Books / Saubhagya-lakshmi Upanishad

1. Saubhagya-lakshmi Upanishad

Saubhagya-lakshmi Upanishad

[ Sutra शान्ति मन्त्र ]

सौभाग्यलक्ष्मीकैवल्यविद्यावेद्यसुखाकृति । त्रिपान्नारायणानन्दरमचन्द्रपदं भजे ॥ ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

shanti mantra

· · ·

[ Sutra 1 ]

(सौभाग्यलक्ष्मीविद्याजिज्ञासा) हरिः ॐ ॥ अथ भगवन्तं देवा ऊचुर्हे भगवन्नः कथय सौभाग्यलक्ष्मीविद्याम् ।

· · ·

[ Sutra 2 ]

तथेत्यवोचद्भगवानादिनारायणः सर्वे देवा यूयं सावधानमनसो भूत्वा शृणुत तुरीयरूपां तुरीयातीतान् सर्वोत्कटां सर्वमन्त्रासनगतां पीठोपपीठदेवतापरिवृतां चतुर्भुजां श्रियं हिरण्यवर्णामिति पञ्चदशर्ग्भिर्ध्यायेत् । अथ पञ्चदश ऋगात्मकस्य श्रीसूक्तस्यानन्दकर्दमचिक्लीतेन्दिरासुता ऋषयः । श्रीऋष्याद्या ऋचःचतुर्दशानमृचामानन्दाद्यृषयः । हिरण्यवर्णाद्याद्यत्रयस्यानुष्टुप् छन्दः । कांसोस्मीत्यस्य बृहती छन्दः । तदन्ययोर्द्वयोस्त्रिष्टुप् । पुनरष्टकस्यानुष्टुप् । शेषस्य प्रस्तारपङ्क्तिः । श्र्यग्निर्देवता । हिरण्यवर्णामिति बीजम् । कांसोऽस्मीति शक्तिः । हिरण्मया चन्द्रा रजतस्रजा हिरण्या हिरण्यवर्णेति प्रणवादिनमोन्तैश्चतुर्थ्यन्तैरङ्गन्यासः । अथ वक्त्रत्रयैरङ्गन्यासः । मस्तकलोचनश्रुतिघ्राण- वदनकण्ठबाहुद्वयहृदयनाभिगुह्यपायूरुजानुजङ्घेषु श्रीसूक्तैरेव क्रमशो न्यसेत् । अरुणकमलसंस्था तद्रजःपुञ्जवर्णा करकमलधृतेष्टाऽभीतियुग्माम्बुजा च । मणिकटकविचित्रालङ्कृताकल्पजालैः सकलभुवनमाता सन्ततं श्रीः श्रियै नः ॥ १॥

· · ·

[ Sutra 3 ]

(सौभग्यलक्ष्मीचक्रम्)

तत्पीठकर्णिकायां ससाध्यं श्रीबीजम् । वस्वादित्यकलापद्मेषु श्रीसूक्तगतार्धार्धर्चा तद्बहिर्यः शुचिरिति मातृकया च श्रियं यन्त्राङ्गदशकं च विलिख्य श्रियमावाहयेत् । अङ्गैः प्रथमा वृत्तिः । पद्मादिभिर्द्वितीया । सोकेशैस्तृतीया । तदायुधैस्तुरीया वृत्तिर्भवति । श्रीसूक्तैरावाहनादि । षोडशसहस्रजपः ।

· · ·

[ Sutra 4 ]

(एकाक्षरीमन्त्रस्य ऋष्यादि)

सौभाग्यरमैकाक्षर्या भृगुनिचृद्गायत्री । श्रिय ऋष्यादयः । शमिति बीजशक्तिः । श्रीमित्यादि षडङ्गम् । भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्म-द्वयकरधृतकुम्भाद्भिरासिच्यमाना । रक्तौघाबद्धमौलि-र्विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रियै नः ॥ १॥

· · ·

[ Sutra 5 ]

(एकाक्षरीचक्रम्)

तत्पीठम् । अष्टपत्रं वृत्तत्रयं द्वादशराशिखण्डं चतुरस्रं रमापीठं भवति । कर्णिकायां ससाध्यं श्रीबीजम् । विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिः सन्नतिर्व्युष्टिः सत्कृष्टिरृद्धिरिति प्रणवादिनमो तैश्चतुर्थ्यन्तैर्नवशक्तिं यजेत् । अङ्गे प्रथमा वृतिः । वासुदेवाभिर्द्वितीया । बालाक्यादिभिस्तृतीया । इन्द्रादिभिश्चतुर्थी भवति । द्वादशलक्षजपः ।

· · ·

[ Sutra 6 ]

(लक्ष्मीमन्त्रविशेषाः)

श्रीलक्ष्मीर्वरदा विष्णुपत्नी वसुप्रदा हिरण्यरूपा स्वर्णमालिनी रजतस्रजा स्वर्णप्रभा स्वर्णप्राकारा पद्मवासिनी पद्महस्ता पद्मप्रिया मुक्तालङ्कारा चन्द्रसूर्या बिल्वप्रिया ईश्वरी भुक्तिर्मुक्तिर्विभूतिरृद्धिः समृद्धिः कृष्टिः पुष्टिर्धनदा धनेश्वरी श्रद्धा भोगिनी भोगदा सावित्री धात्री विधात्रीत्यादिप्रणवादिनमोन्ताश्चतुर्थ्यन्ता मन्त्राः । एकाक्षरवदङ्गादिपीठम् । लक्षजपः । दशांशं तर्पणम् । दशांशं हवनम् । द्विजतृप्तिः । निष्कामानामेव श्रीविद्यासिद्धिः । न कदापि सकामानामिति ॥ १॥

· · ·

[ Sutra 7 ]

द्वितीयः खण्डः

(उत्तमाधिकारिणां ज्ञानयोगः)

अथ हैनं देवा ऊचुस्तुरीयया मायया निर्दिष्टं तत्त्वं ब्रूहीति । तथेति स होवाच । योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्धते । योऽप्रमत्तस्तु योगेन स योगी रमते चिरम् ॥ १॥

· · ·

[ Sutra 8 ]

समापय्य निद्रां सिजीर्णेऽल्पभोजी श्रमत्याज्यबाधे विविक्ते प्रदेशे । सदा शीतनिस्तृष्ण एष प्रयत्नोऽथ वा प्राणरोधो निजाभ्यासमार्गात् ॥ २॥

· · ·

[ Sutra 9 ]

वक्त्रेणापूर्य वायुं हुतवलनिलयेऽपानमाकृष्य धृत्वा स्वाङ्गुष्ठाद्यङ्गुलीभिर्वरकरतलयोः षड्भिरेवं निरुध्य । श्रोत्रे नेत्रे च नासापुटयुगलमतोऽनेन मार्गेण सम्यक्- पश्यन्ति प्रत्ययाशं प्रणवबहुविधध्यानसंलीनचित्ताः ॥ ३॥

· · ·

[ Sutra 10 ]

(नादाविर्भावपूर्वको ग्रन्थित्रयभेदः)

· · ·

[ Sutra 10 ]

श्रवणमुखनयननासानिरोधनेनैव कर्तव्यम् । शुद्धसुषुम्नासरणौ स्फुटममलं श्रूयते नादः ॥ ४॥

· · ·

[ Sutra 11 ]

विचित्रघोषसंयुक्तानाहते श्रूयते ध्वनिः । दिव्यदेहश्च तेजस्वी दिव्यगन्धोऽप्यरोगवान् ॥ ५॥

· · ·

[ Sutra 12 ]

सम्पूर्णहृदयः शून्ये त्वारम्भे योगवान्भवेत् । द्वितीया विघटीकृत्य वायुर्भवति मध्यगः ॥ ६॥

· · ·

[ Sutra 13 ]

दृढासनो भवेद्योगी पद्माद्यासनसंस्थितः । विष्णुग्रन्थेस्ततो भेदात्परमानन्दसम्भवः ॥ ७॥

· · ·

[ Sutra 14 ]

अतिशून्यो विमर्दश्च भेरीशब्दस्ततो भवेत् । तृतीयां यत्नतो भित्त्वा निनादो मर्दलध्वनिः ॥ ८॥

· · ·

[ Sutra 15 ]

(अखण्डब्रह्माकारवृत्तिः)

· · ·

[ Sutra 15 ]

महाशून्यं ततो याति सर्वसिद्धिसमाश्रयम् । चित्तानन्दं ततो भित्त्वा सर्वपीठगतानिलः ॥ ९॥

· · ·

[ Sutra 16 ]

निष्पत्तौ वैष्णवः शब्दः क्वणतीति क्वणो भवेत् । एकीभूतं तदा चित्तं सनकादिमुनीडितम् ॥ १०॥

· · ·

[ Sutra 17 ]

अन्तेऽनन्तं समारोप्य खण्डेऽखण्डं समर्पयन् । भूमानं प्रकृतिं ध्यात्वा कृतकृत्योऽमृतो भवेत् ॥ ११॥

· · ·

[ Sutra 18 ]

(निर्विकल्पभावः)

· · ·

[ Sutra 18 ]

योगेन योगं संरोध्य भावं भावेन चाञ्जसा । निर्विकल्पं परं तत्त्वं सदा भूत्वा परं भवेत् ॥ १२॥

· · ·

[ Sutra 19 ]

अहंभावं परित्यज्य जगद्भावमनीदृशम् । निर्विकल्पे स्थितो विद्वान्भूयो नाप्यनुशोचति ॥ १३॥

· · ·

[ Sutra 20 ]

सलिले सैन्धावं यद्वत्साम्यं भवति योगतः । तथात्ममनसौरेक्यं समाधिरभिधीयते ॥ १४॥

· · ·

[ Sutra 21 ]

यदा संक्षीयते प्राणो मानसं च प्रलीयते । तदा समरसत्वं यत्समाधिरभिधीयते ॥ १५॥

· · ·

[ Sutra 22 ]

यत्समत्वं तयोरत्र जीवात्मपरमात्मनोः । समस्तनष्टसङ्कल्पः समाधिरभिधीयते ॥ १६॥

· · ·

[ Sutra 23 ]

प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् । सर्वशून्यं निराभासं समाधिरभिधीयते ॥ १७॥

· · ·

[ Sutra 24 ]

तृतीय खण्डः

· · ·

[ Sutra 24 ]

(आधारचकम्)

· · ·

[ Sutra 24 ]

स्वयमुच्चलिते देहे देही नित्यसमाधिना । निश्चलं तं विजानीयात्समाधिरभिधीयते ॥ १८॥

· · ·

[ Sutra 25 ]

यत्रयत्र मनो याति तत्रतत्र परं पदम् । तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥ १९॥ इति॥ ॥ २॥

· · ·

[ Sutra 26 ]

अथ हैनं देवा ऊचुर्नवचक्रविवेकमनुब्रूहीति । तथेति स होवाच आधारे ब्रह्मचक्रं त्रिरावृत्तं भगमण्डलाकारम् । तत्र मूलकन्दे शक्तिः पावकाकारं ध्यायेत् । तत्रैव कामरूपपीठं सर्वकामप्रदं भवति । इत्याधारचक्रम् । द्वितीयं स्वाधिष्ठानचक्रं षड्दलम् । तन्मध्ये पश्चिमाभिमुखं लिङ्गं प्रवालाङ्कुरसदृशं ध्यायेत् । तत्रैवोड्याणपीठं जगदाकर्षणसिद्धिदं भवति । तृतीयं नाभिचक्रं पञ्चावर्तं सर्पकुटिलाकारम् । तन्मध्ये कुण्डलिनीं बालार्ककोटिप्रभां तनुमध्यां ध्यायेत् । सामर्थ्यशक्तिः सर्वसिद्धिप्रदा भवति । मणिपूरचक्रं हृदयचक्रम् । अष्टदलमधोमुखम् । तन्मध्ये ज्योतिर्मयलिङ्गाकारं ध्यायेत् । सैव हंसकला सर्वप्रिया सर्वलोकवश्यकरी भवति । कण्ठचक्रं चतुरङ्गुलम् । तत्र वामे इडा चन्द्रनाडी दक्षिणे पिङ्गला सूर्यनाडी तन्मध्ये सुषुम्नां श्वेतवर्णां ध्यायेत् । य एवं वेदानाहता सिद्धिदा भवति । तालुचक्रम् । तत्रामृतधाराप्रवाहः । घण्टिकालिङ्गमूलचक्ररन्ध्रे राजदन्तावलम्बिनीविवरं दशद्वादशारम् । तत्र शून्यं ध्यायेत् । चित्तलयो भवति । सप्तमं भ्रूचक्रमङ्गुष्ठमात्रम् । तत्र ज्ञाननेत्रं दीपशिखाकारं ध्यायेत् । तदेव कपालकन्दवाक्सिद्धिदं भवति । आज्ञाचक्रमष्टमम् । ब्रह्मरन्ध्रं निर्वाणचक्रम् । तत्र सूचिकागृहेतरं धूम्रशिखाकारं ध्यायेत् । तत्र जालन्धरपीठं मोक्षप्रदं भवतीति परब्रह्मचक्रम् । नवममाकाशचक्रम् । तत्र षोडशदलपद्ममूर्ध्वमुखं तन्मध्यकर्णिकात्रिकूटाकारम् । तन्मध्ये ऊर्ध्वशक्तिः । तां पश्यन्ध्यायेत् । तत्रैव पूर्णगिरिपीठं सर्वेच्छासिद्धिसाधनं भवति । सौभाग्यलक्ष्म्युपनिषदं नित्यमधीते योऽग्निपूतो भवति । स वायुपूतो भवति । स सकलधनधान्यसत्पुत्रकलत्रहयभूगजपशुमहिषीदासीदास- योगज्ञानवान्भवति । न स पुनरावर्तते न स पुनरावर्तत इत्युपनिषत् ।

· · ·

[ Sutra शान्ति मन्त्र ]

ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥