Books / Sarasvati-Rahasya Upanishad

1. Sarasvati-Rahasya Upanishad

Sarasvati-Rahasya Upanishad

[ Sutra शान्ति मन्त्र ]

ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित- माविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु अवतु मामवतु वक्तार-मवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

shanthi mantra

· · ·

[ Sutra 1 ]

हरिः ॐ ॥ ऋषयो ह वै भगवन्तमाश्वलायनं सम्पूज्य पप्रच्छुः केनोपायेन तज्ज्ञानं तत्पदार्थावभासकम् । यदुपासनया तत्त्वं जानासि भगवन्वद ॥ १॥

· · ·

[ Sutra 2 ]

सरस्वती दशश्लोक्या सऋचा बीजमिश्रया । स्तुत्वा जप्त्वा परां सिद्धिमलभं मुनिपुङ्गवाः ॥ २॥ ऋषय ऊचुः ।

· · ·

[ Sutra 3 ]

कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत । महासरस्वती येन तुष्टा भगवती वद ॥ ३॥

· · ·

स होवाचाश्वलायनः । अस्य श्रीसरस्वतीदशश्लोकीमहामन्त्रस्य । अहमाश्वलायन ऋषिः । अनुष्टुप् छन्दः । श्री वागीश्वरी देवता । यद्वागिति बीजम् । देवीं वाचमिति शक्तिः । प्रणो देवीति कीलकम् । विनियोगस्तत्प्रीत्यर्थे । श्रद्धा मेधा प्रज्ञा धारणा वाग्देवता महासरस्वतीत्येतैरङ्गन्यासः ॥ नीहारहारघनसारसुधाकराभां कल्याणदां कनकचम्पकदामभूषाम् । उत्तुङ्गपीनकुचकुम्भ-मनोहराङ्गीं वाणीं नमामि मनसा वचसा विभूत्यै ॥ १॥

· · ·

[ Sutra 1 ]

ॐ प्रणोदेवीत्यस्य मन्त्रस्य भरद्वाज ऋषिः । गायत्री छन्दः । श्रीसरस्वती देवता । प्रणवेन बीजशक्तिः कीलकम् । इष्टार्थे विनियोगः । मन्त्रेण न्यासः ॥ या वेदान्तार्थतत्त्वैकस्वरूपा परमार्थतः । नामरूपात्मना व्यक्ता सा मां पातु सरस्वती ॥ ॐ प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती ॥ धीनामवित्र्यवतु ॥ १॥

· · ·

[ Sutra 2 ]

आ नो दिव इति मन्त्रस्य अत्रिरृषिः । त्रिष्टुप् छन्दः । सरस्वती देवता । ह्रीमिति बीजशक्तिः कीलकम् । इष्टार्थे विनियोगः । मन्त्रेण न्यासः ॥ या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते । अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ ह्रीं आ नो दिवो बृहतः पर्वतादा सरस्वती यजतागं तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती श्रुणोतु ॥ २॥

· · ·

[ Sutra 3 ]

पावका न इति मन्त्रस्य । मधुच्छन्द ऋषिः । गायत्री छन्दः । सरस्वती देवता । श्रीमिति बीजशक्तिः कीलकम् । इष्टार्थे विनियोगः । मन्त्रेण न्यासः ॥ या वर्णपदवाक्यार्थ-स्वरूपेणैव वर्तते । अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ श्रीं पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धिया वसुः ॥ ३॥

· · ·

चोदयित्रीति मन्त्रस्य मधुच्छन्द ऋषिः । गायत्री छन्दः । सरस्वती देवता । ब्लूमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ॥

· · ·

[ Sutra 4 ]

अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी । प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती ॥ ब्लूं चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥ ४॥

· · ·

[ Sutra 5 ]

महो अर्ण इति मन्त्रस्य । मधुच्छन्द ऋषिः । गायत्री छन्दः । सरस्वती देवता । सौरिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः । अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति । रुद्रादित्यारूपस्था यस्यामावेश्य तां पुनः । ध्यायन्ति सर्वरूपैका सा मां पातु सरस्वती । सौः महो अर्णः सरस्वती प्रचेतयति केतुना । धियो विश्वा विराजति ॥ ५॥

· · ·

[ Sutra 6 ]

चत्वारि वागिति मन्त्रस्य उचथ्यपुत्र ऋषिः । त्रिष्टुप् छन्दः । सरस्वती देवता । ऐमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः । या प्रत्यग्दृष्टिभिर्जीवैर्व्यज्यमानानुभूयते । व्यापिनी ज़्`नप्तिरूपैका सा मां पातु सरस्वती ॥ ऐं चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ ६॥

· · ·

[ Sutra 7 ]

यद्राग्वदन्तीति मन्त्रस्य भार्गव ऋषिः । त्रिष्टुप् छन्दः । सरस्वती देवता । क्लीमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः । नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता । निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती ॥ क्लीं यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा । चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥ ७॥

· · ·

[ Sutra 8 ]

देवीं वाचमिति मन्त्रस्य भार्गव ऋषिः । त्रिष्टुप् छन्दः । सरस्वती देवता । सौरिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः । व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् । सर्वकामदुधा धेनुः सा मां पातु सरस्वती ॥ सौः देवीं वाचमजनयन्त देवास्ता विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥ ८॥

· · ·

[ Sutra 9 ]

उत त्व इति मन्त्रस्य बृहस्पतिरृषिः । त्रिष्टुप् छन्दः । सरस्वती देवता । समिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः । यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना । योगी याति परं स्थानं सा मां पातु सरस्वती ॥ सं उत त्वः पश्यन्न ददर्श वाचमुत त्वः श्रुण्वन्न श्रुणोत्येनाम् । उतो त्वस्मै तन्वं १ विसस्रे जायेव पत्य उशती सुवासाः ॥ ९॥

· · ·

[ Sutra 10 ]

अम्बितम इति मन्त्रस्य गृत्समद ऋषिः । अनुष्टुप् छन्दः । सरस्वती देवता । ऐमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः । नामरूपात्मकं सर्वं यस्यामावेश्य तां पुनः । ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ॥ ऐं अम्बितमे नदीतमे देवितमे सरस्वती । अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥ १०॥

· · ·

[ Sutra 1 ]

चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ १॥

· · ·

[ Sutra 2 ]

नमस्ते शारदे देवि काश्मीरपुरवासिनि । त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥ २॥

· · ·

[ Sutra 3 ]

अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी । मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा ॥ ३॥

· · ·

[ Sutra 4 ]

कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता । महासरस्वती देवी जिह्वाग्रे संनिविश्यताम् ॥ ४॥

· · ·

[ Sutra 5 ]

या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा । भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥ ५॥

· · ·

[ Sutra 6 ]

नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् । भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ ६॥

· · ·

[ Sutra 7 ]

यः कवित्वं निरातङ्कं भुक्तिमुक्ती च वाञ्छति । सोऽभैर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् ॥ ७॥

· · ·

[ Sutra 8 ]

तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् । भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत् ॥ ८॥

· · ·

[ Sutra 9 ]

ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा । गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः ॥ ९॥

· · ·

[ Sutra 10 ]

अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः । इत्येवं निश्चयं विप्राः सा होवाच सरस्वती ॥ १०॥

· · ·

[ Sutra 11 ]

आत्मविद्या मया लब्ध्वा ब्रह्मणैव सनातनी । ब्रह्मत्वं मे सदा नित्यं सच्चिदानन्दरूपतः ॥ ११॥

· · ·

[ Sutra 12 ]

प्रकृतित्वं ततः सृष्टं सत्त्वादिगुणसाम्यतः । सत्यमाभाति चिच्छाया दर्पणे प्रतिबिम्बवत् ॥ १२॥

· · ·

[ Sutra 13 ]

तेन चित्प्रतिबिम्बेन त्रिविधा भाति सा पुनः । प्रकृत्यवच्छिन्नतया पुरुषत्वं पुनश्च ते ॥ १३॥

· · ·

[ Sutra 14 ]

शुद्धसत्त्वप्रधानायां मायायां बिम्बितो ह्यजः । सत्त्वप्रधाना प्रकृतिर्मायेति प्रतिपाद्यते ॥ १४॥

· · ·

[ Sutra 15 ]

सा माया स्ववशोपाधिः सर्वज्ञस्येश्वरस्य हि । वश्यमायत्वमेकत्वं सर्वज्ञत्वं च तस्य तु ॥ १५॥

· · ·

[ Sutra 16 ]

सात्विकत्वात्समष्टित्वात्साक्षित्वाज्जगतामपि । जगत्कर्तुमकर्तुं वा चान्यथा कर्तुमीशते ॥ १६॥

· · ·

[ Sutra 17 ]

यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः । शक्तिद्वयं हि मायाया विक्षेपावृतिरूपकम् ॥ १७॥

· · ·

[ Sutra 18 ]

विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् । अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः ॥ १८॥

· · ·

[ Sutra 19 ]

आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् । साक्षिणः पुरतो भातं लिङ्गदेहेन संयुतम् ॥ १९॥

· · ·

[ Sutra 20 ]

चितिच्छायासमावेशाज्जीवः स्याद्व्यावहारिकः । अस्य जीवत्वमारोपात्साक्षिण्यप्यवभासते ॥ २०॥

· · ·

[ Sutra 21 ]

आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् । तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति ॥ २१॥

· · ·

[ Sutra 22 ]

या शक्तिस्त्वद्वशाद्ब्रह्म विकृतत्वेन भासते । अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः ॥ २२॥

· · ·

[ Sutra 23 ]

भेदस्तयोर्विकारः स्यात्सर्गे न ब्रह्मणि क्वचित् । अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ॥ २३॥

· · ·

[ Sutra 24 ]

आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् । अपेक्ष्य नामरूपद्वे सच्चिदानन्दतत्परः ॥ २४॥

· · ·

[ Sutra 25 ]

समाधिं सर्वदा कुर्याधृदये वाथ वा बहिः । सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि ॥ २५॥

· · ·

[ Sutra 26 ]

दृश्यशब्दानुभेदेन स विकल्पः पुनर्द्विधा । कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् ॥ २६॥

· · ·

[ Sutra 27 ]

ध्यायद्दृश्यानुविद्धोऽयं समाधिः सविकल्पकः । स्वानुभूतिरसावेशाद्दृश्यशब्दाद्यपेक्षितुः ॥ २८॥

· · ·

[ Sutra 28 ]

निर्विकल्पः समाधिः स्यान्निवान्तस्थितदीपवत् । हृदीव बाह्यदेशेऽपि यस्मिन्कस्मिंश्च वस्तुनि ॥ २९॥

· · ·

[ Sutra 29 ]

समाधिराद्यसन्मात्रान्नामरूपपृथक्कृतिः । स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः ॥ ३०॥

· · ·

[ Sutra 30 ]

एतैः समाधिभिः षड्भिर्नयेत्कालं निरन्तरम् । देहाभिमाने गलिते विज्ञाते परमात्मनि । यत्र यत्र मनो याति तत्र तत्र परामृतम् ॥ ३१॥

· · ·

[ Sutra 31 ]

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३२॥

· · ·

[ Sutra 32 ]

मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि । इति यस्तु विजानाति स मुक्तो नात्र संशयः ॥ ३३॥

· · ·

[ Sutra 32 ]

इत्युपनिषत् ॥

· · ·

[ Sutra शान्ति मन्त्र ]

ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित-माविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥