1. Surya Upanishad
Page 1
ॐ ध्येयः सदा सवितृमण्डल मध्यवर्तिं ।
नारायणः सरसिजासनसंनिविष्टः ।
केयूरवान मकरकुण्डलवान् किरीटी ।
हारि हिरण्मयवपुर्धृतशंखचक्रः ॥
ॐ मित्राय नमः ।
ॐ रवये नमः ।
ॐ सूर्याय नमः ।
ॐ भानवे नमः ।
ॐ खगाय नमः ।
ॐ पूष्णे नमः ।
ॐ हिरण्यगर्भाय नमः ।
ॐ मरीचये नमः ।
ॐ आदित्याय नमः ।
ॐ सवित्रे नमः ।
ॐ अर्काय नमः ।
ॐ भास्कराय नमः ।
ॐ श्रीसवितृसूर्यनारायणाय नमः ॥
आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने ।
जन्मान्तरसहस्रेषु दारिद्र्यं नाशते ।
अकालमृत्यु हरिणां सर्वव्याधि विनाशनम् ।
सूर्यपादोदकं तीर्थं जठरे धारयाम्यहम् ॥
योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन ।
योपाकरोत्तं प्रवृणें मुनिनां पतंजलिं प्रांजलिरानतोऽस्मि ॥