1. Sarswathi Kanthibharana KM 94
Page 1
GOVERNMENT OF INDIA ARCHÆOLOGICAL SURVEY OF INDIA ARCHÆOLOGICAL LIBRARY
ACCESSION NO. 1603 CALL No. Sa4A/-k.P
D.G.A. 79
Page 2
KĀVYAMĀLĀ 94.
THE SARASWATI KANTHĀBHARAŅA BY DHĀRESHVARA BHOJADEVA.
WITH Commentaries of Ramsinha (I-III)CC.N. AND JAGADDHARA (IV). 1603 EDITED BY PAŅDIT KEDĀRNĀTH S'ARMĀ AND WĀSUDEV LAXMAN S'ĀSTRĪ PANSĪKAR.
Sa4A Second Edition.
BAo/k.P. PUBLISHED
PĀNDURANG JĀWAJĪ, PROPBIETOR OF THE "NIRNAYA SIGAR" PBESS, BOMBAY.
1934:
Price 5 Ru
7.0 2
Page 4
काव्यमाला ९४. धारेश्वरश्रीभोजदेवविरचितं सरखतीकण्ठाभरणम्।
रामसिंहविरचितया तृतीयपरिच्छेदान्तया जगद्धरविरचितया च चतुर्थपरिच्छेद- टीकया सनाथीकतम्।
जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसादतनय- पण्डितकेदारनाथशर्मणा, मुम्बापुरवासिपणशीकरोपा्द्व- वेद्वद्वरलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा च संशोधितन् । ARCHA
द्वितीयावृत्ति: । Chand Mu |New Delhi Sooksellers
6 तथ Publishers LIbN Nay 2 मुम्बय्यां NDE पाण्डुरङग जावजी इट तिये निर्णयसागराख्यमुद्रणयब्रालये मुद्रयित्वा प्राकाश्यं नी
शकाब्दा: १८५६; सिखाब्दा: १९३४: 1974 य 4 रूप्यका: । Tier 7-0
Page 6
॥ श्रीः ।। सरखतीकण्ठाभरणे समुदाहतानां पद्यानां कवयो ग्रन्थाश्च।
अद्भुतपुण्य :- सुभाषितावलौ कवेरस्य 'आयाते दयिते मरुस्थलभुवां' इत्यादि यं 'अद्ुतफुस्य' इति नाम्ना समुपलभ्यते । शाधिरपद्धती तु पद्यमेनदय प्याते दयिते मनोरथशतैः' इत्यादिपयं चाद्ुतपुण्यनान्नैोलविखिते। अद्भुतपुण्यः, छुतफुडथामिन्नाविति प्रतीयते। सरस्तीकण्ठाभरणे 'आयाते दयिते मरुस्थल- *' इत्यादि पथमुदाहतम्, दशरूपके च । केः समयोऽस्यानिश्चितः । अमिनन्द :- कादम्बरीकथासारकर्ता काश्मीरकः कविरनुमानतः सिस्तीयाष्टम- कोत्तरमागे समुत्पन्नः । यतोऽस् पथ्चमः पूर्वपुरुषः शक्तिस्वामी कर्कोटवंशो- वस मुक्तापीडनरपवेर्मन्रि्रिप्रवर आसीदिति ग्रन्धकारः खर्वशविस्तृतिमवर्णयद् नयरम्मे। नुकापीड इति तु ललितादित्यस्यापर नामेति राजतरजिण्यां प्रसिद्ध- व, एर्वं स जिस्तीयसप्तमशतकोत्तरभागे समासीदिति च। अमर :- अस्य सरखतीकण्ठाभरणे त्रयोदशपद्यान्युदाहतानि। सोडयं प्रसिद्धः मे: कदा समुत्पन्न इति न ज्ञायते। किंतु श्रीमान् आनन्दवर्धनाचार्यः खीये न्यालेके तृतीयोक्ष्योते 'मुक्तकेषु हि प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो गन्ते। तया ह्मरुकस्य कवेमुक्तकाः शभ्ाररसस्पन्दिनः प्रबन्धायमानाः प्रसिद्धा ।' इति लिखति। आनन्दवर्धनाचार्यात् प्राचीनोऽयमिति नवमखिस्वशताब्द्ा य पूर्वभवत्वं सिध्यति। आनन्दवर्धन :- सुप्रसिद्धस्य धन्यालोकस्य रचयिता काश्मीरक आर्लकारिक: वै:। काश्मी रेष्वयमवन्तिवर्मणः समये स्रिस्तीयनवमशताब्दयामासीदिति कहणस्य नतरजिणीतो ज्ञायते- मुक्ताकण: शिवखामी कविरानन्दवर्धनः।
अस्य कमे: श्रीमता भोजदेवमहाराजेन षद कारिका उद्टड्िताः। १.(शज्ार एव
Page 7
२
मधुरः) पृ० ६२८,२. (शजारे विप्रलम्भाख्ये) पृ० ६२८,३. (रौद्रादयो रसा दीप्ता: ) पृ० ६२८,४, (समर्थकत्वं वाक्यस्य) पृ० ६२८,५. (रसवन्ति हि वस्तूनि) पृ० ६३१,६. (रसाक्षिप्ततया यस्य) पृ० ६३१, ध्वन्यालोके समुदा हृतानि चाष्टी पद्यान्युदाहरणत्वेन गृहीतानि। तानि यथा-(येन ध्वस्तमनोभवेन पृ. १९२, (तस्या विनापि हारेण) पृ० २२२ (अनुरागवती संध्या) पृ०३ (कस्स व ण होइ रोसो) पृ० ४५२, (प्राप्तश्रीरेष कस्मात्) पृ० ४५५,७ (शेषो हेमगिरिस्त्वं च) T० ४७५, (कुविआओ वि पसन्नाओ) पृ० ६७ उदात्तराघवकर्ता-रनामविषये कालविषये च न किमपि ज्ञाय वनिकेन दशरूपके (४।२६) उदाहृतं 'मृगरूपं परित्यज्य' इत्यादिपद्यमन्नापि समुदाहृतम् (प. ७३९)। कालिदास :- अत्र महाकवेरस्य रघुवंश-कुमारसंभव-मेघदूतकाब्ट शाकुन्तलविक्रमोर्वशीयनाटकाभ्यां चोद्तानि पद्यानि। रघुवंशीयानि ४८ त्वारिशत् पद्यानि, कुमारसंभवाच ५३ त्रिपशाशत् पद्यानि, मेघदूताथ १४र र्दश पद्यानि, अभिज्ञानशाकुन्तलनाटकाच ३७ सप्तत्रिशत् पद्मानि, विक्रमोवशी नाटकाच १६ पोडश पद्यानि समुदाहृतानि प्राप्यन्ते। सोऽयं पच्चम्यां खिस्ती- यशताव्यां समुदभवदिति बहूनां पाश्चात्यानां पौरस्ल्यानां च विदुषां मतम्। कुमारदास :- जानकीहरणकर्ता सिंहलद्वीपस्थः कविः । अयं कालिदाससम कालिक इति किंवदन्ती।। 'कमले कमलोत्पत्तिः श्रूयते नापि दृश्यते। बाले तव मुखाम्भोजे कथमिन्दीवरद्यम् ।' इति पद्यं चोभयकविकर्तृकं प्रसिद्धम्। क्षेमेन्द्रेणौचित्यविचारचर्चायां 'अयि विजहीहि दढोपगूहनं' इत्यादि पद्यं कुमारदासनान्ना लिखितमत्रापि प्राप्यते (पृ० १५१) । चण्डक :- 'च्युतामिन्दोलेँखां' (पृ० ६०८) इत्यादि पद्यं सुभाषितावा चण्डकनान्ना, शार्नधरपद्धती च कीडाचन्द्रनान्ना प्राप्यते। समयोऽस्यानिश्चितः- चाणक्य :- 'शैले शैले न माणिक्यं' इत्यादि पयं (पृ० २५४) चाणक
विशव्यधिकशतत्रयपरिमितेषु वर्षेंषु राज्यं चकारेति सिद्धमेव। कौटिल्यापरनामधेय
Page 8
३ णिक्यस्तन्मन्त्री तदानीमासीदिति निश्चितमेव। केनापि विदुषा चाणक्यनान्रैव देतनीतिशतकं विरचितं भवेद यदधुना बालकै: पठते। DP चिन्नमः, चित्रमो वा-अस्य चित्रप इति छित्तप इति वा नामेति ऑफेक्ट- तः । शान्धरपद्धतौ 'छित्रम' इति, गणरत्नमहोदधी तु चित्तप इति नाम लभ्यते। 'कल्पान्ते शमितत्रिविकम' (पृ० ३६१) इति पद्यमेकमेवोपल- । कालविषयेस्य न किमपि ज्ञातम्। मिनिसूत्रवृत्ति :- 'जरदवः कम्बलपार (प्ृ० ३६) इत्यादिपर्यं मामांसावृत्तेरुद्ुतं भोजदेवेन। नण्डी-काव्यादर्शः, दशकुमारचरितम्, छन्दोविचितिश्वेति ग्रन्थन्रयस् ॥ पष्ठे शतके समुतपन्नः । सरसतीकण्ठाभरणे काव्यादर्शात् ४१ एकचत्वा- कारिका: १६४ चतुःषश्युत्तरैकशतमुदाहरणानि च संकलितानि श्रीमता देवेन। प्रायो ग्रन्थेऽस्मिन् दण्डिविरचितस्य काव्यादर्शस्यैव विस्तरः । दीपक :- सुभाषितावली 'यदि स्मरामि तां तन्वी' इति पद्यमुपलभामहे। अत्राप्येतत् पद्यमुदाहृतम् (पृ० ३०४)। द्रोणपर्-'ततः कुमुदनाथेन' पृ० १३४ इत्यादि पद्यं महाभारतीयद्रोण- सर्वत उद्धत्योदाहतं भोजदेवेन। धनिक :- धनिको धनजयथ विष्णुतनूजी भ्रातरी मुजसमकालिकी दशमश- तकोत्पन्नौ। दशरूपकस्य कर्ता धनंजयः, तदालोकस्य कर्ता च धनिकः। दशरू- पकालोकसरस्वतीकण्ठाभरणयो: पोडशोदाहरणानि समानि। धाराकदम्य :- 'वाले मालेयमुचैर्न' पृ० २४४ इति पदं सुभाषितावली शार्जधरपद्ती च धाराकदम्बनानना प्राप्यते। नमिसाधु :- रुदटालंकारस्य टीकाकर्ता। सरख्वतीकण्ठाभरण उदाहतानि कत्वार्युदाहरणानि नमिसाधोष्टीकायामुपलभ्यन्ते। तानि यथा-'अयं पद्मासना- सीन: पृ० ४२, 'चन्द्रायते शुक्करूचाथ' पृ० ४११,१९ 'यस्या बीजमहंकृतिः' पृ० ४२३, 'यथ् निम्बं परशुना' पृ० ४७७, सोऽयं नमिसाधु: १०६९ सिस्तवषे टीकां रचितवानिति टीकासमाप्तिश्छोकाज् ज्ञायते।
Page 9
नारायण :- वेणीसंहारनामकनाटकस्य रचयिता। ध्वन्यालोकेडपि तदीचा पद्मानि समुपलभ्यन्त इति नवमशतकात् पूर्वतनोऽयं कविः। सरत्तीकण्ठासर ११ एकादशपद्यान्युदाहरणरूपेण संप्राप्यन्तेऽस्य। निद्रादरिद्र :- 'जाने कोपपराचुखी प्रियतमा' पृ० ६०० इति एयं सुभा पितावलौ निद्रादरिद्रकर्तृकत्वेन लिखिततम्। तदेतत्पयं काव्यड काशेऽपि श्रीमता मम्मटाचार्येण समुदाहतम्। निशानारायण :- शार्नधरपद्ती 'अभ्षुद्वारिकृताभिमन्यु' पृ- ५८६, वृधि- ए्ठन्त्या रतान्ते' पृ० १६१, पृ० ६२०, इति पद्द्यी निजानारायणनामोहककिता पश्चस्तवीकर्ता-कवेरनाम न लब्धम्। काव्यमालायां मुवरि्तनेयं पद 'चवत्कावनकाथयो' पृ० २४९, 'लक्ष्मीवशीकरणचूर्ण' पृ० ७१३ द सरखतीकण्ठाभरणे समुदाहता पश्चस्तव्यां प्राप्यते। प्रभाकर :- 'दिव्यातन्ञघटाविभक्त' प्ृ० ११४, १७५, ४१९ दति प क्षेमेन्द्रस्यीचित्यविचारचर्चायां प्रभाकरस्पेति संलिखितम्। प्रवरसेन :- सेतुबन्धकाव्यकर्ता। ३१ एकत्रिंशत् पद्यानि सेतुपन्यादुदूत्तानि सरखतीकण्ठाभरणे। सोऽयं कविः कैनिगहाममतेन ४३२ सिन्ताब्वेजर्थात,पज्त-
वाण :- महाकवेरस्य सप्तमशतकोत्पन्रत्वं सुप्रसिद्धम्। श्रीमान नोजदेगो द्वितीये परिच्छेदे- 'यादगगद्यविधी बाणः पद्यबन्धे न तादशः । गत्यां गत्यामियं देवी विचित्रा हि सरखती।I' इति वाणविषये लिखति। सरखतीकण्ठाभरणे कादम्बरीत :- 'हर इन वितमन्नणो' पृ० १५४ इति गय्यभाग:, 'दिशामलीकालकभझता' इति पद व समुदाहते। चण्डीशतकान-'विद्राणे रुद्रवन्दे' पृ० २४७ 'नीते निर्व्याजवीर्णा' यु० १४७ 'प्राक काम दहता कृतः परिमवो' पृ० ७०० इति पद्मत्रयी समुवाहता । मुमी- पितावल्ै शार्जधरपदती च बाणकर्तृकत्वेनोलिखितं पद द्रगं-'सर्पाधारय दग्घवीरुधि' पृ० २४८, ७११, 'उद्यद्वर्हिषि दर्दुरारवमुषि' पृ० २४ट, अत्रोदाहतम्।
Page 10
५
युदृदारण्यकोपनिषद्-अस्या उपनिषद: 'यस्मिन् पथ् पथ्च जनाः' पृ० ति पद्यमथ 'द्म दानं दयां शिक्षेः पृ० ३८५ इति मन्त्रपूर्ण पद्यं चोदू- पोदाडते भोजदेवेन। म्रसबिन्दूपनिषद्-अस्याथोपनिषद :- 'एक एव हि भूतात्मा' पृ० ४०४ एघ ेक: समुदृत्योदाहतः । भड्कपर्दी-सुभाषितावली 'अम्बा तुष्यति न मया' पृ० ५२४ इति पदं मह भटिः-भह्टिकाव्याद् भोजदेवेन पट् पद्यान्युद्धतानि। ऑफेक्टपण्डितमतेन सहहिः भटस्वामी, भर्तृखामी चैकस्येव विदुषो नामानि। वेबरमतानुसारं भट्टिकाव्यं पक्मो सप्तम्यों वा यताब्यां श्रीधरसेननामकस्य राजः पुत्रे वहभी शासति तन्रेव रचितं मह्टिकविनेति सुभाषितावलौ डॉ. पीटरसन: संलिखति। भरत :- नाट्यशास्त्रात् सरस्तीकण्ठाभरणे कारिकादयी पथ्चमपरिच्छेदारम्मे संपदीता 'रतिर्हासथ शोकथ' इति, 'स्तम्भस्तनूरुहदोद्वेद:' इति च। कालोऽस्या- ।प्यनिश्चित एव। हरि :- नीविशतकात् 'इतः सपिति केशवः' पृ० ४६० इति पद्यं भोजदेवेन। एतदीयं वाक्यपदीयं हेलाराजपुज्जराजाभ्यां विरचितया यैकया सनाथमिति हेलाराजात् प्राग्भवत्वमस्यैवं हेलाराजस्य कहणात् प्राचीनत्वमिति बहु आनीनोऽयम्। अस्य विषये जयपुरस्थानां प्रधानराज्याधिकारिणां रायवहा- हूर पुरोहित श्रीगोपीनाथ एम्. ए.,सी. आई. ई. इति सुगरहीतना- संलिखिता शतकत्रयभूमिका समालोच्या भावुके:। भहटः-भहटशतककर्ता। 'कि जातोऽसि चतुष्पथे' पृ० ४५८ इति पदं चुभापितावली भलटनात्रोपलब्धम्। मघभूति :- उत्तररामचरित-महावीरचरित-मालतीमाधवनाटकानां कर्ता। डॉक्तर वीरामकृष्णगोपालभाण्डारकरमतेनाष्टमशताव्याः पूर्वभागे समुत्पन्नः । सर- सतीफष्ताभरण उत्तररामचरिताद् २२ द्वाविशति: पद्यानाम्, महावीरचरिताच पय्यानां 1६ पोडशी, मालतीमाधवाच् ३५ पघत्रिशत् पद्यान्युदाहतानि भोजदेवेन। भामहः-आलकारिकोऽयं सुप्रसिद्धः । अस्य अ्रन्थोऽपि प्रकाशित एव। वनिकारादानन्दवर्धनादयं प्राचीनः । 'किंशुकव्यपदेशेन' इति पद्यं पृ० ४६९ सुमापितवली भामहनाम्रोलिखितम्।
Page 11
६
भारवि :- किरातार्जुनीयकर्ता। सप्तमशताब्यामुलिखिते द्वितीयस्य पुलके- शिन: शिलालेखे कवेरस्य कालिदासस्य च नामोपलळ्ध्या ततः प्राक्तनत्वभस्य सिध्यति। भोजदेवेन खग्रन्थे ३८ अष्टत्निशत् पद्यान्युद्गतानि। भास :- कालिदासादयं प्राचीन इति बहूनां मतम् । अस्य नाटकचकं महा- महोपाध्यायगणपतिदेवशास्त्रिभि: सुध्रु संपादितं प्रकाशितं च। भोजराज :- 'कियन्मान्रं जलं विप्र' इति पय्यं पृ० १२२,२९८ शार्जधरपद्दती भोजराजनान्ना लभ्यते । सोऽयमस्माकं सरखतीकण्ठाभरणकर्ता भोजदेवः । परंत्वे- तत्पयं न भोजस्य खोपज्ञमेवेति ज्ञायते। यतो राजशेखरः खीयकाव्यमीमांसायां शोकमेनमुदाजहार । राजशेखरथ् भोजात् प्राचीनः । मजजीर :- 'अन्यतो नय मुहूर्तमाननं' इति पद्यं (पृ० ४३७) सुभाषितावल मजीरनान्ना लिखितम्। महानाटककर्ता-महानाटककर्ता हनुमान्रामकविः श्रीरामदूतो हनुमान वेति न निश्चितम् । ग्रन्थेऽस्मिन् बहवः श्रोका अन्थान्तरीया अपि सन्तीति समालोचकभणितिः । एवमपि प्रवादो यदेतन्राटकं समुद्रे शिलोहिसितप्रक्षिप्तं भोजदेवेनैव संलब्धं प्रकाशितं च । संभाव्यतेऽत एवास्मामिरपि यदत्र शीणो भाग: प्राक्तनैः प्रसिद्धः पद्ः पूरितो भवेत् केनचित् कविनेति। माघ :- शिशुपालवधकाव्यस्य रचयिता सुप्रसिद्धो माघः कविः सिस्तान्दीय- नवमशतकात्कथमपि नार्वाचीनः । यतो ध्वन्यालोके माधकाव्यादुदाहतानि पद्यानि श्रीमतानन्दवर्धनाचार्येण। ४४ चतुश्वत्वारिशत्पद्यान्युदाहरणरूपेण सरखतीकण्ठा भरणे भोजदेवेनापि संकलितानि । कवेरस्य विशेषवर्णनं द्रष्टकामैरस्मत्पितृ चरणै: श्रीमन्महामहोपाध्यायदुर्गाप्रसादमहोदयेः संपादितस्य माधस्य भूमिका विलोक्या मालवरुद्र :- 'अमिनववधूरोषखादुः' पृ० १३१, ७२२ इत्यादि पद्यं मालव- रुद्रनाम्नोदाहतं क्षेमेन्द्रेणीचित्यविचारचर्चायाम्। मुख् :- वाक्पतिरिति प्सिद्ोऽयं मुजोऽस्माक ग्रन्थकर्तुर्भोजदेवस्य ज्येष्ठ पितृव्यः । दशरूपकभूमिकायां हालपण्डितः सुष्रु वर्णितवान् विषयमेनम्। ऑफे कटपण्डितमतेन 'सौजन्यास्तुनिधे' प्ृ० ६० शोकोऽयं मुनकृतः । परं श्रोके उस्मिन् मुझं लक्ष्यीकृत्यवोकि: । सेयमुक्तिर्भोजदेवस्य संभाव्यते। मेण्ठ :- हयग्रीववधनामकस्य काव्यस्य। रचयिता काश्मीरकोऽयं महाकविः
Page 12
७
'मधुविकचसितोत्पलावतंस' पृ० ३३८ इत्यादि पद्यं सुभाषितावलौ मेण्ठनाश्रा प्राप्यते। क्षेमेन्द्र: सुनत्ततिलके ह्यश्रीववधस्य प्रथमं पद्यमेवमाचरूया- 'आसीडैल्ो हृयग्रीवः सुहृद्वेश्मसु यस्य ताः । प्रथयन्ति बलं बाहो: सितच्छत्रस्मिताः थ्रियः ॥' राजतरत्विण्यां तृतीये तरजने कहणपण्डितः कविमेनं मातृगुप्तकालिकं कथयति। मातृगुप्तथ विक्रमादित्यकाले समभवदित्वस्य पञ्चमशतकोत्पन्नत्वं सिध्यति। यशोवर्मा-'यत्त्वन्ञेत्रसमानकान्ति' पृ० ४१२।७२५ इत्यादि पर्द्यं क्षेमेन्द्रस्य सुनृत्ततिलके यशोवर्मनान्नोलविखितम् । 'कृतकक्रुपितैर्वाष्पाम्भोभिः' पृ० ६९६ इत्यादि च प्द सुभाषितावली यशोवर्मण एव । सोऽयमष्टमदताव्यां कान्यकुब्जे- श्वर आसीत्। राजशेखर :- वालरामायणनाटकस्य, विद्धशालभजजिकाया नाटिकायाः, कर्पूर- मजरीनामकसटकस्य प्रचण्डपाण्डवापरनामकवालभारतनाटकस्य, काव्यमीमांसाख्य- साहित्यग्रन्थस्य च रचयिता यायावरीयः प्रसिद्धः कविः सत्रिस्तीयदशमशतकप्रारम्में महेन्द्रपालनामकभूपते: सभायामासीत्। भोजदेवेन वालरामायणनाटकात् ५ पच् पद्यानि, विद्धशालभजनिकायाथ् पद्यत्रयमुदाहतं खालंकारग्रन्थे। रुद्रट :- काव्यालंकारस्य रचयितालंकारिकः कविर्भोजदेवात्प्राचीन: । १९ एकोनविशतिपद्यान्युदाहतानि ग्रन्थादस्य भोजदेवेन। लक्ष्मीघर :- 'कम्पन्ते कपयो मृशं' पृ० ३१६ इत्यादि पद्ं शार्मधरपद्ती लक्ष्मीघरनाम्ना प्राप्यते। वामन :- काव्यालंकारसूत्रकर्ता प्रसिद्ध: काशमीरको विद्वान सिरिस्ताब्दीयनवम- शतकान्नार्वाचीनः । यतोऽस्य ध्वन्यालोकलोचने नामोपलभ्यत इति। २२ द्वावि- शतिधोदाहतानि भोजदेवेनास्य अ्रन्थे प्राप्यमाणानि पद्मानि। वाक्पतिः-गौडवहो नामकः प्राकृतकाव्यकर्ता। गोडवहो काव्यात् उदृता 'उब्वदह दइ अगदि याह' पृ० ५७६ इत्यादि गाथा समुदाहता भोजदेवेन। कवेरस्य यशोवर्मराज्यकालः पथ्चमशताब्दी स्ि्रिस्तीया कालोऽवगन्तव्यः। विकट नितम्वा-सेयं प्रसिद्धा कवयित्री। 'कि द्वारि दैवहृतके' पृ० १६१, ७०९, ७१८ इत्यादि पयं त्रिधोदाहतं भोजदेवेन। समयोऽस्या अद्याप्यनिश्चितः।
Page 13
८
विजयपाल :- 'अमृतमभृतं चन्द्रथन्द्रः' पृ० २५४ इत्यादि पदं सुभाषिता- चली विजयपालनासा प्राप्यते। विज्जिका-(विज्चका वा ) इयमपि स्री कविः । अस्याथापर 'मारुला' इति नाम 'नीलोत्पलदलश्यामां विजकां मामजानता। वृथैव दण्डिना प्रोकं सर्वशुक्का सरखती।I' इत्यपि पद्यं सुभाषितावली प्राप्यते । ततो दण्डिन अर्वाचीनेयमिति सिध्यति अस्याः 'उलमय्य सकचग्रह्मास्यं' पृ० ८७, ६०१ इत्यादि पद्यम्, 'विलासम- सुणोल्सत्' पृ० ६०२ इत्यादि पद्यं च सुभाषितावलाबुद्ते। विद्यापति :- 'सुभ्रस्त्वं कुपितेत्यपास्त' पृ० १९१ इत्यादि पद्य शार्तधर पद्धती विद्यापतिनान्ना प्राप्यते। विशासदत्त :- मुद्राराक्षसनाटककर्ता । अस्य 'उवरि घर्ण घणपडिक इत्यादि प्राकृतं पद्यं सरसतीकण्ठाभरणे संस्कृतभाषोपनिबद्ध 'उपरि घनं घनपटर पृ० ३५३ इति प्राप्यते। विष्णुशर्मा-पच्चतन्त्रस्य रचयिता । 'श्रूयतां धर्मसर्वखम्' पृ० ७१ इतय पद्यमुदाहृतं भोजदेवेन। पच्चतन्त्रे याज्ञवल्क्यस्मृतेनीमोपलम्यत इति सोडयं क सिस्तीयतृतीयशताब्याः परत्तुर्थशताच्याक्च पूर्व समुत्पन्न इति प्रतीयते। विह्लणकवि :- महाकविरयं स्रिरिस्तीयैकादशशताब्द्यामुत्पन्नः । अस्य चं सुरतपच्ाशिकातः 'अद्यापि तत्कनककुण्डल' पृ० १३६ इत्यादि पद्यमुद अन्यकर्त्रा। शूद्रक :- सृच्छकटिकप्रकरणस्य कर्ता। स्कन्दपुराणस्य कुमारिकाखण्डानुसा रमेष कलिवर्षेषु ३२९० वर्षेपु व्यतीतेपूदभवत्। मार्समैन नामकपाश्ात्यविदुय लिखितस्य भारतेतिहासस्यानुसारं मगधश्चासक: सिपरुकूनामको राजमत्र्री १९१ सिसवर्षे शूद्रकेण हत इति शूद्रको द्वितीयस्त्रिस्वशताब्यामासीत्। 'पलिच० लम्बदशाकपार्ल' पृ० ६९२ इत्यादि पद् 'जदिच्छरे' इत्यादि मृच्छकटिके प्राप्यते। श्रीहर्ष :- रन्नावलीनाटिकायाः, प्रियदर्शिकानाटिकायाः, नागानन्दनाटकस्य, च कर्ता सुप्रसिद्ध: कान्यकुब्जेश्वरो बाणमयूरादिप्रसिद्धकवीनामाश्रयभूतः सरम- दतकोत्पन्नः । रव्नावल्या नव पद्मानि, नागानन्दाचेकं पद्य 'टष्टा दष्टिमधो ददाति'
Page 14
९
६६९ इयादि समुदाहतं श्रीमता भोजदेवेन। [तदेतदा्चर्यं यद् भोजदेवेन श्रीहर्षविरचितात् नैषधीयचरितात् पद्यमेकमपि नोदाहतम् ।] सातवाहन :- गाथासप्तशतीकर्ता प्रसिद्ध: शालिवाहनो राजा शकप्रवर्तकः। गाथासप्तशत्याः ११३ त्रयोदशोत्तरमेकशतं गाधानामुदाहतं भोजदेवेन। अस्मा- भिर्योदाहरणानुक्मणिका योजिता तत्रैता गाथाः सातवाहनस्य गाथासप्तशतीस्था इत्यस्माकं सहृदय: साहित्याचार्यभदश्रीमथुरानायैः साहित्याध्यापकैः सूचिताः । महाभागेरेभि: गाथासप्तशती संस्कृतभाषायामार्याभिरनूदिता, एवं व्यज्रयार्थबो- घिनी टीकापि विरचितेति हर्षास्पदम् 'अणुमरणपत्थिआए' गा. स. ७।२२ 'अण्णमहिलापसंगं गा. स. १।४८ 'अण्णह न तीरइचिअ' गा. स. ४।४९ 'अण्णुह णाहं कुविआ' गा. स. २८४ 'अत्तात्तह रमणिजं' गा. स. १।८ 'अमअमअगअणसेहर' गा. स. १।१६ 'आलाओ मा दिज्जड़' गा. स. ६।१४ 'आलोअंति दिसाओ' गा. स. ६।४६ 'उदच्छो पिअइ जलं' गा. स. २।६१ 'गम्मिहिसि तस्स पार्स' गा. स. o७ 'घरिणिघणत्थणपेह्ण' गा. स. ६।६१ 'घरिणीए महाणसकम्मलग' गा. स.१।१३ 'चत्तर धरिणी पिअदसणाअ' गा. स. १।३६ 'चिंताणिअदइअसमागमन्मि' गा. स. १।६• ['पाअडिअणेह'='पअडिअसणेह'] गा. स. २।९९ 'सा तइ सहत्यदिण्णं' गा. स. २।९४ [टीकाकत्रों: श्रीरामसिंहो नेपालाभिजनः, जगदरक्ष चतुर्थपरिच्छेदटीकाकर्ता काश्मीरक: सुप्रसिद्धो वासवदत्तादिटीकाकर्तेति ज्ञेयम् ]
Page 15
१०
विशेषतो द्रष्टव्यम्-सरसतीकण्ठाभरणे यान्युदाहरणानि यत उद्धृतानीदि सूचिका Col. G.A. Jacob नाम्ना पाथ्ात्यविंदुषा भूयसा श्रमेण विरचि- तास्माकं सहृदयै: Dr. F.W. Thomas M.A.,Ph. D. महोदयैः इण्डियाऑफिसपुस्तकालयाध्यक्षै: सकृपं संप्रेषिता। तदाधारेण अथ Dr. Peterson M. A. नामकविदुषा रचितायाः सुभाषितावलीभूमिकाया: संगृत्ेषा कविनामसूची निर्भितास्माभिः । व्यं डॉकतर तामस-महोदयाय धन्यवादान् वितरामः ।
संपादकौ।
डडिउ मटर
IT
Page 16
U
। श्रीः ।। परमारवंश्यो भोजदेवः।
परमाग्वंश्यानां प्राचीनशिलालेखादिमिः, परिमलापरनामधेयपद्मगुप्तरचितान्नवसा- 4. या तात् काव्याचवं ज्ञायते यदेतदवंशीयमूलपुरुषो वासिश्ठादमिकुण्डादर्युदाच- वते प्रादुरासीदिति। र तीकण्ठाभरणेऽपि नायकगुणेषु पुंसो महाकुलीनत्वोदाहरणे श्रीभोजदेव:
भूपालः परमार इत्यधिपतिः सप्ताब्धिकाश्चेर्मुवः। अद्याप्यद्धुतहर्षगद्गदगिरो गायन्ति यस्योङ्गटं विश्वामित्रजयोरजितस्य भुजयोर्विस्फूर्जितं गुर्जराः।' सोऽयं परमारवंशोऽमिकुलत्वेनात्मानंख्यापयति । परमाराः, प्रतीहाराः, चाल- क्याः, चाहमानाथेति चतुर्विधाः क्षत्रिया नानाशाखासु विभक्ताः खमभिवंशोङ्गवं मन्यन्ते। यद्यपि परमाराणामेवाभ्निवंशोद्धवत्वं सिध्यति यतो विविधेषु शिलालेखेपु चालुक्यादीनां सूर्यवंशोद्धवत्वं वर्णितम्। तथापि पृथ्वीराजरासोनान्नि डिजलारूय- भाषात्रन्ये चतुर्विधा अप्येते क्षत्रिया अभिवंश्यत्वेन वर्णितास्तथेवाधुना प्रसिद्धाथ्ष।
१. 'असत्यूर्वीधः प्रतीर्च्यां हिमगिरितनयः सिद्धदाम्पत्यसिद्धे: स्थानं च ज्ञानभाजामभिमतफलदोऽसवित: सोर्अुदाल्यः। विश्वामित्रो वसिष्ठादहरव बलतो यत्र गां तत्पभावा-
मारयित्वा परान् धेनुमानिन्ये स ततो मुनिः। .. उवाच परमारागय: पार्थिवेन्द्रो भविष्यसि॥ एपिगफिया दण्टिकाप्रथमपुटके पञ्चमभाग :- उदयपुरप्रशस्तिः।
Page 17
२
'ब्रह्माण्डमण्डपस्तम्भः श्रीमानस्त्यर्वुदो गिरिः। उपोडहंसिका यस्य सरितः सालभजिकाः ॥। ४९।।
अतिखाधीननीवारफलमूलसमित्कुशम्। मुनिस्तपोवनं चके तत्रेक्ष्वाकुपुरोहितः ॥ ६४॥ हता तस्यैकदा धेनु: कामसूर्गाधिसूनुना। कार्तवीर्यार्जुनेनेव जमदमेरनीयत ॥६५॥ स्थूलाश्रुधारासंतानस्रपितस्तनवल्कला । अमर्षपावकस्याभूद्धर्तुः समिदरुन्धती ॥। ६६।। अथाथर्वविदामाय्यः समन्त्रामाहुति ददी। विकसद्विकटज्वालाजटिले जातवेदसि॥६७ ॥ ततः क्षणात्सकोदण्डः किरीटी कामनाजदः । उच्चगामाप्नितः कोऽपि सहेमकवचः पुमान् ॥६८॥ दूर सन्तमसेनेव विश्वामित्रेण सा हता। तेनानिन्ये मुनेर्षेनुर्दिनश्रीरिव भानुना ।। ६९॥ ततस्तापसकन्यामिरानन्दाशुलवाडितः ।
परमारवंशवर्णनम्- परमार इति प्रापत्स मुनेर्नाम चार्थवत्। मीलितान्यनृपच्छत्रमातपत्रं च भूतले ॥ v१॥ प्रवर्तितातिविस्तीर्णसप्ततन्तुपरम्परः । पुराणकूमशेषं यथ्काराम्भोनिषे: पयः ॥ ७२ ॥
वंश: प्रवषृते तस्मादादिराजान्मनोरिव । नीतः सुदृत्तैर्गुरुतां नृपर्मुक्ताफलैरिव।। ७४ ।।' इत्यादि -- 1
Page 18
३
परं शिलालेखादिप्रमाणैः केवलं परमाराणामेवाभिवंश्यत्वं सिध्यति। अन्येषां च सूर्यवंश्यत्वं चन्द्रवंश्यत्वं च। परमारवंशे मालवदेशस्याधिपत्यमासीदिति तदन्ववा- यानां मालवाधीशत्वेनापि प्रसिद्धि:। वंशेडस्मिन् उपेन्द्रः (कृष्णराजापरनाम- घेयः ) अनुमानतो 800 A. D .- 825 A. D. काले प्रसिद्धो बभूव। मालवाधीशानां परमाराणां वंशवृक्षः। संर्या राजनाम ज्ञातसमय: (A. D.) विश्रेषता। १. उपेन्द्र: (८००-८२५) २. वैरिसिंह: १ (८२५-८५०) २. सीयक: १ (८५०-८७५) तत एवास्मिन् वंशे समुदूतानां राजां नामानि शिलालेखादिपूदृक्वितान्यधिगम्यन्ते। ४. वाक्पति: १ (८७५-९१४) ५. वैरिसिंह: २ ( वज्रटापरनाघेय: ) असौ धारानगर्या (९१४-९४१) राज्यं स्थापितवान्। ६. सीयक: २ (हषदेवा- ) ] 1 परनामा' एष राष्ट्रकूटवंशोन्वं खोहिगं पराजितवान (971-A.D.) ७. महाराजाधिराजो अतिप्रसिद्धोऽयं राजा चेदिवंशो- वाक्पतिः २ (मुजापरनामा ) द्ववं राजानं जितवान (९७७-९९७ ) ८. सिन्धुराजः (सिन्धुल इति ख्यातः) (१७५-१०००) नवसाहसाइचरित- (९९७-१११० ) ९. भोजदेव: १ (१०१०-१०५५) काव्यस्य नायकः । सरखतीकण्ठाभरणस्य रचयिता चालुक्यगुर्जरस्य भीमदेवस्य सम- सामयिक: ।(१०२२-६३)
एवमुपेन्द्रमारभ्य भोजदेवपर्यन्तं वंशपरम्परा। ऐतरेयव्राह्मणानुसार भोजशब्दो राजवाचकः। वैदिककाले भोजशब्देन राज्ां परिचय आसीत्। सत्यत्रतसामश्रमिणां मतेन भोज इति वंशनाम। यद्वा तद्वा भवतु भोजशब्दार्थ: परंत्वेतत्तु निश्चितमेव यद भोजशब्दो राजो राजवंश्यस्य वा बोधक आसीत्तदानीम्। सोडयमस्मार्क सर- २ स० क०
Page 19
8
सतीकण्ठामरणकर्ता भोजदेव: १०१० खृस्तीयकालमारभ्य १०५५ खृत्तीयसंव- त्सरपर्यन्तं धारानगर्या राजमान आसीत्। महाराजाधिराजस्यास्य खहस्ताक्षरालंकृतं दानपत्रत्रयमद्यावधि समुपलब्धम् । असौ भोजदेवः कविः कवीनां संरक्षको वास्तवं दानवीर आसीत्। आवालबृद्धं विकमादित्यनामेव भोजराजनान्नापि सुविदितः । मूल- मस्य विद्वत्समादर एवेति न नामाविदितं कस्यापि संस्कृतभाषाभाषिणः । 'प्रत्यक्षरं लक्षं ददौ' इति वारंवारं समुहिखन् बहालपण्डितः खीयभोजप्रबन्धे प्राक्तनानपि विदुषो भोजसमकालिकानेव विदधानस्तेषां राजसभायां समुचितं समादरं रारटीति। कडणपण्डितोऽपि- 'स च भोजनरेन्द्रश्च दानोत्कर्षेण विश्रुतौ। सूरी तर्मिन्क्षणे तुल्यं द्वावास्तां कविवान्धवी॥' (राजतरत्िणी ७२५९) एवं भोजसमानकालिक: साहित्यविद्यासूत्रधारः श्रीमम्मटपण्डितोऽपि 'भोजनृपतेखत्यागलीलायितम्।' : इति काव्यप्रकाशे दानवीरमेनं विद्ज्जनवल्लमं स्तीति। अस्मदुरुचरणानां जयपुर- राजकीयसंस्कृतपाठशालाध्यक्षाणां महामहोपाध्यायश्रीदुर्गाप्रसादद्विवेदिमहोदयानां तु मतेन 'प्रत्यक्षर लक्षं ददौ' इत्यस्य 'प्रत्यक्षर लक्ष्यं ददौ' इति परिवर्तनं कियन्त- मतिशयं धत्ते नामेति विद्वद्धिर्विशेषतो कवयितृभिविचार्य नाम। यतो राजा यदि स्वयमेवंविधविधो भवेद यः प्रत्यक्षरं लक्ष्यं दद्यात्तदा तहश्यमू- ल्यतो लक्षस्य द्रविणस्य नातिरेक: । भोजदेवसमये काष्ठवाहकोऽपि संस्कृतभाषापरिचित आसीत्। सरस्वतीकण्ठा- भरणे- 'भूरिभारभराक्रान्त वाधति स्कन्ध एप ते। न तथा बाधते स्कन्धो यथा बाधति वाधते॥' इति स्वयमुदाहरभस्माकं प्रियतरो दानविश्रुतो भोजः खस्प संस्कृतविद्याप्रेमो- तम्भयामास। तस्मिन काले राजसभा विद्वत्प्रवेश्या कर्थविधासीदिति कल्पने यायावरीयो राज- शेखर: काव्यमीमांसायामेवमादिक्षत्- राजा कविः कविसमाज विदधीत। राजनि कवौ सर्वों लोक: कविः स्यात् । स काव्यपरीक्षायै सभां कारयेत। सा पोडशभि: सतम्भैश्रतुर्मिद्वीरैरष्ट भिमत्तवारणीभि-
Page 20
५
रुपेता स्पात्। तदनुलमं राज: केलिगृहम्। मध्ये चतुःसम्भान्तरा हस्तमात्रोत्सेधा समणिभूमिका वेदिका। तस्यां राजासनम् । तस्य चोत्तरतः संस्कृताः कवयो निवि- शेरन्। बहुभाषाकवित्वे यो यत्राधिकं प्रवीणः स तेन व्यपदिश्यते। यस्त्वनेकत्र प्रवीण: स संक्म्य तत्र तत्रोपविशेत् ततः परं वेदविद्याविद: प्रामाणिकाः पौराणिकाः स्मार्ता भिषजो मौहूर्तिका अन्येऽपि तथाविधाः । पूर्वेण प्राकृताः कवयः ततः पर नटनर्तकगायन(क?) वादकवाग्जीवनकुशीलवतालावचरा अन्येऽपि तथाविधाः । दक्षिणतो भूतभाषाकवयः, ततः परं चित्रलेप्यकृतो माणिक्यवन्धका वैकटिकाः खर्णकारवर्धकिलोहकारा अन्येऽपि तथाविधाः । दक्षिणतो भूतभाषाकवयः, ततः परं भुजङ्गगणिकाः लवकशौभिकजम्भकमाहया: शत्रोपजीविनोऽन्येऽपि तथाविधाः। तत्र यथामुखमासीनः काव्यगोष्ठी प्रवर्तयेत भावयेत् परीक्षेत च। वासुदेवसात- वाहनशूद्रकसाहसाशादीन् सकलान् सभापतीन्, दानमानाभ्यामनुकुर्यात्। तुष्टपुष्ट- श्ास्य सभ्या भवेयुः । स्थाने च पारितोषिकं लमेरन्। लोकोत्तरस्य काव्यस्य च यथार्हा पूजा कवेवा। अन्तरान्तरा च काव्यगोष्ठी शास्त्रवादाननुजानीयात्। मध्वपि नानवदशं खदते। काव्यशस्त्रविरती विज्ञानिष्वभिरमेत। देशान्तरागतानां च विद्ु- याम(न्यः) द्वारा सज्नं कारयेदौचित्याद यावतस्थितिपूजां च। वृत्तिकामांथोपज- पेत् संगृह्ीयाच पुरुषरन्नानामेक एव राजोदन्वान् भाजनम्। राजचरितं च राजो- पजीविनोऽप्यनुकुर्युः । राज एव त्यसावुपकारो यद्राजोपजीविनां संस्कारः। महानगरेयु च काव्यशास्त्रपरीक्षार्थ ब्रह्मसभा: कारयेत्। तत्र परीक्षोत्तीर्णानां अह्मरथयानं पट्टबन्धक्ष। श्रूयते चोजयिन्यां काव्यकारपरीक्षा- 'इह कालिदासमेण्ठावत्रामररुपसूरभारवयः। हरिचन्द्रचन्द्रगुप्तौ परीक्षिताविद्द विशालायाम्।।' श्रूयते च पाटलिपुत्रे शात्रकारपरीक्षा- 'अत्रोपवर्षवर्षाविह पाणिनिपिङ्गलाविह व्याडिः। वररुचिपतञ्ञली इह परीक्षिता: ख्यातिमुपजगमुः।' इत्यं सभापतिर्भूत्वा यः काव्यानि परीक्षते। यशस्तस्य जगव्यापि स सुखी तत्र तत्र च।।' सरस्वतीकण्ठाभरणकर्तुर्भोजदेवस्यापि विद्वत्सभावश्यमेवैताटसी संभाव्यते। तत्र
तमनुमीयते। च तत्समसामयिकानां विदुषां राजसभासभास्तारत्वमपि तथैवास्ते स्मेत्यपि निथ्चि-
भोजप्रबन्धकर्तुर्बहालपण्डितस्य मतेन तु सर्वेऽपि महाकवयो बाणमयूरादयस्त-
Page 21
६
दानीमेव समासन्। पर नात्र किमपि तथ्यमिति भोजप्रबन्धस्याप्रामाणिकतेदानी सुप्रसिद्द। वाजसनेयिसंहितायाष्टीकाकर्ता औवटपण्डितो भोजसमकालिक इति तदीयले- सतो विज्ञायते। तथैव तिलकमअर्याखयाया आख्यायिकायाः कर्ता धनपालोऽपि भोजस्य, भोजपितु: सिन्धुलस्य, भोजपितामहस्य मुजस्य च काले जीवित आसीत्। एवमन्येऽपि दशरूपकादिकर्तारो धनिकप्रमृतयः । सिन्धुलो मुजस्य कनिष्टत्राता, तत्पुत्रथ भोजदेव आसीदिति सिध्यत्युपरि- लिखितलेवेम्पः। यद्यपि- 'मान्धाता स महीपतिः क्षितितलालंकारभूतो गतः सेतुर्येन महोदधौ विरचित: कासौ दशास्यान्तकः । अन्ये चापि युधिष्ठिरप्रभृतयो यावन्त एवाभवन् नैकेनापि सम गता वसुमती मुज त्वया यास्यति॥' इति पद्य भोजोक्या प्रतिद्ध वर्तते। यदा किल मुजाज्या भोजो वधिकेन शिरश्छेदाय बिजने नीतोऽथ संसूचितो मुआाज्ञया तदानी विलिर्यैनत् प्द संप्रेषितं भोजदेवेन मुजान्तिके इति भोजप्रबन्धानुसारमाबालबुद्धं प्रसिद्धि: । एवं सरखतीकण्ठाभरण एव चाट्न्युदाहती- 'सौजन्याम्बुनिधे वुधप्निय गुणप्राकार धर्मदुम- प्रारोह प्रतिपन्नवत्सल महात्यागिन् विवेकाश्रय। लक्ष्म्यावास मनस्विनीमनसिजव्यापारदीक्षागुरो श्रीमन् मुख किमित्यमुं जनमुपस्प्रषुं दशा नार्हसि॥' इति पूर्व ्ोकोपोद्वलकं पद्यमप्युपलभामहे। मुजे राज्यं शासति सति भोजोऽव- इयमेव निरपत्यस्यास्यास्योद्धावकोभूदित्यपि नाश्चर्यम् । यतोऽस्मिन् पद्ये 'किमि- स्यमुं जनमुपस्प्रषुं दृशा नार्हसि' इति वाक्यं भोजोकिर्मवेदेषेति प्रमाणयति। यद्वा तद्ा भवतु परं मुजोत्तरं तत्कनीयान् सिन्धुलो राजाभवत् तदुत्तर च भोजदेव इति तु निश्चितमेव। मुजब तत्प्रधानमन्त्रिणा रुद्रादिल्येन निषिद्धोऽपि पूर्व पदवारं तैलपं विजिग्ये इति सप्तमवारमपि गोदावरी समुलस्माहवे प्रविष्टस्त्रिकलिज्नदेशाधिपतिना तैलपेन
Page 22
G
पराजितों निगडितथ। अथ काष्ठपजजरे प्रवेशितः शेषमायुः शेषितवान्। तत्र च परिचर्यानियुक्तया तैलपराजभगिन्या विधवया मृणालवत्या सह तस्य प्रेमबन्धः संजातः। मुजमन्रिभिश्च निगडस्थानं यावद् भूगमें गुप्तमार्ग: सुरद्ाभिधो विर- चितः । तद्वारा मुझे खराज्यं जिगमिषति मृणालवन्तीं तत्र पट्टमहिषीत्वेन समा- नयिष्यामीति प्रतिज्ञातवति तां सह निनीषति च मृणालवती तत्र न विश्वसिति स्म । यतो मृणालवत्यास्तदानीं वयो मध्यमासीदयदि किचित्कालानन्तर मत्परित्यागं कुर्यान्मुजस्तदाहं कि करिष्यामीति संदिहाना सा सवीयालंकरणपुटकमानयामीति मिषेण खसहोदरान्तिके सर्वमप्येतद्वत्तमाचर्यो। तैलपः अुत्वैतद्दुत्तजातं परं कुद्धो मुजेन सह कठोरमाचरणं विदधे। सापमानं नगरे भ्रामयित्वा च शूले समारोपित- वान् तमिति मेरुतुन्नाचार्यः खीयप्रबन्धचिन्तामणौ मुजप्रबन्धे विलिखति। रायब-
लमुपहासमूल च। केवलं सत्यांशोऽत्रैतावानेव यन्मुओ युद्धे मृतो वा निगडितो वा न परावृत्तः खवीयामुच्यिनीं राजधानीमिति। सिन्धुलकालपण्डितो नवसाहसाइ- कर्ता परिमलोऽपलापितवान् मुच्जपराजयमिति विमर्शकोकि: साधीयसी। यतः- 'खेनारातिकरालकालरचना चण्डासिदण्डेन यो हत्वा मुखमहानृपप्रणयिनीं संग्रामरड्गाङ्गणे। लक्ष्मीमम्वुधिमेखलावलयितक्ष्मावर्तिनीं प्रापयद् भूपश्रीरणरङ्गभीमभवने साक्षात्कुलस्त्रीवतम्।।' इति पद्यं तैलपसामन्तस्य द्वितीयभिल्लमस्य ताम्रपत्रे समुपलम्यते। यत्र च रणरज्मीमस्य तैलपस्य सदने मुजप्रियां लक्ष्मी भिलमः कुललीवतं प्रापयदिति वर्णनं मुजस्य पराभवं प्रकाशयति। अथेदानी वयमप्यत्र मुजराजबत्तपुरःसर तदानीतनमैतिहां विलिखामः। बला- लपण्डितः किल खीये भोजप्रबन्धे सिन्धुलो नाम राजा कनिष्ठे आातरि मुजे राज्य- भारं संस्थाप्याल्पवयस्कं भोजनामानमात्मजं तदधीनं कृतवान, अथ मुजो राज्य- शासनलोळपतया भोजस्य शिरश्छेदाय प्रयतितवानिति लिखति। किंतु नागराद- घिगते ११६१ विक्रमवपायलेखे- "वंशेऽस्मिन् वैरिसिंहः क्षितिपतिरभवद् भूरिभूतिप्रभाव ...... । तस्माहवै ... श्रीसीयकोऽभूत्नुपः । तम्माद्वैरिवरूथिनी बहुविधप्रार्धयुद्धाध्वरप्र वसैकपिनाकपाणि- रजनि श्रीमुजराजो नृपः। ... । तस्यासीदथ पार्थिवः पृथुयशाः श्रीतिन्धुराजो
Page 23
८
श्रीभोजदेवो नृपः (एपिआ्फिया इण्डिका भा० २ पृ० १८३-१८५) वैरिसिंहस्य पुत्रः श्रीसीयकः, ततस्तत्मुतो मुजः, ततथ तत्कनिष्ठो त्राता सिन्धु- उस्ततश्च तदात्मजो भोजो बभूवेति स्पटट विज्ञायते। नवसाहसाइकाव्यस्य रचयिता परिमलकविरपि- 'वैरिसिंह इति प्रापज्न्म तस्माजनाधिपः। कीर्तिभिर्यस्य कुन्देन्दुविशदाभिः सटायितम्।
श्रीसीयक इति क्षेत्रं यशसामुदभूत्ततः। दिलीपप्रतिम: पृथ्वीशुक्तिमुक्ताफलं नृपः ॥
सगरापत्यदत्ताब्धिपरिखाया: पतिर्भुवः॥ अतीते विकमादित्ये गतेSस्तं सातवाहने। कविमित्रे विशश्राम यस्मिन्देवी सरखती।
पुरं कालक्रमात्तेन प्रस्थितेनाम्बिकापतेः । मौर्वीकिणाङ्कवत्यस्य पृथ्वी दोष्णि निवेशिता॥। प्रशास्ति परितो विश्वमुज्जयिन्यां पुरि स्थितः । अयं ययातिमान्धातृदुष्यन्तभरतोपमः॥
सदा समकरस्यास्य लक्ष्मीकुलगृहस्य च। सिन्धुराज इति व्यक्त नाम दुग्धोदधेरिव। अनेन विहितान्यत्र यत् साहसशतान्यतः। नवीनसाहसाङ्कोऽयं वीरगोष्ठीपु गीयते।I' धनपालश्च तिलकमजर्याम्- (नवसाहसाङ्डचरितकाव्ये एकादशे सगें) 'श्रीवैरिसिंह इति दुर्धरसैन्यदन्तिदन्ताग्रभिन्नचतुरर्णव- कूलभित्तिः।। ४०।
Page 24
तत्राभूद्सतिः थ्रियामपरया श्रीहर्ष इत्याख्यया विख्यातञ्चतुरम्वुराशिरसनादान्नः प्रशास्ता भुवः। भूप: खर्वितवैरिगर्वगरिमा थ्रीसीयक: सायकाः पञ्चेषोरिव यस्य पौरुषगुणाः केषां न लगना हृदि॥ ४१॥ तस्योदग्रयशाः समस्तसुभटग्रामाग्रगामी सुतः सिंहो दुर्धरशक्सिन्धुरततेः श्रीसिन्धुराजोऽभवत्। एकाधिज्यचतुर्जिताब्धिवलयावच्छिन्नभूर्यस्य स
आकीर्णाज्ितल: सरोजकलशच्छत्रादिभिर्लाञ्छनै- स्तस्याजायत मांसलायतभुजः श्रीभोज इत्यात्मजः । प्रीत्या योग्य इति प्रतापवसतिः स्यातेन मुआ्ाख्यया यः स्वे वाक्पतिराजभूमिपतिना राज्येऽभिषिक्त: स्यम् ४३' मुझः संस्कृतभाषारसिक: सयं च प्रगल्म आसीदितीतखतो वर्तमानैर्वृत्तैर्विदि- तचरम्। तदुत्तराधिकारी सिन्धुलोऽपि कुमारनारायणापर नामधेयो नवसाहसाइत्वेन परिमलकविग्रन्थे नायकत्वेन वर्णितः । भोजोऽपि खपूर्वपूरुषानुयायी संस्कृतभाषारसिकत्वेन जगतप्रसिद्धः। अवन्ती- पूज्जयिन्यां विक्रमादित्य इव भोजोऽप्यापामर प्रसिद्धोऽनेकविधासु च कथासु गीतोऽद्वितीयो जातः । उदयपुरप्रशसती- 'साधितं विहित दत्तं ज्ञातं तद् यन्न केनचित्। किमन्यतकविराजस्य श्रीमोजस्य प्रशस्यते॥' इति भोजप्रशंसापर पद्यम्। एप एव भोजदेव: काश्मीरककविविरचिते पृथ्वीराजविजयमहाकाव्ये- 'अगम्यो यो नरेन्द्राणां सुधादीधितिसुन्दरः। जम्ने यशश्चयो यश्च भोजेनावन्तिभूभुजा ।I' वीर्यरामनाम्रा प्रसिद्धस्य शावंभरि(सांभर)राज्ो यशोहारको मारकक्ष वणितः।
Page 25
१०
उदयपुरप्रशस्ताविव- 'चेदीश्वरेन्द्ररथतोग्गलभीममुख्यान् कर्णाटलाटपतिगुर्जररादतुरुप्कान्। यज्जत्यमात्रविजितानवलोक्य मौला दोष्णां बलानि कलयन्ति न योड्लोकान्।। केदाररामेश्वरसोमनाथसुण्डीरकालानलरुद्रसत्कैः। सुराश्रयैर्व्याप्य च यः समन्ताद्यथार्थसंज्ञां जगतीं चकार।।' एवमाहिमालयमामलयं च भोजदेवस्य प्रभुत्वं वर्णितम्। परमियान् प्रदेशसु नासीद्भोजशासने केवलं मालवदेशस्तत्प्रान्तीयो भूयान् भूभागध्च तदधीन आसीदिति कविकृतैवेयं रचनेत्यनुमीयते। भोजे शासति पृथ्वी चेवीश्वरो गाजेयदेव: कलचूरिवंशीयः कर्णदेव् तत्प्रतिदवन्द्विनावास्ताम्। कर्णदेवक् भोजजीवनकालं यावत्, धाराविजिगीषया युद्धं कुर्वाण आसीत। अत एव भोज- स्यापि कर्णगाज्वेययोरुपरि पराक्रमः संभाव्यते। इन्द्ररथतोग्गलयोविषये न किमपि विदितमद्यापि। भीमो गुर्जरदेशाधिपतिव्ालक्यवंशीय आसीत्। तमेव भोजदेवो विजितवानिति वर्णना प्रबन्धचिन्तामणिप्रमृतिग्रन्येषूपलब्धा। यदा भीमदेवः सिन्धुदेशमाक्ान्तवान् तदानीमेव भोजमन्रिरणा जैनघर्मावलम्बिना कुलचन्द्रेण भीमदेवराज्यं विजितमथ जयपत्रलेखपूर्व मालवे परावुत्तम् । एवमेकवारं दुष्काला- वसरे भोजदेवेन भीमदेवोपर्याकमः कृतसवदा भीमेन सान्धिविग्रहिकं डामर संप्रेध्य दण्डं प्रदाय संधि: कृता। परस्परं कलहं कुर्वाणयोभॉजमीमयोर्नासीत् कदापि शान्तिः । भोजस्यान्तिमसमये चेदीश्वरेण कर्णेन धारोपर्याक्रमणं कृतं तदैव भीमदे- बोऽपि तेन कणन सह संपृक्तः । पर विशेषो लाभर्तत्र कर्णस्ैव संजातः । जैन- कविना हेमचन्द्रेण खीये आाधयकाव्ये न किमप्यस्मिन्विषये संलिखितम्। यतो हेमचन्द्राचार्यो गुर्जरदेशीयभ्भुजो राजसभायां प्रविष्ट आसीत्। भोज: कर्णाटदे- शीयान् दक्षिणचालक्यान् पराक्रान्तवानिति राजवदभविरचिताद् भोजचरित्रादपि ज्ञायते। यदा युवावस्थो भोजदेवो राज्यप्रबन्धे संलम्नमना आसीत्तदानीमेकदैकस्त- त्समक्षे मुजशिरश्छेदविषयको5भिनयोऽमिनीतः। तं दष्ट्रेव दक्षिणदेशं विजेष्या- मीत्युत्कण्ठा तन्मनसि प्रादुर्भूता। आक्रान्तथ् तेन दक्षिणदेशः । तस्मिन् तत्सहा- यका अप्यासन् पार्श्वर्तिदेशानामधिपा अन्येऽपि राजानः। भोजशब्दानुसारं
Page 26
११
तैलप एव (परं तैलपपौत्रो विक्रमादित्यो भवेत्?) विजितः शिरश्छेदपूर्व भुज- प्रतीकारो गृहीतथ् । परं मुजमरणकाले भोजदेवो बालक आसीत् तैलपथ्च किय- ताचित् कालेन मृत इति तैलपपीत्रो विक्रमादित्यो विजितः स्यात्। यः किल कल्या- णनगरस्याधिपतिरासीत्। अथ विक्रमादित्योत्तराधिकारिणसद्धातुर्जयसिंहदेवस्य शकसंवत् १४१ काले लिखिते लेखे जयसिंहो मालवसैन्यस्य विजेता भोजरूपक- मलस्य कृते चन्द्रत्वेन च वर्णितः । एवमुदयपुरशस्तौ कर्णाटकविजेतृत्वेन भोजो वर्णितः । परस्पर युध्यतोरनयोः खखविजयवर्णनमुचितमेव। परं विजयोऽत्र भोजस्यैव विशेषतोऽनुमीयते। यतो जयसिंहपुत्रेण सोमेश्वरेणापि भोजविजिगीपया धारोपर्याक्ान्तमासीत्। काइमीरको बिहणपण्डितथ् विक्रमाददेवचरिते सोमेश्वरप्रतापवर्णनमेव चकार- 'दीपप्रतापानलसंनिधानाद्विभ्रत्पिपासामिच यत्कृपाणः । प्रमारपृथ्वीपतिकीर्तिधारां धारामुदारां कवलीचकार।। अगाधपानीयनिमग्नभूरिभूभृत्कुटुम्बोऽपि यदीयखङ्गः। भाग्यक्षयान्मालवभर्तुरासीदेकां न धारां परिहर्तुमीशः॥ निःशेषनिर्वासितराजहंस: खड्गेन बालाम्वुदमेचकेन। भोजक्षमाभृद्भुजपञ्ञरेऽपि यः कीर्तिहंसीं विरसीचकार।। भोजक्षमापालविमुक्तधारानिपातमात्रेण रणेपु यस्य। कल्पान्तकालानलचण्डमूर्तिश्चित्रं प्रकोपागिरवाप शान्तिम्।। यः कोटिहोमानलधूमजालैरमलीमसीकृत्य दिशां मुखानि। तत्कीर्तिभिः क्षालयति स्म शश्वदखण्डतारापतिपाण्डुरामिः॥ घ्रुवं रणे यस्य जयामृतेन क्षीवः क्षमाभर्तुरभूत्कृपाणः । एका गृहीता यदनेन धारा धारासहस्ं यशसोऽवकीर्णम् ।।' अतो जयसिहस्य भोजकमलकृते चन्द्रत्ववर्णनं कविकल्पनमा्त्र सिध्यति। एवं विहणपण्डित :- 'भोज: क्ष्माभृत्स खलु न खलैस्तस्य साम्यं नरेन्द्रै स्तत्प्रत्यक्षं किमिति भवता नागतं हा हतासिम। यस्य द्वारोड्मरशिखरकरोडपारावतानां नादव्याजादिति सकरुणा व्याजहारेव धारा॥' (विक्रमाक्कदेवचरिते सर्ग: १८ श्रे० ९६)
Page 27
१२
भोजप्रशंसनपरं भोजवियोगं वर्णयति। यथोदयपुरप्रशस्तौ तुरुष्कविजेतृत्वेन भोजवर्णनमुपलभ्यते ततो महमूदगझ्- नवीति समाख्यातस्य तुरुष्कस्याक्मणकाल: हिजरी सन् ४१३= विक्रमसंवत् १०७८ सिस्तसंवत् १०२१ संभाव्यते। यतस्तेन दुष्टेन यदा गोपाद्रिदुर्ग प्रति (ग्वालियर) समाक्ान्तं तदानीं मालवदेशस्याधिपतिर्मोंजदेव एवासीत्। गोपाद्रि- दुर्गस्याधिपतिथ कच्छपघातवंशीय आसीत्। यस्मिन् वंशेऽघुना जयपुरराज्यमाखे। तुरुष्केण सह भोजस्य युद्धमभूदिति प्रायो निश्चितमेव। एवमेव भोजस्य देशविदेशेषु देवमन्दिरादिनिर्माणवर्णनमपि न निर्मूलम्। यतः कहणपण्डित :- मालवाधिपतिर्भोजः प्रहितैः स्वर्णसंचयैः। अकारयद्येन कुण्डयोजनं कपटेश्वरे॥ प्रतिज्ञा भोजराजेन पापसूदनतीर्थजैः। सततं वदनस्नाने या तोयैर्विहिताभवत्॥। अपूरयत्तस्य यस्तां दुस्तरां नियमादितः। प्रहितैः काचकलशीकुलैस्तद्वारिपूरितैः ॥ स तस्य पद्मराजाख्य: पर्णप्राप्तिकदैशिक: । प्रियताम्बूलशीलस्य त्यागिनो वल्लभोऽभवत्।' (चक्कलकम् ) (राजतरत्विण्यां सप्तमतरजे लो० १९०-१९३) प्रकारेणानेन भोजस्य कपटेश्वरे कुण्डनिर्मितिम्, प्रत्यहं पापसूदनतीर्थजैस्तोयै- मुखप्रक्षालनम्, पद्मराजार्यस्य ताम्बूलविकेतुस्तत्प्रतिज्ञानिर्वहणं च सुष्रु वर्णित काइमीरकविदुषा । सोऽयं पर्णविकेता पद्मराजः काश्मीरकभूपतेरनन्तदेवस्यातीव वहभ आसीत्। कपटेश्वरकुण्डेऽद्यापि पाषाणमयी मित्तिभॉजदेवस्य कीर्तिरूपेण तिष्ठति। कुण्डस्यास्य व्यास: १२० हस्तपरिमितः खातथापि तथाविधः । अस्पैव कुण्डस्य समीपे शिवमन्दिरमपि भोजदेवनिर्मितमिति किवदन्ती। यथा पूर्वकाले राजानो भूयसा श्रमेण व्ययेन च गज्गादितीर्थोंदकमानीय प्रतिज्ञापूर्व पीतवन्तस्तथैव सवर्गवासिनो जयपुरनरेन्द्रस्य माधवसिंहवर्मणोऽपि प्रतिज्ञानं प्रतिवर्ष थ्रीगज्गाजल- संग्रहथ्ास्माभिः प्रत्यक्ष दृष्ट्म्। भवेदेवमेव भोजस्यापि प्रतिज्ञानं पापसूदनतीर्थंतो- यतो मुसप्रक्षालनविषयकमिति नाश्र्यास्पदम्।
Page 28
१३
श्रीमता भोजदेवेन धारायां सरखतीकण्ठाभरणनात्री पाठशाला स्थापितासीत्। तन्र च बहवो ग्रन्था: श्यामपाषाणशिलासूत्कीर्णा भोजकालिका भोजोत्तरकालिको- दयादित्यनरवर्मार्जुनवर्मकालिका थ्रोपलब्धाः । अतीव सेदास्पदं यत्तुरुप्कै: पाठ- शास्स्थानं परमेश्वरस्मृतिस्थानत्वेन (मसजिद्नान्ना ) कल्पितमथ ताः शिव्य: सोपानत्वेनाधोमुखीकृत्य स्थापिताः। पुरातत्त्वविद्धिरन्विष्यान्विष्य शिलासु तामु भोजकृतं कूर्मशतकं प्राकृतभाषानिबद्धमथोऽवनिशतकमपि तद्धाषोपनिबद्धम्, पारिजतमजरी नाटिका, भर्तृहरिकारिका एवमादयोऽन्येऽपि अ्रन्थाः समुद्धाविताः। पाठशालायाः सरखतीकण्ठाभरणनान्न्याः सविध एव कूपमेकं सरखतीकूपत्वेन पुरा प्रसिद्धमासीद् यस्याधुनापि 'अकलकुई' इति नान्रा प्रसिद्धिः । भोजदेवेन बहुषु विषयेषु बहवो ग्रन्था उपनिबद्धाः । तेपां नामानि यथा- आदित्यप्रतापसिद्धान्तः (ज्योतिषे) आयुर्वेदसर्वखम् (वैदके) चम्पूरामायणम् (चम्पूः) चाणक्यनीति: (?) चारुचर्या (धर्मशाखत्रे) तत्त्वप्रकाशः (शैवविषये ) नाममालिका (कोषे) युक्िकल्पतरुः राजमार्तण्डः (पतज्जलिकृतयोगसूत्राणां टीका ) राजमार्तण्डः (वेदान्ते ) " (ज्योतिषे) राजमृगाङ्ग: (ज्योतिये करणग्रन्थः । ) विद्याविनोदकाव्यम् विद्वज्चनवह्वभारूयो ज्यौतिषविषयकः प्रश्नग्रन्थः विश्रान्तविद्याविनोदाख्यो वैद्यकग्रन्थः व्यवहारसमुचयाख्यो धर्मशास्त्रग्रन्थः शब्दानुशासनम्
Page 29
१४
शिवततत्वरत्नकलिका समराजणसूत्रधाराख्यः शिल्पविषयकग्रन्थः ।
सिद्धान्तसंग्रहाख्यो अ्रन्थ: शैवविषयकः । सुभापितप्रबन्धाख्यः सुभाषितग्रन्थः । एवमादयो बहवो ग्रन्थाः श्रीमता भोजदेवेन रचिताः समुपलभ्यन्ते। डॉ०टी० आफ्ैक्टपण्डितविरचितपुस्तकसूचीग्रन्थे (Catalogus Cotalogarum) एत एव निबद्धा: । हनुमन्नाटकविषयेऽपि किंवदन्ती प्रसिद्धा यदेतन्राटकं शिलो- त्कीर्ण समुद्रप्रक्षिप्तमासीदू ततो भोजदेवेनैवोद्धृतमासीदिति। श्रीमतो भोजदेवस्य खहस्ताक्षराडितं ताम्रपभत्रयमद्यावध्यधिगतम्। तेषु ताम्रपत्रद्दयं काव्यमालायामेव प्राचीनलेखमालानामके शिलालेखसंग्रहे समुड़तमेव। यत्तृतीयमधिगतं तदप्यत्र समुदरामः । श्रीमतो भोजदेवस्य ताम्रपत्रम्। ' जयति व्योमकेशोऽसौ यः सर्गाय विभर्ति ताम्। पन्दवीं शिरसा लेखां जगद्विजाङ्कराकृतिम् ॥१॥ तन्वन्तु वः समराराते: कल्याणमनिशं जटाः ।
परमेश्वरश्रीसिन्धुराजदेवपादानुध्यातपर मभट्टारकमहाराजाधिराजपरमेश्वरश्रीभोज- देवः कुशली। स्थलीमण्डले घाघ्रदोरभोगान्तःपातिवटपद्रके समुपगतान् समस्त- राजपुरुषान् त्राह्मणोत्तरान् प्रतिनिवासिजनपदादीक् समादिशत्यस्तु वः संविदितं यथास्मामि: कोड्णविजयपर्वणि लात्वा चराचरगुरुं भगवन्तं भवानीपति समभ्यर्च्य संसारस्वासारतां टष्टा- 'वाताभ्रविभ्रममिदं वसुधाधिपत्य- मापातमात्रमधुरो विषयोपभोगः । प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने।।
Page 30
१५
भ्रमत्संसारचक्राग्रधाराधारमिमां श्रियम्। प्राप्य ये न ददुस्तेषां पश्चात्तापपरं फलम्।।' इति जगतो विनश्वरं स्वरूपमाकलय्योपरि खहस्तोऽयं श्रीभोजदेवस्य।
लिखितग्रामात् भूनिवर्तनशतकनि १०० वसीमातृणगोचरयूतिपर्यन्तं हिरण्या- दायसमेतं सभागभोगं सपरिकर सर्वादायसमेतं ब्राह्मणभाईलाय वामनसुताय वशिष्ठसगोत्राय वाजिमाध्यंदिनशाखत्रायेकप्रवणाय च्छिच्छास्धानविनिर्गतपूर्वजाय मातापित्रोरात्मनश्च पुण्ययशोभिषृद्धये अदृष्टफलमज्ञीकृत्य चन्द्रार्कार्णवक्षितिसम- कालं यावत्परया भत्तया शासनेनोदकपूर्व प्रतिपादनमिति मत्वा तचनिवासिजनपदै- येथादीयमानभागभोगकरहिरण्यादिकमाज्ञाश्रवणविधये भूत्वा सर्वमस्म समुपनेत- व्यमिति। सामान्यं चैतत्पुण्यफलं बुद्धास्मइ्वंशजैरन्येरपि भाविभोकतृभिरसत्प्र- दत्तधर्मादायोऽयमनुमन्तव्यः पालनीयथ।
उक्त च- 'बह्ुभिर्वसुधा भुक्ता राजमिः सगरादिमिः। यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम्।। यानीह दत्तानि पुरा नरेन्रै- र्दानानि धर्मार्थयशस्कराणि। निर्माल्यवान्तिप्रतिमानि तानि को नाम साधुः पुनराददीत॥।
रन्यैश्च दानमिदमभ्यनुमोदनीयम्।
दानं फलं परयशःपरिपालनं च।। सर्वानेतान्भाविनः पार्थिवेन्द्रान भूयो भूयो याचते रामभद्रः।
Page 31
१६
सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्धिः॥ इति कमलद्लाम्बुबिन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च। सकलमिदमुदाहतं च बुद्धा न हि पुरुषैः परकीर्तयो विलोप्याः।' सं. १०७६ माघशुदि ५ इति खयमाज्ञा मझलं महाश्रीः खहस्तोऽयं श्रीभोजदेवस्य। सोऽयं तृतीयो लेख: श्रीभोजदेवस्य एपिग्राफियाइण्डिकार्या प्रकाशितस्तत एवास्माभिरत्र समुदृतः । श्रीभोजदेवे शासति गुर्जरदेशीयानन्दपुरग्रामवासिना वज्रटसुतेनोव्वटेनोज्यिन्यां निवसता शुक्यजुर्वेदभाष्यमरचीति भाषान्ते स्पष्टमे- बोलिखितं प्राप्यते। एवं प्रतिद्धस्य ज्योतिर्विदो भास्कराचार्यस्य पूर्वजाय भास्कर- भट्टाय भोजदेवेन विद्यापतिरित्युपाधिः प्रदत्तासीत्। एवं शकसंवत्सरे ९६४ विक्र- मसंवत्सरे १०९९ भोजदेवेन राजमृगाद्वार्यः करणग्रन्थो व्यरचीति तदारम्भी- याहर्गणसाधनपद्यतोऽवसीयते। एवं आलविरूनीनामा यात्रिक: इण्डियानान्नि खपु- सके (विक्रमसंवत् १०३० लिस्तसंवत् १०८७ लिखिते) धारायाः शासको भोज इति लिखति। भोजदेवो यदा कीर्तिमात्रावशेषो जातस्ततः कियन्तं चित् कालं पूर्वमेव चेदि- देशाधिपतिना कर्णराजेनार्धराज्यदानप्रलोभनेन गुर्जरदेशाधिपतिर्भीम: साहाय्या- याहूत आसीत्। उभाभ्यां च ताभ्यां भोजराजधानी समाक्रान्ता । अस्मिज्नेव काले श्रीमान् भोजदेवो ज्वरेण अ्रस्तः कथामात्रशेष: संजात इति कर्णेन सर्वमपि तदीयं राज्यं लुण्ठितमिति च प्रबन्धचितामणितो ज्ञायते। राजमृगाङ्कानुसारं १०९९ विक्रमसंवत्सर यावत् भोजसत्ता निश्चीयते। तदन- न्तरमपि तस्य जीवितमासीदिति जयसिंहताम्रपत्रानुसारमनुमातुं शक्यम्। यतो जयसिहस्तदुत्तराधिकारी जातः । तदीयं दानपत्रं च १११२ संवत्सरोद्ृद्वितमधि- गम्पते। अतः सर्वथा १११० विक्रमसंवत्सरासनने काले भोजदेवस्य परलोक- यात्रा प्रायो निथिता।
Page 32
१७
एवं- 'पञ्चाशत्पञ्च वर्षाणि सप्तमासं दिनत्रयम्। भोजराजेन भोक्तव्यः सगौडो दक्षिणापथः ॥' इति बल्ालपण्डितोकतिरपि भविष्यदर्थबोधिका प्रायः पूर्वलिखितसंवत्सरासन्न एव समाप्यते। यतो मुजमरणोत्तरं भोजशासनकालस्यावधिरपीयल्येव। राजतरत्िणीकर्त्रा कहणेन कलशराजसमकालिको भोजदेव आसीदिति लिखि- तम्। कलशश् विक्रमसंवत्सरं ११२० आरभ्य विक्रमसंवत्सरं ११४६ पर्यन्तं विद्यमान आसीत। एतदाधारेणैव दाक्तरवूलरपण्डितः, श्रीमान् दाक्तर: स्टीन- पण्डितक् कलशसमकालिकं भोजं मत्वा भोजजीवितं ११२० विक्रमवर्षपर्यन्तं मन्वाते। परं १११२ विक्रमवर्षीयो जयसिंहलेखः, जयसिहोत्तराधिकारिण उद- यादित्यस्य १११६ विक्रमवषॉयलेखय प्राप्ताविति भोजदेव १११० कालासन एव काले भोजस्त्यक्तवान् लोकमेनमिति सिध्यति। राजतरत्विणीकर्ता बहुकालानन्तरं रचयामास ग्रन्थमिति कर्णाकर्ण्येव लिखितमे- तेन भोजसमकालिकत्वं कलशस्य । एवं किल भोजवृत्तमस्माभिरत्र संक्षेपतो लिखितम् । विशेषतो द्रष्टुकामैः 'Paramaras of Dhar' इति नाम्ना प्रसिद्धे पुस्तके प्राप्यं स्यात्। पुस्तकस्यास्य कर्तुभिरेकं पुस्तकमस्मत्सकाशेऽपि संप्रेपितमिति तेभ्यो धन्यवा- दान्वितरामः । पुस्तकस्यास्य मुद्रणे वे. शा. सं. रा. रा. श्रीवीरेश्वरशास्त्रिसंपादितमेंकं मुद्दितं पुस्तकम्, आनन्दराम बहोरा B.A.B.C. S. संपादितमन्यदेकं सुद्रितमेव पुस्तकम्, एवं जयपुरराजगुरुथ्रीचन्द्रदत्तमेथिलानामेकं पुस्तकं लिखितं प्रायः प्रतमशुद्तर च तथा साहित्यशात्त्रीकनहैयालालप्रश्नवरप्रदत्तमेकं पुस्तकमेवं पुस्त- कचतुष्कं मुद्रणार्थ साहाय्यरूपेण संगृहीतम्। तथा द्वितीयपरिच्छेदपर्यन्तं पुस्तकद्वितयं डेकनकॉलेजतः प्राप्तम्। मुद्रितपुस्तक- द्वितयं क.ख. संज्ञाभ्यां लिखितं च पुस्तकद्वितयं ग. घ. संज्ञाभ्यां संज्ञातमस्माभिः। अत्र येपां अन्थकाराणां पद्यान्युदाहतानि तेषां कति पद्यान्युद्गतान्यत्र कक्च कालत्तेषामित्यपि परिशिष्टरूपेण योजितमस्माभिः ।
Page 33
१८
भोजदेवस्य प्रधान: पण्डितो गोविन्दभट्ट आसीत्, अतो वयमनुमिनुमो यत् सरस्वतीकण्ठाभरणरचनेऽवश्यमेव तत्साहाय्यं भवेत्। नलोदयाख्यस्य काव्यस्य रचयिता कालिदासोऽपि भोजसभायामासीदित्येव भोजकालिदासविषयिणीनां कथानां मूलम्। अलंकारप्रन्थेपु सरसतीकण्ठाभरणस्य प्रमुखप्रन्थेषु गणना। सोऽयं अ्रन्थः काव्यादर्शस्य दण्डिविरचितस्य विशेषा संस्कृतिर्नाम। अत्र बहवः शोकाः काव्या- दर्शस्थाः कारिकारूपेणोदाहरणरूपेण च संकलिताः। काव्यप्रकाशरचनापि तदानीतनैवेति प्रायो अ्रन्थस्यास्य रचनोत्तरमेव काव्यप्र- काशनिर्मिति: संभाव्यते। एवं अन्थोऽयमस्माभिर्भूयसा श्रमेण मुद्ितः। अत्र द्वितीयपरिच्छेदपर्यन्तं संपादने पं. भवदत्तशास्त्रिणो नियुक्ता आसन्, तैथ् कार्यबाहुल्यादनवहिततया पाठ- मेदसंयोजने समुदासीनतया च नोचितं कृतमित्यपराधक्षमाप्रार्थनं विधाय विर- मावः । अग्रिमसंस्करणे च संशोधनं विधास्यावः.
जयपुरम् संशोधकी, २२-११-२४
Page 34
5
॥ श्रीः ।।
श्रीभोजदेवविरचितस्य सरसतीकण्ठाभरणाख्यालंकार- ग्रन्थस् विषयानुक्कमणिका।
विषय: पृष्ठसज्ा. विषय: दोषगुणविवेचनो नाम प्रथम: अप्रयोजकम्, सोदा० परिच्छेद:। देश्यम्, सोदा० ... १३
(पृ. १-पृ. १४०) १२
१. मजलाचरणम् .. १ पावदर्यमेदेन २. संबन्धप्रयोजने ... १४ २ तेपु-त्रिविधम डीलमस- ३. दोषसामान्यलक्षणम्, विभागक ३ ४. पददोषा: पोडश सभ्यस्मृति हेतुमेदेन, ५. विभागप्रयोजनम् ४ सोदा• १४,१५ ६. पददोषेष्वसाधु, सोदाहरणम् ४ अप्रयुक्तम्, सोदा० ... ५ कष्टम्, सोदा० ६ मेदेन, सोदा० १५,१६ अनर्थकम्, सोदा० ... त्रिविधं घृणावत्, पृणावदर्यघृणा- uF अन्यार्थम्, सोदा० ... वदर्यान्तरघुणावत्स्मृति- अपुष्टार्थम्, सोदा० ... ८ हेतुमेदेन १६,१७ असमर्थम्, सोदा० ... ८ ७. वाक्यदोषा: पोडश १७ अप्रतीतम्, सोदा .... 5 तेपु-शब्दहीनम्, सोदा• १८ किष्टम्, सोदा० १० क्मत्रष्टम्, सोदा० ... १९ गूढार्थम्, सोदा० ... १० विसंधि, सोदा० १९ नेयार्थम्, सोदा० ... पुनरुक्तिमत्, सोदा० २० संदिग्धम्, सोदा० १२ व्याकी्णम्, सोदा० ... २१ विपरीतम्, सोदा० ... १२ संकीणम्, सोदा० ... २१ ३ स० क०
Page 35
२
विषय: पृष्ठसख्या. विषय: अपदम्, सोदा० ... २२ एकार्थम्, सोदा• (उदा- वाक्यगर्मितम्, सोदा० २४ हरणद्दयम्) ... ३८ मिन्नलिग्गम्, मिलवचनं संदिग्धार्थम्, सोदा० ३८ च सोदा० २४ अपकमम्, सोदा० ... ३९ द्वयोरपि परृथक् पृथ- खिन्नम्, सोदा० ... ३९ गुदाहरणे २५ अतिमात्रम्, सोदा० ४०
न्यूनोपमम्, सोदा० २५ परुषम्, सोदा ... ٧٥
अधिकोपमम्, सोदा० २६ विश्सम्, सोदा० ४१ भम्च्छन्द:, सोदा० ... २६ हीनोपमम्, सोदा० ४१ भग्रयति, सोदा० ... २७ अधिकोपमम्, सोदा० ४२ अशरीरम्, सोदा० ... २७ असदशोपमम्, सोदा० ४२
नवमेदमरीतिमत्, ... अप्रसिद्धोपमम्, सोदा० ४३ २८ तत्र-सेष्टविपर्ययः, सोदा० २८ निरलंकारम्, सोदा० ४३
समताविपर्ययः, सोदा० १९ अन्ीलम्, सोदा० ... ४४
असौकुमार्यम्, सोदा० ३० विरुद्धं प्रत्यक्षानुमानागमविरो- प्रसादविपर्ययः, सोदा• अर्थव्यक्तिविपर्ययः, सोदा० ३१ ३० घेन त्रिविधम् ... ४५ तत्रापि प्रत्यक्षविरुद्धं देशकाल- कान्तिविपर्ययः, सोदा० ३२ लोकविरोधेन त्रिविधम् ४५ ओजोविपर्ययः, सोदा० ३२ तत्र-देशविरोधोदाहरणम् ४५
दाक्षिणात्या नैनं प्रयुजजते ३२ कालविरोधोदाहरणम् ४५
माघुर्यविपर्ययः ३४ ळोकविरोधोदाहरणम् ४५
ओदार्यविपर्ययः ३५ अनुमानविरुद्धमपि युक्यौचित्य-
उदाराहयगुणविषये प्रतिज्ञाविरोधेन त्रिविधम् ४६
काव्यादर्शमतोदृतिः ... तत्र-युक्तिविरुद्धोदाहरणम् ४६ ३५ ओचित्यविरुद्धोदाहरणम् ४६ ८. वाक्यार्थदोषा: पोडश ... ३५ ४७ तेपु-अपार्थम्, सोदा० ... प्रतिज्ञाविरुद्धोदाहरणम् आगम विरुद्धमपि धर्मार्थकाम- व्यर्थम्, सोदा० ... ३६ २६ शास्त्रादिविरोधेनानेकविधम् ४८
Page 36
३
विषय: पृष्ठसखा. विषय: पृष्ठसड्ा. तत्र, धर्मशास्त्रविरोध: ४८ सोक्ष्म्यम्, सोदा० . ६३ अर्थशास्त्रविरोध: ४८ गाम्मीर्यम्, सोदा० ... ६४ कामशास्त्रविरोध: ४८ विस्तरः, सोदा० ९. पदवाक्यवाक्यार्थदोषाणां संक्षेप:, सोदा० ६६ ... ६७ हेयत्वम् ... संमितत्वम्, सोदा० ... ६७ १०. सालंकारस्यापि काव्यस्य गुण- भाविकत्वम्, सोदा० ४९ मतिः सोदा० ६८ योगो मुर्यः ११. वाह्याभ्यन्तरवैशेषिक मेदेन ६८,६९ रीतिः, सोदा० ... ६९ गुणानां त्रविध्यम्, ... ४९ उक्ति:, सोदा० ७० १२. बाह्यगुणानां शब्दाश्रयत्वम्, प्रौटिः, सोदा० ७१ आन्तरगुणानामर्थाश्रयत्वम्, १४. एत एव वाक्यार्थगुणाश्चतु- वैशेषिकगुणानां दोषत्वेऽपि विशति: ७२ गुणत्वम् .. ४९ तेषु-छेषः, सोदा . ७३ १३. शब्दगुणाश्तुवशति :... ४९ प्रसाद:, सोदा० ... ७४ तेषु-लेषः सोदा० ... ५० समत्वम्, सोदा० ... प्रसाद:, सोदा• ५१ माधुर्यम्, सोदा० ... v५ समता, सोदा० .. ५२ सौकुमार्यम्, सोदा० ७५ माधुर्यम्, सोदा० ५३,५४ अर्थव्यक्तिः, सोदा० ... v६ मुकुमारता, सोदा० ... ५५ कान्तिः, सोदा० ७६ अर्थव्यक्तिः, सोदा० ... ५५ उदारता, सोदा० ... कान्तिः, सोदा० ... ५६ उदात्तता, सोदा० ... ७८ उदारत्वम्, सोदा० ... ५० ओज:, सोदा० ७८ उदात्तता, सोदा० ... ५८ और्जिल्म्, सोदा .... ओज:, सोदा० ५९ प्रेयः, सोदा० ६० सुशब्दता, सोदा० ... ... ओर्जिंत्यम्, सोदा .... ८० प्रेयः, सोदा० ६० समाधिः, सोदा० ८० सुशब्दता, सोदा० ६१ सौक्ष्म्यम्, सोदा० ... ८१ समाधि:, सोदा० ६३ गाम्मीर्यम्, सोदा० ... ८१
Page 37
8
विषय: विषय: पृष्ठसज्ञा. विस्तर:, सोदा. ... ८२ क्िष्टस्य सटित्यर्थप्रतीतो संक्षेप:, सोदा· ८२,८३ गुणत्थम् .. ९२ संमितलम्, सोदा० ८३ गूढार्थस्य तद्यारूयानेन गुण- भाविकत्वम्, सोदा. ८४ त्वम् ९२ मतिः, सोदा० ८४ नेयार्थस्य प्रहेलिकादिषु रीति:, सोदा· ८५ गुणत्म् ... ९४ उक्ति:, सोदा• ... ८५ संदिग्धस्य प्रकरणानुरोघेन प्रौडिः, सोदा• ८६ गुणत्वम् ... ९५ १५. अनुकरणादिधु पदवाक्यवा- विरुद्वस्य तथाभूताभिधानेन क्यार्थदोषाणों चतुवशति- गुणत्वम् ... ९५ विधानां गुणत्वम्, ते दोष- अप्रयोजकस्य सवरूपवचने
गुणा: गुणत्वम् ८७ देश्यस्य महाकविप्रयोगे ९६
नुकरणे गुणत्वम् ... ८७ गुणत्वम् ९७
अप्रयुक्तस्पाप्यनुकरणे गुण- आ्रम्यस्य संवीतगुप्तलक्षितेषु
त्म्, गुणत्वम् ... ८८ कष्टस्य दुर्वचकादियु गुण- अशस्तादीनामपि गुण-
लम् त्वम् ... १०० ८८ अनर्थकस्य यमकादिषु तदुदाहरणत्रयम् १००
गुणत्वम्W .... घृणावदर्थोदीनामपि गुण- ८९ अन्यार्थस्य प्रहेलिकादिषु गु- त्वम् ... १०० पृणावदर्यस्य गुणत्व उदा- णत्वम् ८९,९० अपुष्टार्थस्य च्छन्दोऽनुरोघेन हरणम् ... १०१ घृणावदर्यान्तरस्य गुणत्व गुणत्वम् ९० असमर्थस्य सीत्कृतादिषु उदाहरणम् ... १-१
गुणत्वम् ... ९१ घृणावत्स्मृति हेतोर्गुणत्व
अप्रतीतस्य तद्वियसंभाषादो उदाहरणम् ... १०२
गुणत्वम् .. ... ९१ ·त्वम्, सोदा० ... १०३
Page 38
विषय: विषय: पृछ्सत्ा.
विरुद्धस्य संनिवेशवशाह्गुण- तयोरेकमेवोदाहरणम् ११५ त्वम्, सोदा. ... १०३ भिज्नलिद्नस्य पृथगुदा- १६. पूर्वनिर्दिष्टानां पदसमाध्रयाणों हरणम् ... ११६ पोडशदोषाणां गुणक्कप्ये भिननवचनस्य पृथगुदा- चतुरविशतिषा संर्यानम्, हरणम् .. ११७
वाक्यदोषाणां गुणीभावा- न्यूनोपमस्य गुणलम्, भिषानं च ... १०४ सोदा• ... ११८
तत्र-शब्दविहीनस् गुणतम्, एतत्प्रमाण च सोदा- सोदाहरणम्: सप्रमार्ण च १०४ हरणम् ... ११९
क्मत्रष्टस्य गुणलम्, अधिकोपमस्य गुणलम्,
सोदा० १०५ सोदा० ... ११९
विसंधेर्गुणत्वम्, सोदाहरणम्, छन्दोभजस्य गुणत्वम्,
सप्रमाण च ... १०६ सोदा० १२०
प्रगत्यादौ गुणत्वोदाहरणम्, यतिभग्नस्य गुगत्वम्,
प्रमाणं च ... १०६ सोदाहरणम्, सप्र- मार्ण च १२१ पुनरुक्तस्य गुणत्वम्, अशरीरस्य गुणत्वम्, सोदा० ... १०७ सोदा• ... १२२
व्याकीर्णस्य गुणत्वम्, शैथिल्यस्य गुणस्वम्,
सोदा० १०८ सोदा• १२३
संकीर्णस्य गुणत्वम्, वैषम्यस्य गुणलम्,
सोदा० s .. १०९ सोदा• .. १२३
अपदस्य गुणत्वम्, कठोरत्वस्य गुणत्वम्,
सोदा० . ११० सोदा .... १२४ चाक्यान्तरगर्भितस्य गुण- अप्रसादस्य गुणत्यम्, स्बम्, सोदा. ११३,११४ सोदा• ... १२४ नेयार्थस्य गुणत्वम्, र्गुणत्वम् ... ११५ सोदा• . १२५
Page 39
विषय: पृष्ठसखा. विषय:
प्राम्यस्य गुणत्वम्, वर्णनायामतिमात्रस्य गुणत सोदा० ... १२५ उदाहरणम् ·.. १३२ असमस्तस्य गुणत्वम्, सोदा• १२५ परुषस्य गुणत्वम्, ... अनिव्यूढस्य गुणत्वम्, सोदा० ·.. १३३
सोदा• ... १२६ विरशवस्य गुणत्वम्, अनलंकारस्य गुणत्वम्, सोदा० १३३ सोदा• ... १२७ अधिकोपमस्य गुणत्वम्, १७. वाक्यार्थदोषाणां गुणीभावा- सोदा• ... १३४ भिषानम् ... १२७ असदृशोपमस्य गुणत्वम्, तत्र-अपार्थस्य गुणत्वम्, सोदा• ... १२८ ... १३४ सोदा० अप्रसिद्धोपमस्य गुणत्वम्, अप्रयोजनस्प गुणत्वम्, सोदा० १३५ सोदा० १२८ निरठंकारस्य गुणत्वम्, गतार्थस्य गुणत्व उदा- सोदा• १३५ हरणम् १२९ एकार्थस्य गुणत्वम्, अन्ीलस्य गुणत्वम्,
सोदा० १२९ सोदा• १२६
संदिग्धस्य गुणत्वम्, देशकालकलालोकन्यायाग- सोदा० मानां निर्देश:, तद्विरोघेन ... १३० अपकमस्य गुणल्वम्, विरुद्धस्य दोषतवेऽपि कदा- सोदा० ... १३० चिह्ुणत्वम् खिल्नस्प गुणत्वम्, तत्र-देशविरुद्धस्य गुणी- ... १३६
सोदा• १३१ भाव उदाहरणम् १३७ अतिमात्रस्य गुणत्वम्, कालविरुदस्य सोदा० ... १३२ उदाहरणान्तरम् ... १३२ लोकविरुद्स्य n १३७ १३७
वार्तेऽतिमात्रस्य गुणत्व उदा- युक्तिविरुद्स्प औचित्यविरुदस्प,, १३७
हरणम् ड ... १३२ वचनविरुद्धस 1 ,, १३८ " १३८
Page 40
G
विषय: विषय: पृष्ठसखया. धर्मविरुदस्य १३९ शब्दालंकाराणां सामान्य- अर्थशास्रविरुद्धस्प ,, १३९ लक्षणम् कामशास्त्रविरुद्धस्य .. १४१ , १३९ १. जातिगतिरीत्यादीनां शब्दालं- काव्ये गुणानाम्, दोषाणाम्, कारजातीनां चतुविशति- दोषगुणानां चेत्थं निरूपणं विधत्वम् जातं, अमधुनालंकारान्प्रच- ... १४१ तत्र-जातिलक्षणम् ... १४1 क्षमह इति प्रतिज्ञा ... १३९ भारत्या जातेरोचिलेन प्रयोग गुणेरेव काव्यस्य सनाथीकरणे एवालंकार: ... १४१ किमलंकारविवेचनयेति वै- संस्कृत-प्राकृत-संकीण-म्ले- कल्प्येनालंकाराणां संग्रहः १३९ च्छभाषाणों क कौचित्यमिति अलंकारेरेव कार्यसिद्धी कि गुण- विषयौचिती गणनयेति गुणानामलंकारेभ्यो देवादीनां संस्कृतम्, किज्वरा- ... १४१
विशेषतया निरूपणम् १३९ दीनां प्राकृतम्, पिशाचा- अलंकाराणां यथास्थानं संनि- दीनां पेशाचायम्, हीन- वेशे सहृदयरजनक्षमतेति जातीनां मागघमिति संस्क- कविशिक्षणम् ... १४० ताद्युचितवकृत्वम् ... १४२ दोषगुणविवेचनाख्यस्य प्रथम- वाच्यौचितीनिदर्शनम् ... १४२ परिच्छेदस्य समाप्तिः । विषयोचित्यस्य क्चित्कान्ति- प्रकर्षार्पकत्वम् ... १४२ शब्दालंकारनिर्णयो नाम देशौचितीनिरुपणम् ... १४२
द्वितीय: परिच्छेदः। लाटानाम्, संस्कृतद्विषाम्,
(प. १४०-पृ.३११) गुर्जराणाम्, गौडानां च भाषामेदेन खभावनिद- बात्याः, आभ्यन्तरा:, बाह्या- र्शनम् १४२ भ्यन्तराक्ष शब्दसंश्रया:, शालिवाहनस्य राज्ये प्राकृत- अर्थसंधयाः, शब्दार्थोभय- भाषिणाम्, विक्रमादित्यस्य संश्रयाथ्ालंकारा इति नि- राज्ये संस्कृतभाषिणां प्राचुर्य- रुपणम् ... १४० मासीदिति समयोचिती १४३
Page 41
विषय: पृष्ठसखधा. विषय: पृष्ठसङ्ा. परस्परसंकीर्णा: पडेव संस्क- तादिभाषा भवन्तीति सा- मिश्राया उदाहरणम् ... १४७ मान्यविभाग:, कविराजस्य दुर्विदग्धादिप्रयोज्यायाः संकी- र्णाया उदाहरणम् ... १४७ जाते: षह्मेदा: ... १४३ तासु-उत्तमपात्रप्रयोज्यायाः नन्यगामिन्या असाधारण्या शुदाया: संस्कृतजातेर्दा- उदाहरणम् हरणम् १४४ १४८ अपभ्रष्टाया उदाहरणम् ... १४८ मध्यमपात्रप्रयोज्याया: २. गतिलक्षणं काव्यत्रेविध्यं च १४९ शुद्ाया: प्राकृतजातेरुद्रा- अर्थाचिती ... १४९ हरणम् ... १४४ क्चिदेव कस्यचित्सीप्ठवमिति हीनपात्र प्रयोज्याया मागधि- वाणस्य गद्येऽनन्यत्म् १५० काया उदाहरणम् ... १४४ प्रयोगव्यवस्थोपपादनम् ... १५० नात्युत्तमपात्रप्रयोज्याया: श- गुरुलघुरसनिवेशविशेषतः पाठ- दाया: पशाच्या उदा- विष्यम् .. १५० हरणम् ... १४५ छन्दोघृत्तस्य षद्विधता ... १५० नातिमध्यमपात्र प्रयोज्याया: गद्यस्य त्रिविधत्वम् शुद्धायाः शोरसेन्या उदा- मिथ्रस्य द्वैविध्यम् ... १५१ १५१ हरणम् ... १४५ अन्येरलंकारकार: परिसंरुया- नातिही नपात्र प्रयोज्यस्य शुद्ध- तानां ललितादिगद्यमेदानां रीतिवृत्त्योरेयान्तर्भाव: मध्यमपात्रभूमिकास्थोत्तमपात्र- कृत: ... १५१ प्रयोज्यायाः संस्कृतप्राकृतयोः पद्यमेदेषु समवत्ते द्ुताया साधारण्या उदाहरणम् १४६ गतेरुदाहरणम् ... १५१ नात्युत्तम भूमिकास्थोत्तमपात्र- समपृत्ते विलम्बिताया प्रयोज्याया: संसकृतपैशाचि- उदाहरणम् ... १५२ कयोः साधारण्या उदा- मध्याया १५२ हरणम् ... १४७' ·दतविलम्बिताया,, १५२
Page 42
९
विषय: पृष्ठसख्या. विषय: i, द्वतविलम्बिताया उदाह- वैदर्भ्युंदाहरणम् १५७ रणम् ... १५२ पाशाल्युदाहरणम् १५० द्ववमध्याया , १५३ गोडीयोदाहरणम् १५८ मध्यविलम्बिताया,, १५३ आवन्तिको दाहरणम् ... १५८ एवमर्थसमविषम योर्मोत्राच्छन्दःसु लाटीयोदाहरणम् १५८ लघुगुरुमिश्रवर्णावर्णविशेष- मागच्युदाहरणम् १५९ भूयस्तवेन ह्वतादिगति: १५३ ४. वृत्तिलक्षणम् १५९ विषमवृत्तच्छन्दसि द्ताया ट. वृत्ते: पह मेदा: १५९ दाहरणम् ... १५३ तत्र-कैशिकी लक्षणम् १६० अर्धसमच्छन्दसि विलम्बिताया आरभटीलक्षणम् १६० उदाहरणम् ... १५४ भारतीलक्षणम् १६० उत्कालिक प्रायगद्ये हताया म- सात्त्वतीलक्षणम् १६० ध्यायाबोदाहरणम् ... १५४ मध्यमकेशिकीलक्षणम् १६१ मध्यमारभटीलक्षणम् १६१ या:, जातिगन्धौ दताया- ५. छायालक्षणम् ... १६३ धोदाहरणम् ... १५४ छायायाः पड मेदा: .. १६३ गद्यादो मिशरे गद्यपद्ययोर्द्ठतम- ध्याया उदाहरणम् ... १५४ हरणम् ... १६४ पद्यादो मिथे हुतविलम्बिताया छेकोकिच्छायोदाहरणम् १६५
उदाहरणम् .. १५५ अर्भकोकिच्छायोदा-
३. रीतिलक्षणम्, ... १५५ हरणम् .. १६५
रीते: षड मेदा :... १५५ उन्मत्तोकिच्छायोदा-
तन्र-वैदर्भीलक्षणम् १५६ हरणम् .. १६५
पासालीलक्षणम् १५६ पोटोफिच्छायोदाहरणम् १६५
गोडी यालक्षणम् १५६ १. अजैव रलदर्पणटीकाकर्तरा प्रकृति- आवन्तिकालक्षणम् ... १५६ परिणाम:, परपुरपवेशः, सण्डर्सघात्यम्, लाटीयालक्षणम्, मागधी- चूलिका, परिमलक्षेति पत्रसंख्या योनिज- लक्षणं च ... १५७ काम्ममेदा: प्राकृतगाभाभिकदाड़ताः।
Page 43
१०
विषय: पृष्ठसख्धा. विषय: मत्तोकिच्छायोदाहरणम् १६६ ६. मुद्रालक्षणम् वाक्ययुक्तरुदाहरणम् १७५ ... १६६ मुद्रायाः षड भेदा: वाक्यार्थयुक्केरुदाहरणम् १७५ ... १६६ तासु-पदमुद्रोदाहरणम् प्रकरणयुक्तरुदाहरणम् १७६ १६६ वाक्यमुद्रोदाहरणम् ... १६७ प्रबन्धयुक्तरुदाहरणम् १७६
विभकतिमुद्रोदाहरणम् १६८ ९. भणितिलक्षणम् ... १७७
वचनमुदरोदाहरणम् ... १६९ भणिते: षह मेदा:
समुचयमुद्रोदाहरणम् १६९ तासु-संभवमणितेरुदा-
संवृत्तिमुदोदाहरणम् ... १६९ हरणम् १७८ असंभवभणितेरुदाहरणम् १७८ ७. उचिलक्षणम् १७० उक्ते: षड मेदा: विशेषमणितेरुदाहरणम् १७९ ... १७० तासु-विध्युकेरुदाहरणम् १७० आथ्र्यभणितेरुदाहरणम् १७९ निषेधोक्तेरुदाहरणम् ... १७० अधिकारीकेरदाहरणम् १७१ कल्पनाभणितेरुदाहरणम् १८०
विकल्पो क्ते रुदाहरणम् १०. गुम्फनालक्षणम् ... १८० १७१ नियमोकेरुदाहरणम् ... १७१ गुम्फनायाः षह् मेदा: ... १८० तासु-शब्दकृतोदाहरणम् १८० अर्थकृतोदाहरणम् ... १८१ ८. युक्तिलक्षणम् ... १७२ क्रमकृतोदाहरणम् ... १८१ युक्ते: षड मेदा: ... १७२ पर्यायकृतोदाहरणम् ... १८२ तासु-पदविषय युक्तिलक्षणम् १७२ पदकृतोदाहरणम् ... १८२ पदार्थवषययुक्तिलक्षणम् १७३ वाक्यकृतोदाहरणम् ... १८३ वाक्यविषययुक्तिलक्षणम् १७३ वाक्यार्थविषययुक्ति- ११. शय्यालक्षणम् ... १८३ राय्यायाः षड मेदा: ... १८४ लक्षणम् ... १७३ प्रकर णविषययुक्ति- तासु-प्रक्रान्तघटनोदाहरणम् १८४
१७३ अप्रकान्तघटनोदाहरणम् १८४ लक्षणम् पदयुक्केरुदाहरणम् १७४ अतिकान्तघटनोदा-
पदार्थयुक्तेरुदाहरणम् ... १७४ हरणम् हीनोपमस्य गुणत्वम्, ... १८४
Page 44
११
विषय: पृष्ठसङ्कया. विषय: पृष्ठसक्का. पदघटनोदाइरणम् १८४ अव्यपेतस्य मध्ययमकस्योदा- वाक्यघटनोदाहरणम् १८५ हरणम् १९९ प्रकीर्ण घटनोदाहरणम् १८५ अव्यपेतस्यान्त्ययमकस्योदाह- १२. पठितिलक्षणम् ... १९१ रणम् ... १९९ पठिते: षड मेदा: ... १९९ आदिमध्ययमकस्योदाहरणम् १९९ तत्र-काकूदाहरणम् ... १९१ आद्यन्तयमकस्योदाहरणम् १९९ खरोदाहरणम् १९१ मध्यान्तयमकस्योदाहरणम् २०० पदच्छेदोदाहरणम् १९२ आदिम ध्यान्तयमकस्योदा- पदमेदोदाहरणम् . १९२ हरणम् ... २०० अमिनयोदाहरणम् ... १९३ त्रिपादयमकेष्वव्यपेतस्यादि- (अपदेशोऽप्यभिनयविशेष यमकस्योदाहरणम् ... २०० एव । तदुदाहरणम्) १९४ द्विपादयमकेष्वव्यपेतस्यादि- कान्त्युदाहरणम् १९४ यमकस्योदाहरणम् ... २०१ पठितिविषयेऽन्यमतो- तस्पेव मध्ययमकस्योदाह० २०१ पन्यास: ... १९५ तस्यवान्त्ययमकस्योदाहरणम् २०१ तत्र-प्रकृतितः पदान्यथाकर- एकपादयमकेष्वव्यपेतमाद्यन्त- णोदाहरणम् १९५ योरनुल्ेखीति नोदाहरणम् २०१ विभकितः पदान्यथाकरणो- मध्ययमकस्य चतुर्थपाद एवो- दाहरणम् १९५ हेखस्वस्योदाहरणम् ... २०१ पादान्यथाकरणोदाहरणम् १९६ अर्धान्यथाकरणोदाहरणम् १९६ दाहरणम् ... २०२ पादत्र यान्य थाकरणोदाह० आतृत्येकरूपतायामादियम- भाषान्यथाकरणोदाहरणम् १९६ १९७ कस्योदाहरणम् ... २०२ १३. यमकलक्षणम् ... १९७ स्थानास्थानपादभेदेन यमक- तत्रैवान्त्यमकस्योदा- मेदा: ... १९८ हरणम् .. २०३ चतुर्पु पादेषु व्यपेतस्पादियम- स्पादियमकस्मोदाहरणम् १९८ कस्योदाहरणम् ... २०३
Page 45
१२
विषय: विषय: पृष्ठ सखा.
अस्थानयमकलक्षणम्, तद्गे- अन्त्ययमकस्योदाहरणम् २०४ दाथ ... २०९ आदिमध्ययमकस्योदा- तत्र-पादे स्थूलस्याव्यपेतस्यो- हरणम् ... २०४ दाहरणम् ... २०९ आद्यन्तयमकस्योदा- पादे सूकष्मस्याव्यपेतस्ो- हरणम् ... २०४ दाहरणम् ... २०९ म्ोके स्थूलस्याव्यपेतस्यो- हरणम् ... २०५ दाहरणम् ... २१० आदिमध्यान्तय मकस्यो- मलोके सूक्ष्मस्याव्यपेतस्यो- दाहरणम् ... २०५ दाहरणम् त्रिपाद्यमकेषु व्यपेतस्यादि- ... २१० पादसंधावन्यमेदोच्छेदेन यमकस्योदाहरणम् ... २०५ द्विपादयमकेषु व्यपेतस्यादियम- स्थूलाव्यपेतस्योदाह· २११ अन्यमेदानुच्छेदेन सूक्ष्मा- कस्योदाहरणम् ... २०५ व्यपेतस्पोदाहरणम् २११ मध्ययमर्कं पुनरनुलेखीति खमेदे पूर्वभेदानुच्छेदेन स्थू. नोदाहरणम् २०५ लाव्यपेतस्योदाहरणम् २११ अन्त्यमकस्योदाह० ... २०६ खान्यमेदानुच्छेदिन: सूक्ष्मा- एकपादयमकं शुद्ध न संभव- व्यपेतस्योदाहरणम् २१२ तीति तत्स्थाने द्विपादयम- पादे स्थूलव्यपेतस्योदाह- कोदाहरणप्रस्ाव :... २०६ रणम् तत्र-आदियमकस्योदाहरणम् २०६ पादे सूक्ष्मव्यपेतस्योदाह ... २१३
अन्त्ययमकस्योदाहरणम् २०७ रणम् आवृत्त्याधिक्यउदाह० २०७ छोके स्थूलव्यपेतस्योदा- ... २१३
हरणम् कस्योदाहरणम् ... २०७ शलोके सूक्ष्मव्यपेतस्योदा- ... २१४
मध्यान्तयमकस्योदाह० २०७ हरणम् ... २१५ पादसंधी स्थूलव्यपेतस्यो- च मध्ययमकस्योदाइ० २०८ दाहरणम् ... २१६
Page 46
१२
विषय: विषय: पृष्ठपत्ता. काशरीयमक एवाव्यपेता- लितशलेपोऽपि प्रकृति-ल्ेप- स्थानयमकमेदे सूक्ष्म- स्तस्योदाहरणम् ... २२२ व्यपेतस्योदाहरणम् २१६ सोद्रे दो निरुद्वेदवति प्रत्य- पादयमककथनप्रतिज्ञा ... २१७ यश्लेषो द्विविधसतयोरा- तत्र-अव्यपेतमेदेषु प्रथमपाद- दयस्योदाहरणम् ... २२२ योरावृत्तेरुदाहरणम् २१७ द्वितीयस्य निर्द्वेदस्योदाह· २२३ >> द्वितीयतृतीययोः , " २१७ भिननजातीययोरभिन्नजाती- * तृतीयचतुर्थयो: २१७ ययोक्ेति विभक्तिक्लेषो
व्यपेतमेदेषु प्रथमतृतीययो: ,, २१८ , प्रथमचतुर्थयोः " द्वितीयचतुर्थयो: , २१८ रणम् , २१८ द्वितीयम्याभिन्न जातीयस्योदा- अर्धाभ्यासः समुद्रस्स्प व्यपेता- हरणम् ... २२४
व्यपेतोभयास्ममेदेन त्रयो सोद्रेदो निर्द्रेदखेति वचन-
मेदा: ... २१८ शेपोद्विविधस्तयो: सो्रेद-
तेषु-व्यपेतोदाहरणम् ... २१९ स्पोदाहरणम् ... २२४
अव्यपेतोदाहरणम् ... २१९ द्वितीयस्य निरुद्धेदस्योदाह· २२४
व्य पेताव्यपेतोदाहरणम् २१९ पदश्लेपोदाह० ... २२५ वर्ण ्लेपोऽपि पदश्लेष एव महायमकलक्षणम् ... २१९ तन्र-अव्यपेतमेदे प्रथमस्य तस्योदाहरणम् ... २२५
महायमकस्योदाहरणम् १२० संस्कृतप्राकृतभाषा श्रेपोदा-
व्यपेतमेदे द्वितीयस्य महा- हरणम् ... २२६
यमकस्योदाहरणम् २२० अव्यपेतमेदे आय्स पुन- १५. अनुप्रासलक्षणम् ... २२८ अनुप्रासस्य षड मेदा: २२९ रम्यासत्तस्पोदाह० २२१ तेषु शुत्यनुप्रासस्य प्राधा- १४. श्रेपलक्षणम् २२१ न्यम २२९ वेषस्य षड् भेदा: ... २२१ प्रतिभानवतः कवेः पुण्ये- रनुप्रास वाब्देवी ससमा-
Page 47
१४
विषय: पृष्ठसखा. विषय: पृष्ठसखा. धिनि चेतसि निवेशय- पृत्तिलक्षणम् तीति प्रशंसानुप्रासस्य २२९ ... २३५ १६. तस्या द्वादश मेदा: ... २३५ ग्राम्यनागरोपनागरमेदेनानुप्रा- तेषु-कवर्गानुप्रासवत्या: कार्णा- सस्य त्रैविध्यम्, तेषु मसू- पवर्णमसृण-वर्णोत्कट-वर्णा ट्या उदाहरणम् ... २३६
नुत्कटमेदेन आम्यव्वतुर्धा चवर्गानुप्रासवत्या: कौन्त-
तेपु मसृणोदाहरणम् २२९ ल्या उदाहरणम् ... २३६ टवर्गानुप्रासवत्या: कौका उदा- वर्णमसुणोदाहरणम् ... २३० वर्णोत्कटोदाहरणम् ... २३० हरणम्
वर्णानुत्कटोदाह० ... २३१ तवर्गानुप्रासवत्या: कौङ्कण्या ... २३६
आ्रम्यवैपरीलेन नातिप्रसिद्धो उदाहरणम् ... २३६
नागर इति नागरलक्षणम् २३१ पवर्गानुप्रासवत्याः बानवासि- काया उदाहरणम् ... २३६ तत्र-मेदेप्येकत्वबुद्धा समान- अन्तःस्थानुप्रासनत्या द्राविड्या स्थानयोरुदाहरणम् ... २३२ उदाहरणम् ... २३७ ऊष्मानुप्रासबत्या माथुर्या उदा- हरणम् ... २३२ हरणम् द्वित्निवर्गानुप्रासवत्या मात्स्या ... २३७
कारवकारयकाराणामु- उदाहरणम् ... २३७ दाहरणम् ... २३२ दवाभ्यां विदर्मिताया एकवर्ग्याया तथेव ढकारवकारलकारा- णामुदाहरणम् २३३ मागध्या उदाहरणम् २३ खान्त्यसंयोगिवर्ग्यायास्ताम्- उपनागरलक्षणम् ... २३२ लिप्िकाया उदाहरणम् २३७ डलयोरैक्य उदाहरणम् २३३ नणयोरैक्य उदाहरणम् २३४ सरूपसंयोगग्रथिताया ओण्डया
रलयोरैक्य उदाहरणम् २३४ उदाहरणम् ... २३८
दन्त्यतालव्यानामैक्य उदा- असरूपसंयोगप्रथिताया: पोण्ड्या उदाहरणम्. ... २३८ हरणम् ... २३४ अनुप्रासप्रशंसनम् ... २३५ वृत्यनुप्रासरसिकस्प कवे: शिक्षा ... २३८
Page 48
१५
विषय: पृष्ठपजा. विषय: पृष्ठसख्ा. अनुप्रासादशत्तीनां विशेष: २३८ गर्भस्योदाहरणम् ... २४४ अन्येषां पुनरन्यथा व्यारयानं२३९ काव्यव्यापी संदर्भो वृत्तिरिति गृहीतमुक्तस्योदाहरणम् २४५ द्वितीयो वृत्तिशब्दार्थ:,त- कमवत उदाहरणम् ... २४५ धान्यथा द्वादशवृत्तिमेदा: २३९ विपर्ययस्योदाहरणम् २४६ तासु-गम्भीरोदाहरणम् २३९ संपुटस्योदाहरणम् ... २४६ ओजखिन्युदाहरणम् २४० मिथुनस्योदाहरणम् ... २४६ प्रीडोदाहरणम् ... २४० वेणिकाया उदाहरणम् २४७ मघुरोदाहरणम् .. २४० चित्रस्योदाहरणम् ... २४७ निध्रुरोदाहरणम् २४१ विचित्न स्योदाहरणम् २४७ छोदाहरणम् ... २४१ अन्येषां मतेन चित्रविचित्र- कठोरोदाहरणम् २४१ लक्षणम् ... २४७ कोमलोदाहरणम् २४१ मिश्रोदाहरणम् २४२ तत्र-चित्रोदाहरणम् ... २४८ ... २४२ विचित्रोदाहरणम् ... २४८ परुपोदाहरणम् ललितोदाहरणम् २४२ एवं वर्णानुप्रासस्य द्वादश
अ्रमितोदाहरणम् ... २४२ भेदा: ... २४८
कैथिद् द्वादशधा या वृत्ति- पदानुप्रासलक्षणम् २४९
रन्यथा प्रतिपादिता सा पदानुप्रासस्य यमकेभ्यो मेदा: २४९ न गुणेभ्यो न च पृत्ति- पदानुप्रासस्य ह्वादश मेदा: २४९ भ्यः पृथगवभासते ... २४२ दन्तुरस्योदाहरणम् ... २४९ पृथक् कर्तु दुष्करा: ... २४२ उक्ष्णस्योदाहरणम् ... २५० वर्णानुप्रासलक्षणम् ... २४३ संपुटस्योदाहरणम् ... २५० वर्णानुप्रासस्य द्वादश संपुटावस्या उदाहरणम् २५० भेदा: ... २४३ खिननस्योदाहरणम् ... २५१ तेषु-स्तबकवत उदाहरणम् २४३ स्बकवत उदाहरणम् २५१ स्थानिन उदाहरणम् ... २४४ स्थानिन उदाहरणम् ... २५१
Page 49
१६
विषय: पृष्ठसङ्या. विषय: पृष्ठसखा. मिथुनस्योदाहरणम् ... २५२ एवं त्रिरुकेरप्युदाहरणम् २५८ मिथुनावल्या उदाहरणम् २५२ कियासममिहार: क्रिया- गृहीतमुक्तस्योदाहरणम् २५२ भ्यासथ् नामानुप्रा- पुनरुकिमत उदाहरणम् २५३ समेदौ २५८ पदेपु पादेषु च वर्णावृत्तिरनु- अलंकारसंकर प्रशंसा ... २५८
प्रासः ... २५३ लाटीयानुप्रासोदाहरणम् लाटानुप्रासपादानुप्रासयोर- तस्याव्यवहितो व्यवहितश्ेति न्येडपि प्रकारा: खयमु- द्वो मेदा; तयोगाय्यस्य षदमेदा: स्प्रेक्षितव्या: २५३ द्वितीयस्य च हो ... २५९ नामद्विरुत्त्यनुप्रासस्य भेदा: २५३ तेष्वव्यवहितभेदेषु व्यस्स्यो- तत्र-खभावतो ट्विरुक्तेरदा- दाहरणम् हरणम् २५४ इवादिभिर्व्यवधानेनोदाहर- ... २५९
गोण्योदाहरणम् ... २५४ णान्तरम् २५९ वीप्सोदाहरणम् .. २५४ समस्तस्योदाहरणम् ... २६० वीप्साप्रकारोदाहरणम् २५५ उभयस्तु द्विधा प्रथम: समस्तो- आभीक्ष्म्योदाहरणम् ... २५५ उपरो व्यस्त:, प्रथमो व्य- स्तोडपर: समस्त इति च पुनरुकेरपि पुनरुकि- तयोः प्रथमोदाह. ... २६० सस्या उदाहरणम् ... २५६ · द्वितीयोदाहरणम् २६० निमूलसंभ्रमादयोऽपि खापेक्षया व्यस्तोऽन्यापेक्षया च दविरुचिमेदासन्र निमू- समस्त:, द्वितायो व्यख: लादेरुदाहरणम् ... २५६ समस्त:, इति द्वितीयोभय- संत्रमोदाहरणम् ... २५६ शब्दवाच्यस्तस्प हवो भेदो तयो- थ्कवालोदाहरणम् ... २६० संभ्रम स्ोपाधयस्तेपु हर्षसत्रमोदाहरणम् ... २५७ आवेगसत्रमोदाहरणम् २५० स्योदाहरणम् ... २६१
विस्मयसंत्रमोदाहरणम् २५८ व्यवहितमेदेषु व्यखतस्पोदा- हरणम् ... २६१
Page 50
१७
विषय: पृष्ठसङ्का. विषय: पृष्ठसज्ा.
अनेकगुणस्य व्यख्तस्यो- प्रासावेकविधौ, लाटेु च दाहरणम् ... २६१ पदयोर्निरनुप्रासो दवेधा समस्तस्यैकगुणस्योदा- त्रिषा च ... २६५ हरणम् ... २६२ १७. चिन्रं पोढा, तस्य वर्णस्था- समस्वस्यानेकगुणस्योदा- नादिमेदेन षड मेदाक्ष२६५ हरणम् २६२ व्यस्तसमस्तमेदस्योदाह- तत्र-वर्णचित्रेषु चतुर्व्यज्ञनस्यो-
रणम् दाहरणम् २६३ अव्यवहितेऽपि दैगुण्यादेर्न विरो- त्रिव्यज्नस्योदाहरणम् २६५ २६६
धस्तस्योदाहरणम् ... २६३ द्विव्यअनस्योदाहरणम् २६६
व्यवहिताव्यव हितमेदेऽप्युदा- हरणम् अर्धाभ्यासस्योदाहरणम् ... २६ २६३ हरणम् ·.. २६७
द्विभागाभ्यासोदाहरणम् २६४ रणम् पादाभ्यासः पुनरव्यवहितो २६७
व्यवहितथ तयोरव्यवहि- हरणम् २६८ तस्योदाहरणम् ... २६४ व्यवहितस्योदाहरणम् २६४ मुरजाक्षरव्यजनस्योदाह- रणम् ... २६८ इवाद्यावृत्युदाहरणम् ... २६४ यमकानां यावतो मिदास्तावल्य चतुःस्थानचित्रेपु निष्कण्ठ्य- स्योदाहरणम् ... २६८ एव लाटानुप्रासस्यापि २६४ १, निस्तालव्यस्योदाह- रणम् शतोऽपि काव्यपद्धति: ... २६९ , निर्दन्त्यस्योदाहरणम् २६९ शोभते ... २६५ ,निरोष्यस्योदाहरणम् २६९ कुण्डलादिवियुक्तापि कान्ता १, निर्मूर्धन्यस्योदाहर-
शोभते ... २६५ त्रिःस्थानचित्रेणु निरोष्यदन्त्यस्यो- णम् .. २६९
कुन्तलेषु गौडेपु श्रुतिवर्णानु- दाहरणम् ... २६९ ४ स० क०
Page 51
१८
विषय: पृछ्सला. विषय: पृष्ठसख्मा. ननिःस्थानचित्रेषु निरोध्यमूधन्य- एवं चतुष्पत्रषोडशपत्रे अपि स्योदाहरणम् ... २७० द्रष्टव्ये तयोश्षतुष्पन्रोदाह० द्विस्थानचित्रेषु दन्त्यकण्ट्योदाइ- तहेखप्रकारय २७४ रणम् ... २७० एकस्थानचित्रेपु कण्ट्योदा- पोडशपत्रस्योदाहरणम्, तलेख- प्रकारथ ... २७४ हरणम् खरचित्रेषु हसकखवरस्योदाह- ... २७० कविनामाङ्कस्याष्टपत्रस्योदाह· तलसप्रकारथ चक्रस्मोदाहरणम्, तलेख- २७५ रणम् " दीर्घकस्वरस्योदाह- ... २७० प्रकारथ ... २७६ रणम् * इखद्विखरस्योदाह ... २७१ चतुरङ्ुस्योदाहरणम्, तद- ·.. २७६ रणम् * दीर्घद्विखरस्योदाह- ... २७१ गतिचित्रेषु गतप्रत्यागतस्त्रो- दाहरणम् .. २७७ रणम् त्रिखरेषु हखत्रिखरस्योदाद- ... २७१ . अक्षरगतस्योदाहरणम्
रणम् ... २७१ प्रातिलोभ्येनापर: चतुःखरेपु दीर्घ खरस्योदा- शोकय ... २७७ हरणम् प्रतिव्यअ्ञनं विन्यस्तखरस्योदा- ... २७२ · भापान्तरगतस्योदाहरणम्, प्रातिलोम्येनापर: प्राक- हरणम् प्रतिव्यजन मपास्तसमखखर- ... २७२ तस्पैवार्थानुगतस्योदाहरणम् ... २७८
स्योदाहरणम् ... २७२ 5, तुरमपदस्योदाहरणम्, २७९ तडेखप्रकारथ २५२,२७३ तलेसप्रकार:, उद्ृतोऽन्य: छोकथ अष्टदलस्य द्वितीयोदाहरणम्, अर्धश्रमलक्षणम्, सर्वतोभद्र- ... २९
तहेखप्रकारथ ... २७३ लक्षणं च अष्टदलस्व तृतीयोदाहरणम्, ... २८०
तह्ेखप्रकारथ अर्धत्रमस्योदाहरणम् ... २८० 2 .. २७३ सर्वतोमदस्योदाहरणम् ... २८०
Page 52
१९
विषय: पृष्ठ सखा. विषय: पृष्ठसख्ा. बन्धचित्रेषु द्विचतुष्कचक्रबन्ध- शोकगोमूत्रिकार्या द्वितीयः स्योदाहरणम्, तलेखप्र- शोक: ... २८६ कारथ ... २८० विपरीतगोमूत्रिकार्या प्रथम: छोक: ... २८६ णम्, तलेसप्रकारथ २८१ "> द्वितीयो विपरीतः शोकः २८६ *, विविडितबन्धस्योदाहर- मिनच्छन्दोगोमूत्रिकार्यां प्रथम: णम्, तलेखप्रकारय ... २८१ छोक: ... २८६ " द्वितीयः श्रोक: २८७ तलेखप्रकारथ् ... २८२ व्योमबन्धोदाहरणम्, तलेख- संस्कृतप्राकृतमोत्रिकार्या संस्क- तञ्ोक: ... २८७ प्रकारय मुरजयन्धोदाहरणम्, तलेख- . २८२ प्राकृतष्ठोक: ... २८७
२८३ समसंस्कृत प्राकृतेन पादगोमू- प्रकारथ त्रिकोदाहरणम् एकाक्षरमुरजबन्धोदाहरणम्, ... २८८
तलेखप्रकारथ ... २८३ मुरजप्रस्ारोदाहरणम्, तहेख- तत उदृतो गोमूत्रिकालोक: २८८
प्रकार:, तत उदूत: छोकथ २८३,२८४ तलक्षणं च ... २८९
एवमन्येऽपि गतिचित्रादिगोमू- शतघेनोरुदाहरणम्, ताड- क्षणं च २८९,२९० त्रिकादयोऽन्येऽपि सहस्रषेनोरुदाहरणम्, ताद- प्रकारा: २८४ क्षणं च *· २१० गोमूत्रिकालक्षणम्, ... २८४ अयुतषेनोरदाहरणम्, तल्- पादगोमृत्रिकोदाहरणम् ... २८४ क्षणं च ·.. २९१ युक्पादगोमूत्रिकोदाहरणम् २८५ उक्षपेनोरदाहरणम्, ताक्षणं अर्थल्लोकगोमूत्रिकोदाहरणम् २८५ च २९१, १९२ छोकगोमूत्रिकायां प्रथम: कोटिधेनोरदाहरणम्, तलक्षणं छोक: ... २८५ च २९२,२९३
Page 53
२०
विषय: पृष्ठसह्का. विषय: पृष्ठसन्नपा. कामधेनोरुदाहरणम्, तह- द्वितीयाया उदाहरणम् ... २९८ क्षणं च २९३ चित्रोकिद्विघा चित्रा विचित्रा च अस्पा: प्रणवादिन मोडन्तजपत: तयोथित्राया उदाहरणम् २९९
क्खम् २९५ विचित्राया उदाहरणम् २९९
चित्रप्रकारा दिव्यान्रेणात्र प्रद० प्रहेलिकालक्षणम्, तस्पाः पड
शिताः, शेषं बुद्धिमद्धि- भेदाक्ष ... २९९ तासु-च्युताक्षरोदाहरणम् २९९ रुह्यम् ... २९५ वाकोवाक्यलक्षणम् २९६ दत्ताक्षरोदाहरणम् ... ३००
तत्र-ऋजूक्यादय: षडू च्युतदत्ताक्षरोदाहरणम् ३०० मेदा: २९६ अजरमुष्टिकोदाहरणम् ३००
तासु-ऋजूकिर्दिधा आ्राम्योपना- ततः शोकोदृतिः गरिका च तत्र, आाम्योदाह- बिन्दुमत्या उदाहरणम् ३०० ३०० रणम् (प्राकृत छोकदूयी) २९६ निर्भेदस्योदाहरणम् ... ३०१ उपनागरिकोदाहरणम् २९६ अर्धप्रहेलिकाया उदाह० ३०१ वकरोलिर्दिषा निर्ब्यूढा अनि- १८. गूढलक्षणं तद्वेदाथ ... ३०१ व्यूडा च तयोनिर्व्यूडोदा- तेपु-क्रियागुप्तोदाहरणम् ३०१ हरणम् ... २९६ कार कगुप्ोदाहरणम् ... २०१ अनिव्यूंडोदाहरणम् ... २९७ संबन्धगूढोदाहरणम् ३०२ वैयात्योकिद्विंधा साभाविकी पादगूढोदाहरणम् ३०२ नैमित्तिकी च तयो:, खाभा- अभिप्रायगूढोदाह० ३०२ विक्या उदाहरणम् ... २९७ वस्तुगूडोदाहरणम् ३०३ नैमित्तिक्या उदाहरणम् २९७ १९. प्रश्नोत्तरलक्षणं तद्गे- गूढोचिर्दविया मुरुया गौणी च दाथ ३०३, ३०४ तयोर्मुरुयाया उदाहरणम् २९८ तेयु-अन्तःप्रश्नोदाहरणम् ३०४ गोप्या उदाहरणम् ... २९८ बहिःप्रश्नोदाहरणम् ३०४ प्रश्नोत्तरोकतिद्विंधा अभिधीयमान- हद्या, प्रतीयमानह्द्या च तयो: जातिप्रश्नोदाहरणम् ३०४ प्रथमाया उदाहरणम् २९८ पृष्टप्रश्नोदाहरणम् ३०४
Page 54
२१
विषय: पृष्ठसक्ा. विषय: उत्तरप्रन्नोदाहरणम् ३०४ तेपु-आत्िकाभिनयबत उदा- २०. काव्यादिव्युत्पत्तेः कारणम् ३०४ हरणम् ... ३०९ तदपि पड्विधम् ... ३०४ वाचिकाभिनयवत उदा. तेपु-काब्योदाहरणम् ... ३०४ हरणम् ... ३०९
शास्त्रोदाहरणम् ... ३०४ सात्विकाभिनयवत
इतिहासोदाहरणम् १०५ उदाहरणम् ... ३१०
काव्यशाख्रोदाहरणम् ३०५ आहायाभिनयवत
काव्येतिहासोदाहरणम् ३०५ उदाहरणम् ... ३१०
शास्त्रेतिहासोदाहरणम् ३०५ सामान्याभिनयवत उदाहरणम् ... ३१० २१. श्रव्यकाव्यलक्षणम् ... ३०५ चित्रामिनयवत उदा- तस्य पह्मेदा: ... ३०५ हरणम् ... ११० तन्न-आशीरुदाहरणम् ... २०६ एवं चतुविशति: शब्दालं- नान्युदाहरणम् ... २०६ कारजातयो हृदय- नमस्कृत्युदाहरणम् ३०६ हारिका: ... ३११ वस्तुनिर्देशोदाहरणम् ३०६ इति शब्दालंकारनिर्णयो नाम आक्षिप्तिकोदाहरणम् ३०७ द्वितीय: परिच्छेद: । ध्रुवोदाहरणम् ... ३०७ २२. दृश्यकाव्यलक्षणम् . ३०७ अर्थालंकार निर्णयो नाम तस्य पह मेदा: . ३०७ तृतीय: परिच्छेद:। तेपु-लास्योदाहरणम् ... ३०७ (पृ० ३११-पृ० ३९८) ताण्डवोदाहरणम् ... ३०८ अर्थालंकारस्य सामान्यलक्षणम्२११ छलिकोदाहरणम् ... ३०८ १. तस्य जात्यादयो विभागा: ३११ सभ्योदाहरणम् ... ३०८ २. जैमिनेः षटू प्रमाणानि ... ३११ हलीमकोदाहरणम् ३०८ जातेः प्राथम्यम् ... ३१२ हलीसक लक्षणम् ३०९ उक्तस्य विशेषाभिसंधानम् ३१२ रासोदाहरणम् ... ३०९ १३. चित्राभिनयवल्क्षणम् ... ३०९ तन्न-सरूपस्य मेदा: ... ३१२ तस्य षड् भेदा: .. ३०९ मुग्धाजनाद्यस्तद्ेतब: ... ३१३
Page 55
२२
विषय: एृष्ठसङा. विषय:
तेपु-संस्थानोदाहरणम् .. ३१३ अन्यया गीर्भक्कया विचित्राया अवस्थानमेदोदाहरणम् ३१२ उदाहरणम् ... ३१० वेषोदाहरणम् ... ३१४ हेतुलक्षणम्, तस्य च चत्वारो व्यापारोदाहरणम् ... ३१४ मेदा: ... ३२० आश्रयेषु मुग्धयुवत्युदाहरणम् २१५ तत्र-कारकलक्षणम् ... ३२१ अर्मकाश्रितोदाह तेपु-प्रवर्तकस्य करियाविष्टस्यो- रणम् ... ३१५ दाहरणम् ... ३२१ " तिर्यगाश्रयोदाहरणम्३१५ तस्यैव कियानाविष्टस्य नीचाश्रयोदाहरणम् ३१६ लक्षणम् ३२१ अथ हेतबः, तत्र देशोदा- निवर्तकस्य क्रियाविष्टस्य
हरणम् ... ३१६ लक्षणम् ३२२
कालहेतुदाहरणम् ३१६ तस्पेव क्रियानाविष्टस्य
शक्त्युदाहरणम् ३१७ लक्षणम् .. ३२२ प्रयोजकस्य क्रियाविष्टस्य
३. विभावनालक्षणम्, तद्वेदाक्ष २१८ लक्षणम् ... ३२२
विभावनापि विभावनया- तस्पैव कियानाविष्टस्य लक्षणम् ३२३ न्यगा करम्बिता चित्रेति ४. ज्ञापकलक्षणम्, तद्रेदाथ ३२३ चित्रालक्षणम् ... ३१८ कारणान्तर विभावनायां दरणम् *. ३२२ शुद्धाया उदाहरणम् ... ३१८ तृतीयावाच्य स्पेत्यंभूत- खमावाविकत्व विभावनारयां लक्षणस्योदाहरणम् ३२४ शुद्धाया उदाहरणम् ... ३१९ कारणान्तर विभावनायां लक्षणस्योदाहरणम् ३२४ चित्राया उदाहरणम् ... ३१९ चतुर्थीवाच्य स्वोत्पातलक्ष- खाभाविक लव विभावनायां मस्योदाहरणम् ... ३२५ चित्राया उदाहरणम् ३१९ गीर्भअ्रया विचिचाया उदा- सप्तमीवाच्यस्य भावलक्षण- स्योदाहरणम् ... २२६ दरणम् ... ३२० · उदाहरणान्तरम् ३२६
Page 56
२३
विषय: पृष्ठसख्ा. विषय: पृछ्सख्सा. ५. अभावलक्षणम् ·.. ३२६ तस्पैव सक्तेहानिहेतुनोदा- प्रागभावाद्यसस्य चत्वारो हरणम् m ३३२ मेदाः, घटाभावादिभेदाच वस्तुनः खभावेन व्याहतस्य तस्प संर्याभाव :... ३२६ लक्षणम् .. ३३२ तस्पेव शफेहनिहेतुनोदा- प्रध्वंसाभावस्योदाहरणम् २२७ हरणम् ३३२ इतरेतराभावस्योदा- कैथरिद्वेतुसंतान: कारणमाला हरणम् ... ३२७ पृथगलंकार इत्युक्म्, अलन्ताभावस्योदा- सापि नाहेतो्व्यति- हरणम् . ३२७ रिच्यते ... ३३२ अन्रैव प्रागभावाभावस्यो- कारणमालालंकारोऽभिधी- दाहरणम् ... ३२८ यमानप्रतीयमानमेदेन द्विविध: स्योदाहरणम् ३२८ तयोरहेतुमेद स्यादयस्योदा-
६. चित्रहेतुलक्षणम, तद्गेदाथ २२९ हरणम् ... ३२३ ·, द्वितीयस्योदाह· ३२४ हेतवः काव्यवैचित्र्यका- ८. सूक्ष्मलक्षणम् ... ३३४ रणम् .. ३२९ स च वाच्यप्रतीयमानभेदेन तेपु-सहजस्योदाहरणम् ३२९ द्विविध: २३४ कार्यानन्तरजस्योदाह० ३३० युक्तस्योदाहरणम् ... २३० नयुकस्योदाहरणम् २३० एवं शब्दस्य प्रकारवाचित्वा- दाहरणम् अधिकरणादिप्रयोग: २३० प्रतीयमानस्यवाकारलक्ष्य- वस्योदाहरणम् ·- ३३० स्मोदाहरणम् .... ३२६ ७. व्याहतलक्षणम् .... ३११ तत्र-अकृतकार्यस्य वस्तुखभावे- ९. उत्तरलक्षणम्, तद्रेदाव २३७ नोदाहरणम् .३३१
Page 57
विषय: पृष्ठसखा. विषय: पृष्ठसक््ा. धर्मखरूपस्योदाहरणम् ३३८ विधिनिषेधयोर्विकल्पविष- 5 व्यतिरेकेण धर्मरूपस्योदा- यस्योदाहरणम् ... २४४ पूर्व समत संभवलक्षणे दूष- 15 हरणम् ... ३३८ व्यतिरेकेण धर्मिरुपस्यो- गम्, तस्यानुमानेऽ- दाहरणम् ... ३३८ न्तर्भावक्ष ... ३४५ एतेन धर्मधर्मिखरूपोऽपि १२. अन्योन्यलक्षणम्, वा. व्याख्यातः 1 स सामा- च्य प्रतीयमानोभयात्मक- न्यतो विशेषतश्वेति भेदेन तस्य त्रयो मेदा:, द्विविध: ... ३३९ अन्योन्यचूलिकादी नाम-
तत्र-सामान्यत उदाहरणम् २३९ त्रैवान्तर्भावक्च ... ३४६ विशेषत उदाहरणम् ३३९ तेु-अभिधीयमानस्यान्यो-
१०. विरोधलक्षणम्, तद्रेदाक्ष ३३९ न्यस्योदाहरणम् ... ३४६
तेयु-विरोधः शुद्धो अ्रथितववेति प्रतीयमानस्योदाहरणम् ३४६
द्विविधसतयो: प्रथम स्योदा- प्रतीयमानाभिधीयमान- स्योदाहरणम् ... ३४७ हरणम् ... ३४० द्वितीयस्य ग्रथितस्योदा- अन्योन्यचूडिकाया उदा-
हरणम् ... ३४० हरणम् ... ३४७
असमतेरदाहरणम् ... ३४१ अत्यनी कस्योदाहरणम् रणम् ३४८ ३४१ अधिकस्योदाहरणम् ... ३४२ अन्योन्यात्मकताया उदा-
विषमस्योदाहरणम् ... ३४२ हरणम् ... ३४८
१९. संभवलक्षणम्, तद्गेदाथ ३४२ १३. परिवृत्तेर्लक्षणम् ... ३४८
तेषु-विधिविषयस्योदाहरणम् ३४३ व्यत्ययवती, विनिमयात्मि-
निषेधविषयस्योदाहरणम् २३४३ का, उभयवती चेति परिवृत्तेत्रयो भेदा:
... ३४३ त्रिधापि चासौ मुख्यामुख्य- ... २४९
हरणम् अनुभय विषयस्योदाहरणमू३४४ मेदेन द्विधाभूय पोडा संपद्यते ... २४९
Page 58
२५
विषय पृष्ठसखा. विषय: पृष्ठसज्ा.
तासु-व्यव्ययवत्या मुर्याया प्रतीयमानसाहश्य एकव्यति- उदाहरणम् ... ३४९ रेकस्योदाहरणम् ... ३५७ व्यत्ययवत्या अमुरू्याया शब्दोपात्तसादृश्य उभयव्यति- उदाहरणम् ... ३४९ रेकस्योदाहरणम् ... ३५७ विनिमयवत्या मुर्याया प्रतीयमानसादश्ययोरुभयव्यति- उदाहरणम् ... ३५० रेकस्योदाहरणम् ... ३५८ विनिमयवत्या अमुख्याया उदाहरणम् ... ३५० शव्यतिरेकस्योदाहरणम् ३५८ उभयवत्या मुख्याया उ- प्रतीयमानसाडश्ययो: सदश- दाहरणम् ... १५० व्यतिरेकस्योदाहरणम् ३५८ उभयवलया अमुरूयाया अमिहित साहश्ययोरसदशव्य- उदाहरणम् ... २५१ तिरेकस्योदाहरणम् ... ३५८ १४. निदरशनलक्षणम्, तस्प प्रतीयमानसादश्ययोरसदश- पढ भेदाथ ... २५१ व्यतिरेकस्योदाहरणम् ३५९ ३५२ पूर्वस्य वकस्योदाहरणम् ३५२ तदुभयव्यतिरेकोऽपि व्या० उत्तरस्यर्जोरदाहरणम् ३५३ ख्यातस्तस्योदाहरणम् ३५९ उत्तरस्य वक्रस्योदाहरणम् ३५३ एतेनैकव्यति रेकादिसंभेदोऽपि समस्यर्जोरुदाहरणम् ... ३५४ समस्य वकस्योदाहरणम् २५४ १६. समाहितस्य लक्षणम् ... २६० १५. व्यतिरेकलक्षणम् ... ३५५ तन्र-आकस्मिक्या दैवकृतायाः तस्य षद्भेदप्रकार: ३५५ सहायाप्तेरुदाहरणम् २६० शब्दोपात्तसाहइये खजाति- आकस्मिक्या अदैवकृताया व्यतिरेकस्योदाहरणम् ३५६ उदाहरणम् प्रतीयमानसादश्ये खव्यकति बुद्धिपूर्वाया दैवकृताया ... ३६१
व्यतिरेकस्योदाहरणम् ३५६ उदाहरणम्. २६१ शब्दोपात्तसादश्य एकव्यति- बुद्धिपूर्वाया अदैवकृताया रेकस्योदाहरणम् ... ३५७ उदाहरणम् ... ३६१
Page 59
२६
विषय: पृषसखा. विषय:
आकस्मिक्या बुद्धिपुषाया म्रान्त्यतिशायो द्वेषा वितर्क देवकृताया उदाहरणम्२६२ हेतुर्विपर्ययहेतुथ् तयो: आकस्मिक्या बुद्धिपूर्वाया अदेवकृताया उदा- हरणम् ... २६७ हरणम् .. १६२ द्वितीयस्य भ्रान्त्यतिशयस्यो- १७. ब्रान्तेर्लक्षणम्, तस्या द्वौ दाहरणम् ... २६७ मेदौ ... २६३ आान्तनध्यवसायोऽपि द्वि- वेु-अतत्वे तत्त्वे सत्वरू- धासालम्बनो निरालम्ब- पाया अवाधिताया नवतयो: सालम्बनस्यो- उदाहरणम् ... ३६३ दाहरणम् ... ३६८ तत्रापि प्रथमायाखत्रयो मेदा: ३६४ निरालम्बनस्योदाहरणम् ३६९ अवर्वे तत्वरूपाया बाचि- १८. वितर्कस्य लक्षणम्, तस्य ताया उदाहरणम् ... २६४ निर्णयान्तोऽनिर्णयान्त- अतत्त्वे तत्त्वरूपाया कारण- खेति हो भेदो ... ३६९ बाधिताया उदाहरणम् ३६५ निर्णयान्तानिर्णयान्तभेदयो- द्वितीयाया अपि त्रयो मेदा: ३६५ र्लक्षणम् ... २६९ तत्र-निर्णयान्तस्य तत्वानुपा- हेतोरुदाहरणम् ... ३६५ तिन उदाहरणम् ... ३७० तस्पेवातस्वानुपातिन उदा- दानहेतोकदाहरणम् ३६५ हरणम् ... २७० तस्यैवोभयात्मकस्योदाहरणम् ३७० उपेक्षाहेतोरुदाहरणम् ३६६ अनिर्णयान्तसम मिथ्यारूपस्यो- भ्रान्तावेव भ्रान्तिमद्भा- दाहरणम् न्तिमालादीनाम- ... ३७१
न्तर्भाव: .. ३६६ अनिर्णयान्तस्योभयात्मन उदा- तत्र-प्रान्तिमत उदाहरणम् ३६६ हरणम् भ्रान्तिमालाया उदा- १९. मीछितस्य लक्षणम, ... ३७१
हरणम् .. २६७ तज्रेदाब .. ३७२
Page 60
२७
विषय: पृष्ठसक्षपा. विषय: तत्र-अभिधीयमानगुणेन वस्तु- तयोहंयस्योदाहरणम् ... ३u८ ना मीलि तस्पोदाहरणम् २७२ सूक्ष्मस्य लक्षणम् ... ३७९ प्रतीयमानगुणेन वस्तुना तत्र-भायगतेर्भूमिकान्तरस्यो- मीलितस्योदाहरणम् २७३ पिहितस्योदाहरणम् ·.. २७३ दाहरणम् निरुद्धेदभावस्य सूक्ष्मस्योदा- अपिहितस्योदाहरणम् ... ३७३ हरणम् तहुणस्योदाहरणम् ३७४ १२. प्रलक्षस् लक्षणम्, त. .. ३७४ ... ३८० १०. स्मरणस्य लक्षणम्, तत्र-अक्षजं द्विया युगपदेकशय, चद्जदाथ ३७५ त्योर्युगपदुदाहरणम् ३८० तत्र-सदशदर्शन जस्योदाह- एकश उदाहरणम् ३८० रणम् .. ३७५ मानसमपि द्विया सुसादिवि. अदृट्टकृतस्योदाहरणम् ३७५ पयमनुभूतार्थविषयं च चिन्तोज्धू तस्योदाहरणम् ३७५ तयो: सुसादिविषयस्पो- परप्रयल्नकृतस्पोदाह- दाहरणम् ... ३८१ रणम् ·.. ३७६ अनुभूतार्थविषयोदाहर- खप्नस्योदाहरणम् ... ३७६ णम् ... ३८१ प्रत्य भिज्ञानस्योदाहरणम्३७६ खानुमूतिभवं द्विषा मिथ्या- २१. भावस्य लक्षणम्, तद्ेदाव२७७ त्मकममिध्यात्मकं च
तत्र-एकतः सोद्रेदस्प तयोर्मिम्यात्मक-
लक्षणम् ... ३७७ स्योदाहरणम् ... ३८१ अमितः सोद्रेदस्य लक्षणम्३७७ एकतो निरुद्रेदस्य लक्षणम्२७८ २३. अनुमानस्य लक्षणम्, तद्े- अभितो निरुद्ेदस्य लक्ष- दाय ... ३८२ णम् .. २७८ उदाहरणद्वारैवेर्षा व्यक्ती- हदं सूक्ष्मं च भावान मिदयेते३७८ भाव: .३८२ तत्र हयोदाहरणप्रति- तत्र-पूर्ववत उदाहरणम् ... ३८२ ज्ञानम् ... ३७८ शेपवत उदाहरणम् ३८४
Page 61
२८
विषय: पृष्ठसज्या. विषय: पृष्ठसजया सामान्यतो दष्टस्योदा- तथाभूतार्थविज्ञानजनकलाद- हरणम् ... ३८५ मिनयालेरयादयो नोपमा- करणसाधनानुमानशब्देन नतो मिद्यन्ते यथोकं लित्रमुच्यते ... ३०१ तेपु-अभिनयस्योदाहरणम् ३८९ तत्र परमतोपन्यासः ३८५ आलेख्य स्योदाहरणम् ३८९ सामग्रीपक्षे पूर्ववत् उदाह० ३८५ मुदराया उदाहरणम् ... ३९१ सामप्रीपक्षे शेषवत उदाह० ३८५ प्रतिबिम्बस्योदाहरणम् सामग्रीपक्षे सामान्यतोदष्टस्यो- २६. अर्थापतेर्लक्षणम्, तस्याः ३९
दाहरणम् ... ३८५ षह मेदाथ ३९२ २४. आपवचनस्य लक्षणम्, त- तासु-प्रत्यक्षपूर्विकाया एकश द्रेदाथ ... ३८५ उदाहरणम् • सत्रोत्तमं द्विधा विधिरूपं निषे- ... ३९२ प्रत्यक्षादिपूर्विकाया अनेकश धरूपं च तयोविधिरूपस्यो- उदाहरणम् दाहरणम् ... ३८५ एकशोऽनुमानपूर्विकाया ... २९३
निषेधरूपस्योदाहरणम् ... ३८६ उदाहरणम् ... २९४ मध्यमं द्विया निर्दिष्ठ्वक्तृकमनि- अनेकश उपमानादिपूर्वि- दिष्ठयक्तूकं च तयोरादयस्यो- काया उदाहरणम् ३९४
दाहरणम् एकशोऽभावपूर्वाया उदा- ... ३८६ द्वितीयस्योदाहरणम् ... ३८६ हरणम् ३९४ जघन्यं द्विधा; काम्यं निषिद् च तयो: काम्यस्योदा- काया उदाहरणम् ... ३९४ ३८७ २७. अभावस्य लक्षणम् तस्य हरणम् निषिद्स्योदाहरणम् ... ३८७ षड मेदाथ तेषु-प्रागभावोदाहरणम् ... २९५ ३९५
२५. उपमानस्य लक्षणम्, तद्गे- प्रध्वंसाभावोदाहरणम् ३९५ दो च ... ३८७ तयो:, अनुभूतार्थविषयस्यो- इतरेतराभावोदाहरणम् ३९६
दाहरणम् अलयन्ताभावोदाहरणम् ३९६ ... ३८८ अननुभूतविषयस्योदाहरणम् ३८८ अन्येषां मतेनात्यन्ताभावो- दाहरणम् ... ३९६
Page 62
२९
विषय: विषय: पृष्ठप्का. सामर्थ्याभावोदाहरणम् ३९६ सां त्रिधाभूताना प्रत्येकम- अभावाभावोऽप्यभाव एव ष्टविधतवेन चतुविशतिप्रका- तत्र प्रागभावप्रथ्वंसोदा- रोपमेति प्रतिपादनम् ३९९ हरणम् प्रध्वंसप्रागभावोदाहरणम् ... ३९६ २९७ पदोपमाया अष्टविधत्वम्३९९,४०० तासु-अन्तर्भूतेवार्थाया उदा- प्रध्वंसप्रध्वंसोदाहरणम् हरणम् ... ४००
हरणम् ... ३९७ अन्तर्भूतसामान्याया उदा-
प्रध्वंसप्रध्वंसस्य प्रध्वंसोदा- हरणम् ... ४००
हरणम् ... ३९७ अन्तर्भूतोभयार्थाया उदा- इत रेतराभावाभावोदाहरणम् ३९७ दरणम् ... ४०१ सर्वसमासाया उदाहरणम् ४०२ प्रध्वंसाभावोदाहरणम् ३९७ प्रत्ययोपमापि पदोपमामेद एवे- एवं संरूयया चतुविशतिरर्था- त्यारूयानम्, तत्प्रतिपादनं लंकृतयो व्यारूयाता: ३९८ च ४०२ इत्यर्थालंकारस्तृतीय: परि- च्छेद: ।I हरणम् ... ४०२
उभयालंकारविवेचन- प्रत्ययस्योपमानार्थ उदाह० ४०३
अ्वतुर्थः परिच्छेद:। सामान्यार्थप्रत्ययेनोदाहरणम् ४०४
(पृ. ३९८-पृ. ५५४) इवार्थप्रत्ययेनोदाहरणम् ... ४०४ १. उभायालंकारप्रतिपादनम् ३९८ वाक्योपमाया अष्टविधत्वम् ४०५ उभयालंकाराणां चतुविशति- तत्र-पूर्णोपमाया लक्षणम्, संरुयाकानां नामतः उदाहरणं च ... Y०५ परिगणनम् ... ३९९ छप्तोपमाया लक्षणम्, २. उपमालक्षणम् .२९९ उदाहरणं च ४०५, ४०६ अभिधीयमानार्थ-प्रतीयमानार्थ- लुप पूर्णालक्षणम्, उदा- विषयतयोपमा द्विधा सापि हरणं च .. ४०६ पूर्णलप्ताया लक्षणम्, उदा-
Page 63
३०
विषय: विषय: पृष्ठसख्का. हरणं च ... ४०६ ३. रुपकालंकारलक्षणम्, तद्वि- वाक्यार्थयोरेकेवशव्दिकादिमे- भागाथ ४१३,४१४ प्रकृतस्य शब्दभूषिष्ठाद्यथ्- तामु-एकेवशब्दाया उदा- लारो भेदा: हरणम् ... ४१४ ... ४०७ अनेकेवशब्दाया उदा- तेयु-समस्तस्योदाहरणम् ... ४१४ व्यस्स्योदाहरणम् ... ४१५ हरणम् ... ४०८ अनिवादिशब्दाया उदा- समस्तव्यस्तस्योदा-
हरणम् हरणम् ... ४१५ . ४०८ वैधम्यवत्या उदाहरणम् ४०९ सविशेषणस्योदाहरणम् ४१६
प्रप्ोपमाया अष्टविधत्वमू४०९ विकृतस्ापि परम्परारपका-
प्रपखोपमायाः प्रकृतरूपादि- दयच्त्वारो मेदा: ४१६ मेदेनाष्टो मेदा: ... ४०९ तेपु-परम्पराया उदाहरणम् ४१६ तासु-समस्तोपमाया उदा- रशनाया उदाहरणम् ४१७ हरणम् ... ४०९ मालाया उदाहरणम् ४१७ एकदेशोपमाया उदाह० ४१० रुपकरूपकस्योदाहरणम् ४१८ मालोपमाया उदाहरणम् ४१० रसनोपमाया उदाहरणम् ४११ नस्य चत्वारो भेदा: ४१८ तेपु-समस्स्योदाहरणम् ४१९ मेदा: . ४१२ असमस्तस्योदाहरणम् ४२० विकृतरूपेणापि विपयासो- युक्तस्योदाहरणम् ... ४२० पमाद्यावतलो मेदा: ४१२ अयुक्तस्योदाहरणम् ... ४२१ तासु-विपर्यासोपमाया उदा० ४१२ उभयोपमाया उदाहरणम् ४१२ चत्वारो भेदा: ... ४२१ उत्पाद्योपमाया उदाहर- तेधु-सहजाव यवस्योदाहरणम् ४२२
अनन्वयोपमाया उदा- *ु. ४१३ आहार्याक्यवस्योदाहरणम् ४२२ डमयाचयवस्योदाहरणम् ४२३ हरणम् .. ४१३
Page 64
३१
विषय: पृष्ठसखा. विषय: पृष्ठसस्ा.
शब्दार्थभूगिप्ठरूपके शुद्धरूपकस्व क्रियागुणयोगनिमित्ताया चत्वारो भेदा: ·.. ४२४ विशेषतः पूर्वाया उदा० ४३१ तेपु-आधारवत उदाहरणम् ४२४ गुणयोगनिमित्ताया: सामा- निराघारस्योदाहरणम् ४२५ न्यतउत्तराया उदाहर० ४३२ केवलस्योदाहरणम् ... ४२५ कियागुणदव्ययोगनिमित्ताया व्यतिरेकवत उदाहरणम् ४२६ विशेषत उत्तराया उदा० ४३२
शब्दार्थभूयिष्ठरूपक मेदेषु संकीर्ण- दव्यजातिनिमित्तसाम्याया:
रूपकस्य चत्वारो मेदा:, एवं सामान्यतः पूर्वाया
रुपकमेदाअतुवशति: ४२६ दषान्तोफेरुदाहरणम् ४२३
तेपु-सावयवसंकीरणस्योदाह.४२७ निरवर्यवर्संकीणस्योदा० ४२७ शेषतः पूर्वाया दृष्ठान्तो-
उभयसंकीर्णस्योदाह० ४२८ केरुदाहरणम् ... ४३२
उपोपहितस्पोदाहरणम् ४२९ दव्ययोगनिमित्तसाम्याया: सामान्यत उत्तराया ४. साम्यालंकारलक्षणम् ... ४३० उदाहरणम् ... ४३४ तस्यासंरुया मेदा: ... ४३० क्रियागुण योगनिमित्तसाम्याया तेष्विवादे: प्रयोगेण दष्टा- विशेषत उत्तराया उ० ४३४ न्तोकि: ... ४३० प्रपशोकिलक्षणम्, तद्ने- इवादेरप्रयोगेण प्रपथोकि: ४३० दाय ... ४३५
किंचिद्वस्तूपन्यस्प तत्सथ- तेषु-उपमानोपमेवयो: साम्पेन
मेणो न्यसनाव प्रतिब- प्रकृताया उदाहरणम् ४३६
स्तकि: ... ४३० प्रकृताया एवोपमानोत्कर्षे-
तन्र-कियाजाति गुणद्म्बादिहेतुके णोदाहरणम् ... ४३६
साम्ये दृष्टान्तोफे: पूर्वाद- तस्या एवोपमानापकर्षेणो-
यो भेदा: ... ४३० दाहरणम् ... ४३७ तस्या एवोपमानस्य किंचि- दुत्क्षेणोदाहरणम् ४३७ दृष्टान्तोके: सामान्यत: उपमानोपमेययोः साम्या- पूर्वाया उदाहरणम् ... ४३१ पत्या विकृताया उदा० ४३८
Page 65
३२
विषय: पृष्ठसज्ञपा. विषय: उपमेयस्योत्कर्षीपतत्या वि- तस्यैव प्रतीयमानसादश्यस्यो- कृताया उदाहरणम् ४३८ उपमेयापकर्षापत्त्या विकृताया दाहरणम् अनेकवस्तुविषयो द्विधा शुद्धो ... ४४५
उदाहरणम् ... ४३९ मिथ्रथ्, तयोः प्रतीयमान- उपमेयस्य साम्यापत्योपमा- नोत्कर्षेण च विकृताया सादृश्यस्य शुद्धस्योदा० ४४६ अभिधीयमानसाटश्यस्य मिश्र- उदाहरणम् ... ४३९ प्रतिवस्तूक्तेभदप्रकारा: ४३९ स्योदाहरणम् ... ४४७ वितर्कोंक्त्यादयोऽपि संशयो- कावेव द्रष्टव्या: त्ृजो: पूर्वायाध्चोदाहरणम् ४४० ... ४४७ तदुदाहरणद्वयम् ४४०,४४८ तस्या एवोत्तराया बकाया- धोदाहरणम् ... ४४० ६. अपहुत्यलंकारलक्षणम्,
दष्टान्तोकिच्छायया निषेधे ... ४४९
ऋजो: पूर्वाया उदाह० ४४१ उदाहरणम् तस्या एवोत्तरायाथ वक्ाया- ... ४५०
योदाहरणम् ... ४४१ प्रतीयमानोपम्यवल्ा
प्रपशोकिच्छायया विधावृज्व्या उदाहरणम् ... ४५०
उदाहरणम् ... ४४२ व्यवस्तुन: पूर्वाया उदा- तस्या एव विधी वकाया हरणम् ... ४५० उदाहरणम् ... ४४२ अस्या एवापूर्वाया उदाह० ४५१ तस्या एव निषेधे ऋज्व्या अनोपम्याया एव प्रतीयमाना- उदाहरणम् ... ४४३ पहव्यवस्तुनः पूर्वाया तस्या एव निषेधे वकाया उदाहरणम् ... ४५१ उदाहरणम् ... ४ढ४ तस्या एवापूर्वाया उदाहरणम् ४५२ ५. संशयालंकारलक्षणम्, तद्ेदो च ७. समाध्यलंकारलक्षणम्, ... ४४४ तयोरादयस्यैकवस्तुविषयस्याभि- तद्वेदौ च ... ४५२ तयोरनिरुद्वेदस्योदाहरणम् ४५३ धीयमानसाहस्यस्योदा० ४४५ सोज्ेदस्योदाहरणम ... ४५३
Page 66
३३
विषय: पष्ठसख्या. विषय: पृष्ठसक्का.
सधर्मार्णा धर्मिणयोदाहरणम् ४५४ जात्यन्तर उदाहरणम् ४६२ धर्मिण एवाध्यासस्योदाह० ४५५ समाधिमे(मी)लितयोरमेद- प्रतिपादनम् ४५५ सा द्विषा शुद्धा चित्रा च अत्रान्यधर्माणामेवान्यवस्तु- तयो: शुदधाया उदाह-४६३ चित्राया उदाहरणम् ४६४
स्योहरणम् ४५६ उभयोकेरदाहरणम् ... ४६४ धर्माणों धर्मिणकाध्यासे मे- एवमन्याप्युपमानोपमेयविषये (मी)लितस्योदाहरणम् ४५६ संक्षेपोकि: समासोफिरेव
८. समासोक्त्यलंकारलक्षणम्, तस्या उदाहरणम् ४६५
तत्प्रयोजकाः, तद्रेदाक्ष ४५७ ९. उत्प्रेक्षालक्षणम्, तद्भेदाक ४६६ प्रतीयमानसाहश्यायाः शाधा- तेपु-द्रग्योतरेक्षाया उदाइ० ४६६ वत्या उदाहरणम् ... ४५७ गुणोत्प्रेक्षाया उदाहरणम् ४६७ तस्या एव गर्हवत्या उदाह० ४५८ क्रियोत्प्रेक्षाया उदाह० ४६७ तम्या एवोभयवत्या उदा- उत्प्रेक्षाचयवादीनामुत्प्रेक्षातो
हरणम् ... ४५९ न मेद इत्याख्यानम् ४६८
तस्या एवानुभयवत्या उदा- तत्र-उत्प्रेक्षावयवोदाहरणम् ४६८ हरणम् ... ४६० अन्येषां मते यत्र प्रधानक्रि- अभिधीयमानसाटश्यायाः श्रा- या नोतप्रेक्ष्यते अवयवक्रिया घावत्यास्तुल्याकारविशेष- तूतपेक्ष्यते स उत्प्रेक्षावयवः। णाया उदाहरणम् . ४६० तस्योदाहरणम् ... ४६९ उत्प्रेक्षोपमाया उदाहरणम्४६९ श्यायाः श्राघागहवत्यास्तु- उत्प्रेक्षाप्रकारस्य मतस्योदा- ल्यातुल्यविशेषणाया हरणम् ... ४६९ उदाहरणम् ४६१ १०. अप्रस्तुतप्रशंसाया लक्षणम्, अन्योकिर्टिधा खजाती ... ४७० जात्यन्तरेच, तयो: खजा- तेषु-धर्मबाधया वाच्याया उदा- तावन्योक्ेरुदाहरणम् ४६२ हरणम् ... Yu० ५ स० क०
Page 67
Do
विषय: विषय: पृष्ठसखखया. धर्मबाधयेव प्रत्येतव्याया उदा- गुणस्य दोषीभाव उदाह० ४७८ हरणम् ... ४७१ अन्येषां मते लेशलक्षणं त- अर्थबाधया वाच्याया उदा- द्वेदी च ... ४७८ हरणम् ... ४७२ तयो:, समासोक्त्या उदा०४७९ अर्थबाधयैव प्रत्येतव्याया असमासोक्त्या उदाहरणम्४७९ उदाहरणम् ... ४७३ अन्रान्तर्भूता व्याजस्तुतिरपि कामबाधया वाच्याया उदा- द्विधा शुद्धा मिश्रा च; तयो: हरणम् ... ४७३ शुद्धाया उदाहरणम् ... ४८० कामबाधयेव प्रत्येतव्याया मिश्रायादा उहरणम् ... ४८० उदाहरणम् ... ४७४ १३. सहोक्त्यलंकारलक्षणम्, त- ११. तुल्ययोगिताया लक्षणम् ४७४ देदाथ्ष ·. ४८१ तत्र-अभिधीयमानतुल्यगुणत्वेन तेपु-कर्तृविविक क्रियासमावेश स्तुत्यर्थाया उदाहरणम् ४७५ उदाहरणम् ... ४८१ अभिधीयमानतुल्यगुणल एव कर्मणो विविक्कियासमावेश निन्दार्थाया उदाहरणम् ४७५ उदाहरणम् ... ४८१ प्रतीयमानतुल्यगुणत्वेन स्तुत्य- विविकाया एव लक्षणान्तरम् ४८२ र्थाया उदाहरणम् ... ४७५ तस्याः, कर्तृदूयस्य पृथककि- प्रतीयमानतुल्यगुणल एव नि- यासमावेशे उदाहरणम् ४८२ न्दार्थाया उदाहरणम् ४७६ कर्तृणामविविक्तकरियासमावेशे मतान्तरेण तुल्ययोगिताया उदाहरणम् लक्षणम् ... ४७६ कर्तृणामविविक्तक्रियासमावेश ... ४८३
तत्र-स्तुत्यर्थाया उदाहरणम् ४७७ इवशब्देन सहशब्दस्य स्थाने निन्दार्था उदाहरणम् ४७७ १२. लेशालंकारलक्षणम्, अथ ससादश्याया उदाहरणम् ४८३
व्याजस्तुतेरप्यत्रैवान्त- .४७७ गुणिनः ससाहश्याया उदा- र्भाव: तत्र-दोषस्य गुणीभावे लेशस्यो- हरणम् ... ४८४ १४. समुचयालंकारलक्षणम् ; त- दाहरणम् ... ४७८ देदाथ ४८४,४८५
Page 68
३५
विषय: विषय: पृष्ठसत्न्ा. तेषु-द्विपदाश्रयस्य प्रतिपदाश्रि- तद्योतकत्वेन द्रव्ययो: क्रिया- हरणम् ४९१ समुचये भिन्नविषययो: क्रिय- समुचयस्योदाहरणम् ... ४८५ द्विपदाश्रयस्यवोत्तरपदाश्रित- योसतुल्यकालप्रयोगे समुच-
द्योतकेन करिययोर्द्रव्यसमु- यमुद्रयापहार: स्यादिति नोदाहति: ... ४९१ चयस्योदाहरणम् ... ४८६ बहुपदाश्रयस्य प्रतिपदाश्रित- याश्रयस्य समुचयमेद- दयोतकत्वेन गुणानां किया- स्योदाहरणम् ... ४९२ समुचयस्योदाहरणम् ... ४८७ समाहारयोगादपि तस्पैवोदा- बहुपदाश्रयस्यवोत्तरपदाश्रित- हरणम् ४९२ द्योतकरवेन गुणानां किया- १५. आक्षेपलक्षणम्, तद्ेदाः रो- समुचय स्योदाहरणम् ४८७ घस्याप्यत्रान्तर्भावय ४९३ उभयपदाश्रयस्योत्तरपदाश्रित- तत्र-विध्याक्षेपस्प झुदस्योदा- ययोतकत्वेन द्रव्यगुणानां कि. हरणम् ... ४९३ यासमुचयस्योदाहरणम् ४८८ तस्पैव मिथ्रस्योदा० ... ४९४ मिश्र: पुनरुमयपदाधयवद्वहुप- निषेधाक्षेपस्य शुद्धस्योदा- दाश्रयक्ष भवति। तस्योदा- हरणम् ... ४९४ हरणम् .. ४८८ तस्पैव मिश्रस्योदा० ... ४९५ रोघस्यान्तर्भाचे विशेषता- उदाहरणम् ... ... ४८९ निरूपणम्, तज्रेदाक्ष ४९५ तस्येव समाहार उदाहरणम् ४८९ तत्र-उक्या विधौ प्रतिकूलस्पो- चयोगेऽपीतरेतरयोग:, तस्यो- दाहरणम् ... ४९६ तरपदयोगे उदाहरणम् ४९० उत्तयेव विधावनुकूलस्योदा- एवमपरेऽपीतरेतरयोगे चयोगा हरणम् . ४९६ उदाहार्या:। समाहारस्तूकत विधावेव युक्यानुकूलस्प एव, अन्वाचयस्तु क्रिया- प्रतिकूलस्य चोदाह० ४९७ विषय एवोपपद्यते, तन्नोत्त- युक्या निषेधे प्रतिकूळस्यो- रपदाश्रयस्य चकारस्योदा- दारणम्
Page 69
३६
विषय: विषय: पृष्ठसज्ता. युत्त्येव निषेधेऽनुकूळस्योदा- द्रव्यस्यापि वैकल्येनोदा- हरणम् ... ४१८ निषेध एवोक्त्या प्रतिकूल- हरणम् ... ५०६ द्रव्यस्य योगायोगाभ्यामवैक- स्वानुकूलस् चोदा० ४९९ 125 यदा कारणमुपन्यस्यापि कि- ल्येनापि कचिद्विशोपोत्ति-
यासूत्तिष्ठमानो न रुध्यते र्विशेषायाविशेषाय च तत्रो-
तदाक्षेप एव न रोधखदु- दाहरणम् ५०७
दाहरणम् १८. परिकरलक्षणम्, तद्गेदाय ५०७ ... ४९९ करियोद्यतस्यापि वारणे कारणा- 5 नामन्यपरत्वे रोधो न भवति कारकपरिकरस्योदाह. ५०८
तडुदाहरणम् .... ५०० संबन्धिप रिकरस्योदाह. ५०९
१६. अर्थान्तरन्यासलक्षणम्, त- साध्यपरिकरस्योदाह० ५०९
द्ेदाथ दृष्टान्तपरिकरस्योदाह० ५१० .... ५०१ तेपु-साधर्म्येणोदाह० ... ५०१ वस्तुपरिकरस्योदाहरणम् ५१० वैधर्म्येणोदाहरणम् ... ५०१ कियापरिकरस्य लक्षणम्, विपर्ययेणोदाइरणम् ... ५०२ तद्वेदाथ
उभयन्यासस्यार्थान्तरन्यासाद- तत्र-कता तादर्म्येनोदाह· ५११ मेदार्यानम्, तद्गेदाक ५०२ अव्ययेनोदाहरणम् ... ५१२ तेपु-उभयन्यासस्योदाहरणम् ५०३ एवं यथाविध्यनुप्रयोगादि- प्रत्यनीकस्योदाहरणम् ५०३ 29 ष्यपि दष्टव्यम् ... ५१२ प्रतीकन्यासस्योदाहरणम् ५०४ तस्योदाहरणम् .. ५१२ १७. विशेषोकिलक्षणम्, तद्गे- क्कचित् पुनर्वाह्यमपि कृदूपं दाक्ष ... ५०४ कृदर्थरूपं वा क्रियाविशेषणं तेपु-गुणवैकल्येनोदाहरणम् ५०५ भवति तदुदाहरणम् ५१४ जातिवैकल्येनोदाहरणम् ५०५ तद्धितकृत्वसुचोदाहतमथ था- क्रियावेकल्येनोदाहरणम् ५०५ लालिनोदाहरणम् ... ५१५
दाहरणम्." ... ५०६ प्रयोगय तदुदाहरणम् ५१६
Page 70
विषय: पृष्ठसखखा. विषय:
संबोधनस्य करिया विशेषणत्वम् ५१७ दव्यवाचिना पदेनादिदीपक- स्योदाहरणम् ... ५२६
हरणम् ... ५१७ अर्थावृत्तेषदाहरणम् ५२६ लक्षणपरिकरस्योदाह ५१८ पदावृत्तेरुदाहरणम् ... ५२७ हेतुपरिकरस्योवाहरणम् ५१८ उभयातृत्तेरुदाहरणम् ५२७ सहार्थपरिकरस्योदाह० ५१८ आवल्या उदाहरणम् ५२७ तादर्थ्यपरिकरस्योदाह० ५१९ संपुटस्योदाहरणम् ... ५२८ उपपदपरिकरस्योदाह० ५१९ रसनाया उदाहरणम् ५२९ अन्येषां मते परिकर- मालाया उदाहरणम् ५२९ लक्षणम् ·.. ५२० चक्वालस्योदाहरणम् ५३० तत्र-शब्दकृतस्योपमायामु- २०. कमालंकारलक्षणम्, तद्गे- दाहरणम् ५२० दाय ... ५३० अर्थकृतस्य रूपके उदाहरणम् ५२१ तत्र-शब्दपरिपाटिरदविधा पदतो उभयकृतस्य विरोधम्रेष वाक्यतथ
उदाहरणम् ... ५२१ तयोः पदत उदाहरणम् ... ५३१
एकावस्या: परिकर एवा- वाक्यत उदाहरणम् ... ५३१ न्तर्मावः, तद्गेदाथ- ५२२ अर्थपरिपाटिरपि द्विषा
तत्र-शब्दैकावल्या उदाइ० ५२२ कालतो देशतय ... ५३२
अर्थेकावल्या उदाहरणम् ५२३ तयो :- कालत उदाहरणम् ५३२
उभयेकावल्या उदाहरणम्५२४ देशत उदाहरणम् ५३२
१९. दीपकालंकारलक्षणम्, उभयपरिपाटिरपि द्विया शब्दप्रधाना अर्थप्र- ... ५२४ धाना च तयो: शब्द- तेपु-कियावाचिना पदेनादिदी- प्रधानाया उदाहरणम् ५३२ पकस्योदाहरणम् ... ५२५ अर्थप्रधानाया उदाह· ५३४ जातिवाचिना पदेनादिदीप- २१. पर्यायालंकारलक्षणम्, तद्गे- कस्योदाहरणम् ... ५२५ दाय ... ५३५ णवाचिना पदेनादिद्ीप- तेपु-निराकाह्लस्प मिषस्योदा- कस्योदाहरणम् ... ५२५ दरणम् ५३५
Page 71
३८
विषय: विषय: पछ्ठसखया. साकाक्षस्य मिषस्योदाह० ५३५ अभिल्नकारकस्योदाह० ५४५ २४. भाविकालंकारलक्षणम्, साकाल्लाया भगरुदाह० ५२६ त्गेदाय अवसरस्य निराकासस्योदा- ५४७,५४८ तत्र-भाविकमेदेषु खाभिप्राय- हरणं तशिरूपणं च ५३८ कथनस्योदाहरणम् ... ५४८ अवसरस्य साकाक्स्योदा- अन्यभावनाया उदाहर० ५४९ हरणम् ५३९ अन्यापदेशस्योदाहरणम् ५४९ २१. अतिशायोत्तयलंकारलक्षणम्, उद्धेदेषु व्यकतस्योदाह० ५५०. तद्रेदाथ ५३९,५४० तेष्वेवाव्यकस्योदाहरणम् ५५० अलंकारान्तरेभ्योऽतिशयस्या- उभयरूपस्योदाहरणम् ५५१. तिशयनिरूपणम् ... ५४० २५. संसष्यलंकारलक्षणं तत्र-गुणातिशयेन महत्त्वातिश- तद्रेदाक ५५१,५५२ यस्योदाहरणम् ... ५४० व्यक्ायास्तिलतण्डलवत् संकी- तनुत्यातिशयस्योदाह· ५४० र्णाया उदाहरणम् ... ५५२ कान्त्यतिशयस्योदाहरणम् ५४१ व्यकाया रछायादर्शवत्संकी- प्रभावातिशयस्योदाह० ५४१ णाया उदाहरणम् ... ५५२ अनुभावातिशयस्योदा- अव्यकाया: क्षीरजलवत्सकी- हरणम् .. ५४२ रणाया उदाहरणम् ... ५५३. अन्योन्यातिशयस्योदाहरणम् ५४३ अव्यकाया: पांसूदकवत्की- २३. शेषालंकार लक्षणं तद्रेदाथ र्णाया उदाहरणम् ... ५५२ षद ... ₹ .. ५४३ व्यक्ताव्यकाया नरसिंहवत्संकी- रणोया उदाहरणम् ... ५५३ अभिन्नपदस्योदाहरणम् ५४४ मिनकियस्योदाह० ... ५४५ रणाया उदाहरणम् ... ५५४ एवं शब्दार्थोभयसंश्रयाः का-
अयं च भिन्नकारकोऽपि भवति तत्र भिन्नकारकस्योदा- इत्युभयालंकार विवेचनो नाम
हरणम् चतुर्थ: परिच्छेदः। ·.. ५४६
Page 72
३९
विषय: पृष्ठसख्ा. विषय: पृष्ठसख्का.
रसविवेचनो नाम पश्चम: भावाः ५५६
परिच्छेदः। (पृ. ५५५-७४४) व्यभिचारिणो भावा: ५५६ शत्ारलक्षणम्, तद्वारकं च स्थायिभावलक्षणम् ... ५५६ काव्यस्य कमनीयत्वम् ५५५ सात्त्विकभावलक्षणम् ५५६ व्यभिचारिभावलक्षणम् ५५६ द्रूतो हेतत्वम् ... ५५५ प्रकारान्तरेण व्यमिचारि- कवेः ज्तारित्वे जगतो रस- भावलक्षणम् ... ५५७ मयलम्, तस्यवाम्टज्ारि- स्मृत्यादीना प्रेमादी स्वे नीरसत्वं च ... ५५५ सत्तासत्ते ५५० रतौ संचारिणां गर्वल्ेहा-
प्रदर्शनम् ५५५ दीनां, उद्धतप्रेयःशा- ग्राम्यार्थात्मनो वैरस्यहेतु- न्तोदात्तेपु च स्था.
सम् ५५५ सूनां सत्ता ... ५५७ अग्राम्यार्थात्मनो रसा- संस्कारपाटवादिहेतुकरम-
बहत्वम् ५५५ नुभावस्य, संचारिण:, रसाहरणे नवार्थादीनां सास्विकस्य वा निजा-
हेतुलम् .. ५५५ अ्रये जन्म ... ५५७
वक्रोक्यादिस् कीना रसोफे: अनुवन्धस्य लक्षणम् ... ५५७
प्राधान्यम् .. ५५५ निष्पत्तेलेक्षणम् ... ५५७
चतुर्विशतिसंख्याका रखा- पुष्टेर्लेक्षणम् ... ५५७
न्वयविभूतयः ... ५५६ संकरस्प लक्षणम् ... ५५७
रसान्वयविभूतीनां खरूप- हासस्य लक्षणम् ५५०
ज्ञानेन काव्यकरण- आमासस्य लक्षणम् ... ५५७ सामर्ष्यम् ... ५५६ (प्र)शमस्य लक्षणम् ... ५५७ भावस्य लक्षणम् ... ५५६ शेपस्य लक्षणम् ... ५५७ रत्यादयोऽट्टी स्थायिभावा: ५५६ विशेषस्य लक्षणम् ५५८ स्तम्भादयोऽष्टो सात्विक- परिशेषस्य लक्षणम् ... ५५८
Page 73
४०
विषय: पृष्ठसख्या. विषय: पृष्ठसन्ा.
रत्यादिसमुद्धवप्रकार: ५५८ विप्रलम्मेन बिना संभो- आलम्बनविभाव:, तत- गः पुष्टि नाक्षुत इति व संस्कारोद्वव :... ५५८ मात्यर्तुचन्दनादय उद्दी- द्वारा संस्थापनम् ... ५५९
पनविभावा: ५५८ विप्रलम्भ संभोगयोश्ेष्ठावि-
खेदरोमोद्रमादयोऽनु- शेषाणां नाममेद: ... ५६०
भावा: 1ग ल ... ५५८ एवं प्रेम्ण: परीक्षा: परीष्टय: ५६० हर्षामर्षादय: संचारिण: ५५८ विप्रलम्भशब्दस्य तदमानां वरखरीणां ळीलादयो वि- च विशेषतो
लासा: ... ५५८ निरुचि: ५६०,५६१,५६२ लीलाविलासविच्छित्या- संभोगशब्दस्य तदज्वानां च दीनामनुभावेपूपसं- निरुक्ति: ... ५६४
ख्यानम् ५५८ द्वादश महर्दय: ५६५,५६६ नाठ्येष्वभिनीता एत ए- प्रेमपुष्टयः
वानुभावाः, संचारि- द्वादश नायकनायिकमेवा:५६६ णश्चािनयाः ... ५५९ तन्न-नायकलक्षणम्
प्रकर्पमधिगच्छन् रति- प्रतिनायकलक्षणम् ५६६
र्नाम भावो यदामीष्ठं उपनायकलक्षणम् ५६७ ५६७ नाधिगच्छवि तदा अनुनायकलक्षणम् ... ५६७ विप्रलम्भ: ५५९ नायिकालक्षणम् ० .. ५६७ विप्रलम्भः पूर्वानुरागा- प्रतिनायिकालक्षणम् ... ५६७ दिभिथतुःकाण्ड: ५५९ उपनायिकालक्षणम् .. ५६७
पूर्वानुरागलक्षणम् अनुनायिकालक्षणम ... ५६७ ५५९ मानलक्षणस् नायकनायिकयोसभा- ... ५५९ प्रवासलक्षणम् ५५९ साः, गुणादिमिल्लेषां भेदाक्ष ..... ५६७ करुणलक्षणम् ५५९ रतिरेवेष्टसंप्राप्ती पुष्टः सं- गुणत उत्तमो मध्यमोड्
भोगा, सोडपि चतुर्विध:५५९ घमथ् नायक: .. ५६७ प्रकृतिहेतुकं सारिवक
Page 74
विषय: पृष्ठसख्धा. विषयः पृथ्सर्पा.
राजसतामससाधारणान- r न्यजातिमेदेन तङ्ेदा: ५६७ रागभक्तय: अन्तर्व्याजब हिर्व्याजाय्या ५६९
तशान्तोदात्ताख्या भेदा:, व्याजभक्य :... ५६९ प्रवृत्तितक्ष शठपृष्ठानुकू धर्मार्थकामाद्याः प्रेमसू- C लदक्षिणारया मेदाः ५६७ दर्कभक्य: ९ .. ५६९ एवं गुणतो नायिकाया अप्यु- सूरयोऽनीचित्य प रिहारेण त्तममध्यमाधममेदा: ५६७ मुग्धा मध्या प्रगल्मा चेल्ा- वाक्यवत् प्रबन्धेष्वपि
दयो नायिकामेदा: ५६८ रसालंकार संकरान्
अष्टो खण्डिताय्या अवस्था- प्रयुजते र .. ५६९
भेदतो नायिका: ५६८ चतुर्वत्त्यप्संपज चतुरोदा-
तत्र-खण्डिताया लक्षणम् ५६८ तनायकं चतुर्वर्गफळं
कलहान्तरिताया लक्षणम् ५६८ प्रबन्धं को न बान्ध-
विप्रलब्घाया लक्षणम् - ५६८ वीयति p ... ५६९
वासकसजाया लक्षणम् ५६८ मुखप्रतिमुखायाः प्रबन्धे
खाधीनपतिकाया लक्षणम्५६८ पञ संधय :... ५६९
अभिसारिकाया लक्षणम् ५६८ अविस्तृतादिगुणयुक काव्यं
प्रोषितभर्तृकाया लक्षणम् ५६८ लोकाभिनन्य्यम् ... ५६८
विरह्योत्कण्ठिताया पुरोपवनराष्ट्रादिवर्णनं -1:13
लक्षणम् ५६८ रसोत्कर्षावदम् ... ५६९
एवं द्वान्रिशज्जायिकामेदाः ५६८ ऋतुरात्रिदिवार्केन्ददया- पीठमर्दविदूषकाययाः शेषाणि दिवर्णनं काव्येधु रस-
हीन पात्राणि .. ५६८ पुष्टि नियच्छति ... ५६९ महाकुलोजतादयो नायके- राजक न्याकुमारादिवणनं व्वभिगामिका गुणा: ५६८ काव्येपु रससोतोड वितिष्ठति ५६5
य्या: पाकभचय: ५६९ उद्यानसलिलकीडावर्ण-
Page 75
४२
विषय: पृष्ठसखया. विषय: पृष्ठसत्ा. नादि च काव्येषु बन्यः । तत्र-अने- रसाबहम् ... ५७० कस्यानुबन्ध उदाह० ५०१ मन्त्रदूतप्रयाणादिवर्णन- एकस्यैव पुनः पुनरुत्पत्ता- पुरःसरा पुरुषकारस्य बुदाहरणम् रतिरूपेणैव रसनिष्पते- ... ५७२ पुष्टिः काव्येषु रसं वर्षति ... ... ५७० रुदाहरणम् ... ५७२ शैलतुंबर्णनेनैव तोषे नग- रति रूपेणैव रसपुष्टेरुदाह. ५७३ यांदेरवर्णनं न दोषाय ५७० रती भयादिसंकरस्योदाह०५७४ नायकं प्राग् गुणतः समु. रतिरपेण रसप्रकर्षस्य पन्यस्य तज्ारकं वि- हासोदाहरणम् ... ५७५ दविषां निराकरणमिति रतिरूपेण हीनपात्रेपु प्रकृतिसुन्दर:पन्था: ५७० रिपोरपि वंशवीर्यश्रुतादी- रसाभासस्योदाह० ५७५ रतिरूपेण तिर्यक्षु रसा. नि वर्णयित्वा तज्चया- भासस्योदाह० सायकोत्क्षकथनं स- ... ५७६ रतिरूपेण नायकप्रति- रखतीकण्ठाभरणम्र - योगिपुर साभासस्यो- न्यकर्तु: संमतम् ... ५७० दाहरणम् १. अथेषां लक्षणोदाहरणानि ५७० रतिरूपेण गौणेषु रसा- ... ५७६
तत्र-रतिलक्षणम्, प्रीतिल- क्षणं च ... ... ५७० भासस्योदाह० ... ५७६ त एते चलारोऽपि रसाभासा: ५७६ तद्रूपेण रसस्य भाव उदाइ० तद्रूपेणैव सात्विकोत्पत्ती रतावेव लजजारोपरूपर- सान्तरयो: प्रशम- जन्मन उदाहरणम् ५७१ संचार्युस्पत्ती जन्मन उदाह० ५७१ स्योदाहरणम् ... ५७७
अनुभावोत्पत्ती तस्यैवो- रतावेव रोषरूपरसस्य शेष उदाहरणम् ५७७ दाहरणम् . ५७१ अनुभावादेरने क स्पैकस्य त एवे भावादयो दशापि
वा पुनरुत्पत्तिरनु- रसप्रकारा हासादि- ष्वपि प्रायो दश्यन्ते,
Page 76
विषय: पृष्ठसख्खा. विषय: पृष्ठसख्ा.
प्रन्थगौरवभयात् तद्रूपेण रसस्य जन्मन्यु- क्कचित् कचिचोदा- दाहरणम् ... ५८१
द्वियन्ते ... ५७७ ११. गद्गदस्य लक्षणम् ५८१
२. हासस्य लक्षणम् .. ५७७ तदूपेण रसनिष्पत्ते-
तद्रूपेण रसस्य भाव रुदाहरणम् ५८१
उदाहरणम् ५७७ १२. खेदस्य लक्षणम् ५८१
३. शोकस्य लक्षणम् ५७८ तदूपेण रसस्य जन्मन्यु- तदूपेण रसस्य निष्पत- दाहरणम् ५८१
कदाहरणम् १३. वेपथोर्लक्षणम् ५८१
४- कोघस्य लक्षणम् ... ५७८ तड्ू पेण रसस्य जन्मन्यु- तद्रूपेण रसस्य निष्पत्ते- दाहरणम् .. ५८१
रुदाहरणम् ५७८ १४. विवर्णताया लक्षणम् ... ५८२
५. उत्साहस्य लक्षणम् ... ५७८ तदूपेण रसस्य निष्पत्ता-
तदूपेण रसस्य जन्मन्यु- बुदाहरणम् .... ५८२
दाहरणम् ... ५७८ १५. अश्रुणो लक्षणम् ... ५८२
६. भयस्य लक्षणम् ... ५७९ तदूपेण रसस्यानुबन्ध
तद्रूपेण रसस्यानुबन्ध- उदाहरणम् ... ५८२
स्योदाहरणम् ... ५७९ १६. प्रलयस्य लक्षणम् . ५८२
७. जुगुप्साया लक्षणम् ५७९ तदपेण रसस्य निष्पत्ता-
तद्रूपेण रसस्यानुगम बुदाहरणम् ... ५८२
उदाहरणम् ... ५७९ १७. स्मृतेर्लक्षणम् ५८३
८. विस्मयस्य लक्षणम् ... ५८० तदरपेण रसस्यानुबन्ध तद्रूपेण रसनिष्पत्ते- उदाहरणम् ५८३
मदाहरणम् ... ५८० १८. ऊहस्य लक्षणम् ... ५८३
९. सम्भस्य लक्षणम् ... ५८० तदूपेण रसस्य निष्पत्ता- तद्रूपेण रसस्य पुष्टेरुदाह. ५८० बुदाहरणम्
१०. रोमाशस्य लक्षणम् ... ५८० १९. अभिलापस्य लक्षणम् ... ५८३
Page 77
विषय: विषय: पष्ठसख्ा. तड्रूपेण रसस्य निष्पत्ति- हासयोकदाहरणम् ५८३ अत्र प्रहर्षाकारोत्पत्तौ देवर्षिवाक्यम् ... ५८७ २०. चिन्ताया लक्षणम् .... ५८४ ३८. मूढताया लक्षणम् ... ५८७ तदूपेण रसस्य प्रकर्ष तदरपेण रसनिष्पत्ता- उदाहरणम् ... ५८४ बुदाहरणम् ५८७ २१. चपलताया लक्षणम् ... ५८४ २९. मदस्य लक्षणम् ५८७ तद्रपेण रसस्य जन्मन्यु- तद्रूपेण रसस्य निष्पत्ता- दाहरणम् ... ५८४ बुदाहरणम् ५८७ २२. मतेर्लक्षणम् ... ५८४ ३०. हर्षस्य लक्षणम् ५८७
तदूपेण रसस्यानुबन्ध तदूपेण रसस्य प्रकर्ष
उदाहरणम् उदाहरणम् ... ५८५ .. ५८८
२३. गर्वस्य क्षणम् ... ५८५ ३१. अमर्षस्य लक्षणम् 5 ... ५८८
तदूपेण रसस्य पुष्ठावुदाह०५८५ तद्रूपेण रसस्य प्रकर्ष उदाहरणम् .. ५८८ २४. चित्तार्दताया लक्षणम् ... ५८५ ३२. असूयाया लक्षणम् ... ५८८ तदूपेण रसस्य निष्पत्ता- तदूपेण रसस्य जन्मन्यु- बुदाहरणम् ५८५ दाहरणम् .५८6 २५. परतेर्लक्षणम् ३३. ईर्ष्याया लक्षणम् ... ५८९ ५८५ तद्रपेण रसस्य प्रकर्ष तद्ूपेण रसस्य प्रकर्ष
उदाहरणम् ५८६ उदाहरणम् ... ५८९
२६. मीढाया लक्षणम् ३४. विषादस्य लक्षणम् ... ५८९ ५८६ तदूपेण रसस्य प्रकषे तदूपेण रसस्य प्रकर्ष उदा० ५८९ कोधशोकाभ्यां संकर ३५. दैन्यस्य लक्षणम्. 450
उदाहरणम् ५८६ तदूपेण रसस्यानुबन्ध उदाहरणम् ५९० २७. अवहित्यस्प लक्षणम् . ५८६ तद्रपेण रसस्यानुबन्ध ३६. ग्रताया लक्षणम् ५९०
उदाहरणम् तदूपेण रसस्प प्रकर्ष .. ५८६ चदाहरणम् ५5
Page 78
8५
विषय: पृष्ठसख्ा. विषय:
३७. त्रासस्य लक्षणम् ५९० तद्रपेण रसस्यानुबन्ध तद्रूपेण रसस्य जन्मन्यु- उदाहरणम् ... ५९४
दाहरणम् ५९० ४७. सुप्तस्य लक्षणम् ... ५९४ ३८. शङाया लक्षणम् ... ५९१ तद्रूपेण रसप्रकर्ष उदा० ५९४ तदूपेण रसस्य प्रकर्ष ४८. प्रबोघस्य लक्षणम् ... ५९४ उदाहरणम् ५९१ तद्रूपेण रसस्यानुबन्ध ३९. गदस्य लक्षणम् .... ५९१ उदाहरणम् ... ५९४ तद्रूपेण रसस्य जन्मन्यु- एवं भावादिमेदेन रत्या-
दाहरणम् ... ५९१ दिरसा उच्त्ा:, अधु- ४०. ग्लानेर्लक्षणम् ५९१ नैतेषु केषांचिद्विशेषा- तदूपेण रसस्यानुबन्ध णामभिघाने प्रतिज्ञा ५९५ उदाहरणम् ... ५९१ ४९. ऋशाराया रसा: ५९५ ४१. उन्मादस्य लक्षणम् ... ५९२ ५०. रते: प्रकारा: ५९५
तद्रूपेण रसस्य जन्मन्यु- ५१. प्रीतेः प्रकारा: ५९५
दाहरणम् ५९२ तदुदाहरणोपन्यास- ४२. संग्रमस्य लक्षणम् ... ५९२ प्रतिज्ञा ... ५१५
तद्रूपेण रसस्य संकर ५१५
उदाहरणम् ... ५९२ वीररसोदाहरणम् ·.. ५९६
४३. खेदस्य लक्षणम् ५१२ करुणरसोदाहरणम् ... ५९६ तद्रूपेण रसस्य शेष रौदरसोदाहरणम् ... ५९६
उदाहरणम् ५९२ अद्भुतरसोदाहरणम् ... ५९६ ४४. जाड्यस्य लक्षणम् ... ५९३ मयानकरसोदाहरणम् ५९०
तद्रूपेण रसस्य निष्पत्ता- बीभत्सरसोदाहरणम् ५९७
युदाहरणम् ... ५९३ हास्यरसोदाहरणम् ... ५९७ ४५. आलस्यस्य लक्षणम् .. ५९३ प्रेमरसोदाहरणम् ... ५९८ तद्रूपेण रसस्य निष्पत्ता- रति प्रीत्यो: प्रेयानेव मूल-
बुदादरणम् .. ५९३ प्रकृतिरित्यत्र प्रमा- ४६. निदाया लक्षणम् .... ५९४ णोपन्यासः ... ५९८
Page 79
४६
विषय: पृष्ठसङ्का. विषय: पृष्ठसख्घा. शान्तरसोदाहरणम् ... ५९८ सांप्रयोगिकीस्थान आ- अन्येषां मते शान्तस्प म्यासिक्या उदाह० ६०४ शम एव प्रकृति: परं अत्र यलक्षणं घटते शमो धृतेरेव विशेष: ५९९ तस्योपन्यास: ... ६०४ उदात्तरसोदाहरणम् ... ५९९ आभिमानिक्या उदाह० ६०४ उद्धतरसोदाहरणम् ... ५९९ वैषयिकीयु शब्दोदाह· ६०५ अत्रोदाहतिपूर्वमन्यम- a, स्पर्शोदाहरणम् ६०५ तोपन्यास: ५९९ , रूपोदाहरणम् ६०५ ५२. रतिविशेषेपु नेसर्गिक्या ", रसोदाहरणम् ६०५ उदाहरणम् ·, गन्धोदाहरणम् ६०५ सांसर्गिक्या उदाह० ६०० उत्साहस्य युद्धवीरादय:, पमानिक्या उदाह· ६०० कोधस्य भामादय:, आध्यात्मिक्या उदाह० ६०० हासस्य स्मितादय:,
आभियोगिक्या उदाह० ६०१ सुप्तप्रलयमत्यादीनां
सांप्रयोगिक्या उदाह० खप्मरणशमादयो ६०१ मेदा: ६०६ भाभिमानिक्या उदाह० ६०१ वैषयिकीयु शब्दोदाह० ६०२ दानवीरस्योदाहरणम् ६०६ ६०६ वैषयिकीयु स्पर्शोदाह· ६०२ दयावीरस्योदाहरणम् ", रूपोदाहरणम् ६०२ क्रोधस्य यद्यपि भामादयो ६०६
"> रसोदाहरणम् ६०२ मानभेदाक्तुविशति- ,, गन्धोदाहरणम् ६०२ स्तथापि ललितालठि- ५३. प्रीतिविशेषेषु नेसर्गिंक्या तोभयमेदरूपेण त्रय उदाहरणम् ... ६०३ एव प्रकारा :... ६०६
सोसर्गिक्या उदाहरणम् ६०३ वेपु-तीणां ललितकोपस्य
ओपमानिक्या उदाह० ६०३ भामस्योदाहरणम् ... ६०७
आध्यात्मिक्या उदाह० ६०३ प्रियापराधजन्मनो दु :-
आभियोगिक्या उदाह० ६०४ खोत्पीडस्य मन्योरु- दाहरणम् ... ६०७
Page 80
१७
विषय: पृष्ठसख्ा. विषय: पृष्ठसखया.
प्रियादियु व्याजनिन्दो- विषयस्िया-चेतनः, त्प्रासस्य लक्षणम् ... ६०७ तिर्यग्, अचेतनथ ६१० हासस्य यथप्युपह्ासा- तेषु-चेतनस्योदाह ·... ६१ दयो भेदासथापि तिरथ उदाहरणम् ... ६१० विह्सितेन तेषां संग्र- अचेतनस्योदाहरणम् ... ६१० हादीषच्यूनाधिक- ज्ञानं त्रिधा रष्टम्, श्रु- मिति त्रयखद्वेदा: ६०७ तम्, अनुमानजं च ६१० तत्र-ईषद्धसितस्प स्मित- तेषु-दष्टसोदाहरणम् ६११ स्योदाहरणम् ... ६०७ श्रुतस्योदाहरणम् ... ६११ दृष्टदशनकान्तेर्हसितस्यो- अनुमानस्योदाह० ... ६११
दाहरणम् .. ६०८ तस्पेव सविशेषस्य हसि- पटः, अभ्यखथ ६११ तस्योदाहरणम् ... ६०८ तत्र-आदतस्योदाह· ६११ मुप्तविशेषस खमस्योदा- विषय गुणेन पटुप्रत्यया-
हरणम् ... ... ६०८ दुत्पन्नस्य पटोरुदाह० ६११ मूर्च्छाविशेषस्य मरणस्यो- दाहर णम् ... ६०८ प्रत्ययादुत्पजस्याभ्य-
मतिविशेषस्य शमस्यो- खस्योदाहरणम् ... ६१२
दाहरणम् .. ६०९ ५३. उद्दीपनविभावेषु माल्य- एवमन्येपि रसभावादि- वस्त्रविभूषणादयो संधया विशेषा ऊग्ा:, माल्यादयः ... ६१२ अधुना परिशेषो निद- तेयु-माल्यस्योदाहरणम् ६१२ श्यंत इति प्रतिज्ञानम् ६०९ वख्स्योदाहरणम् ... ६१२ तत्राश्रयव्तििधा पुमान्, विभूषणस्योदाहरणम् ... ६१२ स्त्री, विर्यमादय: --- ६०९ ५४. ऋतुवयोमदादय ऋत्वादय: ६१३ तेपु-पुंस्युदाहरणम् ... ६०९ तेषु-ऋतोरुदाहरणम् ... ६१३ स्त्रीपूदाहृति: ६०९ वयस उदाहरणम् ... ६१३ तिर्यगादिपूदाहरणम् ... ६०९ मदस्योदाहरणम् ... ६१३
Page 81
28
विषय: विषय: चन्दनस्नानधूपादय- विभूषणादीनामनादरवि- चन्दनादय: ·.. ६१३ तेपु-चन्दनस्योदाहरणम् ६१३ न्यासस् विच्छिते-
सानस्योदाहरणम् ... ६१३ रुदाहरणम् ६१८
धूपस्योदाहरणम् ... ६1४ विभूषणादीनामस्थान- प्रयोगस्य विश्रम- चन्द्रोदयो घनध्वनिरूप- स्योदाहरणम् ... ६१८ कारस्मरणमित्याद्या- अन्द्रोदयादय: ... ६१४ स्मितरुदित ह सिता दी ना
६१४ हर्पादसकृदेकीकर-
घनध्वनेरुदाहरणम् ... ६१४ णस्य किलकिच्चित-
उपकारस्मरणस्योदाह० ६१४ स्योदाहरणम् ... ६१९ ५५. अनुभावेषु स्मरतेरुदाइ· ६१५ दृष्टजनकथायां तद्गाव- वाष्छतेरुदाह ६१५ भावनोत्यित विकारस्य
·> प्रयतते यथा ... ६१५ मोहायितस्योदाह० ६१९ ,, अवेति यथा ... ६१६ केशखनाधरादिग्रहणा- " मन्यते यथा ... ६१६ हुःखेडपि सुसबुद्धि * वकति यथा. ६१६ चेष्टाया: कुहमित- , चेष्टते यथा ... ६१६ स्योदाहरणम् ... ६१९ ५६. संचारिषु खेदरोमान्चवेप- अमीष्ट प्राप्तावमिमानगर्व- धूनामुदाहरणम् ... ६१७ संभावनानादरकृतस्प ."१> अश्रुण उदाह० ६१७ विकारस्य विग्जोक- , हषस्योदाहरणम् ६१७ स्योदाहरणम् ... ६१९ , अमर्षस्योदाह० ६१७ सुकुमारतया करचरणा- 573 लीलादिपु प्रियजनचेष्टा अन्यासस्य ललित- नुकतेलीलाया उदाइ० ६१८ स्योदाहरणम् ... ६१९ नेत्रभ्वककर्मणां विशे- पe3 -षेण लसनस्य विला- वकव्यसमयेऽपि वचसा- भिभाष्य क्रियानुष्ठा- सस्योदाहरणम् ... ६१८ नस्य विहृतस्योदादद० ६१९
Page 82
४९
विषय: पृष्ठसखता. विषय: पृष्ठसख्या. बाल्यकौमारयोवनसाधा- पूर्वानुरागः, मान:, रणस्य विहारविशे- प्रवास:, करुणय ... ६२३ पस्य कीडितस्योदाह- ६१९ तेघु-प्रागसंगतयो: पूर्वा- कीडितस्यव प्रियतमविषये नुराग: पुरुषप्रकाण्डे केलेक्दाहरणम् ... ६२० यधा हेलादिषु रागतः सहसा स एव स्रोप्रकाण्डे यथा ६२४ संगतयोर्मान:, स निर्हेतुर्यथा ६२४ हेला, सा खियां यथा ६२० स एव सहेतुर्यथा ... ६२४ सैव पुरुषे यथा ... ६२० संगतवियुक्तयो: प्रवासः, हेलैव सवचनविन्यासो स नवानुरागो यथा ६२५ हाव: स खिर्या यथा ६२० स एव प्रोढानुरागो यथा ६२५ स एव पुरुषे यथा ... ६२१ संगतयोरेवान्यतरव्य- आदिग्रहणेन भावादयो पाये करुणः, सल्ी- गृह्यन्ते, तेषु भावा: व्यपाये पुरुषस्य यथा ६२५ स्रियां यथा ... ६२१ स एव पुरुपस्य व्यपाये व्याज: पुंसो यथा ... ६२१ खिया यथा विस्लम्भभाषणं ख्रिया यथा ६२१ हीनपात्रादिषु चैतदा- ... ६२५
चाटु स्त्रीपुंसयोर्यथा ... ६२२ भासा भवन्ति, तत्र प्रेमाभिसंधानं पुंसो यथा ६२२ हीनपात्रेषु पुंसि परिहास: स्रिया यथा ६२२ प्रेमानुरागो यथा ... ६२६ कुतूहलं पुंसो यथा ... ६२२ अत्रैव स्रियां मानो यथा चकितं स्रिया यथा ... ६२३ तिर्यक्ष पक्षिणि प्रवासो यथा ६२६ ६२६
हेलादयो विलासिनां अत्रेव करिणि करुणो यथा ६२६ चेष्ठा उक्ताः, शेषाणं तेपु-प्रथमानुरागानन्तरो विप्रलम्भादी रूपमा- ·यथा ... ६२७ विर्भविष्यतीति प्रति- मानानन्तरो यथा ... ६२७ ज्ञानम् प्रवासानन्तरो यथा ... ६२७ करुणानन्तरो यभा . ६२८ ६ स० क०
Page 83
५०
विषय: पृष्ठसब्ना. विषय: तेपु-प्रथमानुरागेण यथा ६२८ प्रवासानन्तरे चुम्बनं यथा ६३३ मानेन यथा ६२८ करुणानन्तरमालिजनं यथा ६३३ प्रवासेन यथा ·.. ६२८ प्रथमानुरागानन्तरे करुणेन यथा ६२९ दन्तक्षतं यथा ... ६३४ विर्यगादिषु चैतदाभासा तदेव मानानन्तरे यथा ६३४ भवन्ति, तेपु सरी- सृपसृगयोर्यथा प्रचासानन्तरे दन्त- ६२९ क्षतादयो यथा ... ६३४ पशुपक्षिणोर्यथा किनरेषु यथा ६२९ प्रथमानुरागानन्तरे ... ६२९ नखक्षतं यथा ... ६३४ तरुषु यथा ६२९ अन्रेव पुरुषायितं सथा ६३५ विप्रलम्भचेश्ठासु प्रथमा- नुरागे खिया यथा सर्व स्वत्र यथा. ६३५ ६२९ पुसो यथा ६३० माने खिया यथा गतः प्रेमपरीक्षा यथा ६३५ ... ६३० "> पुंसो यथा प्रवासे ख्रिया यथा ६३० प्रव्यभियोगतो यथा ... ६३५
६३० विषहणेन यथा ६२६ , पुंसो यथा ६३१ बिमर्शेन यथा ... ६३६ करुणे खिया यथा ... ६३१ बहुमानेन यथा ६३६ ", पुंसो यथा ... ६३१ हापया यथा ६३६ करुणवर्ज स्रिरिया यथा त्रिया एव प्रथमानु- ६३१ इजितेन यथा ६३७ दूतसंप्रेषणेन यथा रागवर्ज यथा ... ६३२ ६३७ दूतप्रश्ने यथा ६३७ प्रथमानुरामवर्ज पुंसो यथा ६३२ लेखविधानेन यथा ... लेखवाचनेन यथा ६३७ पुंस एव प्रवासकरुणयोर्यया ६३२ ६३८ संभोगचेश्ठसु पूर्वानुरा- संभोगपरीष्टिपु प्रथमा- गान्तरे चुम्बनं यथा ६३२ नुरागानन्तरे साध्ब- अन्नवालितन यथा ... ६३१ सेन पुंसो यथा मानानन्तरे चुम्बनं यथा ६३३ अत्रैव दोहदेन मुरधाया ६३८
अन्रेबालितनं यथा ... ६३३ बदाहरणम .. ६३८
Page 84
५१
विषय: विषय: पृष्ठसखा. अन्रैव प्रगल्मायाः प्रिय- प्रथमानुरागेण सहरागो यथा ६४४ वाक्यवर्णनेन यधा ६३८ तत्रव पश्चाद यथा ... ६४४ मानानन्तरे ख्रिया: केत- तन्रेवानुरूपो यथा ... ६४५ वस्मरणेन यथा ... ६३९ तत्रैवानुगता यथा ... ६४५ स्रिया एव सखीवाक्य- माने मान्यते येनेति यथा ६४५ स्याक्षेपेण यथा ... ६३९ यं प्रियस्वेन मन्यते यथा ६४६ तस्या एव तदतुष्ान- विग्नेन यथा यः प्रेम मनुते यथा ... ६४६ ६३९ प्रेम मिमीते यथा ... ६४७ प्रवासानन्तर त्रिया यथा ६३९ अत्रेव स्त्रीपुंसयोर्यथा ६४० प्रवासे वसत इत्युपलक्ष- णेनात्मानमजना न भूप- सामान्यत एव प्रवास- साध्यसेन खिया यथा ६४० यन्ति ... ६४७ युवान: प्रियासंनिधी न प्रवासविलम्बेन पुसो बथा ६४० वसन्ति यथा .. ६४७ परिहारे खेदादिभि: स्रिया यथा ... ६४० वासयति यथा ... ६४८ करुणानन्तर पुंसो यधा ६४१ प्रमापमति यथा ... ६४८ विप्रलम्भनिरुक्िषु प्रथ- करुणे करोतेर्भूतोपाद- मानुरागे प्रतिशुत्या- नार्थत्वे कुरुते दानं यथा .. ६४१ मूच्छा यथा ... ६४८ माने विसंवादनं यथा उचचारणावतवे कुरुते प्रवासे कालहरणं बथा ६४१ ६४२ विलापं बथा करुणे प्रत्यादानं यथा ६४२ अवस्थापनार्ये कुरुते अत्र संबद्धोऽयें: . ६४३ साइसे मनो बथा ६४९ प्रथमानुरागे वञचनमार्त्र अभ्यञ्ञनार्थत्वे करोति विविधम् .. ६४२ चित्तं दुःखेन यथा ६४९ माने विरुदं यथा ... ६४३ संभोगनिरुक्तियु प्रथमा- प्रवासे व्याविद्धं यथा ... ६४३ नुरागानन्तरे पाल- करुणे निपिदं यथा ... ६४४ नायों यथा 5 .. ६४९
Page 85
५२
विषय: पृष्ठसख्ा. विषय: पृष्ठसखया. मानानन्तरे कौटिस्यार्थों यथा ६५० तत्रैव युवानः प्रिया- संनिधौ न वसन्ती- हाराथों यथा ... ६५० व्यर्थस्यान्वयो यथा ६५७ करुणानन्तरेऽनुभवार्थो यथा ६५० अत्र प्रथमानुरागानन्तरे वासयतीत्यर्थ- संभोग: संक्षिप्तो यथा ६५१ सान्वयो यथा ... ६५७ स एव मानानन्तरे अत्रैव प्रमापयतीत्यर्थ- संकीर्णो यथा ... ६५१ स्यान्ययो यथा ... ६५७ प्रवासानन्तरे संपूर्णो यथा ६५१ करुणानन्तरेऽनुभूत- करुणानन्तरे समृद्धो यथा ६५२ प्रादुर्भावान्व- प्रथमानुरागानन्तरे सहा- र्थान्वयो यथा ... ६५२ यारथों यथा ... ६५८
तत्रैव पथ्चादर्यान्वयो यथा ६५२ तत्रैवोचारणान्वयार्थो यथा ६५८ अत्रैव मनोऽवस्थाप- अन्नेवानुरूपार्थान्वयो यथा ६५३ नान्वयार्थो यथा ... ६५९ तत्रेवानुगतार्थान्वयो यथा ६५३ अत्रैवार्धशरीरप्रदानमह्दा- मानानन्तरे पूजा- र्थान्वयो यथा ... ६५४ साहसं यथा ... ६५९ तत्रैवाभ्यजनान्वयार्थो यथा ६५९ अत्रैव मानं प्रति प्रिय- प्रकीणकेयु स्पृदयन्ती- लाभिमानार्थान्वयो मतमष्टमीचन्द्रको यथा ६६४ चथा अन्रैव प्रेमावरोधा- ... ... ६५४ कुन्दचतुर्थी यथा ... ६६४ सुवसन्तको यथा ... ६६४ र्थान्वयो यथा ... ६५५ आन्दोलनचतुर्थी यथा तत्रैव प्रेमप्रमाणा- एकशाल्मली यथा ... ६६५ ६६४
र्थान्वयो यथा ६५५ मानशेषान्वयो यथा ... ६५६ मदनोत्सवो यथा ६६५ उदकक्चेडिका यथा ... ६६५ प्रवासानन्तरे प्रिया न अशोकोत्तंसिका यथा चूतभकिका बथा ... ६६६ ६६६ वसत इत्पर्थ- सान्वयो यया ... ६५६ पुष्पावचायिका बथा
Page 86
५३
विषय: पृष्ठसखया. विषय:
चूतलतिका यथा ६६७ संकल्पोत्पत्तिर्यथा ६७४ भूतमातृका यथा ... ६६७ पलापो यथा कदम्ययुद्धानि यथा ६७५ ६६७ जागरो यथा ६७५ नवपत्रिका यथा ... ६६८ कारश्य यथा . ६७५ विससादिका यथा ... शकार्चा यथा ६६८ अरतिर्विषयान्तरे यथा ६७५ ... ६६८ लजाविसर्जनं यथा ... ६७६ कौमुदी यथा ६६८ व्याधिर्यथा यक्षरात्निर्यथा ६६९ ... ६७६ उन्मादो यथा मूर्च्छा यथा ६७६ अभ्यूषसादिका यथा ६६९ नवेक्षुमक्षिका यथा ६७६ ६६९ मरणं यथा तोयकीडा यथा ६७७ ६७० नायकेषु कथाव्यापी प्रेक्षा यथा ६७० नायको यथा .. ६७७ दूतानि यथा ६७० प्रतिनायको यथा ... ६७७ मधुपानं यथा ... नित्य: प्रेमप्रकारो यथा ६७० उपनायको यथा ... ६७७ ६७१ अनुनायको यथा ६७८ नैमित्तिको यथा ६७१ कयाव्यापिनी नायिका यथा ६७८ सामान्यो यथा ६७१ प्रतिनायिका यथा ... ६७८ विशेषवान् यथा ६७१ उपनायिका यथा ... ६७८ प्रच्छनो यथा ६७२ अनुनायिका यथा .. ६७८ प्रकाशो यथा ६७२ आभासेषु नायका- कृत्रिमो यथा ... ६७२ भासो यथा ... ६७९ अकृत्रिमो यथा ६७२ नायिकाभासो यथा ... ६७९ सहजो यथा ... ६७२ उभयाभासो यथा ... ६७९ आहार्यों यथा तिर्यगाभासो यथा ... ६७९ योवनजो यथा ६७३ ... ६७३ नायकेपु सर्वगुणसम्प- विस्रम्भजो यथा ... ६७४ दोगादुत्तमो यथा ६८० वक्षुःप्रीतिर्यया .. ६७४ पादोन गुणसम्पद्योगा- मनःसभो यथा ... ६७४ न्मध्यमो यथा ... ६८०
Page 87
५:
विषय: पृष्ठसह्धा. विषय: अर्धगुणसंपद्योगात् कुमारी यथा ·. ६८६ कनिष्टो यथा ६८० ज्येष्ठा यथा ... ६८: सातत्विको सथा ६८० कनीयसी यथा ... ६८७ राजसो यथा ६८१ उद्ता यथा ... ६८७ तामसो यथा ... ६८१ उदाता यथा साधारणो यथा ६८७ ६८१ शान्ता यथा ६८७ असाधारणो यथा ६८१ ललिता यथा ... ६८८ धीरोद्वतो यथा ६८१ सामान्या यथा ... ६८८ धीरललितो यथा ६८२ पुनभूयथा धीरप्रशान्तो यथा ६८२ खैरिणी यथा ६८८
धीरोदात्तो यथा .. ६८८ ६८२ गणिका यथा ... ६८९ शठो यथा रुपनीवा यथा घृष्टो यथा ६८२ ... ६८९ ६८३ विलासिनी यथा ... ६८९ अ्षनुकूलो बथा .. ६८३ खुण्डिता बथा ... ६८९ दक्षिणो यथा ... ६८२ कलहान्तरिता यथा ६९० नायिकागुणेषु सर्वगुण- विप्रलच्धा यथा संपद्योगादुत्तमा वासकसन्ना यथा . ६९० ६१० यथा ... ६८३ खाधीनपतिका यथा ... ६९० पादोनगुण संपद्योगा· अभिसारिका यथा ... ६९१ न्मध्यमा यया . ६८३ प्रोपितभर्तृका यथा ... ६९१ मुग्धा यथा ... ६८४ विरहोत्कण्ठिता यथा ... ६९१ मध्यमा यथा ६८४ हीनपात्रेधु शकारो यथा ६९२ प्रगल्मा यथा ६८४ .i, ललको यथा ... ६९२ धीरा यथा ६८५ अमात्यादिरासनाई: अधीरा यथा ... ६८५ पाषण्डादिवा पीठ- आरमीया यथा ६८५ मदी, तयोरमालयेपु परकीया यथा ६८५ माल्यवान् यथा ... ६९२ कढा यथा ६८६ पामण्डेयु मेरवानन्दो यथा ६९३
Page 88
५५
विषय: पृष्ठमखया. विषय: पृष्ठसखया.
विदूष कलक्षणम्, तदुदा० ६९३ औदार्य यथा ... ६९८ विटलक्षणं तदुदाहरणं मददाभाग्यं यथा ·.. ६१८ ६९३,६९४ धात्रेयकथेटो यथा ... ६९४ कृतशता यथा ६९८ 41
पताकालक्षणम् रूपसंपद् यथा ६१८ *.· ६९४ तासु-पताकाहनूमान् यथा ६९४ योवनसंपद् यथा वैदग्यसंपद् यथा ६९८
आपताकाप्रक्यां भारीच- ६९८
जटायुषी यथा ... ६९४ शीलसंपद् यथा ६९९
सखीलक्षणम् सौभाग्यसंपद् यथा . ६९९ ... ६९४ तासु-लवत्विकादि: सहजा मानिता यथा ६९९
यथा ... ... ६९४ उदारवाक्यत्यं यथा ... ६९९
कामन्दक्यादि: पूर्वजा स्थिरानुरागिता यथा ७००
यथा .. ६९४ पाकभचिषु आदावखा- दु, अन्ते खादु मद्री-
नायकगुणेषु महाकुलीन- कापाकं यथा ७०० ल्वं पुंसो सथा .. ६९५ आययन्तयो: खादु नारिके- औौदार्य यथा ... ६९५ लीपाकं यथा ... ... ५००
मद्दाभाग्यं यंथा ... ६९५ आदिमध्यान्तेपु खादु खा-
कृतज्ञता मथा ६९६ दुतरं खादुतममित्याध-
रुपसंपद् यथा पार्क सथा ... ६९६ योवनरसंपद् यथा ... ६९६ यन्तापैति न चाविशोभते
... ६९६ तननीलीरागं यया ... ७०१
शीलसंपद् यथा ६९६ यदपैति च शोभते च तत् सौभाग्यरसंपद् यथा ... ६९६ कुमुम्भरागं यथा ... ७०१ मानिता यथा ... ... ६९७ यन्तापैस्यति च शोभते तम्म- उदारवाक्यत्वं गया ... १९७ जिष्ठारागं यथा ... ७०१ स्थिरानुरागिता यथा ... ६९७ शूडत्यलीक मन्तर्व्याजं यथा ७०२ नायिकागुणेयु ख्रिया म- अगूडव्यलीरकं बहिम्याजं यथा ७०२ हाकुलीनता यथा ... ६९७ अव्यखीर्कं निर्ष्याजं यथा ७०२
Page 89
५६
विषय पृष्ठसनवा. विषय: पष्ठसखया. धर्मानुबन्धि धर्मोदर्क यथा ७०२ अर्थानुबन्धि अर्थोदर्क यथा ७०३ गुणानामर्थगुणानां च
यत् पुनः काममेवानुबभ्नाति संकरो यथा ... ७०८
तद् कामोदर्क यथा ... ७०३ शब्दगुणानां दोषगुणानां
अलंकारेषु गुणरसानामपि च यथा ... ... ७०८ अर्थगुणानां दोषगुणानां संग्रह इति प्रतिपादनम्, यथा ७०१ परमतोपन्यासक्ष ... ७०४ अथालंकारसंकर: छेषादियु गुणत्वमिवालंका- स शब्दालंकारसंकरादि- ... ७०९
रत्वमपि ... ७०४ मेदेन पोढा ... v१० तेषु-शब्दालंकारसंकरो यथा ७१० यसामलंका रेषूपदेश: ७०४ ऊर्जखिरसवत्प्रेयसामेकदा- अर्थालंकारसंकरो यथा ७१०
लंकारत्वमन्यदा च गुण- उभयालंकारसंकरोसथा ७११
त्वम् ...... ... ७०५ शब्दार्थालंकारसंकरो
गुणरसानामलंकारत्वे पदप्र- यथा ... v19
कारोऽलंकारसंकर: ... ७०६ शब्दोभयालंकारसंकरो
त्रिविधा अपि गुणा उलेख- . यथा .... ७१२ अर्योभयालंकार संकरो वन्तो निरलेखाथ ... ७०६ यथा तत्र-सजावीयानां सोहेखानां ... ७१२ कचिदगुणस्य कचिचाल- विजातीयानां निरहेसा- कारस्य प्राधान्यमिति नामपि संकरव्यवहार: ७०६ तेपु-सजातीयानां शब्दगु- गुणालंकारयो: संकर-
णेपु समाध्यादीनां यथा ७०U व्यवहार :...... ७१२
अर्थगुणेपु ल्ेपादीनां यथा ७०७ स. शब्दगुणप्रधानादिमे-
दोषगुणेषु ग्राम्यादीना देन षोढा ...... १२ तेपु-शब्दगुणप्रधानो यथा ५१३ यथा ... b०५ अत्र परमतोपन्यासः अर्थगुणप्रधानो यथा ७१३
अर्थासजातीयानां शब्द दोषगुणप्रधानो यथा ... ७१४ गुणालंकारयोध तुल्यक-
Page 90
५७
विषय: पृष्ठमख्ा. विषय:
क्षतायामलंकार: प गुणानां रसारम्भकत्वे धानं न गुणः ... ७१४ संकराप्रसिद्धी प्रमा- गुणैर्हि गुणभूतैरेवालंका- णोपन्यासः ... ७२१ राः प्राय आरभ्यन्ते ७१४ रीतियु गुणविभाग: ७१४,७१५ गुणरखानां वाक्ये विनि- वेशसत्र संकरव्यव- शब्दालंकारप्रधानो यथा ७१५ हार: ... ७२१ अर्थालंकारप्रधानो यथा ७१६ उभयालंकारप्रधानो यथा ७१६ स गुणप्रधानादिमेदेन पोढा ... ... ५२१ रससंकरोऽपि चालंकार- संकरवदेव तेघु-गुणप्रधानो यथा ... ७२१ ... ७१६ भावर साभासप्रशमाना रसप्रधानो यथा ... ७२२ उभयप्रधानो यथा उभयाप्रधानो यथा . ७२२ तिलतण्डलादिप्रकारे- ण संकर: षद्ूपका- ७२२
रको भवति गुणाधिको यथा ... ७२३ ... ७९७ रसाधिको यथा ७२३ तत्र-भावानों तिलतण्डलप्र- कारो यथा ...... ७१७ रसालंकारसंकरोऽप्येवेन
क्षीरनीरप्रकारो यथा ७१७ व्याख्यात: ... ५२४
छायादर्शप्रकारो यथा ७१७ रसालंकारसंकरो द्विषा
नरसिंहप्रकारो यथा ... ७१८ रसप्रधानोऽलंकारप्र-
कुत्सायां कप्रत्यये प्रमा- धान ... ७२४
णोपन्यास: तन्र-रताबुपमायाः संकरो तदुदाहरणं च ...... ७१९ यथा .. ... ७२४
पांसूदकप्रकारो यथा ... ७१९ रतावेव विपरीतोपमा चित्रवर्णप्रकारो यथा ... ७१९ यथा ... ... ७२५
अथ रसगुणसंकर: ... ७२० रतावेव पर्यायस्य यथा ७२५ यत्र-गुणरसानां वाक्ये रतावेव समाधिर्यथा ... ७२६ संनिवेशसन्न संकरव्यव- रतावेवार्थलेषस्य यथा ७२६ हारो न प्रवर्तते ... ७२० रतावेव प्यायोकेर्यथा ७२६
Page 91
५८
विषय: पृष्ठसख्ना. विषय: पृष्ठसक्का. रसभावादे: संकरप्रकार- ममिधित्मुः खभा- यथा ...... ७३२ वोकि बकोफि वाब- सर्वेषां समकक्षता यथा ७२३ लम्बते ... ... ७२७ अत्र प्रमाणोपन्यास: ७३४ तत्र-खभावोकतिपक्षे जाति: ७२७ इवादिशव्दप्रयोगो यथा सा विधिमुखेन यथा ... ७२७ तथेवोत्प्रेक्षायां मन्ये, जातिरेव निषेधमुखेन शके, इत्यादीनामपि ७३५ यथा ...... ७२७ सैव विधिनिषेधाभ्यां यथा ७२८ चतस्रो इत्तयो भारती, वकोक्तिपक्ष उपमादय: ७२८ आरभटी, कैशिकी, तेपु-उपमा गथा .. ७२८ सात्वती चेति ... ७३५ उपमैव रसाभाससकर- तासां पृथक पृथक् लक्ष- विषया यथा ... ७२९ णानि आसामज्ञानि पोडस ... ७३७ यथा ... ... ७२९ तेपु-प्ररोचना, वीथी, प्रस्ा- कचिदवास्तवमपि रसा- वना, प्रह्सनमिति च- भाससंकर कवयः प्र० त्वारि भारखह्वानि ... ७३७ कल्पयन्ति ... ७३० तत्र-प्ररोचना यथा ... ७३८ स रूपक्लेषेण यथा ७३० प्रस्ावना यथा ... ७३८
सेन यथा ... ... ७३० प्रवृत्तिवांथी ेषोपमा यथा ... ७३८ ... ७३१ तन्न-उद्धात्यको यथा ... ७३८ न्ेपव्यतिरेकेण यथा ... ५३१ कयोद्दातो यथा सेपरुपकेण यथा ... ७३१ ... ७३८ प्रयोगातिशयो पया ... ७३८ समाधिरपकेण यथा ७३२ प्रवर्तको यथा ... ७३९ अवलगितं यथा ... "३९ अलंकार संसड्ेईयी गति- र्लेक्षणीया ...... "३२ उपहासपर वचः प्रहस- नम् ".5
Page 92
५९
विषय: पृष्ठसख्ा. विषय: पष्ठसख्ा. संक्षिप्तिका, अवपातः इति चलारि सात्व- वस्तूत्थापनम्, सं- ... ७४१ स्फोट इत्यारभव्यम्ा- तेषु-उत्थापको यथा नि चत्वारि ७३९ तेपु-संक्षिप्तिका यथा .. परिवर्तको यथा ७४१
अवपातो यथा संलापको यथा ७४० .. ७४१
वस्तूत्थापनं यथा संघात्यको यथा ... ७४१ ... ५४० संस्फोटो यथा ग्रन्थोपसहार: ... v४० ... ७४३
नर्मं, नर्मस्फिज:, नर्म- एवमनअसर्वखभूतस्वास्प स्फोटः, नर्मगर्म इति प्रन्थस्य भावनया प- चत्वारि कैशिक्यज्ञानि ७४० रिषदि विदुषां परि तेपु-नर्म यथा. ... ७४० तोष: ...... ७४३ नर्मस्फिजो यथा ७४० प्रन्थसमाती मज्लाशं- नर्मस्फोटो यथा .. ७४० सनम् .. VYY नर्मगर्मों यथा ... ७४१ इति रसविवेचनो नाम उत्थापक:, परिवर्तक:, .पञचम: परिच्छेदः। संलापकः, संघात्यक अ्रन्थसमापिः ।
Page 93
انه
Page 94
काव्यमाला।
श्रीमन्महाराजाधिराजश्रीमोजदेवविरचितं सरखतीकण्ठाभरणम्। श्रीरनेश्वरविरचितया रत्दर्पणाख्यया व्याख्यया समेतम्। 404- - प्रथम: परिच्छेदः। एकेन यस्य यमिन: प्रमदेव देहमर्षेन राजति पुमानिव चापरेण। तत्त्वकमादय च न प्रमदा पुमान्वा श्रेयांसि वर्धयतु स स्मरशासनो बः ।। श्रीरामसिंहदेवेन दोर्दण्डदलितद्विषा। क्ियतेऽवन्तिभूपालकण्ठाभरणदर्पणः ॥ कण्ठाभरणमनर्ष्य वाग्देवीरन्रदर्पणोत्सजे। अत्मिन्पश्यतु निमृतं प्रकाशसर्वाज्नलावण्यम्।। प्रन्थारम्मे समुचितेष्टदेवतानमस्कारेण शिष्टाचारमनुवर्तते- ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम्। यस्या: सूक्ष्मादिभेदेन वाग्देवीं तामुपास्हे ॥ १॥ *वनिरिति। वाचामधिष्ठात्री देवी य्योतमाना खप्रकाशशब्दन्रह्मरूपा भारती। कथमुपास्यते । सूक्ष्मादिमेदेन ध्वन्यादिमेदेन च विवक्षितो नमस्कारः । शब्दजरद्य- णश्चतस्षो मिदा भवन्ति। सूक्ष्मा, पश्यन्ती, मध्यमा, वैखरी चेति। तत्राविकार- दशा सूक्ष्मा। सा हि सर्वस्य प्राणापानान्तरालवर्तिनी विगतप्रादुर्भावतिरोभावा सम्यक्प्रयोगपरिशीलनात्मना कर्मयोगेन मननादिना ज्ञानयोगेन च सम्यगधिग- म्यते। 'सेयमाकीर्यमाणापि नित्यभागन्तुकैमलैः । अन्त्या कला हि सोमस्य नाल्य- न्तमभिभूयते ॥ तस्यां विज्ञातमात्रायामधिकारो निवर्तते। पुरुषे पोडशकले तामा-
Page 95
२ काव्यमाला ।
हुरमृतां कलाम् ॥।' इति। तस्य ब्रह्मणोऽनाद्यविद्यावशादाय्यः परिणामः पश्यन्तीरूपो जायते। स हि वर्णविभागादक्मः खयंप्रकाशथ्। पूर्वापरे खाबस्थे पश्यतीति पश्यन्तीत्युच्यते। ततः परमविद्योपादानादन्तःसंकल्परूपकमवान् श्रोत्रग्राद्मवर्णा- भिव्यक्तिरहितस्तृतीयः परिणामो मध्यमारूपो जायते। सा किल दवयो: परिणाम- योर्मध्ये सदा तिष्ठतीति मध्यमेत्युच्यते। अन्तर दूरप्रसतायामविद्यायां स्थानक-
दायात्मकस्तृतीयः परिणामो वैखरीरूपो जायते। विशिष्टं खमाकाशं राति प्रयच्छ- तीति विखरो देहेन्द्रियसंघातः । तथा च श्रुति :- 'न ह् वै सशरीरस्य प्रियाप्रिय- योरपहतिरस्ति । अशरीरं वा व सन्तं प्रियाप्रिये न स्पृशतः ॥।'इति। तत्र भवा वैखरीति। तदेतासामवस्थानामाद्यास्तिस्रो नित्या अतीन्द्रियाः । तदुक्म्-'स्थानेषु विवृते वायौ कृतवर्णपरिभ्रहा । वैखरी वाक्प्रयोकुणां प्राणवृत्तिनिबन्धना । केवलं बुद्धुपादानकमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तते॥ अवि- भागात्तु पश्यन्ती सर्वतः संहृतक्मा। खरूपज्योतिरेवान्तःसूक्ष्मा सा चानपायिनी।' इति। श्रुतिरप्याह-'चत्वारि वाक्परिमिता पदानि तानि विदुर्बाह्मणा ये मनी- पिणः । गुहा त्रीणि निहिता नेव्वयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥' इत्यादिक- मागमसमुच्यादेवावसेयम्। का पुनस्ता वाचो यासामियमधिष्ठात्रीत्यत उक्तम्- 'ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम् । यस्याः' इति। आस्पदमधिष्ठानमव- च्छेदः । ध्वन्यादिभिरवच्छिना परा वाक् तथ्यवह्दारहेतुः । साहित्यप्रसिद्धाभिधान- ध्वननलक्षणव्यवहारकारित्वमेकस्मिन् वर्णे न निरूप्यते इति बहुवचनम्। पदवा- क्ययोरस्ति प्रत्येकमपि तथाभाव इति ताभ्यामेकवचनमुपात्तम्। तदयमत्र तात्प- र्यसंक्षेपः । साहित्यसरूपनिरूपणाय किलैष अन्धारम्भः । साहित्यं च शब्दार्थयो: संबन्धः । तन्र शब्द एव क इत्यपेक्षायामयं विभागो ध्वनिरित्यादिः। अर्थस्तु सम्भकुम्भादिलक्षणो लोके शास्त्रे च प्रसिद्धः । संबन्ध: कश्चिदनादिः। सर्वखा- यमानस्तु संबन्धो नान्यत्रेत्यस्मिन्नायतते। स चतुर्विध :- दोषहानम्, गुणोपादा- नम्, अलंकारयोग:, रसाभियोगक्चेति।।
निर्दोषं गुणवत्काव्यमलंकारैरलंकृतम्। रसान्वितं कवि: कुर्वन्कीति प्रीतिं च विन्दति ॥ २ ॥ निर्दोषमिति। प्रीतिः संपूर्णकाव्यार्थस्वादसमुत्य आनन्दः काव्यार्थभावनाद-
Page 96
१ परिच्छेद: ।] सरखतीकण्ठाभरणम् । ३
शायां कवेरपि सामाजिकत्वाज्ीकारात्। सहृदयल्लाघया वा प्रीतिस्तषृषं प्रयोजनम्। कीर्तिरदष्टद्वारा खर्गफलेत्यदट्टम्। यदाह-'कीर्ति स्वर्गफल्रमाहु:' इति। अशिन: काव्यस्य प्रयोजनान्वाख्यानेनातभूतस्यास्य प्रयोजनसंबन्ध उक्तः । यद्यपि काव्य- शब्दो दोषाभावादिविशिष्टावेव शब्दार्थो ज्रूते, तथापि लक्षणया शब्दार्थमात्रे प्रयुक्तः । लक्षणाप्रयोजनं चाभिधेयानामुददेशः। त्रिया हि शास्शरीरम्-'उद्देशः, लक्षणम् , परीक्षा चे'ति। उदाहरणव्याख्याअ्रन्थः सर्वत्र परीक्षापर इत्यस्मद्ुरवः । प्रयोजनाभिसंबन्धपरादेवोद्देशो लभ्यत इति न विरोधः। अत एव दोषाुद्देशक्रमेण परिच्छेदाः । निर्दोषं दोषात्यन्ताभाववत्, अवयवैकदेशवर्तिना श्वित्रेणेव कामिनी- शरीरस्य वर्णमात्रगतेनापि दोषेण काव्यवैरस्यनियमात्। अत एवामकलप्रायाणामपि दोषाणां प्रथममुपादानम् । अयमेव हि प्राचः कवेर्व्यापारो यद्दोषह्दान नाम। गुण- वदिति। भूत्नि प्रशंसायां वा मतुप्। अलंकृतमिलयेव वक्तव्येऽलंकारैरिति प्रसिद्धा- लंकारपरिग्रहार्थम्। तथालंकारैरिल्येव वाच्ये प्रसिद्धानामपि वक्ष्यमाणानामेवोपादा- नार्थमलंकृतपद्म्। रसान्वितं रसेन नित्यसंबद्धम्। 'नास्लेव तत्काव्यं यत्र परम्प- रयापि विभावादिपर्यवसानं न भवति इति काश्मीरिकाः । एतेन काव्यलक्षणमपि कटाक्षितम्। ईदशं काव्यं तत्कुर्बन। कविरिति कबेरपि लक्षणमिति॥ अथोड्देशकमेण दोषाणां सामान्यलक्षणं विभागं चाह- दोषाः पदानां वाक्यानां वाक्यार्थानां च पोडश। हेया: काव्ये कवीन्द्रैये तानेवादौ प्रचक्ष्महे ॥ ३ ॥ दोषा: पदानामिति। हेया इल्यनेन सामान्यलक्षणम्। ये हेयाखे दोषा इत्यभिप्रायाद। अभिमतप्रतीतिव्यवधायकतया विप्नभूतः शश्रत्काव्ये हेयतामासा- दयति स एव दोषः। अयमेवार्थ: 'मुर्यार्थहतिर्दोषः-' इति पदेनान्येषामभिमतः। स च पद-वाक्य-वाक्यार्थविषयतया पूर्व त्रिविधः । पदपूर्वकत्वाद्वाक्यस्य तत्पूर्वक- त्वाद्वाक्यार्थस्य युक्तः क्रमः। वर्णमात्रदोषो नोहेखीत्युपेक्षितवान्। अवान्तरविभागे तु क्रियमाणे प्रत्येकं षोडशभिरुपाधिभिः संकुलमित्याह-पोडशेति। काव्यप्रका- शकारादिभिरुक्तानामधिकानामिहान्तर्भावः। अनन्तर्भावे तु दोषत्वमेव नास्तील्य- भिप्नायः, न तु देशीयरागन्यायेन खमतप्रकाशनम्। प्रतीतिव्यवधायकानां सर्वदा तद्रूपत्वात्। उक्तमेवाभिसंधानम्-तानेवादाबिति॥
Page 97
8 काव्यमाला।
विभागमन्तरेण विशेषलक्षणानवतारात्पददोपान्विभजते- असाधु चाप्रयुक्तं च कष्ट चानर्थकं च यद्। अन्यार्थकमपुष्टार्थमसमर्थ तथैव च ।। ४ ।। अप्रतीतमथ क्विष्ट गूढ नेयार्थमेव च। संदिग्धं च विरुद्धं च ग्रोक्तं यच्चाग्रयोजकम् ॥५॥ देश्यं ग्राम्यमिति स्पष्टा दोषा: स्युः पदसंश्रयाः । असाध्विति। मुख्यार्थहतौ मिथोऽनपेक्षासूचनया समासः। अत एव लाघ- बेडनादरः। कर्थ पदप्रतीकदोषा न गण्यन्त इति शष्ट्रामभिप्रेल्याह-स्पष्टा इति। पदसंथयाः पदान्वयव्यतिरेकानुविधायिनः । एवं वाक्यादावपि गुणादावपीदमे- वाश्रितत्वम् ।। विभागप्रयोजनमाह- अथैपां लक्षणं सम्यक्सोदाहरणमुच्यते ॥६॥ अथैषामिति। परीक्षां प्रतिजानीते-सम्यगिति। लक्षणदोषशून्यं लक्षणा- नुपपत्तिनिर्णेजनमेव हि परीक्षापदार्थ:। कथमेतत्संपत्स्यते इत्यत आह-सोदा- हरणमिति॥ शब्दखरूपलक्षणः प्रथमनिरस्यो दोष इत्याशयेन प्रागुदिष्टस्यासाधोर्लक्षणमाह- शब्दशास्त्रविरुद्धं यच्तदसाधु प्रचक्षते। यथा- 'भूरिभारभराक्रान्त बाधति स्कन्ध एष ते। तथा न बाधते स्कन्धो यथा बाघति बाघते ॥ १ ॥' अत्र बाधतेरात्मनेपदित्वाद् 'बाघते' इति स्यात्, न पुनर 'बाधति' इति॥। शब्देति। शब्दा: शिष्यन्ते प्रकृतिप्रत्ययविभागपरिकल्पनया ज्ञाप्यन्ते येन तच्छन्दशाख्र त्रिमुनिव्याकरणं तेन विरुद्धं तदाम्रातप्रातिस्िकविशेषपरित्यक्कमतो न देशीयपदानामसाधुत्वम्। तथा च प्राच्यैः-'नाथ ते कुचयुगं पत्रावृत मा कृयाः' इति अन्यकारकवैयर्थ्यमिति, 'सलीलपाणिद्यलोठनालमानतिताताम्रदलं दधन्तीम्' इति च तादशमेवोदाहतम्। अत्र केचिदाहु :- 'बाधतिधातुं संस्कारप्रच्यावनेन
Page 98
१ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। ५
बाधते इति बाधतिबाधस्स्य संबोधनं बाधतिबाधेति। ते तव। वचनमिति शेषः' इति, तदसत्। नेयार्थत्वप्रसभ्ञात्। अन्ये तु 'बाधतिर्बाधते यथा' इति पठन्ति। इदं तत्त्वम् । विद्यमानस्यार्थवत्त्वस्याविवक्षायां गवित्ययमाहेत्यादाविव प्रातिपदिक- संज्ञा न प्रवर्तते॥ कविमिर्न प्रयुक्तं यदप्रयुक्तं तदुच्यते ॥७॥ यथा- 'कामचीकमथाः केऽमी त्वामजिहायकीयिघन्। स सस्ति किं वचन्तीमे कम्बः शम्बं घरिष्यति ॥ २ ॥' अत्र 'अचीकमथाः', 'अजिहायकीयिपन्', 'सस्ति', 'वचन्ति', 'घरिष्यति', 'कम्वः', 'शम्बम्' इति शब्दानुशासनसिद्धान्यपि कवि- भिर्न प्रयुज्यन्ते॥ कविमिरिति। अस्ति हि किंचित्पदं यत्राप्रयोज्यत्वेनैव हेयता। यद्येवं लोके प्रयुज्यमानस्य साधुतैब प्रसक्ा इत्यत उक्त्म्-कविभििति। काव्ये यस्याप्रयो- ज्यत्वमेव दुष्टत्ववीजं तदित्यर्थः । तथाभूता च पदजातिरलंकारकारसमयादवसी- यते। तथा चैकेन पुंदेवतशब्दोऽपरेण चीर्णशब्द उदाहतः । एवमन्यदप्यप्रयुक्त-
गवेष्यः । एकपद्मान्नप्रयोगस्तु त्याज्यः समयविरोधाभावादित्याराध्याः। 'अचीक- मथाः' इति कमेणिडन्तस्य लुडि चकि द्वि्वचनसन्वद्धावदीर्घत्वहखत्वणिलोपेपु रूपम् । कां नायिकां कामितवानसीत्वर्थ:। अमी च के । त्वामात्मनो हायकमेषि- तुमिष्टवन्तः । हायकशब्दात् क्यच्। ततः सन्। ततो लदि अजिहायकीयिषनिति रूपम्। स कथित् सस्ति खपिति। 'पस सस्ति खपे' इति धातो रूपम्। कम्बः शम्बमिति। कंशंशब्दी जलवाचकी ताभ्याम्। 'कंशंभ्यां बभयुस्तितुतयसः' इति मत्वथांयो बप्रत्ययः । तत्रादयेन जलधरो जलाशयं सेक्ष्यतीत्यर्थः । 'शम्बः कम्बन्' इति कचित्पठयते । तत्र कल्याणवान् कपालिनं सेक्ष्यतीत्यर्थो बोदव्यः। 'धृ सेचने इत्यस्य घातोर्घरिष्यतीति रूपम्। स हि धातुः 'घृतघृणाघर्मेम्यो नान्पत्र युज्यते' इति पूर्वाचार्याः। कविमिरित्नेनासापुशक्धा व्यावर्तितेल्याह-शब्दानु- शासनसिद्धान्यपीति।।
Page 99
६ 1 काव्यमाला।
पदं श्रुतेरसुखदं कष्टमित्यभिशब्दितम्। यथा- 'वर्वर्र्टि जलदो यत्र यत्र दुर्घष्टिं चातकः । पोफुळति नीपः कालोऽयं चर्कर्ति हृदयं मम ॥ ३ ॥' अत्र वर्वर्श्वादीनि क्रियापदानि श्ुत्यसुखदानि श्रूयन्ते । पदमित्यादि। दुर्वचकवर्णारव्धपदं कष्टोच्चारणीयतया कष्टमुच्यते। श्रुतेर- सुखदमिति दूषकतावीजोद्धाटनम् 1 कदर्थिता हि तेन श्रुतिशक्तिर्न तद्वाक्यप्रतीक- परामर्शक्षमेति । काव्यप्रकाशकृता पदैकदेश: कष्ट उक्तः, यथा-'तदच्छ सिध्धै', 'अपेक्षते प्रत्ययमन्ञलब्ध्यै' इत्यत्र 'ध्यै' 'ध्यै' इति, तत्राह-पदमिति । न हि समस्तवस्तुकदृत्व एव पदं कष्टत्वमासादयति । कार्तार्थ्यमित्यादी तदुदाहते तद- भावात्। एकदेशकष्टतया पदकष्टत्वमिति चात्रापि न दण्डवारितमिति भावः। वर्वर्षटि पुनः पुनर्वर्षति। वृषेर्यड्लुगन्तस्य रूपम्। दर्धरष्ट पुनः पुनर्घृष्टो भवति। 'मित्रृषा प्रागल्भ्ये' इत्वस्य तत्रैव रूपम्। 'दर्द्रष्टि' इति पाठे दृशेर्यड्लुक्यमागमे च रूपम्। पुनः पश्यति। नीपः कदम्बः । पोफुछलति । 'फुल्ल बिकसने' इत्यस्य तत्रैव रूपम् । एवंभूतो वर्षासमयो मम विदूरकान्तस्य हृदयं चर्कर्ति पुनः पुनरतिरायेन वा छिनति। 'कृती छेदने' इत्यस्य रूपम् । भूयसां कष्टपदानां समभिव्याहाराद्वाक्य- दोष इति भ्रान्ति: स्यात्तत्राह-करियापदानीति । कथमेवं विभागोSवसीयत इल्यत आह-श्रूयन्त इति। श्रोत्रप्रत्यक्षेणैव पदमात्रगामितया कष्टत्वमनुभूयते इल्यर्थ:॥ पादपूरणमात्रार्थमनर्थकमुदाहृतम्॥८॥ यथा- बिभर्ति यश्र देहार्घे प्रियामिन्दुं हि मूर्धनि। स वै देव: खलु त्वां तु पुनातु मदनान्तकः ।। ४ ।।' अत्र 'च' 'हि' 'वै' 'खल्' 'तु' इत्येतानि पदानि पादानेव पूरयन्ति॥ पादपूरणेति। ययोतनीयमर्थमन्तरेण. प्युक्तमव्ययमनर्थकमभिमतम्, अत एवं प्राच्यैथादिपद्मव्ययमिति प्रयोगबीजकथनार्थ नहि निर्मूलः प्रयोग: संभवति पृत्तिनिर्वद्णसमर्थः । प्रायेणाव्ययपदानि क्षिम्वा तत्पूरयति। तदुकम्-'कुकवि-
Page 100
१ परिच्छेदः । ] सरस्तीकण्ठाभरणम् । ७
प्रबन्ध इव छिष्ठपदप्रचार: 1 प्रकदतुहिनचयो जनाकीणब' इति। बिभतीति। चः समुचयादियु चतुर्षु प्रसिद्धप्रयोगो न चं तेषामन्यतमोऽप्यत्र संभवति। नाप्यु- चावचार्थकः इति भाषणेनार्थान्तरमपि। एवं हिप्रृतिष्ववसेयम् । एतेनैतदप्य पास्तम्। यदाहुरेके-पदादिविशेषानुपादानात्पदैकदेशोऽप्यनर्थकोऽभिमतः । तथा च-'आदावजनपुजलिपवपुर्षां श्रासानिलोल्ासित प्रोत्सर्पद्विरहानलेन च ततः संता- पितानां दृशाम्। संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्ीनामिव पानकर्म कुरुते काम कुरशेक्षणा II' इत्यत्र दशामिति बहुवचनमनर्थक कुरश्रेक्षणाया एकस्या एवोपादानात्। न चात्र व्यापारे दक्शब्दो वर्तते, अशजनपुज्जलेपादीनामनन्वया- पत्तेः। तथा 'कुरुते' इत्यात्मनेपद्मनर्थकमकर्त्रभिप्रायक्रियाफलादिति। अपि च। बहुत्वकत्रभिग्रायफलाभावे कथनं द्योरसाधुत्वमिति राजमार्ग एव त्रमः । नहि सरूपत एव किंचिदसाधु साधु वा संभवति॥ रूढिच्युतं पदं यत्तु तदन्यार्थमिति भुतम्। यथा 'विभजन्ते न ये भूपमालभन्ते न ते श्रियम् । आवहन्ति न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ।५ ॥' अत्र विभजतेर्वण्टने, आलमतेर्मारणे, आवहतेः करणे, प्रस्मरते- र्विस्मरणे रूढिः। न तु विशेषसेवायाम्, अभितो लाभे, समन्ताद्वहने, प्रकृष्टसारणे चेति।। रूढिच्युतमिति। शक्तिमनपेक्ष्य प्रयुक्त रूडिच्युतम्। अंत एव यदभिसंधाय प्रयुज्यते न कर्थचन यस्यासावर्थ इति अन्वर्थमन्यार्थमिति नाम। एतदेव धातुविशेषोSवान्तरमुपसर्गविशेषयोगतो योगवानित्यादिनान्यैरुक्तम्। विभजन्त इति। भजि: सेवार्थों विरुपसर्गस्वद्गतविशेषयोतकस्ततब यथा विद्योतत इति। अत्र विशिष्टधात्वनुरूपप्रयोगाभिधानं तथात्रापि भविष्यतीति अमो बीजमत्र शब्द- शक्तिखभावात् । कचिदुपसर्गोपसंदानेन धातुरर्थान्तर एव बर्तते। यदाहु :- 'उपसर्गेण घात्वर्थों बलादन्यत्र नीयते। प्रहाराहारसंहारविहारपरिहारवत् II'इति। तदाह-अत्र विभजतेरित्यादि। नन्वर्थापेक्षित्वे पदार्थदूषणमेवंविधमिति वामनः। नेततू। पदस्पैवान्वव्यतिरेकवत्वात्। नह्त्रान्वयस्पापराधः कभिित्। कितु
Page 101
८ काव्यमाला।
शब्द एव वृत्तिस्खलितादिभिरपराध्यति। यदि चार्थापेक्षितामात्रेणार्थेदोषत्वं कथम- साधुप्रभृतीनामपि शब्ददूषणता। नहि तानि सरूपत एव तथापि त्वर्थविशेषो विशेष एवाश्गोश्वादिवदिति । अर्थदोषास्तु यथा भवन्ति तथा बक्ष्मामः । यत्तु तुच्छामिधेयं स्यादपुष्टार्थ तदुच्यते॥ ९ ॥ यथा- 'शतार्धपश्चाशभुजो द्वादशार्घार्धलोचनः । विंशत्यर्घार्धमूर्धा वः पुनातु मदनान्तकः ॥ ६ ॥' अत्र दशबाहु:, त्रिलोचनः, पञ्चवक्र इति तुच्छमेवाभिधेयमतुच्छ- शब्दैरुक्त्मिति अपुष्टार्थम्।। य्तु तुच्छाभिधेयमिति। सोकशब्दाभिलभ्येडयें बहुतरशब्दबह्ुलमि- त्यर्थ:। नहि तथा क्रियमाणमल्पीयसीमपि प्रकरषतां पुष्यति येन त्याज्यं न स्यादि- त्यपुष्टपदेन सूचितम्। शतस्यार्ध पश्चाशत्तेषां पथतमोंऽशो दश। समासे पूरण- प्रत्ययलोप: ॥। असंगतं पदं यत्तदसमर्थमिति स्मृतम् । यथा- 'जलं जलधरे क्षारमयं वर्षति वारिधिः । इदं बृंहितमश्वानां ककुझानेष हेषते ॥। ७ ॥' अत्र जलधरो मेघः, वारिधिः समुद्रः, वृंहितं गजानाम्, ह्वेषितम- श्वानामिति लोकप्रसिद्धम् । तदिह समुद्र-मेघ-अश्व-वृषभविषयतया प्रयुज्यमानमसंगतार्थत्वादवाचकमित्यसमर्थम् ॥ असंगतमिति। कथं पुनरिदमन्यार्थाब्वियते। अत्राराध्याः । अन्यार्ये केवलं योगादूदिरवलबती। असमर्थे तु केवलयोगाद्योगरूदिः । तदपरे दूषयन्ति। तथापि रूडिच्युतिः साधारण्येव तदवान्तरं विशेषद्वयमन्यदिति। तभ। भावानवबोघाद्। किचिद्धि पदमपवादकारणवलदवगम्यमानमपि योगमनपेक्ष्यैव क्चिदर्थविशेषे वतते। यथा-गौरिति। नहि गमनस्य वाक्यार्थे प्रवेशः संभवति। किंचित्पुनर-
Page 102
१ परिच्छेदः I] सरस्वतीकण्ठाभरणम्। ९
सति बाघहेतौ वुध्यमानस्य त्यागायोगाद्योगविशिष्ठमेवोपाधिमभिघते। यथा-पड्च- जमिति। तत्राद्यप्रकारे रूढिरेव सर्वखमिति तत्परित्यागे रूडिच्युतम्। द्वितीये तु य्योगमात्रे प्रयुक्तमसंगतं शक्तिशन्ये प्रयुत्त शत्यैकदेशे प्रयुक्तमिति भिन्नोऽर्थख्दे- तत्सर्व व्याख्यानेन स्फुटयति-अत्र जलधरेति। जलधरादिपदानि जलधारणादि- विशिष्टे मेघत्वादी रूढाभिधानशक्तीनि। कथमेतदवसितमिति चेत्तत्राह-लोकप्र- सिद्धमिति। लोकाधीनावधारणत्वाच्छन्दार्थसंबन्धस्येति भावः। ततथ यद्विशिष्टस्य योगस्य शक्तिविषयतया न तेन संकेतः । यत्र च समुद्रादी प्रयोगो न तदुपाधिभि: समुद्रत्वादै: संभूय शक्या संकेतः । क्षारादिपदोपसंदानेन च समुद्रादी प्रयोग उजीयत इत्याह-तदिहेति । अत एव न तदवस्थस्य पदं वाचकमत एव चाक्षम- त्वादसमर्थमिति संज्ञयैव व्यवहियत इति संक्षेप:॥ अप्रतीतं तदुदिष्टं प्रसिद्धं शास्त्र एव यत् ॥ १० ॥ यथा- 'किं भाषितेन बहुना रूपस्कन्घस्य सन्ति मे न गुणाः । गुणनान्तरीयकं च प्रेमेति न तेऽस्त्युपालम्भः ॥८ ॥' अत्र रूपस्कन्ध-नान्तरीयकशव्दयोः शासत्रपसिद्धत्वादन्यत्राप्रतीय- मानयो: प्रयोगादप्रतीतम् ॥ अप्रतीतमिति। शास्र्रमात्रप्रसिद्धं शास्त्रव्यवहारिमिः संकेतितमित्यर्थः । प्रतीताप्रतीतसमभिव्याहाररूपं हि वाक्यमशास्त्रशविषयं प्रयुत्तमभिमतार्थप्रतीति न जनयितुमीष्टे। तत्राप्रतीतानामेवापराघोऽतः परिस्खलनखेददायितया भवति दुष्ट- त्वम्। अत एवाप्रयुक्ताद्वहिर्भावः । कि भाषितेनेति। रूपस्कन्धवाचोयुक्ति: सौगत- समयप्रसिद्धा । तेषां रूपं वेदना संज्ञा संस्कारो विज्ञानमिति पथस्कन्धाः । तत्रापि रूपस्कन्धपदार्थ एकादशपदार्थकः । पश्ेन्द्रियाणि पञ्च विषया विज्ञप्तिरेकादशीति प्रक्रिया। अन्तरमिति बिनाये गहादी पठ्यते। 'तत्र भवः' इति छे खार्थिके च कनि नञ्समासे पृषोदरादित्वाभ्लोपाभाव इति भाष्यटीका। प्रेम्णो व्यापका गुणा न सन्ति मे न च व्यापकमन्तरेण व्याप्यं भवतीति व्यापकानुपलब्धिप्रयुक्तत्वात्ये- माभावस्य तथोपालम्मे वाच्यता नास्तीति भाव: 1 शास्त्र एवेलवधारणेन यधाव- लयते तदाह-अन्यत्रेति। लोक इत्यर्थ: 1
Page 103
१० काव्यमाला
दूरे यस्यार्थसंवित्ति: क्िष्ट नेष्टं हि तत्सताम्। यथा- 'विजितात्मभवद्वेषिगुरुपादहतो जनः । हिमापहामित्रधरैर्व्याप्ं व्योमाभिनन्दति ॥ ९॥ अत्र विना गरुत्मता जित इन्द्रस्तस्यात्मभवोर्ऽर्जुनस्तस्य द्वेषी कर्ण- स्वस्य गुरु: सूर्यस्तत्पादैरभिहतो लोक आकाशममिनन्दति । कीह शम्। हिमापहो वहिस्तस्यामित्रो जलं तद्धारयन्ति ये मेघास्तैर्व्याप्त- मिति व्यवहितार्थप्रत्ययं क्विष्टमेतत्।। दूर इति। दूरें चिरं विलम्ब इत्यनर्थान्तरम्। केशो द्विविघ :- पदविषयः, वाक्यविषयक्ष । आद्यः सामान्यशब्दस्य प्रकरणादिकमनपेक्ष्य कचिदभिप्रेतविषये प्रयोगः । तथा सति वाचकतायामपि झटिति प्रतिपत्तिर्न भवति। कि तु परस्परा- न्वयपर्यालोचनया चिरेणेति विरसत्वम् । यदाह-'नेष्टं हि तत्प्रसितानाम्' इति, अयमेवार्थो व्यवधानपदेन वामनादिभिरुक्तः। द्वितीयस्तु व्याकीर्णादिपदेनान्यथा वक्ष्यते-विजितेति। विशन्देन पक्षिसामान्यवचनेन तद्विशेषो गरुडात्मा विव- क्षितः । तज्जितोऽपि विशेष एव। एवमन्यत्रापि। न चात्रापि किचिज्झटिति प्रती- त्यनुगुणं नियमकारणमस्तीति युक्तमेव व्यवधानम्। हिमापहो वहिरिति हन्तेर्डप्रत्यये रूपम् । तथा च चन्द्रगोमी डप्रकरणे 'हन्तेर्डः' इलयेव सूत्रितवान्। हिमापहो वहिरिति किपि व्यभिचार टष्ट्रा 'ब्रह्मब्रण-' इत्यादि सूत्रितं चन्द्रगोमिना ।। गूढार्थमप्रसिद्धार्थ प्रयोगं त्रुवते बुधाः ॥११॥ यथा- 'सहसत्रगोरिवानीकं भवतो दुःसहं परैः। हरेरिव तवाभान्ति नान्यतेजांसि तेजसि ॥ १० ॥ सहस्रगुशव्देन सहस्राक्ष उक्त: । न च गोशव्दस्याक्ष्णि भूयसी प्रसिद्धिः। हरिशब्देन च सहस्ांशुः सोडपि न तेन नान्ना बहुभिरु- च्यत इति गूढत्वम् ।।
Page 104
१ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। ११
गूढार्थमिति । यस्य पदस्य द्वावरथौं सिद्धधासिदथ् तबेदप्रसिद्धे प्रयुक्त तदा गूढार्थम्। अप्रसिद्धार्थ प्रयोगमिति। अप्रसिद्धेडयें प्रयोगो यस्पेति गमकत्वाद्वडु- ब्रीहिः । तब तेजसि नान्यतेजांसि भान्तीति योजना। 'गौः शराक्षिपयःखवर्गपशु- मेदवच:सुच' इत्याम्नातोपि तथा नाक्णि प्रयुज्यते यथा पशुमेदादाविल्वाह-न च गोशव्दस्पेति । 'हरिः कृष्णे च सिंहे च मेकार्कभुजगेषु च' इति खसंकेति- तस्यापि हरिशब्दस्य न तथा रवा प्रसिद्धिर्यथान्यत्रेत्याह-सोऽपि नेति॥ ससंकेतप्रक्कप्तार्थ नेयार्थमिति कथ्यते। यथा- 'मुखांशवन्तमास्थाय विमुक्तपशुपङ्किना। पङ्कयनेकजनामध्रतुका जित उलूकजित् ॥ ११ ॥' अत्र पङ्किशब्देन दशसंख्या, अनेकजनामेत्यनेन चक्रम्, तद्दर इत्यनेन र्थस्ताम्यां दशरथस्तस्य तुक बालको लक्ष्मणस्तेन जित उलू- कजिदिन्द्रजित्। कि कृत्वा। मुखांशवन्तमास्थाय हनुमन्तम्। किंमू- तेन। विमुक्तपशुपङ्किना विमुक्तेषु पशुपङ्किना। अत्र पशुशब्देन गो- शब्दो लक्ष्यते तेनेषवस्तदिदं खसंकेतकल्पितार्थ नेयार्थमुच्यते॥ स्वसंकेतेति । कल्पितार्थ नेयार्थमिति सूत्रयित्वा वामनेन व्याख्यातम्। अश्रातस्यार्थस्य कल्पना कल्पनाकल्पितार्थम्। अस्यार्थ :- यत्पदं नानार्थखपर्याय- लक्षणया विवक्षितप्रतीतिपर्यन्तं नीयते तत्कल्पितार्थमिति केचित्। तदयुक्तम्। स्पर्यायेत्यस्य व्यर्थत्वादव्यापकत्वाच। तत्मात्प्रयोजनं बिना उक्षणया प्रयुक्तमिले- वार्यः । यदाह काव्यप्रकाशकार :- नेयार्थेयत्त्वशच्तित इति गस्मिनिषिद्धं लाक्ष- णिकमिति। प्रयोजनं विना रडं लक्षणापरिग्रहे न दोपः । तथा च द्विरेफरथान- नामादिपदानां रेफद्यानुगतत्रमरादिशब्दलक्षणाद्वारेण पट्पदादी वृत्तिर्वद्धव्यवहार- परम्परानुपातिनीति तेषां प्रयोगोऽयुक्त एव । अत एव. 'तुरत्नकान्तामुखहव्यवाह- ज्वालेव भित्त्वा जलमुह्लास' इत्यादिकमपि नेयार्थमिति काशमीरकाः । तदेतत्स पदेन दर्शितवान्। मुखस्यांशो हनुरत्राभिमतः । पङ्धिरिति दशाक्षर छन्दः दश- संख्या लक्ष्यते । अनेकजो द्विजश्रक्वाकस्तस्य नाम च्कं स्थेकदेशस्तद्धारयतीति
Page 105
१२ काव्यमाला।
धारयतेर्मूलविभुजादित्वात्कः । ताभ्यामिति । पङ्किरनेकज इति नाम यस्पेत्यर्थात्। नुकू तोकं तोक्ममित्यपत्यनामानि। उपलक्षणतयेकदेशं व्याचटे। अत्र पशुशब्देन गोशब्दो लक्ष्यत इति प्रकृतापेक्षया। तेनेषवः प्रत्यायन्त इति शेषः ॥ न यत्पदं निश्चयकत्संदिग्धमिति तद्विदुः ॥१२ ॥ यथा- 'नीललोहितमूर्तियों दहत्यन्ते जगन्रयम् । स एष हि महादेवस्त्रिषु लोकेषु पूज्यते ॥ १२ ॥' अत्र वहिरर्कः शिवो वेति न निश्चीयते॥ न यत्पदमिति। पदस्वरूपमेव संदित्मानमत्र। तथाहि-स एष हि महया- देव इत्यत्र स किमेष हि महादेव इति च्छेदो विधीयतां महादेव इति वा साधक- बाधकग्रमाणाभावे संदिद्यते। न च विशेषणनियमहेतुः। वहपर्कावपि हि भगवतो नीळलोहितमूर्तिभूती हिमापही च न निश्यकृदिति दूषणतावीजप्रदर्शनम्। यदको विवक्षितस्तदा दोषः । साधुचर इत्यत्रापि 'भूतपूर्वे चरद्' इति चरद्प्रत्यये कि पूर्व साधुरथवा चरेष्टप्रत्यये साधुषु चरतीति पदमेव संदिह्यते तेन पदावयवः संदिग्ध इति केनचिदुक्तम्, तदप्यपास्तम् ।। विपरीतं विरुद्धार्थप्रकल्पनमिहोच्यते। यथा- 'अनुत्तमानुभावस्य परैरपिहितौजसः । अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः ॥ १३ ॥' अत्र अनुतमा इत्यनेन यथोक्कृष्टस्तथापकृष्टोऽपि। अपिहितमित्य- नेन यथा नाच्छादितं तथाच्छादितमिति। अकार्यसुहृदित्यनेन यथा- कार्यमन्तरेण सुहृदेवमकार्ये यः सुहृत्सोऽप्युच्यते। अपूर्वाः कीर्तय इत्यनेन यथाद्भुताः कीर्तय एवमकीर्तयोऽप्युच्यन्ते । विपरीतमिति। विपरीतं प्रकृतोपमर्दकमर्थकल्पनं यत्र। तथा हि-अनुत्- मेख्यादी प्रकरणादिभि: स्तुतिपरत्वे व्यवस्थिते उत्तमत्वाभावादिना विरुद्वेनार्थेन तत्र
Page 106
१ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। १३
पर्यवसाययितुं न शक्यते। संशयं युगपद्विवक्षायामपि न विरोधः । इह तु स्तुति- निन्दयोयौंगपद्यमसंभावितमत एवैकस्य संभवे त्वपरस्य वाध एव । यथा-'चिर- कालपरिप्राप्तलोचनानन्ददामिनः । कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ।।' इति गलग्रहशब्दस्य कण्ठग्रहप्रतिद्वन्द्विन्यर्थे विवक्षिते पूर्वप्रक्रान्तानन्ददायित्वं बाध्यते। अत्रानुत्तम इति बहुत्रीहितत्युरुषाभ्यामपिहितमिति 'वष्टि भागुरिः' इत्या- दिना विकल्पेनाकारलोपविधानात्। अपूर्वा इति पक्षान्तरेSकारपूर्वाः। नियामक- सङ्भावे तु गुण एव। यथा-'अपूर्व यद्स्तु प्रथयति बिना कारणकलाम्' इति शब्दरूपान्तरमेव विरुद्धोपचायकमित्यन्वयव्यतिरेकाम्यां शब्ददोषताव्यवस्थितिः॥ अप्रयोजकमित्याहुरविशेषविधायकम् ॥ १३ । यथा- 'तमालश्यामलं क्षारमत्यच्छमतिफेनिलम्। फालेन लक्यामास हनूमानेष सागरम् ॥ १४ ॥' अत्र तमालश्यामलमित्यादीनि सागरविशेषणानि तानि न हनूमतो लब्ने5तिशयं सूचयन्ति ॥ अप्रयोजकमित्याहुरिति। तदेव हि कवीनामुपादेयं यद्वाक्यार्थे प्रकृष्टकाष्ठां पुष्णाति । अन्यथानज्ञाभिधानेऽ्वाच्यवचनमेव स्यात्सार्थकत्वादनन्वयत्वाथ। न वुत्तपूर णमात्रप्रयोजनता नातिशयमिति। सागरलयगनद्वारा हनूमतः प्रकर्षों वाच्यः। न च तमालश्वामलत्वादिविशेषणानि कर्थचित्प्रकर्षमर्पयन्ति यानि दूरत्वादीनि तथा न तेषामुपादानम्।। तद्देश्यमिति निर्दिष्टं यदव्युत्पत्तिमत्पदम् । यथा- 'गल्लौ लावण्यतल्ौ ते लडहौ मडहौ भुजौ। नेत्रे वोसट्टकन्दोट्टमोट्टायितसखे सखि ॥ १५॥' अत्र गल्लतल्लादयः शब्दा अन्युत्पत्तिमन्तो देश्या दृश्यन्ते॥ तद्देश्यमिति। अव्युत्पत्तिमत् प्रकृतिप्रत्ययविभागशून्यं लोकमात्रप्रयुक्तं पद-
Page 107
१8 काव्यमार्ला।
मनादेयं भवति। तद्विविधम्-अभागं भागवच्चेति। आयं देश्यम्, द्वितीयं आम्यमिति विभाग: । व्युत्पज्नानामन्यादशी च्छाया देश्यानां च न तादृशीति देश्य- वेद्यपदसमभिव्याहारे प्रायेण छायावरूप्यं बन्धस्य भवतीति सहृदयहृदयसाक्षिकं दोषबीजम्। तह्वमल्पसरः, लडहं मनोहरम्, मदहं कृशम्, बोसहं विकसितम्, कन्दोहं नीलोत्पलम्, मोहायितं विलासः। अश्लीलामङ्गलघृणावदर्थ ग्राम्यमुच्यते॥ १४॥ अत्राश्लीलमसभ्यार्थमसभ्यार्थान्तरं च यत्। असभ्यस्मृतिहेतुश्र त्रिविधं परिपठ्यते ॥१५॥ तेष्वसभ्यार्थ यथा- 'छत्राकारशिरा: शिरालसरसस्थूलप्रकाण्डो महा- न्मध्ये भानुसुताम्रसिन्धुविपुलाभोगो वटः पातु वः । कायैक्ये विकटपरसारितमहाजङ्कं महीसुप्तयो- र्य: खण्डेन्दुकिरीटकैटभजितो: काटश्रियं कर्षति ॥ १६ ॥' तदेतच्छत्राकारशिरा: काट इत्यादेरसभ्यार्थत्वादसभ्यार्थम् ॥ अन्छीलेति। देश्यातिरिक लोकमात्रप्रयुक्तं ग्राम्यम्। तत्रिधा-त्रीडाजुगु- प्सातकूदायित्वाद्। तत्राद्यम्ठीलं श्रीर्यस्यास्ति तच्छ्ीलम् । सिध्मादेराकृतिगणत्वा- ह्च्। कपिलकादिपाठाछत्वम्। न श्ीलमश्ीलम् । श्रीडादायित्वेनाकान्तमित्यर्थः। द्वितीयं घृणावदर्थकम्। जुगुप्सादायि प्रत्याव्यमस्येति। तृतीयममज्नल्वार्थमातक्दा- यिज्ञाप्यमस्येति कृत्वान्ीलपयायोऽसभ्यशब्दः। सभायां साधुरित्यर्थे तेनापि शास्त्रे व्यवहार इति प्रदर्शनार्थमसत्यशब्देनाष्ीलमनूद्य व्याचष्टे। तन्नासभ्यमिति। अर्थ- स्यासभ्यत्वात्पदमप्यसभ्यम् । स चार्थ: क्रचित्प्रकृतोSप्रकृतोऽपि छेषोपस्थित एक- देशात्स्मृतिमात्रारूढो वा। तत्र यथाक्रममसभ्यादयत्रयः। एवममन्नलादयोऽपि। सूर्यमुता यमुना । अभ्रसिन्धुर्गना। तयोमध्ये 'पारे मध्ये षष्या वा' इत्यव्ययी- भावः । अर्ध हरेरध हरस्पेति शरीरैक्ये काटशब्दस्यासभ्यार्थत्वे तद्विशेषणानाम- म्यसभ्यत्वमिति तान्यादाय व्याचष्टे-अत्र छत्राकारेति॥
Page 108
१ परिच्छेदः ।] सरस्तीकण्ठाभरणम्। १५
असभ्यार्थान्तरं यथा- 'विद्यामभ्यसतो रात्रावेति या भवतः म्रिया। वनितागुद्यकेशानां कथं ते पेलबन्धनम् ॥ १७ ॥' तदेतदा भवतः प्रिया गुद्यकेशानां पेलबन्धनशब्दानामसभ्यार्थान्त- रत्वादसभ्यार्थान्तरम्।। विद्यामिति। या रात्री विद्यामभ्यसतो मत्र्रमावर्तयतस्तव प्रिया समायाति सा यक्षिणी। अतः कथ ते धनं पेलवं कोमलम्। खल्पमिति यावत्। कि तु यक्षिणीप्रसादाद्वहु धनं तवोचितमित्वर्थः। प्रकृतपदानि त्वसभ्यार्थान्तराणि तान्यु- दृत्य व्याचषे-तदेतयया भवतः प्रियेति। असभ्यार्थप्रकाशनमेव पश्ा आकोश इत्यर्थः । या भवतः प्रियेति एकं पदं याभो मैथुनं तद्वतः प्रियेत्यर्थात्। योनिर्व- निताया गुह्यस्तस्य केशाः । पेलशब्दो मुष्कयोः प्रसिद्धः। तत्र बन्धनमिति ॥ असभ्यस्मृति हेतुर्यथा- 'उत्कम्पयसि मां चूत पिकवाक्काटवेन किम्। कृत: कृकाटिकायां ते पाद: प्राणेन यास्यता ॥ १८।।' तदिदं काटवकृकाटिकापादयोरसभ्यस्मृति हेतुत्वादसभ्यस्मृतिहेतुता। उत्कम्पयसीति। हे चूतवृक्ष, कोकिलस्य वाचा कटुत्वेन दुःखदायित्वात् कि मां भापयसि। ननु तब कफाटिकायां शीवायां पाद दत्त्वा चलिता, मम प्राणास्तेन मया जितम् । व्यर्थस्तवायं परिश्रम इति वाक्यार्थों विवक्षितः । काटवशब्दे काट एकदेश: कृकाटिकाशब्दे काटिकेति लोप: । काटः काटिका ।I लोकेषु यदशस्तार्थमशस्तार्थान्तरं च यत्। अशस्तस्मृतिहेतुश्रामङ्गलार्थ त्रिधैव तत् ॥ १६ ।। तेष्वशस्तार्थ यथा- 'खेटके भक्तसूपस्य वलभ्याः पत्तनस्य च। अतृप्तोऽहं मरिष्यामि हेहले भाषितस्य च ।। १९ ।।' अत्र मरिष्यामीतिपदमशस्तार्थम् ।।
Page 109
१६ काव्यमाला।
खेटक इति। अतृप्तः सुखस्येयत्तापरिच्छेदाभावात्। खेटके ग्रामे यद्धकं सूपश्ोत्पद्यते तस्य पत्तनस्प नगरस्य या वलभी तस्यां सुहितार्थयोगे पष्टीनिषेधा- विज्वादनुमीयते तृप्त्यर्थयोगे षष्ठी भवति। अन्ये तु व्याचक्षते-भक्तसूपपदनामा दक्षिणापथे विषयस्तत्सद्यनि खेटके वलभीनाम कस्यचिद्विरूपाक्षाधिष्ठानस्य तत्रैव पत्तनस्य हेहले इति त्रीणामव्याजमन्योन्यप्रेमातिशायगर्भस्य भाषितस्पेति। अशस्तार्थान्तरं यथा- 'प्रवासयति या कान्तं वसन्ते गृहसंस्थितम्। विनाशपथदानेन पिशाची सा न चाड़ना ॥ २०॥
न्तरत्वम् ।। प्रवासयतीति। शपथदानेन विना प्रवासयति अन्यत्र प्रहिणोति गहे सम्यक् स्थितं प्रियं साज्नना न, कि तु पिशाचीवदनुचितकारिणीत्यर्थोऽभिमतः । अन्यत्र प्रवासनमुचचाटनं संस्थानं विनाश: विनाशस्य पन्थास्तस्प दानम् । पिशित- मश्रातीति पिशाची। परृपोदरादित्वात्। तदेतम्ाचष्टे-अत्र प्रवासयतीति। अशस्तस्मृतिहेतुर्यथा- 'मारीचोऽयं मुनिर्यस्य कृत्या कालान्तकालये। पश््यां संकन्दनादीनां सुतानामाप्तयेऽभवन् ।।२१।।' अत्र मारीचकृत्या कालान्तक-संकन्दन-पदानामशस्तार्थस्मृतिहेतुत्वम्।। मारीचोऽयमिति। मरीचेरपतयं मारीचः काश्यपः संकन्दनादीनिन्द्राबीन् द्वादश पुत्रानादित्यानुत्पादितवान। तथ कालान्तकस्य भगवतो महादेवस्यालये याः कृत्या: किया भगवदाराधनरूपास्तासां फलमित्यर्थः। मारीचशब्दे मारकदेशः कृत्या इति सुबन्तपदे कृत्पेल्येकदेश:, कालान्तकालय इत्यत्रान्तकेति, संकन्दने शब्द- कन्दनेति॥ पदमर्थ घृणावन्तं यदाहार्थान्तरं च यद्। घृणावत्स्मृतिहेतुर्यत्तडणावदिह त्रिधा॥ १७॥
Page 110
१ परिच्छेद: ।] सरसतीकण्ठाभरणम्। १७
तेषु घृणावदर्थ यथा- 'पर्दते हदते सन्यं वमत्येष स्नंधयः । मुहुरुत्कौति निष्ठीवत्यात्तगर्भा पुनर्वधूः ॥२२ ।' पर्दते हदते वमति निष्ठीवतीति शब्दानां घृणावदर्थत्वम्।। पर्दत इति। उत्कौति उत्कारं करोति। निष्टीवति धूत्करोति। आत्तगर्भा पुनर्वधूरिति बालस्य स्तन्यवमनादिनिदानसूचनम् । अत एव 'न गर्भिण्याः पिचे- त्क्षीरं पारगर्भिककुत्तु तत्' इति वैद्यकम्॥ घृणावदर्थान्तरं यथा- 'बाष्पक्विन्नाविमौ गण्डौ विपूयापाण्डरौ तव। प्रियोऽग्रे विष्ठितः पुत्रि स्मितवर्चोभिरर्चति ॥२३॥ अत्र क्विन्नगण्डविपूयाविष्ठितवर्च:पदानां घृणावदर्थान्तरम्।। वाप्पेति। विपूयो मुज्ः । विशेषेण स्थितो विष्ठितः स्मितवर्चो हास्यतेजः । तव कपोली दृष्टा पुरस्थितस्तव प्रिय ईषद्ास्यं कुर्बन् कपोलयोर्हास्यज्योत्त्या पूर्जा करोतीतर्थः । अन्यत्र वाष्पेणोष्मणा किलो मृदूभूत: गण्डो त्रणः । विशिष्टः पूयो विपूयस्तेन पाण्डरः । विष्वितो विष्ठा संजातास्य। वर्चः पुरीषम्। यत्स्मरणा- द्वाष्पादीनां घृणावति वृत्तिस्तदेव पृथकृत्याह-अत्र क्िन्नेति।। घृणावत्स्मृतिहेतुर्यथा- 'प्रत्यार्द्रयन्तो रूढानि मदनेषुत्रणानि नः । हृदयक्वेदयन्त्येते पुरीषण्डमहद्ुमाः ॥। २४ ॥' अत्र रूढव्रणक्ेदपुरीषण्डपदानां घृणावत्स्मृतिहेतुत्वम्।। प्रत्यार्रयन्त इति। अन्योन्यलमो वृक्षसमूह: षण्डः। रूडानीत्यनेन मदनेपु- ब्रणानां विशेषितत्वात्। मदनेषुभागमपहाय त्रणभागमात्रेण रूढम्रणस्सृतिर्भवन्ती- पदादेवेति विवक्षितवान् । पुरीषण्डशब्दे पुरीषेत्येकदेशः।। तदेवं पददोषांहक्षयित्वा कमप्राप्तवाक्यदोषा लक्षणीया इति तान्विभजते- शब्दहीनं क्रमभ्रष्टं विसंधि पुनरुक्तिमद्। व्याकीर्ण वाक्यसंकीर्णमपदं वाक्यगर्मितम् ॥१८ ॥। २ स० क०
Page 111
काव्यमाला।
द्वे मिन्नलिङ्गवचने द्वे च न्यूनाधिकोपमे। भग्नच्छन्दोयती च द्वे अशरीरमरीतिमत् ॥ १९॥ वाक्यस्ैते महादोषा: पोडशैव प्रकीर्तिताः । शब्दहीनमिति। उक्तेनैव प्रयोजनेनासमासद्न्दगर्भबहुत्रीहिसमासी। एवं गुणादिविभागवाक्येष्वपि प्रयोजनमवसेयम् । मिन्नलित्नवचने इत्यादौ तु इन्दूल- क्षणस्य समासस्य पूर्ववर्तिनां भिननादिपदानां प्रत्येकमन्वयः। यमनं यतिरिति भग्न- च्छन्दो भग्रयतिरिति केचित् । तथा च व्यतिकीर्णोऽर्थः स्यात् । अरीतिमदिति। रीतिरस्यास्तीति नित्ययोगे मतुप्। नित्ययोगप्रतिपादनं हि दूषकताबीजोद्धाट- नायोपपद्यते। अत एव बहुत्रीही लाधवं तत्र नादरः ॥ अथैषां लक्ष्म संक्षेपात्सनिदर्शनमुच्यते ॥ २०॥ असाधुवद्साधुमत्त्वस्य प्राथम्यादक्षणमाह- उच्यते शब्दहीनं तद्वाक्यं यदपशब्दवत्। यथा- 'नीरन्ध्रं गमितवति क्षयं पृपत्कै- र्भूतानामधिपतिना शिलाविताने। गाण्डीवी कनकशिलानिमं भुजाभ्या- माजन्ने विषमविलोचनस्य वक्षः ॥ २५ ॥' अत्र गमितवतीति क्वतोः कर्मणि, आजन्न इति आत्मनेपदस्या- स्वाञ्रकर्मणि प्रयोगादपशब्दौ। तौ च शिलावितानत्यक्षवक्ष:संबन्धाद्वा- क्यदोष। जायमानौ असाधुनान्नः पददोषाद्विदेते॥ उच्यत इति। अपशब्दत्वं पद एव नियतं वाक्ये संस्कारप्रसक्तेरभावादप- शब्दत्वं न वाक्यदूषणम्। तथा हि-'कर्तरि कृत्' इति नियमात्कर्मणि कवतुर- साधुः । 'अकर्मकाव' इत्यनुव्त्ती 'आझो यमहनः' इत्यात्मनेपदमकर्मक एव प्राप्तं 'स्वान्नकर्मकाच' इति वाक्यैकवाक्यतापर्यालोचनयाखवान्नकर्मण्यसाधुः कथ वाक्यदू- पणता। नहि वाक्यान्तःपातितामात्रेण सा युज्यतेऽतिप्रसन्गादित्याशक्ञोक्तम्। तौ
Page 112
१ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। १९
चेति। नहि यथा वाघृधातुः परस्मपदान्त इत्येवासाधुत्वम्, तथात्र पदान्तरसंनि- धानापेक्षत्वेऽध्यवसीयते। भूतानामधिपतिना शिलावितान इति यावन्रानुसंधीयते तावद्गमितवतीति कि कर्तरि कर्मणि वेति संदेहानिवत्तेः । तथा गाण्डीवी विषमवि- लोचनस्य वक्ष इत्येतावलप्रतीत्य कथमाजन्न इत्यखान्कर्मणि आत्मनेपदमध्यवसान- योग्यम्। इयमेव हि वाक्यदोषता यदनेकपदनिरूप्यता नाम बाधतीत्यत्रापि कि बाध- शब्दात् क्विवन्तात्तिप, उत वाधृधातुरिति संदेह इति कुदेश्यम्। स्कन्धादिपदसं- निधानेऽपि तस्यानिवृत्तेः। 'तेन त्वामनुनाथते कुचयुगम्-' इत्यादिकमत्रत्यमुदाह- रणं प्रमादात् काव्यप्रकाशकृता पद्दोषेपु लिखितम् । यथा च। 'उदपूतितः को न हीयते' इति रुद्रटेन । तत्र हि 'अपादाने चाहीयरुहोः' इति तसिप्रत्ययनिषेधः। स च पदान्तरसंनिधानेनवेति खयमालोचनीयम्। शिलावितानभ्यक्षवक्ष इत्युपल- क्षणम् । अधिपतिगाण्डीविशन्दावपि बोद्धव्याविति। क्मभ्रष्टं भवेदार्थः शाब्दो वा यत्र तत्क्मः ॥२१॥ यथा- 'तुरङ्रमथ मातक्कं प्रयच्छास्मै मदालसम्। कान्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ ॥२६॥ अत्र मातङ्गमथ तुरक्रमिति वक्तव्ये तुरभमथ मातक्मित्यर्थः । कान्तिप्रतापौ चोक्त्वा सूर्याचन्द्रमसोः समाविति शाब्द: क्रमम्रंशो लक्ष्यते ।। क्मभ्रष्टमिति। अर्थादागतः क्रम आर्थः। शब्दादागतः शाब्दः । अर्थक- मत्रंशः कर्थ शब्ददूषणमत आह-इति वक्तव्य इति। मातन्नो दीयतामथ तद्दा- नसामर्थ्य नास्ति तदा तुरज इति वक्तव्ये रचनावैपरीत्यमात्रमत्रापराध्यति। नार्थ इति युक्ता शब्ददोषता।। विसंहितो विरूपो वा यस् संधिविसंधि तद्। यथा- मेघानिलेन अमुना एतस्मिन्नद्रिकानने। मञ्जर्युद्गमगर्भासौ तर्वाल्युवीं विधूयते ॥ २७॥'
Page 113
२० काव्यमाला।
अत्र मेघानिलेन अमुना एतस्मिन्नसंहितया विवक्षामीत्यभिसंधानं विसंधिः । मञ्जर्युद्धमगर्भासौ इत्यादौ तु विरूपसंधानं विसंधिः ॥ विसंहित इति। विशब्दो विगमं वैपरीत्यं च द्योतयति। तेनार्थद्वयं संप- दाते। 'परः संनिकर्ष: संहिता'। तया तत्कार्य लक्ष्यते। संधानं संधिः। अर्धमा- त्राकालव्यवधानं। तथा च-संहिताकार्यशून्यं संधानं यत्रेत्वर्थः। 'संहितकपदे निल्या' इति समयादन्यत्र विकल्पः । ततो नासंधावन्तर्भावः। वैरूप्यं द्विविधम्। दुर्वचकत्वम्, अ्लीलत्वं च। तत्राद्यमुपलक्षणतयोदाहतम्। द्वितीयं यथा-'उड्ीय गगने दूर चलन् डामरचेष्टितः । अयमुत्पतते पत्री ततोऽत्रव रुचि कुरु ॥' ननु यदि संधिकार्य वैकल्पिकं कथमत्र दोष इत्यत आह-न संहितामिति। यदि संहि- ताप्रतिषेध: स्यात्तदा सकृद्विसंधिकरणेन तथावैरुप्यं भवतीति कवेरपराधो न सभा- व्यते, यदि तु प्रतिषेधो नास्ति असकृद्वोपादानं तदा व्यक्तवैरूप्यप्रतिभासात्कर्थ न दोष इत्यर्थः । न विवक्षामित्युपलक्षणम्। विवक्षायामप्यसकृत्प्रयोगो विरस एव। यथा-'तत उदित उदारहावहारी' इति। विशेषं वैशेषिके वक्ष्यामः ॥ पदं पदार्थश्ामिन्नौ यत्र तत्पुनरुक्तिमद् ॥ २२ ॥ यथा- 'उत्कानुन्मनयन्त्येते गम्भीराः स्तनयित्नवः । अम्भोधरास्तडित्वन्तो गम्भीराः स्तनयिल्वः ॥२८॥ अत्र उत्कानुन्मनयन्तीत्यर्थपुनरुक्तम्। गम्भीराः सनयिलव इति शब्दपुनरुक्तम् ।। पदं पदार्थश्चाभिन्नाविति। पदमभिन्नममिन्नतात्पर्याभिधेयमिति विशेषः। तेन तात्पर्यमेदे लाटानुप्रासोऽभिधेयमेदे यमकं च न दोषः । पदार्थोऽभिन्नपर्याय- शब्दोपात्त इति शेषः । तेन पूर्वस्माद्विशेषः। खाभिधेयतात्पर्यकपदावृत्तिः पर्यायो- पादानं च द्यमपि शब्दपुनरुक्तमिष्यते। तथा च पारमर्ष सूत्रम्-'शब्दयोः पुन- वंचनं पुनरुक्तमन्यत्रानुवादात्' इति। युक्कं चैतत्। एकस्याभिधेयस्य द्विरभिधानं दोषः । तचाभिधानं तेनैव पदेन पर्यायेण वा संभवतीति शब्दमादायेव तस्य व्यवस्था पुनरुक्िरत्रेव पदे भवति, तत्कोऽत्र मत्वर्थ इत्यत उक्तम्-यत्र तदिति। यत्र समुदायेऽवयवः पुनरुत्तरूप: स मतुबर्धः । अत एव नानापदनिरूपणीयतया
Page 114
१ परिच्छेद: ।] सरस्तीकण्ठामरणम्। २१
वाक्यदूषणमिति स्फुटोऽर्थः । विकल्पितं चेदं लक्षणमेकस्यैव दूषणधुरारोहणक्षम- त्वात्। संक्षेपार्थ त्वेकमुदाहरणम्। अर्थमादायैव पुनरभिधानं पुनरुक्तमिति विभा- वयितुं लक्षणकमवैपरीत्येन प्रथममर्थपुनरुक्तमुदाहृतमित्याशयवान्। व्याख्यानेऽपि तमेव कममाद्रियमाण आह-अत्रोत्कानिति । उत्क उन्मनाः । उन्मनयन्तीति उन्मनसं कुर्बन्तीति णिचि इष्ठवद्धावे टिलोपे च रूपम्। अम्भोधरा इति विशे- ष्यपदम् । शेषाणि विशेषणानि-गम्भीरा मांसलाः, खनयिलवः शब्दायमानाः, तडित्वन्तः प्रकृष्टतडिद्युक्काः ॥ व्याकीर्ण तन्मिथो यसिमिन्विभक्तीनामसंगतिः। यथा- 'दण्डे चुम्बति पझ्मिन्या हंस: कर्कशकण्टके। मुखं वल्गुरं कुर्वस्तुण्डेनाक्ानि घट्टयन्।। २९।' अत्र कर्कशकण्टके दण्डेSक्गानि घट्टयन् हंस: पझ्मिन्या मुखं चुम्ब- तीति वक्तव्ये यथानिर्दिष्टरूपे विघट्टितविभक्तिकयुक्तित्वाव्याकीणम्।।
धानादनाकाक्कितविभक्तिसंनिधानाच नाहत्यपदानि विशिष्टार्थज्ञानजननसमर्थानि भवन्ति। विलक्षणलक्षणक्केशपदानि त्रमकराणीति वदतामाराध्यानामयमेवाभिप्रायो बोद्धव्यः । विभकतिव्यवधानमात्रकृतस्तु क्रेशः प्रायेण पदैकवाक्यतायामुत्ययते। दण्ड इति। आधारविभक्तिराधेयविभक्तिमपेक्षते, न तु चुम्बतीति क्रियाविभक्तिम्। सापि कारकविभक्तिमाकाक्गति। पद्मिन्या इति संबन्धविभक्तिकमेव तत्र बोद्धव्यम्। केशेन योत्रावगम्यते तमभिमतमर्थमावेदयति-अत्र कर्कशेति। अत एव नापा- थंकत्वेन संकर: समुदायार्थस्य प्रतीयमानत्वात्। अस्ति कथिदुच्चारणयोर्विशेषो येन वाक्यार्थप्रतीति: कचिदाहत्य भवति। कचित्तु नेति स एव विशेषः । संनि- धानं व्यवधानमिति व्याख्यायते । कार्यदर्शनादर्शनाभ्यां चोननीयत इत्याशयवा-
वाक्यान्तरपदैर्मिश्रं संकीर्णमिति तद्विदुः ॥२३॥
१. नयं प्रतीको मूले तु नोपलम्यते, तेन कदाचिदयं प्रवीकपाठः प्रक्षित्तो भवेद,
Page 115
२२ काव्यमाला ।
यथा- 'काअं खाअइ खुहिओ कूरं फेलेइ णिब्मरं रुट्ठो। सुणर्अ गेण्हइ कण्ठे हक्केइअ णत्तिअं ठेरो ॥। ३० ॥' [काकं खादति क्षुधितः कूरं फेलति निर्मर रुष्टः । श्वानं गृह्णाति कण्ठे हकायति नप्तारं स्थविरः ॥] अत्र काकं क्षिपति, कूरं खादति, कण्ठे नप्तारं ग्ृह्णाति, श्वानं भीषयते, इत्यादौ वक्तव्ये यथोक्तपदविन्यासः संकीर्यते ॥ वाक्यान्तरपदैरिति। वाक्यान्तरसंवलितानि पदानि वाक्यान्तरमनुप्रविश्य तथा प्रतीति विश्नन्ति, यथा समुदाय एव दूषितो भवति ॥ काकमिति। कूर भक्तं ुधितः सरादति, काकं च निर्भर रुष्टः सन् क्षिपति, श्वानं च निवारयति, नप्तारें च कण्ठे गृहाति स्थविरजातिः॥ आकाक्काकमेण किचित्पदं कस्यचिद्वाक्यस्य संब- द्धमिति ज्ञायत एव। तदाह-अत्र काक क्षिपतीति। शब्ददोषत्वं प्रकाशयति- इति वक्तव्य इति। यथोक्तपद्विन्यास इत्यनेन संकीर्यत इत्यस्यार्थो विवक्षितः । एवंप्रकार: संकर इत्यर्थ: । विजातीयसंवलने लोके संकरव्यवहारः । विभिन्नप्रकृतिस्थादि पदयुक्त्यपदं विदुः। यथा- 'आउज्जैअ पिट्टिअए जह कुकुलि णाम मज्झ मचताले। पेक्खन्तह लाउलकण्णिआह हा कस्स कन्देमि । ३१ ।।' [आवर्ज्य पीडपते यथा कुकुरो नाम मम भर्ता। प्रेक्षंत राजकुलकर्मकरा अहह कस कन्दामि ।।] तदेतत्प्रकृतिस्थकोमलकठोराणां नागरोपनागराणां आ्रम्याणां वा पदानामयुक्तेरपदम् । विभिन्नेति। षोढा पदं भवति-प्रकृतिस्थम्, कोमलम्, कठोरम्, ग्राम्यम्, नागरम्, उपनागरं च। तत्रानेकदीर्घखरकृतगौरवमेकसंयोगकृतगौरवं पदं प्रक- १. टीकादर्शनेन 'इति वक्तव्ये' इति भवेत, २. 'जि' इति सठीकपुस्तकपाठ :.
Page 116
१ परिच्छेदः ।] सरसतीकण्ठाभरणम्। २३
तिस्थम। यथा-नीहारतारानीकाशसारसीत्यादि, हस्तपल्वककणकर्पूरादि च। यथा च-पाडिव आमाण सिणिवं आलगोलेत्यादि, त्यज्झतुज्झउत्ताविलविहत्थति- अच्छेत्यादि च । एकखवरकृतगौरवं गुरुशून्यं वा कोमलम्। करेणुतारकसरोजनिक- रादि, मधुरमसणसरससरलेत्यादि च। यथा-नीहारबाण इवाणवेणीत्यादि, पर- कुअलडहृतलिणेत्यादि च। सानुसवारविसर्गदीर्घखवरकृतगौरवं संयोगबहुलं वाकठो- रम्। यथा शुद्धं पयः पाचयांवभूव ता पिव, आहिपातामित्यत्र। अच्छाच्छतत्र- स्थव्यूढोरस्कप्रच्छन्नेत्यादि च । यथा च-आ ई इ ए इत्यादि। उप्पिच्छउप्पुपु- अएकमेक्कमित्यादि च । प्रसिद्धिमादाय ग्राम्यादित्रयं भवति। प्रसिद्धिस्तिधा । सार्वलौकिकी, पण्डितजनगामिनी, तदुपजीवित्रिचतुरलौकिकगामिनी चेति। तत्र सर्वलोकप्रसिद्धं ग्राम्यम्। देशीपदानि सर्वाण्येव संस्कृतेपु हस्तविवाह भगिनीहारकक- णादिकम्, तुंभ अंभ हलिददासाहज्वादिकं च । एतदपभ्रशसमानप्रसिद्धिकमतिप्रसिद्ध चेति गीयते। आ्म्यवैपरीलयेन नातिप्रसिद्धं नागर नगरेणोपमितमिति कृत्वातिप्र- सिद्धाभावेनोपमा। इदमेव नाल्यप्रसिद्धमुपनागरमित्युच्यते। यथा-आद्याशर्कि शारुखुरलीलात ड्वेत्यादि, सुदेवअच्छेवगुप्पन्ती विवलाआ इत्यादि च। शज्ारप्रकाशे तु भाषाणामपि मेदो पद्मित्युक्तम्। इह तु शब्दजात्याचित्याविवेचनेन गतमिति ग्रन्थकर्तुराशयः । तदेवं स्थिते प्रतिपदं कवीनां कोऽपि क्रमो निर्वाह्यो न त्वक- स्मादेवालूनविशीर्णभावो विधेयः। तदिदमाह-विभिन्नेत्यादि। युक्तिरुचिता योजना सा प्रकृतिस्थादीनां विभिन्नान्यथानीतात्युक्तिरिति यावत्। एतद्वक्ष्यति-अयुक्ते- रिति॥ आउज्झिअ इति। आवर्ज्य केशेषु नमयित्वा। 'आउज्सिए' इति पाठे निर्मरत्स्य। पिहिअए ताच्यते। जह कुकुलि यथा कुर्कुरी नामशब्द: प्राकाश्ये प्रका- शमेव ताडितमित्यर्थः । मज्झ भत्ताले मम भर्ता। पेक्खन्तह लाउलकष्णिआह। अनादरे पष्ठी। राजकुलनियुक्तान् प्रेक्षमाणाननादत्येत्यर्थः । हाशब्दः खेदे। कस्य कन्दामि। कस्य फृत्करोमीत्यर्थः । अत्र प्रथमे पादे आउज्सिए इत्युपनागरं प्रक- तिस्थं च। 'आउज्झी' इति पाठे ग्रम्यं प्रकृतिस्थं च। भत्ताल इत्यपि तथा। तृतीयपादे पेक्खन्तहेति कठोरमुपनागरं च। राउलकण्णिआहेति आम्यं प्रकृतिस्थं च । हेति आ्म्यं कोमलं च । कस्सेति प्रकृतिस्थमुपनागरं च। कन्देमीति आ्रम्यं प्रकृतिस्थं च। तदिहैकरूप एव कर्मकरवघूलक्षणे आ्रम्ये वकारि एकरूप एव वाक्यार्थे सर्वदोषतिरोधायकरसदीस्यभावे च यथा भाषाणां व्यतिकरो दूषणं तथा आ्रम्यादीनामिति सहृदयमात्रवेद्यथायं पन्था इत्यवहितैर्भवितव्यम्। एतेषां च
Page 117
२४ काव्यमाला।
सरूपं खयमेव गुणीभावप्रस्तावे लेशतः प्रकाशयिष्यति तेनेह संक्षिप्तवान्। नैवं- विधः कदापि व्यतिकरो महाकविगिरामाजानिकः प्रवर्तते। तथा हि-'त्यजतो मजलक्षीमे दधानस्य च वल्कले । दद्शुर्विस्मितास्तस्य मुखरागं सम जनाः II' अत्र प्रथमादिषु पादेषु क्षीमचीरविस्मितरागपदानि उपनागराणि शेषाणि ग्राम्याणि। प्रतिपाद च प्रकृतिस्धकोमलाभ्यामेव निर्वाहः । एवमन्यत्रापि प्रत्येकं द्वन्द्वसमुदायै: प्रतिपादमुपक्रमोपसंहारनिर्वाहक्रमः खयमुपलक्षणीय इत्यास्तां तावत्।। वाक्यान्तरसगर्भ यच्तदाहुर्वाक्यगर्मितम् ॥।२४॥ यथा- 'योग्यो यस्ते पुत्रः सोडयं दशवदन लक्ष्मणेन मया। रक्षैनं यदि शक्तिर्मृत्युवशं नीयते विवशः ॥ ३२ ॥' अत्र योग्यो यस्ते पुत्रो लक्ष्मणेन मया मृत्युवशं नीयत इति वा- क्यस्य रक्षैनं यदि शक्तिरिति वाक्यान्तरेण सगर्भत्वाद्गर्मितम् । वाक्यान्तरेति। मध्यप्रबिष्टं वाक्यं पूर्वोत्तरभागाभ्यामेकीभूतस्य गर्भायमा- णमेकसवरसप्रसूतां प्रतीतिं विन्नयदात्मना सहैव समुदायविरसकक्षामारोह्यति। वाक्यान्तरवाक्यस्य विशेषो विवक्षितः प्रतीतिव्यवधायक इति यावत्॥ योग्य इति। मयेति। कारकविभक्ते: क्रियाकाक्णशीलायास्तामसंगमय्य मध्ये रक्षैनं शकिरिले- तावता गर्भस्थानीयेन चिरसीकरणमित्याह-अत्र योग्यो य इति। एवं वाक्यरूप- ताभज हेतून्दोषानभिधाय तन्नैव काव्यभावप्रत्यूहहेतवोऽभिधातव्यासे च गुणभञ्- द्वारकाः, अलंकारभग्नद्वारकाः, छन्दोभन्नद्वारकाः, यतिभज्गद्वारकाक्चेति चतुर्धा विप्र- थन्ते। ततथ यद्यपि प्रथमं गुणभा्द्वारका वक्तुमुचितास्तथापि तेषां बहुत्वाहुरु- हत्वाच सूंचीकटाहन्यायेन प्चात्करणमलंकारभेदादिषु च मध्ये प्रतियोगिद्वारालंका- रमनस्य प्राधान्यमिति तद्वारा दोषांलक्षयति॥ यत्रोपमा भिन्नलिङ्गा भिन्नलिङ्गं तदुच्यते।
यथा- 'अविगाह्योऽसि नारीणामनन्यवचसामपि। विषमोपलभिन्नोर्मिरापगेवोचितीर्षतः ।। ३३ ।।'
Page 118
१ परिच्छेदः । ] सरस्तीकण्ठाभरणम् । २५
अत्रापगेव त्वमविगाद्योऽसीति लिन्र मेदः। नारीणामुत्तितीर्षत इति लिङ्गमेदो वचन मेदश्च। तदिदं द्वयोरेकमेवोदाहरणम् । यत्रोपमेति। उपमाग्रहणमुपलक्षणमितयग्रे वक्ष्यामः । उपमा उपमितिः सादृश्यभिन्नोपमानवाचिन उपमेयवाचिन लिग स्रीपुंनपुंसकं यस्य सा तथोक्ता। एवं मिन्नवचनोपममित्यत्रापि व्याख्येयम् ।। अविगात्योऽसीति । अविगाह्यतामात्र- मत्र सादृश्यं विवक्षितमेतदुपयुक्तमेव विशेषणमुपमानोपमेययोरुपादानयोग्यमित्यक- स्मादेव विकृतवचनमेदनिवन्धनः प्रयोजनमाकाइति । तथा तदनुसंधानप्रवणस्व प्रकृतप्रतीतिराच्छाद्यत इति दूषणसिद्धिः । एतेन दूषणता व्याख्याता । विभाग- वाक्ये सहितावस्थयोरुदेशादिह च मिलितयोरुदाहरणात्तथाभावो दोपत्वमिति भ्रान्ति निरस्यति-तदिदमिति। एकमुदाहरणं नत्वेकः संभिन्न उपाधि: प्रतेकमेव त्वस्ति समर्थत्वादित्यर्थः । एतदेवानुसंधाय विभागवाक्ये द्वे पदम् ॥ तत्किमुदाहरणस्य संकीर्णत्वमेव नेल्याह- अथ भिन्नलिङ्गस्यैव यथा- 'वापीव विमलं व्योम हंसीव धवलः शशी। शशिलेखेव हंसोडयं हंसालिरिव ते यशः ॥ ३४ ॥' मिन्नवचनस्वैव यथा- 'सरांसीवामलं व्योम काशा इव सितः शशी। शशीव धवला हंसी हंसीव धवला दिशः ॥ ३५ ॥' अथ भिन्नलिङ्गस्यैवेति । इयमपि निगद्व्याख्यातम्॥। जातिप्रमाणधर्मतो न्यूनता उपमानस्य न्यूनोपमत्वम्। तत्र जातिप्रमाणन्यूनता- थंदोषः । धर्मन्यूनता तु धर्माभिधायकपदन्यूनतालक्षणाशव्ददोष एव। एतेना- धिकत्वं व्यार्यातमित्याशयवानाह- न्यूनोपममिह न्यूनमुपमानविशेषणैः । यथा- 'संहअचक्वाअजुआ विअसिअकमला मुणालसंच्छण्णा। वावी वहु व्व रोअणविलित्तथणआ मुहावेद् ॥ ३६॥'
Page 119
२६ काव्यमाला ।
[संहत चक्रवाकयुगा विकसितकमला मृणालसंच्छन्ना । वापी वधूरिव रोचनाविलिप्तस्तनी सुखयति ॥] अत्र नेत्रवाहूपमापदानां वधूविशेषणत्वेनानुक्तत्वादिदं न्यूनोपमम् ।। न्यूनोपममिहेति। इहशव्दो येषु मध्येषूपमानस्य स्तोकविशेषणतयोपमेय- न्यूनेत्युक्तं तथाधिकोपममिति वक्ष्यति-संहतेत्यादि । अत्र चक्रवाकयुगोपमानम- पदमेव परमुपात्तम्। रोचनाविलिप्सतनीत्यनेन कमलस्योपमानं नेत्रपदं मृणालस्पो- पमानं बाहुपदं च नोपात्ं तदपि च सविशेषणमुपादेयं भवति। येन विकासादि समभिव्याहारसामजस्यमपि स्यादिति। पदानामिति बहुवचनाभिग्रायः । अत एव धर्माणामेकनिर्देशेऽन्यसंवित्साहचर्यादिति नावतरति व्यभिचारात्। किमर्थ तस्योप- मानमनुसंधेयमित्यपि न वाच्यम् । मात्रापि नानर्थिका कविनोपादेयेति साहित्यवि- दान्नायव्यवस्थितावुपमेयविशेषणस्योपमानविशेषणतया प्रयोजनचिन्तायां पूर्ववदेव प्रतीतिप्रत्यूहृस्य सुलभत्वादनुक्तत्वादितिशब्दप्रधानकतामाचटटे। एवमुत्तरत्र ॥। अधिकं यत्पुनस्तैः स्यात्तमाहुरधिकोपमम् ॥२६॥ यथा- 'अहिणवमणहरविरइअवलअविहूसा विहाइ णवबहुआ। कुन्दलएव्व समुप्फुल्लगुच्छपरिणित्तभमरगणा ॥ ३७॥' [अभिनवमनोहरविरचितवलयविभूषा विभाति नववधूः। कुन्दलतेव समुत्फुछगुच्छपरिणीयमानब्रमरगणा ॥]
अधिकमिति। यद्यप्येकस्य विशेषणाधिक्ये विशेषणन्यूनत्वे वान्यविशेषणस्य न्यूनाधिकभावो नियतस्तथाप्युपमानगतमेव दय निरूप्यते। तत्र हि दष्टमुपमेये प्रतिबिम्बकल्पमुपस्थाप्यते तेनान्तो नोपमेये तयोर्निरूपणमिति ॥ भग्नच्छन्द इति प्राहुर्यच्छन्दोभङ्गवद्वचः । यथा- 'यस्मिन्पक्च पञ्चजना आकाशश्र प्रतिष्ठितः । तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।। ३८ ।।'
Page 120
१ परिच्छेदः ।] सरस्वतीकण्ठाभरणम्। २७
अत्र पञ्चमवर्णस्य लघोः सथाने गुरोः करणाच्छन्दोभङ्गः ।। भग्च्छन्द इति। वाचां श्रव्योऽवच्छेदशछन्दस्तस्पैवोपमानयुक्तादय स्ेनैव गुरुलघुनिवेशक्रमेण श्रव्यता भवतीत्याशयात्। तस्य विपर्यासश्छन्दोभह्को व्यक्त एव वैरस्यहेतुः ग्राहुरिति । पश्चोदाहरणत्वावच्छेदविपर्यासत्वे च भग्रवृत्तव्यवहारा- दिदमेव निमित्तमस्यावधार्यत इत्यर्थः । पश्चेति। पञ्चजना: पुरुषास्ते देवपितृगन्ध- वैराक्षसासुरमेदात्पथ। अथवा निषादपचमत्राह्मणादिचतुष्टयमेदात्। तमेवात्मानं ब्रह्मापरपर्यायं विज्ञाय श्रवणमनननिदिध्यासनैरुपास्य प्रज्ञां प्रकृष्ट ज्ञानं साक्षा- तकुर्वीत ॥। अत्र पथ्चमवर्णस्येति। 'पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । पछं गुर्रु विजानीयाच्छेषास्त्वनियता मताः II' इत्यनुष्टपछन्दसो लक्षणम् ॥ अस्थाने विरतिर्यस्य तत्तु भग्नयतीष्यते ॥२७॥ यथा- 'ब्रह्मेन्द्रोपेन्द्रादिगीर्वाणवन्धो भक्तानां भूयाच्छिये चन्द्रचूडः । स्त्रीणां संगीतं समाकर्णयन्केतूदस्ताम्भोदं सदध्यास्त ईशः॥३९॥ अत्र चतुर्थस्थाने यतौ कर्तव्यायां तदन्यत्र यतिकरणाद्भमयतीदम्।। अस्थान इति। श्रव्य: पठिति विच्छेदो यतिर्विच्छिय विच्छिय पठ्यमाना भारती खदते। श्रव्यतोपलक्षणार्थ च द्विमुनिवेदादिसंज्ञया तत्र तत्र विविच्यते। तथा चास्ति कश्िद्विशेषो येन क्रियमाणापि विरतिर्न सौभाग्यपद पुष्यति। सच विशेषो नाम भागमेदोऽस्वरसंधिकृतश्र प्रायेण एतेषां स्वभावविशेषादेव स्थाने करियमाणापि विरतिरन्यत्रव परं प्रकाशते। न तत्र कथंचन सौभाग्यमुन्मीलयति। स्थानपरिभा- पया व्यावर्तितत्वात्। तदिदमुक्तम्-अस्थान इति। वामनोऽप्याह-'विरसवि- रामं कष्टम् इति। सदो गृहरूपा सभा केतूदस्वाम्भोदं ध्वजदण्डोत्क्षिप्तजलधरमि- त्युभस्त्वम्। 'वेदच्छेदा शालिनी मोऽथ तौ गौ' इत्युपलक्षणं श्रव्यरतेः । अत्र द्वितीयपादे धातुभागमेदः शेपपादत्रये नामभागमेदाः । न चात्र खरसंधानमस्तीति॥ क्रियापदविहीनं यदशरीरं तदुच्यते। यथा- 'सेलसुआरुद्धद्धं मुद्धाणाबद्धभुद्धससिलेहम्। सीसपरिट्टिअगऊं संज्झञापणअं पमहणाह्म् ॥ ४०॥'
Page 121
२८ काव्यमाला।
शीर्षपरिष्ठितगङ्गं संध्याप्रणतं प्रमथनाथम् । ] क्रियापदाभावादशरीरमिदम् ॥ क्रियापदेति। कियेत्युपलक्षणम् । प्रधानपदहीनमिति बोद्धव्यम् । प्रधाना- बिमर्शे हि वाक्यशरीरमेव न निष्पनं स्यात्॥ शैलेति। चाक्ये कियाप्रधानमिति दर्शने तत्पदानुपादानादत्र प्रधानाविमर्शः । शैलसुतयावरुद्धमर्ध यस् । मुद्धाणो मूर्धा तत्राबद्धा भुमा शशिलेखा येन। शी्षे प्रतिष्ठा ग्ा येन। यथ् संध्यायै प्रणतस्तं प्रमथनाथं प्रमथा गणास्तेषां नाथम्। कर्मविभके: क्रियामन्तरेणाचरितार्थ- त्वात्कियाया नमस्काररूपाया व्यनिचारेणार्थापत्तिविषयतानुपपत्तेरिति। अस्यां च गाथायां स्त्रीमयव्यापाररूपता भगवतः प्रतीयते इति रहस्यमाराध्या मन्यन्ते॥
गुणानां दृश्यते यत्र श्लेपादीनां विपर्ययः ॥ २८॥ अरीतिमदिति प्राहुस्तत्निधैव प्रचक्षते। शब्दार्थोभययोगस्य प्राधान्यात्प्रथमं त्रिघा ॥ २९॥ भृत्वा श्लेपादियोगेन पुनस्तेधोपजायते। अत्र यः श्लेपसमता सौकुमार्यविपर्ययः ॥ ३० ॥ शब्दप्रधानमाहुस्तमरीतिमतिदूषणम्। तत्र- विपरययेण श्ेषस्य संदर्भ: शिथिलो भवेत् ॥ ३१ ॥ यथा- 'आलीयं मालतीमाला लोलालिकलिला मनः । निर्मूलयति मे मूलाचमालमलिने वने ॥ ४१ ॥ अत्र मिन्नानामपि पदानामेकपदता प्रतिभासहेतुरनतिकोमलो बन्ध- विशेष: क्ेषः । तद्विपर्ययेण शब्दपधानोऽयं क्लेषविपर्ययः ॥
Page 122
१ परिच्छेदः ।] सरस्तीकण्ठाभरणम्। २९
गुणानामिति । समाध्यादिभज्ञोऽपि तर्हिं दोषः स्यादित्यत आह-छेषा- दीनामिति। श्ेषप्रसादसमता सौकुमार्यार्थव्यक्तिमाधुर्यकान्त्युदारतौजसाम्। एत- द्योगाद्वाक्यं वकरूपतामासाय काव्यव्यपदेशं लभते। तेषां गुणानां भन्नः काव्या- भासत्वपर्यवसायी दोषः । ते च श्ेपादयो नवैव । तेषामन्यतमाभावे काव्यस्या- भासत्वात्। तेषां हि विपर्यये रीतिरवश्यं भज्यते । तस्या गुणवत्पदरचनारूपत्वात्। अत एव पानकरसन्यायेन संभूयचित्रासवादपर्यवसानक्षमं गुणसंबलनमेव रीतिरिति लोचनकारः । रीतिः साररूपतया काव्यस्यात्मेत्युच्यते। यथा चित्रस्य लेखा उत्तु- अप्रत्यज्नलावण्योन्मीलनक्षमा, तथा रीतिरिति द्वितीये विस्तरः । तत्रिधेति। तदिति काकाक्षिगोलकवत्पूर्वापराभ्यामभिसंबध्यते। यत्र गुणानां विपर्ययस्तदरीतिमत्। तत्रिधेत्यर्थ: । त्रिधाभूतं भूयस्त्रिधा प्रचक्षते। तेन नवमेदाः । तदैतद्विवृणोति- शब्दार्थेति। योगशब्द: प्रत्येकमन्वीयते। शब्दग्रधानत्वमर्थानपेक्षशच्दनिरूप्य- त्वम्। वाक्यगुणस्य छेपादित्रयस्य। एवशब्दानपेक्षार्थनिरूपणीयत्वं तादृशस्य कान्त्यादित्रयस्य। एतेनीज:प्रभृतित्रिकस्योभयप्रधानता व्याख्याता। तेनायमर्थः शब्दार्थोभयप्रधानतया सामान्यतस्त्रिधा भूत्वा शेषादित्रिकविवक्षया प्रत्येक त्रिधा भवतीति। तेपु शब्दस्य प्राथम्यात्ततम्रधानकगुणभन्नः प्रथमं विवेक्तव्य इत्याह- तंत्रेति। अरीतिमतीति निर्धारणे सप्तमी। जात्यभिप्रायमेकवचनम्। विपर्ययेणेति। श्लेषः संधानं घटनमित्यनर्थान्तरम्। न चैतावतैव गुणत्वं वाक्यमात्रसाधारणत्वात्। तेन बहूनामपि पदानामेकताप्रतिभासहेतुत्वमनतिकोमलवं च विशेषणमिच्छन्ति। विशेषमर्थगुणकाण्डे वक्ष्यामः । एवंभूतविशेषणविपर्यासे शिथिलो बन्धोऽतिकोमलो विकीर्णप्रायश्वेत्यर्थः । आलीयमित्यादी दन्त्यवर्णप्रायतयातिकोमलत्वं विकीर्णता च व्यक्तेव। नास्य निरूपणे कचिदप्यर्थापेक्षेति स्फुटयन्राह-अत्र भिन्नानामिति। शलेषस्य शब्दप्रधानतया तद्विपर्ययोऽपि शब्दप्रधानो भवतीत्याह-शब्दप्रधानोऽय- मिति। अन्यतरविशेषणहानावपि शेषाभावो भवलयेव। तेन पूर्वार्धस्य लेशत ऐक्य- प्रतिभानसंभवेऽप्यतिकोमलतया दुष्ठत्यम् ।। भवेत्स एव विषमः समताया विपर्ययात्। यथा- ॥ 'कोकिलालापवाचालो मामेति मलयानिलः । उच्छलच्छीकराच्छाच्छनिर्झराम्म:कणोक्षितः ।। ४२।।'
Page 123
३० काव्यमाला।
अत्र पूर्वार्धस्य मृदुबन्धत्वादुतरार्धस्य च गाढबन्घत्वात्समवन्धेषु विषममिति विषमो नाम शब्दप्रधानः समताविपर्ययो दोषः ।l भवेदिति। स एव संदर्भो मृदुमध्यकठोरवर्णनिर्व्यूढास्तिस्रो बन्धजातयस्त- मैकरूपे वाक्यायें एकैव जातिरुपादेयेति तद्विपर्यासो वैराग्यहेतुरेव। उच्छलन्तः शीकरा यस्मात्तथाच्छाच्छमत्यच्छम्। द्वयमपि निर्झराम्भोविशेषणम्। मलयमारु- तस्योद्दीपनविभावभूतस्य वर्णमात्रवैरुप्यमस्येत्याशयवानाह-अत्र पूर्वार्धस्येति। शब्दप्रधानतामस्य वित्रृणोति-समबन्धेष्विति।। सौकुमार्यविपर्यासात्कठोर उपजायते॥ ३२ ॥ यथा-
अमिद्धि: शुभ्रदग्दष्टैर्द्विषो जेन्नीयिषीष्ट व: ॥ ४३ ॥' अत्रातिकठोरत्वादसौकुमार्य सुप्रतीतमेव ।। सौकुमार्यविपर्यासादिति। अकठोराक्षरप्रायताबन्धस्य सुकुमारत्वं तद्विप- यये कठोरता श्रुतिकद्ुत्वं भवति। असिततीति। 'ऋ गतौ' इति घात्वनुसारादृति- वैत्म। असिता कृष्णा ऋतिर्वर्त्म यस्य कृष्णवर्त्मा वहिस्तस्य तुगपत्यम्। अद्वि- च्छिदिति कौधदारणत्वात्। खर्गे क्षियन्ति निवसन्ति ये देवास्तेषां पतिः सेनानी- त्वात्। अद्विदन्द्वादशलोचनत्वात्। स एवंभूतो भगवान् कुमारोSमिद्धिरस्रिग्धे रूक्षैः शुभ्रहग्दष्टैर्धवलाक्षिविलोकितेः सकोधनिभालने तारकाभागस्योर्घ्वतया नयना- तथाभावो जातिबों युष्माकं द्विषः शत्रूजेम्नियिषीष्ट। अत्यर्थ पुनः पुनर्वा वध्यादि- त्यर्थ: । हन्तेर्यडि प्रीभावे आशीर्लिकि रूपम्। ख्तन्त्रस्य पदस्य श्रुतिकद्ठता पद- दोषः । इह तु पदानामतथाभावे र ति दि च्छि इत्यादीनां वर्णानां परस्परसंनिधाने घटनैव कठोरेल्याह-अन्रातिकठोरत्वादिति।। या तु कान्तिप्रसादार्थव्यक्तीनामन्यथा गतिः। अर्थप्रधान: प्रोक्तः स वाक्ये गुणविपर्ययः ॥३३॥ अप्रसन्नं भवेद्ाक्यं प्रसादस्य विपर्ययात्।
Page 124
१ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ३१
यथा- 'अनङ्कमलंचकरे मयमाना मरालिका। यस्यानत्यर्जुनाज्जन्म सदक्षाड्को वलक्षगुः ॥ ४४ ॥' अत्र शब्दानामनतिप्रसिद्धत्वादनतिप्रसन्नत्वमिति सोडयमर्थप्रधानः प्रसादविपर्ययो दोषः ।l या तु कान्तीति। 'कान्तिप्रसादार्थव्यक्तीनाम्' इति प्रमादात्पाठः। विवरण- क्मानुरोधेन 'प्रसादार्थव्यक्तिकान्तीनाम्' इति पठनीयम्। अप्रसजनमिति । श्रुत- मात्रस्पैव यस्यारथथिवित्ते प्रतिफलति स प्रसन्नः शब्द: । तथा चार्थस्य प्राकठ्यं झटिति प्रतिबन्धयोग्यत्वम् । 'पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुनः' इति सहृदयव्यवहारार्थविषयत्वं प्रसादोऽर्थनिरूपणीय इति भवत्यर्थप्रधानः । न चासौ पदमात्रमुल्लिखतीति वाक्यांशो भवति। तेन तद्विपर्ययोऽपि वाक्यगामी। 'अर्थस्य यन्न झटिति प्रतीतिरुपजायते। तत्र तत्र महाराज शब्द एवापराध्यति ॥' इति वाक्यदोषेयु परिगणनमभ्यच्छतया च शब्दानां प्रतीति: स्खलन्ती दूषणतामस्य स्थापयति-अनङ्गकमिति। न विद्यतेऽ यस्येत्यनञ्कमाकाश मयमाना गच्छन्ती। अयमयेति दण्डकेपु पठितान्मयधातोः ज्ञानच् । मरालिका हंसी। अलंचके शोभितवती। ननु हंस्यागमनपथालंकरणकालो रात्रिस्तस्यां च तुषारकिरण एव तदलंकारकारी किमनया वराक्येत्यत आह-यस्थेति। यदनत्यर्जुनं न भवति अब्जन्म तोयभवम्। नीलोत्पलमिति यावत्। तत्सदशलाञ्छनो वलक्षगुर्वलक्षो गौः किरणो यस्य शुभ्ांशुथन्द्रः । तेनासी सकलक्कतया न तथालंकाराय यथे- यमित्वर्थः । पइयेति वाक्यार्थकमकमेके पठन्ति। तन्न युक्कम्। चक्र इति परोक्षतया खरसभन्नापत्तेः । उत्तयुक्या वाक्यदोपत्वमाह-अत्र शब्दानामिति। न च मयमानादीनां शिविष्ठता। तलक्षणविरहात् । नापि गूढार्थत्वं तत एव।। वाक्यं भवति नेयार्थमर्थव्यक्तेविपर्ययात्॥३४॥ यथा- 'मही महावराहेण लोहितादुखृतोदेः । इतीयत्येव निर्दिष्टे नेया लौहित्यहेतवः ॥ ४५ ॥' तदिदं निगदेनैव व्याख्यातमित्यर्थप्रधानोSयमर्थव्यक्तिविपर्ययः ॥
Page 125
३२ काव्यमाला।
वाक्यमिति। संपूर्ण वाक्यत्वमर्थव्यक्ति करोतीति वक्ष्यति। सर्वस्य वाक्यस्य विशेषणविशेष्यभावबोधकत्वनियमे यावतां विशेषणविशेष्यभावोऽभिम- तस्तावतप्रतिपादकपदोपादानं संपूर्णता। सा च विशेषण विशेष्यभावानुरूपार्थनिरूप- णीयतयार्थप्रधानेति तद्विपर्ययोऽपि तत्प्रधान इति पूर्ववनेयम् । अत एव विव- क्षितवाक्यान्यथानुपपत्त्या नेयः कल्पनीयोऽथों यस्पेति नेयार्थमित्यर्थोऽपि घटते। महीति। पूर्वार्ध एव काव्यं निर्वर्तितम्। न च तावता विवक्षितार्थलाभः । तथा हि-समुद्रमध्यात्पृथिव्यामुद्धियमाणायां महासुरविमर्दे तेषां दंधूया पाटनेन रुधि- रशबलतया लोहितत्वमुदघेरिति वाक्यार्थांऽभिप्रेतः । लक्षणाया अभावान्न नेयार्थत्वं पद्दूषणमत्र संभावनामारोहति। दूषणताबीजं चात्र स्फुटमेव। अशरीर तु क्रिया- पदशून्यमित्युकतम् । तदेतत्सर्वमभिप्रेल्याह-तदिदं निगदेनैवेति ॥ कान्तेर्विपर्ययाद्वाक्यं ग्राम्यमित्यपदिश्यते। यथा- 'विरहे ते विषीदन्तं निषीदन्तं तवान्तिके। कन्ये कामयमानं मां त्वं न कामयसे कथम् । ४६ ॥' इदमुक्तेर्यराग्यतया कान्तिहीनमित्यर्थप्रधानोडयं कान्तिविपर्ययो दोषः॥ कान्तेरिति। रसस्य दीप्ति: कान्तिरग्रे विवरिष्यते तेनार्थप्रधानता व्यक्ता। तस्यामस्ति वाक्यवाच्ययोर््यापारः। वाक्यं विदग्धोक्तिकं व्याप्रियते। अतथाभूतस्य रसाव्यअकत्वनियमात । तथाहि-कन्ये इति संबोधनेन रसविरोधिनीविलसिता क्षमता प्रतीयते। कामयमानमित्यनेनानावरणमुच्यमानोऽर्थ: क्थ न वैरस्यमाव- हृतीत्यादिकमुन्नेयम् । तदिदमाह-इदमुच्तेर्याम्यतयेति।। ओजोमाधुर्यमौदार्ये न प्रकर्षाय जायते ॥ ३५॥ यसिमंस्तमाहुरुभयप्रधानं तद्विपर्ययात्। वाक्ये यः खण्डयन्रीति भवत्योजोविपर्ययः। असमस्तमिति प्राहुर्दोषं तमिह तद्विदः॥ ३६॥ यथा- 'सरः खरः खलः कान्तः कायः कोपधनः कृशः । ॥। आररर च्युतो मानोऽधिको रागो मोहो जातोऽसवो गताः॥।४७।।
Page 126
१ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। ३३
अत्र सत्यसमस्तपदाभिघाने सत्यपि चार्थसौकुमार्ये श्लेषादिगुणसाम- व्यभावान्न वैदर्भी रीतिः। नापि यथोक्तलक्षणाभावाद्गौडीयादय इति। खण्डितरीतित्वादयमोजोविपर्ययः शब्दार्थप्रधानो गुणविपर्ययो दोषो भवति। यदाह- इत्यादिबन्धपारुष्यं शैथिल्यं च नियच्छति। अतो नैनमनुप्रासं दाक्षिणात्याः प्रयुञ्जते ॥ ३७ ॥ वाक्ये य इति। ननु समासभूयस्त्वमोजोऽभिधास्यते तत्कथमस्याभावोऽर्य- प्रधानोऽपि कर्थं च दोष इत्यत आह-सण्डयन्रीतिमिति । रीतिर्भेन्नपर्यवसायी तस्याभावो दूषणम्। न तु तन्मात्रमित्यर्थः। एतदुक्त भवति। शब्दार्थयोरुचिता प्रोडिरोज: । यदाह-'रौद्रादयो रसा दीस्या लक्ष्यन्ते काव्यवर्तिनः । तब्यक्ति- हेतुशब्दार्थावाश्रित्यौजो व्यवस्थितम् I।' इति। तत्रार्थव्यक्तिमर्थगुणेषु विवेचयि- प्याम: । शब्दस्य तु पारुष्यशथिल्यव्यतिकरलक्षणा सा व कचित्समासदीर्घतया व्यज्यते । यथा-'चष्भुजत्रमितचण्डगदाभिधातसंचूणितोरुयुगलस्य सुयोष- नस्य।' इति। कचित् अन्यथापि प्रकाश्यते । यथा-'यो यः शखरं बिभर्ति' इत्यादि। तदेवं तत्त्वव्यवस्थिती पूर्वाचार्यव्यवस्थित्या गुणकाण्डे समासभूयस्त्व- मोजोलक्षणं व्यमिचरितगुणमध्ये समासरचनासौप्ठवं वकतुक्षमतया गुण इत्यभि- प्रायाद्विशेषं तत्र वक्ष्यामः-तदिदमिति। रीति खण्डयतीति। नहि प्रौढेरभावे गुणसंबन्धनात्मिका रीतिर्नामेति विपर्ययपदेन साधारणेन पारुष्यशैथिल्ये दर्श- य्ति-अन्रेति। एतदेवाचार्यमतेन द्रडयति-यदाहेति । यद्यप्यत्रानुप्रासोऽस्त तथापि रीतिमन्तरेण मृतशरीर इव काव्ये नालंकरणतामध्यास्ते। ततथ् न प्रकृत: कोऽपि चमत्काराविर्भाव इति नास्पैव काव्यतां प्रयोजयतीत्र्थ: । दाक्षिणात्या बैदर्भीमाहुः। पारावरीणास्ते हि विशिष्टरीतिस्वरूपमवधारयितुं क्षमा इति ॥ माधुर्यव्यत्ययो यस्तु जायते रीतिखण्डनात्। तदनिर्व्यूढमित्युक्तं काव्यसर्वख्वेदिभिः॥३८॥ यथा- नखिनां च नदीनां च शृक्गिणां शस्त्रपाणिनाम्। विश्वासो नैव कर्तव्यः स्त्रीवु राजकुलेषु च ।। ४८ ।।' ३ स० क०
Page 127
काव्यमाला।
अत्र नखिनां च नदीनां चेति पध्यन्ताचकारेण रीतेरुपक्मे शृक्गिणां शस्त्रपाणिनामिति चकारानिर्वाहात् स्त्रीपु राजकुलेषु चेति पष्ठीपरित्या- गादमधुरार्थत्वाच माघुर्यविपर्ययनामायं शब्दार्थप्रधानो गुणविपर्ययो दोषः । यदाह- मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः । थेन माद्यन्ति घीमन्तो मधुनेव मधुवताः ॥३९॥ यया कयाचिच्छृत्या यत्समानमनुभूयते। तद्रूपा हि पदासत्ति: सानुप्रासा रसावहा ॥। ४० । माधुर्यव्यत्यय इति। शब्दार्थयोशित्तववतिविधायित्वं माधुर्यम्। निनुलित त्वमिवा्ईतापदाभिधेया चेतसोऽवस्था तत्कारिता माधुर्यम्। सा च शजारकरुणान्य- तरप्रकाशानुगुणव्यापारावेशेन भवति। यदाह-'शज्ञार एव मधुरः परः प्रहादनो रसः। तन्मयं काव्यमाश्रित्य माधुर्यँ प्रतितिष्ठति ॥ शज्ारे विप्रलम्भार्ये करणे च प्रकर्षवत्। माधुर्यमात्रता याति यतस्तत्राधिकं मनः ॥I' इति। तत्र शब्दस्य माधुर्य पृथकपदतया व्यज्यते। दीर्घसमासस्य यल्रान्तरसाध्यतया सुकुमाररस प्रकाशसाम- श्रीबहिर्भावात्। ततथ शब्द्दूषणप्रस्तावे पृथक्पद्तामात्रप्रत्ययो यद्ुच्यते गौडीया दुषटा स्यात्, इति रीतिखण्डनपर्यवसायितयाभिधानम् । भवति हि कदाचित्कवेः शकतिवशात्सोल्वेखेऽपि समासे रसव्यकिः । यथा-'याते द्वारवतीं तदा मबुरिपी तहत्तसज्ञानतां कालिन्दीतटरुडवजुललतामालिश्वय सोत्कण्ठया। उद्गीतं गुरुवाष्पग- द्वदगलतारखर राधया येनाम्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम्॥।' एवं चास्ख- छितप्रतीतिविषयस्यैव संदर्भस्य रसत्वं पद्घटनारूपस्य व संदर्भस्यानिर्वाहादेव प्रतीतिः स्तलतील्याह-तदनिर्व्यूडमिति। काव्यसर्वखं रसप्रकाशस्तद्वेदिमिल्तदु- पायभूतघटनास्वरूपवेदिभिः । एतदेव व्याख्यानेन स्फुटयति-अन्रेति। नखिनां च नदीनां चेति चकारेणोत्तरत्र तत्परित्यागेऽनुपपत्तिर्जागर्ति तदेव प्रतीते: संवल- नम्। एवमुत्तरत्रापि। अस्तु तहि वस्त्वसत्त्वेऽप्येकदिअ्धुर्यसंपत्तौ काव्यताप्रति- लम्भ इत्यत आह-अमधुरार्थत्वच्चति। स्पष्टमेतच्छव्दार्थप्रधानतां माधुर्यस्य पूर्वाचार्यसंमत्या द्रवयति-यदाहेति। मादन्ति आर्दचित्ता भवन्ति। मधुरसाह- श्यादयं व्यवहार इत्यत आह-मधुनेति। इद च घटनाया माधुर्ये परमं रहस्य-
Page 128
१.परिच्छेद: I] सरस्तीकण्ठाभरणम्। ३५
मिल्ाह-यया कयाचिदिति। ओष्ठयकण्ठ्यादिकं वा तद्रपसमानश्ुतिकमादौ यस् तथाभूतस्य पदस्य प्रत्यासत्तिः । 'तदूपा दि' इति पाठे व्यक्त एवार्थ: । अत एव सानुप्रासा ततक्ष रसावहेत्यर्थः । यदाह-'कङणादिविमुक्तापि कान्ता किमपि शोभते। कुक्ुमेनात्वरागश्चेत्सर्वाज्कीण: प्रवर्तते ॥' इति ॥
यस्तु रीतेरनिर्वाहादौदार्यस्य विपर्ययः। वाक्यं तदनलंकारमलंकारविदो विदुः ॥ ४१ ॥ यथा- 'दीर्घपुच्छश्चतुष्पाद: ककुद्मांल्लम्वकम्बलः । गोरपत्यं बलीवर्दस्तृणमत्ति मुखेन सः ।। ४९ ॥' तदिदमपुष्टार्थत्वादनुक्कृष्टविशेषणमनुदारं निरलंकारमाचक्षते सोडय- मौदार्यविपर्ययो नाम शब्दार्थप्रधानो गुणविपर्ययो दोषः। यदाह- श्लाध्यैर्विशेषणैर्युक्तमुदारं वाक्यमिष्यते। यथा लीलाम्बुजक्रीडासरोहेमाङ्गदादयः ॥ ४२॥ उत्कषवान्गुण: कश्चिदुक्तेर्यसिमिन्प्रतीयते। तदुदाराह्यं तेन सनाथा काव्यपद्धतिः ॥। ४३ ।। यस्तु रीतेरिति । काव्यरूपताप्रयोजकं शब्दार्थयोर्वकता उदारता नहि वकतामन्तरेण काव्यपदवीप्राप्तिख्तदाह-'यत्तु वक वचः शास्त्रे लोके च चच एव तत्। वक यदनुरागादी तत्र काव्यमिति श्रुतिः II' इति। तदेतदलंकारसामान्यम- स्याभावे निरलंकारता भवतीत्याह-अनलंकारमिति। दीर्घपुच्छ इत्यादी प्रकृतो- दाहरणे इयोरवकत्वं स्फुठयति-यथेति । विबिच्य गुणप्रस्तावे कथयिष्यामः । अर्थपोषमाह-उत्कर्षवानिति। उभयप्रधानतामुपसंहरति-काक्येति॥य तदेवं वाक्यदोर्षोलक्षयित्वा कमप्राप्ता वाक्यार्थंदोषा लक्षणीया इति तान्विभजते- अपार्थ व्यर्थमेकार्थ ससशयमपक्रमम्। खिन्नं चैवातिमात्रं च परुषं विरसं तथा।। ४४ ।।
Page 129
३६ काव्यमाला।
हीनोपमं भवेचान्यदधिकोपममेव च। असदृक्षोपमं चान्यदप्रसिद्धोपमं तथा ।। ४५ ।। निरलंकारमश्लीलं विरुद्धमिति पोडश। उक्ता वाक्यार्थजा दोषास्तेपां वक्ष्यामि लक्षणम्॥ ४६॥ समुदायार्थशून्यं यत्तदपार्थ बचः स्मृतम् । यथा- 'जरदवः कम्बलपादुकाभ्यां द्वारि सिथितो गायति मकलानि। तं ब्राह्मणी पृच्छति पुत्रकामा राजन्रुमायां लशुनस्य कोऽर्थः ॥५०॥' अत्र समुदायार्थः कोऽपि नास्तीत्यपार्थमिदम्। अपार्थमिति। उद्देशे दोषाणां व्यासेनोकतिः पूर्वोंक्तप्रयोजनानुरोधेनेति। समुदायिपदानां विशेषणविशेष्यभावः समुदायार्थः। तेन शून्यं पदजातमपार्थकं पदार्थानामसंसर्गेण पदानामसंसर्गोऽभिधीयते। तेनार्थदोषत्वम्। जरद्व इति। कम्बलपादुकाभ्यामिति लक्षणे तृतीया। न च ताभ्यां वृद्धोक्षस्य संबन्धः। कर्थ च तस्य महलानां धवलादीनाम्। 'मद्रकाणाम्' इति पाठे गीतकविशेषाणां या संगतिः, कथं वा पुत्रकामायास्तत्प्रश्नसंसर्ग:, कर्थ च राजनिति संबोधनं घटते, पुत्रकामायाथ रुमालवणार्थप्रश्नः । रुमा लवणाकरः। तथा च प्रयोग :- 'रुमाधास- कान्तादिलवणात्मवद्' इति॥ व्यर्थमाहुर्गतार्थ यद्यच स्यान्निष्प्रयोजकम् ॥४७॥ यथा- 'आहिषातां रघुव्याध्रौ शरभक्जाश्रमं ततः । सामहौषीत्तनुं वहौ दृद्टा तौ रामलक्ष्मणौ ॥ ५१॥ अत्राहिषातां दष्ट्ेत्येताभ्यामेव ताविति, रघुव्याघ्रावित्यनेनैव राम- लक्ष्मणाविति, तनुमित्यनेनैव स्वामिति, अहौषीदित्यनेनैव वहाविति, गम्यत इति गतार्थत्वम्। न च शरभन्ाश्रमगमनं तनुहोमो वाग्रतः कथाशरीरोपयोगीति निष्मयोजकत्वम्। अतोडयं व्यर्थनामा वाक्यस्य
Page 130
१ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ३७
महावाक्यस्य च दोषो भवति। आर्थ्या च वृत्त्या लब्घस्य शास्त्रेति- हासादौ शब्दवृत्त्या भणनमपौनरुत्तयायेत्यर्थपुनरुक्तेर्मिद्यते।
व्यर्थमिति। विज्ञातो वा विगतो वार्थोडभिधेयं प्रयोजनं यस्य तद्यर्थ स्वतन्त्रं च दूषणमिति वैशेषिके वक्तव्यम्। तथा हि-आहिपातामिति। अंहेर्गतिकर्मणो लुडि रूपम्। स च प्राचुर्यप्रयोग: प्राप्यवच्छिनं व्यापारप्रचयममिधत्ते। तथा चार्थसिद्धायां प्राप्ती शब्देनोपादानमनुचितं लोकानुसारेण काव्ये दशिशाक्षुष एव ज्ञाने प्रयुज्यते। यथा-'मया तावदृष्टो न खल कलिकन्दर्पनृपतेर्गुणैस्तुल्यः कोऽपि कचिविदपि किमश्रावि भवता। इति प्रश्नं श्रुत्वा क्णितमिव कर्णान्तिकमगान्मृगा- क्षीणां चक्षुथदुलभवता चान्ततरलम् ।' यथा वा-'नैवादशि न चाश्रावि फलं मलयभूरुह: ।' चक्षुथ प्राप्तमेव गृहातीत्यर्थलब्धायां प्राप्ती कथं शब्देनोपादानम् । तदिदमुक्तम्-एताभ्यामेवेति। रघुव्याघ्रादिप्रकरणादिकमासाद विशेषपर्यवसायि योगिकत्वान्न तु विशेष एव शक्कम्। 'उपगम्य रघुव्याघ्रः कच्छभूभागचारिणीम्। लुलमे मुनिधेनुं तां वेलामिव महार्णवः II' इति महर्षिप्रयोगात्। एतेन पुष्पवदा- दिपदवद्चनमेदोऽप्यपास्तः। एवं च प्रकरणादिना रघुव्याघ्रपदं रामलक्ष्मणपर- मेवेति पूर्वार्धे तयोरेव प्रकान्तत्वादुत्तराषें सर्वनाम्रा परामर्शो युज्यते, न तु खश-
व्युत्पन्नम् । यथा-'करी धुनाना नवपह्वाकृतीर्वृथा कृथा मानिनि मा परिश्रमम्।' इति शब्दान्तरसंनिधाने तु कचित्ताद्रूप्यावगमो भवति। यथा-'उमास्तनोज्जेद- मनुप्रबृद्धो मनोरथो यः प्रथमं बभूव। तमेव मेनादुहितु: कर्थचिद्विवाहदीक्षातिलकं चकार II' तदिहान्यस्यानुपादानाच्छरभसंबन्धिन्येव तनुः प्रतीयते। जुह्ोतिथ वहयाधारकमेव हविर्द्रव्यत्यागमभिधत्ते तेन 'वहौ' इत्यपि न वाच्यम्। गतार्थ- शब्दं व्याचष्टे-गम्यत इति। अस्मिनेवोदाहरणे निष्प्रयोजनत्वमाह-न चेति। शरभज्ञाश्रमगमनं सनुहोमथात्र वाक्यार्थद्यं न प्रयोजनवत्। अस्य वाक्यस्य चरितार्थत्वात्। कि प्रयोजनान्तरगवेषणयेत्यत आह-अत इति । यद्वाक्यपोषणा- द्नौपयिकपदमप्रयोजकवचसा प्रागुक्त तथा च प्रबन्धायर्थपोषपर्यवसायि वाक्यमेव। इहाप्यवाच्यवचनस्य स्फुटत्वात्। न चाश्रमगमनतनुहोमी करिष्यमाणवीररसोचित- कथाशरीरे कामपि शोभामात्रामर्पयत इति वाक्यस्य महावाक्यस्य चेति यथासंख्य- मन्वयः। कथ पुनर्गतार्थ प्रसाधितस्पेत्यादेरर्थपुनरुकाद्भिद्यत इत्यत आह-आर्थ्या
Page 131
३८ काव्यमाला।
चेति। शव्दवृत्त्येवावगतस्य शब्दवृत्त्या पुनरुक्तम्। अर्थतो लब्धस्य शब्दवृत्त्या भणनमित्येक: प्रकारः । अर्थतो लाभं व्युत्पाद्यति-शात्रेति। अस् रघुकुलमुवः शरभन्जाश्रमगमनमितिहासाचक्षुषः प्राप्तस्यैव ज्ञानजनकत्वं शास्त्रात्। शरभन्गसंब- न्धिन्येव तनुर्लोकव्युत्पत्तेस्तेन नियमेन हार्थतः प्राप्तिर्भवतीत्यभिप्रायः ॥ उक्त्यभिन्नार्थमेकार्थ यथा- 'प्रसाधितस्याथ मुरद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतम् । वपुष्यशेषेSखिललोककान्ता सानन्यकान्ता हुरसीतरा तु॥।५२।' इत्युक्तैकार्थमेवाह- 'कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य । आलिङ्गिताशेषजना बभूव सर्वान्रसञ्चिन्यपरैव लक्ष्मीः ॥५३।' अनयोः श्ठोकयोरभिन्नार्थमेकं वाक्यं महावाक्ये दुष्यति। उत्त्यमिन्नार्थमिति। वाक्यान्तरोक्यभिन्नस्तात्पर्यार्थों यस्य तत्तथोक्तम्। तथा हि-'प्रसाधितस्य- इत्यादिश्लोके ऋेषोपहितेन व्यतिरेकेण काप्यपूर्वा कृष्णस्य लक्ष्मीखत्काले बभूवेति तात्पर्यार्थः। तेनैव प्रकारेण 'कपाट-' इत्यग्रि- मश्लोके स एवास्ति। तुल्यार्थत्व उपादानं भिन्नार्थत्वेऽपि। तदिदमाह-अनयोः ोकयोरिति। महावाक्ये श्ोकद्वयरूपे एकम्, अन्यतरद्ुष्यति। हेयं भवतीत्यर्थः ॥ संदिग्धार्थ ससंशयम्। यथा- 'मनोरथप्रियालोकरसलोलेक्षणे सखि। आरादृत्तिरियं माता न क्षमा द्रष्टुमीदृशम् ।। ५४॥' अत्रारात्प्रभृतिशब्दानामुभयार्थत्वान्माता द्रक्ष्यति न वेति संदिग्धम्।। संदिग्धार्थमिति। शब्दसरूपनिक्वयेऽपि वाक्यार्थों दोलायित इत्यर्थदोष- त्वम् । तथा हि-मनोरयेत्यादी मनोरथे यः प्रियो वहभस्तदालोकरसेन लोले- क्षणे चपललोचने तव मातेयमारादृत्तिर्दरवर्तिनी। अतो नैताइशं सानुरागाना- जनयोग्यं दर्ट क्षमा इति व्यवस्थापनाभावलोकमितुं शक्ता ततो निःशङ्डमालोकखेति
Page 132
१ परिच्छेद: 1] सरस्तीकण्ठाभरणम्। ३९
वाक्यार्थ उत्तेयमाराइृत्तिः समीपदेशवर्तिनी। 'आराह्रसमीपयोः'। तथा चेदृशं कुलाइनानुचितं चारित्रखण्डनं दरहु न क्षमा न सहिप्णुरतोमानयनचापलं का्षीरिति। नानार्थपद प्रक्षेपात्साधकवाधकप्रमाणाभावाच संदिवत इत्याह-अत्रा- रात्म्रनृतिशब्दानामिति। न च मिथो विरोधिनोरेकत्र विवक्षा संभवति। न चास्ति प्रकरणादिकमेकनियामकं । न च मातुः प्रकोपशक्कया प्रियबिलोकनरसोत्काया मनोरथभह्ो न भवतील्यर्थः। वाक्यं यत्तु क्रमभ्रष्टं तदपक्रमसुच्यते।। ४८ ॥। यथा- 'काराविऊण खउरं गामउलो मज्जिओ अ जिमिओ अ। णक्खत्ततिहिवारे जोइसिअं पुच्छिउं चलिओ॥ ५५ ॥' [कारयित्वा क्षौरं आ्मप्रधानो मजिजितश्च भुक्तवांश्। नक्षत्रतिथिवाराञ्यौतिषिकं प्रहुं चलितः ॥] अत्र क्षुरकर्मणोऽनन्तरं नक्षत्रादिप्रश्नादिदमपक्रमम् ।। वाक्यं यत्विति। कारयित्वा क्षीरं गामउलो आ्मप्रधानपुरुष इति देशीयाः। आमेऽपि वा यः कुटोऽव्युत्पनः । मज्जिओ अ सुल्ातथ जिमिओ अ भुक्तबांध ततो नक्षत्रं तिधिवारी च ज्यौतिषिकं प्रषुं चलितः। तिथिवारज्ञानानन्तरं श्षुरकर्म, ततः स्नानभोजने, इति लौकिक: क्रमस्तस्प विपर्यासो व्यक्त एव श्रुतिबचनात्। क्रियमा- ण्रेडपि रचनावैपरील्येन क्रमअ्रंशः समाधीयत इति नासौ शब्ददोषः। अत्र पूर्वार्धोपा- त्तानां क्रमो न विपर्यस्तः, किंतु क्षौरोत्तराधों क्तयोरित्याह-अन्र क्षुरकर्मण इति॥। जात्याद्युक्तावनिर्व्यूढं खित्रमाहुर्महाधियः । यथा- 'वेवाहिऊण बहुआ सासुरअं दोलिआइ णिज़न्ती। रोअइ दिअरो तं संठवेइ पास्सेण बचन्तो ॥। ५६ ॥' [विवाह वधू: श्राशुरकं दोलिकया नीयमाना। रोदिति देवरस्तां संस्थापयति पार्शेन ब्जन् ॥] अत्र प्रकान्तस्य नवपरिणयवतीसवरूपभणनस्यानिर्व्यूढत्वात्िवन्नत्वम्।।
Page 133
80 काव्यमाला।
जात्यादीति। वाक्यार्थो द्विविध :- खवतःसंभवी, कविप्रौढोक्तिनिर्मितथ। तत्रासति विशेषहेती यज्जातीयमर्थ बुद्धा व्यवस्थाप्य वचनोपक्मस्तज्जातीयसेव समस्तवाक्यनिर्वाहो युक्तो न त्वन्तरेण परित्यागेन मेदः। उपकान्तनिर्वाहाशको लोके खिन्न इत्युच्यते। तदिदमुक्तम्-जात्यादीति। आदिपदेन सतःसंभविवि- शेषाणामुपमादीनां कविप्रीडिनिर्मितानां च रूपकादीनां परिग्रहः। विवाह नववधू: सामुरअं श्वशुरगृहं दोलिकया नीयमाना रोदितीति सतःसंभवी । नवपरिणीतास- भावलक्षणार्थस्तावदुपकान्तस्तथा सति यो जन्माभ्यस्तपितृगृहवियोगवेदनादूनमा- नसाया अत्यन्तापरिशीलितेन देवरेण संस्थापनप्रकारः स न जाती निविशते । परि- झीलितभर्तृकुलाया कुलायां वा। तस्पौचिल्यात्तस्या एव हि किंचन वक्तव्यं भवती- ल्याह-अत्र प्रकान्तस्येति। यत्सर्वलोकातीतार्थमतिमात्रं तदुच्यते ॥ ४९ ॥ यथा- 'भृक्रेण कलिकाकोषसथा भृशमपीड्यत। ववर्ष विपिनोत्सङ्ले गोष्पदपं यथा मधु ॥ ५७ ॥ अत्र कलिकाकोषे गोष्पदप्रमधुवर्षस्यासंभवादतिमात्रत्वम्।। यत्सर्वलोकेति। गोष्पदप्रमिति पूरेणिजन्ताद 'वर्षप्रमाण ऊलोपध्ास्यान्य- तरस्याम्' इति णमुल, ऊलोपक्च। कलिकामकरन्दपरिणामस्यतावतो लोके न प्रसिद्धिः । न चैतत्वित्रमेव । कलिकाकुसुमस्यानुपक्रमात्, किं तु स्रूपत्रमा- लोकमर्यादातिरिक्तवृत्तमुपात्तमिति पृथगेव दोषः ॥ यत्तु क्रूरार्थमत्यर्थ परुष तु तदुच्यते। यथा- 'खाहि विसं, पिअ मुत्तं, निज्जसु मारीअ, पडउ दे वज्जम्। दन्तक्खण्डिअथणआ खिविऊण सुअं सबइ माआ।।५८॥ [खाद विष, पिच मूत्रं, नीयस्व मार्या, पततु ते बज्रम्। दन्तखण्डितस्तनी क्षिस्वा सुतं शपति माता ॥ ] अत्र खाद विषमित्यादीनां करार्थानामभिधानात्पारुष्यम्।।
Page 134
१ परिच्छेद: I] सरसतीकण्ठाभरणम्। ४१
यस्विति। 'खाद विषं, पिब मूत्रं, नीयख मार्या, पततु ते वज्रम् इत्थं माता पुत्रमाक्ोशति। किं कृत्वा। क्षि्वा भूमी निरस्य। कुतः । दन्तखण्डित- सनी। यतो बालो दन्तैर्मातुः सनं दशतीति जातिस्तस्याः पुनरेवंविधं परुषाभि- धायित्वमनुचितम् । अतिपारुष्यमेव चात्र विरसताहेतुः । तेनातिमात्राद्वेदः ।। अप्रस्तुतरसं यत्स्याद्विरसं तन्निगद्यते ॥ ५० ॥ यथा- 'तव वनवासोऽनुचितः पितृमरणशुचं जहीहि किं तपसा। सफलय यौवनमेतत्सममनुरक्तेन सुतनु मया ॥ ५९ ॥ अत्र पितृमरणसंतप्तायाः संभोगप्रवर्तनमप्रकृतरसत्वाद्विरसम् । अप्रस्तुतेति । अप्रस्तुतः प्रस्तावमन्तरेण सूचितो रसो यत्र तत्तथा। एक- रसग्रक्मे हि विरोधिरसान्तरप्रस्ताव एव क्रियमाणो नौचित्यवान्। न चौचित्यम- न्तरेण रसस्य पदसंबन्धः संभवति। यदाह-'अनौचित्याहते नास्ति रसभज्गस्व कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा II' इति। तब वनवास इत्यादी पितुमरणानुभवप्राप्तशोकप्रकर्षायाः शकारप्रस्तावना विरसायते। सा हि खभावत एव करुणेन सहैकवाक्यसमावेशविरोधिनी। न चैकस्य बाध्यत्वमत्रभावो वावग- म्यते। नाप्युभयोरन्यगुणीभावोऽवगम्यते। येनायं विरोधः समाधीयताम्। युक्ति- रत्र विदग्धैव। अर्थस्तु रसात्माविरोधेन पदं बभ्नाति ततः कान्तिविपर्ययाद्वेदः। न च करुणोक्तिरुपकान्ता यतस्तदनिर्वाहे खेदसंभावना स्यात्। किंतु पितृमरणशुचं जहीहीलयनेन शोकाविष्टायां शाजारप्रस्तावना। तथा च मिन्नमेव दुष्टतायीज तदेत- स्सर्वमपि संधाय व्याचष्टे-अन्रेति॥ इदानीमनौचित्यरूपदूषण प्रस्तावः। अर्थालंकारेपूपमाप्रधानमिति प्रसिच्या तस्या- मेवोपलक्षणतयानीचित्यं प्रपमयति- हीनं यत्रोपमानं स्यात्ततु हीनोपमं स्मृतम् । यथा- 'कचिदग्रे ऽप्रसरता कचिदाशुत्य निन्नता। शुनेव सारज्ञकुलं त्वया भिन्नं द्विषत्कुलम् ॥ ६० ।।' अत्र शौर्यशालिनः शुनोपमितत्वाद्धीनोपममिदम् ।।
Page 135
१२ काव्यमाला।
हीनमित्यादि। हीनमपकृष्ठमसज्वातीय्र ुप मा ना मित्यु प्र म न प्रस्रिद्धा विशेष उपमेये प्रतिबिम्बकल्पाथ प्रतीयन्त इत्युक्तम्। उत्कृष्टजातीयस्योपमेयस्य हीनजा- तीयेन सामान्यमभिधीयमानं शाब्दन्यायेन बोधयदनुचितमेव भवति। यथा- 'रणाश्वमेधे पशुतामुपागताः' इति। नन्वत्र रूपकबलेन वर्णनीयस्य पशचुतावगम्यत इति युक्तमनौचित्यम्। कचिदत्र इत्यादी प्रकृतोदाहरणे तु कथम्। नहत्र प्रस्तुतो- पश्छोकस्य सारमेयतावगम्यते अग्रे प्रसरणमाप्ठत्य निहननं च सादृश्यमुपात्तमुचित- मेवेति नेतत्। तत्त्वप्रतिबिम्बे सादृश्यप्रतीतिरपि शब्देन क्रियमाणा लोके कान्ति प्रति पुष्णाति। न हि कदापि हीनेन सादश्योक्ती वर्णना सजीवा प्रतीयते। प्रती- तिमात्रपरमार्थ च काव्यदर्शनमिति॥ तदेव यस्मिन्नधिकं तद्भवेदधिकोपमम् ॥५१॥ यथा- 'अयं पद्मासनासीनश्चक्रवाको विराजते। युगादौ भगवान्ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥ ६१॥ अत्र चक्वाकस्य जगत्ष्ट ्रह्मणोपमितत्वादधिकोपममिदम् । तदेवेति। हीनेनोत्कृषं यथा नोपमीयत इति लोकमर्यादा तथोत्कृष्टेन हीनम्। तथा हि-चकवाकोपमितिमनुसंदधतां विशेषावगतिविधुराणां च सहृदयानां प्रतीतिः स्वलन्ती जनयत्येव वैरस्यमिति सूक्ष्मेक्षिकया दूषणम्॥
यच्चत्तुल्योपमानं तद्दन्त्यसदशोपमम् । यथा- 'णमह हरं रोसाणलणिद्द्धमुद्धमम्महसरीरम्। वित्थअणिअम्बणिग्गअगङ्गासोत्तं व हिमवन्तम् ।। ६२।।' [नमत हरं रोषानलनिर्दग्धमुग्धमन्मथशरीरम् । विस्तृत नितम्निर्गतगङ्गास्त्ोतसमिव हिमवन्तम् ॥] अत्र कोपानलनिर्दग्वमुग्धमन्मथशरीरस्य हरस्य नितम्बनिर्गतसरोतसा हिमवद्विरिणा सहासादृश्यादिदमसदशोपमम्। १. 'यदतु' इति मूळपुस्तकपाठ :-
Page 136
१ परिच्छेद: I] सरखतीकण्ठाभरणम्। ४३
यस्विति। यद्पि बलवत्वादिना प्रतीयमानं हिमबङ्गवतोरसि्ति सादश्यम्, तथापि वाच्योपमात्रमेणायं निबन्धः, सा च न संपन्ना, नहि रोषेण विद्ग्धमन्म- यशरीरदाहो विस्तृतनितम्बनिर्गतगज्ञास्त्रोतःप्रतिबिम्बभूतः । धातुरजरजितो गङ्गा- प्रवाहोऽभिमतस्य भवति ललाटनेत्राभिज्वालाप्रतिबिम्बमित्यपि न वाच्यम्, येना- न्धत्वप्रसभ्ञात्। नितम्बसंबन्धोकतिश् न संगता स्यात्। कर्थं च मन्मथशरीरदाहः प्रतिबिम्बायत इत्याशयेन व्याचष्टे-अन्रेति। विशेषणयोर्विम्बप्रतिबिम्बभावाभावे विशिष्टयोरुपमानं संभवतीति मत्वा विशेषणद्यमदोषायैवेति व्याख्यातवान्।। इदानीं कविसमयबहिर्भूतत्वेनोपमानीचितीमाह- अग्रसिद्धोपमानं यदप्रसिद्धोपमं हि तत् ॥ ५२॥ यथा- 'कुमुदमिव मुखं तस्या गौरिव महिषः शशीव काव्यमिदम्। शरदिव विभाति तरुणी विकसितपुलकोत्करा सेयम् ॥ ६३ ॥' अत्र कुमुद मुख योर्गोमहि पयोः काव्यशशिनोश्र प्रतीयमाने शरत्तरुण्योश्र विधीयमाने सादृश्ये उपमानोपमेयस्याप्रसिद्धत्वादप्रसिद्धोपममिदम्। अप्रसिद्धेति। कमलमुखयोरिव कुमुदमुखयोर्गोंगवययोरिव गोमहिपयोः काव्यशब्दयोरिव काव्यशशिनोरस्ति सादश्यं सौरभादिकमेवानुपात्तमपि प्रसिद्धतया प्रतीयमानम् । शरत्तरुण्योस्तु न तथा प्रसिद्धमिति विकसितपुलकाङ्करा भातीत्येता- भ्यामुपात्तम् । पुलक इवाङुरा इति तत्राशयात्। विशिष्टभानस्य च दयानुगतत्वे- नैव प्रतीयमानत्वात्तथापि पद इवालंकारेऽपि कविभिरप्रयुज्यमानत्वमेव दोष इति व्याचष्टे-अन्नेति। प्रतीयमान इति। इवशब्दस्य द्योतकमात्रत्वात्। अभिधीय- मानं व्याख्यातम्।। वकताविशेषविशिष्टस्पैवार्थस्य काव्यकोटिनिवेशादवको हेय इत्याह- यदलंकारहीनं तन्निरलंकारमुच्यते। यथा- 'कोला खणन्ति मोत्थं, गिद्धा खाअन्ति मउअमंसाईं, । उलुभ हणन्ति काए, काआ उलुए वि वाअन्ति ॥ ६४ ॥'
Page 137
४४ काव्यमाला।
[कोलाः खनन्ति मुस्ताः(न्), गृधराः खादन्ति मृतकमांसानि। उलूका अन्ति काकान्, काका उलूकानपि वायन्ति ॥] अत्र कोलादेः स्वरूपाद्यनभिधानाज्ात्याद्यलंकारासंभवे निरलंकार- नामायं वाक्यार्थदोषः । सविशेषणाद्गोरपत्यमित्यादेर्वाक्यदोषाद्विद्यते॥ यदिति। वकताव्यतिरेकेऽलंकारसामान्यमेव न स्यादिति निरलंकारमित्युक्म्। वायन्ति क्षिपन्ति सादन्ति। 'वी गतिव्याप्तिप्रजनकान्ससनखादनेपु' इति घात्व- नुसारात्। नन्वस्ति कोलादिस्रूपमत्र। ततो जात्यलंकारेण वकत्वमाक्षिप्यते। विशेषस्य च सामान्यमान्तरीयकत्वात्कथमुच्यते निरलंकारमिल्यत आह-अन्नेति। सं रूपं चमत्कारकारि कविप्रतिभामात्रप्काशनीयं रूपं तदेवालंकारकक्षामघिशेते। न चात्र तथा किचिदभिहितमतो न जात्यलंकारः। एवमन्योऽप्यलंकारो नास्त। क्थं तर्हिं वक्रताभावरूपदीर्घपुच्छ इत्यादे: शब्ददोपाद्विद्यते तदाह-सविशेषणा- दिति। तत्र विशेषणप्रयोगे शब्दानामेव वक्ताव्यतिरेकेणापवाद इति शब्ददूप- णमिह तु न तथा। कि तूक्तमेव खरूपं न वक्रमिति वाक्यार्थ एव दुषः ॥ अश्लीलमिति निर्दिष्टमश्चीलार्थप्रतीतिकृद् ॥५३॥ यथा- 'उद्यतस्य परं हन्तु स्तब्धस्य विवरैषिणः । पतनं जायतेऽवश्यं कृच्छ्रेण पुनरुन्नतिः ॥ ६५ ॥' अत्रोद्यतस्य परं हन्तुमिति संभोगारम्भविषया, स्तब्घस्य विवरैषिण इति वराङ्विषया, पतनं जायतेऽवश्यमिति रेतोविसर्गविषया, कृच्छेण पुनरुन्नतिरिति नष्टरागप्रत्यानयनविषया अक्लीलवाक्यार्थविषया प्रती- तिर्भवति।। अन्लीलमिति। उद्यतस्थेति। परमन्यं हन्तुमुद्यतस्य विवरैषिण इति प्रमा- दकतावधानस्य सब्धस्यात्मन्युत्कर्षाभिधानेनान्यानवधीरयतः पतनमावश्यकमुद्रमः कृच्छ्रादिति संसर्गोडभिमतः । एषामेव पदार्थानां संसर्गान्तरमश्ठीलमेवेल्याह- अत्रोद्यतस्पेति।-एतेन पददोषाद्वेद उच्कः।। देशकालादे: काव्यान्नत्वात्तद्विरोघेनार्थों दुष्टः । विरोधथ बाधः। स प्रमाणेनैव ततो लोकादिविरोधस्पालंकारसमयसिदस्य प्रमाणविरोधपर्यवसायित्वं विवक्षभाह-
Page 138
१ परिच्छेद: I] सरख्तीकण्ठाभरणम्। ४५
विरुद्धं नाम तद्यत्र विरोधस्त्रिविधो भवेत्। प्रत्यक्षेणानुमानेन तद्वदागमवर्त्मना॥ ५४॥ यो देशकाललोकादिप्रतीपः कोऽपि दृश्यते। तमामनन्ति प्रत्यक्षविरोधं शुद्धवुद्धयः ॥ ५५॥ तत्र देशविरोधो यथा- 'सुराष्ट्रेष्वस्ति नगरी मथुरा नाम विश्रुता। अक्षोटनारिकेराढ्या यदुपान्ताद्रिभूमयः ॥ ६६॥' अत्र सुराष्ट्रेषु मथुरा नास्ति । तत्पर्यन्तादिभूमिषु चाक्षोटनारिकेरा- णामभावात् । देशेऽद्विवनराष्ट्रादिरित्ययं देशकृतः प्रत्यक्षविरोधः ॥ विरुद्धमिति। तत्र देशकालादौ प्रत्यक्षत एव वर्ण्यमानस्याभावो निश्चीयते इति देशादिविरोधः प्रत्यक्षविरोधः । शूरसेनेषु मथुरा न सुराष्टेपु। तत्पर्यन्त- भूमिष्वक्षोटा नालिकेरा वा न संभवन्ति । अद्रीणां कर्थ देशत्वमित्यत आह-
कालविरोधो यथा- 'प्मिनी नक्तमुन्िद्रा स्फुटत्यहि कुमुद्वती। मधुरुत्फुल्लनिचुलो निदाघो मेघदुर्दिनः ॥ ६७ ॥' अत्र पद्मिन्या नक्तं कुमुद्वत्या अहि मधौ निचुलानामुनिद्रत्वाद्य- भावान्निदाघस्य चामेघदुर्दिनत्वात्। कालो नक्तं दिनर्तव इति काल- कृतोऽयं प्रत्यक्षविरोधः ॥ पग्मिनीति। नक रात्री। मधुर्वसन्तः । निचुला हिज्जलाः । ते वर्षासु पुष्प्यन्ति न वसन्ते । यद्यपि कालस्वरूपमप्रत्यक्ष तथापि तदुपाधीनां व्यवहाराक्तेव प्रत्यक्षता चेलयाह-कालो नकं दिनर्तव इति।। लोकविरोधो यथा- 'आधूतकेसरो हस्ती तीक्ष्णशृङ्गस्तुरङ्गमः । गुरुसारोऽयमेरण्डो निःसार: खदिरद्रुमः ॥ ६८ ॥'
Page 139
४६ काव्यमाला।
अत्र हस्तिहयैरण्डखदिराणां केसरादिसद्धावस्य प्रत्यक्षेणानुपलम्भात्। जङ्रमस्थावरो लोक इति लोककृतोऽयं प्रत्यक्षविरोघः ॥ आधूतेति। अन्ते प्रत्यक्षविरोधशब्दार्थ व्याचष्टे-प्रत्यक्षेणानुपलम्भादिति। कथमयं लौकिकविरोध इत्यत आह-जन्मेति। जन्नमस्थावरं जीवच्छरीरं लोकः । तत्र जन्नमं गवाश्वादि स्थावर लतावृक्षादि राष्ट्रादावेव देशपरिभाषा इदं प्रकारा- न्तरेण देशशब्देनाभिधीयते। युक्तयौचित्यप्रतिज्ञादिकतो यस्त्विह कथ्चन। अनुमानविरोध: स कविमुख्यैर्निगद्यते ॥५६॥ तत्र युक्तिविरुद्धं यथा-
कस्स मणं णाणन्दइ कुम्मीपुट्टट्टिअं कमलम् ॥ ६९ ॥' [सुरभिमधुपानलम्पटभ्रमरगणाबद्धमण्डलीबन्धम्। कस् मनो नानन्दयति कूर्मीपृष्ठस्थितं कमलम् ॥] अत्र कूर्मीपृष्ठे कमलोद्गतेरयुक्तियुक्तत्वाद्युक्तिविरुद्धमिदम् ।। युक्कीति। सामान्यतस्तावदनुमानविरोधो यत्प्रमाणाभावः। नहि प्रमेयाभावे प्रमाणं प्रतिद्धम्। तद्यमर्थो युक्ति: प्रमाणम्। आधूतकेसरेत्यादी उदाहरणे क्चिदेव व्यक्तिविशेषे केसरादिसंबन्धग्रतिपादनं कथमन्यथा तेषामेरण्डं निर्दिशति। ततो भवति प्रत्यक्षेणव विरोधः । इह तु न तथा। नहि विशेषतः कापि कूर्मपृष्ठव्यक्ति- रस्तीति सामान्याकारेण विवक्षितम्। ततथ कमलजाते: पङ्चजप्रभवाया एव निय- यात्कूर्म उृष्ठादुद्गमे न कश्िवित्म्रमाणं कदापि कस्याप्यवतरतीत्याशयवान् व्याचटे- अन्रेति। अयुक्तियुक्तत्वादिति। युक्ते: प्रमाणत्वेनासंबद्धत्वादित्यर्थः ।। औचित्यविरुद्धं यथा- 'पट्टंसु उत्तरिज्जेण पामरो पामरीऍ परिपुसइ। अइगरुअकूरकुम्भीभरेण सेउल्लिअं वअणम् ॥ ७० ॥' [पट्टांशुकोत्तरीयेण पामर: पामर्याः प्रोञ्छति। I अतिगुरुककूरकुम्मीमरेण खेदार्दितं वदनम् ॥]
Page 140
१ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ४७
अत्र पामरस्य पट्टांशुकोत्तरीयाभरणानौचित्याद् औचित्यविरुद्धमिदम्।। औचित्यविरुद्धमिति। औचित्यं योग्यता तस्य परामृश्यमानस्य विवक्षित- विपरीतपर्यवसानमन्योऽनुमानविरोधः । तथा हि-पद्टांगुकोत्तरीयेण पामरः पामर्या प्रोञ्छति। अतिगुरुककूरकुम्भीभरेण खेदार्दितं वदनमित्यत्र पूर्ववत्संबन्ध- श्राहकप्रमाणाभावः । कदाचिद्ाजप्रसादादिना तथा संभवात् । कि तु पामरीचित्य- प्रतिसंधाने पद्टाशुकावगुण्ठनमनुचितम्। विदग्धनेपथ्यपरित्रहादिनागरवृत्तापरिचय एव पामरत्वम्। ततथायमथां भवति-पट्टांुकसंबन्धायोग्येयं पामरत्वादिति। कूरं भक्तम्। कुम्भी कलशी ॥ प्रतिज्ञाविरुद्धं यथा- 'यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता। माता च मम वन्ध्यासीत्सराभोऽनुपमो भवान्।। ७१ ॥' अत्र सयं वक्तुरेव 'यावजीवमहं मौनी' इत्यादिपदानामुत्त्या प्रतिज्ञाविरोधात्प्रतिज्ञाविरुद्धमिदम् । प्रतिज्ञाविरुद्धमिति। अभ्युपगमवाक्यं प्रतिज्ञा। यथा-'ययदादिशति खामी तत्करोम्यविचारयन्' इति। साध्यनिर्देशब्न-'अयं स रशनोत्कर्षी पीन- नविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविलंसन: करः ॥' इति। द्यमपि प्रति- ज्ञापदेनाभिमतम् । तत्रादये 'यावजीवमहं मोनी' इत्युदाहरणम्। अव्याहारो मौनम्। तदभ्युपगमवाक्येनैव बोध्यते। तथा हि-नायं मौनी वचनवत्त्वादित्य- भ्युपगम्य मौनाभावपर्यवसन्नमिति तृतीयोऽयमनुमानविरोधः। द्वितीयपक्षकक्षीकर- णेन चतुर्थोदाहरणे 'ब्रह्मचारी च मे पिता, माता च मम बन्ध्या' इति वक्ता यस्यौ- रस: सुतः स पितृपदेनाभिमतो न च तस्य ब्रह्माचारित्वं संभवति। माता जनन्ये- वाभिधीयते न च तस्या वन्ध्यात्वं संभवति। परस्परव्याघातो विरोधः । अयं च पच्चमप्रकारो यव्यापकद्वारा विरोधः । यथा-स्मराभोऽनुपम इति। नहि स्मराभत्वं लोके प्रसिद्ध किंतु स्रतुल्यता वदन सोपमानत्वमभ्युपगच्छति। तच्चानुपमत्वेन विरुद्वम्। ततो व्यापकविरोधोऽयम्। यथा-वहिरनुष्ण इति। आदिग्रहणादृष्टा- न्तद्वारकोऽनुमानविरोध: संगृहीतः ।।
Page 141
8८ काव्यमाला। धर्मार्थकामशास्त्रादिविरोधः कोडपि यो भवेद। तमागमविरोधाख्यं दोषमाचक्षते बुधाः ॥५७॥ तेषु धर्मशास्त्रविरोधो यथा- 'असावनुपनीतोऽपि वेदानधिजगे गुरोः। खभावशुद्धस्फटिको न संस्कारमपेक्षते ॥ ७२ ॥' अत्रानुपनीतस्य वेदाध्ययनानधिकाराद्धर्मशास्त्रविरोधः ।। धर्मा्थेति। वेदाध्ययनानधिकारादिति। 'अकृतन्रतबन्धे तु गुरावुप- रते सति। नाभिव्याहारयेद् ब्रह्म खधानिनयनाहते ॥' इति धर्मशास्त्रम् ॥ अर्थशास्त्रविरोधो यथा- 'कामोपभोगसाकल्यफलो राज्ञां महीजयः । अहंकारेण जीयन्ते द्विषन्तः कि नयश्रिया ॥ ७३ ॥' अत्र महीजयस्य फलत्वेन कामोपभोगानामर्थशास्त्रकारैरननुमतत्वा- च्छत्रुविजये चाहंकारस्याहेतुत्वादर्थशास्त्रविरोघ: ॥ की कामेति। अत्र महीजयस्येति। महीजयस्य धर्म: फलमिति नीतिशास्त्रे स्थितम्। अहंकारो मान: स न शत्रुविजये साधनम् । अरिषङ्गर्गत्यागे हीन्द्रिय- जयः । तथा विजिगीषुता। तया च शत्रुपरिभव इति। यदाह-स रुराष्ट्रो विललास इत्युपक्म्य कौटिल्याचार्य: मानाद्रावणः परदारानप्रयच्छन् दुर्योघनो राज्यांशं चेति।। कामशास्त्रविरोधो यथा- 'तवोचरोष्ठे बिम्बोष्ठि दशनाड्को विराजते। पूर्णसप्तसरः सोऽयं भिन्नग्रामः प्रवर्तते ॥ ७४॥ अत्रोत्तरोष्ठे दशनाङ्कस्य कामशासतकारैरननुज्ञानात्कामशास्त्रविरोधः । भिन्नग्रामाणां च पूर्णसप्तस्वरत्वानुपपततेः । कलाविरोधेऽपि तदंशत्वा- त्कामशास्त्रविरोध एव ।। तवेति। अत्रोत्तरोष्ट इत्युपरितन ओष्ठ उत्तरोष्टमन्तरमुखं नयनान्तं च मुक्ता
Page 142
१ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ४९
चुम्बनवद्शनच्छेद्यस्थानानीति कामसूत्रम् । भिन्नग्रामरागाणामिति। भिन्नमार्गेपु स- सखराणां समवायो नोपनिबद्धः। तथा च 'प्रांशुस्तु धेवतन्यासः पश्चमर्षभवर्जितः। पह्जो दीव्यतां जा(या)तो भिजषड्ज उदाहृतः'। तमोऽप्याह-'पाडबौडविके जाती भिन्नग्राम उदाहृतः' इति। ततक् षड्चा पञ्च वा खरा भवन्ति भिन्नग्रामे न तु सप्त । कामशास्त्रविरोधप्रस्तावे कथ कलाविरोध उदाहियत इत्यत आह-तदंश- त्वादिति। गीतादिकलाचतुःपष्टेः कामान्गतया कामसूत्रकारैरुपदेशाङ्गवति तद्विरोधे कामशास्त्रविरोध इत्यर्थ: । आदिग्रहणादेवताभक्तितो मुचिर्न तत्त्वज्ञानसंपदेत्यादिकं मोक्षादिशास्त्रविरुद्धमुदाहरणीयम्।। दोषाणां प्रथममुद्देशोSयमभिसंधाय कृतस्तं विशेषसंहारव्याजेन स्फुटयति- एवं पदानां वाक्यानां वाक्यार्थानां च यः कविः । दोषान्हेयतया वेत्ति स काव्यं कर्तुमहति।५८ ।। अलंकृतमपि श्रव्यं न काव्यं गुणवर्जितम्। गुणयोगस्तयोर्मुख्यो गुणालंकारयोगयोः ॥। ५९॥ त्रिविधाश् गुणा: काच्ये भवन्ति कविसंमताः। बाह्याश्राम्यन्तराश्ैव ये च वैशेषिका इति ॥ ६० ॥ चाह्याः शब्दगुणास्तेषु चान्तरास्त्वर्थसंश्रयाः। वैशेषिकास्तु ते नूनं दोषत्वेऽपि हि ये गुणाः ।।६१ ॥ चतु विशतिराख्यातास्तेषु ये शब्दसंश्रया:। ते तावदभिधीयन्ते नामलक्षणयोगतः ॥ ६२॥ क्षेपः प्रसाद: समता माधुर्ये सुकुमारता। अर्थव्यक्तिस्तथा कान्तिरुदारत्वमुदाचता ॥६३।। ओजस्तथान्यदौरजित्यं प्रेयानथ सुशब्दता। तद्वत्समाधिः सौक्ष्म्यं च गाम्भीर्यमथ विस्तरः ॥६४॥ संक्षेपः संमितत्वं च भाविकत्वं गतिस्तथा। रीतिरुक्तिस्तथा श्रौढिरथैपां लक्ष्यलक्षणे ॥ ६५॥ ४ स० क०
Page 143
1603 ५० काव्यमाला।
तत्र गुण: सुश्लिष्टपदता क्षेप इत्यभिधीयते। यथा- 'उभौ यदि व्योत्ि पृथक्मवाहावाकाशगज्जापयसः पतेताम्। तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ७५॥' अत्र भिन्नानामपि पदानामेकपदताप्रतिभासहेतुत्वेन संदर्भस्य सु- िष्टत्वादयं श्रेषो नाम शब्दगुणः ।। एवमिति। तदेवं दोषलक्षणे वृत्ते कमप्राप्ता गुणा लक्षयितव्याः । तदेव- मोज:प्रसादादयो गुणाः । यमकादयस्त्वलंकारा इति पूर्वप्रसिद्धी सत्यां विचार्यते। किमेषां मिथो मेदनिबन्धनम्, कथ चालंकारेभ्यो गुणानां पूर्वनिपातः, रसस्य हि दोषाभावादित्रयसंस्कृत एव पदलाभ इत्यस्ति पथाद्धावे निबन्धनमिति तत्राह- अलंकृतमपीति। रसावलम्बिनो गुणाः, शब्दार्थावलम्बिनस्त्वलंकारा इति काशमी- रकाः। तदनमकम् । तथा हि-यदि काव्यस्य रसप्रधानात्मकतामाश्रित्यायं विभाग:, अलंकारा अपि तर्हिं तत्प्रवणा एव। अथ नायं नियमो यत्सर्वत्र रसः प्रधानमिति, तदात्र गुणेष्यपि कथं तदालम्बननियमः। कि चात्र प्रसादादिवत् लेषादयोऽपि शब्दार्थगता एव प्रत्यभिज्ञायन्ते तत्कथमयं विभागः । यद्यपि शब्दार्था ज्ञायन्ते, तथापि रसप्रवणा इति चेत्। किमिदं रसप्रवणत्वं, रसाश्रितत्वं तावज संभवल्ेव। रसप्रतीतिपर्यवसानं च यथाकर्थचिदलंकारेष्वपि तुल्यमित्य- विचारितरमणीयोऽयं मार्गः । लोकशास्त्रवचनातिगामी कबिद्विशेषः शोभापदाभि- उप्यो भवन्रस्मिञ्ध्रव्यशब्द: शब्दार्थी विषयीकरोति। ततथ तथाभूतशोभानि- व्यत्तिहेतवो गुणास्तदुत्कर्षहेतवस्त्यलंकाराः । यदाह-'काव्यशोभायाः कर्तारो धर्मा गुणाखवदतिवायहेतवस्त्वलंकाराः' इत्यन्ये, तदपि न। अस्य रसादिवदव्यापेः। नहि तेषां रीतिशरीरान्तर्निवेश: कैश्विदभ्युपगम्यते, तस्मादालंकारिकसमयानु- पाती लेषादयन्यतमो गुणः । जात्यादन्यतमथालंकार इति विभाग: । तत एव च शोभाकारित्वेन गुणानामप्यलंकारपक्षनिक्षेपं करिष्यति। उद्धतगुण तु स्फुटा- लंकारहीनमपि चमत्कारमावहलयेव। यथा-'का त्वं शुभे कस्य परिग्रहो वा कि वा मदभ्यागमकारणं ते। आचक्ष्व मत्वा वशिनां रघूर्णा मनः परत्रीविमुखप्रत्ति।' यतो गुणयोगो मुख्यस्ततः प्रथममुदिष्टो लक्षितवेषः । सामान्यगुणस्थिती गुणा-
Page 144
१ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ५१
न्विभजते-त्रिविधाक्ेति। शब्द: शरीरस्थानीयोऽघिष्ठेयतया प्रथमप्रतिसंधेयतया च बाहयः । ततस्तदाश्रिता गुणा अपि बातयाः । अर्थस्त्वात्मतुल्योऽधिष्ठायकतया प- शाह्त्यतया चान्तरस्तेन तदाश्रिता गुणा अप्यान्तराः । अथेदानीं येषामग्रे दोषलं सतो गुणभावः । केचिद्विशेषमासाद्यन्ते वैशेषिकाः । पूर्व दोषा अपि विशेषयोगेन गुणीभवन्तीत्यभिप्रायात्। 'माधुयौंजःप्रसादाश्त्रय एव गुणाः' इति ध्वनिकारस्य मतं निरस्पति-चतुर्विशतिरिति। परस्परसंकीर्णत्वादुपाधीनामिति भावः । न चैतद- स्मा्कं मनीषामात्रेण कल्पनमिलयाह-आख्याता इति। निष्ठाप्रत्ययेनेदंप्रथमता योत्यते। उक्तविशेषादेव शब्दगुणानां पूर्वभाव इत्याह-तेष्विति। अभिधानं द्विविधं विभागतः, लक्षणतथेत्याह-नामलक्षणयोगत इति। पद्घटनव्यवस्थितौ गुणान्तरगवेषणम्। अतः प्रथमं श्रेषलक्षणमाह-तत्रेति। शिष्टानि घटितानि पदानि यत्र तस्य भावस्तत्ता। न च घटनामात्रस्य गुणभाव इति वाङ्गयम्। सुपद शोभना घटनेत्यर्थः । शोभनत्वं घटनाया मसुणत्वमेकताप्रतिभानसामर्थ्य यद्राहां सूत्रमुर :- स्थल इति। बीजं चात्र श्रुत्यनुप्रासवत्त्वमलक्षितसंधिता च । तथा हि प्रकृतोदा- हरणे उभावित्युकारभकारावोध्यौ। यदि 'व्य' इत्याद्यन्ती वकारयकारी तालव्यौ। न चायं वर्णानुप्रासः। ईषत्स उष्ठत्वादिमेदात्। मध्ये दकारवकारी दन्तोध्यो। 'म्रि'इ- त्यन्न मकारो भकारेण, नकारो दकारेण समानश्रुतिक इत्यादि बोदव्यम्। तथा 'पृ- थक्प्रवाहौ' इति ककारस्य पवर्गगमनैकता प्रतिभासते, 'प्रवाहावाकाश' इत्यौकार- स्यावादेशेन वर्णान्तरनिष्पत्या। एवं 'पयसः पतेताम्' इत्यादावुन्नेयम्। पृथगिति पार्धदये। तेन वक्ष:स्थलदक्षिणवामभागयोर्लम्बमानो द्विसरो हार इति लभ्यते। अस्य वक्ष इति। अत्रास्येति पदेन नान्यस्य हार इत्थमनुपमो न चान्यस्य वक्ष :- स्थलमाकाशवदुन्नतविस्तीर्णमिति भगवतः सकलजगद्विलक्षणत्वध्वनिरित्याराध्याः । प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते ॥ ६६ ॥ यथा- 'गाहन्तां महिषा निपानसलिलं शकैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विश्रळ्यैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः परवले I विश्रामं लभतामिदं च शिथिलज्याबन्धमसद्धनुः ॥७६॥'
Page 145
५२ काव्यमाला।
अत्र 'गाहन्तां महिषा निपानसलिलम्' इत्यादिप्रसिद्धार्थपदोपादा- नात्मसादः ।।
प्रसिद्धार्थति । अस्यार्थ: प्रागेव विवृतः । प्रसादो द्विधा-वाच्यविषयः, प्रती- यमानविषयक्ष। तन्न प्रतीयमानविषयो यथा-'एवंवादिनि देव्यी पाच् पितुरधो- मुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥।' अत्र श्रुतावगतादेव वाक्यालजा- दयो हस्तदत्ता इव प्रकाशन्ते ॥ वाक्यविषयो द्विधा भवति। आ्रम्यैरेव ग्राम्य उप- नागरैर्वा, पदैः संदर्भनिवाहे। आद्यो यथा-'चन्द्रे कलइः सुजने दरिद्रता विकाश- लक्ष्मी: कमलेषु चञ्चला । मुखाप्रसाद: सधनेषु सर्वदा यशो विधातु: कथयन्ति खण्डितम् ॥I' द्वितीयमुदाहरति-गाहन्तामिति। अत्र प्रथमपादे गाहन्तां महिषा इति आम्यम्। निपानसलिलमित्युपनागरम्। तैरिति आ्म्यम्। मुहुरित्युप- नागरम् । ताडितमिति आ्राम्यम् । द्वितीयपादे कदम्बकरोमन्थशब्दावुपनागरी शेषाणि श्राम्याणि। एवं च चरमयोरपि खतो विवेचनीयम्। गाहनं विलोडनं तनिःशङमेव भवतीति विस्रम्भध्यनिः । अत एव त्रासाभावात्प्रकृतिप्रत्यापत्ती। *ह्ाभ्यां पर्यायेण जलताडनं महिषजातिः। छायाश्रयण यूथवन्धथ् मृगजातिः। चिरपरस्परवार्तानभिज्ञानाडिवा निष्पलायनेन रोमन्थोऽपरिचित इवासीत्तस्ेदानी शिक्षाक्मेण यदि परिचय: स्पादित्यभ्यस्पत्विति ध्वनिः । वराहपतिभिरिति न यादृशतादृशानामस्मन्मृगयासरम्भगोचरत्वमिति प्रकाश्यते। ननु चात्र कर्तृप्रक्रम- मेदो दूषणं कस्मान्न भवति। नैतत्। आपातशौण्डेषु परिणतिमीरुपु च महिषेषु खमावमीतेु भृगेषु न तथायं संरम्भते यथा पुनरावृत्तिचन रेषु प्रकारकोविदेषु च वराहेपु। ततथ तेषामुचितक्तियासु कर्तृतामात्रमेव न सोढवानिति सांप्रतं कर्तृ- ताभ्यनुज्ञानेन व्यज्यते । ततस्तृतीयायामीचित्यनिवेशिन्यां प्रक्रममेदोऽप्युचित एवेति व्यक्तिविवेककारादीनामपि संमतः पन्थाः । इदं चेति चकारेण चेदसमद्धनु- रारूडमवतीर्ण वा तदैव संरम्भगोचराणां भयवित्म्भाविति कोपप्रकर्षः । अत एवास्मदिति बहुवचनं सजीवम् ।। यन्मृदुप्रस्फुटोन्मिश्रवर्णबन्धविधि प्रति। अवैषम्येण भणनं समता साभिधीयते ॥ ६७ ॥
Page 146
१ परिच्छेदः I] सरस्वतीकण्ठाभरणम्। ५श
यथा- 'यच्चन्द्रकोटिकरकोरकभारभाजि बग्राम वभ्रुणि जटापटले हरस्य। तद्वः पुनातु हिमशैलशिलानिकुञ्ज- झाक्कारडम्बरविरावि सुरापगाम्भः॥। ७७॥' अत्रोपक्मादासमाप्ति स्फुटबन्घस्य निर्वाहात्समत्वम्।। यदिति। प्रतीत्यन्तेन मार्गो व्याख्यातः। अवैषम्येण भणनमित्यनेन वाग्मेद: खरेपु हस्ान्त्या:, व्यज्जनेयु वर्गान्त्या दन्त्याथ मृदवः कोमला वर्णाः । दीर्घा: खरा: व्यजनेषु णकारवर्जटवर्गरेफशपहा अदन्त्यसंयोगाथ प्रस्फुटाः । शेषाणि व्यजनानि दन्त्यसंयोगाश्रोन्मिश्रमध्यमा वर्णास्तेषामन्यतमैवणैयों बन्धनविधिसं प्रति यदवैषम्येण उपक्रमनिर्वाहादिना करणेन भणनमुक्ति: सा समता। न चेयं दोषाभावमात्रमेकजातीयवर्णपरिचयप्रबन्धप्रवेशनिर्वाहाणां सिद्धि: शक्तिव्युत्पत्तिरु- पतया प्रधानोत्कर्षपर्यवसानात्। न च दोषाभावस्यैवंरूपता केनचित्प्रतिषिद्ा। अत एव क्ेषप्रसादयोरपि गुणभावः सिद्धः । ननु रक्ताशोककुशोदरी क नुगता त्यक्त्वानुरक्त जनं नो दृष्टेति मुधव चालयसि कि वाताभिभूतं शिर: । उत्कण्ठा- घटमानषट्पद घटासं घदृटदष्टच्छदस्तत्पादाह तिम न्तरेण भवतः पुष्पोद्गमोऽयं कुतः।।' इत्यत्र वैपम्यं दोष एव स्पात्। न हात्र मुकतस्थाने स्फुटता। तस्माद्यत्किचिदेतव्। तदेवं निर्वात्यत्रविष्यात्समता त्रिरूपा भवति आम्या परुषा उपनागरिका च। तत्रोन्मिश्रप्रायसंदर्भनिवाहे प्राम्या । यथा-'पुरः पाण्डुच्छायं तदनु कपिलिस्ना कृतपदं ततः पाकोद्रेकादरुणगुणसंवर्धितवपुः। शनैः कोशारम्मे स्थपुटनिज- विष्कम्भविषमे बने पीतामोदं बदरमरसत्व कल्यति ॥' परुषा यथा-यच्चन्द्रेति। बालेन्दुमयूसमुकुलजालनिचुलितासु परमेश्वरजटावहरीपु भ्रमणाध्यासादिवाद्यापि हिमाद्रिकुशेषु झाडारिगत्राम्भ इति प्रतीयमानोत्प्ेक्षा । उपनागरिका यथा-'वसने परिधूसरे वसाना नियमक्षाममुखी पृतैकवेणिः । अतिनिष्करुणस्य शुद्धसीला मम दीर्घा विरहव्यथां व्यनक्ति ॥' अत्रास्मत्सहाध्यायिनः पूर्वार्धमेवोपनागरिकोदाहरणं मन्यन्ते। उत्तरार्धें हि विष्केत्यादिवर्णनिवेशनादुन्मिश्रत्वमेव। इयमपरोन्मिश्रा संदर्भजातिर्य त्कोमलकठोरवर्णतुल्यतया निर्वहणमिति ॥ या पृथक्पदता वाक्ये तन्माघुर्येमिति स्मृतम् ।
Page 147
५४ 1 काव्यमाला। 5
यथा- 'स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोघरोत्सेघनिपातचूर्णिताः । वलीषु तस्याः स्खलिता: प्रपेदिरे चिरेण नार्मि प्रथमोदबिन्दवः ॥७८॥' अत्र पदेषु संहिताभावात्पृथक्पदत्वेन माधुर्यम् ।। या पृथगिति। पृथगिव पदानि यत्र भासन्ते स पृथकपदः संदर्भ इत्युपमा- गर्भो बहुब्रीहिथ। तस्य भावस्वत्ता। माधुर्यमुक्तखवरूपं तच्छन्द्गतं पृथक्पद्तया विच्छियत इति। तदेव माधुर्ययुक्तम् । औचित्येन हि समासव्यतिरेक आकृष्यते कदाचिदनुद्धतो वा समासः । अनुद्धतिरनुहेखः । तदुक्तम्-'अघृत्तिर्मध्यवृत्तिर्बा माधुर्ये घटना तथा' इति। अत एव 'समासनिवृत्तिपरमेतत्' इति वामनः। कश्वित्स- मासो रसौचित्येनाकृष्टः परिभाव्यमानो मनीषिभिश्वमत्कारकारणं भवति। यथा- 'तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां क्षेमं तत्र कलिन्दशैछतनयातीरे लतावेश्मनाम्। विच्छिने स्मरतल्पकल्पनमृदुच्छेदोपयोगेडधुना ते नूनं जरठी- भवन्ति विगलजीलत्विष: पहवाः ॥I' अत्र तच्छव्दो येषां विलाससंपत्तिखभाव- लब्धप्रकर्षाणामनुभव एव साक्षीति विशेषप्राधान्यविवक्षया नसमासेनानिगमनात्। न या कापि वधूः, अपि तु गोपसंबन्धिनी कृतगोपाचारचातुरीपराधीना। नान्यत्र नीरसप्राये कचन सौहार्द किं तु विलास एव। सोऽपि न यःकक्चित्, अपि तु गोपवधूसंबन्धीत्येवं बहूनां पिण्डीभावविवक्षया समास एवोचितः । एतावतैवा- च्छेदोऽप्युचित एव । सर्वखायमानत्वात्तत्संबन्धजनितस्य विशेषस्य पृथगेवोकि- रुचिता। राधारहःसाक्षिणामित्यत्रापि समास: पूर्ववत्। यद्यपि राधासंबन्धस्य वैवक्षिकं प्राधान्यमिति न समासः प्रतिभासते तथापि यदन्यस्य राधारहसि निवेश: क्षम इति भावयन्मुहृदामित्यपहाय साक्षिणामित्युक्तवान्। साक्षी हि तटस्थ एव व्याप्रियते। तेनावश्यकर्तव्यसाक्षिताप्राधान्यविवक्षया संभवति विरोधादित्य- बसेयम्। स्थिता इति। पक्ष्मावस्थानेऽघरताडने सतनतटनिपाते वलिभन्गस्खलने नामिनिन्नप्राप्ती जलबिन्दूनां कर्तृतानिर्देशात्खाच्छन्दमुन्मीलितम्। तथा च- गीर्या बाह्यसंवेदनाभावसेन भगवद्रतोऽनुरागप्रकर्ष: प्रथमपादेन। निदाघताप- च्छिदा रजोहरणेन वसुंघरा सौरभोन्मीलनेन मयूरकेकायितादिना त्रिभुवनस्यापि
Page 148
१ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। ५५
ये चमत्कारास्पदमिति ध्वनितम्। तथाभूतानामथ संवेदने पूर्व एवाभिप्रायः । ताडितेत्याकारेण च्छेदोन्मेष: पयोधरेत्यादावोकार: । धकारतकारौ ।। अनिष्ठराक्षरप्रायं सुकुमारमिति स्मृतम् ॥ ६८ ॥ यथा- 'मण्डलीकृत्य वर्हाणि कण्ठैर्मधुरगीतिभिः । कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥७९ ॥' अत्र सर्वकोमलत्वेऽसति क्लेषविपर्ययदोषशैथिल्याभावाद्वाहुल्याद्व- र्णोनामनैष्ठुर्यात्सौकुमार्यम् ।। अनिष्ठुरेति। समस्त एव गुम्फे द्वित्राणि त्रिचतुराणि प्रस्फुटान्यक्षराणि निवेश्यन्ते स किलान्तरान्तरोपदंशन्यायेन चित्राखादपर्यवसायी मुकुमार इति प्राचां मतम्। अत एव समताया भेदः। मृद्वीकापाक: पुनरन्यादृशो बक्ष्यते। अनिषवुरे सुकुमारव्यवहारो लोके षः। मण्डलीकृत्येत्वादी प्रथमपादे मण्डेति, कृत्येति, बर्हेति अत्र संयोगत्रयम्। द्वितीयपादे ण्ठेति, मेति च संयोगद्वयमुपन्यस्य गीतिदीर्घख्वरनिवेशो रूपान्तरमादाय विशेषशोभाहेतुः। तृतीयपादे केति न इति प्रनृत्यन्तीति च दीर्घविसर्गसंयोगा इति व्यन्तरम्। चतुर्थपादे दीर्घस्वरा एवान्त- रान्तरेति सैव वासना। ननु अनिष्ठुराक्षरमयत्वं सुकुमारतेति वक्तव्ये प्रायशब्दः केन प्रयोजनेनेल्यत आह-अन्रेति। न चायमर्थगुणः स हि वाक्यार्थे धर्मिणि निरूप्यते। अयं तु पदसमुदाय इति युक् शब्दगुणेषु परिगणनम्। संमितत्वम- न्यथा भविष्यति॥। यत्र संपूर्णवाक्यत्वमर्थव्यक्ति वदन्ति ताम् । यथा- 'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ ८० ॥ अत्र वाक्यपरिपूर्णतयार्थेसमपकत्वादर्थव्यक्ति: ॥ बागर्थाविवेति। अन्न बन्दे :त्युत्तमपुरुषवचनेनैवाहमिति प्राप्तम् 'अस्मद्ुत्तमः' इत्यत्र स्थानिनीत्यभिधानात्। किमिति कर्मापेक्षायां पार्वतीपरमेश्वराविति। तावपि
Page 149
५६ काव्यमाला।
किंभूतावित्यतो जगतः पितराविति। तेन लक्ष्मीनारायणादिवैधर्म्येण नमस्कार्यत्वम्। एकशेषशब्देनैव मातृशब्दार्थ: । स्रीपुंसयोरित्यौचित्याद्वागर्थाविवेति। किमर्थ नम- स्कुरुत इस्यत्र वागर्थप्रतिपत्तये इति। तदेवं यादशो यावांथ विशेषणविशेष्यप्रका- रोऽभिमतः स सर्व एव वागित्याद्युपात्तशब्दसमुदायमात्रेण निष्प्रत्यूहमवगम्यत इत्यर्थव्यक्तिशव्दार्थव्याख्यानेन स्फुटयति-अन्रेति। अर्थसमर्पकत्वादित्यनेन शब्दगुणता व्यक्तीकृता ।। यदुज्ज्वलत्वं बन्घस काव्ये सा कान्तिरुच्यते ॥६९॥ यथा- 'निरानन्दः कौन्दे मधुनि विधुरो बालबकुले न साले सालम्बो लवमपि लबक्े न रमते। प्रियज्गौ नासकं रचयति न चूते विचरति सरंल्लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥ ८१ ॥' अत्र बन्घस्य छायावत्वेनौजवल्यं तदेव च कान्तिरुच्यते॥ यदुज्ज्वलत्वमिति। कि पुनरिदमुज्ज्वलत्वं नाम। केचिदाहुरनुप्रासबहुत्व- मिति, तदसत्-'तस्याः सुस्राव नेत्राभ्यां वारि प्रणयकोपजम्। कुशेशयपलाशा- भ्यामवश्यायजलं यथा II' इत्यादावनुप्रासबहुलता संभवति। एवंबिध हि पुराण- च्छायमामनन्ति। कान्तिविपर्ययः पुराणी छाया। यथा-'वजति गगनं महातक्या दलेन सहोपमाम्' इति। अत एवाह-'पुराणचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः' इति। तस्मादप्रहृतपदैरारम्भः संदर्भस्येव कान्तिः । तद्था-कुसुमस्य धनुरिति प्रहृतम् । कौसुममित्यप्रहृतम् । जलनिधाविति प्रह्तम् । अधिजलधीत्यप्रहृतम् । गुरुत्वमिति प्रहृतम्। गौरवमित्यप्रह्तमित्यादि। अत एव प्रहृतशङ्का। चमत्कारित्वं तु सहदाहादकत्वमस्ति हि तुल्येऽपि वाचकत्वे पदानां कशिदवान्तरो विशेषो यमधिकृत्य किच्िदेव प्रयुज्ते महाकवयो न तु सर्वम्। यथा-पह्व इति वक्तव्ये किसळयमिति। स्त्रीति वक्तव्ये कान्तेति। कमलमिति वक्तव्ये राजीवमित्यादि। एतदेव महाकविभिरुपेयते। 'कत्ते मणाम इचं सच्ं कविए सम समगोसु। ..* सीमठेउण मुस्ितम्मि सचचण वशेअ ॥' कान्तवर्णानुप्रासोऽपि कान्त एव भवतीति मत्वानुप्रासोत्कटमुदाहरति-निरानन्द इति। अस्ति कुन्दे मधु परं न कमल-
Page 150
१ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ५७
सजातीयमित्यासक्तो नानन्दमलभत । कुन्दस्पेति प्रहतम्, कौन्दमित्यप्रह्तम्। बालते बकुलकुसुमानां न मधुप्रादुर्भाव इति एतत्काले रति न प्राप्तवानिति विधुर इत्यनेन व्यज्यते। कालान्तरेऽपि साले मधुनोऽसंभवादालम्बः प्रत्याशामात्र- बन्धोऽपि न तस्यासीत्। आमोदप्रकर्षादन्तः क्षणं निपल्य रसमनासादयंत्वत्न- मनुसरतीति उवमित्यनेन ध्वन्यते । एवमुत्तरार्घेऽपि पदखरसो गवेषणीयः । उक्तमेव विशेषममिसंधाय व्याचष्टे-अन्रेति। छायोज््वल्यं कान्तिरित्वेकार्थतया लोके प्रसिद्धं तदिह यथा शब्देषु संगच्छते तथा पूर्वाचार्यप्रसिद्धया विवेचनीय- मिल्यभिप्रायः ॥ विकटाक्षरवन्धत्वमार्यरौदार्यमुच्यते। यथा- 'आरोहत्यवनीरुहं प्रविशति श्वम्रं नगैः स्पर्धते खं व्यालेढि विचेष्टते क्षितितले कुज्जोदरे लीयते। अन्तर्राम्यति कोटरस्य विलसत्यालम्बते वीरुषः कि तद्यन्न करोति मारुतवशं यातः कृशानुर्वने ॥८२॥ अत्र विकटाक्षरबन्धत्वे नृत्यद्धिरिव पदैर्यद्वाक्यरचना सा उदारता । विकटेति। विकटैरक्षरैर्बन्धो यस्य तस्य भावस्तत्त्वम्। अस्ति तावनृत्यन्तीव पदानीति सहृदयानां कचिदयें व्यवहारः । स च न निर्विषयो नाप्यस्य विशेष इति तत्प्रमाणकमेव गुणान्तरमवस्थितमिति कथिद्याचष्टे। तथा तु न कर्थचि- त्सरूपमुद्धिय दर्शितं भवति। अन्ये तु विसर्गानुप्रासादिग्रन्थिलत्वमनेनाभिमत- मित्याहुः । तदपि न। और्जित्याबहिर्भावप्रसन्ञात् । तस्मादिदमत्र वाच्यम्-विक- टानि विशालानि। प्रभूतानीति यावत्। तथाभूतान्यक्षराणि दीर्घानुखारादिरूपाणि सहृदयसंवेदनीयानि। अत एव नृत्यतुल्यता । यथा हि-नृत्येत्नानामङ्गुल्यादी- नामाकुश्चनप्रसारणकमेण रजकत्वं तथात्रापि। तथाहि-आरोहतीत्यादी प्रथमपादे आकारोकाराभ्यां प्रसारः । हत्यवेति संकोचः । नीरुह इतीकारविसर्गाभ्यां प्रसर- णम्। नगैः स्पर्धत इति विसर्गसंध्यक्षरैर्विकाशः । द्वितीयपादेऽपि प्रसारणेनोप- कम्यत इति नैव निर्वहणमन्तरान्तरवरोहक्रमो भवति। न चात्र यतीनां संनि- वेशोऽभिमतः । मारुतवशं यात इल्यनेनोन्मादरोगगृहीत इति शब्दमूलानुखान-
Page 151
५८ काव्यमाला। (सार)बलेनावगम्यते। उन्मादगृहीतोऽपि वृक्षारोहणादिकमसमजसमव्यवस्थितं च करोति। वन इत्यनेन यत्र सर्वथेव प्रतीकारासंभव इति निरकुशोन्मादचेष्टितमे- वोपबृंह्यति। नगैः स्पर्धते पर्वतोच्छायमनुकरोतीति दूरप्रसत उन्मादः। खं व्यालेढीत्यत्रापि तथैवाभिप्रायः । कि तद्यदिति न शक्यते गणयितृमुन्मादचेष्टि- तानीति प्रकाशन्तेत्वेति प्रन्थिलाविच्छेदात्। प्रसारणस्य पर्यवसानं श्वेव्यनेन प्रवि- शतीतिसंकोचः । अत एव परस्मैपदयोर्निरन्तरमावाप: कान्तिविशेषकरत्वादुपादेय एव भवतीति॥। श्लाध्यैविशेषणैर्योगो यस्तु सा स्यादुदाचता ।७० ॥ यथा- 'अुत्वायं सहसागतं निजपुरात्रासेन निर्गच्छतां शत्रूणामवरोघनैर्जललवप्रस्यन्दतिम्यत्पुटाः । शुभ्रे सझनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि कीडादौ च सशाद्वले विवलितग्रीवैर्विमुक्ता हशः ॥८३॥' अत्र शुग्रे पल्लविनि नवाम्भोरुहि इत्यादिश्लाव्यविशेषणोपादानादु- दाचता।। ऋाध्यैरिति। उत्कर्पवानुदात्तो लोके प्रसिद्धः । बहूनां मध्ये यः शाघते स उत्कर्षवान्। तेन श्लाध्यत्वमुदात्तलक्षणम्। तदिह का्ये वाक्यार्थपोषाधायकतया सहृदयहदयावर्जनक्षमत्वेन छाघाविषयत्वे विशेष्यत्वं च वाक्यार्थोऽतस्तद्विशेषणपदेपु यथोक्तरूप उत्कर्पोडभिमतोऽनुदारथ्ायं गुण इति स्वरूपविशेषकृतात्कान्तिशरीरा- न्तर्गताच्चमत्कारित्वाद्धिय्यते । नचात्र मुहतिरभिमतेति नैकमपि कान्तिरूपमस्ति। अत एव पुराणच्छायमुदाहरति-श्रुत्वेति। श्रुतिमात्रेणेयं दशा दर्शने तु न ज्ञायते कर्थ भविष्यतीति। यमिति। न हान्यस्य श्रुतमात्रस्य तादशप्रभावसंभावना। सहसेति यावत्कीडासह्चराणां धवलगृहादीनामपि च प्रेमानुरूपमापृच्छयते तावानपि समयो न लब्ध इति ध्वन्यते। आगतमिति निष्ठाप्रत्ययेन चेदिच्छति सिद्धमेवागमनमिति द्योतयति-निजेति । यस्यान्येन धर्षणं खप्नेऽपि न बुद्धिविषय आसीत। सोपद्रवस्यापि यस्य न त्यागः कदापि कथचिद्भूदिति व्यज्यते। निर्गच्छतामिति हृदयवमुर्येन पुनः पुनरवतिष्टमानानामसंभवद्रपं निर्गमनमिति
Page 152
१ परिच्छेद: I] सरस्ती कण्ठाभरणम्। ५९
ययोत्यते। शत्रूणामिति बहुवचनेन यदैकावस्कन्दमुदिश्यायं प्रचलति तदा सर्वेषा- मियं दशा भवतीति प्रत्याय्यते। अत एवासमास: सजीवः । वियोगवेदनादून- मानसानामुद्गतोऽपि वाष्पल्लावादन्तरेव विच्छियत इति लवपदेन ध्वन्यते। पुनः समागमाशंसनशीलानाममनलभिया बाध्पस्तम्भो लवपदरहस्यमित्येके मन्यन्ते। अन्यस्य वाष्पस्य निर्गमनानुपपत्ती पुटयोरार्दभावमात्रम् । शुभ्र इति यत्र चन्द्रा- तपेन पाविताः कान्तयः क्षणदाविलासविहारेयु कामपि रसमात्रामुत्कषयन्तीति व्यनक्ति। तदनन्तरमेव व्याप्यामित्याह-नवाम्भोरुहीति। पूर्ववत्सभोगोद्गारः । सशादूल इत्यनेन रतिकुतूहलोत्कण्ठितानामद्रिारोहणध्रान्तानां तदेवास्तरणमिति प्रकटीकियते । विवलितग्रीवतया च पन्नथां पलायनमेव न तु शरीरवलनमपीति। ऋ्याराद्ट्रयानक एव रसः स्थायीति ध्वनितम् । तदेतत्सर्वमभिप्रेत्याह-अत्रेति। अरीतिमत्करणो क्तम भिप्रेत्यीजोलक्षणमाह- ओजः समासभूयस्त्वम् यथा- 'जयति भुजगरजुग्रन्थिनिष्पीडितेन्दु- स्रवदमृतनिवृत्तप्रेमभावैः कपोलैः । विरचितनुतिबन्धो मूर्धनि सद्यः पुरारे: परिणतबहुकल्पत्रह्मणां ब्रह्मघोषः ।। ८४ ।।' अत्र भुजगरज्ुअन्थीत्यादिना समासभूयस्त्वादोज:॥ ओज इति। वैपुल्यवृत्तैर्बहुशब्दस्येयसुनि भूय इति रूपम्। तथा च समा- सस्य भूयस्त्वं वैपुल्यविकटत्वमिति यावत्। न चैवं गौडीया रीतिरेवेयमिति वाच्यम्। कचित्समासभूयस्तामान्रस्यैवीचितीवशेन विशेषशोभावहत्वात्। यथा- 'वादन्ति दिग्गजगण्डकपणैर्भमस्रस्ता' इति। न च समासाभावो नोचितः। नत्येक एव समासो रूपभेदमादाय गुणत्वमर्नलंकारत्वं च प्रयोजयतीति किमनुपपत्रम्। एवं प्रकृतोदाहरणेऽपि। तथा हि-परिणताः परिणामं गताः। बहूनां कल्पानां ब्रह्माण इति चतुर्णा पदार्थानां पिण्डत्वे चत्वारिपदानि समबहुत्रीहिरूडिभिर्भुज- गरजुभिरिति अन्थिदृढताबोधनाय रूपकम् । अत एव निवीत्युपसर्गस्तात्पर्यवान्। सदो विरचितनुतीत्यनेन कपालानामसाधारणो व्यापार: । बन्धो हि ब्राह्मरूपस्ता- ल्वादिकमन्तरेण न निष्पद्यते। जीवनानन्तरमेव त्रासावेशात्स्तुतिरूप एव ब्रह्म-
Page 153
६० काव्यमाला।
घोष उदचरदिति भगवतत्त्रैलोक्यग्रहे निरकशप्रभावः सद्यःपदेन सूच्यते। अथवा चेदागमानामात्मलाभानन्तरमेव परमेश्वरस्तुतिरूपतात्पर्यावसानमिति स- वस्या अपि श्रुतेः परमेश्वरप्रवणत्वमनन्यसाधारणभक्तिप्रढतां च कविरभिप्रैति। पुरारेरित्यनेन संहारिरूपता भगवतः प्रकृतपोषानुगुणा प्रकाशिता । और्जित्यं गाढबन्धता। यथा- 'अस्मिन्नीषद्व लितविततस्तोकविच्छिन्नभुम्न: किचिल्ीलोपचितविततः पुज्जितश्रोच्छितश्र। धूमोत्पीडस्तरुणमहिपस्कन्धनीलो दवामे: स्वैरं सर्पन्सृजति गगने गत्वरानभ्रभङ्गान्।। ८५।' अत्र गाढबन्धस्य स्पष्टमेव प्रतिभानादौर्जित्यम् ।। और्जित्यमिति। ऊर्जितो महाप्राणस्तस्य भाव और्जित्यं तत्र संदर्भस्य महा- प्राणता गाढत्वमन्तरान्तराविलम्बितनयद्धि: प्रयोगै: कुण्डिलत्वम्। गुणसामान्यल- क्षणादतिप्रसओो नास्ति। तथा हि-प्रकृतोदाहरणे प्रथमपादे विच्छित्रभुम्न इत्यत्र तालव्यद्यम्। कण्ठयदन्त्यसंयोगी प्रस्फुटोन्मिधी। अन्ये मृदवः । द्वितीयपादे औष्ठपोपभ्मानीयतालव्यचतुष्कसंयोगा: प्रस्फुटाः। खरव्यञ्जनमध्ये विसर्गपाठ उभय- संज्ञाभिप्रायेणेति दुर्गसिंहः। तेन तदादेशस्यापि व्यजनत्वम्। अन्ये मृदवः तृतीयपादे दन्त्योघ्यदन्त्यकण्ठयसयोगा उन्मिश्राः । अन्ये मृदवः । चतुर्थपादे रेफान्तसंयोगा मृदवो य इति न कापि कठोरता प्रतिभासते। तथा च-प्रथमतृत्तीयाभ्यामत्र द्वितीयचतुर्थयोर्गाढत्वम्। तथा-'हस्ते लीलाकमलमलकं बालकुन्दानुविद्धम्-' इत्यादेरगाडप्रथमतृतीययोरप्यस्ति धारणी महाप्राणता व्यक्तेत्याह-अन्नेति॥ प्रेयः प्रियतराख्यानं चाटूक्तौ यद्विधीयते। ७१॥ यथा- 'सौजन्याम्बुनिधे बुघप्रिय गुणप्राकार धर्मद्रुम- प्रारोह प्रतिपन्नवत्सल महात्यागिन्विवेकाश्रय। लक्ष्म्यावास मनख्विनीमनसिजव्यापारदीक्षागुरो श्रीमन्मुल्ज किमित्यमुं जनमुपस्मछुं दृशा ना्हसि ।।८६।।'
Page 154
१ परिच्छेदः I] सरस्तीकण्ठाभरणम्। ६१
अत्र सौजन्याम्बुनिध इत्यादीनां प्रियार्थानां पदानामुपादानं प्रेयः । प्रेय इति। परप्रियारूयानं चाटकिस्तन्र यद्विधीयते स प्रेयो नाम गुणः कि तु कियत इत्वाह-प्रियतराख्यानमिति। प्रत्ययांशे तात्पर्य लोके साधारण एव प्रिय इत्युच्यमाने यस्तत्रासाधारण: प्रकर्षाऽवसीयते स इत्यर्थो भवति। एतेन लक्षणपदे ईयसुन् व्याख्यातः। उच्िखण्डैरुपचितोऽर्थ: सन्नसन्वा भवतु कविप्रतिकृष्टा सूकि- रेक एव त्रिभुवने भूयसीनामपामधिष्ठानम्। एवं भवानपि तत्स्थानीयस्य सौजन्य- स्पेति प्रतीयते। युधप्रियेति बहुत्रीहितत्पुरुषाभ्यामर्थद्वयमुपात्तम्। सूक्ष्मगुणप्र- तिबिम्बभासितया यावदभिमतदायितया च प्रीतिध्वनितया च प्रकर्षमर्पयति- गुणप्राकारेति। यथा प्राकारे उपयुपरि शिलादीनामवस्थितिरेवमहमहमिकया त्वयि गुणानाम्। अथवा यथा प्राकार: कलत्रावेक्षणस्थानमेवं भवानपि गुणानामेव प्रोच्यदे। धर्मदमग्नारोहेति। प्रारोहः प्ररोहोऽकुरः। तेनातिजरतो भम्नानेकविक्रमादित्यादिशा- खस्य धर्मतरोस्त्वमग्रिमः संतानोऽवलम्बः। यदि वाधोमुखी लम्बमानलता प्ररोहः। तथा च धर्मतरोरुपरि ब्रह्मलोकादिबद्धविस्तारस्य भगवद्रूपः प्रारोहो भूपृष्ठमधिति- प्ृतीति कोऽपि प्रीती प्रकर्षः । प्रतिपन्नवत्सलेति । उपकर्तव्यतया प्रतिपन्नः स्वीकृतस्तन्र वत्सलो सटिति लेहार्दान्तःकरणस्तेनाह्वीकृतभज्ञमीरतामात्रेण पुरुह- ादिवन्नापि क्ेपावि ्लेषान्विततया बलिकर्णादिवत्किं तु भवान् सिन्धुरिव वाल्दि- तादिकमुपकारं करोतीति समानं पूर्वेण। महात्यागिक्निति। त्यागिनामपि यः पूज्यः स महात्यागी तेन नूनं दधीचिप्रभृतयो विश्राणितार्था अपि न तव तुल्यतामा- रोदमीशत इति पूर्ववत्। विवेकाश्रय इति। यथाकर्तव्यताज्ञानं विवेकस्तस्याध्रयो विश्रान्तिस्थानं यदि त्वं मूलस्तम्भो नाभूखदा कमाश्रित्य विवेकप्रासाद: पदमारो- पयेदित्यादिकं खवयमूहनीयमिति तदेतत्सर्व सूचयग्राह-प्रियार्थानां पदानामिति। प्रियार्थानां प्रीतिप्रकर्षार्थानाम्॥ व्युत्पत्ति: सुप्िडां या तु ग्रोच्यते सा सुशब्दता। यथा- 'तस्याजीवनिरस्तु मातरवमा जीवस्य माजीवतो भूयाद्वाऽजननिः किमम्ब जनुषा जन्तोर्वृथा जन्मनः । १. 'जनिना' इति सटीकपुस्तकपाठ :.
Page 155
६२ काव्यमाला ।
यस्त्वामेव न बन्दते न यजते नोपैति नालोकते नोपस्तौति न मन्यते न मनुते नाध्येति न ध्यायति॥८७॥ अत्र अजीवनि :- अजननिः-इत्यादीनां सुवन्तानां वन्दते-यजते- इत्यादीनां तिडन्तानां च व्युत्पत्ति: सुशब्दता ॥ व्युत्पत्तिरिति । विशिष्ठा उत्पत्तिर्व्युत्पत्तिः । सुबन्तानां तिडन्तानां च बहू- नामपि चकारादिमन्तरेण घटनासौष्ठवार्पकतया चमत्कारकारित्वमित्यर्थः। 'आकोशे नव्यनिः' । किमर्थमिदमाशास्यत इत्यत आह-जीवतोऽवमान इति। जीवतोऽव- माननं माभून्मरणमपि तदपेक्षया वरमित्यर्थः। आयुःकर्मवशात्तथाभूतोऽपि जीवि- ष्यतीति यदि तदाऽजननिरनुत्पत्तिरेव भूयात्। कुत इत्यत आह-किमिति। जनिनेति पुंिज्ननिर्देशधिन्त्यः इकः स्त्रीप्रकरणे विधानात्। जनिरुत्पत्तिरिति साहचर्याच। कस्येदं सर्वमाशास्यत इत्यत आह-यस्त्वामेवेति। त्वदन्यदेवताप्रवणस्य जन्मा- दिकं विफलमिति बदतः कोऽपि भगवतीविषये भक्तिप्रकर्षोऽवसीयते। अन्ये तु व्याचक्षते कवे: पदपरिचयान्तरी व्युत्पत्तिः । पद च सुप्िडन्ततया द्विविधम्। तयोरेकमुभयं वा यत्र निवेश्यमानं व्युत्पत्तिमभिव्यनक्ति तत्र सौशब्यमिति लक्ष- णार्थ: । तथा हि-अजीवनिरिति सोपाधिसिद्धकृदन्तं जीवितमुपन्यस्य तदेव जीवस्य जीवत इति निरुपाधिसिद्धसाध्यार्थाभिधायिकृदन्तमुपन्यस्तवान्। मातरव- मेति मातृत्वमुभयथोत्प्रेक्षितवान्। द्वितीयपादे जनिजीवमिवोपक्षिप्य जनिना जन्मेति तमेव प्रकारदयेनोपात्तवान् । एकैकधातुप्रपचचानां सुबन्तानां दुर्घटमेकसंद- भप्रवेशं तत्तदुचितक्रियासंगमेन विहितवानिति सुबन्तव्युत्पत्तिरिति दिक्। अवमेति अस्त्वित्यनुषज्यते। प्ृथादिवा पूर्वेणापि संबध्यते। अथोत्तरार्घें तिडन्तव्युत्पत्तिः । तत्र पूर्वप्रकारमेदो न घटते। अतः साभिप्रायाणामेवोत्प्रेक्षणं सा वाच्या। तथा हि-बन्दत इति जायमानमात्राभिवाद्यतया त्रिभुवनमातृता। यजत इति समस्त- देवतारूपत्वम् । उपतीति सर्वोपगम्यतया जगच्छरण्यत्वम्। आलोकत इति विश्ववर्ति यावन्मनोहरत्वम्। स्तौतीति समस्ताभिमतदायिता। मन्यत इति निसि- लज्षेयखवरूपता । मनुत इत्यवधारणीयतया तत्वात्मकता। अध्येतीति कान्तारादिस्मर्त- व्यतया दुर्मादिमेदेन प्रपथ्यमानत्वम्। ध्यायतीति निदिध्यासनविषयतया प्रत्यग्ज्यो- तीरूपतेति परापरमेदभिन्रा भगवती स्तुता भवति। मन्यते मनुते इति यथा सामा: न्यविशेषाभिवायिनी तथाध्येति ध्यायतीत्यपि। तिडन्तानां च दुर्घटोऽपि परस्पर-
Page 156
१ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ६२
मन्वयः केनापि प्रकारेण घटित इति पूर्ववद्वोदव्यः। तदेतदाह-अत्रेत्यादिप- दमुभाभ्यां संबध्यते। तेन जीवितवर्गों जनिवर्गश्ाभिमतः। मतिः सकुदेवावृत्त इति नोक: भूयसा हि लोके व्यपदेशो दृश्यत इति॥ समाधि: सोऽन्यधर्माणां यदन्यत्राधिरोपणम् । ७२॥ यथा- 'प्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः कपोल: पाण्डुत्वादवतरति तालीपरिणतिम्। परिम्लानप्रायामनुवदति दृष्टि: कमलिनी- मितीयं माधुर्य स्पृशति च तनुत्वं च भजते ।। ८८ ॥' अत्र प्रतीच्छति-अवतरति-अनुवदति-इत्यादिचेतनक्रियाधर्मा- णामचेतनेष्वधरादिषूपचारेणाध्यारोपणं समाधि: ॥ समाधिरिति । सम्यगाधानमारोपणं समाधिः । सम्यकत्वं च वकतालोका- तिगत्वं न तदधिकभावः । तदिदं लक्षणे स्फुटम्। 'कमलानि निमीलन्ति कुमुदा- न्युन्मिषन्ति च' इत्यादी व्यभिचाराच। तेन संबन्धिता न धर्मविशेषणमत्राभिमता। अलंकाराद्वेदधतुथे वक्ष्यते-प्रतीच्छतीति। प्रत्येषणं दीयमानस्य ग्रहण चेतन- धर्म: स विरहवत्या अचेतनेऽधरे समारोपितः। किसलयकान्तिमितो मन्दीभूतता- मवगमयति। देयस्य दातुरपसरणेऽन्यत्र संक्रान्ती च प्रत्येषणनिर्वाहाच। तथा चाशोककिसलयेभ्योऽपि कोमलपाटलत्वमधरस्पेति माधुर्यपोषः । तदभिमुखप्रवर्त- नमवतरणमपि चेतनधर्मः सोऽचेतने कपोले समारोपितः किचित्पाण्द्तामवद्योत- यति। न च प्रत्येषणवत्सामस्तेन ग्रहणमपि तु संमुखीभावमात्रमित्याशयात्। तथा च पूर्ववन्माधुर्य पुष्णाति, अनुवादोऽपि चेतनधर्म एव सोऽचेतनायां दष्वारोपितः पर्युषितकमलच्छायामखण्डामेवात्र बोधयति। परप्रकर्षाभिमुखेऽपि विप्रलम्मे कदा- चित्संकल्पोपस्थितप्राणनाथार्यां दृष्टो कान्ती भवतीति प्रायःपदेन सचितम्। स्पर्शस्
चेतनकियेति। प्रकृतापेक्षया करियाक्रियावतोः सादृश्याभावानेयं गौणी कि तूपचरि तैव शुद्धेल्याह-उपचारेणेति । एतेन रूपकादिभ्यो भेद: समर्थितः ॥। अन्तः संजल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते।
Page 157
६४ 1 काव्यमाला। 11:
यथा- 'केवलं दघति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि। घातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥ ८९ ॥' अत्र श्ुतावगतवाक्यार्थस्य सृजति-संहरति-शास्तिस्तूयते-इति शब्दानामन्तःसंजल्परूपेण सूक्ष्मतया सूक्ष्मत्वम् ।। अन्तरिति। यथा करितुरगादिरूपकाणां पाषाणशिलप्रदावभिव्यक्तमवस्थितौ सूक्ष्मरूपता तथा शब्दानां अूयमाणानामपि कथमन्यथा वाक्यार्थभावनदशायां शेषनियमेनोन्मेयः । केवलमित्यादी सृजति-संहरति-शास्त्रयो घातवः कर्तयेंव भगवद्विषये प्रमुज्यमाना: प्रत्ययान्प्रयोजयन्ति न कर्मणीति वाक्यार्थों यदा भाव्यते तदैवायं सृजति संहरति शास्ति, न तु सृज्यते संहियते शिष्यते इति शब्दा: प्रकाशन्ते। एवं स्तौतिर्विपरीतकारकः । अत्र स्तौतिः कर्मण्येव प्रत्ययप्रयोजको न कर्तरीति वाक्यार्थभावनासमय एव नायं किचित्स्तौति किंतु सर्वैः स्तूयत एवेति शब्दा उन्मिषन्ति। तदेतदाह-अत्र श्रुतावगतेति। यावदेव वाक्यं भ्रूयमाणम- वगम्यते तस्पैव भावनापल्वः पव्रादवसीयत इति बटबीजन्यायमुपोद्दलयति। सोऽयं सहृदयप्रतीतिसाक्िकोऽर्यः ॥ ध्वनिमत्ता तु गाम्मीर्यम् यथा- 'मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रम चक्ाडं वह पादयुम्ममवनीं दोष्णा समभ्युद्धर। लक्ष्मी भ्रूनिकटे निवेशय भव ज्यायान्दिवौकस्पते- विश्वान्तःकरणैकचौर तदपि. ज्ञातं हरिः खल्वसि॥ ९०॥' अत्र नाम्यां पुण्डरीकधारणं परिमितविक्रमत्वं चक्राद्वितकरत्वं दंधट्या वसुघोद्धारणं वक्षःस्थलनिवेशितलपमीकत्वमिन्द्रावरजत्वं च ध्व- नयतीति गाम्भीर्यम् ।। ध्वनिमन्तेति। ध्वननं ध्वनिर्व्यञनात्मा व्यापारः । स द्विविध :- शब्दध्वनिः
Page 158
१ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ६५
अर्थध्वनिक। येन शब्द एव ध्वन्यते स शब्दध्वनिरभिमत इति केचित, तन्न। शब्दस्पैव ध्वन्यतानज्ञीकारात्। नाभ्यां पुण्डरीकधारणमित्यादि व्याख्याग्रन्थभा्र- प्रसन्ञाच। तस्माच्छव्दाश्रितं ध्वननं शब्दध्वनिरर्थाश्रितं चार्थध्वनिरिति बक्तव्यम्। प्रभूतध्वनिसंबद्पदकदम्यकस्य गाम्भीर्यम्। अथवा ध्वनयतीति ध्वनिः शब्दा- त्मको यत्रास्ति पदसमुदायस्तद्राम्भीर्यम् । तथा हि पुण्डरीकपद प्रस्तावात्सितच्छत्रे नियताभिधानशक्तिकं कांस्पतालानुखानस्धानीयां सिताम्भोजव्यक्तिमुपजनयचचोप- सम्यते। अनेकार्थनियताभिधानशक्तिकावाच । तदाह-'अनेकार्थस्य शब्दस्य वाचकतवे नियन्त्रिते । संयोगादैरवाच्यार्थधीकृष्यापृतिरजनम् ।' इति। एवं विक्रमादिषु। तथापि विक्रम: पौरुषं परिशिष्टः पादविक्षेपथ्च। च्क चक्रवर्तिचिर्द्ध रेखासंनिवेशलक्षणमायुधविशेषथ्। अभ्युद्धरणं सम्यग्लाभपालनप्रापणमुत्थापनं च। लक्ष्मी: संपहेवताविशेषथ। ज्यायान् प्रशस्यतरो वयोज्येप्ठथ। इदमेवाभि- संधाय दिवौकस्पतेरित्यन्तं व्याचष्टे-अत्रेति। तदपीत्यपिशब्देन विरोधद्योतिना हरिभावमाचरन्निति प्रतीयते पुण्डरीकधारणादेरुभयतुल्यत्वान्मौलवित्यादिविरुद्धम्, अतस्तद्विपरीतस्थानीयं विष्णी ध्वनयत्प्रसिद्धिबलान्नाम्यादिकमेव ध्वनयति। प्रसि- दिरपि हि विशिष्टार्थप्रतिपत्तौ कारणमेवेत्यभिप्रेल शब्दधभ्वनिप्रत्तावेऽप्यन्यथ्या- र्यातवान् । अन्यथा तु प्रकृतासंगतिशक््या न वाच्यार्थपुष्टिः स्यात्। सोऽयं विरोधरूपमूल: प्रतीयमानव्यतिरेको वाक्यार्थ: शब्दध्वनिश्चात्र जीवभूतः। विश्वा- न्तःकरणैकचोर इत्यनेन त्रिभुवनमनोहरता । दिवानिशमन्तःकरणानि चोरयन- भ्यासकौशलादिवात्यन्तप्रसिद्धानि नारायणचिह्ानि गोपायसीति प्रतीयमानोल्पेक्षा। ननु वस्तुध्वनि शब्दशक्तिमूलमेके न मन्यन्ते। क्थं तर्हिं 'पेन्थिअ न एत्य सत्थरमत्थि मणं पत्थरत्थले गामे। उन्रअपओहरं पेक्सिम उण जइ वससि ता वससु ॥' इस्यादी वस्तुवर्णनं १ न ह्त्र श्ेषन्यायो न वा समासोकिन्यायः संभवति। किं चालंकार ्वनावपि शब्दशक्तिरेवोपयुक्तेत्यक्षुण्णः शब्दध्वनिः। ये तु बदन्ति शब्दस्याभिधाव्यतिरिक्ता वृत्तिरेव नास्तीति, लक्षणापि तैरनज्ञीकरणीया स्थात्। न चानज्ञीकर्तव्येति वाच्यम्। "गन्नायां घोषः" इत्यत्र सप्तम्यनन्वयापत्तेः। प्रकृत्य- नुगतखार्थाभिधानं हि विभक्तीनां व्युत्पन्नमिति घोषप्रतियोगिकाधिकरणभावयोग्य: कश्विदर्यों गज्गापदस्य वचव्यः । तथा च कान्या नाम लक्षणा। एवं पुण्यत्वादि- १. 'पथिक नात्र स्त्रस्तरमस्ति मनानप्रस्तरस्पले आामे। उन्नतपयोधर प्रेक्ष्य पुनर्यदि वससि तदस ।।' इति च्छाया. ५ स० क०
Page 159
६६ काव्यमाला।
प्रतीतिस्तत एव भवन्ती ध्वननमुपस्थापयतीत्यादिकमस्माभि: काव्यप्रकाशविवरणे प्रपजितम्। इह तु अ्रन्थगौरवभिया विरम्यते । व्यासेनोक्तिस्तु विस्तरः॥ ७३॥ यथा- 'जनः पुण्यैर्यायाज्जलधिजलमावं जलमुच- स्तथावस्थं चैनं निदधतु शुभैः शुंक्तिवदनैः । ततस्तां श्रेयोभि: परिणतिमसौ विन्दतु यथा रुचिं तन्वन्पीनस्तनि हृदि तवायं विलुठति ॥९१॥' अत्र कथमहं त्वत्कुचतटे विलुठामीत्यभिप्रायस्य विस्तरेण प्रका- शितत्वादयं विस्तरः ॥ व्यासेनेति। यत्र स्तोकेऽपि वाच्ये वचनपल्वश्रमत्कारकारी तत्र स एव गुणकक्षायिरोहणक्षम इति शब्दगुणेषु युक्तो विवेक्तुमत एवोकि विशेष्यतया निर्दिशति। जनः पुण्यैरित्यादी कथमहमित्यादी निर्दिष्टोऽपि वक्राभिप्रायरूपोऽर्थ उच्तिपाइवेन प्रकर्षमानीयते । तथा हि जन इति तटस्थोक्या न ममेदशानि भाग- घेयानि येनाहत्य मनो निर्वहृति । पुण्यैरिति बहुवचनेनानेकजन्मोपात्तानामेवेदं फलम्। यायादिति संभावनाभिप्रायेण लिडा मुक्ताफलपरिणतियोग्यजलधिजलप्राप्ति- संभावनापि कस्यचिदेव धन्यजन्मन इति प्रकाशिते कोऽपि कारणप्रकषेः । जलमुच इत्यनेन येषां न जलदानमेव व्यापारः, अपि तु विश्वसंतापच्छिदुराणामन्योप- कारप्रवणतया शुक्तिमुखपर्यन्तमपि नयनमुपपद्यत इति। तथावस्थमित्यनेन यदेव स्मरावस्था तदैव जलधरैः पानमाशंसामात्रगोचरो न तु पूर्ववत्सभावनामा- त्रगोचरः, अत एव शुभेरिति समयविलम्बनस्य प्राक्तनपुण्यमानहेतुकत्वादित्यादि खयमवसेयम्। एतेन 'पदार्थे वाक्यरचनम्' इति यदन्यैर्गुणान्तरममिहितं तद्विस्ता- रमेकमेव । घटनासौष्ठवमात्रोपयुक्स्तु पहवो विशेषगुणेष्वस्माभिरभिधास्यते। त्वत्कुचतटे लुण्ठनमत्यल्पपुण्यस्य न संपद्यत इत्येतावानेवार्थो विवक्षाविषय इति कार्यविकासस्यैव चमत्कायार्पणे प्रागत्म्यमिति शब्दप्रधानकतया युक्तमत्र परिसं- ख्यानमिति॥ १. 'शुक्तिवदने' इति मूलपुस्तकपाठः
Page 160
१ परिच्छेद: I] सरस्वतीकण्ठाभरणम् । ६७
समासेनामिधानं यत्स संक्षेप उदाहृतः। यथा- 'स मारुतिसमानीतमहौषधिहृतव्यथः । लह्कास्त्रीणां पुनश्के विलापाचार्यकं शरैः ॥ ९२ ॥' अत्र कथाविस्तरप्रतिपाद्यस्यार्थस्य प्रकृतसंग्रामर सविच्छेदाशक्कया कलोकार्धमात्रेणोक्तत्वात्संक्षेपः ।l समासेनेति। अस्ति कब्विद्विशेषो यत्र वाक्यसंकोच: प्रकृतीचितीवशेन चमत्कारकारणम्। तथा हि-स मारुतीत्यादी मारुतिना यदोषधेरानयनम्, यच्च तया व्यथाहरणम्, तदुभयमपीतिहासकथाविस्तरेण प्रतिपादितमिह तु शोकार्ष- मत्रिणेति शब्ददत्तमर एवायं गुणो यद्यपि भवति, तथापि यावद्विवक्षितोपादान- काव्यरूपेणार्थसंकोचो वक्तव्यः। स च तथाविधवक्रोफिसंकोच एव भवतीत्युक्तावेव संकोच उल्िखति। कथमयं संकोचः प्राप्तोचितभाव इत्याह-प्रकुतेति। अत एवोपक्षिप्तमपीतिहासार्थमपहाय त्वराविष्टेन कविना प्रकृतमुत्तरार्ध एवासंहितं पूर्वोत्तरार्धसामज्जस्याय संक्षिप्यैव प्रकृतमप्युक्तम्॥ यावदर्थपदत्वं च संमितत्वमुदाहृतम्॥७४ ॥ यथा- 'केचिद्वस्तुनि नो वाचि केचिद्वाचि न वस्तुनि। वाचि वस्तुनि चाप्यन्ये नान्ये वाचि न वस्तुनि । ९३ ॥' अत्रार्थस्य पदानां च तुलाविधृतवत्तुल्यत्वेन संमितत्वम् ।। यावदिति। यावन्ति वर्णानि विना प्रकृतमनुसर्तुमेव न शक्यन्ते तावन्मा- त्रमयत्वं वाक्यस्य संमितत्वम् । अतः संक्षेपाद्वेदः । कबेः शक्तिव्युत्पत्तिभ्या- मसत्यपि पल्वे कदाचिद्टनालावण्यमुन्मिषलयेव । यथा पूर्वमुदाहतम्-'का स्वं शुमे कस्य परिग्रहो वा' इत्यादि। अर्थव्यक्तिसंकरशङ्टाप्यत एव निराकृता। 'अस्त्युत्तरस्यां दिशि देवतात्मा' इति केचिदुदाहरन्ति तद्युक्तम्। अनेन नाम- पदयोः पछवरूपत्वात्संमितत्वाभावे कथमाभासत्वं भवतीति विस्मृतव्यमिचारिगुण- प्रकरणस्य भाषितमुपेक्षणीयम् । केचिवदिति सर्वनाम्र एवाभिमतकविविशेषे पर्य-
Page 161
६८ 1 काव्यमाला।
वसानं सामर्थ्येन संभवतीति नाध्याहारशड्का। शक्का इत्यादिक्कियापि सामर्थ्येनाव-
भावतो वाक्यवृत्तिर्या भाविकं तदुदाहृतम्। यथा- 'एबेहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्घनि चिरं च परिष्वजे त्वाम्। आरोप्य वा हृदि दिवानिशमुद्धहामि वन्देऽथवा चरणपुष्करकद्यं ते।। ९४ ।।' अत्र हर्षवशादनौचित्येनापि 'वन्देथवा चरणपुष्करकट्वयम्' इत्या- दीनामुक्तत्वाद् भाविकत्वम्।। भावत इति। भावनादशापन्रा चित्तवृत्तिर्भावः । भावना वासनाव्याप्िरि- तनर्थान्तरम्। तथा सुच्यते-अनेन गन्धेन रसेन वा सर्व भावितमिति। हर्षा- दिभावितचेतसो हि वीचिप्राया उच्तिमेदा: प्रादुर्भवन्ति यैरप्रत्यूहमेव भावोऽभि- व्यज्यते तदिदमुक्तं या भावतो वाच: काव्यरूपायाः प्रवृत्तिर्निष्पत्तिः सेव भाविकम्। भावप्रधानो निर्देशः। तथा हि-प्रकृतोदाहरणे एहीत्येकेनैव युष्मदर्थाविना- भाविनाभिमुखीकरणे वृत्ते द्वितीयस्य यदुपादानम्, पूर्णचन्द्रेति यदग्रिमक्िया- खनुपयुक्तस्यैवाभिधानम्, चुम्बामीति करिष्यमाणस्यापि यो वर्तमानोपदेशः, चुम्बामीत्यत्र विशेषणमनुपादाय परिष्वज इत्यत्र चिरमिति यद्विशेषणोपादानम्, त्वमिति योग्यार्थस्यापि प्रयोग: पूर्वोपात्तवदुत्तरक्रियास्पर्धितया यदेकस्यैव वहनस्व भाषणमेव समस्तसमकक्षतयैव यद्वहनाभिधानम्, वत्सेत्यभिधाय चरणी बन्द इति या विरुद्धोकि:, यच्च ते इत्यस्यावगतार्थस्यापि वचनम्, तत्सर्वमधर्मसिद्धमेवेति भावार्थस्य निष्पादितया सादहेतुर्भवति। प्रवर्तन्ते हि लौकिकानां स्रेहार्थानामु- त्कलिकाप्राया वाचः खदन्ते च। यथा-'इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो- रसावस्याः स्पर्शो वपुषि बहलधन्दनरस:' इति। तदेतदभिप्रेल्य व्याचष्टे-अ- त्रेति। उद्धटत्वात्तेन शेषाण्युपलक्षयति-अनौचित्येनापि वन्द इति ॥ गतिर्नाम क्रमो यः स्ादिहारोहावरोहयोः ॥ ७५॥
Page 162
१ परिच्छेदः I] सरस्वतीकण्ठाभरणम्। ६९
यथा- 'वराहः कल्याणं वितरतु स वो यस्य शशभृ- त्कलाकोटीकान्तं कमविगलदभ्युद्धतिभिया।
रनामृष्टं दंष्ट्राशिखरमधिशेते वसुमती।। ९५ ।।' अत्र पूर्वार्धे खरस्यारोहादुत्तरावें चावरोहाद्गतिः॥ गतिरिति। केचिव्याचक्षते। यतीनामारोहावरोही विवक्षिती कचित्कवि- शक्तिवशाययव्यारडा अवरूडा इब प्रकाशन्ते। यथा-'भुवो नीचैनीचरवटपरि- पाटीषु पतर्तां स्फुरत्यर्वागर्वागखिलभुवने भोगितिलकः। कमादुचैरुचैगिरिशिखरभा- जामपि नृणामयं दूरे दूरे भवति भगवानम्बरमणिः ॥I' अत्र यती नानारोहावरोही तिलतन्दुखवत्प्रकाशेते। इयं तु पृत्तीचिती वक्यते। तथा च द्वितीये संगता स्यात्। तस्मादयमर्थ :- खवराणामकारादीनामुपर्युपरितया बोध: संनिकृष्ठनामिव प्रकाशनं गतिरिति। तथा च व्याख्यास्यति-खरस्येति। तथा हि प्रकृतोदाह- रणे वराहः कल्याणमित्यत्राकारद्यं तुल्यजातीयं निर्दिश्य स वो इत्यत्रोकारेण नुज्जत्वमिव विधाय द्वितीयपादोपकमे कलाकोटीकान्तमित्यत्राभिन्नजातीयारोहपर- म्परा बिहिता। उत्तराधें तु तथा नासित। शेते इत्यत्रापि न सोहेस आरोह: सोऽयमानुभविको गुणः श्ोकार्धोकपादशोकांशकमेण नरसिहबद्धवति। अत्रो- पलक्षणतयाद्यमुदाहरति-अत्र पूर्वार्थ इति। कमैरितस्ततश्चरणविन्यासविंगलन्ती असंपद्यमाना याभ्युदुतिरम्युद्धरणं तस्या या भीर्मयं तयेति केचित्। अन्ये तु वदन्ति-क्मेण विगलदभ्युद्धतिभयमू ्वनयने स्फुटनादिभयंयस्याः सा क्रमवि- गलदभ्युद्ृतिभियेति।। उपकमस् निर्वाहो रीतिरित्यभिधीयते।
यथा- 'आाव्णा नासि गिरे: क्षता न पयसा नार्तासि न स्लायिता न श्वासैः फणिनोऽसि न त्वदनुगा नायासिता कापि न।
Page 163
काव्यमाला।
खं वेश्म प्रतिगच्छतोरिति मुहुः श्रीशार््जिणोः सस्पृहं सा प्रश्नोत्तरयुग्मपञ्किरुभयोरत्यायता पातु वः ॥९६ ॥' अत्र प्रत्येकपदानन्तरं नो विनिवेशात्क्रमामेदो रीतिः॥ उपकमस्येति। यादशी पद्संनिवेशत्वेनोपकम्यते तादश्या वृत्तनिर्वाह: कचि- द्विशेषशोभावहो भवति। अत एवात्र नात्यन्तनिर्वाहोऽभिमतः । एकादशवृत्तेर- प्यभिप्रायसमग्रकाव्यजीवभूतत्वादेतस्या एव नातिप्रसज्नोऽपि तथा प्रकृतोदाहरणे प्रथमोत्थिताया अब्धिदुहितुरव्याजसवाज्ञीणलावण्यमवलोकयिता कृष्णः खचक्षुषोः कृतार्थतां गमितवान् । इदानीमधरोष्ठमुद्रामेदेन यदि वर्णमात्रामपि भारती निशर- न्तीमाकर्णयामि तदा श्रोत्रयोः सफलता भवेदिति मन्यते। न चेत्थमेव मुग्धान- नानामालापः प्रवर्तते अपि तु नायकसन्निधौ भयादेवेति प्रथमं पृच्छति-प्राव्णा नासि गिरे: क्षतेति। अनन्तर च यदि न वक्ष्यामि तदा पृष्टामाकलयिष्यतीति जानत्या द्वयमुत्तरमौचित्यापजं स्यात् शिरःकम्प एकाक्षरं च। तत्राद्यः कालिदासेन प्रयुक्तो 'मूर्धकम्पमयमुत्तरं ददौ' इति। द्वितीयं कविना विनिवेशितम्-नेति । एवं श्रुतजल्पितामृतस्तदनुबन्धेन कृतकृत्यमिवात्मानं मन्यमानोऽधिकत्रासहेतुं स्मारयन्पृच्छति-पयसेति । तदिदमुक्तम्-आर्तेति। प्रकारान्तरेणोत्तरदाना- संभवात्पुनरप्याह-नेति। तदनन्तर व्याजरसायाः कियदधिकवचनश्रवणोत्कण्ठितः सर्व लोकप्रसिद्धं भयहेतुं स्मारयन्पृच्छति-म्लायितेति। अभिमतस्यानिष्ट खप्रेऽपि न सज्जत इति दृष्टासीति नोक्तम्। एवं प्रसिद्धमपि वचनपल्वनेन समस्तमुग्धान्न- नाप्रसिद्धेन वचनोन्मुद्रणप्रकारेण पृच्छति-त्वदनुगेति। सर्वाकारेणोत्तमताम- भिज्ञायमानो इस: खवेशम प्रत्ये गतवान् न तु पृष्टवानिति। तदिदं सर्वममिप्रेत्य व्याचष्टे-अन्रेति ॥ विशिष्टा भणितिर्या स्यादुक्तिं तां कवयो विदुः॥७६॥। यथा- 'कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥।९७॥' अत्र कुशलं तस्या इति पृष्टे कुशलमकुशलं वेति वक्तव्ये योऽयं जीवतीत्याद्युक्तिभत्नया जीवितमात्रशेषताप्रतिपादनप्रकारः स काव्ये
Page 164
१ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ७१
विशिष्टेति। लोकोत्तरा: सन्ति हि भणितिप्रकारा लोकप्रसिद्धाः । यथा सुप्तोऽसीति प्रश्रे गरहे देवकुले वेत्यादि। एतत्प्रसिद्धिव्यतिकमेण तुं या काचित्क- विप्रतिभया भणितिराकृष्यते सा भवति लोकोत्तरा। तथा च प्रतिभाकृष्टतया चम- त्कारित्वाह्ुणत्वम् । अत एव कवय इत्याह । कविसहृदयानामेव तादशोकिपरिच- यसंभवात्। तथा हि-प्रकृतोदाहरणे कुशलप्रश्रे कुशलं वेति लोकप्रसिद्धमतस्त- देव वक्तुमहति। यत्तु तदपहाय जीवतीत्युपात्तमपरत्रापि प्रश्ने तथैवोक्तं तत्प्रति- भाकृष्टतया सामिप्रायमुजीयत इत्याह-अत्र कुशलमकुशलमित्यादि ॥ संप्रति प्रकर्षकाष्ठालक्षणं वाक्यस्य गुणं लक्षयति- उक्त्ते: प्रौढः परीपाकः प्रोच्यते श्रौढिसंज्ञया। यथा- 'अभ्युद्ुता वसुमती दलितं रिपूरः क्षिप्तक्मं कवलिता बलिराजलक्ष्मीः । अत्रैकजन्मनि कृतं यदनेन यूना जन्मत्रये तदकरोसपुरुषः पुराण: ।। ९८ ।।' अत्र प्रकृतिस्थकोमलकठोरेभ्यो नागरोपनागरग्राम्येभ्यो वा पदेभ्यो- डभ्युद्धतादीनां आ्रम्यादीनामुभयेषां वा पदानामावापोद्वापाभ्यां सन्निवेश- चारुत्वेन यो Sयमाभ्यासिको नालिकेरपाको मृद्दीकापाक इत्यादिर्वाक्य- परिपाक: सा प्रौढिरित्युच्यते। तथा चैतद्वाक्यं नालिकेरपाक इत्यु- च्यते। एवं सहकारमृद्वीकापाके अप्युदाहरणीये इति ॥ उक्तेरिति। उक्केर्वाक्यस्यायं पाकः सा प्रौढिः। शब्दानां पर्यायपरिवर्तासहत्वं पाकः । यदाह-'यत्पदानि त्यजन्लेव परिवृत्तिसहिष्णुताम्। तं शब्दन्यायनिष्णा- ताः शब्दपाक प्रचक्षते ।।' इति। प्रौढ इति। उपकमोपसंहारयोर्निव्यूट: स चार्य नायं नालिकेरसहकार मृद्वीकोपलक्षणस्तिविधो गीयते। तदथा-नालिकेरफलं पक्क स्वचि कठिनं शिराखवित्ृतकोमलप्रायं कपालिकायां कठिनतरं तथा कश्चित्संदभों मुखे कठिनस्तदनन्तरं मृदुप्रायस्ततः कठिनतरो नालिकेरपाक इत्युच्यते। तथा हि-प्रकृतोदाहरणे प्रथमपादेऽ+युद्धतेति वर्णचतुध्ट्यमारम्मे कठिनं 'बमुमती दलि'
Page 165
७२ काव्यमाला।
इति वर्णषर्ङ कोमलं 'तं रिपूरः' इत्यनुख्वाररेफदीरघैरक्षरचतुष्टयं कठिनतरम्। अत्रापि तमिति मृदुप्रायनिवेशनेन कोमलकपालिकामुखभागसारूप्यं द्रडयतील्यस्- दाराध्याः। एवं द्वितीयादिपादत्रये चतुष्कषङ्गचतुष्कैर्नालिकेरफलसाम्यमुननेयम्। कथ पुनरेवंविध: पाकः संभवतील्यत आह-अन्नेति। अभ्यासेन निर्वृत्त आम्यासिकः। काव्यं कर्तु विचारयितुं च ये जानन्ति तडुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरभ्यासः। असावपि कथ पाकविशेषो भवतील्यत आह-सननिवेशचारत्वे- नेति। सनिवेशो रचना तस्यां चारुत्वम्। तदपि कथमित्यत आह-आवापोद्वापा- भ्यामिति। संदर्भानुप्रवेशनमावापः। ततः समुदरणमुद्वापः । केषामित्यत उक्तम्- पदानामिति। उद्धृतानामिति बुद्धा पृथकृतानाम्। केम्य इत्यत उक्तम्-प्रकृ- तिस्थादित्यादि। तेनायमर्थ :- प्रकृतिस्थादिपदतोऽप्येतदेवोद्धतव्यं यद् घटनासोष्ट- वेन पर्यायपरिवर्तनं न सहते। भवति हि सहृदयानामेवमन्यत्पदं नास्तीति व्यव- हारः । सोऽयं रचनासिद्धिविशेष: कथमन्यथा तज्वातीयमेव पदमन्यत्र संदर्भे निवे- शितं न तथा खदते। अत एवासी वाक्यगुणः। काठिन्यं च संयोगैदार्घेर्बा खरैर्भ- वति। यथात्रैवोदाहरणे रिपूर इत्यादी। सुिद्व्युत्पत्तिलक्षणस्तु वार्ताकपाक: कथििदुक्तः, सतु सुशब्दतालक्षणगुण एव। एवमिति। यथा द्राक्षाफलं त्वच आरम्य कोमलमन्तरा द्वित्रिचतुरास्थिसंपादितं किंचित्काठिन्यमेवं कश्चित्संदर्भमु- पक्मोपसंहारयो: कोमल एव मध्ये कठिन एव। संयोगदीर्घखरमात्रकृतमनाक्कठो- रभावो मृद्ीकापाक इत्युच्यते। यथा-'अयि त्वदावर्जितवारिसंमृतं प्रवालमा- सामनुबन्धिवीरुधाम् । चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवा- ससा ॥', यथा 'च-'अनवरतनयनजललवनिपतनपरिपीतहरिणमदतिलकम् । वदनमपयातमृगमदशशिकिरणं वहन्ति लोलदशः II' अत एव कविकल्पलता- कारादिभिरुक्तो नीलकपित्थपाकथतुर्थो नारिति । यद्वच परिणतं सहकारफलमार- म्भादेव कोमलमस्थनि तु कठोरप्रायमेवमपर: संदर्भो मुखादारभ्य मृद्दुरन्तरे कठि- नतर: सहकारपाक इत्युच्यते। यथा-'कमलिनि कुशलं ते सुप्रभातं रथात्ञाः कुमुदिनि पुनरिन्दावुद्वते त्वं रमेथाः । सुखि रजनि गतासि त्वं तमो जीर्णमुचैरिति तरलितपक्षा: पक्षिणो व्याहरन्ति ॥' अत्रैवोदाहरणेऽपि द्विधा कठोरत्वमवसेयम्। तेडमी त्रय एव शुद्धपाका: । व्यतिकरजन्मानस्तु भूयांसः। एत एवार्थपाकाः पथ्चमे प्रकारान्तरेण प्रतिपादयिष्यन्ते॥ सूत्रकार एवार्थगुणप्रकरणे संगति करोति- उक्ताः शब्दगुणा वाक्ये चतुविशतिरित्यमी॥ ७७॥
Page 166
१ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ७३
अथैतानेव वाक्यार्थगुणत्वेन प्रचक्ष्महे। तेषां क्षेष इति प्रोक्तः संविधाने सुसूत्रता ॥७८ ।। यथा- 'दष्ट्दैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितकीडानुबन्धच्छलः। ईषद्वक्रितकन्घरः सपुलकः प्रेमोल्सन्मानसा- मन्तर्हासलसत्कपोलफल कां धूर्तोऽपरां चुम्बति ॥ ९९ ॥' अत्रैकासनसंस्थितयोः प्रियतमयोर्विलासिना ह्येका नयनमीलनके लिकर्मणा वश्चता। अन्या तु वदनचुम्बनेन रजितेति। सेयं संवि- घाने सुसूत्रता। श्लेषो नाम वाक्यार्थगुणः ।। उक्ता इति। वृत्तकीर्तनं हेतुभावप्रदर्शनार्थम्। एतानेव श्लेषादिनामकानिति। एषामिति निर्धारणे पष्टी। 'वाक्यार्थशरीरभूतः श्र्ेषः प्रथमं लक्ष्यत इति। घट- नाश्षेपः' इति सूत्रयित्वा 'क्रमकौटिल्यानुल्वणत्वोपपत्तियोगो घटना' इति वामनेन व्याख्यातम् । अस्यार्थ :- इदं कृत्वा इदं कर्तव्यमिति कमस्तत्रैव कौटिल्यं लोका- तिगामिनी वकता। अवकयोः शब्दार्थयोः वचनमान्रत्वात् । अतिमात्रतया प्रति- भासाभावोऽनुल्वणत्वम्। कथमेवमर्थ: संगच्छत इत्यनुपपत्तिसमाधानौपयिकविशेष- निवेशनमुपपत्तिः। तथा च कमेण कौटिल्येनानुल्बणतया उपपत्या योजनमर्थस्य छ्ेप इति तत्र संविधानकमानुल्णत्वेन सूत्रशब्देनोपाते खपदेन कौटिल्यमुक्तमघट- मानस्येव वाक्यार्थस्य बुद्धिचातुर्येण घटनेति वाक्यार्थः। दृष्ट्रेति । एका नायिका। अपरा नायिका य तत्ससी प्रच्छन्ननायकप्रेमपार्त्र तेनैकासनसंगतिः। प्रियतमे इति तदनुरजनमेव जीवितसर्वखमिति मन्यमानस्य युगपत्प्रवृत्तिः । आदरेण निभृतपदन्यासता तथा भूत्वा युगपत्कराभ्यां नयनद्ठयपिधानं लोकप्रसिद्धा केलिः। ईषदिति कन्धरामात्रं यथा चलते न तु शरीरमपि। अन्यथा चठनज्ञाने नायि- काया: कषायभाव: स्पात्। निमृतरागोन्मुद्रणात् पुलकोद्गमः । अत एव प्रेम्णा खगोचरलोकोत्तरत्वाभिमानरूपेण तत्तदनेकभावोर्मिभिरान्दोलनं मनस उल्ासः । साधुवच्चरन न जानातीत्यभिप्रायिकसपत्नीगतधिक्कारभावनया निमृतहासोन्मेपः । वचनाचातुर्येण खमनीषितसंपादनं धूर्तता। तदेतथाचष्टे-अत्रैकासनेति ॥
Page 167
७8 काव्यमाला।
यत्तु प्राकव्यमर्थस्य प्रसाद: सोऽभिधीयते। यथा- 'अयमुदयति मुद्राभञ्जनः पझ्मिनीना- मुदयगिरिवनालीबालमन्दारपुष्पम्।
न्कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥। १०० ॥' अत्र पद्मिनीविकासकरणे उदयशैलावतरणे कोकशोकहरणे तमो- विदारणे चानुक्तोऽपि सूर्यलक्षणोऽर्थः प्रकटमुपलक्ष्यते। यत्तु प्राकट्यमिति। समभिव्याहृतपदार्थसंसर्गात्मनि वाक्यार्थे दर्पणतल इवानुपात्तस्यापि विवक्षितस्य वस्तुनः प्रतिभासोऽर्थप्रसादः। न चेदमनुमानं समा- नसंवित्संवेद्यत्वात्। तदाह-अनुक्तोऽपि सूर्यलक्षणोऽर्थः प्रकटमुपलक्ष्यत इति॥ अवैषम्यं क्रमवतां समत्वमिति कीर्तितम्॥ ७९॥ यथा- 'अग्रे स्त्रीनखपाटलं कुरबकं श्यामं द्वयोर्भागयो- र्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति। ईषद्वद्धरज:कणाग्रकपिशा चूते नवा मज्जरी मुग्घत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः खिथिता॥१०१॥' अत्र मधुश्रियो मौग्ध्यत्यागयौवनारम्भकृतानां विशेषणानामवैषम्या- रसमता ।I अवैषम्यमिति। येन रूपेण लोकेऽर्थ: प्रतीतस्तदनतिक्रमेण तस्योकि: समता। वकता चात्र विशेषणमूहनीयम् । अन्यथा मुक्ता वजतील्यतः को विशेष: स्याद। अग्रे इति। मुग्ध इति कोषात्प्रथममुद्धिद्यमाना कुरबककलिका कान्तानस- वत्पाटला भवतीति मधुश्रियो बाल्यम्। ततः प्रौढिमापद्यमानासु कलिकासु श्यामो वुन्तभाग: स्फुटितत्वाद्विधावतिष्ठत इति यौवनम्। एवं वाल्यशोकमित्यादी क्रमेम
Page 168
१ परिच्छेद: I] सरखतीकण्ठाभरणम्। ७५
माधुर्यमुक्तमाचायेः क्रोधादावप्यतीव्रता। यथा- 'भ्रूमेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता- मीषन्मां प्रति भेदकारि हसितं नोक्तं बचो निधुरम्। अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्र नो प्रश्रयः ॥ १०२॥' अत्र वासवदत्तालक्षणस्यार्थस्य कोपेडपि योऽयं विनयावलम्बनेन कोपचिहनिह्वस्तन्माघुर्यम् ।। माघुर्यमिति। शाज्ञारकरुणी हि मधुरौ ततस्तध्यजको5थॉ5पि मधुरस्तस्य शर्क- रादिरससोदर माधुर्यम्। यथा हि-शर्करारसः सहृदयस्यासहृदयस्य वा, सुस्थ- स्यासुस्थस्य वा, झटिति रसनाग्रमर्पितक्षमत्कारमावहति, तथा चित्तडतिसार- चर्वणैकप्राणरसव्यचकोऽर्थसेन तव्यजनशकतिसमुद्रैकनिर्वहणं वाक्यार्थस्य माधुर्य- मिति पर्यवसितोऽर्थः। तत्र वासनापरिपाकवशादुदयव्ययवतीयु दीप्रचित्त- वृत्तिपु जागरूकास्वपि समस्तन्यग्भावनया विरोधः संपद्यत इति कोधादावप्यती- व्रता इत्युक्तम्। तथा हि-भ्रमेदे इत्यादी गात्रस्खलितादिना कदाचिदपरादे
प्रकर्षाद्धविष्णुनावहित्थेन न्यग्भाव्यते । विरोधिविजये हि भूयान्प्रकर्ष: परस्य भवति। अत एव परामित्युक्तम्। एवं 'ईषन्मां प्रति भेदकारि हसितम्' इत्यादौ माधुर्यमुननेयम्। तदिदमाह-अत्र वासवदत्तालक्षणस्पेति ॥ अनिष्ठुरत्वं यत्प्रांहु: सौकुमार्य तदुच्यते ॥ ८० ॥ यथा- 'सदः पुरीपरिसरेऽपि शिरीषमृद्धी सीता जवात्रिचतुराणि पदानि गत्वा। गन्तव्यमस्ति कियदित्यसकृद्गवाणा रामाश्रुण: कृतवती प्रथमावतारम् ॥ १०३ ॥' १.'प्रोक्तम्' ग.
Page 169
७६ काव्यमाला। अत्र सीतायाः पुरीपरिसरेऽपि कियदस्ति गन्तव्यमिति वचनं शृ- ण्वतो रामस्य शिरीषमृदुतदङ्गावलोकनेनाश्रुणोऽवतारः सौकुमार्यमाह॥ अनिष्ठुरत्वमिति । सामग्रीसंभवेऽपि चित्तद्रतिमनासादयननीरस: कठोरो- उभिधीयते । अतथाभूतस्तु सटिति तन्मयीभवनयोग्यान्तःकरणः मुकुमारस्तदिद- मुक्तमनिध्ठुरत्वमिति । प्राहुरित्यनेन प्रसिद्धिं द्योतयति-सद् इति । सहगन्तु- मुत्सुका कथमेवं सुकुमारप्रकृतिः कान्तारेपु भविष्यसीति वार्यमाणापि हृद्यवमुरूयेन पश्मामतित्वरितं गमिष्यामीति स्रेहमूडा त्रिचतुराणि पदानि जवाद्गतबती। अश्रुणः प्रथमावतारो भविष्यदधरुपरम्पराप्रचार भूतः । साकुमार्यमाहेति अश्रुपातेनानुभा- चाश्रुनिमित्तभूता चित्तद्वतिः करतलामलकवत्प्रकाश्यते।। अर्थव्यक्ति: स्वरूपस्य साक्षात्कथनमुच्यते। यथा- 'पृष्ेषु शङ्कशकलच्छविषु च्छदानां रेखाभिरक्कितमलक्तकलोहिताभिः । गोरोचनाहरितबभ्रुवहि: पलाश- मामोदते कुमुदमम्मसि पल्वलस्य । १०४ ।' अत्र कुमुदखरूपस्य साक्षादिव प्रतीयमानत्वेन यत्स्पष्टरूपाभिधान- मसावर्थव्यक्तिः ॥ अर्थव्यक्तिरिति। स्वरूपं खमसाधारणं कविप्रतिभैकगोचरं चमत्कारिरूपं तस्य साक्षात्कथनम्। कविशक्तिवशात्साक्षात्कारसोदरप्रतीतिजनकपदवत्त्वं संदर्भस्यार्थ- व्यक्तिनामा गुणः । अर्थो यथोच्तसतस्य व्यक्तिः प्रत्यक्षायमाणता। जातेभेंदस्तृतीये वक्ष्यते॥ पृष्ठेप्विति । ईपद्विकखवरस्य कुमुदस्य किचिद्विघटमानबहि: पलाशसंब- न्धिषु शीतातपासंपर्कादत्वन्तविशदानां दलानां पृष्ठानि पाकलोहितरेखाङ्कितानि दश्यन्ते। अत एामोदते किंचिदुद्धिदुरेण मुखेन गर्भपिण्डितमामोदं मुन्नतीति।। कान्तिर्दीसरसत्वं स्यात् १. 'छोहिनीभि:' ग. २. 'पृष्ठेडपि' इत्यादरशपाठ:
Page 170
१ परिच्छेद: I] सरस्वतीकण्ठाभरणम् । ७७
यथा- 'मा गर्वमुद्धह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मज्जरीति। अन्यापि किं न सखि भाजनमीदशीनां वैरी न चेद्धवति वेपथुरन्तरायः ॥ १०५॥ अत्र नायिकायाः सपनन्यामीर्ष्यानुबन्धेन प्रतिपादितस्य प्रियतमानु- रागलक्षणस्य शृङ्गारस्य दीप्तरसत्वं कान्ति: ।। कान्तिरिति। रसोऽभिमानात्मा शुज्ञारस्तस्य दीप्तत्वं विभावानुभावव्यमिचा- रिभिः सम्यक् संचलितेन स्थायिना निरन्तरमुपचीयमानस्य परमकोटिगमनम्। तथा हि-मा गर्वमित्यादी यत्र भोषु बहुतरसूक्ष्मभज्गविशेषमयमज्जरीलिखितेन बहिर्विषयातिरोधानलक्षणतादवस्थ्यात् प्रकाशनेन नायकस्य सपव्यामनुरागे विच्छा- यभावोकति: । स्वात्मनि तु सहसाविर्भवत्सास्विकप्रतिपादनेन जीवितसर्वखवाभिमाना- त्मकरतिस्थायिभावप्रकाशने तस्याः सापेक्षभावे नायिकाया अपि तदवस्थव सा प्रतीयते। तदिदमाह-प्रियतमानुरागेति। अनुरागेण लक्ष्यते सप्ताचिरिवार्चि- षोपचीयत इत्यनुरागलक्षणः ।। भृत्युत्कर्ष उदारता । ८१ ।। यथा- 'प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काश्चनपझरेणुकपिशे पुण्याभिषेकक्रिया। ध्यानं रल्नशिलागृहेषु विवुघस्त्रीसंनिधौ संयमो यद्वाळ्छन्ति तपोभिरन्यमुनयस्तस्मिस्तपस्यन्त्यमी ॥१०६॥' अत्र मारीचाश्रमस्य सत्कल्पवृक्षादिपदैवैभवोत्कर्षस्य प्रतिपादन- मुदारता । भूतीत्यादि। भूतिः संपत्तस्या उत्कर्षों लोकातिगप्रकर्षस्तस्पैव सहृदयचमत्कारा- पकतया गुणधुराधिरोहणक्षमत्वात्॥ प्राणानामिति । उचिता तपोयोग्या।
Page 171
७८ काव्यमाला।
चनस्य कल्पतरुसंबन्धः संपत्, तत्रैव सत्पदेन मुक्तास्तबकमाणिक्यमज्जरीचीनांशुक- किसल्यादिविशेषद्योतिना प्रकर्षः । पद्मप्रकरस्तोयसंपत्, तत्रैव काननमयत्वेन प- द्ानां प्रकर्षः । बहुत्वं शिलप्वेश्मसंपत्, तत्रैव रवरूपताप्रकर्षः । संनिधिः स्त्रीप्र- तियोगिकतासंपत्, तत्रैव वियुधेति प्रकर्षः । तदिदमाह-सत्कल्पव्ृक्षादिपदैरिति ।। आशयस य उत्कर्षस्तदुदात्तत्वमिष्यते। यथा- 'पात्रे पुरोवर्तिनि विश्वनाथे क्षोदीयसि क्ष्मावलयेऽपि देये। त्रीडास्मितं तस्य तदा तदासीचमत्कृतो येन स एव देवः ॥१०७॥' अत्र सकलक्ष्मावलयप्रदानेऽपि जातव्रीडतया बलेराशयोत्कर्षप्रति- पादनादुदात्तत्वम् । आशयस्येति। उत्कर्षः पूर्ववत्। उचाशयो लोके उदात्त इति प्रतीतः । पात्र इति। विश्वनाथ इति यदाज्ञावशंवदा त्रिलोकी सोऽपि यत्प्रार्थयत इति, वलयेऽपीत्यपिशब्देन यस्यैकदेश: कुरुपाण्डवनिधननिदानतया विख्यातस्तस्यापि देये लजत इति। देवासुरकिन्नरादिरयं जञ्रमस्थावरप्रपथो यदुच्छ्वासविलसितं सोऽपि चमत्कृत इति पदार्थानभिहितः प्रकर्षोऽभिधेयः ॥ ओजः साध्यवसायस् विशेषोर्थेषु यो भवेत् ॥८२ ॥ यथा- 'तान्येव यदि भूतानि ता एव यदि शक्तयः । ततंः परशुरामस्य न प्रतीम: पराभवम् ॥ १०८॥ अत्र परशुरामो विजयत एवेत्यस्मिन्नर्थे खाध्यवसायप्रतिपादनमोजः॥ ओज इति। अध्यवसायो निश्चयस्तन्न विशेषः पूर्ववत्। खपदेन वक्तानि- मतः ॥ तानीति । यदि हन्तव्यजातीयमेव न विपर्यस्तम्। ता एवेति। प्रभा- वोत्साहमत्रजासतदवदर्थनिबर्हणप्रौढिप्रर्यातकीर्तयः शकतयो यदि न विलीनताम- यासिषुः । परशुराम इति। अर्जुनभुजसहस्त्रच्छेदादिना यस्य परशु (राम) वरदानेन त्रिभुवनेऽपि प्रसिद्ध इत्यादि ॥
Page 172
१ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ७९
रूढाहंकारतौर्जित्यम् यथा- 'उमा वघूर्भवान्दाता याचितार इमे वयम्। वरः शंमुरलं द्वेष त्वत्कुलोद्भूतये विधिः ॥ १०९ ॥' अत्रेमे वयमित्यात्मान्वितव्रतचर्यादिसमुत्थप्रौढाहंकारप्रतिपादनादौ- जित्यम् ॥ रूढेति। ऊर्जिंतशब्दोऽहंकृते प्रसिद्धस्तात्कालिकनिमित्तोपनिपाते वासनावि- कासात्तमोनिर्भेदस्थानेयु सुप्तप्रबुद्ध इव स्थायिभिरसंसज्यमान: प्रथमप्रादुर्भूतोऽमि- मानोऽहंकार इत्युच्यते। रूढः सूक्ष्मावस्थातो द्वितीयामाविर्भावदशामापननोऽहंकारो यस्य स रूढाहंकारस्तस्य भावसतता। मुगममुदाहरणम्।। प्रेयस्त्वर्थेष्वभीष्टता। यथा- 'रसवदमृतं कः संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम्। सकृदपि पुनर्मध्यस्थः सत्रसान्तरविज्जनो वदतु यदिहान्यत्खादु स्यान्पियादशनच्छदात् ॥११०॥ अत्रामृतप्रभृतिभ्यः प्रियादशनच्छदस्याभीष्टताप्रतिपादनं प्रेयः॥ प्रेय इति। शब्दगुणे तु निष्पादितवर्णनीयप्रीतिजनकत्वं पदानामुक्तम्। इह तु वाक्यार्थस्य वक्तप्रीतिगोचरत्वमुच्यत इति विशेषः । प्रीतिरुक्तपूर्वा । तत्रैवाभि- शब्देन प्रकर्षो दयोतितः । अभीष्ठता प्रेय इति प्रेयःपदप्रवृत्तिनिमित्तम्। रसव- दिति। प्रशंसायां मतुप्। अमृतमिति यस् प्रसादात्रिदशैरमरत्वमासादितं नान्यथेति प्रत्यक्षसाक्षिके वस्तुनि प्रमाणान्तरानुसरणम्। प्रसन्नरसमिति अम्ल- तालक्षणकाव्यार्थापगमेन परिणतिरित्यादि ।। १. 'मौजित्यम्' क-ख.
Page 173
८० काव्यमाला।
अदारुणार्थपयायो दारुणेषु सुशव्दता ।। ८३ ।। यथा- 'देवत्रते वाञ्छति दीर्घनिद्रां द्रोणे च कर्णे च यशोऽवशेषे। लक्ष्मीसहायस्य तवाद्य वत्स वात्सल्यवान्द्रौणिरयं सहायः॥१११॥' अत्र मुमूर्षामरणादीनां दारुणार्थानां दीर्घनिद्रां वाञ्छति यशोऽव- शेष इत्यादिभि: सुशब्दैः पर्यायेण भणनं सुशब्दता। सा च मुख्या- र्थव्यतिकरमस्य वाक्यार्थत्वान्न शब्दगुणः ॥। अदारुणेत्यादि। झटित्यातइदायी दारुणस्तस्य साक्षादभिधाने विवक्षितप्र- तीतिस्खलनखेदसंभवात्तदुपनीतस्य वस्तुनस्तदध्यासान्तरितस्य वाक्यार्थत्वादिति। सर्वत्रव हि लक्षणायामर्थाध्यासोऽग्ीकियते। लौकिकी चेयं लक्षणेति न प्रयोजन- गवेषणमपीति। सुगममुदाहरणम् ।। व्याजावलम्बनं यत्तु स समाधिरिति स्मृतः । यथा- 'दर्भाङ्करेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा। आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि दुमाणाम् ॥ ११२ ।।' अत्र गमने सति प्रियजनावलोकनाभिलाषिण्याः शकुन्तलाया दर्भाकुरचरणक्षतिवल्कलव्यासङ्गादिव्याजावलम्बनं समाधिः ॥ व्याजेति। चित्तवृत्तिषु बलादाविर्भवन्तीपु प्रकृतरसौचित्यविरोधिप्रकर्षात्य्र- कटमनावरणीयामु च यदन्यथा समर्थनं तथ्पाजावलम्बनं प्रस्तुतोचितसमाधाना- त्मकत्वात्। तथा हि-पूर्वानुरागे त्रपासाध्वसविवशायास्तावन्नायकसमीपादपसर- णमाचित्यापन्नम्। अनन्तरं तृत्कण्ठातरलितायाः कथमालोकमात्रेणापि कृतार्थः स्या- दिति परावर्तनम्। तत्र च मौगध्यभव्नशङ्कायां दर्भाक्करक्षतिप्रमृतिव्याजावलम्ब- नमेव कार्यसवैखमाभासत इति॥
Page 174
१ परिच्छेदः ॥] सरस्तीकण्ठाभरणम्। ८१
सौक्ष्म्यमित्युच्यते तत्तु यत्सूक्ष्मार्थाभिदर्शनम्।।८४। यथा- 'अन्योन्येसंवलितमांसलदन्तकान्ति सोल्ासमाविरलसं वलितार्घतारम्। लीलागृहे प्रतिकलं किलकिश्चितेषु व्यावर्तमानविनयं मिथुनं चकास्ति ॥ ११३ ॥' अत्रान्योन्यसंवलितमांसलदन्तकान्तीत्यादिवाक्ये दंपत्योरनुरागलक्ष- णस्य सूक्ष्मार्थस्य दर्शनात्सौक्ष्म्यम् ।। सौक्ष्म्यमिति। सूक्ष्ममित्यादिवाक्यैकगोचरोऽर्थः कुशाश्रीयबुद्धितया सूक्ष्म- स्तस्य दर्शनमुपायवैलक्षण्यात्ततद्विशेषवतः प्रत्यक्षायमाणता। सूक्ष्मालंकाराद्वेदस्तृतीये करिष्यते। स चायं भाव्यो वासनीयथ। भावनामात्रगम्यो भाव्यो यथा- 'उँचइ आगमहि आवड्ट सिजन्तरो सपरिआरम्। पाणो पसरन्तमत्ताचंवफलिह चसअम्मुहं बाला ॥' एकाग्रताप्रकर्षगम्यो वासनीयन्तमुदाहरति-अन्योन्येति। ब्याजापसृतप- रिवारे लीलवेश्मनि तत्कालकलितमन्मथोन्माथं विदग्धमिधुनमुत्तरोत्तरमपनीयमा- नत्रपासाध्वसतया प्रतिकलं नवेन्दुवत्कान्तिविशेषमासाद्यति। विचित्रमव्यभिचा- र्यनुप्रवेशे हर्षरुदितस्मितादीनामव्यवस्थिततया व्यतिरेकरूपकिलकिम्िताख्यशभ्ार- भावोन्मेषः ॥। शास्त्रार्थसव्यपेक्षत्वं गाम्भीर्यमभिधीयते। यथा-
क्वेशप्रहाणमिह लब्घसबीजयोगाः । ख्याति च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोडुम् ॥११४॥' १. 'संचलित' इति सटीकपुस्तके; 'समिलित' ग. २. 'उच्यारागच्छेरावर्षय सिभ्धन्तर: सपरिवारम्। पाणी प्रसरन्त ... ............... बाला' इति च्छाया. ६ स० क०
Page 175
८२ काव्यमाला ।
अत्र मैत्र्यादिपदानां शास्त्रार्थसव्यपेक्षत्वाद्गाम्भीर्यम्।। शास्त्रार्थ इति। एकपुरुषार्थप्रयोजनकपदार्थव्युत्पादनं विधिनिषेधव्युत्पत्ति- फलकं शाखत्रं तदर्थसव्यपेक्षत्वम्। तदुक्तप्रक्रियानिरूपणाधीननिरूपणत्वं वाक्यार्थस्य गाम्भीर्यम् । मैत्रीकरुणामुदितोपेक्षा इति चतसत्रधित्तसंमार्जनाः । अविद्यास्मितारा- गद्वेषाभिनिवेशा: पथ केशाः। चित्तवृत्तिनिरोधो योग :; स एव व्युत्थानहेतुभिर- नास्कन्दनीय: सबीजः। सत्त्चं प्रधानम्, पुरुषधिद्रूपसतयोभेद: प्रथाख्यातिरिति सांख्यप्रक्रिया। अत्र मैश्र्यादिपदानामिति। वाक्यार्थस्येव यथोक्तरूपत्वे तत्प्रतिपा- दकपदानामवश्यं तथाभावो भवतीति वैशेषिकाद्भेदो वक्ष्यते॥ विस्तरोऽर्थविकास: स्यात् यथा- 'संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्। कोदण्डेन शराः शरैररिशिरस्ेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरनघा कीर्त्या च सप्ताब्घयः॥११५।' अत्र विपक्षवधात्सप्ताव्धिव्यापिनी कीर्तिरर्जिते त्येतावतोडर्थस्य बहु- विधं विकासितत्वाद्विस्तरः॥ विस्तर इति। वाक्यार्थस्य पहवभूततत्तत्सहृदयचमत्कारिविशेष प्रसारणं संघु- तवित्ृतपटवत् विस्तराख्यो गुणः । विस्तर इव विस्तरः शब्दप्रपण्वदित्यर्थः । अन्यथा विस्वार इति स्यात्। संग्रामान्नणेत्यादी तु शत्रुशिर रछेदात्सप्ताब्धिव्यापिनी त्वया कीर्तिरजतेत्येतावान्वाक्यार्थों लौकिकसाधारणतया च चमत्कारास्पदमिति संग्रामाक्नणसंगतिरेव न तथा यथा वीरमात्रस्योचिता तत्रापि चापसमारोपणमिति काप्युत्साहशक्तिः। अत एव बलवदाश्रयप्रसकलुण्टाकवधेन यद्वसितं तेनैव तदा- सादितमिति सोपस्कारकर्तृकर्मप्रपश्चेन विकासनमेव काव्यपदवीप्राप्तिबीजम्। तदि- दमाह-बहुविधं विकासितत्वादिति। नात्र शब्दविकासाधीनः प्रकष इति शब्द- विस्तराद्वेदः ॥ संक्षेपस्तस्य संवृतिः ॥८५॥ १. 'बहुधा' क.
Page 176
१ परिच्छेदः ॥] सरस्तीकण्ठाभरणम्। ८३
यथा- 'श्रूयतां धर्मसर्वखं श्रुत्वा चैवावघार्यताम्। आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ ११६ ।।' अत्र शास्त्रे विस्तरप्रतिपादितस्य धर्मस्य छोकार्घेनोक्तत्वादयमर्थ- संकोच: संक्षेपः I। संक्षेप इति। तस्पेत्यर्थस्य समासे गुणीभूतस्यापि बुद्धा विभज्य परामर्शः । यथा-'अथ शब्दानुशासनम्। केषां ? शब्दानामि'ति। अशेषविशेषोपग्राहक- पुरस्कारेण वाक्यार्थस्याभिधानं वितृतसंतृतपटवत्संक्षेपः ॥I अूयतामिति। अत्र तेन तेन विशेषेण विस्तरतः प्रतिपादयितव्यस्य धर्मस्य यत्किचिदात्मनः प्रतिकू- लमन्यस्य नाचरणीयमिति सामान्येनाभिधानमप्रपृत्तप्रवर्तने प्रगल्भायमानमतिसु- न्दरमाभासते । नात्र रचनासकोचप्रतिष्ठितं काव्यमिति शब्दगुणाव्वेदः॥ शब्दार्थौ यत्र तुल्यौ स्तः संमितत्वं तदुच्यते।
'इन्दुर्मूप्नि शिवस्य शैलदुहितुर्वको नखाड्कः सने यथा-
देयाद्वोऽभ्युदयं दयं तदुपमामालम्बमानं मिथः। संवाद: प्रणवेन यस्य दलता कायैकतायां तयो- रूर्ध्वद्वारविचिन्तितेन च हृदि ध्यातः स्वरूपेण च ।।११७।।' अत्र प्रणवलक्षणस्यार्थस्य तुल्यत्वेन यथावद्विभज्य विनिवेशनं सं- भितत्वम् । शब्दार्थाविति। शब्दस्यार्थी तयोविभज्य विनिवेशनं संमितत्वमिति केचित्,
पैलविअं विअ करपल्वेहिं पप्फुल्िअं व मुणहअच्छेहिम्। फलिअंमिव पीणपओहरेहिं अज्जाइ लावण्णम् ।I' १. 'न परेषाम्' ख.ग. २. 'प्रतिपादितत्वात्' ख. ३. 'पृदवितमिव करपछवाम्यां प्रफुठितगिन मुग्धाक्षिभ्याम्। फलितमिव पीनपयोधरा्यामार्याया लावण्यम् ।।' इति छाया.
Page 177
८४ काव्यमाला।
इत्यादौ द्विप्रमृतीनामर्थानामविभज्य विनिवेशनमिष्यते। तस्माच्छन्दथार्थक्ष शब्दाथौं। तयोस्तुल्यत्वं यावदुद्देशशब्दार्थम्। अर्थस्य विभज्य तुलावृतवत्प्रति- निवेश: समितत्वमिति । अर्थमुददिश्य शब्दतुलनं काव्यभावबीजं शब्दगुणः, शब्दमुह्दिश्य त्वर्थतुलनमर्थगुणश्च। तथाहि-परमेश्वरस्य मूर्मि बालेन्दुः, पार्व- तीखने नसाष इति पृथक्शव्देनोहिश्य तदुपमायोग्यतया कायैकतायां दलनं हृत्पद्यनवमद्वारयोर्ध्यानेन युगपत्सनिधानमिति सम्यग्विभज्य तुलितस्येव प्रणवस्य प्रतिनिर्देश इति ॥ तदिदमाह-अन्नेति। यथावदिति। येन प्रकारेण संगच्छत इति तदनतिक्मेणेति।। साभिग्रायोक्तिविन्यासो भाविकत्वं निगद्यते ॥८६ ॥ यथा- 'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यसमद्गहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति। एकाकिन्यपि यामि तद्वरमितः स्रोतसतमालाकुलं नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदा नलग्रन्थयः ।। ११८ ।।' अत्र तमालमालावलयितसरित्तीरकृतसंकेताया: कुलटायाः खवतनौ भाविनां परपुरुषनस्क्षतानां नलग्रन्थ्यालेखव्याजगोपनेन साभिप्रायम- णनं भाविकम् ॥ सामिग्राय इति। अभिप्रायविशेषप्रतिबद्धस्य वाक्यार्थस्योक्तिविन्यास उत्त्या विशेषो न्यासः । शब्दगुणे पदानां भाव्यर्थनिष्पादिता इह त्वर्थस्पेति विशेषः। तथा हि-दृष्टिमित्यादौ तनुमालिसन्तु जरठच्छेदा नलग्रन्थय इत्युक्या विन्य- स्पमान एव भाविनलग्रन्थ्यालेर्यरूपार्थ: कुलटास्वरूपानुसंधानदत्तान्तःकरणस्य प्रतिपत्तुरनन्तरमेव खैरविहारचिदगोपनमभिव्यनक्ति॥ गतिः सा स्यादवगमो योडर्थादर्थान्तरस्य तु। यथा- 'शुभे कोऽयं वृद्धो गृहपरिवृढ्धः किं तव पिता न मे भर्ता रात्रौ व्यपगतद्गन्यच्च बधिरः ।
Page 178
१ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। ८५
हु हुं हुं श्रान्तोऽहं शिशयिषुरिहैवापवरके क यामिन्यां यासि खपिहि ननु निर्दशमशके ॥११९॥' अत्र प्रश्नादर्थमवगम्य उत्तरादर्थान्तरावगमो गतिः ॥ गतिरिति । अर्थादर्थविशेषात्। हृदयसंवादिन इति यावत्। अर्थान्तरस्य तथाभूतस्य। तेन यत्र सहृदयहृदयंगमादर्थात्कांस्यतालानुखानुखानन्यायेन ताड- शमर्थान्तरमवगम्यते सा गतिरिति लक्षणार्थः ॥ शुभे कोऽयं वृद्ध इति। सर्वाकारमनवद्यायास्तावद्दास्यमपि नायमर्हतीति हृदयानुकूलमर्थ प्रश्नादवगल् गृह- परिवृढ इत्युत्तरम्। अस्मादपि मम नायं कोऽपि कि तु गृहखामीति हृदयसंवादि- नमर्थमवधार्य कि तब पितेत्यादिकप्रश्नोत्तरशङला गवेषणीया। तदेतय्याचषें- उत्तरादिति। उत्तरप्रत्युत्तरवाक्यात्। उत्तरं तु पद प्रश्रपदमेव ।।
यथा- 'प्रथममरुणच्छायस्तावत्ततः कनकप्रभ- सदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । प्रभवति पुनर्ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥ १२० ॥' अत्रोदयादारभ्य चन्द्रस्योत्पत्त्यादिक्कियाक्रमो रीतिः ॥ रीतिरिति। उत्पत्त्यादीनां क्रियाणां कमः काव्यशोभावहत्वेन गुणः । नेदं वस्तुखभाववर्णनमिति जातेरर्थव्यच्ेश् भेदः । सुगममुदाहरणम् ॥ उक्तिर्नाम यदि स्वार्थो भज्ञया भव्योऽभिधीयते। यथा- 'त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमानं परमिह युवामेव भजथः । अपि द्वन्द्वं दिश्ा तदिति सुभगे संवदति वा- मतः शेषं चेत्स्याज्जितमिह तदानी गुणितया ॥१२१।'
Page 179
८६ काव्यमाला।
अत्राभीष्टस्य नायकनायिकासंगमस्य भङ्रया भणनमुक्तिः ॥ उक्तिरिति। खीयोऽभीष्ठोऽर्थ: सार्थः । तस्य साक्षात्प्रतिपादनमनुचितमिति अर्थान्तरभत्निभिः प्रतिपादनमर्थगुणः । भव्यो मनोहरः । सुगममन्यत्। नायक- नायिकासंगमस्येति। नायकस्य नायिकया तस्याथ नायकेनेति परस्परोत्कण्ठाप्रकर्षो विवक्षितः । तेनकशेषो न भवति॥ विवक्षितार्थनिर्वाहः काव्ये प्रौढिरिति स्मृता ॥।८८।। यथा- 'खवद्वक्रेन्दुविलोकनाकुलधिया घात्रा त्वदीयां श्रियं निक्षिप्य प्रतिराजकेषु विदुषां लक्ष्म्या त्वमापूरितः । तेनेते नियतं दरिद्रति गृहेप्वेषामियं दृश्यते नैनामाद्रियसे त्वमिच्छसि नु तां त्वामेव सा धावति ॥१२२।' अत्र त्वद्वक्कविलोकनाकुलेन धात्रा त्वदीया लक्ष्मीः शत्रुषु निक्षिप्य विदुषां च लक्ष्मीस्त्वय्यारोपिता। अतस्त्वं विपक्षलक्ष्मीमादियसे सा च त्वामनुधावति। या च विदुषां लक्ष्मीसया त्वमापूरितसतेन ते दरिद्राः। अत एव त्वमेनां नादियसे। इयं च विद्वद्वेहेष्वेव दृश्यते इत्येतावतः प्रभूतस्यार्थस्यानेकवाक्येन प्रतिपादितत्वाद्विवक्षितार्थनिर्व- हणं प्रौढिः॥ विवक्षितेति। कवेरभिमतस्य भूयसोऽप्यर्थस्य खल्पेनैव वाक्येन प्रतिपादनं प्रौटिः । तथा हि-त्वां निर्माय जगद्विलक्षणवस्तुनिर्वहणचमत्कृतस्य धातुस्तव- द्वकेन्दुविलोकनं तदासजेन त्वदर्थनिर्मितायाः श्रियः प्रतिराजकेषु भ्रमणक्मेण संचारणं तत्पूर्वापरप्रतिसंघात(न)बलद्विद्वन्यो लक्ष्मीमाकृष्येत्यादिको भूयानर्थ: स्तोकेन वाक्येनोपनीत इति॥
२. 'यव: ग.
Page 180
१ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ८७
संप्रत्यतिप्रसभ्नवारणार्थ कमप्राप्ता वैशेषिकगुणा लक्षितव्याः। ते च दोषा अपि सन्तो गुणीभावमापनना उच्यन्ते । तत्रैष कवीनामालाप :- 'सामण्णसुन्दरीणं विच्भममुव्बहइ अविणओचेअ। धूमोचिअ पजलिआणं बहुमओ सुरहिदारुणम्।।' दोरुणानां गुणत्वमिति शङ्कां दर्शयग्राह- पदाद्याश्रितदोषाणां ये चानुकरणादिपु। गुणत्वापत्तये नित्यं तेऽत्र दोषगुणा: स्मृताः ॥८९॥ त्रिविधा अपि ते भूयश्रतुविशतिधा बुघैः। प्रोक्ता यथा गुणत्वेन प्रविभज्य तथोच्यते ॥ ९० ॥ या म्लिष्टम्लेच्छितादीनां पददोपेष्वसाधुता। निरूपितानुकरणे गुणत्वं सा प्रपद्यते । ९१॥ यथा- 'उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या। हुं हु मुच्च मममेति च मन्दं जल्पितं जयति मानवतीनाम्॥१२३॥' अत्र हुं हु मममेत्यसाध्वोरपि म्लिष्टम्लेच्छितयोरनुकरणत्वाद्गुणत्व्रम्।। पदादीति। पदवाक्यवाक्यार्थदोषाणां गुणत्वापत्तये नित्यं ये भवन्ति, तेऽनु- करणादिषु मध्ये दोषगुणाः स्मृता इति संबन्धः । यद्यपि चानुकरणादिका एव न धामेदे चतुविशतिप्रकाराः। यथेति। येनोपाधिना गुणीभवनमाचार्यरुपपादितं तत्तदुपाधिविभागप्रदर्शनं करिष्यत इति। या म्लिष्टेति। इह दूये दोषा नित्या अनुकरणीयानुकरणानपवादकहेतुकाः श्रुतिकटत्वप्रभृतयस्त्वनित्याः । येपु पददोपेषु म्लिष्ठम्लेच्छितप्रभृतीनां यासाचुता निरूपिता, सा गुणत्वमनुकरणे प्रपद्यत इत्य- न्वयः। लुप्ैकदेशं म्लिष्टम्। अव्यक्तरूपं म्लेच्छितम्। आदिग्रहणेन ग्रस्तनिरस्तो- १. 'सामान्यसुन्दरीणां विश्रमनुद्ृद्दत्यवनियोच्छायः। धूमोच्चयः प्रज्वलितानां बह्ुमतः सुरमिदारूणाम् ।2 इति छाया. २. 'कचि दूषणानामपि गुणत्वमिति दर्शयन्राद-' इति भनेव,
Page 181
८८ काव्यमाला।
पध्मातकम्पितादयः । हुं हु इति द्वितीयहुंकारे बिन्दुप्रोळ्छनान्म्लिष्टम्। मममेति कि मुन सुज्ेति म्लिष्टमुत ममेति न निश्चीयते। अनुकरणत्वाहुणत्वमिति। अर्थविशेषे हि साधुत्वव्यवस्थेति। यच्चाशक्तिजमसाधुरूपम्, तस्यानुकरणे साधुत्वमि- ष्यत इत्युक्तम्, अनुक्रियमाणं तु स्वरूपपदानुकरणतया पूर्वार्थत्यागेन साध्वेव। तस्पै- वानुकरणस्य तत्कालरजकमानवतीमममवचनानुकारतया च गुणीकरणसामर्थ्यमिति॥ गुणत्वमप्रयुक्तसय तथानुकरणे भवेत् । यथा- 'दिवं पत्काषिणो यान्ति येऽचीकमत भाषिणः । पत्काषिणोडपि नो यान्ति ये वचन्ति प्रयुख्जते ॥१२४॥' अत्राचीकमत वचन्तीत्यादिपदानां कविभिरपयुक्तानामप्यनुकरण- त्वाद्गुणत्वम्।। गुणत्वमिति । पत्काषिण इति पादमपि कषन्तः । 'हिमकाषिहृतिषु च' इति पादशब्दस्य पद्धावः । वचेर्वचन्तीत्येव रूपमप्रयुक्तम्। न त्वन्यथापि। 'सत्यं नाम न वच्मि' इत्यादेरनुमतत्वात्। इत्यादिपदानामित्युदाहरणान्तराभिप्रायेण । यचछ्रुतेरविरसं कष्ट तस्य दुर्वचकादिपु। गुणत्वमनुमन्यन्ते सानुप्रासस्य सूरयः ॥ ९२ ॥ यथा- त्वाष्ट्रास्त्वाष्टरिराष्ट्रे न भ्राष्टेरे नादंष्टिणो जनाः । धार्तराष्ट्राः सुराष्ट्रे न महाराष्ट्रे च नोष्रिणः ।। १२५ ।।' अत्र श्तिविरसत्वात् कष्टत्वेऽपि दुर्वचकत्वाद्गुणत्वम्।। यच्छुतेरिति। दुर्वचकयोगा इति व्यावहारिकचतुःषष्टवां दुर्वचकप्रयोगोऽनु- मतः । तस्यानुप्रासघटकत्वेऽलंकार निर्वहणक्षमतया कविशक्तिव्यअकस्य गुणीभावः । आदिपदेन रीद्रादिरसानुप्रवेशः । यदाह- 'शयौ सरेफसंयोगौ टवर्गक्ापि भूयसा। विरोधिन: स्यु: 'ारे तेन वर्णा रसच्युताः॥ १.'नाष्ट्रा' ख-ग; 'नांड्रा' इति पठित्वा 'नोंट्टरा राक्षसाः' इति व्याख्यातं काव्यानुद्यासनवियेके हेमचन्द्राचार्ये :.
Page 182
१ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ८९
त एव विनिवेश्यन्ते बीभत्सादी रसे यदा। तदा तं दीपयन्लेव तेन वर्णा रसच्युताः ।' इति। त्वाड्टा राक्षसास्त्वष्टुरपत्यं वृत्रस्तस्यारिरिन्द्रस्तस्य राष्ट्रे खर्गे न सन्ति। त्राट्टे चणकादिभर्जनस्थाने न कुण्ठदंश्टा भवन्ति। असितचशरुचरणा हैमा धार्तराष्ट्रा नं विद्यन्ते। उष्टिण उष्ट्रोपजीविनः ।। यत्पादपूरणाद्यर्थमनर्थकमुदाहृतम्। गुणत्वमनुमन्यन्ते तस्यापि यमकादिषु ॥ ९३॥ यथा- 'योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् ॥ १२६ ।।' बभौ मुखेनाप्रतिमेन काचन श्रियाधिकानां प्रति मेनका च न॥१२७॥' अत्र खलुशब्दस्य चशब्दस्य च पादपूरणमात्रेऽपि प्रयोजने यमक- त्वाहुणत्वम् ।। यत्पादपूरणेति । द्योतनीयमर्थमन्तरेण प्रयुक्तमव्ययपदमनर्थकमित्युक्तम्। पादपूरणार्थत्वं तु दूषणताबीजम्। आदिग्रहणाद्गययपूरणम्। सति तूपयोगे तस्य तद्दीजाभावाद्दोषभावविर होऽलंकारारम्मे च गुणत्वम्। तदिदमुक्तम्-यमकादि- प्विति। आदिशब्दोऽनुप्रासचित्रादिपरः । वाक्यालंकारार्थत्वमपि शब्दालंकारा- रम्भकत्वमेव। यदाह-'आर्षार्षिपुत्रकर्षिकवैदिका दिवाक्यानामलंकारहेतवो वाक्यालंकारार्थाः' इति। तेन- 'उत्फुलडकमलकेसर परागगौरद्युते मम हि गौरि। अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन ।।' इति। अत्र हि प्र इत्येतयोर्न वाक्यालंकारप्रयोजकत्वमित्युक्तप्रायम्। योषितामित्यादा- बतितरां नखलूनं योषितां गात्रमुज्वलतया नोनमिलयेव पर्याप्ते द्वितीयपादे तदुभय- मपि यमकारम्भकं सत्प्रस्तुतोपयोगितया कविव्युत्पत्तिपुरस्कार प्रवृत्तमपजहाति दोष- भावमुपादत्ते च गुणत्वमिति ॥। यत्तु रूढिच्युतत्वेन प्रोक्तमन्यार्थसंज्ञितम्। प्रहेलिकादिपु प्रायो गुणत्वं तस युज्यते ॥ ९४॥ १. 'इंसा स्र.
Page 183
९० काव्यमाला।
यथा- 'खातयः कनि काले ते र्फातयः स्फार्हवल्गवः । चन्द्रे साक्षाद्ववन्त्यत्र वायवो मम धारिणः ॥ १२८।।' अत्र खातय इत्यादीनां घर्घरिकादौ घृङश्वानवस्थाने न रूदिः। गूढार्थे तु प्रहेलिकादौ तन्न दुष्यतीति तेषां दोषगुणत्वम्।। यस्विति। रूडिच्युतत्वेन द्वितीयां संज्ञां प्रयोजयति। आकीर्णामत्र्रणाद्युप- योगिनी प्रहेलिका। तथा च-तद्विय्यसंभाषायां विदग्धैरुपन्यासै: सवार्था प्रत्यायक- त्वलक्षणबीजाभावान्न दोष:, गुणस्तु भवति। अनुकरणादिकमादिपदेन गृह्यते। सातयो घर्घरिकाः । कनीति कन्यासंबोधनम्। कालश्रण: कर्णाटदेशभाषानुसा- रात। स्फातयः स्फीताः । स्फाहों मनोहरः। वल्गुर्ध्वनिः। चन्द्र आहादकः । वायवः प्राणाः । धारिणोऽनवस्थिताः। तदयं वाक्यार्थ :- हे कनि कन्ये, तवाहा- दकचरणवद्धा यथोक्तविशेषणा घर्घरिकाः साक्षाद्धवन्ति श्रोत्रेण प्रत्यक्षीकियन्ते। अत्र प्रस्तावे मम प्राणा उद्दीपनप्रकर्षमसहिष्णवो धारिणोSनवस्धिता इति। न्रणग्र- रोहस्थानादी खात्यादिशव्दानां रूडिर्न तु घर्घरिकादाविल्याह-अन्नेति। नामधा- तुविवक्षया द्विधा व्याख्यातम्।। तुच्छवाच्यमपुष्टार्थमिति यत्प्राक्प्रकाशितम्। तस च्छन्दोऽनुरोघादौ गुणत्वमवधार्यते ॥९५॥ यथा- 'द्विरष्टवर्षाकृतिमेनमर्थिनामुशन्ति कल्पोपपदं महीरुहम् । यमिन्द्रशब्दार्थनिपूदनं हरेर्हिरण्यपूर्व कशिपुं प्रचक्षते ।१२९॥' अत्र द्विरष्टव्षीकृतिमिति कल्पोपपदं महीरुहमिति हिरण्यपूर्व क- शिपुमित्यस्य तुच्छार्थत्वेऽपि च्छन्दोऽनुरोषाद्रुणत्वम् ।। तुच्छेति। शब्दपल्वनस्य प्रकृतरसाननुगुणत्वेन दोपत्वप्नसज्ञे कचिदनन्यग- तिकतया कवेरुत्पादते। तथा हि-भिन्नसर्गान्तैरित्यादिना सर्गाणामीत्सर्गिकैकनर- त्तनिर्वाहीचित्ये स यथोकतसंक्षिप्तशव्दाप्रवेशात्पररूपेण तदर्थत्वस्य विवकितत्वा् १-२. 'सादयः' ख.
Page 184
१ परिच्छेद: 1] सरखतीकण्ठाभरणम्। ९१
शब्दविकासे न दोषः, कि तु गुण एव। प्रकृतोदाहरणे द्विरष्टवर्षाकृतिमिति कल्पो- पपदं महीरुहमिति च निदर्शनं मन्यन्ते। षोडशादिशव्दानामपि वंशस्थप्रवेशत्वा- दनन्यगतिकत्वाभावात्। हिरण्यपूर्व कशिपुमिति तु संगच्छते। नहि हिरण्यकशि- पुशब्दोऽत्र प्रविशति। प्रदर्शनार्थ तु द्वयमन्यदप्युपात्तम्। एवंविध: शब्दविस्तरो गुणतामासादयतीत्याशयात्। तेनायमर्थ :- पावाख्यशब्दगुणे तावतुच्छता चम- त्कारकारितया गुणधुराधिरूढेवाविस्तरविविक्तविषयतया क विशेषगुणस्य भवतीति जिज्ञासायां तु छन्दोऽनुरोधो विहितः। सोऽपि हि कादाचित्कः करोत्येव दोष- भावव्यावृत्तिमिति। प्रतिपादितमादौ यदसमर्थमवाचकम् । तस्यापि खलु मन्यन्ते गुणत्वं सीत्कृतादिपु ।। ९६।। यथा-
रक्तवैणिककराहृततत्री मण्डलकणितचारु चुकूजे ॥ १३०॥ अत्र कूजितस्य पक्षिणोऽन्यत्रावाचकत्वेऽपि कामशास्त्रे Sनुमतत्वा- दुणत्वम् ।। प्रतिपादितमिति। अस्ति कथिदेवं विषयो यत्रासमर्थस्य चारुतया गुण- भावः । तथा हि-यद्पि गणपाठादव्यक्तशब्दः कृजितम्, तथापि लोके पक्षि- विषय एव नियतम्, तथा चाभिमतविषये प्रयुक्तं पक्षिविरुताकारमावेदयति। 'हारीतप्रमृति-' इत्यादिना कामशास्त्रकार: सीत्कारोपदेशनात्। सीत्कारस् च चतु:षष्टिकलात्वेन प्रवणतयात्यन्तमुपादेयत्वात्। तदाह-'अन्यान्यप्याकृतिग्रह- णान्युपलक्षयेत्' इति ॥ शास्त्रमात्रप्रतीतत्वादप्रतीतं यदुच्यते। गुणत्वं तस्य तद्विद्यसंभाषादौ विदुर्युघाः ॥९७॥ यथा- 'सर्वकार्यशरीरेषु मुक्ताञस्कन्घपञ्चकम्। सौगतानामिवात्मान्यो नासि मन्रो महीभृताम् ।।१३१॥'
Page 185
९२ काव्यमाला।
अत्राङ्स्कन्धपञ्चकमित्यस्य शास्त्रमात्रप्रसिद्धस्यापि तद्विद्संभाषायां गुणत्वम्॥ शास्त्रेति। शात्रमात्र प्रसिद्धानामाहृत्यप्रतीत्यजननेन विवक्षितवाक्यार्थप्रत्यय- परिस्खलनं खेददायी नानामृदुदुष्टताबीजम्। यदि तु कुतब्विद्विशेषाज्झटित्येव प्रतीति जनयेत्तदा कथं दोषः । अस्ति च प्रतिपत्तिव्युत्पत्त्यतिशयलक्षणो विशेषः । तदिदमुक्तम्-तद्विद्येति। मन्त्रणाद्यवसरे औचितीवशात्ततत्पदानां गुणत्वमपि निर्वहति। शास्त्रप्रक्रियापेक्षित्वं गाम्मीर्यम् । शास्त्रव्यवहारसंकेतितपदानां गुणत्व- मित्यन्यः प्रकारः । यथावद्विनियोगः कार्यस्स्य प्रकारसाकल्यं शरीरम्, शब्द- च्छलात्कायः, आत्मा सारभूतः क्षेत्रज्ञथ। कर्मणामारम्भोपायः पुरुषद्रव्यसंपद्देश- कालविभागो विनिपातप्रतीकार: कार्यसिद्धिरिति पश्चाज्वानि। रूप संज्ञा संस्कारो वेदना विज्ञानमिति पथ्च स्कन्धाः ॥ अर्थप्रतीतिकद्रे क्विष्ट नाम यदुच्यते। झटित्यर्थप्रतीतौ तद्गुणत्वमनुगच्छति ॥ ९८ ॥ यथा- 'अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः । पितुः पदं मध्यममुत्पतन्ती काश्चीगुणस्थानमनिन्दितायाः ॥१३२॥ अन्रात्मना पदं शब्दगुणमिति पितुः पदं मध्यममिति चाकाश- विषया काश्चीगुणस्थानं नितम्बविषयमिति सर्वप्रसिद्धेर्झटित्येव प्रतीति करोतीति क्विष्टस्यास्य गुणत्वम् । अर्थप्रतीतिकृदिति। इहापि तदेव दूषणताबीज सटिति प्रतीतिजनने सति समाधीयते। समाधानोपायथ पदान्तरसंनिधानमतिप्रसिद्धि: प्रकरणं वा। तथा हि-प्रकृतोदाहरणे उत्तरावें हरिरित्यभिधानादात्मनः पदमिति हरे: पदमिति संपन्नम्, अस्य च सामान्यशब्दत्वादाकाशविषया प्रतीतिर्यद्यपि झटिति नोत्पन्तु- मर्हति, तथापि शब्दगुणमिति विशेषणेन पदार्थान्तराद्यवच्छिय विवक्षिताभिमुखी प्रतीतिरुपजन्यते। पितुः पदमिति । यद्यपि पदमिति सामान्यं तथाप्याकाशस्येव मध्यमचरणविन्यासस्थानत्वेन प्रसिद्धे्न तथोचितप्रतीतिव्यवधानम् । काशीगुणस्था- नमिति। चरणादारभ्य वर्णनाकमे नितम्ब एव कामीनिवेशनस्योचितत्वान प्रती-
Page 186
१ परिच्छेद: I] सरख्तीकण्ठाभरणम् । ९२
तिव्यवधानम्। तदिदमुदाहरणत्रयप्रयोजनमुदाहरणादेरनेकोsत्र वाक्यार्थॉ गवे- षणीयः । कर्थ तहिं सर्वप्रसिद्धेरिति त्रवीति। इत्थं शब्दगुणशब्दस्य बहुन्ीहित्वा- दवइयं विशेषपर्यवसानाय प्रसिद्धिरनुसरणीया। अवश्यं च वर्णनक्रमेऽपि काी- गुणस्थानमनिन्दिताया इत्यत्र काशीगुणस्थानशब्दस्य नितम्बविशेषपर्यवसानार्थ कवीनामौचित्यप्रसिद्धिरजीकर्तव्येति। ननु चात्मन: पद शब्दगुणत्वमित्यत्र प्रसाद: कस्मान्न भवति। एवमाह न भवतीति। उदाहर णस्यादूषणत्वात्सामान्यशब्दस्य विशेषपर्यवसानम्, अन्यच्च समभिव्याहृतपदार्थसंसर्गरूपे वाक्याथें सच्छसलिल इवाभिमतविशेषप्रतिबिम्बनमित्युपाधिद्वयस्य संकराच।। अग्रसिद्धार्थसंबन्धं यद्ग्ढार्थमिति स्मृतम्। तव्याख्यानादिषु प्रायो गुणत्वेन तदिष्यते॥ ९९॥ यथा- 'अम्हारिसा वि कइणो कइणो हंलिबुढ्ठसालिपमुहा वि। मण्डुकमक्कडा वि हु होन्ति हरीसप्पसिंहा वि ॥ १३३॥' [अस्मादृशा अपि कवयः कवयो हरिवृद्धशालिप्रमुखा अपि। मण्डूकमर्कटा अपि खलु भवन्ति हरिसर्पसिंहा अपि ॥]
स्वयं व्याख्यातत्वाद्गुणत्वम् ।। अप्रसिद्धार्थसंबन्धमिति। तस्प गुणार्थस्य व्याख्यानं तव्याख्यानम्। अत्रा- प्यतिप्रसिध्याकृष्टस्यानतिप्रसिद्धार्थप्रतीत्यकरणं दुष्टतावीजमभिधानीयम्, तत्तु प्रती- तिपर्यवसानादेव निवर्तते। भवति चाभिधानकोप इव व्याख्याने झटिति प्रल्ययः। अस्मादशा अपि मन्दप्रतिभाना: कवयः कविशब्दवाच्या हरितृरद्धशालिप्रमुखाध लोकोत्तर प्रतिभाशालिनस्तदवयवतां विख्याते चाविरूयाते च शब्दाः साधारणा भवन्ति। तदथा-हरिशब्द एवेति व्याख्यानम्। ततो दोषत्वाभावः प्रतिबस्तुल- क्षणालंकारपर्यवसायितया च प्रकृतार्थानुगुणत्वेन गुणत्वलाभः। तदेतवाचष्टे-खयं व्याख्यातत्वाद्दोषाभावो गुणत्वं पुनराभिप्रायिकातप्रकृतानुगुणभावादिति बोदव्यम् ।। १. 'अन्द (चन्द)' ख.ग.
Page 187
९४ काव्यमाला।
नेयार्थ यत्ससंकेतक्कप्तवाच्यं निरूपितम् । प्रहेलिकादिषु प्राज्ञैस्तदुणत्वेन गण्यते ॥ १०० ॥ यथा- 'मोरु कलावेण वहइ तह णामह सरिणाड। उस्सीसा पाअन्तिगओ अणुणत्तिहिं जणु णाउ ॥ १३४ ॥' [मयूर: कलापेन वहति तस नामः सदशनामा। उच्छीर्षात्पादान्तगतोऽनुनकं यथा नौका ॥] अत्र मयूरबर्हचन्द्रकसंकेतेन कल्पितस्य चन्द्रनान्नो नेयार्थत्वेऽपि प्रहेलिकात्वाद्गुणत्वम् ।। नेयार्थमिति। अत्रापि पूर्ववदेव वासना। आकीर्णामत्त्रणादौ विदग्धानां लक्षणादय: प्रहेलिकाविशेषानुन्मीलयन्त उपयुज्यन्ते । तथा हि-मयूरेति। 'जिअनाउ' इति पाठे जितनाक इति स एवार्थः। मयूरो वर्हभारे चन्द्रकं बहति। अनेन संकेतेन चन्द्रनाम लभ्यते। संविष्ठस्य शिरोदेश उच्छीर्पम्, चरणदेशः पादान्तः । उच्छीर्पेण प्राची दिग्लक्ष्यते। 'प्राक्शिरा: शयीत' इति बचनात्। अर्थात्पादान्तेन प्रतीची। ततथ् 'प्राच्याः प्रतीचिमर्धचन्द्रो गतः' इति प्रातः- कालोद्वेदो वाक्यार्थः। 'अणुणेन्ति अजिणणाउ' इति पाठे सुभगमानिनं कान्त- मनुनयन्त्या मया ज्ञात हति खण्डितकामिनीखेदोकि:। न चैतासां लक्षणानामस्ति किचित्प्रयोजनमिति नेयार्थत्वप्रसक्ती प्रहेलिकाभाव एव समाधानहेतुः। ननु चोच्छीर्षपादान्तरपदयोरस्तु, मयूरकलाप इत्यादी तु कथम्। यमिति हि सर्वना- माभिमतमेव तावदुपस्थापयति। बहे बहनां बहुले कथमेकस्य प्रतीतिरित्यभि- धानेऽपि कदाचितिक्किष्टस्य विशेषगुणः स्यात्। नात्र नेयार्थता, कितु तेन संकेतेन कल्पितस्य चन्द्रनान्न इति । तस्य नाम्न: सदृशनामेत्यनेन मुख्यवृत्यैव विवक्षित- सदशलाभादिति। अन्नेद वक्तव्यम्-तस्य नाम्न इत्यनेन चन्द्रकपदमुपस्थापितम्, न च तेन सहासि्ति चन्द्रपदस्य सादश्यमिति। तत्र लक्षणाश्रयणीया। तदिदमुकं चन्द्रसंकेतेन कल्पितस्य चन्द्रनाम्न इति। उपलक्षणतया च एकदेशव्याख्यानम् ।। १. 'वदीरितन्' क.ख.
Page 188
१ परिच्छेदः I] सरस्तीकण्ठाभरणम्। ९५
यदनिश्रयकृत्प्रोक्तं संदिग्धं तद्ुणी भवेद्। भवेद्विशेषावगमो यदि प्रकरणादिभिः ॥१०१॥ यथा- 'महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । स शार्ङ्कचक्रासिगदाब्जपाणिमेंघच्छविः पातु जगन्ति शौरिः ॥१३५॥ अत्र तस्मिन्नपत्ये इत्यनिश्चितस्याप्यपत्यविशेषस्य संदिग्धत्वेऽपि गौर्यामिति प्रकरणेन गम्यते। मेघच्छविरित्यस्य च नवश्यामादिपदा- नुपादानेऽपि शौरिसंबद्धत्वान्नवमेधच्छविर्मेधश्यामच्छविरिति वा वि- शेषो निश्चीयत इति तस्यापि गुणत्वम् ।। यदिति। संशायकजातीयस्य संदेहजनकत्वं नाम दूपकतावीजम्। तद्यदि कुतश्विद्विशेषाद्विवक्षित प्रतीतिर प्रत्यूहमुपपथते तदा भवलयेव दोषाभावः। विशेषा- वगमो विशेषदर्शन तस्पैव संशयविरोधित्वात्। महीभृत इत्यादावपत्यशब्दो यद्यपि गौरीशब्दोऽपि तदितरदत्तपद इति संशायकजातीयो भवति, तथापि तच्छब्दोप- स्थापित एव विवक्षितविशेषे पर्यवस्यन्नपजहाति दोपत्वम्। तच्छव्द एव क्थ तम- रथ्मुपनयतीत्यत्र तु प्रकरणमेव जाग्रदवस्थमस्ति। मेघच्छविरित्यत्र तु यद्यपि मेघ- पदं श्यामाश्यामदत्तपदतया संशायकजातीयम, तथापि प्रसिद्धपदनीलवर्णार्थगौरी- पदसमभिव्याहाराच्छव्दान्तरसंनिधिरपि विशेषे नियमयति तहा छविपदं वा विशेषे पर्यवस्यति। अन्न प्रकरणादीनां विशेषस्मृतिहेतुत्वात्। अत एव सूत्रे बहुवचनादि- पदानुपादानादनुपात्तास्तदेतदभिसंधाय व्याचष्टे-अन्रेत्यादि। एवं नवमेषच्छ- विरिति चोक्े यथा नियमेनार्थप्रतीतिरप्रत्यूहा भवति तथा मेधच्छविरित्युक्त इति। अत एव कविसमयप्रसिद्धविशेषावगमसामश्रीसंपादनेन गुणत्वमिति। कथ पुनरिदं किष्टस्य वैशेषिकं न भवति को वाक्यभूतेन भवति। कि तु संशायकत्वमापादयतः प्रतिभासोऽप्युक्तयुक्या निवर्तत इत्यभिमतम्। न चैवंरुपता क्रिष्टवैशेषिके संभ- वति। एकस्पैव चित्रपदस्य संयशकतिरिति न वाक्यार्थगामिता ॥ यत्तद्विरुद्वमित्युक्तं विपरीतप्रकल्पनम्। तथाभूताभिघानेन गुणत्वं प्रतिपद्यते॥ १०२॥
Page 189
९६ काव्यमाला।
यथा-1 'अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः । भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥१३६॥ अत्र विपरीतार्थकल्पनं विरुद्धत्वेऽपि संध्यर्थविग्रहार्थयोः स्फुट-
यत्तदिति। एवं वस्तु प्रकृतमभिसंधाय वाक्यरचने तदुपमर्दकवस्त्वन्तरप्र- वेशो विरोधः । यत्र द्वे अपि वस्तुनी प्रकृते वस्त्वन्तरमेव वा प्रकृतं तथथोक्तरु- पाभावे कथं दोषः । तथा हि-अभिधायेत्यादौ दूतवाक्ये संधिविग्रहयोर्मिथो विरोधिनोरपि विवक्षितं स दोषः । सरुषः सक्रोधस्य तव माननां पूर्जा शिशुपाल इच्छति । अनुशयः पश्चात्तापः । अभिमुखं सोत्कण्ठं मनो यस्य स तथेति संधि- पक्षे। विग्रहपक्षे त्वनुशयः कोधो भवतः सकाशादभि भयशून्यं मनो यस्पेति नित्यसापेक्षत्वात्समासः । सरुषो मानना उपयोगस्तदिह निसृष्टार्थस्योभयोपन्यासो यद्रोचते तद्विधीयतामित्यभिसंधाय रचित इति गुणत्वमित्युभयविवक्षापक्षे व्याख्या- नम्। यदा तु शासनहरो दूतस्तदोदतेष्वपि शत्त्रेपु यथोक्तवक्तारो दूता भवन्तीति न्यायेन विग्रहार्थमेवाभिमतः विपक्षस्यापि प्ररोचना दूतकर्तव्येति मुखे संधिः पर्या- यभूतो युक्त एव। तदिदं व्याख्यानेन स्फुटयति-अत्रेति। संधिरूपोऽर्थ: संध्यर्थ:, विग्रहरूपोरऽर्यों विग्रहार्थः। तयोरभिधानेन स्फुट एव भिन्नोऽर्थ: ग्रयो- जनम् । पक्षद्वयेऽपि यत्पयोजनमुक्तं तदभिप्रायेणैतव्यारयानम् ॥। अप्रयोजकमित्युक्तमविशेषविधायकम् । स्वरूपमात्रे वक्तव्ये तस्ापि गुणतेष्यते॥ १०३ ॥ यथा- 'तेऽप्याकाशमसिश्याममुत्लुत्य परमर्षयः । साग्रं वर्षसहसं स तपस्तेपे महामनाः ॥ १३७ ॥' अत्रासिश्याममित्याकाशं प्रति, साग्रमित्यनेन च वर्पसहस्रं प्रति विशे- षानभिधानेऽपि दूरोत्पतनचिरतपश्चरणयोरुपयोगविवक्षायां गुणत्वम् ।। १. 'ते चा' स.
Page 190
१ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ९७
अप्रयोजकमिति। तदेव कविभिरुपादीयत इति यदभिप्रेतसंधिमाधते। यत्र वाक्यार्थप्रविष्ठमपि न तथाभावमासादयति तदप्रयोजकमित्युक्तम्। तस्य यदि विशेषखरूपाभिधाने पर्यवसानेन प्रयोगो न तर्हिं दोषः । तथा हि-आकाश- मित्यादी नातिश्यामतारूपं विशेषमाकाशे कांचिदपि विशेषमात्रामुन्मुद्रयति, आका- शस्य सर्वदा तदरूपानपायात्। एवमसमग्रस्य सहस्त्रत्वाभावात्साअ्रमित्यपि न विशे- षाधायकम्। आकाशसहस्रयोस्तु यदेव रूपमावेदनीयमित्यत्रैतावन्मात्राभिप्रायेण नास्ति दूषणम्, तथापि नान्तरीयकयोरभिधाने कि प्रयोजनं येनानयोर्गुणभाव- संपत्तिरित्यत आह-दूर इति। अतिदूरे श्यामत्वमधिकं प्रतिभाति। क्षणमा- त्रमपि न विरतिरासीदिति सात्रपदाभिप्रायोऽत एव नात्र पौनरत्यम्। तहिं वाक्यार्थें विशेषाधायकत्वमेवानयोरिति कथं दूषणत्वसंभावना । इत्थम् । यस्मि- अ्नुपादीयमानेऽपि नाभिमतन्यूनता तत्पदमप्रयोजकम्। अस्ति चात्र दयोरपि तज्जातीयतायां दोषत्वप्रसङ्गः । स प्रकृतोपयोगविवक्षायामेव निवर्तते । सरवथा प्रकृतानुपयोगे दूषणत्वानपायिता। अस्ति चात्रोचित एवोपयोगो यो विवक्षितुमई- तीत्याह-विवक्षायामिति। यदव्युत्पत्तिमद्देश्यमिति पूर्व निरूपितम्। महाकविनिबद्धं सत्तदप्यत्र गुणी भवेत् ॥ १०४ ॥ यथा- 'घण्डेपूद्दण्डपिण्डीतगरतरलना: प्रापिरे येन वेला- मालग्ळ्योत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाः ॥१३८।' 'पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवम् ॥ १३२॥' 'किरन्तः कावेरीलडहलहरीशीकरकणान् ॥ १४० ।' अत्र तल्लगल्ललडहलहरी प्रभृतीनामव्युत्पत्तिमत्त्वेनो द्देश्यत्वे5 पिमह्दा
यदिति। संदर्भच्छायावैषम्यमत्र कष्टतावीजमिति पूर्वमुक्त तत्र यदि समान- च्छायशब्दमध्यनिवेशनेन प्रतिक्षिप्यते तदा क्थ दोषः । तथाभूतानामेव पदानां संदर्भनिर्वाहकतया महाकबिनिबद्धमिति। अत एव शब्दगमकतया गुणत्वलाभः । उद्दण्डत्वेन पिण्डीतगराणां कठोरता। तादशानामपि तरलनेन प्रादिः। उत्ताले- ७ स० क०
Page 191
९८ 1 काव्यमाला।
त्याद्यनुप्रासवत्प्रोढपदसजातीयमेव तलपदम्। एवं गलेत्यादौ बौद्धव्यम्। तदिद- माह-अत्र तल्लगल्लेत्यादि ॥ ग्राम्यं घृणावदश्लीलामङ्गलार्थ यदीरितम्। तत्संवीतेषु गुप्तेषु लक्षितेषु न दुष्यति ॥ १०५ ॥ तत्र संवीते यथा- 'तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने योजयितुं यतख। योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥१४१॥' अत्र तद्वीर्यीनेषेकभूमिरित्यश्रीलस्यापि संवीतत्वाद्गुणत्वम् ।। यदाह- 'संवीतस्य हि लोकेषु न दोषान्वेषणं क्षमम् । शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना ।I' ग्राम्यमिति। अत्र केचिदथासंख्यं व्याचक्षते-पृणावदाददीनां त्रयाणों क्मेण संख्यानगोपनलक्षणानि दोषत्वाभावबीजानीति, तदसत्। घृणावदर्थादिमात्र एवाय्रे प्रतिसंभेदत्रिकमुपादय संव्यानादित्रिकस्योपदर्शनात्। एतादृशयथासरूय- सूचनायैव लक्षणातिकमेण घृणावतः प्रथममुपादानम्। तस्मात्सखयानमिव संख्यानं लोकानुमतिः। किंचित्पदं दुष्टजातीयमपि लोके नोपादानात्ताद्रप्यं जहाल्येव । प्रायेण लोकानुसारि काव्यदर्शनं भवत्यतः प्रतिखं मेदत्रितयसंबन्धादुपपन्नं यथासरुयं स्यादित्यभिधाय पूर्वकमेणोदाहरति-अत्रेति। एतेन संवीतेष्वित्यादिक बहुवचनं व्याख्यातम्। यथा शिवलित्नस्य संस्थान इत्यत्र यद्यपि मुख्यविधैव शिवलिज्नपदम- नील एवारयें, तथाप्यविगानेनादिप्रयोगयोगित्वान ब्रीडादानक्षमं तथेहापि तद्वीयें- ति। शिवलितेत्यत्र भगवत्संबन्धः प्रयोजक इति तु तुल्यमत्रापीत्याह-तदिति। अत्र हि जगदन्तर्यामिणो भगवतस्तद्विरोधितया प्रसिद्धिरुपजीव्या तदुपजीवने वीडादायिनी प्रतीतिरनुत्थायिन्येव। अत्रैवाचार्यमतं लिखति-संवीतस्य हीति। कस्यासभ्यत्वेति । भावना सकललोकसाधारणं ज्ञानम्।। गुप्ते यथा- 'मुदु+त्यजा यद्यपि जन्मभूमिर्गजैरसंबाधमयांबभूवे। स तेऽनुनेय: सुभगोऽभिमानी भगिन्ययं नः प्रथमाभिसंधि:॥१४२॥'
Page 192
१ परिच्छेदः ॥] सरसतीकण्ठाभरणम् ।
अत्र जन्मभूमि संबाधसुभगभगिनी शब्दानाम छ्लीलार्थान्तरत्वेSपि प्रथ- मार्थप्रभावभावनागुप्तत्वाद्गुणत्वम्।। यदाह- 'वस्तुमाहात्म्यगुप्तस्य पदार्थस्य विभावनात्। भगिनीभगवत्यादि नासभ्यत्वेन भाव्यते।I' यस्य पदस्य व्युत्पत्तिलभ्यमर्थान्तरं ग्राम्यम्, यस्य वा समभिव्याहारलभ्यम्, तत्र गोपनं समाधानवीजम् । तदुभयं भवति हुढेवा बलवत्त्वं जलधरादिष्विच तथा तात्पर्योन्नयनप्रतिबन्धेन विपरीतार्थतात्पर्योन्नयनपर्यवसानं वा । यथोदाहरि व्यमाणे तथा च प्रतीतेरप्रत्यूहे दूषणताचीजाभावस्तत्र प्रथमकक्षापक्षीकरणेनाय- मुदाहरति । रूढयुपस्थापितः प्राथमिकोऽर्थस्तस्य भावो झटिति वाक्यार्थज्ञानं तस्य भावना वासना तया गोपनं चमत्कारार्पणमतिरोधानम् । अमुमेवार्थमाचार्यमतेन खहस्तयति-वस्तुमाहात्म्येति। अविभावनादिति। विरुद्ध बीडादायितया भावनं तस्याभावात्। तेन कचिद्योगोपादानेऽपि तथाभावसंपत्ती न दोषः। एत- देवोदाहरणेन स्फुटयति-भगिनीति । एतेन भगवतीति पूर्वानुपात्तमुदाहरणं व्याख्यातम् । द्वितीयगोपनमशस्तार्थान्तरे व्यक्तीभविष्यतीति॥ लक्षिते यथा- 'ब्रह्माण्डकारणं योऽप्सु निदधे बीजमात्मनः । उपस्थानं करोम्येष तस्मै शेषाहिशायिने ॥। १४३ ।' अत्र ब्रह्माण्डोपस्थानशब्दयोरसभ्यस्मृतिहेतुत्वेऽपि अन्यत्र लक्षित- त्वाद्गुणत्वम् ।। यस्य पदस्पैकदेशो ग्राम्यानुगामी तस्य स्मृतिहेतुता। तत्र कुत्रचिदुक्तिवेचित्र्या- देकदेशो झटिति स्मारकः, कचित्तथेव समुदायशक्त्या विपरीतार्थोपस्थापनाज्झाटिति खार्थ समुदाय एव प्रति गादयति। आद्यो दूषणम्। द्वितीयस्तु वैजात्याभावाह्ुणः । तदेवं लक्षणं यत्रादे आम्यत्वं ततोऽन्यत्रैव बहुधा लक्षणात्तदिदमुक्तम्-अन्यत्र लक्षितत्वादिति॥ १. 'सायिभावनात्' इति पाउष्टीकानुसारी भवेव.
Page 193
१०० 1 काव्यमाला।
एवमशस्तादीनामपि गुणत्वम्। यथा- 'भद्रे मारि प्रशस्तं वद सदसि मुदा नृत्य कृत्ये महूर्त मृत्यो रल्नैश्तुष्कं विरचय रचयारात्रिकं कालरात्रि। चामुण्डे मुण्डमालामुपनय विनयखायतां मैरवीर्ष्या- मेवं देवे भवानीं वदति परिजनव्याहृतिस्त्रायतां व: ॥१४४।।' अत्र मारीकृत्यादीनामशस्तार्थानामपि पदानां समस्तमझलायतनस्य भगवतो विश्वेश्वरस्य संबन्धेनोक्तत्वाद्रुणत्वम् ॥ पुनरपरेण प्रकारेण संव्यानं भवतीत्यप्रशस्ते स्फोरयति। परमेश्वरस्य मजला- य्यतनत्वं तत्संबन्धिमात्रस्येव मञलीभवननियमेन शास्त्रेतिहासादौ प्रसिद्धत्वात्। तदुक्तम्-'तथापि स्मर्तृणां वरद परमं मन्नलमसि' इति। अयं च प्रकारोऽ- प्रशस्तार्थ एव भवति। मार्यादयो मातृविशेषाः । आरात्रिकं नीराजनदीपव्यासन्ग- पात्रम् । परिजनपदं संबन्धं पुष्णाति।। द्वितीयं गोपनप्रकारमशस्तार्थान्तरं व्यज्यति- यथा वा- 'सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः । निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥ १४५॥ अत्र धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे निपतन्तीत्यस्यामङ्गलार्था- न्तरत्वेऽपि 'हंसानहं धार्तराष्ट्रानिति व्यपदिशामि' इति वक्ष्यमाणवाक्य- गुप्तत्वाद्गुणत्रम् ।। यथा वेति। पक्षः पतत्रं परिकरथ। आशा दिक् प्रत्यासा च। मदः क्षीबता दर्पक्। निपात आगमनं शस्त्रादिहतानां मेदिनीसंगतिथ। रञमन्नलान्तः सस्त्यनप्रवृत्तस्य सूत्रधारस्य मझलार्थाधिकारवस्तुप्रस्तावनं तावहुद्धिपूर्वकमत्र न संभवति हंसानहमित्यादिना तात्पर्यस्य नियमितत्वात्। खशक्या तु पदार्थान्तरमा- १. 'मुहूते' स. २. 'रात्रे' स. ३. 'विनयस्त्रायतां' स. ४. 'वाक्यान्तरगुप्तत्वात्' ख.
Page 194
१ परिच्छेद: I] सरखतीकण्ठाभरणम्। १०१
भासयन्ति पदानि दोषतया न प्रतिभासते। तत्र बीच्यङ्वविशेषोपक्षेपस्यामुस- शरीरत्वादौचित्यनिवेश एव स्फुटं कारणमित्याशयो बोदव्यः । औचित्यविरोधो न सार्वत्रिक इवि नातिप्रसञ्गः ।। यथा च- 'कोऽभिप्रेतः सुसंस्थानस्तस्या इति न निश्चयः । आशापिशाचिकैषा तु कुमारी मां वरिष्यति ॥१४६ ॥' अत्राभिप्रेतसुसंस्थानाशापिशाचिका कुमारीति पदानामशस्तस्मृतिहे- तूनामपि लोकैरन्यत्र लक्षितत्वाद्रुणत्वम् ॥ कोऽभिप्रेत इत्यादौ पूर्ववदेव वासना ॥ एवं घृणावदर्थादीनामपि गुणत्वम्। तत्र घृणावतो यथा- 'पद्मान्यकाशुनिष्ठच्ताः पीत्वा पावकविपुषः । भूयो वमन्तीव मुखैरुद्रीर्णारुणरेणु भः ॥ १४७ ॥' अत्र- 'निष्ठयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्तु आम्यकक्षां विगाहते ।' घृणावदर्थान्तरस्य यथा- 'कामिनीगण्डनिस्यन्द बिन्दुरिन्दुर्मतो मम। अन्यथा कथमेतस्य जगदुद्दयोतिनी द्युतिः ।।१४८।।' अत्र रागातिशयहेतुभूतयो: कामिनीकपोलचन्द्रमसो: स्वरूपभाव- नामाहात्म्येनार्थान्तरभावना गुप्तेति गण्डनिस्यन्दबिन्दुरित्यस्य घृणावद- र्थान्तरस्यापि न दोषॅत्वम् ।। अथापर संरूयान प्रकार घृणावदरयें कथयति-यथेति । गुणवृत्तिव्यापाराध- य्येष्ववान्तरादिपदेु प्रथमत एवान्यक्ियादिधर्माणामन्यत्रारोपे समाधिप्रादुर्भावा- १. 'यथा वा' ग. २. 'निःस्न्दि' ख. ३. 'रमैतिर्मम' सनग. ४. 'दोषः' कनख.
Page 195
१०२ काव्यमाला।
दनुत्थानं दोषाभावत्वद्वारं, ततथ मुख्य एव स्थाने जुगुप्सादायित्वं पूर्वाचार्यशो- केनैव व्याचष्टे-अत्रेत्यादि। गुणग्रस्तत्वमभिप्रेत्यातिशयसंपत्तौ प्रकृतौचित्या- त्कपोलस्येव प्रतिभासस्तदिदमुक्तम्-रागातिशयहेतुभूतयोरिति । तथा च जगन्नयनानन्दभूतस्य निःशेषिताशेषतमसथन्द्रमसो यदिदमभिप्रेतकामिनीक- पोललावण्यबिन्दुमात्रतया भानं तदुचितमेवेति। प्राच्यानामेव वासनामभिसंधाय स्मृतिहेतुमुदाहरति- घृणावत्स्मृतिहेतुर्यथा- 'विपूयरशनावन्तः पलाशाषाढधारिणः । ब्रह्मवर्चस्व्रिनो यान्ति द्विजपोगण्डका इमे ॥ १४९ ॥ अत्र विनूयपलाशब्रह्मवर्चसपोगण्डशब्दानां घृणावत्स्मृति हेतुत्वेSप्ये- न्यत्र लक्षितत्वाददोषत्वम्। यथेति। आपाढो दण्डः । ब्रह्मवर्चसिन इति। 'ब्रह्महस्तिभ्यां वर्चसः' इति समासान्तस्ततो मत्वर्थीय इनिः । पोगण्डो बालः ॥ एवमन्यप्रकारमपि संव्यानादिकं खयमुनेयमिल्याह- एवमन्यैदपि द्रष्टव्यम्। अत्र च- किंचिदाश्रयसंबन्धाद्धत्ते शोभामसाध्वपि। कान्ताविलोचनन्यस्तं मलीमसमिवाञ्जनम्॥ १०६॥ तदथा 'अब्र प्रोतवृहत्कपालनलक्क्ूरक्रणत्कक्कण-
व्यालोलस्तनमारभैरववपुर्दर्पोद्धतं धावति ॥ १५० ॥' अत्राश्रयस्य बीभत्सरसोचितत्वाददोषेत्वम्।।
१. 'अदावर्चसिन:' इति पाठटीकानुसारी. २. 'प्यत्र' क-ख. ३. 'न्यन्' क. ४. 'लोकने',क. ५. 'दोपः' क.स.
Page 196
१ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। १०३
एवमिति । अनित्योऽयं दोषः । तेन यत्र दोषता नास्ति तत्र विषये रस- प्रकाशसामभ्यामन्तर्भावात्क्य न गुणत्वम् । अन्तर्भावश्च द्विया-प्रयोगविषयौ- चिलेन वा, वागनुभावौचिलेन वा। तत्र प्रथम दर्शयति-किंचिदिति। यथा- अनस्य नाजनवहयादिसंगतत्वेन शतशो भाव्यमानस्याप्युद्दीपनविभावना। भवति तु कान्ताविलोचनचुम्बितयानुसंधीयमानस्य । तथापदस्यापि विषयेऽतद्विषये च प्रयुज्यमानस्य । तदेतव्याचष्टे-अत्राश्रयस्येति।
नीलं पलाशमाबद्धमन्तराले स्रजामिव ॥ १०७। तद्यथा- 'अन्नैः कल्पितमङ्कलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्तंसमृत: पिनेह्य सहसा हृत्पुण्डरीकस्जः । एताः शोणितपक्ठकुङ्कमजुषः संभूय कान्तैः पिव- 1 न्त्यस्थिस्ेहसुरा: कपालचषकैः प्रीताः पिशाचाऊ्नाः ॥१५१॥' अत्र श्रुक्गारिणो हि जगदपि शृङ्कारमयं पश्यन्तीति बीभत्सरसेऽपि माधवेनाब्रादिपदानामन्तरालेषु निवेशितानां मङलप्रतिसरादिपदानाम- दोष:। द्वितीयमन्तर्भावप्रकार व्युत्पादयति-संनिवेशवशादिति। संनिवेशो चाग- नुभाव: । औचित्याकृष्टपदघटना तदूशत्वं तदाकृष्ठत्वमत एव विरोधिसंगततया विजातीययोरप्यौचितीवशेन कान्तिविशेषोन्मीलकत्वात् पत्रपुष्पव्यतिकर जमालासा- दृशयं दर्शयति-नीलमिति। अन्रेरित्यादी प्रत्युत्पन्नदोषोन्मत्तप्रेताकनावलोकस्य
कस्मादेव मन्लादिपदानां शज्ारानुयायिनामिह निवेशः स कर्थ दोषभावादपनेतव्यः, कर्थ वा गुणत्वमासादयितव्यमित्यतो हेतुगर्म व्याचटे-अत्र शृङ्गारिण इति। श्ारवासनानिविष्टः 'ज्ारी। तथा च पूर्व बीभत्सरसान्वयेऽपि प्रकृतरिभत्नो मा भूदित्येतदर्थमेव कव्रिना 'मम हि' इत्यादिना प्रतिज्ञाय 'लीनेव' इत्यांदिवासना- दढत्वमुपपादितम् । अंत एव प्रतिपदं रूपकमाविष्याभिप्रायमेवं शश्ारमयं शज्ञाराङ्न- १. 'दुरुक' ग. २. 'पिनजशिरसा' ग. ३. 'मार्खेन' क.
Page 197
१०४ काव्यमाला ।
तया रसतापन्नम्। उपपद्यते च तचित्तस्य सादश्यमात्रेण तद्रूपतानुसंधानम् । ततथ कथं नोदीपनता वस्तुसत्त्वस्यानुपयोगित्वात्। अत एव सूत्रितस्व बीभत्सस्य प्रकृतेन बाधात् प्रकृतार्थानुपोष इति ।। ननु कथमुद्देशे चतुविशतिधेत्युक्तम्। दोषा हि पूर्व पोडशैव विभक्ता इत्यत आह- अक्लीलादेरमी भेदा भिद्यन्ते यत्रिधा त्रिधा। भवन्ति नव तेनैते पूर्वोक्ता दश पञ्च च ।। १०८।। चतु विशतिरित्येषा प्रोक्ता पदसमाश्रया। समासात्पूर्व निर्दिष्टदोषाणां गुणङ्लैप्तये॥ १०९॥ इत्येतन्पददोषाणामदोषलमुदीरितम्। अ्ीलादेरिति। निगद्व्याख्यातम्। चतुर्विशतिरित्येषेति। आ दशभ्यः संख्या संरयेये वर्तते, ततः संर्याने संर्येये चाभिधानात् केवलसंख्या- नवचनत्वेन गवां विंशतिरितिवत्पदसमाश्रयेत्युपपन्नम् । इदानीं वाक्यदोषाणां गुणत्वमभिधीयते ॥ ११० ॥
तत्र शब्दविहीनस्य विवक्षावशतः क्चित्। निसर्गसुन्दरत्वेन गुणत्वं परिकल्प्यते॥ १११ ॥ यथा- 'आक्षिपन्त्यरविन्दानि मुग्घे तब मुखच्छविम्। कोशदण्डसमग्राणां किमेषीं खलु दुष्करम् । १५२ ॥' अत्र 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' इति कर्तृकर्मणोः षष्ठीप्रति- पेधे किमेपां दुष्करमित्यपभाषणेडपि संबन्धमात्रविवक्षातो गुणत्वम्। यदाह- 'इदं हि शास्त्रमाहात्म्यदर्शनालसचेतसाम्। अपभाषणवद्धाति न च सौभाग्यमुज्झति।' १. 'पूर्वदिष्टानां'.ख. २. 'कल्पना' ग. ३. 'पामस्ति' ग.
Page 198
१ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। १०५
यस्य वस्तुनो नानारूपाणि विजातीयरूपाणि तत्र तद्रूपविवक्षावैचित्र्याच्छन्द- वैचित्र्यं संगच्छत इति दोषत्वाभावः । एवं रूपता गेमितवतीत्यादौ कदापि नास्तीति दोषरूपतैषा । कचित्पुनरस्ति रूपान्तरमित्याह-कचिदिति। भवत्वेवम्। गुणत्वं तु कथमित्यत आह-निसर्गेति । नियतरूपविवक्षा हि महाकवीनां न लावण्यमनुसंधाय भवितुमईति। तथाहि-आक्षिपन्तीत्यादौ एषां दुष्करमित्यत्र ख- लर्थयोगे 'न लोकाव्ययनिष्ठासलर्थंतृनाम्' इत्यनेन षष्ठीप्रतिषेधादेषामिति कर्थ पष्ठी- ति दुष्टजातीयतामादाय शेषरूपविशेषविवक्षा समाधानहेतुः। अस्ति हि षष्पर्थस्य सं- बन्धस्य द्वरूप्यम्-संबन्धसामान्यं विशेषध जन्यजनकभावादिः। तत्र संबन्धवि- शेषविहितषष्ठीमुपादाय 'न लोक-' इत्यादिना निषेधः । संबन्धसामान्यरूपमुपादाय पष्टी केन वार्यते। अयमेव संबन्धः शेष इत्युच्यते। एवं तावन्न दोषत्वम्। यथा कोषसमग्राणां राजां विपक्षश्रीहरणमुपदिश्य यत्किमपि संबन्धिमात्रमेव न दुप्कर तथा पद्मानामिति समर्थयामहे। कथमन्यथा दुरापत्वद्वदनश्रीहरणमिति प्रकृतपोष- लाभाह्ुणत्वमतिसुलभं तदेतथाचष्टे-अत्रेति । ननु संबन्धमात्रविवक्षार्यां दोषता मा भूत्, गुणत्वं तु कथमिति यथोक्तमभिसंधाय परमतं लिखति-इदं हीति। शास्त्रमाहात्म्यं विधिनिषेधयो: परस्परासंकीर्णविषयत्वम्।। यत्न: संचन्धनिर्ज्ञानहेतुः कोऽपि कृतो यदि। क्रमलङ्गनमप्याहुर्न दोषं सूरयो यथा ।। ११२।। बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिपु। आद्यन्तावायतल्लेशौ मध्यमः क्षणिकज्वरः ॥ आद्यन्तौ मध्यम इति संबन्धनिर्जञानहेतोर्विधानान शाब्दकमलहनं
त्यर्थक्रमलङ्नस्यापि गुणत्वम्।। यत्न इति। कमत्रंशे हि यथाभिमतान्वयप्रतीतिप्रत्यूहो दूधकताबीजम्। तय्यदि कुतथ्िद्विशेषादस्सलितैव प्रतीतिरुपजायते तदा बीजाभावेन तथाभावो निवर्तत एव। स च विशेषः प्रतिपद्मनुक्मितुं न शक्यते इति कोऽपि यत्र इति सामान्येन प्रतिपादितम् । सोऽयं शब्दकमलह्नापवादः । अर्थकमलडगने त्वभि- १. शब्दहीनदोपोदादरणभूते 'नीरन्भं गदितवति' इत्यादौ.
Page 199
१०६ 1 काव्यमाला ।
प्रायविशेषः । तथा हि-बन्धुल्याग इत्यादौ वन्धुत्यागतनुत्यागदेशत्यागान्कमेणो- दिश्य तथैवानुदेशोऽप्यर्हृति न त्वादिमसुद्दिश्य ततोऽन्त्स्ततो मध्य इति उद्देशानु-
प्यते। यत्रथायमेव यदादिपदैरुल्ेखः। तानि हि तत्तत्स्थानविशेषगामिन एव प्तीतिमुपजनयन्ति। अवश्यं चानेन क्रमेणात्र वक्तुमुचितं तनुत्यागस्य विजाती- य्यताविवक्षया पृथगेव वक्तुमर्हत्वात्। एवं चानुपपत्तिलोंके बन्धुत्यागापेक्षया शरीर- त्यागस्पातिकृच्छत्वेन प्रसिद्धिः । अतथ्च 'मध्यम आयतक्लेश आदयन्ती क्षणिक- ज्वरौ' इति वचनमुचितमिति आर्थक्रमभ्रंशः क्थ न भवति तत्राह-वकुश्चेति। अभिमेतमित्यनेनाभिप्रायविशेषोऽपवादहेतु :- 'यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते। आभासो व्यर्थ एकस्मिन्रनुसंधानसाधितः ॥I' इति न्यायादुपपन्नमेवैतदिति ॥ विरूपसंधि यत्पूर्व विसंधि च निरूपितम् । न च दुर्वचके प्रायः प्रगृद्यादौ च दुष्यति॥ ११३ ॥ तत्र दुर्वचके विरूपसंधियथा- 'जयन्ति वर्षाखिति भर्गदुर्गयोः सुदुर्वचा दुर्वचकप्रयुक्तयः । अमेण्नगेड जे खमपोग्रभोग्रस धुड्ग्रमन्नुण्मुखि सध्यगेघि नः॥१५३।' अत्रोत्तरार्धस्य विरूपसंधित्वेडपि दुर्वचकत्वेन कला वेद्विरादतत्वा- द्रुणत्वम्। यदाहु :- 'शुकस्त्रीबालमूर्खाणां मुखसंस्कारसिद्धये। प्रहासाय च गोष्ठीषु वाच्या दुर्वचकादयः ॥ १५४ ॥' प्रगृद्यादौ विगतसंधिर्यथा- 'कमले इव लोचने इमे अनुबभ्नाति विलासपद्धतिः । स इतोSब्द ऋतावृतप्रियो न ऋचस्त्वं न यजूंषि ऊहसे ॥१५५॥' अत्र विसंधेः प्रगृह्यादिहेतुकत्वाद्रुणत्वम्। १. 'मतत्वादि' इवि साद. जा रय
Page 200
१ परिच्छेद: I] सरसतीकण्ठाभरणम्। १०७
यदाह- न संहितां विवक्षामीत्यसंधानं पदेषु यत्। तद्विसंधीति निर्दिष्टं न प्रगृद्यादिहेतुकम् ॥ ११४ ॥ विरूपेति। विरूपो दुर्वचको विसधिर्विगतं संहिताकार्य दुर्वचके कलाविशेष- रूपतयानुमते संहिताकार्यनियमः । द्वितीये कुत्रादूषणमिल्याह-प्रगृह्यादाविति। प्रगृत्यं 'इदूदेश्विवचनं प्रगृश्यम्' इत्यादिना यत्र प्रगृह्संज्ञा विहिता, आदिग्रहणाद्वि- नापि प्रगृह्यसंज्ञया यत्र प्रकृतिभावविधानं तथोदाहरिष्यते। यत्र वा बक्तुः खेदादिना विच्छिय पाठे विरतिर्भवति। यथा-का एकशिरोरुहेति। तदेवं दुर्ब- चकप्रगृत्यादि यथासंखयं विरूपविसंधिविगतसंधानयोरपवादकारणे इत्याह-अ्रे- ति। प्रयुज्यन्त इति प्रयुक्तयो दुर्वचकाथ् ताः प्रयुक्तयक्चेति दुर्वचकप्रयुक्तय इति कर्मधारयः । सुदुर्वचा इति अन्येनोचचारयितुमशक्याः। खयमेव कविः प्रतिज्ञाय उत्तराधें दुर्वचकान्याह-अमेडित्यादि। हे नगेड्जे पर्वतराजपुत्रि, समाकाश भेडू भाना नक्षत्राणामीडीश्वरशन्द्र: सोऽविद्यमानो यत्र। तिरोधानादसत्कल्पना चन्द्रमसः । केन पुनस्तिरोधानमित्याकाक्कायां द्वितीयं विशेषणम्-अपोग्रेति। अपगतोग्रदीप्तिर्भ उग्ररुचिरादित्यस्तदीयद्रोहकारिणोSत्रपदवाच्या मेघा यत्र। अप्सु रोहतीत्यब्रुद् पद्मं तद्वन्मुखं यस्या इति देवीसंगोधनम्। चेवीदशं तर्हिं सभ्यक् सहचरो भ्वास्माकमिति गौर्या उत्तरम्। कलारूपत्वेन विरूपसंधानस्य गुणत्वमि- त्याह-कलाविद्धिरादतत्वादिति। कमले इवेलादाबुदाहरणत्वान्ैक: शोकार्ध: । पूर्वाधे कमले इत्यावित्रितयं प्रगह्संज्ञोदाहरणम्। उत्तरार्धे विनंब प्रगृत्यसंज्ञां प्रकृतिभावविधानं यत्र तत्रितयोदाहरणम्। तथाहि-अव्दऋता विति। 'न ऋच' इति च 'ऋत्यकः' इत्यनेन प्रकृतिभावः । यजृंषि ऊह्स इति 'इकोऽसवर्णे शाकल्यस्य हसथ' इत्यनेन। अपरमादिपदग्राहं पूर्वमुदाहतम्। अत्रापि स इति बोद्धव्यम् । तदेतच्छा स्रानुमतमपि घटनासोष्टवेन निवेशनीयम्। न त्वन्यथा। उक्तं च पूर्वमेव यतागृत्यादिहेतुकमपि नासकृतपयोक्तव्यमिति।। अनुकम्पाद्यतिशयो यदि कश्रिद्विवक्ष्यते। न दोष: पुनरुक्तेऽपि प्रत्युतेयमलंक्रिया ॥ ११५ ।
Page 201
१०८ काव्यमाला।
यथा- 'हन्यते सा बरारोहा स्मरेणाकाण्डवैरिणा। हन्यते चारुसवांक्ी हन्यते मजुभाषिणी ॥ १५६ ॥' अत्र हन्यते हन्यत इति शब्दपुनरुक्तं चारुसर्वाङ्की वरारोहेत्यर्थ- पुनरुकतं तदुभयमप्यनुकम्पाद्यतिशयविवक्षायामदोष इति गुणत्वम्।। अनुकम्पेति। संभ्रमादी यावद्वोधमित्यादिना पदद्विरुत्यादेरनुमतत्वान्न दोष- त्वम्। अभिप्रायव्यज्जननयल्येन प्रकृतिपोषानुगुणतया गुणत्वम्। तथाहि-हन्यत इत्यादौ हन्यत इति यद्यप्यभिधेयतात्पर्यमिति शब्दपुनरुकजातीयं भवति, यद्यपि च बरारोहेत्यभिधाय चारुसर्वाज्मीत्यभिन्नाभिधेयतात्पर्य पर्यायरूपत्वादर्थपुनरु-
व्यखेति लोकानुसारात् । अनुकम्पाभयाद्यस्य हि तादशी पद्द्विरुफ्तिरभिप्रायविशे- पार्थनिष्पादितया गुणकक्षाधिरोहणक्षमैवेत्याशयवान्व्याचष्टे-तदुभयमपीति॥ पदानां व्युत्कमो यत्र क्रमेण व्युत्कमेण वा। तव्याकीणे विदुस्तस्य न दोपः कापि तद्यथा। ११६।। 'जुगुप्सत समैनमदुष्टभाव मैवं भवानक्षतसाधुवृत्तः । इतीव वाचो निगृहीनकण्ठैः प्राणैररुध्यन्त महर्षिसूनोः॥१५७॥ अत्र 'मा स्म जुगुप्सत' इति वक्तव्ये 'जुगुप्सत स्मैनमदुष्टभावं मैवम्' इति पदव्यतिकमस्य 'व्यस्तेपीच्छन्ति केचित्' इति लुड्ललेर्वि-
पदानामिति। एकस्मिन् वाक्ये पदानामुचितसंनिवेशविपर्यासः क्रमत्रंशः । स द्विधा भवति-पूर्वापर भावनियतानां तादशकमप्रच्यावनेन वा। यथा बहुतृण- मित्यन्योऽर्थ:, तृणं बहित्यन्यः । पूर्वापरनियमशून्यानामिति तादृगुचारणविपर्यासेन वा। यथा कपालमनुलिम्पति, दुकूल परिदधातीत्यत्र क्रमनियमोऽभिमतः । अनु- लिम्पति कपालम, परिदधाति वस्त्रमित्यपि कृतेन तस्पैयार्थस्य लयाभात्। यदा तु कपालं परिद्धाति दुकूलमनुलिम्पतीति करियते तदा भवति संनिधिविपर्यासस्तदे- तव्याकीर्णसंकीणंयोस्तुल्यं, तदिदमुक्तम्-क्रमेण व्युत्क्मेण वा। ननु 'सोतरे
Page 202
१ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। १०९
लड् च' इत्यनेन माशब्दादुत्तरं यत्र स्मशब्दप्रयोगस्तत्र लुड्ललेविंधाने पदक्म- नियम: कृतस्तत्कथ स्म ममेति प्रयुक्ते सोऽर्थः प्रत्येतव्य इत्यत आह-व्यस्त इति। विशेषेण लक्ष्यत इति विशेषणलक्षणं तस्य भावस्तत्त्वम् ।। पर्यायेण द्वयोर्यत्र वाक्यं प्रश्नोत्तरादिपु। संकीण तन दोषाय वाकोवाक्यविदो विदुः ॥११७॥ यथा- 'वाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं खेदोऽस्मासु न मेSपराध्यति भवान्सवॅऽपराघा मयि। तत्कि रोदिषि गद्गदेन वचसा कस्याग्रतो रुदते नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुदते ॥१५८॥' अन्र संकीर्णत्वेऽपि वाकोवाक्यत्वान्न दोष:।। पर्यायेणेति । यत्र वाक्यैकवाक्यतायामवान्तरवाक्येपु परस्परपदार्थप्रवेशेन यथाभिमतसंसर्गप्रतीति: स्वलिता भवति तत्र संकरो दूषणम्, प्रतीतेरस्खलने तु न दोषः । स्खलनं चानेकवकृकपर्यायप्रवृत्तवाक्यावयवमिश्रणेन भवति। तदपि मिश्रणं प्रश्नोत्तररूपमन्यादशं वा भवतीव्याह-प्रन्नोत्तरादिष्विति । विषय- सप्तमीयम्। वाक्ये वाक्य वाकोवाक्यं पृषोदरादित्वात्साधु । तत्र प्रश्नोत्तरादिरूपं वाकोवाक्यमुदाहरति-वाले इति । अत्र 'बाले विमुच मां प्रति रुपम्' इति प्रथमप्रश्नवाक्यम्। 'नाथ रोषान्मया कि कृतम्' इति तादृशमेवोत्तरवाक्यम्। तत्र बाले इति वाक्यप्रतीकानन्तरमेव नाथेति वाक्यान्तरप्रतीकस्य निर्देश: संकीर्ण- जातीयतामाकारयितुमुद्यतः प्रश्नोत्तरप्रभावादपोद्यते । संकीरणयोरपि वाक्ययोः पर्यायनिर्देशे भवल्येव वाकोवाक्यमिति चेत्, न। व्यतिकरस्याभिप्रायविशेषव्यञ्ञ- कतया चमत्कारकारित्वेन विजातीयत्वात्। अत एव गुणत्वम्। तथा हि वाले इति पदं परचित्तानभिज्ञायाः शुद्रसह्चरीवचसि विश्वासभाजः सोपालम्भं संबोधनमा- विष्करोति। एतदाकर्ण्यानन्तरमेवेर्ष्याकषायकामिनीवचनमुचितमिति नाथेति संबो- धनं साभिप्रायम्, प्रभुरसि न पुनरस्मासु दत्ताशयो न वा साधीनतासौभाग्यभागिति विवक्षितत्वात्। एवमुत्तरत्र खयमुन्नेयम्। उपलक्षणं व हयोरिति एकस्यापि बक्तु: प्रहेलिकादौ तद्विदविषये तदाभाषणस्योचितत्वात्। विजातीयवाक्यद्वयसंदंशपतित-
Page 203
११० काव्यमाला। पदे किमिदमनेनान्वीयतेऽनेन वेति संदेहसंकीर्णतासंशयोऽपि संकरमध्यासीन एवेति गुरवः । अयमेति पुत्रो राजः पुरुषोऽपसार्यतामित्यत्र राजपरद संदंशपतितं कि पूर्वेणाथ परेणान्वीयत इति संदित्ते । राजगोक्षीरादौ द्वयेनान्वयो गोपदस्य निश्चित इति।। प्रकृतिस्थादिभेदेन ग्राम्यादिभिरथापि या। अपदं तस्य चानुज्ञा भाषाचित्रे विधीयते ॥ ११८॥ यथा- 'हा तो जो जलदेउ नैव मदनः साक्षादयं भूतले तत्कि दीसइ सचमा हतवपुः काम: किल श्रूयते। ऐ दूए किअलेउ भूतपतिना गौरीविवाहोत्सवे ऐसें सच्च जि बोहु हस्तकटकः किं दर्पणेनेक्ष्यते॥ १५९ ॥' अत्र आम्यः प्रष्टा नगरमागतो राजानं दृष्टा आम्यैः प्रकृतिसथैरेव वा पदैः प्राकृतेन पृच्छति-'हा तो जो जलदेउ' इति। नागरश्र तमनु- जिघृभ्षुरुपनागरैः कोमलैर्वा पदैः सवक्रोक्ति प्रत्याचष्टे-'नैव मदनः सा- क्षादयं भूतले' इति। अथ ग्राम्य आहितप्रतिभः पूर्वपदानुरोधादर्धपाकृ- तेनैव आम्योपनागरैः प्रकृतिस्थकोमलैवा पदैस्तमुपालभते-'तत्कि दी- सइ सच्चमा हतवपुः काम: किल श्रूयते' इति। अथ नागरो ज्ञाततत्मा- वीण्यः पादानुरोघादेव अर्धप्राकृतेन आ्म्योपनागरनागरैः प्रकृतिस्थकोम- लकठोरैवा पदैः समाघते-'ऐ दूए किअलेउ भूतपतिना गौरीविवाहो- त्सवे' इति। अथ आ्म्यः क्लोकसमासतेः पादस्य तदुत्तरस्य चानुरोधाद्वा- म्याणि प्रकृतिस्थानि वा त्रिचतुराणि पदानि प्राकृतेनोक्त्वरा पादार्घ एव तिष्ठति-'ऐसें सच्च जि बोह' इति। अथ नागरो जितकाशी ग्राम्यो- १. 'ता कि' गः परंतु 'तकिन्' इति भमेद. २. 'पच्छा ऐ' इति टीकार्समत- मुख्यपाठ :. ३. 'ण्यस्तत्वदा' क-ख.
Page 204
१ परिच्छेद: I] सरस्तीकण्ठाभरणम्। १११
पनागरनागरै: प्रकृतिस्थकोमलकठोरैवा पदैः छ्रोकमुत्तरं च पृर्यति- 'हस्तकटकः किं दर्पणेनेक्ष्यते' इति। तत्र च प्राकृतानां सर्वेषामपि आम्यत्वम्। प्रषुः संस्कृतपदेषु वपुरित्युपनागरं शेषाणि आ्म्याणि, प्रतिवक्तुश्र हस्तविवाहगौरीपदानि आ्रम्याणि, भूतपतिनेति नागरम्, शेषाण्युपनागराणि। तदिदमीदृशि प्रमेये तथैवोपक्रमादेतन्न दुष्यति॥ प्रकृतिस्थेति। 'विभिन्न-'इत्यादावपद्लक्षणसूत्रे पण्णामिति व्यतिकर एक- त्वेन नाभिप्रेतः । अपि तु ग्राम्यादित्रिकस्य वा प्रकृतिस्थादित्रिकस्य वेति विकल्पे- नोपन्यासप्रयोजनमनुज्ञासंपत्तिसेन दोषताभावगुणीभावी प्रतिपादिती। विषयं दर्शयति-भाषाचित्र इति । संस्कृतादिव्यतिकर स्यापदत्वेनाभिप्रेतत्वात् संस्कृ- तादयो ग्राम्यादयः प्रकृतिस्थादयक्ष भाषाशब्देनाभिमताः । यथा हि-नानाव- रणारब्धमालेख्यचित्रं यथा वा भिन्नप्रकारतन्तुनिर्वातः पटच्ित्रपटस्तथा नाना- भाषाभिरारब्धं किचित्काव्यं चित्रमुच्यते । चित्रमाश्चर्य तत्कारि च चित्रम्। तेन रूपट्यसंपत्तौ युक्तिपोष: स्यादेव यथौचित्याकृष्टनानाभाषाव्यतिकरजमेर्कं संभवतीत्याशक्का संक्षेपात्सर्व भाषासंकरमेवोदाहरति-यथेति। संकरमाचिती च व्यार्यानेन स्फुटयति-अत्र ग्राम्य इति। आ्रामवासी किंचिद्युत्पन्नथ। आम्याथ नगरवस्तुन्यद्भुतचमत्कारवन्तो जिज्ञासवथ् भवन्तीति जातिः । तत्र राजानं दृष्द्ेति अद्भुतवस्तुकथनेन चमत्कार: । पृच्छतीति जिज्ञासा बहुमान आदरक्मत्कारेणैव। यद्वा यान्तृच्छति तेष्वेव बहुमानो धन्यासे ये नामगोत्रा- दिकमेतस्य जानन्तः सततमेनमवलोक्यन्त इत्याशयात्। प्रस्तुतग्राम्यप्रकृतेवास्य प्राकृतपदैरेव प्रश्नो योग्यः । तदेतत्सर्वमादर्शयितुं प्रक्नंपृथकृत्य दशयति-हातो इत्यादि। 'हा तो' इति महाराष्ट्रभाषायां प्रक्रकाकुरयं स इत्यर्थे। सइति यो नामै- तन्नगरनायकत्वेनास्मद्ामेऽपि बहुशो विर्यातकीर्तिरिति चमत्कारः। जो जल- देउ इति। जिज्ञासासामान्यतथ नगरसंचरिष्णुजनगोचरोडयं प्रश्नः। अत्र सर्वाण्येव पदानि नातिहीनपात्रे ग्राम्ये प्रकृतिभवान्यपभ्रंशपदानि देशीपदत्वेन सर्वेषां ग्राम्यता। 'हा तो' इत्यनेन खरकृतगौरवम्। 'जो जलदेउ' इत्येकसंयोग- वर्णापादितगारवं च प्रकृतिस्थं तदत्र प्राकृतग्राम्ययोरौचित्याकृष्टम्। प्रकृतिस्थे तु नौचित्यमुपयुज्यते। अपि तु संदर्भारम्भखेन प्रक्रान्त इति विवक्षितम्। अधि- कस्य प्रष्टव्यस्याभावादेतत्प्रश्नानन्तरमेवोत्तरावसरः । ततक्च नानाचित्यम्। प्रश्नो-
Page 205
११२ काव्यमाला ।
तरोपन्यासो हि प्रकृतयैव च नागरका आम्यमतविरोधिनो वकोफिरसिका भवन्ति। यदि तस्य आम्ये जधन्यबुद्धि: किमित्युत्तरमेष दास्यतीत्यत उक्तम्-अनु- जिघृक्षुरिति। सबहुमानं पृच्छति। आ्राम्ये यस्य दया तदानीमासीत्। जिज्ञा- सानिवर्त कज्ञानजननमनुपरहः । यद्यपि नागरस्य नागराणि पदानि प्रयोक्तुमहन्ति, तथापि ग्राम्यानुग्रहे कर्तव्ये तद्वोधयोग्यमेवाभिमतं न तु नागरकत्वम्। तर्हिं आम्यैरेब कुतो न ब्रवीतीत्यपि न वाच्यम्। सहसैव तथाकरणे आम्यमतविरोधः । अपि तूपनागरकरूपभन्न प्रसज्ञात्, ततो मध्यमान्युपनागराणि प्रयोगयोग्यानील्याह- उपनागरैरिति। सभावत एव प्राकृतप्रकृतिस्थानां संस्कृतप्रकृतिस्थानां प्रौढत्वं भवति। तेन यद्यपि प्राम्यप्रयुक्तजातीयान्येव संदर्भैकरूपतासिच्धर्थ घटयितुमुचितानि तथाप्यौचितीप्राप्तसंस्कृतपदनिवेशने यदि प्रकृतिस्थत्वमादियेत ततरछायावैरुप्यं स्यादित्याशयेन कोमलग्रायाण्येव निवेशितानीलयाह-कोमलैवेति। भूयसा व्यपदेशो भवतीति लोकन्यायानुसारात् 'साक्षात्' इत्येकस्य प्रकृतिस्थत्वेऽपि कोमलैरित्युक्तम्। साकाह्ग्रश्ने च किमर्थ लोकोत्तरो 'जो जलदेउ' नान्यः कथित्तादगिति भावो विवक्षितसतत्र नेलेवोकेनानुग्रह: कृतः स्यादित्यधिकमपि किंचिद्क्कुमुचितमिल्याह- सवक्रोक्तीति। एतेन नागरकवृत्तिरुपवृंहिता । नैवेलयेवकारेण मनुष्य एवायं न भवति दूरे तद्विशेषरूपो 'जो जलदेउ' इति प्रकाशितम्। साक्षादिति प्रत्यक्षेणा- वधार्यमाणः किंचिद्ुत्पन्नत्वेन आ्म्यस्योक्तत्वात्। कामव्यावृत्तसाक्षाद्वावलक्षणवि- रुद्धधर्मानुसंधानेन मदनदाहव्यतिकरता संभवतीति लब्धावसरं आ्म्यानुयोगम- वतारयति-अथेति। शिक्षाविशेषस्पर्शिनी बुद्धि: प्रतिभा। मामेकान्ततो नाग- रकवृत्तपरिचयपराधीन मा सकिष्ठा इत्याशयशाटीर्येण नागरकप्रयुक्तजातीयेरेव पदैः प्रश्नो योग्यो न चैतावतैव सर्वथा प्रकृतित्यागोऽर्दतीत्यतः खप्रयोगयोग्या- न्यपि प्रयोगमर्हन्ति तत्रार्ध प्रकृतिवैशसेनार्ध प्राकृतमर्ध ग्राम्यं च प्रश्नवाक्यानु- चितमित्याह-पूर्वपदानुरोधादिति। पूर्व परप्रयुक्त पदं तर्कितम्। सैचिमा सत्य: । यावती आ्रम्यस्य व्युत्पत्तिर्हति तावतीमुपन्यस्यति-श्रूयत इति। ऐतिहासिकमुखादेवमाकर्णितं पुनरद्यापि निर्णयो वर्तत इत्यर्थ: । तर्कितमिति प्रकृतिस्थम्। दीसईति कोमलम् । सचिमेति प्रकृतिस्थम् । हृतवपुरिति कोमलम्। कामः किलेत्यपि तथा। श्रूयत इति प्रकृतिस्थमिति। अनन्तर नागरिकस्योत्तरा- १. 'महाणि' इति स्याल्. २. 'तद किम्' इति स्पात. ३. 'सचमा' इति मूलादजीत्रये पाठ :.
Page 206
१ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ११३
वसरः। कर्थ परमार्थवादिन्युत्तरं दातव्यमित्यनुपपत्तावयं समाधानप्रकारो भवति। अस्ति ग्राम्यस्य 'किल श्रूयते' इत्येताभ्यां संदिहानत्वं किंचिद्धुत्पन्नत्वं चोनी- तमिति किमप्यलीकमेव बुद्धिकौशलात्तथा प्रतीयमानमभिधाय प्रतारणमुपपद्यते। तन्मात्रपरत्वाच्च सर्वाकारमधिकाव्युत्पत्तिराहत्य दर्शयितुमर्हतीति तर्कितमित्यादिपदे यावती ग्राम्यस्य व्युत्पत्तिस्तावदनुकरणं कियदधिकव्युत्पत्तिपुरस्कारमर्हतीव्याश- यवानुत्तरमवतारयति-अथेति । पादस्तर्कितमित्यादिग्राम्यप्रयुक्तस्तस्ानुरोधो व्युत्पत्त्यनुकरणम् । पच्छा पथ्ात्। ऐ एपः। 'ऐ दूए' इति पाठे दूअं ब्याजोऽनेन व्याजेन। भूतपतिः पश्ुपतिः। ननु न क्वचिदेवं श्रूयते तत्कथ ग्राम्यस्य प्रबोधो भवतीत्याह-गौरीविवाहोत्सव इति। मा श्रूयतामुपपत्त्या तु सिद्धो द्वितीयो यदि कामप्रादुर्भावो न स्यात्कथं गौरीपाणिग्रहे भगवत उत्साह इत्यतस्तेनैव करुणा- संतानशान्तात्मना भूय: सष्टः स्यादित्यर्थः । पच्छेति प्रकृतिस्थम्, ऐ इति कठोरम्, किअलेउ इति कोमलम्, भूतपतिनेति तथा, गौरीविवाहोत्सव इति प्रकृतिस्थम्। 'एँदूएँ' इति पाठे द्यमपि कठोरम्। तदत्र कठोरनिवेशनं व्युत्पत्त्याधिक्यसूच- नाय। एतावत्युक्ते परीक्षणव्युत्पत्तिर्न किचिद्धाम्यं प्रतिभाति । न च तस्याद्यापि निःशङ्कता वर्तते। ततो नागरकप्रामाण्यदत्तभरः प्रश्नो घटत इत्याशयबानवतार- यति-अथ ग्राम्य इति। प्रकृत्यापन्न एव, तेन यथा प्रथमं 'हा तो' इत्यादि- प्रश्ने गतिस्तथात्रापीति आ्रम्यप्रकृतिस्थयोरुपन्यासः । भापाचित्रेण परस्परसंघ-
यदि चायमेव समस्तं निर्वाह्यभ्रशेषशङ्कानिवृत्त्युपयुक्तमुत्तरं नागरस्य निवेशितं स्यादिति तदुत्तरानुरोधेन पादार्ध एव विलम्बोऽप्युचितः । 'ऐसें' एबमित्यत्नारये काकुगर्भम्। 'सच जि बोतु' इति जिरवधारणे । सत्यमेवेतदुक्तम् । यदि सत्यपुरःसर त्रूयास्तदा प्रत्येमीत्यर्थः । एवं आ्रम्यताप्रतारणसिद्धी किमत्र सर्वलो- कसाक्षिके वस्तुनि वकोत्तयैव पूर्वव्युत्पत्तिमात्रनिवेशनेनोत्तरं दत्त्वा शोकपूरणमेव नागरस्योचितमित्याशयेनोत्तरमवतारयति-अथेति । हस्ते इति प्रकृतिस्थम्, कटकमिति कोमलम्, दर्पणेनेक्ष्यते इत्येते प्रकृतिस्थे, इति प्रकृतिस्थादीनां सुपरि- चेयत्वाङ्गाम्यादीन्येव व्याचष्टे-तत्र चेति। प्रकृतिव्यतिकराव्यतिकरत्वयोरौचि- त्यापन्नत्वाद्धापासंकर: शोभावहत्वेन गुण एव भवतीत्युक्तमुपसंहरति-तदिति॥ वाक्यान्तरसगर्भ यद्वाक्यं तद्वाक्यगर्भितम् । रसान्तरतिरस्कारे तदिष्टं नेष्टमन्यथा॥ ११९ ॥ ८ स० क०
Page 207
११४ काव्यमाला।
यथा- 'दिब्यातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सा च वदन्त एव हि वयं रोमाश्चिताः पश्यत। विप्राय प्रतिपाद्यते किमपरं रामाय तस्ै नमो यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ।। १६० ।।' अत्र 'यथोक्ता मही साध्यते, सिद्धा सा च विप्राय प्रतिपाद्यते' इति वक्तव्ये, येयं वीराज्ुतरसवशप्रवृत्तेन 'वदन्त एव हि वयं रोमा- ज्विताः पश्यत' इति वाक्येन प्रकृतवाक्योक्तेरसमाप्तावेव 'विप्राय' इत्यादिपदविच्छित्ति: सा रसान्तरतिरस्कृतिरित्युच्यते। तया चेदं वाक्यान्तरसगर्भमपि वाक्यं न दोषाय भवति॥ वाक्यान्तरेति। रसान्तर रसविशेषः प्रकृतरसानुसंहितो रसस्तेन तिरस्कारो दोषभावस्य, तस्मिन् सति तथाकृतं वाक्यमिष्ठमेव कवीनामुपादानयोग्यमेव अन्यथा नेष्टं दुष्टमेवेत्यर्थः । तेनायमर्थों भवति-प्रकृतरसतिरोधायकत्वं किल दूषणताबीजं तदतिरोधानेनैव निवर्तते। प्रत्युत द्वितीयपरिच्छेदे वक्ष्यमाणगर्भादिवाक्ययोजन- प्रकारसंपत्तावलंकारलामे गुणत्वं भवति । तथा हि-दिब्पातज्वानां घटया विभक्ताः पृथगुद्धिद्य व्यवस्थापिताश्वत्वार आघाटा यस्यां सा, तथा तेन 'सप्तद्वीपा वसुमती साध्यते' इति विवक्षितम् । ये तावद्धरतभगीरथप्रभृतयः प्रथितप्रतापातिशयास्तेषां तहूपणपरिनिष्ठितशक्कीनामेकस्यापि समस्तक्षत्रवंशोन्मूलनेन नवखण्डमेदिनीसिद्धी नोत्साहशक्ति: श्रवणगोचरतामयासीदिति लोकोत्तरा परशुरामस्योत्साहशक्तिराबेद्यते। 'सिद्धा सा च' इत्यनेन यावदभिलषितं तावदेव सिद्धमित्यहो विजिगीषुतेति पूर्ववदेवाभिप्रायः । न चेदसी सिद्धिमभिसंधाय प्रवृत्तः । अनुपद्मेव सा संपन्नेति च्कारेण दयोल्यते। एवममिहिते 'विप्राय' इत्यादिकमस्ति वाक्यशेषभूतम्, तद्विच्छियेव मध्ये 'बदन्त एव हि वयं रोमाश्िताः' इति वाक्येन सगर्भता, सा न दोषाय। अनेन हि वाक्येन लोकोत्तरवस्तुभावनात्मकविभावसंपत्ती प्रादुर्भवन् वक्कुमभिमतो रसो व्यज्यते। स च वीरानुसंधानहेतुवीराद्भुतयोः समानभूमि- कयोरन्योन्यानुगमनेन प्रतिकूलता विरहता। तत्र यथा शकाररौद्रवीभत्सानामेक- १. '5भिपराये' इत्यादशें पाठ आसीत.
Page 208
१ परिच्छेद: ।] सरख्तीकण्ठाभरणम्। ११५
प्रधट्टकेन सूत्रेण संनिपातितरपि हास्यकरुणभयानकैर्न तिरस्कारः, 'सान्नमव्यव- धायकम्' इति न्यायात्, तथेह वीरस्पाद्भतेनात एवाद्ुतादुद्वेलस्य प्रादुर्भूतपुत्रका- कुरलक्षणानुभावप्रदर्शनम्-'पश्यत' इति। न चात्र दोषोदाहरणे 'मया' इति कारकविभक्तेरुस्थिताकाह्ाया 'रक्षैनम्' इत्यादिना खरसंबाधस्तथात्र संभवति, 'सिद्धा' इत्येतावत्यपि दर्शिते वाक्यार्थपर्यवसानात्। न च संपूर्णे रसे 'वदन्त एव' इत्यादिकमभिधातुमर्दति। अद्भुतता च पार्थिवानुभावस्य तन्मात्रपूरणा- पेक्षत्वात्। एवं रसानुभावनातृप्तस्य तन्नैव पुनः पुनरुत्कण्ठायां जिगीयुकरणी- यलव्धपात्रप्रतिपत्तिविशेषस्फोरणे 'विप्राय प्रतिपाद्ते' इत्युक्म्। दानवीरोऽपि वीर एव। अत एवाधिकस्य कर्तव्यस्याभावे किमपरमित्यादिरुपसंहारः । तदेतत्सर्व व्याचष्टे-अन्रेति। यद्िन्नलिङ्गमित्युक्तं विभिन्नवचनं च यत्। उपमादूषणं तन्न यत्रोद्वेगो न धीमताम् ॥ १२० ॥ यथा 'अन्यदा भूषणं पुंसः शमो लज्जेव योषितः। पराक्रम: परिभवे वैयात्यं सुरतेप्विव ॥ १६१ ॥' अत्र 'पुंसो योषित इव' 'शमो लज्जेव' 'पराक्रमो वैयात्यमिंव' इति लिन्नमेदः। 'परिभवे सुरतेष्विव'इति तु लिक्मेदो वचनमेदश्च दृश्यते। स चैषामेव परस्परमुपमानोपमेयभावविवक्षायां पर्यायान्तराभावादन्यथा- कर्तु न शक्यत इति सहृदयानुद्वेजकत्वान्न दुष्यतीति दोषस्यापि गुण- त्वम्। तदिदं द्वयोरप्येकमुदाहरणम्। अथ मिन्नलिङ्रस्यैव यथा- 'यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च। स लोहकारभस्त्ेव श्वसन्नपि न जीवति ॥ १६२ ॥' अत्र प्राग्वदेव पर्यायान्तराभावात् 'स लोहकारभस्त्रेव' इति लिन्न- मेदस्य न दोष: ।l
Page 209
११६ काव्यमाला।
यद्ध्िन्नेति। दोषप्रकरणानुरोधेन समस्तव्यस्तोदाहरणं बोद्धव्यम्। सहृदयो- द्वेजकत्वेन हि दोषता। यत्र तु कर्थचित्तथाभावो न भवति, तत्र दोषत्वहानिरुचि- तैव। तथा हि स्त्रीपुंसयोरेव प्रकृतानुगुणोपमानोपमेयभावविवक्षायामावश्यकं लिन्न- वचनमेदयोरन्यतरदेकस्य पुंस उपमेयत्वेन दारशब्दस्य भिन्नवचनत्वनियमात्कल- त्रपदं भिन्नवचनमेव । पर्यायाणामपि लिक्मेदो नियतः। न च पुंवचनं किचित्स- मानसभावमस्ति येनायं प्रकारो निवर्तेत। न चैवंविधोपमामन्तरेण प्रस्तुतवाक्या- धंपोषः । एवमनन्यगतिका भिन्नलिव्नता भिन्नवचनता वा साहित्यसमयविदामुद्देगं नोत्पादयति । अत एवालंकारीचितीसंपदा गुणत्वसिद्धिः। एवं रामलजयो: परा- कमवैयात्ययो: परिभवसुरतयोक्च बोद्धव्यमित्याशयवान् व्याचष्टे-अन्रेति। 'रतं, रहः, शयनं, मोहनम्' इति सुरतवाचिनां सर्वेषामेव नपुंसकता न दुष्यतीति सह- दयहृदयानुद्वेजकत्वादिति हेतुर्गुणत्वेत्वाभिप्रायिकः। स च दर्श्षित एव। अथेति। धर्मार्थकामास्त्रिवर्गः । वहिविष्मापनचर्मपुटो भर्त्रा सा यथा वातेन पूर्यते, बातं च मुखति, न तु किचित्पुरुषार्थमासादयति, तथा त्रिवर्गशून्येऽपि भखापर्यायस्य समानलितस्याभावेन सहृदयानामनुद्वेगालंकारसंपत्या गुणत्वमुपपत्रमित्याह- अत्र प्राग्वदेवेति। अैदोष इत्युपलक्षणम्, गुणश्च भवतीत्यपि बोद्धव्यम्।। मिन्नवचनस्यैव यथा- 'प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः । मुक्तात्मा न: शिवं नेमिरन्येऽपि ददतां जिनाः ॥ १६३॥ अत्र 'नेमिरन्येऽपि' इति वचनमेददोषेपि 'ददताम्' इति क्रियापदा देर्वचन श्लेषमाहात्म्याद्गुणत्वम्। न चेदं वाच्यमत्रेवादिर्न विद्यत इति नोप- मात्वम्। इवस्यापिना समुच्चयार्थेन तुल्यधर्माणां तु 'धर्मस्य प्रभवः' इत्या- दिभिर्वचनश्ेवैविषयापहारात्। यथा अग्रतो धयोतकलोप उपमायाम्- 'कोमलापाटलौ तन्वि पल्लवश्चाधरश्च ते।' नन्वेषोऽपि क्रेषः करमान्न भवति। उच्यते-'यत्र द्वयोः सदृशयोरमिधानं स क्लेषः । यत्र सदशा- त्सदृशप्रतिपत्तिस्तदुपमानम्, यत्र द्वयो: सादृश्यममिधीयते प्रतीयते वा १. 'न दोष:' इति मूलपुस्तके.
Page 210
१ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ११७
सोपमा' इति प्रबन्धेनात्रतो वक्ष्यामः। उपलक्षणं चैतत्-यदुपमाया- मेव लिक्वचनमेदो न दूषणमिति। तस्य सर्वालंकारसाधारणत्वात्केवलं सादृश्यमलंकार इति द्शने उपमायामुदाहियते॥ प्राज्येति । आर्हतानां नेमिनामा जिनविशेषोऽन्ये जिना ऋपभनाथप्रमृतयः प्राज्यमुचितं तथाभूतः प्रभाव: सिद्धिरूपो यस्य तादशो नेमिः शिवं ददता ददातु। 'दद दाने' इति धात्वनुसारात्। कस्मे इत्यपेक्षायां मुकात्मा इत्यत्र नः। पक्षे वो युष्मभ्यं शिवं ददता ददत्विति । धर्मस्य प्रभवमुत्पत्तिनिमितं नेमिः । प्रभवः प्रभुता यथावदनुशासनेन जिनाः । रजथ तमथ रजस्तमसी ते असे क्षिमे येन स तथाभूतो नेमिः । अस्तं रजो यैसेऽस्तरजसस्ेपु प्रकृष्टास्तमप्यरजस्तमाः । मुक्तो निरावरण आत्मा आत्मशब्द आत्मवचनः सरूपवचन इति वा बहुत्रीहिस्तादशो नेमिः । जिनास्तु मुक्तात्मान इति स्पष्टम् । तदिह वचनमेदमन्तरेण वचन लेषामा- वाद्भिज्वचनत्वस्यावश्यकत्वेन दोष: । शेपलक्षणालंकार घटनया गुणत्वम्। ननु च लिग्लादिमेद उपमाया दूषणत्वमुक्तम, इह त्वलंकारान्तर उदाहियते, तत्कर्थ पूर्वा- परसमज्जसत्वम्। न चात्रोपमा संभवति, तत्सामध्यसंभवात्। उपमानोपमेयसा- धारणधर्मेवादिशब्दाः किल तङटकाः । तदत्र त्रितयसर्वेद्धे त्वपीवयद्वाप्रभृतिश- उदानुपादानात्कथमुपमेति शक्टामुत्थाप्य निरस्यति-न चेति । इवादयो हि शब्दा: सादृश्यद्योतकाः । तथा च कचितपसिदस्य प्रकृते संबन्धप्रतीति- स्तेभ्यो भवति बिम्बप्रतिबिम्बन्यायाश्रयणात्। एवं च न युगपत्तुल्यरूपसंबन्धः । अपिशब्दस्तु युगपत्तुल्यरूपसंबन्धं बोधयतीति विभिन्नविषयत्वम्। नहीवादि- शब्दाभावे सादश्यमेव न प्रतीयते, लप्तोपमाप्रपथभव्नप्रसन्ञात् । अन्यत एव प्रतीतिसिदेरुपायान्तरवैयर्थ्यात्। किमितीह नेवादिपदं प्रयुक्तमिति प्रश्नोऽवशि- व्यते तन्रेदमुत्तरम्-इवस्येत्यादि । नेमिरन्येऽपीत्यपिशब्देन समुचयोऽप्य- वसीयते।स च युगपदेकसंबन्धाभिधाने निर्वहृति। तेनानेकमुहिश्य किंचिदेक- संबन्धाभिधानं समुचयाभिधायिनो विषयः । एकमुद्दिश्य प्रसिद्धान्यधैर्मविधानं तु यथेवादिरिति विषयविरोधान प्रयुज्यत इति। स्यादेतत्-इववद्वायथादिशब्दा १. 'साटृश्यमात्र' ग. २. 'नोऽसम्यं' इति स्ाद; यदा 'नोडलम्यम' पक्षे 'वो युष्मभ्यम्' इत्येव पाठे 'प्राज्यप्रभाः' इति प्रथमान्तमपि पृथक कस्पनीयम्, ३. 'प्रभव उत्पत्ति-' इति स्मात, ४. 'बडेडपीव' इति स्वाद्, ५. 'धर्माभिधानं तु यथेवादे' इति स्पाव,
Page 211
११८ काव्यमाला।
यत्परास्तस्यवोपमानताप्रतीतिसथा चानेनेदं तुल्यमिति साधारणधर्मविधिरूपा कथमुपमेल्यत उत्तम्-तुल्यधर्माणां त्विति। नात्र वचन लेषतुल्यधर्मागमः, अपि तु तथा 'व्यवस्थितानामेव शब्दतत्त्रता' इति 'धर्मस्य प्रभवः' इत्यादिभिर्द्वि- वचन लेपैस्तथापि विषयोपहृत इति। यदि चेवादिमन्तरेण नोपमाप्रतीतिस्वर्हि प्रसिद्धमुपमोदाहरणं भज्येतेल्याह-यथेति। अग्रतथतुर्थपरिच्छेदे। अत्राप्यु- पमामनजीकुवैतो मतमाशकते-नन्विति । इहापि चकाराभ्यां युगपत्पल्वाध- रयोरेकधर्मविधानस्य तुल्यत्वादिति देश्याभिप्रायः। उक्तयुत्त्या दूषयति-उच्यत इति। तर्हिं प्रकृतोदाहरणे नास्त्येवोपमा, कथ वचनमेदस्य गुणीभाव उदाहियत इत्याह-यत्रेति । यद्यप्यभिधीयमानं नास्ति सादृश्यम, तथापि प्रतीयमानोपमा व्यवहियतामित्यर्थः । शब्दमात्रसाम्यं शेषसंकीरणमेवेत्युपेक्षितवान्। ननु यत्रोप- मया काव्यव्यपदेशस्तत्र प्रतीयमानमपि सादश्यमूरीकियते। यत्र त्वलंकार- सभावव्यवस्थापितमेव काव्यं न तत्रापीत्याह-उपलक्षणमिति। प्रतिपत्ति- वैरुप्यस्यालंकारान्तरसाधारण्यादुपमातोऽन्यत्रापि लिन्रवचनमेदो दूषणमेव। तद्था 'मुखं पद्मम्' इति रूपके, 'मुखं पदमं वा' इति संशये, 'न मुखं पद्ममेव' इत्यपहवे। एवमन्येऽपि। अत एव दे भिननलित्नवचने इत्यत्र नोपमाग्रहणम्। यद्येवं कथमु- पमायामेव दूषणमुदाहियत इत्यत आह-केवलमिति। चिरंतनैहिं भरत- मुनिप्रभृतिभिद्व एव यमकोपमे शब्दानुगतालंकारत्वे नेष्टे। तत्प्रपणनमात्रं तु पुनरन्येरलंकारकारै: कृतमुपमायाः प्रभूतविषयतया प्राधान्याचोदाहतमतिस्फुटं भवतीति संक्षेपः ॥। यत्रोपमानधर्माः स्युर्नोपमेयेन संमिताः। तद्धीनोपममित्याहुस्तत्प्रसिद्धौ न दुष्यति ॥ १२१॥ यथा- 'स मारुताकम्पितपीतवासा विभ्रत्सलीलं शशिभासमजम्। यदुप्रवीर: प्रगृहीतशार्ञ्ः सेन्द्रायुधो मेघ इवाबभासे ॥ १६४॥' अत्र सेम्द्रायुध इति कार्मुकमात्रस्योपादानं वासःशङ्योस्त्वनुपादा- नादूनोपमत्वम्। तत्रेन्दुविद्युतोरतिप्रसिद्धत्वाददोषत्वम् ।। १. 'मिंहिं बचनरेप' इति स्पाद. २. 'कार्मुकमात्रोपादानं'क; 'कार्मुकस्योपादा' ग.
Page 212
१ परिच्छेद: 1] सरस्वतीकण्ठाभरणम्। ११९
यदाह सर्व सर्वेण सारूप्यं नास्ति भावस्य कस्यचित्। यथोपपत्ति कृतिभिरुपमानं प्रयुज्यते ।। अखण्डमण्डलः केन्दुः क कान्ताननमद्युति। यत्किंचित्कान्तिसाम्याचु शशिनैवोपमीयते ।।' यत्रोपमानेति। उपमेयेनोपमेयविशेषणेन समितास्तुल्यसंख्याः। इन्द्रायु- धमिन्द्रधनुरेकमुपमाने उपमेये पीतं वास: शार्हमन्जः शब् इति त्रीणि विशेषणानि तदिहाधिकविशेषणविषय इति जिज्ञासासमकालमेवाप्रसिद्धेन्दुबिम्ययोरुपमानयोमेंघा- नुसंधानात् स्खलनाभिमुखी प्रतीतिरवलक्ष्यते। घ्यननव्यापारोन्मेषाच गुणत्वलाभः । तदुक्तम्-'मुर्या महांकविगिरामलंकृतिभृतामपि। प्रतीयमानच्छायैषा भूषा लजेव योषिताम् I' इति। न चैवं स्तनितादीनामिति कर्थ प्रतीतिरिति वाच्यम्। प्रती- सर्वेणेति। यथोपपत्तिपर्यन्तो यावतोपमानविशेषणत्वेन प्रकृतमुपमेयविशेषण- प्रतिबिम्बता नीयते तदतिकमेणैकप्रतीत्यनुरोधे कल्पितेनाप्युपमेयविशेषणेनेलयर्थः । अन्यथा चन्द्रमुखादीनां नोपमा पर्यवस्येतेल्याह-अखण्डेति ॥ अमुमेव प्रकारमधिकोपमेये योजयब्राह- क्मेणानेन कृतिभिरेष्टव्यमधिकोपमम्। विशेषस्तूपमेयाङ्गमनुमानात्प्रतीयते ॥ १२२ ॥ यथा- 'स पीतवासाः प्रगृहीतशाङ्र्ों मनोज्ञमीमं वपुराप कृष्णः । शतहदेन्द्रायुधवानिशायां संसृज्यमानः शशिनेव मेघः ॥१६५॥'
त्वम्। यदि वोपमाने धर्मोद्वाटनानुमानात् 'शङ्गचकगदाघरो विष्णुः' इति प्रसिद्धे: शार्ङ्गमनुमेयम् ॥ झटिति प्रतिबिम्बभूतोपमेयविशेषणप्रतिसंधानेन दोषः । तदेव तु कंथमत उच्तम्-
Page 213
१२० काव्यमाला।
विशेषस्त्विति। उपमेयांशे विशेषविशेषणमुपादाना(!)दुपमानविशेषणाटम्नती- यते। शतहदा विद्युत्। उपमानत्वेनाविवक्षितत्वादित्यापाततः। उपमानविशेषणानां य्यावत्प्रतीति न अ्हणमिति प्रकाशयितुं पारमार्थिकस्त्वयं सिद्धान्त इत्याह-यदि वेति । उपमानधर्मस्याधिकस्योद्धाटनमभिधानं तस्यानु पथ्चान्मानं ज्ञानम् । कथमेतदिल्याह-इति प्रसिद्धेरिति।। यदा तीत्रप्रयत्नेन संयोगादेरगौरवम्। न च्छन्दोभङ्ग इत्याहुस्तदा दोषाय सूरयः ॥ १२३ ॥ यथा- 'जह प्हाउं ओइण्णे अव्भन्तमुल्हासिअमंसुअद्धन्तम्। तह अ व्हाआ सि तुमं सच्छे गोलाणईतूहे ॥ १६६ ॥' [यथा सत्रातुमवतीर्णे आद्रीभूतमुल्लासितमंशुकार्धान्तम्। तथा च स्नाता भवसि त्वं स्वच्छे गोदानदीतीर्थे॥] अत्र द्वितीयैकादशत्रयोविशतिवर्णानां संयोगपरत्वाद्गुरुत्वेपि प्हाल्हा- दिसंयोगस्य तीव्रपयल्नोच्चारणेन पूर्वलघुत्वे न छन्दोभक् इति गुणत्वम् ।। यदेति। प्रयतनं प्रयत्नः स्थानकरणव्यापारसस्य तीत्रत्वमुद्रेकस्तत एव हि पिण्डाक्षरादीनामकठोरत्वमाभासते। आदिग्रहणादिवहिकारी सानुखारी च केवलौ पदान्ते वर्तमानी तत्तद्धाषाविषयेऽवसेयी। क्वचिदेव हि वर्णे तथावभासते न तु सरवत्र। तदुपलक्षणमेव 'रह वंजणसंजोए' [ 'रही व्यजनसंयोगे' ] इत्यादिकं छन्दोविचिती दर्शितम्। जहेति। स्रातुमवतीर्णे त्वयि अंशुकार्धमुद्रष्टं सदभ्भ- न्तमाद्ीभूतं यथा चलत्वं स्थितेस्तथावगम्यते न त्वन्तर्जलं जलकेलिस्धानमवतीर्ण इत्यभिप्रायशेष: । कथमन्यथा गोदावरीनयाः स्च्छ जलं दृश्यते इति। तूहं तीर्थम्। अत्र द्वितीयैकादशादिस्थानेषु यद्यपि संयोगात्पूर्वभावे गुरुत्वं विद्यते १ इति मूले पाठ :. २. 'विशेषादिति' इत्यादर्यीपाठ :. ३. 'महमप्याडुः' क. ·. 'पुनर्लयु' ग. ५. 'इहिकारा बिन्दुजुआ' इति प्राकृतपिक्ञलोत्त्या 'इकारषिकारी' पति; 'इहिकारी' इति वा पाठ:, ६. 'कम्यम्' स्ात.
Page 214
१ परिच्छेद: 1] सरस्तीकण्ठाभरणम्। १२१
तथापि तीत्रप्रयल्नोच्चारणीयशकारहकारादिसंयोगमहित्रा नावच्छेदश्रव्यता कलुषी- क्रियत इति। एवमन्यदप्युदाहार्यम्। यथा- 'धवलाईं गलेत्ति धवलेहिं अणज्ञणसामलेहि णिसालआए। णसवत्तकुसुमाई णहअलाओ ओसरइ ।।' इत्यादि नामधातुभागे खरासंधाने च पठितिविच्छेदो न भवतीत्युक्तं स तदुह्न- मात्रेण समाधीयते शोभां पुष्यतीति ।। वाक्यमस्थानविरति प्राग्भग्रयतिसंज्ञया। समुहिष्टं यदघुना गुणत्वं तस्य कल्प्यते ॥ १२४ ॥ यथा- 'शोभां पुष्यत्ययमभिनवः सुन्दरीणां प्रबोघ: किचिद्धावालसमसरलप्रेक्षितं कामिनीनाम्। कार्याकार्याण्ययमविकेलान्यागमेनैव पश्य- न्वश्यामुर्वी वहति नृप इत्यस्ति चायं प्रयोग: ॥ १६७ ।।' अत्र पादत्रये चतुर्थस्थाने यतौ कर्तव्यायां पश्चमस्थाने कृतत्वाद- परत्र च पादस्य मध्यभागे निविष्टकेवलखरत्वाद् यतिभ्रंशेऽपि खरसंधि- कृतत्वादविभिन्ननामधातुशरीरत्वाच्च न दोषत्वम् ।। यदाह- 'स्वरसंच्यकृते प्रायो धातुमेदे तदिष्यते। नाममेदे च शेषेषु न दोष इति सूरयः ॥ लुस्ते पदान्ते शेषस्य पदत्वं निश्चितं यथा। तथा संधिविकारान्तं पदमेवेति वर्ण्यते ।' वाक्यमिति। ..... शोभामिति। ....... १. 'मुछह्य' स्पाव. १. 'विकतेनागमेनैब' क.
Page 215
१२२ । काव्यमाला।77
कार्याकार्येति च नामभागमुहृत्य विच्छेदश्रव्यता च परस्प यणादेशेन 'किचिद्धावा' इति 'नृप' इति च खरसंधाने विच्छेदोऽत एव श्रव्यत्वमपि। तदेतथाचटे- अत्रेति। 'मन्दाकान्ता मभनतयुगं गद्दयं वेददिग्भिः' इति चतुर्थद्शमयोर्यतिरा- मनाता। पञ्चमस्थान इति। प्रथमतृतीययोर्द्वितीये तु पष्ठे यतिकरणादिति बोदव्यम् । ननु पदच्छेदे स्वरसंधानपठितिविराम: सोहेखो लक्ष्यते, नतु चतुष्पादे तथास्त्ीति कथ श्रव्यत्वमत आह-लुप्त इति । संधौ विकारो यत्वय- लोपादिकं कार्य, तथा च पदान्ते सति पदच्छेद एवायमिकारोऽवतिष्ठत इत्यर्थः ॥ अशरीरं क्रियाहीनं क्रियापेक्षा न यत्र तु। यंत्रास्त्यादेरपेक्षा वा न दोपस्तत्र तद्यथा॥ १२५।। यथा- 'कियन्मात्रं जलं विप्र जानुदन्नं नराधिप। तथापीयमवस्था ते नहि सर्वे भवादृशाः ॥ १६८।' अत्र त्रिषु पादेषु पदानि क्रियापदं नापेक्षन्ते। सापेक्षं चासमर्थ भवति। चतुर्थे तु नहीत्यादिभिः सन्तीत्यपेक्षते न चैतावतामीषामसा- मर्थ्य भवति। यदाह-'यत्रान्यत् क्रियापद नास्ति, तत्रास्ति भवतीति पद प्रथमपुरुषे प्रयुज्यते' इति॥ अशरीरमिति। प्रधानाविमर्शे हि दूषणमित्युक्तं तदुपात्तानामेव पदार्थानां प्रधानगर्भीकरणे तत्प्रतिबन्धेऽवश्यविधेयमन्यं प्रति गुणीभावे वा समाधीयते। अत एव विशेषाह्ुणलम्। तथा हि-'कियन्मात्रं' 'जानुदप्रम्' इत्यनयो: पेरिमि- तम्। किया प्रधानगर्भभूता। 'नहि सर्वे भवादशा:' इत्पत्र तु सत्ताकियायाः सक- लपदार्थाव्यभिचारात् 'अपेक्ष्यते' इति सिद्धिः। तदिदमाचार्यमतेनाह-यत्रा- न्यदिति। भवन्ती वर्तमाना। तदेतद्वाक्यं क्रियाप्रधानमिति ददर्श 'सै प्रधानं १. 'प्राशरत्यादे' क. २. क्रिया विशेषक्रिया। करियासामान्यवाचकपद तु'तिह्- समानाधिकरणे प्रथमा' इत्युत्त्यनुसारेण प्रथमासिष्यर्मपेक्षितमेव । अवपव 'सापेक्षम्' उन्याधश्रिमग्रन्थसंगति: ३. 'प्रेक्ष्यते' इति स्पाव. ४. 'अरिविर्मबन्तीपर: प्रथमपुरुषः' क. . 'परिमितिक्रिया' स्पाद. ६. 'दर्यने' इति स्ान्. .७. 'सा' इति साव ...
Page 216
१ परिच्छेद: I] सरसतीकण्ठाभरणम्। १२३
विशेष्यमात्रं तु वाक्याथें' इति परमार्थः । तेन 'राधा रहः साक्षिणाम्' इत्यादा- वावश्यकविधेयसाक्षिभावादिगुणतया राधासंबन्धादीनां वैवक्षिकप्राधान्यानामपि प्रधानत्वाविमशों न दोष इत्युक्त भवति।। श्िष्टमस्पृष्टशैथिल्यं शिथिलं तद्विपर्ययः । गौडीयैरिष्यते तत्तु बन्ध्राशस्त्यगौरवात् ॥१२६॥ यथा- 'लीलाविलोलललना ललितालकलालसाः। विलुप्तमालतीमाला जलकालानिला बबुः ॥ १६९॥' अत्र शैथिल्यदोषेडपि बन्धप्राशस्त्येन गौडैरादतत्वाद्गुणत्वम्।। र्िष्टमिति । पारुष्यशैथिल्याभ्यां बिना कृतं शिष्ठमित्युक्त तस्य विपर्ययो विपरीतं वाक्यं शिथिलं भवति। परुषमल्पप्राणाक्षरोत्तरं वेलर्थ:। एवंविधमपि चैतदनुप्राससौष्ठवात्पदानामेकताप्रतिभासे समाधीयत उद्भटानुप्रासतया च कान्ति- प्राधान्ये गोडीयरीतिप्राधान्येन गुणत्वमासादयति तदिदमुक्तम्-बन्धप्राशस्त्य- गौरवादिति। गौडीयैगौंडीयरीतिगोचर हेतुवाक्प्रकर्षशालिमिः ॥ लीलेति। अत्र दन्त्यवर्णमयत्वेनाल्पप्राणाक्षरोत्तरतायामपि पदैकताप्रतिभासानुप्रासयोरुद्रेक: कान्तिप्रकपॉऽवसेय:॥ न दोष: क्वापि वैषम्येऽप्यर्थालंकारकारणात्। पौरस्त्यैरादतत्वाच शब्दाडम्बरतोऽपि वा ॥ १२७ ॥ यथा- 'चन्दनप्रणयोद्गन्धिर्मन्दो मलयमारुतः । स्पर्धते रुद्धमद्धैयों वररामानेनानिलैः ॥ १७० ॥' अत्र सत्यपि वैषैम्यदोषे शब्दालंकार गुणादर्थालंकारगुणात्पौरस्त्यै- रादतत्वाच् गुणत्वम् ।। न दोष इति। अर्थालंकारकारणादर्थालंकाररूपम्। यत्र हिशव्दस्यार्थोडन्य- थान्यथारूपं भजते तत्रावश्यं तदनुयायिना पदसंदर्भेण भिननरूपेण भाव्यम्। एवमपि छायावैरुप्यं वैरस्यमेवावहतीव्याशक्का 'शब्दाडम्बर' इत्युक्तम्। आडम्बर १. 'उासकाः' क. २. 'मुखा' क. २. 'शब्दवैपम्यदोपे' ग.i
Page 217
१२४ काव्यमाला।
उद्भटता । तस्पाप्येकरीत्यनिर्वाहो दूषणमित्यत्र 'पौरस्तयैः' इत्युक्तम्। शरावत्याः प्रागदेशभवाः पौरस्त्यास्तदीयहेवाकप्राचुर्यभाज एव हि खण्डरीतयः । चन्दनेति। अत्र यद्यपि मलयानिल एक एव वाक्यार्थस्तथापि चन्दनप्रणयेन प्रबृद्धसौरमे मन्द इत्याभ्यां शज्ञाराककताप्रतीतावुन्मिश्रः संदर्भः । मलयमारत इति कोमलः, वररामा- मुखानिलैरित्यपि तथा, तत्राप्यारभटीप्रकाशने स्पर्धत इति स्फुटम्। एवं रुद्धमदर्य इति। तदेवं समताविपर्यासेऽपि विशेषणानामर्थानां भिन्नभिन्नरसानुप्रवेशे पृथग- र्थालंकाराः प्रकाशन्ते। अस्ति चात्र शब्दाडम्बरवशादेव छायारूपाप्रतिभासः । लाटीया च रीतिः।। कठोरमपि वञ्नन्ति दीसमित्यपरे पुनः। तेपां मतेन तस्यापि दूषणं नैव विद्यते ॥ १२८ ॥ यथा- 'न्यक्षेण पक्षः क्षपितः क्षत्रियाणां क्षणादयम्।' अत्र कठोरत्वेऽपि दीप्षत्वाद्गुणत्वम् ।। कठोरमिति। सुकुमारताविपर्यासः कठोर: संदर्भ: प्रस्फुटतरवर्णाप्रधानमिति ्ावत्। सोऽयं दीप्रसानुप्रवेशादीचिल्येन गुणत्वं भजत इति व्यक्तम्। अपरे पौरस्लाः । न्यक्षेण सामस्लेन II अविद्वदङ्गनावालप्रसिद्धार्थ प्रसादवत्। विपर्ययोऽस्याप्रसननं चित्रादौ तन्न दुष्यति ॥ १२९ ॥ यथा- 'याश्रिता पावनतया यातनाच्छिदनीचया। याचनीया घिया मायायामायासं स्तुता थरिया ॥१७१॥' अत्राप्रसाददोषेऽपि चित्रत्वाद्गुणत्वम् ।। अविद्वदिति । विपर्ययः प्रत्यनीकभूतं वाक्यम्। आदिग्रहणाद्यमक लेपप्रहे- लिकाप्रकरणानि। या देवी पवित्रत्वेनाध्रिता । अनीचया तुज्या बुज्या मायायामस्य अविद्याविस्तारस्यायास क्लानि विच्छेदं याचनीया प्रार्थनीया। यतो यातन नरका- १. 'प्रदीप्तमपरे' ग.
Page 218
१ परिच्छेद: I] सरस्तीकण्ठाभरणम्। १२५
नुभवनीयं दुःखं छिनत्ति। श्रियापि स्तुतेति। अष्टदलकमलबन्धोऽयम्। तदिह तथा बरा(?)सनिवेशस्य चमत्कारकारित्वेन प्रसादोऽपि सहृदयश्ाघाविषयो गुण- तामध्यास् इति॥ अध्याहारादिगम्यार्थ नेयार्थ प्रागुदाहृतम्। स गम्यते प्रसिद्धश्चेन्न तद्दोपवदिष्यते ॥ १३० ॥
'मां भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । यथा-
वाहिनीजलमरः कुलिशं वा खस्ति तेऽस्तु लतया सह वृक्ष ॥१७२॥' अत्र दहत्वित्यादीनामध्याहार्यतया नेयत्वेऽप्यतिप्रसिद्धा प्रती- यमानत्वाद्गुणत्वम् ।। अध्याहारेति। असंपूर्ण वाक्यं नेयार्थमित्युक्तं तस्पैवंरूपता झटिति श्रुतार्थापत्ति- प्रादुर्भावपरिह्वकसंधानात्समाधीयते। तथा हि-'मा भवन्तमनलः' इत्यादी वृक्ष- समभिव्याहारेण दहनादीनां योग्यतया शीघ्रमेव धाक्षीदित्यादिकियान्वयोऽवसीयते। खस्तिवचनेन चामक्लप्रस्तावनिरासात्तथाभूतक्ियानुपादानं वफक्षमतया गुण इति।। असभ्यार्थ मतं ग्राम्यं तद्राम्योक्त्यैव दुष्यति। विदग्धोक्तौ तु तस्याहुर्गुणवच्वं मनीषिणः ॥ १३१॥ यथा- काम कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः । त्वयि निर्मत्सरो दिष्ट्या सोऽयमस्माखनुग्रहः ॥ १७३ ॥ अत्र आम्यत्वेऽपि आ्म्यार्थस्य विदग्धोत्तया तिरस्कृतत्वाद्रुणत्वम्।। असभ्यार्थमिति। रसस्यादीप्तिः कान्तिविपर्ययो वैचनापराधेन दूषणता- मध्यास्ते, स समाधीयतेऽत्र ग्राम्योक्तिपरिहारेणैव। अत एवोकिसमर्पितच्छाया- विशेषयोगे गुणत्वलाभः । सहृदयसभायां न साधुरसभ्यः । वैदगध्यविधुरं ग्राम्यम् ।। ओज: समासभूयस्त्वं तद्दीपार्थेषु वध्यते। विपर्ययोऽस्याः समस्तं तद्दीसं चेन्न दोषभाक्॥१३२॥ १. 'निर्मस्सनो' ग. २. 'बचनापरापेन' इवि पाठ :.
Page 219
१२६ काव्यमाला ।स
यथा- 'यो यः शखरं विभर्ति खभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाश्चालगोत्रे शिशुरधिकवया गर्मशय्यां गतो वा। यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्ोधान्धस्तस्य तस्य खयमिह जगतामन्तकस्यान्तकोऽहम् ॥१७४॥' अत्रासमस्तत्वेSपि प्रौढेबन्धत्वाद्गुणत्वम् ।। ओज इति। दीप्रसानुप्रविष्टार्थप्रतिपादकसंदभौंचिलेन समासभूयस्त्वमोजः। अस्य विपर्ययो दीप्तेरप्रत्यूहादेव समाधीयते। तदिदमुक्तम्-'दीप्तार्थ बध्यते यत्र तद्दीसं चेन्न दुष्यति' इति। सुगममुदाहरणम् । व्यूड: प्रैढः ॥ समस्तमसमस्तं वा न निर्वहति यद्चः। तदनिर्व्यूढमस्यापि न दोष: कापि तद्यथा। १३३।। यथा- 'प्रसीद चण्डि त्यज मन्युमञ्जसा जनस्तवायं पुरतः कृताञ्जलिः । किमर्थमुत्कम्पितपीवरसन- द्वयं त्वया लुप्तविलासमास्यते॥ १७५ ॥ अंत्रासमस्तरीत्यनिर्वाहादनिर्व्यूढत्वे5पि रसान्तरपरित्रहेण रीत्यन्तर- परि्रहाद्रुणत्वम् ।। समस्तमिति। उपक्रान्तरीतेरनिर्वाहे मधुररसपर्यन्ता प्रतीति: स्खलतीति
र्वाहः सर्वखायमानो गुणतामासादयति। तथा हि-प्रसीदेत्यादौ प्रणयकेलिकु- पितकामिनीप्रसादनायां शृक्जारविरोधिसमासव्यतिकरेण रीतेरप्यपक्रमे रोषलक्षण- भावानुभावर्भू: स्तनकम्पवर्णनायां समासोऽनुप्रबिष्ट इति व्यक्तः पूर्वरीतेरनिर्वाह्यः। रसान्तर प्रकृतविजातीयरससंबद्धो व्यभिचारी भावः ।। १. 'ब्यूट' इति टीकारसमत: पाठ :. २. 'अत्र समस्तरीत्या' कख. ३. 'मधुर- सपर्यन्ता' इति स्पात. ४. 'भूतस्तन' स्पाव्.
Page 220
१ परिच्छेदः I] सरस्तीकण्ठाभरणम्। १२७
अनलंकारमित्याहुरलंकारोज्झितं वचः । पूर्वोत्तरानुसंधाने तस्य साधुत्वमिष्यते॥ १३४॥ यथा- 'निशम्य ताः शेषगवीरभिधातुमधोक्षजः । शिष्याय बृहतां पत्युः प्रस्तावमदिशदृशा ॥ १७६॥
अनलंकारमिति । अनुत्कृष्टाप्रविष्टविशेषणवद्वाक्यं निरलंकार: पूर्वोत्तर- वाक्यसंगतिकरणप्रयोजनकतया न दोषः । कथं तथाभूतस्य काव्यत्वमित्यपि न वाच्यम्। अनुगतेन वकीभावेन तत्समर्थनात्। व्यक्तमुदाहरणम् ।। सूत्रकार एव वाक्यार्थदोषगुणीभावविवेचनं संगमयति- वाक्याश्रयाणां दोषाणां गुणीभावोऽयमीरितः । अथ वाक्यार्थदोषाणामदोष: कथ्यतेऽघुना।। १३५।। समुदायार्थशून्यं यत्तदपार्थ प्रचक्षते। तन्मत्तोन्मत्तवालानामुक्तेरन्यत्र दुष्यति ॥ १३६॥ यथा- 'काकाय शशलक्ष्मणः क च कुलं भूयोपि दृश्येत सा दोषाणामुपशान्तये श्रुतमहो कोपेडपि कान्तं मुखम् । कि वक्ष्यन्त्यपकल्मषाः कृतधियो रेखैव सान्यादृशी चेतः खास्थ्यमुपेहि कः खल युवा धन्योऽघरं घास्यति॥१७७॥
वाक्याथ्रयाणामिति । सैत्तादिवचनान्यनुक्रियमाणानि चमत्कारमर्पयन्ति। अत एव छायालंकारप्रादुर्भावाढ्ुणः। अनित्यदोपतया चानुकरणादन्यदपि गुणी- भवनबीजमुन्तेयमित्युदाहरणेन व्यजयग्राह-काकृत्यमिति। अत्र श्रुतिशालिनो १. 'निरलंकार' ग. २. 'कृत्यं' ग. ३. 'षियः खवमेपि सा दुलभा' ग. ४. 'मचादिबबनान्य' पाठ :..
Page 221
१२८ काव्यमाला।
नायकस्य वासनापरिपाकवशाद्विप्रलम्भावेशेऽपि प्रथमं प्रादुर्भाव :- 'क्ाकृत्यं शश- लक्ष्मण: क नु कुलम्' इति। तदेवं शान्तरसानुयायिनमनन्तरमेव बाधित्वा चित्ता- नुरअकप्रकृतरसाव्यभिचारिणा औत्सुक्यस्य प्रादुर्भाव :- 'भूयोऽपि दृश्येत सा' इति। एवं 'दोषाणामुपशान्तये श्रुतम्' इत्याद्यौचित्यादीनां पूर्वपूर्वप्रादुर्भूतानामुत्तरोत्त- रभाविभिश्चिन्ताप्रभृतिभिरपवादे प्रकृतवासना प्रौढिरवसेया। उन्मत्तवचनत्वा- दिति। रसाविष्टचेतसस्तदुत्कलिकाप्रायाणां भावानामव्यवस्थया कीर्तनमुन्मादः ।। यदप्रयोजनं यच गतार्थ व्यर्थमेव यत्। तस्यापि क्वापि निर्दोष: प्रयोगो दृश्यते यथा॥१३७॥ यथा- 'गीता विदुरवाक्यानि धर्माः शान्तनवेरिताः । न श्रुता भारते येन तस्य जन्म निरर्थकम् ॥ १७८ ॥ अत्र गीताविदुरवाक्यादीनां कथायामप्रयोजकत्वे5पीतिहासव्या- जेन चतुर्वर्गप्रतिपादनस्यारम्भ एव प्रतिज्ञानाद्रुणत्वम् । तदिदमप्र- योजनम् ॥ यद्प्रयोजनमिति। प्रबन्धार्थंपोषीनाधायकवाक्यमप्रयोजनम्। अर्थलाभ- प्रतिपादकतया कृतकरं व्यर्थम्। एवकारो भिन्नकमत्तच्छव्दानन्तरं द्रष्टव्यः। दृश्यत इत्यनेन तत्र तत्र प्रकृतसंगती सत्यां दोषाभावोऽवसेय इति दर्शितम्। यद्यपि भगवद्रीतायां मोक्षाधिकारिणामस्त्येव प्रकृतशान्तरसपरिपोषकत्वम्, तथापि तद- न्तर्गतानां भूयसामाहृत्य नास्ति। भीष्मविदुरवाक्यानां तु धर्माधिकारे प्रकृतानां व्यक्क एव निष्प्रयोजनप्रसावः। सोडयं यथा समाधीयते तद्विष्ृणोति-अत्रेति। इतिहासरूपे प्रबन्धे सत्यपि शान्तस्य वाक्यार्थाभावेन बहूनामितिहासानां त्रिवर्गा- धिकारित्वाच्चतुर्वर्गप्रतिपादनमेव महर्षेरभिमतम्, धर्मादित्नितयस्य च प्रासश्विकतया न पूर्ववदस्यार्थैकताविरोधः। तदिदमुक्त्तम्-व्याजेनेति । एवं च व्युत्पाद- यितव्यविषयजिज्ञासोपादाने धर्मार्थप्रवृत्तये वाक्यमिदं सफलतामासादयह्रुण एव भवति ।।
१. 'प्रयोजकं' ग. २. 'पोपो नाधायक' पाठ :. ३. 'स्तावः' पाठ:
Page 222
१ परिच्छेद: I] सरस्तीकण्ठाभरणम्। १२९
एवं गतार्थमपि यथा- 'हृत्कण्ठवक्रश्रोत्रेषु कस्य नावस्थितं तव। श्रीखण्डहारकर्पूरदन्तपत्रप्रभं यशः ॥१७९ ॥' अत्रैकेनैवोपमानेन शौक्ल्यप्रतीतौ शेषोपमानपादानां व्यर्थत्वेऽपि
णडादिवदनस्थानस्य प्रतीयमानत्वाद्गुणत्वम् ।। एवं गतार्थमपीति। श्रीखण्डेनैवोपमाने वशसः शुद्धत्वमवगतं केपोपमान- पदानि केवलकृतकराणीति व्यर्थत्वप्रसन्ने स्मरणादिविशेषविवक्षया तिरस्कियते, यथासंख्यादिभत्िसौभाग्येन च गुणीभाव इति।। अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीत्यते। तदेकार्थ रसाक्षिप्तचेतसां तन्न दुष्यति ॥ १३८॥ यथा- 'असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम्। अदप कन्दर्प जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ १८० ।।' 'असारं संसारम्' इत्युक्त्वा 'परिमुषितरलं त्रिमुवनं निरालोकं लोकम्' 'जगज्जीर्णारण्यम्' इति यदुक्तम्, तस्य विशेषानमिधायक- त्वेऽपि रसाक्षिप्तेन वकामिहितत्वाद्रुणत्वम्।। अविशेषेणेति। पूर्वोंक्तपूर्वों क्ताभिन्नतात्पर्यकमविशेषेण तात्पर्यावृत्तिप्रयोजन- मन्तरेण तन्मयीभवनं चेतस आक्षेपः । 'असारं संसारम्' इत्यनेन स्थावरजग्गम- प्रपशस्य निःसारतां प्रतिपाद्य 'जातौ जाती यदुत्कष्ट तद्ि रमं प्रचक्षते' इति। 'परिमुषितरन्नम्' इत्यत्रापि तावानेव तात्पर्यार्थः। एवं 'निरालोकं लोकं', 'जगजी- र्णारण्यम्' इत्यत्रापि द्रष्टव्यम्। सुगममन्यत्।। १. 'शुम्नत्व' ग. १ स० क०
Page 223
१३० काव्यमाला।
संशयायैव संदिग्धं यदि जातु प्रयुज्यते।का क स्यादलंकार एवासौ न दोपस्त्र तद्यथा।। १३९।। 'कुतो लम्भइ पन्थिअ सत्थरअं एत्थ गामणिधरम्मि। उण्णअपओहरे पेक्खिऊण जइ बससि ता वससु ॥१८१ ॥ [कुतो लम्यते पथिक स्स्तरकमत्र ग्रामणीगृहे। उन्नतपयोधरान्प्रेक्ष्य यदि वससि तदा वस ॥] अत्र केनापि पथिकयूना प्रावृडारम्भे आ्मणीवधू: पीनोन्नतखतनी सत्थरअमिति स्रस्तरकव्याजेन शस्तरतं याचिता। तं प्रत्याचक्षाणेव यथोक्तं त्रूते-'कुतोऽत्र ग्रमणीगृहे स्रस्तरकः, कुतो वा शस्तं रतम्। उन्नतौ पयोघरौ मम हृदये नमसि वा पयोधरान्दृष्टा यदि वससि तदा वस' इति तदेतस्य गोपनाय द्यर्थरेव पदैः प्रयुक्तमिति संदिग्घस्या- प्यस्य गुणत्वम् ।। संशयायैवेति। मिश्रो विरुद्धार्थवाक्यं संशयापादनेन दुष्यतीत्युक्तम्। यदा तु संदेह एव तात्पर्यमवधार्यते तदा स एव रजकतयालंकारतामारोहतीति कत्थनं गुणीभाव इति, तदिदमुक्तम्-स्यादलंकार एवेति। कुतो लभ्यते पधिक स्रस्तर: शस्तरतं चात्र आ्रामणीगृहे। आ्रमणीर्तामप्रधानम् ।.उन्रतपयोधरान्मेधान् पयोधरी सतनी वा टृष्ट्रा यदि बससि तद्स। अत्र प्रट्टः संदेहजनकत्वेन निमृता- नुरागप्रकाशनं पथिकविषये प्रतीयते ॥ हथैरिति। तदुक्तम्-'धर्थैः पदैः पिशुनयेच रहस्यवस्तु' इति॥ वाक्ये प्रबन्धे चार्थानां पौर्वापर्यविपर्ययः । दोषः सोपक्रमो नाम चित्रहेतौ च दुष्यति॥ १४० ॥ यथा- 'पश्चात्पर्यस्य किरणानुदीणं चन्द्रमण्डलम्। प्रागेव हरिणाक्षीणामुदीणों रागसागरः ॥ १८२ ॥' १. 'नानायेरेव' ग. २. 'कर्थ न' साद्.
Page 224
१ परिच्छेदः ॥] सरखतीकण्ठाभरणम्। १३१
अंत्र पौर्वापर्यविपर्ययादपक्रमदोषस्य चन्द्रोदयं प्रति रागोद्दीपनपरक- र्षप्रकाशनत्वाददोषः ॥ वाक्य इति। अर्थानां कार्यकारणभूतानां तेषामेव पौर्वापर्यनियमाय्य इति पूर्वार्षेऽध्याहार्यम्। चित्रहेताविति प्रसिद्धरूपविपयासेन हेतुवचनद्वारा प्रकृतवाक्या- थंपरिपोषाधानं चित्रहेतुः । पर्यस्य विस्तार्य चन्द्रोदयरागोद्दीपनयोः सत्यपि हेतुहे- तुमद्भावेन पौर्वापर्ये प्रथमं रागसागर: पथ्चाचन्द्रमण्डलमुदीर्णमिति विपर्यासप्रती- तिसमसमयमुद्दीपनविभावनानुसंधानाद् हिमांशोरतिशीघ्रकारिताप्रकाशनात् प्रकृत- शभ्राररसो दीप्यते। एवं कुलकादिरूपं प्रबन्धान्तर्गतवाक्येष्वपि गुणत्वमवसेयम्।। यसिन्रीतेरनिर्वाह: खिन्नं तदभिघीयते। न दोषस्तस्य तु कापि यत्र च्छाया न हीयते ॥१४१॥ यथा- 'अभिनववधूरोषखादु: करीषतनूनपा- दसरलजना श्लेष करस्तुषारसमीरणः 1 गलितविभवस्याज्ञेवाद्य द्ुतिर्मसृणा रवे- विरहिवनितावक्रक्कैव्यं विभर्ति निशाकरः ॥१८३।। अत्रोपमानानि सामान्यवचनैः समस्यन्त इति प्रकान्तरीतेरनिर्वा- हेऽपि समासव्यास्यापरत्वेनैव इवशब्दतद्धितयोः प्रयोगे प्रत्युत च्छा- योत्कर्ष इति गुणत्वम् ।। यस्मिन्निति। वाक्यार्थस्य धर्मिणो यदलंकारभक्चया प्रकरमस्थया निर्वहणा- भाव: खेद: । स तु पूर्वालंकारविश्रान्तौ प्रतीतेरस्खलने न दोषः । गुणत्वं च तस्प मश्यन्तरैरपि प्रकृतालंकारे ध्वननात्। तथा हि-'अभिनववधूरोषखादु अस- रलजना्लेप इव क्रूर:' इत्युपमानानि सामान्यवचनैः समस्यन्त इति समासद्ये- नोपमामुपकम्य मलिनविभवस्याज्ञेवेति समासत्यागाद्विरहिबनिताव कक्ैव्यं बिभतीति चान्तरधर्मारोपेण चोपमात्यागात्सत्यपि रीतेरनिवाहे उपमायामेव पर्यवसानं समाधानहेतुः । गुणत्वहेतुमाह-व्याख्यापरत्वेनेति । गलितविभावाज्ञामसुणेति समासे कर्तव्ये योडयमिवशब्दप्रयोग: स इवायें पूर्वो समासी बोधयति। कैन्यं
Page 225
१३२ काव्यमाला।
विभतांति सामान्यालंकारे कथमन्यधर्ममन्यो वहतीति प्रतिसंधानसमसमयं वक- ऋँव्यमस्येत्यन्तर्गतोपमाप्रकटीभावे उपमासमासपदयोरपि सा प्रतीयते इति सेयं कविचातुरीप्रतीयमानच्छायामेव पुष्णाति। तदिदमुक्तम्-प्रत्युतेति।। लोकातीत इवार्थे यः सोऽतिमात्र इहेष्यते। वार्तादौ तेन तुष्यन्ति विदग्धा नेतरे जनाः ॥ १४२॥ तच् वार्ताभिधानेषु वर्णनासपि विद्यते। कान्तं जगति तत्कान्तं लौकिकार्थानुयायि यत् ॥१४३।। लौकिकार्थमतिक्रम्य प्रस्थानं यत्प्रवर्तते। तदत्युक्तिरिति श्रोक्तं गौडानां मनसो मुदे ॥ १४४॥ यथा- 'देव धिष्ण्यमिवाराध्यमद्य प्रभृति नो गृहम् । युष्मत्पादरजःपातघौतनिःशेषकल्मषम् ॥ १८४।' अत्रातिमात्राख्ये दोषेऽपि वार्ताभिधानेऽभिघेयस्य कान्तिगुणस्या-
यथा वा- 'अल्पं निर्मितमाकाशमनालोच्यैव वेघसा। इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् ।। १८५।।' अत्रातिमात्रत्वेऽपि वर्णनार्थत्वाद्गुणत्वम् । अथानतिमात्रं कीटक्। उच्यते- वार्ते तावदथा- 'गृहाणि नाम तान्येव तपोराशिर्भवादृशः । संभावयन्ति यान्येवं पावनैः पादपांसुभिः ॥ १८६॥ अथ वर्णनायां यथा- 'अनयोरनवद्याञ्ञि सतनयोर्नृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे॥ १८७ ।'
Page 226
१ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। १३३
लोकातीत इति। 'अनामये प्रियालापे वातं वार्ता च कीर्लयते । वर्णनास्पि' इत्यादिपदविवरणं दश्यते। कान्तमित्यभिसंबन्धः । लौकिकार्थानुयायि यजगति लोके कान्तमुच्यते तथाभूतमतिकम्य यत्कवीनां प्रस्थानं प्रवर्तते तदपि गौडानां मनसो मुंदे प्रोक्तम्। शब्दाडम्बरात्मकगौडरीतिप्रियाणां विदग्धकामाज्ञापक सह्ुणी भवतीति श्ोकार्थः । धिष्ण्यं गृहम् । ननु प्रियालापवर्णनयोरेवंविधा एव लोके काव्ये च वचनसंदर्भा इति नास्त्यतिमात्रतानतिमात्रतयोभेंद इति पृच्छति- अथेति। सुगममन्यत्॥ परुष निष्ठुरार्थ तु यदतीव विगर्हितम्। विरुद्धलक्षणाद्यासु तदुक्तिषु न दुष्यति॥ १४५।। यथा- 'हालाहलं विषं भुड्क्ष्व सखि मा तत्र विश्वसीः । यद्वा न दबसे काष्ठैः खवल्पैस्त्वमिति मे मतिः ॥ १८८ ॥ अत्र पारुष्येऽपि विरुद्धलक्षणयार्थान्तरस्य लक्षितत्वाङ्गुणत्वम्।। परुपमिति। विरुद्धलक्षणा लौकिकी तस्या हि झटित्यभिधानाविनाभावाद- परुषार्थप्रतीतेरभिधानतः पारुष्यं न दोषो लक्षणापरिग्रहेण च गुणत्वम्। तदाहु :- 'अभिधेयाविनाभावप्रतीतिर्लक्षणेति या । सपा काव्ये दग्धवका जीवितं वृत्ति- रिष्यते ॥' इति। अप्रस्तुतरसं प्राहुर्विरसं वस्तु सूरयः। अप्राधान्ये तदेष्टव्यं शिष्टैः साद्रसवस्तुनोः ॥१४६॥ यथा- 'क्षिप्तो हस्तावलमः प्रसभमभिहृतोऽप्याददानोंऽशुकान्तं गृह्न्केशेष्वपास्तश्वरणनिपतितो नेक्षितः संत्रमेण।
कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराभिः ॥१८९॥ अत्र करुणे शृक्कारस्याप्रकेतत्वेSपि शंभुप्रभाववर्णनाङ्कभूतत्वेन द्यो- रप्यप्राधान्यादवैरस्येन गुणत्वम् ।। १. 'खतुवले' इति सटीकपुस्तकपाठ:
Page 227
१३४ 1 काव्यमाला। अप्रस्तुतेति । अप्राधान्य इत्युपलक्षणं बाध्यत्वेऽपीति च बोद्धम्यम्। रसवस्तुनो: परस्परविरोधिरसव्यञ्जकयोः। यद्वा मिथोविरोधिरसरूपयोरेव वस्तुनः। तदाह-'बाध्यानामनभावं वा प्राप्तानामविमुक्तता' इति। हीनं यत्रोपमानं स्यादुपमेयं गुणाधिकम्। हीनोपमं तदस्याहु: कवयः क्वाप्यदुष्टताम्॥ १४७॥ यथा- 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना। 1 नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ।। १९०।' अत्रोपमानस्य हीनतायामपि रागातिशयहेतुत्वाद्रुणत्वम् ।। हीनमिति। जातिप्रमाणाभ्यामपकृष्ट हीन चन्द्रापेक्षया कामिनीकपोलस्याप- कर्षे आत्मनस्तुल्यतामुद्दीपनस्य प्रतिपाद्यमान: प्रकृतशज्ञारप्रकर्षमर्पयिष्यतीति गुण- त्वम्। एवमर्धिकोपमेऽपि॥ य त्रोपमानमुत्कष्टमुपमेयं निकृष्यते।। ज्ञेयं तदधिकौपम्यमस्यापि काप्यदोपता ॥ १४८।। यथा- 'कान्त्या चन्द्रमस घास्ना सूर्य धैर्येण चार्णवम्। I/9 राजन्नुकरोषि त्वं सौभाग्येनापि मन्मथम् ॥। १९१ ॥' अस्याधिकौपम्ये5पि राज्ञो लोकपालांशत्वेन शिष्टैरादतत्वाङ्गुणत्वम्।।' उपमानस्य वैषम्याङ्धवेदसदशोपमम् । तस्याभ्यनुज्ञामिच्छन्ति व्यतिरेकोपमादिषु॥ १४९॥ व्यथा प्रहितः प्रघनाय माधवानहमाकारयितुं महीभुजाः। न परेषु महौजसश्छलाद पकुर्वन्ति मलिम्लुचा इव ॥ १९२॥' १. 'मुक्तिवत्सला' इति पाठ :. २. 'नेन' ऋति सूदीकपुस्तकपाठ :.
Page 228
१ परिच्छेद: I] सरखतीकण्ठाभरणम्। १३५
अस्यासदृशोपमत्वेऽपि व्यतिरेकोपपादकत्वाद्गुणत्वम् । उपमानस्येति । उपमानेन वैषम्यमन्वयेन सादृश्याभावात्। व्यतिरेकोपमा-
यस्योपमानं लोकेषु न प्रसिद्धं तदिष्यते। अप्रसिद्धोपमं नाम तत्कचिन्नैव दुष्यति॥ १५० ॥ यथा- 'उद्गर्महूणरमणीरमणोपमर्द- भुमोन्नतस्तननिवेशनिमं हिमांशो: । बिम्बं कठोरविसकाण्डकडारगौरै- र्विष्णोः पदं प्रथममत्रकरैर्व्यनक्ति ॥ १९३ ॥' अस्यां प्रसिद्धोपमत्वेन दूषणत्वेऽपि द्वयोरपि शृभ्नारोद्दीपकत्वसा- म्याट्रुणत्वम् ।। यस्योपमानमिति। लोकप्रसिद्धमेव कविभिरुपमाने कान्तं भवति तेन यत्र लोके प्रसिद्धं तेन सहोपमावर्णने संभवदप्यप्रसिद्धोपमत्वं रसानुप्रवेशेन गुणी भवति। उद्गर्भत्वेन स्तनाग्रश्यामिका तया लाञ्छनानुकरणममिलपितम् । निरलंकारमित्याहुरलंकारोज्झितं वचः। अर्थौजित्येपु तस्यापि क्चिन्निर्दोषता मता ॥ १५१ ॥ यथा- 'याच्जां दैन्यपरामवप्रणयिनी नेक्ष्वाकवः शिक्षिताः सेवासंवलितः कदा रघुकुले मौलौ निबद्धोऽल्जलि:। सर्व तद्विहितं तथाप्युदधिना नैवोपरोधः कृतः पाणि: संप्रति मे हठात्किमपरं स्प्रधुं धनुर्वाळ्छति ॥१९४॥' अत्र निरलंकारत्वेऽपि अर्थौरजित्याद्रुणव्वम् ।।
शब्देऽस्पष्टे वकतार्थे तु नासिति वकत्वं चालंकार इति। यद्यपिं वाक्याथों निरलंकार
Page 229
१३६ काव्यमाला।
इव भासते, तथापि विशेषतोऽलंकाराध्यवसायेऽपि सामान्येन वकता प्रकाशत एव। नहि लौकिकशास्त्रीयवचनाथवैपरीत्यमिह प्रतीयते। तदिदमुक्तमथौर्जित्यादिति।। अस्ति हि वयं याचामह इत्युक्ते याचमा च भिक्षाकरानालक्षिता(!)इत्युक्त्ती नाय- कप्रकर्षाभिव्यजको विशेष इत्याह- असभ्यार्थ यदश्लीलं तदर्थान्तरवाचि वा। तस्येह दृश्यते भूम्ना प्रयोगो नापि दुष्यति॥ १५२ ॥ यथा- 'अद्यापि तत्कनककुण्डलघृष्टगण्ड- मास्यं स्मरामि विपरीतरताभियोगे। आन्दोलन्रमजलस्फुटघर्मबिन्दु- मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ १९५ ॥' अत्राश्रीलाथेंऽपि कविभिरविगीतत्वाद्रुणत्वम्।। असभ्यार्थमिति। कचित्प्राथमिक एव पदार्थसंसर्गोऽश्ीळः। कचित्तु न तस्मिस्तथाभूतेऽपि संसर्गान्तरमिति यदश्लीउमर्थान्तरवाचि वेत्युक्तम्। कविभिर- विगीतत्वादिति। अविपरीताद्विपरीतं रतमुत्कृष्यत इति शास्त्रकारैराम्रानात्तस्य रज्रा- रोद्दीपनतया कविभिरादतत्वादित्यर्थः ॥ देशोऽद्रिवनराष्ट्रादि: कालो रात्रिदिवर्तवः। नृत्यगीतप्रभृतयः कला: कामार्थसंश्रयाः ॥१५३ ॥ चराचराणां भूतानां प्रवृत्तिर्लोकसंजञिता। हेतुविद्यात्मको न्यायः संस्मृतिः श्रुतिरागमः॥१५४॥ तेषु तेष्वयथारूढं यदि किंचित्प्रवर्तते। कबे: प्रमादाद्देशादिविरोधीत्येतदुच्यते ॥१५५ ॥ विरोधः सकलेष्वेव कदाचित्कविकौशलाद्। उत्क्म्य दोषगणनां गुणवीथीं विगाहते ॥ १५६ ॥ १. 'कोडप्येप' इति सटीकपुस्तकपाठ :.
Page 230
१ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। १३७
तत्र देशविरुद्धस्य गुणीभावो यथा- 'तस्य राज्ञः प्रभावेण तदुद्यानानि जज्ञिरे। आरद्राशुकप्रवालानामास्पदं सुरशाखिनाम् ॥ १९६ ।।' अत्र देशविरुद्धत्वेऽपि तस्य राज्ञः प्रभावेणेति कारणोपन्या- साद्गुणत्वम् ।। देशोऽद्रीति। आदिपदेन द्वीपादिपरिग्रहः । कामार्थसंश्रयाः, अर्थसंश्रयाः प्वृत्तयोऽवस्थाविशेषाः । हेतुविद्या आन्वीक्षिकी। अयथारूढं अप्रसिद्धम् ।। कालविरुद्धस्य यथा- 'राज्ञां विनाशपिशुनश्रचार खरमारुतः । चुम्बन्कदम्बकुसुमैः सह सप्तच्छदोद्गमान् ॥ १९७।।' अत्र कालविरुद्धत्वेऽपि राज्ञां विनाशपिशुन इत्यनिष्टसूचकोत्पात- रूपत्वाद्गुणत्वम्।। कालविरुद्धस्येति। उपघात उत्पातः ।। लोकविरुद्धस्य यथा- 'ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम्। अवलाविरहक्केशविहलो गणयत्यलम् ॥ १९८ ॥ अत्र लोकविरुद्धत्वेऽपि कामिभिखथा संवेद्यमानत्वाद्गुणत्वम् ।। युक्तिविरुद्धस्य यथा- 'स संकोचश्रन्द्रादिव कुमुदराशेरशरणः स सूर्यात्कोकानां विरह इव लुप्तप्रतिविधिः । गुणेभ्यस्ते खेदप्रशमनकरेभ्योSपि यदयं खलानामुद्वेगस्तदिदममृतादेव मरणम् । १९९ ।।' अत्र युक्तिविरुद्धत्वेऽपि छेकोक्या संभाव्यमानोपमया तथापरतीते- र्गुणत्वम्।
Page 231
१३ 1 काव्यमाला।7
स संकोच इति। यदि चन्द्रादिभ्यः कुमुदसंकोचादयो भवेयुख्तदा भवद्ध- णेम्य: खलनामुद्देग उपमीयेत न तु तथा संभवति तेनायमलौकिकत्वादाश्वर्यमर्प- यतीति वाक्यार्थपरिपोषात्तथोपन्यासो गुण एवेति।। औचित्यविरुद्धस्य यथा- 'तेनाथ नाथ दुरुदाहरणातपेन सौम्यापि नाम परुषत्वमभिप्रपत्ना। जज्वाल तीक्ष्णविशदा: सहसोद्विरन्ती वागरिषस्तपनकान्तशिलेव सीता ॥ २०० ।'
वर्चनविरुद्धस्य यथा- 1 'परदाराभिलाषो मे कथमार्यस्य युज्यते। पिबामि तरलं तस्याः कदा नु रदनच्छदम् ॥ २०१॥ अत्र वचनविरोधेऽपि वक्तुस्तथाविधावस्थत्वाद्गुणत्वम् ।। वचनविरुद्धस्येति। अष्टमी कामावस्थी ॥ धर्मविरोधस्य यथा- 'पञ्चानां पाण्डुपुत्राणां पत्नी पाञ्चालकन्यका। ॥ सतीनामग्रणीस्त्वासीद्ैवो हि विधिरीदृशः ॥ २०२॥ अत्र धर्मविरोधेऽपि दैवो विधिरित्यनेनाभिहितत्वाददोषः ॥।3 धर्मविरोधस्येति। दैवो हीति। सिद्धादेशाच सतीत्वं पाच्ालकन्यकायाः । तिरस्कृतमित्यत एव वा पमधा विवक्षित इत्यागम: ।। अर्थशास्त्रविरुद्धस्य यथा- 'नीतिरापदि यद्रम्यः परस्तन्मानिनो हिये। •Tी विघुर्विधुंतुद सेव पूर्णस्तस्योत्सवायं सं: ॥ २०३॥ १. प्रक्षिप्तोडयं पाठ:
Page 232
१ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। १३९
अत्रापन्नः शत्रुरभियातव्य इति नीतिः, तच्च मानिनो हिये भव- तीतिविरुद्धमपि उद्धतपुरुषभाषितत्वान्न दुष्यतीति गुणत्वम्। अर्थशास्त्रेति। उदधतपुरुषभाषितत्वादिति । पूर्वपक्षतया सिद्धान्तोपोद्धात- त्वादित्यर्थः ।
'दोलाति प्रेरणत्रस्तवघूजन मुखोद्गतम्। कामिनां लयवैषम्याद्गेयं रागमवर्धयत् ।।२०४।।' अत्र त्रासतो लयवैषम्येण गेयस्य रागहेतुत्वेSपि कामिनीमुखोद्गी- णत्वाद्रागविवर्धनत्वेन गुणत्वम् ।। कामशास्त्रेति। उयवैषम्यादिति गीतस्य कलाप्रकथनात्तस्य च विषमलय- स्यारञकत्वात्कथं रागवर्धनमिति दूषणं दोलागतागतत्रस्तकामिनीगीतप्रभावोककेश्म- त्कारित्वात्तिरोधीयत इति गुणभावं च नीयते। भावान्तरालवर्ती कामो लयः ।। इत्थं गुणाश्र दोपाश्च काव्ये दोषगुणाश्च ये। आख्यातास्ते स्फुटं संप्रत्यलंकारान्प्रचक्ष्महे ॥ १५७॥ ननु गुणैरेव शब्दार्थयोः सनाथीकरणे किमलंकारविवेचन प्रयासेनेत्यत आह- युवतेरिव रूपमङ्ग काव्यं खदते शुद्धगुणं तदप्यतीव। विहितप्रणयं निरन्तराभिः सदलंकारविकल्पकल्पनाभि: १५८ युवतेरिति । अज्विव्याक्षेपसंबोधने। अलंकारसाहित्यबुद्धिसंगतिः प्रणयः ॥ विकल्पो विशेषस्तर्हि किमुत्तरसिद्धी पूर्वेणेति न्यायेन लाज्यन्तां गुणा इत्यत आह- यदि भवति वचश्युतं गुणेभ्यो वपुरिव यौवनवन्धमङ्गनायाः। अपि जनदयितानि दुर्भगत्वं नियतमलंकरणानि संश्रयन्ते ॥ १५९ ॥ यदि भवतीति। वित्ृतमेतत्।। : १. 'तोइति' मूलपुस्तकपाठ :.. 7
Page 233
१४० काव्यमाला। ते चालंकारा मथास्थानं निवेश्यमाना एव सहृदयरजनक्षमा इति कवीष्शिक्षयति- दीर्घापाङ्गं नयनयुगलं भूषयत्यञ्जनश्री- स्तुङ्गाभोगौ प्रभवति कुचावचितुं हारयष्टिः। मध्ये क्षामे वपुषि लभते स्थानकूर्पासलक्ष्मीः श्रोणीविम्बे गुरुणि रशनादाम शोभां बिभर्ति॥१६०।। इति श्रीमहाराजाधिराजभोजदेवेन विरचिते सरस्वतीकण्ठाभरण- नास्ति अलंकारशास्त्रे गुणविवेचनं नाम प्रथम: परिच्छेदः। दीर्घेति। तेन शब्दादिविषयविभागेनालंकारविवेचनं सप्रयोजनमेवेति तात्प- यार्थः । शेषमतिरोहितम् ।। इति श्रीमिथ्ररतनेश्वरविरचिते रत्नदर्पणनाम्नि सरस्वतीकण्ठाभरण- विवरणे गुणविवेचनो नाम प्रथम: परिच्छेदः।
द्वितीय: परिच्छेदः । क्षेत्रमध्यं विशालाक्षी यस्याधिवसति प्रिया। अविमुक्तप्रतिष्ठाय तस्मे कामद्ठहे नमः।। आयं स्फुरतु वाग्देब्याः कण्ठाभरणकौतुकम्। मयि प्रहमनोवृत्ती तन्वाने रत्नदर्पणम् ।। एवं दोषगुणेषु निर्णातेष्वलंकारा: प्राप्तावसरासत्रालंकारसामान्यलक्षणमाद्यपरि- च्छेदे तद्विभागं दर्शयन्परिच्छेदत्रयं संगमयति- शब्दार्थोभयसंज्ञाभिरलंकारान्कवीश्वराः।
शब्दार्थोभयसंज्ञाभिरिति। इत्थंभूतलक्षणे तृतीया। मध्यमपद्लोपीस- मासः। तेन शब्दालंकारार्थालंकारोभयालंकारसंज्ञाभिरित्यर्थः। गुणप्रस्तावे बाह्य- त्वादिकं विवृुतं शब्दोऽवच्छेदकतया प्रथमप्रतिसंधेयभावेन च शरीरस्थानीयो बाह्यस्ततस्वदाथया अलंकारा अपि बातयाः। अर्थो विच्छेदतया पश्चादनुसंधेयतया चात्मतुल्य आम्यन्तरसेन तदाश्रया अलंकारा अप्याभ्यन्तराः । एतेन बाह्याभ्य- न्तरा व्याख्याताः । आश्रयाश्रयिभावथ यथातथोक्मेव। उभयालंकारेषु योगस्य प्राभिकत्वमाश्रित्य कवीश्वराणामनुशासनमुक्तम्। एतद्विवेचयिष्यते चतुर्थारम्मे।।
Page 234
२ परिच्छेदः ॥] सरसतीकण्ठाभरणम्। १४१
शब्दालंकारसामान्यलक्षणमाह- ये व्युत्पच्यादिना शब्दमलंकर्तुमिह क्षमाः । शब्दालंकारसंज्ञास्ते ज्ेया जात्यादयो बुघैः ॥२ ॥ ये व्युत्पत्तीति । विशिष्ट उत्पत्तिर्व्युत्पत्तिलोंपागमविकारादिप्रपथ:। अत एव हि संस्कृतादिजातयो व्यवतिष्ठन्ते। आदिग्रहणाङ्वुरुलघुसंनिवेशादयो गल्याद्य- वच्छेदासयोविंशतिरुपात्ताः । बाह्यकक्कणादिसाम्यादियं संज्ञा प्रपृत्तेल्वाह-शब्दा- लंकार संज्ञा इति॥ जातिर्गती रीतिवृत्तिच्छायामुद्रोक्तियुक्तयः । भणितिर्गुम्फना शय्या पठितिर्यमकानि च ॥ ३ ॥ श्लेषानुप्रासचित्राणि वाकोवाक्यं प्रहेलिका। गूढ प्रश्नोत्तराध्येयश्रव्यप्रेक्ष्याभिनीतयः ।।४।। ते च प्रतिविशेषं वक्ष्यन्ते- चतुर्विशतिरित्युक्ताः शब्दालंकारजातयः । अथासां लक्षणं सम्यक्सोदाहरणमुच्यते ॥५॥ शब्दालंकारजातयः शब्दालंकारसामान्यानि ॥ स्रूपस्थितौ रूपान्तरगवेषणमनुचितम्। अतो जातेः प्राधान्यात्प्रथमं लक्षणमित्याह- तत्र संस्कृतमित्यादिर्भारती जातिरिष्यते। सा त्वौचित्यादिभिर्वाचामलंकाराय जायते ॥ ६ ॥ तत्रेति। संस्कृतमिति भावप्रधानो निर्देशः । भारतीग्रहणं स्पष्टार्थम्। नन्व- वश्यं शब्देन संस्कृतायन्यतमेन भवितव्यम्। तत्कोऽत्र कवे: शचतिव्युत्पत्त्योरंशो येनालंकारता स्वादित्यत आह-सेति। ओचित्याकृष्ट एवालंकार: । असि च संस्कृतादेरपि तथाभाव इति भाव: ॥। यद्यप्य्थौचिती पूर्व दर्शयितुमुचिता तथापि प्राधान्यमावेदयितुं पृथक्तौचितीमाह- संस्कृतेनैव केऽप्याहु: प्राकृतेनैव केचन। साधारण्यादिभिः केचित्केचन म्लेच्छभापया।। ७।।
Page 235
१४२ काव्यमाला।
विषयौचितीमाह- न म्लेच्छितव्यं यज्ञादौ स्त्रीपु नाप्राकृतं वदेद। संकीणे नाभिजातेषु नाग्रवुद्धेषु संस्कृतम्॥।८।। न म्लेच्छितव्यमित्यादि। म्लेच्छनमपशब्दः । प्राकृतं संस्कृतभवम्। अभिजातः शुद्धान्वयः ॥ अथ के संस्कृतादयुचितवककार इत्यत आह- देवाद्याः संस्कृतं प्राहुः प्राकृतं किञरादयः । पैशाचादं पिशाचाद्या मागवं हीनजातयः ॥। ९॥ देवाद्या इति। आदिग्रह्णेन ऋषिभूमिपतिप्रभृतयः।। वाच्यौचितीं दर्शयति- संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव वापरः । शक्यो रचयितुं कश्िदपभ्रंशेन जायते ॥ १० ॥ संस्कृतेनैवेति। यथा हि-देवतास्तुत्यादौ संस्कृतं प्रगल्भते न तथा प्राकृ- तादि। यथा च सूक्ष्मवस्तुस्वरूपोट्टडने प्राकृतस्य सौष्ठवं न तथा संस्कृतादेरित्यादि॥। पैशाच्या शौरसेन्यान्यो मागध्यान्यो निवध्यते। द्वित्रामिः कोऽपि भाषाभिः सर्वाभिरपि कथन ।।११।। पैशाच्येति। द्वित्रामि: कोऽपि काव्यसमस्यामेदस्यार्थः। सर्वाभि: कक्षन प्रकरणादेरर्थः ॥ विषयौचित्यमेव कचिविद्विशेषे कान्तिप्रकर्षमर्पयन्तीमाह- नात्यन्तं संस्कृतेनैव नात्यन्तं देशभापया। कथां गोष्ठीपु कथयँलोके बहुमतो भवेद् ॥ १२ ॥ नात्यन्तमिति। समानबुद्धिशीलवयसां विनोदार्थमासनवन्धो गोष्टी ।I देशौचितीमाह- शृण्वन्ति लटभं लाटा: प्राकृतं संस्कृतद्विपः । अपभ्रंशेन तुष्यन्ति सेन नान्येन गुर्जराः ।। १३ ।। भृण्वन्तीति। लटभं मनोजम्। खेन गुर्जरजातीयेन।।
Page 236
२ परिच्छेदः I] सरस्तीकण्ठाभरणम्। १४३
ब्रह्मन्विज्ञापयामि त्वां स्वाधिकाराजिहासया। गौडस्त्यजतु वा गाथामन्या वास्तु सरखती । ११ ।। ब्रह्मच्निति। ब्रह्मनित्यादिना निन्दार्थानुवादेन गौडेपु प्राकृतानौचिलं राज- शेखरेण व्यजितम्।। समयौचितीं दर्शयति- केऽभूवन्नात्यराजस्य राज्ये प्राकृतभाषिणः । काले श्रीसाहसाङ्कस्य के न संस्कृतवादिनः ॥ १५।। केSभूवन्निति । आव्यराजः शालिवाहनः । साहसाड्ो विक्रमादित्यः । अन्थकृत्पूर्वजतया श्रीपदम् । ता इमा: परस्परसंकीर्णा: पडेव संस्कृतादिभाषा भवन्तीति सामान्यविभागमे- तद्विरचनप्रयोजनं चोपसंहरति- गिरः श्रव्या दिव्या: प्रकृतमधुराः प्राकृतघुरा: सुभव्योऽपभ्रंशः सरसरचनं भूतवचनम्। विदग्धानामिष्टे मगधमथुरावासिभणिति- निंबद्धा यस्तेषां स इह कविराजो विजयते ॥१६॥ गिर इति। दिव्याः संस्कृताः । भूतवचन पैशाचम्। मथुरावासिभणितिः शौरसेनी। तेषामिति । तच भूतवचनं स चापत्रंशस्ताथ् दिव्याद्या इति 'नपुंस- कमनपुंसकेन' इत्येकशेषः । पाक्षिकं बहुवचनम् । प्रतिभार्थप्राणानां जीवद्वर्ण- नानिपुणो हि कविः, स एव हि सर्वपथीनतादगुक्तितिद्धिसंपन्नः कविराजः, अत एव विजयते सकललोकशास्त्रवचननिर्मातृम्यः प्रकर्षेण वर्तत इति ॥ संस्कृतादिषु यथायोगं शुद्धादिमेदेन जाति: पोढा भिद्यत इत्याह- शुद्धा साधारणी मिश्रा संकीर्णा नान्यगामिनी। अपभ्रष्टेति साचार्यैर्जातिः पोढा निगद्यते ॥ १७॥ शुद्धा साधारणीति। इद भाषारूपविषयमेदेन भिन्नाः संस्कारा यानधिकृत्य पाणिनि-चररुचि-प्रभृतीनामनुशासनानि व्यवतिष्ठन्ते। तद्यत्रैक एव संस्कार: प्रत्यभिज्ञायते सा शुद्धा। संस्कारान्तराग्रहणात्। यत्र तु लक्षणसंमेदेन नाना- संस्कारसंपातः क्षीरनीरवत्सा साधारणी। रूपसाधारण्यात्नरसिहबद्धाषाभेदव्य-
Page 237
१४४ काव्यमाला।
वस्थितभागद्यात्मिका मिश्रा । रूपमिश्रणात्तिलतण्ड्ुलन्यायेन संकीर्णा । विजा- तीयवस्त्वन्तरव्यतिरेक एव लोके संकीर्णव्यवहारात्। या पुनः प्रकृतिभावेनापि भाषान्तरसंपर्क न सहते सानन्यगामिनी। संस्कारसंमेदेन वा प्रकृतिभावेन वा नान्यं गच्छति यतोऽपशब्दरूपा सापभ्रष्ट।। तासूत्तमपात्रप्रयोज्या संस्कृतजातिः शुद्धा यथा- 'उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः । कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ।। १ ।।' तासूत्तमेति। पात्रलक्षणमुत्तमादिमेदव पथचमे वक्ष्यते। उन्नमितैकेति। पदानि प्रकृतानङ्गलेखोचितानि निर्व्याजप्रेमगर्भाणि। अत एवावापोद्वापप्रतिसंधान- निमन्नमानसायाधिन्तानुभावरूपं अलताविरेचितमिवासीत्। हस्ततलनिहितैककपो- लायास्तादक्पुलकितैककपोलदर्शनाद तिमानात्मा शुभ्ार: सुप्रबुद्ध इव तत्कालं नायक. स्यापीति मिथोऽनुबन्धलक्षणापूर्वानुरागकक्षामधिरूडा रतिरेव काव्यसर्वखायते। अन्र च कस्यचित्पदस्य भाषान्तरसाधारण्येऽपि भूयसामुदाहरणत्वम्। एवमन्यत्रापि।। मध्यमपात्रपयोज्या प्राकृतजातिः शुद्धा यथा- 'तुज्झ ण आणे हिअअं मम उण मअणो दिआ अ रततिं अ। णिक्किव तवेइ वलिअं तुह जुत्तमनोरहाइ अङ्ाईं ।। २ ।।' [तब न जाने हृदयं मम पुनर्मदनो दिवा च रात्रिं च। निष्कृप तपति बलवत्त्वयि युक्तमनोरथान्यङ्गानि ॥] तुज्झेति। वलिअं बलवत्कृतमभिमुखम्।। हीनपात्रप्रयोज्या मागधिका यथा 'शद माणशमंशभालके कुम्भशहश्श वशाहि शंचिदे। अणिशं च पिआमि शोणिदे वलिशशदे शमले हुवीअदि ।३॥' [शतं मानुषमांसभारकाः कुम्भसहसं वसाभि: संचितम्। अनिशं च पिवामि शोणितं वर्षशतं समरो भविष्यति ॥] शद माणुशेति । शर्तं मानुषमांसभार: कुम्भसहसर वसाभि: संचितम् । अनिशं च पिवामि शोणितं वर्षशतं समरो भविष्यति ॥' अन्न मांसादिलाभहेतुतया समराशंसनं बीभत्समुन्मुद्रयद्धीनपात्रतां इडयति॥
Page 238
२ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। १४५
नात्युत्तमपात्रप्रयोज्या पैशाची शुद्धा यथा- 'पनमत पनअपकुप्पितगोलीचलनग्गलग्गपडिबिम्बम् । दससु नहदप्पनेसु एआदसतनुधलं लुद्दम् ।। ४ ।।' [प्रणमत प्रणयप्रकुपित गौरीचरणाग्रलग्नप्रतिबिम्बम्। दशसु नखदर्पणेष्वेकादशतनुधरं रुद्रम् ॥] नात्युत्तमेति। उत्तमादपकृष्टं मध्यमादुत्कृष्ट नात्युत्तमम्। 'प्रणमत प्रणय- प्रकुपितगौरीचरणाप्रलप्नप्रतिबिम्बम्। दशसु नखदर्पणेष्वेकादशतनुधरं रुद्रम्।।' एवं नाम देवीकोपे भगवतः प्रणयकातरता येन युगपदिव सर्वाभिरपि मूर्तिभि: प्रणमतीति प्रतीयमानोत्प्रेक्षा।। नातिमध्यमपात्रप्रयोज्या शौरसेनी शुद्धा यथा- 'तुं सि मए चूअक्कुर दिण्णो कामस्स गहिदघणुहस्स । जुबइमणमोहणसहो पश्चब्भहिओ सरो होहि ॥ ५ ॥' [त्वमसि मया चूताक्कुर दत्त: कामस गृहीतधनुषः । युवतिमनोमोहनसह: पश्चाभ्यधिकः शरो भव ॥] नातिमध्यमेति। हीनादुत्कृष्टं मध्यमादपकृष्ट नातिमध्यमम्। तुं सीति। कामस्य। कामायेत्यर्थः । चतुर्थ्याः 'संबन्धसामान्यविवक्षायां पष्ठी' इति सूत्रात् षष्ठी॥ नातिहीन पात्र परयोज्योऽपभ्रंश: शुद्धो यथा- 'लइ वप्पुल पिअ दुद्धं कत्तो अम्हाणहुं छासि। पुत्तहुमत्ये हत्थो जइ दहि जम्मेवि जअ आसि ॥ ६ ॥' [गृहाणानुकम्प्य पिब दुग्धं कुतोऽम्माकं तक्रम्। पुत्रकमस्तके हस्तो यदि दधि जन्मन्यपि जातमासीत् ॥] प्रायिकं चैतत्। तेन कवेरभिप्रायशक्त्यादिभ्यः सर्वा अपि सर्व- प्रयोज्या भवन्ति। ता इमाः शुद्धा: षडेव । नातिहीनेति। हीनात्किंचिदुत्कृष्टं मध्यमादपकृष्ट नातिहीनम्। लह वप्पु- लेति। लइ गृहाण । वप्पुलेत्यनुकम्पासंबोधने। पिव दुग्धम् । कुतोऽस्माक छाति- १० स० क०
Page 239
१४६ काव्यमाला।
पदाभिधेयं तक्रम्। पुत्तहुमत्ये इति शपथः, पुत्रस्य मस्तकेनाहं पे यदि तकस्य व्यापकं दधि जन्मन्यपि जातमासीदिति व्यापकानुपलन्धिः प्रयुक्ा ॥ ननु प्राकृतादिपूत्तमादिपात्रव्यतिकरदर्शनात्कथमेषा व्यवस्था घटत इत्यत आह-प्रायिकमिति । यत्र प्रकृतिनिर्वह्णोचितविशेषाभिसंधानेन कविरन्यथा प्रव्तते। यथा मालत्यां संस्कृतमाश्रित्य 'एपोडस्मि भोः कार्यवशात्प्रयोगवश्ञाच प्राकृतभाषी संवृत्तः' इत्यादि। यत्र वा कवेर्व्युत्पत्तिकृतो भाषाविपर्यासः शक्त्ा तिरस्क्रियते । यथा मृच्छकटिके विटस्य मध्यमपात्रस्यापि संस्कृतोक्तिः। यत्र वा प्रबन्धौचितीपरवशाः संस्कृतादिजातयो विपर्यस्यन्ते। यथा सर्गबन्धादौ मध्य- मादेरपि संस्कृतमेव, खण्डकथापरकथादी उत्तमादेरपि प्राकृतमेव, बृहत्कथादौ पैशाचमेव, वस्तुबन्धादावपत्रंश एवेति, तत्र संधिसंध्य्नघटनासौप्ठवेन रसः पुष्यतीति भरतमुनिप्रभृतीनामतिप्रकाश एव पन्थाः ।। साधारण्यादयः पुनरनन्ताः । तासु मध्यमपात्रभूमिकास्थोत्तमपात्र- प्रयोज्या संस्कृतप्राकृतयोः साधारणी यथा- 'सरले साहसरागं परिहर रम्भोरु मुश् संरम्भम्। विरसं विरहायास सोढुं तव चित्तमसहं मे ॥। ७॥' साधारण्येति । संस्कृतस्य प्राकृतादिसाधारण्ये पञ्च प्रकाराः, प्राकृतस्य शौर- सेन्यादिसाधारण्ये चत्वारः, शौरसेन्या: पैशाच्यादिसाधारण्ये त्रयः, पैशाच्या माग- ध्यादिसाधारण्ये दौ, मागध्या अपभ्रंशसाधारण्ये एक इति । द्विविकल्पे पब्दश प्रमेदाः, त्रिविकल्पे विंशतिः, चतुर्विकल्पे पश्रदश, पच्चविकल्पे पट्, षड्विकल्पे एक:, इति सर्वमिलने सप्तपखाशत्प्रकारा साधारणी। एवं मिश्रादावपि लोष्टप्रस्ता- वक्मेण बहवो मेदा इति तावदुदाहरणे प्रन्थगौरवं स्यादिति दिब्यात्रमुदाहरति- तास्विति । संभिन्नसंस्कारा भाषाप्रयोगे हि प्रयोक्तप्रकृतिसंमेदे भवति । न च प्रकृतिसंमेदस्तात्त्विक: खभावसंकरप्रसन्ञात् । अत उक्त मध्यमपात्रभूमिकास्थेति। भूमिका वर्णिका। मध्यमपात्रप्कृत्युचितो रागाद्यभिनयस्तन्न तिष्ठति तत्परिग्र- हेण त्रिचतुर(?)गवत्सामाजिकानां सम्यद्मिथ्यासंशयसादश्यप्रतीतिविलक्षणप्रतिप- त्तिपदवीमवतरतीति मध्यमपात्रभूमिकास्थम्, उपलक्षणं चेदम्। उत्तमभूमिकास्थम- ध्यमप्रयोज्यापीयमेव । एवमुत्तरत्र। तब विरहायासं सोधं मम चित्तमसहमिति योजना ॥।
Page 240
२ परिच्छेद: 1] सरस्तीकण्ठाभरणम्। १४७
नात्युत्तमभूमिकास्थोत्तमपात्रप्रयोज्या संस्कृतपैशाची साधारणी यथा- 'चम्पककलिकाकोमलकान्तिकलापाथ दीपितानक्गी। इच्छति गजप्रतिगमना चपलायतलोचना लपितुम् ।।८ ।।' एवं संस्कृतापम्रंशादिसाधारण्यः प्राकृतादिभाषान्तरसाधारण्यश्च द्रष्टव्याः ॥ नात्युत्तमेति । अनङ्स्येयमानज्गी।। वक्तविषयौचित्यादिप्रयोज्या मिश्रा यथा- 'जयति जनताभिवाञ्छितफलप्रदः कल्पपादपो गिरिशः । जअइ अ तमल्लिअन्ती गिरितनया पणइकप्पलआ । ९ ॥' [जयति च तमालीयमाना गिरितनया प्रणयिकल्पलता ।] एवं भाषान्तराणामपि मिश्रीभावो द्रष्टव्यः ॥ वक्तविषयेति। यदोत्तमादिषु नानावकृभिरेका काव्यसमस्या करियते, भिन्न- भाषोचितवर्णनीयविषयं वा काव्यमेकमुपकम्यते, यदा वा शक्तिनिरूपणाय कवेरेव नानाभाषामयं काव्यमारब्धं स्यात, तदा कथं नालंकारपदवीमध्यास्ते। अत आह-मिश्रेति । तमल्लिअन्ती तमालीयमाना ।। दुर्विदग्धादिपात्रप्रयोज्या संकीर्णा यथा- 'अकटगुमटी चन्द्रज्योत्सा कलं किल कोइलो लवइ अ मुहुर्याम्यो वायुर्निवाअर वाइ अ। अवि सखि अला रक्ताशोकस्तवापि मनोमुदे न कज न कज मानेनाद्य प्रियं प्रतिजाहुदा ।। १० ।'
एवं प्राकृतापम्रंशसंकरोऽपि द्रष्टव्यः ॥ दुर्विदग्धादीति । नागरकभावमवासस्तद्भमिकामवलम्बमानो दुर्विदग्धः । आदिपदात्पूर्वोक्ताः समस्यादयः। अकटमाथर्यम्। गुमटी मनोज्ा। आस्फालि- तखहस्पेव स्फुरणे लवह इति महाराष्ट्रदेशी । तथा च प्रयोग :- 'लवइ् अ
Page 241
१४८ 1 काव्यमाला।
विञूमणोहरी' इत्याराध्याः । अन्ये तु लपतीलर्थमाहुः। एवं च कलशब्दः पुष्यतीति। याम्यो दक्षिणः । निवाअर निर्वचको वारकशून्यो वा इदावारक इति। अला आगतः । यदिह मानो न क्रियेत ज्योत्सादयो मनोमुदमेवाधा- स्यन्तीति प्ररोचना। यदा तु 'मनोनुदे' इति पाठोऽपिशब्देन नायकसाधारण- मुत्कण्ठाकारित्वमुक्त चन्द्रज्योत्स्ादीनामिति । अतो नकजनकजनार्थो नार्थ ईर्ष्यारोषलक्षणेन प्रतिकूलभावावलम्बिना मानेन, तस्मात्प्रियमेव प्रतिजाहुदा याम:, यदामनन्ति खयं वा तत्र गमनमिति ॥ कीडागोष्ठीविनोदादर्थानन्यगामिन्यसाधारणी यथा- 'भीष्मप्रोक्तानि वाक्यानि विद्वद्वक्रेषु शेरते। गोसे तिविब्छिरिळ्छोली तलं तूहे विवलिदा॥ ११ ॥' अत्र पूर्वार्धपदानि संस्कृत एव, उत्तरार्धपदानि प्राकृत एव। सेयमसाधा- रण्यनन्यगामिनी च जातिरुच्यते। भाषान्तराणां पुनरसाधारण्यं नारित॥ कीडेति। काव्यसमस्या कीडा, उक्तपूर्वा गोष्ठी, तत्र विनोदो मनोनुकूलेन समयातिवाहनम् । आदिपद पूर्ववत्। ननु मा भूत्य्रकृतिभावेन भाषान्तरसंभेद: संस्कारसंपाते तु भविष्यति, तथा च कर्थ साधारणीतो भिद्यत इत्यत आह- असाधारणी चेति। गोसे प्रभाते, तविष्छिरिष्छोली कमलरजःपङ्गि:। तल्लम- ल्पसरः । तूहं तीर्थम्। विवलिदा प्रसारिता। नात्र पूर्वोत्तरार्धयोरकमत्यमुदाह- रणत्वात्। आराध्यास्तु यथा सरस्तीरे कमलरजःपढ्धि: प्रसता शोभते तथा विद्वद्वक्रेषु भीष्मवाक्यानीत्युपमाकल्पनया कथचिदेकवाक्यतामाहुः। अत्र पूर्वा- रधपदानीति। न भीष्मादयोऽनभिधानादिति भाषान्तरस्थानिभावस्य प्रतिषेधात्। एवं वाचस्पतिविशिष्ठरसवशप्रचेतसपोतादयो द्रष्टव्याः। प्राकृत एवेति। महा- राष्देशीयत्वादेशीपदानां च स्थानिभावासंभवात्। भाषान्तराणां पुनरिति। सिद्धिमंहाराष्ट्रीत:, सिद्धि: शौरसेनीतः, इत्युपकम्यानुशासनात्तद्भवरूपतैव स्फुटा। तत्समाना तु साधारण्यमेवेति। अपम्रष्टा यथा- 'मुद्धे गहणअं गेण्हउ तं घरि मुदं णिए हत्थे। णिच्छउ सुन्दरि तुह उवरि मम सुरअप्पहा अत्थि ।।१२।।'
Page 242
२ परिच्छेद: ॥] सरस्वतीकण्ठाभरणम्। १४९
[मुग्धे ग्रेहणकं गृहाण त्वं धारय मुद्रां निजे हसते। निश्चयः सुन्दरि तबोपरि मम सुरतस्पृहास्ति ॥] सेयमपशब्दप्रयोगतोSपभ्रष्टाप्यविद्वद्धिः श्रोत्रियाद्यैः प्रयुज्यत इत्य- पम्रष्टा जातिः । अस्या अपि चानुकरणे साधुत्वमिष्यते ॥ अपभ्रष्टेति । अत्र तवोपरि सुरतस्पृहास्तीत्यादिकापशब्दबहुलतवेनापत्रष्टा स्पट्टैव। सा तु कथमलंकार इत्यत आह-सेयमिति । श्रोत्रियश्छान्दसः । आद्य- पदेन वालादयः । सर्व एवं हि लोकिक: पदार्थोऽभिनयकक्षामधिरूढः परित्ज्य आम्यमभिमुखीभूतो विभावादिषु कथ नालंकारस्तदिदमुक प्रयोगत इति। न चापशब्दानां दोषत्वमेवेति वाच्यम्। अनुकरणे तु सर्वेषामिति दोषसामान्या- वलम्बिना गुणीभावेनास्य विषयीकृतत्वादिति।। नानावच्छिन्नजातिः काव्यशरीरे निविशत इति तदवच्छेदरूपां गतिमनन्तरं लक्षयति- पद्यं गद्यं च मिश्रं च काव्यं यत्सा गतिः स्मृता। अर्थौचित्यादिभिः सापि वागलंकार इष्यते । १८ । पद्यमिति। पठितेः पदात्पदान्तरसंचारो गतिः। सा केनचिदौचित्योप- निपातिना संदर्भपरिमाणेन नियम्यते। ततस्तदप्युपचारेण गतिः । पठितिपरिमाणं च काव्यं समाश्रयत इति तदपि गतिस्तच्च पद्यादिभेदेन त्रिविधमिति संक्षेपः।अत एव गद्यबन्धे तु कैवििदृत्तमाश्रितं पृत्तं वर्तनमियत्तेति याबदिति। सर्वनामशब्दा हि कदाचिदुदेश्यस्य लित्वमाश्रयन्ते कदाचित्प्रतिनिर्देश्यस्येति काव्ये यत्सा गति- रित्युक्तम्। तत्र पद्य चतुष्पदीति न लक्षणमुल्लालमात्रादी द्विपदपच्पदादिशरीरे तदभावात्। अपाद: पदसंतानो गद्यमित्यपि न। अपादत्वं ह्ाप्रत्यभिज्ञायमान- वृत्तभागत्वं, विवक्षातथ्तुष्पदीव्यतिरिक्तत्वं वा । आद्ये वृत्तिगन्धिपय न स्यात्। द्वितीये त्वतिप्रसन्नः । तस्माच्छन्दोनियमवती काव्यम्, अतथाभूता तु गद्यमिति विभाग: । गद्यपद्यात्मकं काव्यं मिश्रम्। तदस्या गतेरलंकारत्वमुपपादयति- अर्थाचित्यादिमिरिति ।। तत्रार्थाचितीमाह- क्चिद्वद्येन पद्येन कश्चिन्मिश्रेण शक्यते। कवितुं कश्चन द्वाम्यां काव्येऽर्थः कथन त्रिमिः ॥१९॥ १. रतमूक्यम्.
Page 243
१५० काव्यमाला।
कञ्चिद्वद्येनेति । यथा हाटवीवर्णनादौ गद्य प्रगल्भते तथा न पद्मम्, यथा च काव्यशास्त्रतानिर्वहणोचितेऽयें पद्यमुत्सहते न तथा गद्यमित्यादि। एवं कथा- र्यायिकादौ गद्यमेव, चम्पूप्रभृतौ मिश्रमेवेत्यादिपदोपात्तबन्धीचिती द्रष्टव्या।। आसतां तावदर्थाद्यौचित्यगवेषणं स्वरूपेणव पद्यादिकं परिस्फुरत्कविप्रतिभाविशे- षावेदनेन सहृदयावर्जकमवसीयते। कथमन्यथा कचिदेव कस्यचित्सौष्ठवमिल्याह- यादृग्गद्यविधौ बाणः पद्यवन्धेऽपि तादृशः । गत्यां गत्यामियं देवी विचित्रा हि सरखती ॥ २०॥ यादगिति । गत्यां गत्यामिति। पद्ये गद्ये मिश्रे चेल्र्थः। विचित्रा अव्यव- स्थितसिद्धिका।। प्रयोगव्यवस्थामुपपाद्यति- यथामति यथाशक्ति यथौचित्यं यथारुचि। कवेः पात्रस्य चैतस्याः प्रयोग उपपद्यते ॥ २१ ॥ यथामतीति। मतिर्व्युत्पत्तिः। युक्तायुक्तविवेक इति यावत्। शक्ति: कवि- त्ववीजभूत: प्राकनः संस्कारः । औचित्यं दर्शितमेव। रुचिर्मनोनुकूलताप्रतिसंधा- नम्। कबेः पात्रस्येति यथायोगम्। तथा हि शक्तिव्युत्पत्ती कवेरेव। औचिलं पात्रस्येव । रुचिरुमयोरपीति ।। स चायं संदर्भावच्छेदो गुरुलघुसंनिवेशेनैव शोभत इति तमाधित्य विभागमाह- द्रुता विलम्बिता मध्या साथ द्रुतविलम्बिता। द्रुतमध्या च विज्ञेया तथा मध्यविलम्बिता ॥ २२ ॥ द्रुतेति। आद्यास्तिस्त्र: शुद्धाः । आसामेव मिथोव्यतिकरेणोत्तरास्तिस्त्र: सं- कीणा:॥ कथमेषां व्यवस्थत्यत आह- सा लघूनां गुरूणां च बाहुल्याल्पत्वमिश्रणैः । पद्ये गद्ये च मिश्रे च पट्प्रकारोपजायते ॥ २३॥ सा लघूनामिति। बाहुल्यमल्पत्वं मिश्रणं च तुल्यवत्प्रतिभानम्। न गद्या- दिकमेव गतिः किंतु तदाधार: पठितिसंचार इति व्यनक्ति-पद्ये गये च मिश्रे चेति॥ तत्र वृत्तं च जाति च पद्यमाहुरथो पृथक्। समं चार्धसमं चैतद्विषमं च प्रचक्षते । २४ ।।
Page 244
२ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। १५१
तत्रेति। वर्णनियतं छन्दोवृत्तम्। मात्रानियतं जातिः। समप्रस्तावं समम् । प्रथमतृतीययोर्द्वितीयचतुर्थयोक् तुल्यप्रस्तावमर्धसमम्। उभयबहिरर्घ विषमम् ॥ गद्यमुत्कलिकाप्रायं पद्यगन्धीति च द्विधा। द्विधैव गद्यपद्यादिभेदान्मिश्रमपीष्यते ॥ २५॥ गद्यमिति। उत्कलिका कलोलस्तत्प्रायम्। उच्चावचमिव प्रतिभासमानमि- त्यर्थ:। यथा-'सलीलकरकमलतालिकातरलवलयावलीकम्' इति। वृत्तगन्धि प्रतिभातवृत्तैकदेशम्। तदेतदल्पाख्यायामुत्पन्नेन समासान्तेन व्यजितम्। तदय- मर्थ :- सामान्यतः पद्यादिमेदेन गतिस्त्रिधा। तत्रापि जात्यादिमेदेन षदप्रकाराः । तेऽपि द्तादिमेदेन षट्तिशदिति॥ ननु ललितादयो गद्यमेदा: कैथिविदलंकारकार: परिसंरुयातास्ते कस्मानोच्यन्त इत्यत आह- ललितं निधुरं चूर्णमाविद्धं चेति योऽपरः । विशेषः स तु गद्यस्य रीतिवृत्योर्भविष्यति ॥ २६॥ ललितमिति। सुकुमारसंदर्भ ललितम्। यथा-'कमलिनीवनसंचरणव्य- तिकरलमनलिननालकण्टके वने क्वचिननिर्भर पदमाद्धाति' इति। प्रस्फुटसंदर्भ निधुरम्। यथा-'उत्तम्भितकुटिलकुन्तलकलापः श्मशानवाटमवतरति' इति। अनुलिखितसमास चूर्णम्। यथा-'अभ्यासो हि कर्मणः कौशलमादधाति। न खद्धु संनिपातमात्रेणोदबिन्दुरपि आ्वणि निन्नतामादघाति' इति। उद्धटसमा- समाविद्धम्। यथा-'कुलिशशिखरखरतरखरप्रचयप्रचण्डचपेटपाटितमत्तमात- जमदच्छटाच्छुरितचारुकेसरभारभासुरमुखे केसरिणि' इति। रीतिवृत्त्योरिति विषयसप्तमी। तथा ललितं कैशिक्यादौ, निष्ठुरमारभठ्यादौ, चूर्ण वैदर्भ्यादौ, आविदं गौडीयाप्रमृती, यथायथमन्तर्भवतीति नोक्तमेदाः परिसंख्याता इत्यर्थ: ॥ उक्तप्रकारेषु किंचिदुदाहरति- तत्र पद्यमेदेषु समवृत्ते दुता गतियथा-0 'अयि विजहीहि दढोपगूहनं त्यज नवसंगमभीरु वलमम्। । अरुणकरोद्गम एष वर्तते वरतनु संप्रवदन्ति कुकुटाः ॥ १३॥ सेयं समवृत्ते लघुसंयुक्ताक्षरभूयस्त्वाङ्गुता गतिः ॥ तत्रेति। नवसंगमभीर्विति संबोधनम्। मीरुशब्दादड्क, तत्मात्संबोधनहसे
Page 245
१५२ काव्यमाला
रूपम् । गर्भगृहेस्था नालोकयति चेत्तदाह-संप्रवदन्तीति। अत्र प्रतिपादमष्टी लघवश्चत्वारो गुरव इति लघुबाहुल्ये संयोगाक्षराणामुद्रेके च ताललयवद्तिव्यक्त एव दतभाव:।| समवृत्ते विलम्बिता यथा- 'प्रणम्य हेतुमीश्वरं मुर्नि कणादमन्वतः । पदार्थधर्मसंग्रहः प्रेवक्ष्यते महोदयः ॥ १४ ॥' सेयं स्थाने स्थाने गुर्वक्षरयोगाद्विलम्बिता गतिः । प्रणम्येति। अत्र यद्यपि पदचतुष्टये गुरुलघूनां समसंख्यत्वमेव, तथापि संयो- गाक्षरैरन्तरान्तरा पठितिदीर्घाभावोन्मेषादारोहप्राधान्ये विलम्बिता। एवं व्युत्कमेण समानिकायामपि विलम्बितव। यथा-'मीनजालघटितानि सूर्यरश्मिबोधितानि । मत्तपदपदाकुलानि पश्य भीरू पड्चजानि II' इति। तदिदमाह-सेयमिति। तेन विभागसूत्रे गुरुलघुमिश्रणमेवरूपमपि बोद्ध- व्यमिति । तत्रैव मध्या यथा- 'आसीहैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः । वदन्ति स्म बलं बाहो: सितच्छत्रस्मिताः श्रियः ॥१५॥' सेयं नातिलव्वक्षरत्वान्मध्या गतिः॥ आसीदिति। अत्र यद्यपि गुरवो बह्वस्तथापि न इतिर्न विलम्बनं पठिते-
द्रुतविलम्बिता यथा- 'अवतु वः सवितुस्तुरगावली स्फुरितमध्यगतारुणनायका। सेमविलद्धिततुङ्गपयोधरा मरकतैकलतेव नमःश्रियः ॥ १६ ॥' सेयं द्रुताया विलम्बितायाश्च गतेरन्तरानुप्रवेशाह्गुतविलम्बिता गतिः। अवतु व इति। अरुणो गरुडाग्रजः शोणक्च। नायको नेता हारम ध्यमणिश। १. 'गृहसो नालो' इति पाठ :. २. 'प्रचक्षते' क. ३. 'लम्वक्षरप्रायत्वा' क. ४. 'सममिल' ख.
Page 246
२ परिच्छेद: I] सरखतीकण्ठाभरणम्। १५३
पयोधरा मेघा: स्तनौ च। तदेतस्मिन् इतविलम्बितार्ये बत्ते समार्यैव रूपं बोधयतीति।। द्रुतमध्या यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार। सपदि गतमनस्कश्ित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥१७॥' सेयं द्रुताया मध्यायाश्र गतेरन्तरानुप्रवेशाङ्गतमध्या गतिः ॥
जप्रेमनिर्यन्त्रणकण्ठग्रह विलुलित प्रियाकेशपाशवासनाविकासहेतुः सर्वखायमानः कर्थ बाणलक्ष्यता सहत इति च्विप्रत्ययेन व्यज्यत इति। अत्र पादचतुष्केऽपि प्रथमं द्वता पश्चान्मध्या च भागशः प्रत्यभिज्ञायत इत्याह-सेयमिति॥ मध्यविलम्बिता यथा- 'दुन्दुभयो दिवि दध्वनुरुचरुच्चकराः कपयश्च ववल्गुः ।
सेयं मध्याया विलम्बितायाश्च गतेरन्तरानुप्रवेशान्मध्यविलम्बिता गतिः।। दुन्दुभय इति। अन्रापि प्रतिपाद पूर्व मध्या ततो विलम्बिता च सण्डशः प्रतिभासत इति दर्शयति-सेयमिति। एवमर्धसमविषमयोर्मात्राच्छन्दःसु गद्यमिश्रयोर्लघुगुरून्मिश्रवर्णवि- न्यासविशेषभूयस्त्वेन द्रुतादिगतयो गवेषणीयाः ॥ एवमिति। इमामेव व्यवस्थामर्धमध्यमादिष्वप्यतिदिश्यत इति दिब्मात्रमुदाहरति- तत्र विषमवृत्तच्छन्दसि द्रुता यथा- 'अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम्। क्कान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ॥ १९ ॥'
Page 247
१५४ काव्यमाला।
अर्धसमच्छन्दसि विलम्बिता यथा- 'विहितां प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीम्। उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः ॥ २० ॥' उत्कलिकाप्रायगद्ये द्रुता मध्या च यथा- 'व्यपगतघनपटलममलजलनिधिसदृशमम्बरतलं विलोक्यते। अज्जनचूर्णपुञ्जश्यामं शार्वरं तमः सत्यायते ॥ २१ ॥ उत्कलिकाप्रायेति। उच्चावचभावेन प्रतिभासमानमुत्कलिका। यथा- 'सलीलकरकमलतालिकातरलयावलीकम्' इति। तथैव तदपि प्रकृतोदाहरणमिति व्यक्तम्। 'पाताल-' इत्यादी वसन्ततिलकाभाग इब, 'हर इव' इत्यादावार्याभाग इव प्रतिभातीति।। पद्यगन्धिगद्े वृत्तगन्धौ मध्या, जातिगन्धौ द्रुता यथा- 'पातालतालुतलवासिषु दानवेषु।' 'हर इव जितमन्मथो गुह इवाप्रतिहतशक्तिः ॥२२॥ इति। वृत्तगन्धौ मध्या, जातिगन्धाविति। 'तृतीयादिषु भाषितपुंस्कं पुंवद्रा- लवस्य' (७१।७४) इति पुंबद्धावेन नुम्र भवति॥ गद्यादौ मिश्रे गद्यपद्ययोर्द्वतमध्या यथा- 'हन्त, पुण्यवानस्ि, यदहमतर्कितोपनतदर्शनोल्लसितनयनयानया- अविरलमिव दाम्ना पौण्डरीकेण नद्ध: सपित इव च दुग्घस्रोतसां निर्झरेण। कबलित इव कृत्वश्रक्षुषा स्फारितेन प्रसमममृतवर्षेणैव सान्द्रेण सिक्त: ॥ २३ ॥' हन्तेति। आश्रर्यस्तिमितस्य हन्तेतयेव वागनुभावस्ततोऽभिमानोन्मेषे पुण्य- वानस्मीति अनन्तर लोकोत्तरविभाववर्णनात्वरितस्यर यदहमित्यागद्यपर्यवसान एवाविरलमित्यादिवृत्तमाविरासीदिति। मध्ये विच्छेदकारणानुपपत्तौ गद्यपद्याभ्या- मेकवाक्यम्।।गग
Page 248
२ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। १५५
पद्यादौ मिश्रे द्रुतविलम्बिता यथा- 'असौ विद्याधारः शिशुरपि विनिर्गत्य भवना- दिहायातः संप्रत्यविकलशरच्चन्द्रमधुरः । यदालोकस्थाने भवति पुरमुन्मादतरलै: कटाक्षैर्नारीणां कुवलयितवातायनमिव ॥ २४ ॥' अत्र वालसुह्ृदा मकरन्देन सह विद्यामान्वीक्षिकीमधीते स एप माधवो नाम इति॥ असाविति । दूतीकल्पे कयाचित्प्रच्छन्नप्रार्थनीयया 'आसभोगमुन्नयेत्' इत्याम्रातम् । तदिहोत्प्रेक्षामनोहरप्राम्यमालोकनमुक्त्तम्। तेनैकस्मिन्वर्णनीय- वस्तुनि पृत्तप्रपशेनोक्ते प्रकृतसंगतिमात्रं गद्येन कृतवतीति युक्तेयमानुपूर्वी वाक्यै- कवाक्यता चेति। वैदर्भादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः । रीङ् गताविति धातो: सा व्युत्पच्या रीतिरुच्यते ॥२७॥ वैदर्भादीति। गुणवत्पदरचना रीतिः । गुणाः श्ेपादयः काव्याव्यभिचारिणो नव। तेषामन्योन्यमीलनक्षमतया पानकरस इव, गुडमरिचादीनां खाडव इव मधुराम्लदीनां यत्संमूर्च्छनरूपावस्धान्तरगमनं तत्संस्कारादेव हि लोकशास्त्रप- दरचनातः काव्यरूपा च रचना व्यावर्तते। अत एव सृग्यते कविभिरासंसारमिति मार्गपदेनोच्यते । वैदर्भादयो विदर्भादिदेशप्रभवासतैः कृतमुखहेवाकगोचरतया प्रकटितो न तु तत्तहेशै: काव्यस्य किचिदुपक्रियते ॥ पन्था इति । प्रतिष्ठन्ते हि महाकविपदवीलाभार्थिन इति । ईदशमेव रीतिलक्षणमानन्दवर्धनादीनामपि मतम्। एतदुपलक्षणतया सूत्र व्याख्यातम्। कर्थ पुनरुक्तमुपमादे रीतिपदं प्रवृत्तमिलयत आह-रीङ गताविति। रियन्ते परम्परया गच्छन्त्नयेति करणसाधनोऽयं रीतिशब्दो मार्गपर्याय इत्यर्थ: ॥ एवं सिद्धे सामान्यलक्षणे विभागमाह- वैदर्भी साथ पाञ्चाली गौडीयावन्तिका तथा। लाटीया मागधी चेति पोढा रीतिर्निंगद्यते ॥ २८॥
Page 249
१५६ काव्यमाला 1
वैदर्भीति। वक्ष्यमाणरीत्या वैद्भीप्राधान्यममिप्रेल्याह- तत्रासमासा निःशेषश्लेपादिगुणगुम्फिता। विपश्चीखवरसौभाग्या वैदर्भी रीतिरिष्यते ॥ २९ ।। तत्रेति। असमासा अनुलिखितसमासा। निःशेषस्लेषादीति। श्रेपादयो नव गुणास्तैर्गुम्फिता । मिथोमिलनेन संमूर्च्छितेरनुपलभ्यमानान्यतममात्रकरपि परस्परविभक्तस्वरूपभावेन सहृदयहृदयसंवादगोचरैरार्धा । एवं विपशीखरसौ- भाग्या । विपखी वाग्रपा सरखती बिम्बप्रतिबिम्बभावेन द्विविधा। प्रतिबिम्बाधि- ष्ठानतया दार्वादियन्त्रमपि विपशीत्युच्यते। तदीयाः खरास्तन्त्रीकण्ठोत्थिताः स्थान- कमवैपरीत्यानुमेयशारीरा: प्रतिबिम्बभावाः पह्जादयस्ेयु श्रुतसंमूर्च्छनरूपेप्वपि मिथोविभक्ताः श्रुतयः श्रोत्रजकखवरावस्थामापननाः समस्तगान्धर्ववित्साक्षिकाः प्रका- शन्ते। अत एव वीणैव प्रधानं समस्तस्य खरजातस्य तत्रैव श्रुतिमण्डलोन्मेषादिति॥ यदा तु पानकादिन्यायेन किदंश उदितो भवति तदा रीत्यन्तरमुत्तिष्ठतीत्याह- समस्तपश्चषपदामोज:कान्तिविवर्जिताम् । मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः॥ ३०॥ समस्तेति । ओज:कान्तिविवर्जिताम् ओजःकान्त्योर्विशेषेण वर्जिताम्। न्यग्भूतीजःकान्तिगुणामिति यावत् । यतस्तत्प्रतिद्वन्द्विनोर्माधुर्यसौकुमार्ययोस्त- त्रोद्धवस्तदेतदाह-मधुरां सुकुमारां चेति। अत एवीज:प्रकाशकः पड- धिकेयु पदेपु समासो न करियते।।
गौडीयेति विजानन्ति रीति रीतिविचक्षणाः ॥ ३१॥ समस्तेति। अत्युद्धटानि सोहेखसमासानि यस्मादोज:कान्त्योरुद्भवे न्यग्भू- तगुणसप्तकेयं रीतिः।। अन्तराले तु पाश्चालीवैदर्भ्योर्यावतिष्ठते। सावन्तिका समस्तैः स्यादित्रैस्तचतुरैः पदैः ॥ ३२ ॥ अन्तराल इति। माधुर्यसौकुमार्ययो: किचिदुद्धवेन निमीलनाजप्राधान्येन चान्तरालकल्पना ता व्यनक्ति- द्वित्रैरिति। द्वे त्रीणि वा त्रीणि चत्वारि बेति यार्थे बहुजीहि: ॥.
Page 250
२ परिच्छेद: I] सरखतीकण्ठाभरणम्। १५७
समस्तरीतिर्व्यामिश्रा लाटीया रीतिरुच्यते। पूर्वरीतेरनिर्वाहे खण्डरीतिस्तु मागधी ॥। ३३ ।। समस्तेति। यद्यप्युपकान्तरीत्यनिर्वाहोऽत्राप्यस्ति तथापि तिलतण्डुलवद्या- वद्विभक्तरीतिसंवलनस्य कविसंरम्भगोचरस्योत्तररीते: पृथग्भावः । पूर्वरीतेरिति। एकां रीतिमुपकम्य यदन्यया संदर्भनिर्वहणमसावन्य एव प्रकारः। न चानिर्वाही दोषश्छायावैरूप्याभावात्। रीतिखण्डनेऽपि हि संदर्भसौभाग्यसंपत्ति: शकतिमे- वाविष्करोति॥ तासु वैदर्भी यथा- 'मनीषिताः सन्ति गृहेषु देवतास्तपः क वत्से क च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ।। २५ ।।' सेयमसमस्तपदा समग्रश्लेषादिगुणवती वैदर्भी रीतिः॥ मनीषिता इति। अत्र दीर्घसमासाभावे कथमोज इति कस्यचित्कुदेश्यमप- रीतिमत्प्करण एवेल्यपास्तम्। एतेन गुणनवकस्य समकक्षतया संभेद: क्षण इति। असमस्तपदेत्यनुह्लेखसमासपदेत्यर्थः । समगरा नव । गुणवतीति नित्ययोगे मतुप् ॥ पाञ्चाली यथा- 'गात्राविघातद लिताञ्गदजर्जराणां गण्डस्थलीलुलितकुण्डलताडितानाम्। क्षोभस्फुटन्मुकुटकोटिविघद्टितानां नादोऽभवज्झणझणामुखरो मणीनाम् ॥ २६॥
समस्तपञ्चषपदा पाञ्चाली रीतिः।। गात्राविधातेति । अन्नाद्यतृतीययो: पड द्वितीये च पञ्च पदानि समस्तानि। ओज:कान्त्यभावादिति। ईपदर्ये नज् । अत एव माधुर्यसौकुमार्ययोरुन्मेषः। हिथ् प्राप्ता यथासंखूयमोज:कान्तिनिमीलनलब्धप्रादुर्भावा शथा पुराणी च च्छाया ययेति विग्रहः ॥। १. 'समस्त' स. २. 'फमभाव' स
Page 251
१५८ काव्यमाला।
गौडीया यथा- 'यस्यावस्कन्दलीलावलितबलपरिस्पन्दखर्वीकृतोर्वी-
सेयमोज:कान्तिमती समस्तोद्धटभूरिपदा च गौडीया रीतिः।। यस्येति। अवस्कन्दो ध्राटकः ॥ समस्तोङ्गटभूरिपदेति । उद्भटता प्रौढिप्रकर्ष: ।। आवन्तिका यथा- 'एतानि निःसहतनोरसमज्जसानि शून्यं मनः पिशुनयन्ति पदानि तस्याः । एते च मार्गतरवः प्रथयन्ति ताप- मालम्बितोज्झितपरिग्लपितैः प्रवालैः ॥ २८॥ सेयं समस्तद्वित्रिचतुरपदा वैदर्मीपाश्चाल्योरन्तरालवर्तिन्यावन्तिका नाम रीति:।। पतानीति। 'निःसहतनोरसमज्जसानि' 'मार्गतरवः' इति ह्वे द्वे पदे, 'आल- म्बित-' इत्यादौ त्रीणि पदानि समस्तानि। माधुर्यसौकुमार्ययोर्मनागुन्मेषः पाच्ा- लीभागः । इतरेषां समकक्षता वैद्भीभाग: । अनयोः संमेदेनान्तरालकल्पना व्यकेव ॥ लाटीया यथा- 'अयमुदयति मुद्राभञ्जनः पद्मिनीना- मुदय गिरिवनालीबालमन्दारपुष्पम्। विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्द- न्कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥ २९॥' १. 'वर्त्मतरवः' ख. 'तीरतरयः' क. २.'मालिङ्वितो' स्.
Page 252
२ परिच्छेद: ।] सरस्वतीकण्ठाभरणम् । १५९
सेयं समस्तरीतिमिश्रा लाटीया नाम रीतिः।। अयमिति। मुद्रामजन इति द्वाभ्यां समस्ताभ्यामावन्ती। उदयगिरील्या- दिना पञकेन पाशाली। प्रोटिप्रकर्षेण गौडीया। अयसुदयतीत्याद्यसमासेन वैदर्भी च प्रत्यभिज्ञायत इति पूर्वोक्तसमस्तरीतिसंभेद इति।। मागधी यथा- 'करिकवलनशिष्टैः शाकशाखाअ्पत्रै- ररुणसरणयोSमी सर्वतो भीषयन्ते। चलितशबरसेनादत्तगोशृङ्गचण्ड- ध्वनिचकितवराहव्याकुला विन्ध्यपादाः ॥ ३० ॥' सेयमारळ्घरीतेर निर्वाहात्खण्डरीतिर्मागघी। करिकवलनेति। अत्र पूर्वार्षे यथोक्तामावन्तीमुपक्रम्य चरमार्घे गौडीया- परिअहादुपकान्तरीतेरनिर्वाह: खण्डनम्, तथापि च न च्छायावैरूप्यमिति कविश- किव्यजजकत्वादलंकारभाव इति। शाको वृक्षविशेषः । या विकासेथ विक्षेपे संकोचे विस्तरे तथा। चेतसो वर्तयित्री स्यात्सा वृत्तिः सापि पड़िया॥३४॥ या विकास इति। वृत्तिर्वर्तनं रसविषयो व्यापार: काव्यस्य रसप्रवणत्वात्। स च व्यापारः सत्त्वादुद्ेकलक्षणो जन्मान्तरानुभवभावितवासनासमुत्य: परिपूर्णी-
व्दगतः पुनरत्र संगतः संदर्भस्य रसप्रकाशकारणेषु प्रधानत्वात्। यदाह- 'कविवागभिनेयक् तदुपायो द्विघेष्यते। वस्तुशक्तिमहित्रा तु प्रथमोऽत्र विशिष्यते ।' वर्ततेऽनया चित्तमिति करणसाधनोऽयं वृत्तिशब्द इति वर्तयित्रीत्यनेन प्रयो- जकव्यापारप्रधानेन दर्शितम्। तत्र विषयवैचित्र्याद्विकासाद्याश्वतसथित्तावस्थाः । विषयो हि दीप्तमसणमध्यमभेदेन त्रिविधः । विभावाद्युपधानमहित्रा तन्मयीभवन- योग्यं हि चेतः कदाचिद्विकसति। सत्त्वाविर्भावो विकासः। न्यग्भूतरजस्तमोगुणं हि
१. 'शासि' ख.
Page 253
१६० 1 . काव्यमाला
शत्ारस्तदाभासोऽपि तामेव भूमिकामालम्बते। अत एव शुक्तिरजतबद्धावोदयेऽपि दोषमहित्रेव काव्यमहित्रा तवञनात्। तत्समानभूमिकया हास्यो रसः प्रादुर्भ- वतीत्यभिसंधायाह-'शव्ञाराद्ि भवेद्धास्यम्' इति भरतमुनिः । तेन विकास- भूमिकी शज्जारहास्यी । विकासातप्रच्युतमप्राप्तगुणान्तरप्रादुर्भावं विक्षिप्ं चित्तमुच्यते। तत्रोचितविभावादिवैचित्र्यादाविर्भवद्रजोगुणस्य चेतसो विक्षेपप्रच्युतिदशायां रौद्र- रसोन्मेषः । अत एव समानभूमिकया 'रौद्राच करुणो रसः' इत्याह । यदा तु सत्त्वतमोनिमीलनेन केवलरजःप्रतिष्ठं चेतस्तदा बहुमुखव्यापारोन्मेषाद्विख राख्या- मवस्थामासादयति। तज्जूमिको वीररसस्तदवस्थामेवास्थायान्भुतोऽपि प्रथत इति 'वीराचैवाद्भुतोत्पत्तिः' इत्युक्तम् । न्यम्भूतरजोगुणस्य प्रबुद्धतमसश्चेतसोऽवस्था- विशेषः ससंकोचस्तमालम्व्य बीभत्स: प्रादुरास्ते तदेकभूमिकथ भयानक इति 'बीभत्साच भयानकः' इत्याह ॥ तेऽमी चत्वारश्ित्तावस्थाविशेषाः कथमविशेषणादेव संदर्भाद्धवन्तील्याशक्का विभागेनोत्तरमाह- कैशिक्यारभटी चैव भारती सात्वती परा। मध्यमारभटी चैव तथा मध्यमकैशिकी॥ ३५॥ कैशिक्येति। शुद्धिसंकराभ्यां रीतिवदत्रापि षट् प्रकाराः । सुकुमारार्थसंदर्भा कैशिकी तासु कथ्यते। या तु श्रौढार्थसंदर्भा वृत्तिरारभटीति सा॥३६॥ कोमलग्रौढ संदर्भा कोमलार्थाथ भारती। प्रौढार्था कोमलप्रौढसंदर्भा सात्वतीं विदुः। ३७।। कोमले श्रौढसंदर्भा त्वर्थे मध्यमकैशिकी। प्रौढार्था कोमले बन्धे मध्यमारभटीष्यते॥ ३८॥ सुकुमारेति। चित्तद्वतिकारित्वं सौकुमार्यं सुकुमारावर्थसंदभी यस्यामिति विग्रहः। एवं प्रौटार्थसंदर्भेत्यपि। चित्तदीप्तिविधायिता प्रौटिः। अर्थसौकुमार्या- दिना विशेष्यमाणसंदर्भ: सुकुमारत्वादिः शब्दालंकारतां प्रयोजयति। कोमलप्रौढो मध्यमः । प्रकारान्तरविरहाच मध्यमभारत्यादयो न संभवन्ति ॥ १. 'सात्ववी भारती तथा' क.
Page 254
२ परिच्छेद: ॥] सरसतीकण्ठाभरणम्। १६१
तत्र कैशिकी यथा- 'शशिरुचिषु दलेपु नागवल््या विचकिलदामनि चन्दने च हुद्ये। कुवलयिनि पुराणसीधुपात्रे तरलद्दशामपतन्दशः प्रिये च ॥३१॥' सेयमर्थस्य च संदर्मस्य च सौकुमार्यात्कैशिकी नाम वृत्तिः ।। शशिरुचिष्विति । नियमितादिपु मुग्धाश््नाचुम्बनरसोत्सुकानामतिमनो- ज्ञाधररागसमर्पकेषु नागलतादलेपु, ततो मानपरिग्रहे वलितकादिचुम्बनविशेषा- र्थिनीनां कचग्रहसीभाग्यसुन्दरे महिकादान्नि, ततः सर्वाज्ञीणान्ेषसौभाग्यार्थकच- न्दनरसे Sनन्तरमीर्ष्यारोषवासनानिःशेषकेलियन्त्रणरतोत्कण्ठितानां सीधुपात्रे, ततः सर्वोपकरणजीवितसर्वसे प्रियतमे समकक्षतयैव दृष्टयः पेतुरिति। 'कुवलयिनि' इति युक्त: पाठः। 'कुकलयित-' इति पाठे विशेषणाअप्राधान्यविवक्षायां समासे गुणीभावस्यानुचितत्वात्। सेयं कैशिकी मसणे गुज्ञारादौ विनियुज्यत इति॥ आरभटी यथा- 'यो यः शसत्रं विभर्ति सवभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाश्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा। यो यस्तरकर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य सवयमिह जगतामन्तकस्यान्तकोऽहम्।।३२॥' सेयं प्रौढार्थसंदर्भारभटी नाम वृत्तिः ।। यो य इति। ओजःप्रधानतया प्रौडः संदर्भ: । यस्मादियमारभटी दीस्े रौद्रादौ विनियुक्ता, तेन युक्तं शब्दार्थयो: प्रौढत्वमिति॥ भारती यथा- 'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिज्ञच नीतं वपुरलसलसद्वाहु लक्ष्म्या: पुनातु ।।३३।' सेयमतिसुकुमारार्थे नातिसुकुमारसंदर्भा भारती नाम वृत्ति: ।। १. 'मदात् पा' इति पाठ :- ११ स० क०
Page 255
१६२ काव्यमाला।
उत्तिष्ठन्त्या इति। सर्वाज्ञीणा ळेषसमुत्सुके प्रियतमे बहिर्व्यावर्तनमन्तर- नुवर्तनं च मुग्धाकनाजातिरिति न्यायेन नीवीबन्धकेशपाशसंयमाथिन्या निर्भ- रकेलिखेदेन भुजलतालसं लसत्येव न तु व्यापारयितुमपि शक्येति तत्कालिकोऽति- पोषः । अन्र मसुणेऽपि रसे पृत्यौचिल्येन संदर्मस्य प्रौढिरुचितैव । दीर्घसमासो हि शश्ारादी निषिद्धो न तु प्रौढिः। रेफहकारादिवर्णनिवेशान्तु कोमलता संद- भस्ेति। एवमुत्तरोदाहरणेष्वपि विशेषः खयमूहनीय इति॥। सात्त्वती यथा- 'वन्धौ द्वावपि तावनार्यचरितप्राप्तप्रतापोदयौ भीमो भीमपराक्रमः स च मुनिर्भाखत्कुठारायुधः । एकेनामृतवद्विदार्य करजैः पीतान्यसृज्जि द्विषा- मन्येनापि हताहितास्त्रसरसि स्नातं कुध: शान्तये ॥ ३४॥' सेयं श्रौढार्था नातिपरौढसंदर्भा सात्त्वती नाम वृत्तिः॥ मध्यमकैशिकी यथा- 'किं द्वारि दैवहतके सहकारकेण संवर्धितेन विषपादप एष पापः । अस्मिन्मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसंनिपाताः ॥ ३५॥' सेयं सुकुमारेऽथे प्रौढसंदर्भा मध्यमकैशिकी नाम वृत्तिः॥ मध्यमारभटी यथा- 'त्वं नागराज बहुमस्य नितम्बभागं भोगेन गाढमुपवेष्टय मन्दराद्रेः। सोढाSविषद्यवृषवाहनयोगलीला- पर्यक्कबन्धनविधेसतव कोऽतिभारः ॥ ३६॥' सेयं प्रौढेडयें सुकुमारसंदर्भा मध्यमारभटी नाम वृत्तिः ॥ १. 'आम्रशतो रसालोडसी सदकारो5तिसारम:' इत्यमर :.
Page 256
२ परिच्छेद: I] सरस्तीकण्ठाभरणम्। १६३
अन्योक्तीनामनुकतिश्छाया सापीह पड़िधा। लोकच्छेकार्भकोन्मत्तपोटामचोक्तिभेदतः ॥ ३९॥ अन्योक्तीनामिति। लोके बिम्बप्रतिबिम्बयोः प्रतिबिम्बं चमत्कारितया प्रसिद्धम् । अत एव 'श्रव्यात्प्रेक्ष्यं ज्यायः' इत्याह। शब्दालंकारकाण्डे वाक्यानु- करणमेव प्रतिबिम्बवाचिना छायापदेन गुणवृत्तेनाख्यायते। तदेतदनुकरणमनु- कार्यमेदादेव पोढा व्यवतिष्ठत इत्याह-छेकेति। छेकादीनां लोकविशेषाणामेव शोभाकारित्वेन पृथगुपादानेऽर्थात्तदितरानेकविचित्रतत्तदनुकार्यपरो लोकशब्दः। छेका विदग्धाः। 'पोटा स्रीपुंसलक्षणा'। सहजकेलिरिति प्रसिद्धा पोटा । भुजिष्या दासीत्यन्ये। अत्र केचिदन्यच्छायायोनिजमपि काव्यं छायालंकारव्यवहारभूमिमाह्ढुः॥ प्रकृतिपरिणामः, परपुरप्रवेशः, खण्डसंघात्यम्, चूलिका, परिमल इति पध योनिजकाव्यमेदाः । तत्र किंचिद्विकृतार्थः प्रकृतिपरिणामः। यथा- 'धुअमेहं महुअरानुव्वणसमअहियओ णअविमुक्काओ। णहया अवसाहाओ णिअ अव्बाण वयडि गआओ दिसाओ।।' यथा च- 'सिसिरपडिरोहमुक्कपरिह्ुत्तम्पअ अवलिअक्कम्। इहरइ अरया अलिअं वित्थरदि दिसाहिं कट्ठिअं वणह्अलम् ।।' अन्राकाशदिशां विस्तारभणनं मनाग्विकृतमुपलक्ष्यत इति प्रकृतिपरिणामनामाय योनिजकाव्यभेद: ।। भाषामात्रभिन्नः परपुरप्रवेशः। यथा- देवाधिपो वा भुजगाधिपो वा धराधिपो वा यदि हैह्यः स्याम्। संदर्शनं ते गुणकीर्तनं ते सेवाजलि ते तदहं विदध्याम् ।।' यथा च- 'सविमो अणज्जुणमिअं अमहिन्दमवामुइअ अप्पाणम् । सेडं जालदंसण गुणकद्दामुत इजणूपजत्तम् ।।' अत्र भाषामार्त्रं भिन्नमिति परपुरप्रवेशनामायं योनिजकाव्यभेदः । विकीर्णमसमाहार: खण्डसंघात्यम्। यथा-
मौली किशुकशासितनस्त्रिचतुरानाविश्रते कोरकान्।
Page 257
१६४ काव्यमाला।
गर्भग्रन्धिपु पश्चषाः सुमनसो बश्रन्ति चूतह्वमाः संप्राप्ताः प्रकटीभवन्ति कुररीकण्ठेु कूजोर्मयः ।।' अत्र काव्यचतुष्कादुच्छिय पादचतुष्टयं अ्रथितमिति खण्डसंघात्यनामायं योनि- जकाव्यभेदः ॥ तावन्तमर्थमुपादायाधिको वापश्चलिका। यथा- 'कमलमनम्भसि तत्र च कुवलयमेतानि कनकलतिकायाम्। सा च सुकुमारसुभगेत्युरपातपरम्परा केयम् ।।" यथा च- उभा रम्भास्तम्भावुपरि विपरीती कमलयो- स्तदूर्ष्व रन्नाश्मस्थलमपि दुरूहं किमपि बत्। ततः कुम्भी पश्चाद्विसकिसलये कन्दलमथो तदन्विन्दाविन्दीवरमधुकरा: कि पुनरिदम् ।' अत्र स्थाने स्थानेऽधिकावापस्य प्रत्यभिज्ञानानलिकानामायं योनिजकाव्यमेदः॥ बन्धच्छायामात्रसंवादी परिमलः । यथा- 'अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिसते। सिप्रातरज्ञानिलकम्पितासु विहर्तुमुद्यानपरम्परासु ।।' यथा च- यात्राप्रस आ्वादुपवीणयन्ती तस्यां महाकालमविप्रतिष्ठम्। कृशात्ि वीणागुणसारणामु चिरात्कलाभ्यासफलं लभेथाः ।' अत्र संदर्भच्छायामात्रमनुकृतमिति परिमलनामायं योनिजकाव्यमेद: ॥ तासु लोकोक्तिच्छाया यथा- 'शापान्तो मे भुजगशयनादुत्थिते शार्ङ्पाणौ मासानेतान्गमय चतुरो लोचने मीलयित्वा। पश्चादावां विरहगुणितं तें तमात्मामिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ३७॥' सेयं लोचने मीलयित्वेति लोकोक्तेरनुकृतिलोंकोकिच्छाया॥ शापान्त इति। लोचने मीलयित्वेलयनेन लोकोक्त्यनुकारेण नयननिमी- उनवदाशुभाविता समागमसमयस्य प्रतिपायते। तथा च-मुकुमारतरकान्ताजी-
Page 258
२ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम्। १६५
विताध्यवसायाभिप्रायः प्रवासविप्रलम्भाविष्टचेतसः प्रकाशितो भवतीति। उपल- क्षणं चैतत् । वर्षाकाले चतुरो मासानित्यपि लोकोकिरेव ।। छेकोक्तिच्छाया यथा- 'यो हि दीर्घासिताक्षस्य विलासललितभ्रणः । कान्तामुखस्यावशगस्तस्मै नृपशवे नमः ॥३८ ॥' सेयं तस्मै नृपशवे नम इति विदग्धोक्तेरनुकृतिश्डेकोक्तिच्छाया। यो हीति। कान्तामुखमेव जीवितसर्वस्वमभिमन्यमानस्तन्नालंप्रत्ययशालिन: पशुनिव प्रति भक्ारी विदग्धः । अर्भकोक्तिच्छाया यथा- 'किं स स्वर्गतरु: कोऽपि यस्य पुष्पं निशाकरः । ते वृक्षाः कीदृशा मातर्येषां मुक्ताफलं फलम् । ३९॥' सेयमव्युत्पन्नशिशुजनोक्तेरनुकृति रर्भ कोक्तिच्छाया । किं स इति। नूनं त्रिजगद्वर्तिसकलार्थिंसार्थकीकरणविरूयातकीरतेः पारि- जातप्रमुखस्य कस्यचिदेक: स्तबक: सुधाभिराहादयन्नयमवलोके दृश्यत इत्यादि । उन्मत्तोक्तिच्छाया यथा- 'दृष्टः कथं सुतनु किं कुरुते किमस्म- द्वारता स पृच्छति शृणोति निवेद्यमानाम्। आस्तां किमस्य कथया कथयाशु ताव- दत्रागमिष्यति न वा खल सोऽभिमानी ॥ ४० ॥' सेयमसमञ्जसाया उन्मत्तोक्तेरनुकतिरुन्मत्तोक्तिच्छाया।। टष्ट इति। कथमित्यादिना तदेकतानतामाविष्कृत्य सहसेवास्तामित्यादिना संप्र- हाणम्, कथय तावदित्यादिना च पुनरादानमसमजसम्॥ पोटोक्तिच्छाया यथा- 'तिलकमसहास्मि सोढुं घनसारेणातिसारदोपो मे। 1 लम्भयति च दैौर्बल्यं कुङ्कुमरागो ममाङ्कानि ।। ४१।।' १. 'आसां' ख. २. 'सारो' ख.
Page 259
१६६ काव्यमाला।
सेयमुत्तमपदारोपितनीचयुवत्युक्तेरनुकृतिः पोटोक्तिच्छाया। उत्तमपदस्थानीययुवतिमनुकुर्वाणा उत्तमपदारोपितनीचयुवतिः।। मत्तोक्तिच्छाया यथा- 'पि पि प्रिय स स सयं मु मु मुखासवं देहि मे त त त्यज दु दु द्रुतं भ भ भ भाजनं काश्चनम्। इति र्खलितजल्पितं मदवशात्कुरज्गीदशः प्रगे हसितहेतवे सहचरीभिरध्यैयत ॥ ४२॥' सेयं स्खलन्त्या मत्तोक्तेरनुकृतिर्मत्तोक्तिच्छाया।। पि पि प्रियेति । अव्यक्तवृत्तिरूपं स्खलितजल्पितम् ॥ सामिप्रायस्य वाक्ये यदचसो विनिवेशनम्। मुद्रां तां मुत्प्रदायित्वात्काव्यमुद्राविदो विदुः ॥ ४० ॥ साभिप्रायेति। यद्यपि संपूर्णमेव काव्यं वकभिप्रायप्रतिच्छन्दकभूतम्, उक्त च-'वफभिप्रायं सूचयेयुः' इति, तथापि नास्मिभ्नितरसाधारणतया वाक्या थंगोचरमभिप्रायमावेद्यत्येव काव्यसनाथीकरणक्षमवकमिप्रायविशेषप्रतिरूपक ए- कदेशनिवेशो दश्यते । अत एवाङ्गलीयादिमुद्रेव मुद्रेलयुच्यते। निरुकिमाह-मु- त्प्रदायित्वादिति । मुदयुपपदे रातेर्दानकर्मणः के रूपम्। मुद्रैव पदादिप्रकाश्य- ध्वनिव्यवहारभूमिरन्येषाम्॥ सासिमन्पदस्य वाक्यस्य विभक्तेर्वचनस्य च। समुचयस्य संवृत्या पोढा न्यासेन जायते ।। ४१ ॥ सास्मिन्निति। पद प्रातिपदिकं कृत्तद्धितसमासरूपम्। विभक्तिवचनयो: सामान्यविशेषभावेऽपि पृथक्पृथगभिप्रायव्यञ्जकतया निर्देशः । आस्तामित्यादि- वचनसंकोचः संवृतिः ॥ तासु पदमुद्रा यथा- 'निर्माल्यं नयनश्रियः कुवलयं वक्रस्य दास: शशी त्रूयुग्मस्य सनाभि मन्मथधनुर्ज्योत्क्षा स्मितस्याञ्चलः ।
Page 260
२ परिच्छेद: I] सरस्तीकण्ठाभरणम् । १६७
संगीतस्य च मत्तकोकिलरुतान्युच्छिष्टमेणीदृश: सर्वा्जीणमहो विधे: परिणतं विज्ञानचित्रं चिरात्।।४३।।' अत्र निर्माल्यं, दास:, सनाभि, अश्चलः, उच्छिष्टमिति पदानां गौणवृत्तिव्यपाश्रयेण मुत्पदायिनां साभिप्रायनिवेशादियं पदमुद्रा।। गौणवृत्तिव्यपाश्चयेणेति। निर्माल्यादिपदानामत्यन्ततिरस्कृतवाच्यानाम-
दृश्यते। तिविच्छायत्वादिलक्षणाद्वारेण लावण्यविशेषध्वननात्सहृदयहृदयावर्जकानां निवेशो
एवम्- 'ताला जाअन्ति गुणा जाला ते सहिअएहि धेय्यन्ति। रविकिरणाणुग्गहिआईँ होन्ति कमलाइँ कमलाइँ।' तथा- 'अमृतममृतं चन्द्रथन्द्रसथाम्बुजमम्बुजं रतिरपि रति: काम: कामो मधूनि मधून्यपि।" इत्यादावर्थान्तरसंक्रमणादिना तत्प्रकाश्यो ध्वनिरनुसंघेयः ॥ वाक्यमुद्रा यथा- 'यत्सच्छे सलिलात्मनि प्रतिफलदेवे त्रियामापतौ पीयूषाकृति पर्यवस्यति किल ज्योत्सेति तत्वान्तरम्। तिम्मं धाम चिरं चकास्ति दिवि यत्तत्रास्ति दिव्यः पुमा- न्यं विज्ञातवतां त्रुटन्ति निखिला भूयो भवग्रन्थयः ।। ४४।।' अत्र 'तत्रास्ति दिव्यः पुमान्' इत्यादेर्वाक्यान्तरस्य पूर्ववाक्योपका- रित्वेन मुत्प्रदायकस्याभिप्रायपूर्वनिवेशादियं वाक्यमुद्रा।। यत्स्वच्छ इति। आदित्यकला एव प्रति फलिताथन्द्रव्यपदेशं लभन्त इत्यागमः । तदाह- 'सलिलमये शशिनि रवेदीधितयो मूर्च्छितास्तमो नैशम् । दल्यन्ति दर्पणोदरविह्ता इव मन्दिरस्यान्तः ॥' इति।
Page 261
१६८ काव्यमाला।
पूर्ववाक्योपकारित्वेनेति । देवे पीयूषाकृति तत्त्वान्तरं तिग्मं धाम चकास्तीति च यदगाधतया तर्कितमिति किलशब्दकटाक्षितमभिधानम्। तन्र कि संबन्धमित्याकाङ्लाविपूरकं तत्रास्तीत्यादि वाक्यम् । तथा हि-'य एष आदि- त्यपथं व्याप्य पुरुषो दीप्यते' इत्यायुपनिषदर्थनिवेशनमभिप्रायपूर्वकमाभासते। एतेनान्येऽपि वाक्यप्रकाश्यप्रकारा: परिगृहीता बोद्धव्याः। पूर्व वाक्येऽन्तर्भा- वितद्वित्वमवसेयमिति ।। विभक्तिमुद्रा यथा- 'श्रियः प्रदुग्धे विपदो रुणद्धि यशांसि सूते मलिनं प्रमार्ष्टि। संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धि: किल कामघेनुः ॥४५॥' अत्र प्रदुग्धे, रुणद्धि, सूते, प्रमाष्टिं, पुनीते, इति तिङ्वि- भक्तीनां 'दुहिपच्योर्बहुलं सकर्मकयोरुपसंख्यानम्' (३।१।८७ वा०), 'रुधादिभ्यः श्रम्' (३।१।७८) इत्यादिभिर्विशेषलक्षणयोगैः परस्मैप- दात्मनेपदपर्यायेण निवेशो दृश्यते। श्रियः, विपदः, यशांसि, मलिनं संस्कारशौचेन, इति च सुब्विभक्तीनाम् 'अचि भ्ुधातुभ्रुवां खोरियडवडौ' (६।४।७७) इत्यादिविशेषलेक्षणवतीनामविकृतविक्क- तानां मकलामझ्लार्थपैरत्वेन मेलादर्थानामभिप्रायतः प्रयोगो लक्ष्यते। तेनेयं विभक्तिमुद्रा भवति॥ श्रिय इति। बुद्धिरूपा कामधेनु: श्रियः प्रथयतीत्युक्ते न तथा प्रकर्ष:, यथोक्तेत तु विशिष्टः कवेरभिप्राय उच्नीयते। तथा हि-यथोदुम्बरः सलोहित फलं पच्यत इति कर्मकर्तर फलोदुम्बरयोरकात्म्यमवसीयते तथेहापि श्रीरूपमात्मानं बुद्धिः प्रकाशयतीति। अत एव हि 'दुहिपच्योर्बहुलं सकर्मकयोः' (वा ३।१।८७) इति बाह्यकर्मविशिष्टस्यव कर्तुः कर्मबद्धावः शिष्यते। 'न दुहन्तुनमां यक्चिणी' (३।१।८९) इति यगभावोऽपि विशेषाभिप्रायनियत एव रुणदीत्यागमरूपः । सूते इति लुमः । प्रमाष्टीति वृद्धियोजकः । पुनीते इति स्वरूपेण विकृतश्र १. 'लक्षणवतीना योगे:' क. २. 'लक्षणववीनों योगेः' क. ३. 'पदपरत्वेन' इति टीकार्समत: पाट :. ४. 'महलर्यानाम्' क.
Page 262
२ परिच्छेद: ।] सरसतीकण्ठाभरणम्। १६९
विकरण: । आत्मनेपदपरस्मैपदयोरेकान्तरितो निवेशः । त्रिय इति प्रकृतिभागे इयडादेशो विकारो विभक्कावपि विकारः । विपद इति प्रकृतिरविकृता। विभक्तिस्तु रुत्वेन विकृता । यशांसीति हवे अपि विकृते । मलिनमिति वैकल्पिकपरसवर्णविधौ द््यमविकृतम् । संस्कारशौचेनेति प्रकृतिरविकृता । प्रत्ययस्त्विनादेशेन विकृतः । तथा श्रिय इति माङल्यम्, विपद इति विपरीतमिति क्रमेण शुद्धा बुद्धि: काम- धेनुरिति। मज्नळपरम्परानिवेशनेनोपसंहारश्वित्रांशुकोजवल इव प्रतिभासमानो नु विम्बमिव कामपि कान्तिममिव्यअयत्तपलक्ष्यते। मङ्गलामङ्गलार्थपदपर- त्वेनेति । महलामन्ञठेभ्यः पदेभ्यः परवर्तित्वेनेत्यर्थः। वचनमुद्रा यथा- 'विश्वंभरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते। तेषां वघूस्त्वमसि नन्दिनि पार्थिवानां येषां कुलेषु सविता च गुरुवयं च ।। ४६ ।।' अत्र वयमित्यात्मनि बहुवचनेन सविता चेति सवितर्येकवचनेन सवितुरप्यहं बहुमत इत्यभिप्रायो वक्तुरितीयं वचनमुद्रा॥ विश्वंभरेति । अहंकारप्ररोहस्य पूर्व गुणप्रयोजकत्वमुक्तम्। इह तु कबेर- मिप्रायविशेषस्यालंकार घटकतेति विभाग: ।। समुचयमुद्रा यथा- 'जातश्र्ायं मुखेन्दुस्ते झ्रुककुटिप्रणयी पुरः । गतं च वसुदेवस्य कुलं नामावशेषताम् ।। ४७।' अत्र 'आशंसायां भूतवच्च' (३।३।१३२) इति भूतवद्धावस्य हय- श्रीवप्रभावातिशयशंसिन: समुचयद्वारेण निवेशादियं समुच्चयमुद्रा। अत्राशंसायामिति । गतमिति निष्ठाप्रत्ययेन भूतताद्योतनादाशंसाप्रती- तावपि कथ प्रकृतपोष इत्यत उक्तम्-समुच्चयद्वारेणेति। तेन हि तुल्य- कक्षताप्रतीतौ त्वं चेदज्वीकृतरोषस्तदा सिद्धमेव समीहितमिति वक्तुरध्यवसाय- विशेषप्रतीती समुचय एव मुद्रापदवीमारोहतीति। शेषं सुबोधम् ।।
Page 263
१७० काव्यमाला।
संवृतिमुद्रा यथा- 'मणिरलं प्रसेनस्य तच्चानार्येण विष्णुना। लब्धं येनाद्ययोगेन तेन किं कीर्तितेन वः ॥ १८ ।।' अत्र 'कथापि खलु पापानामलमश्रेयसे यतः', ततः 'कि तेन वः कीर्तितेन' इति साभिप्रायसंवृतिकरणादियं संवृतिमुद्रा ।। विधिद्वारेण वा यत्र निषेधेनाथ वा पुनः। प्रतीयते विशिष्टोऽर्थः सोक्तिरत्रामिधीयते ॥ ४२॥ विधीति । उचतिरभिधा। सा दयी भावाभावविषयत्वात्। तहिं गोरपत्य- मयं गौरित्यतः को भेद इत्याशक्क विधिद्वारेण वेत्यादि। भावज्ञानं विधिरभावज्ञानं निषेधः । लोके गृहीतव्युत्पत्तिबलेन भावाभावान्यतरसंवित्सरणिमारुह काव्यैक- गोचरे रसाद्यात्मनि पर्यवस्यन्ती भवत्युक्तिरलंकार इति भावः ॥ सोऽयं भावादिप्रपशेन पोढा विधिः प्रथत इत्याह- विधेरथ निषेधात्सादधिकाराद्विकल्पतः । नियमात्परिसंख्याया उपाधे: सेह पड्िधा॥ ४३॥ विधेरिति। उपाधिर्विशेषणम् । विध्यधिकारी शुद्धभावमेदी। निषेधनियमौ शुद्धप्रतिषेधमेदी । विकल्पपरिसंख्ये संकीर्णमेदाविति। तत्राप्राप्तग्ापणो विधिः । प्रसक्तप्रतिषेधो निषेधः । क्रियाफलसंबन्धोSधिकारः । तुल्यकक्षयोरेक वाधे- नान्यसंबन्धो विकल्पः । व्यावृत्तिफलको विधिर्नियमः । शेषविधिनिषेधनान्त- रीयकी विशेषनिषेधविधी परिसंख्या।। तासु विध्युक्तिर्यथा- 'शुभ्रूपख गुरून्कुरु प्रियसखवीवृत्ति सपलीजने' अत्राप्राप्तौ प्रापणवचनं विधि: ।। अग्राप्ती प्रापणवचनमिति। अप्रवृत्तप्रवर्तनात्मको हि विधिः कथमित- रापेक्षत्वे संगच्छते । अत एवोच्यते-'विधिरत्यन्तमप्राप्ती' इति ॥। निषेधोक्तिर्यथा- 'भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीप गमः ।'
Page 264
२ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। १७१
अत्र प्राप्तौ निवारणं निषेधः । प्राप्तौ निवारणमिति । रोषेण प्रसजत्प्रतीपाचरणाभ्निवार्यते॥ अधिकारोक्तिर्यथा- 'भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ ४९ ॥' अत्र विधिनिषेधज्ञानाद्विघिनिषेधयोग्यताधिकारः ॥ विधिनिषेधज्ञानादिति। विहितनिषिद्धक्रियाज्ञानेन तत्फलसंबन्धयोग्यत्व- मधिकारः। शुश्रूपखेति, भूयिष्ठं भव दक्षिणेति द्े विहिते। मा स्म प्रतीप गम इति, भोगेष्वनुत्सेकिनीति द्वे निषिद्धे। विधिनिषेधयोग्यता विधिनिषेधफलसंबन्धयोग्य- त्वम्। गृहिणीपद प्राप्तिर्विहित क्रियाफलम्। कुलाधीभवनं तु निषिद्धक्रियाफलमिति॥ विकल्पोक्तिर्यथा- 'एको नेता क्षत्रियो वा द्विजो वा एका विद्याध्यात्मिकी वा त्रयी वा। एका भार्या वंशजा वा प्रिया वा एकं मित्रं भूपतिर्वा यतिर्वा।।५०।' सोऽयं जातिक्रियागुणद्रव्यावलम्बी चतुर्विधो विकल्पः ॥ सोऽयमिति। जाल्यादय एव पदार्थास्ते च विकल्पन्ते। कुतो जात्यादिना तथ्वस्था। वाशब्दः पाक्षिकभावमाहेति भावाभावसंकरः॥ नियमोक्तिर्यथा- 'विवादोऽपार्थ एवायं पार्थ एव धनुर्धरः । यो न केवलमात्मीयैः परैरप्यमिनन्द्यते ॥५१॥
अपार्थ एवेति। विशेषणसंगत एवकार: केवलविशेषणयोगस्यासंभवे व्युत्प- त्तिवशेन तदभावं व्यवच्छिन्दन्योगव्यावृत्ताववतिष्ठते। पार्थ एवेति विशेष्यसंगत एवशब्दसतदन्यस्य धनुर्धरतारूपं विशेषणं व्यावर्तयत्रन्ययोगव्यवच्छेदद्योतको भवति। केवलमिति अभिनन्दनस्प नायोगं नवान्ययोगं व्यवच्छिनत्ति, किंतु
Page 265
१७२ काव्यमाला ।
परिसंख्योक्तिर्यथा- 'पञ्च पञ्चनखा भक्ष्या वामेनाक्ष्णा न पश्यति। काठिन्यमस्याः कुचयोः किमसद्यन्न रोचते ॥ ५२ ॥' तदिदं विधिनिषेवाभ्यां शेषाभ्यनुज्ञानं परिसंख्येत्युच्यते। पञ्च पञ्चेति। पथनखेु पञ् भक्ष्या नान्ये। कुचयोरस्याः काठिन्यं न वच- नादाविति विशेषविधी शेषनिषेधमनुजानीतः। वामेन न पश्यति दक्षिणेन तु पश्य- त्येव। किमसत्किमशोभनम्१ यद्यस्मै न रोचते इतरत्तु सदेवेति विशेषनिषेधौ शेषविध्यभ्यनुज्ञाविषयाविति।। अयुज्यमानस्य मिथःशब्दस्यार्थस्य वा पुनः । योजना क्रियते यासौ युक्तिरित्युच्यते बुधैः ॥४४॥ अयुज्यमानस्येति । पूर्व पदैकवाक्यता ततो वाक्यैकवाक्यत्वमनन्तर प्रकर- णैकवाक्यत्वमिति प्रबन्धनिर्वहणं यावत्कविव्यापारः। तत्र 'गामभ्याज शुक्कां दण्डेन' इत्यादीनां लोके गृहीतव्युत्पत्तीनामेव यद्यपि काव्यानुप्रवेशस्तथापि भज्गीभणितिस- नाथान्येव काव्यपद्धतिमध्यासत इत्यप्रहतानामुपादेयत्वे यत्रापाततः परस्परमन्वयो न प्रतिभासते तत्रावश्यं कविना सामिप्रायप्रतिच्छन्दकभूतविशेषनिवेशनेन विव- क्षितवाक्यार्थप्रतीत्यस्खलनं विधेयम्, अत एव वैचित्र्यादलंकारता। तदिदमुक्तम् -अयुज्यमानस्येति। आपातत इति शेषः । योजना अन्वयोपयिकरजकविशेष- निवेशनं तस्य विषयः । शब्दाथा शब्द: पद वाक्यं प्रकरणं प्रबन्धः । अर्थः पदार्थों वाक्यार्थक्।। विषयमेदात् पोढा युकतिरित्याह- पदं चैव पदार्थश् वाक्यं वाक्यार्थ एव च। विषयोऽस्याः प्रकरणं प्रबन्धश्चामिधीयते ॥ ४५॥ पदं चैवेति। तत्र-
पदयुक्तेरनिमित्तं स्युर्निरूढा: पदसिद्धये ॥ ४६ ॥
Page 266
२ परिच्छेद: I] सरस्तीकण्ठाभरणम् । १७३
योगेति। योगेत्यादी द्वन्द्परवर्ती परम्पराशब्दः प्रत्येकमन्वीयते। योगो योगरूढिः । कारणं कार्यकारणभावः । निरूडाः प्रमिताः । पदतिद्धये पदसमुदाया- त्मकवाक्यैकदेशतासिदये ।। यद्यपि पदानामर्थद्वारक एव संबन्धः, तथापि तदौपयिकविशेषः क्वचित्पदेष्वेव साक्षादवसीयते कचित्पदार्थेष्वित्यभिप्रेत्याह- विरुद्धानां पदार्थानां जात्यादीनां परस्परम्। योजना येह तां युक्तिं पदार्थविषयां विदुः।। ४७। विरुद्धानामिति। एवं वाक्यवाक्यार्थयोरपि वाक्यमध्यवर्तिप्रकृतरसानु गुणरससमर्पकं वाक्यान्तरम् । गर्भ: सह निगर्मेण संवृत्तिः ससमुचया। हेतवो वाक्ययुक्तीनां क्रियतामेवमादयः ॥ ४८ ॥ गर्भ इति। गर्भस्तस्यैकदेशभूतस्तथाभूतो निगर्भः । उक्तेरुपसंहारवचनं संवृत्तिः। तुल्यप्रधानभावानां युगपदेकार्थसंबन्धः समुच्चयः । आदिपदाद- न्वाचयादय:।। यत्तदादेरुपादानं क्रियाभ्याससमुचयौ। क्रियासमभिहारश्र वाक्यार्थान्युज्यते मिथः ॥ ४९ ॥ यत्तदादेरिति। यत्तदोरुद्देश्यविधेयगामिनोरादिग्रहणादिदमेतदासां करिकया- णामावृत्तिरभ्यासः । विजातीयानामेकदकत्र संबन्धः समुच्चयः । समभिहारो मृशत्वं प्रकर्ष इति यावत्।। यदश्रद्धेयशैलादिवर्णनाभ्युपपत्तये। वाक्यं सेह प्रकरणविषया युक्तिरिष्यते ॥ ५०॥ यदिति । अतिमात्रतया प्रतिभासमानत्वमश्रद्धेयता।। १ प्रबन्धविषयाप्येवं युक्तिरुक्ता मनीषिभिः। उंदाहरणमालासां रूपव्यक्त्यै निदर्श्यते।५१॥ तदेतासां युक्तीनामतिदुरुहत्वादाह-उदाहरणमेवेति। १. 'उदाहरणमेवासान्' इति पाठषीकार्समत :.
Page 267
१७४ काव्यमाला।
तत्र योगरूढिपरम्परादिनिमित्ता पदयुक्तियथा- प्राच्यां निर्जितजम्भजिह्िपशिरः सिन्दूरशोभं दिशि प्रत्याख्यातहयाञ्नास्यहुतभुग्ज्योतिः प्रतीच्यर्णवे।
भानो: पूर्णनभःकटाहकुहरकोडं महः पातु वः ॥ ५३॥ अत्र जम्भजिद्विप इति योगरूढिपरम्परा, हयाङ्गनास्यहुतभुगिति पर्यायपरम्परा, प्रातर्जातमदोन्मिषत्कमलिनीकिल्जल्ककल्कोद्धटमिति हे- तुपरम्परा, नभःकटाहकुहरकोडमित्यद्राङ्विभावपरम्परा च परिस्फुरन्ती दृश्यते।। प्राच्यामिति । जम्भजित्पदं कृदन्तत्वाय्योगिकम्। तथा जम्भजिद् द्विप इत्यपि समासत्वात्। तदेतदुभयं योगेनातिप्रयुज्यमानं निरूढिदूयेन विवक्षितै- रातरूपे वस्तुनि नियम्यते। हयान्रनेति वडवापर्यायः । आस्यमिति मुखपर्यायः । हुतभुगित्यनलपर्यायः । सेयं पदपरम्परापर्यायताप्रतिसंधानेनाभिमतवडवामुखानल- प्रतीति करोति। मदस्य किअल्कोन्मेषे तस्य कल्के तस्याप्युद्वटतार्या हेतुभाव इति कार्यकारणपरम्परा । नभःकटाहोऽजी। तस्याअमेकदेश: कुहरं तस्यापि कोड इत्यआ्वाजिपरम्परा च यथाभिमतपदैकवाक्यतानिदानमिति तदेतद व्याचष्े- अन्नेति। परिस्फुरन्ती कविशक्तिव्यजकतया सहृदयहृदयेषु प्रतिफलति॥ विरुद्धजात्यादियोगनिमित्ता पदार्थयुक्तिर्यथा- 'तन्नागेन्द्रकरोरुदो:करिशिरःपीनस्तनांसं वपुः स्त्रीपुंसाकृति यत्पितुस्तव मुखे रम्योग्रमीक्षामहे। वाराहा इति नर्मणीभवदनः पश्यन्यदास्या मुखं नाभिष्टौति हसन्र निन्दति तदा छ्विष्टोऽम्बया पातु वः।।५४। अत्र स्त्रीपुंसाकृतीति विरुद्धजातियोजना, नाभिष्टौति न निन्द- तीति विरुद्धक्कियायोजना, रम्योग्रमिति विरुद्धगुणयोजना, मुखे वपु- रीक्षामहे इति विरुद्धद्रव्ययोजना च लक्ष्यते।।
Page 268
२ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। १७५ तन्नागेति। नागेन्द्रकरवदूरु: पार्वतीभागे, दोर्बाहुथ देवभागे, करिकुम्भ- वत्पीन: स्तनो देवीभागे, अंसः स्कन्धथ देवभागे, एवंविघत्वत्पितुरीश्वरस् वपुस्तवन्मुखे । एकविषाणतया करिकरिणीसमाहारात्मनि वीक्षामह इति वारात्ा: परिहासोकिः । वाराही वराहप्रकृतिभूतो मातृविशेषः । इमवदनो विनायकः । स्त्रीत्वपुंसत्वयो: परस्परपरिहारेणोपलम्भाद्विरुद्धयोरपि त्वत्पितुरित्यनेन स्तुति- निन्दयोः प्रतिषेधेन रम्यताभीषणतयोभागव्यवस्थया मुखवपुषो: सादृश्येनाभितो- 5भिप्रायप्रतिबिम्बितेन योजना विहितेति तत्प्रतिपादकानां पदानामेकवाक्यता- सिद्धिः। तदिदमाह-अत्रेति॥ वाक्यगर्भादिविषया वाक्ययुक्तिर्यथा- 'दिब्यातङ्रघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सा च वदन्त एव हि वयं रोमाश्चिताः पश्यत । विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाङ्गुतमिदं यत्रैव चास्तं गतम् ।।५५।' अत्र वदन्त एव हि वयं रोमाश्चिताः पश्यतेति वाक्यगर्मः। तत्रैव पश्यतेति वाक्यान्तरे भावाविष्कारवाचा निगर्मः । किमपरं रामाय तस्ै नम इति वाक्यसंवृत्तिः । यस्मादाविरभूत्कथाद्भतमिदं यत्रैव चास्तं ग- तमिति वाक्यसमुचयः । सेयमेतेषां योजनाद्वाक्यविषया युक्तिर्भवति॥ दिझ्वातेति। जातिक्रियेत्वादिना क्रमेण विरोधप्रसिद्धेर्गुणविरोधमुलह्य किया- विरोधो व्याख्यातः । आधाटः सीमा। गर्भो वित्ृतपूर्वस्तन्नैवाधर्यरसाविष्टव्धस्य वक्कु: पश्यतेति वाक्यान्तर निगर्मः। गर्भवाक्येन समर्प्यमाणप्रकृतरसान्वयिनि रसे प्रकर्षाधायको निगूढो गर्मों निगर्म इत्युच्यते। तदिदं भावाविष्कारवाचीत्यु- कम् । विप्राय प्रतिपाद्यते संपन्ना तैरभुज्यत इत्यादि वक्तव्ये किमपरमित्यस्व संवृ- त्तित्वेन योजना। एवं हि कियदस्य महानुभावस्य तादृशाचरितं प्राप्यते तदिह मानमेवोचितमिति भूयान्प्रकर्षोऽवसीयते। 'यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चाखं गतम्' इति वाक्यद्वयस्य पूर्ववाक्यगततर्कार्थसमुच्चयवाचिना चकारेण योजना व्यकैव। एवमादय इति। तथथा-वीध्यज्ञानि त्रयोदशप्रस्तावनापरिचे- ययानि। संच्यज्वानि विलासाद्यानि चतुःषष्टिसंघयक् रूपकावयवभूता मुखप्रतिमुख-
Page 269
१७६ काव्यमाला।
गर्भविमर्शनिर्वहणारुयाः पञ्च । प्रकृतरसावस्थारूपाणि च पचैव। बीजबिन्दुपता- काप्रकरीकार्याणि तत्तत्प्रकरणप्रबन्धरूपवाक्यैकदेशयोजनान्यवगन्तव्यानि॥ यत्तत्तदाद्युपादाननिमित्ता वाक्यार्थयुक्तिर्यथा- 'तिष्ठ द्वारि भवाङ्गणे व्रज बहिः सद्ेति व्त्मेक्षते शालामञ्च तमङ्मञ्च वलभीमश्चेति वेश्माञ्चति। दूति संदिश संदिशेति बहुशः संदिश्य सासे तथा तल्पे कल्पमयीव निर्घृण यथा नान्तं निशा गच्छति ॥५६॥' अत्र प्रथमपादे क्रियासमुच्चयः, द्वितीये क्रियाभ्यासः, तृतीये दूतीं संदिश संदिशेति यावत्कियासममिहारः । शेषे तु तथा साखे यथा निशान्तं न गच्छतीति यत्तदोरुपादानं वाक्यार्थयुक्तेर्हेतुः प्रतीयते। सेयमुक्तलक्षणा वाक्यार्थयुक्तिर्भवति।। अश्रद्धेयपर्वतादिवर्णनोपपत्तिहेतु: प्रकरणविषया यथा- 'मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः । भवन्ति नोहामगिरां कत्ीनामु च्छायसौन्दर्यगुणा मृषोदयाः॥।५७॥ प्रबन्धव्यापिवस्तूपपत्तरहेंतुस्तु प्रबन्धविषया युक्तिर्भवति। सा यथा- 'धूमज्योतिःसलिलमरुतां संनिपातः क मेघः संदेशार्थाः क पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन्गुद्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५८॥ तिष्ठेति। उपस्थितिसमयसीमामतिकरामति प्रियतमे तत्कालद्विगुणितोत्कण्ठात- रठितान्तःकरणः कदाचित्प्रागिव गर्भगृहद्वारि तिष्ठति। ततस्तत्रानवलोकमाना गृहा- ऋणे भवति। तदनन्तरं वेश्मनो बहिर्त्जति। सोऽयं विजातीयक्ियार्थनानाधातु· गोचरः सर्वकालेयु 'समुचयेऽन्यतरस्याम्' (३।४३) इति लोटो हिरनुशिष्यते। अत एव दर्शनावच्छेदभूतद्वारावस्थानादिसामान्यवचनः 'समुचये सामान्यवचनस्य' (२४।५) इत्यनुशासनान्नियमितप्रयुक्तिरीक्षतिरनुप्रयुज्यते। नायकस्य सवधा हृदय-
Page 270
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। १७७
वैशसं सर्वथेवाश्रद्दधाना दूरदूरतरदूरतमरथ्याभागावलोकनार्थिनी शालागृहमारो- हृति, ततस्तस्मादुचेस्तमन्नगम् अटालकम्, अनन्तर तस्मादुचतरां वलभीमुपरित- नकुटीमिति। अत एवानक्रियैवात्रावृत्तेति 'क्रियासमभिहारे लोद लोटो हिखौ वा च तथ्वमोः' (३४२) इत्यनुशिष्यते। अत एव च 'यथाविध्यनुप्रयोगः पूर्व- स्मिन् (३।४।४) इति तस्पैव धातोरनुप्रयोगोऽपि। एवमप्यनागच्छति नायके दूतीव्यापार: शरणं यत्कुण्ठनायां स्यं वा तत्र गमनमित्युपदिश्यते तेन तत्तदभि- प्रायसवर्धकसंदेशप्रकर्ष: सोऽयमाभीक्ष्ण्यद्विरुत्तया व्यज्यते। अत एव लोट: सम- भिव्याहारो विषयो न तु धजादिवदभिधेय इति पूर्वाचार्याः । इतिशब्दादधिकं चतु- थंवाक्यानुप्रविष्टमिति यावच्छव्देनावच्छिनत्ति संदिश संदिशेति यावदिति दिक्॥ उक्तिप्रकारो भणिति: संभवेऽसंभवे च सा। विशेषसंवृत्त्याश्चर्यकल्पनासु च कल्प्यते ॥५२॥ उक्तीति। उकतिरभिधानमुचचारणक्रिया लक्षणक्रिया सा सर्ववाक्यसाधारणी कथमलंकार इत्याशक्का प्रकारपदम्। प्रकारो भज्ञीरूपता। लौकिकशास्त्रीयवचना- तिगामी विशेषः । स एव कैश्रिदव्याप्तिमननुसंदधानैरलंकारसामान्ये उक्तः। उक्ति- रूपत्वाविशेषे कथमयमेव संगच्छतामित्यतो विभागप्रदर्शनव्याजेन विषयविशेषादेव तद्रूपतामुपपादयति-संभव इत्यादि। तत्र बहिरसंभाव्यमानस्यापि प्रतिभानि- मिंतचित्रतुरगवत्प्रतीति: संभवस्तामर्पयन्ती संभावनात्मिका भणितिः । सैव हि 'कित्वस्ति काचिदपरापि पदानुपूर्वी यस्यां न किंचिदपि किचिदिवावभाति' इति न्यायेन तत्तदर्थनिर्माणप्रवीणा 'यथास्म रोचते विश्वं तथव परिवर्तते' इति व्यवहा- रकारणं भवतीति तथाविध एव विषये शास्त्रप्रसिद्धप्रकारवपरील्येन बाधवर्णनमरस- भावना। तदुच्यते- 'इह ते जअंति कइणो जअमिण मोजाणसअलपरिणामम्। वाआमु ठिअं बीसइ आमोअ घ्णं व तुच्छं व ।I' अतएवेयं निषेधरूपा तज्जातीयव्यावत्तो ध्मों विशेषसतं कचिद्विदधाना कवेर- भिप्रायविशेषमर्पयन्ती 'निषेधप्रसन्ने विशेषभणितिर्विधिरूपा भवति' इति तामव- लम्बमाना चमत्कारकारिणी विशेषे पर्यवस्यन्ती वर्णना पहवप्रसज्े संकोचमवगा- हमाना विधौ निषेधरूपा पर्यवस्यति । अतर्कितोपनतं विस्मयजनकमाश्चर्य तस्य निषेधे विधातव्ये यत्किंचिविद्विधानं तदाक्षर्यरूपतामन्तरेण काव्यकक्षामारोदुं न क्षमत इति नूनमनया विस्मयार्पणमेव सर्वस्भूतमवलम्बनीयमिति निषेधविधि- १२ स० क०
Page 271
१७८ काव्यमाला ।
प्रसग्े निवेधरूपा भणितिर्वहिरसंभाविनः क्चिदसतो विशेषस्योत्प्रेक्षाकल्पना । तामाश्रयन्ती विधाननिषेधमात्रेण चरितार्था किचिद्धिशेषं विदधातीति विधि-
भणिति:॥ निषेधप्रससे सामान्यतः प्रतिषेधति विशेषतथ् विधत्त इति निषेधविधिरूपा कल्पना
अत्र संभवभणितियथा- 'सद्योद्रावितकेतकोदरदलस्ोतःश्रियं विभ्रती येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्रागभूत्। उत्सेक्य। कलशीमिरज्जलिपुटैः पेया मृणालाक्कुरै- मातव्या च शशिन्यमुग्घविभवे सा वर्तते चन्द्रिका ॥ ५९॥' अत्र ज्योत्साया: सदयोद्रावितकेतकोदरदलस्रोतःसादृश्यादिसंभवा- दियं संभवभणितिर्द्विरूपा। सद्य इति। केतकोद रदलानां द्रावणम्, ततः स्रोतोरूपता, ततसेनोपमिताया बहलतरबहिर्मागस्य कलशीभिरुत्सेचनम्, अनन्तर किचिदल्पीभूतमध्यभागस्य करतलाजलिपुटैर्मानम्, ततः शेपीभवतः सारभागस्य मृणालाकुरैः पानमिति बहिरसंभाविन एव श्रियं विश्रतीति निदर्शनया योग्यपदेनौत्सेक्येत्यादििश्रम- त्कारिणी संभावना जायते ।। असंभवभणितिर्यथा- 'क पेयं ज्योत्साम्भो वदनविसवल्लीसरणिभि- र्मृणालीतन्तुभ्यः सिचयरचना कुत्र भवति। क वा पारीमेयो बत वकुलदाम्नां परिमलः कथं खम्नः साक्षात्कुवलयदशं कल्पयतु ताम् ॥ ६० ॥' अत्र ज्योत्सादीनां मृणालादिभि: पेयत्वादेरसंभवादियमसंभवभणि- तिर्निषेधरूपा । क पेयमिति। खप्रस्य साक्षात्कल्पने सामर्थ्यमसंभावितं तदेवमेवोच्यमान तथा शोभामुन्मीळयतीति क पेयमित्यादि प्रतिवस्तुना निर्देशव्यग्वारकिसुप- माविस्तारं कुर्शणा भवत्यसंभवभगितिः । पारी भाण्डमेद: ॥।
Page 272
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। १७९
विशेषभणितिर्यथा- 'रेवतीदशनोच्छिष्टपरिपूतपुटे हशौ। वहन्हली मदक्षीबः पानगोध्यां पुनातु वः ॥ ६१ ॥ अत्र रेवतीदशनोच्छिष्टयोरपि हलिदशोर्यत्पूतत्वं, मदक्षीवस्यापि हलिनो यत्पावनत्वमसौ विशेष इतीयं विशेषमणितिरनिषेधे विधिरूपा ॥' रेवतीति। दशनोच्छिएं चुम्बितम्। उच्छिष्टक्षीवयोर्न कचित्पूतत्वं पावनत्वं वा दृष्टचरमिति हलिनेत्रपुटहलिनोविंधीयमानं देवताचरितस्य लोकोत्तरतां गमय- तीति निषेधप्रसन्ने विधिरूपेयं भणितिः ।। संवृत्तिभणितिर्यथा- 'आभरणस्याभरणं प्रसाधनविधे: प्रसाधनविशेषः । उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ६२ ॥' अत्र प्रसिद्धवर्णनाप्रपञ्चविघेराभरणस्यामरणं वपुरित्यादिवाक्यैः संव- रणादियं संवृत्तिमणितिविधो निषेधरूपा । आभरणस्येति। अत्र चन्द्रमुखी दुग्धधवलनयना बिम्बोष्ठी करिकुम्भस्त- नीत्यादिकविसमयप्रसिद्धवर्णनाप्रपथप्रसके यथोक्तरूपेण तस्प संकोचो निपेधसत- त्प्रतिष्ठाभणितिरलंकरणमेवानया क्रियत इति कान्तिविशेषं व्यजयन्ती विधौ प्रसके निषेधरूपा भवति॥ आश्चर्यमणितिर्यथा- 'ज्योतिर्म्यस्तदिदं तमः समुदितं जातोऽयमन्धः शिखी पीयूषादिदमुच्छितं विषमयं च्छायाप्तजन्मातपः । को नामास्य विधि: प्रशान्तिषु भवेद्ाढं द्रढीयानयं अ्रन्थिर्यत्पियतोऽपि विप्रियमिदं सख्यः कृतं सान्त्वनैः॥६३॥'
भणितिर्निषेधविधौ विधिनिषेधरूपा ॥ ज्योतिर्भ्य इति। प्रियो हि नाप्रियमाचरतीत्युत्सर्गसिद्धाप्ियानाचरणं दैव-
Page 273
१८० काव्यमाला।
गत्या शठे संभाव्यमानमाश्चर्यमुन्मुद्रयत्सामान्यपरम्परया प्रेमाविष्टमन्तःकरणमा- वेदयति। यदि ज्योतिरादेस्तमःप्रभृतीनामुद्गमः स्यादपि प्रियादप्रियमिति सरवयैव निषेधे विधातव्ये प्रत्यक्षपरिकल्पितस्यान्यथाकर्तुमशक्यत्वात्प्रमेयविरोधमसहमाना विधत्ते च निषेधति चेति निषेधविधिप्रसन्वे विधिनियेधरूपा भणितिर्भवति॥ कल्पनाभणितिर्यथा- 'दृश्यं दशां सहसतर्मनसामयुतैर्विभावनीयं च । सुकृतशतकोटिभोग्यं किमपि वयः सुम्रुवः खदते ॥ ६४॥' अत्र वयोरामणीयकातिशयस्य दक्सहस्त्रादि भिरेवावलोकनीयत्वादि- योभ्यताकल्पनादियं कल्पनाभणितिर्विधिनिषेधे निषेधविधिरूपा ॥ दृश्यमिति । यद्यपि द्वाभ्यामेकेनाल्पीयसा च नेत्राभ्यां मनसा सुकृतेन च वयसो यौवनस्य दृशयत्वविभावनीयत्वभोग्यत्वानि प्रतीतिमुखमवतीर्णानि, तथापि
मान्ये सहस्रत्वादिकं कल्पयन्साधारणधर्मनिषेधसरणिमारुत्य विशेषं विधत्ते। सेयं भणितिविंधिनिषेधप्रसज्ने निषेधघटकद्वारा विधिरूपा भवतीत्यास्तां विस्तरः ॥ वाक्ये शब्दार्थयोः सम्यग्रचना गुम्फना स्मृता। शब्दार्थकमपर्यायपदवाक्यकता च सा ।।५३। वाक्य इति। एकार्थप्रतिपादनावच्छिन्नः शब्दसमुदायो वाक्यम्, तस्मिन्वि- षयभूते आनुपूव्येण अ्रन्थनं रचना, सा कथमतिप्रसक्काप्यलंकार इत्यत आह- सम्यगिति । प्रकृतपरिपोषाधानलक्षणमौचित्यमापन्नेत्यर्थः। वाक्यत्वमर्थशब्दा- भ्यां विशेषणविशेष्याभ्यां व्यवतिष्ठते। तेन दवयोरेव गुम्फना समाप्यत इत्याशयेन शब्दार्थयोरित्युक्तम्। तत्र शब्दो द्विविध :- वाच्यः, उपाधिथ । प्रतिपादकशब्दो द्विरूपः पदवाक्यभेदात्। पदं द्विधा-पर्यायभूतरूपम्, अतथारूपं च। तदेत- द्विवक्षावैचित्र्यमज्नीकृत्य विभजते-शब्द इति । अप्रतिपादकः शब्द: शब्दपदे- नोकः । अर्थो वाच्यः । कमग्रहणमुपाध्युपलक्षणम् ॥ तासु शब्दकृता यथा- 'रामाभिवेके मदविहलायाः करान्युतो हेमघटस्तरुण्याः । सोपानमासाद चकार शब्दं ठंठंठठंठंठठठंठठंठ: ।। ६५ ।।'
Page 274
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। १८१
सेयं ठंठमित्यादेनिरर्थकस्य श्रोकपादस्यार्थानुगुण्येन वाक्ये रहित- त्वाच्छव्दरचना ॥ रामेति । राज्याभिषेकोत्सवजातहर्षायाः करात्प्रच्युतस्य सोपानपरम्परासु स्खलतः कावनकलशस्य भूभागप्रातिर्यावत्कमेणोच्चरन्ती शब्दमालानुकृतेति प्रकृ- तार्थानुगुण्यम्। एवं हि करच्युतमपि न संभावयतीति कोऽपि मदप्रकर्षो व्यज्यते॥ अर्थकृता यथा- 'दिकालात्मसमैव यस्य विभुता यस्तत्र विद्योतते यत्रामुष्य सुधीभवन्ति किरणा राशे: स यासामभूत्। यस्तत्पित्तमुषः स यस्य हविषे यस्तस्य जीवातवे वोढा यद्रुणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः ॥६६॥' सेयं व्योमादीनामष्टानामपि महेशमूर्तिलक्षणानामर्थानामुत्तरोत्तरसं- कलनया रचितत्वादर्थरचना ॥ दिक्कालेति। दिक्कालात्मतुल्यं सर्वमूर्त संयोगाश्रयतालक्षणं विभुत्वमाकाश- स्पैव तस्मिन्नर्थाक्षिपते यच्छव्दोऽयमुद्देश्यगामी निविशते तमुपजीव्य तच्छव्देन प्रतिनिर्देशो युक्तः। आकाशे विशेषेण चन्द्रतारादितेजोभिभवसामर्थर्यलक्षणेन द्योतते भगवानादित्य इति यच्छ्देन तमुद्दिश्योत्तरवाक्येऽदसा प्रतिनिर्दिष्टवान्। कर्णगत्या प्रतिफलिता: सूर्यकिरणाः सलिलमयेष्टाशिन्येव सुधाव्यपदेश लभन्ते, तत्रैव यच्छब्दो निविष्टस्तदुपनीतमर्थमुत्तरस्वच्छव्दो विषयीकरोतीत्यादि-अपामेव राशेथन्द्रो जातस्वासां पित्तं वहिस्तस्य सायप्रातराहुतये यजमान: स वायुना जीवति। स च पृथिवीगुणं गन्धं वह्तीति पूर्वपूर्वसंकलनेनोत्तरवाक्यार्थरचना विहितेति। यद्यपि चार्धगुम्फे शब्दगुम्फो ध्रुवभावी, तथापि प्रथमानुसंचेयमर्थ- गुम्फनमेवात्र प्रधानमिति तेनैव व्यपदेशो युक्त इत्याशयवान्व्याचष्टे-अत्रेति। यदीयं शङ्कला न प्रतिसंधीयते कथं परमेश्वरमूर्तयोऽष्टी लभ्यन्त इति भावः ।। क्मकृता यथा- 'नीलाज्ानां नयनयुगलद्राघिमा दत्तपत्रः कुम्भावैभौ कुचपरिकर: पूर्वपक्षीचकार।
Page 275
१८२ काव्यमाला।
भ्रविभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादी- दूक्ज्योत्खाशशघररुचं दूपयामास यस्याः ॥ ६७ ॥।' अत्र पत्रमदानपूर्वपक्षोपन्यासानुवाददूपणोद्धावनानां बुधजनप्रसिद्ध- क्रमेण रचितत्वादियं कमरचना ।। नीलाव्जेति। पत्रदाने स्पर्धा व्यज्यते। सा च सादश्यपर्यवसायिनीति प्रतीयमानोपमा। इमकुम्भपूर्वपक्षीकरणेन कुचाभोगस्य सिद्धान्तभावोऽवगम्यते। तथा च व्यतिरेको ध्वनितः । अनुवादेनाप्युपमा प्रतीयते दूपणेन व्यतिरेक इति प्रकृतपर्यवसाने समासोत्या यत्र दानादीनां विद्वद्वादिप्रसिदानां शब्दानभिधेय एव क्रम उपाधिभूतो अथित इत्युदाहरणव्याख्यानग्रन्थार्थः ॥ पर्यायकृता यथा- 'कणइल्ि चिअ जाणइ कुन्तपलस्साइ कीरसंलवई। पूसअभासं मुख्चसु ण हु रे हं घबवाआडी ॥ ६८ ।' [शुक्येव जानाति शुकप्रलपितानि कीरसंलापिनी। कीरभाषां मुख न खलु रेडडं धृष्शुकी॥] सेयं शुकनामपर्यायाणामर्थानुगुण्येन रचितत्वात्पर्यायरचना ।। कणइल्ि च्चिअ इति। केनचिद्विटेन शुकभाषामनुकु्वता प्रियाया: परिह्दास आरब्धः । सा तस्य दुर्विदग्धत्वमाकलयन्ती तदुचितमुत्तरमदात् शुकप्रलपितानि किल शुकी जानाति नान्या। न चाहं शुकी। ततो विफलस्तवायं प्रयास इत्यर्थः । अत्र कुन्त-कीर-पूस-शब्दा: शुकपर्यायाः। कणइली-वाआडी-शब्दी शुकीपर्यायौ। तत्रापि कीरशब्दस्तत्समः । अन्ये देशीरूपाः । तदेतेषां पर्यायाणां यथोक्तरूपा- नुगुणानामेकत्रवाक्ये गुम्फनमेव कविसंरम्भगोचर इति।। पदकृता यथा- 'लोललाङलवल्लीवलयितबकुला नोकहस्कन्धलोलै- रगोंलाङ्ूलैर्नदद्धिः प्रतिरसितजरत्कन्दरामन्दिरेषु। खण्डेषूहण्ड पिण्डीतगरतरलनाः प्रापिरे येन वेला- मालम्ज्योत्तालतहस्फुटितपुटकिनीबन्धवो गन्घवाहाः ॥६९॥'
Page 276
२ परिच्छेद: ।] सरस्वतीकण्ठाभरणम् । १८३
अत्र लाडूलवलीवलयितवकुलैनद द्विर्गोलाबलै: प्रतिरसितजरत्कन्द- रामन्दिरेषु खण्डेपु उद्दण्डपिण्डीतगरतरलना: पुटकिनीबन्धवो गन्धवाहा वेलामालम्व्य येन प्रापिरे इत्यतोऽधिकानामपुष्टार्थानामपि पदानामनु- प्रासाय च्छन्दःपूरणाय चार्थानुगुण्येन रचितत्वादियं पदरचना ।। लोलल्ाइलवल्लीति। लामूलवाीवलयितेत्यादि यथोक्वाक्यविरचनमा- त्रेणैव प्रयोजनपरिग्रहे सिद्धे यदधिकानां लोलदवव्वीप्रसृतिपदानामावापसेन विना नोचितानुप्राससिद्धिर्नच तया बिना वृत्तीचिती समाप्यते। न वा तामन्तरेण लाकलादीनामभिमतास्ते ते विशेषा: प्रतीयन्त इति पहवप्रतिष्टैव हि सरखती सहृदयानावजयतीति-'वाक्यप्रतीतिमात्रार्थमुपात्तेषु पदेपु यः । उपस्कारः पदै- रन्येः पहवं तं प्रचक्षते ॥ अपरवं तु यद्वाक्यं कविभ्यस्तन्न रोचते। प्रयुज्यते तथाभूतमुदीच्यैः कविगहितम् ॥I' तदिदमाह-अत्रेत्यादि ॥ वाक्यकृता यथा- 'पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे। मध्यमेधु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु ॥ ७० ॥' इह महतोरऽर्थस्याल्पीयसा अ्न्थेनाभिधानमिति व्युत्कमेणापि अ्न्थ- लाघवाय वाक्यार्थो रचित इतीयं वाक्यरचना । वाक्येति। वाक्यरचना तु महावाक्य एव भवतीति। तथाहि । पतिश्वशु- रतेत्यादिकमल्पाक्षरमेव वाक्यं महतोऽर्थराशेः समर्पकमिति भावयतां सहृदयानां कवित्वशचिरप्रत्यूहैव प्रकाशते। अत एव शक्तितिरस्कारादाद्यन्तावभिधाय मध्य- माभिधाने कमभ्रंशोऽपि तिरस्कियत इत्वाह-अन्रेति ॥ शय्येत्याहु: पदार्थानां घटनायां परस्परम्। सा प्रक्रान्तेन कसिंशिदप्रक्रान्तेन कुत्रचित् ॥ ५४॥ शय्येति। किचिदेकं वस्तु बुद्धौ समाधाय तदधिकारप्रबन्धरचनायामधि- कस्यान्तरान्तरा प्रकृते योजना शय्या। पदार्धानां प्रस्तुताप्रस्तुतवस्तूनाम्। तच योजनीयं शब्दार्थमेदेन द्विविधम। तत्र वस्तुवाक्ययोरेव योजना महाकवित्रव- न्धेयु दृश्यते। अर्थस्तु प्राकरणिकाथोंपयोगी तदनुयोगी चेति द्विविधः । द्विती- योऽप्यतिकान्तोऽतथाभूतश्वेति पूर्ववद्धिभागवाक्यं व्याख्येयम् ।।
Page 277
१८४ काव्यमाला।
अतिक्रान्तेन कुत्रापि पदार्थ वर्णयो: कचिद। वाक्यार्थे वाक्ययोः कापि प्रकीर्णानां च दृश्यते॥५५॥ अतीति। पदार्थ पदसिद्धर्थम्, एवं वाक्यार्थमिति॥ तासु प्रक्रान्तघटना यथा- 'स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम्। ऋषीक्ज्योतिर्मयान्सप्त सस्मार स्मरशासनः ॥ ७१ ॥' सेयं सप्तर्षीणामागमनस्य प्रक्रान्तस्यैव घटना ।। सेयं सप्तर्षीणामिति। गौरीपरिणयप्रापकतया प्रकरणसंगतसप्तर्पिवृत्तान्तः। अप्रक्रान्तघटना यथा- 'अत्राप्युदाहरन्तीममितिहासं पुरातनम्। निषादस्य च संवादमृषे: संवरणस्य च ।। ७२ ॥' सेयमप्रक्ान्तस्य निषादसंवरणसंवादस्य घटनादप्रक्रान्तघटना ।। इयमप्रक्रान्तस्येति। संवरणनिषादसंवादस्य पूर्वापरप्रकरणानुपयोगेऽपीति- हासरूपेण संगति: ।। अतिकान्तघटना यथा- 'तस्य चक्रुश्मत्कारं व्यतीतसमया अपि। स्मितार्द्रमुकुलोद्वेदाः कदम्बवनराजयः ॥७३॥' इयमतिकान्तस्यापि कदम्बवनराजीनामार्द्रमुकुलोद्वेदस्य विरहिमन- श्रमत्कारकारिणो रामस्य स्मृतिद्वारेण घटनादतिकान्तघटना । इयमतिक्रान्तस्यापीति। कदम्बकुमुमोद्गेदस्य प्रत्यक्षस्यैव विरहिजनता- तह्टदायित्वं संभवतीति कथमतीतस्य तद्धयस्येत्युक्तं 'स्मृतिद्वारेण' इति । संकल्प- वशेन प्रत्यक्षायमाणस्येत्वर्थः । एवमनागतयोजनापि गुणादिना बोद्धव्या । पद्घटना यथा- 'छिन्नेन पतता वहौ यन्मुखेन हठात्कृते। स्ेतिहेति हरेणोक्तेः खाहासीत्सैप रावणः॥। ७४॥'
Page 278
२ परिच्छेद: I] सरखतीकण्ठाभरणम्। १८५
इयं खेतिहेतिवर्णाभ्यां खाहेति पदस्य घटितत्वात्पदघटना।। इयं स्वेति। खाहाकारप्रदानो होमसत्र सयश्छनेन शिरसा प्राणशेषयोगात् पदार्धमात्रे निष्पादिते तदैव भूतकरुणासंतानशान्तात्मना परमेश्वरेण सेदाविष्कार- वाची हाशब्दः प्रयुक्तस्तेनैव निरन्तरमुचरता खाहापदं सिद्धमिति। वाक्यघटना यथा- 'हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हता। विभावितैकदेशेन स्तेयं यदभियुज्यते ॥ ७५॥' इयं पूर्वशास्त्रनिबद्धस्योत्तरार्घस्य तदर्थाननुयायिनापि प्रस्तुतार्थावि- रुद्वेन पूर्वर्धनैकवाक्यतयैव घटितत्वाद्वाक्यघटना।। इयं पूर्वशास्त्रेत्यादि। सुगमम्॥। प्रकीर्णघटना यथा- 'एकिंहिं अच्छिहिं सावणु अण्णहिं भद्दवउ माहउ महिअलसत्थरि गण्डत्थल सरउ। अञ्गहिं गिम्ह सुहच्छिइ तिलवण मग्गसिरु मुद्धिहिं मुहपङ्कअसरि आवासिउ सिसिरु ॥७६॥'
माधवो महीतलस्रस्तरे गण्डस्थले शरत्। अङ्गे श्ीष्मः सुखासिका तिलवने मार्गशीर्ष: मुग्धाया मुखपङ्कजसरसि आवासित: शिशिरः ॥] अत्र श्रवणादीनामयुगपद्धावित्वेन विप्रकीर्णानां घटनादियं प्रकी- णघटना। प्रकीर्णशब्दश्रायं शेषवाची। तेनान्यासामपि प्रकीर्णघटना- नामिहावकाशो भवति, तेन या इमा महाकविप्रबन्धेषु मुख्यगौणी- लक्षणासतद्धावापत्तिरुपचरिता लक्षितलक्षणेति शब्दवृत्तयस्ता अपीह श्रूयन्ते । यत्रादितः षट्स्वाधारवचनेषु मुग्धाया इति संबन्धिपदे च
Page 279
१८६ काव्यमाला।
मुख्या। शेषयोद्धयोराधारवचनयोर्गौणी। श्रावणादिपु चतुर्षु मासवच- नेषु लक्षणा। पट्खपि चाधेयवचनेषु वर्षादिषु लक्षिताभिहितेष्वपि यु- गपदसंभवत्सु श्रुतार्थापत्तिलभ्या तावद्धावापत्तिः। आवासित इति क्रिया- पदं चोपचरिताव्यक्तमेव प्रतीयते। लक्षितलक्षणापि चैताखेव व्याख्या- नत उन्मिषति । तथाह्यावासितशब्द्ोऽयमभिमतप्रदेशनिवेशितमहापरि- च्छदे महाराजादौ निरूढाभिधानशक्तिः । स उपचारेण श्रावणादिपु प्रयुज्यमानस्ेषामपि महत्त्वममिलक्ष्य महापरिच्छदतां महासंभवत्वं च लक्षयन् प्रस्तुताया अपि प्रवृत्तेर्महान्तमनुचन्धं लक्षयति। ते च युगप- छोचनादौ चानुपपद्यमानस्थितयः सशव्दशक्तितसतत्र तन्र च निवेश्य- माना: स्धर्मसंपद: प्रत्यासन्नारयां तद्धर्मसंपदमुपलक्षयन्ति। असावसौ विरहवत्या अपि वियोगवेदनातिशयं लक्षयन्ती कमितरि सेहातिशयं लक्षयति। तत्र श्रावणो भाद्रपद इत्येताभ्यामवयवाभ्यां वर्पर्तुलेक्ष्यते। स च लोचनयोरनुपपद्यमानस्थितिरपि विभक्तिश्रुत्या निवेशितः पयःपृ- पत्मवाहलक्षणायाः सधर्मसंपद: प्रत्यासन्नामविच्छिन्नाश्रुसंपदमुपलक्षय- न्समागमोत्काया उत्कण्ठातिशयं लक्षयति। माधव इत्युत्तरावयवेन व- सन्तो लक्ष्यते। सोऽपि महीतलस्त्रस्तरेऽनुपपद्यमानस्थितिः प्राग्वदेव शब्दशत्तया निवेशितः कुसुमकिसलयमृणालकमलिनीदलादिकायाः स्धर्मसंपद: समासन्नां शिशिरोपकरणसामग्रीमुपलक्षयन्कामवत्याः शरी- रान्तस्तापं लक्षयति। शरदित्यनेन ऋतुविशेषोडभिधीयते। सा गण्ड- योरनुपपद्यमानस्थितिः प्रशंसावचनस्वापि स्थलशब्दस्यानुस्मरणशत्तया
धर्मसंपद: समासन्नं गण्डयो: पाण्डुभावं लक्षयन्मृगेक्षणाया विरह- कार्श्यमुपलक्षयति। श्रीष्म इत्यनेनापि ऋतुविशेष एवोच्यते। सोडप्यक्-
Page 280
२ परिच्छेदः I] सरस्वतीकण्ठाभरणम्। १८७
नाके5नुपपद्यमान: सूर्याशुकार्कश्यप्रतप्षपांसुतापपरुपोष्मानिलत्वदावाभि- कालुष्यादे: स्वधर्मसंपदः समानानीकभूताभूतपूर्वानङ्जज्वरलिङ्गसंपद- मुपयन्नष्टमीं कामावस्थामुपलक्षयति। मार्गशीर्ष इत्यनेन तु पूर्वावयवेन हेमन्तो लक्ष्यते। तेन च यथा हेमन्ते तिलवनं लूयते तथा तस्याः सुखा- सिका सांग्रतं ल्यत इति लक्षितेनातिशयिनी मनःपीडोपलक्षिता भवति। का पुनः सुखासिका तिलवनयोः समानधर्मता येयं सेहनिर्भरता नाम। अभिसारिकाणां च प्रायेण तिलवनाजिनीखण्डयोरेव बहुमानप्रसिद्धि:। यदित्थमाहु :- 'अत्तन्तहरम णिजं अम्हं गामस्स मण्डणीहूअम्। लुअतिलवाडिसरिच्छं सिसिरेण कअं मिसिणिसण्डम् । ७७॥' [अत्यन्तरमणीयमसाकं गमस मण्डनीभूतम्। लून तिलवाटीसदशं शिशिरेण कृतमब्जिनीखण्डम् ॥I] अत एवायमुत्तरवाक्ये कमलसरःशव्देनाजिनीखण्डमपि निर्दि- शति। तदथा- 'मुद्धिहि मुहपङ्कअसरि आवासिउ सिसिरु'। [मुग्धाया मुखपङ्कजसरसि आवासितः शिशिरः ॥] तत्र शिशिर इत्यनेन ऋतुविशेषेण मुग्घामुखेSपि पद्मसरसीव शब्दशच्तया निवेशितेन कमलवनोपप्ठवादे: स्वघर्मसंपदो लोकप्रती- तायाः प्रत्यासन्ना मुग्धामुखाम्भोरुहलोचनोत्पलस्मितकुसुमदशनकेसरा- देश्छायापरिम्लानिर्लक्ष्यमाणा विप्रलम्भानुभावप्रकर्षमुपलक्षयति। शि- शिरलक्ष्मीवर्णनप्रस्तावाच्च 'मुखमर्ध शरीरस्य सर्व वा मुखमुच्यते' इति प्रस्थानप्राधान्यलक्षणया सर्वर्तुभ्य: शिशिर एव प्रधानमित्यपि लक्षितं भवति।।
Page 281
१८८ काव्यमाला।
अत्र श्रावणादीनामिति । प्रकीर्ण विकीर्णमनेकत्र प्रतीतमिति यावत्। तद्विविधम्-कालतः, देशतथ। अत्र हि श्रावणादिमासर्तुषङ्गस्य युगपदसंभवत एकत्र विरहिणीशरीरे युगपद्धावो नियद्धः, सगुणवृत्तिव्यपाश्रयेण श्रावणादिपदे प्रतिपाद्यमान: प्रवासविप्रलम्भप्रकर्षमावेदयतीति। एवं देशविकीर्णघटनाप्युदाहार्या। यथा-'अमृतममृतं चन्द्रथन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि। इति न भजते वस्तुप्रायः परस्परसंकर तदियमबल धत्ते भावान्कर्थं सकलात्मकान् II' यस्त्वत्र सिद्धादिभेद: कबिदुपवर्णितः स तथा न चमत्कारकारीति ग्रन्थगौरवभयादुपेक्षितोऽस्माभिः । तत्तदनेकासाधारणरूपाण्यपि प्रकीर्णानि प्रकीर्णपदेन ग्रत्याणि। तेषामनुक्तान्य (?) तया वोपग्रहोऽपि प्रयुज्यत इत्याह-प्रकीर्णशब्दश्चायमिति । व्याख्यानान्तरप्रयोजनमाह-तेनेति। शब्दस्यार्थप्रतिपादनशक्किरभिधा। सा त्रिधा-मुख्या, गौणी, लक्षणा च। तासु मुखमिव प्रथमं यस्यामर्थ: प्रतीयते सा मुख्या, तथाभूतार्धा तद्भावापत्तिथ। तत्रा- वान्तरार्थसंबन्धविषया तथाभूतार्था। यथा-'खात्मेन्दुवहविपवनार्कमहीपयोभिरष्टा- भिरेव तनुभिर्भवता समस्ते। व्याप्ते जगत्यपरमिच्छति योऽत् बकु कोऽन्यो गतत्र- पतया सदशोऽस्ति तेन II' सैवार्थान्तरस्वार्थसंबन्धविषया तद्धावापत्तिः। अतथाभ्- तस्य तथात्वापादनं हि सा। अत एव स्वतोऽन्यतो वा सार्थावच्छिन्नस्य साक्षादभि- धानशकतिरेव मुख्येत्याचार्याः। यथा-'कमला अण्णसणीआ हंसा उद्ाविआण अपि उच्छा। केण वि गामतडाए अब्भे उत्ताणअं वूढम्॥' गुणव्यवहितार्था गौणी। [सा द्विधा] गुणनिमित्ता उपचारनिमित्ता च। तत्र इ्योर्दव्यवचनयोर्यत्र सामानाधि- करण्येन वैयधिकरण्येन वा प्रयोगे विशेषणविशेष्यभावान्यथानुपपत्त्या प्रतीयमाना- भिधीयमानगुणद्वारकसंबन्धो भवति सा गुणनिमित्ता । यथा-'पडिवक्समण्णुपुजे लावण्णकुडे अणङ्गगअकुम्मे । पुरिससअहिअअभरिए कीस खलन्ती थणे बहति ॥' मुख्यया गौण्या वान्यविशेषणस्यान्यत्र प्रयोग उपचरिता सापि गुणयोगमुपजीवन्ती गुणवृत्तिरेव । एतावांस्तु विशेषो यह्ठुणनिमित्तायामभिधेयगुणयोगः, इह तु खाभिधेयविशेष्यगुणयोग इति। यथा-'पराथें यः पीडामनुभवति निर्व्याजमधुरो यदीय: सर्वेषामिह खल विकारोऽप्यभिमतः । न संप्राप्तो वृद्धिं सपदि मृशमक्षे- त्रपतितः किमिक्षोर्दोषो यन्न पुनरगुणाया मरुभुवः ॥' खार्थसंबन्धव्यवहिता १. 'प्रतिपक्षमन्युपुजी लावण्यकुटावनङ्गजकुम्भौ। पुरुषशतहृदयधृतौ किमिति रखलन्ती स्तनी बहसि ॥' [इति च्छाया ।]
Page 282
२ परिच्छेद: ।] सरस्वतीकण्ठाभरणम् । १८९
लक्षणा । तदुक्तम्-'अभिवेयाविनाभूतप्रतीतिर्लक्षणेति या। सेषा विदग्धवक्रो- किजीवितं वृत्तिरिष्यते ॥I' सा द्विधा-शुद्धा, लक्षितलक्षणा च । तत्र साक्षा- त्खार्थसंबन्ध्यविनाभूतविषया शुद्धा। यथा-'यत्तालीदलपाकपाण्डुवदनम्', 'अभिनवकरिदन्तच्छेदपाण्ड: कपोल:' इति। यया पूर्वपूर्वलक्षितमेव लक्ष्यते सा लक्षितलक्षणेति केचित। यथा-'मधु द्विरेफ: कुसुमैकपात्रे', 'भीमो भीमप- राक्रमः' इति। अत्र हि द्विरेफादिना शब्देन लक्षित एव ्रमरप्रभृतिर्लक्ष्यते न तु कुररादिः। अन्ये तु लक्षणाव्यवहिता लक्षणा लक्षितलक्षणेल्याहुः। यथा- 'सुवर्णपुष्पां पृथिवीं चिन्वते पुरुषास्त्रयः । शरथ् कृतविद्यक्ष यथ जानाति सेवितुम् ।I' तद्धावापत्त्यादिविशेषसमभिव्याहारेण मुख्यादिशब्दास्तदितरतथाभूत- त्वागोचरा इति पूर्ववद्याख्येयम् । क पुनः पदैकावृत्तिरित्यत आह-अत्रेति। 'एकहि अच्छिहिं अण्णहिं महिअलसत्थरे गण्डत्थले अन्हि' इत्यादि पडाधार- वचनाः । अत्र यद्यपि गण्डस्थलपदं गौणमेव, तथाप्यनादिप्रयोगयोगितया मुख्य- कल्पमिति पद्ख्वाधारवचनेध्वित्युक्तम्। अग्वादिपदानि च खवार्थविशिष्टान्यपरा- ण्येव प्रयुक्तानीति मुरूयैव वृत्तिः। एवं मुग्धाया इति संबन्धिपदेऽपि। 'मुहृच्छितिलवणे मुहपड्रअसरि' इति द्वावाधारवचनी शेषी । अत्र तिलवनसर :- पदयोः स्रेहनिर्भरत्वसरसत्वलक्षणगुणद्वारकैव सुखासिकामुखपड्टजयोर्वृत्तिः । मुख- पड्चजसरसीत्यत्र यद्यपि पददयं गौणं तथापि पड्चजपदस्य वृत्तिरभिधातुल्येति न कविसंरम्भगोचरस्तेन व्यवहारोऽयुक्तः। 'सावण-भद्वअ-माहव-मग्गसिरु' इति चत्वारो मासवचनाः । ते च खार्थसंबन्धव्यवहितं वर्षाप्रमृतिसमुदायं लक्षयन्तीति वक्ष्यमाणरीत्या वर्षादय: षडाधेयवचनास्ते च विरहवतीशरीरे युगपच्चासंभवदव- स्थितयो जलादिसंपदादिस्खप्रवृत्तिनिमित्ताध्यासेन प्रयुज्यमानास्तद्भावापत्तिरूपां वृत्तिमासादयन्ति। अस्याथ् विवर्तपरिणामाध्यासादयः पदप्रकारा गौरवभिया न दार्शताः । श्रुतार्थानुपपत्तिमूला कल्पना श्रुतार्थापत्तिः। राजादेरासिते आवासित- शब्दो मुख्यवत्त्यैव विशेषणतया रूढः । स खविशेषगुणव्यवहितेऽर्थान्तरे प्रयुक्तो गौणीवृत्तिमनुभवन् वसन्तादेरपि विशेषणतामासादयति। लक्षणाव्यवहिता लक्षणा लक्षितलक्षणा। सा कथमावासितेतिशब्दे संपद्यत इत्यत आह-स उपचारे- गेति। कर्थचित्सारूप्येण धावणादिषु प्रयोगादुपचारस्तमुपजीव्य प्रयुक्तः खार्था- बिनाभूतं महत्त्वादिकं प्रकृतेषु लक्षणया संकामयतीति। आद्या लक्षणा तथवहितां द्वितीयामाह-प्रस्तुताया अपीति। आवासितस्यापि हि यथोक्तविशेषणस्य
Page 283
१९० काव्यमाला।
परदुर्गग्रहणादी महाननुबन्धो दष्टः । स इह प्रस्तुतायां विरहवतीसंतापलक्षणायां प्रपृत्ती लक्ष्यत इत्येकलक्षणाव्यवधानेनेयं लक्षणा। एवं लक्षणाद्वयव्यवधानेनापि भवतीलाह-ते चेति। श्रावणादयः सधर्मसंपदो निरन्तरवर्षणादेः खार्थावि- नाभावेन लक्षितायाः प्रत्यासन्ना सशी तेषां लोचनादीनां धर्मसंपदश्रुप्रभावादि- लक्षणा लक्ष्यत इति द्वितीया लक्षणा । तत्पुरःसरां तृतीयामाह-असावसा- विति। एवं लक्षणात्रयपूर्वापि लक्षणा बोद्धव्येल्याह-कमितरीति । स्रेह- प्रतीत्या तु विभावादिसंवलितया रसो व्यज्यते, न तु लक्ष्यत इत्यन्यत्र विस्तरः । कस्या: पुनः खधमेसंपद: प्रत्यासजा का तद्धर्मसंपदित्यतो विवेचयति-तत्रेति। यदि आवणादिपदेयु समुदायलक्षणा न स्यात्तदा मासानुपक्रम्य ऋतूनामभिधाने प्रक्रममेदो भवेत् ! न भवेच तत्तहतुप्रतीत ऋतुसंपत्प्रतीति: कचिदिति युक्तेव समुदायलक्षणा। एताभ्यामिति । प्रत्येकं न तु पददये लक्षणा संभवति। विभक्तिश्रुत्येति। सप्तमीप्रथमाविभक्तिभ्यामाधाराधेयभावः खशक्या प्रति- पाद्ते तदनुपपत्त्यार्थान्तरलक्षणा प्रादुर्भवति। एवं चैत्रवैशाखसमुदायात्मनो वसन्तस्योत्तरावयवो वशाससद्वाचकेऽपि माधवपदे समुदायलक्षणाद्वारेण लक्षणा भवति। प्रशंसावचनस्यापीति । गर्भीकृतसारूप्या हि ब्याघ्रादय उपमे- य्यवाचिमि: समस्यन्ते। तब सारूप्यं प्रकर्पलक्षणमेवेति प्रशंसापरत्वे स्थितेना- भिवेयमप्रतीत्यसारूप्यं वा रूपान्तरं या प्रत्येतुं न शक्यत इत्यभिधेयप्रतीत्यनु- निष्पादिनी घण्टानुखानसोदरा खधर्मसंपद्यथोका प्रतीयते। खने किल शरदा- काशकुमुमहंसादिका खसंपद्विस्तार्यते। न मुखचन्द्रादिवत्सुखासिकातिलवनयोः सादृश्यप्रतीतिर्न च तदभिधीयमानं किचिदत्रास्तीति पृच्छति-का पुनरिति। मा भूत्तथा प्रसिद्धि: कबेरभिप्रायारूढा तु प्रतीयत इत्युत्तरमाह-येयमिति। न स्नेहो नाम द्योरेक: कथिविदस्ति न चानभिधीयमानमपि सादृश्यं शब्दसामा- न्यमाध्रयत इत्यतः प्रकारान्तरमाह-अभिसारिकाणां चेति। कथमेतदवग- तमित्यत आह-यदित्थमिति । ननु कमलिनीशब्दस्यात्र बहुमानगोचरता प्रतिपादिता, न तु तिलवनस्पे्यत आह-अत एवेति। उपमानोपमेययोई्वयोरपि कामिनीबहुमानगोचरतां वितरन्ती शिशिरेण सांप्रतं तिलवाटिकालवनमपि वर्तत इत्यभिप्रैतीति भाव: । 'मुखमर्ध शरीरस्य' इत्यादिन्यायेन मुखशब्दः प्राधान्यं लक्षयति, ततो मुनपड्टजसरसि शिशिर इति तद्धावापत्या हेमन्तस्यापि ऋतुपु प्रथमतया प्राधान्यमेव द्योतितमिति। तटुक्तम्-'पडिकम्मदूइपेसणमाणरगहणे- मुभासुरपहुऱ्यन्तो । हेमन्तिओ सुहाअइ मलिणमिअड्डो वि कामिणीणयओसो ॥।'
Page 284
२ परिच्छेद: ॥] सरखतीकण्ठाभरणम्। १९१
काकुस्वरपदच्छेदभेदाभिनयकान्तिभिः। पाठो योडर्थविशेषाय पठितिः सेह पड़िधा ॥५६॥ सा काका यथा- 'यदि मे वलभा दूती तदाहमपि वलमा। यदि तस्याः पिया वाचसतन्ममापि प्रिय मिया॥ ७८ ॥' अत्रैकया काका विधिरन्यया निषेधः प्रतीयते॥ काकुस्वरेति। किचिदेकपरतया प्रवृत्तमुच्चारणमर्थान्तरविवक्षया यदन्यधा कियते सा पठितिः । अन्पथाकरणं च काकुप्रसृतिभिः पड्भिरिति। तत्र 'भिन्न- कण्ठध्वनिर्धार: काकुरित्यभिधीयते।' सा द्विधा-विधिकाकुः, निषेधकाकुथ। तयोरनिषेधे परोचारणान्यथाकरणेन विधिपर्यवसायिनी विधिकाकुः। यथा- 'शल्यमपि स्खलदन्तः सोदं शक्येत हालहलदिग्धम्। धीरेन पुनरकारणकुपित- खलालीककटुवचनम् I।' एवं विधिपरोचारणान्यथाकरणेन निषेधव्यज्जिका निषेध- काकुः । तामुदाहरति-यदीति । यदि दूती प्रिया तदाहमपि प्रियेत्यादि ऋजूक्या शठनायकविषया कृत्रिमा प्रीतिः प्रतीयते, काक्का तु तवैव नाहं प्रिये- तीर्प्योरोप: ।। खरेण यथा- सुभ्रस्त्वं कुपितेत्यपास्तमशनं त्यक्त्ा कथा योषितां दूरादेव मयोज्झिताः सुरभयः स्ग्गन्धघूपादयः । रागं रागिणि मुख्च मय्यवनते दष्टे प्रसीदाधुना सत्यं ख्द्विरहाद्धवन्ति दयिते सर्वा ममान्धा दिशः ॥ ७९॥' अत्र दृष्टे इत्यत्र पुतखरकरणात्कुपितकान्ताप्रसादनपरमपीदं वाक्य- मुत्कुपितदृष्टिप्रसादनतां प्रतिपद्यते। खराः शतादय उदात्ताद्यथ। नामीपां वेद इव काव्ये भूयान्प्रयोग इति किचिदुदाहरति-सुध्नस्त्वमिति । चरणतलात्रपतिते मयि दृष्टे सति त्वं प्रसीदेति दीर्घमात्रोच्चारणे कुपितकान्ताप्रसादपरत्वं, यथोकक्रुतकरणे तु दूराहानादी तदनुशासनात्कुपितट ष्टिसंबोधनयुद्धिरुपजायते । अशनादयो हि इयो: साधारणा
Page 285
१९२ काव्यमाला।
एवेति श्रेषोपादानमेवेति। एवं हस्वस्य दीर्घकरणेन दीर्घस्य हस्वकरणेनार्थीन्तर- प्रतीतिरवसेया । यथा-'विश्वामित्रो विश्वानरः' इति ऋषिराजर्षिविशेषो प्रतीयेते तथा युवतीति संबोधनप्रतीतिः । एवमुदात्तादयोऽपि यथादर्शनमुत्प्रेक्षणीयाः ॥ पदच्छेदेन यथा- 'सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्कसुन्दरी। रामा रम्ये वनान्तेऽस्मिन्मया विरहिता त्वया॥ ८० ॥' अत्र मया विरहितेत्येतावति पदच्छेदे पुरूरवसस्त्वयेत्येतावति तु पर्वतस्य वाक्यमेदो भवति ॥ भहाला भगः परिवर्तक: चूर्णमिति चत्वारश्छेदाः । तत्र पूर्वापरवर्णानामन्योन्य- संकलनया स्थितिः शब्कला । यथा-'कान्तारतरुतलासितमृगयुवरचितान्तरा-' इति पठितिः, तदा प्रियासंभोगमणितहर्षितलुब्धकप्रचुरच्छन्नमष्येति प्रतीयते। सेयमन्योन्यं वर्णसंकलनया शङ्गलेत्युच्यते। एकस्य शब्दस्य मध्ये विच्छेदेन द्वैधीकरणमात्रं भङ्गः । तमुदाहरति-सर्वेति । मया विरहितेत्येतावति समुदाये मद्वियोगवती त्वया दृष्टेत्यष्टमकामावस्थाविष्ठस्य पुरूरवसः पर्वतविषयं प्रश्नवाक्यं भवति। यदा तु मयेति विच्छिद पूर्ववाक्यसंबन्धि कियते तदा त्वया विरहिता सती मया दृष्टेति पर्वतस्योत्तरवाक्यं संपद्यते। वर्णान्तरकल्पना परिवर्तः । यथा- 'कलिकामधुगर्हणा' इति। अत्र यथाश्रुतवर्णपरिग्रहे-'कलिकामधुनो गर्हणा निन्दा' इति प्रतीयते, यदा तु 'कलिकामधुग् अर्हणा' इति वर्णान्तरकल्पनया छेद:, तदा पूजैव 'कली कामधेनुः' इति। पिण्डाक्षरविभागश्ूर्णम्। यथा-'पश्य सलिलं पयोधेर्द्रसमुन्मुक्तशुक्तिमीनाङ्कान्तम्' इति। अन्न यथाश्रुते दुःखेन रस- नीयमुद्गान्तशुक्तिकोषं मत्स्याद्वितपर्यन्तमिति प्रतीयते, यदा तु दूरसमुन्मुक्तगुक्ति- मीनाङ्ान्तमिति पिण्डचूर्णनेन च्छेद:, तदात्यन्तहर्षयुक्तेति त्यक्तशोकेति च संबोधनदयं कृष्णस्य प्रतीयते। पदमेदेन यथा- 'येन ध्वस्तमनोभवेन बलिजित्कायः पुराऽस्रीकृतो यो गङ्गां च दघेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामरा: सोऽव्यादिष्टभुजञ्कहारवलयस्त्वां सर्वदोमाधवः ।।८१।।'
Page 286
२ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। १९३
अत्र येन ध्वस्तमनोभवेनेत्यादेर्येन ध्वस्तमनोSभवेनेत्यादेश्च पदमेदा- दुमाघवो माघव इत्यर्थद्वयं प्रतीयते। तयोश्च द्वयोरपि प्राधान्येनोप- पादनादङ्गाभ्भिभावेन प्रकृताप्रकृतरूपतया चानवस्थानात्परस्परमसबन्धे- नायं श्लेषः । पदमेदेन तु पाठे पर्यायतोरऽर्थद्वयप्रतीतेरियं श्लेषोपसर्जना पदभेदपठिति:। येनेति। ध्वस्तमनोभवेन दग्धकामेन बलिजितो नारायणस्य कायः पुरा त्रिपुरदाह्व्यतिकरेऽत्र्रीकृतः शरतां नीतः, गज्नां भागीरथी दधे, अन्धको दैव्यविशेषस्तस्य क्षयो विनाश:, बर्हिपत्रो मयूरवाहन: कार्तिकेयः, शशिमचचन्द्र- कलाडितं शिरो विश्वमोहच्छिदुरस्य हर इति स्तुत्यं च नाम, भुजआ्ञा एव हार- वठयानि यस्य, सर्वदा सर्वकालमिति उमाधवपक्षे। माधवपक्षे तु-येन ध्वस्तं विनाशितमनः शकटम्, अभवेन संसारबन्धरहितेन, बलि जितवान्यः कायः स पूर्व समुद्रमथनावसरेऽमृतगृहयालदैत्यव्यामोहनाय स्त्रीरूपतां नीतः, अर्गं गोवर्ध- नाख्यं गां पृथिवीमेकार्णवमप्रामुदुतवान्। अन्धका यदुविशेषास्तेषां क्षयो निवासः । बर्हिंणो मयूरस्य पत्रं पिच्छं तत्प्रियः 'वर्हिपत्रकृतापीडम्' इति गोपालध्याने गौतमेनाभिघानात्। शशिनं मभातीति किप। शशिमद्राहुस्तस्य शिरोहर इति स्तुत्यं च नाम । भुजग्हा गरुडः स इष्टो यस्य।रवे शब्दब्रह्मणि लयो यस्य सः, तथा सर्वदो यावदभिमतप्रद इति। ननु विभिन्नरूपाणां शब्दानामुचारणे तत्र्रतगा श्लेष एवायं न पठितिरित्यत आह-तयोश्चेति । शेषो हि शिलष्यमाणयोः परस्परसंबन्धे भवति। स च संबन्धो रूपतात्पर्यसंबन्धलक्षणो वा अन्ञात्िभावो वा उपमानोपमेयभावो वा यथाग्रे वक्ष्यते। न चायमेकोऽत्राभिमतः कित्वेकपरमे- वोचारणे पदमेदेनार्थान्तरं गमयतीति पठितिरेवेयम्। एतेन समाध्युक्तिसमा- सोकिभ्यामपि भेद उक्कः । तत्किमुचारणतत्र्रता नास्त्येवेल्यत आह-सेपो- पसर्जनेति। यत्र हि यस् प्राधान्येन विवक्षा तत्र तेन व्यपदेशो युक्तः, अत एव विवक्षान्तरेण श्लेषव्यवहारोऽप्यत्र समर्थनीय एव ।। अभिनयेन यथा- 'एद्दहमे त्तत्थणिआ एद्दहमेत्ेहिं अच्छिवत्तेहिम्। एद्दहमेचावत्था एद्दहमेत्तेहिं दिअहेहिम् । ८२ ॥' १३ स० क०
Page 287
१९४ । काव्यमाला।
[एतावन्मान्रस्तनी एतावन्मात्राम्यामक्षिपत्राम्याम्। एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः ॥] अत्र इयन्मात्रस्तनादीनां तथाभूतहस्ताभिनयैः सह पठनात्तथावि- वार्थविशेषो गम्यते ।। अपदेशोऽप्यभिनयविशेष एव। यथा- 'इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हृति क्षयम्।' इत्यात्मानमपदिश्य त्रूते ।। एद्दहमेत्तेति। अत्र सर्वपदानामर्थान्तरसाधारणतया न तावदभिमतपरि- माणविशेषप्रतीतिरुपजायते, यावदुधारणसहकारिभूत प्रसारितकरद्वयकोषप्रसतिभिद- युलिप्रसारिताकुलीगणनारूपाभिनयप्रतिसंधानं न भवति। तेनाभिनयपठितिरियम्, साक्षादिव वस्तुसरूपबोधिका क्रियाभिमुर्यनयनादभिनय इत्युच्यते। तदिदमाह- तथाभूतेत्यादि। अपदेशोऽपीति । आत्मनिर्देशिका करियापदेशः । अस्या- मिनयविशेषत्वेऽपि कान्तिकरतया पृथगुपादानम्। यावच खरूपसमुचारणविशेषणं नानुसंधीयते न तावच्छ्रीप्राप्तिक्षमयो: कारणविशेषः प्रतीयत इति ॥ कान्त्या यथा- 'यस्यारिजातं नृपतेरपश्यदवलम्बनम्। ययौ निर्झरसंमोगैरपश्यदबलं वनम् ॥ ८३॥ अत्रावलम्बनमवलं वनमिति पदे पददधये वा द्वितीयचतुर्थस्थान- यो्यौ वकारबकारौ तयोरन्तःस्थपवर्गाभ्यां पवर्गान्तःस्थाभ्यां च कान्ति- मति पाठेडर्थमेदो जायते।। यस्यारिजातमिति । कान्तिश्छाया सा अप्रतिहतरूपा पद्वद्वर्णेयु न सभ- वतीति श्रुतिरूपा गृहाते। तथाहि। अवलम्बनमित्यत्र द्वितीयचतुर्थस्थानस्थयो- वकारवकारयोः क्रमेणान्तःस्थपवर्गभावानुसंधानेऽवलम्बनमित्येकपदतायां त्राणहे- तुमपश्यदित्यर्थ: प्रतीयते। यदा तु द्वितीयेऽबलं वनमित्यत्र तयोरेव पवर्गान्त :- स्थभावानुसंधानं भवति तदा बलं वनमिति च्छेदेन पदद्यसंपत्ती बलरहितं सद्धनमरण्यं ययावित्यर्थान्तरप्रतीतिरुपज़ायते। तदिदमुक्तम्-पदे पददये
Page 288
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। १९५
वेति। अपश्यत् शयनभोजनशून्यम्। शयनं शीः, अदनं अत्, निर्झरसंभोगै: निर्झरजलमात्रोपभोगैरप्यपगतं अत एव बलरहितम्। अत्र व यमकेन संसृष्टिरस्य बोदव्या। आवृत्तिमादाय यमकमन्यथा भविष्यति॥। अपरे पुनः पठितिमन्यथा कथयन्ति- पदपादार्घभाषाणामन्यथाकरणेन यः । पाठः पूर्वोक्तसूक्तस्य पठिति तां प्रचक्षते ॥ ५७॥ अपरे पुनरिति । अन्यथेत्यतः परमपि शब्दोऽध्याहार्यः । पादाद्यन्यथा- करणेनापि हि प्रकृतमुचारणमेव विशिष्यते । यदाह-पूर्वोक्तस्क्तस्येति। अत एव श्ोकान्यथाकरणेन पठितिर्न संभवति। तेन प्रागुक्मेदैः सह द्वादश- प्रकारा पठितिरिति तात्पर्यम् । यद्यपि च पादाद्यन्यथाकरणमपि पदमेदप्रकार एव तथापि न तत्र पूर्वोक्तत्यागः, इह तु तत्परित्यागेन पदान्तरकल्पनमिल्येतावान्विशेषः॥ तत्र पदान्यथाकरणं द्विधा-प्रकृतितः, विभक्तितश्र। तन्र प्रकृतितो यथा- 'असकलहसितत्वात्क्षालितानीव कान्त्या मुकुलितनयन त्वाज्ज्ञातकर्णोत्पलानि। पिबतु मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः॥८४॥' अत्र त्वयीत्यस्य स्थाने मयीति यदा पठ्यते, तदैतत्मार्थनावाक्य- मप्यनुमतिवाक्यं भवति।। विभक्तितो यथा- 'सहभृत्यगणं सवान्धवं सहमित्रं ससुतं सहानुजम्। खबलेन निहन्ति संयुगे नचिरात्पाण्डसुतः सुयोघनम्॥ ८५॥ अत्र यदा पाण्डुसुतः सुयोघनमित्यस्य स्थाने 'पाण्डुसुतं सुयोघनम्' इति पठ्यते, तदैतदमकलार्थमपि सुयोधने मजलार्थ भवति।। तत्र पदं विभत्त्यन्तं विशेषणविशेष्यमेदेन द्विधा करियते इत्याह-पदान्य- थाकरणं द्विधेति।।
Page 289
१९६ काव्यमाला।
पादान्यथाकरणेन यथा- 'एकान्ते विजने रात्रावन्तर्वेश्मनि साहसे। न्यासापहवने चैव दिव्या संभवति किया ॥ ८६ ॥' अन्र तृतीयपादस्थाने 'तन्वज्गी यदि लभ्येत' इति पाठो भवति, तदैतत्परीक्षौपयिकमपि कामौपयिकं भवति॥ एकान्त इति । साहसे प्रच्छनाभिसारलक्षणे प्रकाशात्प्रच्छन्तो गरीयानिति न्यायात्। दिव्या खवभोगसोदरा क्रियावहक्षणा॥। अर्धान्यथाकरणेन यथा- 'तत्ताबदेव शशिन: स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदेति। अभ्युद्यते सकलधामनिधौ तु तस्ि- न्निन्दोः सिताम्रशकलस्य च को विशेषः ।। ८७।।' अत्र यदा मध्यमपादयोः खथाने 'यावन्र ताः किमपि गौरितरा हसन्ति । ताभि: पुनर्विहसिताननपङ्कजाभिः' इति पट्यते, तदैतद्वीरा- र्ोक्तिरूपमपि शृक्गारोक्तिरूपं संपद्यते॥ गौरितरेति। 'धरूप-'इत्यादिना पूर्वपदहखः ॥ पादत्रयस्य चान्यथाकरणेन यथा- 'त्यागेन युक्ता दिवमुत्पतन्ति त्यागेन हीना नरकं व्रजन्ति। न त्यागिनां दुष्करमस्ति किंचित्त्यागो हि सर्वव्यसनानि हन्ति ॥८८॥' अत्र तुरीयपादमेवोपादाय पादत्रयस्य चान्यथाकरणेन वक्ष्यमाणः पाठो भवति। तदैतत्त्यागप्रशंसार्थमपि त्यागनिन्दार्थ जायते। यथा- 'त्यागो हि सर्वव्यसनानि हन्तीत्यलीकमेतङ्गुवि संप्रतीदम्। जातानि सर्वव्यसनानि तस्यास्त्यागेन मे मुग्धविलोचनायाः ।।८९।।' एतेषां च पदायन्यथाकरणानां परस्परसंकरोऽपि भवतीत्यावेदयति।।
Page 290
२ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। १९७
भाषान्यथाकरणेन यथा- 'कि तादेण नरेन्दसेहरसिहालीढग्गपादेण मे किं वा मे ससुरेण वासवसहासीहासणद्धासिणा। ते देसा गिरिणो अ ते वणमही स जेअ मे वलहा कोसल्लातणअस्स जत्थ चलने वन्दामि णन्दामि अ।।९०।।' अत्र यदि भाषान्तरेण पठ्यते तदैतच्छौरसेनीभाषया सीतावाक्यं संस्कृतभाषायां सुमश्रेण दशरथाय निवेदितम्। तद्यथा- 'किं तातेन नरेन्द्रशेखरशिखालीढाग्रपादेन मे कि वा मे श्वशुरेण वासवसभासिंहासनाध्यासिना। ते देशा गिरयश्र ते वनमही सा चैव मे वलमा कौसल्यातनयस्य यत्र चरणौ वन्दामि नन्दामि च।।९१।।' सेयमेवंप्रकारा पठिति: ।। भाषामेदेन कथ स्त्रीपुंसवचनता गम्यत इत्यत आह-तदैतच्छौरसेनीति। विभागन्यूनतामाशक्ष यथोक्तप्रकारेण समाधानमभिसंधायाह-सेयमेवंप्रकारा पठितिरिति॥ विभिन्नार्थैकरूपाया या वृत्तिर्वर्णसंहतेः । अव्यपेतव्यपेतात्मा यमकं तन्निगद्यते ।। ५८ ।। अथावृत्त्युपजीविनोऽलंकारा लक्षयितव्याः । तेषां समग्रकाव्यपर्यन्तावृत्तिसमा- श्रयणाद्यमकं प्रधानमित्याशयेनाह-विभिन्नेति । विभिन्नार्थेत्यर्थामेदव्यतिरेक- परम्। तेन द्योरेकस्य वा निरर्थकतवेऽपि यमकमुपगहीतं भवति। एवमपि 'सरो रसः' इत्यादावतिप्रसन्न इत्यत उक्तम्-एकरूपेति। रूपमानुपूर्वी, विभिन्नार्था चासावेकरूपा चेति विग्रहः । विविधधवेत्यादावेकवर्णावृत्तावप्यावृत्तिसमुदाय एव यमकक्ममुक्किखतीत्यभिसंधाय संहतेरित्युक्तम् । विभिन्नार्थैकरूपाया वर्णसंहतेर्या आवृत्ति: सा यमकमिति व्यवहितेनान्वयः ।। आवृत्तिद्विधा-अनावृत्ता व्यवहिताव्यवहिता चेति।
Page 291
१९८ काव्यमाला।
तदव्यपेतयमकं व्यपेतयमकं तथा। स्थानास्थानविभागाभ्यां पादभेदाच मिद्यते॥ ५९॥ यत्र पादादिमध्यान्ता: स्थानं तेषूपकल्प्यते। यदव्यपेतमन्यद्वा तत्सानयमकं विदुः ॥ ६० ॥ सामान्यतो विभजते-अव्यपेतेति । व्यवायो व्यवधानम्। तदेतदुभयमपि स्थानादिमेदेन त्रिधा भवतीति पूर्वोक्ानुवादपूर्वकमवान्तरविभागमाह-तदिति। पाद आदिमध्यान्ता अर्थादेतेषु विशेषतोऽनुलिखनादस्थानयमकमुक्तं भवति। एत- दपि द्विया।। चतुस्त्व्येकपादेषु यमकानां विकल्पनाः । आदिमध्यान्तमध्यान्तमध्याद्यन्ताथ् सर्वतः ॥ ६१॥ चतुरादिपादविकल्पेन विषयतो भिद्यत इत्याह-चतुस्त्रीति। आदिश्व मध्यथान्तक्वेति आदिमध्यान्तास्त्रयः शुद्धाः । मध्यान्तौ मध्यादी आद्यन्ती आदि- मध्यान्ताव्वेति मिलित्वा चत्वार: संकीर्णाः । सर्वत इति सार्वविभक्तिकस्तसिः ॥ अत्यन्तवहवस्तेषां भेदा: संभेदयोनयः । सुकरा दुष्करावैव दर्श्यन्ते तत्र केचन ॥ ६२ ॥ एवं पादविकल्पानामाद्यादिविकल्पानां च परस्परयोजनेऽन्येऽपि बहवः प्रकारा अ्रन्थगौरवकारिणो भवन्तीत्याह-अत्यन्तेति । न च कठोरनीरसत्वादवश्य- वक्तव्या इत्याह-दुष्करा इति । शिष्यव्युत्पत्तये तु कतिपये दर्शनीया इत्याह- तत्र केचनेति॥ तत्र चतुष्पादयमकेषु अव्यपेतमादियमकं यथा- 'राजीवराजीवशलोलभृङ्गं मुष्णन्तमुष्णं ततिभिस्तरूणाम्। कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षोमितमुद्धहन्तम् ।। ९२।।' राजीवराजी पद्मपछ्किस्तदूशा लोला: सस्पृहा मृत्ञायत्र तम्। यतस्ततिभिस्तरूणां पङ्चिभिरणणं धर्म मुष्णन्तमपहरन्तम्। कान्तो मनोशञोऽलकान्तथूर्णकुन्तलच्छटा यासां ताः 1 यस्माद्रक्षोभी राक्षसैरक्षोभितमघर्षितम्। अत्र प्रथमे पादे पूर्व सार्थकम- परमनर्थकम्। द्वितीयादिषु द्यमप्यनर्थकम्। एवमन्यत्रापि यथायथमवगन्तव्यम्।।
Page 292
२ परिच्छेद: ।] सरखतीकण्ठाभरणम्। १९९
तदेव मध्ययमकं यथा- 'दघतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः। विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः॥९३॥' आकरिभिः प्रशस्ताकरयुक्तः करिभिः परिणतिकीडासकैः। विविधेभ्यःकामे्यो हिताः । महितं पूजितम्। जवना वेगवतीः। तदेवमन्त्ययमकं यथा- 'व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूजघनैर्घनैः । फणवताम मितो विततं ततं दयितरम्यलताबकुलै: कुलैः॥९४॥ अनीरशनैर्न निर्गता दूरीभूता रशना: श्ुद्र घण्टिका येभ्यसतैः काबीगुणयुक्तैः । तेन स्थपुटकर्कशरत्नादिरचनया सिन्धुव्यथापोषः । शनैर्मन्दम् । धनैमासळैः । अभितो बिततं सर्वतो विस्तीर्णम्। फणवतां कुलैस्ततं व्यापम्। लवज् बकुलमालतीसुरभि- शीतळतया फणमृष्प्रियत्वम् ।। आदिमध्ययमकं यथा -- 'धनाघनाभस्य महीमहीयसः सुरासुराणां दयितस्व तस्य सा। धराघराकारगृहा गृहार्थिनो बभूव भूमेर्नगरी गरीयसी।।९५।।' घनाघनो मेघस्तदाभ: श्यामः । मही पृथिवी तस्यां महीयान् पूज्यः । धराधरः पर्वतस्तदाकारगहाः॥ आद्यन्तयमकं यथा- 'दुतं द्रुतं वदिसमागतं गतं महीमहीनद्युतिरोचितं चितम् । समं समन्तादपगोपुरं पुरं परैः परैरप्यनिराकृतं कृतम् ॥ ९६॥' वहिसमागतं सद् इतं विलीनमत एव हतं शीघरं महीं गतं पृथिव्यां विस्तीर्य पतितमहीनया घुत्या रोचितं शोभितम्। चितं निबिडेन संनिवेशेन स्थापितम्। समन्तात्सर्वतः समं सलक्ष्मीकमस्थपुटं वा। परैः शत्रुमि: परैः अेष्ठैरनिराकृतं मदासीत्तदेव वहिना हेममयं पुरमपगोपुरमपगतद्वारं महीं गतं च कृतमिति संबन्ध: ॥।
Page 293
२०० 1 काव्यमाला।
मध्यान्तयमकं यथा- 'उदयि ते दयिते जघनं घनं स्तनवती नवतीर्थतनुस्तनुः। सुमनसामनसा सदशौ दशौ द्युकुरुमे कुरु मेऽभिमुखं मुखम्।।९७।।' उदय उद्धवो विस्तारवत्त्वरूपसतदयुक्तमुदयि। घनं मांसलम्। नवेन तीथॅन रजसा तनूकृता। 'स्त्रीरजःशास्त्रयोस्तीर्थम्'। सुमनसां कुसुमानामन: शकट तेन सदशौ। 'सुमनसा मनसाम्' इति पाठे सुमनसः सहृदयाखन्मनसां सदशौ संवा- दिन्यौ। यौक कुश दुकू द्यावापृथिव्यी तयोरुमा लवणाकरो लावण्यविश्रान्ति- स्थानत्वात्।। आदिमध्यान्तयमकं यथा- 'सीमासी मानभूमि: फणिबलवलनोद्धाविराजीविराजी हारी हारीतवद्धिः परिसरसरणावस्तमालैस्तमालैः । देवादेवाप्तरक्ष:कृतभव भवतोडगे न दीनो नदीनो मुक्तामुक्ताच्छरत्नः सितरुचिरुचिरोल्लासमुद्रः समुद्रः॥९८॥' सीमा मर्यादा तस्यामासनशीलः। मानं परिमाणातिशयः मानः पूजा वा, तद्भूमिः। फणिबलं भुजव्समुदायस्तस्य यद्ूलनं तेनोद्धाविनी या राजी रेखा तया विरा- जनशीलः । हारीताः पक्षिविशेषास्तयुक्तैः। परिसरसरणिस्तीरमार्गस्तत्रास्तमालै: क्षिप्तमालासनिवेशैः । खण्डरूपतामापननैरिति यावत्। ईदृशैखमालै: हारी मनोहर इति संबन्धः । देवादेवाः देवासुरास्तैरमृतल्यमेनान्तरवस्थानेन चाप्ता रक्षा यस्मात्स तथा कृतभवः संपादितोद्द्वः । नदीनामिन: खामी समुद्रो भवतोऽये न दीन: ? काक्ा दीन एव। मुक्ताभिरमुक्तान्यच्छानि रन्नानि यत्र स तथा। सितरुचिक्च- न्दसेन रुचिरा मनोहरा उल्ासमुद्रा वृद्धिकाष्ठा यस्य । तदेतेषामुदाहरणानां चतुर्ष्वपि पादेषु यथोकं यमकमस्तीति चतुष्पादयमकप्रपसोऽयम्।। त्रिपाद्यमकेष्वव्यपेतमादियमकं यथा- 'विशदा विशदामत्तसारसे सारसे जले। कुरुते कुरुते नेयं हंसी मामन्तकामिषम् ॥ ९९ ॥' नास्य चतुरः प्रयोग इति शेषमेदा नोदाहियन्ते॥
Page 294
२ परिच्छेद: ।] सरखतीकण्ठाभरणम्। २०२
एवं त्रिपादयमकप्रपखोऽपि भवतीत्याह-त्रिपादयमकेप्विति। विशदा धवला। विशन्त आमत्ताः सारसा यत्र तस्मिन्। सारस सरःसंबन्धि। मन्म- थोन्माथदायितया कुत्सितं रतं कुरुतम् । मध्यान्तादीनि त्रिपादयमकानि किमिति नोदाहतानीत्यत आह-नास्येति॥ द्विपादयमकेष्वव्यपेतमादियमकं यथा- 'करोति सहकारस्य कलिकोत्कलिकोत्तरम्। मन्मनो मन्मनोऽप्येष मत्तकोकिलनिःखनः ॥। १०० ॥' उत्कलिका उत्कण्ठा तदुत्तरं तटं कूलम्। मन्मनोऽव्यक्तमधुरः । मन्मनो मदीय मनः ॥ तदेव मध्ययमकं यथा- 'तुलयति सम विलोचनतारकाः कुरबकस्तवकव्यतिषङ्गिणि। गुणवदाश्रयलब्धगुणोदये मलिनिमालिनि माधवयोषिताम् ॥१०१।' अलिनि यो मलिनिमा कज्लाभत्वं स माधवयोषितां यादवत्त्रीणां विलोचन- तारकास्तुल्यति स्मेति संबन्ध: ॥ अन्तयमकं यथा- 'खण्डिताशंसया तेषां पराचमुखतया तया। आविवेश कृपा केतूकृतोचैर्वानरं नरम् ॥ १०२॥' एवमादिमध्यान्यपि द्रष्टव्यानि । एकपादयमकेष्वव्यपेतमाद्यन्तयो- रनुल्लेखीति नोदाहियते।। सण्डितेति । केतूकृतो ध्वजतां नीतः । उच्चैर्वानरो हनूमान्। नरोऽर्जुनः ॥ आद्यन्तयोरनुल्लेख्रीति। महाकविप्रयोगेणु विशेषशोभाकरतया प्रसिद्वेरभावो- उनुलेसो न त्वसंभव एव। एवं मध्ययमकं त्वित्यादौ बोदव्यम् ।। मध्ययमकं तु चतुर्थपाद एवोलिखति। यथा- 'विलुलितालकसंहृतिरामृशन्मृगद्दशां श्रमवारि ललाटजम्। तनुतरज्ततीः सरसां दलत्कुवलयं वलयं मरुदाववौ॥ १०३॥
Page 295
२०२ काव्यमाला।
आमर्शनं प्रोळ्छनम्। दलत्कुवलयमिति करियाविशेषणम्। तर्ाणामितस्ततो
'वियद्वियद्व ष्टिपरंपरं परं धनाघनाली रसितासिता सिता। सरःसरस्य: खरसारसारसा सभा सभा रात्रिरतारतारता ।१०४।।' आवृत्ति: सकृदावर्तनेनैव निर्वहति तत्किमसकदावतौ यमकं न भवतील्यत आह-एवमिति। आवृत्तिसामान्यमधिकमनधिकं वा द्वयमप्यावृत्तिपदेनाभि- मतमित्यर्थः । वियदाकाशम् । वियती अपगच्छन्ती वृष्टिपरंपरा यस्मात्ततथा। परमुत्कृष्टरमणीयम्। घनाघनाली मेधपङ्गिः । रसिते स्तनिते आसितावलम्बिता। सिता शुभ्रा। सरांसि च सरसक्ष सरःसरस्यः। खरसारास्तत्कालोन्मिषितकूजित कान्तिप्रधाना: सारसाः पक्षिणो यत्र तास्तथाभूताः । सभा गृहरूपा जलसमुदायो वा । सभा: सदीप्तिः । ताराणां तारता निर्मलताप्रकर्ष: किचिद्धनरोधसद्धावादीष- तारता यस्यां सा तथा।। आवृत्त्येकरूपतायामपि। तत्रादियमकं यथा- 'याम यामत्रयाधीनायामया मरणं निशा। यामयाम धियास्वर्त्याया मया मथितैव सा ॥। १०५ ।' आवृत्तीति। यज्चातीयमाद्यपादे पदमावृतं तज्जातीयमेव द्वितीयादिपादेष्वपि य्यथास्थानमाव्तत इति प्रकारान्तरमप्याृत्तिपदेनैव संगृहीतमित्यर्थः । यामत्रयाधी- नायामया प्रहरत्रयविश्रान्तियावद्दीर्घताप्रकारया निशा रात्र्या मरणं यामेति वियोग- खित्रस्य प्रार्थना। किमित्येवममालमाशास्यत इत्याह-यामिति। धिया बुद्धा यामयां जीवितसर्वखाभिमानगोचरतामनैषं सा अनया कल्पकोटिशतायमानयामया रजन्या असूनां प्राणानामार्तिः पीडा तया द्वारभूतया प्रायेण मथितैव भविष्यतीति मुकुमारतरकान्ताजीवितान्यवसायोफिरियम्। अत्र यामेतयेव पदं पादचतुष्टयेऽ- प्यावृत्तम् । एवमुत्तरत्र ।I तथैव मध्ययमकं यथा- 'स्विरायते यतेन्द्रियो न हीयते यतेर्भवान्। अमायतेयतेऽप्य मूत्सुखाय तेडयते क्षयम् ॥ १०६॥' . 'नमायते! क.
Page 296
२ परिच्छेद: I] सरस्तीकण्ठाभरणम्। २०३
आयतिरुत्तरकालविशुदिः । यतेन्द्रियो विजितेन्द्रियग्रामः । एवंभूतो भवान्यतेर्न हीयते। यतितुल्य एव भवतीत्यर्थः । अपिशब्दो भिन्नक्रमः । अमायता माया- शून्यत्वं सापि तव इयते परिच्छेत्तुमशक्याय क्षयं विनाशमयतेऽग्छते सुखाया- भूत् ।। तदेवान्तयमकं यथा- 'भवादृशा नाथ न जानते नते रसं विरुद्धे खलु सन्नतेनते। य एव दीना: शिरसा नतेन ते चरन्त्यलं दैन्यरसेन तेन ते ॥१०७॥' तदेतत्सर्वमप्यवहितावृत्तेरव्यपेतयमकं भवति ॥। नते: कुपितकामिनीप्रसादरूपाया रसो विप्रलम्भपृष्ठभावी मधुरतरः संभोग: किमिति तादशा रस न जानते । यस्मात् सन्नता अवसादयोगित्वमिनता प्रभुता, एते दे विरुद्धे नैकत्र संभवतः । नहि प्रभवो नमन्ति। एतदेव व्यतिरेकेण द्रदयति-य एवेति। ये दीनास्त एव नतेन शिरसा लक्षितास्तेन हेतुना दैन्य- रसेनालमत्यन्तं चरन्ति व्यवहरन्तीति । अव्यपेतपदार्थ व्याचष्टे-तदेत- न्सर्चमिति॥ अथ चतुर्षु पादेषु व्यपेतमादियमकं यथा- 'काश्चिप्रतोलीमनु कामिनी तां काश्वित्तवन्तीवनमातरिश्वा। काश्चिप्रभृत्याभरणोज्झितानां कांचिलुनीते सुरतश्रमार्तिम् ।।१०८।' क्मप्राप्तं व्यपेतमुदाहर्तव्यमिल्याह-अथेति । काशिर्नगरी तस्याः प्रतोली राजरथ्या तामनु लक्षीकृत्य । फेन पानीयेनावनशीला या स्रवन्ती नदी तद्ूनमा- सरिश्वा वायुः। काशिप्रभृतीनि मेखलाप्रमुखानि । कांचित्सर्वाग्वीणालसभावसमर्पि- कामत एव मेखलाप्रभृतिभूषणत्यागः । अत्र प्रतिपादं कानीकाबीत्यादि नैरन्त- र्येणावर्तनेन व्यपेतम्, सान्तरत्वेन पुनरादिमध्ययमकमेव स्यादिति पादमेदेनैवास्य संभव: II तदेव मध्ययमकं यथा- 'मदनदारुण उत्थित उच्छिखो मधुमदारुणहूणमुखच्छविः । TE
तरुणिदारुण एष दिश: समं मम हृदारुणदाम्रवणानलः।।१०९।'
Page 297
२०४ काव्यमाला।
मदन एव दारु काछ तत उत्थितः । शिखा मजरीच्छटा ज्वाला च। खभा- -वताम्रमेव मधुमदेन यद्विगुणमरुणं हूणमुखं तच्छविर्दारुणों भयंकरो मम हृदा समं दिशोऽरुणदुद्धवान्। आम्रवणमेव तापकारितयानलो वहिः । अत्र यद्पि प्रतिपादमपि व्यवायेन मध्ययमकं संभवति, तथापि न तथोलेखीति पूर्वापर- सदशमेवोदाहतम् ॥ अन्तयमकं यथा- १ 'तब प्रिया सच्चरिताप्रमत्त या विभूषणं धार्यमिहांशुमत्तया। रतोत्सवामोदविशेषमच्तया न मे फलं किंचन कान्तिमत्तया।।११०। सचचरिताप्रमत्तेति। सोत्राप्तं संबोधनद्वयम् । या तव प्रिया रतोत्सवा- मोदविशेषेण रतिकेलिहर्षप्रकर्षेण मत्ता तयेदमंशुमन्मणिकिरणकरम्बितं विभूषणं धार्यम्। अर्हे कृत्यः । त्वया किमिति न धार्यमित्यत आह-न मे भूषणसंपाधया कान्त्या किंचन फलम्। 'कामिनां मण्डनश्रीर्वजति हि सफलत्वं वहभालोकनेन' इति न्यायात् ।। आदिमध्ययमकं यथा- 'घनगिरीन्द्रविलङ्घनशालिना वनगता वनजद्युतिलोचना। जनमता ददशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी ॥१११।' अत्रापि सान्तरनिरन्तरप्रस पादमेद एव संकरः । संकीर्णव्य पेतानि तु प्रतिपादमेव संभवन्तीत्युदाहरति-आदिमध्येति। घना गिरीन्द्रा माल्य- वन्तमारभ्य सुवेलं यावद्विरिपरम्परा । बन्जं पद्मम्। जनानां मता समता। तरुमृग: शाखामृगो हनूमान् । अत्र धनेत्यादिशन्दभाग: पाद्चतुष्टयेऽपि गिरी- न्देतयायनावृत्तव्यवहित एवादिमध्ययोरावर्तत इति। आद्यन्तयमकं यथा- 'विहगा: कदम्बसुरभाविह गाः कलयन्त्यनुक्षणमनेकलयम्। अमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥ ११२ ॥' गाः कूजितानि कदम्बसौरभानीतवषंर्तुपयोदाः कलयन्ति कलरूपतां नयन्ति। कूजितक्रियान्तरालकालो उतमध्यविलम्बितात्मानेको लयः।अत्रं मेघः। नीपः
Page 298
२ परिच्छेद: I] सरस्तीकण्ठाभरणम्। २०५
कदम्बः । कदम्यवनधूननेन सर्वतः सौरभर्संचारोपपत्तिः । अत्र विहृगा इत्यादिकं
मध्यान्तयमकं यथा- 'मितमवददुदारं तां हनूमान्मुदारं रघुवृषभसकाशं देवि यामि प्रकाशम्। तब विदितविषादो दृष्टकृत्सामिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम् ॥ ११३ ॥' मितमल्पाक्षरमरमत्यर्थमुदारमल्पाक्षरव्यञ्जकं मुदा हर्षेण रघु्ृपमो रामस्तस्य सकाशो वासभूमिस्तया पुरस्कृतः । आमिषादा राक्षसाः । अत्र दारमित्यादि प्रति-
आदिमध्यान्तयमकं यथा- 'समं स सैन्येन समन्ततः समं पुरंदरश्रीः पुरमुच्चगोपुरम्। मदालसां तां प्रमदां सुसंमदां ययौ निधायाक्षययौवना ययौ ॥११४॥' समं सह। समं सथरीकम् । संमदो हर्षः । ययुरश्वमेधीयोऽः। अत्र प्रतिपादं सममित्यादिकमादिमध्यान्तेषु यथोक्ानावृत्तवर्णव्यवहितमावर्तन्ते॥ त्रिपादयमकेषु व्यपेतमादियमकं यथा- 'करेण ते रणेप्वन्तकरेण द्विषतां हताः । करेणवः क्षरद्रक्ता भान्ति संध्याघना इव । ११५ ।।' अस्यापि नातिप्रचुरः प्रयोग इति विशेषमेदा नोदाहियन्ते ॥ द्विषतां शत्रूणामन्तकरेण विनाशकारिणा। करेण हसतेन। करेणवो हस्तिनः । एवं द्वितीयादिपादगोचर मध्यादियमकं च किमिति नोदाहियत इत्यत आह- अस्यापीति॥ द्विपादयमकेषु व्यपेतमादियमकं यथा- 'मुदा रमणमन्वीतमुदारमणिभूषणाः । मदभ्रमद्ृशः कर्तुमद्भ्रजघनाः क्षमाः ॥११६॥' १. 'चछान्त' स.
Page 299
२०६ 1 काव्यमाला ।
मध्ययमकं पुनरनुल्लेखीति परिहियते। रमणं वल्भं मुदा हर्षेणान्वीतं संगतं कर्तु क्षमा इत्यन्वयः। उदारमुत्कृष्टम्। मदेन त्रमन्ती इ्यामान्ता। अदत्रं विपुलम्। अत्र यद्यपि चतुर्षु पादेषु यम- कमस्ति, तथापि द्वयोईयोरेवावृत्ति: पर्यवस्यतीत्युदाहरणद्यमिदं द्रष्टव्यम्। एवं प्रथमतृतीययोः प्रथमचतुर्थयोर्द्वितीयतृतीययोर्द्वितीयचतुर्थयोश्च व्यपेतमादियम- कमवसेयम्। अनुलेखो व्याख्यात एव ।। अन्तयमकं यथा 'इह मुहुर्मुदितैः कलमै रवः प्रतिदिशं क्रियते कलमैरवः। स्फुरति चानुवनं चमरीचयः कनकरलभवां च मरीचयः ॥११७॥' कलभा: करिशावकाः । रवः शब्दः । कलो मधुराव्यक्तः। मैरवो भयंकरः । अनुवनमिति वीप्सायामव्ययीभावः । चमरी चमरगवी। चयः समूहः । मरीचय: किरणाः अत्रापि पूर्ववदेव द्विपादयमक व्याख्येयमिति ॥ एकपादयमकमिह शुद्ध न संभवति, तस्य सथाने द्विपादयमकमेवो- दाहियते। तदादियमक यथा- 'मधुरेणदृशां मानं मधुरेण सुगन्धिना। सहकारोद्गमेनैव शब्दशेषं करिष्यति ॥ ११८ ।।' इहापि मध्ययमकमनुल्लेखीति परिडियते। एकपाद्यमकमिति। नरन्तर्येणावृत्तावव्यपेतत्वम्। सान्तरत्वे त्वादिमध्या- दिभावप्रसन्न इति शुद्ध न भवति तत्किमनुदाहरणीयमेवैतदित आह-तस्पेति। आवृत्तिरेकत्रेव संभवतीत्येकपादगोचरता। सा तु प्रतियोगितया द्वितीयमपेक्षत इति पादान्तरखीकार इति कथचित्प्रकृतिगणनासमाधानमेतत्। मधुेत्रः । अनेन पूर्वावयवेन वसन्तो लक्ष्यते। एणटशां हरिणलोचनानाम्। मधुरेण मधुराखादेन। सहकारोद्रमेनेवेतयेवकारेणासतामतीव तावद्विरूयातप्रभावातिशयाः पिकपन्नमादयः । सहकारप्रथमोद्भेदमात्रेणैव तु मानिनीमानप्रहवार्ता निरवशेषितेत्युद्दीपनताप्रकर्षो ध्वन्यते।।
Page 300
२ परिच्छेद: 1] सरस्वती कण्ठाभरणम्। २०७:
अन्तयमकं यथा- 'यस्याहुरतिगम्भीरगलदप्रतिमङ्गलम् । स वः करोतु निःसङ्रमुदयं प्रति मजलम् ॥ ११९ ॥' गम्भीरो मांसलः । गलः कण्ठः। मालं कल्याणम्। निःसन्रमप्रत्यूहम्। उदय: संयत्तं प्रति।। एवमावृत्त्याधिक्येऽपि यथा- 'अवसितं हसितं प्रसितं मुदा विलसितं हसितं स्मरभासितम्। न समदाः प्रमदा हतसंमदाः पुरहितं विहितं न समीहितम् १२०' अवसितं समाप्तम् । मुदा प्रसितमनुबद्धम्। विलसितं हसितं भ्रष्टम्। स्मरेण भासितं शोभितम् । संमदो हर्षः । अत्र प्रतिपाद सितं सितमित्यादि द्वाभ्यामेव यमकं निर्व्यूडम्। तृतीयं तु सितमित्यादिकमाधिक्यमेव प्रयोजयति, तथ सर्व- मनावृत्ति व्यवहितमिति व्यपेतयमकमेव भवति। आवृत्त्येकरूपतायामपि। तत्रादिमध्ययमकं यथा- 'सारयन्तमुरसा रमयन्ती सारभूतमुरुसारधरातम्। सारसानुकृतसारसकाञ्चि सा रसायनमसारमवैति ।। १२१ ।' सारयन्तमात्मसमीपमानयन्तम्। उरसा घनतरस्तनाव्धेन। सारभूतं जीवि- तसर्वखतामापन्नम्। उरुमहान। सार उत्कर्ष: । अनुकृतसारसा सारसकजित- संवादिनी। सारसा सशब्दा कायिमेंखला यस्याः सा तथा। सारसानुकृतेति 'जातिकालसुखादिभ्यः परा निष्ठा वक्तव्या' इति निष्ठायाः परनिपातः। रसायनं सर्वोपद्रवहर मेषजम्। मध्यान्तयमकं यथा- 'लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतेन। व्याजुम्मितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन ।। १२२।।'
Page 301
२०८ काव्यमाला 1
आद्यन्तयमकमादिमध्यान्तयमकं चेहास्थानयमकत्वप्रसंभ्ञान्न संग- चछते। आदिमध्यान्तयमकानि तु प्रथममेवोदाहृतानि॥ शुचिना कान्तेन। मृदुना कोमलेन। उदितं भाषितम्। लघुना तरलेन। गुरुणा सनजघनभारालसेन । व्याजुम्भितेन प्रकटीभूतविस्तारप्रकर्षेण। अत्र तेन तेनेति मध्यान्तयोरावृत्तम्। इहेत्यावृत्त्येकरूपतायामेकस्यादावितरस्यान्ते वर्त- मानमेकरूपसंधिपातित्वादस्थानयमकमेव भवति। एवमादिमध्यान्तयमकमपि नात्र संगच्छते तर्हि संधिविनाकृतमुदाहियतामित्यत आह-आदिमध्यान्तेति। आवृत्त्येकरूपतायामावृत्त्याधिक्ये च मध्ययमकं यथा- 'समासु राजनसुराहतैर्मुखैर्महीसुराणां वसुराजितैः स्तुताः । न भासुरा यान्ति सुरान्न ते गुणा: प्रजासु रागात्मसु राशितां गता: १२३' तदेतत्सर्वमपि व्यवहितावृत्तेर्व्यपेतयमकं भवति ॥ आवृत्त्याधिक्य इति । एकैकस्मिन्पादे तृतीयाद्यावृत्त्या पूर्वमाधिक्यं पादान्तरावृत्तिसरूपतया सारूप्यं चोक्तम्। इह तु सरूपावृत्त्यैवाधिक्यं निरूप्यत इति संकरप्रकारोपलक्षणमिदम् । सभाु जनसमवायेषु । असुराहतैमदिरापान- पराभूतः । महीसुराणां ब्राह्मणानाम्। वसुना तेजसा राजितः शोमितैः । भासुरा दीप्ताः । सुरान् देवान्। न न यान्ति निषेधद्वयेन यान्लेवेत्यर्थः। रागोऽनुराग- स्वत्प्रधान आत्मा यासां तासु प्रजासु राशितां पुज्तां गताः। व्यपेतमुपसंहरति- तदेतदिति।। नादौ न मध्ये नान्ते यत्संधौ वा यत्प्रकाशते। अव्यपेतव्यपेतं तदस्थानयमकं विदुः ॥६३ ॥ पादे श्लोके च तत्प्रायः पादसंधौ च बध्यते। खमेदे चान्यभेदे च स्थूलं सूक्ष्मं च सूरिमिः ॥६४॥ कमप्राप्तमस्थानयमकं लक्षयति-नादाविति। आदावेवेत्यादिनियमेन स्थान- यमकमुक्तं तदभावे त्वस्थानयमकं भवति। तत्किमाद्यादिस्थानमिदं नाश्रयत एव। नेत्याह-संधी वेति। संधौ पादसंदशे एकस्यादिपरस्पान्त इति। नेदं स्थानयमकं तद्धि प्रतिपाद स्थाननियमेन निरूप्यत इत्युक्तप्रायम। अव्यपेत-
Page 302
२ परिच्छेद: I] सरस्तीकण्ठाभरणम्। २०९
व्यपेतमिति । दाभ्यामप्यन्वीयते। तत्प्रथमं पादलोकतया द्विविधमिल्याह- पादे श्ोके चेति। पादसंधौ च यद्वध्यते तत्खमेदे चान्यमेदे च स्थूलं सूक्ष्मं च भवतीत्यर्थः । एतद्यथास्थानं विवरिष्यते-स्थूलं सूक्ष्मं चेति पूर्वेणापि संबध्यते। बहुवर्णावृत्ति स्थूलम्, अबहुवर्णावृत्ति सूक्ष्मम् ।। अत्र पादे स्थूलाव्यपेतं यथा- 'वीनां वृन्दं चैतत्कूटे समरुति सुतरुणि समरुति सुतरुणि। चित्तं वा तेन क्ोडेSस्मिन्सुरमणिगुणरुचि सुरमणि गुणरुचि १२४।'
संभवतीत्यस्थानयमकमिदं स्थूलाव्यपेतमुच्यते ।। वीनां पक्षिणां वृन्दम्। कूटे े। समरुति मारुतसहिते। सुतरुणि शोभ- नतृक्षे। कूटविशेषणद्वयमिदम् । समरुति समानकूजिते। सुतरुणीति प्रियासंबो- धनम्। वाशब्द इवार्थे। सुरमणीनां देवमणीनां गुणेन दान्रा रोचते शोभत इति किप्। तस्मिन्कोडे। सुरमणीति संबोधनम् । गुणेषु रुचिर्यस्य तह्ुणरुचि चित्तम्। अत्र समरुति सुतरुणि सुरमणि गुणरुचीति द्वितीयचतुर्थपादयोवर्णाष्टका- वृत्तिद्यमिति पादव्यापकमव्यपेतमुच्यते। पाद एव सूक्ष्माव्यपेतं यथा- 'स्वस्थः शैले पश्यास्तेSसौ रुरुरुरुरतिरतितनुतनु मतिमति। लोको यद्वह्दैत्यानीकं गुरु गुरुमयि मथि तरितरि सतिसति ॥१२५॥ अत्र पुनः सूक्ष्मेणावृत्त्यष्टकेन छ्ठोकपादौ व्याप्ताविति अस्थानयम- कमिदं सूक्ष्माव्यपेतमुच्यते। रुरुर्बहु*हो मृगः। उरुरतिरुपचितप्रीतिः अतितनुरतिकृशा तनुर्यस्या इति संबोधनहखः । मतिमति मतिरुचितज्ञानं तद्वतीत्यपि संबोधनम् । पश्यंति वाक्या- र्थंकर्मकम्। गुरु विपुलम्। गुरुः शुक्रः । मयो दैत्यविशेषः । तद्युक्तं तरितरि विजयमाने मयि सति। सतीति संबोधनम्। सती शोभना । यथा मयदैत्या- नीकविजये लोकोऽयं सुखमास्ते तथासौ रुरुरिति वाक्यार्थोऽभिमतः। तदिदं वर्णद्यावृत्त्या सूक्ष्मं न चान्योन्यव्यवहितमव्यवहितमित्यव्यपेतं च भवति। तदेतदेकस्मिन्रपि पादेऽनुक्तद्वयादिपादविकल्पेन च बोद्धव्यम् ।। १४ स० क०
Page 303
२१० काव्यमाला।
छलोके स्थूलाव्यपेतं यथा- 'नगजा न गजा दयिता दयिता विगतं विगतं ललितं ललितम्। प्रमदाप्रमदामहता महतामरणं मरणं समयात्समयात् ।। १२६ ।' अत्रावृत्त्यष्टकेन क्रोकोऽपि व्याप्त इत्यस्थानयमकमिदं श्ोके स्थू- लाव्यपेतमुच्यते॥ नगजा: पर्वतजाः । दयिता वहभाः । एवंविधा अपि गजा हस्तिनो न दयिता न रक्षिताः । वीनां हंसप्रमृतीनां पक्षिणां गतं चङ्रूरमणं विगतमपगतम्। ललितं विलसितम्। लळितं भ्रष्टम्। प्रमदा कान्ता। अप्रमदा हर्पशून्या । आमथित्त- व्यथारूपो रोगस्तेन हता। महतां प्रकर्षशालिनाम्। अरणं सङ्गामवर्जितम्। मरणं विनाशः । समयाहैवात्। समयात्संगतमासीत्।। शलोक एव सूक्ष्माव्यपेतं यथा- 'विविधघववना नागगर्धर्द्धनाना- विविततगगनानानाममज्जज्जनाना। रुरुशशललनाना नावबन्धुन्धुनाना मम हि हिततनानानानन खखनाना ॥ १२७॥' अत्र सूक्ष्मतराभिरष्टार्विशत्यावृत्तिभिः लोको व्याप्त इत्यस्थानयमक- मिदं श्रोके सूक्ष्माव्यपेतमुच्यते।। [बंलभदं प्रति कृष्णवाक्यं समुद्रतीरभूवर्णनपरम्। विविधानि धवानां तरुमेदानां बनानि यस्यां सा । नागेषु सर्पेषु गर्धेनाभिलापेण बुभुक्षया ऋदै: समृदवैरनानाविधे- र्विभि: पक्षिभिर्विततं व्याप्तं गगनं यस्यां सा। अनामेन अनमनेन मज्न्तो जना यस्यां सा। बहूदकेत्यर्थः । यद्वा अस्य विष्णोर्नाम निमज्जन्तः 1 तत्परा इति यावत्। तादशा जना यस्यां सा । अविद्यमाना नरोऽर्वाचीना मनुष्या यस्यां सा। समासान्तविधेरनित्यत्वात् 'नद्यृतथ्' इति न कर। यद्ा । अविद्यमान ओ विष्णु- र्यस्यां सा। यदा। अनामनि विष्णुनामनि मजजव्यसतत्परेभ्यो जातं नानं यर्स्या सा। नं ज्ञानम् । तत्त्वज्ञानमिति यावत्। न नं अर्न न अनं नानम्। रुरूणां १. एतल्कोष्टकान्तर्गतपाठ: काशीमुद्रितपुस्तके प्रकाशकममादान्मूळे पतित उपळभ्यते.
Page 304
२ परिच्छेद: ॥] सरस्तीकण्ठाभरणम् । २११
शशानां च ललनं कीडनं यत्र सा। नौ आवयोरबन्धुं वैरिणं धुनाना नाशयन्ती हि निश्ितं मम हितं तनोति सा । अविद्यमानमाननं मुखं यस्य सः । मुखं विनेव जायमान इत्यर्थः । ईदशो यः खखनः शब्दस्तत्र अनाः प्राणा यस्यां सा। उदकशब्दवतील्यर्थ: ॥] विविधेति । विविधानि धववनानि यस्यां सा तथा । धवो विदखदिर: । नागान् सर्पान् हस्तिनो वा गृध्यन्त्यभिलषन्तीति नागगर्धाः। अर्द्धा उपचिता नानावयो विचित्राः पक्षिणसैर्विततं व्यापं गगनं यस्यां सा तथा। कलोलपरम्परा- भिरनामं नमनशून्यम् । मजन्तः स्नान्तो जना यस्यां सा। अना स्त्रीरूपा। ररूणां शशानां च ललनमुत्फालो यस्यां सा तथाभूता। नी आवयोरबन्धुं शत्रुं धुनाना क्षिपन्ती । हरिप्रोधे बलभद्रस्य कृष्णं प्रत्युक्ति: । यस्मान्मम हिततना हितं तनोति। अनाननो मुखशून्यः यः ख आत्मा तेन खनाना शब्दायमाना। शीळे चानश्। 'अनित्यमागमशासनम्' इति मुगभावः । यदि वा अनाननो मुखं बिना कृतः स्वकीयः खनो यस्याः सा। अनितीत्यना प्राणयुक्ता। अन्तर्णीतेवार्य चैतत्। वर्णदयपर्यन्तमावृत्तिः सूक्ष्मता। सैवैकवर्णगोचरा सूक्ष्मतरा। पादसंघावन्यमेदोच्छेदेन स्थूलं यथा- 'उपोढरागाप्यबला मदेन सा मदेनसा मन्युरसेन योजिता। न योजितात्मानमनक्जतापितां गतापि तापाय ममास नेयते ॥१२८॥' अत्रान्तादिसंदंशादव्यपेतं प्रवर्तते। व्यपेतं तु पादसंधिषु निवर्तत इत्यस्थानयमकमिदं स्थूलावृत्तेः, संधिस्थूलाव्यपेतमुच्यते ॥ पादसंधाविति । 'खमेदे चान्यमेदे च' इत्यत्र व्यपेताव्यपेतयोः स्वत्व- मन्यत्वं च व्याख्येयं प्रकरणात्। तत्त्वे प्रसन्ने च यथासंभवं सप्तमी योजनीया। मदेन प्राप्तरागापि तत एव मन्मथोन्मादेन तापिता उत्तापं गतापि यदात्मानमबल्द न योजितवती तम्मूनं मदेनसा मदीयदुरितेन भूयोऽपि मानरसं प्रापिता स्पाद्। अत एवेयते वक्तुमशक्याय संतापाय नासेति काक्का तापप्रकर्षभणनम्। योजि- तेति। योजयतेर्गत्यर्थत्वमाश्रित्य क्तरि कः । 'गत्यर्थाकर्मक-' इत्यादो चका-
पाठे क्रियमाणे संधिषु व्यपेतप्रसन्ग: स्पात्। निरन्तरपठिती तु स निवर्तते।
Page 305
२१२ काव्यमाला। यथैव च वृत्तौचितीवशात्सीभाग्यमुन्मिषति, तेन वयपेतबाधादव्यपेतपुरस्कारस्त- दिदमाह-अत्रेत्यादि। संदंशः संधानम्॥ अन्यभेदानुच्छेदेन सूक्ष्मं यथा- 'मतां धुनानारमताम कामतामतापलब्धाग्रिमतानुलोमता। मतावयत्युत्तमताविलोमतामताम्यतस्ते समता न बामता ॥ १२९॥ अत्र व्यपेतानुच्छेदेनैव पादसंधिष्वव्यपेतमुत्पद्यते इत्यस्थानयमक- मिदं सूक्ष्म वृत्तेः संधिसूक्ष्माव्यपेतमुच्यते॥ मर्ता संमतामारमतां योगिनामकामतां वीतरागतां बुनानाध:कुर्वाणा। अतापो- नायासस्तेन लब्घेऽग्रिमतानुलोमते श्रेष्ठतानुकूल्ये यया सा। अतएबोत्तमताया विलोमतामतिरेकमयती न गच्छन्ती ईटशी तवाताम्यतः संसारखेदेनाबाध्यमानस्य मती समता न तु वामता वैषम्यमिति। अत्र प्रतिपादम दिमध्यान्तेषु व्यपेतय- मकमुपलभ्यते। संधिषु च संदंशपाठादस्थानयमकव्यपेतं च। न च पूर्वोपलब्धं बाध्यते। न वा संधी विरतिरिति प्रसन्नः संगच्छते। तेन व्यपेतानुच्छेदकमेत- दव्यपेतम् । अत्रापि वृत्तौचिती सर्वखायते॥ खमेदे पूर्वमेदानुच्छेदेन स्थूलं यथा- 'मतमाः सतमालो यः पारापारायतः स दावोऽदावः। लोकालोकानुकृतिः सह्यः सह्ययमनभ्रकूटैः कूटैः ॥१३०॥ अत्र विषमपादयोः समपादावन्तेSवतिष्ठमानावादियमकाद्यन्तयम- कयोरादिमध्यान्तयमकतामापादयन्तः पारापारेति सह्यः सह्य इत्यावृत्ती स्थूले एवादिमध्ययमकव्यपदेशं च लमेते इत्यस्थानयमकमिदम्। खमेदे पूर्वभेदानुच्छेदि स्थूलाव्य पेतमुच्यते । सतमेति। तमोऽन गहनता तया सतमाः सान्धकारम्। पारा नाम नदी तस्पा: पारे आयतो विस्तीणों दावो वन तद्ूहुलत्वाददावो वनवहिग्रभावरहितो लोकालोकथकवालाख्यः पर्वतस्तदनुकृतिस्तत्सदशो यः सोडयं सह्नामा गिरिर- त्रकूटशन्येः कूटै: *तर्लक्षितः । हिशब्दो वाक्यालंकारे । अत्र प्रथमतृतीय- गोरादी द्वितीयचतुर्थयोराद्यन्तयोर्व्यपेतयमकमेव वर्तते। तदनुच्छेदेनैव संदंश-
Page 306
२ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। २१३ पाठादियमकयोरादयन्तयमकयो थ्ाव्यपेतादिमध्यान्तयमकता प्रकाशते। यतो द्वितीय- चतुर्थपादयोरादिमध्यान्तयमकमेव मध्ययमकभूमिकामवगाहते। अत्रापि वृत्तौचिती गवेषणीया । तदेतद्विवरणे व्यक्तमेवेति । तदेव खान्यमेदोच्छेदि सूक्ष्म यथा- 'सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् । महाफणवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥१३१ ॥ अत्र पादान्तादिषु व्यपेतं यदा मध्येष्वव्यपेतं तदुभयमपि पादा- न्तादिसंहितायामव्यपेतमभिन्नजातीयं जायते। न च प्राचीनां मध्यय- मकतां जहातीत्यस्थानयमकमिदं सूक्ष्मावृत्तेरन्यतो मेदेन खमेदानुच्छेदि सूक्ष्माव्यपेतमुच्यते। उभयमपि चैतदेवंविधेष्वेव छन्दःसु द्रष्टव्यम्। सनाकेति। नाकवनिताः खवर्गस्त्रियस्ताभिः सहितम्, यतो नितम्बे सच्छन्द- बिहरणोचिते रुचिरं मनोश्म्, सुनिनदैः शोभनशब्दैमहाफणवान् वासुकिरवतो रक्षतो रसपरा रसनीयेषु श्रेष्ठा। परास्तवसुधा त्यक्तभूभागा। सुधा पीयूपम्। अत्र प्रतिपादं नितं नितमित्यादिकमव्यपेतम् । संधिषु च विरतिपाठे चिरं चिरमित्यादि व्यपेतं प्रतीयते। तत्र संदंशे करियमाणे व्यपेतं निवर्तते। अव्यपेतं तु मध्ययम- कमवतिष्ठत एव। तत्सर्वमिदमव्यपेतमेव जायते। अत्रापि वत्तीचिती पूर्ववदेव शरणमित्युपसंहारे दर्शयति-उभयमपि चैतदिति। स्थूलसूक्ष्मभावेन संधि- यमकमुभयम् ॥ पादे स्थूलव्यपेतं यथा- 'अखिद्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने। भृङ्गावलिर्यस्य तटे निपीतरसा नमत्तामरसा न मत्ता ।। १३२ ।।' अत्र मा भूदव्यपेतप्रसङ्क इत्येकमेवाक्षरं विहाय स्थूलावृत्तिदयेन श्लोकपादयोर्व्याप्तत्वादादिमध्यान्तता न संभवतीत्यस्थानयमकमिदं स्थू- लव्यपेतमुच्यते।। अखिद्यतेति। यस्य गिरेस्तटे रविमादित्यमुदग्रतापं दधानेऽपि भृत्नावलित- मरमाला नासिद्यत। यतोऽरविन्दधाने पद्मानां निधानभूते निपीतरसा आसादित-
Page 307
२१४ काव्यमाला।
मकरन्दा। अत एव मत्ता नमन्ति तामरसानि यस्याः सकाशात्सा तथा। भरनमित पद्मकुहरप्रवेशान्मधुरससेवया च भ्रमरमालया खेदो नाधिगतः । अत्र द्वितीयच- तुर्थपादयोः 'रविं दधाने रविन्दधाने' इति, 'रसा नमत्ता रसा न मत्ता' इति दाभ्या- मेव वृत्तिभ्यां व्याप्तत्वादाद्यादिविभागासंभवे अस्थानयमकमेवेदम्। व्यपेतं तु कयं भवतीत्यत आह-मा भूदिति।। पाद एव सूक्ष्मव्यपेतं यथा- 'करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः सहस्रशः । करेऽणुः शीकरो जज्ञे रेणुसतेन शम ययौ ॥ १३३ ॥' अत्र विषमपादयोः करेणुः करेणुरित्यादावावृत्तम्। समपादयोस्तु रेणुरेणुरिति। तत्तु खापेक्षया न मध्यमन्यापेक्षया नादिरित्यस्थानयम- कमिदं सूक्ष्मव्यपेतमुच्यते।। करेति। करेणुर्हस्ती प्रस्थितथ्चलितस्तेन घण्टा रेणुरशब्दायन्त। सहस्रश इति क्रियाविशेषणम् । स्थूलहत्तेऽणुः सीत्कारविकीर्णतया परमाणुसाद्धूतः । तेन शीकरेण । ननु विषमपादयोराय्यक्षरेण विनाकरणेन मध्ये समपादयोः पुनरादावेव रेणुरित्यावृत्तिरस्ति तत्कथमस्थानयमकमिदमित्यत आह-तस्विति । अन्तो वृत्तैर संभावितत्वादादी मध्ये वा सा वाच्या। न चेयमपि संभवति। रेणुरेणुरिति शब्दभागमपेक्ष्य प्रवृत्तायामावृती तद्विरह्दात् ।। लोके स्थूलव्यपेतं यथा- 'जयन्ति ते सदा देहं नमस्यन्ति जयन्ति ते। भवान्यतो नमस्यन्ति सदादेहं भवान्यतः ॥ १३४ ॥' अत्र स्थूलव्यपेतावृत्तिचतुष्टयेन श्लोकोडपि व्याप्त इत्यादिमध्यान्ता- भावादस्थानयमकमिदं स्थूलव्यपेतमुच्यते॥ हे जयन्ति, ये तव देहं दुर्गातारादिरूपेण प्रपश्मानां मूर्ति सदा नमस्यन्ति ते जयन्ति सर्वोत्कर्षेण वर्तन्ते । यतस्त एव भवान्संसारसरणिमस्यन्ति क्षिपन्ति। भवात्परमेश्वरात् अन्यता मेदसेनोनमतः शेयस आदानं ग्रहणं यत्र तादशी ईहा चेथ यत्रेति द्वयमसनक्रियाविशेषणम् । अत्र जयन्ति ते इति प्रथमद्वितीययोरायन्ती
Page 308
२ परिच्छेद: I] सरस्तीकण्ठाभरणम्। २१५
सदादेहमिति प्रथमचतुर्थयोरन्तादी नमस्यन्तीति द्वितीयतृतीययोर्भवान्यत इति च तृतीयचतुर्थयोराद्यन्ती च स्थूलावृत्त्या व्याप्ताविति अनावृत्तभागाभावाच्छरोके स्थूल- ज्यपेतमस्थानयमकमिदम् ।। छोक एव सूक्ष्ममव्यपेतं यथा- 'यामानीतानीतायामा लोकाधीराधीरालोका। सेनासन्नासन्ना सेनासारं हत्वाह त्वा सारम् । १३५ ॥' अत्र यद्यपि यामायामेत्यादौ व्यपेतमाद्यन्तयमकं नीतानीतेत्यादौ च मध्ययमकमव्यपेतं विद्यते, तथापि मण्डूकप्ुत्या गतप्रत्यागतेर्यतेश्र नैतदुल्लिखति अपि तु श्लोकोऽपि द्वाभ्यां द्वाभ्यामक्षराम्यां सूक्ष्म- वृत्त्या व्याप्त इव लक्ष्यते। तेनास्थानयमकमिदमादिमध्यान्तानामभावा- त्सूक्ष्मावृत्तेः सूक्ष्मव्यपेतमुच्यते॥ यामेति। मानिभिरिता संगता । यद्ा यामेन प्रहरमात्रेणानीता प्रापिता । शत्रूजित्वेत्यर्थः । आनीतः प्रापित आयामो वृद्धिर्यस्याः सा तथा। पालनेन लोका- नामाधिमीरयति क्षिपतीति लोकाधीराधीरेरप्राप्तसमरसंत्रमैरालोक्यत, इति धीरा- लोका। सह इना सेनान्या वर्तत इति सेना, असन्ना अवसादरहिता एवंभूता या सेना सा आसन्ना निकटवर्तिनी सती आरमरिसमूहं हत्वा त्वा त्वां सार कार्यसिदिं आह ब्रबीति। ननु यामा यामा, लोकालोकेत्यादिकमाद्यन्तयोनीतानीतेत्यादिकं तु पदचतुष्टयस्यापि मध्य इति व्यपेतम्, आद्यन्तव्यपेतयमकं तु मध्ययमकमिति स्थान- यमकमेवेदम् । संकरोऽपि न पृथग यमकतां प्रयोजयतीत्यत आह-अत्र यद्यपीति। यामेत्यादिकमादावनुसंधाय वर्णचतुष्कव्यवधिना पादान्तेऽनुसंधीय- मानं मण्ड्कपुति प्रयोजयतीति न तथा सोहेसम् । यामानीतेत्यादिस्थूलचतुष्क- प्रत्यागतेन नीतायामेत्यादिनात्यन्तमुद्धटेन यमकच्छाया तिरोधीयत इति च न सोले- खम् । मध्यादिकमव्यपेतं सोहेखमित्यपि न वाच्यम् । यामानीतेत्यादिबन्ध- चछायार्थकयतिकरणेनानुल्ेखत्वात्। श्रोकस्तु द्वाभ्यां द्वाभ्यामावृत्तिम्यां व्याप्त इति समुदायसोल्ेखतैव। तदिदमुक्त मण्डूकपुत्या गतप्रत्यागतेर्यतेक्वेति मध्ये यतिकृतो व्यवायो बोद्धव्यः । अत्रापि वृत्ताचित्यमनुसरणीयम् ।।
Page 309
२१६ काव्यमाला ।
पादसंधौ स्थूलव्यपेतं यथा- 'हठपीतमहाराष्ट्रीदशनच्छदपाटला । पाटलाकलिकानेकैरेकैका लिलिहेऽलिमिः ॥ १३६ ॥' अत्रापि प्राग्वदेव यतिविच्छेदात्पूर्वोत्तरार्धयोरसंहितायां पाटला पा- टलेत्यावृत्तर्ना वयपेतयमकत्वम्। न चैतत्पादयोरादावन्ते वा शक्यते वक्तुम् । अपि त्वेकस्यादावन्यस्य वान्त्यस्थाने यमकमिदं स्थूलावृत्तेः स्थूलव्यपेतमुच्यते। न चैतद्वाच्यमुपोढरागेत्यादौ काश्चीयमकेऽप्ययं न्याय इति। तस्यैव तथाभूतलक्षणत्वात् ।। हठेति। हठपानेन ताम्बूलरागो निःशेषितस्तेन प्राप्तपर भागसहजरागोन्मेपः । व्यवधायकशब्दाभावे कथमिद व्यपेतमित्यत आह-अत्रापि प्राग्वदिति। ननूपोढरागेत्यादौ पूर्वोदाहृतेऽपि यतिविच्छेदादस्ति व्यवधानात्कोऽस्य विशेष इत्याशज्लाह-न चेति। काश्चीयमक एवाव्यपेतास्थानयमकमेदे सूक्ष्मव्यपेतं यथा- 'घराधराकारघरा धराभुजां भुजा महीं पातुमहीनविक्रमाः । कमात्सहन्ते सहसा हतारयो रयोडुरा यानघुरावलम्बिनः ॥१३७॥ अत्रान्त्यपादे धुरा धुरेति सूक्ष्मव्यपेतं वर्तते। धराधर: शेषो महीं पातुं सहत इत्यन्वयः॥ खमेदान्यमेदयो: स्थूलं सूक्ष्मं च यथा- 'सालं वहन्ती सुरतापनीयं सालं तडिद्वासुरतापनीयम्। रक्षोभरक्षोभरसत्रिकूटा लड्काकलङ्काकलिकाद्रिकूटा ॥१३८। अत्र सालं सालमिति खमेदे सुरतापनीयं सुरतापनीयमिति स्थूलः। रक्षोमरक्षोम लड्काकलद्वेति अन्यभेदे कूटा कूटेति सूक्ष्मव्यपेते भेदो वर्तते। तदिदमस्थानयमकं स्थूलसूक्ष्ममुच्यते। सालमिति। साल: प्राकारः । सुराणां तापनं संतापजननं तस्मै हितमल-
Page 310
२ परिच्छेदः ।] सरस्तीकण्ठाभरणम्। २१७
मत्यर्थ सा लड्डा। तपनीयं सुवर्णम्। तापनीयं च तद्भासुर चेति कर्मवारयः । रक्षसां भरः समूहस्तस्य क्षोभः प्रकर्षजः कोलाहलः । त्रिकूटः सुबेलः । अकलड्डा दोपरहिता। अकलिकानि कलिरहितान्यद्रिकूटानि सुबेलशिखराणि यस्यां सा तथा।। यत्सुक्ष्मं भाग बह्दावृत्ति तदपि स्थूलसूक्ष्ममेव। यथा- 'मधुरया मधुबोधितमाधवी मधुसमृद्धिसमेधितमेघया। मधुकराऊ्नया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥ १३९॥' यत्सूक्ष्म भागमिति। भागशो विविच्यमानं सूक्ष्ममेव, वृत्तिभूयस्तया तु स्थूलमित प्रथत इति सूक्ष्मेक्षिकयाभिधानम् ।। स्थानास्थानविभागोऽयमव्यपेतव्यपेतयोः । क्मेणोक्तस्तयोरेव पादभेदोऽथ कथ्यते॥ ६५॥ क्रमप्रास्तमिदानी पादयमकमुदाद्ियत इल्याह-स्थानास्थानेति। तत्र व्यपेतमेदेषु प्रथमपादयोरावृत्तिर्यथा- 'न मन्दयावर्जितमानसात्मया नमन्दयावर्जितमानसात्मया। उरस्युपास्तीर्णपयोधरद्वयं मया समालिज्ञयत जीवितेश्वरः ॥१४०॥ न मन्देति। मन्दया तत्कालोचितप्रतिपत्तिविधुरया आवर्जितो मान ईर्ष्या- रोषलक्षणो यया सा तथा । सात्मा आत्मवती। अनयोः कर्मधारयः । नमन्पा- दान्ते लुठननपि दयावर्जितौ मानसात्मानौ यस्या इति बहुब्रीहेर्डाप्।। तत्रैव द्वितीयतृतीययोर्यथा- 'दृश्यस्त्वयायं पुरतः पयखानानाकलाली रुचिरेण नेत्रा। नानाकलाली रुचिरेणनेत्रा देवी यदस्मादजनि स्यं श्रीः।१४१॥' आनाकं स्वर्गावधि उलनमुह्ासस्तच्छील: रुचिरेण मनोहरेण नेत्रा नायकेन नानाकलानां चातुःषष्टिकीनामाली परम्परा । एणनेत्रा हरिणलोचना । द्वयमपि श्रीविशेषणम्।। एवं तृतीयचतुर्थयोरपि यथा- 'स्मरानलो मानविवर्धितो यः स निर्वृ्ति ते किमपाकरोति। समं ततस्तामरसे क्षणेन समन्ततस्तामरसेक्षणे न । १४२॥
Page 311
२१८ काव्यमाला।
समं समकालं क्षणेन ततो विस्तीर्णस्तामनुभवैकसाक्षिचिन्तानुपृत्तिलक्षणां निर्वृ- तिमरसे इति सोपालम्भसंबोधनम् । समन्ततः सर्वतस्तामरसेक्षणे कमलनेत्रे न किमपाकरोतीति पूर्वेण संबन्धः ।। व्यपेतमेदेषु प्रथमतृतीययोर्यथा- 'सभा सुराणामबला विभूषिता गुणैस्तवारोहि मृणालनिर्मलैः। स भासुराणामबला विभूषिता विहारयन्निर्विश संपद: पुराम्॥१४३।' अबला बलार्येन दानवेन रहिता विभुना शक्ेणाध्यासिता सुराणां देवानां सभा मृणालनिर्मलैस्तव गुणरारोहि यतः, अतः स त्वं पुरामबला विभूषिताः स्रिियोऽलंकृता विहारयन् भासुराणां सतां संपदो निर्विशेत्याशंसा ।। तत्रैव प्रथमचतुर्थयोर्यथा- 'कलं कमुक्तं तनुमध्यनामिकासतनद्यीं च त्वहते न हन्त्यतः । न याति भूतं गणने भवन्मुखे कलक्कमुक्तं तनुमध्यनामिका। १४४॥ कलं मधुराव्यकं उच भाषितं तनोर्मध्यस्य भरेण नामिकास्तनद्वयीं च त्वां विहाय क नायकं हन्ति वशीकरोति। अतो जितेन्द्रियेु प्रथमगणनीये त्वयि सति कलडुमुक्तं निर्दोषं तनुमधि शरीरमधिकृत्य भूतमनामिकाSनामिकातुलि: न याति परस्य त्वत्सदशस्याभावात्। निर्दॉषो हि लोके ऊर्ध्बाङुल्या निर्दिश्यते॥ एवं द्वितीयचतुर्थयोरपि यथा- 'या विभर्ति कलवल्लकीगुणखानमानमतिकालिमालया। नात्र कान्तमुपगीतया तयाखानमा नमति कालिमालया ॥१४५॥' वहकीगुणखानो वीणाशब्दसतस्य मानं या विभर्ति। कालिन्: श्यामताया आ- लया कजलप्रभुतीनतीत्य वर्णप्रकर्षेण या स्थिता, तया गातुमुपकान्तया त्रमरमा- लया हेतुभूतया का नामात्र पर्वतं कान्तं न नमति न प्रणमतीति न, न सुखेन आ- नम्यते इति अखानमा या प्रागासीत् साप्युद्दीपनप्रकर्षे निःशेषितमाना नमतीलर्थः॥ अर्धाभ्यासः समुद्रः स्यात्तस्व मेदासत्रयो मताः। व्यपेतथ्राव्यपेतञ्र उभयात्मा च सूरिभिः ॥ ६६ ॥
Page 312
२ परिच्छेद: 1] सरस्वतीकण्ठाभरणम् । २१९
तेषु व्यपेतो यथा- 'अनेकपादभ्रमदम्रसालं मान्ये दृशाभीरुपतब्रिकूटम्। अनेकपादभ्रमदभ्रसालं मान्ये दशा भीरु पतत्रिकूटम् ॥ १४६ ॥' अनेकेषु पादेषु प्रत्यन्तपर्वतेषु भ्रमन्त्यत्राणि मेघा एव सालो वरणः प्राकारः, मान्या: पूजार्हा इदशा यथादृश्यं तथव मनोहारिणोऽमीरवो भयरहिताः पतबिकूटा: पक्षिसङ्का यत्र, अनेकपा हस्तिनस्तेषामदत्र उत्कटो मदस्तं भरन्ति धारयन्तीति मूलविभुजादित्यात्कप्रत्यये अनेकपादत्रमदभ्राः साला वृक्षा यत्र। मान्ये मीर्विति संबोधनद्यम् । मानःशारभावस्तदर्हा दशा त्रिकूटं पर्वतमालोकयेति॥। अव्यपेतो यथा- 'घनं विदार्यार्जुनवाणपू्गं घनं विदार्यार्जुनवाणपूगम्। ससार बाणोऽयुगलोचनस्य ससारवाणोडयुगलोचनस्य ।। १४७॥' विदारी कन्दमेद:, अर्जुनः ककुभः, बाणो गुल्मविशेषः, पूगो गुवाकः। व्ृक्षद्वन्द्वत्वात्पाक्षिक एकबद्धावः । अर्जुन: पार्थस्तस्य बाणपूर्ग शरसमूहस्तं विदार्य मित्त्वा । अयुगलोचनस्तिनेत्र: किरातस्वरूपधरस्तस्य ससार गतः सारबाण उत्कृष्टशब्दस्ेन सहितोऽयुगद्वितीयः, अलोचनस्य दुर्ज्ानस्य।। व्यपेताव्यपेतो यथा- 'कलापिनां चारुतयोपयान्ति वृन्दानि लापोढघनागमानाम् । वृन्दानिलापोढघनागमानां कलापिनां चारुतयोऽपयान्ति ॥१४८॥ पादत्रयाभ्यासस्तु नातिसुन्दर इति तद्गेदा नोदाहियन्ते॥ के पानीये लपनशीला हंसास्तेषां वृन्दानि चारुतया मनोज्भावेनोपयान्ति संगच्छन्ते। लापेन परस्परसंलापमात्रेणोढः प्राप्तो घनो निरन्तर आगम आगमन येषाम्। वृन्दानिलो वाल्या तेनापोटो निराकृतो घनागमो मेघदुर्दिनं कलापिनो मयूरा आरुतय: समन्ततः केकायितानि अपयान्ति तिरोभवन्ति । एकसोके पादत्रयाभ्यासस्यासभवाच्छोकान्तरे च तथा सौन्दर्याभावात्पादत्रयाभ्यासो न चिन्तनीय इत्यत आह-पादतयेति॥ एकाकारचतुष्पादं महायमकमुच्यते। क्षोकाम्यासय तत्रादयं पुनरभ्यासमर्हति ॥६७ ॥
Page 313
२२० काव्यमाला।
इदानीं क्मप्राप्तं महायमकं लक्षयन्राह-एकाकारेति। द्विविधमेकाकार भवति। एकमाघृत्तिचतुष्केण, अपरमावृत्यष्टकेन। तदिदमुक्तमारयं पुनरनावत्तमिति।
तत्राव्यपेतमेदे महायमकं यथा- 'सभासमानासहसापरागात्सभासमाना सहसा परागात्। सभासमाना सहसापरागात्सभासमाना सहसापरागात् ॥ १४९॥' भास: कान्तिः, मानश्वित्तसमुन्नतिः पूजा वा, आसः शत्रुविधूननम्, हसः स्मेरता, एतैः सह वर्तते इति सभासमानासहसा यतोऽपरागं चित्तकालुष्यमत्ति। भासमानै: शोभमानैः सह वर्तते सभासमाना । सहसा मार्गशीर्षेण हेतुना प्रातड्वि- च्छेदप्रादुर्भूतान् परागान् रजःकणानतति प्राप्नोतीति परागात्। भा कान्तिसतया समाना सरूपास्ते: सह वर्तत इति समासमाना। पोऽन्तकर्मणि। स्यन्ति परानिति साः, तैः सह वर्तत इति सहसा । एवंभूता असमाना अनुपमा सभा जनसमवा- योSपरागादपरस्मात्पर्वतात् सहसा शीघ्रं परागात्परागतेति॥ व्यपेतमेदे द्वितीयं महायमकं यथा- 'प्रवणमद्अ्रमद चलद्विपरा जितमूढ विमलमहि ततरङं विरसं सदातिमिश्रितमच्युतधाम प्रतीतशिखिचरितवनम्। प्रवणमदभ्रमदचलद्विपरा जितमूढ विमलमहि ततरङं विरसं सदातिमिश्रितमच्युतघामप्रतीतशिखिचरितवनम् ॥१५०॥' प्रवर्ण प्रकृष्टतरवनम् । 'प्रनिरन्तःशर-' इत्यादिना णत्वम् । अदत्रेण महता मदेन दर्पेण चलन्तो ये वयः पक्षिणसतैः पराजिता मूढक्योबाला: पक्षिणो यत्र तम्, अलमत्यर्थ पूर्वोक्तरूपानमूढान् वीन् पक्षिणो मलते धारयतीति वा। अहिततरमं भुजरव्याप्तावर्तस्थानम्। विरसमतलस्पर्शतया भूभागरहितम् । सदा सर्वकालं तिमिभिर्महामत्स्यैः धरितमाश्रितम् । अच्युतस्य भगवतो नारायणस्य धाम विश्रा- न्तिस्थानम्। प्रतीत: प्रख्यातः शिखी वडवानलसतन चरितवनं भक्षितजलोत्पीड- मिति प्रथम: श्रोकार्थः । प्रवणमदाः मदायत्तदर्पाः सततनिस्यन्दमानमदजलाथ भ्रमन्तो ये मनाकप्रभृतयोऽचला द्विपाः करिमकराव तैः शोभितम्। ऊढा विमला स्भावनिर्मला महिता: पूजितासतरत्ा येन तम्। विरस क्षारम्। सतीभि: शोभ-
Page 314
२ परिच्छेद: ।] सरखतीकण्ठाभरणम्। २२१
नाभिरातिभि: पक्षिविशेषर्मिश्रितं करम्बितम् । न च्युतं धाम तेजो यस्य तम्। प्रतीता: प्रत्यागताः शिखिनो मयूरास्तैश्वरितवनं त्रान्ततीरकाननं समुदं पश्येति वाक्यान्तरवर्तिक्रियया संबन्ध इति द्वितीयः शोकार्थः॥ अव्यपेतमेदे आद्यस्य पुनरभ्यासो यथा- 'समान यासमानया स मानया समानया। समानयासमानया समानयासमानया ॥ १५१ ।' समानेति। हे समान सखे, यासमानया अविनयवतीनां धुरि गणनीयया अनया समानया समानो यास: प्रयल्नो मान ईर्ष्यारोषस्तौ समानी यस्यास्तया, तथा समानया चित्तानुस्मृतिसारूप्यं भजमानया पूजासहितया असमानया अनुपमया स त्वं मा मां समानय संगमयेति मन्मथोन्मादाविष्ठस्य कस्यचिद्यस्यस्य प्रार्थना ।। एकरूपेण वाक्येन द्वयोर्भणनमर्थयोः । तत्रेण यत्स शब्दज्ञैः क्षेप इत्यभिशव्दितः ॥ ६८ ॥ बन्धापृत्तिसामान्याय्यमकानन्तर श्ेपं लक्षयति-एकरूपेणेति । अर्थमेदेन शब्दा भिद्यन्त इति नये कथमेकेन वाक्येन द्वयोरुक्तिरित्यत आह-तत्रेणेति। श्रेषो हि संमेदलक्षणः । स चात्र भिन्नानामपि शब्दानामुचारणसाम्येन प्रवर्तते। अनेकसंबन्धानामैकरूप्येण वर्तनं तन्रमित्युच्यते॥ प्रकतिप्रत्ययोत्थौ द्वौ विभक्तिवचनाश्रयौ। पदभाषोद्धवौ चेति शब्दक्षेषा भवन्ति पट् ॥६९।। द्वयोरिति संख्या न विवक्षिता, त्रिप्रसृतीनामपि श्रेषसंभवात्। विभागवाक्ये विभकीनां साक्षादुपादानात्प्रत्ययपदं तदन्यपर, विशेषशोभाकरत्वं च विशेषोपादान- प्रयोजनम् ।। तेषु प्रकृतिश्लेषो यथा- 'आत्मनश्व परेषां च प्रतापस्तव कीर्तिनुत्। भयकृद्धपते बाहुर्द्विषां च सुहृदां च ते ॥ १५ ।' अत्र कीर्तिनुदित्यत्र नौति-नुदत्योर्मयकृदित्यत्र करोति-कृन्तत्योः प्रकृत्योः किपि तुल्यं रूपमिति प्रकृतिश्रेषोऽयम् ॥
Page 315
२२२ काव्यमाला।
आत्मन: कीति नौति स्तौति। परेषां शत्रूणां च नुदति क्षिपति । द्विषां भयं करोति जनयति। सुहदां च मिनत्तीति धातुरूपप्रकृतिमेदादेवार्थमेद: क्विप्प्रत्ययस्य साधारण्यात् ।। लिङ्ग श्लेषोऽपि प्रकृतिश्षेष एव। स यथा- 'कुवलयदलद्युतासौ दृशा च वपुषा च कं न दर्शयते। अधरीकृतप्रवालश्रियाङ्गिणास्येन च नतम्रूः ॥। १५३ ॥' अत्र हग्वपुषोरास्यचरणयोश्च कुवलयदलद्ुतेत्यधरीकृतप्रवालश्रियेति च लिञमेदेऽपि तुल्यरूपे विशेषणे इति लिअश्लेषोऽयम् । ननु 'वर्णपदलित्नभाषाप्रकृतिप्रत्ययविभकिवचनानाम्' इति कैश्चित्परिसंख्यातम्, ततथ्ाष्टधा श्रेषो भविष्यतीत्यत आह-लिङ्गग्लेयो Sपीति। तदिदमुदाहरणी- यमित्याह-स यथेति। दर्शयत इत्यात्मनेपदेन तटस्थमपि कं न हठादर्शनाय प्रेरयतीति व्यज्यते । अधरीकृता जिताधरत्वमापादिता च। ननु च कुवलयदल- दुतेति अधरीकृतप्रवालश्रियेति च प्रकृतिभागों न भिद्यते, तत्कथमयं प्रकृतिश्लेष इति। नैतत्। आविष्टलिन्गद्वयविशेष्यलित्नद्यसंनिधानादनाविष्टलिनं विशेषणमव- श्यमुभयलित्नप्राहि वाच्यम्। पञ्चकप्रातिपदिकार्थपक्षे विभक्तिर्योतिकैव तथा च लिक्नमेद इति विभिन्ने विशेषणप्रकृती मिथःसंगििष्टे इति। अत्रेत्यादि॥ प्रत्ययक्चेष: सोद्वेदो निरुद्वेदश्च। तयोरादो यथा- 'तस्या विनापि हारेण निसर्गादेव हारिणौ। जनयामासतुः कस्य विस्मयं न पयोधरौ ॥ १५४ ॥' अत्र हारिणाविति इनिणिनिप्रत्यययोरेकरूपत्वाद्विनापि हारेणेति च मत्वर्थीयोद्भेदात्सोद्वेदप्रत्यय क्ेषोऽयम्।। तद्वाक्यस्थशब्दान्तरप्रकाशितः सोद्धेदः, अतथाभूतो निरुद्धेदः। मत्वर्थीयेनि- प्रत्यये हारवन्ती हारिणी । आवश्यकार्थणिनिप्रत्यये सहृदयानां मनो हरत इति हारिणी। आनन्दघनरसचर्वणारूपो विस्मयोऽद्धुतं च । अपिशब्देन विरोधद्योत- केन हारहीनयोरपि हारसंबन्धो विस्मयरसार्पक इति मत्व्थीयोन्मुद्रणात्सोद्गेदः। प्रत्ययश्ठेपस्तु कर्थ भवतीव्यत भाइ-इनिणिनिप्रत्यययोरिति॥
Page 316
२ परिच्छेद: ।] सरखतीकण्ठाभरणम्। २२२
द्वितीयो यथा-
विभाति हरिणीभूता शशिनो लाल्छनच्छविः ॥ १५५॥' अत्र हरिणीभूतेति च्वेर्डीपश्र तुल्यरूपतायां तदुद्वेदो नास्तीत्यनु- द्रेद: प्रत्ययश्लेषोऽयम् । वणरूढिस्थानं श्यामं भवतीति लाञ्छनच्छायाभूता कीटशी हरिणी हरिता। 'वर्णादनुदात्तात्तोपधातो नः' इति कीपि नादेशे च रूपम् । सेयं प्रतीयमानगुण- नोतपेक्षा। अहरिणरूपापि व्यवहारारूढहरिणतामापन्नेति च्विप्रत्यये च हरिणीभूते रूपम्। अत्र डीपश्ष्वेर्वा न किंचिद्वेदकं निबद्धमिति निरुद्वेद: प्रत्यय्ेषोऽयम्। हरितहरिणरूपे प्रकृती अपि संभिन्ने एव । संकरस्यादूषणत्वात् । एवं पूर्वोदा- हरणेऽपि।। विभक्तिश्रेपो द्विषा-भिन्नजातीययोः, अभिन्नजातीययोश्च। तयो- राद्यो यथा- 'विषं निजगले येन बश्रे च भुजगप्रभुः । देहे येनाञजो दधे जाया च स जयत्यजः ॥ १५६ ॥'
अत्र येन विषं निजगले, भुजगराजश् निजगले बत्रे, अज्रजो देहे, जाया च दध्रे इति तिड्सुब्विमत्तयोः लिडात्मनेपदप्रथमपुरुषै-
निजगल इति गिरते: कर्मणि लिटि रूपम्। येन विषं कालकूटारयं निगी्णम्, निजे च गले कण्ठे भुजगराजो पृतः। देह इति दहतेस्तत्रैव [कर्मणि लिटि] रुपम्। अज्ज: कामो येन दग्यः, निजे च देहे शरीरे जाया पार्वती भृता स जयतीति। विवरणग्रन्थः सुबोध एव ।।
Page 317
२२: काव्यमाला।
द्वितीयो यथा- 'त्वमेव धातुः पूर्वोऽसि त्वमेव प्रत्ययः परः । अनार्यातं न ते किंचिन्नाथ केनोपमीयसे ॥ १५७ ॥ अत्र धातुरिति प्रथमान्तस्य षष्टयन्तस्य चैकरूपत्वाद्भिन्नार्थकत्वा- च्ाभिन्नजातीय सुन्विभक्ति ल्लेषोडयम्।। धातुर्जगननिर्मातुरपि पूर्व इत्यनेनानादित्वमुक्तम्। परः प्रत्ययः कारणत्रयरूपं न किंचिदनाख्यातम् । श्रुतिस्मृतीतिहासपुराणेु प्रसिद्धावदानत्वात् । द्वितीयस्या- भावान्न केनचिदुपमानम् । अर्थान्तरे तु धातुः कियावचनशब्दरूपः पूर्व एव प्रकृतित्वात्ततः परः प्रत्ययः तिडादिः। अतः सर्वमाख्यातमेव पद निष्पद्यते। तेन च कर्थ तिडन्तेनोपमानमस्ति भिन्नार्थत्वाच्चेति शब्दमेददृढीकरणार्थमुक्त्म्। एवं तिअामपि संमेद उदाहरणीयः । यथा- 'मादयन्तु नाम कवयस्तथापि विदितश्रमाः । वेद विद्या पतिर्वाचामहं वाचोरिवान्तरम् ।।' अत्र वैदेति प्रथमोत्तमयोः पुरुषयोरेकवचने श्लिष्येते॥ वचनश्लेषो द्विधा-सोद्गेदः, निरुद्वेदश्च।तयोः सोद्गेदो यथा प्राज्य प्रभावः प्रभवो धर्मस्यास्तरजस्तमाः । मुक्तातमा नः शिवं नेमिरन्येऽपि ददतां जिनाः ॥ १५८ ॥' अत्र नेमिरित्यन्येSपीति एकवचनबहुवचनाभ्यां ददतामित्यत्र तिडन्ते पाज्यप्रभावः प्रभव इत्यादिषु च सुबन्तेष्वेकवचनबहुवचनयो- रुद्वेद इत्ययं सोद्वेदो नाम वचनक्ेषः ।l निरुद्वेदो यथा- 'तनुत्वरमणी यस्य मध्यस्य च भुजस्य च। अभवन्नितरां तस्या वलयः कान्तिवृद्धये ।। १५९ ॥' अत्राभवन्निति वलय इति पदयोस्तिडन्तसुबन्तयोरेकवचनबहुवचने अनुद्धिन्ने एव क्विष्येते इत्ययं निरुद्वेदो नाम वचनक्ेषः ।I
Page 318
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। २२५
एकवचनबहुवचनाभ्यां विशेषणेषु संबन्धयोग्यताक्षेपात्तिक्वचनेषु सुब्वचनेषु च यथायथमर्थद्वयोन्मीलनाच्छव्दरूपद्वयोद्वेदः। एकवचनेन वलयः कडणं बहु- वचनेन च मध्यरेखा इति सुबन्तपदे। एतदौचित्ये तिडन्तपदे चाभवचिति वचन- दवयलाभः । न चानयो: किंचिदुद्वेदकं निबद्धमिति निरुद्भेदोऽयम्। तदेतदाह- अत्रेत्यादि ॥ पदश्लेषो यथा- 'अरिमेदः पलाशश्र बाहुः कल्पद्रुमश्च ते। बालेवोद्यानमालेयं सालकाननशोभिनी ॥ १६० ॥' अत्र प्रकृतिप्रत्ययविभक्तिवचनानां पृथगभिघानाद भिधानमालोक्त्तानि प्रातिपदिकान्येव पदशव्देनोच्यन्ते। तेन पूर्वार्धे शत्रुमेदोमांसादसते बाहुरित्यर्थेनारिमेदपलाशाख्यवृक्षनान्नरी क्लिष्येते। उत्तरार्धे च सालानां काननेन शोभत इत्येवंशीलेयमुद्यानमालेव द्यर्थेन सालकेनाननेन शो- भत इत्येवंशीला वालेत्युपमानार्थ: श्रिष्यते। स एष पदलेषो नाम शब्दल्ेषः ।l अरीणां मेद: शरीरधातुभेदः, पलं ांसमश्राति यः स तथा, चकार उत्तर- वाक्यापेक्षया। अरिमेदो विदखदिरः, पलाशः किशुकः, सालास्तरुविशेषास्तेषां काननम्, अलकाथूर्णकुन्तलास्तत्सहितमाननं च । पूर्वोत्तरार्धयोनैकवाक्यत्वमु- दाहरणत्वात्। ननु विभत्त्यन्ताजान्यत्पदं तत्र पूर्वभागेन प्रकृतिष्ेष उत्तरभागेन च प्रत्यय्ेष उहििष्ट एव, तत्कोऽन्यः पदष्वेष इत्यत आह-अत्रेति। प्रकृति- प्रत्ययभावविवक्षाविरहे नाममालोक्तानि प्रातिपदिकान्येवावशिष्यन्त इत्यर्थ: ॥ वर्णक्लेषोडपि पदश्लेष एव । स यथा- 'त्वमेव देव पातालमाशानां त्वं निबन्धनम्। त्वं चामरमरुज्जमिरेको लोकत्रयात्मकः ॥ १६१ ॥' अत्र त्वमेव पातालमित्यकार: पाश्चात्ये, त्वं च अमरमरुद्भमिरिति चकार: पौरस्त्येऽक्षरे श्िष्टः पातालं चामरे इति च पदं रचयति। सोडयं पदश्लेप एव वर्णक्ेष इत्युच्यते॥ १५ स० क०
Page 319
२२६ । काव्यमाला।
'अलंकार: शष्टाकरनरकपालं परिजनो विशीर्णाओ्ो मृग्नी वसु च वृष एको बहुवयाः। अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- बिंधौ वक्े मूति स्थितवति वयं के पुनरमी ॥।' इति वर्ण्लेषः काशमीरकै: पृथगुदाहृतः । अत आह-वर्णल्लेषोSपीति। अवयवामेदे समुदायसंभवादवयवमेदे च समुदायमेदधरौव्यात्पद सेषव्यवस्थितौ तत्रैवास्यान्तर्भावो युक्त इति भावः। अलमत्यर्थ पाता रक्षिता, आशानां निबन्धनं मनोरथसफलीकरणबीजं, आशानां दिशां सं्लेषस्थानम्, चामरमरुद्भूमिः स्वलो- कोऽमराणामिन्द्रादीनां भूमिरमरावत्यादिमरुतां च विवहादीनां भूमिवमानिकपथ- व्वामरमरुद्धूमिश्रामरमरुतामाश्रयक्ष। कथमत्र वर्ण्ेष इत्यत आह-अत्रे- त्यादि। 'पतिचण्डिभ्यामालन्' इति पतेरालन्प्रत्यये पातालमिति रूपसिद्धावाकार एव मध्यवर्तिवर्णः, तत्रैव पुनरेकदेशप्रतिसंधाने पातालमित्याकारय् प्रतीयते। अत्र च 'एक: पूर्वपरयोः' इति वचनादाकार एव श्रूयते तेनोत्तर: पौरस्लेन संभिनः। एवं चकारस्योत्तरसंमेदो व्याख्येय: ॥। भाषा क्लेषो यथा- 'कुरु लालसभूलेहे महिमोहहरे तुहारिविच्छिनने। हरिणारिसारदेहे वरे वरं हर उमे भावम् ॥ १६२ ॥' अत्र- 'ध्यानानीतां च रुद्राणीं कान्तां च पुरतः स्विताम्। रणेच्छुः कश्िदानर्च दिव्यप्राक्ृतया गिरा ॥ १६३ ॥' तत्र रुद्राणीपक्षे-हे उमे, हरे भवे वरं श्रेष्ठं भावं कुरु। किं- भूते। लालसभूलेहे लालसभू: कामस्तं लेढि यस्तस्मिन् । तथा महिम्रा प्रभावेणोहं वितर्कमपहरति यस्तस्मिन्महिमोहहरे। महेश्वरसंनिधौ हि सर्वज्ञानाभिभव इति श्रूयते। अतएव तोहन्ति अर्दयन्ति तुहा अरयस्तैर्वि- च्छिन्ने विरहिते। अपरमप्यरीणां विच्छेदकारणमाह-हरिणारिसार- देहे हरिणारिः सिंहस्तस्य सारो बलं स देहे यस्य तस्मिन्। वरे परि-
Page 320
२ परिच्छेद: ।] सरस्वतीकण्ठाभरणम् । २२७
णेतरीति। उमाया एव वा इमानि संबोधनविशेषणानि । कान्तापक्षे तु-हे कान्ते, तव योऽयं हरिनार्याः श्रियाः सार उत्कृष्टो देहस्तत्र यद्वरं श्रेष्ठं विलोचनाननस्तनजघनादि तन्मे भावममिलाषं हरतु। का- मान्पूरयत्वित्यर्थः। किंभूते देहे। कुटिलालसभ्रूलेखे महिमोहहरे गृहे हारिणि विच्छिन्ने च तनुमध्यत्वादिभिरिति।। दिब्या संस्कृता। प्राकृता महाराष्ट्री। भावक्ेतसो लय: 1 लालस इच्छा तस्माद्धवतीति लालसभू: संकल्पयोनित्वात्कामसं लेढीति कर्मण्यण्। ऊहस्तर्क: संशयपृष्ठभावी विपरीतप्रत्ययविशेषः । कथं तं हरतीत्यत आह-महेश्वरसंनि- धाविति। संनिधिः साक्षात्काररूपः । सर्वज्ञानानि संस्कारप्रवर्तकानि । 'तुहिर अ्दने' तोहतीति इगुपधत्वात्कप्रत्यये तुह्दा अरयः । ते द्विया-आन्तराः, बा- ह्याथ। आन्तरा मदमानादयः पद, बात्याः क्षेत्रापहारकादयः। तत्र पूर्वावच्छेदे च्व हरिणारिसारदेहत्वं हेतुरुक्तः । हरिणारिसार इद सारो यस्ेत्युत्तरपदलोपे हरि- पारिसारो देहो यस्थेति विग्रह्वाक्यमवसेयम्। यथाश्रुत्यर्थकथनमात्रमुमाया एवेत्यत्र लालसभूलेह इत्यच् प्रत्यये व्याख्येयम् । तुशब्दस्तवार्थे । 'तुतुचतुह्मतुन्भ- तुज्झा डसः' इति सूत्रात्। हरिनारी लक्ष्मीस्तस्याः सकाशात् सारः प्रकर्पशाली देहः । 'पश्चमी' इति योगविभागात्समासः । कुरुलाक्षूर्णकुन्तलाः । महीशब्देन भूगोलवर्तिन: प्राणिनोऽभिमतास्तेषां मोहगृह इति व्याख्येयम् । विच्छिओो विभक्तावयवः ॥ यथा वा- 'रुचिरञ्जितारिहेर्ति जननमितं सामकायमकलङ्कम् । सन्तममितं च मानय कमलासनमभिविराजन्तम् ।। १६४ ।।' 'भूतसंस्कृतभाषाभ्यां द्विर्नमस्कृत्य माधवम्। जगाम समरं कोऽपि कस्य श्रेयसि तृप्तयः ॥ १६५ ॥' तत्र भूतभाषायां यथा- रुचिरं मनोहरं जितारिहेति भमसपन्ायुधं जनैर्नमितं श्यामकाय-
Page 321
२२८ 1 काव्यमाला।
मकलह्कं शान्तं शान्तरूपं अमितमनन्तम्। चः समुचये। कमलासनं ब्रह्माणममिलक्षीकृत्य विराजन्तं शोभमानं मानय पूजयेति।। संस्कृतभाषायां यथा- रुचिमी रख्िता अरिहेतयश्चक्रदीप्यो येन तम्, जननैर्दशभिरव तारैरमित परिच्छिन्नम्, सामानि कायति गायति यः स सामकायसतम्, न विद्यते कला यस्य सोडकलस्तम्, कं सन्तं ब्रह्माणं अं विष्णुमितं गतम्, अभिविराजं गरुत्मन्तमभि तं प्रसिद्धं कमलासनं श्रिया संसक्तत मा मां नय प्रापयेति।। एवं पैशाचादिभिरपि संस्कृतस्य प्राकृतादेश परस्परसंभेदनाच्द्रेषो गवेषणीय इत्याशयवानाह-यथा वेति। अकलईं दोषरहितं मानयेति धात्वर्थस्य भाव्य- त्वेनान्वयात्पूजां कुर्वित्यर्थः। ब्रह्माणमभिलक्षीकृत्येति । रुचय आत्मीयाः । अरा विद्यन्ते यस्य तदरि चक्रम्। हेतयः किरणाः । जननं जन्म। सामानि कायति कीर्तयतीति 'अपवादविषये कचिदुत्सर्गः प्रवर्तते' इति कर्मण्यण्। कला अवयवाः प्रसिद्धाः । वीनां पक्षिणां राजा गरुडसमभि इतं गतम्। कमला लक्ष्मी- स्तस्या आसनमधिष्ठानं मा मां नयेति।। आवृत्तिर्या तु वर्णानां नातिद्रान्तरस्थिता। अलंकारः स विद्वद्भिरनुप्रासः प्रदर्श्यते ॥ ७० ॥ अनुद्धटावृत्तेथिवित्रादुद्धटावृत्तिमनुप्रासं पूर्व लक्षयति-आवृत्तिरिति। वर्णा- नामिति वचनमतन्त्रम्। 'सारः सारखती मूर्तिः' इत्यादावेकवर्णावृत्तेरप्यनुप्रासत्वात्। तेन यमकव्यतिरिक्ता वर्णावृत्तिरनुप्रास इति लक्षणमुक्तं भवति। न च श्लेवेऽति- प्रसन्नः । तन्त्राभ्यां विशेषात् । पूर्वजातिप्रतिबिम्बनेन बन्धच्छायार्थकतयानुप्रासो- Sलंकारपद्वीमध्यासते। नच निर्निमित्तमेव प्रतिबिम्बनमत आह-नातिदूरेति। अस्ति कथििदुच्चारणस्य ज्ञानस्य वा विशेषो यः शीघ्रमेव संस्कारमुद्दोधयतीति तद्वती वर्णावृत्तिरभिप्रेता। अत एव प्राचीनवर्णजात्यनुगतः सहृदयावर्जकतया प्रकुष्टय वर्णानामनुप्रास इति काश्मीरिका निरुच्ति: ॥
Page 322
२ परिच्छेद: ।] सरस्तीकण्ठाभरणम् । २२९
लाटानामुक्तिभिश्रायं षदप्रकार: प्रकाशते ॥ ७१ ॥ एवं स्थिते सामान्यलक्षणविभागमाह-श्रुतिभिरिति । आवृत्तिद्विंधा- वर्णमात्रावलम्बिनी, समुदायगोचरा च। आद्यापि द्विधा-सामान्यतः, रूपतथ। सामान्यमपि द्विधा-स्थानतः, व्यापारतथ। तत्र स्थानं कण्ठादिलक्षणं सैव श्रुतिः । श्रूयते हि तयाभिव्यक्तो वर्णव्यापारोऽभिव्यजनरूपः, स एव रसविषये वर्तनं वृत्तिरुच्यते। श्रुतिभिरित्वादी इत्थंभूतलक्षणे तृतीया॥ प्रायेण श्रुत्यनुप्रासस्तेष्वनुप्रासनायक: । सनाथैव हि वैदर्भी भाति तेन विचित्रिता॥ ७२॥ प्रायेणेति। श्रुत्यनुप्रासो हि ऋ्ेषघटकः। शेपक्च गुणान्तरसमकक्षतयावतिष्ठमानो वैदभी प्रयोजयति। अनुप्रासान्तरं तु प्रौढिं वा माधुर्य वा प्रकर्षयतीति न तथानु- कूल्यम्। कविशक्तिवशानु कचित्तदपि प्रयोजयतीति प्रायपदेन सूचितम्। स्थिति- प्रयोजको लोके नाथ इत्युच्यते, तेषु नायक इत्येव वक्तव्ये पुनरनुप्रासपदमनुप्रासा- न्तरसाधारण्येनैव शब्दालंकारत्वं दर्शयितुमिति समाधेयम्। विचित्रिता आलेख्य- मिच हेखया चमत्कारकारित्वमानीता ।। निवेशयति वाग्देवी प्रतिभानवतः कवेः । पुण्यैरमुमनुप्रासं ससमाधिनि चेतसि॥ ७३॥ कर्थ पुनरस्यानुप्रासस्य पृथकप्रयन्नानुसंघेयस्यापि रसप्रकाशसामम्यामन्तर्भाव इत्यत आह-निवेशयतीति। अक्िष्ठपदवाक्यार्थस्फुरणं प्रतिभानम्। तदेव कथमित्यत आह-ससमाधिनीति। पुण्यैरिति। तेन रसवत्त्वव्यवस्थितस्व कवेरहंपूर्विकाकृष्टोऽनुप्रासो न पृथकप्रयल्ननिर्वर्त्य इति तात्पर्यम्। त्रम्यादिमेदोउप्रे विवरिष्यते। स त्रिधा-आम्यः, नागरः, उपनागरश्र। तेषु आम्यश्चतुर्घा- मसृणः, वर्णमसृणः, वर्णोत्कटः, वर्णानुत्करश्र। तेषां मसृणो यथा- 'एष राजा दयालक्ष्मी प्राप्तवान्त्राह्मणप्रियः । तदा प्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत् ॥ १६६ ॥'
Page 323
२₹० 1 काव्यमाला ।
अत्र स्थानतः समानश्रुतीनां मूर्धन्यतालव्यदन्त्यौष्ठयकण्ठयवर्णानां प्रथमतृतीयपादयोर्निरन्तरा द्वितीयचतुर्थयोश्च सान्तरा पट इव सग्दान्नीव वा वर्णप्रदानान्मसृणैवावृत्तिः । सोऽयं श्ुत्यनुप्रासो मसृण इत्युच्यते॥ एकपद प्रतिभासमात्रानुमेयो मसणः । रूपसाजाल्येऽपि मसणतान्यग्भूतो वर्णम- सृण: । उद्धटरूपसाजात्यानुविद्धो वर्णोत्कटः । अनुद्धटसाजात्यानुरोधेन किंचिद्भि- भूतमसृणभावो वर्णानुत्कटः। एप राजेत्यादावुदाहरणे पकाररेफौ मूर्धन्यौ, जका- रयकारी तालव्यौ, दकारलकारी दन्त्याविति प्रथमपादे । तकारदकारी दन्तौ, पकारभकारावोष्यी, तकारधकारी दन्त्याविति तृतीयपादे च। निरन्तरं द्विती- य्यपादे रेफणकारी मूर्धन्यौ। चतुर्थपादे लकारसकारी दन्त्यावित्यादि। बिना कमेण सान्तरमावर्तनं नवरूपसाजात्यं कचिदुद्विखतीति मखण एवायम् ॥ वर्णमसृणो यथा- 'स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोघरोत्सेधनिपातचूणिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभि प्रथमोदबिन्दवः १६७' अत्र दन्त्यौ मूर्धन्यावोष्ठयौ डलयोरैक्येन दन्त्यपञ्चकं मूर्धन्य इत्या- दिना क्रमेण यद्यपि पूर्ववत्स्थानतः समानश्रुतितया मसृणैवावृत्तिः, तथापि चित्रपट इव माल्यग्रथन इव वा योडयं क्षणं पक्ष्मसु ताडिता- घराः, पयोधरः, वलीः, रखलिताः प्रपेदिरे चिरेण नामि प्रथमोदबिन्दवः, इति नानावर्णात्मकः सूत्रान्तरस्येव पुष्पान्तरस्येव वा स्थानमेदेन मसृण एव निवेशस्तेनैष शुत्यनुपरासो वर्णमसृण इत्युच्यते। अत्र चित्रतन्तुमयः पटः। एकजातीयकुसुमग्रथनात्प्राक स्थिता इत्यादि। अत्र थकारतकारी दन्तयो, पकारणकारी मूर्धन्यौ, पकारमकारावोघ्वो। ताडितेत्यत्र डकारे लकारकल्पनया सनलतधाः पथ् दन्लयाक्च रेफो मूर्धन्य इति प्रथमपादे। द्वितीयपादे च धकारसकारी नकारतकारा दन्त्यावित्यादिना कमेण सान्तरा निरन्तरा च श्रुतित एव वर्णावृत्ति: पूर्ववदुपलभ्यते। किंतु तकारादीनां रूपतोऽपि स्थाने स्थाने पूर्वमसृणतान्यवभूतैवावृत्तिस्तेनायं वर्णमसृणः । श्रुतिसाजातयं च न कचिद्विघटते । अत्रैव निदर्शनद्ठयम्।।
Page 324
२ परिच्छेद: ।] सरखतीकण्ठाभरणम्। २३१
वर्णोत्कटो यथा- 'विमुच्य सा हारमहार्यनिश्चया विलोलदृष्टिः प्रविलुप्तचन्दना । बबन्ध बालारुणवभ्रुवल्कलं पयोघरोत्सेधविशीर्णसंहतिः ॥१६८।।' अत्र सर्व पूर्ववत्। विंतु तृतीयपादे बबन्ध वालारुणवभ्रुवल्कल- मिति वर्णाधिक्ययोगः । सोऽयं वर्णोत्कटो नाम श्रुत्यनुप्रासः ॥ विमुच्येति । हारोचितसंनिवेशयोरपि सतनयोरनुचितवल्कलबन्धसंभावने हेतुरहार्यनिश्वयेति। अत एव सा मां कोऽपि वारयेदिति कातरताप्रादुर्भावादि- तस्ततो विलोलदृष्टिः । अत्र हकारमकारावोध्यो, चकारयकारी तालव्यावित्यादिना कमेण मसृणा हकारादीनां रूपसाजात्येऽपि मसणताप्राधान्याद्वर्णमसणा चावृत्ति- रित्याह-अत्र सर्वमिति। वर्णोत्कटत्वं व्याचष्टे-वर्णाधिक्ययोग इति। उद्धटं हि रूपसाजातं वर्णोत्कटत्वम् । तब् सरूपवर्णावृत्त्याधिक्येनेत्यर्थः ।। वर्णानुत्कटो यथा- 'ततः प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनघूसरालका । न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि ।१ ६९। अत्र दन्त्यवर्णप्रायतयातिमसृणत्वे शिलातलेष्विति दन्त्यवर्णाभ्या- मेव वर्णस्तोमो दत्तः । सोडयं वर्णानुत्कटो नाम श्रुत्यनुप्रासः । तेऽमी चत्वारोऽप्यतिप्रसिद्धतया आम्या उच्यन्ते॥ ततः प्रभृतीति। तापोद्रेकाइत्तं दत्तमेव चन्दनमाश्यानभावेन रेणुभिर- लकच्छटासु विश्ीर्यत इति द्वितीयकामावेशो ध्वनितः। अत्र तकारनकारी दका- रनकारावित्यादिना क्रमेण शलोकसमाप्तिं यावद्वहवो दन्तयाः । तेनैकश्रुतिव्याप्तस्य संदर्भस्य मसूणतायामतियः । शिलातलेति रूपसाजालयेन लकारावुद्धतश्रुतिकी । न चाधिकावृत्तिरत्रास्तीत्यनुत्कठता। न च श्रुतेरुद्धवेऽपि मसृणता न प्रकष्यत इति वर्णानुत्कटोऽयम्। आम्यत्वं व्याचष्टे-तेऽमी चत्वारोSपीति। श्रुति- साजात्यस्य शब्दानुशासनेऽपि प्रसिद्धेरतिप्रसिद्धत्वम् ।। आ्म्यवैपरीत्येन नातिप्रसिद्धो नागरः । यथोच्यते- एकत्वबुद्धि र्मेदेऽपि तच्वेऽप्येकत्वनिह्वः । यस्य वर्णस्य तं प्राहुरनुप्रासस्य जीवितम्।। ७४॥
Page 325
२३२ काव्यमाला। तत्र भेदेSप्येकत्ववुद्या समानस्थानयोर्यथा- 'हरेलद्वितघर्माशुव्योभ्नि दीर्घेण रंहसा। बलिबन्घनघोरोऽद्रिरंहःसह्गं निहन्तु वः ॥ १७० ॥' अत्र हकारस्य तुल्यस्यातुल्यस्थानेन धकारेण सह भेदेऽप्येकत्व- बुद्ेस्तुल्यश्रुतित्वमिति भेदेऽप्येकत्ववुद्या नागरानुप्रासोऽयम्। आम्यवैपरीत्येनेति। श्राम्यविरुद्धखभावो हि लोके नागर इत्युच्यते।
भवति। एतदेव पूर्वाचार्यमतेन विशदयति-यथोच्यत इति। एकश्रुतिकतया भानं हि श्रुतिसाजात्यमभिमतम् । श्रुतिश्र वास्तवी प्रतिपादनमात्रारूढा वेति न कबिद्विशेषः । ततो मेदेऽप्येकत्ववुद्यानुप्राससिद्धिः। तत्वे एकत्वे। आपाततः साजात्यानवभासेऽपि सहृदयप्रणिधानेनावभासनं श्रुत्यनुप्रासप्रयोजकमेव। अनु- प्रासस्य । अनुप्रासवतः संदर्भस्येत्यर्थः । विजातीययोरेकजात्यप्रतिबिम्बनं द्विधा भवति स्थानसाम्ये तदसाम्ये च। तयोरादयमुदाहरति-तत्रेति। दीर्घेण रंहसेति, घोरोऽद्विरिति, रंहःसङमिति, घकारहकाराणां स्थानसाम्येऽपि वैजात्यमस्लेव। तथा पठिती तुल्यवच्छुतिः प्रतिभातीति सहृदयहृदयसाक्षिकोऽयमर्थः ॥ तथैवासमानस्थानयोर्यथा- 'उच्छलन्मत्स्य पुच्छाग्रदण्डपाताहताम्भसि। जगदुद्यानमम्भोधावुन्ममज्ज ममज च ॥ १७१ ॥' अत्रोच्छलन्मत्स्यपुच्छा्रेत्यत्र त्स्यच्छकारयोरिव त्स्यकारस्यापि तुल्य- श्रुतित्वमित्यसमानस्थानत्वेन भेदेऽप्येकत्ववुद्या नागरानुप्रासोऽयम् । अत्र त्स्यच्छकारयोरिति। चछौ तालव्यौ, तसौ दन्त्याविति स्थानमेद: प्रकाश एव । तथापि पिण्डीभूताभ्यां च स्तम्बीभूतमध्यपतिती तसा समानश्रुतिका- विति पठितो साभाग्यमर्पयतः। तेनायमसमानस्थानयोरेकत्वबुद्धा नागरानुप्रास इति॥ तत्त्वेऽप्येकनिहवेन डकारवकारयकाराणां यथा- 'कोडे मा डिम्भमादाय चण्डि पीडय वक्षसा। कर्णे ब्रूहि वयस्याया युवा यदयमुच्यते ॥ १७२ ॥'
Page 326
२ परिच्छेद: ॥] सरखतीकण्ठाभरणम्। २३३
अत्र ढकारादीनामीषत्सपृष्टतादिभिरेकत्वेSपि भेदावभास इति तत्त्वे- उप्येकत्वनिह्वेन नागरानुपरासोऽयम् ॥ तत्त्वे5पीति। इतादी वृत्तिमात्रं भिद्यते, न तु रूपमिति महाभाष्यकारो- कदिशा येषामेकस्थानत्वेऽपीयत्स्पृष्टतरत्वादिकृता मेदप्रथा ते डकारादयः । कति- पयेऽस्य विषयास्तानुददिश्य क्रमेणोदाहरति-कोड इत्यादि। अङ्गगतस्य चाल- कस्य वक्षसा पीडनं संक्ान्तकमालिङ्गनमामनन्ति। अनेन किल प्रच्छन्नप्रियगोचरो गाडालिगनमनोरथ: प्रकटितो भवति। कर्णयोरुपांशु यदभिधीयते तेन तुल्य- मिदमिति विदग्धसहचरीपरिहासोक्तिरियम्। अत्र च फ्रोडडिम्भेत्यादौ डकार- वकारयकाराणामीषत्सपृष्टतरत्वादिमेद: श्रुतिसाजातयं च सुप्रसिद्धमेवेति।। तथैव ढकारवकारलकाराणां यथा- 'नवोढे त्वं कुचाट्यापि नोपगूढाय ढौकसे। वहन्बाहुलते ह्रीणो वरः पुलकलद्विते ॥ १७३ ॥' अत्र ढकारादीनामीषत्स्पृष्टतादिभिरेकत्वेऽपि भेदावभास इति तत्त्वे- Sप्येकत्वनिह्वेन नागरानुप्रासोऽयम्। ढकारवकारलकाराणामिति। वकारोदाहरणं दत्तमपि वर्णान्तरसर- उतया पुनर्दीयते। उपगूडमालिज्ञनम् । अपिशब्दो भिन्नक्रमः । उपगूढायापि न ढौकसे। दूरे पततः कचग्रहादिकेलियु प्रवृत्तिलंङ्गनेन सर्वाज्ीण: पुलकोद्गेदो बहिर्व्यावर्तनमन्तरनुवर्तनं च मुग्धान्ननाजातिः । अन्रापि ढकारादीनामीपत्स्पृ- उतादिभेद: सुबोध एव ।। उभयगुणयोगान्नात्यप्रसिद्ध उपनागरः । यथोच्यते-
समानश्रुतितान्योन्यं सोऽनुप्रासः प्रशसते॥ ७५॥ स डलयोरैक्येन यथा- 'शयने यस्य शेषाहिः सनीडे वडवानलः । महासाहसिनामक्यं तमीडे जडशायिनम् ॥ १७४ ॥' सोऽयमुपनागरः श्ुत्यनुप्रासः ॥
Page 327
काव्यमाला।
उभयगुणयोगादिति । प्रतिध्धप्रसिद्धी हौ गुणी । अत्र प्रत्यक्षानुमानरूपो- पायमेदादविरोधः । तदेतदन्यमतेन विव्ृणोति-डलयोरैक्यमिति। सनीड; समीपं जलमज्जनशेपाहिवडवानलानामनर्थनिदानतया प्रर्यातानामपि सेवया महा- साहसिकानामम्यता। अत्र डकारलकारयोभिन्नश्रुतिता प्रत्यक्षत एवं। श्रुतिसाम्यं पुनरनुमानात्प्रतीयते । एवमुत्तरोदाहरणेष्वपि बोद्धव्यम् ।। नणयोरैक्येन यथा- 'वाणैः क्षुण्णेषु सैन्येषु त्वया देव रणाङ्गणे। हतशेषाः श्रयन्तीमे शून्यारण्यानि विद्विषः ॥ १७५ ।' अत्र क्षुण्णेषु सैन्येषु शून्यारण्यानीति नकारणकारयोः सल्पश्रुति- त्वमेकत्वं वा भासत इति उपनागरोऽयं श्रुत्यनुप्रासः ॥ क्षुण्णेपु सैन्येष्विति । अ्रन्थिमहित्रा नकारणकारयोः साम्यग्रतिभासः । रणाङ्गण इति । मध्यवर्तिनां संयोगेन साम्योन्मुद्रणम्। अन्ञणशब्दोऽधि- करणल्युडन्तः । पृषोद्रादित्वाण्णत्वव्युत्पादनमनार्षम् । एवं शून्यारण्यानीत्यन्न व्यार्येयम् । आद्यन्तव्याख्यानमुपलक्षणमवसेयम् ॥ रलयोरैक्येन यथा- 'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या। रतनैः पुनर्यत्र रुचा रुचं स्ामानिन्यिरे वंशकरीरनीलैः ॥ १७६॥ अत्र करीरनीलैरिति रेफलकारयोरैक्येन तुल्यश्रुत्या चतुर्ष्वपि पा- देष्वनुप्रासनिर्वहणमित्युपनागरोऽयं श्रुत्यनुप्रासः ॥ निरन्तररेफग्रथनालीढस्येव लकारस्य श्रुतिसाजाव्यमुकिसतीति तदिदमाह- अत्र करीरनीलैरिति। एतदनुप्राससिध्या चतुर्ष्वपि पादेपु रेफानुप्रासनिर्व-
दन्त्यतालव्यानामैक्येन यथा- 'विद्यास्यन्दो वाग्विदां यः प्रसन्नः पुण्यां वाचं देवतां तां नमामः । यां त्रह्माणश्चिन्तयन्ते विशोकाः सा नो देयात्सूनृता सूनृतानि॥१७७॥'
Page 328
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। २३५
अत्र दन्त्यतालव्यानामैक्येन तुल्यश्रुतिनेत्युपनागरोऽयं शत्यनुप्रासः। सर्वेडपि चानुप्रासाः प्रायेण विसदृशवर्णान्तरिता एव खदन्ते इत्यौष्ठय- कण्ठ्यादीनामिहानुप्रवेशो भवति ॥ विद्यास्यन्दः सारसतप्रवाह: सैव वाग्देवता शब्दब्रह्मरूपा तचिन्तया पर- ब्रह्माधिगमनिःश्रेणीभूतया शोकस्य इष्टहानिजसेदस्य विच्छेदः । अत्र स्यन्दः प्रसन्न इति दन्त्यौ सकारी, ब्रझ्माणश्वेतयन्तो विशोका इत्यादेशानादेशा शकारी तालव्यो, पुनरन्ते सा सूत्ृतानीति त्रयो दन्त्याः, सवेषां संभूय पाठे तुल्यश्रुतितैव प्रतिभासत इति। ननु सजातीयानां निरन्तरमावापे कर्तव्ये किमिति विजाती- यव्यवहितैरावृत्तिरुदाहियत इत्यत आह-सर्वे5पीति।। यथा ज्योत्स्ना चन्द्रमसं यथा लावण्यमङ्गनाम्। अनुप्रासस्तथा काव्यमलंकर्तुमयं क्षमः ॥ ७६॥ ेपनिर्वाकतया अुत्यनुप्रासोऽलंकार इत्युक्तम्, तच संदर्भव्यापकतयैव निवहतीत्याह-यथेति । ज्योत्सालावण्ययोः सर्वाज्ञीणा शेपसुभगयोरेवालं- कारताप्रसिद्धिः । अनुप्रासः कविगिरां पदवर्णमयोऽपि यः । सोऽप्यनेन स्तबकित: श्रियं कामपि पुष्यति॥७७॥ नन्वेवमनुप्रासान्तरविषयेऽपि श्रुत्यनुप्रासः प्रसकस्तन्र च किमनेन करिष्यत इत्यत आह-अनुप्रास: कविगिरामिति। उच हि-'न घटनामन्तरेण काव्यभावः । न च काव्यमपहाय वर्णानुप्रासादीनामात्मलाभः' इति ॥ मुहुरावर्त्यमानेषु यः स्वर्ग्येषु वर्तते। काव्यव्यापी स संदर्भो वृत्तिरित्यभिधीयते॥७८ ॥ स्ववर्ग्येप्विति। खशब्द आत्मीयवचनः। खवर्गे भवाः स्व्ग्याः कच- टतपान्तःस्थोष्मोपलक्षिता: सप्तवर्गाः । खवर्ग्येपु वर्तत इत्यर्थकथनम् । माणि- क्यस्तबकितहारलतावदन्योन्यालम्बनेन परभागलाभ इत्यभिप्रायतया च काव्य- व्यापकेनैव संदर्भेण निरूप्यमाणा वर्ग्या वृत्ति्वृत्त्यनुप्रास इति पर्यवसितोऽर्थः॥ कार्णाटी कौन्तली कौङ्की कौङणी बाणवासिका। द्राविडी माथुरी मात्सी मागधी ताम्रलिप्तिका ।।७९।।
Page 329
२३६ काव्यमाला। औण्ड्री पौण्ड्रीति विद्वद्धि: सा द्वादशविधेष्यते। अथ लक्षणमेतासां सोदाहरणमुच्यते। ८० ॥ वर्णानुप्रासाद्भेदो वक्ष्यते-कर्णाटादि प्रभवकविहेवाकगोचराः कार्णाटीप्रमृतयो न तु वृत्तीनां देशैः कथिचिदुपकारः। बणवासनामा दक्षिणापथे रन्नाभगवतीचिहितो देश: । [श्रम धातोरिति । विधिमिति इति परायणम् ॥] तासु वर्णानुपरासवती कार्णाटी यथा- 'कान्ते कुटिलमालोक्य कर्णकण्डूयनेन किम् । कामं कथय कल्याणि किंकर: करवाणि किम् ॥१७८।' चवर्गानुप्रासवती कौन्तली यथा-
चम्पकेषु चकोराक्षि चञ्चरीकाश्रकासति ॥ १७९॥' अवहित्धप्रस्तावे कर्णकण्इयितमोह्टायिताख्यः *ारभावजो विकारः ॥ टवर्गानुप्रासवती कौक्की यथा- 'कुम्भकूटाटटकुट्टाककुटिलोत्कटपाणिरुट् । हरि: करटिपेटेन न द्रष्टुमपि चेष्ट्यते ॥ १८० ॥' कुम्भकूटं कुम्भाग्रं तदेव अट्टोऽटालकः। 'रुष हिंसायाम्'। यथोकेन पाणिना रुपतीति क्िप्। पेटः समूहः ॥ तवर्गानुप्रासवती कौड्डणी यथा - 'मघुर्मधूनि गान्धर्वमन्दिर मदिरेक्षणा। इन्दुरैन्दीवरं दाम काममानन्दयन्ति नः ॥ १८१ ॥' मघुर्वसन्तः । गान्ध्वं गीतम्। अत्र धकारदकारानुप्रासैरासमाप्ति निर्वहणम्॥ पवर्गानुप्रासवती वाणवासिका यथा- 'प्रिया प्रगल्भा ताम्बूलं परिसुत्फुल्लमुत्पलम्। पृषत्काः पञ्चवाणस्य पश्चमः पञ्चमध्वनिः ॥१८२॥ १. कुण्डछान्तरगतोडयं भागोऽनन्वितः प्रतीयते।
Page 330
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। २३७
परितुत् मदिरा। पृषत्का बाणाः। पश्रमः खरविशेषसतद्भयिष्ठो ध्वनिः पथचमध्वनिः॥ अन्तःस्थानुप्रासवती द्राविडी यथा- 'प्रियाललवलीतालतमालैलावनावली। भाति पत्रलहिन्तालकृतपुण्ड्ा वधूरिव। १८३ ॥' पत्रलाः सान्द्रपत्राः । सिध्मादेराकृतिगणत्वाहच्। पुण्डं तिलकः। अत्र कारवकारानुप्रासाभ्यां संदर्भनिर्वाह्ः ॥ ऊष्मानुपासवती माथुरी यथा- 'पुष्णती पुष्पधनुषं मुष्णती पोषविप्ुषः । मिषन्ती निर्निमेषेण चक्षुषा मानुषी न सा ।। १८४ ।।' शोषो विरहदाहस्तस्य विप्रुषस्तीक्ष्णा भागाः । तेऽमी सप्त शुद्धा एव वृत्त्यनुप्रासाः।। द्वित्रिवर्गानुप्रासवती मात्सी यथा- 'कोकिलालापवाचालो मामेति मलयानिलः । उच्छलच्छीकराच्छाच्छनिर्झराम्भ:कणोक्षितः ।।१८५।।' संकीर्णा: पुनरन्ये पथ्च भवन्ति। तन्र संकरो द्विधा-विजातीयसंवलनम्, मिथः संभेदेन संयोगरूपता च। कोकिलालापेत्यादी कवर्गान्तःस्थचवर्गानुप्रासाः स्फुटा एव। संयोगस्तु विद्यमानोऽपि न विवक्षितः ॥ द्वाभ्यां विदर्भितैकव्म्या मागधी यथा- 'अघौघं नो नृसिंहस्य घनाघनघनध्वनिः । हन्याद्वुरुघुराघोरः सुदीर्धो घोरघर्घरः ॥ १८६ ॥' विदभित: स्वान्तरायेण वैद्भीप्रपशशोभामानीतः । घुरुघुरेत्यव्यक्तानुकरणम्। अत्रासमाप्ति कवर्गानुप्रासस्तवर्गान्तःस्थानुप्रासाभ्यां विदर्मितः । एवमन्यत्रापि वैदभी गवेषणीया॥ सान्त्यसंयोगिवर्न्या ताम्रलिप्तिका यथा-
कक्कणाङ्कभुजा भान्ति जितानञ तवाङ्रनाः । १८७ ॥'
Page 331
२३८ काव्यमाला।
संयोगो द्विविघ :- सजातीयेन, अन्येन च । आद्यसत्रिविध :- खर्ग्यान्तस- रूपतदन्यसंयोगमेदात्। एते यथाक्रमं वृत्तित्रयं प्रयोजयन्तीत्याह-स्वान्त्ये- त्यादि। शिजाना मधुर शब्दायमानाः । मजजीरा नूपुराः । अत्र पूर्वाधे खान्त्य- संयोगिनी चवर्गी, उत्तराध तु कवर्गाविति।। सरूपसंयोगिग्रथितौण्ड्री यथा- 'सल्तापल्लवोल्लासी चित्तवि(वृ)तहरो नृणाम्। मज्जतीज्जलसज्जासु नदीषु मलयानिलः ॥। १८८ ।।' सन्तः कमनीया लतानां पहवास्तदुल्लासनमात्रप्रवीणतया तीव्रताव्यतिरेकः। अत एव नृणां विदग्धमिथुनानां चित्तमेव सर्वखभूतं वित्तं हरतीति। इज्ला निचु- लास्तैः सज्ा: सन्रद्धाः । निचुलनिकुज्जसन्नद्धनदीमज्जनेन शीतलत्वमुन्मीलितम्।। असरूपसंयोगग्रथिता पौण्ड्ी यथा-
पीनस्तनस्थिता ताम्रकम्रवस्नेव वारुणी ।। १८९।' अस्तोऽस्ताचलः । कम्रं कमनीयम् ।। अकठोराक्षरादानं नातिनिर्वहणैषिणः । अशैथिल्यं च सत्कर्तुं वृत्यनुप्रासमीशते ॥८१॥ वृत्त्यनुप्रासरसिकस्य कवे: प्रसजमानं दोषमपाकर्तु शिक्षामाह-अकठोरेति। तटुक्तम्-'परुपाभिधायिवचनादनुकरणाच्ापरत्र नो परुषम्। रचयेदयागतिः स्यात्तत्रापि हादयो हेषाः ॥I' अतिनिर्वाहे व्यक्तमेव वैरस्यम्। तदुक्तम्-'सर्व एवानुप्रासाः प्रायेणे त्यादि। कोमलमात्रवर्ग्यनिर्वहणे तु शैथिल्यसंभावनमिति ॥ क्वचिदस्ति कचिन्नास्ति कचिदस्ति न चास्ति च। वर्णानुप्रास एपा तु सर्वतोऽस्तीति भिद्यते ॥ ८२॥ नन्वनुप्रासाद वृत्तीनां को विशेष इत्यत आह-क्चिदिति । कचिदव- त्तिभागे चरणाद्यात्मके भवलयेव । कचित्पुनरंशमेदेन भवति न भवति च । तावतैव तस्यालंकारत्वम्। वृत्तिशरीरव्यापकतया निरूप्यमाणस्तु वर्ग्यान्तोऽन्य एव। अयं वर्णानुप्रासादृत्त्त्यनुप्रास इत्यर्थः ।
Page 332
२ परिच्छेद: I] सरस्तीकण्ठाभरणम्। २३९
अन्ये पुनरन्यथा वृत्ति व्याचक्षते- स्पर्शादीनामसंचन्धः संबन्धो वापि यो मिथः। स्फुटादिबन्धसंसिध्धै सेह वृत्तिर्निगद्यते॥ ८३॥ अन्ये पुनरिति। वर्णानां वर्तनं वर्तनाघिष्ठानं च वर्तिपदेनाभिमतम्। आद्ये संघटनविघटनाभ्यां द्विधा । समस्तव्यस्तमेदेन संघटनविघटने द्विधा। कादयो मावसाना: स्पर्शाः । आदिग्रहणादन्तःस्थोष्मणोः संघटनबहुलः संदर्भ: प्रस्फुटः । विघटनबहुल: कोमलः । उभयबहुल उन्मिश्रः ॥ काव्यव्यापी च संदर्भो वृत्तिरित्यभिधीयते। सौकुमार्यमथ ग्रौदिर्मध्यमत्वं च तहुणाः ॥ ८४॥ गम्भीरौजख्विनी श्रौढा मधुरा निष्ठुरा श्लथा। कठोरा कोमला मिश्रा परुपा ललितामिता ॥ ८५॥ द्वितीयं वृत्तिशब्दार्थमाह-काव्यव्यापी चेति । अत्रापि दोषप्रसग्गा- पाकरणार्थमाह-सौकुमार्यमिति। अत एव [सौकुमार्यप्रौढिमध्यमत्वानि] गुणाः । शैथिल्यपरुषत्वे तु दोषावित्यर्थः ॥ इति द्वादशधा भिन्ना कविभि: परिपठ्यते। कारणं पुनरुत्पत्तेस्त एवासां विजानते ।। ८६ ।। योगासंयोगयोः प्रतियोगिव्यवस्थाविरहात्कथं द्वादशप्रकारता व्यवस्थितिरित्या- रायवानाह-कारणं पुनरिति। तासु गम्भीरा यथा- 'अप्फुन्दन्तेण णहं महिं च तडि उद्धमाइअदिसेण। दुन्दुभिगम्भीररवं दुण्ड्हिअं अम्बुवाहेण ।। १९० ।।' [आस्पन्दता नभो महीं च तडिदुष्मापितदिशा। दुन्दुभिगम्मीररवं दुन्दुभितमम्बुवाहेन ॥] सैषा प्रायस्तवर्गपवर्गयोस्तृतीयचतुर्थानां पकारफकारयोश्च खसंयोग- बिन्दुयोगाभ्यां जायते।।
Page 333
२४० काव्यमाला।
दूषणप्रतिपत्तिसौकर्यात्ततप्रसिध्धैव पृथगुदाहियत इत्याह-ताख्विति। अप्फु- न्दन्तेण व्याप्तवता। उद्धमाइअं व्याप्म्। दुन्दुभिरन्तर्गतकांस्यभाजनो निःखान- विशेष: । दुण्ड्वहिअं शब्दायितम्। दकारघकारी तवर्गस्य बकारभकारी पवर्गस्य तृतीयचतुथाँ।। ओजखिनी यथा- 'पत्ता अ सीभराहअधाउशिलाअलणिसण्णराइअजलअम्। सज्जं ओज्जुरपह सिददरिमुह णिम्महिअवउलमइरामोदम्॥१९१॥' [प्रास्ताश्च शीकराहतधातुशिलाजलनिषण्णराजितजलजम्। सख निर्झरप्रहसितदरीमुखनिर्मथितबकुलमदिरामोदम् ॥] सेयं मूर्घन्यानां प्रथमचतुर्थपञ्चमद्वित्रैस्तदावृत्त्या च प्रायो जायते॥ सततशीकर सिच्यमानगैरिकशिलातललुण्ठनेन जलदानां रजनम्। विशीर्य पत- नेनात्यन्तधवला निर्झरा एव हासो यस्य तादृशेन दरीमुखेनान्तःप्ररूढबकुलकुसुमा- मोदनिःसरणर जितजलघर प्रतिबिम्बभूतताम्रनयनोन्मुद्रणात्। हासबकुलामोदाभ्यां च क्षीबतारोपरूपा समासोत्तिर्ध्वन्यत इत्याराध्याः । ओजुरो निर्झरः । णिम्म- हिअं निःसतम्॥ प्रौढा यथा- 'कृत्वा पुंवत्पातमुच्चैर्भृगुभ्यां मूक्षि आ्रव्णां जर्जरा निर्झरौघाः । कुर्वन्ति द्यामुत्पतन्तः स्मरात सवलोंकस्त्रीगात्रनिर्वाणमत्र ॥१९२॥' सैपा प्रायेण मूर्घन्यानामन्तःस्थानां संयोगात्पूर्वगुरुत्वेन जायते। मृगबस्तटाः । मृगुपातस्य सुरस्त्रीसंगम: फलम्। अत्र कुर्वन्ख्लोकनिर्वर्लेतेषु मूर्धन्यानामन्तःस्थसंयोगा उचै:शब्द इत्यादौ खभावगुरूणामपि पूर्वरूपसंयोगस- निधी छायाविशेषो भवतीत्याहु: केचित् ।। मधुरा यथा-
अयं मधुरुपैति त्वां चण्डि पङ्कजदन्तुरः ॥ १९३ ॥' सैपा प्रायोSनुखारपुरोवर्तिस्पर्शतया जायते ।।
Page 334
२ परिच्छेदः ॥] सरस्तीकण्ठाभरणम्। २४१
अनुस्वारपुरोवतीति। अनुखारखरूपतदादेशावनुखवारपदेन गहोते। तेन शमितहासेत्यादावनुस्वाराभावेऽपि न लक्षणमुदाहरणम् ।। निघुरा यथा- 'खाञ् श्विष्टाद्रिजन्मानं नेत्रार्चि:पुष्टमन्मथम् । स्तौमि त्यक्षं द्युषज्येष्ठं दैत्यश्रेण्यर्चिताङ्गिकम् ॥१९४॥' सैषा प्रायः संयोगभूयस्त्वेनोत्पद्यते ॥ स्वाङ्गेति । दिवि सीदन्तीति दुपदो देवाः । सुषामादित्वात्यत्वम्। अत्रैका- न्तरिता: संयोगा: संदर्भव्यापकाः प्रतीयन्ते। सोऽयमस्याः संयुज्यमानाविशेषेऽपि वृत्त्यन्तराद्विशेषो निष्ठुराद्वैपरील्येन शरेषोदाहरणं सुगमम् ॥ लथा यथा- 'दयितजनविरहविगलितनयनोदकपीतहरिणमदतिलकम् । वदनमपगतमृगमदशशिकराणें वहति लोलदशः ।।१९५।' सेयं प्रायो व्यञ्ञजना नाम संयोगेन जन्यते।। करणिः साईश्यम् ॥ कठोरा यथा- 'निसर्गनिर्गतानर्घघर्घरध्वनिहास्तिकम्। चक्रे चकं युधि कामनलर्कः कर्कशार्करुक्॥ १९६ ॥ सेषा प्रायः कण्ठयरेफादिसंयोगादुत्पद्यते ।। सेपा प्रायः कण्ठयेति । कण्ठ्यरेफयोः कचिदन्यस्याप्यादिपदोपात्तस्प संयोगोऽवसेय: ।। कोमला यथा- 'दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते। रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ॥ १९७ ॥' सेयं रेफणकाराद्यसंयुक्तकोमलवर्णविरचनया निष्पद्यते।। १६ स० क०
Page 335
२४२ काव्यमाला।
मिश्रा यथा- 'पिनष्टीव तरक्काग्रैरुदधि: फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्ञनाः ॥ १९८ ॥' सैषा प्रायः कठोराणामोष्ठयकण्ठ्यमूर्घन्यानां बाहुल्यादिभिरुपलभ्यते।। बाहुल्यादिभिरिति। बाहुल्याल्पत्वमिश्रणैः प्रादेशिकैरित्यर्थ: ॥ परुषा यथा- 'जहे निहादिहादोऽसौ कहाराहादितहूदः । प्रसद्य मद्या गर्द्यत्वमर्हणाहः शरन्मरुत् ॥ १९९ ॥' सेषा पायेणोष्मणामन्तःस्थादिसंयोगैरवस्थाप्यते ।। ललिता यथा- 'द्राविडीनां श्रुवं लीलारेचितभ्रूलते मुखे। आसज्य राज्यभारं खं सुखं खपिति मन्मथः ॥ २०० ॥' सैषा प्रायेण दन्त्यौध्यतालव्यानां मध्येऽन्तःस्थादिसंयोगैःस्ाप्यते॥ द्राविडीनामिति। किंचिदुन्नमनं रेचितम्। तेनाधिज्यकोदण्डक्रियाका- रिभ्रूलतासनाथे दुःखराज्यभारारोपः । सुगममुदाहरणम् । अमिता यथा- 'बकुलकलिकाललामनि कलकण्ठीकलकलाकुले काले। कलया कलावतोऽपि हि कलयति कलितास्त्रतां मदनः ॥२०१॥' सेयममितयोरेव ककारलकारबन्धयोरनुप्रासेन प्रसूयते। इति द्वादशधा वृत्ति: कैश्चिद्या कथितेह सा। न गुणेभ्यो न वृत्तिभ्यः पृथकत्वेनावभासते ।। ८७ ।। तदेतत्सर्वेषां मतं दूषयति-न गुणेभ्य इति। समतासीकुमार्यादिगुणेषु भारतीप्रमृतिषु च वृत्तिषु यथावथमन्तर्भावोऽबगन्तव्यः।।
Page 336
२ परिच्छेद: ॥] सरस्वतीकण्ठामरणम्। २४३
श्रुत्यनुप्रासवर्णानुप्रासयोरपि दुष्कराः। कचिद्जेदा: पृथकर्तुमस्यास्तेनेह नेष्यते।। ८८॥ श्रुत्यनुप्रासवर्णानुप्रासयोरिति । विषयसप्तमी । वर्णावृत्तरवृत्त्यनुप्रास- साधारणत्वात्।। यथाम्रातकपुष्पादिस्गादेर्वर्ण उच्यते। वर्णावृत्तिस्तथा वाचां वर्णानुप्रास उच्यते ॥। ८९॥ ततो वर्णानुप्रासं विशेषयत्राह-यथाम्रातकेति। सगादेवर्णस्थानीया वर्णा- वृत्तिर्वर्णानुप्रासः । तत्रोपमानभूतवर्णविवरणं समानजातीयकुसुमादिविरचितमा- लापटप्रनृतिषु यदन्तरान्तरा विजातीयाम्रातककुसुमादिसंनिवेशनं तद्वर्ण इत्युच्यते। तद्वत्या वाचा वर्णावृत्तिः । सैव वर्णानुप्रास इति सूत्रार्थः । स द्विधा-संयुक्तासं- युक्तवर्णनिरूप्यत्वात्। यथायथमेतदुभयप्रपशनम्।। स तु स्तवकवान्सानी गर्भो विवृतसंवृतः। गृहीतमुक्त: क्रमवान्विपर्यस्तोऽथ संपुटः ॥ ९० ॥ स्तवकवदाद्यो द्वादश प्रकारासतपु कचित्कचित्संयोगावृत्ति: स्तबकवान्। अनुप्रासविन्यासादिति संयोगानुप्रासविन्यासतः ॥ मिथुनं वेणिका चित्रो विचित्रश्चेति वर्ण्यते। वर्णावृत्तिप्रयोगेभ्यस्तेभ्यस्तेभ्यो मनीषिभिः ॥९१॥ तेषु स्थाने स्थानेऽनुप्रासविन्यासतः स्तबकवान्यथा- 'यस्यावासीकृतहिम गिरेर्गुञ्जतां कुञ्जराणा- माविश्चके वनगजमदाघ्राणघोरायितानि। दर्पोत्फुल्लस्फुरणविकटाकाण्ड कण्डूलगण्ड-
अत्र गुञ्जतां कुञ्जराणामित्यादे्वर्णस्तवकस्य सथाने सथाने विन्या- सादयं वर्णानुप्रासस्तबकवानित्युच्यते।। गुजतां कुजराणामकाण्ड कण्डूलगण्डस्कन्धगन्ध इत्यत्रावृत्तिचतुष्केण सवकनिर्वाहः।
Page 337
२४४ काव्यमाला।
नियतविवक्षितस्थानविशेषः खानी यथा- 'वाले मालेयमुचैर्न भवति गगनव्यापिनी नीरदानां कि त्वं पक्ष्मान्तरालैर्मलिनयसि सुधावकमश्रुप्रवाहैः। एपा प्रोद्वत्तमत्तद्विपकटकषणक्षुण्ण विन्ध्योपलाभा दावाभेव्योंमलमा मलिनयति दिशां मण्डलं धूमरेखा ।।२०३।।' अत्र प्रथमत्रिभागस्थानेषु वाले मालेयमित्यादिनियमेन वृत्तिः । सोडयं वर्णानुपरासः खानीत्युच्यते।। स्थानीति। श्रोकपादेपि प्रथमादिभागकल्पनया स्थाननियमविवक्षा । तथाहि-वाले मालेयमिति। प्रथमो भागो नीनी इति प्रतिभासारूढस्तृतीयादि प्रथमपादे। एवं पक्ष्मान्तरालमलिनमुधाश्रुप्रभृतीनां द्वितीयादिपादेषु प्रथमादि- भागकल्पनावसेया ।। आवृत्तेर्वर्णान्तरायेण गर्भो यथा- 'कालं कपालमालाङ्कमेकमन्धकसूदनम्। वन्दे वरदमीशानं शासनं पुष्पधन्वनः ॥ २०४॥' अत्र कालं कपालमालेति, अङ्मेकमिति, वन्दे वरदमीशानं शा- सनमित्यादिषु पकाररेफककारगर्भाघानादयं वर्णानुप्रासो गर्भ इत्युच्यते॥ कालं कालसरूपम्। एकमद्वितीयम्। कालं कपालेत्यत्र ठकारावृत्ति: ककारेण व्यवधाने प्रकृते कपालेऽन्यत्र पकारो वर्णान्तरगर्भायमाण उपलक्ष्यते। एवं मालानुमित्यादी लकारादिगभाँकरणमवसेयम्। वित्ृतसंवृती निगदेनैव व्याख्याता॥ सथाने सथाने विकाससंकोचाभ्यां विवृतसंवृतो यथा- 'न मालतीदाम विमर्दयोग्यं न प्रेम नव्यं सहतेSपराधान्। म्लानापि न म्लायति केसरस्रग्देवी न खण्डप्रणया कथंचित् ॥२०५।।' अत्र प्रथमपादे न मालतीदामेत्यादिभिर्विकासः, द्वितीयपादे प्रेमेत्या- कारावृत्त्या संकोचः, तृतीयपादे म्लानापि न म्लायतीत्येताभ्यां च विका- सः, चतुर्थे नेति संकोचः। सोडयं वर्णानुपासो विवृतसंवृत इत्युच्यते॥
Page 338
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। २४५
न मालतीदामेत्यादौ प्रथमपादे मकारावृत्तिईयेन विवरणम्, द्वितीयपादे सकृत्प्रयोगेण तस्पैव संवृतिः, तृतीयपादे नकारसकारयोरावृत्त्या वित्ृतिः, चतुये नेति संवरणम्। तदिह भूयोविकास-किंचित्संकोच-किंचिद्विकास-सर्वधासंकोच- परिपाट्या संदर्भनिर्वहणं शोभाकरमिति व्याचष्टे-अत्रेति॥ चक्रवालवद्धानोपादानाभ्यां गृहीतमुक्तो यथा- 'लोलल्लवङ्लवलीवलया निकुल्ज- कूजत्कपिञ्जलकुला मुकुलावनद्धाः । अध्यूपिरे कनकचम्पकराजिकान्ता येनापरान्तविजये जलघेरुपान्तः ॥। २०६॥' अत्र चक्वालक्रमः सुव्यक्त एव। सोडयं वर्णानुपासो गृहीतमुक्त इत्युच्यते। लोलदिति। कपिज्लो गौरतित्तिरिः । अपरान्तो देशविशेषः । पूर्ववल- नेनोत्तरग्रहणं चक्रवालं व्यञ्ञनमात्रवलनममिप्रेतम्, तेन वली वलेत्यत्रापि चक्र- वालसिद्धिः । एवमुत्तरत्र ॥ क्रमेण द्वित्राणां त्रिचतुराणां वर्णानामसंयोगखरवर्णानामावृत्ति: क्रम- चान्यथा- 'नितम्बगुर्वी गुरुणा प्रयुक्ता वघूर्विधातृप्रतिमेव तेन। चकार सा मत्तचकोरनेत्रा लज्ावती लाजविमोकमम॥ २०७॥ अत्र गुर्वी गुरुणा प्रयुक्तेति, वघूर्विधातृ इति, चकार चकोरेति, लज्जावती लाजविमोकमिति द्वयोस्त्रयाणां च खरसंयोगवर्णानां कमेणावृत्तिः, सोऽयं वर्णानुप्रासः क्रमवानित्युच्यते ।। क्रमेणेति । द्वावारम्यैव क्रमसंभव ऊर्ध्व चतुभ्यों विरसायते। तेन पञ्चषाणामित्यादिनो क्मसंयोगखराणामित्यविवक्षित संयोगखराणाम्। गुरुणेत्यनुद्- इनीयाज्ञता। तथा चलत्रायुक्या दुर्वहनितम्बभारालसाया अपि कथचित्पदवि- न्यासेन कान्तिविशेषो ध्वन्यते। खभावताघ्योरपि नेत्रयोख्तत्काले धूमालेषाद
Page 339
२४६ काव्यमाला। द्विगुणो राग इति उपमाने मत्तपदपोष: पूर्वार्धे द्वयोई्योरुत्तराधे त्रयाणामनुल् द्वितकरमाणामेव व्यञनानामावृत्तिरिति स्फुटं विवरणम्॥ कमवतां विपर्ययोपन्यासाद्विपर्ययो यथा- 'प्रणवः प्रवणे यत्र प्रथम: प्रमथेषु यः । रणवान्वारणमुखः स वः पातु विनायकः ॥ २०८ ॥' अत्र व्युत्क्मो व्यक्त एव। सोडयं वर्णानुपरासो विपर्यय इत्युच्यते॥ क्रमवतामुपकान्तर्किचित्कमाणामावत्ती तत्कमविपर्यासो व्युत्कमः ॥ साद्यवर्णवर्तिना खरेण सह पादमध्यान्तयोरनुप्रासः संपुट यथा- 'स्विरापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं महारोगामोगः कुवलयदशः सर्पसदृशः । गृहावेश: क्लेशः प्रकृतिचपला श्रीरपि खला यम: खैरी वैरी तदपि न हितं कर्म विहितम् ॥२०९॥' तदेतल्लक्षणेनैव व्याख्यातम्। सोडयं वर्णानुप्रासः संपुट इत्युच्यते ॥ स्वाद्येति। आवर्तनीयो वर्ण: खपदेनाभिमतस्स्य पूर्वो यो वर्णस्तदवर्तिना खरेण सह तस्यावृत्तिः । पादमध्यान्तयोरिति। मध्यसंश्िष्टोपरितनभाग- घटितसमुद्रकतुल्यतया संपुटोऽनुप्रासः ॥ अन्तपादमुपसंहारोपक्रमयोर्विवक्षितः सखरानुप्रासो मिथुनं यथा- 'त्यज मनसि सदाहे हे समर स्थानमस्मि- ननु किरसि शरीरे रे किमिन्दो मयूखान्। अपि परिहर वायो योगम जैर्मदीयैः प्रणयिनि समवेते ते भवन्तः सखायः ॥२१०॥ तदेतन्निगदेनैव व्याख्यातम्। सोडयं वर्णानुप्रासो मिथुनमित्युच्यते॥ अन्तपादमिति । वृत्तीचितीवशाच् द्विखण्डलब्धशोभाविशेषेषु पादेपु मिथुनसिद्धिरवसेया । तदिदमुक्तमुपक्मोपसंहारयोरिति । मिथुनं इन्दम् ।
Page 340
२ परिच्छेद: I] सरस्तीकण्ठाभरणम्। २४७
आवाक्यपरिसमाप्तेर्वर्णानुपासनिर्वाहो वेणिका यथा- 'विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि स्वस्तवजे जाताशक्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे। वैकुण्ठे कुण्ठिताखरे महिषमतिरुषं पौरुषोपन्ननिन्नं निर्विन्नं निन्नती वः शमयतु दुरितं भूरिभावा भवानी।।२११।।' तदेतन्नातिदुर्बोधम्। सोऽयं वर्णानुप्रासो वेणिकेत्युच्यते॥ विद्राण इति। उपन्न आश्रयः । निम्नः परवशः। अनुप्रासजातेरासमाप्ति निर्वाहोऽभिमतः। व्यक्तयः पुनरन्या अन्या एवाभिमतास्तेन वृत्त्यनुप्रासाद्गेदः। अत एव वेणीतुल्यता। तत्र हि किल केशग्रथना निर्व्यूडैव भक्तिः पुनरन्यान्येति॥
'नीते निर्व्याजदीर्घा मघवति मघवद्वज्ननिद्रानिदाने निद्रा द्रागेव देवद्विषि मुषितरुपः संस्मरन्त्याः खभावम्। देव्या हग्भ्यस्तिसभ्यसूय इव गलिता राशयो रक्तताया रक्षन्तु त्वां त्रिशूलक्षतिकुहरभुवो लोहिताम्भःसमुद्राः ।।२१२।' एवमन्येऽपि द्रष्टव्याः ॥ उक्तलक्षणेभ्य इति । पूर्वोक्तवर्णानुप्रासेभ्य इति। तथाहि प्रकृतोदाहरणे स्थाने स्थाने स्तवकाविवक्षायां न स्तबकवान, विभागपरिहारेण न स्थानी, वर्णा- न्तरायानुपपत्तौ न गर्भः, संकोचविकासाभावेन न वितृतसंघृतः, चक्रवालकमाभावेन न गृहीतमुक्तः। एवं क्रमविपर्यस्तमिथुनवहिर्भावोऽवगन्तव्यः। आसमाप्तिनिर्व- हणाभावे वेणीमेद: स्फुट एव ।। एकवर्णावृत्तर्वृत्यनुप्रासस्य वर्णान्तरवैचित्येण विचित्रो यथा-
श्रारीसंचरणैकचारुचरणाः सिश्चन्ति चित्तं मम । लीलाच श्रुरचश्चवरी करुचिमिश्चलालकैश्रवर्चिताः किचिचन्दनचन्द्रचम्पकरुचां चौर्यो मृगीलोचनाः।२१३॥'
Page 341
२४८ काव्यमाला।
एकवर्णावृत्तेरिति । वर्ग्यावृत्ती हि कदाचिदेकवर्णावृत्तिरपि संदर्भव्यापिनी संभाव्यते। तस्यां प्रतीयमानायामेवान्तरान्तरा नानाजातीये वर्णावृत्तिथित्रशो- भादायिनी विचित्रानुप्रास इत्युच्यते। तथा हि । प्रकृतोदाहरणे संदर्भसमाप्ति यावदावर्तमाने एव चकारे काशन काश्ेति लयवलदित्यादिषु ककारलकाराद्यनुप्रा- सोद्धटभावेनव वर्णावृत्तेर्न्यरभाव इव प्रकाशते। चारी संचरणप्रकारः । सा भौमी आकाशी च। चमुरो मनोहरः। चगरीको भ्रमरः ॥ अन्ये पुनरन्यथा चित्रविचित्रयोर्लक्षणं व्याचक्षते। तत्र यमकच्छाया- नुकारी चित्रः। स एव वर्णानुप्रासवान्विचित्र इति। तत्र चित्रो यथा- 'सर्वाशारुधि दग्धवीरुधि सदा सार्नयद्धकुषि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि खच्छन्दकन्दद्रुहि। शुष्यत्स्नरोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि ज्येष्ठे मासि खरार्कतेजसि कथं पान्थ न्रजज्जीवसि ॥ २१४॥' अन्ये पुनरिति। विभिन्नाथैंकरूपत्वं स्थानविभागालम्बनं व्यपेताव्यपेत- भावथ यमकच्छायावर्णानुप्रासवानिति अतिशायने मतुप्। सर्वाशारुधीत्वादी विप्रभृतीनां विभिन्नाथैकरूपाणां व्यपेतानामेव पादमध्यान्तयोरवस्थितिः। एवम- व्यपेतमप्युन्नेयम् । नात्र वर्णानुप्रास उत्कट इति विचित्राद्वेदः ।। विचित्रो यथा- 'उदद्वर्हिषि दर्दुरारवपुषि प्रक्षीणपान्थायुषि च्योतद्विपुषि चन्द्ररुङ्मुषि सखे हंसद्विषि प्रावृषि। मा मुख्चोच्चकुचान्तसंनतगलद्वाप्पाकुलां बालिकां काले कालकरालनीलजलदव्यालुप्तभासत्त्विषि ॥ २१५ ॥' अत एवोत्तरत्र स्फुटवर्णानुप्रासमुदाहरति।। वर्णावृत्तिरनुप्रास इति यः कृतलक्षणः। सोडयं द्वादशधा भेदैः प्रविभज्य प्रदर्शितः ॥९२॥ तेऽमी शुद्धवर्णा वृत्तिप्रकारा: पदत्रिंशलक्षिताः, सांग्रतं द्वादशतापन्नवर्णावृत्तयो लक्ष्यन्त इत्याह-वर्णावृत्तिरनुप्रास इति। दादयधेति वीप्सा द्ृष्टव्या।।
Page 342
२ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। २४९
समग्रमसमग्रं वा यसिनावर्तते पदम्। पदाश्रयेण स प्रायः पदानुप्रास उच्यते ॥ ९३॥ समग्रमिति। पदालम्बनोऽनुप्रासः पदानुप्रासस्तेन पदावयवमालालम्बनोऽपि पदालम्बन एव। तदिदमाह-पदाश्रयेणेति॥ विसर्गविन्दुसंयोगसवरस्थानाविवक्षया। अनिर्वाहाच स प्रायो यमकेम्यो विभिद्यते ॥ ९४॥ मसणो दन्तुरः श्रक्ष्णः संपुट संपुटावली। खिन्नः स्तवकवान्स्ानी मिथुनं मिथुनावली ।। ९५।। गृहीतमुक्तनामान्यस्ततोऽन्यः पुनरुक्तिमान्। इति द्वादशभेदोऽयं मनीषिभिरिहेष्यते ॥ ९६॥ ननु यदि पदावृत्तिरमिन्नार्था तदा पुनरुत्तिरेव, भिन्नार्था चेद्यमकान्न भिद्यत इत्यत आह-विसर्गेति। बिन्दुरनुखारः । स्थानं कण्ठादिकम् । वृत्ते: पादादि- यमकताभावो निर्वाह: प्रायोनिर्वाह इति योजना ।। तेषु मसृणो यथा- 'सरणे वारणास्यस्य दशनेऽशनिसंनिमे। चकार वलयाकार भुजं भुजगभीषणम् ।। २१६ ।।' सोऽयमसंयुक्तवर्णावृत्तेः पदानुप्रासो मसृण इत्युच्यते॥ वारणास्यो विनायकः। अत्र रणेरणेति शनेशनीति कारकारमिति भुजंभुजेति पदं तदेकदेशावृत्ति: स्फुटमुपलभ्यते। मसणस्तु कथमित्यत आह-सोऽयमिति॥ दन्तुरो यथा- 'स नैषधस्याधिपतेः सुतायामुत्पादयामास निषिद्धशत्रुः । अनूनसारं निषधान्नरेन्द्रात्युत्रं यमाहुनिषधाख्यमेव ।।२१७।।' अत्र निषिद्धशत्रुरिति पदे संयोगाधिक्येन दन्तुरता। सोडयं पदा- नुप्रासो दन्तुर इत्युच्यते।।
Page 343
२५० काव्यमाला।
स नैषधेत्यादी निषधरूपो वर्णसमुदायः पदैकदेशतामापन्नः साधारण एव। तदत्र दन्तुरता कीदृशील्यत आह-अत्र निषिद्वेति। शक्ष्णो यथा- 'अप्येहि कान्ते वैदेहि देहि प्रतिवचो मम। अरविन्दाक्षि दाक्षिण्यमलंकारो हि योषिताम् ॥ २१८।।' अत्र खवरेण सहावृत्तेः श्रक्ष्णता। सोऽयं पदानुपरासः श्रक्ष्ण इत्युच्यते। संपुटं यथा- 'सदर्प इव कंदर्पस्तरला मादशां मतिः। असार इव संसारः कुरुष्व मदनुग्हम् ॥ २१९ ॥ अत्रेवशब्दस्यापवादत्वेनाव्यवधायकत्वादनुप्रासोऽयं संपुट इत्युच्यते॥ संपुटवदेकरूपस्यैव खण्डस्य निरन्तरमावर्तनं संपुटम्। तत्कथमिव कंसंशब्दै- रन्तराये संपद्यत इत्यत आह-अत्रेवशब्दस्येति॥ संपुटावली यथा- 'करोति कि किरातोऽयं समाकृष्य शिलीमुखान्। शिलीमुखान्समाकृष्य किक्किरातः करोति यत् ॥ २२०॥' अत्र करोति करोतीत्येकं संपुटम्, किं किरातः किद्विरात इति द्वितीयम्, समाकृष्य समाकृष्येति तृतीयम्, शिलीमुखाञ्ळिलीमुखा- निति चतुर्थम्। सोडयं पदानुपरासः संपुटावलीत्युच्यते।। करोति कि किरातोऽयमित्यादी मध्ये शिलीमुखाञ्छिलीमुखानिति प्रथमं संपु- टम्। तस्य बहिरावरणभूतं समाकृष्य समाकृष्येति द्वितीयम् । तस्यापि कि किरातः किद्विरात इति तृतीयम्। तस्यापि करोतीति चतुर्थम्। तदेतद्विपरीत- व्याख्यया व्यजयनाह-अत्र करोतीत्यादि।
Page 344
२ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। २५१
सिन्नो यथा- 'कुलजातिसमाकुलीकृतानां सुखदसुखाशयमूढचेतनानाम्। अभवविभवलाभलोलुभानां भव भवबन्धविभेदनाय भूयः ॥२२१॥' अत्र रीतेरनिर्वाहात्खिन्नता। सोडयं पदानुप्रासः खिन्न इत्युच्यते॥ कुलेति। अत्र प्रथमपादे कुलेति अविवक्षितखत्ररादिवर्णयुग्ममक्षरचतुष्टयव्य- वधानेन कुलीत्यावत्तम् । द्वितीयतृतीयपादयोस्तु सुखदसुखेति अभवविभवेति चेकवर्णव्यवधानेनावृत्तिः । चतुर्थपादे तु भवभवेति रीतिभत्नो न च दोषः। प्रतीत्यव्यवधानात्।। स्तबकवान्यथा- 'मासयत्यपि भाषादौ कविवर्गे जगत्रयीम्। के न यान्ति निबन्धारः कालिदासस्य दासताम् । २२२॥' सोऽयं वर्णानुप्रासवत्पदानुपरासोऽपि सथाने सथाने विनिवेशात्स्व- कवानित्युच्यते।। वैचित्रीविशेषेणालंकारभावो भासयतीत्यादावाद्यन्तयोर्दूरान्तरितैवावृत्तिः। स्थान- नियमस्तु न विवक्षितः । तदिदमुक्तम्-स्थाने स्थान इति।। स्थानी यथा- 'परं जोण्हा उण्हा गरलसरिसो चन्दणरसो खदक्खारो हारो मलअपवणा देहतवणा। मुणाली वाणाली जलदि अ जलद्दा तणुलदा वरिट्ठा जं दिट्ठा कमलणअणा सा सुबअणा ॥ २२३ ।' [पर ज्योत्सा उष्णा गरलसद्दशश्चन्दनरस: क्षतक्षारो हारो मलयपवना देहतपनाः। मृणाली बाणाली ज्वलति च जलार्द्रा तनुलता वरिष्ठा यदृष कमलनयना सा सुबद्ना ॥] सोडयं पदानुप्ासः स्थाननियमात्खानीत्युच्यते॥
Page 345
२५२ काव्यमाला।
जोण्हा उण्हा रिसो रसो इत्यादिका प्रतिपादं मध्यान्तसाननियमेनापृत्तिः। क्षतोऽपिंतः क्षारः । जलार्दा जलादे चस्रे॥ मिथुनं यथा- 'पुरः पाराऽपारातटभुवि विहारः पुरवरं ततः सिन्धुः सिन्धुः फणिपतिवनं पावनमतः । तदग्रे तूदग्रो गिरिरिति गिरिस्तस्य पुरतो विशाला शालाभिर्ललितललनाभिर्विजयते ॥ २२४॥ तदेतत्प्रतिपादं द्वयोर्द्वयोः पदानुप्रासयोर्विन्यासान्मिधुनम्॥ पाराभिधाना नदी। अपारा पाररहिता। सिन्धुर्नदी सिन्धुनामा । बिशाला उज्जयिनी । शालाभिरितीत्थंभूतलक्षणे तृतीया। अत्र पारापारेति सिन्धुः सिन्धु- रिति दग्रे दग्र इति शालाशालेति क्रमेण प्रथमादिपादेषु द्वयोरेवानुप्रासयोर्विन्यासः। यद्यपि तृतीयपादे गिरिगिरीति द्वितीयमपि मिथुनं संभवति तथापि वर्णद्वयव्यवधा- नादनुल्ेखीत्युपेक्षितवान् ॥ मिथुनावली यथा- 'शिरसि शरमः क्रोडे क्रोड: करी करटे रट- तुरसि च रुरुर्मर्मण्येण: शिखी मुखरो मुखे। कविरपि हृदि हादी दूराद्धरिर्द्विपजिद्धतो धनुषि लघुता लक्ष्येऽपूर्वो जयोऽस्य यशख्विनः ॥२२५॥' सेयं द्वयो: पादयोर्निरन्तरमावृत्तिर्मिथुनावलीत्युच्यते॥ शिरसीति। शरभोऽटापदः । कोडो बराहः। रुरुर्बदु दो सृगः । हरिः सिंहः। खरभागविवक्षायां व्यअ्षनयुगलावृत्तिर्मिथुनम्। तदेवावृत्तिभूत्रा मिथुना- चली शरशरेति क्रोडकोडेति करकरेति दवदवेत्यादिना क्रमेण सुप्रत्यभिज्ञानैव ।। गृहीतमुक्तो यथा- 'पुंनागनागकेसरकेसरपरिवासवासनासुरभिः । सुरभिर्मधुरमधुप्रियषट्चरणाचरणवान्प्राप्तः ।। २२६।।' सोऽयं चक्रवालवदनुपासो गृहीतमुक्त इत्युच्यते।।
Page 346
२ परिच्छेद: ।] सरसतीकण्ठाभरणम्। २५३
गृहीतमुक्तो यथेति। पुंनाग: पुंगज इति प्रसिद्धः। केसरो बकुलः। भावना वासना। सुरभिर्वसन्तः। नानामधुपानलालसानामितसततः षद्चरणानां चरणं भ्रमणम्। अत्र चकवालकमो व्यक्त एव। आवृत्त्याविक्याभावाच गृही- तमात्रस्येव मोचनम् ॥ पुनरुक्तिमान्यथा- 'धूमाइ धूमकलुसे जलइ जलन्ता बुहत्थजीआबन्धे। पडिरअपडिउण्णदिसे रसइ रसन्तिसिहरे घणुम्मि णहअलम्।।२२७।।' [घूमायते धूमकलुषे ज्वलति ज्वलदात्तहस्तजीवाबन्धे। प्रतिरवप्रतिपूर्णदिशि रसति रसच्छिखरे धनुषि नमस्तलम् ॥] अत्र धूमादीनां पुनर्वचनात्पदानुपरासोऽयं पुनरुक्तिमानुच्यते। पुनरुक्तिमानिति। वाच्याभेदातपुनरुक्तिः सा यस्मिभावृत्तिलक्षणेनानुप्रासे स पुनरुक्तिमान्। तात्पर्यभेदाच न दोषः । धूमज्वलनरसनानामाकाशदेशव्यापितया धनुःप्रकर्षद्वारेण रामभद्रगतोत्साहशक्तिध्वननातप्रकृतवीररसपोषः । अत्र धूम- धूमेत्यादिना वाच्यमेदः॥। ननु वर्णावृत्तिरनुप्राससामान्यलक्षणयुक्ता न चासी पदाद्यावृत्तावस्तील्यत आह- वर्णावृत्तिरनुप्रासः पादेषु च पदेषु च। पूर्वानुभवसस्कारबोधिनी पद्यदूरता । ९७। वर्णावृत्तिरिति। समुदायावृत्तिरपि वर्णावृत्तिरेव । नहि वर्णातिरिक्त: समुदायो नाम। इयांस्तु विशेषो यत्पूर्वजातीयवृत्तानुसंधानमलंकारतां प्रयोजयति। तत्र च कार्यानुमेय: समयसंनिकर्षविशेष एव प्योजक इति। तदिदं दिङ्मात्रमुक्तम्।। लाटानुप्रासवर्गस्य यावद्वा लक्ष्यते गतिः। पदानुप्रासवर्गेऽि तावदेव प्रपञ्च्यते।। ९८।। अन्येऽपि पदानुप्रासप्रकाराः यमुत्प्रेक्षितव्या इत्याह-लाटेति। गतिः प्रकारः ।। सभावत् गौण्या च वीप्साभीक्ष्ण्यादिमिश्र सा। नाम्ना द्विरुक्तिभिर्वाक्ये तदनुप्रास उच्यते ॥ ९९॥ क्रमप्राप्तं नामद्विरुत्त्यनुप्रासं विभजते-स्वभावत इति। यद्पि पदानु-
Page 347
२५४ काव्यमाला।
प्रासादौ नामद्विरुक्िरतिव्यापिका तथाप्यर्थॉपक्षेपोपनिपातिनी सह विवक्षिता। अर्थों द्विविध :- आभिधानिक:, उपाधिथ् । आद्ो गौणमुख्यमेदेन द्विप्रकार:, द्वितीयोऽपि वीप्सामीक्ष्ण्यादिरनेकविधः । दविरुकिरपि नाम शरीरसंपादिका नाम्न: सतक्रेति दुयी बोदव्या। अत एव द्विरुक्कस्यैवाभिधाशक्तियोगात्खभावत इत्युक्म्॥ सा सभावतो यथा- 'कुर्वन्तोऽमी कलकलं मारुतेन चलाचलाः । प्रातर्गुलुगुलायन्ते गजा इव घनाघनाः ॥ २२८॥' अत्र कलकलमित्यादिपु खाभाविकी पुनरुक्तिरुपदिश्यते॥ कुर्वन्त इति। चलाचलाथ्रमलाः। चलतेरचूप्रत्ययेऽभ्यासस्याकि रूपम्। गुलु इत्यव्यक्कानुकरणस्य डाचि द्विवचने च गुलुगुलेति नामसिद्धिः। अत्र कल- कलादिपदानामर्थवशायातद्विरुक्तिशरीराणां खभावत एव यथोक्तरूपव्यवस्थितिः ।। गौण्या यथा- 'अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्वुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि । इति न भजते वस्तु प्रायः परस्परसंकरं तदियमबला कान्ति धत्ते कुतः सकलात्मिकाम् ॥२२९॥ अत्रामृतममृतमित्यादिष्वमेदेऽपि मेदोपचारेण विशेषणविशेष्य-
अमृतमिति। अत्र द्वितीयान्तानाममृतादिपदानां द्विरुकिदोषेण तात्पर्यापर्य- वसानादमृतादिगुणपरत्वे कल्पनीयेऽपि निकृष्टगुणपराणां सामानाधिकरण्यानुपपत्ते-
विशेषणत्वं च निर्वदृति। न च पर्यायनिवेशेऽर्थान्तरसंक्रमितवाच्यता संभवतीति पूर्वाचार्याः । सेयं गौणार्धपरवशा नाम द्विरुक्ति: ।। वीप्सा यथा- 'शैले शैले न माणिक्यं मौक्तिकं न गजे गजे। देशे देशे न विद्वांसश्चन्दनं न वने वने ॥ २३० ॥'
Page 348
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। २५५
सेयं द्रव्यवीप्सा नाम द्विरुक्तिः। एवं गुणजातिक्रियावीप्साया- मपि द्रष्टव्यम् । वीप्सेति। नानार्थानां युगपदे्ककेन पदेन केनचिद्व कुर्व्याप्तिविवक्षा वीप्सा। स प्रयोक्तृधर्मों द्विरुक्या व्यज्यते। अत एव या काचिदर्थसामर्थ्याकृष्टा दविरुकि: सा सप्तवर्णादिवन्नामद्विरुक्तिसमाख्यया प्रतिपाध्यते। शैले शैल इति। अत्र किंचिदेकमसाधारणगुणाश्रयं विवक्षन् तदितरस्य तज्जातीयस्य गुणसंस्पर्शमसह- मानोऽप्रस्तुतमेव शैव्यदिकं प्रस्तुतवान् । रोहणादिव्यतिरिक्तामु व्यक्तिपु माणि- क्याद्यभावगुणव्याप्तिर्युगपदेव विवक्षिता। शब्दादुपसर्जनतया प्रतीयमानः सिद्ध- स्वभाव: पदार्थो गुण इत्युच्यते। एवं क्रिययापि व्याप्तिरवसेया। सेयं द्रव्यवी- प्सेति। शैलादीनां द्रव्याणामेकेन गुणादिना व्यापुमिच्छेत्यर्थः॥ 'प्रकारे गुणवचनस्य ८।१।१२' इत्यादिरपि वीप्साप्रकार एव। यथा- मानिनीजनविलोचनपातानुष्मबाष्पकलुषान्प्रतिगृह्दन्। मन्दमन्दमुदित: प्रययौ खं भीतभीत इव शीतमयूखः ।२३१॥' प्रकारे गुणवचनस्येति। प्रकार: सादृश्यं तत्पूर्णगुणेन न्यूनगुणस्य साधा- रणगुणान्वये भवति। एवं चासिति समानशब्दाभिघेयत्वं च व्यापिः । इयांस्तु विशेषो यदेकत्र सिद्धस्यान्यत्र प्रतिबिम्बनं सादृश्यं, शुद्धवीप्सायां तु युगपदेकस्य नानापदार्थसंबन्ध इति। सोऽयं वीप्साप्रकारशब्दार्थः । अत एव 'प्रकारे गुणवच- नस्य ८।१।१२' इति पृथक्सूत्रितम्। इह तु वीप्सापदेनैवायमर्थ उपग्राह्म इत्यभि- प्रायः। मन्दं मन्दमिवोदित इति क्रियाविशेषणमुपमितम्। एवं भीत भीत इति कर्तृविशेषणमपि । सादश्यलक्षणगुणोत्प्रेक्षायाभिवशब्दः॥ आमीक्ष्ण्येन यथा- 'लेषं श्रेषं मृगदशा दत्तमाननपङ्कजम्। मया मुकुलिताक्षेण पायं पायमरम्यत ।। २३२ ।।' सोऽयमामीक्ष्ण्ये णमुल। स चानुप्युज्यत इति पुनरुक्तिः ॥ आभीक्ष्ण्येनेति। 'नित्यवीप्सयोः८।१।४' इत्यनेन नित्यत्वमामीक्ष्ण्यमुक्तम्। यां किल क्रियां कर्ता प्राधान्येनानुपरत्या च कर्तुमिच्छति तद्रपमामीक्ष्णयम्। अत एव तिळ्व्ययकृतां च हविरुकिरियमसाधारणी। उभयत्रैव करियाप्राधान्यप्रतीतेः।
Page 349
२५६ काव्यमाला।
सिद्धे हि वस्तुनि पौनःपुन्यप्रतीतिः क्रियोपाधित एव न सरूपेण। ननु णमु. लैवाभीक्ष्ण्याभिधानाल्कि द्विरुक्तिः करिष्यत इत्यत आह-सोऽयमिति। न चामीक्षण्यं णमुलो वाच्यम्। कत्वार्थे तस्याभिधानात्। द्विरुकिसहितस्यैव तस्यानु- परतिव्यञ्जकत्वात्। स्वरूपार्थाभ्यामन्तरतमशब्दद्यरूप आदेशो वा द्विरुचारणं वा
क्रियापदाभीक्ष्ण्याद्विरुक्तौ तु पुनरुक्तेरपि पुनरुक्तिः। यथा- 'जयति जयति देवः श्यामकण्ठः पिनाकी जयति जयति देवी लोकमाता भवानी। जयति जयति घन्यः सोऽपि भक्तस्तयोर्य: किमपरमिह धन्यं वर्ण्यते तावदेव ॥ २३३ ।' न चावश्यं द्वावेव शब्दी प्रयोक्तव्यो किंतु यावद्भिरभिमतोऽर्थः प्रतीयते तावन्तोऽमीक्ष्ण्यशब्दाः प्रयोक्कव्यास्ते नाव्ययकृत्सु दृश्यन्ते किंतु तिकूपदेष्वेवे- ल्याह-क्रियापदेति । यद्यप्येकवाक्यार्थसंगत्या कियापदस्य दयमेवोच्चारणं तथापि काव्यापेक्षया बाहुल्यमवसेयम् ॥ आदिग्रहणेन निमूलसंभ्रमादय: परिगृद्यन्ते। तेषु निमूलादिर्यथा- 'निमूलकाषं कपति खान्तमन्तःसरज्वरे। लाजस्फोटं स्फुटन्त्याशु हृदये हारयष्टयः ।। २३४॥' आदिग्रह्णेनेति। तत्तदितरप्रकरणप्रापितानां द्विरुक्तिप्रकाराणामादिपदेनो- पग्रहो विधेयः । तद्यथा-'अर्वागर्वाग्बलत्दुपलग्रन्थयः क्षेत्रशैला दूरे दूरे मणिमयद्यन्मेखलो रल्नसानुः। आरादारान्निधिरयमपां यहवीयो दवीयान्दुग्धा- म्भोधिस्तदयमसदक्छिल्प एवादिशिल्पी II' अत्रानुपूव्ये द्वे भवत इति द्विरुकि:। एवं स्वारथेऽवधार्यमाणे इत्यादयोऽपि द्विरुक्तिप्रकारा: खयमवसेया इत्याशयवानु- पलक्षणतया किंचिदुदाहरति-निमूलकाषमिति । 'कपादिषु यथाविध्यनु- प्रयोग:' इति तस्मिज्नेव प्रयुक्ते द्विरुक्तिसिद्धिः ।। संग्रमेण यथा- 'अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दु- र्गंद्गा गश्गोरग उरग इत्याकुला: संभ्रमेण ।
Page 350
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम् । २५७
भूषावेषोपकरणगणप्रापणव्यापृतानां नृत्यारम्भप्रणयिनि शिवे पान्तु वाचो गणानाम् ।। २३५।।' संभ्रमेणेति। भयसंचेगादरात्मकः संत्रमः संवेगस्त्वरा। सैव प्रकृतोदाहर णे द्विरुकि प्रयोजयति। हर्षावेगविस्मयादयोपि संअ्रमस्योपाधयो भवन्ति। तेषु हर्षसंत्रमेण यथा- 'रुरुधुः कौतुकोत्तालास्ततस्ताममरावतीम्। कार्जुनः कार्जुन इति ब्रुवन्त्यो नाकयोषितः ॥२३६॥' ननु हर्षादीनां महाकविप्रबन्धेषु द्विरुक्तिरुपलभ्यते । सा कथमुपग्राशेल्यत आह-हर्षेति । हर्षादयोऽपि संत्रमप्रयोजकासतैरसाधारणतामापनैरवच्छिय- मान: संत्रमोऽन्योन्यो भवति न च संत्रमतां जहातीति संभ्रमद्विरुक्तिप्रकार एवायमित्यर्थः ॥ आवेगसंभ्रमेण यथा- 'कख्चुकं कश्ुकं मुख्च हारं हारं परित्यज। हा हा दहति दावाभिर्वसत्रं वस्त्रमपाकुरु॥ २३७ ॥' अत्र मुख् परित्यज दहति अपाकुरु इति करियापदेष्वावेगसंत्रमान्न द्विरुक्तिः। तथाहि-अरण्यानीप्रवेशे विजिगीषुद्विषां योषिद्दावाग्निस- भ्रमावेगात्कयाप्येवमुच्यते, तत्र प्रथमं कञ्जुक एवावेगसंत्रमः। स ह्याः गते दावाआावुत्तारथितुमशक्यः । ततस्तव्यासज्ञहेतौ हारे, अनन्तरं परापतितदावामिदीसे वाससीति।। निगूढगम्भीर उद्देग आवेगः। ननु ककुकं कशुकमितिवन्मुच्ेत्यादिकमावे- गसंत्रमप्रभवमेव तत्कर्थ न द्विरच्यत इत्यत आह-अन्नेति। कमुकस्य हारेष हारस्योत्तरीयवाससा व्यासनसंभावना संत्रमहेतुः । १७ स० क०
Page 351
२५८ काव्यमाला।
विस्मयसंभ्रमेण यथा- 'अहो रूपमहो रूपमहो मुखमहो मुखम्। अहो मध्यमहो मध्यमस्याः सारङ्वचक्षुषः ॥ २३८॥ एतेषु समस्तेष्वपि संत्रमेषु यावद्ोघमिति द्विरुक्ति: । एवं त्रिरुक्तिरपि द्रष्टव्या यथा- 'जय जय जय श्रीमन्भोज प्रभाति विभावरी वद बद वद श्रव्यं विद्वन्िदं ह्यवधीयते। शृणु शृणु श्रृणु त्वद्वत्सूयॉऽनुरज्यति मण्डलं नहि नहि नहि क्ष्म मार्तण्डः क्षणेन विरज्यते ॥२३९॥' संत्रमेषु यावद्वोधमिति यावच्छव्दार्थमाविष्कुर्वाणः पूर्वोक्तमभिप्रेत्याह-एवं त्रिरुक्तिरपीति। उपलक्षणं चेदम्। चतुरादिद्विरुक्तिरदण्डवारितैव।। क्रियासममिहारश्र क्रियाभ्यामश्च यः पुरा। युक्ताबुदाहृतः सोऽपि नामानुप्रास इष्यते॥ १०० ॥ समभिहारो भृशत्वम् ।। जायते न च दोषाय काव्येऽलंकारसंकर: । विभृषयति हारोऽपि स्तनौ ग्रीवां सृगीद्ृशाम् ॥१०१। ननु वाक्यार्थप्रयुत्तयैव काव्यस्य सनाथीकरणात्किमनुप्रासेनेल्यत आह-जायते न चेति। उदाहर णेनालंकार्यसंकरवदलंकारसंकरोऽपि लोकप्रसिद्ध एव शोभा- हेतुरित्यभिमतमिति ।। अर्थामेदे पदावृत्तिः प्रवृत्या भिन्नयेह या। स सूरिभिरनुप्रासो लाटीय इति गीयते॥ १०२॥ क्रमप्रापतं लाटानुप्रास लक्षयति-अर्थामेदे इति। लाटजनवहमोऽनुप्रासो लाटानुप्रासः। अर्थमेदे कर्थ न पुनरुकिदोष इत्यत उक्तम्-प्रतृत्त्या मिन्न यैति। तात्पर्यभेदेनेत्यर्थः । अत एव यमकाद्गेदः।।
Page 352
२ परिच्छेद: 1] सरस्तीकण्ठाभरणम्। २५९
स चाव्यवहितो व्यस्तः समस्त उभयः पुनः । उभयं चक्रवालं च गर्भश्ैवाभिधीयते ॥ १०३॥ स चेत्यनुक्तव्यवहितसमुचचये चकारः । लाटानुप्रासः सामान्यतो द्विधा- अव्यवहितः, व्यवहितथ । अनावत्तशब्दानन्तरितोऽव्यवहितः, तदन्तरितथ व्यवहितः । तयोरव्यवहित: पोढा भवति । व्यस्तः समस्तो द्वावुभयाविति तावच- त्वारः । तत्रोभयद्यं द्विप्रकारकमिति सामान्यविशेषभावाभ्यां पडमेदा व्यारयेयाः। उभयः पुनरिति। पुनःशब्दो व्यावृत्ती । पूर्वस्मादन्य एवायमेकशब्दाभिलप्य इत्यर्थ: । आद्योभयद्वयमग्रे वक्ष्यते॥ यस्तु व्यवहितो नाम नेयता तस्य शक्यते। कर्तु मेकादिगणना पदवृत्यादिभङ्गिभिः ॥१०४॥ द्वितीयं तु चक्रवालं गर्भक्चेत्युक्तं व्यवहितस्य तर्हिं कियन्तो भेदा अत आह- यस्त्विति । तेन बहुभावावान्तरविशेषतया नायं समशीर्षिकया गणित इत्यर्थ: ॥ तेष्वव्यवहितमेदेषु व्यस्तो यथा - 'उअहिस्स जसेण जस धीरं धीरेण गरुइआइ वि गरुअम्। रामो ठिएअ वि ठिइं भणइ रवेण अ रवं समुष्फुन्दन्तो।। ५४० ।।' [उदघेर्यशसा यशो घैये धैर्येण गुरुतयापि गुरुताम्। राम: स्थित्यापि स्थितिं भणति रवेण च रवं समभिक्रामन् ।] अत्राव्ययानां द्योतकादित्वा दिवादि भिर्व्यवधानं नाश्रीयते। न हीवादे: प्रकृतेऽपि पृथक्पदत्वमस्ति यद्ेवमिदमिहोदाहरणं युज्यते- 'त्वन्मुखं त्वन्मुखमिव त्वदृशौ तवद्दृशाविव। त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि ॥ २४१ ॥' इति। अस्त्येवैतत्। कि तु यथा-'अमृतममृतं चन्द्रश्चन्द्रः-' इत्यादि-
तेप्विति। द्विरुक्तशब्दरूपेषु पूर्वपरयोनैंकमपि समासान्तर्गतमिति व्यस्तः । एतेन समस्तादयो व्याख्याताः । धैर्यगुरुतास्थितिगाम्भीर्यानुनिष्पादी वागनुभावो रसपूर्णकुम्भोच्छलनन्यायेन साक्षादिव तत्तत्प्रकर्षमर्पयन शोभाविकासहेतुः ।
Page 353
२६० काव्यमाला।
समुफ्फुन्दन्तो समभिकामन। ननु जसेण धीरेण गरुइआइ वि इ रवेण अ इति यदपञ्ञके विभक्त्या तदुत्तरयोक्वकारद्येन च व्यवधानात्कथमव्यवहितमेद उदा- हियत इत्याह-अत्रेति। अव्ययानामित्युपलक्षणम्। द्योतकत्वादिति विभक्ति- साधारणो हेतुः । पञ्चकप्रातिपदिकार्थत्वपक्षे विभक्तियातिकैव । शाकल्योऽपि अव्ययवाचकत्ववादी। सोऽप्यसत्त्वार्थानामिवादीनां स्वातकयेण वाचकत्वं न मन्यते। यतो न पृथक्पदत्वमनुशिष्ठवान्। तथा च दयोतकानां परशक्तिसहकारित्वेन तद- नुप्रवेशात्खाञ्मव्यवधायकमिति न्यायात्। ननु किमत्र क्विष्टकल्पनया। अस्त्य- व्यवहितोदाहरणमप्यन्यदपीति शङ्तते-यद्येवमिति । अत्र पूर्वार्धवर्तिद्वय- मुदाहरणमुत्तरार्धवर्तिनो द्वयस्य पूर्वतुल्यत्वात्। परिहरति-अस्तीति। अन- न्वयमात्रमत्रोदाहरणम्। तत्र चावश्यमेदकल्पनया विशेषणविशेष्यभावी वाच्यस्तथा च गौणी नाम द्विरुकति: स्यादिति संकरशङ्कनायोदाहतमिति सिद्धान्ततात्पर्यसंक्षेपः॥ समस्तो यथा- 'अपह स्तितान्यकिसलय किसलयशोमं विलोकयाशोकम्। सखि विजिता परसुमनःसुमनः सुभगं च मधुतिलकम् ॥ २४२॥' अत्र 'किसलय किसलय' इति, 'सुमनः सुमनः' इति च समस्तां- नामेवाव्यधानादयं लाटीयोऽनुप्रासोऽव्यवहितसमस्तः पूर्वः पुनरव्यवहि- तव्यसत इत्युच्यते।। पूर्वः पुनरिति। समस्तानन्तर व्यस्तविवरणं प्रतिपत्तिसौकर्यार्थम्॥ उभयस्तु द्विघा-प्रथम: समस्तोऽपरो व्यस्तः। द्वितीयो व्यस्तो Sपर: समस्त इति च। तयो: प्रथमो यथा- 'जितलाटाङ्गनावकं वक्र तस्या मृगीदृशः । कस्य न क्षोभजनकं जनकं पुष्पधन्वनः ॥। २४३ ॥' तदिदं लक्षणेनैव व्याख्यातम् ।। द्वितीयो यथा- 'नलिनी नलिनीनाथकरसंनतिसंगमात्। विकचा विकचास्यानां कान्तानां हरति श्रियम् ॥ २४४॥
Page 354
२ परिच्छेद: I] सरस्तीकण्ठाभरणम्। २६१
अस्यापि लक्षणेनैवोक्तोऽर्थः ॥ खापेअ्षया व्यसतोऽन्यापेक्षया च समस्तः, द्वितीयो व्यस्तोऽपर: समस्त इति स द्वितीयोभयशब्दवाच्यः । सोऽपि द्विधा-प्रतिपादमन्ताद्यो- र्गर्म इवानुप्रासविन्यासात्। तयोः प्रथमश्चकवालं यथा- 'जयति क्षुण्णतिमिरस्तिमिरान्धैकवल्लमः । वल्लमीकृतपूर्वाशः पूर्वाशातिलको रविः ॥ २४५ ॥' अत्र तिमिरवल्लभपूर्वाशेतिशब्दास्तिमिरादिशव्दापेक्षया व्यस्ताः यथा-सपूर्वोत्तरपदापेक्षया च समस्ताः पदान्ताद्योर्विनिवेशिता इति
मित्युच्यते।। द्वितीयमुभयं विवेचयति-स्वापेक्षयेति । तिमिरान्धाश्रकवाकाः । यथ श्रुतिद्विरुक्त्ः पूर्व: पर्वेणोत्तरथ्वोत्तरेण समस्त इति पूर्वस्माद्विशेषः ।। एतेन पादमध्येनुप्रासविन्यासाद्गर्मोऽपि व्याख्यातः । यथा- 'समाधवा माघवदत्तटृष्टिः सकौतुका कौतुकमन्दिरे सतात्। सविभ्रमा विभ्रमदायिनी वः सपड्जा पड्कजलोचना श्रीः।।२४६॥'
व्यवहितमेदेषु व्यस्तो यथा- 'प्रकाशो यशसा देवः प्रकाशो महसा रविः । दु सहो विद्विषां खामी दुःसहस्तमसां च सः ॥२४७॥' तदेतन्नातिदुर्बोधमिति न व्याक्रियते॥ सोऽयमेकगुणो व्यस्तश्र लाटीयानुपासो व्यवहित इत्युच्यते । व्यस्त- श्रानेकगुणो यथा- 'किंचिद्धच्मि न वच्मि वच्मि यदि वा कि वच्मि कच्मीदशं दृश्यन्ते न भवादृशेषु पतिषु खेषामदोषे दमाः। आ्ल
Page 355
२६२ काव्यमाला।
ते किं सन्ति न सन्ति सन्ति यदि वा के सन्ति सन्तीहशाः सर्वस्तेषु गुणैगृंहीतहृदयो लोक: कुतो वर्तते ॥ २४८॥ अत्र वच्मीति सन्तीत्येतयोरनेकगुणावृत्ति: ।। अनेकगुणा इति। आवृत्तिद्वंगुण्यादिनानेकगुणत्वम्, न च गुणनायामियत्ता- वधारणकारणमस्तीत्यभिसंधाय तस्पेयत्ता न शक्यते कर्तुमिति पूर्वमुक्तम्। खेषा- मात्मीयानां मध्ये यः कब्िद्दोषसत्र दमा दण्डग्रकारा न दृश्यन्त इति।। समस्त एकगुणो यथा- 'चन्द्रानन चन्द्रदिनं मृगलोचन मृगशिरश्च नक्षत्रम्। तिथिरतिथिप्रियदशमी परतस्त्वेकादशी प्रहरात् ॥ २४९॥' नन्विह तिथिरित्यसमस्तम्। न केवलमसमस्तं भिन्नार्थतया लाटी- यानुप्रासेऽपि न संगच्छते। संगते च केनचित्पदानुप्रासेन। न च लाटीयानुप्रासो वा नामानुपरासो वा पदानुपासाद्गिद्यत इति ।। यद्यप्येकपरिहाराकारोदाहरणद्वयमुचितमेव तथापि किंचिद्विशेषं विवक्षना- क्षिप्य समाघत्ते-नन्विति। मा भूदत्रासमासोऽन्यथापि नेदमुदाहरणमिह संगतमित्याह-न केवलमिति। तत्किमनुप्रास एवायं न भवतीति पृच्छति- केन तहाति। उत्तरम्-पदानुप्रासेनेति। पदानुप्रासेनार्थमेदामेदौ विवक्षिती। किंतु पदाश्रयेणावृत्तिमात्रं पदानुप्रासावृत्तिश् लाटानुप्रासेऽप्यस्तीति संगत्यात्रेद मुदाहृतमित्यर्थः ॥ समस्तोSनेकगुणो यथा- 'ब्रम्माण्डच्छत्रदण्डः शतधृतिभुवनाम्भोरुहो नालदण्ड: क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः ।
श्रेयस्त्रविक्रमस्ते वितरतु विवुधद्वेषिणां कालदण्डः ॥ २५०। अत्रानेकशो दण्ड इत्यस्यावृत्तिः । आभ्यां व्यस्तसमस्तमेदोऽपि व्याख्यातः । यथा-
Page 356
२ परिच्छेद: 1] सरस्वतीकण्ठाभरणम्। २६३
'दशरश्मिशतोपमद्युति यशसा दिश्रु दशखपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकण्ठारिगुरु विदुर्वुधाः ॥ २५१॥ अत्रानेकधा दशशब्द आवर्तते। शतृतिर्न्रह्मा तस्य भुवनभूतमम्भोरुड पद्मं तस्य, क्षोणी पृथ्वी तद्रूपा या नौ- स्तरिस्वस्या: कूपदण्डः गुणवृक्षः । दशस्विरिति। एको दशशब्दो व्यस्तः, अन्ये त्रयः समस्ता: ॥ अव्यवहितेऽपि द्वैगुण्यादेर्न विरोधः । यथा- 'वस्त्नायन्ते नदीनां सितकुसुभधराः शक्रसंकाशकाशाः काशाभा भान्ति तासां नवपुलिन चगः श्रीनदीहंसहंसाः । हंसाभाम्भोद मुक्तक्षरदमृतरुचिर्मेदिनीचन्द्रचन्द्र- श्रन्द्राङ्कः शारदस्ते जयकृदुधनतो विद्विषां कालकालः ॥ २५२॥' ननु व्यवहित एव कि गुणनादिमेदो नत्याह-अव्यवहितेSपीति । वस्रायन्त इत्यादी काशपदपरिहारेणोदाहरणम् । तत्र हि प्रथमः काशशब्दो मिन्नार्थ एव ।I व्यवहिताव्यवहितमेदेऽपि दृश्यते। यथा- 'धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते धनैरेव पापान्नरा निस्तरन्ति। धनेभ्यो हि कश्चित्सुहन्नास्ति लोके धनान्यर्ज4ध्वंधनान्यर्जयध्वम् २५३' यत्र व्यवहिताव्यवहितयोरेकवाक्यानुप्रवेशोऽस्ति तत्रापि गुणनामेद उदा- हरणीयः । दृश्यत इत्यनेन यदव्यवहिते भूयसी गुणना महाकविप्रयन्वेषु प्रतीयते न तद्वदव्यवहितेऽपीति पूर्व व्यवहितमात्रे गुणनादिकमुपन्यस्तमिति तात्पर्यम्। धनैरिति। अत्र धनपदव्यवधानेन बह़ीं गुणनामवलम्बमानमेव चतुर्थपादे त्वव्यवहिता त्वनुप्रासेऽपि प्रविष्टमिति भवति व्यवहिताव्यवहितमेदता । सोऽयं पदाभ्यासो दर्रितः॥ योर्डा चार्धाभ्यास: सोऽपि व्यवहिताव्यवहितभेद एव। यथा- 'यैसत्वं साक्षात्कृतो नाथ तेषां कामेषु को अ्रहः । यैस्तवं साक्षात्कृतो नाथ तेषां कामेषु को ग्हः ॥ २५ ॥'
Page 357
२६४ काव्यमाला।
अत्र पादापेक्षया व्यवहितत्वमर्धापेक्षया पुनरव्यवहितत्वं भवति।। एवं छोकार्धाभ्यासो व्यवहिताव्यवहितमेद एव भवतील्याह-योऽपीति॥ द्विभागाभ्यासस्तु व्यवहित एव खदते। यथा- 'श्रद्धायत्रौ यदि स्यातां मेधया किं प्रयोजनम्। तावुभौ यदि न स्यातां मेघया कि प्रयोजनम् ॥२५५ ॥' श्रद्धायल्ञाविति । अत्र यदि स्यातामिति पादभागेन सह पदावृत्तिखिभागा- वृत्तिर्भवति।। पदाभ्यासः पुनरव्यवहितो व्यवहितश्च दृश्यते। तयोरव्यवहितो यथा- - 'सन्तः श्रणुध्वं हृदये निधद्धमुत्क्षिप्य बाहुं परिरारटीमि। न सुभ्रुवां तुल्यमिहासिति रम्यं न सुम्रुवां तुल्यमिहास्ति रम्यम् २५६' व्यवहितो यथा- 'मुखेन लक्ष्मीर्जयति फुलपङ्चजचारुणा। दक्षिणेन करेणापि फुल्लपङ्कजचारुणा॥ २५७॥' मुखेनेति। फुछपड्डजमिव चारु फुलेन पङ्डजेन चारुरिति यद्यपि वृत्त्यर्थी भिद्येते, तथापि पदानामभिन्नार्थत्वादुदाहरणता ।। इवाद्यावृत्तयोऽपि चात्रैव द्रष्टव्याः । यथा- 'लीनेव प्रतिविम्वितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च बज्रलेपघटितेवान्तर्निखातेव च। सा नश्चेतसि कीलितेव विशिखैश्चेतोमुवः पञ्चमि- श्िन्तासंततितन्तुजालनिबिडस्यूतेव लमना प्रिया ॥२५८॥' अर्थामेद इति नार्थशब्दोऽभिधेयवचनः किंतु शब्दप्रतिपाद्यमात्रवचन इत्या- शयवानाह-इवादीति। यमकानां हि यावन्त्यो वर्ण्यन्ते भेदभक्तयः । ॥॥। अनुप्रासस लाटानां भिदास्तावन्त्य एव हि॥१०५॥
Page 358
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। २६५
नन्वन्येऽपि पदावृत्तिप्रकारा: किमिति नोदाहता इत्यत आह-यमकानां हीति। मेदभक्तयोऽवान्तर प्रकारविच्छित्तय: स्थानास्थानपादमेदलक्षणा शोका- वृत्ति: परमत्र नासतीति यमकादपकरषः।। उपमादिवियुक्तापि राजते काव्यपद्धतिः । यद्यनुप्रासलेशोऽपि हन्त तत्र निवेश्यते॥ १०६॥ प्रकरणान्तेऽनुप्रासव्युत्पादनप्रयोजनमाह-उपमादीति । अनुप्रासले- शोऽपीति । वर्णाद्यनुप्रासः ।। कुण्डलादिवियुक्तापि कान्ता किमपि शोभते। कुङ्कमेनाङ्गरागश्रेत्सर्वाङ्गीणः प्रयुज्यते ॥ १०७॥ श्रुतिवृत्त्यनुप्रासौ तु संदर्भव्यापकावेव प्रशस्तावित्युदाहरणव्याजेनाह-कुण्ड- लादीति॥ श्रुतिवर्णानुप्रासावेकविधौ कुन्तलेपु गौडेपु। पदयोर्निरनुप्रासो द्वेधा त्रेधा च लाटेषु॥ १०८ ॥ एतदेव खण्डसरसतीयु कविषु न तथा काव्यसिद्धिरिति दर्शयन्द्रडयति- - श्रुतिवर्णानुप्रासाविति॥
नियमस्तदुधैः षोढा चित्रमित्यभिधीयते ॥१०९॥ करमप्राप्तं चित्रलक्षणमवतारयति-वर्णेति। चित्रमालेर्यं तदिव जीवितस्था- नीयध्यनिरहितं चित्रमिति काश्मीरकाः । तदसत्। ध्वने: प्राधान्यानज्ीकारा- स्प्रतीयमानमात्राभावस्य क्चविदप्यसंभवात् । यद्वा आकृतिविशेषयुक्तं चित्रमिति तदपि न । अव्यापकत्वात्। अतो वर्णादिनियमेन प्रवृत्तमाध्चर्यकारितया चित्राम- त्येव युक्तम् । वर्णा व्यञ्ञनानि। स्थानं कण्ठादि। खरा अकारादयः । आकार: पद्माद्याकृत्युन्मुद्रणम् । गतिः पठितिभन्नविशेषः । बन्धो विविडितिप्रभृतिः ॥ वर्णशबदेन चात्र खवराणां पृथङ्निर्देशाद्यज्जनान्येव प्रगृद्यन्ते। तत्र चर्णचित्रेषु चतुर्व्यज्ञनं यथा- 'जजौजोजाजिजिज्जाजी तं ततोऽतिततातितुत्।
Page 359
२६६ काव्यमाला।
पञ्चप्रमृतिनियमेन तथाशक्तिव्युत्पत्योरुत्कर्ष इति चतुरादि गृह्ाति-तत्रेति। अवश्यं योदा जाजी। जजेर्युदार्थादावश्यके णिनिः । जजा युद्धशौण्डास्तेषामो- जसा जाता या आजि: सङ्गामसं जयतीति किए। तं वेणुदारिण ततोऽनन्तर अतिततान् चतुरअबलेन प्राप्तविस्वारान् आतिनः सततगमनशीलान् तुदतीति ककिप। भानां दीप्ततारानुरूपाणां शुकबृहस्पत्यादीनामामेवाभा कान्तिर्यस्येत्युपमान- पूर्वपदबहुज्रीही उत्तरपदलोपे च भामः । अभियो भयशून्यानिभानभिभवतीति कि ।। अमीभाभिभूस्तादशी या भा वेजस्वस्या भूराधयः । आर जगाम । अरि: शत्रुः । बलभद्र इत्यर्थ: । अरीणां री: संचरणम् । 'रीड् गतौ इति धात्वनुसारात्। तस्या ईरो धूननं राति ददाति अरीररः।। त्रिव्यञ्ञनं यथा- 'देवानां नन्दनो देवो नोदनो वेदनिन्दिनाम्। दिवं दुदाव नादेन दाने दानवनन्दिनः ॥ २६० ॥' देव: सृष्ठिस्थितिसंहारक्रीडारतः, दानवनन्दी हिरण्यकशिपुस्तस्व दानेऽवखण्डने यो नादो वक्ष:कपाटपाटनकटकटाशव्दस्तेन दिवं खर्ग दुदाव किमेतदित्याकस्मि- कसंत्रमेणेत्युपतापयामास। जगत्कण्टकनिराकरणाहेवानां नन्दन आनन्दकृत्। वेदनिन्दिनां च नोदन: प्रतिक्षेपकः । सामान्याभिप्रायेणैकवचनम् । द्विव्यञ्जनं यथा- 'भूरिमिर्भारिभिर्भीरा भूभारैरभिरेमिरे।
भूरिभिर्बहुभिर्भारिमि: प्रकृतिसारभारवाहिभिरतिप्रमाणकायतया भुवो भार- भूतरन्तःकांस्यभाजनो निःखानो मेरी तद्वदेभिभिः । 'रेम शब्दे' इति घात्वनु- सागत। अत्रामैः प्रथमोत्नतमेघकान्तिभिरिभर्हस्तिभिर्भियं रान्ति प्रयच्छन्तीति भीरा इभा: प्रतिद्विपा अभिरेमिरे अभियुक्ताः ॥ एकव्यञ्जनं यथा- 'न नोननुन्नो नुन्नेनो नाना नानानना ननु। नुन्नोऽनुन्नो ननुन्नेनो नानेना नुननुन्ननुत् ॥। २६२।।'
Page 360
२ परिच्छेद: ॥] सरस्वतीकण्ठाभरणम्। २६७
ननु नानानना विविधाकारवदना गणा ऊनेन हीनेन नुजो जितो ना न न पुरुषः । तथा नुन्न इन: प्रभुर्यस्य सोऽप्यात्मनि जीवति नाना पुरुषोऽपुरुष एव। यतो ननुभेनोऽजितप्रभुर्नुन्नोऽप्यनुन्न एव। तथा नुजनुन्नः जित इव क्कीबतया पराभूत इति। 'प्रकारे गुणवचनस्य' इति द्विरुक्तिः । तमपि यो नुदति स नानेना न निष्पापः बन्धच्छायार्पकान्यवर्णगुरुत्वोन्मेषमात्रप्रयोजकस्तकारो न पृत्तिशरीरान्त- र्गत इति द्विव्यजनता नाशङकनीया।। क्मस्थसर्वव्यञ्जनं यथा- 'कः खगौधाङचिच्छौजा झाञ्ज्ञोऽटौठीडडण्ढणः । तथोदधीन्पफर्बाभीर्मयोऽरिल्वाशिषां सहः ॥ २६३ ॥' कमस्थेति। वर्णसमान्नाये येन क्मेण कादयो मावसाना: पठितास्तेन क्रमेण व्यञ्ञननिवेश: । कः खगोघस्तत्ततप्रसिद्धावदानपक्षिसमूहस्तमश्चतीति किनि संयो- गान्तलोपे कृते च खगोघाकिति रूपम्। चितं संविदं छथति छिनत्तीति चिच्छ य- दोजस्तन्नास्ति यस्यासावचिच्छीजाः। 'झमु अदने' अस्मात् क्विप। 'अनुनासिकस्प किझलो: ६।४।१६ इत्युपधादीर्थः ।'मो नो धातोः ८।२।६४' इति नकार इति झ्ान् परबलमक्षको जः पण्डितः । 'स्तो धुना थुः ८।४।४०' इति नकारस्य बकाराः । अटाः सङ्गामाननणपर्यटनशीला: सुभटास्ानोठते बाधत इति किप्। 'उठ गती' इति धातो रूपम्। तेषामीडीश्वरः। अडण्टणोऽचपलः । उण्टण इत्यव्युत्पनं चपलवाचि प्रातिपदिकम् । तथा अभीर्भयरहितः एवंविध: को नामायमुदधीन् पफर्च पूरया- मासेति प्रश्नः। उत्तरम्-अरीन् लुनन्ति या आशिपस्तासां सहः क्षमो मयो देलराज इति॥ छन्दोक्षरव्यञ्ञनं यथा- 'सरत्सुरारातिभयाय जाग्रतो जलत्यलं स्तोतृजनस्य जायताम्। स्मितं समरारेरगिरिजास्यनीरजे समेतनेत्रत्रितयस्य भूतये ।।२६४॥ छन्दोक्षरेति। 'म्यरस्तजभ्नगा लान्ताश्छन्दोविचितिवेदिभिः । दशैव वर्णा
मुदाहरणम्।।
Page 361
२६८ काव्यमाला।
पड्जादिखरव्यञ्जनं यथा- 'सा ममारिघमनी निधानिनी सामधाम धनिधामसाधिनी। मानिनी सगरिमापपापपा सापगा समसमागमासमा ।।२६५।। षद्जादीति। 'सरिगामपधानिथ् वर्णाः सप्त खरादयः । पह्जादिकृतसंकेता दृष्ट गान्धर्ववेदिभिः ॥' तन्मात्रव्यज्ञनमयं षड्जादिव्यजनम्। सह एन विष्णुना वर्तते इति सा लक्ष्मीः । अरीन् धमति तापयति इति धमतेर्ल्युटि बहुलवचनम- न्यत्रापीति धमादेशः । एवंविधा मम भूयादिति शेषः । निधानिनी पद्मादिनि- धानवती। सान्नः सान्त्वस्य धाम गृहम । धनिनां धामसाधिनी तेजःप्रसाधिका । मानिनी पुजावती। सगरिमा गारववती। अपपापाजिष्कलयान् पातीत्यपपापपा। सेति प्रसिद्धविभवा आपगा नदी। समः तत्तुत्यः क्षणविसर्पी भहरः समागमो यस्पा: सा तथा। असमा अनुपमा। मुरजाक्षर व्यञ्ञनं यथा- 'खरगरकालितकण्ठं मथितगदं मकरकेतुमरणकरम्। तडिदिति रुरुमुण्डहरं हरमन्तरहं दधे घोरम् ॥ २६६॥' मुरजेति। 'पाठाक्षराणि मुरजे लहकारी तथद्धाच्छमा रेफः। नणकग- वहाशेत्यं पोडश भरतादिकथितानि I।2 तन्मात्रविरचितं मुरजाक्षरव्यजनम् । मुबोधमुदाहरणम्।। चतुःस्थानचित्रेषु निष्कण्ठयं यथा- 'भूरिभूति पृथुप्र तिमुरुमूर्ति पुरुस्थितिम् । विरिभ्िं सूचिरुचिधी: शुचिभिर्नुतिभिधिंनु ॥ २६७॥' वर्णवत्स्थानेष्वपि चतुरादिनियमेन चित्रम्। यद्यपि च 'अष्टी स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिहामूलं च दन्ताथ्ष नासिकोष्ठी च तालु च' इति, तथापि जिहामूळीयस्य सरत्वादुरस्यनासिक्ययोः काव्यप्रवेशाभावादुरोना- सिकाजिडामूलपर्युंदासेन स्थानपज्के चतुरादिनिरूपणम्। हे सूचिरुचिधी: शुचिभिः झुद्धाभिनुंतिभि: स्तुतिभिर्यथोक्तविशेषण विरिखि ब्रह्माणं धिनु प्रीणयेति। अकुह- विसर्जनीयाः कण्ठ्याः ।।
Page 362
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। २६९
निस्तालव्यं यथा- 'स्फुरत्कुण्ड लरल्नौधमघवद्धनुकर्वुरः । मेघनादोऽथ सङ्गामे प्रावृद्कालवदाबमौ ॥ २६८॥ कुण्डलरलांघ एव मघवतो धनुसेन कर्बुरो मेधनादनामा राक्षसः । इनुय- शास्तालव्याः॥। निर्दन्त्यं यथा- 'पाप्मापहारी रणकर्मशौण्डश्चण्डीशमिश्रो मम चक्रपाणिः । भूयाच्छ्रियापश्रमयेक्ष्यमाणो मोक्षाय मुख्यामरपूगपूज्यः ॥।२६९।।' चण्डीशमिश्रः परमेश्वरेणैकशरीरतामापन्रः । मुख्यामरा ब्रह्मादयः । लतुलसा दन्लाः॥। निरोष्ठयं यथा- 'नयनानन्दजनने नक्षत्रगणशालिनि। अघने गगने दृष्टिरक्ने दीयतां सकृत् ॥ २७० ॥' अघन इति। शरत्कालशोभया दृश्यतमे। उपूपष्मानीया ओषपाः ॥ निर्मूर्धन्यं यथा- 'शलभा इव धावन्तः सायकास्तस्य भूभुजः । निपेतुः सायकच्छिन्नास्तेन संयुगसीमनि ॥ २७१ ॥' तेन कपिलेन राजा। तस्य कोसलाधिपस्य प्रसेनजितः । ऋदुरषा मूर्धन्याः ॥ त्रिस्थानचित्रेषु निरोष्ठयदन्त्यं यथा- 'जीयाज्जग जये ष्ठगरिष्ठ चारश्रकार्चिषा कृष्णकडारकायः । हरिर्हिरण्याक्षशरीरहारी खगेशगः श्रीश्रयणीयशय्यः ॥२७२॥' निरोध्यदन्त्यमिति। अनेनैव द्विकान्तरपरिहारेण लोष्ठप्रस्तावो गवेषणीयः । तथोत्तरत्र पि ।।
Page 363
२७० काव्यमाला।
निरोष्ठय मूर्धन्यं यथा- 'अलिनीलालकलत कं न हन्ति घनस्तनि। आननं नलिनच्छायं नयनं शशिकान्ति ते ॥२७३॥' द्विस्थानचित्रेषु दन्त्यकण्ठयर्यथा- 'अनङलङ्नालमनानातङ्का सदकना। सदानध सदानन्द नताङ्गीसअसंगत ॥ २७४॥' सदानघ अनवद सदैव प्रियालामेनानन्दयुक्त। नताश्रयाः कस्याश्िदन्यस्याः सज्ने संगत, तब शोभनागना कामाक्मणप्राप्तनानारूपतया वर्तते। अतस्तामनु- कम्पखेति सोपा उम्भ प्रार्थनावाक्यार्थ: ।। एकस्थानचित्रेषु कण्ठ्यैर्यथा- 'अगा गां गाञ्काकाकगाहकाघकका कहा। अहाहाङ्खगाड्कागगकडकागखगाङकग॥ २७५।।' गान्कं गज्ञासंबन्धि जलं तस्पाक: कुटिला गतिः। 'अक अग कुटिलायां गतौ' इति। तस्याइस्य तन्मध्यस्य गाहको विलोलकः । कुत्सितमर्घं पापमधकं स एव काकस्तं हृतवानघककाकहा। अन्ये तु विसर्गान्तं पठन्ति। तदा जहातेर्विधिरूपम्। एवंविधस्त्वं गां स्वर्ग अगाः याया इति आशंसायां भूतप्रत्ययः । कीटशः सन्। हानं हाः न हा अहास्ताजिहीते प्राप्रोतीति अहाहं तादृशमञं यस्य स खगो गरुड: सूर्यो वा सोऽङ्कश्िविह्वभूतो यस्य ताटशोऽगोऽर्थान्मेरुस्तद्वर्तिनः कहाख्या अगखगा वृक्षनिवासिन: पक्षिणसेऽपि आकाकका गमनस्पृहयालवो यस्य स तथा। आस्तां तावदन्ये, पतब्रिभिरप्यभिनन्दितगमन इत्यर्थ: ॥ स्रचित्रेषु हरस्वैकसवरं यथा- 'उरुगु दयुगुरु युत्सु चुकुशुस्तुष्ुवुः पुरु। लुलुभु: पुपुपुर्मुत्सु मुमुहुर्नु मुहुर्मुहुः ॥ २७६ ॥ स्रचित्रेष्वेकादिक्मेणोपन्यासो अ्रन्थवचित्र्यार्थः । उरुगुं विस्तीर्णवाचम्। युगुरुं खर्वासिनामाचार्यम् । युत्सु युद्धार्थम्। 'निमित्तात्कमयोगे' इति सप्तमी । गीर्वाण- मटायुकुशुरार्ताः शरणं ययाचिरे। अत एव पुरु बहुधा तुष्टवुः । युद्धप्रयोजन-
Page 364
२ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। २७१
माह-मुर्सु हपेंपु ललभुः । पुपुषुः पुष्टा बभूदुः। नु बितकें। मुहुर्मुहुर्वारंर्वारं किं मुमुहुर्मोहमासादितवन्तः । यतः कोशनादीनामव्यवस्थेति भावः ॥ दीर्घैंकखवरं यथा-
मैत्रेर्नैकेर्षेयैर्वेरेदे: खैः खवरर्दैवस्तैस्तैः ॥ २७७ ॥ विधिर्विरिशिः, इ लक्ष्मीस्तस्या इन: प्रभुर्विष्णुः, ईशो महादेवः, इन्द्रो वासबः, ईजः कामो लक्ष्मीपुत्रत्वात्, इला पृथ्वी, जिनो बुद्ध:, सिद्धा देवविशेषाः, मित्र: सूर्य:, रैदो धनदः कुबेरः, देवा उक्तव्यतिरिक्ता मरुदादयः, एषां संबन्धिभिषये- ्ृतिभि: खैर्वितैक नैकैरनेकविधेस्तैसैः प्रसिद्धरूपरहं खरैः सुध्ु आसमन्तात्समृद्धो भवानीत्याशंसा। वै वाक्यालंकारे ।। हख्वद्विखरं यथा-
मम त्र्यक्ष नमद्दक्ष हर स्मरहर स्मर ॥ २७८॥' क्षिति: पृथ्वी तस्याः स्थितिः पालनं मितिर्मानं क्षिप्तिः संहारस्तद्विधि वेतति। निधिसिद्धी लेढोति किप। नमन् भम्नतेजा दक्षो यस्मात् । स्मरहर कामदहन, व्यक्ष त्रिनयन, हर महादेव, मम स्मर। अधीगर्थयोगे कर्मणि पष्ठो।। दीर्घद्विखरं यथा- 'श्रीदीप्ती हवीकीतीं धीनीती गीःप्रीती। एधेते द्वे द्वे ते ये नेमे देवेशे॥ २७९॥ श्रीदीपी लक्ष्मीतेजसी। हीकीरती उज्ायशसी । धीनीती बुद्धिनयौ। गीःप्रीती बाकप्रमोदौ। इमे ये देवेशेऽपि न स्तसे द्वे तब एधेते वर्षेते ॥ त्रिखरेषु हृखत्रिस्रं यथा- 'क्षितिविजितिस्थितिविहितिव्रतरतयः परगतयः । उरु रुरुधुर्गुरु दुधुवुः खमरिकुलं युधि कुरवः ॥ २८० ॥' क्षितेर्विजिति: विजय:, स्थितेर्वर्णाश्रममर्यादालक्षणाया विद्दितिरविधानं तदेव वतं
Page 365
२७२ काव्यमाला।
तत्र रतिर्येषाम्। परा श्रेष्ठा गतिर्ज्ञानं येषां ते तथा। एवंविधा: कुरवः खद्विपां कुलमुरु विस्तीर्ण रुरुधुः । तदेव गुरु महत् दुधुवुः कम्पयामासु: ॥ चतुःखरेषु दीर्घखरं यथा- 'आम्नायानामाहान्त्या वाग्गीतीरीतीः प्रीतीभीतीः । भोगो रोगो मोहो मोदो ध्येये वेच्छेत्क्षेमे देशे ॥ २८१॥' आत्रायानां वेदानामन्त्या वागुपनिषत् सा हिताहितप्रतिपादनपरा किमाह। या गीतयस्ता इतय उपसर्गा: । याः प्रीतयस्ता भीतयो भयानि। यो भोगः स रोगः। यो मोदो हर्षः स मोहः । न परमेवमाह । किंतु यावच्येये ध्यातव्ये क्षेमे केश- रहिते देशे विषये मोक्षलक्षणे इच्छेदिच्छां कुर्यादिति। वाशब्दः समुचये। अन्ये चकारमेव पठन्ति ।। प्रतिव्यक्षनविन्यस्तखवरं यथा- 'तापेनोग्रोऽस्तु देहे नो हेये विल्लोभिनिन्दिना। जायाग्रे हि गुणिप्रेष्ठे हितोऽक्षेपोऽमृतोक्षिणि ॥ २८२॥ हेये हातव्ये वस्तुनि या विह्लामः । 'विट्ठ लामे' इति घात्वनुसारात्। तन्र ये लोभिनो लोभवन्तस्तनिन्दनशीलेन तापेन तेजसार्थादुप्रथण्डरर्मःसनः मम देहेऽस्तु । तेजसवी भवानीति यावत्। किमिल्येवमाशास्यत इत्यत आह्-अमृत- स्वन्दिनि कान्ताग्रे गुणिनां प्रियतमेSक्षेपोSविलम्ब एव हितोऽर्थतः समरस्य। 'इति दश्वाशिषं कोऽपि खस्म कार्मुककर्मणे। जगाम समर कर्तुमरिलक्ष्मीखयंवरम् ।' तदेवापास्तसमस्तखवर यथा- 'तपन अस्तदहन हयवल्लमनन्दन। जयग्रह गणपरष्ठ हतक्षप मतक्षण ।। २८३ ।।' प्रस्तदहन अभिभूतपावक । हृयवल्भो रेवन्तः स तनयो यस्य। हतक्षप अपहृतरात्र। मतक्षण समतोत्सव ।। आकारचित्रेप्वष्टदलं यथा- 'याश्रिता पावनतया यातनच्छिदनीचया। याचनीया धिया मायायामायासं स्तुता श्रिया ॥ २८४॥
Page 366
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। २७३
अत्र- कर्णिकायां न्यसेदेकं द्वे द्वे दिक्षु विदिक्षु च। प्रवेशनिर्गमौ दिक्षु कुर्यादष्टदलाम्बुजे ॥ २८५॥ या धितेत्यादिकमुदाहरणं प्रागेव (प०१ शो० १७०) व्याख्यातम्। अतः पर हारिहरिव्याख्या। साप्यत्रव लिख्यते। तदथा-या देवी पवित्रत्वेनाश्रिता अनीचया तुन्या बुद्या मायायामस्याविद्याविस्तारस्यायास ग्लानि विच्छेदं याचनीया प्रार्थनीया यतो यातनं नरकानुभवनीयं दुःखं छिनत्ति श्रियापि स्तुतेति ॥ अस्प न्यासमाह-कर्णिकायामिति । आद्यो यावर्ण: कर्णिकायां श्रितेति पावेति कमेण द्विकं द्विकमष्टपत्रेषु। याश्रिता ध्रियेत्यादी दिग्दलेषु प्रवेशनिर्गमौ ॥ द्वितीयमष्टदलं यथा- 'चरस्फारवरक्षार वरकार गरज्वर। चलस्फाल वलक्षालवल कालगल ज्वल ॥ २८६॥' अष्टवा कर्णिकावर्ण: पत्रेष्वष्टौ तथापरे। तेषां संधिषु चाप्यष्टावष्टपत्रसरोरुहे॥ २८७॥ चरस्फारेत्यादि। संचरणशीलः स्फारो यो वरसतं क्षरति ददाति इति। वराञ्लेष्ठान किरति क्षिपति कृणोति हिनस्ति वेति कर्मण्यण्। गरः कालकूटस्तस ज्वरो ज्वरणात्। ताण्डवारम्मे चलाः स्फाला यस्य। वलक्ष धवलदेह, अलवल प्रापतशक्कते, कालगल नीलकण्ठ, ज्वल दीप्यमानो भव ॥ न्यासमाह-अष्टधेति। अथ प्रथमार्धे एक एव रेफोऽष्टधा कर्णिकायाम्। अपरार्धस्यान्येऽष्टी लकारवर्ज दलेगु तेषां संधिष्यन्येऽष्टी लकाराः ।। तृतीयमष्टपत्रं यथा- 'न शशीशनवे भावे नमत्काम नतत्रत । नमामि माननमनं ननु त्वानुनयन्नयम् ।२८८।।' अत्र प्राक्कर्णिकां पुनः पर्ण पर्णाग्रं पर्णकर्णके। प्रतिपर्ण ब्रजेद्धीमानिह त्वष्टदलाम्बुजे ॥ २८९॥ १८ स० क०
Page 367
२७४ काव्यमाला।
एवं चतुष्पत्र-षोडशपत्रे अपि द्रष्टव्ये।। न शशीशेत्यादि। शशीशे चन्द्रे नवे भावे भक्तौ । स्थित इति शेषः। स्वामहं न नमामि। काक्ा नमाम्येव। नमन् भम्ः कामो यस्मात्। नतमुपनतं ज्ञतं यस्य संयमिधारेयत्वात्। माननमनं शत्रूणामुन्नतिनाशनम्। नन्वििति पूजा- संबोधने। त्वा इति त्वाम्। अनुनयन् विनयं कुर्वाणोऽयम् ॥ न्यासमाह-प्राक्क- र्ण्िकामिति। पूर्व कर्णिकायामाद्यो नकारो ग्रह्यः, ततः शेति पर्णमध्ये, शीति पर्णाग्रे, परावृत्य पर्णकर्णिकयोः शकारनकारी, पुनः कर्णिकातो दलाग्रगमागमेऽपि। अयमेव क्मश्रतुर्दलपदे।। तयोश्चतुष्पत्रं यथा- 'सासवा त्वा सुमनसा सा नता पीवरोरसा। सारधामैति सहसा साहसर्ध सुवाससा ॥। २९०।' कार्णेकातो नयेदूर्ध्व पत्राकाराक्षरावलीम्। प्रवेशयेत्कर्णिकायां पद्ममेतचतुर्दलम् ॥ २९१॥ सासवेत्यादि। सासवा आखादितमदिरा। पीवरेण खवनाळ्येनोरसा नता सारधामा उत्कृष्टकान्तिः सहसा सहास्या अकस्माद्वा ऋह्ारोद्दीपनस्वभावेन मार्ग- शीर्षॅण हेतुना शोभनेन वाससा च लक्षिता हे साहसर्ध सर्वनिशीथाभिसरण साह- सरसिक, त्वामेति उपगच्छतीति ॥ न्यासमाह-कर्णणिकेति। सुबोधमेतदिति ।। षोडशपत्रं यथा- 'नमस्ते महिमप्रेम नमस्यामतिमद्दम । क्षामसोम नमरकाम धामभीम समक्षम ।। २९२ ' गोमूत्रिकाक्र्मेण स्युर्वर्णा: सर्वे समा: समाः । मध्ये मवर्णविन्यासात्पझ्ोडयं पोडशच्छदः ॥ २९३॥ षोडशपत्रमाह-नमस्त इत्यादि । महिमनि प्रेमा यस्य तत्। नमस्य अमतिमतो दाम्यतीति अमतिमद्दम। क्षाम: कलमात्रेण चूडासंगतः सोमो यस् । नमन् भम्: कामो यस्मात्। धाम्ा तेजसा भीम भयानक। समा सकलव्युत्था- नहेतुसाधारणी क्षमा यस्य । यस्यैतानि संबोधनविशेषणानि ते तुभ्यं नमस्कुरुते
Page 368
२ परिच्छेद: ॥] सरसतीकण्ठाभरणम् । २७५ कविविदिति॥ न्यासमाह-गोमूत्रिकेति । वर्णा मकारव्यतिरिक्ताः समा: मका- रसहिताः । समा: समा इति वीप्सा प्रतिवर्ण मकारसाहित्यबोधनार्था।। अष्टपत्रमेव कविनामाह्वं यथा- 'रातावद्याधिराज्या विसरररसविव्याजवावक्ष्मापकारा राका पक्ष्माभशेषा नयनननयनखा [सा] खया स्व्यमारा। रामा व्यस्तस्थिरत्वा तुहिनननहितु: श्रीः करक्षारधारा राधा रक्षास्तु महं शिवमममवशिव्यालविद्यावतारा॥। २९४। निविष्टाष्टदलन्यासमिदं पादार्धभक्तिमिः । अस्पृष्टकर्णिकं कोणैः कविनामाङ्कमन्वुजम् ॥। २९५।। तत्राक्क :- 'राजशेखरकमल'। एतेन चक्रमपि व्याख्यातम् । अष्टपत्रमेव कविनामाङकमाह-रातावद्येति। 'गीर्वाणसुभटः कविध्ुयुत्सुर्दैत्य- सेनया। तत्कालकृतसांनिध्यां मायादेवीमपूजयत् II' तथाहि-व्याजो माया सैव वाश्रूपा व्याजशब्दोपपद वागभिधानं यस्याः सा मह्यं रक्षास्त्विति संबन्धः । रातं दत्तमवदं दोषबहुलमाधिराज्यम्, अकदा आधयो यत्र तादशं वा राज्यं यया। विशिष्टं सरणं विसरसं राति प्रयच्छति यो रसोऽर्थाद्वीरस्तं वेत्ति विन्दृति ा। य्या क्ष्मायां पृथिव्यामपकारः पुत्रकलत्रादिरूपो यस्या: सकाशादिति गमकत्वाद्वडु- बीहिः। राका पूर्णिमा, द्वादशवर्षदेशीयकन्यारूपा वा । पक्ष्माभः शरीरसंलमः शेषः सर्पः । यस्या नयनं नीतिस्तान्यतीति यन्रयनं दृष्टिः। ज्ञानमिति यावत्। तदेव खमात्मा यस्याः । खे व्योत्नि यातीति खया। स्व्यो मारो मारणं कामो वा यस्थाः । सा रामा रमणीया स्त्रीरूपा वा। व्यस्तं विनाशितं स्थिरत्वं यया। तुहिनं नयति प्राप- यतीति नयतेर्डप्रत्यये तुहिननशन्द्रस्तस्य नहितुर्जटाजूटे बन्धयितु: परमेश्वरस्य श्रीः शच्तिरूपा। नह्यति बभ्रातीति नहेर्विचि नहं स्तुतिमासादयतीति । 'सर्वप्राति- पदिकेम्यः किव्वक्व्यः' इति किपि तृजन्तस्य रूपम्। कें सुखं राति ददातीति करस्स्य क्षारभूता दस्यवस्तेषां सप्नादिधारेव धारा छेत्री । राधेति देव्या: पौराणिकं नाम। ममेत्यव्यर्य भावप्रधानम्। शिवे ममत्वं मान्ति परिच्छिन्दन्ति ये वशिनो योगिनस्तेषामपि व्यालविद्यां भ्षुद्धविद्यामवतारयति या सा तथा। न्यासमाह-निविष्टेति। अष्टभिः पादाघैरष्टदलविरचना । यदवूर्णाष्टकं नान्नो-
Page 369
२७६ 1 काव्यमाला 1,7
त्िष्ठति तदाह-'राजशेखरकमल' । कविकाव्यनामलाभादविभच्तिकत्वमप्यदोषः। एतेनेति। नामाङ्कपद्यकथनेन चक्रमपि नामाक्कमवसेयम् । चक्रं यथा- 'स त्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लव्घाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा। मुक्त्वा काममपास्तमीः परमृगव्याघः स नादं हरे- रेकौघैः समकालमअ्रमुदयी रोपैखतदातसरे ॥ २९६॥ पुरः पुरो लिखेत्पादानत्र त्रीन्पडरीकृतान्। तुर्य तु अमयेन्नेमौ नामाङ्कश्क्संविधिः ॥ २९७ ॥ अत्राङ्क :- 'माघकाव्यमिदं शिशुपालवधः' ॥ स त्वमित्यादि। हरेनोदं सिंहनादं रोपैर्बाणैराजिरमसात्सङ्गामहरषादुद्वरतर- श्रीवत्सभूमिरुनतहृदयः स त्वमालम््य मानेन तद्विशिष्टमिति विशेषणम्। प्राप्त- पापविनाशो मुदा हर्षेण अपगतभीः शत्रुर्हरिणव्याधोऽत्रमाकाशं पिदधे तदा तस्मिन्काले सिंहनादमुक्त्वेति संबन्धः ॥ न्यासमाह-पुर इति। पुरः पुरो लिसित्वान्यानप्रे लिखेदथा पडराः संपद्यन्ते॥ एवं चतुरक्कमपि यथा- 'शुद्धं बद्धसुरास्थिसारविषम त्वं रुग्जयातिस्थिर भ्रष्टोद्धर्मरजःपदं गवि गवाक्षीणेन चख्चभुवा। तथ्यं चिन्तितगुप्तिरस्तविधिदिम्मेदं न चक्रं शुचा- चारोऽप्रांशुरदभ्रमुत्र तनु मे रम्यो भवानीरुचा ॥२९८।। अत्राङ्क :- 'शुम्रतरवाचा बद्धचितिचकं राजगुरुणेदं सादरमवादि'। यथा वा-शुद्धमित्यादि। चक्रं मे मम गवि वाचि शुद्धमकलुषम्, धर्मादु- तकान्तमुद्धममीदृशं यदजो राजसभावस्तस्य पदं स्थानं तन्बरषटं विनर्ष्ट यस्मात्। अस्ता विधिदिग्दैवपारतकयं यत्र तथाविधं, शुचा शोकेन च न वकीकृतमनपहृत- मदत्रमुपचितं यद्धवं कल्याणं तत्तनु विस्तारयेति प्रार्थना। बद्ैरलंकारीकृतैः सुराणां ब्रह्मादीनां सारं शिरस्तदस्थिभिर्बद्धमुण्डमालाभिर्भयानक। रजां रोगाणां जयेनाति-
Page 370
२ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। २७७
स्थिर। अक्षीणेनोपचितेन चबह्ुवा साहादेन गवा वृषेण लक्षित। तथ्यमिति क्रियाविशेषणम् । चिन्तिता गुप्िर्भूतानां रक्षा येन । चारो रमणीयः । उग्रो महादेव:। त्वमप्रांशुः सर्वस्मादुचःपदे स्थितः। भवानीरुचा वामार्धस्थितपार्वतीकान्त्या रम्यस्तन्विति संबन्धः ॥ अत्र पूर्ववदेव न्यासः । अङ्भास्तु चत्वार इति विशेषः ॥ गतिचित्रेषु गतप्रत्यागत यथा- 'वारणागगभीरा सा साराभीगगणारवा। कारितारिवधा सेना नासेधावरितारिका ॥ २९९ ॥ अत्रायुक्पादयोर्गतिः, युक्पादयोः प्रत्यागतिः ॥ इदानीं गतिचित्रप्रस्ताव :- वारणेत्यादि। वारणा एव अगाः पर्वतास्तैर्गभीरा दुरबगाहा। सारा श्रेष्ठा । भियं येन यान्ति तादृशानां गणानामारवो यत्र। सारो वा भीगगणारवो यत्र। कारितः कृतोऽरीणां बधो यया। खार्थे णिच्। आसेध: परै: प्रतिषेधसेन हीना। वरिताः सुभटैर्युद्धार्थमाहूता अरयो यस्यां सा तथा। 'बर ईप्सायाम्' इति धातोः कप्रत्यये वरितेति रूपसिद्धिः । अत्रायुक्पादयोः प्रथम- तृतीययोरानुलोम्येन वर्णावली गृहीत्वा तत्प्रतिलोमरूपौ युक्पादी द्वितीयचतुर्थीं गृह्येते । पठितेवर्णाद्वर्णान्तरसंचारो गतिस्तन्नियमनेन चित्रं गतिचित्रं स चात्र यथोकरूप एव ।। तदक्षरगतं यथा- 'निशितासिरतोऽभीको न्येजतेऽमरणा रुचा। चारुणा रमते जन्ये को भीतो रसिताशिनि ॥ ३००॥ अत्र गतप्रत्यागताभ्यां स एव छ्लोक: ।। है अमरणा मरणरहिताः, निशितस्रह्ारतो भयशून्यथ रुंचा तेजसा न्येजते न कम्पते। यो हि भीतः स कर्थ शब्दायमानाशनशीलरक्षःपिशाचादिसंकुले जन्ये सङ्गामे चारुणा करितुरगादिना रमते। न कथचिदित्यर्थः। अत्र संदर्भसमा- प्तिपर्यन्तं या वर्णमाला गृहीता सैव समाप्तेरारभ्य प्रत्यागत्या यावदारम्भं समाप्यत इति पूर्व त्वर्षेनेवमिति ॥ ललोकान्तरं यथा- 'वाहनाजनि मानासे साराजावनमा ततः । मत्तसारगराजेमे भारीहावज्जनध्वनि ॥ ३०१ ॥
Page 371
२७८ काव्यमाला ।
अत्र प्रातिलोम्येनापर: क्लोको भवति। यथा- 'निध्वनज्जवहारीभा मेजे रागरसात्तमः । ततमानवजारासा सेना मानिजनाहवा ॥ ३०२ ॥ वाहनेति। ततोऽनन्तरं वाहना सेनाऽनमा नतिशून्याजनि जाता। सारा- जावुत्कृष्टसङ्गामे मानासे परमानक्षेपके मत्ताः सारगाः सोत्कर्षगतिशालिनो राजेभा राजदन्तिनो यत्र। भारिणः खामिनार्पितसमरभराः अत एव यथोचितचेष्टवन्त- स्तेषां जनानां ध्वनिः सिंहनादो यत्रेति कियाविशेषणमित्यनुलोमल्लोकार्थः। निष्व- नन्तः स्नन्तो जवेन वेगेन हारिण इमा यत्र। ततो विस्तीणों मानवजारासः सैनिककृत आरावः कोलाहलो यत्र । मानिजनानां साहंकाराणां वीराणामाहवो द्वन्द्युदं यत्र। ईदशी सेना रागरसात्परलक्ष्मीहरणरसेन तमो मेजे क्रोधमवापेति प्रतिलोम ्छोकार्थः । भाषान्तरगतं यथा- 'इह रे बहला लासे बाला राहुमलीमसा। सालका रसलीला सा तुङ्गालालि कलारत ॥ ३०३॥' अत्र प्रातिलोम्येनापर: प्राकृतश्लोको भवति। यथा- 'तरला कलिला गातुं सालाली सरकालसा। सामली महुरालावा सेलाला हव रेहइ॥ ३०४ ॥' इह रे इत्यादि। लासे नृत्ये बहला असंकुचिता राहुमलीमसा श्यामा सालका भकर्णा दिपर भागार्पक चूर्णकुन्तलवती रसाच्छृतारालीला यस्याः सा, तथा तुन्ना उच- व्यवहारा एवंविधा सा बाला हे चतुःपष्टिकलारत, अलालि लालिता त्वयेति संस्कृ- तश्लोकार्थः । कला गीतवाद्यनृत्यानां संकरीकरणसहिता पटीयसी गातुं तरला त्वरिता सालाली नानावृक्षपञ्िस्तवीयेन सरकेण मधुना अलसा। श्यामा मधुरालापा सेला उत्तमा नारी। 'सेला स्यादुत्तमा नारी' इति देशीकोशे। सह इरया मदिरया वर्तन्ते सेला वा। रल््योरेकत्वस्मरणादिति केचित्, तचिन्त्यम्। अला भूपयित्री। हब धवेति संबोधनम्। रेहड राजते। प्राकृत ्लोकार्थः। एवं भाषान्तराणामपि मतप्रत्यागती बोदव्ये।।
Page 372
२ परिच्छेद: ।] सरखतीकण्ठाभरणम्। २७९
तदर्थानुगतं यथा- 'विदिते दिवि केऽनीके तं यान्तं निजिताजिनि। विगदं गवि रोद्धारो योद्धा यो नतिमेति न ॥। ३०५ ।' अत्र प्रातिलोम्येन स एव पदार्थः ॥ विदित इत्यादि। विदिते खवर्वासिनामपि प्रसिद्धे निजिताः परेषामाजयो युद्धानि येन तादश्यनीके समरे प्राप्तं गवि पराहानरूपायां वाचि विगदं हृदयज्व- ररहितं के नाम भटा योदारः । न केऽपि सन्तीत्यर्थः । तं कम्। यो योद्ा सन्कथमपि नति नम्रतां नैति न याति। अत्र तदर्थक एव प्रतिलोमश्ोकः। स यथा-'नतिमेति न योदा यो रोदारो विगद गवि। निजिताजिनितं यातड्वेनीके विदिते दिवि'॥ तुरक्रपदं यथा- 'बाला सुकालबाला का कान्तिलालकलालिता। सखा सुतवती सारा दर्पिका व्रतगर्धित ॥ ३०६॥' कमात्पादचतुष्केऽस्य पढ्किशः परिलेखिते। तुरक्पदयातेन श्ोकोऽन्य उपजायते॥ ३०७॥ यथा- 'बाला ललिततीत्रखवा सुकला रागतर्पिका। सुदन्तिका वर्धितावासा काला तललासका ॥ ३०८॥' बालेत्यादि। बाला पोडशवर्षदेशीया शोभनकृष्णकेशी कान्तिप्रदचूर्णकु- न्तलशोभिता सखा आत्मसंपध्ुक्ा सुतवती पुत्रयुक्ता उत्कृष्टभिमानात्मकरज्रा- रवती अभिलषितखविवाहादित्रताकाङ्का अतसं भजखेति। हृदये इति शेषः । न्यासमाह-क्रमादिति। ललितो मनोज्स्तीत्र: प्रवीणः ख आत्मा यस्याः । रागेण प्रेम्णा तर्पयति या। शोभनदन्तयुक्ता। वर्चितावासा संपूर्णी कृतसकलस्थाना। कालो मृषाव्याहारसेन सह वर्तते या। तळे लासका नर्तका यस्याः सा तथाभूता। अधःकृतसकलनर्तकलोकेत्यर्थः । एवंभूता सा बाला स्वयोपभुक्तेति वाक्यार्थः ॥
Page 373
२८० काव्यमाला ।
आहुरर्धभ्रमं नाम श्लोकार्धभ्रमणं यदि। तदिदं सर्वतोभद्रं सर्वतो भ्रमणं यदि ॥ ११० ॥ तयोरर्घभ्रमं यथा- 'ससत्वरतिदे नित्यं सदरामर्षनाशिनि। त्वराधिककसन्नादे रमकत्वमकर्षति ॥ ३०९॥' ससत्वेति। सदरा: सभयाः । त्वराधिकानां कसनितस्ततः संचरन्नादो यत्र। अत एव वीरान्प्रति रमकत्वमकर्षति॥ सर्वतोभद्रं यथा- 'देवाकानिनि कावादे वाहिकास्वस्काहि वा। काकारेभभरेऽकाका निखभव्यव्यभखनि ॥ ३१०॥ 'कनी दीसौ'। देवानाकनितुं शीलं यस्य। कावाद ईषद्वादो यत्र। कस्य मस्तकस्य सभ्ना संगता आदा ग्रहणं यत्रेति वा । वाहिका पर्यायवहनम्। 'पर्यायार्हणोत्पत्तिषु' इति पबुच। सैव खं वित्तभूता येषामेवंविधा ये खका आत्मपक्षीयास्तानाजिहीते इति विच्। कं मदजलमाकिरति इति काकारस्तादश इमभरो हास्तिकं यत्र। हेडकाकाः सात्त्विका इति संबोधनम्। काका: सङ्गरामलोलुभा वा । कचित्कर्तर्यपि धनू। निःखा निरात्मानो भव्या आधेयगुणास्तानपि व्ययन्ति खबलेनोपबृंह्यन्ति ये ते निख्भव्यव्यास्ेषां भखनि भर्त्सनशीळे। 'भस भर्त्सने' इत्यतः क्निप् ॥ बन्धचित्रेषु द्विचतुष्कचक्बन्धो यथा- 'जयदेव नरेन्द्रादे लम्बोदर विनायक । जगदेधन चन्द्राभालद्विदन्तविभायते ॥ ३११ ॥ इह शिखरसंधिमालां विभृयादर्व समाश्रितैर्वणैः । द्विचतुष्कचक्बन्धे नेमिविधौ चापरं अ्मयेत् । ३१२ ॥ जयद इत्यादि। नता इन्दरादयो यस्मै स तथा। जगतामेधन वर्धन। चन्द्रा= भालद्विनी चन्द्रकान्तिविजयिनी दन्तप्रभाणामायतिर्यस्व स तथा॥ न्यासमाह- दहेति। शिखरमालां संधिमालां च पूर्वा्धवणः क्मेण बिमृयात्पूरयेत्। नेमि- विधी चापरसुत्तरार्ष ब्रमयेवप एृय औपक विकोसकक ाल २२
Page 374
२ परिच्छेद: I] सरसतीकण्ठाभरणम्। २८१
द्विशृक्वाटकबन्धो यथा- 'करासञ्ज वशेशं खगौरव स्य कलारसम्। संघाय वलयां शक्कामगौरी मे वनात्मक ।। ३१३॥' शृङ्गाङ्न्थि पुनः शृङ्रं अन्थि शृङ्गं व्रजेदिति। द्विशृक्गाटकवन्धेऽस्मिन्नेमि: शेषाक्षरैर्भवेत् ॥ ३१४॥
द्वे शज्ाटके मिथो वैपरीलयेन यत्र शिखरं द्विशव्वाटकम्। करै: किरणैरासज- यतीति करासजः । खे व्योत्नि गौरवं यस्य स तथा। वनात्मक जलसरूप। चन्द्रकलासु रसमनुरागं संधाय कृत्वा अन्तःस्वच्छतया दृश्यनभोभागनेमिमद्ट- ल्याकारोलेखिनीं मे ममागौरी श्यामां शङ्क्रामपनय। स्य इति करियापदम्। पूर्णों भवेति यावत्। वशेशमायत्तशंकरमिति क्रियाविशेषणम् ॥ न्यासमाह-शुङ्गा- दिति। शेषाक्षररिति । आद्यात्ककारादारन्य यावत्समाप्ति शेषाण्यक्षराणि तैर्नेमिरिति न्यासः। अत्र अन्थिवर्णैरेव 'राजशेखरस्य' इति नामाङ्कवर्णावली लभ्यते।। विविडितबन्धो यथा- 'सा सती जयतादत्र सरन्ती यमितात्रसा। सारं परं स च जयी शमितास्यन्दनेनसा ।। ३१५॥' शिखरादन्यतरस्मात्प्रतिपर्व अ्रमति रेखयाद्यर्म्। नेमौ तदितरमर्धे विविडितचक्रामिधे बन्धे ॥ ३१६॥ विविडितवन्धस्तु पश्चशाज्ञचक्रम्। तद्देवतात्राये दर्शितम्। 'कर्पूरकुन्दगौरी तनुमतनुं कार्मुकभ्रूकाम् । वरदानसुन्दरकरां विविडितचत्रस्थितां बन्दे II' सेति। प्रसिद्धानुभावा सती गौरी सरन्ती निरर्गलप्रसरा न त्रस्पतीत्यत्रसा। अस्पन्दनेन स्थिरेण एनसा कल्मषेण शमिता विक्वीभूता। रहितेति यावत्। "शम वैक्व्ये'। अन्न जगति पर सारं यं भगवन्तमिता संगता। स च जयी महेश्वरो जयतादिति।। न्यासमाह-शिखरादिति । 'अन्यतमाद्वा' इति पाठः ['अन्यतमस्मात्' इति पाठे तु सर्वनामत्वं चिन्त्यम् । केचित्तु 'कियत्तदेकान्येम्यः' इति पठित्वा उतम-
Page 375
२८२ काव्यमाला।
द्वारिकां सर्वनामतामाहुः। गणे चान्यतरशब्दं न पठन्ति। अव्युत्पत्तिमात्रं चेदम्। अनिर्धारितैकाभिधायकस्त्वन्यतमशब्द:।। शरयब्रबन्धो यथा- 'नमस्ते जगतां गात्र सदानवकुलक्षय। 11 समस्तेऽज सतां नात्र मुदामवन लक्षय ।। ३१७।।' चतुर्ष्वपि च पादेषु पङ्किशो लिखितेष्विह। आदेरादेस्तु रक्रस्य पादैः पादः समाप्यते ॥ ३१८॥ नमस्त इत्यादि। जगता नामरूपप्रपश्चस्य गात्रभूत दानवकुलक्षयेण सहित मुदां हर्षाणां रक्षक अज विष्णो, अत्र जगति सतां मध्ये न कोऽपि ते तब समः। ततो लक्षय टक्पातेनानुगृहाण। मामिति शेषः ॥ न्यासमाह-चतुर्ष्वपीति। शेषं सुबोधम्॥ व्योमबन्धो यथा- 'कमलावलिहारिविकासविशेषवहं जनकाक्क न नगामिकरं दिवि सारमनारमणं जरतां न। तमसां बलहानिविलासवशेन वरं जनकान्त न नमामि चिरं सवितारमनादिमहं जगतां न ॥३१९।' अष्टादशशिखरचरीं गोमूत्रिकया चतुष्पदीं पश्येत्। यत्राधयन्तैर्दष्टां स ज्ञेयो व्योमबन्ध इति ॥ १११ ।। कमलावलियु पद्मखण्डेषु प्रशस्तेषु हारी मनोजो यो विकास [विशेष]स्वस्य बोढारं जनैलोंक: स्तुत्यं तदीयं कं शिरस्तत्राह चिह्भूत, न नगाभिकर, किंतु विसुत्वर- किरणमेव दिवि वैमानिकपथे सारभूतं जरतां परिणतानामनारमणं न, किंतु प्रीति- करमेव। तमसां बलहानी यो विलासवशः संततो व्यापारखेन वरमुतृष्टं, जनकान्त लोकहृदयंगम, जगतामनादि न, किंत्वादिमेव। एवंविधं भगवन्तं सवितारमहं न नमामि किंतु नमाम्येव ।I न्यासमाह-अप्रादशेति । आद्यन्तैर्दप्रामिति। पादाद्यन्तवर्णयोरैक्यादिति बोध्यम् ।
Page 376
२ परिच्छेद: I] सरस्तीकण्ठाभरणम्। २८३
मुरजबन्धो यथा- 'सा सेना गमनारम्भे रसेनासीदनारता। तारनादजना मत्तधीरनागमनामया ॥ ३२०॥ अत्र पादचतुष्केऽपि क्रमशः परिलेखिते। श्लोकपादक्रमेण स्याद्रेखासु मुरजत्रयी ॥। ११२ ॥ अनारता अविच्छिन्नप्रहरणव्यापारा आसीत। मत्तधीरनागमिति क्रियाविशेष- गम्। रसेन वीरेण । महाप्राणशब्दजना ।I अत्र न्यासमाह-अत्र पादेति । अत्र पुटचतुष्ककल्पनया मुरजन्रयोन्मेषः ।। एकाक्षरमुरजबन्धो यथा- 'सुरानन त्वां न न हाननष्टये पुनः स्तुवेऽनर्घघनप्ठवाननम्। मनस्यनूनव्यसनप्रधूननं सकाननस्थाननदीननर्दनम् ॥ ३२१ ॥' श्लोकस्यैतस्य पादेषु लिखितेषु चतुर्ष्वपि। त्रिमृदङ्गकरीह स्याच्चतुरेकाक्षरावली ।। ११३ ।। सुराणां देवानामाननं मुखं तज्जूत बहे। हाननष्टये हानिनाशाय त्वां न न स्तुवे, किंतु स्तौम्येव । पुनरिति देवतान्तरव्यावृत्तो स्तुत्याव्ृत्तो वा। अनष्ये धनौधप्राणने यस्मात्। 'अन प्राणने' इति धात्वनुसारात्। प्रणतानां मनसि यदनूनमनादिभव- परम्परानुपाति व्यसनं तस्प प्रधूननं प्रतिक्षेपकम्। सकाननेषु वनगहनेषु स्थानेषु नदीनस्य पयोराशेरिव नर्दनं कोलाहलो यस्ेति॥ न्यासमाह-श्रोकस्यैतस्येति। प्रथमपादस्थादक्षरादारभ्य चतुर्थपादस्धमक्षरं यावदेकजातीयाक्षरचतुष्कावलीं गृहीत्वा परातृत्य तज्जातीयानामेव चतुष्टयी गृह्यते। तेनैकमुरजोन्मुद्रणमपरत्रा- प्यनेनैव प्रकारेणात्रोदाहरणे एकाक्षरमुरजत्रयी भवतीति न्यासार्थ: ॥ मुरजप्रस्तारो यथा- 'तालसारप्रभा राका तारकापतिदंशिता। मारधाम रमाधीता वल्यामास सागरम् ॥ ३२२ ॥' क्मेणैवास्य पादेषु प्रसृतेषु चतुर्ष्वपि। तुर्यान्मुरजमार्गेण श्रोकोऽयमृपजायते॥ ११४॥
Page 377
२८४ काव्यमाला।
'वरकारप्रदं धीरं तारधामाSसमासिका ।ककना सा लतामालयाऽमाडप ताराभाऽतिरसागता ॥। ३२३॥' तालतरोर्यत्सारं खाद्यभागस्त्प्रमेवावदाता प्रभा यस्याः । राका पूर्णिमा। तार- कापतिना चन्द्रेण दंशिता कवलिता 1 मारस्य कामस्य धाम स्थानं यत्र। रमया उक्ष्म्या अधीताभ्यस्ता। सलक्ष्मीकेत्यर्थः । वलयामास चालितवती, बलवन्तं वा चकार। 'विन्मतोर्लुक' इत्यनुशासनात् ॥-क्रमेणैवेति । तुर्याच पादप्रथमा- क्षरादुपकमे येन येन मार्गेण मुरजाकृतिर्लभ्यते तेनायमपरः शरोको भवति ॥ वरस्य ईप्सितस्य वस्तुनः कारः कारणं तत्प्रदं तारं दीप्तं धाम कान्तिर्यस्याः । असमा अनन्यसाधारणी आसिका स्थितिर्यस्याः सा नायिका लतामालया संकेतलतामण्डपेन अमा सार्ध आप प्राप्तवती। तारा रोहिणीप्रभृतिस्तदात्मा, तारनिर्मलमौकिकैवा भाति या । अतिशयितेन रसेन पूर्णा उपगता संगता । प्रकृतोदाहरणेऽटाक्षर- प्रस्तावान्तःपाती यः प्रकारस्तदन्तःपाती मुरजाक्षरेर्लभ्यते। उदाहरणमात्रं चैतत्, तेन गतिविचित्रादिगोमूत्रिकादयोऽन्येऽपि चित्रप्रकारा भवन्ति । गतिरुच्चावचा यत्र मार्गे मूत्रस्य गोरिव। गोमूत्रिकेति तत्प्राहुर्दुष्करं चित्रवेदिन: ॥ ११५ ॥ तेषु पादगोमूत्रिका यथा- 'काहन्पुलोमतनयास्तनपीडितानि वक्ष:स्लोत्थितरयाञ्चनपीडितानि। पायादपायभयतो नमुचिप्रहारी मायामपास्य भवतोऽम्बुमुचां प्रसारी ।। ३२४ ।।' सेयमयुग्मतः पादगोमूत्रिका ॥ ननु यावदुदाहतमेव कि गत्यादि चित्रं, तथा सति कि गोमूत्रिकादीनां पृथ- वभागविभागव्याघातः स्यादिलयत आह-उदाहरणमात्रं चतदिति। गतिः पठितिसंचारो वर्णानामुचावचं बोर्ध्वाधःपर्यायेण प्रवृत्ता । माया संसारबन्ध- मपास्य दुःखभयात्पायादिति संबन्धः ॥ न्यासो यथा-अयुग्मतः प्रथमात्तृतीया-
Page 378
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम् । २८५
चोपकम्य द्वितीयचतुर्थपादसंदंशेन गोमूत्रिकया प्रथमद्वितीययोस्तृतीयचतुर्थयोक्ष परस्परमुन्मेषणमितीयमयुक्पादगोमूत्रिका।। युग्मतो यथा- 'देवः शशाङ्कशकलाभरणः पिनाकी देय: शमैकविकलेमरणः सनागः । चित्ते महासुरजनेन शुभं विधत्तां चित्तं महासुरजनानतभङ्गधन्वा ॥। ३२५ ।।' महासुरजनेन ब्रह्मादिना चित्ते देयो धारणीयः । शमेनैकेन विकलीकृत इम- रणो गजानामुरुयुदं येन। शुभं कल्मपरहितं चित्तं विघत्ताम्, अविशेषेण संसा- रिणामेव। अत्र पूर्ववत्समपदमुपकम्य विषमपादसंदंशेन समापिरिति विशेषसेनेयं युक्पादगोमूत्रिका।। अर्धक्लोकगोमूत्रिका यथा- 'चूडाप्रोतेन्दुभागद्युतिदलिततमस्कन्दलीचक्रवालो देवो देयादुदारं शममरजनतानन्दनोऽनन्यधामा। कीडाधूतेशभामा द्युसदनतनिमच्छेदनी च भ्रुवा नो दे हे देवी दुरीरन्दममरतनता नन्दिनोमान्यधामा।३२६॥' इन्दोर्भाग: खण्डं। शं कल्याणं। अमरजनता देवसमूहः। नास्त्यन्यदाम स्थानं यस्य सोऽनन्यधामा। सवात्माराम इत्यर्थः। न परं देवो देवी च। भ्रुवा भ्रूक्षेपेण दुरीरन्दूरमपनयन् नोऽस्माकं देहे दमं देयादिति संबन्धः । धूतेशभामा प्रण- येनापहृतपरमेशवरप्रणयरोषा। 'भाम कोधे' इति धात्वनुसारात्। युसदना देवाः। अरतमविश्रान्तं नन्दिना नता उमा गौरी। अपूर्व धाम तेजो यस्याः॥ ललोकगोमूत्रिकायां प्रथमश्लोको यथा- 'पायाद्वश्चन्द्रघारी सकलसुरशिरोलीढपादारविन्दो देव्या रुद्धाङ्गभाग: पुरदनुजदवस्त्यानसंविन्निदानम्। कंदर्प: क्षोदपक्ष: सरससुरवधूमण्डलीगीतगवों 75 B दैत्याधीशान्धकेनानतचरणनखः शंकरो भव्यभाव्यः ॥३२७॥
Page 379
२८६ काव्यमाला।
द्वितीयो यथा- देयान्नश्चण्डधामा सलिलहरकरो रूढकन्दारविन्दो देहे रुम्भक्रागः सुरमनुजदमं त्यागसंपन्निधानम्। भन्दं दिक्क्षोभदश्रीः सदसदरवधूखण्डनागीरगम्यो- Sदैत्येधी बन्धहानावततरसनयः शंपरो दिव्यसेव्यः ।३२८॥ पुराख्यदानवस्य दवो दावाभिः र्त्यानायाः घनायाः संविदो निदानम्। दैल्या- धीशेनान्धकेनानतचरणः । भव्यानामुत्तमानां भाव्यो ध्येयः। रूढकन्दान्यर- विन्दानि यस्मात्। प्रणतानां रुगनुरागो यस्य। सुराणां मनुजानां च दम दमतीति वा । त्वागसंपदो निधानमाश्रयः । दिशा क्षोभदायिका श्रीर्यस्य। सदे उपवने सदरा सभया या वधूस्तदीयानां खण्डनागिरां निर्भर्त्सनवचसामविषयः । अदैलैधी न दैत्यवर्धनः । संसारबन्धविच्छित्तये विस्तीर्णरयो नयो यस्य। शं सुखं पिपर्ति पूरयतीति शंपरो दिव्यः सेव्यथेति। एवंविधशचण्डधामा रविनोडस्माकं देहे भन्दं कल्याणं देयादित्यर्थ: ॥ विपरीतगोमूत्रिकायां प्रथमश्चोको यथा- 'विनायकं दानसुगन्धिवक्रं स्मिताननं मन्दचर कथासु। नमामि विन्नावलिहारिसारं सतीसुतं शंकरवल्लमं च ।।३२९।।' विपरीतश्लोको यथा- 'चलल्लतारव्घशमं सुभासं संसारहारं बहुविप्रमान्यम्। सुधाकरं चन्द्रमसं नतोऽस्मि सवर्णगर्भ नवकम्वुनाढ्यम्।३३०॥ मन्दचर मन्दाळसगमनम्। कथासु भक्तदेवानां वार्तासु महाशयतया स्मेराननम्। विम्नपरम्पराहारिणां च सारमुत्कृष्टम्। चलन्तीनां लतानामारच्धं सान्त्वनं येन। बहुविप्रमान्यं द्विजराजशेखरत्वात्। समानवर्णमध्यगम्। नवेन कम्बुनाव्यसुप- चितम् । आद्यश्ोकस्याधस्ताद्विपरीतो द्वितीयश्छोको लेखयः । ततः क्रमगोम्- त्रिकया परस्परोहेखः । मिन्नच्छन्दोगोमूत्रिकायां प्रथमश्लोको यथा- 'नमत चन्द्रकलामयमण्डनं नगसुताभुजसंगतकन्घरम्। हरमभाग्यरदं स्तवसादरं समितिरावणशासनविक्रमम् ।३३१।'
Page 380
२ परिच्छेद: 1] सरस्वतीकण्ठाभरणम्। २८७
द्वितीय श्लोको यथा- 'कामदं चण्डकम्रं मदामार्देनो नागदन्ताज्यजययं गदाकर्बुरम्। धीरशोभाभरव्यस्तकंसासुरं नौमि नारायणस्यासमं विभ्रमम् ।।३३२।।' अभाग्यस्य रद विलेखकम्। नाशकमिति यावत् । समिती संग्रामे रावणस्य कैलासोदरणभग्नशक्तिकताशासनविक्रमावाज्ञापौरपे येन तम्। वाञ्छितप्रदम् । चण्डमुप्रं कमं कमनीयं च। परेषां दर्पमर्दनशीलस्य नागस्य कालियार्यस्य दंश्रभिः, कुवलयापीडाख्यस्य हस्तिनो वा विषाणाभ्यां या आजि: सङ्गामः तत्राजय्य जेतुम- वाक्यम्। गदया नानारज्सतचितया कर्तुरम्। चित्रमिति यावत्।। संस्कृतपाकृतगोमूत्रिकायां संस्कृतश्लोको यथा- 'स्कन्दो रुन्दर्द्विमिष्टां वितरतु सरलो दारितारातिवर्गे सस्पन्दो मन्दसज्जो भवभयकलने सक्रे केलिकारी। संदोहोल्ाघलासी जन इह बलिहा चण्डताभूरखर्वो देवौजोराजदेहे महिमनि निरतो विक्माडम्बरेण॥३३३।' स्कन्द: कार्तिकेयः। रुन्दां विपुलाम्। दारिते शत्रुसमूहे सस्पन्दः स्फुरदूपो मन्दः खस्थचित्तः भवभयस्य संसारत्रासस्य कलने क्षेपणे इहजने मर्त्यलोके संदो- हेन य उलाघ: सामर्थ्य नीरोगत्वात्तेन लसनशील: । बलिनां हन्ता। चण्डताया- स्वैक्ष्ण्यस्य भूराश्रयः। असतर्वः सर्वेषामुपरि वर्तमानः । देवाजसा राज्ञां खण्डयित्री ईहा चेथा यत्र तादशे महित्नि निरतः॥ प्राकृतश्चोको यथा- 'चन्दो कन्दप्पमित्तं विहरणसहलो हारितारापबन्धो सच्छन्दो वन्दणिजो कुवलयदलनो सक्करे मेलिकारी। कन्दोदोल्ासलासी जअइ सिवसिहामण्डनीभूद खण्डो देन्ताजोप्हाजलोहो विहिअणिअरई विब्भमाणं बलेण ३३४' [चन्द्रः कन्दर्पमित्रं विहरणसफलो हारिताराप्रबन्धः स्वच्छन्दो वन्दनीयः कुवलयद्लनः शंकरे मेलिकारी।
Page 381
२८८ 1 काव्यमाला।
कन्दोदोछासलासी जयति शिवशिखामण्डनीभूतखण्डो । दत्तज्योत्स्ाजलौघो विहितनिजरतिर्विभ्रमाणां बलेन ॥] बिहरणे संचरणे सफलः । उद्धूतः शुभाशुभसूचकत्वात्। मेलिकारी संगमकारी, चूडामणित्वात्। ऐक्यकारी वा, तन्मूर्तित्वात्। कन्दोदं कुमुदमिहाभिमतं तद्वि- कासेन लसनशीलः। ज्योत्स्ाजली घान्ददत्। वित्रमाणां बलेन विहिता निजे आत्मनि रविर्येन स तथा।। समसंस्कृतेन पादगोमूत्रिका यथा- 'बाला विलासावलिहारिहासा लोलामला भावसहा सहावा। देहं हरन्ती सहसा सुरामा गेहं चरन्ती सहसाभिरामा ॥३३५' विलासावलियु हारी हासो विकासो यस्याः। लोला चला। अमला निर्मला। भावाननेकविधान्या सहते सा भावसहा। हावः कीडाविशेषः।। अर्धगोमूत्रिकाप्रस्तारो यथा- 'नमो दिवसपूराय सुतामरसभासिने। नतभव्यारिदाराय सुसारलयभाविने॥ ३३६॥' दिवसान्पूरयतीति दिवसपूरः तस्मै । सुपु तामरसेषु भासनशीलाय। नता भव्या यस्मे। अरीन्दारयतीत्यरिदारः । ततः कर्मधारयः । नतानां भव्यानामरि- दार इति वा, नता भव्या अरिदारा यस्मिन्निति वा। सुप्धु सारो लयस्तत्र लयनं तं भावयति यस्तस्मै ॥
'नतदिव्यासदाराय सुसामलसभासिने। नमो भवारिपूराय सुताररयभाविने ॥ ३३७॥' नता दिव्या देवा यस्मै । असदविद्यमानमरि चक्ं यस्य। ततः कर्मधारयः । शोभनानां साम्नां लसनेन भासनशीलाय। भानि नक्षत्राण्यावरितुं शीलं यस्ेति भवारि आकाशं पूरयति व्याप्नोति एवंभूताय । सुत्रु तार उच्छ्रितो यो रयो वेगो गमनं तेन भाविने ।।
Page 382
२ परिच्छेद: ॥] सरखतीकण्ठाभरणम्। २८
गोमूत्रिकाधेनुर्यथा- 'मम स्फुरतु चिद्धतः सततचिन्त्यरक्षामतिः समस्तरविचित्रितस्तुतरुचिः सरक्षेमकृत्। समर्द्धिरतचिन्तितः कृतविचित्ररत्यामयो नमस्करणचिहित स्मितरुचिर्हरः सामरः ॥ ३३८ ॥' चतुर्णामपि पादानां क्रमेण व्युत्कमेण च। इयं गोमूत्रिकाधेनुर्वैपरीत्यवशेन च ॥ ११६ ॥ मम स्फुरत्विति। मम चिद्धतो मदीयां संविदमारूढः सामरः सदेवो हरः स्फुरतु। सततं चिन्तनीये रक्षामती वा यस्प। समस्तैर्द्वादशभिरपि रविभिरा- दित्यैश्चित्रिता आलेर्यीकृता स्तुता प्रशस्ता रुचिः कान्तिर्यस्य । स्मरस्य क्षेमं कुशलं कृन्तति छिनत्तीति स्मरक्षेमकृत। समशब्दः सर्वपर्यायो गणे पठवते। सर्वासु अणिमाद्यृद्धिषु रतैशिन्तितः प्रसभ ध्यातः। पतिवियोगाद्विचित्राया रतेरामया: कृता येन । नमस्कारेण चिहिता प्रणामपृच्छाभाविनी प्रसादजन्मा स्मितप्रभा यस्य स तथा॥ अस्या न्यासमाह-चतुर्णामिति। कमेण पादाना नैरन्तर्येण प्रथमद्वितीयाम्यां द्वितीयतृतीयाभ्यां प्रथमचतुर्थाभ्यां द्वितीयचतुर्था- भ्यामिति व्युत्क्रममेदात्त्रयो वैपरीत्यवशेन चतुर्थादितः प्रथमं यावद्योजनेनात्रापि क्मव्युत्कमाभ्यां पद प्रकाराः । तेऽमी द्वादश भेदा: शुद्धाः । एपां व्यतिकरजन्मान: पुनरन्ये चतुर्विशतिर्भवन्ति। तद्था-प्रथमतृतीयाभ्यां च प्रथमद्वितीयाभ्यांच प्रथमचतुर्थाभ्यां च द्वितीयतृतीयाभ्यां च प्रथमचतुर्थाभ्यां च तृतीयचतुर्थाभ्यां च प्रथमतृतीयाभ्यां चेति द्रष्टव्यम्। तदेवमेक एव गोमृत्रिकाकोको यथोक्तरीलया षदत्रिश द्रोमूत्रिकातर्णकान्प्रसूत इतीयं गोमूत्रिकाधेनु:॥ शतधेनुर्यथा- 'वन्धा देवी पर्वतपुत्री नित्यं मधुमधुरकमलवदना पुरन्ध्यधिदेवता देवैः स्तुत्या किन्नरगेया भक्त्या वरचरितमहिषमथनी जगत्यनायिका। सिद्धैध्येया केसरियाना काम्या रणचतुररसिकहृदया त्रिलोचनवल्लमा धीरै: पूज्या दर्पणपाणिर्नूनं गुणनिलयलटमललिता सतीषु धुरंधरा ।।' १९ स० क०
Page 383
२९० काव्यमाला
यतिविच्छेदिनी ह्वोषा श्षोकधेनुरनुत्तमा । छन्दोभेदाच्छतमियं प्रसूते श्लोकतर्णकान् ॥ ११७॥ वन्धेति। वरेण देवताप्रसादेन चरितो निरर्गलप्रसरो गुणानामाश्रयो लटभं मनोजं च ललितं विलासो यस्याः सा तथा। यतिविच्छेदिनीति। अत्न करणम्-'प्रतिलोमं विनिक्षेप्यमनुलोममधः क्षिपेत् । स्थितेनागन्तुकं हन्यादी- प्सितेन विभाजयेत् II' स्थितं प्रतिलोममागन्तुकं करमविन्यस्तमीप्सितं हि प्रति- लोमस्य क्रमेण फलं गुणकारस्तयेवानुलोमं भागहारः । अनेन क्रमेणैकेकयतियो- जने सप्त श्रोकाः । यतिद्विकयोजने चैकविशतिः। यतित्रिकयोजने च पषत्रिशत्। यतिचतुष्कयोजनेऽपि तावन्त एव । यतिपञ्चकयोजने पुनरेकविशतिः । पज्यति- योजने सप्त । सप्तयतियोजने त्वेकः । सर्वमेलनेन च सप्तविशत्यधिकं शतम्। अत्र च क्रियाहीनत्वेन कारकविहीनत्वेन च पदावयववत्तया पदावयवमात्रत्वेन च निरर्थकान् पह्विशतिमपास्य श्ोकधेनुरेकैव वृत्तमेदेन शतं क्लोकतर्णका- मप्रसूते। तथाहि । प्रथमद्वितीयचतुर्थाभिर्यतिभिरत्युक्ता जातिः । तृतीयपच्चमीभ्यां सुप्रतिष्ठा । पष्चा गायत्री। सप्तम्या चोष्णिगिति। एकगणनायां वृत्तमेद: । एवं द्विकादिगणनेऽपि गवेषणीयम्।। सहस्रघेनुर्यथा- 'नखमुखपाणिकण्ठचिकुरैर्गतिभिः सहसा स्मितेन ललितेषु दशा मणिशशिपद्मकम्बुचमराः करिणः सुतनोःसुधा च हसिता हरिणाः। फणिगणसिद्धसाध्यदयिता न समा: सकलास्त्वया च सभुवच्छलिता: तब बलदर्परूपविजिता नितरां विबुधाश्चिराय चतुरैश्ररितैः ३४०' पदविच्छेदिनी ह्येषा श्रोकधेनुरनुत्तमा । छन्दोमेदाइशशतं प्रसूते श्रोकतर्णकान् ॥ ११८॥ नखेति। हे ललिते गौरि, तब शोभनया दशा सुतनो: शोभनस् शरीरस्। साध्या देवविशेषाः सभुवो अहतारादाः (राप्यत इति राप्यम्। 'आसुवपिरपि- त्रपिचमय्र' इति रापतिभाषितमित्यर्थः ।) दर्येति पाठेन वा योजनीयम्। पद- विच्छेदिनीति। पदान्यत्र प्रतिपाद सुधाकलशाभिधाने छन्दसि षड विभ- ज्यन्ते । यद्यपि द्वितीयतृतीयपादयोश्वकाराभ्यां नकारेण चतुर्थपादे तवेति
Page 384
२ परिच्छेद: I] सरस्तीकण्ठाभरणम् । २९१
पदाधिक्यं तथाप्याद्यपदार्थानुरोधेन समुचीयमाननिषिध्यमानार्थानुरअकत्वेन संबो- ध्यमानार्थानुयायितया चकारनकारयोस्तवेति च तत्पादावयवरूपा एवेति तद- सत्कल्पमेव। तथा च षहम्यः पद्त्रय उपादीयमाने सप्तदशाक्षरायां जाती यथा- संर्यानुरोधेनाद्येऽर्षे प्रस्ताररचनाक्रमेण दश विकल्पाः, तृतीयचतुर्थयोश् पाद- योसावन्तस्तावन्त एवेति दशभिराहृतैर्दशभिः शतम्। शतेन चाहतैर्दशमिः सहसरं तर्णकाः शोकाः समुत्पद्यन्त इतीयं सहस्रधेनु: ॥ अयुतधेनुर्यथा- 'करिये जयसि जुम्मसे सृजसि जायसे त्रायसे स्तुषे मृषसि मृष्यसे हृपसि पीयसे प्रीयसे। स्तुषे मृषसि होडसे कुटसि गल्मसे क्कीबसे हुषे हरसि रज्यसे रजसि राजसे आ्जसे ॥ ३४१॥' एषा तु पद्विच्छेदिन्येव धेनुः क्रिकियापदैः। संबोधनाग्रगैर्ष्टासाभि: श्रोकायुतप्रसूः ॥ ११९ ॥ किये इति। हे किये कर्मन्। 'मिष स्पर्धायाम्', 'पीड् पाने', 'मृड सुखने' तुदादी, 'होड़ू अनादरे', 'कुड सहारे', रज्यसे आसजति। रजसि मत्सरयसि। राजसे शोभसे। भ्राजसे जाज्वल्यसे। एपेति । इह पृथ्वीनामनि छन्दसि पह्म्यः संबोधनानुगे पदचतुष्टये उपादीयमाने एकादशाक्षरायां जाती प्रस्तारा- ल्पत्वेन यदि वा छन्दोमेदस्य शब्देनाप्रतिपादितत्वात, तङ्गेदोऽप्युदाहरणीय इति तस्यामेव रथोद्धताभिधाने छन्दति दशसु विकल्पेषु प्रतिपादं भवत्मु दशभिः शर्तं शतेन सहस्रं सहस्त्रेण च दशसहस्राणि तर्णकाः श्रोकाः समुत्पद्यन्ते इतीयमयुतधेनुः॥ लक्षधेनुर्यथा- 'दुर्गे भद्रेप्सुभद्रेऽदिति सुरमिदिते सैंहिके गौरि पद्मे नित्ये हुधे वरेण्ये कलिकमलिकले कालिके चण्डि चण्डे। धन्ये पुण्ये शरण्ये शचि शबरि शिवे भैरवे राजि सन्ध्ये छाये माये मनोज्ञेऽवनि जननि जये मझले घेहि शं नः॥३४२॥'
Page 385
२९₹ काव्यमाला। संबोधनैरियं धेनु: कप्ता सैकक्रियापदैः । लक्षत्रयं सहस्राणि पष्टिश्लोकान्प्रसूयते ॥ १२० ॥ एपान्त्यपदभेदेन संभ्रमादिद्विरुक्तिमिः । यावद्वोधं पुनः सूते प्रयतश्लोकतर्णकान् ॥ १२१॥ दुर्गे इति। संबोधनैरिति । अत्र हि स्नग्धराभिधाने छन्दसि पादत्र- यपदानुरोधेनान्त्यपादद्वयेनैकैकमेव पदं तुर्यपादे परिकल्प्यमिति सर्वत्र नवसु पदेपु स्थितेषु पदचतुष्टये पदपथ्चके चोपादीयमाने प्रथमे आपातलिकायां पच्चविशती द्वितीये एकया प्राच्यवृत्त्या सह वैतालीयके यदि वा पश्चभिः प्राच्यवृत्तिभिः सम- मौपच्छन्दसिके चतुविशती तृतीयवैतालीय एव चतुविशती चतुये च पादे प्राच्य- वृत्तिदये सममापातलिकायां पोडशभिरेकया प्राच्यवृत्त्या वैतालीयप्राच्यवत्त्या सह वैतालीये: षङ्मिस्तथेवीपच्छन्दसिके द्वाभ्यामिति चतुर्विशती विकल्पेषु प्रभवत्सु पच्चविशत्याहृतेषु चतुर्विशती शतानि षद्। पङ्मिय शतैराहतेणु पच्चविशती सह- स्नाणि पशदश । तैराहतेषु चतुरविशती लक्षाणि त्रीणि सहस्राणि च पष्टिः तर्णकाः छोका: समुत्पद्यन्त इतीयं लक्षधेनुः। एपेति । तथा ह्यत्र पादत्रये नवसु तुर्यपादे च दशसु। त्रये पद्चतुष्के पदपन्चके चोपादीयमाने प्रथम औपच्छन्द- सिक एकस्य पदस्य द्विरुक्त्या विशती यदि वा आपातलिकायां दश । बैतालीये पज्चदशसु औपच्छन्दसिके उदीच्यवृत्तिद्वयेन यद वैतालीये चतसमिरुदीच्यवृत्तिभि: सममेकोनविशतिरिति च पञ्चविंशती तृतीयस्मिनौपच्छन्दसिके पञ्चभिः प्राच्य- वृत्तिभि: सममेकादश । वैतालीये तथैव चतुर्दश औपच्छन्दसिके तिसभिः प्राच्य- वृत्तिभि: सह पडिति विशती तृतीयस्मिननौपच्छन्दसिके तिसभिरुदीच्यव्रृत्तिभिः समं पच्चविशती चतुर्थे त्वापातलिकायामेक एव। द्विरुत्त्यादिना पोडशभिः प्राच्य- वृत्तिभि: सममशीती विकल्पेषु प्रभवत्सु विशत्याहृतपज्चविशती पच्चविशल्या द्वाविशती पश्चशताधिकानि द्वादशसहस्त्राणि तैरप्याहतेपु अशीतौ दशलक्षाणि तर्णकाः शोकाः समुत्पदन्त इतीयं प्रयुतधेनु:॥ कोटिधेनुर्यथा- 'स्थूलं दत्से सूक्ष्मं धत्से भुवि भवसि रभसि रमसे रमे दिवि मोदसे छिन्तसे बाढं मिन्त्से गाढं रुषिमिषसि धनुषि मनुषे जये पुरि जृम्भसे।
Page 386
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम् । २९१
सल्पं शेषे कल्पं प्रेषेSचिति चरसि यशसि यतसे चले युधि गल्भसे ब्रूषे वामं श्रूपे कामं हृदि विशसि वचसि सचसे रुचे हशि दीप्यसे।' संबोधनैर्द्वितीयान्तैः सपम्यन्तैः क्रियापदैः। श्लोककोटिरियं तिस्रः सार्धा धेनुः प्रसूयते ॥ १२२ ॥ यदा तु संभ्रमादिभ्यो भवन्त्यस्या द्विरुक्तयः । स्थूलादिना तदा चैषा दशकोटी: प्रसूयते ॥ १२३ ॥ स्थूलमिति। प्रेष इति इप गतावित्यस्य, चिति चैतन्ये, गृधु गाध्यें। सचसे बचसे रमे जये चले रुचे इति देव्याः संबोधनपदानि। संबोधनैरिति। अत्र भुजन्ञविजम्भिते छन्दति एकादशभ्यः पदेभ्यः पञसु घट्सु व पदेषु उपादीयमानेयु जगतीजाती प्रसिद्धाक्षरोजवला जलधरमाला नवमालिनी छन्दःसु सपती । द्वितीये पूर्वेषु चन्द्रवर्त्मद्वतविलम्बितमणिमालाप्रभवत्सु च शते तृतीयेऽ- न्मिन् प्रथमपादच्छन्दस्येव पञ्चाशति चतुर्थपादे द्वितीयपादच्छन्दस्येव शतेपु विकल्पेपु प्रभवत्सु सप्तत्याहतेषु शतेषु सप्ततिसहस्त्राणि शतैराहतायां सप्ततिलक्षाणि, सप्ततिसहल्राहृतेपु पव्ाशहक्षाणि त्रीणि सहस्राणि च पश्चशतैराहते शते कोटप- स्तिस्त्र: सार्धास्तणकाः श्ोकाः संपद्यन्त इतीयं कोटिधेनुः । यदा त्विति। तथाहि पदत्रये पदचतुष्के पदपचके चोपादीयमाने पूर्वस्यामेव जाती प्रथम- द्वितीयचतुर्येयु पादेषु प्रत्येकं जलधरमालाप्रभाच्छन्दसोरेकस्य द्वयोद्विरुत्त्या शते तृतीयस्मिंक पूर्वस्यां मणिमालोजवलानवमालिनीतामरसेपु छन्दःसु तथैव शते विकल्पेषु प्रभवत्मु शतेनाहते शते दश सहस्राणि तैथाहते शते दश लक्षाणि तैरप्याहते शते कोट्यस्र्णकाः श्रोकाः संपद्यन्त इतीयमेव दशकोटिधेनु: । कामघेनुर्यथा- 'या गीः शीः श्रीर्धीं स्त्री हीर्मीर्जूर्मस्तू: सूः सूर्घू: पूर्मू: । सुक् स्रग्युग्भुग्रुक् शुक् तृद् द्विट् युत् कुत् चिद्विन्मुग्दिग्यूः।।३४४।।' ऋक् दकू वामा मृत्कृद्वामा मुत्कुत्कामा द्वार्योगौ: सामायामा वेघावेघानाधातेतवं येनौः यानं यातीति या, काचिच्च या। गिरणं गिरतीति वाकू च गीः। शरणं
Page 387
२९४ काव्यमाला।
शीः शृणातीति शीः। श्रयतीति शोभा लक्ष्मीश्र श्रीः। ध्यानं ध्यायतीति बुद्धिर्घीः। रूयेव स्तृणाति मब्राक्षरं सत्री। ह्रीच्छतीति माया लज्जा च ही:। विभेतीति भयकामो भयं च मीः। ज्वरो गतिर्जरा च जूः। मूर्च्छा मोहसमु- चछाययोर्बन्धनं च मूः । त्वरा हिंसा त्वरते च तूः। सूयते सवनं सुष्ठु उश्च सूः। अश्रे भागे भारं धुरं वहतीति घूः। पूरी पालनं पूरणं च पूः। भूमिर्म- वनं लोकश्च भूः। यज्ञपात्रं स्रवतीति स्रवणं सुक्। पुष्पमाला पङ्किश्र् सृज्यत इति स्त्रक। योग: समाधिः समश्र युक्। भोजनं पालनं कौटिल्यं च भुक रोगो दीप्तिर्मक्रश्र रुक्। शोक: शुचित्वं दीप्तिश्च शुक्। अभिलाषः पिपासा। हिंसा च तृट्। द्वेषः शत्रुबलममिलाषश्र द्विद्। शुद्धं मिश्रण- ममिश्रणं च युत्। कोधः कुध्यतीति रुद्रशक्तिश्र क्ुत्। चेतना चिनोति चयनं च चित्। ज्ञानं सत्ता विभवलाभश्च वित्। मोक्षो मोहो मुश्चतीति मुक्। आशा अतिसर्ग उपदेशश्च दिक। क्रीडा विजिगीषा व्यवहारश्र दयूः। श्रुतिवाक्यं विवेचनं च हिंसा च ऋक्। दृष्टिर्ज्ञानं पश्यतीति हक्। गतिर्गन्धनं विकल्पश्र वा। लक्ष्मीर्मानं शब्दावयवश्च मा। मृत्तिका मरणं मुद्दातीति मृत् । कृन्तति करोति करणं च कृत्। दीप्तिर्मानं भातीति भा। शब्द: शब्दावयवश्च प्रतिषेधश्र मा। हषो मोद आमोदश्र मुत्। बुभुक्षा क्षुत्कोदश्च क्षुत्। प्रश्नः सुखं काननं च का। अमतीत्यमा पीडार्थेSलक्ष्मीशब्दावयवश्च अमा। द्वारं द्वाःस उपायश्च द्वाः । सर्ग आकाशो देवनं च थौः। वाग्भूमिर्घेनुश्च गौः । सह एन अकारेण विष्णुना वर्तत इति सा लक्ष्मीः । मा मानं। तदो रूप च सा। प्रतिदानं शब्दावयवश्च सर्वनाम च सा। इष्टा अयत इति शब्दावयवश्च या। चन्द्र- कला महदर्थश्र मा। लक्ष्मीसंबोधनं चतुर्थ्यन्तं षष्ठयन्तं च मे। धारणं पोषणं शब्दावयवश्च वे। धात्री पोषयित्री शब्दावयवश्च घा। शब्दावयवोऽसदर्थो लक्ष्मीसंबोधनं च मे। प्रतिषेषः पुरुषवाची
Page 388
२ परिच्छेद: 1] सरस्वतीकण्ठाभरणम्। २९५
शब्दावयवश्च ना। मिमीते मातेति शब्दावयवश्च मा। तदर्थों युष्मद- र्थश्र लक्ष्मीसंबोधनं च ते। युष्मदर्थो भावप्रत्ययः शब्दावयवश्च त्वम्। शब्दावयवास्मदर्थी च मे। जलयानं न विद्यते और्द्विवचनं यस्यां सा अद्वितीयेत्यर्थः शब्दावयवश्च नौः। पदग्राहाद्यथाकामं कामधेनुरियं तु नः । परार्धानां परार्धानि प्रसूते श्लोकतर्णकान् ॥ १२४॥ एकाक्षरादिच्छन्दोभिर्गतिबन्धादिभेदवः । उक्तानुक्तानि चित्राणि सर्वाण्येषा प्रसूयते ॥ १२५।। सकृदुचारणे चास्या गच्छत्येका विनाडिका। तत्पथ्या नाडिका ताभि: पश्चाहोरात्रमृच्छति॥१२६।। प्रणवादिनमोन्तानि पदान्यस्या जपन्ति ये। सर्वभाषासु वाक्तेषामविच्छिन्ना प्रवर्तते ॥ १२७ ॥ सिद्धैर्मत्रपदैः सेयं शास्त्राण्यालोच्य निर्मिता। जपतां जुह्तां देवी सर्वान्कामान्प्रयच्छति ॥ १२८ ॥ स्थितेनागन्तुकं इत्यादीप्सितेन विभाजयेव्। तद्द्ेदास्ते भवन्त्येवमन्येष्वपि हि योजयेत् ॥ १२९ ॥ दुष्करत्वात्कठोरत्वाहुर्बोधत्वाद्विनावधे: । दिव्यात्रं दशितं चित्रे शेषमूह्यं महात्मभिः ॥१३० ॥ या गीरिति। पदग्रहादिति। तथाहि पञदशभ्यः पदेभ्यः क्मव्युत्कमा्यां नवादिपदयोगेऽज्ञीक्ियमाणे बृद्दतीजातेरारभ्य प्रतिजातिपादे ये विकल्पास्तैरुत्तरो- त्तरमाहन्यमाने:, यदि वा समस्तेऽपि श्रोके षष्टिपदेभ्यधतुविश्त्यध्टविशत्यादिप- दयोजनायां गायत्रीजातेरारभ्य प्रतिजातिपादे ये विकल्पासतेः परार्षेम्यः परार्धानि तर्णकाः श्ोकाः समुत्पद्यन्ते इतीयं परार्धपरार्धधेनुः। एकाक्षरेति। अर्थत्रय- प्रतिपादकत्वेन प्रतिपादं पदत्रये परिकल्प्यमानेSनेकविधच्छन्दोभिरुक्तानि चतुर्व्य- अनादीन्यनुक्तानि खह्नप्रभृतीनि सर्वचित्राण्येपैव यथाकामं प्रसूयत इत्यर्थः ॥
Page 389
२९६ I काव्यमाला।
उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यं विदुर्वुघाः। द्वयोर्वकरोस्तदिच्छन्ति बहूनामपि संगमे॥ १३१॥ ऋजूक्तिरथ वक्रोक्तिरवैयात्योक्तिस्तथैव च। गूढं प्रश्नोत्तरोक्ती च चित्रोक्तिश्रेति तद्धिदा ॥१३२।। तासु ऋजूक्तिर्द्विधा 1 आम्योपनागरिका च। आ्म्या यथा- 'जन्तीमणुरुन्धुं रुचु कुहुतुण्डउष्ण उको विहंसण होमि। महोमि भारुखुले मेलासतो विकिणकु उवाणउ उज्जु अक्खु कहहि ३४५ वाणउ उज्जु माइगहिल उअण्णवि कोमहण उ वारिज्जन्तु ण्णट्ठाइ। करइ वलिवं उउ च वक्कस मच्छलु अहिमुहं हि तरुणिहिं अअच्छासइ दुक्कम् ॥३४६।। सेयमुभयतोऽपि ऋजुनैव मार्गेणोक्तिप्रत्युत्तयोः समा प्रवृत्तिरिती- यमृजूक्तिर्नाम वाकोवाक्यम्।। सैवोपनागरिका यथा- 'वाले, नाथ, विमुश्च मानिनि रुषं, रोषान्मया किं कृतं, खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि। त्त्कि रोदिषि गद्गदेन वचसा, कस्यात्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुदते ॥३४७॥ सेयमेकतः काका कुटिलेऽतिविषमेयमृजूक्तिर्नाम वाकोवाक्यम्॥ वकोक्तिर्द्विघा। निर्व्यूढा अनिर्व्यूढा च। तयोर्निर्च्यूढा यथा- "किं गौरि मां प्रति रुषा ननु गौरहं किं कुप्यामि कां प्रति मयीत्यनुमानतोऽह्म्।
Page 390
२ परिच्छेद: ॥] सरस्वतीकण्ठाभरणम्। २९७
जानामि सत्यमनुमानत एव स त्व- मित्थं गिरो गिरिभुव: कुटिला जयन्ति ॥ ३४८॥' सेयमावाक्यपरिसमाप्तेनिर्वाहान्निर्व्यूढेति वक्रोक्तिर्वाकोवाक्यम्। अनिर्व्यूढा यथा- 'केयं मूधर्यन्धकारे तिमिरमिह कुतः सुभ्रु कान्तेन्दुयुक्के कान्ताप्यत्रैव कामिन्ननु भवति मया पृष्टमेतावदेव। नाहं द्वन्द्वं करोमि व्यपनय शिरसस्तूर्णमेनामिदानी- मेवं प्रोक्तो भवान्या प्रतिवचनजड: पातु वो मन्मथारिः॥३४९॥ सेयमनिर्वाहादनिर्व्यूढेति वकोकिर्नाम वाकोवाक्यम्। ते इमे उमे अपि क्लेषवक्रोक्तिर्नाम वाकोवाक्यम् । वैयात्योक्तिर्द्विधा। साभाविकी नैमित्तिकी चेति। तयो: खाभाविकी यथा- 'नादेयं किमिदं जलं घटगतं नादेयमेवोच्यते सत्यं नाम पिवामि कत्यपतृषः पीतेन नाम्नाभवन्। किं वर्णा अपि सन्ति नाम्नि रहितं कि तैरलं त्वं कुतो यस्मादेव भवान्भगिन्यसि ततस्तेनैव मां बाघसे ॥३५०॥ अत्र स्वैरिण्याः सहजाद्वैयात्यात्खाभाविकीयं वैयात्योक्तिर्नाम वाको- चाक्यम्।। नैमित्तिकी यथा- 'कुशलं राधे, सुखितोऽसि कंस कंसः क नु सा राधा। इति पारीप्रतिवचनैर्विलक्षहासो हरिर्जयति ॥३५१॥ अत्र गोत्रस्खलिते विपक्षनान्नैव वैयात्येनोत्तरं दत्तमिति नैमित्ति- कीयं वैयात्योक्तिर्वाकोवाक्यम्।।
Page 391
२९१ काव्यमाला।
गूढोक्तिद्विंघा। मुख्या गौणी च। तयोर्मुख्या यथा- 'केशव यमुनातीरे व्याहृतवानुषसि हंसिकां कोदय। I कान्ताविरह्मयातुरहृदय: प्रायः प्रियेऽहं सः ॥ ३५२॥ अत्र प्रिये हंस इत्यत्रावर्णलोपे प्रिये अहं स इत्यर्थस्य मुख्ययैव वृत्त्या गूढत्वादियं मुख्या गूढोक्तिर्नाम वाकोवाक्यम्।। गौणी यथा- 'निरस्थकं जन्म गतं नलिन्या यया न दष्ट तुहिनांशुबिम्बम्। उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन॥३५३॥' ताविमौ पूर्वोत्तरार्धयोरन्योन्योक्त्या गूढकामलेखावितीयं गौणी गूढोक्तिर्नाम वाकोवाक्यम्।। प्रश्नोत्तरोक्तिर्द्विधा । अविधीयमानह्द्या प्रतीयमानह्य्या च। तयो- राद्या यथा- 'क प्रस्वितासि करभोरु घने निशीथे प्राणेश्वरो वसति यत्र मनःप्रियो मे। एकाकिनी वद कथ न विमेषि बाले नन्वस्ति पुङ्कितशरो मदन: सहायः ॥ ३५४ ॥' सेयं हृद्तपरष्टव्यस्यैव स्पष्टमभिधायैवाभिधानादभिधीयमानह्द्या नाम
द्वितीया यथा- 'कियन्मात्रं जलं विप्र जानुदन्न नराधिप। तथापीयमवस्था ते नहि सर्वे भवादशाः ॥ ३५५॥ सेयं शब्दविद्यावैशारद्यस्य हृद्यस्य प्रतीयमानत्वात्पतीयमानह्द्यप्र- श्रोत्तरोक्तिर्वाकोवाक्यम्।
Page 392
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। २९९
चित्रोक्तिर्द्विधा। चित्रा विचित्रा च। तयोश्चित्रा यथा- 'लभ्यन्ते यदि वाञ्छितानि यमुनाभागीरथीसंगमे देव प्रेष्यजनस्तदेष भवतो भर्तव्यतां वाञ्छति। 1A09 नन्वेतन्मरणेन किं नु मरणं कायान्मनोविच्युति- दींधे जीव मनस्तवाङ्गिकमले कायोऽत्र नस्तिष्ठति॥३५६॥ तदिदं सकल्पितोक्तिप्रत्युक्तिम्यां जीवतोऽपि जन्मान्तरावाप्तिसा- धनेनाश्चर्यहेतुरिति चित्रा नाम चित्रोक्तिप्रत्युक्तिर्वाकोवाक्यम्।। द्वितीया यथा- 'कोडयं भामिनि भूषणं कितव ते शोण: कथं कुङ्कुमा- त्कूर्पासान्तरितः प्रिये विनिमयः पश्यापरं कास्त मे। पश्यामीत्यभिघाय सान्द्रपुलको मृद्गन्मृडान्याः सनौ हस्तेन प्रतिनिर्जितेन्दुरवताद्दयूते हसन्वो हरः ॥ ३५७॥' अत्रोक्तिप्रत्युक्त्योरनन्तरं सतनमर्दनवैचित्र्यादिना परिसमाप्तेर्विचित्र- संज्ञमिदं वाकोवाक्यम् ।। प्रहेलिका सकृत्प्रश्नः सापि पोढा च्युताक्षरा। दत्ताक्षरोभयं मुष्टिबिन्दुमत्यर्थवत्यपि॥ १३३॥ कीडागोष्ठीविनोदेषु तज्ज्ञैराकीर्णमत्रणे। परव्यामोहने चापि सोपयोगा प्रहेलिका॥ १३४॥ तासु च्युताक्षरा यथा- P 'पयोघरभराक्रान्ता संनमन्ती पदे पदे। !! पदमेकं न का याति यदि हारेण वर्जिता ।। ३५८ ।'
Page 393
३०० काव्यमाला।
अत्र विहज्मिका काहारेण वर्जिता न यातीति वक्तव्ये हारेण वर्जितेत्युक्तम् । अतः का इत्यक्षरस्य च्युतत्वान््युताक्षरेयम् ।। दत्ताक्षरा यथा- 'कान्तयानुगतः कोऽयं पीनस्कन्धो मदोद्धतः । मृगाणां पृष्ठतो याति शम्बरो रूढयौवनः ॥ ३५९॥' अत्र शबर इति शम्बर इत्यनुख्ाराक्षरस्य दत्तत्वाद्दत्ताक्षरेयम्।। च्युतदत्ताक्षरा यथा- 'विदग्धः सरसो रागी नितम्बोपरि संस्थितः । तन्वङ्गचालिक्चितः कण्ठे कलं कूजति को विटः ॥३६०॥' अत्र विट इत्यस्मिन्पदे विकारे च्युते घकारे दत्ते घटः कूजतीति द्वितीयोऽर्थो भवतीति सेयं च्युतदत्ताक्षरा ।। अक्षरमुष्टिका यथा- 'अतिः अतिः अन्मअलं प्रीद्य रद्य जद्य फद्य। मेला मेला मेलं मेलं फस फस फस फस ॥ ३६१ ।।' सेयमक्षराणां मुष्टिरित्यक्षरमुष्टिका। अत्र पादशश्रतुःपक्किलिखित- चतुर्मिर्मुरजवन्घैः शलोक उत्तिष्ठति। तदथा- 'अद्य मे सफला प्रीतिरद मे सफला रतिः। अद्य मे सफलं जन्म अद्य मे सफलं फलम् ॥ ३६२ ॥' बिन्दुमती यथा- 'तवाबवादः प्रत्यन्धि पताका प्रतिसङ्गरम् । ।] फलं प्रत्यद्भुतोपायं यशांसि नतु न कचित् ॥३६३।।'
Page 394
२ परिच्छेदः I] सरस्तीकण्ठाभरणम्। ३०१
इत्यनेन छलोकेनोक्तार्थस्य यथास्थितखवरानुखारविसर्जनीयसंयोगस्य श्लोकोत्तरस्य बिन्दुभिरेव सूचनाक्रम इति बिन्दुमती। तद्यथा-
0100000न: निर्मेद: । उदधावुदघावाज्ञा संयुगे संयुगे जयः । साहसे साहसे सिद्धिः सर्वत्र तव कीर्तयः ॥ ३६४॥ अर्थप्रहेलिका यथा- 'उत्तप्तकाश्चनाभासं संदष्टदशनच्छदम्। सरसं चुम्व्यते हृष्टैर्वृद्वैरपि किमुज्वलम् ॥३६५ ॥' सेयमपि सूचितस्यैव पक्काम्रफलमित्यस्य द्यर्थपदप्रयोगेणावगतेरर्थ- प्रहेलिका ।। क्रियाकारकसंबन्धे पदाभिप्रायवस्तुभिः । गोपितैः पड्डिधं प्राहुर्गूढं गूठार्थवेदिनः ॥१३५ ॥ तेषु क्रियागुप्तं यथा- 'स्तनजघनभराभिराममन्दं गमनमिदं मदिरारुणेक्षणायाः । कथमिव सहसा विलोकयन्तो मदनशरज्वरजर्जरा युवानः ॥३६६॥' अत्र जघनभराभिराममन्दं मदिरेक्षणाया गमनमवलोकयन्तो हे यु- वानः, कथमिव यूयं मदनशरज्वरजर्जरा न स्थेति क्रियापदस्य स्तन- शब्देन जघनसांनिध्याद्वोपितेन क्रियागृढमिदम्। कारकगुप्तं यथा- 'पिबतस्ते शरावेण वारि कहारशीतलम्। केनेमौ दुर्विदग्धेन हृदये विनिवेशितौ॥ ३६७ ॥ अत्र शराविति कर्मकारकस्प गूढत्वात्कारकगूढमिदम्।।
Page 395
३०२ काव्यमाला।
संबन्धगूढं यथा- 'न मयागोरसाभिज्ञं चेतः कस्मात्मकुप्यसि। अस्थानरुदितैरेमिरलमालोहितेक्षणे॥ ३६८ ॥ अत्र न मे आगोरसाभिज्ञं चेत इति संबन्धिपदस्य मयेति तृती- याम्रान्त्या गोपितत्वादिदं संबन्धगूढम् ।। पादगूढं यथा- 'द्ुवियद्गामिनी तारसंरावविहृतश्रुतिः । हैमीषु माला शुशुभे (विद्युतामिव संहृतिः) ॥ ३६९ ॥'
क्षरैश्रतुर्थपादो गूढ उत्थाप्यः । यथा-'विद्युतामिव संहतिः' इति। इदं पादगूढम्। अभिप्रायगूढं यथा- 'जइ देअरेण भणिआ खग्गं घेत्तूण राउलं वच। ता किं सेवअवहुए हसिऊण वलोइअं सअणम् ।३७०॥' [यदि देवरेण भणिता खङ्गे गृहीत्वा राजकुलं ब्रज। तत्कि सेवकव्वा हसित्वावलोकितं शयनम् ॥] अत्र निरीक्षितमनेनात्र पुरुषायितलक्ष्म पादलाक्षादिकं, तेन नियुक्के मां न कर्मणीत्यभिप्रायेण वध्वाः शयनावलोकनमित्यभिप्रायगूढम्।। वस्तुगूढं यथा- 'पानीयं पातुमिच्छामि त्वत्तः कमललोचने। यदि दास्यसि नेच्छामि नो दास्यसि पिवाम्यहम् ॥३७१॥' अत्र दास्यसीति दासीलक्षणस्य वस्तुनो गूढत्वादिदं वस्तुगूढम् ॥ यस्तु पर्यनुयोगस्य निर्भेद: क्रियते पदैः। विदग्धगोष्यां वाक्यैर्वा तं हि प्रश्नोत्तरं विदुः॥१३६।।
Page 396
२ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम्। ३०३
जातिपृष्टोत्तराभिख्यैः प्रश्नैस्तदपि पड्डिघम् ॥१३७ ॥। तेष्वन्तःप्रभ्ं यथा- 'काहमसि्मि गुहा वक्ति प्रश्नेऽमुष्मिन्किमुत्तरम्। कथमुक्तं न जानासि कदर्थयसि यत्सखे॥ ३७२ ॥' अत्र 'कदर्थयसि' इति पदं कथमुक्तं रेफयकारयुक्तं दर्थयसीति, अंतो वाक्यान्तरे प्रश्नोत्तरस्योक्तत्वादन्तःप्रश्नमिदम् ॥ बहिःप्रभ्नं यथा- 'भद्र माणवकाख्याहि कीदशः खलु ते पिता। वेलान्दोलितकल्ोल: कीदृशश्र महोदधिः ॥ ३७३ ॥' अत्र 'मज्जन्मकरः' इत्यस्योत्तरस्य प्रश्ाद्वहिरुक्तत्वाद्वहिःप्रश्नमिदम्।। बहिरन्तःप्रश्नं यथा- 'सुभद्रां क उपायंस्त प्रश्नेऽमुष्मिन्य उत्तरः। स कीटकपिमाचष्टे व्योम्नि पूर्णस्थितिः कुतः ॥ ३७४॥' अत्र 'वायुतः' इत्युत्तरेण प्रश्नाद्वहिरुक्तेन वायुतो नरो वानरो भ- वति, सुभद्रोपयन्ताप्युच्यते। तेनैतद्वहिरन्तःप्रश्नं भवति ॥ जातिप्रक्षं यथा- 'कीदशा भूमिभागेन राजा स्नातोऽनुमीयते। प्राश्रणं कुरुतेत्युक्ताः किमाहुस्तदनिच्छवः ॥ ३७५॥ 'हैमवार करजिना' 'नाजिरं करवामहै' इत्युत्तराभ्यां गतपत्याग- ताभ्यां प्रश्नोत्तरजातिरभिधीयते। तेन जातिप्रश्नमिदम् ।। पृष्टप्रभ्ं यथा- 'को सो जोअणवाओ को दण्डाणं दुवे सहस्साइं। का काली का मधुरा किं शुकपृथुकाननच्छायम्। ३७६॥
Page 397
३०४ काव्यमाला
अत्र य एव प्रश्नाः कः स योजनपाद: कः स यो दण्डानां द्वे सहसे इत्यादय: त एव 'कोशो योजनपादः' 'कोदण्डानां द्वे सहसे' इत्यादीन्युत्तराणि भवन्ति। एवं 'का काली का मधुरा किं शुकप्ृथु- काननच्छायम्' इत्युत्तरं किममिहितशेषस्य प्रष्टव्यमिति पृष्टप्रश्नम्। उत्तरप्रश्नं यथा- "कि वसन्तसमये वनमक्ष: पृष्टवान्स पृथुलोमविलेखः । उत्तरं च किमवापतुरेतौ काननादतिमिरादपि काली॥ ३७७ ॥' अत्र प्रश्नस्य हे काननाद हे तिमिराद पिकालीत्येतदेवोत्तरं भवती- त्युत्तरप्रश्नमिदम् ।। यद्विधौ च निषेधे च व्युत्पत्तेरेव कारणम्। तदध्येयं विदुस्तेन लोकयात्रा प्रवर्तते ॥ १३८॥ काव्यं शास्त्रेतिहासौ च काव्यशासत्रं तथैव च। काव्येतिहास: शास्त्रेतिहासस्तदपि पद्विघम् ॥ १३९॥ तेषु काव्यं यथा- 'यदि स्मरामि तां तन्वीं जीविताशा कुतो मम। अथ विस्मृत्य जीवामि जीवितव्यसनेन किम् ॥ ३७८ ॥' तदिदमुक्तिप्राधान्यात्काव्यमित्युच्यते। शासत्रं यथा- 'सिग्धोन्नताग्रतनुताम्रनखौ कुमार्या: पादौ समोपचितचारुनिगूढगुल्फौ। श्िष्टाहुली कमलकान्तितलौ च यस्या- 1) सामुद्वहेद्यदि भुवोऽधिपतित्वमिच्छेत् ॥ ३७९ ॥' अत्र सिग्धत्वादेः शब्दस्य प्राधान्यमिति शासनाच्छास्त्रमिदम्॥
Page 398
२ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। २०५
इतिहासो यथा- 'हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत। भयाद्भ्ान्तैः सुरैश्के तस्यै तस्यै दिशे नमः ॥ ३८०॥' सोऽयमतीतार्थ प्राधान्यादितिहासः॥ काव्यशासत्रं यथा- 'नान्दीपदानि रतनाटक विश्नशान्ता- वाज्ञाक्षराणि परमाण्यथवा स्मरस्य । दष्टेऽघरे प्रणयिना विधुताग्रपाणि सीत्कारशुष्करुदितानि जयन्ति नार्याः ॥ ३८१॥ अत्र काव्येन शास्त्रमभिहितमितीदं काव्यशास्रम् ।। काव्येतिहासो यथा- 'स संचरिष्णुर्मुवनान्तरेषु यां यद्च्छयाशिश्रयदाश्रयः श्रियाम्। अकारि तसमै मुकुटोपलस्खलत्करैख्त्िसन्ध्यं त्रिदशैर्दिशे नमः ३८२" अत्र प्रागुक्तस्यैवेतिहासार्थस्य काव्येनाभिघानात्काव्येतिहासोऽयम्॥ शास्त्रेतिहासो यथा- 'धर्मे चार्ये च कामे च मोक्षे च भरतर्षम । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्कचित् ।। ३८३ ।' अत्र धर्मार्थकाममोक्षाणामितिहासनिवेशितत्वादयं शास्त्रेतिहासः।। श्रव्यं तत्काव्यमाहुर्यन्नेक्ष्यते नाभिधीयते। श्रोत्रयोरेव सुखदं भवेत्तदपि पड़िषम् ॥ १४० ॥ आशीर्नान्दी नमस्कारो वस्तुनिर्देश इत्यपि। आक्षिप्िका ध्रुवा चेति शेषो ध्येयं भविष्यति॥१४१।। २० स० क०
Page 399
३०६ काव्यमाला ।
तत्राशीर्यथा- 'मूयाद्वः श्रेयसे देवः पार्वतीदयितो हरः । पातु वः परमं ज्योतिरवाब्बनसगोचरः ॥। ३८४॥' अत्राशंसायां लिड् लोट च। तदिदं वाक्यद्वयमाशीः ॥ नान्दी यथा- 'भहं भोदु सरस्सईअ कइणो णन्दन्तु वासाइणो अण्णाणं पि परं पअद्ठदु वरा वाणी छइललप्पिआ। वच्छोमी तह माअही फुरदु णो सा कि अ पञ्चालिआ रीदीयो विलिहन्तु कबकुसला जोण्हं चओरा विअ ३८५ [भद्रं भवतु सरस्त्याः कवयो नन्दन्तु व्यासादयः, अन्येषामपि परं प्रवर्ततां वरा वाणीविदग्घप्रिया। वैदर्भी तथा मागधी स्फुरतु नः सा कि च पाश्चालिका रीतिका विलिहन्तु काव्यकुशला ज्योत्सां चकोरा इव ॥] सेयं रक्मक्जलान्तं स्वस्त्ययनं नान्दी। नमस्कृतिर्यथा- 'जयति ब्रह्मभूः शंभुर्वन्देमहि महेश्वरम्। इदं गुरुम्य: पूर्वेभ्यो नमोवाकं प्रशास्महे॥। ३८६॥' सेयं स्तुतिर्नमस्क्रिया च नमस्कृतिरेव भवति ॥ वस्तुनिर्देशो यथा-
आदिदेवो हरो नाम सृष्टिसंहारकारणम् ॥ ३८७॥ सोडयं कथाशरीरव्यापिनो वस्तुनो नायकस्य निर्देशो वस्तुनिर्देशः॥
Page 400
२ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ३०७
आक्षिप्तिका यथा- 'पअपीडिअमहिसासुरदेहेहिं भुअणभअलुआवससिलेहिं। सुरसुहृदेत्तवलिअघवलच्छिहिं जअइ सहासं वअणु महलच्छिहिं ३८८ [पदपीडितमहिपासुरदेहैर्ुवनभयलावकशशिलेखैः। सुरसुखदातृवलितधवलाक्षैजयति सहासं वदनं महालक्ष्म्याः॥] सेयमभिधित्सितरागविशेषप्रयोगमात्रफलं वचनमाक्षिप्तिका ।। ध्रुवा यथा- 'म अवहणिमित्तणिग्गअमइन्दसुण्णं गुहं णिएऊण । लद्धावसरो गहि उण मोत्तिआइं गओ वाहो ॥ ३८९॥ [मृगवधनिमित्तनिर्गतमृगेन्द्रशून्यां गुहां निरूप्य। लब्धावसरो गृहीत्वा मौक्तिकानि गतो व्याघ: ॥] सेयं पात्रपरवेशरसानुसन्धानादिप्रयोजना ध्रुवा ।। यदाङ्गिकैकनिर्वर्त्यमुज्झितं वाचिकादिभिः । नर्तकैरभिधीयेत प्रेक्षणाक्ष्वेडिकादि तत् ॥ १४२ ।। तल्लासं ताण्डवं चैव छलिकं संपया सह। हल्लीसकं च रासं च पट्प्रकारं प्रचक्षते ॥ १४३॥ तेषु लास्यं यथा- 'उच्िउ वालीयिअ पन्थहिं जन्तड। पेक्खमि हत्थं होइ जइ लोअणवन्तड ॥ ३९०॥' [उच्चा पालि: प्रियः पथा याति। प्रेक्षे हस्तं भवति यदि लोचनवान् ॥]
Page 401
३०८ काव्यमाला। D
ताण्डवं यथा- 'सुअवहवइअरणिसुणिअ दारुणुरोसविसट्ठपहाररुहिरारुणु जलिड जाणइ णरु रिउसन्तावणु अणलसरिच्छ जइ होइ महारणु ३९१' [सुतवधव्यतिकरं निशम्य दारुणरोषविसृष्टप्रहाररुधिरारुणः । [l2 ज्वलितो जायते नरो रिपुसंतापनोऽनलसदशो यदि भवति महारणः ॥] इदं वीररसप्रधानत्वात्ताण्डवम्।। छलिकं यथा- 'णिसुणिउ पच्छा चुरअरउ भुण्डि हिंसि हसन्ति। णिअकन्तं डाढजुअलेहिं पुणु पुणु ण अ बलन्ति ।।३९२।।' [निशम्य पश्चात्तुरगरवं शूकरी हिंसार्थे हसति। निजकान्तं दंश्रयुगलेन पुनः पुनर्न च दशति ॥] इदं तु शृङ्गारवीररसप्रधानत्वाच्छलिकम्॥ सम्पा यथा- 'वीहेसि हरिमुहि अवि होहि मं गले लेहि सइ। कन्दइ रिट्टासुरमारिउ कण्ठवलिउ ण पद ।। ३९३ ॥' [विभेपि हरिमुखि अपि भव मां च गले गृहाण सदा। कन्दति रिष्टासुरमारितः कण्ठवलितो न पतिः ॥] तदिदं छलिकमेव किन्नरविषयं सम्पा॥ हल्ीसकं यथा- 'चन्दणधूसरअं आहुलिअलोअणअं हासपरम्मुहअं णीसासकिलालिअम्। दुम्मणदुम्मणअं सक्कामिअमण्डणअं माणिणिआणणअं किंतुहकरट्विअअम् [चन्दनधूसरमाकुलितलोचनं हासपराकुखं निश्वासिक्केशितम्। दुर्मनसां दुर्मनस्कं संक्रामितमण्डनं मानिन्याननं किं तव करस्थितम्।]
Page 402
२ परिच्छेद: ।] सरखतीकण्ठाभरणम्। ३०९
मण्डलेन तु यत्स्रीणां नृत्यं हल्लीसकं तु तत्। तत्र नेता भवेदेको गोपस्त्रीणां हरिर्यथा॥ १५६ ।। हल्ीसकमिदम् ।। रासो यथा- 'अइ दुम्मणआ अज्ज किणो पुच्छामि तुमम् । जेण जिविज्जइ जेण विलासो पलिहिज्जइ कीस जणो ३९५ [अयि दुर्मनस्क अद्य किं नो पृच्छामि त्वाम्। येन जीव्यते येन विलास: परिहियते किमिति जनः ॥] तदिदं हल्ीसकमेव तालबन्धविशेषयुक्तं रास एवेत्युच्यते॥ अङ्गवाक्सत्वजाहार्यः सामान्यश्चित्र इत्यमी। पट् चित्राभिनयासतद्वदभिनेयं वचो विदुः॥ १५७ ॥
'दोर्दण्डाः क धृतान्गदाः क नु शिरानद्धौ भुजौ दाविमौ वक्राणि क नु कान्तिमन्ति बलिमत्केदं ममैकं मुखम्। वाचस्ताः क जितार्णवध्वनिघनाः कायं वचःसंयमो हेलाकम्पितमूघरः क चरणन्यासः क मन्दा गति: ३९६'
वाचिकामिनयवद्यथा- 'दुर्वारां मदनशरव्यथां वहन्त्या तन्वज्था यदभिहितं पुरः सखीनाम्। तद्ूय: शिशुशुकशारिकामिरुक्त धन्यानां शवणपथातिथित्वमेति ॥ ३९७॥ अत्र वाचिकाभिनयप्रतिपादनादिदं वाचिकाभिनयम् ।।
Page 403
३१० काव्यमाला।
सात्त्विकाभिनयवद्यथा- 'वारंवारं तिरयति दशोरुदमं बाष्पपूर- स्तत्संकल्पोपहितजडिम स्तम्भमभ्येति गात्रम्।
पाणि्लेखाविधिषु नितरां वर्तते किं करोमि ॥३९८॥ अत्र वाष्पजाड्यस्तम्भखेदकम्पानां प्रतिपादितत्वादिदं सात्त्विका- भिनयम् ।। आहार्यामिनयवद्यथा-
भस्मस्तोकपवित्रलाव्छनमुरो धत्ते त्वचं रौरवीम्। मौर्व्या मेखलया नियब्रितमधो वासश्र माज्जिष्ठकं पाणौ कार्मुकमक्षसूत्रवलये दण्डोऽपर: पैप्पलः ॥ ३९९॥' अत्राहार्याभिनयानां प्रतिपादितत्वादिदमाहार्यामिनयम् ॥ सामान्याभिनयवद्यथा- 'राहोश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम्। आतक्वाद्विकलं द्रुत करुणया विक्षोभितं विस्मया- त्ोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तताम् ४००' अत्र चतुर्णामभिनयानां प्रयोगादिदं सामान्याभिनयम् ॥ चित्राभिनयवद्यथा- 'व्यतिकर इव भीमस्तामसो वैदयुतश्र
कथमिह न वयस्यस्तत्किमेतत्किमन्य- अभवति हि महिम्रा खेन योगेश्वरीयम् ।। ४०१॥'
Page 404
३ परिच्छेदः ॥] सरस्तीकण्ठाभरणम्। ३११
अत्र हस्ताध्यायपदाध्याययोः कथितत्वाच्चित्राभिनयमिदम् ।। चतस्रो विंशतिश्रैता: शब्दालंकारजातयः। शब्दसंदर्भमात्रेण हृदयं हर्तुमीशते ॥ १५८ ॥ इति श्रीराजाधिराजभोजदेवेनविरचिते सरस्वतीकण्ठाभरणनास्ति अलंकारशास्त्रेडलंकारनिरूपणं नाम द्वितीय: परिच्छेद:।
तृतीय: परिच्छेदः। क्षोभस्फुरित चूडेन्दुखण्ड प्रकर विश्रमाः । ताण्डवाडम्बरे शम्भोरदहासा: पुनन्तु वः ॥ १ ॥
इतोऽप्यतः पर व्याख्या संक्षेपेण निगदते ॥ २॥ कमप्राप्तार्थार्लकारलक्षणाय तृतीयपरिच्छेदारम्भ:। तत्र विभागोपयुक्तं सामान्य- लक्षणमाह- अलमर्थमलंकर्तुं यद्युत्पत्यादिवर्त्मना। ज्ञेया जात्यादय: प्राज्ञैस्तेऽर्थालंकारसंज्ञया॥१॥ अलमर्थमिति। विशिष्टा उत्पत्तिन्युत्पत्तिर्जातेरवच्छेदक: प्रकार: । आदि - शब्दाद्विविधशक्तिप्रतिबन्धादयो विभावनाद्यवच्छेदास्त्रयोविशतिः। अर्थालंका- रसंज्ञयेति। अर्थशोभानिवृत्तिहेतुर्विच्छित्तिरर्थालंकार इति स्फुटलक्षणम् । जातिर्विभावना हेतुरहेतु: सूक्ष्ममुत्तरम्। विरोधः संभवोऽन्योन्यं परिवृत्तिर्निंदर्शना ॥ २ ॥। विभागान्दर्शयति-जातिरिति॥ भेदः समाहितं भ्रान्तिर्वितर्कों मीलितं स्मृतिः । भावः प्रत्यक्षपूर्वाणि प्रमाणानि च जैमिनेः ॥ ३ ॥ प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यभावाख्यानि जैमिनेः प्रमाणानि पद्। तेनैव कमेण लक्षणान्याख्यातुं प्रत्यक्षपूर्वाणीत्युक्तम् । साहित्यस्य सर्वपारिषद्यत्वाभ्नाना- दर्शनरीत्युपजीवनमुचितमेव।।
Page 405
३१२ काव्यमाला।
नास्त्येवासावर्थालंकारो यः स्वरूपं नाश्रयत इति प्राथम्यं जातेरेवेलयाह- तेषु-TF नानावस्थासु जायन्ते यानि रूपाणि वस्तुनः । स्वेम्यः सेभ्यो निसर्गेभ्यस्तानि जार्ति प्रचक्षते ॥४ ॥ तेप्विति। कालकृतो विशेषोऽवस्था। तामधिकृत्य जायन्ते वस्तुसरूपव्य- भिचारिण्युत्पद्यन्ते। नन्वेवं 'य एते यजानः प्रथितमहसो येऽप्यवनिपा मृगाक्ष्यो याखताः कृतमपरसंसारकथया। अहो ये चाप्यन्ये फलकुसुमनस्रा विटपिनो जगत्येवंरूपा विलसति मृदेषा भगवती ।।' इत्यादावपि जातित्वं स्यादित्यत आह- स्वेभ्य: खेभ्य इति। खभावभूतानीत्यर्थः । कविप्रतिभामात्र प्रकाशनीयरूपो- दृदनं जातिरिति लक्षणम् । लौकिकविकल्पविषयोऽपि प्रतिभया भासत एव। यदाह-'रसानुगुणशब्दार्थचिन्तास्तिमितचेतसः । क्षणं विशेषस्पर्शोत्या प्रजैव प्रतिभा कवेः। स हि चक्षुर्भगवतस्तृतीयमिति गीयते। येन साक्षात्करोलेष भावांत्तेलोक्यवर्िनः ॥'इति॥ उक्तमेव विशेषमभिसंघायाह- अर्थव्यक्तेरियं मेदमियता प्रतिपद्यते। जायमानप्रियं वक्ति रूपं सा सार्वकालिकम् ॥५॥
कालिकं रूपमुपजनापायान्तरालव्यापकमित्यर्थः । अन्र तु जायमानमागन्तुनिमित्त समवधानप्रभव व्यभिचरितमित्यर्थः। विच्छित्तिप्रकारयोरसकरात्पृथक्शोभार्पणाच् युक्तो व्यतिरेकस्तेन खभावोकिरेवार्थव्यकतिरिति यत्केनचिदुकं तदपास्म्। अत एव जात्यन्तरप्रकाराणामपि पृथगलंकारता स्यादिति न युक्तमवान्तरवचसेव व्याघा- तात्। न दि सामान्यविशेषयोर्विभागो भवति।। स्वरूपमाश्रयो हेतुरिति तज्जेदहेतवः। ते संसानाद्यस्तेषु सा विशेषेण शोभते॥ ६ ॥ स्वरूपमिति। आश्रयविशेषहेतुविशेषव्यतिरिक्तोऽवच्छेदकप्रकार: स्वरूपम्। एतदेव बिभजते-ते संस्थानादय इति। ननु किमनेन प्रपशेन पूर्गभिहि-
Page 406
३ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। ३१३
तरुपमात्रस्येव जावित्वादित्यत आह-तेपु सेति। विशेषेण शोभाहेतुरेव हालंकारः । अस्ति चात्र तथाभाव इति भावः ॥ तत्र स्वरूपं दविधा। शरीरावयवसंनिवेशलक्षणमतादशं च। आद्यमपि बुद्धि- कारितमतथाभूतं च । तदेतदाह- तत्र स्वरूपं संस्थानमवस्थानं तथैव च। वेपो व्यापार इत्यादैः प्रमेदैर्यहुधा स्वितम्॥७॥ तत्र स्वरूपमिति। आदिपदेन वृक्षादिस्रूपपरिग्रहः ॥। मुग्धाङ्गनार्भकस्तिर्यङ्कीचपात्राणि चाश्रयः । देशः कालश् शक्तिश साधनानि च हेतनः ॥८ ।। वाकि: पदार्थानां सामर्थ्यम्। साधनानि कर्त्रादीनि पद । तेपु संस्थानं यथा- 'स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुश्चितसव्यपादम्। ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् । १ ॥' अत्र धनुर्धरेणैवमङ्जानि सम्यख्वुद्धिपूर्वकं सापनीयानीति संस्थान- मिदं जातिमेदः ॥ अत्र धनुर्धरेणेति । तदुक्तम्-'अपान्ने दक्षिणां मुष्टि वामां विन्यस्य मस्तके । पादमाकुश्येद्वामं लक्ष्ये निशललोचनः ॥I' इति। अत्र सर्वस्येव धनु- र्धरस्यैवंविधशरीरावयवर्सनिवेशो भवति न कामस्यैवेति नाश्रयविशेषो विवक्षितः । एवमुत्तरत्रापि।। अवस्थानमेदेन यथा- 'पादावष्टम्भनत्रीकृतमहिषतनो रुल्सद्वाहुमूलं शूलं प्रोल्लासयन्त्याः सरलितवपुषो मध्यभागस्य देव्याः ।
स्तिस्त्रो वः पान्तु लेखाः क्रमवशविकसत्कचुकपान्तमुक्ता: २
Page 407
३१४ काव्यमाला।
अत्र खिरियाः शूलप्रोल्लासनादौ व्यापारे बुद्धिकारितमपि शरीराव- सानमीदृशं जायत इतीदमवस्थानं नाम जातिमेदः ॥ पादावष्टम्मेति। उलसद्वाहुमूलमिति प्रोल्सनक्ियाविशेषणम्। सरलितवपुष इति मध्यभागविशेषणम् । अत एव बलीनां विश्लेषो मिथो विभाग: उपरिशरीरा- कर्षणात्कखुकप्रान्तापसरणम् । मुसलोलासनादौ दष्टमिदमयुद्धिजमेव नारीणां रूप- मिति भगवतीविषये प्रतिबिम्बनमतिस्फुटमेव । तदाह-आदाविति।। वेषो यथा- 'छणपिट्ठघूसरत्थणि महुमअअम्बच्छि कुवलआहरणे। 'कस्स कअ चूअमज्जरि पुत्ति तुए मण्डिओ गामो ।। ३ ॥।' [क्षण पिष्टघूसरस्तनि मधुमदताम्राक्षि कुवलयाभरणे। कस्कृते चूतमज्जरि पुत्रि त्वया मण्डितो आमः ॥] अत्र बसन्तोत्सवे आमतरुणीनामयं वेषो जनमनःप्रमोदाय जायत इति वेषो नामायं जातिभेदः ।। अत्र वसन्तोत्सव इति। यद्यप्यत्र काल: पात्रं चासिति तथापि 'संवाह- णमउलिझविवर उराहइअम्बिरइअउण तालडम्। सिटिलाअन्तं सबणा अरम्भि- सारेह एकावि ॥' इत्यादी न संकरः कादाचित्कस्त्वसी गुण एव वेषस्य कथं रजकतेत्यवशिष्यते। तत्राह-जनमनःप्रमोदायेति। रुच्यर्थित्वमुत्पत्तीनां प्रतिपक्षगतानामक्षुण्णत्वादिति भाव: । व्यापारो यथा- 'अग्रे गतेन वसति परिगृद्य रम्या- मापात्य सनिकनिराकरणाकुलेन । यान्तोऽन्यतः प्रुतकृतखवरमाशु दूरा- दुद्वाहुना जुहुविरे मुहुरात्मवर्ग्याः।।४।।' अत्र तादृशि व्यापारे व्यापृतानामीद्शमेव सवरूपं जायत इति व्या- पारनामायं जातिभेद: ॥
Page 408
३ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ३१५
आश्रयेषु मुग्धयुवतिर्यथा- 'सहिआहि भम्ममाणा थणए लागगं कुसुम्भपुष्फं ति। मुद्धवहुआ हसिज्जइ पप्फोडन्ती णहवआइम् ॥५ ॥ [ससीभिर्मण्यमाना स्तनयोर्लमं कुसुम्भपुष्पं ते। मुग्धवधूर्हस्यते प्रोन्छन्ती नखत्रणानि ॥] अत्र मुग्धवध्वाश्रितक्रियास्वरूपभणनादियं मुग्धाङ्नाश्रिता जातिः।। अर्भकाश्रिता यथा-
गाः कालयति दण्डेन डिम्भ: सस्यावतारिणीः ॥ ६ ॥' अत्रार्मकाश्रितव्यापारखरूपोक्तेरियमर्मकाश्रिता जातिः।। अग्रे गतेनेति । अत्रोद्वाहुनेति यद्यप्यवस्थानमस्ति तथापि तत्परिहारेणो दाहरणमसंकीर्णम्। 'सहिआहि भम्ममाणा थणए लगगं कुसुम्भपुष्फं ति। मुद्ध- बहुआ हसिजइ पप्फोडन्ती णहवआइम् ॥' इत्यत्रैकस्याः कदाचिद्वितर्कायेदमपि वाक्यं बहूनां तु नेति बहुवचनखरसः । कुसुम्भकेसराण्युचेतुं वारंवारमसौ क्षेत्रं प्रविशतीति संभावना । मुग्धा अपरिशीलिताभिमानिकसुखा बधू: प्रथमपरिणीता। प्रस्फोट्यमानामपि त्वया नापसरतीत्यहो तब सौकुमार्यमिति चाटुगर्भ हसितम्। अत एव प्रियतया तस्यानुबन्धो वर्तमाननिर्देशेन व्यज्यते। एतदग्रिमोदाहरण- व्यार्याने क्रियाव्यापार त्रहणमुपलक्षणमतो न व्यापारसंकरः । अन्ये त्वाहु: आश्र- यावच्छेदेन बहिभांवोऽत्र मेदहेतुरिति।। तिर्यगाश्रया यथा-
विन्यस्याग्रिमयोर्युंगे चरणयो: सदो विभिन्नद्विपः । एतस्मिन्मदगन्धवासितवटः सावज्ञतिर्यग्वल- रसुक्ान्ताहतिधूतलोलमधुपः कुज्ञेषु शेते हरिः ॥ ७॥' अत्र सिंहसवरूपभणनादियं तिर्यगाश्रया जाति:।।
Page 409
३१६ काव्यमाला।
लीढेति। व्यस्तं विगतरुधिरम्। सावजञं तिर्यक् वलन्ती ये सकिणी ताभ्या- माहता इति संबन्धः । यथेकत्र कुजे स्वपतः सरूपं तथान्यत्रापीति बहुवचन- रहस्यम्। अत एव न देशहेतुरद्ा। अत्र सिंहेति। मदवासनया विशेषि- तत्वादिति भाव: II नीचाश्रया यथा- 'भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्ुष्यते सथाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः। इत्यालोच्य चिरं दशा करुणया शीतातुरेण स्तुतः पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः ॥ ८ ॥' अत्र हीनपात्रहालिकस्वरूपोक्तिरियं नीचाश्रया जातिः॥ भद्रं त इति। करुणाकार्पण्यव्यञ्जकविशेषशालिनी । गर्वायते अगर्ववानेव गर्ववान्भवति। मृशादी लक्षत्वादेमत्वर्थलक्षणत्वात्।। अथ हेतवः । तेषु देशो यथा- 'इमास्ता विन्ध्यादेः शुकहरितवंशीवनघना भुवः कीडालोल द्विरदरदनारुग्णतरवः। लताकुञ्जे यासामुपनदि रतक्कान्वशबरी- कपोलखेदाम्भ:परिचयनुदो वान्ति मरुतः ॥ ९ ॥' अत्र विन्ध्याद्रेरीद्शेषु प्रदेशेप्वित्थंभूता वायवो वान्तीति हेतुत्वे- नोक्तत्वाद्देशस्य देशहेतुर्जातिरियम् ।। इमास्ता इति। देशविशेषमुद्दिश्य मरुतां विधानमुद्देश्यस्य च विधा हेतुभावः । चंशीवनानां दुष्प्रवेशतया मरुर्ता मन्दीभावो द्विरदेस्तरुमन्ञादवकाशलामे प्रगल्म- त्यमतः कमखेदापनयनसामर्थ्यमेतत्सर्वमाह-अत्र विन्ध्याद्रेरिति॥ कालहेतुयथा- I c कम्पन्ते कपयो भृशं जलकृश गोजाविक म्लायति श्वा चुलीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्झति।
Page 410
३ परिच्छेदः I] सरस्वतीकण्ठाभरणम्। ३१७
शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मव- र्स्वान्यज्ञानि शरीर एव हि निजे निहोतुमाकाह्कति।१०॥ अत्र हेमन्तहेतुकतिर्यगाद्याश्रयव्यापारसरूपोक्तेरियं कालहेतुर्नाम जातिः ।। गोजाविकमिति। 'विभाषावृक्षमृग २।४।१२' इत्यादिना पाक्षिक एकव- द्वावः। अत्र हेमन्तेति। यद्यपि तिर्यगाश्रयेयं जातिः तथापि हेतोरधिकस्य प्रवेशात्पृथग्भावः । संकरत्तु न दुष्यति ॥ शक्तिरयथा- 'वन्नन्नङ्गेषु रोमाश्चं कुर्वन्मनसि निर्वृतिम्। नेत्रे निमीलयन्नेष प्रियास्पर्श: प्रवर्तते ॥ ११ ॥' अत्र रोमाञ्चबन्घादिषु प्रियास्पर्शप्रवृत्तेर्निमित्तस्योक्तत्वादियं शक्ति- हेतुर्नाम जाति:।। रोमाञ्चबन्धादिष्विति। बभ्रनित्यादौ शतृप्रत्ययेन कर्ताभिधीयते। स च सामानाधिकरण्यात्स्पर्श एव। स्पर्शत्वाविशेषे तु शक्तिरेव प्रयोजिका वाच्येलर्थः ॥ साधनहेतुर्यथा- 'उपनिहितहलीशासार्गलद्वारमारा- त्परिचकितपुरन्ध्रीसारिताभ्यर्णभाण्डम्। पवनरयतिरश्रीर्वारिधाराः प्रतीच्छ- न्विशति बलितशक्रः पामरागारमुक्षा ॥। १२ ।' अत्र जायमानक्रियाहेतुभूतयोः कर्तृकर्मणोः साधनयोः सरूपवर्ण- नादयं साधनहेतुर्नाम जातिभेदः ॥। उपनिहितेति। अगारद्वारस्य हलीशावरुद्वतया दुष्प्रवेशत्वमत एव वहि- बिर विलम्बात् प्रत्येषणवेशनयोवर्तमानता । उपलक्षणं चेदम्। तेन करणाद-
Page 411
३१८ काव्यमाला।
पक्षे स्वभावपर्यवसानमस्तीति जातेः किचिदपकृष्टां विभावनां विभावयितुमाह- प्रसिद्धहेतुव्यावृच्या यत्किंचित्कारणान्तरम्। यत्र स्वाभाविकं वापि विभाव्यं सा विभावना ।। ९।। शुद्धा चित्रा विचित्रा च विविधा सा निगद्यते। शुद्धा यत्रैकमुददिश्य हेतुरेको निवर्तते॥ १० ॥ प्रसिद्धेति। प्रसिद्धस्पर्शहेतोर्विभाव्यतया प्रसिद्धग्रहण नियमेन तद्भावा- पत्तिमूलत्वं चास्यास्तेन विरोध: ।. तथा हि 'णमह अवट्टिअतुन्नं-' इत्यादौ वर्धन- जन्यमन्यदेव तुज्जत्वमन्यच्च पारमेश्वरमाजानिकमिति तयोरमेदाध्यवसायः। एत- देवाभिसंधाय काश्मीरकैरतिशयोकिरस्या मूलमुक्ता । यदिति निपातो यत्रार्थे। यद्यपि कारणाभावेऽपि कार्योत्पत्तिरित्येव लक्षणं तथापि महासंज्ञाकरणप्रयोजनं किमित्याशड्ायां इयं विभाव्यमाह । तदयमत्र संक्षेप :- यथोक्ता तावद्विभावना। सा दयी। कारणान्तरपर्यवसिता, समावपर्यवसिता चेति॥ प्रत्येकं च शुद्धादिभेदात्योढा संपद्यत इत्येतावतैव विभावना शरीरनिष्पत्तेः । यथा वर्णो वणेन करम्बितं चित्रं तथा विभावनापि विभावनया तादशी चित्रेत्याह- अनेको यत्र सा चित्रा विचित्रा यत्र तां प्रति। तयान्यया वा गीर्भझ्ञा विशेषः कश्चिदुच्यते ॥११॥ अनेक इति। यथा च सवरूपसंपादकातिरिक्तविशेषप्रवेशाद्विचित्राः सग्दा मादयस्तधेयमपीति दर्शयति-विचित्रा यत्रेति । तां विभावनाम्। तय बिभावनया। अन्ययेति अलंकारान्तररूपया ॥ तत्र कारणान्तरविभावनायां शुद्धा यथा-
अप्रसादितसूक्ष्माम्बु जगदासीन्मनोहरम् ॥ १३ ॥' अत्रैकैकं कादम्बादिकमुद्दिश्य क्षीबतादेः पीतत्वादिरेकैक: प्रसिद हेतुर्व्यावर्तते। हेत्वन्तरं च शरत्पभावो विभाव्यते। सेयं शुद्धा न कारणविभावनायां विभावना ।। पीतं पानम्। सूक्ष्म निर्मलम्। शरत्प्रभाव इति। प्रस्तावीचिती म्यामभिव्यक्त
Page 412
३ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ३१९ खाभाविकत्वविभावनायां शुद्धा यथा- 'अनज्ञितासिता दृष्टिर्सूरनावर्जिता नता। अरज्जितारुणश्रायमधरस्तव सुन्दरि ॥ १४ ॥' अत्रैकैकं दृष्षादिकमुद्दिश्यासितत्वादेरनज्जितत्वादिरेकैको हेतुर्व्या- वर्त्यते। खाभाविकत्वं चासितत्वादि दृक्षादेर्विभाव्यते। सेयं शुद्धा नाम स्ाभाविकविभावनायां विभावना॥ कारणान्तरविभावनायां चित्रा यथा- 'असंभृतं मण्डनमक्जयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमखतरं बाल्यात्परं साथ वयः प्रपेदे १५' अत्रैकमेव वयोलक्षणं पदार्थमुद्दिश्याप्यनेको मण्डनादे: प्रसिद्धो हेतुः संभृतत्वादिर्व्यावत्यते। कारणान्तरं च सनोद्वेदधातूपचयलाव- ण्यलक्ष्मीलाभादिर्विभाव्यते। सेयं चित्रा नाम कारणान्तरविभावना ॥। असंभृतमिति। ननु मण्डनस्य संभरणपूर्वकतया प्रसिद्वेरस्तु विभावना। 'अनासवार्यं करणं मदस्य कामस्य पुष्पव्यतिरिक्मस्रम्' इत्यत्र तु कथम्। तथाहि। करणमिति करणे वा ल्युद्। आद्ये मदस्य करणमासवो वयस्तु ततो भिन्नमिति कदाचिद्यतिरेक: स्यान्नतु विभावना। द्वितीयेऽपि वयो मदस्य करिया आसवनान्नी न भवतीति न संगतम्। एवं पुष्पव्यतिरिक्तमत्रमित्यत्रापि विकल्प्य यथायर्थं दूषणं वाच्यम् । तत्कथमेतत्। उच्यते। करणं किया आसवमाख्यातीत्यासवाख्यम्। कयाख्यवत्प्रत्ययविधिः । न तथाभूतमनासवाख्यम् । हेतुतया न कचिदासवबोध- क्षमम्। तथा हेतुप्रतिषेध एव भज्गया दर्शितो भवति। अस्त्रमपि करियारूपं तत्पुष्प- व्यतिरिक्त पुष्पच्युतं विना पुष्पेभ्य इति पूर्ववद्ठनेयम्। खनोद्धेदेत्यादी नार्थसंदेहः। सैव स्वाभाविकत्वविभावनायां यथा- 'णमह अवट्टिअतुङ्ं अविसारिअ विस्यअअणोणअअं गहिरम्। अप्पलहुअपरिसण्हं अण्णाअपरमत्थपाअडं महुमहणम् ॥१६ ॥' [नमत अवस्थिततुङ्गमविसारिताविस्तृतमनवनतगमीरम्।
Page 413
३२० काच्यमाला। अत्रैकमेव मधुमथनमुद्दिश्यानेकस्तुन्वत्वादेः प्रवृद्धत्वादि: प्रसिद्धो हेतुर्व्यावर्त्यते। खाभाविकत्वं च तं प्रत्येषां विभाव्यते। सेयं चित्रा नाम खाभाविकत्वविभावनायां विभावना ।। तथैव गीर्भनथा विचित्रा यथा 'वक्रं निसर्गसुरभि वपुरव्याजसुन्दरम्। अकारणरिपुस्तस्या निर्निमितं सुहच मे ॥ १७ ॥ अत्रोत्तरयोर्विरहसमागमादिकारणान्तरविभावनयोः खाभाविकीभ्यां प्राग्विभावनाभ्यां यथासंख्यं विशेष उक्तः। सेयं विभावनयैव विभा- वनायां विशेषोक्तेस्तयैव गीर्मङ्रया विचित्रा नाम विभावना भवति ॥ वक्र निसर्गसुरभीति। तस्या यथोक्ते वफवपुषी ममाकारणरिपुनिर्निमितं सुहचेत्यन्वयो विवक्षितप्रतीतिलाभाच नार्थान्तरकवाचकत्वलक्षणो दोषः। यथा- संख्यमिति। तयोरप्येकैकं प्रति संपादनलक्षणविशेषार्पणक्षमत्वात्।। सैवान्यया गीर्मक्नया यथा- 'वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तमासः । भवन्ति यत्रौषघयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥ १८ ।' अत्रातैलपूराः सुरतप्दीपा इति साभाविकत्वविभावनायां शेषपदा- धैरविभावनारूपैर्विशेष उक्तः । सेयमन्यया गीर्भक्र्या विचित्रा नाम विभावना भवति ।। शेषपदार्थैरिति। वनितासखत्वादिभिः सुरताद्युपपादकैः॥ क्रियायाः कारणं हेतुः कारको ज्ञापकथ सः। अभावश्चित्रहेतुश् चतुर्विध इहेष्यते ॥ १२ ॥ आम हेतुप्रतिषेधो विभावनायामुक्त:, अथ हेतुरेव क इत्यपेक्षायां हेतुलक्षणमाह- क्रियायाः कारणं हेतुरिति। उपपत्तौ कियायामेव सर्वस्य निमित्तभावो निरूप्यत इत्यभिसंधाय कियाया इत्युक्तमिति कथित्। तदसत्। द्रव्यगुणक्रिया-
Page 414
३ परिच्छेद: I] सरसतीकण्ठाभरणम्। ३२१
विषये हेतुः करियामात्रविषयथ् कारकमिति प्रकीर्णप्रवृत्ती विभागकरणात्किया- ग्रहण चेह निष्फलं स्यात्। तस्मादयत्र करिया प्रत्यवधिभावो निरूप्यते तत्र दयी- गतिर्निमित्तत्वमात्रविवक्षा अवस्तुविवक्षा वा, द्वितीयेऽपि कारकत्वविवक्षा ा। आय्येऽप्याश्रितावधिभावस्य वस्त्वन्तरपरहेतुभावविवक्षा अवस्तुत्वविवक्षा वा। द्वितीयेऽपि कारकत्वक्रियानुबन्धिव्यापारत्वम् । प्रधानक्रियानुकूलकियान्तरसमावेश इति यावत्। तद्विविधं शब्दाभिहितम्, अतथाभूतं च। आद्यं कारकविभक्केर्विषयः, द्वितीयं हेतुविभक्तेः। दयमपि च कियाविषयमेव। पण्णामपि कारकाणां किया- घटितमृर्तित्वात्। अवस्तुभूतं तु निमित्तमभावात्मकतया न विक्ियते। विका- राभावाच न क्रियाविशिष्टमतथाभावे। न च कारकमिति तृतीय एव प्रकार: प्रसिद्धकार्यकारणभावविपर्यासेनोपनिबध्यमानो हेतुराक्षर्यकारितया चित्र आरोपित- मपि च हेतुत्वं हेतुत्वमेवेति भवति चतुर्थः प्रकारः । बहिरसंभाव्यमानस्यापि कवि- प्रतिभासंरम्भोत्थाप्यतया चमत्कारविशेषार्पणादक्षुण्णैवालंकारता। यदाह-'को हि प्रतीतिमात्रकाव्ये वस्तुस्थिति भावयेत्' इति। तदेतत्सर्वमभिसंधाय विभागमाह- कारक इत्यादि॥ यः प्रवृत्ति निवृत्ति च प्रयुक्ति चान्तरा विशन्। उदासीनोऽपि वा कुर्यात्कारकं तत्प्रचक्षते ॥ १३ ॥ असतः सत्ता प्रवृत्तिः। सतोऽपगमो निवृत्तिः । प्रवर्तमानस्य प्रवर्तना प्रयुक्तिः। अन्तरा विशन्ुपात्तयुक्तिः । उदासीनोऽतथाभूतः । तेन कारकस्य षद् प्रकारा:॥ तेषु प्रवर्तक: क्रियाविष्टो यथा- 'अयमान्दोलितप्रौढचन्दनद्रुमपल्वः । उत्पादयति सर्वस्य प्रीति मलयमारुतः ॥ १९ ॥' सोडयं यथोक्तो मलयमारुतः प्रीत्युत्पादनक्रियासमावेशात्मवर्तको नाम कारकहेतुमेदः ॥। स एव क्रियानाविष्टो यथा- 'तस्य राज्ः प्रभावेण तदुदयानानि जज्ञिरे। आर्द्राशुक प्रवालानामास्पदं सुरशाखिनाम् ।। २०।।' २१ स० क०
Page 415
३२२ काव्यमाला
अत्र प्रभाव: क्रियायामनिविशमान एव हेतौ तृतीयां प्रवर्तयति न कर्तरीति क्रियायामनाविष्टकारकहेतुभेदः ॥ तस्य राज: प्रभावेनेत्यत्र सदपि कर्तृत्वमविवक्षितं, अतो हेतुमात्रविवक्षायां पाक्षिकी तृतीया भवतीत्याह-हेतौ तृतीयायामिति। करणभावस्त्वसंभावित एव प्रभावमात्रस्य व्यभिचारात्।। निवर्तक: क्रियाविष्टो यथा- 'चन्दनारण्यमाधूय स्पृष्टा मायनिर्झरान्। पथिकानां प्रमाथाय पवनोऽयमुपस्थितः ॥ २१॥' अत्रैवंविधस्य पवनस्य पथिकप्रमाथसाधनक्रियायां कर्तृत्वेनावेशान्ति- वर्तको नामायमाविष्टक्रियः कारकहेतुमेदः ॥ प्रमाथसाधनक्रियायां कर्तृत्वेनेति निष्ठाप्रत्ययेनोपात्तेनेति भावः ॥ स एव क्रियानाविष्टो यथा- 'प्रजागरात्खिलीभूतस्तस्याः खमसमागमः । वाष्पस्तु न ददात्येनां द्रधुं चित्रगतामपि ॥ २२ ॥' अत्र समागमनिवृत्तावनिविशमानः प्रजागरस्तृतीयार्थे पश्चमीं प्रयो-
चामप्रधानभावेन चोपगृद्कातीत्यनाविष्टक्रियो नाम निवर्तकोऽयं कारक- हेतुमेदः ।। सित्रिलीभावो निवृत्तिः । तृतीयार्थ इति। हेतावधित्वाप्रतीतेरपादानभावेन संभावितः । दानक्रियेति । स्यादत्र दर्शनक्ियासमावेशो यदि दानक्रियावेशः स्पात्। स एव तु नारित नमा निषेधादित्यर्थः ॥ प्रयोजक: क्रियाविष्टो यथा- 'तस्मिज्जीवति दुर्धषें हतमप्यहतं बलम्। हनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयम् ॥ २३ ।'
Page 416
३ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ३२३
अत्र बलप्रत्युज्जीवनमरणक्रिययोः सप्तमीवाच्यनैमित्तिकाधिकरणका- रकभावेन हनूमानाविशन्प्रयोजको भवतीति क्रियाविष्टोऽयं प्रयोजको नाम कारकहेतुभेदः ॥ तस्मिक्ञीवतीति । जीवनमरणयोर्बलस्यैव खातकयं हन्मान्प्रयोजयति प्रयोजकता चास्य (ते एव) जीवत्युज्झितप्राणे इति पदाभ्यामुपात्ता। कतमत्का- रकमिदं भवतील्याह-सप्तमीवाच्येति। ननु च-'अहृल्यग्रे मदकलघटा- न्दर्शयन्तीव धूर्ता' इत्यादौ काल्पनिकादावपि सप्तमीभावात्कथं कारकतेत्यत आह- नैमित्तिकेति । अन्यस्यासंभवादिति भाव: ।। स एव क्रियानाविष्टो यथा- 'मानयोग्यां करोमीति प्रियस्थानस्वितां सखीम्। वाला भ्रूभङ्गजिल्माक्षी पश्यति स्फुरिताघरा ।। २४ ।।' अत्र मानाभ्यासक्कियाया भ्रभङ्गजिह्माक्षिप्रेक्षणादिरूपाया आत्मन्ये- वात्मन: समावेशो न भवतीति क्रियानाविष्टोऽयमिति शब्दामिषेयप्र- योजको नाम कारकहेतुभेदः ॥ मानयोग्यामिति । भ्रभन्नजिद्माक्षिस्फुरिताधरादिप्रेक्षणारूपायां मानाभ्या- सक्रियायामपि बालायाः सातकयं, तादशी तु तामिति शब्दनिर्देश्योऽभिप्रा- यविशेषः प्रयुक्के । तस्य तु न क्रियान्तरमुपात्तम् । उपात्तायास्तु मानक्रियाया: सवात्मनि समावेशोऽनुपपत्रः । अभिप्रायोऽपि हि व्यापारप्रचयरूपक्तियान्तर्भूत एव। यदाह महाभाष्यकार :- 'यत् किंचित्तदभिसंधिपूर्वक प्रेषणमध्येषणं वा तत्सर्व पच्यर्थ' इति । स्मरणादिकं चास्य व्यापार: संभवतीत्यतो नाकारकत्वं वाच्यम्। तदेतदभिसंधायाह-आत्मन्येवात्मन इति॥ द्वितीया च तृतीया च चतुर्थी सप्तमी च यम्। क्रियानाविष्टमाचष्टे लक्षणं ज्ञापकथ सः ॥। १४ ।। स द्वितीयावाच्यो यथा- 'तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः । प्रवालशोभा इव पादपानां शृक्गारचेष्टा विविधा बभूवुः ॥२५॥
Page 417
३२४ काव्यमाला।
अत्र क्रियानाविष्टतयैवेन्दुमत्यां महीपतीनां शृ्गारचेष्टा भवन्त्यो लक्ष्यन्ते । सोऽयं लक्षणहेतुः प्रतिना योगे द्वितीयामुत्पादयति।। इह पञ्चैव लक्षणे विभक्तयो विहिताः । तथथा। 'अनुर्लक्षणे १।४।८४', 'लक्षणे- त्थंभूत १।४।९• इत्यादिना कर्मसंज्ञां विधाय 'कर्मप्रवचनीययुक्ते २३।८' इति द्वितीया। 'येनाङविकार: २।३।२०', 'इत्थंभूतलक्षणे २।३।२१' इत्वेताभ्यां तृतीया। 'उत्पातेन ज्ञापिते व १।४।४४ वा.' इति चतुर्थी। 'यस् च भावेन भावलक्ष- णम् २।३।३७' इति सप्तमी। 'षष्ठी चानादरे २।३।३८' इति षष्ठी। तदेतदाह- द्वितीया चेति। पष्ठीमग्रे वक्ष्यति। 'पष्ठी चानादरे २।३।३८' इति सूत्रे चकारस्य समुचेयतया न प्रधाना सेति नात्र तुल्यकक्षतया गणिता। कियानाविष्टं खव्यापार- शून्यं तटस्थमेव यव्पाप्रियते, तेन कारका्द्ेदः । अत्र हि करियानाविष्ठस्पैव
वच्छियन्ते, तदवस्था एव च लक्ष्यन्ते, ततो भवति हेतुत्वं लक्षणत्वमवधित्वं चेति। ननु कभमत्र द्वितीया, यावता हेतुत्वात्तृतीयया भवितव्यमित्यत आह-द्विती- यामिति। नाप्राप्तायां तृतीयायामियं विधीयमाना बलवती ता बाधत इत्यर्थः ॥ तृतीयावाच्य मित्थंभूतलक्षणं यथा- 'कण्ठेकाल: करस्थेन कपालेनेन्दुशेखरः । जटाभि: स्त्िग्धताम्राभिराविरासीदृषध्वजः ॥ २६ ॥' अत्र कण्ठेकाल इत्यादीनि क्रियायामनिविशमानान्येव वृषध्वजं ज्ञापयन्ति यथा जटाभिस्तापस इति।। कण्ठेकाल इत्यादीनीति। यद्यपि कपालेन जटाभिरित्येवोदाहरणं तथापि प्रसज्वादितरधारूयानं शापकत्वम् । उभयत्रापि तुल्यविभक्तिवाच्यतायां तु विशेषः । तेनान्योऽप्येवंजातीयो लक्षणप्रकार: खयमूहनीय इत्युक्कतं भवति, यद्क्ष्यति 'उप- लक्षणं चैतत्' इत्यादिना। उक्तमेव प्रसिद्धोदाहरणेन द्रडयति-यथा जटाभि- रिति। यधाहीत्थंभूतस्य तेनैव प्रकारेण प्रकारवतो लक्षणं जटा भवन्ति तथेहापि कपालादिकमिति भाव: ॥। तृतीयावाच्य एवाङ्कविकारलक्षणं यथा- 'स बाल आसीद्वपुषा चतुर्मुजो मुखेन पूर्णेन्दुनिभख्त्िलोचनः । युवा कराकान्तमहीभृदुचकैरसंशयं संप्रति तेजसा रविः ॥२७'
Page 418
३ परिच्छेदः ।] सरखतीकण्ठाभरणम्। ३२५
अत्र वपुषा चतुर्मुजो मुखेन त्रिलोचनस्तेजसा रविरित्यन्रविकारैर- झ्विनो विकृतिर्लक्ष्यते यथाक्ष्णा काण इति।। तृतीयावाच्य एवेति। सूत्रेआापदेनात्ी लक्ष्यते। तस्य व संबन्धिनिय- मादहवाचिनस्तृतीया भवति। अ्त्ञं च द्विविधमाजानिकमौपचारिकं च द्यमपीह विवक्षितं विकारादिकं चेत्थंभूतलक्षणमेवेदम्। अत एव सूत्रक्रमो नादत इत्याश- यवान्व्याचट्टे-अत्र वपुषेति । विकृतिरवस्थान्तरप्राप्तिः ॥ चतुर्थीवाच्यमुत्पातलक्षणं यथा- 'गोनासाय नियोजितागदरजाः सर्पाय बद्धौषधिः कण्ठस्थाय विषाय वीर्यमहिते पाणौ मणीन्बिभ्रती। भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमत्राक्षरा रक्षत्वद्रिसुता विवाहसमये श्रीता च मीता च वः ॥२८।
र्मगवद्गता गोनासादयो ज्ञाप्यन्ते, यथा वाताय कपिला विद्युदिति। ततश्रोत्पातेन ज्ञापितेचेति संबन्धस्योभयनिष्ठत्वात्तादर्थ्य इव लक्ष्यवा- चिनश्रतुर्थी न लक्षणवाचिनः । तृतीयाविषयापहारादेकयैव च विभत्तयो- भयगतस्यापि संबन्धस्य राज्ः पुरुष इतिवदुक्तत्वात्तृतीयापि न भवति॥ गोनासायेति। ननूत्पातेनाविष्टेन यज्ज्ञाप्यते तत्र चतुथाँति लक्षणमेवास्या वाच्यं प्रतिभाति, नैतत्। लक्ष्यलक्षणभावोऽसावभिधीयते न तु लक्ष्ये ...... । ततथ यतो विधीयते तस्य लक्षणीयतामर्थादितरस्य लक्षणतां बोधयतीति। अगदरज :- प्रभृतयस्तु कथममनलरूपा इत्यवशिष्यते। तत्राह-अत्र गौर्या इत्यादि। ननु तथापि लक्षणवाचिन एव चतुर्थाति कथमवसितमित्यत आह-ततश्चेति। यथा तादर्थ्यस्योभयनिष्ठत्वेऽपि कडणाय कनकमित्यत्र कार्यवाचिन एव चतुर्थी न तु कार- णवाचिन:, तथेह्ापि संबन्धस्योभयाश्रयत्वेऽपि लक्ष्यवाचिन एव चतुर्थी नतु लक्षणवाचिन इत्यर्थः। तर्हिं तृतीया कथ न भवतीत्यत आह-एकयैच चेति। संवन्धस्य संबन्धिनावेव विशेषसेन लक्षणमपि चतुथ्येव प्रतिपादयत्यत आह- उक्तार्थत्वात्कर्य तृतीया न भवतीति शुद्धप्रातिपदिकार्थाभिधाने प्रथमेति भावः ॥
Page 419
३२६ काव्यमाला।
सप्तमीवाच्यं भावलक्षणं यथा- 'इति शासति सेनान्यां गच्छतस्ताननेकघा। निषिध्य हसता किंचित्तस्थे तत्रान्घकारिणा ॥ २९॥' अत्र सेनान्यः पलायमानगणानुशासनक्रिययान्धकारेः खप्रकाशन- किया लक्ष्यते यथा-'गोषु दुह्यमानासु गतः' इति। उपलक्षणं चैतत्। तेनान्यदपि भावलक्षणं शत्राद्यमिधेयमुपलक्ष्यते, यथात्रैव हसता तस्थे इति॥ 'यस्य च भावेन भावलक्षणम् २।३।३७' इत्यस्य सूत्रस्यार्थस्तु यस्य वस्तुनो भावेन क्रियया वस्त्वन्तरस्य भावः करिया लक्ष्यते तदूचनात्सप्तमीलत आह- अत्र सेनान्य इति। हसता तस्थ इति लक्षणे शतुविधि: 'लक्षणहेत्वोः कियायाः ३।२।१२६' इति सूत्रणात् ।। यथा वा- 'यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः । जातवेदोमुखान्मायी मिषतामाच्छिनति नः ॥३०॥' इत्यनादरोपाधिके भावलक्षणे षध्यपि भवतीति।। अभावः प्रागभावादिभेदेनेह चतुर्विध: । घटाभावादिमेदात्तु तस्य संख्या न विद्यते॥ १५ ॥ अभावसामान्यमभावप्रमाणनिरूपणप्रस्तावे 'असत्तायाः पदार्थानाम्' इत्यनेन वक्ष्यति। तेनात्र सामान्यलक्षण न कृतवान्। स द्विविधस्तादात्म्यप्रतियोगिकः, संसर्गप्रतियोगिकथ। द्वितीयस्त्रिधा प्राकूप्रव्वंसात्यन्ताभावभेदात्। तदाह-प्राग- भावादिति। ननु न प्रागभावादिरेकोऽस्ति प्रतियोगिमेदेन भेदादित्यत आह- घटाभावादीति। अनेन रूपेण संर्या नास्तयेव । सामान्यं तु प्रागभावत्वादि- कमाश्रित्य चातुर्विध्यम्, सोऽयं तुशब्दस्यार्थः॥ तेषु प्रागभावो यथा- 'अन्यासेन विद्यानामसंसर्गेण धीमताम्। अनिग्रहेण चाक्षाणां व्यसनं जायते नृणाम् ॥ ३१॥'
Page 420
३ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम्। ३२७
अत्र विद्यानभ्यासादेः प्रागभावस्य व्यसनादिकारणत्वम् ।। प्रध्वंसाभावो यथा- 'गतः कामकथोन्मादो गलितो यौवनज्वरः । गतो मोहश््युता तृष्णा कृतं पुण्याश्रमे मनः ॥ ३२ ॥' अत्र कामकथोन्मादगमनादे: प्रध्वंसाभावस्य पुण्याश्रमानुसन्धान- कारणत्वम् ।। अनभ्यासेनेति। यावद्विदां नाभ्यस्यन्ति तावन्र धीमद्धि: संसृज्यन्ते, याव- व्ाक्षाणि न निगृहन्ति ताववसनमिति विवक्षितम्। तेन नात्यन्ताभावसंकरः। आराध्यास्त्वाहु :- 'शिक्षापरस्यास्य शोकस्याप्यन्यप्रयोजनकतया नाव्यन्ताभाव- संकरः इति॥ इतरेतराभावो यथा- 'वनान्यमूनि न गृहाण्येता नद्ो न योपितः । मृगा इमे न दायादासतन्मे नन्दति मानसम् ॥३३ ॥' अत्र वनानि अमूनि न गृहाणीत्यादेरितरेतराभावस्य मनःप्रमोद- कारणत्वम् ।। वनान्यमूनीति। इदमिद न भवतीति प्रतीतिसाक्षिक एवान्योन्याभावः। वैधर्म्य तु मेदारूयमलंकारान्तर किंचिद्धर्ममन्तर्भाव्यैव स्वरूपस्यापि मेदव्यव- हारपात्रता ॥। अत्यन्ताभावो यथा- 'अत्यन्तमसदार्याणामनालोचितचेष्टितम्। अतस्तेषु विवर्षन्ते निर्विवन्धा विभूतयः ॥ ३४ ॥' अत्रानालोचितचेष्टितस्यात्यन्ताभावो विभूतीनां निर्विन्ञवृद्धिहेतुः। एतेनाभावाभावोऽपि व्याख्यातः ।
Page 421
३२८ काव्यमाला।
अत्र प्रागभावाभावो यथा- 'उद्यानसहकाराणामनुद्धिन्ना न मख्जरी। देय: पथिकनारीणां सतिल: सलिलाञ्जलिः ॥ ३५ ॥' अत्र वस्तुन उत्पाद: प्रागभावाभाव उच्यते। तेनेह सहकारमञ्ज- रीमुद्वेदस्य पथिकनारीणां मरणे कारणत्व्रम् ।। वस्तुन उत्पाद इति। भाव एवाभावाभावव्यवहारभूमिः। अभावव्यवहारविष- यमात्रस्य च विभाग: कृतोऽरिति। प्रागभावादे: प्रध्वंसादिरूपतेति न न्यूनता विभा- गवाक्यस्याशकनीया। तेनेति । भूतभव्यसमुचचारणे भूतं भव्यायेति न्यायान्मजरी- णामुद्वेदस्य कारकतालाभोऽन्यथा वाक्यमेदे न किचित्सयात्। प्रागभावात्प्रागभावा- भावभग्नया च समस्तमज्जरीसमुद्बेदेन वसन्तप्रौढिध्वननात्प्रकृतविप्रलम्भः पोषः । प्रध्वंसाभावाभावो यथा- 'पीनश्रोणि गमीरनाभि निभृतं मध्ये भृशोच्चस्तनं पायाद्वः परिरब्धमन्धिदुहितु: कान्तेन कान्तं वपुः । सावासा नुपघातनिर्वृतमनास्तत्कालमीलद्दशे यस्ै सोऽच्युतनाभिपअवसतिर्वेधाः शि्वं ध्यायति ॥३६॥' अत्र यथोक्तेन वपुषा योऽयमालिङ्गनेऽपि विधिनिवासनाभिपळ्चजा- नुपघातः, स इह वस्तुनोऽवस्थानमेव प्रध्वंसाभावाभाव उच्यते। स चेहाच्युतनाभिपङ्कजनिवासिनो विधेर्मनोनिर्वाणकारणं भवति ।। पीनश्रोणीति। निभृतं दुर्लक्ष्यम् । अब्धिदुहितापि सर्वाज्नीणमा्टेपमभि- उपति भगवानपीति कान्तेन कान्तमित्येताभ्यामभिव्यज्यते। उपलक्षणं चेदम्। तादात्म्यात्यन्ताभावाभावावप्युदाहरणीयौ। यथा-'अवनिरदकं तेजो वायुर्नभः शशिभास्करी पुरुष इति यत्केचिद्धिन्रा वदन्ति तन्स्तव । तदनघ वचोवेचि- श्रीमिर्निरावरणस्य ते विदधति पयःपूरोन्मीलन्मृषा मिहिरोपमाम् ।।' अत्र भिनन इत्यन्योन्याभावमुपन्यस्य निरावरणस्य मृषेलेताभ्यां निषेधः । यथा च-'न विद्यते यद्यपि सर्ववासनागुणानुबन्धि प्रतिभानमडगतम्। श्रुतेन यल्रेन च वागु-
Page 422
३ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ३२९
पासिता ध्रुवं करोल्येव कमप्यनुग्रहम् ॥I' अत्र न विद्यत इत्यत्यन्ताभावमुपन्यस् कमपीति प्रतिभासत्ताभिधानेन प्रतिषेध: ॥ विदूरकार्यः सहजः कार्यानन्तरजस्तथा। युक्तो न युक्त इत्येवमसंख्याश्रित्रहेतवः ॥ १६ ॥। तेऽमी प्रयोगमार्गेषु गौणवृत्तिव्यपाश्रयाः । कार्याः काव्येषु वैचित्र्यं तथा ते कर्तुमीशते॥ १७॥ तेषु विदूरकार्यों यथा- 'अनश्रुवानेन युगोपमानमलळ्घमौवीकिणलाञ्छनेन। अस्पृष्टखङ्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमि: ३७' सोऽयं वाल्य एव नवयौवनकार्यकरणाद्विदूरकार्यों नाम चित्रहेतु:।। विदूरकार्य इति। कालान्तरभाव्यवस्थासंपायं प्रागवस्थावत एव कार्यमुप- जायमानं यत्रोच्यते स विदूरकार्यस्तच् कार्य शक्तिविशेषाधीनमिति वाल्येऽपि प्रभावातिशयदर्शनाद्भुजेनैव रक्षा कृतेति गौणवृत्तिव्यपाश्रयता ।। सहजो यथा- 'सममेव समाक्रान्तं द्वयं द्विरदगामिना। तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ।। ३८।।' अत्र राज्याभिषेकरिपुमण्डलाक्रमणयोर्हेतुहेतुमद्भावेन सत्यपि पौर्वा- पर्ये क्षिप्रकारित्वात्तुल्यमेव कार्यकारणभावो विवक्षितसतेन सहजो नामायं चित्रहेतुः ।l सहज: कार्यें सहोत्पत्तिकतया निबद्ः। कारणशक्तिप्रकर्षात्समकालमिव कार्य प्रतिभासते, तेन हेतुशक्तिप्रकर्षाभिव्यक्तिरत्र मूलम्। 'यदग्रे ददवि यथा वा कर्तुमीशते' इति। एवमनन्तरजेऽपि कि कारणं पूर्वमुत कार्यमस्ति स एव व्यक्नयः । युक्तेऽपि कारणगुणानुविधायि कार्यमसदेवारोप्यते न प्रमुक्तेति तदेव विपरीत- मिति गौणवृश्याभरयता।।
Page 423
३३० काव्यमाला।
कार्यानन्तरजो यथा- 'पश्चात्पर्यस्य किरणानुदीर्ण चन्द्रमण्डलम्। प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥। ३९ ।' अत्र चन्द्रोदयलक्षणाद्वेतोः पूर्वकालमेव रागसागर उदीर्ण इति कार्यस्योदयलाभः । स इह गुणवृत्त्याश्रयणे हेतावतिशयं पुष्यतीत्ययं कार्यानन्तरजो नाम चित्रहेतुः ॥ युक्तो यथा- 'गुणानुरागमिश्रेण यशसा ते प्रसर्पता। दिग्वधूनां मुखे जातमकस्मादर्घकुङ्कमम् ।। ४० ।।' अत्र दिग्वधूमुखेषु ते गुणानुरागः कुङ्कमं, यशस्तु चन्दनमित्ययं युक्तो नाम गौणवृत्तिव्यपाश्रयश्चित्रहेतुः ॥ नयुक्तो यथा- 'न मीलयति पझमानि न नमोऽप्यवगाहते। त्वन्मुखेन्दुर्ममासूनां हरणायैव यस्यति ।। ४१।।' अत्र मुखेन्दोः पदमनिमीलनादि न युज्यत इति नयुक्तो नाम चित्रमेद: ॥ नतु व्यक्तिमेदेऽपि हेतोरसंख्यता चेद्विवक्षिता किमेवं शब्देनाधिकेनेत्यत आह- एवं शब्दस्य प्रकारवाचित्वाव्यधिकरणादयः प्रयुज्यन्ते॥ व्यधिकरणो यथा- 'सा वाला वयमप्रगल्भवयसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोघरयुगं धत्ते सखेदा वयम्। साक्ान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोपैरन्यजनाश्रयैरपटवो जाताः स इत्यद्धतम् ॥। ४२ ॥'
Page 424
३ परिच्छेद: I] सरखतीकण्ठाभरणम्। २३१
अत्राभिव्यक्तमेव व्यधिकरणत्वं कार्यकरणयोः प्रतीयत इत्ययं व्यधिकरणो नाम चित्रहेतु: ॥ एवं शब्दस्येति। प्रकारस्योपाधेरेव मेदो विवक्षितो न तु व्यक्तिमात्रस्येति भाव: । सा वालेति। बाल्यादीनां सामानाधिकरण्य एव प्रागल्भ्यादिकं प्रति हेतुभाव: प्रतीतः स इह गौणवृत्तिव्यपाश्रयतयोपनिबध्यमानः कान्तिमावहति। तथाहि। अन्यत्प्रागत्भ्यं बालायाः सरलालोकितवाय्िश्रणाद्यसामथ्यलक्षणम्, अन्यच नायकप्रकाण्डे कथमेषां नियन्त्रणा स्वादित्यनध्यवसायलक्षणम्। तयोथ तद्धावापत्तिरत्र व्यक्तव। एवं कातरत्वादी बोध्यम्। आदिग्रहणेन खहेतुकतया कार्यहेतुकतया चोपनिबध्यमानः संकलितो भवति॥ हेतोरनन्तरं तद्विपरीतमहेतुं लक्षयभ्राह- वस्तुनो वा स्वभावेन शक्तेर्वा हानिहेतुना। अकतात्मीयकार्यः स्यादहेतुर्व्याहृतस्तु यः ॥ १८॥ वस्तुन इति। हेतुतया प्रतीतोऽपि कार्य न करोतीत्यभिधीयमानोऽहेतुः। स द्विविधः । सरूपेण कार्यव्यभिचारी, व्यापारविरोधेन वा । तथाभूतोऽपि च कार्य न करोति। तत्र हयं निबन्धनं यद्गतं कार्यमुपजनयितव्यं तस् वस्तुनः खभावो हेतुत्वाभिमतस्य शक्तिहानिवा। सापि द्विधा-आत्यन्तिकोऽभावः, प्रतिबन्धमात्रं वा। तत्र वस्तुखभावेन शक्तरत्यन्तासत्वेन च द्विरूपस्वरूपाव्य- भिचारीकृतात्मीकार्य इत्यनेनोक्म्, वस्तुखभावेन शक्तिप्रतिबन्धेन च द्विप्रका- रोऽपि च व्यापाराव्यभिचारी व्याहतः, इत्यनेन यद्यपि शकतिरत्यन्तासत्त्वे हेतु- भाव एव न भवति, तथापि गुणत्ृत्त्या हेतुभावाध्यासो बोद्धव्यः । सा च गुणवृत्तिः ेपोपहितान्यादशी भवति। ननु चात्र चेष्टाया हेतुत्वं तृतीयया प्रतीयत इति सा हेतुत्वेन वक्तुमुचि- तेलयत आह- तत्र वस्तुखभावेनाकृतकार्यो यथा- 'न विरचिता ललाटतटलास्यकरी भ्ुकुटि- र्न परुषहुंकृतेन मधुरस्मितमन्तरितम्।
Page 425
३३२ काव्यमाला।
न तव निशुम्भसंत्रमवशादपि दारुणया भगवति चेष्टया कलुषितं वदनाम्वुरुहम् ॥ ४२ ॥' अत्र निशुम्भसंभ्रमस्य हेतोरनुत्पादितभ्रुकुट्यादिदारुणचेष्टाद्वारेण भगवतीमुखाम्बुरुहकालुष्यस्य करणे यदसामर्थ्य तत्र तन्मुखाख्यस्य वस्तुनः खभावो निमिच्तमिति खभावाद नुत्पादितकार्योऽयमहेतुः॥ अत्र निशुम्मेति ।। भ्रुकु्यादिदारुणचेष्टाद्वारेणेति। अन्यथा निशुम्भसंभ्रमवशादिति पथमी असंगता स्यादिति भाव: ।। स एव शक्तेर्हानिहेतुना यथा- 'अनुरागवती संध्या दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ।। ४४ ॥' अत्रानुरागवत्त्वतत्पुर:सरत्वयोः समागमहेत्वोः सामर्थ्यविघाते दैव- गतिः कारणमिति शक्तेर्हानिहेतुनायमकृतस्वकार्यो नामाऽहेतुः । अनुरागो लौहितयं प्रीतिथ्। पुरःसरोडये गमनशीलः संनिधौ स्थितथ।। वस्तुनः खमावेन व्याहतो यथा- 'नीवीवन्धोच्छुसनशिथिलं यत्र यक्षाञ्वनानां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु। अर्चिस्तुज्ञानभिमुखगतान्प्राप्य रत्नप्रदीपा- न्ह्ीमूढानां भवति विफल: प्रेरणाचूर्णमुष्टिः॥४५॥' अत्र रत्नप्रदीपनिर्वापणे चूर्णमुष्टेरपत्यक्तस्वरूपस्यापि विघाते रत्नप्दी पाख्यवस्तुखभाव: कारणमित्ययं वस्तुखभावेन व्याहतो नामाऽहेतुभूतः ।। अमृतसेकजीवितकद्कालशक्तिप्रतिबन्धे को हेतुरत आह- स एव शक्तेर्हानिहेतुना यथा- 'शंभोरुद्धतनृत्यकर्मणि करे क्कालमायं हरे:
Page 426
३ परिच्छेदः I] सरस्वतीकण्ठाभरणम्।
तत्कालपणते मुरद्विषि नवे दृष्ट्रा विलासं श्रियः कुर्वत्कोपकषायितेन मनसा मिथ्योस्मुतीः पातु वः ॥४६॥' अत्र कोपकषायितेन मनसस्तस्योदुतिकरणसमर्थस्यापीश्वरक रग्रहणा- न्मिथ्यापदाभिधीयमानः प्रतीतो व्याघातसततोऽयं शक्तेर्दानिहेतुना व्याहतो नामा हेतुमेद: ॥! ईश्वरकरग्रहणादिति। ननु कोपकषायितमनस्त्वमुत्पादितकार्यमेव कथ- मन्यथा कुर्वदित्युच्यतेऽत आह-मिथ्यापदेति॥ इह कैथिवित्कारणमाला पृथगलंकार इत्युक्तम्, पूर्वस्योत्तरोत्तरं प्रति हेतुभावो- किस्तहक्षणम् । स द्विविधोऽभिधीयमान: प्रतीयमानो वा। उभयधापि नाहेतो- व्यतिरिच्यत इल्याह- यस्तु कारणमालेति हेतुसंतान उच्यते। पृथक्पृथगसामर्थ्यात्सोऽप्यहेतोर्न भिद्यते ॥ १९ ॥ एकोऽभिधीयमानेषु हेतुत्वेपु भवेत्तयोः । प्रतीयमानेष्वपरः कारणत्वेषु जायते ॥ २० ॥ यस्त्विति । यद्यपि प्रथमस्य प्रथमं हेतुभावो निवृत्त एव तथाप्युत्तरस्प प्रथममुखनिरीक्षणपरवृत्तस्योत्तरं प्रति हेतुभावोऽभिधीयते। न हि स्वतन्त्रस्यैव हेतुभावे कारणमाल्य भासते॥। तदिदमेकदेशद्वारा व्यजयलाह- तयोरादो यथा- 'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवाश्र संपदः।8७।।' अत्र जितेन्द्रियत्वादीनामुत्तरोत्तरं प्रति हेतुभूतानामपि संपदुत्पत्तौ पूर्वपूर्वसव्यपेक्षायां समुदितानामेव कारणत्वं साधनादिपदैरभिधीयत दति सोऽयमभिधीयमानहेतुत्वकारणमालेत्यहेतुभेदः ॥
Page 427
३३४ काव्यमाला।
द्वितीयो यथा- 'पीणचुण दुग्गेजं जस्स भुरआअन्तणिट्ठुरपरिग्गहिअम्। रिट्ठस्स विसमवलिअं कंठं दुक्खेण जीविअं वोलीणम् ।।४८॥' [पीनत्वेन दुर्ग्राहं यस भुजयोरन्तर्निषुरपरिगृहीतम्। रिष्टस विषमवलितं कण्ठं दुःखेन जीवितमतिक्रान्तम् ॥] अत्र जीवितदुःखातिकरमणे कण्ठस्य वलनं, वलनस्य निष्ठुरग्रहणं, निष्ठुरत्रहणस्यापि पीनत्वेन दुर्गाह्यत्वं हेतुरिति प्रतीयमानकारणत्वं कारणमालेत्यहेतुमेदः ॥ अत्र जितेन्द्रियत्वादीनामिति। अत्र जीवितदुःखातिक्रमण इति। यद्यत्र हेतुमाल न स्यात्तदा परस्परानपेक्षायामुपन्यासे वाक्यार्थपोषो(5पि) न स्यादिति ।। लक्षणात्मकहेतुविशेषस्य साधर्म्यादनन्तरं सूक्ष्मं लक्षयति- इङ्गिताकारलक्ष्योऽर्थः सूक्ष्मः सूक्ष्मगुणात्तु सः। सूक्ष्मात्प्रत्यक्षतः सूक्ष्मोऽप्रत्यक्ष इति भिद्यते॥ २१॥ वाच्यः प्रतीयमानथ् सूक्ष्मोऽत्र द्विविधो मतः । इङ्गिताकारलक्ष्यत्वं लक्ष्यसामान्यमेतयोः ॥२२॥ तत्रेङ्वितलक्ष्यममिधीयमानसूक्ष्मं यथा-'तां प्रत्यभिव्यक्तमनोरथा- नाम्' इति। अत्र स्वयंवरमिलितानां राज्ञां राजपुत्री प्रति प्राप्तिलक्षणस्य
तलक्ष्योडभिधीयमान: सूक्ष्ममेदः ॥ इद्वितेति। इद्वितमाकार इक्विताकारौ चेत्यर्थः। शरीरावयवव्यापार इमितम्। रूपादेरन्यथात्वमाकार:। सूक्ष्मार्थदर्शनं सूक्ष्ममित्यर्थगुणेपूकं तेन पौनरुत्यमा- शझ्ाह-सूक्ष्मगुणात्तु स इति । हृदयसंवादभागित्रिचतुरहृदयसंवेद्यस्य । अत एवातिसूक्ष्मार्थस्य प्रत्यक्षायमाणत्वात्सूक्ष्मो नामार्थगुणः । यथाहि कबे: प्रतिभा सूक्ष्मविशेषोल्ेखिनी तथा तन्मूलक: शब्दोऽपीति स्फुटाभतया प्रत्यक्ष-
Page 428
३ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ३३५
प्रमेयज्ञानमुत्पयते । तथाह्यन्योन्यसंवलितेलयादौ दम्पत्योर्मिथोऽनुस्सृतिलक्षणस्य प्रेम्ण: कतिपयसंवेद्यस्यापि शब्दवलात्प्रत्यक्षायमाणत्वमनुभवसिद्धमेव। तदेतदाह- सूक्ष्मात्प्रत्यक्षत इति। सूक्ष्मालंकारे तु कविप्रतिभाया लिप्नविषयत्वाच्छ्दोऽपि तद्विषय एव । लिज्वान प्रतीतिरुत्पय्माना सामान्यपुरस्कारेण प्रवृत्ता न प्रत्य- क्षवत्तद्विशेपोल्ेक्षमेति सूक्ष्मगुणवैधर्म्यम्। तदिदमुक्तम्-सूक्ष्मोSप्रत्यक्ष इति। अत्र कैथितप्रतीयमानस्य सूक्ष्मस्य भाव इति संज्ञां विधायालंकारान्तरमुक्त तदसत्, सूक्ष्मसामान्यलक्षणेन कोडीकरणादित्याह-इङ्गिताकारलक्ष्यत्व- मिति। एतेन उक्ष्यत्वपुनरुतत्याशड्टा परिहता । अत्र स्वयंवरेति। न च शृक्गारचेष्ठाप्रत्यर्पितस्य मनोरथशब्देनाभिधीयमानमर्थ पुनरुक्तमिति वाच्यम्। नहि यधानुरागानुभावेन चित्तवृत्तयः स्फुटा उपस्थाप्यन्ते तथा खशब्देनेति विस्तरेण सप्रपश्चमेव वक्ष्यामः । खशव्दस्तु किमर्थमित्यवशिष्यते तत्र न्रूमः । खयंवरसमाजप्रवेशादिना येषां सामान्यत उत्कण्ठा प्रतीतिपथमवतीर्णासीत्तेषा- मिन्दुमतीसंनिधौ तदनुभाववलेनासंख्यसूक्ष्मविशेषवती सैवाभिव्यक्तेति दृढानुव- न्घलक्षणस्य प्रेम्ण: प्रकर्षकाष्ठां पुष्णाति। एवमन्यत्रापि ।। तदेवाकारलक्ष्यं यथा- 'सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम्। रोमाञ्चलक्ष्येण स गात्रयष्टिं मित्त्वा निराकामदरालकेश्याः॥४९॥ अत्राभिलाषबन्धो रोमाञ्चलक्ष्येण गात्रय्टिं भित्त्वा निराक्रामदित्य- नेनामिधीयमान आकारलक्ष्यः सूक्ष्मभेदोऽमिहितः ॥ तदेवोभयलक्ष्यं यथा- 'त्वदर्पितदृशस्तस्या गीतगोध्ठ्यामवर्घत। उद्दामरागपिशुना छाया कापि मुखाम्बुजे ।। ५० ॥' अत्र त्वदर्पितदृश इति इक्ितच्छाया कापि मुखाम्बुज इत्याकारस्ता- भ्यामुद्दामरागपिशुनेत्यनेनाभिधीयमानस्याननरागस्य सूक्ष्मरूपतया लक्ष्य- माणत्वादयमभिधीयमानोभयलक्ष्यः सूक्ष्मभेदः ।
Page 429
३३६ काव्यमाला।
लक्षणात्मकहेतुविशेषस्य साधर्म्यादनन्तर सूक्ष्मं लक्षयति-
'वाहित्ता पडिवअणं ण देइ रूसेइ एकमेक्कम्मि। अज्जा कज्जेण विणा पइप्पमाणे णईकच्छे ।५१॥ [व्याहता प्रतिवचनं न ददाति रुष्यत्येकैकस्मिन्। आर्या कार्येण विना प्रदीप्यमाने नदीकच्छे।] अत्र प्रतिवचनादानं परिजनप्रकोपाभ्यां प्रदीप्यमाने नदीकच्छे इति हेतुना प्रत्याय्यमान: संकेतकुड्याञ्रदावोद्धववधूमनस्तापो वाक्या- र्थत्वेन लक्षित इत्ययमिद्चितलक्ष्यः प्रतीयमान: सूक्ष्मभेद: ॥ अत्र प्रतिवचनादानमिति। नहि प्रतिवचनप्रदानाभावमात्रमत्र चमत्का रकारि, तस्मादन्यथापि संभवात, अतः प्रतिवचनप्रदानाभिप्राया विपरीतचित्तवृत्ति- विशेषोन्नायिका समीपदेशापसरणादिलक्षणा करिया काचित्प्रतिवचनाप्रदानपदेना- भिमता। न च प्रकोपोऽप्यनुभवरूपतामनासादयन्खादनीयतामासादयतीति नूनं वेनापि भूभन्नादिरूपा कियैवाभिसंहितेत्याशयवतोक्तमितिताभ्यामिति। यद्येवं तद्ि काव्यशोभानिर्वाहात्किमन्येन लक्षिते नेति। नहि यथोक्तप्रतिवचनाद्दा- नप्रकोपाभ्यां कथ्िविद्विवक्षितार्थलाभ इति भाव: ॥। प्रतीयमानमेवाकारलक्ष्यं यथा- 'सामाइ सामलीए अद्धच्छिप्पलोअमुहसोहा। जम्बूदलकअकण्णावअंसे भमिरे हलिअउत्ते ॥। ५२ ॥' [श्यामायाः श्यामलतया अर्धाक्षिपलोक(न)मुखशोमा। जम्बूदलकृतकर्णावतंसे भ्रमति हलिकपुत्रे ॥]
तंस इत्यनेन प्रत्याय्यमान: संकेतगमनग्रंशसंभवः श्यामाया मनसापो लक्ष्यत इत्ययमाकारलक्ष्यः प्रतीयमान: सूक्ष्मभेदः ॥
Page 430
३ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। २२७
तदेवोभयलक्ष्यं यथा- 'प्रयच्छतोचचैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्मिता। न किंचिदूचे चरणेन केवलं लिलेख बाप्पाकुललोचना भुवम् ५३'
गोत्रस्खलनोद्धवो मानिन्या मनस्ताप: प्रतीयमान इतीक्विताकारलक्ष्यः सूक्ष्ममेदः ॥ विभज्यमानस्य सरूपतया सूक्ष्मानन्तरमुत्तरलक्षणमाह- पदार्थानां तु यः सारस्तदुत्तरमिहोच्यते। स धर्मधर्मिरूपाभ्यां व्यतिरेकाच मिद्यते ॥ २३ ॥ पदार्थानां त्विति। सारः सर्वसायमानमुत्कर्षशालि वस्तु। पदार्थानामिति निर्धारणे पष्ठी। उत्तरमित्यन्वर्थ नाम । उत्कृष्टत्वमुदोऽर्थसतत्रैव प्रकर्षस्तरपः । धर्मधर्मिरूपाभ्यामिति। व्यस्तसमस्ताभ्याम् । धमे उपसर्जनं परप्रवणतया प्रतीयमानं वस्तु । अतथाभूतं तु धर्मिरूपम् । तदयमर्थ :- प्रसिद्धवस्तुमध्ये कस्य- चिदुत्कषवत्तया निर्धारणमुत्तरम् । तत्रिधा। धर्मरूप धर्मिरूपमुभयं च । आय्ययो: प्रत्येकं प्रकारद्यम् । निर्धार्यमाणस्य शुद्धस्योपादानं, निर्धार्यानुत्तरव्यतिरेकिधर्म- वत्तया वा । तदिदमाह-व्यतिरेकाच्चेति। अन्त्यस्यापि सामान्यविशेषरूप- तया रूपत्वमिति पद्प्रकारमुत्तरमिति ॥ तेषु धर्मस्वरूपं यथा- 'दानं विताहतं वाचः कीर्तिधर्मौ तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ।। ५४ ।।' अत्र दानसत्यकीर्त्यादीनां वित्तादिवस्तुघर्माणां सारभूतानामुद्धारादयं धर्मरूप: सारः । वित्तादिवस्तुधर्माणामिति । पथ्चम्या विभाग: प्रत्यायितः । स च संलेष- पूर्वक एवेति दानादीनामुपसर्जनताप्रतीतिः ।। २२ स० क०
Page 431
३३८ काव्यमाला।
धर्मिरूपो यथा- 'मधुविकचसितोत्पलावतंस शशिकरपल्लवितं च हर्म्यपृष्ठम् । मदनजनितविभ्रमा च कान्ता सुखमिदमर्थवतां विभूतयोऽन्याः॥' अत्र मधुप्रभृतीनां विभूतिभ्यः सारभूतानामुद्धरणादयं धर्मिरूपः सारः ॥ विभूतिभ्य इति । विभूतयः प्रथमानिर्दिष्टासेन पूर्ववजनामूषां धर्मिभावेन प्रतीतिभासोऽस्तीति विशिष्टमध्वादिरूपं वस्तुनान्गभावेन गम्यत इति।। अथ व्यतिरेकेण धर्मरूपो यथा- 'पोढमहिलाणं जज्जं सुसिक्खिअं तं रए सुहावेइ। जज्जं असिक्खिअँ णववहूणं तंतं रईं देइ ॥ ५६॥ [प्रौढमहिलानां यद्यत्सुशिक्षितं तद्तौ सुखयति। ेर ET यद्यदशिक्षितं नववधूनां तच्तद्रतिं ददाति ॥] अत्र प्रौटानां सुशिक्षितं सुरतकर्म, अप्रौढस्त्रीणां पुनरशिक्षितं सुख- यतीति कर्मान्तरलक्षणेभ्यो धर्मेभ्यः सुशिक्षिताशिक्षितरतकर्मलक्षणा धर्मा: स्त्रीधर्माव्यतिरेकेण प्रतिपाद्यन्त इति धर्मव्यतिरेकरूपोडयं सारः ॥ अग्रौढस्त्रीणामिति । षष्चा धर्मधर्मिभावोऽभिहितः । तहिं निर्धारणं कस्मादित्यत आह-कर्मान्तरेति । रत इत्यनेन सामान्यत उपादानात् प्रौड- स्त्रीसंबन्धिनो ललितस्प सुशिक्षितत्वं विशेषमुपादाय मुगधसत्रीसंबन्धिनोSशिक्षि- तत्वं व्यतिरेकी विशेष उपात्तः। व्यतिरेकेण धर्मिरूपो यथा- - 'राज्ये सारं वसुधा वसुधायां पत्तनं पुरे सौधम्। सौधे तल्पं तल्पे वराङनानऋसर्वखम् ॥५७॥' अत्र वसुघादयो धर्मिण उत्तरोत्तरक्रमेण पूर्वतः पूर्वतो व्यतिरि- च्यन्त इत्ययं धर्मव्यतिरेक: सारः ।।
Page 432
३ परिच्छेद: ॥] सरस्तीकण्ठाभरणम्। ३३९
अत्र वसुधाद्य इति । निर्धारिताद्वसुधामात्रात्पत्तनवती वसुधा व्यतिरि-
तदिदमुक उत्तरोत्तरक्रमेणेति॥ एतेन धर्मधर्मिसवरूपोऽपि व्याख्यातः । स द्विया। सामान्यतो विशेषतश्च । तत्र सामान्यतो यथा- 'गीतशीतांशुताम्बूलकर्पूरवनितादिभिः । असारोऽप्येष संसार: सारवानिव लक्ष्यते ॥। ५८ ॥' अत्र गीतादीनां जगतः सारभूतानामविशेषेणैव सर्वेषामुपादानाद्धेतु- तृतीयान्ततया च संसारसारवत्त्वेऽञ्रभावादयं सामान्यतो धर्मधर्मिरूप: सारः II अत्र गीतादीनामिति। नहि गीतादी किद्विशेष उक्कः । अत एवादि- शब्दोऽपि सजीवस्तथापि दध्यादीनामन्नभाव: प्रतीयत इत्वत आह-तृतीयान्त- तया चेति। तृतीयया हि कारकत्वमुक्तम्, कारकत्वं च क्रियोपसर्जनरूपमित्यर्थः ॥ विशेषतो यथा- 'अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः । मूर्धि गज्ञाप्रपातेन धौतपादाम्भसा च वः ॥ ५९ ॥' अत्र गङ्काप्रपातसप्तर्षिपादोदकयोर्विशेषेण सारभूतयोरुपादानाद्धिम- वतः पूतत्वे चाक्रभूतत्वादयं विशेषतो धर्मघर्मिरूपः सारः ॥ अत्र गङ्गाप्रपातेति। प्रपातपादोदकयोर्गज्ायाः सप्तर्षिमिथ्व विशेषितत्वाद- अतामुपपादयति-हिमवतः पूतत्वे चेति॥ व्यतिरेकोत्तरे विरुद्धधर्माक्रान्तिरस्तीति सक्त्या विरोधलक्षणमाह- विरोधस्तु पदार्थानां परस्परमसङ्गतिः। असङ्गतिः प्रत्यनीकमधिकं विषमय सः ॥ २४॥
Page 433
३४० काव्यमाला।
विरोधस्त्विति। परस्परमसन्ञतिरसंबन्धः, सहानवस्थानमिति यावत् ।तेन सहानवस्थाननियतयोः सहानवस्थानोक्तिर्विरोध इति तात्पर्यम् । संक्षेपः स घ प्ररडो दोषः । अप्ररोहस्तु द्विधा । शेषोपधानेनान्यथा चान्यथाभावखत्रिधा। सहानवस्थितयोः प्रायोदर्शनमात्रेण नैयत्यारोप: । यथा-'क युवतिमार्दव'मित्यादी विरुद्धधर्मोकतिविषयस्याचिन्त्यप्रभावातिशयत्वेन प्रसिद्धिवा । यथा 'दिग्वासा यदी'- त्यादी विरोधस्ारोपमात्रेण सरूपतया प्रतिपत्तिमात्रं वा । यथा 'सा उप्पडी' त्यादौ। सर्वथ्चायं विरोधोऽभिधीयमान: प्रतीयमानक। अथादिशव्देन योऽमिधीयते सोऽभिधीयमानः। प्रतीयमानस्तु तद्विनाकृतो यथा भट्वाणस्य 'यत्र मातऋ्गामिन्यः शीलवत्यथ् गौर्यों विभवरताथ श्यामा: पद्मरागिण्यथ् धवलद्विजशुचिवदना मदि- रामोदिश्वसना: प्रमदाः' इति। इहान्येरलंकार कारैरसंगतिप्रत्यानीकाधिकाविषमार्य- मलंकारचतुष्टयं विरोधात्पृथगलक्षितम्। तल्वक्षणानि-'विरद्कार्यसंप्राप्तिर्भवेत्तेनैव हेतुना। परिमाणादियोगेन व्यवस्थानमुपेयुषः॥ अव्यवस्थाभिधानं यदधिकं ततप्न- चक्षते। कारणेन विरूपं यत्कार्यमुक्तवदुच्यते।। आश्चर्यकारि तत्प्राहुर्विषमं शब्द- बुद्यः ।' इति। तदेतेषां लक्षणामेदाद्विरोध एवान्तर्भावो न ह्यवान्तरभत्रिमेद- ·मात्रेण सामान्यान्तर्भावो न भवतीत्याशयवानाह-असङ्गतिः प्रत्यनीकमिति॥। तेषु विरोष: शुद्धो अथितश्र। तयोरादो यथा - 'क युवतिमार्दवं क च महाहवदारुणता क च वलयी करः क करिदन्तजमुष्टिरसिः । क च नवयौवनं क कुसुमायुघनिःस्पृहता तव ललनाविचेष्टितविरुद्धमहो ललितम् ॥ ६० ॥' अत्र युवतिमार्दवादीनां महाहवदारुणतादीनां च शुद्धानामेव पर- स्परमसंगतत्वादयं शुद्धविरोध: ।। शुद्धानामेवेति । एकेनैव प्रतियोगिना सहानवस्थानोक्ती विरोधनिर्वाहात्।। द्वितीयो यथा- 'दिग्वासा यदि तत्किमस्य धनुषा शस्त्स्य किं भसना भस्माथास्य किमजना यदि च सा कामं परिद्वेष्टि किम्।
Page 434
३ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ३४१
इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजखामिनो भृन्जीसान्द्रशिरावनद्धपरुषं धत्तेऽस्विशेषं वपुः ॥ ६१ ॥'
नामा विरोधमेदः ।। उत्तरोत्तरग्रथनादिति। यद्यप्येकेन विरोधिना सहोकौ विरोध्यन्तरेणापि तथा भावमासादयनेव अथितस्तथाप्युत्तरप्रथनया शोभाविशेषार्पको भवतीत्यभि- प्रायः॥ असक्रतिर्यथा- 'सा उप्पडी गोठ्ठउहि णोक्खी कावि विसगण्ठि। मिडिय पचेलिड सो मरइ ज्स्स ण लम्गइ कण्ठि ।६२।।' [सा उत्पन्ना गोष्ठमुवि नवीनैव कापि विषग्रन्थिः। भिद्ते प्रत्युत स म्रियते यस न लगति कण्ठे ।] अत्रायं विषग्न्थिर्यस्य कण्ठे न लगति स म्रियत इत्येतयो: परस्प- रमसङ्कतेरयमसङ्गतिर्नाम विरोध: । गोठ्ठउहीति। गोष्ठे। णोक्खी अपूर्वा। कावि विसगण्ठि कापि विषग्रन्थिः । 'रोमाव्वादयस्त्रियाम्' इति स्त्रीलिग्वता । पचेलिउ प्रत्युत । विषग्रन्थे: कण्ठसंबन्धेन मारकत्वं प्रतीतम्। वर्ण्यमानाया रूपस्य तथाभूतस्वैवेति व्यक्तो विरोधः ॥। प्रत्यनीकं यथा- 'उत्कण्ठा संतापो रणरणको जागरस्तनोखनुता। फलमिदमहो मयापं सुखाय मृगलोचनां दृद्ा ॥। ६३॥। अत्र मृगलोचनादर्शनस्यैव किल निर्वृति: फलम्। मया तु तां दृष्टा- न्तस्ापादिकं मयाप्तमिति प्रत्यनीकफलत्वादयं प्रत्यनीकाख्यो विरोघ: ॥ अत्र मृगलोचनादर्शनस्यैवेति । यद्यप्येकस्य विरुद्धं कार्यकारित्वं न विरुद्ध, तथापि ययैव प्रवृत्त्या किचित्कार्य कर्तुमुद्यतो न तयेब तदिरुद्वं करोति तदेतत्सुखायेति चतुर्थ्या दयोलयते॥
Page 435
३४२: काव्यमाला।
अधिको यथा-तण एको दाशरथिः कामं यातुधानाः सहसशः । क ते तु यावन्त एवाजौ तावद्वा दद्दशे स तैः॥ ६४ ॥ अत्रैकस्य दाशरथेरनेकसंस्यैर्यातुधानैर्यत्समरकर्म तत्र तैरस्य तावद्वा दृश्यमानत्वेनैकसंख्याविरुद्धमाधिक्यं गम्यत इत्ययमधिकाख्यो विरोधः।। विषमं यथा- 'दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः। चकार यस्याध्वरधूमसंचयो मलीमसः शुक्कतरं भवदयरः।६५॥' अत्र मलीमसाध्वरधूमसंचयेन यद्यशसः शुक्रीकरणं तद्यदादृशादेव जायते तत्तादृगेव भवतीति प्रसिद्वेर्वैषम्यात्परस्परमसङ्गतेरयं विषमाख्यो विरोधः ।। सामभ्येकदेशसद्धावमात्रेण कार्यसद्धावे स्थिते विरोधच्छायामूलत्वमिति तद- नन्तरं संभव: प्राप्तावसर इत्याह- प्रभूतकरणालोकात्सादेवमिति संभवः। स विधौ वा निषेधे वा दये वा न दूयेऽपि वा॥२५॥ प्रभूतेति। भूयांसि कारणानि दृष्टा कार्यमुत्पत्स्यते नापि दैवात्कदाचिन्र स्यादिति ज्ञानसंभवः । न चार्य संशय एव नहि स्याद्वा नवेति दोलायते। नापि बितर्कों व्याप्यारोपस्याभावात् 1 क तर्तयमन्तर्भवति न कचित्, ज्ञानान्तरस्येवोच्यमानत्वात्,
लात्। त्रान्ती तु सिद्धायां बाधोत्पत्तिरिति वक्ष्यते 'स विधी वा निषेधे वा' इति। संभवो विषयनियतो विधिनिषेधोभयानुभयरूपश्रतुर्विधो विषयः। अप्रवृत्तप्रवर्तनं द्विरूपम् । प्रयोजकगतं प्रयोज्यगतं च। आयं प्रत्युत््यार्ये शब्दालंकारे विधि- द्वारेणेल्यनेनोक्तम्, द्वितीयं तु भूतभवनलक्षणमिहोच्यते। संप्रसक्तस्याभावो निषेष: । एतेनोभयानुभयरूपी व्यारयाती।।
Page 436
३ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। ३४३
एपु विधिविषयो यथा- 'त्वय्यादातुं जलमवनते शार्ह्रिणो वर्णचौरे तस्याः सिन्धोः परथुमपि तनुं दूरभावात्मवाहम्। प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी- रेकं मुक्तागुणमिव भुबः स्थूलमध्येन्द्रनीलम् ॥ ६६ ।।' अत्र त्वयि जलमादातुमवनते सति तस्याः सरितः प्रवाहो मध्यनि- विष्ेन्द्रनीलमणिर्मुक्तागुण इव गगनगतिपेक्षणीयो भविष्यतीति विघे: संभाव्यमानत्वादयं विधिविषयः संभव: ॥ अत्र त्वयि जलमिति । अप्रेक्षणीयस्य प्रेक्षणीयताभवनं विधिः ॥ निषेधविषयो यथा- 'परस्य भूयान्विवरेSभियोगः प्रसद्य संरक्षणमात्मरन्त्रे। भीष्मेऽप्यसभाव्यमिदं गुरौ वा न संभवत्येव वनेचरेषु ॥ ६७॥ अत्रेदं भीष्मद्रोणयोरसंभाव्यमानं धनुर्वेदकौशलमस्मिन्वनेचरे न सं- भवतीति निषेधविषयः संभवः ॥ अस्मिन्वनेचर इति । परविवराभियोगे खविवररक्षारूपबहुतरकारणालो- काम्ायं वनेचर इति निषेध एव संभाव्यते॥ विधिनिषेधविषयो यथा- 'उत्पश्यामि द्रुतमपि सखे मत्मियार्थ यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते। मुक्तापाङै: सजलनयनैः खागतीकृत्य केका: प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ ६८।। अत्र द्रुतमपि यियासो: कालक्षेपं तवोत्पश्यामीति विधिरूपः कथ- मपि न भवान् गन्तुमाशु व्यवस्येदिति निषेधरूपस्तदेवं विधिनिषेध- योरसंभाव्यमानत्वादयमुभयविषयः संभवः ॥ ३॥
Page 437
३४४ काव्यमाला।
काल्षेपं तवोत्पश्यामीति । उत्पश्यामि संभावयामि। अकालक्षेपवतः कालक्षेपभवनं विधिः । कथमपीति काकूपस्थितो गमनाभावो निषेधः । न चवाच्यं द्ावत्र संभवी। तथा च नैकोऽप्युभयविषय इति। यतो यैव कालक्षेपसामग्री सैव शुक्रापाऔ्वैरित्यादि कारणसहकृता निषेधमपि विषयीकरोति। अतः संभवमेदेन किचित्प्रमाणमिति ।। अनुभयविषयो यथा- 'तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी iत्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्मः। संसर्पन्त्याः सदसि भवतः स्त्रोतसि च्छायया सा स्यादस्थानोपगतयमुना संगमेनाभिरामा ॥। ६९।' अत्र यदि त्वमेवं कुर्यास्तदैवं स्यादिति विधिनिषेघयोरनवगतेरयम- नुभयविषयः संभवः ॥ अत्र यदि त्वमेवं कुर्या इति। न तावदत्राभावः प्रतीयत इति न निषेध- संभव: । विधिसंभवोऽपि नास्ति । यो हि व्यवस्थितकारणदर्शनेन व्यवस्थितस्पैव भवनस्य संभव: स विधिसंभवशब्देनामिधीयते, नचेह तथा। तदिदमुक्तं अनव- गतेरिति। एतेन विधिनिषेधयोर्विकल्पविषयोऽपि व्याख्यातः। यथा- 'यदि भवति मुखानां वाक्पटूनां सहसं निरुपममवधानं जीवितं चातिदीर्घम्। कमलमुखि तथापि क्ष्मापतेस्तस्य कतु सकलगुणविचारः शक्यते वा नवेति ॥ ७०॥' तदेतन्निगदेनैव व्याख्यातम्।। तदेतन्निगदेनेति । परस्परव्यभिचारिणोरेकत्र सभाव्यमानत्वादिति व्यकी विकल्प इत्यर्थ: ।
Page 438
३ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ३४५
पूर्वेषां संभवलक्षणमुपन्यस्य दूषयति- द्रोणस्य संभवः खायो शते पञ्चाशतो यथा। तथान्ये संभवं प्राहुः सोऽनुमानान भिद्यते ॥ २६॥ मिद्यते तु यद्यनिश्रयः स्यात्। द्रोणस्येति। समुदायज्ञानादेकदेशज्ञानसंभव इति प्राच्यानामभिप्रायः। तथा च समुदायस्य समुदायिव्याप्तत्वादियं खारी द्रोणवती खारीत्वादिति मुलभम्। अनुमान एवास्यान्तर्भाव इत्यर्थ: । कथं तहि तवापि संभवो भिद्यते सामग्री कार्यव्याप्तेति तत्राप्यनुमानमेव भविष्यतीत्यत आह-भिद्यत इति। नहि सामग्री दृष्टा यतः कार्यमनुमीयते, किंतु प्रभूतकारणदर्शनेन कार्यस्य ज्ञानमन्यदेवोत्पयत इति वक्त- व्यम्। तथा चास्माकं दर्शने युक्तः पृथग्भावः।। यस्तूदाहरणविश्ेषं न प्रतिसंधत्ते तं बोधयितुमुदाहरणान्तरमाह- यथा-
प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम्। त्वय्यासन्ने नयनमुपरिस्पन्दि शक्के मृगाक्ष्या मीनक्षोभाकुलकुवलयश्रीतुलामेष्यतीति॥ ७१॥ अत्र यथा खारयी द्रोण: शते पञ्चाशदिति नियमो नैवं विप्रल- ममेडलकानाम कल्पनमनज्जनमक्ष्णोर्मधुनो वा प्रत्यादेशः, सुहृदुदन्तला- भारम्भे वा नयनस्पन्दनानि, संभाव्यन्ते च प्रभूतकारणलोकादित्येषोSपि विधिरूप एव संभव इति। रूद्धापाङ्गेत्यादि। एवं विश्लेषदुःखेन कर्शिता यथाउचेतनामप्यलकानां करुणो- त्पननैव लक्ष्यते। तस्मादियं मा जलधरं द्राक्षीदिति निसर्गचपलस्यापान्नस्व प्रसर- मवरुन्धन्ति । ल्रेहपदेन नयनानयोरनुपधिरनुबन्धो व्यज्यते। तेन मिथो मैत्रीयोग्यत्वम् । तेन तन्नयनादन्यत्र नाजनं कान्तिमाप्नोतीति कोऽपि लावण्य- प्रकर्षस्तथाभूतस्याप्यजनस्य त्यागे यदेकतानतया नात्मानमपि प्रतिसंधातुं समर्थेति व्यनक्ति। एवं संपदान्तरेध्वपि खरसोऽनुसंघेयः। विप्रलम्भरूपकारणालोकाचचोपरि-
Page 439
३४६ काव्यमाला।क
नयनस्पन्दनं संभाव्यत इति संभवद्धयमत्रेति व्याख्यानेन स्फुटयति-अत्र यथा सार्यामिति॥ परस्परोपकारकयोरेकस्य विशेषं दष्ट्रापरस्य विशेषो ज्ञायत इति संभवसाम्यात्त- दनन्तरमन्योन्यलक्षणमाह- अन्योन्यमुपकारो यस्तदन्योन्यं त्रिधा च तत्। वाच्यं प्रतीयमानं च तृतीयमुभयात्मकम् ।२७॥ अन्योन्यचूलिकान्योन्यभ्रान्तिरन्योन्यमेकता । अन्योन्यालंकृतेरन्तस्रयमेतदिहेष्यते ॥२८॥ अन्योन्यमिति। विशेषार्पणमुपकारो न चैयं परिवृत्तिः स्थितस्यानपनयनात् दानप्रतिदानाभावाच 1 विशेषस्तु नानारूपस्तद्वाक्यार्थीभूतरसानुगामितया तत्र तत्रोज्ीयते। विभागं दर्शयति-त्रिधेति । अभिधीयमानं विशेषतः शब्देनो- पात्तं सामान्यतः शब्देन विषयीकृतं विशेषतस्तु प्रतीयमानमेवेत्युभयात्मक्म्। द्वाभ्या- मन्यतोऽप्रतीयमानम्। अन्यान्यचूर्लिकादिलक्षणानि ग्रन्थकार एव स्फुटीकरिष्यति॥ तेष्वभिधीयमानमन्योन्यमिह यथा- 'कण्ठस्य तस्य स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य। अन्योन्यशोभाजननाड्वभूव साधारणो भूषणभूष्यभावः ।। ७२॥।' अत्रान्योन्यशोभाजननेत्यादिनोपकार्योपकारकभावस्य द्वयोरप्यमिहि- तत्वादभिधीयमानमिदमन्योन्यम् ।। कण्ठस्येति। बन्धुरो नम्रः । निस्तलो बर्तुलः ॥ प्रतीयमानं यथा- 'उद्धच्छो पिअइ जलं जह जह विरलङुली चिरं पहिओ। पाआवलिआ वि तह तह धारं तणुअम्पि तणुपई ।। ७३॥' [उदर्षः पिध्रति जलं यथा यथा विरलान्नलिश्चिरं पथिकः । प्रपापालिकापि तथा तथा धारां तनुमपि तनुकरोति ॥]
Page 440
३ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ३४७
अत्र पथिकप्रपापालिकयोर्मिथोऽनुरागे यदेकस्य विरलाङ्कुलिना करेण पानीयपानमन्यस्या: सुतरां वारिधारातन्करणं तेन परस्परमुपका- र्योपकारकभावात्मतीयमानमिदमन्योन्यम् ।। अत्र पधिकेति । मिथोऽनुराग इत्यनेन परस्परानुरागसंवर्धनमेवात्र विशेषा- र्पणमिति मतम्। तथा हि करस्य विरलाह्कलिकरणे कथमहमेता चिराय पश्यामीति प्रपापालिकाभिप्राय एव वर्षितो भवति। एवमपि वारिधारातनूकरणे, बोदव्यम्। न चायमेवंविधोऽर्यं: केनापि शब्देनाभिहित इति भवति प्रतीयमानता वकतृप्रतिपा- ययादिविशेषपर्यालोचनेनैव ध्वननमुन्मिषति ।। प्रतीयमानाभिघीयमानं यथा- गोलाविसमोआरच्छलेण अप्पा उरम्मि से मुक्को। अणुअम्पाणिद्दोसं तेण वि सा गाढमुअऊढा।। ७४॥' [गोदाविषमावतारच्छलेन आत्मा उरसि अस मुक्तः । अनुकम्पानिर्दोषं तेनापि सा गाढमुपगूढ़ा ॥] अत्र गोदावरीविषमावतारव्याजेन तया तस्योरसि आत्मा क्षिप्तस्ते- नाप्यनुकम्पा निर्दोषा सा गाढमुपगूढेत्यभिधीयमान: परस्परमनुरागादुप- कार्योपकारकभावः प्रतीयत इत्युभयात्मकमिदमन्योन्यम्।। अत्र गोदावरीति । पूर्ववत्प्रतीयमानोऽपि परस्परमुपकारस्थलेनानुकम्पा- निर्दोषशब्दाभ्यामभिधया स्पृश्यत इत्युभयरूपम्। न च शब्दोपात्ते कि ध्वननेनेति वाच्यम् । भिन्नविषयत्वात्।। अन्योन्यचूडिका यथा- 'शशिना च निशा निशया च शशी शशिना निशया च यथा गगनम्। भवता च सभा सभया च भवान् सभया भवता च तथा भुवनम् ७५" अत्र निशाशशिनो: समाभवतोश्र परस्परमुपकार्योपकारकभावे वर्त- मानयोर्यदिदं गगनं जगती च प्रसिद्धयोरुपकारकत्वचूडिकेवोपर्युपरि लभ्यते सेयमन्योन्यचूडिका ।I
Page 441
३४८ काव्यमाला।
अत्र निशाशशिनोरिति। चूडिका शिखा। सा यथा शरीरतद्वयवेभ्यो भिन्नवोपलक्ष्यते तथात्रापि निशाशशिनो: सभाभवतोः परस्परमुपकारकत्वमभि- संधाय दयोईयोर्गगनजगती प्रत्युपकारकत्वमन्यदेवाभिधीयते। न चैतावतैव विशेषेण पृथग्भावोऽन्योन्यालंकारकवलीकृतस्यैव तस्य संभवात्। अन्योन्यभ्रान्तिर्यथा- 'जम्बूनां कुसुमोत्करे नवमधुन्यारब्धपानोत्सवाः कीरा: पक्कफलाशया मधुकरीश्ुम्बन्ति मुश्चन्ति च। 'एतेषामपि नीलकिंशुकदलैरेमिः समानत्विषां पुष्पभ्रान्तिभिरापतन्ति सहसा चञ्चपु भृङ्गाङ्कनाः ।।७८।।' अत्र जम्बूकुसुमकुञ्जस्थितमधुकरीषु शुकशकुन्तानां या पक्कजम्बूफ- लभ्रान्तिर्या च मधुकरीणां शुकचभ्ुषु किंशुककुसुमभ्रान्तिः सेयमन्यो-
तसादृश्यमूल्यया एव । तथा च चमत्कारिवस्त्वन्तरोपमापर्यवसायित्वमिति त्रान्ति- संसर्ग एव विशेषार्पण उपकारः । अन्योन्यवचनेन परस्परगामिता तस्य तेनैव दर्शितेत्यन्योन्यलक्षणाश्ेषात्कर्थं पृथग्भवतीति। एतेनान्योन्यैकता व्यारूयाता ॥L अन्योन्यात्मकता यथा- 'प्रफुल्लतापिच्छनिभैरभीषुमि: शुभैश्र सप्तच्छदपांसुपाण्डुभिः । परस्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः ॥।७७॥' अत्र श्यामपाण्डुतयोः परस्परव्यतिरेकेणैकवर्णकरणादन्योन्यमेकता
परस्परनिरूप्यतासाम्यात्कमप्राप्तां परिवृत्ति निरुपयति- व्यत्ययो वस्तुनो यस्तु यो वा विनिमयो मिथः। परिवृत्तिरिहोक्ता सा काव्यालंकारलक्षणे॥ २९ ।।
Page 442
३ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ३४९
व्यत्यय इति। वस्तुस्थितिविपर्यासवचनं परिवृत्तिरिति स्फुटमेव लक्षणम्।। सा त्रिधा व्यत्ययवती तथा विनिमयात्मिका । तृतीया चोभयवती निर्दिष्टा काव्यसूरिभिः ॥ ३० ॥ सा त्रिधा-एकस्थानस्थितस्य वस्तुनः स्थानान्तरप्राप्तिवचनेन, दानप्रतिदा- नवचनेन, उभयवचनेन वा। तदाह-सा त्रिधेति॥ सर्वत्र मुख्यवृत्त्या गौणवृत्तिव्यपाश्रयेण वा तथाभावोकतिरिति पदप्रकारत्वं दर्शयति- त्रिधापि चासौ मुख्यामुख्यमेदाह्िघाभूय घोढा संपद्यते। तासु व्यत्ययवती मुख्या यथा- 'कुमुदवनमपश्रि श्रीमदम्भोजपण्डं त्यजति मुदमुदकः प्रीतिमांश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरखं हृतविधिलसितानां ही विचित्रो विपाकः ॥। ७८॥' अत्र यत्कुमुदवनादीनामपश्रीकत्वादिकं यच्चाम्भोजखण्डादीनां श्रीमत्त्वादिकं मुख्यमेव प्रातरुपलभ्यते, सेयं व्यत्ययवती मुर्या नाम परिवृत्तिः ।। त्रिधापि चासाविति। कुमुदवनमिति । कुमुदवनादुलकाद्िमरदमे: श्रीमत्त्वं प्रीतिरुदयश्वापसृतानि प्राप्तानि पुनरम्भोजखण्डचकवाकीहिमांशनामिति व्यक्तो व्यत्ययः । मुख्यत्वं ग्रन्थ एव व्यक्तम् ॥ व्यत्ययवत्यमुख्या यथा- 'जो तीअ अहरराओ रतिं उद्यासिओ पिअअमेण । सोच्िअ दीसइ गोसे सवत्तिणअणेसु सङ्न्तो ।। ७९ ॥' [यस्तस्ा अधररागो रात्रावुद्धासितः प्रियतमेन। स एव दृश्यते प्रातः सपत्रीनयनेषु संकान्तः ॥] अत्र प्रियतमेन रात्रावुद्वासितस्याधररागस्येयं सपल्नीलोचनेपु संकान्ति: ।।
Page 443
२५० काव्यमाला।
Iअत्र प्रियंतमेनेति। ताम्बूलादिहेतुकोऽन्य एवाधररागोऽन्यथ मत्सरहेतुकः कषायताउक्षणो नयनगामीति तयोरमेदाध्यवसायो यत्तत्पदाभ्यां प्रतीत इति गौणी वृत्तिः । प्रकाशते च शब्दवृत्त्याधरस्थानस्थितस्य नयनस्थानप्रापिरिति तावतै- वालंकारनिर्वाह: ॥ विनिमयवती मुख्या यथा- 'प्र&योतन्मदसुरमीणि निम्नगायाः क्ीडन्तो गजपतयः पयांसि कृत्वा।
रुत्तेरु: सरसिजगन्धिमि: कपोलैः ॥। ८० ॥' अत्र करिकपोलमदामोदस्याम्भोजरजःपरिमलस्य च सरित्सलिलद्वि पकपोलपाल्योर्मुख्यत्वेनैव परस्परोपकरणादियं विनिमयवती मुख्या नाम परिवृत्तिः ।। अत्र करिकपोलेति । गजेन्द्राणां मदयासमचन्द्रकयो:(?) खाश्रितयोर्नदीपु संक्ामणं नदीस्थितयोक् किजल्काम्भोजपरिमलयोर्ग्रहण तेन दानप्रतिदानवत्तया विनिमयो भवति॥। विनिमयवत्यमुख्या यथा- 'तस्य च प्रवयसो जटायुष: खर्गिण: किमिह शोच्यतेऽघुना । येन जर्जरकलेवरव्ययात्क्ीतमिन्दुकिरणोज्ज्वलं यशः ॥ ८१॥ अत्र जर्जरकलेवरं दत्वा शशिकिरणशुम्रं यशः कीतमित्यमुख्ययैव वृत्त्या विनिमयोक्तेरमुख्येयं विनिमयवती परिवृत्तिः ॥ अत्र जर्जरेति। मूल्यार्पणकयणयोरत्र वाधायक्त एवोपचार:, शब्दवृत्तिस्तु पूर्ववदेव कुण्ठैवेति भवति विनिमयः ॥ उभयवती मुख्या यथा- 'लोचनाघरकृताहृतरागा वासिताननविशेपितगन्धा। वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं च वितेने ।।८२।।'
Page 444
३ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ३५१
अत्र वारुण्या यदधराद्रागोऽपहृत्य चक्षुषोर्निक्षिप्तस्तेनेयं व्यत्ययवती, यच्च मुखामोदवासितया स्वामोदेन मुखामोदो विशेषितस्तेन विनिमय- वती। तदियमुभयथापि मुख्यवृत्त्यैवोक्तेति मुख्येयमुभयवती परिवृत्तिः॥ लोचनाधरेति। लोचनाधरयोर्यथासंख्यं कृत आहतो रागो यया तेन लोचने कृतोऽधरादपनीत इति व्यत्वयः । वासिते आनने विशेषितो गन्धो यस्याः सा तथा। तेन तया मुखं वासितं मुखेन च सेति भवति विनिमयः । परगुणात्म- गुणानामिति । परगुणानामिति परगुणानां व्यत्ययः, आत्मगुणानां विनिमय इति संबन्ध: । कर्तृत्वमुत्प्रेक्षितं तदेतद्दर्शयति-अत्रेति॥ उभयवत्यमुख्या यथा- "किं चित्रं यदि देवेन भूभृत: करदीकृताः । देवोऽपि दापितः किं तै्न पुनः पृष्ठतः करम् ॥ ८३॥' अत्र भूभृतामकरदानां यत्करप्रदानं जिगीषोश्च यत्पृष्ठे हसतनिक्षेप: स एव द्रव्यगुणादीनां स्थानादिपरिवृत्तौ व्यत्ययो, यच् देवेन भूभृतः करदीकृता: देवोऽपि तैः पृष्ठतः करं दापित इति सोऽयं दानप्रतिपाद- नलक्षणोऽपि विनिमय इत्येतदुभयमपीह श्विष्टपदाभिघेयत्वादमुख्यवृ- त्यैवोच्यमानमुपलभ्यत इत्युभयवतीयममुख्या परिवृत्तिः ॥ रप एकत्र प्रतीतस्थान्यत्र प्रत्ययः परिपृत्तौ; तथा निदर्शनेऽपीति तदनन्तरं निद- शनं लक्षयति-पगा दष्टान्त: प्रोक्तसिद्धै यः सिद्धेऽर्थे तन्निदर्शनम्। पूर्वोत्तरसमत्वे तदजु वक्रं च कथ्यते । ३१ ।। दष्टान्त इति। प्रोक्तस्य प्राकरणिकस्य सिद्धिर्निश्रयः। नन्वनुमानाव्मपि दृष्ठान्ताभिधानं पृथगलंकार: स्यादित्यत आह-सिद्धेऽर्थ इति । सिद्ध एवायें कंचिद्विशेषमावेदयितुं दृष्टान्तोकिर्निदर्शनम्, साध्ये त्वर्थेऽनुमानमिति विभागः। पूर्व दार्शन्तिकोकि समाप्य पश्चाहृथन्तोिरिति द्वितीयः । एकयैवोक्त्या दृष्ान्त- दार्ष्टान्तिकयोरुच्िरिति तृतीयः। तदाह-पूर्वोत्तरसमत्व इति। यत्र शब्दत
Page 445
३५२ काव्यमाला।
एवं तुल्येतिवृत्तता दृष्ठान्तदार्थन्तिकयोरनुगम्यते तडजु निदर्शनम्। यत्र तु पर्यवसितायामुक्ती सहृदयपर्यालोचनया तद्दकम् । तदेतदाह-ऋजु वक चेति। तेन निदर्शनस्य षड् मेदाः ॥ तेषु पूर्वमृजु यथा- 'उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् । विभावयति भूतीनां फलं सुहृदनुग्रहः ।। ८४ ।' अत्र ऋजूक्यैव पूर्व दृष्टान्तः पश्चाद्दार्ष्टान्तिकं प्रदर्शितमितीदमृ- जुपूर्व च निदर्शनं सूर्यदृष्टान्तेन विभूतीनां ुहृदनुग्रहः फलमिति ज्ञापयति । सूर्यदृष्टान्तेनेति। ऋद्िभिः सुहृदनुगृ्पत इति सिद्धोऽर्थंः, किंतु तदेतदेव तासा फलमिति विशेषमभिधातुं सूर्यदष्टान्तोपन्यासः । अत्र समृद्धताफलं सुहत्त्व- मनुग्रहत्वं चेति शब्दत एव सूर्यादिषु दृष्टान्तदार्थ्टन्तिकाभिमतेषु प्रतीयत इति ऋजुत्वमित्यर्थ: ॥ तदेवं वक यथा- 'पाणउडी अवि जलिउण हुअवहो जलइ जण्णवाउम्मी। णहु ते परिहरिअव्वा विसमदसासण्ठिआ पुरिसा ।। ८५।।' [पानकुटीमपि ज्वालयित्वा हुतवहो ज्वलति यज्ञवाटमपि। नहि ते परिहर्तव्या विषमदशासंस्थिताः पुरुषाः ॥] अत्रापि पूर्व दष्टान्तः पश्राद्दार्टान्तिकम् । किंतु यथा पूर्वत्रोदय- मान: सविता सुहृत्पद्रेषु श्रियमर्पयतीति तुल्येतिवृत्तता ऋजूक्त्या शब्देनैवामिघीयते, नैवमत्र किं तर्हि ज्वलनेतिवृत्तेन तुल्यं तत्तु तत्पु- रुपाणामितिवृत्तमशाब्दं युक्तिचातुर्यात्पतीयते तदिदं पूर्व च वक्र निदर्शनम् ॥ पाणउडीति। पाणपद म्लेच्छदेशीयम् । पाने कुटी शौण्डिककुटी वा। अत्रापीति। दथ्टन्तेऽपि पानकुटीज्वलनादिकं विशेषणमुपात्तम्। न च तद्दार्थ्-
Page 446
३ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। ३५३
न्तिके संभवति शब्देन वा प्रत्याय्यते; किंतु बिम्बप्रतिबिम्बन्यायेनात्र भवति। तथा हि यथा पानकुठ्यां हुतवहस्य ज्वलनं यज्ञवाटे च तथाव्यवस्थितचित्ततया आ्रमीणाविदग्धयुवतिप्रसक्तो भूत्वान्यत्र नागरिकासु विदग्धासु रज्यते सोऽपि न लयाज्य इत्युक्तिचातुर्यात्तुल्येतिवृत्तता गम्यतेऽतो वकत्वमित्याह-किंतु यथेति॥ उत्तरमृजु यथा- 'हिअअ तिरच्छीयइ संमुहपच्छा गहिअकडक्खास्स। पहिअ एकेज्जे गोरडी णं चउहृट्ट उवच्छ । ८६ ।' [हृदये तिरश्रीना संमुखप्राप्ता पश्राद्महीतकटाक्षास। पथिकसैकैव गौरतरा ननु चतुष्पथे त्रजति ॥] अत्र ऋजूक्या शब्द एवामिधीयमानसाधम्य दार्ष्टान्तिकमभिधायो- त्तरकालं दृष्टान्तोऽमिहितस्तदिदमुत्तरमृजु निदर्शनम् ।। हिअपति। विच्छित्तिपथिकस्याभिलाषिता या योषित्सा एकेव। हृदये स्मरणा- रूढा सती लमा अतएव तिरच्छीयइ तिर्यकशल्यायमाना पथिकसंमुखाभिमुखस्य तस्प चलितत्वात्। पथाच् गृहीतकठाक्षा पश्चाद्जूतेन गृहीतश्रमत्कृतः कटाक्षो यस्याः । एकेजे एकैव। जिरवधारणे। णं ननु चतुष्पथे कचिित्संमुखतां कश्ित्तिरध्ीनतां कश्चित्पथाद्धावं धत्ते; गौरी तु पथिकस्यैकेव तथेति। अत्र ऋजूच््या शब्दत एवेति । तिर्यक्त्वादीनामुभयगामिनां शब्देनोपादानात्प्रतीतिमात्रेण चालंकार- निर्वाह: ॥ तदेव वक्रं यथा- 'उपरि घनं घनपटलं दूरे दयिता किमेतदापतितम्। हिमवति दिव्यौषधयः कोपाविष्टः फणी शिरसि।८७॥' अत्रापि दार्ष्टान्तिकमभिघायोत्तरकालमेव दृष्टान्तो विहितस्तदिदमु- त्तरं ऋजु निदर्शनम्; किंतु यथा पूर्वस्मिन् हृदये तिर्यगित्यादिभि: शब्द एव ऋजूक्त्या साधर्म्याभिधानम, नैवमत्र तथा; अपि तु किमेतदाप- तितमित्युक्तिचातुर्येण विपर्ययेण च लिङ्रसंख्या यथासंख्यानाम्। तदे- तदुत्तरं वक्ं च निदर्शनम्। २३ स० क०
Page 447
३५४ काव्यमाला।
अपि तु किमेतदापतितमित्युक्तिचातुर्येणेति। ननु च उपरील्यनेन व्यवधानमुपातं दृष्टान्तेऽपि शब्द एव प्रतिफलति तत्कथ वकत्वमित्यत आह- विपर्ययेणेति । घनपटलं नपुसकम्, फणी पुमान्, दयिता चैकवचनवती, ओषधयो बहुवचनालिक्िताः । घनपटलं पूर्व दार्ष्टान्तिकमुपकम्य दृथ्न्तोक्ती न पूर्व फणी निर्दिष्टः। ततो लिन्नसंर्यानां विपर्ययो भवति, तदयमर्थन शब्दत एवो- परि पर्यवस्थानं दूरत्वं च दृष्टान्तयोः प्रतीयते; शिरसि हिमवतीलयेताम्यामन्यथाकारं बोधितत्वात्। फलतस्तु स एवार्थ इति वकतवेति। सममृजु यथा- 'याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम्। सदो राजविरुद्धानां दर्शयन्ती दुरन्तताम् ।। ८८ ।।' अत्र राजविरुद्धानामिति क्रिष्टपदेन दर्शयन्तीति वर्तमानकाललक्ष- णात्सय इति तद्धितेन च समकालमेव दृष्टान्तदार्ष्टान्तिकयोः शब्दतो ऋजूक्त्यैवोक्तत्वादिदमृजु समं च निदर्शनम्। यातीति। राजा चन्द्रो नृपतिथ। तदनयोः ्लिष्ठोक्तिविषयतया न पूर्वापर- भावो विभाव्यते। चन्द्रांशुपराभूतध्वान्तराजीनृपतिविरुद्धदुरन्तयोरपि दर्शयन्तीति शत्रा, सद् इति तद्धितेन च समत्वम् । किंतु ध्वान्तराजी पराभवं यातीति दृष्टा- न्तोक्ती सत्यां मध्ये राजविरुद्धानामिति दार्श्टान्तिकमुक्त्वा पुनरपि दृष्टान्तविशेषणं दर्शयन्तीत्युक्तम् । अतएवोक्तिकवलीकृतत्वाड्दथन्तदार्ष्टान्तिकयोः समत्वमित्याशय- वान्ध्याचष्टे-अत्र राजविरुद्धानामिति। तदेव वक यथा- 'ण उण वरकोअण्डदण्डए युतिमाणुसेवि एमेअ। गुणवज्जिएण जाअइ वंसुप्पण्णे वि टक्कारो ।। ८९ ।।२ न पुनर्वरकोदण्डदण्डके पुत्रि मानुषेऽप्येवमेव। गुणवर्जितेन जायते वंशोत्पन्नेऽपि टङ्कार: ।I] अत्र न केवलं कोदण्डदण्डके मानुषेSप्येवमेवेतीतरेतरयोगवद्दक्क- तया युगपदभिधानं गुणवर्जितवंशोत्पन्नेपि टह्कारो न जायत इति
Page 448
३ परिच्छेद: I] सरख्तीकण्ठाभरणम्। ३५५
छ्रिष्टपदत्वेऽपि व्यतिरेकमुखेन गुणवृत्त्या चाभिधानाद्धनुषीव मानुषेऽपि गुणवत्येव महाव्शब्दो भवतीति वक्ोक्त्या साधर्म्यावगतिः। तदिदम- शब्दत्वादिभि: पूर्वाद्भिद्यमानं समं वक्रं च निदर्शनम् । ण उण वरेति। गुणो धैर्यादिसश्री च, वंशः कुलं वेणुक्ष, टक्कारोऽव्यक्तानु- करणं रयातिथ । इतरेतरयोगवदिति । तथाहि-'तवन्मुखं पुण्डरीकं च फुछे' इत्यत्र फुछं चेतीतरेतरयोगेनैकशेषे एकयोक्त्या फुलेति द्वाभ्यां संबध्यते। तथा विनाप्येकशेषं गुणवजिजिएण वंसुप्पण्णे ट्कार इति युगपदन्वीयन्ते। ननु यथा राजविरुद्धानामित्यत्र शेषेण ऋजुत्वं तथात्रापि भविष्यतीलयत आह-रिउए- पदत्वेऽपीति। धनुषीव मानुषेऽपि महाञशव्दो भवतीति विवक्षितम् । न च व्यतिरेकमुखेनोपनयेSयमर्थ: शब्दादवगम्यते, प्रतीयते चार्थ इति युक्त वक्त्वम्। ननु व्यतिरेकेणैव कर्थ न तुल्यवृत्तिता संमतेत्यत आह-गुणवृत्त्या चेति। सत्यमेतत्तथापि द्वयोवैर्णनीययोर्गुणादिकयोरमेदाध्यवसायो वक्तव्यः । तथा गीण- यृत्तिव्यपाश्रयेणैव वकत्वम्। तदिदमुक्त व्यतिरेकमुखेन गुणवृत्त्या चेति।। : व्यतिरेकं विना दष्टान्तदार्शन्तिकभावाभावा्द्येतिरेकाभ्यां ताक्षणमाह- शब्दोपात्ते प्रतीते वा सादृश्ये वस्तुनोईयोः । भेदाभिधानं भेदथ व्यतिरेकथ कथ्यते ॥ ३२ ॥ शब्दोपात्त इति। मेदाभिधानं वैधर्म्यकथनम्। एवं चेत् मेरुसर्षपयोरपि तथामिधानमलंकार: स्यादत उक्त्म्-सादृश्ये वस्तुनोरिति। उपमानोपमेय- योरित्यर्थः । सादृश्यं द्विधा। शब्दोपारत प्रतीतं च। अशव्दोपात्तमपि ध्वननानु- मानादिभिरवगम्यत इति न विरोधसवदिदमुक्त्तम्-प्रतीते वेति। तदयमर्थ :- उद्धूतचमत्कारिसादृश्ययोवैरस्योकतिरव्यतिरेक:, स्वरूपाख्यस्तु पृथग मेदो नास्त्े- वेत्युक्म् ॥ विभागं दर्शयति- स्वजातिव्यत्तयुपाधिभ्यामेकोभयभिदा च सः । सादृश्याद्वैसादश्याच भिन्नः पोढाभिजायते। ३३ ।। स्वजातीयेति। येन रूपेण वैयतिरेक्यमुपादीयते तद्रूपवन्तं व्यतिरेकप्रति- १. दान्यामिति युक्क प्रतिभाति।
Page 449
३५६ काव्यमाला।
ययोगिनं परिकल्प्य ततो व्यतिरेकोऽपीति खजातिव्यतिरेक: प्रथमः प्रकारः। द्वितीयस्तु सैव व्यक्तिविंधमेति। एतत्प्रकारद्वयं यथासंख्यमभिधीयमानसादश्ययों- रिति मूलमेदद्वयं तथैवापर मेकानेकलक्षणं प्रकारद्वयं तत्रैवान्यत्सादृश्यवैसादश्यरूपं द्वयमिति क्रमेण पोढा मेदो विवक्षितः। यथा च खजातिव्यतिरेकयोः प्रतीयमाना- मिधीयमानसादृश्यगामिता न संभवति तथाये वक्ष्यते॥ तत्र शब्दोपात्तसादृश्ये स्वजातिव्यतिरेको यथा- 'अरनालोकसंहार्यमवार्य सूर्यरश्मिमिः । दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥ ९० ॥' अत्र यौवनप्रभवस्य तमसस्तमोजात्या सह दृष्टिरोघकरमिति सादू- श्यमुक्तवा, अरलालोकसंहार्यमवार्य सूर्यरश्मिभिरिति व्यतिरेको विहि- तः, सोऽयं सजातिव्यतिरेकः ॥। अत्र यौवनप्रभवस्येति। यौवनकृतमज्ञानलक्षणमन्यदेव तमोऽन्यचान्ध- काररूपं तयोखद्ावापत्तिरियमेव कल्पनास्माभिरुक्ता । अनेन तु प्रकारेण रसः पुष्यतीत्यलंकारमध्ये गणनम् ॥ प्रतीयमानसादृश्ये स्वव्यक्तिव्यतिरेको यथा- 'अण्णोण्णेहिं सुचरिअसअहिं अणुदिण वड्िइ्अ माणु। अप्पणवि ण हु महुवि अह अप्पाणेण समाणु ॥९१॥ [अन्योन्यैः सुचरितशतैरनुदिनं वर्धते मानः । अस्ापि न खलु महानपि अथात्मना समान: ॥]
चरितशतैः खव्यक्तित एव मेदोऽमिहितः । सोऽयं स््व्यक्तिव्यतिरेकः॥ अण्णोण्णेहिं अन्योन्यैर्मानोऽहंकार: पूजा वा । यौ तु कल्पितमेदाधिकरणत्वे- नोपाती विरोधिधर्मवत्तया शब्दात्प्रतीयेते तयोनिर्य त्रणत्वादिकमिति भवति सादश्यं प्रतीयमानम् ।। १. अत्र 'निर्यल गत्वा-' इति पाठ आसीचत्र निर्यत्रणत्वादिकमिति कस्पितोडरिति।
Page 450
३ परिच्छेद: ।] सरख्तीकण्ठाभरणम्। ३५७
शब्दोपात्तसादृश्य एकव्यतिरेको यथा- 'प्रेयानेव वृषस्तवापि सततं भूतिस्तवापि स्थिरा दुर्गाया भवतापि भूघरभुवः सम्यग्गृहीतः करः। निर्व्याजं परमेश्वरत्वमियता नो यासि वक्तुं जनै- हैलोल्ासितवाहिनीशमथने यन्नो विषादी भवान् ।।९२।' अत्र प्रियवृषत्वा दिभिरमिहितसादृश्ययोरुपमानोपमेययोरुपमेयस्यैव यथोक्तसादृश्यविषये विषादित्वं युक्तमित्येकव्यतिरेकोऽयम् । प्रेयानेवेति। वृषो गौर्धमंश्। भूतिः सम्पद् भस्म च। दुर्गा गौरी विषमा च। भूधरभूर्गिरिजा पर्वतभूमिय। करो हस्तो राजदण्डक्ष । वाहिनीश: समुद्रः सेना- पतिश्व । विषादी विषभक्षकोऽवसादवांथ। यद्यप्यत्रानुरूपं सादृश्यं नासिति तथापि शब्दसादश्येनाप्युपमा प्रवर्तत एव। यथा-'सकलहवं पुरमेतज्वंंपति सिर्तांशु- निम्बमिव' इति। अत एवोभयालंकारत्वमुपमायाः। स एव प्रतीयमानसादृश्यो यथा- 'सकलड्वेन जडेन च साम्यं दोषाकरेण ते कीटक्। अभुजङ्ः समनयन: कथमुपमेयो हरेणासि ॥ ९३ ॥' अत्र प्रतीयमानसाहश्यस्य पूर्वार्धे चन्द्रोपमानस्य सकलक्कतादिरुत्त- रार्घेन वर्णनीयोपमेयस्याभुजङ्गत्वादिरेकस्यैव भेदकः खवधर्मोऽभिहित: सोऽयमप्येकव्यतिरेक एव ।। सकलङ्केनेति । कलड्ोऽपवादो लाञ्छनं च। जडो मूर्खः शीतलथ। अभुजहो न वेश्यापतिरविद्यमानसर्पथ । समनयनो युगनयन: सर्वान् सम नयतीति च। आहादकत्वादिकं चन्द्रेणानिरुदैश्वर्यादिकं परमेश्वरेण सादड्यं प्रतीयते॥ शब्दोपात्तसादृश्ये उभयव्यतिरेको यथा- 'अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि। असावञ्जनसंकाशस्त्वं च चामीकरद्युतिः ।। ९४ ।।' अत्र द्योरप्यभिधीयमानसादृश्ययोरुमयव्यतिरेकः ॥
Page 451
३५८ I काव्यमाला।
अभिन्नेति। वेला मर्यादा तीरं च। गम्भीरोऽतलस्पर्शोंSचलितचित्तपृत्तिथ॥ स एव प्रतीयमानसादृश्ययोर्यथा - 'त्वन्मुखं पुण्डरीकं च द्वयोरप्यनयोर्मिदा। कमलं जलसंरोहि त्वन्मुखं त्वदुपाश्रयम् ।। ९५ ।।' तदेतन्निगदेनैव व्याख्यातम्। सोडयं प्रतीयमानसादृश्ययोरुमयो- र्व्यतिरेक: ।। अभिधीयमानसादृश्ययोः सदृशव्यतिरेको यथा- 'त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी। भ्रमन्रमरमम्भोजं लोलदृष्टि मुखं तु ते ॥ ९६ ॥' अत्र मुखाम्भोजयो: 'फुले सुरभिगन्घिनी' इति पदाभ्यामभिघीय- मानसादृश्ययो: सदृशमेव भ्रमन्भमरत्वं लोलदृष्टित्वं च मेदकमुपन्यस्त- मिति सोडयं शब्दोपात्तसादृश्ययोः सदृशव्यतिरेकः ॥ स एव प्रतीयमानसादश्ययोर्यथा- 'चन्द्रोSयमम्बरोत्तंसो हसोऽयं तोयभूषणम्। नभो नक्षत्रमालीदमिदमुत्कुमुदं पयः ॥ ९७ ॥' अत्र पूर्वार्धे चन्द्रहंसयोः प्रतीयमानसादृश्ययोरम्वरोत्तंसत्वतोयभूष- णत्वे, उत्तराधें तु नःपयसोर्नक्षत्रमालित्वोत्कुमुदत्वे सदशे एव मेदके। सोऽयं प्रतीयमानसादृश्ययोः सदृशव्यतिरेकः ॥ अमिहितसादृश्ययोरसदशव्यतिरेको यथा- कशशाम वृष्टिमेंघानामुत्सके तस्य भूभृतः । विरराम न सामस्य धारासन्ततिरश्रुणः ।।९८।।' अत्र भूभृत इत्यनेन साक्षादुपात्तसादृश्ययों राममाल्यवतोर्योSयमुत्सके समस्तोSश्रुधारापातो यस्य मेघवृष्टेरभावस्तदिदमुभयोरसदशमेव भेदकम्।
Page 452
३ परिच्छेद: I] सरखतीकण्ठाभरणम्। ३५९
शशाम वृष्टिरिति। भूमृतो राजक।। स एव प्रतीयमानसादश्ययोर्यथा- 'अ्रविलासमस्पृष्टमदरागं मृगेक्षणम् । इदं तु नयनद्वन्द्वं तव तद्गुणभूषितम् ।।९९।।' अत्र कान्तामृगेक्षणयोः प्रतीयमानसादृश्ययोर््रविलासमदरागौ तद- भावौ च विसदृशौ भेदकाविति सोडयं प्रतीयमानसादृश्ययोरसदृश- व्यतिरेकः ॥ सदृशासदृशव्यतिरेकाभ्यामेव तदुभयव्यतिरेकोऽपि व्याख्यातः । यथा- 'निर्मलेन्दु नभो रेजे विकचाव्जं बभौ सरः । परं पर्यश्रुवदनौ मम्लतुर्म्रातरावुभौ ॥१०० ॥' अत्र नभःसरसोः प्रतीयमानसादृश्ययोनिर्मलेन्दुत्वं विकचाव्जत्वं च प्राग्वदेव सदशे भेदके; ताभ्यां च मुखचन्द्रमुखकमलाभ्यां मनोहराहा- दकत्वाभ्यां च प्रतीयमानसादृश्ययोरेव रामलक्ष्मणयोर्येयं मुखपर्यश्रुता,
सा विसद्दशीति सोऽयं सदशासदशभेदकत्वकृतभेद एव तदुभय- व्यतिरेक: ।। ताभ्यां च मुखचन्द्रेति। मुखस्य चन्द्रकमलभावोऽनादिकविकल्पनासिद्ध इति तेनापि रूपेण प्रतीयमानसादृश्यत्वमुक्तम्।। ननु मिथो व्यतिरेकमेदगणनमनुपपन्नं सदशासद्दशव्यतिरेकस्यापि संभवा- दिव्यत आह - एतेनैकव्यतिरेकादिसंमेदोऽपि व्याख्यातः । यथा- 'मिथ्या देव भुजेन तेऽल्पविभव: कल्पद्रुमः स्पर्धते नद्येनं भुवनत्र याभयमहासत्री कृपाणोSञ्वति ।
Page 453
३६० काव्यमाला।
तुल्यस्तन्नभवान्प्रयागविटपी यस्यैतदेकार्णवे कायान्तविनिवेश्य विश्वमखिलं शाखासु शेते हरिः ॥१०१॥' अत्र वर्णनीयबाहुकल्पद्रुमयोरभिमतफलदायित्वादिभिः प्रतीतसा- दृश्ययोभुवनत्रयाभयप्रदायी वर्णनीयवाहौ कृपाणो भेदक इत्येकव्यति- रेकः । तथा वर्णनीयवाहो: प्रयागवटस्य च प्राग्वदेव प्रतीयमानसाह- श्ययोरेकस्य भुवनत्रयाभयमहासत्री कृपाणः शाखासु शेते, अन्यस्य तु महाप्रलये ख्कायान्तर्निवेशिताखिलविश्वो वैकुण्ठः । ताविमौ तयोः सदृशावेव भेदकौ हरिकृपाणयोर्वा श्यामतादिभिः प्रतीयमानसाह- श्ययोरिमावेव धर्मो मेदकौ सोऽयमेवंप्रकारो व्यतिरेकसंकर उन्नेयः । सजातिव्यतिरेके प्रतीयमानसादृश्यम्, खव्यक्तिव्यतिरेके चाभिधीयमा- नसादृश्यं यदुदाहरणं दृश्यते संभवति वा तदा तदप्युदाहार्यम् ॥ एतेनेति । प्राग्वदेवेति । अमिमतफलदायित्वादिभिः । एवंग्रकार इति। न हेकवाक्यस्थतामात्रेण तथा चमत्करोति यथाज्ञात्िभावादिभि: परस्पर- ग्रथनयेति। सव प्रकारपदेनाभिह्िता । यद्युदाहरणं दृश्यते संभवति वेति। न हि खजातिव्यतिरेके द्वयोरमेदाध्यवसायः सादृश्यमन्तरेण चमत्कारमर्पयतीति कल्पितमेव वाच्यम् । न च कल्पनाशब्दमन्तरेण प्रतीयमानसादश्यसंभवः: सादश्यस्य भेदाधिष्टानत्वात्। खव्यक्तिव्यतिरेकेऽप्यसंभवस्तथाभूतमेव तु शब्देनो- पादीयत इति स्यादत उक्त यदि दश्यत इति॥। सहकारित्वं व्यतिरेकनिरूप्यमतो व्यतिरेकानन्तरं समाहितलक्षणमाह- कार्यारम्मे सहायाप्तिर्दैवादैवकतेह या। आकस्मिकी बुद्धिपूर्वोभयी वा तत्समाहितम् ॥ ३४॥' तत्राकस्मिकी दैवकृता यथा- 'मानमस्या निराकतुं पादयोमें पतिष्यतः। उपकाराय दिश्वेदमुदीर्णं घनगर्जितम् ।। १०२ ।।
Page 454
३ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। ३६१
अत्र माननिराकरणोपक्रमे कालोत्पन्नस्याकस्मिकघनगजितस्व मान- विध्वंसे सहकारित्वादाकस्मिकीयं दैवकृता सहायसंपत्तिः ॥ कार्यारम्भ इति। सहायः प्रकृतकार्यकारणस्य सहकारी, तेनालंकारता आकस्मिक्यचिन्तितपूर्वा बुद्धिपूर्वाद्विपरीता। आकस्मिक्यादीनां प्रत्येकं दवादेवकृत- संबन्धे पद्प्रकारं समाहितमित्य्थोंक्कम् ॥ आकस्क्येवादैवकृता यथा- 'अनुशासतमित्यनाकुलं नयवर्त्माकुलमर्जुनाग्रजम् । स्वयमर्थ इवाभिवाञ्छितस्तममीयाय पराशरात्मजः ॥१०३॥' अत्र भीमानुशासनकालोपक्रम एव व्यासागमनस्य तदुपकारित्वादा- कस्मिकीयमदैवकृता सहायाप्िः ॥। व्यासागमनस्येति। व्यासेन संपाद्यमानस्य। तेनादैवकृतेति॥ बुद्धिपूर्वा दैवकृता यथा- 'कल्पान्ते शमितत्रिविक्रममहाकड्चालदण्डस्फुर- च्छेषस्यूतनृसिंहवक्रनखरप्रोतादिकोलामिषः । विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ कर्षन्धीवरतां गतः स्यतु जगन्मोहं महामैरवः ॥ १०४॥' अत्र प्रलयसमये महेश्वरेण समापयितुमुपक्ान्तानां त्रिविक्रमादीनां योडयं तज्बुवा वडिशादिना मत्स्यकूर्मयोराकर्षणप्रकारः स भगवता भैर- वेण बुद्धिपूर्वकमुपकल्प्यमानो दैवात्तथाभूतैरेव तैः संपद्यत इति बुद्धि- पूर्वेयं दैवकृता सहायाप्तिः ।। दैवात्तथाभूतैरेवेति। नरसिंहनवादीनां बडिशायुचितमूर्तिशालिनां दैवमेव निमित्तम्, बडिशादिचिन्ता च विषयीकृतेति बुद्धिपूर्वता।। बुद्धिपूर्वाSदैवकृता यथा- 'मूले पञ्च ततश्रतुष्टयमिति स्रक्संनिवेशैः शिर :- पुष्पैरन्यतमावलोकनमितैरुच्छोणितैरर्चिते।
Page 455
३६२ काव्यमाला।
TF हस्तस्पर्शवशेन मूर्धनि दशमं मूर्धानमारोपयन् शंभोरद्रुतसाहसैकरसिक: कैर्न श्रुतो रावणः ॥१०५॥ अत्र योडयं दशवदनेन स्वयं छिन्नैः शिरोभिर्भगवतः शंभोरचना- प्रकार उपक्ान्तस्तत्र मूले पञ्च ततश्रतुष्टयमिति शिरोविरचनाप्रपश्चो बुद्धिपूर्वकोऽदैवकृतः क्रियमाणोऽस्य कर्मणः समाप्तौ सहकारिकारण- तामासादयतीत्ययमदैवकृतो बुद्धिपूर्वकः समाहितमेदः॥ मूले पञ्चेति । अधोऽघः स्थूलपुष्पस्य संनिवेश उपर्युपरि तनुरिति दूर्बापू- जाप्रकार: प्रसिद्धः । अन्यतमालोकननिमित्तैरारोपितैः। अन्र लोकप्रसिद्धपूजाप्रकार: कार्यभूतः । उपर्युपरि तनुसंनिवेशनिष्पादनं सहकारि। इदं च रावणप्रयल्ननिष्पाद्य- त्वाददैवकृतं बुद्धिपूर्व व भवतीलन्यतमेन मूर्धान्यतमस्यारोपणं न नवमच्छेद- पर्यन्तमासीत्। पूजासरूपेणैव भगवांस्तुष्यति न तथा विदितेनेत्यभिप्रायवतो निस्तरन्ना भक्तिस्तेन साहसस्याद्भुतत्वम् ।। आकस्मिकी बुद्धिपूर्वा दैवकृता यथा- 'सा कौमुदी नयनयोभेवतः सुजन्मा तस्या भवानपि मनोरथबन्धवन्धुः । S०1 तत्सक्रमं प्रति सखे नहि संशयोडस्ति यस्मिन्विधिश्च मदनश्र कृतामियोगौ ॥ १०६ ॥ अत्र योडयं माधवस्य मालतीं प्रति समागमाभिलाषस्तत्रेयं मालत्या आकस्मिकी बुद्धिपूर्वा च तथा प्रवृत्तिः सोभय्यपि दैवकृता च सहायाप्िः समाहितमेदः ॥ अत्र यो5यं माधवस्येति। विधिथ मदनथ कृताभियोगावित्यनेन माललाः पूर्वानुभावाः कथ्यन्ते। ते च द्विधा भवन्तीत्याकस्मिकी देवपूर्वा सहायसंपत्तिः ॥ आकस्मिकी बुद्धिपूर्वा चादैवकृता यथा- 'दृष्टिर्वन्दनेमालिका स्तनयुगं लावण्यपूर्णौ घटौ शुभाणां प्रकर: स्मितः सुमनसां वक्रमभा दर्पणः ।
Page 456
३ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। ३६३
रोमाश्चोद्म एव सर्वपकण: पाणी पुनः पल्लवौ खाङ्ैरेव गृहं प्रियस्य विशतस्तन्व्या कृतं मञलम् १०७' अत्रागच्छतः प्रियस्येयं वन्दनमालिकादिमक्गलक्रिया मनःपरितोष- हेतुस्तस्यास्तन्वनया इद्गिताकारैरेव यन्निवर्तनं सोडयमाकस्मिकः खबु- द्विपूर्वकश् तत्सहकारिकारणत्वाददैवकृतश्र समाहितमेदः ॥ अत्रागच्छतः प्रियस्येति । मझलक्तियामात्र न चमत्कारास्पदमत उक्क मनःपरितोषहेतुरिति। स्मितं बुद्धिपूर्वम्। रोमाश्रो न बुद्धिपूर्वः । एवं दष्टपादी यथायथं वेदितव्यमिति॥ बुद्धिपूर्वायां सहायाप्ती कचिद्ान्तिरप्यस्ति ततस्तदनन्तरं तां लक्षयति भ्रान्तिर्विपर्ययज्ञानं द्विधा सापि प्रयुज्यते। अतच्वे तत्वरूपा च तच्वे चातच्वरूपिणी॥ ३५ ॥ अतच्वे तत्वरूपा या त्रिविधा सापि पठ्यते। अवाधिता वाघिता च तथा कारणवाघिता॥ ३६ ॥ भ्रान्तिरिति। अतस्मिस्तदिति निश्रयो भ्रान्तिः। सैव विपर्ययः । न चैवं संशयादय इत्युक्तपूर्वम् । सा द्विधा-यस्य यत्रासद्धावस्तस्य तत्र सद्धावारोप:, यस्य वा यत्र सद्धावस्तस्य तन्रासद्धावारोपः । सोऽयं भावाभावकृतो नियमो भ्रान्ते- र्बाधनियमेऽपि कचिद्वारोपन्यासो भवति कचित्र भवति। उपन्यासो द्विरूपोऽभि- धया वृत्त्यन्तरेण च । यत्र बाधोपन्यासे बाधितानुपन्यासे वाऽबाधिता तस्मिन्नेव वाक्येऽविज्ञातवाधेत्यर्थः । उपन्यासेतरप्रकारेण ज्ञातवाधका वाघिता। बाधकारणो- केर्बाधपर्यवसानाभिप्रायत्वात् तदेतदर्शयति-अवाधिता बाधिता चेति॥ तत्रातत्त्वे तत्त्वरूपाऽवाधिता यथा- 'मोहविरमे सरोसं थोरत्थणमण्डले सुरवहूणम् । जेण करिकुम्भसम्भावणाइ दिट्ठी परिद्ठविआ ॥ १०८ ॥' [मोहविरमे सरोषं स्थूलस्तनमण्डले सुरवधूनाम्। येन करिकुम्मसंभावनया दृष्टि: परिस्थापिता ॥]
Page 457
३६४ काव्यमाला।
अत्र सुरवघूस्तनमण्डले करिकुम्भत्वेन गृहीतेऽतत्त्वरूपे यन्मिथ्यैव तत्त्वारोपणं न चानन्तरं बाघकोपन्यास: कृतस्तेनेयमबाधिता अतत्त्वे तत्त्वरूपा भ्रान्ति: ।। मोहविरम इति । परिद्ठुविआ सपहवं व्यवस्थापिता । तन्रैव परिपूर्वस्य तिष्ठतेः प्रतिद्धत्वात्। सरोषमिति समवायिविशेषणम् । न च तदन्तरेण किया- सद्भावः । तेन मोहेऽपि न प्रकरान्तरसानुभावस्वरूपतामहासीदिति व्यज्यते। इत्यं च दृढानुबन्धोऽसी रसो यद्लवत्तरविरोधिसंपर्केऽपि न कार्कश्यमगादिति स्थूल- मण्डलसुरवधूपद: प्रकाश्यते संभावनया न तु पूर्वोत्पन्नज्ञानेन । करिकुम्भानां दृढतरवासनत्वात् । अबाधितेत्यत्र यथार्थोऽभिमतस्तथा दर्शयति-बाधकोप- न्यास इति। अतत्त्वे तत्त्वरूपा बाघिता यथा- 'हसिअं सहत्यतालं सुक्खवडं उवगएहि पहिएहि। पत्तप्फलसारिच्छे उड्डीणे पूसवंदम्मि ॥ १०९ ॥' [हसितं सहस्ततालं शुष्कवटमुपगतैः पथिकैः। पत्रफलसदशे उड्डीने शुकबृन्देऽस्मिन् ॥] अत्र पत्रफलितोऽयं न्यग्रोध इत्यतत्त्वरूपे तत्त्ववुद्धावुत्पन्नायां य उत्तरकालमपत्रतानिष्फलताप्रत्यय सतेनेयमतत्त्वे तत्त्वरूपाख्या बाधिता भ्रान्ति: ।। हसिअमिति। पूसः शुकः । वन्दं वृन्दम्। शुकचशुपुच्छानां पक्कन्यग्रोध- फलनवपलाशसादश्यम्। यद्यपि नात्र बाधोऽभिहितस्तथापि उड्टीण इत्यनेनार्थाभाव- विषया प्रतीतिः कियते। कथमन्यथा हसितहस्त्रतालरूपकार्यस्योपन्यास: स्यात् । अतत्त्वे तत्वरूपा कारणबाघिता यथा- 'कनककलशस्वच्छे राघापयोधरमण्डले नवजलधरश्यामामात्मद्युति प्रतिबिम्बिताम्। असितसिचयप्रान्तम्रान्त्या मुहुर्मुहुरुत्क्षिप- ज्जयति जनितत्रीडाहास: प्रियाहसितो हरिः ॥११०॥
Page 458
३ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ३६५
अत्र श्यामायामात्मद्युतावसितसिचयप्रान्तबुद्धिरतत्वे तत्त्वरूपा प्रि- याहसितेन च कारणेन यद्दाधिता सैषाततत्वे तत्वरूपा कारणवाधिता भ्रान्ति: ।। अत्र इ्यामायामिति । नात्र पूर्वोदाहरणवच्छव्देन कयाचिदपि वृत्त्यार्था- भावो विषयीकृतः किंतु प्रकारान्तरेणोजीयते। तथाहि नायकेनांशुकापहरणलीला- यितेऽपि यदिदं राधायाः सिचयावरोधान्चलनम्क्षेपादि मुग्धान्ञनोचितवित्रम विरोधि हसितं तत्कारणं बाधस्येति ।। अतत्वरूपा तच्वे या सापि त्रैविध्यसिद्धये । हानोपादानयोर्हेतुरुपेक्षायाश् जायते॥ ३७॥ तत्र तत्त्वेऽतत्त्वरूपा हानहेतुर्यथा- 'सो मुद्धमिओ मिअतह्िआहिं तह दूमि तुह आसाहिम्। जह संभावमई णवि णईण परंमुहो जाओ ॥ १११ ॥' [स मुग्धमृगो मृगतृष्णिकाभिस्तथा दूनस्त्वदाशाभिः । यथा सद्धावमयीध्वपि नदीषु पराखयुखो जातः ॥] अत्र पारमार्थिकीष्वपि नदीषु मृगतृष्णाप्रतारितः सन्यन्न मृगः पयः पातुं प्रतिपद्यते प्रत्युत त्यजति तेनेयं तत्त्वेऽप्यतत्त्वरूपा हानहेतुर्भ्रान्तिः॥ हानं द्विविधम्। प्रवृत्त्यभावो विपरीतक्ष प्रयत्नः । द्विधाप्यत्राभिमतमिति ्या- रूयानेन स्फुटयति-न प्रतिपद्यते प्रत्युत त्यजतीति।।
'समर्थये यत्पथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा। अतो विनिदे सहसा विलोचने करोमि न स्पर्शविभाविताप्रियः॥
शापान्ताविर्भूतसत्यरूपायामपि तस्यां येयं पूर्वानुभूतैवंविधानेकविधवि- प्रलम्भसंभावनया नयनयोरनुन्मीलनबुद्धि: सेयं तच्वेऽप्यतत्वरूपोपा- दानहेतुर्भ्रान्तिः ।। लिगिार्च
Page 459
३६६ काव्यमाला।
समर्थये इति । विभाविताप्रिय इति युक्त: पाठः, प्रियादिषु पुंबद्धावप्रति- पेधात्। नात्राभावारोप: स्फुटोऽवगम्यत इति प्रकरणमादाय व्याचष्टे-अत्राङ्गी- कृतेति। न च वाच्यं दोलायमानतया संशयरूपमिद ज्ञानमिति। यतो नास्त्ये- वात्र प्रियतमा तथापि तदारोपेण मनस्तापातिवाहनमुचितमिति जानतः पुरूरव- सोऽनुबन्धप्रकर्ष: पुष्यति नान्यथेति सहृदयहृदयसाक्षिकमिदम्। तदेतन्मनाक् स्फुटयति-पूर्वानुभूतैवंविधेति॥
'चिक्रंसया कृत्रिमपत्रिपङ्के: कपोतपालीषु निकेतनानाम्। मार्जारमप्यायतनिश्चलाअं यस्यां जनः कृत्रिममेव मेने॥११३॥' अत्र तत्त्वरूपेऽपि मार्जारे कृत्रिमोऽयमिति बुद्धौ जातायां तस्यां प्रयोजकत्वेन यदुपेक्षणं सेयं तत्वेऽप्यतत्त्वरूपोपेक्षाहेतुर्भ्रान्तिः ॥ प्रयोजकत्वेन यदुपेक्षणमिति। या प्रवृत्ति निवृत्ति वा न प्रसूतेऽपेक्षा- बुद्धिं वेल्यर्थः । भ्रान्तिमान्भ्रान्तिमाला च आ्रान्तेरतिशयश्च यः । भ्रान्त्यनध्यवसायश्च भ्रान्तिरेवेति मे मतम् ॥ ३८ ॥ भ्रान्तिमानिति। भूत्नि मतुप्। भूमार्थों द्विविधो बहूनां भ्रान्तीनामेकविष- यतो भिन्नविषयाणां वा समानकर्तृता। आद्यो भ्रान्तिमतो विषयो, द्वितीयो त्रान्ति- मालायाः । न हि भ्रान्तिमति मालाकमनियमोऽस्ति युगपद्पि भिन्नकर्तृकाणां जाय- मानत्वात् । त्रान्तेरतिशयः शब्दोपनीतप्रकर्षा भ्रन्तिरिति स्वकार्यभूतं वितर्कमा- दाय प्रतीयमानो विपर्ययहेतुर्श्रमान्तरानुबन्धी॥ तत्र भ्रान्तिमान् यथा- 'कपोले मार्जारः पय इति कराँल्लेढि शशिन- स्तरुच्छिद्पोतान्विसमिति करी संकलयति। रतान्ते तल्पस्थान्हरति दयिताप्यंशुकमिति प्रभामत्तश्रन्द्रो जगदिदमहो विभ्रमयति ॥११४ ॥'
Page 460
३ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ३६७
अन्रेन्दुमरीचिषु पयःप्रभृतिभ्रान्तिभूम्नायं ्रान्तिमान् नाम आ्रन्ते- रेव भेद: ॥ प्रान्तिमाला यथा- 'नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्धयाघरे पाणौ पद्मधिया मधूककुसुमत्रान्त्या तथा गण्डयोः । लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि ॥११५॥ अत्र युवत्यवयवेषु नयनादिषु मधुब्रतानां येयं नीलोत्पलादिबुद्धि: सेयं मालाक्मेणोपजायमाना आ्रन्तिमाला आ्रान्तेरेव भेद: । भ्रान्त्यतिशयो द्वेषा-वितर्कहेतुर्विपर्ययहेतुश्च। तयोः पूर्वमुपमा- भ्रान्तिमाचक्षते, द्वितीयं तु आ्रान्त्यतिशयमेव । तत्रोपमाभ्रान्तिर्यथा-
च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं सतनांशुकम्॥११६॥ अत्र शाद्वलेSपि समुत्पन्नस्तनांशुकत्रमस्य पुरूरवसो योऽयं सादृश्या- तिशयितो वितर्क: सेयमुपमाभ्रान्तिः ॥ तयो: पुर्वमिति। तत्त्वेन प्रतीयतो मध्ये मनाकृतव्यतिरेकमुलिखितो नूनं मेदामेदतुल्यतया मनसि सादृश्यं प्रवर्तत इति भावः। असंशयमिति पदेन प्रकर्षो वित्कथ प्रत्यायित: ॥ आ्रन्त्यतिशयो यथा- 'दिश्याड्ूर्जटिजूटकोटिसरिति ज्योत्सालवोद्धासिनी शाशाङ्की कलिका जलभ्रमिवशाद्राम्दष्टनष्टा मुदम् । यां चश्चच्छफरी्रमेण मुकुलीकुर्वन्फणालीं मुहु-
Page 461
३६८ काव्यमाला।
अत्र गङ्गाम्भ:प्रतिफलितां रजनिकरकलामालोकयतो वासुकेर्येयं शफरीश्रमेण मुकुलीकुर्वन् फणालीं शफरीयमित्यध्यासिता विपर्यय- बुद्धि: सोऽयं आ्न्त्यतिशयो नाम भ्रान्तेरेव मेदः ॥ जिघृक्षतितमामिति। 'तिबश ५।३।५६' इति तमपि 'किमेत्तिडव्ययघा- दाम्द्व्यप्रकर्षे ५।४।११' इत्याम् ॥ आान्त्यनध्यवसायोऽपि द्विघा-सालम्बनो निरालम्बनश्च। तयोः सालम्बनो यथा- 'विरंहिणिहिअ अकअन्तहिं णिण्णाअइ तक्खणि छाइज्जइ अलिणिवहेहिं चैत्तेण चूअवणी। अह तासु वि मअरन्दहिं संदाणिअइ जह ण कलम्ब ण अम्ब ण जम्बू जाणिअई ॥। ११८ ।।' [विरहिणीहृदयकृतान्तैर्निर्णीयते तव्क्षणे छाद्यतेऽलिनिवहैश्रैत्रेण चूतवनी। अथ तास्वपि मकरन्दैवष्यते यथा न कदम्बो नामो न जम्बूर्जायते ॥] न कदम्बो नाम्रो न जम्बूरिति ज्ञायत इति त्रयाणामेवावलम्बनभू- तत्वात्सालम्बनो नामायं भ्रान्त्यनध्यवसायो आ्रन्तिमेदः ॥ भ्रान्तेरनध्यवसायोऽनिर्धार्यमाणविषयता । विरहिणीजणण इति। विरहि- णीजनस्य । 'अधीगर्थ-२।३।५२।' इत्यादिना कर्मणि पष्ठी। दअन्तेण दयमानेन रक्षता। णावइ प्रतिभाति। तक्खणि तत्र क्षणे। छाइजइ अलिणिवहेहिं छाद्यतेs- लिनिव है: करणभूतैः । चैत्तेण चैत्रेण कर्त्रा। चूअवणी चूतवनी। तह तथा। तामु वि तस्या अपि। संदाणिअइ बध्यते। अनिर्धारितविषयतया कथमालम्बननिरालम्बन- योभेंद इत्यत आह-त्रयाणामेवावलम्बनभूतत्वादिति। उच्तिभग्गया विष- योपादानादित्यर्थ: ।। १. अन्र छोके-'विरहिणीजणण' इति, 'दअन्तेण' इति, 'णावड' इति, 'वंरण' इति टीकाकारसमत: पाठ :.
Page 462
३ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ३६९
निरालम्बो यथा- 'उभौ रम्भास्तम्भावुपरि विपरीतौ कमलयो- सतदूर्ध्व रल्नाश्मस्थलमथ दुरूहं किमपि यत्। ततः कुम्भौ पश्राद्विसकिसलये कन्दलमये तदन्विन्दाविन्दीवरमधुकराः कि पुनरिदम् ॥११९।।' अत्रोर्वादिषु युवत्यवयवेषूत्पन्नो रम्भास्तम्भभ्रान्तेर्योSयमेतत्समुदाये किमिदमित्यालम्बनं विना कृतोऽनध्यवसायः स एष निरालम्बनो नाम भ्रान्त्यनध्यवसायो आ्रान्तेरेव भेद: ॥ आलम्बनं विनेति। विषयानिर्धारणं व्यक्तीकृतम्।। ऊहो वितर्कः संदेहनिर्णयान्तरधिष्ठितः । द्विधासौ निर्णयान्तथ्ानिर्णयान्तश्र कीर्त्यते ॥ ३९॥ मिथ्याप्रतीतिसामान्यादनन्तरं वितर्कलक्षणम्-ऊह इति। ऊह इति यस्य प्रसिद्धि: स इत्यर्थः । पर्यायशब्देनापि लक्षणं कियत एव। यथा-घटपदार्थतया व्यातृत्तौ संदिहानस्य कलशपदार्थतया निश्चयवतो यः कलशः स घट इति। कथ- मसौ संशयविपर्ययाभ्यां भिद्यत इत्यत आह-संदेहेति। संदेहो नानाकोटिक- खथाभूतामेव जिज्ञासां प्रसूते, तर्कस्तु तदनन्तरभावी नियतकोटिकस्तथाभूता- मिति। कालसवरूपकार्यमेदात् संशयतो भेद इति। एवं विपर्ययतोऽपि । स हि तर्कान्तरभाविनिक्चयात्मकः प्रवृत्त्यादिहेतुभूतक्च । तदयं तर्काभासस्य विपर्ययापर्यव- सायिनो विषयविभाग: कृतः, स तु तर्कस्य विषयविभाग: स्फुट एव संदेहनिर्णय- योर्मध्यमधिष्ठितः स तद्वती। विभागमाह-द्विधासाविति। निर्णयान्तरोपन्यस्तः फलभूतानिश्वयोऽतथाभूतो निर्णयान्तो निश्चयः ॥ प्रमितिविपर्ययरूपतया द्विविध इत्याशयवानिर्णयार्थ विभजते- तच्वानुपात्यतच्वानुपाती यश्चोभयात्मकः । स निर्णयान्त इतरो मिथ्यामिथ्योभयात्मक: ॥४०॥ तत्त्वानुपातीति। निगदेनैव व्याख्यातम् ।। २४ स० क०
Page 463
२७० काव्यमाला।
तेषु निर्णयान्तस्तर्व्ानुपाती यथा- मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद्गीतो महेन्द्रादपि। ता्क्ष्य: सोऽपि समं निजेन विभुना जानाति मां रावणं आ ज्ञातं स जटायुरेष जरसा क्विष्टो वर्ष वाळ्छति ॥१२०॥ अत्र निरूपितलक्षणे वितर्के जटायुरेष इति तत्वानुपाती निर्ण- यान्तो वितर्कः ॥ मैनाक: किमयमिति। किमयमिति काक्ा पूर्व दोलायमानचित्तस्य नियत- कोटिस्पर्शी ज्ञानविशेष उपनीयते स एव तर्कः । एवमन्यत्रापि॥ स एवातत्वानुपाती यथा- 'अस्याः सर्गविधौ प्रजापतिरभूचन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्यं नु मदनो मासो नु पुष्याकरः । वेदाभ्यासजड: कथ नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ १२१॥' अत्र किमिदं रूपं निर्मातुं यथोक्तः पुराणो मुनिः प्रभवेत्, अत- श्न्द्रादिष्वन्यतमेन प्रजापतिना भवितव्यमित्यतत्वानुपातित्वादतत्त्वानु- पात्ययं निर्णयान्तो वितर्कः ॥ स एवोभयात्मको यथा- "चित्ते निवेश्य परिकल्पितसत्त्वयोगा- त्रूपोच्येन रचिता मनसा कता नु। स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्र तस्याः ॥। १२२ ॥' सोऽयं तत्वानुपातित्वादतत्वानुपातित्वाच्चोभयात्मा निर्णयान्तो वितर्क: ॥
Page 464
३ परिच्छेद: ] सरसतीकण्ठाभरणम्। ३७१
उभयात्मक इति । स्त्रीरनसष्टिरित्यनेन तत्त्वानुपाती, अपरेत्यनेनातत्त्वानु- पाती प्रकाशितः ।। अनिर्णयान्तो मिथ्यारूपो यथा- 'अद्रेः शृङ्गं हरति पवनः किंख्विदित्युन्मुखीभि- दष्टोच्छायश्रकितचकितं मुग्घसिद्धाञ्ञनाभिः । स्थानादस्मात्सरसनिचुलादुत्पतोद सुखः खं दिङ्गागानां पथि परिहरन्स्थूलहस्तावलेपान् । १२३ ॥' अत्र किमिदमद्रेः शृङ्गं पवनो हरतीति मेघं प्रति कल्पनायां मिथ्यात्वाद्वस्तुनश्रानिर्णयादनिर्णयान्तो मिथ्यारूपो वितर्कः ॥ मिथ्यामिथ्यारूपौ बाधिताबाधितविषयौ। अबाधितोऽपि तर्कों भवलेव। यथा यद्यस्य नीलं रूपं नीलोत्पलमिति॥ स एवामिथ्यारूपो यथा- 'अयमसौ भगवानुत पाण्डवः स्थितमवाब्धुनिना शशिमौलिना। समघिरूढमजेन नु जिष्णुना खििदिति वेगवशान्मुमुहे गणैः ॥१२४॥' अत्र भगवत्पार्थयोरमिथ्यारूपत्वेन वेगवत्वादेकस्यानिर्णयान्तोSमि- ध्यारूपो वितर्कः ॥ अथ भगवत्पार्थयोरिति। भगवत्पार्थयोरवस्थानयोः समधिरोद्दारोहयोथ् न किचिद्वाधकमस्ति चक्षुर्ज्ञानस्य विशेषः प्रत्यक्षत इति॥ अनिर्णयान्त उभयात्मा यथा- 'माया खिदेषा मतिवित्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः । गाण्डीवमुक्ता हि यथापुरा मे पराक्रमन्ते न शराः किराते ॥१२५॥' अत्र मायादीनां विकल्पानां मिथ्यारूपत्वान्मम शराः किराते न व्याप्रियन्त इत्यस्या मिथ्यारूपत्वादनिर्णयान्तत्वाच्चायमनिर्णयान्त उम- यरूपो वितर्कः ॥
Page 465
३७२ 1 काव्यमाला।
अत्र मायादीनामिति। न परमेश्वरस्य माया छद, न शक्तौ मतिभ्रमः, न ध्वंसो वीर्यस्य, नवार्जुनादेवार्जुनस्यान्यत्वमिति विषयबाधात्।। मीलिते भ्रान्तिरस्त्रीति भ्रान्त्यनन्तरं भीलितलक्षणमाह- वस्त्वन्तरतिरस्कारो वस्तुना मीलितं स्मृतम्। पिहितापिहिते चैव तद्रुणातद्रुणौ च तत् ॥ ४१ ।। वस्त्वन्तरेति। वस्तूनामिति छिछिष्ठषष्ठी। वस्त्वन्तरेण तिरस्कारे इति कर्मणि। वस्त्वन्तरस्य तिरस्कार इति कर्तरि। फलतः स एवार्थः । तथाचोत्कृष्टगुणेनापक- ष्गुणस्य तिरस्करणं न्यरभावनमिति लक्षणार्थः। पृथग्रूपतिरस्कारेणैकरूपतापत्ति- मालितमुच्यते । तथाच कातन्त्रम्-'मीलितं युक्तमुच्यते' इति। अभिप्रायपूर्व- स्तिरस्कारो द्विविध :- सिद्धाभिप्रायफलोSसिद्धाभिप्रायफलश्च यथाक्रमं पिहिता- पिहिते। न चैतावता विशेषेण पृथग्भावः; सामान्यलक्षणव्याप्तत्वादवान्तरभज्ञीना- मानन्त्याच। स रूपगुणेन तिरस्कारखतद्ठुणो विरूपगुणेनातह्रुणः । एतावपि मीलि- तविशेषाविति स्फुटम्॥। अत्र मीलितमभिधीयमानगुणेन प्रतीयमानगुणेन च वस्तुना संभ- वति। तयोरादो(Sमिधीयमानगुणेन) यथा- 'एन्तोवि ण सच्चविओ गोसे पसरत्तपल्लवारुणच्छाओ। मज्जणतंबेसु मओ तह मअतंबेसु लोअणेसु अमरिसो ॥१२६॥' [आगच्छन्नपि न दष्टः प्रातः प्रसरत्पह्वारुणच्छायः। मज्जनताम्रयोर्मदस्तथा मदताम्रयोरलोचनयोरमर्ष: ॥] अत्र मज्जनताम्रयोर्लोंचनयोर्मदरागो मदताम्रयोः कोपानुरागः साक्षा- दभिघीयमानेनैव गुणेन तिरस्क्रियमाणो निदर्शित इत्यभिधीयमानगुणेन वस्तुनैतन्मीलितम् ॥। विभागमाह-अत्र मीलितमिति। एन्तोवीति। सचचविओ रष्टः। गोसे प्रातः। तस्याः मज्बनं म््ानम्। अत्र ताम्रपह्वारुणरागपदाभ्यामभिधीयते गुणः ॥।
Page 466
३ परिच्छेद: I] सरखतीकण्ठाभरणम्। ३७१
प्रतीयमानगुणेन यथा- 'पिअदंसणेण सुहरसमुउलिअ जइसे ण होन्ति णअणाइम्। ता केण कण्णरइअं लक्खिज्जइ कुवलअं तस्सा ।। १२७।।' [प्रियदर्शनेन सुखरसमुकुलिते यद्यस्वा न भवेतां नयने। तत्केन कर्णरचितं लक्ष्येत कुवलयं तसा: ॥] अत्र प्रियदर्शनसुखेन मुकुलितयोरेव लोचनयोस्तस्याः कर्णकुवलयं लक्ष्यते नत्वमुकुलितयोरिति वस्तुना वस्त्वन्तरतिरस्कारः प्रतीयमानगु- णतयोपपादित इति प्रतीयमानगुणेन वस्तुना मीलितमिदम् ॥ ननु पिअदंसणेणेत्यादि कथं मीलितं, न त्ात्र तिरस्कार: केनापि शब्देन प्रत्या- य्यत इत्यत आह-नत्वमुकुलितयोरिति । यदि मुकुलिते न स्यातां कर्थ कुवलयं लक्ष्यत इति तर्कस्य तिरस्कारपर्यवसानादिति भावः । मूर्तिरूपादिक: प्रती- य्यमानो गुणः ।। पिहितं यथा- 'पअडिअसणेहसंभावविन्ममन्तिअ जह तुमं दिट्ठो। संवरणवावडाए अण्णोवि जणो तह चेअ ॥ १२८।' [प्रकटितम्न्ेहसद्धावविभ्रमतया यथा त्वं हष्टः । संवरणव्यापृतया अन्योऽपि जनस्तथा चैव ॥] अत्र प्रकटितस्ेहविभ्रमतया त्वामवलोक्य नैतदन्यो जनो जाना- त्विति सर्वत्र सि्िग्घदृष्टिपातेन पिहितमप्येतन्मीलितभेद एव ।। अपिहितं यथा- 'दिट्ठाइवि जण्ण दिट्ठो आलविआएवि जण्ण आलविओ। उबआरो जण्ण कओ तेण अ कलिअं छइलेहिम् ॥१२९॥' [दष्टयापि यन्न दृष्ट आलपितयापि यन्नालपितः । उपचारो यन्र कृतस्तेन च कलितं छेकैः ॥]
Page 467
३७४ काव्यमाला ।
अत्र दृष्टया यत्र दृष्टः संभाषितया यन्न संभाषितो न चाभ्यागतो- पचारो विहितखेन तदनुरागः परं न पिहितः प्रत्युत छादनेन छेकानां प्रकटित इत्यपिहिताख्योऽयं मीलितमेदः ॥ ननु दष्टयापि न दृष्ट इत्यपि कथमलंकारः। न तत्र शक्तिरततीलयत आह- प्रत्युतेति। छेका विदग्धास्तैरास्वाद्यमानत्वादावर्जकत्वं काव्यस्येत्वर्थ: ॥ तद्गुणो यथा- 'गोरञ्उ तरुणिअणो जोडाइं अहिसरइ सिअणेवच्छपडिच्छेओ बल्लहवद्धरह। तच्छाआहिं पुण चलिअउ सामल- गत्तो तह मअणु मन्ति अहिम् ॥ १३० ॥ [गौराङ्गस्तरुणीजनो ज्योस्त्रायामभिसरति सितनेपथ्यपरिच्छन्नो वहमबद्धरतिः । तच्छायासु पुनश्चलितः श्यामलाङ्गस्तत्र मदनो मच््यभूत् ॥] अत्र गौराङ्स्तरुणीजनः सितनेपथ्यो ज्योत्सायां श्यामस्तु नीलनेप- थ्यस्तस्याश्छायासु गच्छतीति तद्रुणाश्रयमीलनात्तद्रुणास्यं मीलितमिदम्। गोरङ्गउ इति। गौराइः । जोहाइं ज्योत्सायाम्। णेवच्छं नेपथ्यं बस्राङ- रागादिपरिग्रहः । पडिच्छेओ प्रतीक्ष्य गृहीत्वा । वहहवद्धरइ वह्भबद्धरतिः । तच्छाआहिं तासां गौराज्ीणां छायायाम्। चलिअड चलितम्।। अतद्रुणो यथा- 'कर्कन्धूफलमुचिनोति शबरी मुक्ताफलाकाङ्गिणी i। कुद्धोलककदम्वकस्य पुरतः काकोऽपि हंसायते। कीर्त्या ते घवलीकृते त्रिभुवने क्ष्मापाल लक्ष्मीः पुरः कृष्णं वीक्ष्य बलोऽयमित्युपहितव्रीडं शनैर्जल्पति १३१।।' ॥ अत्र कर्कन्धूफलानामपगतनिजगुणत्वादतद्रुणत्वादतद्रुणास्यं मीलि- तमिदम् ॥ अत्र कर्कन्धूफलानामिति। विरुपगुणानामित्यर्थः॥।
Page 468
३ परिच्छेद: I] सरस्तीकण्ठाभरणम् । ३७५
सदशादष्टचिन्तादेरनुभूतार्थवेदनम्। सरणं प्रत्यभिज्ञानस्वप्नाद्यपि न तद्रहिः ॥ ४२॥ मीलिते ज्ञानमस्तीति साजात्यादनन्तर स्मृति लक्षयति-सदशेति। सदशा ज्ञायमानसादश्यात् प्रयत्नजा स्मृति्चिन्तादिर्यस्यार्थमग्रे कथयिष्यति-अनुभूतार्थ- वेदनं समानविषयानुभवनियतज्ञानविशेषरूपं स्मरणम्। प्रत्यभिज्ञानमपि पूर्वानुभू- तविषयमेव। एवं खप्रोऽपि। तत्र सदृशादथा- 'अदृश्यन्त पुरस्तेन खेलत्खञ्जनपङ्कयः । असर्यन्त विनिःश्वस्य प्रियानयनविभ्रमाः ॥ १३२ ॥'
नजं स्मरणमिदम् ।। अत्र खञ्नेति। अत्रशब्देनखज्जनपङ्किवेदवलोकितानन्तरमेव प्रियास्मरण- मासीदिति कार्यकारणभावोऽवगम्यते। स च कारणतासादृश्यमनन्तर्भाव्य सजन- ज्ञानस्यास्तीति च प्रतीतं सादश्यमिति भाव: ।। अदृष्टादथा- 'मुनिसुताप्रणयस्मृतिरोघिना मम वियुक्तमिदं तमसा मनः । मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्र निवेशित: १३३॥' अत्र मुनिसुताप्रणयस्मृतिरोधिना तमसा मे मनो वियुक्तमित्यदृष्ट- कृतं स्मरणमिदम् ।। अत्र मुनिसुतेति। तमोलक्षणस्य प्रतिबन्धकस्यापगमे स्मरणरूप कार्यमाव- श्यकमित्यर्थः॥ चिन्ताया यथा- 'पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम्। बहोरईष्टं कालादपरमिव जातं वनमिदं निवेश: शैलानां तदिदमिति बुद्धिं द्रढयति ॥ १३४ ॥'
Page 469
२७६ काव्यमाला। अत्र प्रत्यक्षेष्वपि स्रोतस्तरुविपिनादिषु स्रणस्य चिन्ताजन्यत्वादिदं चिन्तोद्भूतं स्मरणम् ।। आदिग्रहणात्परप्रयन्नाद्यथा- 'दर्शनपथमायाता साक्षादिव तन्मयेन हृदयेन। स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥१३५॥ अत्र परकृतात्पयत्नविशेषाचिन्तायाः प्रवृत्तत्वादिदमपि स्मरणमेव। खम्रादयथा- 'जाने खम्नविधौ ममाद्य चुलुकोत्सेक्यं पुरस्ादभ्- त््रत्यूपे परिवेषमण्डलमिव ज्योत्सासपलनं महः।
र्दष्टा काप्यवला बलात्कृतवती सा मन्मथं मन्मथम् १३६' अत्र खम्नस्य चिन्तादिजन्यत्वात्सम्स्मृतिरपि स्मरणमेव ।। यदि स्वप्नस्मृतिरपि स्मरणमेव तदा कतमदत्र सादश्यादिषु कारणमत उक्तम्-चिन्तादीति। प्रत्यभिज्ञानं यथा- 'गृहीतो यः पूर्व परिणयविधौ कंकणघरः सुधामूर्ते: पादैरमृतशिशिरैर्यः परिचितः । स एवायं तस्यास्तदितरकरौपम्यसुभगो मया लब्घ: पाणिर्ललितलवलीकन्दलनिमः ॥ १३७ ॥' अत्र गृहीतो यः पूर्व स एवायं तस्याः पाणिरिति प्रत्यभिज्ञान- मपि स्मरणमेव। प्रत्यभिज्ञानस्वरूपं दर्शयति-यः पूर्व स एवायमिति। ननु सूत्रे खमा- सपूर्व प्रत्यभिज्ञानमुहिषटं पश्चादुदाहियत इति कथमेतत्। अत्रोदाहरणकमेऽपि
Page 470
३ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ३७७
अभिप्रायानुकूल्येन प्रवृत्तिर्भाव उच्यते। सोद्ेदोऽथ निरुद्वेदवैकतश्वाभित् सः ॥४३॥ अभिमतमुक्तादिवस्तुचिन्तननियमादनन्तरं भावलक्षणम् । तदाह-अभि- प्रायेति। अभिमतवस्तुचिन्ता अभिप्रायः । तदनुकूलतया प्रवृत्ति: कियालक्षणा- भावः। अत एव सूक्ष्माद्वेदः। प्रवृत्तिप्रतिपादकेन खार्थप्रकाशनद्वारा प्रकाश्यमानोऽ- भिप्रायः क्वचित्पदान्तरवृत्तिसहकृतेन प्रकाश्यते, कचित्केवलेन। ताबिमी सोद्ेद- निरुद्वेदी । मिथोऽनुबन्धविषयथायं चमत्करोति। तत्र प्रवृत्तिरुच्यमानानेन तस्योच्यते तयोवा। तदिदमाह-एकतश्चामितश्चेति । अभिप्रायोद्धावना- दशायां रूढः खादपदवीमासाद्य चमत्कारमावहति। अत एव तत्कार्ययोः प्रव्ृत्ते- रनुभावरूपतया तद्यावानकुण्ठ इति हृदयम् (?) ।। तत्रैकतः सोद्गेदो यथा- 'गेह पलोएह इमं विअसिअणअणा पिअस्स अप्पेइ। घरिणी सुअस्स पढमुन्भिण्णदन्तजुअलंकिअं बोरम् ॥११८' [गृहाण पर्यालोकयेमं विकसितनयना प्रियायार्पयति। गृहिणी सुतस्य प्रथमोद्विन्नदन्तयुगलाङ्कितं बदरम् ॥] अत्र सुतस्य दन्तोद्गमादह्मुपभोगयोग्यास्मीति गृहिण्या एवममि- प्रायः प्रकर्षविकासितनयनतयोद्विद्यते; न पुनः पत्युरित्येकतः सोद्गे- दोऽयं भावः ।। अमितः सोद्भेदो यथा- 'सालोए च्चिअ सूरे घरिणी घरसामिअस्स घेत्तण । णेच्छन्तस्सवि पाए घुअइ हसन्ती हसन्तस्स ।। १३९ ॥' [सालोक एव सूर्ये गृहिणी गृहसवामिनो गृहीत्वा। अनिच्छतोऽपि पादौ धावयति हसन्ती हसतः ॥] अत्र सालोक एव सूर्ये गृहपतेर्गृहागमनं गृहिण्याश् यत्पादघावनं तदावाभ्यामद्य वेश्मनो न निर्गन्तव्यमिति भावः । स च द्योरपि हासेनाभित उद्धिदत इत्यमितः सोद्गेदोऽयं भावः ॥
Page 471
३७८ काव्यमाला। एकतो निरुद्वेदो यथा- 'सालिवणगोविआए उड्डीयन्तीअ पूसविन्दाइम्। सव्वङ्ञसुन्दरी एवि पहिआ अच्छीइ पेच्छन्ति॥ १४० ॥' [शालिवनगोपिकाया उड्डाययन्त्याः शुकवृन्दानि। सर्वाङ्गसुन्दर्या अपि पथिका अक्षिणी एव प्रेक्षन्ते ॥] अत्रातिसौन्दर्येण देवीआ्रान्त्या शालिवनगोपिकामालोकयतां पथिका- नां तदक्षिनिरीक्षणेऽयमभिप्रायः-'शालिवनतिरस्कारेण देवमानुषयो- र्विशेषभूतः पञ्धामेव भूमिस्पर्शो भूम्यस्पर्शो वा न लक्ष्यत इति तद- क्षिणी एव पश्यामो यदियं निमिषति तदा मानुषीयं यदि न निमिषति तदा देवीयम्।' इति सर्वाङ्रसुन्दर्या अपि पथिकानामेव जायमानो भावो नेह केनचित्कर्मणोद्विद्यत इत्येकतो निरुद्वेदश्चायं भावः ॥ नेह केनचिदिति। तथा चात्र शब्दान्तरस्य व्यापारो नास्तीत्यर्थः ॥ अभितो निरुद्वेदो यथा- 'गोलाअडड्रिअं पेच्छिऊण गइबइसुअं हलिअसोहा। आढत्ता उत्तरिउं दुक्खुत्ताराइ पअवीए ॥ १४१॥' [गोदातटस्थितं प्रेक्ष्य गृहपतिसुतं हालिकस्रुषा। आरब्धा उत्तर्तु दुःखोत्तरया पदव्या ॥] अत्रागच्छन्तीं हालिकसुषां दृष्ट्रा गरहपतिसूनोर्गोदावरीतटे यदव- स्थानम्, यश्च तमवलोक्य तस्या दुरुत्तरमार्गेणावतरणारम्भसत्रायं तयो- रभिप्रायो हस्तावलम्बदानेनावयोरङ्गसङ्गमः संपद्यतामिति। स चाभितो द्वयोरपि जायमानो नेह केनचित्कर्मणोद्विद्यत इत्यमितो निरुद्वेदश्चायं भाव: । ii हृद्यं सूक्ष्म च भिद्ेत न हि भावात्कथंचन। हद्योदाहरणं तत्र तैरिदं प्रतिपाद्यते॥ ४४॥
Page 472
३ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। ३७९
'हिअए रोसुगुण्णं पाअप्पहरं सिरेण पत्थन्तो। णह उदओ(?) माणंसिणीए अ थोरं सुअं रुण्णम् ।१४२।।' अत्र हृदये रोषोद्धूर्णपादप्रहारं यदयं शिरसा प्रार्थितवान्, यच्च तयासौ न ताडितस्तत्र हृदये वल्लभा वसतीति भावः। सच प्रार्थनारो- दनाभ्यामुद्धिद्यमानः सोद्वेदो भावो हृद्य इत्युच्यते।। हद्यमिति। अभिमतस्य वस्तुनो हृदयावच्छेदेन प्ृत्तिमतिसंधाय प्रवृत्तिः । तत्र यद्यपि विशेषोऽस्ति तथापि भावसामान्यलक्षणाकान्तस्तत्रैवान्तर्भविष्यति॥। निरुद्वेदस्तु यो भावः स सूक्ष्मस्तैनिगद्यते। इङ्गिताकारलक्ष्यात्स सूक्ष्मात्सान्वमिकान्तरम् ।४५॥ यथा- 'कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम्। अवेत्य कान्तमबला लीलापझं न्यमीमिलत् ॥ १४३ ॥ अत्र वक्तुमक्षमतायामिङ्गिताकारयोरप्रतीयमानत्वाद् भावगतेर्भूमि- कान्तरमिदं भवति। ननु च सूक्ष्म: कथ पूर्वोक्ात्सूक्ष्माद्वियत इत्यत आह-इद्गिताकारलक्ष्या- दिति। कदा नौ संगमो भावीत्यभिप्रायस्य व्यञ्नकं नेहितं न विकारो वा कान्तस्य कश्चिदुपात्तः, अवेलयेत्यादिप्रकाशिताभिप्रायानुगुणा काचिदस्ति किया वा। कथ- मन्यथा तमुदिश्य लीलापद्मनिमीलनं संगच्छते। तसादन्यमेवेदं सूक्ष्मं भाव- लक्षणाकान्तम्।। 'पद्मसंमीलनाचात्र सूचितो निशि सङ्जमः । आश्वासयितुमिच्छन्त्या प्रियमङ्कजपीडितम् । १४४॥ अत्रानुकार्यानुकरणेऽपि भूमिकान्तरिते एव भवत इति सोडयं निरुद्वेदो भाव एव सूक्ष्म इत्युच्यते। उत्तरार्धस्योदाहरणं व्युत्पादयति-अत्र पद्मसंमीलनाच्चेति। एवं चेत् प्राप्तमितितलक्ष्यत्वमत आह-तत्र चेति। आजानिकं मदममीलनमनुकार्य
Page 473
३८० काव्यमाला।
कान्ताहस्ताङ्कुलीजनितमनुकरणं रात्री समागमो भविष्यतीति कान्तागतोऽभिप्रायः।
प्रत्यक्षमक्षजं ज्ञानं मानसं चाभिधीयते। खानुभूतिभवं चैवमुपचारेण कथ्यते॥ ४६ ॥ ज्ञानसंगत्यनन्तरं प्रमाणरूपालंकार प्रस्तावस्तत्रान्येषां प्रमाणानां प्रत्यक्षमूलकत्वात् प्रथमं प्रत्यक्षलक्षणमाह-प्रत्यक्षमिति । साक्षात्कार: प्रत्यक्षमिति प्रसिद्धं तस्य विभागमाह-अक्षजमिति। अक्षं बहिरिन्द्रियं तस्माज्जातम्, मानसं बाहे- न्दियानपेक्षेण मनसा जनितम् । खानुभूतिः सहजा चिच्छकिस्तस्या उत्पन्नम्। शरीराभिधाताद्यभिभूते प्रत्याहारतिरस्कृते वा मनसि यत् कदाचिदतिस्फु- टमं ज्ञानमुत्पद्यते न तस्य मनोनिबन्धनता शक्यतेऽरभिधातुमिति चिच्छ- क्िमेवाश्रयते। ननु इन्द्रियजन्य एव लोके साक्षात्कारिताप्रसिद्धे: कथमनुभूतिभवं तथेत्यत आह-उपचारेणेति। यदीन्द्रियजन्ये साक्षात्कारितानियमस्तदोपचारेण परिगणनम् । अथ भावनादिबलेन विनापीन्द्रियं भवतीति पक्षस्तदा मुख्यत एवेति भाव: II तत्राक्षजं द्विवा। युगपदेकशश्र। तयोर्युगपद्यथा - 'कान्तकान्तवदनप्रतिबिम्बे मअ्रवालसहकारसुगन्धौ। खादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः॥१४५' अत्र मदिराश्रयाणां मुखप्रतिबिम्बसौगन्ध्यखादुताश्रव्यत्वशैत्यानां हग्म्राणरसनश्रवणत्वगिन्द्रियप्रत्यक्षता प्रतीयते॥ युगपदिति। एकस्मिन्वाक्ये प्राणरसनचश्षुस्त्वक्श्रोत्राणां पथ्चानामपि युग- पतप्रशृत्त्यभिधानायीगप्य रसानुगुणतया यौगपद्यान्चमत्कारितामावह्तीति द्विषा- प्यलंकारकाण्डे परिसंरयानमुचितम्।। एकशो यथा- 'मन्दमन्दविगलत्रपमीषचक्षुरुल्लसितपक्ष्म दघत्या। वीक्ष्यते सम शनकैर्नववध्वा कामिनो मुखमधोमुखयैव १४६' तदेतच्ाक्षुषम् । एवं श्रावणादीन्यप्युदाहरणीयानि॥
Page 474
३ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। ३८१
मानसमपि द्विघा । सुखादिविषयमनुभूतार्थविषयं च। तयोः सु- खादिविषयं यथा- 'अस्तोक विस्मयमविस्मृतपूर्ववृत्त- मुद्ूतनूतनभयज्वरजर्जरं नः । एकक्षणत्रुटितसंघटितप्रमोद- मानन्दशोकशवलत्वमुपैति चेतः ॥ १४७॥' एतन्निगदेनैव व्याख्यातम् ॥। मानसमपि द्विधेति । संयुक्तसमवायनियमितमेकमपरं तु संस्कारनिय- मितम्। संस्कारलक्षणया हि प्रत्यासत्त्या यथा स्मरणातिरिक्त प्रत्यभिज्ञानं तथेद- मपीति न किंचिदनुपपन्रम् । निगदेनैवेति। यदि विस्मयादीनयं न साक्षात्कृ- तवांस्तर्हिं कथमुद्वेलतामाचक्षीतेल्यर्थः। अनुभूतार्थविषयं यथा- 'पिहिते वासागारे तमसि च सूचीमुखा्रसंमेद्ये। मयि च निमीलितनयने तथापि कान्तामुखं व्यक्तम् ।।१४८।' इदमपि नातिदुर्बोधमिति न व्याख्यातम् ।। इदमिति। व्यक्तमित्यनेन साक्षात्कारो दर्शितः । नहि स्रणेन व्यक्ता भवति किंतु आत्मन्येवावतिष्ठते। खानुभूतिमाश्रयत इत्यर्थः ॥ खानुभूतिभवं द्विघा। मिथ्यात्मकममिथ्यात्मकं च। तयोरमिथ्या- त्मकं यथा- 'अथ दीर्घतरं तमः प्रवेक्ष्यन्सहसा रुग्णरयः ससंग्रमेण। निपतन्तमिवोष्णरश्मिमुव्यी वलयीभूततरुं घरां च मेने ॥१४९॥' तदिदमिन्द्रियेषु मनसि चानवतिष्ठमानमात्मन्येवावतिष्ठते॥ अमिथ्यात्मकं यथा- 'मनः प्रत्यकूचिते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सञ्ितिदशः।
Page 475
३८२ काव्यमाला।
यदालोक्याहाद हूद इव निमज्ज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ।१५०।।' अस्यात्मविषयता व्यक्तैव योगिभिरुद्रीयते ॥ योगिभिरिति। निदिच्यासनवललव्वात्मनो ज्ञानस्य योगिमात्रे प्रसिद्ध- विषयत्वान्न ह्यास्मदादयस्तथा तं परिचिन्वन्ति यथा योगिन इत्पर्थ: ॥ अनुमानलक्षणमाह- लिङ्गाद्ल्लिङ्गिनो ज्ञानमनुमानं तदुच्यते। पूर्ववच्छेषवच्चैव दृषट सामान्यतश्च यत् ॥४७॥ लिङ्गादिति । यस्य येन सहाविनाभावलक्षणा व्याप्तिः संदिग्धसाध्यधर्मंध- र्मिरूपपक्षवृत्तितारूपा पक्षधर्मता च गृह्याते तस्मात्तस्व प्रतीतिरनुमानं यथा धूमा- दवहे: । स हि यथाविधे सिद्धस्तथाविधसनिधानं सूचयति। तत्र यस्मात्प्रतीति- रुत्पद्यते तत् लिज्ं चिह्म्। व्याप्तिविशिष्टपक्षे धर्मतासंज्ञापकमितयर्थः। इतरलिज ज्ञापकमस्यास्तीति कृत्वा । पूर्ववच्छेषवत्सामान्यतोदृष्टभेदात्रिविधमनुमानममे प्रन्थ- कृतैव व्याख्यातमिति न वितन्यते ॥ फलसामग्रयभेदेन द्विघैतद्विद्यते पृथक्। उदाहरणमेवैषां रूपव्यक्त्यै भविष्यति ॥४८।। फलसामपर्येति। यद्यपि ज्ञानमनुमानमित्युक्तं तथापि तस्य साधारणमेव कचिदनुपन्यासप्रधानं वाच्यम्, कचित्करणीभूतलित्परामर्शोपन्यासप्रधानमिति भवति यथोक्तो विशेषः । अनुमानशब्दो हि भावल्युडन्तः करणे ल्युडन्तो वा। आद्ये फलं द्वितीये सामभ्यकरणमित्यर्थः। उपन्यासप्रधानता दुरूहेत्यत आह- उदाहरणमेवेति। " तेषु यत्र कारणं दृष्ट्ा कार्यमनुमीयते तत्पूर्ववध्यथा- 'प्रविरलविलोलजलद: कुटजार्जुननीपसुरभिवनवातः । अयमायातः कालो हन्त हताः पथिकगेहिन्यः ॥ १५१ ॥' अत्र वर्षतोः कारणभूतात् कार्यभूतविरहिणीनां मरणमनुमीयते। तेनैतत्पूर्व कारणमिहदास्तीति पूर्ववदुच्यते।।
Page 476
३ परिच्छेद: I] सरसतीकण्ठाभरणम्। ३८३
कार्यभूतविरहिणीनामिति । पथिकगेहिनीनां दशम्यवस्था जायमाना वाक्यार्थः । अतः फलोपन्यासदत्तभरमेवेदं काव्यमित्यभिप्रायः । आयातथेजल- दागमस्तदा पूर्वप्रवृत्त इव पथिकनारीविनाशो लक्ष्यत इति निष्ठाप्रत्ययेन घोलते। यत्र कार्य दृष्टा कारणमनुमीयते तच्छेषवद्यथा- 'सावज्ञमागमिष्यनूनं पतितोऽसि पादयोस्तस्याः । कथमन्यथा ललाटे यावकरसतिलकपङ्किरियम् ॥ १५२ ।।' अत्र यावकरसतिलकपङ्केः कार्यभूतायाः कारणभूतं पादपतनमनुमी- यते। तेनैतच्छेष: कार्यमिहास्तीति शेषवदुच्यते ॥ कथमन्यथेति। नेयमर्थापत्तिः; किंतु तथाभूता नायकस्य ललाटेऽलकक- बिन्दुविशेषपद्कि: प्रमदापदावपातप्रतिबद्धेति। न चालक्तकविन्दुपज्किज्ञानं तथा खदते यथा विपक्षचरणावनमनानुमेयस्य ज्ञानं फलभूतम्, तत्किल विपक्षगोच- रामीर्ष्यां व्यञ्जयद्विप्रलम्भप्रकर्ष पुष्णाति।। यत्र न कार्य न कारणं केवलमविनाभावमात्रं प्रतीयते तत्सामा- न्यतो दष्ट यथा- 'गजन्ते खे मेहा फुल्ला णीवा पणददिआ मोरा। णट्टो चन्दुज्जोओ वासीरन्तो हला पत्तो ॥ १५३॥' [गर्जन्ति खे मेघाः फुला नीपाः प्रनर्तिता मयूराः। नष्टश्चन्द्रोद्चोतो वर्षर्तुः सखि प्राह्तः ॥] अत्र वर्षर्तुरविनाभूतैर्मेंधगर्जितादिभि: सामान्येनैवानुमीयत इति सामान्यतो दृष्टमिदम्। तान्येतानि भावसाधनेऽनुमानशब्दे फलपक्षे उदाहरणानि भवन्ति ॥ गज्जन्त इति। अत्र समसमये मेघगर्जितादिभि: कालोपाधिभिरनुमानं तेन कार्यकारणभावः । अत्र हि न पृथद्मेघगर्जितादिज्ञानं तथा चमत्कारमावहति यथा वर्षारात्रिज्ञानप्रतिबदम्। स हि ज्ञातः केतककर्णपूरादिविदग्धनेपथ्यपरि- अहौत्मुक्यं प्रवासिनायकागमनौत्सुक्यं वा जनयतीति फल एव भरः ॥
Page 477
३८१ काव्यमाला।
यदा पुनः करणसाधनोऽनुमानशब्दसदानुमीयतेSनेनेत्यनुमानश- वदेन यथोक्तं लिन्रमुच्यते। यदाह- 'अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते। तदभावे च यन्नास्ति तल्लिक्कमनुमापकम् ॥ १५४ ॥ अनुमेयेनेति। अनुमेयेन पक्षेण तस्यैव साध्यवत्तयानुमेयत्वात्। यदाह- 'स एव चोभयात्मायं गम्यो गमक इष्यते। प्रसिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः ॥।' इति। तदन्विते साध्यान्विते। प्रसिद्धं प्रकर्षेण सिद्धम् । व्याप्यतयाधिगतम्। तदभावे साध्याभावे। यतोऽनुमापकं ततो लिग्नम्॥ तत्पूर्ववति यथा- 'अइ सहि वकुल्लाविरि च्छुहिहिसि गोत्तस्स मत्थए छारम्। अच्चंतदत्तदिट्ठेण सामि वलिएण हसिएण।। १५५ ।।' [अयि सखि वकालापैश्छादयिष्यसि गोत्रस मस्तके भरत। अत्यन्तदत्तटष्टेन सामि बलितेन हसितेन ॥] अन्रैवंप्रकारया वक्रोत्त्या एवंविधेन हसितेनोपलक्षितत्वमग्रतो गोत्रं दूषयसीति कारणतो यत्र कार्यानुमानं तदिदं सामग्रीपक्षे पूर्ववदि- सयुच्यते।। पूर्ववतीति। पूर्व कारणमनुमापकं यस्यास्ति तत्पूर्ववल्नितं तस्मिन् । ननु मापयितव्ये लिव्ज्ञानविषयतया पूर्व कारणमाश्रयतीति पूर्ववत्। सोऽयमर्थः सप्तम्या द्योतितः । कारणत इति। यथाहि वक्र आलापो मुग्धाज्ञनाप्रकृत्यीचित्यागतं हसितं ध्वननशक्या विषयतया कान्तिमर्पयति न तथा शब्दाभिलपितं चारि- त््यखण्डनमिति साहित्यमुद्राविदामतिप्रकाशमेव।। शेषवति यथा- दीसइ ण चूअमउलं अत्ता ण अ बाइ मलअगन्धवहो। एतं वसन्तमासो सहि जं उत्कण्ठिअं चेअम् ॥ १५६ ॥' [दृश्यते न चूतमुकुलमद न च वाति मलयगन्धवह्यः। एति वसन्तमास: सखि यदुत्कण्ठितं चेतः ॥I]
Page 478
३ परिच्छेद: I] सरखतीकण्ठाभरणम्। ३८५
अत्रोत्कण्ठालक्षणेन कार्येण वसन्तः कारणभूतोऽनुमीयत इति सा- मग्रीपक्षे इदं शेषवदित्युच्यते।। एत्तमिति। चूतमज्जरीमलयपवनयोरगे समुत्कण्ठितमत्र चमत्कारास्पदम्। तथाहि । यथा प्रियस्य संनिधास्यतः संभावना लोकोत्तराभिमानप्रतिष्ठिता भवति न तथा संनिधानमिति सहृदयसाक्षिकोऽयमर्थः। एवं सामान्यतो दृष्टोदाहरणे बोध्यम्।। सामान्यतो हष्टं यथा- 'आविर्भवन्ती प्रथमं प्रियायाः सोच्छासमन्तःकरणं करोति। निदाघसंतप्तशिखण्डियूनो वृष्टे: पुरस्तादचिरप्रभेव ॥१५७॥ सेयं विद्युदिव दृष्टिं कामन्दक्यपि प्रथमत उपलभ्यमाना अविना- भावेन मालत्यागमनं गमयतीति सामग्रीपक्षे सामान्यतो दृष्टमेतत् ।। यदाप्तवचनं तद्धि ज्ञेयमागमसंज्ञया। उत्तमं मध्यमं चाथ जघन्यं चेति तत्रिधा। ४९॥ यदाप्तवचनमिति। आप्तो यथार्थशब्दवक्ता। उत्तमं श्रुतिमूलम्। अत एव तस्यावश्यानुष्ठेयत्वाभिधानम्। मध्यममनादिलोकव्यवहारमूलं तदेव नावश्या- नुष्ठेयमित्यनेन प्रकाशयिष्यते। उभयविधावहि:फलसंवादि जघन्यम् ॥ तत्रोत्तमं द्विधा। विधिरूपं निषेधरूपं च । तयोर्विधिरूपं यथा- - 'दम दानं दयां शिक्षेः सनयित्रुर्वदत्यसौ। ददध्व इति वाग्दैवी दयध्वं दत्त दाम्यत । १५८ ।।' अत्र चैषा दैवी वागनुवदति, यत् सनयित्रुर्ददध्व इति दयध्वं दत्त दाम्यतेति 'तदेतत्रयं शिक्षेत दमं दानं दयाम्' इति श्रुतेखतदे-
ददध्व इति। जलदध्वनितनानानादस्यानुकरणं तत्रितयव्याजेन जलघरो वदति। दयध्वं दत्त दाम्यतेति दैवी वागतो दमदानदयाः कर्तव्या इति विधिः पर्यवस्पति। बुद्धीन्द्रियनियमो दमः। दानदये प्रसिद्धे। मूलभूतां श्रुति दर्शयति- अत्र चैपेति। २५ स० क०
Page 479
३८६ काव्यमाला।
निषेधरूपं यथा- 'निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराघरः । न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् १५९'
नबटुनिवारणोपदेशस्तस्य महान्तो नापभाषितव्या इति वाक्यार्थे तात्य- र्यादयं निषेधरूप आगमः । तदेतदुभयमप्यवश्यानुष्ठेयत्वादुत्तमम् ।। ननु 'न केवलं यो महतोऽपभाषते' इत्यादि वर्तमानापदेशात्कथं विधित्वमत आह-अत्रोत्तरार्घेति। अपभाषणस्य निन्दार्थवादेन निषेधविधि: कल्प्यते, तेन महान्तो नापभाषितव्या इति वचनव्यक्तिरुननीयत इति॥ मध्यमं द्विधा। निर्दिष्टवक्तकमनिर्दिष्टवक्तकं च। तयोरादं यथा- 'कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा। एति जीवन्तमानन्दो नरं वर्षशतादपि॥ १६० ॥' अत्र जीवनरः पश्यति भद्रमित्ययमेवार्थो निर्दिष्टवक्तकस्तदेतत्स- र्ववाक्यानां विधिनिषेधयोः पर्यवसानात् प्राणेषणायां यतितव्यमिति विधिरूपमाप्तवचनम् ॥ अत्र जीवन्नर इति। एषा चिरंतनी लोकगाथा। तन्मूलत्वं 'एति जीव- न्तम्-' इत्यादेरागमस्य । अत्रापि प्राग्वदेव स्तुत्यर्थवादेन जीवनाय यतितव्यमिति विधि: कल्प्यते । तदिदमुक्त सर्ववाक्यानामिति॥ द्वितीयं यथा- 'अक्षे वसति पिशाचः पिचुमन्दे दिनपतिर्वटे यक्षः । विश्राम्यति पद्मे श्रीस्तिष्ठति गौरी मधूकतरौ ॥ १६१ ॥ तदिदमनिर्दिष्टवक्तकम नादिलोकप्रसिद्धिपरम्परायातमै तिह्यम्। अ- त्रापि सर्ववाक्यानां विधिनिषेधयोः पर्यवसानात्-'तस्मादक्षं न सेवेत, पिचुमन्दं न कृन्तेत, वट न छिन्दात, पदं न मूर्त्नि विभृयात्, मधूकं
Page 480
३ परिच्छेदः I] सरस्वतीकण्ठाभरणम्। ३८७
न पदा स्पृशेत्' इत्यध्याहारो भवति। सोडयं निषेधरूप आगमः । उभयमप्येतन्नावश्यानुष्ठेयमिति मध्यमम् ।। तदिदमनिर्दिष्टवक्तुकमिति। एतेनैतित्यमागम एवान्तर्भूतमिति दशिंतम् : अज्ञातवक्तृकस्यागमस्यैव तथा प्रसिद्वेरिति। अत्रापीति । पिशाचवासादिभिर- नुवादैः पूर्ववद्विधयः कल्प्यन्ते । जघन्यं द्विधा। काम्यं निषिद्धं च । तयो: काम्यं यथा- 'मुण्डइआचुण्णकसाअसाहिअं पाणणावणविईणम्। तेलं पलिअत्थणीणंवि कुणेइ पीणुण्णए थणए ॥ १६२ ।' [मुण्डितिकाचूर्णकषायसाधितं पाननावनवितीर्णम्। तैलं पतितस्तनीनामपि करोति पीनोन्नतौ सतनौ ॥] तदेतत्पूर्ववद्विधिरूपं काम्यमाप्तवचनम् । मुण्डइआ इति। मुण्डितिका अलम्बुसा । कषायः कायो जलम्। नावनं नस्यम् । काम्यमिति। पीनोन्नतस्तनकामनावतीभिरेव क्रियमाणत्वात्।। निषिद्धं यथा- 'वयं बाल्ये बालांस्तरुणिमनि यूनः परिणता- वपीच्छामो वृद्धान्परिणयविधौ नः स्थितिरियम्। त्वयारब्धं जन्म क्षपयितुमकाण्डेन विधिना न नो गोत्रे पुत्रि कचिदपि सतीलाव्छनमभूत् ।१६३।।' तदेतन्निषेधरूपं निषिद्धमेवाप्तवचनम्। उभयमपि चैतन्मूलकारिभि: संसृज्येतेत्यादिदोषान्नानुष्ठेयमिति जघन्यम् ॥ त्वयारब्धमित्यादी गणिकया सतीचारित्र्यवत्या न भवितव्यमिति स्फुटो निये- धविधिर्जधन्यत्वं व्याचष्टे-उभयमपि चैतन्मूलकारिभिरिति। सदृशात्सदशज्ञानमुपमानं द्विधेह तद्। स्यादेकमनुभूतेञर्थेऽननुभृते द्वितीयकम् ॥ ५० ॥ १. 'मवेनैकपतिना' इति पाठः पुस्तकान्तरे.
Page 481
३८८ काव्यमाला।
सदशादिति । इह मीमांसका वर्णयन्ति। उपमानमपि सादृश्यमसंनिकृष्टेडये बुद्धिमुत्पादयति । अस्यार्थः । सादृश्यं सादृश्यज्ञानम्। ज्ञायमानसादृश्यमिति यावत्। तदेबोपमानं कुत इत्यत आह। असंनिकृष्टे सदशान्तररूपेऽये यतो बुद्धिमुत्पाद्यति तेन भवति सदशात्सदृशप्रतिपत्तिरुपमानम् । न सदशादननुभूतज्ञानमुत्पद्यते; अतिप्रसन्नात्। तेनेदमनुभूतविषयमेव । नैयायिकानां तु अननुभूतविषयमेवोप- मानम्। तथाहि-नागरिकेण यदा आरण्यकः पृष्ठ आचष्टे 'यथा गौस्था गवयः' इति। तदा सलु नागरिकस्यातिदेशवाक्यार्थमनुस्मरतो गां च सादृश्यप्रतियोगिनं जानतो यद्गवये गोसाहश्यज्ञानं तदुपमानं प्रमाणं; तेनायं गवयशब्दवाच्य इति संज्ञासंज्िसंबन्धज्ञानं पश्चादुपजन्यते सोपमितिरिति । तत्र सदशाब्ुद्धौ विपरि- वर्तमानाद्यत्सदशज्ञानं सदशे गवये संज्ञासंज्ञिसंबन्धज्ञानमित्यर्थः। उदाहरणादिकं निगदव्याख्यातम्॥ तयोरनुभूतविषयं यथा- 'सर्वप्राणप्रवणमधवन्मुक्तमाहत्य वक्ष- स्तत्संघट्टाद्विघ टित बृहत्खण्डमुच्चण्डरोचिः । एवं वेगात्कुलिशमकरोब्योम विद्युत्सहसै- र्भर्तुर्वज्रज्वलनकपिशास्ते च रोषादृहासाः ॥। १६४।।'
लमाकाशं पश्यतो रावणदूतस्येयं सवयं दृष्टेषु प्रभुवक्ष:स्थलविदीर्णवज्रशक- लविस्फूर्जधुषु तद्रोषाटृहासेषु वियव्यापिषु तत्सादृश्यबुद्धिस्तदिदमनु- भूतविषयं नामोपमानं मीमांसका वर्णयन्ति ॥ अननुभूतविषयं यथा- 'तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले। समूहस्तारकाणां यः शकटाकारमाश्रितः ॥ १६५ ।' अत्र यथाविध: शकटाकारस्तथाविधो रोहिणीतारकासमूहाकार इ- त्येवमवधारिताप्तोपदेशस्य तदाकारतारकाचकदर्शनादिदं तद्रोहिणीश-
Page 482
३ परिच्छेद: I] सरखतीकण्ठाभरणम् । ३८९
नैयायिका: समुन्नयन्ति ॥ तदाभूतार्थविज्ञानजनकत्वेन हेतुना। नासादभिनयालेख्यमुद्राबिम्वादयः पृथक ॥५१॥ तेष्वमिनयो यथा- 'वइविवरणिम्गअदलो एरण्डो साहइ व तरुणाणम्। एत्थ घरे हलिअवहू एद्दहमेत्तत्थणी वसइ ॥ १६६ ॥' [ध्ृतिविवरनिर्गतदल एरण्डः साधयतीव तरुणेम्यः । अत्र गृहे हलिकवधूरेतावन्मात्रस्तनी वसति ॥]
मैरण्डदलसंनिवेशनात्यमुद्दिष्टेऽपि हालिकवधूस्तनपरिणाहे पूर्वानुभ्- तैवं विधस्तनपरिणाहसबन्धप्रतिपत्तिस्तदिदमनु भूतार्थविषयमुपमानमेवा- भिनय इत्युत्पेक्ष्यते । वइविवरेति। आ्रामतरुणैरनन्यबद्धान्तःकरणैर्हालिकवधूस्तनाभोगो मुसलो- लासनादी वारंवारमनुभूतः स तुल्याकार पृतविवरप्रसूनैरण्डदलदर्शनादेव बुद्धिमा- रोहतीति सा बुद्धि्मीमांसकोपमितिमध्यमध्यास्ते। कथमेरण्डदलर्सनिवेशस्याभि- नेयता । अनुकारो हयभिनयः । न चासी तत्र संभवति । अत आह-हस्ता- मिनयसंनिमेति। उत्तानप्रसारिताह्कुलिहस्तसंनिवेशेन वस्त्वन्तरपरिणाहप्र- तिबिम्बनं लोकप्रसिद्धं तदिहाप्येरण्डदलविस्तारदर्शनात्तदन्तरितमेव जायत इत्यर्थ:॥ आलेख्यं यथा- 'तवालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णासुतमधः । अथ खिद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच् लिखति ॥ १६७ ॥'
Page 483
३९० 1 काव्यमाला।
इति विज्ञानमुत्पद्यते, गोपनार्थ च तथाभूतयोरेव देवकुलादिद्ष्टवि प्णुकामयो: प्रतीतिर्मवति, तदैतदनुभूतार्थविषयं भवति। यदा पुनर- ननुभूतनायकादिसंदर्शनाया इत्थमाप्तोपदेशः । एवंभूतः सुपर्णकेतुश्च- कपाणिर्विष्णुर्मवति, एवंभूतो मकरध्वजः पुष्पचापः कामो भवति, यादृशाविमौ तादृशश्र ते मनोरथभूमिः; केवलमस्य गरुत्मदादयो न विद्यन्ते। तदा तदुत्तरकालमालेख्यगततदाकारदर्शनात् सोडयं मम प्रे- यानिति मद्विघया कयापि लिखितो भविष्यतीति तद्गोपायाम्येनं वि- प्णुचिह्ाभ्यामिति गरुत्मच्चके अधःप्रदेशहस्तयोः केतुहस्तयोर्निवेश- यति। अथापरा प्रतिविधित्सुर्गोपायन्ती प्रकाशयन्ती च प्रत्यासन्नोप- मानं मन्मथाकारमाचिर्यासुः करे पौष्पं चापं मकरमुपरिष्टाच लि- खति। अत्राकृतौ पदार्थे या इमास्तयोरलोकानां सोडयमिति विष्णुरिति काम इति च संज्ञासंज्ञिसंबन्धप्रतिपत्तयस्तदिदमनुभूतार्थविषयमुपमान- मालेख्यमाख्यायते ।। तवालेख्य इति। तदप्राप्तिकर्शिता चित्रप्रतिमादिना परिनोदनेन कर्थचि- दात्मानं धारयतीति तन्वीपदेन ध्वन्यते। न च जीवितमात्रार्थिनी सा किंतु त्वदा- कृतिदर्शनकुतूहलेनोद्विमा सती निगूढमप्यभि प्रायमालेख्यनिर्माणेन व्यनकीति कौतूहउतरलपदाभ्यां व्यज्यते। एकेति। या राधादिप्रणयपात्रं वशीकृतत्रि- भुवनमाजानसुकुमारं देवकीनन्दनमागमेषु बहुधाश्रीषीत्। अथेति। सा निर्य- त्रणप्रार्थनीयताविरोधिनं देवताभावमनुसंधत्ते, तया त्रैलोक्यातिशायिसीभाग्यप्रक- र्षस्य पुष्पेषोशिह्भूती चापमकरी लिखिताविति, अथ खिवद्यत्पाणिस्त्वरितमिले- तर्व्यज्यते। अत्रोदाहरणे द्विविधमप्युपमानं दर्शयति। तत्र मीमांसकपक्षे ताव- त्तन्ष्यालेख्यमुन्मृदितं दष्ट्रा काचिदनुभूतपूर्व नायकं जानाति । सादृश्याविशेषाच्च कृष्णकामावपि प्रत्येति तदा सदृशात्प्रतिपत्तिरुपमानं भवति। नैयायिकपक्षे यदा सामान्यतो नायकागमे उत्पन्नपूर्वानुरागाया विशेषतथ् प्रत्या्नलावण्यमजानन्त्ा इ्त्यभूताकारी कृष्णकामी यादशौ तादशस्तव प्रेयानित्याप्तोपदेशश्रवणानन्तर गृहीत-
Page 484
३ परिच्छेद: I] सरसतीकण्ठाभरणम्। ३९१
चित्राकारायास्तत्तच्छव्दाभिधेयताप्रतिपत्तिरुपमानमिति । कथ चित्रे कामादि- पदप्रयोग इत्यत आह-आकृताविति । रेखोपरेसादिसंनिवेशे चित्रतुरग- न्यायेनेति भाव: ।। मुद्रा यथा- 'सचकितमिव विस्मयाकुलाभि: शुचिसिकतास्वतिमानुषाणि ताभिः । क्षितिषु दददशिरे पदानि जिष्णोरुपहितकेतुरथाङ्कला्छनानि १६८' अत्र चक्ध्वजाद्कितजिष्णुपादमुद्रादर्शनात्सेयममानुषी पादमुद्रा
सुद्रेत्युच्यते । यदपि चादृष्टेऽपि जिष्णुपदे मृगीदृशामीदृशः स इत्यनु- मानज्ञानं तदप्युपमानार्थनिबन्धनमेव। यदाह- 'अपि चास्त्यनुमानेऽपि सादृश्यं लिङ्ललिग्िनो: । पदेन यत्र कुबजेन कुब्जपादोऽनुमीयते ॥ १६९ ॥ सचकितेति। ननु चरणमुद्रया जिष्णुचरणानुमानमत्र प्रतिभाति तत्कथ- मुपमाने ऽन्तर्भाव इत्यत आह-यदपि चेति। अन्राविशेषस्य चरणविशेषप्रति- बन्धे सत्यपि सदशात्सवशज्ञानमुत्पन्नं [त्कट ] तादशेन च व्यपदेशो भवतीत्यर्थः। एतदेव दार्वाचार्यसंमत्या द्रढयति-अपि चेति। प्रतिबिम्बं यथा- 'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य विम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्जया १७०' अत्र यदा तावदेवं संबन्धग्रहः कीदशं सं मुखं यादशमादर्शे प्रति- बिम्बं तदालोकनाददृष्टेऽपि खमुखे येयमीदृशं मे मुखमिति प्रतिपत्ति- स्तदिदमनुभूतार्थविषयम्। यदा पुनरित्थमाप्तोपदेशादाद्ृशं वस्तु ता- दृशमादर्शादौ प्रतिबिम्बं तदापि प्रियप्रतिबिम्बालोकनादिदं तन्मम प्रियप्रतिबिम्बमितीयं संज्ञासंज्ञिसंबन्धप्रतिपत्तिस्तदप्यननुभूतार्थविष-
Page 485
३९₹ काव्यमाला।
यम् । यदा तु चित्रादिष्वनुभूतखवमुखदर्शनायाः प्रतिबिम्बदर्शनाद- नेन सदश मे मुखमिति प्रतिपत्तिर्दष्टप्रियतमाकारायाश्च प्रतिविम्बा- कारदर्शनादेतदाकारो मम प्रेयानिति प्रतिपत्तिः प्रतिबिम्वसंनिधौ प्र- तिबिम्बोदयो दृष्टस्तदिह संनिहितेन तेन भवितव्यमिति यो त्रीडावि- कारभूतस्तदानुभूत विषयमेतदुपमानं प्रतिबिम्बमित्याचक्षते॥ प्रतिविम्बसंनिधाविति। प्रसन्नाद्यदर्थमनुमानं व्यार्यातं तद्दर्शयति- वरीडाविकार इति। अतएव प्रधानमात्रस्योपसंहारः ।। 'प्रत्यक्षादिप्रतीतोऽर्थों यस्तथा नोपपद्यते। अर्थान्तरं च गमयत्यर्थापतति वदन्ति ताम् ॥५२॥ अर्थापत्ति लक्षयति-प्रत्यक्षादीति । प्रमाणप्रतीतस्वार्थस्यान्यथाकरणानु- पपत्तिज्ञानेन प्रसूतं ज्ञानमर्थापत्तिः । अनुपपद्यमानार्थप्रत्यायकं च प्रमाणं प्रत्क्षा- दिमेदात् षदप्रकारम्। ततस्तत्पूर्वार्थापत्तिरपि पोढा संपद्यते, यदर्धान्तर गमयति तामर्थापत्ति वदन्तीति। अर्थान्तरगतिरेवार्थापत्तिरिति व्यक्तम्।। सर्वप्रमाणपूर्वत्वादेकशोऽनेकशश् सा। प्रत्यक्षपूर्विकेत्यादिभेदैः पोढा निगद्यते॥५३॥ एकश इति। एकश एकप्रमाणपूर्वा। अनेकशोऽनेकप्रमाणपूर्वा। कर्थ तहिं षोढा। अत उक्त्म्-प्रत्यक्षपूर्विकेत्यादिमेदैरिति। व्याख्यातमेतत्।। ताखेकश: प्रत्यक्षपूर्विका यथा- 'निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि। अन्यथानुपपत्यैव पयोघरभरस्थितेः ॥१७१॥ अत्र सनभरनितम्वयोर्मध्यं नोपलभ्यते, स्तनभरावस्थानं चह- श्यते, तत्र येयं पयोधरभरस्वितिः सान्यथानुपपद्यमाना धारकं मध्यम- नुपलभ्यमानं बोधयति। सेयं प्रत्यक्षपूर्विकार्थापत्तिरेकश एवेह विव- कषिता। इयमपि द्वेवं बहुशो भवति यत्तदर्थापत्िलव्धं मध्यं तदपि
Page 486
३ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ३९३
धारणशक्तिमन्तरेण तत्कर्मासमर्थमिति तस्यापि शक्तिः कल्प्यते । सेयमर्थापत्तिपूर्विकार्थापत्तिः। यश्चायमर्थापत्तिविकल्पस्य मध्यस्योपलम्भा- भावः सोऽपि प्रकारान्तरेणासंभवन् कान्तिकार्श्ययोरुत्कर्ष ब्रूते। सा चेयमभावपूर्विकानुपपत्तिर्भवति । न चैतदिह शाब्दमपि तु वाक्यार्थ- सामर्थ्याद्गम्यते। अत्र स्तनभरेति। खनभरस्थिति: प्रत्यक्षगृहीता सा चाधारमन्तरेणानु- पपद्यमाना मध्यं कल्पयति। सा च कल्पनार्थापत्तिः । अनुपलभ्यमानमिति। अन्यथा प्रत्यक्षगृहीतेऽयें किमर्थापत्त्या। अत्रैवोदाहरणेSनेकशो व्याख्यातुं शक्यत इत्याह-इयमपीति। शक्तिमामांसकनये नित्यातीन्द्रिया, अभावोऽभावेनैव गृह्त इति मध्यानुपलम्भोऽभावप्रमाणपूर्वकः । कान्तीति। अद्भुतप्रभावतिरस्कृतं हि नयनमासन्नमपि न मध्यग्रहणसमर्थमिति भावः ॥ प्रत्यक्षादिपूर्विका अनेकशः यथा- 'एतदालोक्य लोलाक्षि रूपमप्रतिमं तव। कल्पयामः कलातत्त्वगुरुतामादिवेघसः ॥ १७२॥ तत्रेदं रूपमप्रतिमं तवेति प्रत्यक्षपूर्वता अभावपूर्वता च व्यक्तमेव प्रतीयते। तेनेयमनेकशः । अत्रापि येयं रूपस्याप्रतिमतान्यथानुपप- द्यमाना कलातत्त्वगुरुविनिर्मितत्वमात्मनोSवस्थापयति सोर्वश्यहल्यादि- रूपोपमानज्ञानपूर्विका, या तत्कर्तुरर्थापत्तिकल्पिता कलातत्त्वगुरुता सापि तथाविधशक्तिकल्पनापूर्विकेत्युपमानपूर्विकार्थापत्तिपूर्विका चेयमर्थापत्तिः। सापि तत्कर्तुर्वेघसः कलातत्त्वगुरुता तथाभूतशक्त्याधारता वा, साप्य- नुमानत आगमतो वाज्ञस्य कल्प्यत इत्यनुमानपूर्विका चेयमर्थापततिः । न चैतच्चतुष्ट्यमिहापि शाब्दमपि तु वाक्यार्थसामर्थ्याद्गम्यते॥ अप्रतिममिति। प्रतिमाशून्यं रूपं विशिष्ठमेव तत्र विशेषणांशेSभावस्य व्यापारः, विशेष्यांशे प्रत्यक्षस्य । पूर्ववदिद्दापि व्यार्यानमाह-अत्रापीति। प्रतिमाभावज्ञानं प्रतिमाज्ञानपूर्वकम्, प्रतिमा च सादृश्यं, तब्ब सहशब्दद्वयद्शन- वेद्यमित्यस्ति पूर्वमुपमानम् ।
Page 487
३९४ काव्यमाला ।
एकशोऽनुमानपूर्विका यथा- 'कपोलपुलके नास्याः सूचितो मदनज्वरः । मनो निरन्तरासक्त सख्य: कथयति प्रिये॥ १७३ ॥' अत्र योडयं कपोलपुलकानुमीयमानो मनोभवज्वरः स मनसः प्रिये निरन्तरासक्तिमन्तरेणानुपपन्न इत्यनुमानपूर्विकेयमर्थापत्तिः ॥ अनेकश उपमानादिपूर्विका यथा- 'त्वदास्येन्दू समौ दृष्ट्रा तदिदं कल्पयामहे। अन्योन्यगामिलावण्यमनयोरेव केवलम् ॥ १७४ ॥' अत्र त्वदास्येन्दू समौ दृद्ट्ेत्युपमानपूर्वकता अर्थापतेः प्रत्यक्षपूर्वता च शब्दत एव प्रतीयते। या च मिथः सादृश्यानुपपत्तिलम्या लाव- ण्यान्योन्यगामिता सापि तथाविघं विघातारमन्तरेण न संगच्छत इत्या- दीहापि पूर्ववद्वाक्यार्थसामर्थ्यतोऽवगन्तव्यम्॥ एकशोऽभावपूर्वा यथा- 'एतदास्यं विना हास्यं निवेदयति सुभ्रुवः । प्रियापराघदण्डानां मनो भाजनतां गतम् ॥ १७५ ।।' अत्र सुभ्रुव इत्यनेन विलासवत्याः समस्तप्रशस्तलक्षणयोगो लक्ष्यते। तथाविधायाश्र वक्रविलासहासस्याभावोऽनुपपद्यमानः शोकव्यतिरिक्त- मात्मकारणं कल्पयतीत्यभावपूर्विकेयमर्थापत्तिः ॥ हास्यभावस्यान्यथाम्युपपत्तेः कथमर्थापत्तिरित्यत आह-अत्र सुभ्रुव इति। अनेकशोरऽर्थापत्त्यादिपूर्विका यथा- 'दृष्टा विभ्रमिणीमेतां विद्ो लीलागुरुं स्मरम्। स्मर च मृगशावाक्ष्या मनस्यस्याः कृतास्पदम् ॥ १७६ ॥' अत्र विश्रमिणीमिति प्रशंसायां मत्वर्थीयस्तेन विभ्रमाणामुत्कषों
Page 488
३ परिच्छेद: I] सरसतीकण्ठाभरणम्। ३९५
लक्ष्यते। ते चान्योपदेशादसंभवन्तो मन्मथमुपाध्यायं बोधयन्ति। तस्यात्रतः पार्श्वतो वानुपलभ्यमानस्य तन्मनस्यवस्थानं लक्ष्यते। सेय- माद्या प्रत्यक्षपूर्विका द्वितीया चार्थापत्तिपूर्विकार्थापत्तिर्भवति। इयमेव च मनोभूर्मनसि कामिनीनां संभवतीत्याप्तोपदेशादागमपूर्विकापि भवति॥ इत्थमेवान्यथोपपत्तिमाशक्कात्रे व्याचष्टे-अत्र विभ्रमिणीमिति। मत्- र्थींयार्थमाह-प्रशंसायामिति॥ असत्ता या पदार्थानामभावः सोऽभिधीयते। प्रागभावादिभेदेन स पडविध इहेष्यते ॥ ५४॥ अभार्व लक्षयति-असन्तेति। प्रागसत्त्वमुत्तरासत्त्वमित्यसत्तारूपेणैव प्राग- भावादयो व्यवतिष्ठन्ते इतरेतराभावेऽप्यन्यरूपतयान्यस्याभाव इत्यसत्तात्मकत्वम्। पागभावादय: पूर्वोदिताथत्वारः। अत्यन्ताभावविशेषसामान्याभावाभ्यां सह षड- भावाः । तयोविशेषमग्रे वक्यामः ॥ तेषु प्रागभावो यथा- 'सग्गं अपारिजाअं कोत्थुहलच्छीविरहिअं महुमहअस्स उरम्। सुमरामि महणपुरओ अमुद्धचन्दं च हरअडापळभारम् ।।१७७।' [स्वर्गमपारिजातं कौस्तुमलक्ष्मीविरहितं मधुमथनसोरः । समरामि मथनपुरतोऽमुग्घचन्द्रं च हरजटाप्राग्मारम् ॥] सगगां अपारिजाअमिति। निगदव्याख्यातः प्रागभावः । यथा अभावपूर्वि- कायामर्थापत्ती करणं मेदानुमानमुक्त तथात्रापि बोद्धव्यम्। पारिजातप्रागभावस्य प्रमेयरूपता व्यक्तैव। अभावोऽभावेनैव प्रतीयत इति। दर्शने तत्करणतया शब्दा- नुपात्तोऽपि योग्यप्रमाणभावोऽवगम्यते। एवमुत्तरेष्वपि खयमूहनीयम् ॥ प्रध्वंसाभावो यथा- 'धृतिरस्तमिता गतिःयुता विगतं गेयमृतुर्निरुत्सवः। गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥१७८॥
Page 489
३९६ काव्यमाला। इतरेतराभावो यथा- 'कर्णोत्पलं न चक्षुसे न चक्षुः श्रवणोत्पलम्। इति जानन्नपि जनो मन्यते नेत्रदीर्घताम् ॥ १७९॥' ॥ अत्यन्ताभावो यथा- 'जं जस्स होइ सारं तं सो देइत्ति किमत्थ अच्छेरम्। अणहोत्तं वि हु दिण्णं तइ दोहम्गं सवत्तीणम् ॥ १८० ॥' [यद्यस्य भवति सारं तं स ददाति किमत्राश्चर्यम्। अभवदपि खल दत्तं तथा दौर्भाग्यं सपत्ीनाम् ॥ ] अन्ये पुनरन्यथा अत्यन्ताभावमाचक्षते। यथा- 'प्रसीद सद्ो मुश्चेमं चण्डि मानं मनोगतम्। दृष्टमात्रेऽपि ते तत्र रोष: खकुसुमायते ॥ १८१॥ स्थानान्तरप्रमितस्य स्थानान्तरे त्रैकालिकोऽभावविशेषोऽत्यन्ताभाव इति दर्श- नमाश्रित्य चतुष्टयमध्यपाती तावदत्यन्ताभाव उदाहृतः । इदानीं पञ्चमाभावोचि- तविशेषमत्यन्ताभावं दर्शयति-अन्ये पुनरिति। अन्ये सौगतादयः । अत्यन्ता- सत्प्रतियोगिकोऽभावोऽत्यन्ताभावः । यथा खपुष्पस्याभाव इत्युदाहरणं स्फुटम् ॥। सामर्थ्याभावो यथा- 'मानुषीषु कथं वा स्यादस्य रूपस्य संभवः । न प्रभातरलं ज्योतिरुदेति वसुधातले ॥ १८२ ॥ त एते षडपि निगदैरेव व्याख्याताः ।। सामर्थ्याभावो योग्यताभावः । अनेनेव रूपेण स रसतामासादयत्रुपात्तः॥ अभावाभावोऽप्यभाव एव। तत्र प्रागभावप्रध्वंसो यथा- 'उद्यानसहकाराणामनुद्धिन्ना न मज्जरी। देयः पथिकनारीणां सतिल: सलिलाज्जलिः ॥ १८३॥' अभाव एवेति।अभावव्यवहारपात्रमेव तथाभूतसैव लक्षणमित्युक्तत पुरस्तात्।।
Page 490
३ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ३९७
प्रध्वंसप्रागभावो यथा- 'न मर्त्यलोकस्ति्रिदिवात्म्हीयते म्रियेत नागे यदि वल्लमो जनः । प्रध्वंसध्वंसो यथा- निवृत्तमेव त्रिदिवप्रयोजनं मृतः स चेज्जीवित एव जीवति ॥१८४॥' वल्भजनमरणं प्र्ध्वंसः स नमा निषिध्यते स तु निषेध: प्रागसत्त्वरूप एव। मृतः स चेदिति मरणोत्तरमभावो भवत्प्रप्वंसो भवति स चासभवत्रपिशब्देन संभाव्यमान: कान्तिकारणं भवतीत्यलंकारकक्षामारोहति।। प्रध्वंसप्रागभावप्रध्वंसो यथा- 'नामिलितमस्ति किंचित्काश्चीदेशस्य सर्वथा नाथ। प्रसरतु करस्तवायं प्रकृतिकृशे मध्यदेशेऽपि ॥ १८५॥ प्रध्वंसप्रागभावप्रध्वंस इति । मरणेन प्रध्वंसनं तस्याभाव: समसेन न जातस्याप्यभावो भिन्नेन प्रतिपादितः । प्रध्वंसस्य प्रध्वंसाभावो यथा- 'एषा प्रवासं कथमप्यतीत्य याता पुनः संशयमन्यथैव। को नाम पाकाभिमुखस्य जन्तोर्द्वाराणि दैवान्यपिधातुमीष्टे॥१८६॥ प्रध्वंसस्य प्रध्वंसाभाव इति। कथमपीत्यनेन प्रवासे दशम्यवस्था कटाक्षिता तस्यात्ययः प्रध्वंसप्रध्वंसः । पुनः संगममित्यनेन तस्यापि प्रध्वंसः । सुबोधमन्यत्।। इतरेतराभावाभावो यथा- 'शासनेSपि गुरुणि व्यवस्थितं कृत्यवस्तुनि नियुड्क्ष्व कामतः । त्वत्प्रयोजनधनं धनंजयादन्य एष इति मां च मावगाः ॥१८७॥' अत्यन्ताभावस्य सामर्थ्याभावस्य च प्रध्वंसाभावो यथा- 'अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री। तुल्या भवदर्शनसंपदेषा वृष्टेर्दिवो वीतवलाहकायाः ॥ १८८॥' एते नातिदुर्बोधा इति न व्याकृताः।
Page 491
३९८ काव्यमाला।
उक्तार्थालंकाराणां संख्यामाह-
कथिता काव्यविज्ञानां चित्तप्रह्लादहेतवे ॥ ५५॥ अर्थालंकृतय इति। स्पष्टम्।। इति श्रीमहाराजाधिराजश्रीमद्भोजराजविरचिते सरस्वतीकण्ठा- भरणनाङ्नयलंकारशास्त्रे 5र्थालंकारस्तृतीयः परिच्छेदः। श्रीरामसिंहदेवाज्ञामादाय रचितो मया। दर्पणाख्यः सदा तेन तुष्यता श्रीसरखती।। रत्नेश्वरो नाम कवीश्वरोऽसी विराजते काव्यसुधाभिषेकैः । दुस्तर्कवकाहतदुर्विदग्धां वसुंधरां पल्वयत्रजस्रम्॥ अद्य स्फुरतु वाग्देव्याः कण्ठाभरणकौतुकम्। मयि ब्रह्ममनोवृत्ती कुर्वाणे रम्दर्पणम् । इति श्रीमन्महाराजश्रीरामसिंहेन महामहोपाध्यायमनीषिरलेश्वरेण विरचय्य प्रकाशिते दर्पणाख्ये सरस्वतीकण्ठाभरणविवरणेऽर्थालंकारस्तृतीयः परिच्छेद: समाप्तः॥।
चतुर्थ: परिच्छेदः। इदानीमुभयालंकारविवेचनाय परिच्छेदमारभते- शब्देभ्यो यः पदार्थेभ्य उपमादि: प्रतीयते। विशिष्टोऽर्थः कवीनां ता उभयालंक्रियाः प्रियाः ॥१॥ उपमा रूपकं साम्यं संशयोक्तिरपहुतिः। समाध्युक्ति: समासोक्तिरुत्प्रेक्षाप्रस्तुतस्तुतिः ॥ २ ॥ सतुल्ययोगितोल्लेखः ससहोक्ति: समुच्चयः । साक्षेपोऽर्थान्तरन्यासः सविशेषा परिष्कृतिः ॥ ३॥ १. 'मताः' इति सत्र पुस्तकर: पाठ :-
Page 492
४ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। ३९९
दीपकक्रमपर्यायातिशय क्षेपभाविकाः । संसृष्टिरिति निर्दिष्टास्ताश्रतुरविशतिर्युधैः ॥४॥ शब्देभ्य इति। यासूभयालंकियासु इवादिभ्यः शब्देम्यो विशिष्ट उपमादि- रूपोऽर्यों ज्ञायते ता उभयालंकरिया: स्युः । कीटृश्यः। कवीनां प्रियाः प्रीतिविषयाः, उपमादीनां कविसर्वखायमानत्वात्। शब्दथार्थश्चेत्युभयम्। सह तुल्ययोगितया वर्तते इति सतुल्ययोगिता। एवमितरेष्वपि । परिष्कृति: परिकरः । भाविकेरिति सहार्थें तृतीया।। अथोपमालंकारनिरूपणम्। प्रसिद्वेरनुरोधेन यः परस्परमर्थयोः । भृयोऽवयवसामान्ययोग: सेहोपमा मता ॥ ५॥ उपमालक्षणमाह-प्रसिद्धेरिति। अर्थयोरुपमानोपमेययोमिंथो यो भूयसां प्रचुराणामवयवसामान्यानामेकदेशसाधर्म्याणां योग: संबन्धः, सा इह प्रन्ये [शास्त्रे ] उपमा मता । तर्हि मुखं कमलमिवेतिवत् कुमुदमिवेत्यपि स्यादत आह- प्रसिद्धेरिति। प्रसिद्वेलोंकप्रसिद्धेरनुरोधेन पुरस्कारेण। तथा च कुमुदमुख- योरुपमा न लोकप्रसिद्धेति दोषः ।। एकाभिधीयमाने स्यात्तुल्ये धर्मे पदार्थयोः । प्रतीयमानेऽप्यपरा द्विविधापि च सा त्रिधा॥ ६।
पृथगष्टविधत्वेन ताश्चतुविशतिः पुनः।७।। इहाभिधीयमानार्थप्रतीयमानार्थविषयतयोपमा द्विधा। सापि पदवाक्यप्रपम- मेदात्रिधा। तासां त्रिधाभूतानां प्रत्येकमष्टविधतवेन चतुर्विशतिप्रकारोपमेलाह- पदेत्यादि॥ पदोपमाया अष्टविधत्वमाह- समासात्प्रत्ययाचैव द्विविधा स्यात्पदोपमा। या समासोपमा तत्र चतुर्घा साभिपद्यते॥ ८ ॥
Page 493
800 काव्यमाला।
इवार्थान्तर्गतेरेका सामान्यान्तर्गतेः परा। अन्तर्भूतोभयार्थान्या सान्या सर्वसमासभाक् ॥ ९॥ समासादिति। समासोपमा इवार्थेत्यादिना चतुर्विधा।। ताखन्तर्भूतेवार्था यथा- *मुखमिन्दुसुन्दरं ते बिसकिसलयकोमले भुजालतिके। जघनस्थली च सुन्दरि तव शैलशिलाविशालेयम् । १ ॥' अत्र इन्दुरिव सुन्दरमिन्दुसुन्दरमितीवार्थः 'उपमानानि सामान्य- वचनैः २।१।१५।' इति समासेनैवोक्तः। एवं बिसकिसलये इव कोमले शैलशिलेव विशालेति। सेयमन्तर्गतेवार्था नाम समासोपमासु पदोपमाभक्तिः ॥ मुखमित्यादि। हे सुन्दरि, तव मुखं चन्द्रवत्सुन्दरम्, तव भुजालतिके बिसकिसलयकोमले मृणालपह्ववत्कोमले, तव जघनस्थली शैलपाषाणवद्दीर्घा चेति पूर्वापेक्षया, वाक्यसमाप्ती वा । इवार्थस्तुल्यता । भकतिर्विभागः । 'भक्तिर्विभागे सेवायाम्' इति मेदिनीकारः।। अन्तर्भूतसामान्या यथा- 'चन्दसरिसं मुहं से अमअसरिच्छो अ मुहरसो तिस्सा। सकअग्गहरहसुज्जल चुम्बणअं कस्स सरिसं से ॥। २ ॥' [चन्द्रसदशं मुखमस्या अमृतेसदक्षञ्र मुखरससतखाः । सकचग्रहरभसोज्वलचुम्बनक कस सदशं तखाः । अत्र चन्द्रेण सदशं चन्द्रसद्शं मुखम्, अमृतेन सदक्षोSमृतसदृक्षो मुखरस इति समासे सुन्दरमधुरादिसामान्यशब्दप्रयोगो न श्रयते प्रती- यते च, सदृशादेर्द्योंतकादिति सामान्यघर्मस्य सौन्दर्यमाधुर्यादेरुपमान- १. गाथासपशत्यां तु 'सरिसो अमअरस' इति पाठ :. २. 'सहशोऽमृतस्व' इति छाया च समुपलन्यते.
Page 494
४ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ४०१
प्रसिद्धस्योपमेये समासेनैव प्रतिपादितत्वादियमन्तर्भूतसामान्या नाम स- मासोपमासु पदोपमाभक्ति: ॥ चन्द्र इति। 'चन्द्रसदशं मुखमस्या अमृतसदक्षथ्र मुखरसस्तस्याः । सकच- ग्रहरभसोज्वलचुम्बनं कस्य सडशं तस्याः ।।' कश्चिन्मनोविनोदार्थ वयस्याय कान्ता- प्रकर्ष कथयति-चन्द्रेति। कचग्रहे केशपाशग्रहणे यो रभस आवेशसेन सहितमुज्वलं मनोजं चुम्बनम्। इहान्तर्भूतं समासेन बोधितं सामान्यसाधर्म्य सौकुमार्यादिकमित्यन्तर्भूतसामान्या। न श्रूयते चेन्नास्त्ेवेलयत आह-प्रतीयत इति। द्योतकादितीति । सादृश्यस्य सप्रतियोगिकतया तत्प्रत्यायकत्वमेव द्योतकत्वमित्यर्थः । उपमानेति। उपमीयते सादृश्यमानीयतेSनेनोत्कृष्टगुणेन- न्यदित्युपमानमित्यर्थः । उपमेय इति। उपमीयते न्यूनगुणं यत्तदुपमेयमित्यथ: ॥ अन्तर्मूतोभयार्था यथा- 'कमलकरा रम्भोरु: कुवलअणअणा मिअङ्कवअणा सा। कहं णु णवचम्पअङ्गी मुणालबाहू पिआ तवइ ।। ३ ।।' [कमलकरा रम्मोरू: कुवलयनयना मृगाङ्कवदना सा। कथ नु नवचम्पकाङ्गी मृणालबाहुः प्रिया तंपति ॥] अत्र कमलमिव तात्रौ, रम्मे इव पीवरौ, कुवलयमिव श्यामे, मृगाड्क इव प्रेक्षणीयं, नवचम्पकमिव गौरम्, मृण।लमिव कोमलौ करौ, ऊरू, नयने, वदनम्, अक्रम्, बाहू यस्या: सा तथोक्तेत्यन्यपदार्थेन समासेनैव द्योतकसामान्ययोरुक्तत्वादियमन्तर्भूतेव सामान्या नाम समा- सोपमासु पदोपमाभक्ति: ॥ कमलेत्यादि। 'कमलकरा रम्भोरु: कुवलयनयना मृगाङ्कवदना सा। कर्थ नु नवचम्पकाजी मृणालबाहु: प्रिया दहति ॥' इति। ईदशी कान्ता कर्थ नु (न) दहति तापयति किंतु तापयत्येव। रम्मे कदल्याविवोरु यस्याः सा । नवचम्पकं चम्पककलिका। इह कमलमिव तामी करी यस्याः सेत्यादाविवशब्दो द्योतकः सामान्यं ताम्रत्वादिकं तयोश् समासेनेवोक्ततयान्तर्भूतोभयार्थेयम्॥ १. 'दहत' इति टीकासमत: पाठः २६ स० क०
Page 495
१०२ काव्यमाला।
सर्वसमासा यथा- 'शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे। दहति मनः कथमनिशं रम्भागर्भाभिरामोरुः ॥8॥' अत्रोपमानोपमेयधर्माणामिन्दुसुन्दरादिपदैरिवार्थस्य समासेनैवाभि- धानम्, सवे समासेऽस्यामिति सर्वसमासोपमानामेयं समासोपमासु पदोपमाभक्तिः ॥ शरदित्यादि। ईदशी सा स्त्री मम मनः कथमनिशं दहति। कीटशी। शरचन्द्ररम्यमुखी नीलनलिनपत्रदीर्घनेत्रा कदलीमध्यसुन्दरोरूथ । इहोपमान- मिन्दुः, उपमेयं मुखम्, तुल्यधर्म: सुन्दरत्वम् । एवमन्यत्रापि । शरदिन्दुरिव सुन्दर मुखं यस्याः सा इतीवार्थस्यापि समासाभिधेयता। सर्व: समासो यस्यामि- त्यादिविग्रहे विवक्षितार्थालाभ इत्यत आह-सर्वमिति।। प्रत्ययोपमापि पदोपमामेद एव न त्वधिकेत्याह- या प्रत्ययोपमेत्युक्ता काव्यविद्धि: पदोपमा। चतुर्घा मिद्यते सापि प्रत्ययार्थप्रभेदतः ॥१० ॥ येति। पदप्रत्यययोरनुबोधनेऽन्योन्यापेक्षिततयोपमायामपि तथेति न भिन्नता॥ प्रत्ययो ह्युपमेये स्यादुपमानेऽपि कथ्चन। तत्सामान्ये भवेत्कश्चिदिवार्थे कश्िदिष्यते ॥ ११ ॥ तेषां वशात्तदुपमा भवेत्तव्यपदेशभाक् । उदाहरणमेवास्या रूपव्यक्यै निदश्यते ॥ १२ ॥ तत्र प्रत्ययस्ोपमेयस्यार्थे यथा- 'हंसो ध्वाङविरावी स्यादुष्टकोशी च कोकिलः । खरनादी मयूरोऽपि त्वं चेद्दसि वाग्मिनि ॥ ५ ॥' अत्र 'कर्तयुपमाने ३।२।७९' इत्यनेन यदोपमाने उपपदे ध्वाड्क इव विरौतीति सामानाधिकरण्येन कर्तयेंव प्रत्ययस्तदोपमेयस्यार्थे म-
Page 496
४ परिच्छेद: I] सरसतीकण्ठामरणम्। ४०३
वति। एवमुष्टकोशीखरनादीत्येतयोरपि द्रष्टव्यम्। सेयमुपमेयार्थप्रत्य- यानाम प्रत्ययोपमासु पदोपमाभक्तिः ॥ प्रत्यय इति । प्रत्ययार्थानां मेदादित्यर्थ: । अस्फुटत्वेनाह-उदाहरण- मिति। रूपव्यतत्यै सवरूपज्ञानाय। हंस इत्यादि। हे वाम्मिनि, प्रशसं वचनं यस्या: । यदि त्वं यदसि तदा इंसो व्वाङ्कविरावी काक इव विरौति, कोकिल उष्ट्रकोशी उष्ट्र इव कुश्यति शब्दायते, मयूरः खरनादी गर्दम इव नदति। 'ध्वाहात्मघोषपरमृद्दलिभुग्वायसा अपि।' इत्यमरः । 'रासभो गर्दभ: खरः' इति च। इह ध्वाह इव विरौतीत्यादी 'कर्तर्युपमाने ३।२।७९' इति णिनिप्रल्ययः उपमान उपपदे कतीरे विहित उपमेयस्यार्थे भवति सामानाधिकरण्यानुरोधात्। प्रत्ययस्योपमानार्थे यथा- 'पूर्णेन्दुकल्पवदना मृणालीदेश्यदोर्लता। चक्देशीयजघना सा सर्गेऽपि न दृश्यते ॥ ६ ॥' अत्र पूर्णेन्दुरिव पूर्णेन्दुरित्यादिकयोपचारवृत्त्या यद्यपि पूर्णेन्दुप्रभू- तय उपमानशब्दा अप्युपमेयेषु बदनादिषु वर्तन्ते, तेम्यश्च यद्यपि खार्थ एव खार्थिका: कल्पवादयो भवन्ति, तथापि ते शब्दशक्तिखामाव्या- द्रुणभूतमुपमानार्थमात्रं त्रुवते यथा शुक्कादिभ्यस्तरवादयः । तथा ह्वयं च शुक्कोऽयमनयो: शुक्कतर इत्युक्ते शौक्कयस्पैव प्रकर्षो गम्यते न शौक्कय- वतः । सेयमुपमानार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभक्तिः ॥ पूर्णेत्यादि। सा खप्रेषपि न दृश्यते। कीटशी। पूर्णेन्दोरीषंदसमातं वदनं यस्या: सा । मृणाल्या ईपदसमाप्ता दोर्लता यस्याः सा। चक्ादीपद्समास जघनं यस्या: सा । इह कल्पेत्यादावीषदसमास्ती 'ईषदसमाप्ती कल्पव्देश्यदेशीयरः ५।३। ६७' इति कल्पवादयः । इह पूर्णेन्द्वादय उपचारेणोपमेयवृत्तयस्तत्समभिव्याप्त- कल्पवादिना खार्थिकप्रत्ययेन चोपमानार्थातिशय एवाभिधीयत इति प्रत्ययस्योप- मानार्थता। इदमेवाह-शब्देति। गुणभूतमिति। अतिशयस्य प्रत्ययार्थत्वेन तन्निरूपकत्वमेव गुणत्वमित्यर्थः॥
Page 497
काव्यमाला।
सामान्यार्थप्रत्ययेन यथा- 'सूर्यीयति सुधारश्मिर्मन्मथोऽतिमृतायते। मृतस्य कान्ताविरहे खर्गोऽपि नरकीयति॥ ७ ॥' अत्रोपमानादाचारादिभि: सूर्यादिभ्यः क्यजादय आचारलक्षणक्रि- याविशेष उत्पद्यमाना उपमानोपमेययोः सामान्य एवोत्पद्यन्त इति सेयं सामान्यार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभक्तिः ॥ इवार्थप्रत्ययेन यथा- 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ ८ ॥' अत्र 'तेन तुल्यं क्रिया चेद्वतिः ५।१।११५' इत्यनेन चन्द्रशब्दा- चचन्द्रेण तुल्यं दृश्यत इतीवार्थ एव प्रत्ययो न तु तुल्यक्रियार्थः, अन्य- था दृश्यत इति इवार्थ इव तुल्यक्रियाप्रयोगोऽपि न स्यात्। तदप्रयो- गेडपि च गौरिव गवय इत्यादौ वतिः प्रसज्येत। सेयमिवार्थप्रत्यया- नाम प्रत्ययोपमासु पदोपमाभक्तिः ॥ सूर्यीयतीत्यादि। चन्द्रः सूर्यीयति सूर्य इवाचरति कामोऽतिमृतायतेऽ तिमृतबद्धवति। प्रियावियोगे मृतस्य पुनः खर्गोऽपि नरकीयति नरक इवाचरति। सूर्यीयतीत्यत्र 'उपमानादाचारे ३।१।१०' इति क्यच् । अतिमृतायत इत्पत्रा- न्यारार्थे 'कर्तुः क्यड् सलोपथ् ३।१।११' इति क्यड्। नरकीयति इत्यत्र 'अधि- करणाच् २६६४ सू. वा.' इति क्यच्। इहाचार आचरणक्रिया साचोपमानोपमेय- साधारणीति सामान्यप्रत्यया। एक इत्यादि। एक एव भूतात्मा परमात्मा प्रति- देहमवस्थितः सन् एकधा बहुधा चैकानेकप्रकारेण जलचन्द्रवद्दृश्यते । इह जल- चन्द्रवहृश्यत इत्यत्रेवार्ये सादृश्ये वतिर्न तु तुल्यः कियते तदा दृश्यत इति पदेन वतिना च समर्थतया पौनरुत्त्यं स्यात्। न भवतु तुल्यक्ियाप्रयोग:, ततः किमनिष्ट- मत आह-तदिति। गौरिव गवय इत्यादी कियाया अप्रयोगात्तुल्यक्तियाप्रयोगा- भाव इति भाव: ।। १-२. प्रकृते सूर्यनरकयो: कर्माधिकरणत्वभावेन चिन्त्यमेतत्। पद्े क्वकप्र- योगस्तु सरवत्र न्याय्य :.
Page 498
४ परिच्छेदः I] सरखतीकण्ठाभरणम्। 8०५
वाक्योपमाया अष्टविधत्वमाह- वाक्योपमा तु या तत्र द्वैविध्यं सापि गच्छति। एका पदार्थयोः साम्ये परा वाक्यार्थयोमिंथः ।१३।। आद्या पूर्णा च लुप्ता च लुपवर्णा तथैव च। पूर्णलुप्तेति चाख्याता कविमुख्यैश्रतुर्विधा॥ १४ ॥ पूर्णा सामान्यधर्मस्य प्रयोगे द्योतकस्य च। उपमानस्य च भवेदुपमेयस्य चैव हि॥ १५ । वाक्येति। तत्रोपमायां मिथोऽन्योन्ये साम्य इति यावत्। 'मिथोऽन्योन्ये रहोथें च मिथोऽन्योन्यसमुचये।' इति मेदिनीकारः । आद्या पदार्थोपमा पूर्णा सामान्यधर्मादिसाकल्यवती । प्रयोग इति सर्वत्रान्वीयते। यथा- 'कमलमिव चारु वदनं मृणालमिव कोमलं भुजायुगलम्। अलिमालेव सुनीला तथैव मदिरेक्षणे कबरी ।। ९ ।।' अत्र कमलमृणालालिमालादीनामुपमानद्योतकतुल्यघर्मोपमेयवाच- कानां चतुर्णामपि पदानां पृथक् पृथक प्रयोगे पदार्थयोः सादृश्यस्या- भिधीयमानत्वादियं पूर्णानाम पदार्थोपमासु वाक्योपमाभक्तिः ॥ लोपे सामान्यधर्मस्य द्योतकस्य च योपमा। प्रतीयमानसादृश्ये द्वयोर्लसेति तां विदुः ॥ १६॥ कमलमित्यादि। हे मदिरेक्षणे रकनेत्रे, तव वदनं पद्ममिव चारु। बाहुद्यं बिसमिव मृदु। कबरी केशवेशो भ्रमरपछ्किरिव नीलोऽस्ति । मदिरावद्रक्तमीक्षणं नेत्रं यस्याः सा। 'कबरी केशवेशोऽथ' इत्यमरः । इह कमलमुपमानम्, इवपदं द्योतकम्, चारुपदं तुल्यधर्मोपस्थापकम्, वदनमुपमेयमिति पूर्णता, पदार्थयोः सादृश्यं वाक्यार्थ:, सामान्यधर्मादीनां विरहे लोपे लुप्ता तर्हि सर्वलोपे उपमेव न स्यादत आह-प्रतीयमान इति । तथात्वेऽपि प्रसिद्वैव कान्त्यादितुल्यधर्म- प्रतीतिरिति भावः ।।
Page 499
४०६ काव्यमाला।
यथा- 'न पद्मं मुखमेवेदं न भृझजौ चक्षुषी इमे। न केसराणि कान्ताया इमास्ता दन्तपङ्कयः ॥ १० ।' अत्र कान्तामुखादावुपमेये पद्मादिविपर्ययज्ञानप्रत्याख्यानेनेवादीना- मभावेऽपि कान्त्यादिलुप्तधर्मप्रतीतेर्लपानामेयं पदार्थोपमासु वाक्योप- माभक्तिः ॥। लोपे सामान्यधर्मस्य लुप्तपूर्णेति गद्यते। नेत्यादि। इद न पझ किंतु कान्ताया मुखमेव। न भ्रमरी किंतु इमे नेत्रे। न केसराणि किंतु इमास्ता: प्रसिद्धा दन्तपङ्कय एव। चक्षुषी इमे 'ईद्देदिवचनं प्रगृह्यम् १।१।११' इति प्रगृत्यत्वम्। पद्ममिदं कान्तास्यमिति मिध्याज्ञानं तस्य प्रत्या- र्यानं निषेधो न पद्ममिति। एवंचेवाद्यभावेऽपि कान्त्यादे: प्रसि्धैव प्रतीतेरियं लुप्ता।। यथा- 'राजीवमिव ते वक्र नेत्रे नीलोत्पले इव। रम्भास्तम्भाविवोरू च करिकुम्भाविव खनौ ।। ११ ॥' अत्र सामान्यधर्मे लुप्ते प्रतीयमानसादृश्यत्वेन पदार्थयोरुपमानोपमे- यभावस्य परिपूर्णत्वे लुप्तपूर्णानामेयं पदार्थोपमासु वाक्योपमाभक्तिः ॥ राजीवमित्यादि। हे प्रिये, तव मुखं पद्ममिव, नेत्रे नीलनलिने इव, ऊरू कदलीस्तम्भाविव, स्तनौ हस्तिकुम्भाविव सतः । उत्पले इवेति 'ईदूदेद १।१। ११' इति प्रगृत्यसंज्ञा । इह सामान्यधर्मस्य कान्त्यादेरलोपः, इतरेषां पूर्णतेति लुप्पूर्णा ।। ११ ।। द्योतकस्य तु लोपे या पूर्णलुप्तेति सा स्मृता॥१७॥ यथा- 'तन्मुखं पुण्डरीकं च फुल्ले सुरमिगन्धिनी। कोमलापाटलौ तन्वि पल्लवश्चाघरश्च ते ॥। १२ ॥'
Page 500
8 परिच्छेद: I] सरखतीकण्ठामरणम्। 8०७
अत्र तब्रेण सदृशयोरनभिधानात्सादृश्यस्य पुनरुपमानोपमेयभाववि- वक्षितेन श्लेषतोऽन्यत्वे सतीतरेतरयोगेनोपमानोपमेययोरेकशेषेण च तद्विशेषणयोः समुदायेनाभिघाना दिवा दिमन्तरेणाप्युपमानादीनां चतुर्णा- मपि पूर्णत्वे सत्युक्तार्थत्वादिवादिर्लुप्यत इति पूर्णलप्तानामेयं पदार्थोप- मासु वाक्योपमाभक्ति: ॥ त्वदित्यादि। इदं विवृतं सदशव्यतिरेकस्थले। तन्रेण प्राधान्येन। 'तत्र्रं प्रधाने सिद्धान्ते' इति मेदिनीकारः । यद्वा तन्त्रेण एकार्थप्रयोजकेनेह सदशयो- र्मुखपद्मयोः प्रधानाव्भावेनाभिधानं तुल्यता च पदार्थः । एवं च मिथोऽन्वयेनो- पमानोपमेयत्वाभिधानम् । फुले इति विशेषणद्यम्। एकशेषेण हेतूपमानोपमेयतु- ल्यधर्मद्योतकपूर्णता। इवादिलोपस्तूक्तार्थत्वादतः पूर्णलुप्तेयम्। यत्र समकक्षतया द्वयोरभिधानं तत्र श्रेष एवेत्यतिव्याप्तिरत आह-सलेपत इति। वाक्यार्थस्य वाक्यसापेक्षतया तड्वेदता॥ या तु वाक्यार्थयोः सापि चतुर्घैकेवश्दिका। नैकेवशब्दिकेवादिशून्या वैधर्म्यवत्यपि॥। १८॥ ताखेकेवशब्दा यथा- 'पाण्ड्योऽयमंसार्पितलम्बहारः कृप्ताक्वरागो हरिचन्दनेन। आभाति बालातपरक्तसानु: सनिर्झरोद्वार इबादिराजः ॥ १३ ॥' अत्र हिमवत्पाण्ड्ययोरनिर्झरहारयोबीलातपहरिचन्दनयोश्र परस्परमु- पमानोपमेयविवक्षायां विशेषणविशेष्यभावपरिकल्पनेन वाक्यार्थ- योर्द्वयोरपि कल्पितत्वादेकेनैवेवशब्देन तयोः परस्परमुपमानोपमेयमा- वोऽमिहितः इतीयमेकेवशब्दानाम वाक्यार्थोपमासु वाक्योपमाभक्तिः ॥ एक एवशब्दो यस्यां सा । पाण्डय इति। अयं पाण्डो राजभेद: शोमते। कीशः । अंसे स्कन्धेपर्पितो दत्तो लम्बहारो येन सः। हरिचन्दनेन चन्दनमे- देन कृताप्नानुलेपनथ्, अभिनवकिरणलोहित-त्रः प्रवहनिर्झरक्व हिमवानिवाभाति। इह द्योर्वाक्यार्थयोरुपमानोपमेयभाव एकेनैवेवपदेनोक इत्येकेवोपमेयम्।
Page 501
४०८ काव्यमाला। अनेकेवशब्दा यथा- 'दिने दिने सा परिवर्धमाना लब्घोदया चान्द्रमसीव लेखा। पुपोष लावण्यमयान्विशेषाञज्योत्वान्तराणीव कलान्तराणि॥ १४॥' अत्र कियापदस्य वाक्यार्थद्वयैकतापत्तिहेतोः सकर्मकत्वात्कर्तुः क- र्मणश्रोपमानात् पृथगिवशब्दप्रयोग इति सेयमभिधीयमानसादृश्या अनेकेवशब्दानाम वाक्यार्थोपमासु वाक्योपमाभाक्तः । दिन इति। सा गौरी दिने दिने प्रत्यहं परिवर्धमाना सती लावण्यम- यान्कान्तिप्रधानान् विशेषानुत्कर्षान् पुपोष पुष्णाति स्म । कीटशी। लब्ध: प्राप्त उदय उपचयो यया सा। यथा चान्द्री लेखा कला प्राप्तोद्रमा प्रत्यहं वर्धमाना च सती कलान्तराणि अन्यान्या कला धत्ते ज्योत्सान्तराणि च धत्ते तथेत्यर्थः । ठावण्यं ज्योत्ास्थानीयम्, विशेषः कलास्थानीयः । यद्दा कलान्तराणि कीदशानि। ज्योत्स्ना अन्तरा गर्मे येषु तानि । यद्वा ज्योत्साया अन्तरोऽवकाशो यपु तानि। 'लेखा स्यालिपिकलयोः' इति विश्वः । चन्द्रमस इयं चान्द्रमसी। 'तस्ेदम् ४।३। १२०' इत्यण् । 'लावण्यं चारुता मता' इति शाश्रतः । 'गर्भावकाशमेदेष्वन्तरं वाच्यलिज्नवत्।' इति मेदिनीकारः । इह पोषणरूपक्तियया वाक्यार्थयोरेकवाक्यता, सा च सकर्मकेति कर्तृकर्मणोः पृथगिवपद प्रयोगादनेकेवोपमेयम् ।। अनिवादिशब्दा यथा- 'दिवो जागर्ति रक्षायै पुलोमारिर्भुवो भवान्। अपुरास्तेन हन्यन्ते सावलेपा नृपास्त्वया ।। १५ ।।'
तुल्यत्कियासमावेशादिवादिमन्तरेणापि वाक्यार्थानां परस्परमुपमानोप- मेयभावोऽवगम्यत इतीयमनिवादिशब्दानाम वाक्यार्थोपमासु वाक्यो- पमाभक्तिः । दिव इति। भवान् भूमे रक्षायै पुलोमारिरिन्द्रो दिवः खर्गस्य रक्षायै जागति। तेनेन्द्रेणासुरा हन्यन्ते, त्वया नृपा हन्यन्ते। सावलेपाः सगर्वा इति नृपविशेषणम्। पुलोमनामा दैल्यमेदः स चेन्द्रेण हतस्वत्मुता पुलोमजेन्द्राणी च गृहीतेति पुराणम्। इह तुल्या समेककिया जागरणरूपा हननरूपा च तदयघटित एवोपमानोपमेयभावः।I
Page 502
४ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। 8०९
वैधर्म्यवती यथा- 'प्रहित: प्रधनाय माधवानहमाकारयितुं महीभृता । न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥ १६ ॥ अत्र सत्युपमाने सत्युपमेये सत्यपि चेवशब्दे महौजसां मलिम्लु- चानां च योडयं छलापकरणं नाम वस्तुधर्मः स उपमान एव नकारेण नियम्यत इति वैधर्म्यवतीनामेयं वाक्यार्थोपमासु वाक्योपमाभक्तिः ॥ प्रहित इत्यादि। अयं विविध उच्यतासदशोपमविशेषगुणे (!) इहान्य- रूपै: साम्येऽपि वाच्यधर्म उपमान एव निषेधेन नियमित इति वैधम्यम्। तद्वतीयमुपमा । प्रपखोपमाया अष्टविधत्वमाह- यत्रोक्तिभझ्चा वाक्यार्थे सादृश्यमवगम्यते। वाक्यार्थयोरविस्तरतः सा प्रपश्चोपमेष्यते ॥ १९॥ यत्रेति। वाक्यार्थे वचनभज्न्या यत्र वाक्यार्थयोर्विस्वरेण सादृश्यं ज्ञायते सा प्रपचोपमा ।। तस्या विभागमाह- सा तु प्रकृतरूपा स्याद्रूपेण विकृता तथा। तयोः प्रकृतरूपा सा विज्ञेया च चतुर्विधा ॥ २० ॥ स्यात्समस्तोपमा तद्वदेकदेशोपमा परा। मालोपमा तृतीया स्याचतुर्थी रसनोपमा ।। २१॥ सेति। प्रकृतरूपं साहजिकं विकृतं रूपमौपाधिकम्।। तासु समस्तोपमा] यथा- 'अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते। भान्ति लता ललना इव पाणिभिरिव किसलयैरधिकम् ॥१७॥'
Page 503
४१० काव्यमाला।
अत्र वसन्तलक्ष्मीपरिष्कृतलतानां ललनानां च प्रतीयमानसादश्या- नामुपमानोपमेयभावविवक्षायां येयमलिवलयादिमिरलकादीनां प्रतीय- मानसादृश्यानामेव पृथक्पृथगिवशब्दप्रयोगवतीति विस्तरेणावयवि- नोऽवयवानां चेति सामस्त्येन वाक्यार्थयोरौपम्योक्तिक्जिः। सेयं स- मस्तोपमानाम प्रकृतरूपोपमासु प्रपञ्चोपमाभक्ति: । अलीत्यादि। लता वसन्ते ललना इव स्रिय इवाधिकं शोभन्ते । कैः। अलकेरिव मृद्गवृन्दैः, पुष्पगुच्छैः कुचैरिव, पल्वैः पाणिभिरिव । इहावयविनो-
समस्तोपमेयम्। तेषां च प्रकृतत्वं प्रसिद्धमेव ।। एकदेशोपमा यथा- 'कमलदलैरधरैरिव दशनैरिव केसरैर्विराजन्ते। अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः ॥ १८ ॥' अत्र नलिनीनां विलासिनीनां च परस्परमुपमानोपमेयभावे वक्तव्ये विलासिनीलक्षणमुपमानार्थम्, एवमवयवान्तराणि च यानि सतनादयुप- मेयानि, तानि परित्यज्य कमलमेवैकं तदवयवैर्दलादिमिः सहाधरादि- भिरुपमानैः पृथक्पृथगिवप्रयोगाद्विस्तरेणोपमितम्। तेनेयमेकदेशोपमा नाम प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ॥ कमलेति। पझ्िन्यः शोभन्ते। कैः। अधरैरिव पद्मपतैः, दन्तैरिव किंजल्कैः, अलकैरिव मृत्संघैः, मुखैरिव पद्मैः । इह विस्तरोपमया प्रपोपमा, हंसस्तना- दिल्यागात्कमलद लादिना सहाधरादेरेकदेशस्योपमया चैकदेशोपमेयम् ।। मालोपमा यथा- 'सोहब लक्खणमुहं वणमालव विअडं हरिवइ्स्स उरम्। कित्तिव पवणतणअं आणव बलाइं से विलमाइ दिट्ठी ॥ १९ ॥' [शोभेव लक्ष्मणमुखं वनमालेव विकट हरिपतेरुरः। कीर्तिरिव पवनतनयमाज्ञेव बलान्यस विलगति दृष्टि: ॥]
Page 504
४ परिच्छेदः ।] सरखतीकण्ठाभरणम्। ४११
अत्र रामदृष्टेर्लक्ष्मणमुखादिविनिवेशिन्याः शोभाद्युपमानमालया प्रतीयमानसादृश्यया विस्तरेणोपमितेर्मालोपमा नामेयं प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ॥ सोहेति। 'शोमेव लक्ष्मणमुख वनमालेव विकट हरिपतेरुरः । कीर्तिरिव पवनतनयमाज्ञेव बलान्यस्व विलगति दृष्टिः ॥I' अस्य रामस्य दृष्टिर्लक्ष्मणमुसं विलगति संबधाति। शोमेव दर्शनानन्तरमेव मुखप्रसादात् । हरिपतेः सुग्रीवस्य विस्तीर्णमुरः सा विलगति वनमालेव पौरुषाध्यवसायनिमित्तम्, समस्तवक्ष:स्थल- विलोकनाद्धवलश्यामलया दृष्या वनमाळेव प्रमाणावसरे प्रभुणा सुग्रीवाय प्रसादी- कृतेति भावः । पवनतनयं हनूमन्तं विलगति कीर्तिरिव, तस्य ज्ञातपौरुषस्य विक- सितया धवलितगगनया दृष्ट्वा निरीक्षणं कृतमिति भावः । बलानि विलगति आज्ञेव, तदनन्तरमेवातिबलनां तेषां गमनोद्योगात्। 'आपादप्रवणां मालां वनमालेति तां विदुः।' इति शाश्वतः । मुखादेराधारस्यैव कर्मता । यद्वा 'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते।' इति व्युत्पत्त्या विलगतेः सकर्मकता। इह रामदष्टे: सोभा- द्युपमानमालया सूत्रेण ग्रथनमेव, विस्तरेणोपमितेर्मालोपमेयम् । न चेयं बहूपमा; एकस्य धर्मस्य बहुभिरनुपस्थितत्वात्।। रसनोपमा यथा- चन्द्रायते शुक्करुचापि हंसो हंसायते चारुगतेन कान्ता। कान्तायते स्पर्शसुखेन वारि वारीयते खच्छतया विहायः ॥ २०॥ अत्र चन्द्रादीनां शौक्कयादिमिरमिघीयमानसादश्यैहैसादिमिर्येयं रस- नान्यायेन पश्चादवलनया विस्तरवती हेतुमती च प्रत्ययोपमापङ्किखथे- हैकवाक्यताकरणेन शरद्रमणीयतोयवर्णनमिति सेयं रसनोपमा नाम प्रकृतरूपोपमासु प्रपश्चोपमाभक्तिः ॥ चन्द्रेति। अथ हंस: श्वेतदीस्या चन्द्रायते चन्द्र इवाचरति। प्रिया मनोज्- गमनेन हंस इवाचरति। बारि जलं स्पर्शसुखेन कान्तेवाचरति। विहायो गगनं निर्मलतया वारीयते जलमिवाचरति। 'वार्वारि जलम्' इत्यमरः । 'पुंस्याकाश- विहायसी इति च । इह पथाइवलना पूर्वापेक्षतया भुद्रघण्टिकाक्मः प्रपचचवत्त्वं रुचेत्यादिहेतुमत्त्वं प्रतीत्युपमाबाहुल्यं च स्फुटमेव। तर्हि प्रकृतरूपता कर्थ स्पादत
Page 505
४१२ काव्यमाला।
आह-तथेति। उपमापङ्कया चैकवाक्यताविधानेन शरदतुवर्णनेन प्रकृतरूपेति भाव: । (तुरीया चतुर्थी च, 'तुरणमत्तावाद्यक्षरलोपथ्च' इति (!) छः॥ इतीमास्ताश्वतस्रोऽपि रूपेण प्रकृतेन याः। उपमानां चवस्रोऽन्या विकृतेन प्रचक्ष्महे॥ २२ ॥ विपर्यासोपमा तासु प्रथमाथोभयोपमा। अथोत्पाद्योपमा नाम तुरीयानन्वयोपमा ॥ २३॥ तासु विपर्यासोपमा यथा- यत्वन्नेत्रसमानकान्ति सलिले मअं तदिन्दीवर मेघैरन्तरितः मिये तब मुखच्छायानुकारी शशी। येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ २१ ॥' अत्र नेत्रादीनामुपमेयत्वमिन्दीवरादीनामुपमानत्वमिति प्रसिद्धौ ये-
बुद्धिस्तयेह रामेण विरहिणाभिधीयमानसादृश्यानाममीषां परस्परमुप- मानोपमेयभाव: प्रसिद्धे्विपर्यासेन कल्पित इति सेयं विपर्यासोपमा नाम विकृतरूपोपमासु प्रपञ्चोपमाभक्ति: ॥ यदिति। हे प्रिये, मम त्वत्सादृश्यहर्षमात्रमपि न दैवेन क्षम्यते । यस्मा- तदिन्दीवरं जले मग्रम्। कीटशम्। त्वज्जेत्रसमशोभम्। चन्द्रो मेघैरन्तरितश्छनः। कीटशः । त्वन्मुखप्रतिबिम्बसदशः। तेऽपि राजहंसा गताः । ये त्वद्गतितुल्यगमना: इह प्रसिद्धिविपर्ययेणोपमितेविपर्यासोपमा ।। उभयोपमा यथा- 'तवाननमिवाम्भोजमम्भोजमिव ते मुखम्। निलीनां नलिनीखण्डे कथ नु त्वां लमेमहि ॥ २२ ॥' अत्राप्यत्यन्तसादृश्यादेकस्मिन्पक्षे प्रसिद्धेर्विपर्यास इति सेयं प्रती- यमानसादृश्योभयोपमा नाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ।
Page 506
४ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ४१३
तवेति। हे प्रिये, त्वां कर्थ नु लमेमहि । कीटशीम् । पद्िनीकदम्बे निलीनां स्थिताम्। मुखेनापि न लाभ इल्याह-तव मुखमिव पद्मम् पद्ममिव मुखम्। इह प्रथमपक्षे विपयासोऽथोभयोपमानोपमेयभावादुभयोपमेयम्। उत्पाद्योपमा यथा- 'उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगज्कापयसः पतेताम्। तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥। २३ ॥' अत्रोपमानार्थमुत्पाद्योपमेयेन प्रतीयमानमभिधीयमानं च सादश्यम- मिहितमिति सेयमुत्याद्योपमानाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ॥ उभाविति। उभावित्यादिवित्ृतोऽयं श्लेषगुणे। इह यद्येते पतेतामित्युपमानता तस्योत्पाद्यत इतीयमुत्पाद्योपमा। अनेकेषामुपमिते: प्रपचोपमात्वम् ।। अनन्वयोपमा यथा- 'त्वन्मुखं त्वन्मुखमिव त्वद्दशौ त्वद्टशाविव। त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव तं कृशोदरि ।। २४ ।।' अत्र त्वमेवेदशी नान्या त्वत्सदृशीत्यनन्वये सति उपमानोपमेयभा- वविवक्षयैकस्यापि वस्तुनो भेदमुपकल्प्य प्रतीयमानसादृश्यमौपम्येना- मिहितमिति सेयमनन्वयोपमानाम विकृतरूपोपमासु प्रपश्चोपमाभक्तिः॥ त्वदित्यादि। विदृतोऽयं लाटानुप्रासे। इहान्या त्वत्सदशी नेत्युपमानान्तर- संबन्धाभावोऽनन्वयः। तदुपमितिः कथ तस्या भेदगर्भत्वादत आह-एकस्या- पीति। तथा चामेदेऽपि मेदकल्पनाददोषः । औपम्येनोपमायाः, खार्ये कः प्यन्। इत्युपमालंकारनिरूपणम् ।। रूपकालंकारनिरूपणम्। रूपकलक्षणमाह- यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयाद्। उपमेये भवेद्वत्तिस्तदा तदूपकं विदुः॥२४ ।। यदेति। यदोपमानपदानां पद्मादीनामुपमेयेपु मुखादिषु वृत्तिर्बोधकता भवे-
Page 507
काव्यमाला त्तदा रूपकम्। कथमन्यस्यान्यबोधकतातिप्रसन्ञात्। तत्राह-गौणेति। गौण- वृत्तिगाँणी तदाश्रयणात्। तथा च गौणान्यस्यान्यबोधकता। एवं च यत्रोपमानोप- मेयपदाभ्याममेदो गुणादिपुरस्कारेण बोष्यते तत्र रूपकं, यत्र सादश्यमात्रं तत्रो- पमेति तयोभंद:। विभागमाह- शब्दार्थोभयभूयिष्ठभेदात्रेधा तदुच्यते। शब्दभूयिष्ठमेतेपु प्रकृतं विकृतं तथा ॥ २५ ॥
द्विघैवोभयभूयिष्ठं शुद्धसंकीर्णभेदतः ॥ २६॥ शब्देति। प्रथमं यावद्रूपकं त्रिधा-शब्दभूयिष्ठार्थभूयिष्ठतदुभयभूयिष्ठमे- दात्। तत्र शब्दभूयिष्ठं प्रकृतविकृतमेदाद्विया, अर्थभूयिष्ठमत्विप्रधानान्प्रधा- नमेदािया, उभयभूयिष्ठमपि शुद्धसंकीर्णमेदाद्विघेति विभाग: ॥ तत्र प्रकृतशब्दभूयिष्ठविभागमाह- चतुर्धा प्रकृतं तेषु शब्दभूयिष्ठमुच्यते। समस्तं व्यस्तमुभयं सविशेषणमित्यपि॥२७॥ तेषु समसतं यथा- 'पाणिपद्मानि भूपानां संकोचयितुमीशते। त्वत्पादनखचन्द्राणामर्चिषः कुन्दनिर्मलाः ॥ २५॥ अत्र 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे २।१।५६' इति समासे पद्मानीव पझमानि चन्द्रा इव चन्द्रा इत्यमेदोपचारेणोत्पन्नसा- दृश्यात्पाणीनां नखानां च पद्मचन्द्रादिभिरभिधाने सामान्येवादिशब्दाप्र- योगादुपमानार्थस्तिरोभूत इति सोडयं गौणशब्दव्यपाश्रयः समासहेतुक: समस्तरूपं नाम प्रकृतरूपकेषु शब्दभूयिष्ठरूपकमेदः ॥ चतुर्घेति। पाणीति। त्वत्पादनसचन्द्राणामर्चिषस्तेजांसि भूपानां करक- मलानि संकोचयितुं निमीलयितुमीश्ते समर्था भवन्ति । अर्चिषः कीदृश्यः ।
Page 508
४ परिच्छेद: ।] सरखतीकण्ठाभरणम्। ४१५
कुन्दपुष्पवदमलाः । 'अनिहेतिः शिखा ख्ियाम्' इत्यमरः । पाणिः पद्ममिव नख- श्रन्द्र इवेतत्र 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे २।१।५६' इति समासः। इह सामान्यस्येवादेरप्रयोगेणाभेदोपचारादुपमानार्थस्तिरोभूत इति गौणीपुरस्कारः। तिरोभूतत्वं च परमार्थतः सन्नपि भेदो न भासत इति, तत्तु समासेनैव कृतम्,
व्यस्तं यथा- 'अङ्गुल्यः पल्लवान्यासन्कुसुमानि नखाचिषः । बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी ॥ २६॥' अत्रापि पूर्ववत्पल्लवकुसुमलतावसन्तश्रीशब्दानां गुणवृत्त्याश्रयेणाहु- लीनखार्चिर्बाहुवर्णनीयनामिकामि: सह सामानाधिकरण्यात्सामान्येवा- दिशब्दाप्रयोगाच्च तिरोभूतेऽप्युपमानार्थे समासो न कृत इत्यसमस्त- रूपं नाम प्रकृतरूपकेषु शब्दभूयिष्ठरूपकमेदः ॥ अङ्कल्य इत्यादि। हे सुन्दरि, त्वं नोऽस्माकं प्रत्यक्षचारिणी दृष्टिविषया पादविहारिणी वा वसन्तस्य श्रीरसि। अमेदोपचारे बीजमाह-तवातुल्यः पाइ- वान्यासन्। नखदीप्यः पुष्पाण्यासन्। बाहू लते बाहुदयं च लताद्यम्। 'पाइवोऽस्री किसलयम्' इत्यमरः। उपमानोपमेयमेदमाह-सामान्येति । इह समासा- भावाद्यस्वरूपता।। समस्तव्यस्तं यथा- 'स्मतं मुखेन्दौ ज्योत्सा ते प्रभाम्वु कुचकुम्भयोः । दोर्लतापल्लवे पाणौ पुष्पं सखि नखारचिषः । २७॥' अत्र मुखेन्दो: स्ितमेव ज्योत्सा, कुचकुम्मयो: प्रमैवाम्बु, दोर्ल- तयो: पल्लवभूते पाणौ नखार्चिष एव पुष्पमिति समस्तानामसमस्तानां च गौणशब्दानामुपमातिरस्कारेण दर्शितत्वादिदं समस्तव्यस्तरूपं नाम प्रकृतरूपकेयु शब्दभूयिष्ठरूपकमेदः ॥। स्मितमित्यादि। हे सखि, तव मुखेन्दी स्मितमीषद्धासो ज्योत्सास्त। कुचकुम्भयो: प्रभा दीप्षिरम्वु जलम्। बाहुलतायाः पहवभूते मणौ नखदीप्यः
Page 509
४१६ काव्यमाला।
पुष्पम् । 'नीरक्षीराम्बुशम्बरम्' इत्यमरः । वादिव्यतिरेकादुपमातिरस्कारः । इह प्रथमं समसतं ततोSसमस्तमिति समस्तव्यस्तता।। सविशेषणं यथा- 'हरिपादः शिरोलमजहकन्याजलांशुकः । जयत्यसुरनिःशङ्कसुरानन्दोत्सवध्वजः ॥ २८ ॥' अत्र यथोक्तविशेषणविशिष्टो यो हरिपादो यश्र हरिहतासुरेभ्यो निःशक्कानां सुराणामानन्दोत्सवे ध्वजस्तयोः सविशेषणयोरेव प्रतीयमा- नसादृश्ययोः परस्परमुपमानोपमेयभाव इति सविशेषणं नाम प्रकृतरू- पकेषु शब्दभूयिष्ठरूपकमेदः । तदेतचतुष्टयमपि प्रकृतसमासादिशब्दै- निबद्धमिति प्रकृतमुच्यते॥ हरीत्यादि। शिरसि अग्रं लमं बलिवचने त्रिविकमदशायां ब्रझ्माण्डाप्ती ब्रह्मणा पाद्यार्थमावर्जितं यज्ञबुकन्याया गज्नाया जलं तदेवांशुकं वस्त्रमिव यत्र तादशो हरेर्वामनरूपस्य पादो बलिविजयादसुरेम्यो निःशङ्कानां देवानां हर्षोत्सवे ध्वज एव जयति। अत एव जाहवीजलमंशुकत्वेन रूपितम्, तेन विना ध्वजा- नुपपत्तेः 'शिरोऽगे मस्तकेऽपि च' इति मेदिनीकारः। इह पादष्वजयोर्विशेषण- बतोरेव रूपणात् सविशेषणरूपकता। प्रकृतत्वं प्रस्तुतत्वम्। तब समासादिभि- रेवेति प्रकृतरूपकता।। विकृतशब्दभूयिष्ठं विभजते- चतुरो विकृतस्यापि प्रभेदान्प्रतिजानते। परम्पराथ रशनामालारूपकरूपकम् ।। २८।। चतुर इति। विकृतस्यापि चतुरो मेदान् प्रतिजानते खीकुर्वन्ति। धीरा इति शेषः।। तेषु परम्परा यथा- 'ववसाअरइप्पओसो रोसगइन्ददिढसिङ्लापडिबन्धो। कह कह वि दासरहिणो जअकेसरिपञ्जरो गओ घणसमओ २९' [व्यवसायरविग्रदोषो रोषगजेन्द्रदृढशुङ्कलाप्रतिबन्धः । कथं कथमपि दाशरथेर्जयकेसरिपज्जरो गतो घनसमयः॥
Page 510
४ परिच्छेद: ।] सरसतीकण्ठाभरणम्। ४१७
अत्र दाशरथिसंबन्धिनो व्यवसायस्य रविणा, रोषस्य गजेन्द्रेण, जयस्य केसरिणा सहोपमानोपमेयभावकल्पनया यदेकं रूपणमथैत- रसंबन्धितया प्रदोषशृङ्कलाप्रतिबन्धपञ्जराणां द्वितीयं तत्र त्रयाणामपि घनसमयेन तृतीयं तेनेदं रूपकं परम्परानाम विकृतरूपकेषु शब्द- भूयिष्ठरूपकभेदः ॥ ववसाअ इत्यादि। 'व्यवसायरविप्रदोषो रोषगजेन्द्रदडराङ्लाप्रतिबन्धः । कर्थ कथमपि दाशरथेर्जयकेसरिपजरो गतो घनसमयः ॥।' अत्र दाशरये रामस्य कर्थ कथमपि कष्टसष्या धनसमयो वर्षर्तुरतीतः। कीटशः। व्यवसायः कार्योद्योग: स एव रविस्वेजोमयत्वात्तस्य प्रदोषोऽस्तगमनकालः । दोष एव गजेन्द्रो दुर्निवार- त्वात्तस्य दृढरङ्लाप्रतिबन्धः प्रतिबन्धकत्वात्। जय एव केसरी तस्य पजरो गृहमेदो नियामकत्वात्। 'शङगला निगडे त्रिषु' इति मेदिनीकारः। इह रामसंव- न्धिसंबन्धिरूपणात्परम्परारूपकम् । संबन्धिसंबन्धित्वादेव विकृतत्वम् ।। रशना यथा- 'किसलयकरैर्लतानां करकमलैर्मृगदशां जगज्जयति। नलिनीनां कमलमुखैर्मुखेन्दुभिर्योषितां मदनः ॥ ३० ॥' अत्र किसलयकरैः, करकमलैः, कमलमुखैः, मुखेन्दुभिरिति रशना- कमेण शब्दानां संदर्भ उपलभ्यमानस्तदर्थानां मनोभुवो जगद्विजये लतादिसंबन्धात्करणभावमनुमापयतीति रशनानामैतद्विकृतरूपकेषु शब्द- भूयिष्ठरूपकमेदः ॥ किसलयेत्यादि। मदनः कामो हरिणाक्षीणां हृस्तपद्मैर्लतानां किसलयकरै- र्जगजयति । योषितां मुखचन्द्रैः पद्मिनीनां पद्ममुखैथ जगजयति। इह रशना भुद्रघण्टिका तस्या: क्रमः पश्चाह्वलनयेकैकप्रथना शब्दगता प्रतीयत इति रशना- रूपकमिदम् ॥ माला यथा- 'स्ामी दुर्नयवारणव्यतिकरे शौर्योपदेशे गुरु- र्विस्रम्मे हृदयं नियोगसमये दासो भये चाश्रयः । २७ स० क०
Page 511
४१८ काव्यमाला।
दाता सप्तसमुद्रसीमरशनादामाद्कितायाः क्षितेः सर्वाकारमहो ख्वयंवरसुहृत्को वा न कर्णो मम ॥ ३१ ॥' अत्र साम्यादीनां मालोपमादिक्मेण निरूपितत्वान्मालारूपकं नाम विकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः ॥ स्वामीत्यादि। को वा न, अपि तु सर्व एव । तदेवाह-दुर्नयस्य बारणे निवारणे व्यतिकर आसन्नस्वन्र खामी प्रभुः। दुर्नयनिवारक इत्यर्थः । शौर्यस्यो- पदेशे गुरुरुपदेष्ठा। विस्रम्मे हृदयं विश्वासपात्रम्। नियोग आज्ञा तत्काले दासः। भये आश्रयथ् । सप्तसमुद्रसीमान एव रशनादाम तच्चिद्विताया भूमेर्दाता। अहो आश्चर्य सर्वाकार यथा स्यादेवं स्वयंवरसुहृत् सहजमित्रं च, निरुपधित्वं स्वयंवर- शब्दार्थः । हृदयमित्यजहल्ित्नतयान्वयः । 'आज्ञा नियोग आदेशः' इत्यमरः । इद विस्तरेण रूपितत्वान्मालारूपकम्॥ रूपकरूपकं यथा- 'मुखपड्कजरक्ेSस्मिन्भ्रूलता नर्तकी तव। लीलानाख्यामृतं दृष्टौ सखि यूनां निषिश्चति ।।३२ ।।' अत्र मुखमेव पङ्कजं तदेव रक्रः, भ्रूरेव लता सैव नर्तकी, लीलैव नाट्यं तदेवामृतमिति रूपितानामपि रूपणेन समासेन रूपकरूपकं नामायं विकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः । तदेतचतुष्टयमपि पर- म्परादिभिर्विकृतसमासादिशब्दैनिबद्धमिति विकृतमुच्यते । मुखेत्यादि। हे सखिति, तब अलतास्मिन्मुखपझमरजे नर्तकी यूनां दृष्टो नेत्रे ळीलानाट्यामृतं निषिशति। लीलाविलास एव नाव्यं नृलं तदेवासृतम्। इह मुखं पङ्कजेन रूपयित्वा रज्वत्वेन रूपितम्, एवं भ्रुवी लतात्वेन रूपयित्वा नर्तकीत्वेन रूपिते। लीलैव नाव्यं तदेवासृतमिति रूपितरूपणाद्रूपकरूपकम् ।। अर्थभूयिष्टरूपकेऽत्िप्रधानं विभजते- समस्तं चासमस्तं च युक्तं चायुक्तमेव च। चतुर्धाङ्गि प्रधानं स्ादर्थभृयिष्ठरूपकम् ॥ २९।।
Page 512
8 परिच्छेदः ।] सरस्तीकण्ठाभरणम्। ४१९
तेषु समस्तं यथा- 'ताम्राङ्कलिदलश्रेणिनखदीधितिकेसरम्। ध्रियते मूर्धि भूपालैर्भवच्चरणपङ्कजम् ॥ ३३ ॥' अत्र समस्तोपमायामिव पादार्यः पङ्कजाख्यश्चावयवी परस्परमुपमा-
र्दलश्रेणिकेसरैश्र सह सामस्त्येन रूपितस्तद्योग्यस्थानविन्यासेन चार्थस्य प्राघान्यममिहितमिति समस्तं नाम रूपकमिदमत्ञिप्रधानरूपकेप्वर्थभू- यिष्ठरूपकमेदः । न चैतद्वाच्यम्-'पाणिपद्मानि भूपाना' मित्यादेरुदाह- रणादिदं न भिद्यत इति। तत्र हि नखार्चिषां क्रियासमावेशेन प्राधान्य- मवगम्यते, न नखचन्द्राणां ततश्च न रूपकम्। पाणिपद्मेत्यस्य तु यद्यपि संकोचक्रियायामस्ति समावेशस्तथापि न तानि वर्णनीयत्वेनोपन्यस्तानि, अपि तु जिगीषुभाववर्णनाङ्गतया। अतः समावेशमात्रभणनान्न तत्र पाणिपद्मानां नापि नखचन्द्राणामर्थप्राधान्यमपि तु शब्दप्राधान्यमेव। इह तु चरणपङ्कजताम्राङ्कलिदलश्रेण्यादिविशेषणविशिष्टस्य भूपालमौलि- विनिवेशनेन प्राधान्यं प्रतीयत इत्युभयमपि निरवद्यम्।। समस्तमिति। ताम्रेत्यादि। भवचरणपडमां नृपै्मसतके घ्रियते। कीटशम्। ताम्राहुल्यो दलश्रेणि: पत्रपक्कियत्र तत्। नसदीधितयः केसराणि यत्र तत्। समस्तेति। यथा समस्तोपमायामवयविनोः सामस्त्येनोपमा, तथात्राप्यवयवि- नोरेव प्राधान्येन सामस्लेन रूपकमित्यर्थः । अङ्गल्यादी प्रतीयमानता दलादाव- भिधीयमानता । तर्हि शब्दभूयिष्ठत्वमेव स्यादत आह-तद्योग्येति। शब्दो- पस्थापितानामर्थानामिह यथास्थानं विनिवेशादर्थप्राधान्यमित्यर्थभूयिष्ठत्वमुक्तमि- त्यर्थ: । शब्दभूयिष्ठरूपकमेदे समस्तेऽतिव्याप्तिमाशङ्कते-न चेति। तत्रापि नानाशब्दोपस्थापितानामर्थानामवयविनोरेव प्राधान्यमतो नानयोर्भेद इत्याशयः । परिहरति-तत्र हीति। तत्रार्चिषां प्राधान्यं साक्षात्कियान्वयात, समर्थानामव- यविनोरेव प्राधान्यमतोऽनयोर्भेद इत्याशयः। नखचन्द्राणां तदज्तयान्वयः।
Page 513
१२० काव्यमाला।
तर्ह्यचिषामेव रूपकत्वमस्तु, तथापि स दोषस्तदवस्थ एवेल्यत आह-ताश्चेति। ता अर्चिषः । पाणिपद्मानीत्यत्र रूपकत्वे दोषतादवस्थ्यादाह-पाणीति । जिगीपुभाववर्णनायां मुख्यत्वेनाअतया पाणिपद्मादयन्वय इति शब्दप्राधान्यमेव। प्रकृते तु चरणादेरवयविनः प्रधानक्ियान्वय इत्यर्थप्राधान्यमिति मेदः ॥ असमखं यथा- 'अकस्मादेव ते चण्डि स्फुरिताधरपल्लवम् । मुखं मुक्तारुचो धत्ते धर्माम्म:कणमज्जरीः ॥३४॥' अत्राप्येकदेशोपक्मेणाधरपल्लवखेदाम्बुकणमञ्जरीणां सहजाहार्याव- यवानामभिधानादुपमानावयविनश्चानभिघानादिदमसमस्तं नाम रूपकम- ङ्विप्रधानेष्वर्थभूयिष्ठरूपकभेदः । अत्रापि च स्फुरिताघरपल्लवमिति विशेषणविशिष्टस्य मुख्यवस्तुनः धर्माम्भ:कणमञ्जरीधारणक्रियासमावेशः प्राधान्यं स्थापयति॥ अकस्मादित्यादि। हे चण्डि कोपने, तब स्फुरिताधरपल्लवं मुखं कर्तृ, अकस्मादेव कारणं विनैव मौक्तिकच्छाया वर्माम्बुकणमज्जरीर्घत्ते विभर्ति। अत्रा- पीति। यथकदेशोपमायामवययानां प्राधान्यं तथात्राप्यवयवानामेव प्राधान्याद- समस्तरूपकत्वम्। एवं चावयविनो मुखस्य रूपकाभावाद्वयवरूपकमिदमिति भावः। सहजावयवताधरे आहार्यावयवतीपचारिक्यवयवता धर्माम्भःकणस्यावयवाश्रय- त्यात्। उपमानावयविनो लताख्यस्य । शब्दभूयिष्ठरूपकमेदासमस्रूपकादस्य मेदमाह-अत्रापीति। इहोक्तयुक्त्यार्थप्राधान्यमिति मेद:॥ युक्त यथा- 'स्मितपुप्पोज्ज्वलं लोलनेत्रभृङ्गमिदं मुखम् । न कस्य नन्दनं सुभ्रु सुरभिश्वसितानिलम्।। ३५।। अत्र स्मितपुष्पोज्ज्वलं लोलनेत्रभृतं सुरभिश्वसितानिलं ते मुखं न कस्य नन्दनमिति पुष्पभृक्गादीनां परस्परं युत्तयुपपत्तेर्युक्तं नामायमन्गा- ज्विमधानरूपकेष्वर्थभूयिष्ठो रूपकमेदः। अत्र यद्यपि नन्दनमिव नन्दन-
Page 514
४ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। ४२१
मिति गौणवृत्तिव्यपाश्रयः शब्द एव समस्तविशेषणैः परिष्क्रियते तथापि नन्दयतीति नन्दनमिति कृदमिहितक्रियासमावेशे मुखाख्यस्यैव वस्तुनः प्राधान्यमवगम्यते तस्य त्वपहियत इत्यर्थप्रधानमेवैतत् । स्मितेत्यादि। हे सुत्रु, तवेदं मुखं कस्य न नन्दनं हर्षजनकमपि तु सर्वस्येव। नः शिरबालने । कीटशम्। स्मितमेव पुष्पं तेनोजवलं दीप्तिमत्। लोलनेत्रे एव मृतौ यत्र तत्। सुरभिः श्वासानिलो यत्र तत्। युक्तियोंग: उपपत्तिश्ोभयमपि विवक्षितमिह। तथा हि पुष्पत्रमरयोर्युक्तिर्योंग: पुष्पैः सह त्रमराणां मकरन्द- पानकृत: संबन्धः । अत एवोपपद्यते पुष्पत्रमरयोरेकत्रावस्थानम्, न हि पुष्पाणि अ्रमरैविना शोभन्त इति युक्तरूपकतेत्याशयवानाह-परस्परमिति। नन्दनमिव नन्दनमिति शब्दप्राधान्येऽपि नन्दयतीति नन्दनमिति कृदभिहितो भावो द्रव्यवत्प्र- काशत इति वचनादन्यप्राधान्यमेव विवक्षितमिति शह्कोत्तराभ्याम्॥ अयुक्त यथा- 'इदमार्ई्रस्मितज्योत्सं स्िग्घनेत्रोत्पलं मुखम्। जगन्नेत्रेन्दुरस्माकं कथ तापाय कल्पते ॥ ३६ ॥' अत्र ज्योत्सोत्पलयोरयोगाज्जगन्नेत्रेन्दोश्च मुखस्य संतापकारणमिदम- युक्तं नामाभ्विप्रधानरूपक मेदेष्वर्थभूयिष्ठरूपकमेदः। अत्रापि पूर्ववन्मु- खाख्यवस्तुनो विशेषणैः परिष्करणमिति तस्यैव प्राघान्यमवगम्यते॥ इदमित्यादि। हे कान्ते, तवेदं मुखं जगन्ेत्राणामिन्दुरस्माकं तापाय कथ कल्पते शक्तो भवति। कीटशम्। आर्दस्मितं सरसेपद्वास एव ज्योत्सा यत्र तत्। स्रि्रिग्धं नेत्रोत्पलं यत्र तत्। स्मितस्या्ईत्वेन स्नेहजनितता लक्ष्यते, कोपस्मितस्य सूक्ष्मत्वात्। इह ज्योत्साया उत्पलस् च सहानवस्थानं तच मिथोऽनुपकार्योपका- रकभावादित्ययुक्तरूपकता । अर्थप्राधान्यं पूर्वो क्युक्सात्रापील्याह-अत्रापीति। अर्थभूयिष्ठरूपकेSXप्रधानं विभजते- भेदानङ्गप्रधानस चतुरोऽवयवाश्रयान्। सहजाहार्यतद्योगतद्वैषम्यैः प्रचक्षते ॥ ३० ॥
Page 515
४२२ काव्यमाला।
तेषु सहजावयवं यथा- 'पप्फुरिअउट्ठदलअं तक्खणविगलिअरुहिरमहुविच्छड्डम्। उक्खडिदअण्ठणालं पडिअं फुडदसणकेसरं मुहकमलम् ॥ ३७॥' [प्रस्फुरितोष्ठदलं तत्क्षणविगलितरुधिरमधुविच्छर्दम्। उत्खण्डितकण्ठनालं पतितं स्फुटदशनकेसरं मुखकमलम् ॥] अत्रौष्ठादीनां दलादीनां च मुखाम्भोजावयवानां स्फुरितविग- लितोत्खण्डितस्फुटविशेषणविशिष्टानां परस्परमुपमानोपमेयभावरूपितानां मुखपक्षे कमलपक्षे च सहजत्वं गम्यत इति सहजावयवो नामायमङ्ग- प्रधानरूपकेष्वर्थभूयिष्ठरूपकमेदः। नैतद्वाच्यम्-ताम्राह्गुलिदलश्रेणी- त्यादेरर्थप्रधानमेदादिदं न भिद्यत इति। तत्र हि भूपालमौलिधारण- क्रियासमावेशेनावयविनः प्राधान्यं विवक्षितम्, इह तु पतनक्कियायाम- वयवानामत एव ते स्फुरितादिविशेषणैर्विशिष्यन्ते॥ मेदानिति। तयो: सहजाहार्ययोयोगस्तदयोग:, तयोवैषम्यं विषमावयवता। पप्फुरिअ इति। इह मुखमेव कमलं तत्पतितम्। कीदशम्। प्रस्फुरितमोष्ठपुटमेव दलं पत्रं यत्र तत्। तत्कालविगलितरुधिरमेव मधुप्रवाहो यत्र तत्। विच्छर्दः प्रवाहः। उत्खण्डितकण्ठ एव नालो यत्र तत्। स्फुटदशना एव केसराणि यत्र तत्। इह मुखस्यीष्ठादीनि पद्मस्य पत्रादीन्यवयवास्ते च सहजा इति तत्प्राधान्यादिदं सह- जावयवरूपकम्। न च ताम्राहुलीत्यनेनावयविप्रधानेनास्यामेद इति वाच्यम्, तन्नात्निप्राधान्यस्य विवक्षितत्वादिहान्प्राधान्यस्य तत्त्वादिल्याह-न चेति॥ आहार्यावयवं यथा- 'तो कुंभअण्णपडिव अणदण्डपडिघट्टिआमरिसघोरविसो। गलिअंसुअणिमोओ जाओ भीसणणरो दसाणणभुअओ।।३८।' [ततः कुम्भकर्णप्रतिवचनदण्डपरिघद्वितामर्षघोरविषः । गलितांशुकनिमोंको जातो मीषणनरो दशाननमुजगः ॥। अत्र कुम्भकर्णप्रतिवचनममर्षोंऽशुकमिति दशाननपक्षे दण्डो घोर-
Page 516
४ परिच्छेद: I] सरखतीकण्ठाभरणम्।
विषं निर्मोक इति भुजगपक्षे येSवयवास्तेषामाहार्यत्वादिदमाहार्यावयव नाम रूपकमञ्जप्रधानरूपकेष्वर्थभूयिष्ठरूपकमेदः। अत्रापि कुम्भकर्ण- संबन्धपरिघट्टितगलितविशिष्टानामवयवानामेव दशाननभुजगभीषणतरी- करणत्रियायां प्राधान्यमवगम्यते।। तो इत्यादि। 'ततः कुम्भकर्णप्रतिवचनदण्डपरिघष्टितामर्षघोरविषः । गलि- तांशुकनिमोको जातो भीषणनरो दशाननभुजग: II' ततोऽनन्तरं दशानन एव भुजग: सर्पः सोऽतिभयानको जातः । कीदशः । कुम्भकर्णप्रतिवचनमेव दण्डसतेन परिघद्टित उत्थापितोऽमर्ष एव घोरविषं यस्य सः । गलितश्युतोंश्युकं वस्त्रमेव निर्मोक: कशुको यस्य सः । 'समी कक्ुकनिर्मोकौ' इत्यमरः । इह प्रतिवचनादीना- मवयवत्वाभावादाहार्यावयवता, तेषामेव प्राधान्यादाहार्यावयवरूपकमिदम् ।। उभयावयवं यथा- 'यस्या वीजमहंकृतिरगुरुतरो मूलं ममेतिग्रहो नित्यत्वस्मृतिरङ्कुरः सुतसुहृदृत्यादयः पल्लवाः । स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः सा मे त्वच्रणार्हणापरशुना तृष्णालता ल्यताम् ।।३९।।' अत्र बीजं मूलमङ्करः पुष्पं फलमिति लतापक्षे सहजाः, तृष्णापक्षे पुनरहंकृत्यादय आहार्यावयवा इति तदिदं सहजाहार्याणामवयवानां परस्परमुपमानोपमेयभावरूपणेनोभयावयवं नाम रूपकमिदमङ्जप्रधानरूप- केप्वर्थभूयिष्ठरूपकमेदः । अत्रापि चाहंकारममताध्रौव्यस्मरणसुतादि- दारपरिग्रहपराभवदुर्गतीनामवयवानामेव वीजादिरूपेण रूपितानां भगवदाराधनकुठारेण तृप्णालता लूयतामिति प्रार्थनक्कियया समावेशेन प्राधान्यमवगम्यते ।। यस्या इत्यादि। सा मम तृष्णैव लता हे कृष्ण, त्वत्पादपूजापरगुना लूयतां छिद्यताम्, खचचरणार्हणैव परशुः कुठारः। यस्यास्तृष्णालताया अहंकृतिरहंकार एव बीजमादिकारणम्, गुरुतरो ममेतिग्रहो ममत्वनिश्चयो मूलम्, नित्यमिदमिति
Page 517
४२४ काव्यमाला।
स्मृतिरकुरः, पुत्रमित्रमत्यादयः किसलयाः, दाराणां पत्नीनां परिग्रहोऽनुराग: स्कन्धः, परिभवः पराभवः कुसुमम्, दुर्गतिर्नरकः फलम् । सर्वत्र यस्या इल्य- न्वयः । 'तरुप्रकाण्डे स्कन्धो ना' इति विश्वः । 'नरको निरयो दुर्गतिः स्त्रियाम्' इलमरः । इह बीजादीनां सहजावयवता, अहंकृत्यादीनामाहार्यावयवता, तेषामेव च् प्राधान्यं विवक्षितमित्युभयावयवप्रधानमिदम्। ध्रौव्यं निल्यता।। विषमावयवं यथा- 'मदरक्तकपोलेन मन्मथस्त्वन्मुखेन्दुना। नर्तितभ्रूलतेनालं मर्दितुं भुवनत्रयम् ।। ४० ।।' अत्रेन्दुना मुखावयवी रूपितः, म्रुवौ च तदवयवौ लतावयवि- भ्याम्, मदरक्तौ तु कपोलौ न केनापीति सर्वतो वैषम्याद्विषमावयवं नाम रूपकमिदमङ्जप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः। अत्रापि मदर- क्तनर्तितयो: कपोलभ्रुवोरेव मन्मथस्य जगत्रितयमर्दनक्रियायां प्राधान्यं साधकतमत्वमवगम्यते ।। मदेत्यादि। हे प्रिये, त्वन्मुखेन्दुना मन्मथो भुवनत्रयं मदिंतुं जेतुमलं सम- र्थोंऽस्ति । कीटशेन । मदरक्ती कपोली यत्र तेन। नर्तिते भूलते येन तेन। इह मुखमवयवि चन्द्रत्वेन रूपितम्, भुवौ चावयवी लतात्वेन, गण्डस्तु न केनापीति वेषम्यम्, प्राधान्यं चावयवानामेवेति विषमावयवरूपकता।। शब्दार्थभूयिष्ठरूपके शुद्धरूपकं विभजते- आधारवनिराधारं केवलं व्यतिरेकि च। इति शब्दार्थभूयिष्ठं शुद्धमाहुश्तुर्विधम् ॥ ३१॥ तेष्वाधारवद्यथा- 'सोहइ विसुद्धकिरणो गअणसमुद्दम्मि रअणिवेलालग्गो । तारामुत्तावअरो फुडविहडिअमेहसिप्पिसम्पुडविमुक्को ।।४१॥' [शोभते विशुद्धकिरणो गगनसमुद्रे रजनीवेलालमः । तारामुक्ताप्रकर: स्फुटविघटितमेघशुक्तिसंपुटविमुक्त: ॥] अत्र समुद्रत्वेन रूपितं गगनमाधारं परिकल्प्य रजनीमेघतारकौ-
Page 518
४ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ४२५
घानां वेलाशुक्तिमुक्ताफलप्रकराणं च प्रतीयमानाभिघीयमानसादश्यानां शब्दप्राधान्यतोऽर्थप्राधान्यतश्र रूपकं कृतमित्याधारवन्नाम रूपकमिदं शुद्धरूपकेषु शब्दार्थभूयिष्ठरूपकमेदः ॥ आधारवदिति। सोहइ इत्यादि। इह गगनमेव समुद्सत्र तारा एव मुक्ता- स्तासां प्रकर: समूहः शोभते। कीडशः । विशेषेणातिशयेन शुद्धकिरणः । रजन्येव वेला तीरभूमिखत्र लम: संबद्ध: । स्फुटविघटिता व्यक्तीभूय विवीर्णा मेघा एव शुक्तिसंपुटास्तविमुक्तय। इह सादृश्ये रजन्यादीनां प्रतीयमानता वेलादीनामभिधी- यमानता, शुद्धरूपकता उपमाद्यसंभेदात्। गगनस्याधारतयेदमाधारवद्रूपकम्। निराधारं यथा- 'वणराइकेसहत्था कुसुमाउहसुरहि संचरन्तधअवडा। ससिअरमुहुत्तमेहा तमपडिहत्था विणेत्ति धूमुप्पीडा ।।४२।।' [वनराजिकेशहस्ताः कुसुमायुधसुरमिसंचरङ्गजपटाः । शशिकरमुहूर्तमेघास्तमःप्रतिहस्ता विज्ञायन्ते धूमोत्पीडाः ॥] अत्र धूमोत्पीडानां वनराजिकेशहस्तत्वेन कुसुमायुधसुरभिसंचरड्गूज- पटत्वेन शशिकरमुहूर्तमेघत्वेन च तमःप्रतिहस्ततवेन च रूपितानां निरा- धाराणामेव शब्दप्राधान्यमर्थप्राधान्यं चावधार्यत इति निराधारं नाम रूपकमिदं शुद्धरूपकेषु शब्दार्थभूयिष्ठरूपकभेदः ॥ वणेत्यादि। इह धूमसमूद्दा एताहशा विज्ञायन्ते। कीदशाः । वनराज्या वन- पक्केः केशहस्ता: केशकलापा एव, 'पाशः पक्षथ्र हस्तथ कलापार्थाः कचात्परे।' इत्यमरः । कुसुमायुधस्य कामस्य सुगन्धि चलडुजपटा एव चन्द्रकिरणानां मुहूर्त- मेघा एव तमसामन्धकाराणां प्रतिहस्ताः प्रतिनिधयः । 'प्रतिहस्तः प्रतिनिधी' इति विश्वः । इह धूमोत्पीडस्य वनराजिकेशकलापादेराधारत्वानुपपत्तेर्निराधार- रूपकमिदम्॥ केवलं यथा- 'वेलिितम्रु गलद्धर्मजलमालोहि तेक्षणम्। विवृणोति मदावस्थामिदं वदनपढ्कजम् ॥ ४३ ॥'
Page 519
४२६ काव्यमाला।
अत्रावयविन एव केवलस्य वदनं पङ्कजमिवेति रूपणादस्य शब्द- प्राधान्यं वेल्िितभ्रुप्रभृतिविशेषणोपादानाच्चार्थप्राधान्यमेव लक्ष्यते तेन केवलं नाम रूपकमिदं शुद्धरूपकेषूमयभूयिष्ठरूपकभेदः ॥ वेल्लितेति। तवेदं वदनपड्डजं कर्तृ मदावस्थां मद्यपानजां दशां वित्रणोति प्रकाशयति । कीदशम्। वेलिते नर्तिते भुवी यत्र यत्। आलोहिते अतिरके ईक्षणे यत्र तत् । इह मुखपदमरूपस्यावयविनः केवलस्य रूपणात्केवलरूपकमिदम् ।। व्यतिरेकवद्यथा- 'अनाघ्ातं पुष्पं किसलयमलूनं कररुहै- रेनाविद्धं रन्नं मधु नवमनास्वादितरसम् । अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ ४४ ॥'
पादितव्यतिरेकाणां प्रतीयमानसादृश्येन शकुन्तळारूपेण रूपणादर्थतः शब्दतश् प्राधान्यमवधार्यत इति व्यतिरेकवन्नाम रूपकमिदं शुद्धरूप-
अनाघातमित्यादि। अनघमनवर्द तस्या रूपमिह भुवि कं भोक्तार समुप- स्थितं करिष्यति तदहं न जाने । कीदशम्। अनाघ्रातमगृहीतगन्धं पुष्पमेव । कर- रुहेनखरलूनमखण्डितं किसलयम् । अनामुक्तमपरिहितम्, अनास्वादितरसमगृही- ताखादं नूतन मधु, पुण्यानां चाखण्डं सकलं फलमपि। 'आमुक्त: परिहिते युत्रे' इति विश्वः। इह पुष्पादीनामनाघ्रातादिना व्यतिरेकवतां रूपणाद्यतिरेकवद्रूपकमिदम् ।। शब्दार्थभूयिष्ठरूपके संकीर्णरूपकं विभजते- अथ संकीर्णभेदानां चतुष्टयमिहोच्यते। स्यात्सावयवसंकीणे तथानवयवाह्यम् ।। ३२ ।। तथैवोभयसंकीर्ण श्लेपोपहितमित्यपि। सैपा रूपकमेदानां विंशतिश्रतुरुच्तरा ॥ ३३। १. 'अनामुक्त' इति टीकाकारसमत: पाठ :.
Page 520
४ परिच्छेदः ।] सरस्तीकण्ठाभरणम्। ४२७
तेषु सावयवसंकीर्ण यथा- रइअरकेसरणिवहं सोहइ धवलबभदलसहस्सपरिगअम्। महुमह्दंसणजोग्गं पिआमहुप्पत्तिपङ्कअं व णहअलम् ।।४५॥' [रविकरकेसरनिवहं शोभते धवलाभ्रदलसहस्त्रपरिगतम्। मधुमथदंशनयोग्यं पितामहोत्पत्तिपङ्कजमिव नभस्तलम् ॥I] अत्र पितामहोत्पत्तिपक्कजमिव नभस्तलं शोभत इत्युपमानोपमेयभावेना- वयवावयविनोरमेदस्याविवक्षायामुपमैव न रूपकम्। रविकरधवलाम्रदल- सहस्रयो: केसरनिकरदलसहस्रयोश्च प्रतीयमानाभिधीयमानसादृश्ययोश्च सहजाहार्यावयवभूतयोरमेदोपचारेण रूपणमिति सावयवरूपेणोपमायाः संकीर्णत्वादिदं सावयवसंकीण नाम संकीर्णरूपकेषूभयभूयिष्ठरूपकमेदः॥ अथेति। आहयो नाम । सर्वमेकीकृत्य गणयति-सपेति। चतुविशति- रित्यर्थ: ॥ रइअरेत्यादि । इह नभस्तलं शोभते पितामहस्य ब्रह्मण उत्पत्तिपद्म- मिव तस्य पद्मयोनित्वात्। कीदशम्। रविकरा: सूर्यकिरणा एव केसरनिकरा यत्र तन्। धवलाभ्राणि श्वेतमेषा एव दलसहस्राणि तैः परिगतमन्वितम् । मधुमथस्य विष्णोर्दर्शनयोग्यम्, शरदि तस्य जागरणादस्य च रम्यत्वात, पद्मपक्षेऽपि नामि- कमलतया मधुरिपुदर्शनयोग्यता। यद्ा मधुमथस्य मृजस्य दंशनं कवलनं तथो- ग्यम् । मधु मभ्रातीति मधुमथः मूलविभुजादित्वात्कः । 'मधुमथो हरिभत्रयोः' इति शाश्रवतः । अन्र रविकरधवलाभ्रसहलयोः सहजाहार्यावयवयोः केसरनिबह- त्वेन दलसहस्रत्वेन च रूपणात् पङ्जनभस्तलयोरवयविनोरुपमानोपमेयत्वाच सावयवर्संकीर्णरूपकमिदम् ।। निरवयवसकीण यथा- 'दीहो दिअह्भुअंगो रइबिम्बफणामणिप्पहं विअसन्तो। अवरसमुद्दमुवगओ मुञ्न्तो कंचुअंव धम्मअणिवहम् ।४६।।' [दीर्घों दिवसभुजक्गो रविविम्बफणामणिप्रमां विकसमानः। अपरसमुद्रमुपगतो मुझन्कखुकमिव धर्मनिवहम् ॥] अत्र दिवसावयविनो भुजङ्ञावयविनश्चाभिधीयमानप्रतीयमानदैर्ध्य-
Page 521
४२८ काव्यमाला।
दारुणादिधर्मयोरमेदोपचारेण रूपणमवयवानां चतुर्णा रविबिम्बातपफ- णामणिनिमोकाणां सत्यामप्यमेदोपचारयोग्यतायां द्वयोरिवशब्दप्रयोगे- नोपमायां द्वयोस्तुल्यरूपणेSप्यसामानाधिकरण्यान्नावयवावयविभावो विमाव्यत इति निरवयवस्योपमायां संकीर्णत्वान्निरवयवसंकीण नाम संकीर्णरूपकेषूभयभूयिष्ठरूपकभेदः ॥ दीहो इत्यादि। इह दिवस एव भुजअः सर्पोऽपरसमुद्रं पश्चिमसमुद्र गत इब। कीशः । दीर्घों महापरिमाणः । सूर्यविम्बमेव फणामणिप्रभां विकासयन् आतपसमूहं कशुकमिव त्यजन्। अत्रासामानाधिकरण्येनावयवावयविभावो न ज्ञायते, इवप्रयोगेण चोपमा ज्ञायत इति निरवयवसंकीर्णरूपकमिदम् ॥ उभयसंकीर्ण यथा- 'घुअमेहमहुअराओ घणसमआअद्विओणअविमुक्काओ। णहपाअवसाहाओ णिअअट्ठाणं व पडिगआओ दिसाओ ४७' [घुतमेघमधुकरा धनसमयाकृष्टवनतविमुक्ताः । नभ:पादपशाखा निजकस्थानमिव प्रतिगता दिशः ॥] अत्र पादपरूपेण रूपितस्य नभसो यदेतददिशां शाखारूपेण रूपणं मेघानां च मधुकरप्रकरेण तदुभयमप्यन्यपदार्थषष्ठीसमासयोरभिधीयमा- नेन सावयवं निरवयवं चेत्युत्प्रेक्षया च संकीर्यमाणमुभयसंकीर्णरूपक- व्यपदेशं लभते । सोडयं संकीर्णरूपकेपूभयभूयिष्ठरूपकमेदः । धुअ इत्यादि। इह दिशो निजस्थानं खकीयस्थानं प्रतिगता इव। इवपद- मुत्प्रेक्षायाम्। कीदश्यः । धुता मेघा एव मधुकरा त्रमरा यामु ताः। घनसमयेन वर्षाकालेन चनावरणादाकृष्टाः संनिहितीकृता अवनता भूमिलमाः पश्चाद्विमुक्ता- स्त्यक्काः । नभ एव पादपो शृक्षस्तस्य शाखाभूताः । अत्र धुतमेघपदे बहुवीहिः। नभःपादपपदे षष्ठीसमासस्ताभ्यां सावयवत्वं निरवयवत्वं च यथाक्रममुक्तम्। अत एवोभयसंकीर्णरूपकमिदं। स्कनेधके, ध्वनिस्तु दिशन्तीति दिशः प्रोढनायिकाः । अन्या अपि दिशो निजस्थानमिव गच्छन्ति। कीदृश्यः धुतमेर्घ(ध्यं) यन्मधु मदं १. 'रकन्पकं नाम छन्दः".
Page 522
४ परिच्छेद: I] सरखतीकण्ठाभरणम्। ४२९
तत्करे यासां ताः । यद्वा धुता मेधा बुद्धिर्येन तादशं मधु करे यासां ताः, यद्वा धुता मेधा यस्मादेवंविधो मधुकरो विदग्धो यासां ताः। घनेन दृढेन समयेन शपथेन समदेन पुंसा वा आकृष्टा आहता अवनता वशीकृताः । उपभुक्ता इति यावत्। पश्राद्विमुक्तास्त्यक्ताः, यद्ा विमुक्ता विगतमुक्ताहाराः पश्चात्कर्मधारयः । 'समय: शपथे काले' इति विश्वः । नखस्य पातः क्षतं तदेव प्रसाधः प्रसाधनं यासां ताः ॥ श्ेषोपहितं यथा- 'पीणपओहरलग्गं दिसाणं पवसन्तजलअसमअविइण्णम्। सोहग्गपढमइण्हं पम्माअइ सरसणह्वअं इन्दघणुम् ।।४८ ।' [पीनपयोधरलमं दिशां प्रवसज्जलदसमयवितीर्णम्। सौभाग्यप्रथमचिहनं प्रम्लायति सरसनखपदमिन्द्रधनुः ॥] अत्र सरसनखपदाकारस्येन्द्रधनुष उत्पन्नसादृश्यादमेदोपचारेण रू- पेण योडयं सरसे नमसि पदमस्येति व्युत्पत्या शिष्टरूपेण तद्विशेषण- प्रकारो यश्च शोभायाः प्रथमम्यं चिह्नं सौमाग्यस्य च प्रथमं चिह्नं पीनपयोधरे मेघे सतने वा लग्नमित्यादिविशेषणविशेष्यभावस्तेनेदं क्लेषे- णोपधीयत इति श्लेषोपहितं नाम संकीर्णरूपकेषूमयमूयिष्ठरूपकमेदः॥ पीणेत्यादि। इहेन्द्रधनुः प्रसाधयति ...... ऋिप्यति वा । कीटशम् । पीने पयोधरे मेघे लमम्। प्रवसता गच्छता जलदसमयेन वर्षाकालेन दिशां वितीर्ण दत्तम्। सौमाग्यस्य श्रेष्ठं प्रथममादं चिह्म्। सरसे स्रि्िग्धे नभसि गगने पदं स्थानं यस्य तत्। पक्षे सरसं नखपद क्रमेण प्रमीयते (प्रम्लायति) । कीटशम् । दिशां प्रौढाव्नानं सुन्दरीणां वा पीने मांसले पयोधरे खने लग्नम्। प्रवसता जलदसमयेन नायकेन वितीर्ण दत्तम्। जलान् मूर्खान् द्यति खण्डयति जलद ईदश: समय आचारो यस्य सः । सौभाग्यस्य प्रथमचिहमिन्द्रधनुराकार च। 'समयः स्यात्काल आचारे' इति शाश्वतः । प्रवासगमने स्मरणार्थ विद्ग्धेन नख- क्षतं देयम्। तदुकं मद्रसिकसर्वसे-'प्रवासगमने देयाः ल्रेहसंस्कारका नखाः । १. पक्षे 'नखपातप्रसाषाः' इति. २. 'शोभात्रप्रथमचिरद्' इति वा छाया.
Page 523
४३० काव्यमाला।
चिरोत्सष्टेषु रागेषु प्रीतिर्गच्छेत्पराभवम् ॥ रागायतनसंस्मारि यदि न स्यान्रखक्षतम्। रेखास्तिस्तश्वतस्रथ वका वक्ाकृतिर्नखः ॥I' इति। अत्र क्लेषालंकारेणोपहितत्वादेव संकीर्णरूपकता॥ इति रूपकालंकारनिरूपणम्। साम्यालंकारनिरूपणम्। साम्यलक्षणमाह-
उपमारूपकान्यत्वे साम्यमित्यामनन्ति तत् ॥ ३४॥ तदानन्त्येन भेदानामसंख्यं तस्य तूक्तयः । दृष्टान्तोक्तिः प्रपञ्चोक्ति: प्रतिवस्तूक्तिरेव च। ३५॥ तत्रेवादे: प्रयोगेण दृष्टान्तोक्तिं प्रचक्षते। इवादेरप्रयोगेण प्रपञ्चोक्तिं मनीपिणः ॥३६॥ वस्तु किंचिदुपन्यस्य न्यसनात्तत्सधर्मणः । साम्यप्रतीतिरस्तीति प्रतिवस्तूक्तिरुच्यते ॥ ३७ ॥ तत्र क्रियाजातिगुणद्रव्ययोगादिहेतुके। साम्ये पूर्वादिभेदेन दृष्टान्तोक्तिविंधीयते ॥ ३८ ॥ सा क्रियायोगनिमित्तसाम्या दृष्टान्तोक्तिः सामान्यतः पूर्वा यथा- 'स्थितः स्वितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः । जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ।४९।
इत्यादिषु न लिक्रमेददोषः । अभिधीयमानस्थानादिक्कियायोगजनितं साम्यं समस्तमूर्तिमत्साधारणश्च पूर्वमेव छायादृष्टान्तः । सेयं करिया- योगनिमित्तसाम्या सामान्यतः पूर्वा नाम दृष्टान्तोकति: साम्यभेद :- ॥
Page 524
४ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम्। ४३१
तत्साम्यमामनन्ति कथयन्ति । तर्ष्ापमारूपकयोरतिव्याप्तिः । अत उक्तम्- उपमेति। यद्यपि त्रिपु सादृश्यमस्ति तथापि प्रकारकृतो भेद इति भावः । तद्विभजते-तस्य त्विति। यद्यपि मेदानामानन्त्यादसंख्यं तत्साम्यं तथापि तिव उच्तय: प्रकारानुगमकास्तत्रेत्यर्थः ॥ वस्त्विति। वस्तु वाच्यं किमप्युप- न्यस्य तत्सधर्मणखेन तुल्यगुणस्य न्यसनादुदाहरणात्साम्यज्ञानं प्रतिवस्तूक्तिरि- त्यर्थ: ॥ पूर्वादीत्यादिपदेनोत्तरग्रहणं क्रियायोग एव निमित्तं तत्कृतसाम्यात्। स्थि- तेत्यादि। स भूपतिर्दिलीपस्तां सुरभिमन्वगच्छदनुगच्छति स्म । अनुगमनमे- वाह-स कीदशः । स्थितोऽवस्थितः, उच्चलितः प्रस्थितः, आसनवानुपविष्ठः, जला- मिलाषी जलेच्छायुतथ । जलाभिलायीतिपाठे 'ला दाने' ताच्छीलिके णिनि 'आतो युक्-७।३।३३' इति युकि जलपानशील इत्यर्थः। तां कीटशीम् । स्थिताम, प्रयातां कृतगमनाम्, निषेदुषीमुपविष्टाम, जलमाददानां गृहन्तीं च। छायेव यथा छाया कमप्यनुगच्छति तथेत्यर्थः । एतासां क्रियाणामेकचित्ततयानुगमार्थ धीर इत्युक्तम्। ननु छायेव स इति लिन्नमेददोषदुष्टमेवेदम् । अतः कुतोऽलंकारतेत्यत उक्तम्- अनाविष्टेति । अविवक्षितलिद्वत्वात्। नहि लिक्नविवक्षायामिह किचित्परयो- जनम्। इयं चोपमा लौकिकी। लोके च छायाया आवरकानुगमनेयत्यं नत्वन्यस्येति तावन्मात्रमेवोद्देश्यमिहेति न दोषः । तदिदमुक्तम्-अवश्येति । सर्वक्रियायाः प्रथमत एव साम्यात्पूर्वेयम। उपमायामेक एव वाक्यार्थः, इह तु वाक्यार्थयोभेंद इति भिन्नालंकारता।। सैव क्रियागुणयोगनिमित्ता विशेषतः पूर्वा यथा- 'सअलुजोइअवसुहे समत्थजिअलोअवित्थरन्तपआवे। ठाइ ण चिरं रविम्मि व विहाणपडिआ वि मइलदा सप्पुरिसे ५०' [सकलोद्दचोतितवसुधे समस्तजीवलोकविस्तीर्यमाणप्रतापे। तिष्ठति न चिरं रवाविव विधानपतितापि मलिनता सत्पुरुषे ॥] अत्र जगदुक््योतनक्रिया प्रतापगुणयोगहेतुसाम्यमसाधारणश्च सूर्य- दृष्टान्त इति विशेषतः क्रियागुणयोगनिमितेयं पूर्वा नाम दृष्टान्तोक्ति: साम्यमेदः॥
Page 525
४३२ काव्यमाला।
सअलु इत्यादि। इह सत्पुरुषे मलिनता चिर न तिष्ठति। कीटशे। सक- लोद्पोतिता वसुधा येन तस्मिन, समस्ते जीवलोके मर्त्यलोके विस्तीर्यमाणः प्रतापो यस्य तस्मिन। मलिनता कीटशी। विधानेन इतिकर्तव्यतया विधिना वापादितो- स्पादिता। रवाविव यथा सूर्ये मलिनता चिरं न तिष्ठति तथेत्र्थः । कीटशे। सकलो जवलीकृतवसुधे समस्तजीवलोके विस्तीर्यमाणः प्रतापः प्रतपनं यस्य तस्मिन्। मलिनता कीहशी। विहाण प्रातः तस्मात्पतितापि। इहासाधारण्यमेव विशेषः, पूर्व- तापि समस्तक्रियया प्रथमतः साम्येन ॥ गुणयोगनिमित्तसाम्या सामान्यत उत्तरा यथा- 'रूपं तदोजखि तदेव वीर्ये तदेव नैसर्गिकमुन्नतत्वम्। न कारणात्खाद्विभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ५१' अत्र रूपादिगुणयोगजन्मजनितं साम्यं सामान्यरूपश्च पश्चात्प्रदीप- दृष्टान्त इति सामान्यतो गुणयोगनिमित्तेयमुत्तरा नाम दृष्टान्तोक्ति: साम्यभेद: ।। रूपमिति। कुमारो बालकोऽज:, खाननिजात्कारणात्पितुर्न बिभिदे न भेदं जगाम। अमेदे हेतुमाह-ओजसिति दीसं तद्रूपं, सौकुमार्य तदेव, वीर्य तेजस्तदेव, नैसर्गिकं खाभाविकमुन्नतत्वमुच्छितत्वं च। यथा दीपात्प्रवर्तित उत्पादितो दीप: खात्कारणाद्दीपान्न भिन्नो भवति। अत्रापि रूपादिकं तुल्यमेव। दृष्टान्तस्य प्रकृत- वाक्यार्थपर्यवसाने सति पश्ादन्वय इत्युत्तरता।। सैव क्रियागुणद्रव्ययोगनिमित्ता विशेषतो यथा- 'अव्वोच्छिण्णपसरिओ अहिअं उद्धाइ फुरिअसूरच्छाओ। उच्छाहो सुभडाणं विसमक्खलिओ महाणईण व सोत्तो ।।५२॥' [अव्यवच्छिन्नप्रसृतोऽधिकमुद्धावति स्फुरितशूर(शौर्य)च्छायः । उत्साह: सुभटानां विषमस्खलितो महानदीनामिव स्रोतः ॥] अत्राव्यवच्छित्नप्रसृत इति क्रियायोगनिमित्तं स्फुरितशौर्यच्छाय इति गुणयोगनिमित्तं स्फुरितसूर्यच्छाय इति द्रव्ययोगनिमित्त च साम्यं सामान्यविशेषरूपश्च विषमस्खलितमहानदीसोतोदृष्टान्त इति विशेषतः कियादियोगनिमित्तेयमुत्तरा नाम दष्टान्तोक्ति: साम्यभेद: ॥
Page 526
४ परिच्छेद: I] सरखतीकण्ठाभरणन्। अव्वोच्छिण्णेति । इह सुभटानामुत्साहो विषमे दुष्करे सखलितः सन्नधिकं यथा स्वादेवमुद्धावति प्रकाशते । कीदशः । अव्यवच्छिनो निरन्तरः सन् प्रसतः, स्फुरिता शूरस्य सुभटस्य शौर्यस्य वा छाया ख्याति: कान्तिर्वा यत्र सः। यथा महानदीनां सोतः प्रवाहो विषमे देशे सखलितः सन्नधिकमुद्ावति उद्गच्छति सोऽपि निरन्तरं प्रसृतः, स्फुरिता सूरस्य छाया कान्तिः प्रतिबिम्बो वा यत्र सः । 'प्रतिबिम्बे च कान्तौ च रयातौ छायार्कयोषिति।' इति मेदिनीकार: । ('कार्यार- म्मेयु संरम्भ: स्थेयानुत्साह उच्यते।' इति भरतः ।) अत्र तादृशनदीस्रोतसो विशेषरूपता।। द्रव्यजातिनिमित्तसाम्या सामान्यतः पूर्वा दष्टन्तोक्तिर्यथा- 'विसवेओ व्व पसरिओ जं जं अहिलेइ वहलघूमुप्पीडो । सामलइज्जइ तं तं रुहिरं व महोअहिस्स विद्दुमवेण्टम् (ढम्)५३' [विषवेग इब प्रसृतो य यमभिलेदि(लीयते) बहलधूमोत्पीडः । श्यामलयति(लायते) तं तं (तत्तद्)रुधिरमिव महोदघेबिदुमवेष्टम् (पीठम्) ॥] अत्र धूमविषयोर्विद्रुमरुधिरयोश्च द्रव्यजातियोगकृतं प्रतीयमानं श्यामलायत इति धूमविषद्रव्ययोगजनितमभिधीयमानं सामान्यरूपं च साम्यम्। सेयं दृष्टान्तस्य पूर्वमेवोपन्यासाङ्रव्यजातियोगनिमित्तसाम्या सामान्यतः पूर्वा नाम दृष्टान्तोक्ति: साम्यभेदः ॥ विसेति। इह बहलधूमोत्पीडो महाधूमसमूहो विषवेग इब प्रस्तो यय्यद्वि- हमपीठमभिलीयतेऽभिलाति गृहाति वा तत्तन्महोदघेर्विद्ठमपीठं श्यामलायते कज- लीभवति। कीटशम्। रुधिरमिव, इयं पूर्वदिशा । अभिलीयत इति अभिपूर्वात् लीडू अश्लषे दैवादिक :... । 'स्यादुत्पीड: समूहेऽपि' इति रलकोषः । अत्र जातेर्द्रव्यस्य सामान्यत एव साम्यमिति सामान्यरूपता दृष्टन्तस्य पूर्वमुपन्यासा- त्पूर्वता च।। सैव द्रव्ययोगनिमित्तसाम्या विशेषतो यथा- 'संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय परतिवरा सा। नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ ५४ ॥' २८ स० क०
Page 527
४३४ काव्यमाला।
अत्र दीपशिखादिद्रव्ययोगकृतं साम्यं सामान्यविशेषरूपौ संचारिणी दीपशिखेति च राजमार्गाइट इति च दष्टान्तौ पूर्वमेवोपन्यस्तौ। सेयं विशेषतो द्रव्ययोगनिमित्तसाम्या पूर्वा नाम दृष्टान्तोक्तिः साम्यभेदः ॥ संचारिणीत्यादि। सा पतिंवरा इन्दुमती यं यं भूमिपालं व्यतीयाय तत्याज स स भूमिपालो विवर्णभावं विवर्णत्वं प्रपेदे लेमे। यथा रात्री संचरिणी दीपशिखा यं यं राजमार्गाहं व्यतिकामति स स राजमार्गाट्टो वैवर्ण्य प्राप्नोति तथे- त्यर्थः । व्यतीयायेति व्यतिपूर्वात् 'इण् गती' इति धातोर्लिटि रूपम्। अटो अटारीति प्रसिद्धः । 'स्यादह: क्षीममत्नि्रियाम्' इत्यमरः । इह संचरणत्वसामान्य- योगात्सामान्यरूपता, राजमार्गाह इति विशेषरूपता। द्रव्ययोगनिमित्तसाम्यैव सामान्यत उत्तरा यथा- 'उज्वलालोकया खिग्धा त्वया त्यक्ता न राजते। मलीमसमुखा वर्तिः प्रदीपशिखया यथा॥ ५५ ॥' अत्र द्रव्ययोगकृतं साम्यं सामान्यरूपश्च प्रदीप: पश्चात्मदीपशिखा- वर्तिर्दष्टान्तः । सेयं यथोक्तरूपोत्तरा नाम दृष्टान्तोक्तिः साम्यमेदः ॥ उज्वलेत्यादि। त्वया त्यक्क्का स्रि्रिग्धा स्त्रेहवती सखी न राजते इति प्रियायाः सखीं प्रति पत्युर्वचनम्। त्वया कीटश्या। उज्वलो निर्मल आलोको दर्शनं यस्या- खया। ल्िग्धा कीटशी। मलीमस म्लानं मुखं यस्याः सा । यथा प्रदीपशिखया तक्का वर्तिर्न शोभते तथेत्यर्थः। प्रदीपशिखया कीटश्या। उज्वल आलोक उद्दोतो यस्यास्तया । वर्तिः कीटशी । त्रिग्धा स्र्रेहवती, स्ेहसतैलम् । म्लानमुखी च। 'मलीमसं तु मछिनम्' इत्यमरः । इह नायिकाशिखयोर्दव्ययोर्योंग:। दृष्टान्तस्य सामान्यरूपता पश्चादुपादीयमानता च व्यच्तैव ।। सैव क्रियागुणयोगनिमित्तसाम्या विशेषतो यथा- 'तो ताण हअच्छाअं णिचचललोअणसिहं पउत्थपआवम् । आलेक्खपईवाणं व णिअअं पइहचडुलत्तणं पि विअलिअम् ५६' [ततस्तेषां हतच्छायं निश्चललोचनशिखं प्रोषितप्रतापम्। आलेस्यप्रदीपानामिव निजकं प्रकृतिचटुलत्वमपि विगलितम् ॥]
Page 528
४ परिच्छेद: I] सरसतीकण्ठाभरणम्। ४३५
अत्र हतच्छायमित्यादीनामन्तर्गतगुणत्वेन करियाविशेषणत्वात् क्रियागुणयोगनिमित्तं निजं प्रकृतिचटुलत्वमपि विगलितमिति गुण- योगनिमितं च साम्यं सामान्यविशेषरूपश्रालेर्यप्रदीपदृष्टान्त इति क्रियागुणयोगनिमित्तेयं विशेषत उत्तरा नाम दृष्टान्तोक्ति: साम्यभेदः । अथ दृष्टान्तोक्तेर्दष्टान्तालंकारस्य च को विशेषः । उच्यते। 'लौकिक- परीक्षकाणां यस्मित्नर्थे बुद्धिसाम्यं स दष्टान्तः' इत्यर्थ प्रति तु न कश्चिद्विशेषः । उकतिं प्रति पुनरनेको विद्यते । तद्यथा-दृष्टान्तदार्ष्टा- न्तिकयोर्मिन्ने वाक्ये निर्देशो दृष्टान्तालंकारः । एकवाक्ये निर्देशो दृष्टान्तोक्तिः । साध्यधर्मसिद्धये दृष्टान्तालंकारः, साधर्म्यनिमित्त]- सिद्धये दृष्टान्तोक्तिः । इवाद्यपरयोगे दृष्टान्तालंकार:, इवादिप्रयोगे तु दृष्टान्तोक्तिः । अत एवेयमुभयालंकारः स पुनरर्थालंकार इति ॥ तो ताणेत्यादि। इह ततस्तेषां वानराणामालेख्यप्रदीपानामिव निजकमात्मीयं प्रकृतिचन्चलत्वमपि विगलितमपगतम्। हता छाया प्रतिष्ठा कान्तिवा यत्र तत्। पक्षे हता छाया आतपाभावरूपा यत्र तत्। निश्चलं लोचनमेव शिखा यत्र तत्। प्रोषितोऽन्तर्गतः प्रतापः पौरुषं प्रतपनं च यत्र तत्। कियाविशेषणत्रयमिदम्। 'निजमात्मीयनित्ययोः' इति विश्वः । खार्थिक: कन्। अत्र छायादेर्गुणस्य किया- विशेषणतया कियाया गुणायोगः । प्रदीपस्य दृष्ठान्त इति विशेषः । उत्तरा च व्यक्तैव। अथेति । उभयत्र साम्यमात्रस्योपजीवनादिति भावः । लौकिका लोक- विदिताः, परीक्षकाः ग्रमाणेन व्यवहारिणः । बुद्धिसाम्यस्योभयत्र तुल्यत्वादाह- न कश्चिदिति। अमेद एवेल्र्थ: । त्ह्यमेद एव, नेलाह-उक्तिमिति । वचनरचनयानेके भेदास्तयोरित्यर्थः । साध्येति साध्यो धर्मः सिसाधयिषितः। साधर्म्येति। साधर्म्य समानधर्मता तस्या निमितं गुणादि तयोः सिद्धिरित्यर्थ: । इवादिप्रयोगपुरस्कारेण शब्दालंकारता, साम्यादिपुरस्कारेण चार्थालंकारतेत्युभया- लंकारतेल्याह-अत इति। प्रपमोकि लक्षयति- साम्योत्कर्षापकर्षोक्तेरुपमानोपमेययोः । प्रकृता विकृता चेति अ्रपञ्चोक्तिः प्रदर्श्यते ॥ ३९॥
Page 529
४३६ काव्यमाला।
सोपमानोपमेययोः साम्येन प्रकृता यथा- 'अरण्यवीजाञ्जलिदानलालिता- स्था च तस्यां हरिणा विशश्वसुः । यथा तदीयैर्नयनैः कुतूहला- सपुरः सखीनाममिमीत लोचने॥ ५७॥' अत्र मृगलोचनोपमानानां तल्ोचनोपमेययोश्च साम्यमविकृतानामेव प्रतीयते। सेयं सामान्येन प्रकृता नाम प्रपञ्चोक्तिः साम्यमेदः ॥ साम्येति। उपमानोपमेययोः साम्येनोत्कर्षणापकर्षेण च प्रपथोकिः। सा च क्रचित्प्रकृता स्वभावसिद्धा, कचिद्विकृतीपाधिकी ॥। अरण्येत्यादि । तस्यां गौर्या च तथा तेन प्रकारेण हरिणा विशश्सुः विश्वासं जग्मुः । कीदशाः । अरण्य- बीजस्य अंडोरीति रूयातस्याञ्जलिदानेन लालिता विलासिताः । तद्ज्जलिस्थनीवार- धान्यभक्षका इत्यर्थः। यथा सा गौरी तदीयैर्मृगसंबन्धिभिनेत्रैरगे सखीनां लोचनेS- मिमीत समीचकार कौतुकात्। अरण्ये बीजानि यस्व तदरण्यवीजम्। विशख- सुरिति विपूर्वात् 'श्रस प्राणने' इत्यस्मालिट्यसि रूपम् । अमिमीतेति 'माड माने' णिचि लुकि चढि रूपम्। इहाविकृतता मृगलोचनानां सहजसौकर्यात्। अत एव प्रकृतता प्रपखोक्तिरिवादेरप्रयोगात्। प्रकृतैवोपमानोत्कर्षेण यथा- 'गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं मुग्े। सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ।।५८।।' अत्र तव द्वे लोचनोत्पले एव, सरसां पुनर्वहूनि नीलोत्पलानीत्युप- मानोत्कर्ष: प्रकृत एव प्रतीयते । सेयमुपमानोत्कर्षेण प्रकृता नाम प्रपच्चोक्ति: साम्यभेद: ॥ गर्वमित्यादि। ननु हे नायिके, लोचनद्वयेनासंवाहं गर्व त्वं कि वहसि। न वोदुमर्हसीत्यर्थ: । दिशि दिशि प्रतिदिशं सरःसु तंडागेषु ईदशानि त्वन्नेत्रतु- ल्यानि नीलोत्पलानि सन्ति। अत एव गर्वभन्गः । 'स्यान्मर्दनं संवाहनम्' इत्य- मरः। इह नीलोत्पलानामुत्कर्ष: साहजिक एव। नेत्रद्वयापेक्षया तेषां बहुत्वात् । १. प्रमादोकिरेषा । जौदोत्यादेमाचातोरिति तु न्याय्यम्,
Page 530
४ परिच्छेद: ॥] सरसतीकण्ठाभरणम्। ४३७
सेवोपमानापकर्षेण यथा- E
'अन्यतो नय मुहर्तमाननं चन्द्र एष सरले कलामयः। मा कदाचन कपोलयोर्मलं संक्रमय्य समतां नयिध्यति ।।५९।' अत्रोपमानस्य मलिनताकृतोऽपकर्षः प्रकृत एव प्रतीयते। सेय- मुपमानापकर्षेण प्रकृता नाम प्रपश्चोक्ति: साम्यभेदः । अन्यत इत्यादि। हे सरले ऋजुप्रकृतिके, आननं मुखं मुहूर्तमन्यतोऽन्यत्र नय प्रापय। अत्र हेतुः । एप चन्द्रः कलामयः कदाचन कपोलयोर्मलं संकमय्य मेलयित्वा मा समता साम्यं नयिष्यति प्रापयिष्यति । अन्यस्यान्यत्र संक्रमणे कलामयत्वं हेतुः । अन्यत इति सप्तम्यां तसिः। इह चन्द्रस्योपमानस्य कलडुरूप- मलसंबन्धकृतोऽपकर्ष: साहजिक एव जञायते।। सैवोपमानस्य किंचिदुत्कर्षेण यथा- 'आपातमात्ररसिके सरसीरुहस्य र्कि बीजमर्पयितुमिच्छसि वापिकायाम्। काल: कलिर्जगदिदं नकृतज्ञमज्ञे स्पित्वा हरिष्यति तवैव मुखस्य शोभाम् ॥। ६० ॥।' अत्रोपमानस्योपमेयादीषदुत्कर्षः प्रकृत एव प्रतीयते । सेयमीष- दुत्कर्षेण प्रकृता नाम प्रपञ्चोक्तिः साम्यमेद: ॥ आपातेत्यादि । हे आपातमात्ररसिके एतत्क्षणमात्ररसवशे हे नायिके, सर- सीरुहस्य पद्मस्य बीज वापिकायामर्पयितुं क्षेत्रुं किमिच्छसि। कि तु नेदमर्हमित्वर्थः। अत्र हेतुः। अयं काल: कलियुगारयः, अत एवेदं जगजकृतज्ञममर्यादम्। ततो ह अजे, स्थित्वा कालान्तर इंदं सरसीरुहं तवैव मुखस्य शोभामथ च संपद हरिष्यति ग्रहीष्यति। जेष्यतीति यावत्। 'आपातः पुंसि तत्कालं' इति मेदिनी- कारः । 'मर्यादावान्कृतज्ञः' इति च । इह पद्मस्योपमानस्य मुखादुपमेयात्किंचिदु- त्कर्ष: साहजिक एव विवक्षितः । १. सुभापितावला तु 'स नेग्यति' इति पाठ :.
Page 531
४३८ काव्यमाला।
उपमानोपमेययोः साम्यापत्त्या विकृता यथा- 'घरिणीए महाणसकम्मलग्गमसिमलिइएण हत्थेण। छित्तं मुहं हसिज्जइ चन्दावत्थं गअं पइणा ॥ ६१ ॥' । [गुहिण्या महानसकर्मलम्मसीमलिनितेन हसतेन। स्पृष्ट मुखं हसते चन्द्रावस्थां गतं पत्या ॥] अत्रोत्कृष्टोपमेयस्य मसीमालिन्यवैकृतेनोपमानसाम्यमापद्यमानं प्रती- यते । सेयमुपमानोपमेययोः साम्यापत्त्या विकृता नाम प्रपञ्चोक्तिः साम्यमेदः॥ घरिणीत्यादि। 'गृहिण्या महानसक्मलप्रमसीमलिनितेन हसतेन। स्पृष्टं मुखं हस्यते चन्द्रावस्थां गतं पत्या II' इह कयाचिन्नायिकया चन्द्रेण स्पर्धमानया पाका- सक्तया श्यामितहस्तेन मुखे स्पृष्टे सति नायकस्तन्मुसस्य चन्द्रसमत्वं सूचयत्रु- पह्सतीत्येकापरस्ये कथयति-ग्ृहिण्या इति। गृहिण्याः पाकक्ियालम्श्यामभा- गश्यामितेन करेण स्पृष्टं मुखमत एव चन्द्रावस्थां गतं पत्या हस्पते। 'पाकस्थान- महानसे' इत्यमरः। अत्र मसीमालिन्यं वैकृतं तत एव मुखचन्द्रयोः साम्यापत्तिः ॥ विककृतैवोपमेयस्योत्कर्षापत्त्या यथा- 'रतुप्पलदलसोहा तीअ वि चसअम्मि सुरहिवारुगीभरिए। मअतम्बेहि मणहरा पडिमापडिएहि लोअणेहि लहुइआ ॥ ६२॥' [रक्तोत्पलदलशोभा तसा अपि चपके सुरभिवारुणीभरिते। मदताम्राम्यां मनोहरा प्रतिमापतिताम्यां लोचनाम्यां लघ्वीकृता ॥] अत्रोपमेयस्य मघुमदताम्रत्ववैकृत उत्कर्षः प्रतीयते। सेयमुपमेयो- त्कर्षेण विकृता नाम प्रपश्चोक्तिः साम्यमेद: ॥ रत्तुप्पलेत्यादि। इह कयापि नायिकया लोचनाम्यां चषके सुगन्धिमद्यनृते प्रतिमया प्रतिबिम्बेन पतिताभ्याम्। अत एव मदेनाताम्राभ्यामतिलोहिताभ्यां मनोज्ञा रक्तोत्पलदलस्प शोभा लप्वीकृतात्यल्पा कृता । जितेति यावत्। 'चपक पानपात्रं स्पात्' इति हारावली । 'मुरा ... वरुणात्मजा' इत्यमरः। भरित इत्त्र
Page 532
8 परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। ४३९
बाहुलकात्पाक्षिक इडागमः । यद्वा भरितः संजातभरः । तारकादित्वादितच्। 'प्रति- बिम्बं प्रतिमा' इल्यमरः। अत्र नेत्रयोरुपमेययोर्मंदताम्नत्वं वैकृत उत्कर्ष: स्फुट एव।I सैवोपमेयापकर्षापत्या यथा- 'मृगं मृगाङ्कः सकलं सदाक्के बिभर्ति तस्यास्तु मुखं कदाचित्। कपोलदेशे मृगनाभिपत्रमियान्सखे तस्य ततोऽपकर्षः ॥ ६३॥' अत्र मृगाक्कः सकलं मृगं सदाक्के विभर्ति, तन्मुखं च कदाचि- न्मृगनाभिमात्रजपत्रमेवेत्युपमेयस्य वाचनिक्यपकर्षापत्तिः प्रतीयते । सेयमुपमेयापकर्षापत्त्या विकृता नाम प्रपञ्चोक्तिः साम्यभेदः ॥ मृगमित्यादि । हे सखे, तस्य मुखस्य ततथन्द्रादियानेतावान्प्रकर्षः । तमेवाह। मृगाइथन्द्रोऽडे कोडे सदा सकलं मृर्ग विभर्ति। तस्याः पुनर्मुखं (कर्त), कपोलदेशे मृगनामे: कस्तूरिकायाः पत्रं पञ्रावली कदाचिद्वहृति। इह मुखस्यो- पमेयस्य वाचनिकी वचनतात्पर्यपर्यवसन्नापकर्षापत्तिः । कलड्विना सममनयोरल्प एवोत्कर्ष इति हि वचनमपकर्षबोधकमेव। विकृतता च कस्तूरीपत्राधानात्।। सैवोपमेयस्य साम्यापत्त्योपमानोत्कर्षेण च यथा- 'न मर्त्यलोकस्त्रिदिवात्प्तीयते म्रियेत नाग्रे यदि वल्लमो जनः । निवृत्तमेव त्रिदिवप्रयोजनं मृतः स चेज्जीवत एव जीवति ॥६४॥' अत्रोपमेयस्य यथोक्तधर्मयोगे सत्युपमानेन पूर्वार्धे साम्यमुत्तरार्घे तु किंचिदुत्कर्षों भवति। सेयं यथोक्ता विकृता नाम प्रपच्चोक्ति: सा- म्यमेदः ॥। न मर्त्येत्यादि। वित्ृतोऽयमभावालंकारे। इहोपमेयस्य मर्ल्यलोकस्य यथोक्- धर्मस्याय्रे वहभमरणाभावरूपस्य योगे सत्युपमानेन त्रिदिवेन तील्यमग्रे त्रिदिवप्र- योजननिवृत्त्युफ्ेरुत्कर्ष एव जायते । वहमस्याय्रे मरणाभावाशंसनया विकृतता।। प्रतिवस्तूकेमेंद प्रकारानाह- प्रतिवस्तूक्तिरप्यसिमिन्नृज्वी वक्रका च कथ्यते। दष्टान्तोक्तेश सा छायां प्रपञ्चोक्तेश गाहते॥ ४०॥
Page 533
४४० काव्यमाला।
सा दृष्टान्तोक्तिच्छायया विधावृजुः पूर्वा च यथा- 'तन्मन्ये हिमभासस्तारानिकरेण कान्तिरुच्छेद्या। यत्तस्या(एतस्या) मुखमेतद्यदि युवतिमुखानि विजयन्ते ॥६५॥' अत्र तदिन्दोस्तारकौघेन कान्तिरुच्छेदा इति पूर्वमृजूक्त्या दष्टा- न्तरूपं पश्चाद्यदेतन्मुखं युवतिमुखानि विजयन्त इति ऋजूक्त्यैव दा- र्टान्तिकरूपं प्रतिवस्तूपन्यस्तमिति सेयं दृष्टान्तोक्तिच्छायया विधावृज्वी पूर्वा च प्रतिवस्तूक्ति: साम्यभेदः ॥ प्रतीति। सा प्रतिवस्तूक्ितिर्दष्टन्तोक्तिप्रपखोक्ो्ायां धर्म गाहते विभति तयोश्छायावाहिनीत्यर्थ: ॥ तन्मन्ये इत्यादि। एतस्या एतन्मुखं यदि युवति- मुखानि (कर्तृणि) विजयन्ते तत्तदा हिमभासश्न्द्रस्व कान्तिस्तारानिकरेणोच्छे- येत्यहं मन्ये। इह कर्मानुमितिरध्याहारया। विजयन्त इत्यत्र 'विपराभ्यां जे: १।३।१९।' इति तड्। अत्र प्रथममृजूक्ता दृष्टन्तः, पश्चाद्दार्ष्टान्तिकमृजूक्तैव प्रतिवस्तूपन्यासः । तथा च दृथ्न्तोफिच्छाया व्यक्तव, विधिमुखतापि व्यक्तैव ।। सैवोत्तरा वक्रा च यथा- 'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥ ६६ ॥' अत्र शुद्धान्तदुर्लममिति वक्रोक्त्या पूर्व दार्ष्टान्तिकरूपं वस्तूपन्यस्य पश्चाह्दूरीकृता: खल गुणैरिति वक्रोक्त्यैव दृष्टान्तरूपं प्रतिवस्तूपन्यस्त- मिति सेयं दृष्टान्तोक्तिच्छायया विधौ वक्रोत्तरा च प्रतिवस्तूक्तिः सा- म्यमेंद: ।। शुद्धेत्यादि । यद्याश्रमवासिनो जनस्य वपुरिदं शुद्धान्तेऽन्तःपुरे दुर्लभमस्ति तदा खर्ल निश्चयेन वनलताभिरद्यानलता गुणैर्दूरीकृता: सन्ति। 'शुद्धान्तथावरो- घक्ष' इत्यमरः। अत्र शुद्धान्तदुर्लभपदेनेटशं रूपमन्तःपुरेऽपि नास्तीति वकोक्या प्रतिपादितपूर्व दार्थन्तिके। उत्तरारधेऽपि वकोत्तयेव दृष्टान्तकथनमिति दथन्तो- किच्छायत्वविधिता तु स्फुटेच ॥
Page 534
४ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। ४४१
दृष्टान्तोक्तिच्छायया निषेधे ऋजुः पूर्वा यथा- 'न मालतीदाम विमर्दयोग्यं न प्रेम नव्यं सहतेऽपराधान्। म्लानापि न म्लायति केसरस्ग्देवी न खण्डप्रणया कथचित् ६७' अत्र न मालतीदाम विमर्दयोग्यमिति, म्लानापि न म्लायति केस- रस्रगिति च ऋजूक्तिम्यामेव पूर्व दृष्टान्तरूपे वस्तुनी प्रतिषिध्योत्तर- कालं न प्रेम नव्यं सहतेऽपराधानिति, देवी न खण्डप्रणया कथचि- दिति च दार्ष्टान्तिकरूपे प्रतिवस्तुनी ऋजूक्त्यैव प्रतिषिद्धे। सेयं नि- षेधे ऋज्वी पूर्वा च दृष्टान्तोक्तिच्छायया प्रतिवस्तूक्तिः साम्यमेदः । न मालतीत्यादि। मालतीमाला विमर्दयोग्या नास्ति। अतिमृदुत्वा्। तद्व- नव्यं नवीनं प्रेम अपराधान्न सहते। केसरस्क् बकुलमाला म्लानापि सती न म्लायति अतिमलिना न भवति तद्वदेवी कर्थचित्र खण्डप्रणया न खण्डितप्रश्रया भवति। 'नव्यो नवीनो नूतनो नवः' इत्यमरः । अत्र दष्टन्तोकिच्छायया निषेधः । पूर्वत्वमृजुत्वं च स्फुटमेव ।। सैवोत्तरा च वक्रा च यथा- 'मानुषीषु कथं वा स्यादस्य रूपस्य संभवः । न प्रभातरलं ज्योतिरुदेति वसुघातलात् ॥ ६८ ।।' अत्र कथं वा स्यादिति वक्रया निषेधोकत्या दार्ष्टान्तिकमभिघाय पश्चान्न वसुघातलात्मभातरलं ज्योतिरुदेतीति वैयधिकरण्यवक्रयैव निषे- धोक्त्या दृष्टान्तोऽमिहितः । सेयं निषेधे वक्ोत्तरा च दृष्टान्तोक्तिच्छा- यया प्रतिवस्तूक्तिः साम्यभेदः ॥ मानुषीष्वित्यादि । वित्ृतोऽयमभावालंकारे। अत्र कर्थ वा स्वादिति वित्कों- त्थतया वकोक्तिर्निषेधरूपा, उत्तराधें तादशज्योतिषो भूमावसंभवेऽतिरुपवत्या भूमावसंभव उक्त इति वैयधिकरिण्यं वकता च।।
Page 535
४४२ काव्यमाला । प्रपञ्चोक्तिच्छायया विधावृज्वी यथा- 'तरज््य दशोऽकने पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छदं त्रजतु विद्रुमः श्वेतताम् । क्षणं वपुरपावृणु स्पृशतु काश्चनं कालिका- मुदश्चय मुखं मनाम्भवतु च द्विचन्द्रं नमः ॥। ६९. ॥' अत्र प्रथमचतुर्थपादयोरुपमानोपमेयसाम्यं वैकृतम्, द्वितीयतृतीय- प्रादयोरुपमानापकर्षः प्रकृत इति। सेयं प्रपश्चोक्तिच्छायया विधावृज्वी नाम प्रतिवस्तूक्तिः साम्यभेदः ॥ तरङ्गयेत्यादि। हे अजञने रूपवति, दृशो नेत्राणि तरज्य चजलानि कुरु। ततो नीलमिन्दीवर पझं पततु भक्वद्धवतु। रदच्छदं दशनाच्छादकमधरं स्फुटी- फुरु व्यक्तीकुरु। ततो विद्ठम: प्रवालवृक्ष: श्वेततां वजतु यातु। क्षणं मुहूर्तमात्रं वपुः शरीरमपात्ृणु निरावरण कुरु। ततः कायनं कनकं (कर्तृ) कालि कां श्यामिकां स्पृशतु। मनाक् अल्पं यथा स्यादेवं मुखमुद्ययोत्तोलय च। ततो नभ आकाशं द्विचन्द्रं चन्द्रद्यान्वितं भवतु। तरप्येति तरत्शब्दात् 'तत्करोति- इति णिचि लोटि रूपम्। 'ओष्ठाघरी तु रदनच्छदौ' इत्यमरः । 'विड्रमो ना प्रवालेऽपि' इति मेदिनीकारः । 'कालिका श्यामिका चण्ड्याः'(?) इति शाश्वतः । द्वौ चन्द्री यत्र तद्िचन्द्रम्। अत्र विकृततया प्रकृततया च प्रपजोत्तिच्छाया वैकृतमसाहजिकम्। प्रकृत: सहजः । विधिता तु व्यकैव ।। सैव विधो वका यथा- 'एकोण्णमिअभुअभङ्गे विमलकवोले वअणम्मि तुइ मिअच्छि तिरिळ्छणअणे। एहु ससिबिम्बउ कलझगारउ पण्डरउ खित्तउ उप्परेण भमाइअ णिमळ्छणखप्परउ॥ ७० ॥' [एकोन्नामितत्रुमङ्गे विमलकपोले बदने तव मृगाक्षि तिर्यङ्नयने। एतच्छशिबिम्बं कलक्ागारं पाण्डरमुत्क्षिस्त- मुपरि ब्रामयित्वा निर्मळ्छनकर्परम् ॥]
Page 536
8 परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ४४३
अत्रोपमेयोत्कर्षो वैकृतः, उपमानापकर्षः प्राकृतः प्रकाशत एव। या पुनरियमुत्तरार्घेन रूपकेणोपमानापकर्षस्योक्तिमङ्किस्तयेयं प्रपश्चोक्ति च्छायया विधौ वक्रा नाम प्रतिवस्तूक्तिः साम्यभेदः ॥ एक्को इत्यादि। 'एकोन्नामित भ्रुभन्वे विमलकपोले बदने तव मृगाक्षि तिर्य- इयने। एतच्छशिबिम्बं कलड्ागारं पाण्डरमुत्क्षिप्तमुपरि श्रमयित्वा निर्मञ्छनक- र्परम् I।' इह हे मृगाक्षि, तब वदन एतच्छशिबिम्बं निर्मञ्छनकर्परमुपरि भ्राम- यित्वोत्किप्तम् । कीटशे बदने । एक उन्नामित उत्तोलितो त्रभन्नो यत्र तस्मिन्। बिमली कपोला यत्र तस्मिन् । तिर्यमयने यत्र तस्मिन्। एतादशस्य निर्मञ्छन- मुचितमेव । शशिबिम्बे निर्मञ्छनकर्परधर्ममाह-कलड एवाद्वारो यत्र तत्पाण्डरं श्वतं च । 'अज्ञारोऽलातमुल्मुकम्' इत्यमर: । 'कर्परोऽस्री कपालेऽपि' इति मेदिनीकारः। अत्रोपमेये बदने त्रभभ्ादेर्विकृतत्वप्रकाशः स्फुटः । उत्तमस्य निम- व्छनं क्रियत इत्युक्तिभज्नी।I सैव निषेधे ऋज्वी यथा- 'दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः सन्तश्रेदमृतेन किं यदि खलास्तत्कालकूटेन किम्। किं कर्पूरशलाकया यदि दशो: पन्थानमेति मिया संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥ ७१॥' अत्रोपमेयोत्कर्ष ऋजूकत्यैव च निबद्ध इति सेयं प्रपश्चोक्तिच्छा- यया निषेधे ऋजुर्नाम प्रतिवस्तूक्तिः साम्यभेदः ॥ दातार इत्यादि। यदि दातार: सन्ति तदा कल्पशाखिरिभिः कल्पवृक्षपजकैरलं निष्फलम्। दानस्य दातृभिरेव निष्पादनात् । यद्यर्थिनो याचकाः सन्ति तर्हि तृणैः किम्। याचकानामेव तृणकार्यकरत्वात्। एवमन्यत्रापि। चेयदि सन्तः सज्जना- स्तदा अमृतेन किम्। खला दुर्जना यदि तदा कालकूटेन विषेण किम्। दशोने- त्रयोः। पन्थानं मार्ग यदि प्रिया एति आयाति तदा कर्पूरशलाकया कि कर्पू- रघटितकाष्ठिकया किम्। कर्पूराजन्या वा किम्। संसारेऽपि सति विद्यमाने तस्मा- दपरमिन्द्रजालमन्ति तेनापि किम्। सकलेन्द्रजालात्संसारस्य महत्त्वात्। 'चन्द्रा- दिकाष्ठयजजनयोः शलाका' इति मेदिनीकारः । अत्र दातृप्रनृतेरुत्कर्ष उपमाने च निषेध ऋजूतयैव।।
Page 537
काव्यमाला। 888
सैव निषेधे वक्ा यथा- 'तद्धकं यदि मुद्रिता शशिकथा तच्चेत्सितं का सुधा तच्चक्षुर्यदि हारितं कुवलयैसं्ताश्रेद्विरो घिच्धु। धिक् कंदर्पधनुर्मुबौ च यदि ते कि वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवैस्तुविरसः सर्गक्रमो वेघसः ॥ ७२ ॥' अत्रोपमानापकर्षो वक्रोक्त्या च निषेघः । शेषं पूर्ववत्। ते इमे द्वे अपि मालोपमाच्छायया प्रपञ्चोक्तिपूर्वे, पुनः उपमाच्छाययेति मन्तव्यम्।। तद्वक्रमित्यादि। तस्यास्ततप्रसिद्धं मुखं यद्यस्ति तदा शशिकथा मुद्िता लुप्ता। तन्मुखस्येव चन्द्रत्वात्। एवमन्यत्रापि। सर्वत्र तच्छव्दः प्रसिद्धौ। चैद्यदि तत्स्मितमीषद्धासस्तदा का सुधा किममृतम्। यदि तन्नेत्रं तदा हारितं नीलनलिनैः । यदि ता गिरो वाण्यस्तदा धिख्यथु। यदि ते त्रुवी च तदा कंदर्प- धनुर्धिक। यद्वा कि बहु बूमहे वदामो यत्सत्ं निश्चितं वेधसो धातु: सृष्टिकमः पुनरुक्तवस्तुपु द्विरुक्तपदार्थेषु विमुख एव। तथा च तद्वकादौ सति तचन्द्रादिसगों न स्यादिति भाव: । 'ऊर्ध्वे टग्भ्यां ध्रुवौ त्रिियाम्' इत्यमरः। अत्र कथामुद्रणादिना चन्द्रादेरेव निषेध इति वकोक्ति:। शेषं प्रपशोकिच्छायत्वादिकं पूर्ववत् ऋजुप्रति- वस्तुकिवत्। अनयोः प्रपजोकिच्छाया कथमित्यत आह-मालेति। यथा मालो- पमायां विस्तरेणोपमितिस्तथात्र प्रपश्चोकिरपि विस्तरेणेत्यर्थः ॥ उत्पाद्येति। यथोत्पाद्योपमायामुपमानार्थमुत्पाद्योपमेयेन प्रतीयमानमभिधीयमानं च सादश्यमुक्तं तथा पूर्वयोरपीति प्रपशोक्तिच्छायत्वमित्यर्थः ॥ इति सामान्यालंकारनिरूपणम् ॥ संशयोक्त्यलंकारनिरूपणम् । संशयलक्षणमाह- अर्थयोरतिसादृश्याद्यत्र दोलायते मनः । तमेकानेकविषयं कवयः संशयं विदुः ॥ ४१॥ तत्रैकविषयोऽनेको यस्मिनेकत्र शङ्क्यते। यस्मिननेकमनेकत्र सोऽनेकविषयः स्मृतः ॥४२॥ १.'दा हेम सा चेद्युतिः' इवि पाठ :. २. 'स्तमेल्ित का सुधा' इति पाठ :. ३. 'वस्तुविमुखः सर्ग० इति पाठ:
Page 538
8 परिच्छेद: I] सरस्वतीकण्ठाभरणम् । ४४५
अर्थयोरिति। अर्थयोर्वाच्ययोरतिसाम्यायत्र मनो दोलायते नैकत्र स्धिर भवति इदं वेदं वेति कृत्वा तं संशयमाहुः। स चैकविषयोSनेकविषयथ्। यत्रैक- स्मिन्धर्मिण्यनेक: वाक्क्यते स एकविषयः। यस्मिन्नानाधर्मिण्येकः शक्कते सोऽनेक- विषयः। तयोरादोSभिधीयमानसादृश्यो यथा- 'आहारे विरतिः समस्तविषयत्रामे निवृत्तिः परा नासात्रे नयनं यदेतदपरं यच्चैकतानं मनः । मौनं चेदमिदं च शून्यमर्खिलं यद्विश्वमाभाति ते तड्रूयाः सखि योगिनी किमसि भो: किं वा वियोगिन्यसि ७३' अत्रैकस्मिन्वस्तुनि वस्तुद्वयस्याभिधीयमानसामान्यप्रत्यक्षं तद्विशेष- प्रत्यक्षादुभयविशेषसरणाच्च यो विमर्शः सोऽयमेकविषयः संशयः ॥ आहार इत्यादि। हे सखि, तड्ूयास्त्वं वद। कि योगिन्यसि योगवत्यसि कि वा वियोगिन्यसि वियोगवत्यसि। उभयसाधर्म्यमाह-आहारे भक्ष्ये विरति- विराग: समस्ते विषयग्रामे स्रगादी परात्यर्थ निवृत्तिः। नासाया अग्रे नयनं नासि- काग्रनिरीक्षणमित्यर्थः । एतददपर यच् मन एकतानमचशलं ध्येये पत्यौ च। इदं च मौनमवचनम्। इदमखिलं विश्वं यच्छून्यमाभाति। सर्वत्र तवेति योज्यम्। 'आहारलाघवं मौनं नासाग्रस्य च वीक्षणम्। मनःस्वैर्य वशित्वं च योगिनां विश्व- शन्यता ।।' इति योगशास्त्रम्। 'भक्ष्ये विरागो नयनाग्रवीक्षा मौनं मनोनिश्लता वशित्वम् । विश्वस्य शून्यत्वविभावनं च वियोगिकृतयं मुनयो वदन्ति II' इति भरतः । अत्रैकस्मिन्वस्तुनि सखीविषये वस्तुद्वयस् योगवियोगरूपस्याभिधीयमानं ययत्साम्यं तस्य प्रत्यक्षादर्शनात् । समानधर्मदर्शनादिति यावत्। विशेषाप्रत्यक्षा- द्विशेषादर्शनादुभयविशेषयोगवियोगयोः स्मरणाद्विमर्शः संशयः । इह साधारण- धर्मदर्शनं विशेषादर्शनमारोप्य कोटिद्वयस्मरणकारणमिति संशयकारणमुक्तम्।। स एव प्रतीयमानसादृश्यो यथा- 'किं पद्ममन्तर्रान्तालि किं ते लोलेक्षणं मुखम्। मम दोलायते चित्तं पश्यतस्त्वां घनस्तनि॥ ७४॥'
Page 539
४४६ काव्यमाला।
अत्र मुखलक्षणे लोचनलक्षणे चैकस्मिन्नेव पद्मलक्षणं भ्रमरलक्षणं चापरमपि वस्तु प्रतीयमानसादृश्यमाशङ्कबते सोऽयमप्येकविषय एव संशयः ।। किमित्यादि। हे घनस्तनि कठिनकुचे, त्वां पश्यतो मम चित्तं दोलायते संशयारूडं भवति । तदेवाह-अन्तर्मध्ये भ्रान्तः कृतभ्रमणोऽलिर्त्रमरो यत्र तत्किं पद्मम्। लोलमीक्षणं चक्षुर्यत्र तादृशं तब मुखें किमिति दोलायते दोले- वाचरति। क्यड् क्यप वा। दोलाचित्तयोरुभयकोटियोगित्वेन साम्यम्। अत्र सादृश्यं प्रतीयमानं प्रत्यक्षेण । सुगममितरत् ।। अनेकवस्तुविषयो द्विधा शुद्धो मिश्रश्र। तयोः प्रतीयमानसादृश्यः शुद्धो यथा- 'वाली मंभुरभोली(भम्मलमेली) उल्लसिअणिअंसिणी गहणं सुणिअ विनिक्न्ता िदाए भे (में)म्भली। राहुवि तीअ मुहु जोहई पुण जोहई गअणु भुलल्लेओ ण हु आणई दोण्हवि चन्दु(न्द)कं वर्णु (णे)७५' [बाला मूर्खचेटयुल्लसितनिवसना अहणं अ्ुत्वा विनिष्कान्ता निद्रया जडा। राहुरपि तसा मुखं पश्यति पुनः पश्यति गगने भ्रान्तिमान् न खलु जानाति द्वयोश्रन्द्रः क: ॥] अत्र द्वयो: प्रतीयमानसादृश्ययोर्बालिकामुखचन्द्रयोरेकश्चन्द्र एवं विशक्यत इति सोडयमनेकविषयः शुद्धः संशयः ॥ वालीत्यादि। 'वाली(ला) भुम्भुरभोली(?) स्सलितनिवसना ग्रहणकं ध्रुत्वा विनिष्कान्ता निद्रया मेम्भली(जडा)। राहुरपि तस्या मुखं विलोकते पुनर्विलोकते गगने भ्रान्तो न सल जानाति द्वयोकन्द्र: कः ॥' इह बालिका भुम्भुरभोली अज्ञा। १-२. 'आणतरिचेटिआ मेली' इति, 'भम्मलसदी अप्पिअजडेसु' इति च देशीनाममाला. ३. 'वणे' इति विकस्पाये निपातः.
Page 540
४ परिच्छेदः ।] सरस्ती कण्ठाभरणम्।
उह्सितं स्खलितं नितम्बोपरि निवसनं यस्याः सा। उपरीति योग्यतया वक्तव्यम्। नि 688
द्रया मेम्मली विहला ग्रहणं चन्द्रोपरागं श्रुत्वा विनिष्कान्ता। अर्थात् गृहात्। राहुरपि तस्या मुखं विलोकते पुनर्विलोकते। गगने भ्रान्त: संशयानः सन् नैव जानाति कान्ता- मुतचन्द्रयोद्वयोर्मध्ये कथन्द्र इति। खलु एवायें। अत्र संशयशुद्धतान्यामिश्रणेन। अभिघीयमानसादृश्यो मिश्रो यथा- 'द्वावप्येतावभिनवजपापुष्पभासां निवासौ तिष्ठत्यन्ते द्वयमपि वियन्मण्डलस्योपसंध्यम्। अस्तं को यात्युदयति च कः को रविः कः शशाङ्कः का च प्राची तदिह न वयं का प्रतीचीति विदः॥७६॥' अत्र द्वयोरमिधीयमानसादृश्ययोः सूर्याचन्द्रमसोः प्राचीप्रतीच्योरबी तदन्यतममेकमेव वस्तु पर्यायतो विशङ्कयत इत्यनेकविषयोऽयं मिश्रः संशयः । उपलक्षणं चैतत्। तेन वितर्कोक्त्यादयोSपि संशयोक्तावेव द्रष्टव्याः।। द्ावित्यादि। द्वावप्येतौ रविशशाह्टी नवीनजपाकुमुमददीप्तीनामाशयी सतः। उप- संध्यं संध्यासमीपे द्वयमपि रविचन्द्ररूपं वियन्मण्डलस्याकाशमण्डलस्यान्ते5वसाने तिष्ठति । तदिह कोऽसं याति, को वोदयति। कः सूर्यः, कथन्द्रः, का प्राची पूर्वा दिक, का प्रतीची पश्चिमा दिगिति न वयं विद्यः। अत्र रक्तरूपतया गगनान्तगमनेन चाभिधीयमानं सादश्यम् । अनेकविषयतयैव मिश्रता। तर्हिं वितर्कोंकि: पृथक करथ नोकेतयत आह-उपलक्षणमिति। संयोक्तावेवान्तर्भावान पृथगुक्ता सेलर्थः॥ तद् यथा- 'सरोजपत्रे परिलीनषट्पदे विशालेदष्टेः खिदमू विलोचने। शिरोरुहाः सििन्नतपक्ष्मसंतते द्विरेफवृन्द नु निशब्दनिश्चलम् ॥७७॥' 'अगूढहासस्फुटदन्तकेशरं मुखं ख्विदेतद्विकचं नु पङ्कजम् । इति अलीनां नलिनीवने सखी विदाम्बभूवुः सुचिरेण योषितः।l' (युग्मम्) १. 'नु विलीन'. २. 'विलोलटह्टेः'. ३. 'विकसन्न' इति प पाठान्तराणि.
Page 541
९४८ काव्यमाला।
सरोजेत्यादि। निलीना: संबद्धा: पदपदा भ्रमरा ययोस्े पद्मपत्रे नु। इमे विशालदष्टेर्नायिकाया अमू नेत्रे। खित्। वितके। शिरोरहाः केशाः खित्। नता पक्ष्मसंततिर्यस्य तत्। निशब्दं शब्दशून्यं निश्चलं स्थिर च भ्रमरवृन्दं नु॥ अगूढेत्यादि। एतन्मुखं खित्। कीटशम्। अगूढेन प्रकाशेन हासेन स्फुटो व्यक्तो दन्त एव केसरो यत्र तत्। एतद्विकचं प्रफुलं पक्चजं नु। इत्यनेन प्रकारेण नलिनीवने पद्मिनीमध्ये प्रलीनामवस्थितां सखीं योषितः स्रिियो बहुकालेन विदा- म्वभूवुर्ज्ञातवत्यः। विदाम्बभ्वुरित्यत्र 'उषविद ३।१।३८' इति लिठयाम् ॥ यथा च- 'मुहे मअखलिउल्लावे प्हाणोलए चिउरे वेणीअंसणसारे समोत्तिअहारे उरे। कालान्तरे तरलाच्छिहुमअण समुल्लसइ माहउ पुण त्थणगुडरे ण मुणइ कहिं वसइ॥ ७९॥' [मुखे मदस्खलितोह्वापे स्नानोसुते चिकुरे वेणीनिवसनसारे समौक्तिकहारे उरसि। कालान्तरे तरलाक्ष्णोर्मदन: समुहसति माघे पुनः सतनगृहे न जञायते कुत्र वसति ॥] क: पुनर्वितर्कसंशययोर्विशेषः । उच्यते। निर्णयासन्नो वितर्कः, वितर्कासन्नश्च संशयः । संशयानो हि वितर्कस्य कोटिमारुह्य ततो वि- अ्ष्टस्तत्वमभिनिविशते। यथा पूर्ववाक्ये विदाम्बभूवुरिति। संशयमेव वा विगाहते यथा-'माहउ पुण त्थणगुडरे ण मुणइ कहिं वसइ।' इति। शब्दाश् किंख्िदादयस्तुल्यरूपा एव संशयविपर्यययोरिति दुर- वबोघसतद्विशेषः। नन्वेवं वितर्कादयोऽप्युभयालंकारा: स्युः । सत्यम्। किंतूक्तिपक्षे परार्थानुमानवत्, सरूपपक्षे खार्थानुमानवदिति। अयमेव चोक्तिशब्दस्यार्थः, तेन स्वरूपमात्रोक्तौ संशयवितर्कादयोऽप्यर्थालं- काराः। उक्तिपराघान्ये तूभयालंकाराः ।
Page 542
४ परिच्छेद: ॥] सरसतीकण्ठाभरणम्। ४४९ मुहे इत्यादि। 'मुखे मदस्खलितोह्ापे सनानादरें चिकुरे वेणीनिवसनसारे समुक्ताहारे उरति। कालान्तरे तरताक्ष्णि मदन: समुसति माघे पुनः स्नगृहे न ज्ञायते कुत्र वसति ।।' इह कालान्तरे माघातिरिक्तकाले मदस्खलितोहापे मुखे खनानाद्ॅ केशे वेणीनिवसनेन कशुकवत्रेण सारे मुक्ताहारसहिते वक्षसि तरठनेत्रे च मदन: कामः समुसति दीप्यते। माघे पुनः सन एव गहं तत्र न ज्ञायते कुत्र वसतीति। उभयत्र विरुद्कोटिद्वयविषयतयेकामाशक्का पृच्छति-क इति। निर्णयासनो निर्णयाव्यवहितपूर्वः, वितर्कानन्तर निर्णयात्। वितर्कासननो वितर्का- व्यवहितपूर्वः । संशयानन्तरं वितर्कात्। एतदेवाह-संशयेति । संशयानो वितर्ककोव्यवलम्बी वितर्कानन्तरमुक्तमेव जानाति। अत एवं विदाम्यभूबुरिति संशय उक्तः । तथा माहहु इत्यादावपि शब्दकारितोऽनयोभेंद इत्याह-शब्दा- श्रेति । तर्धुभयालंकारता वितर्कादीनामित्याशक्का समाघते-उक्कीति। यथा परार्थानुमाने शब्दप्रयोगकारितो विशेषस्था शब्दपक्षे स्रूपमर्थसतत्पक्षे खार्था- नुमानवत्प्रवृत्तिः । साम्योक्कादावुक्तिशब्दस्यायमेवार्थो यदुकिनिबन्धनं नाम। तथा च स्वरूपमात्रस्योक्ती निर्वचनेऽर्थालंकारता संशयत्कादेरुक्तकिप्राधान्ये पुनरुभया- लंकारतेति॥ इति संशयोक्त्यलंकारनिरूपणम् ॥ अपहुत्यलंकारनिरूपणम् । अपडतिलक्षणमाह- अपह्बुतिरपहुत्य किंचिदन्यार्थदर्शनम्। औपम्यवत्यनौपम्या चेति सा द्विविधोच्यते ॥ ४१॥ वाच्ये प्रतीयमाने च सादृश्ये प्रथमा तयोः । तथाभूते द्वितीया स्ादपह्मोतव्यवस्तुनि ॥। ४२ ॥ अनौपम्यवती भूय: पूर्वापूर्वा च कथ्यते। तासामुदाहृतिष्वेव रूपमाविर्भविष्यति॥।४३॥। अपहुतिरिति। किचित्प्रसिद्ध धर्मिणं धर्म वापहुत्यापलप्यान्यस्यार्थस्य प्रसि- दवस्य धर्मादेदशनं प्रकटनमपद्गतिः । न चास्या आक्षेपादमेद इति वाच्यम्। तत्र हि प्रतिषेधमात्रमर्थोऽत्र तु प्रतिषेधपूर्वकमन्यार्थकथनमिति भेदः । औपम्यमुपमा तद्वतीति वाच्येऽभिधीयमाने । अपहोतव्यवस्तुन्यपहतिविषयपदारये ॥ २९ स० क०
Page 543
४५० काव्यमाला।
तत्रामिधीयमानौपम्यवती यथा- 'गिम्हे दवग्गिमसिमइलिआइं दीसन्ति विज्झसिहराइ। आससु पउत्थवइए ण होन्ति णवपाउसबभाइं ॥। ८० ।।' [श्रीष्मे दावाभिमसीमलिनानि दृश्यन्ते विन्ध्यशिखराणि। आश्वसिहि ग्रोषितपतिके न भवन्ति नवप्रावृडभ्राणि ॥] अत्र नवप्रावृडम्राणां विन्ध्यशिखरैरभिधीयमानसादृश्यैरपह्ुतत्वाद- भिघीयमानौपम्यवत्यपहुतिः।। गिम्हे इत्यादि। 'श्रीष्मे दावाभ्निमसीमलिनितानि दश्यन्ते विन्ध्यशिखराणि। आश्वसिहि प्रोषितपतिके न भवन्ति नवप्राबृडभ्राणि ।' इह विरहिणी दावामिना दिग्धे विन्ध्ये मेघभ्रान्त्या आर्ता सख्या समाश्वास्यते-ग्रीष्म इति। हे विरहिणि, विनध्यशिसराणि श्रीष्मे वनाभिना श्यामितानि दृश्यन्ते । नतु नूतनवर्षाकालीन- (लिक)मेधा अमी भवन्तीति समाश्वास कुरु। अन्न श्यामिकया विन्ध्यशिखर- नवमेघयोः साम्यमभिहितमत औपम्यवतीयम् ।। प्रतीयमानौपम्यवती यथा- 'न केतकीनां विलसन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः । तडिल्लतेयं न चकास्ति चञ्चला पुरः स्रज्योतिरिदं विजृम्भते ८१' अत्र केतकीसूचीनां विधिविहसितैः प्रतीयमानसादश्यैसतडिल्लता- याश्र सरज्योतिषापह्ुतत्वादियं प्रतीयमानौपम्यवत्यपह्ढतिः ॥ नैत्यादि। केतकीनां सूचयोऽम्राणि न विलसन्ति शोभन्ते। हन्त विषादे। अयं विधि: स्ष्टा प्रवासिन: पान्थान् हसत्युपह्सति । केतकीसूचीरूपेण। इयं चजला चपला तडिलता न शोभते । पुरोऽये इयं स्मरदीप्िर्विजृम्भते प्रकाशते। 'सूच्यग्रे सीमनद्रव्ये' इति विश्वः । अत्र किंचित्माकाशेन केतकीसूचीविधिहसितयोः साम्यप्रतीतिरेवमितरत्र। औपम्यमप्युभयत्र व्यक्तमेव ।। अनौपम्याभिधीयमानापह्ोतव्यवस्तु: पूर्वा यथा- 'राजकन्यानुरक्तं मां रोमोद्वेदेन रक्षकाः । अवगच्छेयुरां ज्ञातमहो शीतानीलं वनम् ॥ ८२ ॥' अत्र राजकन्यानुरागलक्षणस्य रोमाश्चकारणस्य रक्षकावगतिहेतोः
Page 544
४ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ४५१
पूर्वमेवाभिहितस्य च वनानिलशैत्यलक्षणेन कारणान्तरेणापह्वः । न चैतयोः सादृश्यमस्ति सेयमनौपम्याभिघीयमानापह्ोतव्यवस्तुः। कार्या- त्पूर्व कारणोपन्यासेन पूर्वेत्युच्यते। राजेत्यादि। रोमोद्रेदेन रोमाथेन राजकन्यानुरक्त भूपकन्यानुरागिणं मां रक्षकास्तदवेक्षका अवगच्छेयुर्श्ञायेरन्। आं समरणे, ज्ञातम्। अहो वनं शीतला- निलम्। अतो रोमानः। 'आं ज्ञाननिश्यस्मृत्योः' इति मेदिनीकारः। अत्र पूर्वाभिधानेन पूर्वत्वमुभयोरसादश्यादनीपम्यता।। सैवापूर्वा यथा- 'आनन्दाश्ु प्रवृत्तं मे कथं दष्ट्ैव कन्यकाम्। अक्षि मे पुष्परजसा बातोद्धूतेन पूरितम् ।। ८३ ।।' अन्रानन्दाश्ुप्रवृत्तमिति पूर्व कार्यस्य, पश्चात् दृष्ट्रैव कन्यकामिति कारणस्योपन्यासः । शेषं पूर्ववत्। सेयमभिधीयमानापह्योतव्यवस्तुरनौ- पम्यापहुतिरपूर्वेत्युच्यते। आनन्देत्यादि। कन्यकामेव टष्ट्रा क्थ ममानन्दाश्रु प्रवृत्तमस्ति। बातोज्ज- तेन रजसा वायुचालितधूल्या ममाक्षि पूरितम्। शेषमपहवादिकं पूर्ववत्पूर्वापह्डति- वत्। अभिधानमनौपम्यमपि पूर्ववदेव पूर्व कारणानुपन्यासेनापूर्वत्वम् ।। अनौपम्यैव प्रतीयमानापहोतव्यवस्तुः पूर्वा यथा- 'उरपेल्लिअवइकारिल्लआईं उच्चेसि दइअवच्छलिए। कण्टअविलिहि अपीणुण्णअत्थणि उत्तम्मसु एचाहे ।। ८४ ।।' [उरःप्रेरितवृतिकारवेलीफलान्युबिनोषि दयितवत्सले। कण्टकविलिखितपीनोन्नतस्तनि उत्ताम्येदानीम् ॥] अत्र नैतस्याः सनयोरुपपतिना नखक्षतं कृतमपि तु कण्टकैरिति प्रतीयमानापहोतव्यं वस्तु प्रकाशते। पूर्ववदेव च पूर्वार्धे कारणस्योप- न्यास:, पश्चिमार्घे तु कार्योपदेशो दृश्यते । सेयमनौपम्या प्रतीयमाना- पहोतव्यवस्तुः पूर्वा नाम-'अपह्वतिरपहुत्य किंचिदन्यार्थदर्शनम्' इति लक्षणयोगाज्ायते।
Page 545
8५२ काव्यमाला।
उर इत्यादि। 'उरःप्रेरितघृतिकार वेलीफलान्युचचिनोषि दयितवत्सले । कण्ट- कविलिखितपीनोननतस्तनि ताम्य इदानीम् ।I' इह हे दयितवत्सले प्रियप्रेमवति कण्टकलिखितपीनोन्नतस्तनि, इदानी ताम्योद्विमा भव । कि कृत्वा। उरसा वक्षसा प्रेरिता या वृतिर्वेष्टनं तत्र कारवेल्लीफलनि उचिनोषि त्रोटयसि। कारवेली करवेड़ी। अत्र पूर्वार्धे कारणकथनात्पूर्वता। उक्तयोरनीपम्यं व्यक्कमेव। ननु नात्र साहजि- कोऽपह्वस्तत्कथमपह्ुतिरत आह-अपहुत्येति । आरोपेणापहवलक्षणयोगाद- पहुतिरिल्यर्थ: ॥ सैवापूर्वा यथा- 'कस्स व ण होइ रोसो दद्ण पिआइ सव्वणं अहरम्। सभमरपउमग्घाइणि वोरिअवामे सहसु एण्हिम् ॥ ८५ ॥' [कस् वा न भवति रोषो द्का प्रियायाः सव्रणमधरम्। स्रमरपद्याघ्रायिणि वारितवाम्ये सहखेदानीम् ॥] अत्रापि नास्या उपपतिनाघरो त्रणितः कि तर्हि अमरेणेति प्रतीय- मानापहोतव्यं वस्तु। पूर्वारधे तु सत्रणमधरमिति कार्यमुपन्यस्य, पश्चि- मार्घे सभ्रमरकमलाघ्रायिणीति कारणमुपन्यस्तम्। सेयमनौपम्या प्रती- यमानापहोतव्यवस्तुरपूर्वा च यथोक्तलक्षणयोगाजायते। कस्स व इत्यादि। 'कस्य वा न भवति रोषो दृष्ट्रा प्रियायाः सत्रणमधरम्। सत्रमरपद्माघ्रायिणि वारितवाम्ये सहखेदानीम् ।।' इह प्रियाया अधर सक्षतं दृष्टा कस्य रोषो न भवति। ततो हेतोर्त्रमरसहितपद्मस्याघ्राणकारिके, हे वारित- वाम्ये दाक्षिण्यवति, संप्रति त्वं सहख सहिप्णुर्भव। अत्रोत्तराधे कारणोपन्यासाद- पूर्वता। पूर्ववदाशक्कासमाधाने इत्याह-यथोकेति। इत्यपहुत्यलंकारनिरूपणम् । समाध्युक्तयलंकारनिरूपणम् ।। समाधिलक्षणमाह- समाधिमन्यधर्माणामन्यत्रारोपणं विदुः । निरु्वेदोऽथ सोन्जेदः स द्विघा परिपठ्यते ॥ ४४॥ १. ग्वारिता अरदर्मनपयेवरसायिसन्नमरपभाम्राण निधुवन न मा कृषा इति निवारितापि बामा निवारिताचरणा अतिकूला इस्युदाहरण चन्द्रिका,
Page 546
४ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ५३
समाधिरिति। अन्यधर्मस्यान्यत्र विशेषे य आरोपः स समाधिः । निरु ब्रेदोऽव्यक्तः, सोच्ेद: स्फुटः ॥ तयोर्निरुद्वेदो यथा- 'दूरपडिबद्धराए अवऊहत्तम्मि दिणअरे अवरदिसम् । असहन्तिब् किलिम्मइ पिअअमपच्चक्खदूसणं दिणलच्छी ८६ [दूरप्रतिबद्धरागेऽवगूहमाने दिनकरेऽपरदिशम्। असह्मानेव क्वाम्यति प्रियतमप्रत्यक्षदूषणं दिनलक्ष्मीः ॥] अत्र दिनकरदिनलक्ष्मीप्रतीचीनां समारोपितनायकनायिकाप्रतिना- यिकाधर्माणां दूरप्रतिबद्धराग इत्यादिभि: क्रिष्टपदैरनुद्वेदः । एवमन्य- धर्माध्यारोपादयं निरुद्वेदः समाधिभेदः ॥ दूर इत्यादि। 'दूरप्रतिबद्धरागेऽवगूहमान एव दिनकरेऽपरदिशम्। अस हमानेव क्ाम्यति प्रियतमप्रत्यक्षदूषणं दिनलक्ष्मी: ।I' इहात्यर्थत्ृतलौहित्येऽत्यर्थ- कृतानुरागे च दिनकरे सूयें वहमे चापरदिशं प्रतीचीमपरनायिकां चावगूहमाने संबध्ात्याश्लिष्यति च सति दिनशोभा वहभस्फुटदूपणमसहमानेव क्ाम्यति म्लाना भवति। अत्र च नायकत्वाद्यारोपणं रागादिपदैः िष्टैः क्रियत इति निरुद्भेदता। सोद्गेदो यथा- 'वल्लहे लहु वोलन्तइ एत्तइ पुणु बहु बलि किज्जमि तामरसिणि तुज्झ रोसहु थिरहु। जेण णिरग्गलु जम्पइ किम्पि ण जाव जणु (ण) ताव हिमेण विसित्ति झत्थि(ति) पुलुद्ठतणु॥ ८७ ॥ [वलमे लघु व्यपक्रामत्यागच्छति पुनर्बहु बलि: किये तामरसिनि तब रोपस स्थिरस। येन निरगलं जल्पति किमपि न यावजन- स्तावद्धिमेन विशीर्णा झटिति प्रुष्तनुः ॥] अत्रापि प्रियतमव्यलीकासहिष्णुः कापि कामिनी हिमानीष्ष्टां
Page 547
४५४ काव्यमाला । कमलिनीमालोक्य तस्यामात्मधर्मान्, प्रिये च सूर्यधर्मानारोपयति। ते च बलि: क्रियेऽहं तव रोषस्येत्यादिमिः पदैरुद्धिद्यमाना इह प्रतीयन्त इत्ययं सोद्वेद: समाधिभेदः । अन्यश्चान्यधर्माश्चान्यधर्मा इंति व्युत्पत्त्ा धर्मिणोऽप्यध्यासे समाधिरिष्यते ॥ वल्लहे इत्यादि। 'बहमे लघु व्यपकामति पुनरागच्छति चिरेण बलिः किये तामरसिनि तब रोषस्व स्थिरस्य। येन निराकुलं जल्पति किमपि न याबजन- स्तावदिमेन विशीर्णा झटिति प्रष्ठतनुः II'इह हे तामरसिनि पध्िनि, वहमे सूये लघु शीघ्रं व्यपकामत्यपगच्छति सति हिमसमये रात्रेदीर्घत्वाचिचिरेण पुनरागच्छति सति तब रोषस्य स्थिरस्य बलिरुपहारोऽहं किये इति काचित्वण्डिता पद्मिनीमुद्दिश्य वदति। येन हेतुना निराकुलो जनो यावदेव किमपि न जल्पति तावदेव हिमेन विशीर्णा झटिति त्वं दग्घतनुरसि। व्यलीकमप्रियम् । 'हिमानी हिमसंहृतिः' इत्य- मरः । शुष्टां दग्धाम्। ते धर्माः । धर्मारोपरूपे समाधावव्याप्तिरत आह-अन्य इति। अन्यो ध्मीह विवक्षितो धर्मपदसंनिधे: ॥ सधर्माणां धर्मिणश्र यथा- 'चन्द्रज्योत्स्नाविशदपुलिने सैकते5स्मिन्सरय्वा वादद्वैतं सुचिरमभवत्सिद्धयूनो: कयोश्चित्। एको ब्रूते प्रथमनिहतं केशिनं कंसमन्यः स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ।। ८८।।' अत्र संबोध्य वर्णनीये विष्णुस्रूपस्य धर्मिणस्तद्धर्माणां चाध्यासा- दयं धर्मिधर्माध्यासरूपः समाघिः ॥ चन्द्रेत्यादि। कयोबित् सिद्धयूनो: सरय्वा नदी भेदस्यास्मिन् सैकते बहुकालं बादहैतं वचनविवादोऽभवत्। 'वाददयूतम्' इति पाठे बादो विवाद एव द्यूतमि- त्यर्थ: । सैकते कीटशे। चन्द्रज्योत्सया विशद खच्छं पुलिनं तोयोत्यितभागो यत्र तत्र। अनेन रम्यतोक्ता। वादसरूपमाह-एक: केशिनं प्रथमनिहतं त्रूते, अन्यः कंस प्रथमनिहतं त्रूते। हे भगवन्, स प्रसिद्धस्त्वं तत्वं यथार्थ कथय। १. अरवप्रदशेनमेतव। व्युत्पत्तिन्तु 'अन्यक्ष वर्मश' हतेव.
Page 548
8 परिच्छेद: I] सरस्तीकण्ठाभरणम्। 8५५
भवता तत्र तयो: केशिकंसयोमध्ये कः पूर्व हत इति। सिद्धौ च तौ युवानौ चेति सिद्धयुवानौ। केशी असुरमेदः । कंसोऽप्यसुरमेदः । अत्र विष्णोस्तद्वर्माणां च चक्रधरत्वादीनामारोप: स्फुट एव ।। धर्मिण एवाध्यासो यथा- 'प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या- निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि। सेतुं वक्नाति कस्मातपुनरयमखिलद्वीपनाथानुयात- स्त्वय्यायाते वितर्कानिति दघत इवाभाति कम्पः पयोधेः ॥८९॥' अत्र प्राप्तश्रीरेष कस्मादित्यादिभिर्मन्थखेदादिघर्माणां निवर्तितत्वात् प्राप्तश्रीरित्यादीनां च क्लेषेणैवाभिधानात् त्वयीति वर्णनीयपदे विष्णु- खरूपस्य धर्मिण एवाध्यासात् तद्धर्माणां चानध्यासादयं धर्म्यध्यासरूपः समाघि: ॥ प्रात्तेत्यादि। हे रामदेव, समुदरस्य कम्प आभाति। कीटशस्य। खव्याघाते सति इति वितर्कान दधत इव। एष प्राप्तलक्ष्मीः कोऽपि कस्मात्पुनरपि मद्विषये मन्थेन मन्थनदण्डेन खेदं विद्ध्यात्कुर्यात्। अनलसमनस आलस्यहीनस्वास्य निद्रामप्यपूर्वा नैव संभावयामि। अखिलद्वीपनाथो रावणस्तमनुलक्ष्यीकृत्य यातः प्रयातः पुनरयं कस्माद्वेतोः सेतुबन्धं बन्राति। मध्यतेऽनेनेति मन्यः। करणे 'हळब ३।३।१२' इति घन्। अत्र प्राप्तश्रीरित्यादिञ्टिष्टपदैधर्मिण एव विष्णुरू- पस्यारोपो न तु तद्धर्माणामसुरधातकत्वादीनाम् । समाधिमेलितयोरमेदमाह- समाधिमेव मन्यन्ते 'मे(मी)लितं तदपि द्विधा। धर्माणामेव चाध्यासे धर्मिणां वान्यवस्तुनि॥४५ ॥ समाधिरेव मेलितमुभयत्रापि धर्माध्यासात्।। १. 'आधारपुस्तकदये टीकापुस्तके च मेलितमिति पाठः समुपलभ्यते। परं काव्यप्रकाशादिषु तथा सरस्वतीकण्ठामरणात्प्राचीने रुद्रटविरचिते काव्यार्लंकारेऽपि 'मीलितम्' इत्येव बरीबर्तीति तदनुरोभादत्रापि 'मीलितं,' 'मिलितं' वा चुक्त प्रतिभाति.
Page 549
४५६ काव्यमाला।
अत्रान्यधर्माणामेवान्यवस्तुन्यध्यासान्मेलितं यथा- 'पल्लविअं विअ करपल्लवेहिं पप्फुल्लिअं विअ णअणेहिं। फलिअं विअ पीणपओहरेहिं अज्जाए लावण्णम् ॥९०॥ [पछ्लवितमिव करपलवाभ्यां प्रफुहितमिव नयनाभ्याम्। फलितमिव पीनपयोधराभ्यामार्याया लावण्यम् ॥] अत्र पल्लवितमिव पुष्पितमिव फलितमिवेत्युतपेक्षया लताघर्माणां लावण्यघर्मिणि धर्माध्यारोपो दृश्यते । करपल्लवादीनां चानुपात्तव्यापार- हेतुत्वेन साधकतमत्वेन वा प्राधान्यं लक्ष्यते। सोऽयमन्यवस्तुनि पुन- रन्यधर्माणामेवारोपेण मेलितं नाम समाघेरेव भेदो भवति। स तूद्देशे समाध्युक्तिरित्युक्तिग्रहणाल्लभ्यते। पल्लविअमित्यादि। 'पहवितमिव करपल्वाभ्यां प्रफुहितमिव नयनाभ्याम्। फलितमिव पीनपयोधराभ्यामार्याया लावण्यम् ॥।' इहार्याया गृहपतिपुत्र्या नायि- काया लावण्यं सौकुमार्य हस्तपल्वाभ्यां पल्लवितमिव नेत्राभ्यां फुहितमिव पीन- स्तना्यां फलितमिवास्ति। अध्यारोपे बीजमाह-उत्प्रेक्षयेति । तर्हिं करपल्ल- बादीनामध्यारोपाद्वहिर्भाव एव भवेदत आह-करेति । अनुपात्तोऽनुक्तो यो व्यापारोऽध्यासविषयस्तदेतुत्वेन तदुपस्थितिकारणत्वेन तत्करणत्वेन वा। अत एव कर्त्रपेक्षया प्रधानतया सातत्येणान्वयस्तेषामित्यर्थः। तर्हिं समाध्युद्देशेऽनुद्देश: कथमस्त्यत आह-स त्विति। समाध्युक्तिरित्यत्र समाधिरिति कर्तव्ये उक्ति- ग्रहणमधिकार्थसूचकमित्युक्तिपदेनैव मेलितोद्देशः कृत इत्यर्थ:॥ धर्माणां धर्मिणश्च यथा- 'देहो व पडइ दिअहो कण्ठच्छेओ व लोहिओ होइ रई। गलइ रुहिरं व संझा धोलइ केसकसणं सिरम्मिअ तिमिरम् ।९१॥' [देह इव पतति दिवसः कण्ठच्छेद इव लोहितो भवति रविः । गलति रुधिरमिव संध्या घूर्णते केशकृष्णं शिर इव तिमिरम् ॥] अत्र देहादयो यथोक्तक्रियावन्तो जन्तुवधक्रियायां निबद्धा दिव- सादिभिरुपमेया दिवसावसानक्रियायां मेलितास्तदेतत् गुणक्र्ियावतां
Page 550
४ परिच्छेद: I] सरस्वतीकण्ठाभरणम् । १५७
द्रव्याणां प्रधानक्रियाध्यारोपे धर्मिधर्माध्यासे मेलितं नाम समाघेरेव मेदो भवति। देहो व्व इत्यादि। 'देह इव पतति दिवसः कण्ठच्छेद इव लोहितो भवति रविः । गलति रुधिरमिव संध्या घूर्णते केशकृष्णं शिर इब तिमिरम् ॥' इद दिनमज्गमिव पतति, रक्त: सूर्य: कण्ठच्छेद इव भवति, रक्तमिव संध्या गलति, तिमिरं केशश्यामं शिर इव घूर्णते इतस्ततो याति। अत्र पतनादयः करियाः, लोहित्यादयो गुणाः, प्रधानक्रियाः पततीत्यादिकाः, तदध्यारोपो दिवसादिषु। इति समाध्युक्त्यलंकारनिरूपणम् ।। समासोक््यलंकारनिरूपणम् ।। समासोकि लक्षयति- यत्रोपमानादेवैतदुपमेयं प्रतीयते। अतिप्रसिद्धेस्तामाहुः समासोक्तिं मनीषिणः ॥ ४६ ॥ प्रतीयमाने वाच्ये वा सादृश्ये सोपजायते। श्लाघां गर्हामुभे नोभे तदुपाधीन्प्रचक्षते॥। ४७॥ विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा। अस्त्यसावपराप्यस्ति तुल्यातुल्यविशेषणा॥४८ ॥ संक्षेपेणोच्यते यसात्समासोक्तिरियं ततः । सैवान्योक्तिरनन्योक्तिरुभयोक्तिश् कथ्यते ॥ ४९ ॥ यत्रेति। यत्रातिप्रसिद्धतयोपमानादेवैतस्पोपमेयस्य ज्ञानं सा समासोकि: । समसनं समास: संक्षेपखदुकतिरित्यन्वर्थतापि। प्रतीयमाने ज्ञायमाने वाच्येऽमि- धीयमाने च सादश्ये। श्राधां प्रशंसाम्, गहाँ निन्दाम्। उमे शाधागहें च, नोमे अश्वाघागहें चैतानुपाधीन्प्रयोजकान् समासोक्ती वदन्ति। विशेष्यमात्राभ्यां युक्तायुक्ताभ्यां भिन्नापि विशेषणद्वयमेदवती एका तुल्याकारविशेषणा, अपरा तुल्या- तुल्यविशेषणा। संक्षेपोक्तौ च प्रकारदयं भवति तदाह-अन्येत्यादि ॥ तत्र प्रतीयमानसादृश्या श्ाघावती यथा- 'उत्तुक्ञे कृतसंश्रयस्य शिखरिण्युच्चावचत्रावणि न्यग्रोधस्य किमङ्क तस्य वचसा श्राघासु पर्याप्यते।
Page 551
१५८ काव्यमाला।
बन्धुर्वा स पुराकृतः किमथवा सत्कर्मणां संचयो मार्गे रूक्षविपत्रशाखिनि जनो यं प्राप्य विश्राम्यति ।।९२।।' अत्र न्यग्रोधेनैवोपमानेन प्रतीयमानसादृश्यस्य वर्णनीयवदान्योपमे- यस्योक्तत्वाचच्छ्राघयैव तच्छाघा प्रतीयत इति सेयं प्रतीयमानसादश्या श्लाघावती समासोक्तिः ॥ उत्तुक्ने इत्यादि। तस्य न्यग्रोघस्य वटवृक्षस्व श्ाघा खप्रशंसा खवचसोक्या किं समाप्यते। किंतु न । तस्य श्ाघा वक्तुमशक्येत्यर्थः। अन्वेति सानुनयसंबोधने। कीदशस्य । उत्तुजे उच्छिते। उच्चावचा निम्नोजता ये आ्रवाण: पाषाणास्तयुक्क्े च शिखरिणि गिरी कृतावासस्य। शाघाहेतुमाह-स वटो बन्धुर्मित्रं वा पुरा पूर्व कृतः । अर्थाजनेन । अथवा सत्कर्मणां श्रेष्ठव्यापाराणां संचय उपचयः किम्। अर्थाज्नस्य । रूक्षा अस्निग्धा विपताः पत्रशून्याः शासिनो वृक्षा यत्र तादशे मार्गे यं बटवूक्षं प्राप्य जनो विश्राम्यति। उच्चावचेत्यत्र बहुव्रीह्यनन्तरं मतुबिति त्रमो न कार्यः । उच्चावचत्रावाणोऽत् सन्तीति विशिष्टस्यव मत्वर्थसंबन्धाद्विसकिसल- यच्छेदपाथेयवन्त इतिवत्केवलाद्विशिष्टस्य भिन्नबुद्धिविषयत्वात् । अत एवादण्डी- व्यादयो निस्तरजं प्रयोगा इत्यवधेयम् । 'आवोपलाइमानः' इत्यमरः। अत्र परोप- कारितया न्यग्रोधवदान्ययोः सादश्यं प्रतीयमानं तत एवोमयो: श्ाघापि॥ सैव गर्हावती यथा- किं जातोऽसि चतुष्पथे यदि घनच्छायोऽसि कि छायया संपन्न: फलितोऽसि किं यदि फलैः पूर्णोऽसि कि संनतः । हे सद्ृक्ष सहसव संप्रति शिखाशाखाशताकर्षण- क्षोभोन्मोटनभञ्जनानि जनतः खैरेव दुश्चेष्टितैः ॥९३॥ अत्रोपमानभूतस्य सद्ृक्षस्य व्याजगर्हणया तदुपमेयः कोऽपि सत्पु- रुषो विगर्द्यत इति सेयं प्रतीयमानसादृश्या गर्हावती नाम समासोक्तिः। किमित्यादि। हे सदृक्ष, चतुष्पथे किमर्थ जातोऽस्युत्पनोऽसि । यदि त्वं १. 'आढ्योडसि' इति टीकाकारसंमत: पाठ :.
Page 552
8 परिच्छेद: ।] सरस्तीकण्ठाभरणम्। १५९
घना निबिडा छाया यस्य तादृशोऽसि तदा छायया किं वृथा। यदि संपन्नः समृद्धः सन् फलितोऽसि तदा फलभरेसव किम्। किंतु न तब किमपि। यथ्याब्योऽसि महानसि तदा सम्यक्प्रकारेण नतः किम्। संप्रत्यधुना सैर्निजैरेव दुशेष्टितर्जनतो लोकात्वं शिखायामग्रभागे शाखाशतस्याकर्षणमाकृष्टिः, क्षोभथालनम्, आमोटनं संकोचनम्, भजनं छेदनमेतानि सहखवानुभव । 'आढ्य इम्ये महत्वपि' इति विश्वः । सहसवेति 'पह मर्षणे' इति लोटि मध्यमपुरुषैकबचने रूपम्। 'अग्रमान्ने शिखा मता' इति धरणिः। जनत इति प्चम्यन्तात्तसिः । व्याजगर्हणा कपटनिन्दा वटवुक्षनिन्दां व्याजीकृत्य सत्पुरुषनिन्दोपकमात्।। सैवोभयवती यथा- 'निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां स्थलीं पल्वले जम्बालाविलमम्बु कर्तुमपरा सूते वराही सुतान्। दंष्रयां चतुरर्णवोर्मिपट लैराप्ठावितायामियं यस्या एव शिशोः स्थिता विपदि भूः सा पुत्रिणी पोत्रिणी ९४' अत्र पूर्वार्धे गर्हा, उत्तरार्धे श्राघा गम्यते, सेयं प्रतीयमानसादश्यो- भयवती समासोक्तिः। निष्कन्दामित्यादि। इतरान्या वराही सूकरी सुतान् सूकरान सूते जन- यति। कि कर्तुम्। अरविन्दिनी निष्कन्दामुन्मूलितमूलां कर्तुं, स्थपुटितो निन्नो- न्रतीकृत उद्देशो यस्यास्तादशी स्थलीं कर्तुं, पल्वलेऽल्पसरसि अम्बु जलं जम्बा- लेन कर्दमेनाविलमनच्छं कर्तुम्। सा पोत्रिणी वराही पुत्रिणी प्रशस्तपुत्रवती। यस्या: शिशोरेव बालकस्पैव दंध्रायामियं भूर्विपदि प्रलये स्थिता। दंश्रायां कीट- श्याम्। चतुर्णामर्णवानां समुद्राणामूर्मिपटलै: कडोलसमूहैराशवितायां पूरितायाम्। व्याप्तायामिति यावत् । 'जम्बाल: पड्चोऽस्री' इत्यमरः । वराहीति 'पुंयोगा- दाख्यायाम् ४1१।४८' इति कीष् । पुत्रिणीति प्रशंसायामिनिः। 'वराहः सूकरो गृष्टिः कोलः पोत्री' इत्यमरः। अत्रोभयोः सादृश्यं बराहत्वादिना प्रतीयमानम्।।
Page 553
४६० काव्यमाला
अनुभयवती यथा- 'इतः खपिति केशवः कुलमितस्तदीयद्विषा- मितश्र शरणार्थिनः शिखरिपक्षिणः शेरते। इतोऽपि वडवानल: सह समस्तसंवर्तकै- रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥।९५ ।।' अत्र गहा श्लाघा वा विस्मयोक्तावेवासतमयते। सेयं प्रतीयमानसा- दृश्यानुभयवती नाम समासोक्तिः । इत इत्यादि। सिन्धोः समुद्रस्य वपुराशयो विततं विस्तीरणमूर्जित बलवत् भारवहनक्षमं च। अन्नैवाशर्यम्। इतोऽतैव हरिर्वसति, अत्रैव केशवरिपूणामसु- राणां पुरं नगरमस्ति। अत्रैव शरण प्राप्तः शिखरिणां पर्वतेषु मध्ये पक्षिणः सपक्षा मैनाकादयः शेरते खपन्ति। नच शिखरिपक्षिण इत्यत्र 'न निर्धारणे २।२।१० इति पष्ठीसमासनिषेध इति वाच्यम्। तन्निषेधस्यानित्यत्वाननिर्धारणस्याविव- क्षणाद्वा निर्धारणद्योतकजात्यादेरभावेन तदुन्नयनात्, यद्ा शिखरिणश्च ते पक्षि- णक्चेति विशेषणसमासः । पूर्वनिपाते तु बहुष्वेकत्र नियम इति व्यवस्थितिः । अत्रैव वडवानलोऽस्ति सकलमेषैः सह। 'पुष्करावर्तसंवर्तकालकान्तिजलसवाः । इति वारिमुचां वंशथ्तुर्धा परिकीर्तितः II' इति पुराणम्। अत्र शाघागहयोर- स्तमनादनुभयवतीयम्॥ अभिधीयमानसादृश्या श्लाघावती तुल्याकारविशेषणा यथा- 'नालस्य प्रसरो जलेष्वपि कृतावासस्य कोषे रुचि- र्दण्डे कर्कशता मुखेतिमृदुता मित्रे महान्प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्र दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ ९६ ॥' अत्राम्बुरुह्सत्पुरुषयोः परस्परमुपमानोपमेयभावस्यातिशयप्रसिद्धेरुप-
१. टीकाकृता तु 'पुरमितस्वदीयदिया-' इति पाठो धृतः.
Page 554
४ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ४६१
गम्यते। सेयमभिधीयमानसादृश्या श्राघावती तुल्यविशेषणा नाम समासोक्तिः ॥ नालस्येत्यादि। यस्याम्बुजस्य पद्मस्यैवमनेनाकारेण स्थितिरवस्थितिस्त्रा- म्युजे श्रियो लक्ष्म्या वसतिर्वासो युक्त एव। तदाह-नालस्य नालाया: प्रसरो विस्तार:, अथ च न आलस्यस्यालसतायाः प्रसर आधिक्यम्। जलेष्वपि तोयेषु कृतावासस्य, अथ च मूर्खेष्वपि कृतावासस्य। कोषे कुकाले रुचिः कान्तिः, अथ च कोषे पात्रेऽर्थसार्थे वा रुचिः प्रीतिः । दण्डे प्रकाण्डे कर्कशता काठिन्यम्, अथ च दण्डे शासने कर्कशता कार्कश्यम्। मुखे उपकमे मृदुता कोमलता, अथ च मुखे वदने मृदुता मधुरवाणीकता। मित्रे सूर्ये महान् प्रश्रयः प्रीतिः, अथ च मित्रे सुहृदि महाप्रीतिः । आमूलं मूलादारभ्य गुणस्य तन्तोः संग्रहे भ्रहणे व्यस- निता आसनः, अथ चामूलमादिपुरुषादारभ्य गुणानां शीलादीनां संग्रहे वर्तुली- करणे व्यसनिता प्रयन्नः । दोषाकरे रजनिकरे द्वेषोऽसूया, अथ च दोषाणामाकरे उत्पत्तिस्थाने जने द्वेषोऽप्रीतिः । 'नालो नालमथास्त्रियाम्' इत्यमरः । 'जलं नीरे च मूर्खे च' इति विश्रवः । 'कोषोऽसत्री कुकले पात्रे हार्थसंघातदिव्ययोः ।' इति मेदिनीकार: । 'दण्डं प्रकाण्डे शास्ती च' इति। 'मुखमास्ये च प्रारम्भे' इति। 'मित्रं सुहृदि मित्रोडकें' इति। 'शिफायां कारणे मूलम्' इति । 'गुणस्तन्तौ च शीलादौ' इति। 'दोषः स्याहृषणे दोषा रात्रौ बाही च कीर्तिता ।' इति। 'वसतिः स्यादवस्थाने' इति विश्वः । अत्र पद्मसज्जनयोः प्रसिद्धिसिद्धमुपमानोपमेय- त्वमत उभयार्थकविशेषणपदैरश्ेप इव सादृश्यमभिधीयते । प्रशंसापरतया च ाषावत्त्वम् ।। प्रतीयमानामिधीयमानसादृश्या श्राघागहावती तुल्यातुल्यविशेषणा यथा- 'उपाध्वं तत्पान्थाः पुनरपि सरो मार्गतिलकं यदासाद स्वेच्छं विलसथ विलीनक्कमभराः । इतस्तु क्षाराब्घेर्जरठकमठक्षिप्तपयसो निवृत्तिः कल्याणी न पुनरवतार: कथमपि ॥ ९७॥' अत्र पूर्वार्घेSभिधीयमानसादृश्ययो: लाघा, पश्चिमाघें तु प्रतीयमान-
Page 555
४६२ काव्यमाला ।
सादृश्ययोरगहविगम्यते; सेयमुभयवती तुल्यातुल्यविशेषणाभिधीयमान- प्रतीयमानसादृश्या समासोक्तिः ॥ उपाध्यमित्यादि । हे पान्थाः, तत्सरस्तडागमुपाध्वं सेवध्वम्। कीटशम्। मार्गस्य तिलकभूतमलंकारीभूतम्। यत्सर आसाद्य गतश्रमभरा यूयं सेच्छं विल- सथ यथेच्छं कीडध्वम्। इतोऽस्मात्क्षाराब्वेनिवृत्तिरेव कल्याणी कुशलदा न पुनः कथमप्यवतारोऽत् कुशलदः । अत्रावतरणं न कर्तव्यमिति भावः। क्षाराब्धेः कीटशात्। जरठेन जीर्णेन कमठेन कच्छपेन क्षुण्णं पयो जलं यस्य तस्मात्। उपाध्वमिति उपपूर्व 'आस उपवेशने' लोष्मध्यमपुरुषबहुवचने 'वि च ८।२।२५' इति सकारलोप: । 'कमठकच्छपौ' इत्यमरः । कल्याणीति गौरादित्वान्डीप। अत्र पूर्वार्षे सरःसज्जनयोः परोपकारत्वादिगुणैस्तुल्यैरेव सादृश्यममिहितम्। श्ाघा तु व्यक्तैव। उत्तरारधें तु क्षाराब्धेस्तादशस्यानुपकारकतया गहा व्यत्ततव ज्ञायते, इहा- सज्चनगता निन्दापि प्रतीयते; किंतु सा विशेषणद्वारा नेत्यतुल्यविशेषणता।। अन्योक्तिर्द्विघा खजातौ जात्यन्तरे च। तयो: खजातौ यथा-
बलिरेष स येनास्य भिक्षापात्रीकृत: करः ॥ ९८ ॥' अत्र हरिशब्देन बलिशन्देन वा कश्चित् समानेतिवृत्तः पुंविशेष एवोच्यते; सेयं खजाति विषयान्योक्ति: संक्षेपोक्तिरूपत्वात्समासोक्तिरेव। लक्ष्मीत्यादि। स बलिरेव वदान्यः । येन वलिनास्य हरेविष्णो: करो हस्तो भिक्षापात्रीकृतो भिक्षापात्रत्वमापादितः । कीटशः करः। लक्ष्मीस्तनकरोडकुङ्कमेना- रुणितो लोहितीकृतः । अत्र स्वजातित्वं तुल्यचरितत्वम् । हरिबल्योरपेक्षयान्यत्व- मपि ॥ तर्हि समासोकिता कथमत आह-संक्षेपेति । संक्षेपेणोपस्थापनादेव समासोकित्वमिल्यर्थः । जात्यन्तरे यथा- 'पिबन्मधु यथाकामं भ्रमरः फुलपड्डजे। अप्यसंनद्धसौरम्यं पश्य चुम्बति कुक्लम् ॥ ९९।' अत्र अ्रमरशब्देन कश्ित् कामी, फुलपङ्कजशव्देन कापि प्रौढा-
Page 556
४ परिच्छेद: ।] सरसतीकण्ठाभरणम्। ४६१
अना, कुक्लशव्देन कापि मुग्घाङ्गनामिधीयते; सेयमन्यजातिविषया- न्योक्ति: समासोक्तिरेव भवति।। पिवन्नित्यादि। त्रमरो यथाकामं यथेच्छं प्रफुपड्जे मधु पिबन् सन् असंनद्सौरभ्यमप्राप्तसौगन्ध्यमपि कुकालं चुम्बति। तत्पश्य। अत्र वाक्यार्थस्पेव कर्मता। अत्र भिन्नभिन्नजातितयान्यजातिता ।। अनन्योक्तिशन्देनेहाध्यासविषया तद्धावापत्तिरुच्यते। यथैष ब्रह्म- दव इति। सा द्विया शुद्धा चित्रा च। तयो: शुद्धा यथा-
किरकम्योत्सामच्छां नवलवलिपाकप्रणयिनीम्। उपप्राकारात्रं प्रहिणु नयने तर्कय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥ १०० ॥' अत्र कस्याश्चिन्मुखे चन्द्रमसमध्यास्य कश्िदेवं त्रूते। सा चेयं पूर्वार्घेऽभिधीयमानतुल्यविशेषणा, पश्चिमार्घे पुनरनाकाशे कोडयं ग- लितहरिण इत्यत्र तुल्यविशेषणा समासोक्तिरेवानन्योक्तिः । एकस्यैव चाध्यासादियं शुद्धेत्युच्यते।। नान्यस्योक्तिरनन्योकि: । तथाचानन्योक्तिपदेन तद्भावापत्तिखत्ता विषयतै- बोच्यते। एपोऽयमित्याकारस्तस्याः । मुघेत्यादि। हे सखे, उपप्राकारायं प्राका- रात्रसमीपे नयने नेत्रदयं प्रहिणु देहि। मनाक त्वं तर्कय । अनाकाशे आकाशा- तिरिक्देशे गलितहरिणस्त्यक्तलाञ्छनः कोऽयं शीतकिरणश्चन्द्र इति। कीटशः । ज्योत्सां किरन् विक्षिपन। कीटशीम् । मुधा मिथ्या बद्धोऽनुबद्ो ग्रासः कवलो यैरेवंभूतैरुपवनस्थितचकोरैरनुसटतामनुगताम्। स्च्छाम्। नवा नूतना या लवली लतामेदस्तस्याः पाकस्य प्रणयिनी प्रश्रयव्ती च । 'लबली च लताभिदा' इति विश्वः । लवलीवाचको लवलिशब्दोऽपि। 'लवलि: श्वेतपार्थपी (?) इति शब्द- मेद: । उपप्राकाराग्रमित्यत्र सामीप्येऽव्ययीभावः । अत्र अध्यास्य आरोप्य । पूर्वाषे तुल्यविशेषणत्वमुक्तम्, उत्तरार्घेऽतुल्यविशेषणत्वम् । तस्पैवाभिधानादनन्योकि रेकस्पैवाभिधानाच्छुद्धता च।। १. टीकाकृतातु 'मुधा बदूम्रासैः' इति पाठो धृत:, २. 'पादपी' इति साठ,
Page 557
४६४ काव्यमाला।
चित्रा यथा- 'कमलमनम्भसि कमले कुवलये तानि च कनकलतिकायाम्। सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥ १०१ ॥ अत्राध्यासः पूर्ववद्वैचित्र्यं च निगदेनैव व्याख्यातम् । सेयमन- न्योक्ति: समासोक्तिरेवानेकाध्यासवैचित्र्याचचित्रत्युच्यते ॥ कमलमित्यादि । अनम्भसि जलशन्ये देशे कमलमस्ति। कमले पुनः फुवलये नीलनलिनद्वयम्, तानि च कमलकुवलयानि कनकलतिकायां सुवर्णलतायाम्, सा च कनकलतिका सुकुमारा कोमला सती सुभगा रम्येत्यनेन प्रकारेण केयमुत्पात- परम्परारिष्टपद्चिः । 'उत्पातोऽरिष्टमित्यपि' इत्यमरः । पूर्ववदिति । कस्याथि- न्मुखादी कमलादयारोपः, विचित्रता च कमलादौ कुवलयादभिधानेनेवोक्ता तस्या एवाभिधानादनन्यतयोकि:।। उभयोक्तिर्यथा- 'लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संस्वन्ते। उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ।। १०२।' अत्रापूर्वेयं लावण्यसिन्धुरित्यन्योक्तिः, यत्रोत्पलानि शशिना सह संष्नवन्त इत्यादिरनन्योक्तिः, सेयमुभययोगादुभयोक्तिरपदिश्यते। उप- लक्षणं चैतत्। तेनान्यापि योपमानोपमेयविषये संक्षेपोक्तिः सापि समासोकिरेव भवति। लावण्येत्यादि। अत्र देशे ऽपरैवापूर्वैव केयं लावण्यसिन्धु: सौकुमार्यनदी। य्यत्र चन्द्रेण सह पद्मानि संशवन्ते संमिलितानि भवन्ति । यत्र कुम्भिकुम्भतटी उन्मजति उत्थिता भवति । यत्रापरेऽन्ये कदलीप्रकाण्डविसदण्डाः सन्ति। *सिन्धुरब्धी पुमान्रयां स्त्रियाम्' इति मेदिनीकारः । 'तीरदेशे तटी मता' इति च। अत्र सिंधूक्त्यान्योकिता, यत्रेत्यादिना सिन्धुरेवोकेलवनन्योकिता । अन्यानन्या- तिरिकिसमासोकि संगरहाति-उपलक्षणमिति।।
Page 558
४ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ४६५
यथा- 'इन्दुर्लिप्त इवाञजनेन जडिता दृष्टिमृगीणामिव प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा । पारुष्यं कलया च कोकिलवधूकण्ठेप्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव १०३' अत्र संक्षेपतः सीताशन्दवाच्यस्य मुखादेरवयवसमूहस्याश्रयत इन्दु- रज्जनेनैव लिप्तः, जडितेव मृगीणां दृष्टिः, प्रम्लानमिवारुण्यं विद्रुमस्य, श्यामेव हेमकान्तिः, परुषा इव कोकिलालापाः, सगर्हा इव शिखिनां वर्हा इत्युत्प्रेक्षोक्तेरनुक्तान्यपि तदुपमेयानि मुखादीनि प्रतीयन्ते, सेय- मपि संक्षेपोक्तिः समासोक्तिरेव भवति। कः पुनः समासोक्तेः समा- व्युक्तेर्वा विशेषः । उच्यते । यत्र प्राकरणिकेSप्राकरणिको धर्मोऽध्या- स्यते सा समाध्युक्तिः यथा-'असहन्तिब्ब किलिम्मइ पिअअमप- च्छक्खदूसणं दिणलच्छी ।' इति । यत्र पुनरप्राकरणिके प्राकरणिक- धर्म: सा समासोक्तिः। यथा-'पिवन्मधु यथाकामं अ्रमरः फुल्लप- इजे।' इति। ननु धर्मिणोऽध्यासे समानमिति चेत्। न । 'स त्वं त्त्वं कथय भवता को हतस्तत्र पूर्वम्-' इत्यादिषु 'अनाकाशे कोऽयं गलितहरिणः शीतकिरणः' इत्यादिषु च प्रव्यक्त एवाध्यासवि- शेषो दृश्यते । एकत्र मनसान्यत्र तु वचसेति सोऽयं समाध्युक्ते: समा- सोक्तेश्र भेदो भवति। इन्दुरित्यादि। सीतायाः पुरतोऽमेऽजनेन कजलेन लिस इव चन्द्र: । हरि- णीनां टृष्टिर्जडितैव जडीभूतैब। प्रवालदलं विम्लानलौहित्यमिव। कलकोकिलवधू- कण्ठेपु पारुष्यमतिक्रमवचनमिव प्रस्तुतमुपकान्तम्। हन्त हपें विषादे वा। शिखिनां मयूराणां बर्हाथ सगर्हा इव जाताः । 'पारुष्यमतिवाद: स्पात्' इत्यमरः । अत्र सीतापदेन मुखादवयवसमूह उक्कसतदये उपमानानां तत्तदृशा उत्प्रेक्षाभिधानादनुका- ३० स० क०
Page 559
४६६ काव्यमाला ।
न्यपि तदुपमेयानि मुखादीनि ज्ञायन्त इत्युपमानोपमेयविषये संक्षेपोक्तिरियम् । समाध्युक्तिसमासोक्त्योरमेदं मन्वानो मेदकं पृच्छति-क इति। उत्तरम्- यत्रेति। यत्र प्रकरणपरिप्राप्ते विशेष्येSप्रकरणपरिप्राप्तवर्माध्यासः सा समाध्युक्तिः। [यथा-] असहमानेव क्ाम्यतीत्यादि । अत्र प्रियतमप्रत्यक्षदूषणाध्यारोपो- Sप्राकरणिकः । यत्राप्रस्तुते प्रस्तुतधर्माध्यासः सा समासोकिः । यथा-पिबन्मधु यथाकाममिति। अत्र भ्रमरेऽप्रकृते प्रकृतस्य कामिनोऽध्यास: तहिं धर्म्यध्यासतु- ल्यतैवास्यत्याह-नन्विति। प्राकरणिकाप्राकरणिकत्वाभ्यामेव विशेषस्तयोरिति धर्म्यध्यासेऽपि न दोष इत्याह-नेति। स त्वं तत्त्वमित्यादी धर्मिधर्मयोरध्यासः, अनाकाश इत्यादी धर्मिण एवाध्यास इति मेद इत्यर्थ:। स त्वं तत्त्वमित्यादी मनसा, अनाकाश इत्यादो च वचनेनाध्यास: ॥। इति समासोत्तयलंकारनिरूपणम् ॥। उत्प्रेक्षालंकारनिरूपणम्। अन्यथावस्थितं वस्तु यस्यामुत्प्रेक्ष्यतेऽन्यथा। द्रव्यं गुणः क्रिया चापि तामुत्प्रेक्षां प्रचक्षते ॥ ५० ॥ उत्प्रेक्षालक्षणमाह-अन्यथेति। प्रकारान्तरेणावस्थितं वस्तु यत्र प्रकारान्त- रेणोत्परेक्ष्यते परिकल्प्यते सोतप्रेक्षा । असदारोपणमुत्प्रेक्षेति लक्षणम्। किरूपं वस्त्वित्याकांक्षायामाह-द्रव्यमिति। द्रव्यं पृथिव्यादि, गुणो रूपादिः, क्रिया पाकादि: ।। तासु द्रव्योत्मेक्षा यथा- 'देहस्था दर्पणे यस्य पश््यति प्रतिमामुमा। अन्यार्धार्धमिवोत्पन्नमर्धनारीश्वरान्तरम् ।। १०४।।' अत्र प्रतिबिम्बरूपेण दर्पणे ऽन्यथावस्थितस्यार्धनारीश्वररूपलक्षणस्य द्रव्यस्य यदपरार्धोत्पन्नार्धनारीश्वररूपान्तरेण द्रव्यान्तररूपेणोत्पेक्षणं सेय- मुत्पेक्षा द्रव्योत्पेक्षेति भवति। देहस्थेत्यादि। यस्य दर्पणे प्रतिमां प्रतिबिम्बं देहस्था गौरी पश्यति अन्या- र्ान्यामुत्पन्नमर्धनारीश्वरान्तरमिव । अत्रेवशब्द उत्प्रेक्षाव्यज्कः । अर्धनारी- श्वरान्तररूपं द्रव्यमिह कल्प्यत इत्युतप्रेक्षा द्रव्यगता।।
Page 560
४ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। ४६७
गुणोत्प्रेक्षा यथा- 'पल्लविअं विअ करपल्लवेहिं पप्फुलिअं विअ णअणेहिं। फलिअं विअ पीणपओहरेहिं अज्जाए लावण्णम् ।। १०५॥' [पछवितमिव करपल्वाभ्यां प्रफुलितमिव नयनाम्याम्। फलितमिव पीनपयोधराभ्यामार्याया लावण्यम् ॥]
पल्लवितत्वादिरूपेणान्यथोत्प्रेक्षणं सेयमुत्पेक्षा गुणोत्परेक्षेति भवति। पल्लविअमित्यादि। वित्रृतेयं समाध्यलंकारे। अत्र सौन्दर्यस्य गुणस्य पह्ञ- वितत्वादिना कल्पनं गुणोत्प्रेक्षा।I क्रियोत्मेक्षा यथा- 'सेनागजाः खकरर्पुष्करलेखनीभि- रगण्डस्थलान्मदमषीं मुहुराददानाः । मन्ये नरेन्द्र तव तोयधितीरताली- पत्रोदरेषु विजयस्तुतिमालिखन्ति ॥ १०६ ॥' अत्र सेनागजानां गण्डस्थलेम्यो लेखन्याकारैः करैर्मषीरूपस्य मद पयसो यदादानम्, यश्रास्य तीरतालीपत्रोदरेषु महावर्णतया निक्षेपः स उक्तरूपेणान्यथोत्पेक्ष्यत इति सेयमुत्पेक्षा क्रियोत्मेक्षा भवति। सेनेत्यादि। हे नरेन्द्र, सेनागजास्तव विजयस्तुतिमालिखन्तीति मन्ये। कीदशाः । स्वकराणां हस्तिहस्तानां यानि पुष्कराण्यप्राणि तान्येव लेखन्यः काप इति रू्यातास्ताभिर्गण्डस्थलात् मदमेव मर्षी बारंवारमाददाना गृहन्तः । कुत्र लिख- न्तीत्यत आह-समुद्रतीरतालपत्रमध्येषु। मन्येशब्द उत्परेक्षाव्यजकः । 'पुष्कर करिहस्तागे' इति विश्वः । न च लिखे: कुटादिपाठात् डिच्वे गुणाभावे लिखनीति स्यादिति वाच्यम्। 'रद विलेखने' इति निर्देशेन ित्वविधेरनित्यत्वबोधनात्। अत एव 'लेखनीकृतकर्णस्य कायस्थस्य न विश्वसेत्।' इत्यादिप्रयोगाः । 'लेखनी १. मूलसंमतस्तु 'पहव' इति पाठ :. २. भाषान्तरशब्दोऽयम्.
Page 561
४६८ काव्यमाला।
लिपिसाधिका इति रक्षकोष: । ('करिणां बन्धनस्वम्भ आलानम्' इत्यमरः । 'शरीर वर्ष्म विग्रहः' इति च ।) अत्र पुष्करादेलेखन्यादित्वेनोत्प्रेक्षणं कियोतप्रेक्षा। न चेह द्रव्योतप्रेक्षवेति वाच्यम; लिखनरूपक्कियायामेव सर्वेषां तात्पर्यात्। तस्या एव सवैनिर्वाहात् यत्पर: शब्दः स शब्दार्थ इति न्यायात्॥ उत्प्रेक्षावयवो यश्च या चोत्प्रेक्षोपमा मता। मतं चेति न भिद्यन्ते तान्युत्प्रेक्षास्वरूपतः ॥। ५१॥ उत्प्रेक्षावयवादीनामुत्प्रेक्षातो न मेद इल्याह-उत्प्रेक्षेति।। तत्रोत्पेक्षावयवो यथा- 'अङ्कलीभिरिव केशसंचयं संनिगृद्य तिमिरं मरीचिमिः । कुष्पलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी।१०७॥ अत्राङ्गुलीभि: केशेषु गृहीत्वा प्रियामुखं चुम्व्यते सा च लोचने निमीलयतीति प्रायोवादः। तत्र मुखचुम्बनादिक्िया प्रधानमङ्विभूता प्रतीयते, केशग्रहणाक्षिनिमीलने चाङ्भूतेऽप्रधाने। तत्राभ्विभूतायाः क्रियाया उत्प्रेक्षणेनावयवभूता क्रियोत्प्रेक्षिता भवति। यथा हि 'कुध्- लीकृतसरोजलोचनम्' इत्यत्र नोतमेक्षापदम्, एवं 'अङ्गुलीमरीचिमिस्तिमि- रकेशसंचयं संनिगृद्य' इत्यत्रापि तन्न प्रामोति; मरीच्यङ्गुलिसंनिगृही- ततिमिरकेशसंचयमित्येवं वा वक्तव्यं भवति। तत्र योऽयमवयवक्र्िया- यामप्यन्यपदार्थोक्तद्वितीयावयवक्कियाविलक्षण इव प्रयोगेण पृथक्पद- तया वाक्यकल्पः स इवास्यापि व्याख्यानपरत्वेनाप्यनुयोज्यमानः कवि- भिरुत्परेक्षावयव इत्युच्यते। अन्ये पुनर्यत्र प्रधानक्रिया नोतपेक्ष्यते, अवयवक्रिया तूत्मेक्ष्यते तमुत्पेक्षावयवं वर्णयन्ति। अङ्गुलीमिरित्यादि। शशी रजनीमुखं चुम्बतीव । कुल्पलीकृतानि सरो- जान्येव लोचनानि यत्र चुम्बने तथथा स्यादेवम्। कि कृत्या। मरीचिमिरहुली- भिस्तिमिर केशसंचय संनिगृत्व गृहीत्वेव । प्रायोवादो भारतादौी दर्शनात्। अत्र द्वितीयेनेवपदेन भिन्नपदतया वाक्यकल्पनमितरपदस्यापि तच्छून्यपदस्यापि तदर्थ- १. 'सन्नियम्य' इति पाठ :.
Page 562
8 परिच्छेद: I] सरसतीकण्ठामरणम्। ४६९
परत्वमित्युत्प्रेक्षावयवत्वम्। अत एवोत्प्रेक्षामेदत्वम् । अवयवक्रियामात्रस्यावयवि- करियोत्प्रेक्षणादवयवावयविभावः । तत्राह्वा्विभाव एव । यद्ा अवयवमात्रक्रियो-
यथा- 'लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च। सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चमि- श्विन्तासंततितन्तुजालनिबिडस्यूतेव लमा प्रिया ॥१०८॥ तेषां मते पूर्वोदाहरणमुत्मेक्षावयवो न भवति। लीनेवेत्यादि। वितृुतोऽयमनुप्रासे। एतन्मते पूर्वोदाहरणम् 'अङ्गुलीभिरिव-'
उत्परेक्षोपमा यथा- 'किंशुकव्यपदेशेन तरुमारुह्य सर्वतः । दग्धादग्धामरण्यानीं पश्यतीव विभावसुः ॥ १०९ ॥' अत्र व्यपदेशशव्देन किंशुककुसुमानामझिसादृश्यमभिधाय दर्शन- क्रियोसपरेक्ष्यत इति सेयमुत्परेक्षोपमा। पूर्वस्मिन्नप्युदाहरणे मरीचिमिर- हुलीमिरिव तिमिरं केशसंचयमिव संनिगृद्येत्युपमानार्ानुप्रवेश उठ्पे- क्षायां द्रष्टव्यः । सेयमुत्य्रेक्षावयव उत्प्रेक्षोपमा चोठोक्षैव भवति॥ किंशुकेत्यादि। विभावसुरमिररण्यान्या महारण्यस्य दग्धादग्धं दग्धमदग्वं च भागं पश्यतीव। कि कृत्वा। किंशुकव्यपदेशेन किशुककुसुमव्याजेन सवत्र वृक्षमारुता। 'महारण्यमरण्यानी' इत्यमरः । 'चित्रभानुर्विभावसुः' इति च। अन्न उप्ाजपदेन किंशुककुसुमाध्योः सादृश्यमभिप्रेतमत उपमागर्भोत्प्रेक्षेयम्।। मतं यथा- 'यदेतचन्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा।
Page 563
४७० काव्यमाला।
अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी-
अत्र कटाक्षोल्कापातव्रणकिणकलह्काङ्किततनुमिन्दुमहं मन्ये इत्य- नेन खमतद्वारकमुत्प्रेक्षायाः समर्थनं कृतमित्ययं मताभिघानमुत्पेक्षाया एव प्रकार: । यदेतदित्यादि। यदेतचन्द्रस्यान्तमध्ये मेघकणविलास कुरुते लोकस्वच्छ- शक इत्याचष्टे बदति। मां प्रति तथा नैतत्। अहं पुनरिन्दुं मन्ये । कीटशम्। त्वदीयशत्रुविरह्मस्ताया युवत्याः कटाक्ष एवोल्कापातस्तस्य त्रणकिण एव कलङसे- नाहिता तनुः शरीरं यस्य तादशम्। 'लवलेशकणाणवः' इत्यमरः । 'अमानोनाथ प्रतिषेधवचनाः' इति च। अत्र निजमतोपन्यासादुत्प्रेक्षासमर्थनमिति मतोत्परेक्षेयम्।। इत्युत्प्रेक्षालंकारनिरूपणम्।। अप्रसतुतप्रशंसालंकारनिरूपणम् । अप्रस्तुतस्तुतिलक्षणमाह- अप्रस्तुतप्रशंसा स्यादस्तोतव्यस्य या स्तुतिः । कुतोऽपि हेतोर्वाच्या च प्रत्येतव्या च सोच्यते ॥५२।। सा तु धर्मार्थकामानां प्रायोऽन्यतमवाधया। साभिप्रायप्रसिद्ध्या च जायमानेह दृश्यते ॥५३॥ अप्रस्तुतेति । अस्तोतव्यस्य निन्दितस्य कुतोऽपि कारणात्स्तुतिः प्रशंसा अप्रस्तुतस्तुतिः अत एव समासो केमेंदः। तत्र तुपमानोपमेयता, अत्र तु निन्दितम- र्थान्तरम्, अन्यस्य स्तुतिरिति । सा त्वभिधीयमाना प्रतीयमाना चेल्याह- वाच्येति। तत्र हेतुद्वारकमपि विभागमाह-सा त्विति। धर्मवार्थथ कामय तेषामन्यतमस्य प्रायो बाहुल्येन बाधया सर्वत्र खाभिप्रायस्य प्रकृष्ठसिज्या सोत्पद्यमाना प्रतीयत इत्वर्थ: । तासु धर्मबाधया वाच्या तथा- 'मेदच्छेदकृशोदरं लघु भवत्युत्साहयोग्यं वपुः सत्वानामपि लक्ष्यते विकृतिमच्चितं भयक्रोधयोः । १. 'स्युत्बानयोर्ग्य' इति पाठ :.
Page 564
४ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ४७१
उत्कर्ष: स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोद: कुतः १११' अत्र यथोक्तैहेतुभिः खवाभिप्रायसाधनेन यदिदमीदृग्विनोद: कुत इति साक्षान्मृगयाभिनन्दनं सेयं वाच्या नामाप्रस्तुतस्तुतिः 'अहिंसा परमो धर्मः' इति धर्म बाधते।। भेद इत्यादि। सन्तो मृगयामाखेटकं व्यसनमकर्तव्यं बदन्ति यत्तन्मिध्या। ईदग्विनोद उत्साह: कुतः कुत्र। किंतु न कुत्रापि। हि यतो वपुर्लघु भवति निन्दितमिव भवति। कीटशम्। मेदसो बलस्य छेदेन संचलनेन कृशमुदर यत्र। मेदसां स्थित्या स्थाल्यं भवति। कृशोदरतयैवोत्साहयोग्यम्। अत एव तुन्दिलेष्वनु- त्साहः । सत्वानां प्राणिनां भयकोधयोर्विकारयोगि चित्तमपि लक्ष्यते। भये चित्त- मीटकू, कोधे चेदगिति। स च धन्विनां धनुर्धराणामुत्कर्षो यदिषवश्चले लक्ष्ये सिध्यन्ति च भेदका भवन्ति। 'मेदस्तु बपा वसा' इत्यमरः। अत्रोक्तहेतुद्वारा निजा- भिग्नायस्य सिद्या मृगयाभिनन्दनं धर्मबाधनयाभिधीयमानमत इयमप्रस्तुतस्तुतिः ॥ धर्मवाधनामाह-अहिंसेति। मृगया हिंसाजनिका। अतो धर्मबाघात्रेत्यर्थः ॥ धर्मवाधयैव प्रत्येतव्या यथा- 'कालाक्खरदुस्सिक्खिअ बालअ रे लग्ग मज्झ कण्ठम्मि। दोण्ह वि णरअणिवासो समअं जइ होई ता होउ ॥११२॥ [कालाक्षरदु:शिक्षित बालक रे लग मम कण्ठे। द्वूयोरपि नरकनिवास: समकं यदि भवति तद्रवतु ॥] अत्र कालाक्षरदुःशिक्षिणेत्यनेन लिपिज्ञानादि भिरधीतधर्मशास्त्राभि- मतरूपकपोगण्डः कोऽपि कयाप्यविनयवत्या सोपालम्भमेहि रे कण्ठे लगेत्यभियुज्यते। तत्र ते मतमेवं कृते यदि नरकः स्यात् ; स यद्या- कयोः सहैव, नासौ नरक इति; किं तर्हि खर्ग इति। सोडयं खाभि- प्रायसाधनान्महासाहसे नियोगस्तस्येह साक्षादस्तुतस्यास्तोतव्यस्य स्तुतिः प्रतीयते। सेयं प्रत्येतव्या नामाप्रस्तुतप्रशंसा 'परस्य दारान्मनसापि नेच्छेत्' इति धर्म बाधते ॥।
Page 565
१७२ काव्यमाला।
कालाक्खरेत्यादि। 'कालाक्षरदुःशिक्षित बालक रे लग मम कण्ठे। दवयो- रपि नरकनिवासः समको यदि भवति तदा भवतु ।'इह रे कालाक्षरेषु दुःशिक्षित दुरुपदेश बालक पोडशवर्षवयस्क, मम कण्ठे लग । मामालितयेत्वर्थः । द्वयोराव- योस्था सति नरकनिवास: समकस्तुल्यो यदि भवति तदा भवतु। तत्राप्यावयोः समान एवेति नरकोऽपि स्वर्ग: । कालाक्षरेति लौकिकी संज्ञा। रे इति नीचसंबो- घनम्। 'बाल आषोडशाद्वूर्षात्' इति मनुः । समक इति खायें कन्। पोगण्डो व्यवहारानभिज्ञः । पोगण्डस्तु ततःपरम् ।' 'परतो व्यवहारज्ञः' इति मनुः । अधीतेति। अधीतं धर्मशास्त्रं मन्वादिस्मृतिर्येन सः। अभिमतमाकाङ्कितं रूपं सौन्दर्य यस्य सः। तादशथासी पोगण्डक्ेति कर्मधारयः । रूपक इत्यत्र 'शेपा- द्विभाषा ५ा४ा१५४' इति कप। अविनयवती वेश्या। अत्र निजाभिप्रायसिद्या महासाहसे सुरतरूपे नियोगस्य साक्षादनभिधानात्म्रतीयमाने वा प्रस्तुतस्तुतिः । धर्मबाधामाह-परस्येति। दारान् पत्नीम्।। अर्थवाघया वाच्या यथा- 'पङ्गो बन्धस्त्वमसि न गृहं यासि योऽर्थीं परेषां धन्योऽन्ध सं धनमदवतां नेक्षसे यन्मुखानि। श्लाध्यो मूक त्वमपि कृपणं स्तौषि नार्थाशया यः स्तोतव्यस्त्वं वधिर न गिरं यः खलानां शृणोषि ॥११३॥ अत्र स्ोतव्यानां पङ्वन्धमूकवधिराणां वन्दघन्यश्लाध्यस्तोतव्य- पदैः साक्षादभिनन्दनादियं वाच्या नामाप्रस्तुतप्रशंसाभिमानिनोऽर्थ- सिर्द्धि बाधते।। पङ्गो इत्यादि। हे पतो खज्, तवं वन्धोसि; यस्त्वमर्थी सन् परेषां गृहं न यासि। हे अन्ध दृष्टिशून्य, त्वं धन्यः, यद्धनगर्ववतां मुखानि त्वं नेक्षसे न पश्यसि। हे मूक, त्वं श्ाध्योऽसि; यरुवं कृपणं जनमर्थाशया न स्तौषि । हे बधिर श्रवणशून्य, त्वं स्तोतब्योऽसि; यस्त्वं खलानां दुर्जनानां गिरं चाणी न भणोषि। 'पहुः खजज इति स्मृतः' इति हारावली। 'अवाचि मूकः' इल्यमरः । अत्र पद्ग्वादीनां वन्यादिपदैः साक्षादभिनन्दनादभिधीयमानता। अर्थवाधामाह- अभीति। अनेन मानिनामर्थसिद्धिबाध एवोक: ॥-
Page 566
४ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ४७२
अर्थबाघयैव प्रत्येतव्या यथा- "कामं वनेषु हरिणास्तृणानि खादन्त्ययत्नसुलभानि। विदधति धनिषु न दैन्यं ते किल पशवो वयं सुधियः ॥११४॥ अत्र ते किल पशवो वयं सुधिय इति मृगाणामसाक्षादभिनन्दनं तेनेयमस्तोतव्यानाममीषां वाक्यार्थत्वेन स्तुतिप्रतीतेः प्रत्येतव्या नामा- प्रस्तुतप्रशंसा मनख्विनोऽर्थसिद्धिं बाघते॥ काममित्यादि। हरिणा वनेष्वप्रयत्रतः सुलमेन तृणेन काममत्यर्थ जीवन्ति। धनिषु धनिकेषु दैन्यं न विद्धति न कुर्वन्ति। तथापि ते हरिणाः पशवो वयं पुनः सुधियः पण्डिताः । किल प्रसिद्धो निथ्ये वा। 'अत्यर्थेऽनुमती कामम्' इति विश्वः । अत्र मृगाणां न साक्षादभिनन्दनम्, किंतु तत्प्रतीयत इतीयं प्रत्येतव्या। अन्नाप्यर्थबाधा मनखिवन एव ।I कामवाधया वाच्या यथा- 'ण मुअन्ति दीहसासं ण रुअन्ति णे होन्ति विरहकिसिआओ। धण्णाओ ताओ जाणं बहुवल्ह वलहो ण तुमम् ॥११५॥' [न सुश्चन्ति दीर्घश्वासं न रुदन्ति ने भवन्ति विरहकृशाः । धन्यास्ता यासां बहुवलम वहमो न त्वम् ॥] अत्र धन्यास्ता यासां त्वं न वलम इति येयमतिरक्तायाः साक्षादसतो- तव्यस्तुतिः सेयं वाच्या नामाप्रस्तुतप्रशंसा तस्या एव कामसिद्धि बाधते।। णेत्यादि। 'न सुखन्ति दीर्घश्वासं न रुदन्ति न भवन्ति विरहकृशाः। धन्यास्ता यासां बहुवहभ वहभो न त्वम् II' नायिकां नायकविशेषवर्ती दृष्टा तत्सस्री नायकमुपगम्य तस्या अनुरागं दशा चाह-न मुश्चतीति। हे बहुवहम, ता नायिका धन्या दीर्घश्रास विरह्ज न त्यजन्ति, न रुदन्ति, विरहकृशाथ्ष न १ .- २. गाथासप्तशत्या 'चिर ण होन्ति किसिआओ' इति पाठमेदः, 'चिर न मवन्ति कृशाः'इति छायामेदश्.
Page 567
काव्यमाला।
भवन्ति। यासां त्वं वहभो नासि। अत्र धन्या इत्यादिना अनुरागिण्याः साक्षा- रस्तुतिरभिहिता तस्या एव कामसिद्धि बाधिका ॥ कामबाधयैव प्रत्येतव्या यथा- 'सुहउच्छअं जणं दुल्हं वि दूराहि अम्ह आणन्त। उअआरअ जर जीअं वि णेन्त ण कआवराहोसि ॥११६॥' [सुसपृच्छकं जनं दुर्लममपि दूरादेस्माकमानयन्। उपकारक ज्वर जीवमपि नयन्र कृतापराधोऽसि ॥] अत्र पूर्वोक्तास्मदभिप्रायसिच्धैवंनाम त्वयास्माकमुपकृतं येन जीवि- तमपि हरन्नापराध्यसीति ज्वरं प्रति यदतिरक्ततया वाक्यं तेनेहास्तोत- व्यस्य ज्वरस्य स्तुतिः प्रतीयते; सेयं प्रत्येतव्या नामाप्रस्तुतप्रशंसा तस्या एव शरीरबाधया सर्वानपि कामान् वाधते।। सुहेत्यादि। "मुसपृच्छकं जनं दुर्लभमपि दूरान्ममानयमान। उपकारक ज्वर जीवमपि गृहन्न कृतापराधोऽसि ॥" काचिदृत्यनुरागिणी नायकमन्यानु- रक्तमपि वार्ताकरणायातं दोषगर्भमाह-सुखेति। हे ज्वर, सुखपृच्छकं तवाते सुखमधुनेति प्रश्नकारकं जनं दुर्लभमपि मम कृते दूरदेशादानयमान प्रापक, अत एवोपकारक, जीवमपि गृहन् त्वं न कृतापराधोऽसि। सुखं सुध्धु पृच्छति सुख- पृच्छकः । 'क्रियासमभिहारे वुन्' इति योगविभागाबुन्। अत्र सुखपृच्छकेत्यादिना खामिप्रायसिद्धानुरकताया ज्वरं प्रति वाक्यम्। तेनाप्रस्तुतस्तुतिर्जायते न त्वभि- धीयत इति। कामबाधामाह-शरीरेति।। इत्यप्रस्तुत प्रशंसालंकार निरूपणम्। तुल्ययोगितालंकारनिरूपणम्। तुल्ययोगितालक्षणमाह- विवक्षितगुणोत्कृष्टैर्यत्समीकृत्य कस्यचित्। कीर्तनं स्तुतिनिन्दार्थ सा मता तुल्ययोगिता ॥ ५४॥ विवक्षितेति। यिवक्षितो बक्तुमिष्टो यो गुणसेनोत्कृष्ट अधिका ये तैः सह स्तुत्यर्थ निन्दार्थ वा कस्यचित्स्तुत्यस्य निन्दस्य वा तेन गुणेन तस्य यत्समीकृल्य १ 'दूरान्ममानयमान' इति व्यास्यादृत: पाठ :. २. 'गृबन्न' इति पाठ:कfा
Page 568
४ परिच्छेद: ।] सरसतीकण्ठाभरणम्। ४७५
कीर्तनमभिधानं सा तुल्ययोगिता। गुणोSत्र धर्म: साधुरसाधुर्वा। अत एव स्तुतिर्वा निन्दा वा स्यात् ।। सा अभिधीयमानतुल्यगुणत्वेन स्तुत्यर्था यथा- 'शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः । इमां लद्घितमर्यादां चलन्तीं विभृथ क्षितिम् ॥ ११७॥' अत्राभिधीयमानमहत्वादिगुणोत्कृष्टाभ्यां शेषाहितुषारशैलाभ्यां सह स्तुत्यर्थ तुल्ययोगेन क्षितिपतेरभिहितत्वादियं स्तुत्यर्था तुल्ययोगिता॥ शेष इत्यादि। शेष: सर्पमदो हिमालयस्त्वं च सर्वे यूयमिमां क्षिति विभृथ धारयथ। कीडशाः । महान्तो महत्त्ववन्तः गुरवो गुरुत्वाध्रयाः स्थिराः स्वैर्यवन्तथ। कीटशीम्। लद्गितातिकान्ता मर्यादा यया तामत एव चलन्तीमि- तस्ततो गामिनी च। अत्र महत्त्वादिकमभिहितम्। भूपस्य च शेषहिमाद्रिम्यां
अभिधीयमानतुल्यगुणत्व एव निन्दार्था यथा- संगतानि मृगाक्षीणां तडिद्विलसितान्यपि। क्षणद्दयं न तिष्ठन्ति घनारव्घान्यपि खयम् ॥ ११८॥ अत्र घनारव्धान्यपीत्यादिभिरभिधीयमानतुल्यगुणानां मृगाक्षीसंग- तानां तडिद्विलसितानां च निन्दार्थ तुल्ययोगेनाभिघानादियं निन्दार्था तुल्ययोगिता ।। संगतानीत्यादि। मृगाक्षीणां संगतानि संगमा: खयं घनं निरन्तरमारब्या- न्यपि कृतान्यपि, तथा तडितां विद्युतां विलसितानि च घनैमेंघैरारब्धान्यपि क्षण- दयमारम्भक्षणादू्व्वमपरमपि क्षणं न तिष्टन्ति; कुतो दीर्घकालम्। अत्र प्रसिद्धचा- पलया विद्युता स्त्रीणां संगमस्य चपलता समीकृत्योच्यत इति निन्दातुल्ययोगितेयम्।। प्रतीयमानतुल्यगुणत्वे स्तुत्यर्था यथा- 'यम: कुबेरो वरुणः सहस्राक्षो भवानपि। विभ्रत्यनन्यविषयां लोकपाल इति श्रुतिम् ॥ ११९ ॥'
Page 569
४७६ काव्यमाला।
अत्र यमादयः पञ्च भवन्तो लोकपाला इत्यनुक्तमपि तुल्यवस्तुयो- गितयैव स्तुत्यर्थमेषां मिथः सादृश्यं प्रतीयते; सेयं प्रतीयमानतुल्यगु- णत्वे स्तुत्यर्था तुल्ययोगिता ।। यम इत्यादि । यमादयो भवन्तोऽनन्यविषयामनन्यगामिनी लोकपाल इल- नेनाकारेण श्रुति ख्याति बित्रति धारयन्ति । सहलाक्ष इन्द्रः । 'श्रुतिः रूयाती च वेदे च' इति विश्वः । अत्र चत्वारो यमादयो लोकपालाः, इदानी भवान् पक्चमो लोकपालशब्दवाच्य इति यमादिसमानताख्यापनेनोत्कृष्टसाम्यकथनाद्राज्ः स्तुतिः । सा तु प्रतीयमानतुल्यगुणेनैव ।। प्रतीयमानतुल्यगुणत्व एव निन्दार्था यथा- 'राजानमपि सेवन्ते विषमप्युपभुञ्जते। रमन्ते च परस्त्रीभिर्विषमाः खलु मानवाः ॥ १२० ॥' अत्र योऽयं सेवादिर्मानवानां राजविषये स्रीषु च वैषम्यहेतुतुल्य- त्वेन योगो राजादीनां वा कर्मादितुल्यतया तत्कियायां समावेशः सोडमीषां मिथः सादृश्यं प्रत्याययन् राजसेवापरस्त्रीरत्योर्विषोपभोगतु- ल्यतां गमयतीति सेयं प्रतीयमानतुल्यगुणत्वे निन्दार्था तुल्ययोगिता। राजानमित्यादि। भूपमपि सेवन्ते, विषमप्युपभुजते सादन्ति, अन्यस्त्रीभिः सह रमन्वे विलसन्ति। अतो मनुष्या विषमाः साहसिकाः । खल हेती। अत्र विषमतायां वा तुल्ययोगस्तत्कियाविषयतया वा राजसेवापरस्त्रीरत्योविषोपभोगतु- ल्यतां बोधयति स च प्रतीयमान एव ।। मतान्तरेण तुल्ययोगितामाह- अन्ये सुखनिमित्ते च दुःखहेतौ च वस्तुनि। स्तुतिनिन्दार्थमेवाहुस्तुल्यत्वे तुल्ययोगिताम् ॥ ५५॥ अन्ये इति। सुखहेतुदुःखहेतुवस्तुनो: स्तुतिनिन्दार्थ साम्ये तुल्ययोगितामन्ये प्राहुः ।। १. "रहो साइसिका नराः' इति पाठ: २. 'कर्मत्वादिरूपस्' इति क. ख.
Page 570
४ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। १७७
सा स्तुत्यर्था यथा- 'आहूतस्याभिषेकाय विसृष्टस्य वनाय च। न मया लक्षितस्तस्य खल्पोऽप्याकारविभ्रमः ।। १२१ ॥' अत्र रामस्य राज्याभिषेकवनगमनयोः पितुरादेशेन तुल्यरूपतया स्तुतिः प्रतीयते ॥ आहृतस्येत्यादि । अभिषेकाय राज्याभिषेकायाहूतस्य कृताह्वानस्य, वनाय वनं गन्तुं विसृष्टस्य च तस्य रामस्य खल्पोऽप्याकारविभ्रम आकारान्यथात्वं मया न लक्षितः । 'अन्यथात्वेऽपि वित्रमः' इति धरणिः। अत्र राज्याभिषेक: सुखहेतु:, वनगमनं दुःखहेतुः, तयोः पितृभत्त्या तुल्यत्वेन स्तुतित्वम् । निन्दार्था यथा- 'यश् निम्बं परशुना यश्चैनं मधुसर्पिषा। यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः ॥ १२२ ॥' अत्र यः परशुना छिनत्ति, योडमुं मधुसर्पिषा सिश्चति, यो वा गन्धमाल्याभ्यामचति तं प्रति तुल्यमेव निम्बस्य कटुत्वमिति समा- सोक्त्या तदुपमेयस्य निन्दा प्रतीयते। यश्चेत्यादि। यो निम्बवृक्षं परशुना कुठारेण छिनति, यथैनं निम्बं मधु- सर्पिषा मधुसहितेन घृतेन सिश्ति, यथ्चैनं गन्धमाल्याभ्यामर्चति सर्वस्य कृते स निम्बः कटुरेव तिक्त एव। 'पुष्पपुष्पस्रजोर्माल्यम्' इत्यमरः । अत्र समासोक्त्या समसनेन । साम्यापादनेनेति यावत्। उपमेयनिन्दाज्ञानम् ॥। इति तुल्ययोगिता- लंकारनिरूपणम् । लेशालंकारनिरूपणम्। लेशलक्षणमाह- दोषस्य यो गुणीभावो दोपीभावो गुणस्य यः । स लेश: स्याचतो नान्या व्याजस्तुतिरपीष्यते ॥५६॥ दोषस्येति । दोषस्य गुणत्यम्, गुणस्य च दोषतवं यत्तदेव लेशलक्षणम् । तर्हिं व्याजस्तुतावप्येवम्। तथा चातिव्याप्तिः । अत उक्तम्-तत इति। ततो
Page 571
४७८ काव्यमाला ।
तत्र दोषस्य गुणीभावो लेशो यथा -- 'युवैष गुणवान्राजा योग्यसे पतिरूर्जितः । रणोत्सवे मनः सक्त यस्य कामोत्सवादपि ।। १२३ ।' अत्र येयमुत्तरार्धेन राजो वीर्यप्रकर्पस्य स्तुतिः सा कन्याया निर- न्तरान्भोगान् निर्विविक्षोर्दोषत्वेन प्रतिमासिष्यत इत्यभिप्रेत्य योऽयं विदग्घसख्या राजप्रकोपपरिजिहीर्षया दोषोऽपि गुणरूपेणोक्त; सोडयं दोषस्य गुणीभावो नाम लेशतोऽल्पतया शनैरनन्यविदित उच्यमानो लेश इत्युच्यते।। युवेत्यादि। खयंवरे कस्मिन्नपि नृपे द्शितभावां सखी निवर्तयितुं कापि स्तुतिव्याजात्तं निन्दति। युवत्वगुणित्वनृपत्वबलवत्त्वेम्य एष तव पतिर्योग्यः। यस्य कामोत्सवादपि विषयोत्सवमनादृल्य रणोत्सवे मनः सक्तमासक्म्। निर्विवि- क्षोरुपभोक्तुमिच्छो: कन्यायाः। 'निर्वेश उपभोगः स्यात्' इत्यमरः। अत्र विद- ग्धया सख्या राजकोपशान्तये भोगेच्छुं प्रति वीर्यप्रकर्षरूपस्तवस्य दोषत्वेऽपि गुण- त्वेनाल्पतयोपन्यसनाल्ेशोऽयं दोषस्य गुणीभावलक्षणः । अल्पतयैवात्र लेशता ॥। गुणस्य दोषीभावो यथा- 'चपलो निर्दयश्चासी जनः किं तेन मे सखि। आगःप्रमार्जनायैव चाटवो येन शिक्षिताः ॥ १२४॥' अत्र पूर्वार्धेन मानपरित्रहानुगुणं सखीनामग्रतः प्रकाशं प्रतिज्ञाय तदनिर्वाहमाशक्कमाना तदुपहासं परिजिहीर्षुर्दोषाभासं तह्रुणग्राममाह -आगःप्रमार्जनायैव चाटवो येन शिक्षिता इति; सोऽयं गुणस्य दोषी- भावो नाम लेशमेदो भवति। अन्ये पुनः समस्तमेव लेशलक्षणमाच- क्षते-यत्र दोषस्य गुणीभावो गुणस्य च दोषीभाव इति। सोऽपि द्विधा-समासोक्त्या, असमासोक्त्या च ।। चपल इति। हे सखि, चपलो निर्भयथासौ जनो भवतु तेन मम किम्। किंतु न किमपि। येन जनेनाग:प्रमार्जनायापराधप्रोञ्छनाय परं चाटवः प्रियवादा:
Page 572
४ परिच्छेद: ।] सरखतीकण्ठाभरणम् । ४७९
शिक्षिताः । 'आगोऽपराधो मन्तु' इत्यमरः । अन्र दोपवदाभासते प्रतिभातीति दोषाभासो न त्वयं परमार्थतो दोषः । चाटुकारिता हि गुणो येन कृतापराधोऽपि मामनुकूलयन्मानभ्अ करोति। अत एव च तन्रानुरागः । तथा च चपल इत्या- दिना सखीजनोहिटं मानं रागात्कर्तुमशकतया वालया चाटुकारिता दोषाभासो गुणः कोऽपि दर्शित इति गुणस्य दोषतात्र । गुणदोषयो मिलितयोरेव तत्त्वं लेश इति मतमाह-अन्ये इति। समासोकिगॉपनेन भणनम्, असमासो कि: स्फुटभणनम्। तयो: समासोक्त्या यथा- 'गुणानामेव दौरात्म्याद्धरि धुर्यो नियुज्यते। असंजातकिणस्कन्धः सुखं खपिति गौर्गलिः ॥ १२५॥ अयमपि प्रकोपभयाल्लेशेनैवोच्यत इति लेशः ॥ गुणानामित्यादि। गुणानां वहनक्षमत्वादीनां दौरात्म्याह्दोषाड्डुयों घुरंधरो गोरवृधो धुरि घुरायां नियुज्यते । गलि: पुनर्गोरसंजातोऽनुत्पन्नः किणो मृतशोणि- तमांसपिण्डो यत्रेदशः स्कन्धो यस्य स सुखं यथा स्यादेवं खपिति। धुरं वहतीति पुर्यः। 'धुरो यढ्टको ४।४।७७' इति यत्। 'किणः स्यान्मृतशोणिते' इति रनकोषः । 'गलिस्तु वहनाशक्ते' इत्यपि। अत्र रोषभयादेव समासेन गुणदोषयोरभिधानालेशः। असमासोक्त्या यथा- 'सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यब्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा। अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥१२६॥ अत्रापि प्रकोपभयादि पूर्ववत्। अथैष व्यस्तलक्षणत्वेन कसमान्न लेश इत्युच्यते । दोषगुणीभावस्याप्रस्तुतस्तुत्या गुणदोषीभावस्य तु व्याजस्तुत्यापहारात् ।। F- सन्त इत्यादि। सन्तः सदा दुःखं यथा स्यादेवं जीवन्ति। कीटशाः । सचरितस्य सव्यापारस्योदये व्यसनिन आसकाः । प्रादुर्भवन्त्याविर्भवन्ति यत्त्रणा अनापत्तयो येषां ते। सर्वत्र कार्ये जनानामपवादे दूषणोक्ती चकिताः सतर्काः। अत
Page 573
8८० काव्यमाला।
एव दुःखमयता । प्राकृतोऽविविक्तो जनो धन्योऽस्ति। कीटशः । अव्युत्पन्ना अवि- शेषवती मतिर्यस्य सः। न सता साधुना कृतेन कार्येण नेवासता असाधुना कार्येण व्याकुलः । साध्वसाधुकार्यरहित इत्वर्थः। अत एव इदं कृत्यमिदमकृत्वमिति विचार- शून्यहृदयक्ष। अत्रापि रोषभयादेव लेशतोऽभिधानम् । दोषगुणीभावो गुणदोषीभा- वथ व्यस्तोऽत कर्थ न लेश इति पृच्छति-अथेति। उत्तरम् । दोपेति। आय- स्याप्रस्तुतस्तुत्याम्, अन्त्यस्य व्याजस्तुत्यां विषयीकरणात्तयोरेवान्तर्भाव इत्यर्थः ॥ व्याजस्तुतिरपि द्विधा-शुद्धा मिश्रा च। तयो: शुद्धा यथा- 'पुंसः पुराणादाच्छिद्य श्रीसत्वया परिभुज्यते। राजन्निक्ष्वाकुवंश्यस्य किमिदं तव युज्यते॥ १२७ ॥' अत्र शुद्धपर दारापहरणलक्षणनिन्दाव्याजेन स्तुतेर्विहितत्वादियं शुद्धा- नाम व्याजस्तुतिर्गुणदोषीभावलक्षणाल्लेशान्न पृथक्। पुंस इत्यादि । पुराणात्पुंसः पुराणपुरुषाद्विष्णोः श्रीः कमला आच्छिय गृहीत्वा त्वया परिभुज्यते सेव्यते। हे राजन्, इक्वाकुर्नृपविशेषो वंश्यो यस्थ तस्य तवेदं कि युज्यते। किंतु नार्हतीति निन्दाभासः । अध च पुराणात्मुंसो वृद्धा- रपुरुषाच्छरी: संपदाच्छिय त्वया भुज्यत इति तात्पर्यार्थः । अत्र श्रीपदे व्याजः । स च शुद्ध एव। तेन च शुद्धिरिह।I लेशामेदमाह-गुणेति । मिश्रा यथा- 'प्रियोऽसि प्राज्ञोऽसि प्रभुरसि कुलीनोऽस्यसि युवा युवत्यस्त्वामेवं कति न पतिमुर्वीश वृणते। अतश्चैतां कीर्ति रघुनहुषमान्धातृमहिषीं पराम्रषुं वृद्धामधिगतनयो नार्हति भवान् ॥।१२८।।' अत्र स्तुतिपदमिश्रैव व्याजगर्हया स्तुतिरितीयं मिश्रानाम व्याज- स्तुतिर्लेशमेद: ॥ प्रिय इत्यादि। हे राजन्, प्रियः प्रीतोऽसि। प्राज्ञ उत्कृष्ठमतिरसि । ईश्- रोऽसि। शुद्धवंशोऽसि। तरुणोऽसि। एवं सति कियत्यस्तरुण्यरत्वां पति न वृणते न स्व्रीकुरवन्ति। अतो हेतोरेतां कीर्ति पराम्ष्ठमाकमितुं भवान्राईति। कीटशीम्। रधुनहुपमान्धातृणां नृपविशेषाणो महिषीं महादेवीमत एव बृद्धामतिवयस्का च।
Page 574
४ परिच्छेद: ॥] सरस्तीकण्ठाभरणम्। ४८१
'कृताभिषेका महिषी' इत्वमरः । अत्र महिषीवृद्धापद्योर्व्याजात् कपठाचिन्दास्तु- तिलेशत एव ।। इति लेशालंकारनिरूपणम् । सहोक्तयलंकारनिरूपणम्। सहोकतिलक्षणमाह- कर्त्रादीनां समावेशः सहान्यैर्यः क्रियादिपु। विविक्तश्ाविविक्त सहोक्ति: सा निगद्यते ॥ ५७॥ वैसादश्यवती चेयमुच्यमाना मनीपिभिः। सहेवादिप्रयोगेषु ससादृश्या च दृश्यते ॥ ५८॥ कर्त्रेति। कियादिषु कर्त्रादीनामन्यैः सह यः समावेशोऽवस्थानं सा सहोकि:। आदिपदात्कर्मादिपरिग्रहः । स समावेशो विविक्त: केवलः, अविविक्तो मिश्रः ॥ सा कर्तृविविक्तक्रियासमावेशे यथा- 'कोकिलालापमधुराः सुगन्धिवनवायवः । यान्ति साध जनानन्दैर्वृद्धिं सुरभिवासराः ।। १२९ ।।' अत्र सुरभिवासरा इति कर्तृपदार्थ: केवल एव जनानन्दैः सह वृद्धिप्राप्तिक्रियायां समाविष्ट इति सेयं विविक्तकर्तृक्ियासमावेशा नाम वैसादृश्यवती सहोक्ति: ॥ कोकिलेत्यादि। सुरभिवासरा वसन्तदिवसाः जनहषं: सह वृद्धिं यान्ति। कीदशाः । कोकिल्पलापो मधुरो मनोहरो येषु ते, सुगन्धयः शोभनगन्धवन्तो वनवायवो मलयानिला येथु ते। अत्र केवलस्य कर्तुर्वसन्तदिनस्य जनानन्दैः सह वृद्धिप्राप्तिक्रियासमावेशः ।स च विसदृश एव। दिनवदेदण्डाधिक्यरूपत्वात्, आनन्दबृदेर तिसुखरूपत्वात्। कर्मणो विविक्तक्रियासमावेशे यथा- - 'उज्झसि पिआइ समअं तह वि हु रे भणसि कीस किसिअं ति। उवरिभरेण अ अण्णुअ मुअइ वइलो वि अङ्काईं ॥ १३० ॥' [उस्मसे प्रियया समदं तथापि खलु रे भणसि किमिति कृशेति। उपरिभरेण च हे अज्ञ मुश्ति वृषभोऽप्यङ्गानि ॥ ] ३१ स० क०
Page 575
१८२ काव्यमाला ।
अत्र संबोध्यमानयुष्मदर्थः कर्मतामापन्न उह्यस इति कियायां केवल एव क्रियापदार्थेन सह समाविष्टः; सेयं विविक्तकर्मक्रियासमावेशा नाम वैसादृश्यवती सहोक्ति: ॥ उज्झसीत्यादि। "उत्यसे प्रियया समदं तथापि खलु रे भणसि किमिति कृशेति। उपरिभरेण च हे अज्ञ मुजति वृषभोऽप्यज्ञानि ॥।" अपराधवता केनचि- दबला दुर्बला किमिति त्वं कृशेति पृष्ठा। तमुद्दिश्याह-उह्यस इति। प्रियया समदं सगर्व यथा स्ादेवं त्वमुत्यसे त्रियसे । तथापि रे त्वं बदसि किमिति कृशासि त्वमिति। हे अज्ञ ज्ञानहीन, उपरिभरेण गोण्यादिगौरवेण वृषभोऽप्यज्ञानि मुनति वजति। कि पुनरबलेति भावः । उह्यस इति 'वह प्रापणे' कर्मणि लकारः। वड्लो वृपभः । रेशब्दः साक्षेपसंबोधने। अत्र वहनक्कियायां त्वमिति बोध्योऽर्थ: कर्मीभूतः केवल एव प्रियापदार्थेन सह समाश्टिष्ठस्तयोथ विसटशता व्यकैव।। विविकाया एव लक्षणान्तरमाह- यत्रानेकोऽपि कर्त्रादिः प्रविविक्तैः क्रियादिभिः । विविक्तभावं लभते विविक्ता सापि कथ्यते॥ ५९॥ यत्रेति। यत्रानेक: कर्त्रादिर्भिजे: कियादिभिभेंद लभते सा विविकेति कथ्यते॥ सा कर्तृद्वयस्य पृथक क्रियासमावेशे यथा- 'वर्घते सह पान्थानां मूर्च्छया चूतमञ्जरी। वहन्ति च समं तेषामश्रुमिर्मलयानिलाः ॥ १३१॥' अत्र चूतमज्जरी मूर्च्छया सह वर्धनक्रियायाम, मलयानिलाश्चा- श्रुमि: सह वहनक्रियायां पृथक पृथग्विवेकेनैव कर्तारः समाविष्टाः, सेयमपि विविक्तकर्तृक्रियासमावेशैव वैसादृश्यवती सहोक्तिः । एवं कर्मणोऽपि विवेके द्रष्टव्या।। वर्धत इत्यादि। चूतमज्जरी पान्थानां मूर्च्छया सह वर्धते, मलयानिलास्तेषां पान्थानामशुभिः सह वहन्ति वान्ति त्रश्यन्ति च। 'पथिकः पान्थ इत्यपि' इव्य- मरः । अत्र चूतमजजर्यादेस्तत्कियायां विवेकेनैव कर्तृत्वेन समावेशः । विसदृशता तु व्यकैव ॥।
Page 576
४ परिच्छेदः I] सरख्तीकण्ठाभरणम्। ४८३
कर्तृणामविविक्तक्रियासमावेशे यथा- 'धीरेण सेमं जामा हिअएण समं अणिट्ठिआ उवएसा। उच्छाहेण सह भुआ बाहेण समं गलन्ति से उल्लावा॥१३२' धैर्येण समं यामा हृदयेन सममनिष्ठिता उपदेशाः । उत्साहेन सह भुजौ वाष्पेण समं गलन्त्यस्या उछलापा: II] अत्र यामादीनां बहूनां धैर्यादिभि: सह गलनक्ियायामेकस्यामेवा- विविक्तः समावेशो दृश्यते; सेयमविविक्तकर्तृक्रियासमावेशा नाम वैसादृश्यवती सहोक्तिः॥ धीरेणेत्यादि। "धैर्येण समं यामा हृदयेन सममनिष्ठिता उपदेशाः । उत्साहेन सह भुजौ वाष्पेण सम गलन्त्स्या उलापाः ॥।" अस्य रामस्य धैर्येण समं यामा रात्रिप्रहरा गलन्ति। हृदयेन सममनिष्ठिता अनिर्व्यूडा अनिश्चिता वा उपदेशा गलन्ति। उत्साहेन सह भुजा बाहवो गलन्ति । वाष्पेण सममुख्पा आलापा वचनानि गलन्ति। धैर्यविगमानुचिते सदुपदेशावस्थितिः । ततो मनःशून्यता, तत उत्साहत्यागः, ततो भुजस्खलनम्, ततोऽश्रुणा सह वचनतेति क्रमेणाधिकार्तितो मन्मथद्शाधिक्यमुक्तम् । उत्साहोऽध्यवसायः । अत्र गलनक्रियाया एकत्वेनावि- विकता । वैसादश्यं च व्यक्तमेव ।। कर्मणामविविक्तक्रियासमावेशे इवशब्देन सहशब्दस्य सथाने ससा दश्या यथा- 'धीरं व जलसमूहं तिमिणिवहं विअ सपक्खपव्वअलोअम्। णइसोत्तेव तरन्ने रअणाइँ व गरुअगुणसआइँ वहन्तम्॥१३३॥' [धैर्यमिव जलसमूहं तिमिनिवहमिव सपक्षपर्वंतलोकम्। नदीस्रोतांसीव तरङ्गान रत्नानीव गुरुकगुणशतानि वहन्तम् ॥] अत्र धैर्येण सह जलसमूहस्, तिमिनिवहेन सपक्षपर्वतलोकस्य, नदीसोतोमिस्तरक्जाणाम्, र्ैश्च गुरुकगुणशतानां मिथः प्रतीयमानं सादृश्यमिवेन दयोत्यते। सहार्थश्र वाक्यार्थसामर्थ्येन लभ्यत इति सेयं १. 'गिसाआमा' इति सेतुबन्त्रे पाठ :.
Page 577
काव्यमाला
धैर्यादीनां बहूनां वहनक्रियायामेकस्यामेवाविवेकतः कर्मभूतानामावेशे- नाविविक्तकर्मक्रियासमावेशा नाम ससादृश्या सहोकिः॥ धीरं वेत्यादि। "धैर्यमिव जलसमूहं तिमिनिवहमिव सपक्षपर्वतलोकम्। नदीस्रोतांसीव तरज्ञान् रल्नानीव गुरुकगुणशतानि वहन्तम् ।।" इह समुद्रं कीटशम्। धैर्यमिव जलसमूहं वहन्तम्, तिमिनिवहमिव मत्स्यविशेषसमूहमिव सपक्षं पक्ष- युक्तम्, खपर्क्ष खमित्रं वा पर्वतलोकं मैनाकादिकं वहन्तम्, नदीप्रवाहानिव तर- ज्ञान् वहन्तम्, रत्षानीव गुरुकगुणशतानि महत्त्वादीनि वहन्तम्। 'अस्ति मत्स्य- स्तिमिर्नाम शतयोजनविस्तृतः ।' इति रामायणम्। 'समूहेऽपि मतो लोक:' इति रक्नकोषः । गुरुकेति खवार्थे कन। अत्र धेर्यजलसमूहादीनां मिथः साटइयं व्यक्तमेव प्रतीयमानमिवशब्देन ययोत्यते, साहित्यं च वाक्यार्थतया गम्यत इति सहोक्तिरियं सादश्यवती।। ग्रहणप्रयोजनमाह- आदिग्रहणाद्गुणसमावेशेऽपि गुणिनः ससादृश्या यथा- 'सह दीर्घा मम श्वासैरिमाः संप्रति रात्रयः । पाण्डुराश् ममैवाड्ैः सह ताश्चन्द्रभूषणाः ॥ १३४॥' अत्र रात्रयो दीर्घाः पाण्डुराश्चेति दैर्ष्यपाण्डरत्वगुणयोरविवेकेन रात्रिषु रात्रीणां च तयोः श्वासैरङ्नैश् सह समावेशो दृश्यते; सेयमवि- विक्तगुणसमावेशानामेवाद्यप्रयोगेऽपि ससादृश्या सहोक्तः । आदीति॥ सहेत्यादि। इमा रात्रयः संप्रति विरहावस्थायां मम सह दीर्घा:, ममैवाजैः सह चन्द्रभूषणाशन्द्रालंकारास्ता रात्रयः पाण्डराक्ष। चन्द्रभू- षणत्वं रात्रीणां पाण्डुरत्ये हेतुः । विरहृदशायां सेदानि:श्वासदीर्घता, अग्रपाण्डिमा, रात्रिदीर्यता व भवति। अत्र दीर्घत्वपाण्डत्वगुणयोः समावेशः सादृस्यगर्भ एवेति ससादृश्येयं सहोक्तिः ॥ इति सहोक्त्वलंकारनिरूपणम् ॥। समुच्चयालंकारनिरूपणम् । समुचयलक्षणमाह- द्रव्यक्रियागुणादीनां क्रियाद्रव्यगुणादिपु। निवेशनमनेकेषामेकतः स्यात्समुचयः ॥ ६० ॥
Page 578
8 परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। 8८५
इतरेतरयोगो यः समाहारो य उच्यते। अन्वाचय इहान्यो यः सोऽपि नान्य: समुचयात् ॥६१। द्विपदाश्रयव्चापि स स्यात्स स्याद्रहुपदाश्रयः । उभयाश्रयश्च स स्वात्स स्यादनुभयाश्रयः ॥६२।। त्रयः प्रतिपदं वा स्युर्धयोंतकैरुच्तरत्र वा । पदैः शुद्धाश्र मिश्राश्र तुरीयो द्योतकं बिना ॥ ६३॥ द्रव्येति। द्रव्यादीनामेकक्रियादिसमावेश: समुचयः। इतरेतरयोगादीनां समु- चयामेदमाह-इतरेति। इतरेतरयोगः परस्परापेक्षावयवमेदानुगतः समुचयः। समाहारस्तिरोहितावयवभेद: संहतिप्रधानः समुचय एव, अन्वाचयो यत्रैकं प्रधा- नमन्यदप्रधानमन्वीयते सः। समुचयं विभजते-द्विपदेति। उभयं द्विपद- बहुपदे। अनुभयमद्विपदबहुपदे। एषु मध्ये आद्यास्रयः प्रतिपदं बोत्तरत्र वा पदद्योतकै: सह संभवन्तील्याह-त्रय इति। त्रय एव शुद्धा मिश्राश्च भवन्ति। तुरीयोऽनुमयाश्रयः समुचयो द्योतकं चकारादिकं विनेव भवति।। तत्र द्विपदाश्रयः प्रतिपदाश्रितद्योतकत्वेन द्रव्ययोः क्रियासमुच्चयो यथा 'निर्यता परिजनेन बोधितः स्फूर्जमानरुचिरुल्लसद्दशः । द्वारसंवलनमांसलोऽघिकं दीपकश् मदनश्च दिद्युते ॥१३५॥' अत्र दीपकश् मदनश्रेति द्वे द्रव्ये प्रतिपदं चकारेणैकस्यां दिद्युते इति क्रियायां समुच्चयेन निवेशिते; तेन दिद्युताते इति द्विवचनम्, दीपकमदनाविति चार्थे द्वन्द्वश्च न भवति ॥ निर्यतेत्यादि। दीपकः प्रशस्तदीपक्ष मदन: कामक्चाधिक दिद्युते दीस्तो बभूव। कीटशः । निर्यता गच्छता सेवकेन सर्यादिना च बोधितः प्रकाशितो जागरितथ। स्फूर्जमाना स्फुरन्ती रुचिर्दीपिरनुरागश्च यस्प सः। उछसन्ती दशा बर्तिरवस्था च यस्य सः। द्वारे गृहद्वारे मदनबोधकभावे च संवलन मिलनं तेन मांसलः स्फीतः । दीपक इति प्रशंसायां कन्। दिदयुत इति 'युत बीसी' इत्यस्य लिटि रूपम्।
Page 579
काव्यमाला। 328
अत्र चकाराभ्यां दव्ययोरेकक्रियानिवेशनात्समुचयः । यदि समुचयेन निवेशनं न स्यात्तदा दोषमाह-तेनेति। अन्योन्यनिरपेक्षतया द्विवचनं दवन्दवश्ष स्यादित्यर्थः ॥ द्विपदाश्रय एवोत्तरपदाश्रितद्योतकेन क्र्कििययोर्द्रव्यसमुचचयो यथा- 'निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी। I FF I अवस्थामापन्ना मदनदहनोद्दाहविधुरा- मियं नः कल्याणी रमयति मनः कम्पयति च १३६' अत्र रमयति कम्पयति चेति द्वे किये उत्तरपदवर्तिना चकारेणैक- सििन्मनोलक्षणे द्रव्ये कर्मणि समुच्चयेनैककालमेव निवेशिते; तेनाय- मन्वाचयो न भवति ।। निकाममित्यादि। इयं मालती नोऽस्माकं मनो रमयति कम्पयति च। कीटशी। मदन एव दहनोऽ्मिस्तस्मादुद्दाह: प्रकृष्टदाहस्तेन विधुरा विह्लामवस्थां दशामापन्ना प्राप्ता । अत एव निकाममत्यर्थ क्षीणाज्नी। सरसो यः कदल्या गर्भो मज्चा तद्वत्सुभगा मनोहरा। अनेन पाण्डुरता तीक्णता चोका। चन्द्रस्य कलाशेषा कलनामात्रावस्धिता मूर्तिरिव नेत्रानन्दजनिका कल्याणी कुशलवती। कदल्या गर्भ- पदेनातिपाण्डुरत्वकोमलत्वे ध्वनिते । प्रकृतकार्यसंपादकतया रमयति। अतिपीड- यारिथ्यशद्वित्वान्मनःकम्पनमिहेत्याशयः। अत्र कम्पयति चेत्युत्तरपदस्थेन चकारे- णैकत्र मनोलक्षणे द्रव्ये क्रियाद्वयनिवेशनात्समुचयः । समुचयेन निवेशनाभावे दोषमाह-तेनेति। परस्परनैरपेक्ष्ये उत्तरपदस्थचकारेणान्वाचयापत्तिरित्यर्थः ॥ बहुपदाश्रयः प्रतिपदाश्चितद्योतकत्वेन गुणानां क्रियासमुचयो यथा- 'अप्राकृतस्तु कथमस्तु न विस्मयाय यस्मिन्नवास करुणा च कृतज्ञता च। लक्ष्मीश्र सात्त्विकगुणज्वलितं च तेजो धर्मश्च मानविजयौ च पराक्रमश्र॥ १३७ ॥' अत्र करुणा च कतज्ञता चेत्यादयो गुणाः प्रत्येकं बहुपदाश्रयत्वेन
Page 580
४ परिच्छेदः ।] सरस्तीकण्ठाभरणम्। ४८७
चाकरेणैकस्यामुवासेति क्रियायां समुचयेन निवेश्यन्ते। तेन गुणेषु बहुवचनं न भवति, करुणाकृतज्ञतादीनां द्वन्द्वसमासध्च न भवति यसि- न्नित्यपेक्षायां चायमेव गुणानां द्रव्यसमुचयो भवति ॥ अप्राकृत इत्यादि। स नुपतिर्विस्मयाय कर्थ नास्तु। कीदृशः । अप्राकृतो- नीचः । महाजन इति यावत्। 'नीचः प्राकृतश् पृथग्जनः' इत्यमरः । यस्मिन् करुणा दया, कृतज्ञता विज्ञता, लक्ष्मीः संपत्तिः, सात्त्विकगुणेन जाज्वल्यमानं तेजय, धर्मः सुकृतं, मानो विनयः, पराक्रमश्चोवास वसति स्म । इह कारुणिकस्य करुणामा- त्रप्रवृत्त्या कृतज्ञतायाः साहजिकोऽभाव इति। तथा चास्मित्ुभयमिति महाजनतास्य सूचिता। तथाप्यलक्ष्मीकस्य न किमपि श्ाघाविषय इति सलक्ष्मीकतोकता। तथापि निःसात्विकस्य कुतो महाजनत्वमतः सात्त्विकगुणाधिक्यमुक्तम्। निष्प्रतापस्य सर्वमुक्त लक्षणमशोभाकरमेव भवतीति तेजस आधिक्यमुक्तम्। भवतु यथोक- गुणसंपत्तिः, अधार्मिके सर्वे गुणा विगुणायन्ते। तदर्थमाह-धर्मश्ेति। मान- विनयपराकमा: प्रत्येकं महापुरुषे विशेषगुणा इति तेऽप्युक्ता इति। अत्रानेकपदा- धितचकारेरेकक्रियायां नानागुणाः समुचयेन निवेशिता इति समुचयता॥ तदभावे दोषमाह-तेनेति। असमुचयनिवेशे करुणादय ऊघुरिति स्यादित्यर्थः । यस्मि- च्विति। यदि यस्मिन्नित्यैकद्रव्ये गुणसमुच्चयविवक्षात्र तदा सोऽपि भवतील्र्थः॥ बहुपदाश्रय एवोत्तरपदाश्रितद्योतकत्वेन गुणानां क्रियासमुच्चयो यथा- 'रूपमप्रतिविधानमनोजं प्रेम कार्यमनपेक्ष्य विकाशि। चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमद्रमणेषु ॥१३८॥ अत्र रूपं प्रेम चाटु चेति बहवो गुणा उत्तरपदाश्रयेण चकारेणागम- दित्येकस्यां क्रियायां समुच्चयेन निवेश्यन्ते, तेनागमन्निति बहुवचनं द्वन्द्ो वा न स्यात्। कार्मणत्वमित्यपेक्षायां चायमेव गुणानां जाति- समुच्चयो भवति॥ रूपमित्यादि। आसा स्रीणां रमणेषु विषये इदमिदं कार्मणत बशी- करणे मूलकमत्वमगमत् ययौ। अप्रतिविधानेनानिर्बन्धेन । सहजेनेति यावत्। मनोज्रूपं कार्यमनपेक्ष्य विकाशि सहजप्रकाशवतग्रेम, अकृतकः खाभाविकः संत्रम
Page 581
8८८ काव्यमाला।
आदरो यत्रेदशं चाट कौशलं च। 'मूलकर्म तु कार्मणम्' इत्यमरः। अत्र रूपा- दयो गुणा अन्त्यपदस्थितचकारेण गमनरूपक्तियायां समुचयेन निवेशिता इति समुचयः । तदभावे दोषमाह-अगमन्निति । असमुचये बहुवचनं द्वन्द्वथ स्यादित्यर्थः । इदमेव गुणानां कार्मणत्वम्। जाल्या समुचयेन जातिसमुचयोऽपी- त्याह-कार्मणत्वमिति ॥ उभयपदाश्रय उत्तरपदाश्रितद्योतकत्वेन द्रव्यगुणानां क्रियासमुचयो यथा- 'विचिन्त्यमानं मनसापि देहिनामिदं हि लोकेषु चकास्ति दुर्लभम् । निशा सचन्द्रा मदिरा च सोत्पला प्रियानुरागोऽभिनवं च यौवनम्।' अत्र निशा मदिरा च द्रव्ये, अनुरागो यौवनं च गुणौ, बहुष्वपि पदेषु द्वन्द्े सत्यपि उत्तरपदाश्रयनिवेशिना चकारेण चकास्तीत्येकस्यां क्रियायां निवेश्यन्ते; तेन चकासतीति बहुवचनं समासश्च न स्यात्। अयमेव च दुर्लभमित्यपेक्षायां द्रव्यगुणानां गुणसमुच्यो भवति। तेऽमी त्रयोऽपि शुद्धाः ।। विचिन्त्येत्यादि। इदं लोकेषु भुवनेषु मध्ये देहिनां प्राणिनां विचिन्तमानं मनसापि दुर्लभमेव चकारिति। हिरवधारणे। कि तत्। सचन्द्रा रात्रिः, सकमलं मद्यम्, प्रियाया अनुरागः प्रीतिः, अभिनवं यौवनं च। अत्र द्वन्दवशो युगलतवेना- न्त्यपदस्थितचकारेणैकक्रियानिवेश: । तदभावे दोषमाह-तेनेति। दुर्लभत्ववि- वक्षया दुःखमयत्वे गुणसमुचयोऽपील्याह-अयमिति। मिश्रः पुनरुमयपदाश्रयवद्दहुपदाश्रयश्च भवति। यथा- 'आदित्यचन्द्रावनिलोऽनलश्र चौर्भूमिरापो हृदयं यमश्च। अह्श्च रात्रिश्च उमे च संध्ये धर्मश्र जानाति नरस्य वृत्तम् १४०' अत्रादित्यचन्द्रादयो द्रव्यविशेषा उत्तरपदनिवेशिना प्रतिपदनिवे- शिना च चकारेण जानातीत्येकस्यां क्रियायां संनिवेश्यन्ते। तेन च बहुवचनाभावे समासाभावे चैष मिश्रः समुचयमेदो भवति॥
Page 582
४ परिच्छेद: I] सरखतीकण्ठाभरणम्। ४८९
आदित्येत्यादि। अनिलो वायुः, अनल्ोडमि:, धौराकाशः, आपो जलम्, हृदयम्, यमः, अहो दिनम्, उमे प्रातःसायम, धर्मो विधाता चायं जनस्य वृत्तं चरित्रं जानाति। आदित्यचन्द्री जानीत इति विभक्तिविपरिणामेनान्वयः । 'धर्मो गुणादी लोकेशे' इति रत्नकोषः । अत्रादित्यादय उत्तरपद् प्रतिपदनिवेशितचकारेण- कक्ियार्या निवेशिता इति मिश्रता। तदभावे दोषमाह-तेनेति। अनुभयाश्रयस्तु समुचयोऽन्वाचयश्च न भवति। द्वयोरपि दीपकेन विषयापहारात् । तेनेतरेतरयोगसमाहारयोः स उदाहियते तत्रेतरेतर- योगो यथा- 'सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु। गन्तुमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥१४१॥' अत्रोक्तम्, उपेक्षा, उत्थितमित्येते क्रियाद्रव्यविशेषा इतरेतरयो- गेन मदविलासद्योतनक्रियायां निवेश्यन्ते; तेन द्योतयन्तीति बहुवचनं द्वन्द्वसमासश्र तद्विवक्षारयां स्यात्। न चेह द्योतकश्चकार उत्तरपदे प्रति- पदं वा विद्यत इति सोऽयमनुभयाश्रयः समुच्चयमेदः ॥ अनुभयेति। यत्र द्विपदे बहुपदे वा चकारो नास्ति समुचयोऽन्वाचयोऽपिन भवति। दीपकलक्षणेन तस्य विषयीकरणादेकत्रवर्तिना करियादिवाचकपदेन सर्ववाक्यो- पकारकत्वस्य दीपकत्वात्, ताटशसमुचयान्वाचययोथ तत्सत्त्वादित्याशयः ॥ साव- शेषेत्यादि। आसां स्त्रीणामेतानि मदविभ्रमं मत्तताषिलासं द्योतयन्ति स्म। तान्याह -सहावशेपैरवशिष्टभागैवर्तते सावशेषं सखण्डं पद यत्रेदृशमुक्तं वचनम्। खण्डाक्ष- रवचनमित्यर्थः । स्रस्तानि स्खलितानि यानि मालावस्त्रालंकरणानि तेषूपेक्षा असंवर- णम्। अकारणतो हेतुं विनैव गन्तुं गमनं कर्तुमुत्थितमुत्थानं च। उक्तमिति भावे कः। उत्थितमित्यपि भावे कः। अकारणत इति पथम्यास्तसिः। अत्रोक्ादेवच- नादिरूपक्रियात्मकस्य तदाश्रयस्य द्रव्यस्य मिथो योगेन प्रधानक्रियायां निवेशः। अत एव द्योतयन्तीति बहुवचनम् । समुचयस्वीकारे दोषमाह-द्वन्द्वेति॥ समाहारो यथा- 'वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्दालमृगाक्षि मृग्यते तदस्ति कि व्यस्तमपि त्रिलोचने १४२'
Page 583
४९० काव्यमाला। अत्र 'यद्वरेषु मृग्यते तत्कि त्रिलोचने व्यस्तमप्यसिति' इति श्रुवन् वपुर्वयोवसूनां समुदायं समस्तमेवाभिसंघत्ते । तस्य चाविर्भूतावयवमे- दत्वेनेतरेतरयोग:, तिरोहितावयवभेदत्वेन समाहारः । स इह यदि- त्येकवचनान्तेन नपुंसकेन च कथ्यते। न चेह कचिदपि चकारोS- स्तीति सोडयमप्यनुभयाश्रयः समुचयमेद: ॥ वपुरित्यादि। हे वालमृगाक्षि शिशुहरिणनेत्रे गौरि, वरेषु यन्मृग्यतेऽन्वि- व्यते तत्रिलोचने शिवे व्यस्तमप्येकैकमप्यस्ति किम्। किंतु नास्लेव । तदाह- वपुः शरीरं विरूपमक्षि यत्र तादशं विरूपं विरुद्धस्वरूपम्। नेत्रे द्वित्वसंबन्धस्या- विरुद्धत्वात्, त्रित्वस्य विरुद्धत्वात् । अलक्ष्यमलक्षणीयं जन्म उत्पत्तिः कुलमिति यावत्। यस्य सोऽलक््यजन्मा तस्य भावोऽलक्ष्यजन्मता। अकुलीनतेत्यर्थः। दिश एवाम्बर यस्य तद्भावेन वसु धनं निवेदितं कथितम् । 'नमोऽवासा दिगम्बर:' इत्यमरः । सृग्यत इति मृग अन्वेषणे कर्मणि लकारः । अत्र वपुरादिसमुचचये यदा स्फुटावयवभेदतां तदेतरेतरयोगः । यदा तु तिरोहितावयवमेदता तदा समाहारः। यदित्येकत्वक्लीवत्वाभ्यामिह समाहार एवोक:। चकारयोगेऽपीतरेतरयोगमाह- न चेति। चयोगे 5पीतरे तरयोगः । स उत्तरपदयोगेSपि यथा- 'तत्क्षणं विपरिवर्तितहियोर्नेष्यतोः शयनमिद्धरागयोः । सा बभूव वशवर्तिनी द्वयो: शूलिनः सुवदना मदस्य च ।१४३।' अत्र शूलिनो मदस्य चेत्युत्तरपदाश्रयेण चकारेण द्वो द्रव्यविशेषौ 'वशवर्तिनी' इत्येतस्मिन् गुणपदे यदीतरेतरयोगेन संनिवेश्येते तदा 'विपरिवर्तितहियोः' इत्यादिषु 'द्योः' इतिपर्यन्तेषु द्विवचनमेकशेषो वा न स्यात्। सोडयमपि द्विपदाश्रय उत्तरपदाश्रितद्योतकश्च समुचयमेद:॥ तत्क्षणमित्यादि। सा सुवदना गौरी शूलिनो हरस्य मदस्य मत्ततायाथ द्वयोवशवर्तिनी आयत्ता बभूव । दयोः कीटशयोः । तत्कालं विपरिवर्तिता विगता हीर्लजा ययोस्तयोः । इद् उपचितो रागो ययोखयोः । अत एव शयनं नेष्यतोः शाय्यां नेच्छतोः । अत्र शुलिमद्योवशवर्तित्व इतरेतरयोगेन संनिवेशे दोषमाह-
Page 584
४ परिच्छेद: 1] सरखतीकण्ठाभरणम्। ४९१
तदेति । बहुपदाश्रय उत्तरपदाश्रितचकारेणेतरेतरयोगो भवतील्याह-एव- मिति। समाहारमिति। विचिन्त्यमानमिति शोके इदमिलेकत्वक्लीबत्वाभ्यां समाहार उक्त इत्यर्थः । द्रव्यादिविषयत्वे इतरेतरयोगसमाद्दारयोः सत्त्वादन्वाचये विषयान्तरमाह-क्रियेति॥ एवमपरेऽपीतरेतरयोगेऽपि चयोगा उदाहार्याः । समाहारस्तु चयो- गविषयो विचिन्त्यमानमित्यादिनैवोक्तः, अन्वाचयस्तु क्रियाविषय एवोपपद्यते। तत्र चोत्तरपदाश्रय एव चकारो भवति॥ यथा- 'गच्छन्तीनां रमणवसर्ति योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिमेद्यैस्तमोभिः । सौदामिन्या कनकनिकषस्तिग्घया दर्शयोवी तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्कवास्ताः ।।१४४' अत्र पूर्व 'दर्शय' इत्युर्वीकर्मविषयत्वेन क्रियामुपन्यस्य 'तोयोत्स- र्गस्तनितमुखरो मा च भूः' इति तत्कर्तर्येव धर्मिण्यकर्मकं क्र्कियान्तरम- न्वाचीयते, सोऽयं भिन्नकालत्वभिन्नविषयत्वाभ्यामन्वाचयः समुच्चया- द्विन्नो भवति॥ नन्वेवं यदि समुचयेऽपि भिन्नविषये किये तुल्यकालमेव प्रयु- ज्येते; को दोष: स्यात्। न कश्चित् । किंतु तस्य समुच्चयमुद्रया वि- षयोऽपहृत इति नोदाहियते॥ गच्छन्तीनामिति। तत्र स्त्रीणां सौदामिन्या विद्युता त्वमुवी भूमि दर्शय। कीदशीनाम्। नक रात्रौ पतिगृहं गच्छतीनाम्। कस्मिन् सति। सूच्यग्रमेदनीयै- रन्धकारै राजमागेऽवरुद्धदर्शने सति। सौदामिन्या कीश्या। कनकस्य हिरण्यस्य निकष: कपपट्टिकायां कपणरेखा तद्वत्स्िग्धया रम्यया तोयत्यागस्तनितमुखस्त्वं मा भू: मा भव। यतस्ता अनाथा विक्लवा विडला: स्युः। 'निकपः कपरेखायां पटटिकायां कषस्य च' इति मेदिनीकारः। 'स्नितं घनगर्जितम्' इत्यमरः । माभूरित्यत्र 'न माडयोगे ६।४।७४' इल्यडूनिषेधः । अत्राद्यकियामुक्त्वा द्विती- यक्ियाया अन्वाचयः । समुचयाद्वेदमाह-भिन्नेति । समुचये एककालिक
Page 585
8९२ काव्यमाला।
एकविषयेऽन्वयः, अत्रत्वन्यये कालमेदो विषयमेदथ्ेति भेदादित्र्थः। उक्तवैध- र्म्ययो: समुचये सत्त्वमाशक्का परिहरति-किंत्विति। समुचये उभयधर्मवत्वेऽपि समुचयत्वेनैव विषयपरिहारः, इह तु विवक्षयैव विनिगमनेत्याशयः ॥ समासेSपीतरेतरयोगादनुभयाश्रयः समुच्चयमेदो यथा- 'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ १४५ ॥ अत्र 'वागर्थाविव' इति परवल्लिक्नता 'संपृक्तौ पितरौ' इत्यत्र योऽयं 'पुमान् स््रिया १।२।६७', 'पिता मात्रा १।२।७०' इति चैक- शेषस्तेनैष विशेषलक्षणयोगाद्वकोक्तित्वे सत्यलंकारतां लमत इति; न घवखदिरादिष्वतिप्रसज्ञ इत्ययमपि समुचयमेद: ॥ वागर्थावित्यादि। अहं गौरीहरी वन्दे नमामि। किमर्थम्। वाक् चार्थथ तयो: प्रतिपत्तये निश्चयाय। कीदशौ। वागर्थाविव शब्दतदभिधेयाविव संपृक्ती संबद्धौ। यथा शब्दसद्वाच्योऽर्थंथ्र ह्वी नित्यसंबद्धी वाच्यवाचकत्वसंबन्धेन तथा यौ नित्यसंबद्धावित्यर्थः । जगतो लोकस्य पितरी मातृजनकौ । पिता च माता चेति दवन्दे 'पिता मात्रा १।२।७०' इत्येकशेषे पितराविति। पार्वत्या मातृत्वेन मातु श्वातिगौरवेणाभ्यर्हित त्वात्पूर्वनिपातः। 'सहस्रेण पितुर्माता गौरवेणातिरिच्यते।' इति स्मृतिः । अनेनार्धनारीश्वर उक्तः । यद्वा पार्वतीं पातीति पार्वतीपो हरः, रमाया लक्ष्म्या ईश्वरो हरिस्ती बन्दे। यद्वा पार्वतीपरो हरो माया लक्ष्म्या ई्वरो हरिस्ती हरहरी बन्दे। कीटशी। लोकस्य पितरौ जनकी। अन्यत्तुल्यमेव। एतेन हरिहररूपमुक्तमिति कुव्यार्या। 'रमा लक्ष्म्यामपीष्यते' इति विश्वः। 'मा च लक्ष्मीर्निगयते' इल्येकाक्षरः । परवलिित्वता अर्थशब्दलिव्ता। संपृक्ता च संपृ- कश्रेत्वत्र 'पुमान् स्रििया १।२।६७ इत्येकशेषः । अतएवोक्तेर्वकतयेहालंकारता। न च धवसत्रदिरावित्यादियु वकोकिरतो नालंकारता ।। समाहारयोगादपि यथा- स्त्रीणां हावैः कृते यत्र निजकायें मनोभुवा। अक्षिभ्रुवनिमं न्यस्तं तन्मुखे शरकार्मुकम् ॥ १४६ ॥'
Page 586
४ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ४९३
अन्रापि योऽयं 'अक्षिभ्रुवम्', 'शरकार्मुकम्', इत्येतयोः 'द्वन्द्वश्व प्राणितूर्यसेनाज्जानाम् २।४।२' इति, 'वाब्मनसाक्षिभुव-५/४।७७' इति च विशेषलक्षणयोगसेन धवखदिरपलाशमित्येवमादिषु नातिप्रसओ्जो भवति।। स्त्रीणामित्यादि। यत्र नगरे मनोभुवा कामेन तन्मुखे स्त्रीणां मुखेSक्षित्रव निभ नेत्रभ्व्याजं शरकार्मुकं न्यस्तमारोपितम्। त्त्रीणां हावैः यप्ारजक्रिकियामि्नि- जकायें मनथ्वापलादी कृते सति । 'हावाः कियाः शुहारभावजा:' इल्यमरः । अत्रापि विशेषलक्षणाभ्यामेव वक्रोफिता ॥। इति समुचयालंकारनिरूपणम् ।। आक्षेपालंकारनिरूपणम्। आक्षेपं लक्षयति- विधिनाथ निषेधेन प्रतिपेधोक्तिरत्र या। शुद्धा मिश्रा च साक्षेपो रोधो नाक्षेपतः पृथक् ॥६४॥ विधिनेति। विधिना हेतुना प्रतिषेधेन वा हेतुना या प्रतिषेधस्योतिर्निरवेचनं सा आक्षेपः । रोघ: पुनराक्षेप एवेलयाह-रोध इति। आक्षेपलक्षणेनैव गृही- तत्वादोधो न ततो मिन्न इत्यर्थ: ॥ तत्र विध्याक्षेपः शुद्धो यथा- गच्छ गच्छसि चेत्कान्त पन्धानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥। १४७ ।' अत्र 'गच्छ' इत्यस्य विधिवाक्यस्य 'ममापि जन्म तत्रैव भूयात्' इत्याशिषानुकूलतयैव मरणसूचनान्निषेध: क्रियत इति शुद्धोऽयं वि- ध्याक्षेपः ।। गच्छेत्यादि। इह हे कान्त वहभ, चयदि गच्छति तदा गच्छ । विदेश- मिति शेष: । मया न रोधः करियते। किंतु भवान्यत्र गतो भूयात्तत्रैव ममापि जन्म भूयादिति। परं वदामीति शेषः । अत्र गमनस्य विधिरूपस्य जन्म भूया- दित्यनेन विधिरूपेणैव त्वयि गते मया मर्तव्यमिति मरणसूचनाद्विधिना गमनप्रति- बेधोकि: अन्यासंकरेण च शुद्धता ।।
Page 587
1 काव्यमाला।
मिश्रो यथा- 'अलं विवादेन यथा श्रुतं त्वया तथाविधस्तावदशेषमस्तु सः। ममात्र भावैकरस मनः स्थितं न कामवृत्तिर्वचनीयसीक्षते १४८' अत्र 'अलं विवादेन' इति निषेधेन, 'तथाविधः सोऽस्तु- इति विधिना च तन्मतमवस्थाप्य, 'ममात्र भावैकरस मनः स्थितम्' इति विधिना, 'न कामवृत्तिर्वचनीयमीक्षते' इति प्रतिषेधेन च यत्पुनराक्षि- पति; सोऽयं विधिनिषेधाम्यां विधिमिश्र आक्षेपो भवति ।। अलमित्यादि। त्वया यथा श्रुतं तत्र विवादेनालं निष्फलम्। अशेषं समग्रं यथा स्यादेवं स तावत्तथाविध एवास्तु । मम मनोऽन् भावैकरसमभिप्रायवश स्थितमस्ति। यद्यपि भवे विरूपाक्षत्वादिकं त्वदुक्तं वर्तते, तथापि मन्मनस्तदेक- परमित्यर्थः । अत्र हेतुः कामवृत्तिरिच्छाव्यापारो वचनीयं वक्तव्यं नेक्षते न पश्यति। इच्छा न परार्थयोज्या भवतीत्यर्थः । अत्र निषेधविधिभ्यां तन्मतस्थापनरूपस्य विधेर्विधिनिषेधाभ्यामाक्षेप इति विध्याक्षेपोऽयं मिश्र: ॥ निषेधाक्षेप: शुद्धो यथा- 'कुतः कुवलयं कर्णे करोषि कलभाषिणि। किमपाङ्कमपर्याप्तमस्मिन्कर्मणि मन्यसे ॥ १४९ ॥ अत्र 'कुतः कुवलयं कर्णे करोषि' इत्यस्य निषेधवाक्यस्य 'किम- पाङ्म्- इत्यादिना प्रश्नपरेणापि निषेधपर्यवसायिना वाक्येन समर्थनं कियत इत्ययं शुद्धो निषेधाक्षेपः ॥ कुत इत्यादि। हे कलभाषिणि मधुरवचने, कस्मानीलोत्पलं कर्णे करोपि। कुत इति प्रतिषेधे हेतुमाह-अस्मिन् कर्मणि कामिवशीकरणादी किमपार्ज नेत्र- प्रान्तमपर्याप्तमसमर्थ त्वं मन्यसे। अत्र निषेधस्य निषेधपर्यवसायिवाक्येन क्षेप- णानिषेधाक्षेप:। शुद्धता च कैवल्येन।। १. 'कामावृत्ति: सवेच्छाव्यवहारी वचनीयमखथानसक्कापवार्द नेक्षते न विचारयति। नहि सेच्छाचारिणो लोकापवादाद्विम्यतीति भावः।2 इति महिनाथम्यास्यानमेवात साधीय :.
Page 588
४ परिच्छेद: I] सरखतीकण्ठाभरणम्। ४९५
मिश्रो यथा- का 'सच गुरुओ गिरिणो को भणइ जलासआ ण गम्मीरा। धीरेहिं उबम माउं तह वि खु मह णत्थि उच्छाहो ॥ १५० ॥' [सत्यं गुरवो गिरयः को भणति जलाशया न गम्मीराः । धीरैरुपमातुं तथापि खलु मम नास्त्युत्साहः ॥] अत्र 'सत्यं गुरवो गिरयः' इति विधिः, 'क आह जलाशया न गम्भीराः' इति परमताक्षेपसताम्यां गिरीणां गुरुत्वम सागराणां च गा- म्मीर्य यदयमुत्तरार्धेन धीरापेक्षया निषेधति, अन्यापेक्षया तत्तदेव वि- धत्ते; स एष मिश्रो निषेघाक्षेपः ॥ सच्चमित्यादि। 'सत्यं गुरवो गिरयः को भणति जलाशया न गम्मीराः । धीररुपमातुं तथापि मम नास्त्युत्साह: II' इह पर्वता निश्चितं गुरुत्वाश्रयाः । को वदति जलाशयाः सागरा न गम्भीरा: किंतु गम्भीरा एव । गिरिसागरी धीरै: सहोपमातुं सदृशीकर्तु तथापि मम नोत्साहोऽस्ति धीराणां तयोराधिक्यात्। 'जला- शयो जलाधार:' इति कोषादद्यपि जलाशयपदं जलाधारमात्रार्थकं तथाप्यतिगा- म्मीर्ययोग्यतया सागरपरम्। अत्र विधिनिषेधाभ्यां गुरुत्वगाम्मीर्यनिषेधोऽन्या- पेक्षया विधिश्वेति मिश्रता।। 'रोधो नाक्षेपतः पृथक्' इति यदुक्तं तत्रैतावान्विशेष :- क्रियासूत्तिष्ठमानस्य वारणं कारणेन यत् । उक्त्या युक्त्या च रोधो य आक्षेपः सोऽयमुच्यते।६५॥ प्रतिकूलोऽनुकूलथ विधौ रोधोऽभिधीयते। निषेधेऽप्युक्तियुक्तिम्यां द्विप्रकारः स कथ्यते ॥६६ ॥ रोधे विशेषमाह-क्रियास्विति। क्रियास्योगिनां हेतुद्वारा यननिवारणमुक्या युक्या च स रोधः । स च शेषीभूत आक्षेप एव। विधिनिषेधयोगित्वमथाक्षेप- साधारण्यम् ॥ ६५॥६६॥
Page 589
४९६ 1. काव्यमाला।
तत्रोक्त्या विधौ प्रतिकूलो यथा- 'किं जम्पिएण दहमुह जम्पिअसरिसं अणिबहन्तस्स भरम्। एत्तिअ जम्पिअसारं णिहणं अण्णे वि वज्जघारासु वआ ॥१५१' [किं जल्पितेन दशमुख जल्पितसदशमनिर्वाह्यतो भरम्। एतावद जल्पितसारं निधनमन्येऽपि वज्रधारासु गताः ॥] अत्र 'किमः' प्रतिकूलवाचित्वाद् वचनवृत्त्यैव जल्पन् दशाननश्चि- त्ररथेन रुद्धः, कारणं च वज्रप्रभावकीर्तनादिति प्रातिकूल्येनोपन्यस्तम्; सोऽयमौक्तः प्रतिकूलश्र विध्याक्षेपो रोध इत्युच्यते॥ किमित्यादि। "कि जल्पितेन दशमुख जल्पितसदृशमनिर्वाहयतो भरम्। एताबद् जल्पितसारं निधनमन्येऽपि वज्रधारासु गताः ॥।" इह हे दशमुख रावण, जल्पितेन भाषितेन किम्। किंतु न किमपि। कस्य, उक्तिसदशं भरमनिर्वाहयतः पुंसः । भरमध्यवसायम् । एतावदेतदेव जल्पितसारं श्रेष्ठम् यदन्येऽपि योधा वज्र- धारासु निधनं नाश गताः । 'श्रेष्ठेऽर्थवत्सारमुदाहरन्ति' इति शाश्वतः । अत्र जल्पन् रावणथ्चित्ररथेन वञ्रप्रभावकीर्तनरूपप्रतिकूलोक्त्या रुद् इति विध्याक्षेपविरोधः ॥ उत्तयैव विधावनुकूलो यथा- 'हन्तुं विममामाणो हन्तुं तुरिअस्स अप्पणा दहवअणम्। किं इच्छसि काउं जे पवअवइ पिअं ति विप्पिअं रहवइणो १५२' [हन्तुं विमार्गमाणों हन्तुं त्वरितसात्मना दशवदनम्। किमिच्छसि कर्तु यत्पवगपते प्रियमिति विप्रियं रघुपतेः ॥] अत्रापि 'किमः' प्रतिषेधवाचित्वात् वचनवृत्त्यैव दशाननवधायोत्ति- छमान: सुग्रीवो जाम्बवता रुद्धः, कारणं पुनरानुकूल्येनैवोक्तम्-'कि- मेतत् त्वया रघुपतेः प्रियरूपं विप्रियमुपकान्तम्' इति। सोडयमौक्तो- डनुकूलश्र विध्याक्षेपो रोध इत्युच्यते ।। हन्तुमित्यादि। "इन्तुं विमार्गमाणो हन्तुं त्वरितस्यात्मना दशवदनम्। किमिच्छसि कर्तु शवगपतेऽस्य प्रियमिति विप्रियं रघुपतेः ॥" इद हे छवगपते सु- श्रीव, दशवदनं हन्तुं विमार्गमाणो याचमानस्त्वं रघुपते रामस्य कि प्रियमिति कृत्वा
Page 590
8 परिच्छेद: ।] सरस्वतीकण्ठाभरणम् । ४९७
विप्रियमनिष्टं कर्तुमिच्छसि। कथ विप्रियता तत्राह-कीदशस्य। दशवदन- मेवात्मना हन्तुं त्वरितस्य, प्रभुणा जिघांसितस्य हि वधेऽपराध इति स एव पुरु- पौत्तमखं घातयतु। समेतैर्भवदादिभि: साहाय्यमाचर्यतामित्याशयः। यच्छव्दो- उव्ययत्वेनानेकार्थतया संबोधनार्थः। यद्वा जेशब्दः पादपूरणे । दशवदनपदमा- काङ्षाकमेणावृत्त्या हननद्यान्वयि। अत्र रावणवधोद्यमो विधिरुत्येव जाम्बवता रड्ोऽनुकूलतया हेतुमुद्भाब्येति रोधोऽयं विध्याक्षेपशेषः ॥ विधावेव युत्तयानुकूल: प्रतिकूलश्च यथा- 'गच्छेति वक्तुमिच्छामि त्वत्प्रियं मत्पियैषिणी। निर्गच्छति मुखाद्वाणी मा गा इति करोमि किम् ॥ १५३।' अत्र यथोक्तमुक्त्वा 'किं करोमि' इत्यानुकूल्येनैवाह। अत्र किमः प्रश्नार्थत्वेऽपि युक्त्या निषेघार्थत्वं गम्यते, सोडयं यौक्तोऽनुकूलश्व वि- ध्याक्षेपो रोध इत्युच्यते॥ अयमेव चास्या वैयात्योक्तिपक्षे यौक्तः प्रतिकूलविध्याक्षेपो रोधो भवति॥ गच्छेत्यादि। हे सखि, त्वत्प्रियं गच्छेति वक्तुमिच्छामि । मत्प्रियैषिणी स्त्रीत्वेन स्री प्रियत्वान्मा गा इति वाणी मम मुखानिर्गच्छतीति कि करोमि। 'मत्प्रियं त्वत्प्रियैषिणी' इति पाठे तु त्वत्प्रियैषिण्यहं गच्छेति विवक्षामि, मत्प्रियं यथा भवति तथा मा गा इति वाणी निःसरतीति योज्यम्। अत्र कि करोमीत्यस्य युक्या प्रकतो- पपत्त्या निषेधार्थतावगमः । यदि वैयात्वात्प्रागल्भ्याद विपरीतमभिधत्ते तदा मा गच्छेति वक्तुमिच्छामि, गच्छेति वाणी निःसरतीत्यत्र कि करोमीति तदा युक्तिसिद्ध एव रोधोऽयम् ।। युक्या निषेधे प्रतिकूलो यथा 'पउरजुआणो गामो महुमासो जोवणं पई ठेरो। जुण्णसुरा साहीणा असई मा होउ किं मरड । १५४ ॥' [प्रचुरयुवा आमो मधुमासो यौवनं पतिः स्थविरः । जीर्णसुरा स्वाधीना असती मा भवतु किं ग्रियताम् ॥] अत्र 'असती मा भवतु' इति यः प्रतिषेघमाह स 'प्रचुरयुवा ३२ स० क०
Page 591
४९८ काव्यमाला।
आ्म :- इत्यादि कारणमुक्त्वा ततः 'कि त्रियताम्' इति प्रातिकूल्येन रुध्यते। तत्र किमः काका सासूयप्रश्नार्थस्य युत्त्या निषेधार्थत्वं गम्यते; सोडयं यौक्त: प्रतिकूलनिषेधाक्षेपो रोघ इत्युच्यते॥ पउर इत्यादि। "प्रचुरयुवको ग्मो मधुमासो यौवनं पतिः स्थविरः। जीर्णसुरा खाधीना असती मा भवतु किं म्रियताम् ॥" काचिदृद्धपतिका चलचि- तेति ज्ञात्वा कयाचित्कस्येचित्कथितम्। सा तु तत्रोत्तरमाह-प्रचुर इति। प्रचुरा बहवो युवानस्तरुणा यत्र तादशः । 'शेषाद्विभाषा ५।४।१५४' इति कप। मधुमासो वसन्तः, योवनम्, खामी स्थविरो बृद्ध: । जीणसुरा पुराणमर्द साधीनं निजायत्त- मतोऽसती सा मा भवतु कि त्रियताम्। यद्यस्मिन् वत्सरे सा चबला न स्यान्त्रि- येतैवेत्यर्थ: । सुरा जीर्णा प्रीतिकरीति मद्यपप्रसिद्धिः । अत्र कि ब्रियतामिति किमः काकुग्भतया सासूयप्रश्रार्थता युक्या निषेधविषयिणी ज्ञायत इति रोधोऽयम् ॥ युक्त्यैव निषेधेऽनुकूलो यथा- 'कह मा झिज्उ मज्झो इमाइ कैन्दोदृदलसरिच्छेहिं। अच्छीहिं जो ण दीसइ घणथणभररुद्धपसरेहं ॥ १५५ ॥' । [कथं मा क्षीयतां मध्योऽसा: कुवलयदलसदृदक्षाभ्याम् । अक्षिम्यां यो न दृश्यते धनस्तनभररुद्वप्रसराम्याम् ॥] अत्र 'सतनादिवदस्या मध्योSपि मा क्षीयताम्' इति निषेधवादी केनचिदानुकूल्येन रुध्यते। कथमयं मा क्षीयतामिति। योऽस्याः कुव- लयदलसद्दक्षाभ्यां लोचनाभ्यां घनस्तनरुद्धप्रसराभ्यां न दृश्यते। इयं हेताभ्यामन्यमीक्षमाणा यन्न पश्यति सोऽहमिव मध्योSपि क्षीयमाणो लक्ष्यते तत्र किमः प्रश्नार्थत्वे निषेधार्थत्वं गम्यते; सोडयं यौक्तोऽनु- कूलश्र निषेधाक्षेपो रोध इत्युच्यते ।। कहमित्यादि। "क्थ मा क्षीयतां मध्योऽस्याः कुवलयदलसदक्षाभ्याम्। अक्षिम्यां यो न दृश्यते घनत्वनभररुदप्रसरान्याम् ॥" इहास्या नायिकाया मध्यः कर्ष मा क्षीयतां न क्षीणतां यातु। योऽस्पा: कुवलयदलतुल्याभ्यामक्षिम्यां निबिड- १.'उप्पलिए कलमकन्दोट्टा' इति देशीनाममाला.
Page 592
४ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ४९९
कुचभरावरुद्वगताभ्यां न दश्यते। अत्रानया नेत्राभ्यामन्यमीक्षमाणया यथाहं न दृष्ट इत्यहं क्षीणस्तथा मध्योऽपि तेनैव क्षीणतापन्न इति लक्ष्यते । इहापि किमो निषेधार्थत्वं युक्यैव ज्ञायते। निषेध एवोक्त्या प्रतिकूलोऽनुकूलश्र यथा- 'अ्रुकुटिरारचिता गतमग्रतो हृतमथाननमुक्तमसाधु वा। इयमतिप्रभुता क्रियते बलादकुपितोऽपि हि यत्कुपितो जनः १५६' अत्र 'अकुपितोऽपि कुपितः क्र्ियते' इति योऽयं निषेधाक्षेपरूप उपालम्भः, तत्र च 'भुकुटिरारचिता-'इत्यादिवैयात्येन प्रतिकूलं कारण- मुपन्यस्य, 'सेयमतिप्रभुता, सोडयं बलात्कारः' इति काका वाचनिक- मेवोपालम्भममिघत्ते; तेनायमौक्तः प्रतिकूलश्र निषेघाक्षेपो रोघ इत्यु- च्यते ॥l अयमेव चास्या अवैयात्योक्तिपक्षे स्वरूपाख्यानादौक्तोऽनुकूल- निषेधाक्षेपो रोघो भवति ॥ भ्रुकुटिरित्यादि। इयमतिप्रभुता बलात्कारः । हि यतोऽकोपवानपि जनो बलात्कारेण कोपवान कियते। तदाह-त्वया ब्रुकुटिर्भकौटिल्यमारचितम्। अग्र- तोडगे गतम्। अनन्तरमाननं चुम्बनादपहृतम्। असाधूकं च। वाशब्दध्ायें।अन्र धाष्ट्ेन प्रतिकूलकारणमुपन्यस्य काका वाचनिक एवोपालम्भः । अस्या अधाष्टांपक्षे
यदा तु कारणमुपन्यस्यापि क्रियासूत्तिष्ठमानो न रुध्यते तदाक्षेप एव न रोघः । तद्यथा- 'गमिआ कलम्बवाआ दिद्ठं मेहन्घआरिअं गअणअलम्। सहिओ गज्जिअसद्दो तह वि हु से णत्थि जीविए आसंगो I।' [गमिताः कदम्बवाता दषट मेघान्धकारितं गगनतलम्। सोढो गर्जितशब्दस्तथापि खल्वस्य नास्ति जीवितेऽध्यवसायः ॥] अत्र कदम्बवातातिवाहनादीनां जीविताध्यवसायहेतूनामुपन्यासेऽपि
Page 593
५०० काव्यमाला।
क्रियासूत्तिष्ठमानो न रुध्यते कथमयं न जीवतीति। किं तर्हि कारण- मेवाक्षिप्यते-'तथापि नास्त्यस्य जीवितेव्यवसाय' इति। सोडयमा- क्षेप एव न रोधः ।। गमिआ इत्यादि। 'गमिताः कदम्बवाता दृष्ट मेघान्धकारितं गगनतलम्। सोडो गर्जितशब्दस्तथापि खल्वस्य नार्ति जीविते आसन्गः ।।" इहास्य रामस्य तथापि जीविते प्राणधारणे आसजोऽध्यवसायो नासति। खल निश्चये वाक्यभूषायां वा। यदपि कदम्बपुष्पसंपर्किणो वाता गमिता नीताः, दृछं मेघान्धकारयुक्त गग- नतलम्, गर्जितरूपः शब्द: सोढ: श्रुतः । इहासह्यसहनेऽपि जीवितान ्यवसाये प्रेमातिशयो हेतुः । प्रयाणोचितकाले शरद्यपि यदि न गमनं स्यात्तदा प्रियासमा- गमो मे न स्यादिति बुद्धिः। यद्ा नेतव्यकालस्य घोरत्वाडुर्गवासरयोरव्यवसायः। यद्ा कदम्बवाता गमिताः, विकसदमलकमलवाताः क्थ गमितव्याः। मेधान्धका- रितं गगनतर्लं दृष्टम्, शरचन्द्रचन्द्रिकाघवलितं कर्थ द्रष्टव्यम् । गर्जितशब्दः सोटः, कलहंसकलरवः कर्थ सोढव्य इति विमर्शनानध्यवसायः । यद्वा एतैरेवानर्थ- सारथः कदर्थिता व्यर्थप्रत्याशासमर्थना सीता यदि मृता स्यानदा मदीयाशानाश एव भवेदितिबुद्यानध्यवसायः । अत्र जीवनक्रियायामुपस्थितस्य न रोधः, कि तु कार- णाक्षेप एवेल्याक्षेपता।। क्रियोद्यतस्यापि वारणे कारणानामन्यपरत्वे रोधो न भवति। यथा- 'घनं च बहु लम्यन्ते सुखं क्षेमं च वर्त्मनि। न च मे प्राणसंदेहस्तथापि प्रिय मा स्म गाः ॥ १५८ ॥' अत्र यद्यपि यात्रोद्यतः प्रियो रुध्यते। प्रभूतार्थलाभादीनां कार- णानां गमनपरत्वमेव न निवारणपरत्वम्; अतोडयं न रोषः, किं तर्हिं आक्षेप एव भवति।। धनमित्यादि। हे प्रिय, यद्यपि ते तब धनं बहु प्रचुरं लभ्यं प्राप्यम्। वत्मनि सुखम्: न दुर्गों मार्ग:। क्षेमं कुशलं च चौराययनुपहतेः ।न च मे प्राण- संशायोऽस्ति। तथापि त्वं मा गाः स्म मायासी: । 'कुशलं क्षेममस्ियाम्' इत्यमरः। अन्न प्रचुरधनलाभादिहेतूनां गमनपरत्वेनाक्षेपता।। इत्याक्षेपालंकारनिरूपणम्॥
Page 594
४ परिच्छेद: I] सरखतीकण्ठाभरणम्। ५०१
अर्थान्तरन्यासालंकारः । अर्थान्तरन्यासं लक्षयति- ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन। तत्साधनसमर्थस्य न्यासो योजन्यस वस्तुनः ॥ ६७ ॥ स उपन्यस्तवस्तूनां साधर्म्येण च कथ्यते। वैधर्म्येण च विद्वद्भिवैपरीत्येन कुत्रचित् ॥ ६८ ।। शेयमिति। किंचन किमपि वस्तु वाच्यं प्रस्तुत्य प्रक्रम्य तद्वस्तुसाधनसमर्थ-
विपर्ययः ॥ स्यान्यस्य वस्तुनो वाक्यार्थन्यास उपन्यासो यः सोऽर्धान्तरन्यास: । वैपरीत्यं
तेषु साधर्म्येण यथा- 'पयोमुचः परीतापं हरन्त्येते शरीरिणाम्। नन्वात्मलाभो महतां परदुःखोपशान्तये ॥ १५९॥' अत्र परीतापापहरणक्षमस्य जलदाख्यस्य महावस्तुनो न्यसनं विधाय तत्साधनसाधम्येणैव तत्साधनक्षमं महापुरुषलक्षणं वस्त्वन्तरमुपन्यस्यति, सोऽयं साधर्म्येणार्थान्तरन्यासः । पयोमुच इत्यादि। एते मेघाः शरीरिणां परितापं हरन्ति। ननु निक्चये। महतामात्मलाभोSवस्थिति: परदुःखोपशान्त्यर्य भवति। अत्र पूर्वार्धोपस्थापितार्थ- सिदधये साधर्म्यपुरस्कारेणोत्तराधोपन्यास: स्फुद एव ।। वैधर्म्येण यथा- 'प्रियेण संग्रथ्य विपक्षसंनिधा- वुपाहितां वक्षसि पीवरसने। सजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनिः ॥ १६० ॥ अत्रापि प्रियतमेन सयं कान्ताहृदये समारोपितायाः सजः श्रेम-
Page 595
५०२ काव्यमाला। कारणमुपन्यस्य जलाविलदोषवत्या अपि स्रजो यदत्यागकारणं तदिह वैधर्म्यद्वारेण प्रतिपादितमतो वैधर्म्येणायमर्थान्तरन्यासः ॥ प्रियेणेत्यादि। काचित्रारी जलाविलामपि सरजं मालां न विजही न तत्याज। कीटृशीम् । प्रियेण संग्रथ्य अथित्वा मांसलकुचवति हृदये विपक्षस्य सपन्याः समीपे उपाहितामारोपिताम। अत्रोपपत्तिमाह-हि यतः प्रेम्णि प्रीतौ गुणा वसन्ति न वस्तुनि गुणा वसन्ति। अत्र जलाविलमालाया अप्यत्यागहेतुर्वसन्ती- त्यादिना वैधर्म्यपुरस्कारेणोक्तः।। विपर्ययेण यथा- 'जो जस्स हिअअदइओ दुक्खं देन्तो वि सो सुहं देइ। दइअणहदूमिआणं वि बड्डीइ त्थणआणं रोमश्चो ।। १६१।' [यो यस हृदयदयितो दुःखं दददपि स सुखं ददाति । दयितनखदूनयोरपि वर्षते खनयो रोमानः ॥] अत्र साधनसमर्थ वस्तु प्रथमत एवोपन्यस्य पश्चात् तत्साध्यमभि- हितमिति विपर्यासादयं विपर्ययो नामार्थान्तरन्यासः ॥ जो इत्यादि। "यो यस्य हृदयदयितो दुःखं दददपि स तथा तस्थ। दवि- तनखदुःसितयोरपि वर्घते खनयो रोमानः ॥।" इह यो यस् हृदयप्रियः स दुःखं दददपि तस्य तथा प्रिय एव। अत्र हेतु :- दयितनखेन दुःखितयोरपि सनयो रोमाबो बर्धते। दददित्यत्र 'नाभ्यस्ाच्छतुः ७१७८' इति निषेधः। अत्र प्रथमं हेतुरुक्तस्ततस्तत्कार्यमुक्तमिति विपरीतता।। उभयन्यासस्यार्थान्तरन्यासादमेदमाह- प्रोक्तो यस्तूभयन्यासोऽर्थान्तरन्यास एव सः। स प्रत्यनीकन्यासथ प्रतीकन्यास एव च ॥ ६९।। प्रोक्त इति । प्रत्यनीक: परिपन्शी, प्रतीकोऽवयव एकदेश इति यावत्। 'अरजं प्रतीकोऽवयनः' इलयमर: ॥
Page 596
४ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ५०३
तेषूमयन्यासो यथा- 'ते विरला सप्पुरिसा जे अभणन्ता घडन्ति कज्जालावे। थोअच्चिअ ते वि दुमा जे अमुणिअकुसुमणिम्गमा देन्ति फलम् ॥।' [ते विरला: सत्पुरुषा येऽभण्यमाना घटन्ते कार्यालापम्। स्तोका एव तेऽपि द्रुमा येऽज्ञातकुसुमनिर्गमा ददति फलम् ॥] अत्र विद्यमानमपि साध्यसाघनभावमप्रतिपाद्य यदुभयोर्वस्तुनोर्न्य- सनं सोडयमुभयन्यासः।। ते विरला इत्यादि। "ते विरलाः सत्पुर्षा येऽमण्यमाना घटन्ते कार्यालया- पम्। स्तोका एव तेऽपि हमा येऽज्ञातकुसुमनिर्गमा ददति फलम् ॥" इह ते सज्ना विरला: परिमिताः । अल्पा इति यावत्। ये कार्यार्थमालापमाज्ञामभण्यमाना घटन्ते कार्यारूढा भवन्ति, तेपि वृक्षाः स्तोका एवाल्पा एव येऽज्ञातपुष्पोद्गमाः सन्तः फलं ददति। अभण्यमाना इति णिज्गर्भत्वेन दविकर्मकता। यदा कार्यालापे कार्य- करणे घटन्ते। कीटशाः । अभण्यमाना अनुक्ताः । 'आलापो बचने कृती' इति शाश्वतः । अत्र हेतुहेतुमद्धावपुरस्कारेणोभयोरुपन्यासः।। प्रत्यनीकन्यासो यथा- 'विरला उवआरिच्चिअ णिरवेक्खा जलहरव वद्टन्ति। झिज्जन्ति ताण विरहे विरलच्चिअ सरिप्पवाहब ॥ १६३ ॥ [विरला उपकृत्यैव निरपेक्षा जलधरा इव वर्तन्ते। क्षीयन्ते तेषां विरहे विरला एव सरित्प्रवाहा इव ॥] अत्र यदिदमुपकृत्यानपेक्षितप्रत्युपकाराणां गमनम्, यच्चाकृतप्रत्युप- काराणां तद्विरहेऽवसादनं तदुभयमपि जलवरसरित्पवाहयोरन्योन्याति- शयितयोरुपन्यस्यमानं प्रत्यनीकन्यासो भवति ॥ विरला इत्यादि। "विरला उपकल्ैव निरपेक्षा जलधरा इच वर्तन्ते। क्षीयन्ते तेषां विरहे बिरला एव सरित्ावाहा इव ।।" इह ये उपकृत्य उपकार कृत्वा निर- पेक्षाः प्रत्युपकारानपेक्षा वर्तन्ते ते विरला अल्पाः। मेषा इव। यथा मेघा उपकार कृत्वा प्रत्युपकारनिस्प्ृहा वर्तन्ते तथेत्यर्थः। तेषामुपकारिणां बिरहे बिरला एव
Page 597
५०० काव्यमाला
क्षीयन्ते दुःखिता भवन्ति। नदीप्रवाहा इव। यथा नदीप्रवाहा उपकारिणां मेघानां विरहे क्षीणा भवन्ति तथेत्यर्थः। क्षीयन्त इति कर्मकर्तरि। क्षियोऽनात्मने- पदित्वात्। अवसदनमवसादः। भावे घम् । अत्र मेघनदीप्रवाहयोरमिथः समर्थयो: प्रत्यनीकभाव: प्रतिपक्षता। प्रतिनिधिभूतमनीकं सैन्यं यस्य सः प्रत्यनीक: परिपन्थी। 'प्रति प्रतिनिधा चिहे' इति मेदिनीकारः । 'अनीकोऽस्त्री रणे सन्ये' इति च।। प्रतीकन्यासो यथा -- 'का कथा बाणसंधाने ज्याशव्देनैव दूरतः । हुंकारेणेव धनुषः स हि विन्नानपोहति ॥ १६४ ॥' अत्र विभ्नप्रोत्सारणसमर्थाया बाणमोक्षलक्षणायाः क्रियायाः प्रथमा- वयवभूतं ज्याशब्दं धनुषो हुंकारमिवेति तत्साघनमुपन्यस्य प्रतीकन्या- सनामानमर्थान्तरन्यासमभिघते॥ का कथेत्यादि। वाणसंधाने धनुषि बाणारोपणे तस्य का कथा। तेन सर्व- सिद्धेः। यतः स राजा दूरात ज्याशब्देनैव विन्नान्यपोहति वारयति। ज्याशव्देन कीटशेन । धनुषो हुंकारेणेव। चापस्य हुंकारतुल्येनेत्यर्थः । दूरत इति प्म्यां तसिः ॥ विभ्नानीति। यद्यपि 'विघ्नोऽन्तरायः प्रत्यूह:' इत्वमराद्विग्रशब्दे पुंस्त्वम्, तथापि 'लिन्नमशिष्यं लोकाश्रयत्वात्' इति नपुंसकत्वमपि। अत एव 'अविन्न- मस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम्' इति रघुप्रयोगोऽपि। 'स हि विन्नानपो- हती ति वा पाठः कर्तव्यः। अत्र ज्याशब्दस्व चापैकदेशस्य न्यसनातप्रतीकन्या- सता॥ इत्यर्थान्तरन्यासालंकारनिरूपणम् ॥ विशेषालंकारनिरूपणम् । विशेषोफिलक्षणमाद- गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम्। विशेषदर्शनायैव सा विशेषोक्तिरिष्यते॥ ७० ॥ प्रत्येतव्येऽभिधेये च सा विशेषस्य कारणे। वैकल्यादर्शनेनापि क्वचिदप्युपपद्यते ।। ७१॥ गुणेति। विशेषदर्शनावाधिक्यरूयापनार्थ गुणादीनां मध्ये यत्तेषां वैकल्य- दर्शन विकलताभिधानं सा विशेषोकिः । एकगुणहानिकल्पनया शेषगुणे दार्व
Page 598
४ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ५०५
विशेषोत्तिरिति लक्षणम्। एवं जात्यादावप्यादिपदाइ्व्यसंग्रहः । विशेषदर्शना- येत्यनेन विभावनातो मेद उक्तः। तत्र हि नातिशयो वाच्यः किंतु कारणान्तरम्। इह तु गुणादिप्रतिषेधेन पदार्थानामतिराय इति। गुणादीनां बैकल्यादर्शनेऽपि सा भवतीत्याह-वैकल्येति॥ सा गुणवैकल्येन यथा- 'न कठोरं न वा तीक्ष्णमायुध पुष्पधन्वनः । तथापि जितमेवाभूदमुना भुवनत्रयम् ॥ १६५ ।।' अत्र तीक्ष्णेनाकठोरेण चायुधेन पुष्पधन्वा त्रीणि जगन्ति विजयत इति तस्य प्रभावातिशयः प्रतीयते; सेयं प्रतीयमानविशेषहेतुर्गुणवैक- ल्यवती विशेषोक्तिः ॥ न कठोरमित्यादि। कामस्य प्रहरण न कठिनं न वा निशितम्1 तथाप्य- मुना कामेन लोकत्रयं जितमेवासीत। पुष्पधन्वन इत्यनेनाकठोरत्वमतीक्ष्णत्वं च दर्शितम्। पुष्पस्यैवासरवात्। अत्र काठिन्यादिगुणवैकल्यमतिशयविजय प्रदर्शना- योक्तमिति गुणवैकल्यवतीयम्।। जातिवैकल्येन यथा- 'न देवकन्यका नापि गन्धर्वकुलसंभवा। तथाप्येषा तपोभङ्गं विधातुं वेघसोऽप्यलम् ॥ १६६॥' अत्र देवकन्यकात्वाभावेऽप्येषा वेघसोऽपि तपोभञं विधातुमल- मिति वर्णनीयाया रूपातिशयः प्रतीयते; सेयं प्रतीयमानविशेषहेतु- र्जातिवैकल्यवती विशेषोक्तिः ॥ न. देवेत्यादि। एषा न देवकन्या नापि गन्धर्ववंरजा तथापि वेधसो ब्रम्म- णोडपि तपोभत्ं विधातुमलं समथा। अत्र देवत्वादिजातिनिषेधो विशेषस्तु मानु- षीत्वेन तत्कार्यकरणम्॥। क्रियावैकल्येन यथा- 'न बद्धा भुकुटिर्नापि स्फुरितो रदनच्छदः । न च रक्ताभवद्दष्टिर्जितं च द्विपतां कुलम् ॥ १६७।'
Page 599
५०६ काव्यमाला।
अत्र भभेक्कादेरभावेपि योयं द्विषतां जयस्तेन वर्णनीयस् प्रता- पातिशयः प्रतीयते; सेयं प्रतीयमानविशेषहेतुः क्रियावैकल्यवती विशेषोक्तिः ॥ न बद्धेत्यादि। भूभजो न बद्ध:, अधरोऽपि न स्फुरितः, दृष्टिरपि न रक्ता घृत्ता, तथापि वीर, त्वया द्विषतां शत्रूणां कुलं जितम्। अत्र ब्रुकुटीत्यादिक्रिया- निषेधात्कियावैकल्यम्। अतिशयस्तु लीलया शत्रुजयः ॥
'न रथा न च मातज्जा न हया न च पत्तयः । स्त्रीणामपाङ्गदृष्टयैव जीयते जगतां त्रयम् ॥। १६८ ।।' अत्र रथादेरभावेऽपि जगन्रयविजयहेतुः स्त्रीणामपाज्कावलोकनमभि- चीयते; सेयमभिधेयविशेषहेतुर्द्रव्यवैकल्यवती विशेषोक्तिः ॥ न रथा इत्यादि। न रथा न च हस्तिनो नाशा न वा पदातयः सन्ति तथापि स्त्रीणामपान्नदृष्टपैव कटाक्षेणैव लोकत्रयं जीयते। 'हस्त्यश्वरथपादातं सेनाऊं स्याच्चतुष्यम्।' इत्यमरः । तदिह सेनाननिषेधाहव्यवैकल्यम्, अतिशयस्तु तद- भावेऽपि त्रिभुवनजयः । द्रव्यस्पापि वैकल्येनैकदेशविकलतया अपरा विशेषोकतिः। प्रथमा द्रव्यवैकल्यवती, इयं तु द्रव्यैकदेशवैकल्यवतीवि भेदः ॥ द्रव्यस्यापि वैकल्येन यथा- 'एकचको रथो यन्ता विकलो विषमा हयाः । आक्रामत्येव तेजखी तथाप्यर्कों जगत्रयम् ॥ १६९ ॥' अत्र रथादीनां द्रव्याणामेकचकत्वादिभिर्वैकल्येऽपि यदेतङ्गगवतो भास्करस्य भुवनत्रयात्रमणं तस्येह तेजखिवता हेतुरभिधीयते; सेयमभि- घेयविशेषहेतुर्वैंकल्यवद्रव्या नामापरा विशेषोक्ति: ॥ एकेत्यादि। रथस्पैक चक्रम्, यन्ता सारथिरनूरुर्विकलथरणहीन:, अश्वा १. 'भुकुटिमआादे:' इति क-पुस्तके पाठ:
Page 600
४ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। ५०७
विषमाः सप्, तथापि रविस्तेजसी जगन्रयमाक्ामति। 'सप्ताश्वा नव दन्तिनः' इति नीती निषेधः । आकामतीत्यत्रोत्कमणाभावात् 'आळ उद्गमने १।३।४०' इति न तडू। अत्र रथादीनामेकदेशविकलतेति द्वितीयेयम्।। द्रव्यस्य योगायोगाभ्यामवैकल्येनापि कचिदेषा विशेषायाविशेषाय च यथा- - 'अयं तया रथक्षोभादंसेनांसो निपीडितः । एक: कृती शरीरेऽस्िन्शेषमऊं भुवो भरः ॥ १७० ॥' अत्र 'अयं तया स्पृष्टोंऽसः स पुण्यवान्, तया चास्पृष्ट शेषमञ्कं मे निरर्थकम्' इति योऽयमवैकल्यदर्शनेऽपि विशेषसेनैषाहेतुमत्यपि हेतुमता विशेष्यमाणा यथोक्ता विशेषोक्तिर्मवति। या पुनरिहोर्वश्या- मितो वाक्याद्रुणादिवैशिष्ट्यावगतिः सा पर्यायोक्तिर्न विशेषोक्ति: ॥ अयमित्यादि। अयमंसो बाहुमूलं तया ख्िया रतिलोभाभिजांसेन निपीडित इत्येक एवायं ममान्ने कृती रम्यः। शेषमज्न भूमेर्भरो भारजनकम्। शेषशब्द: कर्म- घलन्तो वाच्यलिद्ः । अज्ञभरशब्दयोरजहद्वित्वतयान्वयः । अत्रावैकल्यदर्शनेऽपि विशेषोक्केरियमन्या भवति । यद्यनेन वाक्येनोवश्या गुणविशेषवत्त्वज्ञानं तदोक्त- लक्षणाभावात्पर्यायोक्तिरेवेल्याह-यत्पुनरिति॥ इति विशेषालंकारनिरूपणम्। परिकरालंकारनिरूपणम्। परिकर लक्षयति-
क्रियापदाद्युपस्कारमाहु: परिकरं युधाः। ७२॥ क्रियेति। क्रिया घात्वर्थः, कारकं कर्मादि, संबन्धी संबन्धवान्, साध्यं सिसाधयिषितम्, दृष्टन्तो निदर्शनम्, वस्तु पदार्थः । एषु क्रियापदादेरुपस्कार: परिष्कार: परिकरः। साभिप्रायविशेषणेन विशेष्योक्तिः परिकर इति लक्षणम्।। १. 'विशिष्टावगतिः' इति ख. ग.
Page 601
५०८ काव्यमाला।
तेषु क्रियापरिकरो यथा- 'ववसिअणिवेइअत्थो सो मारुइलद्धपच्चआगअहरिसम् । सुग्गीवेण उरत्थलवणमालामलिअमहुअरं उवऊढो ॥ १७१॥' [व्यवसितनिवेदितार्थः स मारुतिलव्धप्रत्ययागतहर्षम्। सुग्रीवेणोर:स्थलवनमालामृदितमधुकरमुपगूढ़ः ॥] अत्र 'मारुतिलव्घप्रत्ययागतहर्षम्' इत्यनेन, 'उरःस्थलवनमालामृदि- तमधुकरम्' इत्यनेन चोपगूहनक्कियायाः परिकरितत्वादयं क्रियापरिकरः॥ i ववसिअ इत्यादि। "व्यवसितनिवेदितार्थः स मारुतिलब्धप्रत्ययागतहर्षम्। सुग्रीवेणोर:स्थलवनमालामृदितमधुकरमुपगूढ़ः ।।" इह स विभीषणः सुग्रीवेणोप- गूढ आलिहितः । कीहशः । व्यवसितस्य व्यवसायस्य निवेदितोऽर्या येन सः। यद्ा व्यवसितश्चिकीपितो रामसाहाय्यरूपो निवेदितोऽर्थों येन सः । मारुतिना हनू मता लब्धप्रत्ययेन प्राप्तविश्वासेनागतहर्ष यथा स्यादेवमुरःस्थलस्य वनमालायां मृदिता मधुकरा यत्र तद्यथा स्यादेवमित्युपगूहनक्रियाया विशेषणद्वयम् । 'प्रत्ययः सहजे ज्ञाने विश्वासाचारहेतुपु।' इति मेदिनीकारः । अत्र प्रधानक्रियाया विशेष- षद्वयेन परिष्कृतत्वात्कियापरिकरत्वम् ।। कारकपरिकरो यथा- 'पडिआ अ हत्थसिढिलिअणिरोहपण्डरसमूससन्तकवोला। पेल्िअवामपओहरविसमुण्णअदाहिणत्थणी जणअसुआ ॥१७२॥' [पतिता च हस्तशिथिलितनिरोधपाण्डुरसमुच्छसत्कपोला। प्रेरितवामपयोधरविषमोन्नतदक्षिणसनी जनकसुता ॥] अत्र 'हस्तशिथिलितनिरोधपाण्डुरसमुच्छुसत्कपोला' इत्यनेन, 'प्रेरि- तवामपयोधरविषमोन्नतदक्षिणसतनी' इत्यनेन च 'जनकसुता' इति च कारकपदस्य परिकरितत्वादयं कारकपरिकर: ॥ पडिआअ इत्यादि। "पतिता च हस्तशिथिलितनिरोधपाण्डरसमुच्छुसत्क- पोला। प्रेरितवामपयोधरविषमोज्नतदक्षिणस्तनी जनकसुता II" इह जनकसुता १. 'जनकसुता इत्यनेन च' इति ग.
Page 602
४ परिच्छेद: ] सरस्तीकण्ठाभरणम्। ५०९
सीता पतिता च । न केवलं मूर्च्छिता किंतु पतितापीति चकारार्थः । कीटशी। हखेन शिथिलीकृतो निरोधो यन्त्रणं कपोलस्य अत एव पाणिपीडनत्यागात्पाण्डुर: समुच्छसन् कपोलो यस्याः सा। यद्वा हस्तप्रहृतनिरोधेन तत्संपर्कात्पाण्डरः पीडन- स्यागात्समुच्छुसन् कपोलो यस्याः सा। प्रेरितेन वामेन पयोधरेण स्तनेन विषम- स्तिरथ्रीन उन्नतो दक्षिणः स्तनो यस्याः सा। वामस्तनस्य चलनं प्रेरणमत्र रामा- दचिरभाविदुःसापनयनमिति सूचनम् । यद्ा स्रीणां वामः स्तनो निजो दक्षिणः पुरुषस्थेति तेनैव पतिता । अत्र कर्तुः कारकतया तद्वाचकपदमेव परिष्कृतम्। संबन्धिपरिकरो यथा- 'उम्मूलिआण खुलिआ उक्खिप्पन्ताण उज्जुअं ओसरिआ। णिज्जन्ताण णिराआ गिरीण मग्गेण पत्थिआ णइसोत्ता ।।१७३।' [उन्मूलितानां खण्डितान्युत्क्षिप्यमाणानमृजुकमपसृतानि। नीयमानानां निरायतानि गिरीणां मार्गेण प्रस्वितानि नदीस्रोतांसि ॥] अत्रोड्डियमाणगिरिसंबन्धिनोऽप्रयोजका अपि नदीप्रवाहा विशे- घणैरुपस्कृता इति संबन्धिपरिकरोऽयम् ॥ उम्मूलिआ इत्यादि। "उन्मूलितानां खण्डितान्युत्क्षिप्यमाणानामृजुकमप- सृतानि। नीयमानानां निरायतानि गिरीणां मार्गेण प्रस्थितानि नवीस्रोतांसि ॥" कीदशानां कीदृशानि च। उन्मूलितानां चालनतः खण्डितानि, उत्क्षिप्यमाणानां ऋजुकमवकं यथा स्यादेवमपसृतानि, नीयमानानां निरायतानि वेगवशादवक्राणि च। अत्र नदीप्रवाहृस्य संबन्धिनो विशेषणैः परिष्कारः ॥ साध्यपरिकरो यथा- 'धीरं हरइ विसाओ विणअं जोवणमओ अणक्ो लजम्। एक्न्तगहिअवक्खो किं सेसउ जं ठवेइ बअपरिणामो ॥१७४॥' [धैर्य हरति विषादो विनयं यौवनमदोऽनह्गो लज्जाम्। एकान्तगृहीतपक्षः किं शिष्यतां य स्वापयति वयःपरिणाम: ॥] अत्र गतवयसो न धैर्यम्, न विनयो, न लजेति साध्यं विषाद- यौवनमदानन्नक्रियादृष्टान्तैरुपस्कृतमिति साध्यपरिकरोऽयम् ॥
Page 603
५१० काव्यमाला।
धीरमित्यादि। "धैर्य हरति विषादो विनयं यौवनमदोऽनह्ो लजाम्। एकान्तगृहीतपक्ष: किं शिष्यते यं स्थापयति वयःपरिणामः ॥" इह विषादो वैय हरति, विनयमनौद्वत्यं वशित्वं वा यौवनमदो हरति, अनज्गो लजा हरति। एका- न्तेन गृहीतः पक्षो येन सः । अब्भुत इत्वर्थः । यद्वान्तः स्वरूपे एको गृहीतपक्ष: सर्वहरसरूपो येन स वयःपरिणामो यत्स्थापयति स्थिरीकरोति तत्कि शिष्यतेऽव- शिष्यते, किंतु सर्वमेव हरतीति भावः । अत्र साध्यस्य दृष्टान्तैः परिष्कारः ॥ दृष्टान्तपरिकरो यथा- 'मज्झट्टिअधरणिहरं झिज्जइ अ समुद्दमण्डलं उब्येलम्। रइरहवेअविअलिअं पडिअं विअ उक्खडक्खकोर्डि चक्कम् १७५' [मध्यस्थितघरणिघरं क्षीयते च समुद्रमण्डलमुद्वेलम्। रविरथवेगविगलितं पतितमिवोत्कटाक्षकोटि चक्रम् ॥] अत्र प्रक्षिप्तमन्दरसमुद्रोदाहरणभूतं रविरथचक्रकं 'उत्कटाक्षकोटि' इति विशेषणेन साम्यसिद्धये परिकरितमिति दृष्टान्तपरिकरोऽयम् ॥ मज्झेत्यादि। "मध्यस्थितधरणिधर क्षीयते च समुद्रमण्डलमुद्वेलम्। रविर- धवेगविगलितं पतितमिवोत्कटाक्षकोटि चक्रम् ॥" इह समुद्रमण्डलं क्षीयते च। चः पूर्वापेक्षया समुचये। कीटशम्। मध्यस्थितो धरणिधरो मन्दरगिरियत्र तत्। अत एवोद्वेलमुद्गतजलम्। 'वेला तत्तीरनीरयोः' इत्यमरः । सूर्यरथवेगेन रखलित- मनन्तरं पतितं चकमिव। चक्र कीटशम् । उत्कटा उङ्भटा अक्षकोटिश्वकायं यत्र तत्। 'अक्षव्चक्रेऽपि पाशके' इति विश्वः । अत्र दृष्टान्तस्य साम्यार्थ विशेषणैः परिष्कारः ।। वस्तुपरिकरो यथा- is *देवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युद्ुजे
पायाद्वो जितदेवदुन्दुभिघनध्वानः प्रवृत्तस्तयो-
अत्र
Page 604
४ परिच्छेदः ।] सरस्वतीकण्ठाभरणम्। ५११
शब्दस्य वस्तुतया परिगृहीतस्य 'देवी पुत्रमसूत-' इत्यादिभि: परि- करितत्वादयं वस्तुपरिकरः ॥ देवीत्यादि। देवी गौरी पुत्रमसूत सूते स्म। ततो हे गणाः, नृत्यत नृत्यं कुरुत किमुपविष्ठा भवथ इति कृत्वा उद्भुजे उत्तोलितवाही भृत्निरिटो भृत्िनामके गणे चामुण्डया आलित्विते सति तयोभृतिरिटिचामुण्डयो रवः शब्दों वो युष्मान पायाद्रक्षतु। चामुण्डया कीदृश्या। हर्षादुदाहतोक्त्ता गीर्भृनिरिटिवाणी यया तया। रवः कीटशः । परस्परात्संबन्धेन जर्जर स्फुटितं यज्जीर्ण स्थूलास्थि तस्माबन्म उत्पत्तिर्यस्य सः। जिता देवदुन्दुमेर्देवमेर्या निबिडध्वानस्य प्रवृत्ति्येन सः। 'मेर्यामानकदुन्दुभी' इत्यमरः । अत्र शब्दविशेषस्य वस्तुत्वेन गृहीतस्य विशे- पणै: परिष्कारः।। करिया यथा समासेन तथा कृत्तद्वितादिभिः । विशेष्यते तदाहुसतं क्रियापरिकरं परम् ॥ ७३॥ क्रियेति। यथा समासेन करिया विशेष्यते तथा यदि कृत्तद्वितादिभिविशेष्यते तदा कियापरिकर एव ।। तत्र कृता ताद्थ्येन यथा- 'गेहाद्याता सरितमुदकं हारिका नाजिहीषे मङ््यामीति श्रयसि यमुनातीरवीरुद्धहाणि। गोसंदायी विशसि विपिनान्येव गोवर्धनाद्रे- र्न त्वं राधे दृशि निपतिता देवकीनन्दनस्य ।।१७७॥ अत्र 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ३।३।१०' इत्यादिभिरुप- पद भूतापि क्रियैव विशेष्यते, तेनायमपरः करियापरिकरो भवति। एवं लक्षणादिषु शत्रादिमिरपि द्रष्टव्यम् ।। गेहादित्यादि। है राधे, त्वं देवकीनन्दनस्य कृष्णस्य दृशि नेत्रे न निपति- तासि। त्वं गेहात्सरितं नदीं याता गता उदकं हारिका उदकमाहर्तु न पुनराजि- हीषे न पुनरागच्छसि। महयामि स्नास्यामीति कृत्वा यमुनातीरे वीरुधां लतानां गृहाणि थ्रयस्याध्रयसि। गोसंदायी गवां बन्धनकारिणी सती गोवर्धनादरेर्वनान्येव
Page 605
५१२ काव्यमाला।
विशसि च। हारिकेति 'हन् हरणे' तुमुनर्ये ण्वुल। आजिहीषे इति 'ओहाड् गतौ' (आड्पूर्वः) मध्यमपुरुपैकवचने 'शौ ६।१।१०'इति द्विर्वचनम्। 'मृजामित् ७४।७५' इत्याकारस्येत्वम्। महुयामीति मस्जेर्लटि उत्तमपुरुषे । 'मस्जेरन्त्ात्पूर्व' इति नुमि नकारलोपे च रूपम् । 'लता प्रतानिनी वीरुद' इत्यमरः। गोसंदायीति संदानं बन्धनम्। 'छान्द' इति प्रसिद्धम्। अत्र ण्वुलादिकृता तादर्थ्यपुरस्कारेण करिया विशेष्यते। एवमिति। यत्र 'लक्षणहेत्वोः ।३।२।१२६', 'इद्धार्यो: शत्र- कृच्छ्रिणि २।३।१३०'इत्यनेन लक्षणादिशत्राद्यन्तेन किया विशेष्यते तत्रापि करिया- परिकरो द्रष्टव्यः। यथा पुष्पात् स्वतक्षे खयं गतः फलतस्तु समायात इत्यादि (?)।। अव्ययेन यथा- 'सलीलमासक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम्। स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया।।' अत्र खनाभ्यामुपपीडयन्त्यायं नुनुदे इति। अर्थात् क्रियाविशेष- पामेवैतदित्ययमपि क्रियापरिकरो भवति॥ एवं यथाविध्यनुप्रयोगादिष्वपि द्रष्टव्यम्। तेन क्रियायाः कचिदा- न्तरविशेषणयोगाव्यन्ञथत्वं भवतीत्यपि व्याख्यातम् ।। सलीलमित्यादि। कथ्विन्नायकः प्रियया जघनेन जुनुदे प्रेरितः। स्तनोप- पीडं स्तनाभ्यामापीड्य । जघनेन कीदशेन । नितम्बिना कटितटवता निबिडेन च। कान्तया कीट्या। सलीलं सविलास यथा स्यादेवं पुष्पावतंसकं समासजन्ल। आरोपयन्त्या। कीदशम्। आसकं संबर्द्ध लताभूषणं यत्र तत्। खनोपपीडमिति सप्तम्यां चोपपीड ३।४।४९' इति णमुल। अत्र णमुलाव्ययेन नोदनक्रियाया विशेषणं परिकरः ॥ एवमिति। तत्र हि यस्माद्धातोलोंडादिस्तस्मादेवाप्रिमप्रत्यय इति कियाया विशेषणत्वेन परिकरता॥ यथा- 'शय्यन्ते हतशायिकाः पथि तरुच्छायानिषण्णाध्वगैः श्रीकण्ठायतनेषु धार्मिकजनैरास्यन्त उष्टासिका: । शून्ये तत्र निकुञ्जशाखिनि सखि श्रीष्मस्य मध्यंदिने सज्जानां दयिताभिसारणविधौ रम्यः क्षणो वर्तते ॥१७९॥'
Page 606
४ परिच्छेद I] सरस्तीकण्ठाभरणम्। ५१३
अत्र 'उष्टरासिका आस्यन्ते', 'हतशायिकाः शय्यन्ते' इत्यमूम्यां सामान्यविशेषोपचरितरूपो भावात्मा वुलैव प्रत्याय्यते। स आख्या- ताभ्यां सामान्यरूपेण, ण्वुलन्ताभ्यां विशेषरूपेण। बहुवचनं चेह कुत्सातिशयार्थम्। याहि नामोष्ट्रस्य कुत्सावत्यो बहुप्रकारवत्यो वक्षःसु आसिकाः, याश्र हतानामतिशयवत्यस्तथाभूता एव भूयस्यः शायिकाः प्रतीतास्ताभिर्विशेयरूपाभिरियमासिका शायिका चोपमानोपमेयसंबन्ध- जनित मेदा मेदपरिग्रहालकारेणापि बहुत्वेनैव प्रत्याय्यते। तेनोष्ट्रसिका इवासनानि, हतशायिका इव शयनानि क्रियन्ते भवन्तीति वाक्यार्थो भवति, सोडयं यथोक्तः क्रियापरिकरः ॥ शय्यन्त इत्यादि। पथि वृक्षच्छायोपविष्टपान्यैर्हतशायिका निन्दितशय- नानीव शय्यन्ते शयनानि क्रियन्ते। श्रीकण्ठगृहेपु धार्मिकजनेस्तपसिविभिरुष्ट्रासिका इवोश्टेपवेशनानीवास्यन्ते स्थीयन्ते। यथोष्ट्रो यत्र कुत्रचिदुपविशति तथा तपखिवभि- रम्युपविश्यत इत्यर्थ: । हे सखिरि, तत्र निकुजशास्तिनि निकुजजवक्षे शुन्ये विजने श्रीष्मस्य मध्या हे सज्जानां सुसज्जानाम भिसारिकाणां प्रियस्याभिसारणव्यापारे रम्य: क्षणो वर्तते। राध्यन्त इति 'शीड् खप्े' भावे यक। शायिका इति 'धात्वर्थनि्देशे प्वुल् बक्तव्यः' इति शीद्धातोः ण्वुल। तथा च शायिकाः रायनानीत्यर्थः । श्रीकण्ठः शिवः । 'श्रीकण्ठः शितिकण्ठः कपालमृत्' इत्यमरः। आसिका इति। 'आस उपवेशने" धात्व- नि्देशे प्वुल् वक्तव्यः' इति ्वुल्। तेन आसिका आसनानीत्यर्थ: । 'सज्ः स्यात् संनद्धे संभृते त्रिपु' इति मेदिनीकारः । अत्र शयितापेक्षयोपविष्ठस्याभिसरणे वारणीयत्वर्यापनार्थ विवरणे वैपरीत्यमाह-अत्रेति । अमूम्यां वाक्याभ्याम्। सामन्यविशेषाभ्यां शय्यन्ते आस्यन्ते इति सामान्यम्, हृतशायिका उष्ासिकेति विशेषस्वाभ्यामुपरचितमुपस्थापितं रूप स्वरूपं यस्य सः। भावात्मा भावरूपो धम इति यावत्। प्रत्याय्यते बोध्यते। आख्याताभ्यामास्यन्ते श्यन्त इत्यत्र। सामान्यरूपेण सामान्याकारेण। गवुलेति। उष्ट्रतिकाहतशायिकापदाभ्ामित्यर्थः। विशेपेति। विशेष्ये तयो: कथनादित्यर्थः। तर्हिं भावस्यैकत्वादेकवचनं स्यात्तत्कर्थ बहुवचनं वाय्यन्ते आस्यन्ते इति स्वादत आह-बहुवचनमिति। विशेष- कियागतबहुत्वस्येव सामान्यक्रियाया विंवक्षितत्वाद्हुवचनमिलर्थः। विवक्ञामूल ३३ स० क०
Page 607
५१४ । काव्यमाला।
कुत्साप्रतिपादनम् । कुत्सामेवाह-या हीति। तथा च तद्विशेषयोगाद्वहुत्व- मिलेवाह-ताभिरिति। उपमानोपमेयसंबन्धेन जनितोSमेदो यस्याःसा। मेद- परित्रहा्वेदपुरस्कारात्। लकारेण भावप्रत्ययेन। उकारवाच्यमर्थमाह-तेनेति॥ कचित् पुनर्वाह्यमपि कृद्रपं कृदर्थरूपं वा क्रियाविशेषणं भवति। यथा- 'शतं वारानुक्तः प्रियसखि वचोभिः स परुषैः सहसर निर्धूतः पदनिपतितः पाष्णिहतिभिः । कियत्कृत्वो बद्धाः पुनरिह न वेझि भ्रुकुटय- स्तथापि क्विश्यन्मां क्षणमपि न घृष्टो विरमति ॥१८०॥'
अत्र 'वारान्' इति वारशब्दः कृदन्तः । वारसंख्यायाः कृत्वसु- जिति कृत्वसुच् कृदर्थः । ताविमौ द्वावप्यावृत्तिरूपेण कियाया विशे- षणं भवतः । नन्वेवमुष्ट्रासिकादीनां वारादीनां च क्रियाविशेषणत्वात् कर्मतेव नपुंसकलिङ्गतापि प्रामोति। यथा-मृदु पचति, प्रशस्तं पठ- तीति। उच्यते । त्रिधा खलु क्रियाविशेषणं भवति-बाह्यम्, आ- म्यन्तरम्, वाह्याभ्यन्तरं च। तत्र बाह्यं कर्मरूपं वारादि, आभ्यन्तरं विशेषरूपमुष्टासिकादि, बाह्याभ्यन्तेरं गुणरूपं मृद्धादि। तेषु बाह्यं
शिषत् कथमिव खलिअं जह्यात्, आभ्यन्तरं तु विशेषापरिग्रहादावि- ष्टलिन्नसंख्यं कथमिवान्यलिङ्गं गृह्लीयात्। बाद्याभ्यन्तरं तु गुणत्वात् खलिङ्गविरहे 'गुणवचनानामाश्रयतो गुणवचनानि' इति विशेर्ष्येलिज्ञ- आद्येव भवति॥
१. 'वारादीनाम्' स. घ. २. 'बाग्यान्यन्तररूपम्' ग. घ. १. 'च प्रधानं विशिषद' घ. ४. 'विशेष्यतिन्नमाध्यमेव' स.
Page 608
४ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ५१५
शतमित्यादि। हे प्रियससित्र, तथापि स पृष्टो मां किश्यन् क्षणमपि न विरमति न विरक्तो भवति। कीडशः । परुषेनिष्ठुरैवचनैः शतं वारान्यथा स्यादेव- मुक्तः, पदे निपतितः, स च पार्ण्णहतिभिः पादतलप्रहारैः सहसरं वारानिर्धूत- श्वालितः, इह विषये ध्रुकुटयः पुनः कियत्कृत्वः कियद्वारान् न बद्धा इति न वेदयि। वारानिति 'वरुम्न वरणे' भावे धल्। तेन वारपदमावृत्तिवचनं खत एव कियत्कृत्व इति। 'निष्ठुरं परुषं प्राम्यम्' इत्यमरः। अत्र वारशब्द: कृदन्तः । कियत्कृत्व इत्यत्र वारसंख्यावाचकतायां कृत्वसुजिति कृदर्थता। कृदन्तस्य कृदर्थस्य चायृत्तिरूपेण पौनःपुन्यतया क्रियाविशेषणता । 'नपुंसकत्वं कर्मत्वं तुत्यत्वं च तथकता। कियाविशेषणस्यैव मतं सूरिभिरादरात् II' इति मतमनुमत्य कीवत्वमु- ष्रासिकादीनां शङ्ते-नन्विति । समाधत्ते-त्रिधेति। यत्र धमधर्मिणोर- मेदोपचारस्तन्र धर्मोऽजहत्स्वरूप एव धर्मिविशेषकः । सोऽयमित्यादी विशेषरूपेण लिजसंख्ययोरन्वये उष्ट्रासिकादी कथमन्यलित्नग्रहः। 'गुणवचनानामाश्रयतो लिन्न- वचनानि' इति गुणरूपाणां विशेष्यलिक्षता।। तद्धितकृत्वसुचोक्तः, थालादिनोच्यते- यथा- 'अकृतकवलारम्भैर्मूयो भयस्थगितेक्षणाः किमपि वलितग्रीवं स्थित्वा मुहुर्मृगपङ्कयः । गगनमसकृत्पश्यन्त्येतास्तथाश्रुघनैर्मुखै- र्निपतति यथा शृक्माग्रेभ्यो अ्रमन्यनोदकम् ॥ १८१॥ अत्राद्यः प्रकारवचने थाल् अनेकवारानित्यर्थे 'असकृत्' इति त- द्वितेन, 'पश्यन्ति' इति करियायाम, 'बलितग्रीवम्' इति समासेन, 'किमपि' इति नाम्नाव्ययेन, 'स्थित्वा' इति कृता, 'मुहुः' इति कृदर्ये वीप्सया च क्रियाविशेषणेन सह विशेषयति, द्वितीयश्च प्यथा अम- न्नयनोदक निपतति' इति शतृलक्षितया 'पतति' इति करियया तमे- चार्थमनुसंदधानः पूर्वक्रियाया एव विशेषणं भवति, सोडयं कृत्तद्धित- १. तद्धितकृत्समासाव्ययोक्तसानादिनोच्यते' घ. २. 'क्रियाम्' 'कियायाः' वा मवेत्. ३. 'पतनक्रियया' क.स. ४. 'ोडयम्' ग. घ.
Page 609
५१६ काव्यमाला।
समासाव्ययानां संनिपातरूपेऽपि क्रियापरिकरे 'यथा, तथा' इत्ये- तयो: प्राघान्यात्तद्धितेनैवोपदिश्यते ॥ अकृतेत्यादि। एता सृगपङ्कयस्तथा तेन प्रकारेण निबिडनेत्रजलैमुखैरसकृद्वारं- वारं गगनं पश्यन्ति। यथा येन प्रकारेण नयनजलं भ्रमत् सत् शुह्ञात्रेभ्यो निपतति। कि कृत्वा। अकृतकवलोदमैरास्यैः किमपि वलितग्रीवमुत्तोलितघाटाकं यथा स्यादेवं स्थित्वा । कीटश्यः । भयेन स्थगिते निशले ईक्षणे यासां ताः । अत्र तथेत्यत्र प्रकारवचने थाल्। पश्यन्तीति क्रियायामनेनानेन करियाविशेषणेन सह विशेषयतीत्यन्वयः ॥ असकृदिति 'एकस्य सकृच ५।४।१९' इति सुच्प्रत्ययः, सकृदादेश: संयोगान्तलोपथ। तेन सकृच्छव्दस्तद्विताधिकारीयः । पश्चात्रम्- समासः । चलिता श्रीवा यत्रेति समासः । नान्ना प्रातिपदिकेन। क्त्वाप्रत्ययः कृत्। मुहुरिति। वारंवारं स्थित्वेत्यत्र पूर्वकालिकावस्थान एव वीप्सेति कृदयें वीप्सा स्यादेवेत्यर्थः । द्वितीय इति। यथेत्यत्र थालू। तमेवार्थ प्रकाररूपं संदधान उपस्थापयन् पूर्वक्रियायाः प्रधानक्रियायाः पश्यन्तीतिरूपाया विशेषणं भवति। तथा च कृत्वसुचा प्रत्ययेनोक्तं यत्स्थानं वारंवारादिलक्षणं तेन यदि तदित उच्यते तद्धितस्य वारवारार्थता भवति तदायं परिकरमेदः कृत्प्रभृतीनां संनिपातरूपः समन्वयरूप इत्यर्थ: ॥ एतेन तद्यदोर्विपर्ययस्तद्विशेषणयोगश्च व्याख्यातः । तदथा- 'जह जह णिसा समप्पइ तह तह वेविरतरङ्गपडिमापडिअम्। किंकाअबविमूढं वेवई हिअअं व्व उअहिणो ससिबिम्बम्॥१८२॥' [यथा यथा निशा समाप्यते तथा तथा वेपमानतरङ्गप्रतिमापतितम्। किंकर्तव्यविमूढं वेपते हृदयमिवोद्धेः शशिबिम्बम् ॥] अत्र 'यथा, तथा' इति क्रियाविशेषणयोरपरमपि विशेषणं वीप्सा भवति। सोऽयमेवंप्रकार: क्रियापरिकरो द्रष्टव्यः ॥ जह जहेत्यादि। "यथा यथा निशा समाप्यते तथा तथा वेपमानतरत्न- प्रतिमापतितम्। किकर्तव्यविमूढं वेपते हृदयमिवोदधेः शशिबिम्बम् ॥" इह १. सेतुबन्पे 'वडिअम्' इति पाठ :. २-३. सेतुबन्धे 'घोढर' इति पाठः, 'पूर्णते' इति छाया च.
Page 610
४ परिच्छेद: I] सरखतीकण्ठाभरणम्। ५१७
निशा यथा यथा समाप्यते सवयं समाप्तिं याति । कर्मकर्तरि तद्। तथा तथा शशिबिम्बं घूर्णते। कीटशम्। वेपनशीलतरजे प्रतिमया प्रतिबिम्बेन पतितम्। किंकर्तव्यमत्रेति विमूढं मुग्धमुदधेर्ईदयमिव। इवशब्द उत्प्रेक्षायाम्। अत्र तच्छन्द- यच्छव्दयोवैंपरीत्यम्। यथा शशिबिम्बं घूणते तथा निशा समाप्यत इति वक्तव्ये यथोकं विपरीतम्। तद्विशेषणयोग: क्रियाविशेषणान्तरयोगो वीप्साकारितः ॥ क्रियाविशेषणं कैश्चित्संबोधनमपीष्यते । संबन्धिमिः पदैरेव लक्ष्यन्ते लक्षणादयः ॥ ७४॥ तेपु संबोधनपरिकरो यथा- 'धर्मस्योत्सववैजयन्ति मुकुटस्रग्वेणि गौरीपते- स्त्वां रल्नाकरपलि जहुतनये भागीरथि प्रा्थये। त्वत्तोयान्तशिलानिषण्णवपुपस्त्वद्वीचिमिः प्रेङ्गत- स्त्वन्नाम स्मरतस्त्वदर्पितदृश: प्राणाः प्रयास्यन्ति मे ॥१८३॥' अत्र 'भागीरथि' इति संबोधनपदं 'धर्मस्योत्सववैजयन्ति' इत्या- दिभि: परिष्किरियते। तत्र यथाकरथंचिदप्युच्यमानोऽर्थः क्रियाविशेष- णत्वं नातिक्रामतीत्ययमपि क्रियापरिकरः । धर्मस्येत्यादि। हे भगीरथि भगीरथावतारिते हे गो, त्वामहं प्राथये धर्मस्यो- त्सचे वैजयन्ति पताकारूपे, हे भवानीपतेर्मुकुटमालारूपा वेणी प्रवाहो यस्यास्तादशे, हे रवाकरस्य समुदरस्य पत्नि जाये, हे जड्डमुनिकन्यके । प्रार्थनाविषयमाह-मम प्राणाः प्रयास्यन्ति गमिष्यन्ति। कीटशस्य। त्वत्तोयस्यान्ते समीपे शिलानिषण्णा- अस्य त्वद्वीचिमिः त्वत्तरतैः प्रेङ्कतथ्लतस्त्वदीयं नाम स्मरतस्त्वदर्पितदृशस्त्वयि दत्तनेत्रस्य च । 'वैजयन्ती पताकायाम्' इति मेदिनीकारः । 'अन्तः शेषेऽन्तिके स्त्रियाम्' इति च। अत्र स्फुटक्रियाविशेषणत्वं नास्वीत्यत आह-तत्रेति । विशिष्टायाः प्रार्थनकर्मतया विशेषणस्याप्यन्वय इति यथाकर्थचिदित्यस्यार्थः ॥ १. 'क्रियाविशेषणम्' क. ख.
Page 611
५१८ काव्यमाला।
लक्षणपरिकरो यथा- 'महाप्रथिम्ना जघनस्थलेन सा महेभकुम्भोचकुचेन वक्षसा । मुखेन दीर्घोजवललोलचक्षुषा वयस्य कान्ता कथय क वर्तते।।१८४।' अत्र जघनस्थलादीनि लक्षणानि महाप्रथिन्नेत्यादिभिः परिष्कि- यन्ते; सोऽयं लक्षणपरिकरः । महावाक्यस्थसंबन्धिपदैर्लक्षणादयो यत्र लक्ष्यन्ते स परिकर एवेत्युक्तं वित्र- गोति-लक्षणेति॥ महेत्यादि। हे वयस्य मित्र, त्वं कथय सा कान्ता क वर्तते। कीटशी। महान् प्रथिमा स्थूलत्वं यस् तेन जघनस्थलेन लक्षिता। महाकुम्भिकुम्भस्थलादप्युची कुचौ यत्र तेन हृदयेन लक्षिता । दीघे, उज्वले, निमले, लोले चपले चक्षुषी यत्र तेन मुखेन लक्षिता च। इह लक्षकपदानां संबन्धिभिविशेषणैः परिष्कारः ।। हेतुपरिकरो यथा- 'त्वया जगन्ति पुण्यानि त्वय्यंपुण्या जनोक्तयः । नाथवन्तस्त्वया लोकास्त्वमनाथा विपयैसे ॥ १८५॥ अत्र प्रथमतृतीयपादयो: 'त्या, त्वया' इति हेतू द्वितीयचतुर्थपा- दाभ्यां परिष्क्रियेते; सोडयं हेतुपरिकरः ॥ आदिपदग्राहां हेत्वादि। तत्र हेतावाह-हेत्विति। त्वयेत्यादि। त्वया जगन्ति पवित्राणि। त्वयि जनोक्तयोऽपुण्या अकुशलाः । त्वया लोका जना नाथवन्तः सरक्षकाः । त्वमनाथा अशरणा विपद्यसे विपन्ना भवति। अत्र हेतुद्वय- परिष्कारो व्यक्त एव ।। सहार्थपरिकरो यथा- 'अनेन यूना सह पार्थिवेन रम्भोरु कचिचन्मनसो रुचिस्ते। सिप्रातरञ्जानिलकम्पितासु विहर्तुमुद्यानपरम्परासु ॥१८६।।' १. 'लया पुण्या' क-घ. २. सुद्रित उत्तररामचरिते 'विपतस्यसे' इति पाठ :.
Page 612
४ परिच्छेदः ।] सरस्तीकण्ठाभरणम्। ५१९
अत्र 'अनेन' इति सहार्थ: 'यूना, पार्थिवेन' इति च पदाभ्यां परिष्क्रियते; सोडयं सहार्थपरिकरः ॥ अनेनेत्यादि। हे रम्भोर, अनेन तरुणेन भूपेन सह तब मनसो रुचिर- भिलाप: कचित्कथयेत्यर्थः । किमर्थम्। वनपक्कियु बिहतुं कीडां कर्तुम्। कीटशीषु। सिप्रा नवीमेदस्तत्तरत्वसंगिवायुना कल्पितासु । 'कच्चित्कामप्रवेदने' इत्यमरः । अत्रानेनेति 'सहयुक्तेऽप्रधाने २।३।१९' इति तृतीया। तत्प्रतिपायः सहाथॉडत्र विशेषणाभ्यां परिष्कियते॥ तादर्थ्यपरिकरो यथा- 'इन्दीवरश्यामतनुर्नृपोडयं' त्वं रोचनागौरशरीर्यष्टिः । अन्योन्यशोमापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु १८७' अत्र 'अन्योन्यशोभापरिवृद्धये' इति तादर्थ्यार्थः शेषपदार्थः परि- ष्क्रियते; सोयं तादर्थ्यपरिकरः ॥ इन्दीवरेत्यादि। वां युवयोयोगः संबन्धः परस्परशोभासपत्त्यै भवतु। विद्युन्मेघयोरिव, यथा तगोर्योग: परस्परशोभाये तथेत्यर्थः। अयं नृपो नीलनलि- नश्यामान्गः, त्वं च गोरोचनावत् गौरात्यष्टिः। अत्र परिषृद्धये इति तादध्ये चतुर्थाति तादर्थ्यार्थपरिष्कारः ॥ उपपदपरिकरो यथा- 'प्रत्यक्षवस्तुविषयाय जगद्धिताय विश्वस्थितिप्रलयसंभवकारणाय। सर्वात्मने विजितकोपेमनोभवाय तुभ्यं नम्त्रिभुवनप्रभवे शिवाय ।। १८८ ॥' अत्र 'नमस्तुभ्यम्' इत्युपपदार्थः समस्तपदैः परिष्क्रियते; सोडय- मुपपदपरिकर: ॥ १. मुद्रितरयुवशपुस्तकेधु 'नृपोडसी' इति पाठ :. २. 'काममनोभवाव' घ.
Page 613
५२० काव्यमाला।
प्रत्यक्षेत्यादि । तुभ्यं नमः । कीटशाय। प्रत्यक्षो वस्तूनां पदार्थानां विषयो रूपादिकं यस्य तस्मै। यद्वा प्रत्यक्षी वस्तुविषयी पदार्थघटपटादी यस्य तस्मे। पदार्थ इह खर्गापूर्वदेवतादिः । 'रूपादी विषयः पुमान्' इति मेदिनीकारः। जगता हिता- योपकारकाय। विश्वस्य भुवनस्य स्थितिरवस्थानम्, परयो नाशः, संभव उत्प- त्तिस्तेषां हेतवे। सर्व वस्तु आत्मा खं यस्य तस्मै । सर्वरूपायेत्यर्थः। विजिती रोषकामी येन तस्मे। त्रिभुवनस्य प्रभवे ईश्वराय शिवाय कल्याणकारकाय च। अ्षत्र 'नमःसवस्तिस्वाहासधालंवपड्योगाय २।३१६' इति तुभ्यमिति नमोयोगे उपपदविभक्तिशतुर्थी तदर्थ इतरपदार्थैः परिष्कियते॥ उपमारूपकादीनां शब्दार्थोभयभङ्गिमिः। साधर्म्योत्पादनं यत्तन्मन्ये परिकरं विदु:॥ ७५।। उपमेति। उपमादीनां शब्दार्थोभयभत्विभिर्यत्साधर्म्योत्पादनं स परिकरः । शब्दधार्थश्ोभयं च तेषां भत्निभिर्भजनैः ॥I तत्र सशब्दकृत उपमायां यथा- 'कह कह विरएइ पअं मग्गं पुलएइ छेजमाविसइ। चोरव कई अत्थं लद्धुं दुक्खेण णिबहइ ।। १८० ।।' [कथ कर्थ विरचयति पद मार्गे प्रलोकते छेद्माविशति। चोर इव कविरर्थे लब्धु दुःखेन निर्वहृति ॥]
कविचोरयोरप्रसिद्धमौपम्यं साधितमिति शाब्दोऽयमौपम्यपरिकरः ॥ कह इत्यादि। 'कर्थ कथमपि रचयति। पद मार्ग प्रलोकते छेदमाविशति। चौर इव कविरर्थ लब्धु दुःखेन निर्वहति ॥।' इह कविरर्थ वाच्यं लब्धुं प्रामुं दुःखेन निर्वहृति समर्थो भवतीत्यर्थः। च्वौरसाम्यमाह-कर्थ कथनपि कष्टसृष्ठ्वा पद विभक्यन्तर रचयति, कुत्रकुत्नापि वा पदं रचयति, मार्ग कविवर्त्म प्रलोकते पश्यति। अनेन पथा कविमिः कि गतमित्यनुसंद धातीतवर्थः। देवं छेदनीयमशुद्ध- माविद्ति। चौर इव। यथा चौरः क्वापि कथमपि पदं व्यवसायं पादं वा रचयति, मार्ग गतागतवर्त्म पश्यति, छेयं छेदाई स्थानं प्रविशति, अर्थ साधुधनं प्रामुं दुःखेन शक्कोति तथेत्र्थः । अन्र साम्यापादकविशेषणैरुपमा असिद्धापि साधिता।।
Page 614
४ परिच्छेद: I] सरसतीकण्ठाभरणम्। ५२१
अर्थकृतो रूपके यथा- 'विअडे गअणसमुद्दे दिअसे सूरेण मन्दरेण व महिए। णीइ मइरव संज्झा तिस्सा मग्गेण अमअकलसो व्व ससी।१९०। [विकटे गगनसमुद्रे दिवसे सूर्येण मन्दरेणेव मथिते। निर्याति मदिरेव संध्या तस्या मार्गेणामृतकलश इव शशी ॥] अत्र गगने समुद्रत्वेन रूपिते सूर्यसंध्याशशिभि:, मन्दरमदिराडमृ- तकलशैश्र मथनादिक्कियानिवेशिभिरथेः परस्परोपमानात्साधर्म्यमुत्पादि- तमित्यर्थोडय रूपकपरिकरः ॥ विअडे इत्यादि । 'विकटे गगनसमुद्रे मन्दरेणेव (महिते) मयिते। निर्गच्छति मदिरेव संध्या तस्या मार्गेणामृतकलश इब शश्षी ।' इह संध्या निर्गच्छति। विकटे महति गगनसमुद्रे मन्दरगिरिणेब रविणा दिवसे महिते पूजितेऽथ च मथिते सति मदिरेव यथा मन्दरमथिते समुद्रे मदिरा निर्गच्छति तथेत्यर्थः । तस्याः संध्याया मार्गेण यथा चन्द्रोऽमृतकलश इवास्ति निर्गच्छति वा। आकाहाकमेण निर्गच्छतिरुमयान्वयी । अत्र सूर्यादिभिरथैरन्योन्योपमा-
उभयकृतश्च विरोधक्लेषे यथा- 'रइ्अमुणालाहरणो णलिणदलत्थइअपीवरत्थणअलसो। बहइ पिअसंगमम्मि वि मअणाअप्पप्पसाहणं जुअइजणो ॥१९१॥' [रचितमृणालाभरणो नलिनदलस्थगितपीवरस्तनकलशः । वहति प्रियसंगमेऽपि मदनाकल्पप्रसाधन युवतिजन: ॥] अत्र 'प्रियसंगमेSपि मदनाकल्पप्रसाधनं भवति' इति विरुद्धार्थयोः साधर्म्योत्पादनाये जले क्रीडतो युवतिजनस्य यथोक्तविशेषणाभ्यां १. 'विरोधषेपयोः' क. 'विरोधरेषो' ख. २ 'च्ठर' ग. घ. ३. अत्र 'अन्ये- ध्वपि दृश्यते' इति भाव्यम्। अपिश्वब्दः सरवोपाषिव्यभिचारार्षः। वेन जनिव्यति- रिक्तादपि धातो्मवितुमईवीति वैयाकरणा :.
Page 615
५२२ काव्यमाला।
शब्दतोऽर्थतश्रोपस्कार: कृत इत्युभयकृतोऽयं विरोधक्लेषपरिकरः । एवमलंकारान्तरेष्वपि द्रष्टव्यम् ॥ उइअ इत्यादि। 'रचितमृणालाभरणो नलिनीदलोत्थगितपीवरस्तनक लशः । वहति प्रियसंगमेऽपि मदनाकल्पप्रसाधनं युवतिजनः ॥I' इह युवतिजनः पति- संगमेऽपि मदनस्याकल्प उत्कण्ठा तदर्थ प्रसाधनमलंकारं वहति। कीटशः । कृतमृणालालंकार: । पद्मिनीपत्रैरुत्थगित उत्तम्भितः । आवृत इति याबत्। पीवरकुचघटो येन सः। उत्थगित इति उत्पूर्वात् 'धगि (घृगे ) संवरणे' कर्मणि कः। 'आकल्पकस्तमोमोह्ग्रस्ताबू ( न्थिषू) त्कलिकामुदोः ।' इति मेदिनीकार: । यद्वा मदनस्य रतिपतेराकल्पकमजनकं प्रसाधनमित्यर्थः। अन्र प्रियसंगमे काम- जनकमेव प्रसाधनं युक्तमिह तु तद्वैपरीलेन विरुद्धार्थता। जलकीडायां तु मृणाल- नलिनीभ्यां युवतेरुपस्कार: शाब्द आर्थथ् व्यक्त एव ।। एकावलीति या सापि भिन्ना परिकरान्न हि। त्रिधा सापि समुद्दिष्टा शब्दार्थोभयभेदतः ॥ ७६ ॥ पूर्व प्रति यत्रोत्तरस्य वस्तुनो वीप्सया विशेषणत्वेन स्थापनं निषेधो वा सैकावली । इयमपि परिकरादभिन्नैवेलाह-एकावलीति। एकेनापरस्य पार- षकरणमेकावल्यामपि लभ्यते इत्यनयोरमेद इत्यर्थ: ॥ तत्र शब्दैकावली यथा- 'पर्वतमेदि पवित्रं जैत्रं नरकस्य बहुमतङ्गह्नम्। हरिमिव हरिमिव हरिमिव वहति पयः पश्यत पयोष्णी ॥१९२॥ अत्र 'हरिमिव, हरिमिव, हरिमिव' इति शब्दैकावल्या विभिन्ना- र्थया 'पयः'कर्मकारकमुपस्क्रियते; सेयं शब्दैकावली परिकरस्यैव भेदः॥ पर्वतेत्यादि। इयं पयोष्णी नदीमेद: पयो जलं वहति तत्पश्यत। वाक्या- र्थस्येव वा कर्मता। पयः कीटशम्। पर्वतस्याद्रेमेंदनशीलम्। अद्रि भित्त्वा वह- नात्। पवित्रं पुण्यहेतुकम्। नरकस्य निरयस्य जैत्रमत एव बहुमतमनेकसमतं गहनमगाधम् । हरिरिन्द्रसतमिव। इन्दरं कीडशम्। 'अद्रिपक्षस् छेय्यत्वेन पर्वतमेवी पविना बज्ेण त्रायते 'अन्यत्रापि दश्यते इति न्रः पवित्रः। पथ्ात्कर्मधारयः ।
Page 616
४ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ५२२
यद्वा पर्वतमेदिना पविना त्रायते इति पर्वतमेदिपवित्रस्तम्। हे नर नल इति संबो- धनम्। रळ्योरेकत्र समरणात्। कस्य बहुमतमीषन्मतं जैत्रं किंतु सर्वस्यैव संपूर्णमेव स्वीकृतम्। बहुमतमितीषदसमाप्ती बहुच्। स चादी भवति 'विभाषा सुपो बहुच् पुरस्तात्तु ५।३।६८' इति सूत्रेण। गहनं कठोरम्। हरि: सिंहस्तमिव पर्वतस्प। भिद्यत इति भेदो विवरम्। गुहेति यावत्। तत्संबद्धं तच्छायित्वात्। पवित्रं श्वेतं नरकस्य प्रशस्तपुंसोऽपि जेतारम्। बहुर्बहुमानविषयो मतज्ञो मुनिभेदो येषां ते बहुमतज्ा हस्तिनस्तेषां पितृत्वेन तस्प पूज्यत्वात् तान् हन्ति तम्। हरिर्वि- ण्णुखमिव। पर्वतस्य गोवर्धनस्य भेदकमुत्यापकत्वात्। पवेर्वज्ात् त्रः त्राणं यस्मात्तत्। विष्णुस्मरणस्य तदपि फलम्। नरकस्य देत्यमेदस्य जैत्रम्। बहु- मतज्ञान् हिंसान् हन्ति यस्तम्। हरिर्वायुस्तमिव सोऽप्यतिवेगित्वादद्विमेदी, पवित्रः पवनत्वात् । अत एव नरकस्य कशमलस्य निवारकः। बहूनां वातयोगिनां खीकृतः गहन: कष्टेन परिचेयथ्च भवति। 'इन्द्रे सिंहेऽनिले विष्णी हरिः शमनसूर्ययोः ।' इति शाश्वतः । अत्र हरिमिवेल्यादिशब्दरूपैकावल्या विशेषणत्वेन पयोरूपस्य कर्मकारकस्य परिष्कारः ।। अर्थैकावली यथा- 'किमिति कबरी यादक् ताहग् दशौ किमकज्जले न खललु लिखिताः पत्रावल्यः किमद्य कपोलयोः । अयमयमयं किंच क्वाम्यत्यसंसरणेन ते प्रियसखि सखीहस्तन्यस्तो विलासपरिच्छदः ।१९,३।' अत्र 'अयमयमयम्' इति सर्वनामपरामृश्यमानया प्रागुपन्यस्तका- रणभूतया ततोऽन्यया वा तथाविघयार्थैकावल्या 'परिच्छदः' इति कर्तृकारकमभिन्नार्थ इव परिष्कियते; सेयमर्थैकावली परिकरस्यैव भेदः॥ किमित्यादि। हे शशिमुखि, सलीहस्तारोपितोऽयमयं विलासार्थ परिच्छ- दस्तवासस्मरणेन किचित्काम्यति। तदाह-कबरी केशवेशः । किमिति याटकू ताडकू। न रम्य इत्यर्थः। 'कबरी केशवेशः स्यात्' इत्यमरः। दशौ नेत्रे अकबळे १. शाश्वतकोपे तु 'इन्द्रचन्द्राश्ववातार्कशुकमेकयमाहिषु। कपी सिंहे सुवर्गामे वणें विष्णौ हरि विदुः ॥' इति विचयवे।
Page 617
५२४ काव्यमाला।
किम्, कपोलयोः पत्रावल्योऽय्याधुना कि नैव लिखिताः। खलुशब्दोऽवधारणे वाक्यभूषायां वा। अत्रायमिति सर्वनामोपस्थापितयार्थकावल्या तुल्ययेव परि- चछदरूपस्य कर्तृकारकस्य परिष्कारः ॥ उभयैकावली यथा- 'अम्बा तुष्यति न मया न सुषया सापि नाम्बया न मया। अहमपि न तया न तया बद राजन् कस्य दोषोऽयम् ॥१९४॥ अत्राम्वान्नुषास्मदर्थलक्षणैरथैसतद्वाचिभिः सर्वनामभिः शब्दैरेका- वलीकमेण मिथोऽनुस्यूतैर्मिथोऽनुस्यूत एव 'तुष्यति' इति क्रियाहेतु- र्मयेत्यादिमि: परिष्क्रियते; सेयमुभयग्रथितत्वादुभयैकावली परिकर- स्यैव भेद: ।I अम्बेत्यादि। अम्बा माता न मया तुष्यति तुष्टा भवति। न सुपया पुत्र- वष्वा तुष्यति। सापि सुषा नाम्बया न मया च तुष्यति। अहमपि न तयाम्यया न तया लुपया च तुष्यामि। हे राजन्, कस्य दोषोऽयमिति बद। वदेतन्न वाक्यार्थस्येव कमता । 'अम्बा माताम्बिकापि च' इति रत्नकोषः । 'समा: स्रुपा- जनीवध्व:' इत्यमरः । अत्राम्याय्यर्थेस्वद्वाचकशव्दैक्व मयेत्यादेः परिष्कारः ॥ इति परिकरालंकारनिरूपणम् ।। दीपकालंकारनिरूपणम् । दीपकं लक्षयति- क्रियाजातिगुणद्व्यवाचिनैकत्र व तिना। सर्ववाक्योपकारश्रेद्दीपकं तननिगद्यते ॥ ७७॥ अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरावली। संपुटं रसना माला चक्रवालं च तच्िदाः ॥। ७८॥। क्रियेत्यादि। एकत्र स्थितेन जात्यादिवाचिना पदेन यदि सर्ववाक्योपकार: कियते तदा दीपकम्। दीपयतीति दीपकमित्यन्वर्थ नाम। अष्टधा तदिल्ाह- अर्थेति। तस्य दीपकस्य भिदा मेदा: ।।
Page 618
४ परिच्छेद: I] सरखतीकण्ठाभरणम्। ५२५
तेषु क्रियावाचिना आदिदीपकं यथा- 'चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः । चक्रवालाद्रिकुल्लेषु कुन्दभासो गुणाश्र ते ॥ १९५ ।' अन्र 'चरन्ति' इति क्रियया द्वयोरपि वाक्ययोरादिपदस्थयैवोप- कार: क्रियत इत्यादिदीपकमिदं क्रियाविषयमुच्यते। एवं मध्यान्त- योरपि द्रष्टव्यम् । चरन्तीत्यादि। तव दन्तिनो हस्तिनश्रतुःसमुद्रकूलवनेषु चरन्ति। कुन्दपु- षपदीसयो निर्मलास्तव गुणाथ् चक्वालस्य लोकालोकस्याद्रे: कुज्ेषु चरन्ति गच्छ- न्ति। अत्र कियावाचिना चरन्तीति पदेनादिस्थेन वाक्यद्वयं दीपितम्। मध्यस्थि- तेन वा क्रियापदेन यत्र वाक्यदीपनं तदपि मध्यदीपकमन्तदीपक चेति मन्तव्यमि- त्याह-एवमिति॥ जातिवाचिना आदिदीपकं यथा- 'पवनो दक्षिणः परण जीर्ण हरति वीरुधाम्। स एव च नताज्कीनां मानभक्काय कल्पते ॥ १९६ ॥' अत्र 'पवनः' इत्यादिपादे जातिपदं तेनादिदीपकमिदं जातिविषय- मुच्यते। एवं मध्यान्तयोरपि द्रष्टव्यम् ॥ पवन इत्यादि। दक्षिणः पवनो मलयानिलो वीरुधां लतानां जीण पक्क पणे पत्रं हरति। स एव पवनो नागरीणां मानभन्नाय कल्पते शक्तो भवति। अत्र पवनपदस्य सामान्यत एवोभयत्रान्वयाज्जातिवाचकत्वमादिस्थत्वं च। एवं चेलयं समुदायोऽत्यन्तमभेदमाह । मध्यान्तस्थयोरपि जातिवाचिनोदीपकं तत्तलान्ना ज्ञेयमिल्वाह-एवमिति॥ गुणवाचिना आदिदीपकं यथा- 'श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपङ्किभिः । मुबश्च सुकुमाराभिर्नवशाद्लराजिमिः ॥ १९७ ॥।' अत्र 'श्यामलाः' इत्यादिपादे गुणपदं तेनादिदीपकमिदं गुणविष- यमुच्यते ।. एवं मध्यान्तयोरपि द्रष्टव्यम् ॥।
Page 619
५२६ 1 काव्यमाला।
श्यामला इत्यादि। प्रायृपेण्यानिर्वर्षजाताभिजीमूतपज्गिभिमॅघसंपर्दिश: श्यामलाः श्यामाः । रम्याभिर्नूतनतृणपञ्किभिर्भुवक् श्यामव्यः सन्ति। 'कालश्या- मलमेचकाः' इत्यमरः। अत्र जाते इत्यथे 'प्रात्ृष एण्य: ४।३।१७' इल्येण्यप्रत्ययः। 'धनजीमूतमुदिर' इत्यमरः । 'शाद्वल: शादहरिते' इति च। 'शाद: स्वात्कर्दमे शस्ये' इति मेदिनीकारः। अत्र श्यामलपदेन गुणवाचिनानादिस्थेन दीपनम्। मध्यान्तस्थयोरपि गुणवाचिनोरेवं हेयमिल्याह-एवमिति॥ द्रव्यवाचिना आदिदीपकं यथा- 'विष्णुना विक्रमस्थेन दानवानां विभूतयः । कापि नीताः कुतोऽप्यासन्नानीता देवतर्द्धयः ॥ १९८॥' अत्र 'विष्णुना' इत्यादिपादे द्रव्यपदं तेनादिदीपकमिदं द्रव्यवि- षयमुच्यते। एवं मध्यान्तयोरपि द्रष्टव्यम् ॥ विष्णुनेत्यादि। दानवानां दनोरपत्यानामसुराणां विभूतयः संपत्तयो विक्रा- न्तेन विष्णुना क्वापि नीताः प्रापिताः । तेनैव देवतानामृदयः श्रियः कुतोऽप्यव- धिभूतादानीता आसन स्थिताः । 'संशता (१) ुपचये ऋद्धि:' इति नानार्थः । अत्र विष्णुशब्दो द्रव्यपर आदिस्थश्च। मध्यान्तस्थयोरपि द्रव्यवाचिनोरेवं द्रष्ठव्यमि- त्याह-एवमिति॥ अर्थावृत्तिर्यथा- 'हृष्यति चूतेषु चिरं तुष्यति बकुलेषु मोदते मरुति। इह हि मधौ कलकूजिषु पिकेषु च प्रीयेते कामी ॥१९९॥' अत्र 'हृष्यति, तुष्यति, मोदते, प्रीयते' इत्येतैः पदैः स एवार्थ आवर्त्यमान: सर्ववाक्यानि दीपयति; सेयमर्थावृत्तिर्दीपकस्य भेदः ॥ हप्यतीति। कामी इह मधी वसन्ते चूतेषु हृष्यति हृष्टो भवति। बकुलेषु तुष्यति। मरुति बाते मोदते। कलरवेषु कोकिलेषु च प्रीयते प्रीतो भवति। सवत्र चिरमित्यन्वयः । हिरवधारणे । प्रीयत इति 'प्रीड् प्रीती' दैवादिकः । अत्र हष्यतीत्यादिपदैरावर्तमानोऽर्थः सर्ववाक्यदीपकः ॥ १. 'संपच्चावुपचये कडि:' इति भवेद, २. 'प्रीयते' ग.ध.नास्ति.
Page 620
४ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ५२७
पदावृत्तिर्यथा- 'उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम्। यूनामुत्कण्ठयत्यद्य मानसं मकरध्वजः ॥ २०० ॥' अत्रोद्गीवं करोति, उत्कण्ठावन्तं करोतीत्यर्थयोः 'उत्कण्ठयति' इति पदमावर्त्यमानं वाक्यद्वयमपि दीपयति; सेयं पदावृत्तिर्दीपकस्य भेद: ॥ उत्कण्ठयतीत्यादि। मेघाना पक्किः, मयूराणां वृन्दं समूहमुत्कण्ठयत्युद्धीब- यति। अद्येदानी कामश् यूनां चित्तमुत्कण्ठयत्युतमुकयति। अत्रोत्कण्ठयतीति पद- मावर्त्यमानं वाक्यद्वयदीपकम्।। उभयावृत्तिर्यथा 'जय देव भुवनभावन जय भगवन्निखिलवरद निगमनिधे। जय रुचिरचन्द्रशेखर जय मदनान्तक जयादिगुरो ।। २०१ ।।' अत्र जयेत्यर्थः शब्दश्वावर्त्यमानः सर्ववाक्यानि दीपयति; सेयमु- भयावृत्तिर्दीपकस्य भेदः ॥। जयेत्यादि। हे देव महादेव, भुवनस्य जगतो भावन जनक, जय। हे भग- बन्नखिलेपु जनेषु वरप्रद, निगमस्ये वेदस्य निधे आश्रय, जय। रम्यचन्द्रचूड, जय। मदननाशक, जय प्रथमगुरो, जय। 'निगमो नगरे वेदे' इति मेदिनीकारः । अत्र जयशब्दस्तदर्थश्ावर्त्यमानः सर्ववाक्यदीपकः ॥ आवली यथा- 'त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह- स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च। परिच्छिन्नामेवं त्वयि परिणता विभ्रति गिरं न विदस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ।।२०२।।' अत्र पूर्वार्घे त्वमिति शब्दार्थयोः प्रथमावृत्तिः प्रथमपादस्पया १. 'निगमो वाणिजे पुर्या कटे पेदे वणिकमये' इवि मेदिनी.
Page 621
५२८ काव्यमाला।
'असि' इति क्रियया दीप्यते। ततस्तृतीयपादे 'त्वयि' इति रूपा- न्तरेण युष्मदर्थ आवर्त्यमान: क्रियान्तरेण संबध्यते, चतुर्थपादे पुन- रपि तेनैव रूपेणास्त्यर्थेन भवतिना संबध्यत इति; सेयं वृत्तीनामावृत्ति- रावलीति दीपकस्थैव मेदो भवति। व्वमित्यादि। परिणताः परिणामिनोऽर्कादयस्वयि त्वद्विषय एवं परिच्छित्रा गिरं वाणीं बिभ्रति धारयन्ति। इह जगति यत्तत्वं वस्तु त्वं न भवसि तत्तत्वं वयं पुनर्न विद्यो न जानीमः। सर्वात्मकत्वाद्धवस्य। परिच्छिन्नवाणीमाह-त्वमा- दित्यस्त्वं चन्द्रर्त्वं वायुस्त्वममिसत्वं जलं त्वमाकाशम्। उ हे। त्वं भूमिस्त्वमात्मा चासीति। 'उ संबोधनशेषोत्त्योः' इति मेदिनीकारः ॥ अत्र प्रथमाध त्वमितिश- व्दार्थयोरावृत्तिरसीतिक्ियया दीपिता, तृतीयपादे त्वयीतिरूपान्तरेण विषयत्वेन युष्मदर्थस्त्वमित्येवंरूपो धारणक्रियान्वयी। अन्त्यपादेऽपि त्वमित्वेव भवनान्वयी- त्यावृत्तीनामाृत्तिरावलीति ॥ संपुट यथा- 'णवपल्लवेसु लोलइ घोलइ विडवेसु चलइ सिहरेसु। थवइ थवएसु चलणे वसन्तलच्छी असोअस्स ।।२०३॥' [नवपल्लवेषु लोलति घूर्णते विटपेषु चलति शिखरेषु। स्थापयति सबकेषु चरणौ वसन्तलक्ष्मीरशोकसव ।] अत्र 'नवपल्लवेषु-' इत्यादीनि 'अशोकस्य' इति; 'लोलति-' इत्यादीनि 'वसन्तलक्ष्मीः' इति पदे द्रव्यवाचिनी संपुटक्रमेण मिथः संबध्यमाने मिथः संबद्धान्येव दीपयतः, तदेतत्संपुट नाम दीपकस्य भेदः ॥ णवेत्यादि। "नवप्ववेषु लोलति घूर्णते विटवेषु चलति शिखरेपु। स्थाप- त्यति स्तबकेयु चरणौ वसन्तलक्ष्मीरशोकस्य ।।" इहाशोकस्य नवपाटवेषु वसन्त- लक्ष्मीर्लोलति उठति । तस्य विटपेषु शाखासु घूर्णते, तस्य शिखरेष्वभ्रेषु चलति गच्छति, तस्प सबकेषु पुष्पगुच्छेपु चरणो स्थापयति। लोळतीति
Page 622
४ परिच्छेद: I] सरखतीकण्ठाभरणम्। ५२९
'लोले चलने' तौदादिकः। यद्वा लोलतीति किबन्तात्तिए। अत्र पदद्यं द्रव्यवाचकं संपुटकमेण मिथः संबध्यमानं मिथः संबद्धान्येव पदानि दीपयतीति संपुटम्॥ रसना यथा- 'सलिलं विकाशिकमलं कमलानि सुगन्धिमघुसमृद्धानि। मधु लीनालिकुलाकुळमलिकुलमपि च मधुरणितमिह । २०४ ॥' अत्र रसनाक्रमेण मिथः संग्रथितानि 'सलिलं विकाशिकमलम्' इत्यादीनि वाक्यानि 'इह' इत्यन्तस्थितेनाधिकरणवाचिना द्रव्यदीपकेन दीप्यन्ते; तदेतत् रसनादीपकं नामादिदीपकमेदः ॥ सलिलमित्यादि। जलं प्रफुल्लपद्मम्, पद्मानि सुगन्धमधुना समृद्धानि। लीनं यदलिकुलं तेनाकुलं मधु, भ्रमरकुलमपीह वसन्ते मधुरणितं मधुना पुष्प- रसेन शब्दितं मधौ मधूकडठमे वा शब्दितम्। 'मधु पुष्परसक्षौद्रमये ना तु मघुदमे' इति मेदिनीकारः । अन्र क्षुद्रघण्टिकाक्रमेण संग्रथितानि सलिलादिपदा- न्यन्तःस्थिताधिकरणरूपदव्यवाचकेनेहेति पदेन दीप्यन्ते। माला यथा- 'इमिणा सरएण ससी ससिणा वि णिसा णिसाइ कुमुअवणम्। कुमुअवणेण अ पुलिणं र्पुलिणेण अ सोहए हंसउलम् ॥२ ०५॥ [अनया शरदा शशी शशिनापि निशा निशया कुमुदवनम्। कुमुदवनेन च पुलिनं पुलिनेन च शोभते हंसकुलम् ॥] अत्र मालाक्रमेण परस्परप्रथिताः कर्तारो हेतवश्च शशिपरभृतयः 'शो- भते' इति क्रियया दीप्यन्ते; तदेतन्मालादीपकं नाम दीपकस्य भेदः । कः पुनरस्य पूर्वस्माद्विशेषः । पूर्वत्र वृत्तिच्छित्नं रसनायां सर्वत्र १. नैप धातु: कापि धातुपाठे वतते। 'झुड विलोडने' इति, 'लोड उन्मादे' इति च भौवादिकी। उमयोरपि लोडतीति । डलवोरमेदाछोलवीति च. २. 'लीला- लिकुल' ग. घ. ३. 'णिसाए' ग. ४. अत्रैकमात्राया न्यूनत्वाच्छन्दोदोष: प्रतिभाति. ३४ स० क०
Page 623
५३० काव्यमाल।
इह तु खतन्रं मालापुष्पवत् पदं पदेन युज्यमानं क्रियादिभि: संबध्यत इति ततो मिद्यते। इमिणेत्यादि। "अनया शरदा शझ्ी शशिनापि निशा निशया कुमुदवनम्। कुमुदवनेन च पुलिनं पुलिनेन च शोभते हंसकुलम् ।।" इह सर्वत्र शोभत इति क्ियान्वयः । अत्रान्योन्यप्रथनया मालाकमस्तेन च प्रधानक्रियायां दीपनम्। परस्परप्रथनया रसनामालयोभेंद पृच्छति-क इति। उत्तरम्। पूर्वत्रेति। रसनायां सर्वत्र वृत्या छन्दसा छिनं भिननीभूतं पद पदेन बुज्यते। मालायां तु प्रत्येकमेव पद पदेन युज्यत इत्यनयोर्भेद इत्यर्थ: ॥ चक्रवालं यथा- 'संगामाक्कणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शरा: शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकैत्रयम् ।।२०६।।' अत्र 'संग्रामाङ्कणमागतेन भवता चापे समारोपिते' इति भावल- क्षणाक्षिप्तस्य भावविशेषस्य द्वितीयपादे कारकवीप्सया यत् संक्षेपेणा- भिधानं तदेतचकवालाद्रिणेव मालादीपकेन विस्तारवता वेष्टितमिदं चक्रवालं नाम दीपकस्य भेद: ।। संग्रामेत्यादि। वितृतोऽयं विस्तारगुणे। अत्र भावः किया। सा च सामा- न्यलक्षणेन ज्ञाता विशेषमाक्षिपति। ज्ञानसामान्यस्य विशेषे जिज्ञासोदयात् तत्र च समारोपणरूपे कारकजिज्ञासायां सामान्यत एव वीप्सयाभिधानं येनेति यदिति च। विस्तरवत्त्वेन चक्रवालादिसाम्यमस्य ।। इति बीपकालंकारनिरुपणम् ।। कमालंकारनिरूपणम्। कमलक्षणमाह- शब्दस्य यदि वार्थस्य द्योरप्यनयोरथ। भणनं परिपाठ्या यत् क्रमः स परिकीर्तितः ।। ७९।। १. 'तवोडयं भिचते' क. र. २. 'देवालोकय' क. पुस्तके. ३. 'सप्ताब्धयः' इलपि पाठ: प.
Page 624
४ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ५३१
शब्दस्येति । शब्दार्थयोः परिपाट्या भणनं क्रमः । शब्दतदर्थतदुभयमेदात्स त्रिषेति विभाग: ।। तत्र शब्दपरिपाटी द्विधा-पदतो वाक्यतश्च। तयोरादा यथा- 'तस्याः प्रवृद्धलीलाभिरालापस्मितदृष्टिमिः । जीयन्ते वल्लकीकुन्दस्रगिन्दीवरसंपदः ॥। २०७।।' अत्रालापस्मितदृष्टिमि: पदार्थैर्वलकीकुन्दस्रगिन्दीवरसंपद: पदार्था जीयन्त इति शब्दपरिपाट्या भणनम्; सेयं पदतः शब्दपरिपाटी कम: ॥ तस्या इत्यादि। तस्या आलापस्मितदृष्टिभिरवचनेषद्ासालोकनेवहकीकुन्दस्- गिन्दीवरसंपदो वीणाकुन्दमालानीलाब्जसंपत्तयो जीयन्ते। कीदशीभिः । उपचित- विलासाभिः। अत्र शब्दस्य पदरूपस्य परिपाठ्या भणनमिति पदघटितः शान्दकमः॥ वाक्यतो यथा- 'इन्दुमूर्धि शिवस्य शैलदुहितुर्वको नखाड्डः खने देयाद्वोऽम्युदयं दवयं तदुपमामालम्बमानं मिथः। संवाद: प्रणवेन यस्य दलेता कायैकतायां तयो- रूध्वद्वारि विचिन्तितेन च हृदि ध्यातखवरूपेण च २०८' अत्र 'इन्दुर्मूधि शिवस्य', 'शैलदुहितुर्वकरो नखाङ्कः सने' इति चोच्यार्थवाचिनौ शब्दसमुदायौ क्रमेण 'ऊर्ध्वद्वारि विचिन्तितेन च', 'हृदि ध्यातर्सवरूपेण च' इति वाक्यार्थद्वयवाचिम्यां शब्दसमुदायाभ्यां संबध्येते; सेयं वाक्यतः शब्दपरिपाटी क्रमः ॥ इन्दुरित्यादि। विष्ृतोऽयं समितत्वगुणे । अत्र वाक्यार्थाभिधायकी शब्द- समुदायौ तादशाभ्यां शब्दसमुदायाभ्यां संबद्धाविति वाक्यघटितः शाब्दकमः ॥ १. 'वहक्यादय: पदार्था:' च. २. 'लसता' स. १-३. 'अध्वंदारविचिन्तितेन' स. ग. ४-४. 'हदि ध्यातः. स्वरूपेण च' क. ग. ५. 'चान्यार्थवाचिनी' क.र.
Page 625
५३२ काव्यमाला ।
अर्थपरिपाटी द्विधा-कालतो देशतश्च। तयोरादा यथा- 'हस्ते लीलाकमलमलकं बालकुन्दानुविद्धं नीता लोध्प्रसवरजसा पाण्डतामाननश्रीः । चूडापाशे नवकुरबकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ २०९ ॥ अत्र 'हस्ते लीलाकमलमलकं बालकुन्दानुविद्धम्' इत्यादर्थानां शरदादिकालक्रमेण भणनम् ; सेयं कालतोऽर्थपरिपाटी क्रमः ॥ हस्ते इत्यादि। यत्र पुर्या वधूनां हस्ते लीलाकमलम्, अलकं चूर्णकुन्तलं बालकुन्देनानुविद्धं संबद्धम्। लोधप्रसवस्य लोधपुष्पस्य रजसा धूल्या मुखश्री: पाण्डुता श्वेततां नीता। चूडापाशे प्रशस्तशिखायां नूतनकुरवकपुष्पम्, चारु मनोजं शिरीयपुष्पं कर्णे, सीमन्ते नीपं कदम्बपुष्पम्। लवटुपगमस्त्वदीयागमनं तस्माज्जातम्। इदं सर्वपुष्पविशेषणम्। 'चूडा शिखायां बाहुभूषणे' इति मेदिनी- कारः । शिखापरस्यापि पाशपदस्य केशपरत्वमेव। अत्र शरदादिकालकमेणार्थानां कमादार्थकमः॥ द्वितीया यथा- 'पायाद्वो रचितत्रिविक्रमतनुर्देवः स दैत्यान्तको
मौलौ रत्नरुंचि श्रुतौ परिलसत्ताटंङ्ककान्ति क्रमा- ज्जाँतं वक्षसि कौस्तुभाममुदरे नाभीसरोजोपमम्॥।२१०।' अत्र त्रिविकरमतनोवैंकुण्ठस्य प्रवृद्धिसमये क्रमेणैव मौलिश्रुतिवक्ष उदरलक्षणेघु शरीरदेशेषु भाखन्मण्डलस्य चूडारत्नताटक्ककौस्तुमनाभ्य- म्वुजैर्योंSयमौपम्यलाभः; सेयं देशतोऽर्थपरिपाटी क्रमः ॥ १. 'रजरुचिः' ग. घ. २. 'तालबुकान्ति:' ग. घ. ३. 'यातं' ग. घ. ४. 'से- यमौपन्यलामो ग.घ.
Page 626
४ परिच्छेद: I] सरसतीकण्ठाभरणम्। ५३३
पायादित्यादि। स देवो वो युष्मान् पायात् रक्षतात्। कीढशः । रचिता त्रिविकमस्य वामनस्य तनुः शरीरं येन सः। दैत्यनाशकथ। यस्याकस्माद्वर्धमान- शरीरस्य सूर्यमण्डलं मौलौ रत्नरुचि जातम्, कमात श्रुती कणें शोभमानताटक्क- कान्ति जातम्, वक्षति कौस्तुभदीप्ति जातम्, उदरे नाभिपद्मोपमं जातम्। 'कौस्तुमो मणिः' इत्यमर:। इह हरेर्नाभिपद्मस्य श्वेततया रूपेण न साम्यं कि त्वाकारादिनेल्य- वधेयम्। 'वैकुण्ठो विष्ठरश्रवाः' इत्यमरः । अत्र मौलिप्रनृतिदेशपुरस्कारेणार्थक्रमः ॥ उभयपरिपाटी द्विधा-शब्दप्रधाना, अर्थप्रधाना च। तयोरादा यथा- 'पङ्कअ पक्कि वहेलिअ कुवलअ खित्तड दहहिं वालिहिं बिम्ब विविल्लिओ घत्तिओ चन्दु णहहि। करणअणाहरवअणहिं तहिं लीलावइहिं णिअसिट्टि वि उच्चिट्ठीणा इं पआवइहिं ॥ २११ ॥' [पङ्गजं पक्केऽवहेल्य कुवलयं क्षिस्वा हदे वृन्ते बिम्बं विप्रकीर्णे निरस्तश्रन्द्रो नमसि। करनयनाघरवदनैसत्र लीलावत्यां निजसृष्टिरिप्युत्सृष्टा किं प्रजापतिना ॥] अत्र पङ्कजकुवलयबिम्बीफलचन्द्रमसां करनयनाघरवदनैर्यथासंख्यं पराजयत इति शब्दपरिपाटयैच पङ्कजानि पड्के न्यस्तानि, कुवलयानि हदे क्षिप्तानि, विम्बं वृन्ते प्रकीर्णम्, चन्द्रो नमसि निरस्त इत्याधारा- णामुपर्युपरिभावः, क्रियाणां च त्यागतारतम्यमित्यर्थपरिपाटी न्यग्भवति; सेयं शब्दप्रधानोभयपरिपाटी क्मः ॥ पक्क इत्यादि। "पङ्कजानि पड़े न्यख्ानि कुवलयानि क्षिप्तानि हदे वृत्ती विम्बं विनिकीर्ण निरस्तथ्न्द्रो नभसि। करनयनाधरवदनेस्वस्यां लीलावत्यां निज- सृष्टिरप्युत्सष्टेव प्रजापतिना ।I" इह प्रजापतिना ब्रह्मणा तस्पां लीलावत्यां नायि- १. 'मुदपूरिअतिणवव्ज वाली' इतिदेशीनाममालानुसारेण सच्छिद्रं तृरणं वृन्तमपि भवति। 'वृती' ग. घ.
Page 627
५३४ काव्यमाला।
कायां हस्तनेत्राधरमुखैर्निजसृष्टिरप्युत्सष्टेव दत्तेव। पढ्चजादीनामपासनात्। तदे- वाह-पह्चजानि पद्मे कर्दमे न्यस्तानि। नीलाव्जानि हदेऽगाधजले क्षिप्तानि। बुत्ती वेष्टने बिम्बफल न्यस्तम्, चन्द्रो गगने क्षिप्त इति। 'ल्ष्टा प्रजापतिवेधाः' इत्यमरः। अत्र पङ्कजादीनां करादिना जये शाब्दक्मः प्रधानीभूतोऽधिकरणानामु- पर्युपरिभाव:, कियाणां च त्यागतारतम्यमित्यार्थकमश्च न्यग्भूतोऽप्रधान इत्युभय- कमेऽपि शब्दप्रधानता।। अर्थप्रधाना यथा- 'गङ्गे देवि दशा पुनीहि यमुने मातः पुनर्दर्शनं संप्रश्नोऽस्तु पितः प्रयाग भगवन्न्यग्रोध मां ध्यास्यसि। तं हारासिलतावतंसविपुलस्थूलांसवक्षोभुजं पुंभावं भवतामवन्तिनगरीनाथं दिद्क्षामहे ॥ २१२ ॥'
र्थानां मुख्यक्रमेण 'देवि दृशा पुनीहि', 'मातः पुनर्दर्शनम्', 'पितः संप्रश्नः', 'भगवन्मां ध्यास्यसि' इति मुख्यक्र्मेणैव संत्रमद्विर्वचोवि- शेषैरभ्यर्थ्य 'भवतामेव पुंभावमवन्तिनगरीनाथं दिद्क्षामहे' इति येय- मभ्यर्थनामद्गिः सार्थपरिपाटीकृता तस्यां च 'गङ्ने, यमुने, प्रयाग, न्यग्रोघ' इति, 'हारासिलतावतंसविपुलवक्ष:स्थूलांस' इति च शब्द- परिपाटी परस्परमुपमानोपमेयभूते न्यम्भवतः, सेयमर्थप्रधानोभयपरि- पाटी क्मः ।। गङ्गेत्यादि। हे गने देवि, हशा मां पुनीहि, हे मातर्यमुने, पुनर्दर्शनमस्तु, हे पितः प्रयाग, भवान् खाप्नश्रोऽस्तु सुसंवादोऽस्तु। हे भगवन् न्यग्रोष अक्षयवट, मां ध्यास्यसि स्मरिष्यसति। तमवन्तिनगरीनाथमुजचयिनीपतिं भोजराजं नृप वयं दिदक्षामहे द्रष्टमिच्छाम:। कीदशम् । हवारख लताकर्णालंकारौवंपुला: पीनबाहु- मूलयुक्तवक्षोभुजा यस्य तम्। भवतामेव पुभावं पुरुपरूपम् । खाप्रश्न इति। खस्य १. 'अन्यर्चा' क.
Page 628
४ परिच्छेद: ।] सरसतीकण्ठाभरणम्। ५३५
आ समन्तात् प्रश्नः संवादः । यथा आपृच्छखेत्यत्र । वतसेन कर्णालंकारेण विपुलः स्थूलश्रांसो बाहुमूलं यत्र वक्षसि तत्। 'वतंसः कर्णपूरे स्यात्' इति विश्वः । अत्रादरवता वचनरचनेनाभ्यर्च्य प्रार्थनाभत्िरर्थपरिपाटीकृता । तस्यां च गा्या हारस्य, यमुनयासिलतायाः, प्रयागेण वतंसविपुलस्थूलांसवक्षसः, न्यग्रोधेन भुजस्य शाब्देन क्रमेण मिथ उपमानोपमेयभावो न्यम्भूत इत्युभयकमेऽर्थप्रधानता ॥ इति करमालंकारनिरूपणम्।। पर्यायालंकारनिरूपणम्। पर्यायं लक्षयति- मिषं यदुक्तिभङ्गिर्यावसरो यः स सूरिमिः। निराकाङ्कोऽथ साकाङ: पर्याय इति गीयते॥८०॥ मिषमिति। यन्मिषम्, योकिमतिः, यथावसरः स पर्यायः । मिषाद्यन्यतम एव पर्याय इति लक्षणम् ।। तेषु निराकाडं मि्ष यथा- 'मया विमुक्ता बहिरेव वल्लकी वजेदवश्यायकणैश् सार्द्रताम्। द्रुतं तदेनां करवै निचोलके कयाचिदेवं मिषतो विनिर्यये २१३' अत्र 'कयाचिदेवं मिषतो विनिर्यये' इत्युदर्कामिघानेनाकाङ्कानि- वृत्तेर्निराकाङ्कमेतन्मिषं नाम पर्यायमेदः ॥ मयेत्यादि। कयाचित्नायिकया एवमनेन प्रकारेण मियतो व्याजाद्विनिर्यये बहिर्मूतम्। तदेवाह-मया त्यक्का वलकी वीणा बहिरेब गच्छेत्। अवश्यायक- गैर्हिमलवै: सार्वतां च ब्रजेतू। तत एनां शीघ्रं निचोलके वख्ेऽहं करवे करिष्यामि। 'अवश्यायस्तु नीहारः' इत्यमरः। 'निचोल: प्रच्छदपटः' इति च। उदर्क उत्त- रकालशुद्धिस्तदमिधानं मिषपर्यायः।। तदेव साकाहं यथा- 'दशत्यसौ परभृतः सहकारस्य मञजरीम्। तमहं वारयिष्यामि युवाभ्यां सैरमास्यताम् ॥।२१४॥' १. 'निराकृतेनिराकाड़' क. 'निराकृतेति' ख.
Page 629
५३६ काव्यमाला।
ीअत्र 'कयाचिदेवं मिषतो विनिर्यये' इतिवदुदर्कानभिघानात् सा- काङूमेतन्मिषं नाम पर्यायस्य भेदः ॥ दशतीत्यादि। असौ परमृतः पिकः सहकारस्य मजरी दशति तमहं बार- यिष्यामि। ततो युवाभ्यां खरं स्वच्छन्दमास्यतामुपविश्यताम्। 'सच्छन्दमन्दयोः खैरम्' इति विश्वः । अत्रोदर्कानमिधानात्साकाक्कत्वम् ।।
'राजन् राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुञे भोजय मां कुमार कुशलं नाद्याजुके भुज्यते। इत्थं नाथ शुकस्तवारिभवने मुक्तोऽध्वगैः पज्जरा- चित्रस्थानवलोक्य वेश्मवेलभीष्वेकैकमाभाषते ॥ २१५ ॥' अत्रानयोक्तिभन्नया शून्यीकृतारिनगरस्य नरपतेः कश्चित् प्रतापं वर्ण- यति। तत्र वाक्यस्य परिपूर्णत्वेन निराकाद्वत्त्वान्निराकाङ्वेयमुक्तिभत्ञिः। राजन्नित्यादि। हे नाथ हे प्रभो, तवारिभवने शत्रुगहे इत्थमनेनाकारेण वेश्मवलमीषु गृहोपरिकुटीषु चित्रलिखितानेतान्विलोक्य प्रत्येकं शुक आभाषते वदति। कीटशः । अध्वनैः पथिकः पञजरान्मुक्तस्त्यक्ः । आभाषणसरूपमाह-हे राजन्, राजसुता कुमारिका मां न पाठयति। देव्यो महादेव्योऽपि तूर्ष्णी स्थिताः कृतमौनाः । हे कुब्जे, मां भोजय। हे कुमार राजबालक, तव कुशलम्। हे अजुके गणिके, अद्य मया न भुज्यते। 'देवी कृताभिषेकायाम्' इत्यमरः । बाहु- ल्येन कुब्जायाः शुकभोजनं नृपगृहे कर्म । 'युवराजस्तु कुमारः' इत्यमरः । 'नाव्योकी गणिकाजुका' इति च। अत्र प्रतापवर्णने पूर्णवाक्यतया निराकाह्वत्वम्। उक्की तु भतिर्व्यचैव ।। साकाह्ा यथा- 'शान्त्यै वोऽस्तु कपालदाम जगतां पत्युर्यदीयां लिपिं कापि कापि गणा: पठन्ति पदशो नातिप्रसिद्धाक्षराम्। १. 'गन्यते* ग. २. 'सचिवेनाचापि कि भुज्यते' इति, 'शून्यवलभावेकैकमाभा-
Page 630
४ परिच्छेद: I] सरखतीकण्ठाभरणम् । ५३७
विश्वं सक्ष्यति वक्ष्यति क्षितिमपामीशिष्यतेSशिप्यते नागै रागिषु रंस्यतेऽत्स्यति जगननिर्वेक्ष्यति द्यामिति ॥ २१६॥' अत्रानयोक्तिमङ्गया ब्रह्माद्यस्तमयेऽप्यनस्तमितस्य भगवतो महेश्वरस्य प्रभावो वर्ण्यते, तत्र च 'यदीयां लिपिं कापि कापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम्' इत्यनेनैव वाक्येऽस्मिन्नाकाह्कोत्थाप्यते । सा च 'विश्वं सक्ष्यति' इत्यस्मिन्नीदशी-ब्रह्मणां चतुर्युगसहस्त्रान्ते दिनमेकमिति मानेनैष वर्षशतजीवी विश्वं सक्ष्यति ब्रह्मेति ज्ञाप्यते, कपालं चास्य भगवतो भूषणं भविष्यति। 'वक्ष्यति क्षितिम्' इत्यस्मि- न्नीदृशी-ब्रह्मणार्मेंयं (?) वर्षशतेनैकं दिनमिति मानेनैष पुरुषायुष- जीवी क्षिति वक्ष्यति विष्णुरिति ज्ञाप्यते, कपालं चास्य भगवतो भूषा भविष्यतीति। एवम् 'अपामीशिष्यते- इत्यादिषु वरुणकामयमेन्द्र- विषयत्वेन योजनीयम्। सेयमनेकप्रकारेण ब्रह्मादीनां साक्षादनभि- धानेन साकाङ्कोक्तिभङ्गिः ॥। शान्त्या इत्यादि। जगतां पत्युर्हरस्य कपालदाम उलाटमाला वो युष्मार्कं शान्त्ये शमायास्तु । पनवकतया कपालानां माला। यदीयां लिपिं यत्सबन्धिनी- मक्षरालीं गणा नन्दादयः कापि पदशः पदकमेण पठन्ति वाचयन्ति। कीटशीम्। नातिप्रसिद्धवर्णाम् । अत एव क्वाचित्कः पाठः । पाठविषयमाह-अयं शिचो विश्वं जगत् स्नक्ष्यति निर्मास्यति। क्षिति भू्मि वक्ष्यति धारयिष्यति। अपामी- शिष्यते जलेष्वैश्वर्य लप्स्यते। नागैः सपैरशिष्यते भोक्ष्यते। अयं रागियु विषया- सक्तेषु रंस्यते कीडिष्यति। जगदयमत्स्यसि भक्षिष्यति। या खर्ग निर्वेक्ष्यत्युप- भोक्ष्यति। इति। स्क्ष्यतीति 'मृज विसर्गे' लद्। 'सजिदशोझल्यमकिति १. 'शिष्यते' ग. २. 'ब्रह्मणश्न' इति युक्त प्रतिभाति। 'चतुर्युंगसदसान्ते म्ह्मणो दिनमुच्यते' इत्पत्र प्रमाणम्. ३. 'भविष्यवीति' क. स. ४. 'बह्मणामेवं वर्पशतेन' इति भवेव। यत्र जाझे वर्षें मानुष चतुर्युगसहसत्रात्मकमेकं दिनमित्यमें :.
Page 631
५३८ काव्यमाला।
६।१।५८' इत्यम् । वक्ष्यतीति 'वह प्रापणे' लृद। 'पटोः कः सि ८।२।४१' इति कत्वम्। ईशिष्यत इति 'ईश ऐब्ये' लट्। अशिष्यत इति 'अश भोजने' लटि कर्मणि। रंस्यत इति 'रमु क्ीडायाम्' लट्। अत्स्यतीति 'अद भक्षणे' लृद्। निर्वक्यतीति निपूर्वात् विशेर्लद। अस्तसमये विनाशे। ब्रह्मणा करणेनेटशी आकाड़ा। चतुर्णा युगानामेकसहस्रेण त्रह्मण एक दिनम्। अनेनैव क्मेणाहोरात्रा- दिकम्। ईदश्याकाङ्ा। शतसंर्यत्रह्मापवर्गानन्तरमेकं दिनं वैष्णवम्। अनेनैव कमेणाहोरात्रादिकम। पुरुषायुषेति अचतुरादी निपातितम्। अपामीशिष्यत इति वरुणादयो जेयाः । अत्र न्रत्मादीनां साक्षादभिधानाभावात् साकाडकता॥ अवसरो निराकाड्डो यथा- 'अथ तैः परिदेविताक्षरैर्ह्दये दिग्घशरैरिवार्दितः । रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः ॥२१७॥' अथेत्यादि। अनन्तर मधुर्वसन्तोऽग्रे आत्मानमदर्शयत् दर्शितवान्। कि कर्तुम्। आतुरां विड्लां रतिं कामवधूमभयुपपतुं बोघयितुम्। कीढशः । तैः परि- देविताक्षरैर्विलापाक्षरैदिग्घशरैविंषाक्तशरैरिवार्दित: पीडितः । 'विलाप: परिदेवनम्' इत्यमर:। 'दिग्धो विषाक्तवाणे स्यात्पुंसि लिसेऽन्यलिगकः' इति मेदिनीकारः। नानार्थत्वादेव, नियमार्थ शरपदमिह। अत्र वसन्ताविर्भावप्रस्तावो निरपेक्ष एवेति निराकाङ्लखवम् । अत्र 'क नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः । न खल्ग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्धतां गतिम् ॥२१८।। इति यानि रतेः परिदेविताक्षराणि तैराकृष्टहृदयस्य मघोर्योडयमा- त्मदर्शनाय प्रस्ताव: सोऽयं न किंचनाकाह्वतीति निराकाङ्कोऽयमवसरः पर्यायस्य भेद: ।। १. 'आदितः' इति कुमाररसमवटीकार्या मलिनाथधुत: पाठ:
Page 632
४ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ५३९
साकाङ्को यथा- 'अज्जवि बालो दामोअरो तति इअ जम्पिए जसोआए। कह्मुहपेसिअच्छं पिहुअं हसिअं बअवहूए।। २१९ ॥' [अद्यापि बालो दामोदर इतीति जल्पिते यशोदया। कृष्णमुखप्रेषिताक्षं निमृतं हसितं व्रजवेध्वा ॥] अत्र 'अद्यापि बालो दामोदरः' इति यशोदया कृतप्रस्तावनस्य कृष्णस्य वक्के विन्यस्तलोचनया तद्रहस्यवेदिन्या त्रजवधूमतल्लिकया यदेतन्निभृतं हसितं तत् तवाम्बा बालं त्वां त्रूते, त्वं तु मादृशीभिनिघुवनविदग्धा- भिर्दिवानिशं यमुनानिकुल्जोदरेषु विहरसीत्यादिनार्थजातेन साकाह्व- मिति साकाङ्कोऽयमवसर: पर्यायस्य भेदः ॥ अज्जवि इत्यादि। "अद्यापि बालो दामोदर इतीति जल्पिते यशोदया। कृष्णमुखप्रेषिताक्षं निभृतं हसितं ब्रजवध्वा ।।" यशोदया कृष्णवाल्य उद्धाविते व्रजवधू: स्मेर दृष्ट्रा काचित् कस्पैचित् कथयति-अद्यापीति। यशोदयाद्यापि दामोदरो बाल एवेत्युक्ते कयाचिद्रोपवध्वा कृष्णमुखे प्रेषितं न्यस्तमक्षि यत्र हसिते एवं निभृतमेकान्ते हसितम् । रहो रहस्यमेकान्तचेष्या। मतहिका प्रशस्ता। 'मतलिका मचर्चिका प्रकाण्डमुद्धतहजौ । प्रशस्तवाचकान्यमूनि' इत्यमरः । निधुवनं सुरतम्। 'निधुवनमायोजनमाहु:' इति हारावली। अन्रानेके नार्थजातेन साकाहता व्यचैव ॥ इति पर्यायालंकारनिरूपणम् ॥ अतिशयोक्तयलंकारः । अतिशयलक्षणमाह- विवक्षया विशेषस्य लोकसीमातिवर्तिनी। असावतिशयोक्तिः स्यादलंकारोत्तमा च सा ।। ८१ ।। सा च प्रायो गुणानां च क्रियाणां चोपकल्प्यते। नहि द्रव्यस्य जातेर्वां भवत्यतिशयः क्रचित् ॥ ८२ ॥ १-२. गायासपश्त्यां तु 'वअवहूहि' इति पाठः, 'अजवधूमिः' इति छाया च. ३. 'वालत्वम्' ग. ४. 'चोपकल्पवे' क. स.
Page 633
५४० काव्यमाला।
प्रभावातिशयो यश्च यश्चानुभवनात्मक: । अन्योन्यातिशयो यश्च तेऽपि नातिशयात्पृथक्।८३। अलंकारान्तराणामप्येकमाहु: परायणम्। वागीशमहितामुक्तिमिमामतिशयाहयाम्॥८४। विवक्षेति। विशेषस्य प्रकर्षस्य लोकसीमातिवर्तिनी लोकमर्यादातिशयिता या विवक्षा वक्तुमिच्छा सातिशयोक्तिः । केवलस्य, अखण्डाया जातेश्वातिशयाभावा- हुणकिययोरेवातिशय इत्याह-सा चेति। उपकल्प्यते समर्थ्यते ॥ अल- मिति। न केवलं प्रभावादीनामेवातिशयोकतिरपि त्वलंकाराणामपीमामतिशयामि- धानामुक्तिमेकं परायणमाश्रयं वदन्ति। कीटशीम्। वागीशेन वाक्पतिना महितां पूजिताम् । 'परायणमाश्रये' इति विश्वः ।। तत्र गुणातिशयेन महत्त्वातिशयो यथा- 'अहो विशालं भूपाल भुवनत्रितयोदरम्। माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥। २२०॥' अत्रैवं यशोराशेरशक्यमानस्याप्यतिशयोक्या विशेषविवक्षा। येन त्रिभुवनोदरमपि संकीर्णमाशक्कयते; सोडयं महत्त्वातिशयो नामाति- शयमेदः ॥ अहो इत्यादि। हे भूपाल, यस्मादत्र भुवनत्रितयोदरे मातुं परिच्छेतुम- वक्योऽपि तब यशोराशिर्माति संमाति। तस्माद्वुवनत्रितयोदरं विशालमत्राहो आथर्यम्। अत्र यशोराशिरूपस्य गुणस्यातिशयेन महत्त्वातिशयः स्फुट एव।। तनुत्वातिशयो यथा- 'स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव। अख्ि नास्तीति संदेहो न मेऽद्यापि निवर्तते ॥२२१ ॥' अत्रैवं मध्यस्य लोकसीमातिक्रमेण तानवातिशयविवक्षा येन तदस्ति नास्तीति वा संदिझ्ते; सोऽयं तनुत्वातिशयो नामातिशयमेदः ॥
Page 634
४ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ५४१ स्तनयोरित्यादि। हे प्रिये, तव स्तनयोर्जघनस्यापि मध्येऽन्तराले मध्यमव- सम्रमतिकृशत्वादस्ति नास्वीति संदेहो ममाद्यापि न निवर्तते। अत्र तानवस्य तनुत्वस्यातिशयः । लोकेति । नहि लोक: पयोधरभरस्थित्यन्यथानुपपत्त्यापि मध्यं निश्नोतीत्यर्थ: ॥ कान्त्यतिशयो यथा- क्षौमवत्यो न लक्ष्यन्ते ज्योत्सायामभिसारिकाः ॥ २२२॥ अत्रैवं चन्द्रालोकस्य लोकसीमातिकमेण बाहुल्योत्कर्षविवक्षा। येन तस्मिन् समानाभिहारेणाभिसारिका अपि न लक्ष्यन्ते सोऽयं कान्त्यति- शयो नामातिशयमेदः ॥ अथास्य पिहितात्को विशेषः । उच्यते। पिहिते चन्द्रातपस्योत्कर्षेणाभिसारिकातिरस्कारो विवक्ष्यते, इह त्वभि- सारिकातिरस्कारेण चन्द्रातपोत्कर्ष इति॥ मल्लिकेत्यादि । ईदश्योऽभिसारिका ज्योत्ायां चन्द्रकिरणेऽपि न लक्ष्यन्ते न हायन्ते केनापि । कीटृश्यः । मल्िका मालती तस्या मालां वित्रति। 'मालेषी- काष्टकानां भारतूलहि(चि)तेपु' इति हसः । सर्वाज्ञीणं सर्वाज्गव्यापकमाई चन्दर्न यासां ताः। कौमवत्यो दुकूलयुक्ताथ। क्षीम इति 'दुक्षु शब्दे' इति मनिन्। क्षुमा प्रज्ञादित्वात् सार्थेऽण् पृदधिय् । अत एव 'क्षुमवत्' इत्यपि पाठः। अन्न चन्द्रका- न्तेरतिशय: स्फुट एव। 'अभिहारोऽभियोग: स्यात्' इति मेदिनीकारः । लोक- स्रीमातिकमश्च नहि शुक्काम्बरतया ज्योत्सायामभिसारिका न लक्ष्यन्त इति लोक- सीमेत्यर्थ:। उत्कर्षरूपस्यार्थस्योभयत्र विवक्षणात् पिहितकान्त्यतिशययोरमेदः। किमिति पृच्छति-अथेति। उत्तरम्। पिहित इति। चन्द्रातपोत्कपंतया तौल्येऽपि पिहिते तेनाभिसारिकातिरस्कार इह तु तस्पास्तिरस्कारेण चन्द्रातपोत्कर्ष इति प्रकाराभ्यां तयोभेंद इत्याशयः॥ प्रभावातिशयो यथा- 'तं दइआहिणेणाणं जम्मि वि अङ्गम्मि राह्वेण ण णिमिअम्। सीआपरिमट्टेण व ऊढो तेण वि णिरन्तरं रोमश्चो । २२३॥' १. 'इष्टकेपीकामालानां चिततूलभारियु ६।३।६५' इति भाव्यम्, २. 'िण्णाण' ग.
Page 635
५४२ काव्यमाला।
[तद्दयितामिज्ञानं यम्मिन्नप्यङ्गे राघवेण न न्यस्तम्। सीतापरिमृष्टेनेवोढेस्तेनापि निरन्तरं रोमान्: ॥] अत्र दयिताभिज्ञानस्य योऽयं रोमाश्जक्कियाविशेष: स क्रियातिशय- स्यैव भेद: प्रभावातिशय उच्यते॥ तमित्यादि। 'तद्यिताभिज्ञानं यस्मिन्रप्यज्वे राघवेण न निर्मितम्। सीता परिस्पृष्टेनेव व्यूढस्ेनापि निरन्तरं रोमाथ: ।।" इह तदयिताया वह्भायाः सीताया अभिज्ञानं चिह मणिरूपं यस्मिन्रप्यत्वे रामेण न निर्मितं न निहितं तेनाप्यजेन सीतया परि सर्वतोभावेन स्पृष्टेनेव निरन्तरं यथा भवल्येवं रोमाखो व्यूडो घृतः । 'अभिज्ञानं भवेचिहे' इति शाश्वतः । अत्र रोमाश्रहेतुक्कियातिशयेन प्रभावातिदाय एव विवक्षित:।। अनुभावातिशयो यथा- 'विमलि अरसाअलेण वि विसहरवइणा अदिट्ठमूलच्छेअम्। अप्पत्ततुन्गसिहरं तिहुअणहरणे पवद्टिएणं वि हरिणा ॥२२४॥ [विमर्दितरसातलेनापि विषघरपतिनादष्टमूलच्छेदम्। अप्राप्ततुङ्गशिखरं त्रिभुवनहरणे प्रैवर्धितेनापि हरिणा ॥] अत्र रसातलमपि मृद्दता शेषेणापि च तस्य मूलं न दष्टम्, त्रि- भुवनमप्युल्लक्त्यता हरिणापि न तुङ्गशिखराणि प्राप्तानीति यदेतल्लोक- सीमातिकमेण विशेषव्यवस्थया पर्वतानुभावभणनं सोऽयमनुभूयमान- माहात्म्यातिशयस्यैव भेदोऽनुभावातिशय उच्यते॥ विमलिअ इत्यादि। "विमर्दितरसातलेनापि विषधरपतिनादष्टमूलच्छेदम्। अप्राप्ततु्नशिखरं त्रिभुवनहरणप्रवर्धितेनापि हरिणा ।।" इह सुबेलं कीटशम्। विषपरपतिना शेषेणादष्टो मूलस्य छेदः शेषो यस्य तम्। कीटशेन। विमर्दितं १. 'सेतुबन्धे' तु 'बूढ़ो' इति पाठः, 'मपूढः' (विशेषेणोढ़ः) इति छाया च. २. सेतुबन्पे 'तिद्ुभगहरणपरिवहिपण' इति पाठमेद: 'त्रिमुवनहरणपरिवर्षितेन' दति छायाभेदश्र.
Page 636
8 परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ५४३ विमलितं निर्मलीकृतं वा रसातलं येन तेन। पुनः कीदशम्। हरिणा त्रिविकमे- णाप्यप्राप्ततुन्नशिखरम्। कीदशेन । त्रिभुवनहरणाय सर्वतो भावाद्वर्वितेन वृद्धि गतेन। मृद्रता मर्दयता। अन्र पर्वतानुभावातिशयविवक्षयातिशयः सच तैर- नुभूयमान एव।। 'रणदुज्जओ दहमुहो सुरा अवज्झा अ तिहुअणस्स इमे। पडइ अणत्थोत्ति फुडं विहीसणेन फुडिआहरं णीससिअम् २२५' [रणदुर्जयो दशमुखः सुरा अवध्याश्च त्रिमुवनसेमे। पतत्यनर्थ इति स्फुटं विभीषणेन स्फुटिताधरं निश्वसितम्।। अत्र दशास्यः समरे न जीयते, सुराश्ामरत्वान्न वध्यन्ते, तयोश्च परस्परं संघट्टक्कियातिशयात्रिभुवनमपि क्षयं यास्यतीति येयमन्योन्य- क्रियातिशयभणनाल्लोकसीमातिक्रमेण विशेषविवक्षा सोडयं क्रियाति- शयो नामातिशय एवान्योन्यातिशय उच्यते॥ रणेत्यादि। "रणदुर्जयो दशमुखः सुरा अवध्या अहो त्रिभुवनस्यासी। पत- त्यनर्थ इति स्फुटं विभीषणेन स्फुटिताधरं निश्वसितम्।।" इह स्फुटिताधर व्यक्ती- कृताधरं यथा स्यादेवं विभीषणेन रावणत्रात्रा निश्वसितं निश्वासस्त्यकः स्फुटं व्यक्तमेव। कुतः। दशास्यो रणे दुर्जयः, सुरा देवा अमरत्वादवच्याः। अहो आय- र्यमसौ त्रिभुवनस्यानर्थ: पततीति। इतिहेती। अत्र दशास्यसुरयोरन्योन्यक्रिया- तिशयोक्तेरन्योन्यातिशयः । सकलभुवनक्षयकारितया लोकसीमातिपातः ॥ इत्य- तिशयोक्त्यलंकारनिरूपणम्।। केषालंकारनिरूपणम्। सेपं लक्षयति- श्लेपोऽनेकार्थकथनं पदेनैकेन कथ्यते। पदक्रियाकारकैः स्याद्विनामिनैः स पड्विघ:॥८५॥ व्लेप इति। एकेन पदेन विभत्तयन्तेनानेकेषामर्थानां कथनं यत्र स क्ेष: कव्यते। एकरूपान्वितमनेकार्थ वचः श्रेप इति लक्षणम् । स च पद्िष: पदादिभि: स्यात् ॥
Page 637
५४४ काव्यमाला।5 [1
तेषु भिन्नपदो यथा- 'दोषाकरेण संवश्नन्नक्षत्रपथवर्तिना। राज्ञा प्रदोषो मामित्थमप्रियं किं न बाघते ॥२२६॥' अत्र 'प्रदोषो रात्रेः प्रथमयामः किमिति प्रियारहितं मां न बाधते' इत्युक्तेर्युक्तिमाह-इत्थमनुभूयमानेन प्रकारेण। राज्ञा संबध्नन्। की- दशेन। दोषाकरेण नक्षत्रपथवर्तिनेति। यो हि दोषाणामाकरेण राज- मार्गातिगामिना च राज्ञा प्रकृष्टदोष: संवध्यते सोऽप्रियेमवश्यं बाघत एव; तदत्र पूर्वसिमिन्माकरणिकेऽर्थे द्वितीयोऽथोंडप्राकरणिक: पदमे- देनोपश्चिष्यमाणो भिन्नपद श्लेषापदेशमासादयति॥ दोपेत्यादि। प्रकृष्टो दोषो, दूषणं यस्य स दुर्जनो मां कि न बाधते, किंतु बाधत एव । मां कीटशम् । अप्रियं तस्य द्वेष्यम्। कीटशः। इत्थमनुभूयमानेन प्रकारेण राज्ञा भूपेन सह संबध्ञन युजन्। आत्मानमित्यव्याहार्यम्। अत्र कर्मव- द्वावो न कृतः संबध्यमान इत्यर्थत्वात्। राज्ञा कीदशेन । दोषाणां दूषणानामाकरेण स्थानेन। क्षत्रपथः क्षत्रियमार्गस्तत्र वर्तितुं शीलं यस् तेन । प्ान्नकारसंबन्धः । क्षत्रियधर्मशन्येनेत्यर्थः। पक्षे प्रदोषो रजनीमुखं मामप्रियं प्रियारहितं कि न बाधते किंतु बाधत एव। कीटशः। राज्ञा चन्द्रेणेत्यं संबध्यमानः । कीटृशेन । दोषाकरेण रात्रिकरेण। नक्षत्रपर्थ व्योम तदवस्थितिशीलेन च। अत्र राजपदम- भिन्नम्। शेषपदानां मेदाद्धित्नपदल्लेपः ।। अभिन्नपदो यथा- 'असावुदयमारूढः कान्तिमान् रक्तमण्डलः । राजा हरति लोकैस्य हृदयं मृदुमिः करैः ॥ २२७ ॥' । अत्रायमुदीयमानश्चन्द्रमा लोकस्य हृदयं हरतीत्युक्तेर्युक्तिमाह- राजानुरक्तमण्डल उदयी मृदुकर: कान्तिमानिति। यो हेवंभूतो राजा १. 'राजमार्गाभिगामिना' घ. २. 'सोडपि प्रियम्' ग. ३. 'सर्वस्य' ग.
Page 638
४ परिच्छेदः I] सरस्तीकण्ठाभरणम्। ५४५ सोऽवश्यं लोकस्य हृदयहारी भवति। अत्रापि च प्राकरणिकेऽर्थेडप्रा- करणिक उपश्िष्यमाणः पदानाममेदेनाभिन्नपदक्लेषो भवति॥ असावित्यादि। असौ राजा नृपो मृदुभिरपीडाकर: करै राजग्राह्यैलोंकस्य हृदयं हरति। कीटशः । उदयं वृद्धिमारूढः प्राप्तः । कान्तिमान् शोभायुकः । रक्तमनुरकं मण्डलं देशो यस्य सः । पक्षे असी राजा चन्द्रः करं: किरणैर्मृदुभिः शीतलैर्जनस्य हृदयं हरति गृह्ाति। कीटशः । उदयमुदयाद्रिमुपगतः । कान्तिमान् दीप्ियुक्तो रक्तमण्डलो लोहितबिम्बक्ष। 'उदयो बृद्धासुदयपर्वते' इति विश्वः। 'मण्डलं बिम्बदेशयोः' इति च । अत्र राजादिपदानामभेदेनाभिन्रपद लेषत्वम्-।। भिन्नक्रियो यथा- 'मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः । आकर्ण्यन्ते मदकलाः श्विष्यन्ते चासितेक्षणाः ॥ २२८॥' अत्र 'आकर्ण्यन्ते, क्विष्यन्ते च' इति क्रियापदद्वितयस्य प्राघा- न्यतः समुच्चयेनोपात्तस्य 'मधुरा-' इत्यादिभि: क्रिष्टपदैः 'कोकिला- गिरः', 'असितेक्षणाः' इति वा विशेष्यैकपदवज पर्यायतः संबन्धो भवति। तद्था-आकर्ण्यन्ते । काः । कोकिलागिरः । कीदृश्यः । मधुराः, रागवर्धिन्यः, कोमलाः । पुनरपि किंभूताः । आसिते उपवे- शिते निश्चलीकृते अन्तःप्रमोदानुभावादीक्षणे याभिस्तासतथा। सर्वोऽपि हि मधुरं शब्दमाकर्णयन् निश्चलाक्षो भवति। श्विष्यन्ते च। काः । असितेक्षणा: हरिणचक्षुषः । किंभूताः । मदकलाः, कोकिलागिर:, कोमलाः, रागवर्धिन्यः, मधुरा इति। सोऽयं द्वयोर्विभिन्नक्किययोर्भि- नार्थे च रूपिणां पदार्थानामुपल्लेपो मिन्नक्रियः लेष उच्यते॥ मधुरा इत्यादि । कोकिलागिर आकर्ण्यन्ते, असितेक्षणाः श्यामनेत्राः प्रियानाश्टिष्यन्ते च। कीदश्यः । मधुराः श्रुतिसुखा रम्याश। रागवर्धिन्योऽनुराग- जनिका रतिजनिकाक । कोमला मनोज्ञा मृद्दश्वथ् । मदकला योवनवसन्तादिकृत- १. 'मिन्नार्येकरूपाणाम्' ख्त्. २५ स० क०
Page 639
५४६ काव्यमाला।
सदमधुराः। मदेन मद्यविकारेण कलव्वनियुक्ताश्च। आसिते उपवेशिते निश्चली- कृतेऽन्तःप्रमोदानुभवादीक्षणे यामिस्तासां मधुरं रवमाकर्णयननिथलाक्षो भवति। पक्षेऽरसितेक्षणाः । कीदृश्यः । कोकिलानामिव गिरो यासां ताः । अन्र करियामेदा-
अभिन्नक्कियो यथा- 'स्वभावमधुराः स्न्निग्धाः शंसन्त्यो रागमुल्वणम् । दृशो दृत्यश्र कर्षन्ति कान्ताभि: प्रेषिताः प्रियान् ॥ २२९॥ अत्र 'कर्षन्ति' इत्येतस्यां क्रियायां हशां दूतीनां च क्िष्टपदत्वेना- वेशादयमभिन्नक्कियो नाम क्लेषविशेषः । प्रथमयोरस्य वा को विशेष इति चेत्। तत्रैकस्यैव प्राकरणिकत्वम्, अत्र तु द्वयोरपीति। अयं च भिन्नकारकोऽपि भवति॥ स्वभावेत्यादि । कान्ताभि: प्रेषिता दशो दृत्यश्च प्रियान् वल्भान् कर्षन्ति। कीटश्यः। खभावेन सहजेन मधुरा ललिताः । तदुक मत्संगीतसर्वसे-'मधुरा कुश्चितान्ता च सम्रक्षेपा च सस्मिता । समन्मथविकारा च दृष्टिः सा ललिता मता I' इति । स्न्िग्धाः स्रेहवत्यः । उल्बणमधिकं रागं लौहित्यं शंसन्तः । पक्षे सहजमधुराः । यद्वा खभावात्प्रियवादिन्यः ल्लिग्धा आत्मीयाः । अधिक राग मद्यविकारकृतं शंसन्त्यः । यद्वा रागमनुरागं कथयन्त्वः । अत्र प्रियाकर्पणरूपैकेव किया साधारणीत्येकक्रियात्वम्। भिन्नपदाभिन्नपदाभ्यामस्य च को मेद इति पृच्छति-प्रथमयोरिति। वाशब्दथार्थ। उत्तरम्-तत्रेति। तयोरेककस्पैव प्रकरणापन्नत्वमत्र तु दृष्टं द्वयोरपि प्राकरणिकत्वमिति मेद इत्यर्थः । अनेककर्तृक- त्वेनायं भिन्नकारकोदाहरणमपीत्याह-अयमिति॥ भिन्नकारको यथा- 'गतिर्वेंणी च नागेन वपुरूरू च रम्भया । ओष्ठौ पाणी प्रवालैश्च तस्यास्तुल्यत्वमाययुः ॥ २३०॥ अत्रैकस्मिन् पक्षे धर्मधर्मिणोरमेदोपचारान्नागगतिर्गृह्यते। तत्र गते- १. 'अमिन्नक्रिययोः' ग.
Page 640
४ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। ५१७
रवैण्याश्च नागेन हस्तिना अहिना च तुल्यत्वम्, वपुष ऊर्वोश्च रम्भया कदल्या अप्सरोमिश्र तुल्यत्वम्, ओष्ठयो: पाण्योश्च प्रवालैविद्रुमैर्नव- पल्लवैश्च तुल्यत्वं वर्णनीययोः श्लेषप्रभावाल्लभ्यते; सोऽयमनेककर्तृक- त्वाद्धिन्नकारक इति क्लेषो भवति ॥ गतिरित्यादि। तस्या नायिकाया गतिर्गमनं वेणी केशरचना च नागेन हस्तिना सर्पेण च, तस्या वपुरूरुदयं च रम्भयाऽप्सरोमेदेन कदल्या च, तस्याः पाणी हस्तावोष्ठी च प्रवालैविंडमें: पह्वैश् सर्वाणि तुल्यत्वमाययुः। 'नागो हस्तिभुजन्रयोः' इति शाश्वतः । 'कदल्यप्सरसो रम्भा' इति च। 'पलवे विठ्ठमे चापि प्रवालः' इति धरणिः। गतिनानात्वादाह-धर्मेति। अत्र नानाकर्तृकत्वादेव भिन्नकारकता॥ अभिन्नकारको यथा- 'कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी। याति विश्वसनीयत्वं कस्य ते कलभाषिणि ॥ २३१ ।।' अत्र 'हे कलभाषिणि, कस्य ते दृष्टिर्विश्वास्या भवति' इत्युक्तेर्युक्ति- माह-'कृष्णार्जुनानुरक्तापि कर्णावलम्बिनी' इति च। या हि कृष्णा- र्जुनेनानुरज्यते कथं सा कर्णपक्षपातिनी भवति, या चैवमुमयगता तस्यां को विश्वसिति; स चायमेककर्तृकत्वादभिन्नकारक इति श्लेषो भवति ॥ कृष्णेत्यादि। हे कलभाषिणि मधुरवचने, तव दृष्टिः कस्य विश्वसनीयत्वं विश्वासविषयतां याति किंतु न कस्यापि। अत्र हेतुः कृष्णा श्यामा, अर्जुना धवला, अनुरक्ता प्रान्तलोहिता च। प्रादेशिकोऽयं क्रमः । कर्णपर्यन्तगामिनी च। पक्षे कृष्णे हरी, अर्जुने पार्ये चानुर कानुरागवती कर्णपक्षपातिनी च या सा विरुद्धोभयगता कर्थ विश्वसनीया भवति। 'वलक्षो धवलोऽजुनः' इतयमरः । अत्र कर्तुरेकतयाभिन्नकारकता ॥। इति श्लेपालंकारनिरूपणम् । भाविकालंकारनिरूपणम्। भावना लक्षणमाह- स्वाभिप्रायस्य कथनं यदि वाप्यन्यभावना। अन्यापदेशो वा यस्तु त्रिविधं भाविकं विदुः ॥८६।। १. 'तुल्यत्वम्' क. ख. ग.
Page 641
५४८ 1 काव्यमाला।
मते चासमाकमुद्ेदो विद्यते नैव भाविकात्। व्यक्ताव्यक्तोभयाख्याभिस्तिविध: सोऽपि कथ्यते।।८७।। स्वेत्यादि । निजाशयकथनमन्यकथनमन्यापदेशथ् भाविकम्। भावे कवैर- भिप्राये भवं भाविकमित्यन्वर्थनामतापि। उद्धेदभाविकयोरमेदमाह-मत इति। सोऽपि उद्रेदोऽपि। तत्र भाविकमेदेषु खाभिप्रायकथनं यथा- 'णावज्झइ दुग्गेज्झिआ दिट्ठम्मि जम्मि भिउडिआ जत्थ ण अव्वाहारओ घिप्पइ आहासत्तए। विच्छुहइ अहिणिंदए जत्थ ण सो वअंसिआ तं मे कहेउ माणअं जइ मे इच्छहि जीअर्अंम् ।।२३२।। [नाबध्यते दुर्गृहीता टष्टे यस्मिन् भूकुटिका यत्र नाव्याहारो गृह्यते आभाषमाणे। विक्षुभ्यतेऽभिनिन्धते यत्र न स वयसया तं मे कथय मान यदि मे इच्छसि जीवनम् ॥]
अत्र अूँभेदासंभाषणप्रियतमावक्षेपान् प्रत्यनभिमतप्रतिपादनरूपस्या- भिप्रायस्य कथितत्वादिदं स्वाभिप्रायकथनं नाम भाविकम् ॥ णावजइ इत्यादि। "नाबच्यते दुर्मात्या दष्टे यस्मिन् भ्रुकुटिका यत्र न च (चा)व्याहारो गृह्यते आभाषमाणे। विश्षुभ्यतेऽभिनीयमाने यत्र न स वयस्यया तं मे कथय मानं यदि मे इच्छसि जीवितम् ॥।" इह यस्मिन दृष्टे दुर्ग्हा भ्रुकुटि- र्नाबध्यते समन्तान्न बध्यते यत्राभाषमाणेऽव्याहारो न च गृह्यते । यत्राभिनीय- माने वयस्यया स न क्षुम्यते तं मानं मम कथय यदि मम जीवनमिच्छसि। अत्रा-
१. 'कहडु' क, ख. ग. २. 'जीइअम्' इति घ. ३. 'ब्रम्रेदा' स.
Page 642
४ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ५४९
अन्यभावना यथा- 'दंसणवलिअं दढकं विबन्धणं दीहरं सुपरिणाह्म्। होइ घरे साहीणं मुसलं धण्णाणं महिलाणम् । २३३॥' [दंशनवलितं दढकं विबन्धनं दीघे सुपरिणाह्म्। भवति गृहे खाधीनं मुसलं धन्यानां महिलानाम् ॥] अत्र मेद्भावनया मुसलरूपस्योक्तत्वादिदमन्यभावनाभिधानं भा- विकम् ॥ दंसणेत्यादि। "दंशनेन वलितं हढकं विबन्धनं दीर्घ सुपरिणाहम् । भवति गृहे खाधीनं मुसलं धन्यानां महिलानाम् ॥।" इहोत्तमस्त्रीणां गृहे इटशं मुसलं खायत्तं भवति। कीटशम्। दंशने धान्यादिमर्दने वलितं लग्नम्। दढकं टृढम्। सार्थे कन्। विगतबन्धनं दीर्घ सुपरिणाहमतिस्थूलं च। मेढूपक्षे दंशने भगम- दने वलितं संनर्द्ध दढं विगतबन्धनं दीर्घमतिस्थूलं च। अत्र मेढाभिप्रायेण मुस- लोकेरन्यभावना।। अन्यापदेशो यथा- 'आसाइअमण्णाएण जेत्तिअं तेत्तिअं चिअ विहिणम्। ओरमसु वसह एण्हिं रक्खिज्जइ गहवइच्छेत्तम् ।। २३४ ।।' [आस्वादितमज्ञातेन यावत्तावदेव ब्रीहीणाम्। उपरम वृषभेदानीं रक्ष्यते गृहपतिक्षेत्रम् ॥] अत्र परक्षेत्रस्य घस्मरवृषनिवारणापदेशेन चिरात्परिज्ञात उपपेति- र्निवार्यते, तदिदमन्यापदेशाख्यं भाविकम् ॥ आसाइअ इत्यादि । "आस्वादितमज्ञातेन यावत्तावतैव बन्धय धृतिम्। उपरमख वृषमात्र रक्षयित्वा गृहपतिक्षेत्रम् ।।" इह हे व्ृषभ, गृहपतिक्षेत्रं रक्षयित्वा त्वमुपरमख क्रीडय। अज्ञातेन त्वया यावदेवास्वादितं तावतैव धृति बन्धय। अत्र वृषभनिवारणव्याजेनोपपतिनिवारणमन्यापदेशः ।। १. 'जित्तिअम्' ग. घ. २. 'वार्यते' क. र.
Page 643
५५० काव्यमाला।
उद्धेदेषु व्यक्तो यथा- 'मंतेसि महुमहपणअं संदाणेसि तिअसेसपाअवरअणम्। ओजसु मुद्धंसुहावं संभावेसु सुरणाह जाअवेलोअम् ।। २३५ ।' [मनुपे मधुमथप्रणयं संदानयसि त्रिदशेशपादपरत्नम्। अपजहि मुग्धस्वभावं संभावय सुरनाथ यादवलोकम् ॥] अत्र मायाविनो महेन्द्रस्याभिप्रायः सत्यकेन व्यक्तमेवोद्विन्न इति
मन्तेसीत्यादि। "मनुषे मधुमधप्रणयं संदानयसि त्रिदशेश पादपरत्म्। अपजहि मुग्धखभावं संभावय सुरनाथ यादवलोकम्।।" इह हे सुरनाथ इन्द्र, यदि मधुमथस्य कृष्णस्य प्रणयं प्रीति मनुषे स्वीकरोषि। देवे पादपरत्नं पारिजात- वृक्षं संददाने सति मुग्धं सभावं मौगध्यमपजहि त्यज। यादवलोकं संभावय प्रीणय। अन्रेन्द्राभिप्रायः सत्यकेन तत्सारथिना व्यक्तः प्रकाशितः ।। अव्यक्तो यथा- 'निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽघरो नेत्रे दूरमनञजने पुलकिता तन्वी तवेयं तनुः। मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे वापीं सनातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥२३६॥' अत्र 'वापीं ातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्' इत्याक्षेपवता प्रार्केरणिकोदाहरणेन यद्यपि दूत्या दुश्चेष्टितं निर्भिन्नं त- थापि न पूर्वव्यक्तमित्यव्यक्तोऽयमुद्वेदः ।। निःशेषेत्यादि । हे दूति, इतः स्थानात्वं वापी पुष्करिणीं स्नातुं गतासि। तस्याधमस्यान्तिकं न गतासि। हे मिय्यावादिनि, हे सुहज्जनस्याज्ञातदुःखागमे। स्नानचिहान्याह-स्तनतटं निःशेषच्युतचन्दनमशेषक्षरितचन्दनमसिति । तवाध- रोऽपि व्यक्तलौहित्यः । तब नेत्रेऽत्यर्थमजनशून्ये। तथा तवेयं तन्वी कृशा तनुः १. 'सुद' इति पाठ :. २. 'जा अव' ख. ग. ४. 'प्रकृतोदाहरणेन' क. र. ३. 'पीडागमा' क.ख.
Page 644
8 परिच्छेदः I] सरस्तीकण्ठाभरणम्। ५५१
शरीरं पुलकिता रोमाजवती च। अत्र न्ानसंभोगयोस्तुल्यचिहस्योपदर्शनेन प्रक- रणपरिप्राप्तं दूतीदुक्षेष्टितमुद्धिन्नम्, न च प्राग्वद्यकता।। उभयरूपो यथा- 'अम्लानोत्पलकोमले सखि दृशौ नीलाञ्जनेनाच्चिते कर्पूरच्छुरणाच्च गण्डफलके संवेल्ितः पाण्डिमा । श्वासाः सन्तु च कन्दुकभ्रमिभुवः किंतु प्रभावाहिना- मज्जानां कशिमानमुत्कटममुं को नाम नोत्पेक्षते ॥२३७॥' अत्र 'दशोर्म्लानता, गण्डयो: पाण्डुरत्वम्, श्वासानां दैर्ध्यम्' इत्यु- त्कण्ठाचिह्निह्वाय योSयमविनयवत्या नीलाञ्जनादिप्रयोगस्तस्य तथा- भ्युपगमेSपि 'अज्गानां कशिमानमुत्कटममुं को नाम नोलेक्षते' इति योऽयं सरीव्याहारस्तेन तदभिप्राय उद्धिन्नोऽनुद्धिनश्र भवतीत्युभय- रूपोऽयमुद्वेदः । तेऽमी त्रयोऽप्युद्वेदा भाविकान्न मिद्यन्ते । अम्लानेत्यादि। किंतु हे सखि, तवाक्ञानाममुमुङ्टं कशिमानं कृशत्वं को न नामोतप्रेक्षते किंतूलयत एव। यद्यपि तव दशावम्लाने म्लानिहीने उत्पन्ने इव कोमले मनोजे स्तः । कीटशे। नीलकजलेनाजिते। यतः कर्पूरस्य छुरणात् संबन्धात् पाण्डिमा पाण्डुरत्वं गण्डफलके संवेल्ितः संबद्धः । शरासाश्र कन्दुकक्ीडनार्थ या भ्रमिर्श्रमणं तत्प्रभवाः सन्तु । अज्ञानां कीदृशानाम्। प्रभावाहिनां प्रभां दीतिं बोदध धतु शीलं येषां तेषाम्। सहजरम्याणामित्यर्थः । अविनयवत्या असत्याः । अन्राविनयवत्या आशयः किचियकीकृतः । किचिच्ाव्यक्ीकृत इत्युमयरूपता।। इति भाविकालंकारनिरूपणम् ।।
संसष्टिलक्षणमाह- संसृष्टिरिति विज्ञेया नानालंकारसंकर:। सा तु व्यक्ता तथाव्यक्ता व्यक्ताव्यक्तेति च त्रिधा।।८८।। १. 'न पुनस्तस्वाधमस्यान्तिकम्' क. ख. २. 'तत्त्वाभ्युपगमेडपि' क.ख. ३. 'सर्वालंकारसंकरः' क. स.
Page 645
५५२ I काव्यमाला।
तिलतण्डुलवद्यक्ता छायादर्शवदेव च। अव्यक्ता क्षीरजलवत्पांर्सुपानीयवच्च सा ।। ८९ ।। व्यक्ताव्यक्ता च संसष्टिर्नरसिंहवदिष्यते। चित्रवर्णवदन्यस्मिन्नानालंकारसंकरे॥ ९० ॥ संसृष्टिरिति । नानालंकाराणां संकरोऽपि ...... संसृष्टिः। छायेति। प्रतिबिम्बदर्पणवदित्यर्थः । क्षीरं दुग्घम्। पांसुर्धूलिः । चित्रेति । चित्रलिखित- वर्णिकावदित्यर्थ:॥ व्यक्ता तिलतण्डुलवद्यथा- 'पिनष्टीव तरज्वात्रैरुदधिः फेनचन्दनम्। तदादाय करैरिन्दुर्लिम्पतीव दिगजनाः ॥ २३८॥' अत्रोत्पेक्षाद्वयम्, रूपकद्वयं च तिलतण्डुलवत्संकीर्यते॥ पिनष्टीत्यादि। समुद्रस्तरज्वाग्रैः फेनचन्दनं पिनष्टीव। इन्दुः करैस्तदादाय दिगढ्गना लिम्पतीव। अत्रेवशब्दाभ्यामुत्प्रेक्षाद्वयम्। फेन एव चन्दनम्, दिश एवाजना इति रूपकद्यम्। तदिदं मिश्रितं तिलतण्डलवत्। यथा तिलानां तण्ड- खानां च मिथो निरपेक्षाणामेव संकीर्णता तथात्रापि।। व्यक्तैव छायादर्शवद्यथा- 'निर्मलेन्दु नभो रेजे विकचां बभौ सरः । परं पर्यश्चुनयनौ मम्लतुर्भ्रातरावुमौ ॥। २३९ ॥ अत्रादेर्शे छायेव हेत्वलंकारे रामलक्ष्मणमुखयोरिन्दुपझ्रपम्येन सदशासदृशव्यतिरेको दृश्यते।। निर्मलेत्यादि। वित्ृतोऽयं व्यतिरेकालंकारे। अत्र पूर्वार्धेन हेत्वलंकारे दर्शिते तदाधारक एव सदशासदशयोर्ष्यतिरेक: । स च दर्पणे प्रतिबिम्ब इवाधाराघेय- भावेन व्यवस्थापित: I १. 'पांशुपानीयवच् सा' पाठ :. २. 'अन्नादर्शच्छायेव' स.
Page 646
४ परिच्छेदः I] सरखतीकण्ठाभरणम्। ५५३
अव्यक्ता क्षीरजलवद्यथा- 'क्षीरक्षालितचन्द्रेव नीलीधौताम्बरेव च। टह्कोल्लिखितसूर्येव वसन्तश्रीरदृश्यत ॥। २४०॥' अत्रोपमोत्प्रेक्षे क्षीरनीखवन्मिश्रे संसृष्ट न व्यज्येते। क्षीरेत्यादि। वसन्तश्रीर्वसन्तशोभाऽदृश्यत जनैः । कीटशी। क्षीरेण दुग्धेन क्षालितथन्द्रो यस्ां सा। नीलीद्रव्येन धीतं क्षालितमम्बरमाकाश यस्यां सा। टह्ेन पाषाणदारणेनोलिखित उत्खण्डितः सूर्यों यस्यां सा। 'टङ्कः पाषाणदारणः' इत्यमरः । अत्रोपमोत्प्रेक्षयोर्मियो मिलनादव्यकता। उभयव्यज्ञकस्य तुल्यकक्ष- तया प्रत्तेरिदं बोद्व्यम्।। अव्यक्तैव पांसूदकवद्यथा- 'कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी। याति विश्वसनीयत्वं कस्य ते कलभाषिणि ॥ २४१ ॥' अत्र पांसूदकयोरिव मृत्पिण्डे श्लेषविरोघयोरव्यक्तयोरेव व्याजस्तु-
कृष्णेत्यादि । वित्रतोऽयं भाविकालंकारे। अत्र यथा मृत्तिकापिण्डे धूलिज- ल्योमिंथो मिलनादव्यक्तता तथा शेषविरोधयोर्व्याजस्तुतिप्रसन्गतः संकरः॥ व्यक्ताव्यक्ता नरसिंहवद्यथा- 'रजोमिस्तुरगोत्कीर्णैरगजैश्र घनसंनिमैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्॥ २४२ ॥ अत्र नरसिंहजाताविव सिंहनरशरीरभागयो: परिवृत्त्यलंकारहेतूप- मयोरङ्रमावो व्यक्ताव्यक्तरूप: परिस्फुरत्रुपलभ्यते॥ रजोभिरित्यादि। स कीहशः। ह्यसुरक्षुण्णै रजोभिमेंधतुल्यैहस्तिभिथ् गगनं १. 'मृत्पिण्ड केषविरोषयोः' घ.
Page 647
५५: काव्यमाला।
भूतलमिव, भूतलं गगनतलमिव कुर्न्। अत्र यथा नरसिंहजाती सिंहनराङ्गभाग- योर्व्यक्ताव्यक्तरूपं स्फुरणं तथा परिवृत्त्यलंकारे हेतूपमयोरशभावो व्यक्ताव्यक्तरूपः॥ व्यक्ताव्यक्तैव चित्रवर्णवद्यथा- 'मेंयूरारावमुखरां प्रावृषं सतडिल्लताम्। महाटवीमिवोल्लङ्द्य तोयानि मुमुचुर्घनाः ॥ २४३ ॥' अत्र पटावयवस्थानां नीलादीनामिव पटावयव्याश्रिते चित्रवरणे के- वरूपकोपमार्थ क्लेषाणां पदपदार्थाश्रयाणां शरद्वूर्णनवाक्याश्रयिणि समा- ध्यलंकारे व्यक्ताव्यक्तरूपोऽक्काभ्िभावः प्रतीयते॥ मयूरेत्यादि। मेघा जलानि त्यजन्ति स्म। महाटवीं महारण्यमिव प्रातृषं वर्षा उल्हय । कीदशीम्। मयूरशब्दमुखरां, सह तडितेव लतया वर्तते ताम्। अत्रावयवाश्रितनीलादीनामवयव्याश्रिते चित्रवर्णे यथाम्त्िभावस्तथा शेषादीनां समाध्यलंकारे व्यक्ताव्यक्तरूपोSज्ञात्िभावः प्रतीयत इति॥ चतुर्विशतिरित्येताः क्रमेणोभयसंश्रयाः । काव्यालंकृतयः प्रोक्ता यथावदुपमादयः ॥ ९१॥ इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते सरस्वतीकण्ठाभरणे उभयालंकारविवेचनो नाम चतुर्थ: परिच्छेदः॥ चतुर्विशतिरिति । इत्यनेन प्रकारेण चतुविशतिरेता उपमादय: काव्यालं- कृतय उक्ता इत्यन्वयः । अजहलिततात्र ॥ उभयेति । शब्दार्थाश्रिता इत्यर्थः ॥ रमनं रन्नधरोऽजनिष्ट गुणिनामाद्योऽनवद्यः सर्तां सा शुद्धा दमयन्तिकापि सुपुवे नैयायिकं यं सुतम् । तस्य श्रीशजगद्धरस्य कवितुर्वाणीगणा(ला)लंकृते-
इति महामहोपाध्यायधर्माधिकरणिकश्रीजगद्धरविरचिते सरखती- कण्ठाभरणविवरणे चतुर्थ: परिच्छेदः ॥
१. 'मयूराराबमुखरा' ग.
Page 648
५ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम्। ५५५
पश्म: परिच्छेदः। रसोऽभिमानोऽहंकार: शृङ्गार इति गीयते। योऽर्थस्तस्यान्वयात्काव्यं कमनीयत्वमश्नुते ॥१॥ विशिष्टादृष्टजन्मार्य जन्मिनामन्तरात्मसु । आत्मसम्यर्गुणोन्ूतेरेको हेतुः प्रकाशते ॥२ ॥ शुङ्गारी चेत्कविः काव्ये जातं रसमयं जगत। स एव चेदशृङ्गारी नीरसं सर्वमेव तत् ।। ३।। I89 पश्यति स्त्रीति वाक्ये हि न रसः प्रतिभासते। विलोकयति कान्तेति व्यक्तमेव प्रतीयते ॥४ ॥ कन्ये कामयमानं मां त्वं न कामयसे कथम्। इति ग्राम्योऽ्यमर्थात्मा वैरस्यायैव कल्पते ॥५॥ काम कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः। त्वयि निर्मत्सरो दिष्येत्यग्राम्योऽर्थो रसावहः ॥ ६॥ नवोऽर्थः सूक्तिरग्राम्या श्रव्यो बन्धः स्फुटा श्रुतिः। अलौकिकार्था युक्तिश रसमाहर्तुमीशते॥ ७॥ वक्रोक्तिश रसोक्तिश सवभावोक्तिश वाड्यम्। सर्वासु ग्राहिणीं तासु रसोक्तिं प्रतिजानते ॥८ ॥ भावो जन्मानुबन्धोऽ्य निष्पत्तिः पुष्टिसंकरौ। हासाभासौ शम: शेपो विशेष: पैरिशेषवान् ॥ ९॥। ॥ ०5 विग्रलम्भोऽथ संभोगस्तचेष्टास्तत्परीष्टर्यः। निरुक्तय: प्रकीर्णानि प्रेमाणः प्रेमपुष्टयः ॥१० ।। १. 'अलौकिकाथयुक्तिश' क .. २. 'सर्वानुग्राहिणीम्' क. ३. अथ चतुविश- तिरसोक्तीराइ. ४. 'अर्थनिष्पत्तिः' क.स्र. ५. 'परिपोषवान्' क.ख. ६. परीक्षा:।
Page 649
५५६ काव्यमाला।
नायिकानायकगुणा: पाकाद्याः प्रेमभक्तयः । नानालंकार संसृष्टेः प्रकाराथ रसोक्तय: ।। ११।। चतुर्विशतिरित्युक्ता रसान्वयविभूतयः । स्वरूपमासां यो वेद स काव्यं कर्तुमहति॥१२॥ आलम्बनविभावेभ्यः सेभ्यः खेभ्यः समुन्मिषन्। रसो रत्यादिरूपेण भाव इत्यभिधीयते ॥ १३ ॥ रतिर्हासक् शोकथ कोधोत्साहौ भयं तथा। जुगुप्सा विस्मयश्राष्टौ स्थायिभावा: प्रकीर्तिताः ॥१४।। स्तम्भस्तनूरुहोद्ेदो गद्धदः खेदवेपथू। वैवर्ण्यमश्रुंप्रलय इत्यष्टौ साच्विका: स्मृताः ॥ १५॥ स्मृतिर्वितर्क उेत्कण्ठा चिन्ता चपलता मतिः। गर्वः स्नेहो धृतिर्त्रीडावहित्थं मूढता मदः ॥ १६ ॥ हर्षामर्षावसूयेर्ष्या विषादो दैन्यमुग्रता। त्रासः शङ्का गदो ग्लानिरुन्माद: संभ्रम: श्रमः॥१७॥ निर्वेदो जाव्यमालसं निद्रा सुसं प्रबुद्धता। इति भावास्त्रयस्त्रंशद्विज्ञेया व्यभिचारिणः ।। १८।। चिरं चित्तेज्वतिष्ठन्ते संवध्यन्तेऽ्नुबन्धिभिः। रसत्वं प्रतिपद्यन्ते प्रर्बुद्धाः स्थायिनोऽत्र ते ॥ १९ ॥ रजस्तमोभ्यामस्पृष्टं मनः सच्चमिहोच्यते। निर्वृत्तयेऽस्य तद्योगात्प्रभवन्तीति साच्विकाः ॥ २० ॥ विशेषेणाभित: काये स्थायिनं चारयन्ति ये। १. रसोकीनाम्. २. 'तनुरुहोद्रेद' ग.घ. ३. 'अश्षुप्रलयावित्यधै' क.ख. ४: 'मता:' क.स.५. 'वितर्कशोत्कण्ठा' क.स.६. 'प्रवुद्धाः' क.स.
Page 650
५ परिच्छेदः ।] सरस्तीकष्ठाभरणम्। ५५७
5अनुभावादिहेतूंस्तान्वदन्ति व्यभिचारिणः ॥ २१॥ जनित्वा ये न जायन्ते तेऽथवा व्यभिचारिणः। ।स्मृत्यादयो हि प्रेमादौ भवन्ति न भवन्ति च ॥२२।। रतौ संचारिणः सर्वान् गर्वस्नेहौ धृति मतिम् ।
संस्कारपाटवादिभ्योऽनुभावं वा निजाश्रये। संचारिणं वा जनयन् सान्विकं वा स जायते ॥ २४॥ उद्दीपनविभावेभ्यः स्मृतिहेतौ पटीयसि। अनुबन्धोऽनुभावादेरनुबन्धोऽस् कथ्यते॥ २५॥ विभावस्यानुभावस्य साच्विकव्यभिचारिणोः । संयोगे तैस्य निष्पत्तिमात्रं निष्पर्त्तिरुच्यते ॥ २६॥ विषयाश्रयसंस्कारगुणप्रकृतिपाटवैः । दीपनातिशयैश्वास्य प्रकर्षः पुष्टिरुच्यते ॥ २७॥ तुल्यकालवलोत्पत्तिहेतौ भावान्तरोदये। संसर्गस्तस्य यस्तेन संकरः स निगद्यते ॥ २८॥ रसान्तरतिरस्कारादन्यद्रागाच तस् यः । भवत्यपचयो वृद्धेस्तद्रासं तं प्रचक्षते । २९ ॥ हीनपात्रेषु तिर्यक्षु नायकप्रतियोगिषु । गौणेष्वेव पदार्थेषु तमाभासं विजानते ॥ ३० ॥ बलवत्सूपजातेषु प्रतिकूलेषु हेतुपु । सर्वात्मना समुच्छेदः प्रशमस्तस्य वर्ण्यते ॥ ३१॥ आश्रयात्प्रकृतेर्वापि संस्कारस्थैर्यतोऽपि वा। १. 'गर्वल्ेह्धृति' स. २. 'अनुबन्ध: स' ख. ३. रसख्. ४. 'निष्पत्तिरिष्यते' स. ५. 'प्रचक्षते' घ. ६. 'संसारस्वैर्यतोऽपि वा' घ.
Page 651
५५८ काव्यमाला।
योऽस्यात्यन्तमनुच्छेदः स शेष इति शब्दते॥ ३२ ॥ शुङ्गाराद्या रसा ये च ये च शान्तोद्धतादयः । ये च रत्यादिमेदास्तान्विशेषानस्य मन्वते ॥ ३३ ॥ विभावश्ानुभावश् संचारी चाश्रयक् यः । ये च लीलादयो यूनां परिशेषैः स कीर्त्यते॥ ३४॥ आश्रयो यस्य रत्यादि: प्रेमादेरुपजायते । विषयो यत्र योषादौ सोऽस्य जन्माधिगच्छति॥३५।। आलम्बनविभावः स ज्ञानकारणमुच्यते। तेनादरादिरूपेण संस्कारस्तसय जायते ॥ ३६ ॥ आदेतः पटुरभ्यस्त आश्रयादेर्गुणेन सः। तत्प्रबोधाय माल्यर्तुचन्दनेन्दृदयादयः ॥३७॥ उद्दीपनविभावास्ते स तैः स्मरति वाञ्छति। द्वेष्टि प्रयततेज्वैति मन्यते वक्ति चेष्टते॥ ३८॥ तेऽनुभावास्तदा ये स्युः खेदरोमोद्रमादयः । हर्षामर्पादयो ये च ज्ञेयाः संचारिणोजत ते ॥ ३९ ॥ स्मृतीच्छायलजन्मानो मनोवाक्कायसंश्रयाः । विलासा ये वरस्त्रीणां ज्ञेया लीलादयस्तु ते॥। ४० ॥ लीला विलासो विच्छित्तिविंभ्रम: किलकिश्चितम्। मोट्टायितं कुट्टमितं विव्वोको ललितं तथा ।४१ ॥ विहृतं क्रीडितं केलिरिति स्त्रीणां खभावजाः । हेलाहावादयश्रान्ये ज्ञेया: स्त्रीपुंसयोरपि॥ ४२ ॥ १. 'मविच्छेद:' क.स. २. 'वाश्रयश्र' ख. ३. 'परिपोषः' क.ख. ४. रत्यादे :. ५. 'अन्यतः' क.ख.
Page 652
५ परिच्छेद: I] सरखतीकण्ठाभरणम्। ५५९
उपसंख्यानमेतेपामनुभावेषु मन्वते । पश्चाद्धावानुभूतिभ्यां सरणाद्यनुभाववद् ॥ ४३ ॥ स्मृत्यादयोऽनुभावाश्र भावा: संचारिणश् ये। नाट्येपुं क्रियमाणास्ते नटैरभिनया: स्मृताः ॥४४॥ भावो यदा रतिर्नाम प्रकर्षमधिगच्छति। नाधिगच्छति चामीष्टं विप्रलम्भस्दोच्यते ॥ ४५॥ पूर्वानुरागो मान्र प्रवासः करुणश्र सः । पुरुषस्त्रीप्रकाण्डेषु चतुःकाण्डः प्रकाशते। ४६ ॥ प्रागसंगतयोर्यूनोरभिलाषः प्रवर्तते। संकल्परमणीयोऽनुरागः स प्राच्य उच्यते ॥४७॥ अहेरिव गतिः प्रेम्ण: स्वभावकुटिलेति सः। अहेतोमेति नेत्युक्तेर्हेतोर्वा मॉन उच्यते ॥४८॥ देशान्तरादिमिर्यूनोर्व्यवधानं चिराय यत्। नवेऽनुरागे प्रौढे वा प्रवास: सोऽभिधीयते ॥ ४९ ॥ लोकान्तरगते यूनि वल्लभे वल्लमा यदा। भृशं दुःखायते दीनो करुणः स तदोच्यते ॥ ५० ॥ रतिरेवेष्टसंप्राप्तौ पुष्टः संभोग उच्यते। सोऽपि पूर्वानुरागादेरानन्तर्याच्चतुर्विधः ॥५१॥ न विना विप्रलम्मेन संभोग: पुष्टिमश्रुते। कपायिते हि वस्त्रादौ भूयात्रागोऽनुपज्यते ॥५२॥ १. 'नाग्रेपु' (f) क., 'नाट्येडनुकियमाणाः' ख. २. 'प्रागर्संकेतयोर्यूनो:' स. ३. 'अह्ेतोनेति मेत्युक्ते' क. ४. 'स न उच्यते' क. ५. 'दीनः' क.
Page 653
५६० 1 काव्यमाला ।
स्त्रीपुंसयोरविप्रलम्भे वैचित्याकल्पनादयः । चेष्टाविशेषा: संभोगे चुम्बनालिङ्गनादयः॥ ५३॥ विग्रलम्मेऽभियोगाद्ैः संभोगे साध्वसादिमिः। मिथःपरीक्षा या: प्रेम्णो निर्दिष्टास्ताः परीष्टयः ॥५४॥ विप्रलम्भादिशब्दानां लोकसिद्धेषु वस्तुषु। प्रकृत्यादिविभागेन विनिवेशा निरुक्तयः ।५५॥ संश्ुत्य विप्रलम्भार्थान्गृधिवञ्च्योः प्रलम्भने । इत्यादिज्ञापकाजज्ञेयः प्रपूर्वो वञ्चने लभिः ॥५६॥ आदानं च प्रतिश्ुत्य विसंवादनमेव च। कालस्य हरणं चाहु: प्रत्यादानं च वञ्चनम् ॥५७॥ पूर्वानुरागपूर्वेषु विग्रलम्भेषु तत्क्रमात्। विशेषद्योतकेनेह व्युपसर्गेण सूच्यते ॥५८॥ प्रतिश्रवो हि पूर्वानुरागे वक्रेक्षितादिभिः। अभीष्टालिङ्गनादीनामदानं हीभयादिभिः ॥५९॥ माने निवारणं तेपों विसंवादनमुच्यते। अयथावत्प्रदानं वा व्यलीकसमरणादिभिः ॥६० ॥ प्रवासे कालहरणं व्यक्तमेषां प्रतीयते। प्रोष्यागतेष्विहैतानि कान्ताः कान्तेषु युञ्जते ॥ ६१ ॥ प्रत्यादानं पुनस्तेपां कर्रुणे को न मन्यते। ॥ स्यं दत्तानि हि विधिस्तानि तत्रापकर्षति ॥६२॥ • १. 'वैचिन्त्याकल्पकादयः' ग. २. 'परीक्षा या प्रेम्णो' घ. ३. 'पूर्वानुरागवकरे- क्षितादिमि:'.क. ४. 'मादानं' क.ख. ५. अमीष्टालितनादीनाम्. ६. 'कारुणे' ग.
Page 654
५ परिच्छेद: ] सरसतीकण्ठाभरणम्। ५६१
प्रलम्मेत्यत्र यदि वा वश्चनामात्रवाचिनि। विना सेमासे चतुराश्तुरोऽर्थान्नियुअते ॥ ६३॥ विविधश्र विरुद््श् व्याविदूय क्रमेण सः । विनिपिद्धश्च पूर्वानुरागादिषु विषज्यते ॥ ६४॥ पूर्वानुरागे विविधं वञ्चनं त्रीडितादिभिः । माने विरुद्धं तत्प्राहुः पुनरीर्ष्यायितादिभिः ॥ ६५॥ व्याविद्धं दीर्घकालत्वात्प्रवासे तत्प्रैतीयते। विनिषिद्धं तु करुणे करुणत्वेन गीयते ॥ ६६ ॥ रागोऽनु सह पश्राद्वानुरूपोऽनुगतोऽपि वा। यूनोरपूर्वः पूर्वानुरागशब्देन शब्दते ॥ ६७ ॥ राजते रञ्जतेर्वापि राग: करणभावयोः । षलान्यत्कारके भावे नलोपेन नियम्यते ॥ ६८॥ मान्यते प्रेयसा येन यं प्रियत्वेन मन्यते। मनुते वा मिमीते वा प्रेममान: स कथ्यते ॥ ६९॥ महाभाष्यकृतः कोऽसावनुमान इति स्मृतेः । ल्युडन्तोऽपि न पुंलिङ्गो मानशव्द: प्रदुष्यति ॥७० ॥ यत्राङ्गना युवानश् वसते न वसन्ति च। स प्रवासः प्रशब्देन प्रतीपार्थेन कथ्यते ॥ ७१॥ चित्तोत्कण्ठादिभिश्चेतो भृशं वासयतीह यः । प्रवासयति वा यूनः स प्रवासो निरुच्यते ॥ ७२॥ १. 'प्रलमेत्यत्र' घ. २. विशवदेन. ३. 'नयुजते' ख. ४. पूर्वानुरागप्रवासकरुणा- स्येपु. ५. वञ्ञनम्, ६. 'करुणः' ख., 'किरणे' ग. ७. 'करुणभावयो:' ख. ८. 'घजापि करणे भावे' घ., 'धमान्यकारके भावे' क. ९. 'चिन्तोत्कण्ठादिमिश्रेतो' क.ख. ३६ स० क०
Page 655
५६२ : काव्यमाला। प्रपूर्वको वसिज्ञयः कारितान्तःप्रमापणे। तूष्णीं प्रवासयेदेनमिति वृद्धानुशासनात् ॥ ७३॥ अभृतोत्पादनायां कृञ दृष्टः कुरु घटं यथा। दृष्टशोचारणे चौरंकारमाक्रोशतीतिवत् ।। ७४।। दृष्टोऽवस्थापनेमानमित: कुरु यथोच्यते। अभ्यञ्जनेपि च यथा पादौ मे सैर्पिषा कुरु ॥ ७५॥ मूर्च्छाविलापौ कुरुते कुरुते साहसे मनः। करोति चितं दुःखेन योऽसौ करुण उच्यते ॥ ७६॥ भुजि: पालनकौटिल्याभ्यवहारानुभूतिपु। भुनक्ति भुग्रो भुङ्केऽनं भुङ्के सुखमितीष्यते ॥ ७9॥ समीचीनार्थसंपूर्वात्ततो घञ्प्रत्यये सति। भावे वा कारके वापि रूपं संभोग इष्यते ॥ ७८ ॥ स पालनार्थ: पूर्वानुरागानन्तर उच्यते। उत्पन्ना हि रतिस्तस्मिन्नानुकूल्येन पाल्यते । ७९॥ स मानानन्तरं प्राप्तः कौटिल्यार्थ विगाहते। 1c खतोऽपि कुटिलं प्रेम कि नु मानान्वये सति ॥८० ॥ प्रवासानन्तरे तस्याभ्यवहारार्थतेष्यते। तत्र ह्युपोपितैरन्नमिव निर्विश्यते रतिः ॥८१॥ करुणानन्तरगतोऽनुभवार्थ: स कथ्यते। विस्त्रम्भवद्भिरस्मिन्हि सुखंमेवानुभूयते ।। ८२ ॥। -१. अन्तःप्रमापणमाभ्यन्तरो बध :. २. मे पादौ सर्पिपाम्यअ्जयेत्यर्थे:, ३. 'पादै] मे कुरु सर्पिषा क.ख. ४. 'कुरुते साइस मनः' क.ख. ५. 'करोति दुःखं चितेन' क.स. ६. 'स पावनार्थे:' क.७. 'किमु मानान्यये सति' क.८. 'इनुभावार्ष: स कथ्ये' क.स. ९. 'विश्रम्मवद्धि:' क.ख.ग. १०. 'मुखमेवानुभूयते' घ.
Page 656
५ परिच्छेदः I] सरस्वतीकण्ठाभरणम्। ५६३ यदि वा भोग इत्यस्य संग्रयोगार्थवाचिनः। ! समा समासे चेत्वारो विशेषास्तमुपासते ॥८३॥ स संक्षिप्तोऽय संकीर्णः संपूर्ण: सम्यगृद्धिमान् । अनन्तरोपदिष्टेषु संभोगेषृपपद्यते ॥। ८४ ।। नवे हि सङ्गमे प्रायो युवानः साध्वसादिभिः । संक्षिप्तानेव रत्यर्थमुपचारान्प्रयुञ्जते । ८५।। मानस्यानन्तरे तेषां व्यलीकसरणादिभिः। रोपशेषानुसंधानात्संकर: केन वार्यते ॥८६ ॥ संपूर्ण: पूर्णकामानां कामिनां प्रोष्यसंगमे। उत्कण्ठितानां भूयिष्ठमुपभोगः प्रवर्तते ॥ ८७॥ प्रत्यागतेऽपि यत्रैषा रतिपुष्टिः प्रिये जैने। सा किमावर्ण्यते यूनां तत्रैव मृतजीविते ॥८८ ॥ पूर्वानुरागः पूर्वाणां व्युत्पत्तिभिरुदाहतः । अनन्तराणां सर्वेषां तत्समासे निरुक्त्तयः ॥ ८९॥ वृत्तिस्तत्राजहत्खार्था जहत्सार्थापि वर्तताम्। प्रधानमनुपस्कृत्य न तदर्थो निवर्तते ॥ ९० ॥ प्रथमानन्तरे वृत्तेरजहत्सार्थतेष्यते। नात्यन्तमजहत्खार्था तां मानानन्तरे विदुः ॥ ९१॥ प्रवासानन्तरे त्वीपदजहत्खार्थतेष्यते। करुणार्थस्य गन्धोऽपि नास्त्येव तदनन्तरे ।। ९२ ।। १. समा समुपसर्गेण. २. 'चतुराअतुरोडर्थान् प्रचक्षते'. क.स. ३.तं संमो- गम्. ४. 'संक्षिप्तोडर्थंसकीण:' क. ५. 'प्रयोजने' क. ६. 'पूर्वानुरागपूर्वाणां' क.ख.
Page 657
५६४ काव्यमाला
अष्टमीचन्द्रकः कुन्दचेतुर्थी सुवैसन्तकः। आन्दोर्लनचतुर्थ्येकशाल्मेली मदनोत्सैवः॥। ९३॥ उदकक्ष्वेडिकाशोकोचंसिका चूंतभख्जिका। पुष्पावचायिका चूतलतिका भृतमातृका ॥ ९४ ॥ कदम्ययुद्धानि नवपैंत्रिका विसखादिका। शकांर्ची कौ र्रा कौमुदी यक्षरात्रिरम्यूपखादिका ॥ ९५॥ नवेक्षुभक्षिका तोयक्रीडी प्रेक्षादिदर्शनम्।
१. प्रकीर्णकेयु सहयन्तीनतमष्टमीचन्द्रक :. स हि चत्रचतुर्थीतोडष्टमचतुथ्यामुपा- दीयमान: कामिनीमिरच्यते. २. यस्यां यबसस्तरेष्ववला लोलन्ति सा कुन्दचतुर्थी. ३. वसन्तावतारदिवसः सुवसन्तक :. ४. यस्ों िरियो दोलामारोदन्ति सा आन्दोल- नचतुर्थी. ५. एकमेव सुकुसुमनिर्भरश्ास्मलिवृक्षमाभ्ित्य सुनिमीलितकादिमि: खेलता कीडा एकशास्मली. ६. वयोदश्यां कामदेवपूजा मदनोत्सव :. ७. गन्धोदकपूर्णवंश- नाडीशग्गादिमियूंनां प्रियजनाभिपेककर्दमेन कीडा उदकक्षेडिका. ८. यत्रोत्तमख्त्रिय: पदाभिघातेनाशोकं विकाश्य तत्कुसुममवर्तसयन्ति सा अशोकोत्तंसिका. ९. यत्राजना- मिश्रृतमअयोंऽवचित्यानङ्गाय वालरागत्वेनैव दार्यदायमवतंस्यन्ते सा चूतमज्िका., 'भूत- मजिका' घ. १०. यत्र युवत्यो मदिरागण्टूपदोहदेन बकुलं विकाश्य तत्पुष्पाण्यवचि- न्वन्ति सा पुष्पावचायिका. ११. यत्र कस्ते प्रियतम इति पृच्छद्धि: पलाशादिनवल- ताभि: प्रियो जनो हन्यते सा चूतलतिका. १२. पञ्चात्मनानुनयन्ती भूतमातुका. १३. व्षासु कदम्बनीपहारिद्रकादिकुसुमे: प्रहरणभूतेदिधा बलं विभज्य कामिनीनां क्रीडा कदम्ययुद्धानि., कादम्वयुद्धानीत्यपि पाठ :. १४. प्रथमवर्षणप्ररूढनवतृणाकुरास सलीपु शादलमभ्यर्च्य भुक्तपीतानां कृत्रिमचिवाहादिकीडा नवपत्रिका. १५. अभिन- बबिसाकुरोद्रेदामिरामसर: समाअित्य कामिमिथुनानां कीडा विसखादिका, १६. श- ऋोत्सवदिवस: शकार्चा. १७. आमिने पौर्णमासी कौमुदी. १८. दीपोत्तवो यक्ष- रात्रि :. १९. शमीधान्यानामार्दाणामेवाभनिपकानामभ्यवहारोडभ्यूपखादिका.' 'अभ्युप- खादिका' इत्यपि पाठ :. २०. प्रथमत पवेशुमक्षणं नवेक्षुभक्षिका. २१. श्रीष्मादौ जलाशयावगाइनं तोयकीडा. २२. नायादिदशनं प्रेक्षा.
Page 658
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ५६५
दयूतानि मधुपानं च प्रकीर्णानीति जानते ॥९६॥ १. आलिक्नादिग्लहा दुरोदरादिकीडा चूतानि. २. रागोद्ीपनाय माध्वीकादिसेवा मधुपानम्. वात्स्यायनीये कामशास्त्रे कीडाद्वैविध्यं समस्या देश्याश्चेति भेदाव। तामु काश्िद्िदाय सर्वा अपि नैताभ्यः पृथक् तत्रोशिखिताष्टीकाकर्त्रा व्याख्याता इत्यत्रापि तद्याख्यानं समुदृत्य विलिखाम :- 'समस्याः क्रीडा आद-वक्षरात्रिः, कौमुदीजा- गरः, सुवसन्तकः । यक्षरात्रिरिति सुखरात्रिः। यक्षाणां तत्र सनिधानाव्। तत्र प्रायशो लोकस्य धूतकीडा। कौमुदीजागर इति। आव्पयुज्यां दि पौर्णमास्यां कौमुदा ज्योत्सा- या: प्रकर्षेंण प्रवृत्तेः । तत्र दोलाघ्यतप्रायाः कीडाः । सुवसन्तक इति। सुबसन्तो मद- नोत्सवः । तत्र नृत्यगीतवाचप्रायाः कीडाः । पता माहिमान्यः कीडाः ॥ देश्या आह -सहकारमजिका, अभ्यूषसादिका, विससादिका, नवपत्रिका, उदकक्ष्वेडिका, पाज्जा- लानुयानम्, एकशाज्मली, कदम्ययुद्धानि, तास्ताक्ष माहिमान्यो देश्याथ कीडा जनेम्पो विशिष्टमाचरेयुः । इति संभूयकीडाः । सहकारभजिकेति। सहकारफलानां भञ्जनं यत्र क्रीडायाम्। अभ्यूषखादिका फलानां विटपसवानामभी पोषितानां खादनं यत्र। बिस- खादिका विसानां मृणालानां खादनं यत्र। सर:समीपवासिनामिलेते दे कचित्कचिद्ट- इयेते। नवपत्रिका प्रथमवर्षणेन प्ररूठनवपत्रासु वनसलीयु या क्रीडा सा प्रायेणाट- वीसमीपवासिनामाटविकानां च । उदकक्वेडिकेति। 'बंशनाडी स्मृता क्षेदा सिंहना- दश्ष कथ्यते इति। उदकपूर्ण क्ष्वेडा यस्पां क्रीडा्यां सा मध्यदेश्यानाम्। बस्ाः मृप्नक्रीडेति प्रसिद्धिः । पात्रालानुयानम्। मिन्नालापचेष्टितै: पाञ्ालकीा यथा मिथिलायान्। एकशात्मली एकमेव महान्तं कुसुमनिर्भर शास्मलीवृक्षमाश्रित्य तत्रत्- कुसुमाभरणानां कीडा। यथा वैदर्भाणाम्। यवचतुर्यी वैशासशुक्कचतुर्थ्या नायकानां परस्पर सुगन्धयवचूर्णप्रक्षेप इति पाश्यात्येपु प्रसिद्धा। आलोलचतुर्थी आवणशुड्तृती- यार्यां हिन्दोलकीडा। मदनोत्सवो मदनप्रतिकृतिपूजनम् । दमनभजिका पररपर सुग- न्धपुष्पविशेषावतंसनम्। होलाका .......... । अशोकोचंसिका अशोकपुष्पैः शिरोभू- पणरचना। पुष्पावचायिका पुष्पकीडा। चूतलतिका चूवपल्बावतंसनन्। रसुभजिका इसषुखण्डमण्डनम् । कदम्वयुद्धानि कदम्यकुसुमै: प्रहरणभ्तैदिया बर्ल विभज्य युद्धानि। कदम्बग्रहणं कुसुमसूकुमारप्रहरणसूचनार्थम्। यष्टीट्टकादियुद्धानि तु न कार्याणि। थबा पौण्ड्राणां युद्ध कचित्कचिदृश्यते। तास्ताक्षेति। या या लोके प्रवृत्तिपूर्वाः। माहि- मान्य इति महिमा महत्वं तदिचवे यासामिति। 'संशायां मन्मा्यान् ५।२।१३०'
Page 659
५६६ 1 F काव्यमाला। ॥ सज्जीर ?
नित्यो नैमित्तिकश्ान्यः सामान्योऽन्यो विशेषवान्। प्रच्छनोऽन्यः प्रकाशोऽन्यः कृत्रिमाकृत्रिमावुभौ ।।९७। सहजाहार्यनामानों परौ यौवनजोऽपर: । विस्रम्भजश्र प्रेमाणो द्वादशैते महर्दयः ॥९८॥ चक्षुःप्रीतिर्मनःसङ्ग: संकल्पोत्पत्तिसंततिः । प्रलापो जागरः कार्श्यमरतिर्विषयान्तरे ॥९९॥ लज्जाविसर्जनं व्याधिरुन्मादो मूर्च्छनं मुह्ुः। मरणं चेति विज्ञेयाः क्रमेण प्रेमपुष्टयः ॥। १०० ॥ नायकः प्रतिपूर्वोऽसावुपपूर्वोऽनुनायकः । नायिका प्रतिपूर्वासावुपपूर्वानुनायिका ।। १०१॥ नायिकानायकाभासावुभयाभास इत्यपि।
इति निप्रत्ययः । सर्वदेशव्यापिन्य इत्यथेः। देशे भवा देश्याः । प्रादेशिन्य इत्ययेः। जनेक्यो विशिष्टमिति घटादयो नागरकाणामिति। समस्यास्तु साधारणाः। तत्र जना नागरकाश कीडन्ति। तम्ात्तेभ्यो विशिष्टमाचरेयुः नागरत्वच्योतनार्थम्। संभूयकीदा इति। आसु नागरकाणां द्रव्यमुपडार्य संभूयकीडनाव्। कन्दर्पचूडामणिकती बीरम- द्रोडपि-'कुर्याच्च यक्षरानरि सुखरान्रिः सा च कथ्यते लोके। ऐक्य कोजागरया कौमु- यास्तत्र निर्दिष्टम् ।I सुवसन्तकोडत शास्त्रि भवति वसन्तस्य वासर: प्रथमः। विसखा- दिका सरस्या विसमुक्ति: कीर्तिता लोकैः ॥ मदनार्थितात्रकुसुमैरवतसे चात्रमजिका प्रोका। अम्यूपसादिकैवं शातव्या अन्थतः परतः ॥अन्योन्यं जलसेक: पानीयक्ष्ेडि- केरिता वियुयैः। कृत्रिमविवाइलीला कथिता नवपत्रिका तज्येः॥ कृत्रिमपुत्रकलीला सादनुयानं तथा तु पाआन्याः। र्राष्मल्यामधिरत कीडैका शाल्मली कथिता ॥ युद्ध कदम्वमुकुलैः प्रविभज्य बलं परस्परं यत्र। स्पात्तत्कदम्वयुदं कुर्षादन्यास्तुथा लीला:॥'
-i:२. 'नैमित्तिक आरान्यो! क.व. २. 'विश्न्मजय्' क.ख्र. ३, 'नायक: पनिपरोंड-
Page 660
५ परिच्छेदः ।] सरस्वतीकण्ठाभरणम्। ५६७
तिर्यक्षु च तदीभास इति द्वादश नायकाः ॥ १०२॥ I तेषु सर्वगुणोपेतः कथाव्यापी च नायकः । अन्यायवांस्तदुच्छेद्य उद्धतः प्रतिनायकः ॥ १०३ ॥ 113 ततः कैथ्िद्रुणैर्हीनः पूज्यश्ैवोपनायकः। समो न्यूनोऽपि वा तस्य कनीयाननुनायकः ॥ १०४ ॥ ॥ सात्कथाव्यापिनी सर्वगुणयुक्ता च नायिका। हेतुरीर्ष्यायितादीनां सपलनी प्रतिनायिका ॥ १०५॥ 11९ ततः कैश्चिद्ठुणैहींना पूज्या चैवोपनायिका। समा न्यूनापि वा किंचित्कनीयस्नुनायिका ॥ १०६। तदाभासास्तथैव स्युर्मेदाशरैषां गुणादिभिः । नायकस्तत्र गुणत उत्तमो मध्यमोऽघमः ॥ १०७॥ प्रकृतेः सात्त्विकः स स्याद्राजसस्तामसस्तथा। साधारणोऽ्र्नन्यजाति: स विज्ञेय: परिग्रहात् ॥ १०८॥ उद्धतो ललितः शान्त उदात्तो धैर्यवृत्तितः । शठी धृष्टोऽनुकूलश दक्षिणश्च प्रवृत्तितः ॥ १०९ । 1105 गुणतो नायिकापि स्ादुच्तमा मध्यमाधमा। मुग्धा मध्या प्रगल्भा च वयसा कौशलेन वा ॥११०।। ॥धीराधीरा च धैर्येण खान्यदीयापरिग्रहात्।गे ऊढानूढोपयमनात्कमाजयेष्ठा कनीयसी ।। १११। मानर्द्वेरुद्धतोदात्ता शान्ता च.ललिता च सा। सामान्या च पुनर्भूश् खैरिणी चेति वृत्तितः ॥११२।। F१. 'ियकु च्तदानासा' क.स. २. 'भेदासेषा' क.स. ३. 'आफृत)' ख ४. 'अनन्यजानि:' स. प्रोनर क.स.
Page 661
५६८ काव्यमाला।
आजीवतस्तु गणिका रूपाजीवा विलासिनी। अवस्थातोऽपराश्राष्टौ विज्ञेयाः खण्डितादयः ॥११३॥ निद्रांकुलितताम्राक्षो नारीनखविभूषितः । प्रातरेति प्रियो यस्याः केतश्चित्सेह खण्डिता ॥११४।। चाटुकारमपि प्राणनाथं कोपादपास या। पश्चात्तापमवाननोति कलहान्तरिता तु सा।।११५।। दूतीमहरहः प्रेष्य कृत्वा संकेतकं क्चित्। यस्या न मिलितः प्रेयान्विप्रलब्घेति तां विदुः ॥११६।। सा तु वासकसज्ा स्यात्सजजिते वासवेश्मनि। प्रियमास्तीर्णपर्यड्काँ भृषिता या प्रतीक्षते ॥ ११७ ॥ 11 स्वाधीनपतिका सा तु यस्या: पार्श्व न मुश्चति। प्रियश्चित्ररतक्रीडासुखाख्वादनलोलुपः ॥ ११८॥ पुष्पेषुपीडिता कान्तं याति या सामिसारिका। प्रियो देशान्तरे यस्याः सा तु प्रोपितभर्तका ॥११९॥ यस्या: समुचितेऽप्यद्वि प्रवासी नैति वल्लमः । विरहोत्कण्ठिता सा तु द्वात्रिशदिति नायिकाः॥१२०॥ हीनपात्राणि शेषाणि पीठमर्दो विद्षकः । विटचेटौ पताकाश् सख्यश्रैषां परिग्रहः ॥ १२१॥ महाकुलीनतौदार्ये महाभाग्यं कृतज्ञता। रूपयौवनवैदग्ध्यशीलेसौभाग्यसंपदः ॥ १२२।।
१. 'निद्राकृणित' क.स. २. 'कुतश्ित्खण्डितेति सा' क., 'कुतभित्खण्ढिता तुसा' म. ३. 'पर्यद्टे' क. स्र. ४. उत्तमादयो विलासिन्यन्ताश्तुर्षिशतिः, खण्डितादबो विरहोत्कण्ठिताआाधविति दाव्रिशव, ५. 'शीलसौभाग्यसंमद्:' क्.
Page 662
५ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम्। ५६९
मानितोदारवाक्यत्वमदरिद्रानुरागिता। द्वादशेति गुणानाहुर्नायकेध्वाभिगामिकान्।। १२३ ।। मृद्वीकानालिकेराम्रपाकाद्याः पाकभक्तयः । नीलीकुसुम्भमञ्जिष्ठारागाद्या रागभक्तयः॥ १२४।। अन्तर्व्याजव हिर्व्याजनिर्व्याजा व्याजभक्तयः । धर्मार्थकामोदर्काश् प्रेमसूर्देर्कमक्तयः ॥ १२५॥ वाक्यवच प्रबन्धेषु रसालंकारसंकरान्। निवेशयन्त्यनौचित्यपरीहारेण सूरयः ॥ १२६॥ चतुर्ृत्त्यङ्गेसंपन्नं चतुरोदाच्तनायकम् । चतुर्वर्गफलं को न प्रबन्धं बान्धवीयति ॥ १२७ ॥ मुखं प्रतिमुखं गर्भोऽ्वमर्शश्र मनीषिभिः । स्मृतानिर्वहणं चेति प्रबन्धे पञ्च संघयः ॥ १२८॥ अविस्तृतमसंक्षिपं श्रव्यवृत्तं सुर्गन्धि च। भिन्नसर्गान्तवृत्तं च काव्यं लोकोऽभिनन्दति ॥१२९॥ पुरोपवनराष्ट्रादिसमुद्राश्रमवर्णनः । देशसंपत्प्रवन्धस्य रसोत्कर्षाय कल्पते॥ १३० ॥ ऋतुरात्रिंदिवार्केन्दूदयास्तमयकीर्तनैः । काल: काव्येषु संपन्नो रसपुष्टि नियच्छति॥ १३१॥ राजकन्याकुमारस्त्रीसेनासेनाङ्गभङ्गिभिः। १. अदरिद्रेत्यनुरागिताया विशेषणम्. तेन स्थिरानुरागितेत्यर्थ :. २. 'नारिकेरा- अपाकाया' ख., 'नारिकेळात्रपाकाया:' घ. ३. 'प्रेमसंपर्कभक्तयः' क.ख. ४.'रसा- संकारसंकरात' क. ५. 'चतुर्वृत्यङ्गसंपत्न' क.ख. ६. 'सुसन्ति च' क. ७. 'ऋतु- रात्रि' क.स. ८. 'दिवार्केन्दूदयास्तमयवर्णने:' कर.ख.
Page 663
५७० । काव्यमाला पात्राणां वर्णन काव्ये रसस्रोतोऽधितिष्ठति ॥ १३२ ।।
विग्रलम्भा विवाहाश् चेष्टाः काव्ये रसावहाः॥१३३॥ i मत्रदूतप्रयाणाजिनायकाम्युदयादिभिः। पुष्टि: पुरुषकारस् रसं काव्येषु वर्षति। १३४। नावर्णनं नगर्यादेदोषाय विदुषां मतम् । यदि शैलर्तुरात्र्यादेर्वर्णनेनैव तुष्यंति ।। १३५।। गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम् । निराकरणमित्ये मार्ग: प्रकृतिसुन्दरः ॥ १३६ ॥ 11 वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि। तज्जयान्नायकोत्कर्षकथनं च धिनोति नः ॥१३७ ॥ अथैषां लक्षणोदाहरणानि- तैत्र, मनोनुकूलेष्वर्थेषु सुखसंवेदनं रतिः। अेसंग्रयोगविषया सैव प्रीतिर्निगद्यते ॥ १३८॥ तद्रपेण रसस्य भावो यथा- *हरस्तु किंचित्परिवृत्तवैर्यश्चन्द्रोदयारम्भ इचाम्वुराशिः । उमामुखे विम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ १ ॥' ॥ अत्र विम्बोष्ठत्वादिमिर्मनोनुकूले पार्वतीमुखे विलोचनव्यापारानु- मितो महेश्वरस्यामिलाषविशेषः सात्त्विकादेरनुत्पादात्सुखानुभवस्योत्प तिमात्रमनुमापयति । १. 'पात्राणां वर्णनात्काव्ये' क.सर. २. 'पुष्यति' स. ३. 'वंशवृत्तबुतादीनि' स. ४, 'त्र' क.स, नास्ति. ५. 'आसंपयोगविषया' क्र.ख. ६. 'परिलप्तयेये:' र. ७. 'सास्विको' क, ख. ८. 'रसुत्पादाव' के:
Page 664
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ५७१
तद्रपेणैव सात्त्विकोत्पततौ जन्म यथा- 'अमूद्रः कण्टकितप्रकोष्ठः खििन्नाङ्कुलिः संववृते कुमारी। तैस्िन्दये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥ २ ॥।' अत्र खेदरोमोद्वेदयोः सात्त्विकयोरुत्पादाद्रसस्य रतिरूपेणाविर्भा- वोऽवगम्यते। जन्मैव संचार्युत्पत्तौ यथा- 'तयोरपाङ्गप्रविचारितानि किंचिव्यवस्थापितसंहृतानि। हीयब्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ॥ ३ ॥' अत्र ही: संचारिभावो जायमानो रसस्य जन्म ज्ञापयति।
'ततः सुनन्दावचनावसाने लज्जां मृदूकृत्य नरेन्द्रकन्या। दृक्षा प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ।। ४ ।।' अत्र दृष्टिलक्षणः शरीरारम्मोऽनुभावो भवन् रसाविर्भावं लक्षयति। अनुभावादेरनेकस्यैकस्य वा पुनरुत्पत्तिरनुबन्धः। सोऽनेकस्य यथा- 'विवृण्वती शैलसुतापि भावमझ्नैः कचिद्वालकदम्बकल्पैः । साचीकता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ।। ५ ॥' १. 'आसीदूर: कण्टकितप्रकोष्ठः' इति महिनाथोद्टक्वित: पाठ :. २. 'वृत्तिस्तयो: पाणिसमागमेन, समं विभक्तेतर , मनोमवस्य' मुद्ितपाठ :. २. 'खेदरोनोङ्गमयोः'ख ४. 'जन्मेव सत्वादुत्पत्ती यथा' स. ५. अत् च 'तयोरुपान्तप्रतिसारितानि', 'कयोर- पाङप्रतिन्दालितानि', 'तयोरपाप्रतिवारितानि' इत्येवंविधा अनेके पाठा :. ६. अभ्रापि 'क्रियासमापत्िनिवतितानि', 'क्रियासमापत्तिविवर्तितानि', 'क्रियासमापत्ियु कातरा- ि', 'तयो: समापत्तियु कातराणि किचिय्यवस्पापितसंहतानि' इतेवंविचा अनेके पाठा :. ७. 'तदेवानुभवोत्पत्तौ' क., 'तदेवानुभयोत्पत्ती' ख. ८. 'तनूकृत्य' मुद्धितपाठ :. ९. 'शरीरारम्भेऽनुभावो भवन्' क.ख., 'शरीरानुभावो अवन्' ग. १० 'रुरद्राल- कदम्बकस्पैः' स्न. सुद्रितकुमारे.
Page 665
५७२ काव्यमाला।
अत्र देव्या: समरारौ पूर्वमुत्पन्ना रतिः साभिलाषतदवलोकनेविवि- क्वसन्तादिभिरुद्दीप्यमाना रोमाञ्चावहित्थलक्षणाभ्यां सात्त्विकव्यभि- चारिभ्यामनुबध्यते।। एकस्यैव पुनः पुनर्यथा- 'यान्त्या मुहुर्वलितकंधरमाननं त- दावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्घोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥ ६ ॥' अत्र मालत्या माधवविषये पूर्वमुत्पन्ना रतिर्वसन्तावतारेतत्संनिधि- विशेषप्रदर्शनादिभिरुद्दीप्यमाना पुनः पुनरुत्पन्नेन वलितग्रीवकटाक्ष- विक्षेपलक्षणेन शरीरारम्भानुभावेनानुबध्यते। अत्रैवे माघवस्य मालती- विषये तदहरेवोत्पन्ना रतिस्तैरेवोद्दीपनैरुद्दीप्यमाना हर्षघृतिस्मृतिमति- व्याध्यादिमि: संचारिभावैर्वागारम्भेण चानुभावेनानुवध्यते॥ रतिरूपेणैव रसनिष्पत्तिर्यथा- 'तं वीक्ष्य वेपथुमती सरसाञ्यष्टि- रनिक्षेर्प एव पदमुङ्गृतमपर्यन्ती। मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्तौ ।।७॥' अत्र जन्मान्तरानुभवसंस्कारात्प्रतिकूलेऽपि शूलिनि शैलीत्मजायाः सर्वकालमेवाविच्छिन्ना रतिश्रिरवियुक्तस्य दुश्चरेणापि तपसा प्रार्थनीय- १. 'शिने' घ. २. 'तदबलोकनेन' क.स. २. 'पुनःपुनरुत्पत्तियया' ख. ४. 'वसन्तावतारतः संनिषिविकेष' घ. ५. 'अत्र च'घ. पुस्तके पाठान्तरम्, ६. 'नि- क्षेपणाय' क.ख. मुद्रिते. ७. 'मुदृतमुदहन्ती' कुमारसंभवस्य मुद्रितपाठ :. ८. 'शि० चाबा:' घ. ९. 'चिर वियुकस्' क ख.
Page 666
५ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ५७३
संगमस्य तस्याकस्मिकदर्शनेनोद्दीप्यमाना सद्य:समुपजायमानसातत्विक-
निक्षेपलक्षणेन च शरीरानुभावेन संसृज्यते। सोडयं विभावानुभाव- व्यभिचारिसंयोगे रतिरूपेण रसो निष्पद्यते। रतिरूपेणैव रसेपुष्टिर्यथा- 'पीनश्रोणि गमीरनाभि निभृतं मध्ये भृशोचस्तनं पायाद्वः परिरब्धमब्धिदुहितुः कान्तेन कान्तं वपुः ।
यस्मै सोऽच्युतनाभिपदवसतिर्वेधाः शिवं ध्यायति ॥८॥ अत्र सर्वदैव श्रीवत्सलक्ष्मणो लक्ष्मीविषये महाकुलीनतौदार्यस्थि- रानुरागितारूपयौवनवैदग्ध्यशील सौभाग्यमहाभाग्यादिभिः समुत्पन्ना र- तिस्तदवयवविशेषकामनीयकविभावनेनोद्दीपन विभावातिशयेनोद्दीप्य- मानां ब्रह्मण: समक्षमप्यालिङ्गनलक्षणेन शरीरारम्भानुभावेनानुमीयमानां लज्जाप्रणाशलक्षणां प्रेमपुष्टेरष्टमीमवस्थामध्यास्ते। अत्र चानुक्ता अपि सार्विका व्यमिचारिणोSन्येऽपि चानुभावविशेषाः प्रतीयन्ते। त्रियोऽपि च समगात्मगुणसंपदाश्रये श्रीवत्सलक्ष्मणि तथाभूता तदभ्यधिका वा
निमीलनानुमेयां समस्तसात्त्विकानुभावव्यभिचारिहेतुं प्रेमपुष्टेरुतैमामव- स्थामाश्रयति। सोऽयं विषयसौन्दर्यादाश्रयप्रकृतेः संस्कारपाटवादुद्दीपना- तिशयाच्च परां कोटिमावहन् रसः पुष्ट इत्युच्यते। अत्रैव ब्रह्मणः श्रियं प्रति मनोहरा ममेयं सृष्टिरिति, रल्नाकरस्थेयमात्मजेति, चन्द्रा- १. 'हरषचतिस्मृत्यावेग-' क.ख. २. 'व्यमिचारिभिभावैः' क.ख. ३.'विक्षेपल. क्षणेन' क.स.४. 'संयोगै:' क.ख. ५.'रतिपुष्टिः' क. ६. 'च'घ.७. 'कत्तरा'स.
Page 667
५७४ ।1 काव्यमाला।
मृतादीनामियं सोदर्येति, विष्णोरियं प्रियतमेति, कामस्येयं जननी- त्यादिभ्य आलम्बनेभ्यः समुत्पन्ना प्रीतिः खावासानुपघातिना शरीरसं- निवेशेन इड्गिमीलनजनितया च तदुपघातशञ्कयोद्दीप्यमाना तत्क्षणोप- जायमानतया आवेगस्मृति वितर्कोन्मादमोहचिन्तादिभिर्व्यभिचारिभावै- स्तदनुमेयैश्र सम्भवेपथुप्रभृतिसात्त्विकैः शिवानुध्यानलक्षणेन बुद्धार- म्भानुभावेन संसृज्यमाना परं प्रकर्षमारोहन्ती प्रतीयते ॥ रतौ भयादिसंकरो यथा- 'राहोश्चन्द्रकलामिवाननचरी दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम्। आतक्ाद्विकलं द्रुतं करुणया विक्षोमितं विस्मयात् कोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तताम् ॥ ९ ॥' अत्र माधवस्य मालत्यां पूर्वमुत्पन्ना रतिस्तदवस्थालोकनादिभिरूद्दी- पनविभावैरुद्दीप्यमाना भयशोकविसमयक्रोधहर्षैरपि रसान्तरैः पृथक्- पृथग्विभावानुभावव्यमिचारिसंयोगान्निष्पद्यमानैः संकीर्यमाणा मनोवा- खुद्धिशरीरारम्भानुभावैर्भयाद्यनुरूपैश्च सात्त्विकव्यभिचारिमिः संपर्के परं प्रकर्षमारोहन्ती प्रतीयते। तत्र चेतसो वैकल्यादिपरिभावनं मनआ- रम्भ:, वाक्योच्चारणं वागारम्भ:, राहोरिव दस्योश्चन्द्रकलामिव प्रेयसी- मित्यादि बुद्धारम्भः, आर्च्छिन्दत इत्यादि शरीरारम्भः, भयादीनां च पञ्चानामपि यथाक्रमं राहोरिति, चन्द्रकलामिवाननचरीमिति, दैवात्स- मासाद मे इति, दस्योरस्य कृपाणपातविषयादिति, आच्छिन्दतः प्रेय- सीमित्यालम्बनविभावास्तत्स्वरूपपरिभावनान्युद्दीपनविभावाः, विकलम्, १. 'मारोहतीति' क.ख. २. 'तदवस्ावकेकनादिमि:' ग.घ. ३. 'शारीरानु- नाये:' घ. ४. 'आच्छियत' ध.
Page 668
५ परिच्छेद: I] सरखतीकण्ठाभरणम्। ५०५
द्रुतम्, विक्षोभितम्, ज्वेलितम्, विकसितं चेते इत्यनुभावा: ात-
स्विका:, मोहविषादवितकोग्रताधृत्यादयो व्यभिचारिणश्चानुमीयमाना निष्पत्तिहेतवो भवन्ति। सोऽयं तुल्यकालबलोत्पत्तिकारणानां भयादि- निष्पत्तीनां रतौ संसर्ग: संकर इत्युच्यते॥ रतिरूपेण रसप्रकर्षस्य ह्ासो यथा- 'कोपो यत्र भुकुटिरचना निग्रहो यत्र मौनं यत्रान्योन्येस्मितमनुनयो दृष्टिपातः प्रसादः । तस्य प्रेम्णस्तदिदमधुना वैशस पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्ष: खलायाः ॥ १०॥' अत्र योषिति रोषाख्यरसान्तरतिरस्कारात्पुरुषे चान्यरागाद्रतिपक- र्षस्य हासोऽवसीयते। रतिरूपेण हीनपात्रेषु रसाभासो यथा- 'विकिणइ माहमासम्मि पामरो पारडिं वइल्लेण। दिट्विं समुम्मुरे सामलीअ थणए णिअच्छन्तो ।। ११ ॥' [विक्रीणीते माघमासे पामर: प्रावरकं बलीवर्देन। दृष्टिं समुर्मुरे श्यामल्याः सतनके नियच्छन् ॥]
१. 'चलितन्' क. २. 'विकसित च त' घ. 'विकसितमित्यनुभावाः' क. ३.'वि- पादोदकाग्रता' क. 'विषादामर्ोगता' स. ४. 'भकुटिरचना' घ. ५. 'यत्रान्योन्यं' क. ६. 'चानुरागा-' ख., 'चान्यरागा' घ. ७. 'हासोऽवगम्यते' क.ख. ८. 'पामरो पारणं विशहेण' क. 'पामरो पारडि बशलेण' ख. 'पामरो पाइडि वरहेण' मुद्ित- गाथास०. ९. 'णिडममुम्मुरे सामली यणए णिमच्छन्तो' क्., 'णिड्ममुम्मुरन्विम सामकीए थणो पविच्छन्तो' इसे मुद्ितगाधास०, 'दिट्वि समुम्मुरे सामलीए थणए णिभच्छन्तो' ख.
Page 669
५७६ काव्यमाला।
तिर्यक्षु यथा- 'पीअडिअं सोहम्गं तंबाए डैअह गोट्ठमज्झम्मि। दुट्ठवसहस्स सिंगे अच्छिउडं कण्डुअन्तीए ।। १२ ।।' [प्रकटितं सौमाग्यं गवा पश्यत गोष्ठमध्ये। दुष्टवृषभस शुङ्गेऽक्षिपुटं कण्डूयमानया II] नायकप्रतियोगिषु यथा- 'पुलअं जैणेन्ति दहकंधरस्स राहवसरा सरीरम्मि। जणअसुआफंर्सेमहग्घविअ करअल।अट्टिअविमुक्का ॥ १३ ॥' [पुलकं जनयन्ति दशकंधरस राघवशराः शरीरे।
गौणेषु यथा- जनकसुतास्पर्शमहार्धा इव करतलाकृष्टविमुक्ताः॥]
'उव्बहइ नर्वतणंकुररोमञ्चपसाहिआइ अंगाइं। पार्उसलच्छीअ पओहरेहिं पडिबेलिओविजेझो ।। १४ ॥'
प्रावृट्लक्ष्म्याः पयोधराम्यां प्रतिप्रेरितो विन्ध्यः ॥] तें एते चत्वारोऽपि रसाभासा उच्यन्ते ॥ रतावेव लज्जारोषरूपरसान्तरयोः प्रशमो यथा- 'दृष्टे लोचनवन्मनाड्युकुलितं पार्श्वस्थिते वक्रव- क््यग्भूतं बहिरासितं पुलकवत्स्पश समातन्वति।
१. 'पअपाटिय' क. 'पाअपडिअ' स. २. 'उसह गोठठमज्झम्मि' क. 'वसद गोठुमन्सम्मि' स्र. ३. 'जणेति' क. 'जणति' ख. ४. 'फर्अंस' क. 'फंस पदग्प' स. ५. 'करअलाडुविमुका' क. ६. 'नवतिणंकुर' क.ख. ७. 'पसाहिआ।' क.ख. ८. 'पाउसलच्छीए' क.स. ९.'विझो' स. १०. 'एवे चत्वारोडपि'क., 'त एवेडपि चतवारो' क.
Page 670
५ परिच्छेद: I] सरखतीकण्ठाभरणम्। ५७७
नीवीबन्घवदागतं शिथिलतामामाषमाणे ततो मानेनापगतं हियेव सुदृश: पादस्पृशि प्रेयसि ॥ १५ ॥' अत्र बलवच्ां प्रियप्रेमानुनयाभ्यां द्वीरोषयोरुपशमः क्रियते ॥ रतावेव रोषरूपरसस्य शेषो यथा- 'एष्यत्युत्सुकमागते विचेलितं संभाषिणि स्फारितं संश्चिष्यत्यरुणं गृहीतवसने कोपाश्चितम्रूलतम्। मानिन्याश्ररणानतिव्यतिकरे वाप्पाम्बुपूर्ण क्षणा- च्क्षुर्जातमहो प्रपश्चचतुरं जातागसि प्रेयसि ॥ १६॥' अत्र कस्याश्चिद्वलवता प्रेम्णोन्मूलितस्यापि मानस्य शेषोऽनुवर्तते। त एते भावादयो दशापि रसप्रकारा हासादिष्वपि प्रॉयो दश्यन्ते। अन्थगौरवभयात्कचित्कचिदुदादियन्ते॥ तत्र न्यङ्गवीडादिभिश्चेतोविकारो हास उच्यते। तद्ूपेण रसस्य भावो यथा- 'कनककलशसच्छे राघापयोघरमण्डले नवजलघरश्यामामात्मद्युति प्रतिबिम्बिताम्। असितसिचयप्रान्तम्रान्त्या मुहुर्मुहुरुत्क्षिपन् जयति जनितब्रीडाहासः प्रियाहसितो हरिः ॥ १७ ॥' अत्र राघाया हरिन्य्ञाद्, हरेस्तु त्रीडातो हासस्य सचामात्रं प्रतीयते।। १. 'विवलितं' क.ख. २. 'वाम्पाम्युपूर्णेक्षणं' क. 'वाण्पाम्वुपूर्ण क्षणं' स. ३. 'शेपेडनुववंते' क. ४. 'भावा दशापि' क. ५. 'प्रायशो' ख. ६. 'प कचिदुद्ा- हियन्ते' ख. ७. 'न्यङ: कीडादिमि:' क., 'व्यङ्कीडादिमिः' स., सोछवचो न्यङ्- वाच्यम्. ८ 'राचया व्यद्ितिस्प' ख. ३७ स० क०
Page 671
- काव्यमाला। शोकश्रित्तस्य वैधुर्यमभीष्टविरहादिभिः ॥ १३९॥ तद्ृपेण रसस्य निष्पत्तिर्यथा- ॥ 'हृदयान्नापयातोऽसि दिक्षु सर्वासु दैश्यसे। वत्स राम गतोऽसीति संतापादनुमीयसे ॥ १८॥'
संतापादिर्वागारम्भेण चानुषज्यमानः शोकरूपेण रसो निष्पद्यते॥ प्रतिकूलेषु तैक्ष्ण्यस्य प्रबोध: क्रोध उच्यते। तद्रपेण रसस्य निष्पत्तिर्यथा- 'मय्येवमसमेरणदारुणचि त्तवृत्तौ वृत्तं रह: प्रणयमप्रतिपद्यमीने। मेदाड्ुवो: कुटिलयोरतिलोहिताक्ष्या भगरं शरासनमिवातिरुषा स्मरस्य ।। १९।।' अत्र यद्यपि विर्भावानुभावव्यभिचारिसंयोगलक्षणाया रसनिष्पत्तेः 'अधिकमतिरुषातिलोहिताक्ष्या' इति प्रकर्षनिमित्तमतिशब्दोपादानं वि- द्यते, तथाप्युत्तमनायिकाश्रयः प्रियविषये न रोषः प्रकर्षमासादयति॥ कार्यारम्भेषु संरम्भ: स्थेयानुत्साह इष्यते॥ १४० ॥ तद्रूपेण रसस्य जन्म यथा- 'मूर्धा जाम्बवतोऽभिवाद्य चरणावापृच्छय सेनापती- नाश्वास्याश्रुमुखान्मुहु: प्रियसखीन्प्रेष्यान्समादिश्य च। आरम्मं जगृहे महेन्द्रशिखरादम्भोनिधेर्लेड्ने रंहस्वी रघुनाथपादरजसामुचैः स्मरन्मारुतिः ॥। २०॥
१. 'वीक्ष्यते' घ्र .. र, 'सत्सरण' स. ३. 'प्रतिपाधमाने' क. ४. 'विभावानुमा- वर्संचारिसयोग' क.ख. ५. 'देवसरणानां' घ.
Page 672
५ परिच्छेद: ।] सरस्त्ीकण्ठाभरणम्। ५७९
बन्धो निष्पत्तिः प्रकर्षो वा भवति ॥ भयं चित्तस् वैक्व्यं रौद्रादिजनितं विदुः। तद्रूपेण रसस्यानुबन्धो यथा- 'मब्रान्मृत्युजितो जपद्विरसकद्यायद्विरिष्टान्सुरान् शुष्यत्तालु भिराकुलाकुलपदैर्निर्वाग्भिरुत्कम्पिभिः । अध्वन्यैरिह जीवितेशमहिषव्याधूम्रधूमाविला लद््यन्ते करिमांसघस्मररणत्कौलेयकाः पल्लयः ॥ २१ ॥' अत्र यद्यपि पल्लीनामालम्बनत्वम्, तेंद्विशेषणयोरुद्वीपनत्वम्, मब्रज- पादेरनुभावत्वम्, तालुशोषादीनां व्यभिचारित्वमिति विभावानुभाव- व्यमिचारिसंयोगोऽस्ति, तथापि मत्रजपेष्टदेवतानुध्यानयोर्लेङ्गनोपायपर- त्वान्न भयरूपेण रैसस् निष्पत्तिः । अध्वन्यानां हि तन्निष्पत्तावल्पस- त्वंतया स्तम्भमोहमू्च्छामरणादि मिरुपायप्रयोगो न घटते॥ जुगुप्सा गर्हणार्थानां दोषसंदर्शनादिभिः ॥१४१॥ तद्रूपेण रसस्यानुगमो यथा- 'हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्धमुनौ कृपाणम्। रामस्य गात्रमसि निर्भरगर्मखिन्न- सीताप्रवासनपटो: करुणा कुतखे ॥ २२ ॥ अत्र यद्यपि द्विजशिशोर्जीवनाय मुनिरपि शूद्रो वध्य इति न राम- स्यात्मकर्मनिन्दा तथाप्यनपकारिणं जिघांसतो घृणानुवर्तत एव। सीता- 2. 'रणात्कीलेयकाः' क., 'कुणत्कौलेयकाः' ग.घ. २. 'न तदिशेषणयोः' ख. २. 'रसनिष्पत्तिः' क. ४. 'े इस्' क.स. ५. 'प्यनयकारिणं ख. ६. 'पृणा प्रव- वत इति सीतापरित्याग' क,स.
Page 673
५८० काव्यमाला
परित्यागविषयत्वेनैवात्र जुगुप्सानुगमो अहीतव्यः । शंम्बुकविषये पुनरस्या जन्ममात्रमेवेति।। विस्मयश्चित्तविस्तारः पदार्थातिशयादिभिः । तद्रूपेण रसेनिष्पत्तियथा- 'कृष्णेनाम्ब गतेन रन्तुमसकृन्मृद्गक्षिता खेच्छया सत्यं कृष्ण क एवमाह मुर्सेली मिथ्याम्ब पश्याननम्। व्यादेहीति विकासिते च बदने दृद्टा समस्तं जग- न्माता यस्य जगाम विस्मयपदं पायात्स वः केशवः॥२३॥' अत्र शिशोर्मुखे जगद्दर्शनमालम्बनविभावः, तत्सामगयशैशवादा- लोचनमुद्दीपनविभावः, विस्मयवशं जगामेत्यनेनानुपात्ता अपि सर्वे सं- चौरिणोऽनुभावाश्च गृह्यन्ते ।। स्तम्भश्रेष्टाप्रतीघातो भयरागामयादिमिः ॥ १४२॥ तद्रूपेण रसस्य पुष्टिर्यथा- 'तं ताण हअच्छाअं णिचललोअणसिहं पउत्थपआवं। आलेक्खपईवाणिव णिअअं पअइचडुलत्तणं पि विअलिअं।।२४।।' [तत्तेषां हतच्छायं निश्चललोचनशिखं प्रोषितप्रतापम्। आलेख्यप्रदीपानामिव निजकं प्रकृतिचटुलत्वमपि विगलितम्॥] अयं च पुष्टोऽपि सात्त्विकत्वात् सदैवान्यानुयायीति नानुभावादि- मिरनुबध्यते।। हपोद्भुतभयादिभ्यो रोमाश्चो रोमविक्रिया। १. 'शन्बूकविपये' क. २. 'रसस्य जन्म यथा' क.ख. ३. 'रन्तुमपुना' क.ख. ४. 'मुशली' क.स. ५. 'विदारिते तु बदने' क.ख. ६. 'शवापालेकन' क.स, ७. 'सबें संचारिणो' इत्यस्प सथाने 'फेवल संचारिणः' क.र.८.'तं ताणं' ख.
Page 674
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ५८१
तद्रपेण रसस्य जन्म यथा- 'करिमरि अआलगज्जिरजलआसणिपउणपडिरओ एसो। पइणो घणुरवकंखिणि रोमंचं किं मुहा दहसि ॥ २५ ॥' [बन्दि अकालगर्जनजलदाशनिपतनप्रतिरव एः । पत्युर्घनूरवाकाक्कणशीले रोमाश्च किं मुधा बहसि ॥] अस्यापि सात्त्विकत्वादन्यानुबन्धादयो न जायन्ते। मदप्रमदपीडादेवैंस्वयं गद्गदं विदुः। तद्रपेण रसस्य निष्पत्तिर्यथा- 'पिपिप्रिय ससस्वयं मुमुमुखासवं देहि मे ततत्यज दुदुद्रुतं भभभभाजनं काश्चनम्। इति स्खलितजल्पितं मदवशात्कुरज्रीदृश: प्रगे हसितहेतवे सहचरीभिरध्येयत ।। २६।।' अंत्रापि सात्विकत्वान्निष्पत्रो नान्यैरनुबध्यते। वपुर्जलोद्गमः खेदो रतिघर्मश्रमादिमिः ॥ १४३॥ तद्रपेण रसस्य जन्म यथा-
खेदोद्रम: किंपुरुषाञ्कनानां चक्रे पदं चित्रैविशेषकेषु ॥ २७ ॥' अत्रापि पूर्ववदन्यानुषक्को न भवति ।। रागरोषभयादिभ्यः कम्पो गात्रस वेपथु:। तद्रपेण रसस्य जन्म यथा- 'मा गर्वमुद्धह कपोलतले चकास्ति कान्तखहस्तलिखिता मम मज्जरीति। १. 'अयमपे' क.ख. २. 'पाण्डरीभूत. स्र. १. 'पत्रविशेषकेषु' क.ख.
Page 675
५ट२ काव्यमाला।
अन्यापि किं न सखि भाजनमीदृशानां 5 1i वैरी न चेद्धवति वेपधुरन्तरायः ॥ २८॥ अयमपि प्राग्वदेवान्यैर्नानुगम्यते। विषादमदरोपादेर्वर्णान्यत्वं विवर्णता ॥ १४४॥ तद्रूपेण रसस्य निष्पत्तिर्यथा- 'सहि साह्सु तेण समं अहं पि किं णिग्गआ पैहाअम्मि। अण्णचिअ दीसइ जेण दप्पणे कावि सा सुमुही ॥ २९॥' [सखि साधय तेन सममह्मपि कि निर्गता प्रभाते। अन्यैव दृश्यते येन दर्पणे कापि सा सुमुखी ॥] अयमपि नान्यैरनुबध्यते ॥ अश्रु नेत्रीद्वतं वारि दुःखशोकप्रहर्पजम्। तद्रपेण रसस्यानुबन्धो यथा-
बाष्पं कुरु स्थिरतया शिथिलानुबन्धम्। ॥ अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥ ३०॥ अत्र वाष्पशब्देन लोचनाश्रयमश्रच्यते न कण्ठाद्याश्रयो दुःखा- वेशः । यथा-'विललाप स बाप्पगद्दम्', 'मुहुर्मझः कण्ठे तरल- यति बाष्पः स्तनतटीम्' इत्यादि ॥ प्रलयस्तीत्रदुःखादेरिन्द्रियास्तमयो मतः ॥ १४५ ॥ तद्रपेण रसस्य निष्पत्तिर्यथा- 'तीव्राभिषङ्गप्रभवेण वृरत्ति मोहेन संस्तम्भयतेन्द्रियाणाम्। अज्ञातभर्तृव्यसना मुहूत कृतोपकारेव रतिर्वभूव ।। ३१ ।।' १. 'नान्यरनुगन्यते' क.स्र. २. 'सदि साइस तेण' क. ३. 'पहनम्मि' ख. ४. 'मुहुलंग: फण्ठे' क.स. ५. 'इति' ख.
Page 676
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ५८२
अत्र मोहशव्देन मूच्छोंच्यते, न वक्ष्यमाणलक्षणो मोहः ॥ स्मृतिः पूर्वानुभूतार्थविषयं ज्ञानमुच्यते ॥ १४६ ॥ तद्रूपेण रसस्यानुबन्धो यथा- 'इतः परत्यादेशात्खजनमनुगन्तुं व्यवसिता स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे। पुनर्दृष्टिं वाष्पप्रसरकलुषामर्पितवती मयि कूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ ३२॥' अत्र सविशेषा स्मृतिरिच्छया वागारम्भेण चानुबध्यते। निप्पे- त्यादय: पुनरस्या रत्यादिनिष्पत्तिष्वेव द्रष्टव्याः । रत्यादयोऽस्मृतिमू-
ऊहो वितर्क इत्युक्तः पदार्थेषु यथामति।] तद्रपेण रसस्य निष्पत्तिर्यथा- 'चित्ते निवेश्य परिकल्पितसत्त्वयोगों- न्रूपोच्चयेन घंटिता मनसा कृता नु। सीरलसष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥। ३३ ।। सोऽयमसत्यः सत्यो वा स्मृतिज्ञानचिन्तनादिद्वारेण निर्णयान्तो निष्पन्न इत्युच्यते ।। उत्कण्ठेष्टानवासौ योऽभिलाप: सात्तदापये॥ १४७।। तद्रूपेण रसस्य निष्पत्तिह्ासौ यथा- 'यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्मितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम्। १. 'वाध्पप्रकर' क.स्. २. 'तिषठेत्यादयः' स्र. ३.'रत्यादयो हि स्वृतिमूलतत्म्रकर्षाप- कर्पवनुवर्तन्ते' क.ख.४. 'सत्वयोगात्' क.स्. ५. 'विधिना विहिता कृतांडी पाठ:।" ६. 'वापस्तम्मितकण्ठवृत्तिवचनम्'ख.
Page 677
५८8 काव्यमाला।
वैक्कव्यं मम तावदीदृशमिदं सेहादरण्यौकसः पीड्यन्ते गृहिणः कथ नु तनयाविश्लेषदुःखैनवैः ॥ ३४॥' अत्र विभावानुभावव्यभिचारिसंयोगात् प्रीतिरिवोत्कण्ठापि तदनुष- ज्विणी निष्पन्ना उत्तरार्धप्रतिपाद्येन निषेधेनैव विस्मयादिनाभिभूयमाना ह्रास इत्युच्यते । प्रकर्षश्चास्या ममारण्यौकस इत्यनेन निवार्यते॥ प्रयत्नपूर्विकार्थेषु स्मृतिश्चिन्तेति चोच्यैते ॥ १४८॥ तद्रूपेण रसस्य प्रकर्षो यथा- 'चिन्ताणि अदइअसमागमम्मि कअमण्णुआइं मरिऊण । सुण्णं कलहाअन्ती सेहीहि" रुण्णा णै ओ हसिआ॥ ३५॥ [चिन्तानी तदयितसमागमे कृतमन्युकानि स्मृत्वा। शून्यं कलहायमाना सखीमी रुदिता न वा हसिता ॥] अत्र सखीरोदनेन शून्यकलहः, शून्यकलहेन साक्षात्कारः, साक्षा- त्कारेण चिन्ता, चिन्तया तु मूलमूता रतिः प्रकृष्यते॥ आत्मप्रकाशनपरा चेष्टा चपलतोच्यते ॥ १४९॥ तदूपेण रसस्य जन्म यथा- 'कश्चित्कराभ्यामुपगूढ नालमालोलपत्रा भिहृतद्विरेफम्। रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं अ्रमयांचकार ।। ३६।।' अंत्र कश्िल्लीलारविन्दअ्रमणचेष्टया ईन्दुमत्यै तिष्ठते॥ शास्त्रोक्तार्थानुसंधानादर्थनिर्धारणं मतिः। १. 'न' स. २. 'तथाविधेनेव' स. ३. 'कथ्यते' क.ख.४. 'मण्णुआइ' र्र. ५. 'सहीदि' स. ६. 'नावइसिआा' घ. ७. 'अत्र लीलारविन्दभ्रमणचेष्ट्या' क.ख. ८. 'कशिदिन्दुमलयै' क.स.
Page 678
५ परिच्छेदः I] सरस्वतीकण्ठाभरणम्। ५८५
तदूपेण रसस्यानुबन्धो यथा- 'असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्याममिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुपु प्रमाणमन्तःकरणप्रवृत्तयः ॥ ३७॥' अत्र पूर्वार्धोक्तार्थनिर्धारणरूपा मतिरुत्तराघेंनानुबध्यते॥ गर्वोऽन्येषामवज्ञानमात्मसंभावनादिभिः ॥१५० ॥ तदरूपेण रसस्य पुष्टिरयथा- 'धृतायुघो यावदहं तावदन्यैः किमायुघैः। यद्वा न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ।।३८।' अत्र कर्णस्यात्मसंभावनयाश्वत्थामेन्यवज्ञा प्रकृष्यते। अहेतुरनिवैती च स्रेहश्रित्तार्द्रता मता। तद्रपेण रसेस्य निष्पत्तिर्यथा- 'अनेन कस्यापि कुलाक्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैतत्। कां निर्वृति चेतसि तस्य कुर्या- द्यस्यायमेङ्गात्कृतिन: प्ररूढः ॥ ३९ ॥' अत्र दुष्यन्तस्य सत्वदमनदर्शनादुत्पन्नस्तदञस्पर्शसुखादिभिरुद्दी- पितः स्पृहामतिवितर्कवागारम्भैः संसृज्यमानः सेहो निप्पद्यते॥ अभीष्टार्थस्य संग्राप्तौ स्पृहापर्याप्तता धृतिः । १. 'अमिश्ञानम्' घ. २.'अवज्ञानम्' क.स. ३. 'अनिवत्या च' क.ख. ४. 'रसनिष्पच्तिरयथा' घ. ५. 'यस्पायमद्कात्कृतिनः प्ररुदः,' ६. सत्त्वदमन: शकु- न्वलातनय :.
Page 679
५४६ काव्यमाला।
तद्रूपेण रैसस्य प्रकर्षो यथा- 'नीतो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका ससागरमहीप्रात्येकहेतुः प्रिया। देवी श्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषमे थैस्मिन्करोमि स्पृहाम् ॥४०॥' अत्र वत्सराजस्य सर्वात्मना मनोरथसिद्धयो धृतेः प्रकर्षमावहन्ति॥ । चेतोनिमीलनं त्रीडान्यङ्गरागस्तवादिभिः ॥१५१॥ तदरूपेण रैसस्य प्रकर्षे कोर्धशोकाभ्यां संकरो यथा-
पार्थस्याकृतशात्रवप्रतिकृतेरन्तःशुचा मुद्तः । कीर्णा बाष्पकणैः पतन्ति धनुषि ब्रीडाजडा दृष्टयो हा वत्सेति गिर: स्फुरन्ति न पुनर्निर्यान्ति कण्ठाद्वहिः॥४१॥' अत्रार्जुनस्यान्यायेनामिमन्युवधादुद्गूतौ दीप्तावेव क्रोघशोकारवुह्धत- विप्रतीकारोत्थया तथाविधयैव ब्रीडया संकीर्येते। तथाहि क्रोधशोक- योरनुभावभूता दृष्टयो वाचश्र ब्रीडाजडा इति विशेषणानि संबध्यन्ते॥ अवहित्थं तु लज्जादेर्हर्पाद्याकारगोपनम् ॥ १५२ ॥ तदरपेण रसस्यानुबन्धो यथा- 'एवंवादिनि देवर्षो पार्श्चे पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती ।। ४२ ॥
१. 'रसनिष्पत्तियंथा' घ. २. 'कोशलाः' ख. ३. 'यसे' रलावल्या मुद्रिवे पाठ :. ४. 'वड' स. ५. 'रसप्रकर्पात्' क.स्त्र. ६. 'कोपशोकान्यो' स. ७, 'निधना- रसंक्ान्तवीतक्ुप:' कर.खं.८, 'अकृतविप्रतीकारोत्थया' घ. ९. 'बीढा इति विशे- पणानि' घ.
Page 680
५ परिच्छेदः ॥] सरखतीकण्ठाभरणम्। ५८७
अत्र- 'प्रणम्य शितिकण्ठाय विवुधास्तदनन्तरम् ।
इत्यादेर्देवर्षिवाक्यादुर्गृतः प्रहर्षाकारो गुरुसंनिधौ लज्जितया ली- लाकमलपत्रगणनव्याजेन गौर्या गोप्यते।। सुखदुःखादिजनितो मोहश्चित्तस्य मूढता । तदूपेण रर्सेनिप्पत्तिर्यथा- 'कान्ते तल्पमुपागते विगलिता नीवी सयं बन्धना- द्वासो विश्रथमेखलागुणधृतं किंचिन्नितम्वे स्थितम्। एतावत्सखि वेझि केवलमहं तस्याङ्ञसन्ने पुनः कोऽयं का वयमत्र किं नु सुरतं खल्पापि मे न स्मृति: ४४' अत्र स्थायिनी रतिर्मोहनिष्पत्त्या प्रकृष्यते। संमोहानन्दसंभेदो मदिरादिकृतो मदः ॥ १५३ ॥ तद्रपेण रसस्य निष्पंत्तिर्यथा- घूर्णमाननयनं स्खलत्कथं खेदबिन्दुमदकारणस्मितम् । आननेन न तु तावदीश्वरश्वक्षुषा चिरमुमामुखं पपौ ॥ ४५ ॥' अत्र नयनघूर्णनाकारणस्मितादयः संमोहानन्दसंमेदादुद्धवन्तो मदं निष्पादयन्ति। मनःप्रसादो हर्षः स्यादिष्टावाप्तिस्तवादिभिः ।
१. 'इत्यादि देवपिवाक्यादुङ्गूतः' घ. 'इत्यादेमुनिवाक्यादुज्जूतः' क. स. २.उ- अृतप्रद्पांकारो' स. ३. 'गणनेन' क.ख्र. ४. 'रसख निष्पत्तिः' स. ५. 'कोइसी कास्म रतं नु कि कथमिति' क.ख.६. 'संमेदा उद्धवन्तो' ख.
Page 681
५८८ काव्यमाला।
तद्रूपेण रेसस्य प्रकरषों यथा- 'जातस्य ते पितुरपीन्द्रजितो निहन्तु- र्वत्सस्य वत्स कति नाम दिनान्यमूनि। तस्याप्यपत्यमधितिष्ठति वीरेधमें दिश्ा गतं दशरथस्य कुलं प्रतिष्ठाम् ।। ४६ ।।' अत्र दशैरथसुहृद: सुमब्रसारथेः प्ररमुकुलस्य प्रतिष्ठामाशंसतस्तत्सूनु- मिन्द्रजितो हन्तारं पश्यतो मनोरथावास्या हर्षो निष्पन्नस्तदपत्येऽपि वीरधर्ममाचरिष्णौ प्रकृष्टो दिष्टयेत्यव्ययेन सूच्यते॥ कोध: कृतापैराधेषु स्थिरोमर्पत्वमश्नुते ॥१५४॥ तद्रपेण रसस्य प्रकर्षो यथा- 'लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृष्टपाण्डववधूपरिधानकेशाः सस्था भवन्ति मयि जीवति घार्तराष्ट्राः ॥४७॥' अत्र भीमसेनस्य धार्तराष्ट्रेषु खस्था इति नाम्नोऽप्यसहनात् लाक्षा- गृहाद्यपकारजन्मामर्ष: प्रेतीयते ॥ असूयान्यगुणर्द्ीनामौद्धत्यादसहिष्णुता । तद्रपेण रसस्य जन्म यथा- 'वन्धासे न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीनिधनेSप्यखण्डयशसो लोके महान्तो हि ते। १. 'रसनिम्पत्तियथा' घ. २. 'वीरधर्मम्' घ. ३. 'दशरबस्य सुददः' घ. ४. 'प्रमुकुलप्रतिष्ठा' ख. ५. 'कृतापकारेु' घ. ६. 'प्रकृत्य' घ. ७. 'भीमस्य' घ. ८. 'प्यसहमानाव्' घ. ९. 'प्रकृष्यवे' घ.
Page 682
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ५८९
यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायोधने यद्वा कौशलमिन्द्रसू नुदमने तत्राप्यभिज्ञो जनः ॥ ४८ ॥' अत्र यद्यपि सोहुण्ठदोषकीर्तनादिमिर्जुगुप्सा निष्पद्यते तथापि न तया खनिष्पत्तिहेतुरसूया संकीर्यते। ईर्षामाहु: समानेषु मानदानाद्मर्षणम् ॥।१५५।। तद्रूपेण रसस्य प्रकर्षो यथा- 'हुं णिल्लज समोसर तं चिअ अणुणेसु जाइ दे एअं। पाअमंगुट्टालत्तएण तिलअं विणिम्मविअं ।। ४९ ॥' [हुं निर्लज समपसर तामेवानुनय यस्ास्त एतत्। पादाग्राङ्गुष्ठालक्तकेन तिलकं विनिर्मितम् ॥] अत्र कस्याश्चित् प्रेयसि सपल्रीं प्रसादयितुं गते तन्मानममृष्यमा- णायाः समुत्पन्नेष्यी प्रियानुनयादिभिर्भृशायमानतया निष्पन्नालक्तकतिल- कानुमेयैस्तत्पादपतनादिमिरद्दीप्ता हुंकाराक्षेपमर्त्सनप्रति मेदाविनाभूतैर्श- भक्गताडनाञ्क्षेपवेपथुखेदगद्गदादिमिः संसृज्यमाना प्रक्ष्यते॥ विपादश्रेतसो ग्लानिरुपायाभावनाशयोः । तद्रूपेण रसस्य प्रकर्षो यथा- 'व्यर्थ यत्र कपीन्द्रसख्यमपि मे क्लेशः कपीनां वृथा प्रज्ञा जाम्बवतोऽपि यत्र न गतिः पुत्रस्य वायोरपि। मार्ग यत्र न विश्वकर्मतनयः कतुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया कापि मे ॥ ५० ॥' १. 'त्रीण्यकुतोमुखानि' क., 'श्रीण्यकुतोमयानि' क. टिप्पण्याम्, 'श्रीणि कुतोसु- खानि' स. २. 'इन्द्रसनुदलने' ग.ध. ३. 'मानदानाचमर्पणात्' ग. ४. 'हुम्' घ. नास्ति, ५. 'विभ' ख. ६. 'पाअम्' ख. ७. 'वीय हरीणां वृथा' क.ख.
Page 683
५९० काव्यमाला। अत्र सीतासमागमविषये रामस्य दृष्टावदानसुग्रीवसख्यादैरुपाय- स्याभावाद्विपाद: प्रकृष्यते। सच्वत्यागादनुत्कर्षो वाक्यादेदैन्यमुच्यते॥ १५६ ॥ तद्रपेण रसस्यानुबन्धो यथा- 'अस्मान्साधु विचिन्त्य संयमधनानुच्ः कुलं चात्मन- स्त्वय्यस्याः कथमप्यबान्धवकतां भावप्रवृत्ति च ताम्। सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्याधीनमतः परं न खल तद्वाच्यं वघूबन्धुभिः ।।५१॥ अत्र स्रेहप्रभवं पादत्रयोक्तमर्थितादैन्यं तुरीयपादोपक्षिप्तयाच्चादै- न्यान्तरेणानुबध्यते।
तद्रूपेण रसस्य प्रकर्षो यथा- प्रणयिसखीसलीलपरिहासरसाधिगतै- र्ललितशिरीषपुष्पह्ननैरपि ताम्यति यत्। वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥। ५२ ॥ अत्र माधवस्य प्रकृष्टापकारिण्यघोरघण्टे विषये प्रकृष्टमेव वाक्पारुष्यं दण्डपारु्यं च जायते।। त्रासश्चित्तचमत्कार आकस्मिकभयादिभिः ॥ १५७॥ तद्रपेण रसस्य जन्म यथा- 'परिस्फुरन्मीनविघट्टितो रवः सुराज्जनास्त्रासविलोलदष्टयः । उपाययु: कम्पितपाणिपछनाः सखीजनस्यापि विलोकनीयताम् ५३'
Page 684
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ५९१
अत्र लोलदष्टिता करावघूननं च स्त्रीणां खभावमीरुत्वविलासित्वा- भ्यामपि भवतीति त्रासाविर्भावेSप्यसमर्थमिति नानुबन्धो भवति॥ अनिष्टाभ्यागमोत्प्रेक्षां शङ्कामाचक्षते बुधाः। तद्रपेण रसस्य प्रकर्षो यथा- 'सहसा मा साहिज्जउ पिआगमो तीअ विरहकिसिआए। अचंतपहरिसेण वि जा अ मुआ सा मुआ चेअ ।। ५४॥' [सहसा मा साध्यतां प्रियागमस्तया विरहकृशया। अत्यन्तप्रह्र्षेणापि या च मृता सा मृतैव ॥] अत्र विरहिण्याः कार्श्यातिशयमुद्दीक्षमाणायाः कस्याश्िद्वयस्यायाः सनेहातिशयात् 'प्रेम पश्यति भयान्यपदेऽपी'ति प्रियागमप्रहर्षातिशय- भावेSप्यसहिष्णुतया तन्मरणशक्का प्रकृष्यते। विरहादेर्मनस्तापः शरीरातङ्कदो गदः ॥ १५८ ॥ तद्रूपेण रसस्य जन्म यथा- 'स्वितमुरसि विशालं पझ्मिनीपत्रमेतत् कथयति न तथान्तर्मन्मथोत्थामवस्थाम्। अतिशयपरितापग्लापिताभ्यां यथास्याः सतनयुगपरिणाहं मण्डलाभ्यां ब्रवीति॥ ५५ ॥'
निष्पद्यते ।। अत्र सागरिकायाः सननिहितसरोजिनीदलग्लापनेन वपुःसंतापो
बलस्यापचयो ग्लानिराधिव्याधिप्रकर्षभूः । तद्रपेण रसस्यानुबन्धो यथा- 'किसलयमिव मुग्धं बन्धनाद्विपलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः । १. 'शरीरान्तकदो गदः' ख. २. 'बुन्दनादिप्लूनम्' घ.
Page 685
५९२ काव्यमाला।
ग्लपयति परिपाण्डक्षाममस्याः शरीरं शरदिज इब धर्म: केतकीगर्भपत्रम् ॥ ५६॥' अत्र प्रकृष्टशोकानुवन्धिनी ग्लानिर्वैवर्ण्यक्षामताभ्यामनुवध्यते॥
तद्रपेण रसस्य जन्म यथा- 'कोकार्य क कलाधरस्य च कुलं भूयोऽपि दृश्येत सा दोषाणामुपशान्तये श्रुतमहो कोपेऽपि शान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतधियो रेखैंव सान्यादृशी चेतः सवास्थ्यमुपैहि कः खलु युवा धन्योऽघरं धास्यति ५७! अत्र विरहिण: पुरूरवस उत्कण्ठादिभि: प्रेमप्रकर्षादसत्म्रलापरूप उन्मादो निष्पद्यते। आदरातिशयाच्चेतस्यावेगः संभ्रमो मतः । तद्रपेण रसस्य संकरो यथा- 'अलमलमतिमात्रं साहसेनामुना ते त्वरितमपि विमु्च त्वं लतापाशमेनम्। चलितमिव निरोद्धुं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाश निघेहि॥५८ ॥' अत्र रतिजन्मा संभ्रमातिशयो रतिजन्मनैव मतिप्रकर्षेण संकीर्यते॥ मनःशरीरयो: खेद: क्रियातिशयतः श्रमः ॥ १६० ॥ तद्रपेण रसस्य संकरो यथा- 'स्खल्यति वचनं ते संश्रयत्यङ्रमक्गं जनयति मुखचन्द्रोद्धासिन: खेदबिन्दून् । १. 'काकार्य शश-लक्ष्मण:' विक्रमोवंशीये। 'काकार्य क कलाकरस्य' च. र., 'क कलभरस्प' च. स. २. 'लेसेव' घ.
Page 686
५ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम्। ५९३
मुकुल्यति च नेत्रे सर्वथा सुभ्रु खेद- स्त्वयि विलसति तुल्यं वेलमालोकनेन ।। ५९ ॥' अत्र मालत्याः पुष्पावचयजन्मा श्रमः, माधवावलोकनजा च रतिः, खेदगद्गदाङ्जसादनयनमुकुलैस्तुल्यधर्मिणौ मिथः संकीर्येते।। चित्तस् खेदो निर्वेदस्तच्वज्ञानोदयादिभिः । तद्रूपेण रसस्य शेषो यथा- 'जरामरणदौर्गत्यव्याघयस्तावदासताम्। मन्ये जन्मैव धीराणां भूयोभूयस्त्रपाकरम् ॥ ६०॥' अत्र मोक्षायोत्सहमानस्य कस्यचिन्निर्वेदावगमो गम्यते।। क्रियाखपाटवं जाड्यं चिन्तोत्कण्ठाभयादिमिः । तद्रपेण रसस्ये निष्पत्तिर्यथा- 'शिथिलशिथिलं न्यस्य खैरं धनुःशिखरे शिरो नयनसलिलै: कुर्वन्मौर्वीलतामपरामिव। अहह विकल: अुत्वा अुत्वा घनस्तनितध्वनिं किमपि किमपि ध्यायन्नार्यो न याति न तिष्ठति ॥ ६१ ।।' अत्र विरहिणो रामस्य क्रियासवपाटवं निष्पाद्यते। क्रियाविद्वेष आलसं सुखसंविन्मदादिभिः ॥ १६१॥ तद्रपेण रसस्य निष्पत्तिर्यथा-
अवसउणक्वार अवारविट्विदिअहा सुहावेन्ति ॥ ६२ ॥' [गृहिणीघनस्तनप्रेरणसुखकेलिपतितस भविष्यत्पधिकस। अपशकुनाङ्गारकवारविष्टिदिवसाः सुखयन्ति ॥] १. 'माधवालोकनेन' घ. २. 'रसनिष्पत्तिः' घ. ३. 'पेक्खण' घ. ४. 'िरपट- अस्स' क.ख. ५. 'होन्ति' क.ख. ६.'अवसदुणंगर' स. ७. 'दिअसा मुदावेन्ति' क.स. ३८ स० क०
Page 687
५९४ काव्यमाला।
अत्र रतिसुखानुभवाज्जिगमिषोरप्यगच्छत आलस्यं निष्पद्यते। निद्रा व्यापारवैमुख्यमिन्द्रियाणां श्रमादिमिः । तद्रपेण रसस्यानुबन्धो यथा- 'णिद्दालसपरिधुम्मि रेतंसवैलन्त द्धतार आलोआ। कामस्स वि दुव्विसहा दिट्ठिणिवाआ ससिमुहीए ॥ ६३ ॥' [निद्रालर्सेंपरिघूर्णनशीलतिर्यग्वलदर्धतारकालोकाः। कामस्यापि दुर्विषहा दृष्टिनिपाताः शशिमुख्याः ॥] अत्र रतिश्रमजागरादिजनितनिद्रालेसा दृष्टिनिपातास्तार्रकाघूर्णनत्य- सवलनादिभिरनुबध्यन्ते ॥ निद्रादिजनितं सुप्तमिन्द्रियादिनिमीलनम् ॥ १६२॥ तद्रूपेण रैसम्रकर्षो यथा- 'ओसुअइ दिण्णपडिवक्खवेअणं पसिढिलेहि अङ्रेहिं।
[अवस्वपिति दत्तप्रतिपक्षवेदनं प्रशिथिलैरजैः। निर्वर्तितसुरतरसानुबन्धसुखनिर्भरं सुपा ॥] अत्र निर्भरपदेनैव प्रकर्ष: प्रतिपादते॥ निद्रापगमहेतुभ्यः प्रबोधश्ेतनागमः । तद्रूपेण रसस्यानुबन्धो यथा- 'प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रल्नदीपप्रभाणा- मात्मव्यापारगुर्वी जनितजललवाजम्भणैः साञ्जभङ्गैः । १. 'रसानुबन्धो' घ. २. 'धुण्णिरतं' स्र., 'पुम्मिरत' ग., 'पुम्मिरत' घ. ३. 'संवळतद्ा' क. ४. 'घूर्णनास्रचलनादिभि:' क., 'घूर्णनव्यल्तचलनादिभि:' स. ५. 'निद्राळसटृट्टिनिपाताः" क.स. ६. 'वागन्द्रियनिमीलनम्' क.रर. ७. 'रसस्प' ग. ८. 'पडिविक्से अर्ण' स. ९. 'निम्मर' क.
Page 688
५ परिच्छेद: ।] सरखतीकण्ठाभरणम्। ५९५ नोगाड्कं मोकुमिच्छोः शयनमुरुफणाचक्वालोपधानं निद्राच्छेदार्भिताम्रा चिरमवतु हरेर्दष्टिराकेकरा वः ॥६५॥' अत्र दृष्टे: प्रत्यग्रोन्मेषजिह्मतादिभिः प्रबोधो नाद्यापि निष्पद्यत इति प्रतीयते॥ उक्ता भावादिभेदेन तेऽ्मी रत्यादयो रसाः । अथैतेष्वेव केषांचिद्विशेषानभिदध्महे॥ १६३॥ तत्र
बीभत्सहास्यप्रेयांसः शान्तदान्तोद्धता रसाः।। १६४।। रतिर्निसर्गसंसगौपम्याध्यात्माभियोगजा। संप्रयोगाभिमानोत्था विषयोत्था च कथ्यते॥१६५॥ श्रीतिरप्येवमेव स्यान्न त्वस्ां सांप्रयोगिकी। आभ्यासिकी तु तत्खाने तदुदाहतयो यथा ॥ १६६ ॥ मृतेति प्रेत्य संगन्तुं यथा मे मरण मतम्। सैवावन्ती मया लब्धा कथमत्रैव जन्मनि ॥६६ ॥' अत्र स्थायिनो विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरिति रति- रेव शृज्गाररूपेण निष्पद्यते। अत्रावन्त्या वासवदचाया आलम्बनवि- भावभूतायाः सकाशादुत्पन्नो वत्सेश्वरस्य रतिस्थायिभाव:, तस्याः पुनर्जी- वनादिभिरुद्दीपनविभावैरुद्ीप्यमानो मृतेत्यादिना बागारम्भानुभावेनानु- मीयमानैर्हर्षधृतिप्रभृतिभिः सुखात्मकैर्व्यभिचारिभिः संसृज्यमान: करु णानन्तर: संभोग: शृद्गाराख्यां लभते॥ १. 'नागान' क. स. २. 'निद्राच्छेदातितात्रा' क्. स. २. 'अभ्यासिकी' क., 'अन्यासिकी' ख.
Page 689
५९६ काव्यमाला।
'अजित्वा सार्णवामुर्वीमनिष्टर विविधैर्मखैः । अदत्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ॥ ६७ ॥' अत्र वसुघाविजयादेरालम्बनविभावादुत्पन्नः स्ाय्युत्साहभावः स्थर्य- धैर्यादिभिरुद्दीपनविभावैरुद्दीप्यमानैः समुत्पन्नेषु वागारम्भानुमीयमानेषु स्मृतिमतिवितर्कादिषु निष्पन्नो वीररससंज्ञया व्यवहियते॥ 'यस्या: कुसुमशय्यापि कोमलान्या रुजाकरी। साधिशेते कथं देवी हुताशनवतीं चिताम् ॥ ६८॥ अत्र चालम्बनविभावभूतदेवीमरणादुत्पन्नः शोक: स्थायिभावश्चितानि- वेशनहुताशनाञ्ज्वालादिभिरुद्दीपनविभावैरुद्दीप्यमानो वागारम्भानुमेयै- निर्वेंदग्लानिवैवर्ण्यादिभिर्व्यभिचारिभिः संसृज्यमानः करुण इति ज्ञायते॥ 'निगृद्य केशेष्वाक्ृष्टा कृष्णा येन ममाग्रतः । सोडयं दुःशासनः पापो लब्घः किं जीवति क्षणम्॥ ६९ ॥' अत्र दुःशासनालम्वनविभावाय कुध्यतो भीमसेनस्य पूर्वमुत्पन्नः क्रोध: स्वायिभावस्तदवाप्ेः स्मर्यमाणसमक्षकृतद्रौपदी निग्रहकेशकर्षणादिभिरुद्दी- पनविभावैरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमीयमानेष्वसूयावेगवेपथु- श्रमादिषु दुःखात्मकेषु व्यभिचारिषु निष्पद्यमानो रौद्र इति निष्पद्यते॥ 'अंशुकानि प्रवालनि पुष्पं हारादिभूषणम्। फलं मधूनि हर्म्याणि शाखा नन्दनशाखिनाम्॥ ७० ॥ अत्र शाखिनां प्रवालपुष्पफलशाखासंपन्न निज रूपं नन्दनशाखिनां पुनः प्रवालादिस्थाने्वंशुकहारमधुमन्दिराणि तदेतदाश्चर्यम्। अतश्चै- तेम्य आलम्बनविभावेभ्यः कस्यचिद्ेवभूयंगतस्य समुत्पन्नो विस्यैः १. 'निष्पायमानो' ख्र. २. 'प्रवालादिसपानेंशुकदार' क. ख. ३. 'विसमयस्था- विभाव:' क र
Page 690
५ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ५९७
वागारम्भानुमेयेषु हर्षरोमोद्गमखेदगद्गदादिषु व्यभिचारिषु निष्पद्यमानोऽ- द्रुत इत्युच्यते।। 'इदं मधोनः कुलिशं धारासंनिहितानलम्। सरणं यस्य दैत्यस्रीगर्भपाताय कल्पते॥ ७१ ॥'
दपि दैत्यस्त्रीणामुत्पन्नो भेयस्थायिभावस्तद्विदीर्णदानवमरणस्मरणादिभि- रुद्दीपनविभावैरुद्दीप्यमान: स्गर्भपातादिभिरनुभावादिभिस्तदनुमितैश्च खेदसतम्भवेपथुप्रभृतिभिर्व्यभिचारिभि: संसृज्यमानो भयानकरसरूपेण निष्पन्नः केनचिदाख्यायमानोऽपि भयानक इत्याख्यायते ॥ 'पायं पायं तवारीणां शोणितं पार्णिसंपुटैः । कौणपाः सह नृत्यन्ति कबन्वैरत्रभूषणाः ॥ ७२॥' अत्रालम्बनविभावभूतेभ्यः कौणपेभ्यः कसपचिद्रिपुंजयशंसिन: पुंस उत्पन्नो जुगुप्सास्थायिभावः शिरश्छेदविगलद्रुधिरधारापरिष्ठुतपणर्ति-
त्पन्नेषु वौगारम्भानुमेयेषु भयावेशशक्कावहित्थादिषु व्यभिचारिषु निष्पन्नो बीभत्स इति निगद्यते।। 'इदमम्लानमानाया लमं खनतटे तब। छाद्यतामुत्तरीयेण नवं नखपदं सखि॥ ७३॥
१. 'संनिहितानलालव्वन' ख. २. 'भयस्थायिभावः' क. स. ३. 'सगर्भपा- तादिभि:' घ. ४. 'करसम्पुटैः' क. ख. ५. 'रिपुविजयाशंसिनः' स्त्र. ६. 'प्रवर्तित' स. ७. 'व्यमिचारादिपु' क.
Page 691
६९८ काव्यमाला।
अत्र काचित् सखीं पूर्व भर्तरि गृहीतमानां तेनैव नखपदाह्विंतसत- नीमालम्बनविभावभूतामुपलभमानायाः कस्याश्चित्सख्या उत्पन्नो हासः
त्पन्नेषु वागारम्भानुमितेषु शङ्कावहित्थगद्गदादिव्यभिचारिषु निष्पद्यमानो हास्यशन्देनाभिधीयते।। 'यदेव रोचते महं तदेव कुरुते प्रिया। इति वेत्ि न जानाति तेत्पियं यत्करोति सा।। ७४॥' अत्र वत्सलपकृतेर्घीरतया ललितनायकस्य प्रिर्यालम्बनविभावादुत्पन्नः स्ेहँस्थायिभावो विषयसौकुमार्यात्मप्रकृत्यादिभिरुद्दीपनविभावैरुद्दीप्यमान: समुपजायमानैमोंहै धरृतिस्मृत्यादि भिर्व्य भिचारिभावैरनुभावैश्च संसज्यमानो निष्पन्नः प्रेयानिति प्रतीयते ॥ रतिश्रीत्योरपि चायमेव मूलप्रकृतिरिष्यते। यदित्थमाहु :- 'अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया। स हि सेहात्मकस्तन्तुरन्तर्मर्माणि सीव्यति ॥७५॥ सर्वा: संपत्तयस्तस्य संतुष्टं यस्य मानसम्। उपानद्गढपादस्य ननु चर्मास्तृतैव भूः ॥ ७६ ॥' अत्र कस्यचिदुपशान्तप्रकृतेघीरशान्तनायकस्य यथोपनतमनोनुकूल दारादिसंपचेरालम्वनविभावभूतायाः समुत्पन्नो धृतिस्थायिभावो वस्तुतत्त्वा- लोचनादिभिरुद्दीपनविभावैरुद्दीप्यमान: समुपजायमानस्मृत्यादिभिर्व्यभि- १. 'प्रगृहीतमाना' क. स. २. 'पदाद्वितस्तनाम्' ख. ३. 'निष्पायमानो' क. ४. 'जानामि' स्र. ५. 'यत्िमियं तत्करोति सा' क.ख. ६. 'प्रियानुभाव' क.ख. ७. 'लेइसायिभावो' क. ८. 'मोदमतिधृतिस्मृति' क.स. ९. 'प्रशंसादिमिः' इत्प- षिक: पाठ: क.ख.१०. 'चर्मावृतैव' क.स. ११. 'धीरप्रशान्त' क.ख. १२, 'स्मृति- मत्पासत्या' क. 'स्मृतिमत्यादिभिः' ख.
Page 692
५ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम्। ५९९
चारिभावैर्वागारम्भादिभिरनुषज्यमानो निष्पन्रः शान्त इत्यभिगीयते॥ अन्ये पुनरस्य शमं प्रकृतिमामनन्ति स तु धृतेरेव विशेषो भवति॥ 'साधारण्यानिरातक्कः कन्यामन्योऽपि याचते। किं पुनर्जगतां जेता प्रपौत्र: परमेष्ठिनः ॥। ७७॥' अत्र रामस्योदात्तप्रकृतेर्निसर्गत एव तत्त्वाभिनिवेशिनी मतिर्नाकृत्यवि- पये प्रवर्तते, न च प्रवृत्तोपारमति, सा च सीतेयं मम स्व्ीकारयोग्येत्येवं- रूपेण प्रवृत्ता रावणप्रार्थनालक्ष्मणप्रोत्साहनाभ्यामुद्दीप्यमाना समुपजाय- मानचिन्तावितर्कत्रीडावहित्थस्मृत्यादिभिः कालोचितोत्तरानुमीयमानैश्र विवेकचातुर्यौदार्यधैर्यादिभिः संसृज्यमानोदात्तरसरूपेण निष्पद्यते॥ 'अपकर्ताह्मस्मीति मा ते मनसि मृद्धयम्। विमुखेषु न मे खङ्गः प्रहर्तु जातु वाल्छति॥७८ ॥' अत्र मयास्यापकारः कृत इति यच्चेतसि भयं तन्माभूत् 'पैराचुखेपु मे खङ्ग: कदाचिदपि न प्रहर्तुमुत्सहते' इति सर्वदैव रूढोऽहंकार: प्रतीयते। सोडयं गर्वप्रकृतिरुद्धतो नाम रसः । केचित् पुनः- 'आस्थामालम्व्य नीतेषु वशं क्षुद्रेष्वरातिषु। व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ।।७९। इत्येवमूर्जसवीत्युदात्तपक्षे निक्षिपन्त: पूर्वोक्तमेव गर्वप्रकर्षोदाहरणं घृतायुधो यावदहमित्याद्युद्धतनिष्पत्तौ वर्णयन्ति ॥ रतिविशेषेषु नैसर्गिकी यथा- 'इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवर्मन्य मानिनी। अरूपहार्य मदनस्य निग्रहात्पिनाकपाणि पतिमास्तुमिच्छति॥८०॥' १. 'इति गीयते' क.ख. २. 'प्रबृचोपरमति' क.ख. ३. 'सैंसज्यमान उदात्तर- सरूपेण' क. ४. 'यत्ते चेतसि मयम्' ख. ५. 'न मम सहः पराश्ुखेयु कदाचिदपि पदर्तुमुत्सहत' क.स.ग. ६. 'अवमल्व मानिनी' क.ख.
Page 693
६०० काव्यमाला।
अत्र जन्मान्तरवासनया निसर्गत इयं भवति। सांसर्गिकी यथा- 'मित्त्वा सद्ः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्ुतिसुरभयो दक्षिणेन प्रवृत्ताः । आलिक््यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वस्पृष्टं यदि किल भवेदक्रमेभिस्तवेति ।।८१ ।।' अत्र शैत्यसौरभादिभिर्विरहिजनोद्वेजनीया अपि वायवः प्रियतमाङ्र- संसर्गसंभावनया सैमाश्विष्यन्त इति संसर्गत इयं भवति॥ औपमानिकी यथा- 'अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुम्मे नैपुणोन्नेयमस्ति। ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो- रमिनवशतपत्रश्रीरमेदास्यं प्रियायाः ॥ ८२ ॥' सेयं सीताविषयिणी रतिस्तदुपमानदर्शनेन रामं रमयेति।। आध्यात्मिकी यथा- 'कीमं प्रत्यादिष्टां सरामि न परिग्रहं मुनेसनयाम्। बलवत्तु दूयमानं प्रत्याययतीव मे चेतः ॥। ८३ ॥' अत्र सेयं दुर्वाससः शापाद्विस्मृतविवाहादिवृत्तान्तस्य दुष्यन्तस्य शकुन्तलायां रतिरध्यात्मं भवति ।।
१. 'पूर्व सृष्टम्' क.स. २. 'विरहिण उद्ेजनीया' क.ख. ३. 'समालितपन्त इति संसर्गोदियं रतिनवति क.स्र. ४. 'शतपत्रग्ीव' क. ५. 'रमयते' क.ख. ६. 'कार्म प्रत्यादिष्टम्' क.
Page 694
५ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम्। ६०१
आमियोगिकी यथा-
रधिकविकसदन्तर्विस्मयस्मेरतारैः । हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षै- रपहृतमपविद्धं पीतमुन्मूलितं च ।। ८४ ।।' सेयमनुरागातिशयसूचकमालतीकटाक्षाभियोगे माघवस्य रतिरती- वोत्पद्यते।। सांप्रयोगिकी यथा- 'उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या। हुंहुँ मुञ्च मममेति च मन्दं जल्पितं जयति मानघनायाः ॥ ८५॥' अत्र तर्जनार्थ-मोक्षार्थ-वारणार्थानां मन्दं मन्दं प्रयोगान्मानवत्याः संप्रयोगे रत्युत्पत्तिः प्रतीयते॥ आभिमानिकी यथा- 'इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो- रसावस्याः स्पर्शो वपुषि बहलैश्चन्दनरसः । अयं बाहु: कण्ठे शिशिरमसृणो मौक्तिकसर: किमस्या न प्रेयो यदि परमसद्यस्तु विरहयः ॥ ८६॥' अत्र रुचिविशेषोऽभिमानस्तत एवंप्राया रतयो भवन्ति।। १. 'हदयमशरणं मे' क. २. 'रतिरेवोत्पयते' क.स. ३. 'वहुडः' ख. ४. 'शिश्िरसमृणो' घ.
Page 695
६०२ काव्यमाला।
वैषयिकीषु शब्दे यथा-
परस्परपरिस्खलद्धलयनिःखनोद्वन्घुराः। लसन्ति कलहुंकृति प्रसभकम्पितोरःस्थल- चुटद्धमकसंकुलाः कैलमकण्डनीगीतयः।।८७ ।।' स्पर्शे यथा- 'वभ्नन्नश्रेषु रोमाश्चं कुर्वन्मनसि निर्वृतिम्। नेत्रे निमीलयन्नेष प्रियास्पर्शः प्रवर्तते ॥८८॥ रूपे यथा- 'ता राघवं दृष्टिभिरापिचन्त्यो नार्यो न जग्मुर्विषयान्तराणि। तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ८९' रसे यथा- 'कस्य नो कुरुते मुग्धे पिपासाकुलितं मनः । अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ॥ ९० ॥ गन्धे यथा- 'रन्णकम्मणिउणिए मा जूरसु रत्तपाडलसुअन्धम् । मुहमारुअं पिअन्तो धूमाइ सिही ण पज्जलइ ॥। ९१ ॥' [रन्धनकर्मनिपुणिके मा र्कुध्यस रक्तपाटलसुगन्धम्। मुखमारुतं पिघन् धूमायते शिखी न प्रज्वलति ॥]
१. 'वैषयिकी शब्देु यथा' क. २. 'कम्पितोर:स्पली' ख, ३. 'सुटद्रमकसंकुळाः' स. ४. 'कठमकण्डनी' व. ५. 'तन्वि' क.ख. ६. 'गन्यो यथा' ख. ७. 'मा ऊर सू' क., 'मा सुरह' स. ८. 'मा खियस्व इति घ-पुस्तके च्छाया.
Page 696
५ परिच्छेद: I] सरखतीकण्ठाभरणम्। ६०३
प्रीतिविशेषेषु नैसर्गिकी यथा- 'आलक्ष्य दन्तमुकुलाननिमित्तहासा- नव्यक्तवर्णरमणीयवच:प्रवृत्तीन्।
धन्यास्तदअरजसा मेलिनीभवन्ति ॥ ९२ ॥' अत्र यदा यदा रतिर्जायते तदा तदा पुत्रेषु स्तिद्यति पुत्ररूंपेण वा जायत इति जन्मान्तरवासनारूपो निसर्ग: संगच्छते॥ सांसर्गिकी यथा- 'विश्वंभरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते। तेषां वघूस्त्वमसि नन्दिनि पार्थिवानां येषां कुले च सविता च गुरुर्वयं च।। ९३ ।।' अत्र विश्वंभरादिसंसर्गात् सीतायां वसिष्ठमिश्राः स्तिह्यन्ति। औपमानिकी यथा- 'कुबलयदलख्तिग्घश्यामः शिखण्डकमण्डनो बटुपरिषदं पुण्यश्रीकः श्रियैव समाजयन्। पुनरिव शिशुर्भूत्वा वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयं दृशोरमृताज्जनम् ॥ ९४।' अत्र रामौपम्याल्लवे जनकः प्रीयते॥ आध्यात्मिकी यथा- 'परितस्तं पृथासूनुः सेहेन परितस्तरे। अविज्ञातेऽपि बन्धौ हि बलात्प्रेहादते मनः ॥९५ ॥' १. 'निमिचसारान्' क., 'निमिन्तहासेः'ख. २.'परुषीमवन्ति' ग. ₹.'अत्र यदा रतिजायते तदा पुत्रेपु खिद्यति' स. ४. 'कुळेयु' क.ख. ५. 'प्रहादते' घ.
Page 697
६०8 काव्यमाला।
अत्राविज्ञातोऽपि वासवः खसूनुमर्जुनं दृष्टः प्रीणयति ॥ आमियोगिकी यथा- 'अज्ञातबन्धुरयमृक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरः प्रहर्ता । · इत्यादतेन कथितौ रघुनन्दनेन 1F 1 व्युत्तान्तलक्ष्मणमुभौ भरतो ववन्दे ॥ ९६ ॥' अत्र सीतान्वेषणादेरभियोगाद्रामस्य सुग्रीवबिभीषणयोः प्रीतिरुद- यते। सांप्रयोगिकीस्थाने आभ्यासिकी यथा- 'इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितघुरं नराधिपम्। परिवृद्धरागमनुबद्धसेवया मृगया जहार चतुरेव कामिनी ॥ ९७ ॥' अत्र 'शब्दादिभ्यो बहिर्मूता या कर्माभ्यासलक्षणा। प्रीतिः साभ्यासिकी ज्ञया मृगयादिषु कर्मसु ॥' इति लक्षणं घटते।। आभिमानिकी यथा- 'दत्तेन्द्राभयदक्षिणैर्भगवतो वैवखतादामनो- दस्ानां दहनाय दीपितनिजक्षात्रप्रतापाग्निभिः । आदित्यैर्यदि विग्रहो नृपतिमिर्धन्यं ममैतत्ततो
१. 'दुःखैकबन्धु' क. स्. २. 'व्युत्म्य' क. स. ग. ३. 'रतपबते' क. ख. ४. 'दीवितिभरैनाराजिवज्यं' क.स.
Page 698
५ परिच्छेदः।] सरस्वतीकण्ठाभरणम्। ६०५
अत्राभिमतप्रतिद्वन्द्विलामाल्लवानुपदी कुशस्तुष्यति॥ वैषयिकीपु शब्दे यथा- 'लावण्यैः क्षणदाविराममधुराः किंचिद्विनिद्रालस- श्रोत्रैः सत्रणमुग्धचारणवधूदन्तच्छदावासिनः । पीयन्ते मृदुचककपीतमरुतः पौराणरीतिकम- व्यालोलाङुलिरुद्धशुक्तसुषिरश्रेणीरवा वेणवः ।। ९९ ।।' स्पर्शे यथा- 'प्रशान्तघर्माभिभवः शनैर्विवान्विलासिनीभ्यः परिमृष्टपङ्कजः ।
रूपे यथा-
र्मदमुखरमयूरीमुक्तसंसक्तकेकः । शकुनिशबलनीडानोकह स्निग्घवर्ष्मा वितरति बृहदश्मा पर्वतः प्रीतिमक्ष्णोः ॥ १०१॥ रसे यथा- 'इक्षुदण्डस्य मण्डस्य दभ्नः पिष्टकृतैस्य च । र्वैराहस्य च मांसस्य सोऽयं गच्छति फाल्गुनः ॥ १०२ ॥ गन्धे यथा- 'कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् । यत्र स्त्रुंतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥१०३' उपलक्षणं चैतत्। तेनोत्साहस्य युद्धदानदयावीरादयः, क्रोघस्य १. 'वैषयिकी यथा-' क. २. 'विनिद्रालसं' क. ख. ३. 'गीतिकम' क. स. ४. 'मुक्त' क ख. ५. 'भेणीधरा' क. स्. ६. 'बद्धविय्रम्धनृत्यः' घ. ७. 'पिष्टष्तस्य' क. ख. ८. 'वराइस' क. स. ९. 'खुत' ग.
Page 699
६०६ काव्यमाला।
भाममन्यूत्मासादय:, हासस्य स्मितहसितविहसितादयः, सुप्तपलयमत्या- दीनां तु खम्रमरणशमादयो मेदा जायन्ते। तत्र यद्यपि 'अजित्वा सार्णवामुर्वीम्' इत्यनेन युद्धवीरः, 'अनिष्टरा विविधैर्मखैः' इत्यनेन दान- वीरः, 'अदत्त्वा चार्थमर्थिभ्यः' इत्यनेन दयावीरश्रोत्साहरूपेण निष्पत्तौ वैर्णितः, तैथाप्येकशोऽप्येते रसनिष्यर्यै प्रभवन्तीति प्रदर्श्यन्ते ॥ तेषु युद्धवीरो यथा- 'एतां पश्य पुरःस्थलीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः । 2 इत्याकर्ण्य कथाद्गुतं हिमनिधावद्रौ सुभद्रापते- र्मन्दं मन्दमकारि येन निजयोरदोर्दण्डयोर्मण्डनम् १०४' दानवीरो यथा-
महादानोत्सवे यस्य हन्तकारायितं भुवा ॥। १०५ ॥' दयावीरो यथा- 'स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं यतख। दिनावसानोत्सुकबालवत्सा विमुच्यतां धेनुरियं महर्षे: ॥१०६॥ कोघस्य यद्यपि भामादयो मानमेदाश्रतुर्विशतिः संभवन्ति तथापि ललिताललितोभयमेदेन रूपेण क्रमेण सर्वसंग्रहातत्र त्रय एव प्रकारा: प्रदर्श्यन्ते॥ १. 'भीममन्युन्नासादयः' क.म्र. २. 'प्रसुप्तप्रलयमत्यादीनां' क.ख. ३.'तु' स. क. पुस्तकयोनोस्ति. ४. 'रसनिष्पची वर्वते' क.ख. ५. 'तथाप्येकशोऽप्येतद्रसनिष्प- चिरखीति प्रदर्श्यन्ते' क.स. ६. 'पुरसटी' क.स. ७. 'भीकादयो' क., 'कोधस्य मीमादमो' सत. ८. 'मानमेदाः' इत्यस्य 'विशेषाः इति टिप्पणरूपेण घ., 'विशेषाः' क.स.
Page 700
५ परिच्छेद: I] सरखतीकण्ठाभरणन्। ६०७
तेषु स्त्रीणां लैलितिकोपो भामो यथा-
यत्र कोपै: कृता स्त्रीणां संप्रसादार्थिन: प्रियाः ॥ १०७ ॥' प्रियापराधजन्मा दुःखोत्पीडो मन्युर्यथा-
वाहगुरुआ णिसम्मइ वाहीएअ बहुमुहे दिही ॥ १०८ ॥'
बाष्पगुरुका निशाम्यति बाध्या वधूमुखे दृष्टिः ॥] नन्वियमीर्ष्या कस्मान्न भवति, नात्र मानदानार्मेर्षमात्रं विवक्षित- मपि तु तज्जनितो दुःखातिशय इति॥ प्रियादिषु व्याजनिन्दोत्ासो यथा- 'पहवंति चिंअ पुरिसा महिलाणं कि थ सुहअ विहिओसि। अणुरार्अणोल्िआए को दोसो आहिजाईए ॥ १०९ ॥ [प्रभवन्त्येव पुरुषा महिलानां किमत्र सुभग विहितोऽसि। अनुरागनोदिताया: को दोष ओभिजाल्यायाः ॥] हासस यद्यप्युपहासादयो मेदा: संभवन्ति तथापि विहसितेन तेषां संग्रेहादीपच्यूनाधिकमिति त्रैयसतद्वेदा उदाहियन्ते- तन्नेषद्धसितं सितं यथा- 'पुष्पं प्रवालोपहितं यदि स्या-ि न्मुक्ताफलं वा स्फुटविद्ठुमखम्। १. 'ललितः कोपाभावो यथा' क.ख.२. 'वाहगरुई' क.ख. ३. 'निसम्मर' घ. ४. मानदानामर्पणमातविवक्षा' क.ख. ५. 'व्वन' क. ६. 'सु' क. ख. ७. 'लोछि- आए' क.ख. ८. 'अपइजाइए' क., 'आहिजाइए' स. ९. 'उपसंग्रदात्' स््न. १०. 'त्रयखिशज्मेदा!' घ.
Page 701
६०८ काव्यमाला।
ततोऽनुकुर्याद्विशदस्य तस्या- स्ताम्रौष्ठपर्यस्तरुच: स्मितस्य ।। ११०।' दृष्टदशनकान्ति हसितं यथा- 'तिमिरनिरुद्धभीमरजनीमुखचन्द्रिकया गणपतिताण्डवामिनयदर्शनदीपिकया। अभिमवसि त्वमद्य शशिनः श्रियमुत्कटया दशनमयूखमञ्जरितया हसितप्रभया ।। १११ ॥' तदेव सविशेषं हैसितं यथा- 'च्युतामिन्दोर्लेखां रतिकलहभमं च वळयं दयं चक्रीकृत्य प्रहसितमुखी शैलतनया। अवोचदं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥११२ ॥' सुप्तविशेष: खमो यथा- 'जाने कोपपराडमुखी प्रियतमा खमेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः । नो यावत्परिरभ्य चाटुकशतैराश्वासयामि पियां आ्रतस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥११३॥' मूर्च्छाविशेषो मरणं यथा- 'क्षणमात्रसखीं सुजातयोः सनयोस्तामवलोक्य विहंला। निमिमील नरेन्द्रसुन्दरी हृतचन्द्रा तमसेव शर्वरी ।११४॥'
१. 'गणयति' रर. २. 'वियमुत्कण्ठया' सर. ३. 'विहसितम्' क.ख. ४. 'प्रहसितवती' घ. ५.'क्षर्णं' क.स.
Page 702
५ परिच्छेदः ।] सरस्वतीकण्ठाभरणम्। ६०९
मतिविशेष: शंमो यथा- 'यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा दष्ट नारीमयमिदमशेषं जगदिति। इदानीमस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ ११५ ॥' एवमन्येऽपि विज्ञेया रसेभावादिसंश्रयाः । विशेषा: प्राप्तकालोऽथ पैरिशेषो निर्देशर्यते ॥१६७॥ तत्राश्रयस्त्रिधा-पुमान्-स्त्री-तिर्यगादयः ॥ तेपु पुमान् यथा- 'आश्चर्यमुत्पलद्दशो बदनामलेन्दु- सांनिध्यतो मम मुहुर्जडिमानमेत्य। जात्येन चन्द्रमणिनेव महीघरस्य संधार्यते द्रवमयो मनसा विकारः ॥ ११६॥' स्त्री यथा- 'तेनाथ नाथ दुरुदार्हरणातपेन सौम्यापि नाम परुपत्वमभिप्रपन्ना । जज्वाल तीक्ष्णविशदा: सहसोद्विरन्ती वागर्चिषस्तपनकान्तशिलेव सीता ।। ११७।। तिर्यगादिषु यथा- 'उत्कूजति श्वसिति मुद्यति याति तीरं तीरातरुं तरुतलार्त्पुनरेति वापीम्। १. 'समो यथा' 'नरोत्तमप्रिया'S. P. Pandit संपादिते रघुर्बशे. २. 'रसा- भावादि' क.ख. ३. 'परिशेपों' क, 'परिपोपो' ख. ४. 'निगवने' क.ख. ५.'जाडवेन' ख. ६. 'दुरदादरणातपेन' ख. ७. 'सहसोहिरन्ती:' क.घ.८. 'पुनरेव' क.ख. २९ स० क०
Page 703
६१० काव्यमाला।
वाप्यां न रज्यति न चाति मृणालखण्डं चक्र: क्षपासु विरहे खलु चक्रवाक्याः ॥ ११८ ॥' विषयस्त्रिधा-चेतनः, तिर्यग्, अचेतनश्र।। तेषु चेतनो यथा- 'इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा खसुरपकृतं येन मम तत्। इतस्तीत्र: कामो गुरुरयमितः कोधदहनः कृतो वेषश्चायं कथमिदमिति भ्राम्यति मनः ॥११९ ॥' तिर्यग् यथा- 'आयाते दयिते मरुस्थलमुवां 'संचिन्त्य दुर्लङ्वयतां गेहिन्या परितोषबाप्पतरलामासज्य दृष्टि मुखे। ॥ दत्त्वा पीलुशमीकरीरकवलान् खेनाञ्चलेनादरा- दुन्मृष्टं करभस्य केसरसटाभाराग्रेलअं रजः ॥ १२० ॥' अचेतनो यथा- 'क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुम्। सस्मार वारणपतिः परिमीलिताक्ष- मिच्छाविहारवनवासमहोत्सवानाम् ।। १२१ ।।' ज्ञानं त्रिधा-दष्टम्, श्रतम्, अनुमानजं च।।
१. 'उद्वीक्ष्य' सुभापितावलौ, 'उत्परेकष्य' शाहंषरपद्धती. २. 'तन्वन्नया' सुभापि- ताबली, 'ोदिन्या:' स. ३. 'मयि' क.ख. ४. 'लोलानलेन' शार्तपरपद्ती. ५. 'भारावल्यं रजः' सुमाषितावली. ६. 'महोत्सवान्तम्' खत्र.
Page 704
५ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। ६११
तेषु हषं यथा- 'सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति। इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मेण्डनं नाकृतीनाम् ।१२२॥' श्रुतं यथा- 'कि रूपं स्फुटमेव सा शशिमुखी घत्ते तदत्यद्धुतं मामुत्साहयितुं परापकरणे चित्तं किमस्मत्खसुः । इत्यन्तर्विकसद्वितर्कविधुरं चेतस्तथा वर्तते सल्पोऽप्येष मम प्रयाति पुरतः पन्था यथा दीर्घताम् १२३' अनुमानं यथा- 'शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य । अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १२४ ॥' संस्कारस्त्रिधा-आदतः, पटुः, अभ्यस्तश्रेति। तत्राश्रयगुणेनादर- प्रत्ययादुत्पन्न आहतो यथा- 'कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनो रन्नं यत्केचिदस्ति तत्परिणमत्यसमासु शक्रादपि। कन्यायाश्च परार्थतैव हि मता तस्याः प्रदानादहं बन्धुर्वो भविता पुलस्त्यपुलह्प्रष्ठाश्च संबन्धिनः ॥१२५॥' विषयगुणेन पटुपत्ययादुत्पन्नः पटुर्यथा- 'उत्पत्तिर्देवयजनाङ्रह्मवादी नृपः पिता। सुप्रसन्नोज्ज्वला मूर्तिरस्यो: सेहं करोति मे ॥ १२६ ॥'
१. 'मण्डनेन' ग. २.'इति' इत्यधिकं स्र. ३. 'आदरादुत्पन्न' क.ख. ४. 'चेत्क चिदस्ति' मुद्रितमहाबीर चरिते. ५. 'मूर्तिरस्वां लेह' मुद्धितमद्दावीरचरिते.
Page 705
६१२ काव्यमाला।
ज्ञानपौनःपुन्येनाभ्यासप्रत्ययादुत्पन्नोऽभ्यस्तः॥ स यथा- 'भूयो भूय: सविधनगरीस्थ्यया पर्यटन्तं दृष्टा दृष्ट्रा भवनवलभीतुङ्गवातायनस्था । साक्षात्कामं नवमिव रतिर्मालती माधवं य-
अत्र यद्यपि विषयगुणात् पटुः, आश्रयगुणादाहतोऽपि प्रत्ययः, पटुमाहतं चे संस्कारं प्रसूते तथाप्यभ्यासात्पटीयानाहततमश्च जायमा- नोऽभ्यस्त इत्युच्यते।। उद्दीपनविभावेषु माल्यवस्त्रविभूषणादयो माल्यादय: । तेषु माल्यं यथा-
मुक्ताकलापीकृतसिन्धुवारं वसन्तपुप्पाभरणं वहन्ती ।।१२८।। वस्त्रं यथा- 'आवर्जिता किंचिदिव सतनाभ्यां वासो वसाना तरुणार्करागम्। सुजातपुष्पस्तवकावनम्रा संचारिणी पछ्लविनी लतेव ॥१२९॥' विभूषणं यथा- कण्ठस्य तस्याः सतनबन्धुरस्य मुक्ताकलापस्य च निततलस्य। अन्योन्यशोभाजननाङ्वभूव साधारणो भूषणभूष्यभाव: १३०' ऋर्तुक्योमदादय ऋत्वादयः ।
१. 'पीनःपुन्येन' ग.प. २. 'चाहतोडपि' क.स. ३. 'च' क.ख. नास्ति. ४. 'प्रसूयते' क.स. ५. 'वर्निकारम्' स. ६. 'स्तवकावनत्रसंचारिणी' क. ७. 'निस्तुलस्य' क. ८. 'ऋतुर्वयोमदादयः' क.ख.
Page 706
५ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम्। ६१३ : तेषु ऋतुर्यथा- 'इदमपुलभवस्तु प्रार्थनादुनिर्वारं प्रथममपि मनो मे पञ्चवाणः क्षिणोति। किमुत मलयवातोन्मूलितापाण्डुपत्रै- रुपवनसहकारै्दर्शितेष्वङ्ुरेपु ॥ १३१ ॥' वयो यथा- 'मामूमुहृत्खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारघना मतिर्भूत्। इत्यादि नन्विह निरर्थकमेव यस्मा- त्कामश्र जम्भितगुणो नवयौवनं च ।। १३२ ।।' मदो यथा- 'तत्क्षणं विपरिवर्तितहियोर्नेष्यतोः शयनमिद्धरागयोः । सा बभूव वशवर्तिनी द्वयो: शूलिनः सुवदना मदस्य च १३३' चन्दनस्नानधूपादयश्चन्दनादयः । तेषु चन्दनं यथा- 'चन्दनं विषधराश्रयः शशी वारुणी च विषसोदरावुमौ। तापयन्ति विरहे किमुच्यते मार्यन्ति न यदेतदद्भतम् १३४' ख्नानं यथा- 'आअम्बलोअणाणं ओलंसुअपाअडोरुजहणाणं। अेवरण्हमज्जिरीणं कए ण कामो धैणुं वहइ । १३५ ।।' [आतात्र लोचनानामाद्रोशुकप्रकटोरुजघनानाम्। अपराहमज्जनशीलानां कृते न कामो धनुर्वहृति ॥] १. 'नेक्षतो:' घ. २. 'तयो:' क.ख. ३.'उतुंतुअ'क., 'उत्तुसुन' स. ४.'पमडो- हृजहणा' क. ५. 'अवरुड़' क.ख. ६. 'वहर चान' इति काव्यमालामुद्ितगाथासपश्च- त्याम्, क. ख. च.
Page 707
६१४ काव्यमाला।
धूपो यथा-
कामो वसन्तात्ययमन्दवीर्य: केशेषु लेमे वलमञ्जनानाम् १३६' चन्द्रोदयो घनध्वनिरुपकारस्मरणमित्याद्याश्रन्द्रोदयादयः । तेपु चन्द्रोदयो यथा- 'विलिम्पत्येत स्मिर्न्मेलयजरसार्द्रेण महसा दिशां वक्रं चन्द्रे सुकृतमथ तस्या मृगदृशः । दृशोर्बाष्पः पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं ही: पृष्ठे वचसि च गुणा एव भवतः ।। १३७' घनध्वनिर्यथा- 'अज्ज मए तेण विणा अणुहूअसुहाइँ संमरंतीए। रअहिणवमेहाणँ रवो णिसामिओ वज्झपँडहो व॥ १३८ ॥' [अद्य मया तेन विनानुभूतसुखानि संस्रन्त्या। अभिनवमेघानां रवो निशामितो वध्यपटह इव ॥] उपकारस्मरणं यथा- 'तन्मे मनः क्षिपति यत्सरसप्रहार- मालोक्य मामगणितस्खलदुत्तरीया।
१. 'शुष्केयु' घ. २. 'वसन्तातप' स्र. ३. 'विलिम्पन्तेतसिन्' घ. ४. 'मलय- रजसाद्रेण' क.स्. ५. 'अणुभूअसुहाई अणिसंमरन्वीए' क.ख. ६. 'अदिणवमोदण- खो स. ७, 'वजपड शोग्य' घ. ८. 'हायण' ख.
Page 708
५ परिच्छेदः I] सरस्तीकण्ठाभरणम्। ६१५
अनुभावेषु सरति यथा- 'खणमेतं पिण फिटृइ अणुदिअहं दिपणगरुअसंतावा। पर्च्छेण्णपावसंकव सामली मज्झ हिअआहि ॥१४०॥ [क्षणमात्रमपि नापगच्छत्यनुदिवसं दत्तगुरुकसंतापा। प्रच्छन्नपापशङ्केच श्यामलाङ्गी मम हृदयात् ॥] वाञ्छति यथा- 'एमेअ अकैअउण्णा अप्पत्तमणोरहा विवज्जिसं। जणवाओ वि ण जाओ तेण समं हलिअउत्तेण ॥१४१॥' [एव मेवाकृतपुण्याप्राप्तमनोरथा विपत्से। जनवादोऽपि न जातस्तेन समं हलिकपुत्रेण ।] द्वेष्टि यथा- 'गोत्तक्खलणं सोऊण पिअअमे अज्ज मामि छैणदिअहे। वज्झमहिसस्स मालव मंडणं से ण पडिहीइ ॥ १४२ ॥' [गोघस्खलनं श्रुत्वा प्रियतमेय सखि क्षणदिवसे। वध्यमहिषस मालेव मण्डनमसा न प्रतिभाति ॥] प्रयतते यथा- 'अनुगच्छन्मुनितनयां सहसा विनयेन वारितप्रसरः । स्स्थानादचलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥ १४३ ॥'
१. 'सरतियेथा' क.स. २. 'वि' घ. ३. 'अणुदिअद्दविषण्णगरुअसंतावा' गाया- सप्त० 'दिण्णगुरुअसंतावा' घ. ४. 'पच्छण्णपापर्सकन्व' घ., 'पच्छनपावर्सकेत्व' गाथा- सप्त०. ५. 'हिअआओ' गाथासप०, 'हिमआहि' क.ख.ग. ६. 'वान्छतिर्यथा' क.स ७. 'अकअपुण्णा' घ. ८. 'हतिअपुत्तेण' घ. ९. 'द्ेष्टिरयथा' क.ख. १०. 'वीअ' गाथासप्त ०. ११. 'खणदिअट्वे' इति तत्रैव. १२. 'उभद'पश्यत इत्यपि च. १२.उत्स- वदिबसे.
Page 709
६१६ काव्यमाला। PP
अवैति यथा- 'चन्दसरिसं मुहं से सरिसो अमअस्स मुहरसो तिस्सा। सकअम्गहरहसुज्लचुंबणअं कस्स सरिसं से ॥१४४।।' [चन्द्रसदशं मुखमसयाः सदशोऽमृतस् मुखरसस्तस्ाः। सकचग्रहरभसोज्वलचुम्बनकं कस सदशमखाः ॥] मन्यते यथा- 'पैरिवद्टतिव णिसंस(म)इ मंडलिअकुसुमाउहं व अणंगं। विरहम्मि मण्णइ हरीणैहे अणत्थपडिउट्टिअं व मिअंकम् ।१४५' [परिवर्तमानेव(!) निशाम्यते मण्डलितकुसुमायुधमिवानङ्गम्। विरहे मन्यते हारिनखे अनर्थप्रत्युत्थितमिव मृगाङ्कम् ॥] वक्ति यथा- 'आलाओ मा दिज्जउ लोअविरुद्धत्ति णाम काऊण। समुहावडिए को वेरिए वि दिट्विं ण पाडेइ । १४६ ॥' [आलापो मा दीयतां लोकविरुद्ध इति नाम कृत्वा। संमुखापतिते को वैरिण्यपि दृष्टिं न पातयति ॥] चेष्टते यथा- 'अज्ज मए गंतवं घणंघआरे वि तस्स सुहअस्स । अज्जा णिमीलिअच्छी पअपरिवारडिं घरे कुणइ॥ १४७ ॥' [अद्य मया गन्तव्यं धनान्धकारेऽपि तस सुभगस। आर्या निमीलिताक्षी पदपरिपाटी गृहे करोति ॥]
१. 'अवैतियेथा' क.ख. २. 'परिव्द्ट दिव' क., 'परिवदृदिवं' स्. ३. 'हरिणहे अगत्ये' क., 'दरीणाहे' 'अणत्ये' स.
Page 710
५ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम्। ६१७
संचारिषु खेदरोमाञ्चवेपथवो यथा- 'दिट्वे जं पुलइज्जसि थरहरसि पिअम्मि जं समासण्णे। तुह संभासणसेउल्िफंसणे कि वि णिज्जिहिसि ॥१४८ ॥ [दष्टे यत्पुलकायसे थरहरायसे प्रिये यत्समासन्ने। तव संभाषणसेदार्द्रीकृतस्पर्शे किमपि नीयसे ॥] अश्रु यथा-
पुणरुत्तपेछिरीए वालअ कि जं ण भणिओ सि ।। १४९ ।' [नयनाम्यन्तरघूर्णमानवाष्यभरमन्यरया दृष्टया। पुनरुत्तप्रेक्षणशीलया बालक किं यन्न भणितोऽसि ॥] हर्षो यथा- 'सच्वस्सम्मि विदद्धे(द्वे) तह वि हु हिअअस्स णिब्वुदि चेअ। जं तेण गामडाहे हत्थाहत्थि कुडो गहिओ ॥ १५० ॥' [सर्वस्वेऽपि दग्धे तथापि खलु हृदयस् निर्वृतिरेव। यत्तेन ग्रामदाहे हस्ताहस्ति कुण्डो गृहीतः ॥] अमर्षो यथा- 'कत्तो संपडइ मह पि पिअसहि पिअसंगमो पओसे वि। जं जिअजई गहिअ्करणिअर खिंखिरी चंदचंडालो'॥ [कुतः संपतति ममापि प्रियसखि प्रियसंगमः प्रदोषेऽपि। यजजीवति गृहीतकरनिकरखिंखिरी चन्द्रचण्डाल: ॥I] १. 'रहपरसि' क.ख. २. 'सेओलि' क., 'सेओहि' स. ३. 'गिव्जिदसि' क. स्. ४. 'गमणग्मंतर' क.ख., 'णअणंतर' ग.ध. ५. 'मन्थराप' क.ख.ग.घ. ६. 'पेण्छरीए' क.स. ७. 'विदट्टे' क.ख, ८. 'महम्पि' क., 'मई' ख. ९. 'अह' घ. १०. 'कूर' क.ख. ११. शरनिर्मितवाद्यविशेष :. 'सिक्खिरी डुम्बचिन्धलद्ठीए' इति देशीनाममाला. डुम्बादीनां स्पर्यपरिहाराय चिडयष्टिः
Page 711
६१८ काव्यमाला।
लीलादिपु प्रियजनचेष्टानुकृतिर्लोला यथा- 'जं जं करेसि जं जं जप्पसि जै जं णिअच्छेसि। तं तमणुसिक्खेरीए दीहो दिअहो ण संपडइ ।। १५२ ।।' [यद्यत्करोपि यद्यज्जल्पसि यद्यननिरीक्षसे। तत्तदनुशिक्षणशीलाया दीरघों दिवसो न संपद्यते॥] नेत्रभ्रूवक्रकर्मणां विशेषणे लसनं विलासो यथा- 'सभ्रूविलासमथ सोऽयमितीरयित्वा सपत्यभिज्ञमिव मामवलोक्य तस्याः । अन्योन्यभावचतुरेण सखीजनेन मुक्तास्तदा स्मितसुधामधुराः कटाक्षाः॥ १५३ ॥ 1 विभूषणादीनामनादरविन्यासो विच्छित्तिर्यथा- 'अङ्गानि चन्दनरजःपरिधूमराणि
अच्छाञने च नयने वसनं तनीयः कान्तासु भूषणमिदं विभवश्च शेषः ॥ १५४ ।।' विभूषणादीनामस्थानप्रयोगो विभ्रमो यथा- 'चकार काचित्सितचन्दनाक्के काञ्चीकलापं स्तनभारपृष्ठे। प्रियं प्रति प्रेषितचित्तवृत्ति- र्नितम्बविम्बे च बैभार हारम् ॥ १५५ ॥'
१ 'जद तुम' काव्यमालामुद्रितगाथासस०. २. 'शिवखरीए' स., 'सितिअरीप' इतपि गाथासस०, ३. 'बबन्ध' ग.घ.
Page 712
५ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम्। ६१९
स्मितरुदितहसितादीनां हर्षादसकृदेकीकरणं किलकिश्चितं यथा- 'पाणिपल्लवविधूननमन्तःसीत्कृतानि नयनार्घनिमेषाः । योषितां रहसि गद्ददवाचामसत्रतामुपययुर्मदनस्य ॥। १५६ ।।' दृष्टजनकथायां तद्भावभावनोत्थितविकारो मोट्टायितं यथा- 'तब सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः। घनतां ध्रुवं नयति तेन भवद्रुणपूगपूरितमतृप्ततया ।१५७॥ केशस्तनाधरादिग्रहणाद्दुःखेऽपि सुखबुद्धिचेष्टा कुद्टमितं यथा- 'हीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य। अर्पितोष्ठदलमाननपझं योषितो मुकुलिताक्षमधासीत्॥१५८। अभीष्टप्राप्तावभिमानगर्वसंभावनानादरकृतो विकारो विद्योको यथा- 'निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा। शैलराजतनया समीपगामाललाप विजयामहेतुकम् ।१५९॥ सुकुमारतया करचरणाञ्ञन्यासो ललितं यथा- गुरुतरकलनू पुरानुनेदं सललितनर्तितवामपादपझमा। इतरदनतिलोलमादघाना पदमथ मन्मथमन्थरं जगाम १६०' वक्तव्यसमयेऽपि वचसाभिभाष्य क्रियानुष्ठानं विहृतं यथा- 'पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम्। सा रज्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥१:१।' बाल्यकौमारयौवनसाधारणो विहारविशेष: क्रीडितं यथा- 'मन्दाकिनी सैकतवेदिकाभि: सा कन्दुकैः कृत्रिमपुत्रकैश्। १. 'धनरोमविमेदाः' ग.२. 'विच्छोको' घ. १, 'नूपुरानुरावं' ख. ४. 'नुरावं' क.ख्र.
Page 713
६२० काव्यमाला।
रेमे मुहुर्मध्यगता सखीनां कीडारसं निर्विशतीव बाल्ये॥ १६२ ॥' कीडितमेव प्रियतमविषये केलियथा- 'व्यपोहितं लोचनतो मुखानिलै- रपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥। १६३ ॥' हेलादिषु रागतः सहसा प्रवृत्तिहेतुश्चि तोल्लासो हेला। सा स्त्रियां यथा- 'रेहइ पिअपरिरम्भणपसारिअं सुरअमंदिरद्दारे। हेलाहलहलिअथोरथणहरं भुअलआजुअलं ।। १६४ ।।' राजते प्रियनरिरम्भणप्रसारितं सुरतमन्दिरद्वारे। वेगकौतुकितस्थूलस्तनभरं भुजलतायुगलम् ॥] सैव पुरुषे यथा- 'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः । भूय स्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिक्वय नीतं वपुरलसलसद्वाहु लक्ष्म्या: पुनातु ॥१६५॥' हेलैव सवचनविन्यासो हावः । स स्ति्रियां यथा- 'जइ ण छिवसि पुष्फवइं पुरओ ता कीस वारिओ ठासि। छित्तोसि चुलचुलन्तेहि" पहाविऊण मह हत्येहिं ॥ १६६॥' [यदि न स्पृशसि पुष्पवतीं पुरतस्तत्किं वारितस्तिष्ठसि। स्पृष्टोऽसि चुलुचुलायमानैः धावित्वाम्माकं हस्ताम्याम् ॥] १. 'प्रियतम वेषयं' घ. २. 'जवे हेळा' देशीनाममाला., 'तुमुतम्मि कोउए हल- हड' इत्यपि. ३.'की सो' स. ४. 'भाविउण अन्द' इति मुदितगावासस०, 'पह्टा- विकणाम्महत्वेदि' ग.घ.
Page 714
५ परिच्छेद: ॥] सरस्तीकण्ठाभरणम्। ६२१
स एव पुरुषे यथा- 'लोओ जूरइ जूरउ वअणिजं होइ होउ तं णाम। एहि णिमज्जसु पासे पुष्फवइ ण एइ मे णिद्दा।। १६७ ।।' [लोकः खिदयते खिद्यतु वचनीयं भवति भवतु तन्नाम । एहि निमज् पार्शे पुष्पवति नैति मे निद्रा ।] आदिग्रहणेन भावादयो गृह्यन्ते । तेषु भावाः स्त्रियां यथा -- 'तावचिअ रइसमए महिलाणं विव्ममा विराअंति। जाव ण कुवलअदलसच्छहाइँ मउलेति णअणाइं ॥१६८॥ [तावदेव रतिसमये महिलानां विभ्रमा विराजन्ते। यावन्न कुवलयदलसच्छायानि मुकुलीभवन्ति नयनानि ॥] व्याज: पुंसो यथा- 'अलिअपसुत्तविणिमीलिअच्छ दे सुहअ मज्झ ओआसं। गंडपरिउंवणापुलइअंग ण पुणो चिराइस्सं ।। १६९ ॥' [अलीकप्रसुप्तविनिमीलिताक्ष हे सुभग ममावकाशम्। गण्डपरिचुम्बनापुलकिताङ्ग न पुनश्चिरयिष्यामि ॥] विस्रम्भभाषणं ख्िया यथा- 'जाओ सो वि विलक्खो मए वि हसिऊण गाढमुबगूढो। पढमोसरिअस्स णिअंसणस्स गंठिं विमग्गन्तो ॥ १७० ॥' [जातः सोऽपि विलक्षो मयापि हसित्वा गाढमुपगूढ़ः । प्रथमापसृतस्य निवसनस् ग्रन्थि विमार्गयमाण: ॥] १. 'गिमज्जमु' मुद्रितगाथासस०. २. 'गिसिज्जसु' क.स््र., 'णिसज्जसु' ग.व. ३. 'भूरद' क. 'झूरउ' ख. ४. 'सच्छाहाईँ' स. ५. 'देहीति श्ेषः। देसु धम मज्स' कचित, अत्र हे धव, ममावकाश देहीति योज्यम्।' केचित्तु 'देसु हअमक्स' इति पदच्छेद: इतमध्य अङविन्यासरद्मध्य=देहि अवकाशम् अर्थान्मम इत्यातु:' इति गाथासपतश्त्वा व्याल्याता गहाघरभट्ट इति गा. स. व्याख्याता. ६. 'प्रथमे- लयनुरागातिशयेन प्रियरपर्शातपूर्वमेव रखलितस्य बसनस्य ग्रन्थिम्'.
Page 715
६२२ काव्यमाला।
चाटु स्त्रीपुंसयोर्यथा- 'एकं पहरुविण्णं हत्यं मुहमारुण्णं एण वीअंतो। सो वि हसंतीएँ मए गहिओ वीएण कंठम्मि॥ १७१ ॥ [एक प्रहारोद्विमं हस्तं मुखमारुतेन बीजयन्। सोडपि हसन्त्या मया गृहीतो द्वितीयेन कण्ठे ॥] प्रेमाभिसंधानं पुंसो यथा- 'केलीगोत्तक्खलणे वरस्स पप्फुल्लइं दिहिं देहि। बहुवासअवासहरे बहुए वाहोलिआ दिट्टी ॥ १७२ ॥' [केलीगोत्रस्खलने वरस प्रफुल्लां धृति दधाति। बहुवासकवासगृहे वध्वा वाष्पार्दिता दृष्टिः ॥] परिहास: स्त्रियां(या) यथा- 'अइ दिअर किं ण पेच्छसि आआसं कि मुहा पलोएसि। जाआइ बाहुमूलं मि अद्धअन्दाणँ पडिवार्डिं॥ १७३ ॥' [अयि देवर किं न प्रेक्षस आकाश किं मुधा प्रलोकयसि। जायाया बाहुमूलेऽर्वचन्द्राणां परिपाटीम् ॥] कुतूहलं पुंसो यथा- 'असमत्तमंडणर्चिचअ बच्च घरं से सकोउहलस्स। बोलाविअहैलहलस्सअ अस्स/पुत्ति चित्ते ण लग्गिहिसि ॥' [असमाप्तमण्डनैव व्रज गृहं तस्य सकौतूहलस। व्यतिकान्तौत्सुक्यस पुत्रि चित्ते न लगिष्यसि ॥]
१. 'तुव्वाणं' क. २. 'दिच्छी' ग.घ. ३.'अद्धमन्दाण' क.ख.ग. ४. 'अस- मत्तमडणा विअ' मुद्ितगाथासप०, 'मंडण विज' क. ५. 'कोउए हलइलह- लन्' देशी नाममाला, गाथासप्तशत्यनुसारं च 'इलइलअस्य' पाठः. 'हलहल्कं कामीत्युक्थमिति देशी' कुलबालदेव :. अत्र द्रष्टव्या शपितृचरणानां टिप्पणी. ६. 'डब्गिदसि' क.
Page 716
५ परिच्छेद: ॥] सरखतीकण्ठाभरणम्। ६२१
चकितं खिरिया यथा- *णर्वेलइ पहारतुट्ठाई तं कअं किं पि हलिअसोण्हाए। जं अज्ज वि जुअइजणो घरे घरे सिक्खिउं भमइ ॥१७५॥' [पतिनामप्रश्नपूर्वकप्रहारतुष्ट्या तत्कृतं किमपि हालिकसुषया। यदद्यापि युवतिजनो गृहे गृहे शिक्षितुं भ्रमति ॥] हेला हावश भावथ व्याजो विस्रम्भभापणम्। चाटु प्रेमाभिसंधानं परिहासः कुतूहलम् ॥ १६८ ॥ चकितं चेति निर्दिष्टाश्चेष्टाः काश्चिद्विलासिनाम्। शेषाणां विप्रलम्भादौ रूपमाविर्भविष्यति ॥ १६९। तत्र नायकयोः प्रागसंगतयोः, संगतयोश्च, संगतवियुक्तयोर्वा, मिथोदर्शनश्रवणाभ्यामवस्थिताभिमानजन्मा परस्परानुरागोSन्यतरानुरागो वाभिलपणीयालिङ्गनादीनामनवाप्तौ सत्यां समुपजायमानैस्तैस्तैरुत्कण्ठा-
सम्राप्यप्रकर्षावस्थो विप्रलम्भशृद्गाराख्यां लभते। स चतुर्धा-पूर्वानु- रागो, मानः, प्रवास:, करुणश्च ।। तेषु प्रागसंगतयो: पूर्वानुरागः पुरुषपकाण्डे यथा- 'दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे। हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥ १७६ ॥' अत्र पुण्डरीकस्य महाश्वेतायां प्रागसंगतायां समुत्पन्नः संकल्परम- णीयोSभिलापस्तदनाप्तावुक्तप्रकारेण प्रकृष्यमाणस्त्वया मे मानसजन्मा दूरं नीत इत्युत्तरकामावस्थया प्रकाश्यते। १. 'णवलइ्आपादर' क. दोलाविलाससमये 'जत्थ पलासलयाए जणेहि पदणाम पुष्छिआा जुबई । अकहन्ती णिहणिक्जर णिअमविसेसो णवलया सा ।' देशीनाम- माला. २. 'तुट्वाए' क.ख. ३. 'भावश दाबश्र' स. ४. 'स' ख.
Page 717
६२४ काव्यमाला।
स एव स्त्रीप्रकाण्डे यथा- 'दुल्लहजणानुराओ लज्जा गरुई परवसो अप्पा । पिअसहि विसमं पेम्मं मरणं सरणं णवरि एक।। १७७ ।।' [दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा। प्रियसखि विषमं प्रेम मरणं शरणमनन्तरमेकम् ॥] अत्रापि प्राग्वदेव सागरिकाया वत्सराजेऽनुरागः प्रकृष्यमाणो मरणं शरणमित्युत्तरयैव कामावस्थया कथ्यते।। संगतयोर्मानः स निर्हेतुर्यथा- 'अत्थकेरूसणं खणपसिज्जणं अलिअवअणणिब्बन्धो। उम्मेच्छरसंतावो पुत्तअ पअवी सिणेहस्स ॥ १७८ ॥' [अकसमाद्रोषण क्षणप्रसादनमलीकवचननिर्बन्धः । उन्मत्सरसंताप: पुत्रक पदवी स्ेहस ॥] अत्र प्रेमगतेः खभ,वकौटिल्याद्वेतुमन्तरेणोपजायमानो निहेतुरुच्यते स एव सहेतुर्यथा- 'पडिउेच्छिआ ण जंपइ गहिआ वि प्फुरइ चुम्बिआ रुसइ। तुण्हिंका णवबहुआ कआवराहेण दइएण ।। १७९।।' [परिपृष्ट न जल्पति गृहीतापि स्फुरति चुम्बिता रुष्यति। तूष्णींभूता नववधूका कृतापराधेन दयितेन ॥I] अत्र यद्यप्यालिङ्गनादेनेति नेत्यादे: प्रतिषेधो न विद्यते तथापि तदर्थोऽस्त्येवेति मानलक्षणं घटते।।
१. मुद्रितरलावल्यां तु 'ण वारकं' पाठः, 'न पारक्यम्' छाया च. 'ना अरिणब- नतरयें' देशीनाममालायाहीकायाम्. २. अत्यकेत्याकस्मिकेडद्भुते या देशी. ३.उन्मररू- रेति बहुले. 'उन्मूच्छंन प्रतिकुलवाचा प्रकोपनम्' इति प्राचीनटीका गङ्याधरमहोट्टक्विता. ४. 'पठिउत्थिमा' क.स्र. ५. 'तुण्दिमूआ' क.ख. ६. 'कभावराणण' घ.
Page 718
५ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। ६२५
संगतवियुक्तयो: प्रवासः । स नवानुरागो यथा- 'प्रियमाधवे किमसि मय्यवत्सला ननु सोऽहमेव यमनन्दयतपुरा।
सैखि मूर्तिमानिव महोत्सवः करः ॥ १८० ॥ अत्र विवाहानन्तरमेव मालत्याः कपालकुण्डलयापहारान्माधवमाल- त्योरयं नवानुरागः प्रवास उच्यते ।। स एव प्रौढानुरागो यथा- 'त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्। अस्ैस्तावन्मुहुरुपचितैर्दष्टिरालुप्यते मे करूरस्तस्मिन्नपि न सहते संगम नौ कृतान्तः । १८१ ॥ अत्र प्राचीनप्रणयप्रसादनाभिरनुरागस्य प्रौढिरवगम्यते।। संगतयोरेवान्यतरव्यपाये करुणः । स स्त्रीव्यपाये पुरुषस्य यथा- 'ध्रुवमस्मि शठः शुचिस्मिते कलितः कैतववत्सलस्त्वया। परलोकमसंनिवृत्तये यदनामैकर्य गतासि मामितः ।। १८२।। अत्रेन्दुमतीव्यपायादजस्य दुःखातिशयः करुण उच्यते॥ स एव पुरुषस्य व्यपाये सि्रिया यथा- 'हृदये वससीति मत्पियं यदवोचस्तदवैमि कैतवम्। उपचारपदं न चेदिदं त्वमनअः कथमक्षता रतिः ।१८३। अन्रानऋ्गविषये रतेः शोर्कप्रकर्ष: करुण इत्याख्यायते ॥ २. 'स्वयमागृहीत' इति Dr. R. G. Bhandarkar संपादिते माळती- माधवे. २. 'तव' क.घ. मुद्रिते च 'विदित: कैतववस्सलसतव'. ३. 'यदनापुच्कम' दति मुद्रितरमुबगे. ४. 'शोकप्रकर्पात्' क.र्. ४० स० क०
Page 719
६२६ काव्यमाला।
हीनपात्रादिषु चैतदाभासा भवन्ति। तत्र हीनपात्रेषु पुंसि प्रेमानु- रागो यथा- 'कअलीगन्मसरिच्छे ऊरू दद्रूण हलिअसोण्हाए। उल्ललइ णहरंजणं चंदिलैस्स सेउलिअकरस्स ।। १८४ ।' [कदलीगर्भसदक्षे ऊरू दृष्टा हालिकसुषायाः। आर्द्रीभवति नखरञ्नं नापितस सेदार्दितकरस ॥] अत्रैव स्त्रियां मानो यथा- 'पढमघरिणीअ समअं उअ पिंडारे दर कुणन्तम्मि। णवबहुआइ सरोस सव्व चिअ वच्छला मुक्का ।।१८५ ॥!' [प्रथमगृहिण्या समक पश्यामीरे भर्य कुर्वति । नववध्वा सरोषं सर्वेऽपि च वत्सका मुक्ता: ॥] तिर्यक्षु पक्षिणि प्रवासो यथा- 'आपृच्छामि व्यथयति मनो दुर्बला वासरश्री- रेद्यालिङ्न क्षपय रजनीमेकिका चक्वाकि। नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा IT दैवाधीनः सपदि भवतीमख्वतव्रस्त्यजामि ॥ १८६ ॥' । अत्रैव करिणिं करुणो यथा- 'नान्तर्वर्तयति ध्वनत्सु जलदे्वामन्द्रमुद्गर्जितं नासन्नात्सरस: करोति कवलानावर्जितः शैवलैः।
119S। नूनं प्राणसमावियोगविघुररः सम्बेरमस्ताम्यति ॥१८७॥ अथ संभोगः। तत्र नायकयोः प्रागसंगतयोः संगतवियुक्तयोर्वा १. 'हीनपात्रेषु' घ. २. चन्दिको नापितः, चण्डिल इति तु सरकृतसममिति देशीनाममालाष्याख्या. २, 'तुद' क., 'तुभ' स. ४. 'पिण्ार' ख. ५. 'करिणी- करुणो क.ख. ६. 'विधुरस्म्बेरम:' ग.खु.घ.
Page 720
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ६२७
मिथः समागमे प्रागुत्पन्नस्तदानींतनो वा रत्याख्यः स्थायिभावोऽभिलष- णीयालिञ्नादीनामवाप्तौ सत्यां समुपजायमानैर्हर्ष-धृति-स्मृति-मतिप्रभृ- तिभिर्व्यभिचारिभावैः संसृज्यमानः, ऋतूद्यानोपगमजलक्रीडापर्वतोपदे-
सादयन्, जिहासितं वा जिहानः, प्राप्तपाप्यप्रकर्षारम्भः संभोगशृक्रा- राख्यां लभते । स चतुर्घा-प्रथमानुरागानन्तरः, मानानन्तरः, प्रवासा- नन्तरः, करुणानन्तर इति॥ तेषु प्रथमानुरागान्तरो यथा- 'पाणिम्ाहणे चिंअ पव्वईअ णाअं सहीहिं सोहग्म्। पसुवइणा वासुइकंकणम्मि ओसारिए दूरम् ॥ १८८ ।।' [पाणिग्रहण एव पार्वत्या ज्ञातं सखीभि: सौमाग्यम्। पशुपतिना वासुकिकङ्कणेऽपसारिते दूरम् ॥] मानान्तरो यथा- 'उब्बहइ् दहअगहि आहरोट्वझिज्जन्तरोसपडिराअम्। पाणोसरन्तमइरं चसअं व णिअं मुहं बाला । १८९ ॥' [उद्धहृति दयितगृहीताधरौष्ठक्षीयमाणरोषप्रतिरागम्। पानापसरन्मदिरं चपकमिव निजं सुखं बाला ॥] प्रवासानन्तरो यथा- 'मंगलवलअं जीअं व रक्खिअं जं पउत्थवइआइ। पत्तपिअदंसणूससिअबाहुलइआइं तं भिण्णम् ॥ १९०॥' [मङलवलय जीवितमिव रक्षितं यत्प्रोषितपतिकया। प्राप्तप्रियदर्शनोच्छुसितबाहुलतिकायां तद्धिन्नम् ॥] १.'प्रसाधनग्रद' ग.घ. २. 'पाणिमाहणे व्विम पव्व' गायासम० 'पाणिमाहणब्दिम' घ.१.गौडवहोनासि वाक्पतिविरचिते प्राकृतकाव्ये 'फलियचसयं इमा वयर्ण' पाठः, 'रफ- टिकचपकमेषा वदनन्' इति छाया च. ४. 'चपज्सिअवदशार' क.स. ५.'वं भीर' स
Page 721
६२८ काव्यमाला।
करुणानन्तरो यथा- 'ण मुअम्मि मुए वि पिए दिट्ठो उण पिअअमो जिअंतीए। इअ लजा अ पहेरिसो तीए हिअए ण संमाइ ॥ १९१ ॥' पकन मृतास्मि मृतेडपि प्रिये दृष्टः पुनः प्रियतमो जीवन्त्ा। इति लजा च प्रहर्षस्तसा हृदये न संमाति ॥] तेऽमी चत्वारोऽपि संभोगाश्चतुर्मिरेव विपलम्मैः प्रकर्षमापदयन्ते॥ तेषु प्रथमानुरागेण थथा- 'इन्दुर्यत्र न निन्धते न मधुरं दूतीवचः श्रयते नोच्छासा हृदयं दहन्त्यशिशिरा नोपैति कार्श्य वपुः । साधीनामनुकूलिनीं खगृहि णीमालिज्वय यत्सुप्यते तर्त्कि प्रेम गृहाश्रमव्रतमिदं कष्ट समाचर्यते ॥ १९२ ॥' मानेन यथा- 'रइविग्गें हम्मि कुण्ठीकआओ धाराओ पेम्मखग्गस्स। अणमआइं व्व सिज्झन्ति माणसाइं णोइ मिहुणाणम् १९३' [रतिविग्रहे कुण्ठीकृता धारा: प्रेमखङ्गस््र । अन्नमयानीव स्विद्यन्ति मानसानि ज्ञायन्ते मिथुनानाम् ॥] प्रवासेन यथा- 'शापान्तो मे भुजगशयनादुत्थिते शार्गपाणौ 02S मासानेतान् गमय चतुरो लोचने मीलयित्वा। पश्चादावां विरहगुणितं तं तमात्मार्मिलाषं निर्वेक्ष्यावः परिणतशरचन्द्रिकासु क्षपासु ॥ १९४ ॥' १. 'मुबन्दि' घ. २. 'परिहासो' क., 'पहारिदासो' च. ख. ३. 'नालापा निपवन्ति वाष्पकठुपा'. ४ 'रहविगाइम्मि' ख. ५. 'णाई' स. ६.'आत्माभियोग' क
Page 722
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ६२९
करुणेन यथा- · 'न मर्त्यलोकस्त्रिदिवात्महीयते म्रियेत नागे यदि वल्लमो जनः । निवृत्तमेव त्रिदिवप्रयोजनं मृतः स चेजीवत एव जीवति १९५' तिर्यगादिषु चैतदाभासा भवन्ति I तेषु सरीसृपमृगयोर्यथा- 'मधु द्विरेफ: कुसुमैकपात्रे पपौ प्रियां स्ामनुवर्तमानः । शृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्ड्यत कृष्णसार: १९६' पश्चुपक्षिणोर्यथा- 'ददौ सरःपङ्कजरेणुगन्धि गजाय गण्डू पजलं करेणुः । अर्घोंपभुक्तेन बिसेन जायां संभावयामास रथाञ्ञनामा ॥ १९७॥' किनरेषु यथा- 'गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्रासितपत्रलेखम्। पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किपुरुषश्चचुम्बे ॥ १९८ ॥' तरुषु यथा- 'पर्याप्तपुष्पस्तवकस्तनीभ्यः स्फुरत्प्रवालोष्ठेमनोहराभ्यः ।
विप्रलम्भचेष्टासु प्रथमानुरागे स्त्रिया यथा- 'पेच्छइ अलद्धलक्खं दीहं णीससइ सुण्णअं हसइ। जइ जंपइ अफुडत्थं तह से हिअअट्ठिअं किं वि ॥२००॥' [प्रेक्षतेऽलव्घलक्ष्यं दीर्घे निःश्वसिति शून्यं हसति। यथा जल्पत्यरफुटार्थे तथास्या हृदयस्थितं किमपि॥] १. 'ईपरसमुच्यासितपत्रलेखम्' घ. २. 'प्रवालोष्ठमनोहरान्य:' घ. ₹. अअलढ्र- ·उच्छदीई' क.स.
Page 723
६३० काव्यमाला।
पुंसो यथा- 'सो तुहे कएण सुंदरि तह झीणो सुमहिलो हलिअउत्तो। जह से मच्छरिणीअ वि दोच जाआए पडिवण्णम् २०१' [स तब कृतेन सुन्दरि तथा क्षीणः सुमहिलो हालिकपुत्रः । यथास्य मत्सरिण्यापि दौत्यं जायया प्रतिपन्रम् ॥] माने स्न्रिया यथा- 'कण्णुजुआ वराई सा अज्ज तए कआवराहेण। जरमाइअस्क्खपलोअइआइं दिअहेण सिक्खिविऔ॥२०२॥' [कर्णर्जुका बराकी साद्य त्वया कृतापराधेन। जम्भायितरूक्षप्रलोकितानि दिवसेन शिक्षिता ॥] पुंसो यथा- 'अविभाविअरअणिमुहं तस्स अ सच्चरिअविमलचन्दुजोअम्। जाअं पिआविरोहे बढंताणुअमूढलक्खं हिअअम् । २०३॥' [अविभावितरजनीमुखं तसाश्च सच्चरितविमलचन्द्रोद्दयोतम्। जातं प्रियाविरोधे वर्धमानानुशयमूढलक्ष्यं हृदयम् ॥] प्रवासे स्त्रिया यथा-
दिज्जइ वंकग्गीवाई दीवओ पहिअजाआए॥ २०४ ॥'
दीयते वक्रग्रीवया दीपकः पथिकजायया ॥] १.'तुन्झ कम सुन्दरि' का. मा. मुद्रितगाथासमo. २. 'झीणो' क.सर. ३.'काण्ड- जृआ' गावासप्त० काण्डवटजुका, 'कण्णुच्जुआ' इति पाठे कर्णऋजुका कर्णदुर्बलेत्यर्थ इति टीकाकुत, 'अलसा इम रण्णविभम्मिआइ' गायासमo, ४. 'जं भाइप्रा' क. ५. 'सिक्तविना' क. ६. 'पओदृंत' स. ७. 'निवान' क. ८.'बंकग्गीनाए' गाभासम0
Page 724
५ परिच्छेदः ॥] सरस्तीकण्ठाभरणम्। ६३१
पुंसो यथा- 'मज्झण्णपत्थिअस्स वि गिम्हे पहिअस्स हरइ संतावम्। हिअअट्टिअजाआमुहमिअंकजोण्हाजलप्प्वहो ॥ २०५॥' [मध्याह्वग्रस्थितस्यापि ग्रीष्मे पथिकस्य हरति संतापम्।
करुणे स्रिरिया यथा- णवरि अ पसारिअंगी रअभरिउप्पहृपइण्णवेणीबंधा। पडिआ उरसंदाणिअमहिअलचक्कलेइअत्थणी जणअसुआ २०६' अनन्तरं च प्रसारिताङ्गी रजोभरितोत्पथप्रकीर्णवेणीबन्धा। पतितोर:संदानितमहीतलचक्रीकृतस्तनी जनकसुता ॥] पुंसो यथा- 'अंतोहुंतं डज्झइ जाआसुण्णे घरे हलिअउत्तो। उक्खित्तणिहाणाइं व रमिअठ्ठाणाइं पेच्छंतो ॥ २०७ ॥' [अन्तरभिमुखं दह्यते जायाशून्ये गृहे हालिकपुत्रः । उत्क्षिप्तनिधानानीव रमितस्थानानि पश्यन् ॥] एंवमन्या अपि। करुणवर्ज खित्रिया यथा- 'सौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवी द्वारात्रस्यति चित्रकेलिसदसो वेषं विषं मन्यते। आस्ते के वलमब्िनीकिसलयप्रस्तारशय्यातले संकल्पोपैनतत्वदाकृतिरसायत्तेन चित्तेन सा ॥। २०८।।'
१. 'जलप्पवाहे' क, २. 'चकलर' क. ३. 'अन्तोडुततं' गाबासपo, ४. 'पेक्स- न्तो' क. ५. 'एवमन्यत्रापि' क.स्. ६. 'चित्रकेलिसदने' क.७ 'पनमल्व' क.
Page 725
६३२ । काव्यमाला।
स्तिया एव प्रथमानुरागवज यथा- 'तिष्ठ द्वारि भवाङ्कणे त्रज बहिःसद्ेति वर्त्मेक्षते शालामश्च तमज्रमश्च वलभीमश्चेति वेश्माश्चति। दूतीं संदिश संदिशेति बहुशः संदिश्य सासते तथा तल्पे कल्पमयीव निर्घृण यथा नान्तं निशा गच्छति २०९' प्रथमानुरागवर्ज पुंसो यथा- 'रम्यं द्वेष्टि पुरा यथा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्योपान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः । दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितखतदा भवति से त्रीडावनम्रश्चिरम् २१०' पुंस एव प्रवासकरुणयोर्यथा- 'सीतावेश्म यतो निरीक्ष्य हरते दृष्टिं झटित्याकुला- i मन्योन्यार्पितचसुदत्तकवलैः पारावतैदूयते। इन्दोर्दूरत एव नश्यति विशत्यन्तर्गृंहं दुःखितः प्रच्छाद्याननमश्चलेन रजनीष्वस्तत्रपं रोदिति । २११ ।।' संभोगचेष्टासु पूर्वानुरागान्तरे चुम्बनं यथा- 'आअरपणामिओट्ठं अघडिअणासं अस्घैडिअणिलाडम्। वण्णग्घअलिप्पमुहीअ तीअ परिउंबणं मरिनो ॥ २१२॥' [आदरप्रणामितौष्ठमघटितनासमसंघटितललाटम्। वर्णघृतलिप्तमुख्यास्तसाः परिचुम्बनं सराम: ॥] १. 'स प्रेति' स. २. 'न' क. मुद्रितेडमिश्ानशाकुन्तले च. ३. 'भूयते' क.ख. ४. 'अर्संघलिभ' क. 'अर्संबलिन' स. ५. 'वणवभतुप्पमुद्दीए वीए' क., 'वणवअलु- प्यमुद्दीए तीम' स.
Page 726
५ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्।
अत्रैवालिङ्गनं यथा- 'तावमवणेइ ण तहा चंदणपंको वि कामिमिहुणाणम्। जह दूसहे वि' गिम्हे अण्णोण्णालिंगणसुहेली॥ २१३ ॥' [तापमपनयति न तथा चन्दनपङ्कोऽपि कामिमिथुनानाम्। यथा दुःसहेऽपि गीष्मेऽन्योन्यालिङ्गनसुखम् ॥] मानानन्तरे चुम्बनं यथा- 'जह जह से परिउंबई मण्णुभरिआइं णिहुवणे दइओ। अच्छीई उवरि उवरि तह तह भिण्णाइं विगलंति ॥।२१४।।' [यथा यथास्ाः परिचुम्बति मन्युभरितानि निधुबने दयितः । अक्षीण्युपर्युपरि तथा तथा भिन्नानि विगलन्ति ॥] अत्रैवालिङ्गनं यथा- 'माणदुमेंपरुसपवणस्स मामि सव्ंगणिब्बुदिअरस्स । उवऊहणस्स भहं रइणाडअपुब्रंगस्स ।। २१५ ।।' [मानदुमपरुषपवनस मातुलानि सर्वाङ्गनिर्वृतिकरस। उपगूहनस भद्रं रतिनाटकपूर्वरङ्गसय ॥] प्रवासानन्तरे चुम्बनं यथा- 'केनचिन्मधुरमुल्वणरागं वाष्पतप्तमधिकं विरहेषु। ओष्ठपल्लवमपास्य मुहूर्त सुभ्रुवः सरसमक्षि चुचुम्बे ॥ २१६ ॥' करुणानन्तरमालिङ्गनं यथा- 'चन्द्रापीडं सा च जग्राह कण्ठे कण्ठस्थानं जीवितं च प्रपेदे। तेनापूर्वा सा समुल्लासलक्ष्मीमिन्दुं स्पृष्टा सिन्धुवेलेव भेजे २१७' १. 'वि' क.ख. नास्ति. २. गायासप्तशत्यां 'सुखकेलिः' इति च्छाया। देशीना- ममालायां तु 'मुहे सुहेठीभ' इति, 'सुदेही मुखन् सुदछीत्यन्ये' इति टीका च. ३. 'पडिचंबर' ख. ४. 'मानदुम' घ. ५. गाथासत्० 'अवऊद्दणरस' इति, 'अवगूद- नस्य' इति च्छाया च. ६. 'प्रवासानन्तरं' क.ख.
Page 727
६३४ काव्यमाला।
प्रथमानुरागानन्तरे दन्तक्षतं यथा- -T 'णासं व सा कबोले अज्ज वि तुह दंतमंडलं बाला। ॥ उन्भिण्णपुलअवईवेढपरिगअं रक्खइ बराई ॥। २१८।' [न्यासमिव सा कपोलेऽद्यापि तव दन्तमण्डलं बाला। उद्विन्नपुलकवृतिवेष्टपरिगत रक्षति बराकी ॥] तदेव मानानन्तरे यथा- 'पवणुबेल्लिअसाहुलि ठऍसु ठिअदंतमंडले ऊरू। चहुआरअं पइं मा हु पुत्ति जर्णहासिअं कुणसु ॥ २१९ ॥ [पवनोद्वेछितवस्त्राश्चले स्वगय स्थितदण्डमण्डले ऊरू। चटुकारकं पर्ति मा खलु पुत्रि जनहसितं कुरु ॥] प्रवासानन्तरे दन्तक्षतादयो यथा- 'दंतक्खअं कवोले कअग्गहुबेलिओ अ धम्मिल्ठो। पैरिघुम्मिरा अ दिट्ठी पिआगमं साहइ वहूए ।। २२० ।।' [दन्तक्षतं कपोले कचग्रहोद्वेहितश्च धम्मिह्ठः । परिघूर्णनशीला च दृष्टिः प्रियागमं साधयति वध्वाः ॥] प्रथमानुरागानन्तरे नखक्षतं यथा- 'अज्जाइ णवणेहक्खअणिरिक्खणे गरुअजोवणुत्तुंगम्। पडिमागअणिअणअणुप्पलच्चिअं होइ थणवट्ठम् ।। २२१।।' 1915 [आर्याया नवनसक्षतनिरीक्षणे गुरुकयौवनोन्तुङ्गम्। प्रतिमागतनिजनयनोत्पलार्चितं भवति स्तनपृष्ठम् ॥] १. 'प्रथमरागानन्तर दशनक्षत'क., 'प्रथमानुरागानन्तर दशनक्षत' स्. २ 'परि- वेट' क.ख. ३. 'वत्थव्म्मुअसाहापिकिसरिससहीसु साहुली चेअ।' इति देशी- नाममाला, 'साहुली वरां भूर्मुजः शाखा पिकी सटशः सखी चेति सप्तार्थाः' इति सट्टीका च. ४. 'यपव सुठठिम' क., 'स्थमवसट्टिम' स. ५. 'चटुआरभं मा हु पुच्ति' क., 'चटभारअं माइ पुत्ति' स., 'पई' इति नारत्येव क.ख.६. 'जणहासणं' क. ७. 'पविपुम्मिरा' क., 'पडियुम्मिरा अ' स. ८. 'प्रथमानुरागानन्तर'क. ९.'गव- गदक्वणिविक्खणे' स्., 'गवणहकसअणिविरक्खणे' स. १०. 'गमणुप्पद' क.ख.
Page 728
५ परिच्छेद: ।] सरखतीकण्ठाभरणम्। ६३५
अंत्रैव पुरुषायितं यथा- 'दरवेविरोरुजुअलासु मउलिअच्छीसु लुलिअचिउरासु। पुंरिसाइअसीरीसु कामो पिआसु सज्जाउहो बसइ ॥२२२॥' [ईपद्वेपनशीलोरुयुगलासु मुकुलिताक्षीषु लुलितचिकुरासु। पुरुषायितशीलासु काम: प्रियासु सज्जायुघो वसति ॥] सर्व सर्वत्र यथा- 'पोढमहिलाणं जं सुड्ठ सिक्खिअं तं रए सुहावेइ। जं जं अेसिक्खिअं णववहूणं तं तं धिइं देट्ठ ।। २२३ ।।' [प्रढमहिलानां यत्सुष्ठु शिक्षितं तद्रते सुखयति। यद्दशिक्षितं नववधूनां तत्तदुति ददाति ॥] विप्रलम्भपरीष्टिष्वभियोगतः प्रेमपरीक्षा यथा- 'हंहो कण्णुल्लीणा भणामि रे सुहअ कि पि मा जूरै। णिज्जणपारद्धीसु तुए कहिं वि पुण्णेहिं लद्धोसि ।। २२४।।' [हंहो कर्णोछ्ीना भणामि रे सुभग किमपि मा खिद्यसव। निर्जनरथ्यासु त्वं कथमपि पुण्यैर्लब्धो5सि ॥] प्रत्यभियोगतो यथा- 'गोलाविसमोआरच्छलेण अप्पा उरम्मि से मुक्को। अणुअंपाणिद्दोसं तेण वि सा गाढेमुवऊढा ॥ २२५ ॥' [गोदावरीविषमावतारच्छलेनात्मा उरसि तस मुक्तः। अनुकम्पानिर्दोष तेनापि सा गाढमुपगूढा ॥।] १. 'चिहुरास' मुद्रितगाथासप्त० क. २. 'पुरिसाइरीस' इति गायासत०. ३. 'खप मुदावेदि' क., 'रहय मुहावेदि' स. ४. 'जं जेण' ख. ५. 'र' क.खर. ६. 'मा सूर' क., 'मासुर' स. ७. 'पारदीस' स., 'पाणडी रच्छाए' इवि देशीनाममाला. ८. 'कईं पि' ख. ९. 'आढमुवकढा' इति गाथासस०.
Page 729
६३६ 1 काव्यमाला।
विषहणेन यथा- ! 'अजज वि सेअजलोहं पवाइ ण तीअ हलिअसोण्हाए। IF> फम्गुच्छणचिवि्ख(क्ख)हं जं तइ दिण्णं थणुच्छके २२६' 1 [अद्यापि खेदजलार्दितः प्रम्लायते न तसा हालिकस्ुपायाः। फल्गूत्सवकर्दमो यस्तस्या दत्ता: सनोत्सङ्गे ॥] विमर्शेन यथा- 'तत्तो च्चिअ णेन्ति कहा विअसंति तहिं समप्पन्ति। किं मण्णे माउच्छा एकजुआणो इमो गामो ॥। २२७ ॥' [तत एव निर्यान्ति कथा विकसन्ति तत्र तत्र समाप्यन्ते। किं मन्ये मातृष्वसः एकयुवकोऽयं आमः ॥] बहुमानेन यथा- 'तेण इर णवलआए दिण्णो पहरो इमीम थणवट्ठे। गामतरुणीहिं अज्ज वि दिअहं परिवालिआ भमइ ॥ २२८।।' [तन किल दोलाविलासे दतः प्रहार एतसा: खनपृष्ठे। आमतरुणीभिरद्यापि दिवसं प्रतिपालिता अ्रमति ॥] ललाघया यथा- 'सा तइ सहत्थदिण्णं फग्गुच्छणकद्दमं थणुच्छंगे। परिकुविआ इब साहइ सलाहिरी गामतरुणीणम् ।।२२९।' [सा त्वया खहस्तदत्तं फल्गूत्सवकर्दमं सनोत्सङ्गे। परिकुपितेव साधयति श्राघनशीला ग्रमतरुणीनाम् ।] ₹. 'चिक्सहो कदमए' इति देशीनाममाल. २.'होन्ति' इति गायासपशत्यां "भवन्ति' इति तच्छाया च. ३. 'किअसंति' क., 'किभासति' से, ४. 'समत्वन्ति' क., 'समत्यन्ति' स््. ५. 'दिभ' घ. ६. 'सगदरी' घ.
Page 730
५ परिच्छेद: ॥] सरस्तीकण्ठामरणम्। ६३७
इद्रितेन यथा- 'जइ सो ण वलह चिअ णामग्गहणैन तस्स सहि कीस। होइ मुहं ते रविअरफंसविसट्ट व तामरसम् ॥। २३०॥' [यदि स न वहम एव नामग्रहणेन तस सृखि किमिति। भवति मुखं ते रविकरस्पर्शविकसितमिव तामरसम् ॥] दूतसंप्रेषणेन यथा- 'सेउल्लिअसबंगी णामग्गहैणेन तस्स सुहअस्स । दूह अप्पाहेंती तस्से अ घरंगणं पत्ता ।। २३१।' [सेदार्द्रीकृतसर्वाङ्गी नामग्रहणेन तस सुमगख। दूतीं संदिशन्ती तसपैव गृहाङ्गणं प्राप्ता ॥] र्दूतप्रश्ने यथा- 'कह णु गआ कह दिठ्ठा किं भणिआ किं च तेण पडिवण्णं। एअं चिअ ण समप्पइ पुनरुतं जंपेमाणीए ।। २३२।' [कथ नु गता कथ टष्ट कि भणिता कि च तेन प्रतिपन्नम्। एवमेव न समाप्यते पुनरुकत जल्पमानायाः ॥] लेखविधानेन यथा- 'वे विरसिण्णकर ङुलिपरिम्ाहक्खलि अलेहणीमग्गे। सोत्थि च्िअ ण समप्पइ पिअसहि लेहम्मि कि लिहिमो ॥२३३॥'
स्वस्त्येव न समाप्यते प्रियसखि लेखे कि लिखाम: ॥] १.'वलहो व्विअ गोत्तव्गहणेण' गायासप०. २. 'फंसव्विसर्द' गायासप्त, 'फंसविसद' घ. ३. 'गोत्तम्गहणेन' गांयासप्त०. ४. 'हूर'(!) क. दूतमिति भवेत्, ५. 'पट्ठापन्ती' गाथासप्त०, 'प्रखथापयन्त्ी (संदि शन्ती वा)' इति च्छाया च. 'संदिद् अप्पाहियम् इवि धन- पालस्व 'पाइयळच्छी' इति नाममाला. ६. 'दूतप्रस्षेन' क.ख. ७.'दिट्ठी' क. ८. 'पदि- वअ्रण'क .. ९. 'अंपमाणाए' घ., १०. 'वेविरिसिण्ण' क्., 'वेविरिसिस' ख. ११.'प- रिगइक्खलिट' घ., 'परिमाइक्खसिअ' इति मुद्रितगायाससo. १२.'व्वम'गायाससक
Page 731
काव्यमाला।
लेखवाचनेन यथा- 'प्रीत्या खस्तिपदं विलोकितवती स्थानं स्तुंतं तुष्टया पश्चाज्ज्ञातमनुक्रमेण पुरतस्तत्तावकं नामकम्। तन्व्या संमदनिर्भरेण मनसा तद्वाचयन्त्या मुहु- र्न प्राप्तो घनवाष्पपूरितदृशा लेखेडपि कण्ठग्रहः ।।२३४।' संभोगपरीष्टिषु प्रथमानुरागानन्तरे साध्वसेन पुंसो यथा- 'लीलाइओ णिअसणे रक्खिउ तं राहिआइ थणवट्टे। हरिणो पढमसमागमसज्झेसवसरेहिं वेविरो हत्थो॥ २३५ ॥ [लीलायितो निवसने रक्षतु त्वां राधिकायाः सनपृष्ठे। हरिणः प्रथमसमागमसाध्वसप्रसरैरवेपनशीलो हस्तः ॥] ।अत्रैव दोहदेन मुग्घाया यथा- 'कि किं दे पडिहासइ सहीहि" इअ पुच्छिआईँ मुद्धाइँ। पदमुल्लअदो्हेलिणीअ णैवरि दइअं गआ दिट्ठी ।। २३६ ।।' [किं किं ते प्रतिभासते सखीभिरिति पृष्टाया मुग्घायाः । प्रथमोद्गतदोहदिन्याः केवलं दयित गता दृष्टिः ॥] अत्रैव प्रगल्मायाः प्रियवार्क्यवर्णनेन यथा- 'हुंहुं हे" भणसु पुणो ण सुअंति करेइ कालविक्खेअं। घरिणी हिअअमुहाइं पइणो कण्णे भणंतस्स ।। २३७ ।।' [हुंडुं हे भण पुनर्न स्वपन्ति करोति कालविक्षेपम्। गृहिणी हृदयसुखानि पत्युः कर्णे भणतः ॥I] १. 'ध्रुतं' स. २. 'सन्झसवरेदि' क. ३. 'पुच्छिआए मुदार' गायासप्त० क.स. x. 'पदमुग्गमदोदणीए' इति गायासप०, 'पटमुलुअहलिदोणीए' क, 'पढमुह्अ- भगम' क.ल. दोइलिगीए' स. ५. 'णवर' गाधासस० ६. 'प्रियवाक्यवर्णनं यथा' क.ख. ७. 'दे
Page 732
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ६३९
मानानन्तरे स्त्रियाः कैतवसमरणेन यथा- 'भरिमो से सअणपरम्मुहीअ विअलंतमाणपसराए। केअवसुत्तुबत्तणथणहरपेल्लणसुहेलिम् ॥ २३८॥ [सरामस्तस्याः शयनपरामुख्या विगलन्मानप्रसरायाः । कैत वसुप्ोद्वर्तनस्तनभरप्रेरणसुख केलिम् ॥] स्ति्रिया एव सखीवाक्यस्याक्षेपेण यथा- 'मिउडीओ पुलोइस्सं णिव्म्च्छिस्स परम्मुही होस्सम्। जं भणह तं करिस्स सहिओ जइ तं ण पेच्छिस्सम् २३९' [भकुट्धा प्रलोकयिष्ये निर्मत्सें पराच्ुखीभविष्यामि । यद्धणत तत्करिष्ये सख्यो यदि तं न प्रेक्षिष्ये ॥] "। तस्या एव तदनुष्ठानविश्नेन यथा- 'अ्रन्थिमुद्गथयितुं हृदयेशे वाससः स्पृशति मानधनायाः । अ्रयुगेन सपदि प्रतिपेदे रोममिश्र सममेव विभेद: ॥२४०॥ प्रवासानन्तरं स्त्रिया यथा- 'अंच्छ कागअहिअए बहुआ दइअम्मि गुरुपुरओ। जूरइ विअलंताणं हरिसविसट्टाण वलआणम् ।। २४१ ।।' [अकस्मादागतहृदये वधूका दथिते गुरुपुरतः । कुध्यति विगलज्यो हर्षविकसच्यो वलयेभ्य: ॥]
१. 'केतवसवमे यथा-' क.ख.२. 'करअवमुत्तव्वत्तणयणकलस' गाथासप०, 'कर- अवसुत्तुष्वत्तणथणहर' क., 'कहअवसुलुव्यत्तणत्यानहर' स. १. 'भिउडीहिं' क.स. ४. 'गिम्मण्छिरस' क. ५. 'प्रवासानन्तरे' क.ख. ६. 'अत्थका' क.ख. ७. 'दह- अउम्मि जणपुरओ क.ख. ७, 'ऊरर' क.ख. ९. 'विसदाण' ख.
Page 733
६४० काव्यमाला।
अत्रैव स्त्रीपुंसयोर्यथा- 'रमिऊण पंअम्मि गए (ओ)जाहे अवऊहिउं पडिनिवुत्तो। अहअं पउत्थैपइअव्व तक्खणं सो पवासिच्व ।। २४२ ।।' [रत्वा पद्मपि गतो यदोपगूहितुं प्रतिनिवृत्तः । अहं प्रोषितपतिकेव तत्क्षणं स प्रवासीब ।।] सामान्यत एव प्रवाससाध्वसेन स्त्रिया यथा- 'होंतपहिअस्स जाआ आउच्छणजी अधारणरहस्सम्। पुच्छन्ती भमइ घरं धरेण पिअविरहसहिरीओ ॥ २४३ ॥ भविष्यत्पथिकसय जाया आपृच्छनजीवधारणरहसम्। पृच्छन्ती भ्रमति गृहं गृहेण प्रियविरहसहनशीलाः ॥] र्प्रवासविलम्बेन पुंसो यथा- 'एको वि कालसारो ण देइ गंतुं पआहिण वलैन्तो। कि उण वाहाउलिअं लोअणजुअलं मिअच्छीए।। २४४।।' [एकोऽपि कृष्णसारो न ददाति गन्तुं प्रदक्षिणं बलन्। किं पुनर्बाष्पाकुलित लोचनयुगलं मृगाक्ष्याः ।।] परिहारे खेदादिभि: स्त्रिया यथा- 'उल्लाअइ से अंगं ऊरू वेवन्ति कूवलो गलइ। उच्छुच्छुलेइ हिअअं पिआअमे पुप्फवइआई॥। २४५ ॥' II : [आर्द्रीभवत्यसा अङ्गमूरू वेपेते जघनवसनं गलति। उत्कम्पते हृदयं प्रियागमे पुष्पवत्याः ॥] १. 'पअं पि गओ' इति गायासम्त०, 'पदमपि गतः' इति च्छाया., 'पइम्मि गए' क.ख.ग. २. 'पडिनिउच्ो' क.स., गाथासपत ०.३. 'पउत्थपहआा न्य' इति गायासम0 ४. आपृच्छनं गमनप्रक्तः मिये याम्यहमित्येवंरूपः। 'जीव' क.ख. ५. 'सिदधिरीओ' क., 'सिददिरीआ' स्. ६. 'प्रवासविलम्बेनैव' क.ख. ७. 'वसन्तो' स. ८. 'पिभभमाए' गायासप०, 'मअच्छीए' क.ख.ग.घ. ९. 'कूबलं जषणवसणे' इति देशीनाममाला. १०. 'सुद्धु पले' क., 'छुच्छुरा(प)ढे' ख. ११. 'पुफुरनाप' क., 'पुष्फइमाइए' स.
Page 734
५ परिच्छेदः I] सरसतीकण्ठाभरणम्। ६४१
करुणानन्तरं पुंसो यथा- 'करस्पर्शारम्भात्पुलकितपृथूरोजकलशे श्रमाम्भो वामार्घे बहति मदनाकृतसुभगम्। विभोर्वारिंवारं कतसमधिकोद्लनविधे- सनौ भस्मस्ानं कथमपि समाप्तं विजयते॥ २४६॥ विप्रलम्भनिरुक्तिषु प्रथमानुरागे प्रतिश्रुत्यादानं यथा- 'किं भैणिओसि ण वालअ गामणिधूआई गुरुअणसमक्खम्। अणिमिसवंकेवलंतअआणणणअणद्धदिद्ठेहिं ॥ २४७।' [किं भणितोऽसि न बालक ग्रमणीदुहित्रा गुरुजनसमक्षम्।
अत्र वक्रेक्षितादिभिः प्रतिश्ुत्यालिङ्गनादयो ह्ीमयादिमिर्न दीय- न्ते। माने विसंवादनं यथा- 'अण्णुअ णाहं कुविआ उवऊहर्सु किं मुहा पसाएमि। तुह मण्णुसमुप्पण्णेण मज्झ माणेणें विण कज्जम् ॥ २४८॥ [अज्ञ नाहं कुपिता उपगृह्स्व किं मुधा प्रसादयामि। तब मन्युसमुत्पन्नेन मम मानेनापि न कार्यम् ॥] अत्र मानिनी पूर्वमालिज्जनादीन्निषिध्य पश्चादयथावत्मयच्छति यथा कश्चिदष्टी शैंतानि प्रदास्यामीति प्रतिश्रुत्याष्टभिरधिकं शतं प्रय- १. 'करस्पर्शारम्मोतपुलकित' क.स्र. २. 'समयिकोडूननविधेः' क.ख. ३. 'कि ण भणिओसि' गाथासप्त०, क.ख.४. 'गामणिधूआइ' क.ख. ५. 'अणिमिसमीसीसिव- लन्तवमण' गाथासस० 'अनिमिषमीषदीषदलददन' च्छावा च. ६. 'वअण' क.ख. ७. 'वक्रेक्षितादिमि:' ग.घ., 'वक्तेक्षितादिमिः' स. ८. 'उबहुमु' क.ख., 'उव- डुहसु' ग. ९. 'माणेणावि' ग. १०. 'अष्टशतम्' क.स. ११. 'अटटामिः' क.ख. ४१ स० क०
Page 735
६४₹ काव्यमाला।
च्छति न त्वष्टौ शतानीति। तदेतव्यलीकेविप्रियादिमिरालिग्गनादीनां निराकरणमयथावत्पदानत्वाद्विसंवादनमेवोच्यते॥ प्रवासे कालहरणं यथा- 'एहिं सो वि पउत्थो अहअं कुप्पेज्ज सो वि अणुणेज्। इअ कस्से वि फलइ मैणोरहाणँ माला पिअअमम्मि॥२४९' [एष्यति सोऽपि श्रोषितोऽहं कुपिष्यामि सोऽप्यनुनेष्यति। इति कसापि फलति मनोरथानां माला प्रियतमे ॥] अत्रालिक्रनादीनां व्यक्तैव कालहरणप्रतीतिः ॥ करुणे प्रत्यादानं यथा- 'समसोक्खदुक्खपरिवद्गिआणँ कालेण रूढपेम्माणं। मिहुणाणँ मरइ जं तं खु जिअइ इअरं मुअं होइ ।।२५०॥ [समसौख्यदुःखपरिवर्धितयोः कालेन रूढग्रेम्णोः। मिथुनयोर्ग्रियते यत्तत्खल जीवतीतरन्मृतं भवति ॥] अत्र- 'सुहृदिव प्रकटय्य सुखप्रदः प्रथममेकरसामनुकूलताम्। पुनरकाण्डविवर्तनदारुण: प्रैविशिनष्टि विधिर्मनसो रुजम् २५१' इत्ययमर्थः संबध्यते। तस्य च प्रत्यादानमेवार्थो भवति ॥
१. 'विप्रयोगादिमिः' क.ख. २. 'एहर' गाथासप्त०. ३. 'वि' क.ख. ४. 'अहं अ' गायाससत०. 'अह च' इति चछाया च. ५. 'वि' क.ख. नास्त, ६. 'इअफलर कस्म वि' क.स.७. 'मणोरदाण' क.ख.ग., 'मनोरहाण' घ. ८. 'समवठ्ठिआण' क., 'समबट्टआण' स्.ग., 'समवटटिआाण' घ. ९. 'स्टपेम्माण' क.प. १० 'भिट्ु- णाण' घ. ११. Dr. R.G. Bhandarkar सैंपादिते मालवीमाधने 'विधिरहो विशिनष्टि मनोरुजन् इत्यपि पाठ :.
Page 736
५ परिच्छेदः I] सरखतीकण्ठाभरणम्। ६४३ प्रथमानुरागे वर्श्चनमात्रं विविधं यथा- 'दिट्ठाई जं ण दिट्ठो आँलविआए वि जं ण आलत्तो। उवआरो जं ण कओ तं चिज कलिअं छइलेहिं ॥ २५२॥ [दथ्या यत्र ृष्ट आलपितया यन्नालापितः । उपकारो यच्र कृतस्तदेव कलितं विदग्धैः ॥] अत्र ब्रीडादिमिरेदर्शनादिभिर्वर्श्चनादिभिवैविध्यं प्रतीयते॥ माने विरुद्धं यथा- 'ण मुअंति दीहँसासे ण रुअंति ण होन्ति विरहकिसिआओ। धण्णाओं ताओं जाणं बहुवल्ह वलहो ण तुमम् ॥ २५३ ॥ [न मुखन्ति दीर्घश्वासान् न रुदन्ति न भवन्ति विरहकृशाः। धन्यास्ता यासां बहुवलम वलभो न त्वम् ।]
प्रवासे व्याविद्धं यथा- 'कइआ गओ पिओ अज्ज पुत्ति अज्जेण कइ दिणा होंति। एक्को एद्दहमेत्ते भणिए मोहं गआ कुंवैरी॥ २५४ ॥' [कदा गतः प्रियोऽय पुत्रि अद्येति कति दिनानि भवन्ति। एक एतावन्मान्रे भणिते मोहं गता कुमारी॥] अत्रैकस्यापि दिवसस्य वर्षायमाणतया विशेषतो दैर्ध्य प्रतीयते॥ १. 'वजनं' क. २.'दिठ्ठाप' क.ख. ३. 'िठ्ठा' स. ४. 'विअर' ग. ५. 'दर्शना- दिभिः' क.स्. नास्ति. ६. 'वज्नामिः' ख. नास्ति. ७. 'दीहसार्स' गाथासम्त०. ८. 'चिरण होन्ति किसिआओ' इति गाथासप्त०, ९. 'पद्हमेत्ो' क.ख., 'पद्दहमत्ते' व. १०. 'वाला' क.ख. ११. 'वर्षायमानत्या' क.ख. १२. 'प्रियालिकनादिषश् नया' इत्यधिकं क.ख.
Page 737
६४४ काव्यमाला।
करुणे निषिद्धं यथा- 'आवाअभअअरं चिअं ण होइ दुक्खस्स दारुणं णिवहणेम्। णाह जिअन्तीअ मए दिद्वं सहिअं अ तुह इमं अवसाणम् ॥।' [आपातमयंकरमेव न भवति दुःखस दारुणं निर्वहणम्। नाथ जीवन्त्या मया हष सोढं च तवेदमवसानम् ॥] तदेतद्रामविषये सीतायाश्िराशंसितसमागमसुखावाप्तिव्यपायरूपं वचनं करुणे निषिध्यते।। प्रथमानुरागेण सह रागो यथा- 'सा महइ तस्स प्हाउं अणुसोत्ते सोवि से समुव्वहइ। थणवद्टमिडणविलुलिअकलोलमहग्घिए सलिले॥२५६॥ [सा वा्छति तस स्नातुमनुस्रोतसि सोऽप्यस्ाः समुद्वहति। स्तनपृष्ठमिलनविलुलित कछोलमहार्घिते सलिले ॥] अत्र द्वयोरप्येककालमन्योऽन्यानुरागः प्रतीयते तत्रैका लावण्या- दिना रज्यतेऽन्यः स्नेहादिनेति॥ तत्रैव पश्चाद्यथा- 'मामि हिअअं व पीअं तेण जुआणेण मज्जमाणाए। प्हाणहर्लिद्दाकडुअं अणुसोत्तजलं पिअंतेण ॥। २५७ ।।' [मातुलानि हृदयमेव पीतं तेन यूना मज्जमानायाः । स्नानहरिद्राकटुकमनुस््रोतोजलं पिबता ॥] अत्रैकस्यानुरागं दृद्दा पश्राद्वितीयो रज्यते॥
१. 'विम' स. २. 'अवसाण' क.स. २. 'मज्जमाणीए' क.ख. ४. 'ह- लद्दा' क.ख.
Page 738
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ६४५
तत्रैवानुरूपो यथा- 'सचं जाणइ दहुं सरिसम्मि जणम्मि जुज्ए राओ। मरउ ण तुमं भणिस्सं मरणं वि सेलाहणिजं से ।।२५८।' [सत्य जानाति द्रह्डं सदशे जने युज्यते रागः । त्रियतां न त्वां भणिष्यामि मरणमपि क्षाघनीयमस्याः ॥] अत्र न केवलं लावण्यादिनैव रज्यते किं तर्ह्यनुरूपविषयिणामिला- षेणापीति प्रतीयते।। तत्रैवानुगतो यथा- 'गहवइसुएण समअं सचं अलिअं व कि विआरेण। धण्णाइ हलिअकुमारिआइ जणम्मि जणवाओ॥ २५९ ॥' [गृहपतिसुतेन समकं सत्यमलीकं वा किं विचारेण। धन्याया हालिककुमारिकाया जने जनवाद: ॥] अत्र यद्यपि सौभाम्यादिप्रसिद्धिकृतसारूप्यं न विद्यते तथापि त्रिया उत्तमप्रार्थनमगर्हितत्वादनुगतमेव भवति। सोडयं करणसाधनोत्पत्तिपक्षे उक्तः । भावसाधनपक्षे तु सहार्थादिविशिष्टा रतिर्दीप्तिर्वानुरागशब्देनो- च्यते। प्रंथमं चोपजायमानत्वादयं प्रथमानुराग इति प्रेथते । माने मान्यते येनेति यथा- 'पाअपडणाणँ मुद्धे रहसवलामोडिअचिअव्वाणम्। दंसणमेत्तैंपसिज्जिरि चुक्का बैहुआण सोक्खाणँ ॥ २६० ॥' १. 'अनुरूप' क.ख. २. 'मरण वि' गाथासप्त०, 'मरणमपि' घ. ३. 'विम- रेर' क.ख. ४, 'उमारिभाइ' क. ५. 'जणवादे' ध. ६. 'आनुरूप्यं' क.ख, ७. 'कर- गसाधारणसायनोत्पत्ति' क., 'करुणसाधारण' ख. ८.'सवत्र' इत्यधिकं क.ख. ९. 'प्रथते' इत्वस्य खाने 'प्रथमतो' इत्यत्रे संबद्धमास्ते' क.ख. १०. 'प्रथमतो माने' क., 'प्रथमतो मान: मान्यते' ख. ११. 'बलामोडिचुम्बििअब्जाणं' गायासप०, 'बला- र्कारचुन्बितव्यानाम्' इति चछाया च., 'अम्ताण' स. १२.'पसण्णे' इति गायासस० १३. 'मुदाण बडुआणम्' गाथासस०.
Page 739
६४६ काव्यमाला।
[पादपतनानां मुग्घे रमसबलात्कृतार्चितव्यानाम्। दर्शनमात्रप्रसादनशीले भ्रष्टा बहूनां सौखयानाम् ॥] अत्र 'मान पूजायाम्' इति घातोः खार्थिकणिजन्ताण्णिचि घजि च मान इति रूपम्। से हि प्रेयांसमस्याः पादपतनादिपूजायां प्रयोजयति ॥ यं प्रियत्वेन मन्यते यथा- 'कारणगहिओ वि मए माणो एमेअ जं समोसरिओ। अत्थक्प्फुल्लअंकोल तुज्झ तं मत्थए पडउ ॥ २६१ ॥' [कारणगृहीतोऽपि मया मान एवमेव यत्समुपसृतः । अकसमात्फुहिताकोछ तब तन्मस्तके पततु ॥] अत्र 'मन ज्ञाने' इति धातुः। तथा हि मानं प्रियत्वेन मन्यमाना तदपहारिणेSक्ोलाय कापि मानिनी कुप्यति॥ यः प्रेम मनुते यथा- 'जत्थ ण उज्जागरओ जत्थ ण ईसाविसूरणं माणम्। सैव्भावचाटुअं जत्थ णत्थि णेहो तहिं णत्थि ॥ २६२॥' [यत्र नास्त्युज्जागरको यत्र नेर्ष्याखेदी मानः । सद्धावचादुकं यत्र नास्ति स्रेहस्तत्र नास्ति ॥] अत्र 'मनु अवबोघने' इति धातुः। मानेन हि जनः प्रेमास्ति नास्ति वेति बुध्यते । तस्य च करणभूतस्यापि प्राधान्यादत्र कर्तृत्वोप- चारः । तद्यथा 'प्रज्ञा पश्यति नो चक्षुर्दृष्टिः सारखती हि सा।' इति॥
१. 'साये' क.स्त्र. २. 'स मानः' घ. २. 'फुद्ि' क.ख.ग. ४. 'कामिनी' ख. ५. 'सम्बा व चाहुअं' क., 'सम्वाव बाहुअं' स. ६. 'जनो वुष्पते' क.ख.
Page 740
५ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ६४७
प्रेम मिमीते यथा- 'कुविआ अ सच्चहामी समे वि बहुआण णवर माणक्खलणे। पाअडिअहिअअसारो पेम्मासंघसरिसो पअदृइ मण्णू ॥२६३।' [कुपिता च सत्यभामा समेऽपि बन्धूमां केवलं मानस्खलने। प्रकटितहृदयसार: प्रेमाश्वाससदशः प्रवर्तते मन्युः ॥] अत्र 'माड् माने' इति घातोः 'कृत्यल्युटो बहुलम् ३।३।११३' इति कर्तरि ल्युट्। 'कोऽसावनुमान' इति भाष्यप्रयोगात्। तेन च यद्यपि करणभूतेनैवात्मनि रुक्मिण्यां च प्रियप्रेम्णः परिमाणं सत्यभामा प्रत्याययति तथापि पूर्ववदिहाप्ययं पूर्ववत्कर्तृत्वेनोपचर्यते॥ प्रवासे वसत इत्युपलक्षणेनात्मानमञ्जना न भूषयन्ति यथा- 'साहीणे वि पिअअमे पत्ते वि खणे ण मण्डिओ अप्पा । दुक्खिेअपउत्थवइअं सअर्ज्जिअं संठवंतीए ।। २६४ ।।' [स्ाधीनेऽपि प्रियतमे प्रासेऽपि क्षणे न मण्डित आत्मा। दुःखितप्रोषितपतिकां प्रतिवेशिनी संस्थापयन्त्या ।] अत्र 'वस आच्छादने' इत्यस्य 'प्रस्मरति' इत्यादिवन्निषेघार्थकप्- पूर्वस्य घंजि प्रवास इति रूपं निरूप्यते।। युवानः प्रियासंनिधौ न वसन्ति यथा- 'विरहाणलो सहिज्जइ आसाबंघेण वल्लहजणस्स । एक्कग्गामपवासो माए मरणं विसेसेइ ॥ २६५ ॥' [विरहानल: सह्यत आशाबन्घेन वलमजनस। एकग्रामप्रवासो मातर्मरणं विशेषयति ॥] १. 'ऊविभा' क. २. 'सचदासा' क. ३. 'पूर्ववत्कर्तृत्वेनोपयुज्यते' स. ४. 'ना- रमानमहना भूपयन्ति' स. ५. 'दुग्गअपउत्थवरज' गायासप०, 'दुर्गतम्रोपितपतिका' इति च्छाया च. ६. 'सअग्झिज' गायासप०, ७. 'षभि च' क. स, ८. 'प्रवास' स्र. नास्ति. ९. 'दुहहनणस्य' क.स.
Page 741
६४८ काव्यमाला।
अत्र दूरस्थयोरिवान्तिकस्थयोरपि संनिकर्षाभावात्मवासो भवति॥ उत्कण्ठादिभिश्चेतो वासयति यथा- 'आलोअंते दिसाओ ससंत जंमंत गंत रोअन्त। मुज्झंत पेडंत हसंत पहिअ किं ते पउत्थेण ॥ २६६ ।' [आलोकयन् दिशः श्वसन् जुम्भमाणो गायन् रुदन्। मुह्यन् पतन् हसन् पथिक किं तेन प्रोषितेन ॥I] अत्रोत्कण्ठादिमिर्वासिते चेतसि शून्यावलोकनादयोऽनुभावा जायन्ते॥ प्रमापयति यथा- 'संजीवणोसहिर्म्मिव सुअस्स रक्खइ अणण्णबावारा। सासू णवम्भदंसणकंठागअजीविअं सोण्हम् ॥ २६७ ।' [संजीवनौषधिमिव सुतस रक्षत्यनन्यव्यापारा।
अत्र प्रसादं करोतीत्यादिवत्प्रमापणोपक्मोSपि प्रमापणमुच्यते॥ करुणे करोतेर्भूतोपादनार्थत्वे कुरुते मूच्छी यथा- 'विअलिअंविओअविअणं तक्खणपव्भट्ठराममरणाआसम्। जणअतणआइ णवरं लद्धं मुच्छाणिमीलिअच्छीअ सुहं २६८' [विगलित वियोगवेदनं तत्क्षणप्रभ्नष्टराममरणायासम्। जनकतनयया केवलं लब्धं मूर्च्छानिमीलिताक्ष्या सुखम् ॥] अत्र सीतायाः पतिशोकप्रकर्षेणाभूता मूर्च्छोत्पद्यते॥ १.'आलोअन्ति' क.स. २. 'जम्मन्त' (!) गाथासप०. २. 'मुच्छन्त' गाथासप्त० ४.'पढन्त सलन्त' घ.५.'उत्कण्ठादिनिर्वासिते' क.६.'संजीवणोसहम्मिव' गायासप्त० ७. 'पिलस्स' क.स.८.'करोवेरनुभूतोपादानार्थले' क.ख., 'करोतेरभूतोत्पादनार्थले' घ. ९. 'विसरिज विभोअदुक्खं' सेतुबन्धे पाठः., 'विस्मृतवियोगदु:खं' इति च्छाया च. १०. 'पम्मद्ठ' सेतुबन्धं, 'पम्बट्ठ' क., 'पम्हन्व' ग. ११. 'प्रकर्षेण भूता' क.
Page 742
५ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ६४९
उच्चारणार्थत्वे कुरुते विलापं यथा- 'पुहवीअ होहिइ पई बहुपुरिसविसेसचंचला राअसिरी। कह ता महच्चिंअ इमं णीसामण्णं उवैट्ठिअं वेहव्वम् ॥ २६९ ।' [प्ृथिव्या भविष्यति पतिर्बहठपुरुषविशेषचथ्चला राज्यलक्ष्मीः । कथं तन्ममैवेदं निःसामान्यमुपस्थितं वैधव्यम् ॥] अत्र रामदुःखेन विलपन्ती सीतेदेमुच्चरति।। अवस्थापनार्थे कुरुते साहसे मनो यथा- 'इयमेत्य पतञ्ञवर्त्मना पुनरङ्वाश्रयिणी भवामि ते। चतुरैः सुरकामिनीजनैः प्रिय यावन्न विलुप्यसे दिवि ॥२७०॥ अत्र रतेः कामशोकेन मरणसाहसे मनोऽवस्थाप्यते॥ अभ्यञ्जनार्थत्वे करोति चित्तं दुःखेन यथा- 'दलति हृदयं गाढोद्वेगं द्विंा तु नैं भिद्यते वहति विकल: कायो मोहं न मुञ्चति चेतनाम्। ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ।।२७१।' अत्र रामादेर्दुःखेन चित्तमभ्यज्यते॥ संभोगनिरुक्तिषु प्रथमानुरागानन्तरे पालनीर्थो यथा- 'दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता शय्यायां परिवृत्य तिष्ठति बलादालि्विता वेपते। १. 'होइटि' क.ख.ग., 'होहिर' सेतुबन्धे, 'होइ' घ. २. 'मह चित्र' सेतुबन्धे. ३. 'उभ्रत्थिअं' सेतुबन्धे, 'उभटिअ' ग. ४. 'अत्र प्रवासदुःखेन' क.ख. ५. 'सीता विलपन्ती' क.ख., 'सीता' ग. नासित. ६. 'अवस्थापनार्थले' क.ख.ग. ७. 'अदमेल्य' मुद्रितकुमारसंभवे. ८. 'विलोभ्यसे' मुद्रितकुमारसभने, ख्र. ९. 'शोकोदेगाद्' मुद्रित उत्तररामचरिते. १०.न तुभियते'क.खर. ११.'बामादेः' ग.घ. १२.'पालनायें' घ.
Page 743
६५० काव्यमाला।
निर्यान्तीषु सखीषु वासभवनान्निगन्तुमेवेहते बाला वामतयैव संप्रति मम प्रीत्यै नवोढा प्रिया ॥२७२' अत्रापागल्म्यवामताभ्यामनुकूलायामपि नवोढायामिच्छानुवृत्त्या रतिः पाल्यते।। मानानन्तरे कौटिल्याथॉ यथा- 'पादे मूर्धनि ताम्रतामुपगते कर्णोसपले चूणिते छिन्ने हारलतागुणे करतले संपातजातत्रणे। अप्राप्तप्रियताडनव्यतिकरा हन्तुं पुनः कोपिता वाञ्छन्ती मुहुरेणशावनयना पर्याकुला रोदिति॥२७३॥' अत्र प्रेम्ण: खमावकुटिलत्वान्मानवत्याः कचग्रहणेन यत्पादताडना- दिरूपा: कुटिला एव संभोगा जायन्ते।। प्रवासानन्तरेSभ्यवहाराथों यथा- 'वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात्। पपौ निमेषालसपक्ष्मपक्किरुपोषिताभ्यामिव लोचनाभ्याम् ।।२७४।।' अत्र उत्तरार्धेनोपोषितस्यान्नोपयोग इव प्रियालोकजन्मा पिबतेरभ्य- वहार: केथ्यते।। करुणानन्तरेSनुभवार्थो यथा- 'अणुमरणपत्थिआए पच्चागअजीविए पिअअमम्मि। वेहबमंडणं कुलवहूअ सोहग्गअं जाअम् ॥ २७५॥ [अनुमरणप्रस्थितायाः प्रत्यागतजीविते प्रियतमे। वैधव्यमण्डनं कुलवध्वाः सौभाग्यकं जातम् ॥] १. 'मेडब सुतरा' इति मुद्िवे नागानन्दपुस्तके. २. 'पयाकुर्ल' क.ख. ३. 'कुटिला एव जायन्ते' क., 'कुटिला एव संभोगा आयने' स. ४. 'उत्तरायें' क.स. ५. 'अभ्यवदारायेः' स. ६. 'जीपम्मि' क., 'जीविपम्मि' ख.
Page 744
५ परिच्छेदः ।] सरसतीकण्ठामरणम्। ६५१ अत्र यथेयं मत्ाणभूतैवमस्या अहमपि जीवितमेवेति पत्या विस्त्र- म्भजोऽनुरागः पत्र्याः पुनः प्रेत्यापि यत्संगमो मयामिलषितः सोऽयं जीवन्त्यैव जीवितेश्वरः समासादित इति विस्त्रम्भाद तिसुखमेवानुभूयते॥ अत्र प्रथमानुरागानन्तरे संभोग: संक्षिप्तो यथा- 'अपेतव्याहारं धुतेविविधशिल्पव्यतिकरं करस्पर्शारम्मप्रगलितदुकूलान्तशयनम्। मुहुर्बद्धोत्कम्पं दिशि दिशि मुहु: प्रेरितदृदशो- रहल्यासुत्राम्णोः क्षणिकमिह तत्संगतमभूत्। २७६॥' अत्र संक्षेपो निगदेनैव व्याख्यायते॥ स एव मानानन्तरे संकीर्णो यथा- 'अणुणिअखणलद्धसुहे पुणो वि संभरिअ मण्णुदूमिअविहेले। हिअए माणवईणं चिरेण पणेअगरुओ पसम्मई रोसो २७७' [अनुनीतक्षणलब्धसुखे पुनरपि संस्मृतमन्युदूनितविडले। हृदये मानवतीनां चिरेण प्रणयगुरुकः प्रशाम्यति रोषः ॥] अत्रावस्थिता प्रकृष्टा च रतिर्व्यलीकस्मरणादिभि: संकीर्यते॥ प्रवासानन्तरे संपूर्णों यथा- 'शापान्तो मे भुजगशयनादुस्थिते शार्ङ्पाणौ मासानेतान्गमय चतुरो लोचने मीलयित्वा। पश्चादावां विरहगुणितं तं तमात्मामिलाषं निर्वेक्ष्यावः परिणतशरचन्द्रिकासु क्षपासु ॥२७८ ॥'
१. 'रागः' क.स. २. 'च्युतविविध' क.स्र. ३. 'करस्पर्शरम्मे' क. ४. 'बिहलो' क. ". 'पमणगरओो' स. ६. 'संपूर्णा' क.ख, ७. 'श्रेषान्मासान्' मुद्रिते मेघदूते.
Page 745
६५२ काव्यमाला।
अत्रामुना विरहिवाक्येनापि निर्वेक्ष्याव इति भविष्यत्कालोपाघे: प्रवासानन्तरेSप्यविरुध्यमानेन तं तमात्माभिलाषमित्यादिना तदानीन्त- नसंमोगैस्य संपूर्णत्वं वर्ण्यते। करुणानन्तरे समृद्धो यथा- 'तीथें तोयव्यतिकरभवे जहुकन्यासरय्वो- र्देहत्यागादमरगण नालेख्यमासाद्य सदयः । पूर्वाकाराधिकतररैचा संगत: कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥ २७९ ॥ अत्रोत्तरार्धेनेन्दुमत्यजयोलोंकान्तरप्रत्युज्जीवनेन संभोगसमृद्धि: प्रति- पादते।। प्रथमानुरागानन्तरे सहार्थान्वयो यथा- 'मुहपेच्छओ पई से सावि हु पिअरूअदंसणुम्मइआ। दो वि कअत्था पुहेवि अपुरिसमहिलं ति मण्णंति ॥।२८०। [मुखप्रेक्षकः पतिस्तसाः सापि खलु प्रियरूपदर्शनोन्मत्ता । द्वावपि कृतार्थीं पृथिवीमपुरुषमहिलेति मन्येते ॥] अत्र पूर्वार्धे रज्जयत्यर्थ उत्तरार्घे राजत्यर्थः प्रथमानुरागे सह भावेन सिद्धसतदनन्तरेSपि तथैवानुवर्तते॥ तत्रैव पश्चादर्थान्वयो यथा- 'अद्य प्रभृत्यवनताक्जि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ। १. 'प्रनेशानन्तरे' क.ख. २. 'मोग्यस्य' क.ख. ३. 'पूर्वाकाराषिक चतुरया' Mr.S.P.Pandit M.A. संपादिते रयुबंशे, क.ग.घ. ४. 'सविसेसद- सणुम्मइआ' इति गाथासम० ५. 'पुहई' इति गायासमo. ६. 'अमहिलपुरिस व' इति गायासम०. ७. 'सिद्धमावेन सिद्ध:' क.ख.
Page 746
५ परिच्छेदः ॥] सरखतीकण्ठाभरणम्। ६५३
अहाय सा नियमजं क्ममुत्ससर्ज क्ेशः फलेन हि पुनर्नवतां विघते ॥ २८१ ॥' अत्र रक्जयत्यर्थः प्रथमानुरागे पुंसि पश्चाद्धावेन सिद्धस्तदनन्तरेऽपि तथैवानुवर्तते॥ अत्रैवानुरूपार्थान्वयो यथा- 'शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जहुकन्यावतीर्णा। इति समगुणयोगप्रीतयस्तत्र पौरा: श्रवणकटु नृपाणामेकवाक्यं विवन्ः ॥ २८२ ॥' अत्र राजत्यर्थः प्रथमानुरागे स्त्रीपुंसयोरप्यानुरूप्येण सिद्धस्तदन- न्तरेऽपि तथैवानुवर्तते॥ तत्रैवानुगतार्थान्वयो यथा- 'सथाने तपो दुश्चरमेतदर्थमपर्णया पेलवयाभितप्तम्। या दास्यमप्यस्य लमेत नारी सा स्यात्कृतार्था किमुताङ्कशय्याम्।।२८३।।' अत्र पूर्वाषें रज्जयत्यर्थः प्रथमानुरागेऽनुगतार्थत्वेन सिद्धस्तदनन्तरे तथैवानुवर्तते। सोऽयं करणसाधनः प्रत्ययोत्पत्तिपक्ष उक्तः। भावसा- धनपक्षे तु सर्वत्र सहार्थादिविशिष्टा रतिर्दीप्तिर्वानुरागशब्देनोच्यमाना तदनन्तरेऽपि समाससामथ्यादनुवर्तते। कः पुनरत्र समासः। पष्ठील- क्षणस्तत्पुरुषः । प्रथमानुरागस्यानन्तर्रेंः प्रथमानुरागानन्तर इति। का च वृत्तिः । अजहत्खार्था न ह्यत्र नायकौ मिथः समागतावपि प्रथमानुराग- मुत्सृजतः । युक्तं पुनर्यदजहत्ार्था परार्थाभिधानरूपा वृत्तिः स्वात्, १. 'पेलवयापि तप्त' इति मुद्रिते कुमारसंभवे, 'पेलव्याधितपं' क. २. 'प्रथमानु- गतार्थलेन' स. ३. 'करणसाधनः' स. ४. 'इति' इत्यषिकमत्रास्ति क.ख.
Page 747
६५४ काव्यमाला।
अवश्यं ह्यनेन परस्यार्थमभिदधता सार्थ उत्सष्टव्यः। वाढं युक्तम्। एवं हि दृश्यते लोके मिक्षुको द्वितीया मिक्षामासाद्य पूर्वी न जहाति संच- यायैव यतते, एवं तर्हि द्वयोर्द्विवचनमिति द्विवचनं प्रामोति। कस्या विभक्तः । षठ्याः । न षष्ठीसमर्थोऽनन्तरः । तर्हि प्रथमायाः। न प्रथमासमर्थः प्रथमानुरागः संबन्धाधिक्यात्। अभिहितः सोऽर्थोऽने- न्तर्मूतः प्रातिपदिकार्थः संपन्न इति सामर्थ्य भविष्यति। मैवम्। इह प्रथमानुरागानन्तर इत्येतस्मारसमुदायाद्विमत्त्या उत्पत्तव्यम्। तेन च समुदायेनैकोऽर्थपिण्डो मृत्पिण्ड इवाविभागपन्नपांसूदक विभागोSवयवा- र्थशत्तयानुगृहीतः पृथगव्यपदेश्यावयवशक्तिरभिधीयते। तसिंश्च समु- दायार्थ एकत्वं समवेतमतो विद्यमानायामप्यवयवसंख्यायां तदाश्रया सुबुत्पत्तिर्न भविष्यति।। मानानन्तरे पूजार्थान्वयो यथा- 'न स्पृष्टोऽपि त्रिदशसरिता दूरमीर्प्यानुबन्धा- न्नाप्युन्मृष्टो भुजगपतिना तर्जनाभिर्जयायाः। मानस्यान्ते नयनसलिलै: क्षालितः शैलपुत्र्या पत्युर्मौलौ नतियुजि जयत्यात्मनः पादपांसुः ॥२८४॥' अत्र पादपतनादिपूजा मानसिद्धा तदनन्तरेSप्यनुवर्तते॥ अत्रैव मानं प्रति प्रियत्वामिमानार्थान्वयो यथा- 'विहायैतन्मानव्यसनमनयोरुचकुचयो- निंधेय: प्रेयांसते यदि वयमनुल्ङ््यवचसः । १. 'न द्विवीयां मिक्षा' क., 'यद्वितीयां मिक्षाम्' ख. २. 'अत्रान्तमूतः' क.ख. ३. 'दत्पसाद्' क.ख. ४. 'तेन चैकोडयें:'स. ५. 'अविभागोत्पन्न' क.ख. ६,'ना- प्युस्सशटे' क.ख .. 'प्रियस्वाभिमानान्वयो' क.स. ८. 'विधेय:' क.ख.
Page 748
५ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम्। ६५५
सखीभ्यः स्निग्धाभ्यो गिरमिति निशम्यैणनयना निवापाम्भो दत्ते नयनसलिलैर्मानसुहृदे ॥ २८५ ॥ अत्र मानं प्रति प्रियत्वाभिमानो मानानन्तरेSप्यनुवर्तते॥ अत्रैव प्रेमावरोधार्थान्वयो यथा- 'दूमेति जे मुहुत्तं कुविअं दासब जे पसाएंति। ते चचिअ महिलाण पिआ सेसा सामि चिअ बराओ २८६' [दूनयन्ति ये मुहूत कुपितां दासा इच ये प्रसादयन्ति । त एव महिलानां प्रियाः शेषा: सामिन एव वराका: ॥] अत्रास्यामपि प्रेमास्ति नास्ति वेति जिज्ञासुः प्रियः प्रियां केली- गोत्रस्खलनादिना दुनोति। सा च प्रेमवत्यवश्यमसै कुप्यति। स चोपलब्धप्रेमा दासवैदेनां प्रसादयति। अथैषात्मनि प्रेमास्तित्वमवबुध्यते। सोडयं मानसिद्धोऽर्थस्तदनन्तरेSप्यनुवर्तते॥ तत्रैव प्रेमप्रमाणोर्थान्वयो यथा- 'सुरकुसुमेहिं कलुसिअं जइ तेहिं चिअ पुणो पसाएमि तुमं। तो पेम्मस्स किसोअरि अवराहस्स अ ण मे कअं अणुरूंअं२ ८७' [सुरकुसुमैः कलुपितां यदि तैरेव पुनः प्रसादयामि त्वाम्। ततः प्रेम्णः कृशोदरि अपराधस च न मे कृतमनुरूपम् ॥] अत्र रुक्मिण्या: सुरकुसुममञ्जरी दत्ता मम तु सुरतरुरेव प्रेयसा प्रतिपन्नस्तदहमस्याः सहस्त्रगुणत्वेन प्रियतमेति सत्यभामा खवप्रेमाणं १. 'शिवमिति' क.स. २. 'ते' ख. २. 'पसाअंति' क.ख.ग. ४. 'बरोआ' ख. ५. 'न वे ति' क.ख.घ. ६. 'प्रियः' नास्ति ग. ७.'न दासवदेनां प्रवासयति' क., 'तदासवदेनां प्रसादयति' ख. ८. 'अनुबध्यते' स. ९. 'प्रेमप्रमापणार्थान्वयो' क. १०. 'अणुरुव' घ. ११. 'सहस्रगुणेन' क.स.
Page 749
६५६ काव्यमाला।
मिमीते। स चायमर्थों मानेन सिद्धस्तदनन्तरेSपि समाससामर्थ्यादनु- वर्तते। कः पुनरत्र समासः । षष्ठीतत्पुरुष एव । का वृत्तिः । प्रथमा- नुरागानैन्तरवदजहृत्खार्थैव। युक्तं तत्र विस्म्भणादावपि प्रथमानुरागस्य विद्यमानत्वात्। इह तु माननिवृत्तौ मानापगमादयो जायन्ते। अन्व- याद्विशेषणं भविष्यति। तद्यथा-घृतघटस्तैलघट इति निषिक्तेऽपि घृते तैले वा घृतघटोऽयं तैलघटोSयमित्यन्वयात्पूर्वपदार्थो विशेषणं भवति। भवति तत्र या च यावती चार्थमात्री इहापि तत्तुल्यमेव। तथा हि- 'सकअम्गहतंसुण्णामिआणणा पिअइ पिअअमविइण्णम् । थोअं थोअं रोसोसंधं व माणंसिण मइरम् ॥२८८ ॥' [सकचग्रहत्रस्तावनामितानना पिवति प्रियतमवितीर्णम्। स्तोकं स्तोकं रोपौषधमिव मानिनी मदिराम् ॥] सकषायैरेव वाक्यैरनायकं निस्तुदन्ती शयनीयं गच्छेदिति मानशे- षान्वयो दृश्यते।। प्रवासानन्तरे प्रिया न वसत इत्यर्थस्यान्वयो यथा- 'वसने परिधूसरे वसाना नियमक्षामैतनुः कृतैकवेणिः । अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहत्रतं विमर्ति २८९'
१. 'प्रमिमीते' ख. २. 'मानसिद्ध:' क.ख. ३. 'प्रथमानुरागानन्तरम्' क.ख. ४. 'अर्यं घृतषटः, अयं तैलघटः' क.ख. ५. 'भवति' ख. नास्ति. ६. 'वा' क.ख. ७. 'रहसुचाणिआणणा' इति गाथासप्त० ख., 'रभसोचानितानना' इति कछाया.८. 'पि० अमुद विशण्णम्' इति गाथासप्त०, 'प्रिममुखवितीणा' इति च्छाया च. ९. 'धोभ धोअं' इति गाथासम०, 'थोअत्थोअं' क., 'धोगयोअं' घ., 'त्योजं त्थोअं' स. १०. 'महं व' इति गाथासस०. ११. 'उस माणिणी' इति गायासप०. १२.'नियमक्षाममुखी भृतैक- वेणि:' इति मुद्रिवेडमिश्ानशाकुन्तले. १२. 'विरहज्वरम्' क.ख.
Page 750
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ६५७
अत्र दुष्यन्तेन शकुन्तलायाः प्रवासे विभूषणाद्यग्रहणं यदवगतं तचतदनन्तरेSप्यनुवर्तमानं प्रेमप्रकर्षाय भवति॥। सर तत्रैवे युवान: प्रियसंनिधौ न वसन्तीत्यर्थस्यान्वयो यथा- 'समर्थये यत्पथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा। अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभावितापिय: २९०' अत्र पुरूरवाः प्रवासान्मत्त उर्वशीबुद्या लतादिकं यद्दाससाद तत्तदानेकशोऽन्यथा बभूव। तत्संस्काराचायं यस्या लतारूपपरिवर्तनं प्रत्येति सोडयं प्रियासंनिधौ यूनामवौसः संसिद्धस्तदनन्तरेऽप्यनुवर्तते॥ अत्रैवोत्कण्ठादिमिश्चेतो वासयतीत्यर्थस्यान्वयो यथा- 'अब्बो दुक्करआरअ पुणो वि ततति करेसि गमणस्स। अज्ज वि ण होंति सरला वेणीअ तरंगिणो चिउरो २९१' [हे दुष्करकारक पुनरपि चिन्तां करोपि गमनस्य। अद्यापि न भवन्ति सरला वेण्यास्तरङ्गिणश्चिकुराः ॥] अत्र प्रवासानु भूतभृशोत्कण्ठादिचित्तवासना: प्रवासानन्तरेSपि तस्या नोपशाम्यन्तीति वेणिकावर्णनादिना सूच्यते॥ अत्रैव प्रमापयतीत्यर्थस्यान्वयो यथा- 'त्वद्वियोगोद्भवे चण्डि मया-तमसि मज्जता । दिष्या प्रत्युपळब्धासि चेतनेव गतासुना ।। २९२ ॥' १. 'तदनन्तरे' क.ख. २. 'अत्रेव' क.ख. ३. 'सपरशविभावितप्रियः' क.स्. मुद्विते विक्रमोवंशीये च. ४. 'ययदासादयति' क. ५. 'तचदनेकशो' क.ख. ६. 'त्तरसंकाराव्' क.ख. ७. 'अवास: प्रवासः' क.ख. ८. 'अब्बो' इति खेदे. ९. 'चिद्ुरा' क.ख.ग. १०. 'प्रवासोजूत' क.ख. ११. 'चित्तवासना' ख. १२. 'नो शान्यतीति' क.ख. ४२ स० क०
Page 751
६५८ काव्यमाला।
अत्रोर्वशीविरंहात्पुरूरवा उत्तरां कामावेस्थां प्रपन्नः प्रियाप्राप्तौ प्रेत्येव प्रत्युज्जीवितस्तदेवानुसंघत्ते । सोऽयं प्रमापणार्थः प्रवाससिद्धस्तदनन्त- रेऽपि समाससामर्थ्यादनुवर्तते। कः पुनरत्र समासः । पष्ठीतत्ुरुष एव। का वृत्तिः । न तावदनुत्सृष्टखार्था, नहि प्रोष्यसमागतयोः प्रवाससंवन्धोSपि विद्यते। उत्सष्टखार्था तदिह भवतु। युक्तं पुनर्य- दुत्सष्टखार्था नाम वृत्तिः स्यात्। बाढं युक्तम्। एवं हि दृश्यते लोके- पुरुषोडयं परकर्मणि प्रवर्तमानः खकर्मोत्सृजति। तद्यथा तक्षा राजक- र्मणि प्रवर्तमानस्तक्षकर्मोत्सजति। नन्वेवं सति राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्रामोति। नैष दोषः । उत्सृजन्नप्ययं खार्थ नात्य- न्तायोत्सृजति, यः परार्थविरोधी सवार्थस्तमेवोत्सजति। तदथा तक्षा राजकर्मणि प्रवर्तमानस्तक्षकर्मोत्सृजति न तु स्थितविहसितकम्पितादीनि। न चायमर्थः परार्थविरोधी विशेषणं नाम । तस्मान्नोत्सक्ष्यति॥
'जयन्ति जायाश्विष्टस्य शम्भोरम्भोधिमन्थने। मग्रामृतविषाखवादमदमूर्च्छा मनोमुदः ॥ २९३ ॥' अत्र दाक्षायण्या हैमवतीत्वेन करुणानन्तरत्वम्। तत्र करुणदुःखेन मूर्च्छादयः प्रादुरासन्। इह त्वानन्देन ते प्रादुर्भवन्ति ॥ तत्रैवोच्चारणान्वया्थों यथा- 'काम्यन्ती यदुपेक्षितासि पुरतः कामो यदग्रे हतः क्िष्टं यत्तपसा वपुर्यदपि च प्रोक्ता बटुच्छदना। तत्सर्व प्रणतस्य मेज्द्य दयिते दाक्षायणि क्षम्यता- मित्युक्त्वा चरणाब्योर्विजयते लुर्ण्डन्छिवाया: शिव: २९४' १. 'विरहे' क.स. २. 'कामावस्पामापन्रः' क.स. ३. 'कात्र वृत्तिः' क.स. ४. 'पादुर्भावार्थान्ययारथों' स्. ५. 'दाक्षायिण्या' ग.घ. ६. 'तुम्पन्' क.ख.
Page 752
५ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। ६५९
अत्र करुणावस्थायां प्रियापादान्नयोर्लुण्ठता शोकेन यो विलापः कृतः स इह प्रकर्षालापत्वेन विपरिणमति॥ अत्रैव मनोSवस्थापनान्वयार्थो यथा- 'अखण्डितं प्रेम लभख पत्युरित्युच्यते ताभिरुमा सम नम्रा। तया तु तस्यार्घशरीरलाभादघ:कृताः स्तिग्घजनाशिषोऽपि २९५' अत्रैव- 'यदैव पूर्व ज्वलने शरीरं सौ दक्षरोषात्सुदती ससर्ज। ततःप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरित्रहोभृत् ॥२९६॥
तदिहार्धशरीरप्रदानमहासाहसमेवावतिष्ठते॥
'मिन्ने सद्यः समाधावुपसमति परज्योतिषि स्पन्दसंज्ञे संज्ञामापद्यमाने मृदुमनसि मनागुन्मिषत्खिन्द्रियेपु। व्यापारे पारवश्यं विसृजति मरुति ब्रह्मसत्रह्मचारी वामार्धस्पर्शजन्मा जयति पुररिपोरन्तरानन्दपूरः ॥ २९७ ।।' अत्र यत्करुणावस्थायां मनः शोकप्रकर्षेणाभ्यक्तमासीत्तदिह प्रिया- श्ेषजन्मना परमानन्देनाभ्यज्यते। सोडयं कैरुणधर्मान्वयस्तदनन्तरेऽपि समाससामर्थ्याद्गवति। कः पुनरत्र समासः। षष्ठीतत्पुरुष एव। का वृत्तिः । जहत्खार्था। न क्वन्र करुणार्थस्य गन्धोऽपि। कथ तर्हान्वयः। यथा मल्लिकापुटः चम्पकपुट इत्यत्र निःकीर्णाखपि सुमनःसु मल्लिकादि- र्वासनावशाद्विशेषणं भवति-अयं मल्लिकापुटोऽयं चम्पकपुट इति, एवं १. 'परिणमति' क.ख. २. 'साक्षादरोपाव' घ. ३. 'करुणधर्मसमन्वयः' क. स. ४. 'निर्गीणामु' ख.
Page 753
६६० 17 काव्यमाला।
निवृत्तेऽपि खाथें वासनावशात्करुणोSनन्तरस्य विशेषणं भवति। अस्तु वा प्रथमानुरागादिष्वपि जहत्स्वार्थैव वृत्तिः। नन्वेवं राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राम्नोति। नैष दोषः। वृत्तौ समर्थाधिकारः क्रियते। सामर्थ्य च मेदः संसर्ग उभयं वा। तत्र राज इत्युक्ते सेर्वं सवं प्रस- क्तम्। पुरुष इत्युक्ते सर्वः खवामी प्रसक्तः। इहेदानी राजपुरुषमानये- त्युक्ते राजा पुरुषं निवर्तयत्यन्येभ्यः खामिभ्यः पुरुषोऽपि राजानमन्ये- भ्यः खेम्यः। एवमस्मिनुभयतो व्यवच्छिन्ने यदि राजार्थो निवर्तते, काम निवर्तताम्। न जौतुचित्पुरुषमात्रस्यानयनं भविष्यति। प्राक् च वृत्तेरकृतार्थस्य निवृत्तौ सामर्थ्याभावाद्वृत्तिरेव न स्यात्। वृत्तिनिमित्ता च निवृत्तिस्तस्माददोष इति। तत्र राज्ञः पुरुष इत्यत्र यदा तावदवधृत- परायेत्तवृत्तिरयं पुरुषो न खतब्रस्तदा खामिसंसर्गस्यावगतत्वात्ामिवि- शेषज्ञानायोपादीयमानो राजशब्दः खाम्यन्तरेभ्यः पुरुषं व्यावर्तयति। सोडयं खाम्यन्तरव्यवच्छेदो भेद इत्युच्यते। यदा पुनरनवगतपरायत्त- भावस्य पुरुषस्य खामिसंबन्धद्योतनाय राजशब्दः प्रयुज्यते तदा विशे- षसंसर्गस्यें शब्दोपादानत्वादनवकाशो विशेषान्तरसंपात इत्यशब्दी खा- म्यन्तरनिवृत्तिरवसीयते। यदा त्वर्थान्तरनिवृत्ति वार्थसंसर्ग वामिसंघा- योपसर्जनपदानि प्रयुज्यन्ते तदा शब्दार्थसामर्थ्ययोः प्रतिपत्तिनिबन्ध- नयोरमेदापेक्षया ेदसंसर्गसमुदयः सामर्थ्य भवति। यथा नीलं च तदुत्पलं चेति नीलोत्पलम्। प्रथमश्चासावनुरागश्चेति प्रथमानुराग इति,
१. 'सर्वस्व' घ. २. 'सेस्यः' क. नास्ति. ३. 'जातु कचित' क.ख. ४. 'प्राक प्रवृत्तेः' स., 'पराक् च प्रवृत्तैः' ग. ५. 'यत्र' ग.घ. ६. 'इति' ख. नास्ति. ७. 'वि. शेषसंसर्ग चाभिसंचायोपसर्जनस्य' ख.८. 'अशाब्दी' क. ९. 'स्वात्मसंसर्ग च' क., स्वाधेर्ससर्ग च' स. १०. 'अमेदापेक्षायाम्' क. खर.ग. पुस्तके पाठोडयं त्रुटित :.
Page 754
५ परिच्छेद: ॥] सरसतीकण्ठाभरणम्। ६६१
प्रथमानुरागानन्तर इत्यादिषु च भेदसामर्थ्य यथा राज्ञो भृत्य इति। यतोऽनन्तर इत्युक्तेऽवधृतमिदं कस्याप्यवघेरनन्तरोऽयं न खतब्र इति सर्वोऽवधि: प्रसक्तः । प्रथमानुरागस्येत्युक्ते सर्वः संबन्धी प्रसक्तः । इहे- दानीं प्रथमानुरागानन्तर इत्युक्ते प्रथमानुरागोऽनन्तरं निवर्तयत्यन्ये- भ्योऽवधिभ्यः । अनन्तरः प्रथमानुरागं निवर्तयत्यन्येभ्यः संबन्धिभ्यः । तत्र योऽसौ भेदस्तत्सामर्थ्य च, तन्निमित्ता च वृत्तिः। मेदनिमिततायां च वृत्तौ सत्यां वृत्त्यभिमुखस्य मेदमुपजनय्योपसर्जनस्य प्रथमानुराग- स्यार्थो निवर्तते। यस्यापि प्रधानस्यानन्तरस्यावधिमतो निवर्तते सोऽप्य- वधिमवच्छिनत्ति । एवमुभयतो व्यवच्छेदे निर्ज्ञातेऽनन्तरविशेषे समु- दायार्थे चान्यस्मिन्प्रादुर्भवति। यदि प्रथमानुरागाद्यर्थों निवर्तते, कामं निवर्तताम्, न जातुचिदवधिमन्मात्रस्य संप्रत्ययो भविष्यति। ननु चान्वयव्यतिरेकाभ्यां जहत्खार्थत्वं नोपपद्यते। तथा हि 'प्रथमानुरागा- नन्तरे' इत्युक्ते कश्चिच्छब्दः श्रयते। प्रथमानुरागेत्यनन्तरेति च प्रती- यमानविभाग:, अर्थोडपि कश्िद्गम्यते कन्याविस्म्भणादिरवधिम्त्वं च। 'मानानन्तरे' इत्युक्ते कश्चिच्छब्दभागो हीयते, कश्िदुपजायते, कश्चि- दन्वयी। प्रथमानुरागेति हीयते, मानेतयुँपजायते, अतन्तर इत्यन्वयी। अर्थोऽपि कश्रिद्धीयते, कश्िदुपजायते, कश्चिदन्वयी। कन्याविस्म्म- णादिर्हीयते, मानशैथिल्यादिरुपजायते, अवधिमत्त्वमन्वयि । तेन मन्या- महे यः शब्दभागो हीयते तस्यासावर्थ :; योऽर्थों हीयते, य उपजायते तस्यायमर्थो; योऽर्थ उपजायते, योऽन्वयी तस्यासावर्थो; योऽर्थः सोऽ- न्वयीति। मैवम्। यतोSनन्यथासिद्धाभ्यामेवान्वयव्यतिरेकाभ्यां शब्दा-
१. 'जातु कचिद' क.ख. २. 'मान्येति' ख. ३. 'अन्वयिलेन' क.ख.
Page 755
६६२ काव्यमाला।
र्थयो: संबन्घावधारणम्। अन्यथासिद्धौ चेमौ। तथा हि यत्र बृंहितं हीयते, द्वेषितमुपजायते, रेणुचक्रमन्वयि; तत्र हस्तिनो हीयन्ते, अश्वा उपजायन्ते, पिपीलिका अन्वयिन्यः । न चैतावता रेणुचक्रादिपिपी- लिका: कारणं भैवति। यत्र वा क्षीरं हीयते, दध्युपजायते, पात्रम- न्वयि, तत्र माधुर्य हीयते, अम्लतोपजायते, तृप्तिरन्वयिनी। न चैता- वता पात्रस्य तृप्तिः कार्य भवति। अवधृतं हि सामर्थ्यमन्वयव्यतिरे- काभ्यां प्रविभज्यते। यथा लोके बधिरोऽपि चक्षुष्मानालोकयति, सत्यपि श्रोत्र उपहृतचक्षुर्नालोकयति रूपमित्यन्वयव्यतिरेकाभ्यां चक्षुः- श्रोत्रसंनिधाने रूपालोकनं चक्षुष एव व्यवस्थाप्यते न श्रोत्रस्य। यस्य केवलस्य योऽर्थोऽवघृतः पदार्थान्तरसंनिधानेऽपि तस्य स एव। नहि रसनमसंनिधौ दर्शनस्य मधुरादिव्यञ्जकं दर्शनसंनिधौ नीलादिव्यक्तिं प्रति सामर्थ्य लभते। प्रथमानुरागशब्दस्य केवलस्योत्कण्ठादिषु, मान- शब्दस्वेर्ष्यायितादिषु, अनन्तरशबदस्य पुनरवधिमत्खेव सामर्थ्यमवधृत- मतस्तेषां तावानेवार्थो भवति। यः पुनः पदयोरन्योन्योप छेषाद्विसम्भ- णादिर्मानशैथिल्यादिर्वावधिमद्विशेषोSन्यावधिकः प्रतीयते वाक्यार्थः स भवतीति। यदि वा यथानपेक्षितावयवार्था वृक्षश्रोत्रियशक्गोपादयः खसामर्थ्यनियतमर्थमाचक्षते तथा संघाता एवैते प्रथमानुरागानन्तरादयो राजपुरुषादयश्रानपेक्षितावयवार्था यथासामर्थ्यमर्थेषु निविशन्ते। ननु चाव्यपदेश्यपूर्वापर विभागा भिन्नार्थाभिधायिनो वृक्षादयः प्रतीयमानभा- गमेदानुयाताः संबन्धिपदार्थोपहितमेदवृत्त्यमिधायिनः पुनरिमे तत्कथं प्रथमानुरागानन्तरादयो वृक्षादिवद्र ढिशब्दा भवितुमर्हन्ति। तदसत्। रूढिशब्दा यौगिका इति विभागोSमेददर्शनादर्शनाभ्यामेमिनिविष्ट-
निविशवे' क,स. १. 'मवन्ति' स््न. २. 'च' क.स्र. ३. 'अभिन्नार्थानिधायिनः' ग.व. ४. 'अभि-
Page 756
५ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ६६३
बुद्धे: प्रतिपादनोपाय एव। अपयामिनिविष्टो ह्वयं क्रमेण तस्मादप- थान्निवर्तयितव्यः । ततोऽस्याप्रत्यभिज्ञायमानप्रकृतयः श्रोत्रियक्षत्रिया- दयो दर्श्यन्ते । न ह्यत्र प्रकृतिरूपमवसीयते। यतः प्रकृत्यर्थावच्छिन्नः प्रत्ययार्थोऽभिधीयते । ततोऽनवसीयमानावयवविभागा रूढयः काश्चि- दुपन्यस्यन्ते । यत्रात्यन्तमसंभवोऽवयवार्थस्य यथा-शक्रगोपाः, तैल- पायिका:, मैण्डपेति। पुनः कदाचित्संनिहितावयवार्था जातिविशेषा- मिधायिन: सप्तपर्णकृतमालादय उदाहियन्ते। यतः प्रपलाशोऽप्यनुद्धि- न्नपलाशोऽपि च वनस्पतिः सप्त पर्णान्यस्य पर्वणि पर्वणीति सप्तपर्ण इत्याख्यायते। तथा निःकीर्णकुसुमस्तरुरनारब्धकलिकाजालकोऽपि कृता मालानेनेति कृतमाल इत्यमिधीयते । अथ चे पञ्चाङ्गुलमिवाश्व- कर्ण इव पर्णमस्येत्युपचरितार्थावयवा जातिवाचिन एव पश्चाहुलाश्चक- रणादयो वर्ण्यन्ते। तेषु हि पश्चाङ्ुलादिव्यपदेशः प्रोद्विद्यमानप्रवालमपि यावदनुवर्तते। ततः संनिधानेऽप्यनाश्रीयमाणवृत्तिपदार्था लोहितशा- लिगौरखरैं इत्यादयो निगद्यन्ते। तत्र हि सन्नपि वर्णविशेषः समुदा- यस्य जातिवचनत्वाच्छव्दार्थत्वेन नावसीयते। तदेवमयं शकलीकृतवृ- त्िपदार्थाभिनिवेश: प्रथमानुरागानन्तरादाविव राजपुरुषादावप्यवयवामि- निवेशं शक्यते त्याजयितुम्। अत एव प्रथमानुरागादीनां विप्रलम्भसं- भोगादीनां च पारिभाषिकोऽपि संसर्ग: संनिधीयत इति।
१. 'अयथामिनिविष्टो' स. २. 'अपदार्यात' क. ३. 'मण्डप इति' क.ख. ४. 'च' क ख.ग. नास्ति, ५. 'संनिधीयमानेऽपि' क.ख. ६. 'पदार्थो:' ख, ७. 'गोरस्वरः' ख.
Page 757
६६४ काव्यमाला।
प्रकीर्णकेषु स्पृहयन्तीव्रतमष्टमीचन्द्रकः । स हि चैत्रचतुर्थीतोऽष- मचतुर्थ्यामुपादीयमान: कामिनीभिरच्यते। यथा- 'अवसहिअजणो पइणा सलाहमाणेण एच्चिरं हसिओ। चन्दो ति तुज्झ मुहसंमुहदिण्णकुसुमंजलिविलकखो ।।२९८।' [अवशहृतजनः पत्या श्लाध्यमानेनेयचिचरं हसितः । चन्द्र इति तव मुखसंमुखदत्तकुसुमाज्जलिविलक्ष: ॥।] यस्यां यवस्रस्तरेष्वबला लोलन्ति सा कुन्दचतुर्थी। यथा- 'लुलिआ गहवइ्धूआ दि्णं व फलं जवेहिं सविसेसं। ऐण्हिं अणिवारिअमेव "गोहणं चरउ छेत्तम्मि ॥ २९९ ॥' [लुलिता गृहपतिसुता दत्तमिव फलं यवैः सविशेषम्। इदानीमनिवारितमेव गोधन चरतु क्षेत्रे ॥I] वसन्तावतारदिवसः सुवसन्तको यथा- 'छणपिट्ठधूसरत्थणि महुमअतम्बच्छि कुवलआहरणे। कैण्णकअचूअमंजरि पुत्ति तुए मंडिओ गामो ॥ ३०० ॥' [क्षणपिष्ट्धूसरस्तनि मधुमदताम्राक्षि कुवलयाभरणे। कर्णकृतचूतमञ्जरि पुत्रि त्वया मण्डितो ग्रामः ॥] यत्र स्तियो दोलामारोहन्ति सान्दोलनचतुर्थी। यथा- 'अंदोलणक्खणोट्टिआए दिट्ठे तुमम्मि मुद्धाए। आसंधिज्जइ कार्उं केरपेल्लणणिचली दोला ।। ३०१ ॥' [आन्दोलनक्षणोत्थितया दृष्टे त्वयि मुग्या । आशासते कर्तु करप्रेरणनिश्चला दोला ।I] १. 'तस्स' स. २. 'मुदृदिण्णकुसुमं' स. ३. 'जांतविलक्खो' ख. ४. 'पहि' स. ५. 'सेवगोडणं' क., 'सेवग्गेहणं' ख. ६. 'चवर' क. ७. 'कस्स' स. ८. 'आस- हिज्र' क. ९. 'काओ' क.स. १०. 'णिचता' क, ख.
Page 758
५ परिच्छेद: ॥] सरस्तीकण्ठाभरणम्। ६६५
एकमेव कुंसुमनिर्भरं शाल्मलिवृक्षमाश्रित्य सुनिमीलितकादिभि: खेलतां कीडैकशाल्मली। यथा- 'को एसोत्ति पलोटठुं सिंबलिवैलिअं पिअं परिक्खसइ। हलिअसुअं मुद्धवहू सेअजलोल्ेण हत्थेण ॥। ३०२ ॥' [क एष इति प्रत्यावर्तितुं शाल्मलिबलितं प्रियं परिपातयति। हालिकसुतं मुग्धवधू: सेदजलार्द्रेण हस्तेन ॥I] त्रयोदश्यां कामदेवपूजामदनोत्सवः। यथा- 'गामतरुणीओ हिअअं हरंति पोढाण थणहरिछ्ठीओ। मैअणूसअम्मि कोसुंभकंचुआहरणमेत्ताओ॥ ३०३ ॥' [आ्रामतरुण्यो हृदयं हरन्ति प्रौढानां सनभारवत्यः । मदनोत्सवे कौसुम्भकमुकामरणमात्राः ॥] गन्धोदकपूर्णवंशनाडीश्ृङ्गकादिमिर्यूनां प्रियजनाभिषेककर्दमेन की- डोदकक्ष्वेडिका । यथा- 'अह घाविऊण संझामएण सबंगिअं पडिच्छंति। फेम्गुमहे तरुणीओ गहवइसुअहत्थचिक्खिलं ॥ ३०४ ।। [अथ धावित्वा संध्यामदेन सर्वाङ्गिकं प्रतीक्षन्ते। फल्गुमहे तरुण्यो गृहपतिसुतहस्तकर्दमम् ॥]
१.'सुकुसुमनिर्भर' क., 'सुकुसुमनिर्मेरशास्मलिवृक्षं' ख. २.'पलद्धं'ख. ३. 'संवलि' क. ४. 'सेआणं' इति गाथासप्त०, 'विदग्धानाम्' इति च्छाया च. ५. 'मअणे कुसु- म्मरजिअकसु [इ]आहरणमेत्ताओ' इति गाथासप्त०, 'मदने कुसुम्भरागयुक्तकलुकाभर- णमात्रा:' इति च्छाया च, ६. 'अहं' स. ७. 'भाविजण' स. ८. 'सग्मपण' र. ९. 'पग्गुमहे' क.
Page 759
६६६ काव्यमाला।
यत्रोत्तमस्त्रियः पादाभिघातेनाशोकं विकास्यं तत्कुसुममवतंसयन्ति साशोकोत्तंसिका। यथा- 'उत्तसिऊण दोहलविअसिआसोअमिन्दुवदणाए। विहिणो णिप्फलकंकेलिकरणसद्दो समुप्पुसिओ॥ ३०५॥ [उत्तसयित्वा दोहदविकसिताशोकमिन्दुवदनया। विधेर्निष्फलकंकोलकरणशब्द: समुत्प्रोञ्छित: ॥।] यत्राऊ्नाभिश्वूतमञ्जर्योSवरुज्यानज्ञाय बाणत्वेन दायं दायमवतंस्यन्ते सा चूतभज्जिका। यथा- 'रइअं पि ता ण सोहइ रइजोग्गं कामिणीण छणणेवच्छं। कण्णे जा ण रइज्जई कवोलघोलंतेसहआरं॥ ३०६ ॥' [रचितमपि तावन्न शोभते रतियोग्यं कामिनीनां क्षणनेपथ्यम्। कर्णे यावन्न रच्यते कपोलघूर्णमानसहकारम् ॥] यत्र युवतयो मदिरागण्डपदोहदेन बकुलं विरकास्य तत्पुष्पाण्यवचि- न्वन्ति सा पुष्पावचायिका। यथा- 'पीणथणएसु केसर दोहलदाणुम्मुहीअ णिवलंतो। तुंगसिहरग्गपडणस्स जं फलं तं तुएँ पत्तं।। ३०७।।' [पीनस्तनेषु केसर दोहददानोन्मुख्या निपतन्। तुङ्शिखराअपतनस्य यत्फलं तत्त्वया प्राप्तम् ।।]
१. 'विकाश्य' क.ख.ग. २. 'विरहिणो' क.ख. ३. 'वालरागलेनैव' र. ४. 'जाव ण रहब्र' क., 'जाव ण रज्जद' स. ५. 'कवोळघोगन्तपठवसहआर' क.स. ६. 'विकाश्य' क.स्. ग. ७. 'तए' क.स.
Page 760
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ६६७
यत्र कसते प्रियतम इति पृच्छद्धि: पलाशादिनवलताभिः प्रियो जनो हन्यते सा चूतलतिका। यथा- 'णवलइपहारेमंगे जहिं जाहे' महइ देअरो दाउं। रोमंचदंडराई तहिं तहिं दीसइ बहूए ॥ ३०८ ॥' [नवलताप्रहारमङ्गे यत्र यत्रेच्छति देवरो दातुम्। रोमाश्दण्डराजिस्तत्र तत्र दृश्यते वष्वाः ॥] 'पैश्चाल्यनुयातं भूतमातृका । यथा- 'विहलइ से णेवच्छं पम्माअइ मंडणं गई खलइ। भूअछणणच्चणअम्मि सुहअ मा णं पलोएसु ॥ ३०९ ॥ [विहलयत्यसा नेपथ्यं प्रम्लायते मण्डनं गतिः सखलति। भूतक्षणनृत्ये सुमग मैनां प्रलोकये: ॥] वर्षासु कदम्बनीपहारिद्रकादिकुसुमैः प्रहरणभूतैर्द्विधा बैनं विभज्य कामिनीनां कीडा: कदम्वयुद्धानि। यथा-
दीसइ कलंवथवओद् थणहरो हलिअसोण्हाए ।। ३१०।'
दृश्यते कदम्बस्तबक इव स्तनमरो हालिकस्ुषायाः ॥] प्रथमवर्षणप्ररूढनवतृणाङ्करासु स्थलीषु शाद्वलमभ्यर्च्य भुक्तपीतानां
१. 'णवलअपहर' क.ख. गाथासप्त०. २. 'पञ्चात्यनुनयन्ती' क., 'पञ्ात्मा- नुनयन्ती' ख. ३. 'णञ्चणपान्मि' स. ४. 'पुलोएसु' क,ख. ५. 'इल'क., 'बल' ख. ६. 'कीडा' ख, ग.
Page 761
६६८ काव्यमाला।
कृत्रिमविवाहादिकीडा नवपत्रिका। सत्र च वरणविधानादौ तेषामेवं- विधाः परिहासा भवन्ति। यथा- 'ता कुणह कालहरणं तुवरन्तम्मि वि वरे विवाहस्स। जी[व] पंडुणहेवआइं होंति कुमारीअ अंगाईं ।। ३११ ।।' [तावत्कुरुत कालहरणं त्वरमाणेऽपि वरे विवाह्स। यावत्पाण्डनखपदानि भवन्ति कुमार्या अङ्गानि ॥] अभिनवबिसाक्कुरोज्वेदाभिरामं सरः समाश्रित्य कामिमिथुनानां क्ीडा बिसखादिका। यथा- 'गेण्हंति पिअअमा पिअअमाण वअणाहि विसलअद्धाइं। हिअआइँ वि कुसुमाउहबाणकआणेअरंघाइं ॥ ३१२ ॥' [गृकन्ति प्रियतमाः प्रियतमानां वदनाद्विसलतार्धानि। हृदयानीव कुसुमायुधबाणकृतानेकरन्प्राणि ॥] शक्कोत्सवदिवसः शकार्चा। यथा- 'सचं चअ कट्ठमओ सुरणाहो जेण हलिअधूआए। हत्येहि' कमलदलकोमलेहि छित्तो ण पल्लविओ॥ ३१३ ॥' [सत्यमेव काष्ठमयः सुरनाथो येन हालिकदुहित्रा । हस्तैः कमलद्लकोमलै: स्पृष्टो न पछवितः ॥] आश्विने पौर्णिमासी कौमुदी। यथा- 'अह तइ सहत्थदिण्णो कह वि खलंतमत्तजणमज्झे । तिस्सा थणेसु जाओ विलेवणं कोमुईवासो ॥ ३१४ ॥ [अथ त्वया स्हस्तदत्तः कथमिव रखलन्मत्तजनमध्ये। तखाः सनेषु जातो विलेपन कौमुदीवास:॥] १. 'तत्र' घ. २. 'विवालस्स' क. ३.'जाब' क., 'जावं' ख. ४. 'पदुणदबआ' स. ५. 'ईंबाई' ख. ६. 'कट्टमओ' ख. ७. 'धोआए' क., 'धीआए' ख. ८. 'कम- लदलकोमलेिं' ग. पाठखुटित :. ९. 'आशिन'क.ख. १०. 'महत्थदिण्णे' क.स््र. ११· 'कह वि' स्. १२. 'तिष्णाथणेसु' क. १२. 'केमुईबासो' क.
Page 762
५ परिळ्छेद: ॥] सरस्तीकण्ठाभरणम्। ६६९
दीपोत्सवो यक्षरात्रिः। यथा- 'अण्णे वि हुं होति छणा णे उणो दीआलिआसैरिच्छा दे। जत्थ जहिच्छं गम्मइ पिअर्वेसही दीवेअमिसेण ॥ ३१५ ॥' [अन्येऽपि खलु भवन्ति क्षणा न पुनर्दीपालिकासदक्षासते। यत्र यथेच्छं गम्यते प्रियवसतिर्दीपकमिषेण ॥]
का। यथा- 'वार्अग्गिणा करो मे देट्ठोत्ति पुणो पुणो चिअ कहेइ। हलिअसुआ मलिअच्छुसदोहै ली पामरजुआणे॥ ३१६ ॥' [निर्वाणाभिना करो मे दग्ध इति पुनः पुनरेव कथयति। हालिकसुता मृदितोच्छ्ासदोहदिनी पामरयूनि ॥] प्रथमत एवेक्षुभक्षणं नवेक्षुभक्षिका। यथा- 'दिअरस्स सरअमउअं अंसूमइलेण देइ हत्येण। पढमं हिअअं बहुआ पच्छा गण्डं सदन्तवणं ॥ ३१७ ॥।' [देवरख शरन्मृदुकमश्रुमलिनेन ददाति हस्तेन । प्रथमं हृदयं वधूका पश्चादिक्षुं सदन्तत्रणम् ॥]
१. 'दि' क., 'असे वि हि' सर. २. 'ण' क.ख. नास्त., 'छणा णो' ग. ३. 'सरिच्छो दे' क.ख. ४. 'पिभवसदी' क.ख., 'पिअवसई' घ. ५. 'दीअवमि- सेण' क.स. ६. 'शमिधान्य' स. ७. 'अभ्युपखादिका' क., 'अभ्युपखादिका' स्र. ८. 'वा अणग्गिणा' क., 'अणन्गिणा' ख. ९. 'ददोत्ति' क.स. १०. 'कहेदिर' क. ११. 'हालिअसुआ' क.स. १२. 'दोहला' क., 'दोइसा' ख. १३. 'पामरजु- वाणे' क., 'पामरजुवाणो' ख. १४. 'बहुआ' घ. १५. 'पवट्ठा' र.
Page 763
६७० काव्यमाला ।
श्रीष्मादौ जलाशयावगाहनं तोयक्रीडा। यथा- 'पिसुणेति कामिणीणं जललुक्कपिआवऊहणसुहेहिं। कण्डइअकवोलुफुल्लणिचलच्छीइँ वअणाइं ॥ ३१८ ॥' पिशुनयन्ति कामिनीनां जललीनप्रियावगूहनसुखकेलिम्।
नाट्यादिदर्शन प्रेक्षा। यथा- 'णचिचिहिइ णडो पेच्छिहिइ जणवओ भोइओ नायकः । सो वि दूसिहिइ जइ रंपविहडणअरी गहवइधूआ ण बचिचिहिई्।।' [नर्तिष्यते नटः प्रेक्षिष्यते जनपदो भोगिको नायकः । सोऽपि दूषयिष्यति यदि रङ्गविघटनकरी गृहपतिदुहिता न व्रजिष्यति] आलिक्नादिग्लहा दुरोदरादिकीडीं धुतानि। यथा- 'आक्लेषे प्रथमं क्रमेण विजिते हैंदेऽघरस्यार्पणे केलिद्यूंतेविधो पणं प्रियतमे कान्तां पुनः पृच्छति।
तूष्णीं सारिविसारणाय निहितः खेदाम्बुगर्म: करः ॥३२०॥' रागोद्दीपनाय मोध्वीसेवा मधुपानं। यथा- 'थोआरूढमहुमआ खणपर्म्हैट्वावराहदिण्णुल्लावा। हसिऊण संठविज्जइ पिएण संमरिअलज्जिआ कावि पिआ ३२१' १. 'जल्लुकपिआावऊट्डा' क., 'जललुकाइआवऊहहा' ख. २. 'कण्ठइअक- चोता पुछ' क., 'कण्ठरअकनोला पप्फुल' ख. ३. 'नाथादिदर्शन' ख. ४. 'जेण पभो' स. ५. 'मोरओ' क. इ. 'जर' ख. ७. 'रहविहउणअरी' ख. ८. 'गदवरधुआ' क., 'गहवरधुआ' ख. ९. 'यवबिहिर' क., 'पविचिहिड' ख. १०. 'दुरोदरक्रीडा' घ. ११. 'दृटघरस्वार्पणे' क., 'टृशपरस्वार्पणे' ख. १२. 'केलीयूतविधी' क.ख. १३. 'रफुरइन्तया' स. १४. 'शारिविसारणाय' क. १५. 'माध्वीकादिसेवा' क. १६. 'पन्डुट्ठा विम्हरिया' इति धनपालपाश्यलच्छीनाममाला। 'पन्दट्ट'क., 'पक्टदा' स., 'पम्ड्ठा' ग., 'पम्डठ्ठा' घ.
Page 764
५ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। ६७१
[स्तोकारूढमधुमदा क्षणविस्मृतिरपराधदत्तोहापा। हसित्वा संस्थाप्यते प्रियेग संस्मृतलज्जिता कापि प्रिया ॥] प्रेमप्रकारे विप्रियादिभिरप्यविनाशनीयो नित्यो यथा- 'दिट्ठाकुविआणुणआ पिआ सहस्सजणपेल्लणं पि विसहिअं। जस्स णिसण्णाइ उरे सिरीए पेम्मेण लहुइओ अप्पाणो ३२२' [दष्टा कुपितानुनया प्रिया सहस्रजनप्रेरणमपि विसोढम्। यस निषण्णयोरसि श्रिया प्रेम्णा लघूकृत आत्मा ।] तपश्चरणादिजन्मा नैमित्तिको यथा- 'इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः । अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृश: ३२३' अनिर्धारितविशेष: सामान्यो यथा- 'कुविऔओ वि पसण्णाओ ओरण्णमुहीओ वि समाणीओ। जह गहिआ तह हिअअं धारेंति अ णिबइं बाला ॥ ३२४ ॥' [कुंपिता अपि प्रसन्ना अवरुदितमुख्योऽपि समानाः । यथा गृहीतास्तथा हृदय धारयन्तीव निर्वृ्ति बाला: ॥] निर्धारितविशेषप्रकारो विशेषवान् यथा- 'णवि तह अणालवंती हिअअं दूमेइ माणिणी अहिअं। जह दूरविअंभिअगरुअरोसमज्झत्थभणिएहिं॥ ३२५॥ १. 'विसहिआन्' क., 'विसहिआ' ख. २. 'गिसण्णड' क. ३. 'सिरीअ' क. ४. 'लहुमइओो' क.ख. ५. 'कुविआअ' ख., 'कुविआओ' क.ग. ६. 'ओरण्णमु- हीओ' क., नास्ति. 'ओणामुद्दीओ' स. ७. 'विसमाणीओ' इत्यादि गायांश :- ग. त्रुटित एव. ८. ध्वन्यालोके त्वियमेव गावेबमुदाहता-'कुविआओ पसण्णाओ ओर- ण्णमुद्दीओ विह्समाणाओ। जह गहिओो तह हिअअं हरन्ति उच्छिन्तमहिलाओ॥' [कुपिताः प्रसन्ना अवरुदितवदना विह्सन्त्यः। यथा गृहीतास्तथा हृदय हरन्ति स्वैरिण्यो महिला: ॥I] इति च्छाया च. ९. 'माणिईणी' (!) क. १०. 'दूरे वि' क. ११. 'गरुअ' स. १२. 'भणिषेण' क., 'भणिपर' ख.
Page 765
६७२ काव्यमाला।
[नापि तथा नालपन्ती हृदयं दुनोति मानिन्यधिकम्। यथा दूरविजृम्मितगुरुकरोषमध्यस्थमणितैः ॥] इक्वितादिमिरप्यनवगम्यः प्रच्छन्नो यथा- 'दिअहे दिअहे सूंसइ सकेअअभंगवद्टिआसक्का। आवंडुरोवैणमुही कलमेण समं कलमगोवी ॥ ३२६॥ [दिवसे दिवसे शुष्यति संकेतकमङ्गवर्धिताशङ्का। आपाण्डरावनतमुखी कलमेन समं कलमगोपी ॥] सैख्यादिमिरवगतः प्रकाशो यथा- 'जइ होसि ण तस्स पिआ अणुदिअहं णीसहेहि" अंगेहिं। णवसूअपीअपेऊसमंतैपाडि व किं सुवसि ॥ ३२७॥' [यदि भवसि न तस प्रियानुदिवसं निःसहेरज्ैः। नवसूतपीतपीयूंषमत्तमहिषीवत्सिकेव किं खपिषि ॥] कारणोपाधिक: कृत्रिमो यथा- 'अद्दंसणेण पुत्तअ सुट्ठ वि णेहाणुवंधंगहिआईं। हत्थउडपाणिआइँ वि(वं) कालेण गलंति पेम्माइं॥ ३२८॥ [अदर्शनेन पुत्रक सुभृपि स्नेहानुबन्धगृहीतानि। हस्तपुटपानीयानीव कालेन गलन्ति प्रेमाणि ॥] १. 'रुपई' क. 'रूस' ख. २. 'बट्टआासङ्का' क. ३. भवण्डुरोणअमुद्दी' गाथा- सम०. ४. 'गोपी' घ. ५. 'संख्यादिमिः' सत्र. ६. 'दीद्' क., 'अणुदिअद्वं' इति गाथासपत०, पाठः, 'अनुदिवसं' इति कछाया च. ७. 'मत्तपाडिव्व' क., 'मभो पाडिव्व' स., 'मचपाडिम्व' गाथासपत० पाठ :. ८. निःसहैः सुरतत्रमखिनेरी :- ९. पीयूषेणाभिनवदुग्पेन मत्ता पाडीव बत्सिकेव. १०. 'घडिआई' गाथासप० ११. 'व' गाथासप्त०. १२. 'वाहन्ति' क. 'वाहान्ति' स
Page 766
५ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ६७३
कारणनिरपेक्षोऽकृत्रिमो यथा- 'जह जह जरापरिणओ होइ ई दुग्गओ विरुओ वि। कुलपालिआँइं तह तह अहिअअरं वल्हो होइ॥ ३२९॥' [यथा यथा जरापरिणतो भवति पतिर्दुर्गतो विरूपोऽपि। कुलपालिकायास्तथा तथाधिकतरं बहमो भवति ॥] जन्मान्तरसंस्कारजनितः सहजो यथा- 'आणिअपुलउंळ्मेओ सवत्तिपणअपरिघूसरम्मि वि गुरुए। पिअदंसणे पवड्ठइ मण्णुंट्ठाणे वि रुप्पिंणीअ पहरिसो ॥ ३३०॥ [आनीतपुलकोद्वेद: सपतीप्रणयपरिधूसरेऽपि गुरुके। प्रियदर्शने प्रवर्धते मन्युस्थानेऽपि रुक्मिण्याः प्रहर्ष: ॥] उपचारापेक्षप्रकर्ष आहायों यथा- 'घरिणीअ अकइर्अंवं चटुअं पिअअमे कुणंतम्मि। अकअत्थाईं वि जाआइ झंति सिढिलोई अंगाईं॥ ३३१॥ [गृहिण्या अकैतवं चटुकं प्रियतमे कुर्वाणे सति। अकृतार्थानीव जायाया झटिति शिथिलान्यङ्गानि ॥] यौवनजो यथा- 'तंबमुहकमाहोआ जहँ जह थणआ किलेंति कुमरीणमें।' तह तह लद्धावासोब वम्मेहो हिअअमाविसइ ॥। ३३२॥'
१. 'कुलवालिआण' गाथासप्त०., 'कुलवालिआए' क.ख. २. 'पुलओग्मेओ' क. स. ३. 'गरए' क., 'गरूए' ख. ४. 'मम्हठ्वाणे' क. ५. 'रुम्मिणीअ' क. ६. 'क- शअव्वं' क.ख. ७. 'चहुलं' क., 'बहुलं' ख. ८. 'न्हत्ति' क., 'गत्ति' स. ९. 'सि- दिलिआए' क.स. १०. 'जइ' क. ११. 'कुमारीणं' क. १२. 'मम्महो' घ. ४३ स० क०
Page 767
६७४ काव्यमाला ।
[ताम्रमुखकृताभोगौ यथा यथा खनौ क्ाम्यतः कुमारीणाम्। तथा तथा लब्घावास इब मन्मथो हृदयमाविशति ॥] उपचारानपेक्षो विस्रम्मजो यथा- 'ण वि तह छेअरआइं हरंति पुनरुत्तराअरमिआइं। जह जत्थव.तत्थव जह व तह व सब्भावरमिआइं ॥३३३॥' [नापि तथा छेकरतानि हरन्ति पुनरुक्तरागरमितानि। यथा यत्रैव तत्रैव यथा वा तथा वा सद्ावरमितानि ॥] प्रेमपुष्टिषु चक्षुःप्रीतिर्यथा- 'उत्पत्तिर्देवयजनाङ्रम्मवादी नृपः पिता। सुप्रसन्नोज्ज्वला मूर्तिरस्याः स्नेहं करोति मे ॥ ३३४ ॥' मनःसङ्गो यथा- 'एषा मनो मे प्रसमं शरीरात्पितुः पदं मध्यममुत्पतन्ती। सुराजना कर्षति खण्डिताग्रात्सूत्रं मृणालादिव राजहंसी ।।३३५।' संकल्पोत्पत्तिर्यथा- 'तं पुलईअं"वि पेच्छइ तं चिअ णिज्झाई तीअ गेण्हइ गोतं। ठाइअ तस्स समअणे अण्णं वि विचिंतअम्मि सच्चिअ हिअए॥' [तां पुलकितां प्रेक्षते तामेव निर्ध्यायति तसा गृहाति गोत्रम्। तिष्ठति तस समदने अन्यामपि विचिन्तयति सैव हृदये ॥]
१. 'हृदयमित्यध्याहार्यम्'. २. 'व्युत्पत्तिः' ग. ३. 'सुरापगा' घ. ४. 'पुलइना' स. ५. 'पि' क.ख.ग. ६. 'तंचा' क., 'तं विभ' स. ७. 'णिज्जाअदर' क., 'णिज्जा नइ' स. ८. 'परं तस्सा मअणे' स. ९. 'पि' क.ख. ग. १०. 'विचितंअ्रणि' स.
Page 768
५ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। ६७५
प्रलापो यथा- 5 'अमअमअ गअणसेहर रअणीमुहतिलअ चंद दे छिवसु। छिंत्तो जेहिं पिअअमो मेममं वि तेहिं चिंअ करेहिं ॥२३७॥' [अमृतमय गगनशेखर रजनीमुखतिलक चन्द्र हे स्पृश। स्पृष्टो यैः प्रियतमो मामपि तैरेव करैः ॥] जागरो यथा- 'तुह विरहुज्जागरओ सिविणे वि ण देइ दंसणसुहाइं। वाहेण जहालोअणविणोर्अणं पि से विहअम्।।३२८।।' [तव विरहोजागरकः खमेऽपि न ददाति दर्शनसुखानि। वाष्पेण यथालोकनविनोदनमप्यस्ा विह्तम् ॥] कार्श्य यथा- 'अंइकोवणा वि सासू रोओविआ गअवईअ सोण्हाए। पाअपडणोएणआए दोसु वि गलिएसु वलरसु ॥ ३३९॥' [अतिकोपनापि श्वश्रू रोदिता गतपतिकया सत्नषया। पादपतनावनतया द्वयोरपि गलितयोर्वलययो: ॥] अरतिर्विषयान्तरे यथा- 'असमैंतो वि समप्पइ अपरिग्गहिअलहुओ परगुणालावो। १. 'छित्तो जेहिं पि पिआ' क., 'छित्तो ते जेहि' ख. २. 'ममं' इतिगाभासप्त० ३. 'पि' क.ख.ग. ४. 'विभ' स. ५. 'तदद' स्. ६. 'विरहुज्जागरिओ' क., 'बिर- हज्जागरिओ' ख. ७. 'स' क.ख. ८. 'छोअणविलोअर्ण' क., 'लोअणविलोअणं' स. ९. 'से हअं तं पि' गाधासप्त०, 'तस्पा इतं तदपि' इति च्छाया च. १०. 'आर' क.स. ११. 'सामु' ख. १२. 'कआविआ' क., 'रआविआ' स. गाथासमत०. १२. 'गअवर्ईए' क.स., 'गअवद्म' घ. १४. 'पाअपडणेण माए' ग.व. १५. 'दो- परद्दवि' ग.घ. १६. 'असमतो वि' स. १७. 'अपरिअग्गहिय' क., 'अपरिगाहिम' ख. १८. 'परगुणालाओ' क.
Page 769
६७६ काव्यमाला। ER
तस्स पिआपडिवड्ठा ण समप्पइ रहसुहासमत्ता वि कहा॥३४०॥ [असमाप्तोऽपि समाप्यतेऽपरिगृहीतलघुक: परगुणालापः। तस प्रियाप्रतिबद्धा न समाप्यते रतिसुखासमाप्तापि कथा ॥] लज्जाविसर्जनं यथा- 'अगणिमसेसजुआणी बालअ बोलीणलोअमज्जाआ। अह सा भमइ दिसामुहपसारिअच्छी तुह कएण ।३४१।।' [अगणिताशेषयुवका वालक व्यतिकान्तलोकमर्यादा। अथ सा भ्रमति दिशामुखप्रसारिताक्षी तब कृतेन ॥] व्याधिर्यथा- 'अण्णहँ ण तीरइ च्चिअ परिवद्कुंतअगरुअसंतावं। मरणविणोएण विणा विरमावेउं विरहदुक्खम्॥ ३४२ ॥ [अन्यथा न शक्यत एव परिवर्धमानगुरुकसंतापम्। ]] मरणविनोदेन विना विरमयितुं विरहदुःसम् ॥] उन्मादो यथा- 'अवलंबह मा संकह ण इमा गहलंघिआ परिब्भमइ। अत्थकगज्जिउन्मतहित्थहिअआ पहिअजाआ ॥ ३४३॥' [अवलम्बध्वं मा शङ्कष्वं नेयं ग्रहलद्विता परित्रमति। आकस्मिकगर्जितोद्रान्तत्रस्तहृदया पथिकजाया ॥] मूर्च्छा यथा- 'जं मुच्छिआ ण अ सुओ कलंबगंधेण तं गुणे पडिअं। इमरह गज्जिअसदो जीएण विणा ण बोलिंतो ॥ ३४४ ॥'
१. 'पडिवहा' ग.घ. २. 'सेसजुनणा' क., 'सेसजुआणो' ख. ३. 'असाइण' स. ४. 'गअगर्असंतार्प' घ., 'गरुभसंलाव' क.स., 'गरुअं पिअअमर्स' इति माधासम०. ५. 'मां संकरणरसगाद' स. ६. 'गज्जिज उच्तन्त' क.ख.
Page 770
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ६७७
[यन्मूर्च्छिता न च श्रुतः कदम्बगन्धेन तह्रुणे पतितम्। इतरथा गर्जितशब्दो जीवेन विना न व्यतिकामेत् ॥] मरणं यथा- 'अज्ज वि ताव एक मामं वैरेहि पिअसहि रुअंतिम्। कहिं उण तम्मि गए जइ ण मरिस्सं ण रोइस्सम् ३४५' [अद्यापि तावदेकं मा मां वारय प्रियसखि रुदन्तीम्। कल्ये पुनस्तस्मिन् गते यदि न मरिष्यामि न रोष्यामि।। ता इमा विप्रलम्भजन्मानो द्वादशापि प्रेमपुष्टिभूमयः संभोगेषु खानु- रूपामेव प्रेमप्रकर्षभूमिकामास्कन्दयन्ति ॥ नायकेषु कथाव्यापी नायको यथा- 'गुरोः शासनमत्येतुं न शशाक स राघवः । यो रावणशिरश्छेदकार्यभारेऽप्यविक्कवः ॥ ३४६ ॥' प्रतिनायको यथा- 'जेतारं लोकपालानां खमुखरर्चितेश्वरम्। रामस्तुलितकैलासमरातिं बहमन्यत ॥ ३४७॥ उपनायको यथा- 'स हत्वा वालिनं वीरं तत्पदे चिरकाङिते। घातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् ।। ३४८॥
१. 'अबं पि' क.ख. गायासप्त०. २. 'मार्स' क.ख्र. ३. 'वारेह' क., 'धारेट' स. ४. 'पहिकण' क.ख., 'जहण मुझा ता ण रोइस्सम्' गाथासप्त०, अत्रत्यसाहित्या- चार्यभट्टमधुरानाथशास्त्रिविरचितासु छायार्यासु तु-'अधव तावदेकं मा रदती नि- वारयस्वालि। कल्ये गते तु तल्िन् न दि रोदिष्यामि यदि न सृता ॥'.५. 'तैर्मुखैः' क. ६. बीर:' इति S. P. Pandit M. A, संपादिते रुबंशे.
Page 771
६७८ 1 काव्यमाल।
अनुनायको यथा- 'स मारुतसुतानीतमहौषधिहृतव्यथः । लढ्ढास्त्रीणां पुनश्चके विलापाचार्यकं शरैः ॥। ३४९॥' कथाव्यापिनी नायिका यथा- 'तीए सविसेसदूनिअसवत्तिहिअआइं णिब्लंतसिणेहं। पिअगरुइआइ णिमिअं सोहग्गगुणाण अग्गभूमीअ पअं॥३५०॥ [तया सविशेषदूनितसपत्रीहृदयया निर्वर्त्यमानस्ेहम्। प्रियगुरूकृतया निर्मित सौभाग्यगुणानामग्रभूम्यां पदम् ॥] प्रतिनायिका यथा- 'तं* तिअसकुसुमदामं हरिणा णिम्महिअसुरहिगंधामोअं। अप्पणइअं पि दूमिअपणइणिहिअएण रुप्पिणीअ विइण्णम् ३५१' [तत्रिदशकुसुमदाम हरिणा निर्गच्छत्सुरभिगन्धामोदम्। आत्मनानीतमपि दूनितप्रणयिनीहृदयेन रुक्मिण्यै वितीर्णम् ॥] उपनायिका यथा- 'देवीसवीकृतमानसस्य नियतं खमायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम्। इत्थं यब्रणया कथ कथमपि क्षीणा निशा जाग्रतो दाक्षिण्योपहतेन सा प्रियतमा खमेऽपि नासादिता ३५२' अनुनायिका यथा- 'क्लाध्यानां गुणिनां धुरि स्थितवति श्रेष्ठान्ववाये त्वयि प्रत्यस्तव्यसने महीयसि परं प्रीतोडस्मि जामातरि। १. 'स मारुतिसमानीत' इति मुद्रिते रघुवंशे. २. 'णिम्वरणेन्तसिणेड' क, 'णिन्व- रणन्वसिणेत' ख. ३. 'नं' स. ४. 'दूम्मिअ' क. ५. 'पणर पि' क.ख. ६. 'विभ- इण्ण' ग. ७. Dr.R.G.Bhandarkar संपादिवे मालतीमाधने तु 'शेशन्वरये च त्वमि' इति पाठ:
Page 772
५ परिच्छेद: I] सरखतीकण्ठाभरणम्। ६७९ तेनेयं मदयन्तिकाद भवतः प्रीत्यै भवतप्रेयंसे मित्राय प्रथमानुरागघटिताप्यस्माभिरुत्सृज्यते ।।३५३॥' आभासेषु नायकाभासो यथा- 'केह मा छिज्जउ मज्झो इमीअ कंदोदृदलसरिच्छेहिं। अच्छीहिं जो ण दीसइ घणथणहररुद्धपसरेहिं ॥ ३५४ ॥ [कथं मा क्षीयतां मध्य एतसा नीलोत्पलदलसदशाभ्याम्। अक्षिम्यां यो न दृश्यते घनस्तनमररुद्धप्रसराम्याम् ।।] नायिकाभासो यथा- 'कृतसीतापरित्यागः स रल्नाकरमेखलाम्। बुभुजे पृथिवीपाल: पृथिवीमेव केवलाम् ।। ३५५ ॥' उभयाभासो यथा- 'अवऊहिअपुब्बदिसे समैअं जोण्हाए सेविअपओसेमुहे। माइ ण झिजाउ रेअणी वरदिसाइतपच्छिअम्मि मिअक्वे ३५६' [अवगूहितपूर्वदिशे समक ज्योत्स्या सेवितप्रदोषमुखे। मातर्न क्षीयते रजनी अपरदिशाभिमुखप्रस्थिते मृगाड्के ॥] तिर्यगाभासो यथा- 'ओरत्तपङ्कअमुहिं वम्महणडिअं व सलिलस अणणिसण्णं। अहिअइ तीरणलिणिं वाआइ गमेइ सहचरि चकाओ ३५७' [उपरक्तपङ्कजमुखीं मन्मथनटितामिव सलिलशयननिषण्णाम्। आलिङ्गति तीरनलिनीं वाचा गमयति सहचरीं चक्रवाक: ॥]
१. 'तब प्रेयसे' मुद्विते मालतीमाथने. २. 'कहण्ण मा सिव्जउ' क., 'कई ण हिच्जउ' ख. ३. 'समय' क. ४. 'पओोस मुह्दे' क.ख. ५. 'अरणी' क.ख. ६. 'बहा- हणदिअं' क., 'बहणदिअ' ख. ७. 'सहवरि' क. ८. 'वफाओ' क.ख.
Page 773
६८० काव्यमाला।
नायकेषु सर्वगुणसंपद्योगादुत्तमः । स यथा- 'रामोडयं जगतीह विक्रमगुणैर्यातः प्रसिद्धिं परा- मसमद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम्। बन्दीवैष यशांसि गायति मरुदयस्यैकबाणाहृति- श्रेणीभूत विशालतालविवरोद्धूतैः खरैः सप्तभिः ३५८' पादोनगुणसम्पद्योगान्मध्यमो यथा- 'किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं कि द्रोणेन किमअ्राजविशिखैरेवं यदि क्काम्यसि। जीवद्भातृशतस्य मे भुजबलेच्छायां सुखामाश्रिता त्वं दुर्योधनकेसरीन्द्रगृहिणी शक्कास्पद किं तव ।।३५९।' अर्षगुणसम्पद्योगात्कनिष्ठो यथा- 'एकस्मिव्शयने मया मयसुतामालिक्जय निद्रालसा- मुन्निद्रं शयितेन मच्चरणयोः संवाहनव्यापृता। पादात्रेण तिलोत्तमा सनतटे सस्ेहमापीडिता हर्षावेगसमर्पितानि पुलकान्यद्यापि नो मुख्जति ॥३६०॥ सत्त्वप्रधान: सात्त्विको यथा- 'शच्या वक्षसि मग्या सह मया मूढे पवक्राधिपे निद्राणेषु च विद्रवत्पु कपिषु प्राप्तावकाशे द्विषि। मा भैष्टेति निरुन्धतः कपिभयं तस्योद्धट्रूस्थिते- र्मर्मच्छेदविसंघुलाक्षरजडा वाचस्त्वया न श्रुताः ३६१' १. नि. सा. मुद्रिते वेणीसंहारे तु-'भीर आतुशतस्प या भुजपनच्छाया सुखो- पासि्पिता' इति पाठ :. २. 'भुजवनच्छा्या' क, ३. 'निद्राशयां' ख.
Page 774
५ परिच्छेद: ] सरस्तीकण्ठाभरणम्। ६८१
रजःप्रधानो राजसी यथा-
मेकातपत्रमवनेर्न तथा प्रभुत्वम्। अस्याः सखे चरणयोरधिगम्य सम्य- गाज्ञाकरत्वमहमद्य यथा कृतार्थः ॥ ३६२ ॥' तम:प्रधानस्तामसो यथा- 'तपो वा शसत्रं वा व्यपदिशति यः कश्चिदिह वः स दर्पादुद्दामद्विषमसहमान: कलयतु। अरामां निःसीरध्वजदशरथीकृत्य वसुधा- मतृप्तस्तत्कुर्लेयानपि परशुरामः शमयति ॥ ३६३ ॥' अनेकजातिः साधारणो यथा- 'साता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्राजखवसु- धूंतै रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च। इत्यन्तःपुरसुन्दरी: प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ ३६४॥' अनन्यजानिरसाधारणो यथा- 'आविवाहसमयाद्वहे वने शैशवे तदनु यौवने पुनः । स्ापहेतुरनुपौसितोऽन्यया रामबाहुरुपधानमेष ते ॥ ३६५ ।।' अहंकारप्रधानो धीरोद्धतो यथा- 'चक्रं वा मधुहा कृतान्तगृहिणीरदत्ताग्रपच्चाङगुलं वज्रं भूधरपक्षशोणितसुरापानोन्मदं वा वृषा। १. मुद्िते महावीरचरिते तु 'व्यवहरति' इति पाठः. २. 'उद्दामं दविपमसदमानं' क., 'उदामस्त्वपमसद्मान: र्खलयतु' इति च मुद्रिते वीरचरिते. ३. 'जगती' इति मुद्विते वीरचरिते. ४. 'तत्कुल्यामपि' क., 'तत्कव्पामपि' ख. ५. 'अनुपाभ्रितोऽन्यया' इति मुद्रित उत्तररामचरिते. ६. 'कृतान्तगृहिणां' ख.
Page 775
६८२ काव्यमाला
शूलं वासुररक्तबिन्दुनिचितं गृह्ातु शूलायुधो घृष्टद्युन्नमहं निहन्मि समरे कश्चित्परित्रायताम् । ३६६ ।।' रत्युपचारप्रधानो धीरललितो यथा- 'आधातुं विनयं निरागसि नरे कुप्यन्तु नामेश्वरा- सेन स्वाशयशुद्धिरेव सुकरा प्रायः प्रभूणां पुरः । मिथ्यामानिनि मन्यसे यदि तदा नित्यं मनोवर्तिनी ध्याता तामरसाक्षि चित्रपटके का वा त्वदन्या मया ॥३६७॥ उपशमप्रधानो धीरप्रशान्तो यथा- 'कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम्। प्रकृतिसुभगा हेते भावा मदस्य च हेतवो त्रजति पुरुषो यैरुन्मादं त एव तवाङ्कशा:॥ ३६८॥ विरसब्धोदारकर्मा धीरोदात्तः । स यथा- 'कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरसमेरं गण्डोड्डुमरपुलकं वक्त्रकमलम् ।
जटाजूटग्रन्थि द्रढयति रघूणां परिवृदः ॥ ३६९ ॥' कैतवप्रधानः शठो यथा- 'दष्ट्रैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितकीडानुबन्धच्छलः । १. 'शूल चासुर' स. २. 'चित्रफडके' क., 'चित्फलके' स. ३. 'बीरशान्त्ो' घ. ४. 'इने' स. ५. 'नवाङुशाः' क.स्र. ६. 'विश्रब्धोदारकर्मा' क., 'विस्- क्वदारकर्मा' ख.
Page 776
५ परिच्छेद: I] सरसतीकण्ठाभरणम्। ६८३
ईषद्वक्रितकन्घरः सफुलकः प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूतोंऽपरां चुम्बति ॥ ३७० ॥' कृतापराधोडप्यविलक्षो घृष्टो यथा- 'शर्त वारानुक्तः प्रियसखि वचोमिः स परुषैः सहसं निर्धूतः पदनिपतितः पाष्णिहतिभिः । कियत्कृत्वो बद्धा: पुनरिह न वेदि भ्रुकुटय- स्तथापि क्विश्यन्मां क्षणमपि न घृष्टो विरमति॥ ३७१॥' हृदयंगमप्रवृत्तिरनुकूलो यथा- 'मुञ्च कोपमेनिमित्तकोपने सन्ध्यया प्रणमितोऽस्म नान्यया। कि न वेत्सि सहधर्मचारिणं चक्वाकसमवृत्तिमात्मनः ॥३७२॥' औपरोधिकप्रवृत्तिर्दक्षिणो यथा- 'अनेन कल्याणि मृणालकोमलं व्रतेन गात्रं ग्लपयस्यकारणम्। प्रसादमाकाह्वति यस्तवोत्सुकः स किं त्वया दासजनः प्रसादते ॥' नायिकागुणेषु सर्वगुणसंपद्योगादुचमा यथा- 'हसिआइं समसलकोमलाइं वीसंभकोमलं वअणं। सब्भावकोमलं पुलइअं च णमिमो सुमहिलाणं॥ ३७४ ॥' [हसितानि समांसलकोमलानि विस्रम्भकोमलं वचनम्। सद्धावकोमलं प्रलोकितं च नमामः सुमहिलानाम् ॥] पादोनगुणसंपद्योगान्मध्यमा यथा- 'णिअदइअदंसणुक्खित्त पहिअ अणेन वच्चसु पहेण। गहवइबैंहुआ दुलंघिअवाउरा इह ग्गामे।। ३७५ ॥' १. 'कियत्कृत्वा' ख. २. 'मानं' ख. ३. 'सन्भावकोमलपुलाइज' क., 'सग्भाव कोमच्छपुलाइअं व' ख. ४. 'गहवरटहूआ' स. ५. 'दुहद्विवाउरा हअ इद ग्गामो' क., 'दुछद्विवाउदाहअप दह ग्गामो' ख. ६. 'इइम ग्गामे' घ.
Page 777
६८४ काव्यमाला।
अर्घगुणसंपद्योगादधमा यथा- 'तं' किर खणा विरज्जसि तं किर उवहससि सअलैमहिलाओ। एहेहि वारवालिइ अंसूँ मइलं समुप्पिसिमो ।। ३७६ ॥' [त्वं किल क्षणाद्विरज्यसे त्वं किलोपहससि सकलमहिलाः। एबेहि वारपालिके अष्ठ मलिनं समुत्यो्छाम: ॥I] वयःकौशलाभ्यामसंपूर्णा मुग्धा यथा- 'सहिआहि" भण्णमाणा थणए लग्गं कुसुंभपुर्ण्फ ति। मुद्धबहुँआ हसिज्जइ पप्फोडंती णहवआईं ॥ ३७७ ॥' [सखीभिर्मण्यमाना सतने लमं कुसुम्भपुष्पमिति । मुग्धवधूका हृस्ते प्रस्फोटयन्ती नखपदानि ॥] वयसा परिपूर्णा मध्यमा यथा- 'पडिवक्खमण्णुउंजे लावणेणउडे अणंगगअर्कुम्मे। पुरिससअहिअअधरिए कीस थणंती थणे वहसि ॥३७८॥ [प्रतिपक्षमन्युपुज्जौ लावण्यपुटावनङ्गगजकुम्भौ । पुरुषशतहृदयधृतौ किमिति खनन्ती खनौ वहसि ॥] वयःकौशलाभ्यां संपूर्णा प्रगल्भा यथा- 'सिण्णस्स ठवेइ डरे पइणो गिम्हावरण्हरमिअस्स। ओलं गलन्तउप्फं प्हणसुअन्धं चिउरभारम् ।। ३७९।।' [खिन्नस स्थापयत्युरसि पत्युर्ग्रीष्मापराहरमितस। आर्द्रे गलत्कुसुमं स्नानसुगन्धं चिकुरभारम् ॥] १. '्तकि खण' ख. २. 'उवहरसि' घ. ३. 'अलमहिलाओ' क.ख. ४. 'अंसू- मइमल' क.ख. ५. 'समुप्पिसिओ' ख., 'समुप्पुसिमो' घ. ६. 'लग्गकुम्भपुपपुति' ख. ७. 'मुदवहूआ' ख. ८. 'मण्णुपुज्े' गायासप्०, 'मण्णुउटे' क., 'मत्तउजे' ख. ९. 'लाबसउदे' स. १०. 'अणङअकुम्म' ख. ११. 'खिण्णरस उरे परणो ठवेड' गायासस० १२, 'ठबेश्ड पहणो' क., 'बचेइर पहणो' ख. १३. 'गिम्हाबरणहरणमि- अरस' स. १४. 'गडन्तकुसुमं' इति गाथासस०.
Page 778
५ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। ६८५
यल्नापनेयमाना धीरा यथा- 'ण वि तह अणालवंती हिअअं दूनेइ माणिणी अहिअम्।
[नापि तथानालपन्ती हृदयं दुनोति मानिन्यधिकम्। यथा दूरविजृम्मितकरोषमध्यस्थमणितैः ॥] अयलापनेयमाना Sघीरा यथा- 'अवलंविअमाणपरंर्मुहीअ एंतैस्स माणिणि पिअस्स। पुद्विपुलउग्गमो तुह कहेइ संमुहृट्टिअं हिअअं ॥ ३८१॥' [अवलम्बितमानपराच्मुख्या आगच्छतो मानिनि प्रियस्। पृष्ठपुलकोद्गमस्ते कथयति संमुखस्थितं हृदयम् ॥] आत्मीया खा यथा- 'घरिणीअं महाणसकम्मलग्गमसिमलिइएण हत्येण। छित्तं मुहं हसिज्जइ चंदावत्थ गअ पइणी ।। ३८२ ॥' [गृहिण्या महानसकर्मलग्रमलिनितेन हसेन। स्पृष्ट मुखं हस्ते चन्द्रावस्थां गत पत्या ॥] परकीयान्यदीया यथा- 'वइविवरणिम्गअदलो एरण्डो साहइवैं तरुणाणं। एत्थ घरे हलिअवहू एद्दहमेत्तत्थणी वसइ ॥ ३८३ ।।' १. 'दिअवम्' क. २ 'जइ' घ. ३. 'दूरे विअन्हिन' क., 'दूरविअम्हिअ' ग.घ., 'दूरे विअमिअ' स. ४. 'गरूअ' स. ५. 'यजापनेयमानाडधीरा' घ., 'अयन्नापनेय- माना धीरा' ग., 'अयलापनेयमानाऽपीरा' क. स., 'अपलायनेऽपमानाऽधीरा' इति, एवं प्रथमेडपि मेदे 'पलायनेऽपमाना धीरा' इति. ६. 'परम्मुद्दीए' इति गाथासम० ७. 'त एतरस' स.८. 'पुट्ठ' गाथासप्त०, 'पुद्ठि पुलगामो' स. ९. 'समुदठिअं' इति गाथाससत०.२०, 'घरिणीए' क.ख. गाथाससo. ११. 'मसिमश्लेण' क.स. १२. 'म परण' क., 'ह पदणा' ख. १३. 'परण्णो' क., 'परणो' स. १४. 'साहहन्व' क.
Page 779
६८६ काव्यमाला।
[त्ृतिविवरनिर्गतदल एरण्डः साधयतीव तरुणेभ्यः । अत्र गृहे हालिकवधूरेतावन्मात्रस्तनी वसति ॥] पाणिगृहीता ऊढा यथा- 'बालत्तणदुल्ललिआए अज्ज अणजजं कअं णववहूए। मोआमि घरे एआईणित्ति णिंतो पई रुद्ो ॥। ३८४ ॥ [बालत्वदुर्ललितयाद्य अनार्थे कृतं नववष्वा। विभेमि गृहे एकाकिनीति निर्यन् पती रुद्ः ॥] अनूढा कुमारी यथा- 'कस्स करो बहुपुण्णफलेकतरुणो तुहं "विसिम्मिहिइ। थणपरिणाहे मम्महणहाणकलसो व पौरोहो ॥ ३८५॥ [कस्य करो बहुपुण्यफलैकतरोस्तव विश्रमिष्यति। सनपरिणाहे मन्मथनिधानकलश इव प्ररोहः ॥] प्रथमोढा ज्येष्ठा यथा- 'पणअं पैढमपिआए रक्खिउकामो वि मैंहुरमहुरेहिं। छेअवरो विणडिज्जइ अहिणवबहुआविलासेहिं॥ ३८६॥ [प्रणयं प्रथमप्रियाया रक्षितुकामोऽपि मधुरमधुरैः । छेकवर: सुखायतेऽभिनववधूकाविलासै: ॥]
१. 'वलत्तण' ख. २.'आमा (माआ.) मि' ख. ३. 'एआइणि वि' ख. ४. 'णिच्तो' क.स. ५. 'णिसम्मिहिद' क.ख., 'णिसिम्मिहिर' ग.ध., 'विसम्मिदर' गाथासम०. ६. 'णिहाणकलसोब्य' ग .. ७. 'पारोहे' क.ख.ग.घ., निधानकल- सेब्व पारोटो' इति गायासप्त० पाठः. ८. 'उपणअ' क., 'उपणअ पणअ' ख. ९. 'रनिखन(उ!) कामो वि महुरेहि' क. १०. 'मधुरमधुरेहिं' ख्र., 'महुरमद्गुरेहि' ग.घ. ११. च्छेआवरो' स. १२. 'विणलिज्जर' क.ख. १३. 'अहिणवबह्मा' ख.
Page 780
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ६८७
पश्चादूढा कनीयसी यथा- 'उट्ठन्तमहारम्भे थेणए देदूण मुद्धबहुआए। ओसण्णकेवोलाए णीससिअं पढमधरिणीए।। ३८७ ।।' [उत्तिष्ठन्महारम्भौ स्तनकौ दष्ट्रा मुग्धवध्याः । अवसन्नकपोलया निःश्वसितं प्रथमगृहिण्या ॥] अहंकारर्द्धिरुद्धता यथा- 'अण्णमहिलापसंगं दे देवे करेसु अम्ह दइअर्स्स। पुरिसा एकंतरसा ण हु दोसगुणे विआणंति॥३८८ ॥ [अन्यमहिलाप्रसङ्गं हे देव कुर्वस्माकं दयितन्य । पुरुषा एकान्तरसा न खुलु दोषगुणौ विजानन्ति॥] गूढमानर्द्धिरुदात्ता यथा- 'जाणइ जाणावेउं अणुणअविहुरीअमाणपरिसेसं । रईविक्कमम्मि विणआवलंबणं स च्िअ कुणन्ती ।।३८९॥ [जानाति ज्ञापयितुमनुनयविधुरितमानपरिशेषम्। रतिविक्रमे विनयावलम्बनं सैव कुर्वन्ती ॥] निर्वाणमाना शान्ता यथा- 'जइआ पिओ ण दीसइ भणह हला कस्स कीरए माणो। अह दिट्ठम्मिं वि माणो ता तस्स पिअत्तणं केत्तो । ३९० ॥' १. 'महारम्भत्यणए' ख्. २. 'छ्ट्टेण' ख. २. 'मुझबहूआए' स. ४. 'ओसिण्ण' क., 'ओसिण' स. ५. 'दै देक' क., 'दे देक' ख., 'दे देश्न' घ. ६. 'दरभरस' क. ७. 'एकतरस्स' स. ८. 'जाणार' क. ९. 'अणुणअविद्दविअमाणपरिसेसं' गाया- सम्०, 'अनुनयविद्रावितमानपरिशेषम्' इति च्छाया च; 'विहीणरीअमाणपरिसेसं' क. १०. 'अहरिक्कमि वि' इति गाथासस०, 'विजनेपि' इति च्छाया च। अय च त्त्र 'पहरिकश्ब्दोडतिरिके पहरिक्केति बिजने देशीति केचिव। तदा 'पहरिक्मि वि' इति पाठ: । विजनेऽपीत्वर्थ:' इति कुलवालदेव :. ११. 'पङकुणन्ती' क. १२. 'निर्विण्णमाना' क.स. १३. 'दिउम्मि' क. १४, 'कंसो' क., 'कन्तो' ख.
Page 781
६८८ काव्यमाला।
[यदा प्रियो न दृश्यते भणत हला कस कियते मानः। अथ दृष्टेऽपि मानस्तत्तस प्रियत्वं कुतः ॥] क्लाघनीयमाना ललिता यथा- 'हसिएहि उवालंभा अन्चुवआरेहि रूसिअवाइं। अंसूहि भंडणाहिं एसो मग्गो र्सुमहिलाणं ॥ ३९१ ॥' [हसितैरुपालम्भा अत्युपचारै रूषितव्यानि। अश्रुमि: कलहा एष मार्ग: सुमहिलानाम् ॥] अनियतानेकोपभोग्या सामान्या यथा- 'केडुए धूमंधारे अन्भुत्तणमग्गिणो समप्पिहिइ। मुहकमलचुंबणलेहलम्मि पासट्रिए दिअरे ॥ ३९२॥ [कटुके धूमान्धकारेऽम्युत्तेजनमभे: समाप्सते। मुखकमलचुम्बनाभिलापिणि पार्श्रस्थिते देवरे ॥] पत्यन्तर प्राप्ता पुनर्भूर्यथा- 'मयेन निर्मितां लब्घ्वा लड्कां मन्दोदरीमपि। रेमे मूर्ती दशग्रीवलक्ष्मीमिव विभीषणः ॥ ३९३ ॥ आत्मच्छन्दा खैरिणी यथा- 'तह सा जाणेइ पावी लोए पच्छण्णमविणअं काडमैं। जह पढमें चिअ सर्चचिअ लिक्खेइ मज्झे चरित्तवंतीण ॥३९४॥' १. 'अच्छवआरेदि' ख. २. 'असूर' ख. ३. 'भण्डाइ' क. ४. 'मण्णे' क. ५. 'कडूए' क., 'कटए' स. ६. 'धूमहारे' क., 'धूमधारे' स. ७. 'अङ्भुत्तणम- गिगणो' क., 'अम्भुत्तणमागाणो' ख. ८. 'समप्पहिर' घ. ९. 'आसस्थिए' क.ख. १०. पथमेतत् क. नासित। अथ च 'तद सा जाणइ' इत्यादिगाथाजोदाहरणलवेन व्तते 'आत्मच्छन्दा स्वैरिणी यथा' इत्येतदीयाववरणिकापि नास्तेव. 'लड्डा लच्चा' स. ११. 'जारा' स. १२. 'पच्छण्णाम्' ख. १३. 'कारम्' ख. १४. 'सचिन' स. नास्ति, २५. 'लिइ' क.
Page 782
५ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम्। ६८९
तथा सा जानाति पापा लोके प्रच्छन्नमविनयं कर्तुम्। यथा प्रथममेव सैव लेख्यते मध्ये चरित्रवतीनाम् ॥] कलाचतुःषष्टिविद् गणिका यथा-
सुविअङ्गवेसवणिआरमिअं को वण्णिउं तरइ ॥ ३९५।'
सुविदग्धवेषवनितारमितं को वार्णेतुं शक्कोति।] रूपयौवनमात्रोपजीविनी रूपाजीवा यथा- 'अयमेव दह्यमानस्मरनिर्गतघूमवर्तिकाकारः । चिकुरभरस्तव सुन्दरि कामिजनं किंकरीकुरुते ॥ ३९६ ॥' कुट्टमितादीनां कर्त्री विलासिनी यथा- 'सामण्णसुन्दरीणं विब्भममावहइ अविणओ चेअ । धूम चिअ पज्जलिआणं बहु मओ सुरहिदारूण॥ ३९७॥' [सामान्यसुन्दरीणां विश्रममावहृत्यविनय एव। धूम एव प्रज्वालितानां बहु मतः सुरभिदारूणाम् ॥] यथोक्तलक्षणासु खण्डिता यथा- 'पच्चसागअणुरत्तदेह तइलोअलोअणाणन्द। अण्णत्थखविअसबरिअ णहभूसण दिणवई णमो दे ॥३९८॥' १. 'चरित्तवत्तीण' क, 'चरित्तवतीण' ख. २. 'सुविअट्सवेवित' क., 'सुविट्ठने- सवाणि' ख. ३. 'पचसागज रंजितदेह पिभालोज लोअणाणंद' इति गायासप्त० 'प्रत्यूपागत रजितदेह प्रियालोक लोचनानन्द' इति च्छाया च। अथ 'प्रत्यूपागतो दी- पान्तराव, पक्षे महिलान्तरावसयात। अनुरकदेह: समाततः, पक्षे तदमसंगतकुक्ुमा- दिना। त्रैलोक्यलोचनानन्द, अथ च सरीलोकळोचनानन्द। अन्यत्र द्वीपान्तरे, पक्षे ना- विकान्तरगृहे क्षपितशर्मरीक। नमोभूषण, पक्षे परलीदचनखभूषण। भाखानिव दूरादे- वाभिवन्दनीयरत्वं न लभिगम्य इति टीकानिर्गलिताम:। 'पत्मसागभुरवाभवत्तं तशलो- अलोअणाणन्दम्' क., 'पच्सागभणुरवाअवचं वश्छोभलोअणापन्द' ख. ४, 'बर' स. ४४ स० क०
Page 783
६९० काव्यमाला।
[प्रत्यूषागतानुरक्तदेह त्रैलोक्यलोचनानन्द। अन्यत्रक्षपितशर्वरीक नभोभूषण दिनपते नमखे ॥] कलहान्तरिता यथा- 'अह सो विलक्खहिअओ मए अहैबाइ अगणिअप्पणओ। परवज्जणचिरीहि तुम्हेहि उवेक्खिओ जं(जें)तो ॥ ३९९॥' [अथ स विलक्षहृदयो मया भव्ययागणितप्रणयः । परवाद्यनर्तनशीलाभिर्युष्मामिरुपेक्षितो गच्छन् ॥] विप्लब्धा यथा- 'अह सा तहिं तहिं बिअँ वाणीरवणम्मि चुक्कसंकेआ। तुह दंसणं विमम्गइ पब्मद्ठणिहाणठाणं व ॥। ४०० ॥' [अथ सा तत्र तत्रैव वानीरवने विस्मृतसंकेता। तव दर्शनं विमार्गति प्रभ्रष्टनिधानस्थानमिव ॥] वासकसज्जा यथा- 'एहिइ पिओ त्ति णिमिसं व जग्गिअं जामिणीअ पढमद्धं। सेसं संतावपरवसाए बरिसं ब बोलीणम्।। ४०१॥ [एष्यति प्रिय इति निभिषमिव जागृतं यामिन्याः प्रथमार्धम्। शेषं संतापपरवशया वर्षमिव व्यतिकान्तम् ॥] खाधीनपतिका यथा- 'सालोए चिर्अं सूरे घरिणी धरसामिअस्स घेत्तण। णेच्छंतस्स वि पाए घुर्अइ हसंती हसंतस्स ।। ४०२ ।।' १. 'अहव्वाए अगहिमाणुणओ' गायासप्त० 'अभव्यया अगृहीतानुनयः' इति च्छाया च, 'अहवाइ' ग .. २. 'गेतो' इति गायासप्त० 'निर्यन्' इवि च्छाया च, 'जन्तो' क., 'जेतो' स. ३. 'चित्र' क.ग.घ., 'विअ' स., 'व्विम' इति गाया- सम०. ४. 'चुकसंकेओ' क. ५.'विजम्गद' क., 'विमागद' स. ६. 'निइणटाणव' क., 'निहाणठामाव्व' स. ७. 'व्विग्न' इति गायासस०. ८. 'धुअर' क. ख.
Page 784
५ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ६९१
[सालोक एव सूर्ये गृहिणी गृहस्ामिनो गृहीत्वा। नेच्छतोऽपि पादौ धावति हसन्ती हसतः ॥] अभिसारिका यथा- 'गम्मिहिसि तैस्स पार्स मा जूरसु तरुणि वैड्ठउ मिअंको। दुद्धे दुद्धम्मिवे चंदिआए को पेच्छइ मुहं दे ॥ ४०३॥ [गमिष्यसि तस्य पार्श मा खिद्यसव तरुणि वर्धतां मृगाङ्कः। दुग्घे दुग्धमिव चन्द्रिकायां क: प्रेक्षते मुखं ते ॥] प्रोषितभर्तृका यथा- 'गिम्हे दवर्म्गिमसिमइलिआइँ दीसंति विंझेसिहराइं। आससु पउत्थवइए ण होंति णवपाउसब्भाईं ॥ ४०४ ॥' [श्रीष्मे दावाभिमषीमलिनितानि दृश्यन्ते विन्ध्यशिखराणि। आश्वसिहि प्रोषितपतिके न भवन्ति नवप्रावृडभ्राणि ॥]
विरहोत्कण्ठिता यथा- 'अस्मिन् वर्षमहे न वर्तत इदं यत्कामदेवोत्सवे स्थेयं पुत्रि निरन्नया तदघुना किंचिन्मुखे दीयताम्। इत्युक्ते जरतीजनेन कथमप्यध्वन्यवध्वा ततः पर्यस्ते ऽहनि कल्पितश्च कबलो धौतश्च धौराश्रुमिः ॥४०५॥
१. 'गम्महिसि' क., 'रम्मिहिसि तरस ण संमार सूरस' स. २. 'सूरम' क., सुन्दरि मा तुरअ' गाथासप्०, 'सुन्दरिमा त्वरस्व' रति च च्छाया. ३. 'बटुउ' स. ४. 'उठे दुद्धम्मि वद' स. ५. 'मिअ' इति गाथासप्तo. ६. 'चन्दिभार' गायासस० ७. 'पेच्छाइ' क. ८. 'दवग्' ग.घ. ९. 'विज्ज' गाधासत०. १०, 'आसउ' क.ख. ११. 'धाराम्युमिः' क.ख.
Page 785
६९२ काव्यमाला।
हीनपात्रेषु शकारो यथा- 'पलिच ले लंबदशाकलाअं पावालअं शुत्तरादेण छँतं। मंशं च खादुं तुँह भोट्ठकांहि" चुकुश्रकुश्रुक्रुचुकुश्रुकुंति ॥।8० ६।।' [प्रतीच्छ रे लम्बदशाकलापं प्रावारकं सूत्रशतेन छन्नम्। मांसं च खादितुं तव ओष्ठकाम्यां चुकुश्रुकुश्रुक्कुचुक्ुश्रुकृंति ॥] ललको यथा- 'कंचलिवालिएं कंति कुडम्मल- दन्ति धिद्धिलुद्धिए मइवेआलसि। लत्तिसोवरि जैग्गिरि तुमं सहिं खराविदुपोप्फैलि ण लेकीसि ण आगसि ॥४०७' [.
अमात्यादिरादिरासनार्ह: पाषण्डादिर्वा पीठमर्दः । तयोरमात्येषु माल्यवान् यथा- 'हा वत्साः खरदूषणत्रिशिरसो वध्याः स्व पापस्य मे हा हा वत्स विभीषण त्वमपि मे कार्येण हेयः स्थितेः ।
१. 'जदिच्छशे' इति Bombay Sanskrit Series मुद्रिते मृच्छकटिके। 'पलिश्व ले' ग., 'पलिश्र ले' घ. २. 'लम्बदशाविश्यालं' इति मुद्रिते मृच्छकटिके. २. 'शुचशदेदिं' रति मुदरिते मृच्छकटिके. ४. 'जुतं' इति मुद्रिते मृच्छकटिके, 'छत्रम्' क.ख. ५. 'खार्दुं' इति मुद्रिते 'मृच्छकटिके स. ६. 'तह तुष्टि कायुं' इति मुद्रिते सृच्छकटिके, 'तुह तुट्टि कार्दुं' स. ७.'बुह चुह् चुकु लुह् चुहूच्ति' इति मुद्रिते मृच्छकटिके. ८. 'कंबलिवाणिगिए' क., 'कंबलवाणिए' स., 'कंबलवालिए' ध. ९. 'क. चि'क.ल. १०. 'कुर्ट्टमलदन्ति' क.स्. ११.'तुद्धिए' क.ल. १२. 'जग्गिरिक' क.ए १३. 'पुष्फलि' ख. १४. 'लोकी' क.स. १५. 'सिपतेः' पति मुद्विते मदावीरचरिते.
Page 786
५ परिच्छेद: I] सरसतीकण्ठाभरणम्। ६९२
हा मद्दत्सल वत्स रावण महत्पश्यामि ते संकटं वत्से कैकसि हा हतासि ने चिरं त्रीन्पुत्रकान्द्रक्ष्यसि ४०८' पाषण्डेषु भैरवानन्दो यथा- 'दंसेमि तं पि सैसिणं वसुहावइपेणं धम्मेमि तस्स वि रइस्से रह णहद्वे। आणेमि जक्खसुरसिद्धगणंगणाओ तं णत्थि भूमिवलए मह जं ण संज्झम् ।। ४०९।' [दर्शयामि तमपि शशिनं वसुधावतीण स्भ्नामि तस्यापि रवे रथं नभोऽधें। आनयामि यक्षसुरसिद्धगणाङ्गनास्तन्नास्ति भूमिवलये मम यन्न साध्यम्॥] वैहासिक: क्रीडनको विश्वास्य विदूपकः । यथा- 'फुहुक्रं कलमकूरसमं वहंति जे सिंदुवारविडवा मह वल्हा दे। जे गालिदस्स महिसीदहिणो सरिच्छा रुचंति मुद्धविअइल्पसूणपुंजा ।। ४१० ।।' [पुष्पोत्करं कलमभक्तसमं वहन्ति ये सिन्दुवारविटपा मम वल्भासते। ये गालितस महिषीदभः सदक्षा रोचन्ते मुग्धविचकिलप्रसूनपुजाः ॥] मान्यः कलत्रवान्भुक्तविभवो गुणवान्विटः ॥ १७० ।।
१. 'नैकशि' क्., 'नैकपि' ग., 'नैकपि' घ. २. 'न चिराव' इति मुद्रिते बीर- चरिते. ३. 'दसिण' स. ४. 'वसुदावईणं' स. ५. 'रदस्स गई' क.ख., 'रविस्स रह' इति च काव्यमालामुद्ितकरपूरमअर्याम्. ६. 'भूमिवलये' क. ७. 'सज्जम्' क.स. मुदितकर्पूरमचर्या च. ८. 'ते कि ' Harvard Oriental Series मुद्रितारयां कर्पूरमअर्याम्, काव्यमालामुद्वितायां च.
Page 787
६९४ काव्यमाला।
स यथा- 'शकार कि प्रार्थनया प्रावारेणामिषेण वा। अकार्यवरज मे ब्रूहि किममीष्टं कैरोमि ते ।। ४११ ॥' घात्रेयकादिश्वेटो यथा- 'चन्द्रापीडोऽथ संजातपीडः कादम्बरीं प्रति। प्राहिणोत्सस्तकेयूरः केयूरकमुपस्थितम् ॥ ४१२॥' पताकासु- स्वात्मोपयोगिन्यन्योपयोगिन्यनुपयोगिनी । पताकेत्यापताकेति प्रकरीति प्रकीर्त्यते ॥ १७१॥ तासु पताका हनूमान् यथा- 'दिक्वा सोऽयं महाबाहुरञ्जनानन्दवर्धनः । यस्य वीर्येण कृतिनो वयं च भुवनानि च ।। ४१३ ।।' आपताकाप्रकर्यो मारीचजटायुषौ यथा- 'रक्षसा मृगरूपेण वश्चयित्वा स राघवौ। जहार सीतां पक्षीन्द्रप्रयासक्षणविप्नितः ॥ ४१४ ॥ सहजा पूर्वजागन्तुः सखीह त्रिविधोच्यते। तासु लवज्जिकादि: सहजा यथा- 'उज्ज्वलालोकया स्न्िग्धा त्वया त्यक्ता न राजते। मलीमसमुखी वर्तिः प्रदीपशिखया यथा॥४१५॥ कामन्दक्यादि: पूर्वजा यथा- 'तथा विनयनम्रापि मेया मालत्युपायतः । नीता कतिपयाहोभिः सखी विस्त्म्भसेव्यताम् ॥ ४१६॥' १. 'प्रावारेण मिषेण वा' क., 'प्रावारेणामिषेण वा' घ. २. 'आकार्यवर्ज' ग. ३. 'करोति' ग. ४. 'यथा' स. ५. 'कतिपयाहेन' Dr, R. G. Bhandarkar मुदिते मालतीमाथवे.
Page 788
५ परिच्छेद: ।] सरसतीकण्ठाभरणम्। ६९५
त्रिजटादिरागन्तुर्यथा- 'जाणइ सिणेहभणिअं मा रअणिअरित्ति मे जुउच्छसु वअणम्। उज्जाणम्मि वैणम्मि अ जं सुरहिं तं लआण घेप्पइ कुसुमं ४१७' [जानकि स्नहभणितं मा रजनीचरीति मे जुगुप्सख वचनम्। उद्याने वने च यत्सुरभि तहतानां गृहते कुसुमम् ॥] नायकगुणेषु महाकुलीनत्वं पुंसो यथा-
भूपाल: परमार इत्यधिपतिः सप्ताब्घिकाश्चेर्भुवः । अद्याप्यद्भुतहर्षगद्गदगिरो गायन्ति यस्योद्धटं विश्वामित्रजयोर्जितस्य भुजयोर्विस्फूर्जित गुर्जराः।। ४१८। औदार्य यथा- 'दिब्यातङ्गवटाविभक्तचतुराघाटा मही साध्यते सिद्धा सापि वदन्त एव हि वयं रोमाश्चिताः पश्यत। विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाद्धुतमिदं यत्रैव चासतं गतम् ।। ४१९।।' महाभाग्यं यथा-
अ्रन्थ्युद्धासिनि भग्रमोघमघवन्मातङ्गदन्तोद्यमे।
वीरश्रीरिव तस्य वक्षसि जगद्वीरस्य विश्राम्यतु ॥ ४२० ॥ १. 'अउछसे' घ. २. 'वणिन्मि' क. ३. 'ोण्डर' काव्यमालामुदिते सेतुबन्चे. ४. 'गूजेरा:' ग.घ. ५. 'साथ' ग.ष. ६. 'यजैद' क. ७. 'द्राङ' मुदिते महा- चीरचरिते.
Page 789
६९६ काव्यमाला।
कृतज्ञता यथा- 'कृतककुपितैर्वाष्पाम्भोभिः सदैन्यविलोकितै- र्वनमसि गता यस्य प्रीत्या धृतापि तथाम्बया। नवजलघरश्यामाः पश्यन्दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥ ४२१ ॥' रूपसंपद् यथा- 'व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रिंतः ॥। ४२२ ॥' यौवनसंपद् यथा- 'महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव । रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गम्भीरमनोहरं वपुः ॥४२३।' वैदग्व्यसंपद् यथा- 'कोऽयं भामिनि भूषणं कितव ते शोण: कथं कुङ्कमा- त्कूर्पासान्तरितः प्रिये विनिमयः पश्यापरं कोस्ति मे। पश्यामीत्यभिघाय सान्द्रपुलकौ मृद्धन्मृडान्याः खनौ हस्तेन प्रतिनिर्जितेन्दुरवताद्दयूते हसन्वो हरः ॥ ४२४ ॥' शीलसंपद् यथा- 'का त्वं शुभे कस् परिग्रहो वा किं वा मदभ्यागमकारणं ते। आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति।४२५॥ सौभाम्यसंपद् यथा- 'असौ विद्याधारः शिशुरपि विनिर्गत्य भवना- दिहायातः संप्रत्यविकलशरच्चन्द्रमघुरः। १. 'इवास्पित:' ग. २. 'कासि' स.
Page 790
५ परिच्छेदः ॥] सरस्वतीकण्ठाभरणम् । ६९७
यदालोकस्थाने भवति पुरमुन्मादतरलै: कटाक्षर्नारीणां कुवलयितवातायनमिव ॥ ४२६ ॥' मानिता यथा- 'यदात्थ कामं भवता स याच्यता- मिति क्षमं नैतदनल्पचेतसाम्। कथ प्रसद्याहरणैषिणां प्रियाः परानुवृत्त्या मलिनीकृताः श्रियः ॥ ४२७॥' उदारवाक्यत्वं यथा- 'ख्याता एव वयं जगत्सु चरितैर्वाग्मिः किमाख्यायते संयत्तो भव शक्तिरस्ति भवतः सत्यं मनुष्यो भवान्। शस्तैरव्यवधीयमानयशसः प्रायो वयं तेषु चे- त्माँहुस्ते ननु सन्ति तेऽपि गिरयो यैर्वानरा: शस्त्रिण: ॥४२८' स्विरानुरागिता यथा- 'ततः कैरप्युक्ते परिणयविधौ काष्ठमुनिभिः पुराणैरातङ्कग्लपितहृदयेन क्षितिभृता। विना वाचं नैतत्क्षममिति निघायाननमधः पतद्वाष्पाम्भोभिर्निखिलमिव दत्तं प्रतिवचः ॥ ४२९ ॥' नायिकागुणेषु स्ि्रिया महाकुलिनता यथा- ममानुषीषु कथं वा स्वादस्य रूपस्य संभवः । न प्रभातरलं ज्योतिरुदेति वसुघातलात् । ४३० ॥'
१. 'परानवत्वा' श्रीमत्पितृचरणसंपादिते किरातार्जुनीये २.'शाता' मुद्रिते महा- वीरचरिते. ३. 'सत्यमस्ति' मुद्रिते वीरचरिते. ४. 'विजयाः' मुद्रिते वीरचरिते. ५. 'ग्ाहखे सुखमाध्रसन्ति' मुद्रिते वीरचरिते. ६. 'छपयति' ख. ७. 'मानुषीभ्यः'ख.
Page 791
६९८ काव्यमाला।
औदार्य यथा- '्रूमेदे सहसोद्वेतेऽपि वदनं नीतं परां नम्रता- मीपन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्। अन्तर्बाष्पजलीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्र प्रकटीकृतो दयितया मुक्तश्च न प्रत्यय: । ४३१ ॥' महाभाग्यं यथा- 'तां नारद: कामचरः कदाचित्कन्यां किल प्रेक्ष्य पितुः समीपे। समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ।। ४३२ ।' कृतज्ञता यथा- 'पुरिससरिसं तुह इमं रक्खससरिसं केअं णिसाअरवइणा। कह ता चिंतिज्जंतं महिलासरिसं ण संपडइ मे मरणं । ४३३॥ [पुरुषसद्दशं तवेदं राक्षससदरं कृतं निशाचरपतिना। कथं तावचिन्तितसुलमं महिलासद्श न संपद्यते मे मरणम् ॥] रूपसंपद् यथा- 'आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः । उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ।। ४३४ ॥' यौवनसंपद् यथा- 'उन्मीलितं तूलिकयेव चित्रं सूर्याशुभिर्भिन्नमिवारविन्दम्। चभूव तस्याश्चतुरस्शोभि वपुर्विभक्त नवयौवनेन ।। ४३५ ॥ वैदग्ध्यसंपद् यथा- 'एकत्रासनसंस्विति: परिहृता प्रत्युद्गमादूरत- स्तीम्बूलानयनच्छलेन रमसाश्लेषोऽपि संविम्नितः । १. 'अमगे' मुद्रितरजावल्याम्. २. 'सहसा कृतेऽपि' क. ३. 'अन्तर्वाष्पजडी- कृतं' ख., मुद्वितरलावन्या घ. ४. 'प्रत्ययः' ख. ५. 'किञ' घ. ६. 'आाचि- न्विजन' क स. . 'चिन्तिभसुळई' इति काव्यमालामुद्रिते सेतुबन्बे. ८. 'वाम्बूला- हरणच्छळेन' घ., काव्यमालामुद्ितेश्मरशवके च.
Page 792
५ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। ६९९
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रेत्युपचारतश्चतुरया कोप: कृतार्थीकृतः ॥ ४३६॥ शीलसम्पदू यथा- चत्तरघरिणी पिअदंसणा अ बाला पउत्थवेइआ अ। असई सेअज्झिआ दुम्गआ अ ण हु खंडिअं सीलम् ।४३७॥' [चत्वरगृहिणी प्रियदर्शना च बाला प्रोषितपतिका च। असती प्रतिवेशिनी दुर्गता च न खलु खण्डितं शीलम् ॥] सौभाग्यसम्पद् यथा- 'संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय परतिवरा सा। नरेन्द्रमार्गाट् इव प्रपेदे विवर्णभावं स स भूमिपालः ॥। ४३८॥ मानिता यथा- शैलात्मजापि पितुरुच्छिरसोऽमिलाषं व्यथ समर्थ्य ललितं वपुरात्मनश्च। सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखं कथंचित् ॥ ४३९ ।' उदारवाक्यत्वं यथा- 'यथा श्रुतं वेदविदां वर त्वया जनोऽयमुच्चैःपदलङ्गनोत्सुकः । १. 'प्रत्युपकारतः' ख. २. 'चतुरपरिणी' क.ख., 'चत्वरघरिणी' ग., 'चत्वरय- रणी' घ., 'चत्तरवरिणी' च गाबासपत०. २. 'तरुणी' गाथासस०. ४, 'पउत्थपहआ' गाथासप्त०. ५. 'असरसअण्णआ' क., 'असर (ह)सअन्जिजा' ख., 'भसरंसपन्जिभ' गायासस०.
Page 793
७०० काव्यमाला।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते॥ ४४० ॥' स्थिरानुरागिता यथा- 'अलं विवादेन यथा श्रुतं त्वेया तथाविधस्तावदशेषमस्तु सः। ममात्र भावैकरस मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥ ४४१ ॥' पाकभक्तिपु आदावसवादु, अन्ते खादु मृद्धीकापाकं यथा- 'प्राक्कामं दहता कृतः परिभवो येनाथ संध्यानंतौ सेर्ष्या बोऽवतु चण्डिका चरणयोसं पातयन्ती पतिम्। कुर्वन्त्याभ्यधिकं कृते प्रतिकृतं मुक्त्तेन मौलौ मुहु- र्बाप्पेणाहृतकज्जलेन लिखितं लक्ष्मेव चन्द्रे यथा ॥४४२'॥ आद्यन्तयो: खादु नारिकेलीपोकं यथा- 'जह इच्छा तह रमिअं जाआ पत्ता पैइं गआ धूआ। घरसामिअस्से अज्ज वि सकोउहलाइँ अच्छीं॥ ४४३॥' [यथेच्छा तथा रमितं जाया प्राप्ता पति गता दुहिता। गृहस्वामिनोडद्यापि सकौतूहलान्यक्षीणि ॥] आदिमध्यान्तेषु खादु खादुतरं खादुतममित्याम्रपाकं यथा- 'शापादसि प्रतिहता स्मृतिलोपरूक्षे भर्तर्यपेततमसि प्रभुता तवैव। १. 'धरुतरत्वया' इति मुद्रिते कुमारसंभवे. २. 'संध्यानतः' स्र. ३. 'कुर्वन्त्यम्प- चिक स. ४. 'वाप्पेणाटृतकज्जलेन' इति. ५. 'नारिकेलीरीतिपाको' क., 'नारिके- लीपार्क' घ. ६. 'पद' स. ७. 'परसामिअरस अस्स' ख. ८. (सोकोकइछाइ अइम्' क., 'सोकोउदच्छार अच्छीइ' ख. ९. 'समृतिरोभरूक्षे' इति मुदिते श्ाकुन्तले. १०. 'भ्तुर्व्यपेततमसि' क.
Page 794
५ परिच्छेदः ॥ सरसतीकण्ठाभरणम्। ७०१
छाया न मूच्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥ ४१४ ॥' यन्नांपैति न चातिशोभते तन्नीलीरागं यथा- 'हित्वा सीतां दशमुखरिपुर्नोपयेमे यदन्यां तस्या एव प्रतिकृतिसखो यत्कतूनाजहार। वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारव्यथमपि परित्यागदुःखं विषेहे॥ ४४५ ॥' यदपैति च शोभते च तत्कुसुम्भरागं यथा- 'बहुवल्लहस्स जा होइ वल्हा कह वि पंचदिअहाइं। सा कि छट्ठं मगगइ कत्तो मिटठं च बैहुअं च ॥ ४४६ ॥' [बहुवछमसय या भवति वहमा करथ कथमपि पच्चदिवसानि। सा कि षछं मार्गते कुतो मृष च बहुकं च ॥] यन्नापैत्यति चें शोभते तन्मज्जिष्ठारागं यथा- 'वेवइ जस्स सविडिअं वलिउं महइ् पुलआइअत्थणअलसं। पेम्मसहावविमुहिअं वीओवासगमणूसुअं वामद्धम् ।। ४१७॥' [वेपते यस् सत्रीडं वलितुं वाञ्छति पुलकाशितसनकलशम्। प्रेमस्वभावविमुक्तं द्वितीयपार्शगमनोत्मुकं वामार्धम् ।]
१. 'सीतां हिल्वा' S.P. Pandit M. A. संपादिते रपुर्वशे. २. 'दुवार कथमपि' ख. मुद्िते रघुबंशे च. ३. 'यदपैति न च शोभते च' क. ४, 'मगगई' गाधासप्त०. ५. 'मिठठ अ' इति गाथाससo. ६. 'बहुअल' इति गाथासम0. ७. 'य- न्रपति अपि च शोभते' स््. ८. 'बीआवासगमणूसुजं' इति काव्यमालामुदिते सेतु- बन्धे, 'द्वितीयावकाशगमनोत्मुकं इति च्छाया न.
Page 795
७०२ काव्यमाला।
गूढव्यलीकमन्तर्व्याजं यथा-
सा गोत्रस्खलनादपैतु च दिवा राघेति मीरोरिति। रात्रावस्पतो दिवा च विजने लक्ष्मीति चाभ्यस्यतो राधां प्रस्मरतः श्रियं रमयतः खेदो हरे: पातु व: ४४८' अगूढव्यलीकं बहिर्व्याजं यथा- 'चक्षुर्यस्य तवाननादपगतं नाभूत्कचिन्निर्वृतं येनैषा सततं त्वदेकशयनं वक्षःसथली कल्पिता । येनोक्तासि विना त्वया मम जगच्छून्यं क्षणाज्जायते सोऽयं दम्मघृतव्रतः प्रियतमः कर्तुं किमेप्युद्यतः ॥४४९॥' अव्यलीकं निर्व्याजं यथा- 'किं कण्ठे शिथिलीकतो भुजलतापाशः प्रमादान्मया निद्रॉच्छेदविवर्तनेष्वभिमुखी नाद्यापि संभाविता। अन्यस्त्रीजनसंकथालघुरहं खमे त्वया लक्षितो दोषं पश्यसि के प्रिये परिजनोपालम्भयोग्ये मयि ॥४५०॥ धर्मानुबन्धि धर्मोदक यैथा- 'अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्वा यूने सितातपवारणम्। मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलब्रतम् ॥। ४५१ ॥' १. 'नामेति चाभ्यस्यता रार्धा०' क. २. 'किमन्युयतः' क.स., ३. 'अम्य- लीकनिव्याजं यथा' क. ४. 'निद्रोच्छेदविवर्वनेयु' क.स्त्र. ५. 'संभापिता' क.ख. ६. 'वीक्षितो' क.स. ७. 'किम्' क.ख. ८. 'धमोंदकं' घ.
Page 796
५ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ७०३
अर्थानुबन्धि अर्थोदक यथा- 'भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमैप्रतिरथं तनयं मरैसूय। भंत्री तदर्पितकुटुम्बभरेण साध शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥ ४५२॥' यत्पुन: काममेवानुबन्नाति तत्कामोदक यथा- 'अद्वैतं सुखदुःखयोरनुगुणं सर्वास्ववस्थासु य- द्विसम्मो हृदयस्य यत्र जरसा यस्मिन्नहायों रसः । कालेनावरणात्ययात्परिणते यत्सेहंसारे स्थितं भेद्रं तस्य सुमानुषस्य कथमप्येकं हि यत्माप्यते ॥४५३॥ 'नानालंकारसंसृष्टेः प्रंकाराश्र रसोक्तयः ।' इत्युक्तं तत्र 'अलंकारसंसृष्टेः' इतीयत्येव वैंक्तव्ये नानालंकारग्रहणं गुणरसानामुपसंग्रहार्थम् । तेषामपि हि काव्यशोभाकरत्वेनालंकार- त्वात्।। यदाह- काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते। ते चाद्यापि विकल्प्यन्ते कस्तान्कार्त्र्येन वक्ष्यति॥ काश्चिन्मार्गविभागार्थमुक्ता: प्रागप्यलंक्रियाः । साधारणमलंकारजीतमन्यत् प्रदर्श्यते॥ १. 'सदिगन्तमहीसपली' स. २. 'दौष्पन्तिम्' स. ३. 'निवेश्य' इवि मुद्धिते शाकुन्तले. ४. 'त्त्सनिवेशितमरेण सदैव मर्त्रा' क.स. ५ 'अनुगतं' इति मुद्रित उत्त- ररामचरिते. ६. 'विश्रामो' क.ख. मुद्रित उत्तररामचरिते च. ७. 'परिणवेर्यत्' ख्.ग. ८. 'प्रेमसारे' इति मुद्रित उत्तररामचरिते. ९. 'मदे'घ. 'मद्र'(दे वा दरंी)ग. १०.'त- तपार्थ्यते' क., मुद्रित उत्तररामचरिते च।। 'यत्प्रार्थ्यते'ख. ११. 'प्रकाराश्च' घ. १२. 'इत्येव' क.ख. १३. 'नानालद्वारग्रहण' स. १४. 'अलद्वारं जातमन्यत्' स.
Page 797
७०३ काव्यमाला।
तत्र 'काव्यशोभाकरान्' इत्यनेन शेषोपमादिवद्रुणरसभावतदाभास-
दीनां गुणत्वमिवालंकारत्वमपि ज्ञापयति- ल्लेषः प्रसादः समता माधुर्यं सुकुमारता। अर्थव्यक्तिरुदारत्वमोज:कान्तिसमाधयः ॥ इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः । तेषां विपर्ययः प्रायो लैक्ष्यते गौडवर्त्मनि॥ इति क्लेषादीनां दशानामेव मार्गपविभागकारितां ब्रुवन्काव्यशो- भाकरत्वेन गुणान्तराणामप्यलंकारत्वमुपकल्पयति॥ तदाह, 'कस्ता- न्कालर्येन वक्ष्यति'। युक्तमिदमुक्तम्। अयुक्तं त्विदमुक्तं रसानाम- लंकारतेति। तेषां गुणानामिवालंकारव्यपदेशाभावात्। नायुक्तम् । धुक्तोत्कर्षाणाम्- जखिरसवत्प्रेयँसामलंकारेषूपदेशात्। तद् यथा- प्रेयः प्रियतराख्यानं रसवद् रसपेशलम्। ऊर्जसवि रूढाहंकारं युक्तोत्कर्ष च तत्रयम्॥ १७२ । तत्रोजखि रूढाहंकारमित्यनेन आत्मविशेषनिष्ठसयोत्कृष्टादृष्टजन्म- नोSनेकजन्मानुभवसंस्काराहितद्रढिन्नः संग्रोंमे गुणसंपदुत्पादातिशयहे-
यविकाररूपेणाभिमानिनां मनसि जाग्रतः परां कोटिमुपवर्णयति । रस- १. 'प्रसादादीन्' र. २. 'अनुगृक्ाति' क. २. 'गौडवत्मैनि लक्ष्मते' क्र. ४. 'मार्गप्रतिभाकारिता' क. ५. 'रति' इत्यभिक क्र. ६. 'उक्तोत्कर्पाणास्' स. ७. 'प्रेयानामुपदेशेन' क.८. 'उत्कृष्टजन्मनो' ख. ९. 'संरकारा हि तइडिम्ः' स्. १०. 'संग्रामेण सम्पदुत्पादातिशमद्देतोः' क. ११. 'अलंकारविश्वेषस्य' इत्यस साने 'विशेपस्' तल.
Page 798
५ परिच्छेदः I] सरस्तीकण्ठाभरणम्। ७०५
चद्रसपेशलमित्यनेन विभावानुभावव्यभिचारिसात्त्विकसंयोगाद्रसनिष्प- त्िरिति रत्यादिरूपेणानेकधाविर्भवतोऽभिवर्धमानस्य परप्रकर्षगामिनः शृङ्गारस्य मैध्यावस्थां सूचयति। प्रेयः प्रियतराख्यानमित्यनेन समस्तमा- वमूर्घाभिषिक्ताया रतेः परप्रकर्षाधिगमाद् भावनाधिगैमे भावरूपतामु- उद्कय प्रेमरूपेण परिणताया उपादानाद भावान्तराणामपि परप्रकर्षाघिगमे रसरूपेण परिणतिरिति ज्ञापयन्नहंकारस्योत्तरां कोटिमुपलक्षयति। सर्वे- षामपि हि रत्यादिप्रकर्षाणां रतिप्रियो रणप्रियः परिहासप्रियोऽमर्षप्रिय इति प्रेम्ण्येव पर्यवसानं भवति। युक्तोत्कर्ष च तत् त्रयमित्यनेनायुक्तो- त्कर्षाणां त्रयाणामप्यूर्जखिप्रभृतीनां गुणत्वमेव नालंकारत्वमित्यवस्थाप- यति। तथा हि-और्जित्यं भाविकेत्वं प्रेय इति गुणेषूपदिश्यते, कुतः पुनरिदमेकदोर्जखि-रसवत्-प्रेयसामलंकारत्वमन्यदी गुणत्वम्। उच्यते- मूमनिन्दाप्रशंसासु नित्ययोगेSतिशायने। संसर्गेऽस्तिवित्रक्षायां भवन्ति मतुबादयः ॥ यथा गोमान् देशः, वाचालो बटुः, बाम्मी विपश्चित्, क्षीरिणो घैक्षाः, बलवान् महँ: दण्डी, गोमती शालेति। तत्रोर्जखिरसवतोरलं- कारत्वविवक्षायामतिशायने भून्नि वा मैत्वर्थीयः । गुणत्वविवक्षायां तु १. 'विवर्धमानस्य' ग. २. 'मध्यमावसाम्' क.स. ३. 'प्रे[यः प्रि!]यतराख्या- नम्' क.,ख. पुस्तके 'प्रेयः' नास्ति, ४. 'परप्रकर्षाधिगमात्' इत्यस्य रपाने 'प्रकर्षा- विगमात्' ख. ५. 'भावनामिगमे' क.ख, ६. 'परिणतायामुपादानात' क., 'परिणता [या] उपादानात्' ग. ७. 'पापयननलकवारस्ोत्तरा' ख. ८. 'प्रेमण्येव' क्., 'प्रेम्ण एव' ख. ९. भाविकं प्रेय' क.ख. १०. 'गुणेपु भण्यते' क.ख. ११. अन्यदा गुणत्वम्' क. १२. 'फलिनो वृक्षाः' क. १३. 'मन्दो' क. १४, 'शोणेति' क. १५. 'अतिशायने वा' क.स. १६. 'मतुबर्थीयः' क.ख. ४५ स० क०
Page 799
७०६ काव्यमाला।
प्रशंसानित्ययोरिति योगयोरिति द्रष्टव्यम्। नित्यो हि काव्ये गुणयोग इव रसादियोगः । गुणवतो रसवतश्च निश्चितैवास्य प्रशंसा । संसर्गस्तु गुणानामवश्यमुपादानेषु। निन्दा पुनर्दोषहानेर्नीवतरति। गुणेषु प्रेये इति रूपामेदात कथमलंकारत्वे तदुत्कर्षप्रतीतिः । यथा 'युघिष्ठिरः श्रेष्ठतमः कुरूणाम्' इति तत्रातिशायिकान्तरेण तदवगतिरिति चेत् इहापि 'युक्तोत्कर्ष च तत्रयम्' इति वाक्यान्तरेण भविष्यति। न चातिशायिका सार्थातिरिक्तं किमपि ब्रुवते, अपि तु प्रकृत्युपात्तमेव प्रकर्षादिकं गमयन्ति। सार्थिकेषु हेते विधीयन्ते। एवमवस्थापिते गुणरसानामलंकारत्वे षटूप्रकारो रसालंकारसंकर: संभवति-गुणसंकरः, अलंकारसंकरः, गुणालंकारसंकरः, रससंकर:, रसगुणसंकरः, रसालं- कारसंकरेः इति। ननु च गुणानां संकरव्यवहारो नोपपद्यते बहुष्वपि गुणेषु गुणवदित्येव व्यपदेशात्। मैवम् । त्रिविधा गुणाः-शब्दगुणाः, अर्थगुणाः, दोषगुणाश्च। ते तु प्रत्येकं द्विधा-उल्लेखवन्तः, निरुल्ले- खाश्र। तत्र शब्दगुणेषु समाधिमाधुर्यौदार्यगाम्भीर्यादयः सोल्लेखाः, श्लेषप्रसाद सैमतामाघुर्यादयो निरुल्लेखाः। अर्थगुणेषु प्रसादरीतिकान्त्या- दय: सोलेखाः, अर्थव्यक्तिसौक्ष्म्यगाम्भीर्यसंमितत्वादयो निरुलेखाः। दोषगुणेषु आम्यपुनरुक्तापार्थान्यार्थादयः सोलेखाः, शब्दहीनसंभ्रमाप- कमविसन्ध्यादयो निरुललेखाः । तत्र सजातीयानां सोलेखानामेवं, विजातीयानां तु निरुल्ेखानामपि संकरव्यवहार: प्रवर्तते ॥
१.'दोषहानेन वितरति' क., 'दोषदानेन वितरति' स. २. 'प्रेम इति' स. ३. 'तत्रातिश्ायिगुणान्तरेण' क.ख. ४. 'पट्प्रकारको' क, ५. 'रसालंकारसंकरश्रेति' क.स. ६. 'नन्वत्र' क.स. ७. 'सौकुमार्यादयो' क,ख. ८. 'गाम्भीर्यादयो' ख. ९. 'विजातीयानां विजातीयानां तु' घ.
Page 800
५ परिच्छेद: I] सरसतीकण्ठाभरणम्। ७०७
सजातीयानां शब्दगुणेषु समाध्यादीनां यथा- 'णवपल्लवेसु लोलइ घोलइ विडवेसु वलइ सिहरेसु। थवइ थवएसु अ तहा वसंतलच्छी असोअस्स । ४५५ । [नवपछ्लवेषु लोलति घूर्णते विटपेषु वलते शिखरेपु। स्थगति सबकेषु च तथा वसन्तलक्ष्मीरशोकस् ॥] अत्रान्यधर्माणामन्यत्रारोपणं समाधिः पृथक्पदता माधुर्य, वैन्धवि- कटत्वमुदारता, ध्वनिमत्ता गाम्भीर्यमिति सजातीयाः संकीर्यन्ते। यतो वसन्तलक्ष्मीरशोकस्वेति पदयोः शब्दध्वनिरपि परिस्फुरति। यथा कस्य- चिदशोकस्य मानिनोऽक्रेषु प्रियाज्ना सविलासं चेष्टते तथास्येयमिति॥ अर्थगुणेषुं क्लेषादीनां यथा- 'जनः पुण्यैर्यायाज्जलधिजलभावं जलमुच- स्तथावस्थं चैनं निदधतु शुभै: शुक्तिवदने। ततस्तां शयोमि: परिणतिमसौ विन्दतु यैया रुचिं तन्वन्पीनस्तनि हृदि तवायं विलुठति ॥४५६ ॥ अत्र संविधाने सुसूत्रता क्लेष:, अर्थस्य प्राकट्वं प्रसाद:, उत्प- स्यादिक्रियाक्रमो रीतिः, दीप्तरसत्वं कान्तिरित्यर्थगुणाः सजातीयाः संकीर्यन्ते । दोषगुणेषु आम्योदीनां यथा- 'हन्यते सा वरारोहा समरेणाकाण्डवैरिणा। हन्यते चारुसर्वाज्की हन्यते मज्जुभाषिणी॥। ४५७ ॥ अत्र हन्यत इत्यमअलार्थम्, वरारोहेत्यश्लीलार्थम्, हैन्यते हन्यत १. 'विलवेस' क.ख.ग. २. 'मह्य' क. ३. 'बन्धविगूढत्वन्' ख. ४. '5ध्वनि- मत्ता' व. ५. 'अन्यार्थगुणेपु' क. ६. 'धुमे' क. ७. 'यथा' क.ख. ८. 'संविधानेपु सूत्रता' स. ९. 'अमादीनां' क. १०. 'इत्यसनतार्थम्' ख. ११. 'इन्यते' क.ख,
Page 801
७०८ काव्यमाला।
इति पुनरुक्तम्, चारुसर्वाङ्कीत्युक्त्वा वैरारोहेति व्यर्थम्, त एते सजा- तीयाश्र्त्वारोऽपि दोषगुणाः संकीर्यमाणाः कस्यचिदुन्मत्तभाषिणोऽनुक- म्पाद्यतिशयविवक्षायामभ्यनुज्ञायन्ते ॥ यदाह- अनुकम्पाद्यतिशयो यदि कश्चिद्विवक्ष्यते। न दोष: पुनरुक्तादौ प्रत्युतेयमलंक्रिया॥ अर्थासेंजातीयानां शब्दगुणानामर्थगुणानां च संकरो यथा- 'को नाम नोदयति नास्तमुपैति को वा लोकोत्तर: पुनरयं सविता जगत्ु। यत्रोदयास्तमयमाजि रुचां निधाने द्वेधा भवत्यहरिति क्षणदेति कालः ॥४५८ ॥' अत्र यावदर्थपदता संमितत्वेम्, सम्यग्बन्धविकटत्वमुदारता, छा- व्यविशेषगुणयोग उदात्तत्वमिति शब्दगुणाः, उक्तार्थनिर्वहणं प्रौढिः, अर्थप्राकट्यं प्रसादः, रूढाहंकारतौर्जित्यमित्यर्थगुणाः संकीर्यन्ते॥ शब्दगुणानां दोषगुणानां च यथा- 'एब्ेहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्घनि चिरं च परिष्वजे त्वाम्। आरोप्य वा हृदि दिवानिशमुद्धहामि वन्देऽथवा चरणपुष्करकद्वयं ते ।। ४५९ ।' अत्र भावतो वाक्पवृत्तिर्भाविकत्वम्, प्रसिद्धार्थपदता प्रसादः, प्रियार्थपदोपादानं प्रेय इति शब्दगुणाः, एब्रेहीति पुनरुक्तम्, वत्से- १. 'उत्तौ' क.ख. २. 'अनुकम्पाद्यतिशय' ख. ३. 'विवक्षते' स. ४. 'अथ सजातीयान्' ख.घ. ५. 'ससितत्वम्' स. ६. 'शाध्यविश्येषगुणयोग' इत्यस्य सथाने 'विशेषगुणयोग' क.स्र. ७. 'चिराय' क.ख. मुद्रिते महारवीर चरिते च. ८. 'बाक् प्रतिपत्तिः' क. स. ९. 'प्रियार्थेपदोपादानम्' क.ल.,
Page 802
५ परिच्छेद: ।] सरस्वतीकण्ठाभरणम्। ७०९
त्युक्त्वा त्वत्पादाब्जदयं वन्द इति विरुद्धम्, मूर्धि चुम्बामि हृदि वहामीत्यादौ बन्द इति क्रियाखनुपयोगात् पूर्णचन्द्रेतिदर्शनादिक्ियोप- योगि व्यर्थ चेति दोषेगुणाः संकीर्यन्ते। रसाक्षिप्तचिचादौ हि पुनरु- क्तादयो ने दुष्यन्ति॥ अर्थगुणानां दोषगुणानां यथा- 'किं द्वारि दैवहतिके सहकारकेण संवर्धितेन विषपादप एष पाप: । अस्मिन्मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसंनिपाताः ॥ ४६० ॥' अत्र दीप्तरसत्वं कान्तिः, अर्थप्राकटवं प्रसादः, उक्तार्थनिर्वहणं प्रौढिरित्यर्थगुणा:, दैवहतिके विषपादपोऽयं पाप इत्यमज्जलार्थ आम्यं, किमनेन संवर्धितेनेत्यत्र मदनज्वरसंनिपाता इत्यत्र च कृत्यप्रयोजनादे-
अस्मिन्विकासविकारभाजीति विकासशब्दस्य पुष्पविषयत्वाद्वृक्षेऽपि प्रयोगोऽवाचकत्वादसमर्थ इति दोषगुणा मिथः संकीर्यन्ते। यतो रसाक्षेपात्परिहासलेशोक्त्यामङ्गलम्, प्रविश पिण्डीं द्वारं मक्षय इति न्यायात्म्रसिद्धाध्याहारः, 'दरी वदति, मञ्चाः करोशन्ती'ति प्रयोगदर्शनादा- धाराधेययोरमेदोपचारश्र विरुद्धलक्षणादिभिः प्रयुज्यमानो न दोषायेति॥ अथालंकारसंकरः । स यद्यपि व्यक्ताव्यक्तोभयात्मतया तिलतण्डुलकादिमेदैः प्रधाना- ङभावसमकक्षताभ्यां पुरस्तादुक्त: तथापि तेषां गुणादिसंकरासाधारण-
३. 'न' ग. नासित. १. 'पूर्ण चन्द्रनिदर्शनादि-' ख. २. 'दोषगुणाः परस्पर संकीर्यने' क.खर.
Page 803
७१० काव्यमाला।
त्वात्संप्रति साधारण: प्रकार उच्यते। स षोढा शब्दालंकारसंकर:, अर्थालंकारसंकरः, उभयालंकारसंकरः, शब्दार्थालंकारसंकर:, शब्दा- र्थोभयालंकारसंकर:, अर्थोभयालंकारसंकरश्रं। तेषु शब्दालंकार- संकरो यथा- हंसौली भयतरला सारा सरसा सराससारेंसरासा। अम्बरमैरमारूढा सारासरसा सराससारसरासा।। अत्र संस्कृतप्राकृतभाषासंक्ेषः, गतप्रत्यागतं चित्रं, पदार्वृत्तियमकं, वर्णानुप्रासश्चेति चत्वारः शब्दालंकाराः संकीर्यन्ते॥ अर्थालंकारसंकरो यथा- 'वासावस्थितताम्रचूडवयसामायामिभिः कूजितै- र्दूरादप्यनुमीयमानवसतिर्रामोSयमन्तर्वणम्। यत्रोद्दीप्तकुकूलकूटविसरज्झम्पाघनं घूर्णते सन्ध्यान्तोल्लसदच्छमल्लपटलच्छायाजटालं तमः ॥ ४६१॥ अत्र ताम्रचूडवयसां कूजितैरित्यनुमानम्, यत्र तमो घूर्णत इति ज्ञापकहेतुः, कुकूलकूट विसरज्झम्पाघनमिति सन्ध्यान्तोल्सदच्छमल्लपट- १. 'शब्दोमयालंकारसंकर:' स्र. २. अत्र 'च' इत्यधिकं क.ख. ३. 'इंसानामाली पण्चि:। अम्बरमाकाशमरमत्यन्तमारूढा। किभूता।' भयेन चजला। पुनः किभूता। सरसा रससहिता। पुनः किभूता। सरासाः सशब्दा ये सारसासेपां रासः कीडा यस्यास्तथा। पुनः किभूता। आरासे शब्दे यो रसस्ततसहिता । पुनः किंभूता। सरस सर: गमनं तेनास्यते क्षिप्यते सरासः । सरसि भवः सारसः। स चासी स च। एवंविधो रास: कीडा यस्पास्तथेति'. घ. पुस्तकस्यायुषि टिप्पणी. ४. 'सरासुसा' क. ५. 'अम्बरमारुढा' क., 'अम्वरसाररूढा' ख. ६. 'पादावृत्तियमकम्' क.ख. ७. 'शब्दालंकाराः' क.स. ८. 'सुगालकूछविसरधून्यान्धनं' क., 'कुकूलकूटविसर- इम्यापनं' सर.
Page 804
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम् । ७११
लच्छायाजटालमिति चं कारकहेतुः, जायमानपदार्थसरूपाभिधानं जातिरित्यर्थालंकाराश्चत्वारो मिथः संकीर्यन्ते ॥ उभयालंकारसंकरो यथा- 'ण हु णवरं दीवसिहासारिच्छं चंपएहिं पडिवण्णम्। कज्जलकज्जं पि कैअं उअरि भमन्तेहि भमरेहिं ॥ ४६२॥' [न खलु केवलं दीपशिखासादश्यं चम्पकैः प्रतिपन्नम्। कज्जलकार्यमपि कृतमुपरि भ्रमद्विर्रमरैः ॥] अत्र चम्पकादीनां प्रदीपशिखाभिराकारकान्तिभ्यामुपमा, विरहिणी- हृदयदाहोद्ानद्योतनार्थक्रियाभ्यां साम्य, कज्जलपैटलानामिव अ्रमरपट- लानामुपरि मेलनान्मेलितं, चम्पकदीपकलिकयोरिव अ्रमरकज्जलपटल- योरौपम्यादिसंबन्धात्समुच्चय इत्युभयालंकाराश्र्वत्वारो मिथः संकीर्य- माणा उपलभ्यन्ते ॥ शब्दार्थालंकारसंकरो यथा- 'सर्वाशारुधि दग्घवीरेधि सदा सारङ्ववद्धकुषि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि सच्छन्दकन्दद्ुहि। शुष्यत्स्ोतसि तप्तभूमिरजसि ज्वालायमानाम्भसि ग्रीष्मे" मासि खरार्कतेजसि कथ पान्थ ब्रजज्जीवसि ॥४६३'॥ अत्रावन्तिका रीतिः, पदमुद्रा, विभक्तिमुद्रा, अनुप्रासश्चेति शब्दा- १. 'सरिच्छ' ख. २. 'चन्पपटि' स. ३. 'कज्जन्मि' क. ४. 'आममन्तेहि भम- लेदि' स. ५. 'आकारकान्िमुपमा' क.६. 'विरहिणीहृदयदाहोचमचोतनार्थक्रियाभ्यां'
'कज्जलपटलानामुपरि' ख. ८. 'चत्वारो मिथः संकीर्यन्ते' क., 'चत्वारीउपि संकी- र्यन्ते' स. ९. 'दग्धवीरधि' क. १०. 'रृपा' क. ११. 'सच्छन्दकुन्दद्रुदि' क.ख्र. १२. 'तमभूरिरजसि व्वालायमानाणसि' क.स. १३. 'उेऐे' स.
Page 805
७१२ काव्यमाला।
लंकारा:, जातिः, कारकेज्ञापकौ हेतू, चित्रहेतुश्चेत्यर्थालंकारा मिंथ: संकीर्यन्ते। शब्दोभयालंकारसकरो यथा- 'स्तोकस्तोकममूभिरम्बरतले ताराभिरखं गतं गच्छत्यस्तगिरे: शिरस्तदनु च च्छायादरिद्रः शशी। प्रत्यासन्नतरोदयस्य तरणेविम्वारुणिम्ना ततो मञ्जिष्ठारसलोहिनी दिगपि च प्राची समुन्मीलति । ४६४॥ अत्र समुन्मीलतीति विभक्तिमुद्रा, स्तोकस्तोकमस्तं गेंतं गच्छती- त्यादिरनुपासश्च शब्दालंकाराः, हेतूपमा, समाधिः, अनुक्रमः, समु- चयोक्तिश्रेत्युभयालंकारा मिथः संकीर्यन्ते ॥ अर्थोभयालंकारसंकरो यथा- 'खं वस्ते कलविक्ककण्ठमलिनं कादम्बिनीकम्बलं चेर्चा पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम्। गन्धं मुश्जति सिक्तलीजसुरमि वर्षेण दग्घा स्थली दुर्लक्ष्योऽपि विभाव्यते कमलिनीहासेन भासां पतिः ॥४६५॥' अत्र जातिः, अनुमानम्, कारकज्ञापकहेतू चेत्यर्थालंकारा:, रूप- कोपमा, हेतूपमा, उत्प्रेक्षोपमेति चोभैयालंकारा मिथः संकीर्यन्ते॥ एतेन गुणालंकारसंकरोऽपि व्याख्यातः । यंतो यद्यपि गुणवत्येव वाक्येऽलंकोरयोगस्तथापि कचिद् गुणस्य प्राधान्यं कचिदलंकारस्येति प्र- घानाक्भावेन गुणालंकारयो: संकरव्यवहार: प्रवर्तते। स घोढा-शब्द- १. 'शापककार कहेतु' क. २. 'मिथः शब्दे संकीर्यन्ते' ख. ३. 'एवमुभया- लंकारसकरो यथा' क. ४. 'अखं गच्छतीत्यादि:' ख. ५. 'चर्चा' क.ग. ६. 'सि- कनालमुरभि क., 'सिकलाजसुरमिः' स्र. ७. 'चेति उभयालंकारा:' क.ख. ८. 'अतो' क.स्. e. 'संकरयोगः' क.स.
Page 806
५ परिच्छेद: ॥] सरस्वतीकण्ठाभरणम्। ७१२
गुणप्रधान:, अर्थगुणप्रधानः, दोषगुणप्रधानः, शब्दालंकारप्रधानः, अ- र्थालंकारप्रधानः, उमयालंकारप्रधानश्रैं।। तेषु शब्दगुणप्रधानो यथा- 'प्राप्तश्रीरेष कस्मात्पुनरपि मैयि तं मन्थखेदं विदध्या- न्निद्रामप्यस्य पूर्वामनलसमनसो नैवें संभावयामि। सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात- स्त्वय्यायाते वितर्कानिति दघेत इवाभाति कम्पः पयोधे:४६६' अत्र हेतूतपरेक्षाभिघाने त्वयीत्यादौ पदे विष्णोः सरूपाध्यासेन त- द्वावापत्तौ समाधेरिह प्राधान्यं प्रतीयते। ननु चायमर्थस्य प्राकट्या- त्प्रसादोऽर्थगुणः कस्मान्न भवति। अस्मिन्नपि तव्यपदेशेन शब्दश- केराधिक्यात्। ननु च त्वयि इति, एष इति, अस्य इति, युष्मदेतैदि- दमां न कश्न विष्णुवाची स कथ वर्णनीये न्यस्तरतं तमर्थममिदधीत। उच्यते, सर्वनामत्वेनैषां सर्वचाचित्वात्। सर्वनामानि हि सं्वाभिधायी- न्यपि प्रकरणादिगम्यं विशेषमेव त्रुवते स च इह प्राप्तश्रीरित्येवमादि- भिरभिव्य क्तेमेवावगम्यत इति॥ अर्थगुणप्रधानो यथा- 'लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिर जयन्ति । १. 'दोषालंकारप्रधानः' क. २. 'इति' इत्यधिक क,ख. २. 'मधितुं मन्दर वा' ख. पद्यमेतद् धन्यालोके( २.३०)Sप्युदाहतम्. ४. 'नाप्यहं तर्कयामि' क. ५. 'विद्धति' क. ६. 'समाेः प्राधान्यमिद्द' क.ख. ७. 'युष्मदेतदिदमदः' क., 'युष्मदस्मदिदमां' घ. ८. 'कश्षिन्न विष्णुवाची' क. ९. 'स कर्ष वर्णनीये वस्तुनि तमर्थममिदध्याद्' क.ख. १०. 'सर्वनामाभिधायीन्यपि' क. ख. ११. 'प्रकर- णादिगम्यं विशेषमर्थ च जुवते' क., 'प्रकरणादिगम्यविशेषमिव जुकते' ख. १२. 'अ- मिध्यक्तमेवाभिगम्यते इति' क., 'अभिव्यक्त एवाभिगम्यते इति' ख.
Page 807
७१४ काव्यमाला। यानि प्रणाममिलितानि नृणां ललाटे लुम्पेन्ति दैवलिखितानि दुरक्षराणि॥। ४६७ ॥ अत्र हेतुसाम्योभयालंकाराभिधानेऽपि प्राधान्येनार्थप्राकट्यमर्थगुणः प्रतीयते॥ दोषगुणप्रधानो यथा- 'येनापविद्धसलिलस्फुटनागसझ्ा देवासुरैरमृतमम्बुनिधिर्ममन्थे। व्यावर्तनैरहि पतेरयमाहि ताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥ ४६८॥' अत्र 'व्यावर्तनैरहिपतेरयमाहिताक्कः' इति ज्ञापकहेतोः 'सं व्यालि- खन्निव' इति उत्प्रेक्षावयवाच, देवासुरैरिति नित्यैवैराविवक्षायां बहु- वचनम्, 'अमृतमम्बुनिधिर्ममन्थे' इति द्विकर्मकेष्वपि मथिप्रभृतीना- मुपसंख्यानमिति अमृतशब्दाद्वितीया इति दोषगुणयोः प्राधान्यं प्रतीयते। ननु चात्रार्थस्य प्राधान्यं कथ भवति तद्विपयस्य ज्ञापकहेतु- नापहृतत्वात्सोऽप्यर्थालंकार एव । गुणालंकारयोश्च तुल्यकक्षतायाम- लंकार: प्रधानं भवति न गुणः । गुणैर्हि गुणभूतैरेवालंकाराः प्राय आरभ्यन्ते। तदथा- 'अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता । विपश्चीखरसौभाग्या वैदर्भी रीतिरिष्यते॥ सेमस्तात्युद्धटपदामोज:कान्तिसमन्विताम्। गौंडीयेति विजानन्ति रीति रीतिविचक्षणाः ॥। १. 'लिम्पन्ति' घ. २. 'अत्र हेतुवाक्यउभथालकारप्राधान्येनार्थप्राकटयमर्व- गुणः प्रतीयते' क. ३. 'नित्यविवक्षायान्' ख. ४. 'प्राधान्य न भवति' क.ख. ५. 'समस्तेत्युत्कटपदाम्' क., 'समस्तात्युत्कटपदाम्' स. ६. 'गौडीया ता' क.ख.
Page 808
५ परिच्छेद: ॥] सरस्वतीकण्ठाभरणम्। ७१५
आश्िष्ट क्रथभावां तु पुराणच्छायमाश्रिताम्। मधुरां सुकुमारां च पाश्चालीं कवयो विदुः॥ माधुर्यमपि वाञ्छन्तः प्रसादं च सुमेधसः । समासवन्ति भूयांसि न पदानि प्रयुञ्जते॥ लाटीयावन्त्ययो रीत्योर्मागध्यां च क्वचित्कचित् । केचिदोजोऽभिघित्सन्तः समस्यन्ति बहून्यपि॥ प्रतीतशब्दमोजसिवि सुश्लिष्टपर्देसंधि च। प्रसादि खभिधानं च यमकं कृतिना मतम् ॥' इति। मा भूदलंकारतुल्यकक्षतया अर्थस्य प्राधान्यं शब्दगुणस्य तु श्ाध्य- विशेषगुणयोग उदात्तमित्यादे: किमिति प्राधान्यं न भवति दोषगुणा- नामतीवोल्लेखवत्वेने प्राधान्यात् ।। सा वामनप्रसिद्धिर्लद्वितनमसो बलिद्विषोऽद्यापि। मत्सरिणः खलु लोका मर्माण्येवानुबन्नन्ति॥ दोषस्य यो गुणीभावः स ततोऽप्यधिकं प्रकाशत इति॥ शब्दालंकारप्रधानो यथा- 'यचन्द्रकोटिकरकोरकभारभाजि वभ्राम वभ्रुणि जटापटले हरस्य। तद्वः पुनातु हिमशैलशिलानिकुञ्ज- झोत्कारडम्बरविरावि सुरापगाम्भः ॥ ४६९॥' १. 'सुकुमारी च' स. २. 'सुछििष्टपदर्सविता' क., 'सुिष्टपदर्सयिमत्' स. ३. 'चायामक कृतिना मतम्' क स.४. 'अर्भप्रधानोदारगुणस्य' ख. ५. 'मतीबोह्न- सविधित्वेन' क.ख. ६. 'पर(प्रा)धान्यात क, ७. अत्र 'यथा-' इत्यधिकं क. ८. 'कोरकभारभाजि' क., 'कोरकहारभानि' ख. ९. 'टाङारडन्वरविरावि' क.,
Page 809
७१६ काव्यमाला। अत्रार्थप्राकट्वं प्रसाद: विभवोत्कर्ष उदात्तता मृदुप्रस्फुटोन्मिश्रव- र्णानामवैषम्यं समता, बन्धगाढता, औजित्यमित्यादिभ्यो गुणेभ्यः प्राधान्येन शब्दालंकारानुप्रासः प्रतीयते॥ अर्थालंकारप्रधानो यथा- 'आश्लेषिणः पृथुतरक्कमपीतशीत- मायाविनीर्घनमुदो रजनीर्युवानः ।
पादान्तसंवलिततूलपटाः खपन्ति ॥ ४७० ॥ अत्र बन्धविकटत्वमुदारता, छ्लाध्यविशेषणयोग उदात्त्त्वैंम्, विभ- वोत्कर्ष औदार्यम, दीप्रसत्वम्, कान्तिरित्यादिभ्यो गुणेभ्यः प्राधान्येन जातिरर्थालंकार: प्रतीयते। उभयालंकारप्रधानो यथा- 'अभ्युद्धेता वसुमती दलितं रिपूरः कोडीकता बलवता बलिराजलक्ष्मीः । अत्रैकजन्मनि कृतं यदनेन यूना जन्मत्रये तदकरोत्पुरुषः पुराणः ॥ ४७१ ॥' अत्रोक्तिपरिपाटी: प्रौढिः, बन्घविकटत्वमुदारता, आशयोत्कर्ष उदात्तत्वम्, अर्थप्राकट्यं प्रसाद :- इत्यादिभ्यो गुणेभ्यः शलेषोपसर्जना विशेषोक्तिरुमयालंकार: प्राधान्येन प्रतीयते । रससंकरोऽपि चालंकार- संकरवदेव। भावरसाभासप्रशमानां तिलतण्डुलादिप्रकारेण संकरः पद- प्रैकारको भवति। तत्र भावानां तिलतण्डुलप्रकारो यथा- १. 'पृथुरतफ्ठुम' क.ख. २. 'कण्ठैः' ख. ३. 'लोलपटाः' क स. ४. 'उदाचता' क.स. ५. 'अन्युद्रता' स. ६. 'उचतिपरिपाकः' क. ७. 'पट्प्रकारो' क.ख.
Page 810
५ परिच्छेद: ।] सरस्तीकण्ठाभरणम्। ७१७
'न्यक्ारो हृदि वज्रकील इव मे तीत्रः परिस्पन्दते घोरान्धे तमसीव मज्जति मनः संमीलितं लज्या। शोकस्ता्क्षेर्यविपच्तितो देहति मां नास्त्येव यस्मिन्क्रिया मर्माण्येवै पुनश्छिनत्ति करुणा सीतां वराकीं प्रति ।।४७२।।' अत्रामर्षलज्जाशोकानुकम्पाः समकक्षतया मिथस्तिलतण्डुलवत्संकी- र्यमाणा रामस्य विरहिणो वागारम्भानुर्भॉवोक्तिपरतया प्रतीयन्ते॥ क्षीरनीरप्रकारो यथा- 'मानोन्नतेत्यसहनेत्यतिपण्डितेति मययेव धिकृतिरनेकमुखी सखीनाम्। दाक्षिण्यमात्रमसृणेन विचेष्टितेन धूर्तस्य तस्य हि गुणा नु परं जयन्ति ॥ ४७३ ॥' अत्र सखीषु रोष: प्रियगुणेषु चासूया, क्षीरनीरवन्मिथः संकीर्य- माणौ मानिनीवागारम्भपरतया प्रतीयेते।। छायादर्शप्रकारो यथा-
प्रध्वंसस्मितकान्तिमत्तव तदा जातं यदेतन्मुखम्। संप्रत्येव हठात्तदेर्ष कुरुते केशोच्चयाकर्षण- त्रासोत्तानितलोललोचनपतद्वाष्पप्ुतं रावणः ॥। ४७४ ॥' अत्र कोधाभासे छायादर्शन्यायेन रत्याभासः संकीर्यमीण उपलभ्यते॥ १. 'तातविपत्तिजो' ख्., 'ता्क्ष्यसजातीयत्नाव ताक्ष्योडन जटायुरमिधीयते' घ. पुस्तकस्वायुषि टिप्पणी. २. 'ददति यन्नारत्येव' क. ३. 'मर्माणीव' स. ४. 'अनुरा- गोक्तिपरतया' क.स. ५. 'संकीर्यमाणी' क., 'संकीर्यमाणे' ख. ६. 'प्रवीयेते' क.ख. ७. 'प्रान्त' क. ८.'तदेव' क.ख. ९,'केशोचयोत्कर्षण' क.ख. १०. 'संकीयंते' क.ख
Page 811
७१८ काव्यमाला। नरसिंहप्रकारो यथा- 'किं द्वारि दैवहतिके सहकारकेण संवर्धितेन विषपादप एष पापः । अस्मिन्मनागपि विकाशविकारभाजि भीमा भवन्ति मदनज्वरसंनिपाताः ॥। ४७५ ॥।' अत्र नरसिंहजाताविव सिंहनरशरीरमागौ सहकारवर्णनावागारम्भा- नुसारेण सखीविषयानुकम्पा सहकारविषया च कुत्सा मिथः संकीयेंते। तथा हि दैवहतिके इतिशब्देन लब्घायां नियत्युपाधौ सर्वथैवानुक- म्प्यमानतायां सहकारसंवर्धननिबन्धनत्वमेवास्याः कला द्योत्यते। एवं नाम त्वं दैवोपहतासि यत्सहकारछद्मानं विषपौदपं द्वारि संवर्धय- सीर्ति। विषपादपशबदेन चे लब्घायां सहकारस्य सर्वथैव कुत्सायां विकासकाले कामिनीनामसह्यस्मरज्वरसंनिपातहेतुकत्वमेवास्याः केप्रत्य- येन प्रत्याय्यते ॥ तदुक्तम्- कुत्सितत्वेन कुत्सावान्सम्यग्वापि हि कुत्सितः । खशब्दामिहिते केन विशिष्टोऽर्थः प्रतीयते॥ न च सांप्रतिकी कुत्सा शब्दभेदे प्रतीयते। पूज्यते कुत्सितत्वेऽपि प्रशस्तत्वेऽपि कुत्स्यते। १. 'नरसिहवद् यथा-'क, २. 'विकासविकारभाजि' क. ३.सिंहनरशरीर- वागारम्मानुसारेण' क.ख. ४. 'दैवहृतिकेश्देन' क.स. ५. 'सहकारविषपादप' क.स्र. ६. 'रति' क.सत्र. नासि्ति. ७. 'च' क.स. ८. 'विकासकाल' क.घ. ९.'कन्प्र- स्वयेन' क. १०. 'युज्यते' ख. ११. 'इति' इत्यधिकं क.
Page 812
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ७१९
तद् यथा- 'एक इह जीवलोके जीवतिरूपं नृरूपपशुरूपंः । यः प्रेमपाशपाशे सृग इव न मृगीदशां पतति ॥ ४७६ ॥'
पांसूदकप्रकारो यथा- 'मा गर्वमुद्धह कपोलतले चकास्ति कान्तखवहस्तलिखिता मम मज्जरीति। अन्यापि किं न सखि भाजनमीद्शानां वैरी न चेद्धवति वेपथुरन्तरायः ॥ ४७७॥' अत्र खसौभाम्यवर्णना मृत्पिण्डे पांसूदैकयोरिवाविभागमापाद्यमान- योरसूयागर्वयोः संकर उपलर्भ्यंते। चित्रवर्णप्रकारो यथा- 'विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन- स्तदौद्धत्यं करापि व्रजति विनयः प्रह्यति माम् । झटित्यस्मिन्दष्टे किमपि परवानस्मि यदि वा महार्धस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥४७८।।' अत्र वीरौद्धत्य खातक्यरसानामानन्दप्रशमपारवश्यरसैस्तिरस्क्रियमा- णानां पट इव नीलादिमि: सीतादीनां प्रशमा रामदर्शनप्रभावोद्भवे १. 'नृरूपपशुरूपः' इति क, पाठखुटितः । 'न रूपमन्युदये' इति स्. पाठ: २. 'प्रेममात्रपाशे' क., 'यः प्रेममाशयाशे' ख. ३. 'मृगवन्न मृगीदृसां' ख. ४. 'पांशूदकप्रकारो यथा' ग. ५. 'पांशूदकयोरिव' ग. ६. 'उपपद्यते' क.ख. ७. 'किमिह महतां' क. ८. 'पटवर्णनीलादिभि:' क., 'पटनीलादिभिः' र्र. १. 'सितादीनां' क.
Page 813
७२० काव्यमाला।
लवस्य विस्मयातिशयप्रशमजन्मनि वागारम्भानुभावोपमापदे चित्रवर्णव- त्संकीर्यमाणाः समुपलभ्यन्ते॥ अथ रसगुणसंकर: । ननु च दोषैहानमिव गुणोपादानमपि नियमनिर्वर्त्यम्। अलंकार- योग इव रसावियोगोऽप्यवश्यं विधेयः । कदाचिदलंकारयोगोऽपि त्यज्यते न तु रसावियोगो गुणयोगश्च व्यमिचरितसंबन्धाविति। अत्रो- च्यते। यत्र चिर्त्रवर्णवन्नरसिंहवत्पांसूदकवैच्चावयवावयविन्यायेन जाति- व्यक्तिन्यायेन चापृथक्प्यल्ननिर्वर्त्यानां गुणरसानां वाक्ये संनिवेशस्तत्र संकरव्यवहारो न प्रवर्तते॥ तद् यथा- मधुरं रसवद्धाचि वस्तुन्यपि रसस्थितिः । येन माद्यन्ति धीमन्तो मधुनेव मधुन्रताः ॥ कामं सर्वोडप्यलंकारो रसमर्थे निपिश्चति। तथाप्यग्राम्यतैवैनं भारं बहति भूयसा ।। शृक्गार एव मंधुरः परप्रह्लादनो रसः । तन्मयं काव्यमाश्रित्य माघुर्य प्रतितिष्ठति।। शृक्गारे विप्रलम्भार्ये करुणे च प्रकर्षवत्। माधुर्यमार्दतां याति यतस्तत्राधिकं मनः ॥
त्रवर्णवत्' स. २.'अथ कोडयं गुणसंकर:' क. ३. 'ननु दोषहानिरिव' ख., 'दोपदानि नमिव' च घ. ४. 'नियमनिवर्लम्' क. ५ 'ननु रसादिव्यमिचरितसंबन्धाविति' क.ग. पुसतके च 'नतु' इत्यस्य सपाने 'ननु' इति बर्वते. ६. 'वर्णवत' ग. ७. 'पां- शुद्धकवच्' ग. ८. 'वापृथक' क. ९. 'प्रयज्ञानिर्वत्याना' क. १०. 'सर्वेपु' क. ११. 'परः प्रहादनो रसः'इति ध्वन्यालोके (२1८).
Page 814
५ परिच्छेदः ॥] सरस्वतीकण्ठाभरणन्। ७२१
रौद्रादयो रसा दीप्या लक्ष्यन्ते काव्यवर्तिनः । तव्यक्तिहेतू शब्दार्थावोजोषिष्ठाय तिष्ठति॥ समर्थकत्वं वाक्यस्य यत्तु सर्वरसान्प्रति। स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥' सेयं गुणानां रसारम्भकत्वे संकराप्रसिद्धिः । एवं रसानां गुणार- म्भकत्वेऽपि। तद्यथा-रूढाहंकारतौर्जित्यम्, भावतो वाक्प्रवृत्तिर्भा- विकत्वम्, क्रोधोदावप्यतीत्रता, माघुर्यम्, आशयोत्कर्षः, उदात्तत्वम्, अर्थस्याभीष्टतमता, प्रेयः, दीप्तरसत्वं, कान्तिरिति । यत्र तु तिलतनदुलवत् क्षीरनीरवच्छायादर्शवत् तुल्यकक्षतयैव गुणरसानां वाक्येSपृथक्पयलनिर्वर्त्यानां विनिवेशस्तत्र संकरव्यवहारः प्रवर्तत एव। स धोढा-गुणप्रधान :- रसप्रधानः, उभयप्रधानः, उमयाप्रधानः, गुणा- घिकः, रसाधिक इति ।। तेषु गुणप्रधानो यथा- 'अत्रान्तरे ललितहारलतानितम्ब-
देवी व्यपास्य शयनं धृतमानतन्तु- रन्तःपुरं गतवती सह सौविदलैः ॥ ४७९ ॥' १. 'कार्यवर्तिनः' क. २. 'तक्ञक्तिहेत् शब्दार्थोवोजोऽभिष्ठाय तिष्वति' क., ध्वन्यालोके तु 'तद्यक्तिहेतू शब्दार्थावाअित्योजो व्यवस्पितम्।' इति पाठ: ३. 'समर्पकत्वं वाप्यस्य' क., धन्यालोके तु 'सनर्पकत्वं काव्यस्य' इति. ४. 'भावतो वाकुप्रवृत्तिः' क., 'भावयतो वाक्यवृत्तिः' स. ५ 'क्रोषादावप्यस्व तीवत्वं' क्., 'कोषादावपि तीव्रता' ख. ६. अर्थस्यामीष्टतन्मयता' ख. ७. 'तिनतण्ड्ुलवत' क.स.८. 'वाक्ये पृथक् प्रयल' क.स. ४६ स० क०
Page 815
७२२ काव्यमाला।
अत्रार्थप्राकत्यौदार्ययोरर्थशब्द्गुणयो: प्राधान्यं न रैतिकोघयोरिति गुणप्रघान: ।। रसप्रधानो यथा- 'अस्मिन्नगृद्यत पिनाकभृता सलील-
विन्यस्तमक्लमहौषधिरीश्वरायाः स्स्तोरगप्रतिसरेण करेण पाणिः ॥ १८० ॥' अत्र लध्यविशेषणयोग उदात्तत्वम्, चन्धविकटत्वमुदारता, अर्थ- आकव्वं प्रसाद:, दीक्षरसत्वं कान्तिरिति गुणाः साध्वसविलासानुरागसं- गमरसैरतिशय्यन्त इति रसप्रधानः ॥ उभयप्रधानो यथा- 'आपातमात्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम्। काल: कलिर्जगदिदं न कृतज्ञमज्ञे स्थित्वा हरिष्यति तवैव मुखस्य शोभाम् ॥। ४८१ ॥' अत्र णितिविशेष उक्ति: संविधाने सुसूत्रता श्रेष इति शब्दगुण- योर्लावण्यविलासवर्णनीयरसयोश्च तुल्यकक्षतया निर्देशें इत्युभयप्रधानः॥ उभयाप्रधानो यथा- 'अभिनववधूरोषखादु: करीषतनूनपा- दसरलजना लेषकरस्तुषारसमीरणः । गलितविभवस्योज्ञेवाद्य दुतिर्मसृणा रवे- र्विरहिवनितावऋ्रक्कैव्यं बिभार्ते निशाकरः ॥ ॥८२॥ १. 'प्राधान्यं न रतिकोधयोः' ग. नास्ति. २.'न मबति कोधयोः' स्. ३. 'खवय- वता' स ४. 'निर्दिशत्युभयप्रधानः' क. ५. 'आवेवाय' ग.
Page 816
५ परिच्छेद: ॥] सरस्वतीकण्ठाभरणम्। ७२२
यत्र खादुकूरमसृणकैव्यमित्यन्यधर्माणामन्यत्रारोपणं समाधिः, अभि- नववधूरोषादीनां चतुर्णामप्यर्थानां खाद्वादीनां च लक्षणादिलक्षितानां आ्रकट्यं प्रसाद:, अभिनववधूरोषखादु: करीषतनूनपात् इति विशेषणवि- शेष्याणामुपक्रमेण निर्वहणं रीतिः, पादचतुष्टये चतुर्णामर्थानां विभ- कत्यसमत्वेन निवेश: संमितत्वमिति चत्वारो गुणाः, चत्वारश्र रत्यम- र्षविषाद्जुगुप्सात्मानो रसाः कालावस्थानिवेदनपरत्वेन प्रतीयन्त इत्यु- भयाप्रधानः ।। गुणाधिको यथा- 'अजननिरस्तु विभूतेरपूरणिर्भवतु सर्वकामानाम् । मा याचिषि मा सेविषि मा सहिषि पराभवं धनिनः ॥। ४८३।।' अत्र सुप्िङ्व्युत्पत्तिः सौशव्धम्, वाक्यानां परिपूर्णत्वमर्थव्यक्तिः, अर्थस्य प्राकट्यं प्रसादः, विभूतेरनुत्पतौ कामा न पूर्यन्ते, अपरिपूर्ण- कामो याचते, याचमानस्तदनामुवन् धनिनः सेवते, सेवमानस्तु तैः परिभूयत इत्युत्पत्त्यादिक्रियाक्मो रीतिरिति गुणाश्चत्वारः, रसस्तु निर्वेद एवैक इति गुणाधिकः॥ रसाधिको यथा- कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् 1 सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ।। ४८8 ।' अत्र कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् इ- त्यन्यघर्माणामन्यत्रारोपणं समाधिः, सा च सुकुमारसुभगेत्युत्पातपरम्परा कैयमित्य श्लीलामन्लार्थौ दोषगुणावपि, क्लाष्यविशेषणगुणयोग उदातत- १. 'वङैव्य' स. २. 'निबर्ईणम्' ख. ३. 'व्युत्पत्तिसौशम्यम्' स.
Page 817
७२४ काव्यमाला।
त्वम्, विकटवन्घत्वमुदारता, उपक्रमामेदो रीतिः, अर्थप्राकट्यं प्रसादः, अनिष्ठुरता सौकुमार्यम, अभीष्टेतमता प्रेयः, दीप्तरसत्वं कान्तिरिति गुणा दश, रसास्तु रत्युत्कर्षहर्षघृत्युत्कण्ठावेगविस्मयेमति वितर्क चिन्ताचपल- वाहासोत्साहस्तम्भगद्गदोन्मादब्रीडावहित्थमयशङ्काः विशतिर्वागारम्भानु- भावे शृक्गारिणः प्रियाचाटुकारस्य कस्यचित्पतीयन्त इति रसाधिकः ॥ रसालंकारसंकरोऽप्येतेन व्याख्यातः । रसवन्ति हि वस्तूनि सालंकाराणि कानिचित्। एकेनैव प्रयलेन निर्वर्त्यन्ते महाकवेः ॥ १७३॥ रसाक्षिप्ततया यस्य बन्धः शाक्यक्रियो भवेत्। अपृथग्यत्ननिर्वर्त्यः सोऽलंकार: प्रकृष्यते ॥ १७४॥ रसाभावादिविषय विवक्षाविरहे सति। अलंकारनिबन्धो यः स कविभ्यो न रोचते ॥१७५॥ तत्र रसालंकारसंकरो द्विधा-रसप्रधानोऽलंकारप्रधानश्च। तयो- यौंडनुभवित्रैव वर्ण्यते स रसपधानः । तत्र ह्यलंकारवतो वाक्यस्य वागा- रम्भानुभावत्वं भवति ।। तत्र रतावुपमायाः संकरो यथा- 'तीए दंसणसुहए पणअक्खलणजणिओ मुहम्मि मणहरे। रोसो वि हरइ हिअअं मेअपंको व मिअलंछणम्मि णिसण्णो ४८५' [तस्ा दर्शनसुभगे प्रणयस्खलनजनितो मुखे मनोहरे। रोषोऽपि हरति हृदयं मदपङ्क इव मृगलाळ्छने निषण्ण:॥] १. 'अर्थस्य प्राकट्य' क. २. 'आभीष्टतमता' क. ३.'मति' स. नासित. ४. 'न्री- डावहित्याभयशड्डाः' क. ५. 'निवत्न्ते' क.ख.ग. ६. 'सोडलंकारो धनी मतः' इति ध्वन्यालोके. ७. 'तयोयें' क. ८. 'पणअपवळण' क., 'पणअकवलण' स. ९. 'मअअंपकोव' क., 'मअअंकोव्द' स. १०. 'मअतद्लण्णि निसण्णे' क.
Page 818
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम्। ७२५
अत्रोपमातिरस्कारेण रसवतो हरेरवचसि वागारम्भरूपे रुक्मिणीप्र- दत्तपारिजातमश्जरीविलोकनपरभवं सत्यभामाया रोषरामणीयकं प्राधा- न्यतः प्रतीयते ॥ रतावेव विपरीतोपमा यथा- 'यत्त्त्रन्नेत्रसमानकान्ति सलिले मझं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी। येडपि तवद्मनानुकारिगतयखे राजहंसा गता- 3 स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥४८६॥ अत्र विरहिणो रामस्य प्रियावयवसादृश्यदर्शनेनात्मानं विनोदयत उपायत्रंशादरति प्रेभवविषादवागारम्भे सरूपाभिधाने प्रक्षीणशक्तिरप्रा- धान्येनोपमा प्रतीयते। रतावेव पैर्यायस्य यथा- 'किं गुरुजहणं अह थणभरो ति भाअर्करअलग्गतुलिआएं। विहिणो खुत्तंगुलिमम्गविन्ममं वहइ से तिवली॥ ४८७॥' [किं गुरुजघनमथ स्तनभर इति भागकरतलाअतुलितायाः । विधे: खाताङ्ठलिमार्गविभ्रमं वहत्यसवास्तिवली ॥] अत्र यद्यपि रतिप्रभवेभ्यो विस्मयादिभ्यः संशयहेतूत्मेक्षोपमादि- भ्यश्र पर्यायालंकार: प्राधान्येन प्रतीयते तथाप्यसौ वागारम्भानुभाव इति रेतावप्राधान्यमेवानुभवति॥ १. 'एव' स. २. 'मुखच्छायानुकार:' क.ख. ३. 'यो' ख. ४. 'लहमना- नुसारिगतयः' घ. ५. 'उपायत्रंशारतिप्रम' क. ६. 'विपर्ययो' क. ७. 'अद थम' क. स. ८. 'भावअकरअ' क. ९. 'तूलिआए' स. १०. 'सततंगुलि' क. ११. 'यगा विम्भम' क., 'अणचिम्भमं' ख. १२. 'स' क. १२. 'उपमान्यः' क. १४. 'रतावप्यप्राधान्यम्' क.ख.
Page 819
७२६ काव्यमाला।
रतावेव समाधिर्यथा। - 'कृच्छेणोरुयुगं व्यतीत्य सुचिरं आ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरत्जविषमे निर्स्यन्दतामागता। मदटष्टिस्तृषितेव संप्रति शनैरारुह्य तुझ खनौ साकाहं मुहुरीक्षते जललेवप्रस्यन्दिनी लोचने ॥४८८॥ अत्र वत्सराजेन खदृष्टौ प्राणिधर्माः समाधीयमाना: सागरिकादर्श- नोत्थर्रेतिवागारम्भे न्यग्भवन्ति ।। रतावेवार्थश्लेषस्य यथा- 'कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वसैरयममृतहृय्योऽघररसः । मुहुर्लम्ः कण्ठे तरलयति वाष्पः सनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम्॥।४८९॥ अत्र यद्यप्याक्षेपेण वाक्योपसंहारस्तथापि प्रिय इत्यादिभि: प्राधान्ये- नाभिधीयमान: श्रेष एव शृक्कारिणो वागारम्भानुभावाज्रतामन्जीकरोति।। रतावेव पर्यायोक्तेर्यथा- 'मुक्ताः कन्धरया धृता स्तनतटेनोचुक्रता कुम्भयो- रूरुभ्यां परिणाहिता क्रमवती हस्तस्य पन्दां गतिः। एतद्वः करिघातिनस्तु कठिनं चर्मैव कोऽयं हठ- श्रण्डीति त्रिपुरारिकेलिवचनैरार्यास्मतं पातु वः ॥४९०।।' अत्र भगवतश्राद्कक्तिवागारम्मे देव्या: पर्यायवर्णना शेषभावं लभते १. 'निष्पन्दताम्' क.स. २. 'जलमरप्रस्यन्दिनी' क.ख. ३. 'दर्शनायें' क.ख. ४. 'रति-' क.स. ५. 'निश्वासैः' क.ख.ग. ६. 'वाम्पस्तनतटी' क., 'वाप्पखन- वटी' ग. ए.'अनुमावातृत्व' क. ८. 'वृताः' क., 'ृताः' ख. ९. 'आर्यान्वितं' क. १०. 'केपभावं' क.ख.
Page 820
५ परिच्छेदः I] सरसतीकण्ठाभरणम्। ७२७
य उदासीनेन वर्ण्यते सोऽलंकारप्रधानः स हि रसभावादेः संकरप्रका- रमभिधित्सुः खभावोकि वक्ोकि वावलम्बते।। तत्र स्वमावोक्तिपक्षे जाति:।। सा विधिमुखेन यथा- 'थोओसरंतरोस थोअत्योअपरिवङ्ठमाणपहरिसम्। होइ अ दूरपआसं उह्अरसाअंतविब्भेमं तीअ मुखम् ॥४९१॥ [स्तोकापसरद्रोपं स्तोकस्तोकपरिवर्धमानप्रहर्षम्। भवति च दूरप्रकाशमुमयरसायत्तविञ्रमं तसा मुखम् ॥] अत्र सत्यभामाया रोषस्यापसर्पतः प्रहर्षस्य च प्रसरपतो येऽनुभावा जिह्ावलोकनमुखप्रसादादयस्त इह संकीर्यमाणाः कविनोभयरसायत्तवि- अ्रममित्यंनेन यथावदवस्थिता भवन्तीति विधिमुखेनाभिघीयन्ते॥ जातिरेव निषेधमुखेन यथा- 'धीरेण माणभंगो माणकस्वलणेण गरुअ धीरारम्भो। उल्ललइ तुलिजंते एकम्मि वि से थिरं ण लग्गइ हिअअं ४९२' [धैर्येण मानभङ्गो मानस्खलनेन गुरुकधैयारम्मः । उछ्लति तोल्यमाने एकस्मिन्नप्यखाः स्थिर न लगति हृदयम् ॥] अत्र यद्यपि हेतूपन्यासो वर्तते तथापि तस्य खमावाख्यानपरिकर- त्वेनाप्राधान्येन हृदयक्रियास्वरूंपमेवेह निषेधमुखेनामिधीयत इतीयं जातिरेव भवति।। १. 'पत्र' क.स. २.'धोओउसरत' क. २. 'धोअपरिवट्टमान'क.ख.४.'उअह' क.स. ५. 'विम्मंतीअ' स. ६. 'अपसज्जतः' क.७. 'उभयरसायत्तमिल्वनेन" ख. ८. 'माणकवलणेण सहायं गरुभधीरारम्मो' ख. ९. 'उललर तुलिते' ख. १०. 'भावासयानपरिकरलवेन' स. ११. 'स्वरूपमेव हि' क.
Page 821
७२८ काव्यमाला।
सैव विधिनिषेधाभ्यां यथा- 'हेलोदस्तमहीधरस्य तनुतामालोक्य दोष्णो हरे- हस्तेनांसतटेSवलम्वय चरणावारोप्य तत्पादयोः । शैलोद्धारसहायतां जिगमिषोरस्पृष्टगोवर्घना राधायाः सुचिरं जयन्ति गगने वन्ध्याः करभ्रान्तय: ४९३' अत्र राधायाः प्रेयसि हरौ यथावेद स्तितोद्धतवृत्तिस्रहशद्ोत्साहा मिथः संकीर्यमाणा भयावेगस्मृतिमतिवितर्कादिभिर्व्यभिचारिमावैराल- म्वनचरणाक्मणसहकृतायां करत्रान्तौ शरीरारम्भानुभावे प्रतीयमाना अरपृष्टगोवर्धना वन्ध्या इति निषेधमुखेन जयन्तीति विधिमुखेन चाभिधीयन्ते॥ वकोक्तिपक्ष उपमादयः। तेपूग्मा यथा- 'चोरी सभअसतण्हं पुणो पुणो पेसअंति दिट्ठीओ। अहिरक्खिअणिहिकलसे व पोर्ढमहिलाथणुच्छंगे॥ ४९४॥ [चोराः समयसतृष्णं पुनः पुनः प्रेषयन्ति दृष्टी: । अभिरक्षित निधिकलश इव प्रौढमहिलास्तनोत्सज्वे II] अत्र चौरंगतभयानुरागयोः संकरस्वमावोक्तिमतिभूयोत्तरार्धागतमौ- पम्यं प्राधान्येन प्रतीयते॥
१. 'हस्तेनास त एव' क., 'हस्तेनांसत एव' ख. २. 'यथावदवस्पिता अङ्भत-' स. ३. 'चोरा भअसतहण पुणो पेसव ते दिन्नीओ। अहिरस्पिअनिहिकलसे थयोक- हलपूरखणुत्सने' क. ४. 'पोढवहआथणुच्छे' गायासमo., 'प्रीढपतिकास्त नोरसने' इति च्छाया प. ५. 'चोरगत-' ग.घ.
Page 822
५ परिच्छेदः ॥] सरस्तीकण्ठाभरणम्। ७२९
उपमैव रसाभाससंकरविषया यथा- 'एकेनार्क प्रविततरुषा पाटलेनास्तसंस्वं पश्यंत्यक्ष्णा सजलतरलेनापरेणात्मकान्तम्। अहश्छेदे दयितविरहासड्किनी चक्वाकी तौ संकीणौ रचयति रसौ नर्तकीव प्रगल्भा । ४९५ ॥ अत्र निगदेनैव व्याख्याते स्पष्टतयैवोपमायाः प्रवानत्वेन प्रतीतिः॥ रसप्रशमयोरुपमासहोक्तिर्यथा- 'दृष्टे लोचनवन्मनाच्युकुलितं पार्वस्थिते चक्रव- न््यग्भूतं बहिरासितं पुलकवस्पर्श समातन्वैति। नीवीबन्धवदागतं शिथिलतामाभाषमाणे ततो मानेनापसृतं हियेव सुदृशः पादस्पृशि प्रेयसि ॥४९६॥
दर्शनादालम्बनविभावादुत्पन्नपकृष्टरतिप्रभवे प्रहर्षस्थायिभावे तत्पाश्वों- पसर्पणादिभिरुद्दीपन विभावैरुद्दीप्यमाने समुत्पद्यमानेषु पुलकादिषु मुखा- तमकेषु व्यभिचारिषु नयननिमीलनाघोमुख्यनीवीविस्तरसनादिभिरनुभावैः प्रकर्षणारोपणादानन्दरसैतामापाद्यमाने स्थायिनि प्रबलविरोधिभावान्तरो- दयादेतेभ्य एव कारणेभ्यः प्रतिक्षणमपचीयमानयोर्लज्जारोषयोः प्रशम- संकरावभिभूय प्राधान्येनोपमासहोक्तिः प्रकाशते॥ १. 'संस्था' क, २. 'पश्येत्युक्त्वा' क. ३. 'व्याख्यायते' क. ४. 'प्राधान्येन' घ. ५. 'तत्स्पर्शमातन्वति' ख. ६. 'रतिप्रभवहर्पंसायिभावे' क., 'रतिप्रमवे प्रदर्ष- स्यापि माने' स. ७. 'तत्पाववेऽपि समर्पणादिनिः' क्. ८. 'उद्दीप्यमानेपु' क. ९. 'समुत्पयमानेपु' क. नासि. १०. 'पुलकादिपु समुत्यमानेु व्यभिचारियु' क.ख. ११. 'विश्रेसनादिमिः' स. १२. 'आनन्दरसानाम्' स्र. ११. 'संकीर्यते' क.ख.
Page 823
७३० काव्यमाला। श्ेषाद्यलंकारसामर्थ्यात्तु कचिदवास्तवमपि रसाभाससंकरं कवय: प्रकल्पयन्ति। स रूपकक्ेषेण यथा- 'राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी। गन्धवद्रुघिरचन्दनोक्षिता जीवितेशवसति जगाम सा ।। ४९७॥ अत्र बीभत्सो रसः श्ेपरूपकसामर्थ्यादविद्यमानेनापि श्रृक्गाररसेन संकीर्ण इव प्रतीयते।।
'देट्ठोट्ठ हो असिलअधाओ देवि मउलावइ लोअणभउहो वे। सुपओहरकुवल अपत्तलच्छि कह मोह णै जणइ ण लग्गवच्छि।' [दष्ैष्ठ हो असिलताघातो देवि मुकलयति लोचनभ्रुवौ द्वे अपि। सुपयोधरकुवलयपत्रलक्ष्मी: कथ मोहं न जनयति न लमा वक्षसि॥] अत्र वीरो रसः ल्ेषसामर्थ्यादविद्यमानेनापि विप्रलम्भशृङ्गारेण संकीर्यते।। १. 'वर्णयन्ति' क., 'कम्पयन्ति' ख., २. 'अस्थार्थस्तत्र बीररसे सावत-हो इत्या- वर्यसंबोधने। दष्ैष्ठअसिळताघातः रूहप्रदारस्तवापि मुकुलयति लोचनभ्रुवी दे अपि। अथ च सुषु पान्ति ये योधास्तान् रात्याइत्त ताटृश्ानेव महावीरान्सीकरोति ईदुशी या कुवलयप्राप्ता सकलमेदिनीमण्डलप्राप्ता लक्ष्मीः कर्थ मोह न न जनयति। लझना वक्षसि काका जनयत्येवैत्य्थः। अपि च विपलम्मशदारे हे दशीष्ठ पीताधरामृत भोग- शीलक, पातः अर्थात्तव प्राणसमाया नखाघातोऽपि ते तब मुकुलयति लोचनन्रवी दे अपि अथ च सुषुपयोधरी सतनी यस्पा: सा। कुवलयपत्रलाकी नीलोत्पलवलसमान- नयना न लमा वक्षसि कर्थ न मोई न जनयति। अपि तु जनयतीत्वथः । सहदय हृदयंगम ।' ध. टिप्पणी. ३. 'असिलवाअच्ाओ' स. ४. 'लोअणभउन्तो' क., 'होअणमओोदो' ग.घ. ५. 'कुबलअपशिळच्छि' क., 'कुवल्य' स., ६. 'कमोनु- भावणगाजणवच्छि' क
Page 824
५ परिच्छेद: I] सरस्वतीकण्ठाभरणम् । ७३१
क्लेषोपमा यथा- 'क्षिप्तो हस्तावलमः प्रसभमभिहतोSप्याददानोंSशुकान्तं गृह्ह-केशेष्वपास्तश्रवरणनिपतितो नेक्षितः संग्रमेण।
कामीवार्द्रापराधः स देहतु दुरितं शाम्भवो वः शराभि: ४९९' अत्र करुणो रसः श्रेषोपमासामर्थ्येनाविद्यमानेनापि विप्रलम्भश्ुद्ा- रेण संकीर्यते। श्लेषव्यतिरेकेण यथा- 'पच्ामूरुयुगं विभज्य भुजयोर्मध्यं निपीड्योरसा पार्श्वेषु प्रसमं प्रहृत्य नखरैर्दन्तैविल्याघरम्। सुप्तानप्यवबोध्य युष्मदहितान्भूयोडपि मुङ्के वने किं कान्ता सुरतैषिणी नहि नहि व्याघ्री करालानना ॥५००॥ अत्र क्ेपसामर्थ्यादपारमार्थिकी शृङ्गारेप्रतीतिः पारमार्थिकेन बीम- त्सरसेन व्यावर्तमाना तद्धर्माणां मिथः संसर्गबुद्धिमुत्पादयति ॥ क्ेपरूपकेण यथा- 'अब्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्तंसभृत: पिनह्य शिरसा हत्पुण्डरीकसजः । एताः शोणितपङ्चकुङ्कमजुषः संभूय कान्तैः पिव- न्त्यस्थिस्ेहसुराः कपालचषकैः प्रीताः पिशाचाञ्ञनाः॥५०१॥' अत्र बीमत्सो रसः शब्दसामर्थ्याक्षित्तेन शृङ्गाराभासेन संकीर्यते ॥ १. 'हरतु' ख. २. 'वितुप्याधरम्' स. ३. 'मुक्ते' स. ४. 'द' क.ल. ५. 'प्रतीतिः' घ. ६. 'संसर्गवह्डुद्धिम्' क.
Page 825
७३२ काव्यमाला।
समाधिरूपकेण यथा- 'शिखण्डे खण्डेन्दुः शशिदिनकरौ कर्णयुगले दृशस्तारास्ताराश्रलमुङ्डपचक्रं च कुचयोः । तडित्काश्ची सन्ध्या सिचयरुचय: कालि तदयं तवाकल्पः कल्पव्युपरमविधेयो विजयते ॥ ५०२॥' अत्र भयानको रसः समाधिरूपकादयुपकल्पिताकल्परामणीयकाक्षि- सेन श्रृद्गाराभासेन संकीर्यमाण: श्रोतुः प्रेयोरसान्गतां गच्छन्संगच्छते। एवमियमनेकप्रकारसंस प्टिर्गुणालंकारसंकर प्रभवाभिमन्तव्या तत्रापि प्रधा- नाङ्गभावेन समकक्षतया च व्यक्ताव्यक्तोमयात्मकरूपास्तिलतन्दुलक्षीर- जलाच्छायादर्शकादयो मेदा यैथायोगमवगन्तव्याः । ते कि वक्तव्या न वक्तव्याः । कथमनुक्ता गम्यन्ते। उक्तेष्वेवान्तर्मावात्। तबथा- अर्थोभयालंकाराभिधाने 'खं वस्ते' इति 'चची पारयति' इति विभक्ति- मुद्रा, कलविक्ककण्ठमलिनं कादम्बिनीकम्बलम् इति पदमुद्रा च शब्दा- लंकारावपि संकीर्यमाणौ प्रतीयेते। एवमन्यत्रापि। अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता। इत्यलंकारसंसृष्टेर्लक्षणीया इयी गतिः ॥ १७६ ॥।
'आक्षिपन्त्यर विन्दानि मुग्घे तव मुखश्रियम्। कोषदण्डसमग्राणां किमेषामस्ति देष्करम् ॥ ५०३ ॥' अत्रारविन्दानि 'मुग्धे तब मुखश्रियमाक्षिपन्तीति' उपमा, 'कोष- १. 'अनेकप्रकारससूटिः' ख. २. 'तण्डुल' क.ख. ३. 'यथायोग्यं' स्र. ४. 'सं- सृषि:' घ. ५. 'अविदुष्कर' घ. ६. 'अत्र-' इत्यारम्य 'दष्करम्' इत्पन्तः पाठो ग.घ. नासित.
Page 826
५ परिच्छेदः ।] सरस्वतीकण्ठाभरणम्। ७३३ दण्डसमग्राणां किमेषामस्ति दुष्करम्' इति श्ेषोपसर्जनार्थान्तरन्यासः । भवन्ति चारविन्दानि कोषदण्डसमग्राणि तेन तेषां न किंचिदशक्यमस्ति कोषदण्डयोविजयसाधनत्वात्। एतेन श्ेषस्य साधनैभूतार्थसमर्थक- त्वादुपमायास्तु प्रस्तुतसाध्यवस्तुविशेषकत्वादर्थान्तरन्यासं प्रत्यक्कमावो विज्ञायते। सर्वेषां समकक्षता यथा- 'लिम्पतीव तमोऽङ्गानि वर्षतीवाज्जनं नभः । असत्पुरुषसेवेव दृष्टिनिर्घ्फलतां गता॥ ५०४ ॥ नेनु चावन्यः समत्वात्स्यादिति कथ सर्वेषां तुल्यकक्षतया संब- न्घोत्पत्ति: एवं मन्यते ये उत्प्रेक्षोपमादयोSलंकारा विभावानुभावव्य- र्मिचार्यादिवर्णनापरतया रसादेरअतां प्रतिपद्यन्ते तदा भवत्येव तेषां तुल्यकक्षतेति। तत्र 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः' इति हे उत्पेक्षे, 'असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता' इत्युपमा च वर्ण- नीयस्य तमस उद्दीपनविभावभूतस्य समतयैवोत्कर्षप्रतिपादकत्वेनाङ्ग- भावमुपगतेति नास्ति लक्षणानुपपत्तिरिति । ननूपमा इमास्तिस्त्रोऽपि कस्मान्नोच्यन्ते। इवो हि वाक्यान्तरेषूपमाया एव दृश्यते। मैवेम्। उपमानोपमेयशव्दप्रतिर्पन्नस्य सादृश्यार्थस्य द्योतनमिवेन कियते न च लिम्पतीत्यादावुपमानमुपमेयं वास्ति यत्सादृश्यद्योतनाय इवः म्रैयुज्येत। न च तिडन्तेनोपमानमस्ति तस्य साध्यार्थाभिघायित्वेनासत्त्वार्थलात्।। १ 'प्रभवन्ति' क.ख. २. 'तेन कि तेषा' क.ख. ३. 'साधनमानभूतार्थ' र. ४. 'विफलता गता' क.ख. ५. 'ननु च तमसब् नमसश असतक्ष संबन्धसमलाव' क.ख. ६. 'वयभिचारिवर्णनापरा' क.ख. ७. 'दे' ख. नास्ति. ८. 'प्रागभावम्' स. ९. 'नैवम्' क. १०. 'उपमानोपमेवं प्रति यत्तस्व' ख. ११. 'प्रयुज्यते' ख, १२. 'असस्वार्षकस्वात्' ख्र.
Page 827
७३४ काव्यमाला।
तदाह- 'सिद्धस्य हि समानार्थमुपमानं विधीयते। तिडन्तार्थस्य साध्यत्वादुपमाथों न विद्यते।।' न चोपमायामेवेवशव्दो भवति। तद्यथा कथमिवैतद्धविष्यति। अस्तु वा लिम्पतितमसोरुपमानोपमेयभावस्तथापि तुल्यघर्मों न दृश्यते य उपमानोपमेयभावाय प्रभवति। किमन्येन लेपनमेव भवति तर्हि लिम्पतिना केन भाव्यम्। न हि लेपनं लिम्पेः पृथम्भवितुमीष्टे। ननु चेह दयं चकारिति धातुर्लिम्पति तदर्थश्र लेपनम्। भैवम्। एवं सति लिम्पतिरिवेति स्वात् न तु लिम्पतीवेति। अथ यथा राहो: शिरः इति भेदाभावेSप्यवयवावयविभावस्तथेह धर्मधर्मिभावो भविष्यति। मैवम्। उपमानोपमेयभावस्य मेदसादृश्यप्रतिपत्तिनिबन्धनत्वाद् तद- भावेऽपि यस्तन्मनुते स कथं नोन्मत: स्पाद्। तदुक्तम्-'स एव धर्मो धर्मी चेत्युन्मत्तोऽपि न भाषते।' अस्तु सर्हि तिङ्ाच्य: कर्ता उपमानमिति चेत् न्यम्भूतोऽसौ क्रियापदे। कर्थ पुनरसौ क्रियापदे न्यग्भूतो भवति। श्रयतां, षडर्थास्तिडन्तेन श्रती- यन्ते क्रिया काल: उपग्रहः साधनं सक्चा पुरुषश्चेति। तेषु कियाका- लात्मनेपदपरसैपदनिमित्तानि प्रकृतिरमिघत्ते प्रत्ययः साघनं, सङ्चां पुरुषं च। एतेषां तु क्रियार्थत्वात्किया प्रधानं, कालात्मनेपदनिमिते क्रियाविशेषणत्वेन, सङ्कयापुरुषौ साघनविशेषणत्वेन तयोरेव न्यग्म- वतः । साघनं पुनः 'प्रकृतिप्रेत्ययौ सार्थ सह ब्रृतः' इति न्यायात् 'प्रधानभूतमपि भूतं भव्यायोपदिश्यत' इति न्यायेन क्रियासिद्धावुत्प- १. 'नलिम्पतिना' क २ 'शम्दार्यश्' क. ३. 'तिबा यः' स. ४. 'क्रि- यावयने सर. ५. 'प्रकृतिप्रत्ययार्थीं' ब्. ६. 'यत्र सहार्थ मूते' क.
Page 828
५ परिच्छेदः I] सरस्तीकण्ठाभरणम्। ७३५
न्नव्यापारं परार्थ तस्यां क्रियायां न्यम्भवति। तेनायं कर्ता खक्कियासि- द्ावाकुल: कथमुपमानत्वेनोपमेयत्वेन वान्यदपेक्षितुं क्षमते। एवं तर्हि योऽक्ञानि लिम्पति तेन क्रियोपलक्षितेन कर्त्रा तुल्यं तम इत्यर्थ: प्रति- पत्स्यते। मैवम्। क्रियोपलक्षितस्य कर्तुरुपमानभूतस्य शब्दन्यायबला- प्रतिपत्तिः । शब्दो हि मुख्यागौणीलक्षणाभिरर्थप्रकरणादिसंपादितसा- चिव्यादाभिस्तिसभिरेव वृत्तिमिरर्थविशेषप्रतिपत्तिनिमिचं भवति। तद्यथा-गौरित्ययं शब्दी मुख्यया वृत्त्या सास्त्रादिमन्तमर्थ प्रतिपाद- यति स एव तिष्ठन्मूत्रत्वादिगुणसंपदमपेक्ष्य वाहीकादौ अयुज्यमानो गौणीं वृत्तिमनुभवति। यदा तु मुख्यया गौण्या बोपातक्रियासिद्धौ साधनभावं गन्तुमसमर्थस्तदा लक्षणया सार्थाविनाभूतमर्थानतरं लक्षयति यथा गङ्भायां घोष: प्रतिवसतीति गज्गाशब्दो विशिष्टोदकप्रवाहे निरू- ढामिधानशक्तिधोषकर्तृकायाः प्रतिवसनक्ियाया अधिकरणभावं गन्तु- मसमर्थः खार्थाविनाभूतं तेंटं लक्षयतीति। न चैतासामिहान्यतमापि वृत्ति: संगच्छते। तथा हि लिम्पतेः क्रियावचनत्वान्न मुर्या। नापि क्रियाकर्त्रोरसादश्येन शुक्तिकादौ रजतादिवत्तद्धावापत्तिः क्रियागुणानां कर्तर्यसंभवात्। साक्षादिव प्रयोगाच न गौणी क्रियायाश्र खयमेव धर्मरूपत्वात्। बुद्धि: पश्यतीतिवदन्यधर्माणामन्यत्राधिरोपणमुपचार इति न गौणीभेद उपचारिता । इवशव्दस्य चासादृश्येडपि दर्शनान लक्ष्येत । यदि हीवशब्दः सादृश्यमेव विद्योतयति तदा लिम्पतिक्ि यायाः सत्त्वभूतेन तमसा सादृश्यं न संभवतीति खार्थाविनाभूते कर्तार- १. 'वक्रियासिद्धा वा कुतः' स््र. २. 'चान्यदपेक्षित' क्., 'वान्यदपेक्षित' ख. ३. 'साचिन्यादिभि:' क.ए. ४. 'वत्तर्ट' क. ५. करियाबचनत्वान्मुख्या नापि क्रियाकर्तार: सादृश्येन' क. ६. 'उपचरिता' क., 'उपचरितः' ख,
Page 829
७३६ काव्यमाला। माक्षिपति। न चेह लक्षितलक्षणाविरुद्धलक्षणादयोऽपि वर्तन्ते, यथा 'प्रिये जने नासिति पुनरुक्त', 'सल्पैरसावपि न दृश्यत एव कालै:' इति। न च शव्दन्यायविलद्िनी पदार्थव्युत्पत्तिः प्रेक्षावद्धिराद्रियते। यद्यप्यध्याहारादिभिरिदमपि स्यात्तथापि तुल्यधर्मो मार्गणीयस्तद्वदेव विप्रतिपत्तेः ॥ न चेन्दुमुखादिवदनभिघीयमानस्यापि तुल्यगुणस्य प्रत्ययो भवतीति वाच्यम्। यथेन्दुरिव ते वक्रमिति कान्तिः प्रतीयते। ने तथा लिम्पतेलेंपादन्यदत्र प्रतीयते॥ १७७॥ तदुपश्लेषणार्थोयं लिम्पतिर्ध्वान्तकर्तकः। वर्षणार्थश्र विद्वद्धिरुत्प्रेक्ष्यत इतीक्ष्यताम्॥ १७८।।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादरः ॥१७९॥ वाक्यवदेव प्रवन्घेष्वनौचित्यपरिहारेण गुणालंकारसंकरनिवेशो म- वति। तत्रानौचित्यपरिहारो यथा-मायया कैकेयीदशरथाभ्यां रामः प्रलम्भितो न मातापितृभ्यामिति निर्दोषदशरथे; राममेव योधयन् रा- मेण वाली निहतो न सुग्रीवेणेति महावीरचरिते; रुधिरप्रियराक्षसेन दुःशासनस्य रुधिरं पीतं न भीमसेनेनेति वेणीसंहारे; दुर्वाससोऽपध्या- नाहुष्यन्तःशकुन्तलाखीकारं विसस्मार, नानावस्थितितानुरागतयेति शाकुन्तले; लवणप्रयुक्तराक्षसाभ्यां वा सोपस्करेण तदभिघाय सीता परित्याजिता न कैकेयीमन्थराभ्यामिति छलितरामे; किंच दग्वायामपि १. 'इह लक्षणाविरुद्ध-'स. २. 'शम्दान्यविलम्विनी' क., 'शब्दान्यपविलम्वि- तप्रायविलम्विनी' स्. ३. 'तथथा' स्. ४. 'नानवस्पितानुरागतया' क.ख. ५. 'वदननिधाय' ख. नास्ति.
Page 830
५ परिच्छेद: I] सरस्तीकण्ठाभरणम्। ७३७
वासवदत्तायां वैरप्रतिचिकीर्षया पद्मावती मयोढा, अवसिते च समी- हिते तया विना क्षणमपि न जीवामीत्यविज्ञातवासवदत्तासंनिधेर्वत्सरा- जस्याभिप्रवेशाध्यवसायः प्रियाहृदयतो व्यलीकशल्यमुचचखानेति तापस- वत्सराजे; नीचाक्षः खामिकार्य साधयामीति प्रभुभक्तया निरपराधा- मपि प्रेयसीं हित्वा स्वामिकार्यापेक्षयाहमेवैतावन्ति दिनानि जीवितः, अद्य तु कृतस्वामिकार्यस्तामेवानुगच्छामीति शिवगण: शूद्रकनिमितां मायामयीं चितां प्रियासमक्षं प्रविवेश, सापि तत्पेमावदानदर्शनापहुत- प्रियव्यलीकों तद्वियोगकातरा तत्रैवात्मानं प्रतिचिक्षेपेति विकरान्तशूद्रके, इति तदेतद्दोषहानम् ॥ गुणोपादानं तु सम्यग् गुणयोगेन संविघाने सुसूत्रता, अपि च चतुर्वृत्यक्रसंपन्नमिति चतस्रो वृत्तयो भारती आर- मटी कैशिकी सात्त्वती चेति। तत्र- या वाक्मधाना नृपतिप्रयोज्या स्त्रीवर्जिता संस्कृतयाथ युक्ता। खनामघेयैर्भरतप्रयोज्या सा भारती नाम भवेत्तु वृत्ति:॥ यत्रावपातक्षुतलद्वितानि छेद्यानि मायाकृतमिन्द्रजालम्। चित्राणि युद्धानि च तत्र वृत्तिमेतादशीमारभटीं बदन्ति॥ या शक्ष्णनेपथ्यविशेषयुक्ता स्त्रीसंगता या बहुगीतवृत्ता। कामोपभोगप्रचुरोपचारा तां कैशिकी वृत्तिमुदाहरन्ति ॥ या सात्त्विकेनात्मगुणेन युक्ता त्यागेन वृत्तेन समन्विता च। हर्षोत्कटा संहृतशोकभारा सा सात्वतीति प्रथितेह वृततिः ॥ आसामङ्गानि पोडश-तेषु प्ररोचना, वीथी, प्रस्तावना, प्रह्सन- मिति चत्वारि भारत्यज्जानि।। १. 'मरीचाक्ष:' ख. २. 'प्रियव्यलीकात' स््र. ३. 'संस्कृतया प्रयुक्ता' र. ४७ स० क०
Page 831
७३८ काव्यमाला।
तत्र वक्तव्यार्थप्रशंसापरं वचः प्रोचना; यथा- 'जयति भुवनकारण खयम्भुर्जयति पुरन्दरनन्दनो मुरारिः। जयति गिरिसुतानिरुद्धदेहो दुरितभयापहरो हस्श्र देवः ५०५ प्रस्तुतवस्तूपपादनावसरसूचकं वचः प्रस्तावना; यथा रल्नावल्याम्। 'द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात्। आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ५०६' उद्धात्यकादीनामङ्गानां प्रवृत्तिः वीथी उद्धात्यकः कथोद्धातः प्रयो- गातिशयः प्रवर्तकोऽबलगितमिति। तत्रोद्धात्यको यथा- 'को जयति जयति शर्वः केन जितं जितमनकदहनेन। त्रिपुरारिणा भगवता बालशशाह्काङ्कितजटेन ॥। ५०७॥' कथोद्धातो यथा- 'साकं पङ्कजजन्मना सुरपतेरभ्यर्थनाया वशा- IB दिक्ष्वाकोः शरदिन्दुबिम्बविमले वंशेऽवतीर्य खयम्। निःशेषात्तपदं त्रयीपथजुषां विद्वेषिणं राक्षस यः पौलस्त्यमहन् स पातु भवतो रामाभिधानो हरिः ५०८ प्रयोगातिशयो यथा- 'यूधायितमवतु हरे: क्ष्मामुद्धरतो वराह्वपुषो वः ।
१. 'त्रयीपदजुपा' स. २. 'उत्पापितम्' क., 'अत्यादितम्' ख. ३. 'शेपफणाः रत्दर्पण' क्र.स.
Page 832
५ परिच्छेद: ॥] सरस्वतीकण्ठाभरणम्। ७३९
प्रवर्तको यथा- 'आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः । उत्खाय गाढतमरस धनकालमुझ्रं रामो दशास्यमिव संभृतबन्धुजीवः ॥ ५१० ॥ अवलगितं यथा,-अमुमेव शरत्समयमाश्रित्य गीयताम्, तथा बस्याम् 'सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः । निपतन्ति घार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे॥ ५११॥ स्वर्धेर्मात्प्रचलितानां तापसादीनामुपहासपरं वचः प्रह्सनम् । यथा- 'श्रमण: श्रावकवध्वाः सुरतविधौ दशति नाधरं दत्तम्। मदिराक्षि मांसभक्षणमस्मत्समये निषिद्धमिति ॥५१२॥ संक्षिप्तिका, अवपातः, वस्तूत्थापनम्, संस्फोट:, इति चत्वारि आरभख्बज्ञानि ।। तेषु माहेन्द्रजालनेपथ्यादिभिर्वस्तुसंक्षेपः संक्षिप्तिका। यथा- 'रक्षसा मृगरूपेण वञ्चयित्वा सराघवौ। जहार सीतां पक्षीन्द्रप्रयासक्षणवित्नितः ॥ ५१३॥ भयादिभिर्विद्रवादिकर्मानुप्रवेशनिर्गमनमवपातः। यथा- 'मृगरूपं परित्यज्य विधाय विकट वपुः। नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ।। ५१४॥ १.'एव' क. २. 'विशुद्धकीतिः' क.ख. ३. 'तथा हस्याः' ख. 'तथा झस्ाम्' घ. नास्ति. ४. 'स्वध्मविप्रचलितानाम्' क., 'स्धर्मवित्प्रचितानां' ख.
Page 833
७४० काव्यमाला।
अविद्रव: सविद्रवो वा सर्वरसभावसमासो वस्तूत्थापनम्। यथा- 'राहोश्रन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम्। आतक्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मया- त्क्ोघेन ज्वलितं मुदा विकसितं चेतः कथं वर्तताम्५१५' नानास्त्रयुद्धनियुद्धादिभि: ससंरम्भसंप्रहार: संस्फोटः । यथा- 'कृष्टा येन शिरोरुहेषु पशुना पाञ्चालराजात्मजा येनास्याः परिधानमप्यपहृतं राजां गुरूणां पुरः । यस्योर:स्थलशोणितासवमहं पातुं प्रतिज्ञातवा- न्सोऽयं मज्बुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः ॥५१६॥' नर्म, नर्मस्फिज:, नर्मस्फोट:, नर्मगर्भ, इति चत्वारि कैशिक्यङ्गानि।। तेषु स्थापितशक्कारं वचो विचेष्टितं वा सपरिहास नर्म। यथा- 'वयं तथा नाम यथात्थ किं वदाम्ययं त्वकस्माद्विकलः कथान्तरे। कदम्बगोलाकृतिमाश्रितः कथ विशुद्धमुग्घः कुलकन्यकाजन: ५१७' प्रथमसंभोगे नवावस्थानं संभोगाश्रयवाक्यादि कर्म नर्मस्फिजः। यथा- 'प्राप्तासौ वृषपर्वणः प्रियसुता सङ्केतखण्डे नवे वृष्टिः सेयमनम्बुदाऽमृतमयी गात्राणि मे सिश्चति। किं जानासि विनोदयिष्यति मनः संतप्तमेवाद्य मे दुर्वात्येव निवर्तयिष्यति न भोस्तां देवयानीं प्रति॥५१८॥' आविर्भूताभिलाषानुभावयोरकाण्डसंभोगमक्गो नर्मस्फोटः । यथा- 'इतः परानर्भकहार्यशस्त्रान्वैदार्म पश्यानुमता मयासि। एवंविघेनाह्वचेष्टितेन, त्वं प्रार्थ्यसे हस्तगता ममैमि: ५१९'
Page 834
५ परिच्छेद: I] सरखतीकण्ठाभरणम्। ७४१
कार्यहेतो: स्वरूपविज्ञानादिप्रच्छादनं नर्मगर्मः । यथा- 'अथाजिनाषाढघरः प्रगल्भवारज्वलन्निव ब्रह्ममयेन तेजसा। विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्ध: प्रथमाश्रमो यथा॥५२०॥ उत्थापकः, परिवर्तकः, संलापकः, संघात्यकः, इति चत्वारि सात्वत्यञ्ञानि। तेषु परस्परीभूतार्थेपूत्थापनमुत्थापकः । यथा- 'प्रहर मम तु कायं प्राक्महारप्रियोऽहं मैयि तु कृतविघाते किं विदध्याः परस्मात् । झटिति विततबहभारभाखत्कुठार- प्रविघटितकठोरस्कन्धबन्धः कबन्घः ॥ ५२१॥' प्रस्तुतार्थत्यागादन्यार्थभजनं परिवर्तकः । यथा- 'मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतां गुणेन । मदनमुपद्घे स एव ताग्यो दुरधिगमा हि गतिः प्रयोजनानाम्॥५२२॥ सदसि नानावाक्यैर्मिथोऽधिक्षेपः संलापकः । यथा- 'कथमपि न निषिद्धो दुःखिना भीरुणा वा द्रुपदतनयपाणिस्तेन पित्रा ममाद्य। तब भुजबलदर्पाच्द्यायमानस्य वाम: शिरसि चरण एष न्यस्यते धारयैनम्।। ५२३ ॥' कार्यमब्रानुभावदैवादिभिः संघातभेदः संघात्यकः । यथा- 'अपश्यद्विरिवेशानं रणान्निववृते गणैः । मुह्यत्येव हि कृच्छेषु संग्रमाधिगतं मनः ॥ ५२४ ॥'
१. 'अपि तु' स.
Page 835
७४२ काव्यमाला। [1 :करल्द्रीय शर
'चतुर' इत्यनेन शास्त्रीयलौकिकव्यवहारवेदिनो नायकस्य धर्मार्थ- काममोक्षेषु वैचक्षण्यमुच्यते। 'उदात्त' इत्यनेन आशयविभूत्योरामि- जात्ययौवनादीनां चोत्कर्ष: प्रकाश्यते। चतुर्वर्गफलं प्रबन्धे को वा न चान्धवीयतीत्यनेन श्रोतृणां रामादिवद्वर्तितव्यम्, न रावणादिवदिति वि- धिनिषेधनिबन्धनस्य प्रबन्धस्याभीष्टतमत्वमारूयायते। 'मुखं प्रतिमुखम्' इत्यादिना पञ्चाञ्ं प्रबन्धशरीरमभिधीयते । तदङ्कानि चोपक्षेपपरिकरा- दीनि चतुःषष्टिरपि मुखादिष्वेवान्तर्भवन्ति। अतस्तद्वदेव पञ्चसंध्येक- मपि वाक्यं प्रबन्धव्यपदेशमासादयति। तद्यथा-
'कथमपि कृतप्रत्यासतौ प्रिये' इति मुखम, 'स्खलितोत्तरे' इति प्रतिमुखम्, 'विरहकृशया कृत्वा व्याजं प्रजल्पितमश्रुतम्' इति गर्भ:, 'असहनसखीश्रोत्रप्राप्तिप्रसादससंग्रमं विवलितदृशा' इति विमर्शः, 'शून्ये गेहे समुच्छसितं सैमेतम्' इति निबर्हणम्। एतेन प्राचीनप्रब- न्घार्थेऽपि एकवाक्योक्तेन प्रबन्धत्वमित्याख्यातं न भवति। तदथा- 'तुरगनिचयव्यग्रानूर्वीभिद: सगराध्वरे कपिलमहसा रोषातपुष्टानपि प्रपितामहान्। अगणिततनूतापस्तत्वा तपांसि भगीरथो भगवति तव स्पृष्टानद्धिश्च्िरादुददीघरत् ॥५२५॥ 'अविस्तृतमसंक्षिप्तम्' इत्यनेन विस्तारमीरूणां कथारसविच्छेदश- द्विनां च चित्तमावर्ज्यते। 'श्रव्यवृत्तम्' इत्यनेन वृत्तान्तरैराश्वासकादि- १. 'प्रबन्पे' स््. २. 'निबन्धस्प' क. ३. 'तदा' क., '(मुद्रः)' ख. ४. 'अ- व्यान्तैरिलनेन' स.
Page 836
५ परिच्छेद: I] सरस्वतीकण्ठामरणम्। ७४३
परिसमाप्तिरिति परिश्रान्ता: श्रोतार अश्वास्यन्ते, सरगादिसनिवेशादिवत्सं- दमें चाश्वादयो विभाव्यन्ते। 'पुरोपवने' इत्यादिना च देशकालपात्र- संपदुपवर्णनादालम्बनोद्दीपनविभावा: कथ्यन्ते। उद्यानसलिलक्रीडायु- पलक्षणेन कामिनीनां दिवाचेष्टाः, मधुपानरतोत्सव इत्यनेन च रात्रिचेष्टा उच्यन्ते। विप्रलम्भा इत्यनेन चत्वारोऽपि प्रथमानुरागादयः परामृ- श्यन्ते। 'विवाह' इत्युपलक्षणेन प्रथमानुरागो विवाहान्तः, मानः प्रेमान्तः, प्रवासः संगमान्तः, करुणः प्रत्युजीवनान्तः, प्रेबन्धे कर्तव्य इत्युपदिश्यते। 'मब्रदूत' इत्यादिपुरुषकारायत्तसिद्धिसूँचनेनाधूनतादि- निरासान्नायकस्य सत्त्वोत्कर्षः प्रकाश्यते। 'नाव्णनं नगर्यादेर्दोषाय' इत्यादिना तु पुरुषार्थासत्त्वोपकारित्वेन शैलर्तूद्यानचन्द्रोदयमधुपानरतो- त्सवादीनां मन्रदूतप्रयोगाजिनायकाम्युदयादीनां च नियमेन प्रयोग:, शेषाणां तु प्रबन्घशरीरानुरोधेनेति प्रतिपाद्यते। 'गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम्। निराकरणम्' इत्यनेन गुणवता भाव्यं न गुणद्वेषिणेति ज्ञाप्यते । 'वंशवीर्यश्रुतादीनि' इत्यादिना पुनराभिजात्यौ- द्वत्यशौण्डीर्यवीर्यादय एव शत्रोर्वर्णनीया न त्ववच्छेदहेतवो न्याय्या- चरणविनयादय इति प्रत्याय्यते । 'घिनोति नः' इति त्वयमेव पक्षः श्रेयानिति अ्न्थकारेण सवाभिप्रायः प्रकाश्यते॥
विविधमपि मनोमिर्भावयन्तोऽस्य मेर्दम्। १. 'विवाड' क.ख. २. 'प्रबन्धः' स्र. २. 'पुरुषाकारायत्त' क.४. 'सूचनेन दूततादिनिरासात' ख.५. 'पुरुषार्थासन्नोपकारकारिखवेन' क., 'पुरुषार्थासन्नोपकारिलेन'
म्युदयादीनां च' स. ७. 'शोटीर्यवीर्यादय:' क.ख.८.'खेदम्' क.
Page 837
काव्यमाला ।
तदनुभवसमुत्थानन्दसंमीलिताक्षा: परिषदि परितोषं हन्त सन्तः प्रयान्तु ॥ ५२६॥ यावन्मूर्धि हिमांशुकन्दलभृति खर्वाहिनी धूर्जटे- र्यावद्वक्षसि कौस्तुभस्तबकिता लक्ष्मीर्मुरद्वेषिणः । यावच्चित्तभुवस्त्िलोकविजयप्रौढं धनुः कौसुमं भूयात्तावदियं कृतिः कृतधियां कर्णावतंसोत्पलम् ॥५२७॥ इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते सरस्वतीकण्ठाभर- णालंकारे रसविवेचनो नाम पञ्चमः परिच्छेदः। समाप्तोऽयं ग्रन्थः । शुभमस्तु।
Page 838
सरस्तीकण्ठाभरणे विविधबन्धाः । १
(१) अष्टदलपझ्मबन्ध :- कर्णणिकायां न्यसेरेकं द्वे द्वे दिश्रु विदिक्षु च। प्रवेशनिर्गमौ दिक्षु कुर्यादष्टदलाम्बुजे॥।
ता
थ्रे थ
त या न
VasPaMhannMnpDarT5aMN मा
या च
याश्रिता पावनतया यातनच्छिदनीचया। याचनीया धिया माया यामायासंस्तुता थ्रिया॥ (द्वितीयपरिच्छेदे पृ.२७२ ऋोक: २८४) TATAT * स० क०
Page 839
२ सरसतीकण्ठाभरणे- 6
(२) द्वितीयोऽषदलपद्मबन्घ :- अष्टधा कर्णिकावर्ण: पत्रेष्वष्टी तथापरे। तेषां संधिषु चाप्य ष्टाव ष्टपत्रसरोरहे।
च ज्व ्फा
र व
15 व 31
चरस्फारवरक्षार वरकारगरज्वर। चलस्फाल वलक्षालवल कालगलज्वल॥। (द्वि. परि. पृ.२७३ शो. २८६)
Page 840
विविधबन्धाः ।
(३) तृतीयोऽष्टपत्रबन्ध :- प्राक्कर्णिकां पुनः पर्णे पर्णाग्रं पर्णकर्णिके। प्रतिपर्ण व्रजेद्धीमानिह त्वप्टदलाम्बुजे॥
शी
त्का म न
नशशीशनवेभावे नमत्कामनतव्रत। नमामि माननमन ननु त्वानुनयं नयम्।। (द्वि. प. पृ. २७३ शो. २८८)
Page 841
सरसती कण्ठाभरणे- De Casras ea as as an nras e (४) चतुष्पत्रकमलबन्ध :- कर्णिकातो नयेदू्ध्वे पत्राकाराक्षरावलीम्। प्रवेशयेत्कर्णिकायां पद्ममेतच्चतुर्दलम्।।
वा त्ासु म ता पी व सो सा र्ध सु स मै, ति स
सासवात्वासुमनसा सा नता पीवरोरसा। सारधामति सहसा साहसर्धसुवाससा। (द्वि. परि. पृ. २७४ शो. २९०)
Page 842
विविधबन्धाः ।
गोमूत्रिकाक्र्कमेण स्युरवर्णाः सर्वे समाः समाः। मध्ये मवर्णविन्यासात्पझ्रोऽयं पोडशच्छदः॥
न स्ते हि मे न म घा भी स्या.
नमस्ते महिमप्रेम नमस्यामतिमइम। क्षामसोम नमत्काम धाम भीम समक्षम ॥। (द्वि. परि. पृ. २७४ शो. २९२)
Si aava Vatsvaayda P-asas
Page 843
६ सरस्तीकण्ठाभरणे-
(६) कविनामाङ्काष्टपत्रबन्ध :- निविष्टाष्टदलन्यासमिदं पादार्धभक्तिमिः । अस्पृष्टकणिक कोणै: कविनामाकमस्वुजम् ।।
रा धि ज्या ल वि व्या ज व्या
ता शि व म 서 과
ह्यं का प क्षमा म रा सतु न य न षा क्षारधा
र स्वा
क श्री स या
ला स्थि र
रावावद्याधिराज्या विसरररसविद्याजवावक्ष्मापकारा राका पक्षमाभशेषा नयनननयनस्वाख्या सव्यमारा। रामा व्यस्तस्थिरत्वा तुहिनननहितु: श्री: करक्षारधारा राधा रक्षास्तु महयं शिवमममवशिव्याळविद्याववारा। (द्वि. परि. पृ. २७५ लो. २९४)
Page 844
विविधबन्धाः ।
(७) नामाङ्कचकबन्ध :- पुरःपुरो लिखेत्पादानत्र तीन् पडरीहतान्। तुर्य तु भ्रमयेश्नेमौ नामाक्कञ्ञरसंविधि: ॥
त त्वंमानविशिष्टमाजि घै: म
का का
ल रे थ्घापक्षय मुदिरुद्ध मृगव्याथसनावंह म स्त र तरश्रीवत्स भूमिर्मु मसादालम्ब्य मव्यापु दा • त
रो यी
सत्वं मानविशिष्टमाजिरमसादाळम्डय भव्य: पुरो लब्याघक्षयशुद्धिरुदूरतर श्री व्रत्स भूमिमुंदा। मुक्खाकाममपास्तमी: परमृगव्याधः सनादं हरे- atsvanvat रेकौंघैः समकालमभ्रमुद्यीरोपैख्तडा तखरे॥ (द्वि. प. पृ. २७६ लो. २९६.)
Page 845
८ सरस्तीकण्ठामरणे- 6 a
(८) द्वितीयषडरचक्रवन्घ :-
री. म्रां चा /64 दवद्सुरास्थिसार र
द नी विदिमेवनचकंश्रु: वि गवाक्षीणेनचञ्यदु छोड़र्मरज: पदड़् वा मु य पनतरजपातित्यि भ स्यो व्यचिन्तितरसिरस र मे नु
शुद्धं बद्धसुरास्थिसारविषमत्वं रुग्जयातिस्थिर- भ्रष्टोद्धर्मरज:पदङगविगवाक्षीणेन चञ्चद्सुवा। तथ्यं चिन्तितगुप्तिरस्तविधिदिग्मेदन्नचक्रं शुचा चारो प्रांशुरदभ्रमुग्रतनुमे रम्यो भवानीरुचा।। (ह्ि. प. पृ. २७६ श्रो. २९८)
Page 846
विविधबन्धाः ।
(९) तुरङ्गपदबन्ध :- कमात्पादचतुष्केऽस्य पड्चिशः परिलेखिते। तुरङ्गपदयातेन ऋोकोऽन्य उपजायते।।
वा१ ला३० सु९ का२० ल३ वा२४ ला११का२६
का१६ न्ति ला२ ल२८क१०ला२७ लि४ ता२३
स३१ खाट सु१७ त१४ व२१ ती ६ साश्प रा१२
द १८ पि१५ का३२ व ७ त २८ ग१३ र्धि त५
बालासुकालवालाकाकान्तिलालकलालिता। सस्ा सुतवती सारादर्पिकावतगर्धित ॥ (द्वि. प. पृ. २७९ शो. ३०६) अन्यक्ष श्ोक :- बाला लालिततीव्रसवा सुकला रागतर्पिंका। Vatavas ate 2teii सुदन्तिका वर्धिता वा सा कालानललासका।। (द्वि. प. पृ. २७९ शो. ३०८)
Page 847
१० सरस्वती कण्ठाभरणे-
(१०) द्विचतुष्कचक्रबन्धः- हह शिसरसन्धिमालां बिन्ुयादष समात्ितैषणे। द्विचतुष्कचकबन्घे नेमिविधी चापर अमयेत् ।
ग
ज
य भावि ना रे नच
बा न्ट्रा अ. भा
जयदेव नरेन्द्रादे लम्बोदर विनायक। धि
जगदे धनचन्दाभालइ पिदन्तविभाय ते ॥ (हि.प.पृ.२८० सो. ३११ (११) द्विशुङ्गाटकबन्ध :- शृह्गाद् ग्न्थि पुनः शृत ग्रन्धि शृत्ग प्रजेदिति।
तम क ला र सधाय व स्य रा मे व ना र ज
रव शे गो री
करासजवझेशंखगोरवम्य कलारसम्। संघाय वलयां दाङ्ग्रामगारी मेवनारमक म (डि.प. पृ.२८१ श्ो. १११)
Page 848
विविधबन्धाः । ११
(१२) विविडितचक्रबन्धः- शिवराइन्यतमाई प्रतिपर्ष भ्रमति रेखयंदिर्षम्। नेमौ तदितरमर्ष विविडितचक्रामिधे बन्धे।।
न सा र
रं स च ज ता ती
य मिता स् द ने
सा सवी जयवादत्र सरन्ती यभितात सा। सारं पर स च जयी शमिता खन्डनेन सा । (द्वि. प. पृ. २८१ शो. ११५) (१३) शरयन्त्रबन्ध :- चतुरष्पपि च पादेपु पक्किशो लिसितेप्बिह। आदेरादेस्तुरङ्गस्य पादैः पाद: समाप्यते ।।
न म स्ते ज ग तां गा न्र
स दा न च कु ल क्ष य
स म स्ते ज स तां ना त्र
मु दा म व न ल क्ष य
नमसे जगता गात्र सदानवफुलक्षय। समस्ते5जसर्ता नात्र मुदानवनलक्षय ।। (दि प. पृ.२८२ शो. 11७)
Page 849
१२ सरस्तीकण्ठाभरणे- Wiasyasyasva5ven (१४) व्योमबन्ध :- अष्टादशशिखरचरीं गोमुत्रिकया चतुष्पदीं पश्येत्। यत्राद्यन्तैर्डप्टां स शेयो व्योमबन्ध इति ।
र क न न कां तां ज म ला न ग तन सा गा व .h मा ल चिनि लि मि हा ना क ष स ला ता व रि र वि विस वि दि सा का
varn cavel ननगामिकरन्दिविसारमनारमणअरतानन।। तमसां बलहानिविलासवशेन वरञ्जनकान्त। ननमामि चिरं सवितारमनादिमदअगतान॥ (द्वि. प. पृ. २८२ शो.३१९)
Page 850
विविधबन्धाः । १३
(१५) मुरजबन्ध :- अत्र पादचतुष्केऽपि क्रमशः परिलेखिते। ऋोकपादक्रमेण स्याद्रेखातु मुरजत्रयी॥
गम सें ना नार सा
ना र र ना सी द ता ना म न
या धी र ना ना म ग म
सा सेना गमनारम्मे रसेनासीदनारता। तारनादजना मत्तधीरनागमनामया। (द्वि. प. पृ.२८३ खो. ३२०)
Page 851
१४ सरसतीकण्ठाभरणे-
(१६) एकाक्षरमुरजबन्ध :- शोकस्यैतस्य पादेषु लिखितेषु चतुर्ष्वपि। त्रिमृदङ्गकरीहस्याच्चतुरेकाक्षरावली।।
न न ला न हा न न
न सतु वे ध वा न न स्य नू ध न म
का न स्थान न दी र्त न न
मनस्यनूनप्रधनप्रधूननं सकाननस्थाननदीननर्तनम्।। (द्वि. प. पृ. २८३ श्ो. ३२१)
Page 852
विविधबन्धाः । १५
(१७) मुरजप्रस्तार :- करमेणैवास्य पादेषु प्रसृतेषु चतुर्ष्वपि। तुर्यान्मुरजमार्गेण श्ोकोऽयमुपजायते॥
र. प्र ल सा भा रा
का ति सि ता मा म मा ता
व पा सा ग मा स
तालसारप्रभाराका तारकापतिदंसिता। मारधामरमाधीता बलयामास सागरम् ।। (द्वि. प. पृ. २८३ श्रो. ३२२ )
3aG/as lasves ds8
Page 853
१६ सरस्वतीकण्ठ/भरणे विविधबन्धाः ।
(१८) पादगोमूत्रिकावन्ध :- e गतिरुच्चावचा यत्र मार्गे मूत्रस्य गोरिव। गोमूत्रिकेति तत्पाहुर्दुष्करं चित्रवेदिन:।।
का न्पु म न स्त पी ता
क्ष लो त या नि 1 व स्य /र ञ/पीता
कांक्षन्पुलोमतनयास्तनपीडितानि वक्षस्थलोच्छ्रितरयाञ्चनपीडितानि। पायादपायभयतो नमुचिप्रहारी मायामपास्य भवतोऽम्वुमुचां प्रसारी।। (द्वि. प. पृ. २८४ श्रो. ३२४)
प्रस्तार: (१९) अर्धगोमृत्रिका-
मा/दि व/स य पताम ९/स मा/सि
रि रा न रा सु र वि व्या दा य सा य ने मा
नमो दिवसपूराय सुतामरसभासिने। नतमव्यारिदाराय सुसारलयभाविने।
नतदिव्यासदाराय सुसामलसभासिने। नमो भवरिपूराय सुताररयभाविने॥। (द्वि. प. पृ. २८८ श्रो. ३३६,३३७)
Page 854
G
श्रीः ।
सरखतीकण्ठाभरणस्थोदाहरणानुक्रमणिका । According to Col, Jacob's Index to Quotations' at the India Office Library, London, with modifioa- tions to suit this edition.
पद्यानि पृष्ठाद्ा: पद्मानि
अ. अगणिअसेसजुआणा अंतोहुंत डज्झइ ६३१ अगा गां गाञकाकाड्क- ६७६ २७० ६६४ अगू डहासस्फुटदन्त- ४४७ अंशुकानि प्रवालानि ५९६ अग्रे गतेन वसति परिगृद्य ३१४ अेइकोवणा वि सास् ६७४ अैग्रे स्रीनखपाटलं कुरबकं v४ अह दिअर कि ण पेच्छसि ६२० अघो्ष नो नृसिंहस्य अंइ दुम्मणआा अज ३०९ अज्ञानि चन्दनरज:परिधूसराणि २२६
अक्कुलीमिरिव केशसंचयं ६१८ अइ सहि बंकुल्लाविरि ३८४ अकटगुमटी चन्द्रज्योत्सना १४७ अनुल्यः पहवान्यासन् ४६८ ४१५ अेकस्मादेव ते चण्टि ४२० अच्छकागअहिअए
अकृतकवलारम्भ: अजननिरस्तु विभूते: ६३९ ५१५ ७२२
अक्षुद्ारिकृताभिमन्यु- ५८६ अजित्वा सार्णवामुर्वी ५९६
अक्षे वसति पिशाच: ३८६ अेज मए गन्तव्वं घणंध- ६१६
असण्डमण्डल केन्दुः अंज मए तेण विणा ६१४
अैखण्डित प्रेम लमख ६५5 भैज वि ताव एकं ६३६,६७७
२१२ २. गा० स० १-५७. २. काम्याद०
१. गा० स० ४-७३. २. काव्याद० ५-१५. ५. विकमो० २-७. ६. कुमार० २-२९०.३.गा. स० ५-९३.४.गा० ८-६३. ७. काव्याद० २-६७. ८.का- स० ६-७०. ५. काव्याद० २-७१. म्याइ ० २-२८४. ९. गॉ० स० ३-४९. ६. आार्तभरपदतां निजानारायणस. ७. १०. पा० स० १-२९. ११. गा० कुमार० ७-२८. ८. शिशु० ४-१२. 1 स० क०
Page 855
२
पद्मानि पृषाड्ा: : पद्यानि पृष्ठाड्ा: अंज वि बालो दामोअरो ५३९ अथात्मनः शब्दगुण १२ अज्ज वि सेअजलोलं ६३६ अदृश्यन्त पुरखेन ३७५ अंजाइ णवणद्दक्खअ ६२४ अदंसणेण पुत्तभ ६७२ १५४ अद्य प्रमृत्यवनताति ६५२ अज्ञातबन्धुरयमृक्ष- ६०४ अद्य मे सफला प्रीति: ३०० अणुणिभखणलद्ध मुहे ६५१ अद्यापि तत्कनककुण्डल- अणुमरणपत्थिआए १३६
अण्णमहिलापसनं ६५० अद्रेः *तं हरति पवनः ६८७ ३७१
अण्णह ण तीरइ चिभ अद्वैतं सुखदुःखयोरनुगुण ६७६ ७०३
अण्णुभ णाहं कुविआ ६४१ अनज्कमलंचके ३१
अण्णे वि हु होन्ति छणा ६६5 २७०
अण्णोण्णेहिं सुचरिअ अनजितासितादष्टि- २५६ २१९.
अति: अति: अन्म अनभ्यासेन विद्यानां ३२६ अत्तंतहरमणिजं ३०० अनयोरनवद्यात्ि अैत्थक्वरुसणं खणपसिज्जणं १८७ १३२ अनश्रुवानेन युगोपमान ३२९ अत्यन्तमसदार्याणा ६२४ अनाघ्रातं पुष्पं किसलय- ४२६ अेत्रान्तरे ललितहारलतां- ३२७ अनाप्रपुण्योपचये: ७२१ अत्राप्युदाइरन्तीमं अनुगच्छन्मुनितनयां ३९७
१८४ ६१५ अथ तैः परिदेविताक्षर: अनुत्तमानुभावस्य १२ अथ दीर्घतर तमः प्रवेक्ष्यन् ५३८
अथ वासवस्प वचनेन ३८१ १५३ १. रपुवं० १३-१. २ गा० स० अेथ स विषयव्यातत्तात्मा ७०२ २-३६. ३. कुमार ० ५-८६. ४. चौरपं० अथाजिनाषाढघर: १२. ५. मेघसंदे० १-१४. ६. उत्तर-
१. गा. स० २-१२. २. गा० राम० १-३९. ७. काब्याद० ३-९०.
सं० २-५०. ३. गा० स० ७-७५. ८. काम्याद० २-२०१. ९. का्याद० ४. काय्याद० २-२५०.५.विदसालम० २-२४७. १०. काष्याद० २-८७ १-१९. ६. कुमार ० x-२५. ७. कि- ११. रघुनं०.१८-४८. १२. शाकुन्त० राता० १३-३०. ८. किराता०. १२-१. ९. खुबं० ३-७०. १०. कुमार ०५-२०. ।कुन्त० २-२४. २-१०. १३.किराता० २-५. १४. शा-
Page 856
३
पद्मानि पृष्ठाङ्ा: पद्मानि पृष्ठाक्डा: अनुरागवती सन्ध्या ३३२ अप्येहि कान्ते वैदेहि २५० अनुशासतमित्यनाकुलं ३६१ अप्राकृतस्तु कथमस्तु ४८६ अनेकपादत्रमदत्र २१९ अभिधाय तदा तदप्रियं ९६ अनेन कल्याणि मृणाल ६८३ अभिनववधूरोषखादु: र्अॅनेन कस्यापि कुलाक्करेण ५८५ अमिन्रवेली गम्भीरौ १३१,७२२
अनेन यूना सह पार्थिवेन ५१८ अभूदूर: कण्ट कित प्रकोष्ठः ३५६
अत्रप्रोतवृहदत्कपाल ५७१ १०२ अभ्युद्टृता वसुमती ७१,७१६ अन्ने: कल्पितमतळ १०३,७३१ अन्यतो नय मुहूर्तमाननं ३५९ ४३७ अमअमअ गअणसेहर अन्यदाभूषणं पुंसः ६७५ ११५ अमृतममृतं चन्द्रथन्द्र: अन्योन्य संतलितमांसल २५४ ८१ अम्बा तुष्यति न मया अपकर्ताहमस्मीति ५२४ ५९९ अम्लानोत्पलकोमले अपश्यद्गिरिवेशानं अम्हारिसा वि कइणो ५५१ ७४१ ९३ अपहस्वितान्यकिसलय २६० अयं तया (स्या) रयक्षोभा- ५०७ अपि जनकसुतायास्च् ६०० अयं पद्मासनासीन: ४२ अपि तुरगसमीपादुत्पतन्तं अयमभिनवमेघश्यामलो- अंपीतक्षीवकादम्बं १५३ ३१८ अयमसी भगवानुत ६०५ ३७१ अपेतव्याहारं धुतविविध- ६५१ ३२१ अप्फुन्दंतेण णहं शIBT २३९ १. शिशुपा० १६-२. २. ओचि- 0. १. खवन्या० १-१३. २. किराता० त्यविचारचर्चायां माळ्वरुदरस्य. ३. का २-५४२ ३. विकमो० ३-१३. ४. शा- न्याद ०२-१८३. ४. रुबं० ७.२२. कुन्त० ७-१९.५. रुं० ६-३५. .६. महावीरच० १-२६. ७. मालती० ५. काब्याद० २-१९१. ६. रा०
५-१८. ८. मजीरस्पति सुभाषितावलि :. श्रीविजयपाळस्येति सुभापिता० ७.भेटू- कपर्दिन: इति सुभापिता० मठिनाथस्वेति ९. शिशुपा० २-४४. १०. वामनका० ३-२-१०. ११. काव्याद० २-२९३. भोजप्र० ८. विकमो० २-११.९. न- र२ किराता० २५-२ १३. उ- मिसाधो स्द्रटकान्या० वृत्तो पृ. १४६. नर० ६-२६. १४. रघुवं०९-६७. १८. माढती ०९-५. ११ किराता०₹2- १५. काव्याद० २-२००. ए.१२. काच्याइ० २-२३६.०२ ०१
Page 857
8
पद्यानि पृष्ठाड्ा: पद्मानि पृष्ठाक्का: अयमुदयति मुद्राभजन: ७४,१५८ अविगाह्योऽसि नारीणां २४ अयमेव दह्यमान- ६८९ अयि विजहीहि डढोपगूहनं अविभाविअरअणिमुहं ६३० १५१ अविरलमिव दान्रा १५४ अेविरलविलोलजलद: अैरनालोकसंहार्य ४३७ ३८२ ३५६ अवैमि पूतमात्मानं ३३९ अरिमेद: पलाशय २२५ अव्वोच्छिण्णपसरिओ ४३२ अैलं विवादेन यथाश्रुतं अव्यो दुककरआरभ ६५७ त्वया ४९४,७०० अशोक निर्भत्सिंतपद्मराग अलमलमतिमात्रं साइसे- ६१२ ५१२ असंशयं क्षत्रपरिग्रहक्षमा ५८५ ६०१ अलिशपसुत्त विणिमीलिअच्छ असकलहसितत्वात् १५५ ६२१ अलिनीलालकलतं असमत्तमण्डणचिअ ६२२ २७० अेलिवलयैरलकरिव असमत्तो वि समप्पइ ६७५ ४०९ अेल्पं निर्मितमाकाश असंमृतं मण्डनमत्- ३१९ १३२ असारं संसारं १२९ ६७९ अंसावनुपनीतोऽपि वेदा अवतु वः सवितु: १५२ 2A
अेवेलंबह मा संकह असावुदयमारूढ: ५४४ ६७६ अवलंबिअमाणपर मुही असिततिंतुगद्रिच्छित् ६८५ असौ विद्याधार: शिशुरपि १५५,६९६ अवसहिअजणो परणा ६६४ अवसितं हसितं प्रसितं शस्तमस्तकपर्यस्तसम- २३८ २०७ १ मालती० ३-१६. २. रुद्रटका २. कुमारदासस्पेति औचित्यविचार- ७-६०. ३. सेतुब० ३-१७. ४. गा०. चर्चा. २. कुमार० ५-१५. ३. काव्या- स० २-७३. ५. कुमार० २-५३. ६. शाकुम्त० १-२२. ७. गा० स० १- नाव० २-२७. ६. माळती० १-३१. २१. ८. कुमार० १-३१. ९. मालवी- ७.गा० स०१-२०८.काव्याद०३-८९. मा०४-३०. १०. काम्याद० ३-१७८. ९. वदटका० ८-३०. १०. काव्याद० ११. काव्याद० २-२११. १२.मा- २-१२. ११. गा० स० ४-८६. १२. गा० स० १-८७. १३. महि० १०-६. लतीमा० २-२. १३. काच्याद० १-८२.
Page 858
५
पद्मानि पृष्ठाश: पदानि पृष्ठाष्ा: अेस्वोकविस्मयमपि ३८१ आअंबलोअणाणं अस्त्युद्दामजटाभार ३०६ अस्थीन्यस्थीन्यजिनमजिनं आअरपणामिओद्ठ ६१३ ६३२ २५६ आउज्सिअ पिट्टिअए २२ अस्मान् साधु विचिन्लय संय- आक्षिपन्तरविन्दानि ३१५ मधनान् ५९० १०४,७३२ अस्मिश्रीषद्वलितवितत अस्मिन्गृद्यत पिनाक ६० ६७३ ७२२ आत्मनथ् परेषा च २२१ अस्मिन्वर्षमहे न वर्तत अस्या: सर्गविधौ प्रजापति- ६९१ ४८८ ३७० आधातुं विनयं निरागसि आधूतकेसरो हसती ६८२ अह तह सहत्यदिण्णो ६६८ ४५ अह धाविण संझामएण आनन्दाशु प्रपृतं मे ४५१ अह सा तहिं तहिं ब्बिअ ६६५ ६९० आपातमात्ररसिके अह सो विलक्सहिअओ ४३७,७२२ ६९० आपृच्छामि व्यथयति मनो अहिणवमणदर २६ आभरणस्याभरणं प्रसाधन १७९,६९८ ६२६
अहेतुः पक्षपातो यः आन्रायानामाहन्त्या अहो रूपमहो रूपं ५९९ २७२ २५८ आयाते दयिते मरुस्थलभुवां अहो विशालं भूपाल ६१० ५४० आरोहल्यवनीरुह ५७
आ. आलक्ष्य दन्तमुकुलान-
ओहिपातां रघुव्याप्री निमित्तहासान् २६ ६०३ आलाओ मा दिजउ आ: सीते पतिगर्वविभ्रम ७१७ आलीयं मालतीमाला ६१६ २८ १. मालवीमा० ९-५५. २.शा- १. गा० स०५-७३.२.गा०स०१- कुन्त० ४-१६. ३. किराता० ५-३३. २२. २. काव्याद ० २-३६१.४. मदा- ४ विकमो० १-९.५. गा० स०४-१८. भारते आदिप. ९८-११.५ कान्पाद ०३- ६. गा० स० ५-२०. ७. उतर० २ १७२.६. काव्याद० २-२६७. ७. चिक- १७. ८. नगिसाषो रुद्रवकाव्यालंकार- मो० २-३. ८. कान्याद०२-८४. ९.५- चृत्ती पु. २१. ९. फाब्याद० २-२१९. निकस्प दशरूपके ४-१३. शार्जपरप० १०. महि० ४-४. अनुतपुण्यस्प. १०. शाकुन्त• ६-१७.
Page 859
६
पद्यानि पृष्ठाड्काः पद्यानि पृष्ठाड्ा: आलोअंति दिसाओ ६४८ ओबजिता किचिदिव खनाभ्यां ६१२ इतः स दैलय: प्राप्तथ्रीः १९४ इतः खपिति केशवः कुलमित: ४६० आवाअभअअरचिअ ६४४ औविर्भवन्ती प्रथम प्रियाया: इैति विस्मृतान्यकरणीयमा- ६०४
आविवाहसमयाद्गहे बने ३८५ इति शासति सेनान्यां ३२६
आशु लद्वितवतीष्टकरामरे ६८१ इैदं गुरुम्य: पूर्वेभ्यो ३०६
औश्षर्यमुत्पलदशो बदनामिलेन्दु ६०९ इदमम्लानमानाया ५९७
आक्ेषिण: प्रृथुरतक्कम- ईदमसुलभवस्तुप्रार्थना- ७१६ ६१३
आश्ेपे प्रथम कमेण विजिते ईदमार्दास्मित ज्योत्नं ६७० ४२१
आसाइअमण्णाएण ५४९ ईदं मघोन: कुलिशं ५९७
आसादितप्रकटनिर्मलचन्द्र- ७३९ ५१९ आसीदैत्यो हयग्रीव: १५२ इन्दुमूरधि शिवस्य शैलदुहितु: ८३,५३१ आस्थामालम्व्य नीतेषु ईन्दुर्यत्र न निन्धते न मधुरं ६२८ आँहारे विरति: समख ५९९ ईन्दुलिप्त इवाजनेन ४४५ ४६५ आहृतस्याभिषेकाय इमास्ता विन्ध्यादे: शुकहरित ४७७ ३१६ इमिणा सरएण ससी ५२९ ईयं सा लोलाक्षी त्रिभुवन- इक्षुदण्डस्य मण्डस्य ६१०
इतेः परानर्मकहार्य- ६०५ इयं गेहे लक्ष्मीरियममृत- ६०१ ७४० इतः प्रत्यादेशात्खजनमनुगन्तुं ५८३ १. कुमार० २-५५. २.नीतिशतके० ७७. ३. रुवं० ९-९९. ४. किरा- १. कुमार० २-५४. २. माल ता० १५-२९. ५. उत्तरराम० ₹-१. वीमा० ३-४. २. उत्तरराम० १-३७. ४. शिशु० १०-६४.५. मालती० ३-५. ६. काव्या० २-२८९. ७. विक्रमो०
६. मेण्ठकर्तकट्यग्रीववथस्व इति सुबृत्त- २-६. ८. पूर्वार्धम्, काब्याद २-७८.
िलके. २-१६.७. किराता० १५-४. ९. काब्या० २-२९१ १०. रघुबं ६-६५. ११. सुभाषिताच० शाजंप० ८. आार्जंधर० राजशेखरख. ९. घनि. कस्म दशरूपके २-४. १०. रघुव० १२. बालराम० १-४२. १३धनिकस्प दशरूपके महानाटके चं ३-२३- २-१५. ११. शाकुन्तल० २ट2 १४. उत्तर० १-२८.२-,०३
Page 860
७
पद्मानि -पृष्ठाक्का: पद्यानि पृष्ठाष्ा: इयेमेल पतन्नवर्त्मना ६४९ इयं महेन्द्रप्रभृतीनषिश्रित: उत्तुभे कृतसंश्रयस्य ४५७ ५९९ इयेष सा कर्तुमवन्ध्यरूप- उत्पत्तिरदेवयजनात् ५८२ ६७१ इह मुहुर्मुदितैः कलमै :- २०६ उत्पश्यामि द्रुतमपि सखे ६११,६७४
इह रे बहला लासे ३४३ २७८ उ. उदधाचुदधावाझा ३०१
डैअहिस्स जसेण जरस २५९ उद्यनेव सविता ३५२
उचिउ वालीयिअ पन्य- उदयिते दयिते जघनं धनं ३०७ २००
उच्छलन्मत्सपुच्छाप्र २३२ १३५ उज्वलालोकया स्रिग्धा ४२४,६९४ उद्च्छो पिभइ जलं ३४६ उज्ससि पिआाइ समअं ४८१ उद्यतस्य पर हन्तुं ४४ ैद्ठन्तमहारम्मे थणए ६८७ उद्यद्वर्ईषि दर्दुरारवपुषि उैद्यानसहकाराणां २४८ उत्कण्ठयति मेघानां ५२७ ३२८,३९६ उत्कण्ठा संतापो रण- उत्कम्पयसि मां चूत ३४१ उननमव्य सकच्रहमास ८७,६०१ १५ १४४ २० डैन्मीलितं तूलिकयेव चित्रं उत्कूजवि श्वसिति मुत्ति ६९८ ६०९ उत्तंसिण दोहलविअसिभ उपनिहितहलीशासार्गल ३१७ ६६६ उपरि धनं घनपटलं उत्तप्तकाबनाभास ३०१ उत्तिष्ठन्त्या रतान्ते भर- उपाष्वं तत्पान्थाः पुनरपि ३५३ ४६१
मुरगपतौ उेपोढरागाप्यवला मदेन १६१,६२० २११
१ कुमार० ४-२०.२. कुमार० ५- १. शाकुन्त० ४-१४. २.महावीर० ५३. ३. शिशु० ४-६०. ४. सेतु० १-२१. ३. मेघस० १-२३. ४. काव्या- ४-४३. ५ माळवी ०१०-४. ६.गा०स० द० २-३४९.५. वामनका० ४-२-२. ३-७५.७.गा०स०४-८२.८.काव्याद० ६. शार्जभरपद्धती बाणस्य. ७.काब्याद० ३-११८. ९. रुद्रटकाव्यालं० ७५५. २-२५१.८.सुभापितान० विब्जिकाया :- १०. काव्यादर्श० ३-१३६. ११. वेणी. ९. शाकुन्व० ३-१२. १०. कुमार० १- संदार० १-३. सुभाषितावलौ भट्टनाराय- २२.११. मुद्रारा० १-२१.भस्य प्राकृतं पस्प, शार्जषरपद्धतो च निश्ानारायणस्य. बर्वते, १२. काव्या० २-५१.
Page 861
८
पद्मानि पद्मानि पृष्ठाक्काः उभी यदि व्योति पृथक् एकं पहरुम्बाअं ६२२ प्रवाहा ५०,४१२ एकिहिं अच्छिहिं सावण उभी रम्भासतम्मो १८५
डेमा वधूर्भवान्दाता ३६९ एकोण्णमिअभुअभंगे ४४२
उम्मुलिआण खुलिआा ऐको वि कालसारो ६४० ५०९ उरपेलिअवइ कारिलआई एतदालोक्य लोलाक्षि ३९३ ४५१ उरुगुं युगुरुं युत्सु एतदास्यं बिना हास्यं ३९४ २७० एतानि निःसहतनोरसमक्ष- १५८ उल्ाअइ से अंग ६४० उव्बहद णबतणंकुर ऐतां पश्य पुरःस्थलीमिह ५७६ ६०६
उग्वहइ दइअगहियाद एन्तोवि ण सचविओ ३७२ ६२७ एद्हमेत्तत्थणिआ १९२ ए. एमेअ अकअउण्णा ६१५ एक इह जीवलोके एवंवादिनि देवपाँ ७१९ 4८६ एक एव हि भूतात्मा ४०४ ऐष राजा यदा लक्ष्मी २२१ एकचको रथो यन्ता ५०६ एषा प्रवास कथमप्यतीलय एकत्रासनसंगति: परिहता ६९८ एँषा मनो मे प्रसम शरीरात ६७४ एकस्मिन् शयने मया मय- ६८० एष्यत्युत्सुकमागते ५७७
एकान्ते बिजने रात्रा- एहिइ पिओ त्ति निमिसं ६९० एकेनार्क प्रविततरुषा १९६ एहिइ सो वि पत्थो ६४२ ऐको दाशरयः काम ७२९ ३४२ ऐतेहि वत्स रघुनन्दन ६८, ७०८ एको नेता क्षत्रियो वा द्विजो १७१ ऐ.
१. शिशुपा० ३-८. २. कुमार० ऐन्दवादर्चिषः कामी १३७ ६-८२. १. सेतु० ६-८१. ४.गा० १. गा० स० १-८६. २. गा०स० स० ६-७७. ५. वाक्पतिकनेगांडवहो- नामनि प्राकृतकाव्ये ६-९० .. ६. जम- १-२५. ३. निकस्य दशरूपके २-९.
बिन्दूपनिषट् १९. ७. काव्याद० ₹- ४. कुमार ०६-८४. ५. काब्या०१-५३.
३२८. ८. अमरु० १-१८. ९. रपु० ६. मालती ०१०-१२. ७. विक्रमो० ₹-
१२-४५. १९.८.गा० स० १-१७. ९. महानी० २-४६. १०. काब्याद० .२-१८२-
Page 862
९
पद्यानि पृष्ठाडा: पद्मानि पृछ्ाड्ा: ओ. केपोलकण्ड्ू: करिमिविनेतुं ओरत्तपङ्कअमुहिं ६७९ ओसुअइ दिण्णपडिवक्स कपोलपुलकेनास्या ६०५
केपोळे जानक्याः करि- २९४ ५९४
क:खगोघठचिच्छौजा कपोले पत्राली करतल ६८२ क. कमलकरा रम्भोरु ७२६ २६७ कअलीगब्भसरिच्छे ऊरू ६२६ कैमलदलैरधरैरिव ४०१
कइआ गओ पिओ अजपुत्ति ४१० ६४३ कमलमनम्भसि कमले कंचुकं कंचुकं मुख ४६४,०२३ २५७ कैमलमिव चारु वदनं ४०५ कडए धूमंधारे ६८८ कमलावलिहारिविकासविशेष २८२ कणइल्विचिभ जाणइ १८२ कैमळे इब लोचने इमे १०६ कण्ठस्य तस्या: खन- कम्पन्ते कपयो मृशं बन्धुरस्य ३४६,६१२ ३१६
कण्ठेकाल:, करस्थेन कम्बळिवालिए कंति कुडम्मल- ६९२ ३२४ कैण्णुजुआ बराई करस्पर्शारम्भात्पुलकित ६३० ६४१
कत्तो संपडइ महपि ६१७ करासल बशे शंखगौरवस्य २८१
कैथमपि न निषिदो करिकवलनशिष्टैः शाखि ७४१ कैथापि खल्ल पापानां कैरिमरिअआलगजिर १५९ ५८१ १७० कैदा नौ संगमो भावी रकरेण ते रणेष्वन्तकरेण ३७९ २०५
कनककलशसच्छे राघापयो- करेणुः प्रस्थितोऽनेको २१४
३६४,५७७ करोति कि किरातोऽयं २५०
कैन्यारनमयोनिजन्म केरोति सहकारस्य ६११ २०१
कैपाट विस्तीणमनोरमोर: ३८ कर्कन्धूफलमुचिनोति ३७४
केपाले मार्जारी पय इति ३६६ १. कुमार० १-९ २. म० ना० ₹-
१. कुमार० १-४२. २. काब्याद० ५०. २.सद्रटकान्यालं० ८-३१.४.रुद्र- २-२२ ३.गा० स० ४-५२.४. वेणी० टकाब्यालं० ८-६. ५. पूर्वारधम्. वामन- ३-२५. ५. शिशु० २-४०. ६. का- काव्यालं० २-२-८. ६. लक्ष्मीबरस्य व्याद० २-२६१. ७. मदाबी० १-२० श्रा० प० ३१२. पर 'वेपन्े इत्यादि. ८. शिशुपा० ३-१३- ९. सुभापिता- ७. गा० स० २.५५. ८. कान्याद० बलौ मासस्य ३-२६. ९. काव्याद० ३-११. 2 स० क०
Page 863
१०
पद्यानि पृष्ठाङ्का: पद्यानि कर्णोत्पलं न चक्षुखते केलतूमुकत तनुमध्य- ३९६ कान्तिप्रतापी भवतः १९ २१८ कान्ते कुटिलमालोक्य २३६ केलापिनां चारुतयोप- २१९ कान्ते तल्पमुपागते ५८७ कल्पान्ते शमितत्रिविक्रम ३६१ कान्त्या चन्द्रमसं केस्याणी बत गाथेयं १३४ ३८६ कामं कन्दर्पचाण्डालो १२५ ५८४ कामं प्रत्यादिष्टां स्मरामि कस्य नो कुरुते मुग्धे ६०२ ६००
कैस्स करो बहुपुण्णफले- कामं वनेषु हरिणा: ४७३ ६८६ कैस्स व ण होइ रोसो कामचीकमथाः केडमी ५ ४५२ कामदं चण्डक्म मदा- २८७ कह कह विरएह प्भ ५२० कामिनीगण्डनिस्यन्दि १०१ कह णु गभा कह दिट्ठा ६३७ कामोपभोगसाकल्य ४८ कह मा झिज्झाट मज्झो ४९८,६७९ कार्अ साधइ सुहिओ कारणगहिओवि मए ६४६ २२ की कथा बाणसंधाने काराविऊण खउर ३९ ५०४ कार्योकार्याण्ययम विकला- १२१ काहन्पुलोमतनयासन- २८४ कालं कपालमालाकं २४८ का भिप्रतोलीमनुकामिनीं तो २०३ काठिन्यमस्या: कुचयो: कालाकखर ुस्सिक्खिम ४७१ १७२ को त्वं शुमे कस्य परिप्रहो काहमस्मि गुहा वचि ३०३ ६९६ ७०२ कान्तयानुगतः कोडयं कि कण्ठे शिथिलीकृत: ३०० कि कि दे पडिहासइ ६३८ कि गुरुजहणं अह थण- ७२५ १. काव्याद० ३-५९. २. काव्या- द०२-५६. ३. शाहचरपद्धती छिच्र- १. वामनकाव्यालं० २-२-२२. मस्य। ऑफेक्टपण्डितस्तु छिन्रम इति। २. अमरु० १०१. २. पादत्रयम्, का- गणरलमहोदधावस्य चित्तप इति नाम। व्याद० २-५०. ४. काव्याद० १-६४. ४. रामायणे सुन्दरकाण्डे ३४-६ ५.₹- ५. शाकुन्त ० ५-२०. ६. वामनका- घुव० ६-१३. ६.गा० स० ६-७५. व्याल० २-२-४. ७. उचरार्य का- ७. धवन्यालोके १-४, ८. शकुन्त ०३-२. व्याद० ३-१५३ .. ८. गा० स० १- १. रुवं १६-८. १५.
Page 864
११
पद्यानि पष्ठाका: पद्ानि पृष्ाक्का: कि गौरि मां प्रतिरुषा कि चित्रं यदि देवेन २९६ किमिति कबरी याहकू ताटकू ३५१ कियन्मान्रं जलं विप्र ५२१
किचिद्धावालसमसरल- १२१ किरन्तः कावेरीलडह १२२,२९८
किंचिदच्मि न वच्मि कि जम्पिएण ददमुद्द २६१ किसलयकरैर्लतानां ४१७ ४९६ किंजल्कसतिशिञ्ञान किसलयमिव मुग्धं ५९१ mdwit de derdewd de devde de २४० कि जातोऽसि चतुष्पये कीटशा भूमिभागेन कुतः कुवलयं कर्णे ३०३ ४५८ किंण भणिओसि वालक किं तातेन नरेन्द्रशेखर कुत्तो लंभइ पन्यिअ ४९४ ६४१ १३०
कि तादेण नरेन्द्रसेहर १९७ कुमुदमिव मुखं तस्प ४३ १९७ कि द्वारि दैवहृतिके १६२,७०९,७१८ कुमुदवनमपध्रि श्रीमदम्मोज- ३४९ कुम्भकूटाह कुट्टाक कि नो व्याप्तदिशा प्रकम्पित- २२६ ६८० कुरु लालस भूळेहे कि पद्ममन्तर्भ्रान्तालि २२५ ४४५ कुर्वन्तोऽमी कलकर्ल २५४ किं भणिओसि ण बालअ ६४१ कुलजातिसमाकुलीकृतानां कि भाषितेन बहुना कुलममलिनं भद्रा मूर्ति: २५१ ६८२ कि रूप स्फुटमेव सा शशिमुखी ६११ कुबलयदलचुतासौ २२२ कि वसन्तसमये वनभक्ष: ३०४ ६०२ किंशुकव्यपदेशेन ४६९ कुविआ अ सचहामा ६४७ कि स खर्गतरु: १६५ कुविआओ वि पसण्णाओ ६७१
१. रुद्रटकाव्या० २-१५. २. बा. कुशलं राधे सुखितोऽसि २९७ कुशलं तस्या जीवति मनकाव्या०. २-२-४. २. भछटस २९. दन्तस्पेति ऑफेक्टपण्डित: सुभाषि- कृच्छ्रेणोरुयुगं व्यतीस्य ७२६
तावली, शाईपरपद्तो च ज्ञानवर्मण :. १. शार्जधरप० मोजराजस्य. २.रद्र- ४. गा० स० ४-७०. ५. सुमापि० टकाव्या० ८-५० -. ३. उत्तररा० ३-५. चिकटनितम्बाया :. ६. वे० सं० २-१६. ४. कान्याद० २-१२२. ५. शिशुपा० ७. काव्याद० २-२६. ८. वामनका० ११-६४. ६. उत्तररा० ४-१९. ०,धव- २-१-८. ९. सुभावि० भामहस्य. न्यालोके १-१७. ८. रलावली २-१०.
Page 865
१२
पद्मानि पृष्ाङ्ा: पद्यानि पृष्ठाष्: कृतसीतापरित्याग: ६७९ कोपो यत्र भ्रुकुटिरचना कृतककुपितैर्बाष्पाम्भोभि: ५०५ ६९६ कृत्वा पुंवत्पातमुचै: कोऽभिप्रेत: सुसंस्थान: १०१ २४० केष्ठा येन शिरोर्हेपु कोडयं भामिनि भूष्ण २९९,६९६ ७४० कोला सणन्ति मोत्यं कृष्णाजुंनानुरक्तापि ४३
कष्णेनाम्ब गवेन रन्तुमनसा ५४७,५५३ को सो जोअणवाओ ३०३ ५८० केचिद्स्तुनि नो वाचि कान्तकान्तवदनप्रतिबिम्बे ३८० ६७ किये जयसि जुम्भसे २९१ कोडे मा डिम्भमादाय केयं मधर्यन्धकारे ६३३ २३२ २९७ केलीगोत्तक्खलणे क्ाम्यन्ती यदुपेक्षितासि ६५८ ६२२ कचिदगे प्रसरता ४१ कैवलं दधति कर्तृवाचिन: ६४ के नु ते हृदयंगम: सखा ५३८ केशव यमुनातीरे को एसोत्ति पलोहु २९८ क पेयं ज्योत्साम्भ: १७८
६६५ के प्रस्थितासि करभोरु २९८ कोकिलालापमधुरा: ४८१ क युवतिभार्दवं क च ३४० कोकिलालापवाचाल: को जयति जयति शर्वः २९,२३६ कौकार्य क कलाधरस्य च ५९२
v३८ काकार्य शशलक्ष्मण: १२७ को नाम नोदयति ७०८ क्षणमात्रसखी सुजातयो: ६०८ क्षितिविजितिस्थिति २७१ २. खुवं० १५-१. २. शिशुपा० क्षितिस्थितिमितिक्षिप्ति २७१ ४-२३. ३.वेणीसं० ३-४२. ४.का- षिप्तं पुरो न जगृहे म्याद० २-३२९. ५. कृष्णकर्णामृत- ६१०
काव्ये २-६४, औचित्यविचार चर्चायां चण्डकस्पेति क्षेमेन्द्र:, हेमचन्द्रस्य १. अमरस० २८. २. शिशुपा० १०-३. ३. कुमारस० ४-२४. ४. अम- रश० ७१. ५. विक्रमोवंशीये ४-३२- ६. शिशुपा० १०-५४. ७. प्रथम- ३४. ययातिचरित्रस्पेति काव्यप्रकाश्टीका चरणमावरं, धनिकस्व दशरूपके. ८. शि- काव्यकौमुदी. ६. विकमो० ४-३३-३४. शुपा० १४-६६. ९. काम्याद० २- २५४. १०. काम्पाद• १-४८. ७. रुनं०८-२७. ८. कान्याद० ३- ८५.९. शिशुपा० ५-५०.
Page 866
१३
पद्यानि पृष्ठाक्का: पद्यानि रछाडा: कषिप्तो हस्तावलम: १३३,७३१ गतिवेणी च नागेन क्षीरक्षालितचन्द्रेव ५५३ गमिआ कलंबवाआ ५४६ ४९९ ख. गम्मिहिसि तस्स् पार्स ६९१ सं वस्े कलविड्ट गेवमसंबाह्यमिमं खणमेतं पि ण फिटड गह्ली लावण्यतल्लौ ते ४३६ ६१५ सेण्डिताशंसया तेषां १३ २०१ गह्वदसुएण समझ ६४५ सरगरकालितकण्ठं २६८ 'गाण्डीवी कनकशिलानिमं भुजाभ्यां'१८ सातयः कनि काले ते ९० गात्राविघातदलिताज १५७ खाहि विसं पिब मुत्तं ४० गामतरुणीओ हिअअं सिण्णस्स ठवेइ उरे ६६५ ६८४ गाहन्तां महिषा निपानसलिलं ५१ सेटके भकसूपस्य १५ गिम्हे दवग्गिमसिमलिइ- ख्याता एव वयं जगत्मु ६९७ आइं ४५०,६९१ ग. गज्ले देवि दशा पुनीहि गीतशीतांशुताम्बूल ३३९ ५३४ गैच्छ गच्छसि चेत्कान्त गीतान्तरेषु श्रमवारिलेशै: ४९३ ६२९
गच्छन्तीनां रमणवसतति गीता विदुरवाक्यानि १२८ ४९1 गच्छेति वक्तुमिच्छामि गुणानामेव दौरात्म्यात् ४७९
१८ गुणानुरागमिश्रेण ३३-
गजन्ते से मेहा ३८३ गुरुतरकलन् पुरानुनादं ६१९
गैतेः कामकथोन्मादः गुरो :शासनमत्येतुं ३२७ ६७७ गृहाणि नाम तान्येब १३२ १. अमरुश० २. २. गा० स० २- ८३. ३. किराता० १५-३. ४. का- १. सेतुन० १-१५. २. रुद्रटकाच्या० व्याद० ३-१११.५. गा० स० ३-९९. ८-७८. ३. किरावाजुं० १७-६३. ६. महावीरच० ५-५१. ७. काष्या- ४. गा० स० ६-४५. ५. शाकुन्त० द० २-१४१. ८. मेघदू० १-३८. २-६. ६. गा० स० १-७०. ७.कु- ९. काव्याद० २-१४७. १०. शिशु- मार ० ३-३८. ८. शिशुपा० ७-१८. पा० ३-६७. परं तत्र 'दिपै :- 'इति पाठ: ९. कान्याद० २-३०१. १०. काव्या ११. कान्याद० २-२४८.
Page 867
१४
पद्यानि पृष्ठाङ्का: पद्यानि पृष्ठाह्का: गरहीतो यः पूर्व परिणय- ३७६ च. गेहदादू याता सरितमुदकं ५११ गेहंति पिभअमा पिभ- चकार काचित्सन चन्दनाहे ६१८ ६६८ चकरं वा मधुह्दा कृतान्तगृहिणी गेड पलोएह इमं २७७ चक्षुर्यस्य तवाननादपगतं ६८१ ७०२ भोतक्सलणं सोऊण २४७ गोनासाय नियोजिता ६१५ चत्व (त्त)रघरिणी पिअदंसणाभ ६९९ गोरैंगउ तरुणिअणो ३२५ ३७४ चन्दणधूसरअ आहुलिअ ३०८ गोलाभडट्टिअं पेच्छिऊण ३७८ चन्दनं विषधराश्रयः शशी ६१३ गोलाविसमोआरच्छलेण ३४७,६३५ चेन्दनप्रणयोद्रन्धि: चन्दनारण्यमाधूय १२३ अन्थिमुद्रथयितुं हृदयेशे ६३९ ३२२ आव्णा नासि गिरे: क्षता ६९ चेन्दसरिसं मुह से ४००,६१६ चन्दो कंदप्पमितं २८७ घ. धैनं विदार्यार्जुनवणपूर्ग ४५४ २१९ चन्द्राननचन्द्रदिनं २६२ घेनगिरीन्द्रविलङ्न २०४ चैन्द्रापीडं सा च जगराह कण्ठे ६३३ घनाघनाभस्य महीमहीयस: १९९ चन्द्रापीडोडथ संजातपीड: ६९४ घरणीभ अकदभव्वं घरिणिघणत्थणपेल्ण ६७३ चैन्द्रायते शुकरुचापि ४११ रचन्द्रोडयमम्बरोतंस: घरिणीए महाणसक- ५९३ ३५८ चपलो निर्दयख्चासी ४७८ म्मलरग ४३८,६८५ १४७ घूर्णमाननयनं स्खलत्कर्थ ५८७ १. पञ्सतवी १-१०. २. काव्याद०
१. उत्तरराम० ३-४० २गा० १-४९. ३. काब्याद० २-२३८.
स० २-१००. ३.गा० स० ५-९६ ४. गा० स० २-१३. ५. कादम्बरी-
४. विदशालम० १-३-५. गा० स० कथा० ८-८०. ६. कादम्वरीकथासारे नास्ति. ७. नमिसाधोष्टीकायां रुटटका- २-८. ६. गा० स०२-९२. ७शि- झुपा० २०.६१.८. किराता० १५-५० व्या० ८-२८. ८. काब्याद० २-१९४:
९. महि: १०-१५. ९. काब्याद ० २-२७१. १०. सद्रटका- ज्या० ४-१९.
Page 868
१५
पद्यानि पृषाना: पद्यानि पृष्ाङ्ा: चरन्ति चतुरम्भोधि ५२५ जेजो जोजा जिजिजाज २६५ चरस्फारवरक्षार २७३ जं.जं करेसि जं जं ६१८ चललतारब्धशम २८६ जं जस्स होइसीर चिकंसया कृत्रिमपत्रिपक्के: ३९६ ३६६ जत्थ ण उज्जागरओ ६४६ चित्ते निवेश्य परिकल्पित- जन: पुण्यैर्यायात् सत्त्वयोगा जंतीमणुरुन्धुं रंचुकहु ६६,७०७ ३७०,५६३ चिंताणिअदइअसमागमम्मि ५८४ जम्बूनां कुसुमोतकरे नवमधु- ३४८ ३१० जं मुच्छिआ ण अ सुओ ६७६ चूडाप्रोतेन्दुभागद्युति २८५ जयजय जय श्रीमन् भोज २५८ चोरा सभअसतहं ७२८ जयति क्षुण्णतिमिर: २६१ च्युतामिन्दोलेखा ६०८ जयति जनताभिवान्छित- १४७
छ. जयति जयति देव:
छणपिट्ठघूसरत्थणि २१४,६६४ जयति ब्रह्मभू: शंभु: २५६ ३०६
छत्राकारविरा: शिरालस- १४ जयति भुजगरजुप्रन्धि ५९
छिनेन पतता वहौ १८४ जयति भुवनकारणं खयंभू: ७३८ जयदेव नतेन्द्रादे २८०
जइआ पिओो ण दीसइ ज. ६८७ जैयदेव भुवनभावन ५२७
जैइ ण छिवसि पुष्फबई ६२० जयन्ति जायाल्िष्टस
जइ देअरेण भणिआ जयन्ति ते सदा देहं ६५८
३०२ २१४
जंइ सो ण वलहचिअ ६३७ जयन्ति वर्षास्विति १०६
जंइ होसि ण तस्स पिभा जेरदबः कम्बलपादुकाभ्याँ ६७२ ३६ जरामरणदोर्गत्य ५९३ १. काब्याद० २-९९. २. शिशुपा० जलं जलघरे क्षार- ३-५१. ३. शाकुन्त० २-९. ४.महा- जह इच्छा तह रमिअं ७००
वीर० १-९, उत्तरराम० ४-२०.५.गा० १. शिशुपा० १९-३४. २.गा०स० स०६-७६. ६. मुभाषि० चण्डकस, ४-७८. २. गा० स० ३-१२.४. मा- सार्नंघर० कीडाचन्द्रस्प. ७. गा0 स० लतीमा० ९-४. ५. जैमिनिसूत्रवृत्ति: ५-८१. ८. गा० स० ४-७२. ९. गा० (मीमांसा) १-१-३२. ६. सुभाषिता० स० १-६५. ४-९९.
Page 869
१६
पद्मानि पृष्ाक्ा: पद्यानि पृष्ठाक्का: जह जह जरापरिणओ ६७३ ज्योतिर्म्यस्तदिदं तमः समुदितं १७९ जेह जह णिसा समप्पर ५१६ ज्वलजटिलदीप्तार्चि: जह जह से परिउंबइ २२६ ६३३ नह प्हाउं ओइण्णे १२० णेअणब्मंतरघोलंत ण. ६१७ जद्दे निहादिहादोऽसौ २४२ पठण वरकोअंडदंडए ३५४ जोओ सो वि विलक्खो ६२१ ण चिहिड णडो पेच्छिहिह ६७० जाणइ जाणावेउं ६८७ णेमह अवद्ठिभतुंगं ३१९ जाणइ सिणेहमणिअं ६९५ णमह हर रोसाणल ४२ जातथ्ायं मुखेन्दुखे १६९ णे मअंति दीहसासे जातस्प ते पितुरपीन्द्रजितो ४७३,६४३ 4८८ जाने कोपपराखुखी प्रियतमा ण मुअंमि मुए वि पिए ६२८
जाने खप्रविधौ ममाद्य ६०८ णवपह्ववेसु लोलइ ५२८,७०७
जितलाटाअनावक ३७६ णवरिअ पसारिअंगी २६० गेवलइपहारमंगे ६३१
जितेन्द्रियत्वं विनयस्य कारणं ६२३,६६७ ३२३ जीयाजगजयेष्ठगरिष्ठचार: ६२३ २६९ जुगुप्सत स्मेनमदुष्टभावं णेवित हच्छेअरआईं णवि तह अणा- ६७४ १०८ जेतार लोकपालानां ६७७ लवन्ती ६७१,६८५ जो जस्स हिअअदइओ ५०२ पहु गवरं दीवसिहा ७११ जोतीन अहरराउ ३४९ णावज्यइ दुग्गेज्झिआ ५४८
१. गा० स० २-९३. २. सेतु- णारस व साकवोले ६३४
न० ५-१०. ३. गा० स० ४-५१. ६८३
४. गा० स० १-८८. ५. सेतुब० णिहालसपरिघुम्मिर ५९४
११-११९. ६. उतररा० ५.२४. णिसुणिउ पच्छात्तुरअरठ ३०८
७. सुभाषिता०, शाईपरप० निद्रादरि- १. गा० स० ४-७१. २. सेतुब० दस्य. ८. विदशालमo. ९. सुभा- २-१. २. गा० स० २-४७. ४. गा० पितावली भारवे:, पर किरातार्जुनीये न स० १-२८. ५. गा० स० ३-७४. प्राप्यते. १०. रुबं० १२-८९. ११.गा० ६. गा० स० ६-६४. ७. गा० स० स० २६. १-९६. ८. गा० स० २-४८,
Page 870
१७
पद्यानि पद्यानि पृष्ठाषा:
त. तैन्मे मनः क्षिपति ६१४ तं किर खणा विरजसि ६८४ तपनपख्ददन २७२ तं ताण हअच्छाअं ५८० तैपो वा शख्तं वा ६८१ तं तिअसकुमुमदामं ६७८ त मालश्यामलं क्षार तैयोरपान् प्रविचारितानि १३ तं दइआहिण्णाणं ५४१ ५७१ तं पुलइअं व पेच्छर ६७४ तैरजय दशोऽने ४४२ तंबमुद्दकआहोआ तरला कलिला गातुं २७८ से वीक्ष्य वेपयुमती ५७२ तब प्रिया सचचरिता २०४ तैतः कुमुदनाथेन तब वनवासोऽनुचित:
ततः कैरप्युक्ते परिणयविधी १३४ ४१
६९७ तब सा कथासु परिघट्टयति
तेतः प्रभृत्युन्मदना तैवाननमिवाम्भोजं ६१९
२३१ ४१२
तैतः सुनन्दावचनावसाने तवालेख्ये कौतूहलतरल ५०१ ३८९
तत्क्षणं विपरिवर्तितहियो: ४९०,६१२ तवाववाद: प्रत्यब्धि ३००
तत्तावदेव शशिन: तवोत्तरोष्ठे बिम्बोष्ठि ४८ १९६ तैत्तो बिअ गेति कहा तस्मिन् जीवति दुर्धषे ३२२ ६३६ तथा विनयनस्नापि तैस्म हिमाद्े: प्रयतां तनूजां ६९४ 5८
तँदकं यदि मुद्रिता शशिकथा तस्य चक्कुथमत्कारं १८४ ४४४ तस्य च प्रवयसो जटायुष: ३५० तनुत्वरमणीयस्य २२४ तस्य राज: प्रभावेण १३७,३२१ १७४ तन्मन्ये हिमभास: ४४० १. मालवीमा० ४-८. २. मद्दावी- रच० ३-२४. ३. महेन्द्र: २-४८८. १. सेतुब० १-४२. २. कुमार०५- ४. रपुवं० ४-२३. ५. विदशा० ३- ८५. ३. महाभारते द्रोणपर्वणि ८-४०८. २७, बालरामा० ३-२५. ६. काब्याइ० ४. कुमारसं० ५-५५. ५. रघुवं० ३-४१. ७. रद्रटकाम्या० ११-१२.८. ५-८५. ६. गा०स० ७-४८. ७. मा. शिशुपा० ९-६. ९. काम्याद० २-१८. लतीमा० ३-१. ८. बालरामा० २- पूर्वाषेमानम्. १०. कुमारस० २-१६६. १७८, विद्सालम० १-१४. ११. काव्माद० २-१८०.
Page 871
१८
पद्यानि पृष्ठाष्ा: पद्यानि पृष्ठाद्ाः तैस्यी: पातुं सुरगजं ३४४ तीथें तोयव्यतिकरभवे ६५२ तस्या: प्रतृदलीलाभि: ५३१ ५८२ तस्या जीवनिरस्तु मातरवमा तस्या विनापि हारेण ६१ तुंसि मए चूअंकुर १४५ २२२ तह सा जाणइ पावा तुज्स ण आणे हिअअं १४४ ६८८ तों नारद: कामचर: कदाचित् ६९८ तुरगनिचयव्यग्रानुवाभिद: ७४२
तों प्रत्यभिव्यक्तमनोरथानां तुरनमथ मातमं १९
तो रोहिणी विजानीहि ३२३ तुलयति सम विलोचनतारका: २०१ ता कुणह कालहरणं ३८८
तान्येव यदि भूतानि ६६८ तुह विरहुज्ागरओ ६७५ तेण इर णवलआए ७८ ६३६ तापेनोओोऽस्तु देहे २७२ वेनाथ नाथ दुरुदाहरणा- ताम्राङ्लिदलथ्रेणि ४१९ तपेन १३८,६०९ wto wto ता राघवं दृष्टिभिरापिवन्लो ६०२ ९६ तालसारप्रभा राका २८३ ते विरला सप्पुरिसा ५०३ तावचिअ रइसमये ६२१ तो कुंभअण्णपडिवअण ४२२ तीवमवणेड ण तहा ६३३ तो ताण हमच्छाअं ४३४ तिमिरनिरुद्भीमजननी ६०८ त्यज मनसि सदाहे २४६ तिलकमसहार्मि सोहुं १६५ त्यागेन युक्ता दिवसुत्पतन्ति १९६ विष्ठ द्वारि भवाजणे १७६,६३२ व्यागो हि सर्वव्यसनानि हन्ति १९६ तीए दंसणमुहए ७२४ तीए सविसेसद्मिअ ६७८ १. खुबं० ८-९५. २. कुमारस०
१. मेघदू० १-५२. २. ध्वन्वालोके ३-७३. २. शाकुन्त० ६-२. ४.स्ा-
२-२५. २. कुमारसं० १-५०. ४.र- कुन्त० २-१७. ५. उत्तररा० १-२३-९:
पुवं० ६-१२. ५. वामनकाल्या० ४- ६. वामनकाव्या० २-२-१२. ७. शि-
२-७. ६. महावीर च० २-२१४. ७.का- शुपाल० ६-४. ८. कुमार० ६-३६, उत्तरार्ष व श्रीमद्भागवते ३.२०-१५. व्याद० २-६९. ८. रघुबं० ७-१२. ९. सेतुब० ३-९. १०. सेतुब० २- ९. गा० स० २-५. १०. गा० स० ४५. ११. शूदकस्वेति सुरभापिताबलि:, ३-८८. पर मृच्छकटिके नास्ति ..
Page 872
१९
पद्यानि पृष्ाष्ा: पद्यानि पृष्ठान्ा: लं नागराज बहुमस्य १६२ दंसेमि तं पि ससिणं त्वदर्पित दश सस्या ६९ ३३५ स्वदास्पेन्दू समो डट्टा ३९४ दट्ठोट्ठ हो असिलम- ७३० देण्डे चुम्बति पझ्मिन्या २१ त्वदुद्ृतामयस्थान २२३ देत्तेन्द्राभयदक्षिणै:
त्वद्वियोगोद्गवे चण्डि देंदी सरः पड्चजरेणु ६०४ ६२९ ६५७ देधतमाकरिमि: करिमिः खवन्मुखं तवन्मुखमिव १९९ २५९,४१३ त्वैन्मुखं पुण्डरीकं च दयो- ३५८ ६०६ दन्तक्सअं कपोले त्वेन्मुसं पुण्डरीकं फुले ३५८,४०६ दैमं दानं दयां शिक्षे: ६३४ ३८५ त्वमर्कस्तवं सोमस्त्वमसि ५२७ दयितजनविरह २४१ र्ल्वैमेबंसौन्दर्या स च रुचिर- ८५ देरवेविरोरजुअलासु लमेव देव पाताळं २२५ दपणे च परिभोगदर्शिनी ६३५ ३९१ खमेव धातु: पूर्वोडसि २२४ दर्भाकुरेण चरण: क्षत ८० त्वैया जगन्ति पुष्यानि ५१८ देर्शनपथमायाता ३७६ त्वैय्यादातु जलमवनते २४३ दैलति हृदयं गाढोद्वेगं ल्वोमालिरूय प्रणयकुपितां ६२५ देशत्यसी परमृत: ६४९ ५३५ ८८
थ. १. कर्पूरमश्जरी १-२५. २. काव्या- धोआरूढमहुमआ ६७० द०३-१२०. २. उत्तररा० ६-१८. थोओसरन्तरोस थोअत्योभ ७२७ ४. कुमारसं० २-३७. ५. किराताजु०
द. ५-७. ६. बृह्दारण्यर्क ५-२-३ दंसणवलिअं दढकं ५४९ ७. गा० स० ७-१४. ८. कुमारसं० ८-११, हेमचन्द्रस्य काव्यानुशासने च. १. विक्मोन० ४-३९. २. काव्या- ९. शाकुन्त० २-१२ १०. शाकु द० २-१९०. २. काव्याद० २-१९३. न्त० ६-२०, 'मुखमनुभवतः' इति M. ४. वामनकाव्या० ३-२-१३.५. उच्त- Williams, and Pischel ररा० १-४३. ६. मेघदू० १.४७. ११. उत्तररा० ३-३१. १२. का- ७. मेघदू० २-४४. व्याद० २-२९६.
Page 873
२०
पद्यानि पृष्ठाष्ा: पद्यानि पृष्ठाड्डा देशरश्मिशतोपमद्युति २६२ र्दुःखैकबन्धुरयमृक्ष- ६०४ दातारो यदि कल्पशाखिमि ४४३ दुन्दुभयो दिवि दध्वनु- १५३ दानं वित्तारतं वाच: ३३७ दुर्गे भद्रे सुभव्रेऽदिति २९१ दारुणरणे रणन्त २४१ दु्वारां मदनशरव्यथां ३०९ दिअरस्ससरअमउअं दिअहे दिअहे सूसइ ६६९ दुलहजण अणुराओ ६२४ ६७२ दिकालात्मसमैव यस्य विभुता दूमेति जे मुहुत्तं ६५५ १८१ दिग्बासा यदि तत्किमस्य दूरपडिबद्धराए ४५३ ३४० दूरं मुक्तालतया ६२२ दृश्यं दर्शा सहसेः १८०
दिट्ठाइवि जण्ण दिट्ठो १७५,६४३,६९५ दृश्यस्त्वयायं पुरतः २१७ २७३ दिट्ठा कुविआणुणआ दष्टः कथ सुतनु १६५
दिट्वे जं पुलइ्ज्सि ६७१ टैष्टा दृष्टिमधो ददाति ६४९
दिने दिने सा परिवर्धमाना ६१७ रैषटि हे प्रतिवेषिनि ८४ ४०८ दिवं पस्काषिणो यान्ति दष्टि्वन्दनमालिका ३६२ ८6 दिवो जागति रक्षायै दष्टे लोचनवन्मनाझुफुठितं ५७६,७२९ ४०८ दिशामली कालकभजता दष्ट्रा विभ्रमणीमेषा ३९४ ३४२ ७१,६८२
दिर्शवा सोऽयं महाबाहु: ३६७ देयाजखण्डधामा २८६ ६९४ दीर्घपुच्छश्रतुष्पाद: देव: शशाबशकलाभरण: २८५ ३५ दीसर ण चूअमउलं देवधिष्ण्यमिवाराध्य १३२
दीहो दिश्रह्भुअंगो ३८४ देवतते वाञ्छति दीर्घनिद्धां ८० ४२७
१. रपुबं० ८-२९. २.गा० स० १. रपुवं० १३-७२. पर 'अज्ञात-
०-९१. ३. सभापितावलौ. ४. भट्टम- बन्धु'-इति पाठ :. २. रलावली २-१. भाकरस्पेत्यीचित्यविचारचचाया क्षेमेन्द्र :. २. रलाव० २-१.४.नागानन्दे ३-३५. ५. कुमार० १-२५. ६. काव्याद. २- ५. धनिकस्य दशरूपके २-१९ ऑॉफेक्टमते ४९. ७. कादम्वरी १८. ८. उत्तर- विज्जकाया :- ६. शाईबरप० ७. म- रा० १-२२. ९. गा० स० ६-४२. मरु्श० १९. ८. कान्पाद० १-९०
Page 874
२१
पद्यानि पृष्ठाड्डा: पद्यानि पृष्ठाड्डा: देवोकानिनि कावादे २८० घरिणीभ अकडअव्वं देवानां नन्दनो देवो २६६ धर्मस्योत्सववेजयन्ति ६७३
देवी पुत्रमसूत नृत्यत गणा धर्मे चार्ये च कामे च ५१७ ५१० देवीस्वीकृतमानसस् ३०५
देहस्था दर्पणे यस्य ६७८ धीरं व जलसमूईं ४८३ ४६६ देहोव्व पढड दिअहो धीरं हरइ विसाओ ५०९ ४५६ धीरेण माणभंगो दोदण्डा: क धतापदा: ७२७ ३०९ "दोर्निष्पेष विशीर्णवज्रशकल धीरेण समं जामा ४८३
दोलाति प्रेरणत्रख ६९५ धुअमेहमहुअराओ ४२८ १३९ दोषाकरेण संबधन् धूमज्योतिःसळिलमरतां धूमाइ धूमकलुसे १७६ ५४४ दयुंबिय द्रामिनी तार- २५३ ३०२ द्राविडीनां ध्रुवं लीला २४२ पतायुधो यावदहं
द्वुतं दुतं चहिसमागतं पृतिरखमिता गतिश्र्युता ५८५
१९९ ध्यानानीतां च रुद्राणी ३९५
द्वावप्येतावभिनवजपा- २२५ ४४७ द्विरष्टवर्षाकृतिमेनमर्थिना- ध्ुवमस्मि शठः शुचिस्मिते ६२५ ९० द्वीपादन्यस्मादपि ७३८ न. ने कठोर न वा तीक्ष्णम् ५०५ ध. धणुओ वप्पणवस्वरि न केतकीनां विलसन्ति सूचय: ४५० ६०७ धेनं च बहु लभ्यंते ५०० २९०
धनैर्दुष्कुलीना: कुलीना: २६२ नखिनां च नदीनां च
भेराधराकारधरा २१६ नगजा न गजा दयिता २१० नतदिव्यासदाराय २८८ १. किराता० १५-२५. २. का- व्याद० २-९३. २. महावीर० १-२५. १. सेतुब० २-१४. २. सेतुव०
४. काव्याद० ३-१८२. ५. काव्या- ५०७. ३. सेतुव० १-१९. ४. मे- द०२-३१२. ६. किराता०१५-४३. घटू० ५. ५. सेतुब०. ५-१९. ६. वे- ७. भट्टि: १०-११. ८. रलाबली नीस० ३-४१. ७. रघुवं० ८-६६. १-७. ९. कान्याद० २-१२७. ८. रघुवं० ८-४९. ९. काब्याद० १०. काव्याद० ३-७२. २-३२४.
Page 875
२२
पद्यानि पृष्ठाड्ा: पद्यानि पृष्ठाष्डा: ने देवकन्यका नापि ५०५ नादेयं किमिदं जलं घटगतं २९७
ने पद्मं मुखमेवेद २६६ नान्तवर्तयति ध्वनत्सु ६२६
ने बद्धा ध्ुकुटिर्नापि ४०६ नान्दीपदानि रतनाटक ३०५ ५०५ नामिलितमस्ति किचित् ३९७ नमत चन्द्रकलामयमण्डनं २८६ नालस्य प्रसरो जलेष्वपि ४६० ने मन्दयावर्जितमानसात्मया २१७ निःशेषच्युतचन्दनं स्तनतटं ५५० न मयागोरसामिजं ३०२ निकोमं क्षामाज्ी सरस ४८६ न मर्त्यलोकब्रिदिवाल्रही- निगह्य केशेष्वाकृष्ठा ५९६ यते नितम्बगु्वी गुरुणा २४५ नमस्ते जगतां गात्र ३९७,४३९,६२९ २८२ निध्वनज्जवहारीभा २७८ नमखे महिमप्रेम २७४ निमूलकाषं कपति न मालतीदाम विमर्दयोग्यं २४४,४४० निरर्थकं जन्म गतं नलिन्या २५६ २९८ ने मीळयति पद्मानि निरानन्दः कौन्दे मधुनि ३३० निर्णेतुं शक्यमस्तीति ५६ नमो दिवसपुराय नैयनानन्दजनने २८८ २६९ निर्मळेन्दु नभो रेजे ३५९,५५२ ने रथा न च मातज्ा ५०६ निर्माल्यं नयनश्रियः कुवलयं १६६ नलिनी नलिनीनाथ २६१ निर्यता परिजनेन बोधित: ४८५ न विरचिता ललाटतट- ३३१ निर्विभुज्य दशनच्छद ततो नवोटे त्वं कुचाव्यापि वीर्यतामालि किमप्ययं बढ्ुः ३८६ २३३ न शशीश नवे भावे २७३ १. हेमचन्द्रस्व काव्यानुशासनेऽपि. न स्पृष्टोऽपि त्रिदशसरिता ६५४ २. धनिकस्प दशरूपके. २-२७. ३. शा्नधरप०. ४. अमरुश० १०५. १. कान्याद० २-३२५. २. कि० ५. माळतीमा० २-२. ६. काव्याद० सता० १५-१४. ३. पूर्वाषमात्रं का- २-२८२. रपुवं० ७.२५. व्याद० २-३६. ४. काब्याद० २-३२६. ८. वामनस्प काव्यालंका० श-११३- ५. काब्याद० ३-५७. ६. काव्याद० ९. कान्याद० २-२१८. १०. प्रथ- २-८३. ७. फाम्याद० ३-८८. ८. का- मपादमारवर बालरामा०१-४०. ११. कु- न्याद० २-१२७. मारसं० ५-२२.
Page 876
२३
पद्यानि पृष्ठाश: पद्यानि पृष्ठाषा: निवृत्तमेव त्रिदिवप्रयो- पक्चो वन्यस्तवमसि न गृहं जनं २९७,४३९,६२९ पजुसागअअणुरत्तदेह ६८९ निशम्य ताः शेषगवीः १२७ पच्च पञचनखा भक्या निशितासिरतोऽभीको पेजचारनां पाण्डपुन्नाणां १७२ २७७ निष्कन्दामरविन्दिनी १३८ ४५९ पहंमुउत्तरिजेण ४६ निसर्गनिर्गतानर्ष २४१ पेडिआअ हत्यसिडिलिअ ५०८ नीतिरापदि यद्रम्य: १३८ पडिउत्थिआ ण जंपइ ६२४ नीते निर्व्याजदीर्घा २४७ पैडिबक्खमण्णुउंजो ६८४ नीतो विक्रमबाहुरात्म- ५८६ पटमघरिणीभ समअ ६२६ नीरन्ध्रं गमितवति क्षयं १८ पणअं पढमपिआए पठिश्वशुरता ज्येष्ठे ६८६ नीललोहितमूर्तियों १२ १८३
नीलाब्जानां नयनयुगल १८१ पंत्ताभ सीभराहभ २४०
नीलेन्दीव रशक्डया ३६७ पैत्यु: शिरथन्द्रकलामनेन ६१९
३३२ पच्यामूरुयुगं विभज्य ७३१
न्येकारो हृदि वज्जकील पैद्यसंमीलनाचात्र ७९७ न्यक्षेण पक्ष: क्षपितः १२४ १०१
प. वेथ्िनीन क्तमुनिदा ४५
पैअडि असणेहसंभाव ३७३ पनमत पनअप १४५
पअपीडिअमहिसासुर ३०७ पप्कुरिअ उट्ठदलअं ४२२
पंडरजुआणोगामो पयोधरभराकान्ता ४९७ २९९
पंकअ पंकिवहेल्लिअ ५३३ पैथ्रीमुचः परीतापं ५०१
१. शिशुपा० २-६७. २. किराता० १. भट्टिका० ६-१३१. २. का-
१५-२२. ३. महेन्द्रेणोद्तः २-४३०. न्याद० ३-१८५. ३. सेतुब०११-५४.
४. शिशुपा० २-६१. ५. चण्डीशत० ४. गा० स० ३-६०. ५. सेतुन०
४. ६. रलाव०४-१८. ७. किराताजुं० १-५६. ६. कुमारसं० ७-१९. ७. का-
२७-६१. ८. मेघदू० ७१. ९. महा- ब्याद० २.२६२. ८. काब्याद० १-९६. बीर· ५-२२. १०. गा० स० २-९९. ९. फाव्याद० २-१६७. १०. का- ११. गा० स० २९०. ब्याद० २-१७३.
Page 877
२४
पद्यानि पृष्ठाक्काः पद्यानि पृष्ठान्ा: पेरे जोह़ा उण्हा २५१ पाणउडी अवि जलिऊण पैरदाराभिलाषो मे ३५२
पैरस्व भूयान्विवरे १३८ पाणिरगहणे चिअ ३४ पोणिपद्यानि भूपानां ६२७ ४१४ पेरितसतं पृथासनु: ६०३ ६95 परिवदृटति व णिसम्मइ ६१६ ४०७ ५९० पातालतालुतलवासिषु १५४ पदते हदते खन्यं १७ पातालप्रतिमलगल्लविवर ९७ पर्वतमेदि पवित्रं ५२२ पात्रे पुरोवर्तिनि विश्वनाये ७८ पैर्यापपुष्पस्तवकस्तनीभ्यः पैलिच ले लंबद शाकपालं ६२९ ३१३ पादे मूर्धनि ताम्रतामुपगते ६५० पल्विअं विअ करपल्लवेहिं ४५६,४६७ पानीयं पातुमिच्छामि ३०२ ६३४ पाप्मापहारी रणकर्मशौण्डः २६९ पेवनो दक्षिणः पर्ण ५२५ पीयं पायं तवारीणां ५९७ पंक्षात् पर्यस्व किरणा पायादन्द्रधारी सकलसुरशिरो २८५ पहवति चिअ पुरिसा १३०,२३० ६०७ पायादो रचितत्रिविकरमतनुः ५३२ पेअडिअं सोहगं ५७६ पिअदंसणेण सुहरस ३७३ पीअपठणाण मुद्धे ६४५ पिअेसंमरणपलोहंत- पितुः पदं भध्यममुत्पतन्ती ६०
१. कर्पूरम० २-११. ९२ २. का- पिनष्टीव तरज्ागे: ब्याद० २-१३४. ३. किराता० १६- २४२,५५२
२२. ४. किराता ११-८. परं तत्र पिपिप्रियं ससखयं १६६,५८१
'अभितस्तं'इति पाठ :. ५. किराता० १. गा० स० १-६९. २. काव्या ८-४५. ६. नलचन्पू: ६-२९. ७. कु. २-२५९. ३. किराता० ९-५०.४. र- मारसं० ३-२९. हेमचन्द्रस्य काव्यानु- पुव० ६-६०. ५० वामनका० १-२- शासनेडपि. ८. मृच्छकटि० ८-२१ २२. ६. मालवीमा. ५-२२.७. का- ९. काव्याद० २-९८. १०. काव्या- व्याद० २-२८८. ८. गा० स० ४- द०२-२५७. ११. गा० स०५-६०. २३. ९. गा० स०२.३२. १०. वि. २२. गा० स० ५-६५. कमोब० १-१९.
Page 878
२५
पद्यानि पृष्ाड्काः. पद्ानि पृष्ठाशः. पिवेतस्ते शरावेण ३०१ पेच्छइ अलद्धलक्सं पिवेन्मधु यथाकामं ४६२ पोढमहिलाणं जं सुह्ध ६२९
पिसुणेति कामिणीणं ३२८,६३५ ६७० प्रकाशो यशसा देव: पिहिते वासागारे पीर्णेत्तुण दुग्गेजजं ३८१ प्रजागरात सिलीभूत: २६१ ३२२ ३३४ प्रणम्प शितिकण्ठाय पीणथणएसु केसर ५८७
पीणेपओइ्रलग्गं ६६६ प्रणम्य हेतुमीश्वरं प्रणयि सखी सलीलपरिहास १५२ ४२९ पीनश्रोणि गभीरनामि प्रणवः प्रवणो यत्र ५९० ३२८,५७३ पुंसः पुराणादाच्छिय २४६ ४८० प्रतीच्छत्याशोकीं किसलय ६२ पुलागनागकेसर २५२ प्रत्यक्षवस्तुविषयाय ५१९ पुरः पारापारातटभुवि २५२ ७०२ पुरा यत्र स्रोत: पुलिनमधुना ३४५ ५९४ पुरिससरिसं तुह इमं ६९८ प्रत्यादयन्तो रूढानि १७ पुलअं जणेति दहकंधरस्स ५०६ प्रथममरणच्छाय: ८५ पुष्णती पुष्पधनुषं प्रफुलतापिच्छनिभैरनेके: पुष्पं प्रवालोपहितं यदि स्यात् २३७ ६०७ अ्रयच्छतोचेः कुसुमानि ३४९ ३३७ पुद्वीअ होहिहि पई ६४९ प्रवणमदत्रमदचल २२० पूर्णेन्दुकल्पवदना ४०३ प्रवासयति या कान्तं १६
१ृ४पु वाहमाकलच्छ विु ७६ प्रैश्योतन्मदसुरमीणि ६०५
प्रेसाधितस्याथ मुरद्वियो ३५० १. वाग्मटहेम चन्द्री पद्मस्वास्योत्तरार्प ३८
पूर्वार्धलेनोजृतवन्ती. २. काव्या० २- १. गा० स० २-९६. २. शाकुन्त० २०६. ३. गा०स० ६-५८. ४. से- ६-२१. ३. माळवीमा० ५-३०. ४. मु- तुब० १.३. ५. सेतुब० १-२४. दारा० ३-२१. ५. काव्यप्रकाशे १२९. ६. काव्याद० २-३४५. ७. उत्तर- ६. शिशुपा० १-२२. ७. किराताजु० राम० २-२७. ८. सेतुब० ११-१०५. ८-१४. ८. किराताजुं० ८-२८. ९. कुमार० १-४४. १०. सेतुव०११- ९. किरातार्जुं० ७-३५. १०. शिशुपा० ७८. ११. वामनकाव्या० ३-२-१४ ३-१२. 3 स० क०
Page 879
२६
पद्यानि पृष्ठान्ा :. पद्यानि पृष्ठाष्ा :. प्रेसीद चण्डि त्यज मन्यु १२६ वेभ्रच्नसेषु रोमाथं २१७,६०२ प्रसीद सदो मुख्ेमं ३९६ १०५ प्रेहर मम तु कार्य प्राक ७४१ बभी मुखेनाप्रतिमेन ८९ प्रेहितः प्रधनाय माधवा १३४,४०९ बेहुबलहस्स जा होइ ७०१ प्रीकामं दहता कृत: परिभवो ७०० बाणउ उजु माइगहिल २९६ प्राच्या निर्जितजम्भजिद्विपवर: १७४ वाण: क्ुण्णेयु सैन्येषु २३४ प्राज्यप्रभावः प्रभवो ११६,२२४ बालत्तणदुलललिआए ६८६ प्रोणानामनिलेन वृत्तिरुचिता ७७ बाला ललिततीत्रखा २७९ प्राप्तश्रीरेष कस्मात् ४५५,७१३ बाला विलासावलिहारि- २८८ प्राप्तासी वृषपर्वणः ७४० बाला सुकालवालाका २७९ प्रियमाधवे किमसि मय्य- ६२५ बोले नाथ विमु १०९,२९६ प्रिया प्रगल्मा ताम्बूलं २२६ वौले मालेयमुचैर्न २४४ प्रियाललवलीताल २३७ वाष्पक्िस्लाविमी गण्डौ १७ प्रियेण संग्रभ्य विपक्षसंनिधो ५०१ विभर्ति यक्ष देहाषें ६ प्रियोऽसि प्राज्ञोऽसि प्रभुरसि ४८० ब्रह्माण्डकारणं योऽप्सु ९९ प्रोत्या खवस्तिपद विलोकितवती ६३८ त्रह्माण्डच्छत्रदण्ड: २६२ प्रेयानेव वृषस्तवापि ३५७ २७
फ. फुलुकर कलमकूरसमं ६९३ भगिन्ययं नः प्रथमाभिसंधि: १८ व. भह भोदु सरस्सइभ ३०६ बकुलकलिकाललामनि २४२ भद्रं ते सदशं यदध्वगशतैः २१६ भद्र माणवकाख्याहि ३०३ १. वामनकाव्या० ३-१-१२. २. म- हावीरच० २-४९. ३. शिशुपा० १६- १. काव्या. २-११. २. कान्याद० ५२. ४. चण्डीश० ४९. ५. शाकु- ३-१४७. ३. गा० स० १-७२ न्व० ७-१२. ६. वन्यालो० २-३०. ७. मालवीमा० ९-९. ४. अमरुश० ५७. ५. सुभाषितावली ८. किरा- ताजु० ८-२७. ९. कर्पूरम० १-१९. धाराकद्वस्य. ६. दशकुमा० १. ७. कपूरम० १-१. ८. शानप०.
Page 880
२७
पद्यानि पृष्ाङ्दा :. पद्मानि पृष्ठाह्ठा :. भद्रे मारि प्रशस्तं वद सदसि १०० भेरिमो से सअणपरम्मुहीअ म. ६३९ भेतुर्विप्रकृतापि रोषणतया मअवहनिमित्तनिग्गअ ३०७ १७० भैवादशा नाथ न जानते नते मजलवळअं जीअं व २०३ ६२७
मासयत्यपि भासादी मज्जाट्विअधरणिहरे २५१ भिउडीहिं पुलोइस्सं मज्मण्णपत्थिअस्स वि गिम्हे ५१०
मिर्र्वा सदः किसलयपुटान् ६३९ मणिरलं प्रसेनस्य ६३१
मेण्डलीकृत्य बर्हाणि १७० ६०० मिन्ने सद्यः समाषावुप- ५५ ६५९ मेता धुनाना रमतामकामता २१२ भीष्मप्रोकानि वाक्यानि ७४८ भूतसंस्कृतभाषाम्या मदनदारुण उत्थित उच्छिसो २०३ २२७ मदर ककपोलेन भूत्वा चिराय चतुरन्तमही मेधु द्विरेफ: कुसुमैकपात्रे ४२४ ७०३ भूयाद्व: श्रेयसे देव: ६२९ ३०६ मधुरया मधुबोधितमाधवी भूयिष्ठं भव दक्षिणा १७१ भूयोभूय: सविधनगरी मथुरा रागवधिन्यः २१७ ५४५ ६१२ मंधुरेणदशां मानं भूरिभारभराकान्त २०६ मधुरमधूनि गान्धर्व मेधुविकचसितोत्पलावतंस २३६ २६६ भूरिभूर्ति पृथुप्रीति ३३८ २६८ मृत्रेण कलिकाकोष: मनः प्रत्यक्चित्ते मैनीपिता: सन्ति गृहेषु देवताः १५७ ३८१ ४० त्ुकुटिरारचितागतमप्रतो ४९९ मनोरथप्रिया लोक- ३८ श्रंभेदिमिः प्रकम्प्रोष्ठैः ६०७ मंतेसि महु महपणअं ५५० भ्रभेदे सहसोद्रवे ७५,६१८ मच्ररान्मृत्युजितो जपद्धि
१.गा० स० ४-६८. २.शाकुन्त० १. गा० स० ४-९९. २. कान्याद० ४-१८. ३. काब्याद०३-४२. ४. मेधदू• १.७०. ३. काब्याद० ३-४९. ४. का- ११०.५. शाकुन्त ० ४-२०. ६. शाकु० म्याद० २-८०. ५. कुमार० २-३६. ४-१८. ७. मालतीमा ०१-१४. ८.ि- ६. शिशुपा० ६-२०. ७. काव्या० शुपा० १९-६६. ९. वामनकाव्यालं० २-३१७. ८. काव्याद० ३-२०. ९. २-२-२३. १०. कुमारसं० ६-४५. मेण्ठस्येति सुभाषितावलि :. १०. कुमा- ११. रलावली. रसं० ५-४. ११. काव्याद० ३-१४०.
Page 881
२८
पद्यानि पृष्ठाङ्का: पद्यानि पृष्ठान्ा:
३८० मा भवन्तमनलः पवनो वा १२५ भैन्दाकिनीसैकतवेदिकामि: ६१९ मोमि हिअअं व पीभं ६४४ मम स्फुरतु चिद्धतः २८९ मा मूमुहृत् खलु भवन्त ६१२ मया विमुक्ता बहिरेव ५३५ माया खिदेषा मतिवित्रमो नु ३७१ मयूरारावमुख्रा ५५४ मारीचोडयं मुनिर्यस्य १६ मयेन निर्मितां लब्ध्ा ६८८ मितमवददुदार २०५ मैथ्येव मत्स्मरण ५७८ मिथ्या देव भुजेन ३५९ मत्िका मालभारिण्य: ५४१ मुंडइआचुन्णकसाअ ३८७
महाप्रथिन्ना जघनस्थलेन ५१९ मुक्ताः कन्धरयात्रता: ७२६
मेहीमृतः पुत्रवतोऽपि दृष्टिः ९५ मुखप ड्जर सेडस्मिन् ४1८
मही महावराहेण ३१ मुखमिन्दुसुन्दर ते ४००
मँहोक्षतां वत्सतर: स्पृशलिव ६९६ मुखांशवन्तमास्थाय ११
मी गर्वमुद्दह कपोलतले मुखेन लक्ष्मीर्जयति २६४
चकास्ति ७७,५८१,७१९ मुख कोपमनिमित- ६८३
माणदुमपरुसपवनस्स मुदा रमणमन्वीत- २०५ ६२३ मीनमस्या निराकर्तु मुदे मुरारेरमरै: सुमेरो १७६ ३६० मीनयोग्यां करोमीति ३२३ मुद्धिहि मुहपंकअसरि १८७
मोनिनी जनविलोचनपाता १४८
मौनुषीयु कर्थं वा स्वात् ९३६,४४१,६९७ २५५ मुद्े गहणअ गेण्हहु मुनिमभिमुखतां निनीषवो ७४१ ३७५ ७१७ मुहपेच्छओ पई से ६५२
१. शिशुपा० १०-१७. २.कुमार० १. वामनका्या० ५-१-२४.२.गा० १-२९. ३. शाकुन्त ० ५-२२. ४.फा- स०२-४६.३.मालती०१-३०. ४. कि० व्याद० २-२१७. ५. कुमार०. १-२७. राता० १६-१८. ५. भट्टिः १०-१७. ६. काव्याद ०१-७४. ७. रघुवं० ३-३२. ६. पूर्वाषमात्रं काव्याद ०२-९३. ७.र- ८. पनिकस्प दशरूपके २-२२.९. गा० दटकाव्यालं० ८-१८.८. काम्याद० ३- स० ४-४४. १०. काव्याद ० २-२९९. ३०. ९. शिशुपा० ४-१०. १०. कि० २१. कास्याद ० २-२४२. १२. किरा. राता० १०-४०. ११.भाकु० ६-८. ता०९-२६.१३. शाकु० १-२६. १२.गा० स० ५-८९.
Page 882
२९
पद्यानि पृष्ठाष्का :. पद्यानि मुहे मअखलि उलावे ४४८ यदास्थ काम भवता मर्धरा जाम्बवतोऽभिवाद यदासीदज्ञानं स्मरतिमिर- ६१७ ५७ट मूढे पञ ततक्तुष्टय- यदि भवति मुखानां ६०९ २६१ ३४४ मृगं मृगाड़ड: सकलं ४३९ यदि मे वलभा दूती सृगरूपं परित्यज्य यैदि स्मरामि तां तन्वी १९१
मृतेति प्रेत्य संगन्तुं ५९५ यदेतचन्द्रान्तर्जलदलव- ३०४ ४६९ मेघानिलेन अमुना १९ यदेव रोचते महं यैदव पूर्व जवलने शरीरं ५१८ मेदच्छेदकृशोदरं ४७० ६५९ मैभ्यादि चित्तपरिकर्म र्येमः कुबेरो वरुण: ८१ येमिन्दशब्दार्थनियूदनं ४७५
मैनाकः किमयं रुणदधि ३७० १०
मोर कलावेण बहइ यैथ निम्बं परशुना १४ ४७७
मोहविरमे सरोसं यस्मिन्पस पखजना २६३ २६ मौलौ धारय पुण्डरीक यस्य त्रिवर्गशून्यानि ६४ यस्या: कुसुमशव्यापि ११५ ५९६ य यस्या बीजमहंकृतिः ४२२ यचन्द्रकोटिकरकोरक ५३,७१५ यस्यारिजातं नृपते: यैज्वमि: संभृतं हष्यं १९४ २२६,७१५ यस्यावस्कन्दलीला यत्वक्षेत्रसमानकान्ति ४१२,७२५ यस्यावासीकृतहिम १५८
यत्सच्छे सलिलात्मनि यस्याहुरतिगम्भीरं २४३ १६७ २०७
यथाश्रुतं वेदविदांवर त्या या गी: शी: श्रीधाँ ६९९ २९३ याओं देन्यपराभव १. रुद्रटकाव्या० ८.१०८. २.सदा. याति चंद्रांशुभि: स्पृश्ट १३५ ३५४ तराघवे, धनिकस्य दशरूपके च. ४-२६. १. किराता० १४-१८. २. सुभाषि- ३. फाब्याद ० २-२८०. ४. पूर्वार्षमात्रं तावडी दीपकस्व. ३. कुमारसं० १-५३. वामनकाब्यालं. २-२-८.५. शाकुन्त० ४. काव्याद० २-३२१. ५. शिशुपा० २-५. ६. धनिकस्य दशरूपके, ४-२९. १-४२.६. नमिसाधो रुद्टकाव्याटीका- ७. कुमार ० २-४६.८. क्षेमेन्द्रस्य सुबृ- याम् २-८. ७. बृददारण्यके ५-५१७. तततिलके यशोबर्मैण: २-३९, महानाटके च ८. कान्याद० २-२८६. ९. नमिसाषो ५-२. ९. कुमार ०५-६४, रुद्रटकाव्या० टीकायाम्. ८-४३.
Page 883
३०
पद्मानि पृष्ठाष्ा: पद्यानि पृष्ठाड्डा :.
यान्त्या मुहुर्वलित ५७२ रेजोभिसुरगोत्कीणे ५५३ या विभति कलवलकी २१८ रणदुजओ दहमुहो ५४३ याम यामत्रयाधीना २०२ रत्तुप्पलदलसोहा ४३८ यामानीता नीतायामा २१५ रैन्धणकम्मनिपुणिए रेमिऊण पअम्मि गए ६०२ यावज्ीवमहं मौनी ४७ ६४० याश्रिता पावनतया १२४,२७२ रैम्यं द्वेष्टि पुरा यथा-॥ ६३२ यस्यत्यय्य शकुंतले ५८३ रैसवदमृतं क: संदेहो युवेष गुणवान् राजा ४७८ राज कन्यानुरक्कं मां ४५० यूथायितमवतु हरे: ७३८ रौजन् राजसुता न पाठयति मां ५३६ येन ध्वस्तमनोभवेन १९२ राजानमपि सेवन्ते ४७६ येनापविद्ध सलिलस्फुट- ७१४ राजीवमिव ते वर्फ ४०६ यैस्त्वं साक्षात्कृतो नाथ २६३ राजीव राजीवश १९८ योग्यो यस्ते पुत्र: २४ रौज्षा विनाशपिशुन: १३७
यो यः शखं विभर्ति १२६,१६१ सैज्ये सारं वसुधा २३८ योषितामतितरां ८९ रातावद्याधिराज्या २७५ यो हि दीर्घासिताक्षस्य १६५ रोंममन्मथशरेण ताडिता ७३०
र. शैमाभिषेके मदविडलाया १८०
रइअं पि ता ण सोहह ६६६ रामोऽयं जगतीह विक्रमगुणे: ६८० रदअमुणालाहरणो ५२१ रइअरकेसरणिवहं ४२७ १. रघुवं० ४-२९. २. गा० स० रइबिगगहम्मि कुण्ठीकभाओ ६२८ १-१४. ३. गा० स०१-९८. ४.सा- रक्षसा मृगरूपेण ६९४,७३९ कुन्त० ६-५. ५. वामनकाव्या० ३-२-
१. शिशुपाल० ४-५७. २. शाकु- ११. ६. कान्याद ० २-२६४. ७. का-
म्तले ४-५. ३.धयन्यालो० २ २५. व्यप्रकाशेडपि. ८. पूर्वाधमात्र काव्याद० काव्यप्रकाशे च ₹८९ प. ४. किराताजुं० २-१६.९. शिशुपा०४-९. १०. काव्या- ५-३०. ५. वेगीस०३-२७. ६. मि. द०३-१८१. ११. रुदटकान्यालं० ७- शुपा ० १०-९०. ७. सेतुब० १-१७. ९७. १२.रुवं० ११-२०. १३. मदा- 4. रघुनं० १२-५३. नाटके ३-५. १४. महानाटके ६-४०.
Page 884
३१
पद्यानि पृष्ठाष्ा: पद्यानि पृष्ठाक्का :-
३१५ चरी २१०,५७४,७४० लीनेव प्रतिबिम्बितेव २६४,४६९ रुचिरं जितारिहति २२७ ीलाइओ णिअसणे रंद्ापाजप्रसर ६३८ ३४५ लीलाविलोलललना १२२ रुरुधु: कोतुकोत्ताल २५७ लीलास्मितेन शुचिना रूपं तदोजखि २०७ ४३२ लुलि गहबइधूआ रूपम प्रतिविधानमनोजं ६६४ ४८७ रेवतीदशनोच्छिष्ट लोओ जूग्ह जूरउ ६२१ १७९ लोचनाधरकृताहतरागा ३५० रेहइ पिअपरिरंभण ६२० लोललवजलबली २४५
ल. लोलहाहलवलो १८१ लइ वप्पुल पिअदुद्धं १४५ व. ४६२ वद्विवर णिगगअदलो लक्ष्मीवशीकरणचूर्ण बैंक निसर्गसुरभि ३८९,६८५ ७१२ ३२० लभ्यन्ते यदि वाञ्छितान्यपि २९९ वणराइकेसहत्या लाक्षागहानलविषान ४२५ ५८८ वर्षते सह पान्याना ४८२ ४६४ वैनान्यमूनि न गृहाण्ये- ३२७ लावण्ये: क्षणदा विराम- ६०५ मेनेचराणां वनितासखानां ३२० डिम्पतीव तमोऽञ्ञानि बन्या देवी पर्वतपुत्री २८९
१. मालतीमा० ५-२७. २. मेषदू० पैन्दास्ते न विचारणीय- ५८८
९८.३. रघुवं० ५-३७. ४. शिशुपा० वन्धौ हावपि तावनार्यचरिता- १६२
१०-३७.५. पूर्वार्षमार्त्र शिशुपा ०२-१६. १. शार्जधरपड्ती. २. मालतीमा० पथमेतत्समस्यापूरणात्मकम्. महेन्द्रस्तु 'रे- ५-१०. ३. काव्याद० २-४२. ४.गा० बतीचुम्बनोच्छिष्ट' इति ५-१२. ६. ष. स० ६-२९. ५. किराताजु० ९-६० निकस्य दशरूपके स्वरचितं पथम् ४-६६. ६. गा० स० ३-५७. ७. काव्याद० ७. पजस्तवी ३-१८. ८. वेणीस० १-८. २-२०२. ८. काव्याद० २-२५९. ९. वामनकाव्या० ३-४. १०. काव्या- ९. कुमारस ० १-१०. १०. उतरराम० द० २-३६२, मृच्छकटिके च १-३२. ५-३५.
Page 885
३२
पद्यानि पृष्ठाड्ा :. पद्यानि पृछाड्ा :. वेपुर्विरूपाक्षमलक्ष्यजन्मता ४८९ वाहनाजनिमानासे २७७ वैयं तथा नाम यथात्थ ७४० वाहित्ता पडिवअणं ३३६ वयं बाल्ये बालान् ३८७ विअडे गअणसमुदे ५२१ वरकारप्रदं धीरं २८४ वि अलिअविओोश्वअ्णं ६४८ वराह: कल्याणं ६९ वर्धते सह पान्थानो विककिण्णइ माहमासम्मि ५७५ ४८२ विचिन्त्यमानं मनसापि ४८८ वरवैर्ष्टि जलदो यत्र ६ वहहे लहुवोलन्तइ विजितात्मभवद्वेषि १० ४५३ चवसाअरइप्पओसे ४९६ विदगध: सरसो रागी ३००
ववसिअणिवेइअत्थो विदिते दिवि केऽनीके ५०८ २७९
बसने परिधूसरेवसाना विद्यामभ्यसतो रात्रा- ६५६ १५
वैसिष्ठधेनोरनुयायिनं विद्यास्यन्दो वाग्वदां ६५० २३४
वसत्रायन्ते नदीनां सितकुसुम २६३ विद्राणे रुद्रबृन्दे २४७
वाअगिगणा करो मे ६६९ विनायकं दानसुगन्धिवक २८६
वागर्थाविव संपृक्ती ५५,४९२ विपूयरशनावन्त: १०२
वाणउ उज्ु माइग विभजन्ते न ये भूप २९६ वापीव विमलं व्योम २५ विभिन्नवर्णा गरुडा २३४
वौर वार तिसयति दशो ३१० विमलिअरसाअळेण ५४२ वारणागगभीरा सा २७६ विमुच्य सा हारमहार्य २३१ वाली भंभुरभोली ४४६ वियद्वियदृष्टिपर २०२
वासावस्थिततामचूड ७१० बिरला उवआरिचिअ ५०३ वासिऐ्ठै: सुकृतोद्धबोडध्वरशतैः ६९५ विरहाणलो सहिजर ६४७
१. कुमारसं० ५-७२. २. माछतीमा० १. गा० स० ५-१६. २. सेतुब० ७-१.३. रु. २-१९.४. वामनकाम्या० ११-५८. ३.गा० स० ३-३८. ४. का- ४-१-१०. ५. मालतीमा० १-२२. व्याद० २-१२०. ५. चण्डीश० ६६. ६. महेन्द्र: २-१९०. पर 'सप्ताब्धिकाजे- ६. बामनका० १-२ ७. शिशुपा० भुबः' इत्यस्प खाने 'शास्ताबधकाजेमुवः' पाठ: ४-१४. ८. सेतुव० ९-७. ९. कु. मार० ५-८. १०. गा० स० १-४३
Page 886
३३
पद्यानि पृष्ठाका: पद्यानि पृष्ाष्ा :. विरहिणिहिअअअकन्तहि २६८ वीनी वृन्दं चैतत्कूटे २०९ विरहे ते विषीदन्तं ३२ वीहेसि हरिमुहि अवि ३०८ विरोधो विश्रान्त: प्रसरति ७१९ वेल्ितम् गलद्मे ४२५ विलासमसणोल्सत् ७०१ चिलिम्पल्येतस्मिन् ६०२ वेवइ जस्स सविडिअं ६१४ वेवाहिऊण बहुआ ३९ विलुलितालकसंहति २०१ वेविरिसिण्णकरंगुलि विवादोऽपार्थ एवायं १७१ वैधरेनैरशैरेन्द्र ६३७ २७१ विविधधववनाना २१० व्यतिकर इव भीम: ३१० वितृण्वती शैससुतापि ५७१ १९९ विशदा विशदामत्त २०० 'व्यपगतघनपटल' १५४ विश्वंभरा भगवती १६९,६०३ व्यैपोहितुं लोचनतो मुखानिलै: विषं निजगले येन २२३ व्यर्थ यत्र कपीन्द्रसरूय ६२०
विष्णुना विक्रमस्थेन ५२६ व्यूढोरस्को व्ृषस्कन्ध: ६९६
विसवेभोव्व पसरिओ श.
विह्गा: कदम्बसुरभा- 79 ४३३ २०४ शकार कि प्रार्थनया ६९४ विहलइ से णेवच्छं ६६७ शक्त्या वक्षसि मग्नया सह ६८० विहायैतन्मानव्यसन ६५४ शतं वारानुक्त: प्रियसखि ५१४,६८३ बिहितां प्रियया १६४ शतार्थपचाशभुज: U
१. उत्तरार्थमात्रं काव्याद० १-६३. शदमाणुशमंशभालके १४४
२. उत्तरराम० ६-२. ३. विज्जाकाया ३३२
इति ऑफैकूटपण्डितः, सुभापितावलिभ्- रयने यस्य शेषाहि: २२३
मिकायां पीटरसनश. ४. शिशुपा०६-३. १. सेतुब० १-६. २.गा० स० ५. वामनकाव्यालं० ४-१-२. हरिप्रवो- बादुदुत :. ६. कुमार० ३-६० ३-४४. ३. मालतीमा० २०-८ ४. किराता० ५-२. ५. किराता• ८- ७. काव्याद ०३-१४. ८. उतरराम० १-९. ९. काव्याद० २-१०१. १९. ६. उत्तरा०२-४५. ७. रपुवं० १०. सेतुब० ५-५०. ११. शिशुपा १-१३. ८. वेणीसं० ३. पर तत्र ४-३६. १२. किराता० २-१. 'हदमाणुं' इति पाठ:
Page 887
३४
पद्यानि पृष्ठाड्का :. पद्यानि पृष्ठाङ्ा: शव्यन्ते हतशायिका: ५१२ शेषो हेमगिरिस्सवं च ४७५ शंरदिन्दुसुन्दरमुखी ४०२ शैलात्मजापि पितुरुच्छिरसो शलभा इव धावन्त: २६९ ६९९
शशाम वृष्टिर्मेघानां सैळे शैले न माणिक्यं ३५८ २५४
शशिनमुपगतेयं ६५३ शोर्भा पुष्यत्ययं १२१
शबिना च निशा निशया च शशी३४७ इंयामलाः प्रायृषेण्याभि: ५२५
वशिरुचियु दलेपु नागवक्ल्या श्रद्धायत्री यदि स्यातां २६४
शन्तमिदमाश्रमपदं १६१ ६११ श्रमणः श्रावकनध्वा: ७३९
वान्ल्ये ोडस्तु कपालदाम ५३६ श्रियः प्रदुग्धे विपदो रुणदि १६८
शपादसि प्रतिहता श्रीदीप्ती हीकीती ७०० २७१
शौपान्तो मे भुजगशय- श्रुलायं सहसागतं ५८
नादु १६४,६२८,६५१ भ्रूयतां धर्मसर्वखं ८३ शासनेऽपि गुरुणि व्यवस्थितं ३९७ छाध्यानां गुणिनां धुरि ६७८ शिखण्डे खण्डेन्दु: शशिदिनकरी ७३२ श्ेपं मृगद्शां २५५
विज्ञानमधुमजीरा: २३७ प. शिथिलशिथिलं न्यस्य ५९३ शिरसि शरम: कोडे कोट: २५२ पेण्डेपूण्ड पिण्डीतगर ९७,१८२
१०६ स.
शुद्धं बद्ध मुरास्थि २७६ संहअचक बाअजुआ २५
रशुद्धान्तदुर्लभमिदं ४३० ४३१
शुमे कोषयं शृद्धो ८४ शुध्रूषख गुरुन्कुरु प्रिय- १. ध्वन्यालोके ४-४. २. कुमारसं० १७० ३-७५. ३. चाणक्यश० ५५. ४. १. रुद्रटकाव्या०८.२०. २. रघुवं० वामनकाव्या० २-२-४. ५. काव्याद० ६-८५. ३. शाकुन्त ० १-६. ४. सा० २-१००. ६. विडशाल० १-८. ७. कुन्त० ७.३२. ५. मेघदू० ११५. फाब्याद ० ४-८६.८. पञ्जतबे ३-१०३. ६. शिशुपा० १४-१५. ७. महानाट0 ९. मालती० १०-२२. १०. उचरारष- ५-३. ८. श्ाकु० १.१७. ९. धा- मेतव। पूर्ण पद्यमेतदुदाहतं पृ. १८२. कुन्त० ४-१८. ११. सेतुब० २-३१.
Page 888
३५
पद्यानि पृष्ठाषा :. पद्यानि पृष्ठाड्डा: स इतोउब्द ऋतापृतप्रियो १०६ स त्वं मानविशिष्ट २५६,६०६ सकअरग हत सुण्णा ६५६ स दक्षिणापाज्निविष्ट ३१३ सेकलंकेन जडेन च ३५७ सदर्प इव कन्दप: २५० सेगगं अ पारिजाअं सेयः पुरीपरिसरेऽपि संर्गेतानि मृगाक्षीणं २९५ ४७५ सदो द्रावितकेतकोदर १७८ ८२,५३० से नाकवनितं नितम्बरुचिरं संचकितमिव विस्मयाकुलाभि: ३९१ से नैषवस्याधिपतेः सुताया- २१३ २४९ सचं गुरुओ गिरिणो ४९५ सन्तः शणुष्वं हृदये २६४ सच चभ कटुमओ ६६८ सेन्तः सचरितोदयव्यसनिन: ४७९ सँचं जाणइ दहु ६४५ सपीतवासाः प्रृहीतशाओो 995 सच्छन्दरमणदंसण ६८९ से बाल आसीदपुवा ३२४ संचारिणी दीपशिखेव ४२२,६९९ सभासमाना सहसा २२०
संजीवणोसहिम्मिब ६४८ सैभासु राजन् न सुराहतै २०८
से तथेति प्रतिज्ञाय सभासुराणामवला १८४ २१८
सतमा: सतमालो यः २१२ सधविलासमथ सोडय
सतेनुनेय: सुभगोऽ्भिमानी सर्म ससैन्येन समन्ततः ६१८
९८ २०५
सरपक्षा मधुरगिर: सममेव समाकान्त १००,७३९ समथये यत् प्रथम ३२९
से स्वं मदीयेन शरीरवृत्ति सैमसोक्सदुक्ससमवद्िआण २६५,६५६ २७६ ६४२
१. गा० स० ६-५०. २. सद्रट- समाधवा माधवदत्तष्टिः २६१
काव्या० ७-८७. ३. सेतुब० ४-२०. १. कुमारस० २-७० २. वालरा० ४. काव्याद० २-३२२. ५. काव्य- ६-३४. ३. किराता ० ५-२७. ४. र० प्रकाशेऽप्युदाहतं पद्यमेतव् । खण्डप्र- घुवं०१८-१. ५. धनिकस दशरूपके शस्तौ, सदुचिक्णांमृते च. ६. किराता० ३-१८. ६. शिशुपा० १-७०. ७. का- २०.७. ७. गा० स० १-१२. ८. ब्याद० ३-४०. ८. कोब्याद० २-५८. रुवं० ६-६७. ९. गा० स० ४-३६. ९. मालतीमा० १-२३. १०. रघुवं० १०. कुमार० ६-३. ११. बेणीस० ४-४ ११. विक्रमो० ४-३९. १-६. १२. रुवं० २-४५. १२. गा0 स० २-४२.
Page 889
३६
पद्यानि पृष्ठाड्टा: पद्यानि पृश्वाङ्का :.
समानया समानया १२१ सशार्थ चकासिगदाब्जपाणि: १५ से मारुतसुतानीत ६७८ स सेंकोचक्न्द्रादिव १३७ से मारुताकम्पित ११८ से संचरिष्णुर्भवनान्तरेषु ३०५ स मारुतिसमानीत ६७ सरणे वारणास्यस्य ससत्वरतिदे नित्यं २४९ २८०
सरत्सुरारातिभयाय २६७ से हत्वा थालिनं वीर ६७७
सेरले साहसरागं परिहर १४६ सैहदीर्घा मम श्वासः ४८४
सरसिजमनुविद्धं शेवलेना ६११ सहमृत्यगण सबान्धवं १९५ सरांसीवामळं व्योम २५ सचसा मा साहिजट ५९१
सेरोजपत्रे परिलीनषट्दे ४४७ सहलगोरिवानीकं १० सर्वकार्यशरीरेपु ११ सहिआहि® पिअविसजिअ ६६७ सर्वक्षितिसृतां नाथ १९२ सर्वप्राणप्रवण मधवन् सैहिआहि भण्णमाणा ३१५,६८४ ३८८ सर्वा: संपत्तयस्तस्य सहि साहसु तेण समं ५८२ ५९८ सेर्वाशारुधि दग्घवीरुधि सा उप्पडी गोटठउहि ३४१ २४८,७११ सैलिलं विकासिकमलं साकं पढ्चजजन्मना सुरपते: ७३८ ५२९ सलीलमासकलतान्त सा कौमुदी नयनयोर्भवतः ५१२ ३६२
सलतापलवोहासी सोथं वर्षसह्सं म ९६ २३८ सव्वस्सिम्मि विअड्ठे सा तह सहत्थदिण्णं ६३६ ६१७ सांधारण्यानिरातइः ५९९ १. रुवं० १२-७८. २.रुद्र. टकाब्यालंकारस्य नमिसाघोष्टीकायाम्. १. शिशुपा० १-४६. २. कि. ११-२४. ३. मालवीमा० ६-१०. राता० १५-२७. ३. रपुईं. १२-५८. ४. शाकुन्त० १-२०. ५. किराता० ४. काब्याद० २-३५२. ५. वेणी- ८-३५. ६. विक्मो० ४-२७. ७. म- सं० २-५. ६. पूर्वीर्थमान्रं वामन- हावीर० १-३६. ८. उत्तररा० २-१७. काव्या० २-१-१३. ७. गा० स० ९. मुमापितावली वाणस्प. १०. रुद्- २-४५. ८. मालतीमा० १-३२. टकाव्यालं० ७-२१०. ११.किराता० ९. श्रीमद्धागववे ३-२०-१५. १०. म. ८-१६. १२. गा० स० २-२९. हानीरन० १-२२.
Page 890
३७
पद्यानि पृष्ाक्ा :. पद्यानि पृछाड्डा :.
सा चाला वयमप्रगल्भवचस: ३३० सुदुस्त्यजा यद्यपि ९८ सामण्ण सुन्दरीणं ६८९ सुधाबद्धप्रासै: ४६३ सामन्तमीलिमणिरज्ित ६८१ सुभद्राक उपायंस ३०३ सा ममारिधमनी २६८ मुभ्रर्त्वं कुपितेत्यपास्- १९१ सामहड तस्स प्हाउं ६४४ सामाइ सामलीए ३२६ मुरकुसुमेहिं कलुसिअं ६५५ सुरहिमहुपाणलम्पढ ४६ सा यूनि तस्मिन्नमिलाष ३३५ सुरानन त्वों न न हान सारयन्तमुरसा रसयन्ती २८३ २०७ सुराष्टेरेष्वस्ति नगरी सालं वहन्ती सुरतापनीयं २१६ महउच्छअं जणं दुहहं ४५ ४७४
साळिविणगोपिआए ३७८ सैहृदिव प्रकटय्य सुखप्रदः ६४२ सोलोए चिअ सूरे ३७७,६९० सूयीयति सुधाररिमिः ४०४
सावजमागमिष्यन् ३८३ सेउलिअसव्यंगी ६३७ सावशेषपदमुक्तमुपेक्षा ४८९ सेनागजा: खकरपल्चन ४६०
सा वामनप्रसिद्धि: ७१५ सेलमुआरुद्द्वं २७
सा सती जयतात् २८१ सो तुह कएण सुन्दरि ६३०
सासवात्वा सुमनसा सोमुदमओ मअतण्हिआ २७४ २६५
सा सेना गमनारम्मे २८३ सोइइ विसुद्धकिरणो ४२५
साहीणेवि पिअनमे ६४७ सोहव्बलक्खणमुहं ४१०
सीतावेश्म यतो निरीक्ष्य ६३२ सौजन्याम्बुनिधे बुधप्रिय ६० सीमासीमानभूमि: २००
मुअवह्वङअर ३०८ १. विदशालभज्जिकातो धनिकस्प दश- रूपके ४-५०. २. शाईधरपद्धती विद्या- १. अमरुश ० ३४. २. गा० स० पते :. ३. गा० स० १-५०. ४. २-८०. ३.रखुपं० ६.८१.४. का- माळवी० ४-७. ५. गा० स० ५-४०.
व्याद० ३-४३. ५. गा० स० २-३०. ६. गा० स० १-८४. ७. सेतुब० ६. रदटकान्या ० ६-५७. ७. शिशुपा० १-२२. ८. सेतुब० १-४८. ९. ऑ- १०-१६. ८. गा० स० १-३९. फैक्टपण्डितमते मुजस्व.
Page 891
३८
पद्यानि पृषाव्का पद्मानि पृछाता: सौधादुद्विजते त्यजत्युपवनं ६३१ स्मरानलो मानविवर्चितो यः २१७ स्कन्दो रुन्दर्दिमिरष्टा २८७ स्मितपुष्पोजवलं लोल- ४२० स्खलयवि वचनं ते ५९२ स्मितं मुखेन्दोज्पोत्सा ते ४१५ खनजघनमराभिराम- ३०१ खभावमधुरा: ख्निरधा: ५४६ खेनयोर्जधनस्यापि स्स्थ: शैले पश्यास्ते ५४० २०९
७१२ सान्नश्िष्ठाद्रिजन्मानं २४१
ख्वीणां हावे: कृते यत्र खामी दुर्नयवारणव्यतिकरे ซาง ४९२ स्थाने तपो दुबरमेतदर्थ ६५३ ह.
स्थितः स्थितामुच्चलितः इंस प्रयच्छ मे कान्तां ४३० १८५
स्थितमुरसि विशालं हंसाली भयतरला ७१० ५९१ हंसो ध्वाङविरावी ४०२ स्थिता: क्षण पक्ष्मसु इंहो कण्णुलोणा स्थिरापायः काय: ५४,२३० ६३५ २४६ हठपीतमहाराष्ट्री २१६ स्थिरायते यतेन्द्रियो २०२ 'हन्त पुण्यवानस्मि यदह'- १५४ स्थूलं दत्से सूक्ष्मं धत्से २१२ हन्तुं विमग्गमाणो ४९६ लीता तिष्ठति कुन्तलेश्वरसुता ६८१ हैन्यते सा वरारोहा १०८,७०७ 'हैर इव जितमन्मथो' ६१४ १५४
३०४ हरस्तु किंचित्परिवृत्तधैर्य: ५७० हैरिपाद: विरोलस २६९ ४१६
सर: सर: सल: कान्त: हरेलद्ितघर्माशु: ३२ २३२ हैसिअं सहत्यतालं ३६४
१. मालवीमा० २-८. २. काव्या- १. काब्याद० ३-६२. २. पूर्वा. द०२-२१७. ३. कुमारसं० ७-६५. भेमावं काव्याद० २-७७. ३. विक्रमो- ४. रघुवं० २-६. ५. रलावली २-१४. वै०४-१७. ४. काव्याद० ३-१३८. ६. कुमारस० ५-२४. ७. काव्याद० २-३९. ८. धनिकस्प २-६. ९. का- ५. कादम्वरी० पृ. ४. ६. कुमारसं० २-६७. . काव्याद० २.८१. व्याद० १-५९. ८. गा० स० २-६२.
Page 892
३९
पद्यानि पद्मानि पृष्ठाड्डाः हसिआइ समसलकोमलाई ६८३ हेसिएहिं उवालंभा हुं हुं हे भणमुपुणो ६३८ ६८८ हेखे लीलाकमलमलकं ५३२ ३६७
हा तो जो जलदेउ ११० १२९
हालाहलं विषं भुड्क्य १३३ हैदयाच्ापयातोऽसि ५७८
हो वत्साः खरदूषण ६९२ हैदये वससीति मत्प्रियं ६२५
हिअ तिरच्छीयइ ५२६
हिअए रोसुग्घुण्णं ३५३ हृष्यति चूतेषु चिर
३७९ हेलोदखमहीघरस्य ७२८
हित्वा सीतां दशमुखरिपु: ७०१ हे हस्त दक्षिण मृतस्य हिमव्यपायाद्विशदाधराणां ५८१ होन्तपहिअस्स जाआ ६४० हिरण्यकशिपुर्दैलो ३०५ हीमरादवनतं परिरम्मे ६१९ हुं निहज समोसर १. विक्रमो० ४-७. २. महानाटo १. गा० स० ६-१३. २. मेघदू० २-२४. ३. कुमारस० ४-९. ४. उत्तर- ६६. ३. महावीरच० ४-११. ४. र- रामच० २-१०. ५. गा० स० घुवं० १४-८७.५. कुमारसं० ३-२२. १-४७. ६. शिशुपा० १०-५२.
Page 893
CATALOGUED.
Page 894
TRAL ARCHAEOLOGICAL LIBRA NEW DELHI
Catalogue No. Sada/Bho/K.P .- 1603.
Author- Kedarnath Slarma, & Pansikar, Wasudev, Laxman
Title- Saraswati Kanthabharana.
Eorrower No. Date of Issue Date of Return
P. T. O.