Books / Sanyasa Upanishads Adyar

1. Sanyasa Upanishads Adyar

Page 1

THE SAMNYĀSA UPANISAD-S WITH THE COMMENTARY OF S'RĪ UPANISAD-BRAHMAYOGIN

EDITED BY T. R. CHINTAMANI DIKSHIT

THE ADYAR LIBRARY AND RESEARCH CENTRE

Page 2

1966 Adyar Library and Research Centre Adyar, Madras 20, India

First Published 1929 Reprinted 1966

,. 1983

PRINTED IN INDIA At the Vasanta Press, The Theosophical Society, Adyar, Madras 20

Page 3

PREFACE

WITH this volume the Adyar Library finishes the publication of the Minor Upanisad-s, ninety-eight in number, with the commentary of Upanisad-brahma- yogin, which was undertaken by my predecessor the late Pandit A. Mahadeva Sastri. He had published four volumes, and I now issue the fifth volume containing the Samnyasa Upanisad-s. I have closely followed the plan of the previous volumes. The book was seen through the press by the Pandits of the Adyar Library, who have worked with my predecessor in the publica- tion of the previous volumes, and also by the assistant Librarian, Mr. T.R. Chintamani, M.A. The Library does not intend at present to issue the ten Major Upanisad-s with the commentary of Upanisad-brahmayogin. The Library contains about seventy-five Upanisad-s more, nearly all of them yet unpublished. The Library will very soon issue all these Minor Upanisad-s, along with any more that may be available from outside. C. KUNHAN RAJA, 1929 Hon. Director

[All these other Upanisad-s have since been published.]

Page 4

CONTENTS

WORKS PAGE

१. अवधूतोपनिषत् १ २. आरुण्युपनिषत् .. ९. ३. कठर्द्रोपनिषत् .. १७

४. कुण्डिकोपनिपत् २७

५. जावालोपनिपत् .. ३९ ६. तुरीयातीतावधूतोपनिषत् .. ५३ ७. नारदपरित्राजकोपनिषत् .. ५७

८. निर्वाणोपनिषत् . . १३७

९. परब्रह्मोपनिषत् . . १५३ १०. परमहंसपरित्राजकोपनिषत् १६५ ११. परमहंसोपनिषत् .. १७'

१२. ब्रह्मोपनिषत् १८१ १३. मिक्षुकोपनिषत् १९५ १४. मैत्रेयोपनिषत् १०० १५. याज्ञवल्क्योपनिषत् २१९ १६. शास्यायनीयोपनिषत् . . २२९ १७. संन्यासोपनिषत् .. २४३

Page 5

viii THE SAMNYĀSA UPANISAD-S

PAGE १. अवधूतोपनिषत्

अवधूत जिज्ञासा .. १

अवघृतचर्या . . २ प्रियादिवृत्तः पक्षित्व्रेन वर्णनम् .. २ ज्ञानस्यात्कर्षः अवधूतचर्यानुक्रमणम् ३

महाव्रतम् .. ४ परमार्थसदुपदेशः ४ श्रवणादिविधानम् विद्याफलन् ७

२. आरुण्युपनिषत्

पारित्राज्यलक्षणम् .. ९, संन्यस्यतः कर्तव्यानि .. १० संन्यासमन्त्रलिङ्गविध्यादि १२ संन्यासिनानासनादि नियमा: १३ निक्षानियमा: १४ भिक्षानिमित्तोपस्थानमन्त्र: १४ विद्वत्संन्यासाधिकार: .. १५ उपसंश्र:

३. कठरुद्रोपनिषत् ब्रह्मविद्याध्ययनम् .. १७ ब्रह्मविद्याङ्गसंन्यासनिरूपणम् .. १८

Page 6

CONTENTS ix

PAGE

संन्यासक्रमः १९ संन्यस्तस्य कर्तव्यानि २० ब्रह्मचर्यलक्षणम् २१ ब्रह्मचर्यस्य फलम् २१ ब्रह्मभावापत्तें: ज्ञानायत्तता २ १ ब्रह्मज्ञानफलम् .. २२ एकस्यैव निर्विशेषब्रह्मणः सप्तधा भेद: .. २५ विद्याफलम् .. २५

४. कुण्डिकोपनिषत्

संन्या सपरिम्रहात् पूर्व कर्तत्यानामनुक्रमणम् २७ विदारस्येव संन्यासाधिकार: .. २९ जन्मनिवृ्त्त्यर्थ संन्यासपरिग्रहः ३० संन्यस्तस्य न श्रौतस्मार्ताग्निसेवनम् ३१ अग्निसेवने प्रत्यवायः .. ३१ चित्तशुद्धयर्थे प्रण वादिमहावाक्यानामावर्तनम् दीक्षानियमा: विश्वाधिष्ठानात् पञ्चभूतानां भेद: ३३ यते: स्वानुभवप्रकटनम् ३४ योगाभ्यासेन ब्रह्मसाक्षात्कार: ३४ सविशेषज्ञानिनः क्रममुक्ति: .. निर्विशेषब्रह्मज्ञानिनां मोक्ष: nr

५. जावालोपनिषत् अथम: खण्ड:

अविमुक्तोपासनम् .. ३९

Page 7

X THE SAMNYĀSA UPANIȘAD-S

PAGE द्वितीय: खण्डः

अविमुत्तस्वरूपजिज्ञासा .. ४१ अविमुक्तोपलब्धिसाधनम् .. ४१

तृतीय: खण्ड: अविमुक्तज्ञानोपाय: .. ४३

चतुर्थ: खण्ड: सर्वकर्मसंन्यासज्ञानजिज्ञासा .. ४३ आहितागिसंन्यासविवि: .. ४९ निरग्निकसंन्यासविधि: .. ४६

पश्म: खण्ड: ब्राह्मणस्यैव संन्यासेऽधिकार: .. ४७ संन्यासेऽनधिकृतानां कर्तव्यनिरूपणम् .. ४७

पष्टः खण्ड:

पारमहंस्यनूगस्य सर्वोत्कृष्टता ४८ साम्बरपरमहंसलक्षणन् .. ४९ दिगम्बरपरमहंसलक्षणम् .. ४९

६. तुरीयातीतावधूतोपनिषत् तुरीयातीतावधूतचर्या, निष्ठ च .. ५३

७. नारदपरित्राजकोपनिषत् प्रथमोपदेश: नारदं प्रति शौनकादीनां प्रश्नः .. ५७ विदेहमुक्तिलाभोपायोपदेशः ..

Page 8

CONTENTS Xi

PAGE द्वितीयोपदेशः

पारिव्राज्यक्रमः .. ६१

तृतीयोपदेशः

संन्यासाधिकारी ६३ आतुरसंन्यास: ६४ आतुरसंन्यासविधि: ६४ देशान्तरस्थाहिताग्नेः संन्यासविधि: . . ६५ सतृष्णस्य संन्यासपरिग्रहे नरकप्राप्ति: ६५ वैतृष्ण्यमेव संन्यासपरिग्रहे हेतुः विद्वत्संन्यास: ६६ अवैधपरिग्रहे प्रत्यवायः ६८ परि्राजकानां धर्मा: ६८ यतिचर्या तत्फलं च ७२ अजिद्वादीनां लक्षणम् ७२ यतीनां वर्जनीयानि ७३

७४ आाश्रमानुसारेण पारित्राज्यम् ७४ पतेरेव मुख्यब्राह्मण्यम् ७६ पारमहंस्यावधूताश्रमपरिग्रहः .. ७७

चतुर्थोपदेशः यतिधर्माणां तत्फलस्य चोपन्यास: .. क्रमसंन्यास विधिनिरूपणम् .. ८४

पञ्मोपदेशः कर्मसंन्यासिनां स्वाश्रमाचार: ..

Page 9

xii THE SAMNYĀSA UPANISAD-S

PAGE

संन्यास चातु विध्यम् .. ९० वैराग्यसंन्यास: .. ९० ज्ञानसंन्यासः .. ९१ ज्ञानवैराग्यसंन्यास: .. ९१ कर्मसंन्यास: ९१ कर्मसंन्यासस्य द्वैविध्यम् .. ९२ कुटीचकादिभेदेन संन्यास: षड्ध: .. ९२ कुटी चकलक्षणम् ९३ बहूदकलक्षणम् ९३ हंसलक्षणम् .. ९३ परमहंसलक्षणम् ९३ तुरीयातीतलक्षणम् ९४ अवधूतलक्षणम् ९४ जीवत आतुरस्य क्रमसंन्यासः .. ९४ कुटी चकादीनां संन्यासविधि: ९४ परमहंसादित्रयाणां संन्यासविधि: .. ९५ कुटी चकादीनां भिक्षाविशेष: .. ९५ तेषां प्राप्यस्थानानि ९६ ब्रह्मानुसंधानमेव कर्तव्यं, नान्यत् .. ९७ अननुसंधाने पातित्यम् ९९ तुरीयातीतानां भोजनादिकमन्यदीयेच्छयैव १०० ब्रह्मविद्वरिष्ठः १०० यतीनां भोजनादिनियमा: .. १०१ यतेर्जितेन्द्रियत्वम् .. १०२ यते: सर्वकर्मपरित्यागः .. १०२ यतेरसाधारणधर्मा: .. १०४

Page 10

CONTENTS x1l1

PAGE षष्ठोपदेशः

मोक्षोपाय जिज्ञासा १०६ विद्वच्छरीर वर्णनादिकम् .. १०६ तुर्यातीतत्वप्राप्त्युपायः .. १०७ तुर्यातीतस्वरूपम् .. १०९ असच्चर्यात्यागः सच्चर्यानुष्ठानं च .. ११० विविदिषोः श्रवणादिविधि: .. ११२

सप्तमोपदेशः

यतिनियमा: .. ११५ कुटीचकादीनां स्ानादिनियमेषु विशेष: .. ११७

अष्टमोपदेशः

तारकस्वरूपजिज्ञासा ११९ अन्तःप्रणवादीनां स्वरूपकथनम् १२२ विराटूप्रणवस्य षोडशमात्रात्मकत्वम १२३ परब्रह्मानुसंधानम् १२६ विश्वादीनां चातुविध्यम् तुर्यावस्थायाश्चातुर्विध्यम् १२६ १२७ तुर्यतुरीयो ब्रह्मप्रणवः .. १२८

नवमोपदेश:

ब्रह्मस्वरूपवर्णनम् .. १२९ शास्त्रवेदनफलम् .. १३१

.. १३३ परिव्राजकस्थितिः .. १३३

Page 11

xiv THE SAMNYASA UPANISAD-S

PAGE ८. निर्वाणोपनिषत्

मुख्यावधूतलक्षणम् .. १३७ गौणावघूतः तच्चर्या तत्फलं च .. १४२ मुख्यावधूतोपायसंपत्ति: .. १५० अधिकारि निरूपणम् .. १५१

९. परत्रह्मोपनिषत्

चरिष्टा ब्रह्मविद्या .. १५३

.. १५५ अन्तर्बाह्यशिखादिलक्षणम् .. १५८ निर्विशेषब्रह्मस्वरूपम् .. १५९ कर्मण: चित्तशुद्धिप्रापकत्वम् .. १५९ मुमुक्षुणा कर्तव्यानि .. १६२

१०. परमहंसपरित्राजकोपनिषत् परिव्राजकलक्षणजिज्ञास्ता .: अधिकारिनिरूपणम् १६१ .. १६६ निरामयस्य संन्यास: .. १६७ ब्रह्म प्रण वस्वरूपजिज्ञासा .. १७० अयज्ञोपवीतिनो ब्राह्मणत्वम् .. १७२

११. परमहंसोपनिषत् पर नहंसपरिव्राजकानां मार्ग: .. परमहंसपरित्राजकानां स्थिति: १७५ १७६

Page 12

CONTENTS XV

PAGE १२. ब्रह्मोपनिषत्

चतुष्पाद्वह्म .. १८१ परस्य ब्रह्मणोऽक्षरत्वम् १८३ निर्वाणस्यवत्वम् १८४ त्रिवृत्सूत्रम् १८४ बहिःसूत्रम् १८१ ब्रह्मसूत्रम् १८१ ज्ञानशिखादीनां मुख्यब्राह्मण्यलिङ्गता १८७ क्रियाङ़सूत्रम् १८७ निरुपचरितब्राह्मण्यम् १८८ यज्ञोपवीतयाथात्म्यम् .. १८८ ब्रह्मीभूतो विद्वानेक एव १८९ ब्रह्माह्युपाय: १९०

१३. भिक्षुकोपनिषत् चतुर्विधा भिक्षवः .. १९६ कुटीचका: .. १९१ बहूदका: .. १९६ हंसा: .. १९६ परमहंसाः .. १९६

१४. मैत्रेयोपनिषत् प्रथमोऽध्यायः संसार विरक्तस्यात्मजिज्ञासा .. १९९ संसारनिर्वदगाथा .. १९९

Page 13

xvi THE SAMNYĀSA UPANIȘAD-S

PAGE

ब्रह्मणो याथात्म्यप्रकटनम् . . २०१

द्वितीयोऽव्यायः मैत्रेयं प्रति महादेवस्योपदेशः .. २०५ शौचविधानम् .. २०६ चित्तशुद्धिः .. २०७

अहंकारादित्याग: .. २०७ कर्मत्याग: .. २०८ मुख्यसन्यास: .. २०८ संन्यासाधिकारी २०९ मुक्ति प्रति साधनान्तराणि .. २०९. अनुभवः .. २०९ परमधर्मोपदेश: .. २१० विदेहमुक्तस्य स्थिति: .. २११

तृतीयोऽध्यायः मैत्रेयस्य स्वानुभवप्रकटनम् .. २१२

१५. याज्ञवल्क्योपनिषत् सर्वकर्मसंन्यासज्ञानजिज्ञासा .. २१९ आहिताग्निसंन्यासविधि: २१९ निरग्निकसंन्यासविधि: .. २२० ब्राह्मणस्यैव संन्यासेऽधिकारः .. २२० संन्यासेऽनधिकृतानां कर्तव्यनिरूपणम् .. २२० पारमहंस्यपूगस्य सर्वोत्कृष्टता .. २२१ साम्बरपर महंसलक्षणम् .. दिगम्बरपरमहंसलक्षणम् २२१ .. २२१

Page 14

CONTENTS xvii

PAGE संन्यासिन: परमेश्वरत्वम् .. २२२ स्त्रयादीनां कुत्सनम् .. २२३ सद्यतिलक्षणम् .. २२९

१६. शाट्यायनीयोपनिषत् मनसो बन्धमोक्षहेतुत्वम् २२९ साधनचतुष्टयसंपत्ति: .. २३० कुटी चकधर्मा: २३१ संन्यासिनां चातुर्विध्यं धर्मश्च २३२ कुटीचकानां जपयज्ञादि २३३ योगयज्ञादियज्ञचतुष्टयम् २३४ परिव्राजकै: कर्तव्यनिरूपणम् २३१ वासस्थाने नियमः २३६ आत्मज्ञानवतः स्थिति: २३७ आरूढपातित्ये प्रत्यवायः २३८ विष्णु लिङ्गद्वयानुवर्तनम् .. २४०

१७. संन्यासोपनिषत् प्रथमोऽध्यायः

संन्यासविधि: .. २४३ द्वितीयोऽव्यायः

संन्यासाधिकारी .. २४६ पतितलक्षणम् .. २४६ संन्यासानधिकारिण: .. २४६ संन्यासस्वीकारप्रकार: .. २४७

Page 15

xviii THE SAMNYĀSA UPANIȘAD-S

PAGE

संन्यस्तपुरुषस्तवः .. २४७ दण्डपरिग्रहः .. २४८ दण्डलक्षणम् .. २४८ कमण्डलुपरिग्रहः .. २४८ संन्यासिनां चातुर्विध्यम २४९ .. वैराग्यसंन्यासी .. २४९ ज्ञानसंन्यासी :. २४९ ज्ञानवैराग्यसंन्यासी .. २५० क्रमसंन्यासी .. २१० षडिधसंन्यासाः .. २५० कुटीचक: .. २५० बहूदक: .. २५० हंस: .. २५० परमहंसः .. २५१ तुरीयातीतः .. २५१ अवघूतः .. २५१ प्रत्यग् ब्रह्मैक्यभावना .. २५१ चितिशक्ति: तत्स्तुतिश्च .. २९३ अभेदानुभव: .. २५४ आतुरसंन्यास: संन्यासिनां प्राप्यस्थानानि च .. २१८ संन्यासिभि: स्वरूपानुसधानं विना नान्यत् किमपि कार्यन् .. २५९ तेषां चर्यादिकम् .. २६० यतीनां वर्ज्यानि .. २६३ षट् यतिपातकानि; पातित्ये दोषनिरूपणं च .. २६३ Index of Names of Rsi-s, etc. .. २६८

Page 16

अवधूतोपनिषत्

सह नाववतु-इति शान्तिः

अवधूतजिज्ञासा अथ ह साङ्कृतिर्भगवन्तमवधूतं दत्तात्रेयं परिसमेत्य पप्रच्छ भगवन् कोऽवधूतस्तस्य का स्थितिः किं लक्ष्म किं संसरणमिति। तं होवाच भगवो दत्तात्रेयः परमकारुणिकः ॥ १ ॥

गौणमुख्यावधूतालिहृदयाम्बुजवर्ति यत्। तत् त्रैपदब्रह्मतत्त्वं स्वमात्रमवशिष्यते॥

इह खलु कृष्णयजुर्वेदप्रविभक्तेयमवधूतोपनिषत् अवधूतचर्याप्रकटनव्यग्रा निष्प्रतियोगिक ब्रह्ममात्रपर्यवसन्ना विजृम्भते। अस्या: संक्षेपतो विवरणमारभ्यते। साड्कृतिद त्तात्रेयप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था। आख्यायिका- मवतारयति-अथेति। किमिति-भगवन्निति।साङ्कृतिप्रश्नोत्तरं भगवानाह- तमिति। भगव इत्यत्र भव इति पाठस्वीकारे, भवतीति भवो भगवान् इति व्युत्पत्तिः ।। १।।

अवधूतशब्दस्याक्षरार्थ: अक्षरत्वाद्वरेण्य त्वाद्धूतसंसारबन्धनात्। तत्त्वमस्यादिलक्ष्यत्वादवधत इतीर्यते ॥ २॥

Page 17

२ संन्यासोपनिषदः अवधूत इत्यक्षरार्थमाह-अक्षर इति ॥ २ ॥

गौणावधूतचर्या यो विलङ्ध्याश्रमान् वर्णानात्मन्येव स्थितः सदा। अतिवर्णाश्रमी योगी अवधूतः स कथ्यते ॥ ३ ॥

मुख्यावधूतः परमात्मेत्युक्त्वा स्वातिरिक्तनिवृत्ति प्रधानगौणावधूतचर्या- माह-य इति ॥ ३॥

प्रियादिवृत्ते: पक्षित्वेन वर्णनम् तस्य प्रियं शिरः कृत्वा मोदो दक्षिणपक्षकः। प्रमोद उत्तरः पक्ष आनन्दो गोष्पदायते॥४॥ गोवालसदृशं शीर्षे नापि मध्ये न चाप्यघः । ब्रह्म पुच्छं प्रतिष्ठेति पुच्छाकारेण कारयेत्। एवं चतुष्पदं कृत्वा ते यान्ति परमां गतिम् ॥५॥

तत्प्रियादिवृत्ति पक्षित्वेन वर्णयति-तस्येति । योऽवधूत इति ख्यात- स्तस्य साधनसम्पत्तिजं प्रियं हर्षे शिरः कृत्वा समाहितावस्थायां यो हर्षः स मोदो दक्षिणपक्षत्वेन चिन्त्यः । अखण्डाकारवृत्तिजः प्रमोद उत्तरपक्षत्वेन ध्येयः। निर्विकल्पसमाधिजो य आनन्दः स आत्मा; स एव गोष्पदायते प्रियमोदप्रमो- दानन्दरूपेण चतुर्धा मिद्यते॥ तत्र शीर्षे साधनसंपत्तिजहर्षे स्वात्मबुद्धि न कुर्यात्। न चाप्यधः दक्षिणोत्तरपक्षोपमे समाहितचित्ताखण्डाकारवृत्तिरूपे मोदे प्रमोदे च स्वात्मबुद्धि न कुर्यात्। तथा मध्येऽपि निर्विकल्पकसमाधिजानन्दे स्वात्म- धियं त्यजेत्। तथा चेदात्मधीः कुत्र कार्येत्यत्र यद्रोवालसद्दशं किंचिदवशिष्टं

1 उ, उ १. गोष्पदाककृतिः

Page 18

अवधूतोपनिषत् ३

तद्गह्म पुच्छं प्रतिष्ठेति पुच्छाकारेण कारयेत। यत्प्रियाद्यवयवकल्पनाधिकरणं तद्तहेयांशापाये यदवशिष्यते तन्निरधिकरणं निष्प्रतियोगिकब्रह्ममात्रं स्वाव- शेषधिया ध्यायेदित्यर्थः । एवमेकं चतुर्धा विभज्य पुनस्तदारोपापवादाधिकरणं निरधिकरणं ब्रह्म स्वमात्रमिति ये जानन्ति, ते तज्ज्ञानसमकालं तन्मात्रावशेष- लक्षणां परमां गति विदेहमुक्ति यान्ति विदेहमुक्ता भवन्तीत्यर्थः ॥ ४, ९॥

ज्ञानस्य उत्कर्ष:

न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ॥६॥

कर्मादिभिरपि कैवल्यमाप्तुं शक्यते; किं ज्ञानेनेत्यत आह-नेति। "कर्मणा बध्यते जन्तुः" "किं प्रजया करिष्यामः " "मा गृधः कस्य चिद्धनम्" इति च श्रुय्यनुरोधेन व्रह्मातिरेकेणापह्वोतयैः कर्मप्रजाधनैः केऽप्य- मृतत्वं नानशुः । किंत्वेतत्सर्वत्यागेन ब्रह्मातिरिक्तं नेति स्वातिरिक्तसामान्य- संन्यासेन सम्यग्ज्ञानात्मना अमृतत्त्वं विदेहकैतरल्यमानशुः प्राप्नुयुरित्यर्थः ॥६॥

अवधूतचर्यानुक्रमणम् स्वैरं स्वैरविहरणं तत्संसरणम्। साम्बरा वा दिगम्बरा वा। न तेषां धर्माधर्मौ न मेध्यामेध्यौ। सदा सांग्रहण्येष्टयाश्वमेध- मन्तर्यागं य जते। स महामखो महायोगः ॥७॥।

अवधूतचर्यामनुक्रामति-स्वैरमिति। श्रुतिस्मृतिशिष्टाचाराविरोधेन स्व- च्छन्दं स्वैरं स्वैरविहरणं तत्संसग्णं यदच्छयागतभिक्षादिदेहधारणमात्रोपयोगि- परिग्रहपूर्वकं स्वाज्ञलोकोन्मादनप्रवृत्तिनिरासकं तत्संसरगमटनमित्यर्थः । केचन अवधूतचित्तमला: सन्तः साम्बरा वा दिगम्बग वा भवन्ति । न तेषां धर्माधर्मौ विद्येते, प्रवृत्तिनिवृत्तिहेतुस्वाज्ञानवैरल्यात्। तथा तद्दृष्ट्या न मेध्यामेध्यौ भवतः, केवलब्रह्ममात्रदृष्टित्वात् । तादृशः किं करोतीत्यत्राह-

Page 19

४ संन्यासोपनिषद:

सदेति। ब्रह्मैत सर्वे ब्रह्मातिरिक्तं न किंचिदस्ति इति यया सम्यग्ज्ञानवृत्त्या गृह्यते सा संग्रहणी; सैव सांग्रहणी। तया सांग्रहण्येष्टया जुष्टं श्रः परश्वो वा स्वातिरिक्तपशुमेधनं विशसनमपह्ववं कर्तव्यमित्यत्र यद्विलम्बनासहं तदेवाश्वमेध- मन्तयांगं विद्वान् यजते सदा सर्वापह्ववसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति तन्मात्रतया अवतिष्ठते ॥। ७॥

महाव्रतम् कृत्मेनच्चित्रं कर्म स्वैरं न विगायेत्। तन्महाव्रतम्। न स मूढवलिप्यते ॥। ८ ।। यथा रविः सर्वरसान् प्रभुङ्क्ते हुताशनश्रापि हि सर्वभक्षः । तथैव योगी विषयान् प्रभुङ्क्ते न लिप्यते पुण्यपापैश्च शुद्धः ।।९॥ आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्ृत् कामा यं प्रविशन्ति सरवें स शान्तिमाम्नोति न कामकामी। स एव कृत्स्रमेतच्चित्रं कम अहमेतादृश इति येन केनापि स्वैरंस्वच्छन्द- शीलं जात्वपि न विगायेन इति यत् नत् महाव्रनम्। यदि कदाचित् बहिष्ठ- प्राण्यदृष्टानुगेधेन स्वशीलं विगायत् तदारय न स मूढवल्लिप्यते। तदेव सदृष्टान्तं प्रपञ्चयति-यथेति ॥ युगपत् सर्वकामाशनेऽपि न वर्धते न हीयते स्वयमविकृतः सन् स्वातिरिक्तशान्ति भजतीव्याह-आपूर्यमाणमिति। अपरिच्छिन्नविषयसेवया योगी मुच्यते। न तथा कामी परिच्छिन्नविषयसेवयापि हीयत इत्यर्थ:॥८-0॥ परमार्थसदुपदेशः न निरोधो न चोत्पत्तिर्बद्धो न हि न साधकः न मुमुक्षुर्न वे मुक्त इन्येषा परमार्थता ।। ११ ॥। एहिकामुप्मिकत्रातसिद्धयै मुक्तेश्र सिद्धये। बहु कृत्यं पुरा स्यान्मे तत् सर्वमधुना कृतम् ॥ १२ ॥

Page 20

अवधूतोपनिषत् ५

तदेव कृतकृत्यत्वं प्रतियोगिपुरःसरम्। दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया ।। १३।। परमानन्दपूर्णोडहं संसरामि किमिच्छया। अनुतिष्ठन्तु कर्माणि परलोकयियासवः ॥ १४ ॥ सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम्। व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा ॥ १५ ॥ येऽत्राधिकारिणो मे तु नाधिकारोडक्रियत्वतः । निद्रामिक्षे स्नानशौचे नेच्छामि न करोमि च ।। १६ ।। द्रष्टारश्चेत् कल्पयन्तु किं मे स्यादन्यकल्पनात्। गुञ्जापुञ्जादि दह्येत नान्यारोपितवहिना। नान्यारोपितसंसारधर्मानेवमहं भजे ॥ १७ ॥

यत् परमार्थसत् तदुपदिशति-नेति। निष्प्रतियोगिकब्रह्ममात्रे स्वाति- रित्तप्रपञ्चोत्पत्तिप्रलयादिकं कुतः संभवति? ब्रह्म निष्प्रतियोगिकमवशिष्यत इत्यर्थ: ॥ एवं दत्तात्रेयमुखतः परमार्थतत्त्वं स्वावशेषधियावगम्य तदनुज्ञया तन्निष्ठो भूत्वा स्वाज्ञलोकानुकम्पया सर्ववेदान्तसिद्धान्तः प्रकटयितव्य इति स्वानुभवं स्वधन्यतां च प्रकाशयामासेत्याह-ऐहिकेति ॥ तव कृतार्थत्वेन संसारानुवर्तने का हानिरित्यत्राह-दुःखिन इति ॥ तथापि यतकिचित् कर्म त्वया अनुष्ठेय- मित्यत्राह-अनुतिष्ठन्त्विति ॥ किंच-व्याचक्षतामिति ॥११-१७॥

श्रवणादिविधानम् शृण्वन्त्वज्ञाततत्त्वास्ते जानन् कस्माच्छृणोम्यहम्। मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः ॥ १८ ॥

Page 21

संन्यासोपनिषदः

विपर्यस्तो निदिध्यासे किं ध्यानमविपर्यये। देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम् ॥ १९ ।। अहं मनुष्य इत्यादिव्यवहारो विनाप्यमुम्। विपर्यासं चिराभ्यस्तवासनातोऽवकल्पते ॥ २० ॥ आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते। कर्मक्षये त्वसौ नैव शाम्येद्धयानसहस्त्रतः ॥२१॥ विरलत्वं व्यवहतेरिष्टं चेद्धयानमस्तु ते। अबाधिकां व्यवहृतिं पश्यन् ध्यायाम्यहं कुतः ॥ २२ ॥ विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम। विक्षपो वा समाधिर्वा मनसः स्याद्विकारिणः ॥ २३ ॥। नित्यानुभवरूपस्य को मेऽत्रानुभव: पृथक्। कृतं कृत्यं प्रापणीयं प्राप्तमित्येव नित्यशः ॥ २४ ॥ व्यवहारो लौकिको वा शास्त्रीयो वान्यथापि वा। ममाकर्तुरलेपस्य यथारब्धं प्रवर्तताम् ॥ २५॥ अथवा कृतकृत्योपि लोकानुग्रहकाम्यया। शास्त्रीयेणैव मार्गेण वर्तेडहं मम का क्षतिः ॥ २६॥ देवार्चनस्ानशौचभिक्षादौ वर्ततां वपुः। तारं जपतु वाक् तद्वत् पठत्वाम्नायमस्तकम् ॥ २७॥ विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम्। साक्ष्यहं किंचिदप्यत्र न कुवें नापि कारये ॥ २८॥

Page 22

अवधूतोपनिषत्

कृतकृत्यतया तृप्तः प्राप्यप्राप्ततया पुनः । तृप्यन्नेवं स्वमनसा मन्यतेऽसौ निरन्तरम् ॥ २९॥ धन्योऽहं धन्योऽहं नित्यं स्वात्मानमञ्जसा वेझि। धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम् ॥ ३० ॥ धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य। धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं क्वापि ॥। ३१ ॥ धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किंचित्। धन्योडहं धन्योऽहं प्राप्तव्यं सर्वमद्य संपन्नम् ।। ३२ ।। धन्योऽहं धन्योऽहं तृप्तेमें कोपमा भवेलोके। धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्घन्यः ॥ ३३॥ अहो पुण्यमहो पुण्यं फलितं फलितं दृढम्। अस्य पुण्यस्य संपत्तेरहो वयमहो वयम्॥ ३४॥ अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम्। अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः ॥ ३५ ॥

श्रवणाद्यकर्तव्यतामप्याह-शृण्वन्त्विति। कथं वर्तसे इत्यत्राह- देवार्चनेति ॥ किमिति-धन्योहऽमिति ॥ पालयितं पलायितमिति पक्षद्वयम् ॥ स्वानुभवं प्रकटय्य साड्कृतिर्भगवतानुज्ञातो भगवन्तं हृदये कृत्वा यथासुखं विचचारेत्यर्थः ॥ १८-३१॥

विद्यापठनानुसन्धानफलम् य इदमधीते सोऽपि कृतकृत्यो भवति। सुरापानात् पूतो भवति। स्वर्णस्तेयात् पृतो भवति। ब्रह्महत्यात् पूतो भवति।

Page 23

संन्यासोपनिषद्: V

कृत्याकृत्यात् पृतो भवति। एवं विदित्वा स्वेच्छाचारपरो भूयात्। ओं सत्यम्। इत्युपनिषत् ॥ ३६ ॥

विदित्वेति। लोकोन्मादननिरासकोऽयमस्य स्वेच्छाचारः; तस्यापि प्राण्य- दृष्टायत्तत्वात् । वस्तुतो न ह्यस्य प्रवृत्ति: निवृत्तिर्वास्ति। ब्रह्मनिष्ठस्य निष्प्रति- योगिकब्रह्ममात्रपर्यवसन्नत्वात् ब्रह्मवायमित्यथः । इत्युनिषच्छब्दः अवधूतो- पनिषत्परिसमाह्यर्थः ॥ ३६॥

श्रीवासु दे वेन्द्रशिष्योपनिषद्ब्रह्मयोगिना। अवधूतोपनिषदो व्याख्यानं लिखितं लघु । अवधूतोपनिषदः पञ्चाशद्ग्रन्थसंयुता ॥

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे एकोनाशीतिसंख्या- पूरकमवधूतोपनिषद्विवरणं संपूर्णम्

Page 24

आरुण्युनिषत्

आप्यायन्तु-इति शान्तिः

पारिव्राज्यलक्षणम् आरुणि: प्राजापत्यः प्रजापतेलोंकं जगाम। तं गत्वोवाच। केन भगवन् कर्माण्यशेवतो विसृजानीति। तं होवाच प्रजापतिः । तव पुत्रान् भ्रातृन् बन्ध्वादीक्छिखां यज्ञोपवीतं यागं सूत्रं स्वाध्यायं च भूलोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकं च अतलवितल- सुतलपातालरसातलतलातलमहातलब्रह्माण्डं च विसृजेत्। दण्डमाच्छा- दनं कौपीनं च परिग्रहेत। शेषं विसृजेत् । इति ॥। १ ॥।

आरुणिकाख्योपनिषत्ख्यातसंन्यासिनोऽमलाः । यत्प्रबोधाद्यान्ति मुक्तिं तद्रामब्रह्म मे गतिः ॥

इह खल्वारुणिकोपनिषदः सामवेदप्रविभक्तत्वेन केनच्छान्दोग्ययोः विख्यातोपोद्धातप्रकरणमत्रापि स्मर्तव्यम्। आरुणिप्रजापतिप्रश्नप्रतिवचनरूपेय- माख्यायिका विद्यास्तुत्यर्था। आरुणिः प्रजापति पारिव्राज्यलक्षणं पृच्छती- त्याह-आरुणिरिति। अरुणस्यापत्यमारुणिः प्रजापतिशिष्यः प्राजापत्यः प्रजानां पालयितु: प्रजापतेलोंकं जगाम गतवान्। तत्रापि तं प्रजापति गत्वा

Page 25

१० सन्यासोपनिषद:

विनयनोपसंगम्योवाच। किमिति-हे भगवन् प्रजापते केनोपायेन अहं सर्वकर्माण्यशेषतो विस्त्रजानि निःशेषं त्यजेयम्। इत्यारुणिना पृष्टः प्रजापतिः एवमुवाचेत्याह-तमिति। येन एवं पृष्ठः कर्माण्यशेषतो विसृजानीति, तं प्रजापतिर्होवाच किल। किमिति-तव पुत्रभ्रातृश्वशुरस्यालादिबन्धु- जनान् शिखां यज्ञोपवीतं यागं तदुपलक्षितसर्वकर्म स्वसूत्रगोत्रादिकं स्वा- ध्याय स्वशाखादिवेदांश्च भूलोकादिपहातलान्तलोकविशिष्टं ब्रह्माण्डं च स्व्रातिरिक्तधिया विसृजेत्। चकारात् स्वेन त्याजनीयपुत्रादि ब्रह्माण्डान्तं स्वोपभोगतया अस्ति नास्तीति वित्रममपि संत्यजेदिति द्योत्यते। लोकोन्माद- प्रवृत्तिनिरसनाय स्वोपभोगार्थ वा दण्डम् आच्छादनं कौपीनं परिग्रहेत्। तदितरत् यद्यत् ग्राह्यत्वेन मन्यते लोकः, तच्छेषमशेषं विसृजेत्। आवृत्त्या यद्यत् त्यक्तं स्वातिरिक्तधिया तत्तत् स्वप्नेऽपि न परिग्रहेत् इति द्योत्यते ॥१॥

संन्यस्यतः कर्तव्यानि

गृहस्थो ब्रह्मचारी वानप्रस्थो वा अलौकिकामीनुदरामौ समा- रोपयेत्। गायत्रीं च स्ववाच्यमौ समारोपयेत्। उपवीतं भूमावप्सु वा विसृजेत्। कुटीचको ब्रह्मचारी कुटुम्बं विसृजेत्। पात्रं विसृजेत्। पवित्रं विसृजेत्। दण्डाँलोकाझीन् विसृजेन् इति होवाच। अत ऊ्धर्वममन्त्रवदाचरेत्। ऊर्धर्वगमनं विसृजेत्। औषधवदशनमाचरेत्।। त्रिसंध्यां व्वानमाचरेत्। संधिं समाधावात्मन्याचरेत्। सर्वेषु *वे देप्वारणमावर्तयेदुपनिषदमावर्तयेदुपनिषदम/वर्तयेत्। खल्वहं. ब्रह्म- सूत्रं, सूचनात् सूत्रं, ब्रह्मसूत्रमहमेवं विद्यात्। त्रिवृत्सूत्रं त्यजेद्विद्वान् य एवं वेद ॥ २ ॥

1उ१. 'औपधवदशनमाचरेत्' इति नास्ति. 2 उ १. 'वे देष्वावरण.'

Page 26

आरुण्युपनिषत् ११

"कौपीनयुगलं कन्था दण्ड एक: परिग्रहः । यतेः परमहंसस्य नाधिकं तु विधीयते॥"

इत्यादिश्रुतेः यदि परिव्रजनाधिकारी गृहस्थो ब्रह्मचारी वानप्रस्थो वा भवतु, तदा ते स्वस्वाश्रमोचितालौकिकात्रीन् उदराभ्नौ समारोपयेत् स्वस्वाग्निमात्म- समारोपणं कुर्यात्। ब्राह्मण्याधारां वेदमातरं गायत्रीं च स्ववाच्यग्रौ समारोपयेत्। चशब्दः ब्रह्मचर्याद्याश्रमे यावन्तो मन्त्रा गृहीताः, तानपि त्यजेदिति विध्यर्थः । यज्ञोपवीतं "यज्ञोपवीत बहिर्न निवसेत्" इति मन्त्रेण भूमौ वा अप्सु वा विसृजेत्। यदि कश्चित् कुटीचको ब्रह्मचारी पारमहंस्या- श्रममारोदुमिच्छति तदा कुटुम्बप्रदेशं विसृजेत्। पुरा परिगृहीतजलपात्र- पवित्रत्रिदण्डलोकाभ्रिरूढमूलाध्यवसायानपि विसृजेदिति होवाच प्रजापतिः। यदैवं सर्व परित्यजति, तदा तत ऊर्ध्वै मन्त्र: संकल्पः एवमेवं भवितव्यमिति; तद्विपरीतोऽमन्त्रवान् निःसंकल्पवता मनसा स्वाश्रमोचितकम आचरेत्। ऊर्ध्वगमनं मनोराज्यं विसृजेत्। त्रिसंध्यां प्रातर्मध्याह्वसायाह्वेषु यथाशक्ति स्नानमाचरेत्। "जीवात्मपरमात्मनोरेकत्वज्ञानेन तयोर्भेद एव विभग्न: सा संध्या" इति,

"नोदकँर्जायते संध्या न मात्रोच्चारणेन तु। संधौ जीवात्मनोरैक्यं सा संध्या सद्धिरीर्यते ॥"

इति च श्रुतिस्मृत्यनुरोधेन समाधावात्मन्यन्तःकरणे प्रत्यक्परचितोः संधि- मैक्यमाचरेत्। न कदापि तयोर्भेंदबुद्धि कुर्यात्। सर्वेषु वेदेषु विद्यमानमारणं सावित्रमावर्तयेत्। यद्वा तेनास्माकं किमिति? उपनिषद्मावतयेदुपनिषद- मावर्तयेदिति वीप्सया तदावर्तनं तदर्थविचारं विना क्षणमात्रमपि न स्थेयमिति द्योत्यते। सर्वोपनिषदर्थब्रह्मसूत्रमहमेव खलु ब्रह्म। सूत्रार्थ श्रुतिः स्वयमेवाह। सर्वेधु वेदेषु निष्प्रतियोगिकतया ब्रह्ममात्रस्यैव सूचनात् यत् सूत्रं तदेव ब्रह्मसूत्रमहमेवेति विद्याद्य एवं वेद। स विद्वान् त्रिवृत्सूत्रं यज्ञोपवीतं तदुप- लक्षितप्रपञ्चजातं स्वातिरिक्तधिया संत्यजेत्, न पुनः स्मरेदि्यर्: ॥ २॥

Page 27

३२ संन्यासोपनिषद:

संन्यासमन्त्रलिङ्गवि्यादि संन्यस्त मया संन्यस्तं मया संन्यस्तं मयेति त्रिरुक्त्वा अमयं सर्वभूतेभ्यो मत्तः सर्व प्रवर्तते। सखा मा गोपायोजः सखा योऽसीन्द्र- म्य वज्रोऽसि वात्रन्नः शर्म मे भव यत्पापं तन्निवारयेत्यनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहेत्। औषधवदशनमाचरेदौषधवदशनं प्राश्नीयाद्यथालाभमश्नीयात्। ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यलेन हे रक्षतो हे रक्षतो हे रक्षत इति ॥ ३ ॥

केन मन्त्रेण संन्यास: कर्तव्यः१ किं वा संन्यासलिङ्गम्? तदनुष्ठेयविधिर्वा कीछश़ः? इन्याशङ्कयाह-संन्यस्तमिति। यदि विद्वान् सुनिस्तदा नारदपरि-

कषौरस्नानगायत्रया दिमन्त्रग्रा मस्वशाखोपसंहरणपुरुषसूक्तविर जाहोमाम्युपसंहार - पूर्वकं नाभिदन्नांदकमुपविश्य यद्यत् गायत्र्यादि स्वाधीतं तत्तत् सर्वे व्याहृतिषु प्रवेश्य "अहं वृक्षस्य" "यश्छन्दसां" इति मन्त्रोच्चारणपूर्वकं देवब्राह्मण- संनिधौ स्वयमुत्तरा दिशमवलोकयन्, देवब्राह्मणाः, यूयं शृण्वन्तु ; दारेषणा- याश्च धनेषणायाश्च लोकेषणायाश्च व्युत्थितोऽहमस्मीति विज्ञाप्य "ॐभू: संन्यस्तं मया" इन्यादि प्रातिस्विकेन व्याहृतित्रयमुच्चार्याथ कृत्स्नमपि संन्यस्तं मयेति चोच्चार्य मन्द्रनध्यमतारध्वनिभि: एवं निर्भयः सन् त्रिवारोद्घोषणपूर्वकं "अभयं सर्वभूतभ्यो मत्तः सर्वे प्रवतेते स्वाहा" इति मनुना जलं प्राश्य, ततः प्राच्यां दिशि पूर्णाञ्ञलि प्रक्षिप्य "ॐ स्वाहा" इत्यवशिष्टकेशानुत्पाव्य "यज्ञोपवीतं बहिन निवसेत्" इति मन्त्रेण यज्ञोपवीतं छित्त्वा "ॐ भू: समुद्रं गच्छ स्वाहा" इन्यप्सु जुहुयात्। ततः पुनः प्रैषं त्रिवारमुच्चरेत्। यद्यत् स्वातिरिक्तत्वेनाभिमतं तत्तत् सवे निष्प्रतियोगिकब्रह्ममात्रधिया मया संन्यस्तं सम्यक् त्यक्तम्। आवृत्तिरादरार्था। एवं ब्रह्मादिस्तम्बान्तसर्वभूतेभ्योऽमयं मया दत्तं, तथा सर्वभूतैरपि मह्यमिति प्रतिज्ञाय जातरूपधरः सन् शतपदमुदीची दिश गच्छेत्। ततो गृहस्थप्रार्थनया गुरुनिकटमागत्य तैर्द त्तकटिसूत्रकौपीन-

Page 28

आरुण्युपनिषत् १३

शाटीकमण्डलुदण्डादिकं तत्तन्मन्त्रोच्चारणपूर्वकं गृहीत्वा, अथ गुरो: सकाशात् प्रणवमहावाक्यादिकं स्वीकृत्य स्वाश्रमाचारपरो भवेदित्यर्थः। "सखा मा गो- पाय" इति दण्डग्रहणमन्त्रः। उक्तलक्षणलक्षितोऽयं दण्डो वैराजरूपः। तदभेदेन यः स्वांशजव्यष्टिजीवसखः इन्द्रस्य वात्रन्नो वज्रोऽसि यतो मे स्वांशजत्वेन सखा असि। अतस्त्वं मा मां गोपाय पालयतु। अतस्त्वं मे शर्मकृत् भव त्वदर्शनात् पुरा यन्मया कृतं पापं तन्निवारय इत्यनेन मन्त्रेण कृतं वैणवं दण्डं परिग्रहेत्। कौपीनपरिग्रहणं कटिसूत्रकमण्डलुशाव्याद्युपलक्षणार्थम्। यथा यथा मेदोवृद्धिर्न जायते प्राणोऽपि देहं न त्यजति तथा तथा औषधवद्शनमाचरेत्, औषधवदेवाशनं प्राश्नीयात्। स्वाशनस्य गृहस्थाधीनत्वेन यथालाभमश्रीयात्। बाह्यमान्तरं चेति द्विविधं ब्रह्मचर्यादि। तत्राष्टाङ्गमैथुनवर्जितं बाह्यम्। ब्रह्मभाव- मनश्चारो ह्यान्तरब्रह्मचर्यम्। तथा हिंसां परस्वपीडाकरलक्षणां च, तथेवा- परिग्रहं च प्राणसंधारणेतरापरिग्रहं बाह्यं ब्रह्मैव स्वमात्रमिति घिया स्वातिरिक्त- सामान्यापरिग्रहमान्तरं च, तथा सत्यं च प्राणिमात्रप्रियकरसत्यवचन बाह्यं स्वयमेव सत्यं सन्मात्रमितयान्तरं हे शिष्याः यूयं एतद्वाह्यान्तरप्रविभक्तब्रह्म- चर्याहिंसापरिग्रहादिकं महता प्रयत्नेन रक्षत। आवृत्ति: अप्रमादेनैवाचरणीय- मित्यवधारणार्था। रक्षतेत्यर्थ रक्षतः इति प्रयोगस्तु छान्दसः ॥ ३ ॥ संन्यासिनां आसनादिनियमाः अथातः परमहंसपरित्राजकानामासनशयनाभ्यां भूमौ ब्रह्म- चारिणाम्। मृत्पात्रं वा अलावुपात्रं दारुपात्रं वा। कामक्रोधलोभ- मोहदम्भदर्पेच्छास्याममत्वाहंकारादीनपि त्यजेत्। वर्षासु ध्रुवशीलो- डष्टौ मासानेकाकी यतिश्चरेद्, द्वावेवाचरेत् द्वावेवाचरेत्। स खलु एवं यो विद्वान् सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत्। पितरं पुत्र- मग्न्युपवीतं कर्म कलत्रं चान्यदपीह ॥ ४॥ तेषामासनशयनपात्रनियममाह-अथेति । अथ गुरूपदेशानन्तरं यतः संन्यासकाले मृद्वासनखट्वादिकं परित्यक्तं अतः परमहंसः परमात्माहमस्मि इति

Page 29

१४ संन्यासोपनिषदः

दृदनिश्चयेन स्वातिरिक्तधिया यद्यत् भातं तत्तत् सवें परित्यज्य ब्रह्ममात्रपद त्रजन्तीति परिव्राजकाः। तेषां पमहंसपरित्राजकानां ब्रह्मण्येव चरतां ब्रह्मभावमापनानां भूमावेव आसन शयन च आसनशयने ताभ्यामेव देहयात्रा संभवति, न मृद्ास्तरणशय्याकाङ्क्षास्ति। "महत्पदं ज्ञात्वा वृक्षमूले वसेत् इति "काय्या भूतलमजिनं वासः" इति च श्रुतेर्भाष्यकारोंक्तेश्च। तेषामुदका- हरणार्थ कमण्डलुस्थानीयं मृत्पात्रमलावुपात्रं दारुपात्रं वा भवति। तत्र मृत्पात्रासंभवे अलाव्वादिपात्रं वा ग्राह्यं, न तु लोहविकारमित्यर्थः । कदाचिदपि स्वोपस्करविषये यदि प्रसत्तेयं कामक्रोधा दिवृत्ति: तन्निःशेषं संत्यजेदित्यर्थः । प्राणिहिंसानिवृत्त्यर्थ वर्षासु चातुर्मास्यनियमपुरःसरं यतिः एकत्र स्वयोग्यप्रदेशे ध्रुवशील: स्थिरासनो भवेत्। शिष्टाष्टौ मासानेकाकी यतिश्चरेत्। यद्वा- "पक्षा वै चतुरो मासा इति द्वौ मासौ वा वसेत्" इति श्रुत्यनुरोधेनें मासचतुष्टयनियमं विहाय यावाषाढश्रावणमासौ तौ द्वावेवाचरेदिति। आवृत्ति: अवधारणार्था। एकत्र मासचनुष्टयवसनात् तत्रयानां श्रमो भवेदिति दययेत्यर्थः । यो यद्येवं पारिव्राज्येयत्तां विद्वान् भवति, तदा सोऽयमुपनयनादूर्ध्वे उपनयनात् प्राग्वा हस्तामलकाचार्यवज्जातमात्रेण विदिततत्त्वश्चेत् संन्यस्येत्। यदि गार्ह- स्थ्यदशायां संजातविरागः संन्यस्तुमिच्छति तदानीमेव पितरं पुत्रमन्युपवीतं कर्मार्थस्वीकृतकलत्रं च, पुनरन्यदपि यद्यत् स्वबन्धहेतुत्वेन द्योत्यते तदपि मंत्यजेन् संन्यस्येदित्यर्थः ॥४॥ भिक्षानियमा: यतयो भिक्षार्थं ग्रामं प्रविशन्ति पाणिपात्रम्, उदरपात्रं वा ॥५॥ तेषां मिक्षानियममाह-यतय इति। "यतयो भिक्षार्थमेव व्यङ्गारे भुक्तवज्जने" इति श्रुतिसिद्धयथोक्तकाले ग्रामं प्रविशन्ति, न तदतिरिक्तकाले। तः पाणिपात्रं उदरपात्रं वा शारीरस्थित्यर्थमङ्गीकृतम्। यावज्जीवं तेनैव कालं नयन्ति ॥ ५ ॥ भिक्षानिमित्तोपस्थानमन्त्रः ओं हि ओं हि ओं हीत्येतदुपनिषदं विन्यसेत्। विद्वान् य एवं वेद ॥ ६ ॥

Page 30

आरुण्युपनिषत् १५

भिक्षानिमित्तोपस्थानमन्त्रमाह-ॐ हीति। ॐ हिॐ हि ॐ हि इति मन्त्रेण सूर्यमण्डलस्थात्मानुसंधानं कुर्वन् अथ ग्रामं प्रविशेदित्यर्थः ।

"पाणिपात्रश्चरन् योगी नासकृद्वैक्षमाचरेत्। आस्येन तु यदाहारं गोवन्मृगयते मुनिः । तदा समः स्यात् सर्वेधु सोऽमृतत्वाय कल्पते ॥"

इति श्रुतेः। य एवमेतदुपनिषदं वेद यथावद्विद्वान् विन्यसेत् विद्वत्संन्यासं कुर्यात् ॥ ६ ।।

विद्वत्संन्यासाधिकारः

पालाशं बैल्वमौदुम्बरं दण्डं मौझ्जीं मेखलां यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद ॥ ७ ॥

किं कृत्वा संन्यसेदित्यत आह-त्यक्त्वेति। ब्रह्मचारी गृही वानप्रस्थो वा क्रमेण पालाशं बैल्वमौदुम्बरं दण्डं मौञ्जीं मेखलां यज्ञोपवीतम्। चशब्दात् एतत् सर्व त्यक्त्वा विन्यसेदिति पूर्वेणान्वयः ।।७।।

उपसंहारः

तद्विष्णो: परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम् ॥ ८ ॥ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते। विष्णोर्यत् परमं पदम् । इति ॥ ९ ॥ एवं निर्वाणानुशासनं वेदानुशासनं वेदानुशासनम् । इत्युपनिषत् ॥

य एवं वक्ष्यमाणं विष्णुपदं निष्प्रतियोगिकस्वमात्रमिति वेद सोडयं स्वाति- रिक्ताविद्यापद तत्कार्या पह्वीकरणदक्षत्वेन शूरो भूत्वा तन्मात्रतया अवशिष्यते

Page 31

१६ संन्यासोपनिषद:

इत्युपसंहरति-तदिति। तदेतन्निर्विशेषं ब्रह्म स्वाज्ञदृष्टिविकल्पितस्वाविद्यापढ़- तत्कार्यप्रसकौ तदारोपापवादाधिकरणतया विभातस्य विष्णोः व्यापनशीलस्य त्रिविधपरिच्छेदशून्यस्य स्वाधिष्ठेयाविद्यापदतत्कार्यापवादसापेक्षता धिकरणता- संभवप्रबोधसिद्धत्वेन परमं निरधिकमणतया सर्वोत्कृष्टं नित्यसूरिभिः ब्रह्मविद्वरिष्ठैः स्वमात्रतया पद्यत इति पदं तद्विष्णोः परमं पदम्। 'राहो: शिरः' इतिवत् व्िष्णुयाथात्म्यं सूग्यो ब्रह्मविद्वरीयांसः सदा निष्प्रतियोगिकस्वमात्रमिति पश्यन्ति। पश्यन्तीतिव्यपदेशात् विष्णुपदस्य दृश्यत्वेन परिच्छिन्नता स्यादि- त्यत आह-दिवीति। दिवि द्योतनात्मके ब्रह्मणीव चक्षुदृष्टिः दर्शनं तद्रो- चरज्ञानमाननमपरिच्छिन्नं तद्विष्णुपदं निष्प्रतियोगिकपूर्णम्। स्वभेदेन सूरयः पश्यन्ति चेत् तत् परच्छेद्यं भवितुमहंति। न हि तथा ते पश्यन्ति। किंतु स्वयमेव विष्णुपदं पश्यन्तीत्यर्थः । किंविशेषणविशिष्टाः सूग्यः तद्दर्शनतस्त- न्मात्रतया विशिष्यन्त इत्यत आह-तदिति। विप्रासः विप्राः ब्रह्मविद्वरिष्ठाः ब्राह्मणाः विपन्यवो विगतस्वातिरिक्तालाभप्रयुक्तमन्यवः, स्वातिरित्तस्य स्व- मात्रतया लब्धत्वात् । अत एव ते जागृवांस: स्वाज्ञाननिद्रावैरल्यात् नित्यं जागरूकाः । विष्णोर्यन् परमं पदं स्वमात्रतया प्यन्ति तद्दर्शनसमकालम् एते तन्मात्रावशेषतया नद्विष्णुपदं समिन्धते तन्मात्रतया अवशिष्यन्ते। इत्येवं निर्वाणस्य कवल्यस्य अनुशासनं वेदानुशासनम्। वेदानुशासनमिति

लिख्तं स्याद्विवगणं स्फुटमारुणिकस्य हि। आरृणिक विवरणग्रन्थस्त्रिशोत्तरं शतम् ।।

इति श्रीमदीशादयप्टोत्तरशतोपनिषच्छ स्त्रविवरणे षोडशसंख्यापूरकम् अरुणिकोपनिषद्विवरणं संपूर्णम्

Page 32

कठरुद्रोपनिषत्

सह नाववतु-इति शान्तिः

ब्रह्मविद्याध्ययनम् 1देवा ह वै भगवन्तमब्रुवन्। अधीहि भगवन् ब्रह्मविद्याम्। स प्रजापतिरब्रवीत् ॥ १ ॥

पारिव्राज्यधर्मपूगालंकारा यत्पदं ययुः । तदहं कठविद्यार्थरामचन्द्रपदं भजे। इह खलु कृष्णयजुर्वेदप्रविभक्तयं कठरुद्रोपनिषत् पारिव्राज्यधर्मप्रकटन- व्यग्रा ब्रह्ममात्रपर्यवसन्ना विजम्भते। अस्याः संक्षेपतो विवरणमारभ्यते। देवतापटलप्रजापतिप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था। आग्या- यिकामवतारयति-देवा इति। देवकृतप्रश्नोत्तरं स प्रजापतिग्ब्रवीत् ॥ १॥ 1 The following additional passages are found in the begin- ning of this work as published in The Minor Upanisads, vol. I: Samnyāsa-Upanişads Adyar Library Series No. 3, 1912, p. 31. -ॐ। योऽनुक्रमेण संन्यसति स संन्यस्तो भवति। कोऽयं संन्यास उच्यते। कथं संन्यस्तो भवति। य आत्मानं क्रियाभि: सुगुप्तं करोति मातरं पितरं भार्यो पुत्रान् सुहदो बन्धूननुमोदयित्वा ये चास्पर्तिवजस्तान्स्वश्च पूर्ववद्ृत्वा वैश्वानरीमिष्टिं कुर्यात्। सर्वस्वं दद्यात्। यजमानस्याङ्गानृत्विजः सर्वे: पात्रैः समारोप्य यदाहवनीये गार्हपत्येऽनवाहार्यपचने सभ्यावसथ्ययोश्च प्राणापानव्यानोदानसमानान्सर्वान् सर्वेतु समारोपयेत्। सशिखान्केशान्नि- ष्कृष्य, विसृज्य यज्ञोपवीतं, निष्क्रम्य, पुत्रं दृष्ट्रा, त्वं ब्रह्म त्वं यज्ञस्त्वं सर्वमित्यनुमन्त्रयेत्। 2

Page 33

१८ संन्यासोपनिषद्ः

ब्रह्मविद्याङ्गसंन्यास निरूपणम्

सशिग्ान् केशान्निष्कृप्य विसृज्य, यज्ञोपवीतं निष्कृप्य, ततः पुत्रं दृष्टा, त्वं ब्रह्म तवं यज्ञस्त्वं वषट्कारस्वमोंकारस्त्वं स्वाहा त्वं स्वधा त्वं धाता त्वं विधाता। अथ पुत्रो वदति। अहं ब्रह्माहं यज्ञोऽहं वषट्कारोऽहमोंकारोऽहं स्वाहाहं स्वधाहं धाताहं विधाताहं त्वष्टाहं प्रतिष्ठाम्मीति। तान्येतानि अनुत्रजन्नाश्रुमापातयेत्। यदश्रुमापानयेत्प्रजां विछििन्यात्। प्रदक्षिणमावृत्यैतच्चैतच्चानवेक्षमाणः प्रत्यायति' । स स्वर्ग्यो भवति ॥ २ ॥

किमिति। अत्र ब्रह्मविद्याङ्गतया संन्यासं निरूपयति-सशिखानिति। ब्रह्म वेद: यज्ञवषट्कागदिकं मयानुष्ठितमननुष्ठितं वा तच्छेषपूरणं त्वदधीनमिति पित्रोक्तस्तथेन्याह-अथति। भवता अधीतमनधीतं वा वेदादिकं तच्छेषपूरण- यद्यपुत्रो भवन्यात्मानमेवं व्यात्वानवेक्षमाण: प्राचीमुदीचीं वा दिशं प्रव्रजेत्। चतुर्षु वर्णेयु भैक्षचर्य चरेत। पाणिपात्रिणाशनं कुर्यादौषधवत्माश्ीयाद्यथालाभमश्नोयात्प्राण- संधारणार्थ यथा मदोवृदिन जायने। कृशीभूत्वा ग्राम एकरात्रं, नगरे पञ्चरात्रं, चतुरो मासन्वार्िकान्ग्रामे वा नगरे वाषि वमेत् । विशीर्ण वस्त्रं वल्कलं वा प्रतिगृह्य नान्य- स्प्रतिगह्णीयान। पच्यशनो भवति चेन केशसहः स तप्यते तप इति। यो वा एवं करमेण संन्यसति यो वा व्युनिष्ठति किमस्त यज्ञोपवीतं कास्य शिखा कथ चास्योपस्पर्शन- निति। तान्होवाच। इदमेवास्य तद्यश्ञोपवीतं यदात्मध्यानं, या विद्या सा शिखा, नीरः सर्वत्रावस्थितः कार्य निर्वनयेन्नोदपात्रे। जलनीरे निकेतनं हि ब्रह्मवादिनो वदन्ति। अस्तमित आदित्यं कथ चास्योपस्पर्शनमिति। तान्होवाच ॥ यथाहनि तथा रत्री नास्य नक्ततं न वा दिया। तदप्येनदृषिणोक्तम्। सकृद्दिया है वास्मै भवति। य एवं विद्वानेतनात्मान संधत्ते संधत्ते। देवा ह वै समेन्य प्रजापतिमब्रुबन्। न विदामोन विदाम इति। सोडब्रवीद्झ्मिष्ठेम्यः। मे तद्वदतो ज्ञास्यथेनि। तनो वे ते व्रश्मिष्ठा न वदन्तो न वदन्त इत्येतत्सर्वम्। देवानां माष्टितां सालोक्यतां मायुज्यतां गच्छति य एवं वेद ।। 1 उ १. म्रत्यायन्ति.

Page 34

कठरुद्रोपनिषत् १९

महं करोमीति पुत्रोक्तिमाकर्ण्य तं विसृज्य प्रब्रजनकाले तद्वियोगजाश्रुपातं सन्ततिविच्छेदकरं न कुर्यात्। ततः किमित्यत्र-प्रदक्षिणमिति। यः संन्यासादूर्ध्व स्वाधिष्ठितग्रामं स्वजनं वा प्रदक्षिणीकृत्य पुनस्तमनवेक्षमाणः प्रव्रजति स स्वर्ग्यो ब्रह्मलोकं गतो भवतीत्यर्थः ॥ २ ॥

संन्यासक्रमः

ब्रह्मचारी वेदमधीत्य वेदोक्ताचरितब्रह्मचर्यो दारानाहृत्य पुत्रानुत्पाद्य ताननुरूपोपाधिभिवितत्य, इष्ट्रा च शक्तितो यज्ञैस्तस्य संन्यासो गुरुभिरनुज्ञातस्य बान्धवैश्च। सोऽरण्यं परेत्य द्वादशरात्रं पयसामिहोत्रं जुहुयात्। द्वादशरात्रं पयोभक्षः स्यात्। द्वादशरात्र- स्यान्तेऽमये वैश्वानराय प्रजापतये च प्राजापत्यं चरुं, वैष्णवं त्रिकपाल- मगनिम्। संस्थितानि दारुपात्राण्यमनौ जुहुयात्। मृन्मयान्यप्सु जुहुयात्। तैजसानि गुरवे दद्यात्। मा त्वं मामपहाय परागा नाहं स्वामपहाय परागामिति गार्हपत्यदक्षिणाझ्याहवनीयेषु, अरणिदेशा- द्धस्ममुष्टिं पिबेदित्येके। सशिखान् केशान्निष्कृष्य विसृज्य यज्ञोपवीतं भू: स्वाहेत्यप्सु जुहुयात्। अत ऊर्ध्वमनशनमपां प्रवेशनममिप्रवेशनं वीराध्वानं महाप्रस्थानं वृद्धाश्रमं वा गच्छेत्। पयसायं प्राश्नीयात्सो- डस्य सायं होमो यत्पातः सोडयं प्रातः, यद्दर्शे तद्दरशं यत्पौर्ण- मास्ये तत्गौर्णमास्यं, यद्वसन्ते केशश्मश्रुलोमनखानि वापयेत्सो- डस्याग्िष्टोमः ॥ ३॥

ब्रह्मचर्याद्याश्रमाचारप्रकटनपूर्वकं क्रमसंन्यासमाह-ब्रह्मचारीति। ब्रह्म- चर्य समाप्याथ गुर्वनुज्ञयोद्वाह्याथ दारानाहत्येति। तदनुरूपोपाधिभिः संयोज्याथ

Page 35

२० संन्यासोपनिषद:

डष्टा चेति। अग्रये वैश्ववानगय इति मन्त्रेण संस्थितानि दारुपात्राण्यमौ जुहुयान। तत अनेन मन्त्रेण मा त्वमिति। एतज्जाबालोपनिषदि व्याख्यातम्॥। संन्यासानन्तरमुक्तलक्षणलक्षितमग्निष्टोमादिकं तन्मन्त्रं वान पुनरावर्तये दित्याह- पयसेति। इत्यग्निष्टोमलक्षणमुक्तम् ॥३॥

संन्यस्तस्य कर्तव्यानि

संन्यस्यामिं न पुनरावर्तयेत्। यन्मृत्युर्जायमावहमित्य- ध्यात्ममन्त्राञ्जपेत् । स्वस्ति सर्वजीवेभ्य इत्युक्त्वा आत्मानमनन्यं ध्यायन् तदूर्ध्वबाहुर्विमुक्तमार्गो भवेदनिकेतश्ररेत्। मिक्षाशी यत्किंचिन्न दद्यात्। लवैकं नाधावयेत् जन्तुसंरक्षणार्थ वर्षवर्जम् इति। तदपि श्लोका भवन्ति ॥४ ॥

कुण्डिकां चमसं शिक्यं त्रिविष्टपमुपानहौ। शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा ॥ ५॥ पवित्रं स्नानशाटी च उत्तरासङ्गमेव च। यज्ञोपवीतं वेदांश्र सर्व तद्वर्जयेद्यतिः ॥ ६॥ स्नानं पानं तथा शौचमद्धिः पूताभिराचरेत्। नदीपुलिनशायी स्याद्देवागारेषु वा स्वपेत् ॥ ७ ॥ नात्यर्थ मुखदुःखाभ्यां शरीरमुपतापयेत्। म्तूयमानो न नुप्येत निन्दितो न शपेत्परान्॥ ८ ॥

संन्यस्याग्निं न पुनरावर्तयेत् इत्यादि निन्दितो न शपेत् परान इत्यन्तं कुण्डिकोपनिषदि प्रायशो व्याख्यातम्॥ ४-८॥

Page 36

कठरुद्रोपनिषत् २१

ब्रह्मचर्यलक्षणम् ब्रह्मचर्येण संतिष्ठेदप्रमादेन मस्करी। दर्शनं स्पर्शनं केलि: कीर्तनं गुह्यभाषणम्॥ ९॥ संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च। एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥ १० ॥ विपरीतं ब्रह्मचर्यमनुष्ठेयं मुमुक्षुभिः।

ब्रह्मचर्येण सदा स्थेयमित्याह-ब्रह्मचर्येणेति। किमिदं ब्रह्मचर्यम् इत्यत आह-दर्शनमिति। रागेण स्त्रीदर्शनमित्यादि ॥ ९-१०।।

ब्रह्मचर्यस्य फलम्

यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् ॥ ११ ॥ स एष जगतः साक्षी सर्वात्मा विमलाकृतिः। प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः ॥ १२ ।।

ब्रह्मचर्यपरिष्कृतज्ञानफलात्मा कीदृश इत्यत आह-यदिति ।। प्रत्यग्रूपेण स एव जगतः साक्षी ॥ ११, १२ ॥

ब्रह्मभावापत्ते: ज्ञानायत्तता न कर्मणा न प्रजया न चान्येनापि केनचित्। ब्रह्मवेदनमात्रेण ब्रह्माम्रोत्येव मानवः ॥ १३ ।।

प्रत्यगभिन्नव्रह्मभावापत्तिः ज्ञानायत्ता नान्यायत्तेत्याह-न कर्मणेति।।१३।।

1 इत आरभ्य आग्रन्थसमाप्ति अड्यार् पुस्तकशालायां १९१२ तमे वर्षें मुद्रिते कोशे न दृम्यते.

Page 37

२२ संन्यासोपनिषद्:

ब्रह्मज्ञानफलम् तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्यम्। संसारे च गुहावाच्ये मायाज्ञानादिसंज्ञके॥ १४॥ निहितं ब्रह्म यो वेद परमे व्योम्नि संज्ञिते। सोऽशनुते सकलान् कामानक्रमेण द्विजोत्तमः ॥१५॥ प्रत्यगात्मानमज्ञानमायाशक्तश्र साक्षिणम्। एकं ब्रह्माहमस्मीति ब्रह्मैव भवति स्वयम् ॥ १६ ॥ ब्रह्मभृतात्मनस्तस्मादेतस्माच्छक्तिमिश्रितात्। अपश्चीकृत आकाशः संभूतो रज्जुसर्पवत् ॥ १७ ॥। आकाशाद्वायुसंज्ञस्तु स्पर्शोऽपश्चीकृतः पुनः । वायोरग्निस्तथा चायेराप अद्भयो वसुन्धरा ॥ १८ ।। नानि सर्वाणि सूक्ष्माणि पञ्चीकृत्येश्वरस्तदा। तेभ्य एव विमृष्टं तद् ब्रह्माण्डादि शिवेन ह॥ १९ ॥ ब्रह्माण्डम्योदरे देवा दानवा यक्षकिन्नराः । मनुष्याः पशपध्ट्याद्यास्तत्तत्कर्मानुसारतः ॥ २० ॥। अस्थिस्नाय्वादिरूपोडयं शरीरं भाति देहिनाम्। योऽयमन्नमयो ह्यात्मा भाति सर्वशरीरिणः ॥ २१ ॥ तनः प्राणमयो ह्यात्मा विभिन्नश्रान्तरस्थितः । तनो मनोमयो ह्यात्मा विभिन्नश्रान्तरस्थितः ॥ २२ ॥ तनो विज्ञान आत्मा तु तरोऽन्यश्रान्तरस्थितः । आनन्दमय आत्मा तु ततोऽन्यश्रान्तरस्थितः ॥ २३ ॥।

Page 38

कठरुद्रोपनिषत् २३

योऽयमन्नमयः सोडयं पूर्णः प्राणमयेन तु। मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावत ॥ २४ ॥ ततो मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु। आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखी ॥ २५॥ तथानन्दमयश्चापि ब्रह्मणान्येन साक्षिणा। सर्वान्तरेण पूर्णश्र ब्रह्म नान्येन केनचित् ॥ २६ ॥ यदिदं ब्रह्म पुच्छार्यं सत्यज्ञानाद्वयात्मकम्। सारमेव रसं लब्ध्वा साक्षादेही सनातनम् ॥ २७॥ सुखी भवति सर्वत्र अन्यथा सुखिता कुतः । असत्यस्मिन् परानन्दे स्वात्मभूतेऽखिलात्मनाम् ॥ २८॥ को जीवति नरो जातु को वा नित्यं विचेष्टते। तस्मात् सर्वात्मना चित्ते भासमानो ह्यसौ नरः ॥ २९ ॥ आनन्दयति दुःखाढ्यं जीवात्मानं सदा जनः । यदा द्यवैष एतस्मिन्नदृश्यत्वादिलक्षणे ॥ ३० ॥ नि्भेदं परमाद्वैतं विन्दते च महायतिः । तदेवाभयमित्यन्तं कल्याणं परमामृतम् ।। ३१ ।। सद्रपं परमं ब्रह्म त्रिपरिच्छेदवर्जितम्। यदा द्यवैष एतस्मिन्नल्पमप्यन्तरं नरः ॥ ३२ ॥ विजानाति तदा तस्य भयं स्यान्नात्र संशयः । अस्यैवानन्दकोशेन स्तम्बान्ता विष्णुपूर्वकाः ॥ ३३ ॥।

Page 39

२४ संन्यासोपनिषदः

भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु। तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः ॥ ३४ ॥ स्वरूपभूत आनन्दः स्वयं भाति पदे यथा। निमिनं किश्िदाश्रित्य खलु शब्दः प्रवर्तते॥ ३५.॥ यतो वाचो निवर्तन्ते निमिचानामनावतः। निर्विशेषपरानन्दे कथं शब्दः प्रवर्तते ॥ ३६ ॥ तस्मादेतन्मनः सूक्ष्मं व्यावृत्तं सर्वगोचरम्।

व्यावृत्तानि परं प्राप्तुं न समर्थानि तानि तु। तड्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्धनम् ॥ ३८ ॥ विदित्वा स्वात्मरूपेण न विभेति कुतश्चन। एवं यन्तु विजानाति स्वगुरोरूपदेशतः ॥३९॥ स सध्वसाधुकर्न्यां सदा न तपति प्रमुः । तप्यतापकरूपेण विनातमखिलं जगत् ॥। ४० ॥। प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजातू।

कीदशं ब्रह्मेन्यत्र तद्विद्याविषयं ब्रह्म इत्यादिना आनन्दवल्ल्यर्थ स्पष्टी- करोति। "ब्रह्मविद्ाननोति परन्" इति वाक्यं "न कर्मणा" इति वाक्येन स्पषीकृतम्। तद्वृत्तिस्थानीयं "सत्यं ज्ञानमनन्तं ब्रह्म" इति वाक्यमपि .तद्विद्याविषयं ब्रह्म" इति वाक्येन स्पष्टीकृत्य "यो वेद निहितं गुहायाम्" इत्यादि संसार च इति वाक्ये: स्पषीकरोति-संसार इत्यादिना॥ "यज्जगद्गा- सकं भानम्" इत्यादि "ज्ञानाद्वेदान्तवाक्यजात्" इत्यन्तं आनन्दवल्ी- व्याख्यानेनैव व्याख्यातं स्यादिति मन्तव्यम् ॥ १४-४० ॥

Page 40

कठरुद्रोपनिषत् २५

एकस्यैव निर्विशेषब्रह्मणः सपतधा भेद: शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च ।। ४१ ॥ प्रमाता च प्रमाणं च प्रमेयं च फलं तथा। इति सप्तविधं प्रोक्तं भिद्यते व्यवहारतः ॥ ४२।। मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते। मायासंबन्धतश्वेशो जीवोऽविद्यावशस्तथा ॥ ४३ ॥ अन्तःकरणसंबन्धात् प्रमातेत्यभिधीयते। तथा तद्वत्तिसंबन्धात् प्रमाणमिति कथ्यते ॥ ४४॥ अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते। तथा ज्ञातं च चैतन्यं फलमित्यभिधीयते ॥ ४५॥ सर्वोपाधिविनिर्मुक्तं स्वात्मानं भावयेत्सुधीः ।

एकस्यैव निर्विशेषब्रह्मण: सप्तधा भेद: स्वाज्ञदृष्टिविकल्पित इत्याह- शुद्ध मिति ॥ श्रुतिः स्वकृतसूक्तवाक्यं स्व्यमेव विवृणोति-मायेति। स्वाति- रेकेण माया नास्तीति विभ्रमासंभवप्रबोधसिद्धं शुद्धमित्यभिधीयते ॥ स्वाज्ञान- तानवतारतम्यानुरोधेन सर्वोपाधिविनिर्मुक्तम ॥। ४१-४५।

विद्याफलम्

एवं यो वेद तत्त्वेन ब्रह्मभूयाय कल्पते ॥ ४६॥ सर्ववेदान्तसिद्धान्तसारं वच्मि यथार्थतः । स्वयं मृत्वा स्वयं भूत्वा स्वयमेवावशिष्यते ॥ ४७ ॥

इत्युपनिषत् ।

Page 41

२६ संन्यासोपनिषद:

विद्याफलमाह-एवमिति। स मुनिर्ब्रह्मभूयाय कल्पते॥ सर्ववेदान्त- सिद्धान्तसारं प्रकटयन्नुपसंहरति-सर्वेति । किं तत् इत्यत आह-स्वयमिति। स्वदेहादौ रूढमूलं स्वंभावमहंभावं मृत्वा मृतीः नीत्वा स्वात्मनि विलाप्य तद्विलापनाधिकरणं स्वयं भूत्वा अधिष्ठेयसापेक्षाधिकरणतापाये निष्प्रतियोगिकं निरधिकरणतया स्वयमेवावशिष्यते इत्यत्र-

स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः । स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम्।।

इति ॥ इत्युपनिषच्छब्दः कठोपनिषत्समाश्यर्थः ॥ ४६; ४७॥

लिखितं स्याद्विवरणं कठोपनिषदो लघु। कठोपनिषदो व्याख्या द्विषष्टिग्रन्थसंयुता ॥

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे त्र्यशीतिसंख्यापूरकं कठोपनिषद्विवरणं सम्पूर्णम ।

Page 42

कुण्डिको निषत्

आप्यायन्तु-इति शान्तिः

संन्यासपरिग्रहात्पूर्व कर्तव्यानां अनुक्रमणम

ब्रह्म चर्याश्रमेऽक्षीणे गुरुशुश्रूषणे रतः । वेदानधीत्यानुज्ञात उच्यते गुरुणाश्रमी ॥ १ ॥ दारमाहृत्य सदशममिमाधाय शक्तितः । ब्राह्मीमिष्टिं यजेत्तासामहोरात्रेण निर्वपेत् ।। २ ॥

1 अडयार् पुस्तकशालायां १९१२ तमे वषें मुद्रित संन्यासोपनिपत्कोशे अधो- निर्दिष्टमधिक हृश्यते :- ॐ अथाहिताप्निम्रिंयेत प्रेतस्य मन्त्रैः संस्कारोपतिष्ठते। स्वस्थो वाश्रमपारं गच्छेयमित्येतान्पितृमे धिकानोपधिसंभारान्संभृत्यारण्ये गत्वामावास्यायां प्रात- रेवाग्रीनुपसमाधाय पितृभ्यः श्राद्धतर्पणं कृत्वा ब्राह्मेष्टिं निर्वपत्।। स सर्वज्ञ: सर्वविद्यस्य ज्ञानमयं तपः। तस्यैषाहुतिर्दिव्या अमृतत्वाय कल्पते ॥ इत्येवम्। अत ऊर्ध्वम् यद्वह्माभ्युदयद्दिवं च लोकमिदममुं च सर्वम्। सर्वमभिजन्युः सर्वश्रियं दधतु सुमनस्यमाना ॥ ब्रह्म जज्ञानं [प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन आवः। स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥] इति। ब्रह्मणेऽथर्वणे प्रजापतयेऽनुमतयेऽग्रये स्विष्टकृत इति हुत्वा,

Page 43

२८ संन्यासोपनिषद:

संविभज्य सुतानरथे आ्म्यकामान्विसृज्य च। संचरन्वनमार्गेण शुचौ देशे परिभ्रमन् ॥। ३।। वायुमक्षोऽम्बुभक्षो वा विहितैः कन्दमूलकैः। स्वशरीरे समाप्याथ पृथिव्यां नाश्रु पातयेत् ॥ ४ ॥

कुण्डिकोपनिषत्ख्यातपरित्राजकसन्ततिः । यत्र विश्रान्तिमगमत्तद्रामपदमाश्रये ।

इह खलु सामवेदप्रविभक्तेयं कुण्डिकोपनिषत् पारिव्राज्यधर्मप्रकटनव्यग्रा ब्रह्ममात्रविश्रान्ता विजयते। अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते। आख्या- यिकां विना श्रुतेरवान्तरतया प्रवृत्तिर्विद्यास्तुत्यर्था। ब्रह्मचर्येति। सत्कुलप्रसूतो द्विजातिर्ब्रह्म चर्याश्रमस्वीकरणार्थ स्वगुर्वभिमतशुश्रूषणे रतः सन् गुरुकुलवासं कृत्वाथ गुरुणोपनीतस्तन्मुखतोऽशेषवेदानधीत्य सर्ववेदार्थरहस्यमप्यवगम्य गुरो: प्रसादतः अक्षीणे अक्षये द्विविब्रह्मचर्यास्पदब्रह्मचर्याश्रमे लब्धेऽपि सति ब्रह्मचर्य समाप्य गृही भवेत् । गृहाद्वनी भूत्वा प्रव्रजेत् यतिः श्रुत्यर्थमाननाय।

यज्ञ यश गच्छ [यज्ञपति गच्छ। स्वां योनिं गच्छ स्वाहा॥ एप त यज्ञो यज्ञपते सहसूक्तवाकः । सुवीर्य: स्वाहा ॥] इत्यम्रावरणी हुत्वा, ओ चित्सखायं [सख्या ववृत्यां,

.वित्तं मे अस्य रोदसी ।] इति चतुभिरनुवाकेराज्याहुतीजुहुयात्। तैरेवोपतिष्ठत। अथ मय्यग्रे अम्निं [गृह्लामि सह क्षत्रेण वर्चसा बलेन। मयि प्रजां मय्यायुर्दधामि स्वाहा मय्यग्निम्॥] इति च द्वावन्री समारोपयेत्। व्रतवान्स्यादतन्द्रित इति। तत्र श्रोकाः ।

Page 44

कुण्डिकोपनिषत् २९

अधीत्यानुज्ञात इत्यत्र छान्दसत्वादकारलुप्तः पाठोऽपि वर्तते अधीत्यनुज्ञात इति। उत्तराश्रमस्वीकरणार्थ गुरुणा अनुज्ञातः सन् अयमाश्रमी ब्रह्मचारी स्वसद्दशं स्वकुलानुरूपं दारमाहृत्योद्वाह्य तया साकं गार्हस्थ्योचितधर्मानुष्टानं कुर्वन्नुषित्वा वानप्रस्थाश्रमं जिगमिष्रुः शक्तितो धैर्यतोऽग्निमाधाय वानप्रस्था- श्रमाङ्गरवेन तासां ब्रह्मादिदेवतानां संतुष्टयर्थ ब्राह्मीं ब्रह्मदेवताकामिष्टिं यजेत्। कत्यहानि कर्तव्येयमिष्टिः, इत्यत्र तासामहोगत्रेण निर्वपेत्। ततः स्वार्जितार्थे पित्रार्जितार्थे वा गोधनात्मके यथायोगं संविभज्य तवेदमस्तु तवेदमस्तु इति सुतान् प्रति दत्त्वा, निःशेषीकृतपरिकरो, ग्राम्यकामान् विसृज्य, शुचौ देशे संचरन् वनमार्गेण, वन्याश्रमोक्तविधिना वायुभक्षोऽम्बुभक्षो वा परिभ्रमन् तदाश्रमं समापयेत्। यदि वाय्वादिभक्षणातृप्तस्तदा विहितैः निर्दुष्टैः कन्द- मूलैरपक्कै: पक्कैर्तरा शरीरयात्रां कुर्यात्। एवं स्वशरीरमात्रे सर्वसंसारं समाप्याथ पूर्वानुभूतस्वपरिकरं स्मृत्वा पृथिव्यामश्रुपातं न कुर्यादित्यर्थः ॥ १-४॥

विदारस्यैव संन्यासाधिकार:

सह तेनैव पुरुषः कथं संन्यस्त उच्यते। सनामधेयो यस्मिंस्तु कथं संन्यस्त उच्यते ॥ ५ ॥ तस्मात्फलविशुद्धाङ्गी संन्यासं संहितात्मनाम्। अभनिवर्ण विनिष्कम्य वानप्रस्थं प्रपद्यते ॥ ६ ॥ लोकवद्धार्यया सक्तो वनं गच्छति संयतः ।

संन्यासस्य क्रमप्राप्ततया विदारः सदारो वा संन्यसेदित्यत आह- सहेति। विदारेण संन्यास: कर्तव्यः खलु, संन्यासस्य दाराद्येषणात्यागपूर्व- कत्वात्। तथा सति तेनैव दारेण साकं पुरुषो वनी कथं संन्यस्तो भवेदि- त्युच्यते। यस्मिस्तु सदारे सति सदारो वनीति नामधेयेन सहितः सनामधेयो भवति। स कथं संन्यस्तो भवतीत्युच्यते॥ यस्मात् सदारस्य न संन्यासा-

Page 45

३० संन्यासोपनिषदः

विकार: तस्मात सम्यक् स्वहितात्मनां संहितात्मनां वानप्रस्थधर्माणामीश्वरा- राधनधियानुष्ठितानां फलविशुद्धाङ्गी स्वकृतधर्मफलार्पणसंतुष्टेश्वरप्रसादासादित- विशुद्धचित्तो विदारो मुनिः सर्वकर्मसंन्यासं कुर्यात्। तादृशचित्तशुद्धयभावे ब्रह्मचर्यतः चित्तशुद्धिहेतुश्रौतस्मार्तधर्मानुष्ठानार्थमग्निवर्णै गार्हस्थ्यं प्रपद्य वानप्रस्थाश्रमारोहणचित्तशुंद्धिर्वानप्रस्थाश्रमं पारिव्राज्यानुकूलचित्तशुद्धिप्रापकं प्रपद्यते। ग्राम्यमुखेच्छाभावेऽपि औपासनादिधर्मानुष्ठानार्थ संयतकरणग्रामो मुनिः लोकवन् भार्यया सक्त इव वनं गच्छतीत्यर्थः ॥५; ६॥

जन्मनिवृत्त्त्यर्थ संन्यासपरिग्रहः

संत्यक्त्वा संसृतिसुखमनुतिष्ठति किं मुधा ॥ ७॥ किं वा दुःखमनुस्मृत्य भोगांस्त्यजति चोच्छ्रितान्2। गर्भवासभय:द्धीतः शीतोष्णाभ्यां तथैव च। गुहां प्रवेष्टमिच्छामि परं पदमनामयम् ॥ ८॥ इति ॥

किमर्थ संसारदुःखं विहाय वनी भवतीत्याशङ्कय जन्मादिभिया सर्वे त्यकत्वा वना भिक्षुर्वा भवतीत्यह-संत्यक्त्वेति। विपुलं संसारभवसुखं संत्यज्य मुधा वनाद्वनमटति दारपुत्रादियोगजसुखदे संसारे ॥ किं दुःखमनु- स्मृत्य सर्वोच्छिितान् स्रक्चन्द्रनादिभोगांस्त्यजतीति प्राप्ते सांसारिकदुःखप्राय- सुखाभासस्य क्षणभङ्गुरत्वेऽप्यनन्तकोटिकल्पपर्यन्तं जननमरणादिदुःखपर- म्पराहेतुत्वेन व्रतिगृहिवन्याश्रमोचितबाह्यान्तःसंसारत्याग एव श्रेयानिति मनसि विधाय 'हे जाये, त्वया मे यत् कर्तव्यं तत्सर्वे कृतं, पुत्रनिकटमेत्य तपश्चरन्ती ब्रह्मलोकं ब्रज, इदानीमहं शोतोष्णादिबहुदुःखास्पदगर्भवासभयात् भीतः सन् गत्परमपदसाधनं गुह्यं निर्विशोषत्रह्मनिष्ठानुकूलसंन्यासं प्रवेष्ठुमिच्छामि इति जायामाश्वास्य प्रेषयित्वा विदारो यथावत् संन्यासं कृतवानित्यर्थः ॥७;८॥

1 उ १ उज्झृतान्.

Page 46

कुण्डिकोपनिषत ३१

संन्यस्तस्य न श्रौतस्मार्ताग्निसेवनम् संन्यस्याभिमपुनरावर्तनम् ॥ ९ ॥

कृतेऽपि संन्यासे मुक्तिहेतवे इतोऽधिकचित्तशुद्धयर्थ वा श्रौतस्मार्ताग्नि- निष्कामबुद्धयानुष्ठेयसत्कर्म- निमित्तादग्निसेवनं कार्यमिति तत्राह-संन्यस्येति। न ह्युत्तीर्णसरित्पारो नौकां शिरसा वहति; तथा संप्राप्तसत्त्वशुद्धेः संन्यासिनः कृतकृत्यस्य न हि कर्मानु- षानापेक्षास्ति, तस्य निरग्नित्वात्। यत एवमतः संन्यस्य पुनः श्रौतं स्मार्त वागिं कदापि न सेवेत। एवमग्निसेवाभावेऽपि यथोक्तकाले वचसा मनसा वापि प्रधानमन्त्रस्य कृत्स्नस्य वा न कदाप्यावर्तनमात्रेडनं स्मरणं वा कुर्यात् ॥९॥

अभनिसेवने प्रत्यवायः यन्मृत्युर्जायमावहम् इति ॥ १० ॥

एवं कृते का हानिरित्यत्राह-यदिति। योऽहं वर्णाश्रमव्यवस्थापक- श्रुतिगण: सोऽहं मृत्युर्भूत्वा परिव्राड्धर्मविरलस्य ते पूर्वसिद्धमपि जायं जायमानं वा परापरविषयकब्रह्मज्ञानमावहं प्रविशेयं, मृत्युः प्रमादः तदस्मरणं इत्थंभूत- मृत्युग्रस्तं ज्ञानमाभासज्ञानमज्ञानं वा भवेदित्यर्थः । यद्यत्स्वातिरिक्ततया त्यक्तं तत् कदाप्यस्ति नास्तीति वा न हि स्मरेदित्यर्थः ॥१०॥

चित्तशुद्धयर्थ प्रणवादिमहावाक्यानामावर्तनम्

अथाध्यात्ममन्त्राञ्जपेत्॥ ११ ॥

उत्पन्नचित्तशुद्धे: प्रयोजनाभावात् कर्म मास्तु । यद्यचित्तशुद्धः संन्यस्यति तदा तच्चितशुद्धये कर्म विना कि ते अस्तीत्याशङ्कय तस्यापि न कर्मास्ति, ज्ञानतोऽज्ञानतो वापि प्रैषा दिमन्त्रपूर्वकं सर्वकर्मणां त्यक्तत्वात्। यद्यशुद्धचित्तस्त- दा स्वाश्रमानुष्ठानमविहाय स्वचित्तशुद्धये प्रणवमहावाक्यजातमावर्तये दित्याह-

Page 47

३२ संन्यासोपनिषद:

अथेति। अथ विविदिषासंन्यासानन्तरमध्यात्ममन्तान् प्रणवमहावाक्यानि ईशादष्टोत्तरशतोपनिषदो वा स्वचित्तशुद्धये जपेत् ।। ११ ।।

दीक्षानियमा: दीक्षामुपेयात्। काषायवासाः । कक्षोपस्थलोमानि वर्जयेत्। 'ऊर्ध्वबाहुर्विमुक्तमार्गो भवति। अनिकेतश्ररेत्। मिक्षाशी निदिध्या- सनं दध्यात्। पवित्रं धारयेज्जन्तुसंरक्षणार्थम् ॥ १२ । तदपि श्रोका भवन्ति- कुण्डिकां चमसं शिक्यं त्रिविष्टपमुपानहौ। शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा ॥। १३ ॥ पवित्रं स्नानशाटी च उत्तरासङ्गमेव च। अतोऽतिरिक्तं यत्किश्चित्सर्व तद्वर्जयेद्यतिः ॥ १४॥ नदीपुलिनशायी स्याद्देवागारेषु बाह्यतः । नात्यर्थ सुखदुःखाभ्यां शरीरमुपतापयेत्॥ १५१ ॥ स्नानं पानं तथा शौचमद्धिः पूताभिराचरेत्। स्तुयमानो न तुप्येत निन्दितो न शपेत्परान् ॥ १६ ॥ भिक्षादि वैदलं पात्रं स्नानद्रव्यमवारितम। एवं वृत्तिमुपासीनो यतेन्द्रियो जपेत्सदा ॥ १७ ॥ -विश्वायमनुसंयोगं मनसा भावयेत् सुधीः ॥१८ ॥

1उ, १. ऊर्ध्वगो बाहु :. 2 3 १. विश्वायं.

Page 48

कुण्डिकोपनिषत् ३३

आदेहपातं द्विविधब्रह्मचर्यदीक्षामुपेयात्। तन्नियमस्तु काषायवस्त्र- धारणं कक्षोपस्थलोमवर्जनपूर्दकं क्षौरम्। संन्यासानन्तरम् ऊर्ध्वबाहु: प्राची- मुदीचीं वा दिशं प्रव्रजेत्। व्याविद्धपूर्वाचरितसंसारमार्गों भवति। यदि श्रवणध्यानानधिकारी तदा "अष्टौ मांस्येकाकी यतिश्चरेत्" इति श्रुत्यनु- रोधेनानिकेतश्चरेत्। एकान्नत्यागपूर्वकं माधूकरदिवृत्त्या भिक्षाशी। यदि श्रवणाद्यधिकार्र, तदा अबाधकसत्सेवितपुण्यस्थले वसन् संशयादिपञ्चदोष- शान्त्यन्तं सर्ववेदान्तश्रवणमननं निदिध्यासनं च कुर्वन्, तत्फलीभूतार्थ सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति दध्यात् ध्यायेत्। जन्तु- संरक्षणार्थम् "सर्वं खल्विदं ब्रह्म व्यतिरिक्तं न किंचिदस्ति" इति श्रुत्यनुरोधेन सर्वात्मभावनासिद्धये पवित्रं परिशुद्धं निर्विशेषज्ञानं धारयेत्; "पवित्रं ज्ञान- मुच्यते" इति श्रुतेः ॥ ब्राह्मणेन योऽर्थोडभिहितः तमेतमर्थ मन्त्रा अप्यनु- वदन्तीत्याह-तदपीति॥ परैः स्तूयमान:। कुण्डिकां कमण्डलुं चमसं नारिकेलकपालार्ध त्रिविष्टपं त्रैलोक्यं मन्त्रौषधमहिम्ना तत्संचारक्षमावुपानहौ पादत्राणकरौ॥ उत्तरासङ्गं वेदान्तविचारासक्तिः ॥ भिक्षाद्ाधारतया वैदलं पत्रग्रथितपर्णपात्रम् अवारितमावश्यकं स्नानद्रव्यं मृत्तिका। अयं धर्मः कुटी- चकादीनां समः। कुटीचकस्य तु चमसोपानहपवित्रभिक्षापात्राणि विशेषः ॥ कुण्डिकाम् इत्यादिमन्त्रैः यतीनां या वृत्तिरभिहिता तां वृत्ति यतेन्द्रियो भूत्वोपासीनः सदा अध्यात्ममन्त्रान् जपेत्। ततः यदविश्वारोपापवादाधिकरणं विश्वायं विश्वायतनं तद्येन मीयते स मनुः प्रणवः; तयोः परापरब्रह्मणोः संयोगमैक्यं मनसा प्रणवार्थ ब्रह्माहमस्मि इति सदा भावयेत् ॥ १२-१८॥

विश्वाधिष्ठानात् पञ्चभूतानां भेद: आकाशाद्वायुर्वायोज्योतिज्योतिष आपोडद्वयः पृथिवी। एतेषां भृतानां ब्रह्म प्रपद्येऽजरममरमक्षरं प्रपदे ॥ १९ ॥

य द्विश्वाधिष्ठानं ततः पञ्चभूतानि भिदयन्त इत्यत आह-आकाश इति। तत्सकाशादाकाशः। आकाशादिपञ्चभूतानां ब्रह्मकार्यत्वेन कार्यकारणयोरेक-

3

Page 49

३४ संन्यासोपनिषद:

त्वात् एतेषां भूतानां यदारोपापवादाधिष्ठानं तत् ब्रह्मेति प्रपद्े। अधिष्ठेय- सापेक्षतोऽविष्ठानमपि जीर्यन्म्रियत इत्यत आह-अजरममरमक्षरं प्रपद्य इति। अधिष्टेयस्याकाशादे: स्वाज्ञानविकल्पितत्वेन कारणतुल्यत्वादधिष्ठेयापाये निर- िष्ठानत्वात् तत् कदापि न हि जीर्यते, नापि म्रियत इत्यर्थः ॥ १९ ॥

यते: स्वानुभवप्रकटनम् मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥ २०॥ न मे देहेन संबन्धो मेघेनेव विहायसः । अतः कुतो मे तद्धर्मा जाग्रत्स्वप्रसुषुप्तिषु ॥ २१॥

अहार्यवन्नित्यविनिश्चलोऽहमम्भोधिवत् पारविवर्जितोऽहम् ॥ २२॥ नारायणोऽहं नरकान्तकोऽहं पुरान्तकोऽहं पुरुषोऽहमीश्वरः । अखण्ड बोधोऽहमशेषसाक्षी निरीश्वरोऽहं निरहं च निर्ममः ॥

विश्वायमनुसंयोगध्याता यतिः स्वानुभवं प्रकटयति-मयीति। ममा- काशवत् कल्पनास्पृ्त्वात् ॥ मेरो: केनापि हर्तुमशक्यत्वात् मेरुवदचलो- ऽस्मीत्यर्थः ॥ एवं नित्यानुसंवानतो निर्विकल्पं मनो भवति तेन कृतकृत्यो भवतीत्यर्थः ॥ २०-२३॥

योगाभ्यासेन ब्रह्मसाक्षात्कार: तदभ्यासेन प्राणापानौ संयम्य। वृषणापानयोर्मध्ये पाणी आस्थाय संश्रयेत्। संदश्य शनकैर्जिहां यवमात्रविनिर्गताम् ॥ २४॥

Page 50

कुण्डिकोपनिषत्

माषमात्रीं तथा दृष्टि श्रोत्रे स्थाप्य तथा भुवि। श्रवणे नासिके गन्धायतत्वं न च संश्रयेत् ॥ २५॥ अथ शैवं पदं यत्र तद् ब्रह्म ब्रह्म तत् परम्। तदभ्यासेन लभ्येत पूर्वजन्मार्जितात्मना ॥।२६ ॥

यद्येवं ज्ञानं नोदेति तदा योगाभ्यासेन प्राणापानैक्यं कृत्वा षण्मुखी- करणेन कुण्डल्युद्वोधनं कृत्वा तया ग्रन्थित्रयात्मकषडाधारं भित्त्वा सहस्रारे ब्रह्मसाक्षात्कारं कुर्यादित्याह-तद्भ्यासेनेति। योगाभ्यासेन प्राणापान- संयमनपूर्वक कुण्डलिन्या सुषुम्नां भेदयेत् इत्यत्र वक्ष्यमाणमन्त्ना भवन्तीत्याह- वृषणेति। वृषणापानमध्यं करदूयेन संपीड्य ॥ जिह्वाबन्धनपूर्वकं माषमात्र- लक्ष्यानुसन्धानपूर्वकं दृष्टिं श्रोत्राकाशे भुवि पदद्वये च संस्थाप्य। श्रवणनासि- कागन्धग्रहणं पञ्चज्ञानेन्द्रियतद्विषयपञ्चकोपलक्षणार्थम्। श्रवणादिपश्चेन्द्रियाणां शब्दादिपञ्चविषयायतनत्वं न च संश्रयेत् ; इन्द्रियेन्द्रियार्थसंबन्धं मनःसंकल्प- संबन्धं च न कुर्यादित्यर्थः । एवं कृते प्राणापानैक्यं भवति ॥ ततः कुण्डलिनी सुषुम्नां मित्त्वा अथ सहस्रारचक्रं प्रविश्य लीयते। तया साकं दृड्जनःप्राणाग्र- योऽपि शैवपदं यत्र विराजते तत्रैव लीयन्ते। तल्याधिकरणं ब्रह्मैव तल्य- सापेक्षाधिकरणतापाये तदेव निष्प्रतियोगिकनिर्विशेषं परं ब्रह्मेत्यर्थः । एव- मभ्यास: सफलो भवतीत्याह-तदभ्यासेनेति। योऽयं ज्ञानयोगोऽभिहितः पूर्वजन्मन्यार्जितः अभ्यस्त आत्मा स्वरूपं यस्य तेन पूर्वजन्मार्जितात्मना तदभ्यासेन योगिपटलभावनानुरूपं परापरे ब्रह्मणि लभ्येत ॥ तत्र निर्विशेष- ज्ञानी स्वात्तज्ञानसमकालमेव ब्रह्मैव भवतीत्युक्तम् ॥२४-२६ ।।

सविशेषज्ञानिनः क्रममुक्ति:

संभूतैर्वायुसंश्राव्य हृदयं तप उच्यते। ऊर्ध्व प्रद्यते देहाद्वित्वा मूर्धानमध्ययम् ॥२७॥

Page 51

३६ संन्यासोपनिषद्:

स्वदेहस्य तु मूर्धानं ये प्राप्य परमां गतिम्। भूयस्ते न निवर्तन्ते परापरविदो जनाः ॥ २८॥

अथ सविशेषज्ञानिनः क्रममुक्तिमाचष्टे-संभूतैरिति। सम्यक् भवन्तीति संभूतानि बाह्यान्तःकरणानि। तैः साकं यत् सविशेषज्ञानाग्निना तप्यते दीप्यते प्रकाशते इति तप इत्युच्यते। हृदयं प्रविश्य तत्रत्यवायुं प्राणवायुं संश्राव्य ब्रह्मरन्ध्रभेदनसमर्थमिति श्रुत्वा तं प्राणमवष्टभ्य सुषुम्नाद्वारेण देहादूर्ध्वै मूर्धानं भिच्वा यदपरं ब्रह्मात्ययं तदेव प्रपद्यते ॥ तत् प्राप्य पुनः निवर्तन्त इत्यत्र- स्वदेह्स्य तु मूर्धानं ये प्राप्य परमां गति भजन्ति, भूयस्ते न निवर्तन्ते परापरविदो जना इति शवलब्रह्मोपासकाः सुषुम्नामार्गेण ब्रह्मरन्ध्रं भित्त्वा सूर्यद्वारेण ब्रह्मलोकं प्रवि्य तत्र निर्विशेषब्रह्मान्वेषणं कुर्वन्तो यावदाभूतसंप्रवं तत्रोषित्वाथ वासनाक्षयतो ब्रह्मणा सह कैवल्यमेत्य कदापि न हि पुनरावर्तन्त इत्यर्थ: ॥ २७; २८॥

निविशेषब्रह्मज्ञानिनां मोक्ष:

न साक्षिणं साक्ष्यधर्माः संम्पृशन्ति विलक्षणम्। अविकारमुदासीनं ग्रृहिधर्माः प्रदीपवत् ॥। २९. ।। जले वापि स्थले वापि लुठत्वेष जडात्मकः । नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा ॥ ३० ॥ निष्किरियोऽस्यविकारोडस्मि निप्कलोऽस्मि निराकृतिः । निर्विकल्पोडम्मि नित्योडस्मि निरालम्बोडस्मि निर्द्यः ॥ ३१ ॥ सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्दयः । केवला खण्डबोधोऽहं स्वानन्दोऽहं निरन्तरः ॥ ३२ ॥

Page 52

कुण्डिकोपनिषत् ३७

स्वमेव सर्वतः पश्यन् मन्यमान: स्वमट्यम्। स्वानन्द्मनुभुञ्जानो निर्विकल्पो भवाम्यहम्॥ ३३ ।। गच्छं स्तिष्ठन्नुपविशञ्छयानो वान्यथापि वा। यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः ॥ ३४॥ इत्युपनिषंत्।। केचनात्रैव निर्विशेषं ब्रह्म विदित्वा कृतकृत्या भवन्ति इत्यत्र आभास- तोऽपि यद्यस्ति स्वातिरिक्तकलना तदा तत्साक्षिणो भूत्वा मुक्ता भवन्तीत्याह -न साक्षिणमिति। स्वदेहतदन्यत्रात्मात्मीया भिमतिमुत्ह्यानवर बम्मानु- संधानपरिक्षीणस्वातिरित्तत्रमो मुनिः प्रवृत्तिनिवृत्तिपराङ्मुखे भूत्वा कृतकृत्यो विदेहमुक्तो भवेदित्यर्थः ॥ इत्युपनिषच्छन्दः कुण्डिकोपनिषत्परिसमात्यर्थः ॥ ॥ २९-३४ ॥।

श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना। कुण्डिकोपनिषद्वयाख्या लिखिता स्वात्मबोविनी। कुण्डिकोपनिषद्वयाख्याग्रन्थ जातं शतं स्मृतम् ॥

कुण्डिकोपनिषद्विरणं संपूर्णम

Page 53

जाबालोपनिषत्

पूर्णमदः-इति शान्तिः

प्रथम: खण्डः

अविमुक्तोपासनम्

बृहस्पतिरुवाच याज्ञवल्क्यम्। यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम्। अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । तम्माद्यन्र क्वचन गच्छति तदेव 'मन्येतेति2। इदं वै कुरुक्षेत्रं देवानां देवयजनं सवेषां भूतानां ब्रह्मसदनम्। अत्र हि जन्तोः प्राणेपृत्क्ममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति। तस्मादविमुक्तमेव निषेवेता- विमुक्तं न विमुश्चेत्। एवमेवैतद्याज्ञवल्क्य एवमेवैतद्भगवन् इति वै याज्ञवल्क्येति।१।।

जाबालोपनिषत्ख्यातसंन्यासज्ञानगोचरम्। वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते। शुक्कयजुर्वेदान्तर्गतजाबालशाखायां कर्मादिकाण्डत्रयं विद्यते। तत्र सकामिनां कर्मकाण्डानुष्ठानतः चन्द्रलोकाप्तिः। निष्कामिनां कर्मोपासना-

1.उ१. मन्यते. 2 उ, 'इति' इत्यस्य स्थाने 'तदविमुक्तमेव' इति दृम्यते.

Page 54

४० संन्यासोपनिषदः [ख.

काण्डसमुच्चयानु्नतो ब्रह्मलोकाप्तिः। काण्डद्वयार्थविरक्तानां ब्रह्ममात्राप्तिहेतु- शतरुद्रीयजपसर्वकर्मसंन्याससाधनसंपन्नानां ब्रह्ममात्राप्तिसाधनभूतेयं ज्ञान- काण्डात्निका जावालोपनिष्दारब्धा। तस्यास्तावदल्पप्रन्थतो विवरण- मारभ्यते। आख्यायिका विद्यास्तुत्यर्था। मिथिलोपवनप्नान्ते वादेन ब्राह्मणान् जित्वा स्वात्तपरब्रह्मविद्यया जनकं बोधयित्वा स्वशिष्यगणेन सह याज्ञवल्क्यः पुनः मिथिलोपवने कंचित्कालमासांचक्रे। यः सर्वज्ञकल्पस्तं याज्ञवल्क्यम् अविमुक्तेयत्तां जिज्ञामुर्बृहस्पतिरुवाच सर्वक्षेत्रादपि यदनु प्रसिद्धम्। कुत्सितं पापकर्म रौतीति कुरुः। तस्य क्षेपणपूर्वकं स्वगतजनत्राणनात् कुरुक्षेत्रम। यद्वा-कुः पृथिवी, तस्यां रौति शब्दं करोतीति कुरु: प्राणः; तदावासहेतुशरीरं कुरुक्षेत्रं तत्रत्यदेवतानामिन्द्रियाणां प्रवृत्तिनिमित्तदेवस्य प्रत्यक्चिद्धातोर्यजनं पृजाकरणम्। अत्र हीन्द्रियाणि स्वोचितविषयोपहारैरात्मानं यजन्ति सर्वेषां भूताना मिन्द्रियाधिष्ठातृणां वा त्रह्मसइनं ब्रह्माप्तिस्थानम्। यथा देवयजनसाधनं कुरुक्षेत्रं, तथा विशेषणद्यविशिष्टमान्तरं कुरुक्षेत्रमिति बृहस्पतिप्रश्नानुरोधं मुनिराह-अविमुक्तमिति। यत्स्वरूपं स्वाविद्या कामकर्मविमुक्तं तद विमुक्तं ब्रह्म यत्रोपलभ्यते तदेव भ्रूमध्यगताज्ञाचक्रं कुरुक्षेत्रम्। देवानामित्याद्युक्तार्थम्। यस्मादेवं तस्माद्यत्र क्वचन गङ्गाप्रयागादिस्थले तद्विपरीते वा गच्छति तदेवाविमुक्तमिति मन्येत जानीयात्। इति अनेन प्रकारेण। इदं वै मया प्राप्तमेव ब्रह्म। कुरुक्षेत्रमित्याद्युक्तार्थम्। क्षेत्रसामान्यस्य क्षेत्रज्ञविक ल्पितत्वात् तदतिरेकेग न किंचिदस्तीत्यर्थः । अत्राविमुक्तरूपे कुरुक्षेत्रे ब्रह्मेति विज्ञाते तद्विज्ञानानुरोधेन जन्तोः प्राणिमात्रस्य प्राणेषूत्क्रममाणेषु। स्वाज्ञानरु जं द्रावयति नाशयनीति रुद्रः परमेश्वरः संसारतारकं ब्रह्म सच्चिदानन्दलक्षणं व्याचष्टे कथयति। येन "तत्त्वममि", "अहं ब्रह्मास्मि" इत्युपदेशेन असौ जीवोऽ- मृतीभूत्वा स्वातिरित्तभ्रमतो मोक्षीभव्रति स्वातिरिक्तापह्वव सिद्धनिष्प्रति- योगिक ब्रह्ममात्रतयावशिप्यते । यस्मादेवं तस्मात् ब्रह्ममात्रज्ञानोत्पत्ते: प्राग- विमुकत भ्रूमध्यगतज्योतिर्लि ्गमेव निषेवेत ज्योतिर्लिङ्गमस्नि इत्यनुसंधानं कुर्यात्; 1 उ. पूजाकारणम्. 2 उ. 'तदेव' नास्ति.

Page 55

२] जाबालोपनिषत् ४१

"ज्योतिर्लिंङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत् सदा यतिः" इति श्रुतेः । यावह्ह्ममात्रज्ञानं नोदेति तावदविमुक्तं प्रत्यक्चमात्मानमीश्वरं वा न विसुश्चेत्। याज्ञवल्क्येनैवमुक्तो बृहस्पतिस्तदुक्तमङ्गीचकारेत्याह-एवमेवेति ॥ १॥ इति प्रथम: खण्डः

द्वितीय: खण्डः

अविमुक्तस्वरूपजिज्ञासा अथ हैनमत्रिः पप्रच्छ याज्ञवजक्यन्। य एषोऽनन्तोऽन्यक्त आत्मा तं कथमहं विजानीयामिति। स होवाच याज्ञवल्क्यः । सोऽविमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोडविमुक्ते प्रतिष्ठिन इति ॥१ ॥

कथ पुनः अविमुक्तात्मोपासितुं शक्यस्तस्याव्यक्तत्वादित्यविमुक्तयाथा- त्म्यबुभुत्सया याज्ञवल्क्यमत्रिः पप्रच्छेत्याह-अथेति। अथ ह बृहस्पतिप्रश्न- निर्णयानन्तरं किलैनं याज्ञवल्क्यं ब्रह्मपुत्रोऽत्रिः पप्रच्छ। किमिति। यस्ता- रकब्रह्मेत्युक्त एषोऽनन्तः परिच्छेदत्रयविरलोऽव्यक्त आत्मा तमुक्तलक्षण- मात्मानं कथमहं विजानीयापवगच्छेपमिति। अत्रिप्रश्नोत्तरं स होवाच याज्ञ- वल्क्यः बृहस्पति प्रति । तारकत्वेन य उक्तः सोऽविमुक्त: प्रत्यगभेदेनो- पास्यः । तत्र हेतुः भवता पृष्टो य एषोऽनन्तोजत्यक्त आत्मा व्याखपातम्। सोऽविमुक्ते सोपाधिकेश्वरे प्रतिष्ठित इति तस्य निरावृतत्वात् तस्मिन्नत्र्यक्तो- नन्तात्मोपलभ्यते ॥ १॥ अविमु क्तोपलन्धिसाधनम् सोडविमुक्त: कस्मिन् प्रतिष्ठिन इति। वरणायां नास्यां च मध्ये प्रतिष्ठिन इति। का वै वरणा का च नासीति। सर्वानिन्द्रियकृतान् 1 उ. प्रपञ्चम्.

Page 56

४२ संन्यासोपनिषद: ख.

दोषान् वारयतीति तेन1 वरणा भवति। सर्वानिन्द्रियकृतान् पापान् नाशयतीति तेन नासी भवतीति। कतमच्चास्य स्थानं भवतीति। भ्रुवोर्घाणस्य च यः संधि:, स एष द्यौर्लोकस्य परस्य च संधिर्भवतीति। एतद्वै संधिं संध्यां ब्रह्मविद उपासत इति। सोऽविमुक्त उपास्य इति। सोडविमुक्तं ज्ञानमाचष्टे यो वै तदेवं वेदेति ॥ २ ॥

तदुपलब्धिस्थानं पृच्छति-सोडविमुक्त: कस्मिन् प्रतिष्टित इति। सोऽयमीश्वरः कुत्र संनिहित इति पृष्ट उत्तरमाह-वरणायां नास्यां च मध्ये प्रतिष्ठित इति। वरणानास्योर्मध्ये प्रतिष्ठित इत्यर्थः। वरणानासीप्रदेशौ श्रुतिर्त्याकरिष्यतीति न व्याख्यातम्। वरणानासीस्वरूपं पृच्छति-का वै वरणा का च नासीति। तत्न वरणाशब्दार्थ व्युत्पादयति-सर्वानिति। सर्वान् ज्ञानकर्मेन्द्रियकृतान् दोषान वार्यति निवारयतीति। तेन वरणा भवतीति। सर्वानिन्द्रियकृतान पापान् पापानि नाशयतीति। तेन नासी नाशी भवति। सकारः शकारार्थः । वरणाया नास्याश्च मध्ये प्रतिष्ठित इत्युक्त्या नासाभ्रूसन्धिः प्रतीयते। तथा पि तत्प्रदेशं पृच्छति-कतमच्चास्य स्थानं भवतीति। अस्या- विमुक्तस्येत्यर्थः । सर्वत्रेतिशब्दः प्रश्नपरिसमाह्यर्थः । भ्रुवोर्घाणस्य च यः प्रसिद्धः सन्धिः, स एष प्रसिद्धः ब्रह्मकपालस्थानीयद्युलोकस्य चुबुकावसान- स्थानीयस्य च परस्य च भूलोकस्यापि सन्धिर्भवति। लोकद्वयसमुच्चयार्थश्चकारः। एनद्वै एतमेव। स संधीयते अस्मिन्नविमुक्तमिति सन्धिः स्वात्मा। तं सन्धि स्वात्मानं संध्यां भ्रृघ्राणसंधौ ब्रह्मविद उपासते तत्रत्यज्योतिर्हिङ्गध्यानपरा भवन्ति। सोऽविमुक्त उपास्य इति व्याख्यातम्। तज्ज्ञानफलमाह-यो वा इति। यो वे विद्वान् अविमुक्तयाथात्म्यं वेद तद्गतहेयांशमपोह्य निर्विशेषा- त्मानं जानाति स विद्वान् सोऽविमुक्तं तत्साक्षात्कारहेतुं ज्ञानमाचष्टे स्वय-

1 उ. 'तेन' नास्ति.

Page 57

जाबालोपनिषत् ४३

मीश्वरभावमेत्य स्वभक्तपटलचरमदशायां तारकज्ञानोपदेशं करोति। स्वयं निर्वि- शेषब्रह्मैव भवतीत्यथः ॥ १॥ इति द्वितीय: खण्डः

तृतीय: खण्डः अविमुक्तज्ञानोपायः अथ हैनं ब्रह्मचारिण ऊचुः । किंजप्येनामृतत्वं ब्रहीति। स होवाच याज्ञवल्क्यः । शतरुद्रीयेणेति। एतान्येव ह वा अमृतस्य नामधेयानि। एतैर्ह वा अमृतो भवतीति ॥।१।।

अविमुक्तयाथात्म्यज्ञानोपायं ब्रह्मचारिण: पृच्छन्तीत्याह-अथेति। अथ अत्रिप्रश्ननिर्णयानन्तरं ह किल एनं याज्ञवल्क्यं तच्छिष्या ब्रह्मचारिण ऊचुः । किंजप्येनामृतत्वं केन जप्येनामृतत्वसाधनज्ञानं जायते तदू ब्रूहि भगवन्निति। तैः पृष्टः स होवाच याज्ञवल्क्यः । किमिति। कैवल्यादिपञ्चरुद्रेण रुद्राध्यायेन वेति अमृतत्वसाधनज्ञानं जायते ततोऽमृतत्वमित्येतानि शतरुद्राभिधानानि अमृतस्वरूपरुद्रनामधेयानि भवन्ति। एतैः शतरुद्रीयजपैः चित्तशुद्धिप्राप्यज्ञान- द्वारा शतरुद्रजापी मुनिरमृतो भवति। इतिशब्दः खण्डसमात्यर्थः ॥ १॥ इति तृतीय: खण्डः

चतुर्थः खण्डः सर्वकर्मसंन्यासज्ञानजिज्ञासा अथ जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच । भगवन् संन्यासमनुब्रूहीति। स होवाच याज्ञवल्क्यः । ब्रह्मचर्य समाप्य1

1 उ. परिसमाप्य.

Page 58

४४ संन्यासोपनिषद: [ख.

गृही भवेत्। गृही भूत्वा वनी भवेत्। वनी भृत्वा प्रत्रजेत्। यदि वेतरथा ब्रह्मचर्यादेव प्रब्रजेद् गृहाद्वा वनाद्वा। अथ पुनरत्रती वा व्रती वा स्ातको वास्त्रानको वा उत्सन्नामिरनमिको वा यदहरेव विरजेत्तदहरेव प्रत्रजेत् ॥ १ ॥

सर्वकर्मसंन्यासज्ञानबुमुत्सया जनको मुनि पृच्छतीत्याख्यायिकाम- वतारयति-अथेति। अथ ब्रह्मचारिप्रश्नानन्तरं नामतो जनको ह वैदेहो विदेहराजो याज्ञवल्क्यमुप समीपमेत्योवाच। किमिति। हे भगवन् सर्वकर्म- संन्यासमनुब्रूद्दीत्युक्त: स होवाच याज्ञवल्क्यः । किमिति। अविरक्तदृष्टि- माश्रित्याश्रमव्यवस्थामाह-ब्रह्मचर्यमिति। विद्याग्रहणनिमित्तब्रह्मचर्य तेनैव कालं नयेत् यद्यविरक्तस्तदा तत् समाप्य गृह्दी भवेत्। तत्र यावच्छक्ति निष्कामबुद्धया सत्कर्मानुष्ठानं कुर्वन् कालं नयेत्, तत्र विरक्तिश्वेत्तदा गृहाद्वनी साग्निर्निरग्निर्वा भूत्वा तत्रैव कालं नयेत्। यद्यलंबुद्दिस्तदा प्रव्रजेत् चतुर्थाश्रमं गच्छेत्। एवं क्रमेण संन्यास: कर्तव्यो न विपर्यये इत्यत आह-यदि वेति । यदि वेति पक्षान्तरे विकल्पः। यदा ती त्रतरवैराग्यं जायते तदाधीतवेदान्तो विद्वान् प्राथ- मिकब्रह्चर्याश्रमादेव प्रत्रजेत् पारमहंस्याश्रमं गच्छेत्। ब्रह्म चर्यसमाध्यनन्तरं कुटीचकादिक्रमेण पारिव्राज्यं ग्राह्यमिति चेन्न; तत्क्रमस्य मन्दविरागिविषय- त्वात्। वैराग्यसाकल्ये पारमहंस्यमेव स्वीकर्तु शक्यमित्यर्थः । यदि गृहस्थाथ्रमे विरतिर्जायते तदा गृहाद्वा प्रव्रजेत् वनाद्वा। प्रवजनस्य वैराग्यनिमित्तत्वात् न क्रनाकाड्क्षास्तीत्यर्थः । यदा विरक्तिर्जायते तदाश्रमत्रयान्तरालेऽपि न्यासो युज्यत इत्याह। अथेति वैराग्यानन्तर्यार्थः । वनस्थदीक्षासमाप्तावपि कुतश्चि- न्निमितात् संन्यासो न लभ्यते तदानीं तदवस्थितिः द्विधा भवति जपो ध्यानं चेति। तदेव हि तद्वतम्। तदस्यास्तीति बरती। न व्रती अव्रती वा, यद्वा व्रती वा, अधीतसाङ्गस्वाध्यायी स्नातकः, यत्किचिद्वदाध्याय्यस्नातको वा। गृहस्थोऽपि द्वेधानाश्रमी भवति। एकः स्वीकृताग्निः कलत्रमरणा- दुत्सन्नाग्निः, कलत्रे सत्यपि कश्चित् निरगनिः असंस्कृतत्वात्, येनाग्निर्न गृहीतः सोऽयमनप्निको वा विरक्तिर्जाता चेत् परिव्रजेदिति सर्वत्रानुषज्यते। किं

Page 59

४] जाबालोपनिषत् ४५

बहुना। नात्र कालकृतनियमोऽस्तीत्याह-यदिति। यस्मिन्नेवाहनि विरजेत् वैराग्यं प्राप्नुयात् तस्मिन्नेव अहनि प्रत्रजेत् संन्यसेत् ॥ १॥

तद्धैके प्राजापत्यामेवेष्टिं वुर्वन्ति। तदु तथा न कुर्यात्। आभ्नेयीमेव कुर्यात्। अग्निर्हि वै प्राणः। प्राणमेवैतया करोति। त्रैधातवीयामेव कुर्यात्। एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति। अयं ते योनिरऋत्वियो यतो जातो अरोचथाः । तं जानन्नम्न आरोहाथा नो वर्धया रयिम्।।

इत्यनेन मन्त्रेणागिमाजिघ्रेत्। 1एष ह वा अमनेर्योनिर्य: प्राणः । प्राणं गच्छ स्वाहेत्येवमेवैतदाह ॥। २॥।

यदा आहिताग्निः संन्यस्यति तदा तस्येष्टिविशेषमाह-तदिति। तद्दैके के चनाचार्या: प्रजापतिदेवताकां प्राजाप्रत्यामेवेष्टिं कुर्वन्ति तदु। तेषामुक्तमपि न कुर्यात्। कि कर्तव्यमित्यत्र अग्निदेवताकामाग्नेयीमिष्टिमेव कुर्यात् तत्रेयमुपपत्तिः ; अग्निर्हि प्राणः ; अग्नेर्देवप्रधानत्वेन सूत्ररूपत्वात्। यस्मादेवं तस्मादेतया आग्नेय्येष्ट्या प्राणमेव करोति ततः त्रैधातवीयामेवेन्द्रदेवताकामेवे्टिं याज्ञिकप्रसिद्धां कुर्यात्। तत्रोपपत्तिः। एतंयैवेष्ट्या त्रयो धातवो यदुताग्नेयं रूपत्रयं सत्वं शुक्कं रजो रोहितं तमः कृष्णम्। इतिशब्दो वाक्यसमाप्त्यर्थः । पुरोक्तरीत्या यथाशास्त्रमिष्टिं कृत्वा अनेन मन्त्रेण अन्याघ्राणं कुर्यादित्याह- अयमिति। हे अग्ने अयं प्राणस्ते तव योनि: मुख्यप्राणस्य विराडयोनित्वात्। ऋत्वियः संवत्सरात्मनो ऋत्ववयवित्वाद्यतः सूत्राज्जातः सन्नरोचथाः दीत्तिं कृतवानसि। यस्तव कारणं तमात्मानं जानन्नारोह स्वकारणीभूतप्राणमात्रो

1 उ. 'एष वा'.

Page 60

४६ संन्यासोपनिषद्: [ख.

भवेत्यर्थः । अथ स्वकारणप्रवेशानन्तरं नोऽस्माकं रयिं स्वात्मज्ञानधनममिवर्धय। मन्त्रसमाप्तावितिशब्दः। अनेन मन्त्रेणाग्निमाजिघ्रेत्। मन्त्ार्थ श्रुतिरनुवदति। एष वा अग्नेर्योनिर्य: प्राण इति। स्पष्टम्। प्राणं स्वकारणं गच्छ। स्वाहा- शब्द: कार्यकारणैकत्वद्योतकः । एवमेव मन्त्रोऽप्याह हि ॥ २ ॥

निरमनिकसंव्यासविधि:

ग्रामादशनिमाहृत्य पूर्ववद्शिमाघ्रापयेत्। यदमनि न विन्देदप्सु जुहुयात्। आपो वै सर्वा देवताः। सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोद्धत्य प्राश्नीयात् साज्यं हविरनामयम्। मोक्षमन्त्रस्त्रय्येवं विन्देत्'। 2तद्गह्म तदुपासितव्यम्। एवमेवैतद्धगवन्निति वै याज्ञवल्क्य ॥ ३॥।

इदानीं निरग्निकानां संन्यासविधिमाह-ग्रमादिति। ग्रामे श्रोत्रियागारा- दग्निमाहृत्य पूर्ववदिष्टिव्यतिरिक्तविरजाहोममन्त्रपुरुषसूक्ताभ्यां पूर्णाहुत्यन्तं हुत्वा "अयं ते" इति मन्त्रेण संन्यासाध्वर्युरग्निमान्नापयेत्। पक्षान्तरं यदर्गि्नि न विन्देदप्सु जुहुयात्। तत्रोपपत्तिः-आपो वै सर्वा देवताः । ओंकाग्प्रभवेभ्यः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहा इत्यनेन मन्त्रेण हुत्वो- द्ृत्य प्राश्नीयात् साज्यं हविरनामयम्। हुतशेषमन्नं निरामयहेतुत्वात् तदार्नी यज्जप्यं तदुच्यते स्वाज्ञानमोक्षहेतुमन्त्रः प्रणवस्तस्य त्रयीरूपत्वात्। एवं विन्देन् यत् प्रणवार्थरूपं तदस्मीति विद्यात्। यत् सत्यज्ञानादिलक्षणं तत् ब्रह्म प्रणवार्थत्वेनोपासितव्यम्। एवं यांज्ञवल्क्योक्तं जनकोऽङ्गीचकार। किमिति। एवमेवैतद्गगवन्निति वै याज्ञवल्क्येति। एष इति पाठे संन्यासः ॥ ३ ॥

इति चतुर्थ: खण्ड:

1 उ. वदेत्· 2 उ. एतद्रह्म एतदुपासितव्यम्.

Page 61

4] जाबालोपनिषत् ४७

पञ्चम: खण्ड:

ब्राह्मणस्य संन्यासेSधिकार: अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यम्। पृच्छामि त्वा याज्ञ- वल्वयायज्ञोपवीती कथं ब्राह्मण इति। स होवाच याज्ञवल्क्यः । इदमेवास्य यज्ञोपवीतं य आत्मा। अपः प्राश्याचम्य। अयं विधिः प्रवाजिनाम्' ॥ १ ॥

जनकेन यत् प्रष्टव्यं तदनुज्ञया अत्रि: पप्रच्छेत्याह श्रुतिः-अथेति। अथ ह जनकप्रश्नानन्तर एनं याज्ञवल्क्यं जनकचोदितोऽत्रि: पप्रच्छ । किमिति। हे याज्ञवल्क्य त्वा त्वां पृच्छामि। क्रियाङ्गयज्ञोपवीती ब्राह्मणः इति लोकप्रसिद्धिः। अयं तु अयज्ञोपवीती कथ ब्राह्मणो भवतीति पृष्टः स होवाच याज्ञवल्क्यः । इदं ब्रह्मज्ञानमेवास्य संन्यासिनो यज्ञोपवीतं यज्ञरूपविष्णु- प्रापकत्वात् यः स्वयंप्रकाशात्मा सोऽहमस्मीति निश्चित्य। अपः प्राश्य इत्यनेन संन्यासविधिरुक्तः । तत् कथं प्रैषानन्तरं "समुद्रं गच्छ स्वाहा" इत्यनेन मन्त्रेण जले शिखायज्ञोपवीतप्रक्षेपणपूर्वकं त्रिराचम्य। अयं विधि: रित्राजिनाम् ॥ १ ॥

संन्यासेSनधिकृतानां कर्तव्यनिरूपणम् वीराध्वाने वानाशके वापां प्रवेशे वाझिप्रवेशे वा महाप्रस्थाने वा। अथ परिव्राड् विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही 2भैक्षमाणो ब्रह्मभूयाय भवति। यद्यातुरः स्यान्मनसा वाचा संन्यसेत्। एष पन्था ब्रह्मणा हाुवित्तस्तेनैति संन्यासी ब्रह्मविदिति। एवमेवैष भगवन्निति वै याज्ञवल्क्च ॥ २ ।

1 उ. परिव्राजकानाम्· 2 उ. भैक्षाणो.

Page 62

४८ संन्यासोपनिषद: [स्-

श्रवणाद्यसमर्थानां वा वक्ष्यमाणोऽयं विधियुज्यत इत्याह-वीरेति। संग्रामा- निवर्तिवीराणां योऽवा तस्मिन् वीराध्वाने वा, न विद्यते अशनं यस्य तदनाशकं तस्मिन्ननाशके वा, गङ्गाद्यपां प्रवेशे वा, जाज्वल्यमाना ग्निप्रवेशे वा, यावच्छरीरपातगमने महाप्रस्थाने वा तनुं त्यजेदिति पञ्चप्रकारेऽपि योज्यम्। दद्ययं श्रवणाधिकारी तदा शुक्लेतरकाषायवासाः सशिखकेशश्मश्ुराहित्यानमुण्डः। न विद्यते देहमात्रधारणातिरिक्तपरिग्रिहो यस्य सोऽयमपरिग्रहः। बाह्याभ्यन्तर- शौचतः शुचिः, मनोवाक्कायकर्मभिः प्राणिमात्राद्रोही, प्राणसंधारणार्थ भैक्षमाणो ब्रह्मभूय।य ब्रह्मसाक्षात्काराय भवति। पक्षान्तरं चोरव्याघ्ररोगाद्यभिभूतस्य संन्या- साङ्गकरम कर्तुमशक्यत्वात्। सोडयं वत्तु शक्तश्रेत् मनोयुक्तवाचा प्रैषोच्चारणपूर्वकं संन्यसेत्। यदि तत्राप्यशक्तस्तदा मनसैव वा संन्यसेत् संकल्पयेत्। एष ज्ञान- हेतुः पन्था ब्रह्मणाधिकारिणा हानुवित्तो लब्धः तेनोक्तेन पथा ब्रह्मवित्पथा संन्यासी स्वात्तवोधानुरूपं ब्रह्मैति: यदि निर्विशेषज्ञानी तदा विदेहकवल्य- मेतीति मुनिनोक्तमत्रिरक्कीचकार एवमेवैष भगवन्निति वै याज्ञवल्क्येति ॥ २ ॥ इति पञ्चमः खण्डः

पष्ठः खण्डः

पारमहंस्यपूगस्य सर्वोत्कृष्टता

तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघ- जडभरतदत्तात्रेयरैवतक प्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तः ॥ १ ॥

इदानीं याज्ञवल्क्यो मुनिः श्रोतृश्रद्धाभिवृद्धये तैरपृष्टोऽपि पारम्हंस्यधर्म- पूगस्य महद्विराश्रितत्वेन सर्वोत्कृष्टतां प्रकटयति-तत्रेति। तत्र कुटीचकादिषु श्रुत्युक्तेषु तुर्याश्रमतुर्यभेदानुष्ठायिनः परमहंसा नाम वक्ष्यमाणाः प्रसिद्धा हि।

Page 63

६] जाबालोपनिषत् ४९

के ते इत्यत्र संवर्तकादिरैवतकप्रभृतयः नवसंख्याकाः श्रुतिपठिताः अव्यक्त- लिङ्गाद्याचरन्त इत्यन्तं संवर्तकादीनां विशेषणम्। व्रतिकामिवनिलिङ्गानि येषां न सन्ति ते अव्यक्तलिङ्गाः। यदाचारो लोकैर्न दृ्यते ते अव्यक्ताचाराः। अनुन्मत्ता: उन्मादहेतुमोहवैरल्यादुन्मत्तवदाचरन्तः ब्रह्माकारपरिणतचित्त- त्वात् परबोधिता: यत्किचित् कुर्वन्त इव दृश्यन्ते तत्करणमपि लोकोन्मादन- निवृत्तिकरमेव भवति ।

"पाश्वस्थबोधिताः सन्तः पूर्वाचारक्रमागतम्। आचारमाचरन्त्येव सुप्तबुद्धवदुत्थिताः ।" इति श्रुतेः ॥ १॥ साम्बरदरमह सलक्षणम् त्रिदण्डं कमण्डलुं शिक्यं पात्रं जलपवित्रं शिग्वां यज्ञोपवीतं चेत्येतत् सर्वं भू: स्व्राहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् ॥ २ ।।

पूर्व केवलपारमहंस्यमुक्तम्। इदानीं कुटीचकादिलिङ्गपरित्यागपूर्वकं पारमहंस्यं प्रकटयति-त्रिदण्डमिति। वैणवदण्डत्रयं मृद्दार्वलाव्वादिकमण्डलुं मौञ्ज्यादिरचितं शिक्यं मिक्षाधारपात्रं दार्वादिविकारं वितस्तिमात्रं जलपवित्रं शिखां यज्ञोपवीतम्। चकारः सर्वधर्मपरित्यागसमुच्चयार्थः।पञ्चमुद्रागायत्रयादिक- मेतत् सर्वे "भू: स्वाहा" इत्यनेन मन्त्रेण अप्सु परित्यज्य देशिकमुपसृत्य वेदान्तश्रवणादिभिरात्मानमन्विच्छेत् ।। २ ।।

दिगम्बरपरमहंसलक्षणम् यथाजातरूपधरो निर्द्वन्द्वो 'निप्परिग्रहः 2तत्त्वब्रह्ममागे सम्यक् संपन्नः शुद्धमानसः प्राणसंधारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण लाभालाभौ समौ भूत्वा शून्यागारदेवगृह- 1उ. निर्ग्रन्थः 2 उ. तत्तद्गह्म. 3 उ. लाभालाभयो: सम :. 4

Page 64

५० संन्यासोपनिषद: [ख.

तृण कूटवल्मी कवृक्षमूल कुलालशाला मिहोत्रशालानदीपुलिनगिरिकुहरकन्द- रकोटरनिर्झरस्थण्डिलेप्वनिकेतवास्यप्रयतो निर्ममः शुक्ध्यानपरायणो- डध्यात्मनिष्ठः शुभाशुभकर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो नाम। इत्युपनिषत् ॥ ३ ॥ साम्बरपरमहंसलक्षणमुक्त्वा दिगम्बरपरमहंसलक्षणमाह-यथेति। यथाजातरूपधर: दिगम्बरः निर्द्वन्द्वः शीतोष्णादिसमधीः। देहधारणोपयोगि- कौपीनाच्छादनमिक्षाश्रयणसाधनपरिग्रहेतरपरिग्रहशून्यो निष्परिग्रहः। तत्त्वं वास्तवं निष्प्रतियोगिकब्रह्ममात्रं तत्प्रापकमार्गस्तज्ज्ञानं तस्मिन् तत्वब्रह्ममार्गे सम्यक् संपन्नः तन्निष्ट इत्यर्थः। तत्रोपायमाह-शुद्धमानस इति। निःसंकल्प- त्वात् प्राणसंधारणमात्र विधूमादुपलक्षितयथोक्तकाले स्वाज्ञानतत्कार्यविमुक्तो यथानुरूपमुदरपात्रेण भैक्षमाचग्न् मुखव्यादानं कुर्वन् भिक्षादिलाभालाभौ समौ भूत्वा हर्षविषादावकुर्वन् कालं नयेदित्यर्थः । इदार्नी तन्निवासस्थ- लान्याह-शून्यागारेन्यादिना। जनशून्यागारं विष्ण्वादिदेवतागृहं, कुत- श्चिन्निमित्तसंजातनृणकूटं, पिपीलिकादिकृतवल्मीकं, वटाश्वत्थािवृक्षमूलम्, आमपात्रनिक्षेपकुलालशाला, त्रिपञ्चामिहोत्रशाला, महानदीतीग पुलिनं, गिरिरुह- वेण्वादिनित्रिडदेशो गिरिकुहरं, गिरिगुहास्थलं कन्दनं, वृक्षान्तःसुषिरं कोटरं, उदकम्रावप्रदेशो निर्झरः, विशुद्रभूप्रदेशः स्थण्डिलं, निरावरणं शून्यागारादि स्थण्डियान्नम्। तेषु यथासंभवं अनिकेनवासी, नानाविधोपकरणे अप्रयत्नः, स्वातिन्क्तिवस्तुपु निर्ममः, शुक्कनेजो ब्रह्म निष्प्नतियोगिकस्वमात्रमिति पर्यवसन्नः शुक्कन्यानपरायणः "झुकनेजोमयं ब्रह्म" इति श्रुतेः । आत्ममात्रमधिकृत्य भवतीयध्यात्मं तन्मात्रज्ञानं तन्निष्ठः, शुभाशुभस्थानीयनिष्कामसकामकर्म- सामान्यनिमूलनपरः । कि बहुना। स्वातिरिक्तसामान्यसंन्यासेन सह संन्य- स्यामीति यस्तद्वेहाभिमतित्यागं करोति, सोऽयं विद्वान् परमहंसः प्रत्यक्पर- विभागमहःपरमात्मा नाम निश्चितम्। इत्युपनिषच्छ=दौ शास्त्रपरिस- मात्यर्थी॥ ३॥ इति पष्ठः खण्डः

Page 65

६] जाबालोपनिषत् ५१

श्रीवासुदेवेन्द्रशिष्योपनिषद्रह्मयोगिना। लिखितं स्याद्विवरणं जाबालोपनिषत्स्फुटम्। जाबालोपनिषद्वयाख्या दशोनद्विशतं स्मृता ॥

इति श्रीमदीशादाश्रोत्तद्तोपदि षच्छास्त्रविवरणे त्रयोदशसंख्यापूरकं जाबालोपनिषद्विवरणं संपूर्णम्

Page 66

तुरीयातीतावधूतोपनिषत्

पूर्णमद :- इति शान्तिः

तुरीयातीतावधूतचर्या, निष्ठा च

अथ तुरीयातीतावधूतानां कोऽयं मार्गस्तेषां का स्थितिरिति सर्वलोकपितामहो भगवन्तं पितरमादिनारायणं परिसमेत्योवाच। तमाह भगवान् नारायणः । योडयमधूतमार्गस्थो लोके दुर्लभतरो न तु बाहुल्यो यद्येको भवति स एव नित्यपूतः, स एव वैराग्यमूर्तिः, स एव ज्ञानाकारः, स एव वेदपुरुष इति ज्ञानिनो मन्यन्ते। महापुरुषो यस्तच्चित्तं मय्येवा- वतिष्ठते। अहं च तस्मिन्नवावस्थितः । सोडयमादौ तावत क्रमेण कुटीचको बहूदकत्वं प्राप्य, बहूदको हंसत्वमवलम्व्य, हंसः परमहंसो भूत्वा, स्वरूपानुसंवानेन सर्वप्रपश्चं विदित्वा, दण्डकमण्डल्ुकटिसूत्र कौपीना- च्छादनस्वविध्युक्तक्रियादिकं सर्वमप्सु संन्यस्य, दिगम्बरो भूत्वा, विवर्ण- जीर्णवल्कलाजिनपरिग्रहमपि संत्यज्य, तदूर्ध्वममन्त्रवदाचरन्, क्षौराभ्यङ्ग- स्ननोर्ध्वपुण्डादिकं विहाय, 1वैदिकलौकिकमप्युपसंहृत्य, सर्वत्र

1 उ १. लौकिकवैदिक.

Page 67

५४ संन्यासोपनिषद्ः

पुण्यापुण्यविवर्जितः, ज्ञानाज्ञानमपि विहाय, शीतोष्णसुखदुःखमानावमानं निर्जित्य, देहादिवासनात्रयपूर्वकं निन्दानिन्दागर्वमत्सरदम्मदर्पेच्छा- द्वेषकामक्रोधलोभमोहहर्षामर्षासूयात्मसंरक्षणादिकं दग्ध्वा, स्ववपुः कुणपाकारमिव पश्यन्, अप्रयलेनानियमेन लाभालाभौ समौ कृत्वा, गोवृत्त्या प्राणसंधारणं कुर्वन् यत् प्राप्तं तेनैव निर्लोलुपः, सर्वविद्यापाण्डित्य- प्रपश्चं भस्मीकृत्य, स्वरूपं गोपयित्वा, ज्येष्ठाज्येष्ठत्वापलापकः, सर्वो- त्कृष्टत्वसर्वात्मकत्वाद्वैतं कल्पयित्वा, मत्तो व्यतिरिक्तः कश्चिन्नान्योऽस्तीति भावयन्, देवगुद्यादिधनमात्मन्युदसंहृत्य, दुःखेन नोद्वियः, सुखेन नानुमोदक:, रागे निःसपृहः, सर्वत्र शुभाशुभयोरनभिस्नरेहः, सर्वेन्द्रियोपरमः, त्यक्तवर्णाश्रमाचारः, सर्वदा दिवानक्तसमत्वेनास्वम्नः, सर्वत्र सर्वदा संचारशीलः, देहमात्रा- वशिष्टः, जलस्थलकमण्डलुः, सर्वदानुन्मत्तो बालोन्मत्तपिशाचवदेकाकी संचरन्, असंभाषणपर: स्वरूपध्यानेन निरालम्बमवलम्ब्य, स्वात्मनिष्ठानु- कूल्येन सर्व विस्मृत्य, तुरीयातीतोSवधूतवेषेणाद्वैतनिष्ठापरः, प्रणवात्म- कत्वेन देहत्यागं करोति यः सोऽवधूतः स कृतकृत्यो भवतीत्युपनिषत् ।। १।।

तुर्यातीताख्योपनिषद्वेद्यं यत् परमाक्षरम्। तत्तुर्यातीतचिन्मात्रं स्वमात्रं चिन्तयेऽन्वहम् ॥

इह खलू शु्लयजुर्वेद प्रविभक्तेयं तुरीयातीतावघूतोपनिषत् गौणमुख्या- वघूतचर्याप्रकटनव्यग्रा ब्रह्ममात्रपर्यवसन्ना विजृम्भते। अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते। शिष्याचार्यपुत्रपितृभावगतचतुरानननारायणप्रश्नप्रतिवचन-

Page 68

तुरीयातीतावधूतोपनिषत् ५५ रूपेयमाख्यायिका विद्यास्तुत्यर्था। आख्यायिकामवतारयति-अथेति। ये तुर्या- श्रमप्रविभक्तकुटीचकबहूद कहंसपरमहंसचर्या यथावदवगम्य, अथ तुर्यसंख्यापूर कं पारमहंस्यं, तदतीतास्तुर्यातीताश्च ते, "यो विलड्ध्याश्रमान् वर्णानात्मन्येव स्थितः सदा। अतिवर्णाश्रमी योगी अवधूतः स कथ्यते ॥ - तत्त्वमस्यादिलक्ष्यत्वादवधूत इतीर्यते ॥" इति "गौणमुख्यावधूताश्च" इति तुरीयातीतावधूताः। तेषां महानुभावानां कोऽयं मार्ग इत्यनेन तैराचरणीयचर्या अवगम्यते। का स्थिति: इत्यनेन निष्ठा चापि ज्ञातव्येति। तत्प्रश्नमङ्गीकृत्य तमाह भगवान् नारायण: । किं तत् इत्यत्र तन्मार्गस्यातिदुर्लभतया तानादौ स्तौति-योऽयमिति। नित्यपूतः1 मयि मद्धावमेत्य स्थितत्वात् मद्धावापन्नज्ञानिनो मन्यन्ते। अत एवायं महापुरुषः । कथमस्य महापुरुषत्वम्? इत्यत्र यतो यस्तच्चित्तं मय्येवावतिष्ठते मदतिरिक्त- चिन्तावरल्यात्। त्वं कुत्रावस्थित इत्यत्र-अहं च तस्मिन्नेवावस्थित इति। कुटी चकादिधर्मा नारदपरिव्राजकोपनिषदि सम्यक् व्याख्याताः। तत्रायं परमहंसः सर्वापह्ववसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति। स्वरूपानुसंधानेन सर्वप्रपञ्वं स्वातिरिक्तं2 नेतीति विदित्वा तद्वेदनसमकालमेव पारमहंस्यलिङ्गं त्याज्यमिति मनीषया तत्रापि संसारधिया तत्त्याग उपपद्यत इत्यर्थः । तदूध्वे पारमहंस्याश्रम- त्यागानन्तरं कर्तव्यकर्माभावाद्देहा दिचेष्टायां मन्त्रानाकाड्क्षत्वात् अमन्तवदा- चरन्। इदं कर्तव्यमितीच्छया क्षौगदिकं विहाय तथा वैदिकलौकिकमप्युप- संहृत्य मनोवृत्तित्वसामान्यात् ज्ञानाज्ञानमपि विहाय देहाभिमानत्यागादिना शीतोष्णसुखदुःखमानावमानं निर्जित्य, देहादिवासनात्रयपूर्वकम् अहं एतादृश इत्यप्रकटनपूर्वक स्वरूपं स्वशीलं गोपयित्वा, अयं मे ज्येष्ठः अयं मे कनिष्ठः इति ज्येष्ठाज्येष्ठत्वापलापकः, अद्वूतातिरिक्तं द्वैतं नास्तीति भावयित्वा देवगुह्यात् देवरहस्यात् यत्तदेव भावनं तत् इन्धनं ब्रह्ममात्राग्निना दाह्यत्वात् 1 उ. नित्यपूते. 2 उ. 'स्वातिरिक्तम्' इति नासित. 3 उ. चेष्टायै.

Page 69

५६ संन्यासोपनिषद:

ब्रह्माकारवृत्तेरपि इन्धनत्वं तदप्यात्ममात्रधिया आत्मन्युपसंहृत्य, यदि पुनः स्वातिरिक्ताभासावलम्बनतो दुःखादिप्रसकौ दुःखेन नोद्विप्नः इत्यादि। प्राभवं प्रभावम्। अनुस्मरन् मद्विदितविद्याफलमेवं पर्यवसन्नमिति वस्तुतस्तदपि नानुसंधेयम्। स्वेन पादप्रक्षालनाद्यकर्तव्यत्वेऽपि यदि तृषावृत्तिरुदेति तदा- स्येन पेयमिति जलस्थलकमण्डल्वपेक्षा युज्यत एवेत्यर्थः । येन केनापि असंभाषणपरः । स्वातिरित्तप्रपञ्चजातं सर्वे विस्मृत्य अद्वैतनिष्ठापरः अद्वैता- त्मपरायणो भूत्वा "सर्ववाच्यवस्तु प्रणवात्मकम्" इति श्रुतिसिद्धप्रणवात्म- कत्वेन प्रणवार्थतुर्यतुर्यात्मना देहत्यागं करोति देहतन्निर्वर्त्यजाप्रज्जाग्रदादितुर्य-

सान्तकलनान्यागमपह्ववं करोति। यस्य पारमहंस्यधर्मालंकृतस्य1यतेराभासतोऽपि निर्वर्त्यस्वातिरिक्तमस्ति इति भ्रान्तिः, सोऽयं गौणावधूतो भवति। यस्य पुनः ब्रह्ममात्रं निः्प्रतियोगिकं तदतिरेकेणापह्वोतव्यविषयाभावज्ञानमुदेति, सोडयं यतिः मुख्यावधूतो भवतीयत्र

"यस्य स्वात्मातिरेकेग निर्वर्त्य प्रतिभाति सः । गौणावधूतो भवति स्वरातिरिक्तास्तिताम्रमात्॥ ब्रह्ममात्रधिया यस्य निर्वर्त्यासंभवो भवेत्। मुख्यावधूतः स मुनिः स्वमात्रमवशिष्यते ॥"

इति स्मृतेः । इत्युपनिपच्छब्दः प्रकृतोपनिषत्समाध्यर्थः ॥ १॥

लिखितं स्याद्विवरणं तुर्यातीतस्य सुस्फुटम् । तुर्यातीतग्रन्थजातं चत्वारिंशत् समीरितम् ॥

तुरीयातीतावधूतोपनिषद्विवरणं संपूर्णम्

1 उ १. अलङ्कारस्य.

Page 70

नारदपरिव्राजको निषत्

भद्रं कर्णेभिः-इति शान्तिः

प्रथमोपदेश:

नारदं प्रति शौनकादीनां प्रश्नः

अथ कदाचित् परिव्राजकाभरणो नारद: सर्वलोकसंचारं कुर्वन्न- पूर्वपुण्यस्थलानि पुण्यतीर्थानि तीर्थीकुर्वन्नवलोक्य, चित्तशुद्धिं प्राप्य, निर्वैरः, शान्तः, दान्तः, सर्वतो निर्वेदमासाद्य, स्वरूपानुसंधानमनु- संधाय, नियमानन्दविशेषगण्यं मुनिजनैरुपसंकीर्ण नैमिशारण्यं पुण्य- स्थलमवलेक्य, सरिगमपधनिसंज्ञैर्वैराग्यबोधकरैः स्व्रविशेषैः प्रापश्चिक-

पुरुषामरकिंनराप्सरोगणान् संमोह्यन्नागतं ब्रह्मात्मजं भगवद्भक्तं नारद- मवलोक्य द्वादशवर्षसत्नयागोपस्थिताः श्रुनाध्ययनसंपन्नाः सर्वज्ञास्त- पोनिष्ठापरश्च ज्ञानवैराग्यसंपन्नाः शौनकादिमहर्षयः प्रत्युत्थानं कृत्वा, नत्वा, यथोचितातिथ्यपूर्वकमुपवेशयित्वा, स्वयं सर्वेडप्युपदिष्टा भो भगवन् ब्रह्मपुत्र, कथं मुक्त्युपायः? अस्माकं वक्तव्यम्।। १।।

Page 71

५८ संन्यासोपनिषद: [उप- पारिव्राज्यधर्मपूगालंकारा यत्प्रबोधतः । दशप्रणवलक्ष्यार्थे यान्ति तं राममाश्रये ॥ इह खलु अथववेदप्रविभक्तेयं नारदपरिव्राजकोपनिषत् व्रत्यादिस्वाश्रमा- चारप्रकटनपूर्वकं कुटीचकबहूदकहंसपरमहंसतुरीयातीतावधूतधर्मप्रकटनव्यग्रा सृषट्यादिदशप्रणववाच्यलक्ष्यार्थप्रकाशिनी सर्वापह्वव सिद्ध ब्रह्ममात्रपर्यवसन्ना बह्वर्थ- गर्भिणी विजृम्भते। अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते। शौनकादि- मुनिबृन्दनारदनारदपितामहप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था। आदौ श्रुतिराख्यायिकामवतारयति-अथेत्यादिना। अथशब्दः आरम्भार्थः॥ कढ़ाचित् परित्राजकशिरोमणि: नारदः कृत्स्लोकसंचावं कुर्वन् स्वपादन्यासतः पुण्यस्थलानि पुण्यतीर्थानि च तीर्थीकुर्वन् स्वातिरित्तप्रपञ्चजातं मिथ्यात्वेना- कलोक्य ततश्चित्तशुद्धि प्राप्य सर्वात्मैकत्वभावनया निर्वैरः संकल्पादिवृत्तितः शान्तो बाह्यवृत्तितो दान्तः सर्वतः सर्वत्र निर्वेदं वैराग्यमासाद्य स्वस्वरूपानु- संधानमनुसंधाय, उक्तविशेषणविशिष्टं नैमिशारण्यमवलोक्य, स्वागमनकाले स्वकरभूषणवीणावायुसंघर्षणजन्यसरिगमपधनिसंज्ञैः शृण्वद्वाह्यवैराग्यबोधकैः भगवद्धत्तिप्रेमान्वितहरिकथालापैः नरमृगादिप्रपञ्चजातं संमोह्यन्नागतं नारदं शौनका दिमहर्षयोऽवलोक्य प्रत्युत्थानादिसपर्यो कृत्वा दिव्यासने तं निवेश्य तद्दर्शनमात्रतो यत् परमार्थतत्त्वं तत् स्वयं सर्वेऽप्युपदिष्टा अपि लोकानुग्रहहेतोः तं पृच्छन्तीत्याह-भो भगवन्निति। हे ब्रह्मपुत्र, भगवद्गतिकानामस्माकं कथं स्वातिरिक्तास्तिताभ्रमतो मुक्ति: स्यात् ? को वा तदात्युपायः ? वक्तव्य इति॥ १ ॥ विदेहमुक्तिलाभोपायोपदेशः

इत्युक्तस्त,न् स होवाच नारदः । सत्कुलभवोपनीतः सम्य- गुपनयनपूर्वकं चत्वारिंशत्संस्कारसंपन्नः स्वाभिमतैकगुरुसमीपे स्व- शाखाध्ययनपूर्वकं सर्वविद्याभ्यासं कृत्वा, द्वादशवर्षशुभ्ूषापूर्वकब्रह्म- चर्य, पञ्चविशतिवत्सरं गार्हस्थ्यं, पञ्चविंशतिवत्सरं वानप्रस्थाश्रमं

Page 72

१] नारदपरिव्राजकोपनिषत् ५९ तद्विधिवत् क्रमान्निर्वर्त्य, चतुर्विधब्रह्मचर्य षड्घगार्हस्थ्यं चातुर्विध्य- वानप्रस्थधर्म सम्यगभ्यस्य, तदुचितं कर्म सर्व निर्वर्त्य, साधन- चतुष्टयसंपन्नः, सर्वसंसारोपरि मनोवाक्कायकर्मभिर्यथाशानिवृत्तस्तथा वासनैषणोपर्यपि निर्वैरः शान्तो दान्तः, संन्यास्री परमहंसाश्रमेणा- स्खलितस्वरूपध्यानेन देहत्यागं करोति स मुक्तो भवति स मुक्तो भवति। इत्युपनिषत् ॥। २ ।।

तैरेवं पृष्टो देवर्षिराह-इत्युक्त इति। इत्येवं शौनकादिभि: उक्त: स होवाच नारदः। कि तत्? सत्कुले भवतीति यः कश्चन द्विजातिः सत्कुलभवः विधिवदुपनीत: चत्वारिंशत्संस्कारसंपन्नः। चत्वारिंशत्संस्कराः कीदृशा इत्यत्र गौतमधर्मे आम्नायते। तद्यथा-गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनाम- करणान्नप्राशनचौलोपनयनानि, चत्वारि वेदव्रतानि, स्नानं, सहधर्मचारिणी- संयोगः, पञ्चानां यज्ञानामनुष्ठानं देवपितृमनुष्यभूतब्रह्मणामेतेषां पञ्चकम्, अष्टका, पार्वणः, श्राद्धं, श्रावण्याग्रहायणी चैत्र्याश्वयुजीति सप्त पाकयज्ञमंस्थाः, अझ्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रा- मणीति सप्त हविर्यज्ञसंस्थाः, अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽति- रात्रोऽप्तोर्याम इति सप्त सोमसंस्था इत्येते चत्वारिशत्संस्काराः। अष्टावात्मगुणा दया सर्वभूतेतु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यमस्पृहेति। यस्यैते चत्वारिंशत्संस्कारा न चाष्टावात्मगुणाः, न स ब्रह्मणः साुज्यं सालोक्यं च गच्छति। यस्य तु खलु संस्काराणामेकदेशोऽपि अष्टावात्मगुणाः, अथ स' ब्रह्मण: सायुज्यं सालोक्यं च गच्छतीत्युक्तसंस्कारसंपन्नो भूत्वा "आचार्यो वेदसंपन्नो विष्णुभक्तो विमत्सर:" इत्यादिश्रुत्यनुरोधेनोक्तलक्षणलक्षितस्वा- भिमतैकगुरुनिकटे आदौ स्वशाखाध्ययनपूर्वकं सर्वविद्यामभ्यस्य द्वाद- शवर्षशुश्रूषापूर्वकब्रह्मचर्यव्रती भूत्वा विद्यामभ्यस्येदित्यर्थः । ततः पश्च- विशतिवत्सरपर्यन्तं गार्हस्थ्योचितधर्मानुष्ठानं कृत्वा, अथ तथा पच्च-

Page 73

६० संन्यासोपनिषद: [उप.

विशतिवत्सरपर्यन्तं वानप्रस्थाश्रमोचितधर्मजातं विधिवत् क्रमान्निर्वर्त्य, अथ सपत्यू्ध्व संन्यस्येदित्यर्थः । ब्रह्मचर्यादिधर्माः कतिविधा इत्यत आह-चतुर्विधब्रह्मचर्यमिति। अस्मिन्नर्थे काण्वायनस्मृतिर्थतोऽनुक्रम्यते। तद्यथा-गायत्रो ब्राह्मः प्राजा- पत्यो वृहन्निति ब्रह्मचारी चतुविधः । अस्यार्थ :- तत्रोपनयनादूर्ध्व यस्त्रिरात्र- मक्षारलवणाशी गायत्रीमधीते स गायत्रः। यस्तु वेदस्य आ ग्रहणात् ब्रह्मचर्यै चरति स ब्राह्मः। संवत्सरं वेदव्रतकृत् प्राजापत्यः। आमरणं गुरुकुलवासी नैष्टिको वृहन्नित्युच्यते। गार्हस्थ्यं कतिविधमित्यत आह-षड्धगार्हस्थ्यमिति। तथा च गृहस्था अपि षड्विधाः । तद्यथा-वार्ताकः शालीनो यायावरो घोरसंन्यासिक: उच्छवृत्ति: अयाचितश्चेति। तत्र कृषिगोरक्षादिकृतया वैश्यवृत्त्या जीवन्नित्यादि- क्रियापरो वार्ताकवृत्तिः। शालीनस्तु षट्कर्मनिरतो याजनांदिवृत्तिः। यायावरस्तु शिष्टगृहेधु किंचित् किंचित् स्वकुटुम्बभरणोपयोगितण्डुलसंग्रही। घोरसंन्या- सिकस्तु उद्धतपूताभिरद्गि: कार्ये कुर्वन् अहन्यहनि शिष्टजनतः तण्डुलपरिग्रही। उञ्छस्तु सिलोञ्छवृत्तिः । अयाचितस्तु यदच्छालब्धोपजीवी। वानप्रस्थः कतिविध इत्यत आह-चातुर्विध्यमिति। वनस्था अपि चतुर्विधाः । तद्यथा-वैखानस औदुम्बरो वालखिल्यः फेनपाश्वेति। तत्र अकृष्टपच्यौषधीभि: ग्रामबहिष्कृताभि: अग्निहोत्रदि कुर्वन् वैखानस इत्युच्यते। यस्तु प्रातरुत्थाय यां यां दिशं पश्यति तत्रत्यौदुम्बरीबदरनीवारश्यामाकैः निन्ययात्रापर औदुम्बरः। यस्तु जटावल्कलधारी अष्टौ मासान् वृत्त्युपार्जन- कृचातुर्मास्ये गृहीताशी कार्तिक्यां संगृहीतपुष्पफलत्यागी स वालखिल्यः । फेनपास्तु शीर्णपर्णफलवृत्तयः यत्र क्वचिद्वसन्तः कर्मपरा इति ॥ एवं ब्रह्मचर्यादिवानप्रस्थान्तधर्मजातं निर्वर्त्य नित्यादिसाधनचतुष्टय- संपन्नो भूत्वा संसृतिवासनैषणात्रयत्यागपूर्वकं सर्वभूतेषु स्वात्मतया निर्वैरः स्वान्तर्वाह्यकल नाभावाच्छान्तो दान्तः संन्यासी अस्खलितस्वरूपध्यानेन यो देहोपलक्षितस्वाविद्यापदमस्ति नास्तीति विभ्रमाभिमति त्यजति सोडयं

Page 74

२] नारद रिवाजकोपनिषत् ६१

स्वातिरिक्तास्तित्वभ्रममुक्तो विदेहमुक्तो भवति। आवृत्तिरादराथो। इत्युप- निषच्छब्दः प्रथमोपदेशसमाध्यर्थः ॥२॥ इति प्रथमोपदेशः

द्वितीयोपदेशः

पारिव्राज्यक्रमः अथ हैनं भगवन्तं नारदं सरवे शौनकादयः पप्रच्छुर्मो भगवन् संन्यासविधिं नो ब्रहीति। तानवलोवय नारदस्तत्स्वरूपं सर्व पितामहमुखेनैव ज्ञातुमुचितमित्युक्त्वा सत्नयागपूर्त्यनन्तरं तैः सह सत्यलोकं गत्वा विधिवद् ब्रह्मनिष्ठापरं परमेष्ठिनं नत्वा स्तुत्वा, यथोचितं तदाज्ञया तैः सहोपविश्य नारदः पितामहमुवाच। गुरुस्त्वं जनकस्त्वं सर्वविद्यारहस्यज्ञः सर्वज्ञस्त्वम्। अतो मदिष्टं रहस्यमेकं वक्तव्यम्। त्वद्विना मदभिमतरहस्यं वक्तुं कः समर्थः । किमिति चेत् पारिव्राज्यस्वरूपक्रमं नो ब्रूहीति नारदेन प्रार्थितः परमेष्ठी सर्वतः सर्वानवलोक्य मुहूर्तमात्रं समाधिनिष्ठो भूत्वा संसारार्ति- निवृत्त्यन्वेषण इति निश्चित्य नारदमवलोक्य तमाह पितामहः। पुरा मत्पुत्र पुरुषसूक्तोपनिषद्रहस्यप्रकारनिरतिशयाकारावलम्बिना विराट्पुरुषेणोपदिष्टं रहस्यं ते विविच्योच्यते। तत्क्रममतिरहस्यं बाढमवहितो भूत्वा श्रूयताम्। भो नारद, विधिवदादावनुपनीतोपनयनानन्तरं तत्सत्कुलप्रसूतः पितृमातृविघेयः पितृसमीपादन्यत्र सत्संप्रदायस्थं श्रद्धावन्तं सत्कुलभवं

Page 75

६२ संन्यासोपनिषद: उप.

श्रोत्रियं शास्त्रवात्सल्यं गुणवन्तमकुटिलं सद्गुरुमासाद्य नत्वा, यथोपयोगशुश्रूषापूर्वकं स्वाभिमतं विज्ञाप्य, द्वादशवर्षसेवापुरःसरं सर्वविद्याभ्यासं कृत्वा, तदनुज्ञया स्वकुलानुरूपामभिमतकन्यां विवाह्य, पश्चविंशतिवत्सरं गुरुकुलवासं कृत्वाथ गुर्वनुज्ञया गृहस्थ चितकर्म कुर्बन्, दौर्ब्राह्मण्यनिवृत्तिमेत्य स्ववंशवृद्धिकामः पुत्रमेकमासाद्य गार्हस्थ्योचितपश्चविंशतिवत्सरं तीर्त्वा, ततः पञ्चविंशतिवत्सरपर्यन्तं त्रित्रवणमुदकस्पर्शनपूर्वकं चतुर्थकालमेकवारमाहारमाहरन्नयमेक एव वनस्थो भूत्वा, पुरग्रामप्राक्तनसंच,रं विहाय, निकिरविरहिततदाश्रित- कर्मोंचितकृत्यं निर्वर्त्य, दृष्टश्रवणविषयवैतृप्ण्यमेत्य, चत्वारिशत्सं- स्कारसंपन्नः, सर्वते विरक्तश्चितशुद्धिमेत्याशासूयेर्ष्याहंकारं दग्ध्वा, साधनचनुष्टयसंपन्नः संन्यस्तुमर्हतीत्युपनिषत् ॥१॥।

एवं नारदेनोपदिष्टाः शौनकादिमुनयः पुनर्विशेषवुभुत्सया नारदं पृच्छन्ति। सोऽपि भवद्गिर्यत् पृष्टं तत पितामहमुखेन ज्ञातव्यमित्युक्त्वा प्रकृतयागसमाध्यनन्तरं तैः साकं सत्यलोकं गत्वा पितामहं विधिवदुपसंगम्य नाग्द: पारिव्राज्यधर्म पृष्टवानित्याह-अथेति। ब्रह्मनिष्ठापरं स्वातिरित्त- सर्वापह्ववसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति या अनवरतभावना सैव ब्रह्मनिष्ठा, तत्पर तन्निष्ठं तेन परमे पदे तिष्ठतीति परमेष्ठिनम। नारदः पितामहमुवाच। किमिति। सर्वेषां मम च गुरुस्त्वमिति। नारदेनैवं पृष्टः परमेष्टी दिव्यज्ञानेन तदागमनप्रयोजनं ज्ञात्वा त्वया यत् पृष्ट तन्मे विराट्- पुरुपेणोपदिष्टम। तदुच्यते। शृण्वेतदित्याह-नारदेनेति। किं तदित्यत्र भो नाग्देति तं स्वाभिमुखीकृय्य क्रमेण संन्यासविविमुपदिशतीत्याह-भो इति। सत्संप्रदायस्थम इत्याद्याचार्यविशेषणम्। श्रोत्रियम अधीतसाङ्गोपाङ्गस्वा- ध्यायतदर्थम्। पञ्चविंशतिवत्सरं सदारो गुरुकुलत्रासं कृत्वा। "त्रिषवण-

Page 76

३] नारदपरिव्राजकोपनिषत् ६३ मुदकोपस्पर्शी चतुर्थकालपानभक्तः स्यात्" इति श्रुतेः। निकिरविरहितेत्यत्र नितरां किर बीजावापनं यत्र तन्निकिरं, गोधूमशालीश्यामाकादि, तद्विरहितं नीवार तृणतण्डुलादितदाश्रितकर्मोचितकृत्यं देवपित्राद्युद्देशेन हव्यकव्यादिकं दृष्टमैहिकं श्रावणमामुष्मिकं तत्र वैनृष्ण्यमिहामुत्रभोगवितृष्णत्वम्। चत्वारिं- शत्संस्कारसंपन्न इत्याद्युक्तार्थम्। शिष्टं स्पष्टम्। इत्युपनिषच्छन्दो द्वितीयो- पदेशसमात्यर्थः ॥ १॥ इति द्वितीयोपदेश:

तृतीयोपदेशः संन्यासाधिकारी अथ हैनं नारदः पितामहं पप्रच्छ। भगवन् केन संन्यासः संन्यासाधिकारी वेति। एवमादौ संन्यासाधिकारिणं निरूप्य पश्चात् संन्यासविधिरुच्यते। अवहितः शृणु। अथ षण्डः पतितोऽङ्ग- विकल: स्त्रैणो बधिरोडर्मको मूक: पाषण्डश्चकी लिङ्गी वैखानसहर- द्विजौ भृतकाध्यापकः शिपिविष्टोऽनमिको वैराग्यवन्तोऽप्येते न संन्यासाहाः। संन्यस्ता यद्यपि महावाक्योपदेशे नाघिकारिणः। पूर्वसंन्यासी परमहंसाविकारी ॥ १॥ परेणैवात्मनश्चापि परस्यैवात्मना तथा। अभयं समवान्नेति स परिव्राडिति स्मृतिः ॥ २ ॥ षण्डोऽथ विकलोऽप्यन्धो बालकश्रापि पातकी। पतितश्र परद्वारी वैखानसहरद्विजौ ॥ ३ ॥ चक्री लिङ्गी च पाषण्डी शिपिविष्टोऽप्यनमिकः । द्वित्रिवा रेण संन्यस्तो भृतका यापकोऽपि चं। एते नार्हन्ति संन्यासमातुरेण विना क्रमम् ॥ ४ ॥

Page 77

६४ संन्यासोपनिषद: [उप-

साधनचतुष्ट्यसंपन्नः संन्यस्तुमर्हतीति पिंतामहेनैवमुपदिष्टो नारदः संन्यासस्वरूपं तदधिकारिस्वरूपं च विविच्य ज्ञातव्यमिति स्वपितरं पप्रच्छेत्याह-अथेति। कोऽयं संन्यासः, को वा संन्यासाधिकारीति प्रश्नोत्तरम् एवमिति। आदौ तावत् संन्यासानधिकारिणं निरूपयति-अथेति । शिपिविष्टो विकसितशेफ इत्यर्थः । उक्तार्थवैपरीत्येन यः सर्वभूताभयदः यस्य सर्वाणि भूतान्यभयं दास्यन्ति सोऽयं संन्यासाधिकारीत्याह-पूर्वेति। केयं स्मृति: इत्यत्र "अनाश्रित: कर्मफलं कार्य कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥" इति स्मृत्यनुरोधेन साध्यसाधनेषणापरित्यागपूर्वकं निष्कामकर्मानुष्ठाता द्विज: पूर्वसंन्यासी। सोऽयं परमहंसाश्रमाधिकारी। तद्विपरीतानधिकार्यपि श्रूयते मन्त्रद्वयेन षण्ड इति ॥ १-४॥

आतुरसंन्यास: आतुरकाल: कथमार्यसंमतः । प्राणस्योत्क्मणासन्नकालस्त्वातुरसंज्ञकः । नेतरस्त्वातुरः कालो मुक्तिमार्गप्रवर्तनः ॥५॥ आतुरसंन्यास: कथं विद्वत्संमतो भवति इत्याक्षिप्य तत्राष्टश्राद्वाढि- कर्मलोपेऽपि संन्याससिद्धिकरप्रैषमन्त्रालोपादातुरसंन्यासोऽपि विद्वत्संमतो भव- तीत्याह-आतुरकाल इति। -प्राणस्योत्क्रमणासन्नकालः प्राणोत्क्रमणपूर्व- भाविकाल एवेत्यर्थः ॥ ५॥। आतुरसंन्यासविधि: आतुरेऽपि च संन्यासे तत्तन्मन्त्रपुरःसरम्। मन्त्रावृत्तिं च कृत्वैव संन्यसेद्विधिवद् बुधः ॥ ६ ॥ आतुरेऽपि क्मे चापि प्रैषभेदो न कुत्रचित्। न मन्त्रं कर्मरहितं कर्म मन्त्रमपेक्षते ॥। ७॥

Page 78

नारदपरिव्राजकोपनिषत् ६५ अकर्म मन्त्ररहितं नातो मन्त्रं परित्यजेत्। मन्त्रं विना कर्म कुर्याद्दस्मन्याहुतिवद्भवेत् ॥ ८ ।। विध्युक्तकर्मसंक्षेपात् संन्यासस्त्वातुरः समृतः । तस्मादातुरसंन्यासे मन्त्रावृत्तिविधिर्मुने ।। ९।। आतुरसंन्यासविधिमाचष्टे-आतुरेऽपि चेति। क्रमातुरयोः प्रैषभेदः स्यादित्यत आह-आतुरेऽपीति। कर्मणो मन्त्राधीनत्वं केवलकर्मणो निष्फलत्वं चाह-न मन्त्रमिति। न मन्त्रं कर्मरहितम् इत्यत्र विभक्तिव्यत्ययः। केव लमन्त्रप्राधान्येन यत्र कर्मलोपः, सोऽयमातुरसंन्यास इत्याह-विध्युक्तेति। यस्मादेवं तस्मात् ॥ ६-९॥ देशान्तरस्थाहिताय्नेः संन्यासविधि: आहितागिर्विरक्तश्रेद् देशान्तरगतो यदि। प्राजापत्येष्टिमप्सवेव निर्वृत्यैवाथ संन्यसेत् ॥ १० ॥ मनसा वाथ विध्युक्तमन्त्रावृत्त्याथवा जले। श्रुत्यनुष्ठानमागेण कर्मानुष्ठानमेव वा। समाप्य संन्यसेद्विद्वान्नो चेत् पातित्यमाप्नुयात् ॥ ११ ॥ यद्याहिताग्निविरक्तो दूरदेशं गतो भवति, तस्य संन्यासः कथमित्या- काड्क्षायां मनसा वचसा कर्मणा वाप्सु प्राजापत्येष्टिं कृत्वैव संन्यसेत्; नो चेत् पतितो भवतीत्याह-आहितानिरिति। देशान्तरगतो यदि तदा ॥ १०, ११ ॥ सतृष्णस्य संन्यासपरिग्र हे नरकप्राप्तिः यदा मनसि संजातं वैतृष्ण्यं सर्ववस्तुषु। तदा संन्यासमिच्छन्ति पतितः स्याद्विपर्यये ॥ १२॥ 5

Page 79

६६ संन्यासोपनिषद: [उप.

विरक्त: प्रत्रजेद्धीमान् सरक्तस्तु गृहे वसेत्। सरागो नरकं याति प्रत्रजन् हि द्विजाधमः ॥ १३ ॥ स्वातिरिक्तवस्तुवैतृष्ण्यं संन्यासहेतुः । यत्र कुत्रापि सतृष्णो यदि संन्यस्यति, तस्य नरकपातः स्यादित्याह-यदेति ॥१२, १३।। वैतृष्ण्यमेव संन्यासपरिग्रहे हेतु: यस्यैनानि सुगुप्तानि जिह्वोपस्थोदरं करः। संन्यसेदकृतोद्वाहो ब्राह्मणो ब्रह्मचर्यवान् ॥ १४ ॥ संसारमेव निःसारं दृष्टरा सारदिद्दक्षया। प्रत्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः ॥१५॥ प्रवृत्तिलक्षणं कर्म ज्ञानं संन्यासलक्षणम्। तस्माउ़ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ॥१६ ॥ यस्य जिह्वादिकं स्ववशे वर्तते, इतः परमलमिति यस्य संसारविरक्तिरुदेति, यस्थ च ज्ञानं कवल्यसाधनं भत्रति, सोडयं ब्रती गृही वनी वा सन्यसेदित्याह- यस्येति। यस्मादेवं तस्मात् ॥ १४-१६ ॥ विद्वत्संन्यास:

यदा तु विदितं तत्त्वं परं ब्रह्म सनातनम्। तदैकदण्डं संगृह्य सोपवीतं शिखां त्यजेत् ॥ १७ ॥ परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि। सर्वैपणाविनिर्मुक्तः स भैक्षं भोक्तुमर्हति॥१८।। पूजितो वन्दितश्चैव सुप्रसन्नो यथा भवेत्। तथा चेत् ताड्यमानस्तु तदा भवति भैक्षभुक् ॥१९ ।।

Page 80

३] नारदपरिव्राजकोपनिषत् ६७

अहमेवाक्षरं ब्रह्म वासुदेवाख्यमद्वयम्। इति भावो ध्रुवो यस्य तदा भवति भैक्षभुक् ॥ २० ॥ यस्मिञ्छान्तिः शमः शौचं सत्यं संतोष आर्जवम् । अकिंचनमदम्भश्च स कैवल्याश्रमे भवेत् ॥ २१ ॥ यदा न कुरुते भावं सर्वभूतेषु पापकम्। कर्मणा मनसा वाचा तदा भवति भैक्षमुक् ॥ २२।। दशलक्षणकं धर्ममनुतिष्ठन् समाहितः । वेदान्तान् विधिवच्छृत्वा संन्यसेदनृणो द्विजः ॥ २३ ॥ धृतिः क्षमा दमोडस्तेयं शौचमिन्द्रियनिग्रहः। हरीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ २४॥ अतीतान्न स्मरेद्धोगान्न तथानागतानपि। आप्तांश्र नाभिनन्देद्यः स कैवल्याश्रमे वसेत् ॥२५॥ अन्तःस्थानीन्द्रियाप्यन्तर्बहिष्ठान् विषयान् बहिः। शक्रोति यः सदा कर्तुं स कैवल्याश्रमे वसेत् ॥२६॥ प्राणे गते यथा देहः 'सुखदुःखं न विन्दति। तथा चेत् प्राणयुक्तोऽपि स कैवल्याश्रमे वसेत्॥२७॥ विद्वत्संन्यासमाह-यदेति। यस्य स्वानुरक्तिस्वातिरिक्तविरक्तिसम- त्वादिकं नैजं भवति, स यतितामर्हतीत्याह-परमात्मनीत्यादिना। अकिंचर्न स्वातिरेकेण किंचिदस्तीति यन्मनो न मनुते तदकिंचनम्। किंच यदेति। पुनर्भङ्गयन्तरेण विद्वत्संन्यास उच्यते-दशेति । अनृणः "ब्रह्मचर्येणर्षिभ्यो 1 उ १. 'सुखदुःखं' इत्यारभ्य 'विसृज्य ध्यानयोगेन' (२७-५१) इत्यन्तं मूलं व्याख्यानं च न ह्येते।

Page 81

६८ सन्यासोपनिषद: [उप.

यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणः" इति श्रुतेः । दशलक्षणकं धर्ममित्यंशं श्रुतिरेव व्याकरोति-धृतिरिति। भूतादिकालत्रयावच्छिन्नभोगा- निच्छुर्मोक्षाश्रमे वसेदित्याह-अतीतानिति। निगृहीतान्तर्बाह्यवृत्तिर्मोक्षाश्रमे वसेदित्याह-अन्तरिति। किं बहुना ; प्राण इलि ॥ १७-२७॥ अवैधपरिग्र हे प्रत्यवायः कौपीनयुगलं कन्था दण्ड एक: परिग्रह;। यतेः परमहंसस्य नाधिकं तु विधीयते ॥ २८॥ यदि वा कुरुते रागादघिकस्य परिग्रहम्। रौरवं नरकं गत्वा तिर्यग्योनिषु जायते ॥ २९ ॥ विशीर्णान्यमलान्येव चेलानि ग्रथितानि दु। कृत्वा कन्थां बहिर्वासो धारयेद्धातुरञ्जितम् ॥३०॥ एकवासा अवासा वा एकदृष्टिरलोलुपः । एक एव चरेन्नित्यं वर्षास्वेकत्र संवसेत्॥ ३१ ॥ कुटुम्बं पुत्रदारांश्र वेदाङ्गानि च सर्वशः । यज्ञं यज्ञोपवीतं च त्यक्त्वा गूढं चरेद्यतिः ।। ३२ यतेर्देंहधारणस्वाचारोपयोगिपरिग्रहं विनान्यत्र न हि परिग्रहविधिरस्ति। यदि करोति, तदा प्रत्यवैतीत्याह-कौपीनेति। यदि शीतभीतिस्तदा विशीर्णानीति। साम्बरा दिगम्बरा वा-श्रवणमनननिदिध्यासनव्यापृति- विरला यदि, तदा तेषां ग्रमैकरात्रसंचारो विधीयत इत्याह-एकेति ॥ २८-३२ ।। परिव्राजकानां धर्मा: काम: क्रोधस्तथा दर्पों लोभमोहादयश्च ये। तांस्तु दोषान् परित्यज्य परिव्राण्निर्ममो भवेत् ॥ ३३ ॥

Page 82

३] नारदपरित्राजकोपनिषत ६९

रागद्वेषवियुक्तात्मा समलोष्टाश्मकाञ्चनः । प्राणिहिंसानिवृत्तश्र मुनिः स्यात् सर्वनिःसपृहः ॥ ३४ ॥ दम्भाहंकारनिर्मुक्तो हिंसापैशुन्यवर्जितः । आत्मज्ञनगुणपेतो यतिर्मोक्षमवामुयात्॥३५॥ इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयः । संनियम्य तु तान्येव ततः सिद्धिं निगच्छति ॥ ३६ ॥ न जातु काम: कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥३७॥ श्रुत्वा स्पृष्टरा च भुक्त्वा च दृष्टा ब्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ ३८॥ यस्य वाड्मनसी शुद्धे सम्यम्गुप्ते च सर्वदा। स वै सर्वमवान्नति वेदान्तोपगतं फलम् ॥ ३९ ॥ संमानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव। अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ ४० ॥ सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते। सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥ ४१॥ अतिवादांस्तितिक्षेत नावमन्येत कंचन। न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ ४२ ॥ क्रुध्यन्तं न प्रतिक्ुध्येदाक्रुष्टः कुशलं वदेत्। सप्तद्वारावकीर्णो च न वाचमनृतां वदेत् ॥ ४३ ॥ अध्यात्मरतिरासीनो निरपेक्षो निराशिषः । आत्मनैव सहायेन सुखार्थी विचरेदिह ॥ ४४ ॥

Page 83

७० संन्यासोपनिषद: [उप.

इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च। अहिंसया च भूतानाममृतत्वाय कल्पतें ॥ ४५ ॥ अस्थिस्थूणं स्रायुबद्धं मांसशोणितलेपितम्। चर्मावबद्धं दुर्गन्धि पूर्ण मूत्रपुरीषयोः ॥ ४६ ॥ जराशोकसमाविष्टं रोगायतनमातुरम्। रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥ ४७ ॥ मांसासृक्पूय विष्मूत्रस्नायुमज्जास्थिसंह तौ। देहे चेत् प्रीतिमान्मूढो भविता नरकेऽपि सः ॥ ४८ ॥ सा कालसूत्रपदवी सा महावीचिवागुरा। सासिपत्रवनश्रेणी या देहेऽहमिति स्थितिः ॥ ४९॥ सा त्याज्या सर्वयलेन सर्वनाशेऽप्युपस्थिते। स्प्रष्टव्या सा न भव्येन सश्मांसेव पुल्कसी ॥ ५०॥ प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम्। विसृज्य ध्यानयोगेन व्रह्माप्येति सनातनम् ॥ ५१॥ अनेन विधिना सर्वास्त्यक्त्वा सङ्गाञ्छनैःशनैः । सर्वद्वन्द्वैर्विनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥५२॥ एक एव चरेन्नित्यं सिद्धयर्थमसहायकः । सिद्धिमेकस्य पश्यन् हि न जहाति न हीयते ॥ ५३॥

परिव्राजकधर्मानुपन्यस्यति-काम इत्यादिना। निर्ममो भवेत् स्वदेह- तदन्यत्र नाहंममाभिमानी भवेदित्यर्थः । मुनिः मननशीलः । इन्द्रियैरिन्द्रियार्थ- स्पर्शास्पर्शाभ्यां बन्धमोक्षौ भवत इत्याह-इन्द्रियाणामिति। कामोपभोगतः

Page 84

३] नारदपरिव्राजकोपनिषत् ७१

कामशान्ति: स्यादित्यत आह-नेति। एवं चेत् जितेन्द्रियत्वं कथमित्यत आह-श्रुत्वेति। यद्वशे करणजातं भवति, स ज्ञानफलमेतीत्याह-यस्येति। सम्यग्गुप्ते तनुभावं गते। यतिः संमानमनाध्यावमानमेव काड्क्षेदित्याह- संमानादिति। किंच अतिवाद्ान् परक्रताविक्षेपान् तितिक्षेत। नावमन्येत कंचन स्वात्मधिया। "सप्त वै शीर्षण्याः प्राणाः" इति सप्तद्वारावकीर्णीं च न वाचमनृतां वदेत्। सप्तमद्वारभूतां सदा अध्यात्मरतिः। किंच इन्द्रियाणामिति। स्वाधिष्ठितदेहरूढामहंधियं स्वानर्थकरीमुत्सृज्य ब्रह्मात्मनि बुद्धिं कुर्यादित्याह-अस्थीति। शुक्कशोणितयोगजं रजस्वलम्। भूतावासाभि- मतौ दोषं विशिनष्टि-मांसेति। देहगताहंमतिमहंब्रह्मास्मीति ब्रह्मण्येव कुर्या- दित्यर्थः। एवं ब्रह्मानुसंधानपरस्यापि शरीरयोगप्रभवसुकृतदुष्कृतयोरवश्यं- भावित्वात्ततो ब्रह्मभावापत्तिः कुत इत्यत आह-प्रियेष्विति। ब्रह्माप्तिप्रति- बन्धकसुकृतदुष्कृतयोः प्रियाप्रियजनापहृतत्वादयं निष्प्रतियोगिकं ब्रह्म स्वमात्र- धियैतीत्यर्थः । प्रियाप्रियेष्वपि अनेनेति ॥ ३३-५३॥ यतिचर्या, तत्फलं च

कपालं वृक्षमूलानि कुचेलान्यसहायता। समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥ ५४ ॥ सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः । एकाराम: परिव्रज्य मिक्षार्थं ग्रामम/विशेत् ॥५५॥ एको मिक्षुर्यथोक्तः स्याद् द्वावेव मिथुनं स्मृतम्। त्रयो ग्राम: समाख्यात ऊर्ध्वं तु नगरायते ॥ ५६ ॥ नगरं न हि कर्तव्यं ग्रामं वा मिथुनं तथा। एतत्त्रयं प्रकुर्वाणः स्वधर्माच्च्यवते यतिः ॥ ५७॥ राजवार्त्तादि तेषां स्याद्विक्षावार्त्ता परस्परम्। स्नेहपैशुन्यमात्सर्यं संनिकर्षान्न संशयः ॥५८॥

Page 85

७२ संन्यासोपनिषद: उप.

एकाकी निःसपृहस्तिष्ठेन्न हि केन सहालपेत्। दद्यान्नारायणेत्येव प्रतिवाक्यं सदा यतिः ॥५९॥ एकाकी चिन्तयेद् ब्रह्म मनोवाक्कायकर्मभिः । मृत्युं च नाभिनन्देत जीवितं या कथंचन ॥ ६० ॥ कालमेव प्रतीक्षेत यावदायुः समाप्यते। नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥ कालमेकं प्रतीक्षेत निदेशं भृतको यथा ॥ ६१ ॥ अजिह्न: पण्डकः पङ्गुरन्धो बधिर एव च । मुग्धश्च मुच्यते भिक्षुः षड्भिरेतैर्न संशयः ॥ ६२॥ पुन्यतिचर्या तत्फलं चाचष्टे-कपालमित्यादिना। येन वाक्कायमनांसि दण्डयन्ते मौनस्वल्पाशनप्राणायामोपायत इति स त्रिदण्डी महायतिः। "वाग्दण्ड: कायदण्डश्च मनोदण्डश्च ते त्रयः । यस्यते नियता दण्डाः स त्रिदण्डी महायतिः ॥" इति श्रुतेः । एकब्रह्मावशेपेण सर्वत्र रमत इति एकारामः। कथं तत् राजवारतादीति। यस्मदेवं तस्मात् एकाकीति। एकाकिना किं कर्तव्यमित्यत आह-एकाकी चिन्तयेदिति। अजिह्वादिवृत्तिमान् यतिः स्वातिरित्तभ्रमतो विमुच्यत इत्याह-अजिह्व इति ॥ ५४-६२॥ अजिह्वादीनां लक्षणम् इदं मृष्टमिदं नेति योऽश्नन्नपि न सज्जति । हितं सत्यं मितं वक्ति तमजिहनं प्रचक्षते ॥ ६३ ॥ अदय जातां यथा नारीं तथा षोडशवार्षिकीम्। शतवर्षां च यो दृष्टा निर्विकारः स पण्डकः ॥ ६४ ॥

Page 86

३] नारदपरिव्राजकोपनिषत् ७३

भिक्षार्थमटनं यस्य विष्मूत्रकरणाय च। योजनान्न परं याति सर्वथा पङ्गुरेव सः ॥ ६५॥ तिष्ठतो त्रजतो वापि यस्य चक्षुर्न दूरगम्। चतुर्युगां भुवं मुक्त्वा परिव्राट् सोऽन्ध उच्यते ॥ ६६ ॥ हिताहितं मनोरामं वच: शोकावहं च यत्। श्रुत्वापि न शृणोतीव बधिरः स प्रकीर्तितः ॥ ६७ ॥ सांनिध्ये विषयाणां यः समर्थोऽविकलेन्द्रियः । सुप्तवद्वर्तते नित्यं स भिक्षुर्मुग्ध उच्यते ॥ ६८॥

सूत्रभूतं वाक्यं श्रुतिरेव क्रमेण व्याचष्टे। तत्राजिह्वशब्दार्थमाह- इदमिति। पण्डकशब्दार्थमाह-अद्येति। पड्गुशब्दार्थमाह-भिक्षार्थमिति। अन्धशब्दार्थमाह-तिष्ठत इति। बधिरशब्द व्याचष्टे-हितेति। मुग्धशब्दार्थ विशद्यति-सान्निध्य इति ॥ ६३-६८ ॥

यतीनां वर्जनीयानि नटादिप्रेक्षणं द्युतं प्रमदासुहृदं तथा। भक्ष्यं भोज्यमुदक्यां च षण्न पश्येत् कदाचन ॥ ६९ ॥ रागं द्वेषं मदं मायां द्रोहं मोहं परात्मसु। षडेतानि यतिर्नित्यं मनसापि न चिन्तयेत्॥ ७०॥ मश्चकं शुक्कवस्त्रं च स्त्रीकथा लौल्यमेव च। दिवा स्वापं च यानं च यतीनां पातकानि षट्।। ७१॥ दूरयात्रां प्रयत्नेन वर्जयेदात्मचिन्तकः ।

यतिभि: यद्यत् त्याज्यं तदेकदेशं प्रदर्शयति-नटादीत्यादिना ॥ ६९-७१॥

Page 87

७४ संन्यासोपनिषद: [उप.

यतिभि: अनुष्ठेयानि

सदोपनिषदं विद्यामभ्यसेन्मुक्तिहैतुकीम् ॥ ७२॥ न तीर्थसेवी नित्यं स्यान्नोपवासपरो यतिः । न चाध्ययनशील: स्यान्न व्याख्यानपरो भवेत् ॥ ७३ ॥ अपापमशठं वृत्तमजिहं नित्यमाचरेत्। इन्द्रियाणि समाहृत्य कूर्मोडङ्गानीव सर्वशः ॥ ७४॥

निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च । ७५॥ निर्ममो निरहंकारो निरपेक्षो निराशिषः । विविक्तदेशसंसक्तो मुच्यते नात्र संशयः ॥ ७६॥ इति।।

यदनुष्ठेयं तदाह-सदेति। अपापं पापपुण्यतत्फलविमुखम् अशठं साधुजनसेव्यब्रह्मगोचरम्। अजिह्नं मौनमित्यर्थः । इतिशब्दो मन्त्रपरि- समाध्यर्थ: ॥ ७२-७६॥

आश्रमानुसारेण पारिव्राज्यम्

अप्रमत्त: कर्मभक्तिज्ञानसंपन्नः स्वतन्त्रो वैराग्यमेत्य ब्रह्मचारी गृही वानप्रस्थो वा मुख्यवृत्तिका चेद् ब्रह्मचर्य समाप्य गृही भवेद् गृहाद्वनी भूत्वा प्रत्रजेत्। यदि वेतरथा ब्रह्मचर्यादेव प्रन्नजेद् गृहाद्वा वनाद्वा। अथ पुनरवती वा वरती वा स्नातको वास्तको वोत्सन्नाभि- रनमिको वा यदहरेव विरजेत् तदहरेव प्रब्रजेत्। तद्धैके प्राजापत्यामेवेष्टिं

Page 88

३] नः दपरिबाजकोपनिष्द्

कुर्वन्ति। अथवा न कुर्यात्। आभेय्यामेव कुर्यात्। अमिर्हिं प्राणः । प्राणमेवैतया करोति। तस्मात् त्रैधातवीयामेव कुर्यात्। एत एव त्रयो धातवो यदुत सत्त्वं रजस्तम इति॥ ७७॥

"अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः । तं जानन्नम आरोहाथा नो वर्धया रयिम् ।"

इत्यनेन मन्त्रेणामिमाजिघ्रत्। एष वा अभेर्योनिर्य: प्राणः, प्राणं गच्छ स्वां योनिं गच्छ स्व्राहेत्येवमेवैतदाह। आहवनीयादमनिमाहृत्य पूर्ववदभिमाजिघ्रेत्। यदमिं न विन्देदप्सु जुहुयात्। आपो वै सर्वा देवताः, सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोद्धत्य तदुदकं प्राश्नीयत् साज्यं हविरनामयं मोक्षदमिति। शिखां यज्ञोपवीतं पितरं पुत्रं कलत्रं कर्म चाध्ययनं मन्त्रान्तरं विसृज्यैव परित्रजत्या- त्मवित्। मोक्षमन्त्रैस्त्रैधातवीयैर्विदेत्। तद् ब्रह्म तदुपासितव्यम्। ए.वमेवैतदिति ॥ ७८ ॥

यथोक्तलक्षित वृत्त्यादेर्यदहरेव वान्ताशनमूत्रपुरीषा दिवत् स्वातिरित्तप्रपश्च- विरतिरुदेति तदा तदह्रेव प्रव्रजेत्; यदि विरतिर्मन्दा तदाश्रमक्रमानु- सारेण परिव्रजेदित्याह-अप्रमत्त इति। यदि स्वात्ताश्रमपरिप्रहे मन्दविर- क्त्या तत्र मुख्यवृत्तिका चेत् ब्रह्मचर्य समाप्य गृही भव्रेत्। यदि वा इतरथा तीव्रतरविरतिरुदेति, तदा ब्रह्मचर्यादेव प्रव्रजेत्। विरजेत् तीव्रतर- विरागी स्यात्। यस्मादेवं तस्मात्। "ब्रह्मचर्ये समाप्य" इत्यारभ्य "तदू ब्रह्म तदुपासितव्यम" इत्यन्तं जाबालोपनिषदि चतुर्थखण्डे जनक. याज्ञवल्क्यसंवादे प्रायशः प्रतिपदं व्याख्यातम् ॥ ७७, ७८ ॥।

Page 89

७६ रं्यासोपनिषद: [उप.

यतेरेव मुख्यं ब्राह्मण्यम् पितामहं पुनः पप्रच्छ नारदः। कथमयज्ञोपवीती ब्राह्मण इति। तमाह पितामहः॥ ७९॥

सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद् बुधः । यदक्षरं परं ब्रह्म तत् सूत्रमिति धारयेत् ॥ ८० ॥ सूचनात् सूत्रमित्याहु: सूत्रं नाम परं पदम्। तत् सूत्रं विदितं येन स विप्रो वेदपारगः ।। ८१।। येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव। नत् मूत्रं धारयेद्यगी योगवित्तत्त्वदर्शनः॥ ८२॥ वहिःमूत्रं त्यजद्विद्वान् योगमुत्तममास्थितः । ब्रह्मभावमिदं मूत्रं धारयेद्यः स चेतनः । धारणात् नस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् ॥ ८३॥ मृत्रमन्वर्गतं येषां ज्ञानयज्ञोपवीतिनाम्। ते वै सृत्रविदो लोके ते च यज्ञोपवीतिनः ॥ ८४॥ ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥ ८५॥ अझनेरिव शिखा नान्या यस्य ज्ञानमयी शिखा। स शिखीत्युच्यते विद्वान् नेतरे केशधारिणः ॥ ८६ ॥ कर्मव्यधिकृता ये तु वैदिके ब्राह्मणादयः । तेभिर्धार्यमिदं सूत्रं क्रियाक्कं तद्धि वै स्मृतम् ॥ ८७॥

Page 90

३] नारदपरिव्राजकोपनिषत् DiS

शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम्। ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ॥ ८८॥ इति।।

संन्यासस्य शिखायज्ञोपवीतत्यागपूर्वकत्वात् कथमयं ब्राह्मणपदम्हतीति नारदः पितामहं पृच्छतीत्याह श्रुतिः-पितामहमिति । तमाह पितामहः । किमिति-सशिखमिति "सशिखम्" इत्यादि "ब्रह्मविदो विदुः" इत्यन्तं ब्रह्मोपनिषदि पदशो व्याख्यातम् ॥ ७९-८८॥

परमहंसम्य अवधूताश्रमस्य वा परिग्रहः

तदेतद्विज्ञाय ब्राह्मणः परिव्रज्य परिव्राडेकशाटी मुण्डोऽपरि- ग्रहः शरीरक्केशासहिष्णुश्चेत्। अथवा यथाविधिश्चेज्जातरूपधरो भूत्वा स्वपुत्रमित्रकलत्राप्त बन्ध्वादीनि स्वाध्यायं सत्कर्माणि संन्यस्यायं ब्रह्माण्डं च सर्व कौपीनं दण्डमाच्छादनं च त्यक्त्वा द्वन्द्सहिष्णुर्न शीतं न चोप्णं न सुखं न दुःखं न निद्रा न मानावमाने च षडूर्मिवर्जितः, निन्दाहंकार-

स्ववपुः शवाकारमिव स्मृत्वा, स्वव्यतिरिक्तमन्तर्बहिरमन्यमानः, कस्यापि वन्दनमकृत्वा न स्वाहाकारो न स्वधाकारो न निन्दास्तुतिर्यादच्छिको भवेत्। यदच्छालामसंतुष्टः सुवर्णादीन्न परिग्रहेत्। नावाहनं न विसर्जनं न मन्त्रं नामन्त्रं न ध्यानं नोपासनं न लक्ष्यं नालक्ष्यं न पृथङ् नापृथड् न त्वन्यत्र अनिकेतः स्थिरमतिः शून्यागारवृक्षमूलदेवगृहतृणकूटकुलाल- शालामिहोत्रशालाभिदिगन्तरनदी तटपुलिनभूगृह कन्दरनिर्झरस्थण्डिलेषु,

Page 91

७८ संन्यासोपनिषद्: उप.

पात्रं कमण्डलुं कटिसूत्रं कौपीनं च तत्सवं भूः स्वाहेत्यप्सु परित्यज्य ।।८९।।

कटिसूत्रं च कौपीनं दण्डं वस्त्रं कमण्डलुम्। सर्वमप्सु विसृज्याथ जातरूपधरश्चरेत् ॥ ९० ॥

आत्मानमन्विच्छेत्। यथाजातरूपधरो निर्द्वन्द्वो निष्परिग्रहस्तत्त्वब्रह्ममारगें सम्यवसंपन्नः शुद्धमानसः प्राणसंधारणार्थ यथोक्तकाले करपात्रेणान्येन वायाचिताहारमाहरन्, लाभालाभौ समौ भूत्वा निर्ममः शुक्कध्यान- परायणोऽध्यात्मनिष्ठः शुभाशुभकर्मनिर्मूलनपरः संन्यस्य पूर्णानन्दैक- बोधस्तद्टह्माहमस्मीति ब्रह्मप्रणवमनुस्मरन् भ्रमरकीटन्यायेन शरीरत्रय- मुत्सृज्य संन्यासेनैव देहत्यागं करोति। स कृतकृत्यो भवति । इत्युपनिपत् ॥ ९१ ॥

यतेरेव मुख्यं ब्राह्मण्यं विदित्वा परिव्रज्य पारमहंस्यमवधूताश्रमं वा गच्छेदित्याह-तदेनदिति। यदि शीताद्यसहिष्णुस्तदा परिव्राद्। श्रवणादि- सत्कर्माणि। शीतोष्णादिद्वन्दवसहिष्णुः । अशनायादि: षडूर्मिः । स्वयमेवान्तर- मत्राह्यं व्रह्मेति भावनया स्वव्यनिरित्तमन्तर्बहिरमन्यमानः कस्यापि वन्दन- मकृत्वा सेव्यसे वकहेतुदेहाभिमतिवैरल्यात् यादृच्छिको भवेत् स्वातन्त्रयेणैकाकी संचरेदित्यर्थः । यदृच्छालाभसंतुष्टः स्वप्रयोजनाभावात्। न मन्त्रं नामन्त्रम्; प्रथमार्थ द्वितीया। स्वातिरेकेणावाहनविसर्जनमन्त्रामन्त्रध्यानोपासन लक्षणीया- लक्षणीयलक्ष्यालक्ष्यभेदाभेदकलनावेरल्यात्, अत एव अनिकेतः स्थिरमतिः । अवधूतस्य कृतकृत्यत्वेन श्रवणादिकर्तव्याभावादनिकेतस्थिरमतित्वं युज्यत

Page 92

४] नारदपरिव्राजकोपनिषत् इत्यर्थ:। तेषां निवासस्थलमाह-शून्येति। प्रशस्तावधूतपूगनाम निर्दि- शति-श्वेतकेत्विति। यः कोऽप्यव्यक्तलिङ्ग: अस्खलितस्वस्वरूपानुसंधानेन कालं नयेदित्यर्थः । यदि कुटी चकादि: अवधूतचर्यामिच्छति तदा त्रिदण्डमिति। यदि परमहंसस्तदा कटिसूत्रं चेति। ततः किम्? इत्यत्र-"आत्ममात्रमिदं सर्वमात्मनोऽन्यन्न किंचन" इति श्रुत्यनुरोधेन आत्मानमन्विच्छेत्। तत्वब्रह्म- मार्गे तत्प्रापकज्ञानवर्त्मनि। करपात्रेणा न्येन वा आस्याहारेणेत्यर्थः । अया- चिताहारमाहरन् तत्रापि लाभालाभौ समौ भूत्वा निर्ममः। "शुक्कतेजोमयं ब्रह्म" इति श्रुत्यनुरोधेन शुक्कध्यानपरायणोऽध्यात्मनिष्ठः स्वातिरित्तप्रपञ्चनि- वृत्तिप्रवृत्तिरू पशुभाशुभकर्मनिर्मूलनपरः यत् स्वातिरिक्तं तत् संन्यस्य पूर्णा- नन्दैकबोध: यज्ञाग्रज्जाग्रदादिचतुषपञ्चदशकलनापह्ववसिद्धं तद्रह्माहमस्मीति ब्रह्मप्रणवमनुस्मरन् भ्रमरकीटन्यायेन शरीरत्रयतन्निरूपितात्मात्मीयाभिमति- मुत्सृज्य यः स्वातिरिक्तास्तित्वभ्रमसंन्यासेनैव देहत्यागं करोति स कृतकृत्यो विदेहमुक्तो भवति इत्यर्थः । इत्युपनिषच्छब्दः तृतीयोपदेशसमाध्यर्थः ॥ ॥ ८९-९१ ॥ इति सृतीयोपदेशः

चतुर्थोपदेशः

यतिधर्माणां तत्फलस्य चोान्यासः

त्यक्त्वा लोकांश्र वेदांश्च विषयाणीन्द्रियाणि च। आत्मन्येव स्थितो यस्तु स याति परमां गतिम् ॥ १॥ नामगोत्रादिवरणं देशं कालं श्रुतं कुलम्। वयो वृत्तं व्रतं शीलं ख्यापयेन्नैव सद्यतिः ॥ २॥

Page 93

८० संन्यासोपनिषद: उप.

न संभाषेत् स्त्रियं कांचित् पूर्वदृष्टां च न स्मरेत्। कथां च वर्जयेत्तासां न पश्येल्लिखितामपि॥ ३ ॥ एतच्चतुष्टयं मोहात् स्त्रीणामाचरतो यतेः। चित्तं विक्रियतेऽवश्यं तद्विकारात् प्रणश्यति ॥ ४॥ तृप्णा क्रोधोऽनृतं माया लोभमोहौ प्रियाप्रिये। शिल्पं व्याख्यानयोगश्च कामो रागः परिग्रहः ॥५॥ अहंकारो ममत्वं च चिकित्सा धर्मसाहसम्। प्रायश्चितं प्रवासश्च मन्त्रौषधगराशिषः । प्रतिषिद्धानि चैतानि सेवमानो त्रजेदधः ॥ ६ ॥ आगच्छ गच्छ तिष्ठेति स्वागतं सुहृदोऽपि वा। संमाननं च न ब्रूयान्मुनिर्मोक्षपरायणः॥७॥ प्रतिग्रहं न गृह्वीयान्नैव चान्यं प्रदापयेत्। प्रेरयेद्वा तथा भिक्षुः स्वप्नेऽपि न कदाचन ॥ ८ ॥। जायाभ्रातृसुतादीनां बन्धूनां च शुभाशुभम्। श्रुत्वा दृष्टा न कम्पेत शोकमोहौ त्यजेद्यतिः ॥ ९।। अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः । अनौद्धत्यमदीनत्वं प्रसाद: स्थैर्यमार्जवम् ॥ १० ॥ अस्नेहो गुरुशुश्रषा श्रद्धा क्षान्तिर्दमः शमः । उपेक्षा धैर्यमाधुयें तितिक्षा करुणा तथा ॥ ११ ॥ ह्ीस्तथा ज्ञानविज्ञाने योगो लघ्वशनं धृतिः । एष स्वधर्मो विख्यातो यतीनां नियतात्मनाम् ॥ १२ ॥

Page 94

नारदपरिव्राजकोपनिषत् ८१

निर्द्न्द्वो नित्यसत्त्वस्थः सर्वत्र समदर्शनः । तुरीयः परमो हंस: साक्षान्नारायणो यतिः ॥१३ ॥ एकरात्रं वसेद् ग्रामे नगरे पश्चरात्रकम्। वर्षाभ्योऽन्यत्र वर्षासु मासांश्र चतुरो वसेत् ॥ १४ ॥ द्विरात्रं न वसेद् ग्रमे भिक्षुर्यदि वसेचदा। रागादयः प्रसज्येरंस्तेनासौ नारकी भवेत् ॥ १५ ।। ग्रामान्ते निर्जने देशे नियतात्मानिकेतनः । पर्यटेत् कीटवद् भूमौ वर्षास्वेकत्र संवसेत् ॥ १६ ।। एकवासा अवासा वा एकदृष्टिरलोलुपः । अदूषयन् सतां मार्ग ध्यानयुक्तो महीं चरेत् ॥१७॥ शुचौ देशे सदा भिक्षुः स्वधर्ममनुपालयन्। पर्यंटेत सदा योगी वीक्षयन् वसुधातलम् ॥ १८ ॥ न रात्रौ न च मध्याहे संध्ययोर्नैव पर्यटन्। न शून्ये न च दुर्गे वा प्राणिबाधाकरे न च । १९ ॥। एकरात्रं वसेद् ग्रमे पत्तने तु दिनत्रयम्। पुरे दिनद्वयं भिक्षुर्नगरे पश्चरात्रकम्। वर्षास्वेकत्र तिष्ठेत स्थाने पुण्यजलावृते ॥ २०॥ आत्मवत् सर्वभूतानि पश््यन् भिक्षुश्चरेन्महीम्। अन्धवज्जडवच्चैव बधिरोन्मत्तमूकवत् ॥२१॥ स्नानं त्रिषवणं प्रोक्तं बहूदकवनस्थयोः । हंसे तु सकृदेव स्यात् परहंसे न विद्यते ॥ २२ ॥ 6

Page 95

८२ संन्यासोपनिषद्: उप. मौनं योगासनं योगस्तितिक्षैका न्तशीलता। निःसपृहत्वं समत्वं च सप्तैतान्येकदण्डिनाम् ॥ २३ ॥ परहंसाश्रमस्थो हि स्नानादेरविधानतः। अशेषचित्तवृत्तीनां त्यागं केवलमाचरेत् ।२४।

विष्मृत्रपूये रमतां क्रिमीणां कियदन्तरम् ॥ २५ ॥ क शरीरमशेषाणां श्रेप्मादीनां महाचयः । क्क चाङ्गशोभासौभाग्यकमनीयादयो गुणाः ॥ २६ ॥ मांसासृक्पूयविष्मृत्रस्न। युमज्जास्थिसंहतौ। देहे चेत् प्रीतिमान् मूढो भविता नरकेऽपि सः ॥२७॥ स्त्रीणामवाच्यदेशस्य क्िन्ननाडीव्रणस्य च। अभेदेऽपि मनोभेदाज्नः प्रायेण वञ्च्यते ॥ २८॥ चर्मखण्डं द्विवा मिन्नमपानोद्वारधूपितम्। ये रमन्नि नमस्तेभ्यः साहसं किमतः परम् ॥ २९॥ न नस्य विद्यते कार्य न लिङ्गं वा विपश्चितः । निर्ममो निर्मयः शान्तो निर्दन्द्वोऽवर्णभोजनः ॥३० ॥ मुनिः कौपीनवासाः स्यान्नमो वा ध्यानतत्परः । एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते ॥ ३१ ॥ लिङ्गे सत्यपि खल्वस्मिन् ज्ञानमेव हि कारणम्। निर्मोक्षायेह भूतानां लिङ्गग्रामो निरर्थकः ॥ ३२ ॥

Page 96

४] नारद्परिव्राजकोपनिषत् ८३

यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम्। न सुवृत्तं न दुर्वृत्तं वेद कश्रित् स ब्राह्मणः ॥ ३३ ।। तस्मादलिङ्गो धर्मज्ञो ब्रह्मत्रतमनुत्रतम्! गूढ वर्माश्रितो विद्वानज्ञातचरितं चरेत्॥ ३४ ॥ संदिग्ध: सर्वभूतानां वर्णाश्रमविवर्जितः । अन्धवज्जडवच्चापि मूकवच्च महीं चरेत्॥ ३५।। तं दृष्ठा शान्तमनसं स्पृहयन्ति दिवौकसः । लिङ्गाभावात्तु कैवल्यमिति ब्रह्मानुशासनम् ॥ ३६ ॥ इति।

ब्रह्मातिरिक्तास्तिताहे तुधमेपूगत्यागपूर्वकं ब्रह्ममात्रसिद्धिता हेतुयतिर्मान् तत्फलं चोपन्यस्यति-त्यक्त्वा इत्यादिना, इति ब्रह्मानुशासनम् इत्य- न्तेन। कदाचित् केनचिदपि स्वस्य नामगोत्रादिवरणम्। स्वपतनहेतु- भूतं रागतः स्त्रीसंभाषणस्मरणतत्कथालापचित्रस्थवनितादर्शनादिकं यतिना त्याज्यमित्याह-नेति। किंच 'इदं मे स्यात्, इदं मा भूत्' इति तृष्णा। माया परवखना। अनात्मशास्त्रत्याख्यानयोगश्च। आरामालयादि- कर्तव्यविया याचनवृत्तिः । गरशव्देन विषसुच्यते। यं कंचन स्व्ननिकट- मागतम् आगच्छेति। कदापि प्रतिग्रहं न गृक्लीयात्। यदि कदाचित् जायादीनां शुभाशुभं, श्रुत्वा दृष्ट न कम्पेत। तद्विषयकशोकमोहौ त्यजेद्यतिः । यते: स्वधर्ममाह-अहिंसेति। क्षान्तिः सहनम्। यदृच्छया लध्वशनम्। एवं धर्मपूगसंस्कृतो योगी नारायणो भवतीत्याह-निर्द्वन्द्व इति। यदि श्रवणध्यानादित्यापृत्युपरतस्तदा एकरात्रमिति। ग्रामैकरात्र- स्थितावपि ग्रामान्त इति। परमहंसोऽवधूतो वा यथेच्छाचरणतः सन्मार्गदूषणं न कुर्यात् इत्याह-एकवासा इति। अलोलुपः सर्वत्र लौल्यवर्जितः । प्राण्यहिंसार्थ वीक्षयन्निति। संचारप्रतिषेधकालदेशावाह-नेति। शुन्ये निर्मानुष्ये। ग्रामादौ वासकालमाह-एकरात्रमिति। चातुर्मास्यानन्तरम् आत्मवदिति। यथा अन्धादिः रूपादिभेदं न पश्यति, तथेत्यर्थः । वन्यादीनां

Page 97

८४ संन्यासोपनिषद: [उप. स्नाननियममाह-स्नानमिति। परमहंससेवनीयधर्मः क इत्यत्र-मौन- मित्यादि। वागादिकरणव्यापृतिराहित्यमेव मौनम्। योगानुकूलपभ्नासनं सिद्धासनं वा योगासनमुच्यते। प्रत्यगभिन्नब्रह्मानुसंधानं योगः। परमहंसस्य मनोमलक्षालनमेव स्नानमित्याह-परहंसेति। "स्नानं मनोमलत्यागः" इति श्रुतेः । देहरतेः कृमिसाम्यमाह-त्वगिति। देहहेयधियं प्रकटयति-क्केति। ग्राम्यविषयं कुत्सयति-स्त्रीणामिति। लिङ्गाद्यपेक्षया ज्ञानस्य प्राधान्यं विदुषः कृतकृत्यतां चाह-न तस्येति। ब्रह्ममात्रदृष्टेः ब्राह्मणादिवर्णाश्रमभेदानुप- लम्भात् अभिशस्तपतितवर्जनपूर्वकं "सर्ववर्णेषु भैक्षाचरणं कुर्यात्" इति च श्रुतेः । अलिङ्गस्य ब्राह्मणत्वमाचष्टे-यमिति। कश्चिलोकः यं मु्नि सत्वेना- सत्त्वेन विद्वत्त्वेनाविद्वत्त्वेन सुवृत्तत्वेन दुर्वृत्तत्वेन वा न वेद । एवं वेदनलिङ्ग- दर्शनात् स ब्राह्मणः । यद्वा यः कश्चित् योगी यमात्मानं देहत्रयात्मना सन्तं प्रत्यप्रूपेण न चासन्तं स्वाज्ञादिदृष्ट्या कदापि नाश्रुतं न बहु श्रुतं वृत्तप्रकटन- हेत्वन्त:करणाभावान्न सुवृत्तं न दुर्वृत्तं तत्सर्वापह्ववसिद्धनिष्प्रतियोगिकस्व- मात्रधिया वेद, स मुनिः वेदनसमकालं ब्राह्मणो ब्रह्मविद्वरिष्ठो ब्रह्मैव भवतीत्यर्थः । तथाच श्रुति :- "य एवं निर्बीजं वेद निर्बीज एव स भवति।" "दर्शनादर्शने हित्वा स्वयं केवलरूपतः । य आस्ते कपिशार्दूल ब्रह्म न ब्रह्मवित् स्वयम् ।।" इति।। यस्मात् अलिङ्गस्यावधूतस्वातिरित्तप्रपञ्चष्टेः ब्राह्मणत्वमभिहितं तस्मात् ॥ तं दृष्ट्ा स्वातिरिक्तकलनाशान्तमनसं तथा कदा भविष्याम इति स्पृहयन्ति दिवौकसः । स्वातिरिक्तास्तित्वलिङ्गं यदा न प्रतिभाति, तदैव कैवल्यमिति ब्रह्मा नारदमनुशास्तीत्यर्थः ॥१-३६॥

क्रमसंन्यासविधिनिरूपणम् अथ नारदः पितामहं संन्यासविविं नो बहीति पप्रच्छ। पितामहस्तथेत्यङ्गीकृत्यातुरे वा क्रमे वापि तुरीयाश्रमस्वीकारार्थ

Page 98

नारदपरिव्राजकोपनिषत् ८५

कृच्छ्ूपायश्चित्तपूर्वकमष्टश्राद्धं कुर्यात् देवर्षिदिव्यमनुप्यभूतपितृमात्रा- त्मेत्यष्ट श्राद्धानि कुर्यात्। प्रथमं सत्यवसुसंज्ञकान् विश्वान् देवान्, देवश्राद्धे ब्रह्मविष्णुमहेश्वरान्, ऋषिश्राद्धे देवर्षिक्षत्रियर्षिमनुष्यर्षीन्, दिव्यश्राद्धे वसुरुद्रादित्यरूपान्, मनुष्यश्राद्धे सनकसनन्दनसनत्कुमार- सनत्सुजातान्, भूतश्राद्धे पृथिव्यादिपञ्चमहाभूतानि चक्षुरादिकरणानि चतुर्विधभूतग्रामान्, पितृश्राद्धे पितृपितामहप्रपितामहान्, मातुः श्राद्धे मातृपितामहीप्रपितामही:, आत्मश्राद्धे आत्मपितृपितामहान्, जीवत्पितृक- श्रेत् पितरं त्यक्त्वा आत्मपितामहप्रपितामहानिति। सर्वत्र युग्मक्लप्त्या ब्राह्मणानर्चयेत्। एकाध्वरपक्षेऽष्टाध्वरपक्षे वा स्वशाखानुगतमन्त्रैरष्ट श्राद्धान्यष्टदिनेषु वा एकदिने वा पितृयागोक्तविधानेन ब्राह्मणानभ्यर्च्य भुक्त्यन्तं यथाविधि निर्वर्त्य, पिण्डप्रदानानि निर्वर्त्य, दक्षिणाताम्बूलै- स्तोषयित्वा, ब्राह्मणान् प्रेषयित्वा, शेषकर्मसिद्धयर्थ सप्त केशान् विसृज्य शेषकर्मसिद्धयर्थ केशान् सप्ताष्ट वा द्विजः संक्षिप्य वापयेत् केशश्मश्रु- नखानि चेति सप्त केशान् संरक्ष्य कक्षोपस्थवर्ज क्षौरपूर्वकं स्नात्वा, सायं संध्यावन्दनं निर्वर्त्य, सहस्त्रगायत्रीं जप्त्वा, ब्रह्मयज्ञं निर्वर्त्य, स्वाधीनागनिमुपस्थाप्य, स्वशाखोपसंहरणं कृत्वा, तदुक्तप्रकारेणाज्याहुति- माज्यभागान्तं हुत्वा, आहुतिविधिं समाप्य, आत्मादिभिस्त्रिवारं सक्तु- प्राशनं कृत्वा, आचमनपूर्वकममिं संरक्ष्य, स्वयमम्नेरुत्तरतः कृष्णाजिनोपरि स्थित्वा, पुराणश्रवणपूर्वकं जागरणं कृत्वा, चतुर्थयामान्ते स्नात्वा, तदमौ चरुं श्रपयित्वा, पुरुषसूक्तेनान्रं षोडशाहुतीर्हुत्वा, विरजाहोमं

Page 99

८६ संन्यासोपनिषद: उप.

कृत्वा, अथाचग्य, सदक्षिणं वस्त्रं सुदर्ण पात्रं धेनुं दत्त्त्वा, समाप्य, ब्रह्मोद्वासनं कृत्वा, "सं मा सिश्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं मायमनि: सिञ्चत्वायुषा च धनेन च बलेन चायुष्मन्तं करोतु मा ।।" इति,

"या ते अमे यज्ञिया तनूस्तयेह्यारोहात्मात्मानम्। अच्छा वसूनि कृण्वन्नस्मे नर्या पुरुणि॥ यज्ञो भूत्वा यज्ञमासीद स्वां योनिम्। जातवेदो भुव आजायमानः सक्षय एहि ।। " इत्यनेनामिमात्मन्यारोप्य, ध्यात्वामिं, प्रदक्षिणनमस्कारपूर्वकमुद्वास्य, प्रातः संध्यामुपास्य, सहस्रगायत्रीपूर्कं सूर्योपस्थानं कृत्वा, नाभि- दश्नोदकमुपविश्य, अष्टदिक्पालकार्ध्यपूर्वकं गायत्युद्वासनं कृत्वा, सावित्रीं व्याहृतिपु प्रवेशयित्वा "अहं वृक्षस्य रेरिवा। कीर्तिः पृष्ठं गिरेरिव। ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि। द्रविणँ सवर्चसम्। सुमेधा अमृतोऽक्षितः । इति त्रिशङ्कोर्वेदानुवचनम्," "यशछन्दसामृषभो विश्वरूपः । छन्दोभ्योऽघ्यमृतात् संबभूव। स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम्। शरीरं मे विचर्षणम्। जिह्रा मे मधुमत्तमा। कर्णाभ्यां भूरि विश्रवम्। ब्रह्मणः कोशोऽसि मेधयापिहितः। श्रुतं मे गोपाय ।।"

Page 100

४] नारदपरिव्राजकोपनिषत् ८७

"दारेषणायाश्च धनेषणायाश्च लोकेषणायाश्च व्युत्थितोऽहम्" "ओं भू :; संन्यस्तं मया" "ओं भुवः; संन्यस्तं मया" "ओं सुवः; संन्यस्तं मया" "ओं भूरमुवःसुवः; संन्यस्तं मया" इति मन्द्रमध्यतारध्वनिमि- र्मनसा वाचोच्चार्य, "अभयं सर्वभूतेभ्यो मत्तः सर्वे प्रवर्तते स्वाहा" इत्यनेन जलं प्राश्य, प्राच्यां दिशि पूर्णाञ्जलिं प्रक्षिप्य "ओं स्वाहा" इति शिखामुत्पाट्य,

"यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत् सहज पुरस्तात्। आयुष्यमग्र्यं प्रतिमुश्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।" "यज्ञोपवीतं बहिर्न निवसेत् त्वमन्तः प्रविश्य मध्ये ह्यजस्रम्। परमं पवित्रं यशो बलं ज्ञानवैराग्यं मेधां प्रयच्छ ।।"

इति यज्ञोपवीतं छित्वा, उदकाञ्जलिना सह "ओं भूः ; समुद्रं गच्छ स्व्ाहा" इत्यप्सु जुहुयात्। "ओं भूः; संन्यस्तं मया" "ओं भुवः ; संन्यस्तं मया" "ओं सुवः; संन्यस्तं मया" इति त्रिरुक्त्वा, त्रिवा- रमभिमन्व्य तज्जलं प्राश्याचम्य "ओं भूः स्वाहा" इत्यप्सु वस्त्रं कटिसूत्रमपि विसृज्य, सर्वकर्मनिवर्तकोऽहमिति स्मृत्वा, जातरूपधरो भूत्वा, स्वरूपानुसंधानपूर्वकमूर्ध्वबाहुरुदीचीं गच्छेत्।३७।। पूर्ववद्विद्वत्संन्यासी चेत् गुरोः प्रणवमहावाक्योपदेशं प्राप्य, यथासुखं विहरन् मत्तः कश्चिन्नान्यो व्यतिरिक्त इति फलपत्रोदकाहारः, पर्वतवनदेवतालयेषु संचरेत्। संन्यस्याथ दिगम्बरः सकलसंचारक

Page 101

संन्यासोपनिषद: [उप. सर्वदानन्दस्वानुभवैकपूर्णहृदयः कर्मातिदूरलाभः प्राणधारणपरायणः फलरसत्वकपत्रमूलोद कैर्मोंक्षार्थी गिरिकन्दरेषु विसृजेद् देहं स्मरंस्तारकम्॥ ॥ ३८ ॥ विविदिषासंन्यासी चेच्छतपथं गत्वाचार्यादिभिविप्रैः 'तिष्ठ तिष्ठ महाभाग, दण्डं वस्त्रं कमण्डुलुं गृहाण, प्रणवमहावाक्यग्रहणार्थ गुरुनिकटमागच्छेत्' इत्याचार्यैदण्डकटिसूत्रकौपीनं शाटीमेकां कमण्डलुं, पादादिमस्तकप्रमाणमत्रणं समं सौम्यमकाकपृष्ठं सलक्षणं वैणवदण्डमेक- माचमनपूर्वकम् "सग्वा मा गोपायौजः सखा योऽसीन्द्रस्य वज्रोऽसि वारत्रन्ः शर्म मे भव यत् पावं तन्निवारय" इति दण्डं परिग्रहेत्। 'जगज्जीवनं जीवनाधारभूतं माते मा म न्त्रस्व सर्व्द््ाता स र्वर्रसौैम्य 'र इति प्रणवपूर्वकं कमण्डलुं परिगृह्य, 'कौपीनाधारं कटिसूत्रमोम्' इति 'गुह्याच्छादकं कौपीनमोम्' इति 'शीतवातोष्णत्राणकरं देहैकरक्षणं चस्त्रमोम्, इति कटिसूत्रकौपीनवस्त्रम्, आचमनपूर्वकं योगपट्टाभि- षिक्तो भूत्वा, कृतार्थोडहमिति मत्वा स्वाश्रमाचारपरो भवेत्। इत्युपनिषत् ॥ ३९ ॥

ब्रह्मणैवमनुशासितो नारदः कमसंन्यासविधिबुभुत्सया पितामहं पृच्छती- त्याह-अथेति। पितामहस्तु नारदप्रश्नमङ्गीकृत्य प्रतिवचनमाह-तथेति। प्राजापत्यादिकृच्छप्रायश्चित्तपूर्वकमष्टश्राद्धं कुर्यात् ।। अष्ट श्राद्धानि कानि? इत्यत्र-देवर्षीति। देवादिश्राद्वे विश्वेदेवादिवरणक्रममाह-प्रथममिति। सायंसन्ध्यादिशेषकर्मसिद्धयर्थम्। वक्ष्यमाणमन्त्रदूयेन प्रकृताग्न्यात्मसमारोपणं कुर्यादित्याह-सं मा सिश्चन्त्वित्यादिना। अहं वृक्षस्येत्यादिमन्त्रद्वयं

Page 102

4] नारदपरिव्राजकोपनिषत् ८९

पठित्वा प्रेषोच्चारणं कुर्यादित्याह-अहमिति। अहं वृक्षस्येति मन्त्रद्वयं पठित्वा अथ दारेषणायाश्च्ेति। यदि पूर्ववत् विद्वत्संन्यासी चेत्, तदा गुरोरिति। अहमेव परमात्मा। मत्तः कश्च्िन्नान्यो व्यतिरिक्त्तः । ततः किम् -- इत्यत्र यद्येवं विद्वत्संन्यासी स्वातिरित्तप्रपञ्चवासनां-संन्यस्याथ दिगम्बरः सकललोकसंचारकं तद्भ्रममुत्सृज्य सर्वदानन्दस्वानुभवैकपूर्णहृदय: विश्रान्त- पूर्णानन्दात्मस्वान्तः कर्मातिदूरलाभः सर्वकर्मत्यागलब्घहर्षः केवलप्राण- धारणपरायणः । ततो विमुक्तो भवतीत्यत्र- "ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्। यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥" इति स्मृते: । यद्ययं विविदिषासंन्यासीति। सखा मा गोपाय-इति मन्त्रेण दण्डं परिग्रहेत्। कटिसूत्रकौपीनवस्त्रमाचमनपूर्वकं स्वीकृत्य गुरुनिकटं गत्वा तन्मुखात् प्रणवमहावाक्योपदेशं प्राप्य स्वाश्रमोचिताचारं कुर्वन् संशयादिपञ्च- दोषनिवृत्त्यन्तं सर्ववेदान्तश्रवणादि कृत्वा यदि कृतार्थस्तदा योगपट्टाभिषिक्तो भूत्वा। चतुर्थोपदेशसमात्यर्थोऽयमित्युपनिषच्छब्दः ॥ ३७-३९॥ इति चतुर्थोपदेशः

पश्चमोपदेशः कर्मसंन्यासस्वाश्रमाचरणयोरविरोधः अथ हैनं पितामहं नारदः पप्रच्छ। भगवन् सर्वकर्मनिवर्तकः संन्यास इति त्वयैवोक्तः । पुनः स्व्राश्रमाचारपरो भवेदित्युच्यते। ततः पितामह उवाच। सशरीरस्य देहिनो जाग्रत्स्वप्रसुषुप्तितुर्या- वस्थाः सन्ति। तद्धीनाः कर्मज्ञानवैराग्यप्रवर्तकाः पुरुषा जन्तव- स्तदनुकूलाचाराः सन्ति। तथैव चेद्भगवन् संन्यासाः कतिभेदाः,

Page 103

९० संन्यासोपनिषदः उप.

तदनुष्ठानभेदाः कीदृशास्तत्त्वतोऽस्माकं वक्तुमर्हसीति। तथेत्यङ्गीकृत्य तं पितामहेन ।। १ ॥

कर्मत्यागकर्माचरणयोः विरोधं मन्यमानो नारद: पृच्छतीत्याह-अथेति। पितामहं नारद: पप्रच्छ। किमिति-भगवन्निति। नारदेनैवं पृष्टः सन् प्रश्नोत्तरं भगवानाह-तत इति। ततः पितामह उवाच। किमित्यत्र-सशरीरस्येति। देहत्रयावच्छिनजीवस्य जाग्रदाद्यवस्थाचतुष्टयवत्त्वेन कर्मभक्तिवैराग्यज्ञानसंभ- वात्। एवमवस्थाचतुष्टयावच्छिन्नप्राणिनः तदनुकूलाचारा भवन्तीति स्वाश्रमा- चारपरोभवेदित्युक्तम्। स्वाश्रमाचारसंपत्तिस्तु व्रतिगृहिवनिसेव्यश्रौतस्मार्तकर्म- सामान्यसंन्यासपूर्वकं प्राणधारणोपयोगिपरिग्रहश्रवणादिसाधनसंपत्तिरित्यर्थः । एकस्यैव सर्वकर्मसंन्यासपूर्वकं स्वाश्रमाचारपरत्वमुपपद्यते। नारदेन यत् पृर्ष्ट तत् तथेत्यङ्गीकृत्य तं प्रति पितामहेनैवमुक्तम् ॥ १॥

संन्यासचातुर्विध्यम्

संन्यासमेदैराचारभेदः कथमिति चेत्, तत्त्वतस्त्वेक एव संन्यास:, अज्ञानेनाशक्तिवशात् कर्मलोपतश्च त्रैविध्यमेत्य, वैराग्य- संन्यासो ज्ञानसंन्यासो ज्ञानवैराग्यसंन्यासः कर्मसंन्यासश्चेति चातु- र्विध्यमुपागतः ॥। २ ।।

किमिति -- संन्यासभेदैः आचारभेदः कथमिति चेत् इत्येवं मन्यसे यदि, तदा शृण्वेतत्। स केन भिद्यत इत्यत्र-अज्ञानेनेति। त्रैविध्यमेत्य वर्तते विद्वद्विविदिषातुरभेदात्। स पुनश्चातुर्विध्यमुपगत इत्याह-वैराग्येति ॥।२।।

वैराग्यसंन्यास: तद्यथेति। दुष्टमदनाभावाच्चति विषयवैतृष्ण्यमेत्य प्राक्पुण्य- कर्मवशात् संन्यस्तः स वैराग्यसंन्यासी ।३॥

Page 104

५] नारदपरिव्राजकोपनिषत् ९१

तथैव प्रतिपाद्यते सर्वानर्थहेतुदुष्टमदनाभावाश्चेति। चशब्दतस्तत्प्रती- त्यभावो द्योत्यते। विषयसामान्यवैतृष्ण्यमेत्य प्राक्पुण्यकर्मवशात् संन्यस्तः, स वैराग्यसंन्यासी। स्वातिरिक्तनश्वरहेयबुद्धया यः सर्वत्यागः, स वैराग्यसंन्यास इत्यर्थः ॥ ३ ॥ ज्ञान संन्यासः शास्त्रज्ञानात् पापपुण्यलोकानुभवश्रवणात् प्रपश्चोगरतः क्रोधेर्प्या- सूयाहंकाराभिमानात्मकसर्वसंसारं निर्वर्त्य दारैषणाधनैषणालोकैषणात्मक- देहवासनां शास्त्रवासनां लोकवासनां च त्यक्त्वा वमनान्नमिव प्राकृतिकं सर्वमिदं हेयं मंत्वा साधनचतुष्टयसंपन्नो यः संन्यस्ति स एव ज्ञानसंन्यासी॥ ४॥

ज्ञानसंन्यासस्वरूपमाह-शास्त्रेति ॥४ ॥

ज्ञा नवैराग्यसंन्यास:

क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञानवैराग्याभ्यां स्वरूपा- नुसंधानेन जातरूपधरो भवति सोडयं ज्ञानवैराम्यसंन्यासी॥५॥

विशिष्टज्ञानवैराग्यसंन्यासमाह-क्रमेणेति। क्रमेण वेदान्तजातं सर्व- मभ्यस्य सर्वमनुभूय सर्वापह्ववसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति ज्ञानं ब्रह्मातिरित्तसर्वस्यासंभवालोचनं वैराग्यं ताभ्यां ज्ञानवैराग्याभ्यां स्वरूपा- नुसंधानेन सर्व विस्मृत्य यो जातरूपधरो भवति सोऽयं ज्ञानवैराग्यसंन्यासी इत्यर्थः ॥ ५॥ कर्मसंन्यासः ब्रह्मचर्यं समाप्य गृही भूत्वा वानप्रस्थाश्रममेत्य वैराम्या- भावेडप्याश्रमक्रमानुसारेण यः संन्यस्यति, स कर्मसंन्यासी॥। ६॥।

Page 105

९२ संन्यासोपनिषद: [उप.

ब्रह्मचर्येण संन्यस्य संन्यासाज्जातरूपधरो वैराग्यसंन्यासी। विद्वत्संन्यासी ज्ञानसंन्यासी। विविदिषासंन्यासी कर्मसंन्यासी॥ ७॥

कर्मसंन्यासस्वरूपं विशद्यति-ब्रह्मचर्यमिति। विधिवत् ब्रह्मचर्य समाप्येति। विषयानभिज्ञतया ब्रह्मचर्यसंन्यस्तं स्तौति-ब्रह्मचर्येणेति। तस्य -सर्वात्मभावारूढतया पश्यद्दृष्टिवैचित्र्यात् सर्वरूपत्वमुपपद्यत इत्यर्थः ॥६,७॥

निमित्तानिमित्तभेदेन कर्मसंन्यासस्य द्वैविध्यम् कर्मसंन्यासोऽपि द्विविध :- निमित्तसंन्यासोऽनिमित्तसंन्या- सश्चेति। निमित्तस्त्वातुरः ; अनिमित्तः क्रमसंन्यासः । आतुरः सर्व- कर्मलोप: प्राणस्योत्क्रमणकालसंन्यासः स निमित्तसंन्यासः । दृढाङ्गो भूत्वा सर्व कृतकं नश्रमिति देहादिकं सर्वं हेयं प्राप्य ॥ ८ ।। हँस: शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्। नृषद्वरसद्ृतसदूयोमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥९ ॥ ब्रह्मव्यतिरिक्तं सर्वें नश्वरमिति निश्चित्य क्रमेण यः संन्यस्यति, स संन्यासोऽनिमित्तसंन्यासः ॥ १० ॥

निमित्तानिमित्तभेदेन कर्मसंन्यासस्य द्वैविध्यमाह-कर्मेति। निमित्ता- निमित्तशब्दार्थमाह-निमित्तस्त्वातुरः, अनिमित्तः क्रमसंन्यास इति। निमित्तसंन्यासार्थ विशद्यति-आतुर इति। अनिमित्तस्वरूपमाह-दढाङ्ग इति। ऋतं वृह्ृत् इति मन्त्रानुरोधेन ब्रह्मवर्ते ब्रह्मव्यतिरिक्तं सर्व नश्वरम् ॥८-१0॥

कुटीचकादिभेदेन संन्यास: षडि्ध: संन्यास: षड्विधो भवति-कुटीचको बहूदको हंसः परम-

Page 106

५] नारदपरिंव्राजकोपनिषा ९३

कतिविध: संन्यास इत्यत्र कुटीचकादिभेदेन षड्विध इत्याह- संन्यास इति । तत् कथमित्यत्राह-कुटीचक इति ॥११॥

कुटीचकलक्षणम् कुटीचक: शिखायज्ञोपवीती दण्डकमण्डलुधरः कौपीनकन्थाधरः पितृमातृ- गुर्वाराधनपरः पिठरखनित्रशिक्यादिमन्त्रसाघनपर एकत्रान्नादनपर: श्वेतो- धर्वपुण्ड़धारी त्रिदण्डः ॥ १२ ॥

बहूदकलक्षणम्

बहूदकः शिखादिकन्थाधरस्त्रिपुण्डधारी कुटीचकवत् सर्वसमो मधुकरवृत्त्यष्टाकबलाशी ॥ १३ ॥

इंसलक्षणम्

हंसो जटाधारी त्रिपुण्डोर्ध्वपुण ड्धारी असंक्लप्तमाधूकरान्नाशी कौपीनखण्डतुण्डधारी॥ १४ ॥

परमहंसलक्षणम्

परमहंस: शिखायज्ञोपवीतरहितः पश्चगृहेप्वेकरात्रान्नादनपरः करपात्री एककौपीनधारी शाटीमेकामेकं वैणवं दण्डमेकशाटीधरो वा भस्मोड्ूलनपर: सर्वत्यागी ॥ १५ ॥

तेषां लक्षणं क्रमेण स्पष्यति-कुटीचक इति। त्रिपुण्ड्रोर्ध्वपुण्ड्रधारी त्रिपुण्डूं ऊर्ध्वपुण्डूं वा यथासंभवं धरति; नोभयमित्यर्थः । असंक्लप्तमाधू- करान्नाशी अस्य गृहेऽद माधूकरं मे स्यादिति संकल्परहितः ॥ १२-१९ ।

Page 107

९४ संन्यासोपनिषद: [उप.

तुरीयातीतलक्षणम्

तुरीयातीतो गोमुखः फलाहारी अन्नाहारी चेद् गृहत्रये देह- मात्रावशिष्टः दिगम्बरः कुणपवच्छरीखृत्तिकः ॥ १६ ॥

अवधूतलक्षणम्

हारपरः स्वरूपानुसंधानपरः ॥ १७॥

गोमुख: गोवत् यहच्छालब्धान्नमुखग्रसनात्। तथाच वक्ष्यति- "आस्येन तु यदाहारं गोवन्मृगयते मुनिः" इति। कुणपवच्छरीरवृत्तिकः यथा कुणपो निश्वेष्टः, तथा निर्विकल्पकसमाधिकत्रलितव्यापृतित्वात् ॥ १६, १७॥

जीवतः आतुरस्य क्रमसंन्यासः

आनुरो जीवति चेत्, क्रमसंन्यास: कर्तव्यः ॥ १८ ॥

यद्यातुरो जीवति, तेन कि कर्तव्यमित्यत आह-आतुर इति। गुरु- मुखतः प्रणवमहावाक्यादिस्वीकार एव क्रमसंन्यासः । न त्वष्टश्राद्वादिः; तस्य प्रेषोच्चारणसमकालक्रियत्वात् ॥ १८॥

कुटीचकादीनां संन्यासविधि:

कुटीचकबहूदकहंसानां ब्रह्मचर्याश्रमादितुरीयाश्रमवत् कुटीच- कानां संन्यासविधि: ॥ १९॥

कुटीचकादीनां संन्यासविधि: कथमित्यत आह-कुटीचकेति। कुटीचकानां संन्यासविधि: समान: ॥ १९ ॥

Page 108

4] नारदपरित्राजकोपनिषत् ९५

परमहंसादित्रयाणां संन्यासविधि:

परमहंसादित्रयाणां न कटिसूत्रं न कौपीनं न वस्त्रं न कमण्डलुर्न दण्ड: सर्ववर्णैकमैक्षाटनपरत्वं जातरूपधरत्वं विधिः । संन्यास- कालेऽप्यलंबुद्धिपर्यन्तमधीत्य तद्नन्तरं कटिसूत्रं कौपीनं दण्डं वस्त्रं कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरक्षेन्न कन्थालेशः नाध्येतव्यो न वक्तव्यो न श्रोतव्यमन्यत् किंचित्। प्रणवादन्यं न तर्क पठेन्न शब्दमपि। बहुञ्छब्दान्नाध्यापयेन्न महद्वाचो विग्लापनं गिरा, पाण्यादिना संभाषणं, नान्यभाषाविशेषेण, न शूद्स्त्रीपतितोदक्यासंभाष- णम्, न यतेर्देवपूजानुत्सवदर्शनं तीर्थयात्रावृत्तिः ॥ २०॥

परमहंसादित्रयाणां परमहंसतुर्यातीतावधूतानाम्। यदि परमहंसः श्रव- णार्थी, तदा दण्डादिकं स्वीकृत्य संशयादिपञ्चदोषशान्तिपूर्वकं यावद्रह्मापरोक्षो जायते तावत् सर्वकर्मसंन्यासकालेऽपि संन्यासदशायामपि।"शृण्वन्त्वज्ञात- तत्वास्ते जानन् कस्माच्छृणोम्यहम्"इति श्रुत्यनुरोधेन अलंबुद्धिपर्यन्तमधीत्य श्रवणादिजन्यज्ञाने सिद्वि। तदनन्तरमिति। अवधूताश्रमेऽपि कन्थादिकं ग्राह्यमेवेत्यत आह-नेति। यत्किचिदपि नाध्येतव्यः। गिरा वृथा कत्थनम्। पाण्यादिना संभाषणं हस्तादिसंज्ञया; व्यापृतिपरो न भवेदित्यर्थः। स्वभिन्नधिया न यतेर्देवपूजानुत्सवदर्शनम्। यतिना तत्रापि स्वात्मदर्शनमेव कार्यमित्यर्थः । तथा तीर्थयात्रावृत्तिः । २० ॥।

कुटीचकादीनां मिक्षाविशेषः

पुनर्यतिविशेष:। कुटीचकस्यैकत्र मिक्षा, बहूदकस्यासं- क्लप्तमाधूकरम्, हंसस्याष्टगृहेप्वष्टकबलम्, परमहंसस्य पश्चगृहेषु

Page 109

९६ संन्यासोपनिषद: [उप.

करपात्रम्, फलाहारो गोमुखं तुरीयातीतस्य, अवधूतस्याजगरवृत्ति: सार्ववर्णिकेषु। यतिर्नैकरात्रं वसेत्। नैकस्यापि नमेत। तुरीया- तीतावधूतयोर्न ज्येष्ठः । यो न स्वरूपज्ञ: स ज्येष्ठोऽपि कनिष्ठः। हस्ताभ्यां नद्युत्तरणं न कुर्यान्न वृक्षमारोहेन्न यानाघिरूढो न क्रयविक्रयपरो न किंचिद्विनिमयपरो न दाम्भिको नानृतवादी। न यते: किंचित् कर्तव्यमस्ति। अस्ति चेत् सांकर्यम्। तस्मान्मननादौ संन्यासिनामधिकारः ॥ २१ ॥

पुनर्यतिविशेषः । कुटीचकादीनां भिक्षाविशेष उच्यते-कुटीचकस्येति। यत्र कुत्रापि यतिः नैकरात्रं वसेन्न कस्यापि नमेत्। गुरुज्येष्ठादिवन्दनं कार्य- मिति चेत् तत्र-तुरीयातीतेति। तुरीयातीतादे: ज्ञानज्येष्ठत्वात्। तस्य प्रवृत्ति- निवृत्तपराङमुखत्वेन किंचिदपि कर्तव्याभावमाह-हस्ताभ्यामिति। कदापि न यते: किंचित् कर्तव्यमस्ति। अस्ति चेत् तदा भवति सांकर्यम्। यस्मात् एवमुक्ताचरणतो व्रत्यादिसांकर्य भवति तस्मात्। आदिशब्देन ब्रह्मभावापत्या प्रवृत्तिनिवृत्तिग्रासतूष््णीमवस्थानं द्योत्यते ॥ २१ ॥

तेषां प्राप्यस्थानानि आतुरकुटीचकयोर्भूर्लोकभुवर्लोंको, बहूदकस्य स्वर्गलोक:, हंसस्य तपोलोकः, परमहंसस्य संत्यलोकः, तुरीयातीतावधूतयोः स्वात्मन्येव कैवल्यं स्वरूपानुसन्धानेन भ्रमरकीटन्यायवत् ॥ २२ ॥ यं यं वापि स्मरन् भावं त्यंजत्यन्ते कलेबरम्। तं तमेव समाम्नोति नान्यथा श्रुतिशासनम् । २३॥

ज्ञानाविकल कुटीचकादीनां प्राप्यमुच्यते-आतुरेति। यदि सविशेषज्ञानी तदा तस्य परमहंसस्य सत्यलोकः। यदि निर्विशेषत्रह्मज्ञानिनौ तुर्यातीतावधूतौ

Page 110

4] नारदपरित्राजकोपनिषत् ९७

भवतः, तदा तयोः तुर्यातीतावधूतयो: स्वात्मन्येव कैवल्यम्। यत एवं स्वरूपानुसंधानेन भ्रमरकीटन्यायात् ब्रह्मभावापत्तिर्भवति, अत एव स्वस्व- रूपानुसंधानं सदा कार्यमित्यर्थः । किमर्थ सदा स्वरूपानुसंधानं कर्तव्य- मित्याकाड्क्षायां निर्विशेषज्ञानिनो ज्ञानसमकालमेव मुक्तत्वेऽपि सविशेषज्ञानिन- स्तदभावात् सदा स्वरूपानुसंधानं कर्तव्यमित्याह-यमिति। चरमदशायां यं यं वापीति। तथाच स्मृतिरपि-

"अन्तकाले च मामेव स्मरन् मुक्त्वा कलेबरम्। यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥"

इति॥ २२, २३ ।। ब्रह्मानुसंधानमेव कर्तव्यम् ; नान्यत्

तदेवं ज्ञात्वा स्वरूपानुसंधानं विनान्यथाचारपरो न भवेत्। तदाचारवशात् तत्तल्लोकप्राप्तिः। ज्ञानवैराग्यसंपन्नस्य स्वस्मिन्नेव मुक्तिरिति न सर्वत्राचारप्रसक्तिस्तदाचारः। जाग्रत्स्वम्नसुषुप्तिष्वेकशरीरस्य जाग्रत्काले विश्वः स्वप्नकाले तैजसः सुषुप्तिकाले प्राज्ञः। अवस्थाभेदादवस्थे- श्वरभेदः। कार्यभेदात् कारणभेदः। तासु चतुर्दशकरणानां बाह्य- वृत्तयोऽन्तर्वृत्तयस्तेषामुपादानकारणम्। वृत्तयश्चत्वारः मनो बुद्धिरहं- कारश्चितं चेति। तत्तद्वत्तिव्यापारभेदेन पृथगाचारमेदः ॥२४॥

नेत्रस्थं जागरितं विद्यात् कण्ठे स्वमं समाविशेत्। सुषुप्तं हृदयस्थं तु तुरीयं मूर्न्ि संस्थितम् ॥२५ ॥

तुरीयमक्षरमिति ज्ञात्वा जागरिते सुषुप्त्यवस्थापन्न इव यद्च्छूतं यद्यद् दृष्टं तत्तत् सर्वमविज्ञातमिव यो वसेत्, तस्य स्वमावस्थायामपि 7

Page 111

९८ संन्यासोपनिषद: [उप.

ताहगवस्था भवति। स जीवन्मुक्त इति वदन्ति। सर्वश्रुत्यर्थप्रतिपादनमपि तस्यैव मुक्तिरिति। भिक्षुनैहिकामुष्मिकापेक्षः। यद्यपेक्षास्ति चेत् तदनु- रूपो भवति। स्वरूपानुसंधानव्यतिरिक्तान्यशास्त्राभ्यासै: उष्ट्रकुङ्कुम- भारवद्वयर्थः। न योगशास्त्रपवृत्तिर्न सांख्यशास्त्राभ्यासो न मन्त्र- तन्त्रव्यापारः। इतरशास्त्रप्रवृत्तिर्यतेरस्ति चेच्छवालंकारवत्। चर्मकार- वदतिविदूरकर्माचारविद्यादूरः। न प्रणवकीर्तनपरः । यद्यत् कर्म करोति तत्तत्कलमनुभवति। एरण्डतैलफेनवदतः सरव परित्यज्य तत्प्रसक्तं मनो- दण्डं करपात्रं दिगम्बरं दष्ट्रा परित्रजेद् मिक्षुः। बालोन्मत्पिशाचवन्मरणं जीवितं वा न काड्क्षेत, कालमेव प्रतीक्षेत निर्देशभृतकन्यायेन परिव्राडिति ॥ २६ ॥

यदेवं श्रुतिस्मृतिष्वाम्नातं तदेवं ज्ञात्वा सविशेषज्ञानी स्वरूपानुसंधानं विना- न्यथाचारपरो न भवेत् ; ब्रह्माहमस्मीति सदानुसंधानं कुर्यादित्यर्थः। अन्यथा- चारपरत्वे बाधकमाह-तदाचारवशात् तत्तलोकप्राप्तिरिति। निर्विशेष- ज्ञानिनोऽपि तथा स्यादिति चेन्न; तस्य निष्प्रतियोगिकब्रह्ममात्रभावापन्नत्वेन स्वातिरित्तप्रवृत्तिनिवृत्तिकल्पनासंभवात्। सविशेषज्ञानिनोऽपि तथा स्यादिति चेन्न ; सविशेषज्ञानिन: स्वातिरिक्तजाप्रदादिप्रपञ्चप्रतीतिसंभवात्। ब्रह्मानुसंधान विनान्यथाचारपरो न भवेदित्याह-ज्ञानेति। अपरब्रह्मगोचरज्ञानवैराग्य- संपन्नस्य स्वस्मिन्नेव मुक्तिरिति न सर्वेत्राचारप्रसक्तिः। यदि सर्वत्राचारप्रसक्तिः, तदाचारोऽनर्थाय भवेदित्यर्थः । तत् कथमित्यत्र स्वातिरिक्तजाग्रदादिविभ्रमा- वृतदृष्ट्या जाग्रत्स्वप्रसुषुप्तिष्वेकशरीरस्य तदवच्छिन्नजीवस्यावस्थाभेदेन नाम- व्यापारादिकं भिद्यते; तदथा जाग्रत्काल इति। तासु जाग्रदाद्यवस्थासु वागादिचतुर्दशकरणानां बाह्यवृत्तयोऽन्तर्वृत्तयः सन्ति। चत्वारः चतस्रः । कास्ता इत्यत्र मन इति। तासां पृथगाचारमेदः। तत् कथ नेत्रस्थमिति।

Page 112

4] नारदपरिव्राजकोपनिषत् ९९ विश्वादिरूपेण नेत्रादिप्रविभक्तजाग्रदादवस्थात्रयं भासयन् योऽहं मूक्षि तुर्यरूपेणावस्थितोऽस्मि सोऽहमात्मानं तुरीयमक्षरमिति ज्ञात्वा तज्ज्ञानमहिम्ना कृतकृत्यो भवामि। किंच जागरित इति। यथा सुषुत्यवस्थापन्नो विषयजातं न विजानाति, तथा जागरितेऽरपि श्रोत्रादिकरणेन यद्यत् श्रुतं, यद्यत् दृष्टं, तत् सर्वमविज्ञातमिव यो वर्तते तस्य स्वप्ावस्थायामपि सुषुप्तवद्विषयभेदं न गृद्भाति, स जीवन्मुक्त इति वदन्ति। तथाच वक्ष्यति- "स्वमेऽपि यो हि युक्तस्य जाग्रतीव विशेषतः । ईदृक्चेष्टः स्मृतः श्रेष्ठो वरिष्ठो ब्रह्मवादिनाम् ।" इति। तथाविधस्यापि यदि स्वातिरिक्तविषयाकाडक्षा स्यात्, तदा तस्मिन् काले विदेहो देहस्मरणवर्जितः "ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः" इति श्रुत्यनुरोधेन स्वरूपतः च्युतिः स्यादित्याह-भिक्षुरिति। यद्यपेक्षास्ति चेत् तदनुरूपो भवति। अन्यशास्त्राभ्यासैः अन्यशास्त्राभ्यासः। यत एवं स्वातिरिक्तास्तित्वप्रवृत्तितो महाननर्थो जायते। निर्विकल्पक ब्रह्मानुसंधानं स्वात्मानं करपात्रं दिगम्बरम् अवधूतप्रवृत्तिनिवृत्ति दृष्टा परित्रजेत् भिक्षुः कदापि। बालोन्मत्तेति निर्देशभृतकन्यायेन परिव्राडिति ॥२४-२६ ॥

अननुसंधाने पातित्यम्

तितिक्षाज्ञानवैराग्यशमादिगुण वर्जितः। भिक्षामात्रेण जीवी स्यात् स यतिर्यतिवृत्तिहा ॥ २७॥ न दण्डधारणेन न मुण्डनेन न वेषेण न दम्भाचारेण मुक्ति: ॥ २८॥ ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते। काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः । स याति नरकान् घोरान् महारौरवसंज्ञकान्॥। २९॥

Page 113

१०० संन्यासोपनिषद: [उप.

प्रतिष्ठा सूकरीविष्ठासमा गीता महर्षिभिः। तस्मादेनां परित्यज्य कीटवत् पर्यटेद्यतिः ॥ ३० ॥।

सविशेषज्ञानी निर्विशेषज्ञानसाधनमननुष्ठाय केवलवेषमात्रतः साघुवृत्ति- कर्शको भूत्वा स्वयमपि नश्यतीत्याह-तितिक्षेति; निर्विशेषज्ञानमुख्य- साधनतितिक्षाज्ञानवैराग्यशमादिगुणवर्जितः; "न च संन्यसनादेव सिद्धिं समधिगच्छति" इति स्मृतेः ॥ परमदयावती श्रुतिरियं परिव्राजकधर्मपूगं बहुप्रकारेण प्रतिपाद्यापि पुनः पुनः जामितां त्यक्त्वा प्रकटयतीत्याह-ज्ञाने- त्यादिना । तद्विपर्यये काष्ठदण्ड इति। अयं सर्वोत्तम इति ॥ २७-३०॥

तुर्यातीतानां भोजनादिकमन्यदीयेच्छयैव

अयाचितं यथालाभं भोजनाच्छादनं भवेत्। परेच्छया च दिग्वासाः स्नानं कुर्यात् परेच्छया ॥ ३१ ॥

तुर्यातीतादे: स्नानादिकं परेच्छया स्यादित्याह-अयाचितमिति।।३१॥

ब्रह्म विद्वरिष्ठः

स्वमेऽपि यो हि युक्त: स्याज्जाग्रतीव विशेषतः । ईदृक्चेष्टः स्मृतः श्रेष्ठो वरिष्ठो ब्रह्मवादिनाम् ॥ ३२ ॥ अलाभे न विपादी स्याल्लाभे चैव न हर्षयेत्। प्राणयात्रिकमात्रः स्यान्मात्रासङ्गविवर्जितः ॥ ३३ ।। अभिपूजितलाभांश्र जुगुप्सेतैव सर्वशः । अभिपूजितलामैम्को यतिर्मुक्तोऽपि बध्यते ॥ ३४ ॥

Page 114

4] नारदपरिव्राजकोपनिषत् १०१ कोडयं ब्रह्मनिष्ठ इत्यत्र-स्वप्नेऽपीति॥ लाभादौ हर्षादिदृष्टेः ब्रह्मनिष्ठता कुत इत्यत्र अलाभे इति। मात्रासङ्गविवर्जितः शब्दादितन्मात्रासङ्गो भूत्वा प्राणधारणातिरित्तव्यापृतिर्न भवेदित्यर्थः । भक्तजनप्रेमविषयाणामसङ्गता कुत इत्यत्र-अभिपूजितेति। लाभैस्को लाभस्कः, लाभवानित्यर्थः ॥३२-३४॥। यतीनां भोजनादिनियमा:

प्राणयात्रानिमितं च व्यङ्गारे भुक्तवज्जने। काले प्रशस्तवर्णानां मिक्षार्थं पर्यटेद् गृहान् ॥३५॥ पाणिपात्रं चरन् योगी नासकृद्ैक्षमाचरेत्। तिष्ठन् भुज्याच्चरन् भुज्यान्मध्ये नाचमनं तथा ॥ ३६ ॥ अब्धीव धृतमर्यादा भवन्ति विशदाशयाः । नियतिं न विसुञ्चन्ति महान्तो भास्करा इव ॥ ३७ ॥ आस्येन तुं यदाहारं गोवन्मृगयते मुनिः । तदा समः स्यात् सर्वेषु सोऽमृतत्वाय कल्पते ॥ ३८॥ अनिन्द्यं वै व्रजन् गेहं निन्दं गेहं तु वर्जयेत्। अनावृते विशेद् द्वारि गेहे नैवावृते व्रजेन् ॥ ३९ ॥ पांसुना च प्रतिच्छन्नशून्यागारप्रतिश्रयः । वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥ ४० ॥

परमहंसादीनां माधूकरकरपात्रास्याहारप्रकारमाह-प्राणेति। ग्रामा- द्वहिर्वृक्षमूले स्थित्वा यथोक्तकाले प्राणयात्रानिमित्तभिक्षार्थ ग्रामं प्रविश्य यथाविधि भिक्षामटेदित्यर्थः ॥ ततः करपात्रनियममाह-पाणिपात्रमिति॥ कृतार्थानामेवं नियतिः केत्यत्र अब्धीवेति ॥ माधूकरादिवृत्तित्रयेऽपि अनिन्ध- मिति ॥ तद्वसतिमाह-पांसुनेति ॥३५-४०॥

Page 115

१०२ संन्यासोपनिषद: [उप.

यते: जितेन्द्रियत्वम्

यत्रास्तमितशायी स्यान्निरझनिरनिकेतनः । यथालब्धोपजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ॥ ४१ ॥ निष्क्रम्य वनमास्थाय ज्ञानयज्ञो जितेन्द्रियः । कालकाड्क्षी चरन्नेव ब्रह्मभूयाय कल्पते ॥ ४२ ॥ अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः । न तस्य सर्वभूतेभ्यो भयमुत्पद्यते कचित् ॥ ४३ ॥ निर्मानश्चानहंकारो निर्दन्द्वश्छिन्नसंशयः । नैव क्रुध्यति न द्वेष्टि नानृतं भाषते गिरा ॥ ४४ ॥ पुण्यायतनचारी च भूतानामविहिंसकः । काले प्राप्ते भवेद् भैक्षं कल्पते ब्रह्मभूयसे ॥ ४५ ॥ वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित्। अज्ञातचर्यां लिप्सेत न चैनं हर्ष आविशेत्। अध्वा सूर्येण निर्दिष्टः कीटवद्विचरेन्महीम् ॥ ४६ ॥

मनुष्यावासपुरग्रामात् निष्क्रम्य। प्रारब्धक्षयकालकाड्क्ी। प्राणिमात्र- मात्मधियाहिंसन्। किंच स्वान्यत्र निर्मानश्र्ेति। ब्रह्मभूयसे ब्रह्मभावाय समर्थ्यत इत्यर्थ:॥ ४१-४६ ॥

यते: सर्वकर्मपरित्यागः

आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च। लोकसंग्रहयुक्तानि नैव कुर्यान्न कारयेत् ॥ ४७ ॥।

Page 116

५] नारदपरिव्राजकोपनिषत् १४३

नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम्। अतिवादांस्त्यजेत्तर्कान् पक्षं कंचन नाश्रयेत् ॥ ४८ ।। न शिप्याननुबन्नीत ग्रन्थान्नैवाभ्यसेद् बहून्। न व्याख्यामुपयुञ्जीत नारम्भानारभेत् क्वचित् ॥ ४९ ॥ अव्यक्तलिङ्गोऽव्यक्तार्थो मुनिरुन्मत्तवालवत्। कविर्मूकवदात्मानं तदृष्ट्या दर्शयेन्नृणाम्॥ ५० ॥ न कुर्यान्न वदेत् किंचिन्न ध्यायेत् साध्वसाधु वा। आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥ ५१॥ एकश्ररेन्महीमेतां निःसङ्ग: संयतेन्द्रियः । आत्मक्रीड आत्मरतिरात्मवान् समदर्शनः ॥ ५२॥ बुधो बालकवत्क्रीड: कुशलो जडवच्चरेत्। वदेदुन्मत्तवद्विद्वान् गोचर्यां नैगमश्चरेत् ॥। ५३॥

ताडितः संनिरुद्धो वा वृत्त्या वा परितापितः ॥ ५४॥ विष्ठितो मूत्रितो वाज्ञैर्बहुधैवं प्रकम्पितः । श्रेयस्काम: कृच्छ्गत आत्मनात्मानमुद्धरेत् ॥ ५५॥ संमाननं परां हानिं योगद्धेंः कुरुते यतः। जनेनावमतो योगी योगसिद्धिं च विन्दति ॥ ५६॥ तथा चरेत वै योगी सतां धर्ममदूषयन्। जना यथावमन्येरन् गच्छेयुर्नैव संगतिम् ॥ ५७॥

Page 117

१०४ संन्यासोपनिषद: [उप.

जरायुजाण्डजादीनां वाङ्मनःकायकर्मभिः। युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्र वर्जयेत् ॥५८ ॥ कामक्रोधौ तथा दर्पलोभमोहादयश्च ये। तांस्तु दोपान् परित्यज्य परिव्राड् भयवर्जितः ॥ ५९॥ तेनापि लोकसंग्रहार्थ कर्म कर्तव्यमित्यत आह-आशीरिति। परैर्वापि न कारयेत्। यदि श्रेयोऽर्थी मुनिस्तदा नासच्छात्रेष्विति । स्वयमतिवादां- स्त्यजेत्तर्कान् वादिप्रतिवादिनोर्मध्ये पक्षं कंचन नाश्रयेत्। स्वयशोनिमित्तं न शिष्याननुवध्नीत। अनात्मशात्त्रोद्देशेन न व्याख्यामुपयुज्जीत। नारम्भानार- भेन् कचित् निःसंकल्पो भवेदित्यर्थः ॥ सर्वज्ञोऽपि कविः ॥ मुनिः ससहायः संचरेदित्यत आह-एक इति ॥ ब्रह्मातिरित्तयोर्याथात्म्यं बुधो बालकवत्क्रीड: सर्वार्थकुशलो जडवच्चरेन् वदेदुन्मंत्तवद्विद्वान् निगमार्थतत्त्वज्ञोऽपि गोचर्याम् इदमस्तु इदं मास्त्विति न प्रकटयन्तीं नैगमश्चरंत् ।। कालकर्मयोगतः परैः क्षिप्त इति। ब्रह्मयाथात्म्यानुसंधानयोगेन ऋद्धिस्तन्मात्रस्थितिः । तस्य सोऽयं योगर्द्धि- स्तस्य संमानं परां हानि वा यः कुरुते स स्वकृत्यानुरूपं फलमनुभवति। यत एवमतः परकृतपूजनताडनादिसहनात् योगी योगफलमर्हतीत्याह-जनेनेति। यथा सहनात् योगसिद्धिः तथा चरेत्। स्वयं स्वधर्माननुष्ठानं सद्धर्मदूषणमित्यर्थः। तन्तः जना: इति ॥ स्वयमसाध्ववमतोऽपि प्राणिसामान्यद्रोही न भवेदित्याह -जगयुजेति ॥ किंच प्राणिसामान्यविषये कामक्रोधाविति ॥ ४७-५९॥ यते: असाधारणधर्माः मक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः। सम्यग्ञानं च वैराग्यं धर्मोडयं भिक्षुके मतः ॥६० ॥ कापायवामा: सनतं ध्यानयोगपरायणः । ग्रामान्ते वृक्षमूले वा वसेद्देवालयेड़पि वा। मैक्षण वर्तते नित्यं नैकान्नाशी भवेत् कचित्॥ ६१ ॥

Page 118

५] नारदपरिव्राजकोपनिषत् १०५

चित्तशुद्धिर्भवेद्यावत् तावन्नित्यं चरेत् सुधीः। तत्र प्रव्रज्य शुद्धात्मा संचरेद्यत्र कुत्रचित् ।। ६२।। बहिरन्तश्र सर्वत्र संपश्यन् हि जनार्दनम्। सर्वत्र विचरन् मौनी वायुवद्वीतकल्मषः ॥ ६३ ॥ समदुःखसुखः क्षान्तो हस्तप्राप्तं च भक्षयन्। निर्वैरेण समं पश्यन् द्विजगोऽश्वमृगादिष ॥ ६४॥ भावयन् मनसा विष्णुं परमात्मानमीश्वरम्। चिन्तयन् परमानन्दं ब्रह्मैवाहमिति स्मरन् ॥ ६५ ॥

ज्ञात्वैवं मनोदण्डं धृत्वा आशानिवृत्तो भूत्वा आशाम्बरधरो भूत्वा सर्वदा मनोवाक्कायकर्ममिः सर्वसंसारमुत्सज्य प्रपश्चावाङ्मुखः स्वरूपानुसंधानेन भ्रमरकीटन्यायेन मुक्त्तो भवतीत्युपनिषत् ॥६६ ॥

यतेरसाधारणधर्मस्तु-मैक्षाशनमित्यादि ॥ यावच्वित्तशुद्धिस्तावद् व्रत्यादि: स्वाश्रमोचितधर्मानुष्ठानपूर्वकं वेदान्तश्रवणादि कृत्वा ततः संन्यस्य सर्वत्र चरन् एकत्र तिष्ठन् वा ब्रह्मानुसंधानं कुर्यादित्याह-चित्तेति ॥ एकत्र स्थिरासनो भूत्वा भावयन्निति। स्मरन् कालं नयेदित्यर्थः ॥ एतावता ग्रन्थेन योऽर्थोऽभिहित: तज्ज्ञानतः अवधूतो भूत्वा स्वातिरिक्तास्तित्वभ्रममुक्तो भवतीत्याह-ज्ञात्वेति। ज्ञात्वैवं मनोदण्ड धृत्वा पराड मनो येन दण्डयते तत्प्रत्यगभिन्नब्रह्मज्ञानं मनोदण्डमित्युक्तम्। तज्ज्ञानस्य मनःप्रविलापना- धिकरणगोचरत्वात् स्वातिरेकेणाभासतोऽपि किंचिदस्तीति मिथ्याशानिवृत्तो भूत्वा आशाम्बरधरोऽवधूतो भूत्वा। स्वातिरित्तप्रपञ्चावाङ्मुखः प्रपश्चोऽस्ति नास्तीति विभ्रमविरलो भूत्वा स्वरूपानुसंधानेन भ्रमरकीटन्यायेन मुक्तो भवतीति। "कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते" इति भगवत्पादो-

Page 119

१०८ संन्यासोपनिषद्: उप.

रसास्वादनम्, व्राणस्य गन्धग्रहणम्, वचसो वागव्यापारः, पाणे- रादानम्, पादयोः संचारः, पायोरत्सर्गः, उपस्थस्यानन्दग्रहणम्, त्वच: स्पर्शग्रहणम्। तदधीना च विषयग्रहणा बुद्धिः। बुद्धया बुध्यति। चित्तेन चेतयति। अहंकारेणाहंकरोति। विसृज्य जीव एतान् देहाभिमानेन जीवो भवति। गृहाभिमानेन गृहस्थ इव शुरीरे जीवः संचरति। प्राम्दले पुण्यावृत्तिराझ्नेय्यां निद्रालस्यौ, दक्षिणायां क्रौर्यबुद्धिनैं्ऋ्रत्यां पापवुद्धिः, पश्चिमे क्रीडारतिः, वायव्यां गमने बुद्धिरुत्तरे शान्ति:, ईशान्ये ज्ञानं, कर्णिकायां वैराग्यं, केसरेप्वात्मचिन्ता इत्येवं वक्त्रं ज्ात्वा ॥ ३ ।।

तुरीयातीतं किम्? तदाप्त्युपायः क:१ इत्यत् आह-दिवमित्यादि। तुर्यातीते ब्रह्मणि स्वा्ञैर्गुणसाम्यात्मिका तुर्यावस्था विकल्पिता। तत्र तुर्यातीतमेव तदसङ्गतुर्यवत् भासते। तत्र तुरीये दिवा नक्तं विकल्पितम्। तत्र दिवं दिवा जाग्रन्, स्वप्ं स्वप्न: नक्तम् , अर्धरात्रमेव सुषुत्भावं गतमित्येवमवस्थात्रयं निष्पन्नम। तत्रेकैकावस्थायां चतस्त्रोऽवस्थाः पश्चात् प्रतिपाधन्ते। तदनुरोधेन मनआद्येर्केककरणाधीनानां वागादिचतुर्दशकरणानां चक्षुरादीनां व्यापारा उच्यन्ते। चक्षुषो रूपग्रहणम् इत्याद्यहंकारेणाहंकारोतीत्यन्तम्। एतान् जीवो विसृज्य विशेषेण सृष्टा तत्संघातदेहाभिंमानेन तुर्यचैतन्यमेव जीवभावमापन्नवत् भवति। शरीरे तदवच्छिन्नाष्टदलाञ्चितहृदयकमले तत्रत्यदलेषु प्रागादिक्रमेण गृहाभिमानेन गृहस्थ इव जीव: संचरति। तत्र प्रागाद्यष्टदलेषु पुण्यादिवृत्ति- विशिष्टो भूत्वा ईशान्यदलं प्रविशतो वस्तुज्ञानं कर्णिकासंचारतः स्वातिरित्त- प्रपञ्चवैराग्यमेत्य तत्केसरसंचारतः अनात्मापह्ववसिद्ध आत्मा स्वमात्रमिति चिन्तोदेति। इत्येवं वक्त्रं चैतन्यवक्त्रं स्वरूपं ज्ञात्वा विद्वान् ज्ञानसमकालं तुर्यातीत ब्रह्ममात्रमवशिष्यते ॥ ३ ॥

Page 120

६] नारदपरिव्राजकोपनिषत् १०९

तुर्यातीतस्वरूपम्

जीवदवस्था प्रथमं, जाग्रद् द्वितीयं, स्वमं तृतीयं, सुषुप्तं चतुर्थ तुरीयं, चतुर्मिर्विरहितं तुरीयातीतम्। विश्वतैजसप्राज्ञतटस्थमेदैरेक एव। एको देवः साक्षी निर्गुणश्च तद् ब्रह्माहमिति व्याहरेत्। नो चेज्जाग्रदवस्थायां जाग्रदादिचतस्रोऽवस्थाः स्वमे स्वम्ादिचतस्त्रोऽवस्थाः सुषुप्ते सुषुप्त्यादिचतस्रोऽवस्थाः तुरीये तुरीयादिचतस्रोऽवस्थाः। न त्वेवं तुर्यातीतस्य निर्गुणस्य। स्थूलसूक्ष्मकारणरूपैर्विश्वतैजसप्राज्ञे- श्वरैः सर्वावस्थासु साक्षी त्वेक एवावतिष्ठते। उत तटस्थो द्रष्टा। तटस्थो न द्रष्टा। द्रष्टत्वान्न द्रष्टैव। कर्तृत्वभोक्त्वाहंकारादिभि: स्पृष्टो जीवः। जीवेतरो न स्पृष्टः। जीवोऽपि न स्पृष्ट इति चेन्न जीवाभिमानेन क्षेत्राभिमानः, शरीराभिमानेन जीवत्वम्। जीवत्वं घटाका शमहाकाशत्रद्यवधानोडस्ति। व्यवधानवशादेव हंसः सोऽहमिति मन्त्रेणोच्छासनिश्वासव्यपदेशेनानुसंधानं करोति। एवं विज्ञाय शरीरा- भिमानं त्यजेन्न शरीराभिमानी भवति। स एव ब्रह्मेत्युच्यते ॥ ४ ॥

कथं पुनस्तुर्यातीतस्वरूपमित्यत आह-जीववदवस्थेति। जीववद- वस्थासु जीवाधिष्ठितावस्थाचतुष्टये प्रथमावस्था जाग्रत्, द्वितीयं स्वमावस्था, तृतीयं सुषुप्त्यवस्था, चतुर्थ तुर्यावस्था भवति। यज्जाग्रदादिचतुरवस्थाविरहितं तुर्यातीतं तत् तुर्यातीतसिद्धेः जाग्रदादयवस्थाचतुष्टयापह्ववपूर्वकत्वात् स्वाज्ञादि- दृष्टिमोहे सत्यसति तुर्यातीतं निष्प्रतियोगिकस्वमात्रमवशिष्यत इत्यर्थः । एकस्यै- वात्मनो जाग्रदाद्यवस्थायोगात् स विश्वादिभेदविशिष्टो भवति; न स्वतः । स्वतस्त्वेक एव। तज्ज्ञानात्तद्वावापत्तिः स्यादित्याह-विश्व्वेति। जाग्रदा- द्यवस्थायोगप्रभवविश्वतैजसप्राज्ञतटस्थमेदेः व्यवहृत आत्मा एक एव। एको देवः

Page 121

११० संन्यासोपनिषद: [उप.

साक्षी निर्गुणश्च एक एव स्वप्रकाशचिद्धातुः देवः स्वसाक्ष्यगुणत्रयसद्गावे साक्षी; तदभावे निर्गुणः । चशब्दो निष्प्रतियोगिकनिर्गुणत्वख्यापनार्थः । यदेवं निष्प्रतियोगिकनिर्गुणं तदू ब्रह्माह्मिति व्याहरेत्। तत् स्वमात्रमित्यनु- संधानं कुर्यात्। ततस्तद्वावापत्तिः स्यादित्यर्थः। पक्षान्तरमाह-नो चेदिति। जाप्रदाद्यवस्थाचतुष्टयकलनाविरलं तुर्यातीतमिति मन्तव्यम्। नो चेत्

विद्यते, तदेव तुर्यतुर्योशविभातं तुर्यतुर्य तुर्यातीतं ब्रह्म ; नेतरत्। तुर्यातीतस्य निर्गुणस्य निष्प्रतियोगिकतुर्यतुर्यस्य विभागकलनावैरल्यात् तस्यैव स्थूलादि- योगतो विश्वादित्वं सर्वसाक्षित्वं सर्वकलनास्पृष्टत्वं चाह-स्थूलेति। साक्षी द्रष्टा। उत यद्वा तटस्थ ईश्वर इति चेत् तटस्थो न द्रष्टा साक्षी भवितुमर्हति; तटस्थस्य बीजोपाधिकेश्वरतया दृष्टत्वात्। अतोऽयं न द्रष्टैव। तथाप्ययं कर्तृत्वाद्यभिमतिविरल इत्यर्थः । नो चेत् जीव एव द्रष्टा भवितुमर्हतीत्यत आह-कर्तृत्वेति। कर्तृत्वादिकलनया स्पृष्टो जीवः । साक्षी तु तदस्पृष्टः तस्य सर्वत्र आत्मात्मीयाभिमतिवैरल्यात् तयोर्महदस्त्यन्तरमित्याह-जीव- त्वमिति। घटाकाशमहाकाशवत् व्यवधानोऽस्तीति ; जीवसाक्षिणोरित्यर्थः । जीवो जीवाभिमतिमुत्सृज्य सर्वसाक्ष्यस्मीति ज्ञानात् ब्रह्मैव भवतीत्याह-व्यव- धानेति। जीवसाक्षिणोर्व्यवधानवशात् जीवः उच्छासनिश्वासच्छलेन योऽहं स्वाज्दशायां जीवभावं गतः, स्वज्ञानेन स्वाज्ञानापाये सोऽहं सर्वसाक्षी स्यां वस्तुतस्तु परमार्थदृष्टया जीवत्वसाक्षित्वादिकलनाविरलं ब्रह्म निष्प्रतियोगिकस्व- मात्रमित्यनुसंधानं करोति तदायं तन्मात्रेणावशिष्यत इत्येवं जीवो ज्ञात्वा ब्रह्मैव भवतीत्याह-एवमिति। यावद्देहादावात्मात्मीयाभिमतिस्तावज्जीवत्वम्; यदायं देहादावात्मात्मीयाभिमति निःशेषं त्यजति तदा स एव ब्रह्मेत्यत्र न विवाद इत्यर्थ: ॥ ४ ॥ असच्चर्यात्याग: सच्चर्यानुष्ठानं च

त्यक्तसङ्को जितक्रोधो ल्वाहारो जितेन्द्रियः । पिधाय बुद्धया द्वाराणि मनो ध्याने निवेशयेत् ॥५॥

Page 122

६] नारदपरिव्राजकोपनिषत् ५११

शुन्येष्वेवावकाशेषु गुहासु च वनेषु च। नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत् ॥ ६॥ आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च। महाजनेषु सिद्धयर्थी न गच्छेद्योगवित् कचित् ॥७॥ यथैनमवमन्यन्ते जनाः परिभवन्ति च। तथा युक्तश्ररेद्योगी सतां वर्त्म न दृषयेत् ॥ ८ ॥ वाग्दण्ड: कर्मदण्डश्च मनोदण्डश्च ते त्रयः। यस्यैते नियता दण्डाः स त्रिदण्डी महायतिः ॥९॥ विधूमे च प्रशान्तामौ यस्तु माधूकरं चरेत्। गृहे च विप्रमुख्यानां यतिः सर्वोत्तमः स्मृतः ॥ १० ॥ दण्डभिक्षां च यः कुर्यात् स्वधमें व्यसनं विना। यस्तिष्ठति न वैराग्यं याति नीचयतिर्हि सः ॥ ११ ॥ यस्मिन् गृहे विशेषेण लभेद्धिक्षां च वासनात्। तत्र नो याति यो भूयः स य़तिनेतरः स्मृतः ॥१२ ॥ यः शरीरेन्द्रियादिभ्यो विहीनं सर्वसाक्षिणम्। पारमार्थिकविज्ञानं सुखात्मानं स्वयंप्रभम् । १३ ॥। परतत्त्वं विजानाति सोडतिवर्णाश्रमी भवेत्। वर्णाश्रमादयो देहे मायया परिकल्पिताः ॥ १४ ॥ नात्मनो बोधरूपस्य मम ते सन्ति सर्वदा। इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥ १५ ॥

Page 123

११२ संन्यासोपनिषद: [उप.

यस्य वर्णाश्रमाचारो गलितः स्त्रात्मदर्शनात्। स वर्णानाश्रमान् सर्वानतीत्य स्वात्मनि स्थितः ॥ १६ ॥ योऽतीत्य स्वाश्रमान् वर्णानात्मन्येव स्थितः पुमान्। सोऽतिवर्णाश्रमी प्रोक्तः सर्ववेदार्थवेदिभिः ॥१७॥ तस्मादन्यगता वर्णा आश्रमा अपि नारद। आत्मन्यारोपिताः सर्वे भ्रान्त्या ते नात्मवेदिना ॥ १८॥ न विधिर्न निषेध्च न वर्ज्यावर्ज्यकल्पना। ब्रह्मविज्ञानिनामस्ति तथा वान्यच्च नारद ॥ १९ ॥

जीवन्मुक्तयतीनामसच्चर्यात्यागपूर्वकं सच्चर्यासर्वस्वमनुक्रामति-त्यक्तत्या- दिना। पिधाय बुद्धया द्वाराणि विषयोपलब्धिद्वाराणि घिया पिधाय ब्रह्मध्याने मनो निवेशयेत् इत्यर्थः ॥ ध्यानस्थलं निगमयति-शून्येष्विति ॥ तस्यागम्यप्रदेशमाह-आतिथ्येति ॥ तस्य त्रिदण्डमाह-वागिति। मौना- नशनप्राणायामै:। वाग्दण्ड इत्यादि। यतेर्भिक्षाविधि: तद्विपर्यये बाधकं- चोच्यते-विधूम इति ॥ मुख्यगौणावघूतलक्षणमाह-य इति। स्वयंप्रभं स्वयंप्रकाशचिद्धातुम् ॥-१९॥

विविदिषोः श्रवणादिविधि:

विरज्य सर्वभूतेभ्य आ विरिश्चिमदादपि। घृणां विपाटय सर्वम्मिन् पुत्रवित्तादिकेष्वपि ॥ २०॥ श्रद्धान्ुर्मुक्तिमागेषु वेदान्तज्ञानलिप्सया। उपायनकरो भूत्वा गुरुं ब्रह्मविदं ब्रजेत् ॥ २१ ॥ सेवाभि: परितोप्यैनं चिरकालं समाहितः । सदा वेदान्तवाक्यार्थ श्रृणुयात् सुसमाहितः ॥। २२ ।।

Page 124

६] नारदपरिव्राजकोपनिषत् ११३

निर्ममो निरहंकारः सर्वसज्ञविवर्जितः । सदा शान्त्यादियुक्तः सन्नात्मन्यात्मानमीक्षते ॥ २३ ॥ संसारदोषदृष्टयैव विरक्तिर्जायते सदा। विरक्तस्य तु संसारात् संन्यासः स्यान्न संशयः ॥ २४॥ मुमुक्षु: परहंसाख्यः साक्षान्मोक्षैकसाधनम् । अभ्यसेद् ब्रह्मविज्ञानं वेदान्तश्रवणादिना ॥ २५॥ ब्रह्मविज्ञानलाभाय परहंससमाह्ृयः । शान्तिदान्त्यादिभि: सर्वैः साधनैः सहितो भवेत् ॥ २६ ॥ वेदान्ताभ्यासनिरतः शान्तो दान्तो जितेन्द्रियः । निर्मयो निर्ममो नित्यं निर्द्वन्द्वो निप्परिग्रहः ॥ २७ ॥ जीर्णकौपीनवासा: स्यान्मुण्डी नमोऽथवा भवेत्। प्राज्ञो वेदान्तविद्योगी निर्ममो निरहंक्ृतिः ॥२८॥ मित्रादिषु समो मैत्र: समस्तेप्वेव जन्तुषु। एको ज्ञानी प्रशान्तात्मा स संतरति नेतरः ॥ २९ ॥ गुरूणां च हिते युक्तस्तत्र संवत्सरं वसेत्। नियमेष्वप्रमत्तस्तु यमेषु च सदा भवेत् ॥ ३० ॥ प्राप्य चान्ते ततश्चैव ज्ञानयोगमनुत्तमम्। अविरोधेन धर्मस्य संचरेत् पृथिवीमिमाम् ॥ ३१ ॥ ततः संवत्सरस्यान्ते ज्ञानयोगमनुत्तमम्। आश्रमत्रयमुत्सृज्य प्राप्तश्च परमाश्रमम् ॥ ३२॥ 8

Page 125

११४ संन्यासोपनिषद्: [उप.

अनुज्ञाप्य गुरूंश्रैव चरेद्धि पृथिवीमिमाम् । त्यक्तसङ्को जितक्रोधो लघ्वाहारो जितेन्द्रियः ॥३३ ॥ द्वाविमौ न विराजेते विपरीतेन कर्मणा। निरारम्भो गृहस्थश्च कार्यवांश्चैव भिक्षुकः ॥ ३४ ॥ माद्यति प्रमदां दृष्ट्रा सुरां पीत्वा च माद्यति। तस्माद् दृष्टिविषां नारीं दूरतः परिवर्जयेत्॥ ३५॥ संभाषणं सह स्त्रीभिरालापप्रेषणं तथा। नृत्तं गानं सहासं च परिवादांश्र वर्जयेत् ॥ ३६ ॥ न स्नानं न जपः पूजा न होमो नैव साधनम्। नाभिकार्यादि कार्य च नैतस्यास्तीह नारद ॥ ३७ ॥ नार्चनं पितृकार्य च तीर्थयात्रा व्रतानि च। धर्माधर्मादिकं नास्ति न विधिलौंकिकी क्रिया ॥ ३८ ॥ संत्यजेत् सर्वकर्माणि लोकाचारं च सर्वशः । कृमिर्काटपतङ्गांश्र तथा योगी वनस्पतीन् ॥। ३९ ।। न नाशयेद् बुधो जीवान् परमार्थमतिर्यतिः । नित्यमन्तर्मुखः स्वच्छः प्रशान्तात्मा स्वपूर्णधीः ॥ ४० ॥ अन्नःसङ्गपरित्यागी लोके विहर नारद। नाराजके जनपदे चरत्येकचरो मुनिः ॥ ४१ ॥ नि:स्तुतिर्निर्नमस्कारो निःस्वधाकार एव च। चलाचलनिकेतश्र यतिर्यादच्छिको भवेत् ॥ ४२ ॥ इत्युपनिषत् ।।

Page 126

६] नारदपरिव्राजकोपनिषत् ११५

विविदिषोः श्रवणविधिमाह-विरज्येति। सार्वभौमाद्याविरिश्चित्वप्रद- कर्मफलात् सर्वभूतेभ्यो निवर्त्य प्रयोजनादपि विरज्य विरतिमेत्य संन्यसेदि- त्यर्थः; "संन्यस्य श्रवणं कुर्यात्" इति स्मृतेः। स्वाभिमतगुरुनिकटे संशयादिपञ्चदोषनिवृत्त्यन्तं समाहितकरणग्रामो भूत्वा सर्ववेदान्तश्रवणमेव कुर्यादित्यर्थ :; "आवृत्तिरसकृदुपदेशात्" इति वैयासिकसूत्रानुरोधेन "अहं व्रह्मेति वाक्यार्थबोधो यावद् दृढीभवेत्। शमादिसहितस्तावदभ्यसेच्छूवणादिकम् ॥" इति भगवत्पादाचार्योकते:। ततः किमित्यत्राह-दारादिस्वदेहान्तकलनासु निर्मम इति ॥ यतः श्रवणादिजन्यज्ञानं कैवल्यप्रापकम्, अत एव श्रवणादिप्रतिबन्धक- कार्य संन्यस्य शान्त्यादिसहितो भूत्वा ज्ञानफलसिद्धिपर्यन्तं श्रवणमेव कुर्यादित्याह-संसारेति। कुटीचकाद्याश्रमत्रयमुत्सृज्य परमाश्रमं परमहंसा- श्रममित्यर्थः ॥ ततः अनुज्ञाप्येति ॥ कीदृशो भूत्वेत्यत्राह-त्यक्तसङ्ग इति ॥ निःसंकल्पसंकल्पाभ्यां गृही भिक्षुः हीयेते इत्याह-द्वाविति। यदि श्रेयोऽर्थी भिक्षुः, तदा सुरातोऽपि विभ्रमकरस्त्रीसंलापादिविमुखो भवेदित्याह- माद्यतीति। यस्मादेवं तस्मात् ॥ परमार्थदृष्टेः स्नानजपादिकर्तव्यता नास्ती- त्याह-नेति। लोकसंग्रहार्थ कर्म कर्तव्यमित्यत्राह-संत्यजेदिति ॥ चरस्थिर- हिंसां न कुर्यादित्याह-कमीति॥ चलं शून्यागारादि; क्षयिष्णुत्वात्; अचलं पर्वतादिः; तस्य स्थिरत्वात्। यादृच्छिको भवेत् ; यदच्छालाभसंतुष्टो भवेत्। न हि यथेच्छाचरणं भवितुमर्हति; प्रवृत्तिनिवृत्तिसंकल्पासंभवात्। इत्युपनिषच्छब्दः षष्ठोपदेशसमात्यर्थः ॥ २०-४२॥ इति षष्ठोपदेशः

सप्तमोपदेशः यतिनियमा:

अथ यतेर्नियम: कथमिति पृष्टो नारदं पितामहः पुरस्कृत्योवाच। विरक्तः सन् यो वर्षासु घ्रुवशीलोऽष्टौ मांस्येकाकी चरेन्नैकत्र निवसेत्।

Page 127

११६ संन्यासोपनिषद: उप.

भिक्षुर्भयात् सारङ्गवदेवत्र न तिष्ठेत् । स्वगमनविरोधग्रहणं न कुर्यात्। हस्ताभ्यां नद्युत्तरणं न कुर्यात्। न वृक्षारोहणमपि। न देवोत्सवदर्शनं कुर्यात्। नैकत्राशी। न बाद्यदेवार्चनं कुर्यात्। स्वव्यतिरिक्तं सर्वं त्यक्त्वा मधुकरवृत्त्याहारमाहरन्, कृशो भूत्वा, मेदोवृद्धिमकुर्वन्, आज्यं रुधिरमिव त्यजेत्। एकत्रान्नं पललमिव, गन्धलेपनमशुद्धलेपन मि व , क्षारमन्त्यजमिव, वस्त्रमुच्छिष्टपात्रमिव, अभ्यङ्कं स्त्रीसङ्गमिव,मित्राह्वादनं मूत्रमिव, स्पृहां गोमांसमिव, ज्ञातचरदेशं चण्डालवाटिकामिव, स्त्रियमहिमिव, सुवर्ण कालकूटमिव, सभास्थलं मशानस्थलमिव, राजधानी कुभ्भीपाकमिव, शवपिण्डवदेवत्रान्नम्। देहःन्तरदर्शनं प्रषञ्चवृत्तिं परित्यज्य, स्वदेशमुत्सृज्य, ज्ञातचरदेश विहाय, विस्मृतपदार्थपुनःप्राप्तिहर्ष इव स्वमाननदमनुस्मरन् स्वशरीराभिमानदेशविस्मरणं कृत्वा, स्वशरीरं शवमिव हेयमुपगम्य, कारागृहविनिर्मुक्तचोरवत् पुत्राप्तबन्धुभवस्थलं विहाय दूरतो वसेत्। अयलेन प्राप्तमाहरन्, ब्रह्मप्रणवध्यानानुसंधानपरो भूत्वा सर्वकर्मविनिर्मुक्तः, कामक्ोधलोभमोहमदमात्सर्यादिकं दग्ध्वा त्रिगुणा- तीतः, षडूर्मिरहितः, षड्भावविकारशून्यः, सत्यवाक्, शुचिः, अद्रोही, ग्रामैकरात्रम्, पत्तने पश्चरात्रम्, क्षेत्रे पश्चरात्रम, तीर्थे पञ्चरात्रम्, अनिकेत:, स्थिरमतिः, नानृतवादी, गिरिकन्दरेषु वसेदेक एव वा द्वौ वा चरेत् ग्रामं त्रिभि: नगरं 'चतुर्मिनगरमित्येकश्चरेद्धिक्षुः। चतुर्दशकरणानां न तत्रावकाशं दद्यात्। अविच्छिन्नज्ञानाद्वैराग्यसंपत्तिमनुभूय, मत्तो न

1 उ. उ १. 'चतुः ग्रामम्'।

Page 128

नारदपरित्राजकोपनिषत् ११७

कश्चिन्नान्यो व्यतिरिक्त इत्यात्मन्यालोच्य, सर्वतः स्वरूपमेव पश्यन् जीवन्मुक्तिमवाप्य, प्रारब्धप्रतिमासनाशपर्यन्तं चतुर्विधं स्वरूपं ज्ञात्वा, देहपतनपर्यन्तं स्वरूपानुसंधानेन वसेत् ॥ १ ॥

कुटीचकादिचर्या बहुधा श्रुत्वापि पुनर्विशेषबुभुत्सया नारदेन पृष्टः पितामह: प्रसक्तानुप्रसक्त्या पुरोक्तमनुक्तं च सर्वमुपदिष्टवानियाह-अथेति । नारदं पितामहः पुग्स्कृत्य सर्व कथयामास। किं तत् इत्यत्र विरक्त इति। यदि कृतश्रवणादिसाधनस्तदनधिकारी वा अष्टौ मांस्येकाकी ग्रामैकरात्र- मित्युक्तरीन्या संचरेत्। चातुर्मास्ये तु एकत्र नित्रसेत् भिक्षुः भयात् प्राणिवाधा स्यादिति मिया वर्षास्वेकत्र निवसेदित्यर्थः। चातुर्मास्यानन्तरं सारङ्गवदेकत्र न तिष्ठेत कदापि स्वगमनविरोधग्रहणमत्रैव कतिचिदहानि वसत्विति प्रार्थ- नाङ्गीकारं न कुर्यात्। यदि दृढाङ्ग: गन्धलेपनमिति। ब्रह्मातिरिक्तधिया न देहान्तवदर्शनमिति। यत्र स्वशरीराभिमानिनो वर्तन्ते तत्र स्वशरीराभिमान- देशविस्मरणम्। षोडशमात्राप्रणवतदर्थतुर्यतुर्यस्वमात्रमित्यनुसंधानं कृत्वा स्वाति- रिक्तसर्वकर्मनिर्मुक्त: यत्र कुत्राप्यनिकेतः संचारकाले एक एव चरेत्। चातुर्मास्यादिप्रसकौ ग्रामं द्वौ वा चरेत् ; त्रिभि: चतुर्मिर्वा नगरं चरेत्; विश्वरूपयात्राच्छलेन यतिरेक एव चरेदित्यर्थः। मिक्षुः वागादिचतुर्दशकरणानां स्वातिरिक्तास्तित्वत्रममुत्सृज्य। सर्वत इति। विश्वविराडोत्रादिद्वितुर्या- विकल्पान्तं तद्रतहेयांशापायसिद्धमोत्रादिभेदेन चतुर्विधमिति ॥ १॥

कुटी चकादीनां स्नानादिनियमेषु विशेष: त्रिषवणस्ानं कुटीचकस्य, बहूदकस्य द्विवारम्, हंसस्यैकवारम्, परमहंसस्य मानसस्ानम्, तुर्यातीतस्य भस्मस्ानम्, अवधूतस्य वायव्य- सनानम् ॥ २ ॥

Page 129

११८ संन्यासोपनिषद: उप

ऊर्ध्वपुण्डूं कुटीचकस्य, त्रिपुण्डूं बहूदकस्य, ऊर्ध्वपुण्डत्रिपुण्डूं हंसस्य, भस्मोड्लनं परमहंसस्य, तुरीयातीतस्य तिलकपुण्डम्, अवधूतस्य न किंचित् तुरीयातीतावधूतयोः ॥ ३ ॥ ऋतुक्षौरं कुटीचकस्य, ऋतुद्वयक्षौरं बहूदकस्य, न क्षौरं हंसस्य, परमहंसस्य न च' क्षौरम्, अस्ति चेदयनक्षौरं, तुरीयातीता- वधूतयोर्न क्षौरम् ।। ४ । कुटीचकस्यैकान्म्, माधूकरं बहूदकस्य, हंसपरमहंसयोः करपात्रम्, तुरीयातीतम्य गोमुखम्, अवधूतस्याजगरवृत्तिः ॥ ५ ॥ शाटीदूयं कुटीचकस्य, बहूदकस्यैकशाटी, हंसस्य खण्डम्, दिगम्बरं परमहंसम्यैककौपीनं वा, तुरीयातीतावधूतयोर्जातरूपधरत्वम्। हंसपरमहंसयोरजिनं न त्वन्येषाम् ॥ ६ ॥ कुटी चकबहूदकयोर्देवार्चनम्, हंसपरमहंसयोर्मानसार्चनम्, तुरीयातीतावधूतयोः सोऽहंभावना ॥ ७॥ कुटी चकबहूदकयोर्मन्त्र जपाधिकारः, हंसपरमहंसयोर्ध्यानाधिकारः, तुरीयातीतावधूनयोर्न त्वन्याधिकारः, तुरीयातीतावधूतयोर्महावाक्योप- देशाधिकार: परमहंसस्यापि। कुटीचकबहूदकहंसानां नान्यस्योपदेशाधि- कारः ॥ ८ । कुटीचकव हदकयोर्मानुषप्रणवः, हंसपरमहंसयोरान्तरप्रणवः, तुर्यातीतावधूतयोर्ब्रह्मप्रणवः ॥९।।

1उ १. च न.

Page 130

<] नारद्परिव्राजकोपनिष. ११९

कुटीचकबहूदकयोः श्रवणम्, हंसपरमहंसयोर्मननम्, तुरीया- तीतावधूतयोर्निदिध्यासः । सर्वेषामात्मानुसंधानं विधिरिति ॥ १० ॥ एवं मुमुक्षुः सर्वदा संसारतारकं तारकमनुस्मरन् जीवन्मुक्तो वसेदधिकारविशेषेण कैवल्यप्राप्त्युपायमन्विष्येद्यतिः। इत्युपनिषत्॥११॥

कुटीचकादेः स्नानपुण्डूक्षौराशनवस्त्रदेवा र्चनमन्त्रप्रण वादिवैचित्र्यमाह -त्रिषवणमित्यादि। यद्वा तुरीयातीतावधूतयोः न किंचित् पुण्ड्रमस्ति, तयोः परेच्छाचरणत्वात्। परमहंसस्य न च क्षौरम्। वक्ष्यमाणसमष्टिबाह्यप्रणवस्य चतुर्मात्रतया मानुषप्रणवत्वात् हंसपरमहंसयोगन्तरप्रणवः वक्ष्यमाणाष्ट- मात्रात्मकोऽन्तःप्रणव इत्यर्थः । तुरीयातीतावधूतयोः ब्रह्मप्रणवः षोडश- मात्रात्मकतया तुर्यतुर्यगोचरत्वात्। संसारतारकं ब्रह्मप्रणवाभिधानं तारक्मनु- स्मरन्। कुटीचकादिस्वधर्मानुष्ठानपूर्वकं मोक्षोपायमन्विष्येत्। न हि तैः परमहंसादिधर्मोऽनुष्ठेय इत्यत्र स्मृति :- "श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्" इति। इत्युपनिषच्छब्दः सप्तमोपदेशसमाध्यर्थः ॥२-११ ॥

इति सत्मोपदेशः

अष्टमोपदेशः

तारकस्व्ररूपजिज्ञासा

अथ हैनं भगवन्तं परमेष्ठिनं नारदः पप्रच्छ। संसारतारकं प्रसन्नो ब्रहीति। तथेति परमेष्ठी वक्तुमुपचक्रमे। ओमिति ब्रह्मेति व्यष्टिसमष्टिप्रकारेण। का व्यष्टिः? का समष्टिः? संहारप्रणवः सृष्टि- प्रणवश्चान्तर्बहिश्रोभयात्मकत्वात् त्रिविधः । ब्रह्मप्रणवोऽन्तःप्रणवो व्याव-

Page 131

१२० संन्यासोपनिषद: उप.

हारिकप्रणवः। बाह्यग्रणव आर्षप्रणवः । उभयात्मको विराट्प्रणवः । संहारप्रणवो ब्रह्मप्रणवोऽर्धमात्राप्रणवः ।१।।

एवं पितामहात् परममुपदेशं लब्ध्वा अथ तारकयाथात्म्यबुभुत्सया नारदेन यत् पृष्टं तदङ्गीकृत्य परमेष्ठी प्रश्नोत्तरमाहेत्याह-अथेति। परमेष्ठी वक्तुमुपचक्रमे। कि तत्? ओमिति ब्रह्मेति व्यष्टिसमष्टिमावगतप्रणवावयवा-

कलनालम्बनं ओं इत्येकाक्षरं ब्रह्मप्रणवार्थ ब्रह्मेति विद्धीति शेषः । तत्र का व्यष्टि :? का समष्टिः? इत्यत्र व्यष्टिसमश्यात्मको हि ब्रह्मप्रणवः स्वाज्ञदष्ट्या त्रिधा भिद्यते। तत् कथमित्यत्र संसारसृश्र्यन्तवाह्यादिभेदात्। कोऽयं सृष्टिप्रणवादि- रित्यत्र अर्धमात्राकारोकारोपसर्जनमकारमात्राप्रधानोडयं संहाग्प्रणवः रुद्राघिष्टितो ब्रह्मविष्णुरुद्राविष्टितो वा भवति;

"त्रिमात्राक ल नोपेतसंहार प्रणवासनाः । ब्रह्मविष्णवीश्वरा विश्वसर्गस्थित्यन्तहेतवः । भवेयुर्यत एवायं संहारप्रणवो भवेत् ।।"

इति संहारप्रणवोक्ते:। उकाराधुपसर्जनाकारप्रधानोडयं सृष्टिप्रणवः । तदघिष्ठाता चतुगननः ;

"एकमात्रात्मकं तारमुपादाय चतुर्मुखः । यतः ससर्ज सकलं सृष्टितार अतो भवेत् ॥"

इति सृष्टिप्रणवोक्तेः । अन्तर्वाह्यप्रणवस्वरूपं पश्चात् वक्ष्यते। संहारसृष्टिप्रणवा- भ्यां सहान्तर्त्राह्योभयात्मकत्वात् ब्रह्मप्रणवस्य त्रैविध्यमुपपद्यते। तत् कथम्? मात्रात्रयप्रधानोऽयं संहारप्रणवः, एकमात्राप्रधानोऽयं सृष्टिप्रणवः, अष्टमात्रात्म- कोऽन्तःप्रणवः, चतुर्मात्रात्मको बाह्यप्रणवश्च मिलित्वा षोडशमात्रात्मको ब्रह्म- प्रणवो भवतीत्यर्थः। किमेतावानेव ब्रह्मप्रणवविभागः, नातः परमस्तीत्याका डुक्षायां स्वाजष्टौ सत्यामनेकधा भिद्यत इन्यत्र को विवाद इत्याह-अन्तरिति। एक

Page 132

<] नारदपरिव्राजकोपनिषत् १२१

एव ब्रह्मप्रणवो बहुधा भिद्यत इत्यत्र-पञ्चाशदवर्णगर्मिताकारमात्राप्रधानोडयं व्यावहारिकप्रणवः; "अकारो वै सर्वा वाक्। सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्ली नानारूपा भवति" इति श्रुतेः। दुर्गादिपञ्चब्रह्मान्ताधिष्ठितो वैखरी- प्रपश्च कलना हे तुर्व्यावहा रिकप्रणव उच्यत इत्यत्र- "एकमात्रात्मकस्तारः पञ्चाशदवर्णभूषितः । वैखरीकलनाहेतुर्व्यावहारिक ईरितः ॥ दुर्गादिशक्तित्रितयं कर्मेच्छादित्रिशक्तिकम्। वस्वादित्यरुद्रजातं नवब्रह्माधिदैवतम्। तथा पञ्चब्रह्मदैवं तद्वाच्यार्थ इतीरितः ॥" इति व्यावहारिकप्रणवोक्तः। समष्टिबाह्यो व्यष्टिप्रणवश्चतुर्मात्रात्मको बाह्यप्रणव उच्यते। स विश्वाधिष्ठितो भवतीत्यत्र- "व्यष्टेः, समष्टिबाह्यत्वात् तूलातुर्योशयोगतः । बाह्यप्रणव आम्नातो विश्वादा वाच्यतां गताः ॥" इति बाह्यप्रणवोक्तेः। अकारोकारमकार बिन्दुनादकलाकलातीतत्वेन ऋषिमण्डलो- पास्योऽयम् आर्षप्रणवः। स पञ्च्रह्मविराडन्तर्यामिभिरधिष्ठितो भवतीत्यत्र- "सप्तमात्रात्मकः पञ्चब्रह्मान्तर्याम्यधिष्ठितः । ऋषिमण्डलसेव्यत्वादार्षप्रणव उच्यते ॥" इत्यार्षप्रणवोक्तः । अकारोकारोभयात्मकस्थिति प्रणवो ब्रह्मविष्ण्वधिष्ठितो भवतीत्यत्र- "यतो विष्णुर्द्विमात्राढ्यतारोपादानतोऽन्वहम्। ररक्ष विश्वमखिलं स्थितितार अतो भवेत् ॥" इति स्थितिप्रणवोक्तः । समष्टयकारादिमात्राचतुष्टयात्मको विराट्प्रणवः विरा- डादिभिरधिष्ठितो भवतीत्यत्र- "चतुःसमष्टिमात्रायुग्विराट्प्रणव उच्यते। विराडादिर्भवेद्वाच्यं तल्क्ष्यं परमाक्षरम् ॥ "

Page 133

१२२ संन्यासोपनिषद: [उप.

इति विराट्प्रणवोक्ते । पूर्वस्मिन् पर्याये संहारप्रणवो व्याख्यातः । ब्रह्मप्रणवस्तु पश्चात् वक्ष्यते। स्थूलादिमात्रा चतुष्टयात्मकोऽर्धमात्राप्रणव ओत्रनुज्ञात्रनुज्ञैक- रसाविकल्पाधिष्टितो भवतीत्यत्र-"ओंकार एव चतूरूपो ह्ययमोंकारः स्थूल- सूक्ष्मबीजसाक्षिभिरोत्रनुज्ञतनुज्ञाविकल्पेरविकल्पो ह्ययमात्मा" इति श्रुतेः ॥ १ ॥ अन्तःप्रणवादीनां स्वरूपकथनम्

ओमिति ब्रह्म। ओमित्येकाक्षरमन्तःप्रणवं विद्धि। स चाष्टधा भिद्यते-अकारोकारमकारार्धमात्रानादबिन्दुकलाः शक्तिश्चेति। तन्न

चत्वारः । अकारश्रायुतावयवान्वितः, उकारः सहस्रावयवान्वितः, मकारः शतावयवोपेतः, अर्धमात्रप्रणवोऽनन्तावयवाकारः । सगुणो विराट्प्रणवः, संहारो निर्गुणप्रणवः, उभयात्मकोत्पत्तिप्रणवः2। यथा प्लुतो विराट्।

प्लुतप्ुतः संहारः ॥ २ ॥

ततः अन्तःप्रणवार्थमाह-ओमिति। ओमिति ब्रह्मेति व्याख्यातम् : अष्टमात्रात्मकोऽन्तःप्रणवः पश्चत्रह्मविगद्सूत्रेश्वराधिष्ठितो भवतीत्यत्र-

"अकाराद्यष्टमात्रायुगन्तःप्रणव उच्यते।

इन्यन्तःप्रणवोक्ते:। केवलं प्रधानतः चतुर्षात्रात्मकोडयं प्रणव इति यदुक्तम्, तन्न चत्वार: केवलचुर्मात्रात्मक एव न भवति; किंतु तदवयवाकारादेः

1 उ. उ १. उभयात्मको विराट्प्रणवः ।

Page 134

नारदपरिव्राजकोपनिषद १२३: मात्राप्रणवस्य सृष्टयादिप्रणववदन्तावयवाभावतो निरवयवत्वादनन्तावयव- स्वरूपमुपपद्यत इत्यर्थः । आरोपापवादाधिकरणयोः सगुणनिर्गुणत्वं वस्तुतः निष्प्रतियोगिकनिर्गुणत्वं चाह-सगुण इति। सगुणो विराट्पणवः; सर्वारोपा- धिकरणब्रह्मप्रतीकत्वात्। संहारो निर्गुणप्रणवः; स्वातिरित्तसर्वापवादा- धिकरण ब्रह्मालम्बनत्वात्। किंच उभयात्मकोत्पत्तिप्रणवः । सगुणनिर्गुणविराट्- साक्षियोगतः उभयात्मकोऽयमुत्पत्तिप्रणवः; सगुण निर्गुणप्रणवद्वया धिष्ठितेश्वरस्य स्वाज्ञस्वज्ञदृष्टिभ्यां सविशेषनिर्विशेषस्वरूपत्वेन स्वातिरित्तप्रपञ्चोत्पत्त्यादि- हेतुत्वात् तद्वाचकस्योत्पत्तिप्रणवत्वं युज्यत इत्यर्थः। सप्रतियोगिकनिर्गुणप्रणवं दष्टान्तीकृत्य दार्श्टान्तिकतया निष्प्रतियोगिकनिर्गुणतदुपायषोंडशमात्राप्रपञ्चन- पूर्वकं ब्रह्मप्रणवस्वरूपमाह-यथेति।प्लुतप्लुतशब्देन चतुर्थमात्रार्धमात्रोच्यते।

सप्रतियो गिकनिर्गुणरूपेण। विराजत इति विराद्। व्यष्टिसमष्टितुर्यैक्यौतेत्यर्थः। तथा प्लुतप्लुतः अर्धमात्रार्धमात्रात्मकः स्वयं षोडशसंख्यापूरकमात्राख्यपरा- मात्रा भेदेन स्थित्वा स्वातिरिक्तस्थूलाकारादिपञ्चद शमात्रातद्वयष्टिसमष्टितदुभयै-

गुणसाम्यान्तविशेषजातं संहरत्युपमंहरत्यपह्ववं करोतीति संहाग: ।।२।।

विराट्प्रणवस्य षोडशमात्रात्मकत्वम्

विराट्प्रणव: षोडशमात्रात्मक: षट्त्रिंशत्तत्त्वातीतः। षोडशमात्रा- त्मकत्वं कथमिति। उच्यते-अकारः प्रथम:, उकारो द्वितीयः, मकार- स्तृतीयः, अर्धमात्रश्चतुर्थः, बिन्दुः पञ्चमी, नादः षष्ठी, कला सप्तमी, कलातीताष्टमी, शान्तिर्नवमी, शान्त्यतीता दशमी, उन्मन्येकादशी, मनोन्मनी द्वादशी, पुरी त्रयोदशी, मध्यमा चतुर्दशी, पश्यन्ती पश्चदशी,

Page 135

१२४ संन्यासोपनिषद: उप.

परा षोडशी। पुनश्चतुःषष्टिमात्र: प्रकृतिपुरुषद्वैविध्यमासाद्याष्टाविंशत्युत्तर शतभेदमात्रास्वरूपमासाद्य सगुणनिर्गुणत्वमुपैत्येकोऽपि ब्रह्मप्रणवः॥३॥

सिद्ध निष्प्तियोगिक निर्गुणतुर्यंतुर्यरू पेण विराजत इति विराद्। स यत्रोपलभ्यते सोडयं विराट्प्रणवो ब्रह्मप्रणव इत्यर्थः । क्थ पुनस्तस्य विराट्यणवस्य ब्रह्मप्रणवत्वम्? षोडशमात्रात्मकत्वात्। कास्ता मात्रा इत्यत आह-षोडश- मात्रात्मक इति। वराहोपनिषदुक्तज्ञानकर्मप्राणशब्दादि पञ्चकान्तःकरणचतुष्टय-

त्यापह्ववीकृत्य निष्प्रतियोगिकतया वतते अवशिष्यत इति षत्त्रिशत्तत्वातीत इन्यर्थः। शिष्टमुक्तार्थम्। षोडशमात्रास्वरूपं विशदीकरोति -अकार इति। षोडशमात्रात्मको ब्रह्मनणवः। तत्र पञ्चदशमात्रातदध्यक्षविश्वविश्वादविकल्पानुज्षै- करसान्तचैतन्याधिष्ठितो भवतीत्यत्र ब्रझ्मप्रणवतद्दीपिकादि कृत्स्नं प्रमाणम्। न केवलमिदं मानं, किंतु नृसिंहतापिनीपरमहंसपरिव्राजकादुपनिषदोऽपीत्यर्थः । एकस्यैव ब्रह्मप्णवस्य प्रकृतिपुरुषावयवयोगतो बहुत्वं, स्वेन रूपेणैकत्वं चाह- पुनरिति। पुरा ब्रह्मनणवावयवाकारादेः अयुताद्यवयववैशिष्ट्यमुक्तम्। पुनरपि स्वातिरिक्तत्वंन। प्रकतत्वात् प्रकृतिः । तस्याक्षतुःषष्टिमात्रावेशिष्ट्यं कथमित्यत्र व्यष्यकारस्थूलाकागदि पञ्चदश, तथा समष्टिस्थूलाकारादि पञ्चदश। विशिष्टं त्रिशत। तथा व्य्टिममष्टिजाग्रज्ञाप्रदादित्रिशत्, क्रियाज्ञानेच्छाशक्तित्रयं, माया चेत्याहत्य प्राकृतविभागश्चतुःषष्टिः। तथा स्वातिरिक्ताविद्यापदतत्कार्यजातं नवप्रजापत्याद्यविकल्पानुज्ञैकरसान्तचेतन्यात्मना पूरयतीति पुरुषः। तस्य चतुःषष्टिपादमात्रत्वं कथमित्यत्र प्रजापतयो नव, पश्चवीकृत्य निर्वाहकाः पञ्च ब्रह्माणः, वमुरुद्रादित्या अन्तर्यामिकूटस्थाः पञ्च, विश्वविश्वादयः पञ्चदश, विराड्विराडादि: पञ्चदश, ओत्रोत्रादिः पञ्चदश, आहत्य चतुःषष्टिः । एवं निर्विशंषचिद्धातुरेव चनुःषष्टिमात्रापादवत् प्रकृतिपुरुषद्वैविध्यमासाद्य स्वयं

वासाद सगुणत्वमुपैति। स्वज्ञदष्ट्या प्राकृतपौरुषभेदकलनापवादाधिकरणतया

Page 136

<] नारदपरिव्राजकोपनिष १२५.

निर्गुणत्वं चोपैति। अत एकोऽपि ब्रह्मप्रणतः स्वाज्ञादिद्ृष्टया सगुणत्वं. निर्गुणन्वं चावाप ॥ ३ ॥

परब्रह्मानुसंधानम् सर्वाधारः परं ज्योतिरेष सर्वेश्वरो विदुः। सर्वदेवमयः सर्वप्रपश्चाधारगर्मितः ॥ ४ ॥ सर्वाक्षरमयः काल: सर्वागममयः शिवः । सर्वश्रुत्युत्तमो मृम्यः सकलोपनिषन्मयः ॥५॥ भूतभव्यभविष्यद्यत् त्रिकालोदितमव्ययम्। तदप्योंकारमेवाद्यं विद्धि मोक्षप्रदायकम् ॥ ६ ॥ तदेवात्मानमित्येतद् ब्रह्मशब्देन वर्णितम्। तदेकमजरममृतमनुमूय तथोमिति॥७॥ सशरीरं समारोप्य तन्मयत्वं तथोमिति। त्रिशरीरं स्वमात्मानं परं ब्रह्म विनिश्चिनु ॥ ८ ।। परं ब्रह्मानुसंदध्याद्विश्वादीनां क्रमक्रमात्।

अत एवायं सर्वारोपापवादाधिकरणतया सर्वाधारः। जडाधारतया जडत्वं स्यादित्यत आह-परं ज्योतिरिति। स्वस्य जडप्रपञ्चाततिरिक्तत्वेना- जडस्वरूपत्वात्। वस्तुतोऽयमेष सर्वेश्वरः स्वातिरिक्तसर्वापह्ववसिद्धनिष्प्रति- योगिकब्रह्ममात्रतयावस्थित ईश्वरत्वादिति तमात्मानं परमार्थदृष्टयः स्वाव- शेषधिया विदुः जानन्तीत्यर्थः। ब्राह्मणेन योऽर्थोऽभिहित: तं मन्त्रग्रामो- डप्यनुवदति-सर्वेत्यादि। सवदेवमयः; सर्वदेवतास्वरूपत्वात्। सर्वप्रपश्चा- रोपाबार ईश्वरो यतो निष्पन्नः सोऽयं प्रपश्चाधारगर्भितः ॥ सर्वाक्षरमयः; पञ्चाशद्वर्णार्थरूपत्वात्। काल: ; कलयितृत्वात्, सर्वस्य कालयितृत्वाद्वा।

Page 137

१२६ संन्यासोपनिषदः उप.

सर्वागममयः; आगमशास्त्रार्थरूपत्वात्। शितः; स्वातिरिक्ताशिवग्रास- त्वात् । किंच-सर्वेति। "सरवें वेढा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्ये चरन्ति तत्ते पदं संग्रहेण ब्रवीमि ॥ ओमित्येतत्" इति श्रुन्यतुरोधेन सरवश्रुतिभिरोमिति यदुक्तं तत् ब्रह्मप्रणवार्थतुर्यतुर्यस्वमात्र- मित्येवायमात्मा मृग्यः अन्वेष्टव्यः; इतरथा मृगयितुमशक्यत्वात्। ईशादि- सकलापनिषन्मयः ; सर्वोपनिषन्मुख्यार्थत्वात्। यः कालत्रयावच्छिन्नः तदती- तोऽपि, तमेव मोक्षसाधनं विद्धीत्याह-भूतेति ॥ श्रीनृसिंहोत्तरतापिन्यां "ओमित्येतदक्षरमिदं सर्वम्" इन्यादि "स आत्मा स विज्ञेयः" इत्यन्तं यथाव्याख्यातमत्रापि द्ृ्टव्यम् ॥ अयमात्मा ब्रह्मेत्यंशं विवृणोति-तदेवेति। "तदेकमजग्ममृतमोमित्यनुभूय तस्मिन्निदं सर्वे त्रिशरीरमारोप्य तन्मयं हि तदेवति तं वा एनमात्नानं त्रिशरीरं परं त्रह्मानुसंदध्यात्" इति श्रुत्यंशमनु- करोतीसाह-तदेकमिति ॥ ४-८ ॥

विश्वादीनां चातुर्विध्यम्

स्थूलत्वात् स्थूलभुक् चात्र सूक्ष्मत्वात् सृक्ष्मभुक् परम् ॥ ९॥ एकत्वानन्दभोगाच्च सोऽयमात्मा चतुर्विधः । चतुप्पाज्जागरितस्थानः स्थूलप्रज्ञो हि विश्वभुक्॥ १० ॥ एकोनविंशतिमुखः साष्टाङ्गः सर्वगः प्रभु: । स्थूलभुक् चतुरात्माथ विश्वो वैश्वानरः पुमान् ॥ २१ ॥ विश्वजित् प्रथम: पादः स्वप्नस्थानगतः प्रभुः । सूक्ष्मप्रज्ञः स्वतोऽषाङ्ग एको नान्यः परंतप ॥१२ ॥ सूक्ष्मभुक् चतुरात्माथ तैजसो भृतराडयम्। हिरण्यगर्म: स्थूलोऽन्तर्द्वितीयः पाद उच्यते ॥ १३ ॥

Page 138

नारदपारंत्राजकोपनिषत् १२७ कामं कामयते यावद्यत्र सुप्तो न कंचन। स्वमं पश्यति नैवात्र तत् सुषुप्तमपि स्कुटम् ॥ १४॥ एकीभूत: सुपुप्तस्थः प्रज्ञानघनवान् सुखी। नित्यानन्दमयोऽप्यात्मा सर्वजीवान्तरस्थितः ॥१५॥ तथाप्यानन्दभुक चेतोमुखः सर्वगतोऽन्ययः । चतुरात्मेश्वरः प्राज्ञस्तृतीयः पादसंज्ितः ॥ १६ ॥ एष सर्वेश्वरश्चैष सर्वज्ञः सूक्ष्मभावनः । एषोऽन्तर्याम्येष योनि: सर्वस्य प्रभवाप्ययौ ॥ १७ ॥ भूतानां त्रयमप्येतत् सर्वोपरमबाधकम्। तत् सुषुप्तं हि तत् स्वमं मायामात्रं प्रकीर्तितम् ॥ १८ ।।

तत् कथं विश्वादीनां चातुर्विध्यमित्यत्र-स्थूलत्वादिति ॥ "त्रय- मप्येतत् सुषुप्तम्" इति समानश्रुतितः जाग्रदाद्यवस्थात्रयस्यापि मुषुप्तत्वं सर्वोपरमणाधिकरणज्ञानबाघकं जाग्रदाद्यवस्थात्रयेऽपि तत्त्वाग्रहणलक्षणस्वापस्य तुल्यत्वादित्यर्थः ॥ स्वप्नं मायामात्रम इत्यत्र जाग्रत्स्वप्ावन्यथाग्रहणलक्षणा- वित्यर्थः ॥ ९-१८॥

तुर्यावस्थायाः चातुर्विध्यम् चतुर्थश्चतुरात्मापि सच्चिदेकरसो ह्ययम्। तुरीयावसितत्वाच्च एकैकत्वानुसारतः ॥। १९ ।। ओत्रनुज्ञात्रनुज्ञानविकल्पज्ञानसाधनम्। विकल्पत्रयमत्रापि सुषुप्तं स्वप्रमान्तरम्। मायामात्रं विदित्वैवं सच्चिदेकरसो ह्यथ ॥ २० ॥

Page 139

१२८ संन्यासोपनिषद: उप.

जाग्रदाद्यवस्थात्रयस्य चातुर्विध्यमुक्त्वा तुर्यावस्थाया अपि चातुर्विध्य- मुच्यते-चतुर्थ इति। कथं तुर्यपर्यवसितत्वमित्यत्र-एकैकत्वानुसारत इति॥ सर्वत्र तुर्यानुम्यूतिसाधनं किमित्यत्र-ओत्रित्यादि। अत्रापि ओत्रादित्रयमपि

म्यात्। तुर्यतुयांतिरिक्तं सर्वै मायामात्रमिति विदित्वाथ वेदनोत्तरक्षणं स्वयमेव सच्िदे करसो ह्यवशिष्यत इत्यर्थः ॥ १९, २० ॥ तुर्यतुरीयो ब्रह्मप्रणवः विभक्तो ह्ययमादेशो न स्थूलप्रज्ञमन्वहम्। न सूक्ष्मप्रज्ञमत्यन्तं न प्रज्ञं न कचिन्मुने ॥ २१॥ नैवाप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञमान्तरम्। नाप्रज्ञमपि न प्रज्ञाघनं चादृष्टमेव च ।। २२ ।। तदलक्षणमग्राह्यं यदव्यवहार्यम चिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपश्चोपशमं शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते स ब्रह्मप्रणवः। स विज्ञेयो नापरस्तुरीयः । सर्वत्र भानुवन्मुमुक्षूणामाधारः स्वयंज्योतिर्व्रह्माकाश:1 सर्वदा विराजते परब्रह्मत्वात्। इत्युपनिषत् ॥ २३ ॥

पवादाधिकग्णविश्वविश्वादविकल्पानुज्ञैकर सान्तचैतन् वि भा ता वि शे षजाता व- सिद्धनिष्प्रतियोगिकतुर्यतुर्यनात्रं प्रपञ्चयति-विभक्त इत्यादिना। "स आत्मास विज्ञेयः " इत्यन्तं नृसिहोत्तरतापिनीविवरणेन व्याख्यातं भवतीति मन्तव्यम्। प्रकृतब्रह्मप्रणवमुपसंहरति-स इति। अस्मिन्नुपदेशे यस्तुर्यतुरीयोऽभिहितः स ब्रह्मप्रणवः । स एव स्वमात्रमिति विज्ञेयः तुर्यतुर्यापेक्षया। नापरस्तुरीयः; तुर्यतुर्याधिकादर्शनात्। तुर्यतुर्य एव स्वज्ञदष्टया मुमुक्षूणामाधारः; तत्प्राप्यत्वात् सर्वेप्रकाशकभानुवत्। 1उ. उ १. ब्रह्माकार :.

Page 140

नारद्परिव्राजकोपनिषत् १२९

स्वयंज्योति: ; सूर्यादिज्योतिषामपि ज्योतिष्टात्। वस्तुतो भास्यभासककलना- पहवसिद्धनिष्प्रतियागिकब्रह्ममात्रतया काशत इति ब्रह्माकाशः। सर्वदा स्वाज्ञादिदृष्टिमोहे सत्यसति स्वमात्रतया विराजते। कुतः? परब्रह्मत्वात्। स्वावशेषतया स्थितिर्युज्यत इत्यर्थः । अष्टमोपदेशसमात्यर्थोऽयम् इत्युपनिष- च्छब्द: ॥ २१-२३ ।। इत्यष्टमोपदेशः

नवमोपदेशः

ब्रह्मस्वरूपवर्णनम् अथ ब्रह्मस्वरूपं कथमिति नारदः पप्रच्छ। तं होवाच पितामहः किं ब्रह्मस्वरूपमिति। अन्योऽसावन्योऽहमस्मीति ये विदुस्ते पशवो न स्वमावपशवः। तमेवं ज्ञात्वा विद्वान् मृत्युमुखात् प्रमुच्यते। नान्य: पन्था विद्यतेऽयनाय ॥ १ ॥ काल: स्वभावो नियतिर्यदच्छा भूतानि योनि: पुरुष इति चिन्त्यम्। संयोग एषां न त्वात्मभावादात्मा ह्यनीशः सुखदुःखहेतोः॥२॥ ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैरनिगूढाम्। यः कारणानि निखिलानि तानि कालात्मयुक्तान्यघितिष्ठत्येकः ॥३॥ तमेकस्मिन् त्रिवृतं षोडशान्तं शतार्धारं विंशतिप्रत्यराभिः । अष्टकै: षड्भिर्विश्वरू पैकपाशं त्रिमार्गभेदं द्विनिमि त्तैकमोह म् । ४ ।। पश्चस्त्रोतोऽम्बुं पश्चयोन्युग्रवक्त्रां पश्चप्राणोर्मि पञ्चबुद्धयादिमूलाम्। पश्चावर्ता पश्नदुःखौघवेगां पश्चाशद्धेदां पश्चपर्वामधीमः ॥५॥ सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे। 9

Page 141

१३० संन्यासोपनिषद: [उप.

पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ॥ ६ ॥ उद्गीतमेतत्परमं तु ब्रह्म तस्मिस्त्रयं स्वप्रतिष्ठाक्षरं च। अत्रान्तरं वेदविदो विदित्वा लीनाः परे ब्रह्मणि तत्परायणाः।।७।। संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः । अनीशश्रात्मा बुध्यते भोक्तृभावाज्ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ज्ञाज्ञौ द्वावजावीशनीशावजा ह्ेका भोक्तभोगार्थयुक्ता। अनन्तश्रात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत्॥९॥ क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः। तदभिध्यानाद्योजनात्तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिः ॥१०।। ज्ञात्वा देवं मुच्यते सर्वपाशैः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः। तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्य केवल आप्तकामः ॥ ११॥ एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किंचित्। भोक्ता भोम्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्॥१२।। आत्मविद्यातपोमूलं तद्गह्लोपनिषत् परम् ॥ १३ ॥

पितामहेन ब्रह्मयाथात्म्यमुक्तमपि पुननैमिशारण्यवासिमुनिमण्डलबुद्धि- वैशद्यार्थ ब्रह्मस्वरूपं सप्रकारं पृच्छतीत्याह-अथेति। यदि त्वं परोक्षं मन्यसे, तदा अन्योऽसावन्योऽहमस्मीति स्वमेदेन ये विदुस्ते पशवः स्वस्वामिबध्यमानपशव इव स्व्राज्ञानदृढपाशबद्धत्वात्। ते स्वभावत एव पशव इत्यत आह-न स्वभावपशव इति। तेषां स्वभावस्य निष्प्रतियोगिकब्रह्ममात्र- त्वात्। यः सदा निष्प्रतियोगिकमवशिष्यते तमेवं स्वमात्रमिति ज्ञात्वा विद्वान् मृत्युमुखात् प्रमुच्यते। स विद्वान् वेदनसमकालं स्वातिरिक्तास्तित्वमेव मृत्युः, तन्मुखतः स्वाज्ञानात् मुच्यते ; स्वयं स्वमात्रमवशिष्यते इत्यर्थः। स्वाज्ञानप्रभव- स्वातिरिक्तबन्धस्य स्वज्ञानाहते विनाशो न विद्यत इत्याह-नान्यः पन्था

Page 142

<] नारदपरित्राजकोपनिषत् १३१

विद्यतेऽयनायेति। एवं नारदेन साकं विधिमुखतः श्रुतवेदान्ता नैमिशारण्य- वासिनो मुनयो मिलित्वा कालादिसांख्यान्तमतान्युपन्यस्याथ पूर्वपक्षत्वेन निरस्य यत् परमार्थतत्त्वं तदेव स्वमात्रं नातोऽतिरिक्तमस्तीति ध्यात्वा तन्मात्र- मवाशिष्यन्तेत्याह-काल इति। श्वेताश्वतरमन्त्रोपनिषदि "काल: स्वभावः" इत्यारभ्य "तद्भह्मोपनिषत् परम्" इत्यन्तं पदशो व्याख्यातमित्यत्रोपरतमिति मन्तव्यम्। एवं नैमिशारण्यवासिन: परमेष्ठिमुखतः "नातः परं वेदितव्यं हि किंचित्" इति स्वातिरिक्तसर्वापह्वव सिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति विदि- त्वा वेदनसमकालं कृतकृत्याः सन्तः तन्मात्रमवाशिष्यन्त इत्यर्थः ॥ १-१३॥

शास्त्रवेदनफलम्

य एवं विदित्वा स्वरूपमेवानुचिन्तयन् 'तत्र को मोहः, कः शोक एकत्वमनुपश्यतः'। तस्माद्विराड़ भूतं भव्यं भविप्यद्भवत्यन-

श्वरस्वरूपम् ॥ १४ ॥ अणोरणीयान् महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम्। तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥१५॥ अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेतति वेद्यं न च तस्यास्ति वेता तमाहुरत्रयं पुरुषं महान्तम्।। अशरीरं शरीरेप्वनवस्थेष्ववस्थितम्। महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥। १७ ॥। सर्वस्य धातारमचिन्त्यशक्तिं सर्वागमान्तार्थविशेषवेद्यम्। परात् परं परमं वेदितव्यं सर्वावसानेऽन्तकृद्वेदितव्यम् ॥ १८॥ कविं पुराणं पुरुषोत्तमोत्तमं सर्वेश्वरं सर्वदेवैरुपास्यम्। अनादिमध्यान्तमनन्तमव्ययं शिवाच्युताम्भोरुहगर्भभूघरम् ॥ १९॥

Page 143

१३२ संन्यासोपनिषद: उप.

स्वेनावृतं सर्वमिदं प्रपश्चं पञ्चात्मकं पञ्चसु वर्तमानम्। पश्चीकृतानन्तभवप्रपञ्चं पञ्चीकृतस्वावयवैरसंवृतम्। परात् परं यन्महतो महान्तं स्वरूपतेजोमयशाश्रतं शिवम् ॥ २०॥

यः कोऽप्येतच्छास्त्रं यथावद्वेद, सोऽपि कृतकृत्यो भवतीत्याह-य एवमिति। य एवं मौनिपटलवत् गुरुमुखात् ससंन्यासज्ञानैकगम्यं ब्रह्म स्वमात्र- मिति विदित्वा ततस्तत्स्वरूपमेव स्वात्मेत्यभेदं पश्यति, तस्य तत्र स्वरूपे स्वातिरिक्तमस्ति नास्तीति को मोहः? तदपाये कः शोकः? ब्रह्ममात्रावगतेः शोकमोहापह्नवपूर्वकत्वात्। यस्मादेवं स्वातिरिक्तापह्ववंसिद्धं ब्रह्म निष्प्रतियोगिक- स्वमात्रतया विराजते, तस्मात् विराट्। परमात्मैव स्वाज्ञदृष्टया यद्धूतादि- कालपरिच्छेद्ं तत् स्वज्ञदृध्ट्या स्वरूपमेव भवतीत्याह-भूतं भव्यमिति। वस्तुनः सन्मात्रातिरिक्तासदभावात्; "पश्यतेहापि सन्मात्रमसदन्यत्" इति श्रुतेः । एवमात्मानं पश्यतो वीतशोकत्वमात्मनः करणग्रामाभावेऽपि करणग्रामप्रवृत्तिनिमित्तत्वं चाह-अणोरिति ॥ मन्त्रद्वयमपि श्वेताश्वतरे व्याख्यातम् । कथं पुनः आत्मज्ञानात् शोकात्ययः१ देहावच्छिन्नात्मनः शोकदर्शनादित्यत आह -- अशरीरमिति ॥ शोकनिमित्तशरीरत्रयवैरल्यात्। शरीरत्रयापह्ववसिद्धब्रह्मवेदनोपायमाह-सर्वस्येति। स्वाज्ञदृष्टिविकल्पितस्य सर्वस्य जगतः विष्ण्वात्मना धातारं पोषकम्। ईश्वरात्मना अचिन्त्या अघटितघटनापटीयसी शक्तिर्यस्य तमचिन्त्यशक्ति प्रत्यगभिन्नब्रह्मात्मना सर्वागमान्तार्थः । "ब्रह्मव्यतिरिक्तं न किंचिदस्ति," "ब्रह्ममात्रमसन्न हि" इति परमसिद्धान्त एव विशेषारथः । तन्मात्रतया वेद्यं स्वात्मानं ये जानन्ति तैर्ब्रह्मविद्धिः यत् परादक्षरादपि परं तदेव परमं ब्रह्म सर्वावसाने स्वातिरिक्तसर्वापह्ववे सति स्वमात्रमिति सकृदेव वेदितत्यम्। वेदनवृत्तेरप्यु- परमात् यद्येवं वेदितुमशक्तस्तदा कविमित्यादिविशेषणविशिष्टमीश्वरं वा चिरमुपास्य तत्प्रसादलब्धब्रह्मज्ञानेन निर्विशेषं ब्रह्मैवैतीत्याह-कविमिति। कवि सर्वज्ञत्वात्। पुराणं चिरन्तनत्वात्। अनादिमध्यान्तं स्वस्य जन्म-

Page 144

<] नारदपरिव्राजकोपनिषत् १३३

स्थितिलयाभावात्। शिवाच्युताम्भोरुहगर्भा हरहरिविरिश्चितरवः, तेषां प्ररोह- गिरित्वात्॥ किंच-स्वेनेति। स्वेनान्तर्याम्यादिभावमापन्नेनायं प्रपञ्चो व्याप्त इति वक्तव्ये इदं प्रपश्चम् इति विभक्तिलिङ्गव्यत्ययः । पञ्चात्मकमि- त्यादिप्रपञ्चविशेषणम्। तद्वयाध्या तत्संवृतत्वं स्यादिति शङ्कायाम् असंवृत- मिति विशेषणम्। असंवृत्तत्वे हेतुः । परात् परम् इति महदव्यक्तादेरपि व्यापकत्वेन महत्त्वात्। वस्तुतः शिवं स्वातिरिक्ताशिवापह्नवात्। सिद्धं ब्रह्मास्मीत्यात्मानं जानीयात् इत्यर्थः ॥ १४-२०॥

ब्रह्मप्राति: तद्वेतुश्च

नाविरनो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥२१ ॥ नान्तःप्रज्ञं न वहिःप्रज्ञं न स्थूलं नाम्थूलं न ज्ञानं नाज्ञानं नोभयतःप्रज्ञमग्राह्यमव्यवहार्य स्वान्तःस्थितः स्वयमेवेति य एवं वेद स मुक्तो भवति स मुक्तो भवतीत्याह भगवान् पितामहः ॥२२॥

एवं ज्ञानी दुश्चरितादिवृत्तिमानपि ब्रह्माप्नुयादित्यत आह-नेति। दुश्चरितादिवृत्तिमतो ज्ञानानुदयात् । यदि स्यात् प्रमादतस्तदाभासज्ञानं भवेत्। न ह्याभासज्ञानं ब्रह्मसाक्षात्कारहेतुर्भवति। यस्मादेवं तस्मात् दुश्चरितादिवृत्त्य- संभवनिष्प्रतियोगिकब्रह्ममात्रप्रज्ञानेन तद्भावापन्नो भवतीत्यर्थः ॥ स्वान्तर्बाह्य- विजृम्भितस्थूलसूक्ष्मप्रपञ्चासंभवब्रह्ममात्रज्ञानतो मुक्तो भवतीत्याह-नान्त :- प्रज्ञमिति ॥ आवृत्तिरवधारणार्था ॥ २१, २२ ।।

परिव्राजकस्थितिः

स्वस्वरूपज्ञ: परित्राट्। परिव्राडेकाकी चरति । भयत्रस्त्सारङ्गवत् तिष्ठति। गमनविरोधं न करोति। स्वशरीरव्यतिरिक्तं सर्वं त्यक्त्वा

Page 145

१३४ संन्यासोपनिषद: [उप-

षट्पद्वृत्त्या स्थित्वा स्वरूपानुसंधानं कुर्वन् सर्वमनन्यबुद्धया स्वस्मिन्नेव मुक्तो भवति। स परित्राट् सर्वक्रियाकारकनिवर्तको गुरुशिष्यशास्त्रादि- विनिर्मुक्त: सर्वसंसारं विसृज्यामोहितः । परिव्राट् कथं निर्धनिक: सुखी। धनवान् ज्ञानाज्ञानोभयातीत: सुखदुःखातीतः स्वयंज्योतिःप्रकाशः सर्ववेद्यः सर्वज्ञः सर्वसिद्धिदः सर्वेश्वरः सोऽहमिति। तद्विष्णोः परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः । सूर्यो न तत्र भाति न शशाङ्कोऽपि। न स पुनरावर्तते न स पुनरावर्तते। तत्कैवल्यम्। इत्युपनिषत् ॥ २३ ॥

एवं मुक्तिभाजनपरिव्राजकस्थितिमाह-स्वस्वरूपज्ञ इति। स्वस्वरूप स्वमात्रमिति जानातीति स्वस्वरूपज्ञः। स्वाज्ञानतत्कार्य परित्यज्यापह्नवं कृत्वा स्वभावं व्रजति भजतीति परिव्राट्। स्वातिरिक्तद्वयाभावात् स्वाज्ञदृष्टया जनसंबाधेऽपि स्वदृष्ट्या परिव्राडेकाकी चरति। स्वाज्ञदृष्ट्या भयत्रस्तसारङ्गवत् तिष्ठति सारङ्ग इव तिष्ठति। तथा स्वगमनविरोधं न करोतीव। स्वज्ञदष्टया शरीराभावेडपि परारोपितप्रातिभासिकस्वशरीरव्यतिरिक्तं सर्व त्यक्त्वा षट्पद- वृत्त्या माधूकरास्यपात्रवृत्त्या स्थित्वाहोरात्रं स्वरूपानुसंधानमेव कुर्वन् सर्वमनन्यबुद्धा स्वस्मिन्नेव मुक्तो भवति। क्रियाकारकद्वैतशून्यः गुरुशिष्य- शास्त्रादिभिदागन्धविकल: नित्यानन्दस्वान्ततया न कदापि संसार- दुःखमोहितः । परिव्राद् कथं पुनः निर्धनिकः सुखी भवति? ब्रह्ममात्रधनवतो नित्यसुखितोपपद्यते। ज्ञानाज्ञानोभयातीतः चिदाभासताया मृग्यत्वेन ज्ञाना- ज्ञानातीतत्वम्; "ज्ञानिताज्ञानिते चात्माभासस्यैव न चात्मनः" इति स्मृतेः । स्वयंज्योतिः प्रकाशमात्रत्वात्। यः सर्वापह्ववसिद्धब्रह्ममात्रतया अवस्थातुमीश्वरो. भवति सोऽहं सर्वेश्वरः । योगिनो यत्पदं प्राप्याद्यापि न निवर्तन्ते तद्विष्णोः परिव्राजकस्य परमं पदम्। न हि तत्र सूर्यशशाङ्कौ भासेते॥ यत्पदमपुन-

Page 146

९] नारदपरित्राजकोपनिषत् १३५ रावर्तकं तदेव हि कैवल्यम्। इतिशब्दो नवमोपदेशसमात्यर्थः। उपनिषच्छब्दः नारदपरिब्राजकोपनिषत्समात्यर्थः ॥२३॥

इति नवमोपदेशः

श्रीवासुदे वेन्द्रशिष्योपनिषद् ब्ह्मयोगिना। नारदीयविवरणं लिखितं स्यात् स्फुटं लघु। परिब्राजकोपनिषद्वयाख्या ग्रन्थसहस्रयुक्।

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे त्रिचत्वारिंशत्संख्यापूरकं नारदपरिव्राजकोपनिषद्विवरणं संपूर्णम्

Page 147

निर्वाणोपनिषत्

वाङ् मे मनसि-इति शान्ति:

मुख्यावधूतलक्षणम्

अथ निर्वाणोपनिषदं व्याख्यास्यामः ॥ १ ॥ परमहंस: सोडहम् ॥ २ ॥ परित्राजकाः पश्चिमलिङ्ग: ॥ ३ ॥ मन्मथ- क्षेत्रपालाः ॥ ४ ॥ गगनसिद्धान्तः ॥ ५ ॥ अमृतकल्लोलनदी ॥ ६ ॥ अक्षयं निरञ्जनम्॥ ७ ॥ निःसंशय ऋषिः ॥८॥ निर्वाणो देवता। ९॥ निष्कुलप्रवृत्तिः ॥ १० ॥ निष्केवलज्ञानम् ॥ ११ ॥ ऊर्ध्वान्नायः ॥ १२ ॥ निरालम्बपीठः ॥ १३ ॥ संयोगदीक्षा ॥ १४ ॥ वियोगोपदेशः ॥ १५ ॥ दीक्षासंतोषपावनं च ॥ १६ ॥ द्वादशा- दित्यावलोकनम्॥१७ ॥ विवेकरक्षा ॥१८ ॥ करुणैव केलिः ॥१९ ॥ आनन्दमाला ॥ २० ॥ एकासनगुहायां मुक्तासनसुखगोष्ठी ॥ २१ ॥ अकल्पितभिक्षाशी ॥ २२ ॥ हंसाचारः ॥ २३ ॥ सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् ॥ २४ ॥ धैर्यकन्था। उदासीनकौपीनम्। विचारदण्डः। ब्रह्मावलोकयोगपट्टः। श्रियां पादुका। परेच्छाचरणम्।

Page 148

१३८ संन्यासोपनिषद: कुण्डलिनीबन्धः। परापवादमुक्तो जीवन्मुक्तः। शिवयोगनिद्रा च खेचरीमुद्रा च परमानन्दी ॥ २५ ॥ निर्गुणगुणत्रयम् ॥ २६॥ विवेकलभ्यं मनोवागगोचरम् ॥ २७ ॥ अनित्यं जगद्यज्जनितं स्वम्नजग- दम्रगजादितुल्यम्, तथा देहादिसंघातं मोहगणजालकलितं तद्रज्जुसर्पवत् कल्पितम् ॥ २८ ॥ विप्णुविध्यादिशताभिधानलक्ष्यम् ।२९। अङ्कुशो मार्गः ॥ ३० ॥ शून्यं न संकेतः ॥ ३१ ॥ परमेश्वर- सच्ा ॥ ३२ । सत्यसिद्धयोगो मठः ॥ ३३ ॥ अमरपदं न तत्स्व- रूपम्।। ३४ ।। आदिव्रह्म स्वसंवित् ॥ ३५॥ अजपागायत्री- विकारदण्डो ध्येयः ॥ ३६ ॥ मनोनिरोधिनी कन्था ॥ २७ ॥। योगेन सदानन्दस्वरूपदर्शनम् ।। ३८ ।। आनन्दभिक्षाशी॥ ३०॥ महा- शमशानेऽव्यानन्दवने वासः ॥ ४० ॥ एकान्तस्थानमठम् ॥ ४१ ॥ उन्मन्यवस्था शारदा चेष्टा॥ ४२ ॥ उन्मनी गतिः ॥ ४३ ।। निर्मलगात्रं निरालम्बपीठम् ।। ४४ ।। अमृतकल्लोलानन्दक्रिया ॥ ४५ ॥ पाण्डर- गगनमहासिद्धान्तः ॥ ४६॥ शमदमादिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता परावरसंयोगः तारकोपदेशः । ४७ ।। अद्वैतसदानन्दो देवता ॥४८ ।।' नियम: स्वान्तरिन्द्रियनिग्रहः ॥ ४०. ॥ भयमोहशोकक्रोधत्याग- स्त्याग: ।। ५० ॥ परावरैक्यरसास्वादनम् ॥ ५१॥ अनियामकत्व- निर्मलशक्तिः ॥ ५२ ॥ स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिसंपुटितप्रपश्न- च्छेदनम्, तथा पत्राक्षाक्षिकमण्डलभावाभावदहनम्॥ ५३॥ बिभ्रत्या- काशाधारम्॥५४॥ शिवं तुरीयं यज्ञोपवीतम्, तन्मया शिखा॥५५॥

Page 149

निर्वाणोपनिपत् १३९.

चिन्मयं चोत्सष्टिरण्डं संततोक्षिकमण्डलम्॥ ५६ ॥ कर्मनिर्मूलनं कथा। मायाममताहंकारदहनं मशाने ॥५७॥ अनाहताङ्गी ॥५८॥

निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम्। त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तये।।

इह खलु ऋग्वेदप्रबिभक्तेयं निर्वाणोपनिषत् पारिव्राज्यधर्मपूगप्रकटन- पूर्वकं परमार्थतत्त्वप्रकाशिका विजम्भते। अस्याः स्वल्पग्रन्थतो विवरणमार- भ्यते। इयं श्रुतिः उत्तमाधिकारिणः परिव्राजकानुपलभ्य स्वनाम्न्नोपनिषदमु- पदिशति-अथेत्यादिना। अथशब्दः आश्रमत्रयानन्तर्यार्थः । विदेहकैवल्य- मेव निर्वाणं तद्वोधिनीमुपनिषदं विद्यां श्रुतयो वयं व्याख्यास्याम: विवरणं कुर्म इत्यर्थः ॥ वक्ष्यमाणविद्याप्रतिपादयं किमित्यत आह-परमहंस: सोऽह- मिति। स्वातिरिक्तापह्ववसिद्धः परमः परमात्मा चासौ, पुनः स्वाज्ञविकल्पित- स्वातिरिक्तभ्रमं हन्तीति हंसश्चेति प्रसक्त्तप्रत्यगभिन्नपरमात्मा योऽयं प्रकटितः सोऽहमिति सम्यग्ज्ञानसिद्धं प्रत्यगाद्याख्यासहं निष्प्रतियोगिकब्रह्ममात्रं प्रतिपाद- मित्यर्थः ॥ के अत्राधिकारिण इत्यत्राह-परिव्राजका: पश्चिमलिङ्गा इति। बाह्यसंसारं परित्यज्य दण्डादिधारणलक्षणं व्यक्तविष्णुलिङ्गमवलम्ब्य परितो व्रजन्तीति परिव्राजकाश्च ते पश्चिममन्तःसंन्यासलक्षणमव्यक्तविष्णुलिङ्चिनश्चेति स्वबाह्यान्तर्विलसितविक्षेपग्रासव्यक्ताव्यक्तविष्णुलिङ्गधारिण इत्यर्थः; "सर्व एते विष्णुलिङ्गं दधाना व्यक्ताव्यक्त बहिरन्तश्व नित्यम्" इति श्रुतेः ॥ तेषामेवं विष्णुलिङ्गसत्वेऽपि विष्णुत्वं कुत इति तत्राह-मन्मथक्षेत्रपाला इति । मदित्यस्मत्प्रत्ययालम्बनप्रत्यगादि विभागासहम्रह्ममात्राज्ञानविजृम्मितसर्वशास्त्रम- थनाविर्भूतमाविद्यकं पदं मन्मथक्षेत्रम् अनन्तकोटिब्ह्माण्डबीजप्ररोहभूमित्वात् क्षेत्रत्वं युज्यते। तत् स्वातिरिक्तं नास्तीत्यपोह्य अहमेवेदं सर्वमिति स्वात्ममात्र- घिया पालनाद्विष्णुत्वं निरङ्कुशमित्यर्थः ॥ विष्णोः साकल्यप्रसिद्धेः तद्भावा- पत्त्या तेषां सिद्धान्तोऽपि तथेत्यत आह-गगनसिद्धान्त इति। विष्णोः साकल्यं स्वाज्ञानसापेक्षम्। तदपाये "स एषोऽकलोऽमृतः" इति श्रुतिसिद्ध-

Page 150

१४० संन्यासोपनिषद:

निष्कलविष्णुभावारूढानां गगनवन्निरवयवं निष्कलब्रह्मगोचरोऽयं सिद्धान्त इत्यर्थः ॥ तदापि पारिव्राज्योपाधियोगतः क्थं तदन्तःकरणं निष्कलगोचरं भवतीत्यत आह-अमृतकल्लोलनदीति। निष्कलब्रह्मभावापन्नान्तःकरणं स्व- मात्रभावामृततरङ्गवद्विरजानदीवच्चिदेकरसगोचरं तदन्त:करणमित्यर्थः ॥ तेषां क्षयिष्णुत्वादिगुणकान्त:करणयोगतः तत्स्वरूपमपि तथेत्यत आह-अक्षयं निरञ्जनमिति। कामादिवृत्तिमदन्तःकर्णं क्षयिष्णवज्ञनार्ह च भवेत् परिव्राज- कान्तःकरणस्य तद्वैपरीत्येन निर्विकल्पब्रह्ममात्रपर्यवसन्नत्वात् तद्रूपमक्षयं सर्वत्र निरञ्जनं चेत्यर्थः ॥ तेषामेवं बोधप्रदाता कीदृश इत्यत आह-निःसंशय ऋषिरिति। श्रुत्याचार्यप्रसादमहिम्रा निःसंशयं यथा भवति तथा निष्प्रतियोगिक- ब्रह्ममात्रभावम् ऋषत्यवगच्छति शिष्यान् ग्राहयति वेति निःसंशय ऋषिराचार्य इत्यर्थ :; "सर्वशरीरस्थचैतन्यब्रह्मप्रापको गुरु:" इति श्रुतेः । तथाविधदेशि- कानुशिष्टपरिव्राट्पटलसेव्यदेवता केत्यत आह-निर्वाणो देवतेति। निर्वाण- मिति वक्तव्ये निर्वाण इति लिङ्गव्यत्ययः। ब्रह्ममात्रावस्थानलक्षणनिर्वाणं कैवल्यं तद्रूपतया देदीप्यमाना वासुदेवरूपिणी देवतेत्यर्थः । "सर्वभूताधिवासं यद्धतेषु च वसत्यपि। सर्वानुग्राहकत्वेन तदस्म्यहं वासुदेवः ।" इति श्रुतेः ॥ एवं निर्वाणदेवताभावमापन्नानामपि स्वकुलानुरूपा प्रवृत्ति: स्यादित्यत आह-निष्कुलप्रवृत्तिरिति। स्वातिरिक्तकुलगोत्रादे: मायिकत्वेन कारणतुल्यत्वात्। न हि ब्रह्ममात्रज्ञानसमकालं स्वान्यकुलानुरूपा प्रवृत्तिर्निवृत्तिर्वा अस्तीत्यत्र-"उत्पन्नतत्त्ववोधस्य यथापूर्व न संसृतिः" इति भगवत्पादोक्तेः। प्रवृत्तिसामान्याभावे देहधारणा कथमिति चेन्न ; स्वदृष्ट्या देहतद्वारणाविभ्रम- वैरल्यात्। यदि प्रातिभासिकदृष्टया स्फुरत्, तदा देहधारणामात्रप्रवृत्तिनिवृत्त्योरपि तथात्वात्। न हि प्रातिभासिकप्रवृत्त्यादिः कार्यकारी भवति; "प्रतिभासत एवेदं न जगत् परमार्थतः" इति श्रुतेः ॥ किं तादृशज्ञानं के वलशास्त्रजन्यम्? नेत्याह-निष्केवलज्ञानमिति। शास्त्रीयज्ञानस्य स्वातिरिक्तसत्ताबाधकत्वेऽपि कार्यकारिप्रवृत्तेरबाधकत्वात् नेदं शास्त्रजं भवितुमर्हति; किंतु तदुपेयतत्त्वज्ञान-

Page 151

निर्वाणोपनिषत् १४१ मेवेत्यर्थः । एवं ज्ञानिभि: पठनपाठनादिकं न कार्यम् ; ततो ब्रह्मविद्यासंप्रदाय- विच्छेदः स्यादित्यत आह-ऊर्ध्वान्नाय इति। तैः कर्तव्याकर्तव्यतया न किंचिदपि कार्यान्तरं विद्यते। यदि प्राण्यदृष्टतः स्यात्, तदा अघोभावं गतकर्मोंपासनाकाण्डद्वयगोचराम्नायजातपठनपाठनाभावेडपि। ऊर्ध्वे ब्रह्म यत्र उपनिषत्कदम्बे आम्नायते सोऽयं ऊर्ध्वाम्नायः इशादषोत्तरशतोपनिषत्पूगः । गुरुतः स्वयं वा पठेच्छिष्यान् वा पाठयेत्। एवं कृते ब्रह्मविद्यासंप्रदायाविच्छे- दोडपि स्यादिति यत्, तत् सहजमित्यत्र "सर्वेषु वेदेषूपनिषदमावर्तयेत्।" "सदोपनिषदं विद्यामभ्यसेन्मुक्तिहेतुकीम्। कायः करोतु कर्माणि वृथा वागुच्यतामिह। तारं जपतु वाक् तद्वत् पठत्वाम्नायमस्तकम् ॥" "विष्णुं ध्यायति धीयद्वा ब्रह्मानन्दे विलीयताम्। साक्ष्यहं किंचिदप्यत्र न कुर्वे नापि कारये ॥"

इत्यादिश्रुतेः ॥ एवं ब्रह्मविद्यासंप्रदायप्रवर्तकानामवस्थानं सालम्बं स्यादित्यत आह-निरालम्बपीठ इति। स्वातिरिक्तालम्बनशून्यब्रह्ममात्रतया पीठ आसनं स्थितिरिति यावत्; "निर्विशेषज्ञानिनः स्यात् स्वे महिम्नि सदा स्थितिः " इति स्मृते: ॥ तेषां क्वाभिनिवेश इत्यत्र-संयोगदीक्षेति। सच्छिष्यपटल- ब्रह्ममात्रज्ञानयोगवितरणे दीक्षा अभिनिवेश इत्यर्थः । एवमभिनिवेशाभासोऽपि शिष्यादृष्टनिमित्तो न स्वत इति भावः ॥ तदुपदेशः कीदृश इत्यत्र-वियोगो- पदेश इति। प्रसक्तस्वातिरिक्तास्तित्वभ्रमवियोगः । न हि निष्प्रतियोगिकस्वमात्रे स्वातिरिक्तमस्ति नास्तीति विभ्रमातकाशोऽस्तीत्युपदेशः; "अनन्यप्रोक्ते गतिरत्र नास्ति" इति श्रुतेः॥ एवं शिष्योपदेशव्यग्रतया दुःखादिकं स्यादित्यत आह-दीक्षासंतोषपावनं चेति। कुत्राप्यनभिनिवेशतः स्वाभि- निवेशाभासोऽपि शिष्यपटलसंतोषकरः पावनकरश्वेत्यर्थः ॥ तद्दर्शनमपि तथे- त्याह-द्वादशादित्यावलोकनमिति। पावनहे तुद्वादशादित्यावलोकनवत् ब्रह्म- वित्परिव्राजकावलोकनमपि तथेत्यर्थः । तथाच श्रुति :-

Page 152

:१४२ संन्यासोपनिषदः

"खेचरा भूचरा: सरवें ब्रह्मविद्दृष्टिगोचराः । सद एव विमुच्यन्ते कोटिजन्मार्जितैरघैः॥" इति। निरभिमानिनां रक्षा का? इत्यत्राह-विवेकरक्षेति। ब्रह्ममात्रविवेको ज्ञानमेव रक्षा ; "श्रुत्याचार्यप्रसादात्ततत्त्वज्ञानास्तसंशयम्। ब्रह्मविष्ण्वादिविबुधाः पालयन्ति त्यजां कुलम् ॥" इति स्मृते: ॥ तत्केलि: कुत्रेति, तत्राह-करुणैव केलिरिति। स्वाजञपटलं स्वपदं प्रापणीयमिति या करुणोदेति सैव केलिः ॥ तन्माला का ? इत्यत आह -आनन्दमालेति। स्वानन्दालंकृतत्वात् । तद्रोष्ठी केति, तत्राह-एकासन- गुहायामिति। सवत्रकमेव आसनमवस्थानमटनं चलनं वा येषां ते एकासनाः । तेषां विहरणभूमि: गुहा; तस्यां मुक्त: परित्यक्तः सिद्धासनादिपरिग्रहनियमो यैस्ते मुक्तासनाः। तैः स्वरूपमुखं यल्म्यते तदेव गोष्ठी; न हि जनसंबन्धिनी॥ तदर्थ किं परैर्मिक्षा कल्पनीयेति, तत्राह-अकल्पितभिक्षाशीति। स्वार्थ गृहिण: पक्त्वा भुक्त्वा स्वस्धास्तिष्ठन्ति ग्रामैकरात्रादिनियमतो गोदोहनमात्र- कालाकाड्क्षिषु भिक्षुपु मिक्षार्थमागतेषु पुनस्तदर्थ पाकानवसरात् भुक्तशेषमेव दास्यन्तीति स्वार्थमविकल्पितां मिक्षामश्नातीत्यविकल्पितभिक्षाशी। तथाच स्मृति :- "ग्रामैकरात्रमटनं प्रवेशं चापराह्णके। गोदोहमात्रमा काड्क्ष ननिष्कान्तो न पुनर्व्रजेत्।" इत्यादि॥ तदाचार: कीदश इत्यत्र-हंसाचार इति। हंसशब्देन त्त्त्वंपदार्था- वुच्येते। त्क्ष्यैक्यानुसंधानमाचारः शीलमित्यर्थः ॥ ते शिष्येषु किं प्रति- पादयन्ति? इत्यत्र-सर्वभूतान्त्वर्तीति। स्वाज्ञदृष्टिप्रसक्तसर्वभूतेषु स्वज्ञदष्ट्या- न्तर्वर्ती हंस: प्रत्यगभिन्नपर्मात्मा परमार्थदृष्ट्या सर्वापह्ववसिद्धं ब्रह्म निष्प्रति- योगिकस्वमात्रमिति प्रतिपादनं कुर्वन्ति॥ तेषां कन्थाकौपीनदण्डयोगपट्ट- पादुकाचरणबन्धमोक्षनिद्रामुद्राः कीहशाः? इत्यत आह-धैर्येत्यादिना।

Page 153

निर्वाणोपनिषत् १४३

ब्रह्मातिरिक्ततं न किंचिदस्तीति मनोधैर्यमेव कन्था। स्वातिरिक्तोदासीनधीरेव कौपीनम्। सर्ववेदान्तार्थविचारो दण्डः । प्रत्यगभेदेन ब्रह्मावलोकनमेव योग- पट्टः। स्वातिरिक्तबाह्यसंपत् श्रीरुच्यते। तदस्पर्शनाय तस्यां पादुका। परेच्छयैव देहधारणमात्रचेष्टाचरणम्। तथाच श्रुतिः-"परेच्छया च दिग्वासाः स्नानं कुर्यात् परेच्छया" इति। सुषुम्नायां कुण्डलिनीप्रवेशो भवितव्य इति संकल्प एव बन्धः । स्वातिरेकेण नाडीकुण्डलिनीचिन्तायाः ब्रह्मावरणहेतुतया बन्धत्वं युज्यत इत्यर्थः । तथाच श्रुति :- "नाडीपुअं सदासारं नरभावं महामुने। विमुच्यैवात्मनात्मानमहमित्यवधारय॥"

इति। स्वातिरिक्तात् परः परमात्मा स्वातिरिक्तास्तित्वविभ्रम एव परापवाद: परमात्मावरणम्। तस्माज्जीवन्नपि यो मुच्यते स जीवन्मुक्तो भवेत्। तथाच स्मृति :-

"स्वातिरिक्तास्तिताभ्रान्तिः स्वमात्रा वृतिरीरिता। स्वमात्रज्ञानखड्गेन तां छित्वा विचरेद्यतिः॥ "

इति। शिवाभेदेनावस्थानं शिवयोगः। स एव निद्रा निर्विक्ल्पकसमाधिरित्यर्थः। चशब्दतः पुनर्व्युत्थानाभावो द्योत्यते। खे चिदाकाशे स्वाज्ञदष्ट्या स्वाविद्यापद- कल्पनायाश्चरितत्वात् खेचरी स्वाविद्यापादः । तत्स्वातिरेकेणास्तीति धी: मुच्छन्देनोच्यते। सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रधिया खेचरीमुदं द्रावयतीति खेचरीमुद्द्रा तत्त्वज्ञानम्। चशब्दात् बाह्यखेचरीमुद्द्रापि गृह्यते।। मुद्द्रावकतया दुःखरूपता स्यादित्यत आह-परमानन्दीति। परमानन्दीति लिङ्गव्यत्ययः । परमानन्दिनी खेचरीमुद्रेत्यर्थः ; भजतामानन्दाप्तिहेतुत्वात्॥ तथाविधानन्दब्रह्म किं सगुणं तत्राह-निर्गुणगुणत्रयमिति ॥ ब्रह्ममात्रसिद्धेः गुणत्रयतत्कार्यापह्नवपूर्वकत्वात्। निष्प्रतियोगिकनिर्गुणं ब्रह्म केन लभ्यमित्यत आह-विवेकलभ्यमिति। ब्रह्मातिरिक्तं नेति तत्त्वज्ञानं विवकः, तेनैव लभ्य- मित्यर्थः ; "नान्यः पन्था अयनाय विद्यते" इति श्रुतेः ॥ लभ्यमित्युक्तितः

Page 154

५४४ संन्यासोपनिषद्:

तत् किं सातिशयम् ? तत्राह-मनोवागगोचरमिति। यत् स्वावशेषतया लभ्यं तत्करणग्रामापह्नवसिद्धं निरतिशयमित्यर्थः । ब्रह्मणः करणग्रामागोचरत्वेन ब्रह्माभावप्रसक्तों स्वाज्ञानुभूतिसिद्धकार्यप्रपञ्चस्य कारणसापेक्षत्वात्। न हि ब्रह्म विना तथाविधकारणं किंचिदस्ति ॥ अतो जगत्कारणत्वहेतुना ब्रह्मणो निष्प्रति- योगिकभावरूपत्वं सदृष्टान्तमाह-अनित्यमित्यादिना। यतो जगज्जनितं, तद्रह्म नित्यमित्यवगन्तव्यम्॥ जगतो नित्यब्रह्मजत्वेन नित्यत्वं स्यादित्यत आह-अनित्यमिति ॥ किमिवानित्यमित्यत्र-स्वप्नेति। स्वप्ोपलक्षितावस्था- त्रयतत्कार्यात्मकं जगत् अभ्रपरिद्ृश्यमानमोहगजादिमिथ्यावस्तुतुल्यम्। तथा समष्टिदेहादिसंघातं तन्मोहगणजालकलितं जगत् रज्जुसर्पवत् कल्पितम्।। तत्कल्पनाधिष्ठानं किं विष्ण्वादि? तत्राह-विष्णुविध्यादिशताभिधानलक्ष्य- मिति। विष्ण्वादिशब्दवाच्यविष्ण्वादयस्तल्क्ष्यं ब्रह्मेत्यर्थः ॥ विष्णवादिमार्ग- प्रापकहेतुः क :? इत्यत्र-अङ्कुशो मार्ग इति। यथा गजस्वामिनोऽड्कुश: स्वेप्सितदेशगमनहेतुः, तथार्चिरादिमार्गो विष्ण्वादिप्रापकहेतुरित्यर्थः ॥ किमर्चिरादि विष्ण्वादिव्यतिरिक्ततया शून्यमित्यत्राह-शून्यं न संकेत इति। अर्चिराद: विष्ण्वाद्यव्यतिरेकात् न शून्यत्वं तद्रूपत्वेन सत्यमित्यर्थः । तथाच स्मृति :-

"स्वारोपिताखिलाण्डादेः स्वाभेदश्रुतिमानतः । प्राप्यप्रापकभेदेऽपि सर्वे विष्ण्वात्मकं जगत् ॥" इति। तथा चेद्विष्णुरित्याख्या कि न स्यादित्यत्र तस्य विष्णुत्वेऽपि मार्ग इति व्यवहारतो व्यावहारिकाज्यं संकेतः व्यावहारिकदृष्टया वा भूवैकुण्ठयोरध- ऊर्ध्वपातित्वं मार्गस्य निरालम्बान्तरिक्षपातित्वं च प्रसिद्धम् ॥ तत्र गन्तृ- पटलगमनयोग्यतासंपादकशक्ति: का? इत्यत आह-परमेश्वरसत्तेति। परेषां जीवानामीश्वरो विष्णुः; तत्सत्ता सामर्थ्यम्। गन्तृनिरालम्बमार्गगमनशक्तिप्रदतया पट्वीत्यर्थः ॥ साङ्कुशार्चिरादयुक्त्वा ब्रह्ममात्रप्रापकोपायमाह-सत्यसिद्धयोगो मठ इति। "सन्मात्रमसदन्यत्" इति श्रुतिसिद्धसन्मात्रोऽ्हमिति भावनैव योगः । तद्योगविश्रान्तिस्थानं विदेहकैवल्यमेव मठः। तदेव निर्विशेष ब्रह्मप्रापक-

Page 155

निर्वाणोपनिषत् १४५ मार्ग इत्यर्थः ॥ किं तन्मार्गद्वयप्राप्यममरपदम् ? तत्राह-अमरपदं न तत्स्व- रूपमिति। न हि मार्गद्वयगम्यममरपदं स्वर्गो भवितुमर्हतीत्यर्थः ॥ तथा चेत् तत् किम् ? इत्यत आह-आदिब्रह्म स्वसंविदिति। सर्वादित्वादादिकारणं ब्रह्म। कार्यसापेक्षकारणतापि नास्तीति या संविदुदेति सैवादिब्रह्म। स्वसंवित् स्व- मात्रज्ञानत्वरूपमित्यर्थः; "विज्ञानमानन्द ब्रह्म" इति श्रुतेः ॥ मुमुक्षुभिः केन रूपेणात्मा ध्येय:१ इत्यत्राह-अजपागायत्रीविकारदण्डो ध्येय इति। मूलाधारप्रभवोच्छासनिश्वासात्मिका हंस: सोऽहमिति भावनामयी अजपेत्यु- च्यते। गायन्तं त्रायत इति गायत्री स्वाविद्याद्वयतुर्याशरूपा। स्वाविद्याद्वय- स्थूलादिचतुरशोऽपि तद्विकारः तत्सर्वापह्ववसिद्धपरमात्मैवाजपागायत्री विकार- दण्डः परिव्राजकैः निष्प्रतियोगिकस्वमात्रतया ध्येय इत्यर्थः ॥ एवं ध्यातुः परमहंसपटलस्य शीतादिद्वन्द्वत्राणनकरकन्था का? इत्यत आह-मनो- निरोधिनी कन्थेति। मनः स्वाविद्यातत्कार्यम्। तन्निरोधिनी ब्रह्मविद्या ; सैव कन्था; विद्यायाः स्वाविद्याविकल्पितशीतादिग्रासत्वात् । विद्यया कि दर्शनी- यम् ? इत्यत आह-योगेन सदानन्द स्वरूपदर्शनमिति। प्रत्यकपरचितोरैक्यं योगः। तेन संजातसदानन्दस्वरूपदर्शनं विद्यानिष्पन्नमित्यर्थः ॥ एवंदर्शन- संपन्न: किमश्रातीत्यत आह-आनन्दभिक्षाशीति ॥ निर्विकल्पकावस्थायां स्वानन्दातिरित्तग्राम्यभिक्षाया असंभवात्। तन्निवासभूमि: केत्यत आह-महा- शमशानेऽप्यानन्दवने वास इति। महाश्मशाने काश्यां तत्राप्यानन्दवने ब्रह्म- नालादिप्रदेशे वासो वसतिः कर्तव्येत्यर्थः । यद्वा महदादिपञ्चभूतभौतिकजात- भस्मीकरणहेतुत्वान्महाशमशानं प्रत्यक्चेतन्यम्। गाढभूमानन्दः आनन्द- वनम्। तस्मिन् महाश्मशानेऽप्यानन्दवने प्रत्यगभिन्ने परमात्मनि स्वे महिम्रि स्वावशेषतया वासो वसतिर्भवेदित्यर्थः ॥ तत्सदनं कुत्रेत्यत्राह-एकान्त- स्थानमठमिति। स्वेतरजनसंबाधशून्यमेकान्तस्थानं, तदेव मठं सदन मित्यर्थः ॥ तस्य चेष्टा का? इत्यत आह-उन्मन्यवस्था शागदा चेष्टेति। समाहितदशायामुन्मनी निर्विकल्पकावस्था। ततो व्युत्थानदशायां सर्ववेदा- न्तार्थप्रकाशिनी शारदा ब्रह्मविद्या चेष्टेत्यर्थः ॥ तद्गतिः कुत्र? इत्यत्राह- 10

Page 156

१४६ संन्यासोपनिषदः

उन्मनीगतिरिति। पदे पदे निर्विकल्पकरूपायामुन्मन्यां गतिर्धावनम्।। तत्पीठं किम्! इत्यत्राह-निर्मलगात्रं निरालम्बपीठमिति। उन्मन्यवस्थारूढस्य यते: निर्मलगात्रं निर्विशेषज्ञानं ब्रह्ममात्रगोचरत्वं निगलम्बत्वं तत्र पीठमा- सनमित्यर्थः ॥ तत्क्रिया कीदशीत्यत्र-अमृतकल्लोलानन्दक्रियेति। अमृत- कह्ोलवदानन्दसागर इव महागम्भीरतैव क्रिया; परमार्थतो निष्क्रियत्वात् ॥ तन्सिद्धान्त: कः? इत्यत्र-पाण्डरगगनमहासिद्धान्त इति। पाण्डरशब्देन चिदुच्यते। सैंव गगनं चिदाकाशम्। तत् स्वमात्रमिति निश्चयो महासिद्धान्तः॥ एवं सिद्धान्तोपदेशः स्वाराज्यप्रापक इत्याह-शमदमादीति। यथोक्ताधिकारि- शिष्योद्देशेन देशिकोपदिष्टो मनुः प्रणवादि: ; तस्य स्वातिरिक्तास्तित्वत्रमतः संतारणात् तारकत्वम्। एवं तारकोपदेशः शिष्याणां शमादिसाधनसंपत्तिपुर :- सरं प्रत्यक्परचिदैक्यहेतुः । तद्था स्वान्तरिन्द्रियनिग्रहः शमः । बाह्येन्द्रिय- निग्रहो दमः। आदिशव्देन उपरत्यादिसाधनजातं गृह्यते। एवं साधनजातस्या- सुरसंपद्ग्रासदेवीसंपत्प्रापकत्वात् दिव्यशक्तित्वं तदाचरणं तदनुष्ठानम्। तन्निर्वर्त्यशरीरं क्षेत्रं सर्वसाधनप्ररोहभूमित्वात्। तत्र शब्दादिविषयमदिरापातारं जीवं तन्मदिरावासनातो विमुखीकृत्य पालनात् त्राणात् पात्रम् अन्तःकरणम्; तथो: क्षेत्रपात्रयोः श्रवणादिसाधनानुष्ठानकरणसामर्थ्य पटुता; तद्वेतुः आचा- रयोपदिष्ठतारक इत्यर्थः ॥ तारकप्रतिपाद्यदेवता का ? इत्यत्राह-अद्वैतसदा- नन्दो देवतेति। शिष्याचार्यजप्तृजपादिकलनाग्रासमद्वैतं ब्रह्म तत्स्वरूपभूतो योऽयमानन्दः तस्य देदीप्यमानरूपत्वात् देवतेति संज्ञा। न हि सातिशया देवतास्तीत्यर्थः ॥ तदात्युपायनियमः क :? इत्यत्र-नियमः स्वान्तरि- न्द्रियनिग्रह इति। स्वस्यान्तरिन्द्रियमन्तःकरणम्। तद्यथा कामादिवृत्त्या- कारेण न परिणम्यते तथा 'ब्रह्माहम्' 'अह्मेव ब्रह्म' इति निग्रहो ब्रह्माकार- परिणतिः, सैव नियमः । तथाच स्मृति :- "विषयेभ्यः परावृत्य करणग्राममञ्जसा। ब्रह्माकारेण युज्यस्व तद्गिते नियमो भवेत्" ॥

Page 157

निर्वाणोपनिषत् १४७

इति। एवं नियमवता त्यक्तवयं किमित्यत्राह-भयमोहशोकक्रोधत्यागस्त्याग इति। जीवेशभिदासमुद्भतं भयम्, देहादावात्मबुद्धिर्मोहः, स्वाभिलवषित वस्त्व - पायज: शोकः, कामापूग्णसंजातः क्रोधः; तेषां त्याग: संन्यास एव त्याग: ; तेनैव ज्ञानगरिपन्थि सर्वे त्यक्तमित्यर्थः ॥ एवं त्यागतः किं स्यात् ? इत्यत आह-परावरैक्यरसास्वादनमिति। तत्त्यागतो जीवेश्वरैक्यरसास्वादनं भवेदित्यर्थः ॥ एवं रसास्वादनतः कि भवेत् ? इत्यत आह-अनियामकत्व- निर्मलशक्तिरिति। ईश्वरेण स्वस्वकार्ये नियम्यत इति नियम्यं जीवजातम्। तदन्तर्यामी नियामक ईश्वरः । तयो: मायिकत्वेन तदतीतत्व्रम् अनियामकत्वं सर्वसाक्षित्वम्; तस्य नियम्यनियामकभिदाग्रासत्वात्। तदेव निर्मलशक्ति: सर्वावभासकत्वसामर्थ्यमित्यर्थः ॥ एवं शक्तितः कि भवेत्? इत्यत आह- स्वप्रकाशत्रह्मतत्व इति। स्वाविद्याद्वयतत्कार्यापह्ववसिद्धे स्वप्रकाशमात्रे ब्रह्मतत्वे तदजैः शिवशक्तिसंपुटितप्रपश्चः समारोपितः । तत्रत्यसच्चित्मुखं शिवांशः। नामरूपे सच्चित्सुखावृती शक्त्यंशः । तयोश्चिदचितोस्तेजस्तिमिरवत् परस्परविरुद्धयोः योगो मायया संघुटितः यो घटपटादिप्रपञ्चः, तस्योच्छेदनम् 'अहं ब्रह्मास्मि' इति ज्ञानासिना यथा भवेत्, तथा ब्रह्मसम्यग्ज्ञानाग्निना पत्राक्षाक्षिकमण्डलभावाभावदहनं भवेदित्यर्थः । स्वकार्यजातं परितः आवृत्य त्रायते गोपायतीति जीवेशभ्रान्तिजतादात्म्यास्पदं व्यष्टिसमष्टिकारण- शरीरं पत्रमित्युच्यते। तत्कार्य विशत्यवयवश्ोभिजीवेशसहजतादात्म्यास्पदं व्यष्टिसमष्टिलिङ्गशरीरमक्षमित्युच्यते। तत्कार्यतया जीवेशकर्मजतादात्म्यास्पदं व्यष्टिसमष्टिपिण्ड ब्रह्माण्डाख्यस्थूलशरीरमक्षीत्युच्यते। एवं पत्राक्षाक्ष्यभिध- शरीरत्रयं येषां ते पत्राक्षाक्षिकाः प्राज्ञतजसविश्वाभिन्नेश्वरसूत्रविराजः । तेषां मण्डलं पटलं स्वदष्ट्या एतत् सर्व साक्ष्यजातं साक्षिभास्यं साक्ष्यसापेक्ष- साक्षिताया अपि दहनं विलापनं भवेदित्यर्थः ॥ ततो ब्रह्म किरूपं बिभ- र्तीत्यत आह-बिभ्रत्याकाशाधारमिति। स्वाधेयाकाशादिपञ्चमहाभूततत्कार्या- धारत्वेन आधेयसापेक्षाधारतापह्ववसिद्धनिष्प्रतियोगिक ब्रह्ममात्रतया यदवशिष्यते स्वाज्ञादिदृष्टिमोहे सत्यस्ति तदेवंरूपं परमार्थदृष्ट्या बिभ्रति। य एवंवित् सोऽयं ब्राह्मणो ब्रह्मविद्वरीयान् मुख्यावघूतो भवतीति भावः ॥ शिखायज्ञो-

Page 158

१४८ संन्यासोपनिषद:

पवीतविरलानां कथं ब्राह्मणता? इत्यत आह-शिवं तुरीयं यज्ञोपवीतं तन्मया शिखेति। स्वातिरिक्ताशिवग्रासं शिवं तुरीयं तुरीयातीतं वा ब्रह्मैव यज्ञोपवीतं शिखा च शिवमया, शिवमयीत्यर्थः । तथा च श्रुति :- "शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ॥" इति। इत्थंभूतब्राह्मणदग्गोचरं जगदपि चिन्मयमित्याह-चिन्मयमिति । उत्सृष्टिः पर्वरतवृक्षलतागुञ्जादिसमष्टिः । तज्जातिगण्डं स्थावरम्। सम्यक् ततः संनत: विविधरूपत्वात् अक्षी स्थूलशरीरादिर्येषां ते सन्ततोक्षिका: जीवा: जङ्गमात्मकाः । तेषां मण्डलं पटलं चिन्मयमेव भवेदित्यर्थः; "जीवश्चि- न्नात्रविग्रहः" इति श्रुतेः; "यथा मृत्यिण्डसंभूतो घटादिः किं न मृन्मयः । तथा स्थिरचरं विश्वं चिन्मयं चित्समुद्धवात् ॥" इति स्मृतेश्र ॥ तद्दृष्या विश्वं चिन्मयमस्तु; तस्यापि शरीरत्रययोगतः सांसारिकी प्रवृत्ति: स्यादित्यत आह-कर्मनिर्मूलनमिति। स्वाविद्याद्वय- तत्कार्यशबपूगदहनयोग्ये रमशाने प्रत्यगभिन्नव्रह्मणि मुख्यावधूतत्वप्राप्तिहेतु-

ममकारत न्निव्त्यसंसाग्ध्वान्तस्य दहनमपह्ववगतत्वात् न पुनः तस्य संसारप्रवृत्ति- निवृत्तिध्वान्तोउस्ति नास्तीति का कथा? किमाश्चर्यमित्यर्थः। तथाप्यादेहपातं संसागनुव्ृत्तिः स्यादिति चेन्न; तस्य परदृष्टिनिमित्ततयाकिंचित्करत्वात् । दे हवारणमात्रसंसारो वा स्यादिति चेन्न; देहधारणमात्रसंसारस्य देहादावात्मा- त्मीयाभिमानाभावात् असंसारत्वात्; "दे हश्चिरं तिष्ठतु वा तत्काले लयमेतु वा। स्वज्ञानकालमुक्तस्य पुनः संसारिता कथम् ॥" इति स्मृतेः ॥ परमार्थदृष्या देहत्रयाभावे स कथं तिष्ठेत्? इत्यत आह- अनाहताङ्गीति। निष्प्रतियोगिकब्रह्ममात्रज्ञानेन आ समन्ताद्तमाहतम् अविद्या-

Page 159

निर्वाणोपनिषत् १४९ पदतत्कार्यजातमपह्वरूपं तस्याप्यपह्ववसिद्धमनाहताङ्गं तद्रूपेण स्थितत्वात् अयमनाहताङ्गी। ब्रह्ममात्रज्ञानसमकालमेव स्वशरीरत्रयमस्ति नास्तीति विभ्र- मस्यापह्नवगतत्वात् मुख्यावधूतो विदेहमुक्तो विचरेदित्यर्थः ॥ १-९८ ॥

गौणावधूतः, तच्चर्या, तत्फलं च

निस्त्रैगुण्यस्वरूपानुसंधानं समयं भ्रान्तिहननम्'। कामादि- वृत्तिदहनम्। काठिन्यदृढकौपीनम्। चिराजिनवासः । अनाहतमन्त्र- मक्रिययैव जुष्टम्। स्वेच्छाचारस्वस्वभावो मोक्षः ॥ ५० ॥

मुख्या वधूतलक्षणमेवमुक्त्वा गौणावधूतं तच्चर्यो तत्फलं च व्यक्तीकरोति -निस्त्रैगुण्येत्यादिना। सत्त्वादिगुणानां समाहारस्त्रगुण्यम्। स्वाविद्यापद- तत्कार्यजातं तदपवादाधिकरणं निस्त्रैगु यं 'ब्रह्माहम्' 'अहं ब्रह्म' इति भावनमनुसंधानम्। तदपि समयं समायमित्यर्थः । एवमनुसंधानस्य विद्या- वृत्तित्वेन ब्रह्ममात्रावृतिरूपत्वात् भ्रान्तित्वम्; तद्धननं नाशनं कुर्यादित्यर्थः । तथा कामसंकल्पादिवृत्तिदहनं विलापनं च। द्विविधत्रह्मचर्यहे तुमृदुकार्पास- कौपीनविलक्षणतया काठिन्यदृढकौपीनान्तरितशेपगतोध्वरेतस्त्वं च । शीतवातोष्णत्राणपटुवासोविलक्षणचिराजिनवासोदिगम्बरत्वं च । अना- हतमन्त्रं तुरीयोंकारं च; तुरीयोंकारस्य तुर्यतुर्यत्वेन केनाप्यनाहतत्वात् "तुरीयोंकाराग्रविद्योतं तुर्यतुर्यम्" इति श्रुतेः । अनाहतमन्त्रं तुर्यतुर्ये ब्रह्म। अक्रियया सर्वविक्रियापह्ववसिद्धया चिन्मात्रधिया जुष्ट सेवितम्। यद्वा गौणावधूतं ब्रह्मात्मेति मन्तारं त्रायत इति मन्त्रं सम्यग्ज्ञानं च स्वरूपानु- संधानतो भवेदित्यर्थः । गौणावघूतोऽप्येवं साधनसंपन्नश्चेत् मुख्यावधूतो भवति। तदा तस्य विधिनिषेधप्रवृत्तिनिवृत्त्यतीतत्वेन शिष्टशिक्षणरूपोऽयं स्वेच्छाचारो भवेत्। न तदुन्मार्गप्रापको भवितुमर्हति। सोऽपि स्वस्वभावः;

1 उ. उ १. भ्रान्तिहरणम् ·

Page 160

१५० संन्यासोपनिषद्:

क्रियाकारकबन्धग्रासत्वात्। स एव मोक्ष: ; स्वेतरकलनापह्ववसिद्धपरमात्म- रूपत्वात् ; "ब्रह्मैवास्मीति या वृत्तिः सैव योग इतीरिता। योगेन गतकामानां भावना ब्रह्म चक्षते ।।" इति स्मृतेः ॥ ५९ ॥ मुख्यावधूतोपायसंपत्ति:

परंब्रह्मप्तववदाचरणम्। ब्रह्मचर्यशान्तिसंग्रहणम्। ब्रह्मचर्या- श्रमेऽधीत्य वानप्रस्थाश्रमेऽवीत्य स सर्वविन्न्यासं संन्यासम्। अन्ते ब्रह्माखण्डाकारं नित्यं सर्वसंदेहनाशनम् ॥ ६० ॥

मुख्यावघूतत्वं यदुपायकं तदुपायसंपति तत्फलमपि प्रकटयति-परं ब्रह्मेत्यादिना। आदौ तावत् गृहस्थेतरो ब्रह्मचारी वानप्रस्थो वा स्वाश्रमाचार- संपन्न: सन् अपारगम्भीरविस्तारसंसारसागरोत्तारणार्थ सर्वस्मात् यत् परं तद्धह्म तद्रोचरज्ञानं परं ब्रह्म प्ृवं तद्वान् मुख्यावधूतः तदाचरणं तत्सेवनं कृत्वाथ तन्निकटे स्वचित्तशुद्धिपर्यन्तं द्विविधब्रह्मचर्यपुरःसरं गुरुकुलवासं कृत्वाथ शान्ति- दान्यादिग्रहणं साधनचतुष्ट्योपलक्षणार्थे तदभ्यस्याथ बाह्यान्तर्विक्षेपकबलित- श्रवणाद्यनुष्ठानानर्ह काम्याश्रममप्राप्यैव स्वाविद्याद्वयतत्कार्यग्राससर्ववेदान्तशास्त्रं स्वाचार्यमुखतो ब्रह्मचर्याश्रमे वानप्रस्थाश्रमे तुर्याश्रमे वा अधीत्याध्ययनं श्रवणं कृत्वाथ मननं निदिध्यासनं च मुख्यावधूतताहे तुपूर्वाभ्यस्तसाधनविन्याससहितं स सर्वविन्यासाधिकरणं कबलीकृतसर्वसंदेहादिवृत्तिपटलं देहत्रयाभिमानान्तकाले संन्यासमखण्डाकारं ब्रह्म भूत्वा मुख्यावधूतो विदेहमुक्तो भवतीत्यर्थः। "न्यास इति ब्रझ्म। न्यास एवात्यरेचयत् ।।" "अक्षरत्वाद्वरेण्यत्वाडूतसंसारबन्धनात्। तत्त्वमस्यादिलक्ष्यत्वादवधूत इतीर्यते ॥" "ब्रह्म वेद ब्रह्मैव भवति" इत्यादिश्रुतेः ॥ ६० ॥

Page 161

निर्वाणोपनिषत् १५१

अधिकारिनिरूपणम्

एतन्निर्वाणदर्शनं शिष्यं विना पुत्रं विना न देयम्। इत्यु- पनिषत् ॥ ६१ ॥

एतच्छास्त्रमनधिकारिणे न देयं, यथोक्तसाधनसंपन्नाय देयमित्युप- संहरति-एतदिति। एतन्निर्वाणदर्शनं निर्वाणोपनिषन्नामकं शास्त्रम् "नास्या- ब्रह्मवित् कुले भवति" इति श्रुत्या ब्रह्मवित्कुलप्रसूतस्य यथोक्तसाधनवैकल्येऽपि क्रमेण भवेदिति द्योत्यते। तस्मात् पुत्रो मुख्याधिकारी। यदि शिष्यो यथो- क्ताधिकारी तदा सोऽप्यधिक्रियते। यत एवमतः पुत्रं शिष्यं विना यस्मै कस्मैचिन्र देयमित्यर्थः; "नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वै पुनः" इत्यादिश्रुतेः । इत्युपनिषच्छब्दौ निर्वाणदर्शनसमाप्तिद्योतकौ ॥

निर्वाणोपनिषद्याख्या लिखिता हरितुष्टये। निर्वाणोपनिषद्याख्या पञ्चाशद्युक् शतद्वयम् ॥

निर्वाणोपनिषद्विवरणं संपूर्णम्

Page 162

परत्रह्मोपनिषत्

भद्रं कर्णेभि :- इति शान्तिः

वरिष्ठा ब्रह्मविद्या

अथ हैनं महाशालः शौनकोडङ्गिरसं भगवन्तं पिप्पलादं विधि- वदुपसन्नः पप्रच्छ। दिव्ये ब्रह्मपुरे संप्रतिष्ठिता भवन्ति खलु। कथं सृजन्नित्यात्मन एष महिमा विभज्य एष महिमा विभु: कः । एष तस्मै स होवाच। एतत् सत्यं यत् प्रब्रवीमि ब्रह्मविद्यां वरिष्ठां देवे- भ्य: प्राणेभ्यः परब्रह्मपुरे विरजं निप्कलं शुभ्रमक्षरं विरजं विभाति स नियच्छति 1मधुकरराश्या निर्मकः अकर्मस्वपुरस्थितः कर्मकः कर्षकवत् फलमनुभवति। कर्ममर्मज्ञाता कर्म करोति। कर्ममर्म ज्ञात्वा कर्म कुर्यात्। को जालं विक्षिपेदेके नैनमपकर्षत्यपकर्षति ॥ १॥

परित्राजकहृद्रेहं परितत्त्रैपदं भजे॥

व्यग्र इह खलु अथर्वणवेदप्रविभक्तेयं पर ब्रह्मोपनिषत् ज्ञानंशिखोपवीतप्रकटन- ब्रह्ममात्रपर्यवसन्ना विजृम्भते। अस्याः संक्षेपतो विवरणमारभ्यते।

1 उ. मधुकरः श्वेव विकर्मकः.

Page 163

१५४ संन्यासोपनिषद:

शौनकंपप्पलादप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था। आख्यायिका- मवतारयति-अथेति। पप्रच्छ किमिति। लोके ये ये सृज्यमानाः पदार्थाः, ते सर्वे पूर्वमेव दिव्ये ब्रह्मपुरे हिरण्यगर्भहृदयाकाशे संप्रतिष्ठिता भवन्ति खलु। तत्राक्षिपति-कथमिति। स्वान्तःस्थपदार्थान् विभागशः प्रविभज्य एव महिमा अघटितघटनाशक्तिसंपन्नो भगवान् स्वात्मनः सकाशात् कथं तान् सृजन्नवतिष्ठते। क एष महिमा विभुरिति शौनकप्रश्नोत्तरमेष पिप्पलाद आह्-एष इति। य एष पिप्पलाद इति ख्यातः तस्मै शौनकाय स होवाच। किमिति। यदहं ते वरिष्ठां ब्रह्मविद्यां प्राब्रुवि, तदेतद्रह्म सत्यम्; असत्यासंभवप्रवोधसिद्धत्वात्; "पश्यतेहापि सन्मात्रमसदन्यत् " "ब्रह्म मात्रमसन्न हि" इति श्रुतेः । तत् कुत्रोपलभ्यत इत्यत्र ब्रह्मपुरे रजआदिगुण- त्नयाभावाद्विरजं प्राणादिनामान्तषोडशकलावैरल्यान्निष्कलम्, अत एव शुभ्र- मक्षरं विभाति। कि कुर्वन् विभातीत्यत्र श्रोत्रादिदेवेभ्यः इन्द्रियेभ्यः प्राणा- पानादिदशप्राणेभ्यश्च स्वस्वनिषयग्रहणशक्ति दिशत् सत् तद्गतगुणदोषा- स्पर्शनतो विरजं विभाति प्रत्यग्दृष्टेरेवं सदोपलभ्यत इत्यर्थः । पराग्भावे सति प्रत्यगदृष्टि: कथमुदेति इत्यत्र इहामुत्रार्थफलहेतुमध्वाख्यानि कर्माणि कुर्वन्तीति मधुकरा: जीवाः । तेषां राशि: समूहः । आभूतसंपुवं बन्धमोक्षव्ववहाराहतया निर्मितवानिति निर्मकः । य एवं निर्माता परमेश्वरः, स एव मुमुक्षुपटला- नुकम्पया तद्रतपराग्भावं नियच्छति निगृह्लाति निःशेषं ग्रसति। ततो मुमुक्षूगां प्रत्यगदृष्टिः प्रसीदति ; प्रत्यग्दृष्टेः ब्रह्मोपलभ्यत इत्यर्थः । स्वात्मानं पुरस्कृत्य तद्धावभावनया तिष्ठतीति स्वपुरस्थितः प्रत्यग्दृष्टिः किंकर्मा इत्यत्र स्वकर्तव्यकर्म- सामान्यं यस्य "कर्मणा बध्यते जन्तुविद्यया च विमुच्यते। तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥"

इति श्रुत्यर्थपर्यालोचनया न स्फुरति सोऽयमकर्मकः; परिव्राडित्यर्थः । तस्य कृतकृत्यत्वात् ; "कर्ततयं नैव तस्यास्ति" इति श्रुतेः । तद्विपरीतपरागदृष्टिस्तु स्वेहामुत्रफलोद्देशेन विविधं कर्मजातं करोतीति कर्मकः कर्मकृत् कर्षकवत्

Page 164

परब्रह्मोपनिषत् १५५ स्वकृतोच्चावचकर्मफलं नानायोनिजन्मप्रापकमनुभवति। यत एवमतः कर्ममर्म जन्मादिहेतुः कर्मेति ज्ञाता पुरुषः चित्तस्य शुद्धये कर्मेति विदित्वा परमेश्वराराधनधिया कर्म करोति। यः स्वातिरित्तभ्रमतो मोक्तुमिच्छति, स मुनिः कर्ममर्म ज्ञात्वा निष्कामधिया स्वाश्रमोचितकम कुर्यात्। एके एकस्मिन् ब्रह्मणि निष्णातः को वा विवेकी विविधकर्मजालं विक्षिपेत् निर्विशेषब्रह्म- ज्ञानप्रापकचित्तशुद्धिहेतुनिष्कामकर्मानुष्ठानं विना मुधा काम्यकर्म कुर्यात्? कोऽपि न कुर्यादित्यर्थः । निष्कामधिया अनुष्ठितकर्माप्येनमधः कर्षतीत्यत आह-नेति। एनं निष्कामधिया कर्मानुष्ठातारं तदनुष्ठितकर्म सांसारिकविषये जात्वपि नैवापकर्षति। द्विरुत्तितः स्वानुष्ठानतः चित्तशुद्धिप्राप्यज्ञानद्वारा महत्पदं प्रापयेत् इति द्योत्यते ॥ १ ॥

त्रिपा ङ्कह्मप्रापकोपायः

प्राणदेवताश्चत्वारः। ताः सर्वा नाड्यः सुषुप्तश्येनाकाशवत्। यथा श्येन: खमाश्रित्य याति स्वमालयं कुलायम्। एवं सुपुप्तं बूतायं च परं च। स सर्वत्र हिरण्मये परे कोशे अमृना ह्यवा नाडीत्रयं संचरति। तम्य त्रिपादं ब्रह्म एषात्रेष्य ततोऽनुतिष्ठति। अन्यत्र ब्रूतायं च परं च। सर्वत्र हिरण्मये परे कोशे यथैष देवदत्तो यष्टया च ताड्यमानो नैवेत्येवमिष्टापूर्तशुभाशुभैन लिप्यते। यथा कुमारको निप्काम आनन्दमभियाति। यथैष देवः स्वम् आनन्दमभिधावति। वेद एव परं ज्योतिः। ज्योतिषा मा ज्योतिरानन्दयत्येवमेव। तत्परं यच्चित्तं परमात्मानमानन्दयति। शुभ्रवर्णमाजायतेश्वरात्। भूयस्तेनैव मार्गेण स्वम्नस्थानं नियच्छति। जलकाभाववद्यर्थाकाममाजायतेश्वरात्। ताव- तात्मानमानन्दयति। परसन्धि यदपरसन्धीति। तत्परं नापरं त्यजति।

Page 165

१५६ संन्यासोपनिषदः

तदैवं कपालाष्टकं संधाय य एष स्तन इवावलम्बते। सेन्द्रयोनि: स वेदयोनिरित्यत्र जाग्रति। शुभाशुभातिरिक्तः शुभाशुभैरपि कर्मभिर्न लिप्यते। य एष देवोऽन्यदेवस्य संप्रसादोऽन्तर्याम्यसङ्गचिद्पः पुरुषः प्रणवहंसः परं ब्रह्म न प्राणहंस: प्रणवो जीवः । आद्या देवता निवेद- यति। य एवं वेद। तत्कथं निवेदयते। जीवस्य ब्रह्मत्वमापाद- यति॥ २ ॥

निर्विशेषब्रह्मज्ञानप्राप्यत्रिपाद्रह्मप्रापकोपायः कः? इत्यत आह- प्राणेति। यन्निष्कामकम नापकर्षति; किंतु चित्तशुद्धिजज्ञानद्वारा ब्रह्मपदं प्रापयतीत्युक्तं तद्रह्म कीःशम्, तदात्युपायश्च कीदृश इत्यत्र जीवस्य प्राणाधार- तया विश्वादितुरीयान्तभेदेन प्राणदेवताश्चत्वारः चतस्रः । तास्तासामुपलब्धि- नाडयोऽपि रमारमेच्छापुनर्भवादिभेदेन चतस्र एव। तत्र रमारमाख्यनाडीद्वय- मवष्टभ्य खे संचारश्रान्तश्येनवत जाग्रत्स्वप्रव्यवहारश्रान्तः सुषुप्तो भवति। तत्र दृष्टान्तस्तु यथा श्येनः खमाश्रित्य चिरसंचारतः श्रान्तः सन् स्वनीडं प्रति याति, तथैवं ब्रूता वक्ता जीवोऽपि अयं जाग्रत्प्रपञ्चस्तदपेक्षया परं च स्वप्नप्रपञ्चस्तयोर्व्यवहृत्य श्रान्तः सन् स्वविश्रान्तिस्थानं नाडीद्वयमेत्य सुषुत्ो भवति। सोडयं क्व सुषुप्तश्चरतीत्यत्र "यावान् वा अयमाकाशस्तावानेषोऽन्त- हृदय आकाशः" इत्यादिशुत्यनुरोधेन सर्वत्र सर्व्यापके हिरण्मये परे कोशे हृदयाकाश वस्तुतोऽमृता ह्वेषा जीवरूपिणी देवता रमादिनाडीत्रयमवष्टभ्य जाग्रदाद्यवस्थात्रये बन्धमोक्षादिव्यवस्थायां च यः संचरति तस्यैकपदमाविद्यकं तत्संबन्धवैग्ल्येन त्रय्यन्तैः पद्यते स्वावशेषेण त्रायत इति त्रिपादं त्रैपदं ब्रह्मावशिष्यते इत्यत्र "त्रय्यन्तेः स्वावशेषेण पद्यते जायते च यत्। तत् त्रेपदं परं ब्रह्म स्वमात्रमवशिष्यते ॥ " इति स्मृतेः । यदेवमवशिष्टमत्रैवैषा जीवाख्या देवता स्वरूपमेष्य प्राप्य ततस्तन्मात्रमनुतिष्ठति अवतिष्ठते मुक्तो भवति। ततस्तस्मादन्यत्राविद्यकपदे

Page 166

परव्रह्मोपनिषत् १५७ अयं च परं चेत्युपलक्षितावस्थात्रयतत्कार्यप्रपश्चे स्वातिरिक्तमस्तीति ब्रूता स्वाज्ञो जीव: परिभ्रमति। सर्वत्र सर्वदायं हिरण्मये परे कोशे चिरं चरन्नपि स्वाज्ञानावरणच्छन्नः सन् जाग्रदाद्यवस्थात्रयगर्ते पतति। तस्यापि श्रुत्याचार्य- प्रसादतो निष्कृतिर्भवेत् इत्यत्र दृष्टान्तः-यथेष देवदत्तो निद्रालुर्यध्ट्या च ताड्यमान: सन् बोधितः पुनः नैव सहसा स्वापमेति, तथा अयमपि जीवः श्रुत्याचार्यप्रसादलब्धवेदान्तज्ञानेन 'न त्वमवस्थात्रयभाक् जीवः, किंतु तदवस्थात्रयारोपापवादाधिकरणं ब्रह्मासि' इति बोधितः सन् न पुनरवस्थात्रये मुह्यति। तत्र विकल्पितेष्टापूर्तादिशुभाशुभकर्मभिः न लिप्यते। यथा वा कुमारो बालकः इदं मे स्यादिति कामवृत्त्यनुदयान्निष्कामः यदृच्छाप्राप्तवम्तुनि आनन्दमभियाति। यथा चैष संप्रसादो देवः स्वन्ने जागरे च व्यवहरन् श्रान्त: स्वापावस्थानिष्पन्नानन्दं प्रत्यभिधावति, तथैवं श्रुत्याचार्यमुखतः स्वानन्दमात्रं ब्रह्माहमस्मीति यो वेद सोज्यमेवं पराक्प्रपञ्चतः परंज्योतिः प्रत्यक्प्रकाशो भूत्वा सूर्यादिज्योतिषामप्या समन्तात् भासकज्योतिरस्मी- त्यात्मानमानन्दयति स्वानन्दरूपेणावतिष्ठते। एवमेव यच्चित्तं तन् परंब्रह्माकार- परिणतं भवति तत्परमात्मानमेत्यानन्दयति स्वात्मानं प्रीणयति, तत्परवशं सत् तत्रैव विलीयत इन्यर्थः । एवं चित्तप्रसाद: कुतो जात इत्यत्र ईश्वरादस्य शुभ्रवर्ण वर्णो निर्विकल्पभाव आजायते ईश्वगस्याजडक्रियाज्ञानेच्छाशकिमत्त्वेन स्वभक्तारिष्टय्रासेष्टप्रापकत्वात्। एवं त्रिपुटीविरलनिर्विकल्पकसमाधिमनुभूय भूयस्तेनैव मार्गेण स्वप्नस्थानं 'तत्त्वमसि', 'अहं ब्रह्मास्मि' इति किंचित् त्रिपुटीविशिष्टाखण्डाकारवृत्त्यात्मकतुर्यस्वमं प्राप्य तत्रात्मानं नियच्छति विश्रामयति। यथा जलूका स्वाधिष्ठिनभावात् तृणात् भावं तृणान्तरं गच्छति, तथा अयमपि विद्वान् तुर्यजागरणस्थः तुर्यस्वप्रमवलम्व्य तुर्यजागरणं त्यजति। एवं तुर्यावस्थाप्रविभक्तावस्थात्रयसंचरणे कामं कामोऽभिलाषः आजायतेश्वरात्। तावतायं सविकल्पकनिर्विकल्पकसमाधिभ्यां स्वात्मान- मानन्दयति। ततः प्रत्यक्परचितोर्यः सन्धिः तयोरैक्यं तद्वेदसापेक्षेक्यमपर- मीषत् विशेषवदिति सन्धीति संत्यजति। यदेवं निर्विशेषं जातं तदेव

Page 167

१५८ संन्यासोपनिषद:

परब्रह्म तदतिरेकेण नापरमस्ति। यद्वा स्वातिरित्तमपरमस्तीति न त्यजति; ब्रह्म- मात्रस्य निष्प्रतियोगिकत्वात्। यदैवं के वलश्रवणादिमात्रेण निर्विशेषब्रह्मज्ञानं नोदेति तदेवम्। कं परमसुखमसुखकामादिवृत्तिभ्यः पृथक्कृत्य पालयन्तीति कपालानि योगाङ्गानि। तेषामष्टकं यमनियमासनप्राणायामप्रत्याहारधारणा- ध्यानसमाध्यात्मकं कपालाष्टकमष्टाङ्गयोगमनुसंधाय यथावदभ्यस्य तद्वलेन चित्तगतमालिन्यं संक्षाल्य निर्विशेषज्ञानमवाप्य कृतकृत्यो भवतीत्यर्थः । योग- ध्यानाधिकरणं किमित्यत्र य एष स्तन इव कदलीपुष्पमिव च उरःप्रदेशे सदा अवलम्बते सोऽयं योगकाले ऊर्ध्वमुत्तिष्ठन् विकासमेति। अत्र हि खलु इन्द्रयोनिना ब्रह्मणा सह वर्तत इति सेन्द्रयोनिः। य इन्द्रयोनिरित्युक्त: सोडयमीश्वरो वेदयोनिरिति सर्वेर्गीयमानः परमेश्वरो जाग्रति जागर्ति। य एवं स्वहृत्कमलासनस्थमीश्वरमनुध्यायति, स विद्वान् शुभाशुभातिरिक्तः सन् कादाचित्कप्रसक्तशुभाशुभेरपि कर्मभिः न लिप्यते। यद्धयायी शुभा- शुभातिरिक्तः स देवः कीदृश इत्यत्र अन्यदेवस्य ब्रह्मादेरपि य एष एव हि देवः, "तं देवतानां परमं च दैवतम्" इति श्रुतेः । ध्यायिध्येययो- रभेदार्थ य एष देवः सोऽयं संप्रसाद: अन्तर्याम्यसङ्गचिद्रूपः पुरुषः स एव प्रणवार्थतुर्यतुर्यहंस: परं ब्रह्मेत्युच्यते। अत्र न प्राणहंसो मुख्यः प्राणो विवक्षितः ; परब्रह्मप्रकरणत्वात्। प्रणवो जीवः प्रणवाद्यवयवाकारवाच्यत्वात् तत्स्थितिराद्या देवतेति निवेदयति। य एवं प्रणवयाधात्म्यं वेद तत् कथं स कथं जीवब्रह्मणोः भेदं निवेदयते निवेदयति। किंतु जीवस्य ब्रह्मत्वमापादयति ; जीवब्रह्मणोः भेदं कदापि न ददाति स्मरति वेत्यर्थः ॥ २ ॥

अन्तर्बाह्यशिखादिलक्षणम्

सत्त्वमथाम्य पुरुपस्यान्तःशिखोपवीतित्वम्। ब्राह्मणस्य मुमुक्षो- रननःशिखोपवीतधारणम्। बहिर्लक्ष्यमाणशिखायज्ञोपवीतधारणं कर्मिणो गृहस्थस्य। अन्तरुपवीतलक्षणं तु बहिस्तन्तुवदव्यक्तमन्तस्तत्त्वमेल-

नम् ॥ ३ ॥

Page 168

परब्रह्मोपनिषत् १५९ अन्तर्बाह्यशिखायज्ञोपवीतलक्षणमुच्यते-सत्त्वमिति। अथ प्रत्यगभिन्न- ब्रह्मभावानन्तरमस्य पुरुषस्य ब्रह्मीभूतस्य यत सत्त्वं तदेवान्तःशिखोपवीतत्वं निर्विशेषज्ञानमित्यर्थः । तद्धारणं कस्य? इत्यत्र स्वान्तर्विद्योतमानज्ञानशिखो- पवीतधारणमकर्मिणो ब्राह्मणस्य मुमुक्षोरेव। बाह्यशिखोपवीतधारणं कस्य? इत्यत्र बहिलक्ष्यमाणशिखायज्ञोपवीतधारणं कर्मिणो गृहस्थस्य। बाह्यवदा न्तरं व्यक्तं न भवतीत्याह-अन्तरिति। अन्तरुपवीतलक्षण तु वहिस्तन्तुवद- व्यक्तं व्यक्तं न भवति; निर्विशेषब्रह्मज्ञानस्य मनोवागतीतत्वात् । यदि अन्त- स्तत्त्वमेलनं स्वाविद्याशबलब्रह्मगोचरं स्यात्तदा ॥ ३ ।। निर्विशेष्रह्म स्वरूपम्

न सन्नासन्न सदसद्भिन्नाभिन्नं न चोभयम्। न सभागं न निर्मागं न चाप्युभयरूपक्म्। ब्रह्मात्मैकत्वविज्ञानहेयं मिश्यात्वकारणात् ॥।४॥ इति। तत्राविद्यांशमनेकोपपत्तिभिः मिथ्येति निरस्य निर्विशेषत्वमापादयेदि- त्याह-न सदिति। यदविद्यास्वरूपं तन्न सत्; कारणरूपेणाचाक्षुषत्वात्। तथा नासन; कार्याकारेण चाक्षुषत्वात्। न सदसत्; तयोरेकत्रानवस्थानात्। तत् कि स्वभिन्नम; स्वपृथक्सत्ताभावात्। तत् कि नाभिन्नम; अवस्तुत्वात्। न च भिन्नाभिन्नम्; दुर्लभत्वात्। न सभागम ; कारणात्मना निर्वयवत्वात्। न निर्भागम् ; कार्यात्मना सावयवत्वात्। न चाप्युभयरूपकम् ; पूर्वोक्तविरोधा- पत्तेः। एतावता अनिर्वचनीयत्वमस्योक्तंभवति। तथा चेदिदमपि ब्रह्मवत् सत्पद- मर्हतीत्यत्र याबद्भह्मात्मेकत्वज्ञानंनोदेति, तावदस्य सत्त्वम्; जाते तु ब्रह्मात्मैकत्व- विज्ञानेऽस्य मिथ्यात्वकारणात् ब्रह्मातिरिक्तं नेत्यपह्नवपदमेव भजेदित्यर्थः॥४॥ कर्मणः चित्तशुद्धिप्रापकत्वम् पञ्चपादब्रह्मणो न किंचन। चतुप्पादन्तर्वर्तिनोऽन्तर्जीवब्रह्मणः स्थानानि चत्वारि। नाभिहृदयकण्ठमूर्धसु जागत्स्वप्रसुषुप्तितुर्यावस्थाः,

Page 169

१६० संन्यासोपनिषद:

आहवनीयगार्हपत्यदक्षिणसभ्यामिषु। जागरिते ब्रह्मा, स्वमे विष्णुः, सुषुप्तौ रुद्रः, तुरीयमक्षरं चिन्मयम्। तस्माच्तुरवस्था चतुरङ्गुल- वेष्टनमिव षण्णवतितत्त्वानि तन्तुवद्विभज्य, तदाहितं त्रिगुणीकृत्य द्वान्रिं- शत्तत्त्वनिष्कर्षमापाद्य, ज्ञानपूतं त्रिगुणस्वरूपं त्रिमूर्तित्वं पृथग्विज्ञाय, नवब्रह्माख्यनवगुणापेतं ज्ञात्वा, नवमानमितं त्रिः पुनस्त्रिगुणीकृत्य सूयें- न्द्ूमिकलास्वरूपत्वेनैकीकृत्य, आद्यन्तकत्वमपि मध्ये त्रिरावर्त्य ब्रह्म- विष्णुमहेश्वरत्वमनुसंधाय, आद्यन्तमेकीकृत्य चिद्ग्रन्थावद्वैतग्रन्थि कृत्वा, नान्यदिब्रह्मबिलप्रमाणं पृथक्पृथक्सप्तविंशतितत्त्वसंबन्धं त्रिगुणोपेतं

आद्यन्तग्रहसंमेलनमेवं ज्ञात्वा मूलमेकम्, सत्यं मृन्मयं विज्ञातं स्या- द्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्, हंसेति वर्णद्वयेनान्तः- शिखोपवीतित्वं निश्चित्य, ब्राह्मणत्वं ब्रह्मध्यानार्हत्वम्, यतित्वमलक्षि- तान्तःशिखोपवीतित्वम्, एवं बहिर्लक्षितकर्मशिखाज्ञानोपवीतं गृहस्थ- स्य, आमासब्राह्मणत्वस्य केशसमूहशिखाप्रत्यक्षकार्पासतन्तुकृतोपवी- तित्वम्। चतुः चतुर्गुणीकृत्य चतुर्विशतितत्त्वापादनतन्तुकृत्त्वम्, नव- तत्त्वमेकमेव परं ब्रह्म, तत्प्रतिसरयोग्यत्वाद्वहुमार्गवृत्तिं कल्पयन्ति। सर्वेषां ब्रह्मादीनां देवर्षीणां मनुप्याणां मुक्तिरेका ब्रह्मैकमेव ब्राह्मण- त्वमेकमेव। वर्णाश्रमाचारविशेषा: पृथकपृथक्, शिखा वर्णाश्रमिणामेक- मेव, अपवर्गस्य यतेः शिखायज्ञोपवीतमूलं प्रणवमेकमेव वदन्ति। हंसः शिखा, प्रणवमुपवीतम्, नादः संधानम्। एष धर्मो नेतरो धर्मः ।

Page 170

परब्रह्मोपनिषत् १६१

तत् कथमिति। प्रणवो हंसो नादरित्रवृत्सूत्रं स्वहृदि चैतन्ये तिष्ठति। त्रिविधं ब्रह्म तद्विद्धि। प्रापश्चिकशिखोपवीतं त्यजेत् ॥ ५॥

स्वातिरिक्ताविद्यारूपमस्ति नास्तीति भ्रान्ति: पश्चपादब्रह्मणः तुर्याती- तस्य न किंचनास्ति। व्यष्टिसमष्ट्यात्मकचतुष्पादन्तर्वर्तिनोऽन्तर्जीवब्रह्मण उप- लब्धिस्थानानि चत्वारि भवन्ति-व्यष्टिचतुष्पादन्तर्वर्तिनो विश्वतैजसप्राज्ष - तुरीयाः। समष्टिचतुष्पादन्तर्वर्तिनस्तु विराद्सूत्रबीजतुरीयाः। तेषामुपलब्धि- स्थानानि कानीत्यत्र नाभिहृदयकण्ठमूर्धसु नेत्रकण्ठहृदयमूर्धस्वित्यर्थः । तत्र जाग्रत्स्वप्रसुषुप्तितुर्यावस्था भवन्ति। तथाच श्रुति :-

"नेत्रस्थं जागरितं विद्यात् कण्ठे स्वमं समाविशेत्। सुषुप्तं हृदयस्थं तु तुरीयं मूर्त्नि संस्थितम" ॥ इति। किंच आहवनीयगार्हपत्यद क्षिणसभ्याग्निषु च यथायोगमात्मा भावयि- तव्य इत्यर्थः । जागरणादौ विभातचैतन्यभेदमाह-जागरित इति। बाह्ययज्ञ- सूत्रब्रह्मसूत्रयोरेकत्वावगमाय। नो चेत् बाह्ययज्ञसूत्रं दृष्टान्तीकृत्य ब्रह्मसूत्रं प्रपञ्च- यति-तस्मादिति। यस्माद्यज्ञब्रह्मसूत्रयोः सामानाधिकरण्यं भवति, सूत्रत्वा- विशेषात्, तस्मात् जाग्रदादिचतुरवस्थाचतुरङ्गुलवेष्टनमिव विभाव्य यथा यज्ञसूत्रं चतुरङ्गुलमानेन षण्णवतिसंग्यातं तथा षण्णवतितत्त्वानि श्रोत्रा- दीश्वरान्तानि। एवं यज्ञसूत्रं ब्रह्मसूत्रभावनाभावितं कर्मभिर्यदि धृतं तदा तत् कर्म चित्तशुद्धिप्रापकं भवेदित्यर्थः । ब्रह्मसूत्रप्रशंसनायास्य वाचारम्भणतामाह- मूलमिति। यन्मृदादिवत् कारणं तत् सत्यम्। यत्तत्तदज्ञानविज्ञम्भितं कार्य तद्वाचारम्भणम्; मृदतिरेकेण घटाद्यभावात् कारणं ब्रह्मव सत्यमिति। हंसेति वर्णद्वयेनान्तःशिखोपवीतित्वं निश्चित्य हंसः सोऽहम् इति भावनापूर्वकं सदा तन्निष्ठत्वमन्तःशिखोपवीतित्वम्। तेन कि स्यात् इत्यत्र ब्राह्मणत्वं ब्रह्मध्या- नाहत्वं यतित्वमलक्षितान्तःशिखोपवीतित्वं भवति। परिव्राडितरस्य तु एवमि- त्यादि। ब्रह्मसूत्रमेकमेव विश्वविराडोत्रादिभेदेन चतुश्चतुर्गुणीकृत्येति। 11

Page 171

१६२ संन्यासोपनिषद:

आद्यन्तयोर्निर्विशेषत्वेन मध्यमावस्थायामपि ब्रह्म निर्विशेषमेकमेवेत्यर्थः ; "यन्नादौ यच्च नास्त्यन्ते तन्मध्ये भातमप्यसत्" इति स्मृतेः । ब्रह्म निष्प्रति- योगिकमपि स्वाज्ञास्तदात्युपायं बहुधा कल्पयन्तीत्याह-तदिति। तस्य ब्रह्मण: स्वस्वबुद्धयनुरोधेन प्रतिसरणयोग्यत्वात्। प्रतिसरणं कल्पनाधिकरणम् ; तदवष्टभ्य तत्प्रापकोपायतया साङ्यादिबहुमार्गप्रवृत्ति कल्पयन्ति। तत्कल्पना- मात्रमेव सर्वापह्ववसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति ज्ञानसमकालम्। तन्मात्रावस्थानलक्षणमुक्तिस्तु सर्वेषां ब्रह्मादीनां देवर्षीणां मनुष्याणां निर्विशेष- ब्रह्ममात्रज्ञानं यदि जायते तदा तत्समकालीनविदेहमुक्तिरेका ब्रह्मकमेव ब्रह्म- निष्ठाप्रभवब्राह्मणत्वमेकमेव। अपवर्गस्य अपवर्गभा जनस्य। हंस: शिखा प्रणव- मुपवीतं विद्धि हंसप्रणवयोः नादः संधानम्। प्रणवः तुरीयोक्कारः तदर्थः। "तुर्यातीतं ब्रह्म हंस:" इति मन्त्रार्थस्तु प्रत्यक्परैक्यसिद्धः परमात्मा नादलया- धारोऽपि स एव प्रणवो हंसो नादश्च एतत् त्रयं त्रिवृत्सूत्रमित्युच्यते। तत् कुत्र आसनमहंति ? इत्यत्र स्वहृदि चैतन्ये तिष्ठति; स्वे महिम्नि स्वयं तिष्ठतीत्यर्थः । परापरभेदेन द्विविधं ब्रह्म तद्विद्धि। यदि स्वातिरिक्तिभ्रमतो मोतुमिच्छति, तदा मुमुक्षु: प्रापश्चिकशिखोपत्रीतं त्यजेत् ॥ ५ ॥

मुमुक्षुणा कर्तव्यानि

सशिग्वं वपनं कृत्वा वहिःसृत्रं त्यजेद् बुधः । यदक्षरं परं ब्रह्म तत् सूत्रमिति धारयेत् ॥ ६ ॥ पुनर्जन्मनिवृत्त्यर्थ मोक्षम्याहर्निशं स्मरेत्। सृचनात् सूत्रमित्युक्तं सूत्रं नाम परं पदम् ।।७।। तत् सूत्रं विदितं येन स मुमुक्षु: स भिक्षुकः । स वेदवित् सदाचारी स विप्रः पङ्क्तिपावनः ॥ ८॥

Page 172

परव्रह्मोपनिषन् १६३

येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव। तत् सृत्रं धारयेद्योगी योगविद् ब्राह्मणो यतिः ॥ ९।। बहिःमृत्रं त्यजेद्विप्रो योगविज़्जानतत्परः । ब्रह्मभावमयं सूत्रं धारयेद्यः स मुक्तिभाक्। नाशुचित्वं न चोच्छिष्टं तस्य सृत्रस्य धारणम् ॥ १० ॥ सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम्। ते तु सूत्रविदो लोके ते च यज्ञोपवीतिनः ॥ ११ ॥ ज्ञानशिखा ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेपां पवित्रं ज्ञानमीरितम् ॥ १२ ॥ अमेरिव शिखा नान्या यस्य ज्ञानमयी शिखा। स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ १३ ॥ कर्मण्यधिकृता ये तु वैदिके लौकिकेऽपि वा। ब्राह्मणाभासमात्रेण जीवन्ते कुक्षिपूरकाः । ब्रजन्ते निरयं ते तु जन्म जन्मनि जन्मनि ॥ १४ ॥ वामांसदक्षकट्यन्तं ब्रह्मसूत्रं तु सव्यतः । अन्तर्गनप्रमारूढं तत्त्वतन्तुसमन्वितम् । नाभ्यादिब्रह्मरन्ध्रान्तं प्रमाणं धारयेत् सुधीः ॥१५॥ तेभिर्धार्यमिदं सूत्रं क्रियाङ्गं तन्तुनिर्मितम्॥। शिखा ज्ञानमयी यम्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य नेतरेषां तु किचन ॥ १६ ॥

Page 173

१६४ संन्यासोपनिषद:

इदं यज्ञोपवीतं तु परमं यत् परायणम्। विद्वान् यज्ञोपवीती संधारयेद्यः स मुक्तिभाक् ॥ १७॥ बहिरन्तश्रोपवीती विप्रः संन्यस्तुमर्हति। एकयज्ञोपवीती तु नैव संन्यस्तुमर्हति ॥१८ ॥ तस्मात् सर्वप्रयत्नेन मोक्षापेक्षी भवेद्यतिः । बहिःसूत्रं परित्यज्य स्वान्तःसृत्रं तु धारयेत् ॥ १९॥ बहिप्प्रपञ्चशिखोपवीतित्वमनादृत्य प्रणवहंसशिखोपवीतित्वमवल- म्व्य मोक्षसाधनं कुर्यादित्याह भगवाञ्छौनक इत्युपनिषत् ॥२० ॥

सर्वापवादाधिकरणतया सूचनात् सूत्रमित्युक्तम्। शौनकः पिप्पलाद- मुखतो ब्रह्मतत्त्वमवगम्य स्वशिष्येभ्य एवमाहेत्यर्थः । इत्युपनिषच्छब्दः पर-

परब्रह्मोपनिषदो व्याख्यानं लिखितं लघु। प्रकृतोपनिषद्वयाख्याग्रन्थस्त्रिशोत्तरं शतम् ॥

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छ स्त्रविवरणे अष्टसप्रतिसंख्यापूर कं परव्रह्मोपनिषद्विवरणं संपूर्णम्

Page 174

परमहंसपरित्राजकोपनिषत्

भद्रं कर्णेभि :- इति शान्तिः

परिव्राजकलक्षण जिज्ञासा

अथ पितामहः स्वपितरमादिनारायणमुपसमेत्य प्रणम्य पप्रच्छ। भगवन् त्वन्मुखाद्वर्णाश्रमधर्मक्रमं सर्वं श्रुतं विदितमवगतम्। इदानीं परमहंसपरि्राजकलक्षणं वेदितुमिच्छामि । कः परिव्रजनाधिकारी? कीदृशं परिव्राजकलक्षणम्? क: परमहंस :? परिव्राजकत्वं कथम्? तत् सर्व मे ब्रहीति। स होवाच भगवानादिनारायणः ॥ १॥

पारिब्राज्यधर्मवन्तो यज्ज्ञानाद्गह्मतां ययुः । तद्रह्मप्रणवैकार्थै तुर्यतुर्य हरिं भजे॥

इह खल्वथर्वणवेदप्रविभक्तेयं परमहंसपरिव्राजकोपनिषत् पारमहंस्यधर्म- प्रतिपादनव्यग्रा ब्रह्मप्रणवार्थतुर्यतुर्यपदविश्रान्ता विजृम्भते। अस्याः संक्षेपतो विवरणमारभ्यते। ब्रह्मनारायणप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था। पितामहो विश्वभूः ; नारायणो विश्वपालकः; ताभ्यामाविभूतोऽर्थः कीदृशो भवतीति आख्यायिकामवतारयति-अथेति। अथ ब्रह्मक्षत्रादिब्रह्मचारिगृह- स्थादिधर्मश्रवणानन्तर काश्यपादिनवप्रजापतयः सर्वलोकपितरः यस्तेषामपि

Page 175

१६६ संन्यासोपनिषद:

पिता स सर्वलोकपितामहः स्वपितरमादिनारायणं कार्यसत्त्वे स्वयमादिसर्वा- भिन्ननिमित्तोपादानकारणत्वात् वस्तुतो यत्र कार्यकारणकलना नास्त्यरमिति

विदेहकैवल्यं तदेवायनं स्वरूपं यस्य सोऽयमादिनारायणः तं स्वाज्ञदष््या मूर्तिमदवस्थितम ;

"अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम्।"

इति स्मृतेः । तमुपसमेत्य दण्डवन् प्रणम्य पप्रच्छ। किमिति भगवन्निति। सर्व यथावत श्रुतम। परमहंसपरिव्राजवलक्षणं यथावत् वेदितुमिच्छामि। तत्कृतप्रश्नमङ्गीकृत्य स होवाच भगवानादिनारयणः ।। १ ।।

अधिकारिनिरूपणम्

सद्गुरुसमीपे सकलविद्यापरिश्रमज्ञो भूत्वा विद्वान् सर्वमैहि का- मुप्मिकमुखश्रमं ज्ञात्वैषणात्रयवासनात्रयममत्वाहंकारादिकं वमनान्नमिव हेयमुपगम्य मोक्षमार्गैकसाधनो ब्रह्मचर्यं समाप्य गृही भवेत्। गृहाद्वनी भूत्वा प्रत्रजेत्। यदि वेतरथा ब्रह्मचर्यादेव प्रत्रजेत् गृहाद्वा वनाद्वा। अथ पुनरत्रती वा बरनी वा स्नातको वास्त्रातको वोत्सन्नाझिरनमिको वा यदहरेव विरजेत् तदहरेव प्रत्रजेदिति सर्वसंसारेषु विरक्त्तो व्रह्मचारी गृही वानप्रस्थो वा पितरं मातरं कलत्रमापतबन्धुवर्ग तदभावे शिप्यं सहवासिनं वानुमोदयित्वा तद्वैके प्राजापत्यामेवेष्टिं कुर्वन्ति। तदु तथा न कुर्यात्। आझेय्यामेव कुर्यात्। अमिर्हि प्राणः । प्राणमेवैतया करोति। त्रैधा- तवीयामेव कुर्यात्। एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति।

Page 176

परमहंसपरिव्राजकोपनिषत् १६७

अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः। तं जानन्नम आरोहाथा नो वर्धया रयिम्।।

इत्यनेन मन्त्रेणाझिमाजिघ्रेत्। एष वा अमेयोनिर्य: प्राणं गच्छ स्वां योनिं गच्छ स्वाहेत्येवमेवैतदाह । आ्रमाच्छोत्रियागारादमिमाहृत्य स्व्र- विध्युक्तक्रमेण पूर्ववदगनिमाजित्रेत्। यद्यातुरो वामिं न विन्देदप्यु जुहु- यात्। आपो वै सर्वा देवताः, सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोद्धत्य प्राश्नीयात् साज्यं हविरनामयम्। एष विधिर्वीराध्वाने वानाशके वापां प्रवेशे वागिप्रवेशे वा महाप्रस्थाने वा। यद्यातुरः स्यान्मनसा वाचा वा संन्यसेत्। एष पन्थाः ॥ २ ॥

तत्कृतप्रश्नेष्वादौ परिव्रजनाधिकारिणं निरूपयति-सदिति। न कदापि संसारमण्डले सुखलेशोऽस्तीत्यवगम्य दाराद्येषणात्रयं देहादिवासनात्रयं दारादौ शरीरे च रूढमूलं ममत्वाहंकारादिकं वमनान्नमिव हेयमुपगम्य स्वातिरिक्तास्ति- त्वभ्रममोक्षमार्गैकसाधनो ब्रह्मचर्य समाप्य गृही भवेत्। जावालोपनिषद्युक्ता- र्थमेतत्। यदि सर्वसंसारेषु विरक्त्ो भवति तदा ब्रह्मचारी गृही वानप्रस्थो वा आदौ पित्राद्यनुमोदनं कृत्वा संन्यसेदित्याह-पितर मिति। अनुमोदयित्वा प्रव्रजेदित्यर्थः । यदि स्वयमाहिताग्निस्तदा चरमेश्यादिकर्मसमाप्तिः कार्येत्यत्र- तद्धैक इति। तद्धैक इत्यादि जाबालोपनिषदि पदशो व्याख्यातम् ॥ २॥

निगमयस्य संन्यासः

स्वस्थः क्रमेणैव चेदात्मश्राद्धं विरजाहोमं कृत्वा, अभिमात्म- न्यारोप्य, लौकिकवैदिकसामर्थ्यं स्वचतुर्दशकरणप्रवृत्ति च पुत्रे समारोप्य

Page 177

१६८ संन्यासोपनिषदः

तदभावे शिप्ये वा तदभावे स्वात्मन्येव वा, ब्रह्मा त्वं यज्ञस्त्वमित्यभि- मन्त्य ब्रह्मभावनया ध्यात्वा, सावित्रीप्रवेशपूर्वकमप्सु सर्वविद्यार्थस्वरूपां ब्राह्मण्यावारां वेदमातरं कमाद् व्याहृतिषु त्रिषु प्रविलाप्य, व्याहृतित्रय- मकारोकारमकारेषु प्रविलाप्य, तत्सावधानेनापः प्राश्य, प्रणवेन शिखा- मुत्कृष्य, यज्ञोपवीतं छित्वा, वस्त्रमपि भूमौ वाप्सु वा विसृज्य, ओं भूः स्वाहा, ओं भुवः स्वाहा, ओं सुबः स्वाहेत्यनेन जातरूपधरो भूत्वा, स्वरूपं ध्यायन्, पुनः पृथक प्रणवव्याहृतिपूर्वकं मनसा वचसापि संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति मन्द्रमध्यमतारध्वनिभि- स्त्रिवारत्रिगुणीकृतप्रैवोच्चारणं कृत्वा, प्रणवैकध्यानपरायणः सन्नभयं सर्व- भूतेभ्यो मत्तः स्व्राहेत्यूर्ध्वबाहुर्मूत्वा, ब्रह्माहमस्मीति तत्त्वमस्यादिमहा- वाक्यार्थस्वरूपानुसंधानं कुर्वन्नुदीचीं दिशं गच्छेज्जातरूपधरश्चरेत्। एष संन्यासः । तदधिकारी न भवेद्यदि, गृहस्थप्रार्थनापूर्व कम भयं सर्वभूतेभ्यो मत्त: सर्व प्रवर्तते सखा मा गोपायौजः सखा योऽसीन्द्रस्य वज्रोऽसि वात्रन्नः शर्म से भव यत्पापं तन्निवारयेत्यनेन मन्त्रेण प्रणवपूर्वकं सलक्षणं वैणवं दण्डं कटिसूत्रं कौपीनं कमण्डलुं विवर्णवस्त्रमें कं परिगृह्य, सद्गुरु- मुपगम्य, नत्वा, गुरुमुखात् तत्त्वमसीति महावाकयं प्रणवपूर्वकमुपलभ्य, अथ जीर्णवस्त्रवल्कलाजिनं धृत्वा, अथ जलावतरणमूर्ध्वगमनमेकमिक्षां परित्यज्य, त्रिकालस्रानमाचरन्, वेदान्तश्रवणपूर्वकं प्रणवानुष्ठानं कुर्वन्, ब्रह्ममागें सम्यक् संपन्नः, स्वाभिमतमात्मनि गोपयित्वा, निर्ममोऽध्यात्म- निष्ठः, कामक्रोधलोभमोहमदमात्सर्यदम्भदर्पाहंकारा सूया गर्वेच्छा द्वेषहर्षा-

Page 178

परमहंसपरिव्राजकोपनिषन् १६९ मर्षममत्वादींश्च हित्वा, ज्ञानवैराग्ययुक्तो वित्तस्त्रीपराड्मुखः शुद्धमानसः सर्वोपनिषदर्थमालोच्य, ब्रह्मचर्यापरिग्रहाहिंसासत्यं यल्ञेन रक्षञ्जितेन्द्रियो बहिरनतःस्रेहवर्जितः, शरीरसंधारणार्थं चतुर्षु वर्णेप्वभिशस्तपतितवर्जितेषु पशुरद्रोही भैक्षमाणो ब्रह्ममूयाय भवति। सर्वेपु कालेषु लाभालामौ समौ भूत्वा, करपात्रमाधूकरेणान्नमश्नन्, मेदोवृद्धिमकुर्वन्, कृशीभूत्वा, ब्रह्माहमस्मीति भावयन्, गुर्वर्थ ग्राममुपेत्य, घ्रुवशीलोऽष्टौ मांस्येकाकी चरेत्, द्वावेवाचरेत्। यदालंबुद्धिर्भवेत् तदा कुटीचको वा बहूदको वा हंसो वा परमहंसो वा तत्तन्मन्त्रपूर्वकं कटिसूत्रं कौपीनं दण्डं कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेत्। ग्रामैकरात्रं तीर्थे त्रिरात्रं पट्टने पञ्चरात्रं क्षेत्रे सप्तरात्रमनिकेतः स्थिरमतिरनझनिसेवी निर्विकारो नियमानियममुत्सृज्य प्राणसंधारणार्थमयमेव लाभालामौ समौ भूत्वा गोवृत्त्या मैक्षमाचरत्रुदक- स्थलकमण्डलुरबावकरहस्यस्थलवासो न पुनर्लामालाभरतः शुभाशुभ- कर्मनिर्मूलनपरः सर्वत्र भूतलशयनः क्षौरकर्मपरित्यक्तो मुक्तचातुर्मास्य-

चरन्नव्यक्तलिङ्गोऽव्यक्ताचारो दिवानक्तसमत्वेनास्वम्ः स्वरूपानुसंधान- ब्रह्मप्रणवध्यानमागेणावहितः संन्यासेन देहत्यागं करोति परमहंस- परिव्राजको भवति ॥ ३ ॥।

यदि निरामय: संन्यस्तुमिच्छति तदा नारदपरिव्राजकोपनिषचतुर्थो- पदेशोक्तरीत्या सर्वमाचरेदित्याह-स्वस्थ इति। पुत्रे समारोप्य तदभावे

Page 179

१७० संन्यासोपनिषदः

शिष्ये वा पुत्रादेः पित्रादिस्वत्वाधिकारत्वात् तदभावे स्वात्मन्येव वा समा- रोपयेत् उपसंहरेदित्यर्थः । वेदमातरं क्रमात् भूगदिव्याह्ृतिषु त्रिषु प्रविलाप्य। प्रणवपूर्वकं सलक्षणं सत्वचं समपर्वकं पुण्यस्थलसमुद्धूतं नानाकल्मषशोधित- मित्यादिसंन्यासोपनिषदुक्तप्रकारेण वैणव ढण्डमित्यादि। अथ हस्ताभ्यां जलावतरणं संकल्पेन ऊर्ध्वगमनं मनोराज्यम् एकभिक्षां परित्यज्येति। ब्रह्म निष्प्रतियोगिकं ब्रह्मातिरिक्तं न किंचिदस्तीति प्रबोध एव ब्रह्ममार्गः । तत्र संपन्नो भूत्वा परमसिद्धान्तमात्मन्येव गोपयित्वा स्वात्मनिष्ठो भूत्वा कादा- चित्कप्रसक्तकामक्रोधेत्यादि। ब्राह्मणप्रविभक्तच तुर्पु वणेषु अभिशस्तपतितवर्जि- तेपु पशुः इव अद्रोही भैक्षमाणो ब्रह्मभूयाय ब्रह्ममावाय भवति। "यो ब्रह्माणं विदधाति पूर्वम्" इति श्रुत्यनुरोधेन गुरुरविष्णुः "नैवेद्यार्थ महाविष्णोः स्वादु माधूकरं शुचि" इति स्मृत्यनुरोधेन गुर्वर्थ ग्राममुपेन्य ध्रुवशीलः अचल- स्वभावोऽपि अष्टौ मांस्येकाकी चरेदू द्वावेवाचरेत्। यदि श्रवणध्यानाधिकारी न भवति, तदा चातुर्मास्य एकत्रासनं शिष्टमासे ग्रामैकरात्रम इत्याद्युक्तरीत्याटनम्। एतद्द्वयमेव यतिभिराचरणीयमित्यर्थः । यदा कुटीचकाद्याश्रमे अलंबुद्धिर्भवेत्। "पात्रे पतितमश्रीयात् तत्र किचिन्न हि स्मरेत्" इति स्मृतेः। कृत्स्नेयमुपनिषत् नारदपरिव्राजकोपनिषद्ठ्याख्यानेन प्रायशो व्याख्यातेति मन्तव्या ॥ ३ ॥

भगदन् ब्रह्मप्रणवः कीदृश इति ब्रह्मा पृच्छति। स होवाच नारायण: ब्रह्मप्रणवः पोडशमात्रात्मकः सोऽवस्थाचतुष्टयचतुष्टयगोचरः । जाग्रदवस्थायां जाग्रदादिचतस्रोऽवस्थाः, स्वम् स्वमादिचतस्रोऽवस्थाः ; सुपुप्तौ सुपुप्त्यादिचतस्रोऽदस्थाः, तुरीये तुरीयादिचतस्रोडवस्था भवन्तीति। व्यष्टिजाग्रदवस्थायां विश्वस्य चातुर्विध्यं विश्वविश्रो विश्वतैजसो विश्वप्राज्ञो विश्वतुरीय इति। व्यष्टिस्वम्ावस्थायां तैजसस्य चातुर्विध्यं तैजसविश्वस्तै-

Page 180

परमहंसपरिव्राजकोपनिषत् १७१ जसतैजसस्तैजसप्राज्स्तैजसतुरीय इति। सुषुप्त्यवस्थायां प्राज्ञस्य चातु- र्विध्यं प्राज्ञविश्वः प्राज्ञतैजसः प्राज्ञप्राज्ञः प्राज्ञतुरीय इति। तुरीयावस्थायां तुरीयस्य चातुर्विध्यं तुरीयविश्व्स्तुरीयतैजसस्तुरीयप्राज्ञः। एते क्रमेण पोडशमात्रारूढाः। अकारे जाग्रद्विश्व उकारे जाग्रत्तैजसो मकारे जाग्र- त्प्राज्ञ अर्धमात्रायां जाग्रत्तुरीयः, बिन्दौ स्वम्नविश्वः, नादे स्वम्नतैजसः, कलायां स्वम्नप्राज्ञः, कलातीते स्वमतुरीयः, शान्तौ सुषुप्तविश्वः; शान्त्यतीते सुषुप्ततैजसः, उन्मन्यां सुषुप्तप्राज्ञः, मनोन्मन्यां सुषुप्ततुरीयः, पुर्यां तुरीय- विश्वः, मध्यमायां तुरीयतैजसः, पश्यन्त्यां तुरीयप्राज्ञः, परायां तुर्यतुरीयः। जाग्रन्मात्राचतुष्टयमकारांशं स्वममात्राचतुष्टयमुकारांशं सुषुप्तिमात्राचतुष्टयं मकारांशं तुरीयमात्राचतुष्टयमर्धमात्रांशम्। अयमेव ब्रह्मप्रणवः । स परमहंसतुरीथातीतावधूतैरुपास्यः। तेनैव ब्रह्म प्रकाशते। विदेहमुक्तिः।।४।।

ब्रह्मप्रणवध्यानमार्गेणेति प्रश्नवीजमवष्टभ्य ब्रह्मप्रणवेयत्तामवगन्तुं ब्रह्मणा पृष्टः प्रश्नोत्तरं भगवानाहेत्याह-भगवन्निति। स होवाच नारायणः । किं तत्? इत्यत्र - ब्रह्मप्रणव इति। तत् कथमित्यत्र-जाग्रदवस्थायां जाग्रम दा द्ि - चतस्रोऽवस्थाः जाग्रज्जाग्रदित्यादि। स्वप्ने स्वप्नादिचतस्रोऽ्वस्थाः स्वप्जाग्र- दित्यादि। सुषुप्तौ सुषुप्त्यादिचतस्रोऽवस्थाः सुषुप्तिजाग्रदित्यादि। तुरीये तुरी- यादिचतस्रोडवस्था भवन्तीति तुर्यजाग्रदित्यादि। व्यष्टिसमष्टयात्मकजाग्रज्जाग्र- दादिषोडशावस्थासु व्यष्टिजाप्रज्जाग्रदादिपञ्चदशावस्थारूढा विश्वविश्वादितुर्य- प्राज्ञान्ता इत्याह-व्यष्टिजाग्रदवस्थायामिति। तथा व्यष्टिस्वप्रावस्थाया- मिति। तथा व्यष्टिसुषुप्यवस्थायामिति। तथा तुगीयावस्थायां तुरीयस्य चातुर्विध्यमित्यत्र तुरीयवश्वः तुरीयतैजसः तुरीयप्राज्ञः इति त्रैविध्यं ज्ञेयम्। सविशेषनिर्विशेषावेकीकृत्य चातुर्विध्योक्तिः ; सविशेषप्रपश्नापह्ववसिद्धं निर्विशेषं

Page 181

१७२ संन्यासोपनिषदः

तुर्यतुरीयमिति पृथक् ज्ञातुं युक्तत्वात्। तथा समष्टिजाग्रज्जाग्रदादितुर्यस्वापान्त- पञ्चदशावस्थारूढा विराड्विराडादितुर्यबीजान्ताः । तथा व्यष्टिसमष्टयैक्यसिद्ध- जाग्रज्ाप्रदादिपञ्चदशावस्थारूढा ओत्रोत्रद्यविकल्पानुझ्ञैकरसान्ता: जाग्रज्जाग्र- दाद्यविकल्पान्तविकल्पा यत्रापह्ववं भजन्ति तदविकल्पाविकल्पं तुर्यतुरीयमिति ज्ञेयम् ; एतदर्थस्य ब्रह्मप्रणवदीपिकायां सम्यक् प्रपञ्चितत्वात्। उक्तविकल्पा एते क्रमेण षोडशमात्रारूढाः । तत् कथमित्यत्र-अकारे जाग्रद्विश्व इत्यादि। जाग्रन्मात्राचतुष्टयमकारांशं विद्धीति शेषः । तथा स्वप्नमात्राचतुष्टयमुकारांशं सुधुप्तिमात्राचतुष्टयं मकारांशं तुरीयमात्राचतुष्टयमर्धमात्रांशं जानीहीत्यर्थः ।

वादाधारविश्वविश्वादविकल्पानुज्ञैकरसान्ता: प्रणवविकारा इत्यत्र "सर्ववाच्य- वस्तु प्रणवात्मकम् " इति श्रुतेः। जाग्रज्ञाग्रदादिचतुष्पञ्चदशकलना यत्रापह्मवतां भजति यत्तदपह्रवसिद्धं तुरीयतुरीयं तन्निष्प्रतियोगिकतया स्वमात्रमवशिष्यते। एवमर्थों यत्र अवगम्यते अयमेव ब्रह्मप्रणवः । स परमहंसतुरीयातीतावधूतै- रुपास्यः ब्रह्मप्रणवज्ञानेन मामित्यत्र तेनेव ब्रह्म स्वावशेषतया प्रकाशते। यः प्रबोधो निष्प्रतियोगिकतुर्यतुर्यमात्रगोचरः, तेनैव ब्रह्ममात्रप्रबोधेन ब्रह्ममात्रा- वस्थानलक्षणविदेहमुक्तिर्भवतीति प्रकरणार्थः ॥ ४ ॥

अयज्ञोपवीतिनो ब्राह्मणत्वम्

भगवन् कथमयज्ञोपवीत्यशिखी सर्वकर्मपरित्यक्त :? कथं ब्रह्म- निष्ठापरः? कथं ब्राह्मणः? इति ब्रह्मा पृच्छति। स होवाच विष्णुः । भो भोडर्मक यम्यास्त्यद्वैतमात्मज्ञानं तदेव यज्ञोपवीतम्। तम्य ध्यान- निष्ठैव शिखा। तत्कर्म सपवित्रम्। स सर्वकर्मकृत् स ब्राह्मणः स ब्रह्म- निष्ठापरः स देवः स ऋषिः स तपस्वी स श्रेष्टः स एव सर्वज्येष्ठः स एवाहं विद्धि। लोके परमहंसपरित्राजको दुर्लभतरः। यद्येकोडस्ति स

Page 182

परमहंसपरित्राजकोपनिषत् १७३

एव नित्यपूतः स एव वेदपुरुषः । महापुरुषो यस्तच्चित्तं मय्येवावतिष्ठते। अहं च तस्मिन्नेवावस्थितः । स एव नित्यतृप्तः । स शीतोष्णसुखदुःख- मानावमानवर्जितः । स निन्दामर्षसहिण्णुः । स षडर्मिवर्जित: षड्भाव- विकारशून्यः । स ज्येष्ठाज्येष्ठव्यवधानरहितः। स स्वव्यतिरेकेण ना- न्यद्रष्टा। आशाम्बरो न नमस्कारो न स्वाहाकारो न स्वधाकारश्च न विसर्जनपरो निन्दास्तुतिव्यतिरिक्तो न मन्त्रतन्त्रोपासको देवान्तरध्यान- शून्यो लक्ष्यालक्ष्यनिवर्तकः सर्वोपरतः सच्चिदानन्दाद्वयचिद्धनः संपूर्णा- नन्दैकबोधो ब्रह्मैवाहमस्मीत्यनवरतं ब्रह्मप्रणवानुसंधानेन यः कृतकृत्यो भवति स परमहंसपरिव्राडित्युपनिषत्॥ ५॥

ब्रह्मप्रणवस्य परमहंसाद्यधिकारत्वात् परमहंसादेः सर्वत्र ब्राह्मणत्वं श्रूयते-यः संन्यासी स परमहंसः सोऽवधूतः स ब्राह्मण इति। प्रसिद्धिस्तु शिखायज्ञोपवीत विशिष्टकर्मठानामेव ब्राह्मणत्वमिति। तद्विरलस्य यतेः कथं ब्राह्मण्यमिति ब्रह्मा भगवन्तं पृच्छतीत्याह-भगवन्निति। प्रश्नोत्तरं स होवाच विष्णुः । ईदृशो मद्धावापन्नो लोके परमहंसपरित्राजको दुर्लभतरः। स एव नित्यतृप्तः ; मद्धावापत्तेर्नित्यतृप्तिप्रापकत्वात्। स शीतोष्णसुखदुःखमानाव्र- मानवर्जितः; देहादावात्मात्मीयाभिमानवैकल्यात् ; स षड्र्मिवर्जितः ; अश- नायाद्यतीतत्वात्। षड्भावविकारशून्यः ; भावषट्कास्पदस्थूलदेहवैकल्यात्। स ज्येष्ठाज्येष्ठव्यवधानरहित :; "यो न स्वरूपज्ञः स ज्येष्ठोऽपि कनिष्ठः"इति श्रुतेः । स स्वव्यतिरेकेण नान्यद्रष्टा; द्रष्टव्यान्यस्य मृग्यत्वात्। विसर्जनीया- भावात् न विसर्जनपरः। न मन्त्रतन्त्रोपासको देवान्तरध्यानशून्यः; मन्त्र- तन्त्रदेवोपासनाभि: भवितव्यार्थाभावात्। लक्ष्यालक्ष्यनिवर्तकः; लक्षणया बोधितं लक्ष्यं तद्विपरीतमलक्ष्यं वाच्यम्। स्वातिरेकेण तदुभयं नास्ति; अहमेवेदं

Page 183

१७४ संन्यासोपनिषद:

सर्वमिति निवर्तकः। ब्रह्मप्रणवार्थतुर्यतुर्यस्वमात्रमित्यनुसंधानतो विद्वान् तुर्य- तुर्यरूपेणावशिष्यते; विदेहमुक्तो भवतीत्यर्थः । इत्युपनिषच्छब्दः प्रकृतो- पनिषत्परिसमात्यर्थः ॥ ५॥

प्रकृतोपनिषद्वयाख्या लिखिता तुर्यतुर्यगा। प्रकृतोपनिषद्वयाख्याग्रन्थजातं शतं स्मृतम् ॥

इति श्रीमदीशाद्ष्टोत्तरशतोपनिषच्छास्त्रविवरणे षट्षष्टिसंख्यापूरकं परमहंसपरिव्राजकोपनिषद्विवरणं संपूर्णम्

Page 184

परमहंसोपनिषत्

पूर्णमद :- इति शान्ति:

परमहंसपरिव्राजकानां मार्गः

अथ योगिनां परमहंसानां कोडयं मार्गस्तेषां का स्थितिरिति नारदो भगवन्तमुपसमेत्योवाच। तं भगवानाह। योडयं परमहंसमार्गो लोके दुर्लभतरो न तु बाहुव्यो यद्येको भवति स एव नित्यपूतः स एव वेदपुरुष इति विदुषो मन्यन्ते महापुरुपो यच्चित्तं तत् सदा मय्येवावतिष्ठते। तस्मादहं च तस्मिन्नेवावस्थीयते। असौ स्वपुत्रमित्रकलत्रबन्ध्वादीज्छििखा- यज्ञोपवीतं स्वाध्यायं च सर्वकर्माणि संन्यस्यायं ब्रह्माण्डं च हित्वा कौपीनं दण्डमाच्छादनं च स्वशरीरोपभोगार्थाय लोकस्यैवोपकारार्थाय च परिग्रहेत्। तच्च न मुख्योऽस्ति। को मुख्य इति चेदयं मुख्यः ॥१॥

परमहंसोपनिषद्वेद्यापारसुखाकृति। त्रैपदश्रीरामतत्त्वं स्वमात्रमिति चिन्तये।।

इह खलु परमहंसोपनिषदः शुक्कयजुर्वेद प्रविभक्तत्वादीशावास्यादिवद्दुपो- द्धातादिकं चिन्त्यम्। नारदभगवत्प्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तु-

Page 185

१७६ संन्यासोपनिषद:

त्यर्था। योग्याधिकारिण उपलस्य तेषां निश्रेयसायाख्यायिकाकारेण प्रवृत्ता- अथेत्यादिना। अथ स्वकृतभक्तिश्रद्धातपोभि: भगवत्सांनिध्यानन्तरं देवर्षिरिति विख्यातो नागदो मुनिर्यत्र षड्गुणैश्वर्यसंपत्ति: पर्यवसन्ना तं भगवन्तं विनयेनो- पसमेत्योवाच। किमिति? योगिनां परमहंसपरिव्राजकानां मार्ग: पन्था: कोऽयं कीदशः? तेषां स्थितिः कीदृशी? इति नारदेन पृष्टो भगवान् हरिः तं प्रत्येवमाह-तमिति। तमेवं पृष्ट्वन्तं नारदं प्रति भगवान् हरिरेवमाह। किं तदिति। यथोक्ताचारविशिष्टकुटीचकबहूदकहंसानां मार्ग एव दुलभो लोके तावत्। ततोऽपि परमहंसमार्गो दुर्लभतरः। दुर्लभतरार्थ श्रुतिः स्वयमेवाह-न तु बाहुल्य इति। यदि कदाचित् एतादृश एको भवति, तदा स एव परमहंसः। नित्यपूते विशुद्धात्मनि स्वे महिम्नि तिष्ठतीति नित्यपूतस्थः। स एव वेदपुरुषो वेदार्थ: परमात्मेति विदुषो ब्रह्मविद्वरीयांसो मन्यन्ते। अत एव परमहंसो महापुरुषो भवति, यस्य महापुरुषस्य चित्तं मय्येव नारायणे तदाकाराकारितया- वतिष्ठते। यस्मादेवं तस्मादहं च तस्मिन्नेवावस्थीयते। परमात्मनि प्रत्यक्प्रतीचि परमात्मेति प्रत्यगभेदेनासाववस्थितः सन् स्वीयतया भ्रातृपुत्रमित्रकलत्र- बन्ध्वादीन् बहिर्लक्ष्यमाणशिखां यज्ञोपवीतं च स्वाधीतस्वाध्यायवेदजातं च तद्विहितसर्वकर्माण्ययं संन्यस्य स्वाज्ञदशायां स्वावासधिया यद्धातं तच्चतुर्दश- भुवनालंकृतत्रह्माण्डं च स्वातिरिक्तधिया हित्वा कौपीनं दण्डमाच्छादनं नित्यकर्मोपयोगिभिक्षाचारादिवस्त्राणि च परिग्रहेत्। किमर्थ तत्परिग्रह इत्यत्र स्वशबीरोपभोगार्थाय। भोगार्थ शीतमशकादिनिवृत्त्यर्थ लोकस्यैवोपकारार्थाय च लोकोन्मार्गनिरासनाय कौपीनादिकं परिग्रहेदित्यर्थः । कौपीनादिपरिग्रह एवास्य मुख्य इत्यत आह-तच्च न मुख्योऽस्तीति। कौपीनादिपरिग्रहो न हि परमहंसानां मुख्योऽस्ति। तर्हि तेषां कोऽयं मुख्य इति चेत् कौपीनादि- त्याग एव भुख्य इत्याह-अयं मुख्य इति ॥ १ ॥

परमहंसपरिव्राजकानां स्थितिः न दण्डं न शिखां न यज्ञोपवीतं न चाच्छादनं चरति परमहंसो न शीतं न चोप्णं न सुखं न दुःखं न मानावमानमिति। षडूर्मिवर्जितो.

Page 186

परमहंसोपनिषत् १७७

निन्दागर्वमत्सरदम्भदर्पेच्छा द्वेषसुखदुःखकामक्रोधलोभमोहहर्षासूयाहंकारा- दींश्च हित्वा स्ववपुः कुणपमिव दृश्यते। यतस्तद्वपुरपध्वस्तसंशयमिथ्या- ज्ञानानां यो हेतुस्तेन नित्यनिवृत्तस्तन्नित्यबोधस्तत्स्वयमेवावस्थितिस्तं शान्तमचलमद्वयानन्दचिद्न एवास्मि, तदेव मम परमं धाम, तदेव शिखा, तदेवोपवीतं च, परमात्मात्मनोरेकत्वज्ञानेन तयोर्भेंद एव विभमः, सा संध्या॥ २ ॥ सर्वान् कामान् परित्यज्य अद्वैते परमे स्थितिः । ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते॥ काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः । तितिक्षाज्ञानवैराग्यशमादिगुणवर्जितः। भिक्षामात्रेण यो जीवेत् स पापी यतिवृत्तिहा। स याति नरकान् घोरान् महारौरवसंज्ञकान्। इदमन्तरं ज्ञात्वा स परमहंसः ॥ ३ ॥ आशाम्बरो न नमस्कारो न स्व्राहाकारो न स्व्रधाकारो न निन्दास्तुतिर्यादच्छिको भवेद्धिक्षोः नावाहनं न विसर्जनं न मन्त्रं न ध्यानं नोपासनं च। न लक्ष्यं नालक्ष्यं न पृथड् नापृथगहर्न सर्वं च अनिकेत- स्थिरमतिरेव स भिक्षुः सौवर्णादीनां नैव परिग्रहेन्न लोकनं नावलोकनं च। न च बाघकः क इति चेद्वाधकोऽस्त्येव। यस्माद्भिक्षुर्हिरण्यं रसेन दष्टं चेत् स ब्रह्महा भवेत्। यस्माद्विक्षुर्हिरण्यं रसेन स्पृष्टं चेत् स पौल्कसो भवेत्। यस्माद्भिक्षुर्हिरण्यं रसेन ग्राह्यं चेत् स आत्महा भवेत्। तस्माद्गिक्षुर्हिरण्यं रसेन न दृष्टं च न सपृष्टं च न ग्राह्मं च सवें 12

Page 187

१७८ संन्यासोपनिषद:

कामा मनोगता व्यावर्तन्ते। दुःखे नोद्विनः सुखे निःस्पृहः त्यागो रागे सर्वत्र शुभाशुभयोरनभिस्रेहो न द्वेष्टि न मोदं च। सर्वेषामिन्द्रियाणां गतिरुपरमते य आत्मन्येवावस्थीयते। तत्पूर्णानन्दैकबोधस्तद्वह्ैवाह- मम्मीति कृतकृत्या भवति कृतकृत्यो भवतीत्युपनिषत् ॥ ४ ॥

न हि गाहस्थ्योचितदण्डशिखायज्ञोपवीताच्छादनं परिगृह्य परमहंस- श्रति। न हि तस्य क्ोनोष्णमानावमानकलनास्ति। सेयं कलना देहनिष्ठा। परनहंसस्य प्रत्यगभिन्नव्रह्मभावारूढत्वेन देहत्रयोपलक्षितस्वाविद्यापदतत्कार्य- विलक्षणत्वान्। अत एव पडडर्मिवर्जितः अशनायापिपासाशोकमोहजरामरणा- नीति षड्डर्मय: ; तद्रहितः। परनिन्दा, गर्वः स्मयः धनविद्यादिविषयः, हृद्यर्पितदृढ़- क्रोधो मत्सरः, दम्भो वर्मध्वजित्वं, दर्पः स्वान्यत्रालक्ष्यबुद्धिः, लब्धव्यविषय- स्पृहा इच्छा, स्वाहितकारिणि द्वेप:, इष्टविषयजं सुखम्, अनिष्टविषयजं दुःखम्, इष्टवस्त्वमिलाप: कामः, तत्कुण्ठनकारिणि क्रोधः, स्वद्रव्यत्यागानिच्छा लोभः, अतस्मिस्तद्वुद्धि: मोहः, स्वेश्विषयागमजो हर्षः, परश्रेयोऽसहिष्णुता असूया, उद्धतवृत्तिरहंकारः, आदिशब्देन स्त्रीयेषु समकारादिर्गृह्यते। एतत् सर्व न्वातिरिक्तधिया हित्वा यः स्वमात्रावस्थितिमीहते, तद्दृष्ट्या स्ववपुः कुणप- मिव दृश्यते। यतो यस्मात् ब्रह्मज्ञानात् अपध्वस्तसंशयमिथ्याज्ञानानां स्ववपुरेवं हश्यने तादशत्रह्मविषयकज्ञानस्याविर्भावाय यो हेतुः प्रत्यक्त्वेन जनीचा प्रत्यगभिन्नव्रह्मभावेन नित्यनिवृत्तस्वाज्ञानो यत् स्वाज्ञाननिवृत्त्यधिकरणं नन्नित्यवोध: परमात्मायं नित्यबोधस्वरूपं तत् स्वयमेवावस्थिति: स्वमात्राव- डोपतथा स्थितिमुक्तिर्यो मुक्त इत्यभिहितः तं स्वातिरिक्ताविद्यापदतत्कार्य- शान्तनिष्प्रतियोगिकपूर्णत्वात् अचलम् आत्मानम् अद्वयानन्दचिद्धन एवा- स्मीति ज्ञात्वा यत् ज्ञानसपकालं स्वमात्रमवशिप्यते तदेव मम परमं धाम स्वरूपं तदेव शिखा तदेवोपवीतं च केशकार्पासशिखातन्तुवच्छरीरविल- क्षणत्वात्। तस्य का संध्या! इत्यत आह-परमात्मेति। परमात्मात्मनो:

Page 188

परमहंसोपनिषत् १७९ प्रत्यक्परचितोः ब्रह्ैवाहम्, अहमेव ब्रह्म, इत्येकत्वज्ञानेन तयोर्भेंद एव विभग्नः तत्त्वभेदः तस्य स्वरूपत्वात् या जीवब्रह्मैक्यस्थितिः सैव संध्या; "नोदकैर्जायते संध्या न मन्त्रोच्चारणेन तु। संधौ जीवात्मनोरैक्यं सा संध्या सद्गिरुच्यते ॥" इति स्मृतेः। इत्थं स्वातिरिक्तसर्वान् कामान् परित्यज्य अपह्ववं कृत्वा परमाद्वैते स्थितिस्तद्रूपेणावस्थानं ज्ञानदण्डः स्वात्ममात्रावशेषतया येन धृतो भवति, स ह्येकदण्डी इत्युच्यते। एवं पारमार्थिकसंन्यासिनं स्तुत्वा आभास- संन्यासिनं दूषयति-काप्टदण्ड इति। ज्ञानगन्धवैकल्येन येन काष्ठदण्डो धृतः, स हि सर्वाशी केवलोदरंभरी निर्विशषज्ञानवर्जितो भवति। किंच शीतोष्णादि- तितिक्षापुरःसरं सविशेषज्ञानतदितरविषयवैराग्यशमादिगुणवर्जितः स्व्रान्त- र्बाह्यव्यापृतिः सन् केवलभिक्षामात्रेण यो जीवेन्, सोडयं पापी पापकृत्तमो भूत्वा सद्वृत्तयतीनामपि वृत्तिहा भवेत् सत्संन्यासिनोऽपि लोका: संन्यास्या- भासान् मत्वा दृष्टा उपेक्षां कुर्युः तद्दोषेणायमाभासयतिः महारौरवसंज्ञकान् नरकान् याति। इदं पारनार्थिकाभाससंन्यासिनारन्तरं ज्ञात्वा आशाम्वरो दिगम्बरः न नमस्कार: ज्येष्ठकनिष्ठकलनावेरल्यात्। न स्वाहाकारो न स्त्रधाकारो दैवपित्र्यकर्मसामान्यस्य त्यक्तत्वात्। न निन्दास्तुति: निन्दनीय- स्तुत्यगुणवैरल्यात्। यादच्छिको भवेत् देहधारणमात्रेतरप्रवृत्तिशून्यो भवेत्। न हि यादच्छिक इन्यत्र यथेच्छाचरणं विधीयते; यथेच्छाचरणस्य इच्छापूर्व- कत्वेन पतनमेव स्यात्। अत्र ज्ञानवैराग्यसंपन्नस्य स्वस्मिन्नेव मुक्तिरिति न सर्वत्राचारप्रसक्ति: ; "तदाचारवशात् तत्तलोकप्राप्तिः" इति श्रुतेः । एवं देहमात्रधारणेतग्प्रवृत्तिनिवृत्तिशृत्यस्य भिक्षोः न हि स्वान्यत्रावाह्नं विसर्जनं मन्त्रध्यानम् उपासनं लक्ष्यमलक्ष्यादिकं वास्तीत्याह-भिक्षोरिति। उक्त- विशेषणविशिष्टस्य भिक्षोः न हि पृथक्त्वेन अपृथक्त्वेन वा त्वमहंतच्छद्द- गोचरं सर्व स्वातिरिक्त वस्त्वस्ति। यदि व्यावहारिकत्वेन प्रातिभासिकत्वे- नास्तीति भ्रान्तिस्ता अनिकेतस्थिरमतिः व्याविद्वात्मीयनिकेतनाभिमतिः स्वदेहे तदन्यत्र वा अहंकारममकारविरल एव भृत्वा यो वर्तते स भिक्षुः

Page 189

१८० संन्यासोपनिषद:

सौवर्णादीनां नैव परिग्रहेत् न लोकनं नावलोकनं च। न च बाघक: क इति चेत्, सुवर्णादिपरिग्रह निमित्ताभावात् तन्निमित्तमस्तीति स्वीकृत्य। न हि सुवर्णाद्यालोकनं वा न हि कदाऽपि कुर्यात्। एवं कृते बाधकः क इति चेत् बाधकोऽस्त्येव। तत् कथम्? यस्मादुपभोगनिमित्तात् भिक्षुः भिक्षुणा हिरण्यं कनकरत्नादि रसेन प्रेम्णा दृष्टं चेत् स ब्रह्महा भवेत्। यस्मादित्यादि समानम्। यदि तद्रसेन स्पृष्टं तदायं पौल्कसश्चर्मकारो भवेत्। यदि ग्राह्यं गृहीतं तदा सोऽयमात्महा भवेत्। तस्मात् भिक्षुः हिरण्यं रसेन न दृष्टं च न स्पृष्टं च न ग्राह्यं च। रसेन सुवर्णरत्नादिदर्शनं स्पर्शनं ग्रहणं वा न कदापि कुर्यात्। पथिगततृणवद्रागं विना दर्शनं न दोषाय भवति। स्पर्शनग्रहणयोः सद्यतेरप्रसक्तत्वात्। "मा गृधः कस्य स्विद्धनम्" इति श्रुत्यनुरोधेन सुवणाद्य- निच्छोः परमहंसस्य स्वाज्ञदृष्टिप्रसक्तमनोगता: मनसि विकल्पिताः सर्वे कामाः स्वज्दष्ट्या व्यावर्तन्ते भिथ्यात्मतया निवर्तन्ते। यत एवमतः परमहंसः दुःख- प्रारब्धोदयेऽपि नोद्विम्नो भवति। तथा सुखप्रारब्धोदयेऽपि तत्र निःस्पृह्ो भवति। रागद्वेषप्रसक्गेऽपि तत्त्यागो भवति। सर्वत्र स्वातिरित्तनिवृत्तिमार्ग: शुभं प्रवृत्तिमारगोऽ्शुभं तयोरनभिस्नेहः प्रवृत्तिनिवृत्तिमार्गपराङ्मुखः प्रवृत्तिमार्गे न द्वेष्टि, निवृत्तिमार्गे न मोदं चानुभवति। सर्वेषां ज्ञानकर्मेन्द्रियाणां चशब्दादन्तः- करणस्य च गतिस्तत्तद्विषय्रहणशक्तिर्यत्रात्मन्येवोपरमते स्वात्ममात्रावशेषतया अवस्थीयते तदधिकरणत्वेन योऽवशिष्यते सोऽयं तत्पूर्णानन्दैकबोधः; "कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते" इति श्रुतेः । यत्पूर्णबोधत्वे- नावशिष्टं तद् ब्रह्मैवाहमस्मीति तद्गह्म स्वमात्रमिति ज्ञानसमकालं कृतकृत्यो विदेहमुक्तो भवति। आवृत्तिः आदरार्था। इत्युपनिषदिति प्रकृतोपनिषत्परि- समात्यर्थः ॥४ ॥

परमहंसोपनिषद्वयाख्येयं लिखिता स्फुटम्। परमहंसोपनिषद्वयाख्याग्रन्थः शतं स्मृतः ॥ इति श्रीमद्दीशाद्यष्टोत्तरशतोपनिषच्छा स्त्रवि वरणे एको न वि्वश ा्ति सिख्य् पू कं परमहंसोपनिषद्विवरणं संपूर्णम्

Page 190

ब्रह्मोपनिषत्

सह नाववतृ-इति शान्तिः

1अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति नामिर्हृदयं कण्ठं मूर्धा च। तत्र चतुष्पादं ब्रह्म विभाति-जागरिते ब्रह्मा, स्वमे विष्णुः, सुषुप्तौ रुद्रः, तुरीयमक्षरम्। स आदित्यो विष्णुश्चेश्वरश्च स्वयममनस्क- मश्र.त्रमपाणिपादं ज्योतिर्विदितम् ॥१॥

1 F. Otto Schrader's edition of this work reads the follow- ing additional passages in the beginning: "शौनको ह वै महा- शालोडङ्गिरसं भगवन्तं पिप्पलादं पप्रच्छ। दिव्ये बह्मपुरे संप्रतिष्ठिता भवन्ति। कथं सृजन्ति ! कस्यैष महिमा बभूव? यो ह्येष महिमा बभूव क एपः? तरमै स हावाच ब्रह्मविद्यां वरिष्ठाम्। प्राणो ह्येष्र आत्मा। आत्मनो महिमा बभूव। देवानामायुः सः। देवानां निधनमनिधन, दिव्ये ब्रह्मपुरे विरजं निष्कलं शुभ्रमक्षरं यद्रह्म विभाति। स नियच्छति मधुकरराज [मक्षिकावत्। यथा मक्षिका मधुकरराजानमुत्कामन्तं सर्वा एवोत्कामन्ते तथैवैनमुत्कामन्तं ते सर्वें देवा अनूत्क्ामन्ते। स सृजत्याकर्पति] माक्षीकवत्। यथा माक्षीकैकेन तन्तुना जालं विक्षिपति तेनापकर्षति तथवैष प्राणो यदायाति संसृष्टमाकृष्य। प्राणदेवतास्ताः सर्वा नाड्यः सुष्वपे येनाकाशवत्। यथा खं श्येन आश्रित्य याति स्वमलयमेवं सुषुप्भूते। यथवैष देवदत्तो यष्टयापि ताड्यमानो न वेत्येवमिष्टापूर्तैः शुभाशुभैन लिप्यते। यथा कुमारो निष्काम आनन्दमुपयाति तथैवैष देवदत्तः स्वप्न आनन्दमभियाति। वेद एप परं ज्योतिः। ज्योतिष्कामो ज्योतिरानन्दयते। भूयस्तेनैव स्वप्राय गच्छति जलौकावत्। यथा जलौ-

Page 191

१८२ संन्यासोपनिषद:

यद्रह्मोपनिषद्वय क्तविस्फुलिङ्गि हृदुज्ज्वलम्। त्रैपदानन्दसाम्राज्यं कलये तत् स्वमात्रतः ॥

इह खलु कृष्णयजुर्वेदान्तर्गतब्रह्मशाखायां यत् काण्डत्रयं प्रकाशितं तत्र सकामस्य के वलकर्मकाण्डानुष्ठानतो धूनादिमार्गेण पुनरावृत्तिमच्चन्द्रलोकाप्तिरभि- हिता। निष्कामस्य तु कर्मोपासनाकाण्डार्थसमुच्चयानुष्ठानादर्चिरा दिमार्गेणापुनरा-

तेन सह तद्धावापत्तिः। येषां चित्तशुद्धयाविक्यान्मार्गद्वयेऽपि विरक्तिर्जायते, तेषां झटिति निष्प्रतियोगिकब्रह्ममात्रावगतये ज्ञानकाण्डात्मिकेयं ब्रह्मोपनिषत् प्रवृत्ता। उपनिपूर्वकस्य षद्लधातोरर्थानुगमात् मुमुक्षो: स्वाज्ञानविशरणपूर्वकं निष्प्रतियोगिक ब्रह्ममात्रगमकत्वादिति ब्रह्मविद्योपनिषत्। तादर्थ्येन ग्रन्थोऽप्यु- पनिषत्। एवमुक्तलक्षणब्रह्मोपनिषदोऽल्पग्रन्थतो विवरणमारभ्यते-अथेति। अथ यथोक्तब्रह्मविद्यासाधनसंपत्त्यनन्तरं मुमुक्षोः स्वातिरिक्तारूढबुद्धित्वेन निष्प्रतियोगिक ब्रह्ममात्रोपदेशानर्हत्वात् तन्मान्रबुद्धयारोहाय सोपायब्रह्मविद्या वक्तव्येति परमदयावती श्रुतिः यतः प्रवृत्ता, अतो ब्रह्मोपलब्धिस्थानकल्पना युज्यते। यः "पूर्णमेवावशिव्यते" इति, "पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः" इति च श्रुतिसिद्धः पुरुषोऽवशिष्यते, तस्यास्य पुरुषस्य परमात्मन उपलब्धिस्थानानि चत्वारि भवन्ति। तानि कानि ? किं देशान्तरे वर्तन्ते? इत्याकाड्क्षायां स्वशरीरे तानि वर्तन्त इत्याह-नाभिरिति। चकारात् दक्षिणाक्ष्यादिस्थानान्तरमस्तीति द्योत्यते। तत्र कीदृशं ब्रह्म? इत्यत आह-तत्र

काग्रमग्रं नयत्यात्मानम्, नयति परम्, संधयत्यपरम्, नापरं त्यजति. ... .. स जाग्रदभिधीयते। यथैवेष कपालाष्टकं संनयति ...... । य एष स्तन इवावलम्बत एष देवयोनिर्यत्र जाग्रति शुभाशुभमनिरुक्तमस्य देवस्य स संप्रसादोऽन्तर्यामी खगः कर्कटकः पुष्कर: पुरुषः प्राणो हंस: परापरं ब्रह्मात्मा देवता वेदयति। य एवं वेद स परं ब्रह्मधाम क्षेत्रशमुपैति"। प्रथमः खण्डः। Vide The Minor Upanisads, vol. I: Samnyāsa-Upanișads, 1912, pp. 75ff.

Page 192

ब्रह्मोपनिषत् १८३

चतुष्पादं ब्रह्म विभातीति। चतुःस्थानाश्रयत्वाच्चतुष्पात्; वस्तुतः तत्परिच्छेद- शून्यं ब्रह्म विभातीत्यर्थः । स्वाज्ञदृष्टिप्रसक्तचतुष्पाद्गल कीदशमित्यत आह- जागरित इति। यदा बाह्येन्द्रियै: तदर्थोपलब्धि: तत् जाग्रत्। तत्र जागरिते ब्रह्मा ना मिमण्डलमधिष्ठाय जाग्रत्कलनां कलयति। स हि जगत्स्रष्टा चतुराननः । यदा जानत्प्रलय जस्वप्ो दृश्यते तदा विष्णुर्हृदयमधिष्ठाय स्वप्ने तत्कलनाकलितो भवति। यदा जाग्रदादिव्यापृतिः विलीयते, तदा स सुषुप्तिभवति। तदानी रुद्र: कण्ठमधिष्ठाय स्वाज्ञविकल्पित जाप्रत्स्वप्नप्रपञ्चमुपसंहरति।जाग्रदाद्यवस्थात्रयं यत्र विलीयते सेयं तुरीयावस्था। तदानीं मूर्धानमधिष्ठाय यज्जाग्रदादिकलनाभावा- भावप्रकाशकं भवति तन्मूर्तनि संस्थितं तुरीयमुच्यते। यद्यपि नेत्रकण्ठहृदयमूर्धसु जागरितादीनि वक्ष्यति, तथाप्यत्र नाभ्यादीनामुक्तत्वादुपलळ्धयर्थमेवं चिन्त- नोयम्। यद्वा नाभ्यादि यथाक्रममुत्सृज्य नाभिनेत्रे समुचित्य जागरितजागरितं चिन्त्यम्। स्वपस्थानं कण्ठं सुषुप्तिस्थानं हृदयं पूर्ववत् मूर्ध्नि संस्थितं तुरीयं यो मूर्धानमधिष्ठाय तुर्यात्मा भवति तस्मात् आदित्यादिः भिन्न इत्यत आह-स आदित्य इति। तदतिरेकेणादित्यादेरभावात्। चकारात् तदतिरेकेण न किंचिदप्यस्तीति द्योत्यते। तद्याथात्म्यं किमित्यत आह-स्वयमिति ॥ १॥

परस्य ब्रह्मणः अक्षरत्वम् यत्र लोका न लोका देवा न देवा वेदा न वेदा यज्ञा न यज्ञा माना न माता पिता न पिता स्नुषा न स्तुषा चाण्डालो न चाण्डालः पौल्कसो न पौल्कसः श्रमणो न श्रमण: तापसो न तापस एकमेव तत् परं ब्रह्म विमाति1 निर्वाणम् ॥ २ ॥

प्रबोधविदितत्वात् यदेतदमनस्कादिलक्षणमक्षरं तत्र स्वातिरेकेण लोकादि- 1 F. O. Schrader's edition contains the following additional passages: "हृद्याकाशे तद्विज्ञानमाकाशम्। तत्सुपिरमाकाशम्। तद्विद्ाङद्याकाशे यस्मिन्निदं सं च विचरति यस्मिन्निदं सर्वमोतप्रोतम्। स विभु: प्रजासु ध्यानेन यो वेद तत्परं ब्रह्म भवतीति।

Page 193

१८४ संन्यासोपनिषद:

तापसान्तकलना न संभवति; तननिर्वाणरूपेण स्वमात्रमवशिष्यत इत्याह- यत्रेति। लोकादितापसान्तकलना अस्ति नास्तीति विभ्रमासंभवे हेतुमाह- एकमिति। निष्प्रतियोगिकब्रह्ममात्रमेकमेव परं ब्रह्म विकलेबरनिर्वाणरूपेण विभाति स्वाज्ञादिदृष्टिमोहे सति ; असति कैवल्यमेकरूपेण चकास्तीत्यर्थः ॥२॥

निर्वाणस्य एकत्वम् न तत्र देवा ऋषयः पितर ईशते प्रतिबुद्धः सर्वविद्येति ॥ ३॥।

कथं निर्वाणमेकँ निष्प्रतियोगिकम्? तन्नियन्तृत्वेन देवादेः सत्त्वात् इत्यत आह-न तत्रेति। यत् स्वमात्रमवशिष्टं न हि तत्र देवर्षिपितरः सन्ति। तन्मात्रावस्थायां स्वयमलब्धात्मानो नियन्तृनियम्यतया स्थातुं कथमीशते समर्था भवन्ति? कित्वेक एवात्मा देवर्षिपित्रादिकलनाविरलं ब्रह्म स्वमात्रमिति प्रतिबुद्धः देवर्षिपित्रादिभिरपि ब्रह्मास्मीत्येव प्रतिबुद्धो भवति ; न हि भेददृष्टये- त्यर्थः। यद्यत् स्वाज्ञविकल्पितं तत्तत् अहमेवेदं सर्वमिति श्रुतिसिद्धा या सा सर्वविद्या तथा स्त्रविकल्पितसर्वासंभवप्रबोधरूपया स्वमात्रमिति लधुं शक्यमित्यर्थः ॥ ३ ॥ त्रिवृत्सूत्रम्

हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि प्राणाश्च ज्योतिश्र त्रिवृत्सूत्रं च तद्विदुः॥ हृदि चैनन्ये तिष्ठति ॥४॥

ब्रह्ममात्रप्रबोधसहकारित्वेन संन्यासविधित्सया भूमिकां करोति- हृदिस्था देवता इति। स्वातिरिक्तं स्वमात्रतया हरतीति हच्छन्देन प्रत्यक्चै- तन्यमुच्यते। तस्मिन् हृदि तदधिष्ठेयहृदयकमले वा अग्न्याद्याः सर्वा देवता: प्रतिष्ठिताः । तथा हृदि प्राणापानादिभेदेन प्राणाः पञ्च वागादयक्ष विधान्रा प्रतिष्ठिताः । तथोक्तलक्षणहृदये नासापुटसंचारी प्राणश्च स्वयंज्योतिरात्मा च।

Page 194

ब्रह्मोपनिषत् १८५

चकारद्वयतो यदस्ति नास्तीति विकल्पितं तत् सर्वे हृदये प्रतिष्ठितमिति द्योत्यते। बहिःसूत्रत्यागिनस्तदेतत् त्रिवृत्सूत्रमिति विदुः जानन्ति। बहिःसूत्रं क प्रतिष्ठितमित्यत आह-हृदीति ; सर्वस्यापि हृदयप्रतिष्ठितत्वात् ॥४।।

बहिःसूत्रम्

यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत् सहजं पुरस्तात्। आयुष्यमत्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ ५॥

कीदृशं वहिःसूत्रमित्यत आह-यज्ञोपवीतमिति। यज्ञस्य विष्णोरुप सामीप्येन वीतं विशेषेणागतं जीवस्वरूपं यज्ञोपवीतम्। स्वगतजीवतापाये तदेव परममुत्कृष्टम्। अत एव पवित्रम्। प्रजापतेः यद्वयवहारकारणं सहजम्। यद्वा देहेन्द्रियादिवत् सहजम्। पुरस्तात् पूर्वभ्। आयुष्यम् अध्र्यं श्रेष्ठं स्वात्मानं विदित्वा स्वान्यत्र मति प्रतिमुञ्च। यच्छुभ्रं ज्योतिष्मद्यज्ञोपवीतं तदवलम्व्य बाह्ययज्ञोपवीतं प्रतिमुश्चेति वार्थः । पस्मादेतद्वृदि चैतन्ये तिष्ठति, तस्मात् इदं यज्ञोपवीतं त्रिवृत्कार्पासजं त्रैवर्णिकै: धार्यम्। तत् कार्पाससूत्रं बलं वीर्यवत् कर्मकारणमस्तु तेजो ब्रह्मवर्चसादिवृद्धिकरं भूयादित्यर्थः ॥ ५ ॥

ब्रह्मसूत्रम्

सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद् बुधः । यदक्षरं परं ब्रह्म तत् सूत्रमिति धारयेत् ॥ ६ ॥ सूचनात् सूत्रमित्याहुः सूत्ं नाम परं पदम्। तत् सूत्रं विदितं येन स विप्रो वेदपारगः । ७ ॥। येन सर्वमिदं प्रोतं सूत्र मणिगणा इव। तत् सूत्रं धारयेद्योगी योगवित् तत्त्वदर्शिवान् ।। ८।।

Page 195

१८६ संन्यासोपनिषद:

बहिःसूत्रं त्यजेद्विद्वान् योगमुत्तममास्थितः । ब्रह्मभावमिदं सूत्रं धारयेद्यः स चेतनः । धारणात् तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्मवेत्' ॥ ९ ।।

त्रैवर्णिकानां श्रौतस्मार्तकर्मसाधनतया प्रतिपाद्याथ परिव्राजकानां बहि- रयंज्ञोपवीतादित्यागपूर्वकं मुख्यशिखायज्ञोपवीतं धार्यमित्याह-सशिखमिति। शिखासहित केशश्मश्रवादिवपनं कृत्वा यत् बहिः त्रिवृत् सूत्रं कर्माङ्गभूतं नित्यादि- साधनसंपन्नो बुध: बहिःशिखासूत्रोपलक्षणस्वातिरिक्तास्तिताबुद्धिं त्यजेत्। ततः किमित्यत आह-यदिति। यत् स्वातिरिक्तक्षरप्रपञ्चापह्ववसिद्धमक्षरं परं निरुपमोत्कृष्टं स्वावशेषतया बृंहणात् ब्रह्म तत् स्वमात्रमिति धारयेत्। किं तत्? कथं धार्यम् ? तद्धारणफलं कीदशम् ! इत्यत आह-सूचनादिति। "सन्मात्र- मसदन्यत्" "ब्रह्ममात्रमसन्न हि" इत्यादिश्रुतिभिः सूचनात् स्वातिरित्तगासं ब्रह्मैव सूत्रमिति ब्रह्मविद आहुः। सूत्रं नाम किमित्यत आह-परं पदमिति। परं निरतिशयं तद्रूपेण पद्यत इति पदं ब्रह्ममात्रमित्यर्थः । तदेतत् सूत्रं येन स्वमात्रतया विदितं स विप्रो ब्रह्मविद्वरीयान् स्वारोपितातदपह्ववमुखेन वेदा यत्र पर्यवस्यन्ति तद्वेदपरं ब्रह्ममात्रं गतो भवति; ब्रह्मैव भवतीत्यर्थः । कथमेतादृशं पदं मन्दबुद्धिगम्यं भवतीत्याशड्क्य तत्पदारोहोपायत्वेन सूत्रस्वरूपमाचष्टे-येनेति। स्वातिरिक्तजगदारोपाधिकरणतया यत् सूत्रितं सूत्रे मणिगणवत् येनेदं सर्वम् अविद्यापदतत्कार्यजातं प्रोतमनुविद्धं तदेतत् सूत्रमीश्वरचैतन्यं तत्तत्वं सर्वापवादाधिकरणं निरधिकरणं वा दर्शितवान् योगवित् तदेवास्मीति धाग्येत्। कथं पुनरेवं धार्यमित्यत्र तद्गतहेयांशत्यागपूर्वक शिष्टांशं धार्यमित्याह-बहिरिति । यश्चेतनो विद्वान् बहिःसूत्रशिखोपलक्षित- स्वातिरिक्ताविद्यापदतत्कार्यजातं त्यजेत् ततोऽयं योगी एवं त्यागशिष्टं ब्रह्मभावमिदं सूत्रं धारयेत्; सोडयमेवं धारयिता ब्रह्ममात्रयोगमास्थितो भवतीत्यर्थः। एवंविदोऽप्युच्छिष्टादिविशिष्टोपाधियोगात् तथात्वं स्यादित्याशङ्कय 1F. O. Schrader's edition adds द्वितीयः खण्डः-

Page 196

ब्रह्मोपनिषत् १८७

द्वारप्रवेशनिर्गमाभ्यामुच्छिष्टः अस्पर्शसंयोगादशुचिः तद्वेतूपाध्ययोगात् उच्छिष्टादिर्न ह्यस्तीत्यर्थः ॥ ६-९॥ ज्ञानशिखादीनां मुख्यब्राह्मण्यलिङ्गता सूत्रमन्तर्गतं येषां ज्ञानयज्ञापवीतिनाम्। ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः ॥ १० ॥ ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञापवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥ ११ ॥ अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा। स शिखीत्युच्यते विद्वान् नेतरे केशधारिणः ॥ १२ ॥ शिखायज्ञोपवीताभावे ब्राह्मण्याभावमाशङ्क्य ज्ञानशिखोपवीतसत्त्वात् मुख्यब्राह्मणत्वं स्यादित्याह-सूत्रमिति। स्वातिरिक्तकलनारहितं सूत्रं ब्रह्मास्मीति येषां ज्ञानयज्ञोपवीतिनां नैष्कर्म्यपदमारूढानां सूत्रमन्तर्गतमिव विभाति, लोके ते वै सूत्रयाथात्म्यविदः; ते च यज्ञोपवीतिनः । अत एवैते परिव्राजकाः ज्ञानशिखिनो ज्ञानोपवीतिनः सूत्रज्ञाननिष्ठाश्च। सूत्रज्ञानं हि तेषां पवित्रमुच्यते। अत एव तेषामुच्छिष्टाशुची न स्त इत्युक्तम्। यस्याग्नि- शिखेव ज्ञानमयी शिखा विद्यते, सोऽयं विद्वान् शिखीत्युच्यते। नेतरे केशधारिणः शिखिनो भवन्ति ॥ १०-१२॥

क्रिया ङ्गसूत्रम् कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । तेभिर्धार्यमिदं सूत्रं क्रियाङ्गं तद्धि वै स्मृतम् ॥ १३ ॥

एवं चेत् सर्वैरपि शिखायज्ञोपवीतादिकं परित्याज्यमित्यत आह- कर्मणीति। स्वाज्ञानपुरःसरभिदं मया कर्तव्यमिति ये तु त्रैवर्णिका ब्राह्मणादयो

Page 197

१८८ संन्यासोपनिषद:

वैदिके कर्मण्यधिकृताः, तेभिस्तैरेव कार्पासतन्तुनिर्मितमिदं यज्ञोपवीतं क्रियाङ्गम् इति धार्यम्। तथाच श्रुति :- "यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा यज्ञस्य" इति त्रैवर्णिकानां क्रियाङ्गत्वेन यज्ञोपवीतं स्मृतम्। हिशब्दः प्रसिद्धिद्योतकः ॥ १३ ॥

शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम्। ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ॥ १४ ॥

त्रैवर्णिकेषु निरुपचरितब्राह्मण्यं कस्येत्यत आह-शिखा ज्ञानमयीति। त्रैवर्णिकेषु ब्राह्मणजातेरेव पारिव्राज्यविधानात् तत्र यस्य ब्राह्मणजातिजस्य शिखा ज्ञानमयी उपवीतं च तन्मयं ज्ञानमयं भवति, तस्य सकलं निरुपचरितं ब्राह्मण्यमिति ब्रह्म विदो विदुः जानन्तीत्यर्थः ॥ १४॥

यज्ञोपवीतयाथात्म्यम्

इदं यज्ञोपवीतं तु परमं यत् परायणम्। स विद्वान् यज्ञोपवीती स्यात् स यज्ञस्तं यज्विनं विदुः ॥ १५ ॥

एतादशब्राह्मण्यापादकयज्ञोपवीतयाथात्म्यं किमित्यत आह-इदमिति। इदं यज्ञोपवीतं विष्णुपदप्रापकं ज्ञानं क्रियाकारकादिकलनोपमर्दकत्वेन परमं यदेतत् ज्ञानं ब्रह्ममात्रपरायणं स्वगतहेयांशापायतः तन्मात्रतयावशेषितं भवति, यो वा इदमहमस्मीति विद्वान्, स हि यज्ञोपवीती ब्रह्ममात्रवित् स्यात्। ज्योतिष्टोमादियज्ञोऽपि स एव स्यात् । य एवंवित् तं ब्रह्मीभूतं वेदविदो यज्विनमग्निहोत्रिणं विद्ुः; स एवाग्निहोत्री नान्य इत्यत्र "प्रपञ्चमखिलं यस्तु ज्ञानाग्नौ जुहुयाद्यतिः । आात्मन्यग्रीन् समारोप्य सोडग्निहोत्री महायतिः ॥"

Page 198

ब्रह्मोपनिषत् १८९

इति श्रुतेः। स्वातिरित्तं स्वात्मान्नौ हुत्वा विद्वान् स्वयमेवावशिष्यत इत्यर्थ: ॥ १५ ॥

ब्रह्मीभूतो विद्वान् एक एव

एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्ष: सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च॥१६॥ एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति। तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्रतं नेतरेषाम् ॥ १७॥

किमयं ब्रह्मीभूतो विद्वान् अनेक इत्यत आह-एक इति। अयं ब्रह्मीभूतो मुनिः एक एव; निष्प्रतियोगिकब्रह्ममात्रभावापन्नत्वात्। स कीदृश इत्यत आह-देव इति ; स्वयंप्रकाशचिद्धातुत्वात्। प्रकाशमात्रः किंन दृश्यत इत्यत आह-सर्वभूतेषु गूढ इति। स्वज्ञप्रत्यगभेदेन भासमानोऽपि स्वाज्ञदृष्टिविकल्पितसर्वभूतेषु चतुर्विधेषु स्वावृतित्रयावृतदृष्टीनामभानात् गूढः । एवं चेत् परिच्छेद्यता स्यादित्यत आह-सर्वव्यापीति; व्योमवत् सर्वानुस्यूत- त्वात्। सर्वस्यानात्मत्वेन तद्योगात् तथात्वं स्यादित्यत आह-सर्वभूता- न्तरात्मेति। चतुर्विधभूतान्तर्विभाताहंप्रत्ययालम्बनप्रत्यगात्मतया विभानात् न ह्यनात्मना संबध्यत इत्यर्थः । सर्वभूतप्रत्यक्त्वे तद्रतकर्तृत्वादिसंसारिता स्यादित्यत आह-कर्माध्यक्ष इति; प्रतीच: सर्वभूतकृतकर्तृत्वाद्यस्पर्शित्वेन तत्कृतसर्वकर्मकलप्रदातृत्वात्। तथा चेत् तटस्थता स्यादित्यत आह- सर्वभूताधिवास इति। सर्वभूतान्यात्मत्वेनाधिकृत्य वसनात् सर्वात्मरूप इत्यर्थः । सर्वभूताधिवासत्वेन तत्तद्धूतान्तःकरणवृत्त्यनुविद्धता स्यादित्यत आह-साक्षीति । साक्षिण: स्वसाक्ष्यस्पर्शित्वेन सर्वम वितिलक्षणत्वा त् न यन्त : - करणवृत्त्यनुविद्धता स्यादित्यर्थः; "सर्वस्य साक्षी ततः सर्वस्मादन्यो विलक्षणः" इति श्रुतेः। साक्ष्यसापेक्षसाक्षित्वे तद्वानयमित्यत आह-

Page 199

१९० संन्यासोपनिषद:

चेतेति। अचेतनासाक्ष्यचेतयितृत्वात्। न हि साक्ष्यविकारः तं स्पृशति। तत्र हंतुमाह-केवल इति। अशेषविशेषशून्य इत्यर्थः । गुणयोगेन गुणिनः केवलता कुत इत्यत आह-निर्गुण इति। आविद्यकगुणानां कारणतुल्यत्वेन तद्योगस्य दुर्लभत्वात् निर्गुणः। चशब्दः निष्प्रतियोगिककेवलत्वख्यापक इत्यर्थ: ; चिन्मात्रस्वरूपत्वात्। यस्तु इत्थंभूतनिर्गुणः परमात्मा निष्प्रति- योगिकैकरूपोडपि, सोडयं स्वाज्ञदष्टयानेक इव, न वस्तुत इति जानतां स्वातिरित्तशान्तिपूर्वकं स्वमात्रस्थितिः स्यादित्याह-एक इति । यः परमात्मा वस्तुत एकोऽपि स्वाज्दृष्टिप्रसक्तसर्ववशी सर्वनियन्तृत्वात् सर्वभूतान्तरात्मेति व्याख्यातं स्वस्य वास्तवं यद्रपं सजातीयविजातीयस्वगतभेदापह्ववसिद्धमेकं चिन्मात्ररूपं स्वाज्ञदष्टया बहुधा नानेव यः करोति वस्तुतः चिन्मात्रमेवाय- मित्यर्थः । तद्वहुत्वेन गानं स्वाज्ञाननिमित्तम्। स्वाज्ञाननिरसनोर पायमाह- तमिति। य आत्ममात्रावशेषतया स्थितः तमात्मस्थं निष्प्रतियोगिकस्वमात्रतया येऽनुपश्यन्ति धीरा: ब्रह्मविद्वरीयांस: तेपां स्वमात्रावशेषलक्षणकैवल्यसुखं सिद्धं भवति। नेतरेषाम् ; स्वावृतदृष्टित्वात् ॥ १६, १७।।

त्रह्माह्युरायः

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम्। ध्याननिर्मथनाभ्यासाद् देवं-पश््येन्निगूढवत् ।। १८।। तिलेपु तैलं दधनीव सर्पिरापः स्रोतःस्वरणीपु चाभिः । एवमात्मात्मनि जायतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥१९॥ ऊर्णनाभिर्यथा तन्तून् सृजते संहरत्यपि। जाग्रत्स्वमे तथा जीवो गच्छत्यागच्छते पुनः ॥ २०॥ नेत्रस्थं जागरितं विद्यात् कण्ठे स्वमं समाविशेत्।

Page 200

ब्रह्मोपनिषत् १९१

सुषुतं हृदयस्थं तु तुरीयं मूर्धनि संस्थितम्॥ २१ ॥। यतो वाचो निवर्तन्ते अप्राप्य मनसा सह। आनन्दमेतज्जीवस्य यज्ज्ात्वा मुच्यते वुधः ॥२२ ॥ सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवान्वितम्। आत्मविद्यानपोमूलं तद्दह्मोपनिपत्पदं तद्टह्मोपनिषत्पदमिति2 ॥

तदाह्युपायः क इत्यत आह-आत्मानमिति। आत्मानं अन्त :- करणम् अधरारणि कृत्वा प्रणवमोंकारं चोत्तरागणिं कृत्वा दीर्घवण्टानिनादवत् प्रणवमुच्चार्य तदा पूर्वो त्तरार णिस्थानीयान्तःकरणप्रणवध्यान निर्मथनाभ्यासात्। कोडयं प्रणवार्थ इत्यत्र स्वाज्ञदृष्टिप्रसक्तस्वाविद्यापदतत्कार्यप्रविभक्तजाग्रज्जाग्रदाद- विकल्पानुज्ञैकरसान्तर्गतहेयांशापह्ववसिद्धं तुर्यतुरीयं ब्रह्म स्वमात्रमवशिष्यत इति प्रणवार्थानुसंधानं ध्याननिर्मथनाभ्यासः। तस्मादभ्यासात् मथनाविर्भूतकाष्ठ- निगूढाग्निवत् एवं जाग्रज्ञाग्रदादिचतुष्पञ्चदशकलनापह्नवसिद्धं तुर्यतुर्य स्वाव- शेषधिया पश्येन्। मथनात् तत्सार आविर्भवतीत्यत्र बहु दृष्टान्तमाह- तिलेष्विति। यथा तिलयन्त्रघर्षणभ्रमणोपायतः तिलेपु तैलं स्पष्टमुपलभ्यते, यथा दध्नि मथिते तज्जनवनीते अग्निना संस्कृते सर्पिर्वृतमुपलभ्यते, यथा स्रोतःसु भूनाडिषु खननोपायतः आप उपलभ्यन्ते, यथा अरणिषु चाभिः मथनादुपलभ्यते। चशव्द्ात् सूर्यकान्तादिप्वपि सूर्यकिरणयोगतोऽगनिरुपलभ्यत इति द्योत्यते। यथा दृष्टान्तपरंपरा तथैवमात्मा तुर्यतुर्य आत्मन्यन्तःकरणे श्रुत्याचार्यसंस्कृते स्वातिरिक्तजाग्रज्ञाग्रदादिचतुप्पञ्चदशकलनां ग्रसित्वा स्वमात्रं

1 F. O. Srhrader's edition adds the following :- "यदात्मा प्रज्ञयात्मानं संधत्ते परमात्मनि । तेन संध्या ध्यानमेव तस्मात् संध्याभिवन्दनम् ।। निरुदका ध्यानसंध्या वाक्कायक्लेशवर्जिता। संधिनी सर्वभूतानां सा संध्या ह्ेकदण्डिनाम्।" 2 F. O. Schrader's edition adds तृतीयः खण्डः.

Page 201

१९२ संन्यासोपनिषद:

जायते उपलभ्यते। असौ तुर्य इत्यर्थः । तदाप्तावुपायान्तरमाह-सत्येनेति। सत्यवचनेन कृच्छूचान्द्रायणादितपसा, सत्यं 'ब्रह्माहमस्मि' इति बोधेन तदुपायश्रवणादितपसा वा योऽधिकारी अनुपश्यति तेनापि लभ्य इत्यर्थः । अवस्थात्रयेऽपि जीवानेकत्वं स्यादित्यत्र दृष्टान्तेन तन्निराकरोति- ऊर्णनाभिरिति। यथोर्णनाभि: लूताकीट: स्वशरीरतः तन्तून् सृजते न केवलम् ; एवमुपसंहरति च ; आर्द्रतन्तूनां लालासमतया सृष्ट्युपसंहारौ युज्येते इत्यर्थः। तथा जीवोऽयं जाग्रत्स्वप्ने जाग्रत्स्वमौ लूताकीटवत सृजन्नुपसंहरन्नेक एव भवति। बहुजनिवासनावैचित्र्यादहमेक इत्यस्मृतिरविरुद्धा; स्वप्रादावनु- भूतस्याननुभूतस्य च स्मृतेः उपलम्भात्। गृहात् गृहान्तरं शिशुरिवायं पुनः पुनः जाग्रदादिस्थानात् स्थानान्तरं गच्छत्यागच्छते। तस्मादवस्थापूगसंचा- र्यात्मा एक एवेत्यर्थः । पुरा जागरितादिस्थानतया नाभ्यादिरुक्तः। इदानी विस्पष्टमाह-नेत्रेति। नाभिनेत्रयोरेकत्वेन विवक्षितत्वात् नेत्रे तिष्ठतीति नेत्रस्थः विश्वविश्वः । तमात्मानं जागरितं जागरणावस्थागतं विद्यात। कण्ठप्रदेशे जाग्रत्प्रविभक्तस्वप्नावस्थापन्नं विश्वप्रविभक्ततैजसं समाविशेत्। जाग्रत्प्रविभक्तसुषुप्त्यवस्थागतं विश्वप्रविभक्तप्राज्ञं हृदयस्थं त्वेव विद्यात्। विश्वप्रविभक्ततुरीयं दशमद्वारि मूर्ध्रि संस्थितं विद्यात् इत्यनुषज्यते। तुरीय- याथात्म्यं विशद्यति-यत इति। यतो यस्मात् तुर्यात् श्रुतीनां वाचः संकल्पादिवृत्तिमन्मनसा सह निवर्तन्ते, तमप्राप्याप्रकाश्येत्यर्थः। तदेतज्जीवस्य तुर्यानन्दरूपं यन् ज्ञात्वा बुधो मुच्यते तदेव तुर्यानन्दरूपं तुर्ययाथात्म्य- मित्यर्थः । तुदीयं मूर्ध्रि संस्थितम् इत्युक्तितः परिच्छिन्नता स्यादित्याशङ्कय, तत् परिहरन् शास्त्रार्थमुपसंहरति-सर्वव्यापिनमिति। "व्याप्यव्यापकता मिथ्या सर्वमात्मा" इति श्रुत्यनुरोधेन निष्प्रतियोगिकचिन्मात्रमप्यात्मानं स्वाज्ञदृष्टिप्रसक्तस्वातिरिक्तसर्वप्रपञ्वव्यापिनमपि नोपायं विना लभ्यत इति दृष्टान्तमाह-क्षीर इति। यथा क्षीरे सर्पिः स्वभावेन समर्पितमपि मथनाद्युपायं विना न लभ्यते, तथायमात्मा नोपायमन्तरेण लभ्य इत्यर्थः । कोऽयं तदव- गत्युपाय इत्यत आह-आत्मेति। अनात्मापह्ववमुखेनात्ममात्रावगतिहेतु- विद्योपनिषत्तप:श्रवणादिः, तयोरपि मूलमास्पदं यद्गह्म स्वमात्रतया अवशिष्यते,

Page 202

ब्रझ्मोपनिषा. १९३

तद्दयु पनिषत्पदमुपनिषदेकगम्यत्वात्। उपनिषन्राम ब्रह्ममात्रज्ञानम्। तत्पदं तु ब्रह्ममात्रम्। अभ्यासेतिशब्दों उपनिषत्तदर्थपरिसमाप्त्यर्थौ ॥१८-२३॥

श्रीवासुदेवेन्द्रशिष्योप निषद्रह्मयोगिना। लिखितं स्याद्विवरणं ब्रह्मोपनिषदो लघु। ब्रह्मोपनिषदो व्याख्याग्रन्थस्तु द्विशतं स्मृतः ॥

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे एकादशसंख्यापूरकं ब्रह्मोपनिषद्विवरणं संपूर्णम्

Page 203

भिक्षुकोपनिषत्

पूर्णमद :- इति शान्तिः

चतुर्विधा भिक्षव:

अथ भिक्षूणां मोक्षार्थिनां कुटीचकबहूदकहंसपरमहंसाश्च्वेति चत्वारः ॥ १ ।।

कुटीचकाः

कुटीचका नाम गौतमभरद्वाजयाज्ञवल्वयवसिष्ठप्रभृतयोऽष्टौ ग्रासांश्चरन्तो योगमागें मोक्षमेव प्रार्थयन्ते॥ २ं ॥

भिक्षूणां पटलं यत्र विश्रान्तिमगमत् सदा। तत् त्रैपदं ब्रह्मतत्त्वं ब्रह्ममात्रं करोतु माम् ।।

अथ खलु शुक्कयजुर्वेदप्रविभक्तेयं भिक्षुकोपनिषत् कुटीचकादिधर्मप्रशंसा- पूर्वकं ब्रह्मणि पर्यवसन्ना विजयते । अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते। यथोक्ताधिकारिण उपलभ्य श्रुतिः कुटीचकादिधर्मपूगान् प्रकटयति। आदौ कुटीचकधर्मानाह-अथेति॥१, २।।

Page 204

१९६ संन्यासोपनिषद:

बहूदका: अथ बहूदका नाम त्रिदण्डकमण्डलुशिखायज्ञोपवीतकाषाय- वस्त्रधारिणो ब्रह्मर्षिगृहे मधु मांसं वर्जयित्वाष्टौ ग्रासान् मैक्षाचरणं कृत्वा योगमार्गे मोक्षमेव प्रार्थयन्ते ॥ ३ ॥

वहूदकवर्मानाह -- अथ बहूदका नामेति ॥ ३ ॥ हंसा: अथ हंसा नाम ग्राम एकरात्रं नगरे पञ्चरात्रं क्षेत्रे सप्तरात्रं तदुपरि न वसेयुः: गोमूत्रगोमयाहारिणो नित्यं चान्द्रायणपरायणा योगमार्गे मोक्षमेव प्थयत्ते ॥ ४ ॥

हंमधमानाह-अथ हंसा नामेि।।४ ॥।

परमहंसाः अथ परमहंसा नाम संवर्तकारुणिश्वेतकेतुजडभरतदत्तात्रेय- शुकवा मदेवहारीतकप्रभृतयोष्टी ग्रासांश्चरन्तो योगमागे मोक्षमेव प्रार्थ- यन्ते। वृक्षमूले शृन्यगृहे मशानवासिनो वा। साम्बरा वा दिगम्बरा वा। न तेपां धर्मावर्मी। न हि तेषां लाभालाभकलनास्ति। शुद्धाशुद्धद्वैतवज्जना: समलोष्टमकाञ्चनाः सर्ववर्णेषु मैक्षाचरणं कृत्वा सर्वत्रात्मैव पश्यन्ति। अथ जातरूपधरा निर्द्न्द्वा निप्परिग्रहाः शुक्ध्यानपरायणा आत्ममात्रनिष्ठाः प्राणसंधारणार्थ यथोक्तकाले भैक्ष- माचरन्तः शून्यागारदेव गृहतृण कूटवल्मीक वृक्षमूलकु लालशाला मिहोत्र- शालानदीपुलिनगिरि कन्दर कुहरकोटर निर्झरस्थण्डिले तत्र ब्रह्ममागें सम्यक्

Page 205

भिक्षुकोपनिषत् १९७

संपन्नाः शुद्धमानसा: परमहंसाचरणेन संन्यासेन देहत्यागं कुर्वन्ति। ते परमहंसा नामेत्युपनिषत् ॥५॥ परमहंसधर्मान् प्रकाशयति-अथ परमहंसा नामेति। तेषीं वसति चर्यो चाह-वृक्षमूल इति। न तेषां धर्माधर्मो भवतः; प्रवृत्तिनिवृत्तिपराङ्- मुखत्वात् सर्वत्र हर्षविषादाभावात्। न हि तेषां लाभालाभकलनास्ति। विशिष्टाद्वैतं शुद्धैतं केवलद्वैतम् अशुद्धदैतं च येषां नाभिमतं ते शुद्धाशुद्धद्वेत- वर्जिंताः ; निष्प्रतियोगिकाद्वैतिन इत्यर्थः। अत एव समलोष्टाश्मका व्वनाः; सर्वत्र साम्यभावमापन्न ब्रह्मदृष्टित्वात्। ब्राह्मणादिजातिप्रविभक्तसर्ववर्णेषु चातुर्वर्ण्यधर्मा- श्रयणतो ब्राह्मणाब्राह्मणादिषु यथोक्तकाले भैक्षाचरणं कृत्वा सर्वत्रात्मैव पश्यन्ति। स्वात्मनो व्यष्टिसमष्टिप्रपञ्चाधिकरणत्वेन प्रत्यगभिन्नब्रह्मरूपत्वात्। अथ जातरूपधराः निर्द्वन्द्वा निष्परिग्रहाः शुक्कध्यानपरायणा: शुकतेजोनिष्ठं (शुक्कतेजोरूपं) ब्रह्मेति श्रुत्यनुरोधेन ब्रह्ममात्रभावापन्ना इत्यर्थः । अत एवैते मनात्मापह्ववसिद्धात्ममात्रनिष्ठा इत्यर्थः । यदि बहिश्चित्तास्तदा प्राणसंधारणार्थ यथोक्तकाले भैक्षमाचरन्तः। हंसशब्देन प्रत्यगभिन्नपरमात्मोच्यते। पराक्सापेक्ष- प्रत्यगभेदगतसविशेषापायसिद्धः परमः, स चासौ हंसश्वेति परमहंसः निष्प्रति- योगिकपरमात्मा। तदाचरणं तन्मात्रेणावस्थानम्। तेन परमहंसाचरणेन स्वाति- रिक्तकलनासंन्यासेन कर्मसंन्यासेन वा देहत्यागं देहोपलक्षितस्वाविद्यापद- तत्कार्यजातमस्ति नास्तीति विभ्रमाभिमतित्यागं वा ये कुर्वन्ति ते परमहंसा नाम ब्रह्मैव भवन्तीत्यर्थः । इत्युपनिषच्छन्दो भिक्षुकोपनिषत्परिसमात्यर्थः ॥५॥

भिक्षुकोपनिषद्वयाख्या लिखिता ब्रह्मगामिनी। भिक्षुकोपनिषद्वयाख्याप्रन्थस्तु त्रिशदीरितः ॥ इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छा स्त्रविवरणे षष्टिसंख्यापूरकं भिक्षुकोपनिषद्विवरणं संपूर्णम्

Page 206

मैत्रेयोपनिषत्

आप्यायन्तु-इति शान्तिः

संसारविरक्तस्य आत्मजिज्ञासा

बृहद्रथो वै नाम राजा राज्ये ज्येष्ठं पुत्रं निधापयित्वेद- मशाश्वतं मन्यमानः शरीरं वैराग्यमुपेतोऽरण्यं निर्जगाम। स तत्र परमं तप आस्थायादित्यमीक्षमाण ऊर्ध्वबाहुस्तिष्ठति। अन्ते सहस्रस्य मुनेरन्तिकमाजगाम। अभिरिवाधूमकस्तेजसा निर्दहन्निवात्मविद्धगवाञ्छा- कायन्य उत्तिष्ठोत्तिष्ठ वरं वृणीप्वेति राजानमब्रवीत्। स तस्मै नमस्कृत्यो- वाच। भगवन्नाहमात्मवित् ; त्वं तत्त्ववित् श्रृणुमो वयम्। स त्वं नो बहीति। एतद् वृत्तं पुरस्तादशक्यं मा पृच्छ प्रश्नम्। ऐक्ष्वाकान्यान् कामान् वृणीप्वेति। शाकायन्यस्य चरणावभिमृशमानो राजेमां गाथां जगाद ॥ १ ॥

संसारनिर्वेदगाया

अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं स्थानं वा तरूणां निमज्जनं प्ृथिव्याः स्थानादपसरणं

Page 207

२०० संन्यासोपनिषदः [अ.

सुराणाम्। सोऽहमित्येतद्विधेडस्मिन् संसारे किं कामोपभोगै्य रेवाश्रित- स्यासकृदुपावर्तनं दृश्यत इत्युद्धर्तुमर्हसीति अन्धूदपानस्थो भेक इवा- हमस्मिन् संसारे भगवंस्त्वं नो गतिरिति ॥। २ ।। भगवन्निदं शरीरं मैथुनादेवोद्धतं संविदपेतं निरय एव मूत्रद्वारेण निप्क्रान्तमस्थिमिश्चित मांसेनानुलिपं चर्मणावबद्धं विष्मूत्र- वातपित्तकफमज्जामेदोवसाभिरन्यैश्र मलैर्बहुभिः पंरिपूर्णम्। एतादृशे शरीरे वर्तमानस्य भगवंस्त्वं नो गतिरिति ॥ ३ ।।

श्रुत्याचार्योंपदेशेन मुनयो यत् पदं विदुः । तत् स्वानुभूतिसंसिद्धं स्वमात्रं ब्रह्म भावये ।। इह खलु मत्रेयसंज्ञिकेयमुपनिषत् सामवेदप्रविभक्ता। अतोऽस्या उपोद्दातादि छान्दोग्यादिवत् ज्ञेयम्। तीव्रतरवैराग्यस्वानुभूतिपारमार्थिकज्ञान- प्रापिकेयं मैत्रेयोपनिषत्। तस्याः स्वल्पग्रन्थतो विवरणमारभ्यते। बृहद्रथ- शाकायन्याद्याख्यायिका तु वक्ष्यमाणविद्यास्तुत्यर्था। केयमाख्यायिकेत्यत आह-बृहद्रथ इति। अस्मिन् शरीरे। "बृहद्रथो वै नाम राजा" इत्यादि "को न मुच्येत बन्धनात्" इत्यन्तं मैत्रायणीयोपनिषदि अन्यूनानधि- काक्षरतया तत्र तत्र वतते। तद्वयाख्यानेनेदमपि व्याख्यातप्रायमेव स्यादिति व्याख्या न क्रियते। वृहद्रथो वै नाम राजा यथोक्तसाधनसंपन्नः सन् स्वीयराज्यादिकं परित्यज्य महारण्यप्रदेशमास्थाय आदित्यं पश्यन्नूध्वबाहुः चिरकालं तपश्चचार। तत्तपसा तुष्टो भगवान् शाकायन्यमुनिमनुप्रविश्य तदिष्टसिद्धयै चोडितवान्। अथ स मुनिस्तन्निकट जगाम। स राजा तद्दर्शनमात्रेण सहसा उत्थाय दण्डवत् प्रणनाम। तं प्रणतमुत्तिष्ठोत्तिष्ठ स्वेप्सितवरं वृणीष्वेति मुनिरत्रवीत्। ततो राजा ब्रह्मविद्यां याचितवान्। तद्योग्यतापरीक्षणार्थ 'यत् त्वया पृष्टं मास्तु तत् ; तस्यानिर्वचनब्रह्मगोचर- तया वत्तुमशक्यत्वात्; अन्यान् कामान् वृणीव्व' इति मुनिना प्रलोभ्य- मानोऽपि परमार्थतो न विचचाल ॥ १-३ ॥

Page 208

मैत्रेयोपनिषत् २०१

ब्रह्मण: याथात्म्यप्रकटनम्

अथ भगवाञ्छाकायन्यः सुप्रीतोऽब्रवीद्राजानम्। महाराज वृहद्रथेक्ष्वाकुवंशध्वजशीर्षात्मज्ञः कृतकृत्यस्त्वं मरुन्नाम्ना विश्रतोऽसीत्ययं स्वल्वात्मा ते। कतमो भगवन् वर्ण्य इति। तं होवाच॥ ४॥

शब्दस्पर्शादयो येडर्था अनर्था इव ते म्थिताः । येषां सक्तस्तु भूतात्मा न स्मरेच्च परं पदम् ।५ ।। तपसा प्राप्यते सत्त्वं सत्त्वात् संप्राप्यते मनः । मनसा प्राप्यते ह्यात्मा ह्यात्मापत्त्या निवर्तते ॥ ६ ॥ यथा निरिन्धनो वहिः स्वयोनावुपशाम्यति। तथा वृत्तिक्षयाच्चितं स्वयोनावुपशाग्यति ॥७॥ स्वयोनावुपशान्तस्य मनसः सत्यगामिनः । इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः ॥८॥ चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत्। यच्चित्तस्तन्मयो भाति गुह्यमेतत् सनातनम् ॥ ९ ॥ चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते ॥ १० ॥ समासक्तं यदा चित्तं जन्तोर्विषयगोचरे। यद्येवं ब्रह्मणि स्यात् तत् को न मुच्येत बन्धनात् ॥ ११ ॥ हृतपुण्डरीकमध्ये तु भावयेत् परमेश्वरम्। साक्षिणं बुद्धिनृत्तस्य परमप्रेमगोचरम् ॥ १२ ॥

Page 209

२०२ संन्यासोपनिषद: [अ.

अगोचरं मनोवाचामवधूताघिसंप्रुवम्। सत्तामात्रप्रकाशैकस्वभावं भावनातिगम् ।। १३ ।। अहेयमनुपादेयमसामान्यविशेषणम्। घ्रुवं स्तिमितगम्भीरं न तेजो न तमस्ततम्। निर्विकल्पं निराभासं निर्वाणमयसंविदम् ॥ १४॥ नित्यः शुद्धो वुद्धमुक्तस्वभावः सत्यः सूक्ष्म: संविभुश्चाद्वितीयः। आनन्दाब्धिर्यः परः सोऽहमस्मि प्रत्यग्धातुर्नान्र संशीतिरस्ति ॥१५॥

आलोकयन्तं जगदिन्द्रजालमापत् कर्थ मां प्रविशेदसङ्गम् ॥१६ ॥ वर्णाश्रमाचारयुता विमूढा: कर्मानुसारेण फलं लभन्ते। वर्णादिधम हि परित्यजन्तः स्वानन्दतृप्ताः पुरुषा भवन्ति ॥ १७ ॥ वर्णाश्रमं सावयवस्वरूपमाद्यन्तयुक्तं ह्यतिकृच्छुमात्रम्। पुत्रादिदेहेप्वभिमानशून्यं भूत्वा वसेत् सौख्यतमे ह्यनन्ते ॥ १८ ॥

एवं स्वातिरिक्तविषयपराङ्मुखं ब्रह्मविद्यापात्रं मत्वा आदौ ब्रह्मविद्या- साधनत्वेन बाह्यान्तःकरणनिग्रहपूर्वकं श्रवणादिरूपं तप एव मुख्यसाधनमित्यु- पदिश्यते। अतो ब्रह्मयाथात्म्यं प्रकटयितुं भूमिकां रचयति-हृदिति । मुमुक्षु: संशयादिपञ्चदोषशान्त्यन्तं सर्ववेदान्तश्रवणं मननं च कृत्वाथ स्वहृदय- पुण्डरीकमध्ये तु; तुशब्दो ब्रह्माभिव्यक्तिस्थानत्वद्योतकः ; तत्रैव परमो निरति- शयश्चासौ स्वमात्रतया अवस्थातुमीश्रवरः समर्थश्चेति परमेश्वरः । तं परमात्मानम्। "साक्षिणम्" इत्यादि "निर्वाणमयसंविदम्" इत्यन्तविशेषणजातनिर्धारित- स्वरूपं निष्प्रतियोगिकस्वमात्रमिति भावयेत् ध्यायेदित्यर्थः। तद्विशेष- णान्याह-साक्षिण मित्यादि। स्वाज्ञविकल्पितसाक्ष्यरूपबुद्धिनृत्तस्य सत्तेव

Page 210

मैत्रेयोपनिषत् २०३

स्वज्ञदष्ट्या तद्धावाभावप्रकाशकतया साक्षिणं परमप्रेमगोचरं स्वस्यैव सर्वस्मात् पुत्रवित्तादेरपि परमप्रेमास्पदत्वात्; "सर्वस्मात् प्रियतमः" इत्यादिश्रुतेः । परमप्रेमगोचरतया वागादिगोचरता स्यादित्यत आह-अगोचरं मनोवाचा- मिति। वागादिकरणग्रामप्रसक्तानवगोचरत्वं च स्वतः; निष्प्रतियोगिकस्वमात्र- त्वात्। यदि ब्रह्म निष्प्रतियोगिकं, तदा स्वाज्ञानां भवसागरतरणं तद्गावापत्तिर्वा कुत इत्यत आह-अवधूताधिसंप्वमिति। अवधूतश्रुतिस्मृतिमर्यादानां स्वा- ज्ञानामाधिव्याध्यादिजलचरजन्तुजुष्टभवसागरपरवम्। यद्वा अवघूतस्वाज्ञानानां ब्रह्मविदां भवसागरतरणोपायभूतसंप्रवस्थानीयापरब्रह्मरूपमतीत्य वर्तत इत्यव- धूताधिसंप्रवः। तं निर्विशेषपरमात्मानमित्यर्थः । तत्र हेतुः सत्तामात्रप्रकाशकैक- स्वभावमिति स्वातिरिक्तासत्ताग्राससत्तामात्रतया प्रकाशत इति सत्तामात्रप्रकाश एव एकं मुख्यं स्वभावो यस्य तथोक्तम्। एवं भावनास्पदत्वात् साकल्यापत्तिः; तत्राह-भावनातिगमिति। एवं भावना हे तुतूलाविद्यासंभवात् स्वाविद्यात्मक- तूलाविद्यापाये यदवशिष्यते तद्रपं किं हेयम्? यद्वा उपादेयम्? अथवा सामान्यम्? आहोस्वित् विशेषमिति। तत्र नाद्यः ; स्वाविद्यापदतत्कार्यस्थूलांशस्य हेयत्वेन तत्कलनापह्ववसिद्धस्य अहेयत्वादहेयः, तम्। न द्वितीयः; तत्सूक्ष्मां- शस्य दृश्यत्वेनोपादातुं शक्यत्वात् तदपह्नवसिद्धोऽनुपादेयः; तम्। न तृतीयः; तद्वीजांशस्याव्यक्तप्रकृतिरूपत्वेन सामान्यरूपत्वात् तदपह्नवसिद्धोऽसामान्यः; तम्। नापि चतुर्थः, तत्तुरीयांशस्य साम्यविद्यारूपत्वेन विशेषरूपत्वात् तदपह्रव- सिद्धोऽविशेष :; तम्। एवं स्वाज्ञध्रुवानुभूतिसिद्धस्वाविद्यापदापह्नवतः अध्रुवोऽय- मात्मा भवितुमर्हतीत्यत आह-ध्रुवमिति। स्वाविद्यापदस्य स्वज्ञानुभूत्या अध्रुव- त्वम्। तदपह्ववसिद्धस्य ध्रुवत्वं निरड्कुशमित्यर्थः । अत एव स्तिमितगम्भीरम; निस्तरङ्चिदर्णवरूपत्वात्। चिदर्णवत्वे तर्तिक तेजः? उत तमः? यद्ा ततम्? नादः; भौतिकतेजसोऽपह्ववान तेजः । न द्वितीयः; स्वाज्ञानतमसो ग्रासत्वान्न तमः। न तृतीयः; व्याप्यसामान्याभावाननापि ततम्। उक्तविकल्पतदाभासयोर- पह्नवात् निर्विकल्पं निराभासम्। यद्येवं तद्याथात्म्यं किमित्यत आह-निर्वाण- मयसंविद मिति। निर्वाणमयं विकलेबरकैवल्यस्वरूपम्। न ह्यन्र मयद्शब्दो

Page 211

२०४ संन्यासोपनिषद: [अ. विकार प्राचुर्यार्थाभिधायी, स्वरूपपरत्वात्। संवित् स्वरूपज्ञानं पूर्णबोधस्वरूपम्; "सत्यं ज्ञानमनन्तम्" "विज्ञानमानन्दं ब्रह्म" "कार्यकारणतां हित्वा पूर्ण- बोधोऽवशिष्यते" इत्यादिश्रुतेः। एवं राजा शाकायन्यमुखतः ब्रह्ममात्रावगतिमव- गम्य चिरं समाधिनिष्ठो भूत्वा ब्रह्मविद्यासंप्रदाया विच्छेदाय स्वानुभवं प्रकटयामा- सेत्याह-नित्य इति। नित्यः; कालत्रयाबाध्यत्वात्। शुद्धः; अशुद्धस्वा- ज्ञानापायात्। बुद्धः; पूर्णबोधस्वरूपत्वात्। मुक्तस्वभावः; स्वातिरिक्तास्तिता- भ्रमत इत्यर्थः । सत्यः; पारमार्थिकसद्रूपत्वात्। सूक्ष्म :; निर्विशेषतया केशकोटये कांशवत् सुसूक्ष्मरूपत्वात्। संविभुश्च; परिच्छेदत्रयाभावात्। अद्वि- तीय: ; स्वप्रतियोगिद्वैतस्य मृग्यत्वात्। चशब्दो निष्प्रतियोगिकत्वख्यापनार्थः । निस्तरङ्गानन्दाब्धिः ; पूर्णानन्दसमुद्रत्वात्। यः सर्वस्मात् परः परमात्मा सोऽहमस्मि; स एव भवामि। पराक्प्रपञ्चे सति कथं परमात्मा भवसीत्यत आह-प्रत्यग्धातुरिति। पराक्प्रपञ्चप्रातिलोम्येनाञ्चनात् प्रत्यक्चासौ धातुश्चेति प्रत्यगभिन्नपरमात्मास्मीत्यत्रास्मिन्नर्थे न हि संशीतिः संशयोऽस्ति । वस्तुतः प्रत्यक पर इति विभागैक्यासहनिष्प्रतियोगिकब्रह्ममात्रत्वात्। स्वातिरित्तप्रपञ्चा- पद: सत्त्वात् कथमेवं भवसीत्यत आह-आनन्दमिति। स्वान्तर्हृदये निजं पारमार्थिकसद्रूपमानन्दं सच्चिदानन्दं ब्रह्म स्वमात्रमित्याश्रयन्तमनवरतं भाव- यन्तम्। स्वातिरिक्ताशासत्त्वात् कथं तदाश्रयणमित्यत आह-आशेति । स्वातिरित्तमस्तीत्याशैव पिशाची, तां ब्रह्मातिरिक्तं नेत्यवमानयन्तम् अपह्ववं कुर्वन्तम्। स्वातिरिक्तजगत्प्रतीतौ कथमेवमित्यत आह-आलोकयन्तमिति। किं तत्? पदे पदे जन्मस्थितिभङ्गं गच्छतीति जगत्। इन्द्रजालं मायामात्रम् इत्यालोकयन्तम्। तत्राप्यसङ्गं मामेतादृशं कथं स्वातिरिक्तास्तितारूपेयमापत् स्वाज्दृष्टिप्रमाणसिद्धापि वस्तुमात्रदृष्टिं प्रविशेदित्यर्थः । वर्णाश्रमाचारव्यवस्थायां सत्यां कथमेवं सिध्यतीत्याशङ्क्य स्वातिरेकेण वर्णाश्रमाद्यस्तीति ये मन्यन्ते, त एव बध्यन्ते। तद्विपरीताः तद्भ्रमतो मुच्यन्त इत्याह-वर्णेति। ब्रह्म- क्षत्रादिः वर्णः । ब्रह्मचर्यादिराश्रमः। तत्रात्मात्मीयाभिमानयुता ये, ते मूढा :; स्वातिरिक्तास्तितामूलस्वाज्ञानारूढदृष्टित्वात् स्वस्वभावाञ्चितकर्मानु-

Page 212

२] मैत्रयोपनिषत् २०५ सारेण फल्गुत्वेन भोगतो यद्विलीयते तत् स्वर्गनरकादिकं फलं क्षणभडुरं लभन्ते घटीयन्त्रवदविश्रान्तं जन्ममरणे अनुभवन्ति हि। ये तद्विपरीताः वर्णाश्रमादावात्मात्मीयमर्ति त्यजन्तः सन्तः तत्त्यागाधिकरणस्वानन्दात्मभावेन तृप्ता भूत्वा स्वेन रूपेण सर्वत्र पूरणात् पुरुषाः ब्रह्मैव भवन्तीत्यर्थः । उक्तार्थमेव पुनर्विशदयन्नुपसंहरति-वर्णाश्रममिति। वर्णाश्रम विशिष्टं शरीरं करचरणादिसावयवस्वरूपम्। आदि: उत्पत्तिः, अन्तो नाशः, ताभ्यां युक्तम्। दि यस्मात् अतिकृच्छमात्रं कष्टमात्रपर्यवसन्नं तत्र स्वदेहे पुत्रादिदेहेष्वपि आत्मात्मीया भिमानशून्यं मनः कृत्वा स्वयं विद्वान् सर्वापहवसिद्धनिष्प्रति- योगिकब्रह्ममात्रं भूत्वा अखण्डानन्दतः सौख्यतमे परिच्छेदत्रयाभावादनन्ते स्वे महिम्नि वसेत्। इतिशब्दस्तु प्रथमाध्यायपरिसमा्यर्थः ॥ ४-१८॥

इति प्रथमोऽध्याय:

मैत्रेयं प्रति महादेवस्य उपदेशः

अथ भगवान् मैत्रेयः कैलासं जगाम। तं गत्वोवाच। मो भगवन् परमतत्त्वरहस्यमनुबहीति। स होवाच महादेवः ॥ १॥ देहो देवालयः प्रोक्त: स जीवः केवल: शिवः। त्यजेदज्ञाननिर्माल्यं सोडहंभावेन पूजयेत् ॥ २ ॥ अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः । स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः ॥३ ॥ ब्रह्मामृतं पिबेद्ैक्षमाचरेद् देहरक्षणे। वसेदेकान्तिको भृत्वा चैकान्ते द्वैतवर्जिते। इत्येवमाचरेद्धीमान् स एव मुक्तिमामुयात् ।।४ ।

Page 213

२०६ संन्यासोपनिषद: [अ. मैत्रेयः पराशरमुखात् विदिततत्त्वोऽपि सर्वलोकप्रत्ययजननार्थ कैलासं गत्वा यथाविधि तन्मुखात् परमतत्त्वरहस्यबुभुत्सया विधिवत् पप्रच्छेत्याह- अथेति। मुनिना पृष्टः स होवाच महादेवः । किमुवाचेत्यत्र देहजीवयोः शिवालयशिवद्ष्ट्या स्वाज्ञाननिर्माल्यविसर्जनपूर्वकं यः सोऽहंभावेन पूजयेत् स मुक्तो भवतीत्याह-देह इति। स्पष्टोऽर्थ: ॥ १-४॥

शौचविधानम्

जातं मृतमिदं देहं मातापितृमलात्मकम्। सुखदुःखालय।मेध्यं स्पृष्ट्रा सानं विधीयते ॥५ ॥ धातुबद्धं महारोगं पापमन्दिरमध्रुवम्। विकाराकारविस्तीर्ण स्पृष्टा स्त्नानं विधीयते ॥६ ॥ नवद्वारमलस्रावं सदा काले स्वभावजम्। दुर्गन्धं दुर्मलोपेतं स्पृष्टा सनानं विधीयते ॥७॥ मात्रा सूतकसंबद्धं सूतके सह जायते। मृतसूनकजं देहं स्पृष्टा स्नानं विधीयते ॥ ८॥ अहं ममेति विष्मूत्रलेपगन्धादिलोचनम्। शुद्धशौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम् ॥ ९ ॥

देहे देवोपभोगदेवालयादिद्ृष्टि विना आत्मात्मीयाभिमानतो देहस्या- स्पृश्यत्वेनाशुचित्वम्। तद्भह्मज्ञानादिशुद्धोदक्षालनाच्छुचित्वं स्यादित्याह- जातमिति। अत्र यदि कदाचित् आत्मात्मीयाभिमानेन देहं स्पृशति, तत्र आत्मात्मीयाभिमतित्याग एव स्नानं विधिचोदितमित्यर्थः ; "स्नानं मनोमल- त्यागः" इत्युक्तत्वात्। किंच धातुबद्धमिति। वातपित्तादिधातुबद्धम् ;

Page 214

२] मैत्रेयोपनिषट् २०७

नानारोगायतनत्वात्। किंच नवद्वारेति। सूतकेन सह जायत इत्यर्थः ; "जातस्य हि ध्रुवो मृत्युः" इति स्मृतितः। तच्छौचप्रकारमाह- अह्मिति॥ ५-९॥ चित्तशुद्धि: चित्तशुद्धिकरं शौचं वासनात्रयनाशकम्। ज्ञानवैराग्यमृत्तोयैः क्षालनाच्छौचमुच्यते ॥ १० ॥ अद्वैतभावना भैक्षममक्ष्यं द्वैतभावनम्। गुरुशास्त्रोक्तमावेन भिक्षारभैक्षं विधीयते॥ ११॥ विद्वान् स्वदेशमुत्सृज्य संन्यासानन्तरं स्वतः। कारागारविनिर्मुक्तचोरवद् दूरतो वसेत् ॥ १२ ॥

एवं शौचतः कि स्यादित्याशङ््य वासनात्रयक्षयपुरःसरं चित्तशुद्धिः स्यादित्याह-चित्तेति। "ब्रह्मामृतं पिबेद्वेक्षम्" इति यदुक्तं तदनेन मन्त्रेण विशदयति-अद्वैतेति ॥ इत्थंभूतो भिक्षुः क्वासनमर्हतीत्याशड्क्य ज्ञातचर- देशात् बहिरेव चरेदित्याह-विद्वानिति ॥ १०-१२॥ अहंकारादित्यागः

अहंकारसुनं वित्तभ्रातरं मोहमन्दिरम्। आशापत्नीं त्यजेद्यावत् तावन्मुक्तो न संशयः ॥ १३ ॥ बाह्यदारपुत्रादित्यागमात्रेण मुक्तिर्नाहंकारादित्यागेनेत्याशङ्कय बाह्यदारा- दित्यागपूर्वकमहंकारादित्यागेनैव मुक्ति: स्यादित्याह-अहंकारेति। बाह्या- न्तःसंन्यासाभ्यामेव मुक्ति: स्यात्, नान्यतरत्यागत इत्य्थः । "विष्णुलिङ्गं द्विधा प्रोक्तंव्यक्तमव्यक्तमेव च। तयोरेकमपि त्यक्त्वा पतत्येव न संशयः ॥" इति श्रुतेः ॥ १३ ॥

Page 215

२०८ संन्यासोपनिषद: [e.

कर्मत्याग:

मृता मोहमयी माता जातो बोधमयः सुतः। सूतकद्वयसंप्राप्तौ कर्थं संध्यामुपासमहे॥ १४ ॥ हृदाकाशे चिदादित्यः सदा भासति भासति। नास्तमेति न चोदेति कथं संध्यामुपास्महे॥ १५ ॥ एकमेवाद्वितीयं यद्गुरोर्वाक्येन निश्चितम्। एतदेकान्तमित्युक्तं न मठं न वनान्तरम् ॥ १६ ॥

संध्यादिकर्मत्यागतः प्रत्यवायी स्यादित्याशङ्कय स्वाज्ञानहानात् स्वज्ञानो- दयतः चिदादित्यस्य उदयास्तमयाभावाच्च संध्यादिकर्मकरणानुपपत्तिमाह- मृतेति द्वाभ्याम्। रवेरुदयास्तमययोः किल कर्म कर्तव्यम्। "एवंविदश्चिदा- दित्यस्य उदयास्तमयाभावात् सर्वकर्माभावः" इति श्रुतेः । "वसेदेकान्तिको भूत्वा" इति यदुक्तं तदेकान्तस्वरूपं विशदयति-एकमेवेति॥१४-१६॥

मुख्यसंन्यास: असंशयवतां मुक्ति: संशयाविष्टचेतसाम्। न मुक्तिर्जन्मजन्मान्ते तस्माद्विश्वासमाप्नुयात् ॥१७॥ कर्मत्यागान्न संन्यासो न प्रैषोच्चारणेन तु। संधौ जीवात्मनोरैक्यं संन्यासः परिकीर्तितः ॥ १८ ॥

"देहो देवालयः" इत्यादि मया यदुक्तं तत्रासंशयवतां मुक्ति :; न हि संशयवतामित्याह-असंशयेति; "नायं लोकोऽस्ति न परो न सुखं संशयात्मनः" इति स्मृतेः। प्रैषतः कर्मत्याग एव मुख्यसंन्यास इत्याशङ्कय जीवपरभेदत्याग एव मुख्यसंन्यास इत्याह-करमेति ॥ १७, १८॥

Page 216

२] मैत्रेयोपनिषत् २०९

संन्यासाधिकारी

वमनाहारवद्यस्य भाति सवेषणादिषु। तस्याधिकारः संन्यासे त्यक्तदेहाभिमानिनः ॥ १९ ॥ यदा मनसि वैराम्यं जातं सर्वेषु वस्तुषु। तदैव संन्यसेद्विद्वानन्यथा पतितो भवेत् ॥ २० ॥ द्रव्यार्थमन्नवस्त्रार्थ यः प्रतिष्ठार्थमेव वा। संन्यसेदुभयभ्रष्टः स मुक्तिं नाप्तुमर्हति ॥ २१॥

संन्यासाधिकारी कीदश इत्याशङ्कय यस्य वान्ताशनमूत्रपुरीषादिवत् बाह्यार्थेषु हेयतोदेति स एव संन्यासाधिकारीयाह-वमनेति। संन्यासमूलं किमित्याशङ्क्य स्वातिरिक्तविषयतीव्रतरवैराग्यमेवेत्याह-यदेति। निमित्तान्त- रेणापि संन्यासकरणं श्रेय इत्यत आह-द्रव्यार्थमिति॥१९-२१ ॥

मुक्तिं प्रति साधनान्तराणि

उत्तमा तत्त्वचिन्तैव मध्यमं शास्त्रचिन्तनम्। अधमा मन्त्रचिन्ता च तीर्थभ्रान्यधमाधमा ॥ २२॥

तीर्थमन्त्रशास्त्रतत्त्वचिन्तनं मुक्ति प्रति समानसाधनमियत आह- उत्तमेति। परस्परोपायोपेयतया मुक्तिसाधनमेतच्चतुष्टयं न समानमित्यर्थः । तीर्थभ्रान्त्यधमाधमा इत्यत्र विसर्गलोपश्छान्दसः ॥ २२॥

अनुभव:

अनुभूतिं विना मूढो वृथा ब्रह्मणि मोदते। प्रतिबिम्बितशाखाग्रफलास्वादनमोदवत् ।।२३ ॥। 14

Page 217

२१० संन्यासोपनिषदः [अ.

न त्यजेच्चेद्यतिर्मुक्तो यो माधूकरमान्तरम्। वैराग्यजनकं श्रद्धाकलत्रं ज्ञाननन्दनम् ॥ २४ ॥

केवलशास्त्रज्ञानादेव ब्रह्मावाप्तिः, किपनुभवेनेत्यत आह-अनुभूति- मिति। अस्ति ब्रह्मेति शास्त्रीयज्ञानं परोक्षम्। अहं ब्रह्मेत्यपरोक्षज्ञानमनु- भवात्मकम् ; ब्रह्ममात्रज्ञानस्य स्वानुभूतिप्रमाणसिद्धत्वात्। इत्थंभूतानुभूति विना ब्रह्मानुमोदनं जलप्रतिबिम्बितफलास्वादनवत् न हि कार्यकारि भवतीत्यर्थः । श्रद्धाभक्तिज्ञानवेराग्यपुरःसरम् अद्वतभावनाख्यान्तरमाधूकरभजनं यः करोति, स यतिर्मुक्तो भवतीत्याह-न त्यजेदिति ॥ २३,२४ ।।

परमधर्मोपदेश:

धनवृद्धा वयोवृद्धा विद्यावृद्धास्तथैव च। ते सरवें ज्ञानवृद्धस्य किंकराः शिष्यकिंकराः ॥ २५॥ मन्मायया मोहितचेतसो मामात्मानमापूर्णमलब्धवन्तः । परं विदग्धोदरपूरणाय भ्रमन्ति काका इव सूरयोऽपि ॥ २६॥ पाषाणलोहमणिमृन्मयविग्रहेषु पूजा पुनर्जननभोगकरी मुमुक्षोः । तस्माद्यतिः स्वहृदयार्चनमेव कुर्याद्वाह्यार्चनं परिहरेदपुनर्भवाय॥ अन्तः पूर्णो बहिः पूर्णः पूर्णकुम्भ इवार्णवे। अन्तः शून्यो बहिः शून्यः शून्यकुम्भ इवाम्बरे ॥ २८॥ मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव। भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥ २९ ॥ द्रष्ट्ृदर्शनद्ृश्यानि त्यक्त्वा वासनया सह। दर्शनप्रथमाभासमात्मानं केवलं भज ॥ ३० ॥

Page 218

2] मैत्रेयोपनिषत् २११ धनादिवृद्वेभ्यो ज्ञानवृद्वं महीकरोति-धनेति। स्वज्ञानिनं "ज्ञानी त्वात्मैव मे मतम्" इति स्वोक्त्यनुरोधेन महीकृत्य तद्विपरीतस्वाज्ञजन्म धिग धिगिति निन्दति-मन्माययेति। सूरयोऽपि ये मां न जानन्ति तेषां जन्म अजागलस्तनवद्वयर्थमित्यर्थः । "सोऽहंभावेन पूजयेत्" इति यदुक्तं तत्र स्वभेदविया कृतवाह्यपूजा पुनर्भवकरीति निन्दनपूर्वकमभेद- पूजनं स्वपदप्रापकमिति स्तौति-पाषाणेति। परमतत्त्वरहस्यमनु्ूहीति यत् पृष्टं, तत्र स्वस्य स्वातिरिक्तस्य च निष्प्रतियोगिकपूर्णत्वं शून्यत्वं च सद्ष्टान्तं प्रतिपादयति-अन्तरिति। अर्णवाम्बरमध्यपतितपूर्णशून्यकुम्भ इव स्वय- मन्तर्बहिरन्तरालेऽपि पूर्ण: ; अन्तर्बाह्यान्तरालकलनाभावात्। तथा स्वाति- रिक्तमन्तर्बाह्यान्तरालकलनाशून्यम्; स्वातिरित्तयोः निष्प्रतियोगिकभावाभाव- रूपत्वात्। ग्राह्यप्राहकतया सविषयकरणग्रामद्रष्ट्रादित्रिपुटीसत्त्वात् कथं स्वाति- रिक्तयोर्भावाभावरूपतेत्याशङ्क्य, परमार्थतो ब्रह्मातिरिक्तं नास्त्येव; यदि स्वाज्ञदष्टया तत्प्रसक्तिस्तदा ग्राह्यग्राह कादिकलनाविशिष्टद्रष्ट्रदिनानात्रिपुव्यपह्वव- सिद्धूं ब्रह्म स्वमात्रमिति भजेत्याह-मा भवेति। ग्राह्यं विषयजातम्। ग्राहकं करणजातम्। त्रिपुव्यादिसर्वव्यापृतप्रथमाभासं प्रत्यञ्वं पराग्भावापह्ववसिद्धपर- मात्मानं केवलं निष्प्रतियोगिकस्वमात्रमिति, हे मैत्रेय, तन्मात्रं भव तदेव भवेत्यर्थः ॥ २५-३० ॥ विदेहमुक्तस्य स्थिति:

संशान्तसर्वसंकल्पा या शिलावदवस्थितिः । जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थिति: परा ॥ ३१ ॥ इति। तन्मात्रावस्थितविदेहमुक्तस्य स्थितिः कीदृशीत्यत आह-संशान्तेति। यस्यां स्वातिरिक्तनानाविषयगोचरसर्वसंकल्पः शान्तः अपह्ववं गतः, सेयं संशान्तसर्वसंकल्पा या पीवरी शिलावत् स्थिरा अवस्थिति: या जात्र-

Page 219

२१२ संन्यासोपनिषद्ः [अ- विनिर्मुक्ता यत्प्रबोधसमकालमपह्ववतां गता, सैव परा काष्ठा स्वरूपस्थिति: विकलेबरमुक्तिः । स्वाज्ञादिदृष्टिमोहे सत्यप्तति सेयमेकरूपैवावशिष्यते। परमशिवोपदेशमहिस्रा मैत्रेयः कृतकृत्योऽभवदित्यर्थः । इतिशब्द: शिवोप- देशपरिसमाध्यर्थों द्वितीयाध्यायपरिसमाध्यर्थश्च ॥ ३१॥

इति द्वितीयोऽध्यायः

मैत्रेयस्य स्वानुमवप्रकटनम्

अहमस्मि परश्चास्मि ब्रह्मास्मि प्रभवोऽस्म्यहम् । सर्वलोकगुरुश्चास्मि सर्वैलोकोऽस्मि सोऽस्म्यहम् ॥ १ ॥ अहमेवास्मि सिद्धोडस्मि शुद्धोऽस्मि परमोऽस्म्यहम्। अहमस्मि सदा सोडस्मि नित्योऽस्मि विमलोऽस्म्यहम् ॥ २ ॥ विज्ञानोडम्मि विशेषोऽस्मि सोमोडस्मि सकलोऽस्म्यहम्। शुभोडस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्यहम् ॥ ३॥ मानावमानहीनोडस्मि निर्गुणोऽस्मि शिवोऽस््यहम्। द्वैताद्वैतविहीनोडस्मि द्वन्द्वहीनोडस्मि सोडस्म्यहम् ॥ ४ ॥ भावाभावविहीनोडस्मि भाषाहीनोऽस्मि भास्यहम्। शून्य।शून्यप्रभावोडस्मि शोभनाशोभनोऽस्म्यहम् ॥५॥ तुल्यातुल्यविहीनोडस्मि नित्यः शुद्धः सदाशिवः। सर्वासर्वविहीनोडस्मि सात्त्विकोडस्मि सदास्यहम् ॥ ६ ॥ एकसंख्याविहीनोऽस्मि द्विसंख्यावानहं न च। सदसद्भेदहीनोऽस्मि संकल्परहितोऽस्म्यहम् ॥ ७॥

Page 220

३] मैत्रेयोपनिषत् २१३

नानात्मभेदहीनोडस्मि ह्यखण्डानन्दविग्रहः। नाहमस्मि न चान्योऽस्मि देहादिरहितोऽसयहम्॥ ८॥ आश्रयाश्रयिहीनोऽस्मि आधाररहितोऽस्म्यहम्। बन्धमोक्षविहीनोडस्मि शुद्धं ब्रह्मास्मि सोऽस्म्यहम् ॥ ९ ॥ चित्तादिसर्वहीनोऽस्मि परमोडस्मि परात् परः । सदा विचाररूपोडस्मि निर्विचारोऽस्मि सोऽस्म्यहम् ॥ १० ॥ अकारोकाररूपोऽस्मि मकारोडस्मि सनातनः । ध्यातृध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोडस््यहम् ॥ ११ ॥ सर्वत्र पूर्णरूपोडस्मि सच्चिदानन्दलक्षणः । सर्वतीर्थस्वरूपोऽस्मि परमात्मास्म्यहं शिवः ॥ १२॥ लक्ष्यालक्ष्यविहीनोडस्मि लयहीनरसोऽस्म्यहम्। मातृमानविहीनोऽस्मि मेयहीनः शिवोऽस्म्यहम् ॥ १३ ॥ न जगत् सर्वद्रष्टास्मि नेत्रादिरहितोऽस्म्यहम्। प्रवृद्धोऽस्मि प्रबुद्धोडस्मि प्रसन्नोडस्मि हरोऽस्म्यहम् ॥ १४ ॥ सर्वेन्द्रियविहीनोडस्मि सर्वकर्मकृदप्यहम्। सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽस्म्यहम् ॥ १५ ॥ मुदितामुदितास्योडस्मि सर्वमौनफलोडस्म्यहम्। नित्यं चिन्मात्ररूपोडस्मि सदा सच्चिन्मयोऽस्म्यहम् ॥ १६ ॥ यत्किंचिदपि हीनोडस्मि स्वल्पमप्यपि नास्यहम्। हृदयग्रन्थिहीनोडस्मि हृदयाम्वुजमध्यगः ॥१७॥

Page 221

२१४ संन्यासोपनिषद: [अ.

षड़डिकारविहीनोऽस्मि षट्कोशरहितोऽस्म्यहम्। अरिषडूर्गमुक्तोडस्मि अन्तरादन्तरोडस्म्यहम् ॥ १८ ॥ देशकालविमुक्तोडस्मि दिगम्बरसुखोडस्म्यहम्। अस्तिनास्तिविमुक्तोऽस्मि नकाररहितोडस्यहम् ॥ १९, ॥ अखण्डाकाशरूपोडस्मि ह्यखण्डाकारमस्म्यहम् प्रपश्चमुक्तचित्तोऽस्मि प्रपश्चरहितोऽस्म्यहम् ॥ २०॥ सर्वप्रकाशरूपोऽस्मि चिन्मात्रज्योतिरस्म्यहम्। कालत्रयविमुक्तोऽस्मि कामादिरहितोऽस्यहम् ॥२१॥ कायकायिविमुक्तोऽस्मि निर्गुण: केवलोऽस्म्यहम्। मुक्तिहीनोडस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा ॥ २२ ॥ सत्यासत्यविहीनोडस्मि सन्मात्रान्नास्म्यहं सदा। गन्तव्यदेशहीनोऽस्मि गमनादिविवर्जितः ॥ २३ ॥ सर्वदा समरूपोडस्मि शान्तोऽस्मि पुरुषोत्तमः । एवं स्वानुभवो यस्य सोऽहमस्मि न संशयः । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ २४ ॥। इत्युपनिषत् ।।

अथ भगवान् मैत्रेयः परमशिवमुखतः परमतत्त्वरहस्यं निष्प्रतियोगिक- ब्रह्ममात्रज्ञानं यथावदवगम्य स्वातिरिक्तास्तिताभ्रमविरलब्रह्ममात्रभावारूढोडपि ब्रह्मविद्याचार्यपरमशिवसंकल्पवशात् बहिष्ठः प्राणिपटलपुण्योद्रेकाच्च यच्छूव- णादिमात्रेण स्वाज्ञलोक: स्वज्ञो भूत्वा परमार्थज्ञानसमकालं विदेहमुक्तो भवेत्, तथा तत्परमशिवोपदिष्टस्वानुभूतार्थ ब्रह्मविद्यासंप्रदायस्थापनार्थ वा यथोक्ताधिकारिण उद्दिश्य स्वानुभवं प्रकटयामासेत्याह-अहमस्मीति। देहान्तरवभासकः

Page 222

३] मैत्रेयोपनिषत् २१५

प्रत्यगस्मच्छन्देनोच्यते। स्वान्तरवस्थितपराक्प्रपञ्चापेक्षया अहं प्रत्यगस्मि। देहाद्वहिर्विलसित प्रपञ्चापेक्षया परश्चास्मि। चशब्दः प्रंत्यक्परयोरौपाधिक भेदनिरसनार्थः । प्रत्यक्पराभेदापेक्षया प्रत्यगमिन्नब्रह्मास्मि। स्वाज्ञदृष्टया जीवेशादिरूपेण प्रभवामीति प्रभवोऽस्म्यहम्। किंच-सर्वेति। ईश्वर- रूपेण सर्वलोकगुरुश्चास्मि। चशब्दः साक्ष्यप्यस्मीति द्योतकः । वैराज- रूपेण सर्वेलोकोऽस्मि; विराजो ब्रह्माण्डकायत्वात्। वस्तुतो यः सर्व- कलनापह्ववसिद्धः सोऽस्म्यहम्; निष्प्रतियोगिकत्वात्। किंच-अहमिति। स्वेन रूपेण सिद्धः । अशुद्धस्वाज्ञानहानाच्छुद्धः । शिष्टमुक्तार्थम्। किंच- अहमस्मीति। यः सदैकरसः सोऽस्मि। अनित्यमलप्रपञ्चहानान्नित्योऽस्मि विमलोऽस्मि। नित्यविज्ञप्तिरूपतो विज्ञानोऽस्मि। यस्माच्छेषशेषिभावो विगतः, सोऽहं विशेषोऽस्मि। रुद्ररूपेण उमया सहितः सोमोऽस्मि। चतुःषष्टिकलावदीश्वराभेदेन सकलोऽस्म्यहम्। प्राणादिनामान्तषोडशकला- विशिष्टसूत्राभेदेन वा सकलोऽस्मि। किंच-शुभ इति। निवृत्तिमार्ग- गम्यत्वाच्छुभः । शोचनीयविषयाभावाच्छोकहीनः । जडदेहादिविलक्षणत्वा- च्चैतन्योऽस्मि। नानोपाधिषु विषमेष्वपि सर्वान्तर्याम्यादिरूपेण समः । मानावमानवृत्तिम त्तूला विद्या प्रलया त् मानावमानहीनोडस्मि। सत्त्वादिगुणाभावा- त्निर्गुणोऽस्मि। स्वातिरिक्ताशिवाभावाच्छिवोऽस्मि। किंच-द्वैताद्वैतेति। प्रवृत्तिमार्गसिद्धं द्वैतम। निवृत्तिमार्गसिद्धमद्वैतम्। स्वातिरेकेण प्रवर्तनीय निवर्त- नीयस्वाविद्यापदतत्कार्याभावात् द्वैताद्वैतविहीनोऽस्मि। शीतोष्णादिद्वन्द्वा- भावात् द्वन्द्वहीनोऽस्मि। बाह्यान्तःकरणगोचरसदसत्प्रपञ्चवैरल्यात् भावाभाव- विहीनोस्मि। महामौनब्रह्मरूपत्वात् भाषाहीनोऽस्मि। स्वयंप्रकाशरूपत्वात् भास्म्यहम्। किंच-शून्येति। शून्यं स्वातिरिक्तम्। अशून्यं स्वयम्। द्वयमपि यत्प्रभावसिद्धं, सोऽहं शून्याशून्यप्रभावोऽस्मि। विद्यातत्कार्य शोभनम्। अविद्यातत्कार्यमशोभनम्। स्वाज्ञादिदृष्या तदुभयमस्मि। तुल्यं समम्। अतुल्यं विषमम्। तदुभयवैरल्यात् तुल्यातुल्यविहीनोऽस्मि । नित्यः शुद्धो व्याख्यातम्। स्वाज्ञादिदृष्टिमोहे सत्यस्ति सदैव शिवः; परम-

Page 223

२१६ संन्यासोपनिषद: [अ.

मङ्गलकैवल्यरूपत्वात्। किंच-सर्वासर्वविहीनोडस्मि ; समष्टित्यष्टिकलना- वैरल्यात। स्थितिकर्तृविष्णुरूपेण साच्विकोऽस्मि। वस्तुतः सदा निर्गुणो- ऽस्म्यहम्। एकसंख्याविहीनोस्मि द्विसंख्यावानहं न च; सापेक्षैकद्वया- भावात्; "एकाभावे द्वितीयं न न द्वितीयेन चैकता" इति श्रुतेः । सद्सद्गेदहीनोऽस्मि; चाक्षुषाचाक्षुषपदार्थाभावात्। संकल्परहितोऽस्म्यहम्; तद्ेतुमनसो मृग्यत्वात्। नानात्मभेदहीनोऽस्मि; घटशरावादिस्थानीय- नानोपाधीनां भेदभिन्नत्वेऽपि तदवच्छिन्नाकाशस्थानीयप्रत्यगात्मनो निर्भेद- रूपत्वात्। अहं हि अहमेव अखण्डानन्दविग्रहः; निस्तरङ्गानन्द- सागरत्वात्। स्वातिरिक्तं नाहमस्मि। न च तस्मादन्योऽस्मि; स्वारिक्तस्य शशविषाणवदवस्तुत्वात्। देहादिप्रसक्तौ देहादिरहितोऽस्म्यहम्। आश्रय- मविद्याण्डम् ; तद्गतभुवनजातमनाश्रयि; तदुभयाभावात् आश्रयाश्रयिहीनो- डस्मि। आधाररहितोऽस्म्यहम् ; स्वस्यैव सर्वाधारत्वात् ; स्वाधेयाभावतो वा आधारत्वरहितः। बन्धमोक्षविहीनोऽस्मि; देहादावहंभावो बन्धः; तदहंभावाभावो मोक्षः; विदेहमुक्तत्वात् तद्रहितः । शुद्धं ब्रह्मास्मि सोऽस्म्यहम्। उक्तार्थम्। चित्तादिसर्वह्दीनोऽस्मि; चित्ताद्यन्तःकरणतद्- वृत्तिसहस्राभावात्। परमोडस्मि परात् पर :; परम् अक्षरम् ; तस्मादपि पर :; परमाक्षररूपत्वात्। सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोऽस्म्यहम्; ज्ञानाज्ञानवृत्तिमदविद्यातुर्यादिभागचतुष्ट्यवैरल्यात्। अकारो- काररूपोऽस्मि मकारोऽस्मि सनातनः ; प्रणवार्थत्वेन चिरंतनत्वात्। ध्यातृ- ध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् ; ध्यात्रादित्रिपुव्यभावात्। प्रत्यगभिन्नब्रह्मात्मना सर्वत्र पूर्णरूपोऽस्मि। अनृतादिप्रपञ्चपूरणात् तथात्व- शङ्कायां सच्चिदानन्दलक्षणः ; सत्यज्ञानानन्दस्वरूपत्वात्। सार्धत्रिकोटि- सर्वतीर्थस्वरूपोडस्मि; तीर्थानामपि तीर्थरूपत्वात्। परमात्मास्म्यहं शिवः; देहादेः परतरत्वात् "ब्रह्मैव परमात्मा" इति श्रुतेः । लक्ष्यालक्ष्य विहीनो- डस्मि; लक्ष्यं मूर्त लक्षणैकसिद्धं वा। तद्विपरीतमलक्ष्यम् अमूर्ते लक्षणासिद्धं वाच्यं वा। तत्सर्वकलनाविहीन इत्यर्थः । लयहीनरसोऽस्म्यहम् ; लयो नाशः;

Page 224

३] मैत्रेयोपनिषत् २१७ तद्विहीननित्यानन्दरसोऽस्मीत्यर्थः । मातृमानविहीनोऽस्मि मेयह्दीन: शिवो- डस्म्यहम् ; मात्रादित्रिपुटीशून्योऽस्मि। न जगत् सर्वद्रष्टास्मि; जगन्नाहम् ; किंतु तद्द्रष्टास्मि; सर्वसाक्षित्वात्। नेत्रादिरहितोऽस्म्यहम्; नेतृत्वं प्रेरयितृत्वम्। आदिशब्देन भासकत्वादिरुच्यते। नेतृत्वभासकत्वादिकलना- रहितोऽस्मि ; प्रेर्यभास्यजंगमस्थावराभावात् स्वेनैव रूपेण प्रवृद्धो विजृम्भितो- डस्मि; "ब्रह्मैवैकमनाद्यन्तमब्धिवत् प्रविजृम्भते" इति श्रुतेः । स्वाविद्या- स्वापात् प्रबुद्धः; जागरूकोऽस्मि। भगवद्रूपेण भागवतपटलस्य प्रसन्नोऽस्मि। स्वाविद्याद्वयतत्कार्य स्वावशेषेण हरोऽस्म्यहम। सर्वेन्द्रियविह्ीनोऽस्मि; शरीरत्रयाभावात्। सर्वकर्मकृदप्यहम् ; तत्तदिन्द्रियेषु तत्तदिन्द्रियं भूत्वा तत्तदिन्द्रियप्रवृत्तिनिमित्तत्वात्। यद्वा सर्वेन्द्रियाभावेऽपि सवन्द्रियव्यापृति- कृत्वात् ; "अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्य- कर्ण:" इत्यादिश्रुतेः। सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽस्म्यहम्; ईशादष्टोत्तरशतगत ्स र्व वे दा न त वाक्यार् ज्ञान फलकैव्यानन्देन ृप्तोऽस्म अनन्यभावेन भजतां सर्वदा परमसुलभोऽस्मि; सकृद्गजतां परमाभयप्रद- श्रीरामरूपत्वात्; "सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥" इति श्रीरामोक्तेः। मुदितामुदिताख्योऽस्मि ; सत्सु मुदिता; असत्सु अमुदिता ; अपेक्षादिवृत्तिविशिष्टजीवन्मुक्तरूपत्वात्। सर्वमौनफलोऽस्म्यहम्; तत्तत्करणव्यापृत्युपरमलक्षणं सर्वमौनं, ब्रह्ममात्रज्ञानं तत्फलं, विकलेबरकैवल्य- मस्मीत्यर्थः । नित्यं चिन्मात्ररूपोऽस्मि ; अनित्याचिन्मात्रस्य मृग्यत्वात्। सदा सच्चिन्मयोऽस्म्यहप्, सच्चिदानन्दस्वरूपत्वात्। यत्किचिदपि हीनोऽस्मि स्वल्पमप्यपि नास्महम् ; स्वातिरेकेण यत्किचित् स्वल्पमपि नास्मि ; स्वाति- रिक्तस्य मृग्यत्वात्। हृदयग्रन्थिहीनोऽस्मि; हृदित्यन्तःकरणम्; अयमिति साक्षी; तयोस्तादात्म्यं हृदयग्रन्थिरिति चिदाभास उच्यते; जीवत्वस्य मृग्यत्वात्। हृदयाम्बुजमध्यगः; अन्तर्याम्यादिरूपत्वात्। षड्डिकारविद्दीनोऽस्मि षट्- कोशरहितोऽस्म्यहम्। अरिषड्गर्गमुक्तोऽस्मि; शैशवबाल्यकौमारादिषड़विकार-

Page 225

२१८ संन्यासोपनिषद:

रात् सर्वान्तरात् ईश्वरात् अन्तरः साक्ष्यहम्। देशकालविमुक्तोडस्मि; देशादिपरिच्छेदत्रयशून्यत्वात्। दिगम्बरसुखोऽस्म्यहम; मुख्यावधूतानु- भूतपर मानन्दरूपत्वात्। अस्तिनास्तिविमुक्तोऽस्मि नकाररहितोऽस्म्य हम् ; निष्प्रतियोगिकसन्मात्रत्वात्। अखण्डाकाशरूपोऽस्मि ह्यखण्डाकारमस्म्यहम् ; चिदाकाशत्वेनाखण्डैकरसरूपत्वात्। प्रपश्चमुक्तचित्तोऽस्मि प्रपश्चरहितो- डस्म्यहम ; निष्प्रतियोगिकनिष्प्रपश्चरूपत्वात्। सर्वप्रकाशरूपोऽस्मि चिल्मात्र- ज्योतिरस्म्यहम; प्रकाशमात्रतया चिन्मात्रज्योतीरूपत्वात्। कालत्रय- विमुक्तोऽस्मि कामादिरहितोऽस्म्यहम्; अमनस्करूपत्वात्। कायकायि- विमुक्तोऽस्मि; कायतदवच्छिन्नजीवाभावात्। निर्गुणः ; व्याख्यातम्। केवलोऽस्म्यहम्; अशेषविशेषशून्यत्वात्। मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा; पारमार्थिकबन्धाभावात् मुक्तिहीनः । स्वाज्ञदध््या बन्धप्रसक्तौ स्वज्ञदष्ट्या मुक्तोऽस्मि। परमार्थदृष्ट्या बन्धमोक्षकलनाविरलब्रह्म- मात्रत्वात् मोक्षहीनोऽस्मि। सत्यासत्यविहीनोऽस्मि; सापेक्षसत्यासत्यापह्वव- सिद्धपारमार्थिकसत्यत्वात्। सन्मात्रात् अन्यत् नास्म्यहं सदा ; सन्मात्रमेव स्यामित्यर्थः। गन्तव्यदेशहीनोऽस्मि गमनादिविवर्जितः ; पूर्णरूपत्वात्। सर्वदा सच्चिदानन्दात्मना नामरूपवैषम्येऽपि समरूपोऽस्मि। शान्तोऽस्मि पुरुषोत्तमः; वस्तुतः स्वातिरिक्तक्षराक्षरकलनाविरलपरमाक्षरत्वात्। एवं ममैवेशभावापत्त्या यस्य स्वानुभवो भवति सोऽहमस्मीत्यत्र न हि संशयोडस्ति। एवं परमशिव- भावमापन्नमैत्रेयमुनेः स्वानुभूतिवैभवं सकृद्वापि यः शृणोति, सोडयं स्वयमेव ब्रह्म भवति। इत्युपनिषच्छब्दः मैत्रेयोपनिषत्समाध्यर्थः ॥ १-२४॥ इति सृतीयोऽध्यायः श्रीवासुदेवेन्द्रशिष्योपनिषद्धह्मयोगिना। मैत्रेयोपनिषट्टीका लिखितेशप्रसादतः । मैत्रेयोपनिषट्टीका षष्ट्यधिद्विशतात्मिका ॥ इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे एकोनत्रिंशत्संख्यापूरकं मैत्रेयोपनिषद्विवरणं संपूर्णम्

Page 226

--

याज्ञवल्क्योपनिषत्

पूर्णमद :- इति शान्तिः

सर्वकर्मसंन्यासजि ज्ञासा

अथ जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच। भगवन् संन्यासमनुब्रूहीति । स होवाच याज्ञवल्क्यः । ब्रह्मचर्य समाप्य गृही भवेत्। गृहात् वनी भूत्वा प्रत्रजेत्। यदि वेतरथा ब्रह्मचर्यादेव प्रत्रजेद् गृहाद्वा वनाद्वा। अथ पुनरव्रती वा ब्रती वा स्नातको वास्ातको. वा उत्सन्नाभिरनझ्निको वा यदहरेव विरजेत् तदहरेव प्रव्जेत्॥१॥

आहिता गनिसंन्यासविधि:

तदेके प्राजापत्यामेवेष्टिं कुर्वन्ति । अथवा न कुर्यात्। आम्रेयीमेव कुर्यात्। अभनिर्हि प्राणः । प्राणमेवैतया करोति। त्रैधात- वीयामेव कुर्यात्। एत एव त्रयो धातवो यदुत सत्त्वं रजस्तम इति।

अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः । तं जानन्नम आरोहाथा नो वर्धया रयिम।

Page 227

२२० संन्यासोपनिषद:

इत्यनेन मन्त्रेणाझिमाजिश्रेत्। एष ह वा अभेर्योनिर्य: प्राणः प्राणं गच्छ स्वां योनि गच्छ स्वाहेत्येवमेवैतदाह ॥ २।।

निगपिकसंन्यासविधि:

ग्रामादभिमाहृत्य पूर्ववदमिमाघ्रापयेत्। यदमिं न विन्देदप्सु जुहुयात्। आपो वै सर्वा देवताः। सर्वाभ्यो देवताभ्यो जुहोमि स्त्राहेति हुत्वोद्धत्य प्राश्नीयात् साज्यं हविरनामयम्। मोक्षमन्त्रस्त्र येवं विन्देत। तद्वह्म तदुपासितव्यम्। शिखां यज्ञोपवीतं छित्त्वा संन्यस्तं मयेति त्रिवारमुच्चरेत्। एवमेवैनद्धगवन्निति वै याज्ञवल्क्य ॥ ३ ॥

ब्राह्मणस्यैव संन्यासेSधिकार:

अथ हैनमत्रि: पप्रच्छ याज्ञवल्क्यम्। अयज्ञोपवीती कर्थ ब्राह्मण इति। स होवाच याज्ञवल्क्यः। इदमेवास्य तद्यज्ञोपवीतं य आत्मा अपः प्राश्याचम्य अयं विधि:॥ ४ ॥

संन्य/सेऽनधिकृतानां कर्तव्यनिरूपणम्

अथ परिव्राड् विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षमाणो ब्रह्मभूयाय भवति। एष पन्थाः परिव्राजकानाम्। वीरा- घवाने वानाशके वापां प्रवेशे वागिप्रवेशे वा महाप्रस्थाने वा। एष पन्था ब्रह्मणा हानुवित्तस्तेनेति संन्यासी ब्रह्मविदिति। एवमेवैष भगवन्निति वै यज्ञवल्क्य ।। ५।।

Page 228

याज्ञवल्क्योपनिषत् २२१:

पारमहंस्यपूगस्य सर्वोत्कृष्टता

तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघ- दत्तात्रेयशुकवामदेवहारी तकप्रभृतयोऽव्यक्तलिक्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तः ॥ ६॥

साम्बरपरमहंसलक्षणम्

परस्त्रीपुरपराङ्मुखाः त्रिदण्डं कमण्डलुं भुक्तमात्रं जलपवित्रं शिखां यज्ञोपवीतं बहिरन्तश्चेत्येतत् सर्वे भू: स्वाहेत्यप्सु परित्यज्या- त्मानमन्विच्छेत्।। ७॥

दिगम्बरपरमहंसलक्षणम्

यथाजातरूपधरा निर्द्धन्द्वा निष्परिग्रहाः तत्त्वब्रह्ममागे सम्यक् संपन्नाः शुद्धमानसाः प्राणसंधारणार्थ यथोक्तकाले विमुक्तो मैक्षमाचरन्नुदरपात्रेण लाभालामौ समौ भूत्वा करपात्रेण वा कमण्ड- लूदकपो भैक्षमाचरनुदरपात्रसंग्रहः पात्रान्तरशून्यो जलस्थलकमण्डलुः अब्राधकरहस्यस्थलनिकेतनो लाभालामौ समौ भूत्वा शून्या- गारदेवगृहतृण कूटवल्मीकवृक्षमूल कुलालशाला मिहोत्रशालानदीपुलिनगिरि- कुहरकोटरकन्दरनिर्झरस्थण्डिलेष्वनिकेतनिवास्यप्रयत्नः शुभाशुभकर्म- निर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो नामेति ॥८।।

संन्यासज्ञानसंपन्ना यान्ति यद्वष्णवं पदम्। तत् त्रेपदब्रह्मतत्त्वरामचन्द्रपदं भजे॥

Page 229

२२२ संन्यासोपनिषद:

इह खलु शुक्कयजुर्वेदप्रविभक्तेयं याज्ञवल्क्योपनिषत् पारमहंस्यधर्मपूग- प्रकटनव्यग्रा निर्विशेषब्रह्मतत्त्वपर्यवसन्ना विजृम्भते। अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते। जनकात्रियाज्ञवल्क्यप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्या- स्तुत्यर्था। आख्यायिकामवतारयति-अथेति। अथ वर्णाश्रमधर्मश्रवणानन्तरं जनको ह वैदेहो याज्ञवल्क्यं पप्रच्छ। किमिति ! भगवन् संन्यासलक्षण- मनुब्रूहीति। स होवाच याज्ञवल्क्यः। ब्रह्मचय समाप्य गृही भवेत् इत्यादि परमहंसो नामेत्यन्तं प्रायशो जाबालोपनिषदि पदशो व्याख्यातम्॥ १-८॥

संन्यासिन: परमेश्वरत्वम्

आशाम्बरो न नमस्कारो न दारपुत्राभिलाषी लक्ष्यालक्ष्य- निवर्तक: परिव्राद् परमेश्वरो भवति। अत्रैते श्रोका भवन्ति ॥ ९ ॥ यो भवेत् पूर्वसंन्यासी तुल्यो वै धर्मतो यदि। तस्मै प्रणाम: कर्तव्यो नेतराय कदाचन ॥ १० ॥ प्रमादिनो बहिश्चित्ताः पिशुना: कलहोत्सुकाः । संन्यासिनोऽपि दृश्यन्ते वेदसंदूषिताशयाः ॥ ११ ॥ नामादिभ्यः परे भून्नि स्वाराज्ये चेत् स्थितोऽदये। प्रणमेत् कं तदात्मज्ञो न कार्यं कर्मणा तदा ॥ १२ ॥ ईश्वरो जीवकलया प्रविष्टो भगवानिति। प्रणमेद् दण्डवद् भूमावाश्वचण्डालगोखरम् ॥ १३ ॥

उक्तलक्षणलक्षितः परिव्राट् परमेश्वर एवेत्याह-आशेति। लक्षणया बोधितं लक्ष्यम् ; तद्विपरीतमलक्ष्यम् ; समाहितासमाहितावस्थाभ्यां तदुभय- निवर्तकः परिव्राद् निरावृतित्रयसंपत्तितः पग्मेश्वरो भवति। न नमस्कारो न दारपुत्राभिलाषीत्युक्त्या विविदिषासंन्यासिनामपि त्यक्तदारपुत्रत्वात् तैरपि

Page 230

याज्ञवल्क्योपनिषत् २२३

ज्येष्ठकनिष्ठादीनां नमस्कारो न कर्तव्य इत्याशङक्य धर्मतः स्वतुल्याधिकारिणो नमस्कार्या नेतर इति। अत्रैते श्लोका मन्त्रा भवन्तीत्याह-अत्रैते श्रोका भवन्तीति। के नमस्कारानर्हा इत्यत्राह-प्रमादिन इति ॥

"तितिक्षाज्ञान वैराग्यशमा दिगुणवर्जितः । भिक्षामात्रेण यो जीवेत् स पापी यतिवृत्तिहा ।"

इति; "दण्डं भिक्षां च यः कुर्यात् स्वधर्मे व्यसनं विना। यस्तिष्ठति न वैराग्यं याति नीचयतिर्हि सः ॥"

इति च। वे दैर्येषामाशयो दूषितः ते वेदसंदूषिताशया यतयो यदि विगीतशीला- स्तदा ते ज्येष्ठा अपि न नमस्कार्या इत्यर्थः । यदि छान्दोग्यसप्तमाध्यायपठित- नामादिप्राणान्तकलनाविरलभूमब्रह्मनिष्ठो यतिः, तदा स्वदृध्या स्वातिरित्त- ज्येष्ठकनिष्ठभिदावैरल्यान्न तस्य ज्येष्ठकनिष्ठनमस्कारनियमोऽस्ति ; इच्छा चेन्नमस्कुर्यात्; नो चेत् तूष्णी तिष्ठेदित्याह-नामेति। यदयनेवंवित्तदा ईश्वरः ॥। ९-१३।।

स्त्र्यादीनां कुत्सनम्

मांसपाश्चालिकायास्तु यन्त्रलोलेsङ्गपञ्जरे। स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियाः किमिव शोभनम् ॥ १४ ॥ त्वड्मांसरक्तबाष्पाम्बु पृथक् कृत्वा विलोचने। समालोकय रग्यं चेत् किं मुधा परिमुह्यसि ॥१५ ॥ मेरुशृङ्गतटोल्लासिगङ्गाजलरयोपमा। दृष्टा यस्मिन् मुने मुक्ताहारस्योल्लासशालिनः ॥ १६ ॥

Page 231

२२४ संन्यासोपनिषद:

शमशानेषु दिगन्तेषु स एव ललनास्तनः । श्वमिरास्वाद्यते काले लवुपिण्ड इवान्धसः ॥ १७ ॥ केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः । दुष्कृतामनिशिखा नार्यो दहन्ति तृणवन्नरम् ॥ १८ ॥। ज्वलिता अतिदूरेऽपि सरसा अपि नीरसाः । स्त्रियो हि नरकामीनामिन्धनं चारुदारुणम् ॥ १९ ॥ कामनान्ना किरातेन विकीर्णा मुग्धचेतसः । नार्यो नरविहंगानामङ्गबन्घनवागुराः ॥ २०॥ जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम। पुंसां दुर्वासनारज्जुर्नारी वडिशपिण्डिका ॥ २१ ॥ सरवेषां दोपरलानां सुसमुद्धिकयानया। दुःखश्ृङ्कलया नित्यमलमस्तु मम स्त्रिया ॥ २२ ॥ यस्य स्त्री तम्य भोगेच्छा निःस्त्रीकस्य क भोगभूः । स्त्रियं त्यक्त्वा जगत् त्यक्तं नगत् त्यक्त्वा सुखी भवेत् ॥ २३ ॥ अलभ्यमानस्तनयः पितरौ क्लेशयेच्चिरम्। लब्धो हि गर्भपातेन प्रसवेन च बायते ॥ २४ ॥ जातम्य ग्रहरोगादि कुमारस्य च धूर्तता । उपनीतेऽप्यविद्यत्वमनुद्वाहश्च पण्डिते ॥ २५॥ यूनश्च परदारादि दारिद्रयं च कुटुम्बिनः । पुत्रदुःरस्य नास्त्यन्तो धनी चेन्म्रियते तदा ॥ २६ ॥

Page 232

याज्ञवल्क्योपनिषत् २२५

संन्यासिसामान्यस्य द्विविधब्रह्मचर्यभूषितत्वेन तद्रह्मचर्यास्खलनाय स्त्रीसामान्यं कुत्सयति-मांसेत्यादिना। सुसमुद्रिकया पेटिकारूपया। मांस- पाश्चालिकाया इत्यारभ्य जगत् त्यक्त्वा सुखी भवेत् इत्यन्तं प्रायशो महोपनिषदि नारदपरिव्राजकोपनिषदि च व्याख्यातम्। परिव्राजकानां दार- पुत्रादेरप्रसक्तत्वात् विरक्तगृहिणामपि पुत्रेषणाया दुस्त्यजत्वेन तत्र वैराग्यहेतवे पुत्रभावाभावगति कुत्सयति-अलभ्यमान इति। आवयोर्दम्पत्योः पुत्रो नास्तीति अलभ्यमानस्तनय: पुत्राभावः। पुत्रोत्पत्यादेबहुदोषस्पृष्टत्वेन पुत्राद्येषणात्याग एव कर्तव्य इत्यर्थः ॥ १४-२६ ॥

सद्यतिलक्षणम्

न पाणिपादचपलो न नेत्रचपलो यतिः । न च वाक्चपलश्चैव ब्रह्मभूतो जितेन्द्रियः ॥ २७ ॥ रिपौ बद्धे स्वदेहे च समैकात्म्यं प्रपश्यतः । विवेकिन: कुतः कोपः स्वदेहावयवेप्विव ॥ २८॥ अपकारिणि कोपश्चेत् कोपे कोपः कथं न ते। धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥ २९॥ नमोऽस्तु मम कोपाय स्वाश्रयज्वालिने भृशम्। कोपस्य मम वैराग्यदायिने दोषबोघिने ॥ ३० ॥ यत्र सुप्ता जना नित्यं प्रबुद्धस्तत्र संयमी। प्रबुद्धा यत्र ते विद्वन् सुषुपतिं याति योगिराट्।। ३१ ।। चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च। चित्त्वं चिदहमेते च लोकाश्चिदिति भावय ॥ ३२ ॥। 15

Page 233

२२६ सन्यासोपनिषद:

यतीनां तदुपादेयं पारहंस्यं परं पदम्। नातः परतरं किंचिद्विद्यते मुनिपुंगव ।। ३३ ।। इत्युपनिपत्।।

नमस्कार्य: सद्यतिः कीश इत्याशङ्क्य पाणिपादनेत्रचापल्यविरल एव सद्यतिरित्याह-न पाणीति। पर द्रव्यकीकटदेशहरणगमनस्पृही पाणिपादच- पल :; तद्रहितो न पाणिपाद्चपलः । यस्य नेत्रमिदं रम्यम्, इदमरम्यमिति रूपदर्शनोत्सुकं स नेत्रचपलः । तद्विपरीतो ब्रह्मभावारूढो यतिः न नेत्रचपलः । इदं स्वादु इदम् अस्वाद्विति परगुणागुणशंसनं वा यस्य वाक् करोति स वाक्तपल: ! तद्विपरीतो न वाक्चपलश्च भवति। एवंविशेषण- विशिष्टस्य यतेः त्रह्मभूतत्वात् अयं त्रह्मभूतो जितेन्द्रियः सद्यतिर्भवतीत्यथः । सद्यतेरपि शर्गात्रयविशिषवत्वेन कोपादिवृत्तिकबलितत्वात् सद्यतित्वं कुत इन्याशड्क्य सद्यतेः कोपादिवृत्त्यसंभवमाह-रिपाविति। रिपावरिषड्वर्ग स्वदेह च ब्रह्मातिरिक्तं न किचिदस्तीति निर्विशेषब्रह्मज्ञानेन बद्धे सत्यथ समेंकात्म्यं नानाविषमगाससत्तासामान्यं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति पश्यतो विवेकिन: स्वदेहावयवेप्विव कुतः कोपवृत्त्यवकाशः? स्वातिरित्तक्रोधादि- वृत्त्यसंभवात् इन्यर्थः । स्वापकारिणमाश्रित्य खलु क्रोधवृत्तिरुदेतीति। एवं चेत् स्वापकारिणि कोपे कुतस्ते कोपो नोदेतीत्यह-अपकारिणीति। क्रोधुल्यापकारिवेरल्यात् कोपे कोपं करोषि चेतु स्वातिरित्तकळनाझातनं न्रश्मैव अवशिष्यत इन्यर्थः । इत्थंभूतकोपाय नमोऽस्त्वित्याह -नमोऽस्तिव। मम कोपस्य तुच्छतया वैगग्यदायिने कोपोऽनर्थकर इति दोषयोघिने गुरुभूताय स्वस्य कोपापरि विलसितकोपस्य स्वाश्रयः कोपः तं भृगं ज्वालयतीति स्वाश्रयज्वाली तस्में स्वाश्रयज्वालिने कोपकोपाय नमोजस्तु; कोपकोपं ब्रह्माह्मस्मि इन्यनुसंधानं करोमीत्यर्थः । कोपकोपिनोः स्वाजञस्वज्ञयोः मिथो वैलक्षण्यमाह-यत्रेति। यत्र निर्विशेषत्रह्मविद्याया कोपिनः स्वाज- जना: सुना भवन्ति तंत्रव निर्विशेषब्रह्मविद्यायां संयमी कोपकोपी स्वज्ञः

Page 234

याज्ञवल्क्योपनिषत् २२७

प्रबुद्धो जागरूको भवति। हे वि्वन् एते कोपिनः स्वाज्ञाः यत्र स्वाति- रित्तप्रपश्चे प्रबुद्धा भवन्ति तंत्रैव योगिराट् कोपकोपी स्वज्ञः सुपुप्ति याति इत्यत्र

"या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥" इति स्मृतेः । यत एवमतस्त्वं चिदतिरिक्तं न किंचिदस्ति सर्व चिन्मात्रमेवेति चिन्तयेत्याह-चिदिति। पूर्वमन्त्रोक्तचिन्मात्रमेवोपादेयम्। तदतिरेकेण त्वमहमिदमिति शब्दवाच्यं न किंचिदस्तीत्याह-यतीना मिति। परमहंसपटल- प्राप्यत्वात् पारमहंस्यमेव परमपदं चिन्मात्रं स्वावशेषतया निम्प्रतियोगिक- मित्युपादेयम्। तस्य निष्प्रतियोगिकत्वेन तदतिरित्त न किंचिदस्तीत्यर्थः । इत्युपनिषच्छब्दः याजञवल्क्योपनिषत्समाध्यर्थः ॥ २७-३३॥

श्रीवासुदेवेन्द्रशिष्योपनिषद्धह्मयोगिना। याज्ञवल्क्योपनिषदो व्याख्यानं लिखितं लवु। याज्ञवल्क्योपनिषदो व्याख्याग्रन्थस्तु सप्ततिः ॥

याज्वल्क्योपनिपद्विवरणं संपूर्णम

Page 235

शाब्याए नीयोपनिषत्

पूर्णमद :- इति शान्तिः

मनस: बन्धमोक्ष हेतुत्वम्

मन एव मनुप्याणां कारणं बन्धमेक्षयोः। बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ १॥ समासकं यथा चित्तं जन्तोर्विषयगोचरे। यद्येवं ब्रह्मणि स्यात् तत् को न मुच्येत बन्धनात् ॥ २ ॥ चित्तमेव हि संसारस्तत्प्रयल्नेन शोधयेत्। यच्चित्तस्तन्मयो भवति गुद्यमेतत् सनातनम् ॥ ३ ॥ नावेदविन्मनुते तं बृहन्तं नाब्रह्मवित् परमं प्रैति धाम। विष्णुं क्रान्तं वासुदेवं विजानन् विप्रो विप्रत्वं गच्छते तत्त्वदर्शी ।।

यततिबृन्दहृदाकारं रामचन्द्रपदं भजे ॥

इह खलु शुक्कयजुर्वेदप्रविभक्तयं शाव्यायनीयोपनिषत् कुटीचकबहूदकहंस- परमहंसधर्मप्रकटनव्यग्रा ब्रह्ममात्रपर्यवसन्ना विजयते। अस्याः स्वल्पग्रन्थतो

Page 236

२३० संन्यासोपनिषदः

विवरणमारभ्यते। अत्रादौ बन्धमोक्षहेतुः मन एवेत्याह-मन एवेति। यथा यन्मनो विषयासक्तं तथा ब्रह्मासक्तं चेत् तद्वान् स्वातिरिक्तत्रमतो मुच्यत इत्याह-समासक्तमिति। किंच-चित्तमेवेति। यस्य चित्तं यस्मिन् लीनं स यच्चितः तन्मयः तत्स्वरूपो भवतीत्यर्थः । तं विवृणोति-नावेदविदिति । वेदविन्न भवतीत्यवेदविदज्ञ: बृहन्तं विराजमहमिति न मनुते। अब्रह्मवित् परमं धाम न प्रैति। स्वाजञः सविशेषं निर्विशेषं वा ब्रह्म परोक्षत्वेनापि न जानातीत्यर्थः। तत्त्वदर्शी विप्रस्तु विष्णुं व्यापनशीलं क्रान्तं सर्वज्ञं वासुदेवं सर्वान्तर्यामिणं सर्वाधारं वा अहमस्मीति विजानन् विप्रत्वं जीवन्मुक्तत्वं गच्छते गच्छतीत्यर्थः ॥ १-४॥

साधनचतुष्टयसंपत्तिः

अथ ह् यत् परं ब्रह्म सनातनं ये श्रोत्रिया अकामहता अधीयुः । शान्तो दान्न उपरनस्तितिक्षुर्योऽनूचानो ह्यमिजज्ञौ समानः । त्यक्तेपणो ह्यनृणस्तं विदित्वा मौनी वसेदाश्रमे यत्र कुत्र ॥५॥

यद्गह्म अकामहतप्रत्यक्षं तङ्रह्म पथावद्विदित्वा मौनी भवेदित्याह- अथेति। अथ यथोक्तसाधनसंपत्त्यनन्तरम्। ह इत्यैतिह्यार्थः । ये विदित- परमार्थतत्त्वत्वात् श्रोत्रियाः स्वातिरेकेण कामासंभवनिश्चयत्वात् अकामहताः सनकादयो ब्रह्मादयो वा यन् सनातनं परं ब्रह्म निष्प्तियोगिकस्वमात्रमित्यधीयुः ; अधीत्य ज्ञात्वा तज्ज्ञानसमकालं तत् प्राुयु: परमात्मैव भवन्ति। यथोक्तसाधन- संपन्नो यः कश्चन मुमुक्षुः। शान्तो दान्तः इत्यादि साधनचतुष्टया- मानित्वादीनामप्युपलक्षणार्थम्। ब्रह्मवित्कुलप्रसूतत्वादनूचानः मुमुक्षुभिः समान: अभिजज्ञौ ज्ञातवान। ऋणत्रयापाकरणादनृणस्त्यक्तेषणात्रयः संन्यासी तं परमात्मानं विदित्वाथ मौनी भृत्वा यत्र कुत्र कुटीचकाद्याश्रमे आप्रारब्धक्षयं वसेत्। हिशब्दद्वयद्योतितार्थस्तु निर्विशेषत्रह्मज्ञानसमकालं कर्मत्रयासंभव- प्रबोधसिद्धब्रह्ममात्रतयावशिष्येदिति ॥ ५॥

Page 237

शाख्यायनीयोपनिघन् २३१

कुटीचकधर्मा:

अथाश्रमं चरमं संप्रविश्य यथोपपत्ति पञ्चमात्रां दधानः ॥ ६॥ त्रिदण्डमुपवीतं च वास: कौपीनवेष्टनम्। शिक्यं पवित्रमित्येतद्विभृयाद्यावदायुषम् ॥७॥ पञ्चनास्तु यतेर्मात्राः सा मात्रा ब्रह्मणे श्रुताः । न त्यजेद्यावदुत्क्रान्तिरन्तेऽपि निखनेत् सह ।। ८॥ विष्णुलिङ्गं द्विधा प्रोक्तं व्यक्तमव्यक्तमेव च। तयोरेकमपि त्यक्त्वा पतत्येव न संशयः ॥ ९ ॥ त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसावनम्। निर्वाणं सर्ववर्माणामिति वेदानुशासनम् ॥ १० ॥

अथादौ कुटीचकधर्मानाह-अथेति। अथ ब्रह्मचर्याद्याश्रमत्रयानन्तरम्। ब्रह्मचर्याद्यपेक्षया कौटीचकं चरमाश्रमं प्रविश्य यथोपपत्ति यथाबलं त्रिदण्डादि- पश्चमात्रां दधानः सन् भुवं विचरेदित्यथः। वासः कौपीनवेष्टनमित्येका मात्रा। त्रिदण्डादिपवित्रान्त मित्ये तत्पञ्चमात्रकं बहूदकादिपद मारोदुमशक्तश्रेत् यावदा- युषं बिभृयात् इत्यर्थः । किंच-पश्चतास्तु कुटीचकस्य यतेर्मात्राः त्रिदण्डादिरूपा: अकारोकारमकारबिन्दुनादभेदेन सा मात्रा ब्रह्मणे श्रुता :; ताः पञ्च मात्रा: ब्रह्मणे ब्रह्मणि प्रणवे श्रुताः। एवं व्यक्ताव्यक्तात्मकपञ्चमात्रायुग्मं यावदायुषं बिभृयादिति पूर्वेण संबन्धः । जात्वपि व्यक्ताव्यक्तपञ्चमात्रायुग्मं न त्यजेद्यावदुत्क्रान्तिः। अन्तेऽपि देहत्यागकालेऽपि स्वशरीरेण सह निखनेत् व्यक्तपञ्चमात्राः । मात्रापञ्चकयुग्मस्य व्यक्ताव्यक्तविष्णुलिङ्गत्वेन तदन्यतरत्याग्यप्यधः पततीत्याह-विष्णुलिङ्गमिति। उक्तविष्णुलिङ्ग- द्वयधारणफलमाह-त्रिदुण्डमिति ॥ ६-१०॥

Page 238

२३२ संन्यासोपनिषदः

संन्यासिनां चातुर्विध्यं धर्मश्च

अथ खन्दु सोम्य कुटीचको बहूदको हंसः परमहंस इत्येते परिव्राजकाश्चतुर्विधा भवन्ति । सर्व एते विष्गुलिङ्गिनः शिखिनोपव्ीतिनः शुद्धचित्ता आत्मानमात्मना ब्रह्म भावयन्तः शुद्धचिद्धपोपासनरता जप- यमवन्तो नियमवन्तः सुशीलिनः पुण्यक्षोका भवन्ति। तदेतदचाभ्युक्तम्- कुटीचको बहूदकश्चापि हंसः परमहस इति वृत्त्या च भिन्नाः। सर्व एते विप्णुलिङ्गं दवाना व्यक्ताव्यक्तं बहिरनाश्र नित्यम्।। पञ्चयज्ञा वेदशिरःप्रविष्टाः क्रियावन्तोSमी ब्रह्मविद्यां [श्रयन्तः]। त्यकत्वा वृक्षं वृक्षमूलं श्रिनास: संन्यस्तपुप्पा रसमेवाश्नुवानाः । विप्णुक्रोडा विष्णुरतयो विमुक्ता विष्णवात्मका विष्णुमेवापियन्ति ॥ १२ ॥

कुटीचकादि चतुराश्रमभेदं तद्गर्मानप्याह-अथेति। तेषां धर्मानाह- सर्व इति। सर्व एते विष्णुलिङ्गिन इत्यत्र कुटीचकस्य व्यक्ताव्यक्तमात्रापञ्चक- द्वूयमेव विष्णुलिङ्गत्वेनाभिहितं यत्तत् बहूदकस्यापि समम्; "बहूदकः कुटीचकवत् सर्वधर्मसमः" इति श्रुतेः। हंसपरमहंसयोस्तु स्वाचार्यकलेबरं व्यक्तविष्णुलिङ्गं तदन्तःकरणमव्यक्तविप्णुलिङ्गम् ; "सुव्यक्तविप्णुलिङ्गं स्याद् देशिकेन्द्रकलेबरम्। अव्यक्तविष्णुलिङ्गं तु तदन्तःकरणं स्मृतम् ।" इति स्मृतेः । अतः सर्वे विष्णुलिङ्गधारिण इत्यर्थः । शिखिनोपवीतिन इत्यत्र कुटीचकबहूदकयोः व्रतिवत् केशकार्पासमयशिायज्ञोपवीतित्वं व्यक्तमुप- लभ्यते ; "केशसमूहशिग्ाप्रत्यक्षकार्पासतन्तुकृतोपवीतम" इति श्रुतेः ।

Page 239

शा्यायनीयोपनिषत् २३३

हंसस्य जटाधारणमेव शिखा व्यक्तरूपिणी। यज्ञोपवीतं त्वव्यक्तं तत्त्वज्ञान- नित्यर्थः । परमहंसस्य तु शिखा यज्ञोपवीतं चाव्यक्तम्। निर्विशेषव्रह्मज्ञान- मेवास्य शिखा यज्ञोपवीतं च भवति। तथा च श्रुतिः-"ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः" इति। अत एव कुटीचकादिचतुर्णा यतीनां व्यक्ताव्यक्तभेदेन शिखायज्ञोपवीतित्वं सिद्धमेवेत्यर्थः । शुद्धचित्ता इत्यादि पुण्यश्रोका भवन्ति इत्यन्तं कुटीचकादिचतुर्णामपि समानमेवेति मन्तव्यम्। ब्राह्मणेन योऽर्थोंऽभिहित: तमेतमर्थ मन्त्रोप्यनुवदति-तदेतटचाभ्युक्तमिति। किंच-पश्चयज्ञा इति। पच्चयज्ञा इत्यत्र कुटीचकपक्षे गायत्रीजपयज्ञो विशेषः। प्रणवजपयज्ञस्तु चतुर्णामपि समः। प्रणवजपयोगतपःस्वाध्यायज्ञानभेदेन सर्वेऽपि पञ्चयज्ञाः। वेद शिरसामुपनिषद्ामर्थश्रवणादो प्रविष्टाः, "कुटीचक- बहूदकयोः श्रवणं हंसपरमहंसयोः मननम्" इत्यादिश्रुतेः । स्वाश्रमोचितकर्मा- नुषानपरा इति क्रियावन्तः अमी। परमहंसास्तु ब्रह्मविद्यां विशेषेण सेवन्ते। सर्वेऽपि व्रश्चनार्हसंसारवृक्षं त्यक्त्वा संसारवृक्षमूलं ब्रह्म यथा ज्ञातं तथा श्रितासः संश्रिताः, संन्यस्तकर्मकाण्डगोचरवेदत्वात् संन्यस्तपुष्पाः; "यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः" इति स्मृतेः । रसं सारांश- मेवाश्नुवानाः ; "रसो वे सः। रसं ह्येवायं लब्ध्वानन्दी भवति" इति श्रुतेः। स्वात्तसविशेषनिर्विशेषज्ञानानुरूपेण सविशेषनिर्विशपविष्णौ क्रीडा येषां विष्णुरतयः बाह्यक्रीडारतिविमुक्ता विष्णुरेवात्मा येषां विष्ण्वात्मकाः सन्तो दासोऽहं सोऽहमिति वा विष्णुमेवापियन्ति विद्णोःसविशेषभावं निर्विशेषभावं वा प्रतिपद्यन्ते कृतकृत्या भवन्तीत्यर्थः ॥ ११, १२ ॥

कुटीचकानां जपयज्ञादि त्रिसंव्यं शक्तितः स्रानं तर्पणं मार्जनं तथा। उपस्थानं पञ्चयज्ञान् कुर्यादामरणान्तिकम् ॥ १३ ॥ दशभि: प्रणवैः सप्तव्याहृतीमिश्चतुप्पदा। गायत्री जपयज्ञश्च त्रिसंध्यं शिरसा सह ॥ १४ ॥

Page 240

२३४ संन्यासोपनिषद:

केवलकुटीचकजपयज्ञलक्षणमाह-त्रिसंध्यमिति। त्रिषवणस्ानं कुटीच- कस्य, बहूदकस्य द्विवारं, हंसस्यैकवारं, परमहंसस्य भस्मस्ानमिति।

"परहंसाश्रमस्थानां स्नानादेरविधानतः । अशेषचित्तवृत्तीनां त्यागं केवलमाचरेत्"।

इति "स्नानं मनोमलत्यागः" इति च श्रुतेः। व्याहृतिशिरःसंपुटिततुर्य- पादाञ्चितगायत्रीपादचतुष्टयावर्तनं कुटीचकैः संध्यात्रयेऽपि कर्तव्यमित्यर्थः । परमहंसजपयज्ञस्तु संध्यात्रयेऽपि प्रणवजप एव कार्य: यदि श्रवणाधिकारी न भवति तदा ; "यस्तु द्वादशसाहस्त्रं प्रणवं जपतेऽन्वहम्। तस्य द्वादशभिर्मासैः परं ब्रह्म प्रसीदति ॥" इति श्रुतेः । "स्वशाखोप निषद्वीता विष्णोर्नामसहस्त्रकम्। श्रीरुद्रं प्रणवं चैव नित्यमावर्तयेद्यतिः ।" इति, "प्रणवादपरं जत्वा कदा मुक्तो भविष्यति" इति स्मृतेश्र ॥ १३,१४॥

योगपज्ञादियज्ञचतुष्टयम

योगयज्ञ: सदेकाग्र्यभक्त्या सेवा हरेर्गुरोः । अहिंसा तु तपोयज्ञो वाङ्मनःकायकर्मभिः ॥१५ ॥ नानोपनिषदभ्यासः स्वाध्यायो यज्ञ ईरितः । ओमित्यात्मानमव्यग्रो ब्रह्मण्यसौ जुहोति तत् ॥ १६ ॥। ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमेत्तमः । ज्ञानदण्डा ज्ञानशिखा ज्ञानयज्ञोपवीतिनः ॥ १७ ।।

Page 241

शाख्यायनीयोपनिषन् २३५

शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम्। ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् ॥ १८ ॥

अयमेव हि परमहंसजपयज्ञः । योगयज्ञादियज्ञचतुष्टयं तु सर्वेषां सममित्याह-योगयज्ञ इति ॥ १६-१८ ॥

परिव्राजककर्तव्य निरूपणम

अथ खलु सोम्यैते परिव्राजका यथा प्रादुर्भवन्ति तथा भवन्ति। कामक्रोधलोभमोहदम्भदर्पासूयाममत्वाहंकारादीन् निस्तीर्य मानावमानौ निन्दास्तुती च वर्जयित्वा वृक्ष इव तिष्ठामेच्छिद्यमानो न ब्रयात्। तदेवं विद्वांस इहैवामृता भवन्ति। तदेतदचाभ्युक्तम्- बन्धुं पुत्रमनुमोदयित्वानवेक्षमाणो द्वन्द्वसह: प्रशान्नः। प्राचीमुदीचीं वा निर्वर्तयंश्ररेत् ॥ १९।।

पात्री दण्डी युगमात्रावलोकी शिखी मुण्डी चोपवीती कुटुम्बी। यात्र मात्रं प्रतिगृह्णन् मनुप्य- दयाचितं याचितं वाथ मक्षम् ॥ २॥ मृद्दार्वलावृफलं तन्तुपर्ण- पात्रं तत्तथा यथा तु लकम्। शाणं क्षौमं तृणं कन्थाजिनौ च पर्ण- माच्छादनं म्यादहतं वा विमुक्तम् ।। २१ ।। ऋतुसंधौ मुण्डयेन्मुण्डमात्रं नाधो न कक्षं जातु शिखां न वापयेत्।

Page 242

२३६ संन्यासोपनिषद:

चतुरो मासान् ध्रुवशीलतः स्यात् स यावत् सुप्तोऽन्तरात्मा पुरुषो विश्वरूपः ॥ २२ ॥ पञ्चयज्ञप्रकारमुक्त्वा अनन्तरं तेषां धर्मपूगं तत्फलं चोपन्यस्यति- अथेति। तथा भवन्ति ; जातरूपधरा भवन्तीत्यर्थः । तैः कर्तव्यमाह- कामेति। ब्रह्मातिरिक्तं न किंचिदस्तीति ज्ञानबलेन वृक्षवत् देहादावात्मात्मीया- भिमानवैकल्यपूर्वकं सर्वापह्ववसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति यदा जानन्ति तदैवं विद्वांस: इहैवामृता भवन्ति ; विदेहमुक्ता भवन्तीत्यर्थः । ब्राह्मणेन योऽर्थोडमिहितः, सोडर्थः मन्त्रेणाप्युच्यत इत्याह-तदेतदचाभ्युक्त- मिति। बन्धुं पुत्रमनुमोदयित्वा पुनस्तान् जात्वपि अनवेक्षमाण: द्वन्द्वसहः प्रशान्त: प्राचीमुदीचीं वा स्वाश्रमोचितधर्मानुष्ठानपूर्वकं स्वस्वरूपानुसंधानं निर्वर्तयंश्ररेत्। कुटीचका दिसमुदायधर्मानाह-पात्रीति। व्यक्ताव्यक्तशिखी मुण्डी चोपवीती स्वदेहमात्रकुटुम्बी देहधारणोपयोगं किंचित् यात्रामात्रं प्रतिगृहन्। फलं नालिकेरकफलं तन्तुग्रथितपर्णकृतं वा पात्रं यथालब्धं गृह्लीयात्। शाणं, चैनपटं क्षौमं, वल्कलं तृणरचितपटम्। कन्थाजिने इति वक्तव्ये कन्थाजिनाविति लिङ्गव्यत्ययः । इत्थंभूतवाससालंकृतस्य अहतं ग्रथितं तद्विमुक्तं वा पर्णमाच्छादनमुत्तरीयं भवेदित्यर्थः । कक्षमिति कक्षद्वय- मुच्यते। हंसेतरेषां क्षौरं तुल्यम्; हंसस्य जटाधारित्वात्। कुटीचकस्यायमेव विशेष इत्याह-जातु शिखां न वापयेदिति। चातुर्मास्यनियमः सर्वेषामपि तुल्य इत्याह-चतुर इति। यावद्विराट् स्वपिति तावचचतुरो मासान् वार्षिकानेकत्र निवसेत्। नो चेत् "पक्षा वै मासाः" इति मासद्वयमेकत्र निवसेत्। पुनरस्मिन् विराज्युत्थिते सत्यथान्यानष्टौ दश वा मासान स्वाश्रमोचितकर्मलिप्सुः सर्वत्र विहरेत् ॥ १९-२२॥। वासस्थाने नियम: अन्यानथाष्टौ पुनरुत्थितेडस्मिन् स्वकर्मलिप्सुर्विहरेद्दा वसेत।

Page 243

शाट्यायनीयोपनिषत् २३७

देवाम्न्यगारे तरुमूले गुहायां

निरिन्धनज्योतिरिवोपशान्तो न चोद्िजेदुद्वेजयेद्यत्र कुत्र ।। २३।।

यदि श्रवणध्यानसमाधिकरणेच्छुः, तदा एकत्र वा वसेत्। किमयं संसारिणामावसथे वसेदित्यत आह-देवेति। देवालयादिप्रशस्तस्थले वसेत्। तत्रापि ममतां विहायासङ्गो भूत्वा परैरलक्षितशीलवृत्तः सन् स्वातिरित्तत्रमतो निरिन्धनज्योतिरिवोपशान्तो भवेत् । स्वसमानं स्वावरं वा जनं दृष्टा न कदाप्युद्वेजनं कुर्यात्। यत्र कुत्रापि प्रसक्तस्वातिरिक्तधियमुद्वेजयेत्; सर्वत्र स्वात्मधियं कुर्यादित्यर्थ: ॥ २३ ॥

आत्मज्ञानवतः स्थिति:

आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥ २४। तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्वहूल्छव्दान् वाचो विग्लापनं हि तत् ॥ २५॥ बाल्येनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम्। ब्रह्मविद्यां च बाल्यं च निर्विद्य मुनिरात्मवान्॥ २६॥ यदा सरवें प्रमुच्यन्ते कामा येडस्य हृदि श्रिनाः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ २७ ॥

यावदात्मा न लभ्यते, तावदेव शरीरशोषणाद्युपायानुष्ठानं कार्यम्। ज्ञाते स्वावशेषधियात्मन्यथ शरीरशोषणं पोषणं वा प्रयोजनाभावान्न

Page 244

२३८ संन्यासोपनिषद:

कार्यमित्याह-आत्मानमिति। यथावत् ब्रह्मवेदनं निर्विद्य ब्रह्मयाथात्म्यमवगम्य स्वातिरित्तविषये बाल्येन वैगग्येण तिष्ठासेत् स्थातुमिच्छेत्। ततो ब्रह्म विद्यां बाल्यं च निर्विद्याथ ब्रह्मातिरिक्तं न किंचिदस्तीति निश्चित्यात्मवान् आत्ममात्रतयावशिष्येदित्यर्थः । शिष्टमन्त्रत्रयं बृहदारण्यकषष्टे व्याख्या- तम् ॥ २४-२७॥

आरूढपातित्ये प्रत्यवायः

अथ खन्दु सोम्येदं पारित्राज्यं नैष्ठिकमात्मघर्म यो विजहाति स वीरहा भवति, स ब्रह्महा भवति, स भ्रणहा भवति, स महापातकी भवति। य इमां वै-णवीं निष्ठां परित्यजति स स्तेनो भवति, स गुरुनव्पगो भवति. य मित्रध्ुग्भवति, स कृतन्नो भवति, स सर्वान् लोकान् प्रच्युनो भवति। तदेतहचाभ्युक्तम्-

क्तेन: सुगपो गुरुन्पगामी मित्र गते निष्कृतेर्यान्नि शुद्धिम्। व्यक्तमत्यकं वा विववृतं विष्णुलिङ्ग न्यजन्न शुध्येदग्विलेगत्म नासा ।। २८ ।। न्यक्वा चित्णे, लिंङ्गमननवेहिर्वा यः म्याश्रमं सेवतेनाश्रमं वा। प्रन्यापत भजते बातिमृदो नपां गनिः कल्पकाठ्यापि दष्टा ॥ २०. ॥ त्यक्वा सर्वंश्रनान् ध्रींगे वसेन्मोक्षाश्रमे चिरम्। मोक्षाश्रमात परिभ्रष्टी न गतिम्तम्य विद्यते ॥ ३० ॥

Page 245

शास्यायनीयोपनिषन् २३९

पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति। तमारूढच्युतं विद्यादिति वेदानुशासनम् ॥ ३१ ॥

एवं ब्रह्मस्वरूपं प्रतिपाद्याथ यावदुपाधि पारिव्राज्यधर्मे स्थातव्यम्; तद्विहाय स्वच्छन्दं यो वर्तते स प्रत्यवैंतीति तं कुत्सयति-अथेति। आत्मधर्म यावत् स्वपरविवेक: तावत् विप्णुलिङ्गद्वयानुकरणलक्षणं यो विजहाति स वीवहा भवति। "यावहुपाधिपर्यन्तं तावच्छुश्रूषयेद् गुरुमू। शुभं वाशुभमन्यद्वा यद्ूकं गुरुणा भुवि। तत् कुर्यादविचारेण शिष्यः संतोषसंयुतः ॥" इति, "मप्राणमथवाप्राणं देशिकेन्द्रकलेबग्म् ! घस्विन देशे वसेदयोगी तां दिशं प्रणमेत् सदा ॥ यावड् देहे वसेत् प्राणस्तावच्छप्योऽप्रपादतः । गुरुच्छन्दानुवर्ती चेद्वैप्णवं पदमेति सः ॥" इति कुनिस्मृतिसिद्धविणुवाव्यातर्लिङ्गानुकरगलक्षणां य इमां वैष्णवीं निष्ठां तकिमथि। बाणेन यहकं तन्मन्त्रा अप्यनुकुर्वन्तीत्याह-तदेतहचाभ्युक्त- किति। निष्कृतेः प्रायश्चित्ततः स्वर्णस्तेया दिपञ्चमहापातकिनोऽपि शुद्धि यान्ति। ब्रह्ममावारुटदेशिकेन्द्रस्य यथोक्तलक्षणं व्यक्तमव्यक्त्तं वा विधृतम्। देशिकेन्द्रस्थूलदेइपर्चग्णलक्षणं व्यक्तविष्णुलिङ्गं तदा ज्ञानवशवृत्तित्व- लक्षणमव्यक्तविष्ुलिसं पूर्वा चार्यरपि विधृतमनुष्ठितं यो नानुतिष्ठति, सोऽयं महा- पातकी अखिलैरपि प्रायथितन शुभ्येन्। स्वात्मज्ञानमन्यत्र सर्वपातकग्रासमेव। अत्र त्वयमात्माभासज्ञानेनापि न शुध्येत्। देशिकेन्द्रप्रसादं विना केनापि न शुध्येदित्यर्थः । विष्णुलिङ्गयुग्सत्यागिनः प्रायश्चितं नास्तीति कथमुच्यते? विष्णुलिङ्गद्वयेतरस्वाश्रमोचितधर्मानुष्ठानात्, दण्डकमण्डलुधारणलक्षणपारम- हंस्याश्रमत्यागपूर्वकमवधूताश्रमपरिग्रहाद्वा, देशिकोपदिष्टमन्त्रत्यागपूर्वकं प्रत्या-

Page 246

२४० संन्यासोपनिषद:

पत्तिलक्षणादाचार्यान्तरपरिग्रहधर्मानुष्ठानाद्वा शुद्धिमेत्य कृतकृत्यो मवेदित्यत आह-त्यक्त्वेति। सर्वाश्रमत्यागपूर्वकमप्रमादेन यतिर्मोक्षाश्रमे वसेदित्याह- त्यक्त्वेति। स्वधर्मत्यागिन आरूढपतितत्वं निगमयति-पारिव्राज्यमिति । यः स्वधमे विष्णुलिङ्गद्वयानुकरणलक्षणे न तिष्ठति ॥ २८-३१॥ विष्णुलिङ्गद्वयानुवर्तनम् अथ खन्ु सोम्येमं सनातनमात्मधर्म वैष्णवीं निष्ठां लब्ध्वा यस्तामदृषयन् वर्तते स वशी भवति, स पुण्यश्रोको भवति, स लोकज्ञो भवति, स वेदान्तज्ञो भवति, स ब्रह्मज्ञो भवति, स सर्वज्ञो भवति, स स्वराड् भवति, स परं ब्रह्म भगवन्तमाप्नोति, स पितन् संबन्धिनो बान्धवान् सुहृदो मित्राणि च भवादुत्तारयति॥ ३२ ॥ शतं कुलानां प्रथमं बभूव तथा पराणां त्रिशतं समग्रम्। एते भवन्ति सुकृतस्य लोके येषां कुले संन्यसतीह विद्वान्।। त्रिशत्परांस्त्रिंशदपरांस्त्रिंशच्च परतः परान्। उत्तारयति धर्मिष्ठः परिव्राडिति वै श्रुतिः ।। ३४।। संन्यस्तमिति यो ब्रूयात् कण्ठस्थप्राणवानपि। तारिताः पितरस्तेन इति वेदानुशासनम्॥ ३५॥ अथ खन्दु सोम्येमं सनातनमात्मधर्म वैप्णवीं निष्ठां नासमाप्य प्रन्नयान्नाननूचानाय नानात्मविदे नावीतरागाय नाविशुद्धाय नानुपसन्नाय नाप्रयतमानसायेति ह स्माहुः । तदेतद्ृचाभ्युक्तम्- विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमम्मि।

Page 247

शाट्यायनीयोपनिषत् २४१

असूयकायानृजवे शठाय मा मा ज्रूया वीर्यवती तथा स्याम् ॥ ३६ ॥ यमेवैष विद्याच्छुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम्। अस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥।३७।। अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा। यथैव तेन न गुरुर्भोजनीय- स्तथैव तदन्नं न भुनक्ति श्रुतं तत् ॥ ३८ ॥। गुरुरेव परो धर्मो गुरुरेव परा गतिः। एकाक्षरप्रदातारं यो गुरुं नाभिनन्दति। तस्य श्रुतं तपो ज्ञानं स्रवत्यामघटाम्बुवत् ॥ ३९॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। स ब्रह्मवित् परं प्रेयादिति वेदानुशासनम्॥ ४० ॥ इत्युपनिषत् ।।

एवं विष्णुलिङ्गद्वयपराङ्मुखं कुत्सयित्वाथ पूर्वोक्तविष्णुलिङ्गद्वयानुवर्तिनं कृतकृत्यतया स्तौति-अथेति। स वशी जितेन्द्रियो भवति। किं बहुना ? स परं ब्रह्म भगवन्तमाप्नोति। ब्राह्मणोक्तार्थ मन्त्रा अप्यनुवदन्तीत्याह- शतमिति। यद्ययं विद्वत्संन्यासी भवति, तदा स्वस्य शतपूर्वाः स्वोत्तरतस्त्रिशत- संतत्यन्ताः कृतार्था भवेयुरित्यर्थः। किंच-त्रिंशत्परानिति। आतुरा- विद्वत्संन्यासतोऽपि तत्पित्रादयः सुकृतिनो भवेयुरिति निगमयति-संन्यस्त- 16

Page 248

२४२ संन्यासोपनिषद:

मिति। कृतार्थाधिष्ठितेयं निष्ठा वैष्णवी नानधिकारिणे वक्तव्या; सम्यक् चिरं परीक्ष्य संविदितसुशीलाय वक्तव्येत्याह-अथेति। स्वयमेतां निष्ठामनासाद्या- कृतार्थ: सन्नन्यस्मै न ब्रयात्। यदि स्वयं कृतार्थस्तदा नाननूचानायेत्यादि। इमां निष्ठां न ब्रयादिति ब्राह्मणेनोक्तार्थ मन्त्राभ्यामप्युक्तमाहुरित्याह-ह स्मेति। ब्रह्मवादिन इति शेषः। किमिति-विद्याह वे इति। कस्मै वक्तव्येत्यत्र-यमिति। देशिकं ये न बहुमन्यन्ते, तद्ुक्तगृहे यतयो भिक्षां न गृद्भीयुरित्याह-अध्यापिता इति। ये विप्राः यतयो येन गुरुणा प्रणवमहा- वाक्यादिकमध्यापिताः सन्तो मनोवाक्कायकर्मभिः स्वोपदेष्टारं गुरुं नाद्रियन्ते न बहुमन्यन्ते, हेलनं परिभवं वा कुर्वन्ति, यथैव तेन तैगुरुदूषकैः साकं श्रेयोऽर्थिभि: गृहिभि: न कदापि गुरुः भोजनीयः गुरुरपि तद्गृहे कदापि न मुड्के, तथैत्र तदन्नं तेषां गुरुदूषकमिक्षादायिनां निर्दुष्टानामपि तद्गृहेऽनमन्ये संप्रदायप्रवर्तका: सद्यतयो न मुनक्ति शिष्येषु गुरुप्रसादावधि न भुनक्ति न मुञ्जते। "एकाक्षगप्रदातारं" इति मन्त्रेण श्रुतेत्थंप्रभाववान् गुरु: कीदृश इत्यत्र -गुरुरेवेति। "ओमित्येकाक्षरं परं ब्रह्म" इति श्रुतिसिद्धैकाक्षरप्रदातारम्। तत्पक्षीयाणामपि फलं समानमित्यर्थः । तद्विपरीतसच्छि्यगुरुसेवापरमफल दर्शयन्नुपसंहरति-यस्येति। यो विष्णोर्व्यक्ताव्यक्तलिङ्गदेशिकच्छन्दानुवर्ती स ब्रह्मविद् भूत्वा सर्वापह्ववसिद्धं परं ब्रह्म स्वमात्रमिति प्रकर्षेणेयात् प्राप्नुयात् इति यत्तद्वेदानुशासनं सर्ववेदान्तनिश्चितमित्यर्थः । इत्युपनिषच्छब्दः शाय्याय- नीयोपनिषत्समाह्यर्थः ॥ ३२-४०॥

शाब्चायनीयोपनिषद्वयाख्यानं लिखितं लघु। शा्यायनीवृत्तिजातं चत्वारिशिाधिकं शतम् ।।

इति श्रीमदाशाद्यप्टोत्तरशतोपनिषच्छास्त्र विवरणे एकोनशतसंख्य पू र कं शाख्यायनीयोपनिपद्विवरणं संपूर्णम्

Page 249

संन्यासोपनिषत्

आप्यायन्तु-इति शान्तिः

प्रथमोऽध्यायः

संन्यासविधि:

अथातः संन्यासोपनिषदं व्याख्यास्यामः । योऽनुक्रमेण संन्य- स्यति स संन्यस्तो भवति। कोडयं संन्यास उच्यते? कथं संन्यस्ती भवति? य आत्मानं क्रियाभिर्गुपं करोति मातरं पितरं भार्यां पुत्रान् बन्धूननुमोदयित्वा ये चास्यर्त्विजस्तान् सर्वांश्र पूर्ववद्वणीत्वा वैश्वानरेष्टिं निर्वपेत्। सर्वस्वं दद्यात् यजमानस्य। गा ऋत्विजः । सर्वैः पात्रैः समारोप्य यदाहवनीये गार्हपत्ये वान्घाहार्यपचने सभ्यावसथ्ययोश्च प्राणा- पानव्यानोदानसमानान् सर्वान् सरवेषु समापयेत्। सशिखान् केशान् विसृज्य यज्ञोपवीतं छित्वा पुत्रं दृष्टा, त्वं ब्रह्मा त्वं यज्ञस्त्वं सर्वमित्यनु- मन्त्रयेत्। यद्यपुत्रो भवत्यात्मानमेवेमं ध्यात्वानवेक्षमाण: प्राचीमुदीचीं वा दिशं प्रत्रजेत्। चतुर्षु वर्णेषु भैक्षचर्य चरेत्। पाणिपात्रेणाशनं कुर्यादौषध- वदशनमाचरेदौषधवदशनं प्राश्नीयाद्यथालाभमश्नीयात् प्राणसंधारणार्थ यथा मेदोवृद्धिर्न जायते। कृशीभूत्वा ग्रामैकरात्रम्, नगरे पञ्चरात्रम्, चतुरो

Page 250

२४४ संन्यासोपनिषद्: [अ.

मासान् वार्षिकान् ग्रामे वापि नगरे वापि वसेत्। पक्षा वै मासा इति द्वौ मासौ वा वसेत्। विशीर्णवस्त्रं वल्कलं वा प्रतिगृह्लीयात्, नान्यत् प्रतिगृह्हीयात्, यद्यशक्तो भवति क्लेशतस्तप्यते तप इति। यो वा एवं क्रमेण संन्यस्यति, यो वा एवं पश्यति, किमस्य यज्ञोपवीतं कास्य शिखा कथं वास्योपस्पर्शनमिति। तं होवाच। इदमेवास्य यज्ञोपवीतं यदात्म- ध्यानम्, या विद्या सा शिखा, नीरैः सर्वत्रावस्थितैः कार्य निर्वर्तयन्नुदरपत्रिण। जलतीरे निकेतनम्। अस्तमित आदित्ये कथं चास्योपस्पशनमिति। यथाहनि तथा रात्रौ नास्य नक्तं न दिवा। तदप्येतदृषिणोक्तम्। सकृदिवा हैवास्मै भवतीति। य एवं विद्वानेतेनात्मानं संधत्ते ॥ १ ॥

संन्यासोपनिषद्वेद्यं संन्यासिपटलाश्रयम्। सत्तासामान्यविभवं स्वमात्रमिति भावये ॥

इह खलु सामवेदप्रविभक्तेयं संन्यासोपनिषत् कुटीचकादिषड्भेदधर्म- प्रकटनव्यग्रा ब्रह्ममात्रपर्यवसन्ना विजृम्भते। अस्याः संक्षेपतो विवरणमारभ्यते। यथोक्ताधिकारसाधनसंपन्नानुपलभ्य श्रुतयः स्वयमेव संन्यासोपनिषदमुप- न्यस्यन्तीत्याह-अथेति। अथशब्दः अधिकारिलाभानन्तर्यार्थः । यतः स्वातिरिक्तसामान्यसंन्यासं विना निष्प्रतियोगिकस्वमात्रज्ञानं नोदेति, अतः तदु- पायतया श्रुतयो वयं संन्यासोपनिषदं व्याख्यास्यामः ; विस्पष्टमाख्यास्यामः; वदाम इत्यर्थः । तत्प्रकार: कथमित्यत्र-य इति। ब्रह्मचर्य समाप्य गृही भवेत् इत्यादि कुटीचको बहूदकत्वं प्राप्येत्यादि चानुक्मेण य एषणात्रयं संन्यस्यति, स एव संन्यासी भवतीत्यर्थः । संन्यास संन्यासिनं चाक्षिपति- क इति। स्वाशङ्कोत्तरं स्वयमेवाहुः-य इति। य आत्मानं वक्ष्यमाण- क्रियाभिर्गुपं करोति। मात्राद्यनुमोदनादिवक्ष्यमाणविधिना संस्करोतीत्यर्थः ।

Page 251

& ] संन्यासोपनिषत् २४५ तत् कथमित्यत्र-मातदं पितरं भार्यो पुत्रान् बन्धूननुमोद्यित्वा संन्यासं कर्तुमिच्छामि भवद्गिराज्ञा देयेति। चरमेष्टिनिर्वपनार्थमृत्विग्वरणं कर्तव्यमित्याह -ये चेति। ये चास्यत्विजः सन्ति, तान् सर्वाश्च पूर्ववत् वृणीत्वा अथ तै: सह वैश्वानरेष्टिं निर्वपेत् इति। ततो यजमानस्य यावन्तः पुत्रा: स्यु:, तेषामात्मना सह स्वार्जितं धनं यथाविभागं विधाय, स्वभागप्राप्तसर्वस्वमृत्विग्भ्यो देयमित्याह-सर्वस्वमिति। यजमानस्य स्वस्य सर्वस्वं ऋत्विग्भ्यो यजमान: स्वयं दद्यादित्यर्थः । ततः किमित्यत्र यज्ञियपात्रतोऽग्निसमारोपणं कुर्यादित्याह -सर्वैरिति। ब्राह्मणादिजातिप्रविभक्तब्राह्मणाब्राह्मणादिचतुर्षु वर्णेषु भेक्षचर्य चरेत्। यद्यशक्तो भवति, तदा शीतादिबाधाबाधकं वस्त्रं प्रतिगृह्णीयात्; नो चेत् शीतादिजन्यक्लेशतस्तप्यते तप इति। स्वोचितवस्त्रादिप्रतिग्रहे तु स्वाश्रमोचितं तपः सुखं तप्यत इत्यर्थः । तृषादिकार्य निर्वतयन् नीरस्य सर्वत्र विद्यमानत्वात् तद्याच्चा न कार्या; 'कामो मद उदपानम्' इति श्रुतेः। उदरपात्रेण यथालाभमश्नन् जलतीरे निकेतनमस्ति चेत् तत्र वस्त- व्यमित्यर्थः । अस्तमित आदित्ये कथं वास्योपस्पर्शनमिति; रात्रौ जलाशय- स्पर्शननिषेधात्। एवं चिदादित्यभावमापन्नस्य यथाहनि तथा रात्रौ। तद्प्येतदृषिणा मन्त्रेण उक्त्म्। किमिति। सकृद् दिवा हैवास्म भवतीति। सदास्य दिवा भवतीत्यर्थः । इतिशब्दो मन्त्रपरिसमात्यर्थः । य एवं विद्वाने- तेनात्मानं संधत्ते यः संन्यासज्ञानयोगेनानुसंधानं करोति, स कृतकृत्यो भवतीत्यर्थः । शिष्टमारुणिकनारदादौ सम्यक् प्रपञ्चितमित्यर्थः ॥१॥

इति प्रथमोऽध्यायः

Page 252

२४६ संन्यासोपनिषद: [e-

द्वितीयोऽध्यायः

संन्यासाधिकारी

चत्वारिंशत्संस्कारसंपन्नः सर्वतो विरक्तश्चित्तशुद्धिमेत्याशा- सूयेर्प्याहंकारं दग्व्वा साधनचतुष्टयसंपन्न एव संन्यस्तुमर्हति ॥ १॥

क: संन्यस्तुमर्हतीत्याकाङ्क्षायामादौ संन्यासाधिकारिणं निरूपयति- चत्वारिंशदिति। साधनचतुष्टयसंपन्न एव संन्यस्तुमर्हतीत्येतत् नारद- परिव्राजके व्याख्यातम् ॥ १ ॥

पतितलक्षणम्

संन्यासे निश्चयं कृत्वा पुनर्न च करोति यः । स कुर्यात् कृच्छ्मात्रं तु पुनः संन्यस्तुमर्हति ॥ २ ॥ संन्यासं पातयेद्यस्तु पतितं न्यासयेत्तु यः । संन्यासविन्नकर्ता च त्रीनेतान् पतितान् विदुः ॥ ३ ॥

किंच संन्यासं करोमीति संन्यासे निश्चयं कृत्वा यः संन्यास- मधिक्षिपति, पतितं न्यासयति, संन्यासविन्नमाचरति, ते प्रत्यवायिनो भवन्ती- त्याह-संन्यासमिति॥२,३॥ संन्यासानधिकारिण:

अथ षण्डः पतितोऽङ्गविकल: स्त्रैणो बधिरोडर्मको मूकः पाषण्डश्चकी लिङ्गी वैखानसहरद्विजौ भृतकाध्यापकः शिपिविष्टोऽनमिको वैराग्यवन्तोऽप्येते न संन्यासार्हाः । संन्यस्ता यद्यपि महावाक्योपदेशे नाधिकारिणः ॥ ४ ।।

Page 253

२] संन्यासोपनिषत् २४७

आरूढपतितापत्यं कुनखी श्यावदन्तकः । क्षयी तथाङ्गविकलो नैव संन्यस्तुमर्हति ॥ ५॥ संप्रत्यवसितानां च महापातकिनां तथा। व्रात्यानामभिशस्तानां संन्यासं नैव कारयेत्॥ ६ ॥

सत्यशौचपरिभ्रष्टं संन्यासं नैव कारयेत्। एते नार्हन्ति संन्यासमातुरेण विना क्रमम् ॥ ७ ॥

संन्यासानधिकारिणो निर्दिशति-अथेति । शिपिविष्टः विकसित- शेफः ॥ ४-७॥ संन्यासस्वीकारप्रकार:

ओं भू: स्व्राहेति शिखामुत्पाट्य यज्ञोपवितं बहिर्न निवसेत्। यशो बलं ज्ञानवैराग्यं मेधां प्रयच्छेति यज्ञोपवीतं छित्त्वा ओं स्वाहेत्यप्सु वस्त्रं कटिसूत्रं विसृज्य संन्यस्तं मयेति त्रिवारमभिमन्त्रयेत् ॥ ८॥।

उक्तदोषरहिता: संन्यासाधिकारिणो भवन्तीत्यधिकारिनिर्णयानन्तरं तत्करणप्रकारमाह-ओमिति ॥ ८॥

संन्यस्तपुरुषस्तघः

संन्यासिनं द्विजं दृष्ट्ा स्थानाच्चलति भास्करः । एष मे मण्डलं मित्त्वा परं ब्रह्माधिगच्छति ॥ ९॥ षष्टिं कुलान्यनीतानि षष्टिमागामिकानि च। कुलान्युद्धरते प्राज्ञः संन्यस्तमिति यो वदेत् ॥ १० ॥

Page 254

२४८ संन्यासोपनिषद: [अ.

ये च संतानजा दोषा ये दोषा देहसंभवाः । प्रैषाभिनिर्दहेत् सर्वास्तुवामनिरिव काश्चनम् ॥ ११ ॥

एवं विविवत् संन्यस्तपुरुषं ज्ञानाधिकारिणं स्तौति-संन्यासिनमिति। किंच-षष्टिमिति। संतानजा दोषाः दुषपुत्रसंजाताः ॥९-११ ॥

दण्डपरिग्रहः

सखा मा गोपायेति दण्डं परिग्रहेत् ॥ १२ ॥

यद्यातुरो जीवति तदा तेन यथोक्तलक्षणं दण्डादिक स्वीकार्यमित्याह- सखा मा गोपाेति दण्डं परिग्रहेदिति ॥ १२ ॥

दण्डलक्षणम्

दण्डं तु वैणवं सौम्यं सत्वचं समपर्वकम्। पुण्यस्थलसमुत्पन्नं नानाकल्मपशोघितम् ॥ १३ ।। अदग्धमहतं कीटैः पर्वग्रन्थिविराजितम्। नासादन्नं शिरस्तुल्यं भ्रुवोर्वा बिभृयाद्यतिः ॥१४ ।। दण्डात्मनोस्तु संयोगः सर्वथा तु विधीयते। न दण्डेन विना गच्छेदिपुक्षेपत्रयं बुधः ॥ १५॥

दण्डलक्षणमाह-दण्डमिति ॥ १३-१५॥

कमण्डलुपरिग्रहः

जगज्जीवनं जीवनाधारभूतं माते मा मन्त्रयस्व सर्वदा सर्वसौम्येति कमण्डलुं परिगृद्य योगपट्टाभिषिक्तो भूत्वा यथासुखं विहरेत् ॥ १६ ॥

Page 255

2] संन्यासोपनिषत् २४९

त्यज धर्ममधर्म च उभे सत्यानृते त्यज। उभे सत्यानृते त्यक्त्वा येन त्यजसि तत् त्यज ॥ १७ ॥

कमण्डलुं च परिगृह्य देशिकमुखात् प्रणवमहावाक्योपदेशं लब््वा स्वाश्रमाचारपरो भूत्वा संशयादिपञ्चदोषशान्त्यन्तं वेदान्तश्रवणं कृत्वाथ योगपट्टाभिषिक्तो मुनिः गुर्वनुज्ञया यथासुखमाप्रारब्धं विहरेदित्याह- जगदिति। ततस्तेन धर्मादिकर्तव्याकर्तव्यबुद्धिस्त्याज्येत्याह-त्यजेति । १६, १७ ।। संन्यासिनां चातुर्विध्यम्

वैराग्यसंन्यासी ज्ञानसंन्यासी ज्ञानवैराग्यसंन्यासी कर्मसंन्यासी चेति चातुर्विध्यमुपागतः ॥ १८ ।।

संन्यास: कतिविधं इत्यत आह-वगग्येति ॥ १८ ।। वैराग्यसंन्यासी

तद्यथेति। दृष्टानुश्रविकविषयवैतृप्ण्यमेत्य प्राक्पुण्यकर्मवशात् संन्यस्तः, स वैराग्यसंन्यासी।। १९, ।।

दष्टानुश्रविकविषयवैतृष्ण्यमेत्य इहामुत्रार्थभोगतृष्णाविरतिमेत्य ।१९।।

ज्ञानसंन्यासी

शास्त्रज्ञानात् पापपुण्यलोकानुभवश्रवणात् प्रपश्चोपरतो देहवासनां शास्त्रवासनां लोकवासनां च त्यक्त्वा क्मनान्नमिव प्रवृत्ति सर्वां हेयां मत्वा साधनचतुष्टयसंपन्नो यः संन्यस्यति, स एव ज्ञान- संन्यासी॥ २०॥

Page 256

२५० संन्यासोपनिषद: [अ-

ज्ञानवैराग्यसंन्यासी

क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञानवैरग्याभ्यां स्वरूपानु- संधानेन देहमात्रावशिष्टः संन्यस्य जातरूपधरो भवति, स ज्ञान- वैराग्यसंन्यासी।।२१॥

कर्मसंन्यासी

ब्रह्मचर्य समाप्य गृही भूत्वा वानप्रस्थाश्रममेत्य वैराग्यागावे- डप्याश्रमक्रमानुसारेण यः संन्यस्यति, स कर्मसंन्यासी ॥। २२।।

षड्विधसंन्यासः संन्यास: षड़िधो भवति कुटीचकबहूदकहंसपरमहंसतुरीया- तीतावधूताश्चेति ॥ २३ ॥

कुटोचकः कुटीचकः शिखायज्ञोपवीती दण्डकमण्डलुधरः कौपीनशाटी- कन्थाधर: पितृमातृगुर्वाराधनपरः पिठरखनित्रशिक्यादिमात्रसाधनपर एकत्रान्नादनपरः श्वेतोर्घ्वपुण्डवारी त्रिदण्डः ॥ २४ ।।

बहूदक:

बहूदक: शिखादिकन्थाधरस्त्रिपुण्डधारी कुटीचकवत् सर्वसमो मधुकरवृत्त्याष्टकबलाशी ॥ २५॥

हंस:

कौपीन खण्डतुण्डधारी ॥ २६॥

Page 257

२] संन्यासोपनिषत् २५१

परमहंसः

परमहंस: शिखायज्ञोपवीतरहितः पञ्चगृहेषु करपात्ये ककौपीन- धारी शाटीमेकामेकं वैणवं दण्डमेकशाटीधरो वा भस्मोद्ध लनपरः सर्वत्यागी ॥ २७॥

तुरीयातीत:

तुरीयातीतो गोमुखवृत्त्या फलाहारी, अन्नाहारी चेद् गृहत्रये, देहमात्रावशिष्टो दिगम्बरः कुणपवच्छरीरवृत्तिकः ॥ २८॥

अवधूतः अवधूतस्त्वनियमः पतिताभिशस्तवर्जनपूर्वकं सर्ववर्णे ्वजगर- वृत्त्याहारपरः स्वरूपानुसंवानपरः ॥ २९ ॥

"वैराग्यसंन्यासी" इत्यारभ्य "स्वरूपानुसन्धानपरः " इत्यन्तं प्रायशो नारदपरिव्राजकोपनिषदि व्याख्यातम् ॥ १९-२९॥

जगत् तावदिदं नाहं सवृक्षतृणपर्वतम्। यद् बाह्यं जडमत्यन्तं तत् स्यां कथमहं विभु: । कालेनाल्पेन विलयी देहो नाहमचेतनः ॥ ३० ॥ जडया कर्णशप्कुल्या कल्यमानक्षणस्थया। शून्याकृतिः शून्यभवः शब्दो नाहमचेतनः ॥ ३१ ॥ त्वचा क्षणविनाशिन्या प्राप्योऽप्राप्योडयमन्यथा। चित्प्रसादोपलब्धात्मा स्पर्शो नाहमचेतनः ॥ ३२ ॥

Page 258

२५२ संन्या सोपनिषद: [ет.

लब्धात्मा जिह्रया तुच्छो लोलया लोलसत्तया। स्वल्पस्पन्दो द्रव्यनिष्ठो रसो नाहमचेतनः ॥ ३३ ॥ दृश्यदर्शनयोर्लीनं क्षयि क्षणविनाशिनोः। केवले द्रष्टरि क्षीणं रूपं नाहमचेतनः ॥ ३४ ॥ नासया गन्धजडया क्षयिण्या परिकल्फतः । पेलवोडनियताकारो गन्धो नाहमचेतनः ॥३५॥ निर्ममोऽमननः शान्तो गतपश्चेन्द्रियभ्रमः । शुद्धचेतन एवाहं कलाकलनवर्जितः ॥ ३६ ॥ चैत्यवर्जितचिन्मात्रमहमेषोऽवभासकः। सबाह्याभ्यन्सरे व्यापी निष्कलोऽहं निरञ्जनः । निर्विकल्पचिदाभास एक एवास्मि सर्वगः ॥३७॥ मयैव चेतनेनेमे सवें घटपटादयः । सूर्यान्ता अवभास्यन्ते दीपेनेवात्मतेजसा ॥ ३८॥ मयैवैताः स्फुरन्तीह विचित्रेन्द्रियपङक्तयः । तेजसान्तःप्रकाशेन यथामिकणपङ्क्तयः ॥ ३२ ॥ अनन्तानन्दसंभोगा परोपशमशालिनी। शुद्धेयं चिन्मयी दृष्टिर्जयत्यस्लदृष्टिषु ॥ ४० ॥ सर्वभावान्तरस्थाय चेत्यमुक्तचिदात्मने। प्रत्यक्चैतन्यरूपाय मह्यमेव नमो नमः ॥ ४१॥

कुटीचकादेः स्वरूपानुसंधानवृत्तिः केनोपायेन जायते? इत्यत्र संशयादिपञ्चदोषशान्त्यन्तमीशाद्यषोत्तरशतवेदान्तश्रवणं कृत्वा श्रुतार्थ-

Page 259

संन्यासोपनिषत् २५३

मननतोऽनुसंधानाख्यनिदिध्यासनवृत्तिरुदेतीत्याह-जगदिति। जगत्प्रविभक- देहः शब्दादयो वा त्वमसीत्यत आह-कालेनेति। लोलसत्तया लोलमनो- विशिष्टया। क्षयिण्या क्षयशीलया। अचेतनः ; स्वातिरिक्तन्द्रियेन्द्रियार्थ- वैरल्यात्। चिन्मयदृष्टावुदितायां प्रत्यग्ब्रह्मैक्यं भवतीत्याह-सर्वेति। पूर्वार्धस्तत्पदार्थः । उत्तरार्धप्रविभक्तद्वादशाक्षरस्त्वंपदार्थः । तदुपरि विद्य- मानाक्षरचतुष्टयं तु असिपदार्थः; "नमस्त्वैक्यं प्रवदेत्" इति श्रुतेः ॥ ३०-४१ ॥ चितिशक्ति: तत्स्तुतिश्च

विचित्राः शक्तय: स्वच्छाः समा या निर्विकारया। चिता क्रियन्ते समया कलाकलनमुक्तया।।४२। कालत्रयमुपेक्षित्या हीनायाश्चेत्यचन्घनैः । चितश्चेत्यमुपेक्षित्याः समतैवावशिष्यते ॥ ४३॥ सा हि वाचामगग्यत्वादसत्तामिव शाश्वतीम्। नैरात्म्यसिद्धान्तदशामुपयातेव शिष्यते॥ ४४ ॥ ईहानीहामयैरन्तर्या चिदावलिता मलैः। सा चिन्नोत्पतितुं शक्ता पाशबद्धेव पक्षिणी।। ४५।। इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः । धराविवस्ममानां कीटानां समतां गताः।। ४६ ॥

चिद्विकल्पितं सर्व चिदेवेत्याह-विचित्रा इति । उक्तविशेषणविशिष्ट्या चिता यतः पृथिव्यादिपञ्चभूतभौतिकगताः काठिन्यादिनानाविचित्रशक्तयो वर्तन्ते समा या: स्वात्मशक्तिमयाः क्रियन्ते "तत् सृष्टा। सच्च त्यच्चाभवत्" इति श्रुतेः । चिद्विकल्पितकाठिन्यादिशक्तयश्चिदेवेत्यर्थः । कालत्रयकलना- कलितविचित्रशक्तीनां विषमरूपाणां चेत्यत्वेन विद्यमानत्वात् विचित्रर्शा हेतु-

Page 260

२५४ संन्यासोपनिषद्: [अ.

श्चिदपि विषमा भवितुमर्हतीत्यत आह-कालेति। कालत्रयावच्छिन्ननानावैषम्य- विशिष्टचेत्यपटलमस्तिनास्तीति विभ्रमापह्नवकलनामप्युपेक्षित्र्याश्चितः कुतो विषमप्रसक्ति :? किंत्वचिदपह्ववसिद्धचितः समतैव निष्प्रतियोगिकमवशिष्यत इत्यर्थः । विषमवाग्गम्यचितः समता कुत इत्यत आह-सा हीति। "यतो चाचो निवर्तन्ते" इति श्रत्यनुरोधेन यस्याश्चितेर्वाचामगम्यत्वात् या हि पुनश्चित् स्वाज्ञदशायां देहाद्यतिरेकेण शाश्वतीमसत्तामापन्नेव दृष्टा, या हि च

गता, स निरात्मा ; तद्भावो नैगत्म्यम्। "इदं चैतन्यमेवेति अहं चैतन्यमित्यपि। यस्य प्रपञ्चभानं न ब्रह्माकारमपीह न ।।" इत्यादिश्रुत्यनुरोधेन निष्प्रतियोगिकत्रह्ममात्रतया स्थितिरेव नैरात्म्यसिद्धान्त- दशेत्युच्यते। स्वाज्ञदष्ट्या तु सा हि चित् नैरात्म्यसिद्धान्तदशां स्वरूपशून्यता- मुपयातेव। न हि परमार्थदष्टेस्तथा भवितुमर्हति; इवशब्दद्वयस्य परमार्थदृष्ट्यनु- कूलत्वात्। एवं द्यात्यते हीवशब्दद्वयतः । स्वाज्ञादिदृष्टिमोहे सत्यसति निष्प्रतियोगिकं चिन्मात्रमवशिष्यत इत्यत्र- "स्वाज्ञस्वज्ञदशायां यदेकरूपतया स्थितम्। तद्वि नरात्म्यसिद्धान्तसत्तासामान्यमुच्यते ॥" इति स्मृतेः। एवं निष्प्वतियोगिकचिन्मात्रमबुद्धा ये स्वातिरिक्ते- हानीहादिकलनाकलितं जगन्मात्रं मन्यन्ते, ते धराविवरनिमग्नकीटतुल्या भवन्तीत्याह-इहेति। निर्विशेषतया सा चित् नोत्पतितुं शक्त येषामेवं ते ॥ ४२-४६ ॥ अभेदानुभव: आत्मनेऽस्नु नमस्तुभ्यमविच्छिन्नचिदात्मने। परामृष्टोडम्मि बुद्धोऽस्मि प्रोदितोऽस्म्यचिरादहम्॥ ४७॥ उद्धनोऽस्मि विकल्पेभ्यो योडस्मि सोडस्मि नमोऽस्तु ते।

Page 261

संन्यासोपनिषत् २५५

तुभ्यं मह्यमनन्ताय तुभ्यं मह्यं चिदात्मने ॥ ४८ ॥ नमस्तुभ्यं परेशाय नमो मह्यं शिवाय च। तिष्ठन्नपि हि नासीनो गच्छन्नपि न गच्छति। शान्तोऽपि व्यवहारस्थः कुर्वन्नपि न लिप्यते ॥ ४९॥ सुलमश्चायमत्यन्तं सुज्ञेयश्चाप्तबन्धुवत्। शरीरपझ्मकुहरे सर्वेषामेव षट्पद्षः ॥ ५०॥ न मे भोगस्थितौ वाञ्छा न मे भोगविसर्जने। यदायाति तदायातु यत् प्रयाति प्रयातु तत् ॥ ५१ ॥ मनसा मनसि च्छिन्ने निरहंकारतां गते। भावेन गलिते भावे स्वस्थम्तिष्ठामि केवलः ॥ ५२॥ निर्भावं निरहंकारं निर्मनम्क निरीहितम्। केवलस्पन्द्शुद्धात्मन्येव तिष्ठति मे रिपुः ॥ ५३॥ तृप्णारज्जुगणं छित्त्वा मच्छरीरकपञ्जरात्। न जाने क गतोड्डीय निरहंकारपक्षिणी॥ ५४॥ यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते। यः समः सर्वभूतेषु जीवितं तस्य शोभते ॥ ५५॥ योऽन्तःशीतलया वुद्धया रागद्वेषविमुक्तया। साक्षिवत् पश्यतीदं हि जीवितं तस्य शोभते ॥ ५६ ॥ येन सम्यक् परिज्ञाय हेयोपादेयमुज्झता। चित्तस्यान्तेऽर्पितं चित्त जीवितं तस्य शोभते ॥५७॥ ग्राह्यग्राहकसंबन्धे क्षीणे शान्तिरुदेत्यलम्।

Page 262

२५६ संन्यासोपनिषद: [अ-

स्थितिमभ्यागता शान्तिर्मोक्षनास्नाभिधीयते ॥५८॥ भृष्टबीजोपमा भूयो जन्माङ्कुरविवर्जिता । हृदि जीवद्विमुक्तानां शुद्धा भवति वासना ॥ ५९॥ पावनी परमोदारा शुद्धसत्त्वानुपातिनी। आत्मध्यानमयी नित्या सुषुप्तिस्थेव तिष्ठति ॥ ६० ॥ चेतनं चित्तरिक्त्त हि प्रत्यक् चेतनमुच्यते। निर्मनस्कस्वभावत्वान्न तत्र कलनामलम् ॥ ६१ ॥ सा सत्यता सा शिवता सावस्था पारमार्थिकी। सर्वज्ञता सा संतृप्तिर्ननु यत्र मनः क्षतम् ॥ ६२ ॥ प्रलपन् विसृजन् गृह्गन्नुन्मिषन्निमिषन्नपि निरस्तमननानन्दः संविन्मात्रपरोऽस्म्यहम् ॥ ६३ ॥ मलं संवेद्यमुत्सृज्य मनो निर्मूलयन् परम्। आशापाशानलं छित्त्वा संविन्मात्रपरोऽस्म्यहम् ॥ ६४ ॥ अशुभाशुभसंकल्पः संशान्तोडस्मि निरामयः। नष्टेष्टानिष्टकलनः संविन्मात्रपरोऽस्म्यहम् ॥ ६५॥ आत्मतापरते त्यक्त्वा निर्विभागो जगस्थितौ। वज्रस्तम्भवदात्मानमवलम्ब्य स्थिरोऽस्यहम् ॥ ६६ ॥ निर्मलायां निराशायां स्वसंवित्तौ स्थितोऽस्म्यहम् । ईहितानीहितैर्मुक्तो हेयोपादेयवर्जितः ॥ ६७ ॥ कदान्तस्तोषमेष्यामि स्वप्रकाशपदे स्थितः । कदोपशान्तमननो धरणीघरकोटरे ॥ ६८ ॥ समेप्यामि शिलासाम्यं निर्विकल्पसमाधिना।

Page 263

संन्यासोपनिषत् २५७ निरंशध्यानविश्रान्तमूकस्य मम मस्तके। कदा तार्ण करिष्यन्ति कुलायं वनपत्रिण: ॥ ६९ ॥। संकल्पपादपं तृष्णालतं छित्त्व, मनोवनम्। विततां भुवमासाद्य विहरामि यथासुखम् ॥ ७॥ पदं तदनुयातोऽस्मि केवलोडस्मि जयाभ्यहम्। निर्वाणोऽस्मि निरीहोऽस्मि निरंशोऽस्मि निरीप्सितः ॥ ७१॥ स्वच्छतोर्जितता सत्ता हृद्यता सत्यता ज्ञता। आनन्दितोपशमता सदा प्रमुदितोदिता। पूर्णतोदारता सत्या कान्तिसत्ता सदेकता ॥ ७२॥ इत्येवं चिन्तयन् भिक्षुः स्वरूपस्थितिमल्जसा। निर्विकल्पस्वरूपज्ञो निर्विकल्पो बभूव ह॥ ७३ ॥

यत एवमविद्वांसो हीयन्ते, अतः प्रत्यगभिन्नं ब्रह्मास्मीति बोधेन निर्विकल्पकब्रह्माहमस्मीत्याह-आत्मन इति। एवं प्रत्यक्परचिदैक्यं ब्रह्म भवामीति परामृष्टोऽस्मि। एवं प्रत्यगभेदेन य आस्ते सोऽयं स्वाज्ञलोकवत् तिष्वन्नपीति 1 यज्ज्ञानेन मुनिर्लितो भवति सोऽयमात्मा ब्रझ्माहमस्मीति ज्ञातुं सुलभ: । स कुत्रासनमर्हतीत्यत्र-शरीरेति। एवमात्मानं जानतो न मे भोगस्थितौ वाळ्छा। कालकर्मसंयोगवशात् यदायाति तदायातु। एवं मनसा। पुरा स्वाज्दशायां स्वातिरिक्तं स्वरूपं शून्यमपि सत्यवदात्मनि प्रतिभातम् ; इदानीं स्वज्ञदशायां तत् क गतम् ? अहमेक एवावशिष्यामीत्याह -- निर्भावमिति । विचार्यमाणपुरानुभूतस्वातिरिक्तं निर्भावम् ; अवस्तुत्वात्। निरहंकारं देहाभावात्। निर्मनस्कं अमनस्कत्वात्। निरीहितम् ; ईहनीयस्य मृग्यत्वात्। तथापि स्वातिरिक्तभ्रमः सत्यवत् केवलस्पन्दशुद्धात्मन्येव तिष्ठति मे रिपुः । स्थित इति भूतार्थे वर्तमानप्रयोग: छान्दसः । इदानीं श्रुत्याचार्य- 17

Page 264

२५८ संन्यासोपनिषद: [अ.

प्रसादतो निष्प्रतियोगिकत्रह्ममात्रज्ञाने जातेऽय स्वातिरिक्तास्तित्वभ्रान्तितृष्णा- रज्जुगणं छित्वा। देहादौ नितरामहंकारममकारपक्षौ यस्याः स्वातिरिक्तभ्रान्ते: सेयं निरहंकारपक्षिणी क गता? अहमेक एवावशिष्यं इत्यर्थः। यस्यैवं देहादावहंभावो नोदेति तज्जीवितं सफलमित्याह-यस्येति। शीतलया बुद्धया स्वातिरिक्ततापशून्यया। रागादौ सति धियस्तथात्वं कुत इत्यत्र -- रागेति। चित्तस्यान्ते चित्तावसाने ब्रह्मणि। स्वातिरिक्तवृत्त्यनुद्भूतिरेव तन्मोक्ष इत्याह- ग्राह्येति। सर्वप्राणिनां वासनाविशिष्टत्वेन ग्राह्यादिशान्तिः कुत इत्यत्र शुद्धवासनावज्जीवन्मुत्तदष्ट्या तच्छान्तिरुदेतीत्याह-भृष्टेति। ग्राह्यादिकलना- संभवं मन्यमाना शुद्धा भवति। यत्र चित्तं न संभवति तदेव चेतनमित्याह- चेतनमिति। यस्यां चिति असत्यं मनोन्मनीभावं भजति सा सन्मात्र- रूपिणीत्याह-सेति। मानसतानवे देहादिव्यापृतौ सत्यसति संविन्मात्रोऽस्मी- त्याह-प्रलपन्निति। निरस्तस्वातिरिक्तमननानन्दः विषयजातं उत्सृज्य। किंच-निर्मलायामिति। तार्ण तृणरचितम्। अचिन्मात्रापह्मवसिद्धचिन्मात्रस्य निष्प्रतियोगितैव स्वच्छता दिस्वमात्रमवशिष्यत इति ज्ञानान्निर्विकल्पब्रह्मैव भवती- त्याह-स्वच्छतेति। भिक्षुः स्वरूपस्थितिम जसा प्राप्य। एवं सर्ववेदान्त- श्रवणमनननिदिध्यासनप्रभवसम्यगज्ञानाप्तिसमकालमेव स्वातिरिक्तविकल्पापह्वव- सिद्धनिष्प्रतियोगिकनिर्विकल्पात्मना विद्वानवशिष्यत इति सर्ववेदान्तसिद्धान्त- संग्रहोऽर्यः ॥ ४७-७३॥

आतुरसंन्यास:, संन्यासिनां प्राप्यस्थानानि च

आतुरो जीवति चेत् क्रमसंन्यासः कर्तव्यः । न शूद्स्त्री- पतितोदक्यासंभाषणम्। न यतेर्देवपूजा नोत्सवदर्शनम्। तस्मान्न संन्यासमेकलोकः। आतुरकुटीचकयोर्भूलों कभुवर्लोकौ। बहूदकस्य स्वर्ग- लोकः। हंसस्य तपोलोकः । परमहंसस्य सत्यलोकः । तुरीयातीतावधूतयोः स्व्रात्मन्येव कैवल्यं स्वरूपानुसंघानेन भ्रमरकीटन्यायवत्॥७४॥

Page 265

संन्यासोपनिषत् २५९

आतुरो यदि जीवति तदा तेन कि कार्यमित्यत्राह-आतुर इति। क्रमसंन्यासमुपेयुषः परमहंसस्य चर्या कीदृशीत्यत आह-नेत्यादि। कुटीच- कादिषण्णां समानमेव। तुरीयातीतादेः अयं विशेष इत्याह-न यतेरिति। यस्मादेवं तस्मात्। कुटीचकत्वादिसंन्यासभेदानुरोधेन तत्तज्ज्ञानानुरोधेन च तत्तत्प्राप्यलोकभेदोऽपि युज्यत इत्याह-आतुरेति। मुनिः ब्रह्म संपद्यत इत्यर्थः ॥ ७४॥ संन्यासिभि: स्वरूपानुसंधानं विना नान्यत् किमपि कार्यम्

स्वरूपानुसंधानव्यतिरिक्तान्यशास्त्रा म्यास उष्टरकुङ्कुमभार- वद्वयर्थः। न योगशास्त्रपरवृत्तिर्न सांखव्यशास्त्राभ्यासो न मन्त्रतन्त्रव्यापारो नेतरशास्त्रपरवृत्तिर्यतेरस्ति ; अस्ति चेच्छवालंकारवत्। चर्मकारवत् विद्यादूरः। न परिव्राट् नामसंकीर्तनपरः। यद्यत् कर्म करोति तत्तत्फल- मनुभवति। एरण्डतैलफेनवत् सर्व परित्यजेत्। न देवताप्रसादग्रहणम्। न बाह्यदेवाम्यर्चनं कुर्यात्।। ७५॥ यत एवमतः स्वरूपानुसंधानव्यतिरिक्तान्यशास्त्राभ्यासै: तत्तत्सिद्धा- न्तानुरूपं फलमेति; न परमार्थफलं स्पृशति; "अधीत्य गौतर्मी विद्यां सार्गाली योनिमाप्नुयात्" इत्यादिकुत्सितजन्मश्रवणात्। अतः शास्त्रान्तराभ्यासस्तु उष्ट्रकुड्कुमभारवत् व्यर्थः। यथा चर्मकारो विद्यादूरस्तथाऽयं परमार्थविद्यातत्फल- विरलो भवतीत्यर्थः। एतन्नामाहमाश्रमान्तर इति परिव्राट् नामसंकीर्तनपर इत्यत्र "नामगोत्रादिवरणं देशं कालं श्रुतं कुलम्। वयो वृत्तं व्रतं शीलं ख्यापयेन्नैव सद्यतिः ॥" इति श्रुतेः। न ह्यस्य वाक्यस्य भगवन्नामनिषेधोर्ऽर्थों भवितुमर्हति। तथाच श्रुतिस्मृती भवत :- "एकाकी निःस्पृहस्तिष्ठेन्न हि केन सहालपेत्।

इति, दद्यानारायणेत्येवं प्रतिवाक्यं सदा यतिः ।"

17 a

Page 266

२६० संन्यासोपनिषद्: [अ.

"सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥" इति च। किंच भगवन्नामस्मृतिविरतौ प्रत्यवायश्रवणाच्च, "निवृत्ततर्षैरुपगीयमानाद भवौषधाच्छ्रोत्रमनोभिरामात्। क उत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुन्नात् ।।" इति। भगवन्नाम्नः प्रत्यगभिन्नब्रह्मार्थत्वात् यतिभिर्विशेषतः सदानुसंधेयमित्यत्र- "राशब्दस्त्वीशवाची स्यान्मशब्दो जीववाचकः । तयोरैक्यं परं ब्रह्म राम इत्यभिधीयते ॥" इत्यादिश्रुतेः; "स्वान्यश्र्यपह्ववात् सिद्धा या मुक्तिश्रीर्विजृम्भते। तद्रूपतो राजमानं महः श्रीराम ईरितम् ।।" इति नामार्थविवेकोक्तेश्व। इत्थंभूतब्रह्मनिष्ठां विना यद्यत् कर्म करोति, तत्तत्फल- मतुभवति एरण्डतैलफेनवत्। अतः सर्व परित्यजेन्। इहामुत्रभोगसाधने- च्छयात्युग्रं तपः कृत्वा तदनुकूलेन न देवताप्रसादग्रहणं कार्यमित्यर्थः । निष्कामबुद्धयानुष्ठिततपसोऽनन्तफलत्वात् न बाह्यदेवार्चनं कुर्यात्। यत् प्रत्यग- भिन्नब्रह्मबाह्यम ; प्रत्यगभिन्नं ब्रह्म यत्र नावाह्यते तद्वूाह्यदेवार्चनम्। तत् कदापि न कुर्यात्; "सोऽहंभावेन पूजयेत् " इति श्रुतेः ॥ ७६ ॥ तेषां चर्यादिकम् स्वन्यतिरिक्तं सर्वं त्यकत्वा मधुकरवृत्त्याहारमाहरन् कृशो भूत्वा मेदोवृद्धिमकुर्वन् विहरेत्। माधूकरेण करपात्रेणास्यपात्रेण वा कालं नयेत्॥ ७६ ॥ आत्मसंमितमाहारमाहरेदात्मवान् यतिः। आहारस्य च भागौ द्वौ तृतीयमुदकस्य च।

Page 267

संन्यासोपनिषत् २६१ वायो: संचरणार्थाय चतुर्थमवशेषयेत्॥ ७७॥ ैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेत् कचित्। निरीक्षन्ते त्वनुद्विमास्तद्गहं यत्नतो ब्रजेत् ॥ ७८॥ पञ्चसप्तगृहाणां तु मिक्षामिच्छेत् क्रियावताम्। गोदोहम त्रमाकाड्क्षेन्निप्क्रान्तो न पुनर्व्जेत्॥ ७९ ॥ भक्ताद्वरश्रोपवास उपवासादयाचितः । अयाचिताद्वरं भैक्षं तस्माद्वैक्षेण वर्तयेत्। ।। नैव सव्यापसव्येन भिक्षाकाले विशेद् गृहान्। नातिकामेद् गृहं मोहाद्यत्र दोषो न विद्यते ॥। ८१॥ श्रोत्रियान्नं न भिक्षेत श्रद्धाभक्तिबहिप्कृतम्। व्रात्यस्यापि ग्रृहे भिक्षेच्छूद्धाभक्तिपुरस्कृते ॥ ८२ ॥ माधूकरमसंकलप्तं प्राक्प्रणीतमयाचितम्। तात्कालिकं चोपपन्नं भैक्षं पञ्चविधं स्मृतम्। ८३ ।। मनःसंकल्परहितांस्त्रीन् गृहान् पञ्च सप्त वा। मधुमक्षिकवत् कृत्वा माधूकरमिति स्मृतम् ॥ ८४॥ प्रातःकाले च पूर्वेद्युर्यद्गक्तैतः प्रार्थितं मुहुः। तद्गैक्षं प्राक्प्रणीतं स्यात् स्थितिं कुर्यात् तथापि च । ८५॥ िक्षाटनसमुद्योगाद्येन केन निमन्त्रितम्। अयाचितं तु तद्भैक्षं भोक्तव्यं च मुमुक्षुभिः ॥ ८६ ॥ उपस्थानेन यत् प्रे.क्तं मिक्षार्थं ब्राह्मणेन तत्। तात्कालिकमिति ख्यातं भोक्तव्यं यतिभिस्तदा॥ ८७॥

Page 268

२६२ संन्यासोपनिषदः अ.

सिद्धमन्नं यदा नीतं ब्राह्मणेन मठं प्रति। उपन्नमिति प्राहुर्मुनयो मोक्षकाङ्क्षिणः ॥। ८८।। चरेन्माधूकरं भैक्षं यतिम्लेच्छकुलादपि। एकान्नं न तु भुञ्जीत बृहस्पतिसमादपि। य्ाचितायाचिताभ्यां च भिक्षाभ्यां कल्पयेत् स्थितिम् ॥८९। न वायुः स्पर्शदोषेण नामिर्दहनकर्मणा। नापो मूत्रपुरीषाभ्यां नान्नदोषेण मस्करी॥ ९० ॥ विधूमे सन्नमुसले व्यङ्गरे भुक्तवज्जने। कालेपराहे भूयिष्ठे भिक्षाचरणमाचरेत् ॥ ९१ ॥ अमिशस्तं च पतितं पाषण्डं देवपूजकम्। वर्जयित्वा चरेद् मैक्षं, सर्ववणेषु चापदि ।। ९२।। घृतं श्वमूत्रसदृदशं मधु स्यात् सुरया समम् । तैलं सूकरमूत्रं स्यात् सूपं लशुनसंमितम् ॥ ९३ ।। माषापूपादि गोमांसं क्षीरं मूत्रसमं भवेत्। तस्मात् सर्वप्रयत्नेन वृतादीन् वर्जयेद्यतिः ॥९४।। घृतसूपादिसंयुक्तमन्नं नाद्यात् कदाचन। पाणिपात्रश्चरन् योगी नासकृद् भैक्षमाचरेत् । ९५।। आस्येन तु यदाहारं गोवन्मृगयते मुनिः । तदा समः स्यात् सर्वेषु सोऽमृतत्वाय कल्पते ॥ ९६ ॥

माधूकरेणेत्युक्तार्थ श्रुतिरेव व्याकरोति-आत्मेति। मिक्षानियममाह- निरीक्षन्त इति। मिक्षां दत्त्वैव भोक्तयमिति ये निरीक्षन्ते। यथावच्छूति-

Page 269

संन्यासोपनिषत् २६३

स्मृत्युक्तसंस्काररहितो व्रात्यः । मिक्षां पञ्चधा विभज्य तत्रैकेन स्थिति नयेदित्याह-माधूकरमिति। तत्र माधूकरलक्षणमाह-मन इति। प्राक्प्रणीत- लक्षणमाह-प्रातरिति। अयाचितलक्षणमाह-भिक्षेति। तात्का लिकलक्षण- माह-उपस्थानेनेति। उपपन्नलक्षणमाह-सिद्धमिति। एकान्नापेक्षया भिन्न- जातिमाधूकरं श्रेष्ठमेवेत्याह-चरेद्िति। यतीनामन्नदोषो नास्तीयत्रोपपत्ति- माह-नेति। मिक्षाविधिः ग्रामैकरात्राटनयतिविषयः । यतिरिदं मे स्यादिति इच्छापूर्वकं घृतादीन्नाश्नीयादित्याह-घृतमिति। करोदरपात्रलक्षणमाह- पाणीति॥ ७६-९६॥ यतीनां वर्ज्यानि

आज्यं रुधिरमिव त्यजेदेकत्रान्नं पललमिव गन्धलेपनमशुद्ध- लेपनमिव क्षारमन्त्यजमिव वस्त्रमुच्छिष्टपात्रमिवाभ्यङ्गं स्त्रीसङ्गमिव मित्राह्लादकं मूत्रमित स्पृहां गोमांसमिव ज्ञातचरदेशं चण्डालवाटिकामिव स्त्रियमहिमिव सुवर्ण कालकूटमित् सभास्थलं शमशानस्थलमिव राजधानी कुभ्भीपाकमित्र शवपिण्डवदेकत्रान्नम्। न देवतार्चनम्। प्रपञ्चवृत्ति परित्यज्य जीवन्मुक्तो भवेत् ॥ ९७ ॥

मन्त्रोक्तार्थ ब्राह्मणोऽप्यनुवदति-आज्यमिति। ब्रह्मातिरेकेणाज्यादिकं नास्ति; ब्रह्मैव सर्वमिति सर्वात्मभावारूढो मुनिः जीवन्मुक्तो भवतीत्यर्थः ॥९७॥

षट् यतिपातकानि ; पातित्ये दोपनिरूपणं च

आसनं पात्रलोपश्च संचयः शिप्यसंचयः । दिवा स्वापो वृथालापो यतीनां पातकानि षट् ॥ ९८ ।। वर्षाभ्योऽन्यत्र यत् स्थानमासनं तदुदाहृतम्। उक्तालाब्यादिपात्राणामेकस्यापीह संग्रहः ॥ ९९॥

Page 270

२६४ संन्यासोपनिषदः [अ. यते: संव्यवहाराय पात्रलोपः स उच्यते। गृहीतस्य तु दण्डादेर्द्वितीयस्य परिग्रहः ॥ १०० ॥ कालान्तरोपभोगार्थ संचयः परिकीर्तितः । शुशषाला मपूजार्थं यशोऽर्थं वा परिग्रहः ॥ १०१॥ शिष्याणां न तु कारुण्याच्छिष्यसंग्रह ईरितः । विद्या दिवा प्रकाशत्वादविद्या रात्रिरुच्यते ॥ १०२ ॥ विद्याभ्यासे प्रमादो यः स दिवा स्वाप उच्यते। आध्यात्मिकीं कथां मुक्त्वा मिक्षावार्त्तां विना तथा। अनुग्रहं परिप्रश्नं वृथाजल्पोऽन्य उच्यते ॥ १०३ ॥ एकान्नं मदमात्सर्यं गन्धपुष्पविभूषणम्। ताम्बूलाभ्यज्जने क्रीडा मोगाकाड्क्षा रसायनम् ॥ १०४ ॥ कत्थनं कुत्सनं स्वस्ति ज्योतिश्व क्रयविक्रयम्। क्रिया कर्मविवादश्र गुरुशास्त्रविलङ्घनम्॥ १०५ ॥ संविश्च विग्रहो यानं मञ्चकं शुक्कवस्त्रकम् । शुक्रोत्सर्गों दिवा स्वापो मिक्षाधारस्तु तैजसम् ॥ १०६ ॥ विषं चैवायुधं बीजं हिंसां तैक्ष्ण्यं च मैथुनम्। त्यक्तं संन्यासयोगेन गृहधर्मादिकं व्रतम् ॥१०७॥ गोत्रादि चरणं सर्व पितृमातृकुलं धनम्। प्रतिषिद्धानि चैतानि सेवमानो व्रजेदधः ॥ १०८ ॥ सुजीणोऽपि सुजीर्णासु विद्वान् स्त्रीषु न विश्वसेत्। सुजीर्णास्वपि कन्थासु सज्जते जीर्णमम्बरम् ॥ १०९॥

Page 271

२] संन्यासोपनिषत् २६५

स्थावरं जङ्गमं बीजं तैजसं विषमायुधम्। षडेतानि न गृह्लीयाद्यतिर्मूत्रपुरीषवत् । ११० ॥ नैवाददीत पाथेयं यतिः किंचिदनापदि। पक्कमापत्सु गृह्लीयाद्यावदन्नं न लभ्यते ॥ १११ ॥ नीरुजश्च युवा चैव भिक्षुर्नावसथे वसेत्। परार्थ न प्रतिग्राह्यं न दद्याच्च क्थंचन ॥ ११२ ॥ दैन्यभावात्तु भूतानां सौमगाय यतिश्चरेत्। पक्कं वा यदि वापकं याचमानो व्रजेदधः ॥ ११३ ॥ अन्नदानपरो भिक्षुर्वस्त्रादीनां प्रतिग्रही। आविकं वानाविकं वा तथा पटुपटानपि ॥ ११४ ॥ प्रतिगृह्य यतिश्चैतान् पतत्येव न संशयः। अद्वैतं नावमाश्रित्य जीवन्मुक्तत्वमाप्नुयात् ॥ ११५ ॥ वाग्दण्डे मौनमातिष्ठेत् कायदण्डे त्वभोजनम्। मानसे तु कृते दण्डे प्राणयामो विधीयते ॥ ११६ ॥ कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते। तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ ११७ ॥ सथ्यायां बहुवस्त्राणि िक्षा सर्वत्र लभ्यते। भूमि: शय्यास्ति विस्तीर्णा यतयः केन दुःखिताः ॥ ११८॥ प्रपञ्चमखिलं यस्तु ज्ञानामौ जुहुयाद्यतिः । आत्मन्यझ्ीन् समारोप्य सोडमिहोत्री महायतिः ॥ ११९ ॥

Page 272

२६६ संन्यासोपनिषद: [अ.

प्रवृत्तिर्द्विविधा प्रोक्ता मार्जारी चैव वानरी। ज्ञानाभ्यासवतामोतुर्वानरी भाक्तमेव च ॥ १२० ॥ नापृष्टः कस्यचिद् ब्रयान्न चान्यायेन पृच्छतः । जानन्नपि हि मेघावी जडवल्लोक आचरेत् ॥ १२१ ॥ सर्वेषामेव पापानां संघाते समुपस्थिते। तारं द्वादशसाहस्रमभ्यसेच्छेदनं हि तत् ॥। १२२ ।। यस्तु द्वादशसाहसं प्रणवं जपतेऽन्वहम्। तस्य द्वादशभिर्मासैः परं ब्रह्म प्रकाशते ॥ १२३॥ इत्युपनिषत्।।

मुनेरपीदमासनादिषट्कं बन्धकं भवतीत्याह-आसनमिति। स्वकृत- सूत्रार्थ श्रुतिः स्वयमेव व्याचष्टे-वर्षाभ्य इति। एकान्नादिप्रतिषिद्धधर्मा- चरणफलमाह-एकान्नमिति। स्वस्ति प्रियवाक्यम्। ज्योतिश्च दैवज्ञत्वम्। एतत् सर्वम्। त्यक्तम् एकान्नादि निषिद्धाचरणम्। कदापि स्त्रियं वीक्ष्य तया सह रहसि न संवदेदित्यत्रोपपत्तिमाह-सुजीणोऽपीति। केदार भृत्यबीजसुवर्ण- विषायुधपरिग्रहं कदापि न कार्यमित्याह-स्थावरमिति। अनापदि पाथेयं न ग्राह्यमित्याह-नैवेति। पुनर्यतेहैयोपादेयावाह-नीरुजश्चेत्यादि। आवसथे संसारिगृहे। धाष्टर्यभावं विहाय यस्तिष्ठति स्वस्मिन्, दीनोऽयं साधुरित्यनुकम्पा भक्ति: श्रद्धा वा भूतानां यथा भवेत् तथा दैन्यभावात् साधुभावात् यतिर्भूतानां सौभगाय श्रेयसे चरेत्। कदाप्युद्वेजनं न कुर्यादित्यर्थः । यद्वा भूतानां दैन्यभावात् तेष्वार्तत्वमवगम्य तच्छरेयसे यतिश्वरेदित्यर्थः। कदापि स्व- देहधारणमात्रेतरप्रतिग्रहं ,दानं वा न कुर्यादित्याह-पक्कमिति। द्वैतनदीमद्वैत- नौकया तीर्त्वा तत्पारब्रह्मभावमेत्य जीवन्मुक्तो भवेंदित्याह-अद्वैतमिति। वाड्मन:कायवृत्तौ सत्यां जीवन्मुक्तता कुत इत्यत्र तन्निग्रहोपायामाह- वागिति। बन्धहेतुः कर्मेति विदित्वा कर्मसंन्यासं कुवन्तीत्याह-कर्मणेति।

Page 273

२] संन्यासोपनिषत् २६७ यस्मादेवं तस्मात्। यतीनां दुःखाभावमाह-सथ्यायामिति। निर्रेरप्यम्नि- होत्रित्वमाह-प्रपश्चमिति। परापरब्रह्मविषयकप्रवृत्तिः द्विधा भिद्यत इत्याह- प्रवृत्तिरिति। ज्ञानाभ्यासवतां निर्विशेषब्रह्ममात्रज्ञानिनाम्। ज्ञानसमकालस्व- भावापत्तिदृष्टान्तोऽयम्-ओतुः बिडालः; तस्य क्षणध्यानमात्रतो लक्ष्यग्रास- त्वात्। अपरब्रह्मविषया प्रवृत्तिस्तु वानरी भाक्तमेव च; मर्कटमुष्टिन्यायेन क्रमेण कार्यसाधिका भवतीत्यर्थः। विद्वान् जडवलोक आचरेदित्याह- नेति। पापराशौ सति विद्वत्ता कुत इत्यत्र प्रणवनिष्ठाग्निना पापकुलपर्वते भस्मावशेषितेऽथ विद्वान् भूत्वा ब्रह्ममात्रपर्यवसन्नो भवतीति शास्त्रमुपसंहरति -सर्वेषामिति। अर्थानुसंधानपूर्वकं तारं द्वादशसाहस्त्रमभ्यसेत्। तस्य द्वादशभिर्मासैः चित्तशुद्धिपाप्यज्ञानद्वारा परं ब्रह्म स्वावशेषधिया प्रकाशत इति। द्वादशसहस्त्रप्रणवजपतश्चित्तशुद्धिरुदेति। ततः श्रुत्याचार्यप्रसादलब्धज्ञानं भवति। निर्विशेषसम्यग्ज्ञानसमकालं विद्वान् कृतकृत्यो भवतीत्यर्थः। इत्यु- पनिषच्छब्दः संन्यासोपनिषत्समाध्यर्थः ॥९८-१२३॥

इति द्वितीयोऽध्यायः

श्रीवासुदेवेन्द्रशिष्योपनिषद्रह्मयोगिना। संन्यासोपनिषद्वयाख्या लिखिता ब्रह्मगोचरा। संन्यासोपनिषद्वयाख्याग्रन्थस्तु द्विशतं स्मृतः ॥

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे पञ्चर्षष्टसंख्यापूरकं संन्यासोपनिषद्विवरणं संपूर्णम्

Page 274

INDEX OF NAMES OF RSI-S, ETC.

उपनिषदुदाहृतऋष्यादिनामानि

PAGE PAGE

अत्रि: ४१, ४७, २२० बृहद्रथः १९९, २०१ आदिनारायण: ५३, १६५ बृहस्पतिः ३९

आरुणि: ९, ४८, १९६, २२१ ब्रह्मा १७०

羽 : ४८, ७८, २२१ भरद्वाज: १९५

ऋषमः ७८ महादेव: २०५ गौतमः १९५ मैत्रेयः २०५

जडभरतः ४८, १९६ याज्ञवल्क्य: ३९, ४१, ४३, ४६,

जनकः ४३, २१९ ४७, १९५, २१९, २२० दत्तात्रेय: १, ४८, ७८, १९६, २२१ रैवतक: ४८, ७८

दुर्वासाः ४८, ७८, २२१ वसिष्ठः १९५ नारद: ५७, ५८, ६१, ६३, वामदेवः १९६, २२१ ८४, ८९,१०६, ११४, ११५, विष्णुः १७२ ११९, १२९, १७५ शाकायन्य: १९९, २०१

नारायण: ५३, १७० शुक: १९६, २२१ निदाघ: ४८, ७८, २२१ शौनकः ६१, १५३, १६४ परमेष्ठी ६१, ११९ श्वेतकेतु: ४८, ७८, १९६, २२१ पितामह: ५३, ६३, ८४, ८९, संवर्तक: ४८. ७८, १९६, २२१ १०६, ११५, १२९, १३३, १६५' सहसः १९९ पिप्पलाद: १५३ सांकृतिः १ प्रजापतिः ९, १७ हारीतक: १९६, २२१

Page 275

The Adyar Library Series-No. 1O

GENERAL EDITOR : G. SRINIVASA MURTI, B.A., B.L., M.B. & C.M., VAIDYARATNA Director, Adyar Library

THE SĀKTA UPANIȘADS

WITH THE COMMENTARY OF

S'RĪ UPANIȘADBRAHMAYOGIN

Page 276

THE S'ĀKTA UPANISADS

WITH THE COMMENTARY OF

S'RĪ UPANISAD-BRAHMA-YOGIN

EDITED BY PANDIT A. MAHADEVA SASTRI, B.A. Director, Adyar Library

THE ADYAR LIBRARY

1950

Page 277

Printed by C. Subbarayudu, at the Vasanta Press, The Theosophical Society, Adyar, Madras