Books / sushruta_kalpa

1. sushruta_kalpa

Page 1

प्रथमोऽध्यायः

ग्रथातोऽन्नपानन्नकाल्त्पं व्याख्यास्यामः

प्रथमोऽध्यायः

यथोवाच भगवान् धन्वन्तरिः

प्रथमोऽध्यायः

धन्वन्तरिः काशिपतिस्तपोधर्मभृतां वरः सुश्रुतप्रभृतौऽषिष्याश्छशासाहतशासनः

प्रथमोऽध्यायः

रिपोर्वा विक्रमाक्रान्तो ये च स्वे कृत्ये गताः सिसृक्षवः क्रोधवर्ष विवरं प्राप्य तादृशं

प्रथमोऽध्यायः

विष्पैर्निहन्युरिन्दुपुरं नृपतिं दुष्टचेतसः स्त्रियो वा विधानं योगानं कदाचित्सुभगेच्छया

प्रथमोऽध्यायः

विषकन्योयोगाद्वा दूष्याज्ज्ञायदासून्नरः तस्माद्रैद्वेन सततं विषाद्रचयो नराधिपः

प्रथमोऽध्यायः

यस्माद्र चेतोऽनित्यत्वमश्ववत् प्रथितं नृषाम न विश्वास्यात्ततो राजा कदाचिदपि कस्यचित्

प्रथमोऽध्यायः

कुलीनां धार्मिकं स्थिरंध सुभृतं सन्ततोऽ्थितं श्रुलब्धमशठं भक्तं कृतज्ञं प्रियदर्शनं

प्रथमोऽध्यायः

क्रोधपारुष्यमात्सर्यमायालस्यविवर्जितं जितेन्द्रियं जितमानसं शुचिं शीलदयान्वितं

प्रथमोऽध्यायः

१०

मेधाविनमसंश्रान्तमनुरक्तं हितेषिष्यम् पटुं प्रगल्भं निपुणं दद मालस्यवर्जितं

प्रथमोऽध्यायः

११

पूर्वोक्तैरैश्वरैक्तं नित्यं सन्निहितागदम् महानसे प्रयुञ्जीत वैद्यं तद्विद्यापूजितं

प्रथमोऽध्यायः

१२

प्रशस्तदिग्देशकृतं शुचिभारडं महच्छुचि सजालकं गवाक्ष्नातद्यमासर्वग्ननिषेवितं

प्रथमोऽध्यायः

१३

विकृतासृष्टसंशृष्टं सुवितानं कृतार्चनं परीक्षितस्त्रीपुरुषं भवेद्यापि महानसं

प्रथमोऽध्यायः

१४

तत्राध्यन्नं नियुञ्जीत प्रायो वैद्यगुणान्वितं शुचयो दक्षिता दक्षा विनीताः प्रियदर्शनाः

प्रथमोऽध्यायः

१५

संविभक्ता सुमनसौ नीचकेशनखा स्थिराः स्ताता दृढं संयमिनः कृतोष्णीषाः सुसंयताः

प्रथमोऽध्यायः

तस्य चाऽऽज्ञाविधेयाश्च स्युरिविधाः परिकर्मिणः

Page 2

१६

ग्राहारस्थितयश्रापि भवन्ति प्राणिनो यतः १६

१७

तस्मान्महानसे वैद्यः प्रमादरहितो भवेत्‌ माहानसिकवोढारः सौपौदानिकपौपिकः: १७

१५

भवेयुरेवेद्यवशगा ये चाप्यन्यानेडत्र केचन इडितज्ञो मनुष्याणां चाकचेष्टामुखवैक्रते: १५

१९

विद्याविद्यविशेषज्ञो दोषैर्मनोभिलिङ्गैर्बुद्धिमान्‌ न ददात्युत्तमं पथ्ये विवत्सन्न मोहमेति च १९

२०

ग्रपार्थं बहु सङ्गीर्य भाषते चापि मूढवत्‌ स्फोटयत्यडगुलीभूर्मिमकस्माद्विलिखेद्वसेऽत्‌ २०

२१

वेपथुर्जायते तस्य त्रस्तश्रान्योडन्यमीक्षते नामो विवर्णवक्त्रश्च नखैः किश्चिन्नखत्यपि २१

२२

ग्रालभेतासकृद्वीनः करेऽपि च शिरोरुहान्‌ निर्यियासुरपद्वारेरवैक्षते च पुनः पुनः २२

२३

वर्तते विपरीतं तु वि विषदाताः विचेतनः केचिद्व्यात् पार्थिवस्य त्वरिता वा तदाज्ञया २३

२४

ग्रसतामपि सन्तोडपि चेष्टां कुर्वन्ति मानवाः तस्मात् परीक्ष्यं कार्यं भृत्यानामादितेर्नृपः: २४

२५

ग्रन्ने पाने दन्तकाष्ठे तथाडभ्यङ्गेडवलेखने उत्सादने कषाये च परिषेकेडनुलेपने २५

२६

स्नानु वस्रेषु शय्यासु कवचाभरणेषु च पादुकापादपीठेषु पुष्पेषु गजवाजिनाम्‌ २६

२७

विषजुष्टेषु चान्येषु नस्यधूमाझ्नानादिषु लक्ष्याणि प्रवद्यामि चिकित्सामप्यनन्तरम्‌ २७

२५

नृपभक्ताद्रुचौ न्यस्तं सर्विषं भक्तयन्ति ये तत्सेव ते विनश्यन्ति मधुनीकाव्यासादयः: २५

२९

हतभुक् तेन चात्रेण भृशं चटचटायते मयूरकराठप्रतिमो जायते चापि दुःसहः: २९

३०

भिन्नार्चिस्तीक्ष्णधूमश्र नचिराद्योपशाम्यति चकोरस्याद्विवैराग्यं जायते निप्रमेव तु ३०

दृष्ट्वाडन्न विषसंसृष्टं म्रियते जीवजीवकः:

Page 3

कल्पस्थान

३१

कोकिलः स्वरवैक्रत्यं क्रौञ्चस्तु मदमूर्छ्छति ३१ हष्येनमूर्छ उद्विग्रः क्रोशतश्चुकसारिके हंसः द्वौडति चात्यर्थं भृङ्गराजस्तु कूजति ३२ पृषतो विसृजत्यश्रुं विष्टां मुञ्चति मर्कटः सन्निकृष्टांस्सतत् कुत्रोन्द्राजस्तान् मृगपत्नियाः ३३ वशमनीथे विभूषार्थे रक्तार्थे चातनः सदा उपपन्नमस्य चान्नस्य वाष्पयोगोर्ध्वं प्रसर्पता ३४ हत्पीडा भ्रान्तनेत्रत्वं शिरोदुःखं च जायते तत्र नस्याज्जते कुष्ठं लामज्जं नलदं मधु ३५ कुर्याच्छरीरजन्तूनि चन्दनैश्वर् प्रलेपनम् हृदि चन्दनलेपस्तु तथा सुखमवाम्रुयात् ३६ पांशिप्राप्तं पाशिदाहं नखशातं करोति च ऋतु प्रलेपः श्यामेन्त्रगोपासोमोत्पलानि च ३७ स चेत् प्रमादान्मोहाद्वा तदन्नमुपसेवते ऋषभीलावत्ततो जिह्वा भवत्यरसवेदिनी ३८ तुद्यन्ते दद्याते चापि श्लेष्मा चास्यात् प्रसिच्यते तत्र बाष्पेरितं कर्म यच्च स्यादान्तकाष्ठिकम् ३९ मूर्छां छर्दिमतीसारमाध्मानं दाहवेपथू इन्द्रियागां च वैकृत्यं कुर्यादामाशयं गतम् ४० तत्राशु मदनालाबुबिम्बीकोषातकीफलैः छर्दनं दध्युदक्श्यामथवा तरङडलाम्बुना ४१ दाहं मूर्छामतीसारे तृष्णामिन्द्रियवैकृतम् ग्राटोःपं पारडतां काश्यैः कुर्यात् पक्वाशयं गतं ४२ विरेचनं सरपिष्कं तत्तोक्तं नीलिनीफलम् दद्याद् दूष्योविपार्श्व पेयो वा मधुसंयुतः ४३ द्विद्रव्येषु सर्वेषु धीरमद्योदकादिषु भवन्ति विविधा राज्याः फेनबुद्बुदजन्म च ४४ छायाश्रात्र न दृश्यन्ते दृश्यन्ते यदि वा पुनः भवन्ति यमलाश्चिद्रास्तनव्यो वा विकृतास्तथा ४५

Page 4

46

सद्यः पर्युषितानीव विगन्धानि भवन्ति च ४६ गन्धवर्णरसैर्हीनाः सर्वे भद्र्याः फलानि च पक्वान्याशु विशीर्यन्ते पाकमामानि यान्ति च ४७ विशीर्यते कूर्चकस्तु दनकाष्ठगते विषे जिह्वादनौष्ठमांसानां श्रयथुश्रुपोपजायते ४५ ग्रन्थोस्य धातीकुपुष्पैथ्योजिम्बूफलास्थिभिः सत्त्वौद्रैः प्रच्छाद्य शोषे कर्तव्यं प्रतिसाररागं ४६ ग्रथवाड्झोठमूलानि त्वचः समच्चदस्य वा शिरीषमाषकावडिप सत्त्वौद्राः प्रतिसाररागं ५० जिह्वानिलेलेखकवलौ दनकाष्ठवदादिशेत् पिच्छिलो बहलोदश्जो विवर्ज्जो वा विषान्वितः ५१ स्फोटजनमरुजास्त्रावत्वक्पाकः स्वेदनं ज्वरः दरुणां चापि मांसानामभ्यद्दे विषसंयुते ५२ तत्र शीताम्बुसिक्तस्य कर्तव्यमनुलेपनम् चन्दनं तगरं कुष्ठमशीतं वेधपत्रिका ५३ सोमवल्ल्यमृता श्वेता पद्मं कालीयकं त्वचम् कपित्थरसमूत्राभ्यां पानमेतद्य युज्यते ५४ उत्सादने परीषेक कषाये चानुलेपने शय्यावस्त्रतनुत्रेषु जेयमभ्यड्झुलद्रगैः ५५ केशशातः शिरोदुःखं खेभ्यश्व रुदिररागम् ग्रन्थजनमोत्तमाद्रेषु विषजुष्टेऽवलेखने ५६ प्रलेपो बहुशस्तत्र भाविताः कृष्णामृतिका ऋष्यपित्तधृतश्यामापालिन्दीतगडलीयकैः ५७ गोमयस्वरसो वापि हितो वा मालतीरसः रसो मूषिकपर्यायां वा धूमो वाडगारसंभवः ५५ शिरोऽभ्यड्झः शिरस्त्राणां स्तनामुष्णीषमेव च स्त्रजश्व विषसंसृष्टा: साधयेदवलेखनात् ५६ मुखालेपे मुखं श्यावं युक्तमभ्यड्झुलद्रगैः पधिनीकराटकप्रलेपैः करटककेश्रोपचीयते ६० तत्र चोर्द्ध्वृृतं पानं प्रलेपश्वेदनं घृतम्

Page 5

कल्पस्थान

६१

पयस्या मधुकं फड्गी बन्धुजीवः पुनर्नवा

कल्पस्थान

६२

ग्रसवास्थ्यं कुङ्करावीनां लालास्त्रावोज्ज्चिरक्तता स्फिक्पायुमेढ्रमुष्केषु यातुजश् स्फोटसभवः

कल्पस्थान

६३

तत्राभ्यङ्गवदेवेषा यातृवाहनयोः क्रिया शोणितागमनं खेभ्यः शिरोरु कफसस्तवः

कल्पस्थान

६४

नस्येध्मगते लिङ्गमिन्द्रियोष्ठी च वक्रतं तत्र दुर्ग्धेगवादीनां सर्पिः सातिविषेः श्रुतं

कल्पस्थान

६५

पाने नस्ये च सस्नेहं हितं समदयन्तिकम् गन्धहानिर्विवर्णत्वं पुष्पाणां म्लानता भवेत्

कल्पस्थान

६६

जिघ्रतश्र शिरोदुःखं वारिपूर्णे च लोचने तत्र बाष्पेरितं कर्म मुखशालेपे च यत् स्मृतं

कल्पस्थान

६७

कर्ग्यन्तलगते श्रोतवैगुण्यं शोफवेदने कर्ग्यस्तावश्र तत्राशु कर्तव्यं प्रतिपूरगम्

कल्पस्थान

६८

स्वरसो बहुपुत्राया सघृतः चौद्रसंयुतः सोमवल्करसङ्घापि सशीतो हित इष्यते

कल्पस्थान

६९

ग्रश्रूपदेहो दाहश्र वेदना दृष्टिविभ्रमः ग्रज्ञने विषसंसृष्टे भवेदान्ध्यमथापि च

कल्पस्थान

७०

तत्र सद्यो घृतं पेयं तरप्यां च समागधम् ग्रज्ञनं मेषशृङ्गस्य निर्यासो वरुणास्य च

कल्पस्थान

७१

मुष्ककस्याजकर्गस्य फेनो गोपित्तसंयुतः कपित्थमेषशृङ्गोष्ठे पुष्पं भल्लातकस्य वा

कल्पस्थान

७२

एकैकं कारयेत पुष्पं बन्धूकाझोटयोरपि शोफः स्वावस्था स्वापः पादयोः स्फोटजनं च

कल्पस्थान

७३

भवन्ति विषजुष्टाभ्यां पादुकाभ्यामसंशयम् उपानत्पादपीठानि पादुकावत प्रसाधयेत्

कल्पस्थान

७४

भूषग्यनि हताचींषि न विभान्ति यथा पुरा स्वानि स्थानानि हन्युश्र दाहपाकावदारगोः

कल्पस्थान

७५

पादुकाभूषग्योषूक्तमध्यृविधिमाचरेत् विषोपसर्गो बाष्पादिभूषग्यन्तो य ईरितः

कल्पस्थान

७६

समीच्योपद्रवांस्तस्य विदधीत चिकित्सितं

Page 6

76

महासुगन्धिमगदं यं प्रवन्ध्यामि तं भिषक्

76

पानालेपनस्नेषु विधाधीताज्ञेषु च

77

विरेचनानि तीक्ष्णानि कुयात् प्रच्छर्दनानि च

77

सिराश्र व्यधयेत् चित्तं प्राप्तं विस्तारयन् यदि

78

मूर्छिकाड्जरुहा वाचि हस्ते बद्धा तु भूपते:

78

करोति निविष्टं सर्वमत्र विषसमायुतम्

79

हृदयावरगां नित्यं कुयाज्ज्ञ मित्रमध्यग:

79

पिबेदघृतमजेयारघ्यममृतारघ्यं च बुद्धिमान्

80

सर्पिर्दधि पय: क्षौद्रं पिबेद्रा शीतलं जलम्

80

मयूरान्नकुलान् गोधा: पृषतान् हरिणानपि

81

सततं भद्रयेद्वापि रसांस्वेषां पिबेदपि

81

गोधानकुलमांसेषु हरिणस्य च बुद्धिमान्

82

दद्यात् सुपिष्टां पालिन्दीं मधुकं शर्करां तथा

82

शर्करातिविषे देये मायूरे समहौषधे

83

पर्पटे चापि देय: स्यु: पिप्पली: समहौषधा:

83

सन्नोद्र: सगृहीतश्चैव शिम्बीषूषो हित: सदा

84

विषग्रानि च सेवेत भद्रभोज्यानि बुद्धिमान्

84

पिप्पलीमधुकचौद्रशर्करे चुरसामयुभि:

85

छर्दयेदुष्महृदयो भक्त्तं यदि वै विषम्

85

इति सुश्रुतसंहितायां कल्पस्थानेऽन्नपानरड्कल्पो नाम प्रथमोऽध्याय: १

द्वितीयोऽध्याय:

अथात: स्थावरविषविज्ञानीयमध्यायं व्याख्यास्याम: १

द्वितीयोऽध्याय:

2

यथोवाच भगवान् धन्वन्तरि:

द्वितीयोऽध्याय:

2

स्थावरं जङ्गमं चैव द्विविधं विषमुख्यते

द्वितीयोऽध्याय:

3

दशाधिष्ठानमाद्यं तु द्वितीयं शोषशाश्रयम्

द्वितीयोऽध्याय:

3

मूलं पत्रं फलं पुष्पं त्वक् द्वीरं सार एव च

द्वितीयोऽध्याय:

4

निर्यासो धातवश्चैव कन्दश्च दशम: स्मृत:

द्वितीयोऽध्याय:

तत्र क्लीतकाश्मरगुञ्जासुगन्धगर्गरककरभाटविद्युच्छिखाविजयानीत्यष्टौ

Page 7

मूलविषाशिविषपतृकालम्बावरदारुकरम्भमहाकरम्भाग्नि पञ्ञ पत्रविषाग्नि कुमुद्रतीव्रेगुकाकरम्भमहाकरम्भकरकोटकरेशुक खद्योतक चर्मीभग्न्स्थासर्पघातिननदनसारपाकानीति द्वादश फलविषाग्नि वेत्रकादम्बवल्लीजकरम्भमहाकरम्भाग्नि पुष्पविषाग्नि ग्रन्थपाचककर्तरीयसौरीयककरघाटकरम्भनन्दनानाराचकानि सप्त त्वक्सारनिर्यासविषाग्नि कुमुदग्रीस्नुहीजालचीरोग्नि द्वीरविषाग्नि फेनाश्मभिस्मोहितालौ चे द्वे धातुविप्रे कालिकूटवत्सनाभर्षपपालककर्दमकेवराटकमुस्तकशृङ्गीविप्रपूरडीकमूल कहालाहलमहाविषकर्कट्कानीति त्रयोदश कन्दविषाग्नि इत्येकं पञ्ञपञ्ञाशत् स्थाव-

रविपाग्नि भवन्ति ॥ ३॥

चत्वारि वत्सनाभानि मुस्तके द्वे प्रकृतिते षट् चैव सर्षपारयाहः शेषारयैकेकमेव तु ६

उद्रेष्णं मूलविषैः प्रलापो मोह एव च जृम्भाझ्रोद्रेषणश्वासा जेयाः पत्रविषेण तु ७ मुष्कशोफः फलविषैर्दाहोन्दद्रेष एव च भवेत् पुष्पविषे विशेष्षिद्राध्मानं मोह एव च ५

त्वक्सारनिर्यासविषैरुपयुक्तैरभवन्ति हि ग्रास्यदौर्गन्ध्यपारुष्यशिरोरुक्फसंस्रवाः ६

फेनागमः द्वीरविषेर्विड्भेदो गुरुजिह्वता हतपीडनं धातुविषैर्मूर्च्छा दाहश्व तालुनि १०

११

प्रायेण कालघातिनि विषार्गयेतानि निर्दिशेत् कन्दजानि तु तीद्र्षानि तेषां वच्च्यामि विस्तारम् ११

१२

स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च ग्रीवास्तम्भो वत्सनाभे पीतविरामूत्रनेत्रता १२

१३

सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च ग्रीवादौबेल्यवाक्सङ्गी पालकडनुमताविह १३

१४

प्रसेकः कर्दमाल्येन विड्भेदो नेत्रपीतता वैराटकेनाड्ढुःखं शिरोरोगश्व जायते १४

१५

गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु शृङ्गीविपेर्गाझ्साददाहोदरविबृध्यः १५

पुराडरीकेषु रक्तत्वमद्भ्योर्वृद्धिस्तथोदरे

Page 8

१६

वैवर्ग्यं मूलकैश्छर्दिहिकाशोफप्रमूढता: १६

१७

चिरेग्वोच्छ्वासति श्यावो नरो हालाहलेन वै महाविषेण हृदये ग्रन्थिशूलोद्रमौ भृशं १७

१५

कर्कटेनोत्पतत्यूर्ध्वं हसन् दन्तान् दशत्यपि कन्दजान्युप्रवीर्याणि प्रत्युक्तानि त्रयोदश १५

सर्वाणि कुशलज्ञेयानि तान् देशेभगुषी:

१६

रूक्षामुष्यां तथा तीक्ष्णां सूक्ष्मममाशुव्यवायी च विकाशि विशदं चैव लघ्वपाकि च तत् स्मृतम्

२०

तद्रौद्र्यात् कोपयेद्रायुर्मौषधयात् पित्तं सशोणितम् मति च मोहयेतैकष्ययानर्मबन्धान् छिनत्ति च

२१

शरीरावयवान् सौचम्यात् प्रविशेद्विकरोति च ग्राशुत्वादाशु तद्वान्ति व्यवायात् प्रकृतिं भजेत्

२२

तपयेद्र विकाशितवद्दोषांश्छातूनमलानपि वैशद्यादतिरिच्येत दुष्ट्रिकित्स्यं च लाघवात्

२३

दहर्न चाविपाकित्वात्तस्मात् क्लेशयते चिरम् स्थावरं जङ्गमं यद्य कृतिं चापि यदृच्छया

२४

सद्यो व्यापादयेतत्तु जेयं दशगुणान्वितम् यत् स्थावरं जङ्गमकृतिं वा देहादशेष यदनुर्गत्

२४

तत् जीर्ण विषप्रौषधिहतं वा दावाग्रिवातातपशोषितं वा

२६

स्वभावतो वा गुणप्रहिणं विषं हि दूषीविषतामुपैति वीर्याल्पभावान्निपातयेतत्तु कफावृतं वर्षगणानुबन्धि २६

२७

तेनार्दितो भिन्नपुरीषवर्गो विगन्धवैरस्यमुख: पिपासा मूर्च्छनं वमनं गद्रदवाग्विषरोहो भवेद्र दुष्योदरलिङ्गजुष्ट: २७

ग्रामाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तौ रोगी

२५

भवेद्ररो ध्वस्तशिरोरुहाढयो विलूनपद्भ्यस्तु यथा विहङ्ग: २५

२६

स्थितं रसादिष्वथवा यथोक्कान् करोति धातुप्रभावान् विकारान् कोपं च शीतानिलदूषितेषु यात्याशु पूर्वं श्रृङ्गु तत् रूपम्

३०

निद्रा गुरुत्वं च विरूष्यभां च विशेषहर्षावथवाड्मन: तत: करोत्यनमदाविपाकावरेचकं मरडलकोठमोहान्

धातुत्रयं पादकरास्यशोफं दकोदरं छर्दिमथातिसारम्

Page 9

कल्पस्थान

३१

वैवरर्यमूर्छाविष्मज्वरान् वा कुर्वीत प्रवृद्धां प्रबलां तृष्णां वा ३१ उन्मादमन्यज्ञनयेत्थाऽन्यद्रानाहमन्यत् नापयेद्ध शुक्रम् गात्रदाहमन्यज्ञनयेद्ध कुष्ठं तांस्तान् विकारांश बहुप्रकारान् ३२ दूषितं देशकालाऽऽनिद्वास्वप्रेर्भीषयेत् यसमादूषयते धातून् तस्मादूषीविषं स्मृतम् ३३

कल्पस्थान

३४

स्थावरस्थाप्ययुक्तस्य वेग तु प्रथमे नृशंस श्यावा जिह्वा भवेत्स्तब्धा मूर्छां श्वासश्व जायते ३४ द्वितीये वेपथु: सारो दाह: करठरुजस्थिता विषमामाशयप्राप्तं कुरुत हृदि वेदनाम् ३५ तालुशोषं तृतीये तु शूलं चामाशये भृशम् दुर्वर्गे हरिते शूने जायते चास्य लोचने ३६ पक्वामाशययोस्तोदो हिक्का कासोऽन्रकूजनम् चतुर्थे जायते वेगे शिरसश्रातिगौरवम् ३७ कफप्रसेको वैवरर्यं पर्वभेदश्र पञ्चमे सर्वदोषप्रकोपश्च पक्वाधाने च वेदना ३८

कल्पस्थान

३९

षष्ठे प्रज्ञाप्रणाशश्र भूशं चाप्यतिसार्यते स्कन्धप्रष्ठकटीभृद: सत्रिरोधश्व सप्तमे ३९ प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम् ऋगदं मधुरसर्पिभ्यां पाययेत समायुतम् ४० द्वितीये पूर्ववद्वान्तं पाययेतु विरेचनम् तृतीयेऽङ्गदपानं तु हितं नस्यं तथाऽञ्जनम् ४१ चतुर्थे स्नेहसंमिश्रं पाययेतागदं भिषक् पञ्चमे तौद्रमधुकक्वाथयुक्तं प्रदापयेत ४२

कल्पस्थान

४३

षष्ठेऽङ्गतीसारवत् सिद्धैरपपीडश्व सप्तमे मूर्छि काकपदं कृत्वा सासृग्वा पिशितं द्विपत् ४३ वेगान्ते त्वन্যতमे कृतेऽपि कर्मणि शीतलाम् यवागूं सगृहीतचौद्रामिमां दद्याद्विषापहाम् ४४ कोषातक्यौग्मिक: पाठासूर्यवल्ल्यमृताभ्या: शिरीष: किङिही शेलुर्गियाहा रजनीद्वयम् ४५ पुनर्नवे हरेगुञ्जं त्रिकटु: सारिवे बला

Page 10

स्थावरविषविज्ञानीयो

४६

एषां यवागूर्निष्क्वाथे कृता हन्ति विषद्वयम्

स्थावरविषविज्ञानीयो

४७

मधुकं तगरं कुष्ठं भद्रदारु हरेगवः पुनर्नागेलैलवालूनि नागपुष्पोत्पलं सिता

स्थावरविषविज्ञानीयो

४८

विडङ्ं चन्दनं पत्रं प्रियङ्गुध्‍याामकं तथा हरिद्रे द्वे बृहत्यौ च सारिवे च सिथरा सह

स्थावरविषविज्ञानीयो

४९

कल्ककृष्णा घृत सिद्‍धमजयोमाति विश्रुतम् विषाग्नि हन्ति सर्वाग्रि शीघ्रमेवाजितं क्वचित्

स्थावरविषविज्ञानीयो

५०

दूषीविषार्तं सुस्निग्धं चाधश्र शोषितम् पाययेतागदं नित्यशिमं दूषीविषापहम्

स्थावरविषविज्ञानीयो

५१

पिप्पल्यो ध्यामकं मांसी शावरः परिपेलवम् सुवर्चिका ससूत्रैमैला तोयं कनकगैरिकम्

स्थावरविषविज्ञानीयो

५२

नौद्रयुक्तोगदो होष्ठ दूषीविषमपोहति नाम्ना दूषीविषारिस तु न चान्त्रापि वायते

स्थावरविषविज्ञानीयो

५३

ज्वरे दोहे च हिक्कायामानाहे शुक्रसन्द्धये शोफेऽतिसारे मूर्छ्यां हृद्रोगे जठरेपि च

स्थावरविषविज्ञानीयो

५४

उन्मादे वेपथौ चैव ये चान्ये स्वरुपद्रवाः यथास्वं तेषु कुर्वीत विषप्रौषधे: क्रियाम्

स्थावरविषविज्ञानीयो

५५

साध्यमात्रवतः सद्यो याप्यं संवत्सरोत्थितम् दूषीविषम साध्यं तु नीचैःस्याहितसेवनात्

इति सुश्रुतसंहितायां कल्पस्थाने स्थावरविषविज्ञानीयो नाम द्वितीयोऽध्यायः २

तृतीयोऽध्यायः

ग्रथातो जङ्गमविषविज्ञानीयं कल्पं व्याख्यास्यामः

तृतीयोऽध्यायः

यथोवाच भगवान् धन्वन्तरिः

तृतीयोऽध्यायः

जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश समासेन मया यानि विस्तारस्तेषु वद्‌व्यते

तृतीयोऽध्यायः

तत्र दृष्टिनिःश्वासदर्शनखवमूत्रपुरीषशुक्रलालातवमुखस्र्‌न्दंशविशर्धिततुरङ्गा-स्थिपित्तशूकशवान्ति

Page 11

कल्पस्थान

तत्र दृष्टिनिःश्वासविशा दिव्या: सर्पाः भौमास्तुदंश्राविषाः मार्जारिश्ववा नरमकरमृगडूषकपाकमत्स्यगोधाशम्बूकप्रचलाकगृहगोधिकाचतुष्पादकीटा स्तथाऽन्ये दंश्रानखविषाः चिपिटपिपीलिकटकषणायवा सिकसर्षपकतोटकवर्चः कीटकौरिडन्यकाः शकृन्मूत्रविषाः मूषिकाः शुक्रविषाः लूता लालामूतपु-रीषमुखसनदंशनखशुक्रातंविषाः वृश्चिकविश्वम्भरवटीराजीवमत्स्योदधि-टिड्डीः समुद्रवृश्चिकशलालारी विषाः चित्रशिरः सरोवकुदशतदारुकामद-कसारिकामुखा मुखसनदंश विशार्धमतृणपुरोषविषाः मत्तिकाकषाभजलायुका मुखसनदंश विषाः विषहतास्थिसर्पकरटकवरटीमत्स्यास्थि चेत्य-स्थविषाणि शकृलीमत्स्यरक्तराजीवरकीटीमित्याध पित्तविषाः सूदमतृ-णडोण्टिट्टिड्डूवरटीशतपदीशूकवलभिकाशृङ्गिभ्रमरा: श्वेतुरडविष:कीटसर्प-देहा गतासव: शवविषा: शेषास्त्वनुक्ता मुखसनदंशविषेष्वेव गण्यितव्या:

कल्पस्थान

भवन्ति चात्र राज्ञोऽरिदेशे रिपवस्तृणाम्बुमार्गान्तधूमक्शनान् विषेषा संदृश्यन्त्येभिरतिप्रदष्टान् विज्ञाय लिङ्गैरभिशोधयेतान् तु दुष्टं जलं पिच्छिलमुग्रगन्धि फेनान्वितं राजिभिरावृतं च मरडूकमत्स्यं म्रियते विहङ्गा मत्ताश्व सानूपचरा भ्रमन्ति ७ मज्ञन्ति ये चात्र नराक्षणागास्ते छर्दिमोहज्वरदाहशोफान् ऋग्भिच्छन्ति तेषामपहत्व दोषान् दुष्टं जलं शोधयितुं यतेत ५, ध्वाङ्क्षर्गासनपारिबद्रान् सपाटलान् सिद्धक्मोक्षकौ च दग्धवा सराजडुमसोमवल्कांस्तटद्रुमं शीतं वितरेत् समःसु ६ भस्माझ्झलि चापि घृते निधाय विशोधयेदौपस्तमेवमम्भः द्वितिप्रदेशं विषदूषितं तु शिलातलं तीर्थमथेरियं वा १० स्पृशन्ति गात्रेण तु येन येन गोवाजिनागोष्ट्रखरा नरा वा तच्छूनतान् यात्यथ दृश्यते च विशीर्णते रोमनखं तथेव ११ तत्प्राप्यनन्तां सह सर्वगन्धैः: पिष्ट्रा सुराभिरिव्वानियोज्य मार्गम् सिञ्चेत पर्योभिः सुप्रदन्वतैस्तं विडङ्ङुपाठाकटभीजलैर्वा १२ तृणेषु भक्तेषु च दूषितेषु सीदन्ति मूर्छन्ति वमन्ति चानये विड्वेभेदमृच्छन्त्यथवा त्रियन्ते तेषां चिकित्सां प्रशयेद्यथोक्ताम् १३ विषापहैर्वाडप्यगदैर्वेलिप्य वाद्यैानि चित्रारायपि वादयेत

Page 12

१४

तारः सुतारः ससुरेन्द्रगोपः सर्वेश्व तुल्यः कुरुविन्दभागः

१५

पित्तेन युक्तः कपिलान्वयेन वात्यप्रलेपो विहितः प्रशस्तः। वात्यस्य शब्देन हि यान्ति नाशं विषाणि घोरारायपि यानि सन्ति

१६

धूमेऽनिले वा विषसंप्रयुक्ते खगा: श्रमार्ता: प्रपतन्ति भूमौ कासप्रतिश्यायशिरोरुजश्च भवन्ति तीव्रा नयनामयाश्च

१७

लीलाहिरिन्द्राविषभियौषधैर्हतैः कलोदरलवणैक्रकुष्ठं प्रियङ्कां चाप्यनले निधाय धूमानिलो चापि विशोधयेत्

१५

प्रजामिमामात्मयोनिर्ब्रह्माणः सृजतः किल शकरोदसुरो विदं कैटभो नाम दर्पितः

१६

तस्य क्रुद्धस्य वै वक्त्रादब्रह्मास्तेजसो निधे: क्रोधो विग्रहवान् भूत्वा निपपातितदारुणः

२०

स तं ददाह गर्जन्तमनकां महाबलं ततोडसुरं घातयित्वा तत्तेजोऽवर्धताद्रतम्

२१

ततो विषादो देवानामभवर्त निरीक्ष्य वै विषादजननत्वाच्च विषमित्यभिधीयते

२२

ततः सृष्टा प्रजा: शेषं तदा तं क्रोधमीश्वरः। विन्यस्तवान् स भूमेषु स्थावरेषु चरेषु च

२३

यथाडव्यक्तरसंतोयमन्तरीद्वान्महीगतम्। तेषु तेषु प्रदेशेषु रसं तं नियच्छति

२३

एवमेव विषं यद्यदद्रव्यं व्याप्यावतिष्ठते स्वभावादेव तं तस्य रसं समनुवर्तते

२४

विषे यस्मादृशा: सर्वे तीक्ष्णाः प्रायेण सन्ति हि विषं सर्वमतो जेयं सर्वदोषप्रकोपणम्

२५

ते तु वृत्तिं प्रकुपिता जहति स्वां विषार्दिता: नोपयाति विषं पाकमतः प्राणान् रुगादिध्द च

२६

श्लेष्मशोण्ठवृतमार्गत्वादुच्छ्वासोऽस्य निरुध्यते विसंज्ञ: सति जीवेऽपि तस्मात्तिष्ठति मानवः

२७

शुक्रवत् सर्वसर्पागं विषं सर्वशरीरगम्। क्रुद्धानामेति चाङ्गेभ्यः शुक्रं निर्माणनादिव

२५

तेषां बडिशवदग्रास्तासु सज्जति चागतम्

Page 13

२६

ग्रानुद्वत्ता विषं तस्मात्तु मुष्णन्ति च भोगिनः

३०

यस्मादत्यर्थमुष्णां च तीक्ष्णां च पठितं विषम्‌ ॥ ग्र्रतः सर्वविषेषोक्तः परिषेकस्तु शीतलः

३१

मन्त्रं कीटेषु नात्युष्णां बहुवातकफं विषम्‌ ॥ ग्र्रतः कीटविषे चापि स्वेदो न प्रतिषिध्यते

३२

कीटदंशानुगृग्रोभिषैः संशयैः समुपाचरेत्‌ ॥ स्वभावादेव तिष्ठेतु प्रहारादंशयोर्विषम्

३३

व्याप्य सावयवं देहं दिग्धविद्धाहिदंशयोः ॥ लौल्याद्रिप्सान्वितं मांसं यः खादेनमृतमात्रयोः

३४

यथाविषं स रोगेश्र क्लिश्यते ऽत्रियते ऽपि वा ॥ ग्र्रतश्शाप्यनयोरमासंभृत्य मृतमात्रयोः

३५

मुहूर्तात्तदुपादेयं प्रहारादंशबर्ज्जितम्‌ ॥ सवतां गृह्धूमाभं पुरीषं योडतिसायते

३६

ग्र्राह्मातोडत्यर्थमुष्णास्रो विवर्घः सादपीडितः ॥ उद्दमृत्यथ फेनं च विषपीतं तमादिशेत

३७

न चास्य हृदयं वहिर्विषजुष्टं दहत्यपि ॥ तद्धि स्थानं चेतनाया व्याप्य तिष्ठति

३५

श्रश्वस्थदेवायतनश्शवानवल्मीकसंध्यासु चतुष्पथेषु याम्ये सपित्रे परिवर्जनीया ऋृजुो नरा मर्मसु ये च दंशाः

३६

दर्वीकरागां विषमशुग्धाति सर्वागां चोष्णो द्विगुषीभवति ॥ ग्र्रजीर्णपित्तातपपीडितेषु बालप्रेमेहिष्वथ गर्भिणीषु

४०

वृद्धातुरक्षीणबुभुक्षितेषु रूक्षेषु भीरुष्वथ दुर्दिनेषु ॥ शस्त्रद्नते यस्य न रक्तमेति राज्यो लताभिश्र न संभवन्ति

४१

शीताभिरद्विदंश्र न सोमहर्षो विषाभिभूतं परिवर्जयेत्‌ ॥ जिह्वा सितात यस्य च केशशातो नासावभ्रष्टश्र सकृताभ्रः

४२

कृष्णः सरक्तः श्वयथुश्र दंशे हन्वोः स्थिरत्वं च स वर्जनीयः ॥ वर्तिर्धना यस्य निरेति वक्त्राद्रक्तं स्वेदोर्ध्वमधश्र यस्य

४३

दंष्ट्रानिपाताः सकलाश्र यस्य तं चापि वैद्यः परिवर्जयेतु ॥ उन्मत्तमत्यर्थमुपद्रुतं वा हीनसत्त्वं वाडप्यथवा विवर्गम्

४४

सारिष्टमत्यर्थमवेगिनं च जद्द्याद्नरं तत्र न कर्म कुरे्यात्‌

Page 14

चतुर्थोऽध्यायः

अथातः सर्पदंशविषविज्ञानीयं कल्पं व्याख्यास्यामः ॥

चतुर्थोऽध्यायः

यथोवाच भगवान् धन्वन्तरिः ॥

चतुर्थोऽध्यायः

धन्वन्तरिं महाप्राज्ञं सर्वशास्त्रविशारदम् । पादयोरुपसङ्गृह्य सुश्रुतः परिपृच्छति ॥

चतुर्थोऽध्यायः

सर्पसंख्या च विभागं च दृष्टलक्षणमेव च । ज्ञानं च विषवेगानां भगवान् वक्तुमर्हसि ॥

चतुर्थोऽध्यायः

तस्य तद्वचनं श्रुत्वा प्राहववीद्विप्रिषां वरः । ग्रसंख्या वासुकिश्रेष्ठा विरुच्यतास्तदनन्तकादयः ॥

चतुर्थोऽध्यायः

महीधराश्च नागेन्द्रा हतामित्रसमतेजसः । ये चाप्यजस्रं गर्जन्ति वर्षन्ति च तपन्ति च ॥

चतुर्थोऽध्यायः

ससागरगिरिद्वीपैस्तैरीयं धायते मही । कृत्ता निःश्वासदृष्टिभ्यां ये हन्युरखिलं जगत् ॥

चतुर्थोऽध्यायः

नमस्तेभ्योऽस्तु नो तेषां कार्यं किं चिकित्सया । ये तु दंष्ट्राविषा भोगा ये दशन्ति च मानवम् ॥

चतुर्थोऽध्यायः

तेषां सङ्ख्यां प्रवक्ष्यामि यथावदनुपूर्वशः । ग्रशीतिस्त्वेव सर्पाणां भियते पद्मधा तु सा ॥

चतुर्थोऽध्यायः

१०

दर्वीकरा मरडलिनो राजिमन्तस्तथेव च । निर्विषा वैकरञ्ञाश्च त्रिविधास्ते पुनः स्मृताः ॥

चतुर्थोऽध्यायः

११

दर्वीकरा मरडलिनो राजिमन्तश्च पन्नगाः । तेषु दर्वीकरा ज्ञेया विषतः षट् च पन्नगाः ॥

चतुर्थोऽध्यायः

१२

द्वाविंशतिरमरडलिनो राजिमन्तस्तथा दश । निर्विषा द्वादश श्रेया वैकरञ्ञास्त्रयस्तथा ॥

चतुर्थोऽध्यायः

१३

वैकरञ्जोद्वा: सम चित्ता मरडलिराजिला: । पादाभिमृष्टा दुष्टा वा कुद्धा ग्रासार्थिनोऽपि वा ॥

चतुर्थोऽध्यायः

ते दशन्ति महाक्रोधास्र्रिविधं भीमदर्शना: ॥

Page 15

कल्पस्थान

१४

सरपितं रदितं चापि तृतीयमथ निर्विषम्‌ सर्पाङ्गाभिहतं केचिदिच्छन्ति खलु तद्विदः १४

कल्पस्थान

१५

पदानि यत्र दन्तानामेकं द्वे वा बहूनि वा निमग्रान्त्यपरक्तानि यान्युद्वृत्य करोति हि १५

कल्पस्थान

१६

चक्रुमालकयुक्तानि वैकृत्यकराणि च सङ्क्षेपेण सशोफानि विद्यात्तत्र सोपतिं भिषक् १६

कल्पस्थान

१७

राज्यः सलोहिता यत्र नीला: पीता: सितास्तथा विश्रेयं रदितं तत्र जेयमल्पविषं च तत् १७

कल्पस्थान

१५

ऋशोफमलपदुष्टासृक् प्रकृतिस्थस्य देहिनः पदं पदानी वा विद्यादविषं तद्विद्‌कित्सकः १५

कल्पस्थान

१९

कस्यचित् कुरुतेऽशौचं सर्पाङ्गाभिहतं तु तत् १९

कल्पस्थान

२०

व्याधितोद्दिग्रदष्टानि जेयान्यल्पविषाणि तु तथाऽतिवृद्धबालाभिदष्टमल्पविषं स्मृतम् २०

कल्पस्थान

२०

सपर्शदेवब्रह्मर्षियुक्तसिद्धनिषेविते विषग्रौषधियुक्ते च देशे न क्रमते विषम् २१

कल्पस्थान

२२

रथाङ्गनाझलच्छत्रस्वस्तिकाड्कुशधारिणः शेया दर्वीकरा: सर्पा: फणिन: शीघ्रगामिनः २२

कल्पस्थान

२३

मरडलैरविधैश्वित्रा: पृथवो मन्तगामिनः जेया मरडलिन: सर्पा ज्वलनर्कसमप्रभा: २३

कल्पस्थान

२४

स्त्रिग्धा विविधवर्णाभिस्थितयङ्गूर्ध्व च राजिभि: चित्रिता इव ये भान्ति राजिमन्तस्तु ते स्मृताः २४

कल्पस्थान

२५

मुक्तारूपप्रभा ये च कपिला ये च पन्नगा: सुगन्धय: सुवर्णाभास्ते जात्या ब्राह्मणा: स्मृताः २५

कल्पस्थान

२६

नत्‍त्रियाः स्त्रिग्धवर्णास्तु पन्नगाः भूशकोपना: सूर्यचन्द्राकृतिच्छत्रलद्म तेषां तथाड्मभुजम् २६

कल्पस्थान

२७

कृष्णा वज्रनिभा ये च लोहिता वर्णतस्थथा धूम्रा: पारावताभास्रे वैश्यास्ते पन्नगाः स्मृताः २७

कल्पस्थान

२५

महिषद्वीपिवर्णाभास्तेथेव पुरुषत्वच: भिन्नवर्णाश्र ये केचिद्च्छिद्रास्ते परिकीर्तिताः २५

Page 16

२६

कोपयन्त्यनिलं जन्तोः फगिनः सर्व एव तु पितं मरडलिनश्वाप कफं चानेकराजयः

३०

ग्रपत्यमसवर्षाभ्यां द्विदोषश्करलच्त्याम् ज्रेयौ दोषेश्व दम्पत्यौर्विशेषश्वात्र वक्त्यते

३१

रजन्या: पञ्श्रिमे यामे सर्पाश्चित्राश्चरन्ति हि शेषषूक्तौ मरडलिनौ दिवा देवकरौः स्मृता:

३२

दर्वीकरास्तु तरुणा वृद्धा मरडलिनस्तथा राजिमन्तो वयोमध्ये जायन्ते मृत्युहेतवः

३३

नकुलाकुलिता बाला वारिविप्रहृतः कुशाः वृद्धा मुक्तत्वचो भीताः सर्पास्त्वलपविषाः स्मृताः

३४

तत्र दर्वीकराःकृष्णासर्पो महाकृष्णः कृष्णोदरः श्वेतकपोतो महाकपोतो बला- हको महासर्पः श्वेत्कपालो लोहिताच्चो गवेधुकः परिसर्पः खरडफगाः क- कुदः पद्मो महापदो दर्भपुष्पो दधिमुखः पुरडरीको भूक्रुटीमुखो विष्किरः पुष्पाभिकीर्णों गिरिसर्पः ऋजुसर्पः श्वेतोदरो महाशिरा ऋलगर्द ग्राशीविष इति शिमिरडलिनस्त ग्रदर्शमरडलः श्वेतमरडलो रक्तमरडलः चित्रमरडलः पृषतो रोधपुष्पो मिलिन्दको गोनसो वृद्धगोनसः पनसो महापनसो वेयुपत्र-कः शिशुको मदनः पालिन्द्रः पिङ्गलः तनुकः पुष्पपारडः षड्द्रो ग्र्रमिको बभ्रुः कषायः कलुषः पारावतो हस्ताभरः चित्रकः एषीपद इति २ राजिमन्तस्तुपुरडरीको राजिचित्रो ग्रडुलराजिः बिन्दुराजिः कर्दमकः तृ- णगाशोकः सर्षपकः श्वेतह्नः दर्भपुष्पक्चक्रको गोधूमकः किकिसाद इति ३ निर्विषास्तु गलगोली शूकपत्रो ग्रजगरो दिव्यको वर्षाहिकः पुष्पशकली ज्योतीरथः द्वीरिकपुष्कको ग्रहितपातको ग्रन्थाहिको गौराहिको वृद्धेशय इति ४ वैकरञ्ञस्त् त्रियायां दर्वीकरादीनां व्यतिकराज्ञाता: तद्यथामाकुलि पो टग- लः स्त्रिग्धराजिरिति तत्र कृष्णासर्पेण गोन्स्यां वैपरित्येन वा जातो माकुलि राजिलेन गोन्स्यां वैपरीत्येन वाजातः पो टगलः कृष्णासपेण राजिमत्यां वै- परीत्येनवा जातः स्त्रिग्धराजिरिति तेषामाद्यस्य पितृव्दृषोत्कर्षो द्व्योर्मातृ- वदित्येके

३४

५ त्रियायां वैकरञ्जानां पुनर्दिव्येलकरोधपुष्पकराजिचित्र कपोटगल पुष्पा- भिकीर्त्तदर्भपुष्पवेल्लतकाः सप्रा तेषामाद्यास्त्रयो राजिलवत् शेषा मराड- लिवत् एवमेतेषां सर्पाश्चीतिर्व्यारलुयाता

Page 17

[ERROR page 17 - NVIDIA client error]

Page 18

३६

तेन गात्राशां गौरवमतीसारो हत्पीडा मूर्च्छा च भवति सप्तमे शुक्रमनुप्रवशति व्यानंचात्यर्थं कोपयति कफं च सूक्ष्मस्रोतोभ्यः प्रच्यावयति तेन श्लेष्मवर्तिप्रादुर्भावः कट्टीपृष्ठभृङ्गः सर्वचेष्टग्राविघातो लालास्वेदयोरतिप्रवृत्तिरुच्छवासविरोधश्व भवति मरडलिनां प्रथमे वेगे विषंशोषितं दूषयति तत् प्रदुष्टं पीततामुपैति तत्परिदाहः पीतावभासता चाङ्गानां भवति द्वितीयेऽसां दूष्यते ततोऽत्यर्थं पीतता परिदाहो देशक्लेदयुतश्व भवति तृतीयेऽसां मेदो दूष्यति तेन पूर्ववत्कृङ्गहर्षी तृष्णा दंशक्लेदः स्वेदश्व चतुर्थे कोष्ठमनुप्रविश्य ज्वरमापादयति पञ्चमे परिदाहं सर्वगात्रेषु करोति षष्ठेसममयोः पूर्ववत् राजिमतां प्रथमे वेगे विषं शोणितं दूषयति तत् प्रदुष्टं पारडतामुपैति तेन रोमरर्षः शुक्लावभासश्व पुरुषोभवति द्वितीये मांसं दूषयति तेन पारडताड्यर्थं जाड्यं शिरःशोफश्व भवति तृतीयेऽसां मेदो दूषयति तेन चन्नुग्रहां दंशक्लेदः स्वेदो ग्राशानिस्सावश्व भवति चतुर्थे कोष्ठमनुप्रविश्य मन्यासतम्भं शिरोगौरवं चापादयति पञ्चमे वेगसङ्ङं शीतज्वरं च करोति षष्ठेसममयोः पूर्ववदिति ३६

४०

भवन्ति चात्र धात्वन्तरेषु या: सप्त कला: संपरिकीर्‌र्तिता: तास्वेकैकामतिक्रम्य वेगं प्रकुरुतेऽविषं च ४०

४१

येनान्तरेण तु कलां कालकलपं भिनत्ति हि समीरगेनोद्ह्यमानं तत्तु वेगान्तरं स्मृतम ४१

४२

शूनाङ्गः प्रथमे वेगे पशुध्र्यायाति दुःखितः लालास्रावो द्वितीये तु कृष्णाङ्गः पीडयते हृदि ४२

४३

तृतीये च शिरोदुःखं कराठग्रीवं च भज्यते चतुर्थे वेपते मूढः स्वादनं दन्तान् जहात्यसून ४३

४४

केचिदेगत्रयं प्राहुर्न्त चैतेषु तद्विद्रुध: ध्यायति प्रथमे वेग पत्ती मुह्यत्यत: परम ४४

४५

द्वितीये विह्वल: प्रज्ञास्तृतीये मृत्युर्मुर्छति केचिदेकं विहड्डेषु विषवेगमुश्नन्ति हि मार्जारनकुलादीनां विषं नातिप्रवर्तते ४५

इति सुश्रुतसंहितां कल्पस्थानें सर्पदष्टविषविज्ञानीयं नाम चतुर्थोडध्याय: ४

Page 19

पञ्चमोऽध्यायः

ग्रथातः सर्पदष्टविषचिकित्सितं कल्पं व्याख्यास्यासः

पञ्चमोऽध्यायः

यथोवाच भगवान् धन्वन्तरिः

पञ्चमोऽध्यायः

सर्वै रेवादितः सर्वैः शाखादष्टस्य देहिनः । दंशस्योपरि बन्ध्रीयादरिष्टाश्चतुरङ्गुले ॥

पञ्चमोऽध्यायः

प्लोते च मान्त्रिकाल्कोनां मूर्छनो डन्वेतमेन व न गच्छति विषं देहमरिष्टाभिनिर्वारितम्

पञ्चमोऽध्यायः

दहेदंशमथोत्कृत्य यत्र बन्धो न जायते । ग्राचूषराच्छेददाहः सर्वत्रैव तु पूजिता ॥

पञ्चमोऽध्यायः

प्रतीपूर्य मुखं वस्त्रैर्हतमाचूष्यं भवेत् । स दष्टव्योडथवा सर्पो लोष्ट्रो वाडपि हि तत्समः ॥

पञ्चमोऽध्यायः

ग्रथ मरडलिना दंशं न कथंचन दाहयेत् । स पित्तबाहुल्यविषादंशो दाहाद्रिषपते ॥

पञ्चमोऽध्यायः

ग्ररिष्टामपि मन्त्रेश बन्ध्रीयान्मन्त्रकोविदः । सा तु रज्ज्वादिभिर्बद्धा विषप्रतिकरी मता ॥

पञ्चमोऽध्यायः

देवब्राह्मर्षिभिः प्रोक्ता मन्त्राः सत्यतपोमयाः । भवन्ति नान्यथा चित्तं विषं हन्यु सुदुस्स्तरम् ॥

पञ्चमोऽध्यायः

१०

विषं तेजोमयैरमन्त्रैः सत्यब्रह्मतपोमयैः । यथा निवार्यते द्रव्यं प्रयुक्तैर् न तथौषधे ॥

पञ्चमोऽध्यायः

११

मन्त्राश्च ग्रहगां कार्य स्त्रीमांसमधुवर्‌जिना । मिताहारेषु शुचिनां कुशास्तरगाशायिना ॥

पञ्चमोऽध्यायः

१२

गन्धमाल्योपहारेश बलिभिश्श्रापि देवताः । पूजयेन्‌मन्त्रसिद्ध्यर्थ जपहोमैश्श यततः ॥

पञ्चमोऽध्यायः

१३

मन्त्रास्त्वविधिना प्रोक्ता हीना वा स्वरवर्‌जिताः । यस्मान्न सिद्धिमायान्ति तस्माद्योग्योऽङ्गदक्रमः ॥

पञ्चमोऽध्यायः

१४

समन्ततः सिरा दंशाद्दृश्येतु कुशलो भिषक् । शाखाग्रे वा ललाटे वा व्यध्यास्ता विसृते विषे ॥

पञ्चमोऽध्यायः

१५

रक्ते निर्हियमाणे तु कृत्स्नं निर्हीयते विषम् । तस्माद्रिस्रावयेद्रक्तं स ह्यस्य परमा क्रिया ॥

पञ्चमोऽध्यायः

१६

समन्तादगदैर्देशं प्रच्छयित्वा प्रलेपयेत्

Page 20

१६

चन्दनोशीरयुक्तेन वारिणा परिषेचयेत् १६

१७

पाययेतागदांस्तान् शरीरचौद्रघृतादिभिः तदलाभे हिता वात् स्यात् कृष्णा वल्मीकमृत्तिका

१५

कोविदारशिरीषार्ककटभीर्वाडपि भञ्जयेत् न पिबेतैलकौलत्यमद्यसौवीरकायां च

१६

द्रवमन्नं तु युक्तोक्तं पिबतां पातव्य तदुद्द्वमत् प्रायो हि वमनैव सुखं निर्हरियते विषम्

२०

फशिनां विषवेगा तु प्रथमे शोचितं हरेत द्वितीये मधुरसपिभ्यां पाययेतागदं भिषक्

२१

नस्यकरमाज्ञाने युज्यात्र्तीये विषनाशने वानं चतुर्थे पूर्वोक्तां यवागू मथ दापयेत्

शीतोपचारं कृत्वा दो भिषक् पञ्चमषष्ठयोः

२२

पाययेच्छोधनं तीक्ष्णं यवागूं चापि कीर्तिताम्

२३

सप्तमे त्वगपीडेन शिरस्तीक्ष्णैः शोषयेत् तीक्ष्णामेवाज्ञानं दद्यात् तीक्ष्णाशस्त्रेण मूर्छि च

२४

कृत्वा काकपदं चर्म सासृग्वा पिशितं क्षिपेत् पूर्वे मरडलिनां वेगे दर्वीकरवादचरेत्

२५

ऋगदं मधुरसपिभ्यां द्वितीये पाययेत च वामयित्वा यवागूं च पूर्वोक्तामथ दापयेत्

२६

तृतीये शोधितं तीक्ष्णशौचयवागूं पाययेद्विताम् चतुर्थे पञ्चमे चापि दर्वीकरवादचरेत्

काकोल्यादिर्हितः षष्ठे पेयश्र मदहुरोडगदः

२७

हितोडवपीडे त्वगतः सप्तमे विषनाशनः

२५

पूर्वे राजिमतां वेगेलाबुभिः शोचितं हरेत ऋगदं मधुरसपिभ्यां संयुक्तं पाययेत च

२६

वानं द्वितीये त्वगदं पायये द्विषनाशनम् तृतीयादिषु त्रिषु वेधैर्विधदौर्वीकरो हितः

३०

षष्ठेऽपञ्जानं तीक्ष्णतममपीडश्व सप्तमे गर्भिशीबालवृद्धानां सिराव्यधनवर्जितम्

विषार्तानां यथोद्दिष्टं विधानं शस्यते मृदु

Page 21

कल्पस्थान

३१

रक्तावसेकाझनानि नरतुल्यान्यजाविके

कल्पस्थान

३२

त्रिगुणां महिषे सोत्रे गवाश्वे द्विगुणां तु तत् । चतुर्गुणां तु नागानां केवलं सर्वपदिक्याम् ॥

कल्पस्थान

३३

परिषेकान् प्रदेहांश्र सुशीतानवचारयेत् । माषकं त्वझनस्येष्टं द्विगुणां नस्यतो हितम् ॥

कल्पस्थान

३४

पाने चतुर्गुणं पथ्ये वमनेष्टगुणि पुनः । देशप्रकृतिसात्म्यर्तिविषवegबलाबलम् ॥ प्रधायं निपुणं बुद्धया ततः कर्म समाचरेत् ।

कल्पस्थान

३५

वेगानुपूर्व्या कर्मोक्तमिदं विषविनाशनम् । कर्मावस्थाविशेषेषु विषयोरुभयोः शृङ्गु ॥

कल्पस्थान

३६

विवरेह काठने शूने सरुजेहड्झे विपाश्निते । तूर्णी विश्वगां कायमुक्तेन विधिना ततः ॥

कल्पस्थान

३७

बुधातमनिलप्रायं तद्विषार्त समाहितः । पाययेत रसं सर्पिः शृत्कं क्षौद्रं तथा दधि ॥

कल्पस्थान

३८

तृड्दाहधर्मसंमोहे पैत्तं पैत्तविषातरम् । शीतैः संवाहनस्नानप्रदेहैः समुपाचरेत् ॥

कल्पस्थान

३९

शीते शीतप्रसेकार्त श्लैष्मिकं कफकृद्धिषम् । वामयेद्वमनैस्तीक्ष्णैस्तथा मूर्छां दान्वितम् ॥

कल्पस्थान

४०

कोष्ठदारुजार्मामूतसङ्गुरुग्नितमं विरेचयेच्छकृद्रायुसज्जिपित्तातुरं नरम् ॥

कल्पस्थान

४१

शूनाचिकूटं निद्राति विवृतारिवलोचनं । विवरेह चापि पश्यन्तमझने समुपाचरेत् ॥

कल्पस्थान

४२

शिरोरुगरवालस्याहनुस्तम्भगलग्रहै । शिरो विरेचयेत् द्विप्रं मन्यास्तम्भे च दारुणै ॥

कल्पस्थान

४३

नष्टसंज्ञं विवृत्ताचं भग्नग्रीवं विरेचने: । चूर्णे: प्रधमनैस्तीक्ष्णैर्विपार्तिं समुपाचरेत् ॥

कल्पस्थान

४४

ताडयेद्य सिरा: द्विप्रं तस्य शाखाललाटजा: । तास्प्रसिच्यमानासु मूर्छे शस्त्रेण शस्त्रवित् ॥

कल्पस्थान

४५

कुर्यात काकपदाकारं व्रणमेवं स्वव्न्ति ताः । सरक्तं चर्म मांसं वा निद्रिपेध्न्यास्य मूर्धनि ॥

Page 22

४६

चर्मवृत्तकषायं वा कल्कं वा कुशलो भिषक् वादयेद्यागदेलिप्त्वा दुन्दुभीस्तस्य पार्श्वयो:

४७

लब्धसंज्ञं पुनः श्रेनिमूर्ध्वं चाधः शोषयेत् नि:शेषं निहरेद्रैव विषं परमदुर्जयम्

४८

ग्रल्पमप्यवशिष्टं हि भूयो वेगाय कल्पते कुर्याद्वा सदृशवरौज्यवेरकौशिरोरूजः

४९

शोफशोषप्रतिश्यायातिमिरारुचिपीनसान् तेषु चापि यथादोषं प्रतिकार्म प्रयोजयेत्

५०

विषातोपद्रवांश्चापि यथास्वं समुपाचरेत् ग्रथारितां विमुच्याशु प्रच्छ्यितवाड्ढितं तथा

५१

दश्यात्तत्र विषं स्कन्नं भूयो वेगाय कल्पते एवमौषधिभिर्मन्त्रै: क्रियायोगैश्र्च यत्नतः

५२

विषे हतगुणे देहाद्दोषः प्रकुप्यति तदा पवनमूढूतं स्नेहाद्यै: समुपाचरेत्

५३

तैलमत्स्यकलत्थामलवल्ज्जींविषहरायते: पित्तज्वरहरे: पित्तं कषायैर्बस्तिभिः

५४

कफमार्गवधाद्येन सत्त्वोद्रेगं गयेन तु श्लेष्मप्रशेरगदेऽश्रैव तिक्तैरुदकैश्र्च भोजनैः

५५

वृत्तप्रपातविषमपतितं मृतमम्भसि उद्धृतं च मृतं सद्यः चिकित्सेतत्र सज्ञ्जवत्

५६

गाढं बद्ध्वेरिष्ठया प्रच्छ्यते वा तीक्ष्णै: गैलेप्स्तद्विद्धैरौषधैर्वाडवशिष्टे: शूने गात्रे क्लिन्नमत्र्यर्थपूतिं ज्रेयं मांसं तद्विषातं पूति कषम्

५७

सद्यो विद्धं निस्रवेत् कृष्णारक्तं पाकं यायाद्व्यहते चाप्यभीक्ष्ण्याम् कृष्णीभूतं क्लिन्नमत्र्यर्थपूतिं शीर्षि मांसं यात्यजसं च नात्नात्

५८

तृष्णा मूर्छो भ्रान्तिदाहो ज्वरश्र्च यस्य स्युस्तं दिग्धविद्धं व्यवस्येत् पूर्वोदीष्ठं लब्धगं सर्वमेतज्रुष्ठं यस्सालं विषेण व्या: स्युः

५९

लूतादष्टं दिग्धविद्धा विषेऽर्वा जुष्ठ प्रायस्ते व्या: पूतिमांसा: तेषां युक्त्या पूतिमांसान्यपोह्या वायोकोभि: शोशितं चापहृत्य

६०

हत्या दोषान् निप्रमूर्ध्वं त्वधश्र्च सम्यक् सिञ्चेत् द्विरिगां त्वककषायै: ग्रन्तर्वस्त्रं दापयेद्र प्रदेशान् शीतैर्द्रैवैरराज्ययुक्तैर्विषघ्ने:

Page 23

कल्पस्थान

६१

भिन्ने त्वस्थि दुष्टजातेन कार्यः पूर्वो मार्गः पैत्तिके यो विषे च त्रिवृद्द्रिशल्ये मधुकं हरिद्रे रक्ता नरेंद्रो लवणाश्रु वर्गः

कल्पस्थान

६२

कटुत्रिकं चैव सुचूर्णितानि शुद्धे निद्र्यान्मधुसंयुतानि एषोडगदो हन्ति विषं प्रयुक्तः पानाझ्नाभ्यञ्जननस्ययोगे:

कल्पस्थान

६३

ग्रवार्यवीर्यो विषवेगहन्ता महागदो नाम महाप्रभावः विडङ्गपाठातृफलजमोघहृद्भ्यां वचां त्रिकटूनं च

कल्पस्थान

६४

सर्वश्व वर्गो लवणः सुचूर्णः: सचित्तकः चौद्रयुतो निधेयः शुद्धे गवां शृङ्गमयेन चैव प्रच्छादितः पत्त्रमुपेतितश्र

कल्पस्थान

६५

एषोडगदः स्थावरजङ्गमानां जेता विषाणामजितो हि नाम्ना प्रपौंडरीकं सुरदार्ं मुस्ता कालानुसार्या कटुरोहिणी च

कल्पस्थान

६६

स्थौगेपयकध्यामकगुग्गुलुनी पुन्नागतालोशसुवर्चिकाकाश तिलकुटन्नटैलासितसिन्धुवारा: शैलेपकुष्टे तगरं प्रियङ्गु:

कल्पस्थान

६७

रोध्रं जलं काञ्जनगैरिकं च समागर्धं चन्दनसेन्धवं च सूक्त्माथि चूर्णानि समानी कृत्वा शुद्धे निद्र्यान्मधुसंयुतानि

कल्पस्थान

६८

एषोडगदस्तान्यर्थ इति प्रदिष्टे विषं निह्न्यादपि तक्षकस्य मांसोहरेःपुत्रिफलामृद्वी रकतालात्यैष्टिकपद्यकानि

कल्पस्थान

६९

विडङ्गतालोशसुगन्धिकै लवत्ककुष्टपत्राशि सचन्दनानि भार्गी पटोलं किरिही सपाटा मृगादनी कर्कोटिका पुऱश्र

कल्पस्थान

७०

पालिन्द्यशोकौ क्रमुकं सुरस्या: प्रसूनमारुष्करजं च पुष्पं सूक्त्माथि चूर्णानि समानी शुद्धे न्यसेत् सपित्तानि समाद्निकाग्नि

कल्पस्थान

७१

वराहगोधाशिखिशल्लकानां मार्जारजं पार्षतनाकुले च यस्सागदोडय सुखृतो गुहे स्यान्नामर्षभो नाम नरर्षभस्य

कल्पस्थान

७२

न तत्र सर्पा: कुत एव कीटास्त्यजन्ति वीर्याणि विषाणि चैव एतेन भेयः पटहाश्र दिग्धा नानाद्यमाना विषमाशु हन्यु:

कल्पस्थान

७३

दिग्धा: पताकाश्र नीरोच्य सद्यो विषाभिभूता ह्यविषा भवन्ति लत्ता हरेःगुर्नलदं प्रियडू: शिग्रुद्रयं यष्टिकपृथ्वीकाकाश्र

कल्पस्थान

७४

चूर्णीकृतोदय रजनीविमिश्रो सर्पिर्मधुभ्यां सहितो निधेयः शुद्धे गवां पूर्ववदापनस्ततः प्रयोज्योडञ्जननस्यपानैः

कल्पस्थान

७५

संजीवनो नाम गतासुकल्पानेषोडगदो जीवयतीह मर्त्यान् श्लेष्मातकौकट्फलमातुलुङ्गच: श्वेता गिरिह्रा किरिही सिता च

Page 24

[ERROR page 24 - NVIDIA client error]

Page 25

कल्पस्थान

कार्जुनककुभर्सर्जकपीतनश्लेष्मातकाड्ढोठामलकप्रग्रहकुटजशमीकपित्थार्ष्मतकार्कचिरबिल्वमहावृद्वारुष्करालुमधुकमधुशिगुषाकगो जीमूर्वाभूर्जतिल्वकेतुरकगोपघोरटारिमेदानां भस्मान्याहत्य गवां मूत्रेण द्वारकल्पेन परिस्नाव्य विपचेत् दद्याद्न्यात्रम् पिप्पलीमूलतरडुली यकवराडचोचमज्जिष्ठाकरझिकाहस्तिपिप्पलीमरिचविडङ्गृह धूमानन्तासोमसरलाबाहीकगृहाकोशाम्रश्वेतसर्षपव रेण्गलवङ्गपल्च्चा निचुलकवकुलवकैलवधूमानीपुत्रश्रेष्ठासम्पर्च्याटराटुकैलवालुकनागदन्त्यतिविषाभयाभद्रदारुकृष्ठहरिद्रावचाचूर्णानि लोहानां च समभागानि ततः द्वारवदागतपाकमवतार्य लोहकुम्भे निदध्यात्

कल्पस्थान

ग्रन्थेन दुन्दुभिं लिम्पेत् पताकां तोरणानि च श्रवणादर्शनात् स्पर्शात् विषात् संप्रतिमुच्यते

कल्पस्थान

एष द्वारागदो नाम शर्करास्वशमरेषु च ऋर्षभःसु वातगुल्मेषु कासशूलोदरेषु च

कल्पस्थान

ऋजीर्णां ग्रहणीदोषे भक्तद्रेषे च दारुणो शोफे सर्वसरे चापि देयः श्वासे च दारुणो

कल्पस्थान

सदा सर्वविषार्तानां सर्वथेवोपयुज्यते एष तद्रकमुख्यानामपि दर्पाढकुशोङ्गदः विडङ्गत्रिफलादन्वीभद्रदारुहरेण्गावः तालीशपत्रमज्जिष्ठाकेशरोत्पलपद्मकम्

कल्पस्थान

दाडिमं मालतीपुष्पं रजन्यौ सारिवे सिथरे प्रियङ्गुस्तगरं कुष्ठं वृंहत्यौ चैलवालुकम्

कल्पस्थान

सचन्दनगवाङ्गीभवते: सिद्धं विषापहम्

कल्पस्थान

१०

सर्पि: कल्याणकं हृद्यद्ग्रग्रहापस्मरणाशनम् पारडवामयगरश्वासमन्यद्भिर्ज्वरकासनुत्

कल्पस्थान

११

शोषिणामल्पशुक्राणां बन्ध्यानां च प्रशस्यते ग्रपामार्गस्य बीजानि शिरीषस्य च माषकान्

कल्पस्थान

१२

क्षीते दूरे काकमाचीं च गवां मूत्रेण पेषयेत्

कल्पस्थान

१३

सर्पिरेतस्तु संसिद्धं विषसंशमनं परम् अमृतं नाम विरूच्यतेऽपि संजीवयेन्त्रमृतम्

कल्पस्थान

चन्दनागुरूषी कुष्ठं तगरं तिलपर्पिकम्

Page 26

१४

प्रपौडरीकं नलदं सरलं देवदारु च १४ भद्रश्रियां यवफलां भार्गी नीलदयं सुगन्धिकाम् कालेयकं पद्यकं च मधुकं नागरं जटाम् १५ पुन्नागेलैलवालूनि गैरिकं ध्यामकं बलाम् तौयं सर्ज्जरसं मांसी शतपुष्पां हरेगुकाम् १६ तिलेशिपत्रं तुद्रेलां प्रियङ्गुं सकोटवृत्तम् शिलापुष्पं सशैलेयं पत्रं कालानुसारिवाम् १७ कटुत्रिकं शीतशिवं काश्मर्य कटुरोहिणीम् सोमराजीमतिविषां पृथ्वीकामिन्द्रवारुग्णीम् १५ उशीरं वरुणं मुस्तं कुश्तुम्बुरु नखं तथा श्वेते हरिद्रे स्थौगेयं लाजां च लवङ्गानि च १९ कुमुदोत्पलपद्यानि पुष्पं चापि तथाडकजं चम्पकाशोकसुमनस्तिल्वकप्रसवानि च २० पाटलीशाल्मलीशेलुशिरोष्णां तथैव च कुसुमं तगरमल्यानां सुरभिसिन्धवारजं २१ धवाश्वकर्णांपार्थानां पुष्पाणि तिनिशस्य च गुग्गुलुं कुड्कुमं बिम्बीं सर्पाद्वीं गन्धनाकुलीम् २२ एतत् संभृत्य सभार्ये सूत्मचूर्णानि कार्येत् गोपित्तमधुसर्पिर्भियुक्तं शुद्धे निधापयेत् २३ भग्रस्नेहं विवृत्ताच्चं मृत्योर्दृष्टान्तरं गतं ग्रननेगदमुरुध्येन मनुष्यं पुनराहरेत् २४ एषोड्म्रिकल्पं दुर्वारं क्रुद्धस्यामिततेजस: विष्णे नागपतेर्हन्यालु प्रसभं वासुकेरपि २५ महासुगन्धिनामाज्यं पञ्ञाशीत्याज़्झसंयुत: राजाडगदानां सर्वेषां राज्ञो हस्ते भवेत् सदा २६ स्नातानुलिप्तस्तु नृपो भवेत् सर्वजनप्रिय: भ्राजिष्णुतां च लभते शत्रुमध्यगतोऽपि सन् २७ उष्णावज्यो विधि: कार्यो विषार्तानां विजानता मुक्त्वा कीटविषं तद्विद्ध शीतेऽनभिप्रवर्धते २५ ग्रन्थपानविधावुक्तमुपधायं शुभाशुभम्

Page 27

२६

शुभं देयं विषार्तेभ्यो विरुद्धेभ्यश्व वारयेत् । फाणितं शिग्रुसौवीरमजीर्णाघ्यशनं तथा ॥

३०

वर्जयेद्ध समासेन नवधान्यादिकं गगाम् । दिवास्वप्नं व्यवायं च व्यायामं क्रोधमातपम् ॥

३१

सुरातिलकुतस्थांश्र वर्जयेद्धि विषातुरः । प्रसन्नदोषप्रकृतिस्थैातन्मनोभिकांै समसूत्रजिहेम् ।

३२

प्रसन्नवर्गोन्द्रियचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ।

इति सुश्रुतसंहितायां कल्पस्थाने दुन्दुभिस्वनীয়कल्पो नाम षष्ठोऽध्यायः ॥ ६ ॥

सममोद्यायः

अथातो मूषिककल्पं व्याख्यास्यामः ॥

सममोद्यायः

यथोवाच भगवान् धन्वन्तरिः ॥

सममोद्यायः

पूर्व शुकविषा उत्का मूषिका ये समासतस्तेषाम लक्षणाभेषजैरष्ठादश निबोध मे ॥

सममोद्यायः

लालनः पुत्रकः कृष्णो हंसरश्विक्वीरिसत्था छुच्छुन्दरोऽलसश्वैव कषायादशनोऽपि च ॥

सममोद्यायः

कुलिळश्वाजितश्वैव चपलः कपिलस्थाथा कोकिलोऽरुणसंज्ञश्व महाकृष्णास्तथोन्दुरः ॥

सममोद्यायः

श्वेतेभ महता साधिं कपिलेनाखुना तथा । मूषिकश्र कपोताभस्थैवाष्ट्रादश स्मृताः ॥

सममोद्यायः

शुक्रं पतति यत्रेषां शुक्रसृष्टे: स्मृशन्ति वा । नखदन्तादिभिस्तस्मिन् गात्रे रक्तं प्रदुष्यति ॥

सममोद्यायः

जायन्ते ग्रन्थयः शोफा: करिङ्का मरडलानि च । पौंडरीकपचयश्वाग्रौ विसर्पा: कीटभानि च ॥

सममोद्यायः

पर्वभेदो रुजस्तीवा मूर्च्छाड्विसदनं ज्वरः । दौर्बल्यमरुचि: श्वासो वमथुलोंमहर्षणाम् ॥

सममोद्यायः

१०

दष्टरूपं समासोक्कमेतदव्यासमः शृणु । लालनावो लालनैन हिक्का छर्दिद्द्र जायते ॥

सममोद्यायः

तरडलीयककल्कं तु लिल्यात्तत्र समाधिेकम् ॥

Page 28

[ERROR page 28 - NVIDIA client error]

Page 29

कल्पस्थान

२६

महता कपिलेनासृक कपोतेन चतुष्टयम् भवन्ति चैषां दंशेषु ग्रन्थिमरडलकर्गिका:

कल्पस्थान

२७

पिडकोपचयश्रोगः शोफश्च भृशदारुणः दधित्थीरघृतप्रस्थास्त्रयः प्रत्येकशो मताः

कल्पस्थान

२५

करञ्जारगवधन्योषबहुत्यंशुमतोस्थिरा: निष्क्वाथ्य चैषां क्वाथैस्थ चतुथौडौश पुनर्भवेत्

कल्पस्थान

२९

त्रिवृद्रोज्यमृतावकर्षपग्न्धा: समुत्थिका: कपित्थदाडिमतक च श्लेष्मपित्तः प्रदापयेत्

कल्पस्थान

३०

तत् सर्वमेकतः कृत्चा शनेर्मृदुम्रिनाम पचेत् पञ्चानामरुचादीनां विषमेतद्रचोपोहति

कल्पस्थान

३१

काकादनीकाकमाच्योः स्वरसेप्वथवा कृतम् सिराश्र स्वावयेत प्राप्साः कुय्यात संशोधनानि च

कल्पस्थान

३२

सर्वेषां च विधिः कार्यो मूषिकाणां विशेषयम दग्ध्वा विस्रावयेदंशं प्रच्छितं च प्रलेपयेत्

कल्पस्थान

३३

शिरीषर्जनीकष्ठकुड्मैर्मतायतेः छर्दनं जालिनीक्वाथैः शिकारण्याझ्झोटयोः अप

कल्पस्थान

३४

शुकारण्याकोषवत्योश्र मूलं मदन एव च देवदालीफलं चैव दद्र्रा पीत्वा विरिष वमेत्

कल्पस्थान

३५

सर्वमूषिकदष्टानामेप योगः सुखावहः फलं वचा देवदाली कुष्ठं गोमूत्रेपोशितम्

कल्पस्थान

३६

पूर्वकल्पेन योज्याः स्युः सर्वोन्दुरविषच्छिदः विरेचने त्रिवृद्न्तीतिफलाकल्क इष्यते

कल्पस्थान

३७

शिरोविरेचने सारः शिरीषस्य फलानि च हितस्त्रिकटुकाढच्श्र गोमयस्वरसौज्जने

कल्पस्थान

३५

कपित्थगोमयरसो लिह्यान्मात्निकसंयुतो रसाझ्जनहरिद्रेन्द्रयवकट्वीषु वा कृतम्

कल्पस्थान

३९

प्रातः सातिविष्ण कल्कं लिह्यान्मात्निकसंयुतम् तरडलीयकमूलेषु सर्पिः सिद्धं पिबेत्नरः

कल्पस्थान

४०

ग्रास्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा मूषिकाणां विषं प्राप्यः कुष्यत्यभेषवनिहतम्

Page 30

[ERROR page 30 - NVIDIA client error]

Page 31

[ERROR page 31 - NVIDIA client error]

Page 32

उद्वृत्तिट्टोजोग्रिनामा च चिच्छितिट्टोजो मयूरिका ४ ग्रावर्तकस्थोरभः सारिकामुखवेदलौ शरावकुर्दोडभीराजः पुरुषश्वित्रशीर्षकः ६ शतबाहुश्व यश्शापि रक्तराजिश्व कीर्तितः ऋष्टादशैति वायव्यः कीटः पवनकोपना: ७ तैर्भवन्तीह दष्टानां रोगा वातनिमित्तजा: कौडिडन्येक: कषायको वरटी पत्रवृश्चिक: ५ विनासिका ब्राह्मणिका बिन्दुलो भमरस्तथा बाह्यकी पिट्टित: कुब्जी वर्च:कीटोऽरिमेदक: ६ पञ्चकीटो दुन्तुभिको मकरः शतपादक: पञ्ञालक: पाकमत्स्य: कृष्णातुरगडोऽथ गर्दभी १० क्लीत: कृमिसरारी च यश्शाप्युक्त्लेशकस्थ एते व्यग्निप्रकृतयश्शलुर्विशतिरेव च ११ तैर्भवन्तीह दष्टानां रोगा: पित्तनिमित्तजा: विश्वम्भर: पञ्ञशकुल: पञ्ञकृष्णोऽथकोकिल: १२ सैरे्यक: प्रचलको वलभः किटिभस्थ सूचीमुख: कृष्णगोधा यश्र काषायवासिक: १३ कीटो गर्दभकश्रेव तथा त्रोतक एव च त्रयोदशैते सौम्या: स्यु: कीटाः श्लेष्मप्रकोपना: १४ तैर्भवन्तीह दष्टानां रोगा: कफनिमित्तजा: तुज्झीनासो विचिलकस्तालको वाहकस्थ १५ कोष्ठागारी क्रिमिकरो यश्र मरडलपुच्छक: तुरडड्डिनिभ: सर्षपिको वल्गुलि शम्बुकस्थ १६ श्रमिकीडश्व विशेया द्वादश प्राणनाशना: तैर्भवन्तीह दष्टानां विगज्ञानानि सपेवन्त १७ तास्ताश्र वेदनास्तीका रोगा वै सात्रिपातिका: द्वादश्रिदगधवदंशो रक्तपीतसितारुगा: १५ ज्वराझ्मर्दरोमाझवेदनाभि: समन्वितः छद्यतिसारतृष्णाश्व दाहो मूर्छा विजृम्भिका १६ वेपथुश्वासहिक्काश्व दाह: शीतं च दारुणाम्

Page 33

[ERROR page 33 - NVIDIA client error]

Page 34

३३

ध्रान्ते शूकं चात्र लद्यते

३४

पिपीलिका:स्थूलशीर्षा संवाहिका ब्राह्मणीका श्रृङ्गुलिका कपिलिका चित्रवर्णीषट् ताभिर्दृष्टे दंशे श्रयथुरग्रिस्पर्शवदाहशोफौ भवतः

३४

मत्तिका:कान्तारिका कृष्णा पिङ्गला मधूलिका काषायौ स्थालिकेत्येवं षट् ताभिर्दृष्टस्य करडशोफदाहरुजो भवन्ति स्थालिकाकाषायौभ्यामेतदेव श्यावपिडकात्पित्तोत्तरोपद्रवैश्च ज्वरौदर्या भवन्ति कौष्ठौ स्थालिकौ च प्रागाहे

३५

मशका:सामुद्र: परिमराडलो हस्तिमशक: कृष्ण: पार्वतीय इति पञ्च तैर्दृष्टस्य तीव्रा करडूर्द शशोफ्र्श पार्वतीयस्तु कीटै: प्रागाहरैस्तुल्यलच्त्र्र्ग्र्र: ३६

३६

नखावकृतेsडत्यर्थ पिडकादाहपाकौ भवन्ति जलौकसां दष्टलङ्गमुरुं चिकित्सितं च

३७

भवन्ति चात्र गोधेरक: स्थालिका च ये च श्वेताग्रिसप्रभे भ्रुकुटौ कोटिकश्रैव न सिध्यन्त्येकजातिषु शवमन्त्रपरिषैस्तु सर्वेषामवमर्शनात् स्यु: करडूदाहकोटारु:पिडकातोदवेदन:

३८

प्रक्लेदवांस्तथा स्तावो भृशं संपाचयेत्च्चमं दिगधविध्र्क्रियास्तत्र यथावदवचारयेत् नावसन्नं न चोत्सन्नमिसंरम्भवेदनं दंशादौ विपरीतांतिं कीटदष्टं सुभाधकम्

३९

दष्टानुग्रविषे: कीटै: सर्ववत् समुपाचरेत् त्रिविधानां तु पूर्वेषां त्रैविध्येन क्रिया हिता:

४०

स्वेदमालेपनं सेकं चोषामन्त्रावचारयेत् ग्रन्थन मूर्च्छितादंशात् पाककोथप्रपीडितात्

४१

विषग्रं च विधिं सर्व बहुश: शोधनानि च शिरीषकटुकाकुष्टवचारजनिसैन्धवै:

४२

दीर्घमञ्जवसासर्पिं:शुठटीपिप्पलिदारुषु उत्कारिका स्थिरावौ वा सुकृता स्वेदनो हिता न स्वेदयेत् चादंशं धूमं वच्च्यामि वृश्चिके

४३

ग्रगदानेकजातौषु प्रवच्च्यामि पृथक् पृथक्

Page 35

47

कुष्ठं वक्रं वचा पाटा बिल्वमूलं सुवर्चिका गृहधूमं हरिद्रे द्वे त्रिकटुकविषे हिता:

48

रजन्यागारधूमश्र वक्रं कुष्ठं पलाशजम् गलगोलिकदष्टानामगदो विषनाशनः

46

कुङ्कुमं तगरं शिग्रु पथ्यंकं रजनीद्वयम् शृङ्गदो जलपिप्पल्यो शतपुष्पद्वयम् विषनाशनः

50

मेषशृङ्गी वचा पाटा निचुलो रोहिणी जलम् सर्वमरडूकदष्टानामगदोऽयं विषापहः

49

धवाश्वगन्ध्यातिबलाबलासातिगुहागुहा: विश्वम्भराभिदष्टानामगदोऽयं विषापहः

52

शिरीषं तगरं कुष्ठं शालिपर्णी सहा निशे ग्रहिरडकाभिदष्टानामगदो विषनाशनः

53

करडूमकाभिदष्टानां रात्रौ शीताः क्रिया हिता: दिवा ते नैव सिध्यन्ति सूर्यरश्मिबलार्दिता:

54

वक्रं कुष्ठमपामार्गः शकवन्तविषेऽगदः भृङ्गस्वरसपिष्टा वा कृष्णावल्मीकमृतिका

55

पिपीलिकाभिदष्टानां मधु मधुकशर्करस्थ गोमूत्रेण युतो लेपः कृष्णावल्मीकमृतिका

56

नखावष्टृष्टसंजाते शोफे भृङ्गरसो हितः प्रतिसूर्यकदष्टानां सर्पदष्टवदाचरेत्

56

त्रिविधा वृश्चिका: प्रोक्ता मन्त्रमध्यमहाविषा:

57

गोशकृत्कोथजा मन्ता मध्याः काष्ठेष्टिकोद्भवा: सर्पकोथोद्भवास्तीच्याः ये चान्ये विषसंभवाः

मन्दा द्वादश मध्यास्तु त्रयः पञ्चदशोत्तमाः

58

दश विशतिरित्येते संख्यया परिकीर्तिताः कृष्णः श्यावः कबरः पारडूवर्गो गोमूत्रभाः

59

करकशो मेचकश्र पितो धूम्रो रोमशः शाद्वलाभो रक्तः श्वेतनोदरेगोति मन्ता:

60

युक्ताश्रयेत वृश्चिका: पुच्छदंशे स्वयूथ्योभिः पर्वभिश्वेतरेह्यः

60

एभिदष्टे वेदना वेपथुः गात्रस्तम्भः कृष्णारक्तागमश्र

शाखादष्टे वेदना चोर्ध्वमेति दाहस्वेदौ दंशशोफो ज्वरश्र

Page 36

६१

रक्तः पीतः कापिलेनोदरेप सर्वे धूमाः पर्वभिन्न त्रिभिः स्युः

६२

एते मूत्रोद्जारपूत्यरडजाताः मध्याः जेयास्त्रिप्रकारोरोगाणाम् यस्यैतेषामन्वयाद्रः प्रसूतो दोषोत्पत्तिं तत्स्वरूपां स कुर्यात्

६३

जिह्वाशोफो भोजनस्यावरोधो मूर्छा चोग्रा मध्यवीर्याभिदृष्टे श्वेतश्वित्रः श्यामलो लोहिताभो रक्तः श्वेतो रक्तनीलोडरौ च

६४

पोतोडरक्तो नीलपोतोडपरस्तु रक्ता नीलां नीलशुक्लस्थिता च रक्तो बब्हुः पूर्ववदैकपर्वा यस्यापर्वा पर्वसङ्गी द्वे च यस्य

६५

नानारूपा वर्णतश्वापि घोरा जेयाश्रिते वृश्चिकाः प्राणचौराः जन्मेतेषां सर्पकोथात् प्रदृश्यं देहेभ्यो वा धातितानां विशेष

६६

एभिदृष्टे सर्पवेगप्रकृति: स्फोटोत्पत्तिर्भान्तिदाहौ ज्वरश्र र्वेभ्यः कृष्णां शोणितं याति तीव्रं तस्मात् प्रागेस्त्यज्यते शीघ्रमेव

६७

उग्रमध्यविषैर्दृष्टं चिकित्सेत् सर्पदृष्टवत् ग्रादंशं स्वेदितं चूर्णैः प्रच्छितं प्रतिसारयेत्

६५

रजनोसेन्धवव्योषधिशारोषफफलपुष्पैः मातुलुङ्गाम्लगोमत्रपिष्टं च सरसाग्रजं

६९

लेपे स्वेदे सुखोष्माण च गोमयं हितमिष्यते पाने क्षौद्रयुतं सर्पि: क्षीरं वा बहुशर्करं

७०

दंशं मन्त्रविषागां तु चक्रतैलेन सेचयेत् विदारीगणसिद्धेन सुखोष्मोनाथवा पुनः

७१

कुर्याद्योत्कारिकास्वेदं विषप्रेभुपनाहयेत् गुडोदकं वा सुहिमं चातुर्जातकसयुक्तं

७२

पानमस्मै प्रदातव्यं क्षीरं वा सगुडं हिमं शिखिकुकुटबर्‌हाहिा सैन्धवं तैलसर्पिषी

७३

धूमो हन्ति प्रयुक्तस्तु शीघ्रं वृश्चिकजं विषं कुसुम्भपुष्पं रजनी निशा वा कोद्रवं तृणाम

७४

एभिऋृृृताकैर्धूपस्तु पायुदेशे प्रयोजितः नाशयेदाशु कीटोत्यं वृश्चिकस्य च यद्विषं

७५

लूताविषं घोरतमं दुर्विज्ञेयतं च तत् दुष्ट्विकत्स्यतमं चापि भिषग्भिर्यनतबुद्धिभिः

सविषं निर्विषं चैतदित्येवं परिशड्ढिते

Page 37

[ERROR page 37 - NVIDIA client error]

Page 38

६२

तृणो महर्षिणा लूने धेन्वर्थ संभृतेपि च ततो जातास्त्वमा घोरा नानारूपा महाविषा: ग्रहकाराय वर्तन्ते नृपासाधनवाहने

६३

यस्माल्लूनं तृणं प्रापा मुनेः प्रसवेदबिन्दवः तस्माल्लूनेति भाष्यन्ते सद्दुष्टया ताश्र षोडश

६४

कृच्छ्रसाध्यास्तथोदोष्योभूतास्तु द्विविधाः स्मृताः तासामष्टौ कृच्छ्रसाध्याश्या वज्रोऽस्तावत्य एव तु

६५

त्रिमरडला तथा श्वेता कपिला पीतिका तथा ग्राममूत्रविषा रक्ता कषाया चाष्टमी स्मृता

६६

ताभिर्दष्टे शिरोदुःखं करडूर्दशे च वेदना भवन्ति च विशेषेण गदा: श्लीप्मिकवातिकाः

६७

सौवर्यिकौ लाजवर्गौ जालिन्येशीपदी तथा कृष्णाम्रिवर्गा ककारडका मालागुडाष्टम्यी तथा

६८

ताभिर्दष्टे दंशकोथः प्रवृत्तिः त्वक्जस्य च ज्वरो दाहोऽतिसारश्च गदाः सृष्ट्र त्रिदोषजाः

६९

पिडका विविधाकारा मरडलानि महान्ति च महान्तो मृदवः शोफा रक्ताः श्यावाश्चलास्तथा

१००

सामान्यं सर्वलूतानामेदादंशलदंशराम विशेषलङ्गं तासां वच्यामि सचिकित्सितम्

१०१

त्रिमरडलाया दंशेऽशुचि कृष्णां स्वरति दीर्यते बाधिर्यं कलुषा दृष्टिस्तथा दाहश्र नेत्रयोः

१०२

तत्राकमूलं रजनी नाकुली पृश्निपर्पणका पानकर्मणि शस्यान्ते नस्यालेपाझनेपु च

१०३

क्ष्वेतायाः पिडका दंशे श्वेता करडूमती भवेत् दाहमूच्चोज्वरवती विसपेक्लेदरुक्षररी

१०४

तत्र चन्दनरक्तैला हरेगुनलवङ्गुला: कुष्ठं लाज्जकं वचां नलदं चागदो हितः

१०५

ग्रादंशे पिडका ताम्रा कपिकायाः स्थिरा भवेत् शिरसो गौरवं दाहस्तिमिरं भ्रम एव च

तत्र पञ्चककुष्टेलाकरञ्जकुभतत्वचः

Page 39

१०६

स्थिरार्कपर्य्यपामार्गदूर्वाब्राह्म्यो विषापहः । ग्रादंशे पीतिकारस्तु पिड़का पीतिका स्थिरा भवेच्छर्द्दिज्वरः शूलं मूत्रे रक्ते तथाडद्विसृगी ।

१०७

तत्रेष्टः कुटजोशिरुतृणपथ्यकवचझुला: शिरीषकिशिहीशेलुकदम्बककुभतत्वचः ।

१०५

रक्तमेहेऽनभे देशे पिड़कोः सर्षपो इव जयन्ते तालुशोषश्व दाहश्वालविपादिदन्ते ।

१०९

तत्र प्रियङ्गुहीबेरकुष्टलामञ्जवझुला: ग्रगदः शतपुष्पा च सपीप्पलवटाडकुरा: ।

११०

पूर्तिमूत्रविषादंशो विसर्पी कृष्णाशोभितः कासश्वासवमीमूच्छाज्वरदाहसमन्वितः ।

१११

मनःशिलालमधुककुष्टचन्दनपद्मकै: मधुमिश्रैः सलामज्जेरगदस्तत्र कीर्तितः ।

११२

ग्रापारडपिड़को दंशो दाहक्लेदसमन्वितः रक्ताया रक्तपर्यन्तो विज्ञेयो रक्तसंज्ञितः ।

११३

कार्यस्तत्रागदस्तोयचन्दनोशीरपद्मकै: तथैवाजुनशेलुभ्यां त्वग्भिरामातकस्य च ।

११४

पिच्छिलं कशनादंशादूधरं शीतलं स्वेत कासश्वासौ च तत्रोत्कं रक्तलूताचिकित्सितम् ।

११५

पुरीषगन्धरल्यासृक् कृष्णाया दंश एव तु ज्वरमूच्छावमीदाहकासश्वाससमन्वितः ।

११६

तत्रैलावकृस्पार्पचीगन्धनाकुलिचन्दने: महासुगन्धसहितैः प्रत्यरुण्यायागदः स्मृतः ।

११७

दंशे दाहोद्भवक्त्रातया: स्नावोडत्यर्थ ज्वरस्तथा चोष्करडूषमहषो दाहविस्फोटसंयुतः ।

११८

कृष्णाप्रशमनं चात्र प्रत्यरुण्याय प्रयोजयेत् सारिवोशीरयष्टचाहचन्दनोत्पलपद्मकम् ।

११९

सर्वासामेव युञ्जीत विषे श्लेष्मातकत्वचम् भिषक् सर्वप्रकारेण तथा चाङ्गीवपिप्पलम् ।

१२०

कृच्छ्र साध्यविषा ह्रप्टौ प्रोक्ता द्वे च यदृच्छया

Page 40

१२१

ग्रवार्यविषवीर्याग्रां लक्षणानि निबोध मे

१२२

ध्यामः सौरर्षिकादंशः सफेनो मत्स्यगन्धकः श्वासः कासो ज्वरस्तृष्णा मूर्च्छा चात्र सुदारुणा

१२३

ग्रादंशे लाजवर्गायां ध्यामं पूती स्वेदसृक् दाहो मूर्च्छाज्ज्वितिसारश्च शिरोदुःखं च जायते

१२४

घोरो देशेऽस्तु जालिन्या रौद्रजिह्वानुविद्यते स्तम्भः श्वासस्तमोवृद्धिस्तालुशोषश्च जायते

१२५

एषीपद्यासथ दंशो भवेत् कृष्णातिलाकृति तृष्णामूर्च्छाज्वरर्द्धिकासश्वाससमन्वितः

१२६

दंशः काकारिडकादष्टे पारडरक्तोज्ज्वलो भवेत् तृणमूर्च्छाश्वाससहद्रोहग्निकाकासः स्युरुच्छ्रिताः रक्तो मालागुणादंशो धूमगन्धोज्ज्वलो भवेत्

१२७

बहुधा च विशीर्षित दाहमूर्च्छाज्ज्वरान्वितः

१२८

ग्रसाध्यासव्यभिहितं प्रत्याख्यायाशु योजयेत् दोषेच्छायविशेषेण दाहच्छेदविवर्जितम्

१२९

साध्याभिराभिरलूता भिरदृष्टमात्रस्य देहिनः वृद्धिप्रगे मतिमान् सम्यगादंशमुदीरयेत्

१३०

ग्रामर्मग्नि विधानज्ञो वर्जितस्य ज्वरादिभिः दंशस्योक्तर्त्तनं कुयादल्पश्रथयथुकस्य च

१३१

मधुस्नेहवससंयुक्तैरगदैरपयेत ततः प्रियड्गुरजनकुष्टसमझामधुकेसथ

१३२

सारिवां मधुकं द्राच्चा पयस्यां नीरमोरटं विदारीगोचन्दनौद्रं मधुकं पाययेत वा

१३३

दीरिरां त्वक्पाययेत सुशीतेन च सेचयेत् उपद्रवां यथादोषं विषप्रेरव साधयेत्

१३४

नस्याझनाभ्यञ्जनपानधूंस्तथाड्वपीडं कवलग्रहं च संशोधनं चौभयतः प्रगाढं कुर्याद्विस्रामोच्च्रश्रमेव चात्र

१३५

कीटदष्टव्रणान् सर्वान हृददष्टव्रणानपि ग्रादाहपाकात्तान् सर्वान श्विकत्सेहुष्ठवृद्धिषु

विनिवृत्ते ततः शोफे कर्षिकापातनं हितम्

Page 41

[ERROR page 41 - NVIDIA client error]