1. Sarika Catussutri Vichara Bellamkonda Rama Raya Kavi
Page 1
शारीरकचतुस्सृत्रीविचारः।
बेल्लङ्कोण्ड रामरायकवीन्द्रेण विरचितः ।
सम्पादक:, प्रकाशकश्च । कविता वे ङटसुब्रह्मण्यशास्त्री, नरसरावुपेट।
१९५५
Page 3
1875 1914
Page 5
SAREERAKA CHATHU SRUTHI VICHARAHA - SANSKRIT.
AUTHOR :
SRI BELLAMKONDA RAMA RAYA KAVINDRULU.
DIGITALISED BY MAR-2011.
Bellamkonda Chakradhar Kumar.Great Grand Son of Sri Rama Raya Kavindrulu.
Copy Rights Reserved
SRI BELLAMKONDA RAMA RAYA KAVINDRA TRUST.
ADDRESS :
SRI BELLAMKONDA RAMA RAYA KAVINDRA TRUST.
SRI NILAYAM
Do.No :- 12-8-5/5
PRAKASH NAGAR
NARASARAO PET (P o)
PIN - 522 601
GUNTUR (Dt)
ANDHRA PRADESH INDIA.
CONTACT NO'S : - (+91) 0 9700311109 AND 0 9866400133.
NOTE :- PLEASE TAKE A4 SIZE PRINT PREFARBULE.Before printing please check the printer settings.
Page 7
शारीरकचतस्सृत्रीविचार:। १९५५
सम्पादक:, प्रकाशकश्च । कविता वेङटसुब्रह्मण्यशास्त्री, नरसरावुपेट।
Page 9
6 JAGADGURU ADI SANKARACHARYA
Page 11
SRI BELLAMKONDA RAMA RAYA KAVINDRA TRUST
Do.No.12-8-5/5 NARASARAOPET. REG NO : - 112/bk - g/09.
அ்ல :
Teyro: gi g Gposoou andtoieng
T
Page 13
BELLAMKONDA CHAKDRADHAR KUMAR, NRT
Page 14
श्रीराम कवितापरन्थमाला, वेदान्तमज्जरी, घतुर्थकुसुमम्।
शारीरकचतुस्सृत्रीविचारः।
श्रीकृष्णाकावेर्रा नध्यवर्ति गुण्टूरुमण्डलान्तर्गतनरसारायपुर-
मिलिन्दायमानमानससरोजातेन भारद्वाजसगोत्रजातेन
शरद्वात्रिस मुद्र मथनवेदान्तकौस्तुमादि- शताचिकअन्थजातेन बेल्ङ्कोण्ड रामरायकवीन्द्रेण विरचितः ।
सम्पादक:, प्रकाशकश्च।
नरसरावुपेट।
१९५५
Page 15
मन्यससााय सर्वेधिकारा: सकटयिता स्वायचीक 1
प्रन्थपाप्तिस्थानम्-
श्री कविता वेङ्टसुन्रलण्यशासत्री। नरसरावुपेट, गुण्ट्रुजिल्ला।
प्राग्गोदावरीमण्डलान्तर्गत भट्नविल्वि श्रीशारदामद्रणालमे मदापिः।
Page 16
कविजीवितं-ग्रन्थप्रशंसा च।
अस्ति कश्चिदम्रहारससुवर्णपुरी (पमिडिपाडु) नामाSनेनैव बेल्- झोण्डोपनामक रामरायमहाकविना सुवर्णवर्णेन सुजातेन जातेनान्र्थ- नामेव गर्तपुरी(गुण्टूरु)मण्डले। तत्र तत्र भवान् गीर्वाणभाषाऽडशुकविः पदवाक्यप्रमाणपारावारपारीणो व्याख्याता व्यासहृदयवेदी वेदोपनिष- दर्थसारज्ञो मेधावी समयोचितवावचातुरीधुरीणो युवा सम्पन्नगृहस्थ- स्साधु: शान्तोऽद्वैतनि विर्यग्रीवोपासना प्रभावोपार्जिता नर्गलकविताघार :- माधुरीधुरीण: किंबहूना वर्णनीयचरितरसोडयं रामार्यकविः- 'शुची. श्रीमपां गेहे योगभ्रष्टोऽभिआयत' इति भेगवदनुशासनवदवततार महा- पुरुषष्षट्सहस्त्रनियोगिब्राह्मणकुले भारद्वाजगोत्रे हनुमाम्वामोहनरावयो- ्मातापित्रोमनोरथं पूरयंस्तद्रततपसां फलमिव शालिबाहनशकाव्दाः (१७९७) हणशकाब्दा: १८७५ युवसव त्सरमार्गशीर्षकृष्णामाया- मिन्दुवासरे। तद्धर्मपत्नी चादिलक्ष्म्यम्बानाम साध्वी धर्मार्थ लोकार्थ न्च पाणिग्रहणमकरोदेन; प्रासूत च सप्तसन्तानमध्ये शाश्वतं लोकरञ्जकं शोकभञ्जकं भक्तिशोधकं मुक्तिसाघकमनेकवेदान्तकृतिसन्तानं सन्तान- मिव तस्मिन ; नतु सन्तति वस्तुतो भवबन्धकारिणीमृणानुरुपाम्। एवं गार्हस्थ्यमनुतिष्ठन स्त्रगृह एवात्नपदानपूर्वकं पुत्रवातसलयेन शिष्यानध्यापयन्नतिथीन् पूजयन्नानन्दमनुभवन् वेदान्तकृतीस्स्वयं लिखि- न्निनायेह लोके कतिचिदेव वत्सरान् षटितशत्परिमितान्, निर्ययौ
Page 17
(२)
चानन्दवत्सरे कार्तिकशुक्कनवम्यां परम्पद्म्1 सा तत्सती त्वद्यापि सजीवाडस्ति; अस्ति च नारायणरीयो नाम तया पुत्रीकृतो भर्त्राज्ञया। सन्ति चाद्यापि तच्छिष्याः- ब्र. मुलुकुट्ट लक्ष्मीनाराणशास्त्रि, लक्का सुन्दररामश। स्त्रिप्रभृतयस्तत्रतत्रीइण्डपाण्डित्यशौण्डीराः। तंत्कृतयश्च विराजन्ते शताघिका :; काश्चिन्मुद्रिताः, काश्विदमुद्रिताः। तासा- मन्यतमोडयं श्रीशारीरकचतुर्सूत्रीविचारो नाम अन्थोऽस्मद्वाग्यवशादेव मुद्रित इत्यानन्दमनुभवामः । अत्र च प्रथमसूत्रेSत हत्यत् शतमर्थाः प्रतिपादिताः अत्रे्द चित्र तन्मेघाप्रकटनम्। ज्ञापयिंतुं च ब्रह्मविद्यारहस्यमेष एकएव अ्रन्थ राज: प्रभवति तत्वजिज्ञासूनामधिकारिणां, किमन्यैर्विस्तारितैर्न्थ- सहसत्ररिति चोतपत्स्यते भावस्सतां मनसि। परमात्मा चास्मै कवि- पुङ्गवाय सायुज्यमदादिति वक्तु न सन्दिह्यति मे रसना।
इत्थ निवेदयिता पिसुपाटि सुत्रह्ण्यशास्त्री (धन्टशाल)
Page 18
श्रीहयग्रीवाय नमः । शारीरकचतुस्सूत्रीविचारः।
श्लो।। प्रणम्य परमात्मानं हयग्रीवं हृदा मुदा। शारीरकचतुस्सूत्रीविचारोऽयं विधीयते॥ 'अथातो ब्रह्मजिज्ञासा' १ 'जन्माद्यस्य यतः' 'शास्त्र योनित्वात्' ३ 'तत्तु समन्वयात्' ४ इत्यस्ति शारीरकचतुस्सूत्री श्रीवेदव्यासेन निर्मिता। एतदर्थ- विचारो मया क्रियते। अथातो ब्रह्मजिज्ञासा-अथ साघनचतुष्टयसम्पत्त्यनन्तरमतोS- स्माद्धेतोर्बह्मजिज्ञासा ब्रह्मज्ञानेच्छा लक्षणया ब्रह्मज्ञानविचारः ब्रह्मज्ञा- नार्थो वेदान्तार्थविचार इति यावत्। कर्तव्येति शेषः। मुमुक्षुणेति समर्थ्याल्लभ्यते। साधनचतुष्टयं च शमादिषटकं, नित्यानित्यवस्तुविवेकः, इहामुल्ार्थफलभोगविरागः, मुमुक्षुत्वं च। शमादिषटकं च शमदमोप- रतितितिक्षाश्रद्धासमाघानानि। तत्र शमोऽन्तरिन्द्रियनिग्रहः; दमो बहिरिन्द्रियनिग्रहः; उपरतिश्चित्तविक्षेपाभावः सन्न्यासो वा; तितिक्षा द्न्द्वसहनं; श्रद्धा आस्तिक्यबुद्धिः; समाधानं ज्ञातव्ये वस्तुनि चित्त- स्थापनम्; अन्तरिन्द्रियं मनः; बहिरिन्द्रियाणि त्वक्चक्षुशश्रोत्रजिह्या- घाणाख्यानि पञ्च ज्ञानेन्द्रियाणि; वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मे-
Page 19
२ शारीरकचतुस्सूत्रीविचारः ।
न्द्रियाणि च। तेषां निग्रहोनाम व्यापारोपरमः। कामसङ्कल्पादयो मनो- व्यापारा; स्पर्शनदश नश्रवणाम्वादनाघाणनानि त्वगादीन्द्रियव्यापाराः। वच- नादानगमनविसर्जनमैथुनानि वागादीन्द्रियव्यापाराः। द्वन्द्वानि शीतोष्ण- सुखदुःखादीनि। आस्तिक्यबुद्धिः अस्ति दिष्टमिति मतिर्यस्य स आस्तिकः, तस्येयमास्तिकी सा चासौ बुद्धिरास्तिक्यबुद्धि; पुंवद्धावादास्तिक्येति ष्य- इन्तरूपसिद्धिः । परलोकोडस्ति ईश्वरोऽस्तीत्येवंरूपा। नित्यवस्तु ब्रह्म; अनित्यवस्तूनि स्वर्गादीनि- 'तत्सत्यमतोऽन्यदार्त'मिति श्रुतेः। सत्यस्यैव नित्यत्वात। इहार्थफलभोगः दारापत्यपशुधनाद्युपभोग :; अमुत्रार्थफलमोगः रम्भासम्भोगादिः। एतत्साघनचतुष्टयसम्पन्न एवात्र शास्त्रेऽधिकारी 'शात्तो दान्त उपरतस्तितिक्षुस्समाहितशश्रद्धावित्तो पश्यती'त्यादिश्रुतेः। ब्रह्मज्ञानार्थ वेदान्तविचारः कर्तव्य इत्यत्र 'आत्मा वाडरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इति श्रुतिर्मानम्। एतेन प्रकृतवेदान्तविचारस्य ब्रह्मज्ञानं फलमिति, ब्रह्मज्ञानस्य च ब्रह्म- प्राप्ति: फलमिति, मोक्षरूपः परमपुरुषार्थ एव फलमिति सिद्धम्। ब्रह्मज्ञानस्य ब्रह्मप्राप्तिः फलमित्यत्र तु 'ब्रह्मविदाप्नोति पर'मित्यादि- श्रुतिर्मानम्। ब्रह्मप्राप्तिश्र ब्रह्मसायुज्यं, ब्रह्मभाव एव- 'ब्रह्मवि- द्वह्मैव भव'तीति श्रुतेः । विषयश्चात्र वेद्यं ब्रह्मैव। तच्चाद्वितीय'मेक- मेवाडद्वितीयं ब्रह्मे'ति श्रतेः । तदेव मुक्तप्राप्यं च- 'मुक्तोपसृप्यव्यप- देशा'च्चति वक्ष्यमाणत्वात्सूत्रकारेणैव। तच्च वेदितुस्स्वरूपमेत्र- आत्मन एव ब्रह्मत्वात्- 'तत्सत्यं स आत्मा' 'तत्त्वमसि' 'अयमात्मा ब्रह्म' 'अहं ब्रझास्मी त्यादिश्चतिभ्यः । तथाच प्रत्यगभिन्नं ब्रह्म वेद्यमिति सिद्धम्। एतेन मुमुक्षुणा स्वात्मनि कल्पितसंसारनिवृत्त्यर्थमात्मविचार
Page 20
शारीरकचतुस्सूत्रीविचार: ।
एव कर्तव्यो नतु ब्रह्मविचार इति शङ्का समाधापिता-विचारितब्रह्मण- एवात्मत्वात्। सम्बन्धश्च प्रतिपाद्यप्रतिपादकभावादिः । इत्यनुबन्धचतु- ष्टयं निरूपितम् । ननु बद्धस्यात्मनो मोक्षार्थ परमात्मन उपासनमेव कर्तव्यं -- भगवत एव सेवितस्य मोक्षपदत्वादत आह-अत इति सूत्रकारंः। यस्मादात्मानात्मनोरितरेतरधर्माध्यासपूर्वक आत्मनस्संसारस्तस्मादात्मा- नात्मविवेकाय प्रत्यगभिन्नब्रह्मज्ञानमेव सम्पाद्यमिति। एतदभिप्रायेणैव श्रीशङ्कराचार्यैर्भाष्यारम्भे वर्णितोऽध्यासः । अध्यासोनामातस्मिस्तद्बुद्धिः, यथा रज्जौ सर्पबुद्धिः। एवं ब्रह्मभूते स्वात्मन्यपि संसारिजीवबुद्धिः । ननु अनिर्वचनीयख्यातिवादित्वन्मते रज्जावपूर्वसर्पस्योत्पद्य- मानत्वात्तत्रैव सर्पबुद्धिरिति रज्जुसर्पज्ञानं नाध्यास इतिचेत्, मैवम्- रज्जावुत्पन्ने प्रातिभासिके सर्पे सत्यसर्पबुद्धेरध्यासत्वात्। नहि भ्रान्तः रज्जुसर्प रज्जुसर्पतवेन गृह्गाति, किंतु सत्यसर्पतवेनैव। कथमन्यथा तस्य कम्पादिसम्मनः ? तस्मात्प्रातिभासिके वस्तुनि व्यावहारिकवस्तु- बुद्धिरध्यास एव। एवं पारमार्थिके वस्तुनि ब्रह्मामिन्ने आत्मनि व्याव- हारिकसंसारिजीपबुद्धिरप्यध्यास एव -- अतस्मिस्तद्बुद्धित्वात्। अयं चाध्यासो यथार्थज्ञानादेव निवर्तते। यथा रज्जुज्ञानाद्रज्जुसर्पाध्यास- निवृत्ति: एवं ब्रह्मात्मज्ञानादेव संसार्यात्मअ्नमनिवृत्तिरिति नोपासनेन किमपि फलम्। अतएव 'तरति शोकमात्मवि'दिति श्रुतिरुपपद्यते। 'नान्यः पन्था विद्यतेऽयना'येति श्रुतिश्च। नच यथार्थज्ञानादध्यास- निवृत्तिरस्तुनाम- कथपुनरध्यस्तनिवृत्तिरिति वाच्यं, अध्यस्तस्य वस्तुनः अध्याससमनियतसत्ताकत्वाद्यदा अध्यासनिवृत्तिस्तदैवाध्यस्तस्यापि निवृत्तिः ।
Page 21
शारीरकचतुर्सूत्रीविचारः ।
अत एवाध्यस्तानां रज्जुसर्पस्वप्नरथादीनां प्रातिभासिकत्वव्यवहारः प्रतिभासो ह्यध्यासः । नच जाग्रत्पदार्थस्य यथार्थत्वादनध्यस्तत्वमिति वाच्यं, तस्या- व्यात्मनि मायंयाऽध्यस्तत्वात्। नचैवं जाग्रत्पदार्थानां सवमपदार्थानां च साम्यमेवेति वाच्यं, अध्यस्तत्वांशे समत्वेऽपि स्थिरत्वास्थिरत्वांश- प्रयुक्तभेदसत्त्वात्। अतएव अस्थिरास्स्वम्रपदार्था रज्जुसर्पादयश्च प्राति- भासिका इति, जाग्रत्पदार्था व्यावहारिका इति च भेदेनोच्यन्ते। पारमार्थिकं तु ब्रह्मैकमेव- परमार्थदशायां प्रातिभासिकव्यावहारिकत्व- भेदभिन्नस्य सर्वस्याप्यध्यस्तस्याभावात् ; उक्तं हि श्रुत्यैव- 'नेह नानाहिति किश्न'नेति। न चात्मास्ति पारमार्थिक इति वाच्यं, तस्य ब्रह्माभिन्न- त्वात्। नच परिच्छिन्नस्यात्मनः कथ ब्रह्माभेद इति वाच्यं, आत्म- परिच्छेदकवस्त्वभावेनात्मपरिच्छेदाभावात्। नच घटादिभि: परिच्छेद हति वाच्यं, प्रातिभासिकमरीच्युदकेन मरुभूमेः पंकिलत्वमिव व्याव- हारिकघटादिद्वैतेन पारमार्थिकात्मनः परिच्छेदो न सम्भवतीति। न चात्मान्तरेण परिच्छेद इति वाच्यं, आत्मभादाभावात्; आत्मनः परिच्छिन्नत्वे सत्यात्मभेदसत्त्वमात्मभेदे सत्यात्मपरिच्छेदसिद्धिरित्यन्यो- न्याश्रयदोषात्। नच ब्रह्मणा परिच्छेद इति वाच्य, ब्रह्मात्ममेदस्यै- वाद्याप्यसिद्धेः । न चात्माऽपरिच्छेदोऽप्रमाण इति वाच्य, 'नित्यस्सर्व- गतस्स्थाणुरचलोडयं सनातन' इति गीतायाः, 'एको देवस्सर्वभूतेषु गूढ' इति श्रुतेश्च प्रमाणत्वात् । नच निरवयवत्वेनापरिच्छिन्नोऽप्यात्मा अणुरेवेति वाच्यं, अणोस्सर्वगतत्वाचलत्वासम्भवात्। सर्वगत विभ्वेव वस्तु हि क्कापि न चलति अवकाशाभावात्। नचात्मनोऽनणुत्वे कर्थ
Page 22
शारीरकच तुस्सूत्रीविचारः । ५
तस्य मशकादिसूक्ष्मदेहे सत्त्वमिति वाच्यं, सर्वव्यापित्वेन गगनवत्तदुप- पत्तेः। नच कथमात्मनशशरीरादुत्क्ान्ति :- 'जीवापेतं वाव किल शरीरं म्रियत' इति श्रयत इति वाच्यं, बुद्धितादात्म्याध्यासप्रयुक्तत्वाज्जीवो- त्क्रमणादेः, 'ध्यायतीव लेलायती'वेति श्रुतेः । एवं बुद्धेरात्मनश्रावि- वेकादेव बुद्धिधर्मान् परिच्छिन्नत्वकर्तृत्वभोक्तृत्वादीनात्मन्यध्यस्य परि- च्छिन्नः कर्ता भोक्ता च संसार्यात्मेति व्यवहरन्ति लौकिकास्तार्कि- कादयश्र। 'साभासबुद्धेः कर्तृत्वमवच्छिन्नेऽविकारिणि। साक्षिण्यारो- प्यते भ्रान्त्या जीवत्वं च तथाबुधै'रित्यध्यात्मरामायणात्। न चैवं बुद्धयव च्छिन्नस्यात्मन. कथ पूर्णब्रह्मणैकत्वमिति वाच्यं, बुद्धेरात्मन्यध्य- स्तत्वेन बुद्धयवच्छिन्नत्वस्याप्यध्यस्तत्वाद्वस्तुत आत्मा पूर्ण ब्रहैव- 'अव च्छिन्नस्य पूर्णेन चैकत्वं प्रतिपाद्यते, तत्त्वमस्यादिवाक्ये'नेत्यध्यात्म- रामायणात्। यदेव पूर्ण चैतन्यं तदेव बुद्धयवच्छिन्नं-बुद्धौ तस्याऽभि- व्यज्यमानत्वादत एव तस्य प्रत्यक्त्वं च बुद्धेरप्यान्तरत्वात्। सर्वान्तरत्वं हि प्रत्यक्त्वम्। नच सर्वान्तरं ब्रह्मैव, न प्रत्यगात्मेति वाच्य, 'यदय- मात्मा सर्वान्तर' इति श्रुतेः आत्मैव सर्वान्तरः। नचान्तर्यामिब्राह्मणाद आत्मनि तिष्ठन्नित्यादिकात्प्रत्यगात्मनोऽप्यान्तरोऽन्तर्यामी परमात्मेति वाच्यं, ब्राह्मणगतात्मशब्दस्य बुद्धयादिवाचित्वान्निरवयवस्यातिसूक्ष्मस्य प्रत्यगात्मनोऽन्तः कस्याप्यभावात्। न 'चेश्वरस्सर्वभूतानां हृद्देशेर्ड्र्जन तिष्ठ'तीति गीताप्रामाण्यादस्ति जीवानामन्तः परमात्मेति वाच्य, तत्र भूतशब्दस्य सङ्गातवाचित्वाद्देहेन्द्रियादिसङ्कातस्यान्तः प्रत्यग्नपेण परमा- त्माडस्तीति गीतार्थात्, 'प्रत्यग्नपं स्वयंज्योतिर्विश्वं येन समन्वित'मिति भागवताच्च प्रत्यग्रपत्वं ब्रह्मणः । नच अन्तःकरणावच्छिन्नचैतन्यं प्रत्य-
Page 23
शारीरकचतुस्सूत्रीविचारः ।
गात्मा, मायावच्छिन्नचैतन्यं परमात्मा; मायाया एकत्वात्परमात्मैकः; अन्त:करणानामनेकत्वात्प्रत्यगात्मा नानाविध :; विभुपरिच्छिन्नयोश्र मायान्तःकरणयोर्भेदादात्मपरभेद इति वाच्यं, मठावच्छिन्नगगनान्मठान्त- रवर्तिघटावच्छिन्नगगनस्येव मायावच्छिन्नचैतन्यान्नान्तःकरणवच्छिन्नैत- न्यस्य मेद :- उपाधिभेदेप्युपहिताभेदात्। अतएवान्तःकरणनानात्वेऽपि नात्मनानात्वं, घटनानात्वेपि गगननानात्वाभाववत्। नस्मादेकमेव चैतन्यं मायोपहितं सद्गह्मेति, अन्तःकरणोपहित सत्प्रत्यगात्मेति चोच्यत इति नास्ति चैतन्यभेदः । अतएव तत्त्वमसीत्यत्र शुद्धचैतन्ये लक्षणाङ- भ्युपगता। नचाप्रमाण एव सोऽभ्युपगम इति वाच्यं, तत्र पारोक्ष्य- शबलस्सर्वज्ञत्व्रादिलक्षणो मायोप।विस्सच्चिदानन्दलक्षणो जगद्योनिस्तत्पद-
वाच्यो भवति; परजीवोपाधी मायाऽविद्ये विहाय तत्त्वंपदलक्ष्यं प्रत्यग- मिन्नं ब्रम्मेति पैङ्गलोपनिषदः प्रमाणत्वात्। एतेन तत्त्वमसीत्यादि- रनात्मपरयोश्शुद्धाद्वैतं प्रतिपाद्ते, किंतु शरीरशरीरिभावविशिष्टाद्वैत- मेवेति रामानुजवादो निर्मूलितः। इयं च लक्षणा सोडयं देवदत्त इत्यत्रेव जहदजहल्लक्षणेति बोध्यम्। यथा एकस्यैव देवदत्तस्य तदेत- द्देशकालोपाधिभेदेन तदिदंपदवाच्यत्वं, तथैवैकस्यैव चैतन्यस्य मायाऽवि- द्योपाधिभेदेनात्मपरमात्मपदवाच्चत्वमिति भावः । नच कर्थ भेदकयोस्सतोरुपाध्योः परित्यागो लक्षणयापीति वाच्यं, उपाध्योमिथ्याभूतत्वेनासत्त्वात्। निर्विशेषचिन्मात्रे ह्यात्मनि मायाऽविद्ये अध्यस्ते। अध्यस्तस्य मिथ्यात्वं रज्जुसर्पादौ स्फुटमेव। ज्ञाननिवत्यत्वं, सदसदनिर्वाच्यत्वं, त्रिकालवाध्यत्वं, दृश्यत्वं चेत्यादीनि मिथ्यात्वगम-
Page 24
शारीरकचतुस्सूत्रीविचारः ।
मिथ्यात्वम्। बाध्यमानत्वेन सदिति प्रतीयमानत्वेनासदिति वा वक्तु- मशक्यत्वाच्च तम्य मिथ्यात्वम्। तथा अध्यासकालात्पूर्वोत्तरकालयोरस- त्वेन त्रिकालबाध्यत्वान्मिथ्यात्वम्। दृश्यत्वाच्च मायाऽविद्ये च ब्रह्मात्म- भूताघिष्ठानज्ञानेन निवत्येते। सदसदनिर्वाच्ये त्रिकालबाध्ये दृश्ये चेति मिथ्याभूते एव। अविद्यानाम तूलाज्ञानं, माया तु मूलाज्ञानमिति विवेकः। अनादिभावत्वेसति ज्ञाननिवर्त्या माया, अविद्या तु सादिरेव। अत एवाविद्योपाधेर्जीवस्य कार्योपाघित्वं, मायोपाधेरीश्वरस्य कारणो- पाधित्वं च- 'कार्योपाधिरयं जीवः कारणोपाधिरीश्वर' इति श्रुतेः । शुद्धसत्त्वात्मिका माया; कामकर्मादिदूषितमंलिनसत्त्वा त्वविद्या; द्वयमपि व्यापकमेव। कामकर्मादीनां सादित्वादविद्यायास्सादित्वम्। एवमवि- द्यार्वच्छिन्नोपि जीवः पुनरन्तःकरणेनावच्छियते- अतएव जीवनानात्व- प्रतीतिः । ननु मायावशादात्मन्यविद्यान्तःकरणाद्यध्यासो भवतुनाम, कर्थ पुनर्मायाया अध्यास इति चेदुच्यते-'माया चाविद्या च स्वयमेव भव'- तीति श्रुतेरज्ञानात्मिका माया स्वयमेवात्मन्यध्यस्ता। एवं मायाध्यास- हेतोसन्यस्याभावादेव मायायाः कार्यभूताया अप्यनादित्वम्। नच माया कार्यभूता नेति वाच्य, मायाया अकार्यत्वेसत्यनाश्यत्वापत्या नित्यत्व- प्रसङ्गात्। नच यज्जन्यं तन्नश्यमिति व्याप्तिर्नास्तीति वाच्यं, 'जातस्य हि ध्रुवो मृत्यु'रिति गीतावचनाद्याप्तिसिद्धेः । नच 'गौरनाद्यन्तव' तीति श्रुत्या अनादिरनन्ता चेति नित्यैव मायेति वाच्यं, दर्शितविधिया मायाया अनादित्वं, ज्ञानेतरानिवर्त्यतयाऽनन्तत्वमिति मायाया अनित्यत्वात्।
Page 25
८ शारीरकचतुस्सूत्री विचारः ।
नच माया नैव निवत्यते ज्ञानैनेति वाच्यं, अहं ब्रझ्म न जानामीति प्रतीतिसिद्धस्य कार्यलिङ्गकानुमानगम्यस्य चाज्ञानस्य मायानामकस्य सति ब्रह्मसाक्षात्कारे कथमनिवृत्तिः ? जगद्रूपकार्ये चासति कथ तत्सत्त्वम् ? कार्यगम्या हि मायानाम्नी परमात्मशक्ति :- स्फोटादिकार्यगम्याग्निशक्ति: वत्। अत एव मायाया न ज्ञानाभावरूपत्वं- शक्तेमिथ्यापदार्थत्वा- दभावस्य च कार्याजनकत्वात्। नचाभावादपि भाव उदेत्येव- घटाभावा- द्धटोदयदर्शनादिति वाच्य, मृद एव घट उदेति नाभावात्, 'कथ- मसतस्सज्जाये'तेति श्रुत्यैवासत्कार्यवादस्य निरस्तत्वात्, यस्स्वयमेवासन् स कथमन्यं सन्त जनयेदिति युक्तिसद्भावाच्च। नच शक्तिर्भावपदार्थ- एव न मिथ्येति वाच्यं, शक्तात्पृथक्सत्त्वेनासत्वेन वा शक्तेर्दुर्निरूपत्वेन मिथ्यात्वात्। नच मिथ्यावस्तुनोऽपि कथमर्थक्रियाकारित्वं, नहि शुक्ति- रजतं कटकादिजनकमिति वाच्यं, रज्जुसर्पादेर्भयकम्पादिलक्षणार्थक्रिया- कारित्वदर्शनाद। नच मिथ्याभूतान्मायापदार्थात्कर्थ सत्यजगदुदय इति वाच्यं, जगतोऽपि मिथ्यात्वात्। नच सवम्नजगदेव मिथ्या न जाग्र- ज्जगदिति वाच्यं, कालत्रयेऽप्यभावेनोभयोर्मिथ्यात्वात्। नच मिथ्या- वस्तुन: कथं व्यवहारक्षमत्वमिति वाच्यं, कूटकार्षापणादीनां व्यवहार- क्षमत्वदर्शनात्। नच सृष्टेःप्राग्जगतोऽभावे असत्कार्यवादपत्तिस्तवेति वाच्यं, असतर्सज्जायत इति यैरुच्यते तेषामेवासत्कार्यवादः; वय तु जगदिदं सृष्टेःप्राक्सदपेणास्तीति ब्रम :- 'सदेव सोम्येदमग्र आसी'दिति श्रतेश्तो नासत्कार्यवादप्रसङ्ग:। नच तहि सत्कार्यवादः प्राप्त इति वाच्यं, कार्यमुत्पत्तेः प्रागप्यस्तीति यैरुच्यते तेषां सत्कार्यवादः, वय तु सतः कार्यमुत्पद्यत इति बूम; अतो न सत्कार्यवादः। नच सत
Page 26
२ शारीरकचतुस्सूत्रीविचारः ।
उदितमिदं जगत्सदेव नतु मिथ्येति वाच्यं, रज्जोरुदितस्य सर्पस्य मिथ्यात्वदर्शनात्। सति मायया कल्पितत्वमात्रेण जगतस्सदुदितत्वं वयं जूम :; नतु मृद्टयोरिव सज्जगतोः परिणामपरिणामिमावं; तथासति विकारित्वापत्त्या सतोप्यसत्यत्वप्रसङ्गात्। अविकारि हि वस्तु सत् । तदेव सत्यं नित्यं च। तस्माद्गह्मप्रति विवर्तभूत मायां प्रति परिणाम- भूतं चेदं जगन्मिथ्यैव। मृद्धटयोरिव मायाजगतोः परिणामपरिणा- मिनोस्सालक्षण्यसत्त्वात् ! तच्च सालक्षण्यं दश्यत्वादिकं पूर्वमेवोक्तम् । ननु दृश्यत्वाद्यदि मायाजगती मिथ्या स्यातां, तर्हि ततएव ब्रह्मापि मिथ्यैव, नच ब्रह्म दृश्यं नेति वाच्यं, अथातो ब्रह्मजिज्ञासेति सूत्रकारैरेव द्रष्टव्य इति श्रुतिमनुसृत्य दृश्यत्वस्योक्तत्वाङ्गह्मणः, ब्रह्मणोऽ- दृश्यत्वे कथ तद्ज्ञानाय विचारः कर्तव्य इति प्रतिज्ञायेत इतिचेत् उच्यते-ब्रह्मणि दृश्यं जगदिव दृश्यत्वमपि मायया अध्यस्यते, नतु वस्तुतो ब्रझ्म दृश्यं भवति, ब्रह्म द्रष्टरन्यस्याभावात्- 'नान्योऽतोडस्ति द्रष्टेति हि श्रयते। नच वस्तुतो मायाजगती अप्यदृश्ये एव- 'नेह नानास्ति किश्न'नेति श्रुतेरिति वाच्यं, वस्तुनो मायाजगतोरेवाभावेन कुतस्तददृश्यत्वसद्धावः । नच वस्तुतो ब्रह्म द्रष्टपि न भवति, दृश्याभा- वेन द्रष्टृत्वाभावादिति वाच्मिष्टापत्तेः । नच यदि ब्रह्म द्रष्ट दृश्यं च न भवति तर्हि शून्यमेवेति वाच्यं, द्ग्रपत्वाद्गह्मणः । सत्यमपरिच्छिन्न- मानन्दं यद्ज्ञानं तदेव ब्रह्मणस्स्वरूपम्। 'सत्यं ज्ञानमनन्तं ब्रह्म, विज्ञानमानन्दं ब्रहे'ति श्रुतेः । नच कथं ज्ञानस्य सत्यत्वं क्षणिकस्येति वाच्यं, वृत्तिप्रतिफलितचैतन्यलक्षगजन्यज्ञानस्यैव क्षणिकत्वं, नतु चैत- न्यस्य। वृत्तिर्नाम विषयेन्द्रियसंयोगेसति जायमानो विषयाकारोऽन्न :-
Page 27
20 शारीरकचतुस्सूत्रीविचारः।
करणपरिणामः । नच ज्ञातृज्ञेयसत्वात्कर्थ ज्ञानस्यापरिच्छिन्नत्वमिति वाच्यं, ज्ञातुरात्मन एव ज्ञानत्वाद्ज्ञेयस्य च मिथ्यात्वात्। नच कर्थ ज्ञानस्य सुखत्वं भेदाद्द्वयोरिति वाच्यं, वृततिज्ञानवृत्तिसुखयोरेव भेद:, नतु चैतन्यानन्दभेदः। नच चैतन्यस्य सुखत्वं शास्त्रसिद्धमप्यनुभव- शून्यमिति वाच्यं, सुषुप्त्यादावनुभवस्यापि सत्त्वात्। नच 'सत्यं ज्ञान- मनन्तं द्रह्मे'ति श्रुतेर्बहैवापरिच्छिन्नज्ञानानन्दं न त्वात्मेति वाच्यं, सत्सु पारमार्थिकेष्वात्मसु ब्रह्मभिन्नेषु तैर्ब्ह्मणः परिच्छेदसम्भवेन ब्रह्मणोऽ- प्यपरिच्छिन्नज्ञानानन्दस्वरूपासिद्धेः । नच सर्वेषु देशेषु कालेषु वस्तुषु चाभिव्याप्य वर्तनमेव ब्रह्मणोऽपरिच्छिन्नत्वं ब्रह्म चात्मस्वस्तीति न दोष इति वाच्यं, ब्रह्मातिरिक्तदेशकालवस्तुत्रयसद्धावे ब्रह्मणस्सर्वच्या- प्त्यसिद्धेः। 'अन्तर्वहिश्र तत्सर्वे व्याप्य नारायणसिस्थित' इति हि श्रयते। नच ब्रह्मातिरिक्तदेशकालादिसर्वजगत्सद्ावादेव ब्रह्मणस्सर्व- व्याप्तिसम्भवः, सर्वस्यैवाभावे कथपुनस्तत्सिद्धिरिति वाच्यं, यत्र देशा- दयस्सन्ति, तस्य देशादिमिरेव व्याप्तत्वेन ब्रह्मव्याप्तत्वाभावात्। तस्मा- द्देशकालादिकं सर्व यदि ब्रह्म स्यात्तर्हि ब्रह्मणस्सर्वव्याप्तिस्स्यात्। अत एव सर्व ब्रह्मेति ब्रह्मणस्सर्वत्वं भ्रूयते। नच ब्रह्मण आत्मत्वम तुनाम द्वयोस्सालक्षण्यात्कथम्पुनर्जगत्त्वं द्वयोर्वैलक्षण्यादिति वाच्यं, रज्जो नर्पत्व- मिव ब्रह्मणो जंगत्त्वं माययेति। तस्माद्गह्माभिन्ने आत्मन्य वेष्ठाने मायया कल्पितस्य बन्धहेतोस्सर्वद्वतस्य बन्धस्य च निरासाय क्र गत्म- ज्ञानमेव सम्पादं, नतूपासन कर्तव्यम्। तच् ज्ञान वेदान्तवा यार्थ विचारायत्तमिति तद्विचार एव कर्तव्यः । ननु निर्गुणोपासनादपि ब्रह्मात्मसाक्षात्कारो जायत वेति
Page 28
शारीरकचतुस्सूत्रीविचारः।
किमिति विचार एव कर्तव्य इत्युच्यतेऽत आह-अत इति सूत्रकारः। यस्मादुत्तमाधिकारिणो वेदान्तवाक्यार्थविचारादेव ब्रह्मात्मसाक्षात्कारो भवति तस्मादित्यर्थः । विचाराक्षमस्य मन्दाधिकारिण एवोपासनविधान- मिति भावः । ननु 'कर्मणैव हि संसिद्धिमास्थिता जनकादय' इति गीता- वचनात्कर्मणैव मुमुक्षोरमोक्षसिद्धौ मोक्षार्थ ब्रह्मविचारो व्यर्थोडयमत आह सूत्रकार :- अत इति। यस्मात्कर्मणा मोक्षो नास्ति तस्मादित्यर्थ :; 'नास्त्यकृतःकृते'नेति ञ्रुतेरिति भावः । ननु 'यथान्नं मधुसंयुक्तं मधु चाननेन संयुत, तथा तपश्च विद्या च संयुक्त भेषज मह' दिति स्मरणात्कर्मज्ञानसमुच्चयादेव मोक्षोऽत आह सूत्रकार :- अत इति। यस्मात्समुच्यस्य युगपदेकपुरुषानुष्ठेय- त्वासम्भवः तस्मादित्यर्थः । ननु कर्मनिष्ठया चित्तशुद्धौ सत्यामेव ज्ञानमार्गे प्रवेष्टमधिकार इत्यत आह सूत्रकार :- अत इति। इहजन्मनि जन्मान्तरेवानुष्ठितै- र्यज्ञादिभि: कर्मभिरफलाभिसन्धिसिश्चितस्य शुद्धत्वादित्यर्थः । ननु 'ज्ञात्वा कर्माणि कुर्वी'तेति स्मरणादादौ ब्रह्मादिपदार्था ज्ञातव्याः; पश्चात्कर्म कर्तव्यमित्यत आह सूत्रकारः-अत इति। ब्रह्मणि ज्ञातेसति तत्र कल्पितसर्वद्वैतनाशेन ब्रह्मविदः कर्तव्यस्य प्राप्त- व्वस्य वाडभावाङ्गप्मज्ञानादेव यस्मात्कृतकृत्यता भवति मुमुक्षोस्तस्मा- द्रह्मज्ञानमेव सम्पाद्यमिति सूत्रार्थः । 'एतद्बुद्ध्वा बुद्धिमान् स्यात्कृत- कृत्यश्च भार'तेति गीतावचनाद्गहविदः कृतकृत्यत्वं स्वानुभवाच्च। ननु 'यो मद्भक्तस्स मे प्रिय' इति गीतावचनाद्गक्तिमार्ग एव
Page 29
१२ शारीरक जतुस्सूत्रीविचारः।
नोक्षप्रद इत्यत आह सूत्रकार :- अत इति। यस्मा्क्तिर्ज्ञानद्वारा नोक्षदायिनी, नतु साक्षात्तस्मादित्यर्थः । 'ज्ञानी त्वात्मैव मे मत'मिति गीतावचनादिति भावः । ननु यद्यपि ज्ञानं मोक्षदायकं, तथापि मिन्नात्मज्ञानमेव मोक्ष- दायकं तस्यैव प्रमात्वात्, नाहं ब्रह्मास्मीति हि यथार्थज्ञानमत आह सूत्रकार :- अत इति। अहं ब्रह्मास्मीति महावाक्यार्थजन्त्रब्रम्माभेद- ज्ञानेन भिन्नात्मज्ञानस्य बाध्यमानत्वाद्भिन्नात्मज्ञानं यस्माद्भ्रमस्तस्माङ्गह्मा- भिन्नत्वज्ञानमेव सम्पाद्यमित्यर्थः । ननु पाल्येन मया पालक ईश्वरशशरणीकरणीयः 'सर्वधर्मान् परित्यज्य मामेक शरणं व्र'जेति गीतावचनादत आह सूत्रकारः-अत इति। 'द्वितीयाद्वै भयं भवति, मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्य' तीत्यादिश्रुतेर्म त्तोऽन्योऽस्तीश्वर इति ज्ञानस्य भयहेतुत्वादित्यर्थः । ननु निराकारेश्वरभजनस्य दुष्करत्वात्साकारमेवार्चारूपेण भु- व्यवतीर्णमीश्वरं श्रीरङ्गनायकं, वेङ्कटेश्वरमन्यं वा सेवेतेत्यत आह सूत्र- कार :- अत इति। 'पापाणलोहमणिमृण्मयविग्रहेषु पूजा पुनर्जनन- भोगकरी मुमुक्षो'रितिश्रुतेरर्चाभजनस्य मोक्षाहेतुत्वादित्यर्थः । ननु ब्रह्मज्ञानाय वेदान्तवाक्यार्थविचार एव कर्तव्य इति कि? तर्कादिशास्रार्थविचारश्र कर्तव्योऽत आह सूत्रकारः -- अत इति। यस्मात्तर्कव्याकरणादिशास्त्राध्ययनादद्वितीय ब्रह्मज्ञानं न लभ्यते तस्मा- दित्यर्थः । ननु नित्याप्तस्य ब्रह्मणः कथं पुरुषार्थत्वं, ब्रल्मैव हि मोक्षः, पुरुषेणारथ्यत इति पुरुषार्थ इति व्युत्पत्त्या प्राप्यस्यैव पुरुषार्थत्वं, प्राप्ये
Page 30
शारीरकचतुस्सूत्रीविचारः। १३
वस्तुन्येव पुरुषस्यार्थित्वरूपेच्छासम्भवादत आह सूत्रकार :- अत इति। नित्याप्तमपि ब्रह्माज्ञातत्वादनाप्तमिव भवतीति पुरुषस्य तत्प्राप्तावर्थित्व- मस्त्येव; ज्ञातमेव हि ब्रह्म मोक्षरूपपुरुषार्थः। ज्ञातत्वमात्रेणैव ब्रह्मणः प्राप्तत्वसिद्धः, यस्मान्नित्याप्तस्यापि ब्रह्मणोऽज्ञातत्वेन प्राप्यत्वं तस्मादित्यत इत्यस्यार्थः । ननु प्राचीनानेकजन्मसश्चितसुकृतदुष्कृतकर्मणामुपभोगं विना क्षयानुपपत्तेर्न ज्ञानान्मोक्षोऽत आह सूत्रकार :- अत इति। यस्मा- द्ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तस्मादित्यर्थः । ननु ब्रह्मविदोऽपि जनकादेस्संसारदर्शनान्न ज्ञानान्मोक्षोऽत आह सूत्रकार :- अत इति। 'तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये' इति श्रुतेर्याव त्प्रारब्घावसानं तत्त्वविदस्संसारो दग्धपटव- दबन्धक एवेति। यद्वा ब्रह्मविद्धह्नैव भवतीति न तत्त्वविदस्संसारः, किंतु तत्कार्यकरणसङ्कातगतमेव संसारं तस्मिन्नारोपयन्त्यविवेकिन:, अत इत्यस्य तत्त्वविदस्संसाराभावादित्येकोर्डर् :; तत्त्ववित्संसारस्याबन्धकत्वा- दित्यन्योऽर्थः । ननु प्रारब्धभोगस्यावर्जनीयत्वान्न ज्ञानोदयसमकालमेव मोक्ष इत्यत आह सूत्रकार :- अत इति। प्रारब्धकर्मफलभूतयोससुख- दुःखयोबुद्धयैन भुज्यमानत्वेनात्मनः प्रारब्घभोगाभावादित्यर्थः । नच जडाया बुद्धे: कथं भोग इति वाच्यं, साभासत्वाद्बुद्धेः, सत्यज्ञाना- द्यात्मघर्माणां बुद्धौ बुद्धिघर्माणां सुखित्वादीनामात्मनि चाध्यस्य बुद्धि- रस्ति, बुद्धिर्वेत्ति, सुख्यहं, दुःख्यहमित्येवं व्यवहरति हि लोकः । किंच बुद्धिरतिस्वच्छत्वादात्मप्रतिफलनं गृह्ाति, अत एवास्यास्साभासत्व-
Page 31
१४ शारीरकचतुस्सूत्री विचारः ।
माभासो हि प्रतिफलनम्ं। नच नीरूपचितः कर्थं प्रतिविम्ब इति वाच्यं, नीरूपस्यापि रूपस्य गगनस्य च जलादौ प्रतिफलनदर्शनात्। नचाप्रमाणमिदमात्मप्रतिप्रलनमिति वाच्यं, 'रूप रूपं प्रतिरूपो बभू'वेति श्रुतेः । 'आभास एवच', 'अत एव चोपमा सूर्यकादिव'दिति सूत्राच्च। नचव माभास एव जीवः- तस्य च मिथ्यात्वाज्जीवब्रह्माभेदः कथमिति वाच्यं, आभासस्य मिथ्यात्वेपि तदनुस्यूतात्मचैतन्यस्यामिथ्या- त्वात्। यद्वा आभासो रज्जुसर्पवन्न मिथ्या अधिष्ठानभूतदर्पणस्य मुखस्य वा साक्षात्कारे सत्यपि प्रतिमुखस्याभाधात् ; किंतु सत्य एव । नचैवमाभासस्य सत्यत्वे तद्रतसंसारोऽपि सत्यस्स्यादिति वाच्यं, आभासस्थाप्यौपाधिक एव संसारो नतु स्वाभाविक:, जलकम्पाद्दि तद्धतचन्द्रप्रतिबिम्बस्य कम्पो दृश्यते, तस्माद्वस्तुतो संसार एवाभासजीवः । नच उपाधिनाशात्प्रतिबिम्बनाश इति कथ जीवस्य सत्यत्वमिति वाच्य, उपाधिनाशेन प्रतिबिम्बस्य बिम्बैक्यमेव नतु नाश इति। अस्मिंश्र प्रतिबिम्बवादे बिम्बचैतन्यं प्रत्यगात्मेति केचित्। आभास एव प्रत्य- गात्मा बिम्बचैतन्यं परमात्मेत्यन्ये उभयथापि न दोषः बिम्बचैतन्यस्यैव प्रतिबिम्बचतन्यत्वात्प्रत्यगात्मन एव परमात्मत्वाच्च विवक्षितजीवब्रह्मा- भेदसिद्धिः। नच जीवब्रह्माभेदे श्रुतीनां तात्पर्य नास्तीति वाच्यं, 'एकमेवाद्वितीयं ब्रह्मे'ति महता कण्ठरवेण श्रुतिभिस्स्वतात्पर्यस्योद्धु- ष्टत्वादद्वैतलक्षणस्य, कथमितिचेत् उच्यते-अज्ञानाद्वस्तुत्वसाम्याच्च ब्रह्मणि प्रसक्त सजातीयविजातीयस्वगतभेदत्रयमे कमेवाद्वितीयमिति पदत्रयेण निरस्यते। वृक्षस्य वृक्षान्तरात्सजातीयभेदः, शिलादिभ्यो विजातीय: पत्रपुष्पफलादिभिस्स्वगतः, एवं ब्रह्मणो न सजातीयमेदः
Page 32
शारीरकचतुस्सूत्रीविचारः । १५
सजातीयवस्त्वन्तराभावात्। नचात्मास्ति सच्चिदानन्दत्वेन सजातीय इति वाच्यमात्मन एव ब्रह्मत्वात्। नापि विजातीयभेदः विजातीयस्य सर्वस्य द्वैतस्य मिथ्यात्वात्। नापि स्वगतभेदः अविक्रियत्वारसदैकरूपत्वा- द्रह्मणः । ननु किमद्वैतत्वं ब्रह्मणः प्रलये साध्यते उत प्रपञ्चे ? नाद्यः तदानीं सूक्ष्मचिदचिद्विशिष्टत्वाद्गह्मणः, अन्यथा जीवानां विनैव ज्ञानं युगपदेव प्रलये मुक्तिस्स्यात्, यद्वा नाशो वा स्यात्। नचैतद्द्वय युक्तं शास्त्रवैयर्थ्याज्जीव नित्यत्वप्रतिपादकश्रुतिविरोघाच्च। न द्वितीयः स्थूलचिद चिद्विशिष्टत्वादिदानी® ब्रह्मण इति चेन्मैवम्-अन्तःकरणाव- च्छिन्नचैतन्यस्य जीवत्वेन सृष्टेः प्रागन्तःकरणस्यैवाभावे कथ जीव- सद्धावः १ मायायाः कार्यलिङ्गकानुमानगम्यत्वेन सृष्टेः प्राक्कार्यस्यैवा- भावे कथं मायासद्ावः १ तस्मात्सृष्टैः प्रागेकमेवाद्वितीयं ब्रह्मास्ति। अत एव- 'सदेव सोभ्येदमग्र आसीन्, एकमेवाद्वितीयं ब्रह्मे'त्युक्तं श्रुत्या। सृष्टयनन्तरभाविनैमित्तिकप्रलयादिषु तु नान्तःकरणनाश इति न प्रलये सर्वजीवमुक्तिर्नापि शास्त्रानर्थवयं नापि जीवनाशः। एतदन्त ;- करणसद्धावादेव लिङ्गान्मायाप्यस्तीति सूक्ष्मचिदचिद्विशिष्टमेव प्रलये ब्रह्म। हन्त! तर्हि जीवानां सादित्वं सान्तत्वं च प्राप्तमितिचेन्मैवम्- जीवोपाध्यन्तःकरणानामेव सादित्वं सान्तत्वं च न जीवस्य, यशा घटानामेव जन्मनाशौ नाकाशस्य तद्गतस्येति। अन्तःकरणे जाते सति तदवच्निो जीवो जात इति तस्मिन्नष्टे सति स नष्ट इति च भ्रान्ति- पूर्वकोडयं व्यवहारः, यथा देहे जाते सति जीवो जात इति देहे नष्टे सति जीवो मृत इति चाज्ञजनव्यवहारस्तद्वत्। नह्यनतःकरणावच्छिन्नं
Page 33
१६ शारीरकचतुस्सूत्रीविचारः ।
चैतन्यं जातं मृतं वा येन जीवस्य जन्मनाशौ स्याताम्। जीवो हि चैतन्यैकस्वरूपः, ब्रह्मण एव जीवत्वात्। अत एव हि 'अनेन जीवे- नात्मनानुप्रविश्ये'ति जीवरूपेण ब्रह्मणः प्रवेशो जगति श्रयते। तस्मा- घदेव ब्रह्म मायावशादन्तःकरणावच्छिन्नं सज्जीव इत्युच्यते, तदेव ज्ञानवशादन्तःकरणनाशे सति मुक्त इत्युच्यत इति न ब्रह्मणोऽतिरिक्तो जीवः, येन जीवस्य जन्म वा नाशो वाशक्कयेत। नच भवत्वेवं सृष्टेः प्रागद्वितीयत्वं ब्रह्मणः पश्चात्कयमिति वाच्यं, प्रपश्नचदशायामपि जीवस्यैव ब्रह्मत्वान्न जीवेन ब्रह्मणस्सद्वैत्त्व, नापि जगता तस्य मायामयत्वात्, नापि मायया तस्या मिथ्यात्वास्। नहि सत्यवस्तुनः मिथ्यावस्तुशतैरपि कोऽपि सम्बन्धस्स्यात्। यथा गगनस्य गन्धर्वनगरादिभिः। अत एव 'असङ्गो ह्यहं पुरुष' इति श्रयते; सति तु द्वितीये वस्तुनि ससङ्ग एव स्यादात्मेति। ननु ईश्वरस्य जीवः प्रतिबिम्ब इति पक्षे बिन्बजन्यत्वात्प्रति- बिम्बस्य जीवस्य सादित्वमेव नाजत्वमिति चेन्मैवम्-उपाधिसम्बन्धा- देक एवेश्वरो द्विधा प्रतीयते बिम्बप्रतिबिम्बाभावेन यथैकमेव मुर्खं दर्पणसम्बन्धादिद्वूधा प्रतीयते तद्वदिति बिम्बप्रतिबिम्बभाव एौपाधिक एव न तात्त्विक इति कथ तत्त्वतो जन्म स्याज्जीवस्य? किंतु एकस्मि- न्नेव चैतन्ये बिम्बत्वं प्रतिबिम्बत्वं चे कल्पितमुपाधिना यथा एकस्मि- न्नेव मुखे दर्पणेन बिम्बत्वं प्रतिबिम्बत्वं च कल्पितं एवं सति जीव स्येश्वरस्य वा चैतन्यरूपस्य न प्रतिबिम्बत्वं, नापि बिम्बत्वमिति कथ जन्यजनकभावः ? न कथमपीति एकमेवाद्विनीयं ब्रह्म चैतन्यरूर्प जीवेश्वरशब्दव।च्यमिति सिद्धम्।
Page 34
३ शारीरकचतुस्सूत्री विचारः । १७
ननु 'अक्षय्यगँ ह वै चातुमस्ययाजिनससुकृतं भवती'ति श्रुतेः, कर्मफलस्य स्वर्गादेरक्षय्यत्वाच्छाश्वतसुखार्थिना कर्मैव कर्तव्यमत आह सूत्रकार :- अत इति। यज्जन्यं तदनित्यमिति व्याप्त्या 'तत्स- त्यमतोऽन्यदार्त' मिति श्रत्या च कर्मफलस्य क्षयिष्णुत्वान्मोक्षस्यैव नित्य- निरतिशयपुरुषार्थत्वाच्छाश्वतसुखत्वमिति भावः । अत इत्यम्य कर्म- फलस्य क्षयिष्णुत्वसातिशयित्वादिदोषग्रस्तत्वादित्यर्थः; मोक्षस्यैव नित्य- निरव द्यनिरतिशयसुखस्वरूपत्वादिति वा। ननु 'मोक्षमिच्छेज्नार्दना' दिति स्मारणान्मुमुक्षुणा जनार्दन एव सेव्य इत्यत आह सूत्रकार :- अत इति। जनार्दनस्य -वासुदेवस्य ब्रह्मत्वात्, ज्ञाननिष्ठाया एव जनार्दनसेवात्वाद्गल्ैव ज्ञातव्यमित्यथः । ननु 'ज्ञानं महेश्वरादिच्छे'दिति स्मरणाद्गभज्ञानार्थ महेश्वर एव भजनीयो नतु वेदान्तविचारः कर्तव्योन आह सूत्रकार :- अत इति। निष्कामस्वधर्माचरणादिना तोषितस्य महेश्वरम्य परमात्मनः प्रसादा- चित्तशुद्धिर्भवति, ततो वेदान्तविचारक्षमा भवति बुद्धिः: पुरुषस्य ततो ब्रह्मज्ञानं भवतीति महेश्वरभजनस्य चित्तशुद्धच्यर्थत्वादित्यर्थः । ननु मुमुक्षुणा हिरण्यगर्भो ब्रह्मा निषेव्यस्तत्पदप्राप्तेरेव मुक्ति- त्वादनवृत्तिश्शब्दादिति सूत्रात्तत्पद प्राप्तानामपुनरावृत्तिलक्षगमोक्षस- द्वावादत आह सत्रकार :- अत इति। हिरण्यगर्भस्य कार्यब्रह्मत्वेन जीवत्वासत्पदस्य सगुणमुक्तिक्षेत्रत्वात्तद्तानां 'ब्रह्मणासह ते सरवें सम्प्राप्ते प्रतिसश्वरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पद'मिति स्मरणा- द्रह प्रलय एत्र लिङ्गभङ्गान्मोक्ष इति हिरण्गभपदप्राप्तिन नित्यनिरति- शयसुखरवरूपेति, न तत्सेवायां मुमुक्षोः प्रृत्तिरुचिता; अत इत्यस्य हिरण्यगर्भपदस्य नित्यनिरतिशयसुख वरूपत्वाभावादित्वर्थः।
Page 35
शारीरकचतुर्सूत्रीविचारः ।
ननु मुमुक्षुणा आदित्यस्सेव्यः 'उदन्तमस्तयन्त'मित्यादिश्रुते- रादित्यस्यैव प्रत्यक्षदेवत्वात् 'असावादित्यो ब्रह्मे'ति ब्रह्मत्वाच्चात आह सूत्रकार :- अत इति। आदित्यस्य कार्यत्वादादित्यावच्छिन्नं चैतन्यं ब्रह्मैव भजनीयं केवलादित्यभजनात्तु सूर्यलोकप्राप्तिस्सुकृतावसाने तस्मा- तपुनरावृत्तिश्च 'आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जने'ति गीतावचन- दिति भावः । ननु प्रत्यग्ब्रह्मणोरभेदात्प्रत्यगात्मज्ञानादेव मोक्षसिद्धेश्च मुमु- क्षुणा प्रत्यगात्मैव ज्ञातव्यः, नतु परमात्मा, प्रत्यम्भिन्नपरमात्माभावा- तपरमात्माभ्युपगमस्य व्यर्थत्वाच्च। तथाच अथात आत्मजिज्ञासेत्येव सत्रयितव्यमचायैरित्यत आह सूत्रकार :- अत इति। प्रत्यग्ब्रह्मा भेदेपि प्रत्यग्ब्रह्मणी द्वे स्त एव अन्तःकरणावच्छिन्नत्वम।याव च्छिन्नत्वरूपोपाधि- भेदात्, एकमेव मांयाचच्छिन्नं चैतन्यमन्तःकरणावच्छिन्नं च भूत्वा प्रत्यगात्मेत्युच्यत इति सिद्धान्तात्। अन्तःकरणसृष्टेः प्रागन्तःकरण- स्यैवाभावेनाभावात्प्रत्यगात्मनः, परमात्माऽ्भ्युपगन्तव्य एव जगत्कारण- भूतो जगत्सिद्धयर्थम्। नच प्रधानादेव जगज्जन्मादिकमिति वाच्यं, तस्याश्रौतत्वादचेत- नत्वेन सङ्कल्पपूर्वकसृष्ट्याद्यहेतुत्वाच्च। श्रयते हि- 'तदैक्षत बहुस्यां प्रजायेये'ति सङ्कल्पपूर्वकत्वं सृष्टेः । किच प्रत्यगात्मनः परमात्मानति- रिक्तत्वेपि परमात्मा प्रत्यगात्मनोऽतिरिक्त एव सृष्टेःप्राव्प्रत्यगात्म।- तिरेकेण परमात्मनस्सत्त्वात्, कार्य हि कारणादनतिरिक्तमपि कारणं कार्यादतिरिक्तमेव। नचाजस्य प्रत्यगात्मनः कथ परमात्मकार्यत्वमिति वाच्यं, प्रत्यगात्मनि विशेष्यांशस्य चैतन्यम्याजत्वेपि विशेषणांशस्य
Page 36
शारीरकचतुस्सूत्रीविचारः ।
अन्तःकरणस्य कार्यत्वाद्विशिष्टस्य कार्यत्वव्यपदेशः । अत एव जीवस्य वस्तुतोऽजत्वमुपाधिवशाज्जन्मादिविकाराश्रेत्युच्यते। एवं चिदचिदात्म- कस्य सर्वस्य जगतः परमात्मकार्यत्वादेवैकविज्ञानेन।सर्वविज्ञानं प्रतिज्ञात श्रुत्या, दृष्टान्तश्च दर्शितः। 'यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञात भवती'ति। तत्राकाशादिभूतानि ब्रह्मादिस्तम्बपर्यन्तानि भौति- कानि च देहेन्द्रियादीनि दृश्यान्यचित्पदार्थ अन्तःकरणावच्छिन्नो द्रष्टा जीवश्चित्पदार्थ:, द्वयोरपि चिदचितोरीश्वरकार्यत्व'मात्मन आकाशस्संभूत' इति श्रुत्या 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा' इति श्रुत्या च दर्शितम् । प्रधानकारणवादे तु एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा हीयेत, प्रधानस्व कारणस्य ज्ञानेन तत्कार्यपृथिव्याद्यचेतनज्ञाने सम्भवत्यप तदकार्यपुरुष- ज्ञानासम्भवात्। नचान्त:करणसंसृष्टत्ववेषेण पुरुषोऽपि प्रधानस्य कार्यमे- वेति वाच्य, 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयर्सत, षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुष' इति साङ्कयकारिकया पुरुषस्या- कारणत्वादकार्यत्वाच्च। यदि तु जीवगतो विशेष्यांश एवाकाय विशेषणांश: कार्यमेवेत्युच्यते, तर्हि तद्विशेष्यांशज्ञानं न प्रधानज्ञाना- द्ववितुमर्हति, प्रधानस्याचित्त्वाद्विशेष्यांशस्य चित्त्वाच्च। अद्वैतमते तु तद्विशेष्यांशो ब्रह्मैवेति ब्रह्ाज्ञानात्तद्ज्ञानसिद्धिर्भवत्येव। नच तव मतेऽपि एकब्रह्मज्ञानात्कथं सर्वज्ञानसिद्धिः? मायाया ब्रह्माकार्यत्वेन तद्ज्ञानासिद्धे- रिति वाच्यं, मायाया ब्रह्माकार्यत्वेपि ब्रह्मशक्तित्वेन तद्ज्ञानसिद्धेः। ईश्वरस्य जगत्कारणसामर्थ्य हि माया, अत एव माया न तत्त्वान्तरमिति प्रधानतत्त्वान्तरकल्पकसाङ्खयमतस्याप्रामाण्यम्। मायाया ईश्वरशक्तित्वे 'वेदात्मशक्ति स्रगुणैर्निगूढा' मिति श्रुतिर्मानम्। मायायास्तत्त्वान्तरत्वेऽ-
Page 37
२० शारीरकचतुस्सूत्रीविचारः ।
पीश्वरेऽध्यस्तत्वादीश्वरकार्यतवं यथा पृथिव्यादीनां, तस्मात्सर्वजगदध्यास- स्याविष्ठानं सर्वजगत्कारणं ब्रह्मैव न प्रधानम् । तत्य च प्रत्यगात्मनः प्राक्सिद्धत्वेन तद्ज्ञानादेव मोक्षः । किंच परमात्मन अंशः प्रत्यगात्मा 'ममैवांशो जीवलोके जीवभूत इति गीतावचनादशिनः परमात्मनो विना ज्ञानमंशस्य प्रत्यगात्मनः कथ ज्ञानं भवति? अतः परमात्मैव ज्ञातव्यः । अपिच 'सत्यपि भेदापगमे नाथ तवाहं न, मामकीनस्त्वं, सामुद्रो हि तरङ्ग: क्वच न समुद्रो न तारङ्' इति पुराणवननादीश्वरीय एव जीवो नतु जीवीय ईश्वर इति जीवेनेश्वरो ज्ञातव्य एव प्राप्तव्यत्वा- न्नतु जीवो ज्ञातव्य: स्वत्वात्। ज्ञातेतीश्वरे तस्यैव जीवत्वात्परत्यगभिन्न- ब्रह्मज्ञानसिद्धिः। यद्वा अस्तु जीवस्य ज्ञेयत्वं, तथापि स जीवो ब्रह्म- स्वरूपतयैव ज्ञातव्यो नतु संसारितयेति कृत्वा जीवस्य स्वस्वरूपं ब्रम्मैव ज्ञातव्यं, तस्मात्प्रत्यग्ब्रह्माभेदेऽपि प्रतीचोऽतिरिक्तस्यानतिरिक्तस्य वा ब्रह्मणस्सत्वाद्गह्मजिज्ञासैव मुमुक्षुणा कर्तव्या ब्रह्मज्ञानादेवात्मज्ञानसिद्धे- रित्यमिप्रेत्योक्तं सूत्रकारैरथातो ब्रह्मजिज्ञासेति। ननु दुःखध्वंसस्यैव मोक्षत्वात्तूष्णींस्थितौ सर्वदुःखप्रहाणान्मुमु- क्षुणा तूष्णीं स्थातव्यमत आह सूत्रकारः-अत इति। ब्रह्मज्ञान बिना तूर्ष्णीस्थित्यसम्भवात्, तूष्णीं स्थितौ ब्रह्मानन्दस्फुरणादानन्दस्य भाव- पदार्थत्वेन दुःखध्वंसरूपत्वाभावाद्यावद्देहपातं देहपातानन्तरं च न्र॥- नन्दलाभाय ब्रह्मज्ञानं सम्पादयितव्यमेव। ननु कालत्रयेऽपि शून्यमेवास्ति 'असदेवेदमम आसी' ति श्रुतेः शून्य एव जगद्रान्तेर्जातत्वातप्रलये शून्यस्यैववशेषणाच्च शशश ।- तुल्यमेव जगत्, 'शशश्रृङ्गेण नागेंद्रो मृतश्रेज्जगदस्ति त'दिति श्रु,
Page 38
शारीरकचतुस्सूत्रीविचारः। २ १
तस्मान्नास्त्येव ब्रह्म यज्जिज्ञासा कर्तव्येत्युच्यतेऽत आह सूत्रकार :- अत इति। शून्यस्यासतसत्ताSयोगाज्जगतश्शशश्रृङ्गतुल्यत्वे प्रतीत्ययो- गाच्च न शून्यवादसिद्धिः । ननु कालत्रयेपि ब्रहमैकमेवास्ति, जगत्तु मायया वापि कदाचि- दपि नास्ति, मायायास्सत्वे ब्रह्मणोऽद्वैतत्वहानेः, तस्मान्नाहं कदापि वासमित्येव निश्चयज्ञानं सम्पार्द्य मुमुक्षुणेत्यत आह सूत्रकार :- अत इति। ब्रह्मणस्स्वयिन्नत्वे स्वस्य चानित्यत्वे स्वनाशस्यापुरुषार्थत्वात्, स्वस्य जगदन्तःपातिनः कालत्रयेप्यभावे तादृशनिश्चयज्ञानसम्पादन- कालेऽप्यसत्वेन सम्पादयितुरेवाभावे कथं सम्पादनमिति हेतोः सम्पाद्य- ज्ञानस्याप्यभादाच्च, एवं ब्रह्म द्रष्ट्रेवाभावे ब्रह्मणोऽप्यभावाच्च। आत्मत्वेनाभिमतदेहनाशस्यैव पुरुषार्थत्वे दर्शितज्ञानं विनापि मरणमात्रा- देव पुरुषार्थसिद्धिरिति जले वह्वयादौ वा निपत्य मरणमेव सर्वैस्सम्पाद्य, तादृशमरणरूपपुरुषः क्रिमिकीटादिसर्वसाधारणश्चेति हेतोः मरणानन्तरं पुनर्जन्माभावेन संसारस्यैव मूलोच्छेदाच्च शास्त्रारम्भस्यापि व्यर्थत्वाच्च । अथ यदि दर्शितनिश्चयवतामेव पुनर्जन्माभाव इत्युच्यते तर्हि अज्ञानां जन्मादिकमस्त्येवेति क्थं जगदभावः ? कथ वा प्राज्ञस्थापि स्वनाशार्थ प्रयतनं ? नहि प्राज्ञो ज्ञाता तव मते ब्रझ्म भवति; किंतु मायामय एव, ब्रह्मभिन्नत्वेन तस्यासत्त्वात्। किंच अहं नास्मीति ज्ञान- मपि कथं भवितुमर्हति ? अहमर्थस्यात्मनस्सत्त्वान्नास्तीति ह्यसत्तोच्य- तेऽ्हमर्थस्य। नचाद्वैतमतेऽपि कथमहमर्थस्य ब्रह्माभेदः, सच्चिदानन्द- रहितत्वाङ्गह्मण आत्मनश्च सच्चिदानन्दरूपत्वादिति वाच्यं, ब्रह्मणस्सच्चि- दानन्दरूपत्वात्। ब्रह्मास्तीति वदता त्वया कथ ब्रह्मणस्सत्ता निषेद्धुं
Page 39
शारीरकचतुर्सूत्रीविचारः।
शक्यते ? ब्रह्मैकमेवास्ति जगन्नास्तीति यो वेंद तस्यैव ब्रह्मत्वात्कर्थ तस्य चिद्रपत्वाभावः ? नच यो वेद स जीव एव न ब्रह्मेति वाच्यं, जीवस्य जीवाभावज्ञानायोगात्, नहि स्वभावं स्वयं वेत्तुं क्षमते। नच जीवोडपि नैव वेद ब्रह्मापि न वेदेति वाच्यं, वेत्तुरेवाभावे वेद्यस्य जीवाभावस्य कथं सद्धावः ? तस्मात्स्वस्मिन् कल्पितजीवेश्वरजगदभावं त्रह्मैव वेदेति ब्रझ्मचिद्पमेव। ब्रह्मणरसुखरुपत्वं तु जीवानामनुभव- सिद्धमेव सुषुप्त्यादिषु, इति सच्चिदानन्दस्यात्माभिन्नस्य ब्रह्मण एव ज्ञानान्मुक्तिः । ननु वेदान्तशास्त्राध्ययनात्मको ब्रह्मविचारः किं सर्वैः कर्तव्य- स्तर्कशास्त्राद्यध्ययनवद्यद्वा साधनचतुष्टयसम्पन्नरेवेत्यत आह सूत्रकार :- अत इति। साधनचतुष्टयसम्पन्नत्वादेवेत्यर्थः । साधनचतुष्टयसम्पन्नैरेव कर्तयो नतु सर्वैरिति भावः । ननु मुमुक्षुणा परिहारार्थ जगदपि ज्ञातव्यमेवेत्यत आह- अत इति। विविधविचित्रभोग्यभोगोपकरणादिसहितस्य कृत्स्स्व जगतः विशिष्यज्ञातुमशक्यत्वादित्यर्थः; यद्वा ब्रह्मज्ञानेनैव सर्वजग- दूज्ञानस्थापि लाभादित्यर्थः; सर्वस्यापि ब्रह्मात्मकत्वादिति भावः । ननु ब्रह्मज्ञानाय वेदान्तवाक्यार्थज्ञानमावश्यकं तदर्थ च व्याक- रणशास्त्रमिति ब्रह्मज्ञानाय व्याकरणमध्येतव्यमत आह सूत्रकार :- अत इति। तत्त्वमस्यादिमहावाक्यगतंतदादिपदार्थज्ञानमवान्तरवेदान्त- वाक्यार्थज्ञानाधीनमेव यूपाहवनीयादिपदार्थज्ञानवदिति न व्याकरणेन प्रयोजनम्। अन्यथा पाणिनीयपतञ्जलीयादिसूत्रभाष्याध्ययनेनैवायुषः क्षयस्स्यादिति ब्रह्मविचारस्यानवकाश एव- 'आसुप्तेरामृतेः कालं नये- द्वेदान्तचिन्तये'ति हि स्मर्यते।
Page 40
शारीरकचतुस्सूत्रीविचारः । २३
ननु स्फोट एव ब्रह्म तद्ज्ञानादेव मोक्षसिंद्धिरिति मुमुक्षुणा व्याकरणमेवाध्ययनीयमत आह सूत्रकार :- अत इति। वर्णव्यङ्गचस्य पदव्यञ्जकस्य च स्फोटस्य कल्पने मानाभावात् वर्णस्फोटपदस्फोटवाक्य- स्फोटादिकल्पने गौरवाच्च। ननु 'कश्चिद्धयेयः कारणं तु ध्येय' इति श्रुतेः जगत्कारणं परमाणुरेव व्येयः, परमाणुत एव जगदुत्पत्तरणुद्यणुकादिकमेणेत्यत आह सूत्रकार :- अत इति। अचेतना: परमाणवो न जगत्कारणं नापि परमाणुसद्ावे प्रमाणमस्ति, नापि निरवयवपरमाणुशतसंयोग।दपि अण्वादिप्रधिमवद्द्रव्योदयः, सावयव वस्तुन एव सावयववस्तुसंयोगात्प्रधि- मोपपत्ते: ईश्वरानभ्युपगमे परमाणुषु परस्परसंयोजकक्रियाया अप्यनुदयात्; संयोजनक्रियाखल चेतनकर्तृका, यदि स्वत एव परमाणूनामन्योन्यसंयोग इत्युच्यते, तर्हि स्वत एव तदैव वियोगोऽपीति स्यात्कथमण्वाद्युत्पत्तिः, नाप्यचेतनपरमाणुध्यानेन जीवस्य कोपि लाभः प्रत्युत तद्वदचेतनत्व- प्राप्तिरेव स्थावरत्वरूपा इति। अत इत्यस्य परमाणूनां जगत्कारणत्वा- भावादित्या दिरर्थः । ननु स्वभाव एव जगत्कारणमत आह. सूत्रकार :- अत इति। स्वभावस्य स्वत्वेन स्वंप्रति कारणत्वायोगादित्यर्थः । ननु आकाश एवं नित्यत्वादजत्वाद्यापकत्वाच्च ब्रम्मेतयत आह सूत्रकार :- अत इति। 'आत्मन आंकाशस्सम्भूत' इति श्रुत्या आकाशम्य सादित्वेनानित्यत्वात्पृथिव्यादिद्दष्ट्रया व्यापकत्वेऽपि मायादि- दृष्टया व्याप्यत्वाद्द्ृयत्वेन जडत्वान्मिथ्यात्वाच्च नाकाशो ब्रह्म । ननु प्राण एव ब्रह्म। प्राणो ब्रह्मेति श्रुतेरत आह सूत्रकार :-
Page 41
२४ शारीरकचतुस्सूत्रीविचारः ।
अत इति। प्राणस्य मन आदीन्द्रियवज्जन्यत्वश्रवणाद्वायुविशेषत्वा- द्दृश्यत्वाज्जडत्वादनित्यत्वाच्च न प्राणो ब्रह्म। ननु 'स एनान्ब्रह्म गमयती'ति मुक्तस्य ब्रह्मगतिश्रवणाङ्गह्मणा परिच्छिन्नं परिच्छिन्नत्वे च ब्रह्माप्यनित्यमेवेत्यत आह सत्रकार :- अत इति। ब्रह्म कार्यद्रह्म गमयतीति श्रुत्दर्थः, नतु कारणब्रह्म; कार्य- ब्रह्म च हिरण्यगर्भार्यं परिच्छिन्नमेव, अत एव तस्यानित्यत्वमपि, कारणब्रह्म परिच्छिन्नत्वमेव, अत एव मुक्तस्य न क्वापि गतिः, कुतश्चि- दप्यागतिः; किंतु अपरिच्छिन्नब्रह्मभाव एव 'ब्रह्मविद्धह्ैव भवती'ति श्रुतेः। अत इत्यस्य ब्रह्म गमयतीति श्रुतिगतब्रह्मशब्दस्य कार्यब्रह्मवाचित्वा- दित्यर्थः । ननु 'दतो वाचो निवर्तन्ते, अप्राप्य मनसा सहे'ति श्रुते- रविषयेऽपि मनसः कथ ब्रह्मणि जिज्ञासा कर्तु शक्येत्यत आह- अत इति। असंस्कृंतमनोऽविषयत्वेऽपि ब्रह्मणस्संस्कृतमनोविषयत्व- मस्त्येव 'दृश्यते त्वध्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः, मनसैवानु- द्रष्टव्य'मित्यादिश्रुतेः ।
वेदान्तविचारो व्यर्थ इत्यत आह सूत्रकार :- अत इति। यत्साक्षा- दपरोक्षाद्वह्ेति विदुषामात्मत्वेन नित्यापरोक्षमपि ब्रह्माविदुषां दूरस्थमेव, 'दूरस्थ चान्तिके च त'दितिगीतास्मरणत्तस्माद्वेदान्तविचारं विना ब्रझम स्वात्मभुतमिति ज्ञांतुं न शकदमिति तदर्थ वेदान्तविचार आवश्यकः । ननु निर्विशेषचिनमान्ने वस्तुनि क्थ शास्त्रम्यापि प्रामाण्यमत आह सूत्रकार :- अत इति। निर्विशेषचिन्मात्रं ब्रह्मैव स्वात्मेति
Page 42
शारीरकचतुस्सूत्रीविचारः । 50 २५
ज्ञानं शास्त्रविचारादुदेतुमर्हत्येव, अत एवाखण्डाकारवृत्तिजनने शास्त्रस्य विनियोग इत्युक्तमभियुक्तरिति भावः । ननु शाब्दात्प्रमाणात्परोक्षज्ञानमेवोदेतुमर्ह, स्वर्गादिवाक्या- तस्वर्गादिज्ञानवदित्यत आह सूत्रकार :- अत इति। दशमस्त्वमसीति वाक्यादिव तत्त्वमसीतिमहावाक्यादपि विचारितादपरोक्षज्ञानं भवत्येवेति
ननु अनुमानेन ब्रह्म सुग्रहमेव, किं शास्त्रेणेत्यत आह सूत्र- कार :- अत इति। अनुमानस्य पुरुषबुद्धयधीनत्वेनाप्रतिष्ठितत्वा- दित्यर्थः । किंच कार्यलिङ्गकानुमानेन जगत्कारणेश्वरसिद्धावपि प्रत्य- गभिन्नब्रह्मसिद्धिनैव भवति। ननु धर्मादिवच्छास्त्रैकप्रमाणकं ब्रह्म परोक्षमेवेत्यत आह सूत्र- कार :- अत इति। आत्मस्वरूपत्वेन शास्त्रैकप्रमाणकस्यापि ब्रह्मणो नित्यापरोक्षत्वादित्यर्थः । ब्रह्नैवात्मेत्यस्यैवाज्ञातार्थस्य बोधनाच्छास्त्रस्य प्रामाण्यं, ब्रह्मापरोक्ष तु स्व्रत एव भवति; स्वात्मत्वाङ्गह्मण इति भावः ।
मिति सिद्धम्- नाहं ब्रह्मति भेदस्य सर्वविदितत्त्वादिति। ननु किमद्वैतं सिद्धमुत साध्यम् ? आद्ये- व्यर्थमद्वैतशास्त्रम्; द्वितीये त्वनित्यमद्वैतमित्यत आह सूत्रकार :- अत इति। सिद्धेऽ- प्यद्वैते असिद्धत्वभ्रमेण साध्यत्वसत्त्वादित्यर्थः । ननु किमेकस्याद्वैनं प्रतिपाद्यते; यद्वा द्वयोः ? नाद्यः- एकस्य द्वैतप्रसक्त्यभावेन तन्निषेधायोगात्। द्वितीये- द्वयोर्द्वित्वेन भाव्यत्वात्कथ- मद्वैतत्वमत आह सूत्रकार :- अत इति। एकस्मिन्नपि ब्रम्मवस्तुनि
Page 43
२६ शारीरकचनुस्सूत्रीविचारः ।
ननु 'आम्नायम्य क्रियार्थत्वादानर्थक्यमतदर्थाना'मिति जैमिनि- सूलावक्रियार्था वेदान्ता अनर्थकत्वादप्रमाणमेवेत्यत आह सूत्रकार :- अत इति यद्यकिवार्थस्य वेदस्थाप्रामाण्यं तर्हि मन्त्रादेरपि स्या- दपामाण्यम्। नच क्रियोपयोगिकर्तृदेवतादिस्वरूपप्रदर्शनपर त्वान्मन्त्रादे- रस्ति मामाण्यमिति वाच्यं, अक्रियार्थत्वेपि घटादिबोधकाप्तवाक्यानामिव वेदान्नवाक्यानां ब्रह्मबोधकानां प्रामाण्यस्य दुर्वारत्वात्। नच लौकिक- वावयानां तथात्वेपि वेदवाक्यानां क्रियार्थत्वेनैव प्रामाण्यं- तेषां क्रिया- थत्वात; यज्ञादिक्रियार्थ हि वेदः प्रवर्तित ईश्वरेणेति वाच्यं, 'ब्राह्मणो यजे' तेति वाक्यानां क्रियेतरार्थाभावेन क्रियार्थत्वेऽपि 'वज्र्रहस्तः पुरन्दर' हत्यादिवाक्यानां पुरन्दरादयर्थसद्धावेन नास्ति क्रियार्थत्वम्। नच क्रियोपयोगिदेवतादिम्वरूपप्रदशनपरत्वेन परम्परया तेषामप्यस्ति क्रिया- थत्वमिति वाच्यं, वेदान्तानामप्युपासनकियार्थत्वस्य सत्त्वात्। नच 'ओमित्युद्गीधमुपासी ते त्यादिवावनामुपासनाथत्वेऽपि सत्यज्ञानादिवाकया- नामक्रियार्थत्वमिति वाच्यं, उपास्यस्वरूपनिरूपकत्वेन तेषामपि परम्परया क्रियार्थत्वान्। नंच ब्रह्मज्ञानादेव मोक्षसिद्धावुपासनं व्यर्थमिति वाच्यं,
देव मोक्षः । तच्ब द्ृत्तिज्ञानं ब्रह्मस्वरूपपरोक्षज्ञानाधीनमिति। यद्वा ज्ञानार्थत्वमेवास्तूपनिषदां, तथापि ज्ञानस्य उपासनव क्क्रियात्वमेव- ब्रझ्मा- काराया वृत्तेमनःपरिणामरूनाया मानसिकक्रियात्वात्। एत एव हि वृत्तिज्ञानस्य क्रियात्वेन शःस्त्रजनयत्वमुच्यते; यत्त्वस्यां वृत्तौ प्रतिफलितं चैतन्वं तल्क्षण, ज्ञानं तु क्रिया न भवति; इदमपि जन्यमेवैतज्जनक च शस्त्रमेवेति शास्त्रसय ज्ञानजनकत्वमुच्यते। तम्माच्चैतन्यप्रतिफलनात्मक-
Page 44
शारीरकचतुस्सूत्रीविचारः। २७
ज्ञानजनका अपि वेदान्ता ब्रह्माकारतृत्तिज्ञानरूपक्रियाजनकत्वेन क्रियार्था एव, वृत्तेर्ज्ञानतवं चोपचारादुच्यते- ज्ञानीवच्छेदकत्वात्, वृत्यवच्छिन्न चैतन्यं हि ज्ञानम् । नच करियाजनकत्वमान्नायस्य क्रियार्थत्वं, किंतु क्रियाप्रतिपाद- कत्वमेवेति वाच्यं, यजेतेति यजन क्रियाप्रतिपादकवाक्यवततमेवैकं विजा- नीया' दिति ज्ञानक्रियाप्रतिपादकवेदान्तवाकयानामपि सत्वाचादशस्यापि क्रियार्थत्वस्य; अत एवात्मावाडरे द्रष्टव्य इत्यादि विध्युभपत्तिः । तस्मा- द्यजेतेत्यादिवाक्यवदुपासीन विजानीयादित्यादिवाकयानां ज्ञानोपासन- विधायकत्वेन क्रियार्थत्वाद्वज्रहस्तः पुरन्दर इत्यादिवाक्यवत्सत्यं ज्ञान- मित्यादिवाक्यानां ज्ञेयोपास्यस्व रूपप्रतिपादकवेन क्रियोपयोगिवेन पर- म्परया क्ियार्थत्वाच्च न वेदान्तानामानर्थवयम्। नच विधिशेषत्वं वेदांतानः- माचार्येरनभ्युपगतमिति वाच्यं, यज्ञादिविधिशेषत्वमेव तैरनभ्युनगत, नतु ज्ञानोपासनविधिशेषत्वम्। प्रत्युत वेदान्तानां केषांचिद्धिधिपरत्वमेवा भ्युपगतं- तच् दर्शितमिति। नच ज्ञानम्य ब्रह्मस्वरूपस्य कथ क्रियात्व- मिति वाच्यं, वृत्तिज्ञानाद्वृत्तिप्रतिफलितचैतन्यज्ञा नाथ मिन्नं नित्यं चैतन्यमेव ब्रह्मस्वरूपमिति; अन एव सत्यं ज्ञानमित्यत्र ज्ञानपदस्य ब्रह्मणि लक्षणा वीकृता- लोके घटादिविषयकजन्यज्ञान एव तम्य शक्तिग्रहसद्ा- वात्। यद्वा प्रवृत्तिव न्निवृत्तिरपि कर्मैवेति प्रृत्तिमार्गविधायकवेदपूर्वभागव-
विद्यादित्यादिविधिवाक्यानां विधिच्छायामात्त्वेन, सदन्यत्न विद्यादित। निवृत्तिपरत्वात्कियार्थत्वं, सत्यज्ञानादिपदानां तु निवृत्युपयोगित्रह्म वरूप- प्रतिपादनपरत्वेन परम्परया क्रियार्थत्वमिति । नच निधृत्तिन कर्मेि
Page 45
२८ शारीरकचतुस्सूत्रीविचारः।
वाच्यं, 'कर्मण्यकम यः पश्ये'दित्यादिगीताशास्त्रिण निवृत्तेः कर्मत्व- प्रतिपादनात्। नच तन्त्रान्तरस्थं तदस्माकमप्रमाणमेवेति वाच्यं, तथा तन्त्रान्तरविरोधस्याप्यस्माकमपरिहार्यत्वापत्तेः; पूर्वतन्त्रविषयकजैमिनि- सूत्रविरोधेन किमुत्तरतन्त्रविषयकशारीरकसूत्स्य? नच पूर्वतन्त्रमुत्तर- तन्त्रं चेत्युभयमप्येकमेव मीमांसाशास्त्रमिति वाच्यं, तथासति तवापि गीता: प्रमाणमेव-गीतानामुपनिषदर्थप्रतिपादकत्वेनोपनिषत्वात्। अपिच यदि निवृत्ति: कर्म न स्याय्यदि वा चाक्ियार्थस्यान्नायस्यानर्थक्य स्यात्तर्हि पूर्ववेदस्थानां ब्राह्मणो न हन्तव्यः, न सुरां पिबेदित्यादि- वाक्यानां निवृत्तिपराणामानर्थक्यं स्यात्तस्मान्निवृत्तेः क्रियात्वमान्नायस्याक्रि- यार्थस्यापि प्रामाण्यमित्यनयोरन्यतरस्यावश्यमभ्युपगमः कार्य आस्तिकैः । तत्न निवृत्तेः क्रियात्वाभ्युपगमापेक्षया समनन्तरपक्ष एव श्रेयान्। तथाहि- अनधिगताबाधितार्थज्ञानस्यैव प्रमात्वेन तादृशार्थज्ञापकत्वमेव प्रमा- णत्वम्। प्रमाकरणं हि प्रमाणम्। तथासति आगमरूपप्रमाणस्या- व्यनधिगताबाबितार्थज्ञापकत्वेनैव प्रमाणत्वं सार्थकत्वं च; नतु क्रियार्थ- त्वेन । अन्यथा अपौरुषेयवावेयानामिव पौरुषेयवाक्यानामपि सिद्धार्थ- बोधकानां स्यादनर्थकत्वादप्रामाण्यमाप्तवाक्यत्वलक्षणघर्मस्य पौरुषेया- पौरुषेयवाक्यसाधरणत्वादाप्तवावयमेव हि प्रमाणम्। तस्मादेव घटोऽय- मित्यादिकात्स्वर्ग इत्यादिकाच्च घटसवर्गादिविषयकप्रमाया जायमानत्वात्। नच घट इति ज्ञानस्य कर्थ प्रनात्वं बाघितार्थत्वाद्धटस्येति वाच्य, याव- व्यवहारमबाधितत्वस्याबाधितपदा र्थत्वात्। अतएव व्यवहाराितशुक्ति रजतादिविषयकज्ञानस्य ्रमत्वम्। नच वेदस्य कथमनधिगतार्थबोध- कत्वमिति वाच्यं, 'प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुद्धयते, एनं
Page 46
शारीरकचतुरुसूत्रीविचारः। २९
विदन्ति वेदेन तम्माद्वेदस्य वेद'तेति वचनात्। नचैवं प्रत्यक्षाद्यविषय- स्वर्गादिफलोपायभूतयज्ञादिविधिप्रतिपादकत्वमेववेदस्य वेदत्वं, न सिद्धार्थबोधकत्वं-तस्य प्रत्यक्षादिविषयत्वादिति वार्च्य, आत्मभूतत्वेन विदुषो नित्यापरोक्षस्यापि ब्रह्मणोSविद्वत्प्रत्यक्षाद्यविषयत्वात्तथा विधब्रह्मसा- क्षात्कारलक्षणफलोपायभूतश्रवणादि विधिप्रतिपादकवेदा=तभागस्याप्यस्त्येव वेदत्वमिति। न चानुमानगम्यमेव ब्रह्मति वाच्यं, प्रत्यगभिन्नब्रह्मणोS- नुमानागम्यत्वात्, तद्ज्ञानस्यैव ब्रह्मसाक्षात्कारहेतुत्वाच्च। न ह्यांत्म- भिन्नं ब्रह्मेति जानतां ब्रह्मसाक्षातकारो भवितुमहति- 'नान्योऽतोऽस्ति द्र'ष्टेति तादृशब्रह्मणो द्रप्टन्तराभावेन दृश्यत्वाभावान्नित्यापरोक्षत्वमिति। किंच स्वात्मन एव सतो ब्रह्मणः कथमात्मभेदेन साक्षात्कारो भवेत् ? न कथमपि। नच ब्रह्मसाक्षात्कारस्य ब्रह्माभिन्नत्वेन कर्थ तद्ेतुत्वं प्रत्यगभिन्नब्रह्मज्ञानम्येति वाच्य, प्रत्यगभिन्नं ब्रह्मेति परोक्षज्ञानजन्यस्य ब्रह्माकारवृत्तिप्रतिफलितचै तन्यलक्षण ब्रह्म साक्षात्कारस्य घटसाक्षात्कारव- ज्जन्यज्ञानत्वात्। नचैवं ज्ञानाश्रयत्वादात्मा ज्ञाता कर्तेव; जानामीत्यनुभवाच्च। मिषा ह्यहमर्थः ज्ञानाश्रयः प्रतिपाद्यते, कथमेवं कर्तुरात्मनः निष्क्रिय- ब्रह्माभेद इति वाच्यं, देहान्तर्व्यापी अहंकारार्यः अन्तःकरणस्य कर्तृ- भाग: योऽस्ति तदवच्छिन्नं चैतन्यं प्रमाश्रयत्वात्प्रमाता, देहाद्वहि- र्विषयाकारपरिणतान्तःकरणक्रियाभागः वृत्तिरूप: यस्तदवच्छिन्नं चैतन्यं प्रमाणं, वृत्तिप्रतिफलितचैतन्यं प्रमा, विषयावच्छिन्नं चैतन्यं प्रमेयमिति प्रमातृचैतन्यस्यैव कर्तृत्वं, नतु साक्षिण आत्मनः । नच प्रमात्रतिरिक्त- साक्ष्यभ्युपगमो व्यर्थ इति वाच्य, सुषुप्तिमृतिमूर्छादिषु अहंकारलक्षण-
Page 47
३० शारीरकचतुस्सूत्रीविचारः ।
प्रमान्नभावेपि साक्षिणस्सत्त्वात्। नच तत्रापि नास्ति साक्षीति वाच्य,
किम वस्त्वभ्युपगन्तुमुचितमन्यथा शशशृङ्गादेरप्यभ्युभगमप्सङ्गात्।
निषदः प्रमाणम्। किंच अज्ञातघटादिविषयज्ञापकानि चक्षुरादीनि प्रमाणानि यावद्यवहारमेव प्रमाणानि- घटादिविषयाणां यावव्यवहारमेवाबाधितत्वात ; उपनिषदस्तु परं प्रमाणं- तद्विषयस्याद्वैतस्य यदाकदापि बाधाभावात्। अत एव अहंब्रह्मास्मीत्येकमेव ज्ञानं परप्रमा; प्रमायाः परत्वं च सर्वदा-
न शक्यते। ननु किं प्रमातुरहं ब्रह्मास्मीति ज्ञानान्मोक्ष: ? यद्वा साक्षिणः ? नाद्य :- प्रमातुरब्रह्मत्वात्, प्रमातृब्रह्माभेदज्ञानस्य भ्रमत्वेन मोक्षाहेतुत्वात्, मोक्षदशायां तदनुभवितु: प्रमातुरेवाभावाच्च। नान्त्यः- साक्षिणः ज्ञानानाश्रयस्य अहं ब्रह्मास्मीति ज्ञानायोगात्, अहक्काराभावाच्च इत्यत आह सूत्रकार :- अत इति। अहंकारावच्छिन्नचैतन्यलक्षणप्रमातुः अहंकारोपहितचतन्यलक्षणसाक्षिरूपभूतं यच्चैतन्यं् तेव स्वरुपमिति कृत्वा अहं ब्रह्मास्मीति ज्ञानमुपपद्यत एव, तत्राहंशब्दस्य लक्षणया साक्षिस्वरूपचैतन्यपरत्वात्; यद्वा साक्षित्वप्रमातृत्वानाक्रान्तचैतन्यमात्र- परत्वात् ; अथ वा प्रमातृस्वरूपचैतन्यपरत्वात्; सर्वथापि अहंकारोप- हितत्वतद्विशिष्टत्वरूपधर्मभेद एव, नतु धर्मिणोस्साक्षिपमात्रोर्भेद इति कृत्वा प्रमातुरेव साक्षित्वातसाक्षिण एव ब्रह्मत्वाद्युज्यत एवाहं ब्रम्मा-
Page 48
शारीरक चतुस्सूत्रीविचारः ।
स्मीति ज्ञानं प्रमातु:। नचान्तःकरणोपहितस्य साक्षिण: मायोपहितस्य ब्रह्मणश् कथमभेद इति वाच्यं, धर्नभेदेऽपि धर्मिचैतन्याभेदात; इदं। च ज्ञानं प्रमैवेति मोक्षहेतुरेव; मुक्तिदशायां प्रमाता साक्षिरुपेण चैतन्यरूपेण वास्तीति न प्रमातुरभाव :; साक्षी तु अहं ब्रमास्मीत्यादि- वृत्तिज्ञानानाश्रय एव। नच साक्षिणोऽप्यन्त:करणोपाघेस्सत्वात्कुतो ज्ञानाश्रयत्वमिति वाच्यं, प्रमातुरन्तःकरणं विशेषणं, साक्षिणस्तु उपावि:, एवमीश्वरस्य माया विशेषणं, ब्रह्मणस्तूपाधि :; व्यावर्तकत्वे समानेपि कार्यान्वयित्वानन्व यित्वाम्यां विशेषणोपाध्योर्भेदः । प्रमाता अन्तकरण- साह्यन घटादिकं जानाति, ईश्वरश्च मायासाह्यन सष्टयादिकं करोतीति मायान्तःकरणयोः साक्षिब्रह्मणोस्तु सार्वात्रभासनेऽन्तःकरणमायाभ्यां न कोऽपि लाग इति तयोस्ते उपाधी भवतः । सर्वावभासकत्वं च साक्षिव्रह्मस्वरूपचैतन्यस्य श्रुतिस्मृत्यनुभवसिद्धं 'तस्य भासा सर्वमिदं विभा'तीतिश्रुतिः 'ज्योतिषामपि तज्ज्योति'रित्यादिस्मृतिः, सुषुप्तिसुखाद्यनुभवश्च। नचैवँ सर्वावभासन- लक्षणक्रियाश्रयत्वाच्चैतन्यं कर्थ निष्क्रियमिति वाच्यं, सर्वोभासनस्य घर्मत्वात्। नच निर्धर्मकचैतन्यस्य कथ धर्म इति वाच्य, परमार्थ- दशायामेव निर्धर्मकत्वं, व्यवहारदशायां तु सधर्मकत्वगेव चैतन्वस्य । एतेन सर्वावभासनस्य क्रियात्वेऽपि न दोष इति सिद्धम्-व्यवहार- दशायां सक्रियत्वस्यादोषत्वात्। नच सुषुप्त्यादौ परमार्थदशायां कथ सर्वावभासनं चतन्यस्येति वाच्यं, सुषुप्तेरंप्यपरमार्थदशात्वान्मुक्तेरेव नित्यत्वेन परमार्थदशात्वान्मुक्तौ सर्वाभावेन चैतन्यस्य सर्वावभासकत्वाभावाच्च। एवं सत्यत्वावयोऽप्यात्मधर्मा
Page 49
३२ शारीरकचतुस्सूत्रीविचारः ।
व्यावहारिका एव- परमार्थदशायां कालत्रयामावेन तदबाध्यत्वलक्षणसत्य- त्वाभावाच्चैतन्यस्य। अतएव सत्यादिपदान्यपि लक्षणया बोधयन्ति ब्रह्म, न त्वभिधयेत्युच्यतेऽभियुक्तैः । एवमभिधाऽविषयत्वादेव 'यतो वाचो निवर्तन्त' इति वागविषयत्व ब्रह्मनश्रयते। नच लक्षणाया अप्यवि- षयमेव ब्रह्म- कथनन्यथा निर्धनके ब्रह्मणि लक्ष्यत्वसम्भव इति वार्च्य, व्यवहारत एव लक्ष्यत्वं ब्रह्मणो नतु परमार्थतः, तदा लक्षगाया लक्षकस्य च शव्दस्याभावेन लक्ष्यत्वाभावात्। नच लक्षणलक्षकयोश्शब्दतद्वृत्यो- रभावे लक्ष्यं ब्रह्मापि विषयो नास्तीति वाच्यं, असाक्षिकब्रह्माभावस्य दुरभ्युपगमत्वात्ससाक्षिकत्वे साक्षिण एव ब्रह्मत्वेन द्रह्मणस्सत्त्वाच्च; नहि सद्पस्य ब्रह्मण: कदाचिदपि स्यादसत्ता, 'नासतो विद्यते भावो नाऽभावो विद्यते सत' इति गीतावचनात्। नच 'न सत्तन्नासदुच्यत' इति गीता- वचनादेव न ब्रह्म सदिति वाच्यं, घटादेरिव जन्मानन्तरभाविसत्ता नास्ति ब्रह्मण इति गीताशयात्। नच निर्धर्मके ब्रह्मणि कथ सत्ताख्य- धमसम्भव इति वाच्यं, सद्गपब्रह्मानतिरिक्तत्वात्सत्तायाः । नच भावप्रत्य- यस्य का गतिरिति वाच्यं, तच्छदस्य ब्रह्मबोधकत्वेन तस्य भाव- स्तत्वमिति तत्त्वशब्द्रस्ववापि 'तत्वं नारायण: पर' इति नारायणे वेदपुरु- पेण प्रयुक्तस्य सतः तत्र भावप्रत्यस्य या गतिस्सैवास्यापि; तस्मान्निर्वि- शेषत्वाङ्गह्म शब्दाद्यविषयमेव। नच ब्रह्मशब्दविषये ब्रह्मणि कथ शब्दाविषयत्वमिति वाच्यं, कि वस्तुतो ब्रह्मणश्शब्दाविषयत्बं, यद्वा व्यवहारतः ?. नाद :- तदानीं शब्दानामेवाभावेन ब्रह्मशव्दस्याप्यभावात; न द्वितीय :- मायया ब्रह्मणि शव्दस्येव शव्द्विषयत्वस्यापि कल्पितत्वात्। नय ब्रह्मणि शब्दपवृत्तिनिमित्तानां जातिगुणक्रियाणामभावात्कर्थ शब्द-
Page 50
५ शारीरकचतुस्सूत्रीविचारः । ३३
विषयत्वं कल्पितमिति वाच्यं, यावद्यवहारं बृहत्त्वबुंहणत्वत्रिकालाबाध्यत्व- सर्वावभासकत्व प्रमुखघर्माणां ब्रह्मणि सत्त्वाङ्गह्मसत्यज्ञानादिशब्दविषयत्वं ब्रह्मण इति। तत्र बृहत्त्वं नाम निरतिशयमहत्त्वं 'ज्यायानाकाश' इत्यादिश्रुतेः । बृंहणं जगदभिवर्धनमिति विवेकः। अतति व्याप्नोति सर्वमित्यात्मा। साक्षात्पश्यतीति साक्षीति। साक्षित्वात्मत्वेऽपि ब्रह्मण: स्तएव, वृहत्त्वादयश्च साक्षिणः । अतएव साक्षिब्रझ्माभेदः- उम- यत्रोभयधर्मसत्त्वात्। नच सुतरामेकत्वे साक्ष्यात्मेति ब्रह्म परमात्मेति कथ मेदेन व्यवहार इति वाच्यं, मायान्तःकरणरूपोपाधिप्रयुक्तत्वा- द्वेदव्यवहारस्य; तस्मादहं ब्रह्मास्मीति ज्ञानाश्रयस्य प्रमातुरेव साक्षित्वा- त्साक्षिण एव ब्रह्मत्वाच्चेत्यतश्शब्दार्थः । ननु प्रमातुरेव साक्षित्वे साक्षिणस्संसाराभावान्मोक्षार्थ ब्रम्म- विचारो व्यर्थोऽत आह सूत्रकार :- अत इति। प्रमातुस्साक्षित्वेन नित्यमुक्तत्वेऽपि प्रमातृत्वेन संसारित्व।प्रमातृत्वप्रहाण पूर्वकसाक्षित्वाव- शेषणार्थ विचारः कर्तव्य इति। नच कथमेकस्यैव संसारित्वासंसारित्वे इति वाच्यमुभयात्मके पुरुषे उभयस्यापि सम्भवाद्। कथमुभयात्मकत्वं पुरुषस्येति चेदुच्यते -- निरधिष्ठानविभ्रान्तेः क्वाप्यभावादारोप्यस्याधि- ष्ठानारोप्योभयात्मकत्वेन साक्षिणि कल्पितः प्रमाता पुरुषश्चिदाभास- लक्षणस्साक्षिचिदाभासोभयात्मक इति। प्रतिबिम्बस्योपाधिपरतनत्र त्वेन चिदाभा सस्य स्वोपाधिभूतान्तःकरणगतसंसारवत्त्वं, साक्षिस्तूपाध्यवश्यत्वे- नाससारित्वम्। नचैवमीश्वरस्यापि मायाप्रतिबिम्बत्वेन मायापरतन्त्रत्वा- त्संसारित्वमिति वाच्यं, मायायां शुद्धसत्त्वमय्यामीश्वरप्रकृतौ संसा- राभावात्। नचेश्वरो मायापरतन्त्रो नेति वाच्यं, मायाप्रतिबिम्बत्वेन
Page 51
३४ शारीरकचतुस्सूत्रीविचारः ।
तत्परतन्त्रत्वात्। नचेश्वरस्य मायाप्रतिबिम्बत्वमप्रमाणमिति वाच्यं, 'जीवेशावाभासेन करो'तीति श्ुतेः । नचेश्वरस्यापि कथं पारतन्त्र्य- मिति वाच्यं, प्राकृतान्प्रत्येव तस्येश्वरत्वं, नतु मायांप्रतीति। नचैवं जीवेश्वरावुभावपि चिदाभासौ मिश्यैवेति वाच्यमिष्टापत्तेः, चैतन्यरूपेण सत्यत्वादिति वा। बिम्बभूत एवेश्वर इति पक्षे तु माया ईश्वरपर- तन्त्रैव, नतु मायापरतन्त्र ईश्वरः । न चास्मिन् पक्षे जीवेश्वरभेदकोपा- विद्वयं किमिति वाच्यं, एकस्यैवोपाधेर्भेदकत्वान्मायालक्षणस्य। अत एव 'दिभेदजनकेऽज्ञाने नाशमात्यन्तिकं गत' इति भेदकत्वमज्ञान- म्यैकस्यैवोक्तम्। न चैवं जीवेश्वरभेदकत्वेऽज्ञानस्य कथं जीवभेदः ? अज्ञानस्यैकत्वात्तत्प्रतिबिम्बस्याप्यैक्यादिति वाच्य, मायायामनेकान्तः- करणसत्त्वेन यत्रान्त:करणप्रदेशे यः प्रतिबिम्बोऽस्ति तस्मादन्यान्तः- करणप्रदेशे तस्मादन्य एव प्रतिबिम्ब इति प्रतिबिम्बजीवनानात्वम्। नच बिम्बस्यापि नानात्वमिति वाच्यं, सूर्यस्यैक्येपि तत्प्रतिबिम्बनानात्व- दर्शनात्। यत्तु बिम्बप्रतिबिम्बानुगतं शुद्धचैतन्यं तदेव ब्रक्षेति, साक्षीति, प्रत्यगात्मेति चाभिधीयते तत्र प्रतिबिम्बगतं चैतन्यं प्रत्यगिति, बिम्ब- गंत तदेव चैतन्यं परमात्मेति च काल्पनिकोऽयं भेद :- चैतन्य- स्यैकत्वात्। तच्ब चैतन्यं निरुपाधिकमेव-बिम्बप्रतिबिम्बयोरेव सोपाघि- कत्वात् ; प्रतिबिम्बवदि्बम्बस्य सोषाधिकत्वेऽपि न संसारः, उपाधे: प्रतिबिम्बपक्षपातित्वान्नहि जलोपाधिगतचलनादिकं सूर्यप्रतिबिम्ब इव सूर्यविम्बेपि सम्बध्यते। न चैवं संसारित्वासंसारित्वाभ्यां भेदात्कथ- मद्वैवं नीवेश्वरयोरिति वाच्यं, जीवत्वेश्वरत्वयोर्भेदेपि चैतन्यैक्यात् ; अत-
Page 52
शारीरकचतुस्सूत्रीविचारः । ३५
एव हि तत्त्वमसीत्यत्र शुद्धचैतन्ये लक्षणा स्वीकृता। यद्वा ईश्वर ए- वान्तःकरणे प्रतिबिम्बरूपेण भाति, नतु ततोन्य इति मुखप्रतिमुखयो- रिवेश्वरजीवयोरभेद एव, अयमेव विम्बेश्वरः प्रतिबिग्बजीवस्य साक्षिभूत इति साक्ष्येवेश्वरः प्रतिबिम्बस्य वस्तुतो बिम्बरूपत्वाज्जीवो वस्तुत ईश्वर एवेति कृत्वा ईश्वरस्यापि सतो जीवम्य चिदाभासस्य यत्संसारित्व- मागतमन्तःकरणतादात्म्याध्यासात्तन्निवारणाय ब्रह्मविचार आवश्यक :; ईश्वरप्रतिबिम्नभूतोऽहमसंसारीश्वर एवं न त्वीश्वरादन्यस्संसारीति। उक्त्तं च-'क्षेत्रजञं चापि मां वि'द्धीति भगवतैव साक्षादिदमिति। तस्मा - त्प्रमातुरीश्वरत्वेन साक्षित्वेन ब्रह्मत्वेन वा अवशेषार्थ ब्रह्मविचार आवश्यकः । ननु 'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशये'दिति वचना- दथशब्दस्य ऋणत्रयापाकरणानन्तरमित्यर्थ इत्यलाह सूत्रकार :- अत इति। 'यदहरेव विरजेत्तदहरेव प्रत्रजेत, ब्रक्षचर्यादेव प्रत्रजे'दित्यादि- श्रुंतेः, 'कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह। दुर्लभ मानुर्ष जन्म तदप्यधुवमर्थदम्।।' इति भागवते प्रह्ादवचनाच्च, वैराग्योदय- समनन्तरमेव सन्न्यस्य मोक्षमार्गे प्रवर्तेतेति सिद्धान्तितत्व्रादित्यर्थः । नास्ति ऋणत्रयापाकरणापेक्षा -- 'कि प्रजया करिष्यामो येषां सोऽ्य- मात्माडयं लोक' इत्यादिश्रुतेरिति भावः । ननु अपुत्रस्य गतिर्नास्तीति स्मरणात्पुत्रहीनस्य ब्रह्मविचारादपि नास्ति गतिरत आह सूत्रकार :- अत इति। ब्रम्मविदः कापि गत्या- गत्यभावादित्यर्थः । अपुन्नस्य पितृलोकादिगमनं नास्ति, मोक्षस्त्वस्त्येव -- ब्रह्मत्वान्मोक्षस्य, सनूपत्वान्मुमुक्षोरेवात्मत्वच्विति भावः ।
Page 53
३६ शार्र।रकचतुस्सूत्रीविचारः ।
ननु नित्यकर्मपरित्यागस्य प्रत्यवायजनकत्वाद्यावज्जीव मग्नि- होत्रं जुहुया'दिति यावज्जीवश्रुत्या नित्यत्वादग्निहोल्नादेन तत्परित्यागो युक्त:, 'विहितस्य परित्यागन्निषिद्धस्य च सेवनात्। अनिग्रहाच्चेन्द्रि- याणां नरः पतनमृच्छ'तीतिः मनुस्मृतेश्चत्यत आह सूत्रकारः-अत इति। 'ब्रह्मचर्यादेव प्रत्नजे' 'ब्राह्मणो निर्वेदमायात्' 'सशिखं पवनं कृत्वा बहिस्सूत्रं त्यजेद्बुध' इत्यादिशास्त्रम्यस्सन्न्यासस्य विहितत्व।- द्यावज्जीवश्रुतेरसन्न्यासिविषयत्वान्मनुस्मृतेश्र तथात्वाद्येषां वर्णिनां येषा- माश्रमिणां च यद्यत्कर्म श्रुतिस्मृतिभ्यां विहितं तांस्तान्प्रत्येव तत्तत्कर्म नित्यमिति तत्तत्परित्यागात्ते ते एव प्रत्यवायिनो भवन्ति, न त्वितरे इति कृत्वा सर्वकर्मसन्न्यासिनःप्रति न किमपि कर्म श्रुतिस्मृतिविहित- मिति नास्ति नित्यपरित्यागदोषस्तेषां; प्रत्युत तत्करणमेव प्रत्यवायावर्ह -- तेषां विघिना परित्यक्तस्याग्निहोत्रादेः पुनःकरणस्यायुक्तत्वादिति । ननु ब्रह्मचारिणामपत्नीकानां च भवतु मोक्षशास्त्रि प्रवृतिः, गृहस्थस्य तु सा न युक्ता, ऋतौ भार्यामुपेयादिति विहितस्य ऋतौ भार्यागमनस्य परित्यागे पत्यवायादत आह सूग्रकारः-अत इति। विधयस्त्रयः- अपूर्वविधिर्नियनविधि: परिसङ्गयाविषिश्चेति; 'विधिरत्यन्त- मप्राप्ते नियम: पाक्षिके सति, तत्र चान्यत्र च प्राप्टे परिसङ्गयेति कथ्यते' इति तल्लक्षगम्। तत्र भार्यावतः पुरुषस्य भार्यागमनं नित्य- प्राप्तमेवेति नापूर्वविधिर्नापि नियमविधिः, किंतु परिसङ्गचाविधिरेव- ऋतौ तदितरकाले च प्राप्तस्य भार्यागमनस्य ऋतुकाल एव परिसङ्गचा- नात्। एवंसति सन्न्यासिनस्त्यक्तमार्यस्य भार्यागमनप्राप्तिरेव नास्तीति नेयं श्रुतिस्सन्न्यासिपरा, किंतु गृहस्थपरैवति। तथा च यो गृहस्थ-
Page 54
शारीरकचनुस्सूत्रीविचारः । ३७
स्सन्नेव ऋतौ भार्या नोपेयान्तस्यैव प्रत्यवायः, नतु सन्न्यासिन :; अन्यथा अशक्तस्यापि गृहस्थस्य प्रत्यवायस्स्यात्। तस्माद्गृहस्थस्यापि सति वैराग्ये सन्न्यासाश्रमस्वीकारद्वारा मोक्षशास्त्रेऽधिकारोऽस्त्येव। अत इत्यस्य 'ऋतौ भार्यामु पेया' दिति श्रुतेरसन्न्यासिविषयत्वादित्यर्थः । ननु त्यागाच्छान्तिरनन्तरमिति परित्यागस्य मोक्षहेतुत्वम्मरणात्, मोहात्तस्य परित्यागस्तामस इति कर्मपरित्यागस्य तामसत्वेन निन्वि- तत्वात्, यावज्जीवश्रुत्यनुसाराच्च त्यागएव मोक्षहेतुरत आह सूत्रकार :- अत इनि। त्यागस्य चित्तशुद्धिहेतुत्वाद्ज्ञानं विना मोक्षस्य श्रुत्यादिभि- र्द्षितत्वात् ; ज्ञानस्य च सर्वकर्मसन्न्यासपूर्वकत्वादित्यर्थः । ननु भस्मलेपनरुद्राक्षधारणादिभ्य एव मोक्ष इत्यत आह सूत्र कार :- अत इति। भस्मलेपनादिकस्य शरीरशुद्धच्यर्थत्वादित्यथः । मिथ्याज्ञानप्रयुक्तस्य बन्घस्य सभ्यग्ज्ञानं विना निवृत्त्ययोगादिति भावः । ननु सर्वकर्मसन्न्यासपूर्वकज्ञाननिष्ठायां मरिष्यत एवाधिकारः, जीवतो मिक्षाटनादिकमसन्न्यासस्य दुष्करत्वादत आह सूत्रकार :- अत इति। शरीरेन्द्रियविकलस्य निराहारस्य मरिष्यतश्चित्तस्वास्थ्या-
त्वाश्चेत्यर्थः । ननु किं ब्रह्म प्रसिद्ध, नवा .? आद्ये- किमर्थ तज्जिज्ञासा ? द्वितीये- कथ तज्जिज्ञासेत्यत आह सूत्रकारः-अत इति। उपनिष- र्थाठादिना आपाततः प्रसिद्धत्वाद्वक्मण इत्यर्थः । मनु ब्रह्मविचारलभ्यया पाषाणकल्पया कि मुक्त्येत्यत आह सूत्रकार :-- अत इति। मुक्तेः सप्रकाशानन्दरूपायाः पाषाणतौल्या- भावादित्यर्थः ।
Page 55
३८ शारीरकचतुस्सूत्रीविचारः ।
ननु स्वानन्दस्स्वस्य सदापि स्फुरति वा नया? आद्ये-ब्रप्म- विचारो व्यर्थ :; द्वितीये- कथमानन्दस्य खप्रकाशत्वमत आह सूत्रकार :- अत इति स्फुरतोपि निजानन्दस्य मायावृतत्वादित्यर्थः । ननु सूर्यस्य तिमिरेणेव कथमज्ञानेन ब्रझ्ात्मन आवरणमत माह सूत्रकार :- अत इति। अनुभवसिद्धाज्ञानावरणस्य दुरपलाप- त्वात्, स्फीतालोकवत्यहि कौशिकानुभवसिद्धान्घकारवद्गह्मण्यज्ञानस्य जीवानुभवसिद्धत्वान्मायायां सर्वसम्भवाङ्गम्ाज्ञानयोरविरोधाद्वक्षणैवाज्ञा- नस्य चन्द्रेण राहोरिव भास्यमानत्वात्परमार्थतो ब्रम्मावारकाज्ञानाभावा- च्चेत्यर्थः ।
सूत्रकार :- अत इति। ब्रक्षणोऽज्ञानाविरोधित्वेपि ब्रझ्माकारपरिणत- बुद्धि वृत्ति प्रतिफलित चतन्यस्याज्ञानविरोधित्वादित्यर्थ :; सर्यालोकस्य गृद्दादि- दग्धृत्वाभावेपि दर्पणविशेषप्रतिफलितसूर्यालोकस्य तद्भावदर्शनादिति भावः । ननु 'न निरोधो न चोत्पत्तिर्न बद्धो नच साधकः, न मुमु- क्षुर्न वै मुक्त इत्येषा परमार्थ'तेति श्रुतेर्बन्धमोक्षाभाषाद्यर्थोडयं ब्रक्ष- विचारोऽत आह सत्रकार :- अत इति। परमार्थतस्सर्वाभावेपि व्यव- हारतस्सर्वस्य सत्त्वादित्यर्थः । ननु यावत्सर्वजीवमुक्तिस्तावदज्ञाननाशाभावान्मुक्तस्यापि पुन- स्संसारस्सम्भवेदेवेत्यत आह सूत्रकार :- अत इति। बद्धदृष्टयैव सर्वजीवसत्वं तदज्ञानसत्त्वं वा, नतु मुक्तदष्ट्या- अद्वितीयत्रझ्दर्शित्वा- न्मुक्तस्य। नच स्वस्य कर्थ स्वदर्शित्वमिति वाच्यं, स्वप्रकाशत्वादात्मनः ।
Page 56
शारीरकचतुस्सूत्रीविचारः । ३९
ननु अज्ञानमेकं; तच्च मुक्तस्यैकस्यैव विद्यया नाशितमित्येक- मुक्रयैव सर्वेषां मुक्तत्वान्मुक्त्यर्थमस्माकं बह्मविचारो व्यर्थ इत्यत आह सूत्रकार :- अत इति। अस्मदनुभवसिद्धस्य बन्घस्य युक्त्या निद्ोतु- मयुक्तत्वात्प्रतिपुरुषमज्ञानमेदाच्च नैकमुक्तौ सर्वमुक्तिप्रसङ्ग: । ननु 'काश्यां तु मरणान्मुक्ति'रिति मुक्त्यर्थ काश्यां मरणमेव सम्पाद्यमत आह सूत्रकार :- अत इति यदि काश्यां मरणान्मुक्ति- स्तर्हि उद्वन्घनादिना काश्यामात्महत्यां कृतवतामपि मुक्तिर्भवेत्, नतु तद्युज्यते, 'अन्ध तमः प्रविशन्ति ये के वात्महनो जना' इति श्रुतेः । यदि तु काशीतरस्थलविषया श्रतिरित्युच्यते तर्हि काश्यामपि मरण- समये शिवस्तारकमुपदिशति, तेन च जन्मान्तरे शिवलोके वा महा- वाक्यार्थविचार कृत्वा ब्रह्म ज्ञात्वा मुच्यते जन्तुरिति वर्णनीयम्। अन्यथा ज्ञानान्मुक्तिप्रतिपादकश्चतिविरोधात्। वस्तुतस्तु 'काश्यां तु मरणान्मुक्तिरथ वा पुत्रसन्निधा'वितिवचनान्मुक्तिस्तत्र सवर्ग एव, नहि पुत्रसन्निधौ मृतस्य मुक्ति: कैवल्यलक्षणा भवति। ननु 'याडन्ते मतिस्सा गति'रिति न्यायादन्ते नारायणस्मृत्यैव मोक्ष :; तदर्थ च नारायणनामोच्चारणमेवं सदा कार्यमत आह सूत्र- कार :- अत इति। नारायणस्मृतिर्नाम परमात्मतत्त्वानुस्मरण सचि- दानन्द ब्रह्माहमस्मीति, तच ब्रह्मविचारैकसाध्यमेव; नारायणनामस्मर- णात्तु जन्मान्तरे लोकान्तरे वा ज्ञानप्रप्िद्वारा मुक्ति: स्वर्गप्राप्तिरिति दा। ननु मरणसमये वातादिरोगवशाच्चित्तस्य विक्षेपे मोहे वा सति तत्त्वस्मरणं नैव सम्भवेदिति कृत्वा अनियतफल एवायं ब्रह्मविचारोऽत आह सूत्रकार :- अत इति। ब्रह्मविचारादिह् जन्मनि ब्रझ्मापरोक्ष्ये
Page 57
४० शारीरकचतुस्सूत्रीविचारः।
सति तत्समकालमेव तस्य मुक्तवान्मरणसमये न तत्त्वस्मरणापेक्षाऽस्ति सस्य; किंच तत्त्वविदः प्राणोत्क्रमणलक्षणं मरणमपि नास्ति -- 'तस्य प्राणा- नोक्क्रामन्ति इहैव समवलीयन्ते इतिश्रुतेः। सति तु प्राणोत्क्मणे देहा- न्तरप्राप्तिरूपबन्धसद्धावात्कथ मुक्तिरित्याशङ्कयेत; तस्मात्पारब्घावसाने तत्त्वविदश्चितं विक्षित्तं मुग्घं वा इहैव लीयते प्राणादिभिस्सहेति नियत- मेव फलं ब्रह्मविचारस्य। अतेदं रहस्यम्-यस्य मरणसमये मम तत्त्वस्मरणं भविर्ष्याते वा नवेति मतिस्तस्य नास्ति ब्रह्मापरोक्ष्यमिति स जन्मान्तर एव पुनर्बूझविचाराद्वह्मापरोक्ष्येण मुच्यते; यस्य तुन. तादृशी मतिः प्रत्युत ब्रह्मणोऽद्वितीयस्य मम प्रारब्ादिकं कुत इत्येव मतिस्तस्य ब्रह्मापरोक्ष्यसत्वान्नास्ति पुनर्जन्मेति। ननु ब्रह्मविचारादिह जन्मनि ब्रह्मापरोक्ष्यं भवतीति निश्चया- भावात्कथ तत्र प्रवृत्तिरत आह सत्रकार :- अत इति। इह जन्मनि नास्ति किमपि फलं, जन्मान्तरे तु खर्गो भविष्यतीति ज्ञानादेव यज्ञादौ लोकस्य प्रवृत्तिदर्शनात्। इह जन्मनि ब्रह्मापरोक्ष्यं भवेद्वा न वा ? जन्मान्तरे तु भविष्यतीति ज्ञानात्कस्माद्गक्नविचारे प्रवृत्तिर्न स्यान्मुमुक्षोः; किंच ब्रह्मविचाराद्वक्मापरोक्ष्यालामेपि ब्रह्मपरोक्षज्ञानलाभापततश्च सत्य- लोकप्राप्तिरूपसगुणमुक्तिर्भवेदेवेति कथमत्रा प्रवृत्तिश्शक्कघेत। ननु अयं घट इतिवदयमात्मा ब्र्मेति सकृदुपदेशादेव ब्रह्मा- परोक्ष्यं स्याद्धटापरोक्ष्यवदिति कृत्वा व्यर्थोडयं ब्रक्षविचार इत्यत आह सत्राकार :- अत इति। अनादिकालमारभ्य वर्तमानस्य स्वात्मनि जीव्रमस्य सकृदुपदेशादनिवृत्तिरितिहेतोर्यावता कालेन स्वस्मिन् जीव- अ्रमनिवृत्तिपूर्वकं ब्रह्मत्वनिश्चयो भवेत्तावत्कालं ब्रह्मविचारः कर्तव्यः ।
Page 58
शारीरकचतुस्सूत्री विचारः । ४ १
ननु जीवस्य स्वस्मिन् जीव इति बुद्धिर्यदि भ्रमम्स्यात्तर्हि घटे घट इति बुद्धिरि अमस्स्थात् ; एवं ब्रबलेन प्रत्यक्षपमाणेन सिद्धाय जीवत्वस्थाआ्रान्तिपूर्षकत्वा देव 'त्वमिन्द्रस्त्वं चन्द्र' इति दातार प्रत वाचकस्सुतिषच्यनध तमवभ सी ति वेदव च नमप्य प्र मा ण मेव- 'अन्धो मणि- मविन्द'दित्ति वेदवचनबत्। एवमागमस्य प्रत्यक्षवाधितत्वाद्हुवारमुष- देशादपि जीवस्थ स्वस्मिन् मरस्मत्वबुद्धिन सम्भवति- जीवे ब्रह्मत्वस्या- सत्वात्तस्माव्यर्थोडयं विचार इत्यत आह सत्रकारः-अत इति। अतीन्द्रियार्थे आगमस्यैव प्रमाणत्वात्, 'तत्सृष्टा तेवानुपाविश'दिति शास्त्रण ब्रह्मण एव जीवरूपेण देहेषु प्रवेशम्य सिद्धान्तितत्वादीश्वरम्यैव सतो जीवस्य स्वस्मिन्नीतवरबुद्धेः प्रमात्वान्नाहमीश्वरः, किंतु जीव इति प्रत्यक्षम्य भ्रमत्वात् , तद्भ्रमनिवृत्तेश्च विद्वदनुयवसिद्धत्वान्न प्रत्यक्षे- णागमस्य बाघ :- तत्त्वमसीत्यागमाद्विचारसहकृतादहं ब्रम्माम्मीतिप्रत्यक्षम्य जायमानत्वात्तस्य व यथार्थप्रत्यक्षत्वात्। बहुवारमुषदेशादपि जीवस्व स्वस्मिन्व्रह्मत्वबुद्धिर्न सम्भवतीत्येतत्साहसवचनं- 'स एवाहमवस्थित' इत्यादिप्रह्रादादिव चनेमप्रस्तत्सम्भवस्थ निध्धेतुं शक्यत्वात्, सति कारणे कार्यम्यानुदय: कथमवसेय इति। ननु दानादेव मोक्ष :- मित्रेभ्यम्सुकतस्य, द्विषङ्धयो दुष्कृतम्य; याचकेभ्यो धनधान्यादेश्र, पुत्रेम्यो गृहक्षेत्रादेश्व दानेन प्रारब्घम्य भोगात्कयापादनेन च पुरुषस्य ब्रह्मत्वसिद्धेरत आह सूत्रकार :- अत इति। ब्रह्ममूतस्य ज्ञानिनएव सुकृतदुष्कृते मित्रशत्र भजेते, निराश्र- यत्वा 'त्तद्विद्रान् पुण्यपापे विधू'येति श्रतेः । किंच मित्रेभ्यम्सुकते धारा- पूर्बक दीयेतनाम- तेर्षा तत्प्रतिग्रहबुद्धिसत्त्वात्कर्थपुनरशत्रभ्यः पापं
Page 59
४२ शारीरकचतुस्सूत्रीविचारः ।
दात शक्यते? तेषां तत्प्रतिग्रहबुद्धयसत्त्वात्। अपि च मित्रेभ्य- र्स उतदानाज्जायमानस्य सुकृतातिशयस्य कथं स्वासम्बन्धित्वम् ? याच- केभ्यो धनादिदानजन्यस्य वा सुकृतस्य। नच ब्रह्मार्पणमिति दीयत इति वाच्यं, तद्दानस्य महाफलत्वस्मरणात्। किंच स्वसंसृष्टमन्तःकर- णादिकमज्ञानं च कस्मै दिशति येन स्वस्य ब्रह्मभावस्स्यात् ? नचान्त :- करणाद्यसङ्गोडइमिति मन्यत इति वाच्यं, तन्मननस्य ब्रह्मविचारैक- साध्यत्वात्ताद्दशमननवतो गृहादिसम्बन्धाभावेन दानासम्भवाच्च- नहि मदीयमिदं धनमिति मिथ्याज्ञानराहित्ये पुरुषस्य दानक्रियाकर्तृत्वं सम्भ- वति-सर्वस्यापि व्यापारस्य मिथ्याज्ञानपूर्वकत्वात्। तस्माद्ज्ञानादेव मोक्षो नतु दानात्। अत एव 'न्यास एवात्यरेचय'दिति श्रयते -- ज्ञानपूर्वकसर्वकर्मसन्न्यासस्य मोक्षहेतुत्वात्। ननु सत्याद्भवति मोक्ष :- 'सत्येन लोकान्जय' तीति श्रतेः, 'सत्यं वदे'दिति श्चतेश्र इत्यत आह सत्रकार :- अत इति। स्वर्गादि- लोकप्राप्तिहेतुरेव सत्यवाद :- लोकजयश्रवणात् ; किंच यस्य सत्यं विषयस्तदेव सत्यवचन, सत्यं च ब्रह्नैव, 'तत्सत्य'मिति श्रुतेः; तद्विषयक वचन च तत्त्वमसि, अहंब्रह्मास्मीत्यादिरूपमेव, तस्य च सत्यवचनस्य प्रयोगस्सत्यवस्तुज्ञानपूर्वक एव। घट इति शब्दप्रयोगस्य घटज्ञानपूर्व- कत्वदर्शनात्। सत्यवस्तुज्ञान च ब्रह्मविचारलभ्यमेवेति ब्रह्मविचारादेव ज्ञानद्वारा मोक्ष: । ननु 'तपसा ब्रह्म विजिज्ञास' स्वेति श्रुतेस्तपो मोक्षहेतुरत आह सत्रकार :- अत इति। तप आलोचन इतिघातोस्तप इत्यस्य ब्रह्म- विचार एवार्थ :; 'स तपोऽतप्य'तेति श्रवणात्। नहीश्वरः कृच्छादि-
Page 60
शारीरकचतुर्सूत्रीविचारः । ४३
लक्षणं तपस्तप्तुमर्हति। यद्वा तपसा चित्तैका्यलक्षणेनेत्यर्थः । तच्च चित्तैकाय्यं चित्तशुद्धिलक्षणं ब्रह्मजिज्ञासाहेतुः। अथ वा तपसा कृछादि- लक्षणेन चित्तशुद्धौ सत्यां ब्रह्मजिज्ञासा जायत इत्यर्थः । 'तपसाऽनाश- के'नेति श्रुतेः। तम्मा द्विजिज्ञासस्वेत्यस्य जानीहीत्यर्थे तप इत्यस्यालोचन- मर्थ :; ज्ञातुमिच्छेत्यर्थे चित्तशुद्धयादिकमर्थ इति बोध्यम्। ननु योगादेव ब्रह्मसाक्षात्कारः, किं विचारेणेत्यत आह सूत्र- कार :-- अत इति! योगादात्मसाक्षात्कारेसत्यपि न ब्रह्मसाक्षात्कार :-- योगिन: स्वसाक्षात्कृते आत्मनि ब्रह्मबुद्धयभावात्। सा ह्यहंब्रह्मास्मीति बुद्धिरबह्मविचारैकलभ्या, योगसिद्धस्य तु प्रतिबन्धक्षयादहंब्रह्मास्मीतिज्ञानं सुखेन जायत इति समाधिलक्षणोडयं योग: ज्ञाननिष्ठाया उपायभूतएव। ननु नित्यानित्यवस्तुविवेकवतो ब्रह्मविचारेऽधिकारः, ब्रह्म- विचारंविना: नित्यानित्यवस्तुविवेकानुदय इत्यन्योन्याश्रयोडत आह सूत्रकार :- अत इति। ब्रहमैकमेव नित्यं, तदन्यत्सर्वमनित्यमिति ज्ञानमात्रं ब्रह्मविचारंविनापि वेदान्तपाठादापाततो जायत एव पुरुषस्य । ब्रह्मविचारानन्तरं जायमानो विवेकसतु अहमात्मैक एव ब्रह्माभिन्नत्वा- न्नित्यः, अन्यत्सर्वे ब्रह्मभिन्नत्वानिथ्येत्येवंरूप इति नान्योन्याश्रयः; अत इत्यस्य ब्रह्मविचारसाधनसाध्यभूतनित्यानित्यवस्तुविवेकयोर्भेदा- दित्यर्थः । ननु यदि ब्रह्मवित्कश्चनास्ति तर्हि तमुपसृत्य मुमुक्षुणा तहा- विचारः कर्तु शक्यते, नतु सोडस्ति, योऽहं ब्रह्म वेदेति मन्यते तम्या- ब्रह्मवित्त्वात्, 'यदि मन्यते सुवेदेति दभ्रमेवापि नून'मिति श्रुतेः । यश्च नाहं ब्रह्म वेदेति मन्यते तस्य ब्रह्मवित्त्वं सर्वविदितमेवेत्यत आह
Page 61
शारीसकचतुरुसूत्री विचारः।
सूत्रकार :- अत इति। ब्रहाविदएक ब्रह्मत्वाद्गम्मणश्च सूपत्याद्दवि- देकफ्वास्ति, तदन्यतसर्वे मिथ्यैव; ब्रह्मणोऽपि तस्य ब्रम्मवित्त्वं व्रक्षा- कारवृत्तिप्रतिफलित चैतन्या भेदप्रयुक्तमाध्यासिकमेव, घटद्रष्ट्ृत्ववत्स चः वह्मविदहं ब्रह्म वेदेति न मन्यते, येन तस्याब्रह्मवित्त्वं स्यात् । किंतु ब्रह्मैवाहमिति मन्यते; ततस्तस्य युक्तमेव ब्रह्मवित्त्वं, य एवं ब्रझ्मैवाह- मिति दृढनिश्वयस्तस्य ब्रह्मविदस्समीपमुपसृत्य ब्रह्मविचारं कुर्यान्मुमुक्षुः । अत इत्यस्व ब्रह्मविदस्सत्त्वादित्यर्थः ।, ननु योऽहं ब्रम्मेति वेद स एव सर्व द्रह्मेति वेद; तस्य च ब्क्षविद: ब्रह्मातिरिक्तवस्त्वभावात्कथ शिष्योऽयमिति वेदनम्? येन शिष्यस्य महावाक्योपदेशं कुर्यादत आह सृत्रकारः-अत इति ॥ यस्सर्व ब्रझ्मेति वेद स शिष्यो अ्रह्मिति वेदैव, नतु शिष्य इति कश्चन नास्तीति। ततः ब्रह्मात्मकस्य शिष्यस्य शास्त्रस्य वा सत्त्वाद्युज्यत एव ब्रा्मविदशशिष्यंप्रति शास्त्रोपदेशः । ननु द्वैतसत्त्वे व्यवहारसत्त्वं, व्यवहारसत्त्वे द्वैतसत्वमित्यन्यो- न्याश्रयान्न द्वैतस्य व्यावहारिकत्वमत आह सूत्रकारः-अत इति। बीजांकुरयोरिव द्वैतव्यवहारयोरन्योन्याश्रयस्य, प्रवाहाना दित्वेनादुष्टत्वात्पर- मार्थदशायां द्वैतानुपलम्भाच्च द्वैतं व्यावहारिकमेव। ननु परमार्थदशायां यदि ब्रह्मास्ति तर्हि दशया तया ब्रह्मण- सत्यादेव सद्वितीयत्वमिति कथमद्वितीयब्रह्मसिद्धिरत, आह्. सूत्राकार :- अत इति। ब्रह्मणि व्यवहारपरमार्थदशाद्वयस्यापि कस्पितव्वात्। नच कस्तिाया दशायाः कथ परमार्थत्वमिति वाच्यं, तद्गोचरब्रद्हष्टया तक्यास्तथात्वस्योक्तत्वात्।
Page 62
शारीरकचतुर्सूत्रीविचार:। ४५
जीवेश्वसा दिनामार्थक्द्रहमनामार्थावपि कल्पितावेवेति किं कल्पितब्रह्मविचारेणेत्यत आह सूत्रकार :- अत इति। येन नामार्थौ कल्पिती: तस्पैव ब्रह्मत्वाद्गह्मनाम्नः कल्पितत्वेपि तदर्थस्य कल्पकस्याकल्पि- तत्वमेव, तस्यापि कल्पितत्वे तत्कल्पकस्यापि कल्पितत्वमित्यनवस्थादोषात्। वक निर्धर्मकस्य ब्रह्मण: कथं कल्पकत्वमिति वाच्य, मायया तदुपत्तेः । वस्तुतस्तु यत्र मायया नामरूपे कल्पिते तदेव ब्रह्मति कथं सर्वकल्प- नघिष्ठानस्य ब्रह्मणः कल्पितत्वम् ? न कथमपीति वेद्यम् । ननु तत्त्वविदा आत्मानन्दानुभवव्यग्रेणैव भवितव्यं- द्वैतनिरीक्ष- पास्य दुःखहेतुत्वादत आह सूत्रकार :- अत इति। योगिनैवात्मान- न्हानुभवव्यग्रेण भवितव्यं- तदनुभवितृबुद्धितादात्म्याध्याससत्त्वात्तस्य; तत्बवित्त्वातमैवेति न तस्य तथात्वं विधीयते, उपपद्यते वा। नचैवं तच्वविदा तूष्णीमेव स्थातन्यमिति वाच्यं, तूर्ष्णीस्थितेरपि निवृत्त्यात्मि- काया: क्रियायास्सङ्काताश्रयाया निष्किये आत्मन्ययोगात्। तस्मान्न तन्वविदः कोऽपि विधि: कोऽषि न निषेध:, 'निसरगुण्ये पथि विचरतां को किकि: को निषेध' इति शुकानुशासनात्। किं तर्हि ? यथा- प्रारब्धं तत्त्वविदो देहेन्द्रियादिसङ्घातो व्याख्यानादौ प्रवर्तते निवृतति वा भजते। नचैवं द्वैतदशनं तत्त्वविदो दुःखजनकं- द्वैतस्य मिथ्याभूतस्य रज्जुसर्पतुल्यस्य तत्त्वविदो दुःखाजनकत्वात्। द्वैतस्य मिथ्यात्वेऽपि तन्वविदो निष्किरियत्वेऽपि तत्सङ्कातस्य यथाप्रारब्घ प्रवृत्तौ वा निवृत्तौ वा वर्तमानत्वेऽपि उपपन्नायाधिकारिणे शिष्याय तत्त्वोपदेशस्तत्त्व विदाSवश्यं कर्तव्य एव; अन्यथा सम्प्रदायोच्छेदप्रसङ्गादयं च. विधिस्तत्वविदो लेकानुमहार्थ शासरण कल्पित इति नैताक्ता काप्यात्मनि क्रिया
Page 63
४६. शारीरकचतुस्सूत्रीविचारः।
भववितुमर्हति। नच सङ्गाते तत्त्वविद आत्माभिमानाभावादात्मीयाभि- मानाभावाच्च कथमुपदेशनमिति वाच्यं, गमनभोजनादिवद्यच्छयैव तत्सिद्धेः। तत्त्वविच्चौदनाभावेऽपि सङ्गातस्य वासनावशात्तत्रतत्र प्रवृ- त्युपपत्ते :; तस्माद्यावत्पर्यन्त तत्त्ववित्सङ्कातस्य गमनभोजनादिमत्त्वं, ताव- त्पर्यन्तं शिष्योपदेश आवश्यक एवेति न सम्प्रदायोच्छेदः । अत इत्यस्य तत्त्वविदरिशष्योपदेशस्य कर्तव्यत्वादित्यर्थः । ननु ज्ञानिनश्शिष्योपदेशस्य कर्तव्यस्याव शेषादकृतकृत्यता ज्ञान- मात्रादत आह सूत्रकार :- अत इति ज्ञानिनरि्शिष्योपदेशो न कर्तव्यशेष: भोजनादिवद्। किंतु यदि शिष्यस्स्यात्तर्हि न्रयान्नोचेत्तूप्णीं भवेदिति शिष्योपदेशेतरव्यापारराहित्यमेव बोध्यते; क्षुधायां तृष्णायां वा सत्यां भैक्ष नदीजल वा अनुभवतस्तत्त्व विदस्तदुभयं यथा न कर्तव्य- शेषभूत तथा शिष्ये सति तत्त्वोपदेशोऽपीति भावः । अतइत्यस्य शिष्योपदेशस्य भोजनादिवदकर्तव्यशेषत्वादित्यर्थः । ननु तत्त्वविदो मतान्तरप्रतिक्षेपो न युक्तोऽत आह सूत्र- कार :- अत इति। मतान्तरप्रतिक्षेपंविना स्वमतस्याद्वैवस्य सर्वोप- निषत्प्रमितस्याप्रतिष्ठितत्वादित्यर्थः । नतु तत्त्वविदा शत्रविजय: कर्तव्यएवेत्यत आह सत्रकार :- अत इति। तत्त्वविद्दृष्ट्या शत्रोरेवाभावादित्यर्थः । 'द्विषन्ति परकाये मां मानिनो भिन्नदर्शिनः । तस्य भिन्नदृशो मृत्युर्विधतते भयमुल्बण'- मिति भागवतादतत्त्वविदएव शत्रुमित्रादिद्वैतबुद्धिः, नतु सम्यग्दर्शिनः, सम्यगदर्शी हि समं पश्यति सर्वत्र समवस्थितमात्मानं- एकत्वादात्मनः । नचैवं स्वोपदेशाद्विदितवत्त्वायाप्यर्जुनाय किमिति कृष्णः कुरु युद्ध
Page 64
शारीरकचतुस्सूत्रीविचारः । ४७
मित्युपदिदेशेति वाच्यं, कृष्णवदर्जुनस्यापि भूमारहरणार्थमव तीणत्वेन तत्प्रारब्धानुगुणं युद्धे प्रवर्तितव्यत्वात् ; नतु तत्प्रवृत्तिबन्धकरी- फलाभि- सन्ध्यहक्कारयोरभावात्। अतएवार्जनादिकर्तृकं तद्युद्धादिकर्मापि नैव कर्म, यतेर्भोजनादिकर्मवदिति। ननु तत्त्वविदतत्त्वविदोर्द्वयोरपि व्यवहारसत्त्वे तद्विवेकस्य दुग्रहत्वेन कस्य समीपमुपसर्पेनमुमुक्षुश्श्रवणार्थमत आह सूत्रकार :- अत इति। सुखदुःखप्रात्तौ यस्य हर्षवि्रादाभावः, यस्य नान्तरशत्रु- कृतपरिभवः, यस्य मुखं सर्वदापि प्रसन्न, यस्य देहजीवितादिष्वपि नास्ति स्पृहा, यस्य मनइन्द्रियजयोडस्ति, यस्य वेदान्तशास्त्रार्थपाण्डित्य- मस्ति स तत्त्वविदिति विवेकस्य सुग्रहत्वात्। न चैवंविधस्यापि ब्रह्माप- रोक्ष्यमस्ति वा, उत ब्रह्मपरोक्षज्ञानमेवेति निश्चेतुमशक्यत्वाङ्गह्मापरोक्ष- ज्ञानिन एव सुमुक्षूपसृप्यत्वात्कथ तद्विंवेक इति वाच्य, ब्रह्मापरोक्ष्यं
रोक्ष्याभावेऽपि तदुपदेशादप्रतिबन्धस्य शिष्यस्य ब्रह्मापरोक्ष्यं स्यादेवेति न तद्विवेक आवश्यकः। नच सति शास्त्रार्थज्ञाने कुतो न स्याद्गह्माप- रोक्ष्यमिति वाच्यं, ब्रझ्मलोककामादिप्रतिबन्धरहितादेव शास्त्रार्थज्ञाना- द्रह्ाापरोक्ष्यमिति सिद्धान्तात् ; यथा मणिसमवघानादिप्रतिबन्धरहिता- दग्नेरेव दाहोदयः। तस्मात्परोक्षमपरोक्ष वा ब्रह्मविदं मुमुक्षुरुपसर्पेत्। ननु निष्कामस्यैव ब्रह्मविद्यायामिकारान्मुमुक्षुत्वस्य कथमधि- कारिविशेषणतेत्यत आह सूत्रकार :- अत इति। मोक्षकामस्याका- मत्वादित्यर्थः । 'अहक्कारचिदात्मानावेकीकृत्याविवेकतः । इंद मे स्या- दिंद मे स्यादितीच्छा: कामशब्दिता' इत्यविवेकमूलकेन्छानामेव काम-
Page 65
४८ शारीरक चतुस्सृन्रीविचार: ।
त्वेन विवेकमूलकमोक्षेच्छाया अकामत्वात्। अतएवं तत्त्वचिदो भिक्षादिकामोऽप्यकामएव- अबन्धकत्वात् 1 ननु 'भिद्यते हृदयग्रन्धिश्छिद्यन्ते सर्वसंशयाः क्षीयम्ते चास्य कर्माणि तस्मिन्दष्टे परावरे' इतिश्रुतेर्ब्हज्ञानादेव कामक्षम, निष्काप- स्यैव ब्रह्मविद्याधिकार इत्यन्योन्याश्रयदोष; नच हृदयग्रन्धिः कामो नेति वाच्यं, कामग्रन्थिस्वरूपेण व्याख्यातावाक्यशेषत इति विद्यारण्य- वचनादत आह सूत्रकारः-अत इति। स्वर्गादिकामरहितस्य ब्रम- विद्यायाम बिकारः, ब्रह्मणि दृष्टे तु अहक्वारचिदात्मनोरेकीकरणस्य नाशा- त्ससूलं कामनाश इति नान्योन्याश्रयः; ब्रह्मज्ञानात्प्राक्कामस्य निमलै नाशाभावात्तादशनाशस्य ब्रह्मज्ञानसाध्यत्वात्कामनाशमात्रस्य ब्रहाविद्याधि- कारसम्पादकत्वाच्चेत्यतश्शब्दार्थः । ननु 'सोऽनन्तोऽन्तकर: कालोऽनादिरादिकृदव्ययः, जन जनेन जनयन्मारयन्मृत्युनान्तक' मिति भागवतात्काल एव ब्रम्म। तद्विशेष- विज्ञानार्थ ज्यौतिषमेवाध्येतव्यमत आह सूत्रकार :- अत इति। कालस्य दृश्यत्वाज्जन्यत्वात्सविशेषत्वात्परमार्थदशायामभावेन सान्तत्वा- द्धयहेतुत्वेन दुःखरूपत्वा्च न ग्रह्म्त्व, कलनात्मिका काचनेश्वरश्षक्तिर्हि काल: मायामयत्वान्मिथ्यैव। यदि तु नित्योऽनन्तोऽमादिश्र काल इत्याग्रहस्तर्हि ब्रह्मणो नामैव काल इति- कलयति जानातीति काल इति व्युत्पत्त्या ब्रह्मवाचित्वात्तस्य 1 ननु कर्मैव ब्रह्मेत्यत आह सूत्रकारः-अत इति। यदि कर्म किया यदि वा अपूर्वमुभयथापि जन्यं जडमनित्यं मिथ्यैधेति न कर्म ब्रह्म; कर्मण: फलदानश्रवणं तु निमिसमात्रत्वप्रयुक्त; कर्म हिं निमिषी- कृत्य प्राणिनां सुखादिकमीश्वरः प्रदत्ते।
Page 66
७ शारीरकचतुस्सूत्रीविचारः । ४९
ननु कालकमस्वभावादिसापेक्षस्सन्नेवेश्वरम्सृषट्यादिकं करोती- त्यस्वतन्त्रएवेश्वर इति कथ तस्य ब्रह्मतवं ? कथ वा ईश्वरस्यैवाविद्यमान ब्रह्मत्वं जीवस्य? कथ वा तदर्थोडयं ब्रह्मविचारोऽत आह सूत्रकार :- अत इति। स्वतन्त्रं ब्रह्मैव जीवेशभावमापद्यते उपाधिवशादिति जीवेशयोर्वह्मत्वे कापि न विप्रतिपत्तिः; नापि कालादिसापेक्षत्वमात्रे- णेश्वरस्ष्य स्वातन्त्रयहानिः- दण्डचक्रादिसापेक्षस्यापि कुलालस्य घटसृष्टी स्वातनपयदशनात। जीवेश्वरविशेष्यभूतचैतन्यम।त्रस्य सृज्यत्वस्रष्टृत्वादि- धर्माभावा्च। अपि च ईश्वरः कालादीन्नापेक्षते, किंतु तदाश्रितमायैव कालादीनपेक्ष्य सृष्टयादिसङ्कल्पवती भवति- मायाधर्मत्वात्सङ्कल्पस्य, मनोघर्मवत्। नच जडायाः कथ सङ्कल्प इति वाच्य, चैतन्याभास- साहित्येनाजडत्वान्मायायाः । ननु 'अभ्ब! त्वह्दर्शनान्मुक्तिर्न जाने स्नानजं फल'मिति वचना- त्परम पवित्रं मुक्तिदायक च गङ्गाजलमेव संसेव्यं मुमुक्षुणेत्यत आह सूत्रकार :- अत इति। आत्मैक एव परं पवित्रं वस्तु- यदाभासवशा- देव देहस्यापि पवित्रत्वलाभः; नहि आत्माभासरहित देहं गङ्गाजलं बहुदिनैरपि पवित्र कर्तुमीष्टे; सचिदाभासदेहसम्बन्धादेव केशनखानामपि पवित्रत्वसिद्धिः- छिन्नकेशनखानामपवित्रत्वदर्शनात; गङ्गाजलस्याप्या- त्माभासवद्देहसम्बन्धवशादेव पावनत्वलाभ :- विष्णुपादोद्धवत्वाच्छिव- शिरोधृतत्वाच्च खलु गङ्कायास्तादृशवैभवलाभः । इयं च गङ्गा न मनः पावयितुमीष्टे- मनःपूतेश्शमादिसाध्यत्वात्परन्तु देहशुद्धिं विधत्ते; सापि देहशुद्धिर्य्रान्तिमात्रमेव- अस्थिमेदोमांसपुरीषादिमयम्य देहम्य चण्डाल स्पृष्टघटस्येव जलसेक/च्छुद्ययोगात्, एतदशुचिदेहस्परी प्रयुक्ताशौचस्य
Page 67
५० शारीरकचतुस्सूत्रीविचारः।
गङ्गाजलानिवर्त्यत्वाच्। तद्धयाशौंच देहविलक्षणात्मज्ञानादेव निवर्तते- देहें अहंममाभिमानप्रयुक्तत्वाद्देहस्पर्शस्य। तस्मात्परं पवित्रं ज्ञानमेव- आत्मविषयकत्वात्। आत्माहि परं पवित्रमतएव ज्ञानमेव मुक्तिप्रदं -- सर्वाशुद्धिनिवर्तकत्वात्; अज्ञानकृता ह्यशुद्धिस्सर्वापि जीवस्य। ज्ञाना- दज्ञाननिवृत्तौ कथमशुद्धिसत्त्वम्? तस्मान्न गङ्गासेवया मोक्षलाभः, स्वर्गादिकं तु भविष्यति 'सर्गारोहणसोपाना' मिति दर्शनादिति। ननु ज्ञानादेव मुक्तिरिति न नियम:, शिशुपालदन्तववत्रयो- र्वैरादपि श्रीकृष्णसायुज्यस्य जातत्वादत आह सूत्रकार :- अत इति। जयविजययोस्सनकादिशापवशाद्भुवि जन्मत्यमनुभूय पश्चाद्वैकुण्ठं गतयो- स्सायुज्यस्यानवकाशात्, जयविजयावेव हि शिशुपालदन्तववत्रौ। नच श्रीकृष्णे तयोस्तेजस्संक्रान्तमिति वाच्यं, यदि जीवस्तेजोरूपस्स्यात्तर्हि तत्सक्रान्तिस्स्यात्, जीवो ह्यरूपः । नच लिङ्गशरीरस्य तैजसत्वा- ल्लिङ्रिनोस्तयोरासीत्सायुज्यमिति वाच्यं, लिङ्गसत्त्वे सायुज्यासम्भवालिङ्गं हि भेदकं जीवेशयो :; नच श्रीकृष्णे प्रवेशानन्तरं तयोलिड्गं छिन्नमिति वाच्यं, लिङ्गच्छेदंविना श्रीकृष्णे तयो: प्रवेशस्यैवासम्भवात्, नहि घटेऽ- नष्टे घटाकाशो महाकाशे प्रविशेत् ; अपिच श्रीकृष्णस्य व्यापित्वेन शिशुपालादिदेहान्तरेव श्रीकृष्णे शिशुपालादिजीवप्रवेशस्स्यादिति देहा- द्वहिर्निर्गमनमपि व्यर्थमेवेति शिशुपालादीनां सायुज्यमप्रमाणमेव। ननु ज्ञानान्न मुक्तिः किं त्वीश्वरसङ्कल्पादेवेत्यत आह सूत्र- कार :- अत इति। अहमेन संसारान्मोचयेयमितीश्वरसङ्कल्पः किं निर्निमित्त उत सनिमित्त: ? आद्ये-निर्निमित्तादेवाहमेनं मुक्तं संसार- येयमिति सङ्कल्पादीश्वरस्य पुनर्वन्धस्स्यान्मुक्तस्येति न मुक्तेरपुनराव-
Page 68
शारीरकचतुस्सूत्रीविचारः । ५१
र्तित्वम्। द्वितीये- निमितं वक्तव्यम्। नच भक्तिरेव निमित्तमिति वाच्यं, भक्तिर्भजनं किं ज्ञाननिष्ठारूपमुत कर्मयोगरूपं ? यद्वा ध्यान- योगरूपम् ? नाद्यः- ज्ञाननिष्ठस्य जीवेश्वरादिद्वैताभावेन कथपुनरीश्वर- सङ्कल्पसत्त्वम् ? न द्वितीय :- कर्मयोगस्य विविदिषाजनकत्वेनेश्वर- सङ्कल्पाजनकत्वात्। नान्त्य :- आत्मस्वरूपचिन्तनात्मकध्यानयोगाव- स्थितस्य दृष्टया आत्मभिन्नेश्वरस्यैवाभावात्; अदि च कर्मादिभिरारा- वितस्येश्वरस्य जायमानस्सङ्कल्पः पुरुष ज्ञानप्रदानद्वारैव मोचयति संसारान्न तु साक्षात्- अिष्ठानयाथार्थ्यज्ञानंबिना आरोप्यभ्रमानिवृत्तेः । अतएव ज्ञानादेव मुक्तिरिति घण्ट्राघोषः। नचायोध्यापुरवासिजनं सर्वमपि विनैव ज्ञानं रामचन्द्रः परमं पदं निनायेति किं ज्ञानेनेति वाच्यं, रामचन्द्रेण ते सर्वे वैकुण्ठमेव नीता नतु कैवल्यमिति। नहि सर्व्यापित्रम्मलक्षणं कैवल्यं केनचित्कश्षिन्नीयते, तथात्वे सर्वव्यापित्व- स्यैव भङ्गप्रसङ्गात्; नहि रामचन्द्रस्स्वयं वैकुण्ठं गच्छन् स्वजन कैवल्यं प्रापयामासेति वक्तुं शक्यते। तस्मादीश्वतसङ्कलपो ज्ञान प्रत्येव हेतुर्न तु कैवल्यस्य। अत्रायं क्रमः- कर्मयोगादिना तोषितस्येश्वरस्यानुग्हा- त्पुरुषस्य ज्ञाननिष्ठायां प्रवृत्तिः, ततो ज्ञानप्राप्तिस्ततो विदेहकैवल्यमिति, 'ईश्वरानुग्रहादेव पुंसामद्वैतवास'नेति वचनात्। अतो ज्ञानेतराणि सर्वाण्यपि मुक्तिप्रति बहिरङ्गसाधनान्येव। ननु 'जातस्य हि ध्रुवो मृत्यु'रिति शास्त्रात्कस्मिंश्चित्काले जातस्य लिङ्गस्य देहस्येव कालान्तरे भब्गस्स्यादेवेति किं ज्ञानेनेत्यत मह सूत्रकार :- अत इति। लिङ्गस्य ज्ञानादेव सङ्गो नतु काला- त्लयेऽपि लिङ्गसत्त्वदर्शनात्; भवतु वा कालालिङ्कमङ्गो न तावता
Page 69
५२ शारीरकचतुर्सूत्रीविचारः।
तवेष्टसिद्धिः । नहि काल: कारणान्तरं बिना स्वयमेव कंचिन्नाश- यितुमीष्टे, देहादेरपि रोगादिनैव प्रारब्धावसानकाले मृत्युर्न तु काल- मात्रात्, कालो द्यटष्टादिवन्निमितकारणं कार्यमात्रंप्रति; तस्माद्ज्ञाना- देव काले लिङ्गमङ्ग: । ननु ज्ञानिनोऽपि प्रारनधावसांनकालएव लिङ्गभङ्ग इति कथ भोक्षम्याद्विनीयत्वं सत्त्वात्कालस्येत्यत आह सूत्रकारः-अत इति। यावललित्तमस्ति तावदेव कालोडस्ति, यदा तु लिङ्गभङ्गस्तदैव कालस्यापि भङ्गलव; तस्माद्वद्धदृष्टथैव शुकादिमुक्तिकालसत्त्वं नतु मुक्तहष्टया । एनेन सृष्टे प्राक्कालेऽपि नाद्वितीयब्रह्मसिद्धिः कालस्य सत्त्वादिति शक्का प्रत्युक्ता- बद्ूदृष्टथव प्राक्काल इत्युक्तत्वात्। श्रुत्या कालाभावे पुरेत्युक्ति: कालवासनया युत शिष्यंप्रत्येवेति विद्यारण्यवचनात्। ननु परमार्थदश यां कि द्वैउमस्ति वा नवा? आद्ये- अद्वैता- सिद्धि; द्वितीयेपि सैच, द्वैताभावस्य सत्त्वात्। अभावो हि पदार्थः, द्रव्यगुण कर्मसामान्यविशेषसमवायाभावास्सप् पदार्था इति न्यायशास्त्रात्; अभावपदार्थाभावे अमावशव्दस्य निर्विषयत्वापत्तेः । घटाभावः पटाभाव
कार :- अत इति। अभावस्य सत्ता नास्ति गावाभावयोर्विरोधे नाभा- वस्य सत्ताऽयोगात्, अभावोऽस्तीति प्रतीत्यभावाच्च। प्रतियोगिसत्तया सत्तावत्त्वे नाभावस्यास्वतन्त्रपदार्थत्वं, घटाभावोऽस्तीति प्रतीतिसत्त्वात्। अभावस्याधिकरणस्वरूपत्वाद्द्वैताभावो ब्रह्मैव, केवलाभावस्यासत्त्वेऽपि सप्रतियोगिकाभावस्य सत्त्वादभावस्य नञ्शब्दस्य वा न निर्विषयत्वम्। यदितु घटाभावो न भूतलस्वरूप इत्यमिनिवेशस्तर्हि शशश्रुङ्गवच्छून्यरूप
Page 70
शारीरकचतुरसूत्रीविचारः। ५३
एवेतीष्यताम्; नच शून्येनापि सद्वितीयत्वं ब्रह्मग इति वाच्यं, शून्यस्य शून्यत्वादेव ब्रह्मणस्सद्वितीयत्वजननासमर्थत्वात्। यदि शून्यं स्वयमस्ति तर्हि अन्यस्य स्वेन सद्वितीयत्वं जनयेत्, नतु स्वयमस्ति- शून्यस्य सत्तायोगात्सत्तावतश्शून्यत्व।योगाच्च। नहि शशशृङ्गस्यास्तित्वं, नापि सतः पशुशृङ्गस्य शून्यत्वं; तस्मात्सिद्धमेकमेवाद्वितीयं सच्िदानन्द ब्रह्म वेदान्तशास्त्रस्य विषयभूतं फलभूत च । एवमतशशब्दस्य मितमतिनापि शताधिकार्था मया दर्शिताः, बुद्धिमद्धिरितोपि बहव ऊह्याः । नचान- न्दाश्रमिणा वर्णकचतुष्टयमेव दर्शितमिति वाच्यं, किं तस्यैव मुखे जात- स्सूर्योदय: ? यद्वा ग्रन्थविस्तरभयेन सहि मार्ग प्रदर्शितवान् दिआ्मात्रेण। न तावता चत्वार एवार्था इति नियन्तुं शक्यते; सर्वस्यापि शारीरक- मीमांसाशास्रार्थस्य वृक्षस्थानीयस्य बीजभूते सूत्रेऽस्मिन् सूक्ष्मरूपेण तत्त्वमुचितं हि। अत एव सूत्रकारोडत इति सामान्याकारेण निर्दिष्टवान्, नतु हेतुविशेषवाचिपदमुपन्यस्तवान्। मया च दर्शिता अर्थास्सूत्रतद्धाष्यस्पर्शिन एवेति नैषामप्रामाव्यं, नापि वैयर्थ्य। विस्तरेण भाष्यादावुक्तानामेषां अंशानां संग्रहेण मयोक्तत्वे प्रतिपत्तृणां सौकर्यस्य प्रयोजनत्वात्। त एवार्थाः पुनम्संग्रहेण प्रदश्यनते- प्रतिपतप्रतिपत्ति- सौकर्यातिशयार्थम्। तथाहि- १ संसारस्याध्यासपूर्वकत्वात्। २ उत्तमाधिकारिणो वेदान्तविचार एवाधिकारात्। ३ कर्मणा मोक्षाभावात् । ४ समुच्चयस्य युगपदेकपुरुषानुष्ठेयत्वासम्भवात्।
Page 71
५४ शारीरकचतुस्सूत्रीविचारः ।
६ मुमुक्षोर्ञानादेव कृतकृत्यत्वसिद्धेः । ७ भक्तेस्साक्षान्मोक्षहेतुत्वाभावात्। ८ भिन्न्ात्मज्ञानस्य भ्रमत्वात्। ९ ईश्वराद्भिन्नोऽहमिति ज्ञानस्व भयहेतुत्वात् । १० अर्चाभजनस्य मोक्षाहेतुत्वात्। ११ शास्त्रान्तराध्ययनेन ब्रह्मात्मज्ञानालाभात्। १२ नित्याप्तस्याप्यज्ञातस्य ब्रह्मणः प्राप्तेः पुरुषार्थत्वात् । १३ ज्ञानाग्निना सर्वकर्मभस्मीभावात्। १४ यावद्देहपातं सतोऽपि तत्त्ववित्संसारस्य दग्घपटवद्बन्धकत्वात्। १५ तत्त्वविदस्संसारस्यैवाभावात । १६ प्रारब्घफलभोगस्य बुद्धिकर्तृकत्वेनात्मनस्तद्भ्ोगाभावाल्।
१८ मोक्षस्यैव नित्यनिरवद्यनिरतिशयसुखरूपत्वात्। १९ ज्ञाननिष्ठाया एव जनार्दनसेवात्वात् । २० महेश्वरभजनस्य चित्तशुद्धयर्थत्वात्। २१ हिरण्यगर्भपदस्य नित्यनिरवध्यनिरतिशयसुखरूपत्वाभावात्। २२ आदित्यस्य कार्यत्वेन जीवत्वात् ।
२४ मोक्षस्य भावत्वेन दुःखध्वंसरूपत्वाभावात्। २५ शून्यस्य सत्ताऽयोगात्मतीत्ययोगाच्च। २६ अचलमतस्य दुष्टत्वात्। २७ साधनचतुष्टयसम्पन्नैरेव ब्रह्मविचारस्य कर्तव्यत्वात्।
Page 72
शारीरकचतुरसूत्रीविचारः । ५५.
२८ कृत्सस्य जगतो विशिष्य ज्ञातुमशक्यत्वात्। २९ ब्रह्मज्ञानेन जगद्ज्ञानलाभात् । ३० महावाक्यगततदादिपदार्थस्य वेदान्तवाकयैरेव ज्ञातव्यत्वात्। ३१ स्फोटब्रह्मकल्पनस्य गौरवादप्रमाणत्वाच्च। ३२ परमाणूनां जगत्कारणत्वाभावात् । ३३ सभावस्य स्वंप्रति कारणत्वायोगात्। ३४ आकाशस्य सादित्वेनानित्यत्वाल्। ३५ प्राणस्य कार्यत्वेनाब्रह्मत्वात्। ३६ ब्रह्म गमयतीति श्रुतिगतब्रह्मशब्दस्य कार्यन्रह्मवाचित्वात्।
३८ विदुषामात्मत्वेऽप्य्विदुषां दूरस्थतवेन जिज्ञासितत्वोपपत्तेर्बूह्मणः । ३९ शास्त्रस्याखण्डाकारवृत्तिजनने विनियोगात् । ४० सन्निकृष्टविषयकशास्त्रस्यापरोक्षज्ञानजननस्वभावात्। ४१ अनुमानस्याप्रतिष्ठितत्वात्। ४२ कार्यलिङ्गकानुमानेनेश्वरसिद्धावपि प्रत्यगभिन्नब्रह्मासिद्धेः । ४३ शासत्रैकप्रमाणकस्यापि ब्रह्मणो नित्यापरोक्षत्वात्। ४४ सिद्धेऽप्यद्वैते असिद्धत्वभ्रमेण साध्यत्वस्य सत्त्वात्। ४५ एकस्मिन्नपि ब्रह्मवस्तुनि भ्रान्त्या जीवेश्वरादिद्वैतसत्त्वात्। ४ ६ उपनिषदामखण्डाकारवृत्तिज्ञानजनकत्वेन क्रियार्थत्वात्। ४७ अक्रियार्थत्वेऽप्युपनिषदामज्ञातार्थज्ञापकत्वेन प्रमाणत्वात्। ४८ प्रमातुरेव साक्षित्वात्, साक्षिण एव ब्रह्मत्वात्। ४९ पुरुषस्योभयात्मकत्वात्।
Page 73
५६ शारीरकचतुस्सूत्री विचारः ।
५० ऋणत्रयापाकरणस्यानपेक्षितत्वात्। ५१ अपुत्रत्वस्य मोक्षाप्रतिबन्त्कत्वात्। ५२ सन्न्यासस्य विहितत्वात्। ५३ ऋतौ भार्यामुपेयादिति विधे: परिसङ्गयारूपत्वात् । ५४ फलत्यागस्य साक्षान्मोक्षहेतुत्वात्। ५५ ज्ञानस्य सर्वकर्मसन्न्यासपूर्वकत्वात्। ५६ मस्मलेपादेश्शरीरशुद्धयर्थत्वेन मोक्षाहेतुत्वात्। ५७ भिक्षटनादेरकर्मत्वात् । ५८ ब्रह्मण आपाततः प्रसिद्धत्वात। c ५९ मुक्तेस्स्वप्रकाशानन्दरूपत्वेन पाषाणतुल्यत्वाभावात् । ६० स्फुरतोऽपि निजानन्दस्य माययाऽडवृतत्वात्। ६१ ब्रह्मण्यज्ञानसत्त्वात। ६२ ब्रह्माकारवृत्तेरज्ञानविरोधित्वात्। ६३ परमार्थतस्सर्वाभावेऽपि यावद्यवहारं सर्वस्य सत्त्वात् । ६४ मुक्तदृष्टया सर्वद्वैताभावात्। ६५ प्रतिपुरुषमज्ञानभेदात्। ६६ काशीमरणादिना मुक्त्यभावात्। ६७ नारायणनामोच्चारणमात्रेण मुक्त्यभावात्। ६८ ब्रह्मसाक्षातकारसमकालमेव मुक्तिलाभात्। ६९ तत्त्वविदः प्राशोत्क्रमणाभावात्। ७० ब्रह्मविचारस्य नियतफलत्वात्। ७१ अपूर्वफलत्वेऽपि प्रवृत्तिदर्शनात्।
Page 74
८ शारीरकचतुस्सूत्रीविचारः । ५७
७२ ब्रह्मात्माभेदनिश्चयपर्यन्तं ब्रह्मविचारस् कर्तव्यत्वात्। ७३ ईश्वरे सवस्मिन् पुरुषस्य जीव इति ज्ञानस्य भ्रमत्वात् । ७४ प्रत्यक्षेणागमस्याबाधितत्वात् । ७५ दानस्य मिथ्याज्ञानपूर्वकत्वेन मोक्षाहेतुत्वात्। ७६ सत्यवादस्य स्वर्गहेतुत्वाद्। ७७ औपनिषदवादस्यैव सत्यवादत्वात्। ७८ तपस आलोचनार्थकस्य ब्रह्मविचाररूपत्वात्। ७९ योगेन ब्रह्मसाक्षात्काराभावात्। ८० ब्रह्मविचारसाधनसाध्यभूतनित्यानित्यव स्तुविवेकयोर्भेदात्। ८१ ब्रह्मविदस्सत्त्वात्। ८२ ब्रह्मात्मकद्वैतत्वाल्। ८३ द्वैतव्यवहारयोरन्योन्याश्रयस्यादुष्टत्वात्। ८४ परमार्थदशाया अपि ब्रह्मणि कल्पितत्वात्। ८५ ब्रह्मणस्सर्वकल्पनाघिष्ठानत्वेनाकल्पितत्वात् । ८६ तत्त्वविदश्शिष्योपदेशस्य कर्तव्यत्वात्। ८७ शिष्योपदेशस्य भोजनादिवदकर्तव्यशेषत्वात्। ८८ मतान्तरप्रतिषेध विनाऽद्वैतस्याप्रतिष्ठितत्वात्। ८९ तत्त्वविद्दृष्टया शत्रोरेवाभावात्। ०० मुखप्रसादादिना तत्त्वविदो विविच्य सुग्रहत्वात्। ९१ मोक्षकामस्याकामत्वात्।
मेदात्।
Page 75
५८ शारीरकचतुस्सूत्रीविचारः ।
९३ कालस्य दृश्यत्वादिना अब्रह्मत्वात् । ९४ कर्मणो मिथ्यात्वात्। ९५ जीवेश्वरविशेष्यभूतचैतन्यस्य स्रष्टृत्वाद्यर्थ कालाद्यपेक्षाSभावात्। ९६ मायाया एव कालादिसापेक्षत्वात्। ९७ गङ्गाजलस्य मुक्त्यदायकत्वात्। ९८ शिशुपालादीनां श्रीकृष्णवैरादिना सायुज्यालाभात्। ९९ ईश्वरसङ्कल्पस्य साक्षान्मुक्त्यहेतुत्वात्।
१०१ मुक्तदष्ट्या कालाभावात्। १०२ द्वैताभावस्य ब्रह्मरूपत्वात् । इति। अथातो ब्रह्मसेत्येतत्सूत्रगतस्याथशब्दस्य मङ्गलमर्थ इति केचित्। तन्न, अथशब्दप्रयोगस्यैव मङ्गलत्वं, न त्वथशब्दस्य मङ्गलार्थबोधकक्षम्। नहि मङ्गलं भूयादित्यम्मिन्नर्थे अथ भूयादिति केपि प्रयुञ्जते। धर्म- जिज्ञासानन्तरमिति परे; तच्चायुक्तं- धर्मजिज्ञासाब्रह्मजिज्ञासयोर्दण्डघटयो- रिव कारणकार्यभावाभावात्, धर्मजिज्ञासां विनापि ब्रह्मजिज्ञासायां प्रवृत्ति- सम्भवात्। अत इत्यस्य कर्माधिगमाद्वेतोरिति रामानुजः, तदसत्- कर्माधिगम ब्रह्मा विगम योर्हेतुहेतुमद्भावाभावात्। ब्रह्मजिज्ञासेत्यस्य ब्रह्मा- विगम: कर्तव्य इति रामानुजः, तदसत्-ज्ञानस्याकर्तव्यत्वात्, सन्प्रत्ययप्रयोगस्य वैयर्थ्याच्च इति। ।।१। जन्माद्यस्य यत :- किं लक्षणकं तद्गह्म यद्विचार इह प्रसक्त इत्यत आह-जन्माद्यस्य यत इति। ब्रह्मणस्तटस्थलक्षणमिद- जग- जजन्मादीनां ब्रह्मस्वरूपत्वाभावात् ; यस्त्व रूपानन्तर्भतत्वेन तटस्थ सल्लक्ष-
Page 76
शारीरकचतुरसूत्रीविचारः। ५९
यति तत्तटस्थलक्षणं, यथा काकवद्देवदत्तस्य गृहमित्यत्र काकवत्त्वं देव- दत्तगृहस्य तटस्थलक्षणं गृहस्वरूपे काकस्यानन्तर्भावात्, यथा वा पृथिव्या गन्धवत्त्वम्। नहि गन्धः पृथिव्यास्स्वरूपं, किंतु गुणएव। स्वरूपमेव लक्षणं स्वरूपलक्षणं; तत् ब्र्मणस्सचिदानन्दम्। यद्ा- ननु ब्रह्मणि विज्ञाते सर्व विज्ञातं भवतीति श्रयते, तत्कथमत आह-जन्माद्यस्य यत इति। एतेन- 'सत्यं ज्ञानमनन्तं ब्र'ह्मेति स्वरूपलक्षणे वक्तव्ये किमिति तटस्थलक्षणमुक्तवानाचार्य इति शक्का समाधापिता। अथवा ब्रह्मणस्सत्यत्वाद्गह्मविचारः कर्तव्य इत्युक्तं, कस्मा- द्वेतोस्सत्यत्वं द्रह्मणोऽत आह-जन्माद्यस्य यत इति। सर्वकार- णत्वाङ्गह्म सत्यं; ब्रह्मज्ञानाच्च सर्वज्ञानमिति वक्तुं द्वितीयसूत्रं प्रवृत्तमिति भावः। जन्म आदिर्यस्य तज्जन्मादि जन्मस्थितिभङ्गं, समाहारत्वादेकत्वम्। सृष्टिस्थितिलया इत्यर्थः । अस्य जगतो यतो भवन्तीति शेषः। तद्गसेति वाक्यशेषः । 'यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति तद्ब्र'ह्मतिश्चुतेः । जगत्सृष्टिस्थितिलयकारणत्वं ब्रह्मणो लक्षणं। यद्यपि जगत्सृष्टिकारणत्वं, जगतस्थितिकारणत्वं, जगल्लय- कारणत्वं चेति त्रीण्यपि प्रत्येक ब्रह्मणो लक्षणमिति वक्तु शक्यं; तथापि सृष्टिकारणाद्वह्णस्स्थितिकारणस्य स्थितिकारणाल्लयकारणस्य च भेद इति कश्चन मन्येतेति तद्वारणाय सृष्ट्यादित्यकारणत्वमुक्तम्। यत इत्यस्य यस्मादिति येनेति यस्मिन्निति न न्ेधार्थ :; सार्वविभक्तिकतसिला निर्देशात्, श्रुत्यनुसाराच्च। तथाच यह्मादुपानाज्जगज्जायते, येन रक्ष्यते, यस्मिन्लीयते तद्गह्ेति सिद्धम्। अनेन च जगदुपानत्वं ब्रह्मणो लक्षणमिति फलितं; कार्यस्य घटादेः जन्मस्थितिलयाधारभूता कारणं
Page 77
शारीरकचतुस्सूत्री विचारः ।
मृत्तिकैवेति दर्शनात्। घटांदयुपादानं हि मृत्। यद्येवं घटंप्रति मृत्तिकेव जगत्प्रति ब्रह्मोपादानमेव स्यात्तर्हि जगन्निमित्तकारणमन्यत्स्यात्कुलालवत्, ततश्च द्रह्मैकमेव जगत्कारणमिति नियमो न सिद्धयेदत आह .- यत इति। निमित्तार्थे पश्चमी चेयम्। यतश्र यस्मान्निमित्तमूतादुपादान- भूताच्च ब्रह्मणस्सकाशादस्य जन्मादि तद्गमेत्यर्थः । तत्सृष्ट्वेति श्रुत्यन्तरे ब्रह्मणो निमित्तकारणत्वस्यापि श्रवणादिति भावः । नच कथमेकस्यैव ब्रह्मण उभयविघकारणत्वमिति वाच्यं, ब्रह्मैव खात्मानं जगद्वूपेण मायया जनयामासेति सिद्धान्तात् । 'सच्च त्यच्चाभव' दिति श्रुतेः। मायावच्छि- न्नस्य ब्रक्मण ईश्वरस्य उभर्यविधत्वं सम्भवतीति भावः । न चाविकारि- ब्रक्मण: कथ जगद्भावापत्तिरिति वाच्यं, माययेत्युक्तत्वात्। ननु अथातो व्रह्मजिज्ञासेति प्रकृततय मुक्तप्राप्यस्य ब्रह्मणो निर्मायस्य ज्ञेयस्य लक्षणप्रणयन विहाय किमिति जगत्कर्तुरीश्वराख्यस्य मायशबलस्य ब्रह्मणो लक्षणप्रणयन जन्माद्यस्य यत इतिचेत् उच्यते- यदेव जगज्जन्मादिकारणं तदेव वस्तुतो निर्मायत्वेन मुक्तप्राप्यं, नतु तद्भिन्नमिति वक्तुमेवमुक्तत्वात्; 'अध्यारोपापवादाभ्यां निष्प्रपश्व प्रपंच्यत' इति हि सम्प्रदायः। न चेश्वरस्यैव तटस्थलक्षणमिदमिति कथ ब्रह्मण इत्युक्तमितिवाच्यमीश्वरस्यैव वस्तुतो ब्रह्मत्वात् ; यदीश्वरतटस्थ- लक्षणं तड्दातटस्थलक्षणमेव । यद्वा यतः यस्मिन्नघिष्ठाने मायया जग- जजन्मादि क्रियते तद्गह्मेति ब्रह्मण एवेद लक्षणं- जगज्जन्मादिकारण- मायाविष्ठानत्वादिति। अ्मिन्पक्षे जीवेश्वरयोरपि ब्रह्मणि मायया कल्पितत्व मेव, 'जीवेशावाभासेन करो'तीति श्रुतेः । ननु एवं जगदूपकार्ये प्रति मायाया एव परिणामित्वेनोपा-
Page 78
शारीरकचतुस्सूत्रीविचारः । ६१
दानत्वं, हेतुत्वेन मिमित्तत्वं चेति प्रकृतसूत्र मायालक्षणमेवेति चेन्मैवम्- मायाया द्वारकारणत्वेन प्रथानकारणत्वं ब्रह्मण एवेति तादृशमायाया अपि ब्रह्मैवाघिष्ठानत्वेन प्रथानकारणमिति च । नच जडाया मायायाः परिणामित्वमस्तुनाम, कथ निमित्तत्वमिति वाच्यं, साभासत्वान्मायाया न जडत्वमिति। अथ वा जीव एव स्वाविद्यया ब्रह्मणि जगत्सृष्टयादि करोतीति जीव एव जगत्कारणं, सच ब्रह्मणि कल्पित एवेश्वरवदिति जगत्कारणजीवाधिष्ठानं ब्रह्मैव जगत्कारणम्। एवं जगत ईश्वरकर्तृकत्वे जीवकर्तृकत्वे मायाकर्तृकत्वे वा जीवेश्वरमायाजगतां चतुर्णामपि ब्रह्मा- विष्ठानकत्वादारोप्यत्वेन सर्वस्यापि परमं कारणं ब्रह्मैवेति सिद्धम् । वस्तुतम्तु ब्रह्मैव मायावच्छिन्नतवेनेश्वरीभूतं सज्जगतोिन्ननमेतोप दानकारणं भवतीति मतमेव साधु- जीवस्य कार्योपाधिकस्य जग- त्कारणत्वायोगात्, मुक्तप्राप्यस्य न्रह्मणो मायाघिष्ठानत्वायोगात्, साभासमायाया एवेश्वरपदार्थत्वाच्; ब्रह्मणो मायावच्छिन्नत्वे सति हि मायायास्साभासत्वलाभः । तस्मादीश्वरएव सर्वज्ञत्वादिगुणयोगेन जग- त्कारणमिति जन्मादीति सूत्रमीश्वरलक्षणमेव। ब्रह्मैव यावद्यवहारमीश्वरः परमार्थतस्तु ब्रह्मेति मुक्तप्राप्यो ज्ञेयश्च स एवेश्वरः। यदा जीवस्य मुक्ति- स्तदैवेश्वरस्य ब्रह्मत्त्वं, जीवाज्ञानकृतो हि ब्रह्मणि जीवेशवरादिसर्वप्रपश्नः। नचैतावता जगज्जीवकर्तृकमिति भ्रमितव्यं- जीवाश्रयाज्ञानविषयीकृत- ब्रह्मकर्तृकत्वाज्जगतः । एवं मायावच्छिन्नब्रह्मकर्तृकमपीद जगत् माया- दृष्टया परिणामभूतं, ब्रह्माद्ृष्टया तु विवर्तभूतं- जगतः स्वोपादानमायाव- द्यावहारि कत्वात्स्वोपादानब्रह्मवत्पारमार्थिकत्वाभावाच्च। उपादानसम- सत्ताककार्यापत्तिः परिणामस्तद्विषमसत्ताककार्यापत्तिर्विवर्त इति विवेकः।
Page 79
६२ शारीरकचतुस्सूत्रीविचारः।
नचाप्रमाणो विवर्तवाद इति वाच्यं, रज्जुसर्पशुक्तिरजतादिविवर्तानु- भवस्यैव प्रमाणत्वात्। नच रज्जुशुक्त्यादिषु नानिर्वचनीयसर्परजता- द्युत्पत्तिरिति वाच्यं, अयं सर्प इदं रजतमित्यनुभवविरोधात्; नहि वल्मीक पेटिकादिस्थसर्परजतादेरिदंप्रत्ययविषयता। ननु मायावच्छिन्नचैतन्यलक्षणोऽपीश्वर एकएव न सृष्टिस्थिति- लयत्रयकारणं, किंतु त्रयः ब्रह्मविष्ण्वीश्वरनामान इति चेन्मैवम्- मायायास्सत्त्वरजस्तमस्त्रिगुणात्मिकत्वेन एकस्यैवेश्वरस्य मायानिष्ठगुण-
ननु न केवलं नामभेदः, किंतु रूपभेदोऽप्यस्ति- चतुर्मुखत्व-
मरूपमव्ययं अपाणिपादो जवनो ग्रहीते'त्यादिश्वुतिभिर्नी रूपत्वादीश्वरस्य। चतुरमुखत्वाद्याकारवन्तो देहाएव न त्वीश्वरः। नच तत्तदेहाभिमा- निनोऽपीश्वरा एवेति वाच्यं, देहाभिमानित्वस्य जीवलक्षणत्वात्। तस्मात्सर्वव्यापिमायावच्छिन्नचैतन्यमेवेश्वरस्स चैक एव- मायाया एक- त्वात्। यद्यपि जीवोऽप्येक एव, तथापि जीवोपाध्यन्तःकरणानां नानात्वाज्जीवनानात्वं, स चैक ईश्वरो जगत्कारणम्। ननु हिरण्यगर्म एव जगत्कारणं- तस्यैव स्रष्टृत्वादिदर्शनातपुरा- णादिष्विति चेन्मैवं, तस्य समष्टिलिङ्गनामकमहत्तत्त्वोपाधिकस्य कार्यो- पाधिकत्वेन जीवत्वात्, महाभूतस्रष्टृत्वाभावाच्च; महाभूतसत्त्वांशसम्भवं हि लिङ्गशरीरम्। नच विराट्पुरुषो विष्णुरजगदीश्वर इति वाच्यं, तस्य सष्टिस्थूलशरीरात्मकजगदुपाधिकत्वेन कार्योपाधिकत्वाज्जीवत्व- मेवेति। यद्यपि तत्तच्छरीरावच्छिन्नं चैतन्यमनाद्येव, तथापि तत्तचकरी-
Page 80
शारीरकचतुस्सूत्रीविचारः। ६३
राव च्छिन्नत्वरूपेण सादीति बोध्यम्। एतेन रुद्रगणपति कुमारसूर्यादय- स्सर्वेपि जीवत्वान्न जगत्कारणमिति सिद्धम्। मायाया एकस्याएवाना- द्युपाधित्वेन तदुपाधिकेश्वरस्यैव सर्वकारणत्वात्। अस्या एव मायाया अव्याकृतमिति, मूलप्रकृतिरिति, शक्तिरिति च नामानि, प्रथानपर- माणुस्वभावादीनां जगत्कारणत्वं पूर्वसूत्रव्याख्यानावसरएव निष्कासितम्। रामानुजस्तु सूक्ष्मचिदचिद्विशिष्ट ब्रह्म कारणं स्थूलचिदचि- द्विशिष्टं ब्रह्म कार्यमित्याह, तदसत्-एकस्यैत ब्रह्मणः कार्यकारणभावा- योगाद। नच विशिष्टयोर्बह्मणोस्तद्योग इति वाच्य, चिदचिङ्गह्मणां त्रयाणां प्रत्येकं वैशिष्टथेन वा कार्यकारणभावायोगात्। चितप्रति चितः अचितंप्रत्यचितः ब्रह्मप्रति ब्रह्मणः विशिष्टप्रति विशिष्टस्य च कारणत्वायोगादित्यर्थः । नच स्थूलांश्चिदचिदादीन्प्रति सूक्ष्मं चिद- चिदादिकं कारणमिति वार्च्य, चिद्गह्मणोस्स्थूलत्वसूक्ष्मत्वलक्षणविकारा- भावात्। नच स्थूलाचिद्वस्तुप्रति सूक्ष्माचिद्वस्तुनः कारणत्वाद्विशिष्टं- प्रति विशिष्टस्य कारणत्वमिति वाच्यं, तथासति स्थूलत्वविशिष्टाचितः सूक्ष्मत्वविशिष्टमचित्कारणमित्येव वक्तव्ये स्थूलचिदचिद्विशिष्टब्रह्मप्रति सूक्ष्मचिदचिद्विशिष्टब्रह्म कारणमिति वचनस्य गुरुत्वादयुक्तत्वाच्चाप्रा- माण्यमेव। नच पिण्डावस्थावतो मृद्दव्यस्य घटावस्थावतो मृद्द्व्यस्य च कार्यकारणभाव व त्सूक्ष्मचिदचिद्विशिष्टस्य ब्रक्षणस्स्थूलचिदचिद्विशिष्टस्य च ब्रक्मण: कार्यकारणभाव इति वाच्यं, मृद इव ब्रह्मणोऽवस्थावत्त्वानुपपत्ते:, अवस्थावत्वेसति विकारित्वापत्तेः; स्थूलत्वसूक्ष्मत्वयोरचिदवस्थाविशे- षत्वेनाचिद्द्रव्यस्यैव कार्यकारणोभयावस्थावत्त्वाच्च। तस्मात्स्थूलावस्थ- स्याचिद्द्रव्यस्यैव सूक्ष्मावस्थमचिद्दव्यमेव कारणं, नतु चितो ब्रह्मणो वा
Page 81
६४ शारीर चतुस्सूत्रीविचारः।
कार्यकारणत्वे इति कथमुच्यते ब्रह्मणः कार्यकारणत्वभाव एकस्यैवा- विक्रियस्य? नच स्थूलाचिद्विशिषं ब्रह्म कार्य सूक्ष्माचिद्विशिष्ट ब्रह्म कारणमित्युक्तेपि 'विशेष्यस्य बाधेस्ति विधिनिषेधौ विशेषणमुपसंक्रामत' इति न्यायेन ब्रम्मणो विशेष्यस्य कार्यकारणभावापत्तिरूपबाघेसति विशेषण- योरेव स्थूलसूक्ष्माचितोः कार्यकारणभावोपसंक्रान्तिरिति वाच्यं, स्थूला- चिंतप्रति सूक्ष्माचित्कारणमित्येव वक्तव्ये दर्शितवक्रमार्गांश्रयणस्य वैयर्थ्याद्दुष्टत्वाच्च; तत्र चित्पदार्थप्रवेशनस्यातीवायुक्तत्वाच्च; नहि चि- त्पदार्थस्य स्थूलत्वसूक्ष्मत्वे कार्यरवकारणत्वे वा स्तः। ननु त्वया यन्मायावच्छिप्नमित्युच्यते तदेवास्माभिस्सूक्ष्मचिद- चिद्विशिष्टमित्युच्यते- मायाया एवाचित्त्वान्मायायां प्रलये निलीय चिर्ता वर्तेमानत्वाच्च; यञ्च त्वया जगदित्युच्यते तदेवास्माभिस्स्थूलचिदचि- द्विशिष्ट ब्रह्मेत्युच्यते- जगतश्रेतनाचेतनात्मकत्वाद्गह्मात्मकत्वाच्च; अतो
मितिवन्नायाविशिष्टं ब्रह्मजदद्विशिष्टब्रह्मणः कारणमित्युक्तेऽपि पिण्ड- घटयोरिव मायाजगतोरेव कार्यकारणभाव आपतितः, नतु मृद इन ब्रह्मणः । नचेष्टापत्ति :- श्रुतिसृत्रविरोघात्। तथाहि- श्रुतौ- 'यतो वा इमानि भूतानि जायन्ते' इति यच्छनदेन भूतप्रकृति ब्रह्म निर्दिश्य इमानि भूतानीति तस्माद्वेदेनैव जगन्निर्दिष्टम्। नच तत्रापि इमानि भूतानीत्यस्य एतद्भूतविशिष्टं ब्रम्म जायत इत्येवार्थ इति वाच्यं, लाक्षणिकत्वेन तम्यार्थस्य दुष्टत्वात्, अकार्यस्य ब्रह्मणः कार्यत्ववचन- स्वायुक्तत्वाच। एवमात्मन आकाशत्सम्भूत' इत्यत्नापि मेदेनैवात्मन आक़ाशो निर्दिष्टः न ह्याकाश इत्यस्याकाशविशिष्ट आत्मेत्यर्थः । तथा
Page 82
९ शारीरकचतुस्सूत्रीविचारः । ६५
सूत्रेपि अस्येतीदंशब्देन ब्रह्मभिन्नं जगदेव निर्दिष्टं- तस्यैव प्रत्यक्षादि- विषयत्वात् ; नतु जगद्विशिष्टब्रह्मण इत्यर्थ :- लाक्षणिकत्वेन दुष्टत्वात्तस्य। किंच 'अथातो ब्रझ्मजिज्ञासे'त्यनेन प्रकृतस्य ब्रह्मणः किं लक्षणमित्युक्तौ जगज्जन्मादिकारणत्वं लक्षणमित्युक्तं सूत्रकारेण, नतु जगद्विशिष्टब्रम्ष- कारणत्वं ब्रझ्मणो लक्षणमिति वक्तुं शक्यते- आत्माश्रयदोषात्; नहि मृण्मयत्वमात्रेण घटस्य घटविशिष्टमृदः पिण्डविशिष्टमृत्कारणमित्युच्यते, किंतु घटस्य मृत्कारणमित्येवोच्यते, श्रुत्यापि 'वाचारम्भणं विकारो नामधेर्य मृत्तिकेत्येव सत्य'मिति विकारस्य कार्यस्य घटादिरूपत्वेनास- त्यत्वं, कारणस्य मृद्द्रव्यस्य सत्यत्वमित्युक्तं, नतु पिण्डाकारमृत्सत्या घटाकरमृदसत्येत्युक्तम्। अपि च एकविज्ञानेन सर्वविज्ञानं प्रकृत्य श्रुत्या ब्रह्मज्ञानेन सर्व ज्ञायत इत्युक्तं, तव मते तन्न सङ्गच्छते- चिदचि-
जगद्रम्मणः कार्यम्। अतएवानृत वाचारम्भणश्रुतेः; जगद्भिन्नमेव ब्रक्ष कारणं जगतस्सत्यमित्यभ्युपगन्तव्रयम्। ननु यदि मृदस्सकाशाद्धटस्स्याद्भिन्नस्तर्हि ब्रह्मणस्सकाशा- ज्गद्िन्नं स्यादिति चेत्, मैवम्-मृद्धटयोरिव ब्रह्मजगतोः परिणाम- परिणामिभावस्यासत्वात् ; नहि निरवयवं निर्विकार सदैकरूपं ब्रह्म जग- द्रूपेण परिणमेत्। नच 'सच्च त्यच्चाभव'दिति श्रतेः परिणमेदेवेति वाच्यं, विवर्तवादेन श्रतिसमन्वयात्, मायया सच्च त्यच्चाभवदिति यथा रज्जु- दष्टाSविद्यया भवति सर्पः तद्वत्। नचेश्वरस्य मायावच्छिन्नत्वेनेश्वर- परिणाम एव जगदिति वाच्य, वस्तुन ईश्वरस्य ब्रह्मत्वेन परिणामित्व्रा- योगान, अन्यथा सविकारित्वेनानित्यत्वापते :; तस्मादीश्वरकतृकं जग-
Page 83
६६ शारीरकचतुस्सूत्रीविचारः ।
दविति सिद्धान्तेपि ईश्वराश्रितमायापरिणाम एव जगन्न त्वीश्वरपरिणामः। नचैवं जगतोऽपीश्वराश्रितत्वादीश्वराश्रितमायापरिणाम ईश्वराश्रित- जगदिति वाच्यं, ईश्वराश्रितैव नाया यदा जगदाकारेण परिणता तदा जगतोऽपीश्वराश्रितत्वं सिद्धमेवेति पृथग्व चनस्यायुक्तत्वात्। ईश्व- राश्रितजगत ईश्वराश्रितमायापरिणामत्ववचनेपि जगत्येव परिणामत्वां- शान्वयः न त्वीश्वर इति व्यर्थत्वात्तद्वचनस्य। नचैवं जगत ईश्व- राश्रिता माया कारणमित्युक्तेऽपि मायायामेव कारणत्वांशान्वयः न त्वीश्वर इति वाच्यं, केवलमायाया जडत्वेन कारणत्वायोगात्, अभिन्न- निमित्तोपादानत्वं हि कारणत्वं, नहि जडमायाया निमित्तत्वं सम्भवति। नचैवं केवलमायायाः कारणत्वमिव केवलजगतः कार्यत्वमपि न सम्भव- तीतीश्वराश्रितजगदेव कार्यमिति वाच्यं, मायाया जगद्ूपेण परिणति- प्रति ईश्वराश्रितत्वमेव प्रयोजकं, नतु जगत ईश्वराश्रितत्वमिति। ईश्वराश्रितमायापरिणामत्वादेव जगत ईश्वराश्रितत्वलाभाच्च। तस्मा- न्मायावच्छिन्नं ब्रह्म जगतप्रत्येव कारणं, नतु जगद्विशिरष्ट ब्रह्मप्रति; तदेव कार्य जगत् श्रुत्या निर्दिष्टं-इमानि भूतानीति; इदंशब्दस्य प्रत्यक्षगम्यमनुष्यादिपरत्वमनुमानादिगम्यदेवादिपरत्वं च; भूतशब्दस्तु आकाशादिपश्चभूतानि तज्जन्यदेवमनुष्यतिर्यकस्थावरादिमौतिकानि च वक्ति; सर्व चेद भूतशब्दवाच्यमचिद्वस्त्वेव- ब्रह्मादिस्तम्ववर्यन्तस्य दृश्यस्य सर्वस्याप्यचिद्द्रव्यत्वात्। एवं जन्यत्वादेवैषां भूतानामनि- त्यत्वं च- 'जातस्य हि ध्रुवो मृत्यु'रिति गीतावचनात्, 'यत्प्रयन्त्यभि- संविशन्ति, तज्जला'नीत्यादिश्रुतेः, यज्जन्यं तन्नन्यं यथा घट इति व्याप्तेथ। चिज्जीवस्तु न जायते न म्रियते 'अजो नित्यश्शाश्त' इति
Page 84
६७
श्रुतेः । अतश्चिद्वस्तुनः नेश्वरकार्यत्वमीशवारस्यैव जीवरूपेण देहप्रवेश- श्रवणात्। एवं जीवस्येश्वरस्वरूपत्वादेवेश्वरज्ञानेन जीवज्ञानलाभः, जगतस्तु ईश्वरकार्यत्वादीश्वरज्ञानेन जगद्ज्ञानलाभः; मायायास्तु ईश्व- रोपाधित्वादथ वेश्वरशक्तित्वादिति कृरवा एकविज्ञानेन सर्वविज्ञान- प्रतिज्ञाश्रतिससङ्गच्छते।. अन एवेश्वरस्य चिद्वैशिष्टयवादो न युक्त :- ईश्वरस्यैव चित्वात्, सच्चिदननिन्दं व्रम्मेतीश्वरस्य चित्त्वं हि श्रयते। नचाचिद्विशिष्ट ईश्वर इति वादोऽप्ययुक्तएव- 'असङ्गो ह्यायं पुरुष :; एकमेवाद्वितीयं ब्रहमे'त्यादिश्रुतेरिति वाच्य, यावद्यवहारं तद्वाद- स्याभ्युपगमात्, व्यावहारिकवस्तुना पारमार्थिकवस्तुनस्सङ्गाभावेन श्रुत्यविरोधाच्च। नहि प्रातीतिकेन नैल्येन व्यावहारिकगगनस्य कापि रूपिता। नचैवं व्यवहारतश्चिद्वैशिष्टयमपीश्वरस्योचितमेवेति वाच्यं, व्यवहारतोSपीश्वरातिरिक्तजीवाख्यचिद्वस्त्वभावात्। नचान्नःकरणोपाधि- भेदादस्तीति वाच्यं, घटाकाशवैशिष्टयस्य महाडडकाशेऽदशनात्, महा- काश एव हि घटोपाधिवशाद्धटाकाशव्यवहारविषयः । एवं मायाव- च्छिन्नचैतन्यमेव अन्तःकरणोपा धिवशाज्जीवव्यवहारविषयः एवमेकस्यैव चैतन्यस्य मायावच्छिन्नत्वेन रूपेण जयत्कारणत्वमन्तःकरणोपलभ्यमान- त्वेन रूपेण जीवत्वं (प्रत्यगात्मत्वं) इति न चैतन्यभेदः, नापि जीवस्य परिच्छिन्नत्वसिद्धिः- व्यावहारिकान्तःकरणा् पारमार्थिकजीवचैतन्य परिच्छेदकत्वायोगाद्। नचापारमार्थिको जीव इति भ्रमितव्यं, नित्यत्व- श्रुतिविरोधात्। एवं स्थितायां वस्तुगतौ कथ मायायां निलीय प्रलये जीवानामवस्थानं ? नहि विकारी जीवः, येन प्रलये तस्य निलयनं प्रपश्च विकसनं वा सम्भवेत, 'अविकार्योडयमुच्यत' इति हि गीता-
Page 85
६८ शारीरकचतुस्सूचीविचारः । शास्त्रम्। विकारित्वे ह्यनित्यत्वं स्याज्जीवस्य घटादिवत्। नचेष्टापत्तिः- 'अविनाशी वा अरेऽयमा' त्मेति श्रतेः । तस्मान्मायावच्छिन्नचैतन्यलक्षण ईश्वर एव जगत्कारणं, जीवस्तु तदभिन्न एव जगदूपं कार्य त्वचेतनमेवेति सिद्धान्तः । नच देहादिजगति चेतनत्वं दृश्यत इति वाच्यं, तस्य चिदाभासप्रयुक्तत्वात्, चिदचितोर्हि मायया अन्योन्यधर्माध्यासो जातः; अयं च चिदाभासससुषुप्तावपि सश्यति किंपुनःप्रलये? नहि सुषुप्तौ देहादे- श्चेतनत्वमस्ति। नच सुषुप्तौ प्राज्ञो जीवोऽस्तीति वाच्य, प्राज्ञस्य- प्रत्यगात्मत्वेन चित आभासत्वाभावात्। तथाहि त्रिविधो जीव :- पार- मार्थिक, व्यावहारिकः, प्रातिभासिकश्धेति। तत्र सुषुप्तौ पारमार्थिकः प्राज्ञः, खप्ने प्रातिभासिकस्तैजसः, जाग्रति व्यावहारिको विश्वः । जाग्रति प्रातिभासिकस्य नाशः, सुपुप्तौ व्यावहारिकप्रातिभासिकयोर्द्वयो- रपि नाशः; प्राज्ञस्य तुन कदीपि। अतएव तस्य पारमार्थिकत्वम्। नच जाग्रत्स्वप्नयोः प्राज्ञस्यापि नाश इति वाच्यं, साक्षिरूपेण सत्त्वात्। नच तुरीयस्साक्षीति वाच्यं, पाज्ञस्यैव सुषुप्त्यवस्थाभिमाननाशे साक्षि- त्वात्। प्रकर्षेण जानाति सर्वे साक्षात्करोतीति प्रज्ञ स्सएव प्राज्ञ इति व्युत्पत्तेः । अस्य च प्राज्ञस्याज्ञानमुपाधिस्तदेव कारणशरीरमित्युच्यते। इद चाज्ञानं व्यापित्वादेकमेवेति प्रज्ञोडप्येक एव। अत एव प्राज्ञ ईश्वर: आनन्दमयश्चः आनन्दमयत्येश्वरत्वं च माण्डक्योपनिषदि प्सिद्धम् । यैद्यप्यानन्दमयः कोश;, तथापि प्राज्ञस्य तदंभिमानित्वा- दाननदमयत्वोक्तिः । अयं चाज्ञानोपाधिरानन्दमयः। प्राज्ञ एकोऽपि अन्त: करणोपाध्यन्तरवशादनेक इब परिच्छिन्न इव प्रतिभाति। अस्य च प्राज्ञम्य संसारो नास्तीति श्रतिस्मृतिसुषुप्त्याद्यनुभवबलात्सर्वैरप्य-
Page 86
शारीरकचतुस्सूत्रीविचारः । ६९
भ्युपगन्तव्यम्। एवमसंसारित्वादप्यस्येश्वरत्वमत एव तत्त्वमसीति श्रुतिः प्राज्ञेश्वरयोरभेद वक्ति। प्राज्ञनामकैतत्प्रत्यगात्मरूपेणैवेश्वरस्य सर्वभूत- हृद्देशस्थिति बते-अन्तर्यामिब्राह्मणं गीतास्मृतिश्च। नच व्यापिनः कथं हृद्देशे स्थितिरिति वाच्यं, व्यापित्वादेव यथा गगनस्य। तस्माज्जग- त्कारणं ब्रह्म प्रत्यगभिन्नमेव। ।२ । शास्त्रयोनित्वात्-ननु किं प्रमाणकं तद्वलेत्यत आह सूत्रकार :- शास्त्रयोनित्वादिति। शास्त्रं योनि: प्रमाण यस्य तत्त्वा- द्रह्मण इति शेष: । शास्त्रैकप्रमाणकं ब्रह्मेत्यर्थः । तथाहि- यथार्थानुभवः प्रमा; प्रमाकरणं प्रमाणं; तच्च प्रत्यक्षमनुमानमुपमान शब्दोरऽर्थापत्ति- रनुपलब्धिरिति षडिधम्। तत्र ज्ञानेन्द्रियपश्चकं मनश्च प्रत्यक्षप्रमाणं; न तत्षट्कस्य ब्रह्मणि प्रवृत्ति :- शब्दादिविषयपञ्चकाभावान्निर्विशेषत्वाच्च ब्रह्मणः । नाप्यनुमानं ब्रह्मणि प्रमाणं- लिङ्गाभावेन व्याप्तिज्ञानाभावात्, व्याप्तिज्ञानजन्यं ह्यनुमितिज्ञानम्। नच जगदेव लिङ्गमिति वाच्यं, धूमाग्न्योरिव जगद्गह्मणोरन्वयव्यतिरेकव्याप्त्यभावात्। नच धूमव्याप- कत्वमग्नेरिव जगद्यापकत्वं ब्रह्मणोडस्तीत्यन्व्यव्याप्तिसत्त्वात्सिध्यत्यनु- मितिरिति वाच्यं, धूमाभावस्य वह्यभावव्यापकत्वरूपव्यतिरेकनिश्चये सत्येव वहेर्धमव्यापकत्वनिश्चय इति अन्वयव्यातिनिश्चयार्थ व्यतिरेक- व्याप्तेरावश्यकत्वात्। नचास्तु ब्रह्माभावव्यापकत्वं जगदभावस्येति वाच्यं ब्रह्मण अभादप्रतियोगित्वाभावात्। ब्रह्मणस्सदूपत्वं ह्यव्यभिचारि। नच साध्यसाधनयोस्समनियतत्वमेव व्याप्तिरिति वाच्यं, वह्विमत्ययोगोलके धूमाभावेन धूमाग्न्योरपि तादृशव्याप्त्यभावात्। नापीदृश्यपि व्याप्ति- र्बक्षजगतोरस्ति- परमार्थदशायां ब्रह्मसत्त्वाज्जगदभावाच्च। नच प्रमेय-
Page 87
शारीरकचतुस्सूत्रीविचारः।
स्वाभिधेयत्वयोरिव जगङ्गह्मणोः केवलान्वयरूपमनुमानं स्यादिति वाच्यं, ब्रह्मणोऽभावाप्रतियोगित्वेऽपि जगतस्तत्प्रतियोगित्वात्। किंच वहिव- द्ह्मणस्साध्यत्वमपि न सम्भवति- पर्वतवत्प्रकृते पक्षाभावात्। नहि ब्रह्मण: किनप्यधिकरणमस्ति। अपि च दृष्टान्ताभावान्नानुमानस्य प्रतिष्ठा; निश्चितसाध्यवान्हि सपक्षो दष्टान्तः- यथा वहौ साध्ये महा- नसः। नापि व्यतिरेकदृष्टान्तोऽस्ति- निश्चितसाध्याभाववतो व्यतिरेक- दष्टान्तत्वेन ब्रह्मणस्साध्यस्याभावाप्रतियोगित्दात्। तस्मान्न जगता लिङ्गेन ब्रह्म साध्यते। ननु जगदिद सकर्तृकं कार्यत्वाद्धटवदित्यनुमानेन कर्तुस्सर्वज्ञस्य ब्रह्मणस्सिद्धिरिति चेन्मैवम्-भौतिकानां भूतकार्यत्वान्मनुष्यादिदेहानां रेतोबीजादिकार्यत्वाद्गृहादीनां मनुष्यकर्तृ कत्वात्पृथिव्या दिमहाभूताना- मकार्यत्वाच्च। नहि मृद उत्पद्यमानो घटइव कस्माच्िदुत्पद्यमानानि पृथिव्यादिभूतानि केनचिद्दृष्टानि, येन तेषां कार्यत्वं स्यात् ; नचानु- मानेनैव पृथिव्यादिषु कार्यत्वं साध्यत इति वाच्यं, तद्धेतोरप्यनुामा- नान्तरेण साध्यत्वमित्यनवस्थादोषात्। ननु जगदिदं कार्यें दृश्यत्वाद्धटवदिति कार्यत्वसाधकानुमाने हेतोद्श्यत्वस्य प्रत्यक्षत्वान्नास्त्यनुमानान्तरापेक्षेति नानवस्थादोष इतिचे- न्मैवम्-स्वर्गादि लोकगतदृश्यत्वस्याप्रत्यक्षत्वाद्धर्मादेश्व परोक्षत्वेनादृश्य- त्वात्, तद्दृश्यत्वसाधनायानुमानानतरस्यावश्यकत्वात् ; किंच दृश्यत्व- कार्यत्वयोर्व्याप्तिग्रहोऽप्यस्माकं नोदेतुमर्ति- दृश्येषु क्षित्यादिभ्तेषु कार्यत्वादर्शनात्; नहि घटादिषु दृश्यत्वकार्यत्वदर्शनमात्रेण यद्दृश्य तत्कार्यमिति नियन्तु शक्यते, अन्यथा घटादिषु रूपित्वद्रव्यत्वदर्शन-
Page 88
शारीरकचतुस्सूत्रीविचारः । ७१
मात्रेण कालाकाशादिष्वपि रूपित्वानुमानप्रसङ्गात्। नच कालादीनां रूपित्वं प्रत्यक्षविरुद्धत्वान्नानुमेयमिति वारच्य, तथा क्षित्यादीनां कार्यत्व- मपि प्रत्यक्षविरुद्धमेवेति। अपिच कार्यलिङ्गकानुमानेनेश्वरसिद्धावपि न निर्विशेषब्रह्मसिद्धिर्बह्मणि कर्तृत्वादिविशेषाभावात्। अतएव ब्रह्मणो न मानसिकप्रत्यक्षविषयत्वमित्युक्तं प्राक्। नच ब्रह्मणस्तथात्वेऽपीश्वरस्य सविशेषत्वान्मन.प्रत्यक्षविषयत्वमस्तिवति वाच्यं, धर्मादिवत्परोक्ष,वेनेश्वरस्य न सुखादिवन्मानसिकत्वं; नहि कोडपीधरमहं संक्षात्करोमीति, ईश्वरोड़- यमिति वा प्रत्येति। अतएव 'पारेक्ष्यशवल' इति श्रयते। ननु ईश्वरस्यैव जन्मादिसूत्रेण लक्षितत्वात्तस्य चानुमानगम्यत्वा -: त्कथं शस्त्रैकप्रमाणकत्वमिति चेदुच्यते-यदीश्वरस्य सस्रूपं तदेवेह शास्त्रे विचार्यते, तच् निर्विशेषं ब्रलैवेति नानुमानगम्यत्वं तस्य; नचैवं जन्म।दिसूत्रेण कस्मादीश्वरो लक्षित इति वाच्यमध्यारोपापवादन्याया- दित्युक्तत्वात्, यो मायया जगरसृष्ट्यादिहेतुस्स वस्तुतो निर्विशेषं ब्रह्मैवेति। तस्मान्निर्विशेषे व्रह्मण नानुमानं प्रमाणम्। नाप्युप- मानमसदशत्वाट्रह्मणः । नाप्यर्थापत्तिः- उपपाद्योपपादकभावाभावा- द्रह्मणि। नाप्यनुपलब्धि :- अभावंप्रति करणत्वात्तस्याः, ब्रह्मणश्च भावत्वात्। अतश्शब्दएव परिशिषः। आप्तवाव्य शब्दः; आप्तश्च यथार्थवक्ता; परमाप्तश्च सर्वज्ञ ईश्वर एकएव; तस्य सर्वभूतसुहत्त्वात्। ईश्वरवाक्यं च वेद :- ईश्वरस्यैव हिरण्यगर्भप्रति वेदोपदेष्टृत्वात्, 'तेने ब्रह्महृदाय आदिकवय' इति भागवतात् ; हिरयगर्भस्य च प्रथमजत्वात्, 'अस्य महतो भूतस्य निरश्वसितमेतचद्ग्वेद इति श्रुतेश्वेश्वरेण लीला- न्यायेनोत्पादित एव वेदः। अतएवानित्यः। नित्यत्वं च वेदस्य
Page 89
७२ शारीरकचतुरसूत्रीविचारः ।
ईश्वरेण यथापूर्वसुपदिश्यते हिरण्यगर्भायेश्यभिप्रायेणोच्यते। वेदोहघ्युथ्वा- रणमनूचारणीयः । एवमपौसपेयत्वादेव वेदस्स्वतः प्रमाणं, स्मृत्यादयस्तु वेदमूलत्वेन प्रमाणभूताः । सच वेदो भागद्वयात्मकः, तत्र पूर्वो भाग: कर्मप्रतिपादक इति न तरट ब्राणि प्रामाण्यं, किंतूत्तरभागस्यैव; स एवोपनिषच्छल्देनोच्यते- उप निषीदत्यस्यां परं श्रेय इत्युपनिषद्वल्मविद्या, तत्प्रतिपादकग्रन्थोप्युपनिषदेवोपचारात्। एतदुपनिषत्प्रतिपाद्यत्वादेव ब्रह्मण औपनिषदत्वं- 'तं त्वौपनिषद पुरुषं पृच्छा'मीतिश्रुतेः। औप- निषदः पुरुषो हि ब्रह्म। पूर्णतवाच्च पुरुषत्वं ब्रह्मणः । 'सत्यं ज्ञानमनन्त ब्र'ह्मेत्याद्या उपनिषद्श् ब्रम्म व्रतिपादयन्तीति वेदान्तशास्त्रप्रमाणकमेव ब्रह्म। नच निर्विशेषे द्रह्णि कर्थ शास्त्रमपि प्रमाणमिति वाच्यं, शास्त्रादेव निर्विशेषं ब्रम्मेति ज्ञानस्योदितत्वात्। यद्वा शास्त्रमप्यभिघया "न ब्रह्म बोधयितुं शवनोति अप्रमेयत्वात्तस्य, किंतु लक्षणया; प्रकृष्ट- प्रकाशश्चंद्र इतिवत्सत्यं ज्ञानमनन्त ब्रह्मेति वाक्यं लक्षणयैव ब्रह्म प्रति- पादयति, कानिचिद्वाक्यानि तु नेतिनेतीति निषेधमुखेन ब्रह्म प्रति- पाद्यन्ति- अवधिविना निषेधायोगात्। सृष्टयादियाक्यानि तु जग- सद्रमाघिष्ठानत्वेन ब्रह्म प्रतिपादयन्ति- जविष्ठानंविना भ्रमायोगात्। नचावधित्वलक्ष्यत्वा घिष्ठानत्वादि घर्म सत्वे ्रमणः कर् निर्विशेत्वमि ति वाच्यं, न्रह्मणि मायया कल्पितरवादवधित्वादीनाम्। वस्तुतो निर्वि- शेषमेव ब्रह्मोति। इदं च ब्रह्मणो याथार्थ्य न प्रत्यक्षादिभिरवगन्तु शक्यते, किंतु शास्त्रेणैवेति शास्त्रप्रमाणकं ब्रह्म । ननु जगतोऽचेतनत्वाचद्वेतुत्वं मायाया एवास्तु, न चेष्टापत्ति: जन्माद्यस्य यत इत्यनेन कथमीश्वरलक्षणसिद्धिरत आह सूत्रकार :-
Page 90
१० शारीरकचतुस्सूत्रीविचारः । ७३
शास्त्रयोनित्वादिति। शास्त्रस्य योनि: कारणं तत्त्वान्। सर्वार्थाब- मासकं हि शास्त्रमृग्वेदादिरूपं नाचेतनकर्तृकं भवितुमर्हति; नहि घटा- द्यचिद्वस्तु किमपि भासयितु शक्नोति। तस्मात्ताद्ृशशास्त्रक्र्ता सर्वा- र्थावभासकस्सर्वज्ञ ईश्वर एव भवितुमर्हतीति शास्त्रयोनिर्वहैव जगत्कारणं; ब्रह्मणश्शास्त्रयोनित्वं च 'अस्य महतो भूत'स्येति श्रुतिसिद्धमेव। तस्मा- दीश्वरस्य जगत्कर्तृत्व इव शास्त्रकर्तृत्वेऽपि शस्त्रमेव प्रमाणम्। नचानु- मान प्रमाणं, तथाहि वेद ईश्वरकर्तृकः अनुपलब्धिमूलकर्तृकत्वाद्यति- रेकेण व्याकरणादिवदिति प्रयोगादिति वाच्यं, अज्ञातवकतृकवाक्यानां वेदत्वे अस्मदज्ञातकविवाक्यानामपि वेदत्वापातात्। वेदाः कैश्चि- दर्वाचीनैः कल्पिताः वाक्यत्वाद्रामायणादिवदिति विपरीतानुमानापतेश्च। तस्माच्छास्वैकवेद्यं शास्त्रकर्तृ च ब्रह्म 'वेदैश्र सर्वैरह मेव वेद्यो वेदान्तकृ द्वेदविदेव चाह मिति गीतावचनात्, 'सर्वे वेदा यत्पदमामनन्ती'त्यादि- भ्रुतेश्च। ।।३ । तत्तु समन्वयात्-ननु कर्थ पुनश्शास्त्रं ब्रह्मणि त्रमाणमत आह-तत्तु समन्वयादिति। तद्गह्मणशशास्त्रप्रमाणकर्त्वं तु सम- न्वयाच्छास्रस्य ब्रह्मणि समन्वयाद्धतोस्सिद्धयतीति भवतीति बा शेष: । कथ शास्त्रस्य समन्वयो ब्रह्मणीति चेदुच्यते-'अतद्यावृत्तिरपेण साक्षाद्विधिमुखेन द। वेदान्तानां प्रवृत्तिस्स्यादिद्वघेत्याचार्यभाषित'मिति दचनादि्द्विधा समन्वयः । अस्थूलमनण्वह्दखमित्यादिवाक्यानां स्थूलाणु-
ब्रह्मणि प्रवृत्तिः ।
Page 91
७: शारीरकचतुरसूत्री विचारः ।
ननु जाति गुणं क्रियां संज्ञां वा निमित्तीकृत्य गौश्शुक: पाचको डित्थ इत्यादिशब्दाश्रतुर्षिवा अर्थेषु प्रवर्तन्ते; 'चतुष्टयी हि शब्दानां प्रदृत्ति'रिति महाभाष्यात्। ब्रह्मणि तु जात्याद्यमावात्कथ शब्दप्रवृत्तिरिति चेदुच्यते-यत्र जात्यादिविशेषा न सन्ति तद्गह्ेति तात्पर्यवृत्त्या बोधदन्ति निगमान्ता ब्रह्म; तथाच श्रुतिगीता-' ... श्रुतय- स्त्वयि हि फलन्यन्निरसनेन मवलिघना' इति। नच बृदत्वगुणाभावे कथ ब्रह्मशब्दस्यापि प्रव्ृत्तिरिति वाच्यं, व्यवहारार्थ कल्पितत्वात्तत्र बृहत्त्वस्य सर्वस्मादपि बृहत्तत्सदिति। नच सचारूपजातियोगात्कर्थ . -.. तदजातिमदिति वाच्यं, सचाया अजातित्वात्। नापि सत्तारूपधर्म- योगात्कथ तन्निर्धर्मकमिति वाच्यं, सत्तायास्सतोऽभिन्नत्वात्, यदि --- सद्भिन्ना स्यातसता तर्हि तस्या असत्ताया इव न ब्रह्मनिष्ठत्वं, जन्मानन्तर- भाविनी हि सा सत्ता भावविकारभूता, यथा असतानाशाख्यभाव- विकारः । अतएव 'न सत्तन्नासदुच्यत' इति गीतायां, 'साक्षात्सदसतः परे' इति भागवते च सत्तासत्ते निषिद्धे ब्रह्मणि। एवं यन्निर्विकारं तद्गह्म; यदविनाशि तङ्गह्म; यत्सत्वं तद्गह्म; यत्सर्वोवभासकं तद्वस; यत्र नान्यत्पश्यति नान्यच्छणोति नान्यद्विजानाति तङ्गम, सर्वमिदं यदात्मकं तङ्गह्म; सर्वमिद यस्मिन्नधिष्ठाने मायया कल्पितं तह्स; यत्सर्वविलक्षणं तङ्रअम; यदप्रमेयं तद्गह्मः यददृश्यमग्राह्यं तद्गह्म; यदवा- ख्यानसगम्यं तङ्गह्म; यदिदंतदिति निर्देष्टुमशक्यं तङ्गझ; यत्सर्वान्तरं तह्रझ; यत्सर्वव्यापि तद्गह्म; यन्निर्गुणं तद्गल; यन्निरवद तद्तभ्; यज्जीवेश्वरभावरहितं तद्ब्रझ्म; यत्रास्माकं जगद्बुद्धिस्तद्ब्रह्म; यत्रा-
Page 92
शारीरकचतुस्सूमी विचारः । ७५
तद्बरह्ं; यद्विदिताविदिताभ्यामन्यत्तद्ज्रह; यत्साक्षादपरोक्षं तद्ब्रह्म; यस्मादन्यो द्रष्टा नास्ति तद्बझ; यदेकमेवाद्वितीयं तद्ब्रह्मा; यद्ज्ञा- नानन्दरूपं तद्ब्रह्म; यत्सर्वजगन्रिषेधावधिभूत तद्ब्रह्म; यदशून्यं तद्ब्रभ; यन्निषेद्घुस्स्वरूपं तद्ब्रह्म; यदूद्रष्टट तद्ब्रह्म; यज्जीवेश्वरयोस्स्वरूप तद्ब्रह्म; यदखण्डं तद्ब्रह्म; इति बोधयन्ति श्रुतयः । वस्तुतस्तु सरवे शब्दा लौकिका ैदिकाश् घटपटादय: ऋत्व- ग्यूपादयश्च ब्रह्मैकमेव बोघयन्ति-सर्वस्थापि ब्रह्मत्वातसर्वे खल्विर्द न्रशह्ेति ख्ुतेः। तथाच घटावच्छिन्नचैनयें घटपदार्थ, पटावच्छिन्न- चैतन्यं पटपदार्थः, ऋत्विगवच्छिन्नवैतन्यमृत्विवपदार्थः, यूपावच्छिन्न- चैतन्यं यूपपदार्थ:, सर्वस्यापि द्वैतस्य चैतन्ये कल्पितत्वेन चतन्यावच्छेद- कत्वाच्चैतन्यं सर्वावच्छिन्नमेव। नच घटादिशब्दा आरोप्यमात्रमेवार्भि- दघते, न व्वधिष्ठानमिति वाच्यं, निरघिष्ठानविभ्रमाभादात्। एवं विषयावच्छिन्नचैतन्यस्य प्रमेयत्वादेव अय घट इति साक्षात्कारंप्रति प्रमाणचैतन्यस्य विषयचैतन्याभेदः प्रयोजक इत्युक्तमभियुक्तैः । प्रमाण- चैतन्यं नामान्तःकरणवृत्त्यवच्छिन्चैतन्यम्। नचैवं ब्रह्मणः प्रमेयत्वे अंप्रमेयत्वक्चतिविरोध इति वाच्यं, तिवयावच्छिन्नत्वेन रूपेणैव ब्रह्मण: प्रमेयत्वं, स्वतस्त्वप्रमेयत्वमेव। नहि केवलं चैतन्यं प्रमेयं प्रमातृ प्रमाणं प्रमितिर्वा भवितुमहति- विपगावच्छिनत्वाहङ्कारावच्छिन्नत्वान्तःकरणा-
यावच्छिन्नत्वादिकं पारमार्थिकमिति आच्यं, वस्तुतो विषयान्त करणा द्यमावात्। एकमेवाद्वितीयं ब्रहा हि पारमार्थिक- 'तत्सव्यमतोन्यदार्त'- मिति शुतेः। स्मान्निर्विशेषपि ब याबयहारं मायया प्रमेद-
Page 93
शारीरकचतु सूत्रीविचारः ।
त्वादिगुणयोग्येवेति कृत्वा न श्रुतीनां ब्ह्मणि समन्वयस्थ काचिदनुप- पत्तिः। ब्रह्मणि धर्मगुणकियादिकं प्रकल्प्य सर्वशब्दवाच्यत्वं तस्य साधयित्वा पश्ाद्धर्मगुणादिरहित निर्विशेषं ब्रह्मेति तात्पर्यविधया बोध- यन्ति ब्रह्म श्रुतय इति पर्यवसन्नार्थः। एवं सगुणश्रुतीनां निगुणश्रुतीनां भेदश्रुतीनामभेदश्र रीनां च यवहारपरमार्थरूपदशाभेदेन ब्रह्मणि सम- न्वयाङ्रह्मणरश/स्त्रयोनित्वमुपपद्यते। नच व्यवहारतस्सगुणमपि ब्रद्म वस्तुतो निर्गुणमिति कथमेकरूपे व्रह्मणि व्यवहारपरमार्थदशाद्वयसत्त्व- मिति वाच्यं, मायावैभवेन तत्सिद्धेः । माया हि रज्जुमपि सर्प करोति, एकं चन्द्रमपि चन्द्रद्वयं करोति, तल्पे शयानमपि काशी गच्छन्त करोति; तथा ब्रह्मापि जगत्करोति, एकमपि ब्रह्म जीवेशौ करोति; निष्क्रियमपि सक्रिय करोति। तवैतावन्मात्रेण विकारित्वं ब्रह्मग- इशङ्कयम्- रज्जौ वस्तुतस्सर्पस्येव मजणि वस्तुतो द्वैतस्याभावात्। नहि मिथ्याभूतमरीचिकोदकेन भूमे: पंकिलत्वम्। नच द्वैतस्य मिथ्यात्वे विवदितव्यं- श्रुतियुवत्वनुनवसिद्धलाद्द्वैवमिथ्यांत्वस्य। इद च द्वैत- मधिष्ठानब्रह्मसाक्षात्कारे सति मायया मूलेनसह निबर्तते। अतएव मुक्तस्य न पुनर्द्वैतोपलम्भः । ननु श्रोत्रमात्रप्रियभिद वचन, नतुं सत्य तत्त्वविदोपि द्वैतोप- लम्भादिति चेन्मैवम्-यस्य छ्वैतोपलम्भस्स न तत्त्ववित्; तत्त्व- विद्धि ब्रह्म, ब्रह्म चाद्वितीयनिति कथ तस्य द्वैतोपलम्भः ?
केवलात्तु साक्षात्कारादावरगशकियुक्तमायासहितद्वैतस्य निवृतिरिति विक्षेपशक्तियुक्तमायायास्सत्त्वादस्ति तत्त्वविदो यावदेहपात द्वैतो-
Page 94
शारीरकचतुस्सूत्रीविचारः । ७७
पलम्भ:। अथवा तत्त्वविदोऽपि व्यवहारकालेऽिष्ठानसाक्षातकाराभावा- दूद्वैतोपलम्भः, समाधिकाले तु तत्सत्त्वात्तदनुपलम्भः; ततश्च यावत्पार- ब्धावसानं तत्त्वविदोऽपि न मायानिवृत्ति :; किंतु द्वैतेऽसत्यत्वनिश्चय एवेति द्वैतोपलम्भोऽस्त्येव; प्रारब्धावसाने तु माया नश्यतीति न विदेहमुक्तिंगतस्य द्वैतोपलम्भः । न चाघिष्ठानसाक्षात्कारे सति कुतो मायाया अनिवृत्तिरिति वाच्यं, रज्जं साक्षात्कृतवतोऽपि कालान्तरे तद्रज्ज/वेव पुनस्सर्पभ्रमदर्शनात्, रज्जुसाक्षात्कारेण तन्निष्ठाSविद्याऽनि- वृत्तेत्यवश्यमभ्युपगन्तव्यत्वात्। अतएव जात्वपि मायायां न विश्वासं कुर्यात्पण्डितो माया मया जितेति। इदानीं जितापि माया कालान्तरे पुनरापतेदेव, यथा शैवालमिदानीमपसारितमपि क्षणान्तरे पुनर्व्याप्नोति तदेव जलम्। अतएव पण्डितानामपि वशिष्ठादीनां कालान्तरे मायावशा- सपुत्रशोकाद्युपलम्भः । तस्माद्यावत्पारब्धावसान जेतव्यैव माया नतूपे- क्षितव्या। अतएव 'आसुप्तेरामृतेःकालं नयेद्वेदान्तचि'येति स्मर्यते। वेदान्तविचारादन्योपायेन हि न मायाया जयो भवेत्; इमां द्वैतोप- लम्भकरीं मायां जेतुमेव प्राज्ञास्सदापि समाधिमनुतिष्ठन्ति। समाधौ हि ब्रह्मसाक्षात्कारान्मायाऽपसर्पति क्वापि; सच समाधिर्वेदान्तविचारजन्य एव; वेदान्तविचारान्निर्विकल्पं ब्रम्म ज्ञात्वा हि निर्विकल्पसमाधि भजन्ते पण्डिताः। अहं ब्रह्मास्मीतिनिश्चयज्ञानरूपब्रह्मास्त्रपरयोगं विना नेयं माया केनापि जेतुं शक्यते; तच् ज्ञानं समाधिमतः पुरुषस्य सुलभ विचारित- महावाक्यार्थस्य; सच विचारः प्रकृतोत्तरमीमांसाशास्त्राध्ययनसाध्य; तस्य
Page 95
७८ शारीरकचतुस्सूत्रीविचारः । च शास्त्रस्य प्रधानभूतेयं चतुस्सूत्री। मया चेयं यथामति व्याख्या- तेत्येतच्छारीरक चतुस्सूत्री विचारा दवगतातपुरुषस्याधिकारिणस्सिद्धयेदवश्य मुक्तिः। तस्मात्सर्वैरास्तिकैर्ममुक्षुभिरधिकारिभिः पठनीयोडयं अ्रन्थः ।
हृयग्रीवस्य पादाब्जे पुष्पाञ्जलिरिव स्वयम् । शारीरकचतुस्सूत्रीविचारोऽद्य मयाऽर्पितः॥
इति बेलंकोण्डोपनामक रामकविकृतिषु श्रीशारीरकचतुस्सूत्रीविचारः । • साधारणमार्गशिरबहुलदशमी।
Page 96
आत्माष्टकस्।
अतैव देहे परिमृग्यते जैस्तोय रात्मा परिलभ्यते च। हत्पनकोशाख्यद्र दधानस्तद्वल्हसारमपि स्ववित्यै ।।१।। हृत्पझकोशस्सहसत्रारचक चेत्युमय परमात्मन उपलब्धिस्थानत्वा- त्परमात्मनस्तदुभयघर्तृत्वं; वित्तिरुपलव्धिः । मायापुतत्वात्कमलासहायी नारायजोऽन्त: करणेरणेन। सर्वत्र सत्वादपि देवनाच श्रीवासदेवोऽप्ययमन्तरात्मा ॥२। अन्तःकरणानि जीवा :; बारं जीबसमूह ः; देवनाद्गासनात्।।२।। वेदैकवेदो यदयं महात्मा सक्टीत्व्ते तादेद्वजराजकेतु: ।
गरुडस्य वेदमयत्वादिति भावः । प्राणस्य अमितहंसवृत्ति- मत्त्वाच्छेषस्य चालितशिरत्कत्वारसहसमब्दस्य चामितवाचित्वादिति भावः । परमाओ्रं परमव्योम। ।।३॥।
रागाख्यपीताम्बरसंवृतात्माउच्युततस्वरूपान्न यदच्युतस्तत्।। धीवृत्तिविति: व्ृत्तिज्ञानं; रागो मकानामात्विषयकभक्तिः ॥ कृष्णरसदानन्दमयत्वतोरडयं खप्ने यथा जाग्रति चात्र सर्वम्। आस्ते हि विश्रम्भर एष तस्नादानोदर: पङ्कजनाभ एव ।।५।। हि यस्मात् । ।।५॥ तत्व महद्वह्ममयं यदस्सादकदी रद्रमयी च जज्ञे। तदुच्यते केशय इत्वर्यं मल्ोपि जजे न ततोऽज एष: ।।६।।
Page 97
महत्तत्वं धी, अल इलोकतूये 'कृषिर्भवाचकशशब्दो णश्च- निर्वृतिवाचकः । तयोरैक्य पर्त्रक्ष कृष्ण इत्यभिधीयते ॥ क इति ब्रक्षणो नाम ईशोऽहं सर्वदेहिनाम्। आवां तवाङ्गे सम्भूतौ तस्मात्केशव- नामवा' निति स्मृतिद्वयं वेद्यम्। अलं न यस्मादमुमिन्द्रियाणा गणो गृहीतुं तदथोक्षजोऽयम्। सुधुप्िमूर्छादिषु सर्वमेतद्यदर्दयत्येष जनार्दनस्तत्। ॥७।। तत्सर्वधर्मान्परिमुच्य भकत्या सेव्योयमेको विदुषां सपाऽडत्मा, योऽमुं विहायान्य सुरोपरोवी गङ्गातटेऽन्धुं खनति स्म सोज:। 'वासुदेवं परित्यज्य य उपास्तेज्यदेवताम्। तृषितो जाहवी- तीरे कूपं खनति दुर्मति'रिति स्मरणापिति भाव: ॥
इति बेलकोण्डोपनामक रामकविकृतिषु आत्माष्टकस्। साधारणभाद्रादशुदसत्तमी। श्रीहयगीपर्रु!