ: ।।१९१॥ अव. एवं सति दृद्धानां जीवाव्वत्ववचनमपि उक्तपकारेणो- पपभ्नमिति भकरणार्थमुपसंहरति- चैतन्यस्याज्ञानशक्तेरनावे- र्जीवत्वं तु व्यञ्जकं कल्पयन्त: ॥। जीवारूढं व्यक्तमज्ञानमाहु- र्जीतो मूढ: कथ्यतेडतो बहुजैः ॥ १९२॥ चैतन्यस्थेति॥चैतन्यस्य चिन्मात्रस्य संबन्धिनी या तदाश्र- यविषयाऽज्ञानात्मिक शक्तिस्तस्या: अनादेरज्ञानात्मना व्यअ्कं जीवत्वं चैतन्यस्य अन्तःकरणोपाध्युपरक्तत्वलक्षणं कल्पयन्त: आचार्याः जीवारूढं सत् अज्ञानम् अज्ञानात्मना व्यक्तमाङु:। अतो हेतो: बडुजैर्विद्वन्िर्जीवो मूढ: कथ्यते, इत्यपि सिद्धमित्यर्थः।त- स्मात्मत्यक्चैतन्यमेवाज्ञानसंबद्ध सत् ईश्वरभावेन जगत्स्रष्टृत्वा- दिभाग्भवति, जीवभावेन च संसरति, तत्वज्ञानेन च समस्त- विभागपहाणेन सुच्यते इत्ययमेव सूत्रकारस्यापि सिद्धान्त: इति द्रष्टव्यम् ॥ १९२॥ अव. यदेवं कथं तर्हि "स्याल्ोकवत्" इति सूत्रकारस्य प- रिणामाभिधानं, जीवेश्वरभेदसिद्धवत्कारेण च "नेतरोऽनुपपत्तेः" "अधिकं तु भेदनिर्देशात्"इत्यादि विवरणं चोपपदते इति चेत्, नायं दोष:। यथोक्ते एव सिद्धान्ते कजनोपकारमालक्षप मौटि-
553
Page 554
संक्षेपशारीरके द्वितीयोऽभ्पायः।२। १२७
वादतया तथा निर्देशोपपसेरिस्याह- अन्रैत्र वस्तुनि हढं व्यवतिष्ठमानः प्रौढिप्रदर्शनपर: पुनरन्यदन्यत् ॥ भाषापदं किमपि निक्षिपति स्फुटं त-
अन्नैवेति ।। चिन्मात्रमेव वेश्वरादिभेदभागित्यत्रैव वस्तुनि अविधयाशक्तियोगाज्ी- दृढं स्वसिद्धान्तनिश्चि- ततया व्यवतिष्ठमानः सूत्रकार: मौढिपदर्शनपरः सन् पुन- रन्यदन्यन्द्राषापदं किमपि निक्षिपति, परिणामवादजीवेश्वरभे- दादिद्योतकं पदं कथयति, न तत्र तस्य तात्पर्यमित्यर्थः । यन्भा- षापदं सूत्रकारो डकथयत् तदस्माभि: एवम् उक्तरीत्याऽअ्सा सामअस्येनोपपादितमेवेति योजना ॥ १९३ ॥ अध. नन्वयं सूत्रकारस्य मौढिवादो नृ सिद्धान्तत्वेनाभि- मतः इति कथमवगम्यते ? मायावाद एव तथा कि न स्यात् इति चेत्, मैवम्। "सर्वधर्मोपत्तेः" इतिसूवेण स्वपक्षसाधनमक- रणमुपसंहरता सूत्रकारेण "अज्ञानमाययैव कारणत्वापेक्षितस- र्वधर्मसिद्धिरीश्वरस्य" इति सुखतो मायावादस्य सिद्धान्तितत्व- दर्शनादित्याह- विस्पष्टमात्ममतमेव हि सर्वचर्म- सूत्रेण सूत्रकृदिदं दृढमाचचक्षे।I सर्वज्ञतादिपरिपालनतत्परः सन् वत्रैष भाष्यकृदपीदमुवाच यत्नात ॥ १९४॥ विस्पष्टमति ॥ इदमेवास्ममतमिति सम्बन्ध:। एवं कि
554
Page 555
१२८ अन्वयार्थप्रकाशिकाविभूमिते
स्पष्टं चेदं मायानिबन्धनमीश्वरस्य कारणतवायुक्कवानिति कथं ? तस्मिन्सूत्रे ज्ञानमायादिशब्दादर्शनादिति चेत्, तत्राह। तत्रैवे- ति। अस्मिनेव सूत्रे सर्वजं सर्वशक्ति महामा्यं व ब्रह्मेति वदन् भाष्यकृत् यत्नादिदं माययैव ब्रह्मणः सर्वज्ञत्वादि- धर्मो जीवेश्वरजगदाकारश्चेत्येतदाहेति। तथाच भाष्यवचनादेव सूत्राभिपायस्य सर्वत्र इत्यर्थः ॥ १९४॥ ज्ञायमानत्वाभनान्न विभतिपत्यवकाशः
अव- तदेवं मत्यडन्मात्राश्रयविषयमज्ञानं तद्विलासश्चायं सर्वो जीवेशादिभेदस्तस्यैव प्रत्यकचिन्मात्रस्य विद्योदये सर्वा- त्मना निवर्त्तते इति स्वमतं उपपादितम्, इदानीं तत्स्थेमार्थ पुन- रपि प्रत्यावृत्य "जीवस्यैवाज्ञानं ब्रह्मविषयकं न ब्रह्मणोऽज्ञा- नसम्बन्धः, तथात्वे तस्य जीवत्वापत्तेर्विशुद्धं ब्रह्मेश्वरो वा न सिद्धयेत्" इति ये मन्यन्ते तन्मतं दूषयति- अज्ञानित्वं ब्रह्मणो जीव्रता चे- न्नाज्ञानित्वं तत्र जीवस्य युक्तम ॥ अज्ञानित्वे चान्यदप्यभ्युपेत- मज्ञानित्वं यद्यहो कष्टविष्टि: ॥१९५॥ अज्ञानित्वमिति ॥ "सेयं देवतैक्षत हन्ताहमिमास्तिस्त्रो देवता अनेन जीवेनात्मना ऽनुमविश्य" इत्यादिपवेशश्रुतरिनु- सरता ब्रह्मण एव स्वसष्टकार्यानुभवशेन जीवभाव इति वक्तव्यम्। तत्रेदमभिधीयतां, ब्रह्मणो जीवत्वं नामाज्ञानित्वात् अन्यत् अज्ञा- नित्वमेव वा। नादः विद्यापोद्यस्य जीवभावस्याविद्यात्मत्वान- पायात् ब्रह्मण्यविद्यापवेशात्। द्वितीये ब्रह्मणो जीवत्वं चेद- श्नित्यमभिमतं तत्र पक्षे जीवस्याज्ञामित्वं न युक्कं ब्रह्मण
555
Page 556
संक्षेपशारीरके द्विंतीयोऽंध्यायः।२। १२९
एवाजत्वाज्जीवस्य तदसिद्धेः । कुतो जीवस्याइत्वासिद्धि: ? इति चेत्, तत्र वक्तव्यम् । कि ब्रह्म येनैवाज्ञानेन जीवभावमापभनं तेनैवाज्ञानित्वं जीवस्य अज्ञानान्तरण वेति ? तत्रादये स्यादात्मा- श्रयता, अज्ञानविशिष्टे जीवेऽज्ञानाश्रयत्वमिति स्वाश्रयत्वापसे- रित्यर्थः । द्वितीयमनूद्य दूषयति। अज्ञानित्वे चेति। यद्यन्तः पूर्व- पक्षानुवादः । अहो इत्यादिर्दूषणभागः । पिष्टिः पेषणं तच्च क- ष्टं क्रिष्टं कल्पनम्। पूर्वाज्ञानेनैवाभिमतव्यवहारसिद्धेरज्ञानान्तर- वैय्थ्यादनवस्थापाताच्चेत्यर्थः ॥१९५॥ अध. न केवलमस्पिन्पक्षे जीवे डज्ञानाभावः अपि तु ब्रह्म- ण्यज्ञानमभ्युपगतं स्यात्, अज्ञानित्वलक्षणजीवत्वस्य ब्रह्मण्येवा- शीकारादित्याह- अज्ञानित्वं ब्रह्मणश्चानभीष्ट- मस्मिन् पक्षे दुर्ननिवारं प्रसक्तम्'।। अज्ञानित्वं ब्रह्मण श्रेदभीष्ट- मस्मत्पक्षस्त्यज्यते कस्य हेताः ॥ १९६॥ अज्ञानित्वमिति ॥ दुर्निवारं पूर्वोक्तमेवानवस्थालक्षणं दूषणं पसक्तम् अतो ब्रह्मण्येवाज्ञानसिद्धिरित्यर्थः। नन्वस्माभिरपि ब्रह्मण्येवाज्ञानमिष्यते किन्तु तज्जीवकोटावेव न साधारणतये- त्येतावान्विशेषः इति स यदि ब्रूयात् तत्राह। अज्ञानितवं ब्रह्म- णश्रेदभीष्टमिति। तर्हीश्वरो Sज्ञानोपाधिरित्यस्मत्पक्ष: कस्मान्निमि- ताश्यज्यते, एकाज्ञानकल्पितत्वस्योभयत्राविशेषादित्यर्थः।।१९६।। अव. ईश्वरस्याज्ञानित्वे Sुद्धिमसङ्गादपहतपाप्मत्वादि- विरोध: स्यात् अतस्तन्मा भूदित्यज्ञानं तत्र नेष्यते इति शङ्कते- शुद्धत्वार्थ ब्रह्मणस्त्यज्यते चे-
556
Page 557
१३०
दस्मत्पक्षेऽप्यस्ति शुद्धत्वमस्य ।। अस्मत्पक्षे शुद्धता वास्तवी चेदू युष्मत्पक्षे कल्पिता शुद्धता किम् ॥ १९७ ॥ शुद्धत्वार्थमिति ॥ अज्ञानसम्बन्धाभ्युपगमे Sपि तस्य तत्र कल्पितत्वाम्न वास्तवशुद्धिश्ततिविरोध: इति परिहरति। अस्मत्पक्षे जपीति। नन्वेवं सति वास्तव्येव शुद्धि: स्याल मतीतितो Sपी- ति शङ्कामुत्थाप्य दूषयति । अस्मत्पक्षे इति । अक्षरार्थः स्पष्टः । वास्तव्येव शुद्धिर्न प्रातीतिकीति वदतो वास्तव्या: शुद्धेरवि- रोधमालम््य प्रतिभासत: इर्श्वरस्याप्यस्ति सविशेषत्वलक्षणा- शुद्धिरिति गूढो ऽभिपाय:। १९७। अव. ईश्वरस्य व्यावहारिक्यशुद्धिरपि जगत्स्नष्टृतादिल- क्षणैव न जीववत्संसारित्वलक्षणेति पूर्वमेवोपादिता डस्मन्मते व्यवस्था। तस्मादज्ञानकल्पितजीवभावविशिष्टस्यैवाज्ञानं तस्य च विद्यया ब्रह्मभावो मोक्ष इति कल्पितस्य जीवस्य ब्रह्मभाव इति वदतः पक्षः सर्वन्यायविरुद्ध इति नोपादेय: श्रेयो जर्थिभिः कि- त्वस्मत्पक्ष एवोपादेय इत्युपसंहरति- कष्टः कष्टः कल्पितो ब्रह्मवादः श्रेयोमार्गाद भ्रश्यतो भ्रान्तबुद्धे: ।। त्यक्तव्यस्ते सज्जनैरस्मदीयः श्ेयोमार्गः श्रेयसे चाभ्युपेयः ॥ १९८॥ कष्टः कष्ट इति॥ सज्जनैः श्रेयो ऽर्भिभि: शुद्धबुद्धिभिः । स्पष्टमन्यत् ॥ १९८ । अव. अस्तु ब्रह्मण्येवाज्ञानं तथाप्यज्ञानित्वमेव तस्य जीव-
557
Page 558
संसेपशारीरके द्वितीयोऽध्यायः।२। १३१
रूपत्वं तदसम्बद्धरूपेण चेश्वरत्वं तस्वज्ञानादेव। एवं च नैकत्रैक- स्य भावाभावविरोध:, एकस्मित्रप्याकाशे पक्यादीनां भावाभा- वविरोधादर्शनादिति सङ्कते - एकोपधावसितता नास्तिता च मूढत्वस्य स्वीकृता चेत परस्मिन् ।। व्योम्न्येकस्मिन्नस्तिता नास्तिता पक्ष्यादीनां यद्दिष्टा तथैव ॥ १९९ ॥ एकोपाधाविति ॥ परस्मिन् ब्रह्मणि मूढत्वं चेद्वतेष्यते इति योज्यम्। तदा एकोपाधावस्तिता नास्तिता चाज्ञानस्य स्वीकृतैव, न विरोधो Sपि दष्टान्तसम्भवादित्याह। व्योम्नीति। स्पष्टार्थः ॥ १९९ ॥ अव. आकाशे पक्ष्यादेर्भावाभावपतीतिरुपाधिभेदापेक्षयैव, न निर्द्वारं कापि भावाभावप्रतीति: इत्यनुभवबलमादाय परिहरति- नैतत सारं सत्त्वमिष्टं यदि स्या- दस्तित्वादेरिष्टहानिः प्रसक्ता । एकोपाधावस्तिता नास्तिता चे रस्यादित्येवं स्व्रीकृतेऽस्मिन हि पक्षे ॥ २०० ॥ नैतस्सारमिति। अस्तित्वादेरस्तित्वनास्तित्वयोरेक- स्मिन्सर्वं यदीष्टं स्यात्तदेष्टहानि: मसक्तेति योजना। कः स्य मते मसका १ इत्यत आह। एकोपाधाविति। चैत्येतावदिह्ट विवक्षितम्। चेदिति छन्दःपूरणार्थः मयोगः ॥। २०० ॥ अव- इष्टहानिमसङ्मेव स्पष्टयति-
558
Page 559
: १३२
घूमे सत्ता स्यादसत्ता च तस्मिन् धूमस्थैवं कारणं कल्प्यते किम् ।। कादाचित्कं कारणं नान्तरेण स्यादित्यवं तस्य क्लप्ति: कुतो वः ॥ २०१ ॥ धूमे सन्तेति ॥ धूमे सत्वस्फुरणकाले तस्यासत्वस्यापि सम्भवाद धूमेऽसत्ता स्यात्, तस्मित्नेव स्थाने काले वा सत्ता च स्यात्, एवं सति घूमस्य कारणमग्नि:किं कल्प्यते अनुमीयते नैवे- त्यर्थः।यद्वा तस्मिन् धूमे असत्ता च स्यादिति सम्बन्धः। तत्रासत्व- पक्षे तेनाग्न्यनुमानासम्भवं स्फुटयति। कादाचित्कं कारणमिति। कादाचित्कं कारणं लिङ्गमन्तरेण कारणानुमानं न स्यादित्येवं सति तस्याग्ने: क्लृप्तिरनुमानं धूमस्यासत्वपक्षे कुतो वः स्या- दित्यर्थः ॥ २०१॥ अव. तदेवमेकोपाधावेकस्यास्तित्वनास्तित्वे वदन् विरोधं न परिहर्तु शक्नुयात् इत्युपसंहरति- कादाचित्कात कल्पनां कारणस्य प्रत्याचक्षीताविरोधं ब्रुवाण: ।। एकोपाधावस्तिनास्तित्वयोर्हि तस्मादेषा कष्टक्लप्तिर्न कार्या ॥ २०२ ॥ कादाचित्कादिति ॥ हि यस्मात् एकोपाधाव्तित्वना- स्तित्वयोरविरोधं ब्ुवाण: कादाचित्कात्कार्यात्कारणस्य कलप- नापनुमानं प्रत्याचक्षीत तस्मादेषा कष्टकलृप्तिर्न कार्येति यो- जना। एकस्मिशेव ब्रह्मणि प्रतीत्यैव भावाभावाविति फल्पना न कार्या, न्यायविरोधादनुभवविरोधाच्चेत्यर्थः।। २०२।
559
Page 560
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १३३
अव. निरस्तेऽप्येवं पक्षे पुनः सिद्धान्त्यभिमतं दष्टान्तमुपा- लभ्य पूर्वपक्षी स्वपक्षस्थापनं शङ्कते- ननु चैत्र रूपचतिवस्तुगतं स्फुरणं तदरफुरणमेव च वेः ॥। अविरुद्धमभ्युपगतं द्वितयं तदिवास्तिनास्तियुगलं भवतु ॥ २०३ ॥ नन्विति ॥ स्वपकाशसन्मात्रत्वमेकरूपत्वं स्वप्रकाशतया स्फुरणं अज्ञानादस्फुरणं चेति द्वितयम् एकस्मिन् ब्रह्मणि यथा युष्माकमभ्युपगतमस्तीति दष्टान्तार्थः । अस्तिनास्तीतिभावाभाव- रूपं युगलमज्ञानस्य ब्रह्मणि भवत्विति दार्ष्टान्तिकार्थः ॥२०३॥ अव. वस्तुतस्तु स्फुरणं भ्रान्त्या चास्फुरणमित्यस्माकम- भ्युपममो Sतो दष्टान्तवैषम्यमिति परिहरजि- न तदात्मनः स्फुरणमेव निजं
न च किं चिदन्यदनयोरुभयो- रविरोधसिद्धिकृदुदाहरणम् ॥२०४॥ न तदात्मन इति ॥ न तदिति पक्षनिषेधार्थः । यत आ- त्मन: स्फुरणं निजमेव स्वाभाविकमेव निरपेक्षमेवेति। यद- प्रकाशनं तु परतो Sन्यस्मात् तदेवाह। अबोधवशात् अज्ञानवशा- दित्यर्थः । अस्फुरणं चिदात्मनः आरोपितं स्फुरणं निजं सत्पं सदातनमेवेति नास्माकमुभयमेकनिमित्तकमिति न दष्टान्ता- सिद्धिरिति भाव:। एवमन्यत्रापि यत्र यत्र भावाभावसङ्करशङ्का तत्र सर्वत्र द्वारभेदेन वा तान्विकत्वातारवकत्वेन वा तत्प-
560
Page 561
१३४
रिहारोडस्त्येवेस्याह। न च किश्विदिति॥ २०४ ॥।
भावाभावयोरविरोधस्येद मुदाहरणमित्याह- स्फुरणास्फुरणे च नात्मनः सदसज्ावतया मनीषिते।। स्फुरणं चितिरात्मवस्तुन- स्तदविद्याऽस्फुरणं च कथ्यते ॥२०५॥ स्करणास्फुरणे इति॥ २०५॥ अव. तस्मादज्ञानित्वं म भवति किन्तु ततोऽन्यदेवेत्याह- अज्ञानित्वं जीवभावो न तस्मा- ज्ीवत्वादेः कारणं युक्तमेतत ।। प्राणोपाधेर्वाचको जीवशब्द- श्चैतन्यस्य स्थात प्रसिद्धो हि तत्र ॥ २०६॥ अज्ञानित्वमिति ॥ तस्मादज्ञानित्वं जीवत्वं न जीवभाव: आत्माश्रयत्वादिदोषपसफ्त्तेरित्यन्वयः। तर्हज्ञानं कोपयुज्यते? इति तदाह। जीवत्वादेरिति। जीवत्वस्येश्वरत्वस्य जडमपञ्चस्य सा- धारणं कारणमज्ञानमित्यर्थः । वर्हि जीवत्वस्य को विशेषदे- तुः ? इत्यपेक्षायामाह। माणोपाधेरिति। माणशब्देन व्ञानक्रिया-
किश्शरीरं विवक्ष्यते, तस्मिन्नहमित्यात्मत्वाभिमानेन प्रविश्य तद्ारणनिमितं चिदात्मनो जीवत्वं नाज्ञानित्वमात्रमिति भाव:। माणोपाधश्वैतन्यस्य वाचको जीवशब्द: स्यादिति सम्बन्ध:।
561
Page 562
संस्षेपश्यारीरके द्वितीयोऽ्याय:।२। १३५
कुतो डवगम्यते पनदिति चेत, तत्राह। पसिद्धो हि तत्रेति । प्राणोपाधौ जीवशब्द: मसिद्ध इत्यर्थः ॥ २०६ ।। अव. पसिद्धमेव स्पष्टयति- अज्ञानजन्यकरणप्रतिबिम्बवाचि जीवाभिधानमिह वृद्धजनप्रसिद्धम् ॥। अत्रैत्र निर्वचनमस्ति च तस्य तस्मा- ज्जीवो भव्रेत करणपूगवशीकृता चित ॥२०७॥ अज्ञानेति ॥ करणशब्दो लिङ्गवचनः । प्रतिबिम्बत्वं त- स्मिन्नभिमानित्वेन विशंषतो भिव्यक्तिः । दृद्धजनप्रसिद्धं जी- वशब्दो डत्र रूढ इत्यर्थः । जीवपदस्य योगद्ृस्तिरप्यत्रैवेत्याह। अत्रैवेति । तस्य जीवपदस्यात्रैवोक्तोपाधिके चिदात्मन्येव नि- र्वचनमस्ति "जीव प्ाणधारणे" इति धतिपाठदर्शनादिति यो- जना। उपसंहरति। तस्मादिति। पूग: समूः । लिङ्गगरीरवशी- कृता चित् जीवो भवेदित्यर्थः ।। २०७॥ अध. तस्माच्चिदात्मन्येवाज्ञानं न जीवे ततो ऽन्यत्र जडप- पञ्चे वेति मसिद्धमिति परमप्रकृतमुपसंहरति- ब्रह्मैवाज्ञानि तस्मादिह भवितुमलं नापरं वस्तु किं चित तस्याज्ञानात्मकत्वान्न च तमसि तमस्तभ्निवृत्तेरयोगात्।। नाज्ञानोत्थस्य विद्याजनिरिह घटते तां विना तन्न नश्येत न हज्ञानं विनश्येदवगतिजनकज्ञानजन्मान्तरेण।२०८॥ व्रत्मैवेति॥ अपरं वस्तु नाज्ञानि भवितुमलमित्यत्र हेसुमा- ह। तस्याज्ञानात्मकत्वादिति। तस्य जीवत्वस्याज्ञानकार्यतया
562
Page 563
१३६ अन्वयार्थप्रकाशिकाविभूषिते
Sज्ञानात्मकवादित्यर्थः। ताृशे च नाज्ञानमित्यत्र दष्टान्तमाह।न च तमसि तम इति। अत्माश्रयत्वापत्तेरित्यर्थः। स्वटश्यभ्युपगमेपि न त्निटत्तिसम्भव इत्याह। तभ्रिट्टत्तेरयोगादिति। अयोगमेवाह। नाज्ञानोत्थस्य विद्येति। अज्ञानकार्यस्य जडत्वात् तस्मिन् विद्याजनेरसम्भवादित्यर्थः। जीवत्वविशिष्टे चिदात्मन्यज्ञानमिति मते ऽप्यात्माश्रयत्वादिदोषानिव्ृत्तिमसङ्श्रोक्तो वेदितव्यः । मा- ऽस्तु त्हि तमोनिटृत्तिर्ज्ञानादिति चेत, तत्राह। तां विनेति। "तमेव विदित्वाऽतिमृत्युमेति" इतिक्षतेर्नात्मविद्यामन्तरेणाज्ञाना- त्मकतमोनाश: सम्भवतीत्यर्थः। उक्तमेव साधयति। नहीति। "तस्मिन् दृष्टे परावरे" इतिश्रुतेः प्रकाशोदयं विना तमो- निष्टत्तेरदर्शनादित्युपपत्तेश्रेत्यर्थः ॥२०८॥। भव. जीवत्वस्याज्ञानाश्रयत्वानभ्युपगमे च तवापसिद्धा- न्तमसन्ग इति वदन्नुक्तम्ुपसंहरति- अज्ञानात्मकतस्तु नाश्रयतयाऽज्ञानस्य सम्भाव्यते नाज्ञानात्मकताबहिष्कृतमिदं जीवत्वमङ्गीकृतम् ॥ नाज्ञानाश्रयमध्यपाति घटते जीवत्वमेतेन व- श्चैतन्याश्रयमेतदस्तु घटते तत्रैव हीदं तमः ॥२०९॥। अज्ञानेति ॥ अज्ञानस्येतिच्छेदः। अङ्गीकृतं, त्वयेति शेषः। अतः फलतः स्वमतमेवैकदेशिनाऽप्यास्थेयमित्याह। नाज्ञानाश्र- यमध्यपातीति । स्पष्टार्थः ॥ २०९ ।
शङ्कते- ननु चाद्ृयाश्रयतमः स्फरणं
563
Page 564
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १३७
न कथं चिदत् न हि तत्स्फुरति॥ स्फुरदाश्रयस्य तमसःरफुरणं घटते न चाहयमिह रफुरति ॥ २१० ॥ नन्विति ॥ अत्र व्यवहारभूमौ । तत्र युक्तिमाह । न हि तत्स्फुरतीति। तत् अद्वयं वस्तु व्यवहर्तृणां न हि स्फुरति तदस्फु- रणे तदाश्रिततमःस्फुरणायोगात्, न ह्याश्रयस्फुरणं बिना तद्ग- तधर्मस्कुरणं सम्भवतीति पसिद्धमेतदित्यर्थः। उक्तमेव स्फुटयति। स्फुरदाश्रयस्येति ॥ २१० ॥ अव. सत्यम् अद्वैताकारणाज्ञानाश्रयत्नं नेष्यते तथाऽनुभ- वाभाबादेवेति परिहरति- नाज्ञानमद्वयसमाश्रयमिष्टमेवं नाद्वैतवस्तुविषयं निशितक्षणानाम् ।। नानन्दनित्य विषयाश्रयमिष्टमेतत्
नाज्ञानमिति ॥ निशितेक्षणानां निशितमतानामस्माकम् अद्यसमाश्रयम् अज्ञानं नेष्टं तटस्थब्रह्माश्रयत्वमज्ञानस्य नेष्टमित्य- र्थः। तर्हि चिन्मात्राश्रयस्याज्ञानस्याद्वैताकारं ब्रह्म विषयः स्या- दिति रूपभेदेन विषयाश्रयभेद: इष्टः स्यादिति चेत्, नेत्याह। एवं नाद्वैतवस्त्विति। अज्ञानानुभवदशायामद्वैताकारवस्तुनो Sसिद्धत्वादेव विषयतया डपि तस्य नाज्ञानावच्छेदकत्वमव- भासते, अद्वैतानुभवदशायां त्वज्ञानमेव नानुभूयते इति कुतो विषयाश्रयभेदानुभवः इत्यर्थः। अनुभवाभावादेव नानन्दसत्या- दात्मनाऽप्यज्ञानाश्रयविषयतेष्यते इत्याह। नानन्दनित्येति। कथं १८
564
Page 565
१३८ अन्यो पप्रकाशिकाविभूषिते
नेष्टम्? इत्यत आह। परत्यक्त्वेति। "अहमज्ञो मामई न जानामि"इति वज्ञानमनुभूयते न "अद्वैतं ब्रह्मानन्दादिरूपम् अहं न जानामि"इति। अतः प्रत्यक्चैतन्याश्रयविषयत्वेनैवाज्ञानानुभवात् वस्तुतस्तस्या- द्वयात्मत्वेऽपि न तेनाकारेणाज्ञानावच्छेदकता, तस्य शास्त्रै- कगम्यत्वादित्यर्थः ॥ २११॥ अव. नन्वावृतत्वं ह्वज्ञानविषयत्वं, मत्यभ्रूपेण स्फुरतश्ञ चिदात्मन: कर्थ तदूपेणावृतत्वं, येन विषयत्वं स्यात्, अतो विषयत्वमद्वैताकारस्यान्यस्य वा वक्तव्यमिति चेत्, नेत्याह- प्रत्यक्त्वमात्रविषयाश्रयमाहहेतोः प्रत्यक् तिरोहितमिति प्रतिपादयामः ।। प्रत्यशक्षमेव खलु वेदि न वेदि चेति। प्रत्यक्षमस्तिननु वेदनमस्य पुंसः ॥२१२॥ प्रत्यक्त्वेति द। यदाश्रयतया जज्ञानं स्फुरति तस्मिलेव तत्कृतोऽतिशयो डस्तु तमस इव स्वाश्रयादन्यत्र तस्यातिश- यजननसामर्थ्याभावादिति प्रतिपादयाम इत्यर्थः । तत्र हेतु- माह। प्रत्यञ्चमिति। प्रत्यक्षमस्ति, स्फुटानुभवो ऽस्तीत्यर्थः । नन्विति सम्बोधने । अस्य पुंसो ऽजस्येत्यर्थः ॥ २१२॥ अव. ननु विरुद्धमेव एतत्, स्फुरत एव वस्तुनो ऽस्फुरणमिति चेत्, न। संवित्स्वपकाशपक्षे तथा दष्टत्वादादरणीयमित्याह- संवित परिस्फुरति न स्फुरतीति तस्या वैजात्य दूषितधियोऽप्यविसंतदन्ते॥। अज्ञानतस्तदपि तद्दिहाद्वयत्वं भादप्यभादित विमूढधियो वदन्ति ॥ २१३ ॥
565
Page 566
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १३९
संविदिति॥तस्या: संविदः वैजात्यं स्वरूपेणैव स्फुरन्त्या अपि केन चिदाकारेणास्फुरणरूपम् इतरपदार्थविलक्षणत्वं तेन दूषिता कलुषीभूता धीर्येषां ते तथा। अविसंवदन्ते न विसंवदन्ते इत्यर्थः । छन्दोविदामपि कचिच्छान्दस: प्रयोगो दृष्टत्वादेव न दुष्टः । यदा ननु संवदन्त इति पाठो लभ्यते तदा न काऽपि चिन्ता। ननु तत्राप्यनुपपत्तिरेवेति चेव्, न। अस्फु- रणस्य भ्रमत्वादित्याह। अज्ञानत इति । तदपि अस्फुरणमपि। स्पष्टमन्यत् ॥ २१३ ।। भव. ननु स्फुरतो भ्रान्त्याऽपि स्फुरणाभावो विरुद्ध ए- वेति चेत्, तवाह- अव्युत्पत्ति बिभ्रती भाति संवित
अव्युत्पत्ति नाशयन्ाति वेधं तस्मादेतच्चोद्यमसमासु नास्ति ॥ २१४ ।। अव्युत्पत्तिमिति॥ संतित् पत्यक्चिदात्मिका स्वयमलु- समकाशतया भासमानाऽपि अव्युत्पत्तिम आवरणात्मकमज्ञानं बिभ्रती स्वाध्यस्तं धारयन्ती तस्य सत्तां स्फुरणं चापादयन्ती भाति, तद्वत् अद्वितीयस्व्ररूपं ब्रह्मापि प्त्यङ्मात्राकारेणाज्ञानं स्वावरणमिति। स्फुरणास्फुरणयोर्भावाभावरूपतवाभावास वि- रोध इत्यर्थः । यद्यज्ञानावस्थायामप्यात्मनः स्फुरणमस्ति तर्हि तत्वज्ञानेन किमात्मनि स्यात् ! तत्राह। अव्युत्पत्ति नाशयदिति। वेद्यं वाक्योत्थबुद्धितृन्त्यारूढं सत् तदेवात्मतत्वम् अव्युत्पचिश- द्वितमज्ञानं नाशयद्वाधमानं भाति । अझ्ञानावरणनिससाय त- ववज्ञानमर्थवदित्यर्थः । यस्मादेवं यथोक्ताज्ञानमेवास्फुरणं न तु
566
Page 567
१४० अन्वयाथप्रकाशिकाथिभूषिते
ज्ञानाभाव: स्वतश्र स्फुरणं नित्यम्, आवरणाज्ञानबाधनाय च तथ्वज्ञानमप्यर्थवदित्यस्मन्मतं, तस्मान्भवतामपि भावाभावनि- रोधः समान इत्येतच्चोद्यम् अस्मासु न पसरतीत्युपसंहरति। त- स्मादिति। इदमत्राकूतम्। स्फुरमाणाऽपि संविभ्न नित्यात्मरूपेण तद्धर्मत्वेन वा स्थिरत्वक्षणिकत्वाद्यात्मना वा स्फुरति, कि तु स्वपकाशत्वेन स्त्रयं भाति, तत्रानत्रभासमान: उक्ताकारो न संवित्स्वरूपादन्यः तथात्वे मानाभावात्, तथाच स्वपकाशायां संविदि आगन्तुकज्ञानस्यानपेक्षणान्न तदभावनिबन्धनं तदस्फुरणं किंत्वभावविलक्षणाज्ञाननिवन्धनमेवोते ॥ २१४ ॥ अव. एवम् इयता ग्रन्थेन न जीवाश्रयमज्ञानं नाप्यद्वैतब्र- ह्माश्रयं किंतु पत्यङ्मात्राश्रयविषयं, तन्निमित्तश्र जीवेश्वरभावो न त्वज्ञानभावाभावाभ्यां, तयोरेकत्र विरोधात्, अत एव चा- ज्ञानस्य स्थितिनिक्ृत्योरपि ब्रह्मण्यनुपपत्तेर्बन्धमोक्षव्यवस्था- या अपि तत्र न सम्भव इति प्तिपादितम्। तत्र बन्धमोक्षव्यव- स्थाभावे तच्छास्त्रविरोधं चोदयति- नन्व्रेवं चेद बन्धमोक्षव्यवस्था- शास्त्रं कुप्यन्नाप्रबोधात प्रवृत्तेः ।। बद्धो मुक्तो ज्ञानवानज्ञ इत्य- प्येतत सर्व यावदज्ञानमिष्टम् ॥ २१५॥ नन्त्रेवमिति॥ एवं चेत् पत्यकूचिन्मात्रगतैकाविद्यानि- बन्धना चेव्यवस्थाऽडस्थीयते तदा "जीवो बद्धः ईश्वरो मुक्तः शुको मुक्तो यज्ञदत्तो 5यं बद्धः" इति बन्धमोक्षव्यवस्थाशास्त्रं कुप्येत् भेदाभावे तस्य निर्विषयत्वापत्तेरित्यर्थः। विद्वद्दृष्टया बन्ध-
567
Page 568
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १४१
स्त्रविरोध इति परिहरति। नेति। न शास्त्रं कुप्येदित्यर्थः। कुतः ? इत्यत आह। आपबोधात्पवत्तेरिति। विदुषस्तु जवितः शिष्यादि- पतिभासो बाधितानुत्तिमात्र: प्रारब्धकर्माक्षिप्ताविद्यालेशनि- बन्धन एवेति द्रष्टव्यम्। नन्वविद्वदवस्थायामप्यन्यस्यात्मनोऽभा- वात्स्वात्मनि बन्धनस्य पत्यक्षत्वाद्विदुषो मुक्तस्यान्यस्याभा- वादाचार्यासम्भवे कर्थं विद्यापाप्तिरिति चेत्, तत्राह। बद्धो मुक्त इति। अक्षरार्थोऽतिरोहितः । व्यवस्थाशास्त्रस्य व्यावहारिकपा- माण्यात् व्यवहारस्य चाविद्यानिबन्धनत्वादेकस्यैव प्रत्यगात्मनः स्व्राविद्याकल्पितानेकविचित्रोपाधिभिरनेकधा विभाव्यमानस्य बद्धमुक्तविद्वदज्ञत्वादिव्यवस्था सर्वाऽपि यावदज्ञानं स्वम् इवो- पपन्नैव, निदृत्ते त्वज्ञाने तत्कल्पितसकलभेदनिद्ृत्ते: व्यवस्थाप्य- विषयाभावाद्विद्यावस्थायां सर्वव्यवस्थातत्मतिपादकशास्त्रादेर- प्यभाव इष्ट एवेति भावः ॥ २१५॥ अव. अपि च बन्धमोक्षशास्त्रस्यान्यपरत्वादपि न तद्विरोध: शङ्गनीय इति वक्तुं विकल्पयति- किं चैतत किं बन्धमोक्षव्यवस्था- शास्त्रं यत्नात्तत्परं सत् प्रवृत्तम् ।। किं चान्यस्मात् प्राप्तमेवानुभाष्य तस्या रूपं ब्रह्मतत्वं विदध्यात ॥ २१६ ॥। किं चेति। एतत् बन्धमोक्षादिशास्त्रं यन्नात्पटृटत्तं तत्र तत्परं सत् पतस्तमिति योजना। अन्यस्मादविद्वल्लोकव्यवहारात्। तस्या: इति तच्छब्द्ो व्यवस्थापरः । शास्त्रविशेषणत्वेनोपात्ता ऽपि व्यव- स्था बुखध्या निष्कृष्य परामृष्टेति द्रष्टव्यम् । रूप्यते डस्मिभ्तितिरूपं सर्वव्यवस्थाविकल्पास्पदं ब्रह्मतत्वमिति योजना ॥ २१६॥
568
Page 569
१४२ अन्यार्थप्रकाशिक़ाषिभूषिते
अव. तत्रादं पक्षं दूषयति- शास्त्रं तातत्तत्परं नेष्यते त- दानर्थक्यात्तत्स्वरूपप्रतीतेः ॥।
वक्तुं युक्तं तच्च नोऽभीष्टमेव । २१७॥। शास्त्रमितते।। तत् बन्धमोक्षादिबोधकं शासत्रं तत्परं स्वार्थ- परं तावन्नेष्यते, कुतः? तत्स्वरूपपसिद्धेरानर्थक्यात् "असौ मुक्तो 5यं बद्धः" इत्यादिज्ञानात्पुरुषार्थादर्शनादित्यर्थः । तहि किपरं तच्छास्त्रम् ? इत्यपेक्षायां तदपि ब्रह्मात्मैक्यपरमेवेति द्वितीयपक्ष- मङ्गीकरोति। ब्रह्मात्मैक्येति। जीवस्य ब्रह्मत्वबोधकमहावाक्य- पत्ययपर्यवसानास्तेनार्थवच्वं बन्धमोक्षादिशास्त्रस्य वक्तुं युक्तम् इत्यक्षरार्थः। एतदुत्तां भवति । पूर्वेषां वामदेवादीनां ब्रह्मविद्यया मोक्षपाप्तिकथनेन इदश्नीन्तनस्यापि विद्यया मोक्ष: स्यादेवेत्या- श्वाससिद्धिः, अत्र ब्रह्मात्मैक्यज्ञानस्य प्रटृत्तावेतदर्थवादवाक्यकृतः उपकारस्तेन द्वारेणैव तादृशं शास्त्रं ब्रह्मात्मतत्वं विदध्यादिति। नन्वर्थवादत्वेऽपि नायं गुणवादः तस्य मानान्तरविरोधित्वात्तेन व्यवस्थाया असम्भवात्। नाप्यनुवादो वामदेवमुत्यादेरागमेतर- प्रमाणासिद्धेः। परिशेषात् देवताऽधिकरणन्यायेन भूतार्थवादतया व्यवस्थाहेतुताऽस्यास्थेयेति चेत्, सत्यम्। तदास्थीयत एवेत्या- ह।तच नोऽभीष्ट्रमेवेति। यादग्व्यवस्थारूपमास्थितं सत् ब्रम्मात्म- मत्ययोपयोगि स्यात् ताटशं शास्त्रं पमाणं तस्मिन् दष्टमेवेत्यर्थः।
शङ्कनीयः, सामान्यतोदष्टनिबन्धनत्वादविद्द्यवहारत पतत्मासे:। सामान्यतो दृष्टस्य च सम्भावनामात्रहेतुत्वे पि न निक्षपहे-
569
Page 570
संक्षेपशारीरके द्विंतीयोऽध्याय:।२। २४३
तुता। तस्मात्तदनुवादित्वे 5पि शासत्रंमामाण्यादेव बन्धमोक्षव्य- वस्थासिद्धिः । ब्रह्माविद्यया बन्धस्तत्वविद्यया मोक्ष इति या व्यवस्था " यत्र हि द्वैतमिव भवति" "यत्र त्वस्य सर्वमात्मै- वाभूदिति" श्रुतिशास्त्रोक्ता तां व्यवस्थामुपोद्वलयन्नयमर्थवा- दस्तच्छेषतया पामाण्यमश्नुते इत्यभिपायः ।। २१७।। अव. तदेवमविद्वद्दृष्ट्यैव बन्धमोक्षव्यवस्था तद्विषयमेव च शास्त्रमपि, न विद्वद्दृष्टयेत्युक्तम्। एवं तहि वस्तुतो बन्धमोक्षव्यवस्था- डमावात् "मत्तो न्यः कश्चिन्मुक्तो बद्धो वा कशिदपि नास्ति" इत्युक्तं स्यात्। तच्चानुभवविरोधादयुक्तमिति चोदयति- नन्वन्यो मद् बन्धमोक्षादिभांगी भूतो भावी वर्चते वा न कश्चित ।। इत्युक्तार्थ स्त्रानुभूत्या विरोधा- ननाहं जातु प्रोत्सहे संग्रहीतुम् ॥। २१८ ॥ नन्विति॥ मदन्य: काश्वदिति संबन्धः। एक एवात्मा बद्धश् मुक्तश्र नान्य: कालत्रयेऽपीति योर्ऽर्थो भवद्भिरुक्त्तस्तमर्थ संग्रहीतुं नोत्सहे। स्व्रानुभूत्या विरोधात्।न स्वानुभवविरुद्धं युक्तिशतेनापि व्यवस्थितं भवेत्, अनुभवार्थत्वात् युक्तीनामित्यर्थः ॥ २१८॥ अव. येनानुभवेन विरोधात्परमार्थतो बन्धमोक्षादिव्यवस्था नास्तीत्यस्मदुक्तिर्न संगद्यते को डसावनुभवः ! इति वक्तव्यमिति विकल्पयति- कि द्वैतानुभवो विरोधपदभाक् किं वा परोऽस्मीत्ययं यद्ा कश्िदिहापरोऽस्त्यनुभवो यस्ते विरोधावहः ।। नाद्वैतानुभवः क्षर्ति तितनुते तस्येति युक्तं बचो
570
Page 571
१४४ अन्वयार्थप्रकाशिकाविभूषिते
नापि द्वैतमुपोल्िखन्ननुभवस्तेनास्य बाधो यतः॥२१९॥ किं द्वैतानुभव इति । अध्यात्मादिद्वैतदर्शनं द्वैतानुभवः कि सविरोधपदभाकू किमयमस्मदुक्ते 5र्ये विरोधमाचरति, किंवा परः परमात्माऽस्मीत्ययमद्वैतानुभवो वाक्यजन्यः, यद्वा अन्यः कशिदिह व्यवहारभूमावनुभवो द्वैतग्राहकोऽस्ति यस्तव विरो- धबुद्धिमावहतीति द्वैतादिकल्पत्रयार्थः । तत्र मध्यमे पक्षे न वि- रोध इति तावदाह। नाद्वैतानुभव इति। बन्धमोक्षव्यवस्था नास्ति किन्तु प्रत्यभ्रूपं व्रह्मैवास्तीत्यनुभवो उद्वैतानुभवः तस्मात् अस्मदु- क्तार्थस्याद्वैतानुभवः क्षत वितनुते इति वचो न युक्तमित्यन्वयः। तस्य तद्रूपत्वेन विरोधाभावादित्यर्थः । आद्यं पक्षं प्रतिक्षिपति नापीति। अनुभव इत्यत्र क्षर्ति वितनुते इत्यनुषङ्ग: । कुतः ? इत्यत्र आह। तेनास्येति। तेनाद्वैतानुभवेन समस्तद्वैततदनुभवोपमर्दकेन विद्वत्मत्यक्षरूपेणास्य द्वैतानुभवस्याविद्वद्दृष्ठ्या बन्धमोक्षादि- व्यवस्थासन्भावोल्लेखिनो यतो बाधो मत इति योजना। सर्वभेद- द्वैतानुभवस्यावस्थानाभावात्कथं तेन तद्वाधशङ्काऽवकाशः इत्यर्थः ॥ २१९॥ अव. तृतीयं कल्पमनुवदति-
तादङ् नानुभत्रोऽस्ति कस्य चिदवि स्थानत्रये जीवतः।। भास्त्रच्छार्वरगोचरं ह्नुभतं विभ्रजनो दृश्यते तस्मिन् संसृतिमण्डले सन भवेत् कसमादयं चेदूभवेन्।।२२०।। द्वैताद्वैतेति॥ उभयस्येति द्वैतस्याद्वैतस्येवेत्यर्थः । एतादृशो- डनुभव एव नास्ति विरोधात्, बाधकत्वं तु तस्य दूरनिरस्तमेवेति परिहरति।तादगिति। स्थानत्रये जाग्रदादिलक्षणे। जीवतो वर्त-
57
Page 572
संक्षेपशारीरके द्वितीयोऽध्यायः ।२॥ १४'
मानस्येत्यर्थः । यद्रा विद्योदयात्मागूर्व्व तत्काले च वर्तमानस्ये- त्यर्थः। विरोधमेव स्पष्टयति। भास्वदिति। भास्त्रान् सविता, शार्वरं तमः, युगपत्सवितृतमोगोचरमनुभवं विभ्रज्जनोऽस्मिन्संसारमण्डले व्यवहारभूमौ न दृश्यते। अयं चेत् द्वैताद्वैतानुभवो भवेत् तदा सवितृतमोगोचरोऽनुभवः कस्मान्न भवेत्, उभयत्र विरोधस्य तु- ल्यत्वादिति योजना। व्यवस्थापमाणस्य व्यवहारगोचरत्वादद्वे- तपमाणस्य च तत्वावेदकत्वान्नानयोः सम्भूय पदृत्तिरित्यतो नायमस्मदुक्तार्थबाधकः इति भावः ॥ २२०॥ अव. तस्माद्वाधकानुभवाभावाद्वस्तुनि बन्धमोक्षव्यवस्था- लक्षणम् अन्यद्वा द्वैतं वस्तुतो नास्तीति अस्मन्मतं न केनापि विरुद्ध्यते इत्युपसंहरति- यत एवमत्र न विरोधलबोड- प्युपढौकते कथितनीतित्रशात्।। उपमृह्यतां मतमिदं सुदृढं गुरुसंप्रदायवचनानुगतम् ॥ २२१ ॥ यत एवमिति॥एवं सति अत्रास्मन्मते कथितनीतिवशान्न विरोधलवोऽप्युपढौकते यतः अतः इदं मतम् अस्मदीयमुपगृह्यतामङ्गी- क्रियतां, यतः सुदृढम् अबाधितम्।न केवलं युक्तित एव सुदृढम् अपि तु गुरुसंभदायवेदवचनानुगतं प्रमाणसिद्धं चेति योजना।वि- वर्त्तवादे गुरुसंपदायवचनानुगतिः पूर्वमेव दर्शितेति भावः।।२२१॥ अव. इदमुपगृह्यतामित्युक्तमेव विशदयति- तव गाढमूढतमसा रचितं जगदीशजीववपुषा सकलम् । १९
572
Page 573
१४६
प्रतिभाति तातदटढं दढवत् समुदेति यातदवबोधरविः ॥ २२२ ।। तव गाढेति॥ अवबोधरविः वाक्यजन्यज्ञानभास्करो यावव् सम्ुदेति तावत् तव मत्यगात्मनो गाढमूढेन पाप्ेन स्वस्मित्नध्य- स्तेन तमसा Sनाद्यनिर्वचनीयेनाज्ञानेन रचितं जगदीशजीवरूपेण विकृतं विश्वमदृढमपि दृढवत्पतिभाति स्वम् इवापबोधोदयम्, उदिते तु तत्वावबोधे द्वैतलेशो ऽपि न प्रतिभासते इत्यर्थः।।२२२॥ भव. ननु आश्चर्यमेतत् असन्नेवायं विचित्रो द्वैतप्रपञ्चो वि- परीतस्वभावे आत्मनि प्रतिभासते इति चेत्, न । अविद्याति- मिरादृतदृष्टेः सर्वाश्चर्यसम्भवादित्याह- प्रभुरेष सर्वविदहं कृपणो जगदेतदद्भुतवितानमिति ॥ प्रतिपत्तयरि्तिमिरलुप्तददशो यदिहोभ्जवन्ति न तदद्भुतकम् ॥ २२३ ॥ प्रभुरेष इति ॥ स्पष्टार्थ पद्यम् ॥ २२३ ॥ अव. अविद्यावस्थस्य चैवं प्रपश्चदर्शनं, निव्ृत्तायामविद्यार्या विद्वान् किश्चिद्विचित्रं पश्यति दुःखं वा जनुभवतीत्याह -- अभयं सनातनमनातुरधी- = न मुनिः प्रपश्यति किमप्यसुखं सकलं जिघत्सति जगत् स्वचिता । २२४।। अभयमिति॥अनातुरधीः अविक्षितचितो मुनि: तत्वज्ञान-
573
Page 574
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १४७
वान् अनन्तसुखम् अपरिच्छिनानन्दरूपं ब्रह्म निजं प्रत्यभ्रूपं स्व- रूपमवलोकयन् साक्षात्कुर्वन् किमप्यसुखं दुःखरूपं संसारं न प- श्यति नानुभवति।निजमित्यस्य विशेषणम् अभयं सनातनमिति च। निर्विकारं नित्यं चेत्यर्थः। कस्मादेवंविधं निजं तच्वं पश्यन् दुःखं किमपि न पश्यतीति, तत्राह। सकलमिति। स्वचितेतीत्थं- भावे तृतीया। यस्मात्सकलं जगत् स्वचिता स्वरूपचैतन्यात्मना जिघत्सति खादितुमिच्छति स्वात्मसात्करोतीत्येतत्। आरोपित- निटत्तेरधिष्ठानादन्यत्वासम्भवादित्यर्थः ॥। २२४॥। अव. नन्वात्मव्यतिरिक्तस्य सर्वस्याविद्यात्मकत्वे साध- काभावान्निजरूपवस्तुनः कुतः सिद्धिः। न चाविदयैव तत्साधिके- ति युक्तं, तस्या विपरीतपत्ययहेतुत्वात्। न चोभयहेतुत्वं, विरो- धादिति चेत्, तत्राह- तत्र चित्तमात्मतमसा जनितं परिकल्पयत्यखिलमेव जगत् ॥• तत कल्पनाविरचितः स गुरु- स्तत् रूपमद्दयमुदाहरति ॥ २२५॥ तव चित्तमिति। आत्मतमसा निजाविद्यया जनितं तव चित्तम् आखिलमेव जगत् परिकल्पयतीति हि शास्त्रस्थितिरित्य र्थः। तत्र सः प्रसिद्धो गुरुरपि तव कल्पनाविरचितः सन् त- बादयं निजं स्वरूपमुदाहरति बोधयतीति योजना। अविद्या पू- र्वपूर्वप पश्च भ्रम संस्कार सचिवाऽऽत्मनि लीनचित्तमुत्पाद्य पपश्चमा- त्मन्यवभासयति, सैव कदाचिद्विशुद्धधिषणामुस्पाद्य तत्वजिज्ञासां जनयन्ती तत्वज्ञानसाधनं गुर्वादिकमपि कल्पयित्वा तद्द्वारा स्वरू- पमकाशमपि जनयतीति नात्र कोऽपि विरोध इति भाव:।।२२५।
574
Page 575
१४८ अन्वयार्थप्रकाशिकाविभूषिते
अव. ननु चिन्तदृश्यत्वे डप्यर्थक्रियासमर्थत्वात्कथं जग- तो गुर्वादेरवा Sविद्यामयत्वं सत्यत्वोपपत्तेरिति वेत्, तत्राह- न हि चित्तदृश्यमपि सत्यमिति प्रतिपन्नमस्ति भुवि किं चिदपि ॥ रशनाभुजङ्गसदृशं सकलं जगदिन्द्रजालमिति सिद्धमतः ॥ २२६॥ न हि चित्तेति॥ यत् चित्तदृश्यं तन्न हि सत्यं काप्युपपाद- यितुं शक्यं तस्य रशनाउजङ्गवद्वाध्यत्वनियमात्, व्यवहाराविसं- वादस्य च स्वप्र इवापबोधमुपपत्तेरित्यर्थः । तस्माच्चित्तकल्पि- तस्य सर्वस्याविद्याकल्पितत्वं न विरुद्धयते इत्युपसंहरति। रश- नेति। अत इति प्रथमं योज्यम् ॥ २२६ ॥ अव. ननु यदि कल्पितो 5प्यर्थो वस्तु बोधयेत् तदा को- डयमाचार्यादिष्वाग्रहो Sन्यस्मादपि कल्पितात्तत्सिद्धिरस्त्विति चेत्, तत्राह- परिकल्पितोऽषि सकलज्ञतया गुरुरेव पूर्णमवबोधयति।। परिकल्पितोऽपि मरणाय भवे- दुरगो यथा न तु नभी मलिनम् ॥ २२७ ॥ परिकल्पिनोऽपीति॥ यद्वा यञ्च आचार्याद्यपि कल्पितमेव स्यात् तहि कल्पितस्य जडत्वान्न ततः परमार्थावबोधपाप्तिरि- त्याह। परिकल्पितोऽपीति। परिकल्पितो गुरुरेव गुरुत्वेनाभिमत एव पूर्ण ब्रह्मावबोधयति न यत्किमप्यन्यत्। कुतः? सकलव्तया तत्वज्ञत्वादिति योजना। एतदुक्तं भवति। न हि परिकल्पितस्य
575
Page 576
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १४९
परिकल्पितत्वादेव तत्वावबोधहेतुत्वमिष्यते किंतु सर्वज्ञत्वा- देव, सर्वज्ञो हि गुरुत्वेन कल्प्यते न जड इति। यद्वा परिकल्पि- तोऽपि गुरुः सकलज्ञतयैव परिकल्पितः सन् पूर्णमवबोधय- त्येवेति योजना। अत्र कल्पितानामपि कल्पनाविशेषवशाव्व- स्थितविचित्रार्थक्रियाहेतुत्वस्य लोके दृष्टत्वान्नासम्भावना कार्ये- त्यभिपेत्य उदाहरणमाह।परिकल्पितो Sपि मरणायेति। उरगो र- शनायां परिकल्पितः। शङ्काविषेणापि मरणदर्शनादित्यर्थः॥।२२७।। अव. मिथ्याभूतमपि सत्यार्थहेतु: कचिद्वतीति सम्भाव- नामुक्त्वा सत्यत्वं सत्यार्थबोधे न प्रयोजकं किन्तु शक्तत्वेना- वधारितमात्रमेवेत्याह- यदि सत्यमित्यवगतिं कुरुते घटते घटादपि हुताशनघीः ॥ यदि चानृनं न जनयेत् प्रमिर्ति ननु चोदनाऽवि जनयेन्न धियम् ॥ २२८ ॥
यदि सत्यमितीति॥ सत्यत्वमेव चेत् सत्यार्थबोधहेतु: तर्हि धूमादिवद्धटादपि हुताशनधीर्घटते जायेतेत्यर्थः । अनृतं चेत्म- मितिं न जनयेत्तदा ननु निश्चितं चोदना विधिवाक्यमपि धर्म- विषयां धियं न जनयेत्, तस्या अनृतत्वादित्यर्थः । तस्मात्स- त्यत्वानृतत्वे न प्रामाण्यापामाण्यपयोजके किन्तु व्यावहारि- कपमाणसमधिगता विशेषा:, ते च सत्यत्वपक्षे इवानृतत्वपक्षे ऽप्यविशिष्टा इत्यतो नोक्तदोष: इति भाव: ॥ २२८।। अव. चोदनाया अनृतत्वं सिद्धवत्कृत्योक्तं साधयति- जनयत्यसाविह मृषातपुषा
576
Page 577
१५० अन्वयार्थप्रकाशिकाविभूषिते
करणीयवस्तुनि मर्ति सुदृढाम् ।। ध्य निधर्मभेदघटितो हि मृषा स्वरसेन सन्नपि तु वर्णगण: ॥ २२९॥। जनपत्यसाविति॥ इहव्यवहारभूमौ असौ चोदना मृषा- वपुषा मिथ्याशरीरेण करणीयवस्तुनि अनुष्ठेये यागादौ सुहढा ममारूपां मति जनयति। कथमस्या मृषावपुट्टर वर्णात्मकत्वाव, वर्ण- नां च सत्यत्वादित्यत आह। ध्वनिधर्मेति । वर्णगणः स्वरसेन स्वरूपतः सन्नपि सत्यो पि ध्वनिधर्मभेदैरुदात्तादिभिई्स्वादि- भिश्च घटितो विशिष्टः सन् मृषा मिथ्यैव, न हुदात्तादिधर्मविशेष- वैशिष्टयं विना वर्णेभ्यो डर्थपतातिर्जायते, न च वर्णेषु ते पर- मार्थाः व्यभिचारित्वात् किन्त्वारोपिता एव अतो ध्वनिधर्म- विशिष्टचोदना मृषेवेत्यर्थः ॥। २२९॥ अव. उदात्तादयारोपितधर्मविशिष्टस्यैव शब्दस्य बोधकत्व- मित्यत्र नैरुक्तसम्मतिमाह- मन्त्रो हीन: स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ॥ स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्त्ररतोऽपराधात् ॥ २३॥ मन्त्रो हीन इति ॥ स्वरतो वर्णतो वा हीनो यथास्था- नमपेक्षितस्वरादिवैशिष्टयहीनो मन्त्र: मथुज्यमानो मिथ्यामयु- क्त इत्युच्यते, स्वराद्यन्यथात्वमेव मिथ्यात्वमित्यर्थः । एवं भ- युक्तो मन्त्रो न समर्थमाह यस्मिस्र्थे मयुज्यते तमित्यर्थः ।न केवलं विवक्षितार्थाकथनमात्रं दोषो मिथ्यामयोगे, अपि तु अनि-
577
Page 578
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १५१
ष्टजनकत्वं चेत्याह। स वाग्वजो यजमानं हिनस्तीति। स मन्त्रो- वाग्वजरूप: सन् यजमानम् अनिष्टेन योजयतीत्यर्थः । तत्रोदा- हरणमाह। यथेति। त्वष्टा हि देवो विश्वरूपाख्ये रवपुत्रे इन्द्रेण हते क्रुद्धः सन् इन्द्रनिग्रहसमर्थपुत्रोत्पादनायाभिचारिकं कर्म कुर्वन् "स्व्रा हेन्द्रशत्रुर्वर्धस्त्र"इस्यनेन मन्त्रेणातिशिष्टं सोममग्नौ जुहावेत्या- खयायिका वेदे पठ्चते, तत्र तत्पुरुषे स्वरे प्रयोक्तव्ये बहुत्रीहि- स्वरमादुदात्तम् इन्द्रपदं मन्त्रे पयुक्तवान् तेन दोषेणोत्पन्नस्य टत्रासुराख्यस्य पुत्रस्य इन्द्रो हन्ता संदृत्तः इत्यनर्थपर्यवसायी मन्त्र प्योगो जात इत्यर्थः। तथाच ब्राह्मणम्- "स्वाहेन्द्रशत्रुर्वर्धस्वरेति तस्मादस्येन्द्रः शत्रुरभवत्"इति॥२३०॥ अव. नन्वेवं सति यस्य धर्मा उदात्तादय: सैव चोदनाडस्तु अतो नानृता चोदना भविष्यतीति चेत्, मैवम्। मीमांसकैस्त- थाऽनभ्युपगमादित्याह- न च वर्णपुगमपहाय भवे- दिह चोदनेत्यभिमतं बिदुषाम्॥ यदि सत्यमेव गमकं भवति स्फुट मप्रमाणमियमप्युदिता ॥ २३१ ॥ न च वर्णेति॥ विदुर्षां मीमांसकानां वर्णेष्वेव चोदना- त्वमभिमतं न ध्वनिष्वित्यर्थः । तथा च सत्यमेव गमकं चेत्तदा चोदनाया: मामाण्यं न लभ्येतेत्याह। यदि सत्यमिति। इयमपि चोदना ॥। २२१ । भव. वर्णानामुत्पभिमरवातखर्मा एनोदात्तादय इति न चो- दनाया अनृतत्वपाप्तिरिति तार्किकमतमाशक्क्ा, ताम्मत्युदाहरणा- म्तरमाह-
578
Page 579
१५२ अन्वयार्थप्रकाशिकाविभूषिते
श्रवणेन्द्रियं च किल कर्णगतं परिकल्पनोपचरितं नभसः ॥। वलयं प्रकाशयति शब्दगणं परमार्थमित्यपि कणादमतम् ॥ २३२ ॥। अ्वणेन्द्रियमिति ॥ कर्णगतं नभसो वलयं किल श्र वणेन्द्रियमिति परिकल्पनयोपचरितं शब्दगणं यत् प्रकाशयति तव् परमार्थमिति कणादमतमपि दश्यते एव, अतो न तैरपि सत्य- त्वाग्रहः कार्य इत्यर्थः। न ह्याकाशस्य स्वरूपेण श्रोत्रत्वमस्ति।तथा सति सकृदुत्पन्नस्य शब्दस्य सर्वत्रोपलम्भपसङ्गः । किन्तु कर्णदे- शावच्छिन्नस्य। नहि सोऽ्वच्छेदो नभसः परमार्थः, निरवयवस्य पूर्णस्यैकदेशतः स्वरूपतो वा ऽवच्छेदासम्भवात्। अतः कल्पितो जवच्छेद: कल्पितं च. यथाकल्पनमर्थाभावान्मिथ्यैव । तादृशादपि सत्यार्थपतिपतत्तिरभ्युपगतेति न चोद्यावसर इति भावः॥२३२।। अव. तस्मात्कल्पितयैव विद्यया Sविद्यानिवृत्ति कल्पितेनैवा- चार्यादिना विद्योत्पत्ति चाङ्रीकुर्विति शिष्यं मत्याह- त्वमतः स्वमोहरचितं गहनं भवसागरं तर परावगतेः । परिकल्पितद्दयनिबन्धनतः परमार्थसंविदुदये सति भोः ॥२३३ ॥ त्वमत इति॥यत एवमविरोधो Sतः इत्यर्थः । भोः सुबुद्धे परिकल्पतगुरुशिष्यशास्त्र रूपद्वय निबन्धनतो द्वैनावष्टम्भेन परमार्थ- संविदुदये सति परावगते: परब्रह्मण: साक्षादभिव्यक्तेर्हैतोः स्व- मोहरचितं गहनं भवसागरं तर स्वस्थो भवेति योजना॥ २३३ ॥
579
Page 580
संक्षेपशारीरके द्वितीयोऽभ्यायः।२। १५३
अव. तदेवं प्रतिबन्धा कल्पितस्य तत्वावगतिहेतुत्वमुक्तम्, इदानीं पराभिमतात् स्व्राभिमतस्य विशेषं दर्शयन कैमुतिक- न्यायमनुसरति- भ्रान्तं तथोपचरितं च यथाविभाग- मङ्गीकृतं कणभुगादिमुनीन्द्रमुख्यैः ॥ यन्नास्ति तत्फलनिबन्धनमस्मदीये तन्त्रे तमोविरचितं न फलाय कस्मात ॥२३४।। भ्रान्तमिति॥ उदात्तादिभेदविशिष्टवर्णस्त्ररूपं भ्रान्तं, त- थोपचरितम् उक्तरुपं श्रवणेन्द्रियं च यथाविभागं स्वस्वमतानु- सारेण कणभुगादिमुनीन्द्रमुख्यैः अङ्गीकृतं, जैमिनीयैः काणा- दैश्वाभ्युपगतमित्यर्थः । तञ्च तैरसदेव सदर्थप्रतीतिकरणमभ्युप- गतमित्याह। यन्नास्तीति। फलनिबन्धनं सत्फलकारणमिति यावत् । परमतयोरुक्तोदाहरणद्वयस्य केनापि रूपेण सच्वेऽपि सदर्थपतीतिहेतुविशिष्टाकारेणापि न सत्वमस्ति, आरोप्यसंसर्ग- स्य तैरधिष्ठाने सच्वानङ्गीकारात्। एवमसदपि चेत् सदर्थ प्रत्या- यये त्तदाऽसद्विलक्षणमनिर्वचनीयं मत्याययेदिति किमु वक्तव्य- मित्याह। अस्मदीये इति। तमोविरचितम् अनाद्यनिर्वचनी- याज्ञानविलसितम् असद्विलक्षणतया सच्वेन पतीतियोग्यमि- त्यर्थः ॥ २३४ ।। अव. नन्वनिर्वचनीयस्यैव मुख्यतया सदर्थमत्यायकत्वा- नुपपत्ति: इतीच्छावादिनं प्त्याह- असदपि फलवत्तामश्नुते युष्मदिच्छा- मनुसरदथ कस्मान्मायया निर्मितं सत ।। २०
580
Page 581
१५४ अन्वयाथंप्रकाशिकाविभूषिते
न भवति फलवत्ताभाजनं चित्रमेतदू वयमिह न समर्था यूयमत्यन्तशक्ताः ॥। २३५॥ असद्पीति ॥ युष्मदिच्छामनुसरदिति वदता असतः फ- लवत्वकल्पने पमाणयुक्ती न स्तः इति सूचितम् । असदपि स- त्फलार्थ भवति, असद्विलक्षणं मायानिर्मित न भवतीत्येतच्चित्रम् अहो आश्चर्यम् ! इत्यर्थः । अन्यतसुगमम् ॥ २३५॥ अध. कल्पितस्य कल्पिताकारेणैव तत्वावगतिहेतुत्वमि- स्यङ्गीकारे पर: कोऽपि दोषं तत्र वक्तुं न शक्नुयादिति स्थि- तम्। अस्मत्यक्रियायां तु चोदस्यास्योदय एव नास्तीत्याह- परमेव तत्त्वमगृहीतमभ- दखिलस्य कारणमनर्थकरम परमेत तत्त्वमत्बुद्दमतः परितृप्रये भवति पुष्कलतः ॥ २३६॥ परमेवेति॥ परमेवाखिलस्य कारणं सर्वाधिष्ठानं तस्वम् अविद्यावशादगृहीतं सत् अनर्थकरमभूत, नाविदयामात्रमनर्थकारणं, तस्या: स्व्रतो जडाया अकिश्चित्करत्वात्, कित्वधिष्ठानसामर्थ्या- चलम्बनेनैवाविद्याया अपि सामर्थ्यमेतत्मागुक्तमेव "आत्मत्वमा- त्रविषयाश्रयताबलेन" इति । अतः परमार्थमेव वस्तु अविदितं सत् साभासाविद्याद्वारा सर्वानर्थहेतुरित्यस्मन्मतमित्यर्थः। पुरुषा- र्थहेतुत्वमपि परमार्थस्य चिद्धस्तुनः एवेत्याह परमेवेत्युत्तरा-
वबुद्धं सत् पुष्कलतः परितृप्ये भवति परिपूर्णचित्सदान- न्दात्मनाSवस्थानरूपपुरुषार्थायावकल्पते, वाक्योत्था वृत्ति-
581
Page 582
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १५५
द्वारमात्रं न स्वयं पुरुषार्थहेतुरित्यप्यस्मन्मतमित्यर्थः । तादृश- दत्तिहेतुत्वमपि परमात्मन एव परिकल्पितविद्वच्छरीरादिद्वारा- SSचार्यभावेन कल्पितवर्णकलापवेदत्वेन चेत्यपि द्रष्टव्यम्।।२३६।। अव. ननु परतत्वमेव चेत् ज्ञानाज्ञानाभ्यामर्थानर्थहेतुस्तर्हि तस्य सदा सत्वात्तत एव बन्धमोक्षौ स्यातामिति कोऽपराधो मम यन्नो वा को मया कार्यः स्यादिति चेत्, तत्राह- तब रूपमेव बत दुःखकरं यदि तन्न पश्यसि बहिर्मुखधीः॥ तव रूपमेव तव तृक्षिकरं यदि तत् प्रपश्यसि निवर्त्य तमः ॥२३७॥ तव रूपमिति ॥ न हि परं तत्वं त्वत्तो भिभ्नं किंतु तन रूपमेव "तत्वमास" इत्यादिश्रुतेः । अतो बताहो कर्ष्ट! ब- हिर्स्रुखधी: देहादावात्मबुद्धि: सन यदि सत् तव तर्वं न प- श्यंसि श्रुत्याचार्याभ्यां नावगच्छसि तदा तव रूपमेव परं तथ्वं तव दुःखकरं संसारापादकं भवति, अतस्तवैवापराधात्त- व दुःखमित्यर्थः । तदुक्तं भगवता "आत्मैव रिपुरात्मनः" इति। यदि पुनः श्रुत्याचार्यमसादेनानादयज्ञानरूपं तमः निवर्त्य तत् परं तत्वं पश्यासि साक्षादनुभवसि तदा तदेव रूपं तव तृप्तिकरं कृतार्थत्वापादकं भवतीत्यर्थः । तदुक्तम् "आत्मैव वात्मनो बन्धुः" इति ॥२३७॥ अष. तदेवं यथोक्तरीत्या सर्वस्यापि द्वैतभानस्याविद्या- मात्रत्वे सिद्धे प्रत्यगात्मनो हेयोपादेयाभावोऽपि सिद्ध: इत्याह- तव बोधमात्रमुपनेयमत-
582
Page 583
१५६
स्तत मोहमात्रमपनेयमपि ।। तब बोधमोहजनिहानिकरं वचनं त्रशीशीरसि तत्व्मिति ॥ २३८॥ तव बोधमात्रमिति ॥ यतोऽनर्थरूपं सर्वमविद्यामयम् आत्मा नित्यशुद्धमुक्तस्वभावो Sतः कारणात् तव बोधमात्रं बु-
न्यदित्यर्थः । तेन च तव अपनेयमपि मोहमात्रमेव नान्यदित्य- र्थः । उक्तबोधजन्मद्वारा मोहहानिमात्रं तत्वमस्यादिवाक्यस्या- पि कृत्यं नापूर्वाधानमित्याह। तव बोधमोहेति ॥ २३८॥
तत बोधजन्मनि पुरा न पुन- स्तव कश्चिदप्यतिशयो भबति॥ तम एव व्पर्वरमभनत्न भत्र- त्यवबोधजन्मनि ततो न परम ॥ २३९ ॥ तव बोधजन्मनीति। तव मत्यगात्मनो बोधजन्मनि विद्योत्पत्तिसमये पुरा ततः पूर्व पुनर्विद्योदयानन्तरं वा तव कशिदप्युपादानलक्षणो हानलक्षणो वाऽतिशयो न भवति, अनाधेयातिशयकूटस्थस्वरूपत्वात्तवेत्यर्थः । ननु विद्योदयात्पू- वे ममानर्थो डभूदिदानीं तन्निटत्तिर्जातेत्यतः कथमतिशयाभावः इति चेत्, तत्राह। तम एवेति। पूर्व विद्योदयाचवाये तमोऽज्ञानमे- वाभवन्न तदतिरिक्तोऽनर्थो भूदित्यर्थः। अवबोधजन्मनि सति इदानीं न भवति तम इत्यनुवर्तते, तंतस्तमोनिट्टस्ेरपरं बोध- कृतमतिशयरूपं नाभूदस्ति भविष्यति-चेत्यर्थः ॥ २३९॥
583
Page 584
संक्षेपशारीरके द्वितीयोऽध्यायः ।२। १५७
अव. तर्हि तमसो भावाभावावतिशयौ मयीति कथमना- घेयातिशयत्वं ममेति चेत्, नेत्याह- न तमोडवि पूर्वमभवन्न भव- त्यवबोधजन्मनि तमोऽभिभवः । तम एव केवलमिदं सकलं न तमो विनाऽऽत्मनि किमप्यभवत् ॥२४० ॥ न तमोऽपीति॥ पूर्व विद्योदयात् तमोऽपि न भवेदेव अत एवावबोधजन्मनि तमोऽभिभवोऽपि न भवति, तमसो वस्तुसं- स्पर्शत्वाभावादित्यर्थः । तहि किमिदमुद्घुष्यते "पूर्व तमो Sभूत् इदानीं तम्निटटत्या कृतकृत्यता जञाता" इति चेत्, एतदप्यज्ञानमेवे- त्याह। तम एव केवलमिति । "पूर्व तमोऽनर्थकरमभूत् इदानीं तनिनिषटत्ती कृतकृत्यो डभूवमहम्" इल्यादि सकलमपि के- वलं तम एव अज्ञानमात्रं न तु तमो विनाऽड़त्मनि किमप्यभवत् आत्मा सदैकरूप एव तस्मिन बन्धमोक्षादिकं सर्वमज्ञानादेव भाति न परमार्थत इत्यभिभायः ॥ २४० ॥ अव. तमसो निवृत्तिरपि तम एवेति यदुक्तं तदयुक्तम्। प्रतियोगितदभावयोरेकत्वायोगादिति भ्रमान्मन्वानं प्रतिबो- धयति- न तमः परिहृत्य लभ्यते तमसो हानिगता निरूपणा ।। इति सा तम इत्युदीरिता न निवृत्तिस्तमसस्तमोमयी ॥२४१॥ न. तम: परिहत्येति । तमसो हानिगता निरूपणा
584
Page 585
१५८
तमो निवर्त्तते इति पतिपादनं यत् तत् तमः परिहृत्य तमःप्- तियोगित्वेनानुल्ठिखय न लभ्यते इति कृत्वा सा तमोनि- वृत्ति: तम इत्युदीरिता उक्ता, न त्वाप्तवस्त्वपेक्षया, न तु त- मसो निषृत्तिस्तमोमयीत्यस्माभिरुक्तमिति योजना। अयं भाव:। तमो नात्मनि परमार्थतः सङ्गतं सम्भाव्यते असङ्गकूटस्थस्वप्रका- से तद्विपरीतस्य तमसो विरोधात्, किंत्वारोपितं तत्र तत् प्रति- विज््यते, यत्रारोपितं प्रतिषिद्यते तत्र तन्निटत्तेः "यक्षानुरूपो हि बलिः" इतिन्यायेन तदानुरूप्यादनिर्वचनीयाज्ञाननिवत्तिरप्य- निर्वचनीयैव। बाधो त्त्र निषृत्तिशब्दार्थः ।सच कालत्रयाभाव- बोधलक्षणः इत्यपाप्तमेव माप्तवत्पतिषिज््यते दिव्यग्निनयन- निषेधवत् इत्यतस्तमोरूपा तमोनिटत्तिरिति वाकूपत्तिमात्र- मेतदुक्तं मिथ्यात्वाभिपायेण, न पुनस्तम:प्रतियोगिकाभावाभि- पायेणेति॥ २४१ ॥ अव. तदेवं प्रत्यक्षादिविरोधं ब्रह्मात्मनि वेदान्तसमुच- यस्य परिहत्य, इदानीं कर्मकाण्डेन विरोधमपि परिहरति- विधयक्ष कर्मविषयाः स्वतमः- पटलावृते त्वयि बहिर्मनसि ॥ कुत एव सम्यगवबोधहते तमसि प्रवृत्तिरिह सम्भवति ॥ २४२ ॥ विधयश्ेति ॥। कर्मविषया: विधयश्र स्वतमःपटलाटते पहिर्मनसि त्वाये सति पवर्तन्ते तवाविद्यावस्थायां भ्रान्तिसि- द्धकर्तत्वाद्यादाय त्वां पवर्तयन्ति, अविद्यावद्विषयं कर्मकाण्डमि- त्यर्थः । इदानीं सम्यगवबोधेन निराकृते तमसि सति इह कर्मसु कुत एव पषति: सम्भवति, क्रियाकारकफलभेदपुद्धेरुपमर्दितत्वा-
585
Page 586
संक्षेपशारीरके द्वितीयोऽध्यायः।२। १५९
न्निर्विषयं कर्मकाण्डं कर्थ त्वामिदार्नी भवर्त्तयेदित्यर्थः । विद्याव- स्थायामधिकार्यभावाद्विधीनामपि न मामाण्यमित्यसिमायः।।२४२।। अव. यथा विद्यायां जातायामपि मत्यक्षादि पवर्त्तते अन्यथा जीवनासम्भवात, तथा विधयो ऽपि देहधारणकाले पवर्त्तन्तामिति चेत्, न। तस्यां दशार्यां पारलौकिकफ लेच्छाऽभावात् तया विना तदर्थ पवृत्यनुपपत्तेः, प्रत्यक्षादेश् बाधितानुदत्तिमात्रत्वाद्विदुषः इत्यभिपेत्याह- विदिते पदे भगवतः परमे परिपुष्कले परमतृप्तिमतः । तत तृष्णया विरहितस्य कथं विधिषु प्रवृत्तिरपवर्गतः ॥२४३ ॥। विदित इति॥ परिपुष्कले क्रियाकारकादिसर्वव्यवहाराती- ततया परिच्छेदाभावात्परिपूर्णे भगवतः परमे सर्वोत्तमे पदे विदिते साक्षात्कते सति परमतृप्तिमतः संप्राप्तसकलकामस्य परमानन्दरूपस्य तव अत एवार्वाचीनस्वर्गादिविषयया तृष्णया रहितस्यापवर्गवतो निवृत्तसर्वक्लेशस्य कथं विधिषु पतत्तिः, न कथमपि, द्वाराभावादित्यर्थः।। २४३।। अव. ननु फलेच्छाडभावे Sपि यावज्जीवादिशासत्रं कर्तव्यरतां कर्मणां बोधयेदेव, अतः कथमप्रवृत्तिर्विदुषः इति चेत्, तत्राह- अभिचारकर्मविधयो हि यथा फलभागबाधमनु बाधयुजः ॥ करणादिभागनिरुपाख्यतया विधयस्तथैव परमात्ममतेः ॥ २४४ ॥
586
Page 587
१६० अन्धयार्थप्रकाशिकाविभूषिते अभिचारेति॥ अभिचारकर्मविघयः "न हिंस्यात्सर्वा-
डभिचारभावनायाः फलभागस्य भाव्याशस्य बाधितत्वभति- पत्तेर्भव्यवाधमनु बाधयुज: बाघिता: न पष्टात्तिकरा: यथा तथैव परमात्ममतेः विदुषः करणादिभागनिरुपाख्यतया अद्वैता- त्मतत्वावगमे च कर्टकरणफलादिसर्वभागस्यैव बाधिततया सर्वा एव विधयो बाधयुजो भवन्तीति योजना। एतदिह ता- त्पर्यम्। यद्यपि कर्मकाण्डस्य न चक्षुरादिवद्विभ्रमहेतुत्वमस्ति नि- र्दुष्टवेदरूपत्वाद्वेदान्तवत्स्वार्थतात्पर्योपपत्तेः, तथापि भ्रान्तिसि- दक्रियाकारकफलभेदावलम्बनेन तटुपहितमेव स्वार्थ बोधयति कर्मकाण्ड, न वेदान्तवाक्यवत्पतीयमानभेदांपवादेनेति । याव- द्वेददृष्ट्यनपवादस्तावत् भवर्तकतया पामाण्यं लभते, यथा- Sभिचारविधि: हिंसादोषानभिज्ञतया "अनेनामुं हिंसिष्ये"इति भावयन्तं पुरुषमाश्रित्य तद्दृष्ठ्यनपवादेनैव नं तत्र प्वर्तयन् ममाणभावं भजते तद्वत् । यथा पुनर्हिसानिषेधशास्त्रभावनैया बाधितभाव्यांशामभिचारभावनां पश्यन्तं बोधयितुं मवर्तयि- तुं चाशक्नुवभ्नभिचारविधिस्तं प्रति पमाणभावान्निवर्तते। तथा
चाशक्नुवन्त: कर्मविधयो विद्वांसं प्रति पमाणभावाभनिवर्तन्ते॥२४४॥ अव. ननु कथं करणादिवाधेन विधीनामभटत्िरिति चेत्, भावनाया असम्भवादित्याह-
यदि भाव्यभागविलये न भवेत फलभावना कथमिहोत्सहते। करणादिभागविलये भवितुं
587
Page 588
संक्षेपशारीरके द्वितीयोऽभ्यायः।२। १६१
विधिरन्तरेण घटने न च ताम् ॥। २४५ ॥। यदि भाव्येति। फलभावनाऽभिचारादी भाव्यभाग- विलये सति यदि न भवेत्, अंशत्रयवती भावना यद्येकांशविर- इमात्रेऽपि न भवेदिति यात्रत्। तदा करणादिभागविलये कर- णेतिक र्तव्यताभाव्यरूपसमस्तांशविलये सति इह वेदान्तेषु विधि- र्भवितुं कथमुत्सहते, भावनाऽत्र कथं स्यादित्यर्थः । मा सिद्ध्यतु भावनेति चेत्, तत्राह। अन्तरेणेति। तां भावनामन्तरेण विधि: न च घटते, विधिपदं मध्यमणिवदुभयत्र संबसते। न हि क्रि- याकारकफलभेदमन्तरेण विधिरुपपद्यते इत्यर्थः ॥ २४५॥ अध. भावनाया अभावे विध्यसम्भवः इत्युक्तं प्रपञ्चयति- अधिकारिणं च विषयं च बिना न नियोगबुद्धिरुपपत्तिमती ।।, न बिना तमस्तदुभयं घटते विदितात्मनश्च न तमो घटते ॥ २४६ ॥ अधिकारिणं चेति । यद्वा भावनावाददृष्ठ्या विध्य- भावे डपि नियोगवाददृष्ट्या तत्सम्भवः इत्याशक्का, तत्रापि स- माऽनुपपततिरित्याह। अधिकारिणमिति। अधिकारी नियोज्यः। नियोज्यविषयो विना नियोगबुद्धिर्नोपपत्तिमती न घटते इत्यर्थः। कथमिहाधिकारिविषययोरभावो येन नियोगासम्भवः ? इत्यत आह। न विनेति। न हि विनाऽऽत्मतत्वाज्ञानम् "अहं ब्राह्मणो ममेदं कार्यम्" इत्यादिबुद्धिरुपपद्मते। अस्त्वेतदपीति चेत्, मैवम्। तश्वम्ञानबाधितत्वात्तमस: इत्याह। विदितात्मनश्रेति ॥२४६॥। अब. तस्मात् भ्रान्तिसिद्ध क्रियाकारकादयवलम्बित्वात्कर्म- काण्डस्य म बेदान्तार्थवाधकत्वं सम्भवति किन्तु व्यवहारगो- २१
588
Page 589
१६२ अन्वयार्थप्रकाशिकाविभूषिते
घरमेव मत्यक्षवत्तस्यापि पामाण्यमित्युपसंहरति- व्यवहारगोचरमतः सकलं विधिवाक्यमित्यवगर्ति मनसि ॥ उपनीय वेदशिरसां विधिभि- र्ने विरोध इत्यपि समाकलय ॥२४७ ॥। षयवहारगोचरमिति॥ निगदव्याख्यातमिदं पद्यमू॥२४७।। अव. तस्माद्वेदान्तेभ्यो Sद्वैतात्मतत्वावगतौ न मानान्तर- विरोध: स्वमे Sपि शङ्कनीयः, मानान्तराणामपि तदारनी वा-
एवं वेदान्तवाक्यैरवगतिपदवीमद्दये नीयमाने प्रत्यक्तत्वे समस्तद्यकृति तमसि क्षीयमाणे च सघ:॥ स्व्राराज्यं त्वय्यवाप्त परमसुखभुजि स्त्रच्छचैतन्यमात्रे लेशो मानान्तराणामवि दुरधिगमस्तत्र दूरे विरोधः॥२४८॥ एवमिति ॥ एवमविरोधेन वेदान्तवाक्यैरदये ब्रह्मात्मरूपे Sवगतिपदवीं नीयमाने तन्नान्तरीयकतया समस्तद्वयकृति सर्वद्वतोपादाने तमास मत्यक्तत्वे सध: क्षीयमाणे च सति त्वयि स्वच्छचैतन्यमात्रे ऽनुदितानस्तमितस्वयंप्रकाशज्ञानकस्वभावे प- रमसुखभुजि परमानन्दमनुभवति स्वाराज्येऽवापे मानान्तराणां शेषो ऽपि दुरवगमो मानान्तरावशेष एव तदा न भवति, तत्रैवं सति तत्कृतो विरोधो दूरापास्त एवेति योजना ॥ २४८॥ इति श्रीकृष्णतीर्थशिष्यरामतीर्थकतायां सक्केपशारीरकटी- कायाम् अन्वयार्थमकाशिकायाम् अविराधामियो द्वितीयो उध्याय: समाप्षः॥२ ॥
589
Page 590
तृतीयोऽध्यायः।
श्रीगणेशाय नमः ।। अव.तदेवं सर्ववेदान्तानां प्रत्यगेकरसे परे ब्रह्मणि समन्वयं विरोधपरिहारेण दृढीकृत्य, इदानीं यथोक्तब्रह्मज्ञानसाधनविचार- परं तृतीयाध्यायमवतारयिष्यन् आदौशिष्यप्रश्नमवतारयति-
ब्रह्मात्मतामतिरयं पुनरप्युवाच ।। ब्रह्मात्मताफलशिरस्कमतिं प्रसूते यत् साधनं तदखिलं प्रतिपित्सुमानः ।। १।। श्रुत्वाऽविरोधमिति ॥ अयं जिज्ञासुः श्ञिष्यः प्रथमा- ध्यायनिरूपितवेदान्तसमन्वयस्य परैरुद्भावितसर्वपकारविरो- धपरिहारं श्रुत्वा उपपन्नसमन्वयः सम्यक्संभावितसमन्व्यः अत एव ब्रह्मात्मतामतिः ब्रह्मात्मैक्यमतिरेव सम्यक्तत्वज्ञानं नान्यदिति निश्चितमतिः सन् अथ अविरोधश्रवणानन्तरं गुरोरविरोधनिरूप- णादुपरमानन्तरं वा पुनरप्युवाच पपच्छेति योजना। किमिच्छ- न्नुवाच? इति तदाह। ब्रह्मात्मतेति। ब्रह्मात्मता मोक्ष: तदेव फलं परमपुरुषार्थरूपं शिरस्युद्यमानं यस्या मते: तां मतिं ब्रह्मात्मतत्वा- विर्भावकारिणीं साक्षान्मोक्षफलां धियं यत्साधनं साक्षात्पारंप- र्येण च कारणं पसूते जनयति तदखिलमशेषं प्रतिपित्समानः पतिपत्तुमिच्छन्नुवाचेति योजना ॥ ?॥ अघ. एतेन द्वितीयतृतीययोरध्याययोर्हेतु हेतुमन्दावलक्षणः
590
Page 591
अन्वयार्थप्रकाशिकाविभूषिते
सम्बन्धो दर्शितः । शिष्यवुधुत्सामेव विशदयति- ऐदंपर्यमखण्डतस्तुविषयं वेदान्तवाक्यस्य यत पूर्व वर्णितमस्य भूदषहतिर्मा नाम मानान्तरैः ॥ किं त्वस्या परिनिषष्ठितस्त्रविषयध्त्रान्तच्छिदो जन्मने विद्याया वचनाहते किमपरं कृत्यं भवेत साधनम्॥२॥। ऐदंपर्यमिति॥पूर्व प्रथमाध्याये यद्वेदान्तवाक्यस्य अखण्डव- स्तुविषयम् ऐदंपर्य वर्णितमासीत् अस्य ऐदंपर्यस्य मानान्तरैःमत्य- क्षादिभि:अपहतिर्विरोधो मा नाम भूत्,तत्परिहारस्योपपादितत्वात् तत्र नास्ति मम असम्भावनाशङ्का, किन्तु अन्यदस्ति बुभुत्सितमिति योजना। तदेवाह।अस्या इति। अखण्डब्रह्मात्मैक्यमतेरस्या: विद्या- या: किं लक्षणाया :? परिनिष्ठितः सिद्धरूपो यः स्वविषयः स्वपमेयं तद्गतध्वान्तमज्ञानलक्षणं छिनत्तीत्येवंविधाया: जन्मने वचनात् महावाक्याटते किमपरं साधनं कृत्यं भवेत् मया कर्त्तव्यं भवेत् ? तन्मम बुभ्रुत्सितमित्यर्थः । एतदुक्तं भवति । यद्यपि माना- न्तरविरोधपरिहाराद्वेदान्तवाक्यजनिताखण्डवस्तुज्ञानमेव सम्यग्- ज्ञानमिति ममास्ति दृढ निश्चयः, तथाऽपि शब्दयुक्तिपरतन्त्रतया त- दनुसन्धानावसर एव तदवभासते न केवलवस्तुपरतन्त्रतया ब्रह्मा- त्माकारेण हढा विद्यात्पन्ना दृश्यते, अतः केवलवस्त्वाकारबुद्धयु- त्पत्तिसाधनमनुष्ठेयं किमपि भविष्यति यत्सम्पत्तावनायासेन उ- क्ता बुद्धिर्द्ढा स्वयमेवोत्पद्यते तद् बुभ्रुत्सितं कृपया कथयेति।।२।। अव. गुरु: पृष्टमर्थमाविष्कुर्वन्ाह- वैराग्यस्य दृढत्वमेकमपरं तत्त्वंपदार्थज्ञता वाक्ये निर्गुणनिष्ठिते च सकले न्यायादियत्तामतिः ।
591
Page 592
संक्षेपशारीरके तृतीयोऽध्यायः।३।
वाक्यार्थप्रतिपत्तिसाधनमिदं यत्नेन कृत्यं यतेः ॥३॥ वैराग्यस्येति॥ वैराग्यदार्ढ्यमेकं तावत्कार्य साधनम्, अप- र द्वितीयं तत्वंपदार्थशोधनं, सकले निर्गुणनिष्ठिते वाक्ये न्याया- त् गुणोपसंहारन्यायतःइयत्तामतिः वाक्यपरिमाणवधारणं तृती- यं, चकारादुपासनापरवाक्येष्वपीय त्तावधारणं समुच्चीयते, एतद- प्युपासकानुग्रहाय भविष्यतीति भावः । चतुर्थ साधनमाह।स- म्यगिति। समीपभवो हेतु: सन्निपत्योपकारकः दूरभवः आरादुप- कारकः अनयोर्हेत्वोर्विवेकज्ञता इतीदं चतुष्टयं वाक्यार्थप्तिपत्ति- साधनमस्मिन्नध्याये चतुभिः पादैःक्रमेण प्रतिपाद्यमानं यते: सं- न्यासिनो यत्नेन कृत्यं कर्त्तव्यमिति योजना। यतिग्रहणेन तस्या- वश्यमनुष्ठेयत्वमेषां विवक्ष्यते । एतेषां साधनानामननुष्ठाने यतेः पत्यवायापत्तेः । तथा यतिनैवैतानि सम्यगनुष्ठातुं शक्यानि नान्याश्रमिभिः । तेषां तत्तत्क्रियास्वधिकृतनिां सर्वात्मना यथो- क्तसाधननिष्ठत्वानुपपत्तेरिति च द्रष्टव्यम् ॥ ३।। अव. तत्र वैराग्यमेव तावत्कथं सम्पादं, को वा ब्रह्मज्ञानो- त्पत्ती तज्जन्य उपकार: १ इत्यपेक्षायामाह- संसारदोषमवधारयतो यथावद् वैराग्यमुङ्जवति चेतसि निष्प्रकम्पम् ॥ वैराग्यजन्मनि ढढे च सति प्रवृत्ति- स्तत्तंपदार्थपरिशाधनकर्मण स्यात ॥ ४ ॥ संसारदोषमिति॥ रागाक्रान्तचितस्य पदार्थद्वयत्वाव- धारणासम्भवात् वैराग्ये सति तु तत्सम्भवात्पदार्थज्ञानपूर्वकवा-
592
Page 593
अन्वयार्थप्रकाशिकाविभूषिते
क्यार्थावधारणानुकूले श्रवणादौ प्रवृत्ति: वैराग्यकृत उपकार इत्यर्थः । अक्षरयोजना सुगमा ।।४ ॥ अव. तर्हि संसारदोषमेव कथमहमवधारयेयम् ? इति जि- झ्ासमानं प्रत्याह- संसाररूपमवगच्छ विविच्यमानं यस्मिन् श्रुते भवति तद्विषया जुगुप्सा ।। वेद: प्रकाशयति संसरणं यथाऽस्य जीवस्य जन्ममरणे व्रजतः क्रमेण ॥ ५ ॥ संसाररूपमवगच्छेति ॥ कि प्रमाणवलमाश्रित्य संसा- रस्य दुष्टत्वं वर्ण्यते? इति तत्राह।वेद इति। यथा क्रमेण जन्ममरणे व्रजतो डस्य जीवस्य संसरणं वेद: प्रकाशयति तथा विविच्य- मानं संसाररूपमघगर्च्छेत्यन्वयः ॥५॥ अव. नतु जीक्स्य संसरणमिति कथं विशेषनिर्देशः?यावता अद्वैतवादे परस्मादन्योन जीव इति चेत्, सत्यम्। तथापि जीवभा- वापत्यैव चिदात्मनः संसारित्वं न स्वरूपेणेत्येतदुपपादयन्राह- शुद्ध: परो न खलु वाङ्मनसंव्यंतीतः संसारदुःखमतिदुःसहमश्नुवीत। स्व्राविद्यया हि पर एव स जीवभाव- मागत्य संसरति लिङ्गसमागमेन ॥ ६ ॥ शुद्ध: पर इति ॥ पर: परमात्मा दुःसहसंसारदुःखंन खलु अश्नुवीतेति सम्बन्धः। कुतः ? यतः शुद्धो निरञ्ञनः।कुतः शुद्धः? यतो वाऊ्जनसव्यतीत: वाऊनसगोचरसर्वव्यवहरातीत इत्यर्थः।
593
Page 594
संक्षेपशारीरके तृतीयोऽध्यायः।३।
न हि सर्वव्यवहारागोचरे वस्तुतः संसारव्यवहार उपपद्यते इति भाव:। तहि किं परस्मादन्यो जीवो यस्य संसारः ? हन्त तर्हि कथमद्वैतमतस्थितिरित्यत आह।स्वाविद्ययेति। स एव पर: परमा- त्मा स्व्राविद्यया स्वाश्रयविषयाज्ञानेन कल्पितलिङ्गसमागमेन व- क्ष्यमाणलिङ्गशरीरात्माध्यासाज्जीवभावमागत्य संसरति, न ततो न्यो जीवोऽङ्रीकृत इत्यर्थः । एतच्च "इन्द्रो मायाभिः पुरुरूप ईयते" इत्यादिवेदान्तपसिद्धमिति द्योतनाय हिशब्दः ॥ ६ ॥ अव. ननु यस्य सम्बन्धस्तस्यैव मुक्तिरिति नियमात् केवलस्य परस्यैव संसारबन्धो वक्तव्य: तस्यैव मुक्तिभात्कात् सोपाधिक- स्य तस्य संसारित्वे मुक्तिरपि सोपाधिकस्यैव स्यात्, तच्चायुक्तं मुक्तावुपाधिसन्भावे मुक्तत्वव्याघातादिति चेत्तत्राह- ब्रह्मैव संसरति मुच्यत एतदेव दौबारिकं भवति संसरणं तु तस्य ।। मुक्ति: पुनर्भवति चिद्धपुषैत तस्य स्त्राज्ञानतः स्वमहिमप्रतिबेधितश्र ॥ ७ ॥ ब्रह्मैवेति । नद्युपाधिविशिष्टस्य संसारो डस्माभिरुच्यते येन प्रसञ्जयेम विरोधं, किन्तु ब्रह्मैव संसरति एतदेव ब्रह्म मु- च्यते इति वदामः। तर्हि किमिति तस्य संसरणे जीवभावो व्या- ख्यातः?इति तत्राह। दौवारिकमिति। तस्य परस्य संसरणं प्रति लिङ्गसमागमनं दौवारिकं द्वारमेव दौवारिकं ब्रह्मणि स्वतःशुद्धे लिङ्गसङ्गमः संसारारोपद्वारमात्रं न पुनस्तद्वैशिष्ट्येन संसरणम् अस- ङस्य तद्वैशिष्ट्यायोगादित्यर्थः। संसार इव मुक्तौ तस्य न द्वारापेक्षे- त्याह। मुक्ति: पुनरिति।चिद्वपुषेति। इत्थम्भावे तृतीया। वस्तुतो नि- त्यम्ुक्तत्वादित्यर्थः। उक्तव्यवस्थायां क्रमेण हेतुद्वयमाइ। स्वाज्ञानत
594
Page 595
अन्वयार्थप्रकाशिकाषिभूषिते
इत्यादि। लिङ्गसमागमस्याज्ञानकृत्वादज्ञानतः संसरणं तथ्व न वस्तुतो वस्तु स्पृशति, अज्ञानस्यारोपितत्वादारोपितस्य चाधि- ष्ठाने विकार हेतुत्वासम्भवादज्ञानकृतोपाधिसम्बन्धाध्यासद्वारा चिदात्मैव संसरतीत्यर्थः । मुक्तिः पुनः स्वमाहमप्रतिबोधतः के- वलवस्तुमहिमानुरोधिज्ञाननिबन्धना भवतीति, वस्त्वनुसारित्वा- त्तत्वज्ञानस्येत्यर्थः । यद्यपि वाक्यजन्यवृत्त्यधीना Sज्ञाननिट- त्तिरूपा मुक्तिः, तथापि स्वरूपानन्दाविर्भावरूपा नान्यापेक्षेति भावः।।७ ॥। अव. एवं तर्हज्ञानमपि परोपाधिकमेवास्तु संसारवत्तस्यापि वस्तुस्वभावानुरोधित्वाभावात्, ज्ञानस्य च वस्तुस्वभावानुरोधि- त्वादन्त:करणोपरागमन्तरेणैव तत्मास्तिरस्त्वति चेत्तताह- स्वाज्ञानान्वयिनी चिदेव भवति स्वज्ञानमस्या: पुन- र्नास्त्यन्तःकरणोपरागशबलीभावं बिना युक्तितः । कूटस्थे न तमश्विता न घटते नो विक्रिया तत्न न- स्तस्मादेष विशेष ईषदुचितः स्व्रीकर्त्तुमेते प्रति।।८।। स्वाज्ञानान्वयिनीति ॥ चिदेव निरुपाधिका अन्तःकर- णादिसम्बन्धद्वारमनपेक्ष्य स्वाज्ञानान्वयिनी भवति युक्तित: इति सम्बन्ध:।तथा अस्याश्चित: पुनः स्वज्ञानम् अन्तःकरणोपरागलक्ष- णशबलीभावं विना युक्तितो नास्तीत्यन्वयः। उभयत्र युक्तिमाह। कूटस्थे इत्यादिना। कूटस्थे निर्विकारचिन्मात्रे तमस्विता अज्ञाना- न्वयित्वं न घटते इति न, अपि तु घटते इति योजना। नह्यज्ञान- सम्बन्धः कौटस्थ्यविरोधी चिदात्मस्वरूपपकाश्यस्याज्ञानस्य चिदात्मस्व्रभावविरोधित्वायोगात्, किन्तु विरोधिभवद्ज्ञानं चि- दात्मनः शुद्धत्वादिप्तिभासं विरुणद्धि अज्ञानतत्कार्यसम्बन्धो-
595
Page 596
संक्षेपशारीरके तृतीयोऽध्यायः।३। ७
हथुद्धिरिति, अतो Sज्ञानसम्बन्धस्य कौटस्थ्याविरोधान परिणाम्यन्त:करणादिद्वारत्वं कल्प्यमिति भावः । अज्ञानसम्ब- न्धस्य कौटस्थ्याविरोधमुक्तं स्फुटयति। नो विक्रिया तत्र न इति। अज्ञानसम्बन्धमात्रेण यदि चिदात्मनि विक्रिया भवेत् तदा तस्य विरोधिता स्यात्तनास्ति, नो डस्माकं तत्र चिदात्मनि विक्रिया न प्तिभाति, सुषुप्तावज्ञानसम्बन्धे Sपि तत्र विक्रियाऽनुपलम्भादि- त्यर्थः। अर्थात् ज्ञानस्य परिणामिमनोद्रव्यद्वारता सिद्धेत्युपसंहर- ति। तस्मादिति ज्ञानं ह्ागन्तुकं परिणामः, तस्य स्वतः कूटस्थत्वा. त्परिणामिद्रव्यान्तरसम्बन्धद्वारत्वमेष्टव्यं, तच्चान्तःकरणशाबल्यं, तेन विना तददर्शनात्। एवमपि ज्ञानस्याश्रयकोटावेवान्त:करणद्वा- रत्वापेक्षणाद्विषयकोटौ तदनपेक्षणात्केवलवस्त्वाकारतया वस्तु- स्वभावानुरोधित्वस्य चाविरोधः इत्येष विशेष ईषन्मात्र: एते ज्ञा- नाज्ञाने प्रति स्वीकर्तुमुचित इत्यर्थ: ॥ ८.।। अव. तदेवं चिदात्मनो Sज्ञानसम्बन्धो डज्ञानमात्रद्वारकः, तस्य संसारस्त्वज्ञानकार्यलिङ्गसङ्गातद्वारकः, तत्वज्ञानमपि लिङ्गद्वारकं, मोक्षस्तु वस्तुस्वभावाऽनुरोध्येवेति चेत्येतदुपपादितम्। इदानीं संसरति लिङ्गसमागमेनेत्युक्तं संसरणोपाधिलिङ्गशरीरं व्याखुया- स्यंस्तत्सम्बन्धस्य संसारहेतुत्वं विशदयति- पुर्यष्टकं भवति तस्य परस्य मोहा- त्तनान्वितस्य तु नभोमलवद् व्यलीकम् । दुःखं त्रिधा भवति संसरणाभिधानं नान्यः परादधिकरूपधृगस्ति जीवः ॥। ९॥ पुर्यष्टकमिति॥तस्य चिदात्मनः परस्य सङ्गातविलक्षणस्य मोहादज्ञानमात्रात्पुर्यष्टकं वक्ष्यमाणलक्षणं भवति जायते तेन पु-
596
Page 597
अन्वयार्थप्रकाशिकाविभूषिते V
रयष्टकेनान्वितस्य तत्तादात्म्याध्यासमापन्नस्य संसरणाभिधानं त्रिविधमाध्यात्मिकादिरूपं दुःखं भवतिन स्वत इत्यर्थः । भवद- प्युपाधिवशात् दुःखं न परमार्थ, किन्तु प्रतिभासमात्रमेवेत्येतत् दृष्टान्तेनाह। नभोमलवच्चलीकमिति। नन्वेवं यदि परस्मिन्स्वतः संसारित्वं न सम्भवति तर्हि किमिति तस्मिन्नुपाधिं परिकल्प्य संसारित्वमारोप्यते परस्मादन्य एव जीव:संसारी कस्मान्नेष्यते ? इति चेत्, मैवम्। परस्मादन्यस्य जीवस्य स्वरूपतो Sसंभवादि- त्याह। नान्यः परादिति। जीवस्यापि चित्स्वरूपत्वेन परस्मा- त्स्वतो विशेषाभावादित्यर्थः ॥ ९॥ अव. जीवस्य परादन्यत्वं प्रतिषिद्धं प्रतिपादयति- नांश: परस्य न च तस्य विकार एष नात्यन्तमेव. च विभिन्नवपुः परस्मात । जीवोऽयमम्सुपगतः कुत एतदेवं ब्रह्मात्मतावचनजातवविरोधहेतोः ॥१० ॥ नांश इति ॥ अन्यत्वं वदन् प्रष्टव्यः स किं परस्यांशः पु- रुषस्य हस्तादिवत् किं वा भूमेरुषरादिवत् विकार: अथवाऽत्यन्त- मेव घटात्पट इव भिन्न इति पक्षत्रयमपि प्रततिषेधति क्रमेण। नांश इति। यो 5यं जीव एष परस्य नांशो भ्युपगत इत्यादि योज्यम्। निषेधप्रतिज्ञायां प्रश्नपूर्वकं हेतुमाह।कुत इत्यादिना।तत्वमस्या- दिवाक्यानां निरुपचरितात्मैक्यपरत्वस्य प्रतिपादितत्वात्तद्वि- रुद्धेयं कल्पना न प्रामाण्यमर्हतीत्यर्थः ॥ १० ॥ अव. अपिच स्रष्टुरेवाविकृतस्येश्वरस्य जीवभावेनानुपवेश- श्रुतिविरोधाच न जीवस्य ब्रह्मविकारत्वादिपक्षसिद्धिरित्याह-
597
Page 598
संक्षेपशारीरके तृतीयोऽध्यायः।३
अपि च विश्वमनुप्रतिवेश, तत् परममेत्र पदं परमात्मनः ।। इनि वदत्सु सुहृरिस्व्व तत्पर- श्रुतितरच:सु कथं स ततोऽधिक: ॥ १३ ।। अपिचेति ॥तत् स्रष्टृत्वेनोपलक्षितं परमात्मनः परमं पद- मिति सम्बन्धः। "तत्सृष्टा तदेवानुपाविशत्" "अनेन जीवेनात्म- नाऽनुभविश्य" इत्यादिपवेशवादिश्रुतनिामर्थवादत्वात्स्वार्थाभावे सति न पक्षविरधितेत्याशक् उक्तं तत्परेति । अर्थवादत्वे ऽपि
दस्ति तत्परत्वमपीत्यर्थः ।। ११। अब. ननु जीवपरयोशचिदूपत्वे समाने ऽपि कार्यप्रविष्टस्य परस्यैव जीवभावे डपि न तयोरत्यन्तमेकरूपत्वं सम्भवति, जीवे परस्माद् ब्रह्मणोऽधिकस्य कर्तृत्वादिलक्षणस्य रूपान्तरस्य दर्श- नादिति चेत, दृश्यतां नाम जीवे रूपान्तरं, तस्य आरोपितताया अनुमानेन निश्चयात् न तत्तस्य स्वाभाविक, किन्तु मिथ्येत्यभि- पेत्याह- प्रच्यावि वस्तु यदिहास्ति निजस्त्ररूपा- दप्रच्युतैकरससंविदधीनमस्य ।। प्रच्यावितास्फुरणमित्यवगत्य तत्र तत् कल्पितं सकलमाकलयानुमानात ॥ १२॥। प्रच्यावि वस्त्विति।अस्य जीवस्य निजस्वरूपात् प्रत्यक्चै- तन्यस्वलक्षणात् यत् इह जीवे प्च्यावि परस्मादुद्रिक्तम् आगमाषा- यि वा वस्त्वस्ति प्रतिभासमानतया वर्त्तते तत् प्रच्यावितास्फुरणं २
598
Page 599
१० अन्वयार्थप्रकाशिकाविभूषिते
परच्याविरूपत्वेन स्फुरणम् अप्रच्युतैकरससंविदधीनं कूटस्थसाक्षि- संविदायत्तं न स्वपकाशं दृश्यमेवान्त:करणादिवत् इत्यवगत्य दगूदृश्य विवेकेन निश्चित्य तत्सकलमधिकरूपं तत्र चिदेकस्वभावे प- त्यगात्मनि कल्पितमारोपितम् इति अनुमानात् आकलय विजानी- हि इति योजना।विपतिपन्नं प्रत्यकूचिन्मान्रादधिकं रूपं मत्यक्- चिदेकरसाधीनपकाशं भवितुमर्हति मत्यकूचिदतिरिक्तत्वादाग- मापायित्वाद्वा बुद्यादिवदिति प्रयोगः । न च हेत्वसिद्धि: सुषु- प्त्यादौ मत्यकूचैतन्ये स्फुरत्यपि रूपान्तरस्यास्फुरणेनास्या- तिरेकागमापायित्वयोरध्यवसितत्वात् । तथा च दृश्यस्य कल्पि- तत्वात्कल्पितस्य चावस्तुत्वात्मत्यकचैतन्यस्वरूप एव जीव: न त्दशस्तद्विकारो जन्यो वा इति समाकलयेत्यर्थः ॥१२॥ अव० नन्वज्ञत्वं संसारित्वं च दृश्यमानं न ब्रह्मण्युपपन्रं तस्य तदयोग्यत्वात्, अतस्तस्मिस्तत्कल्पनमनुभवन्यायविरुद्ध- मिति चेत्, न । तथाऽनभ्युपगमादित्याह- चैतन्यवस्तुविषयाश्रय एव मोहो नाद्वैतवस्तुविषयाश्रयकोऽप्रतीतेः ॥ बुद्धयादिवेष्टितचितो न तमस्त्रितेति ब्रह्माश्रयत्वमुदितं तमसः पुरस्तात ॥ १३ ॥ चैतन्यवास्त्विति ॥ मोहो डज्ञानं चैतन्यवस्तुविषयाश्रय इत्येवास्माभिरभ्युपगम्यते। यत्राज्ञानं तत्रैव संसारानुभवश्च।नाद्वै- तवस्तुविषयाश्रयको न ब्रह्माश्रयविषयकस्तथा प्रतीत्यभावादि- त्यर्थः। तर्हि ब्रह्मण्येवाज्ञानसम्बन्धो न जीवे इत्ययं निर्बन्धः भा- कू कृतो Sसङ्तः इति चेत्,तत्राह।बुख्धादीति। बुद्धयादिसङ्गात- वेष्टितचितो बुद्ध्ादिगतप्तिबिम्बस्य वा तद्गताभासमात्रस्य वान
599
Page 600
संक्षेपशारीरके तृतोयाउध्यायः।३। ११
समस्त्रितेति मतिपादयितुमेव पुरस्तात्पूर्व ब्रह्माश्रयत्वमुदितं त- मसः, नाद्वैतवस्त्वाश्रयत्वाभिप्ायेणेत्यर्थः ।१३॥ अव. नाद्वैतवस्तुविषयाश्रयको मोहः, किन्तु प्त्यकचिदा- श्रयविषयक एवेत्युक्तमुपपादयति -- ब्रह्माश्रयं न हि तमोऽनुभवेन लभ्यं नाप्यागमान्न च किमप्यपरं प्रमाणम्।। ब्रह्माश्रयत्वविषयं तमसस्ततश्र प्रत्यक्प्रकाशविषयाश्रयमेतदस्तु ।। १ ४ ।। ब्रह्माश्रयमिति ॥ अपरम् अनुमानादीत्यर्थः। न हिब्रह्म मूढमििति पतीतिहेतु: आगमो वाडनुमानादि वाडस्तीत्यर्थः। न च किमप्यपरं तमसो ब्रह्माश्रयत्वविषयं प्रमाणं सम्भवतीति योज- ना। ततो जडस्य मोहाश्रयत्वासम्भवात्परिशेषात्पत्यकूचैतन्य- विषयाश्रय एव मोह इत्युपसहति। ततश्रेति। जीवब्रह्मविभागा- नालिक्रितं सर्वभेदकल्पनाधिष्ठानं चिन्मात्रमिह मत्यकूपकाश इत्युच्यते, तदाश्रयविषयत्वं मोहस्यास्माकं विवक्षितमिति भावः ॥ १४ ॥ अव. जीवत्वविशिष्टस्य चिदात्मनो नापान।श्रयत्वमिष्टमि- त्येतत्पतिपाद्यति- जीवत्वमेत तु तदाश्रयमध्यपाति नेच्छन्ति युक्तिकुशला न हि युज्यते तत।। अज्ञानमेव खलु तन्न तमस्तमस्वि चैतन्यवस्तु पुनरस्तु न तदविरोधः ॥१५॥ जीवत्वमेवत्विति ॥ कस्मान्नेच्छन्तीत्यत्ष आह। न हि
600
Page 601
१२ अन्वयार्थप्रकाशिकाविभूषिते
युज्यते तदिति। जीवत्वस्याज्ञानाश्रयमध्यपातित्वं न हि युज्यते इत्युक्तेर्थे युक्तिमाह। अज्ञानमेवेति। तज्जीवत्वमज्ञानमेव खल, संसारित्वं हि जीवत्वं, तच्चाज्ानान्वयव्यतिरेकानुविधायि- त्वादज्ञानमयमिति तद्विशिष्टस्याज्ञानाश्रयत्वाङ्गीकारे स्यादात्मा- श्रयतेत्येपाऽन्रयुक्तिरित्येतदाह। न तमस्तमस्वीति । तस्माज्जी-
डपि न्यायविरोधोऽनुभवविरोधो वाऽस्तीत्युपसंहरति। चैतन्यव- स्तु पुनरिति। अस्तु तमस्व्ीत्यनुपङ्गः । १५ ।।
संसारित्वमपि तस्यैव न पुर्यष्टकविशिष्टस्य, पुर्यष्टकं तु तत्र द्वारमात्रमित्युक्तम्। तत्र किं तत्पुर्यष्टकम् ? इत्यपेक्षायां तदाह- कर्मेन्द्रियाणि खलु पञ्च तथाऽपराणि बुद्धीन्द्रियाणि मनआदिचतुष्टयं च।। प्राणादिपञ्चकमथो वियदादिकं च कामश्र कर्म च तमः पुनरष्टमी पूः ॥१६ ॥ कर्मेन्द्रियाणीति ॥ कर्म धर्माधर्मलक्षणम् । तमः भ्रा- न्तिज्ञानम् । अन्यत्मसिद्धम् ॥ १६॥ अव. नन्वष्टभ्योऽतिरिक्तमपि संसारप्रयोजकमस्ति विद्यापूर्व- पज्ञारूपम् अतः कथमयं सङ्ख्यानियम: ? इत्यत आह- विद्या च विश्वविषयाऽनुभवोत्थपूर्त- प्रज्ञा च कमेवचसैव तु संगृहीते॥ बन्धप्रयोजकतया सद्दशत्वहेतो- रेकत्र च श्रुतिवचस्युपसंग्रहेण ॥ १७ ॥
60
Page 602
संक्षेपशारीरके तृतीयोऽध्यायः।३। १३
विद्या चेति॥विद्या वक्ष्यमाणविधा, विश्वविषयानुभवो- त्था पूर्वपज्ञा संस्काररूपा च कर्मवचसैव कर्मपदेनेव संगृहीते। तत्र निमित्तमाह। बन्धेति। एकत्र च एकस्मिन्नेव श्रुतिवाक्ये बन्धपयो- जकतयोपसंग्रहेण सदशत्वाद्धेतोः। यद्वा एकत्र च श्रुतिवचस्युप- संग्रहेण सहपाठन बन्धप्योजकतया सदशत्वहेतोः समानार्थ-
अव० पदैकवाक्यतया कर्मणा सह पाठाद्वियापूर्वपज्ञयोः कर्मपदनोपसंग्रहणमुक्तं स्पष्टयति। तं विद्येति हि वाक्यमकमिह च स्पष्टं त्रयं कीर्ततितं तस्मात् कर्मवचस्तयोरषि भवेत् संग्राहकं कारणात्॥ विद्या चात्र चतुर्विधाऽप्यभिमतैवारम्भिका कर्मवत् सस्कारोडरि तथा चतुविध इति ज्ञेयस्तथा सम्भवात् ॥१८॥ तं विद्येति । इह वाक्ये तस्मात्कारणादित्यन्वयः । तदेव संसारप्योजकं विद्यादिस्वरूपमाह । विद्या चात्रेति। अत्र उत्क्रान्तिपकरणस्थवाक्ये विद्या ज्ञानमात्रं मानसं, सा चतु- र्विधाप्यारम्भिकाऽभिमता, विहिता तत्समा प्तिषिद्धा तत्समा चेति विद्या चतुर्विधाऽपि चतुर्विधकर्मवत्संसारारम्भिकाऽभिम- तैव। तथा संस्कारोऽपि विद्याकर्मकृतः तथा कारणवच्चतुर्विध इति ज्ञेयः। कुतः? तथा सम्भवात् कार्यस्य कारणानुविधायित्वेन कारणस्य चातुर्विध्ये कार्यस्यापि चातुर्विध्यसम्भवादित्यर्थः । तथाच विद्याकर्मपूर्वप्रज्ञाख्यैका पुरी, कामाख्यैका कर्मपवार्तिका पुरी, तमःशब्दितमोहात्मिका कामस्यापि हेतुभूता Sपरा पुरीति विवेकः । अन्यत्पुरीपञ्चकं पसिद्धम् ॥ १८ । भव०ननु कचिल्लिङ्गशरीरं जीवोपाधित्वेनोच्यत "आ-
602
Page 603
१४ अन्वयार्थप्रकाशिकाविभूषिते
त्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः "लिङ् मनो यत्र नि- पक्तमस्य" इत्यादिश्रुतेः । तदपि कि पुर्यष्टकमेव कि वाऽन्यत् ? इंति तत्राह- पुर्यष्टकं तदिदमप्यभवद्धि लिङ्गं तेनोच्यते तदवि लिङ्गगिरा क्वचित्तु ॥ पुर्यष्टकं न खलु लिङ्गगिरोडभिधेयं मुख्यं तु सप्तदशकं प्रथितं हि लिङ्गम् ॥ १९॥ पुर्थष्टकमिति ॥ इदमप्युक्तं पुर्यष्टकमपि हि यस्माल्लिङ्म- भवत् प्रत्यगात्मसद्भावगमकमभूत्,तेन हेतुना कचित्तु तदपि लिङ्र- गिरोच्यते लक्षणया न मुख्यया तच्या। कुतः? इत्यपेक्षार्यां पुर्यष्टके लिङ्गशब्दस्य पसिद्ध्यभावादित्याह। पुर्यष्टकं न खल्विति। सप्त-
स्तदेव जीवत्वोपाधिभूतं लिङ्गशब्दस्य मुख्यमभिधेयं, न तु वि- द्याकर्मपूर्वपज्ञाभ्रान्तिभूतसूक्ष्माण्यपि, तेषां प्रतिजन्म विपरिणा- मभेदात्, अतः पुर्यष्टकेऽपि सप्तदशकस्य सच्वात्तदपि लिङ्गं जीवोपाधिरित्युपचारेणोच्यते इति भाव: ॥१९।। भव० मुख्यं सप्दशकं लिङ्गमाह- इह तावदक्षदशकं मनसा सह बुद्धितत्त्वमथ वायुगणः ।। इति लिङ्ग मेतदमुना पुरुष: खलु सङ्गतो भवति जीव इति ॥२० ॥ श नावदिति ॥ बुद्धिरेव तत्वं बुद्धितत्वं, माणादिपञ्चकं वायुगणः इत्येतत्सप्रदशकं लिङ्गम् । अमुना सङ्गतः खलु पुरुषो
603
Page 604
संक्षेपशारीरके तृतीयोऽध्यायः। ३। १५
जीव इति प्रसिद्धो भवति, उक्तलिङ्गतादात्म्याध्यासनिबन्धनो हि प्रत्यगात्मनो जीवत्वव्यवहार इत्यर्थः ॥ २० ॥ अव. उक्तलिङ्गस्य जीवत्वनियामकत्वेऽपि न तावन्मात्रेण सं- सारित्वं, किन्तु पुर्यष्टकोपेतस्यैव इत्यत्रान्वयव्यतिरेकौ ममाणय- न् पु्येष्टकस्य चिदात्मनि संसरणद्वारत्वमुक्तं समर्थयति- न पुराष्टकेन रहितस्य तव क्चिदस्ति संसरणदुःखयुजा ।। न पुराष्टकेन संहितस्य तथा क चिदस्ति दुःखविगमश्च तव ॥ २१ ॥ न पुराष्टकेनेति ॥ दुःखयुजा दुःखयोगः ॥२१॥ अव. अयं पुरसम्बन्धश्रेदात्मनः स्वाभाविक: स्यात् तदा संसारोऽपि स्वाभाविक एवेति तस्य ज्ञान्न्निट्वतत्तिर्न स्यादिति चेत्, मैवम्। पुरसम्बन्धस्यारोपितत्वादित्याह- तव नित्यमुक्तसुखचिद्दपुषो न कदा चिदसि्ति पुरसङ्गनमनम् ॥ तव मायया विरचितं सकलं पुरसङ्गतिप्रभृतिकं वितथम ॥ २२ ॥ तव नित्यमुक्तेति ॥ कदाचित्कालत्रयेऽपीति यावत्। पमाणसिद्धनित्यमुक्तसुखचिदूपत्व्रविरोधादित्यर्थः। तस्मात्पुर- सम्बन्धस्तन्निबन्धनं संसारित्वादिकं च सर्वमात्मनि मोहमात्रा- यत्तमित्युपसंहरति। तव माययेति। अनेन स्वाज्ञानत इति पूर्वोक्त पपश्चितम् ॥ २२।। अव. कल्पिताभ्यामपि संसारमोक्षाभ्यामात्मनो योगाद्वि-
604
Page 605
१६ अन्वयार्थप्रकाशिकाविभूषिते
कारित्वप्रसङ्गो दुर्वार इति चेत्, मैवम्। आभासधर्मस्याधिष्ठाना- स्पर्शित्वादिति दष्टान्तेनाह- मलिनं नभो न हि कदा चिदभूद विमलं कदा चिदभवन्न नभः उभयं नभस्यभत्रदेवमिह त्वयि नित्यमुक्तितिसंसरणम् ॥ २३ ॥ मलिनं नभ इति ॥ नभसः स्वभावतो Sसङ्गत्वाननिर- वयवत्वाच्च न मलेन संश्लेष: सम्भवति, तथापि मलिनं नभ इति प्रतीयते, मलसंश्लेषाभावे च न तन्निृत्तिरूपं विमलत्वमपि तस्मिन्नुपपद्यते, तथापि घनधूमाद्यपाये विमलं नभ इति पती- यते। यथेदं दय नभसि भ्रान्तिमात्रं कल्पितमेव एवं चिदात्मनि नित्यमुक्तस्व्रभावे सकेकरूपे संसरणं मोक्षश्चेत्युभयं भ्रममात्र- सिद्धं न परमार्थमित्यर्थः।२३॥। अव. यद्यत्र कल्पितं न तत्तत्र परमार्थमिति पतिपादयन् दार्ष्टान्तिकं पपञ्चयति- न हि कल्पनाविरचितं वितथं परमार्थवस्त्ववित्थं रपृशति ॥ परमार्थवस्तु च तथा तमसा परिकल्पितं न किमपि स्पृशति ॥२४ ॥ न हि कल्पनाविरचितमिति । कल्पनाविरचितं यतो वितथम् अतोऽवितथं परमात्मवस्तुन हिस्ृशतीति योजना। ननु कल्पितस्याज्ञानादिबन्धस्य जडत्वात्स्वयं स्पष्टृत्वासम्भवे- Sपि परमात्मनो नित्यसिद्धस्य चेतनस्य स्प्रष्ृत्वं स्यादिति
605
Page 606
संक्षेपशारीरके तृतीयोऽध्यायः। ३। १७
चेत्, नेत्याह। परमार्थवस्तु चेति। कल्पितपरमार्थयोर्विरो- धानान्योन्यसंस्पर्श इत्यर्थः ॥२४॥ अव. कल्पितपरमार्थयोः संसष्टतया भासमानयोरपि पर- स्परासंस्पर्शित्वे दष्टान्वमाह- न हि भूमिरुषरवली मृगतड्- जलवाहिनीं सरितमुद्दहति। मृगवारिपूरपरिवारवती न नदी तथोषरभुबं स्पृशति ॥ २५ ॥ न हि भूमरिति ॥ २५। अव-इतश्चात्मनि संसार: कल्पित एवेत्याह- न तव कचिद गमनमस्ति विभो- रने पुराष्टकस्य जड़रूपभृतः ।। न च मध्यवर्ततिजड़चिद्दपुषो- र्गमनक्षमं किमपि संभवति ॥ २६॥ न तवेति॥कचित् परलोकादौ तव गमनं नास्तिविभुत्वात, विभौ च क्रियाऽसम्भवादित्यर्थः । पुराष्टकस्यापि न कचिद्गमन- मस्ति जडस्वरूपत्वात्, न हि जर्ड स्व्रतः पट्टत्तिमद् दृष्टमित्यर्थः । तथापि चिदात्मपुराष्टकयोर्मध्ये किमपि स्वतो गमनसमर्थ भवि- व्यति येन स्वयं गच्छता चिदात्मपुराष्टके अपि नीयेते इत्या- शङ्कायामाह। न च मध्यवर्सीति । चिज्जडातिरिक्तस्य वस्तुनो ऽसम्भवादित्यर्थः ॥ २६॥ अव. ननु यद्यपि चिदात्मा विभ्ुत्वात्स्वयं न गतिमान् तथापि पुराष्टकपरिवेष्टितलया परिच्छिन्नत्वाद्गच्छेिति चेतु, नेत्याह- ३
606
Page 607
१८ अन्वयार्थप्रकाशिकाविभूषिते
पुरवेष्टितं न खलु चिद्दलयं परलोकमार्गमनुसर्त्तुमलम् ॥ घटवेष्टितं न हि नभोवलयं व्रजति व्रजत्यपि घटे वितते ॥ २७ ॥ पुरवेष्टितमिति ॥ उपाधिगमने Sपि नौपाधिकस्य गम- नमस्ति, घटगमने Sप्याकाशस्येवेत्यर्थः। उपाध्यपसरणे स्वरूप- स्योपहितत्वमपसर्पति केवलं, न स्वरूपमप्यपसरतीति भाव:।।२।। अव. नतु गच्छत्युपाधौ औपाधिकस्यापि गमनं दृश्यते घटे गच्छति तदवच्छिन्नाकाशस्य गमनदर्शनात् । अतो नोक्तदष्टान्तः स्पष्ट इति चेत्, नेत्याह- घट एव गच्छति नभस्त्वचलं व्रजता घटेन तु ततश्र ततः ॥ परिवेष्टनेन घटखं क्रियते घटखानि तत्र सुबहूनि ततः ॥ २८॥ घट एवेति॥ कथं तर्हि गमनप्तीतिर्नभसः?इति चेत्, तत्राह। व्रजतेति। व्रजता तु घटेन नीयमानेनेति यावत्। ततश्र ततः, पदे पदे। नभसः परिवेष्टनेन घटखं क्रियते, तत्र तदा ततो वेष्टनात् सु- बहूनि घटखानि केवलं भवन्तीति योजना। तत्र भेदाग्रहात् घटा- काशो गच्छतीति भ्रमो लोकस्य, निरवयवस्य परमार्थतो घटे- नाकर्षासम्भवादित्यर्थः ॥। २८।। अव. दृष्टान्ते साधितमर्थ दार्ष्टान्तिके योजयति- पुरमेव गच्छति चितिस्त्वचला
607
Page 608
संक्षेपशारीरके तृतियाऽभ्यायः। ३। १९ व्रजता पुरेण यदि साऽपि चितिः ।। परिवेष्ठ्यते तु सुबुहूनि तदा वलयानि पूर्ववदुपाश्रयसे ॥ २९ ॥ पुरमेवेति । साऽपि चितिर्त्रजता पुरेण यदि नभ इव घटेन परिवेष्ठ्यते तदा तु बहूनि वलयानि परिच्छेदान् पूर्ववत् पूर्वतुल्यानुपाश्रयसे इति योजना॥ २९॥ अव. तर्हेतदेवास्तु परलोकगमनं यत्पुरगमनमनु नैरन्तर्येण चिद्लयानां जननमिति चेत्, तदा महान् दोष: भादुःष्यादित्याह- अकृतागमश्च कृतनिष्फलता फलतः समापतति कर्तृगतः ॥ अपरस्य भोक्तुरुदयाच्च दिवि व्यसनस्य संततिरहो विषमा ॥ ३० ॥ अकृतागमश्चेति ॥ विना कारणानुष्ठानं कार्यनिष्पत्ति- रकृतागमः, कृतपयन्नस्य निष्फलत्वं फलजननमन्तरेण पर्यव- सानं कृतनिष्फलता, एतत् द्वयं फलतो डर्थात्समापतति, यदि चिद्लयानां जन्माभ्युपेयते इति योजना। कुतः ? इत्यत आह। कर्तृगतेरपरस्य भोक्तुरुदयाच्चेति। भूगतं हि ब्राह्मण्यादिविशेषितं चिद्लयं कर्मणां कर्ट तस्य कर्तुर्गतेर्गमनान्नाशात्तत्कृतस्यापि नाश इत्यर्थः। तथा स्वर्गादौ अपरस्य कर्तुरन्यस्य भोक्तुरुदया- त्तस्य क्रियाऽभावेऽपि भोगस्याकृतस्यागम इत्यर्थः । पमाणन्या- यविरुद्धं कल्पयतो न स्वास्थ्यं कदापीत्याह। व्यसनस्येति। विषमा दुरन्तेत्यर्थः ॥ ३० ॥ भव. ननु कुतो व्यसनसन्ततिरापाद्यते, उपाधिगमनेनौपाधिकं
608
Page 609
२० अन्ययार्थप्रकाशिकाविभूषिते
तदेव गच्छतीति पतीतेर्बाधकादर्शनात्पतिपदमुपाधिगमने चिद्व-
भावश्र स्यादिति चेत्, मैवम्।न्यायवाधितत्वादुपाधिगमनेनोप- हितगमनस्येति दृष्टान्तेनोपपादयति- चलने ह्युपाध्यभिमतस्य भवे- ज्नितस्य तेन विगम: सुदृढ़म् ॥ ननु कुण्डलापसरणे पुरुषा- दथ न प्रणश्यति न कुण्डलिता ॥ ३१ ॥ चलन इति ॥ उपाध्यभिमतस्य चलने जायमाने तेनो- पाधिना जनितस्यौपाधिकस्य सुदृढ सुनिश्चितं यथा स्यात्तथा वियोगो विच्छेदो विनाशो भवेदिति योजना। कुण्डलिन: पुरुषा- त्कुण्डलापसरणे जायमाने अथ तदा कुण्डलिता न प्रणश्यतीति न, किन्तु प्रणश्यत्येव, ननु पसिद्धम् इत्युत्तरार्द्धयोजना।तथा च कुण्ड लापगमे तननाशे वा कुण्डलोपाधानविशिष्टस्य कुण्डलिनो डपि नाशदर्शनात् तद्द्वटचलने घटवेष्टितस्याकाशस्य नाश एवा- म्युपेयः । एवं पुरवेष्टितस्य चिद्वलरनापि नार एव परचलने युक्त इति स्यादेवोक्तदोषमसङ्क इत्यय: ॥३१॥
न सम्भवतीत्याह- न पुरान्वयक्ष तव चिद्धपुषः परमार्थतो भवति तर्कसहः ॥ नभसो यथा घटसमागमनं न ततोऽपि लिङ्गघटितो व्रजसि ॥ ३२ ॥
609
Page 610
संक्षेपशारीरके तृतायोऽध्यायः।३। २१
न पुरान्वयश्चेति॥ नभसो यथा घटसमागमनं परमार्थत- स्तर्कसहं न भवतीति योज्यम् । फलितमाह । न तत इति। ततोऽपि पुरसङ्गमस्य दुर्निरूपत्वादपि तत्कृतचिद्वलयस्य कल्पि- तत्वान्नात्मनो लोकान्तरगमनं भोक्तृत्वादि वा परमार्थतः स- म्भवतीति न लिङ्गघटितः परिवेष्टितस्त्वं व्रजसीत्यर्थः ॥ ३२।। अव. दृष्टान्तत्वेनोपात्तनभ:परिवेष्टनस्य तर्कासहत्वं ताव- दुपपादयति -- नभसः प्रदेशविरहान्नभसो न घटः प्रदेशपरिवेष्टनकृत ॥ न नभः समस्तमपि वेष्टयते नभसोऽवशेषविरहापतनात ॥ ३३ ॥ नभसः प्रदेशेति ॥ किं घटेन नभः एकदेशेन परिच्छि- ते सर्वात्मना वा? नाद: सङ्गच्छते, यतो घटो न नभसः पदे- शपरिवेष्टनकृत्सङ्गच्छते, नभसः पदेशविरद्दात् निरवयवत्वेन पदे- शाभावादित्यर्थः । द्वितीयं दूषयति।न नभः समस्तमिति । घटा- निर्गमनपवेशादिव्यवहारविलोप: स्यादित्यर्थः ॥ ३३ ॥ भव. दार्ष्टान्तिकेऽपि तथैव तर्कासहत्वमाह- परमात्मभागपरिवेष्टनकृ- न्न पुरं तथाऽनवयवो हि परः ॥ न च कृत्स्नमेव परमं पुरुषं पुरवस्तु वेष्टयितुमुत्सहते ॥ ३४ ॥ परमात्मेति ॥ स्पष्टार्थ पद्यम् ॥३४॥
610
Page 611
२२ अम्वयार्थप्रकाशिकाधिभूषिते
अव परममहतथ्विदात्मनः परिच्छिनेन पुरेण कृत्स्नशो वे- एटनमसम्भावितमित्युक्तं, तदभ्युपगमे च दोषान्तरपसक्तिर्दुवारे- त्याह- यदि कृत्स्न एव परमः पुरुष: पुरवेष्टितो भवति जीवतया।। न तदेश्वरो भवितुमुत्सहते न च जीवजातमपरं सकलम ॥ ३५ ॥ यदि कृत्स्न एवेति ॥ एकेनैव पुराष्टकसङ्गातेन चिदा- त्मनो जीवतया क्रोडीभावे जीवान्तरमीश्वरो वा नावशिष्येत इत्यर्थः ॥ ३५॥ अव. मास्त्वीश्वरो जीवान्तरं वेति चेत, तत्राह- गुरुशिष्यसङ्गतिरतो न भवे- न्न च बन्धमोक्षनियमो घटते ।। विषयं बिना सकलमापतति स्फुटमत्र वेदवचनं च वृथा ॥ ३६॥ गुरुशिष्येति ॥ अतोऽवशिष्यमाणजीवान्तराभावे गुरु- शिष्यसम्बन्धादिः प्रसिद्धोव्यवहारो न भवेत्।कुतः ? इत्यत आह। न च बन्धेति। बद्धो हि शिष्यो मुक्तश्र गुरुः अतो बन्धमोक्षयोर्जी- वान्तरानङ्गीकारे व्यवस्थाऽभावाद् गुरुशिष्यव्यवस्थाऽपि न स्यादित्यर्थः। मास्तु काऽपिव्यवस्थेति चेत्, तत्राह। विषयं विने- ति। अत्र अव्यवस्थापक्षे सकलं च वेदवचनं स्फुटं यथा स्यात तथा विषयं विना हथा पतति अप्रमाणं भवेदित्यर्थः । एतदुक्त्तं भवति। जिज्ञासोः शिष्यस्याभावे शास्त्रं कं पतिबोधयेत् तत्वं, तथा ज्ञानवत्याचार्ये Sसति क: उपदेष्टा कमाश्रित्य शासत्रं जिज्ञासुं
61
Page 612
संक्षेपशारीरके तृतीयोऽध्यायः ।३। २३
बोधयेत्, तथा च गुर्वाद्यभावे निर्विषयं शास्त्रमपमाणमेव स्याद्। गुर्वादिभावश्र मुक्तत्वबद्धत्वे विना नोपपद्यते। तथेश्वराभावे चान्तर्यामिब्राह्मणं "स सेतुर्विधरणः " "एषहेव साधु कर्म कारयति" "रातेर्दातुः परायणम् " इत्यादीश्वरविषयश्रुतिस्मृ- त्यादिवादा अपि निर्विषयतया न प्रमाणम्भवेयुरिति ॥ ३६॥ अव. अत्र परमात्मन एवाविद्ययाऽनेकजीवभावः तेषामेकेकस्य
व्यवस्थापक्षोऽप्यनेकजीववादोऽस्येष्ट एवेति गम्यते । पूर्वत्रैकजी- वस्व्रीकारो गुर्वादे: शिष्याविद्याकल्पितत्वाभिधानं वा सर्वमपि द्वैतस्य तत्वज्ञानेन निदृत्तिप्दर्शनार्थमेव्रेति निश्चीयते। यद्वा पूर्वत्र सर्वस्य गुर्वादिभेदस्य चिद्रविद्याकल्पितत्वेन मिथ्यात्वनिरूपणं सदद्वैतमेव सत्यं नान्यत्सत्यमस्तीति प्रदर्शनाय । इह व्यव- स्थया जीवसंसारस्य निरूपणं तु व्यवहारदष्टथेति ग्रन्थकार- स्याभिप्रायो गम्यते। सर्वथा युक्तिवाह्यात्परिकल्पित एव पुर- सम्बन्धस्तद्वारं च चिदात्मनः संसरणं न स्वत इत्युपसंहरति- न पुरान्वयोऽत उपपत्तिसहः परमार्थतोऽस्ति परमार्थदशेः ॥ त्रियतो घटान्वयवदेव ततः परिकल्पितं पुरसमागमनम् ॥ ३७॥ न पुरान्वयोऽत इति । परमात्मदशेः पुरान्वयो न पर- मार्थतो डस्ति तत्रोपपत्यसहिष्णुत्वात्, यद्यत्रोपपत्ति न सहते न तत्तेन परमार्थतः सम्बध्यते यथा वियतो घटान्वयस्तथा चायं ततस्तस्मात्पुरसमागमनं परिकल्पितमेवात्मनो न परमार्थमिति योजना ३७।।
612
Page 613
२४ अन्वयार्थप्रकाशिकाविभूषिते
अव. एवं सति पुरसङ्गमनिबन्धनं परलोकगमनमपि क- ल्पितमेवास्येत्याह- यत एवमेतदुपपत्तिपथं न तव प्रयाति विरहय्य तमः ॥ परलोकमार्गगमनं स्वतमः- परिकल्पितं चलनवन्नभसः ॥ ३८॥ यत एवमिति ॥ सुगमार्थ पद्यम् ॥ ३८॥। अव. कर्थ तर्हि "उभौ लोकावनुप्तश्चरति" इतिश्रुत्युक्त- गमनमुपपद्यते ? इत्यत आह- पुरधर्ममात्मनि विकल्प्य तथा स्त्रचिदात्मतां च पुरधर्मतया ॥ स्त्रपुरं स्त्रयं च. दृढ़मेकतया परिकल्पयन व्रजास मूढ़मतिः ॥३९॥ पुरधर्ममिति ॥ "स समानः सन्नुभौ लोकावनुसञ्चरति" इतिसमानश्रुत्या पुरात्मनोः परस्पराध्यासस्योक्तत्वात्पुरात्मनो- रन्योन्यधर्माध्यासात्पुरे आत्मत्वावभासः आत्मनि च गमनाद्य- वभासस्तयोरेकतापच्या विभाव्यते इति तात्पर्यार्थः । अक्षरार्थ- स्त्वतिरोहितः ॥ ३९।। अव. तस्मादात्मनि संसारस्यानिरूपणान्नित्यमुक्त एवात्मे- त्याह- परिपूर्णचिद्रसघनः सततं स्त्रमहिम्नि तिष्ठससि निरस्तमले ।।
613
Page 614
संक्षेपशारीरके तृतीयोऽथ्यायः। ३। २५
न तथाऽवि तत्त्वमिति वाक्यकृतां मतिमन्तरेण तव केतलता ॥ ४० ॥ परिपूर्णेति ॥ यद्यहं निरस्तमले स्वमहिम्नि सततं तिष्ठा- मि तहि किं शास्त्रेण मम कृत्यम् ? इत्यत आह।न तथाऽपीति। यद्यपि वस्तुतो नित्यमुक्तोऽसिन्वं तथापि तत्वमसीतिवाक्यकृतां मतिमन्तरेण तव केवलता निटृत्ताविद्यातत्कार्यपतिभासतया स्वरूपावस्थानलक्षणकैवल्यं न भवतीत्यर्थः ।। ४० ॥। अत. यदि वस्तुतो मयि नास्त्येव संसरण, किमिति नि- त्यमुक्ततां विना वाक्यश्रवणं न जानामि ? इति चेत्, तत्राह- न तब प्रतीचि करणानि बहि- र्विषयाणि येन करणानि सदा ॥ सहजं च गाढमतिमूढतमं तम इत्यतः पुरमनुव्रजसि ॥ ४१ ॥ न तव प्रतीचीति ॥ करणानि मनःप्रंभृतीन्द्रियाणि यानि तत सन्ति तानि प्रतीचि प्रत्यग्विपयाणि न, यतः सदा करणानि बहिर्विपयाणि "पराश्चि खानि"इतिश्रुतेः । अतस्तव स्वरूपनिर्भास: करणसाध्यो न भवतीति न त्वं तैः स्वस्वरूपं जानासीत्यर्थः। स्वतोऽपि तत् यथावत् न भासते इत्याह। सहजं चेति। अतिमूढतमम् अत्यन्तनिबिडतमं गाढं दढं च सहजम् अना- दिसिद्धं तमः त्वत्सतत्वावरणमनुवर्त्तते, अतोऽपि न जानासि। तथापि यद्यनुसन्धीयते कदाचित् तदा ज्ञातुंशक्यते, अनुसन्धान- मेव दुर्लभं गुरूपदेशवेदान्तवाक्यं विनेति भावः। यत एवं वा- क्यजन्यतश्वज्ञानहीन: अतः पुरमनुवजसि आत्मनो नित्यमुक्त-
614
Page 615
२६ अन्वयार्थप्रकाशिकाविभूषिते
तामजानन् संसारमनुभवसीति ॥४१॥ अव. एवमुपाधिपरतन्त्रं कल्पितमेव परलोकगमनादीति- युत्ा निरूपितेऽर्थे श्रुतिं प्रमाणमवतारयति- स समान इत्युपनिषद्दचनं प्रतिणदयत्युदितमर्थमतः ॥ स्त्रमनीषिकेति न कदा चिदपि प्रतिपत्तिरत्र भवतो भवतु ॥ ४२ ॥ स समान इति॥ घिया समान: इत्यर्थः । अतः माण- युक्तिसिद्धत्वान्नायमर्थः स्वकपोलकल्पित इति मन्तव्यमित्याह। स्वमनीषिकेति। स्त्रबुद्धिकल्पिता इति इयं, कल्पनेति शेपः । अत्र मद्चने ॥ ४२ ॥ अव. परिकल्पितमपि कि तदात्मनो गमनम् 2 तदाह- पुरहंतुकं यदभवच्च विभो: परिकल्पितं किमपि चित्सदृशमू ॥ जलपातहेतुकमित्र द्युमणे- स्तदसंततं भवति तद व्रजति ॥४३ ॥ पुरहेतुकमिति ॥ त्वयि स्वाविद्याध्यस्तपुरहेतुकं यत्कि- मपि विभोः चित्सदशं चिदाभासनं परिकल्पितमभवत् तत् असन्ततं परिच्छिन्नं भवति तत् तस्मात् परिच्छिन्त्वात् व्रज- तीतियोजना। चित्सदशं परिकल्पितमित्यत्र दृष्टान्तो जलपात्र- हेतुकमिव घुमणेरिति । दुमणिः सूर्यः ।। ४३ ॥ अव. ननु कथमेवमपि परलोकगमनसंभव: पुरस्य। न स्वा- तन्त्र्येण गमनं संभवति जडत्वात्, तस्मिस्तदा चिदाभासोऽपि न
615
Page 616
संक्षेपशारीरके तृतीयोऽध्यायः।३। २७
संभवति, बुद्धिद्वारकत्वाव्विदाभासोदयस्य, बुद्धेश्च तदानीं लीन- त्वादिति चेत्, न। "तद्यथा नः सुसमाहितमुत्सर्ज्जद्यायात्"
धीनतया गमनसंभवादिति वक्तुं प्राक् प्रतिपादितमर्थ स्मारयति- जडशक्तिरस्ति परमस्य विभो: परमात्मनस्तम इति प्रथिता ।। पुरमष्टकं तव यथा भवति श्रुतितः प्रसिद्धमिदमप्यखिलम् ॥ ४४ ॥ जडशक्तिरिति॥ यथा तव जीवस्य पुर्यष्टकं भवत्यु- पाि: तथा परस्य विभो: परमात्मनः परमेश्वरस्य तम इत्येवं प्रथिता जडशक्तिरस्ति उपाधिरिति योजना। यथा पत्यगज्ञान- स्यैव तमसो जडशक्तित्वेन परमेश्वरोपाधधित्वम् अज्ञानात्मना च जीवोपाधित्वं निर्वहति तथा उपपादितं पूर्वमेवेति भावः । अज्ञानिनो जीवस्य पुर्यष्टकयोगो जडशवत्युपाधेरीश्वरता वेति कुतोऽवसीयते ? इत्यत आह। श्रुतित इति ॥४४ ॥ अव. ततः किं जातम् ? तदाह -- पुरहेतुकं तव यथा च वपु- र्भवतीह जीवतचसो विषयः ।। जडशक्त्युपाधिकममुष्य तथा परमेश्वरस्य वपुरुद्जवति ॥ ४५ ॥ पुरहेतुकमिति ॥ यथा पुरहेतुकं तवाज्ञस्य जीववचसो विषयः जीवशद्ववाच्यं वपुः आकारविशेषः रूपं भवति, तथा अमुष्य परमेश्वरस्य जडशक्त्युपाधिकं वपुः आकारविशेष: उद्भ-
616
Page 617
२८
वति अभिव्यक्तो भवति। एतस्य जीवोत्क्रान्तिसमये Sपि स- वात्तदायत्तमस्य गमनं संभवतीति भाव: ।। ४५।। अव. परमेश्वरतन्त्रतया परलोकगमनम् इत्यत्र श्रुतिपसिद्धं जीवस्य संसारमोक्षयोः परमेश्वरायत्तत्वं प्रमाणमाह- पुरहेतुरूपघटितस्य दृशे- जडशक् त्युपाधिपरमेश्वरतः ॥
दिति च त्रयीशिरसि राजपथः । ४६ ।। पुरहेतुरूपेति ॥ "यदिदं किश्च जगत्सर्व प्राण एजति" "निःसृतं महन्भयं वञ्रमुद्यतम्" "यदाह्येवेष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति" इत्यादित्रयीशिरसीत्यर्थः । सु- गममन्यत् ॥ ४६ ॥ अव. अतः परमेश्वरतन्त्रतया मरणावस्थायां पुर्यष्टकगमन- मुपपन्नम् इत्याह-" परमेश्वरेण विभुना रणयन् परिबृंहित: शकटवद व्रजसि ॥ शकटं हि शाकटिकयोगवशाद व्रजति स्वयं न परतन्त्रतया ॥ ४७ ॥ परमेश्वरेणेति ॥ विभुना परमेश्वरेण परिबृंहित: उत्ते- जितो रणयन् हिक्कादिशद्वं कुर्वन् शकटवद् व्रजसीति योजना। शकटटष्टान्तं स्फुटयति। शकटमिति ॥४७॥ अव. ननु शकटस्याचेतनत्वाठुक्तं शाकटिकाधीनत्वं, जीवस्य चेतनत्वात्कथं चेतनान्तराधीनं गमनम् ? इति चेत, नैषदोष:
617
Page 618
संक्षेपशारीरके तृतीयोऽध्यायः।३। २९
नीवस्य चेतनत्वेऽपि भ्रान्त्या परतन्त्रत्वोपपत्तेरित्याह- दुरवष्टितः पुरवशानुगतः पुरतन्त्रचिन्निभवरिभिन्नवपुः ॥ दिवि यातनाभुवि च कर्मफला- न्यनुभूय भूय इह संभवससि ॥ ४८ ॥ पुरवेष्टित इति ॥यतः पुरवेष्टितोऽतः पुरवशानगतः पुर- परतन्त्र:।कीदशं तत् पारतन्त्रयं!तदाह।पुरतन्त्रेति। पुरानुपविष्टतया पुरतन्त्रो यश्विन्निभश्चिदाभासः तेन विभिननं विशिष्टं वपुर्यस्य स तथा। पुरगतचिदाभासाविवेकादात्मानं परिच्छिन्ं मन्यमान इ- त्यर्थः । अतः परमेश्वरेण परिवृंहितो व्रजसीति युक्तमिति पूर्वानुपङ्गेण योजना। एवं परलोकगमनस्य मायामयत्वं पार- तन्त्र्यं च वैराग्यार्थम् उपपाद् अवरोहमकारमाह। दिवीति। स्वर्गे यातनाभुवि च वैतरण्यादिनरकपदेशे च क्रचित् कदाचित्कि- श्वित्कर्मफलान्यनुभूय पुनः कर्मसेषवशाद इहं मनुष्यलोके यथा- कर्म सम्भवसि जन्म प्रतिपद्यसे इत्यर्थः । श्रतौ धूमादिमार्गण चन्द्रस्थलं गतानामवरोहप्रकारकथनं नरकस्थानादवरोहपकार- स्याप्युपलक्षणार्थम् इत्यभिप्ेत्य तुल्यवन्निर्देशः इति द्रष्टव्यम्।४८॥ अव. उक्तमेव स्पष्टयति- सुकृतदुष्कृतकर्मवरशादयं दिवमथो यमसादनमेव वा ।। अनुभवेन समाप्य पुनर्मही- तलमबोधवशादवरोहति ॥ ४९ ॥ सुकृतदुष्कृतेति ॥ यमसादनं नरकभूमिः ॥४९॥
618
Page 619
३० अन्वयार्थप्रकाशिकाविभूषिते
अव. कर्मसम्बन्धिनो ज्ञानस्य उपासनालक्षणस्यापि संसार- फलत्वमेवेत्याह- यदि वा समुच्यवशात पुरुषः कमलासनं व्रजति कामुकधी: ॥ पुनरेव मानवमिमं तुबिना परिवर्तमाव्रजाते मूढमतिः ॥। ५० ॥ यदिवेति॥ शास्त्रीयज्ञानकर्मणोः संसारफलत्वं कामिन एव न निष्कामस्य, तस्य तु बुद्धिशुद्धिद्वारा तत्वज्ञानहेतुत्वादित्यभि- प्रेत्य उक्तं कामुकधीरिति। तत्र गतोऽपि यदि मूढमतिः परमात्म- रूपप्रत्यकूतत्वरज्ञानशून्यः तदा पुनरेव पुनरपि परिवर्त संसारं प्रति आव्रजति आगच्छति। किन्तु इमं मानवं विना, अस्मिन् कल्पे नाव्रजति कल्पानतरे तु अवश्यमाव्रजतीत्यर्थः ॥ ५० ॥ अव. समुच्चयफलस्यापि कृतकत्वेन क्षयावश्यम्भावात्पुन- रावृत्तिरुक्ता, इदानीं तु ब्रह्मलोकं गतानां तेपामपि केपाश्चिद्भो- गावसाने तत्रोत्पन्नज्ञानवशान्मुक्तिमाह- अथवा स तत्र परमात्ममतिः परिमुच्यते सकलबन्धनतः । क्रमयोगमुक्तिरुदिता श्रुतिषु प्रतिशाखमेतरमुपपन्नतरा ॥ ५१॥ अथवेति॥ परमात्ममतिः, चेदिति शेषः। तत्र पमाणमाह। क्रमयोगेति। क्रमयोगेन क्रमपाप्त्या ब्रह्मलोकपातिक्रमेण श्रु- तिघु प्रतिशाखं या मुक्तिरुदिता सा तु एवम् अस्मदुक्तपकारे- णोपपन्नतरा। परब्रम्मकतूनां क्रममुक्ति: तद्रहितानां मानवान्तरे
619
Page 620
संक्षेपज्ञारीरके तृतीयोऽध्यायः।३। ३१
पुनरावृत्तिरिति व्यवस्थेति भावः॥५१॥ अव. क्षुद्रजन्तुलक्षणामपि कष्टतरां संसारगति श्रुत्युक्तां वैराग्यार्थमाह- देवयानवितृयानयो: पथो- ज्ञनकर्मरहितत्वकारणात् ।। नैकमप्यनुसरन्ति ये पुनः क्षुद्रजन्तव इहोद्वन्ति ते ॥ ५२ ॥ देवयानेति॥ देवयानम् अरचिरादिमार्गः पितृयानं धू- मादिमार्गः। ज्ञानकर्मरहितत्वात्कारणाद्यथाक्रमं देवयानपितृयान- योः पथोमध्ये ये पुनर्नैकमपि पन्थानमनुसरन्ति ते इह भूलोके क्षुद्रजन्तवः कीटपतङ्गदिरूपा: सन्तः उन्भवन्ति, अहो कष्टमि- त्यर्थः ॥ ५२॥ अव संसारचिन्तां सङ्गेपेण प्रदर्श्य तत्मकरणमुपसंहरति- इति कामुकस्य तव संसरणं शतशो बभूतर परिमूढमतेः ॥ इह तिप्रजन्मनि विरक्तमतिः कुरु साधनं यदपवर्गकरम् ॥ ५३ ॥ इति कामुकस्थेति ॥ तवेतिपदावृत्तिपाठः मामादिकः । परिमूढेति योज्यम्। वैराग्याय संसारवर्णनेन सिद्धं वैराग्यस्य कृत्यं व्यपदिशति। इहेति ॥ ५३॥ अव. किं तदपवर्गकरं साधनम् इति ? तदाह- श्रवणादिकं शमदमादिपरः
620
Page 621
३२
परमात्मनः परमभागवतः ॥ कुरु तावता परममेत्र पदं परमात्मनस्त्वमवलोकयसि ॥ ५४ ॥ अ्रवणादिकमिति ॥ शमदमादिपरः परित्यक्तसकलैषण: परमभागवतो भगवत्येव परमात्मन्यर्पितमनाश्च सन् परमात्मन: श्रवणादिकं कुरु,तावता श्रवणादिजनित ज्ञानमात्रेण सहायान्तरनि- रपेक्षेण परमात्मन: परमं पदं त्वमवलोकयस्येवेति योजना।५४।। अव. विपर्यये पुंसोऽनर्थप्दर्शनेन श्रवणादी प्रोत्साहं जनयति- यदि तन्न पश्यसि हरे: परमं = न खलु प्रदीप्शिरसोऽस्ति सुखं तव दुःखपातकशिखाभिरहो॥ ५५॥ यदीति॥ यदि तद्धरे: परमं पदम् उक्तसाधननिष्ठः सन्नि- द्धशिरा इव शीतलमम्बु न पश्यसि तदा तव अहो कष्ट दुःखपाव- वकशिखाभि: पदीप्शिरसो न खल सुखमस्तीति योजना। ती- वातपादिनेद्धशिरा यदि शीतलमम्बु न पश्यति न लभते, तस्य यथा न सुखमस्ति तद्दिति दष्टान्तार्थः ॥ ५५॥ अव. यस्मात्सम्यगज्ञानं विना उक्तोऽनर्थोऽपरिहार्यस्तस्मा- दाध्यात्मिकादिदुःखत्रयरूपं दुःसहसंसारम् उक्तपकारेण विदित्वा तद्विलक्षणे ब्रह्मात्मनि परिपूर्णे सम्यग्ज्ञानावताराय वेदान्तश्रव- णादिनिष्ठो भवेदिति फलितार्थमाह- एवं विज्ञाय तापत्रयमतिगहनं मोहमूलं परस्मि- न्नात्मन्यात्मप्रकाशे त्वयि परमसुख निष्कले निष्कलङ्के।।
621
Page 622
संक्षेपशारीरके तृतीयोऽध्यायः।३। २३
सत्ये नित्यस्वभावे परिहृतसकलद्वैतकूटानुषङ्गे सम्यग्ज्ञानानुरागं कुरु विषयगतं भिन्धि निर्बन्धमेनम्५६॥ एवं विज्ञायेति।एवम् उक्तपकारेण अतिगहनं दुरन्तं ताप- त्रयं मोहमूलं विझ्ञाय परस्मिन्नात्मनि ताये ब्रह्मस्वरूपे प्रत्यगा- त्मनि प्रत्यगरूपे ब्रह्मण सम्यग्ज्ञानानुरागं कुरु, तज्ज्ञानानुकूले व्यापारे प्रयत्नवान् भव इति योजना। सर्वाण्येव विशेषणानिश्रु- त्युक्तव्रम्मस्वरूपलक्षणपराणि ज्ञेयानि। एनम् अनुरागं विषयगतम् ऐहिकामुष्मिकविपयानुषक्तं निर्बन्धं यथा स्यात् तथा भिन्धि विदारय, यथा पुनः विषयपवृत्तिकरो न स्यात् तथा विना- शयत्यर्थः ॥ ५६॥ भव. उत्पन्नवैराग्यस्य तत्वंपदार्थशोधनावसरः इति क्रमं वि- वक्षन् पदार्थशोधनपकारजिज्ञासापयुक्तं शिष्यपश्नमुत्थापयति- इत्युक्त्वोपरते गुरौ पुनरयं जिज्ञासया प्रेरित- स्तत्वंशब्दनिगद्यलक्ष्यविषयं शिष्यो गुरुं पृच्छति।। वैराग्येऽतिदृढीकृते सति यतः प्राज्ञो यतिर्मन्यते संदीपं शिरसीव पावकमिदं संसारदुःखं महत ॥५७॥ इत्युक्त्योपरते इति ॥ निगद्यो वाच्योर्थः। संसारनि- रूपणानन्तरं जिज्ञासाहेतुमाह। वैराग्य इति ॥५७॥ अव. प्श्नपकारमाह- वैराग्यं विषयेषु पूर्वमपि मे जातं हरेरर्चनाद यज्ञादिक्रियया निरस्तफलया किं त्वद्य दाढ्य गतम्।। संसारस्य निरूपणेन धिगिदं कर्मादिजन्यं फलं
622
Page 623
मन्वयार्थेप्रकाशिकाविभूषिते
विश्वं नश्वरमम्बुबुद्दुदसमं पद्रासनान्तं जगत् ॥ ५८।। वैराग्यमिति॥ निरस्तफलया यज्ञादिक्रियया हरे: पर- मात्मनो Sर्चनात्पूर्वमपि मे विषयेषु वैराग्यं जातं, किन्तु अद्य संसारस्य निरूपणेन दार्ढ्य गतमिति योजना। वैराग्यदा्ढ्य- मेवाभिनयति विगिदमित्यादिना॥ ५८ ॥। अव. एवं संसारनिरूपणफलमुत्पननं मदर्श्य, पथमं त्वंपद- लक्ष्यार्थजिज्ञासामाइ- किं तु त्वंपदलक्ष्यमर्थमधुना कर्तृत्वभोक्तृत्वयो- र्ज्ाग्रदूभूगतयोरपोहमुखतो वाञ्छाऽवगन्तुं मम ॥ कर्तृत्वादिकमस्य किं निजमभूत स्वाभाविकं जाग्रतः किं वा तत परतः कृतश्चिदभतच्चैतन्यधातोरिति॥५९॥ किन्तु त्वम्पदेति॥जाग्रद्भूगतयो: जाग्रदवस्थापन्नयोः कर्ट- त्वयोक्तृत्वयोः अपोहमुखतः त्वम्पदलक्ष्यमर्थम् अवगन्तुम् अद्य मम वाज्च्छा जातेति योजना। यद्यपि कर्तृत्वादिकं प्रतीच्यध्यस्त- मिति शास्त्रारम्भे जीवप्रकरणेच पदर्शितं, तथापि तदपोहेन तत्सा- क्षि त्वंपदलक्ष्यं सम्यक् न पदर्शितम्।अतः सर्वदृश्यधर्मापवादेन केवलः प्रत्यगात्मा मदर्शयितव्य इत्यभिपेत्य, कर्तृत्वादेरस्व्राभा- विकत्वमुक्तमप्यनुक्तमिव कृत्वा सन्दिहान: पृच्छति। कर्नृत्वादि- कमिति। अस्य चैतन्यधातोश्चैतन्यैकस्वभावस्येति सम्बन्धः । सुग- ममन्यत् । कर्तृत्वादे: स्वाभाविकत्वे तदपोहो न शक्यः, परकृतत्वे तु हेत्वपोहेनापोहितुं शक्यः । अतोऽन्यकृतं चेत्कर्तृत्वादि ताई तदपतादेन साक्षात्मत्यगूरूपं मदर्शयेत्यभिभायः ।५२॥ अव. केवलस्य पतीचोऽपदर्शने को दोष: ? इति तत्राह-
623
Page 624
संक्षेपशारीरके तृतीयोऽध्यायः। ३। ३५
यातरत्त्रंपदलक्ष्यवस्तुविषयो बोधो न मे वर्त्तते तावत मे बधिरेषु गीतमितर तच्छ्रौतं वचोऽनर्थकम् ॥ तस्मात्वंपदलक्ष्यवस्तुविषयः कर्तृत्वभोक्तृत्वयो- जीग्रद्भगतयोरपोहमुखतो बोधो ममोत्वाद्यताम् ॥६०। यावदिति ॥ तच्क्रौतं वच: तच्वमस्यादिवाक्यम् अनर्थकं विरोधस्फुरणानपायात् केवलाद्वितीयवस्त्वाकाराग्रहादित्यर्थः । यस्मादेवं तस्मादिति सुगमम्॥ ६० ॥ अव. आचार्यः आह- कत्रीदेरवभासकत्वमगमः शुद्ध: स्त्रयं भास्वर- श्चैतन्येन निजेन तेन भवतः कर्तादिबुद्धिर्भ्रमः ॥ कूटस्थस्प चिदात्मनस्तत कुतः कतृत्वभोक्तृत्वयोः शङ्का जागरितेऽपि कारकगणं कर्त्रादिकं पश्यतः ॥६१॥ कर्तादेरिति ॥ शुद्धो दृश्यधर्मसंसर्गरहितः । कुतः ? यतः स्व्रयं भास्वरः स्वयम्पकाशः, न हि पकाशस्वभावस्य प्रकाश्यध- र्मः स्व्राभाविक: सम्भवतीत्यर्थः । अत एव निजेन स्वरूपभूतेन तेन चैतन्येन कर्त्रादिकं विकारजातं पश्यतः साक्षिमात्रस्येति यावत्। एवंभूतस्य भवतस्तव कर्तरादिबुद्धिरह कर्त्तेत्यादिधी : भ्रमः मिथ्याज्ञानमेव स्वाध्यस्ताहङ्गाराविवेकनिबन्धन इत्यर्थः । विमतः कहत्वादिर्न द्रष्टृपर्म: दृश्यत्वाद्रपादिवद्वित्यनुमानमाह।तव कुत इति। हेतोव्पभिचारमात्मन्याशखाह।चिदात्मन इति। चिद्ूपत्व- मेव साधयति। कूटस्थस्येति। ज्ञातृत्वादिविकाररहितस्येत्यर्थः । यद्वा निजेन चैतन्येन यतस्त्वं कर्त्रादेरवभासकत्वमगमः स्वयं भास्व्रतया शुद्धो दश्यधर्मानास्कन्दितः सन् तेन हेतुना भव-
624
Page 625
३६ अन्वयार्थ प्रकाशिकाविभूषिते
तस्तव कर्त्रादिबुद्धिरहं कर्त्तेत्याद्याधी: भ्रमः। कुतो भ्रमः? इत्यपे- क्षायामाह। कूटस्थस्येति। निर्विकारचिदात्मतया कर्त्रादिकं का- रकगणं पश्यतस्तव जागरितेऽपि कर्तृत्वभोक्तृत्वयोः शङ्का कुतः स्यात्, दृश्यानां द्रष्टृधर्मत्वासम्भवादित्यर्थः ॥६१॥ अव. ननु कूटस्थस्य कथ कर्त्रादिकार कगणद्रष्टृत्वम्। अतो दृश्यदर्शनाय दर्शनक्रियाऽभ्युपेया, अन्यथा द्रष्टृत्वानुपपत्तेरिति चेतु, नेति दृष्टान्तेनोपपादयति- व्यापारं सकलस्य भासयति यो भास्व्रत्करो भास्करो नासौ कर्तृतया जनस्य विदितो भूमौ द्युलोकस्थितः। एवं स्वे महिमन्यवस्थितवतः संघातमुत्पश्यतः स्वव्यागरसमन्विरितं तव कुतः कर्तत्वमुत्प्रक्ष्यते ॥ ६२॥ व्यापारमिति॥ दुलोके स्थितो यो भास्वत्करो भा- स्कर: व्यापारं सकलस्य जगतो भासयति, असौ भूमौ स्थितस्य जनस्य कर्तृतया न विदितः, न हि सविता प्रतिविषयं प्रकाशं कुर्वन् केनापि विज्ञातोऽस्तीत्यर्थः । दार्ष्टान्तिकमाह। एवमिति। अक्षरार्थः स्पष्टः। आत्माऽपि स्वरूपभूतचित्पकाशेन सवितृव- दविकक्रिय एव सर्वमवभासयति। अन्यथा तस्यापि कारकत्वेन द्रष्टृत्वाभावपसङ्गात्। तस्मात्साक्षितामात्रेण सर्वावभासके त्वयि कर्तृत्वादिकमुत्पेक्षितुमपि न शक्यमिति भावः ॥६२।। भव. कस्य धर्मस्तहि सर्वा विक्रिया ? इत्यत आह- भूतानि पश्च तत मोहसमुद्जवानि संघातरूपपरिणाममुपागतानि ।। कुर्वन्ति कर्मफलमश्नुवते च तेषा
625
Page 626
संक्षेपशारीरके तृतीयोऽध्यायः।३। ३७
साक्षी त्वमन्तरविलुप्तचिदेकरूपः ॥ ६३ ॥ भूतानीति॥ सङ्गातरूपेति। देहद्रयाकारं परिणतानीत्य- र्थः। तान्येव कर्म कुर्वन्ति तत्फलं चाश्नुवते। कर्तत्वभोकतृत्व- लक्षणा विक्रिया साभासस्य भूतसङ्गातस्यैव तदविवेकात्वय्यध्या- रोपितैवानभासते, न त्वयि कोऽपि विकारोऽस्तीत्यर्थः।यतः तेषां भूतानाम् अन्तःसाक्षी यतोऽविलुप्तचिंदकरूप इति योजना॥६ ३।। अव. नन्ववभास्यसम्बन्धं विना नावभासकत्वं सम्भव- ति, सम्तन्धे च विक्रिया पाप्तेति चेत्, न। आभासद्वाराऽवभा- सकत्वोपपत्तेरिति वक्तुं द्ष्टान्तमाह- क्षीरस्य पूर्णे चषके निरस्तो मणिर्यथा मारकतो महाई: ॥ क्षीरं समस्तं क्षणमात्रतस्तत करोति तष्छायमनूनतेजाः ॥ ६४ ॥ क्षीरस्येति ॥ तच्छायं मरकतमणिच्छायाभासम्।६४॥ भव. दार्ष्टान्तिकमाह- तथा तम:संभवमच्छमन्त- बेहिर्जडिम्नाऽन्वितमन्तरात्मा ॥ जगच्विदेकच्छवि चित्स्वरूप: करोति सान्निध्यवशेन विश्वम् ॥ ६५ ॥
तथा तम इति ॥ यथा मरकतमणिः क्षीरपूर्णचषके निक्षिप्तः क्षीरेणासंश्लिष्ट एवान्तःस्थित: चषकस्थं क्षीरं मरकतमणिच्छायं स्वाकारतामापादयति, तथाऽन्तरात्मा तमःसम्भवअ्जगत् अन्तः
626
Page 627
३८
अच्छं चैतन्यसन्निकष्टाकारेणस्फटिकादिवन्निर्मलं बहिर्ज्जडिन्रा- Sन्विरितं जाड्येनास्कन्दितं चिदेकच्छवि चैतन्यच्छायं स्वचैतन्या- भासव्यापं करोति सान्निध्यवशेन, न विकारयोगेनेत्यर्थः। विश्वं जगदिति सम्बन्धः । सर्वे जगदित्यर्थः। चित्स्वरूपः इत्यन्तरात्म- विशेषणम् अतोऽशेषस्य जगतश्चिदात्मन्यध्यस्तत्वात् आध्याससिके च सम्बन्धे विकारापसङ्गादविकक्रिय एवात्मा सन्निधिसत्तामात्रेण स्वाध्यस्तं सर्व चिच्छायं कुर्न्नवभासमान: अवभासक इति व्यपदेशभाग्भवतीति भावः । ६५।। अव. तदेवं सर्वभूतभौतिकविक्रियाजातस्य साधकत्वात्स्वयं विक्रियारहित: कूटस्थचिदूपः आत्मेत्युपपादितम्। तथापि प्रतिश- रीरमात्मभेदस्य प्रसिद्धत्वान्राद्वैतब्रह्मभावयोग्यताऽस्यास्तीति चे- व्, मैवम्। उपाधिभेदनिबन्धनत्वाद्वेदावभासस्य आकाशस्येव न स्वरतो भेदसंभव इत्याह- तान्येव कार्यकरणानि बहुप्रकार भहं च बिभ्रति भवानपि तत्र लग्नः ।। भेदेन भाति जलगत्रनिविष्टमूर्तति- मार्तण्डमण्डलवदन्वयमन्तरेण ॥ ६६ ॥ तान्येवेति॥ यानि पश्चमहाभूतविकारात्मकाननि कार्य- करणानि तान्येव बहुपकारं देवमनुष्यतिर्यगादिरूपेण भेदं वि- भ्रति, चकाशत्समष्टिव्रह्माण्डरूपेणाभेदं च बिभ्रति। भवानपि चिदात्मा अन्वयमन्तरेण वास्तवसम्बन्धं विनापि तत्र तेषु लगः अभिमानेनात्मभावमापत्रो भेदेन भाति। तथा चैकत्वमनेकत्वं च तब उपाधिनिबन्धनमेव न परमार्थम्। उपाधयश्च पञ्चभूतव्यतिरे- केण न सन्ति, पश्चभूतानि च तत्कारणसाभासाज्ञानव्यतिरेकेण
627
Page 628
संक्षेपशारीरके तृतीयोऽध्यायः ।३।
न सन्ति, अज्ञानं चात्मन्यध्यस्तमिति न परमार्थः कोऽपि क- स्यापि भेदोऽस्ति। अतः कुतो जीवभेदशङ्केति भावः। अपरिच्छि- न्रस्यासङ्गस्यापि अन्यत्र पवेशेन परिच्छिन्नयाऽवभासे दष्टान्त- माह। जलपात्रनिविष्टेति ॥ ६६ ॥। अव. एवं च सति समष्टिव्यष्टिसर्वशरीरसाक्षितया सर्व- प्रात्मैकत्वं सिद्धमित्याह - अध्यात्ममेवमधिभूतमथाधिदैवं सत्रं विराजमवि पश्यसि साक्षिभतः । साक्षित्व कारणमशेषजगन्निदान- मज्ञानमात्मचिदवञ्वलितं सदैव ॥ ६७ ॥ अध्यात्ममिति ॥ यदि साक्षिभूतः आत्मा तदा तस्य साक्ष्येण संबन्धो वाच्य एव,तदा तदाभासो डपि सदा अनात्मसं- बद्ध:स्यादिति चेत्, तत्राह। साक्षित्व्रकारणमिति। आत्मचिदव- ज्वलितम् आत्मचैतन्याभासखचितम् अशेषजगन्निदानमज्ञानमेव सदा साक्षित्वकारणम्। तथा च साक्ष्य तंबन्धो Sविद्याध्यस्तो न परमार्थ इत्यर्थः । ६७।। भव. सर्वाण्येव कार्यकरणान्येकस्यैवात्मन उपाधिभूतानी- त्युक्तमर्थम् अनुमानेन साधयति-
याता सर्वा तावकी तातकीव।। देहव्यक्तिर्देहताकारणेन तस्मादात्मा सर्वभूतस्थ एक: ॥ ६८॥ देहव्यक्तिरिति॥ विपतीत्यास्पदत्वं याता सर्वा देह-
628
Page 629
४० अन्वयार्थप्रकाशिका विभूषिते
व्यक्ति: पक्षः, सा तावकी त्वदीयैवेति साध्यनिर्देशः, देहताकार- णेन देहव्यक्तित्वादिति हेतुनिर्देशः,तावकी देहव्यक्तिरिव संभति- पत्नदेह्व्यक्तिरिवेत्युदाइरणोक्तिः । फलितार्थमाइ। तस्मादात्मा सर्वभूतस्थ एक इति।विमतानि त्वच्छरीरातिरिक्तानि सर्वाणि श- रीराणि त्वयैवात्मना आत्मवन्ति शरीरत्वात् संभतिपन्रत्वच्छरीर- वदिति पयोगः।तथा च सर्वशरीरेष्वात्मैक्यं सिद्धमित्यर्थः॥६८।। अव. स्थूदेहभेदादात्मभेदशङ्कामनुमानेनोद्धृत्य, बुद्धिभे- दादपि भेदशङ्गामपाकरोति-
याता सर्वा तातकी तावकीत्।। बुद्धिव्यक्तिर्बुद्धिताकारणेन तस्मादात्मी सर्वभूतस्थ एक: ॥ ६९ ॥ बुद्धिव्यक्तिरिति ॥ पूर्ववद्योजना । ६९ म अव. बाह्मेन्द्रियविषये डप्याह-
याता सर्वा ताबकी तातकीव।।
तस्मादात्मा सर्वभूतस्थ एक: ॥ ७० ॥ अक्षव्यक्तिरिति ॥ अत्र प्रत्येकमपि चक्षुरादिकं पक्षी- कृत्य प्रयोक्तव्यं चक्षुव्ृत्तिर्विपर्तीत्यास्पदत्वमित्यादि। ७० H अव. बुद्धिद्ृत्तिपक्षी कारेणाप्याह- ज्ञानव्यक्तिर्विप्रतीत्यास्पदृत्वं
629
Page 630
संक्षेपशारीरके सृतीयोऽध्यायः ।३। ४१
याता सर्ा तावकी तावकीव।। ज्ञानव्यक्तिर्ज्ञानताकारणेन स्तस्मादात्मा सर्वभूतस्थ एक: ॥। ७१ ॥ ज्ञानव्यक्तिरिति ॥ ७१ ॥ अघ. परमाणफलविषयमप्यनुमानमाह-
याता सवी तावकी तावकीव।। संविद्व्यक्ति: संविदात्मत्वहतो- स्तस्मादात्मा सर्वभृतस्थ एकः ॥ ७२॥ संविद्यक्तिरिति ॥ ७२॥ अव. राग: इच्छा तत्राप्याह- रागव्यक्तिर्विप्रतीत्यास्पदत्वं याता सर्वा तावकी तावकीत ।। रागव्यक्ती रागताकारणेन तस्मादारमा सर्वभूतस्थ एक: ॥ ७३॥ रागव्यक्तिरिति ॥ ७३॥ अव. द्वेषो मत्सरः तत्राप्याह-
याता सर्वा तावकी तावकीव।। द्वेषव्यक्तिरद्वेषताकारणेन तस्मादात्मा सर्वभूतस्थ एक: ।। ७४ ॥
630
Page 631
४२ अन्वयार्थप्रकाशिकाविभूषिते
द्वेषव्यक्तिरिति ॥ ७४॥ अव. एवमनुक्तेप्वप्यतुमानं प्रयोक्तव्यम्। तस्मात्सर्वसाक्षि त्वात्कर्वृत्वप्रमुखं संसारित्वम् आत्मन्यविवेकिभि: कल्पितमेव न वस्तुभूतमिति सिद्धमित्युपसंहरति- एवं सतीदमविवेकनिबन्धनं ते कर्तृत्वमात्मनि विभाति न वस्तुभृतम् । बालेन कल्पितमतीत विशुद्धरूे व्योम्नीव भूम्ि मलिनत्वमबोधहेतोः ॥७५॥ एवं सतीति । आत्मनि भूम्नीति संबन्धः। निगदव्या- ख्यातं पद्यम् ॥ ७५॥ अव. यद्येवं कर्तृत्वभोक्तृत्वादिः कार्यकरणधर्मो नात्मधर्मः, तदा किमात्मना तत्र कृत्यमस्ति। सङ्गातप्काशनमेव सङ्गाता- तिरिक्तात्मकृत्यमिति चेत, न ।आदित्यादिज्योतिभिरेव तत्सि- द्वेरित्यत आह- बाह्यैरसौ रविनिशाकरवह्निबाग्भि- र्ज्र्योतिर्गणैरुपकृतोऽपि हि कर्मजातम् ॥ निर्वर्तयन्न खलु तावकमन्तरेण चैतन्यसन्निधिबलं पुरुषः करोति ॥ ७६ ॥ बाह्यैरिति॥ असौ पुरुषः संघातात्मा कर्मजातम् आसनो- त्थानगमनागमनादिरूपं निर्वर्तयन् वाहौः देहवहिःस्थितैः रव्या- दिभिज्योतिर्गणैः उपकृतोऽपि प्रकाशेनानुगृहीतोऽपि तावकं त्व- त्स्वरूपभूतं चतन्यसन्निधिवलम् आविर्भूतचिदाभासव्याप्तिरूप- मात्मसान्निध्यवलमन्तरेण न खलु करोति स्वव्यापारं न निर्वर्त-
63
Page 632
संक्षेपशारीरके तृतीयोऽध्यायः।३। ४३
यतीति योजना। "अस्तमिते आदित्ये चन्द्रमस्यस्तमिते शान्ते डग्रौ शान्तायां वाचि स्वसाद्यवस्थायामप्यात्मनैवायं ज्योतिपाऽडस्ते पल्ययते कर्म कुरूते विपर्येति" इतिश्रुनेरवस्थान्तरेऽपि वाह्यज्यो- तिःपकाशितोऽपि आन्तरचैतन्यज्योतिःप्रकाशं बिना न किमपि पुरुप: कर्तु शक्रोतीत्यर्थः ॥ ७६॥
तदा स्वमे वाहज्योतिरपेक्षाऽपि तुल्या स्यात् अविशेषात् इति चेत्, तवाह- ज्योतिर्द्वयान्तरित एव हि कर्मजातं सर्व करोति पुरुषोऽन्नमथः सदैव । कर्मानिकारणविनिर्मितमस्य बाह्यं ज्योतिस्त्वनित्यमनिमित्तकमान्तरं चित ॥७७ ।। ज्योतिर्द्वपेति।अनमयः पुरुषः स्थूलसङ्गातात्मा ज्योतिर्दया- न्तरित: बहिः आदित्यादिज्योतिषा अन्तश्चैतन्यज्योतिषा च व्याप्त एव हि सर्व कर्मजातं सदैव करोति। तस्य भौतिकत्वेन भौतिक- जयोतिरुपकारापेक्षणादान्तरस्य लिङ्गात्मनोऽपि यद्यपि भौति- कत्वं, तथाऽपि तस्य नित्यं चैतन्यज्योतिर्ग्रस्ततयैव सच्वादान्त- रेणैव ज्योतिषा तस्य व्यवहारोपपत्तिरिति न स्वप्रादौ वाह्यज्यो- तिरपेक्षेति भावः। तथापि जागरिते ज्योतिर्द्वयान्तरितत्वमस्य न सिद्ध्यति, तत्रान्तरज्योतिःसन्भावे मानाभावात् । तत्र कर्मादिका- र्यस्यादित्यादि्योतिपैव सिद्धेरित्यत आह। कर्मादीति। अस्य सङ्गातात्मनो बाह्यं ज्योतिस्त्वनित्यं, यतः कर्मादिकारणत्वेन विनिर्मितं लोकयात्रामात्रार्थत्वेन सष्टम्। यद्वा कर्मादि- कारणेन कर्मकरणगमनागमनादिलक्षणेन लिङ्रेन विनिर्मितं
632
Page 633
विस्पष्टं नितरां मितम् आन्तरज्योतिरनुमातुं व्याप्तिग्रहणस्था- नत्वेन निर्णीतम्। अथवा व्यवहर्तुः पाणिनो यत् कर्मज्ञानपू- र्वपज्ञादि तदेव कारणं तेन विनिर्मितम् उपचितं बाह्यं ज्योति: अस्य व्यवहर्तुः अनित्यं सर्वदा सर्वव्यवहारेष्वननुट्टत्तेरित्यर्थः । चित् चैतन्यं त्वान्तरं ज्योतिः अनिमित्तम् अनागन्तुकम् अ- नागमापायि सर्वावस्थासु प्रकाशकतयाऽनुगतं नित्यमित्यर्थः । एतदुक्तं भवति। "आदित्येनैवायं ज्योतिषाऽडस्ते" इत्यादि- बाह्यज्योतिरुपन्यासो न तत्सद्भावविधानार्थः, किन्तु सङ्गातस्य व्यवहार: प्रकाशव्याप्षः यथा वहिः क्षेत्रादिगमनव्यवह्दार: आदि- त्यादिज्योतिषा व्याप्त इति व्याप्तिदर्शनार्थः । अतो न तैरेवायं व्यवहरति, तेषामभावेऽपि गाढान्धकारावृतगिरिगुहादिषु सवमे चास्य व्यवहारोपलम्भात् भवितव्यं व तत्र प्रकाशकेन ज्योति- षेति सामान्यतः सिद्धौ, परिशेषादात्मज्योतिरान्तरं तत्र प्रकाशक- तया मिद्ध्यत् सर्वावस्थाव्यवहारहेतुतयैव सिध्धयति। न हि बुद्धय- न्तज्योतिःप्रकाशनं बिना कदापि कोषप कस्य चिद्धवहारो ष्टः, सुषुप्त्यवस्थायां सत्स्वदिबाह्यउयोतिष्सु व्यवहारादर्शनात्। तस्मा- न्नित्येनात्मज्योतिषैव त्वं नित्यं ज्यवहरसि। बाह्यं तुज्योतिर्जातं तवेन्द्रियमट्टत्ती सहकाररिमात्रमिति सर्वमनवद्यमिति ॥७७॥ अव. ननु नित्यत्वेऽप्यान्तरज्योतिषस्तत्कतोपकार: आग- न्तुकः स्यात्। अतश्च जागरिते तदभावोऽपि स्यात्, अन्यथा यदा बाहं ज्योतिरस्ति तदा स्वम्ेऽपि तदुपकार: प्राप्नुयादिति चेत्, नैवमित्याइ- श्रोत्रादिजन्यमतिवृत्तिषु बाह्यशब्दा- दयर्थाकृतिर्विशति कर्मवशेन कर्तुः ॥ बोधाकृतिस्तु तव सन्निधिमात्रहतु-
633
Page 634
संक्षेपशारीरके तृतीयोऽध्यायः ।३। ४५
रधीवृत्तिषु प्रविशति स्वरसेन नित्यम् ॥ ७८ ॥ श्रोत्ादिजन्येति॥ अथवा वाह्यस्य ज्योतिषोऽनित्यत्वम् आन्तरस्य नित्यत्वं चोक्तं स्फुटयति। श्रोत्रादिजन्येति। कर्तुःस- द्वातात्मनः कर्मवशेन भोगहेतुकर्मप्रयुक्ततया श्रोत्रादिद्वारा जन्या: या: मतिट्ृत्तयो बुद्धिपारणामरूपाः तासु बाह्यशब्दाद्यर्थाकृति: तद- र्थव्याप्त्या तत्तदर्थाकारो विशति, तासां वृत्तीनां स्वसंबद्धाकारता भवतीत्यर्थः। ततो बाह्यस्येन्द्रियग्राह्यज्योतिपः तत्तदर्थाकारवुद्धि- उृत्त्युत्पादकत्वेनैत पकाशकत्वाद् वृत्तीनां चानित्यत्वादागन्तुकते- तिभावः। तास्व्रेव धीटृत्तिषु या बोधाकृतिश्चिदाकार: सा तव सन्नि- धिमात्रहेतुः अधिष्ठानतयाऽनुगममात्रहेतुका नित्यं सर्वेदा स्वर- सेन व्यापारव्यवधानं विना पविशति।प्रकाशस्य स्वरूपत्वाद्धी-
नित्यमेवात्मज्योतिरित्यर्थः। तथा च शब्दादीनां संबन्धाच्छ्रो- त्रादिद्वारा कर्तुः कर्मपयुक्ततया बुद्धिट्टत्तयो जायन्ते, तास्वरेव बा- ह्यशब्दादिज्योतिरुपकारलक्षणा तदाकृति: भवति । अतः इन्द्रि- योपरमस्थाने कर्मोपरमहेतुके न तत्पास्तिरिति न स्वमेऽपि बाह्यज्योतिरुपकारशङ्केति भावः।७८।। अय.नन्वान्तरज्योतिरुपकारो डप्यागन्तुकः स्यात् ज्योतिरुप- कारत्वात् बाह्यज्योतिरुपकारवत् इत्यनुमानमाशक्ा, तस्यापयो- जकतां वदन् नित्यचित्संसर्गस्योक्तं निरुपाधिकत्वं साधयति- स्वाभाविकी हि वियदन्व्रितता घटादेः क्षीरादिवस्तुघटना पुनरन्यहेतुः । एवं धियामपि चिदन्व्रितताऽनिमित्तं शब्दादिवस्तुघटना खलु कर्महेतुः ॥ ७९ ॥
634
Page 635
स्वाभाविकीति । घटादिर्हन्यसङ्गित्वेन पसिद्धः तस्य घटादेर्वियदन्व्रितता व्योमव्याप्यता स्वाभाविकी उत्पत्तित एव सिद्धा, न तत्र हेत्वन्तरनिबन्धनतेत्येतत्पसिद्धमित्यर्थः । तस्यैव क्षीरादिवस्तुघटनासम्बन्धः पुनरन्यहेतुः मापयितृ- तन्त्रोऽनित्य: कादाचित्क इत्यर्थः ।दार्ष्टान्तिकमाह । एवमिति। अनिमित्तमिति पदच्छेदः । निभित्तरहितं यथा स्यात्तथा ियां चिदन्वितता उत्पत्तिसिद्धा नित्यैवेत्यर्थः । शब्दादीति स्पष्टा- र्थम्। तथा च वस्तूनां स्वभाववैचित्र्यादनुमानमप्रयोजकमिति भावः ॥ ७९॥ अव. ननु बोधाकृतिर्न धीवृत्तिषु प्रसिद्धेति चेत्, न।प्रमा- णफलत्वेन सर्वप्रसिद्धत्वादित्याइ- संवेदनं यदिह मानफलं प्रसिद्धं तच्च प्रमातरि विकारिणि निष्ठितं नः ॥। तस्य प्रमातुरपि साक्षितयाऽन्तरात्मा सर्वस्य तिष्ठति भानविकारभूतः ॥। ८० ॥। संवेदनमिति॥ इह व्यवहारभूमी यत् संवेदनं प्रमित्याखूयं मानफलं प्रसिद्धं, चक्षुरादिद्वारकबुद्धिट्टत्ती पविष्टं सत् यत् मा- नफलत्वेन प्रसिद्धमित्यर्थः। भवतु पसिद्धं तथापि तस्यात्मनिष्ठ- त्वं विषयनिष्ठत्वं वा स्यात्, न बुद्धिटटत्तिगतत्वमिति चेत्, तत्राह। तच्चेति। तच्च संवेदनं नो Sस्माकं मते ममातरि निष्ठितम्। किंलक्षणे ममातरि? विकारिण। प्रमाणटत्याश्रयो हि प्रमाता उत्तिश्च परि- णामः पमातृविकार एव इति सविकार एव पमाता भवति। विका- रित्वं चान्त:करणस्य नात्मनः तस्य कूटस्थत्वात्, प्रमाणफलं च पमात्राश्रयं युक्तं न विषयाश्रयम् "इदमहं जानामि"इति पमात्राश्र-
635
Page 636
संक्षेपशारीरके तृतीयोऽध्यायः ।३। ४७
यत्वेनैव तस्यानुभवात्। तथा चात्मस्वरूपचैतन्यमेव पमातृगतचचि दाभासाविविक्तं प्मातृनिष्ठं तद्गताभासावसानं सत् मानफलता- व्यपदशभाग्भवति। तस्मात्परिणाम्यन्तःकरणगतमेव मानफ- लं न साक्षा्िदात्मगतं, नापि विषयगतं, चिदात्मविषययोस्तु परिणाम्यन्तःकरणव्याप्तिनिवन्धनं प्रमित्याश्रयत्वभानमित्यभि- पायः। यदि परिणामिन एव प्रमातृत्वं तत्फलभोक्तृत्वं च तर्हि तत्र किमात्मना कार्यमित्यत आह। तस्य प्रमातुरपीति।पमातुः सर्वस्यापि साक्षितया तिष्ठुतीत्यन्वयः । विकारिणः प्रमातुस्तद्वि कारजातस्य सर्वस्य तव्नाप्तविषयादेश् सर्वसाक्षितयेत्यर्थः । सा- क्षित्वे Sपि विकारपाप्तिमाशङ्ाह। अविकाररूप इति ।विकार- रहित इत्यर्थः। अविकारत्वं साधयति। अन्तरात्मेति। परिणामिनः स्वयं विकारापन्नस्य न स्वविकारसाक्षिता सम्भवतीत्यतः सा- क्षित्वमात्मनः कृत्यं, तद्वशाद्धि परिणामिनु: प्रमातृत्वादीत्य- भिनायः ॥।८0॥ अव. यद्येवं प्रमातृत्वादिर्बुद्धिगत एव न पत्यगात्मगतः पत्यगात्मा तु स्वयंप्रकाशस्तत्साक्षी तर्हि कथमात्मनि पमा- तृत्वादिप्ाप्तिर्येन तत्र तत्मतीयत इति चेत्, तत्राह- कर्त्रादिसंनिधिबलेन तवापि कर्ट- भोक्तप्रमातृवपुरापतति भ्रमेण । तद बुद्धिसंश्रयमनात्मगतं प्रतीचि शुद्ेऽपि पश्यसि तमःपटलावृताक्षः ॥८१॥ कर्त्रादिसन्निधीति । जपाकुसुमादिसन्निहितस्फटिके लौहित्यादिप्तीतिवत्कर्तृत्वादिधर्मकबुद्ध्यादिषु साक्षितया स- त्निहिते प्रत्यगात्मनि कर्तत्वादिपतीतिरविवेकनिबन्धनेति ता-
636
Page 637
४८ अम्ययार्थप्रकाशिकाविभूषिते त्पर्यार्थः । अक्षरार्थोऽतिरोहितिः । अविवेककृतां भ्रान्तिमेवानुभ- वानुसारेण विशद्यति। तद् बुद्धिसंश्रयमिति। तत् कर्तृत्वादि अज्ञानावृते निजतच्वे कर्तृत्वादिधर्मकबुद्धयाद्यध्यासात् आभास- गतमप्याभासाविवेकादात्मनि पश्यसीत्यर्थः ।।८१।। भव. तदेवं कर्तृत्वादि न द्रष्टृगतं दृश्यत्वादूपादिवदित्युक्तं, तत्र दृश्यत्वे Sपि द्रष्टृधर्मता कि न स्यादित्यपयोजकतामाशक्का, द्रष्टधर्मत्वे दृश्यत्वासिद्धिश्चैतन्यवदित्यभिमेत्याह- कर्तृत्वादि च दृश्यवर्गपतितं द्रष्टः स्वभावः कथं संभाव्यत तब प्रसन्नविमलस्त्रच्छप्रकाशात्मनः ।। यद्यद् दृश्यतया जगत्यभिमतं सर्वस्य तत्तङ्वेद दृरं द्रष्टुरिति प्रसिद्धमखिलं भृभृत्समुद्रादिकम्॥८२॥ कर्तृत्वादि केति॥द्रष्टुस्तवेति सम्बन्धः। कर्तृत्वादेर्द्टश्यव- र्गान्तःपातित्वम् आगमापायित्वादिति द्रष्टव्यम्। तस्य द्रष्टुः स्वभा- वत्वासम्भवसाधनाय विशेषणं परसन्नेति।पसन्नत्वम् अविकृतत्वं, विभलत्वम् उत्पन्यादिमलरहितत्वं, स्वच्छत्वम् असङ्गत्वम्, एवं भूतो यः प्रकाशः स एवात्मा स्वरूपं यस्य तस्य तवेत्यर्थः। परि- णाम्यागमापायिपराधीनसत्ताकं न तद्विरुद्धस्यात्मन: स्वभावः संभाव्यते इत्युक्तं भवति । एवमनभ्युपगमे व्याप्तिविरोधः पसज्यते इत्याह। यद्यदिति । सर्वस्य द्रष्टरिति सम्बन्धः । दूरमिति असंसष्टमित्यर्थः ।८२॥ अव.तदेवं आयोतिर्द्वयान्तरित एवेत्यारभ्य इयता ग्रन्थेन द्रष्टृट- इयभावं साक्षिसाक्ष्यभावं चान्वयव्यतिरकाभ्यामुपपादयता "आ- त्मनैवायं ज्योतिषाSडस्ते" इत्यादिश्रुत्यनुगतोरऽर्थो विशदीकृतः इदानीमागमापायितदवध्यन्वयव्यतिरेकपरं "सयत्र पस्वपिति"
637
Page 638
संक्षेपशारीरके तृतीयोऽष्यायः ।३। ४९
इत्यादिवाक्यमाशश्रित्यापि कर्तत्वादिप्हाणेन विशुद्धचिद्रूपत्व- मात्मनो विशदयति- एतस्माच्च न जाग्रतस्तव भवेत स्वाभाविकी कर्तता यद्येषा स्त्रत एत् किं न भत्रति स्वप्नेऽपि ते तिष्ठतः । यत् स्वप्त परिपश्यससि त्वमखिलं तन्मायया निर्मितं कर्तृत्वादि न सत्यमत्र घटते का्त्स्न्यानभिव्यक्तितः।। ३।। एतस्माच्चेति ॥"स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेमज्यो- तिषा" इतिश्चती स्वमे जाग्रदतकर्वत्वादिमहाणेन नूतनकर्तृत्वादि- निर्माणश्रवणात् एतस्माच् हेतोः तव जाग्रतः जाग्रदधस्थापन्नस्य कर्तृता न स्वाभाविकी भवेत् । कुतः? इत्यत आह। यद्येपेति। एपा कर्तृता यदि स्वत एव स्वाभाविक्येव स्यात् तदा स्वप्रेऽि ति- ष्ठतः ते नव किन्न भवति कस्मान्न स्यात्, तथा चावस्थान्तरे त्व- यि व्यतिरेकदर्शनात्कर्तृत्वादिर्न तव स्वाभाविकः इति नित्यशु- द्ध एव सदा त्वमित्यर्थः । ननु जागरिते इव स्वप्ेऽपि व्यवहा- रो दृश्यते, अतः कथं जाग्रव्यवहारस्य स्वमे व्यभिचारः इति चेतु, मैवम्। स्वाप्नव्यवहारस्य मायामात्रत्वादित्याह। यत्स्वप्र इति। स्वाम्व्यवहारस्य मायामयत्वेनासत्यत्वे "मायामात्रं तु का्त्स्नर्येनानभिव्यक्तस्वरूपत्वात्" इति सूत्रोक्तं हेतुं पातयति। कार्त्स्यानभिव्यक्तित इति ॥८३ ॥ अव. हेत्वर्थ विशदयति- कात्स्य हीष्टमबाधनं न खलु तत् स्त्रप्नस्य जाग्रद्विया बाधाद बाधितमेव सत्यमिति चेन्नैषं विरोधान्मिथ:॥ ७
638
Page 639
५० अन्वयार्थप्रकाशिकाविभूषिते
सत्यत्वे न हि बाधितत्वघटना बाधे च सत्यं कुतः सत्यं बाधितमित्यतीव पदयो: संबन्धिता दुर्घटा॥८४॥ कात्स्न्य हीष्टमिति॥ र्वमे व्यवहियमाणपदार्थोचितदे- शकालादिसन्ावः कार्त्सन्य तत् यद्यपि स्वप्दशायामवाधि- तम्रुचितामष प्रतीयते, तथापि तस्य जागरिते विसंवादात्त- दवाध्यते, प्तीतमपि वस्तुतस्तत्र नाभूदिति हि जाग्रदवस्थाया तदवगम्यते, अतो देशतः कालतो वस्तुतश्च यदबाधनं व्यवहिय- माणार्थानां सत्कात्स्न्यमिष्टं हीति यतः इति योजना।भवतु स्वप्नेऽपि कार्त्स्न्य नेत्याह। न खल्विति। तत् अवाधलक्षणं कार्त्स््यमित्यर्थः। भवतु जाग्रद्धिया स्वपस्य बाघस्तथापि कुतोऽस्यासत्यता, सत्य- मिथ्याविभागस्यासिद्धेरिति कश्विच्छङ्कते। बाधितमेव सत्यमिति चेदिति। बाधितमपि सत्यमेवेति चेदिति योजना। व्याघाताश्रेयं शङ्का इहावतरतीति परिहरति। नैवं विरोधान्मिथ इति। विरोधमे- व स्फोरयति।सत्यत्वे इति।सत्यपदं हि लोके बाधानहे वस्तुनि व्युत्पन्नं, वाध्यपदं च सत्यपदविषयादन्यस्मिन् विषये मसिद्धम् अतः सत्यं बाध्यमित्यनयोरेकस्मिन विषये सहपयोगो दुर्घटः विरुद्धस्वभावयोरैक्यायोगात् । अतो व्युत्पत्तिविरुद्धं बाधितस्य सत्यत्वमित्यर्थः।व्युत्पच्यनुभव एव विभागहेतुरिति भावः।।८४।। अव. ननु स्वपस्याविद्यामयत्वं भ्रान्तित्वं वा वक्तुं युक्तं, न मायामयत्वं, मायायाः अभ्रान्तेषु मायाविषु पसिद्धेः,स्वप्नस्य च भ्रान्तपुरुषनिष्ठत्वादिति मायाऽविद्ययार्भेदमङ्गीकुवताम् इह प्रत्यवस्थानावसरमाशक्का, तदनवसरत्वाय मायाऽविद्ययोरभेदं साधयितु्ुपक्रमते- मायामेनां जागरे लोकसिध्ा-
639
Page 640
संक्षेपशारीरके सृतीयोऽध्यायः।३। ५१
मुर्का तद्वत् स्वप्नमायां विविच्य ।। शक्तिव्याप्ती तत्र सिद्धे मृहीत्वा मायासिद्धं जांगरं साधयामः ॥८५॥ मायामेनामित्यादिना ॥ या माया जागरे जाग्रदवस्था- यां लोकव्यवहारे सिद्धा ताम् एनां मसिद्धामुक्का ्रान्त्यविद्याश- ब्दवाच्यसाधारणतया निरुच्य तद्वत् तत्समानस्वभावतया स्वप्न- मायाश्च भ्रान्त्यविद्यालक्षणां विविच्य निष्कृष्य मायाऽविद्यादिस- ब्दानामेकप्ृत्तिनिमित्ततया एकलक्षणयोगित्वमुपपाद्येति यावत्। तत्र एवंविधे Sनिर्वचनीये र्ये ये शक्तिव्याप्ती सिद्धयतः ते गृही- त्वा मायादिशब्दस्य शक्तिं मायाSविद्ययोरेकत्वसाधकलिङ्गस्य व्याप्तिं च गृहीत्वेति यावत्। जागरं मायासिद्धम् ईश्वरमायया रचितमप्यविद्यामयं साधयाम इति पतिज्ञापद्ययोजना ॥८५॥ अव. का तर्हि लोकसिद्धा माया ? या भ्रान्त्यविद्यादिसा- धारण्येन निर्विवक्षितेत्यपेक्षायामाह- लोके हि मायाऽधिगता न माया तमोऽतिरिक्ताऽस्ति निरूप्यमाणा ॥ व्याप्तिश्च शक्तिश्च निरूप्यमाणा भविष्यर्ताहित तु नेतरत्र ॥ ८६ ॥ लोके हि मायेति। या लोके मसिद्धा ऐन्द्रजालिकैः प्रसा- र्यमाणा अधिगता सर्वजनविदिता सा माया निरूष्यमाणा लक्ष- णभमाणाभ्यां प्रतिपाधमाना न तमःशब्दवाच्याविद्यातिरिक्ता स्ति। एवं सति मायाशब्दस्य शक्ति: मायामयत्वव्याप्तलिङ्गानां व्याप्तिश्च निरूप्यमाणा इहैव अविद्यायामेव भविष्यति, नेतरत्र न
640
Page 641
५२
ततो डर्थाम्तरे इति योजना ॥ ८६ ॥ अव. परिशेषप्रमाणेन मायाशब्दवाच्यम् अनिर्वचनीयमेवेति साधयितुं मसक्तपतिषधमारभते। तत्र मणिमन्त्रादियुक्ते पुरुपे मायावित्वपसिद्धेर्मण्यादिरेव माया, स च नाविद्या तत्र त- त्पसिध्धयभावात् इति मण्यादौ मायात्वप्रसक्तिमुद्धाव्य नि- राकरोसति- मायाविनो न मणिमन्त्रमहौषधं वा मायति शक्यमिह वर्णाेतुं कृतश्चेत।। सत्यं हि तत् सकलमिष्टमियं त्वसत्या माया ततोऽन्यदिह किं चन वर्णनीयम् ॥८७॥ मायाविन इति ॥ मण्यादेमयात्वं वर्णयितुं न शक्यम् इत्यत्र हेतुं प्रश्नपूर्वकमाह। कुतश्रेत्सत्यं हीति। मायाशब्दस्य मिथ्याडर्ये एव लोके प्रसिद्धत्वात् मण्यादेश् सत्यत्वात् मण्यादिभ्यो इन्यदेव मायाशब्दवाच्यं किमपि वर्णनीयं न मण्यादिरित्यर्थः। लोके "माया मया दष्टा" इति मिथ्याभूते हृष्ट- नष्टस्वरूपे वस्तुनि व्यवहारदर्शनान्मण्यादेरताद्टशस्य ताद्ृग्व्य- वहारायोग्यत्वान्न मन्यादिमायिेति भावः । ८७ ।। अव. अथ मणिमन्त्रादिजन्यं मायाविनः सामर्थ्य मायेति मतं, तदपि न। तत्राप्युक्तदूपणानतिवृत्तेरित्याह- सामर्थ्यमस्य मणिमन्त्रनिमित्तमस्ति माया भविष्यति जनभ्रमहेतुरेषा ।। इत्युच्पते यदि तदप्यतिफल्गु कस्मात सामर्थ्यमप्यवित्तरथं हि तदिष्टमस्य ॥ ८८॥
64
Page 642
सेक्षेपशारीरके तृतायोऽध्यायः ।३। ५३
सामर्थ्यमस्येति । अस्य मायाविनो मणिमन्त्रनिमित्तकं यत्सामर्थ्यमस्ति एपा जनभ्रमहेतुर्माया भविष्यतीत्युच्यते यदी- ति शङ्गाभागयोजना। दूपयति। तदप्यतिफल्ग्विति। सुगम- मन्यत्॥८८ ॥ अव. न मण्यादिर्माया, नापि तज्जन्यं मण्यादिमतः सामर्थ्य, किन्तु मायाविनः कोऽपि शक्तिविशेपो माया, सा चाविद्या- तो जन्या इति यदि काश्चद् त्रयात्, तस्यापि पक्षो न निर्वहति विकल्पासहत्वादित्याह- न च शक्तिरस्य सहजा यदि वा जनिताऽस्ति केन चिदिति ब्रुवतः ॥ परिपुष्कलं स्वमतनिर्वहणं भवितुं क्षमं तदनिरूपणतः ॥। ८९।। न च शक्तिरस्येति॥ अस्य सा शक्तिः किं सहजाऽस्ति? उत्पत्तित एव सिद्धेति यावत्। यदि वा केन चिज्जनितास्ति? उत्पन्यनन्तरं केनापि निमित्तयोगेन प्राप्ता वेत्यर्थः। दूषणमुभयत्र साधारणमाह। इति त्रुवत इति। परिपुष्कलं स्वमतनिर्वहणं भवितुं न च क्षममिति सम्बन्ध:।तत्र हेतुः तदनिरूपणत इति। उभय- थाऽपि निरूपयितुमशक्यत्वादित्यर्थः ॥ ८९॥ भव. सहजत्वपक्षदुरनिरूपत्वं साधयति- न च शुकशोणितसमागमने न च गर्भशायिन इयं वरिदिता॥ न च मातृयोनिविवरादुदरा- दपसर्पतो बहिरियं घटते ॥ ९० ॥
642
Page 643
५४ अन्वयार्थप्रकाशिकाविभूषिते
न च शुक्रशोणितेति ॥ सहैव जायते इति हि सहज- त्वमुच्यते, तत्र मुंसो रेतोनिषेककाले मातुरुदरपवेशे सह जायते, किं वा गर्भागारे शरीरपरिणामकाले, अथवा मातुरुदराद्वहिर्नि :- सरणकाले सा शक्ति: इति विकल्पत्रयं क्रमेण निराकरोति। न च शुक्रशोणितसमागमने इत्यादिना।इयं शक्ति:।अनुभवपरा- इतत्वात्कल्पनाया: इत्यर्थः। यद्येतास्ववस्थासु उक्तशक्तिसम्भवः पुरुषस्य भवेत् तदा निषेकादिपकारस्य सर्वेषामविशषात्सर्वेष्वेव सा शाक्ति: स्वतोवा कार्यतो वोपलभ्येत, नचोपलभ्यते, तस्मा- देतदसङ्गतमिति भावः ॥ ९० ॥ अव. आगम्तुकत्वपक्षो उप्ययुक्त: इति पतिपादयति- मणिमन्त्रमौषधमितीदृशकं विरहय्य नापरमिहाष्यति॥ पुरुषोऽपि कश्चिदत एवमियं परतोऽपि नास्य घटनामटति ॥९१॥ मणिमन्त्रमिति ॥ अस्मिन्पक्षे हि मायाविपुरुषान्तरोपदे- शादस्य मायापाप्तिर्वक्तव्या। तथाच कश्चिन्मायावी पुरुषो Sपि मणिर्मन्त्रं चौषधं वा इति इत्थम् ईद्दशकम् अन्यद्वा विरहय्य विना अन्यच्छी्तिलक्षणम् इह अस्मिन् शिष्ये नार्पयति। मणिमन्त्रमिति द्वन्द्वैक्यम्। मायावीपुरुषः पुरुषान्तरे मण्यादिपदानव्यतिरेकेण न शक्ति काश्चिदाघत्ते। मण्याददिश्र न शक्तिर्नापि मायाशब्दवाच्यः तस्य सत्यत्वात् मायायाश्चानृतत्वेन मसिद्धत्वादित्यभिपेत्याह। अत एवमिति ॥९१॥ अव. यद्यपि पुरुषगतशक्तेरस्या: सहजत्वादिभकारो न नियमेन निरूपयितुं शाक्यते, तथापि मसिद्धत्वादेव काचन मा-
643
Page 644
संक्षेपशारीरके तृतीयोऽध्यायः।३। ५५
याऽभ्युपेया,साच शक्तिरवास्तु कार्य प्रति अन्तरङ्गत्वात् कार्येका- वसेयत्वेन च शक्तिलक्षणयोगित्वात्, तथाच सत्यानृतत्वलक्षणा- कारविशेषानादरेण परविभ्रमहेतु: पुंसः शक्तिर्मायेत्यभ्युपगम्य- ते, लोके तादृशे विषये मायाशब्दपयोगात्। सा कचिदनृताऽपि भवतीति तस्यां मिथ्यात्वव्यवहारोऽपि क्वाचित्को न विरुद्ध्यते इत्यभिप्रेत्य पक्षान्तरं शङ्कते- अन्यस्य विभ्रमकरी पुरुषस्य शक्ति- राकारमन्यमनपेक्ष्य मनीषिता चेत् ॥ वाच्येह लौकिकजनव्यवहारभ्मौ मायागिरस्तदवि दुर्घटमिष्टहानेः ॥ ९२॥ अन्यस्य विभ्रमकरीति ॥ इह लौकिकजनव्यवहारभूमौ अन्यमाकारं सहजत्वागन्तुकसत्यत्वमिथ्यात्वादिविशेषम् अनपे- क्ष्य अन्यस्य विभ्रमकरी पुरुषस्य शक्तिर्मायागिरो वाच्येति मनी- पिता चेदिति योजना। दूषयति। तदपि दुर्घटामेष्टहानेरिति ॥९२।। अव. इष्टहानिमेवाह- मायामयत्ववचनादखिलं मृषेति यद भाष्यकारवचनं तदसङ्गतं स्यात । प्रत्यक्षमुत्सृजसि कारणमन्यदन्यद् यत्किश्विदानयसि कष्टमतः किमन्यत् ॥ ९३॥ मायामयत्ववचनादिति।"मायैव सन्ध्ये सष्टिर्न परमा-
एतादृशमन्यदपि मायाऽविद्ययोरेकत्वसूचकं च भाष्यकारवचनं तत् सत्यमथ्यासाधारणपुरुषशक्तिर्माया इत्यभ्युपगमे अकारणमप्रमा-
644
Page 645
५६ अन्वयार्थप्रकाशिकाविभूषिते
णं स्यात्, तच्चायुक्तम् उपजीव्यविरोधात्। अतो भाष्यरूपमूळशा- स्त्नविरोधान्नेयमपि कल्पना घटते इत्यर्थः । अपिचप्रत्यक्षं सर्वज- नानामनुभवरूपं द्रष्टटृणां मायाविविषयमज्ञानं मायाव्यवहारविषय इति प्सिद्धमुत्सजस त्यजसि अन्यत् अन्यद्यत् किश्चित्कारणम- पसिद्धं मायाशब्दपट्टत्तौ आनयसि अतोऽन्यत्कि कष्टम् ! अ- व्यवस्थितवचनत्व्ाल्न तव कल्पना पामाणिकीत्यर्थः ॥ ९३ ।। अव. ननु परमेश्वरस्य जगज्जननशक्तिरपि मायेत्युच्यते श्रुतिस्मृतिपुराणेषु, न च तस्या: अज्ञानत्वं युक्तं, तथा सतीश्वर- स्यापि भ्रान्तिपसङ्गात् । अतोऽज्ञानादन्यदेव मायारयं किमपि वाच्यमिति चेत्, मैवम्। परमेश्वरशक्तेरप्यज्ञानत्वाङ्गीकारे विरो- धाभावात्। सृष्टयादे: परमार्थत्वस्याविवक्षितत्वात्। न चेश्वरस्य
अज्ञानमेवतच भविष्यति शक्तिरेषा सर्वप्रपश्चजननी परमेश्वरस्य ॥ मायाश्रुतिस्मृतिवरचोभिरुदीर्यमाणा शक्तिग्रहो हि परतरिभ्रमहेतुशक्तौ ॥ ९४ ॥ अज्ञानमेव चेति ॥ श्रुतिस्मृतिवचोभिरुदीर्यमाणा या परमेश्वरस्य सर्वपपञ्चजननी शक्तिरेषा Sज्ञानमेव भविष्यतीति योजना। चकार: शङ्काव्युदासार्थः। नन्वज्ञाने मायाशब्दो विरुध्य- ते अज्ञाने मायाशब्दापयोगादिति चेत्, तत्राह। शक्तिग्रहो हीति। परविभ्रमहेतुभूता या शक्तिस्तस्यां हि मायाशब्दस्य शक्तिग्रहः परिभ्रमहेतुश्चाज्ञानमिति न विरोध इत्यर्थः । एतदुक्त भवति। मायावी हि लोके मणिमन्त्रादिप्रयोगविशेषेण माया सक्कोभयति सा च संक्षुभ्यमाणा द्रष्टूणां मायाविविषयादज्ञानान्नार्थान्तरभूता।
645
Page 646
संक्षेपशारीरके तृतीयोऽथ्यायः।३। ५७
द्रष्टारो हि स्वाज्ञानविलस्तितमेवान्यथाभूतं वस्तूपलभन्तो भ्रान्ता: भवन्ति, यतः "माया मया हष्टा" इति ते एव मन्यन्ते।अतो दृश्यमा- नायथार्थज्ञानं विभ्रम: तमुपजनयन्ती माया, सा च द्रष्ट्रज्ञानं, तस्य च मन्त्रादिप्रयोगे स्वतन्त्रं मायाविनं प्रति तदधीनतया परवि- भ्रमहेतुशक्तित्वेनावस्थानात्तदेव मायाव्यपेक्षया मायेत्युच्यते। प्रेक्षकेषु च तदधीनतया स्थितत्वादविद्येति व्यवहियते । अतो Sविद्यामा याशब्दयोर्विभ्रमहेत्वनिर्वचनीय श्तिरुपैकार्थविषयत्वे Sपि तादृशशक्तिवशित्ववश्यत्वाभ्या मायावित्वाज्ञत्वभ्रान्तत्वा- भ्रान्तत्वादिव्यवहारव्यवस्था न विरुध्यते इति ॥ ९४ ॥ अव. नन्वेवं लोके मायाया: अज्ञानत्वेऽपि वेदे ततोऽन्यत्रैव मायाशब्दव्युत्पत्तिर्युक्ता, समभिव्याहृतेः सर्वज्ञादिशब्दैर्मायायाः सर्वज्ञेश्वरत्वादिघटकत्वानगमात् अज्ञानस्य तदयोगादित्याशख्काह- न च प्रसिद्धार्थपदान्तराणां प्रयोगसान्निध्यवशेन शक्ति: ।। ग्रहीष्यतेऽस्येति समञ्जसं स्या- दलौकिके शब्द इदं हि युक्तम् ॥ ९५ ॥ न च प्रसिद्धेति ॥ न च समञ्जसं स्यादित्यन्वयः । य- यपि प्रसिद्धार्थपदसमभिव्याहाराद्वेदे पदव्युत्पत्तिग्रहो वर्त्तते, तथापि मायापदस्यास्य न तथा शक्तिग्रहः समञ्जसः, अस्य तेन विना ळोकेऽपि शाक्तिग्रहोपपत्तरत्यर्थः । तत्रास्यात्यन्तालौ- किकत्वाभावादिति हेतुमाह । अलौकिक इति । यूपाहवनीया- दिशब्दे इत्यर्थः ॥ ९५॥। अव. उक्तं हेतुं विशदयति- अयं तु मायेति न शब्द एव- V
646
Page 647
५८
मलौकिको लौकिक एव तस्मात् । यदर्थवाची जगति प्रसिद्ध- स्तमेव वेदेऽपि स वक्ष्यतीह ॥ ९६ ॥ अयं त्विति॥ मायेति अयं शाष्दस्तु एवं यूपादिशब्दवत् न अलौकिकः, किन्तु लौकिक एव यस्मात् तस्माज्जगति लोके यद- र्थवाची यः शब्द: पसिद्ध: तमेवार्थ स शब्द: इह वेदेऽपि वक्ष्य- ति, इतरथा लोकवेदाधिकरणन्यायविरोधापातादित्यर्थः॥९६।। भव.ननु "उद्धिदा यजेत" "चित्रया यजेत" इत्यादौ योगटन्या वा वर्णविशेषवाचित्वेन वा लौकिकानामप्युद्विदादिपदानां भावा- र्थसामानाधिकरण्यबलात्कर्मनामधेयत्वं व्यवस्थापितम्। तथेहापि लौकिकमपि मायापदम् अलौकिकार्थ भविष्यतीति चोदयति- ननूञ्िदादेर्यदि नाम लोके प्रसिद्धमर्थान्तरवाचकत्वम् ॥ तथापि भावार्थनिपीडितस्य विजानते कर्मणि शक्तिमस्य ॥९७॥ ननूद्भिदादेरिति॥ यदि नामेति, यद्यपीत्यर्थः । उद्भिन- त्तीत्युान्भिदिति खनित्रादिलोंके उन्िच्छब्देन योगटत्याऽभिधी- यते, चित्ररूपवत्यजा गौर्वा चित्रेति, तथापि यजेतेति भावार्थय- जिपदसमभिव्याहारेण लोकप्रसिद्धार्थनिपीडनेन अस्य उद्धिदा- दिपदस्य कर्मण शक्ति कर्मनामत्वं विजानते निरपयन्ति परी- क्षका: इत्यर्थ: ॥९७॥ अव. परिहरति- सत्यं न गत्यन्तरमरि्ति तत्र
647
Page 648
संक्षेपशारीरके सृतीयोऽध्यायः।३।
ततस्तथा निश्चितमत्र नैवम् ॥ मायागिरोऽज्ञाननिवेदनेऽपि न का चिदत्रानुपपत्तिरस्ति ॥। ९८ ॥। सत्यं न गत्यन्तरमिति॥ अयमर्थः। "उद्भिदा यजेत पशु- कामः" इत्यत्र उद्िच्छन्दो यदि गुणविधिपरोऽभ्युपगम्यते तदा गुणापेक्षया फलापेक्षया च यागे विरुद्धत्रिकद्वयापच्या वैरूप्यमा- पद्यते। अतो न गुणविधिरत्र युक्तः।नाप्यत्र "सोमेन यजेत" इति- वद्विशिष्टविधिरुपपद्यते, मत्वर्थलक्षणापसङ्गात्।न च सेहोपपद्यते, सोमपदस्य द्रव्यविशेपे रूढत्वात्तदनुरोधेन तत्र मत्वर्थलक्षणा घटते। उद्भिदादिशब्दस्य तथा क्वचिदर्थविशेषे रूढत्वाभावात्, योगटृत्तेश्र यत्र क्वापि कथं चित्सम्पादयतुं शक्यत्वाव्यवस्थित- विञ्व्यर्थाप्रतीतेर्नेह विशिष्टविधिरपि घटते। अतो गत्यन्तरासम्भ- वादुद्भिदादिपदानां कर्मनामधेयत्वं यजिसामानाधिकरण्यादा- श्रितमिति। मायागिरो मायापदस्य तु अज्ञाननिवेदने Sपि अत्र वेदे न काचिदनुपपत्तिरस्ति, लोकव्युत्पत्यनुरोधेनाज्ञानाभिधा- यित्वेऽपि विरोधाभावादेतदेवात्र युक्तमित्यर्थः ॥९८ ।। अव. नन्वस्त्येवात्रापि विरोधो, मायाया: सर्वज्ञेश्वरत्वादि- घटकत्वात्, अज्ञानस्य तदयोगादिति चेत्, मैवम्। अज्ञानपक्षेऽपि तद्योगोपपत्तेरित्याह- अज्ञानं जड़शक्तिमात्रवपुषा सर्वेश्वरस्येष्यते सर्वज्ञत्वविरोधि तन्न च भवेदुक्तप्रकारेण नः ।। सर्वज्ञेश्वरसंश्रया भवति सैवाज्ञानमाया श्रुतौ तस्मादुन्विदिवेति वर्णनमिदं वैषम्यदुष्ट तत्र ।। ९९ ॥
648
Page 649
६० अन्वयार्थप्रकाशिकाविभूषिते
अज्ञानमिति॥ जडशक्तिमात्रवपुषेति।विक्षेपशक्तिपाधान्ये- नेत्यर्थः। उक्तपकारेणेति। द्वितीयाध्याये व्युनपादितपकारेणेत्यर्थः। तथाच या श्रुतौ सर्वझेश्वरसंश्रया माया श्रूयते साऽज्ञानात्मिका मायैव भवति, नाजानादर्थान्तरभूतेति योजना। यस्मादेवं त- स्मात् तवोन्भिदिवेतीदं वर्णनं वैषम्यदुष्टं, विषमो डयमत्र रष्टा- न्तस्त्वयोपन्यस्तः इत्यर्थः ॥ ९९॥ अव. तथाप्यज्ञानमात्रे मायाशब्दपयोगादर्शनात् तत्पर्या- यत्वमयुक्तमिति चेत्, तत्राह- मायाSनिर्वचनीयमेव तु तमो मायाविनो गीयते द्रष्टणां भ्रमकारणं विषयता मायाविता तस्य तु॥ तं हस्त्यादिविकल्पनाघटितवन्मूढाशया जन्तवो रज्जुं सर्वतयेत तदविरहितं जानन्त्यबुद्धत्ववत॥१०० । मायाऽनिर्वचननीयमति।द्रष्टटणां भ्रमकारणम् अनिर्वच- मीयं तम एव मायाविनो मायेति गीयते, न ततोऽर्थान्तरम्।यद्वा Sनिर्वचनीयं तमो जज्ञानं यत्पसिद्धं तदेव द्रष्टृणां भ्रमकारणं सन्मायेति गीयते, नाज्ञानमात्रमिति योजना। तस्य तमसो वि- पयता तु मायाविता। तथाच मायाविविषयं द्रष्टृणां भ्रमोत्पादकं यदनिर्वचनीयमज्ञानं तन्मायाशब्दवाच्यमिति। अज्ञानस्याव- स्थान्तरे मायाशब्दवाच्यत्वात् तत्पर्यायत्वादर्शनं न दोषावहमि- त्यभिपायः।प्रतिज्ञातमर्थ साधयति। तं हस्त्यादीति। आद्योवति- प्रयोगो वस्तुटृत्तापेक्षः । वस्तुतो हस्त्यादिविकल्पनारूपेणाघटि- तमपि तदूपेण घटितममिव मूढाशया जन्तवो जानन्ति। वत्यर्थ स्फुटयति। तद्विरहितमिति विशेषणेन। वस्तुतो इस्त्यादिविकल्प- नाविरहितमित्यर्थः। रज्जुं सर्पतयैवेति दष्टान्तार्थः स्पष्टः । मूढा-
649
Page 650
संक्षेपशारीरके तृतीयोऽ्यायः ।३। ६१
शयत्वं स्फुटयति । अबुद्धत्ववत् इति । अत्र स्वार्थे भावनिर्देशः। अबुद्धमिव अपूर्वमिवेत्यर्थः । यद्वा उपसंहृते मन्त्रादी तं मायाविनं तद्विरहितम् अबुद्धत्ववदज्ञातमिन जानन्तीत्यर्थः ॥ १०० ॥ अय. मायाविविषयसम्यगूज्ञानेन भ्रमनिष्ृत्तेश्र तद्विषयो भ्रम इत्याह- सम्यग ज्ञानबलेन तं विराहतं हस्त्यादिभिर्यतक्षणे जानीयुस्तदनन्तरं न स भवेद्दसत्यादियुक्तः पुमान् ॥ तेनास्मत्तम एव तत्र विषये मायास्तु मायाविनः सोऽज्ञातो वयमज्ञकोटिपतिता मायी स तेनोच्यते।॥१०१॥ सम्यरज्ञानेति ॥ यद्वा तद्विरहितमित्याद्युक्तं विशदयति। सम्यर्ज्ञानेति। इस्त्यादिभिर्विरहितमिति सम्बन्धः। तस्मात् द्रष्टट- णामज्ञानमेव मायाविविषयं सन्मायाविनो मायेत्युच्यते । विषय- विषयित्वसम्बन्धादेव लौकिकमायाविनो मायावित्वमिति सिद्धम् इत्युपसंहरति । तेनेति। स्पष्टा अक्षरयोजना॥ १०१॥ अव. ननु च अज्ञानविषये सर्वत्र मायावित्वपसिद्धयभावा- दज्ञानविषयित्वादन्यदेव मायावित्वं वाच्यमिति चोदयति- नन्त्रेवं सति रज्जुखण्डलकमप्यज्ञातमज्ञानिभि- र्मायावीति गिरोच्यतां न तु तथा लोके प्रसिद्धि: क चित्॥ तेनाज्ञातविलक्षणत्वमुचितं मायाविनो लौकिका मायावीति पुमांसमेव निपुणं येनाहुरत्यादरात ॥१०२। नन्वेवं सतीति॥ खण्ड एव खण्डलकम्।मायाविनोऽज्ञा- तविलक्षणत्वम् उचितमित्यत्र हेतुमाह। लौकिका इति ॥१०२॥
650
Page 651
६२ अन्वयार्थप्रकाशिकाविभूषिते
अव. सत्यम् । अज्ञानविषयत्वमात्रान्न भवति मायाविव्य- वहारः, किन्तु अज्ञानक्षोभकमणिन्त्रादिमत्वमप्यपेक्ष्य मायावि- त्वव्यवहारः, ततो न विरोध: इति परिहरति- नैवं भ्रान्तिनिमित्तकारणमयं संगृह्य पूर्वक्षणे मन्त्रादिप्रचुरं प्रयत्नजनितं तजजीवने वर्त्तते॥ तेनात्रैत्र तु लोकरूढिरभवन्मायावितागोचरा
नैवं भ्रान्तीति। पूर्वक्षणे द्रष्टृर्णा भ्रमात्पत्तेः पूर्वमेवायं पुरुषो मन्त्रादिलक्षणं प्रचुरम् अनेकविधं भ्रान्तिनिमित्तकारणं संगृह् यस्माद्वर्त्तते तेन हेतुना अत्रैव पुरुषे एव मायावितागोचरा ळो- करूढिलोकपसिद्धिरभवदिति योजना। ननु रज्ज्वादेरपि साह- श्यादिद्वारेणाज्ञानक्षोभकत्वमस्तीति तन्रापि कथं मायावित्वमयो- गो न भवेत् १ इत्यत आह।प्रयन्नजनितमिति। भ्रान्तिनिमित्तस्य पुरुषे पयत्नजनितत्वं पुरुषविशेषणेन स्फुटयति। तज्जीवन इति। रज्ज्वादेरज्ञानक्षोभकत्वमनियतं, कदाचिद्ैवगत्यैव तद्धेतुत्वात्। अयं तु प्रयत्नेन मण्यादिकमज्ञानक्षोभकं संपाद् तेनैव जीवं- स्तत्परो वर्त्तते इति अतोऽत्रैव लोकस्य मायावित्वपसिद्धि: न इतरत्रेत्यर्थः । रज्ज्वादेः पुरुषस्य चाज्ञानक्षोभकत्वाविशेषेऽपि पुरुषे एव मायावित्वपसिद्धिरित्यत्र दष्टान्तमाह। यद्वदिति। परि- व्राजकानामपि ब्राह्मणत्वाविशेषे तान् विहाय यथा गृहस्थादिष्वे- व ब्राह्मणतापसिद्धिरभवत्। तैर्व्राह्मण्यजात्यभिमानस्य प्रयशेन धारणाित्यर्थः १०३।। अव. एवं तावदज्ञानं प्रति वशशित्वादेव पुंसो मायावित्वं, न वि- षयमात्रात् येन शुक्त्यादेरपि मायावित्वापादनपसङ्ग:।अज्ञानस्या-
65
Page 652
संक्षेपशारीरके तृतीयोऽध्यायः।३। ६३
पि वश्यत्वादेव मायात्वं न विषयत्वमात्रात् । अतो न द्रष्टटणामपि मायावित्वपसङ्ग इति स्थिते, श्रुत्यादिषु श्रूयमाणाऽपि परमेश्वर- माया लोकसिद्धव्युत्पन्यनुसारेणेश्वरवश्यतया पत्यकूचिदाश्रय- विषयामेथ्याऽज्ञानमेवाभ्युपेया, नार्थान्तरमिति सिद्धम् इत्यवा- न्तरपकतमुपसंहरति- एवं तावलोकसिद्धा न माया
शक्तिव्याप्तिप्रत्ययौ वर्णयित्वा वेदालिङ्गाचान्यमायात्वसिद्धिः ॥ १०४ ॥ एवं तावदिति।एवम् उक्तयुत्या लोकसिद्धा माया मिथ्या- जज्ञानादयतो न भिद्यते अतश्च अत एव लोकवेदाधिकरणन्यायेन तत्र लौकिकमायायाम् अज्ञानात्मिकार्या मायस्शब्दस्य शक्ति मा- यामयत्वळिङ्गस्य व्याप्तिं च प्ति मत्ययौ वर्णयित्वा मायाविषय- शक्तिव्याप्तिज्ञाने अज्ञानविषयत्वेन संपाद्ेति यावत्। वेदात् वै- दिकवाक्यात् लिङ्गाच्च मानात् अन्यस्य द्वैतस्य मायामयत्वसिद्धिः अज्ञानमयत्वसिद्धिवर्णिता भवतीति योजना।विमतं द्वैतम् अज्ञानमयं मायामयत्वाद्यदेवं तदेवं यथा लौकिकमायामयं हस्त्यश्वादि तथेदं तस्मात्तथेति प्रयोगः ॥ १०४ ॥ अव. इममेव श्लोकार्थ व्यक्तीकरोति- जाग्रदूभूमो या प्रसिन्देह माया सा निर्णीता तावदज्ञानमेव।। तस्यां शक्तिव्याप्तिविज्ञानसिद्धे- र्विज्ञासव्या सैत वेदानुमानात् ॥ १०५ ॥
652
Page 653
६४ अन्घमार्थप्रकाशिकाविभूषिते
जाग्रद्भूमाविति॥ यद्वा हेतोवैयधिकरण्यशङ्कामपाकरो- ति। जाग्रद्भूमाविति । वेदश्ानुमानं च वेदानुमानं तस्मादिति योज्यम्। सुगममन्यत् ॥ १०५ ।। भव. यस्मादज्ञानमेव माया नान्यदिति निश्चितं तस्मात्स्वप्ने Sपि स्वपददगज्ञानव्यतिरेकेण मायाशब्दयोग्यो जर्थो नास्तीति स्- त्रकृत् अज्ञानमयेऽपि रवमे मायाशब्दं पायुङ्क "मायामात्रं तु का-
स्वप्नेऽप्येवं स्वप्रद्ड़मोहमात्रा- दन्या का चिन्न प्रसिद्धाऽस्ति माया। तत्रैवायं सूत्रकारस्य तस्मात् मायाशब्दो वर्त्तते नापरत्र ॥ १०३ ॥ स्वमेऽप्येवमिति॥ एवमिति जाग्रद्दित्यर्थः। तत्रैवाज्ञाना- तमके मोहे एवायं प्रसिद्धो मायाशब्दः सूत्रकारस्याभिमतो वर्त्तते, नापरत्र सत्यार्थे न वर्त्तते इत्यर्थः ॥ ६ ॥ अव. तथापि सूत्रकारस्य स्वमे मायाशब्दपयोगे कि पयो- जनं, लोके तत्र तत्पसिद्ध्यभावेऽपि ? इति चेत्, तदाह- शक्तिव्याप्तिप्रत्ययौ कारयिष्यन स्वप्ने स्थित्वा प्रत्यगज्ञानमात्रे।। मायावाचा लोकवत्सूत्रकारो वेदं लिङ्गं चोपनेतुं प्रवृत्तः ।।१७/ शक्तिव्यातिप्रत्ययाविति ॥ सूत्रकार: प्रत्यगज्ञानमात्रे मायाशब्दमायामयत्वलिङ्गयोः शक्तिव्याप्तिपत्ययौ कारयिष्यन्
653
Page 654
संक्षेपशारीरके तृतीयोऽध्यायः।३। ६५
सन्स्वमे स्थित्वा स्वप्नमाश्रित्य लोकवद्वेदे च लिङ्गं चकारा- न्मायाशब्दशक्तिं चोपनेतुं मायावाचा प्रवृत्तः "भायामात्रं तु" इति सूत्रेणेति योजना। लौकिकशक्तिव्याप्तिग्रहानुरोधेन वेदे Sपि मायाशब्दं प्रत्यगज्ञानमात्रविषयतया नेतुमित्यर्थः ॥१०७। अव. भगवद्गीतावाक्यादप्यज्ञानमायापदयोरेकार्थत्वं गम्यते इत्याह -- अज्ञानमावरणमावरणं च माया सर्वेश्चवरेण हरिणा दढमभ्यधायि॥ चैतन्यवस्तुन इति प्रतिपद्यमाना- स्तत्त्वं तदेकमिति निश्चयतः प्रतीमः ॥ १०८॥ अज्ञानमावरणमिति ॥ सर्वेश्वरेण सर्वसमेन परमाप्तेन हरिणा चैतन्यवस्तुनः अज्ञानम् आवरणमभ्यंधायि"अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः" इति। तथा माया च चैतन्यवस्तुनः आवरणमभ्यधायि "न मां दुष्कृतिनो मूढाः प्पद्यन्ते नराधमाः। माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः" इति । दृढमिति क्रियां विशिंषन् भगवद्वाक्यस्य मामाण्यदार्ढ्य सूचयति। इति इत्थं भगवद्वाक्यं च प्रतिपद्यमानास्तन्मायाविद्ययोस्तत्वमेकमिति नि- श्चयतः पतीमो वयमिति योजना ॥ १०८ । अव. तथा "ज्ञानेन तु तदज्ञानं येर्षो नाशितमात्मनः" "मामेव ये प्पद्यन्ते मायामेतां तरन्ति ते" इति च भगवता माया- Sज्ञानयोस्तत्वज्ञाननिवर्त्यत्वाभिधानाच्च अज्ञानमाययोः स्वरूप- भेदो नास्तीति गम्यते इत्याह- ज्ञानं निवर्त्तकमपि द्वितयस्य तस्प
654
Page 655
६६ अन्वयार्थप्रकाशिकाविभूषिते
गीतागतः करुणया भगवानुवाच।। तेनापि तत्त्वमिदमेकमिति प्रतीति- रानीयते कथितलक्षणतुल्यभावातू ॥ १०९ ॥ ज्ञानं निवर्तकमिति ॥ तस्य द्वितयस्यापीति सम्बन्धः । कथितलक्षणेति । विभ्रमहेत्वनिर्वाच्याशक्तिर्मायाऽज्ञानं चैतदेवेति कथितलक्षणतुल्यभावादित्यर्थः । यद्वा ज्ञानावरकत्वतत्वज्ञान- निवर्त्यत्वरूपलक्षणसाम्यादित्यर्थः ॥ १०९ ॥ अव. मायाऽज्ञानयोरावरकत्वेन तच्वज्ञाननिवर्त्यत्वेन च पूर्वश्लोकयोरर्थादुक्तान्येव भगवद्वाक्यान्युदाहरति- नाहं प्रकाश इति तावदनेन माया- डज्ञानेन चावृतमितीतरदप्यभाणि। मामेव ये तु परमं पुरुषं प्रपन्ना: ज्ञानेन तु प्रभृतिना च घिया निवृत्तिः ॥११०॥ नाहमिति॥ "नाहं प्रकाशः सर्वस्य योगमायासमा- छृतः" इत्यनेन तावन्मायाऽभाणीति सम्बन्धः । "अज्ञानेनावृतं ज्ञानं"चकारात्"अवजानन्ति मां मूढाः"इति च इतरत् अज्ञानमप्य- भाणीति योजना। आवरकत्वं मायाऽज्ञानयोरुदाहृत्य, ज्ञाननिव- त्यत्वमपि तयोभगवदुक्तमुदाहरति। मामेवेति। "मामेव ये प्प- दन्ते मायामेतां तरन्ति ते" "ज्ञानेन तु तदज्ञानं येषां नाशित- मात्मनः" इतिपभृतिना इत्यादिवाक्येन घिया तत्वज्ञानेन
अव. एवमज्ञानमाययोरेकत्वाभिधानान् ज्ञानाभावमात्रम- ज्ञानमिति च भगवद्वचनपामाण्यादेव निश्चीयते इत्याह-
655
Page 656
संक्षेपशारीरके तृतीयोऽध्यायः।३।
ज्ञानस्य प्रागभावादपरमभिहितं प्रत्यगज्ञानमेत- त्संसारव्याधिबीजं कथितनयवशादेव बुध्यस्त्र बुद्धया। ज्ञानेनाज्ञाननाशङ्कथयति भगवानेष गीतागतः सन् न ज्ञानात् प्रागभावक्षय इति घटते तरक्षये तत्प्रसूतेः॥१११॥ ज्ञानस्य प्रागभावादिति॥ कथतनयवशादेवेति। भग- वद्राक्योपबृंहितोक्तयुक्तिकदम्बादित्यर्थः । भगवता अज्ञानस्य ज्ञाननिवर्त्यत्वाभिधानाच्च तस्य ज्ञानाभावान्यत्वसिद्धिरित्या- है। ज्ञानेनेति। "मामेव ये पपद्यन्ते मायामेतां तरन्ति ते" इति ज्ञानेनाज्ञानहानिं गीतागतः सत्नेव भगवान् कथयतीत्यर्थः । कथमज्ञानस्यैतावता ज्ञानपागभावादन्यत्वसिद्धिः१तस्य स्वप्ति- योगिनिवर्त्यत्वादिति चेत्, मैवम्। तदसम्भवादित्याह। न ज्ञाना- दिति। अयमर्थः।अभावतत्पतियोगिनोरेकत्रैकदा विरोधाद्यौगपदं तावन्न सम्भवति। तथाच विद्यमाने प्रागभावे न तत्पतियोगिनः सम्भवः। न चानुत्पन्नो डलब्धात्मकश्च प्रतियोगी स्वप्रागभावं निवर्त्तयेत्, (अन्त्ययोस्तु पक्षयोरन ज्ञाननिवर्त्यत्वं विरोधाभावात्)। अतो निटृटत्ते भागभावे तत्पतियोगिन: मसूतिर्वक्तव्या, पागभाव- पतियोग्युत्पच्योर्यौगपद्यं वा तयोरेकत्वं वा वक्तव्यम् । सर्वथापि न
च्यं लब्धात्मकेन ज्ञानेन निवर्त्यते इति युक्तम् अभावान्यत्व- मज्ञानस्येति ॥ १११ ॥ अव. एवं प्रासङ्गिकं सूत्रकारस्य मायाशब्दपयोगकृत्यं भ- दर्श्य, पकृतमेव का्त्सन्येनानभिव्यक्तस्वरूपत्वेन स्वप्नमिथ्यात्व- मुक्तम् उपसंहरति- मायामात्रमतः समस्तमभवत स्वप्ने प्रसिद्धं दशः
656
Page 657
६८ अन्वयार्थप्रकाशिकाविभूषिते
कर्तृत्वादि तमोमयं वितथमेवाज्ञानमात्रं यतः । तस्माज्ागरितेऽपि नैतदभवत स्वाभाविक यत पुन- स्तादृक्षं तब सर्वदैव तुभवेत स्वप्नेऽपि चैतन्यवत्॥११२॥ मायामात्रमिति॥दृशः आत्मनः स्वमे प्रसिद्धं कर्तृत्वा- दि समस्तम् अतः उक्तयुक्ते:मायामात्रं तमोमयं वितथं मिथ्यैवा- भवत् यतो Sज्ञानमात्रमिति योजना।यथा स्वाप्नस्य कर्तृत्वादिव्य- वहारस्य आगमापायित्वान्मायातमोमात्रत्वं, तथा जागरिते ऽपि कर्तृत्वपमुखस्य व्यवहारस्य मायामयत्वमेव, न स्वाभाविकत्वम् इत्येतत्सिद्धमित्याह। तस्मादिति। एतदभवत् कर्तृत्वादि मायिक- मित्येतत्सिद्धमित्यर्थः । स्वाभाविकत्वे दोपं वदन् मायामयत्वं द्रठयति।स्वाभाविकं यत्पुनरिति। यदि पुनरित्यर्थः। तादृक्षं तादृशं कर्तृत्वादिलक्षणं तवात्मनो यदि पुनः स्वाभाविकं भवेत्, तदा चैतन्यवदेव सवम्े ऽपि सुपुप्तिपलयमुक्तिष्वपि भवेत्, न च भवति, जाग्रद्व्यवहारस्यावस्थान्तरे व्यभिचारात्। अतः आगन्तुकत्वा- न्मायामयमेव सर्वव्यवहारजातं न स्वाभाषिकमित्यर्थः ॥११२। अव. ननु किमित्यागन्तुकमात्रेण मायामयत्वमात्मनि कर्त- त्वादेरिष्यते, कादाचित्कत्वे डप्याम्रश्यामत्वादिवत्परमार्थत्वे 5पि विरोधाभावादिति चेत, मैवम्। आत्मनः कूटस्थत्वेनाप- रिणामित्वादित्याह- सत्यप्यलुप्तचिति यत्त्वयि नास्ति कर्तृ- भोक्तृप्रमातृमुखमन्यदपीह किञ्चित ।। जाग्रद्दशाऽवगतमप्यखिलं न तत्ते स्वाभाविक भवितुमुत्सहते विरोधात् ॥११३॥
657
Page 658
संक्षेपशारीरके तृतीयोऽध्यायः।३। ६९
सत्यपीति॥।यत्र आगन्तुकधर्मयोग: पारमार्थिक: तत्र धर्मि- णमविकृत्य न धर्माविर्भावतिरोभावौ, पूर्वरूपे स्थिते तत्र रूपा- न्तरासम्भवात। पूर्वरूपस्य चाश्रये सति विनाशायोगादिति प- रिणामिनः सावयवस्य द्रव्यस्य स्यादागन्तुकधर्मयोगित्वं पार- मार्थिकं, न कूटस्थस्य, यतः त्वय्यलुप्तचिति कूटस्थचित्स्वरूपे सत्यपि यथाऽवस्थितेऽपि यत् कर्तत्वादिपमुखंकार्यकारणभोग्य- भोगप्रमेयप्रमितिरूपम् अन्यदपि आधिदैविकादि जाग्रदशावगत- मपि अखिलं व्यवहारजातं नास्ति, यत् त्वयि स्वरूपेण सत्यपित्वा व्यभिचरतीति यावत्। तत् ते तव स्वाभाविकं भवितुं नोत्सहते विरोधात्, व्यभिचारिणो धर्मस्य धर्मिस्वभावत्वविरोधादिति योजना ॥ ११३ ।। अव. यत् यस्य स्वाभाविकं तन्न तस्य आगन्तुकं, यथा अग्नेरौष्ण्यमिति स्वाभाविकस्यानागन्तुकत्वेव व्यापिं दर्शयन्नुक्त- विरोधं स्फुटयति- स्वाभाविकी हुतभुजः खलु नोष्णता तं जातु प्रमुश्चति न तामपि जातवेदाः ॥ एवं भवन्तमपि जागरितोपलब्धं स्वप्ने भवानपि च जागरितं न मुश्चेत् ॥११४॥ स्वाभाविकी हुतभुज इति ॥ एवं हुतभुज: उष्णतावत् यदि तव जागरितं कर्तृतापमुखं स्वाभाविकं स्यात् तर्हि जागरि- तोपलब्धं स्वप्ेऽपि भवन्तं न मुञ्चेत्, भवानपि च जागरितं न सुञ्चेत्, मुञ्चति च भवान्स्वमे जागरितं, जागरितंच भवन्तमिति। अतो न तव स्वाभाविकं कर्तृत्वादीत्यर्थः ।११४।। अव० ननु सति व्यभिचारे कर्तत्वादे: अस्वाभाविकता स्यात्,
658
Page 659
७० अन्वयार्थप्रकाशिकाविभूषिते
स एव नास्ति, अत एव भवन्तमित्याद्युक्तमसङ्गतम् इत्याशका, उक्तं व्यभिचारमुपपादयति- स्वप्ने न जागरितमस्ति मृषात्वहेतोः स्वप्नस्य सत्यमिति जागरितं बदन्ति ॥ स्वप्नस्य बाधनबलादमृतत्वमुक्तं तस्माच्चिदेव तव रूपमतोऽन्यदार्चम् ॥ ११५॥। स्वप्े न जागरितमस्तीति। कुतो नास्ति तत्रापि जागरि- तवदेव व्यभिचारदर्शनात्? इत्यत आह। मृषात्वहेतोःस्वमस्येति। अनृतत्वहेतोरिति वा पाठः । स्वपस्य मृषात्वं लोकपसिद्धं प्रा- गुपपादितं स्मर्तव्यमित्यर्थः। ननु जागरितस्याप्यनृतत्वं तव तु- ल्यममिति चेत्, सत्यम्।तथापि व्यवहर्तृलोकदृष्ठ्या तत्रानृतत्वप्सि- द््यभावात्सत्यत्वस्यैकप्रसिद्धेः सत्यं जागरितमित्याहासत्यमिति। जागरितं वदन्तीति सवपेऽनृतत्वहेत्वसिद्धिमाशक्का आह। स्वमस्ये- ति।बाधनबलात् व्यवहर्तृणामेव व्यवहारकाले बाधितत्वप्रतीतिव- लात्स्वप्स्यानृतत्वमुक्तं, जागरिते तददर्शनात्सत्यं जागरितं व- दन्ति इति चोक्तमिति योज्यम्।यस्मादेवं त्वयि कर्तृत्वादिसंसार- धर्मः आगन्तुकत्वान्न स्वाभाविक: तस्मात्सदैव कूटस्थशुद्धचित्स- दानन्दरूप एव त्वमित्युपसंहरति। तस्मादिति।अतः चिदूपादन्यत् त्वयि प्रतीयमानम् आर्त विनाशि न स्वाभाविकमित्यर्थः।११५।। अव. यदि जागरितमपि बस्तुतो Sसत्यं तहि तस्य तत्व- ज्ञानहेतुत्वमपि न स्यादित्याशक्का, "सूचकश्च हि श्रुतेराचक्षते क तद्विदः" इति सूत्रोक्तन्यायमाश्रित्य, स्वरूपतो मिथ्याभूतस्यापि सत्यार्थबोधकत्वं न विरुद्धमित्युत्तरमाह- स्वप्नोपलब्धमखिलं वितथं तथापि
659
Page 660
संक्षेपशारीरके तृतीमोऽध्यायः।३। ७१
तत्सूचयत्यवितथं परमार्थवस्तु ॥। जाग्रददशावगतमप्यनृतं तथापि तद्दत्तदप्यवगतिक्षममेत् भुम्नः ॥ ११६ ॥ स्वप्रोपलब्धमखिलमिति।।निगदव्याख्यातं पद्यम्।।११६।। अव. ननु स्वप्जागरितयार्यद्यनृतत्वं स्वरूपतस्तुल्यं तर्हि कं विशेषमाश्रित्य व्यवहारे तयोर्मृषात्वसत्यत्वाभ्यां वैपम्यमुक्तम् ? इति चेतु, तत्राह- स्वप्नभ्रमोऽपि सुकृतादिनिबन्धनत्वा- चावत् परिस्फुरति यावददृष्टमरिति ॥ क्षीणे तु तत् लयमेति जगन्निदाने गाढे तमस्यनुभवावगते प्रतीच: ।। ११७॥। स्वप्नभ्रमोऽपीति॥ अपिशब्दो जाग्रदृद्दष्टान्तार्थः। अयम- र्थः। जागरितं पुण्यापुण्यकर्मनिबन्धनं तथा स्वमो ऽपि तन्निबन्धन एवेति समानं यद्यपि, तथापि जाग्रद्भोगो यथा यावज्जीवमेकेन एकजातीयेन शरीरेण निर्वर्तनीय इति जन्मादिमरणान्तं सदारम्भ- ककर्मणामनुपरमः नैवं स्वप्नभोगहेतुकर्मणां, तेर्षा प्रतिस्वमं भिन्न- जातीयशरीरादिहेतुताया: कार्यदर्शनोन्नेयत्वात्। तथा च स्वप्नार- म्भकयोः सुकृतदुष्कृतयोः क्षुद्रत्वात् क्षिपमेव स्वकार्य कृत्वा उपर- मात्तन्निबम्धनस्वप्रस्यापि क्षिप्रमेवोपरमो भवतीति सर्वेषां स्व- मार्ना परस्परासङ्गतार्थत्वात् व्यवहारकाले एव तद्वाधप्रतीतेस्तत्र मृषात्वं व्यवहियते। जागरितहेतुकर्मणां यावज्जीवभावित्वेना- स्ुद्रत्वात्स्वकार्य भोगमसमाप्य अनुपरमात्पतिजागरणं च सङ्गता- र्थत्वप्तीतेः, तस्य बाधितत्वाननुभवाव्यवहारे तस्य सत्यत्वमिष्य-
660
Page 661
७२ अन्वयार्थप्रकाशिकाविभूषिते
ते, सुषुप्ती स्वप्नवज्जागरितस्योपरमेऽपि पुनर्जागरितान्तरस्य पूर्व प्रारब्धकर्मशेषफळत्वात्परस्पर संवाद इति विशेषोपपत्तेरिति।एष अक्षरयोजना। यावत्सुकतादिरूपमदष्टमस्ति तावत्स्वप्नभ्रमो Sपि परिस्फुरति जाग्रद्वत सुकृतादिनिबन्धनत्वात् यथा जाग्रद्भ्रमो या- वत्कर्मक्षयमनुवर्त्तते तथा स्वप्नभ्रमो Sपीत्यविशिष्टं कर्मणश्चिरा- चिरोपरमनबन्धनं तु वैषम्यमित्यर्थः । कर्मक्षयादुपरमणं स्वप्न- जागरितयोः स्वकारणे लयमात्रं न बाध इत्याह ।क्षीणेत्विति। तत्र तस्मिन् स्वहेतुकर्मणि क्षीणे तु जगनिदाने गाढे तमास जाग- रितवत्स्वप्नोऽपि लयमेति। किंलक्षणे तमसि ? प्रतीचः प्रत्यगा- त्मनोऽनुभवावगते साक्षिमात्रसिद्धे साभासे इत्यर्थः । स्वप्नजाग- रितयोः साक्षाद्वाधः प्रत्यक्तत्वब्रह्मावगमादेव, ततः प्राक् कारणे लयमात्रं तत्रापि मिथः स्वप्नानामसङ्गानां क्षुद्रत्वाच्च वाधितत्व- व्यवहार: तद्वैपरीत्याज्जागरिते तदभावः इति भावः।अस्यापरा- व्याखया।स्वप्नवत्स्वरूपतो मिथ्यात्वे Sपि जागरितस्य भूमाव- गतिक्षमत्वं सम्भवति। स्वप्नस्य सत्यार्थसूचकत्ववदित्युक्तं, तत्र स्वरूपतो Sसतः स्वप्नस्यैव तावत्कथं सत्यार्थसूचकत्वसम्भवः? इत्याशङ्, तस्यापि जागरितवत्पुण्यापुण्यनिबन्धनत्वान्नात्यन्ता- सच्वं, परमार्थसद्विलक्षणत्वाभिप्रायेणैव मिथ्यात्वं विवा्षितं, सद- सद्विलक्षणत्वस्यैव मिथ्याशब्दार्थत्वादित्यभिभेत्याह। स्वप्नभ्र- मोऽपीति। अक्षरार्थः पूर्ववत् ॥ ११७ ॥ अव. ननु यावददृष्टमस्ति तावत्परिस्फुरतीत्ययुक्तं, कर्मणः क्षणमात्रापवर्गण: फलोपभोगपर्यन्तमवस्थानासम्भवादिति चेत्, नैष दोषः। तस्यापूर्वात्मनाऽवस्थानसम्भवादित्याह- निष्पादिता सकलकारकवर्गसाध्या सर्वेण कारकगणेन सहैत तावत ।।
661
Page 662
संक्षेपशारीरके तृतीयोऽध्यायः ।३। ७३
तिष्ठेत् क्रिया परमसूक्ष्मतगेक्ष्यमाणा सर्वेश्चरेण पुरुषः फलमत्ति यावत् ॥ ११८॥ निष्पादितेति ॥ पुरुषेणाधिकारिणा निष्पादिता या- गादिक्रिया परममूक्ष्मतया अतिसूक्ष्मरूपेण तावत् तिष्ठेत् इति क्रियाकारकयोजना। यतः इयं सकलकारकवर्गेण चरुपुरो- डाक्षमांसान्यादिना साध्या अतः सर्वेण तेन कारकगणेन सहैव यदाश्रिता क्रिया निष्पन्ना तैराश्रयैः सहैत्र सूक्ष्मतया- डपूर्वात्मना तिष्ठेदित्यर्थः । एतेन क्रियायाः परिणामास- म्भवादवस्थान्तरापत्या अवस्थानानुपपत्तिरिति शङ्का निरस्ता वेदितव्या। कियत्पर्यन्तं तिष्ठेदिति तदाह। यावत् पुरुषो यजमान: फलमत्ति भुङ्गे तावत्तिष्ठतीत्यर्थः ननु कथं स्वाश्रयेः सह नष्टस्य कर्मणस्तावत् अवस्थानं, स्वभावविरोधादिति चेत्, तत्राह। ईक्ष्य- माणा सर्वेश्वरेणेति। एतदुक्तं भवति। यद्यप कर्म उत्पन्नमात्रवि- नाशस्व्रभावात् अपटृज्यते एव, तथापि तत्स्मक्षिणा कर्माध्यक्षेण ईश्वरेण तदनुरूपस्य फलस्य कालान्तरे समर्पणात् तदीक्षाविषय- त्वेन विपरिवर्तमानं सत् कर्म स्वफलभोगपर्यन्तं तिप्ठतीति कल्प्यते। संस्काररूपेण च परमेश्वरसाक्षिकं सत् तिष्ठतीति। सर्वथा कर्म- णः फलहेतुताया: वेदेन बोधितत्वादथा तस्य फलानुकूलता भवति तथा Sवस्थानमङ्गीकक्रियते इति ॥११८॥ अव. नन्वेवं सति स्वपस्यापि न भ्रान्तित्वं, कर्मानुरो- धित्वाज्जाग्रद्दिति चेत्, मैवम्। जागरितस्यापि भ्रान्तित्वात् । भ्रान्तित्वेऽपि कर्मफलत्वाविरोधादित्याह- स्त्रप्नश्र जागरितमप्युभयं तवैव मोहप्रसतमपि कर्मफलं विभाति ॥
662
Page 663
७४ अन्वयार्थप्रकाशिकाविभूषिते
कर्मक्षये तदखिले परमात्ममाया- माश्रित्य सक्ष्ममत्रतिष्ठत एव लीनम् ॥ ११९॥ स्वप्नश्चेति ॥ कर्मफलं विभाति, व्यावहारिक्या दृष्टेति- शेषः। एवं तर्हि कर्मफलत्वात्संसारस्य कर्मक्षयात्क्षय इति ज्ञान- वैयर्थ्य स्यादिति चेत्, नेत्याह।कर्मक्षय इति/तदखिलं जाग्रत्स्वम्न- व्यवहारगोचरतामापन्नं संसारजातं कर्मक्षये फलभोगेन कर्म- विनाशे सति परमात्ममार्यां स्वमूलकारणमाश्रित्य तत्र लीनं संस्काररूपतामापनं सत् सूक्ष्मं यथा स्यात्तथाऽवतिष्ठते एव, नात्यन्तमुच्छिदियते, अतो न तत्वज्ञानवैयर्थ्यमित्यर्थः । एतेन अर्थात् मोहपमूतत्वमपि जाग्रत्स्वपयोः समर्थितं वेदितव्यम्। अतत्मसूतस्य तस्मिल्ठयायोगादिति ॥११९॥ अव. यद्येवं सुषुप्तेऽपि संसारस्य प्त्यगज्ञानशेषतयाऽवस्था- नमस्ति तहि तदा अज्ञानस्य संसारसंस्कारस्य च विद्यमान- त्वात् "तदभावो नीडीषु तच्छुतेरात्मनि च"इति न्यायेन समर्थ्य- माना प्रत्यगात्मनो विशुद्धिरनुपपन्ना स्यादिति चेत्, तत्राह- उत्थानलिङ्गकृतकल्पनयैतदेवं विज्ञायते न तु तथाऽवगतं तदानीम् ॥ अज्ञानलीनमखिलं जगदरिति सूक्ष्मं तत्नेति नानुभवनादवगम्यते हि॥। १२० ॥ उत्थानेति ॥ सुषुप्तस्य पुनरुत्थानरूपं यल्लिङ्गं तत्कृता या कल्पना अनुमानरूपा तयैव एतदेवं विज्ञायते सम्यक।अव्यवधानेन ब्रह्मसंपन्नत्वे ततः पुनरुत्थानासम्भवादस्ति तत्र व्यवधानममिति पुनरुत्थानात्संसारबीजस्य सुषुप्तावप्यवस्थानं कल्प्यत इत्यर्थः ।
663
Page 664
संक्षेपशारीरके सृतीयोऽध्यायः। ३।
तदानीं सुषुप्ती तथा नावगतम्, अज्ञानतत्कार्यसन्भावः सौषुप्तानु- भवेन न प्रतीत इत्यर्थः। तथेत्युक्तमेव पपञ्चयति। अज्ञानलीन- मिति। सूक्ष्मम् इत्यतः परस्तादितिशब्दोऽध्याहर्तव्यः इति। तत्र सुषुप्तावनुभवनान्नैवावगम्यते हीत्यन्वयः ॥ १२० ॥ अव. ननु सौपुप्तानुभवोप्युत्थितस्य परामर्शबलात्तादृशः कल्प्यते इति चेत्, सत्यम्। सोप्यज्ञानमात्रविषय एव न ततो Sधिकविषयः इत्याह- अज्ञानमेव तु तदावगतं त्वदीयं येनोत्थितो वदसि नावगतं मयाऽय्य।। सुप्तेन कि चिदपि गाढ़तमस्यभूवं क्षिप्तः समस्तवविषयावगमासमर्थः ॥१२१॥ अज्ञानमेवत्विति॥ तदा सुपुप्ती त्वदीयमज्ञानमेवावगतं न तत्र लीनं जगदपीति गम्यते इति शेष: । कुतः ? येन कारणेन त्वमुस्थितः सन् अद्य सुप्तेन सुषुप्तेन मया किश्चिदपि नावगत- मिति वदसि, गाढे तमसि क्षिप्तो मग्न: सन् समस्तविषयावग- मासमर्थोऽभूवमिति च वदसि, असो नाज्ञानातिरिक्तं सुपुप्ते Sनुभूतमस्तीति गम्पते इत्यर्थः ॥ १२१ ॥ अव. ननु सुपुप्ती अज्ञानानुभवोऽपि मा भूत, परामर्शस्य विक- ल्पमात्रत्वात्,तस्य चापमाणत्वात्सौषुप्तानुभवकल्पकत्वायोगादिति चेत्, मैवम्। विकल्पस्यापि निर्मूलत्वायोगात्, तेन स्वमूलकल्पनं घटते इत्यभिपेत्य, पूर्वपद्योक्तमेवार्थ व्यतिरेकमुखेनोपपायति- अज्ञानमन्र यदि नानुभवात प्रसिद्धं. नाज्ञासिषं स्व्रिति कुतस्तव निश्चयोऽभूत।।
664
Page 665
७६ अम्वयार्थप्रकाशिकाविभूषिते
अज्ञानमस्त्यवगतं च सुषुप्तिकाले तेनेति निश्चिनु तवानुभवप्रमाणात् ॥ १२२॥। अज्ञानमत्रेति ॥ तेन नाज्ञासिषमिति परामर्शेन कल्प्यमा- नात् तन्मूलात् तवानुभवप्रमाणान्रिरविकल्पकानुभवात्सुपुप्तिकाले ज्ञानमस्ति तच्चावगतमिति निश्चिनु विश्वसिहीति योजना ॥१२२॥ अव. नन्वेवं त्हि तत्र तत्र भाष्यकारादीनां सुषुप्तावज्ञाना- भाववचनं असङ्गतं स्यात् "स्वमपीतो भवति तस्मादेनं स्वपि- तीत्याचक्षते स्वंह्यपीतो भवति" इत्यादि श्रुतिवचनं चेति चेत्, मैवम्। अहंकारोपरागाभावेन सुपुप्ती अज्ञानानुभवस्यास्फुटत्वा-
स्पष्टानुभूतिविषयो न तमस्तदानी- मासीदहंकरणहीनतयाऽधुना तु।। निष्पाद्य कार्यमिदमंशमहं न जाने मूढ़ोडस्मि चेत्यवगतेर्विषयत्वमागात् ॥ १२३ ॥ स्पष्टानुभूतीति॥ अहङ्कारे सति सुषुप्तिव्याघातात् तद- भावे च "अहमजः " इति विशेषाकारेणाज्ञानाभिव्यत्यभावा- त्सुपुप्ती विद्यमानमप्यज्ञानम् अविद्यमानसमं विक्षेपाभावादिति, तत्र अज्ञानाभावव चनमप्युपपन्नमेवेत्यभिपायः। अहङ्गाराभावादेव सुपुप्ती अज्ञानानुभवस्य स्पष्टताऽभावो नाज्ञानानुभवाभावमात्रात् इत्यत्र लिङ्गमाह। अधुना त्विति। जागरणे इति यावत्। अहमित्यत्र यो 5यं दश्यांशः स इदमंशः तमिदमंशं स्वकार्य निष्पाद्य "अहं न जाने मूढो Sस्मि च" इति स्पष्टावगतेर्विषयत्वमागात्, अज्ञानमिति शेषः । तथा च सति अहङ्कारे स्पष्टानुभवस्य अवश्यंभावात्त-
665
Page 666
संक्षेपशारीरके तृतीयोऽभ्यायः।३। ७७
दभावे चाभावात् अहङ्काराभावकृतस्तत्र स्पष्टानुभवाभावोऽज्ञा- नस्येत्यर्थः ॥ १२३ ॥ अव. तथा च प्राकृतदृष्ठ्यनुरोधेन सुपुप्तौ तमःस्वरूपमपि "नानुभूतं मया" इति या तव दृष्टिः सा तदनुभवस्यास्फुटत्वा- देवेति सिद्धमित्याह- एतावता तव तमोऽपि सुषुप्तिकाले नास्तीति बुद्धिरुदितं गुरुभिश्च कै।ईचित्।। स्थाने क चित क चिदतो द्यमुच्यमानं ग्राह्यं विविच्य भवता विषयं विभज्य ॥ १२४ ।।
एतावतेति॥ अहङ्करणाभावेन स्पष्टानुभवाभावमात्रेणे- त्यर्थः। कैश्चिद्गुरुभः भाष्यकारादिभिराचार्येश्र एतावतैव कचित्क- चित् पत्यगात्मनो विशुद्धिमतिपादनपकरणे सुषुप्तावज्ञानं नास्ती- त्युदितं, यत एवम् अतः द्वयम् अज्ञानसद्भावः तदभावश्रेत्युभ- यमुच्यमानं विषयं विभज्य सद्भाववचनम् अस्पष्टतया स्वरूपा- नुभवपरम् अभाववचनं त्वनुभवस्य स्पष्टत्वाभावपरमिति विषयं विभज्य विविच्योभयमपि वचनं सालम्बनमेव नान्यत- रेणान्यतरस्य बाध इति त्वया ग्राह्यमित्यर्थः।।१२४॥। अव. किं तत् दवयमुच्यमानम् ? इति तदेव स्फुटयति- नाज्ञानमरिति च सुषुप्ितगतस्य पुंसो गाढ़े तमस्ययमभूत पुरुषः सुषुप्तः। इत्युच्यमानम्रिरुद्दतया विविच्य ग्राह्यं त्वथाऽनुभवयुक्तिनिरूपणेन ॥ १२५॥
666
Page 667
७८ अन्वयार्थ प्रकाशिकाविभूषिते
नाज्ञानमस्तीति॥ स्पष्टार्थ पद्यम्। अनुभवयुक्तनुरोधेनो- भयम् अविरुद्धतया ग्रह्यमित्यर्थः ॥१२५॥ अव. अन्यदप्यर्थसिद्धं सुषुप्ती अज्ञानाभाववचनमाचार्या- णामेवमेव योज्यमित्याह- एवं तमोऽपि न बभूव सुषुप्तिकाले भाषान्तरेण पुरुषः पर एव जीव:।। निर्बीजतामुपगतः स निरन्वयेन न स्पष्टमत्र तमसोऽनुभवोऽस्ति यस्मात ॥ १२६ ॥ एवमिति ॥ जीव: परः पुरुष एव संदृत्त इति भाषान्त- रेण शब्दान्तरेण सुषुप्तिकाले तमो ऽपि न बभूवेति यत् आचार्या- णामर्थसिद्धं वचनं तदप्येवमेव उक्तपकारमेवेति योजना। तत्रैव वचनान्तरमाह। निर्वीजतामिति।स जीवो निरन्वयेनोपाधिसम्ब- न्धविलयेन निर्बीजतां संसारबीजराहित्यमुपगत इति वचनं वि- द्यमानमपि सुपुप्ती अज्ञानं विक्षेपाभावादविद्यमानसमम् अकिश्चि त्करत्वात् इत्यभिप्रायं ज्ञेयमित्यर्थः । सर्वत्रोपपत्ति पूर्वोक्तां स्मा- रयति। न स्पष्टमिति। अत्र स्पष्टं तमसो डनुभवो नास्ति यतः, तस्मादिति योजना ॥ १२६ ॥ अव. तथाऽन्यदपि केषाश्चित आचार्याणां वाक्यमुदाहरति- अज्ञानतज्जमतिहीनतया सुषुप्ते शुद्ध: परोऽसि भगवानसि नित्यमुक्त: ॥ कामश्र कर्म सकलं च तदा कुतसत्यं चित्सागरेऽनवकरे त्वयि तायमाने ॥ १२७॥ अज्ञानतज्जेति । अनवकरे अनात्मसङ्कररहिते त्वाये
667
Page 668
संक्षेपशारीरके तृतीयोऽध्यायः।३। ७९
तायमाने परिपूर्णतया अभिव्यज्यमाने इत्यर्थः ॥ १२७ ॥ अव. यद्येवम् अस्पष्टतया जपि सुषुप्ते ज्ञानं तिष्ठति, तस्मिंश्च लीनतया सकलं जगदप्यस्ति, तर्हि तत्रात्मनो विशुद्धि: कथमु- च्यते ? इति चेत्, तत्राह- आसीदहं करणमात्मतमोनिमित्तं तज्जाग्रतश्र भवतः स्वपतश्र दुःखम् ॥ आनीय दर्शयति तन्न सुषुप्तकाल बीजक्षयादिति भवानतिनिर्मलोऽभूत ॥१२८॥ आसीदिति॥आत्मतमोनिमित्तम् अज्ञानकार्य यत् अहंकर- णमासीत् तत् स्वपतः स्वमं गतस्य जाग्रतश्च तव सुखदुःखंसुखं च दुःखं चानीय उन्भाव्य दर्शयति। अतः अहङ्गारकञ्चुकेनाविष्टत्वा- देव तवाशुद्धि: इत्यशुद्धिबीजमहङ्कारः नाज्ञानस्वरूपमात्रमित्य- भिपायः। सुपुप्तिकाले तदहङ्करणं नासीदित्यहङ्काररूपसंसारबी- जक्षयात् भवान्सुषुप्ती अतिनिर्मलोऽभूदिति योजना। अतः सबीजस्य दुःखस्य तदानीमभावात्सत्यप्यज्ञाने प्रत्यगात्मा Sति- निर्मल एव अवगम्यते इत्यर्थः ॥ १२८॥ अध- अहङ्गारं प्रति उपादानत्वमज्ञानस्य यदुक्तम् आत्मत- मोनिमित्तमित्यत्र, तत्सिद्धये तस्य भावरूपत्वमुंक्त्तं स्मारयति- सद्रपमावरणतानुभवादभीष्ट- मज्ञानमात्मचिति नैशतमोवदेतत् ।। ज्ञानं दिवाकरवदस्य जडप्रकाश- रूपं निवर्तकमिति प्रवदन्ति धीराः ॥ १२९॥ सदूपमिति॥ आत्मचिति स्वप्रकाशतया नित्यपाप्तपकाश-
668
Page 669
८० अन्वयार्थप्रकाशिकाविभूषिते
स्वभावे आत्मनीति यावत्। अज्ञानम् आत्मचित्यावरणतानुभवात् यथावत्सफुरणाच्छादकतया ऽनुभूयमानत्वात् एतत् सद्रूपमभीष्टं नै- शतमोबत् अन्धकारवदिति योजना। विमतं सद्रूपम् आवरकत्वात्त- मोवदित्युक्तं भवति।नह्यभावस्य प्रकाशाच्छादकत्वं सम्भवतीत्यतः आवरकत्वादेव तमश्च भावरूपमेष्टव्यं तार्किकैरपीति भावः । न- न्वेवं सति अज्ञानस्य चित्प्रकाशेन विरोधाभावात् चित्पकाशस्य चात्मस्वरूपतया नित्यत्वेनागन्तुकत्वाभावात्, आगन्तुकज्ञानाभावे सति कथमज्ञाननिटृत्ति:सम्भवेत् ! इति चेत्, तत्राह। ज्ञानं दिवा- करवदिति। दिवाकर इव तमसोऽस्य अज्ञानस्य जडप्रकाशरूपं ज्ञानं महावाक्यप्रमाणजनितसाभासान्त:करणवृत्तिलक्षणं निवर्त्त- कम् इति धीरा: धीमन्तः प्रवदन्तीति योजना ॥ १२९ ॥ अव. अज्ञानस्य भावरूपत्वे वादिभिरपि न विवदितुं श- क्यमित्याह- प्रावादुकैरवि तथैव तदेषितव्यं
संवेदनेन खलु संविदभावरूप- मज्ञानमभ्युपगतं न च बुद्धभावः ॥ १३० ॥ प्रावादुकैरपीति।।अस्फुरणमिति च्छेद:।अग्रे उत्तरकालमि- त्यर्थः। संविदभावो वा बुद्ध्यभावो वा संवेदने ज्ञानं भविष्यति कुतोऽस्य भावरूपत्वसिद्धिरिति चेत्, तत्राह। संवेदन इति। संवेदनस्य वेदनान्तरवेद्यत्वानङ्गीकारान् संविदभावो बुद्ध्यभावो वा संविदस्फुरणमिति। परिशेषान्ावरूपाज्ञानादेव संविदस्फु- रणमङ्गीकार्यमित्यर्थः ॥१३० ॥ अव. तदेवमज्ञानकार्यस्याहङ्कारस्य तत्कतदुःखस्य चाभावा-
669
Page 670
संक्षेपशारीरके तृतीयोऽध्यायः। ३। ८१
त्सुपुपे संसाराभाव: उच्यते, नत्वज्ञानस्यापि अभावात्, अतश्र तद्विषयाणि भुत्यादिवाक्यानि न विरुद्धानीत्युपसंहरति- तस्मादशेषजगदेकनिदानभृत- मज्ञानमात्मविषयं न विरुद्धसूचुः ॥ वेदावसानवचनानि मुनीश्वरा्च स्थानेषु भूरिषु ततोऽवकरो न कश्चित् ॥१३१। तस्मादिति ॥ भवकरः सङ्करो विरोधः इति यावत्। स्पष्टमन्यठ् ॥ १३१ ॥ अय. ननु सुपुप्ते अज्ञानानुभव इष्यते चेत्,तदनुभवितृत्वरक्षणं प्रमातृत्वमपि स्यात्, तथा चाहङ्गारो Sपि तत्र स्यादिति चेतु, मैवम्। साक्षित्वमात्रेणाज्ञानस्य तदाऽनुभवादिति परिहरति- साक्षित्वमात्मतमसा मतिकञ्चुकेन मातृत्वमेतद्पि नेह सुषुप्तिकाले.।। यद्ेतुकं भर्वात यन्न हि तद्विना तत संभाव्यते न च तदत्र सुषुप्तिकाले ॥ १३२ ॥ साक्षित्वमिति ॥ चिदात्मनि आत्मतमसा स्वसंवद्धाज्ञा- नमात्रेण साक्षित्वम् अज्ञानसंबन्धमात्रेणात्मनः साक्षित्वं भवति नाहङ्गारापेक्षं तत्, सुपुप्तौ च साक्षिमात्राकारेणैवाज्ञानानुभवन- मित्यर्थः। मातृत्वं पुनर्मतिकञ्चुकेन अन्तःकरणोपाधिपवेशन भ- वति नाज्ञानसंबन्धमात्रात्, एतदपि मतिकञ्चुकम् इह सुषुप्तिकाले नास्ति, तदभावे च तत्र मातृत्वमपि नास्ति हेत्वभावे फलाभावा- दित्याह। यद्धेतुकमिति। व्याप्तिमुत्का पक्षधर्मतामाह। न च तद- त्रेति। सुपुप्तावात्मनो न प्रमातृत्वमस्ति तत्र तद्धेत्वभावात्, यत्र
670
Page 671
अन्वयार्थप्रकाशिकाविभूषिते
यस्य हेत्वभावस्तत्र तन्न भवति, यथा महाहदे वन्हभावे घूमस्या- प्यभावस्तथा चायं तस्मात्तथेति प्रयोगः ॥ १३२॥ अव. ननु यदि सुपुप्तावज्ञानानुभवः स्पष्टो नास्ति तदा डज्ञानमेव तत्र नास्तीति कस्मान्न निश्चीयते, तदभावे च तत्र लीनं जगदपि नास्तीत्येवं कल्पनयिम्, एवं चात्मविशुद्धिश्रुतिरसङ्कुचि- तार्था भविष्यतीति चत्, मैवम्। सुपुप्तेर्मोक्षवैलक्षण्याभ्युपेयत्वाद्। अन्यथा पुनरुत्थानाभावपसङ्गात्। अत उत्थानलिङ्गादेवाज्ञानं प्रवविलानस्वकार्य सुपुप्तावस्तीत्यङ्गीकार्यमित्याह- अज्ञानमस्ति सकलं च सुषुप्तिकाले तत्र प्रलीनमिति यद्यपि नास्ति पुंस: ॥ स्पष्टानुभूतिरपवर्गविलक्षणत्वा- देष्टव्यमेव तुसुषुप्तिभुनस्तथात्व्रम् । १३३ ।। अज्ञानमस्तीति ॥ सुषुप्तिसुवः सुपुसतिस्थानस्य । तथात्वं प्रविलीनसमस्तस्वकार्याज्ञानवत्वमित्यर्थः ॥ १३३॥ अव. यद्यात्मनि सुपुप्तावप्यज्ञानं यथोक्तरूपमस्ति तर्हि त- स्यानागन्तुकत्वाच्चैतन्यवत्स्वाभाविकमेव तत् स्यात् इत्याशङ्कते- एवं सतीह तमसो न वितिच्य वस्तु साक्षान्निवेदयितुमस्ति निदर्शनं चेत् ।। नैतत्परागवगतेर्विषयो विभाति गाढं तमो न तु तथाऽवगतिः प्रतीचि ॥१३४।। एवं सतीति ॥ सुपुप्तावप्यज्ञानसन्भावे सतीत्यर्थः। इह सु- पुसौ वस्तु आत्मस्वरूपं तमसः सकाशात्साक्षाद्विविच्य निवेदयितुं
67
Page 672
संक्षेपशारीरके तृतीयोऽध्यायः। ३। ८३
निदर्शन पमाणं नास्तीति चेदिति योजना। उक्तस्य तमसो दृश्य- त्वादेवात्मस्वभावत्वाभावासद्धिरिति परिहरति। नैतदिति। गाढं तमः सुपुप्तौ परागत्रगतेः परातेन दृश्यतयाऽवगतिरनुभवः त- स्याः विपयो विभाति विषयत्वेनैव तत्राज्ञानानुभव इत्यर्थः । प्रतीचि प्रत्यगात्मनि तथा विषयत्वेनावगतिर्न त्व्ति, अतो जनुभवानुसारेण प्रत्यकूपराग्भावेन आत्माज्ञानयोर्विवेक: सुसं- पाद इत्यर्थ: ॥। १३४ ।। अव. उक्तमेवार्थ विविच्य दर्शयति- प्रत्यक्पराग्विषयवस्तु विवेच नाय क्रेशो न सम्भवति कस्य चिदत्र जन्तोः ॥ दृश्यं तमो घटाटादिवदेष तस्य द्रष्टा सुषुप्तिभुवि चिद्धनविग्रहोऽ्भत् ॥१३५॥ प्रत्यक्परागिति॥ अनुभवानुसारित्वाद्विवेकस्य न क्ेशो त्र सम्भवतीत्यर्थ:।ननु एवंविधो विवेक: स्पष्टत्वाज्जागरिते स्यान्न सुपुप्ताविति चेत, न। उत्थितस्य परामर्शस्व्रभावानुरोधेन कल्प्यमा- नाज्ञानानुभवस्य तथेव कल्पनादित्याह। दृश्यं तम इति। सुषुप्तियुवि तमो घटपटादिवत् दृश्यमभूत्, एप चिद्धनविग्रहः आत्मातस्य द्रष्टा डभूदिति विवेकोपपत्तेरित्यर्थः । उत्थितो हि सौषुप्तानुभवं परामृ- शन् “अहमेतावन्तं कालं न किश्चिदवेदिषम्" इति परामृशति। तत्राहमिति द्रष्टोल्विख्यते, नावेदिपमिति चावेदनं ज्ञानपर्युदासे- नाज्ञानं द्रष्डर्द्टश्यत्वेनैवोल्लिख्यते, अतस्तदनुस्ारेण स्वापावस्था- यामप्यज्ञानं विषयत्वेन, आत्मा च तद्द्रष्टा प्रत्यत्केन अविषयत- याभादिति कल्प्यते इत्यभिप्रायः ॥१३५॥ अव. तथाप्यवस्थावत्वं मम स्यादिति चेतु, न। अवस्थाना-
672
Page 673
अन्वयार्थप्रकाशिकावविभूषिते
मपि तव दृश्यत्वादित्याह- तिस्रोऽपि चिद्धनतनोस्तव दृश्यभूता: दूरे चकासति मतेर्बहिरेव तावत्॥ आविस्तिरोभवनधर्मतया ह्यवस्था: क: सङ्करो विमलचिद्वपुषः स्तवाभिः ॥१३६॥ तिस्र इति॥ मतेः तिस्रोऽप्यवस्थाःइति संबन्धः। चिद्धनतनोः स्वपकाशज्ञानरूपस्य तव बहिरेव विषयत्वेनैव तावत् दृश्य भूताना- त्मधर्मत्वेनेति यावत्। हि यस्मादाविस्तिरोभवनधर्मतया आगमा- पायवसतया दूरे चकासति पृथगेव भासन्ते । तस्माद्विमलचिद्व- पुपस्तव ताभिः अवस्थाभिः कः सङ्करः कुतो वैशिष्ठ्यमिति योजना ॥ १३३॥ अव. नन्ववस्थानां मतिधर्मत्वे Sपि नात्मनः शुद्धि: सि- द््यति, सावस्थाया: मतेरात्माश्रितत्वाव नान्याश्रयत्वं स्वातन्त्रयं वा मतेर्युक्तम् अद्वैतमतविरोधादिति चेत्, तत्राह- त्वय्येत कल्पितमहङ्करणं बिभर्ति तिस्रोऽपि ताः सहितमेत्र तु तच्च ताभिः ।। त्वच्चित्प्रकाशविषयत्वमुपेत्य भाति स्वाज्ञानवत्तत न रूपमतश्रतुष्कम ॥ १३७।। त्वय्येवेति ॥ तिस्र्रो Sपि ताः अवस्थाः त्वयि कल्पितमे- वाहङ्करणम् अन्तःकरणं विभर्तति, अवस्थाश्रयभूताऽपि मतिस्त्वय्य ज्ञानकल्पिता Sध्यस्तैवेति नाद्वैतमतविरोध इत्यर्थः । तथाप्यव- स्थाभ्यस्तद्धर्मकाहङ्करणाच्चात्मा कथं विविच्य पत्येतव्यः इतिचेत्, साक्ष्यसाक्षिभावेनेत्याह। सहितमेव त्विति। तच्चाहङ्करणं ताभि-
673
Page 674
संक्षेपशारीरके तृतीयोऽध्यायः ।३।
रवस्थाभिः सहितमेव त्वच्चित्प्काशविषयत्वमुपेत्य प्राप्य भाति, न स्वतो नापि परस्परमित्यर्थः। अतो दृश्यत्वात्स्वाज्ञानवदिदमपि चतुष्कम् अवस्थात्रयमहक्वरणं च तब तत्साक्षिणो द्रष्टुर्न रूपं न स्वभाव इत्यर्थः । अतो वस्तुतो मतेरवस्थानां चाभावान्नावस्था- तदाश्रयकताऽशुद्धिशङ्काऽप्यात्मनोऽस्तीति भावः ।। १३७ ।। अव. तथापि मतेस्तदवस्थानां च पृथक सच्वान्राद्वैतता - तीचः प्रतीयेतेति चेन्, नेत्याह- नान्वेति तत्तव चिता व्यतिरेकिता तु दूरे न सम्भवति तस्य चतुष्टयस्य ॥ नाभावरूपभजनाय समर्थमेत- देवं चिदेव तु चतुष्टयमेतदासीत ॥ १३८॥ नान्वेति तदिति॥तत् पूर्वोक्तं चतुष्कं तव चिता चिदात्म- केन तव स्वरूपेण नान्वेति, स्वरूपतया वा धर्मतया वा न सं- बध्यते स्वभावविरोधादित्यर्थः । तथा तस्य चतुष्टयस्य व्यतिरे- किता तु त्वत्स्वरूपानाश्रयणेन स्वतन्त्रता तु दूरे न सम्भवति नैव सम्भवतीति यावत् । जडस्य स्वरूपतोऽज्ञानकल्पितस्य तस्य सत्तास्फुरणयोः स्वातन्त्रयाभावादित्यर्थः। तर्हयत्यन्तासदेवैतत्स्या- दिति नेत्याह। नाभावेति। शून्यरूपत्वभजनायाप्येतन्न समर्थम् अपरोक्षत्वादित्यर्थः । परिशेषसिद्धमर्थमाह। एवं चिदेव त्विति । एतत् चतुष्टयं वस्तुतो विचार्यमाणमेवं सति चिदेव विशुद्धत्वद्रूप- मेवासीत्, त्वत्स्वरूपातिरिक्तमिदं नाभूदस्ति भविष्यतीति नि- श्वयोपपत्तेः पतीचो डद्वैतता पतीयेतैवेति भावः ॥ १३८ ॥ अव. ननु यदि दृश्यं सर्वे कल्पितं तर्हि दृगपि कल्पितै- वास्तु वस्तुत्वादिति चेत्, मैवम् । व्यभिचारित्वोपाधिहतत्वादनु-
674
Page 675
८६ अन्ययार्थप्रकाशिकािभूषिते
मानस्येत्याह-
च्चैतन्यं व्यभिचारिणीष्तनुगतं तत्सत्यमेत्रात्मनः ।। यत्किन्चिद्यभिचारि तन्ननु मृषा स्क्सर्पदण्डादिव न्नानुस्यूताचिदात्मवस्तु वदितुं शक्यं मृषा रज्जुवत।।१३९।। जाग्रत्स्वमेति॥ तनूनिष्क्रान्ति: मरणम्।अवस्थानां व्यभि-
वस्थासु यदात्मनश्चैतन्यमनुगतं तत् सत्यमेव। न हि चैतन्यम् उक्ता- वस्थाःव्यभिचरति, तथा सति अवस्थानां सर्वस्यापि दृश्यस्य अ- सिद्धि पसङ्गात्, अतो न साधनव्यापकतोपाधेरित्यर्थः। व्यभिचारि त्वमेव कल्पितत्वे प्रयोजकं न वस्तुत्वमपीत्यत्रोभयत्र व्याप्तिमाह । यत्किश्च्िदिति। तन्ननुमृपा तदेव मृपेत्यर्थः।सुगममन्यत्। अस्य पद्य- स्यापरा योजना। एवम् उक्तचतुष्कस्य चिदात्मव्यतिरेकेण सत्वं न सम्भाव्यते इति अतस्तस्यात्मनि कल्पितत्वमेवेत्युकतं, तदेवेदानीं कल्पितत्वं साधयति। जाग्रत्स्वन्नेति । विमतं सर्व चिदात्मननि कल्पितं चिदात्मन्यनुवर्त्तमानेऽपि तव्यभिचारित्वात्।व्यभिचा- रित्वं त्ववस्थानां व्याख्यातम् । चिदात्मन्यागमापायित्वं वा तव्य- भिचारित्वं तच्चानुभवसिद्धमिति न हेत्वसिद्धिः। अवस्थानामात्म- व्यभिचारित्वे त्वात्मनोऽपि तव्वभिचारः स्यात् । अतो हेतो- रात्मनि व्यभिचार इत्याशक्ाह। अनुगतमिति। आत्मनो जवस्थाव्यभिचारित्वे तदसिद्धिमसङ्गान्न तत्र हेतुरस्तीति न व्यभिचार इत्यर्थः । इदानीं व्यभिचारिण: कल्पितत्वे व्य- भिचारिणः परमार्थत्वे च क्रमेण व्याप्तिमाह। यत्किश्चि- दिति। ननु निश्चितमित्यर्थः। चिदात्मव्स्तु मृषा वदितुं न
675
Page 676
संक्षेपशारीरके तृतीयोऽध्यायः।३। 6७
शक्यमिति संबन्धः । अनुस्यूतेति विशेषणं तत्र हेतुः। अन्याऽप्यस्य योजना। चिदेव तु चतुष्टयमेतदासीदिति चतुष्टयस्य चित्तादात्म्य- मङ्गीकृतं चेत् चिदात्मभूतस्य चतुष्कस्य व्यभिचारित्वाचचिदात्मनो डपि स्याव्यभिचारिता, ततः "तदेतत्सत्यम्" "तत्सत्यं सआत्मा" इत्यादिश्रुतेः बाधप्रसङ्ग इति चेत्, मैवम् ।व्यभिचारिणीषु सा- क्षित्वेनानुगतस्य व्यभिचारासम्भवादित्याह। जाग्रत्स्वम्ेति । व्यभिचारिणीष्ववस्थास्वनुस्यूतत्वेन चिदात्मनः सत्यत्वोक्ती अर्थादवस्थानां तासां मृषात्त्रमपि प्रतिज्ञातममिति सिद्ध्ति । अतस्तदुभयं व्याप्तिमुत्का साधयति। यत्किश्च्िदिति । तस्मा- न्मृषार्थतादात्म्यस्यापि इति भाव: ॥ १३९ ॥ अव. नन्वेवमज्ञानकल्पितत्वाच्चतुष्कस्य मृषात्वादात्मनस्त-
नुवादपूर्वकम् अज्ञानस्याप्यात्मनि कल्पितत्वमाह- जाग्रत्स्वप्रसुषुप्तिधर्मकमदं चित्तं त्वदज्ञानतः प्रादुर्भूतमतस्त्वमेव सततं त्वत्तो न तल्विद्यते॥। स्वाज्ञानं चतवानुभतिबलतः सिद्धं मृषा तत्वतो नासीदस्ति भविष्यतीति भवतः पूर्णा चितिःशिष्यते॥१४०॥ जाग्रत्स्वप्रसुषुसतिधर्मकमिति ॥ उक्तानुवादात्मकेन पूर्वार्ेन पूर्वश्लोकोक्तानुमानस्योपनयनिगमने दर्शिते, उत्तरार्धेन शङ्गितदोषपरिहारः इति विभागः । स्वाज्ञानं चेति चकारोऽप्यर्थे। स च जाग्रदादिद्ृष्टान्तार्थः । स्वाज्ञानं च तवानुभूतिबलतः सिद्धं त्वत्सत्तास्फूर्त्यधीनसत्तास्फूर्तिकम्, अतो दृश्यत्वादवस्थावदज्ञा- नमपि मृषा कल्पितं न परमार्थमित्यर्थः । अतः कालत्रयेऽप्यज्ञा-
676
Page 677
अन्ययार्थप्रकाशिकाविभूषिते
नतत्कार्यरूपस्य दश्यस्य चिदात्मननि तर्बतोऽसम्भवाभित्यशद्वु- दसुकस्वभाव एवात्मेति फळितमर्थमाह।अतोनासीदिति।।१४०॥ अव. एवमात्मनो नित्यशुद्धत्वे रक्तयुक्तीनामनुय्राहं पमाणं वदन् अर्थादस्माकं मतं न वैख्वेषिकादिमतवत् स्वयुद्धयभ्यूहमात्र- सिद्धं किन्तु श्रृतिमौळिनमाणसिद्धमिति दर्शयति- उयोतिर्वराझणवाक्यमानबळतः संपूर्णरूपा चिति- जाग्रत्स्वप्रसुपुप्तिधर्मरहिता मोक्षाय निश्चीयते ।। तरमादस्मदुदीरितं स्वकतपुः अ्रद्धतस्व्र मानं विना नास्माभि: प्रतिपादिता चितिरियं वाक्यार्थसंबन्धिनी।१४१।। ज्योतिर्ब्रा्मणेति । तन्र हि "किश्योतिरेवायं पुरुषः" इत्यादिना "अन्नायं पुरुषः स्वयंज्योतिः" इत्यन्तेनात्मनः सर्व-
परेण प्रन्थेन अवस्थात्रयस्यागमापायित्वोक्तिपूर्वकं पहामत्स्यननि- दर्शनेन असङगत्वं चोपपाद, आत्मनो नित्यशुद्धचिद्रूपत्वं प्रतिपा- दितं दश्यते, अतो नात्र शङ्का कार्येत्यर्थः । अक्षरार्थस्त्वतिरो- हितः। मोक्षायेति ब्रह्मभावायेत्यर्थः । यस्मात्पमाणसिद्धोऽयमर्थः तस्माद्युप्वाऽस्मदुदीरितं स्वकवपुः स्वस्वरूपं श्रद्धत्स्व तथैवेति विश्वसिहि। इयं वाक्यार्थसंबन्धिनी चितिः अस्माभिःमानं विना न पतिपादिता, किन्तु मानसिद्धायामेवास्यामसम्भावनापोहाय युक्तयोऽभिहिता: इत्यर्थ: ॥ १४१ ॥ अव. त्वंपदार्थतत्वशोधनपकरणमुपसंहृत्य, तत्पदार्थतत्व- शोधनप्करणमारभमाणः तत्र शिष्यपश्नमुत्थापयति- एवं त्वंपदलक्ष्यवस्तु भवता यत पृष्टमासीत् पुरा
677
Page 678
संक्षेपशांरीरके तृतीयोऽधंयायः। ३।
तन्निर्णीतमतोऽन्यदस्ति यदि ते चित्तस्थितं पृच्छ तत। बुद्धिस्थं कुरु पूर्वमुक्तमखिलं यद्दक्ष्यमाणं च तद् बोहुं धारय ते मनः स्थिरतरं श्रद्धाधनाद्याश्रयः॥१४२। एवं त्वंपदेति । शिष्यजिज्ञासानुसारेण बोद्धयमानो हा- र्थः सम्यकू बुद्धिमारोहतीत्यभिप्रेत्याह। अतोऽन्यदस्तीति। अर्था- न्तरपश्नव्यग्रतया पूर्वगृहीतस्य विस्मृतिर्मा भूदित्याह। बुद्धिस्थ- मिति। तत्रैव लग्नचित्तश्चमा भूः, तदा हि प्रतिवचनार्थग्रहणं न भवे- दित्यभिपेत्याह। यद्वक्ष्यमाणमिति। श्रद्धाधनाद्याश्रय इति सूक्ष्मा- र्थावधारणे श्रद्धायाः अन्तरङ्गत्वं सूचितम्। एवमुक्तवक्ष्यमाणयो- रर्थयोः शिष्यबुद्धिसंग्रहकथनं, पदार्थज्ञानमात्रान्न ते कृतकृत्यता किन्तु वाक्यार्थज्ञानादेवेति दर्शयितुमिति द्रष्टव्यम्॥ १४२ ॥ अव. एवं गुरुणाऽभ्यनुज्ञातः शिष्य: उक्तार्थानुवादपूर्वकं तत्पदलक्ष्यार्थवुभ्ुत्सामाविष्करोतीत्याह- इत्युक्ते गुरुणा स पृच्छत पुनसत्वंशब्दलक्ष्यं मम ज्ञानं न्यायबलेन पूर्वमुदितावस्थात्रयापोहनात॥ तच्छद्देन तु लक्ष्यमर्थमधुना बोडुं मनो मामकं धावत्याशु तमप्यपोह्य सकलद्वैतप्रपञ्चंवद ॥१४३॥ इत्युक्ते गुरुणेति॥ मम ज्ञानं जातं, मया सम्यगवधारि- तमित्यर्थः । सकलद्वैतपपश्चमपोह्य युक्तिभिर्निरस्य तमपि तत्प- दलक्ष्यार्थमपि वदेति योजना ॥ १४३॥ अव. पश्नपकारमाह- किं सप्रपञ्चमिदमरत्वथ वा समस्त- द्वैतप्रपञचरहितं परिपूर्णरूपम् ॥ १२
678
Page 679
९० अन्घयार्थप्रकाशिकाविभूषिते
यद्ोभयात्मकमिदं परमार्थतोऽस्तु वरिष्णोः परं पदमितीह विचारणीयम् ॥१४४॥ किं सप्रपश्चमिति॥ परमार्थतः इति पदं पूर्वयोरपि पक्ष- योः सम्बध्यते। इदं ब्रह्म। सुगममन्यत् ॥ १४४॥ अव. विचारणीयमित्यनेन सन्देहः सूचितः । तमेव सन्देहं तद्वीजप्रदर्शनपूर्वकम् आविष्करोति- वेदान्तवाक्यगतिरत्र बहुप्रकारा का चित्कथन्चिदिति संशय उत्थितों मे॥। तत्त्वं प्रकाशय निवर्तय मोहमूलं मत्संशयं मम हिताय भत्र प्रसीद ॥ १४५॥ वेदान्तवाक्यगतिरिति॥काचित्कथश्चिदिति।अस्याय- मर्थः। यद्यपि जन्मादिसूत्रे निष्पपञ्चमेव ब्रह्म लक्षितम्, आरम्भ- णाधिकरणे च तथैवोपपादितम्। तथापि "सत्यकामः सत्यसङ्गल्पः सर्वकर्मा सर्वकाम: सर्वगन्धः सर्वरसो वामनीः भामनीः" इ- त्येवं सविशेषवाक्यानामपि ब्रह्मपराणां श्रयमाणत्वाद्वेदान्त- वाक्यगतेरेव व्याकुलतादर्शनात् तस्या: विपयव्यवस्थया निर्णयस्य च मम अनुदयात् पूर्वश्लोकोपन्यस्तस्त्रिकोटिक: संशयो मम जातः इति। कि तत्रोभयविधश्चतिदर्शनात् श्रुत्येकगम्येऽर्थे विरोधस्या- नवगाहनात् उभयात्मकमेव ब्रह्म मया प्रत्येतव्यम्, उपाधिवशाङ्गह्म समपश्चं स्व्रतस्तु निष्मपश्चमिति व्यवस्थया वा उभयरूपंब्रह्माभ्यु- पेयम्, अथवा निष्पपश्चवाक्यस्यान्यपरत्वकल्पनया सपपश्चमेव ब्रह्मतत्वं ज्ञेयम्, समपश्चवाक्यस्यान्यपरत्वकल्पनया वा निष्प- पञ्चमेव ब्रह्म विज्ञेयमिति संशयानं मां प्रति तत्वं याथात्म्यं
679
Page 680
संक्षेपशारीरके तृतीयोऽ्ध्यायः।३। ९१
ब्रह्मण: प्रकाशय, मम मोहमूलं मत्संशयं निवर्तय, मम हिताय भव, मसीद मम मसन्नो भवेति ॥ १४५॥ अव. एवमुपसन्ने जिज्ञासौ शिष्ये उभयविधं ब्रह्मेति यत् प्रकारद्येनोत्मेक्षितं तन्न युक्तम् इति तावत् गुरुराह- न स्थानतोऽप्यस्ति परस्य कश्रिद् विशेषयोगः परमार्थरूप: ॥ स्वतः पुनर्दूरनिरस्त एव परस्य तत्त्वस्य विशेषयोगः ॥ १४६ ॥ न स्थानतोऽपीति॥ परस्य ब्रह्मणः कश्चित् परमार्थरूपो विशेपयोगः सपपञ्चत्वलक्षणः स्थानतः उपाधितोऽपि नास्ति, "पृथिवीमय आपोमय" इत्यादौ पृथिव्याद्युपाधियोगात् श्रूयमा- णोऽपि विशेषो ब्रह्मणः परमार्थतो नास्तीत्यर्थः। स्थानतो Sपी- त्यपिशब्दसूचितमर्थमाह।स्वतःपुनरिति। स्वतस्तु सुतरां विशेष- योगो दूरनिरस्त एवेत्येतत्साधयति। परस्य तत्वस्येति । परस्य कार्यकरणप्पञ्चातीतस्य नेतिनेत्यादिलक्षणस्य यत्तत्वं याथात्म्यं स्वाभाविकं स्वरूपं तस्येत्यर्थः ॥ १४६ ॥ अव. यद्यपि जन्मादिसूत्रे सत्यज्ञानादिरूपं ब्रह्म लक्षितं, नेतिनेत्यादिभिश्च श्रुतिवाक्यैनिर्विशेषं तदित्यवगतं, तथापि त- स्योपाधियोगात्सविशेषत्वमपि परमार्थमभ्युपेयं, तस्यापि श्रृति- सिद्धत्वादिति चेत्, मैवम्। उपाधियोगात्मतीयमानस्य विशेषस्य मृषात्वादिति सदष्टान्तमाह- स्वभावतश्रदृघनविग्रहस्य मृषा ह्युपाधिप्रभवा विशेषाः ।।
680
Page 681
९२ अन्वयार्थप्रकाशिकाविभूषिते
यथा जपापुष्पनिबन्धनः स्यात् मृषा मणेर्लोहितिमा तथैव ॥ १४७ ॥ स्वभावत इति ॥ सैन्धवघनवद्विज्ञानघन एवेत्यवधारणा- त् स्वभावतश्रिदेकरसस्य उपाधिप्रभवाः विशषाः मृषा स्युरिति योजना। यथेति दृष्टान्तार्थःस्पष्टः। तर्थवोपाधिप्रभवाः विशेषा: इति पूर्वेणान्वयः । उपाधिसम्बन्धस्यापि ब्रह्मणि परमार्थत्वा- सम्भवान्न तद्योगकृतो विशेष: परमार्थः, अतः सविशेषब्रह्मवा- क्यानां न स्वार्थपरता इत्यन्यार्थताकल्पनस्यावश्यंभावात्, निर्विशेषवाक्यानां च गत्यन्तरासम्भवेन स्वार्थपरत्वनिश्चया- न्निर्विशेषमेकरूपमेव ब्रह्मतत्वमवधेयमिति पक्षान्तरकल्पनाशङ्का- डपि सर्वा निरस्तैवेति भावः ।१४७ ॥ अव. नन्वीश्वरत्वलक्षणो विशेषो ब्रह्मणि वास्तवोऽ्भ्यु- पेयः, अन्यथा तस्यानीश्वरत्वप्रसज्गात्। तथा प्रतीचो जीवत्वरूपो विशेष: स्व्रीकरणीयड,इतरथा तस्यापीश्वरत्वं जडत्वं वा प्रसज्ये- तेति चेतु, मैवम्। उभयत्राप्युक्तविशेष योरौपाधिकत्वादित्याह- मायोपाधेरद्वयस्येश्वरत्वं कार्योपाधेर्जीवता च प्रतीच: ।। मिथ्यैव स्याद बन्धुजीतप्रमून- संपर्कोत्था रक्ततेवाभ्रकादेः ॥। १४८॥ मायोपाधेरिति ॥ अद्यस्य ब्रह्मणः ! ईश्वरत्वस्येशित- व्यापेक्षत्वाद्विना मायायोगम् अद्वयस्येशितव्यासम्बन्धात् माया- कल्पितमवेश्वरत्वमित्यर्थः । तथा प्रतीचोऽहङ्कारादिसाक्षिण: स्व- स्मिन् स्वाज्ञानाध्यस्तकार्योपाधिप्रयुक्तमेव जीवत्वं, कर्तृत्वपमा-
68
Page 682
संक्षेपशारीरके तृतीयोऽध्यायः ।३। ९३
तृत्वादिसंसारधर्मयोगित्वं हि जीवत्वं, कर्तृत्वादि च न तस्मिन्न- इङ्काराद्युपाधिसम्बन्धमन्तरेण निरूपणपथमवतरतीति जीवत्व- मप्यौपाधिक मेवेत्यर्थः। उपाधिसंबन्धकृतोऽपि धर्मः पारमार्थिकः स्यादिति न शङ्कास्पदम् इत्यौपाधिकस्य मिथ्यात्वम् अनुमानेन साधयति। मिथ्यैव स्यादिति। बन्धुजीवपसूनं नाम मध्याह्नवि- कासिरक्तवर्णपुष्पविशेषः । अभ्रकं तु सूर्यतप्तजलस्थलनिष्पन्रः शुभ्रवर्णो धात्वाभासविशेषः।। १४८।। अव. यदौपाधिकं तन्मृषेति न व्याप्तिः, भल्लातकोपाधिकल- झ्विते वस्त्े व्यभिचारात्।न च तदपि मृपा, तस्य सति वस्त्रे वि- योगादर्शनात्, तथा च व्याप्त्यभावान्नेश्वरत्वादिकम् उपाधि- पयुक्तमपि मृपेति चेत्, तत्राह- भल्लातकादिरसयोगनिबन्धनं च वस्त्रे कलङ्कितमनेन पथा निरस्तम् ॥ तस्यापि पक्षपतितत्वमभीष्टमेव तस्मादसौ न भवति व्यभिचारभूमिः ॥ १४९॥ भल्लातकेति । अनेन पथेति सर्वेषामौपाधिकधर्मार्णा स्फटिकलौहित्यादिवन्मिथ्यात्वसमर्थनन्यायमार्गेणेत्यर्थः। अतः उक्तोदाहरणस्यापि पक्षतुल्यत्वान्न तत्र व्यभिचार: शङ्कनीयः इत्यर्थः । वस्त्रे भल्लातकरसकलङ्कवियोगादर्शनं तु तद्वियोजनस्य ुःशकत्वादेव, न परमार्थत्वात,तदानीमपि तन्तुगतशौक्कयस्य वा- स्तवस्यानपायात्, कालिम्रस्तु भल्लातकरससङ्गतस्यैव प्रतीतेःअतो वस्त्रं कलङ्गितमित्यविवेकनिबन्धनो भ्रमः इति भावः॥ १४९॥ अव. अस्त्वेवमौपाधिकस्यानृतत्वं, चिदात्मनि विशेषवत्व- मौपाधिकमेवेति कुतो निश्चीयते? इति चेत्, श्ुतिपामाण्यादिति
682
Page 683
९४ अन्वयार्थ प्रकाशिकाविभूषित
मन्वान: श्रुतिमेव पठति- यथा ह्ययं ज्योतिरात्मा विवस्वा- नपो भिन्ना बहुघैकोऽनुगच्छन।। उपािना क्रियते ेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा ॥ १५० ॥ यथा ह्ययमिति ॥ अयं हि प्रसिद्धो जयोतिरात्मा प्रका- अस्वरूपो विवस्वानादित्य: एक एव सन् भिन्ना आपो भिन्न- स्थानगततया भिन्नानि जलानि बहुधाऽनुगच्छन् प्रतिबिम्वरूपेण पविशन् उपाधिना भिन्नभिन्नजललक्षणेन भेदरूप: क्रियते विशेष- योग: संपाद्यते,जलभेदेन भेद: जलकम्पादिना च कम्पादिमच्वमि- त्यादिविशेपवत्ताप्रतीतिविषयः क्रियते। यथेति दष्टान्तभागार्थः । एवं यथाडयं दष्टान्व्स्तथाऽयमात्मा देव: स्वपकाशज्ञानमात्र- स्वरूपोऽजो जन्माद्विविकारशून्योऽपि क्षेत्रेपु स्थूलसूक्ष्मशरीरेपु भेदरूपो भेदविशेषविकारवत्तया रूप्यमाण: क्रियते, न स्वतो- डस्य भेदो विशेषो विकारो वाऽस्तीत्यर्थः ॥ १५० ॥। अव. परमात्मन: ऐश्वर्य मायोषाधिकमनृतमेवेत्युक्तं स्वमतं. स्थिरीकर्त्तु मतान्तरमुत्थापयति- ऐश्वर्यमस्य परमात्मन उक्तमन्यैः साक्षात स्वरूपमत्रबोधसुखादितुल्यम । तेनेशते किल यथायथमीशतिव्यान् भृत्यान् प्रतीश्चरतया जगतीभृतोऽपि॥ १५१॥ ऐश्वर्यमस्थेति ॥ अस्य परमात्मनो यदैश्वर्य तदप्यव- बोधसुखादिवत् सत्यज्ञानानन्दादिवत्साक्षात्स्वरूपमेवेत्युक्तेडर्ये यू-
683
Page 684
संक्षेपशारीरके तृतीयोऽध्यायः।३। ९५
क्तिमाह। तेनेशत इति । किलेत्यस्य पक्षस्यानभिमतत्वं द्ोत- यति। जगतीभृतो राजानो लौकिकेश्वराः तेऽपि यथायर्थं तार- म्येन ईशितव्यान् भृत्यान्पतीश्वरतया तेन लोके तारतम्येन प- तीयमानेनैश्वर्येण ईशते नियन्तारो भवन्ति। तच्चैश्वर्य तेषां स्व- रूपमेव सत् तत्र तत्रोपाधिवशात्तारतम्येनाभिव्यज्यते, अन्यथा जडस्य परतन्त्रतया ऐश्वर्यायोगात्तेष्वीश्वरत्वव्यवहारो निर्विषयः स्यादित्यर्थः ॥ १५१ ॥। अव. नन्वीश्वरत्वस्येशितव्यसापेक्षत्वात उत्पत्यादिमत्वात् तारतम्याच नात्मस्वरूपता युक्ता, निरपेक्षनित्यैकरूपत्वादा- त्मन: इति चेत्, तत्राह- नित्यं प्रियादिषु सुखं प्रतिबिम्बितं स- लोके वदन्ति विषयेन्द्रियसंप्रयोगात । उत्पन्नमन्यदिति तद्वदिहेश्रवरतवं मायातदुत्थमतिषु प्रतिबिम्बितं सत् ॥। १५२ ॥। नित्यं प्रियादिष्विति॥ यथा नित्यं कूटस्थं निरतिश- यमेकरूपमेव सुखं पियादिषु प्रीत्यास्पदविपयाकारबुद्धिदृत्तिषु। आदिपदं प्रीतिष्वेवाल्पत्वमहत्वादिभेदविषयम्। तेपु प्रतिबिम्बितं सत्पतीयमानं लोके विषयेन्द्रियसंपयोगादुत्पन्नमन्यदन्यदिति वदन्ति। तद्वदिह परमात्मनीश्वरत्वं मायातदुत्थमतिषु प्रतिबिम्वितं सत् सापेक्षत्वादिरूपेण प्रतीयते । तत्रापि मायायां प्रतिबिम्वस्य सापेक्षत्वमात्रम्, अन्तःकरणादिमायाकार्यप्रतिबिम्बि तूत्पत्याद्यपि प्रथते इति भेदः ॥ १५२ ॥ भव. अत्र मायारयां प्रतिबिम्वितमीश्वरत्वं नित्यं सर्वापेक्षं च सत् निरतिशयं परमेश्वरत्वं भवति, बुद्धिप्रतिविम्बितमीश्वरत्वं तु
684
Page 685
९६ अन्वयार्थप्रकाशिकाविभूषिते
तारतम्येन हिरण्यगर्भादिषु कर्मनिमित्तबुद्धितारतम्यानुरोधा- त्सातिशयमाश्वरत्वं भवतीत्याह- मायानिविष्टवपुरीश्वरबोध एष सर्वेश्वरो भवति सर्वमपेक्षमाणः ।। बुद्धिप्रतिष्टवपुरेष तथेश्वरः स्या- दात्मीयभृत्यजनवर्गमपेक्षमाणः ॥ १५३ ।। मायानिविष्टेति ।। आत्मीयभृत्येति । यस्य यावदीशि- तव्यत्वेनोपस्थितं भवति तावदपेक्षमाण इत्यर्थः । उक्तार्थम- न्यत् ॥ १५३ ।। भव. विदुषस्तु मुत्यवस्थायां पारमैश्वर्यपाप्तिदर्शनाच्चात्मनः ऐश्वर्य स्वरूपमेवेति गम्यते इत्याह-
स्व्रीये रूपे निर्गुणे निर्विशेष। पूर्णैश्चर्ये स्वप्रकाशस्वभावे स्वाराज्येऽस्मिन् स स्वराडेव तिष्ठेत ॥ १५४। सम्यगज्ञानेति ॥ निगदव्याखयावं पद्यम् ॥ १५४। अव. सम्यग्ज्ञानध्वस्तमोहपपश्चः स्वीये पूर्णैश्वर्ये तिष्ठे- दित्यत्र पमाणं श्रुतिमुदाहरति- ज्ञात्वा देवं सर्वपाशापहानि: क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः ।। तस्याभिध्यानात्तृतीयं देहभेदे
685
Page 686
संक्षेपशारीरके तृतीवोऽध्यायः।३।
विश्वैश्वर्य केवल आप्तकाम : ॥ १५५ ॥ ज्ञात्वा देवमिति।तस्य देवस्य ईश्वरस्याभिध्यानात् आभि- मुख्येन प्रत्यगभेदेन ध्यानात् तत्पसादेन तमेव देवं झात्वा विश्वै- श्वर्यमाप्नोतीति योजना। केन क्रमेणेत्यपेक्षायामाह।सर्वपाशाप- हानिः। पाशा: क्ेशा: अविद्याऽस्मितादयः तेषां सर्वेषां हानिर्वि- च्छेद: आत्यन्तिकः पथममस्य भवतीति योज्यम्। ततः क्षीणैः क्ेशैः क्रेशेषु क्षीणेष्वििति यावत्। क्रेशक्षये तत्प्युक्तकर्माभावाज्ज- न्ममृत्युप्हाणि: जन्मादिविकारहानिः अस्य सिद्ध्यतीत्यर्थः। तसो देहभेदे वर्त्तमानदेहस्य भेदने प्रारब्धक्षयान्नाशे सतीति यावत्। उक्तपाशक्ेशहानिजन्ममृत्युपहाणिरूपद्वयापेक्षया तृतीयं विश्वै- शवर्यमाप्नोति, ईश्वर एव भवतीत्यर्थः। तदा च केवलो निरति- शय आप्तकाम: कृतकृत्य एव तदा भवतीति शवेताश्वतरीयो- पनिषन्मन्त्रार्थः ॥ १५५ ॥ अव. स्वाराज्येऽस्मिन्नित्यत्रापि श्रुतिरस्तीत्याह- स स्वराडिति च विद्यते श्रुति- र्वर्णितेश्वरतपुःप्रकाशनी। तेन सत्यसुखबोधवद् भवे- दीश्वरत्वमिति के चिदूचिरे ॥ १५६ ॥ स स्वराडिति ॥ "आत्मक्रीड आत्मरतिरात्ममिथुन आ- त्मानन्दः स स्वराड् भवति सस्य सर्वेषु लोकेषु कामचारो भवति" इतिश्रुतिर्वर्णितेश्वरवपुःप्रकाशिनी विद्यते इत्यर्थः । उत्थापितं परमतमुपसंहरति। तेन सत्येति ॥१५६ ॥ अव. इदानीमेतद् दूपायतुमुपक्रमते- १३
686
Page 687
तन्न भाति चतुरस्रमुख्चकै- स्तत्प्रमाणविर्हादिह श्रुतौ ।। सत्यबोधसुखवन्न तत्परा सत्युघाच यत ईश्वरं श्रुतिः ॥१५७॥ तन्न भाति चतुरस्रमिति ॥ निषेधपतिज्ञार्यां हेतुमाह। उच्चकैस्तत्पमाणेति। इह आत्मनः ऐश्वर्यस्य स्वाभाविकत्वे श्रुतौ उपनिषद्धन्थेषु उच्चैस्तत्परतया तत्प्रतिपादकप्माणविरहादिति योजना। "एष सर्वेश्वरः" इत्यादिश्रुतिदर्शनात्कथं तत्ममाण- विरहः ? इति चेत्, मैवम्। एवंषिधश्चुतीनां स्वार्थपरत्वासम्भवा- दित्याह। सत्यबोधेति॥ १५७ ॥ अव. सत्यबोधादिरूपत्वपतिपादकश्रुतिवदीश्वरत्वावेदक- श्रुतेस्तत्परत्वाभावम् उक्तं विशदयति- तत्परश्रुतिशचःप्रमाणकं सत्यबोधसुखविग्रहं परम्॥ ब्रह्म तद्ददिह नेश्वरत्वभाक् तत्परश्रुतिवच:प्रमाणकम् ॥ १५८॥ तत्परश्रुतीति ।। सत्यबोधसुखविग्रहं परं ब्रह्म यथा तत्परश्रुतिवचःप्रमाणकं तद्वत् ईश्वरत्वभाक् ब्रह्म इह श्रुतिशास्त्रे तत्परश्रुतिवचःप्रमाणकं न भवतीति योजना ॥ १५८ ॥ अव.ननूक्ता श्रुतिरश्वर्यविषया कथं न तत्परा? इत्यत आह-
सा न तत्परतयाऽवगम्यते।।
687
Page 688
संक्षेपशारीरके तृतीयोऽध्यायः।३।
तत्त्वमादिवचनं हि तसपरं तत्परा न तु फलश्रुतिः क चित ॥ १५९ ॥ या फलश्रुतिरिति ॥ कुतो नावगम्यते ? इत्यत आह। त- ववमादीति। स्वार्थबोधे दृष्टफलत्वात्तरवमादिवचनस्य स्वार्थपरत्व- मित्यर्थः। फलश्रुतिरपि स्वार्थपरा अस्तु इति चेत्, मैवमित्याह। तत्परा नत्विति । कचिदपि फलश्जुतिस्तत्परा न भवति, तस्या: सर्वत्रान्यतः सिद्धफलप्रकाशनेन साधकपवर्त्तनपरत्वा- दित्यर्थः ॥ १५९॥ अव. फलवाक्यावगतस्याप्यर्थस्य स्वरूपत्वाभ्युपगमेऽतिप- स्ङ्गश्च स्यादित्याह- सामगानमपि तत्स्वरूपतां जक्षणं च जगतश्र सर्जनम्॥ अश्नुवीत फलवाक्यतः श्रुतं तत्स्वरूपमिति यद्यपेयते ॥ १६० ॥ सामगानमपीति ॥ "एतत्साम गायव्रास्ते" इति कचि- त्सामगानमपि फलं विदुषः श्रुतं,तथा "जक्षन् क्रीडन् रममाणः" इत्यत्र जक्षणपदवाच्यं हासभक्षणादि श्रुतं, तथा "स यदि पितृ- लोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति" इत्यादी जगतः सर्जनं च फलमवगतम्। तथा च फलवाक्यतः श्रुतं त- त्स्वरूपमिति यद्यभ्युपेयते तदा सामगानाद्यपि तत्स्वरूपतां
अव. तत्किमिदानीमर्थवादानां कापि स्वार्थपरत्वं नास्त्येव? इन्त तईि बादरायणदेवताधिकरणन्यायविरोध: इति चेत्, सत्य-
688
Page 689
१०० अन्वयार्थप्रकाशिकाविभूषिते
मू। यखत्र देवताधिकरणन्यायो लभ्यते। नात्र सोऽस्तीत्याह- : अर्थवादगतमभ्युपेयते न प्रमान्तरविरोधि यन्मतम् ॥ सामगानमथ जक्षणादि वा
अर्थवादगतमिति॥ संवादिविसंवादिपमाणान्तराभावे हि देवताधिकरणन्यायावतार: इह सामगानादेस्तत्परनि- र्विशेषत्वपतिपादकश्रुतिविरोधान्नात्र देवताधिकरणन्यायावतारः इत्यर्थः ॥ १६१॥
ता मा भूत, ईश्वरत्वं तु स्वरूपं सुखादिवद्भविष्यति, तस्य प्रमा- णान्तरविरोधादर्शनादिति चेत्, न । तस्यापि श्रुत्या निपिद्धय- मानत्वादित्याह- ईश्वरत्वमपि तत्परश्रुति- नेति नेति परिदुःखिता सती।। वारयत्यवशिनष्टि केवलं चित्स्वरूपमनवद्यविग्रहम् ॥ १६२॥ ईश्वरत्वमपीति । मूर्तामूर्तब्राह्मणे हि ब्रह्मण ऐश्वर्यम् अध्यात्ममधिदैवं चोपवर्ण्य "अथात आदेशो नेति नेति" इति तत्परा श्रुतिः परिदुःखिता सती "कथमयं जनः ईश्वरात्मतत्वं जानीयात्" इति मातेव पुत्रहितैषिणी दुःखं माप्तेव ईश्वरत्वमपि वारयति प्रतिषेधति। तत्प्तिषेधे किमवशिष्यते ? इति तदाह। अवशिनष्टि केवलमिति। केवलं निर्विशेषचित्स्वरूपं चिन्मात्रम्
689
Page 690
संक्षेपशारीरके तृतीयोऽध्यायः।३। १०१
अनवद्यविग्रहं निरपेक्षस्वरूपं "सत्यस्य सत्यमिति" "माणा वै सत्यं तेषामेष सत्यम्" इत्यवशिनष्टि तन्मात्रमेवेश्वरतत्वमवधा- रयतीत्यर्थः ॥ १६२॥ अव. अत्र ईश्वरत्वस्य सोपाधिकत्वनिरुपाधिकत्वाभ्यां हवै- विध्यं मन्यमानो वादी निषेधस्य सोपाधिकेश्वरविपयत्वम् अवशेपस्तु निरुपाधिकेश्वरत्वस्येति प्रत्यवतिष्ठते- सोपाधीश्वरतानिषेधनपरा सा नेति नेति श्रुतिः साक्षात् भागवतं निरस्तनिखिलोपधिस्वरूपं पुनः ।। विश्वैश्वर्यमिहोच्यमानमधुना मोक्षे ततस्तत्परै- र्वाक्यैरस्य विरुद्धताऽनवसरो मुख्यं ततो गृह्यतामू॥१६३॥ सोपाधीति॥"नेति नेति"इति या श्रुतिः सा सोपाधीश्वर- ताया: अमुरुयेश्वरत्वस्य निषेधपरा, यत्पुवरधुना इह मोक्षे वि- श्वैश्वर्य केवल आप्तकाम इत्यादिवचनैरुच्यमानं विश्वैश्वर्य साक्षा- द्वागवतमित्यादिविशेषणद्वयोपेतं तत्पुनः अवशिनष्टीत्यनुषङ्गेण योजना। ततः एवं सति तत्परैर्वाक्यैर्निर्विशेषत्वप्तिपादकैः अस्य ऐश्वर्यवचनस्य विरुद्धतायाः शङ्काऽवसरो नास्तीत्यर्थः। सिद्धमर्थमुपसंहरति । मुख्यमिति। यतः श्रुतिविरोधाभावः ततः तस्मान्मुख्यं स्वाभाविकमेवेदमैश्वर्यमिति गृह्यताम् अङ्गीक्रियता- मित्यर्थः ॥ १६३ ॥ अव. एवं तर्हि सामगानादिकमपि तथा विभज्य निरपे- क्षस्वरूपतया मुख्यमिष्यताम् इति सिद्धान्ती प्रतिबन्दी गृह्नाति- सामगानमथ जक्षणं जग- त्सर्जनं च निरुपाधि गृह्यताम् ॥
690
Page 691
१०२:
नेति नेति वचसा निषिध्यते जक्षणादिकमुपाधिसंश्रयम ॥ १६४ ॥ सामगानमिति॥ सामगानादिकमपि द्विधा विभज्य निरुपाधीश्वरस्वरूपमिति गृह्यताम्। उपाधिसंश्रयं सोपाधिकं अक्षणादि नेत्यादिवचसा निषिध्यते इति च गृह्यतामिति यो- जना ॥ १६४ ॥ अव. सामगानादेर्निरुपाधिकरूपसभ्भावे पमाणाभावानान्र द्वैविध्यसम्भव इति प्रतिबन्दीं पूर्ववाद्युद्धरति- सामगानमथ जक्षणं जग- त्सर्जनं च न खलु तत द्विधेष्यते।। तत्प्रमाणविरहादिहेति चे- दीश्वरत्वमवि न द्विधा भवेत् ॥ १६५ ॥ सामगानमिति॥ स्पष्टार्थः । तर्हीश्वरत्वस्यापि द्वैविध्ये मानाभावस्तुल्य: इति सिद्धान्ती परिहारसाम्यमाह। ईश्वरत्वमपि न द्विधा भवेदिति। ईशितव्यापेक्षानियमादीश्वरत्वस्य निरपेक्षं तत्पामाणिकं न सम्भवतीत्यर्थः ॥ १६५ ॥ अव. तर्हि ज्ञानादिकमपि ज्ञेयादिसापेक्षं कथं स्वरूपं ब्र. हण: स्यादिति पतिबन्दीग्रहम् अनवकाशयन् ज्ञानादर्वस्तुरूप- त्वम्रुपपादयति- ज्ञानमरिति खलु बाह्यगोचरं निर्विशेषमविनाशि च द्विधा ।। बाद्यगोचरमपोह्य केवला
69
Page 692
संक्षेपशारीरके तृतीयोऽभ्यायः।३। २०३
स्वापमोक्षसमये चितिः स्थिता ॥ १६६ ॥ ज्ञानमस्तीति ॥ ज्ञानं द्विधाऽस्तीति संबन्धः । खलुशब्द: प्रसिद्ध्यर्थः। ज्ञानस्य द्वैविध्यं न शङ्कास्पदमित्यर्थः। द्वैविध्यमेवाह। बाह्येति। बाह्यार्थविषयं ज्ञानं विनाशशिज्ञानं निर्विशेषं ज्ञानम् अवि- नाशि तदात्मरूपमित्यर्थः । निर्विशेषं ज्ञानं कास्तीति वीक्षाया- माह। बाह्यगोचरमपोह्येति ॥ २६३ । अव. बाह्यविषयज्ञानव्युदासेन निरुपाधिकं चितिस्वरूपं स्वापादावस्तीत्यत्र कि ममाणम् ? इति चेत्, तत्राह- पश्यन्न पश्यति गिरा कथयाम्बभूत्र = तात्पर्यतः श्रतिवचः स्फुटमेव नैव- मैश्वर्यवस्तुनि विभागवचः श्रुतिर्नः ॥१६७ ॥ पश्यन्न पशयतीति॥ "यद्वै तन्न प्यति पश्यन् वै तन्न पश्यति" "न हि द्रष्डर्द्ष्टेर्विपरिलोपो विद्यते ऽविनाशित्वान्न तु तत् द्वितीयमस्ति ततो डन्यद्विभक्तं यत्पश्येत्" इति श्रुतिवचः साक्षादनश्वरविनश्वरचिद्विभागं पश्यन्न पश्यति गिरा तात्पर्यतः स्फुटमेव कथयाम्बभूवेति योजना। उदाहृतश्रुतिपदानामेषो डर्थः। यत् वै तत् इति पदानि।तत्तत्र सुषुप्त्यादौ आत्मा न पश्यतीति यद्दै मसिद्धं तन्न तथा मन्तव्यमितिश्रेष:।कुतः? पश्यन् वै पश्यन्नेवात्मा तत् तत्र न पश्यतीति पसिद्ध: । ननु विरुद्धमेतत् "पश्यन् वै तन्न पश्यति" इति ।न विरुद्धमित्याह। न हीति। द्रष्टरात्मनः या दृष्टिर्दर्शनं रूपाद्यवभाससमर्थ ज्ञप्तिस्वरूपं तस्या: दृष्टेर्विपरि- लोपो विनासो न हि विद्यते। कुतः ? इत्यत आह। अविनाशित्वा- दिति। विनाशशीलं हि विनाशीत्युच्यते, नेयं दृष्टिस्तथा, सर्ववि-
692
Page 693
१०४ अन्वयार्थप्रकाशिकाविभूषिते
नाशादिसाक्षित्वान्नित्यस्वात्मनः । सर्वदा सर्वानात्मव्यावर्त्तकत- याऽवस्थानाच्च।अतोऽविनाशित्वादस्या: विपरिोपो न विद्यते। स्वापे चक्षुषः उपसहारात् चाश्षुष्या: मनोटृत्तेर्िलोपे ऽपि तद्दारा रूपावभासिनी दृष्टिः स्वरूपतो न नश्यतीति पश्यन्नेव तदा- त्मेत्यर्थः। तर्हि न पश्यतीति कथमुक्तम् ? तत्र हेतुमाह।न तु तद्वि- तीयमिति शेषेण।तत् तत्र सुषुप्तौ ततः आत्मस्वरूपात् विभक्तं पृथ- ग्भूतम् अन्यद्विलक्षणं दृश्यं द्वितीयं विषयकरणादिकं नत्वस्ति यत् तदा पश्येत्, अतो दृश्याभावान्न पश्यतीत्युच्यते।स्वरूपज्ञाना- विलोपात्पश्यन्निति चेति नात्र को Sपि विरोध इति। यथैवं नि- रुपाधिकज्ञानसन्भावः सोपाधिकात् विविच्य श्रुत्योच्यते, नैव- मैश्वर्यवस्तुनि नोऽस्माकमौपनिषदानां विभागवचनपरा श्रुति- रुपलब्धाऽस्तीत्यर्थः ॥ १६७॥ अव. ज्ञानवत्सुस्ममि द्विविधं प्सिद्धमिति मन्वान: तत्र पमाणमाह- एवं न वा अर इति श्रुतमेव तावत् पुत्राद्युपाधि पुरुषस्य सुखं विनाशि॥ नित्यं निरन्तरमनन्तमपारमुक्तं ब्राह्मं सुखं वचनकोटिशतैश्र यत्नात् ॥ १६८॥ एवं न वा इति। "न वा अरे पुत्राणां कामाय पुत्राः मिया भवन्ति आत्मनस्तु कामाय पुत्राः मिया भवन्ति" इत्यादौ पुरुषस्य पुत्राद्युपाधिकं सुखं विनाशीति तावच्छुतमेव। तथा नित्यं च ब्राह्मं सुखं "विज्ञानमानन्दं ब्रह्म" "एपोऽस्य परम आनन्दः" "आनन्दो ब्रह्मेति व्यजानात्" "आनन्दरूपममृतं यद्विभाति"
693
Page 694
संक्षेपशारीरके तृतीयोऽध्यायः।३। १०५
निरन्तरं दुःखाद्यननुविद्धम्। अनन्तं कालतोऽन्तरहितम्।अपारं देशतोऽप्यन्तरहितमित्यर्थः ॥ १६८॥ अव. तदेवं ज्ञानसुखयोद्वैविध्यस्य साक्षाचुतिसिद्धत्वात् तत्र सोपाधिकयोः "न प्रेत्य संज्ञाऽस्ति" "न प्रियापिये स्पृशतः" इति चात्मनि प्रतिपेधः, निरुपाधिकयोस्तु श्रुतितात्पर्यगोचर- त्वादात्मस्वरूपतेति प्रतिबन्दीशङ्गामपोद्य "नैवमैश्वर्यवस्तुनि वि- भागवचःश्रुतिर्नः" इत्यत्रोक्तं विद्ृणोति- ऐश्वर्यवर्णनमिह द्विविधं न वेदे नित्यं क चित् क चिदनित्यमिति प्रतीमः ॥ ऐश्वर्यमात्रकथनं पुनरस्ति मोक्षा- दंर्वाक्षु मोक्षसमये च न तत्परं तत् ॥ १६९॥ ऐशवर्यवर्णनमिति। ऐश्वर्यमात्रकथममिति।"एष सर्वे- श्वरः सर्वस्येशानः सर्वस्याधिपतिः" इत्यादै नित्यत्वानित्यत्व- विशेषानवमर्शनेन ऐश्वर्यमात्रकथनं पुनर्वेदेऽस्तीत्यर्थः। तच्च श्रूय- माणमैश्वर्य मोक्षादर्वाक् व्यावहारिकमेव, तन्न पारमार्थिकमित्य- र्थः। यच्च विश्वैश्वर्य केवल आप्तकाम इति मोक्षसमये च श्रवणं तन्न तत्परं किन्तु स्तुतिपरमेव, ईशितव्याभावात्तत्रेत्यर्थः।।१७९।। अव. उक्तमेवार्थमुपपादयति- प्रियशिरस्स्वकथा खलु याहशी भतति तादशमेव तदीरणम् ॥ तदनु नेति च नेतिवच: श्रुति- यदपि मोक्षगतं स्तुतये हि तत् ॥ १७० ॥ प्रियशिरस्त्वेति। आनन्दमयस्य ब्रह्मत्वमिति मते "तस्य १४
694
Page 695
१०६ अन्वयार्थप्रकाशिकाविभूषिते
प्रियमेव शिरो मोदो दक्षिण: पक्षः" इत्यादौ ब्रह्मणः भियमोदा- दवयववत्वकथा कथनं यादृशी औपाधिकविषयत्वात् न खलु स्व- रूपपरा भवतीत्यर्थः। तदीरणम् ऐश्वर्यकथनमपि तादृशमेव औपा- धिकविषयं व्यावहारिकमेब आरोपितरूपत्वादित्यर्थः।कथमिदमव- गम्यते ? इति तत्राह। तदन्विति। ऐश्वर्यकथनानन्तरं "स एप नेति नेत्यात्मा" इति निषेधवचनश्रवणात् निषिद्ध्यमानस्य चापर- मार्थत्वादित्यर्थः । ऐश्वर्यद्वैविध्ये प्रमाणाभावे सति निषेधस्यौ- पाधिकैश्वर्यपरत्वकल्पनाऽनवकाश इति भावः। मोक्षसमये च न तत्परं तदित्युक्तं वि्ृण्वंस्तस्य विपयमाह । यदपि मोक्षगतं स्तुतये हि तदिति । हिशब्दः फलश्रुतेः सर्वत्र स्तुतिपरत्वप्रसि- द्विद्योतनार्थः। "सोऽशनुते सर्वान् कामान् सह" इत्यादिवद्विश्वै- श्वर्य केवल इत्याद्यपि विद्यास्तुतिपरमेवेत्यर्थः ॥ १७० ॥ अव. तदेवमीश्वरत्वं न निरुपाधिकमस्ति, अतो न तह्रह्म- स्वरूपममिति पतिपादितम्। इदानीमीश्वरश्रुतेः निरुपाधिके ब्रह्म- ण्यविरुद्धमर्थ केचिदाचार्याः वदन्तीत्याह- स्त्रातन्त्रयमीश्वरगिरा गुणमार्गवृत्ति- माश्रित्य पूर्वगुरतः प्रतिपादयन्ति ॥ सिंहस्य शौर्यगुणवत् परमेश्वरस्य स्वातन्त्र्यलक्षणगुणोऽव्यभिचाररूपः ॥१७१॥ स्वातन्त्रयमिति॥ पूर्वे ये दृद्धास्ते च ते गुरवश्चेति पूर्व- गुरवः ते गुणमार्गवत्तिमाश्रित्य शब्दस्य गौणीं वृत्तिमङ्गीकृत्य ईश्वरगिरा स्वातन्त्रयं प्रतिपादयन्ति। एतदेव दृष्टान्तेन स्पष्टयति। सिंहस्येति। यथा सिंहस्य शौर्याख्यो धर्मः सिंहाव्यभिचारी तथा परमेश्वरस्य स्वातन्त्रयलक्षणगुणो डव्यभिचाररूप:,
695
Page 696
संक्षेपशारीरके तृतीयोऽध्यायः।३। १०७
स्वातन्त्र्यम् ईश्वरं न व्यभिचरतीत्यक्षरार्थः । एतदुक्तं भवति। यथा सिंहो देवदत्त इति सिंहगतशौर्यगुणयोगिनि मनुष्ये सिं- हशब्दः प्रयुज्यते सिंहाव्यभिचारिशौर्यगुणयोगात्, एवं सिंहशौ- र्यवदीश्वरस्य स्वातन्त्र्यमव्यभिचारीति निरुपाधिके ब्रह्मण्य- पीश्वरपदं स्वातन्त्र्यलक्षणार्थ पयुज्यते। यथा सिंह इत्युक्ते शौर्य लक्ष्यते तथेश्वर इत्युक्ते स्वातन्त्रयं लक्ष्यत, तच्च सिंहे शोयवड्रह्म- णि अव्यभिचारीति तद्वारकस्तत्रेश्वरपदप्रयोग: इति ॥१७१॥ अव. ननु निरुपाधिकब्रह्मस्वरूपपरतया ईश्वरपदश्रवणमेव नास्तीत्युक्तं, तत्कथमीश्वरपदेन स्वातन्त्र्यलक्षणाऽपीति चेत्, व्यावहारिकेश्वरत्वाभिधाययिसर्वेश्वरश्रतेनिर्गुणे डप्युदाहृतत्वा- दित्याह- ऐश्वर्यवस्तु परिगृह्य तदत्यजन्तः सामर्थ्यसिद्धिमुपपादयितुं क्व चिच्च ।। सर्वेश्वरश्रुतिवचः समुदाहरन्ति• स्वातन्त्र्यलक्षणगुणस्य तमस्वितायाम् ॥१७२॥ ऐश्वर्यवस्त्विति॥ कचिद्धन्थे ऐश्वर्यवस्तु परिगृद्य ऐश्व- र्याभिधायकत्वेन सर्वेश्वरश्रुतिवच: समुदाहरन्ति भाष्यकारप्भृत- यः।"कारणत्वेन चाकाशादिषुयथा व्यपदिष्टोक्तेः"इत्यत्र 'अ- परपयोज्यत्वेनेश्वरमब्रवीत्" इति भाष्यदर्शनात्। एवमन्यत्राप्ये- तादशं वचनमन्वेपणीयम्।तमस्वितायां तमस्व्यवस्थायां तदैश्वर्य- मत्यजन्तः सन्तः निरुपाधिके ब्रह्मरूपे स्वातन्त्र्यलक्षणगुणस्य सामर्थ्यसिद्धिम् उपपादायेतुमेवोदाहरन्ति। अतो युक्तमेवोच्यते पूर्वगुरुभिरित्यर्थः ॥ १७२ ॥ अव. कथं तमस्व्यवस्थावत्यैश्वर्याभिधानेन निरुपाधिरूपे
696
Page 697
१०८ अन्वयार्थप्रकाशिकाविभूषिते
स्व्रातन्त्र्यगुणस्य सामर्थ्यसिद्धिरिति चेत्, अन्यथाऽनुपपत्यैवेत्याइ- सिंहश्रुतिर्न घटते यदि शूरताऽस्य न स्यात्तथैव परमेश्वरताश्रुतिश् ।। नैश्वर्यलक्षणगणः परमात्मनश्चे- दित्यर्थलब्धिमभिसंदधते महान्तः ॥ १७३ ॥ सिंह्श्रुतिरिति।यदि अस्य देवदत्तस्य सिंहस्य च शूरता न स्यात् तर्हि सिंहश्रुतिर्न घटते सिंहाव्यंभिचारिशार्यनिबन्धनत्वा- िंसहशब्दस्य। यथाडयं दष्टान्तस्तथैव परमात्मनः ऐश्वर्यलक्षण- गुणः ऐश्वर्य लक्षणं ज्ञापकं यस्येति व्युत्पत्तेः स्वातन्त्र्यरूपो धर्मश्रेन्न स्वात् तदा तस्मिन्परमेश्वरताश्रुतिः परमेश्वरशब्दो न स्यात् इति एवम् अर्थलब्धि सामर्थ्यपाप्तिं महान्तःआचार्याः अभिद्धते तत्र तत्र कथयन्तीत्यर्थः ब्रह्मणि व्यवहारसंबन्धापेक्षयाऽपि प्रयुज्य- माना सर्वेश्वरश्रुतिः स्वाभाविकं स्वातन्त्रयं बिना नोपपद्यते,
सर्वेश्वरश्रुतिं निर्गुणेऽप्युदाहरन्तीत्युक्तं भवति ॥ १७३॥ अव. तथापि श्रुतार्थवललभ्यत्वादश्रीतं स्वातन्त्रयं स्या- दितति चेत्, नायमपि दोप: इत्याह- श्रौतार्थवृत्तिबललभ्यमपाह वस्तु श्रौतं वदन्ति निकटत्वमनुस्मरन्तः ।। आसन्नवृष्टिमपि देवमुदीरयन्ति वर्षन्तमेव हि जना भुवि तादृगेतत ॥ १७४ ॥। श्रतार्थेति ॥ श्रौतार्थे दृत्तिः श्रौतार्थबोधनं तद्वलल- भ्यं तत्सामर्थ्यात्माप्यमपि वस्तु श्रौतमिति इह प्रमाणटत्तिनि-
697
Page 698
संक्षेपशारीरके तृतीयोऽध्यायः।३॥ १०९.
रूपणे वदन्ति पण्डिता: इति योजना। तथा कथने निमित्तं मूचयन् वक्तृन्विशिनष्टि। निकटत्वमनुस्मरन्त इति। श्रुतिसाम- थर्यसिद्धस्यापि श्रौतार्थनिकटत्वं जानन्त इत्यर्थः । यथा यागा- दे: स्वर्गसाधनत्वात्साक्षाच्छौताल्लभ्यस्यापूर्वस्य श्रौतत्वम् अङ्गी- कृत्य तत्माधान्येनेतिकर्त्तव्यत्वान्वयमाचक्षते केचित्, तथाऽत्रा- पि स्वातन्त्र्यस्यार्थिकत्वेऽपि न श्रौताद्विशेष: इति भावः । श्री- तासत्तिमात्रेण श्रौतत्वव्यवहारे दष्टान्तमाह। आसन्नवष्टिमपीति। आसन्नवृष्टिमपि वर्षन्तं देवमुदीरयन्तीत्यन्वयः । तादृगेतदिति। श्रीतार्थसामीप्याच्क्रौतत्वव्यवहारः स्वातन्त्र्यस्येत्यर्थः ॥१७४॥ भव. तदेवं स्वातन्त्र्यविवक्षारयां निर्विशेषेऽपि ब्रह्मणि स- र्वेश्वरश्षुतिर्न विरुद्धयते। ऐश्वर्य तु तत्परश्रुत्यभावादर्थविरोधाच न ब्रह्मरूपमिति निरूपितं, तत्रैश्वर्यस्यास्वरूपत्ववर्णनं सूत्रक- द्वचनविरुद्धमित्याशख्ाह- ऐश्वर्यमज्ञानतिरोहितं सद ध्यानादभिव्यज्यत इत्यतोचत् ॥ शरीरिणः सूत्रकृदस्य यत्तु तदभ्युपेत्योदितमुक्तहेतोः ॥१७५॥ ऐश्वर्यमज्ञानेति।यत्तु सूत्रकृत् अस्य शरीरिणो जीवस्यैश्वर्थ ब्राह्मैश्वर्यम् अज्ञानतिरोहितं सत् ध्यानादीश्वरस्वरूपाभिध्यानात् मोक्षदशायामभिव्यज्यते इति "पराभिध्यानान्तु तत्तिरोहितं ततो ह्वस्य बन्धविपर्ययौ"इति सूत्रेणावोचत् तदभ्युपेत्य, अभ्युपगमवा- देन तेनोदितमिति मन्तव्यम्। कुतः१ उक्तहेतोरैश्वर्ये प्रमाणाभाव- स्योक्तत्वादित्यक्षरयोजना। अत एव विश्वैश्वर्य केवल इत्याधा तन्नार्थवादश्रुतिरुदाहता सा न तत्परेत्यभिनायः ॥१७५॥
698
Page 699
११० अन्वयार्थप्रकाशिकाविभूषिते
अव. ननु सूत्रकारोक्तं तथैवेत्यभ्युपगन्तुं युक्तमिति चेत्, सत्यम्, प्रमाणवच्वे तथैव।न हि सूत्राणाम् आगमतया प्रामाण्यं किन्तु युक्तिसमर्पकतया, न चात्रार्थवादवाक्यव्यतिरेकेण प्रमा- णं किश्चिदुपन्यस्तमस्ति, अतोऽयमभ्युपगमवाद एवेति निश्चीयते इत्याह- अथ वा चितिवत् प्रतीयतां पुरुषस्येश्वरताऽवि वास्तवी॥ यदि किं चन कारणं भवे- न्न विना सा तदिहाभ्युपेयते ॥ १७६॥ अथ वेति। अथशब्दस्तदेत्यर्थे। वाशब्दोऽवधारणे। अथ तदा पुरुषस्य जीवस्येश्वरताऽपि चितिवद्वास्तवी प्तीयतां पतीयेत वा अङ्गीक्रियेतैवेति योजना। यदि किञ्चन कारणं प्रमाणं भवेत्तदेति सम्बन्धः । तत्ममाणं विना इह पुरुषे सा वास्तवी ईश्वरता नाभ्युपेयतेऽतिपसङ्गादित्यर्थः ॥ १७३ ॥ अथ. सूत्रकृदुक्तेरभ्युपगमवादत्वनिश्चये स्पष्टं हेतुमाह- कामादि तत्र च भवेितरत्र चेति यत् सूत्रकारवचनं तदुदीक्षमाणा: ।। कामादिकेन दहरस्थगुणेन तुल्यं सर्वेश्वरादिगुणजातमिति प्रतीमः ॥ १७७॥ कामादीति ॥ "कामादीतरत्र तत्र चायतनादिभ्यः"इति सूत्रेण दहरविद्यागतानां सत्यकामत्वादिगुणानां बृहदारण्यक- गतनिर्गुणविद्यावर्त्तिनां सर्ववशित्वसर्वेश्वरत्वादिगुणानां च परस्परत्रोपसंहार: सूत्रकारेणोक्तस्तदेतदाह। कामादि सत्यका-
699
Page 700
संक्षेपशारीरके तृतीयोऽध्यायः।३। १११
मत्वादि तत्र च निर्गुणविद्यायामपि भवेत्, इतरत्र च सगुण- विद्यायामपि निर्गुणविद्यागतं सर्वेश्वरत्वादि भवेदिति योज्यम्। इत्येवं यत्सूत्रकारवचनं तदुदीक्षमाणा: पश्यन्तः । कामादिकेनेति सुगमम्। तत्र दहरविद्यापकरणादुपसंहृतानां सत्यकामत्वादीनां निर्गुणविद्यायां यः उपकारः स्तुतिलक्षणः स एव वशित्वेश्व- रत्वादीनामपि तत्र श्रूयमाणानां, तुल्यार्थत्वपयुक्तत्वादुपसंहा- रस्य। अत ऐश्वर्य न चितिवत्स्वरूपत्वेनाभिमतं सूत्रकारस्येति पतीमो वयमित्यर्थः ॥ १७७॥ अव. दहरस्थगुणोपसंहारस्य निर्गुणविद्याया न स्तुति- व्यतिरिक्त: उपकारोऽस्तीत्याह- दहरस्थगुणोपसंहतेः स्तुतिमात्रं विरह्य्य नापरम् ॥ फलमस्ति परात्मनिष्ठिते वचने वाजिभिरादृते महत् ॥ १७८॥ दहरस्थेति । परात्मनिष्ठिते वचने वाजिभिराटते द- हरस्थगुणोपसंहतेः स्तुतिमात्रं विरहय्य अपरं महत्फलं नास्ती- त्यन्वयः । यद्यपि सत्यकामत्वादिभिरपि स्वातन्त्र्यमुपलक्षायेतुं शक्यते, तथापि न तदर्थमेते उपसंहर्तव्याः श्रुतैर्वशित्वादिभि- रपि तत्सिद्धेरित्यभिनेत्य महदिति फलं विशेषितम् ॥ १७८ ॥ अव. सत्यकामत्वादीनां तत्र स्तुतिमात्रफलत्वे डपि वशि- त्वादीनामन्यदेव फलमस्तु को विरोधः? इति चेत्, नेत्याह- दहरादुपसंहृतैर्गुणैः सदृशाश्चेद वशितादिलक्षणाः ।।
700
Page 701
र१२ अन्वयार्थप्रकाशिकाविभूषिते
न तदा परमात्मरूपतां प्रतिपत्तुं कलयाऽपि शक्नुयुः ॥१७९॥ दहरादिति॥ सदशा: सदशोपकारकाः । सुगमाऽक्षरयो- जना। परस्परसादृश्यात् हि उपसंहारः, सादृश्यं चात्रोपकारसा- म्यमेव, अन्यथा सादृश्यमेव न लभ्येत इत्युपसंहार एव न सि- ्लेदित्यर्थः ॥ १७९॥ भव. तथा च परमेश्वरत्वगुणो Sपि वशित्वसत्यकामा- दिगुणतुल्यत्वात्स्तुत्यर्थ एवेत्याह- परमेश्वरतागुणोऽप्यतः स्तुतये तस्य परस्य वस्तुनः ॥ परिकीर्तित इत्युपेयता- मतिशेषात् वशितादिलक्षणैः ॥ १८० ॥ परमेश्वरतेति॥१८० ॥ अव. अपि च ईश्वरत्वं चेङ्रह्मण: स्वरूपं स्यात् कारणत्वमपि स्वरूपं कुतो न स्यात् तस्याप्यनेन तुल्ययोगक्षेमत्वादित्याह- कारणत्वमपि चित्सुखादिव- चत्स्वरूपमिति किंन गृह्यते । ईश्वरत्वविषये विरश्चितां पक्षपातकरणे न कारणम् ॥ १८१ ॥ कारणत्वमपीति ॥ न कारणं न प्माणविशेषो लभ्यते इत्यर्थः ॥ १८१ ॥
701
Page 702
संक्षेपशारीरके तृतीयोऽध्यायः।३। ११३
साक्षिताऽवि परमात्मनो भवे- दीश्वरत्त्रवदियं न संशयः ।। नित्यसिद्धनिजबोधरूपत्र- दूपमेत्र निरुपाधिकं तरिभोः ॥१८२॥ साक्षितापीति॥ ईश्वरत्ववदौपाधिकी सापेक्षा साक्षिता- 5पि भवेदित्यर्थः। नित्यसिद्धमनपेक्ष यत् निजंस्वं बोधरूपं चैतन्यं तद्वत् निरुपाधिकमेव विभो: रूप न सापेक्षं साक्षित्वेश्वरत्वादी- त्यर्थः । यद्यपि चैतन्यं न स्वरूपान्िन्ं तथापि राहो: शिर: इतिवच्जेदोपचाराद्वतिमयोगः । यद्ा रूपमेव रूपवदिति पादपूर- णार्थो वच्छन्दः । तथा च निरुपाधिकं यन्नित्यसिद्धनिजबोध- स्वरूपं तदेव विभो: परमात्मनो रूपमित्यर्थः ॥। १८२। अष. ऐश्वर्यवत्साक्षित्वादिकं ब्रह्मधर्मतया न श्रुत- मित्यपि न वाच्यम्। मन्त्रोपनिषदि तत्पतीतेरित्यभिमेत्य श्वे- ताश्वतरोपनिषन्मन्त्रान् पठति -- एको देवः सर्वभृतेषु गृढ़ः सर्वव्यापी सर्वभूत्तान्तरात्मा।। कर्माध्यक्षः सर्वभताधिवासः साक्षी चेता केवलो निर्गुणश्च॥॥ १८३॥ एको देव इत्यादिना॥ एक: सर्वभूतान्तरात्मेति सम्ब- न्धः । भूतानि घराचरसंस्थानलक्षणानि। तहि किमाकाशः १ ने- त्याह। देव:। मकाशस्वभावः । कि सूर्यादिः ? न । सर्वभूतेषु गूढ़:। पकाञ्चमानचित्स्वभावो Sपि शब्दाद्याकाराभी रागादि- गर्भाभिवद्धिष्टातमि: सहरात्सर्वभूतेष्ु पर्तमानोऽपि यथाब- १५
702
Page 703
११४ अम्वयार्थप्रकाशिकाषिभूषिते
अ भासते इति गूढः इत्यर्थः । तर्हि किमक्कुरादिवत्परिच्छिन्ो मूर्तो वा १ नेत्याह। सर्वव्यापी। देहाद्वहिरिपि व्यापनशीलः, ब्रह्मा- ण्डकोटिभिरप्यपरिच्छिन्न इत्यर्थः । तस्य नैयायिकेश्वरवत्ताट- स्थ्यं वारयति। सर्वभूतान्तरात्मेति । तहि कि कर्तत्वादिस्व- भावकः संसार्यात्मक एव ? न। कर्माध्यक्षः । कर्मसु सुद्ध्यादि- व्यापारेष्वध्यक्षो राजादिवदधिष्ठातृतया, न स्वयं क्रियावत्त- येत्यर्थः । ननु कथमसङ्गस्याध्यक्ष्यसम्बधाभावे ध्यक्षतेति ? तत्राह। सर्वभूताधिवास इति। सर्वाणि भूतान्यधिवसन्त्यस्मिन्निति सर्वभूताधिवासः सर्वाश्रयः । यद्वा सर्वेषु भूतेष्वधि उपरि नियन्तृतया वसतीति सर्वभूताधिवासः । तहि किं राजादिव- त्स्वस्वाम्यभिमानो डस्य विद्यते ? न। साक्षी। उदासीनः । ननु साक्षादीक्षणात्साक्षी स्यात् स कथमुदासीनः ? इत्यत आह। चेता। चैतन्यरूपो न तत्कर्ता। स्वरूपचैतन्येन सङ्गातस्य चिदा- भासताऽडपादनं चेतायेतृत्वम्। तर्शालोक इव पकाशगुणव्याप्त्या, नेत्याह। निर्गुण इर्ति। तर्हि स्वरूपमेव चेत्यमस्यारोहेत्, नेत्या- । केवल इति। कैवल्यं वस्तुतो Sद्वितीयत्वमसङगत्वंच। त- था चाविद्याध्यस्तचेत्यव्याप्त्या साक्षित्वादि न परमार्थत इत्यर्थः ॥ १८३ ॥ अध. साक्षित्वे मन्त्रमुदाहृत्य कारणत्वेश्वरयोरपि मन्त्रद- यमुदाहरति न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्ष दश्यते। पराऽस्य शक्त्तिर्विविधैव श्रूयते स्व्राभ्विकी ज्ञानबलक्रिया च ।। १८४।
703
Page 704
संक्षेपशारीरके तृतीयोऽध्यायः ।३। ११५
न तस्य कार्यमिति॥ स्थूलं सूक्ष्मं च शरीरमस्य न वि- दयते इत्यर्थः। "तमाश्वराणां परमं महेश्वरम्" इति यन्निरतिशय- मीश्वरत्वं पूर्वमन्त्रे प्रतिज्ञातं तस्यास्मिन्मन्त्रे कार्यकरणवत्व- निराकरणेन तदधीनज्ञानादिमद्भ्यो जीवेभ्यो व्यावर्त्तनात्सापे क्षात् जीवैश्वर्याद्विलक्षणं स्व्रातन्त्र्यमैश्वर्यमस्येति दर्शितं, तथापि न निरतिशयमश्वर्यमस्य सिध्यति, खण्डमण्डलपतीनामिव स्वस- मानैश्वर्यवतामधिकैश्वर्यवरता वा Sन्येषामीश्वराणां सम्भवादिति चेत्, नेत्याह। न तत्समश्चाभ्यधिकश्च दश्यते इति। लोके वेदे वा नावगम्यते इत्यर्थः । ज्ञाने कर्मणि वा समर्थस्तत्सम एव नास्ति कुतस्ततो Sभ्यधिकसम्भावना, एतदन्यस्य सर्वस्य चेतनस्य सङ्गा- तपरतन्त्रज्ञानादिमच्वादस्मान्न्यूनत्वात् अन्यस्यच अचेतनत्वात् सिद्धमस्य निरतिशयं निरक्कुशं चैश्वर्यमिति भावः । ननु का- र्यकरणाभावे कथमस्य सर्वज्ञत्वसर्वकर्तृत्वस्ामर्थ्यात्सर्वजगत्का- रणत्वेन सर्वेश्वरत्वसिद्धि:१ इति तत्राह। पराऽस्येति। अस्येश्वरस्य उक्तेश्वरत्वनिर्वाहिका परोत्कृष्टा सर्वस्मात्कार्यजाताद्वा पराऽना- दिभूता शक्तिमार्याख्या विविधा विचित्रानेकविधकार्याकारपरि- णामसामर्थ्यभेदोपेता चश्रूयते श्रुतिवाक्येभ्यो Sवगम्यते "इन्द्रो मायाभि: पुरुरूप ईयते" इत्यादि। विविधैवेत्यवधारणेन विका- रसमर्थेव सा नासमर्थेति दर्शयति । कि मल्लादीनामिव बलं श्रमादिसाधनसंपादितेयमीशस्य १ नेत्याह।स्वाभाविकीति। सिंहा- दीनां शौर्यवत्स्वभावसिद्धा। तथाऽप्यस्या: जडत्वात्कथं पटस्या- दिमच्वं तदभावे च तदोगमात्रात्कथमीश्वरस्य सर्वकर्तृत्वमिति तत्राह। ज्ञानबक्रिया चेति। ईश्वरस्य स्वरूपभूतं यज्ज्ञानं तस्य बलं स्वातन्त्र्याखयं तेन ज्ञानबळेन क्रिया मटत्यादिसक्षणा यस्या: सा तथा। चकार: उक्तविशेषणसमुच्चयार्थः। तथा घ स्वस्वरूप-
704
Page 705
११६ अन्वयार्थप्रकाशिकाषिभूपिते
त्वं सर्वकर्तृत्वं चोपपद्यते इति सिद्धं सर्वकारणतया डस्य सर्वे- श्वरत्वमिति ॥ १८४ ॥ अघ. उक्तस्यैवैश्वर्यस्य स्फुटीकरणार्थः उत्तरो मन्नस्तम्ुदाहरति- न तस्य कश्चित् पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम ।। स कारणं करणाधिपाधिपो न चास्य कश्िज्जनिता न चाधिष: ॥१८५॥ न तस्य कश्च्रिदिति ॥ पतिः स्वामी, ईशशिता नियन्ता चास्य लोके त्रैलोक्ये Sपि कश्चित्कोऽपि नास्ति, इत्यनेनास्य प- रमं स्वातन्त्र्यमुक्तम्।तस्य लिङ्गं च कोके नैवेति संबन्ध:। लिञ्यते 5नेनेति लिज्गं कार्यकरणसङ्गातः तदस्य नास्ति अतो न जीव- वदनीश्वरो डयं सापेक्षेश्वरो वा किन्तु सर्वेश्वर इत्युक्तं भवति। अस्योपरि न कोऽपीत्युक्तम्, अयंतु सर्वोपरीति वदन्ती श्रुतिः अस्य सर्वेश्वरत्वं निरक्कुशमाविष्करोति। स कारणमिति। स पूर्वोक्त ईश्वरः सर्वस्य कारणम् उत्पत्तिस्थितिलयाधिष्ठानं, करणाधिपानां सर्वजीवानामप्यधिपो Sधिष्ठाय पालयिता नियन्तेति यावत् । पु- त्रस्य पितुरपि यथाऽन्यः पिता डस्ति नैवमस्यान्यः कारणभूतो डस्तीत्याह। न चास्य कश्ज्जननितेति। जनयितेत्येतत्। अयमेव सर्वस्य मूलकारणं नान्यत्तदस्तीत्यर्थः । राजामात्यस्य स्वविधे- यान्प्रत्यधिपत्वेपि यथाऽन्यो राजा स्वाधिपो डस्ति न तथा- डस्य कोऽप्यस्तीत्याह। न चाधिप इति ।अयमेव सर्वेश्वरो नान्य इत्यर्थ: ॥१८५॥ अष. यदर्थमेते मन्ता: उदाहतास्तमर्थमाविष्करोति-
705
Page 706
संज्ञेपशारीरके तृतीयोऽभ्यायः ।३। ११७
इति श्रुतिः कारणसाक्षिमाव- मैश्वर्यत्रद् वक्ति परस्यपुंसः ॥ अतत्परत्वान्न तदिष्यते चेद द्यं तृतीयं न तथषितव्यम्।। १८६॥
पुंस: इति श्रुतिरिति ॥ श्रुतिः पूर्वोदाहता इतीत्थं परस्य ऐश्वर्यवत्कारणसाक्षिभावं कारणत्वं साक्षित्वं च वक्ति कथयतीत्यर्थः । अतः कारणत्वसाक्षित्वयोरपि ब्रह्मस्व- रूपताऽङ्गीकार्या ऐश्वर्यवच्छ्रौतत्वाविशेषादिति ध्वनितो डर्यः । कारणत्वादिवाक्यस्यातत्परत्वात्र स्वरूपबोधकतेति शक्कते । अ- सत्परत्वादिति। तत् दयं नेष्यते चेदित्यन्वयः।दृषयति। तृतीयं न तथेषितव्यमिति। साक्षित्वकारणत्वापेक्षया तृतीयमैश्वर्यमपि तथा स्वरूपमिति नैषितव्यं नाड्रीकार्य विशेषहेतोस्तत्राभावादि- त्यर्थः ॥ १८६ ॥ अध. तत्परश्रुत्यभावस्य त्रिष्वपि तुस्यत्वादित्युक्तमेव वि- शेषहेत्वभावं साधयति- अतत्परत्वं श्रवणस्य तुस्यं त्रिषु त्रयं तेन विवर्जनीयम्॥ अथेष्टमेकं त्रयमेषितव्यं विशेषहेतोरनिरूपणेन ॥ १८७॥ अतत्परत्वमिति॥ त्रिप्ु कारणत्वसाक्षित्वेश्वरत्वेपु श्रवणस्य श्रुतेरतत्परत्वं तुल्यं समानं यतस्तेन हेतुना त्रयं वि- वर्जनीयं, स्वरूपमिति नाभ्युपयमित्यर्थः । एव्रमपीश्वरत्वं स्वरूप- मिति चेदाग्रइ: तदा साक्षित्वकारणत्वयोरपि स्वरूपत्वमिष्यता-
706
Page 707
११८
मित्याह। अथेष्टमेकं प्रयमेषितव्यमिति। तत्र हेतुमाह । विशेष- हेतोरनिरूपणनेति। न त्त्रैकस्याङ्गीकार्यत्वे द्वयापेक्षया विशेषडे- तुर्निरूपणपथमवतरतीत्यर्थः ॥ १८७॥ अव. ननु तर्हि त्रयमपि स्वरूपमिष्यते श्रुतिनिर्देशस्य तुल्यत्वादिति चेत्, मैवम्। सापेक्षत्वेन तदसम्भवादित्यभिपे- त्य ईश्वरत्वस्य तावत्सापेक्षतामाह- ईशितव्यमनपेक्ष्य नेश्वरो नेशितव्यमपि तद्वदीश्वरम् ॥ अन्तरेण घटते ततो मृषा मोहमात्रपरिकल्पितं दयम् ॥ १८८ ॥ ईशितव्यमिति । नेश्वरो घटते इति सम्बन्धः । तद्वत् ईश्वरत्ववत् ईशितव्यमपि ईश्वरत्वमन्तरेण न घटते इति योज- ना। कि तदित्यत बाह। ततो मोहमात्रेति। दयम् ईश्वरत्वमी- शितव्यं च परस्परसापेक्षयोरेकस्यापि स्वरूपानिष्पत्तेर्मोह- मात्रकल्पितं मृषैव द्वयमित्यर्थः ॥ १८८ ॥ अध. कारणत्वस्याप्याह- कार्यवस्तु विरह्य्य कारणं न क्वचिद् घटयितुं क्षमेमहि॥ नापि कारणमपोह्य केवलं कार्यवस्तु परिकल्पयेमहि॥ १८९॥ कार्यवस्त्विति ॥ समाना योजना ॥ १८९ ॥ अघ. साक्षिता पि तथैवेत्याह-
707
Page 708
संक्षेपशरीरके तृतीयोऽध्यायः।३। ११९
साक्ष्यवस्तु परिहत्य साक्षिता साक्षिणं च परिहत्य साक्ष्यता।। नेष्यते न घटते च तेन तत् सव्यपेक्षमुभयं परस्परम् ॥ १९० ॥ साक्ष्यवस्त्विति । साक्षिता नेष्यते साक्ष्यता च न घट- ते इति यथाक्रमं क्रियाद्वयस्य योजना। तेनोक्ेन हेतुद्वयेन तदु- भयं साक्षित्वं साक्ष्यत्वं च परस्परं सव्यपेक्षम्, अतो मोहमात्रप- रिकल्पितं मृषेत्यर्थः ॥ १९० ॥ अव. समानन्यायतया ममातृत्वादिकमपि नात्मस्वभाव इति सिद्धमित्याह- न प्रमेयमपहाय मातृता नापि मातृविरहे प्रमेयता ॥ मातृमेयरहिता न च प्रमा न प्रमाणरहितं प्रमाफलम् ॥ १९१ ॥ न प्रमेयमिति । पुंगतं पमातृत्वं विषयाकाहं, वि- षयगतपमेयत्वं च ममात्राकाङ्कम्, उभयाकाक्का च पमा प्रमाणं, तद्धि प्रमातारमाश्चित्य पमेयं व्याप्नोति अतः उभयाकाक्कं पमाणम्। प्रमाणाका्षं चोभयमित्यर्थात्सिद्धयति। न प्माण- पमेयाभ्यां विना ममावा भवति, तदभावे सुषुप्ती तदभावा- त्। तथा प्रमातृभमाणाभ्यामृते भमेयं न भवति, भमितत्वव्यवहा- रस्य वस्तुनि पमात्राश्रितममाणव्याप्त्यधीनत्वात्। तथा च पमा- फलं भमितिरपि न प्रमाणरहितं सिद्यति, चैतन्यगतपमितित्व- स्य प्रमाणाधीनत्वादित्यर्थः । ईश्वरत्वादिकमेकैकसापेक्ष, पमात-
708
Page 709
१२०
त्वादिकं तु भमेयादित्रितयसापेक्षमिति भेद: । पमातृप्रमाणप- मेयभमितीनामेकैकस्य स्वेतरापेक्षसिद्धित्वादित्युक्तं भवति ।।१९१। अव. कर्तत्वमपि पमातृत्ववत्सापेक्षमित्याइ- कर्तृ कर्म परिहृत्य नेष्यते कर्म कर्तृरहितं न घ क्वचित ।। कर्तृ कर्मरहिता न च क्रिया न क्रियाबिरहितं क्रियाफलम् ॥ १९२ ॥ कर्तृ कर्मेति॥ योजना तु पूर्ववत् ॥ १९२ ॥ अव. पमातृत्वादेरात्मस्वरूपत्वपक्षे सामान्यविशेषादेरपि तत्स्वरूपत्वमन्गीकर्तव्यं स्यात्, सर्वस्यापि ब्रझ्मात्मास्पदत्वाद्। तच्चायुक्तं, सापेक्षत्वादित्याह- सामान्यं न विशेषवस्तुविरहे तस्माद् बिना तन्न च स्वातन्त्र्येण घटामुपाश्चति ततः सापेक्षमेतद् द्दयम् ॥ यत् सापेक्षमिहेक्षितं भवति तन्मायामयं स्त्रप्नवत् तस्मादीश्वरतादिकल्पितवपुः स्वीकुर्महे न्यायतः ॥१९३।। सामान्य नेति ॥ विश्ेषरूपवस्तुविरहे सामान्यं स्वात- मयेण न घटामुपाश्चति घटना मामोति तथा तस्मात्सामान्या- द्विना तद्विशेषवस्तु व न च घटामुपाश्चतीति योजना। ततो उम्योन्याधीननिरूपणं तदेतत्सामान्यविभोषात्मकं द्वयं सापेक्षं सिद्धमित्यर्थः। कारणत्वसाक्षित्वेश्वरत्वभमातृत्वादेः सर्वस्य मि- थ्यात्वसाधकं हेतुं सापेक्षत्वकक्षणं पक्षेषूपपाद्य व्याप्तिमप्यस्य कथयति। यत्सापेक्षमिहेति। विमतं मायामर्यं सापेक्षत्वाद्यथा
709
Page 710
संक्षेपशारीरके तृतीयोऽभ्यायः।३। १२१
स्वप्रस्तथा चायं सापेक्षमित्यवयवचतुष्टयमुक्त्वा निगमयति । तस्मादीश्वरतादीति। न्यायतः उक्तन्यायकदम्बात् ईश्वरतादि मायाकल्पितवपुर्न परमार्थमिति स्वीकुर्महे इति योजना ॥१९३॥ अव. तदेवं कार्यकारणेशितव्येश्वरत्वादेरत्यन्तभेदवादे सा- पेक्षत्वेन मिथ्यात्वे पसाधिते सति यदि भेदाभेदवादी ब्रूयात् "द्विरूपं हि ब्रह्मात्मतत्वमिष्यते निर्भेदं सभेदं च इति, तत्र निर्भेदे सापेक्षरूपं किमपि मा भूत्, सभेदे तु सर्वमेवास्तु परमार्थ तस्या- नेकात्मकत्वेन सापेक्षरूपत्वाविरोधात्"इति।स प्ष्टव्यः निर्भेदस्य सभेदत्वं कि स्वभावसिद्धं किं वोपाधिभेदकृतमिति। तत्र नाद:, विरुद्धस्वभावस्यैकस्यासम्भवादित्याह- अभिन्नता भिन्नतया विरुद्धा विभिन्नताऽभिन्नतया तथैव ॥ उपाधिभेदे परिकल्पितेऽपि विना पुनस्तं किमुदीरणीयम् ॥ १९४ ॥ अभिन्नतेति॥न हि विदीर्णस्वरूपो घटस्तदैवाविदीर्णो ऽपि भवति अविदीर्णस्वरूपो वा विदार्णः, प्रामाणिकव्यवहारगोच- र इत्यर्थः । द्वितीयमुत्थाप्य निराकरोति। उपाधिभेदे इति। तं विरोधं विना तत्रापि किमुदीरणीयं, तत्रापि परमार्थतो विरोध- परिहारो डशक्य इत्यर्थः ॥ १९४ ॥ अव. नन्वौपाधिके भेदे नास्ति विरोधः, आकाशादावुपा- धिभिन्ने विरोधादर्शनादित्याशक्का, उपाधिभेदे उप्युपन्यस्तं विरो- धमुपपादयति- स्वभावतो यन्मिथुनं विरुद्धं १६
710
Page 711
१२२
न तन्निमित्तान्तरतः कदा चिव।। उपैति सख्यं परमारथतत्त्या भ्रमादलम्यं न च किं चिदस्ति ॥ १९५॥ स्वभावत इति॥ स्वभावतो निर्भेदस्योपाधिनिमितको मेदो न परमार्थः सम्भवति, आकाशादौ तूपाधिकृतो भेदो भ्रा- म्त एव न परमार्थो निरवयवस्याकाशस्योपाधिभिमेंतुमशक्य- स्वात, भ्रमस्तु भवति तस्य वस्तुसत्तानपेक्षित्वादित्यर्थः । अक्षरयोजनाऽत्र सुगमा ॥ १९५॥। अव. स्वभावतो विरुद्धयोरुपाधिद्वाराऽपि विरोध एवेत्य- त्र रष्टान्तमाह- न रविशार्वरसख्यकृदीक्ष्यते जगति कश्चिदुपाधिरमोहतः ॥ यदि भव्रेत्,स भवेद् भवतो मतः स न भवैद्यदि सोऽपि न सम्भवत ॥ १९६ ॥। न रविशार्वरेति ॥ शार्वरं तमः । रविशार्वरयोः सख्य- कृदविरोधकृत्कश्चिदुपाधिरमोहतो मोहात् भ्रमादन्यो जगति ने- क्यते, यदि रविशार्वरयोविरुद्धस्व्रभावयोरुपाधितो डप्यभेदो भवेत् तदा भवतो मतः इष्टः स भेदाभेदयोरप्यविरोधो भ- वेत्। यदि रविशार्वरयोरविरोधो न भवेत् तर्हि सो Sपि भेदाभेदयोरविरोधो डपि न सम्भवेत् विशेषानिरूपणादिति योजना ॥ १९६ ॥ अव. "भ्रमादलम्यं न च किश्चिदा्ति" इत्युक्तं मपश्चयति। खमपि खादति खण्डितमीक्षते
711
Page 712
संक्षेपशारीरके तृतीयोऽध्याय:।३। १२२
निजशिरो नयनेन करार्पितम्।। किमपि दुर्घटमस्य न विद्यते ।। यदि विमूढमतिर्भवति स्वयम् ॥ १९७ ॥ खमपीति ॥ रवने हि नानाविधा भ्रान्तीरतुभवन् पुरुष: कदाचि त्रभोभक्षणमप्यनुभवति, तथा निजशिर: खण्डितं स्कं- धात्पृथक् कृतं करार्पितं रवकरे धृतं स्वनयनेनेक्ष्यते । अत एव स्वप्राध्यायविदः स्वशरश्छेदनादिदर्शनमनिष्टस्चकमामनन्ति । ऐतिरेयिणश्चामनन्ति "अथाप्यशिरसं जिह्मशिरसं वा पश्यति तदप्येवमेव विद्यात्" इति। न चाघटमानमेतदित्यपि वाच्यमि- त्याह। किमपीति ॥ १९७॥ अव. आरम्भणाधिकरणोक्तविवर्त्तवादन्यायादपि ब्रह्मणो निर्विशेषैकरूपत्वसिद्धिरित्याह- इतश्च निर्भेदकमात्मतत्त्वं निरूपणे कारणकार्यतादेः ॥
दसम्भवादस्य तु वस्तुवृत्त्या ॥ १९८॥ इतश्रेति॥कुत :? इति चेत्, परिशेषादित्यभिमेत्याह। निरू- पणे इति। कारणत्वादिना हि ब्रह्मण: सवविशेषतापाप्तिः, वस्प
नमात्रकल्पिवत्वनिश्रयात्, अस्य तु कार्यकारणादेर्वस्तुष्टभ्या प-
अव. कार्यकारणभावस्य वस्तुतो Sसम्भवं कार्यस्यानुपप- क्या ताबदाइ-
712
Page 713
.१२४ अन्वयार्थप्रकाशिकाविभूषिते
असन्न कार्य गगनप्रसून- वन्ध्यासुतादेःकरणाप्रसिद्धेः ।। न प्रागसत् कार्यमिति प्रवादः प्रशस्यते तस्य विरोधहेतोः ॥१९९॥ असन्नेति॥ कार्य किं प्ागसदुत्पद्यते सद्वा ?। नादः, गग- नपसूनवन्ध्यासुतादे: करणापसिद्धेः। करणं निष्पादनं तस्याप- सिद्धेरित्यर्थः ।ननु वन्ध्यासुतादेरत्यन्तासत्वा त्तन्मोत्पादि, कार्य भागसदुत्पद्यतामिति चेत्, नेत्याह। न प्रागिति। कुतो न पशस्यते तत्राह। तस्य विरोधहेतोरिति । असतः प्राक्त्वविशेषणयोगस्य युक्तिविरोधादित्यर्थः । १९१। अव. कुतो विरोधः १ इति चेत, तत्राह- विशेषणानामसति प्रवृत्ति- रन दृश्यते क्वापि न युज्यते च।। युविष्ठिरात् प्रागभवन्नरेन्द्रो वन्ध्यासुतः शूर इतीह यद्त ॥ २००॥ विशेषणानामिति॥ असतो निःस्वभावत्वेन पसिद्धत्वा- देव तस्मिन् विशेषणप्ट्टत्तेरदर्शनमसम्भवश्चेत्यर्थः। तत्रादर्शनमुप- पादयति। युधिष्ठिराद्विति। असतो विशेषणसंबन्धश्रेतस्यात् "वन्ध्या सुतः शूरः" इति "युधिष्ठिरात्माक्" इति च शूरत्व- पावत्वाभ्यां वन्ध्यासुतो Sपि विशेष्येतेत्यर्थः ॥ २०० ॥ अव. "असन्न कार्य गगनमसूनवन्ध्यासुतादेः करणापसि-
713
Page 714
संक्षेपशारीरके तृतीयोऽध्यायः। ३। १२५
उत्पत्तिरप्यस्य निरूप्यमाणा न का चिदागच्छति युक्तिमार्गम ॥ स्वसत्तया स्व्रैः समवायिकारणै- रपीह या स्यात समवायिताऽस्य ॥ २०१॥ उत्पत्तिरपीति ॥ कथं न युक्तिमार्गमागच्छतीति चेत्, तत्र वक्तव्यम्। कार्यस्य कारणसमवायः उत्पत्तिः कार्ये वा स- त्तासमवाय इति, उभयथाप्यसम्भवः इत्याह। स्वसत्तयेति। अस्य कार्यस्य या स्वसत्तया वा स्वसमवायिकारणैर्वा समवायिता उत्पत्तिशब्दार्थभूता स्यात् सा Sसज्जनिरित्युपवर्ण्यमानं सुदुर्घ- टमित्युत्तरपद्यगतेन संबन्धः।। २०१ ।। असज्जनिः सत्युपवर्ण्यमानं सुदुर्घटं न ह्यसतो युजैभि: ॥ सदेव सद्भि: सह सर्ववस्तु सङ्गच्छते न त्वसदेव सद्भिः ॥२०२ ॥ दुर्घटत्वं प्रकटयति॥ न ह्यसतो युजैभिरिति । असतः कार्यस्यैभिः स्वसत्तासमवायिकारणैर्युजा योगो न सम्भवति, कुतः १ संबन्धस्य सद्वस्तुधर्मत्वादित्याह। सदेव सद्गिरिति। सत एव सद्भिः संबन्धः इति व्याप्तिविरोधान्नासतः सत्संबन्ध: सम्भवतीत्यर्थः ॥ २०२।। अव. सतोरेव संबन्धः सर्वत्र दृष्टो न सदसतोरसतोर्वेति नियममेव प्रकटयति- सती हि सत्ताऽस्य पटस्य इष्टा
714
Page 715
१२६ अन्वयार्थप्रकाशिकाविभूषिते
तथैव सन्तः पटतन्तवोऽपि ।। तथा च तैश्चास्य कथं पटस्य सम्बन्धिता स्यादसतो वदैतत् ॥ २०३ ॥ सनी हीति। अस्य पटस्य प्रत्यक्षगोचरस्य सतो या सत्ता सती हि दष्टा नासती, सत्ता पटे समवायसंबन्धिनी ह- ष्टेत्यर्थः । तथैव पटतन्तवः पटस्याश्रयभूतास्तन्तवो Sपि सन्त एव दष्टाः नासन्तः, तथा चैवंदष्टनियमविरोधे सति असत- स्त्वदभमतस्य पटस्यास्य तैः स्व्रसत्तास््रसमवायिभि: संब- न्धिता कथं स्यादेतत् वद निरूपयेति योजना ॥ २०३ ॥। अव. तर्ह्सतो जन्मनिरुक्तिरेवान्या भविष्यतीति चेत्, त्वयेतोऽन्यस्य प्रकारान्तरस्यानङ्गीकारादित्याह- स्व्रकार णैस्तन्तुभिरेवमस्य स्वसत्तया चीन्वय एव जन्म ।। तवेष्टमेवं सति जन्म तस्य न शक्यते वर्णितुं पटस्य । २०४ ॥। स्वकारणैरिति ॥ निगदव्याखयातं पद्यम् ॥ २०४॥। अव. ननु नात्यन्तमसत्कार्य किन्तु भागसत् तादृशस्य कारणादिना संबन्धः स्यादिति चेत्, नेत्याह- तदन्त्यात प्रागसतः कथं स्यात तदन्वयो न ह्यसदन्वयाय।। सता समर्थ न हि वन्ध्यया तत्- पुत्रः समन्व्रेति कदाचिदत्र ॥ २०५ ॥।
715
Page 716
संक्षेपशारीरके तृतीयोऽध्यायः। ३। १२७
तदन्वयादिति ॥ तेन सत्तादिनाऽन्वयाज्जन्माख्या- त्पागसतः कार्यस्यासत्वावस्थायां क्थं स्यात् प्रागस्य कार्यस्य वन्ध्यासुतादेरविशेपादित्यर्थः । आक्षिप्तमेवार्थमुपपाद्यति। न- हीत्यादिना। सता सहान्वयाय अमन्न समर्थमित्यन्वयः । अत्र स्वजन्मनः प्रागित्यर्थः ।। २०५।। अव. कारणसत्तासमवायात्मकारान्तरं जन्मलक्षणं स्यादि- त्याशड्, त्वया तस्यानभ्युपगमादिति दोप: पागुक्त:, इदानीं न सम्भवति च पकारान्तरमित्याह- न च किं चिदन्यदसतो वादितुं पटतस्तुनोडत्र शकनीयमतः ।। जनिशब्दवाच्यमनवद्यतया
न च किश्चिदिति॥असतः पटवस्तुनो जनेशब्दवाच्यम् इतः उक्तात् अन्यत्किश्चत्पकारान्तरमत्र वैशेषिकमते Sनव- दयतया वदितुं नच शकनीयं शक्यमित्यक्षरयोजना। उत्तरक्षण- संवन्धादेरपि तुल्यन्यायत्वादित्यभिपायः । उपसंहरति । तद- युक्तमिति। तत् तस्मादेवं विचार्यमाणे सत्यसदुन्भवनमयुक्त- मभ्युपगन्तुमित्यर्थः ॥ २०६॥। अव ननु करथं मकारान्तरासम्भवनिश्चयो विचित्रपज्ञ- त्वात्माणिनां कस्थचित्पकारान्तरस्यापि स्फुरणोपपत्तेरिति चेत्, सत्यम्। तथाप्युक्तपकारात्मकारन्तरस्य त्वया ऽनभ्युपगमात्। अभ्युपगमे वा Sपसिद्धान्तपसङ्गात्तवेत्याह- न च वर्णितादपरमत्र भवा-
716
Page 717
१२८ अन्वयार्थ प्रकाशशिकाविभूषिते
ननुमन्यते जनिवचोऽर्थमितः ॥ यदि वर्ण्यते किमपि तत्र भवेत स्त्रमतप्रहाणमलिनीकरणम् ॥ २०७ ॥ न च वर्णितादिति ॥ अनुपपत्या पकारान्तरमस्य इति चेत्, तत्राह। इतो यदि वर्ण्यत इति ॥ २०७ ॥ अव. कुतः स्वमतपहाणमलिनीकरणं ममेति चेत्, कणादसू- त्रविरोधादेवेत्यभिपेत्य तत्सूत्रमर्थतः पठति- समवायिकारणगणेन तथा सह सत्तया च पटवरित्विह यत। समत्रैति ततं कणभुगिच्छति तत्- जनिशब्दवाध्यमिति नान्यदितः ॥२०८ ॥। समवायिकारणेति । उक्तपदार्थद्वयेन पटवस्तु समवैति यत्तत्कणभुगिच्छति । किमिच्छतीत्यत आह। तज्जनिशब्दवा- ध्यमितो नान्यत् जनिशब्दवाच्यमितीच्छतीति योजना ॥२०८। अव. तर्हीदमेव सूत्रोक्तं कथश्चिन्मया निर्वाह्यमिति चेत्, न। उक्तदोषस्य परिहर्त्तुमशक्यत्वादित्याह- न तदत्र सम्भवति युक्तितशा- दुषवर्णितं तदतिविस्तरतः ॥ न च किं चिदन्यदुचितं भवतो वदितुं स्व्रपक्षमपरित्यजतः ॥२०९॥ न तद्त्रेति ॥ अत्रोत्पत्तौ यथा न सम्भवति तथा नि- रूपितमित्युक्तं स्मारयति। युक्तिवशादिति। पकारान्तराभ्युपग-
717
Page 718
संक्षेपशारीरके तृतीयोऽध्यायः। ३। १२९
मे चोक्तमपसिद्धान्तपसङ्ग स्फुटयति। न च किश्चिदिति। स्वपक्ष- मारम्भवादमपरित्यजतो भवतो जन्यत्किश्चित्पकारान्तरं वदितुं न चोचितमित्यन्वयः। त्वन्मते प्रकारान्तरस्यासम्भवात्। आरम्भ- वादे हि कारणे कार्यस्यात्पत्तेः भागसत्चमिष्टम् असतश्च न केन चित् को Sपि सम्बन्ध: सम्भवति। संयोगसमवायौ हि सम्बन्धौ। सौ तु भावद्वयधर्म न भावाभावयोरभावयोर्वा क्वापि सम्भवतः। तथा च प्राकू कार्यस्य कारणे कोऽप्यवस्थाविशेषो वा कारणगतश- क्तिविशेषो वोत्पत्स्यमानस्य कार्यस्य धर्मविशेषो वाकार्यभागभावः, तस्य च सत्तादिसमवायितयाऽभिव्यकक्तिश्वोत्पत्तिरिति पक्षान्तरं भवद्वेत्, तस्य सर्वस्य सत्कार्यवादे एव समअ्जसत्वात् तत्परिग्रहे स्यादारम्भवादस्यासत्कार्यगोचरस्य परित्याग इति भाव:।२०९।। अव. तस्मादुत्पत्तिस्वरूपस्य दुर्घटत्वाच्चासत्कार्यवादो न युक्त इत्युपसंहरति- निरूपणायां म यतोऽरित कश्ि: दुस्पत्तिशब्दार्थ इह त्वदीये। पक्षे ततो दुर्घटना प्रसिद्धि- रसज्जनेरुक्तनयेन तावत ॥ २१० ॥ निरूपणायामिति॥ततः उक्तनयेनासज्जने: प्रसिद्धिस्ता- वत् दुर्घटनेति सम्बन्धः ॥ २१०॥ अव. एवमसत्कार्यवादवत् सत्कार्यवादो ऽपिन युक्तिसहः इत्याह- सतोऽवि कार्यत्वमयुक्तमेव निरूपणे कारणकृत्यहानेः ॥ १७
718
Page 719
१३० अन्वयार्थप्रकाशिकाविभूषिते
न कारणव्यापृतिरत्र शक्या सतः स्वरूपे वदितुं फलाय ॥ २११ ॥ सतो जपीति ॥ सत्कार्यपक्षे कथं कारणकृत्यहानिरिति चेत्, तत्र वक्तव्यं कार्यस्वरूपसत्वसंपादनार्था वा सत्यपि कार्ये विशेषाधानार्था वा भिव्यतर्था वा कारणव्यापृतिरिति। तत्र नादः इत्याह। न कारणव्यापृतिरिति। अत्र सतः स्वरूपे का- रणव्यापृतिः फलाय वदितुं न शक्येत्यन्वयः । सतः पुनः सरवसम्पादनासम्भवात् तत्र निष्फला कारणव्यापृतिरि- त्यर्थः ॥ २११॥ अव. द्वितीयं पक्षमनुवदति- गुणं क्षिपत् कारणमर्थवत्त्वं लभेत चेन्नान्न गुणस्य भात्रात ।I न चेदू गुणोऽसत्करणं प्रसक्तं निरर्थकं कारणकर्म तस्मात् ॥ २१२॥ गुणं क्षिपदिति ॥ गुणोऽपि तत्र सन् वाऽ सन् वेति वि कल्प्याद्यं दूषयति। नात्रेति। सिद्धस्य साध्यत्वायोगादित्यर्थः। द्वितीयमनुवदति। न चेह्रुण इति । अस्मिन्पक्षे Sसत्कार्यमतपवे- शः इति दूषणमाह। असत्करणं पसक्तमिति। फलितमाह। निरर्थकमिति। कारणकर्मे कारणव्यापारः ॥ २१२।। अव. तृतीयमुस्थापयति- मलं निरस्यार्थतदिष्यते चेत् मलोऽपि सन्नैतर निरस्य इष्टः ॥। सतोऽविनाशादसतोऽ्जनेश्र
719
Page 720
संक्षेपशारीरके तृतीयोऽध्यायः।३। १३१
वृथा ततः कारणमत्र पक्षे ॥ २१३ ॥ मलं निरस्थेति॥ गुणाधानपक्षोक्तविकल्पदूषणानतिट- त्तेर्नायमपि पक्ष: साधुरित्याह। मलोऽपीति। असन्नपि मलो न निष्पाद्य इति शेषः। उभयत्र क्रमेण हेतु आह। सतोऽविनाशा- दिति। अविनाशादितिच्छेदः । अजनेरिति च पदं छेद्यं, "ना- सतो विद्यते भावो नाभावो विद्यते सतः" इति भगवत्निर्ण- यवचनादित्यर्थः। अत्रापि कारणव्यापारवैयर्थ्य फलितमि- त्याह। टृथेति ॥ २१३॥ अव. गुणाधानार्थत्वनिरासेनैव कारकव्यापारस्याभिव्य- न्यर्थताऽपि निरस्तेत्याह- तस्मादभिव्यक्तिकरी न हेतु- प्रवृत्तिरत्रार्थवती घटेत।। न चानभिव्यक्तिनिराससृत्या तस्मान्न सत्कार्यवचः प्रशस्तम् ॥ २१४॥ सस्मादभिव्यक्तिकरीति ॥ मलनिरासार्थत्वनिरासेना- नभिव्यक्तिनिवृत्यर्थताऽपि कारकव्यापारस्य दूषितेत्याह। ना चानभिव्यक्तीति। सत्कार्यमतनिराकरणमुपसंहरति । तस्मा- दिति । २१४ ॥ अव. किवहना सत्कार्यवादिनः कार्यकारणभाव एव न सिद्ध्यति स्वापाद्यसिद्धिश्च स्यादित्याह- नित्या च कारकगणस्य सती प्रवृत्ति- र्नित्यं व्यनक्ति सकलं फलमित्यवश्यम् । वक्तव्यमत्र न लयो न सुषुप्तिमूच्छे
720
Page 721
१३२ अन्वयार्थप्रकाशिकाविभूषिते नो चेन्न सृष्टिरिति कष्टमुपस्थितं वः ॥२१५॥ नित्या चेति। व्यापारस्यापि कार्यत्वान्नित्यसिद्धता वाच्या, अतः कारकगणस्य प्रवृत्तिश्र नित्या सती सकलं फलं स्व्रकार्य नित्यं व्यनक्तीत्यवश्यं वक्तव्यम्,अत्रैवसुत्पाद्योत्पादक- व्यापारयोरुत्पन्युत्पादनयोर्नित्यत्वे सति न लयः प्रलयः सु- पुप्तिमूर्च्छे वा सम्भवन्ति, अतः कारणपठृत्तेः सच्वाभ्युपगमो Sनुपपन्न इत्यर्थः । तर्हस्तु कारकव्यापारस्यासत्वमिति चेत्, तत्राह। नो चेदिति। नो चेत्सत्वं कारकव्यापारस्य तर्हिन सष्टिः सिद्ध्यतीत्युभयथा वो युष्माकं सत्कार्यवादिनां कष्टमुपस्थित- मित्यर्थः ॥ २१५॥ अव. ननु तवापि सत्वमसच्वं वा कार्यादेरेष्टव्यं, तथा च तत्रोक्तो दोषस्तवापि प्रसज्येतेति चेत, नेत्याह- c वेदान्तवादिसममेऽषि समानमेतत् चोदं परैर्न खलु वाच्यमिहाप्रसक्ते: ॥ अस्मन्मते न खलु संव्यवहारमात्रे मायामये किमपि दूषणमरिति यस्मात ॥ २१६॥ वेदान्तवादीति ॥ अवाच्यत्वे हेतुमाह। इहापसक्त्े- रिति। वेदान्तवादे अस्य चोदयस्य अपंसक्तिं साधयति । अस्मिन्मते इति। संव्यवहारमात्रे देहात्मव्यवहारवव्यवहारा- भासे तच्वावेदकपमाणसिद्धे इति यावत् । अत एव मायामये सच्ासत्वाभ्यामनिर्वचनीये डस्मिन् वेदान्तिमते यस्मात्किमपि दूषणं न खल्वस्ति तस्मात् सच्वासश्वरपयुक्तदूषणस्येहाप्रसक्तेर्न तदस्मान्पनि वाच्यमिति योजना ॥ २१६ ॥
721
Page 722
संक्षेपशारीरके तृतीयोऽध्यायः।३। १३३
अव. कार्यकारणभावादेः संव्यवहारमात्रत्वं ब्रह्मनन्दिना- प्याचार्येण छान्दोग्यभाष्ये परैरुक्तदोषाप्राप्त्यर्थमुक्त्तमित्याइ- आतेयवाक्यमवि संव्यवहारमात्रं कार्य समस्तमिति नः कथयाम्बभूत ।। सत्कार्यवादिविषया न हि दोषराशि- र्मायामये भवितुमुत्सहते विरोधात् ॥ २१७॥ आश्रेयवाक्यमपीति ॥ अत्र हिन संव्यवहारमात्रत्वा- दिति वदता सदसत्कार्यपक्षदूषणेन संव्यवहारमात्रत्वं कार्य- कारणभावादेरुक्तमित्यस्माभिरुपलब्धमित्यर्थः । तत्र सत्कार्यप- क्षोक्तदोषापाप्तिं तावदाह। सत्कार्येति। मायामयसद्विलक्षणका- र्यपक्षे इत्यर्थः ॥ २१७॥ अव. सत्कार्यवादस्य परिणामपक्षत्वत्स् तरय विवर्नवादं प्ति सन्निकृष्टत्वे Sपि यदा तदाश्रयो दोषो०न पाप्पोति तदा न तराम् असत्कार्यपक्षाश्रयदोपभाप्तिरित्याह- काणाददर्शनसमाश्रयदोषराशि- र्दूरान्निरस्त इह संव्यवहारमात्रे।। वेदान्तभूमिकुशलो मुनिरत्रिवंश्म- स्तेनाह कार्यमिह संव्यवहारमात्रम् ॥ २१८॥ काणादेति ॥ संव्यवहारमात्रे Sसतो Sपि विलक्षणं कार्यादीति मायामयव्यवहारे इत्यर्थः। येनैवं पक्षद्वयोक्तदो- पापास्तिरनिर्वचनीयमते तेन कारणेन वेदान्तभूमिकुशलोऽत्रि- वंश्यो मुनिर्वहनन्द्याख्य: इहास्मिन्मते कार्य संव्यवहारमात्रं सदसद्विलक्षणं. मायामयमित्याहेति योजना ॥ २१८॥
722
Page 723
१३४ अन्ययार्थ प्रकाशिकाविभूषिते
अध. ब्रह्मनन्दिवाक्येष्वनेकपक्षप्रतिभानात् तत्र कः सिद्धान्त इति न निश्चीयते इति चेत्, नैष दोषः। परमार्थनिरूपणावसरे भिहितित्वाद्विवर्नवादस्य सिद्धान्तत्वनिश्चयादित्याह- षष्ठप्रपाठकनिबद्धमुद्दीरितं यत् तत् सत्यमेत खलु सत्यसमाश्रयत्वात ।। अत्रैव यत पुनरुाच समुद्रफन- दृष्टान्तपूर्वकमदो व्यवहारदृष्ट्या ॥ २१९॥ षष्ठप्रपाठकेति॥ छान्दोग्यषष्ठपपाठकव्याख्याननिबद्धं यत् तेनोदीरितं तत्सर्वे सत्यमेव खलु निश्चितम्। कुतः?सत्यसमाश्रयत्वात् सद्वस्तुविषयत्वादित्यर्थः । ननु तत्र परिणामवादो डप्युक्त इति सो डपि कथं न सिद्धान्त इति चेत्, न।सच्वाविशेषादित्यादिना स्वयमेव दूषितत्वाल्लोकव्यवहारदृष्टिमात्राश्रयणेन तदुक्तिरिति निश्चीयते इत्याह। अत्रैवेति ॥ २१९ ॥ अव. तर्हि परिणामवादस्य तत्र विस्तरेण कथनं किमर्थमि- ति चेत् ? अद्वैतावगमं प्रति परम्परयोपयोगित्वादित्याह- पूर्व विकारमुपतर्ण्य शनैःशनैस्तद्- दष्टिं विसृज्य निकटं परिगृह्य तस्मात ॥। सर्व विकारमथ संव्यवहारमात्र- मद्वैतमेव परिरक्षति वाक्यकारः ॥ २२० ॥ पूर्व विकारमिति ॥ विकारं परिणामं पूर्वमुपवर्ण्य म- तिपाद्य शनैः शनैरनुपपत्युद्भावनक्रमेण तद्दृष्टि विस्तज्य तस्मा- द्विकारात्परिणामलक्षणात् निकटं विवर्त्तदर्शनं परिगृह अथानन्तरं सर्वे विकारं व्यवहारमात्रं न परमार्थ मायामयमेवेति च परिशे-
723
Page 724
संक्षेपशारीरके तृतीयोऽध्यायः।३। १३५
पतः परिगृह वाक्यकारो ग्रन्थकारोऽद्वैतमेव परिरक्षति पाल- यति तत्रैव तात्पर्यदृष्टिं करोतीति योजना ॥ २२० ॥ अव. अद्वैतमेव ब्रह्मनन्दिग्रन्थे विवक्षितं न परिणामादी- त्येतत् तद्ाष्यकद्द्रविडाचार्यवचनादेवावसीयते इत्याह- अन्तर्गुणा भगवती परदेवतेति प्रत्यग्गुणेति भगवानवि भाष्यकारः ।। आह स्म यत्तदिह निर्गुणवस्तुवादे सङ्गच्छते न तु पुनः सगुणप्रवादे ॥। २२१ ।। अन्तर्गुणेति ॥ परदेवता सदाख्या "सदेव सोम्येदमग्र आसीत्" इत्योत्रोक्ता सा परदेवता अन्तर्गुणाऽन्तःस्वरूपा गुण इति स्वरूपमेवात्र विवक््यते न धर्मः । अन्तगुणेत्यस्य व्या- ख्या प्रत्यग्गुणेति। प्रत्यगात्मरूपेत्यर्थः। भगैवतीति तद्विशेषणं, त- स्या: ईक्षणादौ स्वव्यवहारे स्वातन्त्र्यद्योतनार्थ भगवान्सर्वज्ञो भाष्यकारो नन्दिकृतग्रन्थभाष्यकारो द्रविडाचार्यो ऽन्तर्गुणा भगवती परदेवतेति यदाह स्म तदिह निर्गुणवस्तुवादे सङ्गच्छ- ते सङ्तं भवति न तु पुनः सगुणपवादे इति योजना। परदेव- ताया: पत्यक्तत्वाभिधानम् अत्यन्ताद्वैतमते एव सङ्गतं भवति नान्यत्रेत्यर्थः ॥ २२१॥ अव. किश्च भिन्नयोः कार्यकारणभावो Sभिन्नयोर्वेति विकल्पासहत्वादपि मायामयत्वं कार्यत्वादेरित्याह- न खलु कारणकार्यसमन्वयो भतरति जातु चिदत विभिन्नयोः । किमिह सागरसहथसमाश्रयो
724
Page 725
९३६ अन्वयार्थप्रकाशिकाषिभूषिते
भतति कारणकार्यसमन्त्रयः ॥। २२२।। न खल्विति। द्ाभ्यां सागरसह्यसमाश्रयः कारणकार्य- समन्वयः किं भवतीति योजना ॥ २२२ ॥ न च तथाऽयमभिन्नसमाश्रयो भवितुमुत्सहनेऽनभित्रीक्षणात ।। न हि घटो विदधाति घटं क चित् न च पटः पटमित्थमनीक्षणात् ॥ २२३ ॥ न च तथेति ॥ अनभिवीक्षणमेव स्फुटयति। न हि घट इति ॥२२३ ॥। भव. किश्च कारणमपि कुर्वदकुर्वद्वा, कुर्वचेत् तदा Sनवस्था दुष्परिहरेत्याह- कुर्वत्कारणपक्षमाश्रितवतः कुर्वच्च कर्वत्कृतं तत्कुर्वच्च तथाविधान्यकृतमित्येषाऽनवस्था भवेत् ॥ कुर्वद्रूपमकार्यसिष्टमिति चेन्नित्यं जगजायतां नित्यं माजनि वा विशेषविरहादेतत् समस्तं जगत।|२२४।। कुर्वत्कारणेति ॥ कुर्वत्कारणमिति पक्षमाश्रितवतः इत्ये- षाऽनवस्था भवेदिति सम्बन्धः । अनवस्थामुपपादयति। कुर्वत्व- स्यापि कार्यत्वात्तदपि कुर्वता कृतमिति वक्तव्यं तदप्यन्येन कु- र्वतेत्येवमनवस्था दुरवस्थेत्यर्थः । कुर्षदूपस्याकार्यत्वान्नानवस्थे- ति शङ्कते। कुर्वद्रूपमकार्यमिति। अस्मिन्पक्षे न कार्यकारणभाव- व्यवस्थेति दूषयति। नित्यमिति। जगत्कार्य सदैव जायेत कारण- स्य सदैव कुर्वदृपत्वादित्वर्थः।यदि कुर्वत्यपि कारणे विद्यमा-
725
Page 726
संक्षेपशारीरके तृतीयोऽध्यायः।३। १३७
ने कदाचित्कार्य न जायेत तदा एतत् समस्तं जगत्सर्वमेव का- र्ये नित्यंमा जननि वा नैव कदाऽपि जायेत विशेषविरहात् विशे- षहेत्वभावादित्यर्थः ॥ २२४ ॥ अव. कुर्वत्कारणतित्याद्यं कल्पं निरस्य अकर्वत्कारणमिति द्वितीयं निराकरोति- सर्वे सर्वसमुज्धवाय घटते कुर्बन्न चेत कारणं न ह्यस्मिन् क चिदस्ति कस्य चिदपि व्यापरवत्ता यतः ॥ तस्मात् कारणकार्यतादि सकलं मायामयं तत्वतो नासीदस्ति भविष्यनीति सकलं चैतन्यशेषं जगत् ।।२२५।।
सर्वमिति॥ कारणं कुर्वद्रपं चेत्न भवेत् तदा पसुप्तवदवस्था- नस्य सर्ववस्तुष्वविशेपात्सर्वे सर्वस्पात्सम्द्भवेत् नवा किमपी त्यत्राप्यव्यवस्था दुष्परिहरेत्यर्थः । अतिुपसङ्गोपादाने हेतु- माह। न ह्यस्मित्निति। अस्मित्नकुर्वत्कारणमिति पक्षे यस्मादेवं विचार्यमाणे कार्यकारणभावव्यवस्था ममाणयुक्तिसहा न लभ्य- ते तस्मादज्ञानकल्पितमेव सर्वमिति परिशेषतः सिद्धमित्युपसं- हरति। तस्मादिति। मायामयत्वमेव विशदयति। तत्वत इति। पतीयमानस्य परमार्थतः कालत्रये ऽपि स्वतः सत्ताहीनत्वमेव मायामयत्वमित्यर्थः । तहि किं शून्यावसानमेवेदं सकलं जगत्? नेत्याह। इति सकलमिति। शिष्यते इति शेषः चैतन्यं पत्य- ग्वहमात्मकं शेष: कालत्रयसत्वबाधे डवधिर्यस्य तत्सकलं जगत् चैतन्यात्पृथक् कालत्रये ऽपि जगन्राम न कापि सदित्यर्थ:॥२२५॥ अव. अकुर्वत्कारणमिति पक्षे सर्व सर्वस्माज्जायेतेत्यति- मसङ्गदोषः उक्तः, स नोपपन्रते शक्तिवशात् अकुर्वतो Sपि
726
Page 727
१३८ अन्वयार्थप्रकाशिकाविभूषिते
कार्यवैचित्रयोपपत्तेः, अतः कुतो मायामयत्वनिर्धारः १ इति चेत् काश्रेत श्रूयात् सं प्रत्याह- सकलशक्तिविकल्पनयाऽन्वये सकलशक्यविकल्पनयाऽन्वयः ।।
सकलशक्तिविकल्पनयाऽन्वयः ॥ २२६॥ सकलशक्तीति ॥ अयमर्थः । शक्तिरहि शक्यनिरुप्याऽतः शक्यनियमे सिद्धे सति शक्तिनियमसिद्धिः । अकुर्वत्पक्षे चास्य- कारणस्यास्मिनेन शक्तिरिति नियमासिद्धेः शक्तिनियमाधीनः शक्यनियमो वक्तव्यः, तथा च स्यात्परस्पराश्रयतेति। एषा Sक्षर- योजना। सकलस्य कारणजातस्य शक्तिविकल्पनया अस्य कारणस्य अस्मिन्कायें शक्तिरिति कल्पनयाऽन्वये सति सकल- स्य कार्यजातस्य अस्येदं कार्यमिति विकल्पनया डन्वयः सि- ज्तति। सकलशक्यविकल्पनयेति सुगमम्। शक्तिविकल्पना डपि शक्यविकल्पनाधीनेत्यर्थः ॥ २२६ ।। भव. अतः प्रागुक्तं मायामयत्वमेव जगतः परिशिष्यते इत्याह- इति परस्परसंश्रयता यदा वद कथं जगतः परमार्थता॥ यदि पुनर्जगतोऽपरमार्थता परममस्ति पदं परमात्मनः । २२७ ॥। इति परस्परेति ॥ सर्वस्य जगतो Sपरमार्थत्वे तत्संसर्ग- स्याभावात्परमात्मनो विशुद्धि:सिद्धेत्याह। यदि पुनरिति।परम-
727
Page 728
संक्षेपशारीरके तृतीयोऽध्यायः।३। १३९
विशुद्धं परमात्मनः पदं स्व्रूपमस्ति, परमार्थमिति शेषः।२२७।। अघ. शक्तेरपि कल्पितत्वोपपादनेन सशक्तिकं ब्रह्मण: स्वरूपमिति स्व्रमतमर्थादुक्तम्। अन्ये तु शक्तिमदेव ब्रह्म वस्तुतः इति वदन्तीत्याह- चिच्छक्ति: परमेश्वरस्य विमला चैतन्यमेवोच्यते सत्यवास्य जडा डपरा भगवतः शक्तिस्त्वविद्योच्यते ॥ संसर्गाच्च मिथस्तयार्भगवतः शक्त्योर्जगजायते- Sसच्छक्त्या सविकारया भगवतश्चिच्छक्तिरुद्रिच्यते।२२८॥ चिच्छक्तिरिति ॥ परमेश्वरस्यैका चिदूपा शक्ति: अपरा च जडात्मिका शक्तिरिति शक्तिद्वयमस्ति, तत्र चै- तन्यमेव चिच्छक्तिरुच्यते, सा च विमला उत्प्यादिमलरहिता स्वरूपभूता सत्यैवाव्यभिचारात्। तथाऽस्य परमेश्वरस्यापरा जडा शक्तिर्या सा त्वविद्योच्यते, सा चानृतरूपेत्यर्थात्सिद्धम्। तयोरुक्तयोर्भगवतः शत््योर्मिथः संसर्गात्तादात्म्याध्यासाज्जग- ज्जायते। कथं जायते ? इति तदाह। असच्छतयेति। अनित्यया जडात्मिकया Sविद्याशसया सविकारया विकारं मा- प्नुवत्या योगाच्विच्छक्तिरुद्रिच्यते शक्तिमत्परमात्मस्वरूपादुद्रेकं कार्याकारत्वमापन्ना भवति, सविकारजडशक्तियोगाचिच्छ- क्तिः जगदात्मना विवर्त्तते एतदेव जगज्जन्मेत्यर्थः॥ २२८॥ अव. अस्योत्तरपद्येन संबन्ध घटयति- इत्येतं कथयन्ति के चिदपरे श्रद्धालवस्तत पुनः कस्यां चिद् भुत्रि सम्मतं च विदुषां नेष्टं तु भूम्यन्तरे॥ कर्मोपास्तिविधानभूमिषु तथा तत सम्मतं निर्गुणे,
728
Page 729
१४० अन्वयार्थप्रकाशिकाविभूषिते
तस्वे तत्रवेदवाक्यविषये त्वालोचिते नेष्यते ॥२२९॥ इत्येवमिति॥ श्रद्धालवः इति यथाश्रुते सृष्टयादौ निरूढ- श्रद्धा इत्यर्थः। अयमपि पक्षः कचिदुपयुज्यते न सर्वत्रेति पकृते- डस्यासङ्गतिमाह।तत्पुनरिति। क सम्मतं क वा न सम्मतमित्यपे- क्षायां तद्विभज्य कथयति। कर्मेति। तथा यथोक्तं तत्पूर्वोक्तं वि- दुषां सम्मतं, कर्मादौ परिणामदृष्टेराश्रयणादित्यर्थः । वेदवाक्य- विषये वेदान्तवाक्यगम्ये तु निर्गुणे तच्वे विवर्त्तवाददृष्टयाश्र- यणेनालोचिते विचारिते तन्नेष्यते। तत्परेति वेदवाक्यविशेष- णन वेदान्तवाक्यानामन्यपरत्वशङ्का पराक्रियते, वेदान्तवा- क्यैरनन्यथासिद्धैः निर्गुणे तत्वे आलोच्यमाने न शक्तिशक्ति- मन्द्रावस्य ब्रह्मणि कल्पनाऽवकाश इत्यर्थः ॥ २२९॥ अव. ननु चैतन्यलक्षणा शक्ति: परिणामदष्टावप्यङ्गीकृता चेत् कथं तर्हि तस्या विवर्त्तदष्टावप्यभावः तस्या मिथ्यात्वानु- पपत्तेरिति चेत्, तत्राह- मूर्त्तामू र्त्ततदुत्थलिङ्ग पुरुषव्यामिश्रभूता चिति- र्वीप्सापूर्वकनेतिनेतिवचन प्रध्वस्तसवंहया ।। संपूर्णे परमे सुखे परिहनाशषाशिवे शाश्रते नित्ये शुद्धमहिम्नि तायिनि परे भुम्न्यक्षरे तिष्ठति ॥२३०॥ मूर्तामूर्त्तेति। मूर्त पृथिव्यप्े जोलक्षणं भूतत्रयम्, अमूर्त वा- स्वाकाशात्मकं भूतद्वयं, ताभ्यां मूर्तामूर्तभूतराशिभ्यामुत्थो लिङ्गा- त्मा पुरुषो वासनामयलिङ्गशरीरात्मा तेषु मिश्रभूता तादात्म्या- ध्यासमापन्ना तदनुपवेशेन जीवभावमापन्रेति यावत् । एवंविधा या चितिः सा वस्तुतो ब्रम्मैव सती उपाधितशात् ब्रह्मणो भिलनेव
729
Page 730
संक्षेपशारीरके तृतीयोऽध्यायः।३। २४१
शक्तिरिव च विभाव्यमाना यदा वीप्सापूर्वकनेति नेति वेदान्तवा- क्येन प्रध्वस्तसर्वद्रया निवृटत्तसर्वोपाधिर्भवति तदा सम्पूर्णे इत्यादि विशेषितेऽक्षरे तिष्ठतीति योजना।सम्पूर्णे परमे इति च सुखविशेषणे। अपरिच्छिन्ननित्यसुखरूपे इत्यर्थः । परिहृतं नित्यनिवृत्तम् अशे- षमशिवम् अविद्यातत्कार्यरूपं यस्मिस्तस्मिन् शाश्वते निर्विकारे Sत एव सत्ये नित्यसदूपे शुद्धमाहिस्न निरपेक्षमहत्ववति तायिनि व्यापनशीले वस्तुपरिच्छेदराहित्येन निरङ्कुशव्याप्तिमतीति या- वत्। परे व्याप्यधर्मसंसर्गरहिते नामादिभ्यो परत्र स्थिते भूम्नि ब्रह्मणि अक्षरे क्षरणरहिते इत्यर्थः। तथा चाविद्याऽवस्थायामेव श- क्तिशक्तिमन्भावादिव्यवहारः, विद्यया डविद्यायां निषृताया न को ऽपि व्यवहारो Sतः चिच्छक्तेरात्मस्वरूपत्वाद्वि्यावस्थाया- मप्यात्मतन्मात्रतया डवस्थानात् परिणामधर्मकत्वे तदयोगात् सत्या नित्या कूटस्थैवात्मचितिरिति, तस्या: परिणामपतीतिर्भ्रम एवेति भाव:।। २३० ।। अव. पुनरपि द्वैतमिथ्यात्वं युततन्तरेणाइ- जगन्महिम्ना न जगत्प्रसिद्धि- रने चिन्महिम्नाऽवि जगत्प्रसिद्धिः ॥ न च प्रमाणाज्जगतः प्रसिद्धि- स्ततोऽस्य मायामयताप्रसिद्धिः ॥ २३१ ॥
जगन्महिम्नेति॥ जगत्पसिद्धिर्जगतो निष्पत्ति: प्रतीतिश् विवक्षिता॥ २३१॥ अव. उत्तेषु पक्षेषु त्रिष्वपि जगतः सिद्ध्यसम्भवे क्रमेण हेतूनाह-
730
Page 731
१४२ अन्घयार्थप्रकाशिकाविभूषिते
जडत्वहेतोर्न जगन्महिम्ना न चिन्महिम्ना तदसङ्गभावात। न च प्रमाणात्तदकारकत्वात कृतस्य जाडयादजडाऽजनेश्र ॥ २३२ ॥। जडत्वहेतोरिति ॥ स्वमहिस्ना जगतः प्रसिद्धौ तस्य जडत्वव्याहतिः स्यात्, तथा च चेतनाचेतनभेदव्यवहार: पमाण- ममेयादिभेदव्यवहारश्र लुप्येतेति भावः । तदसङ्गभावादिति। तस्याश्चितो Sसङ्गत्वाज्जडाजडयोः संबन्धासम्भवादित्यर्थः। तदकारकत्वादिति। तस्य प्रमाणस्य जडविषयसंविदुत्पादकत्वा- सम्भवादित्यर्थः। यदि प्रमाणेन संवित् क्रियेत तदा सा संविदेव न भवतीत्याह। कृतस्य जाख्यादिति। यत्कार्य तज्जडमिति नि- यमस्य पटादाववधृतस्याभङ्गादित्यर्थः। अजडा चेत्संवित्तदा सा नोत्पद्यते एवात्मवदित्याह। अजडाऽजनेश्रेति ॥ २३२॥ अव. इदानी ममाणात् संविदुत्पत्ति नित्यसिद्धां वा सं- विदमङ्गीकृत्यापि तस्या जडेन सह संबन्धानिरूपणाभ् तदधी- ना जगत्पसिद्धिरित्याह- न सङ्करे नावि च संयुतिस्तयो- रने चारि्ति तद्त समवायसम्भवः ।। ततो न चिच्चेत्यसमन्व्रयं प्रति प्रतीयते का चन मूलसङ्गतिः ॥। २३३ ॥। न सङ्कर इति ॥ सङ्करस्तादात्म्यम्। तयोर्जडाजडयोः स्व- भावविरोधात्तम:पकाशवत्तादात्म्यं न सम्भवतीत्यर्थः । संयुतिः संयोगः, सोऽप्यनयोर्न युक्त: संविदो उद्रव्यत्वात्, द्रव्ययोरेव
731
Page 732
संक्षपशारीरके तृतीयोऽध्यायः। ३। १४३
संयोग इति नियमात्। द्रव्यत्वे वाऽस्या: रूपादिभिरसंयोगादूपा- घसिद्धिपसङ्ग इत्यर्थः । तद्वत् संयोगासम्भववत्समवायसम्भवो- डपि न चास्तीत्यर्थः । चितः आत्मसमवेतत्वात् विषयेषु तद- सम्भवादित्यर्थः । विषयविषयिभावादे: संबन्धान्तरस्य सच्वाभ जडासिद्धिरिति चेत, न । मूलसंबन्धाभावे तदयोगादित्यभि- मेत्याह। ततो नेति ॥ २३३ ॥ अव. दृश्यदर्शनयोर्विषयविषायत्वयोग्यतारूपो मूलसंब- न्धो उस्तीति चेत्, मैवम् । अनिर्मोक्षपसङ्गाद्योग्यताया यावदवस्तु- भावित्वेनाविच्छेदादित्याह- न योग्यतामात्रनिबन्धनो भवे- ज्डात्मनोरत्र विवक्षितोऽन्वयः ।। तदा हि तस्या अनपायिरूपत :. सदात्मनः स्यादनपायिसंसृतिः ॥ २३४ ।।
न योग्यतेति । विवक्षितोऽन्वयो विषयविषयिभावः । तस्या: योग्यतायाः । स्पष्टमन्यत् ॥ २३४॥
त्को Sपि संबन्धो वक्तव्य इति चेत्, तत्राध्यासिकसंबन्धात्तत्म- तीतिरविद्यामय्येवेत्याह- ततो वियन्मुख्यमदो जगज्डं चिदात्मनोऽस्यैव विवर्त इष्यताम॥ अनाद्यविद्यापटसंवृतात्मन- स्तदोपलभ्यत्वममुष्य कल्प्यते ॥ २३५ ॥
732
Page 733
१४४ अन्वयार्थ प्रकाशिकाविभूषिते
ततो वियदिति। ततः परिशेषाददः परोक्षापरो- क्षात्मकं वियन्मुखमाकाशादि जगज्जडं सर्वमस्यैव चिदात्मनो विवर्त्त: स्वाविद्यावशान्मिथ्यातादात्म्यलक्षणो ऽध्यासो दृग्दश्ययोः संबन्ध इष्यताम्, अविद्यावस्थायामेवोपलभ्यमानत्वादुक्तसंबन्ध- स्याध्यासात्मत्वमित्यभिप्रेत्य चिदात्मानं विशिनष्टि। अनाद्यवि- देति। यद्येवमाध्यासिक: संबन्धो दशा दृश्यस्य अभ्युपगम्यते तदा- Sमुष्य दृश्यस्योपलभ्यत्वं कल्पते घटते इति योजना ॥ २३५॥ अव. ननु प्रमाणफलभूताया: संविदः प्रतिविषयव्यक्ति- भिद्यमानायाः क्षणध्वंसिन्याः उत्पन्यादिधर्मवत्याः कथमविद्या- वत्वं जडभ्रमास्पदत्वं वेति चेत्, नायं दोप: । कूटस्थत्वात्संवि- दः इत्याह- संवित्तिभेदतदभावतदीयजन्म- नाशादयो ने खलु मानबलेन लभ्या: ।। न ह्यस्ति भानमिह कि चन तद् यदस्या धर्मस्व्ररूपविषयीकरणे समर्थम् ॥२३६॥ संवित्तीति॥पूर्वार्ध स्पष्टार्थम्। न ह्यस्ति मानमिहेति। अय- मर्थः। न तावत्संविद्ेदादयः संविदा ग्राहाः स्वटृत्तेः स्वविषय- त्वानुपपत्ते:, संवेदनस्य फलरूपत्वात्फलाश्रयत्वानुपपत्तेश्र। नापि पमाणान्तरात्संवेदनस्योत्पत्यादिसिद्धिः । मानान्तरमपि जड चेत् न तेनाजडसंविद्धर्मग्रहः। अजडं चेत्समत्वात्मदीपयोरिव पर- स्परानपेक्षत्वाद्विषय विषयित्वासम्भवः । तस्माद्यदस्य संवेदनस्य धर्मस्वरूपविषयीकरणे समर्थ तदिह किश्चिदपि मानं न ह्वस्तीति
विवेककृत एवेति ॥ २३६ ॥
733
Page 734
संक्षेपशारीरके सृतीयोऽ्ध्यायः।३। १४५
अव. ननु कूटस्था चेत्संवित् तहि कथं तस्या मानफलत्व- मिति चेत्, सत्यं नास्ति स्वतः किन्तूपाधिवशादुपचर्यते मानफ- लत्वं संविद: इत्यभिपत्याह- तस्मान्न मानफलता निरुशधिकस्य संवेदनस्य घटतेऽविषयत्वहेता: ।। एवं च मानफलसिद्धिसमन्वयेन सिद्धिर्जडस्य जगतो न कदा चिदस्ति ॥२३७॥ नस्मान्नेति ॥ अविषयत्वहेतोः स्वतो विषयरहितत्वादि- त्यर्थः। अथवा विषयत्वाभावेन जन्माद्यसिद्धेरित्यर्थः । जन्मादौ ममाणाभावस्योक्तत्वात्संविदो न पमाणाधेयत्वं सम्भवति
फलत्वमुपचर्यते इति भावः। तस्मात्संविद: कूटस्थत्वान्न मान- फलतया संवित्मकाश्यं जडमिति सिद्धमर्थमाह। एवमिति। एवं च संविद: कूटस्थत्वेन न मानफलत्वं वस्तुत इति स्थिते सति मानफलरूपा या सिद्धिस्तया समन्वयेन सम्बन्धेन जडस्य जगतः सिद्धिः कदाचिदपि नास्तीति योजना ॥ २३७ ।। अव. तथा चाध्याससम्बन्धादेव संविदो जडसाधकत्वमि- ति सिद्धमित्याह- इतरेतराध्यसनमस्त्वनयो- रुभयोरतो दगहशोरनिशम् ॥ अपरस्परव्यतिकरानुभवा- दिह शुक्तिकारजतविभ्रमवत् ॥ २३८॥ इतरेतरेति ॥ दृग्दश्ययोः परस्पराध्यासे च घटः स्फुरती १९
734
Page 735
१४६ अन्वयार्थप्रकाशिकाविभूषिते
त्याद्यनुभवो मानमित्याह। अपरस्परेति। तस्मात् दगविद्याक- ल्पितत्वेन दृश्यस्य दृश्यध्यस्तत्वात्, दृशो Sपि तत्राध्या- सात् दृश्यस्फुरणमुपपन्नमिति तात्पर्यार्थः।। २३८।। अव. इतरेतराध्यासमुपश्रुत्य शून्यवादपाप्तिं कश्िद्यदि चोदयेत् तदा तं प्रति प्रथमाध्यायोक्तमेव स्मारयेत्समाधानमि- त्यभिप्रेत्य तत्रोक्तमेवेह पठति- संसिद्धा सविलासमोहविषये वस्तुन्यधिष्ठानगी- र्नाधारेऽध्यसनस्य वस्तुनि ततोऽस्थाने महान् संभ्रमः॥ केषां चित्र महतामनूनतमसां पाण्डित्यगर्वादय- मन्योन्याध्यसने निरास्पदमिदं शून्यं जगत स्यादिति॥२३९॥ संसिद्धेति ॥ निर्बन्धमात्राश्रयादित्यस्य स्थाने Sत्र पा- ण्डित्यगर्वादयमिति पाठः ॥ २३९॥ अव. इतश्र नास्मन्मते शून्यतापसङ्गापादनावरार इति वक्तुमाह- कृपणमध्यमपक्कधियां नृणां मतिविलासविधान्रितयं क्रमातू ।। परिणतिर्बहुजीवतमस्त्रिता परमपुंसि तमःपरिकल्पना ॥ २४० ॥ कृपणेति ॥ यः इतरेतराध्यासे शून्यतापाप्तिं मन्यते सः कृपणधमन्दबुद्धिरिति यावत् । यस्तु समस्तकारणतया पर- स्य सत्वं निश्चित्य तत्स्वरूं जिज्ञासते स मध्यमधीः । विवर्स- पक्षे जपि यो व्यवहारसंङ्करं शङ्कमानो उद्वैते एवाभिनिविष्टमति- र्भवति स पक्कधीः। एतेषां त्रिविधानां तृणां मतिविलासवि-
735
Page 736
संक्षेपशारीरके तृर्तायोऽध्यायः। ३। १४७
घात्रितयं क्रमाद् बुद्धिविलासतारतम्यक्रमेण परिणत्यादिक- ल्पना शास्त्रे क्रियते इति योजना। तत्र कृपणधियं प्रति ना- ध्यास उपन्यसनीयः किन्तु परिणामकल्पनया डद्वैतं बोध- नीयम्। यस्तु मध्यमधीस्तं प्रत्यध्यास एवोपन्यसनीयः । त. तदिदमुच्यते। बहुजीवतमस्विरितेति। जीवाः वहवस्तमस्व्रिनश्रेति व्यवहारव्यवस्थोपपादनीया। परमपुंसि तमःपरिकल्पनेति । प- क्रधियं प्रति ब्रह्मण्येवाविद्याकल्पितः सर्वो Sपि जीवेश्वर- भेदस्तदाश्रयश्च व्यवहारस्तन्ववस्था च, ब्रह्मविद्योत्पत्तौ त्वविद्याबाधान्न द्वैतलेशस्याप्यवस्थानमिति न काऽपि व्य- वस्थेति प्रतिपाद्यते, अतः पतिपादनक्रमापरिज्ञानादेव शू- न्यतादिवादोद्वाटनमिति भावः ॥ २४० ॥ अव. तर्ह्ययं प्रतिपादनक्रमः किंमूल इति चेत्, श्रतिस्मृति- वचसां सामअस्यान्यथानुपपत्तिमूल इत्याह- श्रुतिवचांसि मुनिस्मरणानि च. द्वयविशारदगीरवि सर्वशः ॥ त्रयमपेक्ष्य विधात्रितयं बिना न हि घटामुपयान्ति कदा चन ॥ २४१ ॥ श्रुतिवचांसीति ॥ द्वितीयाध्याये एवायं श्लोको व्या- ख्यातः, दृष्टित्रयनिबन्धना व्यवस्था च तत्रोपपादितेति नेह पु- नर्यत्यते ॥ २४१॥ अव. नन्वासां दृष्टीनां विरुद्धार्थत्वेन भिन्नपुरुषनिष्ठत्वा- देकस्यां वस्तुप्रतिपत्ती न मिथः सङ्गतिरिति शङ्कगनीयम्, आसा- मेकपुरुषसम्बन्धित्वस्य पूर्वमुपपादितत्वादित्याह- पुरुषमेकमपेक्ष्य च भूमिका-
736
Page 737
१४८ अन्वयार्थप्रकाशिकाविभूषिते
त्रितयमस्ति पुरोदितमेव तत ।। तदनुसारवशादखिलश्रुति- स्मृतितचांसि वयं घटयामहे ॥ २४२ ॥ पुरुषमेकमिति ॥ तदनुसारवशादिति एकपुरुषवार्ततटष्टि भेदक्रमानुरोधात् आखिलश्रुतिस्मृतिवर्चासि सामञ्जस्येन वयं घटयामहे प्रतिपादयामो न तु भिन्नपुरुषगताभिर्द्ृष्टिभिः, अतो न को ऽपि विरोध इत्यर्थः ॥ २४२ ॥ अव. सूत्रगतिदर्शनाच्चायं प्रतिपादनक्रमो विवक्षित इति गम्यते इत्याह- परिणर्ति च विवर्तदशाद्यं स्थितमनुक्रमतः श्रुनिशासने ॥। अनुशशास मुनिप्रवर: सुधी: पुरुषबुद्धिमपेक्ष्य यथाक्रमम् ॥ २४३ ॥। परिणति चेति । विवर्त्तदशाद्वयं च द्वितीयाध्याये व्याख्यातम्। श्रतिशासने स्थितं परिणति च विवर्त्तदशाद्वयं सुधीर्मुनिभवरो Sनुक्रमतो डनुशशासेति सम्बन्धः । कि कृत्वा? यथाक्रमं पुरुषबुद्धिमपेक्ष्य "कृपणधीः परिणाममुदीक्षते"
भव. तदेवं दश्यस्य ब्रह्मण्यविद्याविलसितत्व्रान्मिथ्यात्वे परिशुद्धमेव नित्यं ब्रह्मेति पतिपादितं, तत्र परिणामदृष्टया विवर्तहष्टया वा सर्वस्य ब्रह्मकार्यत्वे वेदस्यापि तदन्तर्वर्तित्वाद् ब्रह्मकार्यता स्यात्, तत्र चापौरुषेयत्वेन पूर्वतन्त्रे मथमपादे स्थापितं वेदस्य स्वतःप्रामाण्यं भज्येतेति शङ्कते-
737
Page 738
संक्षेपशारीरके तृतीयोऽध्यायः।३। १४९
यदि परिणतिरेषा चिद्धिवर्तोऽथ वा स्यादू भवति ननु तदानीं वेदशास्त्रं विरोध: ।। न हि खलु कृतकत्वेऽपौरुषेयत्वहतु- भैवितुमलमियं नो मानता स्वप्रयुक्ता ॥२४४।। यदि परिणतिरिति॥ एषा श्रुतिः । वेदशास्त्रे वेदस्या- पौरुषेयत्वशासनपरे पूर्वतन्त्रे इत्यर्थः । विगेधमेव स्फोरयति। नहीति। अपौरुषेयत्वेतिच्छेदः । अवश्यं चापोरुषेयत्व्रमङ्गी- कार्यमित्याह। इयं न इति। इयं मानता नो Sस्माकं वैदि- कानां स्वपयुक्ता स्वतःसिद्धा, नाप्तवाक्यत्वेनेत्यर्थः ।। २४४।। अव. यद्यपि शास्त्रयोनित्वसूत्रार्थनिरूपणेऽस्य विचार- स्यावसरः तथापि तत्र न कृतः. इह साधनाध्याये वेदस्यापि साधनत्वात् तत्मामाण्यं तत्स्वरूपं च व्युत्पाद्यते इति द्रष्टव्यम् । अस्तु नाम जैमिनीयतन्त्रविरोधस्तस्य शास्त्रान्तरत्वात् तद्वि- रोधे पि कि नो हीयते इति चेत्, तत्राह- कणभुगभिमतिर्वा कल्पनीया तदानी सुरगुरुमतमेवोपास्यमाहोस्विदुच्ैः ॥ इति निपतति चोदं ब्रह्मणो विश्रवसृष्टि- यदि भवति न चेदू वो नित्यमायाति विश्वम्॥२४५॥ कणभुगभिमतिर्वेति ॥ परतः मामाण्यमिति कणभुग- भिमतिः। सुरगुरुः बृहस्पतिः । तन्मतं चार्वाकशास्त्रं तद्धि केन चिन्निमित्तेन बृहस्पतिना प्रणीतमिति मैत्रोपनिषद्याम्नानं दश्यते, पुराणेधु च, अतः मुरगुरुमतं चार्वाकदर्शनं तत्र वे- दानामप्माणतवं प्रतिपादितं तदेवापमाणत्वम् उच्चैर्निःङ्कयो-
738
Page 739
१५० अन्वयार्थप्रकाशिकाविभूषिते
पास्यं त्वया वैदिकेनापीत्येनं चाघं निपतति यदि ब्रह्मणो विश्वसष्टिरभ्युपगम्यते इति योजना । अत्र विश्वशब्दो वेद- विषयः । अत्र कणादमतस्वीकारे वेदस्य मूलत्वेन मानान्तरा- पेक्षणान्न स्वारस्येनाद्वैतपत्यगूब्रह्मसिद्धिः, सुरगुरुमतस्वीकारेतु ब्र ह्मात्मसिद्धिर्दूरापास्तेति भावः । तर्ह्येतोषपरिजिहीर्षया वे- दस्य नित्यत्वमाश्रीयते इति चेतु, तदा द्वैतस्य सत्यतापसङ्ग: इत्याह। न चेद्व इति। न चेत्, ब्रह्मणो विश्वसष्टिरित्यनुषङ्गः। नित्यमकार्य स्वतन्त्रं विश्वमायाति तेन सद्यं ब्रह्म स्या-
अव. अस्य चोदस्य परिहारं परस्यापि सम्मतिमापाद्य वक्तुं प्रतिवन्दीमाह- ननु सदशमिदं वश्चोद्यमरमासु कस्मादू विनिहितमुभयेषां पूर्वमीमांसकानाम ।I अवगतिकृतमतद वाचकत्वं पदाना- मवगतिरयमिष्टा नश्चरी तत्क्षणेन ॥ २४६ ॥ ननु सदशमिति ॥ उभयेषां प्राभाकराणां भाट्टानां च पूर्वमीमांसकानां वो युष्माकमिदं चोदं सदशम् अतोऽस्मासु क- स्माद्विनिहितं प्रक्षिप्तमिति योजना। कथं चोद्यसाम्यं? तदाह। अव- गतिकृतमिति। पदानामेतत्मसिद्धं वाचकत्वमवगतिकृतम्, अव- गम्यमानानां हि वर्णानां वाचकत्वं न स्वरूपसतामित्य- वगतिकृतं वाचकत्वमित्यर्थः । ततः किमित्यत आह। अन- गतिरियमिति। क्षणध्वंसिन्यवगतिरियं भवन्भिरिष्टा अतः क्ष- णिकावगत्यवच्छिन्नस्य वाचकाकारस्यापि क्षणिकत्वमेव भ- वतामित्यर्थः ॥ २४६ ।।
739
Page 740
संक्षेपशारीरके तृतीयोऽध्यायः।३। १५१
भव. इतश्र वाचकाकारस्य क्षणिकत्वमित्याह- अवगतिगतमेवापेक्ष्य पूर्वापरत्व- प्रतिनियममियं वो वेदता वेदराशेः ॥ क्षणिकमभव्दित्थं वेदशास्त्रं समस्तं कथमित तदिदानीं वेदशास्त्रं प्रमाणम् ॥ २४७॥ अवगतिगनमिति ॥ क्रमावच्छिन्नानां हि वर्णानां वाचकत्वं पसिद्धं, क्रमश्च वर्णानां स्व्रतो नास्ति नित्य- विभ्ुत्वस्वीकारात्, तस्मादवगतिगतमेव पूर्वापरत्वं प्तिनि- यममपेक्ष्य वर्णप्रत्ययक्रमानुरक्तं वर्णक्रममपेक्ष्येति यावत्। वो युष्माकमियं हि वेदराशेर्वेदग्रन्थस्य वेदता वेदयितृता भ- माणताऽभिमतेति योज्यम्। तथा चोपलब्धिक्रमावच्छेदस्य वा- चकाकारस्य क्षणिकत्वाद्वेदस्य क्षणिकत्वं प्राप्तं न कार्यत्व- मात्रमिति कथं भवतां पूर्वमीमासकाना तद्वेदशास्त्रमिदानीं पमाणं स्यादिति शङ्कासाम्यमुक्तमुपसंहरति। क्षणिकमभव- दिति ॥ २४७॥ अव. अत्र प्रामाण्यसमर्थनप्रकारं पूर्वमीमांसक: शङ्कते- पुरुषमतिनिवेशो नास्ति वेदप्रमेये विषय इति यदीष्टा मानता स्वप्रयुक्ता।। सदृशमिदमिदानीं कारणं मानतायां परमपुरुषसृष्टे वेदशास्त्रेऽप्यभीष्टम ॥ २४८॥ पुरुषमत्तीति ॥ वेदपमेये विषये प्रमाणान्तरागोघरे वेदै- कगम्ये डर्थ पुरुषमतिनिवेशो नास्तीति कृत्वा यदि वेदस्य
740
Page 741
१५२ अन्वयार्थप्रकाशशिकाविभूषिते
मानता स्वपयुक्ता निरपेक्षा इष्टा, पुरुषविवक्षाधीनं न वेदमा- माण्यं किन्तु स्व्रतःसिद्धमेवेति यदीष्यते भवद्विरित्यर्थः । अयं परिहारो Sस्माकमपि समान इति परिहारसाम्यं सिद्धा- न्त्याह। सहशमिदमिदानीमिति। वेदशास्त्रे परमपुरुषसष्टे Sभीष्टे- पि मानतायामिदं कारणं सहशं, बुद्धिपूर्वस्टष्टित्वे हि मानान्तरा- पेक्षत्वलक्षणम् अपामाण्यं शङ्गास्पद न कार्यत्वमात्रे, अतः ईश्वरस्य वेदसष्टेरबुद्धिपूर्व त्वाङ्गीकारातुल्यं र्थः ॥ २४८ ॥ समाधानमस्माकमपीत्य-
अव. ब्रह्मण: सष्टावीक्षणपूर्वकत्वश्रवणात्करथं बुद्धिपूर्वक- साडभाव इति चेत्, तत्राह- न हि खलु मतिपूर्वा ब्रह्मण: सृष्टिरिष्टा निगदितुरित्र सृष्टिर्वेदविद्यासु नित्यम।। भति तु पुनरेषा तस्य निश्चासकल्पा श्रुतिवचनमपीदं वस्तु वक्ति स्फुटं नः ॥२४९॥ न हि खल्विति । अर्थसृष्टेरीक्षणपूर्वकत्वेऽपि अत्र ब्रह्मणो वेदसाष्टर्न खलु मतिपूर्वेष्टा, भूतसटष्टिपकरणेष्वेवेक्षण- श्रवणात्तत्रेव तदभ्युपगम इत्यर्थः । कथं तर्हि वेदसष्टिः ? इति तदाह। निगदितुरिति। वेदविद्यासु निगदितुरध्यापकस्येवाबुद्धि- पूर्विका नित्यं सटष्टिर्भवति, ब्रह्मणशिदात्मनो वेदाकारेणा- डभिव्यक्ति: पथमजहिरण्यगर्भबुद्धौ स्वभावतो जायते इत्यर्थः। तुशब्दो बुद्धिपूर्वकत्वशङ्काव्यावृत्यर्थः । वेदसष्टेरबुद्धिपूर्वक- त्वेन विवदितव्यं वेदेनैव तथा शासनादित्याह। पुनरेषेति । तस्य ब्रह्मण: एषा सष्टिर्निश्वासकल्पा निश्वासोच्द्रासवदबुद्धि- पूर्वा "अस्य महतो भूतस्य निश्वसितमेतद्यदग्वेदः" इत्यादिश्रु-
741
Page 742
संक्षेपशारीरके तृतीयांऽध्यायः।३। १५३
तिवचनमपीदं वेदसष्टेरबुदद्धिपूर्वकत्वलक्षणं वस्तु नो Sस्मान्मति स्फुटमसन्दिग्धं वक्ति अतो नास्मन्मते डपि पौरुपेयत्वदोषपाप्ति- र्वेदस्येत्यर्थः । यद्वा वेदविद्यासु ब्रह्मण: सष्टिर्निगदितु: सष्टिरिव नित्यं मतिपूर्वा न हि खल्विष्टेति सम्बन्धः। ताह कथमिष्टा ? इति तदाह। भवतित्विति। तुशब्दो निराकृतपक्षविशेषकः । पुनःशब्दो वाक्यालङ्गारार्थः, पादपूरणार्थो वा। उक्तार्थे श्रुतिं प्रमाणयति । श्रुतिवचनमिति ॥ २४२ ॥ भव. अथ पुरुषबुद्धिपूर्वकत्वं नामामाण्यकारणं किन्तु पु- रुषसष्टत्वमात्रमिति यदुच्येत, तन्न, व्यभिचारादित्याह- अपि च पुरुषकर्मोदभूतिकानीन्द्रियाणि स्फुट मत्रगमयन्ति स्वंस्तमन्यानपेक्षम् ।। विषयमिति हि दष्ट तद्वदिष्टं च तस्मा- दिह किमषि न चोदं वाच्यमेतद् भवािः॥२५०॥ अपि चेति। पुरुषकर्म धर्माधमीरूयं ततः उद्भूतिर्येषां तानि पुरुषकर्मोद्भूतिकानि। अवशिष्टाक्षरार्थः सुगमः । कर्म- द्वारा पुरुषसष्टत्वे डपीन्द्रियाणां यथा पामाण्याविरोधस्तथा वे- दस्याप्यविरोधो Sतः पुरुषकृतत्वमात्रं नापामाण्यपापकम् इन्द्रि- येषु व्यभिचारादिति भावः ॥ २५०।।
कत्वमविशिष्टमेवेति शङ्कते- श्रुतिवचनमनेकं वक्ति तस्येक्षितृत्वं मतिमदिति ततस्तन्नेष्यते कस्य हेतोः ॥ इति यदि मनुषे तन् मैत्रमंस्थाः कुतश्रेत २०
742
Page 743
२५४ अन्वयार्थप्रकाशिकाविभूषिते
सकलकरणहीनं ब्रह्म नः शास्ति शास्त्रम् ॥ २५१॥ श्रुतिवचनमिति।"सो Sकामयत" इतीक्षणमभिधाय "इदं सर्वमसृजत यदिदं किश्" इत्यविशेषेण सर्वसष्टेशीक्षणपूर्वकत्वस्य श्रवणात्तादृशमेवानेकं श्रुतिवचनं तस्य सामान्येनेक्षितृत्वं वक्ति यतः ततः तत् वेदसर्जनमपि मतिमत् मतिपूर्वकमिति नेष्यते कस्य हेतोः, कस्मान्नेष्यते इत्यर्थः । नेयं शङ्का तव पमाणमूला किन्तूत्मेक्षामान्रमूलेति सिद्धान्ती तामनूद्य प्रतिषेधति। इति यदीति। कथं न मन्तव्यमिति पूर्वपक्षी पृच्छति । कुतश्रेदिति। सृष्टो कापि ब्रह्मणो नास्तीक्षणं प्रामाणिकं करणहीनत्वात्तस्ये- त्युत्तरमाह। सकलकरणहीनमिति। "अपाणिपाद: अचक्षुष्कम- श्रोत्रमवागमनः" इत्यादिशास्त्रं सकलकरणहीनं ब्रह्म नो Sस्मान् पति शास्ति अतस्तस्य न कापि सष्टावीक्षणमस्तीत्यर्थः ॥।२५१। अव. ननु तर्हि "तदैक्षत" इत्यादिश्वयमाणमीक्षणं किमात्मकं तद्वक्तव्यं, न हि श्रुतिरियं निर्विषया युक्ता कल्पयितुमिति चेत्, तत्राह- चितिगतजडशक्तेराय इष्टो विवर्त-
श्रुतिशिरसि निषण्णैरीक्षणं कथ्यते त- न्न तु परमपदस्यापीक्षणं बुद्धिवृत्तिः ॥ २५२।। चितिगतेति ॥ चिदात्मनिष्ठायाः जडात्मिकाया: माया- शक्तेराधो विवत्तों यो विकार: परिणामविशेष: दष्टस्तच्छु- तिशिरसि वेदान्तशास्त्रे निषण्णैर्निष्णातरीक्षणं कथ्यते, ईश्व- रस्य स्रष्टव्यविषयमालोचनसुच्यते इति सम्बन्धः । जडविवर्त-
743
Page 744
संक्षेपशारीरके तृतीयोऽध्यायः।३। १५५
स्यापि जडत्वात्कथमीक्षणपदाभिघेयता तस्येत्याशकाह। चितिनिकटेति। जडो Sपि स्वरूपतश्चितिनिकटनिवेशाश्वित्य- ध्यस्तमायाकार्यतया चिदाभामव्याप्त्या चितिनैकट्यं चि- तिनिकटनिवेशस्तस्माच्चिच्छायाप त्तिवशाल्लब्धदीप्ति: पराप्तपकाश इत्यर्थः प्रविलीनसर्वप्रपञ्चवासनामयाज्ञानस्य प्रथमकार्ये- डफुरे इत महतो वृक्षस्य सर्वस्योत्तरस्य कार्यस्यान्तभार्वात्तदे- वेश्वरस्य सर्वमृज्येक्षणमभिधीयते, न तु परमपदस्येश्वरस्यापि जीवस्येव बुद्धिछृत्तिरीक्षणमुपपद्यते इत्यर्थः ॥ २५२।। अव. तदेवं ब्रह्मकार्यत्वे पि वेदस्य मानान्तराधीना-
पूर्वतन्त्रोक्तं न बाधितमिति स्थितम्। तत्र शब्दार्थसम्बन्धस्य
त्वानुमाना त्ादक्सम्बन्धोपेतपद संहतिरूपवेदवाक्यानां पौरुषे- यत्वं बुद्धिपूर्वकत्वलक्षणमपरिहार्यमिति तार्किकश्चोदयति- ननु च डित्थडवित्थपदादिवत सकलमेव तु सामयिकं पदम् ॥ अनुमिमीमहि पूर्वनिदर्शना- दनुमितिर्भततीति किमदभुतम् ॥ २५३ ॥ ननु च डित्थेति ॥ सामयिकं साक्केतिकम् । व्याप्त्यभाके कथमनुमानप्रट्टत्तिरिति न चाशङ्गनीयमित्याह। पूर्वनिदर्शनादि- ति। अनुमानप्रयोगात्पूर्वटष्टदृष्टान्तादित्यर्थः । विमतानि वेदप- दानि पुरुषसङ्केतितार्थानि पदत्वात् डित्थादिपदवदित्यर्थः॥२५३।। अव. व्युत्पत्तिप्रमाणबाधितमेतदनुमानमिति दूषयति-
744
Page 745
१५६
कथं प्रमाणे परिपन्थिनि स्थिते ।। गवादिशब्दे समयोऽनुमास्यते डवित्थशब्दादिवदेतदुच्यताम ॥ २५४ ॥ अनादिवृद्धेति ॥ अयमर्थः । वृद्धव्यवहाराधीना हि लोके प्रथमं शब्दार्थसङ्गत्यधिगतिः, स च वृद्धव्यवहारोऽपि पूर्व- तनदृद्धव्यवहारदर्शनकृतव्युत्पच्यधीनः, सो Sपि तद्देव, इत्येवं व्रद्धव्यवहारो Sनादिरिति सो Sनादिदृद्धव्यवहारो लक्षणं निह्नं यस्य परमाणस्य शब्दान्वयव्यतिरेकरूपस्य तदनादिदद्ध- व्यवहारलक्षणं तस्मिन्नन्वयव्यतिरेकाखये प्रमाणे परिपन्थिनि वाधके स्थिते सति गवादिशब्दे कथं समयो डवित्थशब्दादिव- दनुमास्यते, समयकरणात्मागेव शब्द्रसामर्थ्यानुसारिप्याः व्युत्पत्तेः सिद्धत्वादित्यर्थः । दृद्धव्य- वहारे हि शब्दानामर्यबोधविषयं सामर्थ्यमन्वयव्यतिरेकाभ्या- मवसीयते न सङ्केततः, पथमव्युत्पत्तौ साङ्केतिकशब्दादर्शनात् दृष्टन्ताभावात्। सामर्थ्ये तु कारणस्य कार्यविषये व्यवहारत एव सिद्धमिति युक्तं शब्दार्थसम्बन्धग्रहस्य वृद्धव्यवहारपूर्व- कत्वानुमानम् । विमतः शब्दादिसंम्बन्धाधिगमो दृद्धव्यवहार- निबन्धनः तद्वयव्यतिरेकानुविधायित्वात्, यो यदन्वयव्य- तिरेकानुविधायी स तन्निबन्धनो यथेदानींतनशब्दार्थसङ्गत्य- धिगमो यथा वा तन्त्वाद्यन्वयव्यतिरेकानुविधायी पटादि: तथा चायं तस्मासथा इत्यनुमानविरोधे कथं समयो ऽनुमास्यते इत्येतदुच्यतां निरूप्यतामित्यर्थः । सर्गपलयाङ्गीकारे ऽपि सुपु- सपत्तिषुद्धवत्पूर्वकल्पव्यवद्दारानुसन्धाने सर्गादौ मादुर्भवन्तो ज्ञानकर्मनिद्धाः हिरण्यगर्भादयः पूर्ववदेव व्यवहारं पवर्ततयि-
745
Page 746
संक्षेपशारीरके तृतीयोऽध्यायः।३ १५७
व्यन्तीति श्रुतिस्मृतीतिहासपुराणादिपसिद्धत्वात् तदापि न साङ्केतिकत्वसिद्धिरिति भावः ।। २५४।। अव. ननु सर्वजगत्कर्वृतयेश्वरस्य सिद्धत्वात् शब्दार्थस- म्बन्धस्य च जगदन्तःपातित्वात्तस्यापि तत्कृतत्वनिश्चयात् दद्धानां च व्यवहारपवर्त्तकत्वं तत्कृतसङ्गेतानुरोधेन कल्प्यते इति घेत्, तादृशीश्वरे प्रमाणाभावादित्याह- सतः प्रमाणाभिमतेषु पञ्चसु प्रमाणमक्षादिषु किं चिदीक्ष्यत ॥ नहीह सम्बन्धरि तेन तस्य वः खपुष्पकल्पत्त्रमभावमानतः । २५५।। सतः प्रमाणेति ॥ सतः सदर्थस्य सिद्धौ पमाणाभिमतेषु अक्षादिषु प्रत्यक्षानुमानोपमानशब्दार्थापत्तिषु पञ्चसु मध्ये किश्चिदपि प्रमाणमिह सम्बन्धरि शब्दार्थसङ्केतयितरि न शीक्ष्य- ते। एनदुक्तं भवति। मत्यक्षं तावत् तद्विषयमस्माकं नास्त्येव, अ- मुमानं पूर्वश्लोके तद्विषयं निराकृतम्, उपमानमपि दष्टान्ताभा- वादेव नास्तीति निश्चीयते, शब्द: पुनस्तद्विषयो लौकिकस्ता- वन्नास्ति जगच्छब्दार्थसम्बन्धयितुर्लोकव्यवहारागोचरत्वेन त- द्विषयशब्दप्रमाणरचनायोगात्। अर्थापत्तिरपि दद्धव्यवहारत एवोपक्षीणेति न त्वदभिमतसम्बन्धसाधिका। आगमस्त्वत्रातु- पलन्धिपराहतः इति न सर्गाध्यकाले शब्दार्थसङ्केतयितरि स- खावसाधकं ममाणमस्तीति। न केवलं भावग्राहिममाणाभाव- मात्रं पत्युत तदभावनिश्चायकमस्ति ममाणमित्याह। वेन तस्य व इति। वो युष्माकं तस्य सङ्केतयितुरीश्वरस्य तेन परिशेषतः सिद्धेन अभावमानतोऽभावाख्यममाणेन खपुष्पकल्पत्वम् असश्वं
746
Page 747
१५८ अम्घयार्थप्रकाशिकाविभूषिते
सिद्धमित्यर्थः ॥ २५५॥ अध. नन्वस्माकं ममाणपश्चकानुत्पत्तिमात्रेण नेश्वराभावो निश्चीयते Sनुपलब्धिपमाणस्य सर्वैरनङ्गीकारात्, तस्मादनुपल- बि्धिमात्रेण नासत्वनिश्चयः इति चेत्, तत्राह- पुरोपलब्धो विषयो न दृश्यते यदा प्रमाणैरिह भावगोचरैः ॥ तदा तु तत्रानुपलब्धिकारणं किमप्यभावादपरं हि मृग्यते ॥ २५६ ॥ पुरोपलब्ध इति ॥ इह व्यवहारभूमौ यदा भावगोचरः प्र- माणैः पुरोपलब्धो विषयो न दश्यते तदा तु तत्र तस्मिन् विषये डनुपलन्धिकारणमभावादपरं किमपि मृग्यते । पूर्वोपलब्धविषये पमाणपश्चकानुदयाम्र,तदसश्वनिश्चयः किन्तु इदानीं तस्याभावा- देवेत्येतधुक्तं, कदाचिदपि पमाणेनोपलब्धस्यात्यन्तासत्वनि- धयायोगादित्यर्थः ॥ २५६ ।। अध. अत्यन्तानुपलब्धेडर्ये तु ममाणपञ्चकानुदयमात्रेणैव विषयस्यात्यन्तासत्वनिश्चयः तस्य तत्र परिपन्थ्यभावादित्याह- अत्यन्तानुप्लब्धवस्तुनि पुनर्य: पञचकानुद्भव- स्तस्याभावनिमित्तक: स न पुनस्तत्रापरं कारणम् ।। अन्विच्छन्ति मनीषिणो न हि शशेउदृष्ट्रा विषाणास्तितां तत्रादर्शनकारणान्तरपरा हेत्वन्तरान्वेषिणः ।। २५७।। अत्यन्तानुपलब्धेति ॥ तस्याभावनिमित्तक: इति । त- स्यात्यन्तानुपलब्धवस्तुनो उत्यन्ताभावनिमित्तक: स इत्यर्थः । ननु तत्राप्यनुपलब्धौ कारणान्तरं कल्पयिष्यते इति चेत्, न ।
747
Page 748
संक्षेपशारीरके तृतीयोऽध्यायः।३। १५९
लोके ताहश्या: कल्पनायाः अनुदयादित्याह। न हि शशेऽदष्ट्रे ति। शशे सशमस्तके विषाणे Sदृष्टे ऽनुपलब्धे सति तत्र विषाणे अस्तितां पति दर्शनकारणपरा: सन्तो हेत्वन्तराकाह्विणो न हि लौकिका भवन्तीति योजना। शशमस्तके विषाणादर्शन- मात्रेणैव तत्र तदत्यन्ताभावनिश्चयो लोकस्येत्यर्थः । एवमि- हापि द्रष्टव्यम् ॥२५७॥। भव. यद्पीश्चवरो ऽनुमानादिना सिद््यति तथापि न वस्य शब्दाथसम्बन्धसङ्गेतकर्तृत्वं सम्भावनास्पदमित्याह- विषमदुर्गमदेशसहस्रगः कथमित्रैष नरः समयक्रियाम् ॥ सकलशब्दतदर्थनिवेशिनीं वद विधातुमलं स्व्यमेकलः ॥,२५८॥ विषमदुर्गमेति ॥ सः सङ्गेतयितेश्वरो डशरीरोऽभयुप- गम्यते सशरीरो वा?। नाधे पक्षे तस्य सङ्केतयितृत्वसिद्धिः, स- सेतस्य वागादिकरणसाध्यत्वात्। द्वितीये लोकहष्टसाधर्म्येण सदसम्भवनिश्रयः । कथमेष नरः कार्यकरणसङ्गातपरिच्छिमः पुरुष: एकल: एकाकी सन् स्वयं विषमदुर्गमदेशसहस्रगो भूत्वा सकलशव्दतदर्थनिवेशिनी समयक्रियां विधातुम् अलं समर्थः स्यात् वद त्वमिति योजना। यथेदानींतनस्य नरस्य परिच्छिन्न- त्वादेकत्वाच्च न सर्वशब्दार्थसङ्गेतयितृत्वमवसीयते तथेश्वरस्यापि परिच्छिन्नशरीरवच्चे एकत्वे चन सङ्केतयितृत्वसम्भव इति निश्चीयते इति भावः । यदा नर इत्यस्य स्थाने हर इति पाठ: स्यासदापि शरीरवत्वपक्षे समाना योजना ॥ २५८॥ अष. अथोच्येव जगत्कर्ता अनेकशरीरोपादानेन वा
748
Page 749
१६० अन्वयार्थप्रकाशशिकाविभूषिते
एकशरीरत्वे Sपि बडुशक्तिमश्वेन वा सर्वपदार्थेषु सर्वेषा व्यवहारप्रवर्त्तक इति कल्प्यते इति, तदप्यनुपपभ्नमित्याह- अपि च किं चिदषि प्रतिगादकं न हि यदा पदमरि्ति जगन्मुखे।। अनभिधाय पदेन तदा कथं समयमेष करिष्यति शङ्करः ॥ २५९॥ अपि चेति॥ जगन्मुखे जगदुत्पत्तिसमये यदा कस्या- व्यर्थस्य पतिपादकं किश्चिदपि पदं न ह्रस्ति तदा पदेनार्थ- मनभिधाय कथमेष: शङ्करः समयं करिष्यति न कथमपीत्यर्थः । एतदुक्तं भवति। परस्य मते 5पि दष्टार्थवाचकतया सिद्धेनैकेन पदेन तमर्थमुक्त्वा ह्यस्येदं वाचकमिति पदान्तरस्य सङ्केतः कर्त्तव्यो यथेदानीम् "अयमसौ" इत्यादिना पदेनार्थमुल्लिख्य "देवदत्तो डित्थः"इत्यादिपदान्तरस्य सङ्गेतः क्रियते तद्वत्। एतच्च जगन्मुखे एकस्यापि पदस्य वाचकत्वासिद्धावसम्भव्येवेति ॥ २५९॥। अव. अथाप्यङ्गुल्यादिना Sभिनयेनार्थ मदर्श्य सङ्केत: क्रि- यतामिति चेत्, तदपि दुर्घटमित्याह- अभिनयेन करिष्यति चेदयं समयमेतदनीत्र हि दुर्घटम ॥ न हि पदार्थसहस्रविमिश्रिते गति तदाऽभिनयात समयो भवेत ॥ २६० ॥ अभिनयेनेति ॥ अय शङ्करः । दुर्घटत्वमेवाह। न हि प- दार्येति। पदार्थसहस्त्रविमिश्रिते द्रव्यगुणादयनेकार्थसङ्कीर्णे गवि
749
Page 750
संक्षेपशारीरके तृतीयोऽध्यायः।३। १६१
गोपिण्डे तदा जगन्मुखे डभिनयात्समयो न हि भवेदिति यो- जना। अङकुल्यादिनाडर्थ मदर्श्य शब्दमयोगमात्रेण वाच्यवाच- कत्वसम्बन्धविवक्षा तावन्न सिद्यति, उच्चार्यमाणशब्दस्य दर्श- नादानाददिकक्रियाविषयत्वशङ्गाया अपि तदा समुन्मेषात् अनेक- पदार्थसङ्कराचचैकविषयत्वनियमासिद्धेश्चेति भावः ॥ २६० ॥। भव. इतो उप्यभिनयेन समयो न शक्यते इत्याह- अपि च लौकिकमानबलाश्रया- दधिगते विषये समयो भवेत् ॥ अनुपलब्धसतत्त्वकदेतरता- प्रभृतिकार्यगतः समयः कुतः ॥ अपि च कर्तुरनुस्मरणं भवेद यदि चकार पुमान समयं गिराम ॥ २६१॥ अपि चेति॥ अनुपलब्धेति। अनवगतस्व्ररूपदेवताप्भृति- घु कार्येषु गतः समयो Sभिनयेन कुतः स्यात् नैव स्यादित्यर्थः। इतो Sपि शब्दार्थसम्बन्धसमयकर्त्रभावो निश्चीयते इत्याह। अपि चेति। यदि कश्चित्समयक्रियां चकार तदा तत्कर्तुः स्मर- णेन भवितव्यं तदभावात्तदसश्वं निश्ीयते इत्यर्थः ।। २६१।। अध. अस्मर्यमाणो डपि कर्त्ता डभूदिति कल्प्यता को वि- रोध: ? इति चेत्, तत्राह- न खलु कर्तृगबुद्धिबलं बिना व्यवहतिर्भवति व्यवहर्तरि॥ न खलु पाणिनिषिङ्गलसंज्ञया
750
Page 751
१६२ अन्वयार्थप्रकाशिकाविभूषिते
व्यवहरन्ति सयो: स्मरण बिना ॥ २६२॥ न खल्विति ॥ सङ्केतितेष्वर्थेषु यो व्यवहर्ता तस्मि- न् या व्यवहतिः सङ्केतनिबन्धनो व्यवहारः कर्तृगबुद्धिबलं विना सङ्केतकर्तृ विषयस्मृत्यवलम्बं विना न खलु भवति, यो यत्र सक्केतमात्रनिबन्धनो व्यवहार: स तत्र सक्केतयितृस्मृति- मन्तरेण नोपपद्यते, पकृते च न सक्टेतयितृस्मरणमस्ति लोक- स्येति न जगति शब्दार्थसम्बन्धव्यवहारः सङ्केतनिबन्धन इत्य- थः। साङ्केतिके व्यवहारे सङ्केतयतृस्मृतिपूर्वकत्वनियमः कोप- लब्धः? इति चेत्, तदाह। न खलु पाणिनीति। पाणिनिकृता संज्ञा "दृद्धिरादैच" इत्यादिसूत्रैः कृता टख्यादिसंज्ञा। पिङ्गलकृता संज्ञा "धी: श्रीः स्त्रीम्" इत्याद्या "मयरसत" इत्याद्या च, तयो: पाणि- निपिङ्गलयोः स्मरणं विना वृद्धयादिष्वाकारादौ सक्कतितेषु पाणि- निपिङ्गलसंज्ञयान खलु व्यवहरन्ति व्यवहर्तारः किन्तु तत्स्मृति- पूर्वकमेवेत्यर्थः । यथा "इदं पाणिनियासनमिदं पिङ्गलशासनम्" इति तत्कृतेषु ग्रन्थेषु तत्स्मरणपूर्वकः सर्वेषां व्यवहर्तृणामवि- प्रतिपत्नो व्यवहारो ष्टः न तथेह शब्दार्थसम्बन्धव्यवहार इति दृष्टव्याप्तिविरुद्धं जगच्छब्दसङ्केता येतृकल्पनमिति भावः॥२६२। अव. तस्मात्पदपदार्थसम्बन्धो नेश्वरकृत इत्युपसंहरति- पदपदार्थपरस्परसङ्गतिं निरमिमीत ततो न जगद्गुरु: ॥ मतिमतां प्रवरो वृषभध्वजः कणभुगादिमुनिप्रवरः प्रभुः ॥ नन धरादिजगद्रचनाबला-
751
Page 752
संक्षेपशारीरके तृतीयोऽध्यायः।३। १६३
दनुमितोऽनवखण्डितशक्तिक: ॥ २६३ ॥ पदपदार्थेति॥ ततः तस्मादिति प्रथमं योज्यम्। ननिरमि- मीतेति सम्बन्धः । जगद्गुरु: सर्वपूज्य: परमेश्वरः मतो मति- मतां प्रवरः सर्वदा सर्वज्ञः सः टृषभध्वजो महादेवात्मा सन् कणभुगादिमुनिप्रवराणां प्रश्युरुपास्य: । पुनस्तमेव विशिनष्टि। ननु धरादीति। ननुशब्द: किलेत्यर्थे। पृथिव्यादिजगतो रचनावलात् कार्यत्वलिङ्गसामर्थ्यादिति यावत् । अनुमितः कल्पितो Sनवख- ण्डितशक्तिकोऽपतिह तज्ञानेच्छापयत्नसामर्थ्यः । एवंविध: ईश्वरः कणादादिभिरुत्पेक्षितः पदपदार्थपरस्परसङ्गति न निरमेमीतेति योजना। इदं च पद्यं षट्पदं झेयम् ॥ २६३॥ अव. यदि कार्यलिङ्गसिद्धादीश्वराज्जगद्रचना तद्व्यवहार- प्रवृस्ी नाभ्युपगम्येते तर्यकर्तृकमप्वर्त्तकव्यवहारं व किमेत- ज्जगदङ्गीकृतं ? नेत्याह- अपि तु वैदिक त्राङ्मनसातिगां- नुदितलुप्तचिदेकरसात प्रभो: ॥ अभवदानकदुन्दुभिनन्दना- दमतिषूर्वमिदं सकलं जगत ॥। २६४ ।। अपि तु वैदिकेति । वैदिको वेदैकगम्यः स चासौ वाङ्मनसातिग: सर्वममाणाविषयश्च स चासावनुदितलुप्तचि- देकरसश्च न उदिता लुप्ा च उत्पत्तिनाशरहिता या चित् तदेक- रसो नित्यचित्सदानन्दस्वरूप: चिच्छब्दस्योपलक्षणत्वात्, ए- वंविधादानकदुन्दुभिनन्दनाद्वासुदेवादस्मत्पभोरिदं जगत् अमति- पूर्व निःश्वासवदिच्छाप्रयत्नज्ञानानादरेणाभवत् सम्पन्नम् अतो
752
Page 753
१६४ अन्वयार्थप्रकाशिकाविभूषिते
न निरध्यक्षत्वं जगतः शङ्गनीयमित्यर्थः । अत्र वैदिकग्रहणेन तार्किकाणां तटस्थेश्वरानुमानं कार्यलिङ्गकं "यतो वा इमानि"
चितम्। वाक्मनसातिगत्वविशेषणेन च विवक्षितेश्वरव्याप्त- लिङ्गासिद्धि: सूचिता। अनुदितेत्यादिना नित्यज्ञानस्वरूप- त्वोतया ज्ञानादिगुणाश्रयतया द्रव्यत्वमीश्वरस्य परेष्टं परा- कृतम् । आनकदुन्दुभिनन्दनादित्यनेन वासुदेवत्वोत्ता तस्यैव सर्वात्मत्वं द्योतितं "वासुदेवः सर्वमिति स महात्मा सुदुर्लभः" इति भगवद्गीतास्मरणात् । तस्मान्न तटस्थेश्वरे मानमस्तीति सिद्धमिति भाव: । २६४।। अध. युक्या निरस्तेऽपि वेदस्य पौरुषेयत्वे पुनर्वाक्यत्व लिङ्गकेनानुमानेन पौरुषेयत्वं शङ्कते- ननु लौकिकवचसां नरमतिपूर्वकरचना परिदृश्यत इति वैदिकवचसामनुमिनुमः ॥ वचनं श्रुतिशिरसामपि नरधीकृतरचनं वचनत्वत इव लौकिकजननिर्मितवचनम ॥२६५॥ ननु लौकिकेति॥ परिदृश्यते इत्यन्तं व्याप्तिसन्भावपद रशनपरम्। पूर्वार्धशेषो व्यापस्य वचनत्वलिङ्गस्य पक्षधर्मतापद- र्शनार्थः । वेदो पि वचनात्मकः इति वैदिकवचसामित्यनेन दोत्यते। सिद्धे व्याप्तिपक्षधर्मत्वे सिद्धमनुमानं प्रयुङ्गे। वचनं श्रुतिशिरसामिति। श्षुतिशिरसां वचनमिति पक्षस्वरूपनिर्देशः । अत्र श्रुतिशिरसो ग्रहणं प्रकृतशास्त्रानुरोधात् श्रुतीनां वच- नमित्येतावद्विवक्षितम्। नरधीकृतरचनमिति साध्यनिर्देशः। नर- शब्द: पुरुषनचनः । पुरुषबुद्धिपृर्वकरचनं भवितुमर्दतीत्यर्थः ।
753
Page 754
संक्षेपशारीरके तृतीयोऽध्यायः।३। १६५
इवेत्यादि रष्टान्तपरमिति विवेकः। वचनमिवेति योज्यम् ॥२६५॥। अव. न चानीश्वरपुरुषमादायार्थान्तरताऽत्र शख्का पक्षध- र्मताबलाद्वेदवाक्यरचयितु: सर्वजञत्वसर्वेश्वरत्वादिसिद्धेरित्याह- न च मादृशजनधीकृतरचनं श्रुतिवचनं भवितुं क्षममिति वैदिकरचनाबलमिषतः । अनुमीयत इह शूलभृदिति चेदिदमशुभं न हि वैदिकवचसामभिभवनास्पदमनुमा॥२६६॥ न च माहशेति । सर्वार्थपकाशकवेदवाक्यरचनाबलमि- पतो रचनासामर्थ्यद्वारेण मादशजनधीकृतरचनं श्रुतिवचनं न च भवितुं क्षममिति शूलभृन्महेश्वरःश्रुतिवाक्यरचयताऽनुमीयते इति चेदिति योजना। धर्माधर्मेश्वराणामतीन्द्रियत्वात्तद्विष- यवेदवाक्यानामस्मदादिभिरनीश्वरात्मभः विरचयितुमशक्यत्वा- ज्जीवविलक्षणो तीन्द्रियार्थदर्शी परमाप्ः सर्वेश्वरो वेदप- णेतेति सिद्ध्यतीत्यभिपायः। आगमबाधितविषयमिदमनुमानमि- ति सिद्धान्ती दूषयति। इदमशुभमिति। दष्टसाधर्म्येण प्रवर्त्तमा- नमनुमानं नात्यन्तातीन्द्रियार्थबोधकस्वतन्त्रागमस्य बाधकं त- त्र तस्यासामर्थ्यात्, पत्युतागम एव दष्टान्तादिनिरपेक्ष: स्वप- तिकूलार्थबोधकानुमानस्य बाघकः इत्यतः इदमनुमानमागमबा- घितमेवेत्यभिपायः ॥ २६६ ॥। अध. को Sसावागमो यो डनुमानबाधकः १ इति तमाह- ब्रह्म स्वयम्भु परमात्मपदस्य वेदो निःश्वासकल्प इति चापरमामनन्ति ।। वाक्यं तदस्य मतिपूर्वकताऽनुमानं
754
Page 755
१६६ अन्वयार्थप्रकाशिकाबिभूषित
सधो निरस्यति न चेदपबाधितं स्थात् ॥२६७॥ ब्रह्म स्वयम्भ्विति॥ "ब्रह्म स्वयम्भु ब्रह्मणे नमः" "ब्रम्म स्वयम्भवभ्यानर्षत्" इति ब्रह्मपदवाच्यस्य वेदस्य स्वयम्भुत्वं परानधीनात्मलाभत्वलक्षणमामनन्ति केचिच्छाखिनः इति योजना। वेदः परमात्मपदस्य परमात्मस्वरूपस्य निःश्वासक- व्पो डबुद्धिपूर्वकतया निःश्वासतुल्य इति चापरं वाक्यम् "अस्य महतो भूतस्य निःश्वसितम्" इत्यादिकमामनन्तीति पुनर्यो- जना। तत् वाक्यमुक्तवाक्यजातमस्य वेदस्य मतिपूर्वकताऽनु- मानं सदो Sनुमानप्रयोगसमये एव निरस्यति बाधते, न चेद्वाधेतानुमानमिदं श्वतिवचनं तदा स्वयमपि बाधितं स्या- निर्विषयं स्यात् अर्थान्तरासम्भवात्, तच्चायुक्तम् अध्ययन- विधिगृहीतस्याक्षरमात्रस्याप्यानर्थक्यायोगादित्यर्थः ।। २६७।। अव. न केवलं वेदसष्टिरेवेश्वरस्यामतिपूर्वा किन्तु सर्वज- गत्साष्टिरपि तथैवेति औतं मतमित्याह- सृजति रक्षति संहरति प्रभु: सकलमेव निविश्य नियच्छति॥ अमतिपूर्वमिति श्रुतिशासने वद कथं मतिपूर्वकताऽनुमा ॥ २६८॥ सजतीति॥ अक्षरार्थस्त्वितिरोहितिः । कूटस्थचिद्धातोरी- श्वरस्य स्वतो जगद्रचनादिव्यापारासम्भवादद्वैतमते च आगन्तुक- स्य हेत्वन्तरस्यायोगात् "मायां तुपकृतिम्" "देवात्मशक्ति स्वगुणै- र्निगूढाम्" "इन्द्रो मायाभिः पुरुरूप ईयते" इत्याद्यनेकश्रुतिभिः "मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्" इत्यादिस्मृतिभिश्
755
Page 756
संक्षेपशारीरके तृतीयोऽध्यायः।३ १६७
सदसन्ामनिर्वचनीयस्य ब्रह्मणो जगत्सष्टयादी द्वारत्वाङ्गा- कारादज्ञानमूलकमेव जगत्पवृत्तिरिति सिद्धान्तस्थिती न बुद्धिमत्पुरुषपूर्वकत्वं जगद्वेदरचनयोः शक्यते ऽग्गीकर्त्तुमित्येतत्स- रवमभिपेत्योक्तम् । अमतिपूर्वमिति श्रुतिशासने इति। अमतिरज्ञानं तत्पूर्वमित्युदाहृतश्रुतिशासने इत्यर्थः ॥ २६८॥ अव. एवमपि वेदस्य मामाण्यायैवाप्तपणीतताजड्गीकार्या आप्तापणीतस्यानाप्तपणीतस्य वा वाक्यस्य पामाण्यायो-
रित्याह- आप्तोक्तत्वप्रत्यये मानभावो वेदस्यास्य ज्ञायत मानभावे॥। विज्ञाते सत्याप्तपूर्वत्वसिद्धि- रित्यन्योन्यापाश्रयत्वप्रसङ्ग: ॥ २६९॥ आप्तोक्तत्वेति ॥ २६९। अव. तर्हि कथं वेदस्य प्रामाण्यमिति चेत्, तस्य स्व्रत एव प्रामाण्यान्न कारणापेक्षेत्यभपेत्याह- तस्मादेषा स्व्प्रयुक्तप्रमाण- भावज्ञाना वेदविद्याऽम्युपेया॥ प्रामाण्यं स्यात स्त्रप्रयुक्तं च तस्या वस्तुस्थित्या ज्ञततितन्नान्यतस्तत ॥२७० ॥ तस्मादेषति॥ यस्मादाप्पणीतत्वेन पामाण्यमन्योन्याश्र- यग्रस्तम् अनाप्तपणीतत्वं च वेदस्य यस्मान्न निश्चीयते वेदपमेयस्य
756
Page 757
१६८ अन्वयार्थप्रकाशिकाविभूषिते नावत- रति। तस्मादेषा वेदविद्या स्वमयुक्तपमाणभावज्ञानाऽभ्युपेया, स्व्रपयुक्तं पमाणभावज्ञानं यस्या: सा तथा। ज्ञानस्वरूपग्राहकम- माणादेव प्रामाण्यस्य ग्रहणं पामाण्यज्ञानस्य स्व्रपयुक्तत्वम् । तथा च यदैव वेदविद्या स्फुरति तदा प्रमाणत्वेनैव स्फुरति न पुनस्तथा स्फुरणे कारणान्तरमपेक्षते इत्यर्थः । इपौ पामाण्यस्य स्वतस्त्ववदुत्पत्तावपि स्वतस्त्वमाह।प्रामाण्यं स्यादिति । तस्याः वेदविद्याया: उत्पत्तौ च प्रामाण्यं वस्तुस्थित्या स्वमयुक्तं स्यादित्यन्वयः। प्रामाण्योत्पत्तौ स्वपयुक्तत्वं नाम ज्ञानजनकादे- व हेतोर्वस्तुस्थित्योत्सर्गतः मामाण्यस्योत्पत्तिः । तथाच यदैव यतो हेतोर्वेदस्वरूपाभिव्यक्तिस्तदैव तत एव प्रमाणत्वेनैवाभिव्य- क्तिर्न तस्य प्रमाणस्वरूपत्वसम्पादनाय हेत्वन्तरापेक्षेत्यर्थः । ज्ञप्तिवदिति परानपेक्षत्वमुत्पत्तावपि तुल्यमिति दर्शयति॥२७०॥ अव. व्यवहारे पि प्रामाण्यस्य स्वतस्त्वमाह- ज्ञप्त्युत्पत्त्योर्यद्वदेवं प्रवृत्ता- वस्या युक्ता मानता स्वप्रयुक्ता ।। वेदोत्थाया बुद्धिवृत्तेर्न हीय- मुत्यद्यान्यत संविदे काङ्क्षतीति ॥ २७१ ॥ ज्ञप्त्युत्पत्योरिति॥प्रवृत्तिर्नाम मानस्य संविदुत्पादकत्व- लक्षणो व्यापारः स एव ममाणव्यवहारः। अस्या: वेदोत्थाया: बुद्धिट्टत्तेर्यद्वज्ज्ञप्त्युत्पच्योः एवं पतृत्तावपि मानता स्वपयुक्त्तेति सम्बन्धः । ज्ञप्त्युत्पत्तिपवृत्तिषु स्वमयुक्तत्वमेव स्फुटयति । न हीयमिति। संविदे संवादाय ॥ २७१॥। अव. तस्मास्त्वत एव वेदपामाण्यासिदे: अन्यथा च तत्मामा-
757
Page 758
संक्षेपशारीरके तृतीयोऽध्यायः।३। १६२
ण्यासम्भवादबुद्धिपूर्वैव वेदादिस्ष्टिरीश्वरस्येति श्रतियुकत्तिभ्यां युक्तमेवोक्तमित्युपसंहरति- विश्वं विष्णोरुत्थितं नामरूपं निःश्ासादिप्रख्यमित्याह वेदः ।। यत्तत्तथ्यं वर्त्मना वर्णितेन तस्मान्मिथ्या पौरुषेयानुमानम् ॥ २७२ ॥ विश्वं विष्णोरिति॥ नामरूपमिति विश्वस्वरूपनिर्देशः । वाच्यवाचकात्मकमित्यर्थः । नामरूपं विश्वं निःश्वासादिपर्यं निः्वासादितुल्यं विष्णोरुत्थितमिति यत् वेद: आह तत् वर्णितेन वर्त्मना तथ्यं यथार्थ, नास्य बाधकमस्तीति योजना । यस्मादेवं तस्माद्वेदस्य बुद्धिपूर्वकस्टाष्टत्वानुमानं श्रुतिवाधितत्वाद- प्रमाणमिति सिद्धमित्याह। तस्मान्मिथ्या पौरुषेयानुमानमि- ति ॥। २७२ ।। अव. माच्या मीमासार्या पथमपादोक्तस्व्रतःप्रामाण्योत्थ- विरोधपरिहारं परमपकृतमुपसंहरति- परिणामतिवर्त्तयोरतः परिक्लृप्तावपि वेदगोचरः ॥ न हि चो्यलवोऽपि विद्यते कथितेनैत्र पथाऽनपेक्षतः ॥ २७३ ।। परिणामविवर्तयोरिति॥निगदव्पार्यातं पद्यम् ।२७३।। अव. तदेवं कार्यकारणादिव्यवहारस्य मायामात्रत्वात्मा- गुक्तेन च न्यायेन कारणत्वेश्वरत्वादिसमस्तविकल्परहितं निर्विशेषसाचदानन्दमात्र ब्रक्मेति तत्पदार्थो वाक्यार्थान्वययो-
758
Page 759
१७० अन्वयार्थप्रकाशिकाविभूषिते
ग्यतया संशोधितः, इदानीं तत्पदार्थे त्वम्पदार्थ च कियद्धेयं कि- यच्चोपादेयमिति विवेक्तुं विभागमाहोक्तस्यैव वैशदाय- उपाधिमौपाधिकमान्तरं चि- दाभासनं चित्प्रतिबिम्बकं च।। चिद्विम्बमेवं चतुरः पदार्थान् विविच्य जानीहि तदर्थभाजः ॥ २७४॥ उपाधिमित्यादिना ॥ औपाधिकमित्यस्य व्याख्या आ- न्तरमिति। उपाध्यन्तः पविष्टमुपाधिस्थत्वविशिष्टं चिदाभासनं चैतन्याभासमौपाधिकमित्यर्थः ॥ २७४॥। अव. त्वंपदार्थे ऽपि चातुर्विध्यमाह- तथा त्वमर्थेऽपि चतुष्ट्यन्तद् विेचनीयं निपुणेन भूत्वा ॥ मतिश्चिदाभासनमेवमस्यां बिम्बन्तदीयं प्रतिबिम्बकं च ॥ २७५॥ तथा त्वमर्थे Sपीति॥ तदेव चतुष्टयं विभजते । मतिरि- ति। मतिः अन्तःकरणमुपाधिः ॥ २७५॥ अव. तत्पदार्थगतचतुष्टयस्वरूपं विद्ृणोति-
उपाधिरज्ञानमनादिसिद्ध-
तदन्त्रिता चित् प्रतिबिम्बकं स्था- दुदीर्यत शुद्धचिदेव बिम्बम् ॥ २७६ ॥
759
Page 760
संक्षेपशारीरके तृतीयोऽध्यायः।३। १७१
उपाधिरज्ञानमिति॥ तदर्थे अनादिसिद्धमज्ञानमुपाधः। अस्मिन्नुपाधौ चिदाभासनं चिद्दाभासनं, न साक्षाच्चित् नापि जडं चित्सिन्निधिवशादुपाधिधर्मतया जातं तच्व कारणमायागतं सत् ईश्वरत्वं चिदात्मनीश्वरशब्दमटत्तिद्वारमित्यर्थः । तदन्विता यथोक्ताभासाविविक्ततयोक्तोपाध्यनुगता चित् प्रतिबिम्बकं भ- तिविम्ब ईश्वरपदवाच्यः स्यादित्यर्थः । आभासहेतुभूता शुद्ध- चिदेव बिम्बम् उक्तपतिबिम्बापेक्षया बिम्बमित्युच्यते, ईश्वरवा- घकतत्पदलक्ष्यं तद्भवतीत्यर्थः ॥ २७६। अध. इदानीं त्वमर्थगतचतुष्टयस्वरूपमाह- उपाधिरन्तःकरणं त्वमर्थे जीवत्वमाभासनमत तद्दत ।। तदन्विता चित् प्रतिबिम्बमेव मनन्त्रितां तामिह बिम्बमाहुः ॥ २७७।। उपाधिरन्तःकरणमिति॥मतिपदस्य पतिपदम् अन्तःकरण- मिति। अत्र त्वमर्थे तद्वत् ईश्वरत्ववत् आभासनंजीवत्वम्। अन्त :- करणस्योपाधेः कार्यस्य कारणपरतन्त्रत्वात्तद्गताभासस्यापि पा- रतन्त्र्याच्चिदात्मन्यप्यविवेकेन पारतन्त्र्यापादनेन जीवपदभवृत्ति- निमित्तत्वादन्त:करणगतचिदाभासनं जीवत्वं भवति, आभासावि- वेकेन भासमाना चित् पतिबिम्बं जीवो भवतीत्यर्थः।अनन्विता- म् उपाधितत्स्थाभासतदविविक्ताकारभ्यो विविक्तां तां चितम् इह त्वमर्थे बिम्बमाङ्डुः अध्यात्मतत्वविद इति योज्यम् ॥२७७॥ अव. उक्तार्थचतुष्कद्वये हेयमुपादेयं चेदानीं विभजते- उपािना सार्मुपाधि जन्य-
760
Page 761
१७२ अन्वयार्थप्रकाशिकाविभूषिते मौपाधिकं सर्वमवेहि मिथ्या।। भागं मृषा चित्प्रतिबिम्बकेऽपि बिम्बं पुनः सत्यमशेषमेव ॥ २७८॥ उपाधिना सार्धमिति । उपाधिजन्यमौपाधिकमिति व्याख्यानव्याख्येयभावेन योज्यम्। सर्वमौपाधिकमुपाधिना सा- रधमुपाधिसहितं मिथ्या न परमार्थः इति पदार्थद्वये डप्यवेहि जानीहि उपाधितत्स्थाभासी न केनापि रूपेण परमार्थावित्यतः तत्रात्माद्यभिमानस्त्याज्यः इत्यर्थः । प्रतिबिम्बके तु विशेषमाह। भागं मृपेति। चित्पतिबिम्बके Sपि भागम् आभासाविविक्तत्वांशं मृपेत्यवेहीति योजना। बिम्बं पुनरशेषमेव सत्यम् अशेषं सत्य- मेवेति वा योजना। उपाधितद्धर्मानास्कन्दितं चिन्मात्रमेव पदा- थद्वये जपि सत्यं तत्वंपदयोर्लक्ष्यं तदेवोपादेयम् अन्यत् सर्व- मनात्मेति ज्ञात्वा तन्राभिमानत्यागेन हेयमिति भावः॥ २७८।। अव. एतचोक्तं चातुर्विध्यं लौकिकपतिबिम्बेष्वपि प्रसि- द्धमेवेत्युदाहरणमाह- अप्पात्रमप्पात्रगतत्वसेव- मप्पात्रगोऽप्पात्रगताद बहिष्ठः ।। दिवाकरो दिव्यवतिष्ठमानो न शक्यतेऽपोहितुमिद्दतेजाः ॥२७९॥ अप्पात्रमिति॥ अप्पात्रम् उदकधृकू शरावादि उपाधि: । अप्पात्रगतत्वमित्याभासनमुक्तम् । अप्पात्रगत इति मतिबिम्बो- क्तिः। अप्पात्रगतात्परश्च दिवाकरो दिव्यवतिष्ठमान इति शुद्ध- विम्बसुच्यते। न शक्यते इत्यादिना तस्य सत्यत्वं शुद्धत्वं च
761
Page 762
संक्षेपशारीरके तृतीयोऽध्यायः।३। १७३
प्रतिपादते। अर्थादवस्थान्तरं सर्व पूर्वोक्त तस्योपाधिपयुक्तं मि- थ्या ऽशुद्धं चेत्युक्तं भवति ॥ २७९॥ अव. उक्तदृष्टान्तवत् दार्ष्टान्तिके Sपि प्रतिपत्तव्यमित्याह- पुरं पुरस्थत्वमथो पुरस्थं पुराद बहिः शुद्धमवस्थितञ्च ॥ तथा परं ब्रह्म सुसूक्ष्मयाऽपि धिया निराकर्तुमशक्यमेव्र ॥ २८० ॥ पुरमिति॥ पुरमुपाधिः। पुरस्थत्वं चिदाभासनम्। अथो इत्यव्ययं तथेत्यर्थे पादपूरणार्थम् । पुरस्थमिति प्रतिबिम्बोक्ति:। पुराद् बहिः शुद्धमिति बिम्बकथनम्। तस्यैव शुद्धत्वमुपादेयत्वायो- पपादयति। तथा परव्रह्मेति। यथा दिव्यवतिष्ठमानो दिवाकर- स्तथा पुराद् बहिरवस्थितं शुद्धं परं ब्रह्म सुसूंक्ष्मयाऽपि घिया नि- राकर्त्तुमशक्यमेव सर्वस्य निराकृतेस्तदवधित्वादित्यर्थः । तथा च श्रुतिः "पुरुषान्न परं किश्च्ित्सा काष्ठा सा परा गतिः" इति ॥ २८० ॥ अव. तस्मान्निर्विशेषमेव ब्रह्मतत्वमिति सिद्धमुपसंहरति- न स्थानतोऽप्यरिति परस्य तस्मादू विशेषयोगः परमार्थरूप: । स्वतः पुनर्दूरनिरस्तमेव परस्य तत्त्वस्य विशेषवत्त्त्म ॥ २८१॥ न स्थानतो Sपीति ॥ स्पष्टार्थम् ॥२८१ ॥ अव. स्वयमेव युत्तन्तरैनिर्विशेषं ब्रह्मेति पतिपाद्, इदानी-
762
Page 763
१७४ अन्वयार्थप्रकाशिकाविभूषिते
मस्मिन्नधिकरणे "अरूपवदेव हि तत्पधानत्वात्" इति सू- त्रेण पाधान्येनोक्तं निर्विशेषवाक्यानां तत्परत्वं विव्ृणोति- श्रतेश्ष तात्पयर्मखण्डरूपे परे पुरस्तादुपवर्णितं च ।। ततोपि तस्याद्दयरूपतोऽन्य- द्रूपान्तरं कल्पयितुं न शक्यम् ॥ २८२ ।। श्रुतेश्चेति । अखण्डरूपे निर्विशेषे परे ब्रह्मण श्रुतेस्ता- त्पर्य पुरस्तात्मथमाध्याये उपवर्णतं, ततोऽपि समन्वयाध्याय- सिद्धन्यायतोऽपि तस्य ब्रह्मणः इति सुगमम् । यद्यपि नि- र्विशेषे एव ब्रह्मणि सर्ववेदान्तसमन्वयः इति तत्र पाधान्येन पतिपादितं, तथापि तत्र "अन्तस्तद्धर्मोपदेशा् " इत्यादी सविशेषेऽपि ब्रह्मणि• वाक्यानां केषाश्चित्समन्वयस्योपपादना- त्सविशेषं निर्विशेषं ता ब्रह्मणस्तत्वमिति पुनः शङ्कायां तत्रो- कं निर्विशेषपरत्वमेव हेतुमादाय निर्विशेषत्वामेह व्युत्पाद्यते इति भाव: ।।२८२ ।। अव. ननु सविशेषत्वबोधकश्रुतिवशात्सविश्ेषत्वमपि व्र- ह्मण: कुतो न स्यादिति चेत्, तस्यास्तत्परत्वाभावादुपासनाद- र्थान्तरपरत्वान्मैवमित्याह- भेदश्रुतिस्त्वन्यपरा समस्ता समस्तवेदेषु न तत्पराऽसौ ।। अतत्परा तत्परव्रेदवाक्यै- र्विरुद्धमाना गुणवाद एव ॥। २८३ ॥। भेद्भ्रुतिरिति ॥ अन्यपराया: अपि देवताऽधिकरणन्या-
763
Page 764
संक्षेपशारीरके तृतीयोऽ्ध्यायः। ३। १७५
येन स्वार्थपरत्वमपि कि न स्यादित्याशक्का, मानान्तरविरोधा- न्मैवामित्याह। अतत्परेति ॥ २८३॥ अव. ननु सविशेषवाक्यैर्विरोधः इतरेषामपि समानः इति चेत्, सत्यं, तथापि निरवकाशतया निर्गुणवाक्यानां स्वार्थेकपर- त्वेन मावल्यान्न तदर्थमन्यथा नेतुं शक्नुयुः सविशेषवाक्यानी- त्याह- न हयर्थवादा विधिभिर्विरुद्धा विध्यर्थसङ्कोचकरा भवन्ति ॥ किं तु प्रधानानुगुणं यदेषा- मालम्बनं तत खलु कल्पनीयम् ॥ २८४ ॥ न हर्थवादा इति॥ विधित्वं शेषित्वम्। स्पष्टार्थमर्धम्। तर्हि किमर्थवादाः निरालम्बना: एवेति? नेत्याह। किन्त्विति। यद्ेषा- मर्थवादानां प्रधानानुगुणं विध्यनुगुणं भवति तत् खल्वाल- म्बनं कयाऽपि वृश्या कल्पनीयं न प्रधानविरुद्धार्थालम्बनत्व- सुचितमित्यर्थः । २८४।। अव. अस्मिस्नर्थे पूर्वतन्त्रसम्मतिमाह- यथा ह्यजक्षीरवरिधेः समीपे यज्जतर्तिलादे: परिकीर्तनं तत ।। प्रधानसक्कोचभयादपास्य स्व्रमर्थमासीद गुणवाद एव ॥ २८५॥ यथा हीति। चयनगते Sग्निहोत्रे श्रूयते "जर्तिलयवाग्वा वा जुह्ुयाद्गवेधुकयवाग्वा वा" इति । तथा "अजक्षीरेण जुहो- ति" इति च । जर्तिला: आरण्यतिलाः । गवेधुकाः आरण्यगो-
764
Page 765
१७६ अन्वयार्थप्रकाशिकाविभूषिते
धूमाः। तेर्षां यवागूर्मण्ठः । अजायाः क्षीरमजक्षीरम, अजशब्दस्य जातिवचनत्वाददोषः । अत्र संशयः-कि जर्तिलगवेधुकहोमवा- दोप्यजक्षीरहोम इव विधि: कि वार्डर्थवाद: इति। तत्र विधिपत्य- यश्रवणात् अग्निहोत्रस्य च द्रव्याकाक्िणः श्रुतद्रव्यपरिग्रहोपपत्तेः अजक्षीरेण विकल्पोपपत्तेश्र विधिवचनो जर्ततिलादिवाद: इति पापय्य राद्ान्तितम् "अनाहुतिर्वै जर्तिलाश्च गवीधुकाश्चेत्यजक्षी- रेण जुहोति" इति जर्तिलादिनिन्दापूर्वकमजक्षीरविधानादजक्षी- रविधे: माधान्यमत्रावगतम् । तथा च जर्तिलादेरपि होमद्रव्य- त्वाश्रयणे उत्पत्तिशिष्टस्याजक्षीरस्य विकल्पपाप्ती पाक्षिकस्त- द्विधि: स्यात्, स चायुक्तः विकल्पाश्रयणस्यागतिकगतित्वात्। अष्टदोषदुष्टत्वात्, इह च निन्दावाददर्शनात्तुल्यवद्विकल्पाश्रय-
गुणवादेनान्निहोत्रहोमस्यावश्यकत्वोत्त्या स्तुत्यर्थत्वोपपत्तेरिति। एषाऽक्षरयोजना-अजक्षीरविधेः प्रकरणित्वेन प्धानभूतस्य समीपे यज्जरतिळादेः परिकीर्तनं तद्यथा प्रधानस्य अजक्षीरविधेः सङ्कोचभयात् अपास्य विधिपरत्वं निराकत्य स्तुत्यर्थ गुण- वाद एवासीन्निश्चितो बभूवेति ॥। २८५॥ अव. तथा Sत्रापि विशेषवाक्यानां गुणवादेन तत्स्तुत्य- र्थत्वमेव युक्तमिति दार्ष्टान्तिकमाह- एवं सतीहापि विरुध्यमानं वचो यदद्वैतपरैर्वचोभिः ।। तदस्तु गौणं यदि वा परस्य मायाप्रसूतद्दयवादि मुख्यम् ॥ २८६॥ एवं सतीति ॥ "प्रधानानुरोधिनोऽर्थवादा: न प्धा-
765
Page 766
संक्षेपशारीरके तृतीयोऽध्यायः।३। १७७
नविरोधिनः" इति न्यायतः सिद्धे सतीत्यर्थः । इह वेदान्तेष्वपि यत् अनन्यथासिद्धार्थतया पधानभूताद्वैतवचोभिर्विरुध्यमानं वचो डस्ति तद्गौणमस्तु गुणवादेन स्तुत्यर्थोऽर्थवादोऽस्त्विति योजना। नन्वेवं सविशेषवाक्याणां सर्वथा गुणवादत्वे उपासनाविध्य- पेक्षितविधेयार्थविशेषसमर्पकत्वमपि तेषां न स्यादित्याशक्का, पक्षान्तरमाह। यदि वेति। परस्य ब्रह्मणो मायापसूतं यत् द्वयं तद्वादि सन्मुख्यं मुख्यार्थमस्तु, यथाश्चतं सविशेषत्वमपि मायाम- यमस्तीति तद्विषयत्वं तेषां मुख्यमस्तु। अस्मिन्पक्षे विषय- भेदान्न निर्विशेपवाक्यविरोधितेति भावः ॥ २८६।। अव. भेदश्रतेरपि चेन्मुख्यमालम्बनमिष्यते तर्हि तस्या: कथं चिद्स्तुसंस्पर्शित्वमेष्टव्यमिति चेत्, तदशक्यं, तत्परवाक्य- विरोधादित्याह- भेदश्रुतिः कल्पितमेव भेद- मालम्व्य मुख्यार्थवती भवित्री ।। अतत्परा तत्परवाक्यभङ्ग- स्त्वितोऽन्यथा याति विना निमित्तम् ॥ २८७। ेद्श्रुतिः कल्पितमेवेति॥ कल्पितभेदावलम्बनेनैव मुख्यार्थवच्वे हेत्वर्थ विशेषणम् अतत्परेति। उपासनादिपरत्वान्न भेदपरेत्यर्थः। विपक्षे दोषमाह। तत्परवाक्यभङ्गस्त्वति। तत्पर- वाक्यस्य स्वार्थपरत्वापहारः इति यावत्। जर्तिलादिवाक्यस्येव स्वार्थापहारो उप्यस्त्विति चेत्, नेत्याह । विना निमित्त- मिति ॥ २८७।। अव. ननूपासनावाक्यानामुपासनानिष्ठत्वेनार्थवादत्वा- भावात्तत्र श्रुतं सविशेषत्वं वस्तुधर्म एवेति चेत्, नेत्याह- २३
766
Page 767
१७८ अन्वयार्थप्रकाशिकाविभूषिते
यदपि किं चिदुपासननिष्ठिताद् वचनतः प्रतिभाति परात्मनः । सकलगन्धरसादिमयं वपु- स्तदपि कल्पितभेदसमाश्रयम ॥ २८८ ॥ यदपीति "सर्वगन्धः सर्वरसः" इत्यादिविशेषणविशिष्टं वपुरित्यर्थः॥ २८८ म अव. कुतः कल्पितभेदसमाश्रयत्वम् ? इति तत्राह- न खलु निर्गुणवस्तुपरं वचः सगुणवाक्यविरोधनिमित्ततः ।। स्वविषयादपसारयितुं बला- दतिबलिष्ठपदान्वयमिष्यते ॥। २८९॥ न खत्ु निर्गुणेति ॥ अयमर्थः । निर्गुणवाक्यं ताव दत्यन्तं बलिष्ठमेव अन्योपजीवित्वाभावात्, सगुणवाक्यं तु तदपेक्षया दुर्बलं निर्गुणवाक्यशेषभूतसृष्टयादिवाक्यासिद्धसर्वा- त्मकब्रह्मरूपानुवादेन तद्विपयोपासनाविधिपरत्वात्, अतः उपजी- वकेन दुर्बलेनोपजीव्यं सबलं न बाधमर्हतीति। एषाऽक्षरयो- जना। अतिबलिष्ठपदान्वयं निर्गुणवस्तुपरं वच: सगुणवाक्य- विरोधनिमित्ततो न खलु स्वविषयाद् बलादपसारयितुमि- ष्यते इति ॥ २८९ ॥ अव. तत्पदार्थशोधनपकरणमुपसंहरन् शोघिततत्पदार्थ- लक्ष्यं दर्शयति-
तस्मात्तत्परवेदवाक्यगतिभिर्न्यायेन चात्मप्रभं
767
Page 768
संक्षेपशारीरके तृतीयोऽध्यायः।३। १७९
सर्वद्वैतविवर्जितं विगालतध्तान्तं शिवं शाश्चतम् ।। प्रत्यग्रूमरूपगन्धरसकं तच्छब्दवाच्ये स्थितं वाक्यार्थान्वयि लक्षितं भगवरतो विष्णोः पदंगृह्यताम्॥२२०॥ तस्मात्तत्परेति ॥ वाक्यगतयो वाक्यानामर्थावबोधन- प्रकारा: । न्यायस्तु औपाधिकानामुपाधीनां च मिथ्यात्वप्ति- पादनयुक्तिः। पत्यगरूपं प्रतीच: स्वरूपभूतं, न तटस्थमित्यर्थः । तच्छब्दवाच्ये शबले स्थितम् अधिष्ठानत्वेनानुगतमित्यर्थः । एवंभूतं विष्णोः पदं तत्पदलक्षितं वाक्यार्थान्वयि गृह्यतामिति योजना ॥ २९० ॥ अव. शोिते तत्पदलक्ष्ये प्रमाणत्वेन काठकमन्त्रवाक्य- मुदाहरति- अशब्दमस्पशमरूपमव्यय तथाऽरसं नित्यमगन्धवच्च यत्।। अनाद्यनन्तं महतः परं ध्रुनं निचायनीयं पदमीदशं हरेः ॥ २९१॥ अशब्द्मस्पशमिति॥ अशब्दमित्यादौ प्रतिपदं नित्यपदं योज्यम्। नित्यमशब्दं नित्यमस्पर्शमित्यादि। अव्ययं गुणावयवो- पचयनिमित्तव्ययरहितं निर्गुणं निरवयवं चेत्यर्थः । पूर्वार्धोक्त- पञ्चभूततद्धर्मव्यावृत्तस्वरूपत्वे हेत्वर्थ विशेषणम् अनाद्य- नन्तमिति । पूर्वोत्तरावधिविधुरमित्यर्थः । आद्यन्तविकारनि- षेधादेव मध्यवर्त्तिनो स्तित्वादयोऽपि विकारा: पतिषिद्धा वेदितव्याः । महतः परमिति जीवाद्वैलक्षण्यमाह । महानिति बुद्धिरुच्यते तदुपाधिको जीव: इह महानिति विवक्ष्यते तस्मात्प-
768
Page 769
१८० अन्वयार्थप्रकाशिकाविभूषिते
रम्। एतावत्युक्तेऽपि महत्वात्परमव्यक्तमव्याकृतारूयं प्राप्तं तद- र्थमाह। घ्रुवमिति । अविचलं न परिणामीत्यर्थः । किंबहुना सर्वचतनतद्गतचिदाभासविलक्षणं तत्वं परमात्मा तं निचाय्य अहमस्मीत्यवगम्य मृत्युमुखात्संसारबन्धनात्मकर्षेण मुच्यते इति मन्त्रार्थः । २९१ ॥ अव. अंत्रैव श्वेताश्वतरोपनिषन्मन्त्रं पठति - भोक्ता भोज्यं प्रेरितारं च मत्वा सर्व प्रोक्तं त्रिविधं ब्रह्म मे तत् । जीव्रेशानौ सज्यमानं जगच्च शुद्धं ब्रह्मेत्याह वेदान्तवाक्यम् ॥ २१२ ॥ भोक्ता भाज्यमिति ॥ भोक्तेतिप्रथमा द्वितीयार्ये। भोक्तारं जीवं भोज्यं पपञ्षं मेरितारमीश्वरं च मत्वा युक्तितो विचार्य सर्व तस्त्रिविधं मे मह्यं ब्रह्म प्रोक्तं ब्रह्मव्यतिरेकेण नैतत्त्रिविधमस्ति ब्रह्मैवास्तीति भोक्तमिति मन्त्रदशो वचनार्थः । एतन्मन्त्रार्थमाह। जीवेशानाविति ॥ २९२ ।। अव. पदार्थतत्ववोधेनैव कृतार्थतां मन्वानं शिष्यं प्रति "नैतावता ते कृतार्थता महावाक्यार्थबोधमन्तरेण पदार्थद्वयगत- पारोक्ष्यसद्वयत्वांशानिटृत्तेः तन्निवृत्ति विना ऽखण्डानन्दानुभ- वाभावेनाकृतार्थत्वतादवस्थ्यात्" इत्यभिपेत्याह- पदार्थबोधेन कृतार्थता न ते मतिः परोक्षा हि पदार्थगोचरा । अतो महावाक्यनिबन्धनैत्र धी- रबोधनिचछेदकरी भविष्यति ॥ २९३ ॥
769
Page 770
संक्षेपशारीरके तृतीयोऽध्यायः।३। १८१
पदार्थबाधेनेति॥ पदार्थगोचरा हि मतिः परोक्षा युक्ति- मात्रोपनिवद्धत्वादित्यर्थः । सुगममन्यत् ॥ २१३॥ अव. वाक्यमपि स्वार्थ बोधयत्पूर्वटृत्तबहुनियमापेक्षमेव बोधयति न यस्य कस्य चिद्यथाकथंचिच्छ्वणमात्रादित्यभ- प्रेत्याह- स्वाध्यायधर्मपठितं निजवेदशाखा- वेदान्तभूमिगतमादरपालितं च।। संन्यासिना परदशा गुरुणोपदिष्टं साक्षान्महावचनमेव विमुक्तिहेतुः ॥ २९४॥ स्वाध्यायधर्मेति ॥ महावचनं महावाक्यमेव साक्षाद्विमु- क्तिहेतुरिति सम्बन्धः। आद्येन विशेषणेनाध्ययनविधेरत्र प्रामा- ण्यसूच नाल्लिखितपाठादिना वा नियमहीनाध्ययनेन वा गृहीत- वाक्यव्यावृत्ति: क्रियते। द्वितीयेन परशारव्गतवाक्यस्य पाधा- न्येन ग्रहणव्युदासः । स्व्वेदशाखासिद्धैरेव क्मविज्ञानैः स्वस्य श्रेयःपाप्तिरिति स्मृत्याचारपसिद्धं, शाखारण्डत्वेनान्यशाखा- निष्ठस्य निन्दापायश्चित्तयोरुपलम्भात् । स्व्रशाखावाक्येन सिद्धे- र्थे मतिदाढ्याय संवादितया परशाखावाक्यग्रहणं न पतिषि- दधयते। आदरपालितमिति अध्ययनात्प्रभृति संन्यासकालप- र्यन्तमविस्मरणं विवक्ष्यते, तेन च ब्रह्मोज्झत्वादिदोषराहित्यं साधकस्याभिप्रेतं "तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मानिष्ठम्" इति शास्त्रमाश्रित्याह। संन्यासिनेति। तस्य परटशेति विशेषणेन भेदाभेदनिष्ठकुटीचकादिसंन्यासी गुरुत्वे व्यावर्त्यते ॥ २९४ ॥ अव. वेदान्तवाक्यादेव प्रत्यक्त्वावगतिर्मुक्तिहेतुर्नान्यतस्त-
770
Page 771
१८२ अन्वयार्थप्रकाशिकाविभूषिते
दवगतिरित्यत्र भमाणमाह- नावेदविन्मनुते पुरुषं बृहन्त- मित्याह वेदवचनं कथमन्यथैतत्।। वाक्यान्तरं च कथमाह पुमासमेनं साटोपमौपनिषदत्वविशेषणेन ॥ २९५॥ नावेदविदिति ॥ अत्र वेदशब्दो वेदान्तवचनः । अवेद- वित् वेदान्तानभिज्ञः वेदान्तवाक्यविचारहीन: इति यावत् । तं बृहन्तमिति "येन सूर्यस्तपति तेजसेद्धः" इति पूर्ववाक्योक्तः सूर्यादीनामपि प्रकाशकश्तित्सदानन्दः परमात्मा परामृश्यते, तं ब्रह्मरूपमवेदविन्न मनुते न विजानातीत्याह वेदवचनम् एतत्क- थमन्यथा स्यात्, ब्रह्मात्मतत्वस्य पमाणान्तरगम्यत्वे एतद्वाक्यं निर्विषयमप्माणं स्यादित्यर्थः। "तं त्वौपनिषदं पुरुषं पृच्छामि" इत्येतदपि वाक्यमत पमाणमित्याह। वाक्यान्तरमिति। यदि मानान्तरविषयः परमात्मा भवेत्तदा साटोपं ससम्भ्रमम् औपनि- षदत्वविशेषणेन एनं पुमांसं कथमाहेति योजना । अन्यवेद्यत्वे औपनिषदत्वविशेषणमनर्थकं स्यादित्यर्थः ॥ २९५॥ अव. औपनिषद इति विशेषणेनोपनिषत्सु सम्यगवगतत्वं पुरुषस्योच्यते, तथा नावेदविदित्यत्र वेदैकवेद्यत्वं पुरुषस्योक्तं, तत्रोपनिषदिति वेद इति च वेदैकदेशे सर्वस्यां वेदशाखायां च पसिद्धेः कथं महावाक्यैकगम्यत्वे ब्रह्मात्मतत्वस्यैतत्ममाणं स्यात् ? इत्यत आह-
उपनिषदिति वेद इत्यपीदं समभितदन्ति महावचो महान्तः ।।
771
Page 772
१८३
फलतदवगतिः स्यादन्तरेणैतदेकं वचनमिति न शक्यं वक्तुमित्यादरो डस्मिन् ॥२९६।। उपनिषदिति वेद इति॥ महान्तो ऽध्यात्मनिरूपणकुश- लाः उपनिषदिति वेद इत्यपीदं पूर्वोक्तं महावच: समभिवदन्ति, पसिद्धिपरित्यागेनावयवव्युत्पच्या महावाक्ये शब्दद्वयं प्रयुअ्ते इत्यर्थः। तत्र निमित्तमाह। फलवदिति। एतदेकं महावाक्यल- क्षणं वचनमन्तरेण फलवद्ब्रह्मावगतिः स्यादिति न शक्यम् अ- न्यस्य सर्वस्य तत्र परोक्षज्ञानहेतुत्वादिति हेतोरस्मिन् महावाक्ये महतामादरः इत्यर्थः । अस्मिंश् पद्मे पूर्वोत्तरार्धयोर्द्टत्तभेद:प्ा- मादिको ज्ञेयः ॥ २९६ ॥ अव. यस्मादेवं महतामत्रादरस्तस्मान्महावाक्ये एव शब्द- द्वयं योज्यमत्याह- उपनिषदिति शब्दो वेदशब्दश्चतस्मा- चुतिशिरसि निविष्टो योज्यतामत्र वाक्ये ।। अपरमखिलमस्यैवाङ्गभूतत्वहतो- रिह समभिनिविष्टं तद्विरो वाच्यमासीत् ॥२९७॥ उपनिषदिति शब्द इति ॥ उप समीपे मत्यगात्मानम् अव्यवधानेन ब्रस्म गमयतीत्युपनिषन्महावाक्योत्था ब्रह्मविद्या ब्रह्म मत्यगात्माभेदेन वेदयतीति वेदो पि सैव, साच महा- वाक्यैकनिबन्धनेति श्रुतिशिरास वेदान्तभागे निविष्टः उपनिष- दिति शब्दो वेदशब्दश्चात्र महावाक्ये योज्यतामिति योजना। तर्हि महावाक्यव्यतिरिक्तेषु शब्देषु कथमुपनिषदादिशब्दमटत्ति: पाठ- कानां तत्र तच्छन्दव्यवहारदर्शनादिति चेत, तत्राह। अपरमिति।
772
Page 773
१८४
अपरं महावाक्यव्यतिरिक्तमखिलं वाक्यम् अस्य महावाक्यस्या- ङ्भूतत्वहेतोरेव एतच्छेषत्वादेव इह महावाक्ये समभिनिविष्टमे- तदेकवाक्यतयैतस्मिन्नन्तर्भूतं सत् तदविरो वेदोपनिषच्छब्दस्य वाच्यमासीन्न प्राधान्येन मुख्यतयेत्यर्थः ॥ २७॥ अव. तन्वमस्यादिमहावाक्यमेव साक्षात्तत्वबोधकमित्यत्र लिङ्गमाह- वित्रा तत्त्त्रमसीतिबोधनमनु स्पष्टं विजज्ञाविति च्छान्दोग्यं यदवोचदेतविह नो लिङ्गं भवेत ज्ञापकम्॥ सर्वत्रैव महागिरामुपनिषच्छन्दो भवेद ग्राहको वेदश्चायमतोऽन्यदस्य निकटं तेनात्र वेदादिगी:॥।।२९८।। पित्रेति । बोधनमनु उपदेशसमनन्तरमेव "तद्धास्य विज- ज्ञौ" इति स्पष्ट छान्दोग्ये यदवोचत् एतत् नोऽस्माकमिह महावाक्य- स्यैव साक्षात्तत्वबोधकत्वमित्यत्र ज्ञापकं लिङ्गं भवेत्, तथाच सर्व- त्रैव वेदान्तेषु महागिरां ग्राहक: उपनिषच्छन्दो भवेत्, वेदश्ायं महावाक्यलक्षण एवार्थात्सिद्ध: इत्यर्थः । अतो ऽन्यन्महावाक्या- तिरिक्तमस्य महावाक्यस्य निकटं तदपेक्षितार्थसमर्पकत्वेन तदे- कार्थनिष्ठं यतस्तेन हेतुनाऽत्र वाक्यान्तरभागे वेदादिगीरध्येतृ- णामित्यर्थः ॥ २९८ ।। अव. महावाक्यस्य साक्षाद्बोधकत्वमात्रेणोपनिषच्छब्दवा- च्यत्वं कथं गम्यते ? इत्यपेक्षायामुपनिषच्छब्दस्य तावत्साक्षा- न्मुख्यार्थमाह- उपनिषद्वचसा परमात्मधीः सहजशक्तिवशन निगद्यते।।
773
Page 774
संक्षपशारीरके तृतीयोऽध्यायः । ३। १८५
तदुपचयर्थ महागिरि वर्त्तते निकटभावमंपक्ष्य तु मुख्यगीः ॥ २९९ ॥ उपनिषद्वचसेति॥ सहजशक्तिवशेनेति । सदेरुपनिपूर्व- स्य धातोः स्वभावसिद्धसामर्थ्येनेत्यर्थः । तर्हि कथं महावाक्ये उपनिषच्छन्दो व्याख्यातः? इति तत्राह। तदुपचर्येति। तत् उपनि- पत्पदं महागिरि उपचाराद्वर्तते इत्यर्थः। तर्हि महावाक्ये मुख्यमिति कथं पूर्वमुपपादितमित्यत आह।निकटभावमिति। वाक्यान्तरापे- क्षया मुख्यारथोपनिषद्ब्रह्मविद्याया निकटभावमपेक्ष्य तु महावा- क्येऽप्युपनिपद्वीर्मुख्येत्युक्तमिति न दोष: इत्यर्थः । विद्याऽपेक्षया महावाक्येषूपनिषद्वेदपदयोरमुख्यत्वे डपीतरवाक्यापेक्षया विद्यां प्रति नैकट्यात्तत्र मुख्यत्ववचनं युक्तमिति भावः । २९९।। अव. उक्तमेवार्थ विशदयति- उपनिषद्चनाभिहितात्मधी- र्निकटवर्त्तिमहागिरि मुख्यवत ॥ उपनिषद्वचनं तदवान्तरे वचसि गौणवदत्र विवक्ष्यते ॥ ३०० ॥ उपनिषद्चनाभिहितंति ॥ उपनिषदितिवचनेन मु- ख्यया वृत्या भिहिता सती विद्या निकटवर्तिमहागिरि मुख्यवद्विवक्ष्यते इति सम्बन्धः । तदवान्तरे वचसि उपनिषद्वच- नं गौणवत् अत्र वेदान्तेषु विवक्ष्यते इति योजना ॥ ३०० ॥ अव. साक्षादवगतिहेतुत्वं महावाक्यस्येत्यत्र पूर्वोक्तं लिङ्गं स्मारयति -- यतो महावाक्यत एव पुत्रो २४
774
Page 775
१८६ अन्वयार्थप्रकाशिकाविभूषिते
विजज्ञितानस्य पितुः सकाशात।। इति श्रुतं तेन स एव वेद- स्तथा च सैत्रोपनिषच सिद्धा ॥ ३० १ ॥ यतो महावाक्यत इति॥पुत्र: श्वेतकेतु: पितुरुद्दा- ळकात्सकाशान्महावाक्यत एवास्य परमात्मनस्तशवं विजज्ञि- वानिति यस्माचछुतं छान्दोग्ये तेन वेदनहेतुत्वेन स एव वेदस्तन्महावाक्यमेव वेद:। पुंलिङ्गत्वनिर्देशो विधेयाभिपाये- ण। तथैव वेदवाच्यत्ववत्सवोपनिषच्च सिद्धा। अत्रापि लिङ्ग- र्निदेश: पूर्ववत् ॥ ३०१ ॥ भव. तस्मान्महावाक्यादेव तथ्वावगतिर्मुक्तिफला नान्यतो- Sवगतिरिति सिद्धमित्युपसंहरति- विना महावाक्यमतो न कश्ित पुमांसमद्वैतमवरैति जन्तु: ।। ततः पदार्थावगमान्न मुक्ति- र्घटिष्यते तस्य परोक्षभावात् ॥ ३०२।। चिना महावाक्यमिति । अतः इति प्रथमं योज्यम् । उक्तान्न्यायादित्यर्थः । एवं च पदार्थशोधनमात्रेण न कृतक- त्यतेति यदुक्तं तदपि सत्यमेवेति सिद्धमित्याह। ततः पदार्थेति। पदार्थावगमान्मुक्तयभावे हेतुमाह। तस्येति। पदार्थावगमस्य परो- क्षत्वादपरोक्षसंसारनिवर्त्तकत्वासम्भवात्ततो न मुक्तिसिद्धि- रित्यर्थः ॥ ३०२ ॥ अव. तहि पदार्थशोधनं किमर्थ कृतमिति चेत्, महावाक्य- शेषतयेत्या-
775
Page 776
संक्षेपशारीरके तृतीयोऽध्यायः। ३। १८७
पदार्थबोधं परिहत्य वाक्यं न शक्यमात्मानुभवावसानामू।। धियं समानतुमपेक्षितत्वा- दतः स यत्नेन निरूपितोऽभृत ॥ ३०३ ॥ पदार्थबोधमिति ॥ वाक्यम् अत्राखण्डे ब्रह्मात्मवस्तुनि पदार्थबोधं परिहृत्यानुभवावसानां घियं समानेतुमशक्यं यतो- Sतोऽपेक्षितत्वात्सः पदार्थो यन्नेन निरूपितोऽभूदिति यो- जना ॥ ३०३ ॥ भव. पदार्थशोधनेन वाक्यस्य कः उपकारो जायते इति वीक्षायां वाक्यार्थे सम्भावनैवोपकार: इत्याह-
प्रत्यक्त्वं समधिगतं त्वमित्यनेन । प्रत्यक्त्वं न खलु बरिना Sद्धितीयमेवं नाद्वैतं भवितुमलं विना प्रतांचा ॥ ३०४ ।। तच्छन्दादिति॥ पदार्थशोधने कृते मिथः पदार्थयोस्तादा- त्म्यरूपान्वयविरोध्यंशापोहेन तच्छ्दात् अद्वितीयमवगतमासीत्, त्वमित्यनेन पदेन प्रत्यक्कमवगतमासीत् अद्वितीयतया मत्यङमा- त्रेण च पददयलक्ष्यं समधिगतमित्यर्थः । एवं सति तयोश्चात्य- न्तमेकत्वमेव सम्पन्नमित्याह। प्त्यक्त्वं न खल्विति। अद्वितीयम् अद्वितीयब्रह्मात्मत्वं विना त्वमर्थस्य प्रत्यकत्वं न खलु भवितुमलम् मत्यक्त्वं नाम सर्वान्तरत्वं, तद् ब्रह्मणो व्याटृत्तस्य न निरङकुशं भवेदिति पदार्थशोधनेन त्वमर्थस्य प्रत्यकत्वं सिद्धयङ्गह्मात्म- नैव सिख्तीत्यर्थः। एवं प्रतीचा प्त्यक्त्वेन विना न खल तद-
776
Page 777
१८८ अन्वयार्थप्रकाशिकाविभूषिते
र्थस्याद्वितीयत्वं भवितुमलं, न हि पतीचो व्यावृत्तस्याद्विती- यता स्यादित्यर्थः। पदार्थशोधने कृते सति तयोर्भिन्नलक्षण- त्वव्युदासेनैकलक्षणतायां सम्भावितायां महावाक्यात्तदैक्या- वगतिसमये तदर्थस्य पारोक्ष्यं त्वमर्थस्य सद्वयत्वं च निवर्त्यते इति पूर्णाखण्डैकरसवाक्यार्थसिद्धिरिति पदार्थशोधनमर्थवदिति भाव:॥ ३०४।। अव. ननु तर्कवशादपि सर्वानात्मनिरासेन वस्तु पदर्शतं चेत्किं पुनस्ततो वाक्यादाधिक्यं भवेत्, न चेत्मदर्शितं वाक्यार्थ- सम्भावनाऽपि ततः कुतः स्यादिति चेत्, तत्राह- तर्कप्रतीतिसमयेऽपि तदद्वितीयं प्रत्यक् परिस्फुरति तत्प्रतिबिम्बितं सत् ।। वेदान्तवाक्यजनिताद्वयशुद्धभूमि- निषठं पुनः स्फुटतरं भवतीति भेदः ॥ ३०५॥ तर्कप्रतीतिरिति ॥ तत्प्रतिबिम्बितं तर्कभतीतावावि- र्भूतं सत् प्रत्यक्त्वेन परिस्फुरति, सर्वानात्मनिरासेनाद्वितीय- प्रत्यगाकारा धीस्तर्कवशादपि जायते इत्यर्थः । तर्हि वाक्यवैय- थर्यमित्युक्तं, नेत्याह। वेदान्तवाक्येति। वेदान्तवाक्यजनिता चासावद्वया च सा शुद्धभूमिश्रेति तथोक्ता तस्यां निष्ठं प्रतिबि- म्बितं सन् महावाक्यजन्याद्वयाकारा याऽसम्भावनादिराहित्येन शुद्धा भूमि: बुद्धिदृत्तिस्तन्निष्टं सत् स्फुटतरं भवतीति विशेष: इत्यर्थ: ॥ ३०५॥ अव. कुतः इत्थं व्यवस्थेति चेत्, तर्कवाक्यजन्यबुद्धयोः शुद्धितारतम्यादिति हेतुमभिप्ेत्य दष्टान्तमाह- अधममध्यमशुद्धिनि दर्पणे
777
Page 778
संक्षेपशारीरके तृतीयोऽध्यायः।३। १८९
परमशुद्धिनि चाननमात्मनः । तरतमक्रमतः प्रतिभासते तदि तत्त्वमिह प्रतिपत्तिषु ॥ ३०६ ॥ अधममध्यमेति ॥ दृष्टान्तार्थः स्पष्टः । दार्ष्टान्तिकमाह। तदिवेति॥ ३०६ ॥ अव. बुद्धी किंनिमित्तं तारतम्यमिति चेत्, जनकस्वभाव भेदादित्याह- एकदेशमुपलभ्य धर्मिण- श्रैकदेशमपरं विजानते ॥। धर्मिधीव्यवधिकारणादतो नानुमा डनुभवनाय वस्तुनः ॥३०७॥ एकदेशमिति॥ एकदेशदर्शनादेकदेशान्तरे बुद्धिरतुमा- नमिति हि प्रसिद्धम्। तथा च धर्मिण: पक्षस्यैकदेशं व्याप्या- वच्छिन्नदेशमुपलभ्य अपरं व्यापकावच्छिनं प्रदेशं विजानते अतो
डनुभवाय न ह्नुमा कल्पते इति योज्यम् । तर्को हि प्रमाण- सिद्धेऽर्थे सम्भावनामात्रहेतुत्वात्स्वयं तावन्न पमाणम् अतो डपमाणात्तस्माभनानुभवोत्पत्तिः । दष्टसाधर्म्येणादृष्टे ऽप्यर्थे प- तीतिमुत्पादयन्नपि व्याप्तिलिङ्गपक्षादिधीव्यवधानेन तां व्या- पकाकारामुत्पादयति। तथा च तस्या: प्तीते: साक्षाद्वस्तुसं- स्पर्शित्वाभावान्न ज्ञेयवस्तुयाथात्म्याकारता भवति अतः सा धीरशुद्धेति तत्र प्रतिबिम्बितमपि ब्रह्मात्मवस्तु सत्तामात्रेण सुधुप्तिव्यावृत्तमात्रमवभासते इति परोक्षमेत भवति। वाक्यं तु
778
Page 779
१९० अन्वयार्थप्रकाशिकाषिभूषिते
लक्षणया स्वगतव्ृत्या केवलब्रह्मात्माकारामेव घियं जनये- न्नित्यापरोक्षस्य तर्कतो देहादिसङ्गाताद्विविक्तस्य चिद्रूपपत्य- गात्मन एव संशोधिताद्वयव्रम्मत्वावबोधनात्, अतो वाक्यजन्यः पत्ययः शुद्धतर इति तत्रवापरोक्षसंसारनिवर्त्तकापरोक्षब्रह्मात्म- कारता भवतीति युक्तैव यथोक्तव्यवस्थेति भावः ॥। ३०७॥ अव. पदार्थशोधनपकरणमुपसंहृत्य शिष्यस्य चोघयावसरं ददाति- एवं तावत्तत्वमर्थौ विशुद्धौ बोद्धव्यं चेदन्यदप्यस्ति पृच्छ ॥ यद्यद बुद्धं तत्तदादाय तिष्ठे- र्यञ्चाबुद्धं तत्र चाधत्स्व चेतः ॥ ३०८ ॥ एवं तावदिति ॥ विशुद्धौ परागर्थाद्विविच्य निर्णीता। अतः परं बोद्धव्यं चेदन्यत्किमप्यस्तीति मन्यसे तर्हि पृच्छ चित्तस्य स्वाभाविकवाहिर्मुख्यात्सम्भवत्यवगते डपि विस्मृति- रिति श्रुतार्थाविस्मरणे यत्न आधेय इत्याह। यद्यद् बुद्धमिति। श्रुतार्थानुसंधानळग्नचित्ततया डबुद्धबोधे पमादो न कार्यः किन्तु तत्रापि कार्यमवधानमित्याह। यच्चाबुद्धमिति ॥ ३०८ ।। अव. एवं गुरुणाऽनुज्ञातस्य शिष्यस्य मटत्तिमाह- बुध्वा तत्त्व्रंपदार्थावनुभवविषयं कर्तुकामस्तदैक्यं वाक्याद्ाक्यार्थनिष्ठाच्ुतिशिरसि गतादअ्जसा तत्त्वमादेः ।। तच्छेषापन्नमस्मिन् श्रुतिशिरसि वचोजातमन्यद्यदस्ति तश्येय त्ताबुभुत्साकुलितनिजमतिः पृच्छति स्मैष भूयः॥३०९॥ बुध्वा तत्वंपदार्थाविति ॥ एषः शिष्यस्तत्वंपदार्थौ
779
Page 780
१९१
सुध्वा वाक्यार्थज्ञाननिष्ठात् श्रतिशिरसि गतात् तत्व्रमादे: वाक्या- सदैक्यं पदारथैक्यमञ्जसा डनुभवविषयं कर्तुकामो भूय: पृ- च्छति स्मेति सम्बन्धः। वाक्यार्थज्ञाननिष्ठादित्यनन्यशेषत्वं सूच्यते। श्रुतिशिरसि गतादित्यवैदिकव्यावृत्तिः । तत्वमादेरित्य- स्योपरि वाक्यादित्यध्याहारः । शिष्यपश्नपटृत्ती निमित्तं क- थयति। तच्छेषापस्नमिति। अस्मिन् श्रुतिशिरसि वेदान्तेष्विति यावत्। तच्छेपापन्नं महावाक्यशेषता गतमन्यदपि अवान्तरसंक्षितं वचोजातं वाक्यकदम्बोऽस्ति यत् तस्येयत्तावुयुत्साकुळितनिज- मतिः सन्नवान्तरवाक्यपदेयत्तां जिज्ञासुः सन्नित्यर्थः । यद्यपि तत्पदावगतमद्वितीयब्रह्मेति स्थितं तथापि किमात्मकं तद- द्वितीयमित्यपेक्षायां सत्यज्ञानानन्दादिवाक्यात्तन्निर्णेयमिति त- द्वतपदेयत्तानिर्धारणार्थः प्श्नः इत्यभिपायः ॥३०९॥ अव. प्श्नपकारमाह- अद्याप्यवान्तरवचः परिमाणबोध- वैकल्यमस्ति मम तेन महावचोऽपि ।। वाक्यार्थबुद्धिमनुभूतिफलाव्रसा ना नोत्पादयत्यहरहः श्रुतमप्यशक्तेः ॥३१०॥ अद्याप्यवान्तरेति ॥ वैकल्यमभावः। तेनोक्तबोधवै- कल्येन। महावचोऽप्यहरहः श्रुतमपीति सम्बन्धः। अशक्तेरिति। पदेयत्तानियमाभावे साकाङ्क्षत्वाद्यापत्ती नियतस्वार्थबोध- नासामर्थ्यादित्यर्थः ॥ ३१०॥। अव. "अवान्तरवचः" इत्युक्तमेव विभज्य दर्शयति- विधिमुखन परस्थ निवेदकं
780
Page 781
१९२ अन्वयार्थप्रकाशिकाविभूपिते
वचनजातमव्रान्तरसंजितम् । यदवि भेदनिषेधमुखेन त- त्परिमितिं प्रतिषादय मे प्रभो ॥ ३११ ॥ विधिमुखेनेति॥ स्पष्टार्थः ॥ ३११॥ अव. एवं शिष्येण पृष्टे गुरुन्यायेनावान्तरवाक्यपरिमा- णमाह- सकलवेदशिरःसु परात्मधी- परवचःसु परापरबोधतः ।। अपुनरुक्तपदान्युपसंहरन् परिमितिं स्वयमेत्र तु वेत्स्यस ॥ ३१२॥ सकलवेदशिरःस्विति । प्रथमं सकलवेदशिरःसु परापरबोधतः परविद्याविषयमिदं वाक्यम् इदमपरविद्याविषय- मिति विवेके कते सति परमात्मधीपरवच:सु परविद्याविषय- वाक्येष्वपुनरुक्तपदानि भिन्नशाखागतान्यप्युपसंहरन् वाक्य- परिमितिं स्वयमेव वेत्स्यसि वाक्यपरिमाणं त्वमेव ज्ास्यसीति। यद्ा सकळवेदशिरःसु उत्सर्गतः परात्मधीपरवचःसु परा- परभेदतो Sवान्तरतात्पर्येणापरविद्याविषयतया भेदे सति परविद्यायामपरविद्यायां च यथायोगमपुनरुक्तपदान्युपसंहरन्नु- भयत्र वाक्यपरिमिति स्वयमेव ज्ञास्यसीति योजना ॥ ३१२॥ भव. ननु तत्र तत्र श्रुतैरेव पदैरलं किसुपसंहारेणेति चेत्, मैवम्। तथा सति परिपूर्णव्रह्मावगत्यनुपपत्तेरित्याह- अपुनरुक्तपदानि बिना यतो
78
Page 782
संक्षेपशारीरके तृतीयोऽध्यायः ।३। १९३
अपुनरुक्तपदानि ततस्तत- स्त्वमुपसंहर तत्त्त्रबुभुत्सया ॥ ३१३॥। अपुनरुक्तपदानि विनेति । निर्गुणवाक्येषु तत्ववु- भुत्सयोपसंहरेत्यर्थः । अर्थात्सगुणवाक्येषु विद्यैक्येऽवगते सति तत्र तत्र श्रुतविशेषणानामव्यर्थत्वायापुनरुक्तविशेषणोप- संहार: उपासनायोपसंहर्तव्य इति द्रष्टव्यम् । अस्य च ग्रन्थ- स्य निर्गुणवस्तुविचारैकप्रधानत्वान्न सगुणवाक्यगतिः पृथक् चिन्त्यते इति न तदिह स्पष्टीकृतम् ॥ ३१३॥ अव. एवमपुनरुक्तपदोपसंहारे क्रियमाणे पमादादपरवि- घावाक्यवर्त्तिपदोपसंहारो Sपि कदाचित्पर विद्यायां स्यात्, तथा परविद्यावाक्यवर्ततिनः पदस्यापरविद्यायां, तथा मा भूदित्युक्तं विभागकरणं पुनः स्मारयति- कुरु परापरवाक्यविवेचनं तदनु शब्दसमाहरणं कुरु।। प्रियशिरःप्रभृतीनि च यत्नवा- नुपचितापचितानि परित्यज ॥ ३१४ ॥ कुरु परेति ।। पूर्वभागः स्पष्टार्थः । निर्गुणवाक्येऽपि यत् क्वचिननिर्गुणवस्तुमतिपादनद्वारतयोक्तं परोक्षं रूपं "तस्य प्रियमेव शिरः" इत्यादि तत् निर्गुणपकरणस्थमपि नोपसंहर्त- व्यमित्याह । प्रियशिर इति । उपचितापचितत्वं हि सविशे- षत्वापेक्षम् आनन्दाभिव्यअकोपाधीनामन्त:करणटत्तीना मति-
न से बहस्वरूपळक्षणतवेनोपसंहार्या इत्यर्थः ॥। ३१४॥ २५
782
Page 783
१९५ अन्वयार्थप्रकाशिकाविभूषिते
मनुपसंहार्यत्वं विशदयति- उपचितापचितानि न निर्गुणे प्रियशिरःप्रभृतीनि कदाचन ॥ निपुणधीरपि कश्चन योजये- दपि तु कोशगुणाः कथिता ह्यमी॥ ३१५॥ उपचितापचितानि नेति । निर्गुणे निर्विशेषे ब्रह्मणि उपचितापचितरूपाणां पियाशर:प्रभृतीनां सविशेषत्व्रकर- त्वेन विरोधादेव नोपसंहारो बुद्धिमता क्रियेतेत्यर्थः। ननु यत्र श्रुतानि प्रियशिरस्त्वादीनि तत्र चेत्सम्भवन्ति तर्हि ततो न्यत्रापि वेद्यैक्ये सति कथं न सम्भवेयुरिति चेत्, मैवम्। श्रुतस्थलेऽपि तेषां व्रल्मधर्मत्वाभावादित्याह। अपि तु कोशगुणा इति। यद्यप्येते श्रुतस्थले ऽपि न ब्रह्मधर्मा विवक्षिताः अपि तु काशधर्मा एव तथापि तत्र कोशद्वारा ब्रह्मणः प्रतिपाद्यमा- नत्वात्कोशधर्माः सन्तो ब्रह्मण्यप्युपरज्यन्ते केवलमिति ब्रह्म- धर्मत्वमेषां, कृत्वाचिन्तयाऽयं प्रपश्चः कृत इति भावः ॥३१५॥ अव. एवं विधिवाक्यपरिमाणं व्युत्पाद्य निषेधवाक्यपरि- माणं वक्तुमाह- इति वच:परिमाणमुदीरितं विधिवच:सु निषेधगिरां शृणु ।। बहु निषेध्यममूष्तपि तेन ता- स्व्पि समाहर पूर्ववदेव तत ॥ ३१६ ॥। इति वच इति । निषेधगिरां परिमाणं शृण्विति सम्ब-
783
Page 784
संक्षेपशारीरके तृतीयोऽव्यायः।३ १९५
न्धः । विधिवच:सु तत्तदनृतादिविरोध्यर्थव्यवच्छेदेन भावात्म- स्वरूपावगतिपरेषु सत्यज्ञानानन्दपदेषु वच:परिमाण वाक्यपरि- माणम् इतीत्थम् उदीरितम् अतः स्व्ररू॥वगत्यर्थमेव विधिपदा- न्युपसहरणीयानीत्यर्थः। निपेधगिरां परिमाणं शृण्वित्युक्त, तत्र विधिपदेभ्यो निषेधपदानामुपसंहारे विशेषमाह। वहु निषेध्य- मिति। अमूपु निषेधगीर्प्वपि बहु निषेध्यमस्ति यतस्तेन ता- स्वपि पूर्ववदेव विधिपदवदेव तत् अपुनरुक्तपदान्तरं समाहरेति योजना। निषेधपदानां तु निषेध्यबहुत्वान्निषेधार्थमेवोपसंहार: कार्य इत्यर्थः ॥ ३१६ ॥ अव. "पूर्ववदेव तत्" इत्युक्तं विट्टणोति- अपुनरुक्तनिषेध्यनिषेधकृ- द्हुपदाहरणं कुरु ल्वास्त्रपि।। यदि पुनर्न समाहरणं भवेत परिमितप्रतिषेधनमापतेत ॥ ३१७॥ अपुनरुक्तनिषेध्येति । तास्त्रपि निषेधगीर्ष्वपि अ- पुनरुक्तनिपेध्यनिषेधकृतां बहुपदानामाहरणमुपसंहारं कुरु, बहुविशेषणान्निषेध्यानां बाहुल्यात्तन्निषेधपदानामियत्तानि- यमो नास्तीति द्योत्यते। निषेधवाक्येषु बहुपदानुपसंहारे दो- षमाह। यदि पुनरिति। परिमितप्रतिषेधे च न सम्यक् ब्रह्मण: शुद्धि: सिध्यतीति भाषः ॥। ३१७॥। अव .. ननु सत्यादिपदानामप्यनृतादिव्यवच्छेदार्थत्वा- त्स्व्ररूपावगत्यर्थस्य चोभयेषामविशेषात्कुतो विधिनिषेधवि- भागः ? इति चेत्, तत्राह- विधितचर्युभयं तु पदेपदे
784
Page 785
१९६ अन्वयार्थप्रकाशिकाविभूषिते
भवति संग्रहवर्जनरूपकम् ॥ स्त्रकत पुःपरिकल्पित रूपयो- ने तु निषेधवच:सु तथा मतम् ॥ ३१८॥ विधिवचसीति । उभयमित्युक्तमेव स्फुटयति। संग्र- हेति। स्वकवपुःपरिकल्पितरूपयोर्यथासंयं संग्रहवर्जनरूपकं स्वकवपुषो Sसाधारणब्रह्मरूपस्य संग्रहः साक्षात्पतिपादनं
धिवचसि पदे पदे भवति। निषेधवच:सुन तुतथा उभयार्थत वं मतं कल्पितरूपप्रतिषेधमात्रे एव निषेधवचनसामर्थ्यादिति यो- जना ॥ ३१८॥ अव. "न तु निषेधवच:सु" इत्युक्तमेव स्पष्टयति- यदिह किं चिदबोधसमुद्जवं तदखिलं प्रतिषेधति केवलम ।। न तु किमप्युपगृह्य परे पदे भगवतो निविशेत निषेधगीः ॥३१९॥ यदिह किश्चिदिति॥ स्पष्टार्थः ॥ ३१९॥ अव. उपपादितं विधिनिषेधवचसोऽर्थविभागमुपसंहरति- इति विशेष इह प्रतिपादितो विधिनिषेधगिरोरुभयोरपि ॥ अपुनरुक्तपदाहरणं पुन- र्विधिनिषेधवचःस्त्रविशेषतः ॥ ३२०॥
785
Page 786
संक्षेपशारीरके तृतीयोऽभ्यायः। ३। १९७
इति विशेष इति ॥ तयोरेवाविशेषांशमप्युक्तसुपसंह- रति। अपुनरुक्तेति ॥ ३२० ॥ अध. पुनर्निषेधवाक्ये विधिवाक्येभ्यो विशेषे हेत्वन्तरमाह- श्रुतपदरुपसंहृतिशालिभि- र्यदवशिष्टनिषेध्यनिषेधनम् ॥ तदपि पूर्यमिहाभिमतं श्रुतौ श्रुतपदान्युपलक्षणमेव हि॥ ३२१ ॥ श्रतपदैरिति ॥ निषेधवचःसु बहुपदाहरणं कुर्वित्यु- कं वा विट्ृणोति। श्रुतपदैरिति। तत्तत्पकरणे साक्षाचुतपदै- रन्यत्र श्रतैरिहोपसंहृतैश्रापुनरुक्तपदैः सह शोभमानैः सा- क्षाच्छुतपदरुपसंहृतैथ्र पदैरवशिष्टम् अनिषिद्धतया बुद्धावारूढ़ं यन्निषेध्यमनात्मरूपं तन्निषेधनं तदपि तादृगर्थनिषेधकपद- मपीह निषेधवाक्येषु पूर्वमभिमतं प्ागेवाध्याहारेणाप्युसंहर्त- व्यम्। श्रुतौ श्रुतानि पदानि तूपलक्षणमेव । अनुक्तानामपि नि- षेध्यनिषेधकपदानां कतिपयनिर्देशस्य भदर्शनमात्रत्वादित्य- र्थः । विधिवाक्येषु यावचुतमेवोपसंहियते। तावतैव सजा- तीयविजातीयव्यावृत्ताखण्डस्वरूपसिद्धेः, निषेधवाक्येषु तु यावन्निषेध्यस्य निषेधकपदादर्शनान्निषेध्यान्तरे च बुद्धिस्थे तन्निषेधार्थपदकल्पनं ब्रह्मणः सर्वानात्मविलक्षणतया सम्यक् विशुद्धये कार्यमिति तात्पर्यार्थः ॥। ३२१॥ अव. विधिपदेष्वेतन्न भवतीत्यत्र युक्तिमाह-
() एतशिह्हमध्यस्थमर्धपद्यं प्रक्षिप्तमिति अभिमश्लोकव्या-
786
Page 787
१९८ अन्घयार्थप्रकाशिकाषिभूषिते
श्रुतिपदैर्विधिवाक्यगतैः पुनः ॥) समुपलक्ष्यतया न परात्मनः किमपि रूपमिहाभ्यधिकं मतम् ॥ ३२२ ॥ समुपलक्ष्यतयेति ॥ सुगमम् ॥ ३२२॥ अव. कुतो न मतमित्यत आह- न खलु संश्रुनसंहृतशब्दयो- रविषयः परमात्मन इष्यते ।। किमपि रूपप्रमुत्र हि नास्ति नः किमपि मानमतो न तदस्ति नः ॥३२३ ॥ न खल्विति॥ स्वशाखवास्त्रपकरणश्चतस्य शाखान्त- रात्मकरणान्तराद्वोपसंहृतस्य चपदस्याविषयभूतः परमात्मनोंऽशो न खल्विष्यते इति योजना । वेदैकगम्यस्य ब्रह्मण: श्रुतोपसं-
कल्पनया पूरणीयत्वं विधिवाक्येष्वित्यर्थः । एतदेव प्रकटयति। किमपीति । अमुत्र परमात्मनि रूपान्तरं नो डस्माकं नास्ति हीति प्रसिद्धम् । कुतो नास्ती- त्यत आह । किमपि मानमिति । अतः श्रुतिवचनात्परमा- त्मतत्वप्तिपादकं मानं किमप्यन्यन्नोऽस्माकं नास्तीति यो- जना। इदमर्धपद्यं पूर्वपद्येन सहैकीकार्यम् ॥ ३२३॥
चेत्, तत्राह- अव. अन्यत्रोक्तपदानामन्यत्रोपसंहार्यत्वे को न्याय: १ इति
ख्याने "इदमर्धपद्य पूर्वपद्ेन सहैकीकार्यम् " इति टीकाकारले- खातू पतत्प्रतीकानुलेखाश्चावगम्यते । इदमर्धपद्यमित्यत्र किमपि रूपमित्यर्ध विवाक्षितम्।
787
Page 788
संक्षपशारीरकेतृतीयोऽध्यायः।३। १९९
गुणतया हि पदानि परात्मनो विधिनिषेधवचःस्ववतस्थिरे ॥ गुणगणो गुणितन्त्रतया गुणी भवति यत्र हि तत्र भवत्यसौ ॥ ३२४ ॥ गुणतयेति ॥ गुणतया विशेषणार्थतया न माधान्येनेत्य- र्थः । अतो यत्र गुणी पधानभूतो जर्थो भवति तत्र ह्वसौ गुणगणो भवतति, कुतः ? गुणितन्त्रतया, गुणानां गुणिपरत- न्त्रत्वाित्यर्थः ॥। ३२४ ।। अव. पदोपसंहारपकरणमुपसंहरति- विधिनिषेधवचः परिमाणत- स्तत्र मया कथितं नयवर्त्मना।। यदपरं तव वस्तु बुभुत्सितं तदिह नः पुरतः प्रकटीकुरु॥ ३२५॥ विधिनिषेधवच इति ॥ पुनः शिष्यस्य प्श्नावसरं ददाति। यदपरमिति ॥ ३२५॥ अव. गुर्वनुज्ञातः शिष्य: पृच्छति- अन्तरङ्गबहिरङ्गसाधने भेदतः कथय तदबुभुत्सितम ।। ज्ञानजन्मन इदं जिघृक्षितं हेयमेतदिति चोपपत्तिभिः ॥ ३२६॥ अन्तरङ्ेति ॥ अन्तरङ्गवहिरङ्गयोर्सेदज्ञानं किमर्थमिति चेत्, ज्ञनोत्पत्तावुपादेयहेयविवेकार्थमित्याह। ज्ञानजन्मन इति।
788
Page 789
२०० अन्वयार्थप्रकाशशिकाविभूषिते
उपपत्तिभि: कथयेत्यन्वयः ॥ ३२६ ।। अव. तहि कि हेयं कि वोपादेयमिष्टं तवेति चेत्, तत्राह- अन्तरङ्गमपवर्गकाङक्षिभिः कार्यमेव यतिभि: प्रयत्नतः ॥ त्याज्यमेव बहिरङ्गसाधनं यत्नतः पतनभीरुभिर्भव्रेत् ॥ ३२७ ।। अन्तरङ्गमपवर्गेति ॥ कुतस्त्याज्यं बहिरङ्गसाधनमित्य- पेक्षारया यत्याश्रमविरोधादित्याह। यत्नत इति ॥ ३२७ ॥ अव. गुरुराह- उच्यते श्वाणु विविच्य साधनं ज्ञानजन्मनि यदूचिवान् गुरुः ॥ अन्तरङ्ग्बहिरङ्गभेदतः शब्दशक्तिमनुसत्य वैदिकीम् ॥ ३२८॥ उच्यत इति ॥ गुरुराचार्यः । वैदिकीं शब्दशक्ति- मनुसटत्येति श्रुत्युपदिष्टमार्गमाश्रित्येत्यर्थः ॥ ३२८॥ अध. अन्तरत्बहिरद्योर्लेक्षणभेदोक्तया विभागमाह- यचुतं विविदिषोदयाय तत सर्वमेत्र बहिरङ्गसाधनम् ॥ अन्तरङ्गमत्रमच्छ तत पुन- रयत परावगतिसाधनं श्तम् ॥ ३२९॥ यककुलमिति। "तमेतं वेदानुवचनेन ब्राह्मणा विवि-
789
Page 790
संक्षेपशारीरके तृतीयोऽध्यायः।३। २०१
दिपन्ति यज्ञेन दानेन तपसा Sनाशकेन" इत्यत्र यत् यज्ञदा- नादि कर्मजातं विविदिषोदयाय अ्रुतं तत्सर्वे बहिरङ्गसाधन- मेवेत्यवगच्छ। "तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षु: समाहि- तो भूत्वाऽडत्मन्येवात्मानं पश्यति" "श्रद्धावित्तो भूत्वाऽडत्मन्ये- वात्मानं पश्येत्"इत्यादि यत् परावगतिसाधनं परमात्मज्ञानोत्पा- दकतया तत्परिपाचकतया च ज्ञानसहभावि यच्छान्तिदान्त्या- दि श्रोतव्य इत्यादिना वेदान्तश्रवणादि च श्रुतं तत् पुनरन्त- रङ्गमवगच्छेति योजना ॥ ३२९ ॥ अव. विविदिषोत्पादनसाधनतया अ्षुतं बहिरङ्ग, साक्षाद्वि- द्यामहभावितया श्रुतं साधनमन्तरङ्गमिति तयोर्लक्षणमुक्त्वा लक्ष- णान्तरमाह- यद्धि कारकतयाऽवगम्यते दूरतस्तदिह साधनं धियः ॥ अन्तरङ्गमखिलं तु तत पुन- वर्यञ्जकं भवति यत परात्मनः ॥ ३३०॥ याद्वि कारकतधेति ॥ यद्धि कारकतया श्रुतिष्व- वगम्यते तदिह शास्त्रे घियो ज्ञानस्य दूरतः साधनम् आरादुप- कारकं बहिरङ्गमित्यर्थः । यत्पुनः परमात्मनो व्यअ्रकं भवति साधनं तदखिलम् अन्तरङ्गसाधनमित्यर्थः । एतदुक्तं भवति। ज्ञानोत्पत्तौ येषां कारकाणं दृष्टद्वारोपकारो न दृश्यते तानि कारकाणि यज्ञादीनि आरादुपकारकाणि बहिरङ्ग- साधनानीति चोच्यन्ते। येषां तु ज्ञानं प्रति दष्टद्वारोपकारो दृश्यते तानि व्य्षकानि शमादीनि तानि सन्निपत्योपकार- काणि अन्तरङ्रसाधनानि चोच्यन्ते इति ॥ ३३० ॥ २६
790
Page 791
२०२ अन्वयार्थप्रकाशिकाविभूषिते अव. तत्र संन्यासिना कारकाणि सर्वात्मना ऽवश्यं हेयानि व्यञ्जकान्यवश्यमुपादेयानि न कदाऽपि हेयानीति लक्षणतो विभागकरणफ लमाह- कारकस्य करणेन ततूक्षणादू भिक्षरेष पतितो भवेद यथा॥ व्यञ्जकस्य परिवर्जनात्तथा सद एव पतितो भवेदसौ ॥ ३३१ ॥ कारकस्पेति ॥ ३३१॥ अव. "यच्छुतं विविदिषोदयाय" इत्यत्र यज्ञादीनां वेदने- च्छासाधनत्वमुक्तं, तदयुक्तं, विविदिपन्तीत्यत्र इष्यमाणज्ञानस्य कर्मत्वेन पाधान्याद्यज्ञादिकर्मणां ज्ञानसाधनत्वप्रतीतेरिति चेत, तत्राह- प्रत्ययार्थविषयं हि कर्मणा- मुच्यते विविदिषेयुरित्यतः ॥ न प्रकृत्यभिहितार्थवेदने वेदवादिविनियोगशासनम् ॥ ३३२॥ प्रत्ययार्थेति ॥ विविदिषेयुरिति कर्मणां विनियोग- शासनं हि प्रत्ययार्थविषयमुच्यते, सन्पत्ययार्थे कर्मणां वि- नियोग: श्वत्या शास्यमानो दृश्यते इत्यर्थः । यत एवम् अतः पकृत्यभिहितार्थवेदने ज्ञाने वेदवादिविनियोगशासनं नास्ति वेदवादिसम्मतं विनियोगश्ासनं नास्ति। वेदवादेति पाठस्तु ऋजवर्थः ॥ ३३२॥ अव. मत्ययार्थभूतेच्छया वेदानुवचनादीनामन्वयो न
791
Page 792
संक्षेपशारीरके तृतीयोऽध्यायः। ३। २०३
प्रकृत्यर्थेन वेदनेन विनियोग इति कुतो Sवसीयते ? इति चेत्, तत्राह- न प्रधानमपहाय वेदने- नान्वयं व्रजति कर्मसाधनम् ॥ सङ्गतिर्भवनि वेदनेच्छया वेदनेन न तु कर्मेणां क चित ॥३३३ ॥ न प्रधानमिति ॥ "प्रकृतिपत्ययौ प्रत्ययार्थ सह व्रूतः प्रत्ययार्थस्तु प्राधान्येन" इति न्यायात्मत्ययार्थस्य प्रधान- त्वावधृतेः प्रधानाकाङ्क्षानुरोधेन चेतरेपामन्वयादिह पत्य- याभिहितां वेदनेच्छां प्धानभूतामपहाय त्यकत्वा कमेरूपं साधनं पकृत्यभिहितेन वेदनेनान्वयं न व्रजति, न्याय- विरोधापातादित्यर्थः । उक्तमेव स्पष्ठयति। सङ्गतिर्भव- तीति ।। ३३३ ॥ अव. तर्हि वेदनस्यैवास्तु माधान्यमिति चेत्, नैवं सम्भव- तीत्याह- न प्रधानमिह वेदनं भवेत प्रत्ययार्थविषयां प्रधानताम् ।। उत्ससर्ज भगवान्निरङ्कुशं येन पाणिनिरलङ्ध्यशासनः ॥३३४॥ न प्रधानमिहेति ॥ येन कारणेनालङ्ध्यशासनो भगवान्पाणिनि: प्रत्ययार्थविषयां मधानतां निरङ्कुशं नि- रपवादं यथा स्यात्तथोत्ससर्ज उत्सर्गतः स्थापितवान्, ततो न वेदनमिह पधानं भवेदिति योजना। निरङ् कुशत्वविशेषणा-
792
Page 793
२०४ अन्वयार्थप्रकाशिकाविभूषिते
दस्योत्सर्गस्यापवादाभावं सूचयति ॥३३४ ।। अव. उत्सर्गतः प्रत्ययार्थमाधान्येऽपीह तदपवादो डस्तु इत्याशष्ा, निरङकुशविशेषणसूचितमर्थ विशदयन्नास्यापवाद: इत्याह -- प्रत्यये सनि न चापवादकं किं चिदप्युदितवानसौ मुनिः ॥ येन तत्र गुणभावमुद्दहेत प्रत्ययाभिहितमर्थवस्तु नः ॥ ३३५॥
प्रस्यये सनीति ॥ नो Sस्माकं पत्ययाभिहितम् अर्थवस्तु अर्थस्वरूपं येन तत्र प्रकृत्यर्थे गुणभावमुद्वहेत् तदपवादकं सनि प्रत्यये किश्च्विदपि मुनिः पाणिनिर्नोदितवानिति यो- जना ॥ ३३५ ॥ अव. ननु "धातोः कर्मणः समानकर्तृकादिच्छार्या वा" इति धात्वर्थस्य सनर्थकर्मत्वाभिधानात्सनर्थ प्रति प्राधान्यं पा- णिनिनोक्तमिति चेत्, नैवमित्याह- धातोः कर्मण इत्युवाच भगवान् यत् पाणिनिस्तत् घुन- धांत्वर्थस्य न वेदयत्यभिमतं प्राधान्यमायुष्मतः ।। किं त्वार्थ न तु शब्दगम्यमतदत्तेनापि तद योक्ष्यते नोत्सर्गस्य विना निमित्तमपरं सङ्कोचनं युज्यते॥३३६॥ धातो: कर्मण इतीति॥ आयुष्मतस्तवाभिमतं प्ा- धान्यं श्रुत्युक्तकर्मान्वयोपयुक्तं न वेदयति न ज्ञापयतीत्यर्थः । कथं तर्हि तदभिधानमित्याशख्जाह। किं त्वार्थमिति। तेनापीति।
793
Page 794
संक्षेपशारीरके तृतीयोऽध्यायः। ३। २०५
आर्थेनापि प्राधान्येन तद् "घातोः कर्मणः"इत्यत्रोक्तं प्ाधान्यं यो- क्ष्यते, यत इच्छाकर्मत्वप्रयुक्तं वेदनस्य प्राधान्यम् आर्थमेव न शाब्दम् अतस्तेनाप्यार्थेन तत् योजयिष्यते इत्यर्थः । शाब्दपा- धान्यानुरोधेन ह्वन्वयव्यवस्था नार्थपाधान्यानुरोधेनेति भावः । अत इदमुत्सर्गस्य न सङ्कोचकं, सङ्कोचकान्तरं तु न दृश्यते इति "अपवादाभावे पुनरुत्सर्गस्य स्थितिः" इति न्यायमनुस- रन्नाह। नोत्सर्गस्येति ॥ ३३६ ॥।
यार्थपाधान्यवाधो न युक्त इत्युक्तं, तदेव स्पष्टयति- धातोः कर्मण इत्युदीरणमिदं साधारणं दृश्यते शाब्दार्थत्वविशेषसूचकतया न ह्यत्र सूत्रे पदम् ॥ धात्वर्थस्य तु कर्मतावचनमत्रोच्चारितं केवलं तत्त्वार्थेडप्युपपद्यमानमधुना नोत्सर्गपीड़ाकरम् ॥३३७॥ धातो: कर्मण इत्युदीरणमिति ॥ "धातोः कर्मणः" इत्युक्तिरेव विशेषसूचकं पदमिति चेत्, न । अस्यान्यथाप्युपपत्ते- रित्याह। धात्वर्थस्य त्विति ॥ ३३७॥ अव. इच्छाया एव पाधान्यं शाब्दमित्यस्य तु सूचकं पदमत्रास्तीत्याह-
इच्छायामिति सूत्रकारवचनं प्राधान्यपक्षे भवे- दिच्छार्थस्य समञ्जसं न खलु तत सन्प्रत्ययार्थे गुणे ।। धात्वर्थे ननु सन् भवदिति वदेदिच्छा गुणश्चेद भवे- दिच्छायामिति वक्ति तेन वदति प्राधान्यमिच्छागतम् ३३८।
794
Page 795
२०६ अन्वयार्थप्रकाशिकाविभूषषिते
इच्छायामितीति। इच्छार्थस्य पाधान्यपक्षे इच्छा- यामिति सूत्रकारवचनं समअसं भवेत सन्पत्ययार्थे गुणे अ- प्रधाने सति तत् सूत्रकारवचनं न खल समञ्जसं भवेदिति योजना। एतदुक्तं भवति। प्रकृतिप्रत्ययौ हि गुणभूतार्थविशिष्टं प्रधानार्थ वदतो न तु गुणभूतार्थस्य पृथग्वाच्यत्वम् अतः "इच्छा- यां सन्" इतीच्छाया वाच्यत्वाभिधानात्तस्या एव शब्दतः प्राधान्यं सूत्रकारस्याभिमतमिति गम्यते इति। यदीच्छाया गुण- भाव: सूत्रकारस्याभिमतः स्यात् तदा ननु "धात्वर्थे सन् भवे- त्" इति ब्रयान्न त्विच्छायां सन्निति। "इच्छायां सन्" इति वक्ति अत इच्छाया एवात्र पाधान्यं सूत्रकाराभिमतमित्यवगम्यते एवेत्युपसंहरति । धात्वर्थे नन्विति ॥ ३३८॥ अव. तदेवं यज्ञादीनामिच्छायां विनियोगाद बहिरद्गत्वमेवे- ति यतेर्हेयत्वं सिद्धमित्युपस्हरति- तस्मात कर्म समस्तमेत तु भवेदिच्छाजने: साधनं शास्त्रणाक्तमतः समस्तमपि तद् यत्नन ह्ष यतेः ॥ द्रश्टव्यत्वमनूद्य साधनतया यत्तत प्रतीच: श्रुनं वेदान्तश्रवणादिकं भवति तत्कर्त्तव्यमावश्यकम्।।३३९॥ तस्मात्कमेति॥ त्यक्तसमस्तकर्मा यतिः किं कुर्यादिति तदाह। द्रष्टव्यत्वमिति। "आत्मा वा अरे द्रष्टव्यः" इति भ- तीचः आत्मनो द्रष्टव्यत्वमनूद्य साधनतया दर्शनसाधनत्वेन श्रोतव्य इत्यादिवाक्ये यत् वेदान्तश्रवणादिकं ख्षुतं तत् कर्त्त- व्यमावश्यकं भवति, शमदमादिरूपनिवृत्तिधर्मनिष्ठतया ज्ञाननि- ष्ठाविरोधिव्यापारं परित्यज्य वेदान्तवाक्यार्थालोचनतत्परो
795
Page 796
संक्षपशारीरकेतृतीयोऽध्यायः।३। २०९
अव. ननु महावाक्यस्य साक्षाज्ज्ञानहेतुत्वमुक्तं, तत्र क एपामुभयेपामन्तरङ्गवहिर ङ्गरूपाणां साधनानामुपकार: ?न त्यक- र्सव्यस्य वाक्यस्येतिकर्त्तव्यतयैषामन्वयो Sपि युक्तः इति चेत्, तत्र परिपन्थिनिवर्णतयैषासुपकारो महावाक्येषु नेतिकर्त्त- व्यतयेत्याह- वेदान्तवाक्यमिह कारणमात्मबोधे हेत्वन्तराणि परिपन्थिनिबर्हणानि।। यज्ञादिकानि दुरितं क्षपयन्ति बुद्धे- स्तत््वरंपदार्थतरिषयं तम उत्तराणि ॥ ३४ ॥ वेदान्तवाक्यमिहेति ॥ हेत्वन्तराणि यज्ञादिकानि श्रवणादिकानि चेत्यर्थः । तत्र बहिरङ्गाणामन्तरङ्गाणां च निर- स्यं प्रतिबन्धं विभज्य कथयति । यज्ञादिक्रानीति। उत्तराणि श्रवणादीन्यन्तरङ्गाणीत्यर्थः ॥ ३४०॥ अव. ननु चिन्मान्राश्रयविषयमेकमेवाज्ञानमिति पूर्व प्रति- ष्ठापितं, तत्कथमिदानीं वाक्यार्थज्ञाननिरस्यप्त्यगज्ञानव्यतिरे- केणान्तरङ्गसाधननिरस्यं तत्वंपदार्थविषयमज्ञानं पृथगुच्यते इति चेत्, सत्यम्। यत्पागुक्तं तत्तथैव, इदंतु स्थूलदृष्टयोच्यते इत्याह- तत्वंपदार्थविषयं तम इत्यपीद- मर्वागवस्थजनदृष्टिमपेक्ष्य गीतम् ।। अज्ञानमुत्तमदृशां पुनरेकमेव संसारमूलमपवर्गफला च विद्या ॥। ३४१ ॥ तत्त्वंपदार्थेति ॥ अर्वागवस्थजनः सम्यगविदितपदार्थ- तच्वः । उत्तमदृशां विदितपदार्थतश्यानां बुद्धिमपेक्ष्येत्यनुषङ्गः।
796
Page 797
२१० अन्वयार्थप्रकाशिकाविभूषिते
अनुभवनेति । हि यस्माच्छुतमननसमाप्ती श्रवणमननयोः स- म्यकू निष्ृत्तौ या तद्विषया एवमेवेतिबुद्धिः, कि लक्षणा ? अनु- भवनविहीना साक्षात्कारत्वरहिता परोक्षनिश्चयरूपा तन्नदि- ध्यासनम् । तस्मान्न पृथगनुष्ठेयं तदस्तीति ॥। ३४५ ॥। अध. तदेवमन्तरङवहिरङसाधनानां ज्ञानोदयपरिपन्थिनि- बर्ईणत्वमेव, वेदान्तमहावाक्यमेव केवलं मोक्षफलज्ञानसाधन- मित्युपसंहरति- पूर्वाण्यदष्टपरपन्थिनिबर्हणानि दष्टं हरन्ति च विरोधिनमुत्तराणि। वाक्यं निरस्तसकलप्रतिबन्धकं सत् आत्मानमद्दयमखण्डमबुद्दमाह ॥ ३४६ ॥ पूर्वाण्यदृ ष्टेति. ॥ अबुद्धम् अज्ञातमात्मानमखण्डमद्यमाहेति सम्बन्ध: । अज्ञात्मद्दयमखण्डमात्मानमाहेति वा ॥ ३४६।। अव. एवमुक्त्वा अन्तरक्रसाधननिष्ठस्य संन्यासिनः कि- मस्मिन्नेव जन्मनि विद्योत्पत्ति: रकि वा जन्मान्तरे डपीति वीक्षायामाह- यज्ञादिक्षपितसमस्तकल्मषाणं पुत्रादित्रयगतसंग वर्जितानाम् ।। संशुद्धे पदयुगलार्थतत्त्वमार्गे प्रायेणोद्जवति हि जन्मनीह विद्या ॥ ३४७।। यज्ञादिक्षपितेति 11 जन्मनि पुर्वजन्मसु वा कृतयज्ञादीति योज्यम्। "अनेकजन्मसंसिद्धस्ततो याति परां गतिम्" "बहूनां जन्मनामन्ते ज्ञानवान्मां प-
797
Page 798
संक्षेपशारीरके सृतीयोऽध्यायः ।३। २११
पद्य ते" इति भगवदचनात् । पुत्रादित्रयेत्याघ्यस्मिभेव ज- न्मनीति ज्ञेयं, त्यागादेरन्तरङ्गत्वात् । एतानि त्राणि सा- धनानि क्रमेण हेतुहेतुमद्भावेन यस्य सम्यकू जातानि तस्येह जन्मनि यस्मिन् जन्मनि श्रवणादिपौष्कल्यं तस्मिश्रेव ज- न्मान प्रायेण विद्योद्भवति। पायेणेति बलवत्पतिबन्धका- भाव इत्यर्थः ।। ३४७ ॥ अव. उक्तमेवार्थ स्पष्टयति- अत्रैव जन्मनि भवेदपवर्गदायि वाक्यप्रसूतमनुभूतिफलावसानम् ॥ ज्ञानं निवारकनिमित्ततशादमुष्मिन् जन्मन्यपीति वचनादवगम्यते हि ॥ ३४८॥ अत्रैवेति। अपवर्गदायीत्यादिविशेषितं ज्ञानमत्रैव ज- न्मनि भवेत्निवारकनिमित्तोदयाभावे सतीत्यर्थात्। निवार- कनिमित्तवशात् तु अमुष्मिअ्नपि जन्मनि भवेत, सम्पभ्रसाधन- पौष्कल्यस्य ज्ञानजन्म अवश्यम्भावि नात्र संशयः कार्य इत्यभिप्रायः । ननु कते पि चेत्साधने फलं न दृश्यते तर्हि जन्मान्तरे भविष्यतीति का मत्याश्ेति चेत्, न । वेदव- चनपामाण्यात्तत्सम्भावनोपपत्तेरित्याह। वचनादिति ॥ ३४८॥ अव. वचनमेवोदाहरति- ज्ञानोत्पत्ति वामदेवस्य गर्भे श्रुत्वा विद्ः साधनं प्राच्यमस्य । योगभ्रष्टस्मृत्यवष्टम्भतोSपि ज्ञातव्यं तत साधनं प्राच्यमस्य । ३४९॥
798
Page 799
२१२ अन्वयार्थप्रकाशिकाविभूपिते
ज्ञानोत्पस्तिमिति ॥ "गर्भ एवैतच्छयानो वामदेव एव- मुवाच" इति वामदेवस्य गर्भे ज्ञानोत्पत्तं श्रुत्वा डस्य वामदेवस्य माच्यं पाग्जन्मकृतं साधनं विझ्ः अकार- णकार्योत्पत्यसम्भवाद् गर्भस्थस्य च साधनानुष्ठानासम्भ- वादित्यर्थः । तत्रैव स्मृतिमुदाहरति । योगभ्रष्टेति। "पा- र्थ नैवेह नामुत्र विनाशस्तस्य विद्यते। न हि कल्याण- कृत्कश्रित् दुर्गतिं तात गच्छति" इति भगवद्गीतावचना- वष्टम्भेनापि अस्य वामदेवादे: माच्यं तत्साधनं ज्ञानसा- धनं सम्पन्नमिति ज्ञातव्यमित्यर्थः ॥ ३४९॥ अव. ननु दृष्टफलाना श्रवणादीनां कालान्तरफलत्व- मयुक्तं कृष्यादिवदिति चेत्, नैष दोषः । औषधोपयोगादीनां दृष्ट- फ उनामप्यवान्तरव्यापारद्वारेण कालान्तरीयकलत्वस्य दर्शना- त्। तथापि जन्मान्तरफलत्वं न दृष्टमिति चेतु, सत्यम् अन्वय- व्यतिरेकाभ्यां न छ्यते, तथापि शास्त्राद्थोक्तादवगम्यते एव। श्रवणादीनां विहितत्वा कालान्तरे Sपि तेषां फलहेतुत्वं क- ल्पनीयम् । अनन्तरफलमात्रत्वे ऽन्वयव्यतिरेकाभ्यामेव तत्सिद्धे- रविधिकृत्याभावात्। तस्माद्यथा "चित्रया वजेत पथुकामः" इत्यादीनां पश्वादिफलमुत्सर्गत इहैव, प्रतिबन्धात्तु जन्मान्तरे Sपीत्यभ्युपगम्यते तद्वदेवेदमपि द्रष्टव्यमित्याह- चित्रादिवद भवति साधनजातमस्य ज्ञानप्रसतिकरमित्यवगच्छ सर्वम् ॥ अभ्यग्रशुष्यदखिलौषधिकस्य पुंसो वृष्टिप्रदेष्टिरधिकारवशादिहैव ॥ ३५०॥ चित्रादिवदिति॥ यदि विहितत्वादस्मिन् जन्मनि फला-
799
Page 800
संक्षेपशारीरके तृतीयोऽध्यायः।३। २१३
दर्शने Sपि जन्मान्तरे फलं भविष्यतीति कल्प्यते तर्हि कारी- यीं कृतायामपि कदाचिद् वृष्टयदर्शने जन्मान्तरे तत्फलं क- ल्प्येतेति चेत्,नेत्याह। अभ्यग्रशुष्यदिति। अभ्यग्रं साम्पतं शु- ष्यन्त्योऽखिलौषधयो यस्य स तथोक्तस्तस्य पुंसो विहिता दृष्टिप्रदेष्टिः कारीर्यारिया Sधिकारवशादिहैव फलवतीति यु- क्तमिति योजना। कारीरवाक्यशेषे ओषधीनां म्लायमानत्व- श्रवणादभ्यग्रशुष्यत्सस्यसञ्जीवनकामस्य करीरीविधानात् सा- मान्यतो दृष्टिमात्रस्य यदा कदाचिन्वत उद्देशेन विधानाभा- वादैहिकाधिकारत्वादिहैव तत्फलेन भवितव्यं, कदाचित्तत्र फलादर्शने साधनवैकलयं कल्पनीयं, ज्ञानसाधनं तुन तथा, किन्तु चित्रादिवत्कालान्तरीयफलमपि भविष्यतीति भावः।।३५०॥ अव. अन्तरङ्गबहिरङ्गसाधनयोरनुष्ठाने किम् इतिकर्तव्य- विशेष: कशिदस्ति किं वा नास्तीति विवक्षायामाह- बहिरङ्गसाधनमशेषगुरोः परमेश्वरस्य चरणाम्बुजयोः ॥ नियमात् समर्पितमशेषमघं विनिहन्ति बुद्धिनिलयं सुमहत ॥ ३५१ ॥ बहिरङ्गेति॥ बुद्धिनिलयमिति बुद्धिगताभासाविविक्तजी- वनिलयमिति यावत्। नियमादिति । कर्मणि कर्तृत्वाभिनिवेश फलासक्तिं च हित्वा केवलं यज्ञात्मकस्य नारायणस्य तत्तदेव- तादिरूपेणावस्थितस्य समाराधनरूपमिदं कर्म करिष्ये इति प्रारम्भे, श्रीमन्नारायणे भगवति सकारकं सफलं चेदं कर्मास्तु इदं यथोक्तं कर्म कृतं नारायणार्पणमस्त्विति वान्ते च सङ्क- ल्परूपो नियमस्तस्मान्नियमात्समर्पितमित्यर्थः। अत्राघशब्दे-
800
Page 801
२१४ अन्ययार्थप्रकाशिकाविभूषिते
सकलमेव कर्म वि- वक्ष्यते # ३५१ ।। अव बहिरङ्साधनानां भगवत्समर्पणमुत्कर्षकारणमस्ती- त्युक्तम्, अन्तरङ्गे तु तन्नास्तीत्याह- न तथाऽन्तरङ्गमुपलब्धिजन- रुपकारकं शमदमप्रभृति ।। तदनुष्ठितं परमहंसजनैः परमात्मतत्त्वमुपलम्भयति ॥ ३५२ ॥। न तथेति॥ शमदमप्रभृति यत् अन्तरत्म् उपलब्धिजनेस्तत्व- ज्ञानोत्पत्तेस्तथा वाहिरङ्वत् दूरगतं सभ्नोपकारकं किन्तूत्पत्तित एव साक्षात् तत्वज्ञानसाधनम् अतो न तत्र परमेश्वरार्पणगुणयोगोऽपे- क्ष्यते इत्यर्थः । तहि किं कोऽप्युत्कर्षहेतुरत्र नास्त्येव?न। किं- त्वन्यदेवात्र परमहंसकृतत्वमुत्कर्षहेतुरस्तीत्याह। तदनुष्ठितमिति। अत्राधिकारिविशेषकृतत्वमुत्कर्ष इत्यर्थः । ३५२॥। अव. बहिरद्रेषु भगवत्समर्पणगुणविधाने ममाणमाह- भगवाननादिनिधनः कृपया हरिरेतदाह जगदेकहितः ॥ सकलं समर्प्य मयि युक्तमनःः कुरु कर्म शुद्धिकरमित्यसकृत ॥ ३५३ ॥ भगवानिति ॥। "मयि सर्वाणि कर्माणि संन्यस्याध्या- त्मचेतसा। निराशीर्निर्ममो भूत्वा युद्धंयस्व विगतज्वरः॥" "य- तः पवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दवि मानवः ॥ मदर्थमपि कर्माणि कुर्वन्सिद्धिमना-
801
Page 802
संक्षेपशारीरके तृतीयोऽध्यायः।३। २१५
पस्यसि"। इत्येवमसकृद्गवानाहेत्यत एताहशं भगवद्गीतांवाक्य- मिह ममाणमित्यर्थः ॥ ३५३ ।। भव. एतदन्तरक्रेऽपि समानं किन स्यादिति चेत्,नेत्याह- न तथाऽन्तरङ्गफलसंन्यसनं क चिदूचिवानत इदं त्रिदितम् ।। अनपेक्ष्य तत्फलपरित्यजनं परमात्मनिश्चयफलं तदिति ॥३५४॥ न तथाऽन्तरङ्गेति ॥ कि विदितं तदाह। अनपेक्ष्येति । पर- मात्मनिश्चयफळं तदन्तरङ्साधनमिति यतोऽतस्तत् फलपरित्यजन- मनपेक्ष्य तद् अनुष्ठेयं परमहंसजनैरिति विदितमिति योजना। अ- न्तरङसाधनानां यज्ञादिवत् फलान्तराभावात्तत्वविज्ञानं प्ति व्यवधानाभावाच तेषु फलत्याग्रेश्वरसमर्पणगुणयोगा- पेक्षाऽस्ति अतो न समर्पणवचनं साधारणविषयं किन्तु बहि- रङविषयमेवेति भावः ।। ३५४ ।। अव. न्यायतो डप्येवमेव युक्तमित्याइ- अपि च बन्धनहेतुतया झ्रुतं समसमीक्षणकौशलशालिनः ॥ भवतु शुद्धिकरं न च बन्धकृदू भवति कर्म तथा घटते हि तत ॥ ३५५॥ अपि चेति॥ बन्धनहेतुतया स्वभावतो Sनात्मरूपफल- पदत्वेनात्मनः संसारबन्धहेतुतया श्रुतं यत् कर्मजातं तत् समस- मीक्षणकौशलशालिनः समस्य ब्रह्मण: समीक्षणं ज्ञानं त- दुदयविरोध्यर्थपित्यागेन तदुस्पत्यनुकूलसाधने निष्ठा त-
802
Page 803
२१६
द्वतः पुंसस्तच्छुद्धिकरं भवतु न च बन्धकृद्भवति कर्मेति तद् बहिरङ्साधनं तथा भगवत्समर्पणादियोगि घटते एवेत्यर्थः । स्वतोऽशुद्धानां कर्मणामशुद्धिकरत्वांशपरिहवारेण शुद्धत्वं भग- वत्समर्पणवशादिति युक्तमिति भावः । ३५५।। अध. नन्वन्तरङ्साधनानामपि तुल्यमशुद्धत्वं क्रियाकार- करूपत्वाविशेषादिति चेत्, नेत्याह- यदिह साधनमात्मधियः श्रुतं न च फलान्तरहेतुतया श्रुनम् ॥ शमदमादिकमत् तु कौशलं किमपि काङ्गितमरिति न सिद्धये ॥ ३५६ ॥ यदिह साधनमिति । अक्षरार्थस्त्वतिरोहितः । अन्त- रङ्गसाधनानां बन्ध हेतुत्वानवगमात्सम्यगज्ञान हेतुत्वावगमाचच परमसास्तिकतया स्वतः शुद्धत्वमवसीयते इति नात्राशु- द्िशङ्केति भावः ॥ ३५६ ॥ अव. अध्यायार्थमुपसंहरति- उक्तं साधनजातमत्र सकलं विद्यासमुत्पन्तये यस्मिन् कर्मीण वैदिकेन विधिना नुन्नः परिव्राजक: ॥ कत्तृत्वाद्युपमर्दनेन भता विद्यानुकूलात्मना कर्त्तव्यं तदशषतस्तदनु ते विद्या वियाकं व्रजंत॥३५७॥ उक्तं साधनजातमिति॥ अत्र तृतीयाध्याये सकलम् अन्तरङ्बहिरङ्गरूपं विद्यासमुत्पसये Sपेक्षितमुक्तमित्युपसंहा- रवाक्यान्वयः । एतच्चोक्तं साधनजातं कर्तृत्वादिबुद्धिराहि- त्येन कर्तव्यम् अविक्रियव्रह्मात्मविद्योदयाय तत्परिपाकाय च
803
Page 804
संक्षेपशारीरके तृतीयोऽध्यायः।३। २१७
अन्यथा तदानुकूल्यायोगाच्छेषिविरोधापत्तेरित्याह। यस्मिन्कर्म- णीति। अत्र परिव्राजकग्रहणं यज्ञादिकर्मचोदनाविषये भाविनीं दत्तिमाश्रित्य, शमादिचोदनायां तु साक्षादिति द्रष्ट- व्यम्। नुन्नः मेरितः । अशेषतः सर्वमेवेति यावत् । तदनु स- म्यकूसाधनसम्पत्तिसमनन्तरं ते तव विद्या विपाक त्रजे त् फलपर्यन्ता भविष्यतीत्यर्थः । विपाकग्रहणमुत्पत्तेरप्युपल- क्षणम्। य्वा परित्राजकस्यान्तरङ्गानुष्ठाननिष्ठायां विशेषमाह। यस्मिन्कर्मणीति। शमादियुक्ते वेदान्तश्रवणादावित्यर्थः । अत्र परित्राजकग्रहणं यथार्थमेव। समानमन्यत् । ३५७ ।। अव. "नुन्नः परिव्राजकः" इति शमादियुक्तश्रवणादौ परि- त्राजकस्याधिकार उक्तः, न केवलमस्यैवाधिकारः किंत्वन्ये- षामपि त्रैवर्णिकानामस्त्यत्राधिकार इत्याह- वानप्रस्थगृहस्थनैष्ठिकजनैरन्यैश्च वर्णाश्रमैः कर्मव्यध्वनिषेवितं भवति वै जन्मान्तरे पाचकम्। विद्याया: श्रवणादिलक्षणमिदं न ह्वतदेषां क चित् शास्त्रेण प्रतिषिद्धमीक्षितमिंदं शृद्रस्य दष्टं यथा।३५८॥ वानप्रस्थेति ॥ कर्मव्यध्वेति। कर्मविरुद्धमार्गरूपम्। यद्वा क- र्ममार्गमध्ये वानपस्थादिभिर्निषेवितं श्रवणादिलक्षणमिदं यत् तत् जन्मान्तरे विद्याया: पाचकं भवतीति योजना। एतेषां ब्रा- ह्मणरूपजन्मान्तरे पारमहस्याश्रमपाप्ती फलपर्यन्तता भवती- त्यर्थः।कुतः एषाम्यत्राधिकारपाप्तिरिति चेत्, पतिषेधादर्शना- देवेत्याह। न ह्वेतदेषामिति। यथेदं शूद्रस्य प्रतिषिद्धं दृश्यते तथा एतत् श्रवणादि एषां वानपस्थादीनां न कचिच्छास्त्रेण प्रतिषि- द्धमीक्षितमस्ति, अतो दष्टफलत्वादेव सर्वेषां सामान्यतो Sधि- २८
804
Page 805
२१८ अन्वयार्थप्रकाशिकाविभूषिते
कारपाप्तौ प्रतिषेधादेव तदपवादो युक्तः, यथा शूद्रस्य वेदा. ध्ययनादिपतिषेधदर्शनादध्ययनाद्यपवादो, न चैर्षा तथा श्रवणादिनिषेधो हृष्ट इति प्रतिषेधाभावमात्रेण पाप्ताधिकारस्थि- सिरित्यर्थः ॥ ३५८ ॥ अव. यदि वानप्रस्थादेरधिकारे सत्यपि तत्कतश्रवणादि जन्मान्तरे पाचकं तदा परमहंसस्यास्मिन्नेव जन्मनि परिपक- ज्ञानोदय इति कथमध्यवसायः इति चेत्, तत्राह- सर्वश्रुतिस्मृतिवचाभिरयं परिवराड् मुण्डः शुचिः परमहंस इति प्रसिद्धः ॥ ज्ञानाय साधनधनेषु नियुज्यमानः प्रायेण बुद्धिपरिपाकमवाप्स्यतीह ।। ३५९।। सर्वश्रुतीति ।। मुण्ड इति। "सशिखं वपनं कृत्वा त्रिटृ- त्सूत्रं त्यजेद्वुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत्" "मु- ण्डोऽपरिग्रह: शुचिरद्रोहः" इत्यादिश्रुतिवचोभिरेतदनुसारिस्मृ- तिवचोभिश्च शिखायज्ञोपकीतादिकर्मसाधनानां साकल्येन त्या- गवानित्यर्थः। शुचिरित्यैहिकामुष्मिकफ लैषणात्यागाद्देहजात्याद्य- भिमानत्यागाच् शुद्ध इत्यर्थः । ज्ञानाय ज्ञानोत्पत्तये एव साक्षात्साधनधनेषु धनवत्सरक्षणीयेषु साधनेष्विति यावत्। पायेणेति बलवत्पतिबन्धकाभावे इत्यर्थः । साधनचतुष्टयस- म्पच्या प्राप्तपरमहंसाश्रमस्यैव ज्ञानसाधनश्रवणाघ्यनुष्ठानस्य साक्षाद्विधानात्परमहंसानुष्ठितत्वकृत: कश्चिदुत्कर्षो डस्ति सा- धनानामिति गम्यते। दृष्टश्व परमहंसे एव साद्गुण्येनानुष्ठान- लक्षण उत्कर्ष इति तस्यैवेह ज्ञानपरिपाकसिद्धिनेतरवर्णाश्रमा- णामिति निश्चीयते इति भावः ।। ३५९॥
805
Page 806
संक्षेपशारीरके तृतीयोऽध्यायः। ३। २१९ नन्वाश्रमान्तरादिष्वपि परिपकज्ञानोदयः कचित् दृश्यते, तत्कथं तेषां जन्मान्तरे पाचकं साधनानुष्ठानमिति चेत्, नैष दोष:। तेषां पूर्वजन्मनि संन्यासपूर्वकश्रवणाद्यनुष्ठानं दृत्त- मिति कल्पनात्, अन्यथा संन्यासविधिवयथ्यमसद्गादित्याह- जन्मान्तरेषु यदि साधनजातमासीत् संन्यासपूर्वकमिदं श्रवणादिरूपम् ॥ विद्यामवाप्स्यति जनः सकलोवि यत्र. तत्राश्रमादिषु वसन्न निवारयामः ॥३६० ॥ जन्मन्तरेष्विति ॥ स्पष्टाऽक्षरयोजना॥ ३६० ॥ अव. ब्रह्मविद्याथिन: संन्यासकर्तव्यत्वे तद्वतः कृतकृत्य- त्वे च ममाणत्वेन मन्त्रश्रुतिमुदाहरति- वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वा: ॥ ते ब्रह्मलोकेषु परान्तकाले परामृता: परिमुच्यन्ति सवे ॥ ३६१॥ वेदान्तविज्ञानेति ॥ प्ागनुष्ठितैभेगवत्यर्पितैः कर्मपूगैः शुद्धसत्वा: संन्यासयोगाद्यतय: परमहंसाः वेदान्तमहावाक्य- जनितविज्ञानेन सुनिश्चितार्थाः समभिव्यक्तपरमानन्दाश्च ये ते सर्वे परान्तकाले महापलये ब्रह्मलोकेषु केनापि हेतुना हिरण्य- गर्भलोकेधु स्थिता अपि परामृता: परमकैवल्यभाजः सन्तः परिमुच्यन्ति परिमुच्यन्ते इत्यर्थः ॥ ३६१॥ अय. अत्रैवेतिहासवचनान्यप्याह-
806
Page 807
२२० अन्वयार्थप्रकाशिकाविभूषिते नैतादृशं ब्राह्मणस्यास्ति बित्तं यथैकता समता सत्यता च ।। शीलं स्थितिर्दण्डनिधानमार्जवं तनस्ततश्रापरमः क्रियाभ्यः ॥ ३६२॥ नैताटशमिति॥ एकता एकाकिता सदैकरूपव्यवहारव- त्ता वा। समता विषमेष्वपि जनेषु समबुद्धिता। सत्यता यथार्थ- भाषिता च। शीलं मङ्गलाचारः। स्थितिः अक्षोभ्यता। शीलस्थि- तिरित्येकपदपाठे शीले निष्ठा। दण्डनिधानं सर्वभूताभयदानं संन्यासः। आर्जवम् अवक्रता, क्चिदर्थविशेषे व्यवहारविशेषे वा प्यनाग्रह इति यावत्। ततस्नतः क्रियाभ्यः ऐहिकामुष्मिकपयो- जनाभ्य उपरमः औदासीन्यमित्यर्थः ॥ ३६२॥ अव. क्रियाभ्य उपरमे यत्फलं तत्पत्यक्षमित्येतद् वचना- न्तरेणाह- यतोयतो नितत्तते ततस्ततो विमुच्यते ।। निवर्त्तनाद्ि सर्वतो न वेत्ति दुःखमण्वपि॥ ३६३॥। यतोयत इति॥ ३६३॥ अव. सर्वतो निवर्तनात् दुःखलेशानुभवो Sपि न भवतीति कथं धनादिसुखसाधनसम्पच्या सुखोदयाभावे दुःखनिट्टत्तेर- सम्भवादित्याशङ््य, वाक्यान्तरोदाहरणेन परिहरति- किं ते धनेन किभु बन्धुभिरेव वा ते किं ते दारैब्रीह्मण यो मरिष्यसि ॥
807
Page 808
संक्षेपशारीरके तृतीयोऽध्यायः।३। २२१
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क गताः पिता च।। ३६४।। किं ते धनेनेति॥ हे ब्राह्मण यस्त्वं मरिष्यसि तस्य ते किं धनादिभिः कृत्यं, जीवतो हि तत् सुखाय स्यात्, त- स्मान्मरणत्पूर्वमेव धनादि सर्व परित्यज्य गुहां प्रविष्टं बुद्ध्यन्तरनुपविष्टं यथावदनभिव्यक्तमात्मानमन्विछ तत्स्वरूपा- न्वेषणं कुरु, तत एव तवाक्षयसुखपाप्तिरित्यर्थः । मरणमवश्य- मेवेत्यत्र मानमाह। पितामहा इति ॥ ३६४ ॥ अव. घतुर्विधपुरुषाणामसाधारणकारणप्रदर्शक वाक्यमुदा- हरन् सर्वक्रियानिटत्तिरेव मोक्षस्यासाधारणो हेतुरित्याह- अर्थस्य मूलं निकृति: क्षमा च कामस्य रूपं च वयो वपुश्र ।। धर्मस्य यागादि दया दमश्र मोक्षस्य सर्वोपरमः क्रियाभ्यः ॥ ३६५॥ अर्थस्य मूलमिति ॥ निकृतिः छलम् । अन्यपुरुषार्थाः नानाहेतुसाध्या:, मोक्षस्य त्वेक एव हेतुरित्याह। मोक्षस्येति । "न कर्मणा न प्रजया धनेन त्यागेनैकें अमृतत्वमानशुः" "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इति च ॥ ३६५॥ इति श्रीकृष्णतीर्थशिष्यरामतीर्थकृतायां सङ्क्षेपशारी- रकटीकायामन्वयार्थप्रकाशिकायां साधनाभि- धस्तृतायोऽध्यायः समाप्रः ॥ ३॥
808
Page 809
चतुर्थोऽध्यायः।
अव. उक्तैः समस्तैः साधनैः संसिद्धैरजायमानस्य महावा- क्योत्थज्ञानस्य कीदशी फलनिष्पत्तिरिति शिष्य: पृच्छति।
किं प्रयच्छति फलं मुमुक्षवे ।। प्रत्यगात्ममतिरत्र मे मन- स्यर्थिता समुपजायतेऽधुना ॥ १ ॥ उक्तसाधनेति। अत्र फलविषये। कि साधनान्तरफल- वत्साध्यरूपमेव ब्रह्मंज्ञानफलमपि किं वा कूटस्थरूपमिति मे मनस्यर्थिता जिज्ञासाऽघुना समुपजायते इत्यर्थः ॥ १ ॥ अव. तथोत्पन्नायाः पत्यगात्ममतेः स्वफले साध्ये सहका- रिकारणमप्यस्ति उत नास्ति वेति च निर्णेयमित्याह- किं निरस्तसहकारिकारणा केवलैव फलमर्पयेन्मतिः ।। बाह्यसाधनसहायसम्पदा चान्त्रिता फलविधायिनी भवेत ॥ २ ।। किं निरस्तेति॥ ऋउ्वर्थ पघम् ॥२॥ अव. अन्रापि निर्णयो वक्तव्य इत्याह-
809
Page 810
संक्षेपशारीरके चतुर्थोऽध्याक।४। २२३
एतदप्यहमवैतुमुत्सहे निर्णयं कुरु कृपाविधेयधीः ॥ एतदेव हि दयालुलक्षणं यद्विनेयजनबुद्धिवर्द्धनम् ॥ ३ ॥ एतद्पीति ॥ "विधेयो निघ्न आयत्तः" इत्यभिधाना- त् कृपाविधेयधीः कृपायत्तधीः कृपापरवशधीरित्यर्थः । बहुशः प्रश्नकरणेनायासः प्रापित इति गुरुं क्षमापयन् कृपाविधेयत्वं स्फुटयति। एतदेवेति । विनेयजना: शिष्यजनाः ॥ ३ ॥ अव- आचार्य आह- उच्यते न तमसो निवृत्तितः किं चिदस्ति परश्ात्मधीफलम् । अन्यदल्यमपि साधनान्तरं न व्यपेक्ष्य फलदायिनी च धीः ॥ ४ ॥ उच्यत इति॥ उत्तरवचनं पतिज्ञायोत्तरमाह । न त- मसो निषत्तित इति । अविद्यानिटृत्तिमात्रं विद्याफलमिति मसिद्धम् अतः प्रत्यगज्ञानबाधनव्यतिरेकेण न किश्चिद्वस्तुभूतमु- त्पादं वा निवर्त्तनीयं वा डत्र फलमस्तीत्यर्थः । "कि पयच्छति फलम्"इति प्रश्नस्योत्तरमुक्त्वा "कि निरस्तसहकारिकारणम्" इति पृष्टस्योत्तरमाह। अन्यदल्पमपीति। साधनान्तरं व्यपेक्ष्य न फलदायिनीति सम्बन्ध: ॥।४ ॥ अव. अविद्यानिवृत्तिमात्रमेत्र विद्याफलं तत्र सहकार्यपेक्षा च नास्तीत्यत्र किं पमाणमित्यपेक्षायामनुमानं भमाणमिति। वक्तुं व्यापिं तावदाह-
810
Page 811
२२४ अन्सयार्थप्रकाशिकाविभूषिते
शुक्तिकाविषयबुद्धिजन्मनः शुक्तिकागततमनिवृत्तितः ।। नापरं किमपि दृश्यते फलं नापरं च सहकारिकारणम ॥ ५॥ शुक्तिकेति ॥५॥ अव. एवं व्याप्तिमुक्त्वाऽनुमानमाह- एतमात्मनि तमोनिवृत्तिता नान्यदस्ति परमात्मधीफलमू ।। नाप्यपेक्ष्य सहकारिकारणं किं चिदात्ममतिरर्पपेत फलम ॥ ६ ॥ एवमात्मनीति ॥ विमता परमात्मधीः स्वविषयतमो- निवृत्तिमात्रफला तत्र सहकारिनिरपेक्षा घ भवितुमर्हति, य- थार्थधीत्वात्, या यंद्विषया यथार्थधीः सा तद्विषयाविद्यानि- वृत्तिमात्रफला सहकारिनिरपेक्षा च दष्टा यथा शुक्तिकाविपय- यथार्थधीः, तथा चेयं, तस्मात्तथेति प्रयोगः ॥ ६ ॥ अव. ननु नाविद्यानिवृत्तिमात्रफला ब्रह्मविद्या वैदिकवि- दात्वात् प्राणादिविद्यावदिति चेत्, मैवम्। अपमाणत्वोपाधिह- तत्वादनुमानस्येत्याह- ब्रह्मज्ञानं प्रमाणं भवति दृढ़मिदं नात्र कश्चिद्विवादो ब्रह्मात्मा चैकरूपो न च बहुरसकस्तत्परत्वाच्ुतीनाम् ॥ एवं सत्यद्वयात्मप्रमितिफलमिह द्वैतमूलापनुत्ति- न्र ह्यज्ञानापनुत्तेरधिकमपि फलं किं चिदस्ति प्रमाणात।।७।।
81
Page 812
संक्षेपशारीरके चतुर्थोऽध्यायः।४। २२५
ब्रह्मज्ञानमिति ॥ इदं ब्रह्मज्ञानं हढं प्रमाण भवति प्त्य- क्षादिवत्ममाकरणजन्यत्वात्, अत्र च न कश्िद्विवादः । एतेनो- पाधे: साधनव्यापकत्वं निरस्तम्।न च प्राणादिज्ञानमपि प्रमा- णम् इत्युपाधेः साध्याव्यापकत्वमपीति वाच्यम् इत्याह । ब्र- ह्मात्मा चेति।एकरूप: कूटस्थो न प्राणाददिवद्विकारवानित्यर्थः।अत एव न च बहुरसको Sनेकावस्थावान्। पाणादित्यादिर्हि बढ-
प्राणादिविद्यानां पुरुषस्वातन्त्र्यविध्यधीनमानसक्रियारूपत्वा- दारोपितानेकविशेषणवत्पाणाद्यालम्वनत्वाच्च न पमाणत्वमस्ति । परमात्मविद्यायास्तु वस्तुपरतन्त्रत्वादेकरूपब्रह्मात्मालम्बनत्वा- चास्ति पामाण्यमिति महान्विशेष इ-यर्थः । नन्त्रस्त्वेवं ब्रह्मवि- घायाः प्राणादिविद्यातः स्वरूपतः फलतो वैलक्षण्यं, तथाप्यनया-
प्यन्यदपेक्षणीयं भविष्यतीति चेत्, नेत्याह। एवं सतीति। सम- स्तद्वैतस्य पत्यगज्ञानमूलत्वान्मूलनिटत्यैव मौलिकस्यात्यन्ति-
विवक्षितं नाज्ञानस्य केवलस्य निषटत्तिरित्यर्थः । अतो डज्ञा- नापनुत्ते: पृथगधिकफलं ज्ञानसाध्यं न ह्यस्ति पमाणसिद्ध- मित्यर्थः । द्वैतबन्धस्याज्ञानमयत्वादिति भावः ॥७॥। अव. एवं सति सहकारिनरपक्ष्यमपि सिद्धमिति सहकार्य- भावोऽप्यस्य सिद्ध इत्याह- निरभिसन्धि समर्पितमच्युते विहित मिष्टफलादपि निर्गतम ॥ यदपि कर्म तदप्यवधीरितं २९
812
Page 813
२११ अन्वयार्थप्रकाशिकाविभूषिते यदि घिया न तथा परमर्थ्यते ॥८॥ निरभिसन्धीति॥ यदपि विहितं कर्माच्युते परमात्मनि निरभिसन्धि फलाभिसनन्धिरहितं सम्पितम् अत एवेष्टफलादापि निर्गतं स्वरसतो Sभिलाषिस्वर्गादिफलादपि मच्यावितम् एवंवि- धमत्यन्तविशुद्धं तदपि कर्म घिया यदवधीरितं दूरत एव त्यक्त दूरत एवोपकारकमङ्गीकृत्य स्वसमये तभिरपेक्षतया परित्यक्तमि- ति यावत्। तया धिया स्वोत्पत्तित एव फळशिरस्कतया न परं सहकारिभूतमर्थ्यते, विहितकर्मातिरिक्तस्य सहकारिणो Sत्रा- सम्भवात्, तस्य चानया घिया दूरत एव त्यक्तत्वात् पुनस्तस्या: सहायत्वेनान्यस्य विधानादर्शनात् निरपेक्षैव ब्रह्मात्मधीर्मुक्ति- फलाय कल्पते इति तात्पर्यार्थः ॥८॥। अव. ननु कर्मपरित्याग एवायुक्त: तस्य कर्मणो यावज्जी- वश्रुतिविहितित्वात् तस्मात्कर्मसमुच्वितमेव ज्ञानं मोक्षसाधनमिति
समविषमसमुचचयो न युक्तो न हि जगदर्ति घिथः प्रसूतिकाले॥ क नु बत विहितक्रियासमूहः कथमित तत्र समुच्चयोपपत्तिः ।। ९।। समविषमेति॥ ज्ञानकर्मणोरुभयोरपि प्राधान्यं समसमु- चयः, ज्ञानं प्रधानं कर्माप्रधानम् अथवा कर्म पधानं ज्ञानममधा- नमिति विषमसमुचयः । एते समविषमसमुचया: ज्ञानकर्मणोः न युक्ताः । तेषामयुक्तत्वसिद्धये कैमुतिकन्यायेन ज्ञानकाले कर्म- णामसम्भवमाह। न हि जगदिति। घिय: मसूतिकाले जगदेव
813
Page 814
संक्षेपशारीरके चतुर्थोऽध्यायः।। २२७
समाष्टिव्यष्टिसङ्गातरूपं न स्रस्ति, निरस्तसमस्तपपश्निर्विशेष- ब्रह्मात्माकारोदयत्वाद्वियाया: इत्यर्थः । यदा कर्मणः कारक- मेव जगभास्ति तदा विहित: क्रियासमूइ: क नुबत न कापीत्य- र्थः। तत्रैवं सति कथमिव समुच्चयोपपत्तिर्न कथमपीत्यर्थः ।।९॥ अव. इतश्र कर्मणां न सहकारित्वशाङ्गावकाश इत्याह- अपि च परमहंसस्त्यक्तसर्वेषणः स- नननुभत्रफलविद्यां साधनैर्यघवाप।। कथमित्र पुनरत्र प्राप्तिरस्ति क्रियाया भवतु तदपवर्गो विद्ययैवैकयाऽस्य ॥ १० ॥ अपि चेति । ज्ञानोत्पसावपि विरोधीन्येव कर्माणीति- विज्ञाय त्यक्तसर्वैषणः सन् परमहंसः उत्तमाश्रमं भाप्तः साधनैः निष्टत्तिलक्षणैरेवानुभवफलविद्यां ब्रह्मात्मांनुभवपर्यन्ता तत्त्वधियं यद्वाप तदा डस्यां विद्या्या क्रियाया पुनः प्राप्ति: कथ- मिवास्ति नैवास्तीत्यर्थः । तत्तस्मादस्य परमहंसस्य विद्यरयैकयै- वापवर्गो भवतु भवेदेवेत्यर्थः । तथा च यावज्ीवाधुपवद्धा: क- र्मविधयः संन्यासविधिश्चत्युपरुद्धाः सन्तो विरक्तविषया व्यवतिप्ठन्ते तेषां सामान्यतः पटत्तेः, संन्यासविधीनां विरक्त्त- विषयत्वेन विशेषनिष्ठत्वात्सामान्यशास्त्राद्विशेषशास्त्रस्य बली- यस्त्वादिति भाव: ॥।१०॥ अध. ननु कर्मणामेव पुरुषार्थहेतुत्वं ज्ञानस्य तु सर्वत्र तदङत्वमेत्रेति आत्मतत्वज्ञानस्यापि कर्माङ्गत्वमेवेति चेत्, न । ब्रह्मात्मज्ञानस्य कर्माऊत्वे ममाणाभावादित्याह- यस्य प्रयोगविधिरस्ति परिग्रहीता
814
Page 815
२२८ अन्ययार्थप्रकाशिकाविभूषिते
श्रुत्यादि मानमिह नारिति तदात्मबुद्धी तस्मादियं भवतु नः पुरुषार्थभूता॥ ११ ॥ यस्य प्रयोगविधिरिति ॥ प्रयोगविधिरिति प्रधानवि- विरेव आ्रहकावस्थो विवक्ष्यते। तथा च यस्य स्वपकरण- पठितस्यानारभ्याधीतस्य वा पदार्थस्य परिग्रहीता प्रयोगविधि- रस्ति अस्य सर्वे श्रुत्यादिमानं श्रुतिलिङ्गवाक्यपकरणस्थान- समारयालक्षणङ्गविनियोजकं मानजातं द्वारैदमर्थ्यिनिवे- दकं सामान्यतः प्रयोगविधिपरिगहीतस्यार्थस्याङ्गभूतस्य क्रिया- स्व्ररूपादिनिर्वर्तनद्वारबलादैद मर्थ्यविनिवेदकम् "अनेन द्वारेणेद- मेतदर्थमनुष्ठेयम्" इति ज्ञापकं भवति न स्वातन्त्रयेण श्रुत्यादि कस्यचिद्विनियोजकं •किन्तु प्रयोगविधिरेव विनियोजक: तत् विनियोजकं प्रयोगविधिलक्षणं श्रुत्यादिलक्षणं वा इहात्मबुद्धौ नास्ति भिन्नपकरणत्वात्, तस्मादत्र विनियोजकपमाणाभावादि- यमात्मबुद्धिर्नोऽस्माकं पुरुषार्थभूता भवत्विति योजना। एत- दुक्त्तं भवति। आत्मज्ञानस्य न कर्मपकरणसम्बन्धो डस्ति येन प्रयोगविधिना परिगृह्येत। नाप्यनारभ्याधीतन्यायवतारो Sत्रास्ति, पर्णताया जुहूवत् आत्मज्ञानस्येह द्वाराभावात्। आत्मैव द्वारमिति चेत्, न। तस्य जुहूवत् क्रत्वव्यभिचाराभावात् आत्मनो विदिताविहितिप्रतिषिद्धसर्वकक्रियासाधारणत्वात्, पर्णताया इवेह विनियोजकवाक्याद्यभावाच्च। तथाहि-न तावदिह "ऐन्ना गाईप- त्यम्" इतिवत् "आत्मज्ञानेनेदं कार्यम्"इति श्षतिर्दृश्यते, नापि "ब- हिर्देवसदनं दामि" इतिघत् लिङ्गमुपलभ्यते। नन्वस्त्यत्र लिङ्गमन्य- थानुपपत्तिकल्पितं, यतो देहव्यतिरिक्तात्मज्ञानस्य पारलौकिक-
815
Page 816
संक्षेपशारीरके चतुर्थोऽध्यायः ।४। २२९
फलकर्मसूपयोगो दृश्यते उतस्तैस्तदाक्षेप इत्यनेन लिग्गेन विनियोगोपपत्तेरिति चेत्, न। देहव्यतिरेकादधिकरूपस्य कर्मा- धिकारविरोधिनो वेदान्तष्वाम्नानात्। न हि स्वप्नतिकूलमऊं किमपि कस्यचिद्जवति। यदि पुनर्देहव्यतिरिक्तस्वरूपमात्रमेवा- त्रोच्यते नाधिकमिति मन्येत, तथापि न लिङ्गमात्रादङ्गत्व- सिद्धिस्तस्य द्वारैदमर्थ्यमात्रे मानत्वात्, अत्र च द्वाराभाव उक्त इत्यतो न लिङ्गमपीहास्ति, वाक्यप्रकरणादीनां त्वत्राशङ्गैव नास्तीति स्वतन्त्रैव ब्रह्मविद्याऽन्यनिरपेक्षा च पुरुषार्थहेतुरिति।
अव. ननु तर्द्यविद्यानिव्टत्तिरेव कीटशी तस्या आत्मा- न्यत्वेन सच्वे द्वैततादवस्थ्यात् आत्माद्वैतासिद्धेः। आत्मत्वेन सच्चे त्वनादिभावरूपतया निदृत्ययोगाद्विद्यावैयर्थ्यम्। असत्वे च
वाच्यम्। तस्या अविद्यात्मत्वादनिवृत्तिरेवाविद्याया: स्यादिति
सदसत्सदसद्विकल्पित-
तमसोऽ्युपगम्यतेऽन्यथा- नुपपत्त्यापतनैकहेतुतः ॥१२॥ सदसदिति॥ तमसो निवर्त्तनं निवृत्ति: सदसत्सद- सद्विकल्पितप्रतिपक्षैकवपुरभ्युपगम्यते न सत् नामत् न सदसदूपं न वा विकल्पितं, सदसत्सदसद्विलक्षणमपि तमोनिवर्तन- मभ्युपगम्यते किंत्वभ्यः पकारेभ्यो विलक्षणमेतत्पतिपक्षैकस्व्र-
816
Page 817
२३० अन्बयार्थप्रकाशिकाषिभूषिते
भावं यत्किश्च्िदिति पञ्चमपकाराऽज्ञाननिवृत्तिरिति यं विद्वांस: कथयन्ति तं वयम् अभ्युपगच्छाम इत्यर्थः । अस्मिन्पक्षे कि प्रमाणमित्यपेक्षायं सदादिपक्षसहत्वानुपपत्तिरेव मानमित्याह। अन्यथाऽनुपपत्तीति। सदादिपक्षविलक्षणत्वेन विना याऽनुप- पत्तिस्तस्या आपतनं पाप्तिस्तदेकहेतुतः सदाधनुपपत्तिप्रमाणत इत्यर्थः ॥ १२ ॥ अव. नन्वयमपि प्रकारो उनुपपभो डस्यापि सदादिविक- ल्पपसरादिति चेत्, नैवं सम्भवतीत्याह- सदसत्सदसद्विकल्पित- प्रतिबद्धा न भत्रन्ति वर्णिते ॥ परमात्मतमोनिवर्सनेS- नुपपत्तिप्रतिभासवृत्तयः ॥१३ ॥ सदसदिति ॥ वर्णिते पूर्वपद्यनिरूपिते परमात्मतमो- निवर्त्तने सदादिविकल्पितपतिबद्धा दोषा न भवन्ति । के ते ? इत्यत आह। अनुपपत्तिमतिभासटत्तयोऽनुपपत्तिप्तीतिगोचरा इत्यक्षरयोजना । सदादिपक्षचतुष्टयप्रतिबद्धैव हि दोषपाप्तिः । पञ्चमपकारस्य तु दुष्टपक्षपरित्यागमात्रत्वात् तस्मिन्पक्षे दोषम- तिभास एव नावतरतीति भावः ।। १४।। अव. चैतन्याद्भेदाभेदविकल्पे डपि चोक्तपकारेण पश्चम- पकारत्वमवाविद्यानिट्टत्तेरिष्यते इत्याह- चितिभेदमभेदमेव वा द्वयरूपत्वमथो मृषात्मताम् ।। परिहत्य तमोनिवर्सनं
817
Page 818
संक्षपशारीरके सतुर्थोऽध्यायः।४। २३१
प्रथयन्ते खलु मुक्तिकोविदाः ॥ १४ ॥ चितिभेदमिति॥ मुक्तिकोविदा इष्टसिद्धिकारादय: प- ण्डिसा इत्यर्थः ॥ १४ ॥ अध. तमोनाशस्तमोनिटृत्तिरिति दृष्टिमाश्रित्य पश्चम- प्रकारात्वाङ्गीकारेणानुपपत्तिदोषो निराकृत:, इदानीं बाध एव निवृत्तिशब्दार्थो न नाश इति परमसिद्धान्तदृष्टिमाश्रित्यात्मैत ज्ञातत्वोपलक्षितस्तमोनिष्ृत्तिरिति पक्षान्तरमाह- अथ वा चितिरेव केवला
परमात्मतमोनिवृत्तिगी- र्विषयत्वं समुपैत्युपाधिना ॥१५॥ अथ वेति ॥ केवला निर्विशेषा चिरतिरेव वाक्योत्पादित- बुद्धिवर्त्मनोपाधिना वाक्योत्थवुद्धिदृत्तिपतिफालितत्वेन निमि- त्तेन परमात्मतमोनिषचिगीर्विषयत्वं ससुपेति ॥ १५ ॥ भव. ननु शुक्तितमोनिवृत्ति: थुक्तितश्वज्ञानात्मसिद्धा सा च शुक्तिगता न चैतन्यगता शुक्तेरचैतन्यात्, तथा चात्मन्य- नात्मनि चानुगतं चिन्मात्रादन्यदेवाज्ञाननिवृत्तिशब्दवाच्य मे- ष्टव्यमिति चेत्, नैवमित्याह- शुक्तिकंाविषयबुद्धिजन्मना प्रत्यगात्मचितिरेव केवला ।।
त्युष्यते दतिहरि: पशुर्षथा ॥ १६॥
818
Page 819
२३२ अन्वयार्थप्रकाशशिकाविभूषिते
शुक्तिकेति शुक्तिकादेः प्रत्यक्चैतन्यविवर्त्तत्वात् =
स्त्रातन्त्र्येण जडस्याज्ञानं प्रति विषयत्वेनाश्रयत्वेन वा सम्ब- न्धो डस्ति, अतः शुक्तिकाविषयबुद्धिजन्मना शुत्यवचच्छिन्नचिद- भिव्यअ्जकतयोत्पन्नबुद्धिद्ृत्युपाधिना केवला प्रत्यगात्मचितिरेव
चैतन्यमात्रतया चैतन्यगतैवेति नाननुगमशङ्केत्यर्थः ॥१६ ॥ अव. "दृतिहरिः पथुर्यथा" इति स्वोक्तबुद्धिष्टत्तेरुपाधित्वे दष्टान्त उक्तः, तत्रोपाधिर्नाम विशेषणोपलक्षणाभ्यामन्य: यथा पशुत्वं तट- स्थमेव सत् दतिहरिशब्दपवृत्तिनिमित्तम् इत्युक्तदष्टान्तं स्पष्टयति- वाचको हरणकर्त्तुरिष्यते शब्द एष हि दतेर्मनीषिभिः ॥ केवलं तु पशुता निमित्ततां बाह्यतः स्थितवती व्रजेदियम ॥ १७॥ वाचक इति ॥ मनीषिभिरेष दृतिहरिशब्दो दतेर्हरण- कर्त्तुर्हि वाचक इष्यते। चर्मकोशं दृतिपदवाच्यं यो मनुष्यो वा श्वा वा डन्यो वा हरति स योगदत्या दतिहरिशब्दवाच्यो भवतीति प्रसिद्धमित्यर्थः । यद्यप्येवं तथापि पशुत्वविवक्षयैव हतिहरिशब्दं प्रयुञ्जते मनीषिणो न दतिहरणकर्तृत्वविवक्षयेति पशुत्वेन नियम्यमानं दतिहरिपदं पशावेव निविशते इति पशुत्वं हतिहरिपदस्य विषयभावं भजते। पशुत्वं च वाच्याद् बहिरेव तिष्ठतति न तु स्वयं वाच्यकोटौ विशेषणत्वेनोपलक्षणत्वेन- वा भविशतीति "इरतेर्द्तिनाथयोः पशौ" इति व्याकरणसूत्रा- द्रम्यते इत्येतत्सर्वमभिमेत्माह। केत्रलन्त्वति। इयं पशुता
819
Page 820
संक्षेपशारीरके चतुर्थोउध्यायः ।४। २३३
वाच्यबाह्यतः स्थितवती सती दतिहरिशब्दपटृटत्तौ केवलं नि- मित्ततां व्रजेदिति योजना ॥१७ ॥
न्तिकमाह- एतमेत तु तमोनिवृत्तिगीः शुक्तिकाविषयबुद्धिजन्मना ।। बाह्यतः स्थितवतैव हेतुना प्रत्यगात्मचिति वर्त्ततेऽञ्जसा ॥ १८॥ एवमेवेति। थुक्तिका्यनुगतमेव चैतन्यं शुत्ाद्याकारान्त :- करणवृतत्योपाधिना वाच्याद् बाह्येनैव सता नियम्यमानं शत्या- द्यज्ञाननिषृत्तिशब्दवाच्यं भवतीति तात्पर्यार्थः। अक्षरयोजना त्वतिरोहिता॥ १८ ॥ अव. एतदेव दृष्टान्तीकृत्य ब्रह्मात्मन्यज्ञाननिटृत्तिशब्दवाच्यं वाक्योत्थब्रह्माकारबुद्धिष्ृत्योपाधिना ब्रह्मात्मचैतन्यमेवेत्याह-
शुक्तेस्तमोहतिरिनि प्रतिपन्नमवम् ॥ आत्मापि जातनिजबुद्धिरबोधहानि- रित्युच्यते किल चिदेकरसो न पूर्वः ॥ १९॥ उत्पन्नशुक्तिमतिरिति । उत्पन्ना शुक्याकारान्तःक- रणवृत्तिरूपा मतिर्यस्या उपाधित्वेनेष्टा सा आत्मचितिरुत्पन्न- शुक्तिमतिः सा यथा शुक्तेस्तमोहानिरिति पतिपन्नम् एवमात्मापि
अबोधहानिरित्युच्यते किछेति सत्यम्। न पूर्वो यथोक्तबुद्धिट्ट- ३०
820
Page 821
२३४ अन्वयार्थप्रकाशिकाविभूषिते
न्युपाधिजन्मनः भागवस्थितस्तमोहानिरिति नोच्यत इति यो- जना ॥ १९ ॥ अव. यदि केवलव्रह्मात्मचैतन्यमेव तमोनिवृत्तिशब्दवाच्यं तरहि तादृशबुद्ध्युत्पत्तेः प्रागपि कुतो Sज्ञाननिवृत्तिरिति नोच्यत इति चेत्, तत्र शब्दस्वभाव एष इति वक्तुमुक्तमेव दष्टान्तमाह- दतिहरणकरत्वं पुंसि चान्यत्र वेदं दतिहरिरिति लोके नोच्यते वर्त्तमानम्। अनधिकतिकलं सत् कथ्यते तत पशस्थं दतिहरिरिति शब्दैर्बीह्यहतोः पशुत्वात ॥ २० ॥ इतिहरणेति ॥ इदं प्रत्यक्षं दतिहरणकरत्वं पुंसि मनुष्ये डन्यत्र श्वादौ वा वर्तमानं लोके दृतिहरिरिति नोच्यते किन्तु तत् दतिहरणकर्तृत्वं पशुस्थम् अनधिकविकलं सत् अन्यूनातिरि- क्तमव्यभिचारि सद दंतिहरिरिति शब्दैः कथ्यते, बहुवचनं पयो- गबाहुल्याभिमायम्। कस्मात्? बाह्य हेतो: पशुत्वात् पशुत्वरूपाद्वा- च्यबहिर्भूतान्निमित्तादित्यक्षरार्थः । दृतिहरणकर्तुत्वं पुरुषादौ व- र्न्तमानं दृतिहरिशब्देन नोच्यते तत्र व्युत्पत्तिव्याकरणस्मरण- योरभावात्, किन्तु पशौ वर्तमानं तन्मात्रमेव दतिहरणपदे- नोच्यते इति व्युत्पत्तिस्मृतिभ्यां प्रसिद्धम् अतः शब्दस्त्रभावो जयमिति कल्पनीयम् । निमित्तानुबन्धिनी हि शब्दस्य पटटत्तिरि- ति तात्पर्यार्थः ॥ २०।। अव. अत्राप्ययमेव न्याय इत्याह- अयमपि परमात्मा प्रत्यगात्मस्त्रभावो वचनजनितबुद्े: प्राक् स्वरूपे स्थितोऽपि॥
82
Page 822
संक्षेपशारीरके चतुर्थोऽध्यायः।४। २३५
न खलु वरिषयभावं ध्वान्तविच्छेदवाचो व्रजति हि तदुपाधेबुद्धिवृत्तेरभावात ॥ २१ ॥ अथमपीति॥ निगदव्याख्याताननि पद्याक्षराणि। एतदु- क्तं भवति। प्रकृते डप्यज्ञाननिवृत्तिशब्द: प्रत्यक्चैतन्यमेव व देत् बुद्धिटृन्युपाधौ सत्येव नासतीति स्वभावोऽस्य शब्दस्य
अय. नन्वयं नाशादिशब्दो नञ्ूपर्यायो Sभाववाचक: प्र- सिद्धः,स कथं चैतनये सदूपे वर्तेतेति चेत्, सत्यम्, अभाववचनो नाशादिशब्द: स्वभावतः, अत्रायमज्ञानशब्देन समस्यमानो नाशादिशब्दरो डन्योन्याभाववचन इत्याह- अज्ञानदाह इति नैकपदं समासात पूर्तोत्तरे खलु पदे पदतामुपेत: ।। ज्ञानोदयं तटगतं समुपाददान- स्तस्मात्तमोहतिरवोऽ्र चिति प्रवृत्तः ॥ २२ ।। अज्ञानदाह इतीति॥ अज्ञानं दाह इति च स्वभावतः इमे द्वे पदे नैकपदं कदापीत्यर्थः । समासासु निमित्तात्पूर्वोत्त- रे पदे अज्ञानमिति पूर्वपदं नाश इत्युत्तरम् एते पदतामैकपद्यमु- पेतः प्राप्तुतः । तथा च समासवशाच्छब्दानामन्यत्रापि वृत्ति- दष्टा इतीहापि समासवशान्नाशशब्दस्य स्वसम्बन्ध्यभावमात्राद- न्यत्र वृत्तिरुपपत्नेति फलितमाह। ज्ञानोदयमिति। तस्मादिति भ- थमं योज्यम्। समोहतिरवोऽत प्रकृते तटगतं तटस्थं ज्ञानोदयमु- पाधि समुपाददानश्चिति प्रदत्तः। तथा चाज्ञानविलक्षणमज्ञानाद- न्यज्ज्ञानोद योपाधिनाऽज्ञानविरुद्धाकारं चैतन्यमज्ञाननाशश-
822
Page 823
२३६
ब्दार्थ इति न विरुद्ध्यते इति भावः ॥ २२ ॥। अन. तथा दतिहरिश्द्रस्थाप्यैकपद्यादेव विशिष्टार्थनिय- ता वत्तिराश्रिता तदवयवास्तु साधारणार्थवाचिन एवेत्याह- अन्नाप्यसौ दतिहरिः पशुरित्यखण्ड: शब्दो न खल्वभिमतोऽवयवार्थयोगात् ।। धातुश्च वाचकतया हरतिः प्रसिद्धो हीन्प्रत्ययश्र हरतेः परतः प्रसिद्धः ॥ २३॥ अन्राप्यसाविति॥ अवयवार्थयोगमेव विभजते । धातुश्रे- ति। हरतिर्धातुहरणताचकतया प्रसिद्धः "हृञ् हरणे" इति धातु- पाठस्मृतेः । चकारो ऽवधारणार्थों भिन्नक्रमः, पसिद्ध एवेत्यर्थः । इन्प्रत्ययश्च हरतेर्घाताः परतः कर्तृवाचकतया प्रसिद्ध एव ही- ति योजना ॥ २३ ।. अव. तदेवमविद्यानिदत्तिरात्मैवेत्यपि पक्षे न काचिदनुपप- त्तिरिति स्थितम्। पुनरन्यदत्राशङ्गते।अयमात्मसाक्षात्कार: स्वो- दयकाल एवात्माज्ञानं निवर्तयेत् तदुत्तरकाले वेति ? तत्रोभयथा- पिन विरोध इत्युत्तरमाह- उदयन्निरस्यति तमश्र तदुङ्गतं च वेदावसानवचनादथतोदितः सन् ॥
कं चित् सहायमनपेक्ष्य निवर्त्तकोडसौ ॥ २४॥ उद्यन्निति । अथवा वाक्योत्थविद्यायाः सहाया- नपेक्षत्वं यत्मागभिहितं तत्र युक्तिविशेषं संचारयति । उद्यन्निति । ऐकात्म्यवस्तुविषयो डनुभवो वेदावसानवच-
823
Page 824
संक्षेपशारीरके चतुर्थोऽध्यायः।४। २३७
नादुधनेव्र वाऽथवोदित एव सन तमश्र कारणं तदुन्भवं च कार्य सर्व निरस्यति। उदितः सन्नित्यपि न विलम्बः पती- यते. किन्तूदयसमनन्तरमेवेति न सहकारिपतीक्षाकल्पनाऽवका- श इति द्रष्टव्यम् । यत एवंस्वभावो ऽयमनुभवो डत एवासौ क- श्चित्सहायमनपेक्ष्य निवर्तक इति सिद्धमित्यर्थः ॥२४॥ अघ. तथापि कि तत्वमिति चेत्, तत्र दीपेन समोनिटृत्ता- विवेदं द्रष्टव्यमित्याह- दीपस्तमस्तिरयतीह भन्कुत श्रिद भूत्वा क्षणव्यवधिमात्रमपेक्ष्य नात्र। कश्चिद् विवादपदवीमुपयाति बादी तद्वत् प्रताच्यवगती तमसोऽयहन्त्याम् ॥ २५॥ दीपस्तम इति॥ भवन् उत्पद्यमान एव दीपस्तमस्तिरय- ति अपसारयति दर्शनाविषयं करोतीत्यर्थ:कुतशश्चिन्निमित्तात् पति- बन्धवशात्पुनर्भृत्वोत्पद्य क्षणव्यवधिमात्रं क्षणव्यवधानमात्रम- पेक्ष्य तमस्तिरयतीत्यत्र न कश्विद्वादी विवादपदवीमुपयाति। यथाऽयं दृष्टान्तस्तद्वत्पतीचि तमसोऽपहन्त्र्यामवगतौ विज्ञाने यो- ज्यमित्यर्थः ॥ २५॥। अध. यद्यप्येवमुभयथाऽपि सम्भावना समाऽस्ति, तथापि ब्रह्म- विद्या उत्पद्यमानैवाविर्द्या निवर्तयेत् न व्यवधानमीषदप्यपेक्ष्य क्षणमात्रं व्यवधीयत इत्याह- उत्पत्तिरेव हि धिया स्वफलं प्रदातु- माकाङङिता न च ततोऽपरमर्थनीयम् ॥ यत कारकं तदिह काङृकति जन्ममात्रा-
824
Page 825
२३८ अन्वयार्थप्रकाशिकाविभूषिते
दन्यन्न धीः किमपि काङ्कति जन्म लब्धवा ॥२ ६।। उत्पत्तिरिति ॥ धिया वाक्योत्थया स्वफलं मदातुमुत्प- त्तिरेवाकाद्विता । एवकारव्यावर्त्य स्वयमेवाह। न चेति। ततो Sपरमुत्पसेरन्यत्सहकारिभूतमर्थनीयं धियो न च विद्यते इति योजना।कुतः? इत्यत आह। यत्कारकमिति। कारकस्या- यं धर्मो यदुत्पद्य स्वकार्ये जनयितव्ये सहकारिपतीक्षया विल- म्बनं, न तु धियः प्माणत्वेनाकारकरूपायाः, इत्येवं सति थ- त्कारकं तदिह व्यवहारभूमी स्वकार्ये वा स्वजन्ममात्रात् अन्यत् काङ्गति, धीः जन्म लब्ध्वा न किमपि काङ्मतीति योजना॥२६।। अव. ज्ञानस्य सहकार्यपेक्षा नास्तीत्यत्र जैमिन्याचार्य- सूत्रवाक्यं प्रमाणयति- प्रत्यक्षसूत्र इदमेत्र निवेदयिष्यन् न्यायेन जैमिनिरुवाच विदग्धबुद्धि: ।। सत्संप्रयोग इति तत्र हि बुद्धिजन्म शब्दस्य नान्यदिह किं चन कृत्यमस्ति ॥ २७॥ प्रत्यक्षेति । "सत्सम्पयोंगे पुरुषस्येन्द्रियाणां बु- द्िजन्म तत्पत्यक्षम्" इति सूत्रे "बुद्धिः प्त्यक्षम्"इत्येताव- त्युक्ते Sपि तस्या जन्मार्थात्सिद्धमेवान्यथेन्द्रियाणां सत्सम्प्रयोग इति निमित्तनिर्द्देशवैयर्थ्यापातात्, तथाऽप्यर्थसिद्धं जन्म जन्म- शब्देन निर्दिशन् न बुद्धेर्जन्मातिरिक्तो व्यापारोऽस्तीत्येतदेव सूत्रकार: सूचयतीति निष्पिण्डितोऽर्थः। एषाऽक्षरयोजना। वि दग्धबुद्धिर्जैमिनिः "सत्सम्प्रयोग" इति प्रत्यक्षसूत्रे प्रत्यक्षपमाण- कक्षणसूत्रे इदमेव न्यायेन निवेदयिष्यन्नुवाच जन्मातिरिक्तो
825
Page 826
संक्षपशारीरके सतुर्थोऽध्यायः।४। २३९
न बुद्धेर्व्यापारोऽस्तीत्येतत् न्यायेन प्रतिपादयन् बुद्धिजन्मेति पदं प्ायुङ्क यतस्तत्र सूत्रे बुद्धिजन्मशब्दस्य इह लक्षणे नान्यक्कि- ञ्रन कृत्यमस्ति विनाऽपि तेनातिव्याप्त्यादिनिराससि- द्वेरिति ॥ २७ ॥ अध. अस्त्वेवं विद्योदयसमनन्तरमेवाविद्यायाः सकार्या- या निवृत्तिर्विद्यायास्तु कथं निवृत्ति: निवर्तकाभाषात्तद्भ्ावे वा Sनवस्थामसङ्गादिति चेत्, तत्राह- वदान्तवाक्यजनिता मतिवृत्तिरेव- मुत्पत्तितः सकलमेत् भत्रार्णवाम्बु ।। पीत्वा स्वयं च खलु शाम्यति दग्धलोह- पीतं यथाम्बु चितिमेव तु शेषयित्वा ॥ २८॥ वेदान्तवाक्येति ॥ एवमिति उक्तन्यायेनेत्यर्थः । चिति- मेवैका शेषयित्वा स्त्रयं च खलु शाम्यति स्वनिटृत्तौ हेत्व- न्तरं नापेक्षते Sतो Sनवस्थापसङ्गो न भवतीत्येतत् दृष्टान्तेनोप- पादयति। दग्धलोहेति। यथा दग्धलोहपीतमम्बु दाहं शमयति स्वयं च लीयते लोहमात्रमवशेषयति, तथा वेदान्तवाक्यज- न्यात्ममतिव्ृत्तिरपि अविद्यातत्कार्यरूपप्रपञ्चं निवर्तयति स्त्रय- मप्य विद्याकार्यान्तःपतितत्वान्निवर्तते चिन्मात्रं चात्मतत्त्व- मवशेषयतीत्यर्थः ॥ २८।। अव. तदेवमारोपिताविद्यानिवृत्तिमात्रत्वान्मोक्षस्य कूटस्थ- त्वं प्रतिपादितं, केचितु स्वर्गादिवन्मोक्षस्यापि साध्यत्वमाहुस्ता- नप्रत्याह- कुटस्थनित्यैव तु मुक्तिरेषा विद्याफलत्वादिह यद्यदेवम्।।
826
Page 827
२४० अन्वयार्थ प्रकाशिकाविभूषिते
तत्तत्तथा दष्टमशेषमेत् यथा हि शुक्त्यादिपदार्थसंवित् ॥ २९॥ कूटस्थेति।। शुत््वादिपदार्थसंविदिति शुत्यादिविषयक- प्रमाणफलभूता शुत्तयादिस्फूर्तिरित्यर्थः ॥ २९॥ अव. दृष्टान्ते साध्यवैकल्यमाशघाह- जन्मादिषड्भावविकारहीना शुक्त्यादितस्तूपनितरिष्ट संवित ।। न प्रागभावाद्यनुभूतिरस्याः स्वतः प्रमाणादपि युज्यते हि॥ ३० ॥ जन्मादीति ॥ शुत्यादिवस्तुनि अवशिष्टसंवित् शुक्तयादि- विशेषणांशहीना सती जन्मादिषड्भावविकारहीना कूटस्थैवे- त्यर्थः। संवित् स्वरूपतो जन्मादिभावविकाररहिता, असम्भा- वितजन्मादिघर्मत्वाद, यद्यत्र न सम्भवति न तत्तेन धर्मेण धर्मव- त् यथाऽगनिः शैत्येनेति प्रयोगः। हेत्वसिद्धिशङ्गां परिहरति। नप्रा- गभावादीति । अस्था: संविदो न स्वतः पागभावाद्यनुभूतिर्यु- ज्यते स्वमागभावः स्ववेद्यो न घटते, नापि ममाणादन्यस्मा- त्तदुज्यते इत्यक्षरार्थः। एतदुक्त्तंभवति। संविदो जन्मपरागभावा- दयनुभवः संविदा तावन्र सिद्यति स्वसम्बन्धितया हि स्वपा- गभावाद्यनुभवो वक्तव्यः स स्वात्मनि वृत्तिविरोधान स- म्भवति।नापि प्रमाणान्तरात्तत्सिद्धिः मानवेद्यत्वे जडत्वापत्तेः संवित्वव्याघातात् स्ववेद्यत्वे चायं दोष: समानो वेद्यत्वमात्र- स्यैव जडत्वपयोजकत्वात्। संविदग्रहणे च तत्सम्बन्धितया ज- न्मादिग्रहणासम्भवात्, अतोऽसम्भावितजन्मादिधर्मत्वादिति हेतु- र्नासिद्ध इति ॥ ३० ॥
827
Page 828
संक्षेपशारीरकं चतुर्थोउध्यायः ।४। २४१
अव. एतदेव स्पष्ट्यति- अबुद्द्मानो न हि संविदं तत्- सम्बन्धि किं चित प्रतिपत्तुमीशः ॥ न बुद्धमानोऽपि तथा तदा हि न संविदेषा विषयत्वहेतोः ॥३१ ॥ अवुध्यमान इति । संविदमबुध्यमानो Sविषयीकुर्वन् क- श्चित् तत्सम्बन्धि किश्चित्पागभावादि प्रतिपतुं न हीशः: समर्थः। धर्मधीसापेक्षत्वाद्धर्मबुद्धेरित्यर्थः । तथा संविदं बुखयमानो ऽपि न समर्थः यतस्तदा हि एषा संविदेव न भवति विषयत्वाद्े- तोः, विषयत्वे जडत्वापत्तेरित्यर्थः । ३१ ॥ अव. मोक्षस्य कूटस्थत्वं व्यतिरेकव्याप्तिच्छलेनानुमिनोति- जन्या न मुक्तिर्घटते कुतश्िद् विद्याफलत्वादिति पूर्वहतोः ॥ यद्यद्ि जन्यं जगति प्रसिद्धं तत्तन्न विद्याफलमध्वरादि ॥ ३२ ॥ जन्या न मुक्तिरिति ॥ अध्वरादीति यथा यागा- दीत्यर्थः ॥ ३२॥ अव. तेनैव हेतुना मोक्षस्य कर्मसाध्यत्वपतिषेधमुखेनापि कौटस्थ्य मेवानुमिनाति- मोक्षस्वरूपे विफलक्रियोऽसी व्रिद्याफलत्वादिह यध्यदेवम्।। तत्तत्तथा दष्टमशेषमेव ३१
828
Page 829
२४२ मन्वयार्थप्रकाशिकाविभूषिते
यथैव रज्ज्वादितमेनिवृत्तिः ॥। ३३ ॥। मोक्षस्वरूप इति ॥असौ पुरुषो मोक्षस्वरूपे विफलक्रियः। मोक्षस्वरूपं न क्रियासाध्यमिति पतिज्ञापरमेतद्वाक्यं, शिष्ट स्पष्टार्थम् ॥३३॥ भव. ननु सायुज्यादिरूपोऽपि मोक्ष: कर्मसाध्यक्चेति तत्र बाध इति चेत्, मैवम्। तस्य मोक्षत्वासम्प्तिपत्तेरपक्षत्वादित्याह- *सायुज्यादि विवादगोचरपदं निःश्रयसं नो भवेत् कार्यत्वादिह यद्यदीद्शमदो निःश्रेयसं नेक्षितम् ॥ यद्वत कुड्यघटादि ताहशमिदं तस्मादिदं तादृशं युक्तं कल्पयितुं न तद्विसद्शं तादृङ न दष्टं यतः ॥३४।। सायुज्यादीति॥ एतदपि पद्यं षद्पदम्। मोक्षपक्षानन्तर्भावे हेतु: विद्याफलत्वाइतेरिति। आहतिः हानिः, विद्याफलत्वाभावा- दित्यर्थः। एतेन पूर्वण्धोक्तानुमानेSनैकान्तिकताशङ्काऽपि परिह- ता, सायुज्यादौ विद्याफलत्वहेतोरटत्तेः । कुतः सायुज्यादेर्वि- घ्याफलत्वाभाव:१ इति तत्राह। मानस्येति। उपास्त्याख्ययेतिवि- शेषणेन पुम्परतन्त्रत्वं क्रियाया: सूच्यते। उपास्तिविधिविहित- या पुम्परतन्त्रमानसक्रियया यस्मादिदं सायुज्यादि जन्यते त- स्मान्न विद्याफलमिति योजना। सायुज्यादेर्मोक्षपक्षपातित्वाभाव- मुक्तमनुमानपयोगेण स्पष्टीकरोति। सायुज्यादि विवादगो- चरपदमिति। कार्यत्वहेतुः क्रियासाध्यत्वोत्या साधित * सायुज्यादि न मोक्षरूपमखिलं विद्याफलत्वाहते:। मानस्या क्रिययैव जन्यत इदं यस्मादुपास्त्याख्यया ।
तिभाति। इत्यर्धमधिकं मूले Sपेक्षितम, रामतीर्थव्यास्यानुरोधादिति प्र-
829
Page 830
संक्षेपशारीरके चतुर्थोऽध्यायः ।४। २४३
इति नासिद्धिशङ्काऽवकाशः। इहेत्यादि घटादृत्यिन्तमुदाह- रणवचनम्। सव्याप्तिकं दष्टान्तवचनमुदाहरणमिति हि त- लक्षणम् । तादृशमिदमित्युपनयवचनं, कार्य चेदमित्यर्थः । निगमनमाह। तस्मादिति कल्पयितुमित्यन्तेन। तस्मात् कार्य- त्वादित्यर्थः। तादृशमिति निःश्रेयसं न भवतीत्यर्थः। हेतोरभयो- जकताशङ्कां परिहरति। न तद्विसदशमिति। दृष्टकुड्यादिविसदशं नित्यं निःश्रयसरूपत्वं न कल्पयितुं युक्तम्। यतः क्रियासाध्यं तादशं नित्यनिःश्रेयसरूपं न हष्टं कापीत्यर्थः । कृतकत्वस्या- नित्यत्वव्याप्तेरभङ्गात् अनित्यस्य च निःश्रेयसत्वाभावादिति भा- वः। न च बन्धध्वंसो मोक्षः क्रियासाध्योऽपि नित्यो भविष्यती- ति वाच्यम्। ब्रह्म वेद ब्रह्मैव भवति पुरुषः इत्येव प्रोच्यते इत्यादिश्रुतौ ब्रह्मभावस्यैव मोक्षत्वाभिधानादज्ञानमयबन्धनि- टत्तेश्र ज्ञानसाध्यत्वात् क्रियासाध्यत्वाभावस्य पागेवोपपादि- तत्वादिति द्रष्टव्यम्॥ ३४॥ अव. इतश्र मोक्ष: कूटस्थनित्य इत्याह- सदसदुद्हवनं न विमुक्तता
सदसतोर्नशनं न विमुक्तता सदसतोनशनानुपपत्तितः ॥ ३५॥।
मागेव प्रपश्चितत्वान् सदसतोरुत्पत्तिर्वा विनाशो वा मुक्ति- रित्यर्थः । ३५॥ अव. सदसज्जन्मविनाशयोर्वस्तुव्टत्तत्वाभावेन तत्पतीतेस्त- मोमयत्वे जपि तमोमयस्यैव मोक्षत्वमस्त्विति चेत्, नेत्याह-
830
Page 831
२४४
न च तमोमयजन्मविमुक्तता न हि तदिष्टमनिष्टतरं हि तत ।। न खलु कल्पितजन्मव्रिमुक्ततां समुपगच्छति तद्वितथं यतः ॥ ३६॥ न व तमोमयेति। जन्मेति नाशस्याप्युपलक्षणम् ।तत्रा- निष्टत्वं हेतुमाह। न हीति। मोक्षस्याभीष्टलक्षणत्वात् तमोमयस्य च तद्विरुद्धत्वान्न तस्य मोक्षत्वमित्यर्थः । इतो ऽपि न तमोमयजन्म- षिनाशयोर्मोक्षरूपतेत्याह। न खल्विति। जन्मवविमुक्ततां जन्म- विनाशयोर्विमुक्तता न समुपगच्छति कश्िदपीति शेषः। यतस्तत् तमोमयं वितरथं मिथ्यैवेत्यर्थः । केनाप्यनङ्गीकारादयोग्यत्वाच्चायं पक्ष एवासङ्गत इति भाव: ॥ ३६॥। अष. तर्हि तमोमयजन्म नाशो वा मोक्षो मा भूत् तमोमयमप- श्वविलय एव मोक्षोज््भ्युपगम्यत इति शङ्कते- अथ तमोमय विश्चतिकल्पना-
सकलद्षणजातविवर्जितं सदिह मोक्षपदं न निवार्यते ॥ ३७ ॥ अथेति ॥ इमं पक्षमङ्गीकरोति। सकलेति। तमोमयविश्व- निष्टत्तेश्रात्मतावन्मात्रताया उपपादनात्कूटस्थनित्यैव मुक्ति- रित्यत्र न किमपि दूषणमस्तीति तन्मोक्षपदमिहास्मन्मते न निवार्यते ॥ ३७॥ अव. सिद्धे मोक्षस्यैवं कौटस्थ्ये इदं विचार्यते, यद्पि ज्ञानो- त्पश्यनन्तरमेवाविद्या निवर्तते तथापि निवृत्ताविद्यस्य देहपाते
831
Page 832
संक्षेपशारीरके चतुर्थोऽध्यायः।४। २४५
किं कश्चित्कालदोषोऽस्त्युत नेति जिज्ञासायां नेति तावदाह- सम्यग्ज्ञानविभावसुः सकलमेवाज्ञानतत्सम्भवं
निर्लेपेन हि दन्दहीति न मनागप्यस्य रूपान्तरं संसारस्य शिनष्टि तेन विदुषः सदो त्रिमुक्तिर्धरुता ॥३८ सम्परज्ञानेति ॥ वस्त्वेव वलं वस्तुबलं तस्य भवर्तनमा- विर्भाव: स एव मरुद्व्यापारस्तेन सन्दीपितः।देहद्यस्याज्ञानविल- सितत्वात्तत्वज्ञानेन च स्त्रोदयमात्रेणाज्ञानस्य नाशितत्वान्निराश्र- यस्य कार्यस्यावस्थानासम्भवात्सद्यो मुक्तिरव ध्रुवेत्यर्थः ॥।३८। अव. तर्हि "तस्य तावदेव चिरं यावन्न विमोक्ष्ये" इत्या- दिजीवन्मुक्तिशास्त्रस्य का गतिरिति चेत्, तत्राह- जीवन्मुक्तिप्रत्ययं शास्त्रजातं जीवन्मुक्ते कल्पिते योजनीयम् ॥
सदो मुक्ति: सम्यगेतस्य हेतोः ॥३९॥ जीवन्मुक्तीति॥ जीवन्मुक्ते: प्रत्यय: प्रतीतिर्यस्मात् तज्जी- वन्मुक्तिपत्ययम्।शास्त्रजातविशेषणमेतत्।श्रुतेः कथ कल्पितविषय- त्वम् अपमाणत्वप्सङ्गादिति चेत्, नैष दोषो ऽस्याः श्रुतेरर्थवादत्वा- दित्याह।तावन्मात्रेणेति। स्वार्थे फलवत्वाभावाद्विद्यास्तुत्यर्थत्वेन कल्पितजीवन्मुक्त विषयत्वमेवैतादृशवाक्यानामभ्युपेयं, तावताऽपि पमाणत्वाव्याघातादिति भावः । तस्य हेतोजीवन्मुक्तिजापकशा- स्त्रस्यान्यपरत्वाद्वेतोः सदो मुक्ति: सम्यक् न्याययैवेत्यर्थः॥३९॥
832
Page 833
२४६ अन्वयार्थप्रकाशिकाधिभूषिते
अव. तथापि विदुषामनुभवसिद्धा जीवन्मुक्तिरिति चेत्, तहि तत्परा वा सा श्रुतिरस्त्वित्याह- यद्ा विद्वदूगोचरं योजनीयं = तस्याभीष्टा निर्निमित्ता निवृत्ति- र्यद्वा विद्यासन्ततिर्हेतुलेशम्॥ ४० ॥ यद्वेति॥ योजनीयं, जीवन्मुत्तिपत्ययं, शास्त्रमित्यस्यानुषङ्गः। कथं मुक्तस्य जीवनं विद्योदये सत्यविद्यानिव्ृत्ती तत्कार्यपा- णादिनिटृत्तेरिति चेत्, न । विदुषोऽप्यविद्यालेशस्यावस्थाना- ड्रीकारादित्याह। तस्येति। तर्हविद्यालेशस्य किं निवर्त्तकमिति चेत्, न किमपीत्याह। तस्याभीष्टेति। निर्निमित्ता पूर्वपाप्ततत्वविद्या- तिरिक्तनिमित्तानपेक्षेत्वर्थः । नन्वविद्यालेशनिव्वात्ति: निर्निमित्ता चेत् अविद्यानि्ृत्तिरपि तथा स्यादिति ज्ञानवैयर्थ्य स्यादिति चेत, तत्राह। यद्वा विद्येति। विद्यासन्ततिरेवाविद्यालेशनिवर्त्तको हेतुले- शो निवर्त्याविद्यालेशानुरूपोऽल्पो हेतुरभ्युपगम्यताम् अतो न कापि विद्यावैयर्थ्यमित्यर्थः ॥४० ॥ अव. नन्वविद्यालेशावस्थानमप्यनुपपभ्ं वस्तुतत्वस्य सर्वा- त्मना विद्ययाऽवभासे Sविद्याया लेशतो ऽप्यवस्थानानुपपत्तेः,
द्यागन्धासदुक्ति:, काप्यविद्याछायया, कचिदविद्यासस्कारा- दित्यतो व्याकुलं चैतदिति चेत तत्राह- जीवन्मुक्तव्यापृतेः प्रापको य- स्तस्याविद्यालेशगन्धादिभाषा ।।
833
Page 834
संक्षपशारीरके चतुर्थोऽध्यायः।४। २४७
नाविद्याया नापि भागस्य तस्या- स्तस्मिन् पक्ष दुर्घटत्वाद विमुक्त: ॥४१ ॥ जीवन्मुक्तव्यापृतेरिति ॥ जीवन्मुक्तस्य व्यापृति्भिक्षा- टनादिव्यवहारस्तस्य मापको यो हेतुस्तस्याविद्यालेशादिभाषा नाम विद्वद्भिः कृतेति योजना। यदत्र जीवन्मुक्तिपापकतया न्या- यपाप्तं तदविद्यालेशादिशद्वैरुच्यते सर्वैः सर्वत्रत्यतो न व्याकुल- सेति भाव:। किन्तन्न्यायपापं तदुच्यतामिति चेत्, तत्स्वरूपं वक्तुं तत्रासम्भवितं तावदाह। नाविद्याया इति। अवविद्यायास्तावन्न तद्धेतुता नापि तस्या भागस्य तद्धेतुत्वं, कुतः? इत्यत आह। तस्मि- त्निति। अविद्यातदेकदेशयोरन्यतरस्यापि सच्वे मुक्तत्वविरोधा- दित्यर्थः ॥४१॥ अव. इदानीं तत्स्वरूपमाह- गन्धच्छायालेशसंस्कारभाषा विज्ञातव्या भाष्यकारीयतनत्रे स्वाविद्याया बाधितायाः प्रतीतिः पौर्वापर्येणार्थमालोच्य बुद्ा ॥ ४२ ॥ गन्धच्छायेति॥ विद्यावाघिताया: स्वाविद्याया: या प्रती- तिः पतिभासस्तस्या: पतीतेर्गन्धच्छायादिभाषा भाष्यकारीयतन्त्रे ग्रन्थविशेषेऽ्न्येषामपि ग्रन्थे हश्यमाना विज्ञातव्या। कथं विज्ञा- तव्येति तत्रोपायमाह। पौवापर्येणेति। बाधिताया एवाविद्याया: पतीतिर्गन्धादिशब्दैरभिलप्यत इति विद्रुर्षा अ्रन्थेषु पौर्वापर्या- लोचनेनावगम्यते इत्यर्थः ॥४२॥ अव. ननु बाधिताया अविद्याया अवस्थानं पतीतिर्वा न्यया-
834
Page 835
२४८
विरुद्धमिति चेत्, तत्राह- जीवन्मुक्तिस्तावदस्ति प्रतीते- द्वैतच्छाया तत्र चास्ति प्रतीते: ॥ द्वैतच्छायारक्षणायास्ति लेश- स्नस्मिन्नर्थे स्वानुभूति: प्रमाणम् ॥ ४३ ॥ जीवन्मुक्तिस्तावदिति ॥प्तीतेरनुभवबलादित्यर्थः। तत्र जीवन्मुत्त्यवस्थायां द्वैतच्छाया द्वैताभासश्वास्ति प्रतीतेः । एतत्सर्व बाधिताविद्यानुृत्ति विना नोपपद्यत इत्याह। द्वैतच्छाया चास्ति लेशपतीतेरिति। लेशशब्दो बाधिताविद्यावचनः । लेशप्तीतेरेव द्वैतच्छायाऽप्यनुभवसिद्धाऽस्ति अकारणकार्यायोगात्, तथा क- ल्पनीयत्वादित्यर्थः। यस्मादेवं तस्मिन्नुक्ते सर्वस्मिन्नर्थे स्वानुभूतिः पमाणं तस्मादत्र नानुपपत्तिश्चोदनीयेत्यर्थः ॥४३॥ अव. यदि मुक्त्यवस्थायामप्युक्तविधया Sविद्यालेशो डप्य. स्ति तर्हि पूर्वावस्थातः को विशेषः ? इति चेत्, महानेव विशेषो डस्तीत्याह- ब्रह्मात्मत्वं सान्तरायं पुरस्ताद बोधोत्पत्तौ ध्वस्तमोहान्तरायम् ॥ यद्यप्येवं द्वैतलेशानुवृत्ते: प्रत्यक्षत्वान्मोहलेशाऽभ्युपेयः ।। ४४ ॥। ब्रह्मात्मत्वमिति। पुरस्ताद्विघोदयात्पूर्व ब्रह्मात्मत्वं स्वभावतो भासमानमपि सान्तरायम् अविद्यातत्कार्यव्यवहितमासी त् इदानीं बोधोत्पत्तौ सत्या ध्वस्तो मोहरूपो उन्तरायो यस्मि- न् तत् तथोक्तम्, इदानीं मोहध्वंसो विशेष इत्यर्थः। तर्थविद्यालेश-
835
Page 836
संक्षेपशारीर के चतुर्थोऽध्यायः ।४। २४९
वस्थानं कथमुक्तमिति तत्राह। यद्यप्येव्रमिति। द्वैतभासस्यानुभ- वात् ध्वस्तस्यापि मोहस्यावस्थानं प्रतीतिबलादभ्युपेयमित्यर्थः । पूर्वमविद्यातत्कार्यप्तिभासो व्यामोद्ददेतुरनर्थकरश्चासीत् इदानी प्रतिबुद्धस्य स्वप्नावभासवद् बाधितानुदृत्तिमात्रत्वादकिश्चित्कर इत्यस्ति महान्विशेष इति भाव: ।।४४।। अव. तर्हननैव न्यायेन देहान्तरमपि सम्भाव्येतेति चेत्, नेत्याह- तस्माजजीवन्मुक्तरूपेण विद्वा- नारब्धानां कर्मणां भोगसिद्धै॥ स्थित्त्रा भोगं ध्वान्तगन्धप्रसुतं भुक्त्वाऽत्यन्तं याति कैवल्यमन्ते ॥ ४५॥ तस्पादिति। यद्वोपपादितं जीवन्मुक्तमनूद्य तस्य निरन्तरा- यां परमकैवल्यपाप्तिमाह।तस्मादिति। विद्वान् आरब्धानां फलदा- नाय पवत्तानां कर्मणां भोगसिद्ध्यै जीवन्मुक्तरूपण स्थित्वा ध्वान्तगन्धपसूतं बाधिताविद्यानु्ृत्तिमात्रपदर्शितं भोगं भुक्त्वा- डन्ते भोगावसाने उत्यन्तं कैवल्यं याति विदेहपरमकवल्यम- इनुते कूटस्थात्मपकाशरूपेणावतिष्ठते इत्यर्थः । अनारब्धफलाना कर्मणां ज्ञानामिना दग्धत्वात् पारब्धानां च भोगेन विनाशत् सर्ववृत्तिमूलाया अविद्यायाश्च बाधितत्वात् विद्यासन्ततेरनुट्टत्तेः पुनस्तस्या: परोहासम्भवात् पारब्धभोगावसाने परमकैवल्यपा- सौ न को डपि विघ्न इत्यभिपायः ।।४५।। भव. जीवन्मुक्तौ तद्दत: मारब्धक्षये परमकैवल्यपासौ च पमाणं मन्त्रोपनिषदमाह- क्षरं प्रधानममृताक्षरं हरः ३२
836
Page 837
२५० अन्वयार्थप्रकाशिकाविभूषिते
क्षरात्मानावाशते देव एकः ॥
भूयश्चान्ते विश्वमायानिवृत्तिः ॥४६॥। क्षरं प्रधानमिति॥ पूर्वमन्त्रे "अजा होका भोक्तृभोग्या- र्थयुक्ता" इति निर्दिष्टा साभासा माया इह पधानशब्दनानूदते। तत्पधानं मायाऽख्यं क्षरं विनाशि हरस्तदधिष्ठाता ईश्वरो डमृ- ताक्षरम् अमृत ब्रह्म शुद्धं तेनात्मनाSक्षरमविनाशि। यद्ा यत् क्षरं विनाशि तत्सर्व प्रधानं भोग्यं यदमृताक्षरमश्तुते व्याप्नोति सर्वे भोग्यमित्यक्षरम् अमृतंच तदक्षरं चामृताक्षरं भोक्तृरूपमित्यर्थः । एको देव: शुद्धः परमात्माक्षरात्मानी भोग्यभोक्तारावीश- ते नियमयति भोक्तृभोग्यकल्पनाधिष्ठानत्वेनानुगतो Sवति- ष्ठते इत्यर्थः। "यस्माव्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतो- डस्मि लोके वेंदे च प्रथ्नितः पुरुषोत्तमः" इति स्मृत्युक्तः पुरुषो- त्तम एको देवो यः क्षरात्मानावीशते तस्याभिध्यानादाभभिमु- रुयेन पत्यगभेदेन चिन्तनात् योजनात् तस्मिन् चित्तविलयनेन पत्यगात्मनः परमात्मतावन्मात्रतापत्तिर्योजनं तस्माद्योजनात्त- चवभावात्मत्यकूपराग्भाव हेतुसर्वोपाधिविलयने सति प्त्यगात्मन एव परमात्मभावेन साक्षात्कारस्तत्वभावस्तस्मात्तत्वभावात् विश्व- मायानिवृत्ति: विश्वाकारपतिभासहेतुमायानित्ृत्तिर्भवति व्यावहा- रिकपपञ्चसत्वावभासकाकारमाया निवर्त्तते इति यावत् । भूयश्च पुनरप्यन्ते मारब्धकर्मफलभोगावसाने रित्याटच्या योज्यम्। बाधितपतिभासमानाकाराया अपि विश्वमायाया निषृत्तिर्भवतीत्यर्थः । तथाच भगवद्गीतास्मृतिः "यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्।स सर्वविद्जति मां
837
Page 838
संक्षेपशारीरके चतुर्थाऽध्यायः।४। २५१
सर्वभावेन भारत"इति ॥ ४६ ॥ अव. नन्वर्चिरादिना मार्गेण ब्रह्मलोकं पाप्य मुक्तिरिति श्रुतिस्मृतिपसिद्धिः, तत्कथं ज्ञानोदयसमनन्तरमेव मुक्तिरिति चेत्, तत्राह- ब्रह्मादानामस्ति मुक्ति: श्रुतिभ्य- स्तेषामेषा नार्जिरादया गतिर्वः । तस्मादस्या निर्गुणब्रह्मविद्या- सम्बन्धित्वं नैषितव्यं भवद्िः ।।४७।। ब्रह्मादीनामिति ॥ "तद्ो यो देवानां पत्यबुख्ध्यत स एव तदभवत्" इत्यादिश्रुतिभ्यो "ब्रह्मणा सह ते सर्वे" इत्यादिस्मृतिभ्यक्च श्रुतिग्रहणस्योपलक्षणत्वात, ब्रह्मादीनां देवा- नां पागेव ब्रह्मलोके स्थितानामप्यस्ति मुक्ति: श्रुतिस्मृत्यवग- तेत्यर्थः। तेषामेषां ब्रह्मादीनां नार्चिरादा गतिर्मार्गोऽस्ति वो यु- ष्माकमप्येतत्सम्मतमित्यर्थः । तेषामेषेति चेत्पाठस्तदा एषा प- सिद्धाऽर्चिराद्येति योज्यम्। यस्मादेवं तस्मादस्या: गतेर्निर्गुणब्र- हविद्यासम्बन्धित्वं भवस्भिर्वेदिकैर्नैषितव्यम्। सगुणविद्यावतां ब्रह्मलोकगमनमार्गोऽयमर्चिरादिर्न साक्षान्मुक्तिमार्गः, साक्षान्मु- क्तिस्तु यत्र कुत्रापि देवानां मनुष्याणां वा ज्ञानोदयसमनन्त-
अव. "न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते" "ब्रह्मैव सन ब्रह्माप्येति" इतिश्रुतेर्निर्विशेषब्रह्मविद उत्क्रा- न्तिमतिषेधादपि न कापि गमनमस्तीत्याह- प्राणोत्क्रान्तिनीरिति मूर्दन्ययैषां नाडया तस्माद् यत्र तन्नैव विद्या।।
838
Page 839
२५२ अन्वयार्थप्रकाशिकाविभूषिते
तत्रैव स्यान्मुक्तिरित्यभ्युपेयं गत्युत्क्रान्ती तेन विद्यान्तरेषु ॥ ४८ ॥ प्राणोत्कान्तिरिति ॥ तर्हयुत्क्रान्तिगतिश्रुतीनां को विषयः१ इति चेत्, सगुणविद्यावद्विषयतेत्याह। गत्युत्क्रान्ती इति ॥४८॥ भव. देवादीनां कर्मानधिकृतानामपि मुक्तिभात्कावगमा- देव विद्याया: पूर्वोक्तं कर्मादिसहकारिनैरपेक्ष्यं सिद्धमित्याह- देवादीनां नास्ति कर्माधिकारो त्रिद्या तेषां केवला मुक्तिहेनुः ॥ पारम्पर्यात् कर्मणामस्य हेतो- विद्याङ्गत्वं सर्ववर्णाश्रमाणाम् ॥ ४९॥। देवादीनामिति॥ हेतुरित्यतो न कर्मसापेक्षा विधेति शेष:। तर्हि "सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्"इति कर्मापेक्षित- त्वकथनं कथमिति चेर्त, तत्राह। पारम्पर्यादिति। अस्य हेतोरस्मा- द्ेतोः कर्मानधिकारिष्वपि विद्याया सुक्तिहेतुत्वाद्वेतोरित्यर्थः। सर्ववर्णाश्रमाणां कर्मणां पारम्पर्याद्वियाङ्गत्वमित्यन्वयः । अतो न सर्वापेक्षाधिकरणविरोध इत्यर्थः ।। ४९ ।। अव. केन द्वारेण पारम्पर्य किश्चात्र पमाणमिति तदाह- पारम्पर्य शुद्धिहेतुत्वहेतो- यज्ञादीनां भ्रयते स्मर्यत च।। साक्षादेषां मोक्षहतुत्वमेव- मन्विच्छन्तोऽप्यागमान्न प्रतीमः ॥५०॥ पारम्पर्यमिति ॥ शुद्धिद्देतुत्वरूपाद्वेतोरित्यर्थः । ' धर्मे-
839
Page 840
संक्षेपशारीरके चतुर्थोऽध्यायः।४। २५३
ण पापमपनुदति" "पुण्यो वै पुण्येन कर्मणा भवति" "विवि- दिषन्ति यज्ञेन दानेन" इत्यादि श्रूयते "तपसा कल्मषं हन्ति" "कषायपक्तिः कर्माणि" इत्यादि स्मर्यते चेत्यर्थः । यदपि क- र्म्णा साक्षान्मोक्षहेतुत्वविषयमिव कचिच्छुत्िस्मृतिवचनजातं दृश्यते "कर्मणैव हि संसिद्धिमास्थिता जनकादयः" "एष वः पुण्यः सुकृतो ब्रह्मलोक:" इत्यादि तदपि पौर्वापर्येणा- न्विष्यमाणं न साक्षात्कर्मणां मोक्षहेतुत्वपरमित्याह। साक्षादेषा- मिति ॥ ५०॥ भव. आदित आरभ्य निरूपितं शास्त्रार्थमुपसंहरति- इत बहुश्रुनभाषितमुच्चकै: श्रुतिशिरोवचनानुगतं महत् ॥। समुपदिष्टमिदं कृपया मया प्रियमतीत्र हितं च मुमुक्षवे ॥। ५१ ॥ इति बहुश्रुतभाषितमिति। इदं शास्त्रं महदुत्कृष्ट ब्रह्म- विद्याहेतुत्वात्, महतो ब्रह्मण: प्रतिपादकत्वाद्वा महत्, मया कृपया मुमुक्षवे समुपदिष्टमित्यन्वयः ।किं लक्षणं ? मियं श्रवणकालेऽपि प्रीतिकरं परिणामेऽतीव हितं पथ्यं च। तस्य बहुश्रुतभाषितमि- तिविशेषणेन वेदान्तविद्वदाचार्यसम्मतत्वेन शिष्टापरिग्रहदोष- शङ्का परास्ता । श्रुतिशिरोवचनानुगतमिति मूलपमाणदार्ढ्यम- स्योक्तम्। उच्चकैः समुपदिष्टमिति सम्बध्यते अशेषत इत्यर्थः । उच्चकैर्बहुञ्चतभाषितमित्यन्वये ऽपि स एवार्थः ॥५१॥ अव. एवमाचार्ये ऽशेषशास्त्रार्थमुपन्यस्योपरते शिष्य: कि क- तवान् इत्यपेक्षायाम् उक्तशास्त्रार्थशरीरानुवादेन शिष्य: स्वानु- भवनिवेदनाय पदटत्त इत्याह-
840
Page 841
२५४ अन्वयार्थप्रकाशिकाविभूषिते
एवं समन्वय विरोधनिरासविद्या- निष्पत्तिसाधनफलानि गुरो: क्रमेण ।। विज्ञाय वेदफलमात्मनि सर्वमेत्र पश्यन्नुवाच कृतक्ृत्यमतिः स शिष्यः ॥ ५२॥ एवं समन्वयेति ॥ वेदफलं वेदनफलमात्मनि पश्यन्सा- क्षादनुभवन् कृतकृत्यमतिः सन्नुवाचेत्यर्थः ॥५२॥ अव. उक्तिपकारमेवाह- विद्याविग्रहमग्रहेण पिहिनं प्रत्यञ्चमुच्चैस्तरा- मुत्कृष्योत्तमपूरुषं मुनिधिया मुआ्जादिषीकामिव ।। कोशात् कारणकार्यरूपतरिकृतात पश्यामि निःसंशयं कासीदस्ति भविष्यति कनु गतः संसारदुःखेोदधिः ॥५३॥ विद्याविग्रहम्मिति ॥ कारणकार्यरूपविकृताल् कोशादन्न- मयाद्यानन्दमयान्तात् सर्वस्मादनात्मरूपादिति यावत्। मत्यश्वं मुआदिषीकामिवोच्चैस्तरां मुनिधिया मनननिशितधियोत्क- ष्य सम्यक् पृथक्कृत्य उत्तमपूरुषं "स उत्तमः पुरुषः " इति श्रुतिप्रदर्शितं पूर्णात्मानं निःसंशयं स्यात्तथा पश्यामीत्यन्वयः। किलक्षणं पत्यश्चं? स्वभावतो विद्या- विग्रहं ज्ञानस्वरूपम् अग्रहेणानिर्वेचनीयाज्ञानेन पिहितमा- च्छादितम् एवं पत्यश्चमात्मानमुत्तमपुरुषं परमात्मानमनु- भवतो मम संसारो उत्यन्तमेव निवृत्त इत्याह । कासीदिति। कालत्रये Sप्यह संसारसम्बन्धरहत एव सन्नात्माग्रहणाज्ञा- नवशादेतावन्तं कालं मृषैव संसार्यस्मीति मन्यमान आसम्, इदानीं त्वत्पसादान् कदाऽप्यहं संसारी किन्तु ब्रह्मैव सदा-
841
Page 842
संक्षपशारीरके चतुर्थोऽध्यायः। ४ २५'९
स्मीति ममाद्य निश्चयः सञ्जात इत्यर्थः ॥ ५३॥ अव. तथापि मे जीवनाभासो ऽप्यनुवर्तते इत्याह- पश्यामि चित्रमित्र सर्वमिदं द्वितीयं तिष्ठामि निष्कलचिदेकतपुष्यनन्ते ।। आत्मानमद्यमनन्तसुखैकरूपं पश्यामि दग्धरशनामित्र च प्रपञचम् ॥ ५४ ॥ पश्यामि चित्रमिवेति॥ चित्रमिवेत्यकिश्चित्करत्वे दष्टा- नतः। यथा चित्रहस्तिनं व्याघरं वा चित्रमयं पश्यतोऽपि न भय- कम्पादिर्भवति, एवं द्वैतं पश्यतो Sप मम न संसारित्वावभास इत्यर्थः । कथ द्वैतं पश्यतो Sपि तव पूर्ववद्यामोहाभाः १ इत्यत आह। तिष्ठामीति। विषयाकारवृत्युपरागाभावात्पुष्कलानवच्छि- न्ना या चित् तन्मात्रस्वरूपे Sत एवानन्ते त्रिविधपरिच्छेदरहि- ते पूर्णात्मनि तिष्ठामीत्यर्थः । कि तत्पूर्णात्मन्यवस्थानं कुण्डे ब- दरवद्दित्तौ चित्रवद्वाऽवस्थानं ? नेत्याह। आत्मानमिति। आत्सनः परमात्मरूपेणानुभवे एव, तत्रावस्थानं नाम यथा देहादावात्मत्वा- नुभवो देहादाववस्थानं तद्वत्। न ह्यमूर्तस्यापरिच्छिन्नस्यात्मनो- डन्यादृशमवस्थानं सम्भवतीत्यर्थः । ननु द्वैतपतिभासे सति कथ- मद्यात्मानुभवः १ इति चेत्, मैवम् । अद्वयात्मानुभवोदयनान्तरी- यकतया द्वैतस्य बाधितत्वादित्यभिभेत्याह। पश्यामि दग्धेति॥।५४॥ अव. अद्वैतात्मानुभवो मम न परोक्षरूपो येनापरोक्षपपञ्चद- शनं सत्यं स्यात्किंत्वपरोक्ष एवाद्वैतात्मानुभव इत्याह- अद्वैतमप्यनुभवामि करस्थबिल्त्र- तुल्यं शरीरमहिनिर्ल्वयनीवदीक्षे।।
842
Page 843
२५६ अन्ययार्थप्रकाशिकाविभूषिते
एवं च जीवनमित्र प्रतिभासमानं निःश्रेयसोऽधिगमनं च मम प्रसिद्धम् ॥ ५५ ॥ अद्वैतमपीति ॥ एवमपि शरीरम् अहिनिर्ल्वयिनीवदाक्षे। अहिनिल्वयिनी सर्पत्वक। यथा सर्पः परित्यक्तं स्वकञ्चुकं पश्य- अ्रपि पूर्ववदात्मत्वेन नाभिमन्यते तथेदं शरीरं कदाचित्पश्य- न्नपि नात्मतया जानामीत्यर्थः। एवं च जीवन्मुक्तिरनुभवसिद्धा ममेत्याह। एवं चेति। जीवनमिन्रेति। इवशब्दो देहादिसम्ब- न्धितया जीवनप्तिभासो बाधितानुदृत्तिमात्रो न परमार्थ इति घोतनार्थः ॥ ५५॥ व. इदानीं मदपकारिमतीकारो डपि लब्ध इत्याह- अद्वैतबाधकमभूत मम यद द्वितीय- मद्ैतमस्य बत बाधकमेव जातमू ॥ मोहाद द्विमीयमपबाधकसस्य विद्या-
अद्वैतबाधकमिति॥ वतेति हर्षे। पुनरपि कदाचिदद्वैतबा- धकं द्वैतं भविष्यति, न हि न हीत्याह। मोहादिति। द्वैतकृतस्याद्वै- तबाधस्य मोहमात्रनिबन्धनत्वान्न वास्तवो उद्वैतबाधः, इदानीं मोहस्य समूलोन्मूलनान द्वैतस्य पुनरुद्भव इति कुतस्तेनाद्वैत- बाधशङ्गेत्यर्थः। अद्वितीयेन द्वैतबाधनं सत्यं तस्य प्रमाणनिबन्ध- नत्वादित्याह। विद्यासामर्थ्यत इति ॥५६॥ अव. इतः पूर्व द्वैतमतिभासो यन्ममाभूत् तत्राप्याश्चर्यमेवेदा- र्नीं मे वर्त्तत इत्याह- आश्चर्यमद्य मम भाति कथं द्वितीयं
843
Page 844
संक्षेपशारीर के चतुर्थोऽभ्यायः।४। २५७
नित्ये निरस्तनिखिलाशिवचित्प्रकाशे ।। आसीत पुरेति किमिमा: श्रुतयो न पूर्व येन द्वितीयमभव्रत्तिमिरप्रसूतम् ॥ ५७॥ आश्चर्यमद्येति ॥ विरुद्धस्वभावयोरात्मानात्मनोस्तादा- त्म्यानुभवः कथमासीदित्याश्चर्यमित्यर्थः । किमत्राश्चर्ये! श्रुत्यर्था- नवगमादेव तथा पतिभासोऽभूदिदानीं तद्वगमानिरिटृत्त इति चेतु, सत्यम् अनादिनिधनाया: श्रतेरर्थः इतः पूर्व नावगत इत्येतदप्याश्चर्यमित्याह। किमिमा इति ॥५७॥ अव. निटृटत्तं च मम सर्वमेवाश्चर्ये यतस्त्वदनुग्रहाभावादेव मम संसारानुभवो भूत् इदानीं च त्वदनुग्रहातिट्टत्त इत्याह- त्वत्पादपङ्कजसमाश्रयणं बिना मे सन्नप्यसन्निव पर: पुरुषः पुराईडसीत ।।
नासीन्न चास्ति न भविष्यति भेदबुद्धि: ॥ ५८॥ स्वत्पादपङ्कजेति ॥ सन्नपीति । आत्मरूपेण सन्नपि ते- नात्मना Sसन्निवासीदित्यर्थः ॥ ५८।। अध- अस्य च त्वत्कृतोपकारस्य मत्युपकारो नास्ति एत- जुल्यस्यान्यस्याभावात्, तव सर्वतो निरपेक्षत्वान्मयि कृपामात्र- पयुक्तपतृत्तित्वाञ्च अतस्तव सेवामात्रं करोमीत्याह- यस्मात कृपापरवशो मम दुश्चिकित्सं संसाररोगमपनेतुमसि प्रवृत्त: ॥ स्व्रत्पादपङ्कजरजः शिरसा दधान- ३२
844
Page 845
२५८ अन्चयार्थप्रकाशिकाषिभूषिते
स्त्वामाशरीरपतनादहमप्युपासे ॥ ६९॥ यस्मात्कृपेति ॥ ५९॥ अव. शिष्योक्ति: समाप्ता, इदानीं अ्रन्थकार: पार्धां स्व- कृतिमुपसंहरति- संक्षेपशारीरकमेवमेतत कृतं परिव्राजकमुक्तिहेतुः ॥ गुरुप्रसादात परिलम्य तत्त्वं त्रयीशिरस्तत्व्रनिवेदनाय ॥ ६० ॥ सङ्गेपशारीरकमिति ॥ त्रयीशिरस्तच्वनिवेदनायेति। त्रयीशिरसो निष्टङ्कितार्थपकटनायेत्यर्थः ॥ ६० ॥ अव. एतां कृतिं, भगवति नारायणे समर्पयन्, स्वकृतेम- ङलं प्रार्थयत- अविरलपदपङ्क्ति: पदनाभस्य पुण्या चरणकमलधूलिग्राहिणी भारतीयम् ॥ घनतरमुपघातं श्रेयसः श्रतृसङ्कात सुरसरिदिव सदो मार्ष्ट माङ्गल्यहेतुः ॥ ६१ ॥ अविरलेति। इयं भारती श्रेयसो घनतरसुपघातं श्रोतृसङ्गातात्सय्यो मार्द्टित्यन्वयः । किलक्षणा भारती ? माङ्र- ल्यहेतुर्मङ्गलप्रदेत्यर्थः। तां गङ्गासाम्येन रूपयति । अविरलेति। विरला असंश्लिष्टा पदानां पङ्किर्यस्या: सा विरलपदपङ्गिर्नेयं तथेत्यविरलपदपङ्गि: मसिद्धा। पञ्मनाभस्य श्रीमदनन्तपुरवासि- नः सेषाक्के शयानस्य नारायणस्य चरणकमलधूलिग्राहिणी
845
Page 846
संक्षेपशारीरके चतुर्थोऽध्यायः।४। २५९
तच्चरणयोः समर्पिता सती तथाषिधा, गङ्गा तु भगवतः पझ्मना- मस्य त्रिविक्रमरूपं धृतवतश्ररणकमलधूलिग्राहिणी मसिद्धा, अत एव पुण्या पावयित्री भारती गङ्गा चेत्यर्थः। कृतेरस्या मा- ङल्यं नाम सज्जनसंग्रहपूर्वकं तद्वारा श्रोतृणां पुरुषार्थसिद्धिरेव तादृशस्य मङ्लस्य हेतुरस्त्विति तात्पर्यार्थः ॥६१॥ अव- ग्रन्थस्य साम्प्रदायिकत्वं दर्शयितुं गुरोर्नाम कर्त्तु- श्र कालविशेषं नाम च निर्दिशति- श्रीदेवेश्वरपादपङ्कजरजःसंपर्कपताशयः सर्वज्ञात्मगिराङ्गितो मुनिवरः संक्षेपशारीरकम् ॥ चक्रें सज्जनबुद्धिमण्डनमिदं राजन्यवंश्यें नृपे श्रीमत्यक्षतशासने मनुकुलादित्ये भुवं शासति॥६२।। श्रीदेवेश्वरेति ॥ सर्वज्ञात्मगिराज्गितः सर्वज्ञात्मनामा मुनिवर: संन्यासिश्रेष्ठः इदं संक्षेपशारकं नाम ग्रन्थं किं लक्षणं ? सज्जनबुद्धिमण्डनं विद्धह्ुद्ध्यलङ्गरणं विदुषां शोभाप्द- मित्यर्थः। कदा चक्रे ? इत्यपेक्षायामाह। राजन्यवंश्य इति। क्ष- त्रिये इत्यर्थः। नृपे राजनीति यावत् । तस्य नाम निर्दिशति। श्रीमतीति। श्रीमभाम्नि। किलक्षणे। अक्षतशासने अप्तिहताजे इत्यर्थः । तस्य राजो वंशतश्च धैष्ठ्यमाह । मनुकुलादित्य इति। मनुवंशपकाशक इत्यर्थः । एवं भूते श्रीमन्नान्नि नृपे भुवं शास- ति सर्वज्ञात्मगिराऽद्वितो मुनिवरः संक्षेपशारीरकं चक्रे इत्य- न्वयः ॥ ६२॥। अध. आध्यन्तयोः कृतमङला ग्रन्था: पचारिणो भवन्तीति शिष्टपसिद्धिमनुरुख्य ग्रन्थस्यान्ते Sपि भगवनमस्कारकक्षणं मङलमाचरति-
846
Page 847
२६० अन्धयार्थप्रकाशिकाविभूषिते
भुजङ्गमाङ्गशायिने तरिहङ्गमाङ्गामिने॥। तुरङ्गमाङ्गभेदिने नमो रथाङ्गधारिणे॥ ६३॥ भुजङ्गेमाङ्गेति। आद्येन विशेषणेन भक्तानामभीष्ट- दानाय मसन्नावस्थोक्ता, परैस्त्रिभिर्विशेषणैस्तेषां परिपन्थिनि- रसनेन संरक्षणाय भगवत्पवृत्तिरुक्तेति तात्पर्य ज्ञेयम् ॥६३॥ सिद्धान्तदीपं पुरतो निधाय वेदान्तमन्तर्गृहसभ्निविष्टम्। सङ्गेपशारीरकरत्नपुअ्जं प्रकाशमादाय मया विविक्तम् ॥१॥ सर्वज्ञात्ममुनिप्रणीतममलं सङ्गेपशारीरकं दृष्टान्तर्विभवं पुरस्कृतमहासिद्धान्तदीपार्चिषा ॥ उन्नीयार्थविभागतः प्रतिपद सम्बन्धविद्योतनी व्याख्या तस्य सतां मनःपियकरी व्याख्यातृचित्तौकस:।।२॥ नमोऽस्तु तस्मै रामाय हृदन्तर्ज्योर्तिषे सते। वायुनेव तृणं येन विचेष्टन्ते प्रजाघिय: ॥।३।। नमस्तेभ्यो गुरुभ्यो डस्तु येषां सन्निधिमात्रतः ।। ममान्तस्तिमिरं ध्वस्तं बाह्यं ध्वान्तं रवेरिव ॥। ४ ।
इति श्रीमत्परमहंसपरित्राजकाचार्य कृष्णतीर्थशिष्य- रामतीर्थविरचितायां सङ्गेपशारीरकटीकाया- मन्वयार्थप्रकाशिकार्यां चतुर्थो उध्यायः सम्पूर्ण: ।। ४ ।।
समाप्तश्चायं ग्रन्थ: ।।
847
Page 848
848
Page 849
DATE OF ISSUE Thie book must be roturned withia S, 7, 14 days of its issue. A fine of ONE ANNA , day will be charyed if the book is overdue
849
Page 850
Book NoS16IS Vol.
Author TitlSa.khep.Shanznkam. AN No. 4 4 L51
850
Page 851
85