1. Sita Upanishad
Page 1
इच्छाज्ञानक्रियाशक्तित्रयं यत्रावसाधनम् ।
तद्ब्रह्मसत्तासामान्यं सीतातत्त्वमुपास्महे ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ॥
देवा ह वै प्रजापतिमब्रुवन्का सीता किं रूपमिति ।
स होवाच प्रजापतिः सा सीतेति । मूलप्रकृतिरूपत्वात्सा
सीता प्रकृतिः स्मृता । प्रणवप्रकृतिरूपत्वात्सा सीता
प्रकृतिरुच्यते । सीता इति त्रिवर्णात्मा साक्षान्मायामयी
भवेत् । विष्णुः प्रपञ्चबीजं च माया ईकार उच्यते ।
सकारः सत्यममृतं प्राप्तिः सोमश्रीः कीर्त्यन्ते ।
तकारस्तारलक्ष्य्या च वैराजः प्रसतरः स्मृतः ।
ईकाररूपिणी सोमामृतावयवदिव्यालङ्कारसड्गौक्तिका-
द्याभरणलकृता महामायाड्व्यक्तरूपिणी व्यक्तता भवति ।
प्रथमा शब्दब्रह्ममयी स्वाध्यायाकाले प्रसन्ना
उद्भावनकरी सात्त्विका द्वितीया भूतले हलाग्रे समुत्पन्ना
तृतीया ईकाररूपिणी अव्यक्तस्वरूपा भवतीति सीता
इत्युदाहन्ति । शौनकीये । श्रीरामसात्रिध्यवस्था-
ज्जगदानन्दकारिणी । उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ।
सीता भगवती जेया मूलप्रकृतिसंजिता । प्रणवत्या-
त्प्रकृतिति वदन्ति ब्रह्मवादिन इति । अथातो ब्रह्मौज्जिज्ञासेत च ।
सा सर्ववेदमयी सर्वदेवमयी सर्वलोकमयी सर्वकीर्तिमयी
सर्वधर्ममयी सर्वाधारकारणमयी महालक्ष्मी-
देवेशस्य भिन्नाभिन्नरूपा चेतनाचेतनात्मिका
ब्रह्मस्थावरात्मा तद्नुणकर्मविभागभेदाच्छरीरूपा
देवर्षिमनुष्यगन्धर्वरूपा असुरराक्षसभूतप्रेत-
पिशाचभूतादिभूतशरीरूपा भूतेन्द्रियमनःप्राणरूपेति
च विज्ञायते ।
१
Page 2
सा देवी त्रिविधा भवति शक्त्यासना इच्छाशक्ति: क्रियाशक्ति: साक्षाच्छुकितरिरति । इच्छाशक्तिस्त्रिविधा भवति । श्रीभूमिनीलात्मिका भद्ररूपिणी प्रभावरूपिणी सोमसूर्याग्निरूपा भवति । सोमात्मिका ओषधीना प्रप्रवति कल्पवृक्षपुष्पफलतागुल्मात्मक औषधिवेषजात्मकाऽमृतरूपा देवानां महस्तोम- फलप्रदा अमृतेन तृप्तिं जनयन्ती देवानाममृतै: पशूनां तृणेन तत्ज्ज्जीवानां सूर्यादिसकलभुवन- प्रकाशिनी दिवा च रात्रि: कालकलानिमेषमारभ्य घटिकाष्टयामदिवस( वार) रात्रिभेदेन पक्षमासर्त्वनसंवत्सरमेधेन मनुष्याणा शतायु:कल्पनया प्रकारमाना चिरक्षिप्रवypदेशेन निमेषमारभ्य परार्धपर्यन्तं कालचक्र जगच्चक्रमित्यादिप्रकारेण चक्रवत्परिवर्तंमाना: सर्वस्येतस्येव कालस्य विभागविशेषा: प्रकारूपा: कालरूपा भवन्ति । अग्निरूपा अन्नपानादिप्राणिना क्षुत्रुष्णात्मकाऽदेवनां मुखरूपा वनौषधीना शीतोष्णारूपा काठेष्टवन्हिह न्यत्यानित्यरूपा भवति । श्रीदेवी च त्रिविधं रूपं कृत्वा भगवत्सङ्कल्पानु- गयेन लोकरक्षणार्थ रूपं धारयति । श्रीरिति लक्ष्मीरिति लक्ष्यमाणा भवतीति विज्ञायते । भूर्देवी ससागराम्भ:सप्तद्वीपा वसुन्धरा भूरादिचतुर्देशभुवनाना- माधारभेद्या प्रणवात्मिका भवति । नीला च मुख- विद्युम्नालिनी सर्वौषधीना सर्वप्राणिनां पोषणार्थ सर्वरूपा भवति । समस्यभुवनस्याधोभागे जलाकारात्मक मण्डूकमयेन भुवनाधारोति विज्ञायते ॥
तन्नाद्वैतस्नु: । विन्दोरवृद्वार: । ओङ्कारात्परतो राम वैखानसपर्यन्त: । तत्पर्वते कर्मज्ञानमयीभिरवृहूशाखा भवन्ति । तत्र त्रयीमयं शास्त्रमाद्यं सर्वधर्मदर्शनम् । ऋग्यजु:सामरूपपत्वात्त्रयीति परिकीर्तिता । कार्यसिद्ध्यन चतुर्धा परिकीर्तिता । ऋचो यजूंषि सामानि अथर्वाङ्गिरसस्थाः । चातुर्होत्रप्रधानत्वाल्लोकादिक्रित्रियं त्रयी । अथर्वाङ्गिरस रूपं सामऋगयजुरात्मकम् । तथा दिशन्त्याभिचार- सामान्येन पृथक्पृथक् । एकविंशतिशाखायामृग्वेद: परिकीर्तित: । शतं च नवशाखासु यजुषामेव जन्मनाम् ।
२
Page 3
साम्नः सहग्रामाख्या: स्युः पञ्चशाखा अथर्वणः । वैष्णवसमतस्तस्मित्रादौ प्रत्यक्षदर्शनम् । स्मर्यंते मुनिभिनित्यं वैखानसमतः परम् । कल्पो व्याकरणं शिक्षा निरुक्तं ज्योतिषं छन्द एतानि षड्ऽड्गानि ॥
उपाढ़्गमयनं चैव मीमांसान्यायविस्तरः । धर्मज्ञसेवितार्थं च वेदवेदोद्धिकं तथा । निवन्धाः सर्वशाखा च समयाचारसङ्कृति: । धर्मशास्त्रं महर्षिणामन्तःकरणसम्भृतम् ।
इतिहासपुराणाभ्युपाङ्गं च प्रकीर्तितम् । वास्तुवेदो धनुर्वेदो गान्धर्ववेदस्तथा मुने । आयुर्वेदश्च पञ्चैते उपवेदाः प्रकीर्तिताः । दण्डो नीतिषु वार्ता च विद्या वायुञ्जयः परः ।
एकविंशतिभेदोऽयं स्वप्रकाशः प्रकीर्तितः । वैखानसकृपे: पूर्वं विष्णोर्वाणीं समुद्धवेत् । त्रयीરૂपेण सकृल्लप्य वैखानसकृपे: पुरा । उदितो यादृशः पूर्वं तादृशं शृणु मेऽखिलम् ।
शब्दब्रह्ममयं रूपं क्रियाशक्तिरुदाहृता । साक्षाच्छुकितरङ्गवत् स्मरणमात्ररूपापिर्भाव-प्रादुर्भावावित्मका निग्रहारूपा भगवत्सहचारिणी अनपायिनी अनवरतसहायिणी उदितानुदिताकारा निमेषोन्मेषसृष्टिस्थितिसंहारतिरोधानानुग्रहादि-सर्वशक्तिसामर्थ्यांन्तःसाक्षाच्छुकितरिति गीयते ।
इच्छाशक्तिस्वविधा प्रत्यावस्थायां विश्वमणार्थं भगवतो दक्षिणवक्षःस्थले श्रीवत्साकृतिभूत्वा विश्वाम्यतीति सा योगशक्तिः । भोगशक्तिभोंगरूपा कल्पवृक्षकामधेनुचिन्तामणिशब्दादुपप-निध्यादिनवनिधिसमाश्रिता भगदुपासकानां कामनया अंकामनया वा भक्तियुक्ता नरं नित्यनैमित्तिककर्मभिरग्निहोत्रादिभिर्वा यमनियमासन-प्राणायामप्रत्याहारध्यानधारणासमाधिभि-र्वाल्मणान्वपि गोपुग्राकारादिभिरविभिर्विमानादिभिः सह भगवद्विग्रहाच्चोपकरगैरचने: स्नानाधिपवो-पितृपुजादिभिरतर्पणादिभिः भगवत्स्रीतियर्थमुक्तवा सर्वं क्रियते ।
अथातो वीरशक्तिस्थतुंञ्जाडभयवरद-पदधरा कीरीटाभरणयुता सर्वदेवैः परिवृता कल्पतरुमूले चतुर्भिर्गजे रत्नघटैरमृतजलै-
Page 4
रभिषिच्यमाना सर्वदेवतैब्रह्मादिभिर्व्हनिमाना अणिमाद्यष्टैश्वर्ययुता संमुखे कामधेनुना स्तूयमाना वेदशास्त्रादिभिः स्तूयमाना जयाद्यैः पर-स्त्रीभिः परिचर्यमाणा आदित्यसोमाभ्यां दीपाभ्यां प्रकाश्यमाना तुम्बुरुणारदादिभिग्नायमाना राकासिनीवालिभिः छत्रेण ह्लादिनीमायाभ्यां चामरण स्वाहास्वधाभ्यां व्यजनैः भृगुपुत्रादिभिरभ्यर्च्यमाना देवी दिव्यसिंहासने पचाननरूढा सकलकारणकार्यकरी लक्ष्मीदेवस्य पृथग्भावनकल्पना । अलंककार स्थिरा प्रसन्नलोचना सर्वदेवैः पूज्यमाना वीरलक्ष्मीरिति विज्ञायत इत्युपनिषत् ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा: । भद्रं पश्येमाक्षभिर्यजत्रा: । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवा: । स्वस्ति नः पूषा विश्ववेदा: । स्वस्ति नस्ताक्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिदधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
इति सीतोपनिषत्समाप्ता ॥