Books / Saubhaagyalakshmi Upanishad

1. Saubhaagyalakshmi Upanishad

Page 1

सौभाग्यलक्ष्मीकैवल्यविद्यावेदसुवाकृति ।

त्रिपान्नारायणानन्दरमचन्द्रपदं भजे ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि

प्रतिष्ठितमाविरावीर्मं एधि ॥

वेदस्य म आणीस्थः श्रुतं मे मा

प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यतं

वदिष्यामि सत्यं वदिष्यामि ॥

तन्नोऽवतु तद्वक्तारमवतु अवतु मामवतु

वक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ । अथ भगवन्तं देवा ऊचुः

भगवन् कथम सौभाग्यलक्ष्मीविद्याम् ।

तथेत्यवोचइन्द्रवानादिनारायणः सर्वे देवा

ऊयं सावधानमनसो भूतवा श्रुणुत

तुरीयरूपां तुरीयातीतां सर्वोत्कटां

सर्वमन्त्रासनगतां पीठोपपीठदेवतापरिवृतां

चतुर्भुजां श्रीयं हिरण्यवर्णामिमित

पञ्चदशगर्भेध्यांयेत् । अथ पञ्चदश

ऋगात्मकस्य श्रीसूक्तस्यानन्दकर्दमचिक्लीतेनिद्रारसुता

ऋषयः । श्रीख्यऋष्याद्या मृद्रः

चतुर्दशानुचामानान्द्यायः ।

हिरण्यवर्णाद्याद्यत्रस्यानुष्टुप् छन्दः ।

कांसोऽस्मीत्यस्य वृहती छन्दः ।

तदन्ययोर्द्वयोः स्विष्टष्टप् । पुनरष्टकस्याऽनुष्टुप् ।

शेषस्य प्रस्तारपङ्क्तः । श्येनिन्देवता ।

हिरण्यवर्णामिमित बीजम् । कांसोऽस्मीति शक्तिः ।

हिरण्मया चन्द्रा रजतसजा हिरण्या हिरण्यवर्णेति

प्रणवादिनमोऽन्तैस्तुर्ध्यन्तैरऋण्यासः ।

अथ वक्त्रत्रयैरऋण्यासः । मस्तकलोचनश्रुतिग्राण-

वदनकण्ठबहिर्युहृदयनाभिगुद्रयपायूरुजानुजङ्घेषु

ध्रुवाकरे कपाले न्यासं । अरुणकमलस्थ्या

तद्रजःपुञ्जवर्णां करकमलभृतेष्टाडभीतियुग्मम्बुजा च ।

मणिकटकविचित्रालङ्कृतालक्जालैः सकलभुवनमाता

सन्ततं श्रीः श्रियै नमः ॥१॥

Page 2

तत्पीठकर्णिकायां ससाध्यं श्रीबीजम् ।

वस्वादित्यकलापद्येषु श्रीसूक्तगतार्धार्धर्चां

तद्र्रहयं: शुचिरिति मातृकया च श्रियं यन्नाऽऽदशकं

च विलिख्य श्रियमावाहयेत् । अत्रैः: प्रथमा वृत्ति: ।

पसादिभिर्द्वितीया । सोकेशस्तृतीया । तदायुधैस्तुरीया

वृत्तित्रयवति । श्रीसूक्तैरवाहनादि । षोडशसहस्रजप: ।

सौभाग्यरमैकाक्षर्या भृगुनिचृद्यायैच्री । श्रिय ऋष्यादय: ।

श्रमिति बीजशक्ति: । श्रीमित्यादि शडङ्कम् । भूयादूयो

द्विपयाभयवरदकरा तप्तकात्स्वराभा शुभ्राभ्राभभयुग्म-

द्यकरधृतकुम्भादिद्रिरासिच्यमाना । रक्तौष्ठावदद्वोमिलि-

विमलतरड्कुलार्तवालेपनाढ्या पसाक्षी पसनाभोरसि

कृतवस्त्र: पसगा: श्री: श्रियै न: ॥१॥

तत्पीठम् । अष्टपत्रं वृत्तवयं द्वादशाराशिक्षषणं

चतुरसं रमापीठं भवति । करणिकायां ससाध्यं श्रीबीजम् ।

विभूतिरुत्रति: कान्ति: कीर्ति: शान्तितव्युष्टि:

सकृत्स्नित्रिद्रिरिति प्रणवादिनमो तैश्र्रतुथ्यैन्तैन्वशकितं

यजेत् । अत्रे प्रथमा वृत्ति: ।

वासुदेवाभिद्रितीया । वालाक्यादिभिस्तृतीया ।

इन्द्रादिभिस्तुरीथी भवति ।

द्वादशलक्षजप: । श्रीलक्ष्मीवरदा विष्णुपत्नी

वसुप्रदा हिरण्यरूपा

स्वर्णमालिनी रजतस्रजा स्वर्णप्रभा स्वर्णप्राकार

पसवासिनी पसहस्ता

पसप्रिया मुक्तालङ्कारा वनद्र्सूर्या विल्वप्रिया ईश्वरी

भुक्तिमुक्तितर्विभूतित्रिद्रि: समृद्धि: कृष्ट:

पुष्टिधनदा धनेश्वरी

श्रद्धा भोगिनी भोगदा सावित्री धात्री

विभात्रित्यादि्रणवादिनमोऽन्ताश्र्रतुथ्यैन्ता

मन्त्रा: । एकाक्षरदङ्कादिपीठम् । लक्षजप: ।

दशांशं तर्पणम् ।

दशांशं हवनम् । द्विजतृप्ति: । निष्कामानामेव

श्रीविद्यासिद्ध: ।

न कदापि सकामानामिति ॥१॥

अथ हैनं देवा ऊचुस्तुरीयया मायया निर्दिष्टं

तत्त्वं बूूहिति । तथेति स होवाच ।

योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्धते ।

Page 3

योडप्रमतत्सु योगेन स योगी रमते चिरम् ॥ १॥

समापच्य नित्रां सिजीर्णेल्त्पभोजी श्रमत्याज्यवाधे विविक्ते प्रदेशे ।

सदा श्रीतनिस्तृष्ण एष प्रयत्नोडथ वा प्राणरोधो निजाभ्यासमार्गांत ॥ २ ॥

वक्त्रेणापूर्य वायूं हुतवलनिलयेडपानमाकृष्य धृत्वा स्वाऽऽडुष्टाङ्कुलीभिर्वरकरतलयो: षडिभरेव निरुध्य ।

श्रोत्रे नेत्रे च नासापुटयुगलमतोऽनेन मार्गेण सम्यक्पश्यन्ति प्रत्ययाश्रं प्रणवबहुविधध्यानसंलीनचित्ता: ॥ ३ ॥

श्रवणमुखनयनननासानिरोधनेनैव कर्तव्यम् । शुद्धसुप्तनासनौ स्फुटमलं श्रूयते नाद: ॥ ४ ॥

विचित्रघोषसंयुक्तानाहते श्रूयते ध्वनि: । दिव्यदेहषु तेजस्वी दिव्यगन्धोडप्यरोगवान् ॥ ५ ॥

संपूर्णहृदय: शून्ये त्वारम्भे योगवान्भवेत् । द्वितीया विघटीकृत्य वायुर्भवति मध्यग: ॥ ६ ॥

हृढासनो भवेद्योगी पद्मासनसंस्थित: । विष्णुप्रणयेस्सततो भेदात्परमानन्दसम्भव: ॥ ७ ॥

अतिशून्यो विमर्दषु भेरीशब्दस्ततो भवेत् । तृतीया यत्ततो भित्वा निनादो मर्दलध्वनि: ॥ ८ ॥

महाशून्यं ततो याति सर्वसिद्धिसमाश्रयम् । चित्तानन्दं ततो भित्वा सर्वपीठगतानिल ॥ ९ ॥

निष्पत्तौ वैष्णव: शब्द: क्वणतीति क्वणो भवेत् । एकीभूतं तदा चित्तं सकादिमुनीडितम ॥ १० ॥

अन्तेडनन्तं समारोप्य खण्डेडखण्डं समर्पयन । भूतानं प्रकृतिं ध्यात्वा कृतकृत्योऽमृतो भवेत ॥ ११ ॥

योगेन योगां संरोध्य भावं भावेन चाञ्जसा । निर्विकल्पं परं तत्वं सद्यो भुत्वा परं भवेत ॥ १२ ॥

अहंभावं परित्यज्य जगडावमनिडूश्रम । निर्विकल्पे स्थितो विद्वान्भूयो नाऽऽप्यनुशोचति ॥ १३ ॥

सलिले सैन्यावं यद्वत्साम्यं भवति योगात: । तथात्ममनसौरेक्यं समाधिरभिधीयते ॥ १४ ॥

यदा सङ्क्षीयते प्राणो मानसं च प्रलीयते । तदा समरसत्वं यत्समाधिरभिधीयते ॥ १५ ॥

यत्समत्वं तयोरत्र जीवात्मपरमात्मनो: । समस्तनष्टसङ्कल्प: समाधिरभिधीयते ॥ १६ ॥

प्रभाशून्यं मन:शून्यं बुद्धिशून्यं निरामयम ।

Page 4

सर्वशून्यं निराभासं समाधिरभिधीयते ॥ १७ ॥

स्वयमुच्चलिते देहे देही नित्यसमाधिना ।

निःश्वलं तं विजानीयात्समाधिरभिधीयते ॥ १८ ॥

यत्रयत्र मनो याति तत्रतत्र परं पदम् ।

तत्ततत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥ १९ ॥ इति ॥ ॥ २ ॥

अथ हैनं देवाऽऋचुर्नवचक्रविवेकमनुब्रुवीति ।

तथेति स होवाच आधारे ब्रह्मचक्रं त्रिरावृत्तं

भगमण्डलाकारम् । तत्र मूलकन्दे शक्तिः पावकाकारं

ध्यायेत् । तत्क्रैव कामरूपपीठं सर्वकामप्रदं भवति ।

इत्याधारचक्रम् । द्वितीयं स्वाधिष्ठानचक्रं

षट्दलम् । तन्मध्ये पश्विमाभिमुखं लिङ्गं

प्रवालडुरसदृशं ध्यायेत् । तत्क्रैवोदकाणपीठं

जगदाकर्षणसिद्धिं भवति । तृतीयं

नाभिचक्रं पञ्चावतं सर्पकुटिलाकारम् ।

तन्मध्ये कुण्डलिनी बालार्ककोटिप्रभा

तनुमध्यां ध्यायेत् । सामध्यंशक्तिः सर्वसिद्धिप्रदा

भवति । मणिपूरचक्रं हृदयचक्रम् ।

अष्टदलमधोमुखम् । तन्मध्ये ज्योतिर्मयलिङ्गाकारं

ध्यायेत् । सैव हंसकला सर्वप्रिया सर्वलोकवश्यकरी

भवति । कण्ठचक्रं चतुर्दलम् । तत्क्र वामे इडा

चन्द्रनाड़ी दक्षिणे पिङ्गला सूर्यनाड़ी तन्मध्ये सुषुम्नां

श्वेतवर्णां ध्यायेत् । य एवं वेदानुहाता सिद्धिदा भवति ।

तालुचक्रम् । तत्रामृतधाराप्रवाहः ।

घण्टिकालिङ्गमूलवेधने राजदन्तावलम्बिनीविवरं

दशद्वादशारम् । तत्क्र शून्यं ध्यायेत् । चित्तलयो भवति ।

सप्तमं भूचक्रमृृृृष्ठमात्रं । तत्क्र ज्ञाननेत्रे

दीपशिखाकारं ध्यायेत् । तदेव कपालकन्दवाक्सिद्धिं

भवति । आज्ञाचक्रमष्टमम् । ब्रह्मरन्ध्रं निर्वाणचक्रं ।

तत्क्र सूचिकाग्रहेतरण् धूमशिखाकारं ध्यायेत् । तत्क्र

जालन्धरपीठं मोक्षप्रदं भवतीति परब्रह्मचक्रं ।

नवममाकाशचक्रं । तत्क्र शोडशदलपद्मोर्ध्वमुखं

तन्मध्येकर्णिकात्रिकूटाकारम् । तन्मध्ये ऊर्ध्वशक्तिः ।

तां पश्यन्ध्यायेत् । तत्क्रैव पृथ्णङ्गिरिपीठं

सर्वेच्छासिद्धिसाधनं भवति । सौभाग्यलक्ष्म्युपनिषदं

नित्यमधीते योगीपूतो भवति । स वायुपूतो भवति । स

Page 5

योगज्ञानान्भवति । न स पुनरावर्तते न स पुनरावर्तत

इत्युपनिषत् ।

ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम्

आविरावीर्मे एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा

प्रहासीरनेनाधीतेनाहोरात्रान्सन्ध्याम्यृतं वदिष्यामि

सत्यं वदिष्यामि ॥ तन्मामवतु तद्वक्तारमवतु अवतु मामवतु

वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥

इति श्रीसौभाग्यलक्ष्म्युपनिषत्समाप्ता ॥