Books / Sharabha Upanishad

1. Sharabha Upanishad

Page 1

सर्वे सन्न्यज्य मुनयो यइजन्त्यात्मरूपत: ।

तच्छारदं त्रिपादब्रह्म स्वामात्रमवशिष्यते ॥

ॐ भद्रं कर्णेभि: शुणुयाम देवा: ।

भद्रं पश्येमाक्षभिर्यजत्रा: ।

स्थिरैरङ्गैस्तुष्टुवां सस्तनूभि: ।

व्यशेम देवहितं यदायु: ।

स्वस्ति न इन्द्रो वृद्धश्रवा: । स्वस्ति न: पूषा विश्वदेवा: ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: । स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्ति: शान्ति: शान्ति: ॥

अथ हैनं पैप्पलादो ब्रह्माणमुवाच भो भगवान्

ब्रह्मविष्णुरुद्राणां मध्ये को वा अधिकतरो ध्येय:

स्यात्तत्त्वमेव नो बृंहोति ।

तस्मै स होवाच पितामहश्र

हे पैप्पलाद शृणु वाक्यमेतत् ।

बहूनि पुण्यानि कृत्वानि येन

तैनैव लभ्य: परमेशरोडसौ ।

यस्याऽऽज्ञया डहं हरिरिन्द्रमुख्यामोहात्न जन्नन्ति सुरेन्द्रमुख्याः ॥१॥

प्रभुं वरेण्यं पितरं महेशं

यो ब्रह्माणं विदभाति तस्मै ।

वेदांश सर्वान् श्रृणोति चाग्न्यं

तं वै प्रभुं पितरं देवतानाम् ॥ २॥

ममापि विष्णोर्‌जनकं देवमीड्यं

योऽन्तकाले सर्वलोकान् संजहार ॥३॥

स एक: श्रेष्ठश्‍च सर्वशास्ता स एव वरिष्ठश्‍च ।

यो घोरं वेधमास्थाय शरभाख्यं महेश्वर: ।

नृसिंहं लोकहन्तारं संजघान महाबल: ॥ ४॥

हरिं हरन्तं पादाभ्यामनुयान्ति सुरेश्‍वराः ।

मावधी: पुरुषं विष्णुं विक्रमस्व महानसि ॥५॥

कृपया भगवान् विष्णुं विददार नखै: स्वरै: ।

चर्माम्बरो महावीरो वीरभद्रो बभूव ह ॥६॥

स एको रुद्रो ध्येय: सर्वेषां सर्वसिद्धये । यो ब्रह्मा पञ्चवक्त्राहन्ता

Page 2

तस्मै रुद्राय नमो अस्तु ॥ ७ ॥ यो विस्फुलिङ्गेन ललाटजिन सर्वं जगडस्म्सात्सङ्करोति । पुनः सृष्ट्वा पुनरप्यरक्षदेवं स्वतनं प्रकटीकरोति ।

तस्मै रुद्राय नमो अस्तु ॥ ८ ॥ yो वामपादेन जगतां कालं घोरं पपेढथो हालहलं दहन्तम् ।

तस्मै रुद्राय नमो अस्तु ॥ ९ ॥ yो वामपादाचिंतविष्णुनस्तत्स्मै ददौ चक्रमतीव हृष्टः ।

१०

तस्मै रुद्राय नमो अस्‍तु ॥ १० ॥ yो दक्षयज्ञे सुरसद्धान्विजित्य विष्णुं वबन्धोरगपाशेन वीरः ।

११

तस्मै रुद्राय नमो अस्तु ॥ ११ ॥ yो लीलयैव त्रिपुरं ददाह विष्णुं कविं सोमसूर्याग्निनेत्रः ।

१२

सर्वे देवाः पशुतामवापुः स्वयं तस्मात्पशुपतित्वमभूव । तस्मै रुद्राय नमो अस्तु ॥ १२ ॥

१३

यो मत्यस्कूर्मादिवराहसिंहा- त्विष्णुं ऋमनं वामनमादिविष्णुम् । विविक्लवं पीडमानं सुरेशं भस्मीचकार मन्यभयं यमं च । तस्मै रुद्राय नमो अस्‍तु ॥ १३ ॥

१४

एवं प्रकारेण बहुधा प्रतुतत्वा क्ष्मापयामासुरनीलकण्ठं महेश्वरम् । तापत्रयसमुद्धृतजन्तुमृत्युजरादिभिः । नाविधानि दुःखानि जहार परमेश्वरः ॥ १४ ॥

१५

एवं मन्त्रैः प्रार्थ्यमान आत्मा वै सर्वदोहिनाम् । शङ्करो भगवानाद्यो रक्षतु सकलाः प्रजाः ॥ १५ ॥ ytपादाम्भोरुहद्वन्द्वं मृग्यते विष्णुना सह । stुत्वा स्तुत्यं महेशानमवाङ्नसगोचरम् ॥ १६ ॥

१६

भक्त्या नम्रतनोर्विष्णोः प्रसादमकरोदिभुः । yतो वाचो निवर्तन्ते आप्याय मनसा सह ।

१७

आनन्दं ब्रह्मणो विद्वान् विभेति कदाचनैति ॥ १७ ॥ अणोरणीयान्महतो महीया- नात्मास्यजन्तोर्निहितो गुहायाम् ।

१८

तमक्रतुं पश्यति वीतशोको धातुःप्रसादान्महिमानमीशम् ॥ १८ ॥

Page 3

१९

वसिष्ठवैयाासकिवामदेव-विरिञ्जविमुल्यैर्हैदि भाव्यमान: । सनत्सुजातादिसनातनै-रीडो महेशो भगवानादिदेव: ॥

२०

सत्यो नित्य: सर्वसाक्षी महेशो नित्यानन्दो निर्विकल्पो निराल्य: । अचिन्त्यशक्तितर्भगवानरीश: स्वाविद्यया कल्पितमानभूमि: ॥

२१

अतिमोहकरी माया मम विष्णोश्व सुव्रत । तस्य पादाम्बुजध्यानादुत्तरा सुतरा भवेत् ॥

२२

विष्णुर्विंशजगद्योनि: स्वांशभूतै: स्वकैक: सह । ममांशसंभवो भूत्या पालयत्यखिलं जगत् ॥

२३

विनाशं कालतो याति ततोऽन्यात्सकलं मृषा । ॐ तस्मै महाग्रासाय महादेवाय शूलिने । महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु ॥

२४

एको विष्णुर्महद्वितं पृथग्भूतायनेकश: । त्रैलोक्याव्याप्य भूतात्मा भूतूतं विश्वमूगव्यय: ॥

२५

चतुर्भिष्ण चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्राभ्यां स मे विष्णु: प्रसादतु ॥

२६

ब्रह्मापि ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥

२७

शरा जीवास्तदक्षेषु भाति नित्यं हरि: स्वयम् । ब्रह्मैव शरभ: साक्षान्मोक्षदोडयं महामुने ॥

२८

मायावशादेव देवा मोहिता ममतादिभि: । तस्य महात्म्यलेशांशं कर्तुं केनाप्य शक्यते ॥

२९

परात्परतरं ब्रह्म यत्परात्परतो हरि: । परात्परतरौ हि शास्तस्तुल्योऽधिको न हि ॥

३०

एक एव शिवो नित्यस्ततोऽन्यात्सकलं मृषा । तस्मात्सर्वान्परित्यज्य ध्येयोऽन्विष्यवादिकान्सुरान् ॥

३१

शिव एव सदा ध्येय: सर्वसंसारमोचक: । तस्मै महाग्रासाय महेश्वराय नम: ॥

३२

पैप्पलादं महाशास्त्रं न देयं यस्य कस्यचित् । नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥

३३

दाम्भिकाय नृशंसाय शठायानृतभाषिणे । सुव्रताय सुभक्ताय सुवृत्ताय सुखीने ॥

गुरुभक्ताय दान्ताय शान्ताय ऋजुचेतसे ।

Page 4

३४

शिवभक्तियं दातव्यं ब्रह्मकर्मोक्तविधिमते ॥ ३४ ॥

३५

स्वभक्तयैव दातव्यमकृच्छ्राय सुव्रतम् । न दातव्यं सदा गोप्यं यत्नेनैव द्विजोत्तम ॥ ३५ ॥

एतत्तैप्पलादं महाशास्त्रं योऽधीते श्रावयेद्द्विजः: सं जन्ममरणेभ्यो मुक्तो भवति । यो जानिते सोऽमृतत्वं च गच्छति । गर्भवासादिमुक्तो भवति । सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यात्पूतो भवति । गुरुतल्पगमनात्पूतो भवति । स सर्वान्वेदानधीतो भवति । स समस्तमहापातकोपपातकात्पूतो भवति । तस्मादविमुक्तमाश्रितो भवति । स सततं शिवप्रियो भवति । स शिवसायुज्यमेति । न स पुनरावर्तते न स पुनरावर्तते । ब्रह्मैव भवति । इत्याह भगवान्ब्रह्मोत्युपनिषत् ॥

ॐ भद्रं कर्णेभि: शृणुयाम देवा: । भद्रं पश्येमाक्षभिर्यजत्रा: । स्थिरैरङ्गैस्तुष्टुवांसस्तनुभि: । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवा: । स्वस्ति न: पूषा विश्ववेदा: । स्वस्ति नस्ताक्ष्र्यो अरिष्टनेमि: । स्वस्ति नो बृहस्पतिदधातु । ॐ शान्ति: शान्ति: शान्ति: ॥ इति शरभोपनिषत्समाप्ता ॥