1. Skanda Upanishad
Skanda Upanishad
[ Sutra शान्ति मन्त्र ]
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
shanthi mantra
· · ·
[ Sutra 1 ]
अच्युतोऽस्मि महादेव तव कारुण्यलेशतः । विज्ञानघन एवास्मि शिवोऽस्मि किमतः परम् ॥ १॥
· · ·
[ Sutra 2 ]
न निजं निजवद्भाति अन्तःकरणजृम्भणात् । अन्तःकरणनाशेन संविन्मात्रस्थितो हरिः ॥ २॥
· · ·
[ Sutra 3 ]
संविन्मात्रस्थितश्चाहमजोऽस्मि किमतः परम् । व्यतिरिक्तं जडं सर्वं स्वप्नवच्च विनश्यति ॥ ३॥
· · ·
[ Sutra 4 ]
चिज्जडानां तु यो द्रष्टा सोऽच्युतो ज्ञानविग्रहः । स एव हि महादेवः स एव हि महाहरिः ॥ ४॥
· · ·
[ Sutra 5 ]
स एव हि ज्योतिषां ज्योतिः स एव परमेश्वरः । स एव हि परं ब्रह्म तद्ब्रह्माहं न संशयः ॥ ५॥
· · ·
[ Sutra 6 ]
जीवः शिवः शिवो जीवः स जीवः केवलः शिवः । तुषेण बद्धो व्रीहिः स्यात्तुषाभावेन तण्डुलः ॥ ६॥
· · ·
[ Sutra 7 ]
एवं बद्धस्तथा जीवः कर्मनाशे सदाशिवः । पाशबद्धस्तथा जीवः पाशमुक्तः सदाशिवः ॥ ७॥
· · ·
[ Sutra 8 ]
शिवाय विष्णुरूपाय शिवरूपाय विष्णवे । शिवस्य हृदयं विष्णुः विष्णोश्च हृदयं शिवः ॥ ८॥
· · ·
[ Sutra 9 ]
यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः । यथान्तरं न पश्यामि तथा मे स्वस्तिरायुषि ॥ ९॥
· · ·
[ Sutra 10 ]
यथान्तरं न भेदाः स्युः शिवकेशवयोस्तथा । देहो देवालयः प्रोक्तः स जीवः केवलः शिवः ॥ १०॥
· · ·
त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् । अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः ।
· · ·
[ Sutra 11 ]
स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः ॥ ११॥
· · ·
[ Sutra 12 ]
ब्रह्मामृतं पिबेद्भैक्ष्यमाचरेद्देहरक्षणे । वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते । इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात् ॥ १२॥
· · ·
[ Sutra 13 ]
अचिन्त्यमव्यक्तमनन्तमव्ययं वेदात्मकं ब्रह्म निजं विजानते॥ १३॥
· · ·
[ Sutra 14 ]
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ १४॥
· · ·
[ Sutra 15 ]
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् । इत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनमित्युपनिषत् ॥ १५॥