Books / Shukarahasya Upanishad

1. Shukarahasya Upanishad

Page 1

प्रज्ञानादिमहावाक्यरहस्यादिकलैवरम् ।

विकलैवरकैवल्यं त्रिपाद्राममहं भेजे ॥

ॐ सह नाववतु ।। सह नौ भुनक्तु ।। सह वीर्यं करवावहै ।।

ते्जस्विनावधीतमस्तु मा विद्विषावहै ।।

ॐ शान्तिः शान्तिः शान्तिः ।।

अथातो रहस्योपनिषदं व्याख्यास्यामो देवरर्षयो

ब्रह्माणं सम्पूज्य प्रणिपत्य प्रच्युद्भर्गवन्त्रस्माकं

रहस्योपनिषदं बृहती । सोडब्रवीत् ।

पुरा व्यासो महातेजाः सर्ववेदतपोनिधिः ।

प्रणिपत्य शिवं साम्बं कृतान्जलिरुवाच ह ॥१॥

श्रीवेदव्यास उवाच ।

देवदेव महाप्राज्ञ पाशच्छेदकृतद्व्रत ।

शुकस्य मम पुत्रस्य वेदसंस्कारकर्मणि ॥ २ ॥

ब्रह्मोपदेशकालेऽयमिदानीं समुपस्थितः ।

ब्रह्मोपदेशः कर्तव्यो भवताद्य जगद्गुरो ॥ ३ ॥

ईश्वर उवाच ।

मयोपदिष्टे कैवल्ये साक्षाद्ब्रह्माणि श्रास्वते ।

विहाय पुत्रो निर्वेदात्प्रकर्षं यास्यति स्वयम् ॥ ४ ॥

श्रीवेदव्यास उवाच ।

यथा तथा वा भवतु ह्युपनायनकर्मणि ।

उपदिष्टे मम सुते ब्रह्मणि त्वत्प्रसादतः ॥५॥

सर्वज्ञो भवतु क्षिप्रं मम पुत्रो महेश्वर ।

तव प्रसादसम्पन्नो लभेनमुक्तिं चतुर्विधाम् ॥ ६ ॥

तच्चत्वा व्यासवचनं सर्वदेवर्षिसंसदि ।

उपदेष्टुं स्थितः शम्भुः साम्बो दिव्यासनेऽमुदा ॥ ७ ॥

कृतकृत्यः शुकस्तत्र समागतः सुभक्तिमान् ।

तस्मात्स प्रणवं लब्ध्वा पुनरित्यब्रवीच्च्छिवम् ॥ ८ ॥

श्रीशुक उवाच ।

देवादिदेव सर्वज्ञ सच्चिदानन्द लक्षण ।

उमारमण भूतेश प्रसीद करुणानिधे ॥ ९ ॥

१०

उपविष्टं परब्रह्म प्रणवान्तर्गतं परम् ।

१०

तत्त्वमस्यादिवाक्यानां प्रज्ञानां विशेषतः ॥ १० ॥

Page 2

११

श्रोतुमिच्छामि तत्प्रेवन षड्‌ज्ञानि यथाक्रमम् । वक्त॒व्यानि रहस्यानी कुपयाद्या सदाशिव ॥

१२

साधु साधु महाप्राज्ञ शुक ज्ञाननिधे मुने । प्रष्टव्यं तु त्वया पृष्टं रहस्यं वेदगर्भितमंतम् ॥

१३

रहस्योपनिषदाम्ना सषड्‌ग्निमिहोच्यते । यस्य विज्ञानमात्रेण मोक्षः साक्षात् सङ्ग्रहः ॥

१४

अज्ञहीनानि वाक्यानि गुरुनो‌उपदिशेत्पुनः । सषड्‌ग्न्यनुपदिशेन्तमहावाक्यानि कृत्स्नशः ॥

१५

चतुर्णामपि वेदानां यथोपनिषद् शिरः । इयं रहस्योपनिषदथोपनिषदां शिरः ॥

१६

रहस्योपनिषद्ब्रह्म ध्यात येन विपश्विता । तीर्थेन्तन्नैः श्रुतेर्जप्यैस्तस्य किं पुण्यहेतुभिः ॥

१७

वाक्यार्थस्य विचारेण यदाप्तोति शरच्छुतम् । एकवारजपेनैव ऋष्यादिध्यानतस्तथ् यत् ॥

ॐ अस्य श्रीमहावाक्यमहामन्त्रस्य हंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् । सः शक्तिः । सोडहं कीलकम् । मम परमहंसप्रीत्यर्थे महावाक्यजपे विनियोगः ॥

सत्यं ज्ञानमनन्तं ब्रह्म अदृष्टश्राव्यां नमः । नित्यानन्दो ब्रह्म तर्जनीभ्यां स्वाहा । नित्यानन्दमयं ब्रह्म मध्यमाभ्यां वषट् । यो वै भूमा अनामिकाभ्यां हुम् । यो वै भूमाधिपतिः कनिष्ठिकाभ्यां वौषट् । एकमेवाद्वितीयं ब्रह्म करतलकरपृष्ठाभ्यां फट् ॥

सत्यं ज्ञानमनन्तं ब्रह्म हृदयाय नमः । नित्यानन्दो ब्रह्म शिरसे स्वाहा । नित्यानन्दमयं ब्रह्म शिखायै वषट् । यो वै भूमा कवचाय हुम् । यो वै भूमाधिपतिः नेत्रत्रयाय वौषट् । एकमेवाद्वितीयं ब्रह्म अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् ॥

नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्ति‌म् । विश्वातीतं गगनसदृशं तत्वमस्यादिलक्ष्यम् ॥ एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम्

Page 3

भावातीतं त्रिगुणरहितं सद्गुरूं तं नमामि ॥१॥ अथ महावाक्यानि चत्वारि । यथा । ॐ प्रज्ञानं ब्रह्म ॥१॥ ॐ अहं ब्रह्मास्मि ॥२॥ ॐ तत्वमसि ॥३॥ ॐ अयमात्मा ब्रह्म ॥४॥ तत्वमसीत्यभेदवाचकमिदं ये जपन्ति ते शिवस्सायुज्यमुक्तिभाजो भवन्ति ॥ त्वंपदमहामन्त्रस्य । परमहंसः ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् । सः शक्तिः । सौः कीलकम् । मम सायुज्यमुक्त्यर्थे जपे विनियोगः । तत्पुरुषाय अङ्गुष्ठाभ्यां नमः । ईशानाय तर्जनीभ्यां स्वाहा । अघोराय मध्यमाभ्यां वषट् सद्योजाताय अनामिकाभ्यां हुम् । वामदेवाय कनिष्ठिकाभ्यां वौषट् । तत्पुरुषेशानाघोरसद्योजातवामदेवेभ्यो नमः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ ध्यानम् ।

ज्ञानं जेयं ज्ञानगम्यादितितं शुद्धं बुद्धं मुक्तमप्यवययं च । सत्यं ज्ञानं सच्चिदानन्दरूपं ध्याये देवं तन्महोभ्राजमानम् ॥ त्वंपदं महामन्त्रस्य विष्णु ऋषिः । गायत्री छन्दः । परमात्मा देवता । ऐं बीजम् । क्लीं शक्तिः । सौः कीलकम् । मम मुक्त्यर्थे जपे विनियोगः । वासुदेवाय अङ्गुष्ठाभ्यां नमः । सङ्कर्षणाय तर्जनीभ्यां स्वाहा । प्रद्युम्नाय मध्यमाभ्यां वषट् । अनिरुद्धाय अनामिकाभ्यां हुम् । वासुदेवाय कनिष्ठिकाभ्यां वौषट् । वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धेभ्यः

Page 4

करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः । भूरुभ्वःसुवरोमिति दिग्बन्धः ॥ ध्यानम् ॥ जीवत्वं सर्वभूतानां सर्वत्रावणडविग्रहम् । चित्ताहृङ्कारयन्तरं जीवाख्यं त्वंपदं भजे । असिपदमहामन्त्रस्य मनः ऋषिः । गायत्री छन्दः । अर्धनारीश्वरो देवता । अव्यक्तादिवीजम् । नृसिंहः शक्तिः । परमात्मा कीलकम् । जीवब्रह्मैक्यार्थे जपे विनियोगः । पृथ्वीबीजाणुकाय अदृष्टाभ्यां नमः । अब्दूबीजाणुकाय तर्जनीभ्यां स्वाहा । तेजोब्रीजाणुकाय मध्यमाभ्यां वषट् । वायूबीजाणुकाय अनामिकाभ्यां हुम् । आकाशबीजाणुकाय कनिष्ठिकाभ्यां वौषट् । पृथिव्यप्तेजोवाय्वाकाशबीजाणुकेभ्यः करतलकरपृष्ठाभ्यां फट् । भूरुभ्वःसुवरोमिति दिग्बन्धः ॥ ध्यानम् ॥ जीवो ब्रह्मेति वाक्यार्थे यावदस्ति मनःस्थितिः । ऐक्यं तत्सं लये कुर्वन्भ्यायेदसिपदं सदा ॥ एवं महावाक्यषडक्षरस्तोत्रानि ॥

अथ रहस्योपनिषद्विभागशो वाक्यार्थश्लोका: प्रोच्यन्ते ॥ येनेङ्खते श्रूयोतेऽपि जिह्वया वाकरोटि च । स्वाद्र्स्वादु विजानाति तत्प्रज्ञानमुदीरितम् ॥

चतुर्मुखेन्द्रदेवेशु मनुष्याश्चागवाधिषु । चैतन्यमेकं ब्रह्मात्मन् प्रज्ञानं ब्रह्म मद्यपि ॥

परिपूर्णः परात्मास्मिन्नेहे विद्याधिकारीणि । बुद्धे: साक्षितया स्थिता स्कुरन्नहमतिरियन्ते ॥

स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः । अस्मीत्येकपरामर्शस्तेन ब्रह्म भवाम्यहम् ॥

एकमेवाद्वितीयं सन्नामरूपविवर्जितम् । सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदतिरियन्ते ॥

श्रोतुर्देहेऽनिन्द्रियातितं वस्तुत्वं त्वंपदेरितम् । एकता ग्राह्यतेsसौ त्वैक्यमनुभूयताम् ॥

स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् ।

Page 5

अहङ्कारादिदेहान्तं प्रत्यगात्मेति गीयते ।

दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीरियंते । ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम्

अनात्मदृष्टेरविवेकनिद्रा- महं मम स्वप्नगतं गतोऽहं । स्वरूपसूर्येऽभ्युदिते स्फुटोकते- गुरोर्महावाक्यपदैः प्रभुद्धः ॥

१०

वाच्यं लक्ष्यमिति द्विधाध्वसरणीवाच्यस्य हि त्वं पदे वाच्यं भौतिकमिन्रियादिरपि यल्लक्ष्यं त्वमर्थेऽसि सः । वाच्यं तत्पदमेशताकृतमतीलक्ष्यं तु सच्चित्सुखा- न्नदब्रह्मतदार्थ एष व तयोरेक्यं त्वसीद् पदम्

११

त्वमिति तदिति कार्ये करणे सत्युपाधौ द्वितयमितरथैकं सच्चिदानन्दरूपम् । उभयवचनहेतु देशकालौ च हित्वा जगति भवति सोऽयं देवदत्तो यथैकः ॥

१२

कार्योपादिरयं जीवः कारणोपादिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते ॥

१३

श्रवणं तु गुरोः पूर्वं मननं तदनन्तरं । निदिध्यासनमित्येतत्पूर्णबोधस्य कारणं ॥

१४

अन्यविद्यापरिज्ञानमवश्यं नश्वरं भवेत् । ब्रह्मविद्यापरिज्ञानं ब्रह्मप्राप्तिकरं स्थितं ॥

१५

महावाक्यान्युपदिशेत्सषड्‌डानि देशिकः । केवलं न हि वाक्यानी ब्रह्मणो वचनं यथा ॥

१६

एवमुक्त्वा मुनीश्रेष्ठ रहस्योपनिषच्छुकः । मया पित्रानुनीतेन व्यासेन ब्रह्मवादिना ॥

१७

ततो ब्रह्मोपदिष्टं वै सच्चिदानन्दलक्षणं । जीवन्मुक्तः सदा ध्यायन्नित्यस्तं विहरिष्यसि ॥

१८

यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥

१९

उपदिष्टः शिवेनैति जगतन्मयतां गतः । उत्थाय प्रणिपत्येष्टं त्यक्त्वाशेषरिग्रहः ॥

२०

परब्रह्मपयोराश्रौ प्लवन्तौ ययो तदा । प्रणजन्तं तमालोक्य कृष्णद्वैपायनो मुनिः ॥

२१

अनुब्रजन्त्राजुहाव पुत्रविश्लेषकातरः । प्रतिनेदुस्तदा सर्वे जगत्स्थावरजङ्ग्माः ॥

Page 6

२२

तच्च्छुत्वा सकलाकांर व्यासः सत्यवतीसुतः । पुत्रेऽण सहितः प्रीत्या परानन्दमुपेयिवान् ॥ यो रहस्योपनिषदमधीते गुर्वनुग्रहात् । सर्वपापविनिमुंक्तः साक्षात्कैवल्यमश्नुते साक्षात्कैवल्यमश्रुत इत्युपनिषत् ॥ ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनाधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति शुकरहस्योपनिषत्समाप्ता ॥