Books / Sarvasaara Upanishad

1. Sarvasaara Upanishad

Page 1

समस्तवेदान्तसारसिद्धान्तार्थकलेवरम् ।

विकलैवकेवल्यं रामचन्द्रपदं भजे ॥

सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् ।

तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

कथं बन्धः कथं मोक्षः का विद्या काढविद्योतिः ।

जाग्रत्स्वप्नसुपुप्तितुरीयं च कथम् ।

अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयकोशाः कथम् ।

कर्ता जीवः पञ्चवर्गः क्षेत्रज्ञः साक्षी कूटस्थोऽन्तर्यामी कथम् ।

प्रत्यगात्मा परात्मा माया चेति कथम् ।

आत्मेश्वरजीवः अनात्मनां देहादीनानात्मत्वेनाभिमन्यते

सोऽभिमान आत्मनो बन्धः । तन्निवृत्तिर्‌मोक्षः ।

या तदभिमानं कारयति सा अविद्या । सोऽभिमानो या

निवर्तते सा विद्या । मन आदिचतुर्दशकरणैः

पुष्कलैरादित्याद्यनुगृहीतैः शब्दादीन्विषयान्‌

स्थूलान्‍यदोपलभते तदात्मनो जागरणम् ।

तद्वासनासहितैस्तैरेव दर्शने: शब्दाद्यभावेऽपि

वासनामयैः शुद्धबुद्ध्याद्यैर्न्योपलभते तदात्मनः स्वप्नम् ।

चतुर्दशकरणो परमादिदेशे‌ऽविज्ञानभावावृता

शब्दादीन्त्रोपलभते तदात्मनः सुषुप्तम् ।

अवस्थात्रयभावाभावासाक्षी स्वयंभाववरहितं

नैरन्त्यं चैतन्यं यदा तदा तुरीयं चैतन्यमित्युच्यते ।

अन्नकार्याणां कोशानां समूहोऽन्नमयः कोश उच्यते ।

प्राणादिचतुर्दशवायुभेदा अन्नमयकोशे यदा वर्तन्ते

तदा प्राणमयः कोश इत्युच्यते ।

एतत्कोशद्वयसंस्कृतं मन आदिचतुर्दशकरणैर्‌ऐक्यं

शब्दादिविषयसङ्कल्पादीन्‌ धर्मान्‌ यदा करोति तदा मनोमयः

कोश इत्युच्यते । एतत्कोशत्रयसंस्कृतं तद्‌द्वितीयविशेषो

यदा भाषते तदा विज्ञानमयः कोश इत्युच्यते ।

एतत्कोशचतुष्टयं संसक्तं स्वकारणाज्ञाने

Page 2

वटकणिकायामिव वृक्षो यदा वर्तते तदानन्दमयः कोश इत्युच्यते । सुखदुःखबुद्धूया श्रेयोऽनन्त । कर्ता यदा तद इष्टविषये बुद्धिः सुखबुद्धिरनिष्टविषये बुद्धिदुःखबुद्धिः । शब्दस्पर्शरूपरसगन्धाः सुखदुःखहेतवः ।

पुण्यपापकर्मानुसारि भूतवा प्राप्तशरीरसंयोगमप्राप्तशरीरसंयोगमिव कुर्वाणो यदा दृश्यते तदोपहितजीव इत्युच्यते । मन आदिश्छ प्राणादिश्छादिश्छ सत्स्वादिश्छैते पञ्चवर्गा इत्येथां पञ्चवर्गान् धर्मभूतात्मा ज्ञानादृते न विनश्यत्यात्मसाक्षिधो नित्यत्वेन प्रतीममान आत्मोपाधियास्तल्लिङ्गशरीरं हृदग्रन्थिरित्युच्यते तत्त् यत्प्रकाशते चैतन्यं स क्षेत्रज्ञ इत्युच्यते ।

जातुज्ञानजेयानामाविर्भावतिरोभावज्ञाता स्वयमविभाववतिरोभावरहितः स्वयंज्योतिः साक्षीत्युच्यते । ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिबुद्धिद्द्वशवशिष्टतोपलब्ध्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते । कूटस्थोपहितभेदानां स्वरूपलभेतुर्भूतत्वा मणिगणे सूर्यकिमिव सर्वक्ष्षेत्रविपश्यनूयात्त्वेन यदा काश्यते आत्मा तदान्तर्यामीत्युच्यते ।

सत्यं ज्ञानमनन्तं ब्रह्म । सत्यमविनाशी । अविनाशी नाम देशकालवस्तुनिमितेषु विनश्यत्सु यत्र विनश्यति तदविनाशी । ज्ञानं नामोत्त्पत्तिविनाशरहितं नैर्न्तरय चैतन्यं ज्ञानमुच्यते । आनन्तं नाम मृद्विकारेषु स्वर्णमिव तन्तुविकारेषु तन्त्रिवार्यक्तादिसृष्टिप्रळयेषु पूर्णं व्यापकं चैतन्यमनन्तमित्युच्यते ।

आनन्दं नाम सुखचैतन्यास्वरूपोऽपरिमितानन्दसमुद्रोऽविशिष्टसुखस्वरूपाख्यानन्द इत्युच्यते । एतद्रुतुचतुष्टयं यस्य लक्षणं देशकालवस्तुनिमित्ते श्वव्यभिचारी तत्पदार्थः परमात्मेत्युच्यते । त्वंपदार्थौपाधिकातत्पदार्थौपाधिकभेदाद्विलक्षणमाकाशवत्साक्ष्मं केवलसत्तामात्रस्वभावं परं ब्रह्मेत्युच्यते । माया नाम अनादिरन्तवती प्रमाणप्रामाणसाधारणा न सती नासती न सदसत् स्वयमभिका विकाररहिता निरूपमाणा

Page 3

सतीतेरलक्षणयोन्या सा मायेत्युच्यते । अज्ञानं तुच्छ्याप्यसती कालत्रयेऽपि पामराणां वास्तववी च सत्बुद्धिलोंकिकानामिदमित्यमित्यनिर्वचनीय वक्तुं न शक्यते ।

नाहं भवास्ययहं देवो नेन्द्रयाणि दशैव तु । न बुद्धिनं मनः शस्त्राहजारस्तथैव च ॥१॥

अप्राणो ह्यमनाः शुभ्रो बुद्धयादीनां हि सर्वदा । साक्ष्यहं सर्वदा नित्यश्शुद्धमात्रोडहं न संशयः ॥ २॥

नाहं कर्ता नैव भोक्ता प्रकृते: साक्षीरुपकः । मत्साश्रिध्यात्प्रवर्तंतं देहाद्याः अजडाः इव ॥३॥

स्थाणुनित्यः सदाऽऽनन्दः शुद्धो ज्ञानमयोड्मलः । आत्माहं सर्वभूतानां विभुः साक्षी न संशयः ॥ ४॥

ब्रह्मैवाहं सर्वेदान्तवेद्यं नाहं वेदं व्योमवातादिरूपम । रूपं नाहं नाम नाहं न कर्म ब्रह्मैवाहं सच्चिदानन्दरुपम ॥५॥

नाहं देहो जन्ममृत्यु कुतो मे नाहं प्राणः क्षुत्तिपासे कुतो मे । नाहं चेतः शोकमोहौ कुतो मे नाहं कर्ता बन्धमोक्षौ कुतो म इत्युपनिषत् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥