Books / Savitri Upanishad

1. Savitri Upanishad

Page 1

सावित्र्युपनिषद्

सावित्र्युपनिषद्ब्रह्मचित्सविपदोऽच्युतम् ।

प्रत्योगिविनिर्मुक्तं रामचन्द्रपदं भजे ॥१॥

सावित्र्यात्मा पाशुपतं परं ब्रह्माद्वृतकम् ।

त्रिपुरातपनं देवी त्रीपुरा कथभावना ॥२॥

ॐ आप्यायन्तु ममाक्ष्णि वाक्प्राणश्श्रुत्रमथो

बल-मिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं

ब्रह्म नि-राकुयं मा मा ब्रह्म निराकरोंदनिराकरण-

स्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु

धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

कः सविता क सावित्री अग्निरेव सविता पृथिवी सावित्री स

यत्राग्निस्सतत्पृथिवी यत्र वै पृथिवी तत्राग्निस्से द्द्रे योनी तदेकं

मिथुनम् ॥१॥

कः सविता का सावित्री वरुण एव सवितापः सावित्री स यत्र

यत्न वरुण-स्तदापो यत्न वा आपस्तद्व्वरुणस्से द्द्रे योनीस्तदेकं मिथुनम्

॥२॥

कः सविता का सावित्री वायुरेव सविताकाशः सावित्री स यत्र

वायुस्स्तदाकाशो यत्र वा आकाशस्तद्व्वायुस्से द्द्रे योनीस्तदेकं मिथुनम्

॥३॥

Page 2

कः सविता का सावित्री यज्ञ एव सविता छन्दांसि सावित्री स यत्र यज्ञस्तत्र छन्दांसि यत्र वा छन्दांसि स यज्ञस्ते द्वे योनिस्थदेकं मिथुनम् ॥ ४ ॥

कः सविता का सावित्री स्तनयित्नुरेव सविता विद्युत्सावित्री स यत्र स्तनयित्नुस्तद्विद्युत् यत्र वा विद्युत् तत्र स्तनयित्नुस्ते द्वे योनिस्थदेकं मिथुनम् ॥५॥

कः सविता का सावित्री आदित्य एव सविता द्यौः सावित्री स यत्रादित्यस्तद्यौर्यत्र वा द्यौस्तदादित्यस्ते द्वे योनिस्थदेकं मिथुनम् ॥ ६ ॥

कः सविता का सावित्री चन्द्र एव सविता नक्षत्राणि सावित्री स यत्र चन्द्रस्तन्नक्षत्राणि यत्र वा नक्षत्राणि स चन्द्रमास्ते द्वे योनिस्थदेकं मिथुनम् ॥ ७ ॥

कः सविता का सावित्री मन एव सविता वाक् सावित्री स यत्र मनस्तद्वाक् यत्र वा वाक् तन्मनस्ते द्वे योनिस्थदेकं मिथुनम् ॥ ८ ॥

कः सविता का सावित्री पुरुप एव सविता स्त्री सावित्री स यत्र पुरुषस्तत्स्त्री यत्र वा स्त्री स पुरुषस्ते द्वे योनिस्थदेकं मिथुनम् ॥ ९ ॥

तस्या एव प्रथमः पादो भूस्तसवितुर्वरेण्यमित्यग्निवै वरेण्यमापो वरेण्यं चन्द्रमा वरेण्यम् ।तस्या एव द्वितीयः पादो भर्गमयोऽपि भूप् भगों देवस्य धीमहि।तस्यैव तृतीयः पादः स्वर्धियो यो नः प्रचोदयादिति स्त्री चैव पुरुषश्च प्रजनयतो यो वा एतां सावित्रीमेव वेद स पुनर्मृत्युं जयति बलातिबलयोर्विराट् पुरुषः । गायत्री छन्दः । गायत्री देवता ।अकारोकारमकारा वीजाद्या: । क्षूधादिनिरसने

Page 3

विनियोगः । ऋकामित्यादिषडक्षरन्यान्यासः । ध्यानम् । अमृतकरतलाद्रौ सर्वसंजीवनाद्यावघरणसुदक्षौ वेदसारे मयूखे । प्रणवमयविकारौ भास्कराकारदेहौ सततमनूभवेऽं तौ बलातिबलान्तौ ॥

ॐ ह्रीं बल्ले महादेवि ह्रीं महाबले ऋीं चतुर्विधपुरुषार्थसिद्धिप्रदे तत्सवितुर्वरदात्मके ह्रीं बरेण्यं भगो देवस्य वरदात्मके अतिबले सर्वदयामूर्ते बल्ले सर्वक्षुद्भ्रमोपनाशिनि धीमहि धियो यो नो जाते प्रचुर्यः या प्रचोदयादात्मके प्रणवशिरस्कात्मके हूं फट् स्वाहा । एवं विद्वान् कृतकृत्यो भवति सावित्र्या एवं सलोकतां जयतीत्युपनिषत् ॥

ॐ आय्यायन्तु ममाक्ष्णानि वाक्प्राणनक्ष्कुः श्रोत्रमथो बल-मित्राणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं माहत् ब्रह्म निराकुयां मा मा ब्रह्म निराकरोदनिराकरणम्-स्वनिरीकरणं मेडस्तु । तदात्मनि निरते य उपनिषत्सु धर्मांस्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ तत्सत् ॥

इति सावित्र्युपनिषत्समाप्ता ॥