Books / Subaala Upanishad

1. Subaala Upanishad

Page 1

॥ सुबालोपनिषत् ॥ बीजाज्ञानमहामोहापहृवावृद्विशिष्यते । निर्वीजं त्रैपदं तत्त्वं तदस्मीति विचिन्तये ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ तदहं किं तदासीत्तस्मै स होवाच न सन्नासन्न सदसदिति तस्मात्तः सज्जायते तमसो भूतादिभूतादेराकाशमाकाशा-द्वायुर्वायोरग्निरग्नेरापोऽपोड्डयं पृथिवी तदण्डं सम्भवत्तत्सवित्सरमात्रंमुषित्वा द्विधाकरో-दधस्ताडिमिमुपरिष्टादाकाशं मध्ये पुरुपो दिव्यः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।

सहस्रबाहूरिति सोऽग्रे भूतानां मृत्युमसृजन्यक्षरं त्रिशिरस्कं त्रिपादं खण्डपरशुं तस्य ब्रह्माभिधेति स ब्रह्माणमवं विवशं स मनसान्स्प्त पुत्रानसृजत्तह विराजः सत्यमानसानसृजन्तेह प्रजापतयो ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्धयां शूद्रो अजायत ॥

चन्द्रमा मनसो जातक्षोः सूर्यो अजायत । श्रोत्राद्वायुश्च प्राणश्च हृदयात्सर्वमिदं जायते ॥ इति प्रथमः खण्डः ॥

अपानाच्छिषदा यक्षराक्षसगन्धवौंऽसुरैस्थभ्यः पर्वता लोमभ्य ओषधिवनस्पतयो ललाटात्कोधजो रुद्रो जायते तस्यैतस्य महतो भूतस्य निःश्वसितमेवेदं यदृग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषामयनं न्यायो मीमांसा धर्मशास्त्राणि व्याख्यानान्युपव्याख्यानानि च सर्वाणि च भूतानि हिरण्यज्योतिर्यैस्मिन्न्यमात्माधिक्षियान्ति भुवनानि विश्वा ॥

आत्मानं द्विधाकरोदर्धेन स्त्री अर्धेन पुरुषो देवो भूत्या देवांसृजदृपिभूत्या ऋषीन्यक्षराक्षसगन्धर्वां-ग्राम्यानारणयांश्च पशूनसृजदितरा गौरितरोडण्ढवानितरो

Page 2

वडवेटरोज्ज्वल इतरा गर्दभीतरो गर्दभ इतरा विश्वम्भरीतरो विश्वम्भरः सोडन्ते वैश्वानरो भूत्या सन्गध्या सर्वांणि भूतानि पृथिव्यस्पु प्रलीयत आपस्तेजसि प्रलीयन्ते तेजो वायौ विलीयते वायुराकाशे विलीयते आकाशमिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ विलीयन्ते भूतादिमहति विलीयते महताव्यक्ते विलीयते व्यक्तमक्षरेऽक्षरं तमसि विलीयते तमः परे देव एकीभवति परस्तात्सदासद्रूपासदित्येतदत्रिवाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति द्वितीयः खण्डः ॥ २ ॥

असद्वा इदमग्र आसीदजामतभूतमप्रतिष्ठित-शब्दबमस्पर्शमरूपमरसमगन्धमव्ययम-महान्तमवृहन्तमजमात्मानं मत्वा धीरो न शोचति ॥ अप्रमाणममुखमश्रोत्रमवागमनोडते जस्मेचक्षुः-ष्कमनामगोत्रमशिरस्कमपाणिपादमस्निग्धमलोहित-मप्रेमेयमहस्वमदीर्घमस्नूलमनण्वनल्पं पार-मनिदेश्यमनपावृतमप्रतऱ्यमपकाश्यमसंवृत-मनन्तरमवायुः न तदर्शनाति किंचन न तदर्शनाति कथमेतद् द्रु सत्येन दानेन तपसा डनाशकेन षडड्नैव साधयेदेतत्त्रयं वीक्षत दमं दानं दयामिति न तस्य प्राणा उत्कामन्त्यत्रैव समवलियन्ते ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद ॥ इति तृतीयः खण्डः ॥ ३ ॥

हृदयस्य मध्ये लोहितं मांसपिण्डं यस्मिन्स्थाहृरं पुण्डरीकं कुमुदमिवानेकधा विकसितं हृदयस्य दश छिद्राणि भवन्ति येषु प्राणा: प्रतिष्ठिता: स यदा प्राणेन सह संयुज्यते तदा पश्यति नगरोण बहूनि विविधानि च यदा व्यानेन सह संयुज्यते तदा पश्यति देवांश् ऋषींश् यदापानेन सह संयुज्यते तदा पश्यति यक्षराक्षसगन्धर्वान्न्यदा उदानेन सह संयुज्यते तदा पश्यति देवलोकान्देवांन्स्कन्द जयन्न् चेति यदा समानेन सह संयुज्यते तदा पश्यति देवलोकान्धनानि च यदा वैरम्भेण सह संयुज्यते तदा पश्यति दृष्टं च श्रुतं च भुक्तं चाभुक्तं च सच्चासच्च सर्वं पश्यति अथेमा दश दश नाड्यो भवन्ति तासामेकैकस्य द्वासप्ततिद्वासप्तति:

Page 3

शाखा नाडीसहस्राणि भवन्ति यस्मिन्नयमात्मा स्वपिति शब्दानां च करोत्यथ यदिद्वतीये षड्जोशे स्वपिति तदेमं च लोकं परं च लोकं पश्यति सर्वांश्च बुद्बान्विजानाति स सम्प्रसाद इत्यचक्षते प्राणः शरीरं परिरक्षति हरितस्य नीलस्य पीतस्य लोहितस्य श्वेतस्य नाडो रुधिरस्य पूर्णा अध्यात्मतद्हरं पुणडरीकं कुमारमिवानेकधा विकसितं यथा केशः सहस्रधा भिद्यस्तथा हिता नाम नाड्यो भवन्ति हृद्याकाशे परे कोशे दिव्योऽयमात्मा स्वपिति यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति न तत्र देवा न देवलोका यज्ञा न यज्ञा वा न माता न पिता न बन्धून् बान्धवो न स्तेनो न ब्रह्महा तेजस्कायममृतं सलिलं एवदं सलिलं वनं भूयस्तेनैव मार्गेण जाग्राय धावति सम्प्रापिति होवाच ॥ इति चतुर्थः खण्डः ॥ ४ ॥ स्थानानि स्थानिभ्यो यच्छति नाडी तेषां निवन्धनं चक्षुर्ध्यातं ऋष्टव्यमधिभूतमादित्यस्तत्राधिदैवतं नाडी तेषां निवन्धनं यक्ष्मुषी यो दृष्टव्ये य आदित्ये यो नाड्यां यः प्राणे यो विजाने य आनन्दे यो हृद्याकाशे य एतस्मिन्नर्वाग्स्मिन्नन्तरे संचारति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तं ॥ श्रोत्रमध्यातं श्रोतव्यमधिभूतं दिशस्तत्राधिदैवतं नाडी तेषां निवन्धनं यः श्रोत्रे यः श्रोतव्ये यो दिक्षु यो नाड्यां यः प्राणे यो विजाने य आनन्दे यो हृद्याकाशे य एतस्मिन्नर्वाग्स्मिन्नन्तरे संचारति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ नासाध्यातं घ्रातव्यमधिभूतं पृथिवी तत्राधिदैवर्तं नाडी तेषां निवन्धनं यो नासायां यो घ्रातव्ये यः पृथिव्यां यो नाड्यां यः प्राणे यो विजाने य आनन्दे यो हृद्याकाशे य एतस्मिन्नर्वाग्स्मिन्नन्तरे संचारति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ जिह्वाध्यात्मं रसयितव्यमधिभूतं वरुणस्तत्राधिदैवतं नाडी तेषां निवन्धनं यस्त्वचि यः स्पर्शोयितव्ये यो वरुणो यो नाड्यां यः प्राणे यो विजाने य आनन्दे यो हृद्याकाशे य एतस्मिन्नर्वाग्स्मिन्नन्तरे संचारति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ त्वगध्यात्मं स्पर्शोयितव्यमधिभूतं वायुसत्राधिदैवतं

Page 4

नाडी तेषां निवन्धनं यस्त्वचि यः स्पर्शयितव्ये यो वायौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रस्त्राधिदैवतं नाडी तेषां निवन्धनं यो मनसि यो मन्तव्ये यक्षनद्रे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

बुद्धीऽध्यात्मं बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतं नाडी तेषां निवन्धनं यो बुद्धौ यो बोद्धव्ये यो ब्रह्मणि यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

अहङ्कारोऽध्यात्ममहङ्कर्तव्यमधिभूतं रुद्रस्त्राधिदैवतं नाडी तेषां निवन्धनं योऽहङ्कारे योऽहङ्कर्तव्ये यो रुद्रे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

चित्तमध्यात्मं चैतयितव्यमधिभूतं क्षेत्रज्ञस्त्राधिदैवतं नाडी तेषां निवन्धनं यचित्ते यश्चैतयितव्ये यः क्षेत्रज्ञे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

वागध्यात्मं वक्तव्यमधिभूतमग्निस्त्राधिदैवतं नाडी तेषां निवन्धनं यो वाचि यो वक्तव्ये योऽग्नौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

हस्तावध्यात्मादातव्यमधिभूतमिन्द्रस्त्राधिदैवतं नाडी तेषां निवन्धनं यो हस्ते य आदातव्ये य इन्द्रे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

Page 5

पादावध्यात्मं गन्तव्यमधिभूतं विष्णुस्त्राधिदैवतं नाडी तेषां निवन्धनं यः पादे यो गन्तव्ये यो विष्णौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचारति सोऽयमात्मा तमात्मानमुपासीताजरमृतमभयमशोकमनन्तम् ॥

पायुरध्यात्मं विसर्जयितव्यमधिभूतं मृत्युस्स्त्राधिदैवतं नाडी तेषां निवन्धनं यः पायौ यो विसर्जयितव्ये यो मृत्यौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचारति सोऽयमात्मा तमात्मानमुपासीताजरमृतमभयमशोकमनन्तम् ॥

उपस्थोऽध्यात्ममनन्दयितव्यमधिभूतं प्रजापतिस्त्राधिदैवतं नाडी तेषां निवन्धनं य उपस्थे य आनन्दयितव्ये यः प्रजापतौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचारति सोऽयमात्मा तमात्मानमुपासीताजरमृतमभयमशोकमनन्तम् ॥

एष सर्वज्ञ एष सर्वेश्वर एष सर्वाधिपतिरेषोडन्तर्याम्येष योनिः सर्वस्य सर्वसौष्ठवरूपास्यमाने न च सर्वसौष्ठव्यानुपास्यति वेदशास्त्रुरूपास्यमाने न च वेदशास्त्राण्युपास्यति यस्यामिदं सर्वं न च योडयं भवत्यतः परं सर्वनयनः प्रशासिताऽऽत्मयो भूतात्मा प्राणमय इन्द्रियात्मा मनोमयः संकल्पात्मा विज्ञानमयः कालात्मानन्दमयो लयात्मैकत्वं नास्ति द्वैतं कुतो मत्युं नास्त्यमृतं कुतो नान्तःप्रज्ञो न बहिःप्रज्ञो नोभयतःप्रज्ञो न प्रज्ञाघनो न प्रज्ञो नाप्रज्ञोऽपि नो विदितं वेदं नास्तीत्थंयेतद्विआनुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥

इति पञ्चमः खण्डः ॥ ४ ॥ नैवेह किंचनाग्र आसीदमूलमनाधारमिमा: प्रजा: प्रजायन्ते दिव्यो देव एको नारायणाख्यक्शुष्ट द्रष्टव्यं च नारायणः श्रोतव्यं च श्र्रोतव्यं च नारायणो ग्राह्यं च ग्राह्यं च नारायणो जिह्वा च रसयितव्यं च नारायणस्त्वक् च स्पर्शयितव्यं च नारायणो मन्तव्यं च नरायणो बुद्धिद्रष्टव्यं च नारायणोऽहङ्कारश्श्रोतव्यं च नारायणक्षितिं च चेतयितव्यं च नारायणो वाक् च

Page 6

वक्तव्यं च नारायणो हस्तौ चादातव्यं च नारायणः पादौ च गन्तव्यं च नारायणः पायुर्य विसर्जयितव्यं च नारायण उपस्थं ध्यानदयितव्यं च नारायणो धाता विधाता कर्ता विकर्ता दिव्यो देव एको नारायण आदित्या रुद्रा मरुतो वसवोडष्टाविंशावृधो यजूंषि सामानि मन्त्रोऽग्निराज्याहुतिरनारायण उज्ज्वः सम्भवो दिव्यो देव एको नारायणो माता पिता भाता निवासः शरणं सुहृददितृन्नारायणो विराज सुदर्शनाजितासोम्यामोघाकुमारामृतासत्यामध्यमाना-सीराशिरुतासुरासूर्यांस्वारविजेयानि नाडीनामानि दिव्यानि गर्जति गायति वाति वर्षति वरुणोडयमा चन्द्रमाः कला कलिधान्ता ब्रह्मा प्रजापतिर्मङ्गवा दिवसार्धार्धदिवासाथ

कला: कल्पाद्योध्वं च लिदृक्ष सर्व नारायणः ॥ पुरुष एवंद सर्व यदूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदत्रेनतिरोहति ॥ तद्विष्णोः परमं पदम् ।। तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।। विष्णोर्यंत्परमं पदम् ॥ तदेतत्रिःवानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति षष्ठः खण्डः ॥ ६ ॥

अन्तःशरीरे निहितो गुहायामज एको नित्यो यस्मिन् पृथिवी शरीरे यः पृथिवीमन्तरे संचारं य पृथिवी न वेद ॥ यस्मिन् आपः शरीरे योडपोन्तरे संचारं यमापो न विदुः ॥ यस्मिन् तेजः शरीरे यस्तेजोन्तरे संचारं य तेजो न वेद ॥ यस्मिन् वायुः शरीरे यो वायुमन्तरे संचारं य वायुरं वेद ॥ यस्माकाशः शरीरे य आकाशमन्तरे संचारं यमाकाशो न वेद ॥ यस्मिन् मनः शरीरे यो मनोऽन्तरे संचारं यं मनो न वेद ॥ यस्मिन् बुद्धिः शरीरे यो बुद्धिमन्तरे संचारं यं बुद्धिर्न वेद ॥ यस्मिन् अहंकारः शरीरे योडहंकारमन्तरे संचारं यमडहकारो न वेद ॥ यस्मिन् चित्तं शरीरे यचित्तमन्तरे संचारं यं चित्तं न वेद ॥ यस्मिन् अव्यक्तं शरीरे योडव्यक्तमन्तरे संचारं यमव्यक्तं न वेद ॥ यस्माक्षरं शरीरे योडक्षरमन्तरे संचारं यमक्षरं न वेद ॥

यस्य मृत्युः शरीरे यो मृत्युंमन्तरे संचारं यं मृत्युनं वेद ॥ स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः ॥ एतां विद्यामन्तरतमाय ददावपान्तरतमाय ददावपान्तरतमो ब्रह्मणे ददौ ब्रह्मा घोराङिरसे ददौ घोराङिरा रैव्वाय ददौ रैक्वो रामाय ददौ रामः सर्वेभ्यो भूतेभ्यो ददावित्येवं निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥

Page 7

इति सप्तमः खण्डः ॥ ९ ॥ अन्तःशरीरे निहितो गुहायां शुद्धः सोऽयमात्मा सर्वस्य मेऽदोमांसक्लेदावकीर्णे शरीरेमध्येऽड्यत्यन्तोपहते चित्रभित्तिप्रतीकाशे गन्धर्वनगरोपमे कदलीगर्भभक्त्रिःशारे जलवुद्बुदवच्चञ्चले निःश्रुतमात्मानमचिन्त्यरूपं दिव्यं देवमसृङ्ं शुद्धं तेजस्कायमरूपं सर्वेश्वरमचिन्त्यमशरीरं निहितं गुहायाममृतं विभ्राजमानमनान्तं तं पश्यन्ति विद्वांसस्तेन लये न पश्यन्ति ॥ इति अष्टमः खण्डः ॥ ५ ॥ अथ हैनं रैकवः पप्रच्छु भगवान्कस्मिन्न्सर्वेऽस्तं गच्छन्तीति ॥ तस्मै स होवाच चक्षुरेवाप्येति यच्चक्षुरेवास्तमेति दृष्टव्यमेवाप्येति यो दृष्टव्यमेवास्तमेति य आदित्यमेवास्तमेति विराजमेवाप्येति यो विराजमेवास्तमेति प्राणमेवाप्येति यः प्राणमेवास्तमेति विज्ञानमेवाप्येति यो विज्ञानमेवास्तमे- त्यानन्दमेवाप्येति य आनन्दमेवास्तमेति तुरीयमेवाप्येति यस्तुरीयमेवास्तमेति तदमृतमभयमशोकमनन्त- निर्वाणमेवाप्येतीति होवाच ॥ श्रोत्रमेवाप्येति यः श्रोत्रमेवास्तमेति श्रोत्व्यमेवाप्येति यः श्रोत्व्यमेवास्तमेति दिशमेवाप्येति यो दिशमेवास्तमेति सुदर्शनमेवाप्येति यः सुदर्शनमेवास्तमेतियपानमेवाप्येति योऽपानमेवास्तमेति विज्ञानमेवाप्येति यो विज्ञानमेवास्तमेति तदमृतमभयमशोकमनन्तनिर्वाणमेवाप्येतीति होवाच ॥ नासमेवाप्येति यो नासमेवास्तमेति प्रातव्यमेवाप्येति यः पृथिवीमेवाप्येति यः पृथिवीएवास्तमेति जितामेवाप्येति यि जितामेवास्तमेति व्यानमेवाप्येति यो व्यानमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तनिर्वाणमेवाप्येतीति होवाच ॥ जिह्वामेवाप्येति यो जिह्वामेवास्तमेति रसयितव्यमेवाप्येति यो रसयितव्यमेवास्तमेति वरुणमेवाप्येति यो वरुणमेवास्तमेति सोम्यामेवाप्येति यः सोम्यामेवास्तमेतत्युदानमेवाप्येति य उदानमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तनिर्वाणमेवाप्येतीति होवाच ॥ त्वचमेवाप्येति यस्त्वचमेवास्तमेति स्पर्शयितव्यमेवाप्येति यः स्पर्शयितव्यमेवास्तमेति वायुमेवाप्येति यो वायुमेवास्तमेति मोघामेवाप्येति यो मोघामेवास्तमेति समानमेवाप्येति

Page 8

यः समानेवास्तमेति विज्ञानेवाप्येति तदमृतमभयमशोकमनन्तानिर्वीजमेवाप्येतीति होवाच ॥ वाचमेवाप्येति यो वाचमेवास्तमेति वक्तव्यमेवाप्येति यो वक्तव्यमेवास्तमेत्योड्गिनमेवाप्येति यः कुमारमेवास्तमेति वैरम्भमेवाप्येति यो वैरम्भमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तानिर्वीजमेवाप्येतीति होवाच ॥ हस्तमेवाप्येति यो हस्तमेवास्तमेत्यादातव्यमेवाप्येति य आदातव्यमेवास्तमेतीन्र्मेवाप्येति य इन्द्रमेवास्तमेत्यमृतामेवाप्येति योड्मृतामेवास्तमेति मुख्यमेवाप्येति यो मुख्यमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तानिर्वीजमेवाप्येतीति होवाच ॥

पादमेवाप्येति यः पादमेवास्तमेति गन्तव्यमेवाप्येति यो गन्तव्यमेवास्तमेति सत्यामेवाप्येति यः सत्यामेवास्तमेति नन्त्याममेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तानिर्वीजमेवाप्येतीति होवाच ॥ पायुमेवाप्येति यः पायुमेवास्तमेति विसर्जयितव्यमेवाप्येति यो विसर्जयितव्यमेवास्तमेति मृत्युमेवाप्येति यो मृत्युमेवास्तमेति मध्यमामेवाप्येति यो मध्यमामेवास्तमेति प्रभूजनमेवाप्येति यः प्रभूजनमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तानिर्वीजमेवाप्येतीति होवाच ॥ उपस्थमेवाप्येति य उपस्थमेवास्तमेत्य आनन्दयितव्यमेवाप्येति य आनन्दयितव्यमेवास्तमेति प्रजापतिमेवाप्येति यः प्रजापतिमेवास्तमेति नासींरामेवाप्येति यो नासींरामेवास्तमेति कुमारमेवाप्येति यः कुमारमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तानिर्वीजमेवाप्येतीति होवाच ॥

मन एवाप्येति यो मन एवास्तमेति मन्तव्यमेवाप्येति यो मन्तव्यमेवास्तमेति चन्द्र्मेवाप्येति यश्र्चन्द्र्मेवास्तमेति शिशुमेवाप्येति यः शिशुमेवास्तमेति श्येनमेवाप्येति यः श्येनमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तानिर्वीजमेवाप्येतीति होवाच ॥ बुद्धिमेवाप्येति यो बुद्धिमेवास्तमेति बोद्धव्यमेवाप्येति यो बोद्धव्यमेवास्तमेति ब्रह्माणमेवाप्येति यो ब्रह्माणमेवास्तमेति सूर्यामेवास्तमेति यः सूर्यामेवास्तमेति कृष्णामेवाप्येति यः कृष्णामेवास्तमेति विज्ञानमेवाप्येति

Page 9

तदमृतमभयमशोकमनन्तनिर्वीजमेवाप्येतीति होवाच ॥ अहङ्कारमेवाप्येति योऽहङ्कारमेवास्तमे त्यहङ्कृतवर्ग्यमेवाप्येति योऽहङ्कृतवर्ग्यमेवास्तमेति रुद्रमेवाप्येति यो रुद्रमेवास्तमेत्यसुरामेवाप्येति योऽसुरामेवास्तमेति श्वेतमेवाप्येति यः श्वेतमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तनिर्वीजमेवाप्येतीति होवाच ॥

निर्वीजमेवाप्येतीति होवाच ॥ चित्तमेवाप्येति यश्वित्तमेवास्तमेति चेतयितव्यमेवाप्येति यश्वेतयितव्यमेवास्तमेति क्षेत्रज्ञमेवाप्येति यः क्षेत्रज्ञमेवाप्येति यः क्षेत्रज्ञमेवास्तमेति भास्वतीमेवाप्येति यो भास्वतीमेवास्तमेति नागमेवाप्येति यो नागमेवास्तमेति विज्ञानमेवास्तमेति यो विज्ञानमेवास्तमेत्य आनन्दमेवाप्येति य आनन्दमेवास्तमेति तुरीयमेवाप्येति यस्तुरीयमेवास्तमेति तदमृतमभयमशोकमनन्ननिर्वीजमेवाप्येतीति होवाच ॥ तदमृतमभयमशोकमनन्ननिर्वीजमेवाप्येतीति होवाच ॥

य एवं निर्वीजं वेद निर्वीज एव स भवति न जायते न म्रियते न मुह्यति न बिभ्यति न दह्यते न छीयते न कम्पते न कुष्यते सर्वदहनोऽयमात्मेत्याचक्षते नैवमात्मा प्रवचनशतेनापि लभ्यते न बहुश्रुतेन न बुद्धिज्ञानाशितेन न मेधया न वेदनेन यज्ञेन तपोभिरग्रैणां सांख्यैणां योगैणांश्रमैणांऽयैरात्म- नमुपुलभन्ते प्रवचनेन प्रशंसया व्युत्थानेन तमेतं ब्राह्मणा शुश्रुवांसोऽनुचान उपलभन्ते शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति सर्वस्यात्मा भवति य एवं वेद ॥

इति नवमः खण्डः ॥ ९ ॥

अथ हैनं रैक्वं पप्रच्छु भगवान्कस्मिन्स्वे॑ᳫ सम्प्रतिष्ठिता भवन्तीति य सातल्लोके᳚ष्विति होवाच कस्मिन्नसातललोका ओताश्च प्रोताश्चेति भूलोके᳚ष्विति होवाच कस्मिन्नभूलोका ओताश्च प्रोताश्चेति भुवलोके᳚ष्विति होवाच कस्मिन्भुवलोका ओताश्च प्रोताश्चेति सुव लोके᳚ष्विति होवाच कस्मिन्सुवलोका ओताश्च प्रोताश्चेति महर्लोके᳚ष्विति होवाच कस्मिन्महर्लोका ओताश्च प्रोताश्चेति जनोलोके᳚ष्विति होवाच कस्मिन्जनोलोका ओताश्च प्रोताश्चेति तपोलोके᳚ष्विति होवाच कस्मिन्तपोलोका ओताश्च प्रोताश्चेति सत्यलोके᳚ष्विति होवाच कस्मिन्सत्यलोका

Page 10

१०

ओताश् प्रोता॒रिति प्रजापतिलोकेऽथ्वि॑त होवाच क॒स्मिन्प्र॑जाप॒तिलोका॑ ओता॒श् प्रोता॒रिति ब्रह्मलोकेऽथ्वि॑त होवाच क॒स्मिन्न्ब्र॑ह्मलोका॑ ओता॒श् प्रोता॒रिति सर्वलोका॑ आत्मनि ब्र॒ह्म॒णि मण॑य द्वौता॒श् प्रोता॒रिति स होवाचैवमेतान लोकानात्मनि प्रतिष्ठितान्वेदात्मैव स भवती॒ते॒त॒ऋ॒वाणानु॑शासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति दशमः खण्डः ॥ १० ॥

११

अथ है॒न॒ रैक्व॒ः पप्रच्छु॒ भगवान्वाचो॒द॒यं विज्ञानघन उत्कामन्स केन कतरद्वाव स्थानमृत्सृज्यापक्रामती॒त॒ त॒स्मै॒ स होवाच हृद॒य॒स्थ॒ म॒ध्य॒लो॒हि॒त॒ मांसपिण्डं य॒स्मि॒ड॒स्त॒ह॒र॒ं पुण्डरीकं कुमुदमिवानेकधा विकसितं त॒स्य॒ म॒ध्ये॒ स॒मु॒द्रः॒ स॒मु॒द्र॒स्य॒ म॒ध्ये॒ को॒श॒स॒स्मि॒न्ना॒ड॒ख्य॒त॒सो भवन्ति रमा॒रमे॒च्छा॒डपुन॒र्भ॑व॒ति त॒न्न॒ रमा पुण्येन पुण्यं लोकं न॒य॒त्य॒रमा पापेन पापमिच्छ॒या य॒त॒स्म॒र॒ति त॒दभि॑संप॒द्य॑ते अपुन॒र्भ॑व॒या को॒श॒ं भिनत्ति को॒श॒ं भि॒त्त्वा शीर्‌षकपालं भिनत्ति शीर्‌षकपालं भि॒त्त्वा पृथि॒वीं भिनत्ति पृथि॒वीं भि॒त्त्वा॒पो भिन॒त्य॒पो भि॒त्त्वा तेजो भिन॒त्ति तेजो भि॒त्त्वा वायुं भिन॒त्ति वायुं भि॒त्त्वाकाशं भिन॒त्याकाशं भि॒त्त्वा मनो भिनत्ति मनो भि॒त्त्वा भूतादिं भिन॒त्ति भूतादिं भि॒त्त्वा महा॒न्त॒ं भिन॒त्ति महा॒न्त॒ं भि॒त्त्वाव्य॑क्तं भिन॒त्यव्य॑क्तं भि॒त्त्वाक्षरं भिन॒त्याक्षरं भि॒त्त्वा मृत्युं भिन॒त्ति मृत्युमे॒व॒ प॒रे॒ दे॒व एकीभवती॒त॒ परस्तात्स॒त्रा॒स॒त्र सद॒स॒दित्ये॒ते॒ऋ॒वाणा-नुशासनमिति वेदानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इ॒त्येकादशः खण्डः ॥ ११ ॥

१२

ॐ नारायणाद्वा अन्नमागातं पक्वं व्रह्मलोके महासंवर्तके पुनः पक्वमदित्ये पुनः पक्वं कव्यादि पुनः पक्वं जातकलिकलिलत्रं पर्युषितं पूतमतन्न्रमयाचितमसंक्लृप्तमशनीयान्न कचनं याचेत् ॥ इति द्वादशः खण्डः ॥ १२ ॥ बाल्येन तिष्ठासेद्वालस्वभावोऽसङ्गो निरवद्यो मौनेन पाण्डित्येन निरवधिकारतयोपलभ्येत कैवल्यमुक्तं निगमनं प्रजापतिरुवाच महत्पदं ज्ञात्वा वृक्षमूले वसेत कुचेलोऽसह्हाय एकाकी

Page 11

१३

समाधिस्थ आत्मकाम आप्तकामो निष्कामो जीर्णकामो हस्तिनि सिंहो दंशे मषके नकुले सर्पराक्षसगन्धर्वे मृत्यो रुपाणि विदित्वा न विभेति कृत्स्नेनति वृक्षमिव तिष्ठासेच्छिद्यमानोडपि न क्रुध्येत न कम्पेतोत्पलमिव तिष्ठासेच्छिद्यमानोडपि न क्रुध्येत न कम्पेताकाशमिव तिष्ठासेच्छिद्यमानोडपि न क्रुध्येत न कम्पेत सत्येन तिष्ठासेत्सत्योडयमात्मा सर्वेषामेव गन्धानां पृथिवी हृदयं सर्वेषामेव रसानामपो हृदयं सर्वेषामेव रुपाणां तेजो हृदयं सर्वेषामेव स्पर्शानां वायुहृदयं सर्वेषामेव शब्दानामाकाशं हृदयं सर्वेषामेव गतिनामव्यक्तं हृदयं सर्वेषामेव सत्त्वानां मृत्युहृदयं मृत्युवें परे देव एकीभवतीति परस्तान्न सन्नासत्र सदसदित्येतत्रिवाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति त्रयोदशः खण्डः ॥ १३ ॥

१४

ॐ पृथिवी वाङ्मनापोड्न्नादा आपो वाङ्न्नं ज्योतिर्न्नादं ज्योतिर्वाङ्न्नं वायुरन्नादो वायुवाङ्न्नादो आकाशो वाङ्न्नमिन्द्रियाण्यन्नादानीन्द्रियाणि वाङ्न्न मनोऽन्नादं मनो वाङ्न्नं बुद्धिरन्नादा बुद्धिरन्नादं वाङ्मक्षरमन्नादमक्षरं वाङ्न्नं मृत्युरन्नादो मृत्युवें परे देव एकीभवतीति परस्तान्न सन्नासत्र सदसदित्येतत्रिवाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति चतुर्दशः खण्डः ॥ १४ ॥ अथ हैनं रैक्वः पप्रच्छु भगवान्योंडयं विज्ञानघन उत्कामनः केन कतरद्राव स्थानं दहतीति तस्मै स होवाच योऽयं

Page 12

पञ्चदशः

दहति लोकालोकं दहति धर्माधर्मं दहत्यभास्करममयं निःरालोकमतः परं दहति महान्तं दहत्यव्यक्तं दहत्यक्षरं दहति मृत्युम् । दहति मृत्युञ्जयं परे देव एकीभवतीति परस्तात् सन्नासन्न सदसदित्येतत्रिवर्णानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति पञ्चदशः खण्डः ॥१५॥

षोडशः

सौवालवीजब्रह्मोपनिषन्नाप्रशान्ताय दातव्या नापुत्राय नाशिष्याय नासंवत्सररात्रोषिताय नापरिज्ञातकुलशीलाय दातव्या नैव च प्रवक्तव्या । यस्मै देवे परा भक्तिर्यथा देवेऽथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मान इत्येतत्रिवर्णानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति षोडशः खण्डः ॥१६॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ इति सुवालोपनिषत्समाप्ता ॥