1. Shaariiraka Upanishad
Page 1
तत्वग्रामोपायसिद्धं परतत्वस्वरूपकम् । शरीरौपनिषदं श्रीरामब्रह्म मे गतिः ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेन स्व नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ अथातः पृथिव्यादिमहाभूतानां समवायं शरीरम् । यत्किञ्चनं सा पृथिवी यदद्रवं तदापो यदुष्णं ततेजो यत्संचरति सा वायुस्तस्मुपिरं तदाकाशम् श्रोत्रादीनि ज्ञानेंद्रियाणि । श्रोत्रमाकाशे वायोस्त्वग्गनी चक्षुरप्सु जिह्वा पृथिव्यां ब्राणमिति ।
एवमिंद्रियाणां यथाक्रमेण शब्दस्पर्शरूपरसगन्धैैरते विषयाः पृथिव्यादिमहाभूतेषु कर्मेणोत्पन्नाः । वाक्पाणिपादपायुपस्थैर्यैः कर्मेंद्रियैः । तेषां कर्म वचनादानगमनविसर्गानन्दैः । पृथिव्यादिमहाभूतेषु कर्मेणोत्पन्नाः । मनोबुद्धिरहङ्कारश्चित्तमत्यन्तं करणचतुष्टयम् । तेषां कर्म सङ्कल्पादिकल्पनाध्यवसायाभिमानावधारणास्वरूपैः । विषयाः । मनःस्थानं गलान्तं बुद्धत्वादनमहद्धारस्य हृदयं चित्तस्य नाभिरिति । अस्थिचर्मनाडीरोममांसासृङ्मेधि पृथिव्यंगाः । मूत्रश्लेष्मपरतयुक्रत्वेदा अवशाः । क्षुत्पिपासालसतमोहमेहमूत्रान्यग्ने । प्रचारणविलेखनस्थूलसूक्ष्मलक्षणनिमेषादि वायोः । कामक्रोधलोभमोहमहभयानकाद्राश्र्च । शब्दस्पर्शरूपरसगन्धाः पृथिवीगुणा । शब्दस्पर्शरूपरसाश्चापां गुणाः । शब्दस्पर्शरूपाण्यग्निगुणाः । शब्दस्पर्शौ वायुगुणी । शब्द एक आकाशस्य । सात्विकराटसतामसल्लक्षणानि त्रयो गुणाः ॥
1
अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहः । अक्रोधो गुरुशुश्रूषा शौचे सन्तोष आर्जवम् ॥ १॥
2
अमानित्वमदम्भित्वमास्तिकत्वमहिंरता । एते सर्वे गुणा ज्ञेयाः सात्विकस्य विशेषतः ॥ २॥
3
अहं करतृस्त्वं माकर्ता ममोद्यं भोगसाधनम् । एते गुणा राजसस्य प्रोच्यन्ते ब्रह्मवित्तमे ॥ ३॥
4
निद्रालस्यमोहाग्नी मेहुनं चौर्यमेव च । एते गुणास्तामसस्य प्रोच्यन्ते ब्रह्मवादिभिः ॥ ४॥
ऊर्ध्वे सात्विको मध्ये रजसोऽधस्तम इति । सत्यज्ञानं सात्विकम् । धर्मज्ञानं राजसम् । तमिराज्ञं तामसमिति । जाग्रत्स्वप्नसुषुप्तिरूपमिति चतुर्विधा अवस्था । ज्ञानेंद्रियकर्मेंद्रियान्तःकरणचतुष्टयं चतुर्देशकरणयुक्तं जाप्रत् । चित्तैककरणा सुपुप्तिः । केवलजीवयुक्तमेव तुरीयमिति ।
5
उन्मीलितनिमीलितमध्यस्थजीवपरमात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञ इति विज्ञाय बुद्धिकर्मेंद्रियप्राणप्रकाशकर्मणस् धिया । शरीरं सदसद्रूपं सक्ष्मं तद्विद्रमच्यते ॥ ५॥
6
मनो बुद्धिरहङ्कारः शान्तिलाङ्गिनजालानि भूः । एताः प्रकृतयस्त्वष्टौ विकाराः भेदाः षोडशपरे ॥ ६॥
7
श्रोत्रं त्वक्चक्षुषी जिह्वा प्राणं पञ्चमम् । पायूपस्थौ करौ पादौ वाक्चैव दशमी मता ॥ ७॥
8
शब्दः स्पर्शश् च रूपं च रसो गन्धस्थ च । त्रयोविंशतिरेतानि तत्स्थानि प्रकृतौ तु । चतुर्विंशतिरवर्यं प्रधानं पुरुषः परः ॥ ८॥
इत्युपनिषत् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ इति कृष्णायजुर्वेदीय शारीरकोपनिषत्समाप्ता ॥