1. Shiva Sutra and Bhakti Sutra Ruju Artha Bodhini of Datia Swami Pitambara Pitha
Page 1
शिवसूत्र भक्तिसूत्रञ्च
वनखण्डिश्रीपीताम्बरापीठस्थस्वाभिकृत-
ऋज्वर्थंबोधिनीवृत्तिसहितम्
#10 _=
Page 2
शिवसूनं मत्तिसूनञ्च
वनखण्डिश्रीपीताम्बरापीठस्थस्वामिकृत-
ऋज्वर्थंबोधिनीवृत्तिसहितम्।
द्वितीय संस्करणम् सम्बत् २०४२
Page 3
प्रकाशक. श्रीपीताम्बरापीठ, दतिया (म० प्र०)
मूल्य : तीन रुपया मात्र
गुह्रक : पं० द्वारिकेश मिश्र श्रीराम प्रेस, खत्रयाना मार्ग, झाँसी (उ० प्र०)
Page 4
भूमिका
भारतवर्षे दर्शनशास्त्रस्य विकासोऽनेकसम्प्रदायरूपेणाजनिष्ट। सम्प्रदाया- श्चते वैदिकाश्चावैदिकाश्चेति मुख्यतो द्विधा विभक्ताः। तत्र शैवं नाम वैदिक दर्शनम्। इदमन्येभ्यः साम्प्रदायिकदर्शनेभ्योऽल्पमिव प्रसिद्ध तथाप्यस्य स्वीयं महत्त्वम्, आध्यात्मिकञ्चमहत्त्वमनत्पमरित। इद दर्शनं वैदिकमित्यत एवास्य प्रत्नतां प्रमाणिकताञ्च सन्देहो न स्पृशति । प्रस्तुतानि सूत्राणि 'काश्मीर' सूत्रनाम्ना प्रसिद्धानि सन्ति। सूत्रकारे ऐति- हासिक सामग्री स्वल्पापि नोपलभ्यत इति तस्य जन्मादिविषये किमपि वक्तुं न शक्यते। शिवसूत्रोपलम्भे इदमद्भुतं विश्रूयते-"भगवान्" शङ्करः स्वप्ने दर्शन- मागतो 'महादेवगिरौ' उत्कीर्णानां निजसाधनारहस्यानां योग्याधिकारिभ्यो दानाय वसुगुप्तमादिदेश इति। एतेन वसुगुप्ताचार्य एतानि सूत्राण्युपलेभ इति प्रतीयते। शिलाखण्डोऽयमद्यापिकाश्मीरेषु 'शङ्करोपल' इति विख्यायते। श्रीवसु- गुप्ताचार्यात् कल्लटः, तस्माच्च भास्कर एतानि सूत्राण्यधिजगे।
शिवसूत्रेषु श्रीभास्कराचार्यकृता 'वार्तिक' टीका, श्रीक्षेमराजकृता 'विम- शिनी' टीका चेति द्वे टीके उपलभ्यते। एते उभे अपि शिवसूत्राणि सविस्तर कुशाग्रबुद्धिवेद्यं च व्याचक्षाते। सुकुमारमतीनां सुखेन सूत्रार्थावंगतये इयम् 'ऋज्वर्थ- बोधिनी' टीका क्रियते।
अत्र सूत्रेषु-शाम्भवं, शाक्तम्, आणवञ्चेति त्रीणि प्रकरणानि सन्ति। शैव- दर्शनस्य सर्वो विषय एषु प्रकरणेष्वेवावरुध्यते अतएवैतानि सूत्राणि 'त्रिकदर्शनम्' इति आख्यायन्ते। अत्र कमेणोत्तममध्यमावराणां प्राणिनामनुग्रहायोपदेशः श्रूयते। शिवस्वरूपेणालौकिकं समाधिसुख यत्रानुभवगोचरो भवति योगिनः सैषा योगस्य परावस्था प्रथमे शाम्भवे प्रकरण उपदिष्टा। बहिर्मुखस्य मनसो बाह्या वृत्तीर्मन्त्रादि बलेनावरुध्य पराशक्तेरनुग्रहेण योगी पराद्वतमनुभवति इति द्वितीये शाम्भवे प्रकरणे उपदिश्यते। आणवे प्रकरणे तु आत्मा, माया इत्येवं विधा विषया विरूपिता: सन्ति। अत्र योगी मोहं विधूय, क्रमेण जाग्रत्स्वप्नसुषुप्त्यवस्था अतिकरम्य पूर्णावस्थां प्राप्नोति इति वर्ण्यते। प्रयत्नं विनापि सिद्धिः शाम्भवोपायेन आण- वोपायेन तु प्रयत्नापेक्षेत्यनयोर्भेदः। तदित्थ शिवसूत्रेषु योगतत्त्वस्य यादृङनिरूपण- मुपलभ्यते गभीर सूक्ष्मं च तादृगन्यस्मिन्त्सम्प्रदाये न कुत्राप्युपलभ्यते तन्त्रेषु।
Page 5
(२ ) वैष्णवसम्प्रदायेऽपि शाण्डिल्यस्य भक्तिदर्शनं स्वीयं विशिष्टं स्थानमधि- करोति। इदं वैष्णवसम्प्रदायस्य प्रमुख दर्शनमाख्यायते। महर्षे: शाण्डिल्यस्य नाम 'वंशब्राह्मणे' 'छान्दोग्योपनिषदि' च श्रूयते। अयं महर्षिगोत्रप्रवर्तक इति स्मर्यते। चतुर्षु वेदेषु अनुपलब्धं ज्ञानं महर्षिः शाण्डिल्य एतेन दर्शनेन लेभे इति भगवत्पूज्य- पादा: श्रीमच्छङ्कराचार्याः स्वीये ब्राह्मसूत्रभाष्ये प्राहुः। तेनैतत्सूत्राणां महत्त्वं ख्याप्यते। आचार्यस्वप्नेश्वरभाष्यं, श्रीमद्वल्लभाचार्यकृतं भाष्यं चैतेषु सूत्रेषु दृश्येत तथापि सुखेन सूत्रार्थावबोधिकाया: टीकाया अभावात् परमकारुणिकेनपूज्यपादेन श्रीस्वामिना सुखेन सूत्रार्थबोधाय ऋज्वर्थंबोधिनीवृत्तिविरचिता। अत्र ग्रन्थे त्रयोऽध्यायाः सन्ति तत्र प्रथमेऽध्याये ग्रन्थारम्भे भक्तेर्लक्षणानि, ज्ञानाच्च तस्या: श्रेष्ठत्वं प्रतिपाद्य ईश्वरे परानुरागो भक्तिरिति तल्लक्षणमङ्गी- कृतम्। भक्त्यैव चेश्वरेण सह भक्तस्याभेदसम्बन्धो जायते; तदित्थं परां भक्ति- मुपवर्ष्य समाधिरूपाया गौण्या भक्तेरपि निर्देश: कृतः। द्वितीयेऽध्याये महर्षे: काश्यपस्य द्वैतवादम्, वादरायणाचार्यस्य अद्वैतवादञ्च प्रतिपाद्य तत्समन्वयसिद्धान्तः स्थिरीकृतः । चित्प्रेरिता कार्यकारणरूपा प्रकृतिर्जगत्कार्यं करोतीति सम्यङ् निरूप्य अन्ते भक्तिलक्षणानि निरूपितानि। तृतीयेऽध्याये भक्तेविविधरुपाङ्गः सह अद्वैत- तत्त्वमुपवर्णितम् । अत्र दर्शने, आधुनिकभागवतधर्मेऽतिप्रसिद्धस्य चतुर्व्यूहस्य कल्पना कुत्रापि न दृश्यत इति सूत्रसिद्धान्तानां पुरातनवैष्णवसिद्धान्तानुगामित्वं प्रथयति। पूज्यचरणैः श्रीस्वामिभिः शैवदर्शने वैष्णवदर्शने चातिसुगमा ऋज्वर्थ- बोधिनीवृत्ति: कृता। अत्रातिसरल संस्कृतभाषया प्रतिपादिता अर्था: सुकुमारबुद्धी- नामपि सुखेनावगता: स्युरिति दृढमाशास्यते।
ललिताप्रसाद शास्त्री स. अ. सं. विद्यालयस्य प्राव्यापक दतिया (म0 प्र०)
Page 6
थानमधि- पस्य नाम स्मर्यते। गवत्पूज्य- महत्त्वं शिवसूत्रम् षु दृश्येत ज्यपादेन ऋज्वर्थबोधिनीवृत्तिसहितम्
क्षणानि, प्रथमोन्मेषः (शाम्भवोपायः) णमङ्गी शिवसूत्रप्रतिपाद्यस्य परमलक्ष्यस्याधारभूतं चेतनस्वरूपं परमात्मतत्वं भक्ति- तदाह-चैतन्यमिति। महर्षे: चैतन्यमात्मा ।।१।। सद्धान्त: निरूष्य चेतयते इति चेतनस्तस्य भावश्चतन्यमात्मनः स्वरूपम्। शरीर-प्राण- अद्वैत- मन-इन्द्रियाणां संघातः, पृथक्-पृथग्वा आत्मा भवितु नार्हति, प्रत्युत यस्मि न्नेतानिप्रतिभान्ति स आत्मा एतेभ्यः परश्चेतनस्वरूपोऽस्ति ।।१।। कुत्रापि यदि आत्मा चेतनस्तहि कथं बन्धकोटौ निक्षिप्त इत्यत आह-ज्ञानमिति।
ज्ञानं बन्ध: ।।२।। ज्वर्थ- रुद्धी- मनसा इन्द्रियाणि संयुज्य यानि वृत्तिरूपाणि ज्ञानानि भावयन्ति जनयन्ति तान्यसौ चेतनः अनुभवति तदेव ज्ञानं बन्धपदवाच्यं भवति। केचिदकारप्रश्लेषेणा- ज्ञानमिति कथयन्ति ॥२।। स्त्री तस्य त्रं विध्यमाह-योनिवर्ग इति। पापक योनिवंर्ग: कला शरीरम् ।।३।। प्र०) एतेषु ज्ञानेषु निवृत्तेषु सत्सु बन्धोऽपि निवर्तते। स त्रिविधः । योनि: मायीयमलमावरणात्मकमाणवमलमिति निजैश्वर्यनिरोधकं कथयन्ति, पञ्च- भूतविस्तारभोगप्रदातार: संस्कारा: कला, पुण्यपापात्मकानि शरीराणि च। इमान्येव बन्धनानि ज्ञानमिति एषां वर्गः समुदायपदेनोच्यते ।।३। तस्य ज्ञानस्याधिष्ठानमाह-ज्ञानाधिष्ठानमिति।
Page 7
२ शिवसूत्रम्
ज्ञानाधिष्ठानं मातृका।।४।। एषां पूर्वोक्तानां त्रिविधानां ज्ञानानामविष्ठानमाधार: मातृका-अकारमारभ्य क्षकारपर्यन्ता शब्दमयीवर्णमाला शब्दब्रह्मेत्युच्यते। उक्तं च "न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते। अनुविद्धमिवज्ञानं सर्वं शब्देन भासते१॥" (वा० प०)। अनयवान्तरनुसन्धानराहित्येन बहिर्मुखानि ज्ञानानि जायन्ते स एव बन्धः।।४।। बन्धनिवृत्युपायमाह-उद्यम इति। उद्मो भैरव: ॥।५।।
उक्तबन्धनिवृत्यर्थ पूर्णाहन्ताया अहमेव सर्वमितिरपायाः समुदयो विकल्प सामस्त्यनाशक: अन्तःस्पन्दरूपो भैरव इत्युच्यते; "भैरवोऽहम् शिवोऽहम्: इति प्रथनात् ॥।।५।। तत्फलमाह-शक्तिचक्र इति।
शक्तिचकरसन्धाने विश्वसंहारः ।६।।
उक्तविशेषणविशिष्टे भैरवे एका महतीशक्तिर्भेरवी तस्याः प्रसृतरूपानु- सन्धानेन स्वसंविद्रूपारनौ विश्वः संहृतिमुपयाति ।६।। अनुभूतिदाढर्य माह-जाग्रद् इति। जाग्ररस्वप्नसुषुप्तिभेदे तुर्याभोगसम्भवः।।७।। तस्य योगिन ईदृशी अनुभूतिर्जागति तस्य जाग्रति स्वप्ने सुषुप्तौ तथा आसामवस्थानां भेदेऽपि तुर्याभोग: अर्थात् पराऽनन्दनुभूतिः सञ्जायतेभेदेऽपि अभेदप्रत्ययो निराबाध: प्रवर्तते इत्यर्थः ।७॥
ज्ञानं जाग्रत् ।।८।।
इन्द्रिय - विषय - सन्निकर्षोद्भूत ज्ञानं जाग्रदित्युच्यते ।।८।। स्वप्नो विकल्पः ।।६।।
मनोमात्रजन्यासाधारणार्थविषयविकत्पः स्वप्नः । स्वात्मनि स्वेनैव विकल्पनं स्वप्नोवेति ।।९।।
१-गग्यते इत्यपि पाठः।
Page 8
३
अ विवेको माया सौषुप्तम् ॥१०॥ स्वात्मानं विस्मृत्य यः अविवेकोदयो, मायात्मकः साऽवस्था सुषुप्तिः । रमारभ्य अविवेक: विवेचनाभाव :- अज्ञानम्, एतदेव मायामयं सौषुप्तम् इति सूत्रार्थः ॥१०॥ सोऽस्ति त्रितयभोक्ता वीरेशः ॥११।।
यन्ते स एषु त्रिषु यत्तुरीयानन्दमभेदात्मकम् आस्वादयति स वीरेशः । यतो वीराणामपि भेदबन्धने प्रक्षेप्त्री सा शक्तिर्बाह्याभ्यन्तरे प्रसरणशीलानामिन्द्रियाणाञ्च स अधीश्वरः। उक्तञ्च श्रीगौडपादैः- त्रिषुधामसु यद्भोग्यं भोक्ता यश्च प्रकीतितः ।
विकल्प विद्यात्तदुभयं वस्तु सम्भुञ्जानो न लिप्यते। इति ॥११॥
: इति विस्मयो योगभूमिका ॥१२॥ आनन्दं प्राप्य मनुष्यो यथा विस्मयते तथा निर्तरं योगिनोऽपि अद्भुत परानन्दस्यानुभूति: सञ्जायते। इयं योगभूमि: ? सम्यगात्मनि युञ्जन् एव सम्पद्यते। अलौकिकोऽयं विषयः परतत्त्वैक्याव्यारोहविश्रान्तिरूपः ।१२।।
हपानु- इच्छाशक्तिरुमा कुमारी ॥१३॥
उक्तपूर्णावस्था प्राप्तस्य योगिन: इच्छाशक्ति: परैव पारमेश्वरी स्वातन्त्रय- रूपाविश्वसर्गसंहारपरा उमा कुमारीति उच्यते-"कुं मारयतीति कुमारी" अज्ञान निवर्तिकेतियावत् ।१३।।
तथा दृश्यं शरीरम् ॥१४॥ देऽपि तद्युक्तस्य योगिनो निखिलं प्रपञ्चजातं दृश्यं शरीरं भवति ।१४। हृदये चित्तसङ्गट्टादृदृश्यस्वापदर्शनम् ॥१५।। विश्वस्य महदायतनं तस्य योगिनो हृदयं भवति। चित्तसङ्गट्टनेन नाना दृश्या विर्भाव: स्वप्नवत् प्रतीयते ।।१५।
शुद्धतत्त्वानुसन्धानाद्वा अपशुशक्ति: ॥१६।।
वेनव अस्मिन प्रपञ्चे शुद्धतत्त्वस्य शिवस्यानुसन्धानाद् भावनाकरणाद् अपशु- शक्तिः पशुत्वनिवृत्तिः। जगत्पतिः सदाशिवो भवति। "शुद्धतत्त्वानुसन्धानाद्" इत्येव केषान्चिन्मते पाठः ॥१६।।
Page 9
शिवसूत्रम्
वितर्क आत्मज्ञानम् ॥।१७॥
अहं विश्वात्मा शिवोऽहमिति मन्यमानो योगी आत्मज्ञानवान् भवति। अहं विश्वात्मेति वितर्क उच्यते चिन्तनमिति च व्यपदिश्यते ।१७॥
लोकानन्दः समाधिसुखम् ॥१८॥
अहमेव द्रष्टा, दृश्यं, दर्शनञ्चास्मि, अहमेवेदं सर्वमित्यनुभवन् लोकाननदे निमज्जति समाधिसुखं प्राप्नोति ॥१८।।
शक्तिसन्धाने शरीरोत्पत्तिः ॥१६।।
उमा कुमारीति या शक्ति: पूर्वोक्ता तदनुसन्धानेन तन्मयत्वं यदा गच्छति योगी तदा तया स्वेच्छया शरीरमुत्पादयति ।१९।।
एवं भूतो योगी अनुसन्धानेन पञ्चभूतेष्वात्भावं गच्छति येन भूतान्या- वरणरहितानि भवन्ति। भूतपृथक्त्वेन नानाव्याधीन् क्लेशांश्च शमयति विश्वसङ्वट्टनेन यौगिकसामर्थ्येन नूतनं विश्वं निर्माति ॥२०॥ शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः ॥२१।
परिमित सिद्धि विहाय योगी परां सिद्धिमिच्छति तदा अखिलं विश्वमहमेव इत्याकारा बुद्धि: शुद्धा निर्मला विद्या उदेति। तया चक्रेशत्वसिद्धिः। महैश्वर्यं प्राप्नोति। "ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः। सामानाधिकरण्यञच सद्विद्याहमिदं धियोः" ॥ इति ॥ इयमेव शुद्धविद्या ।।२१।।
महाह्नदानुसन्धानान्मन्त्रवीर्यानुभवः ।।२२।। महायोगी विश्वात्मिकामस्थामुत्तीर्य स्वात्मन्येव रमते तदादेशकाला- दिभ्योऽपरिच्छिन्नो जगदव्यापी यो महाह्रदः-स्वच्छत्वादावरणरहित्वाद् गम्भीर- त्वाच्च महाह्रद इति संज्ञा तदनुसन्धानेन पूर्णाहन्ताया वीर्यमनुभवति ॥२२॥
इति शाम्भयोपायः प्रथमोन्मेषः समाप्तः ।
Page 10
ऋज्वर्थबोधिनीवृत्तिसहितम् ५
अथ शाक्तोपायो द्वितीयोन्मेष: । अहं तीव्रशक्तिपातवतां साधकानां कृते पूर्वोन्मेषोक्ततत्त्वोपदेशः। मध्यमाधिका- रिणोऽपि तत्त्वज्ञानवन्तःस्युरिति द्वितीयोन्मेषस्यारम्भ: तदेवाहचित्तमिति।
चित्तं मन्त्र: ।।१।। कानगदे शक्ति: मन्त्रस्वरूपा अतएवेदानीं मन्त्रं कथयति :- येनात्मतत्वं चिन्तयते तदेव चित्तम्, तदेव स्वरूपमननहेतुत्वान्मन्त्र इत्युच्यते। उक्तञ्च- "स्वात्मानुभवधर्मित्वात् स मन्त्र इति गीयते।"।।१।।
च्छति तत्कथं सिद्ध्येदित्याह-प्रयत्न इति।
प्रयत्न: साधकः ॥२॥
मन्त्रसाधने योऽन्तः प्रयत्नः स साधकः पुनः पुनः वाह्यवृत्तीनामुपसंहरणं न्या- शिवतत्त्वे च संयोजनमेव तासां प्रयत्नपदेनोच्यते ॥२। मयत विद्याशरीरसत्ता मन्त्ररहस्यम् ॥३॥
परमात्माद्वैतसंवेदनरूपाया विद्यायाः शरीरमखिलशब्दराशिः तस्यात्पाहन्ता
हमेव पूर्णाहन्ता च सत्ता तत्स्फुरणमेव मन्त्रगुप्तार्थस्योत्पादकमिति रहस्यम् ।।३॥
हैश्वर्यं गर्भे चित्त विकासोऽविशिष्ट विद्यास्वप्नः।।४।। ण्यञ्च पूर्वोक्तं मन्त्रवीर्यं महेश्वरेच्छया योगी अनुभवितु शवनोति। गर्भे महामायायां शक्त्यां चित्तं विकसित सा अशुद्धा विद्या सा स्वप्नस्वरूपिणी विकल्पप्रत्ययात्मिका भवत।।४।।
ला- भीर- विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था ।।५।।
शिवेच्छया परमात्मा्द्वंतसंवेदनरूपं स्वाभाविकसंवेदनसमुत्थानं भरवतति। पू्ण निन्द मुच्छ्वसितं कुर्वती मुद्रा खेचरी शिवावस्था भवत। खे गगने चरतीति खेचरी, बोघ रूपे गगने चरणशीला अभिव्यज्यते। मुदं हष रातीति मुद्रा। इयं विश्वोत्तीर्णा योगिभिरनुभूयते ।।५।। तत्कथमुपलभ्यते अत आह-गुरुरिति।
Page 11
शिवसूत्रम्
वितर्क आत्मज्ञानम् ॥१७॥ अहं विश्वात्मा शिवोऽहमिति मन्यमानो योगी आत्मज्ञानवान् भवति। अहं विश्वात्मेति वितर्क उच्यते चिन्तनमिति च व्यपदिश्यते ।१७॥ रि लोकानन्दः समाधिसुखम् ॥१८॥ अहमेव द्रष्टा, दृश्यं, दर्शनञ्चास्मि, अहमेवेदं सर्वमित्यनुभवन् लोकाननदे निमज्जति समाधिसुखं प्राप्नोति ॥१८। त शक्तिसन्धाने शरीरोत्पत्तिः ॥१६।। उमा कुमारीति या शक्ति: पूर्वोक्ता तदनुसन्धानेन तन्मयत्वं यदा गच्छति योगी तदा तया स्वेच्छया शरीरमुत्पादयति ।१९।।
एवं भूतो योगी अनुसन्धानेन पञ्चभूतेष्वात्भावं गच्छति येन भूतान्या- f वरणरहितानि भवन्ति। भूतपृथक्त्वेन नानाव्याधीन् क्लेशांश्च शमयति विश्वसङ्घट्टनेन यौगिकसामर्थ्येन नूतनं विश्वं निर्माति ॥२०॥ शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः ॥२१॥ परिमित सिद्धि विहाय योगी परां सिद्धिमिच्छति तदा अखिलं विश्वमहमेव पू
इत्याकारा बुद्धि: शुद्धा निर्मला विद्या उदेति। तया चक्रेशत्वसिद्धिः । महैश्वर्य प्राप्नोति। "ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः। सामानाधिकरण्यञ्च सद्विद्याहमिदं धियोः" ॥ इति ॥ इयमेव शुद्धविद्या ॥२१॥ म महाह्नदानुसन्धानान्मन्त्रवीर्यानुभवः ।।२२।। वि महायोगी विश्वात्मिकामस्थामुत्तीर्य स्वात्मन्येव रमते तदादेशकाला- दिभ्योऽपरिच्छिन्नो जगदव्यापी यो महाह्रदः-स्वच्छत्वादावरणरहित्वाद् गम्भीर- त्वाच्च महाह्रद इति संज्ञा तदनुसन्धानेन पूर्णाहन्ताया वीर्यमनुभवति ॥२२॥ इति शाम्भयोपायः प्रथमोन्मेषः समाप्तः । पू
इ
Page 12
ऋ ज्वर्थबोधिनीवृत्तिसहितम् ५
अथ शाक्तोपायो द्वितीयोन्मेष: वति। अहं तीव्रशक्तिपातवतां साधकानां कृते पूर्वोन्मेषोक्ततत्त्वोपदेशः । मध्यमाधिका- रिणोऽपि तत्त्वज्ञानवन्तःस्युरिति द्वितीयोन्मेषस्यारम्भ: तदेवाहचित्तमिति।
चित्तं मन्त्रः ।।१।। लोकानन्दे शक्ति: मन्त्रस्वरूपा अतएवेदानीं मन्त्रं कथयति :- येनात्मतत्त्वं चिन्तयते तदेव चित्तम्, तदेव स्वरूपमननहेतुत्वान्मन्त्र इत्युच्यते। उक्तञ्च- "स्वात्मानुभवधर्मित्वात् स मन्त्र इति गीयते ।"।।१।।
दा गच्छति तत्कथं सिद्ध्येदित्याह-प्रयत्न इति।
प्रयत्न: साधकः ॥२॥
मन्त्रसाधने योऽन्तः प्रयत्न: स साधकः पुनः पुनः वाह्यवृत्तीनामुपसंहरणं भूतान्या- शिवतत्त्वे च संयोजनमेव तासां प्रयत्नपदेनोच्यते ॥२। शमयति विद्याशरीरसत्ता मन्त्ररहस्यम् ॥।३।
परमात्माद्वैतसंवेदनरूपाया विद्यायाः शरीरमखिलशब्दराशिः तस्याल्पाहन्ता
श्वमहमेव पूर्णाहन्ता च सत्ता तत्सफुरणमेव मन्त्रगुप्तार्थस्योत्पादकमिति रहस्यम् ।।३।
। महैश्वर्यं गर्भे चित्तविकासोऽविशिष्ट विद्यास्वप्नः।।४।। करण्यञच पूर्वोक्तं मन्त्रवीर्यं महेश्वरेच्छया योगी अनुभवितु शकनोति। गर्भे महामायायां शक्त्यां चित्तं विकसित सा अशुद्धा विद्या सा स्वप्नस्वरूपिणी विकल्पप्रत्ययात्मिका भवत।।४।।
शकाला- गम्भीर- विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था ॥५।।
२२॥। शिवेच्छया परमात्माद्वतसंवेदनरूपं स्वाभाविकसंवेदनसमुत्थानं भरवतति। पूण निन्द मुच्छ्वसितं कुर्वती मुद्रा खेचरी शिवावस्था भवति। खे गगने चरतीति खेचरी, बोघ रूपे गगने चरणशीला अभिव्यज्यते। मुदं हषं रातीति मुद्रा। इयं विश्वोत्तीर्णा योगिभिरनुभूयते ।।५।। तत्कथमुपलभ्यते अत आह-गुरुरिति।
Page 13
६ शिवसूत्रम्
गुरुरुपायः ॥६।। मन्त्रमुद्रयोः प्राप्त्यर्थ य उपदिशति स गुरुरेव उपायः, तेनैव शाम्भवी- शक्तिरनुगृह्नाति ।६।। : मातृका चकरसम्बोध:।।७।। ईश्वरानुग्रहात्मिकायाः पराशक्तेः प्राप्त्युपायो गुरुः। गुरुकृपातः मातृका- चक्रस्य सम्बोध: सम्यग् ज्ञानं भवति। वाच्यवाचकात्मकस्य विश्वस्य प्रपञचयित्री मन्त्राणां मुख्यं कारणं मातृकैव निश्चिता ।।७।। शरीरं हवि:॥।८। एवमन्गृहीतस्य योगिन: स्थूलसूक्ष्मादिशरीराणि चिदग्नौ हविर्भवन्ति।
ज्ञानमन्नम् ।।६।। तदा बोधस्योर्ध्वप्रकाश: प्रज्वलितो भवति तेन योगिनस्त्रिविवं पूर्वोक्तं ज्ञानं भवति योगाग्निना दग्धम् ।।९।। विद्यासंहारे तदुत्थस्वप्नदर्शनम् ॥१०॥ यदा परमाद्वैतानुभवरूपाया विद्याया अनुत्थानं भवति तदा भेदनिष्ठस्य स्वप्नस्य दर्शनं भवति अत एव योगी विद्यायां सर्वदाऽवहितो भवति ॥१०॥ इति शक्तोपायो द्वितीयोन्मेषः समाप्त: ।।२।।
अथ आणवोपायस्तृतीयोन्मेष: उक्तद्वयोन्मेषाम्यां शिवशक्तिसम्बन्धिनी विवेचना उपस्थापिता, इदानी- मनात्मन्यात्मबुद्धिरनात्मनिचात्मबुद्धिः कथमुत्पद्यते इत्यनयोः प्रवर्तकस्यणुस्वरूप- स्यात्मनो विवेचना प्रस्तूयते-आत्मेत्यादिना।
आत्मा चित्तम् ।।१।। विश्वस्वभावभूत आत्मैव बुद्धिक्रियाणां संकुचितरूपैश्चितं भवति ।।१।। अणुरूपस्यात्मनः कथं यातायात इत्यत आह-ज्ञानमिति।
Page 14
ऋज्वर्थबोधिनीवृत्तिसहितम्
ज्ञानं बन्धः ॥।२।।
म्भवी- संकुचिते स्वरूपे आत्मनो भेदाभासरूपं यज्ज्ञानं तदेव बन्धनं भवति। "सत्वस्थो राजसस्थश्च तमःस्थो गुणवेदकः । एवं पर्यटते देही स्थानात्स्थानान्तरं ब्रजेत्" इति ॥२॥ कलादीनां तत्त्वानाम् अविवेको माया ॥३। तृका- चयित्री किञ्चित्कतृ त्वादिरूपकलादिक्षित्यन्तानां तत्त्वानां कञ्चुकपुर्यष्टकस्थूल देहत्वेनावस्थितानां योऽविवेक: विवेचनाभावः सा माया। तत्त्वाज्ञानरूपः प्रपञ्चो मायेति वा ॥३।। शरीरे संहारः कलानाम्।४। शरीरे स्थूले सूक्ष्मे कारणे वा कलानां तत्त्वभागानां पृथिव्यादिशिवा- न्तानां तत्त्वानां योगी शरीराग्नौ भस्मीभावं नयति लयभावनया।।४।।
तं ज्ञानं नाड़ीसंहार-भूतजय-भूतकैवल्य-भूतपृथकत्वानि ॥५। नाड़ीनां प्राणवाहिनीनां सुषुम्णायां, भूतानां जयो विलीनतापादनं, भूतकवल्यं चित्तस्य प्रत्याहरणम्, भूतपृथवत्वम् भूतानुषक्तस्यात्मनः स्वच्छता- S5पादनम्, एतानि भावनीयानि इति शेष: ।।५।। नष्ठस्य मोहावरणात् सिद्धिः ॥६।। शाम्भवोपायाल्लभ्यमाना सिद्धिः प्रयत्नसाध्या न भवति। आणवो- पायतस्तु प्रयत्नसाध्या अयमेव भेदः, अनेन प्रकारेण देहशुद्धिमारभ्य समाधिपर्यन्तसाधनैः सिद्धिर्भवति मोहावरणात् मोहकृतावणात् न तु परतत्त्व- प्रकाशात् "व्युत्थाने सिद्धयः" इति योगसूत्रम् ॥६।। मोहजयादनन्ताभोगात् सहजविद्याजय: ।।७।। दानी- वरूप- योगी मोहं निजाख्याति यदा जयति तदाऽनन्तसूर्यप्रकाशस्य विस्तारो भवति तेन सहजविद्याया जयो लाभो भवति ।।७॥।
जाग्रद् द्वितीय: करः ॥८॥
11 तस्या: पूर्णाहन्ताया भिन्नो द्वितीय: करः किरणरूपः प्रकाश: इदन्ताविमर्शः अस्य विश्वं स्वकिरणतुल्यं स्फुरति ॥८॥
Page 15
शिवसूत्रम्
नर्तक आत्मा ।।६।। अनेन प्रकारेण स्वेच्छया आधाररूपायां चिति स्वपरिस्प्वलीलया जाग्रत्स्वप्न-सुषुप्ति-भूमिकासु नृत्यन् आत्मा आभासितस्य कारणं भवत नरक इव ॥।९॥ रङ्गोन्तरातमा ।।१०। एवं नाट्य कुर्वन् योगिभूमिकाग्रहणस्थानं स्वयमन्तरात्मा जगद्गुरु- र्जगन्नाटय प्रकाशयति ।१०।। प्रेक्षकाणीन्द्रियाणि ॥११॥ इन्द्रियाणि दर्शकस्थानीयानि भवन्ति ।।११।। धीवशात् सत्त्वसिद्धिः ॥१२।। धीस्तत्त्वचिन्तनजनजन्यवैशद्ययुक्ता तस्माच्च सत्त्वस्य स्फुरणम् तेनान्तर- परिस्पन्दस्य अभिव्यञ्जना जायते स्पन्देऽन्तर्निहिता सिद्धिः सत्त्वसिद्धिः ॥१२।। सिद्धः स्वतन्त्रभावः ।।१३।। अनया सिद्ध्या युक्तो योगी सिद्धः स्वतन्त्रो भवति ॥१३।। यथा तत्र तथान्यत्र ॥१४॥ यथा स्वस्मिन् देहे स्वात्मानन्दमनुभवति तथान्यत्र देहेष्वपि समा प्रतिपत्तिः ।१४।। बीजावधानम् ॥१५॥ अतो योगिना सावधानेन भवितव्यम् प्रत्युत विश्वकारणे चित्तं समा- वातव्यम् ।१६। आसनस्थः सुखं हदे निमज्जति ॥१६॥ पराशक्तौ सावहितो योगी आसनस्थ एव संवित्सिन्धौ ह्रदे सुखेन मग्न- स्तन्मयो भवति ॥१६।। स्वमात्रा निर्माणमापादयति ॥१७। अनेनाणवोपायेन शाक्तावेशप्रकर्षाद् योगी शाम्भवं वैभवमाप्नुवन् स्वेच्छया स्वमात्रां निर्मात शक्नोति अर्थात् बुद्धिक्रिययायुक्तश्चितं निर्माय तां द्रष्टु शक्नोति ।।१७।।
Page 16
ऋज्वयंबोधिनीवृत्तिसहितम्
विद्याऽविनाशे जन्मविनाशः ॥१८।। म्दलीलया iभवत विद्याया अविनाशे सदोदये सति जन्मनोऽज्ञानसहकारिक्रियाहेतुकस्य दुःखमयस्य शरीरादिसमुदायस्य विनाश: विध्वंसः सम्पद्यते ।१८।।
कवर्गादिषु माहेश्वराद्याः पशुमातरः ॥१६।।
जगद्गुरु- यदा योगी शुद्धविद्यायां निमग्नो भवति तदा तं मोहयितुम् अनेका: पाक्तय आविर्भवन्ति तासु कवर्गादिषु अधिष्ठात्र्यो माहेश्वर्यः शक्तयस्तत्त- त्प्रत्यय भूमिषु आविष्टाः सत्यः प्रमातृन् तक्तच्छन्दानुबेधेन मोहनात् पशुभातर इत्युच्यन्ते ।१९॥
त्रिषु चतुर्थ तैलवदासेच्यम् ॥२०॥
शुद्धविद्याप्राप्तौ सत्यामपि योगिना प्रमादेन न स्थातव्यम् जाग्रत्स्वप्न- नान्तर- सुषुप्तिषु तुरीयाया आसेचनं तैलवत्कार्यम्। यथा तैलं क्रमेण प्रसरत् २।। आश्रयं प्राप्नोति तथा तुर्यरसेन मध्यदशामपि व्याप्नुवत् तन्मयत्व प्राप्तव्यम् ।।२०।। मग्नः स्वचित्तेन प्रविशेत् ॥२१।। मग्नस्तुरीयानन्दे शरीरादिप्रमातृत्वं शमयन् स्वचितेन अविकल्पकरूपेण समा समाविश्येत् ॥२१॥ प्राणमाचरे समदर्शनम् ॥२२॥ एवमनुष्ठितं कुर्वतो योगिन: प्राणेऽस्य बहिर्मन्दमन्दप्रसरणे एकात्मतया समा- संवेदनम् सर्वासु अवस्थासु अभेदो भवति तदा अद्वैतानुभवः सम्पद्यते ॥२२॥
मध्येऽवरः प्रसवः ॥२३।
मग्न- यो योगी तुरीयामवस्थां प्राप्नुवन्नपि तुरीयातीतां न लभते मध्ये स्थितस्य तस्य कुत्सितस्य सृष्टौ पतनं भवति ॥२३।
मात्रास्वप्रत्ययसन्धाने नष्टस्य पुनरुत्थानम् ।।२४।। छछया मात्रास पदार्थेषु रूपादिनामकेषु यदा अहमेवेदं सर्वम् इति प्रत्ययानु- द्रष्टु सन्धानं पुनः पुनश्चिन्तनं करोति तदा पूर्वोक्तात् पतनात् नष्टस्य लुप्तस्य तुर्या- नन्दस्य उन्मज्जनमाविर्भावो जायते ॥२४॥
Page 17
१० शिवसूत्रम्
शिवतुल्यो जायते ॥२५।। तुरीयाभ्यासप्रकर्षेण प्राप्ततुरीयातीतो योगी सच्चिदानन्दघने भगवता स्व शिवेन तुल्यो यौगिकशरीरेण सार्धं समो जायते देहकलाया अविलयनात् तद्विगलिते शिव एव। "निरञ्जनः परमं साम्यमुपैतीति" श्रुतेः ॥२५॥ शरीरवृत्तिव्र तम् ॥२६॥ शिवाहम्भावेन वर्तमानस्य योगिनः शरीरे वृत्तिर्वतनं यत्तदेवव्रतम् दि
अनृष्ठातव्यं नान्यदुपयुक्तम् । उक्तञ्च-"अन्तरुल्लसदच्छाभक्तिपीयूष पोषितम्। क
भवत्पृजोपयोगाय शरीरमिदमस्तु मे ॥" इति।
कथाजप: ।।२७।।
ईदृशस्य परमभावनाभावितस्य योगिन: वार्तालापादिकं जपकार्य इ
भवति ।।२७।। दानमात्मज्ञानम् ॥२८। स शिष्येभ्यो दानम् आत्मज्ञानं ददाति समर्थत्वात्। दीयते इति क दानम् ॥२८॥ योऽबिपस्थो ज्ञाहेतुश्च ॥।२६।। तस्य माहेश्वर्यादयःशक्तय :- अवीन् पशुजनान् पातीति अविपं शक्ति- मण्डलं-कवर्गाद्यधिष्ठात्र्यो देव्यो भवन्ति। तासां प्रभुत्वेन यः स ज्ञानशक्ति हेतुः, भ ज्ञानशक्त्या विनेयान् बोधयित् च निश्चयेन समर्थो भवति ॥२९। स्वशक्तिप्रचयोऽस्य विश्वम् ॥३०॥ तस्य स्वशक्त्यात्मकसंवेदनस्य स्फुरणात्मको विकास एव जगत्। उक्तञ्च- स "शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः।" इति॥ शक्तिप्रचयः क्रियाशक्तिस्फुरणरूपो विकासो विश्वमित्युच्यते ॥३०॥ स्थितिलयौ॥३१। तस्मिन् चिन्मयाहन्तायाः स्थिति:, तथात्मविश्रान्तिरूपोलयोऽपि क प पवति॥३१। तत्प्रवृत्तावप्यनिरासः संवेतृभावात् ॥३२। ये विकासा: संकोचा अपि स्वशक्तिविकासात् आत्मसंविदि एव जायन्ते। मन् सृष्टिस्थितिध्वंसानामन्योऽन्यभेदेन योगिन: स्वरूपे एवान्यथाभावः परि च
Page 18
ऋज्वर्थ बोधिनीवृत्तिसहितम् ११
ज्ञान- ने भगवता णाम आगच्छतीति चेन्न तत्प्रवृत्तावपि स्वरूपच्युतेरभावात्
त् तद्विगलिते स्वरूपत्वात् ।।३२।।
सुखासुखयोर्बहिर्मननम् ॥३३॥ लोकवत्तस्य योगिन: सुखदुःखयो: संवेदनं न भवति। स तु नीलपीता- यत्तदेवव्रतम् दिवदनयोबंहिरेव मननं करोति। प्रशान्तमातृताभावो योगी सुखदुःखाभ्यां पोषितम् । कथमपि न सम्बध्यते ।।३३।।
तद्विमुक्तस्तु केवली ।।३४। सुखदुःखाभ्यां विमुक्तस्तत्संस्कारैश्चास्पृष्टो योगी केवली चिन्मय क जपकार्य इत्युच्यते ॥३४॥
मोहप्रतिसंहतस्तु कर्मात्मा ।३५।।
दीयते इति मोहेन अज्ञानेन प्रतिसंहतस्तादात्म्यमापन्न स एवं कर्मात्मा संसारीति कथ्यते। उक्त च-"अज्ञानकघनो नित्यं शुभाशुभकलङ्कितः।" इति।
भेदतिरस्कारे सर्गान्तरकर्मत्वम् ॥३६॥
विपं शक्ति- देह-प्राणादौ यः अहन्तारूपो भेदस्तस्य तिरस्कारात् शुद्धचैनन्यावि- नशक्ति हेतुः, र्भावात् सर्गान्तरकर्मत्वम् अभिलषितवस्तुनिर्मातृत्वं भवति ।।३६।।
करणशक्ति: स्वतोऽनुभवात् ।।३७।। यथा स्वप्नसङ्कल्पादो स्वतः करणसामर्थ्यस्य दर्शनात् करणशक्तिरनुभूयते । उक्तञ्च- सर्थव स्वानुभवे सततं संल्लग्नाद् योगिन: करणशक्तिर्भवति ॥३७॥ शक्तिप्रचयः त्रिपदाद्यनुप्राणनम् ॥३८। स योगी दृढ़भावनातः स्वप्नसङ्गल्पेन तुल्यसृष्टिं करोति। अनया स्वतन्त्र-
तरूपोलयोऽपि करणशक्त्या अवस्थात्रयं जाग्रत्स्वप्नसुषुप्त्याख्यं धृत्वा अनुप्राणिति यद्यपितुर्याख्यं पदं माययाच्छादितं तथापि विषयभोगाद्यवसरेषु विद्युद्वदवभासनं तेन अनुप्राणनं स्वात्मन: उत्तेजनं कर्तव्यम् ।।३८।। चित्तस्थितिवच्छरीरकरणं बाह्येषु॥३६॥ एव जायन्ते। भाव: परि इयं स्वतन्त्राशक्ति: चित्तस्थितितुल्यं शरीरं बाह्य करणमिन्द्रियं तद्विषयं च अनुप्राणिति तन्मयी च भवति ।।३९।
Page 19
१२ शिवसूत्रम्
अभिलाषाद्वहिर्गतिः संवाह्यस्य ।।४०।। यदि योगी तुरीयावस्थातो देहादिषु प्रच्युतो भवति तेषु अहंममाभि- मन्यते तहिं अपूर्णमान्यतारूपया अनया अभिलाषया जन्मजन्मान्तरेषु भ्रमणशीलस्य पशुत्वस्य केवला बहिर्गतिरेव भवति ।।४०।।
तदारूढप्रमितेस्ततक्षयाज्जीवसंक्षयः ।४१।।
संवित्परामर्शसंलग्नस्य योगिन: अभिलाषक्षयात् जीवत्वभावना अपि विनंश्यति केबलं चिन्मात्ररूपेण स्फुरतीत्यर्थः ।४१।
भूतकञ्चुकी तदाविमुक्तो भूयः पतिसमः परः ॥४२॥
प्रपञचरूपात्पञ्चकञ्चुकात् विमुक्तो योगी पतिसमः शिवतुत्यः परः उत्कृष्टः स भवति ।।४२।।
नैसरगिक: प्राणसम्बन्धः ॥४३।।
यद्यपि शिवत्वमनुभवति तथापि पाञ्चभौतिकशरीरेण सम्बन्धयुक्त एव भवति यतस्तस्य प्राणसम्बन्धस्य स्वाभाविकत्वात् ।।४३।।
नासिकान्तर्वतिन्या: प्राणशक्तेश्चन्द्रसूर्यसुषुम्णात्मिकायाः संयमादेकीकरणात् परायां संविदि विमर्शे सततरता आन्तरं मध्यं प्रधानमन्तरतमं विमर्शरूप संयच्छन्तो ये महात्मानो तेषां कृते किमवशिष्यते न किमपीत्यर्थ ।४४।।
भूयः स्यात् प्रतिमीलनम् ॥४५।। ते योगिनो जीवन्मुक्ता अहरह: परमानन्दमेवास्वादयन्ति चैतन्यात्म- रूपोन्मीलनरूपं तेषां भवतीति ।।४५।।
इति श्रीशिवसूत्राणामृज्वर्थबोघिनीवृत्तौ आणवोपाय प्रकाशन नामक :- तृतीय उन्मेषः समाप्तः ।
Page 20
अहंममाभि- मणशीलस्य
भक्तिदर्शनम
वना अपि ऋज्वर्थंबोधिनीवृत्तिर्साहिंतम् तस्यायं प्रथमाह्निक: १२॥। वाचकात्मना प्रणवेन परतत्त्वं भगवदाख्यं स्मरन् महर्षिः शाण्डिल्यः तुल्यः पर: कर्मज्ञानाभ्यां प्राप्ताधिकाराय मुमुक्षवे सरहस्यं भत्तितत्त्वमुपदिशन् सूत्रयति "ॐ" इत्यादि-
ॐ अथातो भक्तिजिज्ञासा ॥१।
धयुक्त एव अथेत्यानन्तर्यार्थो गृह्यते नाधिकारार्थो मङ्गलार्थो वा, अधिकारार्थस्य समन्वयाभावात् मङ्गलार्थस्य च शिष्टाचारानुमोदितस्य श्रुत्याप्रयोजनवत्वात् 1४४- अन्येन नीयमानोदककम्भवत् साफल्यम्। कर्मज्ञानानुष्ठानान्तरमित्यर्थः। यतो हि कर्मज्ञानाभ्यां भगवत्तप्राप्तेरभावात् अतः कारणात् भक्तिजिज्ञासा-भक्तेः कीकरणात् भगवदनुग्रहप्रतिपादकशास्त्रस्य जिज्ञासा ज्ञातुमिच्छा-कर्तव्येतिशेषः। कर्मणि विमर्शरूप षष्ठी। शास्त्रादौ श्रोतृप्रवृत्तये अनुबन्धचतुष्टयं विषयसम्बन्धप्रयोजनाधिकार्या- दिप्रसङ्गानुसारं ज्ञातव्यत्वेन योज्यम् ।१। भक्तेर्लक्षणं कुर्वन्नाह-सेत्यादि॥
चैतन्यात्म- सा परानुरक्तिरौश्वरे ॥२॥
ईश्वरे सर्वश्वर्यवति भगवर्न परा सर्वातिशायिनी सर्वेभ्यो लौकिदा- लौकिकविषयेभ्य उत्कृष्टा अनुरक्ति: प्रेमलक्षणा सा भक्तिरुच्यते भगवत्-
मक :- प्रवणैर्महात्मभिरिति ।।२।। एवं लक्षणलक्षितस्य भक्तितत्वस्य प्रयोजनमाह-तदित्यादिना।
तत्संस्थस्यामृतत्वोपदेशात् ॥३।। तस्यां भक्ती तिष्ठतीति तत्संस्थस्तस्य तत्संस्थस्य अमृतत्वोपदेशः मोक्षो-
Page 21
१४ भक्तिदर्शनम् पदेशस्तस्मात् "ब्रह्मसंस्थोऽमृतत्वमेति" इति श्रुतेः। साध्यसाधनयोरैक्य- मभिप्रेत्य ब्रह्मसंस्थेति निर्देशः। अहंममाभिमानवतो बन्धकोटौ निक्षिप्तस्य संसारिण: अनिशं शोकमोहपरिपूर्णः संसार: प्रवर्तते। यदा तु भगवति प्रेम- लक्षणां रति कुरुते तदा विमुच्यते इत्यर्थः । ननु "ऋते ज्ञानान्नमुक्तिः" इति श्रुतेर्ञानादेव मुक्तिः प्रतिपाद्यते कथ- मत्रोच्यते भक्त्या इति चेन्न गौणत्वात् ज्ञानाद् गौणरूपव मुक्तिर्भवति न तु मुख्या। प्रधानभूतामुक्तिस्तु भक्त्यैव भवति इत्याशयः ॥ "ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्। भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः ।।" इति भगवद्वचनात् अभिजानातिना तादात्म्यरूपा मुक्ति: सिद्ध्यति ॥३। एवमुक्ते भक्तिज्ञानयोरभेद एव सिध्यनीति तन्निषेद्धुमाह-ज्ञान मित्यादि।
ज्ञानमितिचेन्न द्विषतोऽपि ज्ञानस्य तदसंस्थितेः ।४॥
ईश्वरसम्बन्धिज्ञानविशेषो न भक्ति किन्तु तस्मिन् परमा प्रीतिरेव भक्तिपदार्थः। यतः शत्रूणामप्रीतिभाजामपि ज्ञानं भवति परन्तु तस्मिन् प्रीत्यभाव एव भवति तस्मात् नास्ति उभयोरेक्यमिति ।।४।। द्वयोविरोधमाह-तयेति।
तयोपक्षयाच्च ।।५।।
प्रत्युत तया भक्त्या ज्ञानस्योपक्षयो लयस्तस्माच्च हेतोर्भक्तेरेव मुख्यत्वं भगवत्प्राप्तौ इति स्वीकर्तव्यम् प्रेमातिशयेन जीवस्य तदा परमात्मनि लयो भवति। एवं सति मध्यवर्तिनो ज्ञानस्य कथं स्थितिःस्यादित्यभिप्रायः ।।५।। स्वरूपमाह-द्वेषेत्यादिना।
द्वेषप्रतिपक्षभावाद्रसशब्दाच्च रागः।।५।।
द्वषस्य अप्रीते: प्रतिपक्षभावात् विरोधित्वात् रसशब्दप्रतिपादकत्वाच्च रागो भक्ति: "रसं ह्य वायं लब््वाऽऽनन्दी भवति" इति श्रुतेः। हयव शब्दाभ्यां व्वेषस्य तत्प्रतिपक्षनिवृत्तिर्गम्यते।।६।। भक्तेः स्वतन्त्रत्वमाह-नेत्यादिना।
Page 22
ऋज्वर्थबोधिनीवृत्तिसहितम् १५
न क्रियाकृत्यनपेक्षणाज् ज्ञानवत् ।।७।।
यथा ज्ञानस्य क्रियादीनामपेक्षा ज्ञातृज्ञेयादिरूपा विद्यते तथा भक्तेर्नास्ति तदवपेक्षणात् स्वतन्त्रत्वात् सा तु भगवत्कृपर्यव लभ्यते न साधनैरिति भाव: ।।७।।
तस्या:फलानन्त्यमाह-अतएवेत्यादिना।
अत एव फलानन्त्यम् ।८।।
यद्यत्साधनजन्यं तत्तदनित्यमितिव्याप्त्या साधनजन्यत्वाज्ज्ञानस्य फलं नश्वरमेव; भक्तिफलन्तु नित्यमनन्तं साधनाजन्यत्वात्। भगवत्कृपायाः स्वातन्त्रयं जीवकृतसाधनाविषयत्वेन निर्णीतमित्यर्थः ॥८॥ ज्ञानादभक्तिसौलभ्यमाह-तद्वत इत्यादिना।
तद्वतः प्रतिपत्तिशब्दाच्च न ज्ञानमितरप्रतिपत्तिवत् ॥।६।।
ज्ञानवतामपि प्रतिपत्तिशब्दाद् भगवच्छरणप्रतिपादकात् शास्त्राच्च न ज्ञानं मुख्यं साधनमवगम्यते। "कुर्वन्त्यहैतुकीं भक्तिम्।" "निवृत्त- तर्ष रुपगीयमानात्" इत्यादि शास्त्रप्रमाणाद् ज्ञानिनोऽपि ऐकान्तिकीं भक्ति कुर्वन्त्येव। इतर प्रपत्तिवच्च न । अर्थात् इतरेषां प्रपत्तिवत् शरणागतिच्च ज्ञानं न किन्तु भक्तिरेव सर्वेषां सुलभा भागवतादिषु प्रसिद्धा यथा ब्रजगोपिका ध्रवप्रह्लादादीनां तथा ज्ञानं न सर्वेषां सुलभ क्वचित्प्रसिद्धम्। "दुर्गपथ- स्तत्कवयो वदन्ति" इति श्रुतेः । ज्ञानमार्गस्य दुर्गत्वावबोधनाच्च भक्ति- दाढर्याय ज्ञानस्य निन्दास्मरणाच्च अत एव भक्तिदाढर्याय ज्ञानस्य निन्दन- मपि दृश्यते। "आरुह्य कृच्छरेण परं पदं ततः पतन्त्यधीऽनाहतयुष्मदङ्घ्रय." इति ।।९।। भक्तेर्मुख्यत्वमाह-सेत्यादिना।
सा मुख्या इतर/पेक्षितत्वाच्च ।।१०।।
इतरेषु भक्त्यतिरिकतेषु सर्वेषु साधनेषु अपेक्षितत्त्वात् सिद्धिप्रदत्वेना- वश्यकत्वाच्च सा भक्तिर्मुख्या प्रधाना मन्यते महात्मभिरिति शेषः ॥१०॥ भक्ते: स्वाभाविकत्वमाह-प्रकरेत्यादिना।
Page 23
१६ भक्तिदर्शनम्
प्रकरणाच्च ।।११।।
प्रकरणात् प्रकृतेश्च भक्तेः सार्वभौमत्वं न्यायसिद्धमस्ति यथा लोक अनुरागादेव सर्वेषां कार्याणां सिद्धिर्भवति तद्वत् पारमार्थिके विषयेऽपि अनुरागस्य मुख्यत्वमम्युपगन्तव्यम् तस्य स्वाभाविकत्वात्। भक्तिहीनं साधनं निरर्थकमित्यर्थः ।।११।। अन्यसावनेभ्यो विलक्षणत्वमाह-दर्शनं फलमित्यादिना।
दर्शनं फलमितिचेन्न तेन व्यवधानम्॥१२॥
ज्ञानादुपासनाच्चेश्वरदर्शनं फनं सम्पद्यते परं ततु भक्तिफलं भवितुं नार्हति तेन ज्ञानोपासनादिसावनेन व्यवधानात् तद्भावापत्तेरभावात् तस्य त्रिपुटी विषमत्वात् भक्तिस्तु अभेदं सम्पादयति अत एव विलक्षणेति ॥१२। लोकसिद्धनिदर्शनेनाह- दृष्टत्वाच्च ।।१३।। लोके प्रियप्रियतमयोरैक्यं दृष्टम् तस्य भावस्तस्माच्च सर्वेभ्यः साधनेभ्यो भक्तिर्गरीयसी तत्प्रतिपादकतवात् ।१३।। दृष्टानायति अज एवेत्यादिना।
अत एव तदभावाद् वल्लवीनाम् ।।१४। अत एव कारणात् तदभावाद् ज्ञानविज्ञानाद्यभावात् अपि वल्लवीनां व्रजगोपिकानामनुरागादेव मुक्तिलाभ: प्रसिद्धो भक्तिशास्त्रे ॥१४।।
भात्या जानातीति चेन्न अभित्ञप्तया साहाय्यात् ।१५।।
भदत्या मामभिजानातीति भगवद्वचनेन ज्ञानसाधनीभूताभक्तिरिति मन्यते इति चेत्न अभिज्ञप्तया साहाय्यात् तत्त्वज्ञानरूपेण साहाय्यमेव ज्ञानं करोति न प्रीत्या जन्यते किन्तु भक्तिरपूर्वा तद्विलक्षणवाभिमता आचार्याणामिति॥१५ उक्तं स्मारयत-प्रागित्यादिना।
१-मूल पुस्तके "वल्लभीनामिति"पाठोऽस्ति।
Page 24
ऋज्वर्थबोधिनीवृत्तिसहितम् १७
प्रागुक्तशच ॥१६॥ प्राचीनैराचायेरेवमेवोक्तं पूर्वः सूत्रः, मया शाण्डिल्येनापि प्रतिपादितम् । तथाचाह भगवान् वासुदेव :- "ब्रहमभूतः प्रसन्नात्मा न शोचति न काङ्क्षनि। सम: सर्वेषु भूतेषु मद्भक्तिं लभते पराम्।" तेषां ज्ञानी नित्ययुक्तः एकभक्ति्विशिष्यते।" इति ॥१६।
एतेन विकल्पोपि प्रत्युक्तः।।१७।। एतेन पूर्वोक्ताप्तवाक्येन युक्त्या च विकल्पो भावाभावविषयकः सन्देहोऽपि प्रत्युक्त: प्रत्याख्यातो वेदितव्यः ॥१७।। देवादिभक्तितो वैलक्षण्यमाह-देवेत्यादि।
देवभक्तिरितरस्मिन् साहचर्यात् ॥१८।। परमात्मानं परित्यज्य कामनादोषदुष्टान्त:करणा ये पक्षपातयुक्तया बुद्ध्या अन्यदेवतामुपासते ते भगवद्भक्ता न भवितुमर्हन्ति। तेषामन्यत्रापि विषवादिष्वपि भेदरूपेषु पक्षपातो दृश्यते। तस्य पक्षपातस्य साहचर्यात् तेन सारधं सहभावस्य दर्शनात्। न तथा भगवद्धक्तानां निवृत्तकामत्वात्तेषाम् इत्यर्थः ।१८॥। योगस्योपयोगितामाह-योगेत्यादि।
योगस्तूभयार्थमपेक्षणात् प्रयाजवत् ॥१६।। चित्तवृन्िनिरोधात्मको योगस्तु उभयात्मक भक्तिज्ञानयोरुभयोः साहाय्यमाचरति ; काकाक्षिन्यायवत्. प्रयाजवत् यथा प्रयाजो वाजपेय- मुपकरोति इति ॥१९॥ इति प्रथमाह्निक: समाप्तः । इयता ग्रन्थेन पराभक्ते: स्वरूपं याथातथ्येन प्रदर्श्य इदानीं मध्यमा- धिकारिणोऽपि क्रमेण भक्तिभाजो भवेयुरिति गौणीं भक्तिं कथयति- गौणेत्यादिना।
गौण्या तु समाधिसिद्धिः ॥।२०।
गौण्या अपरया भक्त्या गौण्येति निर्देशेनोक्तायाः, परत्वं समायातं प्रीत्या,
Page 25
१८ भक्तिदर्शनम्
समाधिसिद्धिः, समाधिर्योगः युज् समाधावितिस्मरणात् तस्य सिद्धिः प्राप्तिः पूर्णतेति यावत् ईश्वरप्रणिधानादित्युक्तत्वात् ॥२०॥ सर्वदोषाकरत्वाद्रागस्य तदपरनामधेयस्य भक्तितत्त्वस्यापि रागत्वात् हेयकोटि निविष्टत्वेन कथमुपादेयत्वमिति महतीमाशंकां दूरीकुर्वन्नाह- हेयेत्यादि।
हेया रागत्वादितिचेन्नोत्तमास्पदत्वात्सङ्गवत् ॥२१।।
अनुराग एव भक्तिरित्युक्तः सोऽनुरागो दुःखकारणत्वात् हेयः तथापि उत्तमास्पदत्वाद्गगवत्प्रापकत्वात् संङ्गवत् सत्सङ्गवद् ग्राह्य एव यथा सङ्गस्य बन्धजनकत्वात् मुमुक्षुभिः तन्निवृत्तिः क्रियते परं सत्संयस्तु तद्विपरीतः, तद्वद्भक्तिरपि रागस्वरूपात्मिका सती अपि दोषजनिका न किन्तु भगवत्प्रापिका अतएव ग्राह्या शुद्धत्वात् ।२१॥ भक्तस्य श्रैष्ठय प्रतिपादयति-तदेवेति।
तदेव कर्मिज्ञानियोगिभ्य आधिक्यशब्दात् ॥२२।।
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद् योगी भवार्जुन। योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान् भजते यो मां स मे युक्ततमो मतः । इति भगवद्गीतोक्तेः सर्व समञ्जसम् ॥२२॥
प्रश्ननिरूपणाभ्यामाधिक्यसिद्धेः ।।२३।।
प्रश्ननिरूपणाभ्यां गीतोक्तकृष्णार्जुनसंवादाभ्यामाधिक्यस्य सर्वसाधन- श्रेष्ठत्वस्य सिद्धे: सिद्धत्वात् युक्ततमत्वस्य प्रतिपादनात् ।।२३।
नैव श्रद्धा तु साधारण्यात् ॥२४।।
भक्तेः श्रद्धासादृश्यं नास्ति तस्याः श्रद्धायाः साधारण्यात् सामान्यात् सर्वत्र तुल्यत्वेनाभ्युपगमात्। भक्तिस्तु विशेषरूपा अतएव विलक्षणा। उभयोर्भेदमाह-तस्येत्यादिना।
Page 26
ऋज्वर्थंबोधिनीवृत्तिसहितम् १९ तस्याअन्यत्र चानवस्थानात् ।।२५।। श्रद्धाया अनेकत्र विद्यमानत्वम्, भक्तिस्तु केवलं भगवन्तमेवाश्रयति अत उभयोर्भेद: स्पष्टः ।२५।। व्रह्मकाण्डस्य वेदस्यापि भक्तौ तात्पर्यमिति कथयति-ब्रह्मेत्यादिना। ब्रह्मकाण्डन्तु भक्तौ तस्यानुज्ञानाय सामान्यात् ॥२६।। ब्रह्मकाण्डमुपनिषच्छास्त्रन्तु निश्चयेन भक्तौ पर्यवसितम् अतएव ज्ञानोप- देशानन्तरं भक्तितत्त्वोपदेशः सङ्गच्छते-"यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ।" इति भक्तिसाधनत्वेनैव ज्ञानकाण्डस्य उपयोग: श्रुतः अतएव तत्साधारणम् तस्माद्वेतोर्भक्तिरेव परमपुरुषार्थसाधनरूपा स्वीकर्तव्येति निर्णय: ॥२६॥ इति श्रीभगवच्छाण्डिल्यकृते ऋज्वर्थबोधिन्यां वृत्तौ प्रथमेऽध्याये द्वितीयाह्निक: समाप्तः ।
अथ द्वितीयोऽध्यायः तस्यायं प्रथमाह्निक: परागौणीभेदभिन्नस्य भक्तितत्त्वस्य रूपं निश्चित्य भक्ताचार्याणां सम्मति दर्शयित तथा सृष्टिकमविषयकं तत्त्वं दिदरशयिषुराचार्यः आह- बुद्धीत्यादि। बुद्धि हेतुप्रवृत्तिराविशुद्धेरवघातवत् ।।२७।। बुद्धिहेतुकप्रवृत्तय आविशुद्धेश्चित्तशुद्धे: पर्यन्ता एव भवन्ति अवघातवत्। यथा अवघातस्तुषनिवृत्तिपर्यन्तो भवति तथैव ज्ञानोपासनापराश्चि त्तव्यापारा अपि चित्तशुद्धिमभिलक्ष्यंव जायन्ते ॥२७॥
तदङ्गानाञ्च ॥२८। तदङ्गानां गौणीयसाधनानां श्रवणमननादीनां च आवश्यकता निवर्तते भगवद्धावदाढर्यार्थमेव तेषामुपयोगः तद्दाढर्य सति तन्निवृत्तिः ॥२८।। अस्मिन् विषये काश्यपाचार्यसम्मति दर्शयति-तामिति।
Page 27
२० भक्तिदर्शनम्
तामैश्वर्यपदां काश्यपः परत्वात् ॥२६॥। तामुक्तलक्षणावस्थां द्वैताचार्य: काश्यम: ऐश्वर्यपदां ब्रवीति जीवेश्वरयो- नित्यस्वातन्त्र्यमभ्युपगम्य एतद् भवति नित्यषड्विधैश्वर्ययुक्त ईश्वरः। सुख- दुःखादिसंसारधमयुक्तोऽणुपरिमाणश्च जीवः। उभयोर्भेदः सार्वकालिको नित्यश्च "द्वासुपर्णा" इत्यादिश्रुत्युक्तः। भक्त्या जीवस्तदैश्वर्यभावमुप- गच्छति "निरञ्जनः परमं साम्यमुपैति"। इति श्रुत्यनुसारमिति काश्यप आचार्यो मन्यते ॥२९। द्व तस्य परिच्छिवन्नत्वादपूर्णत्वमिति मत्वा बादरायणचार्योऽपरितुष्टो ब्रह्मात्मैक्यलक्षण। परां भक्तिमेव निःश्रेयससाधनं मन्यमान आह-आत्मे- त्यादि।
आत्मैकपरां बादरायण: ।।३०।।
अद्वैताचार्यों बादरायण आर्त्मकपरां द्वैतनिवृत्तलक्षणामेवभक्तिं मन्यते भेदस्य मायिकत्वात्। "व्रहमभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भवितं लभते पराम्॥" इत्युवतेः। तच्चाद्वैतं द्विबिधम् परिणामि विवर्तञ्चेति भेदान्। भत्तिशास्त्रे पूर्वमेव ग्राह्यम्, द्वितीयन्तु अनुपयोगिज्ञानमात्र प्राधान्यात्। पूर्वस्मिन् अद्वैते सत्ख्यातिरपरस्मिन् अनिर्वचनीय ख्यातिः ब्रह्मभिन्नस्य सर्ववस्तुजातस्य मिथ्यात्वात् किञ्चिदपि निरूपयित् सर्वथा अशक्यमेव ।३०॥ इ
प्रकृतशास्त्राचार्यस्य श्रीशाण्डित्यमहर्षेस्तु द्वयं द्वैताद्वैतमनुमतं संवाद- रूपात्मकत्वादित्याह-उभयेत्यादि।
उभयपरां शाण्डित्यः शब्दोपपत्तिभ्याम् ॥३१॥ चेन्न
शाण्डित्यः प्रकृतदर्शनोस्कर्ता आचार्य: उभयपरां द्वैताद्वैतपरां भेदा- स्व: भेदप्रतिपादनपरां मन्यते शब्दोपपत्तिभ्याम्, शब्दो बेदादिशास्त्रम्, उपपत्ति- र्युक्ति: ताभ्यामिति, यदा द्वैतमिव भवति तदा इतर इतरं पश्चति-यस्य तु सर्वमात्मैवाभूत् तत्केन कं पश्येत् ; "सर्वं खल्विदं बह्म" कार्यकारणयो- रभेदात् अद्वैतम् कार्यस्य कारणान्न्यूनवृत्तिमत्वाच्च द्वैतम् सत्कार्यवादे कार्यस्य सत्यत्वात् कारणावस्थायामपि विद्यमानत्वमभ्युपगतम् अद्वं तसहिष्णु द्वैतं तु सर्वथा त्याज्यम तस्य द्वैनमूलकत्वात् सुषुप्तिवत् इति युक्तिः। यथा १ --
Page 28
ऋज्वर्थबोधिनीवृत्तिसहितम् २१ स्वापकाले निवृत्तव्यवहारत्वाद् भेद: जाग्रदवस्थायां जगत्प्पञ्चस्य प्रतीय- मानत्वाद् द्वैतमित्युभयोर्विवेकः। इत्थं भेदाभेदशास्त्रं सभ्यक समन्वितं भवति।।३१।। द्वैताद्वैतयो: तमः प्रकाशवद् विरुद्धत्वाद् कथं समन्वयः इत्याशंङकां समाधातुमाह-वैषम्यादित्यादि। वैषम्यादसिद्धमितिचेन्नाभिज्ञानवदवैशिष्टचात् ।।३२।। द्वैताद्वैतयो: परस्परं वैषम्याद् विरुद्धत्वात् सिद्ध विप्रतिषिद्धमितिचेन्न अभिज्ञानवत् स्मृतिमिश्रप्रत्यक्षज्ञानवत् अवशिष्टयात् सामान्यादित्यविरोधः। "सोऽयं देवदत्त" इति ज्ञाने यथा परोक्षापरोक्षयोरुभयोरक्यं तथा द्वैताद्वतयो- रविरोधऽवगन्तव्यः । सुषुप्तिदृष्टान्तः पूर्वसूत्रे; प्रदर्शितः, 'खद्योतवच्चाव- गमनीयः ।३२।। वैषम्यनिर्मुक्तित्वं भगवतः प्रतिपादयति-नचेत्यादिना। न च क्लिष्टः परः स्यादनन्तरं विशेषात् ॥३३॥ पर: परमात्मा पुरुषोत्तमो न क्लिष्टः वैषम्यदोषदुष्टो न भवति, यतो ज्ञानेनैव विशेषभावानामुपलब्धिर्भवति, तच्चात्पज्ञानेन जीवस्यैव सम्भवति न परमेश्वरस्य स तु सर्वदा विशेषज्ञानवान् अतो निर्दुष्ट इत्यर्थः ॥३३॥ भगवतो ऐश्वर्यमपि निरवधिकमित्याह-ऐश्वर्यमिति। एश्व्यं तथेतिचेन्न स्वाभाव्यात् ॥३४।। ननु भगवतः ऐश्वयं षड्विधरूपेण प्रसिद्धम्। तथेति विलष्टमिति चेन्न स्वाभाव्यात्-क्लेशेन अस्पृष्टत्वमेव तस्य स्वाभाव्यात्-स्वाभाविकत्वात् स्वभावसिद्धस्य प्रतिबन्धायोगात इत्यर्थः ।।३४।। तदेव स्पष्टयति-अप्रतिषिद्धमिति। अप्रतिषिद्धं परैश्वर्यं तदभावाच्च नैवमितरेषाम् ॥३५॥ ईश्वरस्यैश्वर्यं कदाचिदपि केनचिदपि न प्रतिबध्यते नित्यत्वात्, इतरेषां १ -- खद्योत: कीटविशेष: प्रकाशान्धकारयुक्त: ।
Page 29
२२ भक्तिदर्शनम्
जीवानां तदभावात् अस्वाभाविकत्वात् ईश्वरसादृश्यं नास्ति अविद्यया प्रति- वद्धत्वात्तेषां क्षुद्रत्वमवगन्तव्यमित्यर्थः ।।३५।। अनुपपत्ति दर्शयति -- सर्वान्ते इत्यादिना।
सर्वानृते किमितिचेन्नैवं बुध्यानन्त्यात् ॥३६॥ सर्वस्य ऐश्वर्यस्य मिथ्यात्वात् परित्यागे सति ऐश्वर्य' किम् किमर्थ- मिति चेत् नैवं, जीवबुद्धीनामानन्त्यात् नहि सर्वे जीवा ऐश्वर्यनिरपेक्षा भवितुमर्हन्ति। संस्कारवचित्र्येणानन्तत्वात् तेषाम्। "मनुष्याणां सहस्रषु कश्चिद्यतति सिद्धये।" इति -- विरलत्वमवगम्यते। अतः सर्वत्र ग्रन्थेषु सिद्धीनां वर्णनं सङ्गच्छते ॥३६॥ सङ्क्षेपेण जीवेश्वरयोः स्थिति निरूप्य प्रकृतेः सृष्टिकतृ त्वमाह-प्रकृती- त्यादिना।
प्रकृत्यन्तरालादवैकार्य चित्सत्वेनानुवर्तमानत् ।।३७।। कारणकार्यभावयोरन्तरालाद् माध्यममाश्रित्य, "ल्यब्लोपेपञ्चमी," वैकार्यं सृष्टिकार्यं भवति प्रकृतेः अस्वातन्त्र्यात् चित्सत्त्वेनानुवर्तमानात् चित्स्फुरणमादायव प्रकृतिर्जगत्कार्य करोति, न तु स्वातन्त्रयेण साङ्ख्यवदि- त्याह भगवान् वासुदेव :-- "मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्।" इति- गुण वैचित्र्येण सृष्टिस्थितिलयाः प्रकृतितो भवन्ति। प्रकृति विशिष्ट ब्रह्मजगदा- कारेण परिणमते ब्रह्मविशिष्टं प्रकृतितत्वं वेति स्वीकर्तव्यम्। मृत्तिकासुवर्ण कार्ष्णायसादिश्रौत दृष्टान्तेषु अविकृतपरिणामवादस्यैवाङ्गीकारात् विबर्त- स्यानुपलम्भाच्च ।।३७।।
तत्प्रतिष्ठा गृहपीठवत् ॥३८॥ तत्प्रतिष्ठा तस्या: प्रकृतेः प्रतिष्ठा आधारः तत्प्रतिष्ठा परमपुरुषः तस्मिन् प्रकृतिः शक्तिरूपेण तिष्ठति आधाराधेयभावः सम्बन्धः गृहपीठवत्। यथा गृहे पीठे आसनविशेषे तिष्ठन् उच्यते तेन उभयोः स्थितिः एव बुध्यते तिष्ठतः पीठस्य च तद्वत् प्रकृतिपुरुषयोः सम्बन्धः ज्ञातव्य इति॥३८॥ त परस्परं सापेक्षत्वमाह -- मिथ इत्यादिना।
मिथोपेक्षणादुभयम् ॥३६॥ स सृष्टिकार्ये मिथः उभयो: प्रकृतिपुरुषयोरपेक्षा अस्ति तस्मादुभयं कारणं स
Page 30
ऋज्वर्थबोधिनीवृत्तिसहितम् २३ सिध्यति, विशिष्टस्य ऐक्यात् उभयोरभेद इति विशिष्टमतवादिनो मते केचिद्नित्यमङ्गीकुर्वन्ति। तेषामपि मतं युक्तिविरुद्धमेवावगन्तव्यम नित्यभेदाङ्गी- कारे अद्वैतकथनं हास्यास्पदमेवेति ।३९॥ तदेव द्रढयति-चितीत्यादिना। "चित्यचितोर्नतृतीयम्" ॥४०॥ चित्यचितोः शक्तिशक्तिमतोरभेदन्यायेन उभयोस्तयोरैक्यमेव मन्तव्यम् न तृतीयमित्यर्थः ।४०।। युक्तौ च सम्परायात् ॥४१।। युक्तौ सृष्टिकाले उभयोश्चित्यचितोः पार्थकयमस्ति तदुपरते तयोः ऐक्यमेवास्ति ब्रह्मणा सार्वं न पदार्थत्रयमित्यर्थः । तदेव ब्रह्मविद्धिर्ब्रहम उच्यते चिदचितोस्तस्य शक्तित्वादभिन्नत्वम् सिध्यति ।४१।। तयोश्चिदचितोः सत्यत्वमाह-शक्तित्वादित्यादिना। शक्तित्वान्नानृतं वेद्यम् ।।४२।। शक्तिशक्तिमतोरभेदात् शक्तिपरिणामभूतं जगत् न मिथ्या सत्कार्यवादे कार्यस्य सत्यत्वात्, तच्च कार्य द्विविधम् सूक्ष्मं स्थूलं च। स्थूलस्य विनाशि- त्वम् सूक्ष्मस्य कारणेन सार्ध स्थायित्वं नित्यत्व च अन्यथा कार्यकारणभाव सम्बन्धरहितत्वेन नियमतः कार्यानुत्पादापत्तेः। दुग्धादेव दध्नः उत्पत्ति प्रतिनियमविशेषाभावाद् अव्यवस्थोपपत्तेश्च। अत एव शक्तेः सत्यत्वाद् वेद्यस्य जगतो नित्यत्वं सत्यत्वं च सिद्धम् ।।४२।। उक्तेभ्यः प्रसङ्गभ्यो द्वताद्वतादिनिर्णयपूर्वकः सृष्टिसिद्धान्तः प्रति- पादितः। इदानीं प्रकृतमेव भक्तानां लक्षणानि वक्तुमुपक्र्मते -- तदित्या- दिना। तात्परिशुद्धिश्च गम्या लोकवल्लिङ्ग भ्यः।।४३।। भक्तानां लक्षणानि चित्तपरिशुद्धिवाच्यानि गम्या ज्ञातव्यानि लिङ्गभ्यो मोक्षशास्त्रेभ्यः लोकवत्। लोके यथा धूमं दृष्टवा वह्निविषयक ज्ञानं भर्वत तद्वद् वेद्यम् ।४३। तथाह-सम्मानेत्यादिना। सम्मानबहुमानप्रीतिविरहेतर विचिकित्सामहिम ख्यातितदर्थप्राण- सर्वत्ावाप्रातिकूल्यादीनि च स्मरणेभ्यो बाहुल्यात् ।४४।। ईश्वरे सम्मानबुद्धि कृत्वा प्रीतिकारणं सम्मानम, भगवन्नामकं कंचित्
Page 31
२४ भक्तिदर्शनम्
पुरुषं दृष्टवा भगवद्भक्तेः स्मरणं बहुमानम्, 'क' इति वर्ण दृष्टवा प्रह्लादः यथा कृष्णप्रेम्णि उन्मत्तोऽभूत् इयं प्रीतिः, ब्रजगोपिकानां विरहः, खन्यपदार्थ- मनपेक्ष्य भगवत एवापेक्षाकरणमितरविचिकित्सा यथा चित्रकेतूपमन्यवा- दयः। भगवतो महिम्निरताभक्ता व्यासादयः, भगवदर्थप्रापधारका हनूमदादयः, बलेराज्ञस्तदीयत्वम्, नारदस्य तद्भावत्वम्, भीष्मधर्म- राजादयोऽप्रातिकल्यभक्ताः, भक्तरुचिभेदादनेकत्वमधिकारभेदाच्च बाहुल्यं विज्ञातव्यम् ।।४४।।
द्वेषादयस्तु नैवम्।४५। यथा भक्तानामानन्दप्राप्तिस्तथा भगवति द्वषबुद्धि कुर्वाणा राक्षसास्तु निश्चयेन न परमानन्दभागिनो भवन्ति, द्वेषबुध्या राक्षसा अपि भगवन्तं स्मरन्ति तेन ते मुक्तिभाजो भवन्ति, भगवच्चिन्तनस्यकान्तिकफलत्वात् आनन्दभागिनस्तु भक्ता एव भवन्ति ।।४५।। अवतारेष्वपि भगवत्प्रीतिःकर्तव्यैवेत्याह-तदिति।
तद्वाक्यशेषातप्रादुर्भावेष्वपि सा ॥४६॥ सा प्रीतिः भक्तिरूपा अनन्तमारभ्य अवतारादिषु मत्स्यादिष्वपि अस्त्येव तद्वाक्यशेषात् कर्तव्या, भगवत्प्रतिपादकभवितशास्त्रेषु समानरूपेण प्रतिपादित- त्वात्, अत एव प्रादुर्भावेषु न्यूनत्वं नास्त्येव ।।४६।।
जन्मकर्मविदशचाजन्म शब्दात् ।।४७।। जन्मकर्मरहितस्य भगवतो जन्मकर्मादि केवलं तस्य लीलामात्रमेव भक्त- कारुण्यवशात् प्रेमातिशयेन चाविर्भावः, तज्ज्ञानेन भगवत्प्राप्तिर्भक्तानामित्याह भगवान्-"जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः। त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन।" (गी० ४-९) ॥४७॥ तस्य जन्मनो दिव्यत्वमाह-तच्चेति ।
तच्च दिव्यं स्वशक्तिमात्रोद्भवात् ॥४८॥ तच्च दिव्यं जन्म कर्म च असाधारणमेव। तदसाधारण्यस्य शक्त्या प्रतीयमानत्वात्। "प्रकृति स्वामधिष्ठाय सम्भवाम्यात्ममायया"। इति स्वोक्तेश्च ।।४८।। अवतारग्रहणे हेतुमाह-मुख्येति।
Page 32
ऋज्वर्थबोधिनीवृत्तिसहितम् २५ मुख्यं तस्य हि कारुण्यम् ॥४६॥ जन्मकर्मादिस्वीकारे तस्य भगवतः कारुण्यमेव मुख्यं प्रधानं कारणं, हि निश्चयेन आत्मकामत्वात्। धर्मरक्षणादिकन्तु गौणमेवेति निर्णीतम् ।।४९।। विभूतयोऽपि भगवत्स्वरूपाः किन्तास्वपि भगवद्बुद्धिः कर्तव्या ? न वा ? इत्याशंका निवर्तयन्नाह-प्राणित्वादित्यादि। प्राणित्वान्न विभूतिषु ॥५०॥ जीवत्वाद् भगवद्विभूतयो भक्ति दातु न प्रभवन्ति ॥।५०।। यत :- द्यूतराजसेवयोः प्रतिषेधात् ॥५१॥ "दूतं छलयतामस्मि" "नराणाञ्च नराधिपम्।" इति राजदयूतयो- विभूतिसत्त्वेपि मनुष्याणां मुमुक्षूणां प्रतिषेधात्-"अक्षर्मादीव्यः ।" "राजश्रयो न कर्तव्यः ।" "दशवेश्यासमो नृपः ।" इत्यादि निषेधात् ॥५१॥ तहिं भगवतः कृष्णस्यापि जीवत्वमायाति विभूतिषु परिगणनात् इत्या- शङ्कां वारयति-वासुदेवेत्यादिना। वासुदेवप्रीतिश्चेन्न आकारमात्रत्वात् ॥५२।। यद्यपि भगवति वसुदेवात्ये श्रीकृष्णेऽपि विभूति शब्द: स्मर्यते गीतासु "वृष्णीनां वासुदेवोऽस्मि" इति, तथापि "कृष्णस्तु भगवान् स्वयम्" इति प्रमाणात् पूर्णानन्दब्रह्मस्वरूपत्वमेवावगम्यते आकारमात्रत्वादानन्दस्वरूप- त्वादित्यर्थः ।।५२।। प्रत्यभिज्ञानाच्च।।५३।। पुराणादिषु सर्वत्र अवतारवादस्य स्मरणाद् दर्शनात्सिद्धिः ।।५३।। वृष्णिषु श्रेष्ठत्व यापनायैतत् ॥।५४।। भगवान् श्रीकृष्णो विभूतिगणनावसरे स्वं स्वरूपमपि विभूतित्वेन गणया- ञचकार तच्च वृष्णिषु वृष्णिकुलस्य श्रेष्ठत्वयापनाय महाभागत्वख्यापनाय न तु आत्मनो विभूतित्व समर्थनाय तस्य भगवद्रूपत्वादित्यर्थः ।५४। एवं प्रसिद्धेषु ॥५५।। एवं पूर्वोक्तरीत्या रामनसिंहादिष्वपि ईश्वरत्वमवगन्तव्यम्। इति द्वितीयोध्याये प्रथमाह्निक: समाप्तः ।
Page 33
२६ भक्तिदर्शनम्
अथ द्वितीयाहिकः। पराभक्तेस्तत्वं प्रदर्श्य इदानीं गौणभक्तेः स्वरूपमाह-भक्त्येति।
भक्त्या भजनोपसंहाराद् गौण्या परायै तद्धतुत्वात् ॥५६॥ गौणभक्त्या भजनोपसंहाराद् भजनसेवादिकारणाद् पराय पराभक्ति सिद्धये भवति, तद्वेतुत्वात् तस्याः पराभक्तिसाधनत्वात्। भजनसेवातीर्थ सेवनलीलानामकीर्तनादयो-गौणभक्तय एव। 1 गौणभक्तेःस्फुटसाधनत्वमाह-रागार्थेरिन्यात्यादिना।
रागार्थेः प्रकीतिसाहचर्याच्चेतरेषाम् ॥५७॥ नमस्कारनामकीर्तनादयोऽनुरागार्था एव प्रकीर्तिसाहचर्यात् अनुरागवृद्धयर्थ सहायकत्वात्तीर्थाटनादीनाम् ।।५७।।
अन्तराले तु शेषा: स्युरुपास्यादौ च काण्डत्वात् ॥५८॥ अन्तराले मध्ये काण्डत्वादुपासनाकाण्डत्वात् शेषा उपासनाप्रकारा उपा- स्यादौ इष्टस्वरूपादौस्यु भवेयुः। "सततं कीर्तयन्ती मां यतन्तश्च दृढ़व्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते॥ ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते। एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् ।" इत्यादि शास्त्र- निर्दिष्ट प्रकारा बोद्धव्याः ।।५८।।
ताभ्यः पावित्र्यमुपकमात् ॥५६।। गौण्या भक्त्या पावित्र्यमुपक्रमात् चित्तशुद्धिलाभादैकाग्रयम् ।।५९।।
तासु प्रधानयोगात्फलाधिक्यमेके ।६०। तासु गौणभक्तिषु प्रधानयोगात् परासाधत्वात फलाधिक्यम अत एव गौणी भक्तिरेव प्रधाना इत्येके आचार्या मन्यन्ते ।६०।
नाम्नेति जैमिनिः सम्भवात् ॥६१।। नाम्ना "गौणी" इति नाम्ना गौणीभक्तिरप्रधानैव सम्भवात सत्त्वात इति जैमिनिराचार्यों मन्यते ।।६१।।
Page 34
ऋज्वर्थबोधिनीवृत्तिसहितम् २७ अत्राङ्गप्रयोगाणां यथाकालसम्भवो गृहादिवत् ॥६२।। यथा गृहादिनिर्माणसिद्धौ भित्तेरुपयोगस्तेन अट्टालिकायाः सिद्धिः तद्वत् गौण्या भक्त्या परायाः सिद्धिः। अङ्गप्रयोगाणां यथाकालसम्भवः कालेन- परिपच्यते ॥६२।। एतेषूक्तेषुसाधनेषु सर्वेऽनुष्ठातव्या अथवा एक एव-इत्याहेश्वरेति। ईश्वरतुष्टेरेकोऽपि बली ॥६३॥ भगवतप्राप्तौ एकोऽपि एकमात्रमपि सम्यगनुष्ठित साधनं वली मुख्यं भवति तस्य प्रसादायेत्यर्थः ।।६३।। तदाह-अबन्धेति। अबन्ोर्पणस्य मुखम् ॥६४॥ सर्वकर्मसमर्पणात् अबन्ध मुक्तो भवति, इदं मुखं प्रधानं कारणमीश्वर- तुष्टाविति-"अहन्त्वां सर्वपापेभ्यो मोक्षयिष्यामि माशुचः।" इति प्रतिज्ञा- वचनात् ।।६४।। ध्याननियमस्तु दृष्टसौकर्यात् ॥६५।। दृष्टसौकर्याच्चिन्तनानुकल्यात् ध्यानस्य नियमः यथाचाह श्रुतिः-"समे शुचौशकरावह्निबालुकाविवजिते शब्दजलाशयादिभिः। मनोऽनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत् ।" (श्वे० २-१०)। पतञ्जलि- रप्याह-"यथाभिमतध्यानाद्वा" इति ॥६५॥ भगवत्पूजाया अवश्यकर्तव्यतामाह-तदिति। तद्यजिः पूजायामितरेषां नैवम् ॥६६।। भगवपूजां विहाय अन्यप्रकारकमनुष्ठानं यजनमुच्यते बन्धहेतुत्वात्तस्य। भगवत्पूजनं तु मुक्तिहेतुकमित्यर्थः ।६६।। पादोदकन्तु पाद्यम् अव्याप्ते: ॥६७।। भगवत्पादोदकं पाद्यमुच्यते तद्ग्रहणाद् भक्तेः स्फुरणं भर्वति ।६७।। स्वयमपितं ग्राह्यमविशेषात् ॥६८॥ स्वयं स्वकीयं वस्तु अर्पितं सद्ग्राह्य ग्रहीतव्यमविशेषात् विशेषाभावाद् अधिकारनिवृत्तेः ॥६८॥
Page 35
२८ भक्तिदर्शनम्
निमित्तगुणानपेक्षणादपराधेषु व्यवस्था ।।६६।। अनिच्छया कृतापराधो निमित्तापराधः ; साधकस्वभावाद गुणापराधः साधकभ्रमादनपेक्षापराधः, उत्तरोत्तरमाधिवयमेतेषाम् । तमस उत्पद्यते अपराधस्तस्माद्धातव्यं हि तत्तमः, शास्त्रपरिशीलनादिभिरिति व्यवस्था।
पत्रादेर्दानमन्यथा हि वैशिष्टयम् ॥।७०।। भक्त्यनुसारमेव फलं भवति पत्रादेः। "पत्रं पुष्पं फलं तोयं" मित्यादे: निवेदनन्तु अविशिष्टमेव साधारणमेव। वैशिष्टयम् अन्यर्थव अर्थात् पदार्थानाम- र्पणं वैशिष्टयजननेऽहेतुकमेव मन्तव्यम् ।७०॥
सुकृतत्वात्परहेतुश्च भावाश्च क्रियासु श्रेयस्यम् ॥७१॥ गौणभक्तिसाधनजातं पराया भक्तेः साधनम् एवं क्रियासु सर्वेषु कार्येषु श्रेष्ठमेव सुकृतत्वात् ।७१। उक्तार्थे अभियुक्तसम्मति दर्शयति-गौणमिति।
गौणं त्रिविधमितरेण स्तुत्यर्थत्वात् साहचर्यम् ॥७२।। "चतुविधा भजन्ते मां जनाः सुकृतिनोऽर्जुन।" इत्यादिषु भक्तेश्चातु- विध्यं प्रतिपादितम् तेष्वाद्यं त्रयं गौणीरूपमितरेण चतुर्थेन ज्ञानिभवतेन सार्ध त्रयाणां कथनं स्तुत्यर्थत्वात् प्रशंसापरत्वात् एव साहचर्यम्, वस्तुतः पराया अङ्गत्वमेव तेषां प्रकाराणं न तु प्राधान्यद्योतनाय पृथङ्निर्देशः ।७२।।
बहिरन्तरस्थमुभयमवेष्टिः सर्ववत् ॥७३। यथा अवेष्टिः यज्ञद्रव्यविशेषः कदाचिद्यज्ञान्तरङ्गत्वेन कदाचिच्च बहि- रङ्गत्वेन वर्ण्यते; वृहस्पति सवो वाजपेयाङ्गत्वेन कदाचित् कदाचिच्च बहिरङ्गत्वेन पृथगेव मन्यते तथा गौणभक्तिसाधनानि अपि अधिकारिभेदात् सिद्धसाधकं कर्तृकभेदात् अन्तरङ्गबहिरङ्गभेदवन्ति भवन्ति इति निर्णय: ॥७३।।
भूयसांमननुष्ठितिरितिचेदाप्रायणमुपसंहारान्महत्स्वपि ।।७४।। भूयसां कर्मणामननुष्ठितिसुष्ठानाभावो भक्तानामितिचेन्न आप्रायणं जीवनपर्यन्तमुपसंहारान् महत्स्वपि भक्तेष्वपि कर्तव्यत्वेन भगवानाह "माम-
Page 36
ऋज्वर्थबोधिनीवृत्तिसहितम् २९ नुस्मर युध्य च" इति कर्मिण: कार्यानुष्ठानं फलाभिसन्धियुक्तमाचरन्ति : भक्तास्तु तद्रहितम् । कर्मिभक्तयो: अयमेव भेद: ॥।७४। स्मृतिकीर्त्यों: कथादेश्चातौं प्रायश्चित्तभावात् ॥७५।। भगवन्नामस्मरणकीर्तनादयः, आर्तभक्तानां प्रायश्चित्त रूपा: स्वकृत- दुरितनिवृत्तये भवन्ति तस्मात्ते कर्तव्या एव ।।७५।। लध्वपि भक्ताधिकारे महत्क्षेपकमपरसर्वहानात् ॥७६।। लघुमात्रायां भक्तौ उदितायां महत्पातकानां क्षेपकं निवर्तनं भवति अपरसर्वहानात् सर्वपापनिवर्तकात् -- 'अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।" इति भगवदुक्तेः ॥७६॥ तत्स्थानत्वादनन्यधर्मः खले वालीवत् ॥७७।। खले औषधपेषणपात्रे खरल इति प्रसिद्धे वालीवत् औषधवत् तत्स्थान- त्वात् भगवति विद्यमानत्वात् तेषां भक्तानामनन्यधर्मः भक्तिधर्मः सर्वाणि पापानि शमयति।।७७।। भक्तिधर्मे सर्वेप्राणिनोऽधिकृता इत्यत आह-आनिन्येति । आनिन्द्ययोनिरधिक्रियते पारम्पर्यात् सामान्यवत् ॥७८।। पारम्पर्यात् शास्त्रात् आनिन्द्ययोनिः चाण्डालयोनिरपि अधिक्रियते भक्ति- धर्मे सामान्यवत् यथा ब्राह्मणादयो भक्तौ अधिकारिणस्तथा चाण्डालादयोऽपि भवितुमर्हन्ति यथाचाह भगवान् वासुदेव :- "अपिचेत्सुदुराचारो भजते मामनन्यभाक। साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥" "मां हि पार्थ व्यपाश्रित्य येऽपिस्यु: पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ।" (गी० अ० ९।३४।३५) ॥७८॥। पराभक्तिरहितानां भक्तानां भगवल्लोके निवास इत्यत आह-अतो हीति। अतो हि अविपक्वभावानामपि तल्लोके ।।७६।। तल्लोवे अविपक्वभावानां पराभक्तिरहितानां भक्तानामपि अतो हि कारणात् भगवल्लोके निवासो भवति-"ते ब्रहमलोके परा परावतो निवसन्ति।" इति श्रतेः ॥७९॥
Page 37
३० भक्तिदर्शनम्
करमैकगत्युपपत्तेस्तु ॥।८०।। कमेणैकगत्युपपत्तेस्तु निश्चयेन स्वर्गाद्यर्थाः क्रमेणैव भवति। "अनेक- जन्मसंसिद्धस्ततो याति परांगतिम् ।" ततो भक्त्युदयाज्जीवस्य कृतकृत्यता सम्पद्यते ॥।८०॥ उत्कान्ति: स्मृतिवाकशेषात् ।।८१।। "अपिचेत्सुदुराचारो भजते मामनन्यभाक ।" "ने मे भक्तः प्रणश्यति" इति स्मृतिवाक्यशेषात् उत्क्रान्तिः कल्याणप्राप्तिर्भवति भगवल्लोकप्राप्ति- 11 वॅति । "ओमित्येकाक्षरं ब्रह्मव्याहरन् मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम्।" "मद्भक्ता यान्ति मामपि" इतिवाक्यशेषा- दित्यादि पूर्ववत्। ।।८१।। महापातकिनां त्वातौ ॥८२।। आर्तभक्ता यथा भगवन्नामकीर्तनान्मुच्यन्ते तथा महापापा अपि क्रमेण परां भक्ति लब्ध्वा मुच्यन्ते। ॥८२।। सैकान्तभावो गीतार्थप्रत्यभिज्ञानात् ।।८३। सा परा भक्तिरेव ऐकान्तभावो गीतार्थप्रत्यभिज्ञानात् भगवद्गीता- स्मरणात्-"सर्वधर्मान् परित्यज्य" "यो मां पश्यति सर्वत्र।" इत्यादि वाक्येभ्यः स्मरणात् स सिध्यति। ॥८३॥ परांकृत्वैव सर्वेषां तथाह्याह ।।८४।। सर्वेषां साधनानां लक्ष्यभूतां पराभक्तिमेव कृत्वा मत्वा आह भगवान् तद्क्तं सर्व पूर्वस्मिन् सूत्रे। इति ।।८४।। इति द्वितीयाध्याये द्वितीयाह्निक: समाप्तः ।
त्परथ तृतीयोध्यायः प्रथमाह्निकः
अद्वैततत्वं प्रतिपादयितुमयमाह्निक: प्रवर्तते -- भजनीयेनाद्वितीयमिदं कृत्स्नस्य तत्स्वरूपत्वात् ।८५। भजनीयेन सार्वभौमदृष्टया "सर्व खल्विदं ब्रह्म" इत्याकारिकाया इदं
Page 38
ऋज्वर्थबोधिनीवृत्तिसहितम् ३१
जगदद्वितीयंब्रह्मस्वरूपमेव कार्यस्य कारणाव्यतिरेकात् । "दिशोद्रुमादीन्" "सरित्समुद्रांश्च हरे: शरीरं यत्किञ्चभूतं प्रणमेदनन्यः ।" य इदं स्वयम्। अतः कृत्स्नस्य सम्पूर्णस्य जगतस्तत्स्वरूपत्वात् ब्रह्मस्वरूपत्वात् अद्वैतं सिद्ध भवति ।।८५।। ननु ब्रह्मण: परिणामित्वाद्विकारित्वंस्यादिति चेन्न तदभिन्नमायाशक्त रेव परिणामस्वीकारादित्याह-तदिति।
तच्छक्तिर्माया जडसामान्यात् ।८६।।
तस्य शक्तिर्जगन्निर्माणे सामर्थ्यविशेषो माया जडसामान्यात् जडत्वात् गुणवैचित्र्येण तस्या एव जगद्रूप: परिणामः । अविकृतरूपेण ब्रह्मण: परिणाम
व्यापकत्वादव्याप्यानाम् ।।८७।।
अव्याप्यानां जगत्पदार्थानां कार्याणामपि सत्यत्वमभ्युपेयम्, सत्कार्यवादे कार्यस्यापि सत्यवादिति पूर्वमुक्तम् ।।८७॥ जगन्निर्माणे भगवत एवं सामर्थ्यमप्रतिहतं न मायाया नापि जीवस्येति निर्णेतुमाह-नेति ।
न प्राणिबुद्धिभ्योऽसम्भवात् ॥।८८। प्राणिबुद्धिभ्यो मनुष्यबुद्धिसामर्थ्येभ्य इदं जगन्निर्मातुमशवयम्। तथा केवला मायापि कत सर्वथा असमर्था। असम्भवात् परिमितशक्तिभ्यो जीवे भ्योऽपरिमितं जगन्न भवितु शक्यते दृष्टविरोधात् ॥८८॥
निर्माय उच्चावचं श्रुतीश्च निर्मिमीते पितृवत् ॥८६॥।
उच्चावच भेदनिरमितं जगन्निर्माय कृत्वा तद्व्यवहारप्रवर्तनाय श्रुतीश्च वेदांश्च पितृवदुत्पादयति यथा पिता पुत्रं जनयति तथव भगवानपि करोति। ज्ञानकर्मणोर्भक्तिशास्त्राङ्गत्वेनोपदेश इत्यत आह-मिश्रेति।
मिश्रोपदेशान्नेतिचेन्न स्वल्पत्वात् ।६०।।
ननु वेदेषु मिश्रोपदेशात् कर्मज्ञानयुक्तात् सतो भक्त्युपदेशो न युज्यते इतिचेन्न स्वल्पत्वात् भक्तरङ्गत्वेन तत्प्रतिपादनात् ॥९०॥
Page 39
३२ भक्तिदर्शनम्
जीवानुष्ठितकर्मणां फलानि केचिद् वादिनोऽदृष्टेन कर्मणा मन्यन्ते तत्प्रत्याख्यातुमाह-फलमिति। फलमस्माद् बादरायणो दृष्डत्वात् ।।६१।। अस्मात्परमात्मन एव जीवानुष्ठितानां कर्मणां पुण्यापुण्यानां फपं सुखदुः- खाएपं जीव्रो लभते दृष्टत्वात् प्रत्यक्षत्वात् श्रुतिषु प्रतिपादितत्वात्। 'कर्मा- व्य : सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च।" इति श्रुतेः । न प्रकुते: कर्मगो वा कर्मफलदातृत्वं सम्भवति जडत्वात् इति वादरायण आचार्यो मन्यते ।।९१।। व्था प्रलयकमं प्रतिपादयत्नाह-व्युत्कमादित्यादि।
व्युतकरमादप्ययस्तदा दृष्टम् ।६२।। आत्मनः आकाशः सम्भूतः आकाशाद्वायुः, वायोरग्निः, अग्नेरापः, अद्भ्यः पृथ्वीत्यादिश्रुतिप्रतिपादितेत क्रमेण यथा ब्रह्मारभ्य पृथ्वीपर्यन्तं जगदाविर्भवति तद्विपरीतोव्युत्कमः तस्मादप्ययो लयः कार्यवर्गस्य-पृथ्वी जले, जलमग्नौ, अग्निर्वायौ, वायुराकाशे, आकाशोऽहंकारे, अहन्तत्त्वं महति, महत्तत्वं प्रकृतौ, प्रकृतिः परमात्मनि इत्येष लयस्य व्युत्कमोपदेशः । मोक्षे परमात्मनि अणुपरिमाणवतो जीवस्यापि लयो भवति तथा दृष्ट मोक्षशास्त्रेषु- "यया नदः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान् नामरूे विहाय परात्परं पुरुषमुनैति दिव्यम्।" इति ॥९२॥। इति प्रथमाह्िक: समाप्तः ।
अथ द्वितोयाहिकः जीवब्रह्मणोरेकत्वमाह-तदैक्यमिति। तदैक्यं नानात्वैकत्वमुवावियोगहानादादित्यवत् ।।६३।। तयोरैक्यं तदक्यं जीवब्रह्मगोरेकत्वमित्यर्थः। नानात्वस्योपाधियोग- हानात् उपाधिनिवर्तनात् आदित्यवत्। घटादिषु जलपूर्गेयु यथा आदित्योऽनेकधा प्रतीयने तन्निबृत्तावनेकत्वं निवर्तते आदित्यस्य च स्वस्वरूपेणैकत्वमवशिष्यते तद्वदविद्योपाधौ निवृत्ते एकत्वमद्वैताख्यमवगम्यते ।।९३।। प्रकारान्तरेणोक्तमेव द्रढयति-पृथमित्यादिना।
Page 40
ऋज्वर्थबीधिनीवृत्तिसहितम् ३३
पृथगितिचेत्न परेणासम्बन्धातप्रकाशानाम् ।।६४।। यथा प्रभा प्रमावतोरभेदस्तथा जगद्बहमणोरभेद एव पृथगिति उभयो- भेद इति वक्त न योग्यं, परेण ब्रह्मणा प्रकाशानां कार्याणामसम्बन्धः स्यात् इति हेतोःकार्यकारणभावाङ्गीकारात् अपृयगिति अभिन्नमितिसिध्यति ।।९४।। न विकारिणस्तु कारणविकारात् ।।६५।।
1 भगवद्विकार एव संसार इत्यपि नोच्यते कारणविकारात् मूलकारणस्य भगवतो विकारसम्भवात्। सूत्रद्वयेन पृथग्विकारनिषिद्धे केवलमघटित- घटनापटीयस्या: मायाया एव वैभवमेतदिति विज्ञायते ।।९५। अनन्यभक्त्या तद्बुद्धिर्बुद्धिलयादत्यन्तम् ॥६६।। अनन्य भवत्या अद्वैताख्यया परया भक्त्या तद्बुद्धिर्लयबुद्धि स्तस्माद् बुद्धिलयादत्यन्तंमोक्षपदं प्राप्नोति, ज्ञानिनोऽ्ववतवादिनोऽहं ब्रह्माऽस्मि इति चरमया वृत्त्या अभेदं मन्वते। भक्तास्तु परता भक्त्येत्युभयोर्विवेक: ॥९६।। प्रारब्धादिकर्मणां भोगे ज्ञानिमार्गाद् भक्तानां विलक्षणतामाह-
आयुश्चिरमितरेषान्तु हानिरनास्पदत्वात् ।।६७।। प्रारब्धभोगार्थ मेवाद्वैतबोधानन्तरं जीवनकाल आयुरिति। "तस्यताव- देव चिरम्" इत्यादि श्रौतानुसारम् इतरेपां ज्ञानिनां सम्मतम् । परन्तु भक्तानामायुर्जीवनन्तु भोगहेतुकं न भवति तेषां सर्वाणि कर्माणि स्वयमेव नश्यन्ति-"क्षीयन्ते चास्य कर्माणि" इति प्रमाणात् ।९७।। जीवानां संसरण ज्ञानिसम्मता ज्ञानकारणवादममन्वान आह- संसृतिरेषामभक्ति:स्यान्नाज्ञानात् कारणसिद्धेः ।६८।। जीवा अज्ञानेन न संसरन्ति प्रत्युत भगवद्भक्त वैं मुख्यमेव कारणमस्ति। J कारणसिद्धेः अज्ञानकारणवादस्यासिद्धेः मुक्तात्मनामपि व्यवहारदर्शनात् अवताराणामपि तथात्वाच्च अतएवाज्ञानकारणवादोऽसिद्धः ।।९८।। रुद्रसाम्यं मुक्तानां प्रतिपादयन्नाह-त्रीणीति । त्रीण्येषां नेत्राणि शब्दलिङ्गाक्षमेदाद्रुद्रवत् ।।६६।। यथा रुद्रस्त्रिनेत्र: तथा मुक्ता अपि शब्दलिङ्गाक्षभेदात्। शब्द: वेदः, लिङ्गानि परित्राणमाश्रितानां विभूतयोऽनेका: सिद्धयः शक्तयः सामर्थ्य-
Page 41
३४ भक्तिदर्शंनम् विशेषाश्च एषामेव शब्दलिङ्गपदेनात्र ग्रहणमनुमतम्; अक्षपदैन इन्द्रिय- गोचराणि ज्ञानानि गृह्यन्ते। इमानि त्रोणि एषां मुक्तात्मनां भक्तानां नेजाणि प्रापकाणि भवन्ति ।।९९।। आविस्तिरोभावा विकारा:स्युः क्रियाफलसंयोगात् ॥१००॥ क्रियाफलसंयोगात् पुण्यापुण्यफलैर्जीवाः संयुज्यन्ते तस्मादेव संसारस्य प्रती: अविर्भावतिरोभावाभ्यां जायते पराभक्तौ जातायां निवर्तते चैतद- नेकत्वं शान्तजलाशयतरङ्गवत् इति भक्तिशास्त्रस्य परमं प्रयोजनम् ॥१८०॥ इति महर्षिशाण्डि्यकृते भक्तिदर्शने ऋज्वर्थबोधिन्यां बृत्तौ तृतीयाध्याये द्वितीयाह्निक: समाप्तः, भक्तिदर्णनं च समाप्तम् ।