Books / Skanda Upanishad

1. Skanda Upanishad

Page 1

यत्रासंभवतां याति स्वातिरिकाभिदाताति: । संविन्मात्रं परं ब्रह्म तत्वमात्रं विजृम्भते ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्ति: शान्ति: शान्ति: ॥

अच्युतोऽस्मि महादेव तव कारण्यलेहात । विज्ञानघन एवास्मि शिवोऽस्मि किमत: परम् ॥

न निजं निजवद्धाति अन्त:करणजुम्भनात । अन्त:करणनाथेन सं विन्मात्रास्थितो हरि: ॥

संविन्मात्रस्थितस्त्वाहामजोऽस्मि किमत: परम् । व्यतिरिक्त जड़ सर्वं स्वप्रकाश विनाश्रयत ॥

चिद्जडानां तु यो दृष्टा सोडच्युतो ज्ञानविग्रह: । स एव हि महादेव: स एव हि महेश्वरी: ॥

स एव हि ज्योतिषां ज्योति: स एव परमेश्वर: । स एव हि परं ब्रह्म तद्ब्रह्माहं संश्रय: ॥

जीव: शिव: शिवो जीव: स जीव: केवल: शिव: । तत्‌क्षण बुद्धो देही स्म्यत्तशभावेन तण्डुलात्‌ ॥

एवं बद्धस्तथा जीव: कर्मनाशे सदाशिव: । पाशबद्धस्तथा जीव: पाशमुक्त: सदाशिव: ॥

शिवाय विष्णुरूपाय शिवरूपाय विष्णावे । शिवस्य हृदयं विष्णु: विष्णोश्च हृदयं शिव: ॥

१०

यथा शिवमयो विष्णुरेवं विष्णुमय: शिव: । यथान्तरं न पश्यामि तथा मे स्वस्तरायुषि ॥

११

यथान्तरं न वेदा: स्म्यु: शिवकेशवयोस्थथा । देहो देहालय: प्रोक्‍त: स जीव: केवल: शिव: ॥

१२

त्यजेदज्ञाननिमाल्यं सोडच्युतो ज्ञानपूजयेत । अभेदश्रेणि ज्ञानान् ध्याने निवेशय मन: ॥

१३

ज्ञानं मनोमलत्याग: शौचाम्निन्द्रयानिरुद्ध: । ब्रह्मामृतं विवेकेश्चमाचरेदेहरक्षणे ॥

१४

वसुधै कान्तिको भूत्या चैकान्ते द्वैतवर्जिते । इत्येवमाचरदोमानस एवं मुक्‍तिमाश्रयात्‌ ॥

श्रीपरमधाम्ने स्वस्ति चिरायुयोत्रम इति । विरिचिनारायणषड्गुरूआत्मकं नृसिंह देवेश तव प्रसादत: । आचर्यैर्मध्यमकर्मनिष्ठैर्मनस्विनं वेदान्तिकं ब्रह्म निजं विजानते ॥

१४

तद्‌दृशो: परमं पदं सदैव पश्यन्ति सूरय: । दिवीव चक्षुराततम्‌ ॥

१५

तद्‌ग्रासो विपन्थ्यवो जाग्रवांस: समिन्धते । विष्णोर्यत्‌ परमं पदम्‌ ॥

इत्येतत्रिवर्णानुशासनमिति वेदानुशासनमिति वेदानुशासनमित्युপনिषत् ।

॥ इति कृष्णयजुर्वेदीय स्कन्दोपनिषत्समाप्ता ॥