1. Shatyayani Upanishad
Page 1
शात्यायनीब्रह्मविद्यासंङ्काकारसुसाकृति । यतिवृन्दहृदागारं रामचन्द्रपदं भजे ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ ॥
१
मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥
२
समासक्तं सदा चित्तं जन्तोरविषयगोचरे । यदेव ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥
३
वित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत । यच्चित्तस्तन्मयो भवति गृध्रं ह्यमेतत्सनातनम ॥
४
नावेदविन्मनुते तं वृहन्तं नातब्रह्मवित्परमं प्रैति धाम । विष्णुक्रान्तं वासुदेवं विज्ञान-त्विप्रो विप्रतं गच्छते तत्त्वदर्शी ॥
५
अथाह यत्परमं ब्रह्म सनातनं ये श्रोत्रिया अकामहता अधीगु: । शान्तो दान्त उपरतस्तिक्ष्णहृ-योरडनुचास्नो ह्यभिज्ञौ समान: ॥
६
त्यकतेषणो ह्यनुणस्तं विदित्वा मौनी वसेदाश्रमे यत्र कुत्र । अथाश्रमं चरमं संप्रविश्य यथोपपत्तिं पञ्चमावां दधान: ॥
७
त्रिदण्डमुपवेतं च वास: कौपीनवेष्टनम । शिखयं पवित्रमित्येतद्भूयादवादायुष्म ॥
८
पञ्चेतास्तु यतर्मात्रास्ता मातृ ब्रह्मणे श्रुता: । न त्यजेद्यावदुत्कान्तरनित्येऽपि निखनेत्सह ॥
९
विष्णुलिङ्कं द्विधा प्रोक्तं व्यक्तमव्यक्तमेव च । तयोरेकमपि त्यक्त्वा पतत्येव न संशय: ॥
१०
त्रिदण्डं वैष्णवं लिङ्कं विप्राणां मुक्तिसाधनम । निर्वाणं सर्वधर्माणामिति वेदानुशासनम ॥
Page 2
अथ खलु सौम्य कुटीचको बहूदको हंस: परमहंस इत्येते परिव्राजकाश्रमतुर्विधा भवन्ति । सर्व एते विष्णुलिङ्गिन: शिखिनोपवीतिन: शुद्धचित्ता आत्मानमात्मना ब्रह्म भावयन्त: शुद्धचिद्रूपोपासनरता जपयमवन्तो नियमवन्त: शुशीलिन: पुण्यश्लोका भवन्ति । तदेतद्रुचाभ्युक्तम् ।
कुटीचको बहूदकस्वापि हंस: परमहंस इव वृत्त्या च भिन्न्रा: । सर्व एते विष्णुलिङ्गिन् दधानाः वृत्त्या व्यक्तं बहिरन्तश्व नित्यम् । पञ्चयज्ञा वेदशिर:प्रविष्टा: क्रियावन्तोऽमी सद्गिता ब्रह्मविद्याम् ।
त्यकत्वा वृक्षं वृक्षमूलं श्रितास: संन्यासतपुष्पा रसमेवाश्नुवाना: । विष्णुक्रीडा विष्णुरतो विमुक्ता विष्णुवात्मकं विष्णुमेवापियन्ति ॥ ११ ॥
त्रिसन्ध्यं शक्तितः स्नानं तर्पणं मार्जनं तथा । उपस्थाने पञ्चयज्ञैरुंरैदान्तिकम् ॥ १२ ॥
दशभिः प्रणवैः सप्तव्याहृतिभिर्वेदतुष्पदा । गायत्रीजपयज्ञश्च त्रिसन्ध्यं शिरसा सह ॥ १३ ॥
योगयज्ञः सदैकाग्रभक्त्या सेवा हरेःगुरो: । अहिंसा तु तपोयज्ञो वाङ्मन:कायकार्मभिः ॥ १४ ॥
नानोपनिषदभ्यास: स्वाध्यायो यज्ञ ईरित: । ॐ इत्यात्मानमव्यग्रो ब्रह्मण्यग्ना जुहोति यत् ॥ १५ ॥
ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोतमोत्तमः । ज्ञानदण्डा ज्ञानशिक्षा ज्ञानयज्ञोपवीतिनः ॥ १६ ॥
शिक्षा ज्ञानमयी यस्म उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् ॥ १७ ॥
अथ खलु सौम्य परित्राजका यथा प्रादुर्भवन्त तथा भवन्ति । कामक्रोधालोममदहंकारदीप्तैर्या-ममताहङ्कारादिस्थिततीर्थ मानावमानौ निन्दास्तुति-च वर्जयित्वा वृक्ष इव तिष्ठासेत । छिद्यमानो न बूयात् । तदेवं विद्वान् उद्धवामूता भवन्ति । तदेतद्रुचाभ्युक्तम् ।
बन्धुपुत्रमनुमोदयित्वा-नवक्ष्यमाणो द्वन्द्वसहः प्रशान्तः । प्राङ्मुखमुदीचिं वा निवर्तयंशरत
Page 3
१५
पात्रे दण्डी युगमात्रावलोकः । शिखी मुण्डी चोपवीती कुटुम्बी । यात्रामात्रे प्रतिगृह्नन्मनुष्यात् । अयाचितं याचितं वोक्ष मुहुर्वालाबुफलपंपात्रम् । क्षीणं क्षौमं तृणं कन्याजने च पर्ण-माच्छादनं स्यादहृतं वा विमुक्तः ॥
१९
ऋतुस्नातौ मुण्डयेनमुण्डमात्रं नाधो नाक्षं जातु शिखां न वापयेत् । चतुरो मासान्भुवश्रीलतः स्या-त्स यावत्सुप्तोऽन्तरातमा पुरुथो विश्वरूपः । अन्यानधास्तौ पुनरुत्थितोऽस्मिन्-स्वकर्मलिप्सुःपुनर्विहरेधा वसेधा ॥
२०
देवाग्न्यगारे तरुमूले गुहायां वसेधसज्जे डलक्षितश्रीलवृत्तः । अनिन्धनो ज्योतिरिवोपशान्तो न चोद्विजेदुद्विजेयात्र कुत ॥
२१
आत्मानं चेद्विजानीयादयमस्मीति पुरुथः । किमिच्छन्नकस्य कामाय शरीरमनुसंज्वरेत ॥
२२
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्धु ह्यब्धान्वाचो विग्लापनं हि तत ॥
२३
वाल्येनैव हि तिष्ठासेच्छृण्वद्य ब्रह्मवेदानम् । ब्रह्मविद्या च वाल्यं च निर्विद्य मुनिरात्मवान ॥
२४
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योडमृतो भवत्यत्र ब्रह्म समश्नुते ॥
२५
अथ खलु सौम्येदं परिब्राज्यं नैष्ठिकमातमधमें यो विजहाति स वीरहा भवति । स ब्रह्महा भवति । स भूनहा भवति । स महापातकी भवति । य इमां वैष्णवीं निष्ठां परित्यज्यति । स स्तेनो भवति । स गुरुतल्पगो भवति । स मित्रघुग्भवति । स कृतघ्नो भवति । स सर्वस्माल्लोकात्प्रच्युतो भवति । तदेतदृचाभ्युक्तम् ॥
२६
स्तेनः सुरापो गुरुतल्पगामी मित्रघुगेटे निष्कृत्योऽन्ति शुद्धिम् । व्यक्तमन व्यक्तं वा विभूतं विष्णोलिङ्गं त्यजन्तु शुद्धोयेदखिलैरात्मभासा ॥ त्यकत्वा विष्णोलिङ्गमन्तर्बहिर्वा ॥
Page 4
२७
यः स्वाश्रमं सेवतेनाश्रमं वा । प्रत्यपत्तिं भजते वातिमूढो नैषां गति: कल्पकोऽपि दृष्टा ॥ त्यकत्वा सर्वाश्रमान्धीरो वसेन्मोक्षाश्रमे चिरम् । मोक्षाश्रमात्परिभ्रष्टो न गतिस्तस्य विद्यते ॥ पारिब्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति । तमारूढ्यन्तं विद्यादिति वेदानुशासनम् ॥
२८
अथ ऋतु सौम्येमं सनातनमातृधर्मं वैष्णवीं निष्ठां लब्ध्वा यस्तामदूषयन्वतांते स वर्षी भवति । स पुण्यश्लोको भवति । स लोकज्ञो भवति । स वेदान्तज्ञो भवति । स ब्रह्मज्ञो भवति । स सर्वज्ञो भवति । स स्वाराड् भवति । स परं ब्रह्म भगवान्ताप्नोति । स पितृन्सम्बन्धिनो बान्धवान्सहृदो मित्राणि च भवादुत्तरयति । तदेतदृचाभ्युक्तम् । शतं कुलानि प्रथमं बभूव तथा परांस्त्रिशतं समग्रम् । एते भवन्ति सुकृतस्य लोके येषं कुले संन्यसतिं विध्दान् ॥
३०
त्रिंशत्परास्त्रिशत्परास्त्रिंशच्च परतः परान् । उत्तरयति धर्मिष्ठः परिब्राडिति वै श्रुतिः ॥ संयस्तमिति यो दृश्यात्कण्ठस्प्राणवानपि । तारिताः पितरस्तेन इति वेदानुशासनम् ॥
३१
अथ ऋतु सौम्येमं सनातनमातृधर्मं वैष्णवीं निष्ठां नामाप्य प्रबूयात् । नानूचानाय नानात्मविदे नावीतरागाय नाविशुद्धाय नानुपसन्नाय नाप्रयतमानसायेति ह स्माहुः । तदेतदृचाभ्युक्तम् । विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि । असूयकायानृजवे शठाय मा मा दृशा वीर्यवती तथा स्याम् ॥
३२
यमेव विद्याश्रुततमप्रमतं मेधाविनं ब्रह्मचर्योपपन्नम् । अस्मा इमामुपसन्न्राय सम्यक् परীক্ষ्य दद्याद्द्विजोत्तमायात्मनिष्ठाम् ॥
३३
अध्यापिता ये गुरुं नात्रियन्ते विप्रा वाचा मनसा कर्मणा वा । यथैव तेन न गुरुभोजनोय-
Page 5
35
स्थैव चानं न भुनक्ति श्रुतं तत् ॥ ३५ ॥ गुरुरेव परो धर्मो गुरुरेव परा गतिः । एकाक्षरप्रदातारं यो गुरुर्नाभिनन्दति । तस्य श्रुतं तथा ज्ञानं सर्वथामघटाम्बुवत् ॥ ३६ ॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । स ब्रह्मावित्परं प्रेयादिति वेदानुशासनम् ॥ ३७ ॥ इत्युपनिषत् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इति शाव्द्यायनीयोपनिषत्समाप्ता ॥