1. Shandilya Upanishad
Page 1
शाण्डिल्योपनिषद्मोक्तयमाष्टाङ्गयोगिनः ।
यद्वोध्यान्ति कैवल्यं स रामो मे परा गति: ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिरव्ययेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्ताक्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
शाण्डिल्यो ह वा अथर्वाणं प्रपच्यात्मलाभोपायभूत-मष्टाङ्गयोगमनुब्रूहीति । स होवाचाथर्वा यमनियमासन-प्राणायामप्रत्याहारधारणाध्यानसमाधियोगष्टाङ्गानि ।
तत्र दश यमाः । तथा नियमाः । आसनान्यष्टौ । त्रयःप्राणायामाः ।
पञ्चप्रत्याहाराः । तथा धारणा । द्विप्रकारं ध्यानम् ।
समाधिस्त्वेकरूपः । तत्राहिंसासत्यास्तेयब्रह्मचर्यदयाजप-क्षमाधृतितमिताहारशौचानि चेति यमादश ।
तत्र हिंसा नाम मनोवाक्कायकर्मभिः सर्वभूतेषु सर्वदा क्लेशजननम् ।
सत्यं नाम मनोवाक्कायकर्मभिरभूतहितयथार्थाभिभाषणम् ।
अस्तेयं नाम मनोवाक्कायकर्मभिः परद्रव्येषु निःस्पृहा ।
ब्रह्मचर्य नाम सर्वावस्थासु मनोवाक्कायकर्मभिः सर्वत्र मैथुनत्यागः ।
दया नाम सर्वभूतेषु सर्वानुग्रहः । आर्जवं नाम मनोवाक्कायकर्मणां विहिताविहितेषु जनेषु प्रवृत्तौ निवृत्तौ वा एकरूपत्वम् ।
क्षमा नाम प्रियाप्रियेषु सर्वेषु ताडनपूजनेषु सहनम् ।
धृतिःनिरामार्थहानौ चतुर्थांशावशेषकसुस्निग्धमधुराहारः । शौचं नाम द्विविधं बाह्यमान्तरं चेति ।
तत्र मूज्जलाभ्या बाह्यम् । मनःशुद्धिद्विरान्तरम् ।
तदध्यात्मविद्यया लभ्यम् ॥१॥
तपःसन्तोषास्तिक्यदानेश्रपपूजनसिद्धान्तश्रवणंहीमतिपो
व्रतानि दश नियमाः । तत्र तपो नाम विधियुक्तकृच्छ्रचान्द्रायणादिभिः
शरीरशोषणम् । सन्तोषो नाम यदृच्छालाभसन्तुष्टिः ।
आस्तिक्यं नाम वेदोक्तधर्मांशेषु विश्वासः । दानं नाम
न्यायार्जितस्य धनधान्यादिः श्रद्धयाहिंतभ्यः प्रदानम् ।
ईश्वरपूजनं नाम प्रसन्नस्वभावेन यथाशक्ति विष्णुरुद्रादि
पूजनम् । सिद्धान्तश्रवणं नाम वेदान्तार्थविचारः ।
Page 2
१
स्वस्तिकगोमुखपचवोरसंभद्रमुक्तमयूरासनान्यष्टौ । स्वस्तिकं नाम- जानुर्वोर्ते सम्यक्कृत्वा पादतले उभे । ऋजुकाय: समासीन: स्वस्तिकं तत्प्रचक्षते ॥
२
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखं यथा ॥
३
ऊर्वोरुपरि शाण्डिल्य कृत्वा पादतले उभे । पद्मासनं भवेदेतत्सर्वेषामपि पूजिततम् ॥
४
एकं पादैकस्मिन्न्यस्योरुणी संस्थिता: । इतरस्मिन्स्थिता चोरुं वीरासनमुदीरितम् ॥
५
दक्षिणं सव्यगुल्फेन दक्षिणेन तथेतरम् । हस्तौ च जानु: संस्थाप्य स्वाङ्गुलीश्व प्रसार्य च ॥
६
वक्तवक्त्रौ निरीक्षेत नासाग्रं सुसमाहित: । सिंहासनं भवेदेतत्प्रुञ्जतं योगिभि: सदा ॥
७
योनौ वामेन संपीड्य मेढ्रादूर्ध्वं दक्षिणम् । भूमध्ये च मनोलक्ष्यं सिध्दासनमिदं भवेत् ॥
५
गुल्फौ तु वृषणस्याध: सीवन्या: पार्श्वयो: क्षिपेत् । पादपार्श्वे तु पाणिभ्यां दृढं बध्वा सुनिश्चलम् ॥ भद्रासनं भवेदेतत्सर्वेषामधिविशापहम् ॥
९
संपीड्य सीविनों सूक्ष्मां गुल्फकेनैव तु सव्यतः । सव्यं दक्षिणगुल्फेन मुक्तासनमुदीरितम् ॥
१०
अवष्टभ्य धरां सम्यक्तलाभ्यां तु करद्वयो: । हस्तयो: कूर्परौ चापि स्थापयेत्प्रभिपार्श्वयो: ॥
११
समुन्नतशिर:पादो दण्डवद्रोम्नि संस्थित: । मयूरासनमेतत्तु सर्वपापप्रणाशनम् ॥
शरीरान्तर्गताः सर्वे रोगा विनश्यन्ति । विषाणि जीर्यन्ते । येन केनासनेन सुषुभारणां भवत्यशक्तस्तत्समाचरेत् । येनासनं विजितं जगत् तेन विजितं भवति । यमनियमाभ्यां संयुक्त: पुरुष: प्राणायामं चरेत् ॥
Page 3
३
तेन नाड्यः शुद्धा भवन्ति ॥ ३॥ अथ हैनमथर्वाणं शान्डिल्यः पप्रच्छ केनोपायेन नाड्यः शुद्धाः स्युः। नाड्यः कतिसंख्याकाः। तासामुत्त्पत्तिः कीदृशी। तासु कति वयोवस्थितान्ति। तेषां कानि स्थानानि। तत्कर्माणि कानि। देहे यानि यानि विजात्यानि तत्सवं मे बृंहीति। स होवाच अथर्वाण अथेदं शरीरं षण्णवत्यकुलात्मकं भवति। शरीरात्प्राणो द्वादशाड्कुलाधिको भवाति। शरीरस्थं प्राणमगिनना सह योगाभ्यासेन संं न्यूने वा यः करोति स योगिपुङ्गवो भवति। देहमध्ये शिखिस्थानं त्रिकोनं तप्तजाम्बूनदप्रभं मनुष्याणाम्। चतुष्पदां चतुरङ्गम्। विहङ्गानां वृत्ताकारम्। तन्मध्ये शुभा तन्वी पाकी शिखा तिष्ठति। गुदाद्दादशाङ्गुलोर्ध्वं मे द्वादशाङ्गुलादधो देहमध्यं मनुष्याणां भवति। चतुष्पदां हनुमध्यम्। विहङ्गानां तुण्डमध्यम्। देहमध्यं नवाङ्कुलं चतुर्द्दलमुत्सेधायतमण्डलाकृति। तन्मध्ये नाभिः। तत् द्वादशारयुक्तं चक्रं। तच्चक्रमध्ये पुण्यपापप्रचोदितो जीवो भ्रमाति। तन्तुपञ्जरमध्येस्थलूतिका यथा भ्रमति तथा चासौ तत्र प्राणैः सरति। देहेऽस्मिञ्जीवः नाभिस्थयङ्गेधऊर्ध्वं कुण्डलिनीस्थानम्। अष्टप्रकृतिरूपाष्टाधा कुण्डलीकृता कुण्डलिनी शक्तिभवति। यथावद्वायुसंचारं जलान्तर्द्धीनि परितः स्कन्धः पार्श्वेऽपि निरुद्ध्येनं मुखेनैव समावेश्य ब्रह्मरन्ध्रं योगकाले चापानेनागिनना व स्पुटति। हृदयाकाशे महोज्ज्वला ज्ञानरूपा भवति। मध्यस्थकुण्डलीनीमाश्रित्य मुख्या नाड्यः स्रुतुन्दंश भवन्ति। तत् सुषुम्ना विश्वधारिणी मोक्षमार्गेति चाचक्षते। गुदस्य पृष्ठभागे वीणादण्डाश्रिता मूर्धपर्यन्तं ब्रह्मरन्ध्रे विजेया व्यक्तता सूक्ष्मा वैष्णवी भवति। सुषुम्नया सव्यभागे इडा तिष्ठति। दक्षिणभागे पिङ्गला इडांयां चन्द्रश्वरति। पिङ्गलायां रविः। तमोरूपश्चन्द्रः। रजोरूपो रविः। विषभागो रविः। अमृतभागश्चन्द्रमा। तावेव सर्वकालं धत्ते। सुषुम्ना कालभोक्री भवति। सुषुम्ना पृष्ठपाश्र्वयोः सरस्वतीकुहू भवतः। यशस्विनीकुहूमध्ये वारुणी प्रतिष्ठिता
Page 4
भवति । पूषासरस्वतीमध्ये पर्यस्विनी भवति । गान्धारी-सरस्वतीमध्ये यशस्विनी भवति । कनकमध्ये ऽलम्बुसा भवति । सुषुम्नापूर्वंभागे मेद्रान्त कुहूंभवति । कुण्डलिन्या अधश्रोणि वारुणी सर्वगामिनी भवति । यशस्विनी सौम्या च पादाङुष्ठान्तमिष्यते । पिङ्गला चोर्ध्वंगा याम्यनासान्तं भवति । पिङ्गलाया: पृष्ठतो याम्यनेत्रान्तं पूषा भवति । याम्यकर्णान्तं यशस्विनी भवति । जिह्वाया ऊर्ध्वान्तं सरस्वती भवति । आसव्यर्णान्तमूर्ध्वंगा शङ्खिनी भवति । इडापृष्ठभाग-त्सव्यनेत्रान्तगा गान्धारी भवति । पायुमूलादधोर्ध्वंगालम्बुसा भवति । एतासु चतुर्दशसु नाडीष्वन्या नाड: संभवन्ति । तास्वन्यास्वास्वन्या भवन्तीति विज्ञेया: ॥
यथाश्वत्थादिपत्रं शिराभिव्याप्तमेवं शरीरं नाडीभिव्याप्तं । प्राणापानसमानोदानव्यानानां नागकूर्मकृकरदेवदत्तधनञ्जया एते दश वायव: सर्वासु नाडीषु चरन्ति । आस्यनासिकाकण्ठनाभि-पादाङुष्ठद्वयकुण्डल्यधस्त्रोर्ध्वभागेषु प्राण: संचारति । श्रोत्राक्षिकटिगुल्फप्राणगलसिङ्गादेशेषु व्यान: संचारति । गुदमेद्रोरुजानून्दरवृषणकटिजङ्घानभिगुदाग्नेयगारेषु पान: संचारति । सर्वसन्धिषु उदान: । पादहस्तयोरपि सर्वगात्रेषु सर्वव्यापी समान: । भुक्तात्त्ररसाविकं गात्रेग्निना सह व्यप्यनिद्रस्पतितसहषु नाडींमागेषु चरणसमनावयर्गिन्ना सह साध्वोपाक्कलेवरं व्याप्तोति । नागादिवायव: पञ्चवर्गस्थ्यादिसंभवा: । तुन्दस्थं जलमयं च रसादिषु समीरितं तुन्दमध्यगतं प्रागस्तानी पृथक् कुर्वन्ति ।
अग्नेरुपरि जलं स्थाप्य जलोपर्यनाडीनी संस्थाप्य स्वयमपानं सप्राप्य तेनैव सह मारुत: प्रयत्नित देहमध्यगतं ज्वलनं । वायुना पालितो वहिरपानेन शनैरदेहमध्ये ज्वलति । ज्वलनो ज्वालाभि: प्राणेन कोष्ठमध्येगतं जलमत्युष्णमकरोत्तु । जलोपरि संप्लुतव्यजनसंयुक्तमतनं वहिसंयुक्तवारिणा पक्वमकरोत्तु । तेन स्वेदमूत्रजलरक्तवह्निरूपरिसपुरिषादिकं प्राण: पृथक् कुर्व्यात् । समानवायुना सह सर्वासुं नाडीषु रसं व्याप्यञ्च्वासरूपेण देहे वायुंररति । नवभिर्योंरमरद्रेश: शरीरेस्य वायव: कुर्वन्ति विमूत्रादिविसर्जनं । निःश्वासोच्छ्वासकासस्र्व हानोपादानचेष्टादि व्यानकर्म । देहस्योत्रनाडिकमुदानकर्म । शरीरपोषणादिकं समानकर्म । उद्रारादि नागकर्म । निमीलनादि कूर्मकर्म । क्षुत्करणं कुकरकर्म । तन्त्रा देवदत्तकर्म । श्लेष्मादि धनञ्जयकर्म ॥
४
एवं नाडीस्थानं वायुस्थानं तत्कर्म च सम्यग्ज्ञात्वा नाडीसंशोधनं कुर्यात् । यमनियमयुक्त: पुरुष: सर्वसङ्घविवर्जित: कृतविय्य: सत्यधर्मरतो जितक्रोधो गुरु शुश्रूषानिरत: पितृमातृविधेय:
Page 5
५
स्वाश्रमोक्तसदाचारविद्याच्छिक्षितः फलमूलोदकान्वितं तपोवनं प्राप्य रम्यदेशे ब्रह्मघोषसमन्विते स्वधर्मंनिरतब्रह्मवित्समावृते फलमूलपुष्पवारिभिः सुसंपुर्णे देवायतने नदीतीरे ग्रामे नगरे वापि सुप्रोभनमटं नात्युच्चननीचायतनल्पद्वारं गोमयादिलिप्तं सर्वरक्षासमन्वितं कृत्वा तत्र वेदान्तश्रवणं कुर्वन्योगं समारभेत् । आदौ विनायकं संपूज्य स्वेष्टदेवतां नत्वा पूर्वोक्तासनं स्थित्वा प्राणायुस उद्घुसो वापि मृद्वासनेषु जितासनगतो विद्धान्समग्रीवशिरोनासाग्रदृष्टिमध्ये शशभृद्विवं पश्यन्नेत्राभ्याममृतं पिबेत् । द्वादशमात्रया इडया वायुंापूरोन्दरे स्थितिं ज्वालावलीयतं रेफबिन्दुयुक्तमग्निमण्डलयूतं ध्यायेद्नेचोयेत्पिङ्कलया । पुनः पिङ्कलयापूर्य कुंभित्वा रेचयेदिडया । त्रिचतुःपञ्चतुःसप्तत्रिचातुर्यासपर्यन्तं त्रिसन्ध्यं तदनन्तरालेषु व षड्द्दुत्व आचरेत्त्रयीडशुद्धिमभर्वति । ततः शरीरे लघुदीप्तितवह्निवृद्धनादाभिव्यक्तिकृतर्भवति ॥ ५ ॥ प्राणापानसमायोगः प्राणायामो भवति । रेचकपूरककुम्भकभेदन स त्रिविधः । ते वर्णात्मकाः । तस्मात्प्रणव एव प्राणायामः पद्मासनस्थः पुमान्नासाग्रे शशभृद्विम्बज्योत्नाजालवितानिताकारमूर्ति रक्ताॅक्षी हंसवाहिनी दण्डहस्ता बाला गायत्री भवति । उकारमूर्तिः श्वेताक्षी ताक्ष्यंवहिनी युक्ते चक्रहस्ता सावित्री भवति । मकारमूर्ति: कृष्णाक्षी विभवावहिनी वृद्धा त्रिशूलधारिणी सरस्वती भवति । आकारादित्रियाणां सर्वकारणमेकाक्षरं परंज्योतिः प्रणवं भवतीति ध्यायेत् । इडया वामद्वादशुमापूर्य षोडशमात्राभिरकारं चिन्तयनूूूूूूूूूूूरितं वायुं चतुःषष्टिमात्राभि कुंभयित्वाकारं ध्यानपूरितं पिङ्कलया द्वादशमात्रया मकारमूर्ति-ध्याननैवं क्रमेण पुनः पुनः कुर्व्यात् ॥ ६ ॥ अधासनदृढो योगी वशी मिताहिता्शनः सुषुम्नानाडीस्थमलशोथार्थं योगी बद्धपदासनो वायुं चन्द्रेणापूर्य यथाशक्ति कुंभयित्वा पूरयण रेचयित्वा पुनः सूर्येणापूर्य कुंभयित्वा चन्द्रेण विरेच्य यया त्यजेतया संपूूूूूूर्य धारयेत् । तदते श्लोका भवन्ति ।
Page 6
१
प्राणं प्रागिडया पिबेत्रियामितं भूयोडनन्या रेचयेत्पीतवा पिडुलया समीरणमथो बद्ध्वा त्यजेद्धामया । सूर्यांचन्द्रंससोरननेन विधिनाडभ्यां सदा तन्वता शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः ॥ १॥
२
प्रातर्मध्यान्दिने सायंर्मधयात्रे तु कुम्भकान् । शनैर्शीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ २॥
३
कनीयरसि भवेत्स्वेदः कम्पो भवति मध्यमे । उत्तिष्ठत्युत्तमे प्राणरोधे पचासनं महत् ॥ ३॥
४
जलेन श्रमजातेन गात्रमर्दनमाचरेत । हृढता लघुता चापि तस्य गात्रस्य जायते ॥ ४॥
५
अभ्यासकाले प्रथमं शस्तं क्षीराज्य भोजनम् । ततोऽभ्यासे स्थिरीभूते न तावन्नियमग्रहः ॥ ५॥
६
यथा सिंहो गजो व्याघ्रो भवेद्रश्यः: शनैः शनैः । तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ ६॥
७
युक्तं युक्तं त्यजेद्वायुः युक्तं युक्तं च पूरयेत । युक्तं युक्तं च बध्नीयादेव सिद्धिमवाप्नुयात् ॥ ७॥
८
यथेष्टधारणाद्वायोरनलस्य प्रदीपनम् । नाडाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ ८॥
९
विधिवत्प्राणसंयामैर्मैन्रादीचके विशोधिते । शुषुम्नावदनं भित्त्वा सुखाद्दिशति मारुतः ॥ ९॥
१०
मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते । यो मनःसुस्स्थिरो भावः सैवावस्था मनोन्मनी ॥ १०॥
११
पूरकान्ते तु कर्तव्यो बन्धो जालन्थराभिधः । कुम्भकान्ते रेचकादौ कर्तव्यस्त्रिदियाणकः ॥ ११॥
१२
अधस्तात्कुञ्चनेमाशु कण्ठसङ्कोचने कृते । मध्ये पक्षिताननेन स्यात्प्राणो ब्रह्मनाडिगः ॥ १२॥
१३
अपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयन । योगी जराविनिर्मुक्तः षोडशो वयसा भवेत् ॥१३॥
सुखासनस्थो दक्षणाड्या बहिःस्थं पवनं समाकृष्याकेशमानख्वं कुम्भयित्वा सव्यनाड्या रेचयेत् । तेन कपालशोधनं वातनाडीगत सर्वरोगसर्वविनाशनं भवति । हृदयादिकण्ठपर्यन्तं तस्स्वनं नासाभ्यां शनैः पवनमाकृष्य यथाशक्ति कुम्भयित्वा इडया विरेच्य गच्छांसिस्थनकुय्यांत । तेन श्लेष्महरं जठराग्निवर्धनं भवति । वक्त्रेण सीत्कारपूर्वकं वायूं गृहीत्वा यथाशक्ति कुम्भयित्वा
Page 7
१४
नासाभ्यां रेचयेत् । तेन क्षुत्रणालस्यनिद्रा न जायते । जिह्वया वायूं गृहीत्वा यथाशक्ति कुंभयित्वा नासाभ्यां रेचयेत् । तेन गुल्मप्लिहिज्वरपित्तकफादीनि नश्यन्ति ॥ अथ कुंभकः । स द्विविधः: सहितः केवलश्चेति । रेचकपूरकयुक्तः सहितः तद्द्विविधः केवळ । केवलसिद्धिपर्यन्तं सहितमभ्यसेत् । केवलकुंभके सिद्धः त्रिपु लोकेषु न तस्य दुर्लभं भवति । केवलकुंभकात्कुङ्डलिनी बोधो जायते । ततः कृष्णवपुः प्रसन्नवदनो निर्मललोचनोऽभिव्यक्तनादो निर्मुक्तरोगजालोजितबिन्दुः पड्वग्निनभेवति । अन्तर्लक्ष्यं बहिरुदृष्टिनिमेषोन्मेषवर्जिता । एषा सा वैष्णवी मुद्रा सर्वतनेषु गोपिता ॥१४॥
१५
अन्तर्लक्ष्यविलीनचित्तपवनो योगी सदा वर्तते दृश्या निष्पलतारकरा बहिरदृक् पश्यन्नपश्यन्नपि । मुद्रेयं खेचरी भवति सा लक्ष्यैकताना शिवा शून्याशून्यविवर्जितं स्फुरति सा तत्स्वं पदं वैष्णवी ॥१५॥
१६
अर्धोन्मीलितलोचनः स्थिरमना नासाग्रदृश्टिक्षण-षट्चन्द्रांशावपि लीनतामुपनयत्रिषुबन्धभावोत्तरम् । ज्योतीरूपमशेषवाड्म्यपिहितं देदीच्यमानं परं तत्त्वं तत्परमस्ति वस्तुस्वरूपं शान्डिल्य विद्धीह तत् ॥१६॥
१७
तारं ज्योतिषि संयोज्य किं्चिदुद्र्ध्वमयन्त्र्वोः । पूर्वाभ्यासस्य मार्गोऽयमुन्मनीकारकः क्षणात् ॥१७॥
१८
तस्मात्खेचरीमुद्रामभ्यसेत् । तत् उन्मनी भवति । ततो योगनिद्रा भवति । लभ्योगनिद्रस्य योगिनः कालो नास्ति शक्तिमध्ये मनः कृत्वा शक्तिं मानसभ्यगाम् ।
१९
मनसा मन आलोक्य शान्डिल्य त्वं सुखी भव ॥१५॥ खमध्यो कुुरु चात्मनामात्ममध्ये च खं कुुरु । सर्वं च खमयं कृत्वा न किं्चिदपि चिन्तय ॥१९॥
२०
बाह्यचिन्ता न कर्तव्या तथैवान्तरचिन्तिका । सर्वचिन्तां परित्यज्य चिन्मात्रपरमो भव ॥२०॥
२१
कपूरमनले यद्वत्सैन्थवं सलिले यथा । तथा च लीयमानं च मनस्तत्वे विलीयते ॥२१॥
२२
ज्ञयं सर्वप्रतीतं च तज्ज्ञानं मन उच्यते । ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः ॥२२॥
२३
ज्ञेयवस्तुपरित्यागाद्विलयं याति मानस । मानसे विलयं याते केवल्यमवशिष्यते ॥२३॥
द्वौ कमौ चित्तनाशस्य योगो ज्ञानं मुनीश्वर ।
Page 8
24
योगस्तदूद्रोधो हि ज्ञानं सम्यगवेक्षणम् । तस्मिन्निरोधिते नूनमुपशान्तं मनो भवेत् ।
25
मनःस्पन्दोपशान्त्यां संसारः प्रविलीयते । सूर्यालोकपरिस्पन्दशान्तौ व्यवहृतिर्यथा ।
26
शास्त्रसज्जनसंपर्कैराग्याभ्यासयोगतः ।
27
अनास्थायां कृतास्थायां पूर्वं संसारवृत्तिषु । यथाभिवाञ्छितधयानाच्चरमेकतयोहितात् ॥
28
एकतद्वृढाभ्यासात्प्राणस्पन्दो निरुध्यते । पूरकाद्यनिलायामादृढाभ्यासदृढेदजात् ॥
29
एकान्तध्यानयोगाच्च मनःस्पन्दो निरुध्यते । ओंकारोच्चारणप्रान्तग्रृब्धत्यानुभावनात् । सुपुप्ते संवित् जाते प्राणस्पन्दो निरुध्यते ॥
30
तालुमूलगतां यत्नाज्जिह्वाक्षम्य घण्टिकाकम् । ऊर्ध्वंरन्थ्रं गते प्राणे प्राणस्पन्दो निरुध्यते ॥
31
प्राणे गलितसंवित्तौ तालुर्ध्वं द्वादशान्तगे । अभ्यासादूर्ध्वरन्थ्रेण प्राणस्पन्दो निरुध्यते ॥
32
द्वादशान्तुलपर्यन्ते नासाग्रे विमलेsम्बरे । संवित्प्रशाम्यन्त्यां प्राणस्पन्दो निरुध्यते ॥
33
भूमध्ये तारकालोकशान्तावन्तमुपागते । चेतनेकतने बन्धे प्राणस्पन्दो निरुध्यते ॥
34
ओमित्येव यदूदूतं ज्ञानं ज्ञेयात्मकं शिवम् । असंप्रष्टविकल्पांश्च प्राणस्पन्दो निरुध्यते ॥
35
चिरकालं हृदेकान्तव्योमसवेदनान्मुने । अवासनमनोध्यानात्प्राणस्पन्दो निरुध्यते ॥
36
एभिः क्रमैस्थान्यैव नानासंकल्पकल्पितैः । नानादेशिकवक्वत्रे प्राणस्पन्दो निरुध्यते ॥
37
आकुज्चनेन कुण्डलिन्या कवाटमुदघाट्य मोक्षद्वारं विभेदयेत् । येन मार्गेण गन्तव्यं तद्द्वारं मुखेनाच्छाद्य प्रसुप्ता कुण्डलिनी कुडिलाकारैः सर्पवद्वेष्टिता भवति । सा शक्तिर्येन चालिता स्यात्तु मुक्तो भवति । सा कुण्डलिनी कण्ठोर्ध्वभागे सुप्ता चेद्योगिनां मुक्तये भवति । बन्धनायाधो मूढानां । इडादिमार्गद्वयं विहाय सुषुम्नामार्गेणागच्छेतद्वृषोः परमं पदम् ।
37
मरुदभ्यसनं सर्वं मनोयुक्तं समभ्यसेत् । इतरत्र न कर्तव्या मनोवृत्तिमनीषिणा ॥
37
दिवा न पूजयेद्दृष्यं रात्रौ नैव प्रपूजयेत् ।
Page 9
38
सततं पूजयेद्दृष्णिं दिवारात्रं न पूजयेत् ॥ ३८ ॥
39
सुषिरो ज्ञानजनकः पञ्चप्राणःसमन्वितः । तिष्ठते खेचरी मुद्रा तस्यम्नस्थाने न संशयः ॥ ३९॥
40
सव्यदक्षिणनाडीस्थो मध्ये चरति मारुतः । तिष्ठतः खेचरी मुद्रा तस्यम्नस्थाने न संशयः ॥ ४०॥
41
इडापिङ्लयोर्मध्ये शून्यं चैवानिलं प्रसृत् । तिष्ठन्ती खेचरी मुद्रा तच सत्यं प्रतितिष्ठितम् ॥ ४१॥
42
सोमसूर्यद्वयोर्मध्ये निरालम्बतले पुनः । संस्थिता व्योमचक्रे सा मुद्रा नाम्ना च खेचरी ॥ ४२॥
43
छेदनाचालनदहे: फलां परां जिह्वां कृत्वा दृष्टिं भ्रूमध्ये स्थाप्य कपालकुहरेऽत्र जिह्वा विपरीतगा यदा भवति तदा खेचरी मुद्रा जायते । जिह्वा चित्तं च से चरति तेनोर्ध्वजिह्वा: पुमान्मुद्रो भवति । वामपादमूलेन योनिं संपीड्य दक्षिणपादे प्रसार्य तं कराभ्यां धृत्वा नासाभ्यां वायुमापूर्य कण्ठवन्धं समारोप्योर्ध्वतो वायूं धारयेत् । तेन सर्वक्लेशह्रानि: । ततः पीयूषमिव विषं जीर्यते । क्षयगुल्ममुदावर्तजीर्णत्वगादिदोषा नश्यन्ति । एष प्राणजयोपाय: सर्वमृत्युप्रशातकः । वामपादपार्श्वे योनिस्थाने नियोज्य दक्षिणचरणं वामोपरि संस्थाप्य वायुमापूर्य हृदये चुभुकं निधाय योनिमाकुंच्य मनोमध्ये यथाशक्ति धारयित्वा स्वात्मानं भावयेत् । तेनापरोक्षसिद्धि: । बाह्यात्मनां समाकृष्य पूरयित्वोदरे स्थितम् । नाभिमध्ये च नासाग्रे पादाङुष्ठे च यत्नत: ॥ ४३॥
44
धारयेनमनसा प्राणं संस्थाकालेषु वा सदा । सर्वरोगविनिर्मुक्तो भवेद्योगी गतक्लम: ॥ ४४ ॥
45
नासाग्रे वायुविजयं भवति । नाभिमध्ये सर्वरोगविनाश: । पादाङुष्ठदारणाच्छरीरलघुता भवति । रसनाद्वायुमाकृष्य य: पिबेत्सतततं नर: । श्रमदाहौ तु न स्यातां नश्यन्ति व्याधयस्थथा ॥ ४५ ॥
46
सन्ध्ययोर्ब्रह्माण: काले वायुमाकृष्य य: पिबेत् । त्रिमासात्तस्य कल्याणी जायते वाक् सरस्वती ॥ ४६ ॥
47
एवं षण्मासाभ्यासात्सर्वरोगनिवृत्ति: । जिह्वया वायुमानीय जिह्वामूले निरोधयेत् । य: पिबेदमृतं विद्धान्सकलं भद्रमश्नुते ॥ ४७ ॥
48
आत्मन्यात्मानमिडया धारयित्वा भुवोऽन्तरे । विभेद्य त्रिदशाहारं व्याधिस्थोऽपि विमुच्यते ॥ ४८ ॥
Page 10
49
नाडीभ्यां वायुमारोप्य नाभौ तुन्दस्य पार्श्वयोः । घटिकैकां वहेद्यस्तु व्याधिभिः स विमुच्यते ॥ ४९॥
50
मासमेकं त्रिसन्ध्यं तु जिह्वयारोप्य मारुतम् । विभेद्य त्रिदशाहारं धारयेतुन्दमध्येमे ॥ ५०॥
51
ज्वरा: सर्वेऽपि नश्यन्ति विषाणि विविधानि च । मुहूर्तमपि यो नित्यं नासाग्रे मनसा सह ॥ ५१॥
सर्वं तरति पाप्मानं तस्य जन्म शतार्जितम् । तारसंयमात्सकलव विषयज्ञानं भवति ।
नासाग्रे चित्तसंयमादिन्द्रलोकज्ञानम् । तदभ्रस्थितसंयमादग्निलोकज्ञानम् ।
चक्षुषि चित्तसंयमात्स्वर्लोकज्ञानम् । श्रोत्रे चित्तस्य संयमाद्मलोकज्ञानम् ।
तत्पार्श्वे संयमात्रिकृतिलोकज्ञानम् । पृष्ठभागे संयमाद्रुणलोकज्ञानम् ।
वामकर्णे संयमाद्रयुलोकज्ञानम् । कण्ठे संयमात्सोमलोकज्ञानम् ।
वामचक्षुषि संयमाच्छिवलोकज्ञानम् । मूर्धि संयमाद्ब्रह्मलोकज्ञानम् ।
पादादौभागे संयमादतललोकज्ञानम् । पादे संयमाद्वितललोकज्ञानम् ।
पादसन्धौ संयमान्नितललोकज्ञानम् । जङ्घे संयमात्सुतललोकज्ञानम् ।
जानौ संयमान्महातललोकज्ञानम् । ऊरौ चित्तसंयमाद्रसातललोकज्ञानम् ।
कटौ चित्तसंयमात्तलातललोकज्ञानम् । नाभौ चित्तसंयमाद्वलोकज्ञानम् ।
कुक्षौ संयमाद्दवलोकज्ञानम् । हृदि चित्तस्य संयमात्स्वर्लोकज्ञानम् ।
हृदयोर्ध्वभागे चित्तसंयमान्महर्लोकज्ञानम् । कण्ठे चित्तसंयमाज्जनोलोकज्ञानम् ।
भूमध्ये चित्तसंयमात्पोलोकज्ञानम् । मूर्धि चित्तसंयमात्सत्यलोकज्ञानम् ।
धर्माधर्मसंयमादतीतानागतज्ञानम् । तत्कुजन्तुध्वनौ चित्तसंयमात्सर्वजन्तुरुतज्ञानम् ।
संचितकर्मणि चित्तसंयमात्पूर्वजातिज्ञानम् । परचित्ते चित्तसंयमात्परचित्तज्ञानम् ।
Page 11
७
कायरोपे चित्तसंयमादन्यादृश्यरूपम् । बले चित्तसंयमाद्दनुमदादिवलम् । सूर्ये चित्तसंयमाद्दवनज्ञानम् । चन्द्रे चित्तसंयमात्ताराव्यूहज्ञानम् । भ्रुवे तज्ज्ञानदर्शनम् । स्वार्थसंयमात्पुरुषज्ञानम् । नाभिचक्रे कायव्यूहज्ञानम् । कण्ठकूपे क्षुत्पिपासा निवृत्तिः । कूर्मनाड्यां स्थैर्यम् । ततो सिद्धदर्शनम् । कायाकाशसंयमादाकाशगमनम् । तत्तत्स्थाने संयमात्तत्तत्सिद्धयो भवन्ति ॥ ७ ॥ अथ प्रत्याहारः । स पञ्चविधः । विषयेषु विचरतामिन्द्रियाणां बलादाहरणं प्रत्याहारः । यत्स्पयति तत्सर्वंभामेति प्रत्याहारः । नित्यविहितकर्मफलत्यागः प्रत्याहारः । सर्वविषयपराङ्मुखत्वं प्रत्याहारः । अष्टादशसु मर्मस्थानेपु चेष्टाद्वारणं प्रत्याहारः । पादाङ्गुष्ठगुल्फजङ्घाजानुरूपायुमेढ्रनाभिहृदयकण्ठकूपतलुनासाक्षिभ्रूमध्यललाटमूर्धि स्थानानि । तेषु क्रमादारोहावरोहक्रमेण प्रत्याहरेत ॥ ५ ॥
९
अथ धारणा । सा त्रिविधा । आत्मनि मनोधारणं देहाकाशे बाझ्याकाशधारणं पृथिव्यप्तेजोवाय्वाकाशेषु पञ्चमूर्तिधारणं चेति ॥ ९ ॥
१०
अथ ध्यानम् । तदिदंविधं सगुणं निर्गुणं चेति । सगुणं मूर्तिध्यानम् । निर्गुणं मात्रयाधात्म्यम् ॥ १० ॥
११
अथ समाधि: । जीवात्मपरमात्मैक्यावस्थात्रिपुटीरहिता परमानन्दस्वरूपा शुद्धचैतन्यात्मिका भवति ॥ ११ ॥ इति प्रथमोऽध्यायः ॥ ११ ॥
अथ ह शाण्डिल्यो ह वै ब्रह्मार्षिष्वततुरुश्च वेदेशु ब्रह्मविद्यामलभमानः किं नामेत्यथवांश्च भगवान्तमुपसन्नः प्रपच्छादीहि भगवन् ब्रह्मविद्यां येन श्रेयोऽवाप्यामिति । स होवाचार्थवा शाण्डिल्य सत्यं विज्ञानमनन्तं ब्रह्म यस्मिन्निदं च प्रोतं च । यस्मिन्निदं सं च विचैति सर्वं यस्मिन्न्विजाते सर्वमिदं विजातं भवति । तदपानिपादमचक्षुःश्रोत्रमजिह्वमशरीरमग्राह्यामनिदेश्यम् । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । यत्केवलं ज्ञानगम्यम् । प्रज्ञा च यस्मात्प्रसुता पुराणी । यदेकमद्वितीयम् । आकाशवत्सर्वगतं सूक्ष्मं निरञ्जनं निष्क्रियं सन्मात्रं चिदानन्दैकरसं शिवं
Page 12
प्रशान्तममृतं तत्परं च ब्रह्म । तत्वमसि । तज्जानेन हि विजानीीहि य एको देव आत्मशक्तिप्रधानः: सर्वज्ञ: सर्वेश्वर: सर्वभूतान्तरात्मा सर्वभूताधिवास: सर्वभूतनिगूढो भूतयोनिर्योगीगम्य: । यस्य विश्वं सुजति विश्वं विभर्ति विश्वं भूत्वा स आत्मा । आत्मनि तं तं लोकं विजानीीहि । मा शोचोरातमविज्ञानी शोक्ष्यन्तं गमिष्यति । इति द्वितीयोऽध्याय: ॥२॥
अथैनं शाण्डिल्योऽथर्वाणं पप्रच्छ्छ यदेकमक्षरं निष्क्रयं शिवं सन्मात्रं परब्रह्म । तस्मात्कथमिदं विश्वं जायते कर्थं स्थीयते कथमस्मिँल्लीयते । तन्नो संशयं छेतुमहंसि । स होवाचाथर्वा: सत्यं शाण्डिल्य परब्रह्म निष्क्रियमक्षरमिति । अथाप्यस्मारूपस्य ब्रह्मणस्त्विष्णि रूपाणि भवन्ति सकलं निष्कलं सकलनिष्कलं चेति । यत्सत्यं विज्ञानमानन्दं निष्क्रयं निरञ्जनं सर्वगतं सुषुप्र्षं सर्वतोमुखमनिद्रयममृतमस्ति तदिदं निष्कलं रूपम् । अथास्य या सहजास्त्रविद्या मूलप्रकृतिमार्या लोहितशुक्लकृष्णा । तया सहायवान् देव: कृष्णपिङ्गलो ममेश्वर इंष्टे । तदिदमस्य सकलनिष्कलं रूपम् ॥ अथैष ज्ञानमयेन तपसा चीयमानोऽकामयेत बहु स्यां प्रजायेयेत । अथैतस्मात्प्रथमनाात्सत्यकाामात्त्रीणयक्षराणियजायन्ते । तिस्रो व्याहृतयस्त्रिपदा गायत्री त्रयो वेदास्त्रयो देवास्त्रयो वणाँस्त्रयोऽग्नयस्त्रिभि-
यान्ते । योऽसौ देवो भगवान्सर्वेश्वर्यसंपन्न: सर्वव्यापी सर्वभूतानां हृदये संनिविष्टो मायावी मायया क्रीडति स ब्रह्मा स विष्णु: स रुद्र: स इन्द्र: स सर्वे देवा: सर्वाणि भूतानि स एव पञ्चात्मस एव पश्वात्म्स एवोत्तरत: स एव दक्षिणत: स एवाधस्तात्स एवोपरिष्टात्स एव सर्वम् । अथास्य देवस्यात्मशक्तेरातमक्रोडस्य भक्तानुकम्पिनो दत्तात्रेयरूपा सुरूपा तनूरवासा इन्दीवरदलप्रख्या चतुर्बाहुरघोरापापकशिनी । तदिदमस्य सकलं रूपम् ॥१॥
अथ हैनमथर्वाणं शाण्डिल्य: पप्रच्छ्छु भगवान्सन्मात्रं चिदानन्दैकरसंकस्मादुच्यते परं ब्रह्मोति । स होवाचाथर्वा यस्माच्च वृंहयति च सर्वं तस्मादुच्यते परब्रह्मोति । अथ कस्मादुच्यते आत्मेति । यस्मात्सर्वमाप्नोति सर्वमादते सर्वमत्ति च तस्मादुच्यते आत्मेति । यस्मात्तस्मादुच्यते परमात्मेति । अथ कस्मादुच्यते महेश्वर इति । यस्मान्महत ईश: शब्दध्यान्या चात्मशक्त्या च महत ईशते तस्मादुच्यते महेश्वर इति । अथ कस्मादुच्यते दत्तात्रेय इति । यस्मात्सुदुर्लभं तपस्तप्यमानायात्रये पुत्रकामायातितरां तुष्टेन भगवता
Page 13
ज्योतिर्मयेनात्ममैव दत्तो यस्माच्चानुसूयायामत्रेस्तनयोड्भव-
तस्मादुच्यते दत्तात्रेय इति । अथ योडस्य निरुक्तानि वेद स सर्वे वेद ।
अथ यो ह वै विद्ययेनं परमुपासते सोडहंमिति स ब्रह्मविद्भवति ॥
१
दत्तात्रेयं शिवं शान्तमिन्दुनीलनिभं प्रभुम् ।
१
आत्ममायारतं देवमवभूंतं दिगम्बरम् ॥ ९ ॥
२
भस्मोद्धूलितसर्वाङ्गं जटाजूटधरं विभुम् ।
२
चतुर्बाहुमुदाराङ्गं प्रफुल्लकमलेक्षणम् ॥२॥
३
ज्ञानयोगनिधिं विश्वगुरूं योगिजनप्रियम् ।
३
भक्तानुकम्पिनं सर्वसाक्षिणं सिद्धसेवितम् ॥ ३ ॥
४
एवं य: सततं ध्यायेद्देवं सनातनम् ।
४
स मुक्त: सर्वपापेभ्यो निःश्रेयसमवाप्नुयात् ॥ ४ ॥
५
इत्योँ सत्यमित्युपनिषत् ।
५
इति तृतीयोऽध्याय: ॥ ५ ॥
ॐ भद्रं कर्णेभि: शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनुवाम सस्तनुभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्ताक्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिदधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति शान्डिल्योपनिषत्समाप्ता ।