1. Siddhanta Kalpavalli Sadasivendra Sarasvati Kesara Valli Vyakhya Sri Vani Vilas Press (Introduction Missing)
Page 1
Barcode : 1990030070602 Title - Siddhanta Kalpavalli Author - Srimat Paramahamsa parijaka Acharya Paramashivandra Saraswathi Language - sanskrit Pages - 121 Publication Year - 1950 Barcode EAN.UCC-13
1 990030 070602"
Page 2
ॐ
॥ सिद्धान्तकल्पवल्ली॥ केसरवल्ल्याख्यया व्याख्यया सहिता
श्रीमत्परमहंसपरिव्राजकाचार्यश्रीपरम- शिवेन्द्रसरस्वतीपादाब्जसेवापरायण 5
श्रीसदाशिवेन्द्रसरस्वत्या विरचिता।
श्रीरङ्गस्थ
संमुद्रिता। १९१०.
Copyright. Registered.
Page 3
॥। ओम् ॥
। सिद्धान्तकल्पवल्ली ॥
अङ्कुरितबोधमुद्धिक- मपसव्योरुपरिस्थसव्यपद्म्। वस्त्वेकमनुसरामो वटभूरुह्मूलवास्तव्यम् ॥ १।
स्वाज्ञानेन विवर्तितत्रिभुवनाकारेण यः सर्वतः स्वस्मै यः स्वयमेव चोपदिशति स्वं शिष्यगुर्वात्मना। स्वज्ञानेन च योऽद्वितीयसुखसद्वोधात्मना शिष्यते तस्मै विस्मयनीयशक्तिनिधये कस्मैचिदस्मै नमः॥
सिद्धान्तलेशसंग्रहाख्यग्रन्थे वर्णितानां मतानां सुखेनाव- धारणार्थ चिकीर्षितस्य सिद्धान्तकल्पवल्ल्याख्यग्रन्थस्य निष्प्र- त्यूहपरिपूरणाय कृतमिष्टदेवतानमस्कारात्मकं मङ्गलं शिष्य- शिक्षायै ग्रन्थतो निबभ्नाति- अङ्कुरितेति। अङ्करिता, स-
Page 4
२ सिद्धान्तकल्पवल्ल्यां
जाताङ्कुरा स्फुरन्ती बोधमुद्रिका यस्य तत्तथोक्तम्, अपसव्य- स्य दक्षिणस्य ऊरोरुपरि तिष्ठतीति उपरिस्थं सव्यं वामं पदं पाद: यस्य तत्तथोक्तम्, एतेन वीरासनासीनत्वमुक्तं भवति। वटभूरुहस्य वटवृक्षस्य मूले वसतीति वास्तव्यम्। 'वसेस्त- व्यत्कर्तरि' इति कर्तरि तव्यत्प्रत्ययः । तदेकं अव्यपदेश्यं श्रीदक्षिणामूर्तिरूपं वस्तु अनुसरामः उपास्मह इत्यर्थः ॥ १॥
वद्नतद्धोविभाग-
मद्नारिभागधेयं महिमानं वयमुपास्महे कमपि॥ २ ॥
'श्रेयांसि बहुविन्नानि' इति प्रसिद्धेः परमश्रेयःसाधनीभूते अ्रन्थे बहुतरविन्नसंभावनया तन्निवर्तनसमर्थ श्रीविघ्नराजानु- संधानरूपं मङ्गलान्तरमारचयति- वदनेति। वदनं मुखं तस्य अधोविभागः अधस्तनावयवसंघातः ताभ्यां व्य्जितः ज्ञापितः मातङ्गमानवयो: गजनरयोः अभेदो यस्य स तथोक्तः, मुखे गजरूपोऽन्यत नररूप इति यावत्। मदनारे: परमशि- वस्य भागधेयं भाग्यरूपं कमपि निरुपाख्यम्। श्रीविघ्नराजा- त्मकं महिमानं वयं उपास्महे भजामह इत्यर्थः ॥२॥
Page 5
प्रथम: स्तबकः । ३
यद्पादतः प्रबोधो भवद्ुःखप्नावसानकरः। तमहं परमशिवेन्द्रं वन्दे गुरुमखिलतन्त्रजीवातुम्। ३॥
'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ' इत्यादिश्रुते- गुरूपदिष्ठानुपदिष्टसकलार्थावगतिर्गुरुभक्त्यधीनेति गुरुं नम- स्करोति- यदिति। यदपाङ्गितः येनापाङ्गितः कटाक्षितः । प्रबोध: जीवब्रह्मैक्यसाक्षात्कारः । भवदुःखप्नावसानकरः भवः संसारः मिथ्यापरिकल्पितः स एव दुःस्प्नः सकलान- र्थभाजनत्वात् तस्यावसानकर: सवासनोच्छेदकरः, ज्ञाने- नाज्ञानोच्छेदे तत्कार्यसंसारोच्छेदस्यावश्यंभावित्वात्। एवं च सविलासाज्ञानोच्छेदक्षमसाक्षात्कारः यत्कटाक्षैकलभ्यः तं अखिलतन्त्रजीवातुम् अखिलानि यानि तन्त्राणि दर्शनानि तेषां जीवातुं उज्जीवकम्, सर्वेषा तन्त्राणां परमतात्पर्येणाद्वितीय- ब्रह्मावसायित्वस्य तत्र तत्र स्वकृतग्रन्थेषु स्थापितत्वात्। एतादृशं परमशिवेन्द्रं श्रीगुरुम् अहं वन्दे नमस्करोमीत्यर्थः ।
सिद्धान्तलेशसंग्रह- वर्रितनानामतावधानाय।
Page 6
४ सिद्धान्तकल्पवल्ल्यां
हयैरहं कतिपयैः पद्यैः संदर्भयामि कृतिमेताम् ॥४॥ चिकीर्षितं प्रतिजानीते-सिद्धान्तेति। हृद्यै: बह्वर्थसूच कसरलपद्गुम्भितत्वेन मनोहरैः। एतां चिकीर्षितत्वेन बुद्धि- स्थां कृतिं सिद्धान्तकल्पवल्लयाख्यामित्यर्थः ॥४॥
१. विधिवादः।
इह खल् शान्त्यादिमतः
आत्मा श्रोतव्य इति श्रुतो विधिः किंविधो ग्रहीतव्यः ॥५॥ तत्र प्रथमं समन्वयाध्यायार्थ दिदर्शयिषुरादौ साधनचतु- ष्टयसंपन्नस्यापातप्रतिपन्नव्रह्मात्मभावस्य तज्जिज्ञासोस्तज्ज्ञानाय 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिद्धयासित- व्यः' इत्यत प्रतीयमानस्य विधे: प्रकारप्रश्नमाह-इहेति। तत्र त्रयो हि विधयः सन्ति अपूर्वः नियमः परिसड्ख्या चेति। तन्न विना वचनं कथमपि अप्राप्तस्य प्राप्तिफलको
Page 7
प्रथम: स्तबकः ।
विधिराधः, यथा ब्रीहीन् प्रोक्षतीति। पक्षप्राप्तस्ाप्राप्तांशस्य परिपूरणफलको विधिर्द्वितीयः, यथा व्रीहीनवहन्तीति। उभ- यत्रैकस्य उभयोवा एकत्र युगपत्प्राप्तौ अन्यतरनिवृत्तिफलको विधिस्तृतीयः, यथा अभ्रिचयनेऽश्गर्दभरशनयोर्ग्रहणे युगपद- नुष्ठेये सामर्थ्याविशेषेण युगपत्प्राप्तस्य 'इमामगृभ्णन् रशना- मृतस्य' इति मत्रस्य 'इत्यश्वाभिधानीमादत्ते' इति गर्दभरश- नाग्रहणस्य व्यावृत्तिमात्रफलको विधि :; यथा वा 'पश्चपञ्च- नखा भक्ष्याः' इति च। एवं तिप्रकारेषु तेषु श्रवणविधि: किंप्रकार आश्रयणीय इत्यर्थः ॥५॥
अत्र प्रकटार्थकृत: श्रवणं ब्रह्मापरोक्षहेतुतया। अप्राप्तमतो विधिरय- मपूर्व एवेति मन्यन्ते ॥ ६ ॥ वेदान्तश्रवणं ब्रह्मसाक्षात्कारहेतुतया कुत्राप्यप्राप्तं प्रमा- णान्तरेण। कृतश्रवणस्यापि कस्यचित् तदनुदयेनाकृतश्रवण- स्यापि वामदेवादेस्तदुदयेन चान्वयव्यतिरेकाभ्यां व्यभिचारद- र्शनात्, श्रवणमात्रं श्रोतव्यार्थसाक्षात्कारहेतुरिति सामान्य- नियमस्य कर्मकाण्डश्रवणे व्यभिचाराच्च। अतोऽप्राप्तत्वाद्य- मपूर्वविधिरेवेति मतेनोत्तरमाह- अत्नेति।
Page 8
६ सिद्धान्तकल्पवल्ल्यां
वेदान्तश्रवणामदं नाप्रासं किं तु पक्षतः प्राप्तमू। नियमविधिरेष तस्मा- दित्याहुर्विवरणाचार्याः॥७॥ ननु वेदान्तश्रवणं नित्यापरोक्षब्रह्मसाक्षात्कारहेतुतया ना- प्राप्तम्, अपरोक्षवस्तुविषयप्रमाणस्य साक्षात्कारहेतुत्वेन, वि- चारस्य विचार्यनिर्णयहेतुत्वेन च विचारितवेदान्तशब्दज्ञान- रूपस्य श्रवणस्य तद्धेतुत्वप्राप्तेः । न चोक्तव्यभिचारः, सह- कारिविरहेणान्वयव्यभिचारस्यादोषत्वात्, जन्मान्तरश्रवणात् फलसंभवेन व्यतिरेकव्यभिचाराभावांच्च। अतो नापूर्वविधि- रिति अपरितोषान्मतान्तरमाह-वेदान्तेति। नियमविधि- रेवायम्, तद्विद्धयभावे मनोगोचरे स्वस्मिन् श्रुतिबोधितसूक्ष्म- तमविशेषावधारणाय मनस एव सप्रणिधानं व्यापारे त- च्छास्त्रश्रवणेऽपि मेधाविनो गुरुनिरपेक्षवेदान्तविचारे मन्द- व्युत्पन्नस्य भाषाप्रबन्धश्रवणे प्रवृत्तिप्रसक्तिरस्तीति साधनत्व-
दान्तश्रवणं पक्षतः प्राप्तमित्यतो नियमविधिरित्यर्थः ॥७॥
केचित्परोक्षमेव ज्ञानं शब्दादुदेति पश्चात्तु।
Page 9
प्रथम: स्तबकः । ७
तस्मान्मननादियुता- दपरोक्षज्ञानमत्र नियम इति ॥८॥
प्रथमं शब्दान्निर्विचिकित्सं परोक्षज्ञानमेवोदेति पश्चान्मन- नादिसहितात्तस्मादेव शब्दादपरोक्षज्ञानम्, भावनाप्रचयस्य बाह्यार्थासमर्थे विधुरचित्ते कामिनीसाक्षात्कारसामर्थ्याधाय- कत्वक्लप्तेः। एवं च परोक्षज्ञान एव प्रागुक्तरीत्या पाक्षिकत्व- प्राप्तौ नियमविधिरिति मतान्तरमाह-केचिदिति।
साक्षात्कारे करणं विमलं मन एव न तु शब्द:। शब्द: परोक्षमात्रे तस्मात्तत्रैव नियम इत्यपरे ॥ ९ ॥ अत्रापरोक्षज्ञाने 'मनसैवानुद्रष्टव्यम्' इत्यादिश्रुतेः शास्त्रा- चार्योपदेशसंस्कृतं मन एव साक्षात्कारे करणम्, नतु शब्दः। शब्दस्तु परोक्षमात्रे। तस्मात्तत्रैव पूर्ववन्नियमविधिरिति मता- न्तरमाह- साक्षादिति।
भवतु मन एव साक्षा- त्कारे करणं तथापि तत्रैव।
Page 10
८ सिद्धान्तकल्पवल्ल्यां
सहकारितया श्रवण नियम्यते न तु परोक्ष इत्येके ॥ १० ॥ अस्तु नाम साक्षात्कारे मन एव करणम्, तथापि प्रकाश- माने वस्तुन्यारोपिताविवेकनिवारकशास्त्रसद्भावे तच्छूवणं तत्साक्षात्कारकरणसहकारीति नियमस्य श्रोत्रसहकारिणि षड्- जाद्यविवेकनिरासके गान्धर्वशास्त्रे क्लप्तत्वात्।'द्रष्टव्यः श्रो- तव्यः' इति दर्शनमुद्दिश्य श्रवणविधानात्तत्रैव साक्षात्कार- करणीभूतमनःसहकारितया श्रवणं नियम्यत इति मतान्तर- माह -- भवतु मन एवेति॥ १० ॥ संक्षेपाचार्यास्तु अ्रवणं न ज्ञानफलकमेवं च। पुरुषापराधशान्त्यै नियम्यते अवणमित्याह्गुः ॥११॥
श्रवणं नाम न विचारितवेदान्तशब्दज्ञानरूपम्, ज्ञान- स्याविधेयत्वात् ; किंतु ऊहापोहात्मकमानसक्रियारूपम् । तञ्च न परोक्षादिज्ञानफलकम्, ज्ञानस प्रमाणफलत्वात्। एवं च तात्पर्यनिर्णयद्वारा तात्पर्यभ्रमरूपपुरुषापराधशान्त्यर्थत्वेन श्रव- णं नियम्यत इति मतान्तरमाह-संक्षेपाचार्यास्त्वििति ।
Page 11
प्रथम: स्तबकः । ९
पुरुषापराधनिरासः फलम् ; द्रष्टव्य इति दर्शनार्थत्वेन स्तुति- मात्रम्, न श्रवणफलकीर्तनमिति भाव: ।। ११ ।।
अ्रवणमनुतिष्ठतः स्या- दन्यत्रापि कचित्पवृत्तिरिति। तद्वयावृत्तिफलां परि- संख्यामभिदघति वार्तिकाचार्याः ॥।१२।।
ब्रह्मज्ञानार्थ वेदान्तश्रवणं कुर्वतश्चिककित्साज्ञानार्थ चरका- दिग्रन्थे प्रवृत्तस्येव मध्ये मध्ये व्यापारान्तरेऽपि प्रवृत्ति: प्रसज्येतेति तन्निवृत्तिफलकः परिसङ्याविधिरिति मतान्तर- माह-श्रवणमिति। 'ब्रह्मसंस्थोSमृतत्वमेति' 'तमेवैकं जा- नथ आत्मानमन्या वाचो विमुश्चथ' इति व्यापारान्तरप्रति- षेधश्रवणादिति भावः ॥ १२ ॥
वेदान्तवाक्यजन्यो बोधः अ्रवणं तद्तर मानफले। का वा कथा विधीना- मिति वाचस्पतिमतानुगा: प्राहुः॥१३। 'आत्मा श्रोतव्यः' इत्यात्मविषयत्वेन निबध्यमानमागमा- चार्योपदेशजन्यमात्मज्ञानमेव श्रवणम्, न तु विचाररूपम्।
Page 12
१० सिद्धान्तकल्पवल्ल्यां
तस्मादत प्रमाणफले श्रवणे न कोऽपि विधि: प्रवर्तते, अयोग्य- त्वात्, शिलादौ क्षुरधारेव, इति मतान्तरमाह-वेदान्तेति। एवं च श्रवणविद्धयभावात्कर्मकाण्डविचारवद्गह्मकाण्डविचारो- ड्यध्ययनविधिमूलक इति भावः । १३ ।।
२. कारणत्ववादः ।
जगदुत्पत्तिस्थितिलय- हेतुत्वं ब्रह्मण: भ्रृतावुक्तम् ! तल्लक्षणत्रयमिति प्रसाधयन्ति स्म कौमुदीकाराः ॥१४॥
इत्थं जिज्ञासासूत्रविषयपरिशोधनात्मकं विधिवादं समाप्य इदानीं जन्मादिसूलविषयं परिशोधयितुमाह-जगदिति। 'यतो वा इमानि भूतानि जायन्ते' इति श्रुतौ जगज्जन्मादि- कारणत्वं ब्रह्मणो लक्षणमुक्तम्। तत्राप्येकैककारणत्वमनन्यगा- मीति तल्लक्षणत्रयमित्यर्थः ॥ १४॥
केचिद्भिन्ननिमित्तो- पादानत्वस्य लाभाय।
Page 13
प्रथम: स्तबकः । ११
इदमेकमेव लक्षण- मस्येति प्राहुराचार्याः ॥ १५॥ उत्पत्तिस्थितिकारणत्वस्य निमित्तसाधारण्यात् लयकार- त्विमाल्नोक्तावुपादानकारणत्वसिद्धावपि निमित्तत्वासिद्धेरभि- रनिमित्तोपादानत्वसिद्धर्थमिदमेकमेव लक्षणमिति मतान्तर- गह-केचिदिति। अस्य जगत इत्यर्थः ॥ १५॥
अस्योपादानत्वं विश्वाकृत्या विवर्तमानत्वम्। तत्र विवर्तः खासम- सत्ताकतदन्यथाभाव: । १६।।
अत्रोपादानत्वं न परमाणुवदारम्भकत्वम्, एकत्वात्। नापि नकृतिवत्परिणामित्वम्, अविकारित्वात्। किं तु अविद्यया वियदादिविश्वाकारेण विवर्तमानत्वमित्याह-अस्येति । विवर्तलक्षणमाह-तत्रेति। विवर्त इति लक्ष्यनिर्देशः । उपादानविषमसत्ताकत्वे सति अन्यथाभावत्वं लक्षणमिति दिक्॥ १६ ॥ अथ किमिहोपादानं शुद्धं किमुतेश्वरोऽथ जीवो वा।
Page 14
१२ सिद्धान्तकल्पवल्ल्यां
अत्राहु: संक्षेपा- चार्यास्तच्छ्रुद्दमेवेति॥ १७॥ इत्थं लक्षणे निर्णीते लक्ष्यं पृच्छति- अथेति। जन्मा- दिसूत्रतद्भाष्ययोरुपादानत्वस्य ज्ञेयब्रह्मलक्षणत्वोक्ते: शाखाच- न्द्रस्थले तटस्थलक्षणेनापि लक्ष्यसिद्धिदर्शनाच्छ्ुद्धमेवोपादान- मिति संक्षेपशारीरक्मतेनोत्तरयति-अत्रेत्यादिना। तथा च 'आलन आकाशः संभूतः' इति श्रुतौ शबलवाचिन आत्मपदस्य शुद्धे लक्षणेति भावः ॥। १७ ॥
विवरणमतैकनिष्ठा यः सर्वज्ञ इति वचनमवलम्व्य। मायाशबलः सर्ववि- दीश्वर एवैतदित्याह्ः ॥ १८॥ 'यः सर्वज्ञः सर्ववित्' इत्यादिश्रुत्यवष्टम्भेन सर्वज्ञत्वादि- विशिष्टो मायाशबलः सर्ववित् ईश्वर एवोपादानमिति मतान्तर- माह-विवरणेति। तथा च संक्षेपशारीरकत्रन्थोऽपि विशिष्ट- निरासपरत्वेनानुकूलो व्याख्यातुं शक्य इति भावः ॥ १८ ।। वियदादावीशोऽन्त :- करणमुखे द्वौ तु जीवेशौ।
Page 15
प्रथम: स्तबकः । १३
योनिरिति संगिरन्ते मायाविद्याभिदाविद: केचित्॥ १९॥
'एवमेवास्य परिद्रष्ठुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति' इति कलाशब्दवाच्यप्राणान्तःकरणादीनां विदुषः प्रायणे जीवाश्रिताविद्याकार्यभूतसूक्ष्मपरिणामत्वाभि- प्रायेण विद्ययोच्छेद उक्तः । 'गताः कलाः पश्चद्शप्रतिष्ठाः' इति श्रुत्यन्तरे ईश्वराश्रितमायाकार्यमहाभूतपरिणामत्वाभिप्रा- येण प्रतिष्ठाशब्दितमहाभूतेषु लयोक्तेश्र अन्तःकरणादौ जी- वेशावुभावप्युपादानम्, वियदादौ त्वीश्वर एवेति मायाविद्या- भेदवादिषु केषांचिन्मतमाह-वियदिति ॥१९॥
अन्त:करणप्रभृतेः स्वाविद्यामातपरिणतत्वेन। स्याज्जीव एव योनि- स्त्रेति तदेकदेशिन: प्राहुः ॥ २० ॥ यथा वियदादे: ईश्वराश्रितमायापरिणामत्वेन तत्रेश्वर एवो- पादानम्, तथा अन्तःकरणादे्जीवाविद्यामात्रपरिणतत्वेन तत्र जीव एवोपादानम; 'गताः कला' इति श्रुतिस्तु म्रियमाणे तत्त्वविदि पार्श्रस्थाः भूतेषु लयं पश्यन्तीति परदष्टथभिप्रा-
Page 16
१४ सिद्धान्तकल्पवल्ल्यां
येति कलाप्रलयाधिकरणभाष्ये स्पष्टत्वादित्यभिप्रेत्य तदेकदे- शिमतमाह-अन्तःकरणेति ॥ २० ॥
तद्भेदवादिमध्ये केचिज्ीवे तदध्यासात्। अन्त:करणादीनां जीवोपादानतामाहुः॥ २१॥ अन्तःकरणादौ जीवतादात्म्यस्यानुभवादद्यासभाष्ये जीव एव तद्द्यासवर्णनाज्जीव एवोपादानमिति मायाविद्ययोरभे- दवादिष्वेकदेशिमतमाह- तदभेदेति ॥२१॥ इतरे तु संगिरन्ते यावद्यवहारसिद्धविश्वस्य। ब्रह्मैवोपादानं जीवस्तु प्रातिभासिकस्थेति ॥ २२ ॥ 'एतस्माज्जायते प्राणः' इत्यादिश्रुतेर्व्यावहारिकाशेषप्रप- शचस्य ब्रह्मैवोपादानम्, जीवस्तु प्रातिभासिकस्य स्वप्नप्रपभ्वस्य चेति मतान्तरमाह-इतरे त्विति। ब्रह्मणो जगदुपादानत्वे कारत्स्येन जगदाकारपरिणामे जगद्वयतिरेकेण ब्रह्माभावप्र- सङ्ग:। तदेकदेशेन तदुक्तौ निरवथवत्वश्रुतिव्याकोप इत्याक्षे-
Page 17
प्रथम: स्तबकः । १५
पपरिहारायाश्रिते विवर्तवादे तन्निवर्तनार्थे 'आत्मनि चैवं विचित्राश्च हि' इति सूत्रेण जैवस्वप्नसर्गस्य सिद्धवत्कारादिति भाव: ॥ २२॥
स्वस्मिन्नेव स्वप्रव- दीशानत्वादिसर्वकल्पनया। जीवः सर्वविकारो- पादानमिति ब्रुवन्त्यन्ये॥ २३ ॥। 'पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम्' इति श्रुतेर्जीव एव स्वप्नसृष्टगजादिवत् स्वस्मिन्नेवेश्वरत्वादि सर्वकल्पकत्वेन सर्वप्रपश्वोपादानमिति मतान्तरमाह-स्व- स्मिन्नेवेति ॥ २३ ॥
अथ तत्त्वनिर्णयकृतः परिणामितया विवर्तमानतया। माया ब्रह्म च विश्वो- पादानं श्रुतित इत्याहुः॥ २४॥ ननु उक्त्तरीत्या ब्रह्मण एव जगदुपादानत्वे 'मायां तु प्रकृतिं विद्यात्' इत्यादिश्रुतेः का गतिरित्याशङ्कध श्रुतिद्वयानुरोधात् कार्ये सत्ताजाड्योभयधर्मानुवृत्तिदर्शनाच्च ब्रह्म विवर्तोपादानं
Page 18
१६ सिद्धान्तकल्पवल्ल्यां
माया तु परिणाम्युपादानमिति मतेनोत्तरमाह-अथेति। अत एव स्वाभिन्नकार्यजनकत्वमुपादानलक्षणमुभयसाधारण- मिति भाव: ॥ २४॥
संक्षेपाचार्यास्तु
द्वारतया मायाया: कार्येष्वनुवृत्तिरित्याहुः ॥ २५॥ ब्रह्मैव सकलजगदुपादानम्, कूटस्थस्य स्वतः कारणत्वा- योगेन मायाद्वारा। माया तु द्वारकारणम्। तस्या अपि कार्ये- ष्वनुवृत्ति: संभवति। मृच्छलक्ष्णताया घटााव नुर्वृत्तिद र्श न दिति मतान्तरमाह- संक्षेपाचार्यास्त्विति ॥ २५॥ वाचस्पतिमिश्रास्तु स्वत एव ब्रह्म जगदुपादानम्। सहकारिण्यपि माया न कार्यमनुगच्छतीत्याहुः ॥२६॥ जीवाश्नितमायाविषयीकृतं ब्रह्म स्वत एव जाड्याश्रय- प्रपञ्चाकारेण विवर्तमानतयोपादानम्। माया तु सहकारि- मात्रम्। तथाविधापि न कार्यमनुगच्छतीति मतान्तरमाह-
Page 19
प्रथम: स्तबकः १७
वाचस्पतीति। माया न द्वारकारणं अनुपादानगतत्वात्। किं तु सहकारिमात्रम्। अतो न कार्यमनुगच्छतीति भावः ॥ मायैवोपादानं ब्रह्म तदाधारभूततया। गौण्योपादानमिति प्राहुर्मुक्तावलीकाराः।२७॥ अत्र मतद्वयेऽपि 'मायां तु प्रकृति विद्यात्' इत्यादौ प्रकृ- तिशब्दो गौण: स्यादिति मतान्तरमाह-मायैवेति। मा- यैव मुख्यया वृत्त्योपादानम्। ब्रह्म तु उपादानमायाधारतया गौण्योपादानम्, न मुख्यतः । 'न तस्य कार्य करणं च विद्यते' इति श्रुतेस्तन्निषेधपरत्वात्। इत्यतस्तादृशमेवोपादन- त्वं लक्षणमिति भावः ॥। २७।।
३. जीवेश्वरस्वरूपनिर्णयवादः ।
जीवेशयो: स्वरूपं निरूप्यतेऽस्यामविद्यायाम्। चित्प्रतिबिम्बो जीवो मायायां तावदीश इति॥ २८॥ S 2
Page 20
१८ सिद्धान्तकल्पवल्ल्यां
इत्थं मतभेदेन जीवेश्वरावुपादानमिति व्यवस्थाप्य तयोः स्वरूपं निरूपयितुमाह-जीवेति ॥ २८।। मूलप्रकृतिर्माया तस्या: शक्तिद्वयोपेतः। अंशो भवेद्विद्ये- त्युक्तं प्रकटार्थविवरणग्रन्थे॥ २९॥ मायाविद्ययो: स्वरूपं दर्शयति- मूलेति। अनाद्यनि- र्वाच्या चित्संबन्धिनी मूलप्रकृतिर्माया। तस्या एवैकदेशो विक्षेपावरणशक्तिमानविद्येत्यर्थः ॥ २९॥ तत्त्वविवेके तूक्तं सच्वे न रजस्तमोभ्यां च। एकैव मूलयोनि- मायाविद्या च भवतीति॥ ३०। 'माया चाविद्या च स्वयमेव भवति' इति श्रतेः सत्त्वर- जस्तमोगुणात्मिकैव मूलप्रकृतिः प्रधानभूतेन सत्वेन माया, प्रधानभूताभ्यां रजस्तमोभ्यामविद्या च भवतीति मायावि- द्यास्वरूपं मतान्तरेण दर्शयति-तत्त्वेति ॥ ३० ।। एका मूलप्रकृति- र्विक्षेपावरणशक्तिभेदेन।
Page 21
प्रथम: स्तबकः । १९
मायाविद्येति भिदां यातीत्युपपादितं कचिद्रन्थे॥ ३१॥ एकैव मूलप्रकृतिर्विक्षेपशक्तिप्राधान्येन माया, आवरणश- क्तिप्राधान्येनाविद्येति मतान्तरमाह -एकेति ॥ ३१ ॥।
संक्षेपके त्वविद्या चित्प्रतिबिम्बो भवेदीशः। तत्कार्यान्तःकरणे चित्प्रतिबिम्बस्तु जीव इत्युक्तम् ॥ ३२॥। 'कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः' इति श्रुतिमा- श्रित्य मतान्तरमाह-संक्षेपके त्विति । अविद्याचित्प्रतिबि- म्बः अविद्यायां चित्प्रतिबिम्बः इत्यर्थः ॥ ३२॥ धीवासनोपरक्ता- ज्ञानं धीश्चेत्युपाधियुगे। प्रतिबिम्बी जीवेशा- विति भेदश्चितदीपोक्तः॥ ३३।। ब्रह्माश्रिते सकलप्राणिधीवासनोपरक्तेऽज्ञाने प्रतिबिम्बित- चैतन्यमीश्वरः, स्थूलसूक्ष्मदेहद्वयाधिष्ठानकूटस्थकल्पितेऽन्तः- करणे प्रतिबिम्बितं चैतन्यं जीव इति तयोर्भेंदं मतान्तरेण दर्श-
Page 22
२० सिद्धान्तकल्पवल्ल्यां
यति- धीवासनेति। उपाधियुगे उपाधिद्वये जीवेशाविति व्युत्क्रमेणान्वयः ॥ ३३ ॥ विवरणदर्शनमेतद- विद्याप्रतिबिम्बलक्षणो जीवः। त्विम्बभूत ईश- स्तस्मादुभयोर्विभाग इति॥ ३४ ॥ जीवो नान्त:करणप्रतिबिम्बः, योगिनां कायव्यूहे प्रदीप- वदावेशः, 'तथाहि दर्शयति' इत्यधिकरणभाष्येऽन्तःकरणभेदे सत्यपि जीवभेदाभावस्योपपादितत्वात्। ईश्वरोऽपि नाविद्या- प्रतिबिम्बः, तत्पारतन्त्र्यापत्तेः । किंत्वविद्याप्रतिबिम्बलक्षणो जीव:, तत्प्रतिबिम्बभूतः ईश्वरः इति तयोर्विभाग इति मता- न्तरमाह-विवरणेति॥ ३४ ॥
वाचस्पतिमतरीति- स्त्वन्तःकरणेन यद्धयवच्छिन्नम्। चैतन्यं तजीव: स्यादनवच्छिन्नचैतन्यमीश इति ॥३५॥ ईश्वरो जीवश्च न प्रतिबिम्बः, नीरूपत्वेन चैतन्यस्य प्रतिबिम्बायोगात्, सलिले गगनप्रतिबिम्बस्य भ्रान्तिमात्र-
Page 23
प्रथम: स्तबकः । २१
त्वात्। किं तु घटाकाशवदन्तःकरणावच्छिन्नं चैतन्यं जीवः, तद्नवच्छिन्नं चैतन्यं त्वीश्वर इति मतान्तरमाह- वाच- स्पतीति। अन्तःकरणेन यदनवच्छिन्नं चैतन्यं तदीश इत्यन्वयः ॥३५॥ वार्तिककृन्मतमित्थं न प्रतिबिम्बो न चाप्यवच्छिन्नः। ब्रह्मैवाविद्यातः संसरतीवाथ सुच्यत इवेति॥ ३६ ॥ ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया मुच्यत इति बृह- दारण्यकभाष्योक्तेः, जीवो न प्रतिबिम्बः नाप्यवच्छिन्नः; किं तु व्याधकुलसंवर्धितराजकुमारवदविकृतमेव ब्रह्माविद्यया सं- सरति विद्यया विमुच्यत इवेति मतान्तरमाह-वार्तिककृ- दिति। एवं च न परमार्थे बन्धमुक्ती सतः, 'न निरोधो न चोत्पत्तिर्न बद्धः' इत्यादिनेत्यर्थः ॥ ३६ ॥
४. जीवैकत्वनानात्ववादः ।
अथ जीव: किमु नाना किमुतैकस्तत्र जीव एकोऽसौ।
Page 24
२२ सिद्धान्तकल्पवल्ल्यां
एकं वपुः सजीवं तद्गिन्नं खप्नतुल्यमिति केचित्॥ ३७॥। एवं जीवधर्मिणि निर्णीते तद्धर्मिसंख्याविषये संशयमुप- न्यस्यानुपदोक्तमतानुसारेण द्वितीयं पक्षं दर्शयति-अथेति। एको जीव: तेन चैकमेव शरीरं सजीवं तदन्यच्छरीरजातं स्वप्रदृष्टशरीरजातवन्निर्जीवमित्यर्थः । तदीयः सर्वोडपि व्यव- हार: स्वाप्निकव्यवहारवदुपपद्यत इति भावः ।। ३७।। एको हिरण्यगर्भो ब्रह्मप्रतिबिम्ब एव स्यात्। अन्ये तत्प्रतिबिम्बा जीवाभासा भवेयुरित्यपरे॥ ३८ ॥ 'यः सर्वज्ञः' इत्यादिश्रुतिप्रामाण्यात् बिम्बभूतब्रह्मसृष्ट एव प्रपश्ः । तत्र प्रथम उपाधौ ब्रह्मणः प्रतिबिम्बो हिरण्यगर्भ एव मुख्यो जीवः। अन्ये तु तत्प्रतिबिम्बभूताश्चित्रपटलि- खितमनुष्यदेहार्पितपटाभासकल्पा जीवाभासा इति सवि- शेषानेकशरीरैकजीवपक्षमाह-एक इति। एक: मुख्य इत्यर्थः ॥ ३८॥ एको जीवः सर्वे सशरीरं मन्यते तद्पि।
Page 25
प्रथम: स्तबकः । २३
शरीरभेदान्न संभवीत्येके ॥ ३९॥
हिरण्यगर्भाणां प्रतिकल्पं भेदात् कतमो हिरण्यगर्भो मुख्य इत्यत्र विनिगमकाभावादेक एवाविशेषेण योगीव सर्व स्वश- रीरमभिमन्यते। तथात्वे त्वस्मिन् पक्षे न परस्परसुखाद्यनु- संधानं प्रसज्यते शरीरभेदात्, जन्मान्तरीय सुखाद्यनुसंधान- वदिति मतान्तरमाह- एक इति । सुखदुःखसङ्करः सुख- दुःखाद्यनुभव इत्यर्थः ॥ ३९॥
इतरे त्वन्त:करणो पाधिभिराश्रित्य जीवनानात्वम्। ्रुत्यैव बन्धमुक्ति- व्यवस्थितिं प्रत्यपद्यन्त ।। ४० ।।
अस्मिन्नेकजीववादे बन्धमुक्तिव्यवस्थाया असिद्धे: अन्त :- करणोपाधिभेदेन जीवनानात्वमाश्रित्य 'तद्यो यो देवानां प्रत्यबुध्यत स एव तद्भवत्' इति श्रुतिदर्शितबन्धमुक्तिव्य- वस्थितिं प्रतिपन्नानां केषांचिन्मतमाह-इतरे त्विति॥।४०।।
तेषु च केचिद्वोच- न्ब्रह्माश्रयविषयमेकमज्ञानम्।
Page 26
२४ सिद्धान्तकल्पवल्ल्यां
अंशेन तस्य नाशे मुक्तिर्भवतीति तद्यवस्थेति ॥ ४१॥ एकमेवाज्ञानं ब्रह्माश्रयविषयकम्, तस्य च तांस्तान् जीवा- न्प्रति ब्रह्मावारकाभागा भिद्यन्ते। एकेकस्य जीवस्य ज्ञानोदये- नाज्ञाननाशे बन्धनिवृत्त्या मुक्तिरिति बन्धमुक्तिव्यवस्थामुप- गच्छतां जीवभेदवादिष्वेकदेशिनां मतमाह-तेषु चेति।।
हृद्यग्रन्थिनियम्यो Sविद्यासंसर्गलक्षणो बन्धः। हृद्यग्रन्थिविनाशे विनश्यतीति व्यवस्थितिं केचित् ॥ ४२॥ न्यायैकदेशिमतेऽत्यन्ताभावस्य भूतलादिवृत्तित्वे प्रति- योगिसंसर्गाभाव इवाविद्यायाञ्च्वैतन्यवृत्तित्वे हृदयग्रन्थिर्नि- यामकः, 'भिद्यते हृदयग्रन्थिः' इति श्रुतेः । ज्ञानेन हृदयग्र- न्थिविनाशे प्रतियोगिसंसर्गोदये भूतले घटात्यन्ताभावस्य सं- सर्ग इवाविद्यायाश्चिित्संसर्गरूपो बन्धो नश्यतीत्याशयेन बन्ध- मुक्तिव्यवस्थितिं मतान्तरेणाह-हृदयेति ॥ ४२॥ जीवाश्रयमज्ञानं जातिर्नष्टामिव व्यक्तिम्।
Page 27
प्रथम: स्तबकः । २५
तत्वविदं त्यजंतीतर- माश्रयतीति व्यवस्थितिं केचित् ॥ ४३।।
न ब्रह्माश्रयमज्ञानम्, किं तु जीवाश्रयम्। तच्च प्रतिजीवं परिसमाप्य वर्तमानं नष्टां व्यक्तिं जातिरिव तत्त्वविदं त्यजति। स एव मोक्षः । अन्यं यथापूर्वमाश्रयतीति तव्यवस्थां मतान्त- रेणाह-जीवाश्रयमिति ॥४३।।
प्रतिजीवमविद्याया भेदं स्वीकृत्य केचिदेतस्याः। अनुवृत्तिनिवृत्तिभ्या- मुपपन्ना सा व्यवस्थेति॥ ४४।।
नानाविद्यापक्षेऽपि बन्धमुक्तिव्यवस्थां केषांचिन्मतेनाह- प्रतिजीवमिति॥ ४४ ॥
नन्वेतस्मिन्पक्षे कस्याविद्याकृतः प्रपञ्चः स्थात्। विनिगमकाभावादिह सर्वाविद्याकृतः स इत्येके ॥ ४५॥ नन्वस्मिन् पक्षे कस्याविद्यया प्रपश्वः कृतोऽस्त्वित्याशक्कय विनिगमनाविरहात् सर्वाविद्याकृतः अनेकतन्त्वारब्धपटवदि-
Page 28
२६ सिद्धान्तकल्पवल्ल्यां
ति केषांचिन्मतेनोत्तरमाह -नन्विति। एवं चैकतन्तुना- शे महापटस्येव तत्साधारणजगतो नाशे शेषतन्तुभि: पटा- न्तरस्येव जगदन्तरस्योत्पत्तिरिति भाव: ॥ ४५ ॥ अन्ये तु संगिरन्ते तत्तद्विद्याविनिर्मितं विश्वम्। प्रतिपुरुषमेव भिन्नं भवति यथा शुक्तिरजतमिति॥४६ ॥ तत्तदज्ञानकृतप्रातिभासिकरजतादिवत् तत्तदविद्याकृतः प्र- पश्चः प्रतिपुरुषं भिन्न एवेति मतान्तरमाह-अन्ये त्विति। शुक्तिरजते त्वया यदृष्टं तदेव मयापीत्यैक्यप्रत्ययोर्भ्रममात्- मिति भाव: ॥। ४६ ।। जीवगताज्ञानचया- द्विन्ना मायेश्वराश्रिता जगतः । योनिर्जीवाविद्या- स्त्वावरणायेति जगुरेके ॥ ४७ ॥ जीवाश्रिताविद्यानिवहाद्भिन्नेश्वराश्रिता मायैव प्रपश्वस्य कारणम्। जीवानामविद्यास्त्वावरणमात्रे प्रातिभासिकशुक्ति- रजतादिविक्षेप इवोपयुज्यन्त इति मतान्तरमाह-जीवगते- ति॥ ४७ ॥
Page 29
प्रथम: स्तबकः । २७
५. कर्तृत्ववादः । अथ कीदृगीश्वरस्य प्रपञ्चकर्तृत्वमिह केचित्। कार्यानुकूलभूत- ज्ञानचिकीर्षादिमत्त्वमिति॥४८॥ इत्थं लक्षणोपोद्वाते लक्षणैकदेशमुपादानत्वं विचार्य तदे- कदेशं कर्तृत्वं कीद्टशमिति प्रश्ने 'तदैक्षत' 'सोऽकामयत' 'तदात्मानस्वयमकुरुत' इति श्रवणात् न्यायमत इव कार्या- नुकूल ज्ञानचिकीर्षाकृतिमत्वं तदिति केषांचिन्मतेनोत्तरमाह- अथ कीदृगिति। ज्ञानं चिकीर्षा च ते आदी यस्या: कृतेः सा ज्ञानचिकीर्षादिः, कार्य प्रत्यनुकूलभूता या ज्ञानचिकीर्षादि: तद्वत्वं कर्तृत्वमित्यर्थः ॥४८॥
अन्ये तु तदनुकूल- ज्ञानाश्रयतैव कर्तृतेत्याहुः। इतरे तु तदनुकूल- सत्रष्टव्यालोचनाश्रयत्वमिति॥४९॥ इच्छाकृत्योरपि कार्यत्वेनात्माश्रयात्तयोरिच्छाकृत्यन्तरेण कर्तृत्वं चेत् अनवस्थानात् कार्यानुकूलज्ञानवत्वमेव ब्रह्मणः
Page 30
२८ सिद्धान्तकल्पवल्ल्यां
कर्तृत्वमिति मतान्तरमाह- अन्ये त्विति। न च ज्ञानस्यैष प्रसङ्ग:, तस्य ब्रह्मरूपत्वेनाकार्यत्वादिति भावः । न च कार्यानुकूलब्रह्मरूपज्ञानवत्त्वमीश्वरस्य कर्तृत्वम्, तस्य जीवं प्रत्यविशेषेण जीवस्यापि तत्प्रसङ्गात्। कार्यानुकूलस्रष्टव्यालो- चनात्मकज्ञानवत्त्वं तदिति मतान्तरमाह- इतरे त्विति।।
६. ईश्वरस्य सर्वज्ञत्ववादः। ननु जगतः कर्तृत्वा- क्षिसं सार्वजञ्यमीश्वरस्य कथम्। जीववदन्त:करणा- भावेन ज्ञातृतायोगात्॥५०॥ ननु जगत्कर्तृत्वेनाक्षिप्तं शास्त्रयोनित्वेन च समर्थितमीश्वर- स्य सर्वज्ञत्वं कथं संगच्छताम्? जीववदन्तःकरणाभावेन ज्ञा- तृत्वाभावादिति शङ्कते-नन्वििति ॥ ५० ॥
अत्र प्राणिगताखिल- गोचरधीवासनैकसाक्षितया। सार्वज्ञ्यमीश्वरस्य प्रसाधयन्ति स्म भारतीतीर्थाः ॥५॥
Page 31
प्रथम: स्तबकः। २९
सर्ववस्तुविषयकप्राणिधीवासनोपरक्ताज्ञानोपाधि: ईश्वरः, अतस्तस्य प्राणिगतसर्वविषयकधीवासनासाक्षितया सर्वज्ञत्व- मिति भारतीतीर्थानां मतेन समाधत्ते-अत्रेति ॥ ५१॥ चित्प्रतिबिम्बग्राहक- मायावृत्त्येश्वरस्यापि। सर्वज्ञतोपपन्ने- त्याहुः प्रकटार्थकाराद्याः ॥५२॥ यथान्तःकरणवृत्त्या जीवस्य ज्ञातृत्वम्, एवमीश्वरस्यापि चित्प्रतिबिम्बग्राहकसात्त्विकमायावृत्त्या त्रैकालिकसकलपदा- र्थगोचरापरोक्षज्ञानाश्रयत्वेन सर्वज्ञत्वमुपपन्नमिति मतान्तर- माह-चिदिति ॥ ५२॥ स्त्रष्टव्यालोचनया साक्षात्कृत्या तदुत्थसंस्मृत्या। त्रैकालिकधीमत्वात् सार्वज्ञ्यं तत्त्वशुद्धिकृत आहुः ॥५३॥ भूतभाविनोर्मायावृत्त्यसंभवादापरोक्ष्यासंभवं संभावयतः पुरुषान्प्रति मतान्तरमाह- स्रष्टव्येति। स्रष्टव्यालोचन- येति तृतीया धान्येन धनवानितिवद्भेदविषया द्रष्टव्या। तथा चालोचनात्मकत्रैकालिकवस्तुविषयकधीमत्वादित्यर्थः ।५३॥
Page 32
३० सिद्धान्तकल्पवल्ल्यां
स्वेनैव ज्ञानेन सनिष्टसर्वावभासकत्वेन। सर्वज्ञत्वमितीत्थं समर्थयन्ति स्म कौमुदीकाराः॥५४॥ आत्मस्वरूपज्ञानेनैव ब्रह्मण: स्वाध्यस्तसर्वप्रपश्चावभास- कत्वात् सार्वज्यमिति मतान्तरमाह-स्वेनैवेति। चित्रभित्तौ विमृष्टानुन्मीलितचित्रयोरिव स्वरूपे सूक्ष्मरूपेणातीतानागतयो- रपि सत्वादिति भाव: ॥ ५४ ॥ अत च सर्वज्ञत्वं सर्वज्ञानस्वरूपतेत्येके। दृश्यावच्छिन्नस्व- ज्ञानं प्रति कर्तृता तदित्यपरे ॥५५॥ अत्र सर्वावभासकज्ञानस्वरूपत्वमेव सार्वज्यम्, न तु ज्ञान- कर्तृता; 'वाक्यान्वयात्' इत्यधिकरणभाष्ये ज्ञानकर्तृताया जीवलिङ्गत्वोक्तेरिति केषांचिन्मतमाह-अत्रेति। अत शङ्कायामित्यर्थः । चितः कार्योपहितरूपेण कार्यत्वात् कर्तृता सुवचेति वाचस्पतिमिश्राणां मतमाह-दृश्येति॥५५॥
Page 33
प्रथम: स्तबकः । ३१
७. जीवाल्पत्ववादः ।
नन्वीश्वरो यथा किल वृत्त्यनपेक्ष: स्वरूपभासैव। विषयानवभासयति स्याज्जीवोऽप्येवमित्यत्र ॥ ५६॥ ननु ईश्वर इव जीवोऽपि वृत्त्यनपेक्षस्वरूपचैतन्येन विष- यान् कुतो नावभासयतीति शङ्कगते-नन्विति ॥ ५६॥
विषयासंसग्यपि स- न्नन्त:करणेन संसृष्टः। विषयोपरागसिद्धयै जीवस्तावत्समीहते वृत्तिम् ॥५७॥ ब्राह्मणः सर्वोपादानतया स्वसंसृषं सर्वमवभासयति ; जीवस्त्वविद्योपाधिकतया सर्वगतोऽपि न सर्वविषयैः संस्ज्यते, अनुपादानत्वात्। तथाविधोऽपि सन् व्यक्तौ जातिरिव अन्तःकरणेन संसृष्टो वृत्तिद्वारा विषयं व्याप्रोतीति विषयैः संबन्धसिद्धर्थ वृत्तिमपेक्षत इति विवरणोक्तं परिहारमाह- विषयेति ॥५७ ॥
Page 34
३२ सिद्धान्तकल्पवल्ल्यां
विषयावच्छिन्नचिता- भेदाभिव्यक्तिसिद्धयेवायम्। जीवोऽन्तःकरण- परिच्छिन्नतया वृत्तिमभिलषति ॥५८॥ अन्तःकरणोपाधिकत्वेन जीव: परिच्छिन्न: तत्संसर्गाभा- वान्न विषयमवभासयति। वृत्तिद्वारा स्वसंसृष्टविषयावच्छिन्न ब्रह्मचैतन्याभेदाभिव्यक्तौ तु तं विषयमवभासयतीति तत्सि- द्धयर्थ वृत्तिमपेक्षत इति तदुक्तमेव परिहारान्तरमाह-वि- षयेति ॥५८ ॥ अथवा घटादिविषया ज्ञानावरणाभिभनूतये जीवः। द्वारीकरोति वृत्ति त्रेधेत्थं विवरणे परीहारः॥५९॥ जीव: सर्वगतोऽ्यविद्यावृतत्वात् स्वयमप्यप्रकाशमानतया विषयान्नावभासयन् विषयविशेषे वृत्त्युपरागादावरणतिरोधा- नेन तत्रैवाभिव्यक्तस्तमेव प्रकाशयतीति तदभिभवार्थ वृत्ति- मपेक्षत इति तदुक्तमेव परिहारान्तरमाह-अथवेति।
Page 35
प्रथम: स्तबकः । ३३
८. संबन्धवादः ।
अत्र प्रथमे पक्षे सर्वगतस्यापि जीवस्य। वृत्त्यायत्त: को वा विषयैरुपराग इत्यत्र ॥ ६० ॥
इत्थं प्रदर्शितेषु पक्षेषु प्रथमं पक्षं प्रश्नव्याजेनाक्षिपति- अत्रेति। निष्क्रिययोर्भिन्नदेशीययोर्विषयचैतन्ययोस्तादात्म्य- स्य संयोगख वा आधानासंभवादिति भावः ॥ ६०॥
विषयविषयित्वमेवे- त्याहु: केचित्परे तु जीवस्य। तादात्म्यापन्नाया वृत्तेः संयोग एवेति ॥ ६१॥
स्वाभाविकविषयविषयिभाव एव संबन्ध इति मतेन समा- धत्ते-विषयेति। न हि विषयविषयित्वं संबन्धः, अनुमि- त्यादौ वृत्त्यनिर्गमेऽपि बाह्यवह्नथादिविषयतासत्वेन बहिर्निर्ग- मनकल्पनावैय्थर्यापत्तेः । किंतु जीवतादात्म्यापन्राया मनो- वृत्तेर्विषयैः संयोगो जीवस्यापि तहारा परंपरासंबन्धो लभ्यत S. 3
Page 36
३४ सिद्धान्तकल्पवल्ल्यां
इति। स एव चिदुपरागोऽभिमत इति मतान्तरमाह- परे त्वित्यादिना ॥ ६१ ॥
स्वावच्छेदकवृत्ते- रविषयैरुन्मिषति संयोगे। तजन्य: संयोगो जीवस्यास्तीति जगुरेके ॥ ६२॥
साक्षात्प्रमातृसंबन्धे सत्येव सुखादेरापरोक्ष्यदर्शनात् प्र- मात्रवच्छेदिकाया वृत्तेर्विषयैः संयोगे तदवच्छेदेन प्रमातु- र्जीवस्यापि संयोगजसंयोगोऽस्तीति स एव चिदुपराग इति मतान्तरमाह-स्वावच्छेदकेति। कारणाकारणसंयोगात्का- रयाकार्यसंयोगवत् कार्याकार्यसंयोगात्कारणाकारणसंयोगस्या व्यभ्युपगमादिति भावः ॥ ६२॥
अन्तःकरणोपहितो जीवो विषयावभासकस्तस्य। विषयचिदैक्यद्वारा विषयैस्तादात्म्यमेष इत्यपरे॥ ६३ ॥ अन्तःकरणोपहितस्य विषयावभासकस्य जीवचैतन्यम्य
Page 37
प्रथम: स्तबकः । ३५
त्म्यमेव चिदुपराग इति मतान्तरमाह- अन्तःकरणेति। न चैवं द्वितीयपक्षसांकर्यम्। जीवस्य सर्वगतत्वे प्रथम: पक्षः, परिच्छिन्नत्वे द्वितीयः इत्येवं तयोर्भेदसंभवादिति भाव: ॥ ६३ ॥
९. अभेदाभिव्यक्तिवादः । का च द्वितीयपक्षे-
विषयावच्छिन्नान्त :- करणप्रतिबिम्बचेतनैक्यमिति ॥६४॥ द्वितीयं पक्षं प्रश्नपूर्वकं निरूपयति-का चेति। तटाक- केदारसलिलयोः कुल्याद्वारेव वृत्तिद्वारा विषयावच्छिन्नान्तः- करणप्रतिबिम्बचैतन्ययोरेकीभावोऽभेदाभिव्यक्तिरित्यर्थः ॥ वृत्तौ यः प्रतिबिम्बो विषयावच्छिन्नचिद्यक्ते:। तखान्त:करणपरि- च्छिन्नचितैकत्वमित्यपरे ॥ ६५॥
Page 38
३६ सिद्धान्तकल्पवल्ल्यां
बिम्बस्थानीयस्य विषयावच्छिन्नचैतन्यस्य वृत्तौ यः प्रति-
भिव्यक्तिरिति मतान्तरमाह-वृत्ताविति ॥ ६५॥ यच्चैतन्यं विषया- वच्छिन्नं बिम्बभूतमेतस्य। बिम्बत्वोपहितस्यै- कत्वं जीवेन सेत्यन्ये। ६६॥ अस्तु वा बिम्बस्थानीयस्य विषयावच्छिन्नब्रह्मचैतन्यस्य चैतन्यात्मना उपलक्षितरूपेणैकीभावोऽभेदाभिव्यक्तिः । तथा- पि न जीवब्रह्मसांकर्यम्, न वा ब्रह्मणः सर्वज्ञत्वाभावापत्तिः, तस्य च बिम्बत्वविशिष्टरूपेण प्रतिबिम्बाद्भेदेऽपि तदुपलक्षित- रूपेणाभेदात्। एवं च बिम्बत्वोपलक्षितस्य विषयावच्छिन्न- बिम्बचैतन्यस्य जीवचैतन्येनैकीभावोऽभेदाभिव्यक्तिरिति म- तान्तरमाह-यच्चैतन्यमिति ॥ ६६ ॥
१०. आवरणाभिभववादः।
का वा तृतीयपक्षे- उज्ञानावरणाभिभ्नूतिरिह केचित्।
Page 39
प्रथम: स्तबकः । ३७
अज्ञानांशविनाश: कटवद्वेष्टनमथापसरणमिति ॥६७॥
तृतीयं पक्षं प्रश्नव्याजेनाक्षिपति-केति। आवरणाभि- भवसाज्ञाननाशरूपत्वे घटज्ञानेऽपि तन्नाशे मोक्षप्रसङ्ग इति भावः । चैतन्यमात्रावारकस्य मूलाज्ञानस्य विषयावच्छिन्नप्र- देशे खद्योतादिप्रकाशेन महान्धकारस्येव ज्ञानेनैकांशनाशो वा कटवत्संवेष्टनं वा भीतभटवद्पसरणं वा अभिभव इति पक्षभेदेनोत्तरमाह- अज्ञानेति ॥ ६७ ॥
वृत्त्या संसृष्टं य- द्विषयावच्छिन्नचैतन्यम्। तद्नावारकताखा- भाव्यं सेत्यामनन्त्येके॥ ६८ ।।
अज्ञानस्यैकांशेन नाशे तद्विषये सकृदवगते समयान्तरे- डप्यावरणाभावप्रसङ्गात्, निष्क्रियस्य वेष्टनापसरणयोरसंभ- वाज् न यथोक्तरूपोडभिभवः, किंतु तत्तदाकारवृत्तिसंसृष्टाव-
मतान्तरमाह-वृत्त्येति ॥ ६८॥
Page 40
३८ सिद्धान्तकल्पवल्ल्यां
मूलाज्ञानस्यैवा- वस्थाभेदात्मकं किंचित्। अज्ञानान्तरमास्ते तस्मात्तन्नाश एव सेत्यन्ये। ६९॥ शुद्धब्रह्ममात्रावारकं मूलाज्ञानम्। तस्यैवावस्थाभेदरूपं विषयावच्छिन्नचैतन्यावारकमज्ञानान्तरमस्तीति तन्नाश एवा- भिभव इति मतान्तरमाह- मूलाज्ञानस्येति। एवं च एकज्ञानेनाज्ञाननाशे ज्ञानान्तरवैयर्थ्यापतत्या तन्नाश्यानेका- ज्ञानान्यभ्युपगम्यन्त इति भावः ॥ ६९।।
११. अवस्थाज्ञानसादित्वाना- दित्ववादः। तच्चानेकमवस्था- ज्ञानमनादीति केचिदिच्छन्ति। निद्रासुषुप्त्यवस्था- साम्यात्सादीत्युदाहरन्त्यपरे।। ७० ॥। तच्चानेकमवस्थाज्ञानं मूलाज्ञानवद्ज्ञानत्वादनादीति केषां- चित् मतमाह- तच्चेति। व्यावहारिकजगजजीवावावृत्य
Page 41
प्रथम: स्तबकः । ३९
स्वाप्नजगज्जीवौ विक्षिपन्त्या निद्राया अज्ञानावस्थात्वं प्रसि- द्धम् । सुप्तेरपि न किंचिद्वेदिषमित्यनुभवस्य कादाचित्क- त्वात्सादित्वम्। तत्साम्यादन्यदप्यज्ञानावस्थारूपं सादीत्य- परेषां मतमाह-निद्रेत्यादिना॥ ७०॥
नन्वज्ञानमनादी- त्यस्मिन्पक्षे कियन्निवर्त्य स्यात्। अन्र व्यवस्थयैक- ज्ञानेनैकं निवर्त्यमित्येके ।। ७१॥
अनादित्वपक्षे घटे प्रथमोत्पन्नज्ञानेन तदवच्छिन्नसर्वाज्ञा- ननाशे पुनरावरणानापत्तिः । एकतरनाशे विनिगमकाभाव इत्याशयेन शङ्कते-नन्विति। यथा न्यायनये सत्स्वप्यने- केषु तद्विषयभ्रमसंशयादिहेतुज्ञानप्रागभावेष्वेकज्ञानेनैक एव प्रागभावो निवर्त्यते संशयादिनिवृत्तिर्विषयावभासश्च भवति, तथैकेन ज्ञानेनैकाज्ञानं निवर्तते संशयादिनिवृत्तिर्विषयावभा- सश्चेत्यभिप्रेत्य केषांचिन्मतेन परिहरति-अत्रेत्यादिना॥
आवृण्वन्ति घटादिक- मज्ञानानि क्रमेण न तु युगपत्।
Page 42
४० सिद्धान्तकल्पवल्ल्यां
यद्यददावृणोति ज्ञानात्तत्तत्निवर्त्यमित्यपरे॥ ७२॥
यावद्विशेषाभावकूटस्यैव संशयादिहेतुत्वेनैकेनापि ज्ञानेन तत्कूटविघटने संशयाप्रसक्तया प्रागभाववैषम्यात् आवृतप्र- काशायोगादेकावृतेऽन्यस्यानुपयोगाच्च। अतोऽज्ञानानि क्र- मेण घटादिकमावृण्वन्ति, न तु एकदा। तथा च यदा यद्यद- ज्ञानमावृणोति तदा ज्ञानात्तत्तदज्ञानमेव निवर्तत इत्यभिप्रेत्य मतान्तरमाह-आवृण्वन्तीति॥ ७२॥
संततमेव समस्ता- ज्ञानान्यावारकाणि विषयस्य। ज्ञानेनैकविनाशे भवति परेषां तिरस्क्रियेत्यन्ये। ७३॥
अज्ञानस्य सविषयत्वस्वाभाव्यादुत्सर्गतः सर्वतः 'सर्वदैव सर्वाज्ञानानि विषयस्यावारकाणि भवन्ति । तथा च ज्ञाने- नैकाज्ञाननाशेऽन्येषां ज्ञानकाले तिरस्कारो भवति। संनि- पातहरौषधेनैकदोषनाशे दोषान्तराणामिवेति मतान्तरमाह -संततमेवेति॥ ७३॥
Page 43
प्रथम: स्तबकः । ४१
१२. धारावाहिकद्वितीयादिज्ञानवैफ- ल्यपरिहारवादः।
नन्वेवं सति धारा- स्थले द्वितीयादिसफलता न स्यात्। प्रथमज्ञानेनैवा- वरणाभिभवस्य सिद्धत्वात् ॥७४॥
एतन्मते धारावाहिकस्थले प्रथमज्ञानेनैव नाशतिरस्का- राभ्यां सर्वावरणाभिभवस्य सिद्धत्वात द्वितीयादिज्ञानानां विफलता स्यादिति शङ्कते-नन्विरिति ॥ ७४॥
अन्र प्रथमज्ञानति- रस्कृतमज्ञानसुपरते तस्मिन् । पुनरावृणोति वृत्त्य- न्तरोद्येनेति सफलतामाहुः॥७॥
प्राथमिकज्ञानतिरस्कृतमज्ञानं दीपतिरस्कृतं तम इव त- स्मिन ज्ञाने उपरते पुनरावृणोति। दीपान्तरस्येव ज्ञानान्तर- स्योदये नावृणोति। किंतु तथैवावतिश्वत इत्यावरणाभिभ-
Page 44
४२ सिद्धान्तकल्पवल्ल्यां
वपरिपालकतया द्वितीयादिज्ञानानां सफलतास्तीति मतेनो- त्तरमाह-अत्रेति॥ ७५॥
अज्ञानानि हि तत्त- त्कालिकविषयावृतिप्रगल्भानि। ज्ञानानि च खवकाला- वृतिनाशकराणि तेन तामपरे॥ ७६॥
अज्ञानानि हि तत्तत्कालोपलक्षितविषयावारकाणि। ज्ञा- नानि च स्वकालोपलक्षितविषयावरणनाशकानि। तेन धा- रावाहिकद्वितीयादिज्ञानानामपि तत्तत्कालिकविषयावरणना- शकत्वेन सफलतेति मतान्तरमाह-अज्ञानानीति। ताम सफलताम् ॥ ७६॥
आद्यज्ञानेन घटा- द्यज्ञानं तदितरैस्तु विज्ञानैः। देशादिविशिष्टघटा- द्यज्ञानं नाश्यमिति केचित्। ७७।। प्रथमज्ञानेन केवलघटाद्यज्ञानमेव निवर्तते। द्वितीयादि- ज्ञानैस्तु देशकालादिविशिष्टघटाद्यज्ञानमेव। अतस्तेषां सफ- लतेति मतान्तरमाह-आद्येति। अत एव सकृदृष्टे जाना-
Page 45
प्रथम: स्तबकः । ४३
म्येव चैत्रम, इदानीं स क्केति न जानामीत्यनुभव इति भाव:।| ७७ ।।
१३. परोक्षज्ञानस्याज्ञाननिवर्तकत्वा- निवर्तकत्ववादः।
नन्वेष नास्ति नियम: परोक्षवृत्तेरनिर्गत्या। विषयाज्ञाननिवर्तक भावायोगादिह प्राहुः।७८।। ननु नायमपि नियम: परोक्षप्रमाणवृत्तिषु व्यभिचारा- दिति शक्कते- नन्विति ॥ ७८॥ द्विविधं विषयाज्ञानं विषयगतं पुरुषगतं चेति। तत्र च परोक्षवृत्त्या पुरुषगतस्यैव तख नाश इति॥ ७९॥ समाधत्ते-द्विविधमिति। विषयावारकमज्ञानं द्विवि- धम्, विषयाश्रितं पुरुषाश्रितं चेति। तत्र आद्यमावरणं विक्षेप-
Page 46
४४ सिद्धान्तकल्पवल्ल्यां
कार्यानुमेयम् ; द्वितीयं साक्षिसिद्धम्। तत्र परोक्षवृत्त्या आद्यस् विप्रकर्षात् संनिहितस्य द्वितीयस्यैव नाश इत्यर्थः । शास्त्रार्थश्रवणानन्तरं स्वस्य तद्विषयकाज्ञाननाशानुभवादिति भाव: ।। पुंगतमेवाज्ञानं विक्षेपावरणकारणं तत्र। आवरणांशविनाशो वृत्त्या तावत्परोक्षयेत्येके ।। ८0 ।
पुरुषाश्रितमेकमज्ञानमक्षिपटलमिव विप्रकृष्टविषयस्याप्या- वरणविक्षेपहेतुः ब्रह्मण्यपि जीवकृताज्ञानविषयीकृते जगद्विक्षे- पाभ्युपगमात्। तत्र परोक्षवृत्त्या आवरणांशस्यैव नाशमाह- पुंगतमिति ॥ ८०॥ अपरे तु विषयमात्रा- श्रितमिद्मज्ञानमत्र नाशस्तु। अपरोक्षरूपवृत्त्या तस्मान्नियमो न भग्न इति ॥ ८१ ॥ शुक्त्यादितादात्म्यापन्नरजताद्यनुभवोऽसत्यः स्यात्। तदु- पादानमज्ञानं विषयगतं तदावारकम्। न चैवं सति तम्य
Page 47
प्रथम: स्तबकः । ४५
साक्षिसंसर्गाभावे तद्भास्यत्वं न स्यादिति वाच्यम्। तत्सं- सर्गाभावेऽप्यवस्थावस्थावतोरनतिभेदात् अवस्थावतो मूला- ज्ञानस्य साक्षिसंसर्गमात्रेण तदवस्थारूपस्य तूलाज्ञानस्यापि साक्षिभास्यत्वोपपत्तेः । अस्य च नाशस्त्वपरोक्षवृत्त्यैव। अतः परोक्षवृत्तिषु न व्यभिचार इति मतान्तरमाह-अपरे त्वि- ति। परोक्षवृत्त्या अज्ञाननाशानुभवस्तु अर्थसत्तानिश्चयपरो- क्षवृत्तिप्रतिबन्धकप्रयुक्ताज्ञाननाशानुभवनिबन्धनो भ्रम इति भावः ।। ८१।।
ननु नासावपि नियम: सुखादिवृत्तेस्तु तदनिवर्तनतः। मैवं सुखदुःखादे- ने वृत्तिरस्त्यस्य साक्षिभास्यत्वात्॥८२।।
सुखादिवृत्तेरज्ञाननिवर्तकत्वाभावाव्यभिचार इत्याशकष सुखादिवृत्तेः साक्षिभास्यत्वेन तत्र वृत्त्यनभ्युपगमान्न व्य- भिचार इति परिहरति-नन्विति ॥ ८२ ॥
Page 48
४६ सिद्धान्तकल्पवल्ल्यां
१४. साक्षिस्वरूपनिर्णयवादः। अथ कोऽयं साक्षीति प्रश्ने कूटस्थदीपोक्तम्। तनुद्याधिष्ठानं चैतन्यं यत्तु कूटस्थम्। ८३॥ साक्षिणमेव सप्रश्नं निरूपयति-अथेति । देहृद्व- याधिष्ठानभूतकूटस्थचैतन्यं स्वावच्छेदकदेहद्वयस्य साक्षादीक्ष- णान्निर्विकारत्वाच्च साक्षीत्युच्यत इत्यर्थः ॥ ८३ ॥ नाटकदीपे साक्षी जीवो नेति प्रदर्शितः स पुनः। नेशोऽपि किंतु शुद्धं प्रत्यग्ब्रह्मेति तत्त्वदीपेऽपि ॥ ८४॥ कूटस्थदीपोक्तसाक्षी किं जीवकोटिः, उत ईश्वरकोटिरिति विशये, तन्निर्णयार्थमिदमाह-नाटकेति। नाटकदीपे यथा नृत्तशालास्थितो दीपः प्रभ्वादिकं प्रकाशयन् तदभावेऽपि प्रकाशते, एवं साक्षी जीवादिकं प्रकाशयन सुषुप्तौ तदभावे- डपि प्रकाशत इति साक्षी न जीव इति दर्शितम्। तत्त्वदीपे-
Page 49
प्रथमः स्तबकः । ४७
डपि साक्षी न जीव: नापि ईश्वरः, 'केवलो निर्गुणश्च' इति श्रुतिविरोधात्। किं तु अस्पृष्टविभागं सर्वप्रत्यग्भूतं ब्रह्मेति दर्शित इत्यर्थ: ॥। ८४ ।।
एको देव इति श्रु- त्यनुरोधादीश्वरस्यैव। कश्रिद्ेद: साक्षी- त्युपपादितमस्ति तत्वकौमुद्याम्॥८५॥ 'एको देवः' इति देवत्वश्रुतिविरोधात् परमेश्वरस्यैव कश्चिदूपभेदो जीवप्रवृत्तिनिवृत्त्योरनुमन्ता स्वयमुदासीनः साक्षीति मतान्तरमाह- एक इति ॥ ८५॥ उक्तं हि तत्त्वशुद्धा- विद्मंशो रूप्यकोटिरिव। स ब्रह्मकोटिरेव प्रतिभासाज्जीवकोटिरिति ॥ ८६ ।।
यथा इदं रजतमिति भ्रमस्थले वस्तुतः शुक्तिकोट्यन्त- रगेतोऽपि इदमंशः प्रतिभासतो रजतकोटिः, रजताभिन्नः, तथा ब्रह्मकोटिरेव साक्षीति प्रतिभासतो जीवकोटिरिति मतान्तरमाह-उक्तं हीति॥ ८६॥
Page 50
४८ सिद्धान्तकल्पवल्ल्यां
केचिद्विद्योपाधि- र्जीवः साक्षीति भाषन्ते। अन्ये त्वन्त:करणो- पाधिर्जीवः स हीति मन्यन्ते ॥८७॥ अविद्योपाधिको जीवः साक्षाद्वष्टत्वात् कर्तृत्वाद्यारोपभा- क्त्वेऽपि स्वयमुदासीनत्वात् साक्षीति मतान्तरमाह-के- चिदिति। 'एको देवः' इति श्रुतिस्तु वास्तवब्रह्माभेदाभिप्रा- येति भावः । अविद्योपाधिको जीवो न साक्षी, पुरुषान्तरा- न्तःकरणादीनामपि पुरुषान्तरं प्रति स्वान्त:करणभासकसा- क्षिसंसर्गाविशेषेण प्रत्यक्षत्वापत्तेः। किंतु अन्तःकरणोपाधि- को जीव एव स इति मतान्तरमाह-अन्ये त्विति। विशि- ष्टोपहितयोर्भेदस्य सिद्धान्तसंमतत्वादन्तःकरणविशिष्टः प्र- माता तदुपहितः साक्षीति विवेक इति भावः ।। ८७।।
१५. अविद्यादीनामावृतानावृतसाक्षि- चैतन्यप्रकाश्यत्ववाद्ः।
ननु चिन्मात्रावारक- तमसा स्वयमावृतः साक्षी।
Page 51
प्रथम: स्तबकः । ४९
स कथमविद्यादीना- मवभासयिता भवेदिति चेत्। ननूक्तरूप: साक्षी चैतन्यावारकाविद्यावृतः सन् कथम- विद्यादिकमवभासयेदिति शङ्कते-नन्विति ॥८८ ।। राहुच्छन्नश्चन्द्रो राहुं यद्त्प्रकाशयति। तमसावृतोऽपि साक्षी तमः प्रकाशयति तद्रदित्याङ्ः।८९॥ राहुवदविद्या स्वावृतप्रकाशप्रकाश्येति मतेन परिहरति -राहुच्छन्न इति ॥ ८९॥ साक्ष्यवभास्यसुखादौ संदेहादेरदर्शनतः। साक्षिणमपहाय तमो- ऽन्यत्रैवावृतिकृदित्यपरे ॥ ९० ॥ वस्तुतस्तु साक्षिभास्या विद्याहंकारसुखादावावरणकार्यसं- देहाद्यदर्शनादज्ञानं साक्षिचैतन्यं विहायान्यत्र चैतन्ये आव- रणं करोतीति मतान्तरमाह-साक्षीति॥ ९० ॥ S. 4
Page 52
५० सिद्धान्तकल्पवल्ल्यां
साक्षी चेदज्ञाना- नावृतरूपो भवेत्तर्हि। तद्रूपोऽप्यानन्द: संततमेव प्रकाशेत ॥ ९१।। ननु साक्षिण्यावरणानभ्युपगमे तस्यानन्दरूपतापि भासे- तेत्याशङ्कय इष्टापत्या परिहरति श्रोकद्वयेन-साक्षीति ॥ इति चेदयमानन्दो भासत एवात एव खल। आत्मनि परमप्रेमा- स्पदत्वमिति केचिदत्राहुः ॥९२॥ इति चेदिति। निगद्व्याख्यानमेतत् ॥ ९२॥ आनन्दो मयि नास्ति न भासत इत्यनुभवानुसारेण। आनन्दांशे साक्षिण आवरणं केचिदाचख्यु:॥९३।। अनुभवानुसारिणां मतमाह-आनन्दो मयीति। सुग- ममेतत्। साक्षिण्यविद्याकल्पितभेदेनावरणानावरणयोरवि- रोधादिति भाव: ॥ ९३ ॥
Page 53
प्रथम: स्तबकः । ५१
१६. अहंकारादिस्मृतिसिद्धार्थसंस्कारा- धानवाद: ।।
नित्येन साक्षिणा त- त्संस्कारोत्पादनायोगात्। तन्ट्राखाहंकारा- द्यनुसंधानं कथं भवेदिति चेत् ।। ९४ ।। ननु कथं साक्षिभास्याहंकारादीनामनुसंधानम्, नष्ट- ज्ञानसूक्ष्मावस्थानरूपसंस्कारस्य ज्ञाने सति अयोगेन नित्येन साक्षिणा तदाधानासंभवादिति शङ्कते- नित्येनेति।।९४।।
गहृत्त्युपहितसाक्षिणि यद्भाति तया तदीयसंस्कारः। इति नियमाद्विषयान्तर- वृत्तिजसंस्कारतस्तदित्याहुः ॥ ९५॥ यद्दृत्त्यवच्छिन्ने साक्षिणि यत्प्रकाशते तहृत्त्या तद्गोचरसं- स्कार आधीयत इति नियमात् अहंकारादीनां च स्वगोचर- वृत्त्यभावे घटादिविषयान्तरगोचरवृत्त्यवच्छिन्नसाक्षिभास्य- त्वेन ताहशवृत्तिजन्यसंस्कारवत्तया अनुसंधानमुपपद्यत इति मतेन समाधत्ते-यद्दत्तीति। एतन्नियमानभ्युपगमे स्ववृ-
Page 54
५२ सिद्धान्तकल्पवल्ल्यां
Sनवस्थाप्रसङ्गादिति भाव: । ९५ । केचिदहंकाराव- च्छिन्नतया साक्ष्यनित्यतः। संस्कारस्तेनाहं- कारस्मरणोपपत्तिरिति ॥९६॥ अन्याकारवृत्त्या अन्यगोचरसंस्काराधाने विषयव्यवस्था- नुपपत्तेः स्वाकारवृत्त्यैव स्वगोचरसंस्काराधानमिति नियमः। तथा च अहंकारादिषु स्वाकारवृत्त्यभावेऽपि स्वभासकस्य साक्षिण: स्वावच्छिन्नतवेनानि्याेस्काुत्ति रिति मतान्तरमाह-केचिदिति ॥ ९६॥ अहमाकारां वृत्तिम- विद्यावृत्ति समाश्रित्य। संस्कार संभवेन स्मृत्युपपत्तिं प्रसाधयन्त्यन्ये॥९७॥। सुखमहमस्वाप्समिति सुप्तोत्थितस्मृते रुपपादनायावश्यक ल्व्यामहमाकारां वृत्तिमविद्यावृत्तिमङ्गीकृत्याहंकारादिषु संस्का- राधुपपत्ति प्रसाधयतां मतमाह-अहमाकारामिति॥
Page 55
प्रथम: स्तबकः । ५३
अपरे त्वहमिति वृत्तिरु- पासनवन्मानसी न तु ज्ञानम्। मानाजन्यतयातः संस्कारादिर्भवेदिति प्राहुः ।९८।।
अहमित्यांकारा अन्तःकरणवृत्तिरेव। सा च उपासनावन्न ज्ञानम्, क्लप्तप्रमाणाजन्यत्वात्। ततश्र संस्काराद्युपपत्तिरिति मतान्तरमाह-अपरे त्विति ॥ ९८॥
अन्ये तु न क्रियाहं- वृत्तिर्ज्ञानं प्रमाणजन्यत्वात्। नातश्राहंकारा- दानुसंधानेन दोष इत्याङ्ग: ॥ ९९॥
उपास्तिहि वस्तुप्रमाणातन्त्रत्वात् पुरुषप्रयत्नाधीनत्वा- च्वास्तु मानसी क्रिया। अह्माकारवृत्तिस्तु ज्ञानमेव मनोरू- पप्रमाणजन्यत्वात् वम्तुतन्त्रत्वाच्च। अतः संस्कारसंभवेना- हंकाराद्यनुसंधाने न काचिदनुपपत्तिरिति मतान्तरमाह- अन्ये त्विति ॥ ९९॥
इत्थं च बाह्यविषया परोक्षवृत्यावृतिक्षतिः सिद्धा।
Page 56
५४ सिद्धान्तकल्पवल्ल्यां
नन्वेवमिदंवृत्त्या- ज्ञाने नष्टे भ्रमो न स्यात् ॥ १०० ॥ इयता प्रबन्धेन प्रतिपादितं बाह्यापरोक्षवृत्त्यैवावरणाभि- भव इति नियममुपसंहृत्यास्यापि नियमस्य शुक्तिरजतभ्रम- स्थलेऽतिप्रसङ्गं शङ्कते- इत्थमिति। आवृतिक्षतिः आव- रणाभिभव इत्यर्थः । उपादानाभावादिति भावः ॥ १०० ॥
मिद्मंशाज्ञाननाशेऽपि। शुक्त्यंशाज्ञानवशा- द्रजताध्यासोपपत्तिरित्याहुः ॥ १०१॥ इदमाकारवृत्त्येदमंशाज्ञानस्य नाशेऽपि न पश्यामीत्नु- भवेन शुक्त्यंशाज्ञानसत्त्वेन तद्वशाद्रजताध्यासोपपत्तिरिति परिहरति-अत्रेति ॥ १०१॥
अन्ये त्विद्माकारक- वृत्त्यावरणांशनाशेऽपि। विक्षेपांशोपहिता- दिद्मंशाज्ञानतः सेति॥ १०२॥
Page 57
प्रथम: स्तबक: । ५५
इदमंशसंभवेन प्रतीयमानस्य रजतस्येदमंशाज्ञानमेवोपा- दानम्। तस्येदमाकारवृत्त्यावरणांशनाशेऽपि विक्षेपांशानि- वृत्त्या तत्सहितेदमंशाज्ञानाद्रजताध्यासोपपत्तिरिति मतान्तर- माह-अन्ये त्विति ॥ १०२ ॥
अपरे त्विदमाकारा वृत्तिर्नास्त्येव रूप्यधीभिन्ना। तस्या: कथमावरणा- भिभावकत्वप्रसङ्ग इत्याहुः ॥१०३॥ इदं रूप्यमिति विशिष्टगोचरैव वृत्तिर्दोषादिसहकृतेन्द्रियसं- प्रयोगादुत्पद्यते, न तव्यतिरेकेणेदमाकारा वृत्तिरस्ति । तस्या आवरणाभिभावकत्वप्रसङ्गो निरालम्बन इति कवितार्किकच- क्रवर्तिमतमाह-अपरे त्विति ॥ २०३ ॥ इतरे त्वेकैवेदं वृत्तिर्भ्रमहेतुरन्यवैफल्यात्। अध्यस्तं त्विह रूप्यं साक्षिप्रतिभास्यमित्याहुः॥ १०४।
कारा वृत्तिरेकैव। न त्वन्या रूप्याकारा, प्रयोजनाभावात्।
Page 58
५६ सिद्धान्तकल्पवल्ल्यां
रूप्यभानं तु इदवृत्त्यभिव्यक्तसाक्षिचैतन्येनैवोपपद्यत इति म- न्यमानानां मतमाह-इतरे त्विति ॥ १०४॥ ज्ञानद्यमिति पक्षे त्विद्मिति वृत्तिर्भ्रमे हेतु:। अन्येदं रजतमिति स्यादिदमध्यस्तगोचरेत्येके॥ १०५॥ ज्ञानद्वयाङ्गीकारपक्षे रजताध्यासहेतुभूतेदवृत्तिरेका, अन्या तु इदमध्यस्तरजतोभयगोचरा, इदं रजतं जानामीतीदमर्थता- दात्म्येन रजतानुभवादिति मतान्तरमाह-ज्ञानद्वयमिति॥ इदमिति मानसवृत्तिर- विद्यावृत्तिस्तु तद्गिन्ना। रजताकारा तखा नेदंविषयत्वमित्यपरे॥ १०६॥ अध्यासात्पूर्वमिदमिति जायमाना वृत्तिर्मानसी, रजताका- रा तु इदमाकारवृत्त्यवच्छिन्नचैतन्यस्थाविद्यापरिणामरूपतया- विद्यावृत्तिः । तस्याश्च नेदंविषयत्वम्। इदमर्थतादात्म्यानु- भवस्तु अधिगतेदंत्वविषयत्वसंसर्गेण युज्यत इति मतान्तर- माह-इदमिति॥ १०६॥
Page 59
प्रथम: स्तबकः । ५७
१७. अपरोक्षानुभूत्यर्थ वृत्ते- निर्गमवाद: ॥
नन्वविनिर्गतवृत्त्या- वच्छिन्नेनैव साक्षिबोधेन। सकलविषयावभासो- पपत्तिरिति वृत्तिनिर्गमो व्यर्थः॥ १०७॥
योरिव कारणवैलक्षण्योपपत्तेः वृत्तेविषयदेशकल्पनं वृथेति शक्कते-नन्विरिति ॥ १०७॥ अत्र वदन्त्यपरोक्षे विषयाघिष्ठानभूतविद्यतयै।
युक्तो न तु परोक्ष इति केचित्॥ तादात्म्यसंबन्धसंभवे स्वरूपसंबन्धस्य कल्पनायोगात् प्र- त्यक्षस्थल तादात्म्येन विषयाधिष्ठानचैतन्यमेव विषयप्रकाश- इति तदभिव्यक्तर्थ युक्तो वृत्तिनिर्गमाभ्युपगमः । परोक्ष- स्थले तु न तथा। तत्र वृत्तिनिर्गमद्वाराभावेनागत्या स्वरू
Page 60
५८ सिद्धान्तकल्पवल्ल्यां
पसंबन्धेनाविनिर्गतवृत्त्यवच्छिन्नचैतन्यमेव विषयप्रकाश आ- श्रियत इति मतेन समाधत्ते-अत्रेति ॥ १०८॥ साक्षाच्ित्संसर्गा- ह्ुःखादिष्वापरोक्ष्यदर्शनतः। तत्सिद्धये घटादौ वृत्तेर्निर्गमनमित्यन्ये॥१०९॥ अहंकारसुखदुःखादिषु साक्षाचैतन्यसंसर्गेणैवापरोक्षदर्श- नादत्रापि तथैवेति तत्सिद्धये घटादौ वृत्तेरनिर्गमः समभ्यु- पगम्यत इति मतान्तरमाह-साक्षादिति॥ १०९ ॥ प्रत्यक्षे गन्धादौ स्पष्टत्वं वृत्तिनिर्गमाधीनम्।
स्पष्टत्वायैतदित्यपरे ॥ ११०॥ परोक्षापेक्षया प्रत्यक्षे गन्धादावनुभूयमानं स्पष्टत्वं वृत्त्यभि- व्यक्तचैतन्यतादात्म्यप्रयुक्तं दृष्टमित्यतोऽन्यत्रापि स्पष्टत्वार्थ वृत्तिनिर्गमनमपेक्षत इति मतान्तरमाह- प्रत्यक्ष इति॥ नन्वेवं स्पष्टत्वं
Page 61
प्रथम: स्तबकः । ५९
अविनिर्गतया वृत्त्या सिद्धेः किं वृत्तिनिर्गमेनेति॥ १११॥ नन्वेवमावरणाभिभूतिरेव स्पष्टतेति पर्यवसन्नम्। तस्या- श्रानिर्गतवृत्त्यैव सिद्धेः किं वृत्तिनिर्गमनेनेति शङ्कते- नन्विति। नन्वेवं वृत्तेर्भिन्नदेशस्थत्वात् कथं तया विषयग- ताज्ञाननिवृत्तिरिति चेन्न। यद्ज्ञानं यं पुरुषं प्रति यद्विषया- वारकम्, तत् तदीयतद्विषयकज्ञाननिवर्त्यमिति ज्ञानाज्ञान- योर्विरोधप्रयोजकस्य नियमस्य सत्वादिति भाव: ।१११।। अत्ैतद्निर्गमने- न ज्ञानाज्ञानयोर्विरोधस्य। निर्वाह: स्यादिति त- ल्ाभार्थ वृत्तिनिर्गमापेक्षा।। ११२।। वृत्तिनिर्गमानभ्युपगमे ज्ञानाज्ञानयोर्विरोधप्रयोजकस्य दु- र्निरूपत्वेन तयोर्विरोधनिर्वाहो न स्यात्। न च यदज्ञानं यं पुरुषं प्रति इत्यादि तत्प्रयोजकमुक्तमिति वाच्यम्। परोक्षज्ञाने- नापि विषयगताज्ञाननिवृत्तिप्रसङ्गात्। तन्निर्गमाभ्युपगमे तु यदज्ञानं यं पुरुषं प्रति यद्विषयावारकम्, तत् तदीयतदज्ञाना-
Page 62
६० सिद्धान्तकल्पवल्ल्यां
स्य निरूपयितुं शक्यत्वेन तयोर्विरोधनिर्वाही सवतीति तद- रथे वृत्तिनिर्गमापेक्षेति मतेन समाधत्ते-अत्रेति ॥ ११२॥ विषयगताज्ञानस्य
सिद्धे वृत्तेरर्था- न्निर्गमनं पर्यवस्यतीत्यन्ये॥११३॥ विषयगताज्ञानस्य लाघवात् सवसमानाधिकरणज्ञाननि- वर्त्यत्वसिद्धावर्थाद्वृत्तिनिर्गम: फलतीति मतान्तरमाह-वि- षयेति ॥ ११३॥ सामानाधिकरण्ये सत्येव तमः प्रकाशनाश्यमिति। दृष्टानुरोधतस्त- न्निर्गमनं सिध्यतीत्येके ॥ ११४॥ बाह्यप्रकाशस्य बाह्यतमोनिवर्तकत्वं सामानाधिकरण्ये स त्येव दृष्टमिति दृष्ठानुरोधाद्वृत्तिनिर्गम: सिध्यतीति मता- न्तरमाह- सामानाधिकरण्य इति॥ ११४ ॥ आवरणाभिभवार्थ मा भूत्तन्निर्गमापेक्षा।
Page 63
प्रथमः स्तबकः । ६१
स्याचचिदुपरागसिध्यै
चिदुपरागोडमेदाभिव्यक्तिर्वा वृत्तिफलमिति मतयोस्तु तदर्थमेव वृत्तिनिर्गमनकल्पनमित्याह-आवरणेति॥ इत्थं प्रत्यगभिन्ने ब्रह्मणि वेदान्तवाक्यानाम्। तात्पर्येणान्वयतो जीवपराभेदसंसिद्धिः ॥ ११६॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीपरमशिवेन्द्र- पूज्यपादशिष्य श्रीसदाशिवब्रह्मेन्द्रविरचित- वेदान्तसिद्धान्तकल्पवल्ल्यां प्रथम: स्तबकः समाप्र: ॥ प्रासङ्गिकं परिसमाप्य सर्ववेदान्तसिद्धं प्रत्यग्व्रह्माभेदमुप- संहरति- इत्थमिति ॥ ११६ ॥
शिष्यश्रीसदाशिवब्रह्मेन्द्रप्रणीतश्रीवेदान्तसिद्धान्त- कल्पवल्लीव्याख्यायां केसरवल्ल्याख्यायां प्रथम: स्तबक: ॥
Page 64
द्वितीयस्तबकः॥
१. श्रुतिप्रत्यक्षयोः प्राबल्यदौर्बल्यवादः। नन्वद्वैते ब्रह्मणि वेदान्तसमन्वयः कथं सिध्येत्। विश्वगतसत्त्वविषय- प्रत्यक्षविरोधदर्शनादिति चेत् ॥। १ ॥ प्रथमस्तबके सर्ववेदान्तानामद्वितीयव्रह्मणि समन्वयं व्यु- त्पाद्य तस्य दढीकरणाय प्रमाणान्तराविरोधं व्यवस्थापयि- षयन् प्रथमं घटः सन्नित्यादिघटादिप्रपश्चगतसत्त्वग्राहिप्रत्यक्ष- विरोधात्कथमद्वितीये ब्रह्मणि वेदान्तानां समन्वयः सिध्येदिति प्रत्यक्षविरोधं शङ्कते-नन्विति ॥ १॥ इह तत्वशुद्धिकारा: प्रत्यक्षं नो घटादि गृह्णाति। किं तु घटाद्यनुविद्धं सन्मात्रमतो न विरोध इति ॥२ ॥
Page 65
द्वितीय: स्तबकः । ६३
यदि प्रत्यक्षं घटादिप्रपश्वं तत्सत्त्वं वा गृहीयात्, तदा परं विरोधः । न तथा गृह्णाति। किं तु अधिष्ठानत्वेन घटाद्य- नुगतं सन्मात्रमेव। तथा च प्रत्यक्षमपि सद्रूपब्रह्माद्वैतसि- ध्यनुकूलमेवेति मतेन परिहरति-इहेति। यथा भ्रमेष्वि- न्द्रियान्वयव्यतिरेकयोरधिष्ठानेदमंशग्रहण एवोपक्षयः अध्य- स्तरजतादेस्तु भ्रान्त्यैव प्रतिभासः, तथा सर्वत्रेन्द्रियैः सन्मा- त्रग्रहणम्। मायिकघटतद्गेदादेस्तु भ्रान्त्यैव प्रतिभास इति भाव: ॥ २ ॥
अस्तु घटादेरिन्द्रिय- वेद्यत्वमथापि न विरोध: । न्यायसुधोदितरीत्या सड्ुद्धेर्ब्रह्मसत्वविषयत्वात्॥ ३॥ अस्तु घटादिप्रपश्चस्य प्रत्यक्षवेद्यत्वम्, तथापि न विरो-
स्वान्तरविषयत्वकल्पने गौरवादिति मतान्तरमाह-अ- स्त्विति ॥ ३ ॥ संक्षेपकोक्तरीत्या- क्षस्यापि घटादिसत्त्वविषयत्वम्।
Page 66
६४ सिद्धान्तकल्पवल्ल्यां
भवतु तथापि न तत्वा- वेदकता मानतेति न विरोध: ॥४।। प्रत्यक्षस्य घटादिगताध्यस्तसत्त्वग्राहित्वेऽपि पराग्विषय- त्वेन तस्य न तत्त्वावेदकत्वं प्रामाण्यम्। श्रुतेस्तु तत्प्रामाण्य- मस्तीति न तद्विरोध इति मतान्तरमाह-संक्षेपकेति॥ प्रत्यक्षसमधिगन्यं सत्त्वं जात्यादि न लबाध्यत्वम्। न विरुध्यते तदेत- न्मिथ्यात्वेनेति चक्षते केचित् ॥५॥ वर्तमानमात्रगोचरप्रत्यक्षेण कालत्रयाबाध्यत्वरूपसत्त्वग्रह- णायोगात्, तद्वेद्यं जात्यादिरूपमेव सत्त्वम्। तञ्च मिथ्या- त्वेन न विरुध्यत इति मतान्तरमाह- प्रत्यक्षेति॥ ५॥
मबाध्यतारूपसत्त्वस्य। प्रत्यक्षग्राह्यत्वे- जप्यविरोधः श्रुतिभिरित्यन्ये॥ ६ ॥ द्विविधं सत्त्वम्। यावद्रह्मज्ञानमबाध्यत्वरूपं सरवदैवा- बाध्यत्वरूपं चेति। तत्राद्यस्य प्रत्यक्षग्राह्यत्वेऽपि मिध्यात्व-
Page 67
द्वितीयः स्तबकः । ६५
प्रतिपादकश्रुतिभिर्न विरोध इति मतान्तरमाह-याव- दिति ॥ ६॥ अस्तु विरोधस्तद्पि अत्या निर्दोषया कनीयस्या। ज्यायोऽपि प्रत्यक्षं शङ्गितदोषं च बाध्यमित्यपरे॥७॥
प्रपश्चस्य मिथ्यात्वसत्यत्वग्राहिणोः श्रुतिप्रत्यक्षयोर्विरो- धेडपि दोषशङ्काकलङ्गितं प्रथमप्रवृत्तमपि प्रत्यक्षं निर्दोषत्वा- दपच्छेदन्यायेन परत्वाद्वलीयस्या श्रुत्या बाध्यत इति मता- न्तरमाह-अस्त्विति ॥ ७॥
श्रुतिरपि तात्पर्थवती बलीयसीत्याह भामतीकार:। विवरणवार्तिककारा- स्त्वाहु: श्रुतिमात्रमिह बलीय इति॥ नन्वेवं यजमान: प्रस्तर इति यजमानस्य प्रस्तराभेद- बोधकश्रुत्या तङ्गेदप्रत्यक्षमपि बाध्यतामित्याशङ्कयाह-श्रुति- रपीति। तात्पर्यवत्येव श्रुतिर्मानान्तरादूलीयसी। प्रस्तरस्तु- त्यर्थवादस्य तु स्तुतौ तात्पर्यम्, न तु स्वारथें। अतस्तत्र s. 5
Page 68
६६ सिद्धान्तकल्पवल्ल्यां
मानान्तरविरोधे गौण्यादिकल्पनं युक्तमिति भावः । न तात्पर्येण श्रुतेः प्राबल्यम्। कृष्णलं श्रपयेदित्यत्रोष्णीकरण- लक्षणानापत्तेः, किं तु श्रुतित्वादेव प्राबल्यमित्युत्सर्गः । स- च मानान्तरस्य विषयान्तरसंभवस्थले चरितार्थः । तद्सं- भवेऽपोद्यत इति मतान्तरमाह-विवरणेति ॥ ८ ॥
२. श्रुतिप्रत्यक्षयोरुपजीव्योपजीवकभाव- विरोधपरिहारवादः।
ननु वर्णाद्यवगाहि- प्रत्यक्षस्यागमोपजीव्यत्वात्। उपजीव्यविरोधे सति हन्त प्राबल्यमागमख कथमू॥ ९॥
वर्णपदादिगोचरत्वेन तत्प्रत्यक्षस्य श्रुताद्वितीयब्रह्मज्ञान- हेतुत्वेनोपजीव्यत्वात्तद्विरोधे सति कथमागमस्य प्राबल्य- मिति शङ्कते-नन्विति। अपच्छेदाधिकरणे हि उपजीव्यत्वा- भावात्परेण पूर्वस्य बाधो युक्त:, इह तुन तथेति भावः ॥ शाब्दप्रमितौ वर्णा- दयध्यक्षं तु भ्रमप्रमानुगतम्।
Page 69
द्वितीय: स्तबक: । ६७
हेतुर्न तत्वरूपं तस्मान्न विरोध इत्याहुः ॥ १० ॥ वृषमानयेत्यादिवाक्यं श्रवणदोषाद्वृषभमानयेत्यादिरूपेण शृण्वतोऽपि शाब्दप्रमितिदर्शनेन शाब्दप्रमितौ वर्णपदादेः प्र- त्यक्षं भ्रमप्रमासाधारणमेव हेतुः। न तु वर्णपदादिस्वरूपम्। तस्मादद्वैतागमेन वर्णपदादिस्वरूपोपमर्देपि नोपजीव्यविरोध इति मतेन समाधत्ते-शाब्देति॥ १०॥
अन्ये तु योग्यतासि- ध्यपेक्षणेऽप्यत्र न विरोधः। आमुक्त्यसद्विलक्षण- सत्त्वोपगमादिति प्राहुः॥११॥।
यद्यप्ययोग्यवाक्याच्छाब्दप्रमानुदयेन योग्यतास्वरूपसि- ध्यपेक्षास्ति, तदपेक्षायामपि मुक्तिपर्यन्तं व्यावहारिकासद्विल- क्षणत्वार्थक्रियासमर्थत्वाभ्युपगमान्नोपजीव्यविरोध इति म- तान्तरमाह-अन्ये त्विति ॥११ ॥
तात्त्विकसत्वेन जग- न्निषिध्यते नेह नानेति।
Page 70
६८ सिद्धान्तकल्पवल्ल्यां
तेन पदाछुपमर्दन- शङ्काविरहान्न दोष इत्येके ॥ १२॥
नेह नानास्तीति श्रुत्या पारमार्थिकसत्त्वेनैव प्रपश्चो निषि- ध्यते, न तु व्यावहारिकसत्वेन। न चाप्रसक्तप्रतिषेधः । शु- क्तौ रजताभासप्रतीतिरेव सत्यरजतप्रसक्तिरिति तन्निषेधवत् प्रपश्चे सत्यत्वाभासप्रतीतिरेव पारमार्थिकसत्यत्वप्रतीतिरिति तन्निषेधोपपत्तेः। अतो व्यावहारिकसत्वानिषेधेन वर्णपदयो-
तान्तरमाह-तान्विकेति ॥ १२ ॥ केचित्तातत्विकमेव हि सत्वं तस्यानुवेधतो जगति। सत्त्वाभिमते तस्मि- न्सत्वनिषेधेऽप्यदोष इति॥१३॥
ब्रह्मणि पारमार्थिकं सत्यत्वम्, प्रपश्चे व्यावहारिकम्, शुक्तिरजतादौ च प्रातिभासिकमिति सत्तात्रैविध्यं नोपेयते। अधिष्ठानव्रह्मसत्तानुवेधादेव प्रपश्चे शुक्तिरजतादौ च सतत्वा- भिमानोपपच्या सत्त्वाभासकल्पनस निष्प्रमाणत्वात्। एवं
Page 71
द्वितीय: स्तबकः । ६९
च प्रपश्चे सत्त्वनिषेधेऽपि नोपजीव्यविरोध इति मतान्तर- माह-केचिदिति॥ १३॥
इत्थं तान््विकसत्ता- भिन्नतदाभासकल्पनाभावे। सत्यरजतातिरिक्तो रजताभास: प्रकल्प्यते किमिति ॥१४॥ नन्वेवं ब्रह्मगतपारमार्थिकसत्त्वातिरेकेण प्रपश्चे सत्त्वाभा- सानभ्युपगमे व्यवहितसत्यरजतातिरेकेण रजताभासोत्पत्ति: किमित्युपेयत इति शङ्कते-इत्थमिति ॥ १४ ॥ इति चेदसंनिकर्षा- दपरोक्षानर्हमेव रूप्यमिति। अपरोक्षानुभवबला- द्रूप्याभासस्य कल्पना युक्क्का ॥ १५॥ व्यवहितस्या संनिकृष्टस्यापरोक्ष्यासंभवाच्छुक्तिरजतादौ च तदनुभवात्तन्निर्वाहाय तदुपगम इति परिहरति-इति चे- दिति। अनेनासंनिकृष्टभ्रमस्थलेऽनिर्वेचनीयविषयोत्पत्तिरिति नियमो दर्शितो भवति ॥ १५ ॥
Page 72
७० सिद्धान्तकल्पवल्ल्यां
२. प्रतिबिम्बस्य बिम्बाभेदभेदाभ्यां सत्यत्वमिथ्यात्ववादः॥
नन्वित्थं प्रतिबिम्ब- भ्रमस्थले संनिकर्षवैकल्यात्। मुकुरे सुखान्तरं स्या- द्रीवास्थितनिजमुखातिरेकेण ॥ १६ ॥
कल्यादिति, ललाटादिप्रदेशावच्छेदेन मुखस्य संनिकर्षाभा- वादित्यर्थः। बिम्बातिरिक्तप्रतिबिम्बाभ्युपगमे ब्रह्मप्रतिबि- म्बस्यापि जीवस्य ततो भेदेन मिथ्यात्वापत्या मुक्तिभा- क्त्वानुपपत्तिरिति भाव: ॥ १६ ॥
इह न मुखस्याध्यासो मुकुराहतदृष्टिसंनिकृष्टत्वात्। किं त्वस्य मुकुरगत्वं भ्रम इति निगदन्ति विवरणानुगता:।। भवेदेवं यदि दर्पणे मुखस्याध्यासः स्यात्; न त्वेतदस्ति; तस्य दर्पणप्रतिहतपरावृत्तदष्टिसंनिकृष्टत्वात्। किंतु ममेदं
Page 73
द्वितीय: स्तबकः ॥ ७१
मुखं दर्पणे भाति नात्र मुखमस्तीति दर्पणस्थत्वबाधयोरतुभ- वादस्य दर्पणस्थत्वमेवाध्यस्यत इति मवान्तरमाह-इहेति॥ बिम्बसुखात्पार्श्वस्थै- भेदेन निरीक्ष्यमाणमादर्शे। प्रतिबिम्बितं मुखं त- न्मिथ्येत्यद्वैतविद्याकृत्॥१८॥। बिम्बमुखाद्गेदेन तत्सदृशत्वेन च पार्श्स्थैः स्पष्ट निरी- क्ष्यमाणं दर्पणे प्रतिबिम्बितं ततो भिन्नं स्वरूपतो मिथ्यैव। स्वकरगतादिव रनताच्छुक्तिरजतम्। दर्पणे मे मुखमिति व्यपदेशस्तु स्वच्छायामुखे स्वमुखव्यपदेशवद्गौण इति जीव- त्रैविध्यवाद्यभिप्रायमाविष्कुर्वतां मतमाह-विम्बेति। अ- स्मिन्पक्षे प्रतिबिम्बजीवस्य मिथ्यात्वेऽपि अवच्छिन्नजीवस्य सत्यत्वात् न पूर्वोक्तमुक्तिभाक्त्वानुपपत्तिरिति भाव: ॥ ननु कथमयमध्यास- स्तद्धेत्वज्ञानसंक्षयादिति चेत्। विक्षेपशक्तिमात्रव- दज्ञानं तत हेतुरित्याहुः॥ १९ ॥ दर्पणप्रत्यक्षेणोपादानाज्ञाननाशात् कथं प्रतिबिम्बाध्यास
Page 74
७२ सिद्धान्तकल्पवल्ल्यां
इत्याशङ्कय तत्प्रत्यक्षेण तदज्ञानस्यावरणांशनाशेऽपि बिम्ब- संनिधानादिप्रतिबन्धाद्विक्षेपांशेन नाशाभावात्तादशमेवाज्ञानं प्रतिबिम्बोपादानमिति परिहरति-नन्विति ॥ १९॥
मूलाज्ञानं हेतु- र्बिम्बासंनिहितमुकुरधीर्बाधः। बिम्बादिदोषजत्ा- त्पातीतिकता च घटत इत्येके ॥ २० ॥
न तावद्विक्षेपशक्तिमदवस्थाज्ञानं प्रतिबिम्बोपादानम् । यत्र पूर्वमेव दर्पणप्रत्यक्षं पश्चात् बिम्बसंनिधौ तत्र प्रतिब- न्धकाभावाद्विक्षेपांशस्य नाशे प्रतिबिम्बानुद्यप्रसङ्गात्। किंतु विक्षेपशक्तिमन्मूलाज्ञानमेव तदुपादानम्। न च तत्रापि तुल्यो दोषः, पराग्विषयवृत्तीनां स्वस्वविषयावच्छिन्नचैतन्य- प्रदेशे मूलाज्ञानावरणशक्त्यंशाभिभावकत्वेऽपि तदीयविक्षे- पानिवर्तकत्वस्य व्यावहारिकघटादिविक्षेपानिवृत्या क्लप- त्वादिति मतान्तरमाह-मूलेति। ननु तर्हि बिम्बापसरणेडपि यावड्रह्मज्ञानोदयं प्रतिबिम्बानुवृत्ति: स्यात्, उपादानाज्ञान-
बिम्बासंनिधिसहकृतमुकुरप्रत्यक्षं मूलाज्ञानानिवर्तकमपि स्व-
Page 75
द्वितीय: स्तबकः । ७३
विरुद्धतत्कार्यविक्षेपनिवर्तकमेवेत्यर्थः । तथा च ब्रह्मज्ञानस्य निवर्तकत्वपक्षेऽपि तादृख्रुकुरप्रत्यक्षं मुद्ररप्रहारो घटस्थेव प्रतिबिम्बस्य तिरोधायकमेवेत्युभयथा न प्रतिबिम्बानु- वृत्तिरिति भावः । ननु तर्हि तस्य व्यावहारिकत्वाप- ।बिम्बसंनिधानस्वच्छ- त्वादिदोषजन्यत्वात् प्रातिभासिकमित्यर्थः । तथा च अविद्या- तिरिक्तदोषाजन्यत्वमेव व्यावहारिकत्वप्रयोजकमिति भावः॥
४. स्वप्नाधिष्ठानवादः।
मूलाज्ञानैकहेतुको भवति। निद्राजन्यतया प्रति- भामात्रो ब्रह्मबोधबाध्य इति ॥ २१॥ एवं स्वप्नोऽ्यवस्थाशून्येऽहंकारोपहिते शुद्धे वा चैतन्ये अध्यासान्मूलाज्ञानोपादानक एव, आगन्तुकनिद्रादिदोषज- न्यत्वात् प्रातिभासिकः, ब्रह्मज्ञानबाध्यश्चेति मतान्तरमाह- केचिदिति। ब्रह्मज्ञानैकबाध्यत्वेऽपि स्वप्नस्य प्रबोधे सति तिरोधानान्न जाग्रद्दशायामनुवृत्तिरिति भावः ॥ २१ ॥
Page 76
७४ सिद्धान्तकल्पवल्ल्यां
स्वप्नाध्यासस्य परे प्राहुर्जाग्रत्प्रबोधतो बाधम्। ब्रह्मज्ञानेतरधी- बाध्यतया प्रातिभासिकत्वं च ।। २२ ।।
'बाध्यन्ते चैते रथाद्यः स्वप्रदृष्टाः प्रबोधे' इति भाष्यो- क्तेर्जागरिते स्वप्नमिथ्यात्वानुभवाच्च स्वप्नाध्यासस्य जाग्रत्प्र- बोधादेव बाधः। ब्रह्मज्ञानेतरज्ञानबाध्यतया प्रातिभासिकत्वं चेति मतान्तरमाह-स्वम्ेति। उपादानाज्ञाने सत्यपि भ्रमरूपेणापि जाग्रत्प्रबोधेन स्वप्नभ्रमस्य रज्जौ दण्डभ्रमेण सर्पभ्रमस्येव बाधो युक्त इति भावः ।। २२ ।।
केचिद्विद्यावस्था- लक्षणनिद्रानिदानक: स्वन्ः। सांव्यवहारिकजीव- ज्ञानाद्विनिवर्त्य इत्याहुः ॥ २३॥
जाग्रद्भोगप्रदकर्मोपरमे व्यावहारिकजगज्जीवावावृण्वन्ती मूलाज्ञानावस्थाभेदरूपा निद्रैव स्वाप्नप्रपश्वस्योपादानम्, न मूलाज्ञानम्। पुनश्च जाग्रद्भोगप्रदकर्मोद्वोधे व्यावहारिकजीव-
Page 77
द्वितीय: स्तबकः । ७५
स्वरूपज्ञानात् स्वोपादाननिद्रारूपाज्ञाननिवृत्त्या तस्य निवृत्ति- रिति मतान्तरमाह -- केचिदिति ॥ २३ ॥ निद्रादोषयुताया मन्तर्वृत्तावभिव्यक्े। शुद्धे चैतन्ये स्या- त्स्वप्नाध्यास इति मन्वते केचित् ।।
अहंकारोपहिते शुद्धे वा प्रागुक्तस्वप्राध्यासो न युक्त: । आद्ये अहं गजः गजवान्वेति भानापत्तेः । द्वितीये, प्रमातृ- संबन्धाय चक्षुरादिवृत्त्यपेक्षोपपत्तेरित्याशङ्कय अन्तःकरणस्य बहिरस्वातन्त्रयेऽपि देहान्तःस्वातन्त्रयात् तदन्तःकरणवृत्तौ निद्रादोषोपेतायामभिव्य क्ते शुद्धचैतन्ये तदाश्रिताविद्यापरिणा- मरूप: स्वप्नाध्यास इति विवरणोपन्यासकृन्मतेन द्वितीय- पक्षे दोषमुद्धरति- निद्रेति। साक्षात्प्रमातृसंबन्धेन तद्भा- नोपपत्तेस्तदर्थ न चक्षुरादिवृत्त्यपेक्षेति भावः ॥ २४ ॥
केचित्तस्मिन्नेवा- विद्याप्रतिबिम्बचैतन्ये। स्वयमपरोक्षतयास्य तु तद्भासार्थ न वृत्त्यपेक्षेति॥२५॥
Page 78
७६ सिद्धान्तकल्पवल्ल्यां
अविद्याप्रतिबिम्बे पूर्वोक्तशुद्धचैतन्य एव स्वप्नाध्यासः । अस्य शुद्धचैतन्यस्य स्वत एवापरोक्ष्यादध्यासावभासकत्वो- पपत्तेस्तदर्थ न चक्षुरादिवृत्त्यपक्षेति द्वितीयपक्ष एव मतान्त- रेण दोषमुद्धरति- केचिदिति। प्रमात्वस्वप्रदष्टत्वानुभ- वस्तु तदधिष्ठानशुद्धचैतन्यगोचरतत्समनियतान्तःकरणवृत्ति- कृताभेदाभिव्यक्तेरिति भाव: ॥ २५॥ केचिद्हंकृत्युपहित- तत्प्रतिबिम्बे तद्ध्यासः। नाहंकारविशिष्टे येन स्याद्हमिति प्रतीतिरिति ॥ २६॥ नाहंकारविशिष्टे स्वप्नाध्यासः। येन गजोऽहमित्यादिप्र- त्ययः प्रसज्येत। किंतु अहंकारोपहिते तत्प्रतिबिम्बचैतन्य इत्याद्यपक्षेऽपि दोषमुद्रति-केचिदिति। विशेषणवदु- पाधे: कार्यान्वयाभावादिति भावः ॥ २६ ॥ शुक्तीदंचैतन्य- प्रतिबिम्बे वृत्तिमन्मनोनिष्ठे। अध्यासो रजतादे- रत एवानन्यवेद्यतेत्याहुः॥२७॥
Page 79
द्वितीय: स्तबकः । ७७
एवं सवप्नाध्यासख मतभेदेनाधिष्ठानमुक्त्वा रजताध्यास- स्यापि तदाह- शुक्तीति। शुक्तीदंचैतन्यं शुक्तीदमंशाव- च्छिन्नचैतन्यम्, तस्य प्रतिबिम्ब इत्यर्थः । अत एव, प्रतिबि- म्बाध्यासादेवेत्यर्थः। बिम्बेध्यासे तु शुक्त्यादिवदन्यवेद्यता स्यादित्यर्थः ॥२७॥ इद्मंशावच्छिन्ने बिम्बेऽप्यध्यासमभ्युपेत्य परे। तत्तद्विद्याश्रयपुं ग्राह्यतवान्नान्यवेद्यतेत्याहुः॥२८॥ मतान्तरमाह-इदमंशेति। नन्वेवं तर्हि पुरुषान्तरवे- द्यता स्यादित्याशङ्कयाह-तत्तदिति ॥२८॥
५. स्वन्नपदार्थानुभववादः ।
नन्वस्तु शुक्तिरूप्ये चाक्षुषताप्रत्ययः कथंचिद्पि। स्वाप्नगजादिष्वेषो- डनुभवः कथमाविरस्त्विति चेत्। २९।
Page 80
७८ सिद्धान्तकल्पवल्ल्यां
ननु शुक्तिरजते चाक्षुषत्वानुभव: साक्षाद्वा अधिष्ठानद्वारा वा कथंचित्समर्थ्यताम्। स्वाप्नगजादिषु तथानुभवः कथ समर्थनीय इति शङ्कते-नन्विति ॥ २९॥
अत्राहुस्तद्वसरे चक्षु:प्रसुखेन्द्रियोपरमात्। स्वाप्रेषु चाक्षुषत्वा- नुभवो भ्रम एव भवतीति॥ ३० ॥ स्वप्नावस्थायां चक्षुरादीन्द्रियोपरमात् स्वयंज्योतिष्टवादेन स्वाप्नेन्द्रियकल्पनाया असंप्रतिपत्तेश्र दोषसंस्कारानुरोधेन चाक्षुषत्वानुभवो भ्रम इति मतेन परिहरति- अत्रेति।। दृष्टिसमकालसृष्टौ दृष्टेः प्रागर्थमात्रविरहेण। स्याज्जाग्रदर्थबोधे- ऽप्यैन्द्रियकत्वोपलम्भनं भ्रान्तिः ॥ ३१॥ दृष्टिसृष्टिवादे दृष्टिसमकाला सृष्टिरिति पक्षे दृष्टेः पूर्व घटे घटार्थमात्राभावेन तत्संनिकर्षाभावात् स्वप्नवज्जाग्रद्वन्त जाग्रद्टाद्यनुभवे चाक्षुषत्वानुभवो भ्रम इति केषांचिन्मत- माह-दृष्टीति ॥ ३१॥
Page 81
द्वितीयः स्तबकः । ७९
६. दृष्टिसृष्टिकल्पकवादः ।
इह दृष्टिसष्टिवादे साविद्यस्य प्रपश्चजातस्य। पूर्वाविद्यासचिव: कल्पक आत्मेति मेनिरे केचित्॥ ३२॥ नन्वस्मिन् दृष्टिसृष्टिवादे कृत्स्नस्य जगतः कल्पको नि- रुपाधिक: सोपाधिको वा आत्मा? प्रथमे, मुक्तस्यापि तत्क- ल्पकत्वापत्तिः । द्वितीये, उपाध्यसिद्धिरित्याशङ्गय पूर्वपूर्वा- विद्योपहित एवोत्तरोत्तरसाविद्यसर्वप्रपश्वस्य कल्पक इति केषांचिन्मतमाह-इहेति । अविद्याया अनादित्ववादस्तु स्वाप्नाकाशादेरिवानादित्वेनैव कल्पनादिति भावः ॥ ३२ ॥। केचिदनादित्वेना- विद्यादेनैष कल्पकस्तस्य। किंत्वेतद्यतिरिक्त- प्रपश्चमात्रस्य तावदिति ॥ ३३॥ अस्मिन्नेव वादे वस्तुतोऽविद्यादेरनादित्वेन तदन्यत्रात्मा कल्पक इति मतान्तरमाह- केचिदिति। एषः, पूर्वोक्त आत्मेत्यर्थः ॥ ३३॥
Page 82
८० सिद्धान्तकल्पवल्ल्यां
केचित्तु दृष्टिरेव प्रपश्चसृष्टिस्ततो नान्या। दृशयस्य दृष्टिभेदे मानाभावादिति प्राहुः॥ ३४।। दृष्टिसृष्टिवादे सिद्धान्तमुक्तावल्युक्तं विरोधान्तरमाह- केचिदिति। प्रस्तुतप्रपश्चस दृष्टयभेदे 'ज्ञानस्वरूपमेवाहुर्ज- गदेतद्विलक्षणम्' इत्यादि विष्णुपुराणवचनं प्रमाणमस्तीति भावः ॥। ३४ ॥
सष्ठस्य दृष्टिवादे
सद्सद्विलक्षणतया मिथ्यात्वमिहोपपन्नमित्यन्ये॥ ३५॥
ईश्वरसृष्टस्य जगतो दृष्टिरिति पक्षे अध्यासकारणदोषसं- स्काराभावेनास्मदादिभ्रान्त्यकल्पितत्वेऽपि सदसद्विलक्षणत्वेन श्रुतिप्रमाणकमिध्यात्वं संभवतीति पूर्वोक्तमतद्वये मनःप्रत्यय- मलभमानानां केषांचिन्मतमाह-सष्टस्येति ॥ ३५॥
Page 83
द्वितीय: स्तबक: । ८१
७. मिथ्याभूतस्यापि व्यावहारिक सत्यार्थक्रियाकारित्ववादः।
मिथ्यात्वं यदि जगत- स्तत्कथमर्थक्रियासमर्थत्वम्। अत्र स्वप्नवदर्थ- क्रियां वदन्ति सतुल्यसत्ताकाम्॥ ३६ ॥
दृष्टिसृष्टिवादे सृष्टिदृष्टिवादे च मिथ्यात्वसंप्रतिपत्तेः कथ मिध्याभूत स्यार्थक्रियाकारित्वमित्याशङ्कय स्वप्नसमानसत्ता- कार्थक्रियाकारित्वं संभवतीति केषांचिन्मतेन परिहरति- मिथ्यात्वमिति ॥ ३६॥
अन्ये तु स्वमोदित- साध्वसकम्पस्य जाग्रद्नुवृत्त्या। नैवार्थतत्क्रियाणां समसत्ताकत्वनियम इत्याहुः॥३७॥
त्तिदर्शनादर्थानां तत्क्रियाणां च समानसत्ताकत्वनियमो ना- स्तीति मतान्तरमाह-अन्ये त्विति॥ ३७॥। S. 6
Page 84
८२ सिद्धान्तकल्पवल्ल्यां
सालोकेऽप्यपवरके प्रविशत्पुरुषेण कल्पितं ध्वान्तम्। अर्थक्रियासमर्थ दृष्टमितीत्थं निदर्शयन्त्यपरे॥ ३८॥ अत्रान्तर्गृहे तत्रत्यपुरुषान्तरीयघटादिदर्शनसमर्थप्रकाशव- त्यकस्मात् प्रविशता पुरुषेणाध्यस्तं तमः तं प्रति घटाद्यावर- णादर्थक्रियासमर्थ दष्टमिति निदर्शनपूर्वकं पूर्वोक्तमेव मतम- नुसरतां मतमाह-सालोक इति॥ ३८॥ अन्ये तु नार्थसत्ता- मपेक्षते तत्क्रिया किंतु। सत्यं वासत्यं वा तत्तत्स्वरूपमात्रमिति प्राहः ॥ ३९।। अर्थक्रियाप्रयोजकत्वं न सत्यत्वम्। अर्थक्रियानुत्पत्तिद- शायां घटादेरसत्यत्वप्राप्तेः । किं तु सत्यं वासतयं वा तत्तद्वय- क्तिमात्रमिति मिध्यात्वेSपयर्थ्रियाकारित्वसंभवादिति मता- न्तरमाह-अन्ये त्विति॥ ३९॥ मरुपयसि जात्यभावा- त्पानाद्यर्थक्रिया तु नेत्येके।
Page 85
द्वितीय: स्तबकः । ८३
अस्त्येव जातिरर्थ- क्रियापि काचिन्न चाखिलेत्यन्ये॥ ४० ॥
नन्वेवं सति मरुमरीचिकोदकेनापि पानाधर्थक्रियाप्रसङ्ग इत्याशङ्कय तत्र तोयत्वजात्यभावान्नैवमिति ततत्वशुद्धिकारा- दिमतेनोत्तरमाह-मरुपयसीति। अब तोयत्वभानं तुसं- स्कारबलेनेति भावः । अन्यथाख्यात्यनभ्युपगमात्तोयत्वजाती- यत्वानुसंधानं विना तोयार्थिनस्तत्प्रवृत्त्ययोगाञ्च तोयत्वजा- तिरस्त्येव। तल्िप्सया धावनादिजननादर्थक्रिया च काचिद- स्त्येव। तथापि क्वचिद्दोषसामान्यज्ञानाध्यासहेतूच्छेदोपर- मात् क्वचिद्विशेषदर्शनादधिष्ठानज्ञानेन बाधान्न सर्वार्थक्रियेति मतान्तरमाह-अस्त्येवेति ॥ ४० ॥
८. मिथ्यात्वस्य मिथ्यात्वेऽपि न प्रपञ्च- मिथ्यात्वहानिरिति वादः।
मिथ्यात्वं यदि मिथ्या जगतः सत्यत्वमापतेत्तर्हि। सत्यं चेदद्वैत- क्षतिरत्राद्वैतदीपिकाकाराः।।४१॥
Page 86
८४ सिद्धान्तकल्पवल्ल्यां
तदेवं मिथ्यात्वेऽपि अर्थक्कियासिद्धयविरोधाज्जगतो मि- थ्यात्वं सिद्धम्। तत्र माध्व: शङ्कते-मिथ्यात्वमिति। अत्रे- त्यादेरुत्तरेणान्वयः ।। ४१॥ स्वाश्रयसमसत्ताको धर्मः सविरुद्धधर्महरः। इति नियमान्मिथ्यात्वं सत्यत्वनिवृत्तिहेतुरित्याह्ः ॥ ४२॥ सर्वत्र धर्माणां स्वविरोधिप्रतिक्षेपकत्वे धर्मिसमसत्ताकत्व- मेव तन्त्रम्। न पारमार्थिकत्वमपि। व्यावहारिकेणापि घट- त्वेनाघटत्वादिप्रतिक्षेपदर्शनात् । अतो जगत्समसत्ताकेनापि मिथ्यात्वेन सत्यत्वप्रतिक्षेपसिद्धिरित्याशयेन परिहरति- स्वाश्रयेति। स्वविरुद्धधर्महरः स्वविरुद्धधर्मप्रतिक्षेपक इत्यर्थः। सत्यत्वनिवृत्तिहेतुः सत्यत्वप्रतिक्षेपहेतुरित्यर्थः ॥। ४२॥
९. औपाधिकजीवभेदेन सुखदुःखाद्य- सांकर्यव्यवस्थावादः। ननु भिन्नैर्जीवैः स- द्वितीयता ब्रह्मण: कुतो न स्यात्।
Page 87
द्वितीयः स्तबकः । ८५
नैषां भेदाभावा- दुपाधिभेदात्सुखादिवैचित्र्यम्॥४३ ॥।
नन्वेवमचेतनस्य जगतोऽपि मिथ्यात्वे चेतनानामपव- र्गभाजां मिथ्यात्वायोगात्कथं तैः सुखदुःखादिवैचित्र्यात्पर- स्परं भिन्नैर्ब्रह्मण: सद्वितीयता न स्यादिति शङ्कते-नन्व्रि- ति। एवं च अद्वितीयब्रह्मणि वेदान्तसमन्वयो न युक्त इति भाव: । नैवं सद्वितीयता ब्रह्मणः, जीवानां परस्परं भेदाभा- वात्। ननु तर्हि सुखादिवैचित्र्यं न स्यादिति चेन्न। अन्तः- करणोपाधिभेदेन तद्वैचित्र्योपपत्तेरिति केषांचिन्मतेन परि- हरति-नैषामिति॥४३॥
सत्यप्युपाधिभेदे तद्भेदस्यानपायितया। उपपद्यतां कथं वा सुखदुःखादिव्यवस्थितिस्तत्र॥४४॥
ननूपाधिभेदे सत्यपि तदुपहितानां सुखदुःखाद्याश्रयाणा जीवानामभेदानपायात् कथं सुखदुःखादिव्यवस्थोपपद्यतामि- ति शङ्कते- सतीति। तत्रेत्युत्तरेणान्वयः ॥। ४४ ॥।
Page 88
८६ सिद्धान्तकल्पवल्ल्यां
अन्त:करणस्यैव श्रुत्या तद्धर्मकत्वोक्तेः। तद्भेदादेवोक्ता व्यवस्थितिः स्यादिति प्राहुः ॥४५॥ 'कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिः' इत्यादिश्रुत्यान्तःकरणस्यैव सुखदुःखाद्याश्रयत्वाभिधानात् 'अ- सङ्गो ह्वयं पुरुषः' इति जीवस्योदासीनत्वश्रवणादन्तः- करणोपाधिभेदादेव सुखादिव्यवस्थोपपद्यत इति मतेन समाधत्ते-अन्तःकरणस्येति। कथं तर्ह्यात्मन्यहं सु- खीत्यादिभोक्तृत्वादिप्रत्ययः? अभीषणायामपि रज्जौ भी- षणसर्पतादात्म्यारोपेणायं भीषण इत्यभिमानवदसङ्गात्म-
भाव: ॥ ४५॥ अन्ये तु चिदाभास: सुखदुःखाद्याश्रयस्ततः सेति। अन्त:करणविशिष्ट- स्तदाश्रयस्तेन सेत्यपरे॥ ४६ ॥ जडस्य भोक्तृत्वानुपपत्तेः अन्तःकरणाध्यस्तश्चिदाभास
Page 89
द्वितीय: स्तबकः । ८७
एव बन्धाश्रयः। अतस्तत्तद्वेदादिव्यवस्थेति मतान्तरमाह- अ्रन्ये त्विति। चिदाभासाभेदाध्यासात् कूटस्थसंसाराभि- गन:, स एव बन्ध इति न बन्धमोक्षवैयधिकरण्यमिति भावः । 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' इत्य- तःकरणादिविशिष्टस्य भोक्तृत्वादिश्रवणादन्तःकरणभेदेन त- द्वेशिष्टभेदादिव्यवस्थेति मतान्तरमाह-अन्तःकरणेत्या- देना। न चैवं विशिष्टस्य बन्धः शुद्धस्य मोक्ष इति वैय- धेकरण्यम्। विशिष्टगतस्य बन्धस्य विशेष्येऽन्वयाभावा- द्विशिष्टस्यानतिरेकादिति भावः ॥ ४६ ।।
भोक्तृमनःसांनिध्या- दात्मनि भोक्तृत्वमन्यदध्यस्तम्। तदुपाधिभेद्तस्त- द्ववस्थितिः साधुरित्यन्ये॥ ४॥
जपाकुसुमोपाधिसांनिध्यात् स्फटिके लौहित्यान्तरवत् भो- क्त्रन्त:करणोपाधिसांनिध्यात् शुद्धेऽप्यात्मनि भोक्तृत्वान्तरम- व्यस्तमस्ति। तस्यैकत्वेऽपि तदुपाधिभेदात् सुखादिव्यवस्थो- पपन्नेति मतान्तरमाह-भोक्तृमन इति। न च अन्य- भेदादन्यत्र विरुद्धधर्मव्यवस्था न युज्यत इति वाच्य-
Page 90
८८ सिद्धान्तकल्पवल्ल्यां
म्। मूलाग्ररूपोपाधिमात्रेण वृक्षे संयोगतदभावदर्शनादितति भाव: ॥। ४७।।
इतरे त्वेकस्मिन्नपि शुद्धे भेदप्रकल्पनास्तीति। आश्रयभेदादेव प्रकृते सुवचा व्यवस्थेति॥४८॥
आश्रयभेदादेव विरुद्धधर्मव्यवस्थेति नियमाभ्युपगमे- डप्येकस्मिन्नेव निष्कृष्टचैतन्ये उपाधिभेदेन भेदकल्पना संभ- वतीति मणिमुकुराद्युपाधिकल्पितप्रतिबिम्बरूपाश्रयभेदादव- दातश्यामत्वादिव्यवस्थेव प्रकृतेऽपि कल्पिताश्रयभेदेन सुख- दुःखादिव्यवस्था सुवचेति मतान्तरमाह-इतरे त्विति॥
१०. जीवानां सुखाद्यननुसंधानप्रयोज- कोपाधिवादः।
एवमुपाधिवशेन व्यवस्थितिर्यदि भवतु नामैवम्।
Page 91
द्वितीय: स्तबकः । ८९
तद्ननुसंधाने क: प्रयोजकः स्यादुपाधिरत्राह्ुः।४९।। एवसुपाधिभेदेन सुखदुःखादिव्यवस्थासंभवमुपपाद्य जी- वानां परस्परं सुखाद्यननुसंधाने प्रयोजकोपाधिं पृच्छति- एचमिति॥४९॥ भोगायतनभिदाननु- संधानस्य प्रयोजिकेत्येके। विश्लेषशालिभोगा- यतनभिदा तत्प्रयोजिकेत्यपरे॥ ५॥
उक्तमाह-भोगायतनेति। ननु हस्तपादादिशरीरावय- वानां भोगायतनत्वाविशेषात् तद्भेदोऽप्यननुसंधाने, प्रयो- जक: स्यात् ; न च इष्टापत्तिः। तथात्वे पादलग्नकण्टकोद्धाराय हस्तव्यापारो न स्यात्। हस्तावच्छिन्नस्य वेदनाननुसंधाना- दिति चेत्, न । हस्तावच्छिन्नस्य तद्ननुसंधानेऽप्यवयवावय- विनो: पादशरीरयोरभेदसत्त्वेन पादावच्छिन्नवेदनावानहमिति शरीरावच्छिन्नस्यानुसंधानाद्धस्तव्यापारोपपत्तेरिति भावः ।
मतान्तरमाह-विश्लेषशालीत्यादिना। अत्र विश्लेषशब्देन
Page 92
९० सिद्धान्तकल्पवल्ल्यां
एकस्मिन्नवयविनि घटकत्वेनाननुप्रविष्टत्वं विवक्षितम्। तेन मातृगर्भस्थशरीरयोर्विश्लिष्टतया न गर्भस्थस्य मातृसुखानुसं- धानप्रसङ्गः । हस्तपादयोस्तु संश्लिष्टत्वेन तदवच्छिन्नयोः परस्परानुसंधानमिष्टमेवेति भावः । ५० !
इतरे शरीरभेद- स्तथेति केचिन्मनोभिदैवमिति। अज्ञानभेद एव प्रयोजकः स्यादिहेत्येके ॥५१॥
मतान्तरमाह-इंतर इति। तथा, प्रयोजक इत्यर्थः । न- न्ववयवोपचयादिना शरीरभेदात् कथं यौवने बाल्यसुखाद्य- नुसंधानमिति चेत्, न। ऐन्द्रजालिकशरीरादाविव सर्वत्र माय- यैवोपचयादिकल्पनौचित्यात् तत्कल्पितोपचयादेः शरीरभेद- कत्वायोगादिति भावः । प्रागुक्तान्त:करणभेद एव प्रयोजक इति मतान्तरमाह-केचिन्मनोभिदेति। एवं प्रयोजक इत्यर्थः । पूर्वोक्ताज्ञानभेद एव प्रयोजक इति मतान्तरमाह - अज्ञानेति ॥५१॥ तस्माज्डस्य जगतो मिथ्यात्वाद्देहिनां पराभेदात्।
Page 93
द्वितीय: स्तबकः । ९१
मानान्तराविरोधा- ड्रह्मणि वेदान्तसंगतिः सिद्धा ॥ ५२।। इति श्रीमत्परमहंसपरित्राजकाचार्यश्रीपरमशशिवेन्द्र- पूज्यपादशिष्य श्रीसदाशिवब्रह्मेन्द्रविरचित- वेदान्तसिद्धान्तकल्पवल्ल्यां द्वितीयः स्तबकः समाप्रः ॥
प्रासङ्गिकं परिसमाप्य प्रपश्चितं प्रकृतमविरोधमुपसंहृत्य पूर्वस्तबकसिद्धसमन्वयेन संगमयति- तस्मादिति ॥५२॥
कल्पवल्लीव्याख्यायां केसरवल्ल्याख्यायां द्वितीय: स्तबक: ॥
Page 94
तृतीयस्तबकः ॥
१. कर्मणां विद्योपयोगप्रकारवादः ।
ज्ञानेनैव ब्रह्मा- वाप्ि: कथमन्यतोऽपि तत्स्मरणात्। नान्यानुपयोगात्त- त्प्राप्तावज्ञाननाशरूपायाम् ॥१॥
प्रथमस्तबकेन सर्ववेदान्तानामद्वितीये ब्रह्मणि समन्वये द्वितीयेन तद्विरोधे समर्थिते तादृशब्रह्मप्राप्तौ ज्ञानमेव साधनं नान्यदिति समर्थनाय शङ्कते-ज्ञानेनैवेति। अन्यतः, ज्ञाना- दन्येन कर्मणेत्यर्थः । तत्स्मरणादिति, 'कर्मणैव हि संसिद्धि- मास्थिता जनकादयः' इति कर्मणा ब्रह्मप्राप्तिस्मरणादित्यर्थः। विस्मृतकण्ठचामीकरस्येव नित्यप्राप्तस्य ब्रह्मणोऽज्ञाननिरास- रूपायां तत्प्राप्तौ ज्ञानमात्रस्योपयोगेन तदन्यस्य कर्मणोऽनु- पयोगान्नैवमिति परिहरति-नान्यानुपयोगादित्यादिना। 'नान्य: पन्था विद्यतेयनाय' इत्यादिश्रुत्या साधनान्तरंप्र-
Page 95
तृतीयः स्तबकः । ९३
तिषेधात्। स्मृतेश्र ब्रह्मावाप्नौ कर्मणः परंपरासाधनत्वपर- त्वान्न विरोध इति भाव: ।। १ ।। कर्मनिकरोपयोगं वाचस्पतिराह वेदनेच्छायाम्। जगुरिष्यमाण एव ज्ञाने तं विवरणानुगता: ॥२॥
क तार्हि कर्मणामुपयोग इत्यत आह-कर्मेति। 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन' इत्यादि- श्रुतेर्यज्ञादीनां कर्मणां सन्प्रत्ययार्थत्वेन प्रधानभूतायां वेदने- च्छायामुपयोग इत्यर्थः । प्रकृतिप्रत्ययार्थयो: प्रत्ययार्थस्य प्रा- धान्यमिति सामान्यन्यायादिच्छाविषयतया शब्दबोध्य एव वस्तुनि शाब्दसाधनतान्वय इति स्वर्गकामवाक्ये क्लप्तवि- शेषन्यायस्य बलीयस्त्वादिष्यमाणे ज्ञान एव यज्ञादीनामुप- योग इति मतान्तरमाह-जगुरित्यादिना। तं उपयोग- मित्यर्थः ॥ २ ॥
Page 96
९४ सिद्धान्तकल्पवल्ल्यां
२. आश्रमकर्मणामेव विद्योपयोगवादः।
तताश्रमविहिताना- सुपयोगं कर्मणां विदुः केचित्। अन्ये कल्पतरूत्त्या विधुरकृतानामपीममभिद्धति॥ ३॥ श्रुतौ वेदानुवचनग्रहणं ब्रह्मचारिकर्मणाम्, यज्ञदानग्र- हणं गृहस्थकर्मणाम्, तपोऽनाशग्रहणं वानप्रस्थकर्मणामुप- लक्षणमिति आश्रमकर्मणामेव विद्योपयोग: न विघुराद्यनु- ष्ठितकर्मणामिति मतं दर्शयति-तत्रेति। 'अन्तरा चापि तु तदृष्टेः' इत्यधिकरणभाष्ये विधुराद्यनुष्ठितजप्यादिकर्मणामपि विद्योपयोगोक्त्या 'विहितत्वाच्चाश्रमकर्मापि' इति सूत्रे आ- श्रमग्रहणं त्रैवर्णिकोपलक्षणमिति कल्पतरूक्त्या च विधुरकृ- तानामपि कर्मणासुपयोग इति मतान्तरमाह-अन्य इत्या- दिना। इमम् उपयोगमित्यर्थः ॥ ३॥ तल्नापि क्लसफलतो नित्यानामेव कर्मणामितरे। काम्यानामपि तेषां संयोगपृथक्त्वनयतोऽन्ये॥४॥
Page 97
तृतीय: स्तबकः । ९५
तेष्वपि नित्यानामेव कर्मणामुपयोगः, क्लप्तस्य तत्फल- स्यैव दुरितक्षयस्य विद्ययापेक्षणात्। प्रकृतौ कुप्तोपकारकाणा- मङ्गानां विकृताविव द्वारान्तरकल्पनालाघवेन यज्ञादिश्रुतेः काम्यसाधारण्यायोगादिति मन्यमानानां मतान्तरमाह- तत्रेति। उपयोगमाहुरित्यध्याहारः । नात्र प्राकृताङ्गन्यायः। किंतु विकृत्युपदिष्ठाङ्गन्यायेन विनियोगोत्तरकालमुपकार- द्वारकल्पनात्काम्यादीनामपि संयोगपृथक्त्वन्यायेन विवि- दिषोपयोगसंभव इति मतान्तरमाह- काम्यानामित्या- दिना। अत्रापि पूर्ववद्ध्याहारः ॥ ४ ॥
३. संन्यासस्य विद्याविनियोगवादः। .तर्हि कया वा द्वारा संन्यासस्योपयुक्तिराचक्ष्व। कर्माविनाइयदुरित- ध्वंसद्वारेति चक्षते केचित् ॥५॥ कर्मणां झानोपयोगं प्रदर्श्य संन्यासस्य तं दर्शयितुं पृच्छति- तर्हीति। उपयुक्तिः उपयोग इत्यर्थः । 'संन्यासयोगाद्यतयः शुद्धसत्त्वाः' इति श्रुतेः कर्मवद्दुरितक्षयलक्षणचित्तशुद्धिद्वारैव
Page 98
९६ सिद्धान्तकल्पवल्ल्यां
संन्याससोपयोग इति मतेन समाधत्ते-कर्माविनाश्ये- त्यादिना। कर्मभिरेव दुरितक्षयसिद्धेः संन्यासवैयर्थ्यमि- त्याशक्कापरिहारार्थ कर्माविनाश्येति दुरितविशेषणम् ॥ ५॥ केचिद्दृष्टद्वारा तखाः अ्रवणाङ्गतामाहुः। दृष्टद्वारा त्वपरे विक्षेपाभावलक्षणया ॥६॥ मतान्तरमाह-अदृष्टेति। 'शान्तो दान्तः' इति श्रुता- वुपरतिशब्दितस्य संन्यासस्य श्रवणाद्यङ्गसाधनचतुष्टयान्तर्भा- वदर्शनात् संन्यासपूर्वकत्वावश्यकत्वादिति भावः । मतान्तर- माह-दृष्टेति। दृष्टे संभवति अदृष्टकल्पनायाः अन्याय्यत्वा- द्विक्षेपाभावस्यावहितबुद्धिसाध्ये सर्वत्र लोकत एवाङ्गत्वसिद्धेः वचनाद्वैधसंन्यासलक्षणो विक्षेपाभावो नियम्यत इति भाव: ॥ ६।। संन्यासे त्वधिकारं ब्राह्मणवत्क्षत्रवैश्ययोरेके। ब्राह्मणजातेरेव प्राहुस्तं नान्ययोरितरे ॥७॥
Page 99
तृतीय: स्तबकः । ९७
संन्यासख ज्ञानोपयोगं द्वेधा प्रदर्श्य तद्धिकारिणं नि- रूपयति- संन्यासे खिति। 'यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्' इत्यादिश्रुतौ सामान्यतः क्षत्रियादिसाधारण्येन सं- न्यासविधानादिति भावः। 'ब्राह्मणो निर्वेदमायात्' 'ब्राह्मणो व्युत्थाय' 'ब्राह्मणः प्रव्रजेत्' इत्यादिसंन्यासविधिषु ब्राह्मणग्र- हणात्, 'अधिकारिविशेषस्य ज्ञानाय ब्राह्मणग्रहः । न सं- न्यासविधिर्यस्माच्छूतौ क्षत्रियवैश्ययोः' इति वार्तिकोक्त्तेश्र ब्राह्मणस्यैव संन्यासेऽधिकारः, न क्षत्रियवैश्ययोः । तयोस्तु संन्यासं विनैव श्रवणाद्यधिकारितेति मतान्तरमाह- ब्रा- ह्मणजातेरित्यादिना॥ ७॥
४. श्रवणाधिकारवादः ।
संन्यासिन एव परं अ्रवणाद्यधिकारिता मुख्या। गौणी राजन्यादे- जन्मान्तरसंभवत्फलेत्यपरे ॥८॥ 'ब्रह्मसंस्थोऽमृतत्वमेति' इति श्रुतेः 'आ सुप्तेरा मृते: कालं नये द्वेदान्तचिन्तया' इति स्मृतेश्च अनन्यव्यापारतालक्ष- S. 7
Page 100
९८ सिद्धान्तकल्पवल्ल्यां
णव्रह्मसंस्थाशालिसंन्यासिन एव श्रवणाद्यधिकारिता मुख्या। स्वाश्रमधर्मव्यग्रक्षत्रियादेरनन्यव्यापारतासंभवात् जन्मान्त- रीयविद्याप्रापिका श्रवणाद्यधिकारिता गौणीति मतान्तरमाह -संन्यासिन एवेति ॥ ८ ।।
५. श्रवणस्यामुख्याधिकारिकृतस्य जन्मा- न्तरीयज्ञानोपयोगित्ववादः।।
ननु कथमस्तु श्रवणं जन्मान्तरभावि बोधफलम्। दृष्टफलकत्वकलृसे- रमुष्य चाटृष्टजनकतायोगात्॥ ९॥। ननु सर्वत्र विचारस्य तात्कालिकविचार्यनिर्णयफलकत्व- क्लप्ते: क्षत्रियादिश्रवणं कथं जन्मान्तरीयब्रह्मनिर्णयफलकम्। न च विधिबलात् कथंचिद्द्दष्टद्वारकल्पनेन तत्फलकत्वसिद्धि- स्तस्ेति वाच्यम्। साङ्गस्यैवादश्टजनकतया तस्य संन्यासरूपा- ङ्गवैकल्येनादृष्टजनकत्वासिद्धेरिति शङ्कते-नन्विति ॥९॥ यज्ञाद्यपूर्वमेव अ्रवणस्य स्वकारितस्य विद्यायाम्।
Page 101
तृतीयः स्तबकः । ९९
जन्मान्तरभाविन्या- मप्युपकारित्वघटकमित्याह्ः॥१० ॥ अमुख्याधिकारिणाप्युत्पन्नविविदिषेण क्रियमाणं श्रवणं द्वारीभूतविविदिषोत्पादकप्राचीनविद्यार्थय ज्ञाद्नुष्ठानजन्यापू- र्वप्रयुक्तमिति तदेवापूर्व विद्यारूपफलपर्यन्तं व्याप्रियमाणं जन्मान्तरीयायामपि विद्यायां स्वकारितस्य श्रवणस्योपकारं घटयतीति श्रवणस्यादष्टार्थत्वेऽपि नानुपपत्तिरिति परिहरति -यज्ञादीति॥ १०॥ यावड्रह्मज्ञानो- दयमाचरितं पुनः पुनः श्रवणम्। नियमादृष्टं जनय- त्यतो न दोष इति विवरणाचार्याः॥ श्रवणनियमविधिपक्षेऽपि ब्रह्मज्ञानोत्पत्तिपर्यन्तं पुनः पुनः क्रियमाणं श्रवणं नियमादृष्टं जनयति, न ततः प्राक्। अत- स्तद्वलात् श्रवणस्थ जन्मान्तरीयज्ञानफलकत्वं न विरुद्धमिति मतान्तरमाह-यावदिति॥ ११॥
कृच्छ्राशीतिफलोक्ते: अ्रवणमपूर्व क्रमेण जनयित्वा।
Page 102
१०० सिद्धान्तकल्पवल्ल्यां
तद्ारा भाविफलं जनयेदिति केचिद्भिद्धति॥१२॥ 'दिने दिने च वेदान्तश्रवणाद्मक्तिसंयुतात्। गुरुशुश्रूषया लब्धात्कृच्छ्राशीतिफलं लभेत्' इति स्मृत्या श्रवणस्य कृच्छा- शीतिफलोक्ततेः प्रतिदिनमनुष्ठितं श्रवणमपूर्वद्वारा जन्मान्तरे ज्ञानं जनयतीति मतान्तरमाह-कृच्छ्रेति। यथाग्न्यर्थस्या- प्याधानस्य पुरुषसंस्कारेषु परिगणनात् पुरुषार्थत्वम्, तथा दष्ठस्यापि श्रवणस्य दिने दिने चेत्यादिवचनबलाददृष्टार्थ- त्वमपि संभवतीति भावः ॥ १२ ॥
६. निर्गुणस्याप्युपास्यत्ववाद: । विद्यारण्यमुनीन्द्राः अ्रवणस्येवात्मविद्यायाम्। निर्गुणविषयोपास्ते- र्मुख्यामुपकारितामाहुः॥१३॥ इत्थं श्रवणादेरेव ज्ञानसाधनत्वे निरूढेऽपि श्रवणादिव- न्निर्गुणब्रह्मोपास्तेरपि तत्साधनत्वमिति मतं दर्शयति-
Page 103
तृतीयः स्तबकः । १०१
विद्यारण्येति। प्रश्नोपनिषदि 'यः पुनरेतं त्िमात्रेणोमित्येते- नैवाक्षरेण परं पुरुषमभिध्यायीत' इति निर्गुणोपासनां प्रकृत्य अनन्तरं 'स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते' इति तत्समानकर्मसाक्षात्कारफलकीर्तनादिति भावः ॥१३ ॥
७. ब्रह्मसाक्षात्कारकारणवादः ।
अथ किं साक्षात्कारे
. करणं ब्रह्मैकगोचरे ब्रूहि। त्रुवते केचित् प्रत्यय- पौन:पुन्यं प्रसंख्यानम् ॥ १४॥ ब्रह्मसाक्षात्कारप्रमासाधकेषु निर्णीतेषु तत्साधकतमनि- र्णिनीषया पृच्छति- अथ किमिति। उत्तरमाह- ब्रुवत इत्यादिना। विधुरकामिनीसाक्षात्कारे करणत्वेन क्लप्रस्य प्रत्ययावृत्तिलक्षणस्य प्रसंख्यानस्य क्लप्तप्रमाणानन्तर्भावेऽपि तज्जन्यसाक्षात्कारस्येश्वरमायावृत्तिज्ञानवदर्थाबाधमात्रेण प्रमा- त्वसंभवादिति भाव: ।। १४ ।। अपरे तु मनो हेतु- स्तत्सहकारि प्रसंख्यानम्।
Page 104
१०२ सिद्धान्तकल्पवल्ल्यां
तस्य करणत्वक्लसे- रह्मनुभूताविति प्राहुः ॥ १५।। 'मनसैवानुद्रष्टव्यम्' इति श्रुतेः मन एव साक्षात्कारे कर- णम्। प्रसंख्यानं तु तत्सहकारिमात्रम्। मनसश्च अहंकारोप- हितसाक्षात्कारे 'अह्मेवेद५ सर्वोडस्मीति मन्यते' इति श्रुत्यु- पदर्शितस्वाप्नव्रह्मसाक्षात्कारे करणत्वक्लप्रेरिति मतान्तर- माहू-अपरे त्विति॥१५॥ इतरे तु महावाक्यं प्राहुरसाधारणो हेतुः । यन्मनसेति निषेध- अ्रवणान्न मनोऽत् हेतुरिति ॥ १६॥ 'तद्धास्य विजज्ञौ, तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमार:' इत्यादिश्रुतिष्वाचार्योपदेशा- नन्तरमेव साक्षात्कारोदयाभिधानात्, 'वेदान्तविज्ञानसुनि- श्चितार्थाः' 'तं त्वौपनिषदं पुरुषं पृच्छामि' इत्यादिश्रुतिषु च ब्रह्मण उपनिषदेकवेद्यत्वस्य प्रतिपादनाच्च, ब्रह्मसाक्षात्कारे महावाक्यमेव करणम्, न तु मनः, 'यन्मनसा न मतुते' इत्यादितत्करणत्वप्रतिषेधश्रवणादिति मतान्तरमाह-इतरे
Page 105
तृतीयः स्तबकः । १०३
खिति। 'मनसैवातुद्रष्टव्यम्' इत्यादिश्रुतिस्तु साक्षात्कारे हेतुत्वमात्रपरा न तु कारणत्वपरा, तावतैव मनसेति तृतीया- या उपपत्तेरिति भावः ॥ १६ ॥
८. शाब्दापरोक्षवादः । साक्षात्कारं जनयेत् प्रत्ययसंतानसहकृतं वाक्यम्। अग्निविशेषोपेतो होम इवापूर्वमित्यपरे॥ १७॥ ननु वाक्यख परोक्षज्ञानजनकत्वक्लप्ते: कथमपरोश्ज्ञान- जनकत्वमित्याशङ्कय स्वतः परोक्षज्ञानजननसमर्थमपि वाक्यं वैधाग्न्यधिकरणसहकृतो होमोऽपूर्वमिव विहितभावनाप्रच- यसहकृतं सत् अपरोक्षज्ञानमपि जनयतीति मतान्तरमाह- साक्षात्कारममिति। औपनिषदे ब्रह्मणि मानान्तराप्रवृत्तेः प- रोक्ष ज्ञा नेनापरोक्षभ्रमनिवृत्त्ययोगाच्छब्दादपरोक्षज्ञानानुदये- Sनिर्मोक्षप्रसङ्ग इति भावः ॥ १७ ॥ ध्यानाभ्याससहाया- न्मनसो नष्टेष्टवस्तुविषयेव।
Page 106
१०४ सिद्धान्तकल्पवल्ल्यां
साक्षात्कृतिरिह युक्ता
बहिरसमर्थादृपि भावनाप्रचयसहितादन्त:करणान्नष्टेष्टका- मिन्यादिवस्तुविषयकसाक्षात्कारो दृष्ट इति तद्वदिहापि नि- दिध्यासनप्रचयसहकृताद्वाक्यादेव ब्रह्मविषयकः साक्षात्का- रो युक्त इति दष्टातुरोधेन समर्थयमानानां मतमाह- ध्यानेति॥ १८॥ अन्ये तु संगिरन्ते स्वत एव ब्रह्मणोऽपरोक्षतया। तद्विषयं हि ज्ञानं वाक्यजमपरोक्षमेव भवतीति ॥ १९ ॥ ज्ञानापरोक्ष्ये विषयापरोक्ष्यमेव प्रयोजकम्, न करण- विशेषः । विषयापरोक्ष्यं च वृत्तिद्वारकं स्वाभाविकं वा। तत्र 'यत्साक्षादपरोक्षाङ्रह्म' इति श्रुतेः ब्रह्मण: स्वभावत एवापरो- क्षत्वेन तद्विषयकं ज्ञानं वाक्याज्जायमानमपरोक्षमेव भवतीति मतान्तरमाह-अन्ये त्विति ॥ १९॥ स्फुटचित्त्वमापरोक्ष्यं साक्षात्तङ्रह्मणोऽस्ति विषयादेः।
Page 107
तृतीय: स्तबकः । १०५
तद्भेदाद्गौणमिति प्रवदन्त्यद्वैतविद्यार्याः ॥ २०।। न अपरोक्षवस्तुविषयकत्वं ज्ञानापरोक्ष्यम्, स्वप्रकाशस्व- रूपसुखाव्यापनात्। किं तु अभिव्यक्तचित्स्वरूपमेव। तन्व ब्रह्मण एव साक्षादस्ति। विषयादेस्त्वभिव्यक्तचैतन्याभेदा- द्रौणमिति मतान्तरमाह-स्फुटचिच्वमिति ॥ २०॥
९. अज्ञाननिवर्तकवादः ।।
अथ चाक्षुषवृत्त्यापि ब्रह्माज्ञानं निवर्ततामिति चेत्। अत्राचार्याश्चाक्षुष- वृत्तिश्चिद्गोचरैव नेत्याहुः ॥२१॥ नन्वेवं घटादिविषयकचाक्षुषवृत्त्या घटादयधिष्ठानव्रह्मचैत- न्याभेदाभिव्यक्त्या ब्रह्मावारकमूलाज्ञानं कुतो न निवर्तेत। घटाद्याकारवृत्तेरप्यभिव्य क्तचिदंशे मूलाज्ञानसमानविषयकत्व- सत्वादिति शङ्कते- अथ चाक्षुषेति। न चाक्षुषवृत्तिश्च्वैत- न्यविषयिणी 'न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति
Page 108
१०६ सिद्धान्तकल्पवल्ल्यां
कश्चनैनम्' इत्यादिश्रुत्या चैतन्यस परमाणुवच्चक्षुराद्ययोग्य- त्वादिति मतेन परिहरति- अत्रेत्यादिना ॥ २१ ॥
चिद्विषयिण्यपि सान ब्रह्माज्ञानस्य वारिका किंतु। वेदान्तजैव वृत्ति: श्रुतिनियमादृष्टसहकृतेत्यपरे। २२॥ अस्तु घटादिचाक्षुषवृत्तिरपि चिद्विषयिणी, तथापि सा न ब्रह्मावारकमूलाज्ञाननिवृत्तिहेतुः। किं तु श्रवणनियमादृष्ट- सहकृतवेदान्तवाक्यजन्यवृत्तिरेवेति मतान्तरमाह-चिद्वि- षयिणीति॥ २२॥ वाक्योद्द्रवैव वृत्ति: स्वरूपसंबन्धभेदेन। ब्रह्माज्ञानं क्षपये- न्न तु चाक्षुषवृत्तिरित्यपरे ॥ २३ ॥ प्रत्यग्ब्रह्माभेदगोचरा 'तत्वमसि' इत्यादिवाक्यजन्यैव वृत्तिः पदार्थशोधनासहितस्वरूपसंबन्धविशेषेण तद्भेदगोचरं मूला- ज्ञानं निवर्तयेत्, न तु चाक्षुषवृत्तिरिति मतान्तरमाह- वाक्येति॥ २३॥
Page 109
तृतीयः स्तबकः । १०७
अथ निजहेतुमविद्यां विद्या विनिवर्तयेत्कथं नाम। इह केचन वेणूत्थित- वहिज्वालेव वेणुमित्याहः॥ २४ ॥ ननु प्रत्यगभिन्नब्रह्माकारा वृत्ति: स्वहेतुभूतामविद्यां कथं निवर्तयेदित्याशङ्कय नायं नियमः, साक्षाद्वेणुजन्याया अप्य- ग्निज्वालायास्तद्विरोधित्वदर्शनादिति परिहरति- अथेति। घटादिज्ञानेषु समानविषयकाज्ञानबाधकत्वस्य क्लप्तत्वाच्चेति भाव: ॥। २४।
१०. ब्रह्माकारवृत्तिनाशकवादः।
अज्ञानोन्मूलनकं ज्ञानं वृत्त्यात्मकं कथं नश्येत्। अत्राहु: कतकरजो- न्यायात्स्वयमेव नश्यतीत्येके ॥ २५॥
तप्ताय:पतितपयो- न्यायमिहोदाहरन्त्यन्ये।
Page 110
१०८ सिद्धान्तकल्पवल्ल्यां
दग्धतृणकूटद्हनो- दाहरणं केचिदत्राहुः॥२६॥ ननु स्वकार्याविद्यानिवर्तकवृत्तेः केन निवृत्तिः? वृत्त्यन्त- रेणेति चेदनवस्था। अनिवृत्तौ तु तयैव वृत्त्या द्वैतापत्तिरि- त्यर्धेनाशङ्कय, तत्र मतत्रयोक्तष्टान्तत्रयेण सार्धश्ोकेन परि- हरति-अज्ञानेति। यथा वारिक्षिप्तकतकरेणुस्तद्गतं पङ्क नि- वर्त्य स्वयमप्यन्यानपेक्षो निवर्तते, यथा तप्तायःपिण्डनिक्षिप्तो जलबिन्दुः तद्गतं भस्म क्षालयित्वा स्वयमपि शुष्यति, यथा वा तृणकूटं दग्ध्वा वह्निर्भूमौ स्वयमेव शाम्यति, तथा अखण्डा- नरवृत्तिरज्ञानं दग्ध्वा ब्रह्मणि स्वयमेव शाम्यतीत्यर्थः ॥ वृत्त्यारूढ: साक्षी शमयेत्सविलासमज्ञानम्। आरुह्य सूर्यकान्तं दहति तृणं रविकरो यथेत्येके। २७॥ रक्तदृष्ठान्तेषु कालादृष्टादिकारणान्तरसंभवेन तद्वैषम्यमा- मतान्तरमाह-वृत्तीति। वृत्त्यभिव्यक्तं ब्रह्मैव अज्ञानं तदन्तर्गतां वृत्ति च नाशयति। यथा सूर्यकान्तशि- सूर्यकर: तृणं दहति, तद्वदित्यर्थः । तथा च न ति भावः ॥। २७ ।।
Page 111
तृतीय: स्तबकः १०९
अज्ञानमेव साक्षा- ज्ज्ञानान्नश्यति जगत्तु तन्नाशात्। जीवन्मुक्तिरपीत्थम- विद्यालेशेन घटत इत्यन्ये। २८॥ इति श्रीमत्परमहंसपरित्राजकाचार्यश्रीपरमशिवेन्द्र- पूज्यपादशिष्य श्रीसदाशिवब्रह्मेन्द्रविरचित- वेदान्तसिद्धान्तकल्पवल्ल्यां तृतीय: स्तबकः समाप्रः ॥ न तावत् ज्ञानात् सविलासाज्ञाननाशः, तथात्वे प्रारब्ध- खापि नाशग्रस्तत्वेन जीवन्मुक्त्ययोगात्। किं तु परस्परवि- रोधात् ज्ञानादज्ञानमात्रं नश्यति, प्रपश्चस्तूपादाननाशात्। एवं च उपादानमन्तरेण कार्यस्थित्ययोगात् जीवन्मुक्तिसिद्धये प्रारब्धकर्मणा तच्छरीराद्युपादानाविद्यालेशनाशः प्रतिबध्यत इत्यविद्यालेशेन जीवन्मुक्तिरप्युपपद्यत इत्याशयेन मतान्तर- माह-अज्ञानमिति ॥२८॥
कल्पवल्लीव्याख्यायां केसरवल्ल्याख्यायां तृतीय: स्तबक: ॥
Page 112
चतुर्थस्तवकः॥
१. अविद्यालेशवादः।
कोऽ्यमविद्यालेशो जीवन्मुक्तिर्हि यदनुषङ्गेण। अन्राचख्यु कतिचिद- विद्याविक्षेपशक्तिरेष इति ॥ १॥
एवं मुक्तिसाधने निर्णीत तत्फलनिरूपणं प्रकृतजीवन्मु- क्तिनिर्वाहकाविद्यालेशपरीक्षामुखेनारभते-कोऽयमिति। ज्ञानेनाविद्याया आवरणशक्त्यंश एव नश्यति ; विक्षेपशक्त्यं- शस्तु प्रारब्घेन प्रतिबद्धत्वान्न नश्यति। स एष एवाविद्या- लेश इति मतेनोत्तरमाह- अत्रेत्यादिना ॥ १ ॥
अपरे क्षालितमदिरा- घटगन्धसमैव वासना स इति। अन्ये स दग्धवासो- न्यायादनुवृत्तिभागविद्येति॥२।।
Page 113
चतुर्थः स्तबकः । १११
'तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति' इति वार्तिकविरोधमाश- ङकय मतान्तरमाह-अपर इति। निराश्रयवासनावस्थाना- योगमाशङ्कय मतान्तरमाह-अन्ये स इत्यादिना। सः अविद्यालेश इत्यर्थः ॥ २ ॥ सर्वज्ञात्ममुनीन्द्रा-
स्वाविद्याविनिवृत्तौ नाविद्यालेशसंभवोऽस्तीति॥ ३॥ विरोधिज्ञानोदयेSविद्याया: निवृत्तौ लेशतोऽपि तस्याः शेषो न संभवति, तत्संभव तन्नाशाय ज्ञानान्तरकल्पने तस्यैव लाघवादविद्यानाशकत्वौचित्यादिति मतान्तरमाह- सर्वज्ञेति। 'तस्य तावदेव चिरम्' इति श्रुतेरात्मज्ञानप्रशंसा- र्थत्वेन जीवन्मुक्तौ तात्पर्याभावादर्थवादमात्रत्वादिति भाव:।।
२. अविद्यानिवृत्तिस्वरूपवादः। अथ केयमविद्याया विनिवृत्तिर्नाम तच्छृणुत।
Page 114
११२. सिद्धान्तकल्पवल्ल्यां
ब्रह्मैव नातिरिक्ता
तत्राविद्यानिवृत्तिरूपज्ञानफलस्वरूपनिर्णयाय पृच्छति- अथेति। नित्यसिद्धस्य ब्रह्मस्वरूपस्यासत्त्वापादकत्वाद- विद्यैवाभावः । तन्निवृत्तिश्च ब्रह्मस्वरूपैवेति मतेनोत्तरमाह- ब्रह्मैवेत्यादिना। तथा च यस्मिन् सति यत्सत्त्वं यद्भावे च यद्भावः तत् तत्र कारणमिति, ज्ञानस्य ब्रह्मस्वरूपमुक्ति प्रति योगक्षेमसाधारणहेतुत्वं संभवतीति भाव: ।। ४ ।। आनन्द्बोधगुरवो- Sविद्याविनिवृत्तिरात्मनो भिन्ना। सद्सत्सद्सन्मिथ्या- प्रकारभिन्नप्रकारिकेत्याहः ॥५॥ आत्मान्यैवाविद्यानिवृत्तिः । सा च न सती, द्वैतापत्तेः; नाप्यसती, ज्ञानसाध्यत्वायोगात् ; नापि सदसती, विरोधात्; नाप्यनिर्वाच्या, अनिर्वाच्यस्योपाधेरज्ञानापादकत्वनियमेन मु- क्तावपि तदनुवृत्तिप्रसङ्गात्, ज्ञानानिवर्त्यत्वापत्तेश्च। किं तु उक्तप्रकारचतुष्टयातिरिक्तप्रकारेति मतान्तरमाह-आन- न्दबोधेति ॥ ५॥
Page 115
चतुर्थः स्तबकः । ११३
अद्वैतबोधगुरव- स्त्वात्मज्ञानैककालीना। विनिवृत्तिरविद्याया: क्षणिका सा भावविक्रियेत्याहुः ॥६॥
अस्त्वनिर्वचनीयैव सा, तथापि नोपादानाविद्यालेशप्रस- क्तिः। उत्पत्तिद्वितीयक्षणे उत्पन्नोऽयं घटः नोत्पद्यत इति उत्पत्तेरवर्तमानत्ववत् निवृत्त्यनन्तरमपि द्वितीयक्षणे निवृत्तो- डयं न निवर्तते इति व्यवहारेण निवृत्तेरप्यवर्तमानत्वेन क्षणि- कभावविकारविशेषरूपत्वम्। तथा च अविद्यानिवृत्तिरात्मज्ञा- नोदयानन्तरक्षणवर्तिनी भावविक्रियेति न कश्चिद्दोष इति मतान्तरमाह-अद्वैतेति॥६॥
३. मुक्तिस्वरूपवादः।
नन्वज्ञाननिवृत्तेः क्षणिकत्वान्मुक्तिरस्थिरा खाचेत्। ब्रह्मानन्दस्फुरणं दुःखाभावश्च मुक्तिरित्याहुः॥७॥ S. 8
Page 116
११४ सिद्धान्तकल्पवल्ल्यां
नन्वेवमविद्यानिवृत्तेः क्षणिकत्वे मोक्षस्य स्थिरपुरुषार्थत्वं न स्यादित्याशङ्कय नाविद्यानिवृत्ति: स्वतः पुरुषार्थः, तस्याः सुखदुःखाभावान्यतरत्वाभावात्। किं तु अखण्डानन्दस्फुरणं संसारदुःखोच्छेद्श्च। तदुपयोगितया च तस्यास्तत्त्वज्ञान- साध्यत्वमुपेयत इति केषांचिन्मतेन परिहरति-नन्विति॥
ननु तस्या: क्षणिकत्वे मुक्तिर्न स्थिरपुमर्थ इति मैवम्। सुखदुःखाभावान्यत- रत्वाभावान्न हि तथेत्याहुः ॥ ८॥ एतच्छलोकार्थ एव पुनः श्रोकान्तरेणोच्यते -- ननु त- स्या इति ॥ ८॥ चित्सुख चर णास्त्वाहु- र्दुःखाभावोऽपि न पुमर्थः। सुखशेषत्वात्तस्य स्वरूपसुखमेव तादृगिति॥ ९॥ दुःखाभावो न स्वतः पुरुषार्थः, सर्वत्र दुःखाभावस्य स्वरूपसुखाभिव्यक्तिप्रतिबन्धकाभावतया सुखशेषत्वात्। स्व-
Page 117
चतुर्थः स्तबकः । ११५
रूपसुखमेव पुरुषार्थ इति मतान्तरमाह-चित्सुखचरणा इति ॥ ९ ॥
४. ब्रह्मानन्दस्य प्राप्यत्ववादः।
नन्द: स्वाविद्यया तिरोभूतः। तन्नाशे प्राप्यत इव कण्ठाभरणं यथेत्याहः ॥ १० ।। नन्वयमानन्दः प्रत्यगात्मरूपत्वान्नित्यप्राप्त इति कथं त- स्प्राप्तिर्ज्ञानफलमित्याशङ्कायां केषांचिन्मतमाह-नित्येति। एवं च आनन्दस्य गौण्येव प्राप्तिर्ज्ञानफलमिति भावः ॥१०।। आनन्दो नास्तीति व्यवहारात्संसृतौ तदप्रापतिः। साविद्यया निवृत्ते- त्याहु: प्रासिं परे मुख्याम् ॥ ११॥ संसारदशायां आनन्दो नास्ति न भातीति व्यवहारादा- वरणप्रयुक्ता काचित्तस्य अप्राप्तिरध्यस्यते। विद्ययावरणनि-
Page 118
११६ सिद्धान्तकल्पवल्ल्यां
वृत्तौ तत्प्रयुक्ता प्राप्तिर्निवर्तत इत्यप्राप्ति: प्राप्तिश्च मुख्यैवेति मतमाह-आनन्द इति ॥ ११॥ आनन्दः संसारे सन्नपि पारोक्ष्यतो न पुरुषार्थः । अपरोक्षतया मुक्ति- दशायां पुरुषार्थ इत्येके ॥ १२ ॥ संसारदशायां आनन्दस्यावृतत्वेन परोक्षत्वान्न स पुरुषा- र्थः। मुक्तिदशायां तु आवरणभङ्गेनापरोक्षत्वात् पुरुषार्थो भवतीति मतान्तरमाह-आनन्द इति। न च संसार- दशायां आनन्दस्य स्वरूपज्ञानेनापरोक्ष्यमस्ति, तदास्य तद- भिन्नत्वादिति वाच्यम्। न हि स्वव्यवहारानुकूलचैतन्याभेद- मात्रमापरोक्ष्यम्, येन तथा स्यात्। किं तु अनावृतचैतन्या- भेद एव। तथा च अनावृतत्वस्य तदानीमभावेनन दोष इति भावः ॥। १२ ।। अज्ञानेनाध्यस्त- श्रैतन्यानन्दयो: पुरा भेद:। तन्नाशे भेदलया- तदापरोक्ष्यं भविष्यतीत्यन्ये। १३ ।।
Page 119
चतुर्थः स्तबकः । ११७
अस्तु स्वव्यवहारानुकूलचैतन्याभेदमात्रमापरोक्ष्यम् । तथापि अज्ञानमहिम्ना जीवभेदव च्वैतन्यानन्दयोर्भेदोऽप्यध्यस्त इति संसारदशायां पुरुषान्तरस्य पुरुषान्तर चैतन्यापराक्ष्यवद- नवच्छिन्नानन्दापरोक्ष्यमपि नास्ति।अज्ञाननाशे तु चिदानन्द- भेदविलयात्तदापरोक्ष्यमिति मतान्तरमाह-अज्ञानेति॥
५. मुक्तस्य ब्रह्मभाववादः।
अथ सुक्त ईश्वर: स्या- दाहो शुद्धात्मनावशिष्येत। अन्रैकजीववादे स शिष्यते शुद्धरूपेण ॥ १४ ।।
ज्ञानफलप्राप्तौ निर्णीतायां प्राप्यस्वरूपनिर्णयाय पृच्छति- अथेति। तत्र प्रथममेकजीववादेन समाधत्ते-अत्रेत्यादि- ना। एकजीववादे तदेकाज्ञानकल्पितस्य जीवेश्वरविभागा- दिकृत्स्नभेदप्रपञ्चस्य तद्विद्योदये विलयान्निर्विशेषचैतन्यरूपे- णावशिष्यत इत्यर्थः ॥ १४ ॥
Page 120
११८ सिद्धान्तकल्पवल्ल्यां
नानाजीवमतेऽपि प्रतिबिम्बेशानदर्शने तस्य। प्रतिबिम्बान्तरभावा- योगाद्विम्बात्मनास्ति परिशेषः ॥१५ ।।
नानाजीववादेऽपि मायाप्रतिबिम्ब ईश्वर इति मतेऽवि- द्याप्रतिबिम्बजीवस्य सवोपाधिविनाशे प्रतिबिम्बान्तरभूतेश्वर- भावप्राप्त्ययोगाद्विम्ब भूतशुद्धचैतन्यात्मना परिशेषो भवतीति समाधानान्तरमाह-नानाजीवेति ॥१५॥
बिम्बेश्वरवादे त्वी- श्वरताप्राप्तिर्विमुक्तस्य। आसर्वमुक्त्यमुष्मि-
अविद्यायामन्तःकरणे वा चित्प्रतिबिम्बो जीवः। बिम्ब भूतस्त्वीश्वर इति मते मुक्तस्य यावत्सर्वमुक्तिपरमेश्वरभावा- पत्तिरिष्यते। यथानेकेषु दर्पणेष्वेकस्य मुखस्य प्रतिबिम्बे सति एकदर्पणापनये तत्प्रतिबिम्बो बिम्बभावेनैवावतिष्ठते, न तु मुखमात्ररूपेण। तदानीमपि दर्पणान्तरसंनिधानप्रयु-
Page 121
चतुर्थः स्तबकः । ११९
क्स्य मुखे बिम्बत्वस्यानपायात्। तथा एकस्य ब्रह्मचैतन्य- स्यानेकेषूपाधिषु प्रतिबिम्बे सति विद्योदयेनैकोपाधिलये तत्प्र- तिबिम्बस्य बिम्बभावेनावस्थानमुचितम्, न तु शुद्धरूपेण। तदानीमप्यविद्यान्तरस्य सत्त्वेनेश्वरे तत्प्रयुक्तबिम्बत्वस्यापह्नो- तुमशक्यत्वादिति समाधानान्तरमाह-विम्बेति। अमु- ष्मिन् ईश्वर इत्यर्थः। नन्वेवं ज्ञानस्येश्ववरभावापत्तिफल कत्वे तस्य दहराघुपासनाविशेषप्रसङ्ग इति चेतु, न।ज्ञानस्याज्ञान- निवृत्त्यानन्दावाप्तिफलकत्वेन विशेषसत्वादिति भावः ॥ परमार्थतस्तु मुक्त: सर्वेशत्वादिधर्मनिर्मुक्तम्। विगलितसर्वविकल्पं विमलं ब्रस्मैव केवलं भवति॥ १७॥
मुक्तस्य सर्वमुक्तिपर्यन्तं ईश्वरभावापत्तिरपि बद्धपुरुषान्त- रहष्रया। वस्तुतस्तु अस्पृष्टेश्वरत्वादिधर्मनिर्मृष्टनिखिलभेदप्र- पश्चनित्यशुद्धबुद्ध मुक्तसत्यपरमानन्दाद्वितीयाखण्डैकरसब्रह्मा- त्मनावस्थानमिति परमसिद्धान्तमाह-परमार्थत इति॥ इत्थं परमशवेन्द्रा- नुग्रहभाजनसदाशिवेन्द्रकृतौ।
Page 122
१२० सिद्धान्तकल्पवल्ल्यां
सिद्धान्तकल्पवल्ल्यां तुर्यः स्तबकश्च संपूर्णः ।। १८ ।।
इति श्रीमत्परमहंसपरित्राजकाचार्यश्रीपरमशिवेन्द्र पूज्यपादशिष्य श्रीसदाशिवब्रह्मेन्द्रविरचित- वेदान्तसिद्धान्तकल्पवल्ल्यां चतुर्थः स्तबकः समाप्ः॥ स्पष्टोऽर्थः ॥ १८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्परमशिवेन्द्रपूज्यपाद-
कल्पवल्लीव्याख्यायां केसरवल्ल्याख्यायां चतुर्थः स्तबकः ॥ इति सिद्धान्तकल्पवल्ली समास्ता।।