Books / Sva Anubhava Darsa Tika Madhava Asrama Ed. Sita Rama Sastri Sendey Chowkambha (Advaita)

1. Sva Anubhava Darsa Tika Madhava Asrama Ed. Sita Rama Sastri Sendey Chowkambha (Advaita)

Page 1

UNIVERSITY OF TORONTO 3 1761 00665586 4 Madhavasrama Svanubhavadarsah

132 V3M33 1912 fasc.

Page 3

THE

IOWKHAMBÂ SANSKRIT SERIES, A LLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS. NO. 171.

स्वानुभवादर्श: श्रीमत्परमहंसपरिब्राजकाचार्य्य नारायणाश्रमशिष्यमाधवाश्रम- विरचितः। स्वकृतटीकाविभूषितश्र सीतारामशास्त्रिणा परिशोधितः ।

SVÂNUBHAVÂDARSA WITH A COMMENTARY BY MÂDHAVÂSRAMA PUPIL OF NÂRÂYANÂSRAM; Edited by Sità Râm Sâstri Souday. FASCICULUS I.

7BLISHED AND SOLD RY THE SECRETARY. CHOWKHAMBA SANSKAIT BOOK-DEPOT. BENARES. AGENTS :- OTTO HARRASSOWITZ LEIPZIG: PAŅDITA JYESHTHARÂMA MUKUNDAJI BOMBAY: PROBSTHAIN & CO., BOOKSELLERS, LONDON. Printed by Jai Krishna Dasa Gupta, AT THE VIDYÂ VILÂSA PRESS BENARES. Price Rupee one.

Digilized by Microsoft B

Page 4

LVRARY

FE 1976 UNIVER ।। श्री: ।। B SITY OF TORONTO 132 -*- V3M133 आनन्दवनविद्योतिसुमनोभि: सुसंस्कृता।।'

चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना॥ रसिकालिकुलं कुर्यादमन्दाSSमोदमोहितम् ॥२॥ स्तबक :- १७१

१ अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशतके सुन्दरेः सीसकाक्षररुत्तमेषु पत्तेषु एक:स्तबको मुद्रयित्वा प्रकाश्यते। एकस्मिन् स्तबके एक एव ग्रन्थो मुद्ते। २ प्राचीना दुर्लभाध्ामुद्रिता मीमांसावेदान्तादिदर्शनव्याकरण धर्म- शास्त्रसाहित्यपुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुद्न्ते। ३ काशिकराजकीयप्रधानसंस्कृतपाठशालाSध्यापकाः पण्डिता अन्ये :- च शास्त्रदष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति। ४ भारतवर्षीयैः, ब्रह्मदेशीयैः, सिंहलद्वीपवासिभिश्च एतद्ग्राहकै- र्देयं वार्षिकमग्रिमं अन्यैर्देयं प्रतिस्तवकम् मूल्यम्-मुद्राः ७ आणका: ८ " " ६ प्रापणव्ययः पृथग् नास्ति। साम्प्रतं सुद्यमाणा ग्रन्था :- मुद्रिता: स्तबकाः (१) संस्काररलनमाला। गोपीनाथभट्टकृता (संस्कार:) २ (२) शब्दकोस्तुभः । भट्टोजिदीक्षितकृतः (व्याकरणम्) १० (३) श्लोकवार्तिकम्। भट्टकुमारिलविरचितम् पार्थसारथिमिश्रकृत-न्यापरत्नाकराख्यया १० व्याख्यया सहितम्। सम्पूर्णम्। (४) भाष्योपवृहितं तत्वत्रयम्। विशिष्टाद्वैतदर्शनप्र- करणम्। श्रीमल्लोकाचाय्यप्रणीतम्। श्रीनारायण (वेदान्त) २ तीर्थ विरचित भाट्टभाषा प्रकाशसहितम्। सं० (५) करणप्रकाशः । श्रीव्रह्मदेवविरचितः सम्पूर्णः (ज्योतिषः) १ (६) भाटटृचिन्तामणिः । महामहोपाध्याय- भीगागाभट्ट विरचितः। तर्कपाद: (मीमांसा) - २

Digilized by MicrosofE

Page 5

श्रीगणेशाय नमः । स्वानुभवादर्शः ।

नमः ऊकारगम्याय नमः ॐकारसाक्षिणे॥ नमः ॐकारवर्णाय कृष्णाय परमात्मने ॥ १॥ चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्तिप्रचयगमनशिष्टा-

ताकस्वेष्टदेवतानमस्कारात्मकं मङ्गलमाचरन् प्रकरणप्तिपाद्यमर्थ सङ््क्षेपेण दर्शयति। यस्मात्परं किमपि नास्ति नमोऽस्तु तस्मै सच्चित्सुखाय विभवे पुरुषोत्तमाय ।। नो यत्र वागपि मनो न विबोधनाय कृष्णाय पूर्णमहसे यदुनन्दनाथ ॥ १ ॥ यस्मादिति ॥ तस्मै कृष्णाय नमोऽस्त्विति सम्वन्धः । श- रणागतानामविद्यातज्जसुखदुःखात्मकसंसारकर्षणात् कृष्णस्त- स्मै कायवाङ्मनोभि: प्रह्वीभावोऽस्त्वित्यर्थः। अत एव यदुन- न्दनेतिविशेषणम्। यदूनक्रूरोद्धवप्रभृतीन् अर्जुनादीन् अन्यांश्र स्वात्मप्रदानेन नन्दयत्यानन्दयतीति यदुनन्दनः एतेन स्वस्या- पि निरतिशयानन्दप्राप्त्यर्थ श्रीकृष्णाय प्रह्ीभावः कृत इति सूचितम्। अन्यैर्विशेषणैस्तस्य वास्तवस्वरूपं दर्शयति। तस्मै कस्मै यस्मान्निखिलदृश्याकारपरिणतमायाधिष्ठानात् सर्वावभा-

Digilized by Mierosof@

Page 6

२ स्वानुभवादर्शः

सकात् सद्रपेण स्फुरणरूपेण च सर्वानुस्यूतात् स्वप्रकाशपरमा- नन्दचैतन्यघनात् परमार्थसत्यात् स्वपद्दशडव, स्वामिकं मायावि- नइव मायिक, शुक्तिशकलावच्छिन्नचैतन्यात् तदज्ञानकल्पितरज- तमिव च परं द्वितीयं किमपि वस्तु परमार्थसत्यं नाऽस्तीत्यर्थः। एतेन विजातीयभेदरहितत्वं दार्शितम्। सजातीयस्वगतभेदरहितत्वं विशेषणान्तरेण दर्शयति।पूर्णमहस इति। पूर्णमखण्डं यथोक्तभेद- रहितं च तन्महश्च तत्स्वरुपमित्यर्थः। पुन स्तत्स्वरूपमाह। सच्चि- त्सुखाय। सच्चिदानन्दायेत्यर्थः । सदेवसौम्येदमग्रआसीद्विज्ञान- मानन्दं ब्रह्मेति श्रुतेः। आनन्दादयः प्रधानस्येति न्यायात्। विभवे व्यापकाय। ब्रह्मैवेदममृतं पुरस्ताव पश्राद् ब्रह्म दक्षिणतश्रोत्तरेण अध श्रोर्ध्व च प्रमृतं वह्मैवेदं विश्व वरिष्ठमिति श्रुतेः, अन्तर्व- हिश्व तत्सं्व व्याप्य नारायण: स्थित इति श्रुतेश्र। व्यापकत्वं ब्रह्मणः तथा च देशपरिच्छेदरहितं ब्रह्मेत्यर्थः। इदमुपलक्षणं का- लवस्तुपरिच्छेदयोः सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेः। पुरुषोत्त- माय क्षराक्षरकार्यकारणवविलक्षणायेत्यर्थः। कार्यकारणतां हि- त्वा पूर्णवोधो जवशिष्यत इति ञ्रुतेः । यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तम इति स्मृतेः ॥ तथा यत्र ब्रह्मणि विपये वाकू मनोऽपि विवोधनाय ज्ञाप- नाय न समर्थमिति शेषः।यतो वाचो निवर्त्तन्ते अमाप्य मनसा सहेति श्रुतेः। वाङ्मनोभ्यामगोचरमित्यर्थः । नतु यतो वाचो निवर्तन्त इति न तावल्लौकिकं वाक्यं तस्याSत्राऽपसक्तेः । तथा च वैदिक वचो ब्रह्मणो विनिवृत्तं सद् वृथैव स्यादिति चेन् मैव- म्। यथा अशब्दमस्पर्शमरूपमित्यादि वाक्यं यथा वा Sस्थूलम- नण्वित्यादि वाक्यं शब्दत्वस्थूलत्वादिनिपेधेन ब्रह्मणि पर्यवस-

Page 7

स्वानुभवादर्शः ।

न्नम् अतो न वृथा निषेध्यवचनत्वेन निषेधवचनत्वेनाऽपि न ब्रह्म वाच्यं किन्तु तैर्लक्ष्यते, यथा विषं भुंक्ष्वेत्यत्र पदार्थासङ्गते स्तात्पर्येण शत्रुगृहभोजननिवृटत्तिर्लक्ष्यते, तथा वाङ्मात्रेणाSपि ब्रह्म लक्ष्यते नतूच्यते। जात्यादिचतुर्विधशब्दप्रव्टत्तिनिमित्ताभा- वात्। श्रुत्यन्तरमपि। यद्वाचाऽनभ्युदितं येन वागभ्युद्यते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ यत्र मनसा न मनुते येनाऽहुर्मनो मतमिति। तथा च ब्रह्म वाचा न वाच्यं न मनसा मन्तव्यमिति। अभियुक्तैरप्युक्तम् । यो यः शब्दोयत्कृतार्थो निरूढ- स्तस्मिन्नर्थे लक्षणा वृत्तिरस्य। ज्ञातव्या स्यात् पण्डितैरेवमेतत् प्रत्यकू पूर्ण ब्रह्म वेदान्तवेद्यामिति॥ ननु मनसैवेदमाप्तव्यमित्यवधारणस्य का गतिरिति चे- च्छणु। ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिपरमवधारणमिति। ननु मङ्गलस्य ग्रन्थसमाप्तिफलमित्युक्तं तन्न। तथाहि कृतेऽपि मङ्गले आस्तिकग्रन्थादौ समाप्त्यदर्शनात्। अकृतेऽपि मङ्गले नास्तिक- ग्रन्थादौ समापतिदर्शनात्। तस्मादन्वयव्यतिरेकाभ्यां समाप्तेर्व्य- भिचारात्, कृतस्य कर्मणः किंचित् फलमवश्यं वाच्यम्, तच्च विघ्नध्वंसरूपमेवाऽस्त्विति चेन् मैवम्। कृतेऽपि मङ्गले यत्र स- माप्त्यभावस्तत्र विन्नवाहुल्यं बलवत्तरविन्नो वा बोध्यः ।तन्नि- वृत्तिस्तु मङ्गलप्राचुर्याद् वलवत्तरमङ्गलाचरणाद् वा भवेत्। अ- कृतेऽपि मङ्गले समाप्ौ जन्मान्तरीयमङ्गलं तत्र कल्प्यने संसार- स्याऽनादित्वात्, तस्मान्नाऽन्वयन्यतिरेकव्यभिचारः। मङ्लस्य Digieed by Merasoti ®)

Page 8

४ स्वानुभवादर्शः

शिष्टाचारानुमितश्रुतिवोधितकर्त्तव्यताकत्वं तस्मिन् विघ्नविना- शिनी समाप्त्यनुकूला चेति शक्तिद्वयमस्ति। तथा च विघ्नध्वं- सएव फलं नेति, यथा विविदिषन्तियज्ञेनेत्यत्र चित्तशुद्धिविवि- दिषोत्पत्तिरूपद्वय जननसामर्थ्यमाश्रमकर्मणां तथाSत्राऽप्यस्तु वा-

रूपाणि शिष्टाचारपरिपालनं चेत्यादि मङ्गलाचरणस्य फलानि ज्ञेयानि। न च कृष्णो नाम धर्मराजवत् कश्चन महापुरुषो भूचर- त्वादथवा इन्द्रानुजत्वादज्ञातदेवोऽस्तु कदाचिद् देवलाकस्थत्वात् तस्य कथं परव्रह्मतोच्यते इति वाच्यं। महर्पिभिः श्रुतिस्मृतिपर्या- लोचनया ब्रह्मत्वस्य निरुक्तत्वात्। तथा च वचनम्। कृषिर्भूवाचकः शब्दो णश्च निर्वृत्तिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयत इति॥ वस्तुतस्तु न देवः पुण्डरीकाक्षो न च देव स्त्रिलोचनः अकृत्रिममनाद्यन्तं दैवतं परमुच्यते।

ह्ैवेति॥ १ ॥ इतिस्मरणात्। अकृत्रिमं कृष्णदैवतं कृष्णशब्दलक्ष्यं ब्र-

अथ द्विविधो ह्यधिकारी कश्चनाऽनेकजन्मसुकृतविपाकात्ती- व्रतरप्रज्ञोऽन्यो मन्दप्रज्ञः । मादृशस्तु मन्दपरज्ञस्तथाहेत्वभावात्। तत्र तीव्रप्रज्ञस्य श्लोकेन श्लोकार्द्धेन वा ब्रह्मसाक्षात्कारो भवति। तथा चोक्तम्। आत्मानं विन्दते यस्तु सर्वभूतगुहाशयम्। श्लोकेन वा तदर्देन क्षीणं तस्य प्रयोजनमिति॥ मितप्रज्ञस्य तु द्वितीयस्याऽसम्भावनाविपर्रीतभावनयोरुद- यान् झटिति व्रह्मसाक्षात्कारो भवति तादृशं प्रति गुरुशास्त्रवि-

Page 9

स्वानुभवादर्शः ।

चारो Sवश्यमपोक्षित इति मनास निधायाSऽह। अतिदूरतरं निजस्वरूपं गुरुशास्त्रान्न विचार्यते यदि॥ निकटं गुरुशास्त्रबोधनातू प्रकटं स्यात्स्वतनौ स्वयं हि तत् ॥ २ ॥ अतिदूरतरमिति निकटं स्वहृदयान्तरव्र्ति निजस्वरूप स्व- स्य ब्रह्मस्वरूपत्वं यदि गुरुशास्त्रान्न विचार्यते तर्ह्यतिदूरतरं अ- तिदूरतरादप्यतिदूरतरम्। दूरात् सुदूरे तदिहाऽन्तिके चेतिश्नुतेः, दुरस्थश्चान्तिके च तदिति स्मृतेश्र। व्यतिरेकमुत्काऽन्वयमाह। गुरु- शास्त्रबोधनात् प्रतिबन्धकाविद्यानिवृटत्तेः स्वतनौ अस्मिन्नेव देहे स्वयं प्रकटमाविर्भवेत् स्वप्रकाशत्वादित्यर्थः । ऐहिकमप्रस्तुतप्रति- वन्धेतद्दर्शनादिति न्यायात् ॥ २॥ उक्तमर्थ दृष्टान्तेन द्रढयति। न हि निर्मथनं तिनेन्धनाग्निः परिलम्यो निकटो डपि सन्नपि॥ गुरुशास्त्रविचारणं बिना न हि लभ्यं निजरूपमात्मना ॥ ३ ॥ नहीति। आत्मनः प्रतीचो निजरूपं ब्रह्मत्वं तदित्यर्थः। द- ष्टान्तनाSयमर्थः श्रुत्या सूचितः। अथाऽिविद्य आचार्यः पूर्व- रूपं अन्तेवास्युत्तररूपं विद्यासन्धिः प्रवचनं सन्धानमिति शे- पं स्पष्टम् ॥ ३ ।। ननु दिचारस्य किं प्रयोजनं चक्षुरादिना तत्माप्ति: स्या-

Page 10

६ स्वानुभवादर्श:

दित्यत आह। सुमेरुपृष्ठे सरितां तटे वा किं मूर्त्तिमद्रह्म विलोकनीयम्॥ त्रिधा परिच्छेदविहीनमेकं विना विचारं सुलभं न तत्स्यात्॥ ४ ॥ सुमेरुपृष्ठ इति। यदि मूर्तिमद्रह्म स्यात्तहि महता प्यन्नेन मे- रुपृष्टस्थं ब्रह्म चक्षुरादिना विलोकनीयं स्यात्। न चैवं तथा। दिव्यो ह्मूर्त्तः पुरुष इति श्रुतेः। किमित्याक्षेपे त्रिधापरिच्छेदशून्यं एकं सजातीयविजातीयस्वगतभेदरहितम्। विचारं विना न सुलं सु- खेन लब्धुं न शक्यमित्यर्थः । अतोऽवश्यं विचारः कर्त्तव्य इति भाव: ।। ४ ।। यद्यप्यस्य वेदान्तप्रकरणत्वात्तदीयमेवाSनुबन्धचतुष्टयं त- थाऽपि मन्दपरज्ञस्याऽप्यधिकारिणो यथोक्ताधिकारं विना वि- चारोऽपि सुदूर एव किमु निजस्वरूपं दूरमिति, तदर्थ यथोक्ता- धिकारिणं दर्शयति।। न दोषदष्टिर्न विरागलेशो दुःखात्मके कर्मणि तत्फले च।। मुमुक्षुता नाडपि शमादिषटकं तेषां विचारोडपि सुदूर एव ।। ५ ॥ नेति। रजः कार्यत्वात् दुःखात्मकत्वं कर्मण: दुःखानुविद्ध- त्वात् तत्फले च। यथा स्वर्गकामो यजेतेत्यत्र स्वर्गकामोऽधि- कारी तस्यार्थी समर्थो विद्वानिति यथाऽधिकारिविशेषणानि तथात्र

Page 11

स्वानुभवादर्श:।

मुमुक्षोरधिकारिणः। नित्यानित्यविवेक इहामुत्रफलभोगविराग:

यानि।एतादृशविशेषणविशिष्टस्य मंदपज्ञस्यापि मुमुक्षुतायां सत्यां विचारे पव्टतिरन्यथा दूरेत्यर्थः। विषयो जीवव्रह्मैक्यं शुद्धचैतन्यं प्रमेयं तत्रैव वेदान्तानां तात्पर्यात्। सम्बन्धस्तु तदैक्यपमेयस्य तत्प्रतिपादकोपनिषत्पमाणस्य च बोध्यबोधकभावलक्षणः ।प्रयो-

शोकमात्मविद्रह्म वेद ब्रह्मैव भवतीत्यादि श्रुतेरिति ॥५॥ विषयसौन्दर्याद्विचारं परिकुर्वतामपि तत्माप्तिरनेकजन्मार्जि- तपुण्यसंचयं विना दुष्मापेत्याइ। वर्षोपलं संपतितं प्रपभ्यतां प्राप्तिस्तु तस्याडस्ति नरस्य कस्यचित्। तथा विचारं परिकुर्वतां नृणां प्राप्तिः स्वरूपस्य वृषेण कस्यचित् ॥ ६॥ वर्षोषलमिति। वृषेण धर्मेणेत्यर्थः। उक्तं च भगवता। मनुष्याणां सहस्त्रेषु कश्विद्यतति सिद्धये। यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वत इति ॥६॥ वृषेण स्वरूपप्राप्तिरित्युक्तं तत्राSसाधारणं धर्मे दर्शयति। हरर्गुरोभक्तिरिदं द्वयं यत सुसाधनं यः प्रकरोति नित्यं।। ऐक्येन तस्यैव करस्थितारि्ति मुक्ति: प्रसादेन हरेर्गुरोश्व ।। ७।।

Page 12

स्वानुभवादर्श: L

हरेरिति। नित्यं नियमेन। अव्यभिचारेणेत्यर्थः। ऐक्येन गुरुदेवतयोरैक्यभावनयेत्यर्थः। एवं भजतामुभयोः प्रसादेन मुक्ति: सुलभेत्यर्थः । तथा च श्रुतिः । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथता ह्यर्थाः प्रकाशन्ते महात्मन इति ॥ भत्या मामभिजानाति यावान् यश्चाऽस्मि तत्वतः। ततो मां तत्वतो ज्ञात्वा विशते तदनन्तरम्॥ तेपां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपायान्तिते।। इत्यादिस्मृतिभ्यः। भत्त्ैकयेशं गुरुदेवतात्मेति श्रीभागवतो क्ेक्ष॥ ७॥ ना Sवेदविन्मनुते तं वृंहंतमिति वेदेनैवोक्तं तत्र स वेदो- डपौरुषेयः स्वतः प्रमाणं चेदं दर्शयति। सर्वज्ञनारायणनिर्मितत्वा- दपौरुषेयः सकलो डपि वेदः ॥ स्वतः प्रमाणं निरपेक्षितत्वा- न्मानान्तरस्येति सुनिश्चितो ऽर्थः ॥ ८ ॥ सर्वज्ञेति। यः सर्वज्ञः सर्वविदिति श्रुतेः । भगवतः सर्व- ज्ञत्वं तथा, तस्माद्यज्ञात् सर्वत ऋचः सामानि जज्ञिर इति श्रुतेः, अस्य महतो भूतस्य निश्वसितमेवैतद्यद्दग्वेद इत्यादि श्रुतेः, यस्य निश्वसितं वेदा इति स्मृतेः। निश्वसितन्यायेन नारायण- निर्मितत्वं वेदस्य। अत एवापौरुपेयत्वं चतुर्मुखपुरुषाद्यनिर्मित- त्वमित्यर्थः। चतुर्मुखोऽपि नारायणादेव वेदं पाप्तवानित्याह श्रुतिः ।

Page 13

स्वानुभवादर्शः ।

यो वै ब्रह्माणं विदधाति पूर्व यो वै वेदांश्र प्रहिणोति तस्मै। तं ह देवात्मबुद्धिप्रकाशं मुमुक्षुवै शरणमहं प्रपद्य इति। वेदयत्यधिकारिणः कर्मब्रह्मणी इति वेद: स्वतः, प्रमाणं तच्च स्वप्रकाशनीयार्थ प्रमाणान्तरानपेक्षम्।यथा भिपजा हरितकीं भ- क्षयेदित्युक्ते किमत्र प्रमाणमित्याकांक्षायामायुर्वेदवचनप्रदर्शनेन श्रोता प्रमाणान्तरनिरपेक्ष एव हरितकीं भक्षयति ततश्र रोगनि- वृत्तिर्भवतीति सुनिश्वितोऽर्थः स्वानुभवसिद्ध इत्यर्थः। तथा स्व- र्गकामो यजेतेति वाक्यश्रवणानन्तरं स्वर्गार्थी प्रमाणान्तरनिरपे- क्षतयैव यागे प्रवर्तते इत्यनुभवसिद्धं सर्वलोकप्रसिद्ध च ॥ ८ ॥ ननु स्वतःप्रमाणाद्वेदादेव फलसिद्धौ भवन्त्यां किं वि- चारस्य प्रयोजनमित्यत आह। स्वतः प्रमाणत्वमिदं श्रुतीनाम् विचारसापेक्षतया प्रणश्येत ॥ अतो विचारस्य फलं प्रकल्प्यम संदेहतिभ्रान्तिविनाशमात्रम् ॥ ९॥ स्वतइति। यद्यपि विचारनिरपेक्षतयैव स्वतःप्रमाणवेदा द्रह्मात्मबुद्धि: फलं तथापि प्रतिबन्धके सति ततो न फलसिद्धि: अतः प्रतिबन्धकनिव्ृत्यर्थ विचारो डपेक्षितः। तथा च न वेदस्य स्वतःप्रामाण्यभङ्ग इत्यर्थः । विचारो नाम तर्को मननात्मकः तेन प्रमेयगता Sसम्भावना निवर्तते। आत्मतत्वे सहस्त्रधा श्रुते- डपि देहेन्द्रियव्यतिरिक्त आत्मा नेति सम्भाव्यते इतीयमसम्भा- वना तन्निवृत्तौ सत्यां ततो निदिध्यासनेन प्रमेयगताविपरीत- भावना निवर्त्तते। अतो विचारस्य मुख्यं फलं प्रमेयगतासंभा Dlamzed Ly Microsoll F २

Page 14

१० स्वानुभवादर्शः

उक्तं संदेहविभ्रांतिविनाशमात्रमिति ॥९॥ पूर्वोक्तमेव विद्ृणोति। स्त्रोत्पत्तिमात्रे सकलं विचार- मपेक्षते चोपनिषद्जवा मतिः ॥ सोत्पत्तितो मूलतमो निहन्ति दीपो यथाऽन्यं सहकारिणं बिना ॥ १० ॥ स्वोत्पत्तिमात्र इति। उपनिषद्धवा मतिरहं ब्रह्मास्मीत्यपरो- क्षप्रमा, सा स्वोत्पत्तिमात्रे प्रततिबन्धकनिवर्त्तक विचारं चकारान्नि- दिध्यासनमप्यपेक्षते। सोत्पत्तितो मूलतमः मूलाज्ञानं ब्रह्मावरक निहन्ति। यथा दीपः स्वोत्पत्तिमात्रे निर्वातत्वाद्यपेक्षते ततश्रोत्पन्नः सहकारिणं विनैव तमोऽन्धकारं निहन्ति तद्ददित्यर्थः। निहन्ती- त्यत्रोपसर्गेण विरम्य व्यापारता नाऽस्तीति बोधितम्। आदौ विद्योत्पद्यते पश्चादज्ञानं निवर्तते इति। तस्मादेवं नाडस्ति या वि- द्योत्पत्तिः सैवाज्ञाननवृत्तिरिति स्वसाक्षिकमिति भावः॥१० ।। एवं मननात्मकेन विचारेण प्रमेयगताऽसम्भावना प्रति- बन्धकीभूता निवर्तत इत्युक्तम् । संप्रति वादिविप्रतिपत्तिजां पदार्थविषयणीमसम्भावनां निवर्तयन्पदार्थद्वयगतामसम्भावरना दर्शयति -- पदार्थद्वयं दृक्च दृश्यं ततो ऽन्यत पदार्थान्तरं नास्ति वेदान्तशास्त्रे।। दृश: किं स्वरूपं च दृश्यस्य किंवे- त्यदोऽत्र दयं संविचार्य मुमुक्षोः ॥११॥ Digiized by R

Page 15

स्वानुभवादशः । ११

पदार्थद्वयमिति। येन सर्वे विजानातीति श्रुतेः दृग्दृश्याति- रिक्तं पदार्थान्तरं नास्ति। अन्यवादिकल्पितानां तत्तत्पदार्थाना- मनयोरन्तर्भावो बोद्धव्यः। तथा हि वैशेषिकसप्नपदार्थानां षोड- शषपदार्थेष्वन्तर्भावस्तेषां च वेदान्तकल्पिते दृश्यपदार्थेऽन्तर्भावः। मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष इति॥ पञ्चविंशतिपदार्थमध्ये मूलप्रकृत्यादिचतुर्विशतिपदार्थानई दृश्येऽन्तर्भावः । सच्चिदूपः पुरुषः प्रत्यगात्मन्यन्तर्भूत इति पदा- र्थद्वय एव अन्यवादिकल्पितानामन्तर्भावो ज्ञेय इति। तत्र दृशो द्रष्टुः कि स्वरूपं सा हकि सद्रूपा सच्चिद्रूपा वा सच्चिदानन्द- रूपा वा पुनश्र सा जीवाद्भिन्ना अभिन्ना वा सगुणा निर्गुणा वेत्याद्यनेकसंशयनिरासपूर्वक मुमुक्षुणा स्वरूपं विचार्यमित्यर्थः। तथा दृश्यं किं स्वरूप सत्यमसत्यं वेति संशयनिरासोऽपि मुमु- क्षोरपेक्षित एवेत्यर्थः।११।। उक्तवैपरीत्यबाधपूर्वकं विचारकर्त्तव्यतामाह। यः संशयात्मा स विनश्यतीति श्रीकृष्णवाक्यान्निजसंशयादेः ॥ नाशाय धीस्वास्थ्यफलाय चैष स्वयं हि सम्यक् क्रियते विचारः ॥ १२ ॥ यइति। संशयात्मा विनश्यति सर्वपुरुषार्थभ्रष्टो भवतीति श्रीकृष्णवचनादपुरुषार्थत्वनिरासार्थ विचारेण निश्चयात्मकज्ञाने सति संशयनाशात् धीस्वास्थ्यफलमहं ब्रह्मास्मीति ज्ञानं भवती- त्यर्थः । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या- Dighized by Miciosali G)

Page 16

१२ स्वानुभवादर्श:

सितव्य इति श्रुतावात्मदर्शनमनूद्य तत्साधनत्वेन श्रवणादित्रय- सुपदिष्टम्।तत्र श्रवणस्य गुर्वधीनत्वात् तत्परायत्तत्वम्। मनननि- दिध्यासने तु स्वायत्ते भवतो Sत उक्तं स्वयंहीति। सम्यक् श्त्यविरोधितयेत्यर्थः । श्रुतिमतः तर्को Sनुसन्धीयतामित्याचा- र्योक्तेः अनुपदमेव वक्ष्यमाणत्वादेष इत्युक्तम् ॥१२॥ नन्वदोऽत्र द्वयं संविचार्य मुमुक्षोरित्युक्तं तत्र मुमुक्षा नाम मो- क्षकामना सैव न सम्भवति। तथाहि प्रमाणादात्मस्वरूपा मुक्ति- यदि न ज्ञाता तत्र कामनैव न सम्भवति अज्ञाते कामनाविर- हात्, प्रमाणेन ज्ञाता चेत् सुतरां सा न सम्भवति सिद्धे इच्छा- विरहादित्यत आह। निरतिशयसुखं यत्प्रत्यगात्मस्वरूपं निरतिशयसुखं यन्मोक्षरूपं तदेव ॥ निरतिशयसुखार्थ सर्वलोकस्य वाञ्छा भवति च मनसः सा मानमुज्झित्य सर्वम्॥१३॥ निरतिशयसुखमिति। न इच्छा कस्यापि प्रमाणादुत्पद्यते तस्या मनोधर्मत्वेन स्वत एवोत्पत्तेः । यच्चोक्तम् प्रमाणादज्ञाते इच्छैव न, ज्ञाते तु सुतरां न सिद्धे इच्छावविरहादिति। तत्रो- च्यते। आत्मनो नित्यापरोक्षत्वेन सिद्धत्वेSपि निरतिशयसुखत्वे- नाडसिद्धत्वात् कामना सम्भवत्येव। तदुक्तं वार्ततिके। न युक्तं कामना मुक्तौ पुंसां नास्तीति भाषितुम्। देशकालानवच्छिन्नसुखाद्यर्थित्वदर्शनादिति ॥ १३॥ पूर्वमीमांसकमते सर्ववेदस्य क्रियापरत्वे तं त्वौपनिषद पु- रुषं पृच्छामीति वाधः प्राप्नोति तन्निरासार्थ तत्पक्रिययैव सर्व- Digflized by Mlciosoti@

Page 17

स्व्रानुभवादर्शः । १३

वेदस्य क्रियापरत्वं दूषयति। आम्नायसूत्रे सकलं हि वेदं क्रियापरं जैमिनिराह यत्नात।। न तन्मतं चारु निषेधवाक्ये क्रियापरत्वं न हि तदघटेत ॥ १४ ॥ आम्नायेति। आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तद्भूतानां क्रियात्वेन समन्वय इति सूत्रेणाSSम्नायस्य क्रिया- परत्वं सूचितं तन्मतं न चारु न युक्तम्। कुतः । तन्मते विधि- मन्त्रनामधेयनिषेधार्थवादैः पञ्चात्मको वेद इति तत्पक्रिया निट्ट- न्यर्थे निषेधवाक्ये क्रियापरत्वं न घटते तयोः स्थितिगतिवत् परस्परं विरोधात्।तथा च सर्वस्य वेदस्य क्रियापरत्वं न युक्त- मित्यर्थः ॥१४॥ आम्नायस्य क्रियापरत्वे दूषणान्तरमप्याह। आत्मस्वरूपा हि विमुक्तिरुक्ताड विद्यानिवृत्या ह्युपलक्षिता या॥ ज्ञानेन लभ्या न च कर्मसाध्या ज्ञानं न लभ्यं क्रियया कदापि।। १५ ।। आत्मस्वरूपेति।स एष सम्प्रसादोडस्माच्छरीरात् समुत्थाय परं ज्योतीरूपं सम्पद्य स्वेन स्वरूपेणाऽभिनिष्पद्यते स उत्तमः पुरुष इति श्रुत्याऽऽत्मस्वरूपा मुक्तिरुक्ता। सा च विस्मृतकण्ठ- चामीकरन्यायेनाऽज्ञानव्यवहितत्वाद् वेदान्तविज्ञानेनाऽविद्यानि- ृत्युपलक्षिता न कर्मसाध्या न क्रियासाध्या सिद्धत्वात् नाडतो वेद- Dignlzed by Mie

Page 18

१४ स्वानुभवादर्श:

स्य क्रियापरत्वमित्यर्थः। ननु माऽस्तु मुक्ति: क्रियासाध्या ज्ञानं तु क्रियासाध्यं स्यादत आह। ज्ञानमिति । ज्ञानमपि कर्तुमक- रनुमन्यथाकर्त्तुमशक्यत्वान्न क्रियासाध्यं तस्य प्रमाणपमेयाधीन- त्वादित्यर्थः ॥१५। सर्ववेदस्य क्रियापरत्वे वेदान्तविज्ञानसुनिश्चितार्था इतिश्रु- तिविरोधं दर्शयति। वेदान्तविज्ञानसुनिश्चितार्था इतिश्रुतिर्वेष्टि यथार्थभानात्॥ ब्रह्मैव लोके समवाप्नुवन्ति क्रियापरत्वं न ततोऽस्ति वेदे॥ १६॥ वेदान्तेति। वेदानां ऋगादीनामन्ताः पान्ताः शिरोभागा: प्रज्ञानं ब्रह्मेत्यादयस्तेषां विज्ञानं पदार्थशोधनपूर्वक जीवब्रह्मै- क्यरूपतदर्थनिश्चयः तेन सुष्ठु सन्देहादिरहितं यथा स्यात् तथा निश्चितोऽहं ब्रह्मास्मीतिरूपोऽर्थः परमार्थो यस्सः लोक्यते प्रकाश्यते जडजातं येनेति लोकस्तस्याऽन्यप्रकाशकत्वासम्भवात् स्वप्रकाशमित्यर्थः । शेषं स्पष्टम् ॥ १६ ॥ वेदव्यासस्तु वेदान्ताचार्यो वेदस्य काण्डत्रयात्मकत्वं दर्शयँ स्तस्य विनियोगं दर्शयतीत्याह। चेतःशुद्धौ चेतसः स्थैर्यकार्ये ज्ञानोत्पत्तौ चारु काण्डत्रयं यत्।। आम्नायस्याSनुक्र्कमा द्वेदवेत्ता वेद व्यासस्त्वेकवाक्यत्वसिध्यै ॥ १७॥ Digltized by Mlerasol/in

Page 19

स्वानुभवादर्शः । १५

चेत इति। एवं विनियोगे श्रतयः प्रमाणम्। तत्र तमेतंवेदाS- नुवचनेन ब्राह्मणा विविदिषंति यज्ञेन दानेन तपसा नाशकेनेति श्रुतिः। कर्मकाण्डस्य चित्तशुद्धिद्वारा विविदिषायां विनियोगमाह। एष सर्वेषु भूतेषु गूढ़ात्मा न प्रकाशते। दृश्यते त्वग्रया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिरिति। श्रुतिरुपासनाकाण्डस्य चेतःस्थैर्ये विनियोगं दर्शयति। ततो ज्ञानकाण्डस्थवाक्यानि महावाक्यानि अध्यारोपापवादद्वारा ज्ञानोत्पत्तौ विनियोगं दर्शयन्तीति यथायथमूह्यम् ॥१७॥ एवं च वेदस्य स्वतःप्रामाण्यं प्रमाध्य तस्य च साक्षा त्परम्परया च ब्रह्मपरतां संप्रदर्श्य तद्वलेन दृशः किं स्वरूपमेव- मादि विचार आरभ्यते।। असङ्गस्य बन्धो न सम्भावनीयो न मोक्षोऽपि मोक्षस्य तत्पूर्वकत्वात्।। अविद्या हि बन्धो निवृत्तिश्च तस्याः स मोक्षो Sत्र सर्वस्तदर्थः प्रयत्नः ॥ १८ ॥

असङ्गस्येति । असङ्गो ह्यहं पुरुष इति श्रुतेरनुभूत्या चाड सङ्गस्याऽडदौ बंध एव न संभवति मोक्षोऽपि न सम्भवति।कुतः मोक्षस्य तत्पूर्वकत्वाद् बन्धाभावे मोक्षो ऽप्यसङ्गस्य न संभवती- त्यर्थः । अत एव श्रुतिः । न निरोधो न चोत्पत्तिर्न बन्धो न च साधकः । नमुमुक्षुर्न वै मुक्तिरित्येषा परमार्थतेति॥ तर्हि को बंधः को वा मोक्ष इत्याकाङ्कायामाह। अविद्या स्वस्वतरूपापरिज्ञानं निश्चयेन बंधस्तस्या निव्ठत्तिर्नाशो मोक्षस्तद- Diginie

Page 20

१६ स्वानुभवादर्शः

र्थो महापुरुषार्थत्वात्सतां सर्वोऽपि प्रयत्नः। अभियुक्तरप्युक्तम् । स्वात्माज्ञानं कारणं बंधनस्य स्वात्मज्ञानात्तन्निटत्तिश्र मुक्ति- रिति ॥ १८ ॥ अविद्यारूपस्य बंधस्या Sनादित्वात्तत्रोपायचिन्तैव नास्ति अविध्यानिव्ृत्तिरूपमोक्षस्तूपायसाध्यो Sत स्तत्रोपायं दर्शयति। अविद्यानिवृत्तिः प्रमाणेन साध्या प्रमाणं च वेदान्तवाक्यानि नाडन्यत्।। अविद्यानिवृत्तौ त्वयं ज्योतिरात्मा स्व्रतः सिद्ध आविर्भवेत्साधकानाम् ॥ १९॥ अविद्येति। अनाद्यविद्यायाः निवृत्तिनार्शः प्रमाणेन प्रमा- णजन्यज्ञानेनेत्यर्थः। ज्ञानाज्ञानयोर्विरोधादित्यर्थः। तदुक्तम्। अविद्याया अविद्यात्वमिदमेव हि लक्षणम्। मानयोगासहिष्णुत्वमन्यथा वस्तु सा भवेदिति। किं तत्र प्रमाणं येना Sविदयानिवृत्तिस्तत्राह। प्रमाणं च वेदान्तवाक्यानि प्रज्ञानं ब्रह्म तत्व मसीत्यादीनि तत्वाऽडवेद- कानि। लिङ्गसंख्याविभेदेऽपि विशेषणविशेष्यता। विभक्ति: पुनरेकैव विशेषणविशेष्ययोः ॥ इततिवचनात्पमाणं वेदा इति नपुंसकत्वसंख्याभेदेऽपि विशेषणवि- शेष्यतोक्ता।ननु प्रत्यक्षादीनामन्येषां प्रमाणानां सत्वात्ममाण च वेदान्तवाक्यानीति कथमित्यत आह।नान्यदिति।अन्यानि प्रमा- णानि व्यावहारिकाणि प्रत्यक्षादीन्यविद्यानिवृत्तौ न समर्थानि तेषां पराग्विषयत्वेन तत्वावेदकत्वाभावादित्यर्थः। तदुक्तं। सर्वे

Page 21

स्वानुभवादर्शः । १७ पराग्विषयमेव हि मानजातं वेदावसानवचनानि च वर्जयित्वेति। किंच जडार्थविषयं मानं स्वप्रमयेस्य कर्मत्वेन बोधकम्। महावाक्यं तु स्वप्रमेयस्य विनैव कर्मत्वमवबोधयितुं समर्थमतो वेदान्तवाक्या- न्येवाऽविद्यानिवृटत्तौ प्रमाणं नान्यदित्यर्थः । तथा च श्रुतिः । पराञ्चि खानि व्यतृणवत् स्वयम्भुवस्तस्मात् पराङः पश्यति नान्तरात्मन्निति। पराङ्पराभूतान्यनात्मभूतान् शब्दादीन् पश्य- ति उपलभते उपलब्धानान्तरात्मन्नान्तरात्मानमिति श्रुत्यर्थः । एतेन वेदान्ता अद्वितीयत्रह्मणि प्रमाणं न वेति प्रमाणगतास- म्भावनानिवृत्तिरपि वोद्धव्या। तथा च प्रमाणजन्यज्ञानेना डज्ञाननिवृत्तौ मेघापायेंऽशुमानिव स्वयञ्ज्योतिः स्वप्रकाश आत्मा साधकानामधिकारिणामाविर्भवेत् । स्वतःसिद्ध इत्यनेन स्वर्गादिवन्नाSSत्मस्वरूपा मुक्तिर्जन्येति द्शितम्। विमुक्तश्च विसु- च्यत इतिश्रुतेः ॥१९॥ सर्वप्रक्रियाग्रन्थेष्वन्तःकरणवृत्यवच्छिन्नं चैतन्यं प्रमाण- मित्युक्तम्। अत्र तु वेदान्तवाक्यानीत्युक्तम् । तथाच प्रमाण- विषयविरोध आभासते तदर्थ मुख्यौपचारिकभेदात् प्रमाणं द्विविधं, मुख्यमौपचारिकं च प्रमाणमिति विविच्य दर्शयति। धीवृत्यवच्छिन्नचितिः प्रमाणम् तत्साधनत्वादितरत्प्रमाणम् । तत्रोपचारात रबलु मानशब्दो मुख्यं प्रमाणं तु यथोक्तमेवर ॥ २० ॥ धीति। अत्रेयं प्रक्रिया। एकमेव चैतन्यमुपाधिभेदात् सप्तविधम्। शुद्धचैतन्यम्, ईश्वरचैतन्यं, जीवचैतन्यं, परमातृचैतन्यं, प्रमाणचैतन्यं, विषयचैतन्यं, फलचैतन्यं चेति। तत्रसर्वोपाधिवि- ३

Page 22

१८ स्वानुभवादरशः

निर्भुक्तं शुद्धचैतन्यम्, मायोपहितचैतन्यमशिविरचैतन्यम्, अवि- द्योपहितचैतन्यं जीवचैतन्यम्, जीवेशावाभासेन करोति माया- चाऽविद्या च स्वयमेव भवतीति तापिनीयश्रुतेः।अन्तःकरणाबच्छिनं चैतन्यं प्रमातृचैतन्यम्, अन्तःकरणवृत्यवच्छिननं चैतन्यं प्रमाण- चैतन्यम्, विषयावच्छिन्नं चैतन्यं विषयचैतन्यम्, अंतःकरणदृत्यव- च्छिन्नं चैतन्यं विषयचतन्याभिन्नं तत्फलचैतन्यमित्युच्यते। तत्र- वृत्तिविषययोर्युगपदेक्देशावस्थानेन तदुपहितयोश्चैतन्ययोरप्य- भेदो भवति। तथाहि। यथा तडागोदकं च्छिद्रान्निर्गत्य कुल्या- द्वारेण केदारं प्रविश्य चतुष्कोणाद्याकारेण परिणमते तथेंद्रिय- विषयसंयोगानंतरमंतःकरणं चक्षुरादिद्वारा विषयदेशं गत्वा तेन विषयेण संयुज्यते, पश्चात्तत्तदाकारेण परिणमते।सोऽयंपरिणामो वृत्तिस्तस्यां वृत्तौ विषयचैतन्यं प्रतिफलति तदा वृत्तिविषययी- र्युगपद्देशावस्थत्वेन तदुपहितचैतन्यभेदस्याऽप्रयोजकत्वात् । प्रमाणचैतन्यं विषयचतन्याभिन्नं भवति सेयं प्रत्यक्षप्रमा। तत्र वृत्या विपयो नाऽस्तीत्यसत्वापादकमावरणं निवर्त्तते, चैतन्येन तु विषयो नाऽडभातीत्यभानापादकमावरणं निवर्त्तते। तत्र परमया च सावरणमज्ञानं मौठ्यापादक निवर्त्तते ततो विषयः स्फुरति साक्षिणा। अन्तःकरणोपहितं चैतन्यं साक्षीति प्रक्रिया व्यवहारे। न चेयं प्रक्रिया स्वकपोलक ल्पितेतिवाच्यम्।श्रुत्युक्तत्वात्। तथाच- श्रुतिः । यत्र हि द्वैतमित भवति तदितर इतरं पश्यतीत्यादि । तत्रा Sविद्यादशायामखण्डचैतन्यमुपाधिना द्वैतमिव भवति द्वितीय मिव भवति तदा इतरः प्रमाता इतर विषयं पश्यति जानाति।पश्य- तीति क्रियापदं क्रिया चा Sन्तःकरणवृत्तिरूपा अन्तःकरणस्य परिणामित्वात्। तथा चोक्तमाचायैः। आत्मनः सचिदशश्च बुद्धेर्द्टत्तिरितिद्वयम्। Diqlized by Melusolrn

Page 23

स्वानुभवादर्शः।

संयोज्य चाSविवेकेन जानामीतिप्रवर्त्तते॥ आत्मनस्तु क्रिया नाऽस्ति बुद्धे वोधो न जातु चित्। जीव:स्वरूपमज्ञाय ज्ञाता द्रष्टेति मुह्यतीति॥ तथा चाऽन्त:करणवृत्यवच्छिन्नं चैतन्यं मुख्यं प्रमा- णम्। या वृत्तिरुत्प्यते सा चैतन्याभासखचितैवोत्प- दयते। यथा घटादिरुत्पद्यते यः स आकाशव्याप्त एवो- त्पद्यते तथा वृत्तिरपि । अत उक्तं धीवृत्यवच्छिव्वं चैतन्य- मिति। तथा च धीवृत्यवच्छिन्नचैतन्यं मुख्यं प्रमाणं, तत्साधन- त्वात् वृत्तिकरणत्वादितरच्चक्षुरादि प्रमाणमौपचारिकमित्यर्थः ॥ तथा च न पूर्वोक्तो विरोधाभासः। अज्ञातज्ञापकत्वरूप प्रमाणत्व मुभयसाधारणम्। तत्र व्यवहारे यावद्वाधं प्रामाण्यमिति न्याया त्पमाणत्वम्।तेषां वस्तुत अज्ञातज्ञापकत्वाभावात्।ननु घटोडयं घटो- जयमिति धारावाहिकज्ञाने अज्ञातज्ञापकत्वाभावात्तवेदं लक्षणम- व्याप्तमिति चेन्न । धारावाहहिकबुद्धिस्थले न ज्ञानभेद: किन्तु यावद्वटस्फुरणं तावद्वटाकारान्तःकरणवृत्तिरेकैव न तु नाना। वृत्तेः स्वविरोधिवृत्त्यन्तरोत्पत्तिपर्यन्तं स्थायित्वाभ्युपगमात् । तथा च तत्र प्रतिफलितचैतन्यरूपघटादिज्ञानमपि तत्र तत्काली- नमेकमेवेति ना Sव्यापति:। तस्मादज्ञातज्ञापकत्वं प्रमाणलक्षणं. युक्तम्॥२०॥

तद्गतं यत्पामाण्यं तत्स्वत एव गृह्यत इत्याह। प्रामाण्यं यत्तद्वतं तत्स्व्रतो हि ग्राह्यं नान्यैरेष नो राजमार्गः । अप्रामाण्यं मृह्यते तत्परस्मा-

Dighiced by Mietosal/ R

Page 24

२० स्वानुभवादर्श:

च्छेषं ज्ञेयं त्वाकरस्थाद्विचारात् ॥ २१ ।।

परामाण्यमिति।यथा अनभ्यासदशायां प्रथमोत्पस्ं यज्जलज्ञानं तत्प्रमाणमप्रमाणं वेति प्रमाणगतासम्भावना प्रमाणसंशय इत्युच्यते तथा वेदान्ता अद्वितीये ब्रह्मणि प्रमाणं न वेति संशयः स च प्रामाण्यनिश्चयात् निवर्त्तते। तत्र प्रामाण्यनिश्चयस्तु स्वत एव। प्रामाण्यं नाम तद्वति तत्प्रकारकत्वम्। तस्य स्व्रतस्त्वभ्ाम याव- त्स्वाश्रयग्राहकग्राह्यत्वम्।स्वाश्रयो वृत्तिज्ञानं तद्राहकं साक्षिचैतन्यम्। दृष्टे र द्रष्टारमिति श्रुतेः। तेन तद्गतं वृत्तिज्ञानगतं प्रामाण्यं स्वत एव गृह्यत इति स्वतःप्रामाण्यं श्रुत्यनुभवमूलात्।अमामाण्यं तु परतो गृह्यते।तच्च तदभाववति तत्पकारकत्वम्।तस्य वृत्तिज्ञानानुपनतित्वेन साक्षिणा ग्रहीतुमशक्यत्वात्परत एवाऽपामाण्यं गृह्यते इत्यर्थः। प्रामाण्यस्वतस्त्वपक्षे संशयो दोपवशादुपपद्यत इत्यादिविचा- र आकरतो भाष्यादिग्रन्थतो ज्ञेयः, अत्रविस्तरभयान्नोच्यत इत्यर्थः। प्रामाण्यस्वतस्त्वपक्रिया न स्वकपोलकल्पितेत्याह, एष नो राजमार्ग इति श्रुत्युक्तत्वात् । तत्र यन्न मनसा मनुते ये नाऽडहुर्मनो मतमिति श्रुतेः । मनः साक्षिभास्य एवं मनसः सा- क्षिभास्यत्वे सिद्धे। कामः संकल्पो विचिकित्सा श्रद्धा। श्रद्धा धृतिरधृतिधीरताऽधीरेतेति तत्सर्वे मन एवेति श्रुतेः । धीश- ब्देन ज्ञानं मनोधर्मस्तदपि साक्षिभास्यं तद्गतं यत् प्रामाण्यं त- दपि साक्षिभास्यमेवंरीत्या प्रामाण्यं स्वत एव ग्रह्यत इति एष नो डस्माकं वेदान्तिनां राजमार्ग: तस्करतर्कपराहतो न भवती- त्युक्तमितिदिक् ॥ २१ ॥। अविद्यानिष्ृत्तिः प्रमाणेन साध्येत्याद्युक्तं तदनेन श्लोकेन स्पष्टीक्रियते।

Bighized By Melasoli

Page 25

स्वानुभवादर्शः । २१

व्रह्माकारा तत्वमस्यादिवाक्यै- र्या धीवृत्तिर्ब्रह्मविद्याभिधाना॥ उक्ता वेदे मूलमज्ञानमेषा दग्ध्वाSSत्मानं घातयेत्पर्णवह्नौ॥ २२ ॥ ब्रह्मेति। कारणभूतैस्तत्वमस्यादिमहावाक्यैर्या ब्रह्माका- रा धीवृत्तिरुत्पद्यते सा ब्रह्मविद्या उक्तेति वेद। तद्ो वेद निहितं गुहायां परमे व्योमन्निति श्रुतौ। अस्याः श्रुतेरर्थः । तत्सर्व वे- दान्तप्रसिद्धं ब्रह्म यः साधनचतुष्टयसंपन्नो Sधिकारी वेद सा- क्षात्करोति निहितं स्थितं तद्वृत्युपलभ्यमानत्वात् तत्र निहितो- क्तिः, गुहायां बुद्धौ परमे प्रकृष्टे व्योमन् व्योम्नि हृदयपुण्डरि- कान्तर्हृदयाकाशेऽत्र वर्त्तमानबुद्धावित्यर्थः। एषा ब्रह्मविद्येति अ- भिधानं नाम यस्या: सा तथा मूलमज्ञानमधिकारिणो ब्रह्मत्वा- वरकमज्ञानमावरणविक्षेपशत्यात्मकं भावरूप त्रिगुणं दग्ध्वा प्र- दाहयाऽडत्मानमपि स्वांवृत्तिमपि पूर्णवह्नौ अखण्डे ब्रह्मणि ब्रह्मा- ग्नौ घातयेन्नाशयेदित्यर्थः। तथा च चरमद्ृत्तिक्षये यथा द्विती- यमुखाश्रयदर्पणाभावे मुखमात्रमवशिष्यते तथाऽखण्डब्रह्मा Sव- शिष्यते। पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदुच्यते। पूर्णस्य पुर्णमादय पूर्णमेवा Sवशिष्यते इति॥ श्रुतेरितिभावः। उक्तं हस्तामलकाचार्यैः। यथादर्पणाभाव आभासहानौ मुखं विद्यते कल्पनाहीनमेकम्। तथाधीवियोगे निराभासको यः स नित्योपलब्धिस्वरूपो डहमात्मेति ॥२२॥ Dighced &y Mlciosoif

Page 26

२२ स्वानुभवादर्शः

ननु द्विविधमावरणमसत्वापादकमेकमपरमभानापादकम् । तत्राऽडद्यं परोक्षज्ञानेन नश्यति द्वितीयमपरोक्षमयैव नश्यत। तदुक्तम्। परोक्षज्ञानतो नश्येदसत्वावृत्तिहेतुता। अपरोक्षधिया नश्येदभानावृत्तिहेतुतेति॥ एवं स्थितौ वाक्यान्नाऽपरोक्षज्ञानमुत्पदते कुत्रा डप्य- दृष्टत्वात् । तथा सति तत्वमस्यादिवाक्यान्नाऽपरोक्षप्रमा ता विना अभानापादकावरणनाशाभावात् न ब्रझ्माऽहमस्मीत्यपरो- क्षज्ञानमुत्पद्यत इत्यत आह। अथत्तत्वमसीतिवेदवाक्या- दपरोक्षैव मतिर्हि भेदहंत्री।। दशमस्त्वमसीति लोकवाक्या-

अथेति। अथ चेद् वाक्यान्नापरोक्षपमा जायत इति मन्य- से चेत् तर्हि, दशमस्त्वमसीत्यत्र वाक्यादपरोक्षपरमा दृष्टा तथा प्रकृतेऽपि तत्वमसीतिमहावाक्यादपरोक्षप्रमोत्पद्यते। तथा चा- डभानापादकावरणनाशादहं ब्रह्मास्मीत्यपरोक्षप्रमा घटत इत्यर्थः। शब्दपमाणं तु यत्र विषयः परोक्षस्तत्र परोक्षपमामेवोत्पादय- ति। यत्र चाऽपरोक्षो विषयस्तन्रापरोक्षपमां जनयति तस्यो- भयसाधारणत्वादिति भावः ॥२३॥। नन्विन्द्रियजन्यं ज्ञानमपरोक्षं न प्रमाणान्तरजन्यं ज्ञानम- परोक्षं दृष्टमतो वेदान्तशास्त्रोक्तमपरोक्षलक्षणमाह- यदनावृतचित्तदात्मताडदो Dighized ay Mllusalfn

Page 27

स्वानुभवादर्शः । २३

ह्यपरोक्षत्वमिह ब्रुवन्ति सन्तः ॥ अत एत्र जडाथसंतिदैक्या- दपरोक्षं न जडेषु तत्स्वतोडस्ति ॥! २४॥। यदिति। इह वेदान्तशास्त्रे यत् या अनाव्टतचिदनाव्टतसंवि- त्तस्यास्तदात्मता, तदात्मनो भावस्तदात्मता तादात्म्यमिति यावत्। तदपरोक्षत्वं सन्तो वेदान्तनिपुणाचार्याः ब्रुवन्ति नेन्द्रि- यजन्यं ज्ञानमपरोक्षम्। तस्याभावप्रत्यक्षे मनसो Sनिन्द्रियत्वेन सुखाद्यपरोक्षे च व्यभिचारादिति योजना । अत्रा डयमर्थः ।

करणोपहितं चैतन्यं साक्षी तस्याऽऽृतत्वे जगदान्ध्यपसङ्ग:। तादात्म्यं नाम तव्भ्रिन्नत्वे सति तद्भिन्नसत्ताकत्वम्।तथा चदशम- स्त्वमसीत्यत्र सामानाधिकरण्यादशमस्य त्वं पदार्थाभिन्नतया अपरोक्षत्वेन वाक्यादपरोक्षपमैव जायते Sहं दशमोऽस्मीति। ननु न वाक्यादपरोक्षज्ञानं मनसा तत्साक्षात्कार इति चेन्न।सिद्धान्ते मनसोऽनिन्द्रियत्वस्योक्तत्वात्। वृत्युपादानत्वेन करणत्वाऽयो- गाच। प्रमाणजन्यापरोक्षज्ञानस्यैव भ्रमनिवर्त्तकत्वाच्च। मन- सोऽनिन्द्रियत्वं तु एतस्मा ज्जायते प्राणो मनः सर्वेन्द्रियाणि चेति। श्रुतेर्ज्ञेयम्। सुखादिसाक्षात्कारस्य चाऽपमात्वमिष्टमेव तस्य प्रतीतिकत्वात्। एवं तत्वमसीत्यत्रापि तत्पदलक्ष्यस्य ब्रह्मण स्त्वम्पदलक्ष्यसाक्ष्यभिन्नतया अनावृटतसंवित्तादात्म्यान्नित्या- परोक्षत्वेन शोधितत्वम्पदार्थस्या Sधिकारिणो मनननिदिध्या- सनसंस्कृतान्तःकरणसहकृतमहावाक्यादहं ब्रह्मास्मीत्यपरोक्षप्रमा जायत इति। अत एवेति। अनावृतसंवित्तादात्म्यमपरोक्षत्वमत Dig/ted Ay Melosoll G

Page 28

२४ स्वानुभवादर्शः

एव हेतोरन्तःकरणव्टत्यवच्छिन्नचैतन्यस्येति शेपस्तस्य जडार्थ- संविदैक्यात्। जडार्थाः घटादयः तदवच्छिन्ना या संवित्तया सहैक्यादेकलोलीभावात्। अनावृतसंवित्तादात्म्यरूपमपरोक्षत्वं व्यावहारिकं तज्जडेषु घटादिषु न स्वतो नास्ति जडाजडयोर- भिन्नसत्ताकत्वाभावात् किन्तु घटादयो अविद्यावच्छिन्नचैतन्ये अविद्याकल्पिता एव भासन्त इत्यर्थः । तेषामधिष्ठानपारोक्ष्येणा डपरोक्षं न स्वत इति फलितोऽर्थः ॥ २४॥ एतदेव विव्ृणोति। अधिष्ठानसत्वेन तस्याऽस्ति सत्व- मधिष्ठानभानेन तस्यास्तिभानम् ॥ अतः कल्पितत्वं जडार्थेषु युक्तम यथा शुक्तिरूप्ये च रंगे च तद्वत ॥ २५ ॥ अधिष्ठानेति। यथा सादृश्याच्छुक्तिरजतभ्रमस्तथा शुक्तौ कचिद्रङ्गभ्रमोऽपि दृष्टस्तद्वदित्यर्थः । शे्ष स्पष्टम् ॥ २५॥ ननु विषयावच्छिन्नब्रह्मचैतन्यस्य वृत्यवच्छिन्नप्माणचैत-

चे त्तर्हि, ब्रह्मबुद्धिःसम्पन्नैव भवति। सदो मोक्षप्रसङ्गः सर्वेपा- मित्यत आह। विशेषस्त्वयं तत्वमस्यादिवाक्या- द्विशिष्टत्वहान्या विशुद्धापरोक्ष्यम् । घटाद्यर्थसंविद्घटाद्यर्थमिश्रा ततो नास्ति तस्यां हि सदो विमुक्तिः ॥ २६ ॥ विशेष इति। तत्वमस्यादिवाक्यान्वागलक्षणया विशेषणांश- Digniced by Melesfio

Page 29

स्वानुभवादर्शः । २५

परित्यागेन त्वम्पदलक्ष्यमात्मनो Sब्रह्मत्वनिव्टत्तौ तत्पदलक्ष्यस्य

संवित्तादात्म्यरूपमपरोक्षत्वं भवति। यस्य सर्वमात्मैवाऽभूदि- ति श्रुतेः । प्रमाणप्रमेयादिव्यवहारहीनं भवतीत्यर्थः। घटाद्यर्थ- संविन्तु घटाद्यर्थमिश्रा आविद्यकजडपदार्थोपरक्ता भवति घट जानामीति प्रतीतेः। प्रमाणप्रमेयस्फुरणातस्य हेतोर्न सदो मुक्ति: अन्यानुपरक्तचैतन्यभानस्यैव मोक्षहेतुत्वादित्यर्थः ॥ २६॥ ननु जातायामपि ब्रह्मात्मबुद्धौ बाधितमपि द्वैतं भासते एव निर्विशेषमन्यानुपरक्तं चैतन्यं क दृष्टमितिचेत् तत्राह। समाधिकाले न जडं समीक्षते स्वात्मा स्वभूमत्वमुपागतस्तदा ॥ व्युत्थानकाले सकलं बहिः स्थितं प्रबाधितं प्यति चोक्तरीतितः २७ समाधिकाले इति। असम्प्रज्ञातसमाधिकाले जडं कल्पितं न पश्यति तदानीं स्वात्मा सर्वदृत्तिनिरोधात् स्वम्भूमत्वं स्वा- भाविकं भूमस्वरूपत्वं प्राप्त इत्यर्थः । "यत्र नान्यत् पश्यति ना- ऽन्यत् शृणोति नाऽन्यद्विजानाति सभूमेति" श्रुतेः । अत एवो- क्तं सूत्रकृता अपि संराधने प्रत्यक्षानुमानाभ्यामिति । संराधने समाधिकालेऽपि प्रत्यक्षं श्रुतिः, अनुमानं स्मृतिस्ताभ्यामुक्त- त्वात्। निर्विशेषमात्मानं पश्यतीति सूत्रार्थः । तत्र श्रुतिः "ज्ञान- प्रसादेन विशुद्धसत्वस्ततस्तु तं पश्यति निष्कलं ध्यायमान इति"। स्मृतिरपि। यं विनिद्रा जितश्वासा: सन्तुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जनास्तस्मै योगात्मने नमः इति। Diqiiced by Mlerost i/m ec

Page 30

२६ स्वानुभवादर्श:

ध्यानेनाऽत्मनि पश्यन्ति केचिदात्मानमात्मनेति भगवतोक्तशे- त्यर्थ:।देहनिर्वाहार्थ व्युत्थानकाले प्रकर्षेण वाधितमधिष्ठानसत्वेन तस्याऽस्ति सत्वमित्याद्युक्तरीत्या वक्ष्यमाणरीत्या च पश्यती- त्यर्थः ॥ २७॥ उक्तसमाधिं लक्षयति॥ सदपि चित्तमदोऽसदिव स्थितम् भवति यत्र सुसाधनतो नृणाम्।। स हि समाधिरितीह सुलक्षितः परमशर्मपद परमार्थतः ॥ २८॥ सदपीति। सुतरां यमनियमाद्यष्टांगसाधनैः सदपि चित्तं सर्ववृत्तिनिरोधादसदिव स्थितं निश्चलं भवति स समाधिरिति इह व्यवहारभूमौ हीति विद्वत्पसिद्धः सुलक्षितः सुष्ठु शोभनत्वेन लक्षित उक्तःतथा चे सूत्रम् तत्तदेवार्थमात्रनिर्भासस्वरूपशून्यमिव समाधिरिति। त्तादृशं चित्तं परमशर्मपदं परमं निरितशयं शर्म- सुखं, प्रपद्यते प्राप्यते Sनेनेति पदं परमार्थतो अकृत्रिममित्यर्थः॥ समाधिनिर्धूतमलस्य चेतसो निवेशितस्या SSत्मनि यत्मुखं भवेद्। न तद्विरा वर्णयितुं सुशक्यते स्वयं यदन्तःकरणेन गृह्यत इति श्रुतेः । सुखमात्यन्तिकं यत्तह्वुद्धिग्राह्यमतीन्द्रियमिति गीतोक्तेश्र।।२८।। वक्ष्यमाणरीत्या बाधितं पश्यतीत्युक्तं तदेवानुभवानुवादेन दर्शयति। अघटनघटनापटीयसीयम् Diinzed by Microspji

Page 31

स्वानुभवादर्शः । २७

यदुपतिदेवतरस्य शक्तिरुच्चैः ॥ क्क च बत रशना क्व सर्पभानम् क्व च रविरर्क इह द्वितीयभानम् ॥ २९ ॥ अघटनेति। इयं समस्तनामरूपात्मकप्रपश्चाकारेण परिणता श्रीकृष्णस्य शक्ति: सामर्थ्यविशेषः। "देवात्मशक्तिं स्वगुणैर्निरू- ढामिति"श्रुतेः यदुपतीत्युक्तम्।एतेन तस्याः परतन्त्रत्वमुद्धोषितम्। उच्चैः मेरोरिव भगवच्छरणतां बिना अनुल्लङ्गनीया। मामेव ये पपद्यन्ते मायामेतां तरन्ति त इति स्मृतेः । तस्याः प्रभावं दर्श- यति। अघटनं केनाऽपि कर्त्तुमशक्यं तस्य घटना रचना तस्यां पटीयसी कुशलेत्यर्थः । एतेन विवर्त्तवादः प्रदर्शितः । अतत्वि- कोऽन्यथाभावप्रदर्शनात्पटीयस्त्वमेव दर्शयति। बत इति खेदे। रशना रज्जुविशेष: क्व तस्यामधिष्ठानथूतायां लौकिकसामग््यभावे डपि क्व सर्पस्तस्य भानं च क्वेत्यर्थः । अयम्भावः। पुरोवर्ती- न्द्रियसन्निकर्षानन्तरमिदमाकारवृत्तौ सत्यां इदन्त्वावच्छिन्न- चैतन्यनिष्ठा रज्जुत्वप्रकारिका अविद्या सादश्यदर्शनसमुद्भूत- संस्कारसहकृता सती सर्पाकारेण सर्पज्ञानाकारेण च स्वयंपरि- णम्य स्वपटीयस्त्वं दर्शयतीति।चेत्यपरम्।गगनस्थोरविरेकः द्वाद- शरव्यादौ द्वितीयरविदर्शनं क्ेति। यदुपतिदेववरस्य शक्तिरित्य- नेन भोजयितेश्वरो दर्शितः । कच वत रशनेत्यनेन भोग्यं द- शिंतं।क चरविरेक इत्यादिना भगवत् प्रतिबिम्बो जीवो भोक्ते- ति त्रिविधो भेदभ्रमो भगवच्छक्तिमूलो Sनिर्वचनीय एवं रीत्या वाधितं पश्यतीत्यर्थः ॥२९। पुनश्च स्वानुभवानुवादेन प्रपश्चस्य वाधितत्वं दर्शयति पञ्चभिः पदैः। Diollzed py Microsdl/ i

Page 32

२८ स्वानुभवादर्शः

क्व च परमसुखं निजस्वरूपम् क्क च मम दुःखपरम्पराविलासः॥ क्व च मम विभुता क कर्मदैन्यम् क्क च मम तेन बभूब पाशबन्धः ॥ ३०॥ क चेति। परमसुखदुःखपरम्पराविलासयोस्तथा विभ्रुता- कर्मदैन्ययोः परस्परात्यन्तविरुद्धयोः सम्बन्धघटना किमन्यन्मा- याया अघटनघटनापटीयस्त्वादितिभावः। वभूवेति पदस्याग्रिम- श्लोकेऽपि सम्बन्धो बोध्यः शेषं स्पष्टम् ॥ ३०॥ क्व च मम चितिता क तच्ब मौढ्यम् शिव ! शिव ! किं करवाणि तन्न मेडस्ति ॥ क्क च मम सुखरूपताऽनुभूतेः क्क च मम बाह्यपदार्थशर्मवाञच्छा॥ ३१॥ क्ेति॥ चितिता निर्विषयज्ञानस्वरूपता तत्र मौढ्यमज्ञान- केति शिव शिव इति खेदे। तदज्ञानं मम ना्ति रवाविव तमो वोधात्पूर्वमहमज्ञ इत्यादि मायया दर्शित तत्र किमहं करवाणि तस्याः प्राबल्यादित्यर्थः ॥ ३१॥ क्व च बत निरहंकृतिर्ममात्मा क्व च तनुषु प्रजडास्वहंकृतिमें।। क्व च मम ममताविहीनतेयम् क्व च ममता मृहपुत्रबान्धवादौ ॥ ३२ ॥ क्रचेति। ममाऽडत्मेति राहो: शिर इतिवत्कल्पनया पष्ठी। DIOREE

Page 33

स्वानुभवादर्शः । २९

तनुष्विति बहुवचनं एकस्यैवाऽऽत्मनो अतीतिानागतानेकदेहा- भिप्रायं अन्यथा पूर्वानुभूतपदार्थस्मृति विना जननीस्तनपानाय मृगशावकादेः प्रव्टत्तिर्न स्यात् ॥ ३२॥ क्त च मम निरुपाधि रूपमेकं क्व च म उपाधिकृतस्त्वनेकभेदः ॥ क्त च मम सविशेषतानिरासः क्त च म उपाधिकृतं विशेषभानम् ॥ ३३ ॥ क्कचेति॥ तत्र को मोहः कः शोक एकत्वमनुपश्यत इति श्रुतेः। निरुधिकमेव रूपं क। एक एव हि भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवदिति॥ उपाधिकृतो भेद: क । दृष्टमस्पर्शमरूपमव्ययमित्यादिश्रुति- भिः। तथास्थूलमना एवेत्यादिभिश्र सविशेषत्वनिरासः केत्या- दयः श्रुतयो ज्ञेयाः॥ ३३॥ क्व च ममासुविरागितास्वरूपम क्त्र च मम कामविलासिनीषु चित्तम् ।। क्त च मम न हि बन्धनं न मोक्ष: क्व च मम बन्धनमोक्षणप्रवादः ॥ ३४ ॥ केति॥ शास्त्रे लोके च प्रकर्षेण वाद: कथनमित्यर्थः। उभावपि श्लोकौ स्पष्टार्थौ॥ ३४॥ किमेतावतेत्यत आह- अज्ञानमेतत्सकलं व्यलीकम् 0501 6

Page 34

३० स्व्रानुभवादर्शः

तज्जं सुखं दुःखमपि व्यलीकम् ॥ मृगोदकं सर्वमपि व्यलीकम् तज्जास्तरङ्गा अपि ते व्यलीकाः ॥ ३५॥ अज्ञानमिति ॥एतत् सर्व पूर्वोक्त दुःखपरम्पराविलासा- दिकमखण्डैकरसे नित्यनिरतिशयानन्दस्वरूपे चिन्मात्राश्रयवि- पयत्रिगुणात्मके भावरूपे आवरणविक्षेपाद्यनेकशत्यात्मके, जग- ति जडरूपेणाऽनुगते पुरुषे मौठ्यरूपेणा Sनुगतमपवर्गपरिपन्थि अहमज्ञइति प्रतीतावध्यस्ततया भासमानत्वाद्यलीक, तज्जं स- साधनं सुखं दुःखमपि व्यलीक, तयोः सत्यत्वे मोक्षपव्ृत्तिरेव न स्यात्। न हि सत्यं निवर्त्तत इति न्यायादित्यर्थः । यथा मृ- गोदकं सर्वमप्यंशांशिभावरहितं व्यलीकं तत्कार्यन्तरङ्गादि- कमपि व्यलकिं तथेदमज्ञानं तत्कार्य च मृषेत्यर्थः। नन्वज्ञान- स्य भावरूपत्वे किं प्रमाणमितिचेच्छृणु। श्रुतिं तदनुकूलां युक्तिं चाऽवधारय। "मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरमिति श्रुतेः। जगत्परिणामोपादानत्वात् प्रकृतिर्नाSभावरूपा। नह्यभावः परिणमते अतो नाडभावरूपम्। किश्च अहमज्ञ इति प्रतीतौ प्रति- योगिभानमन्तरेणैव भासमानत्वात् नाडभावरूपं, तस्माद् यथा- धर्मविरुद्धो अधर्मो भावरूपो दुःखकारणं तथेदमज्ञानमपि भाव- रूपं दुःखकारणम्। उक्तं च। जाड्यं जगत्यनुगतं खलु भावरूपम् मौढ्यं च पुंगतमिति प्रतिभाति तद्वत्। जाड्यं च मौठ्यमिति वाऽनुभवप्रसिद्धम् अज्ञानमाहुरपवर्गपिधानदक्षमिति॥ नन्वज्ञानस्य भावरूपत्वे किं प्रमाणभूतं चेच्छुतिं तदनु-

Page 35

स्वानुभवादर्शः । ३१

कूलां युक्तिं च अवधारयेदिति ॥ ३५ ॥ ननु सकार्यमज्ञानं मृषा चेत् तथापि प्रतीयते कथं तस्या- पलापः कर्त्तु शक्यइत्यत आह- सामग्रिका यावदिहास्ति भाने प्रभासतां नाम मृषा मृगोदा ॥ प्रारब्धवेगात्सुखदुःखभानम् भूयात्तथा नो न हि कापि हानि: ॥ ३६ ॥ सामग्रिकेति। यथा मृगोदकमूपरभूमौ मृषात्वेन बहुशः प्रतीतमपि यावत्सामग्रिकासूयेकिरणादिरूपा तावत्पर्यन्तं भासते तावता न तस्य सत्यत्वं वक्तुं शक्यमेवमधिष्ठानमज्ञानेन, प्रप- श्वहेतुभूतमूलाज्ञाननिव्टतावपि तत्कार्य सुखदुःखसाक्षात्कारः प्रारब्धरूपसामग्रिवशाद् भासतां नाम न ह्येतावता नो Sस्माकम- ज्ञानं तत्कार्यप्रपञ्चे सत्यत्वबुद्धिरूपा हानिर्नास्त्येवेत्यर्थः । उक्तं च। उत्खातदंष्ट्रोरगवदविद्या किं करिष्यतीति, न हि त- दपलापं ब्रूमः किन्तु सकार्यमज्ञानं मृषेति ब्रूम इति ॥ ३६ ॥ भ्रान्त्या कृतानां खलु कर्मणां मया िपाक एवं बहुधाऽनुभूयते।। भ्रान्तिर्निवृत्तैव तथापि कर्म प्रारब्धमेतन्नहि मुश्चतीह ॥ ३७ ॥। भ्रान्त्येति। भ्रान्तिः सत्कार्य मूलाज्ञानं ततः कामस्ततः कर्माकर्मविकर्मरूपाणि कर्माणि मया कृतानि तेषां विपाको व- हुधा बहुपकारमनुभूयते। कर्मविपाकस्तु पतञ्जलिनोक्तः ।

Page 36

३२ स्वानुभवादर्शः

सति मूले तद्विपाको जात्यायुर्भोगा: ते हादपरितापफला: पु- ण्यहेतुत्वादितिसूत्रेण। एवं सति भ्रान्तिर्निवृत्तैव तथाऽपीह देहे पारब्धं कर्म मां हीति निश्चयेन न मुश्चतीत्यर्थः । ननूपा- दाननाशेऽपि उपादेयं तिष्ठतीति न दृष्टमिति च तत्राहुः । ज्ञात्वाप्यसर्प सर्पोत्थं यथा कम्पं न मुञ्चति। विध्वस्ताखिलमोहोऽपि मोहकार्य न मुश्चतीति॥ यथा वा तार्किकैः समवायिकारणनाशात् कार्यनाशमङ्गी- कुर्वद्भिरपि निरुपादानमेव द्रव्यं क्षणमात्रं तिष्ठतीत्यङ्गीकृतं तद्व- त्। उपादाननाशेपि तदुपादेयमहङ्कारदेहादिनिरुपादानमेव न यावत्मारब्धकर्मभोगमनुवर्त्तते दृष्टत्वात्। न हि दृष्टे ऽनुपपन्नं नामेति न्यायात्। श्रुतिरपि। "तस्य तावदेव चिरं यावन्न विमो- क्ष्येऽथ सम्पत्स्य" इति। अहं ब्रह्मास्मीति चरमसाक्षात्कारानन्त- रमहं ब्रह्म न भवामि न जानामीति प्रत्ययो नास्त्येव यदि परं घट न जानामीत्यादिप्रत्ययः स्यात् तदुपादानाय संस्कार: कल्प्येत। अज्ञानलेशपदेनाऽपि भाष्यस्थेनाऽयमेव संस्कारो वि- वक्षितः। न हि सावयवमज्ञानम् कियन्नष्टं कियत्तिष्ठतीति वाच्यम्, तस्यानिर्वचनीयत्वात्। तस्माज्जीवन्मुक्तस्य घट न जानामीत्या- दिप्रत्ययः संस्कारमात्रादेव। उक्तं च सङ्केपशारीरके । गन्ध- स्था या लेशसंस्कारभाषा विज्ञातव्या भाष्यकारीया तत्रेति कि बहुना सर्वोऽपि तस्य व्यवहारः संस्कारमात्रादेवेति। तदुक्त तत्रैव।। पश्यामि चित्रमिव सर्वमिद द्वितीयम् तिष्ठामि निष्कलचिदेकवपुष्यनन्ते।।

पश्यामि दग्धरशनामिव च प्रपश्चमिति।। Dionced by Malosaft6

Page 37

स्वानुभवादर्शः । ३२

तस्माद् भ्रान्तिर्निवृत्तैव तथापि कर्म पारब्धमेतन्न हि मुश्च- तीति साधूक्तमिति॥३७॥ कर्म तावन्नाऽडत्मसमवायि किन्त्वन्यसमवायीत्येवं सति यत् कर्मकर्तृत्वं स्वस्य सापि भ्रान्तिरित्याह। शरीर कर्मेन्द्रियचित्तसाध्य- मारोप्य तच्चात्मनि कर्मजातम्॥ कर्त्ताहमस्मीति विपर्ययोऽयम् चन्द्रे यथा मेघगतिसतथैव ॥ ३८॥ शरीरकर्मेति ! शरीरं भोगायतनं कर्मभोगपदं श्रोत्रादीनि बाह्येन्द्रियाणि चिन्मयन्तःकरणं तैः साध्यं तन्निष्ठमित्यर्थः। यथा मेघनिष्ठां गति चन्द्र आरोप्य चन्द्रो धावतीति प्रतीतिस्तथाऽहं कर्तेति भ्रान्तिरित्यर्थः ॥ ३८॥ आविद्यकं कर्माSविद्यावतामुपकारकं तैराविद्यकमिति मत्वा न त्याज्यमित्याह। आविद्यकं यदपि कर्म तथापि सर्वम् कृष्णार्पितं विविदिषां जनयेच शुद्धिम्॥ कांस्यं निषिद्धमपि जन्मफलं समस्तम् सन्त्यज्य कर्म नियतं विदधीत मर्त्यः ॥ ३९॥ आविद्यकमिति। सर्वे लौकिकमलौकिक वा कर्माSडविद्यक यद्यपि तथापि कृष्णार्पितं सत्, यत्करोपि यदश्नासीत्यादि स्मृतेः, चेतःशुद्धिं जनायेत्वा विविदिपां जनयेत्। तमेतंवेदा- डनुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशके- ५ Digliked by Mlclosolli

Page 38

३४ स्वानुभवादर्श:

नेति बृहदारण्यकोक्तेः। नियतस्य तु संन्यासः कर्मणो नोपप- द्यत इति स्मृतेः। तदनुष्ठेयमित्यर्थः । निपिद्धं न पलाण्डुं भक्ष- येदित्यादि तथा श्येनेनाऽभिचरन्यजेतेति वेदविहितत्वेऽपि आ- भिचारिकं फलदोपेण दुष्टत्वात् त्याज्यमेवेत्यर्थः। काम्यमित्यत्र मतद्वयं तत्राचार्यमते काम्यं नाऽनुष्ठेयमेव । वार्त्तिककारमते तु काम्यमपि कामनां त्यक्त्वा ज्योतिष्टोमादीश्वराराधनत्वेनाऽनु- छ्ठितं सत् विविदिपां जनयेदेवेति॥ अन्यथा काम्यकर्मप्रतिपा- दकश्रुतीनां वैयर्थ्य स्यादित्याकरे विस्तरः ॥ ३९॥ कर्मानुष्ठानं चित्तशुद्धिद्वारा विविदिपोत्पादने समर्थमेव न तु ज्ञानसमुच्चयेन तस्यानुष्ठानं तस्य तत्राऽसामर्थ्यम् इत्याह- न कर्म विज्ञानसमुचय: स्वा- त्कर्मोपमर्दः खलु तत्वबुद्देः॥ अज्ञाननाशो न हि कर्मणाडतो ज्ञानेन मुक्तिर्न समुच्चितेन ॥ ४० ॥ नेति॥ तत्वबुद्धेस्तत्वज्ञानादाविद्यकानां कर्मणामुपमर्दः स्यात्। यद्वा कर्मानुष्ठानहेतोः क्रियाकारकविभागस्या Sविद्या- कृतस्य विद्यासामर्थ्यादुपमर्दो बाधः स्यात्। यत्र त्वस्य सर्वमा- त्मैवा डभूत् केन कं पश्येदित्यादिना। तथा चोपमर्दितकर्मसमु- च्चयो मुक्तावनुपयुक्तः । किश्च विज्ञानं तावदज्ञानं विनाश्य मुक्ति- जननसमर्थ तेजस्तिमिरयोरिव तयोर्विरोधात्। कर्माविद्ययोवि- रोधाभावान्ना Sज्ञाननाशने तस्य सामर्थ्यमतो न ज्ञानसमुच्चयो युक्त इत्यर्थः ॥ तदुक्तमाचायैः ॥ अविरोधितया कर्म नाऽविद्यां विनिवारयेत्। Digmżed by Microsol ®

Page 39

स्वानुभवादर्शः । ३५

विद्या Sविद्यां निहन्त्येव तेजस्तिमिरसङ्गवदिति । अन्यत्रा डप्युक्तम्- प्रमाणजन्यज्ञानेन विना विधिशतैरपि। रज्जुसर्पादिविभ्रान्तिर्न कापि विनिवर्त्तत इति। तस्मात् कर्मणा ज्ञानसमुच्चयोनाऽनुश्ठेयस्तस्या Sन्यथा सि- द्धत्वादिति॥ ४० ॥ भ्रान्त्या कृतानां कर्मणां पुरुषस्य फलभोक्तृत्वे केन प्रका- रेणेत्यपेक्षायां तद्र्शयति- शरीरकर्मेन्द्रियचित्तयोगे धियः सुखाकारतया विकारः ॥ तस्योपलब्धृत्वमदो डस्य कर्म फलस्य भोक्तृत्वमितो ऽन्यथा न ॥४१ ॥ शरीरेति॥ शरीरं भोगायतनं कर्म यज्ञादि: उपासनारूपं च वाह्यानीन्द्रियाणि दश चित्तमन्तःकरणमेतेषाम्। द्वन्द्वैकत्वम्। इदं पञ्चपाणादेरुपलक्षणम्।तथा च सप्तदशात्मक सूक्ष्मशरीरं भोगसा- धनं एतेपां योगे सति धियो बुद्धे: धर्मवशात् सुखाकारतया अ- धर्मवशात् दुःखाकारतया च विकार: परिणामः । तस्य परि- णामस्योपलब्धृत्वं इदमनुकूलं प्रतिकूलं वेति यत् ज्ञातृत्वं अदः पुरुपस्य कर्मफलभोक्तृत्वमितोऽन्यथा प्रकारान्तरेण नाऽस्ती- त्यर्थः। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण इति क्रुतेः । पुरुपः सुखदुःखानां भोक्तृत्वे हेतुरुच्यत इतिस्मृतेः ॥ ४१ ॥ स्वसे भोगसाधनवैलक्षण्यं जागरतो दर्शयति- स्वशे तु सर्वेन्द्रियदिव्यदेह- Digmnied by Merosolt @

Page 40

३६ स्वानुभवादर्शः

योगो ऽस्य सर्वः किल वासनात्मा ॥ शेषं समानं सुखदुःखभोगो न वस्तुगत्या मयि चित्स्वरूपे ॥ ४२ ॥ स्वपेत्विति ॥ स्वप्नदेहस्या Sयोनिजत्वाद्दिव्यदेह इत्युक्त- म्। वासनात्मा संस्कारस्वरूप इति किल श्रूयते। अस्य स- र्वावतो मात्रामुपादायेति श्रुतेः। मात्रां पुष्पपुटस्येव संस्कारः। अयं च जाग्रत्स्वप्योः सुखदुःखभोग आविद्यककर्मनिमित्तोव- स्तुगत्या वस्तुतः माये चित्स्वरूपे नास्तीति स्व्ानुभविद्धमि- त्यर्थः। शेषमन्तःकरणपरिणामस्तस्योपलब्धृत्वं च समानमे- वेत्यर्थः। इच्छा द्वेष: सुखं दुःखं सङ्गातः चेतना धृतिरिति स्मृतेः। सुखदुःखे मनोधर्मः। अत उक्तम्। सुखदुःखाकारतया परिणाम इति॥४२॥ जाग्रत्स्वप्रभोगसाधनवैलक्षण्यं सुषप्त्यवस्थायां दर्शयति- सुषुप्त्यवस्थासुखदुःखभोगो विनापि कर्मा डस्य तथा प्रतीतेः ॥ तत्राप्यविद्यागुणवृत्तमेत- न्निवृत्तिरस्याः परमः पुमर्थः ॥४३॥ सुषुप्त्यवस्थेति॥ अहं सुखमस्वाप्सम्। अहं दुःखम- स्वाप्समिति प्रतीतेः विनाऽपि कर्म निभित्तकारणं कर्म विनापि सुखदुःखभोगः सुषुप्त्यवस्थायामनुभवसिद्धमित्यर्थः ॥ सुषुप्त्य- वस्था अव्याकृताऽ्वस्था तस्यां कर्म व्याकृतरूपं नाऽस्त्येवाऽत उक्तं विनापि कर्मेति।अन्यथा जाग्रदशायां परामर्शानुपपत्तिः स्यात् । तर्हि तत्र किंनिमित्त: सुखदुःखभोग इति चेद् तत्राSडह। तत्रा- Diqiilzed

Page 41

स्वानुभवादर्शः । ३७

Sपीति। सुषुप्त्यवस्थायामपि अविद्यागुणाः सत्वरजस्तमांस्युपा- दानभूतानि तेषां वृत्तं तनन्निमित्तमित्यर्थः।तथा सत्वं सुखाकारत- या परिणमते रजो दुःखाकारतया परिणमते तमो मोहाकारतया परिणमते तेन सुखमस्वाप्सं दुःखमस्वाप्सं मूढोऽहमिति प्रत्ययः। ननु गुणसाम्यावस्थानं तत्रोक्तंविरुध्येतेति चेन्न। तस्य गाढसुपु- प्त्यवस्थाविषयत्वात्। अतो गुणत्रयरूपाविद्यानि्ृत्तिरेव परमपुरु पार्थो येन सर्वावस्थोच्छेद इत्यर्थः । कर्माश्रयस्याऽहङ्कारस्य तत्र लीनत्वाद्विनाऽपि कर्मेत्युक्तम् । ननु सुषुप्तौ यथा सुखमनुभूतं स्मर्यते। तथा उहृङ्कारोऽपि तत्राऽनुभूत एव स्मर्यते इति वाच्य- म्। अन्यथा Sहमस्वाप्समिति परामर्श एव न स्यात्। तथा च। तत्र कर्माश्रयाहङ्कारसत्वेन कथमुक्तं विनाऽपि कर्म सुख- दुःखभोग इति चेन्मैवम्। तत्राऽहङ्कारस्वीकारे पुमान् जाग्रियाद्। जाग्रदवस्थायामेव तस्य प्रतीतेरहं जागर्मीति प्रतीतेर्न सपु- पतिस्वन्नयोस्तथा प्रतीत्यभावात् । तर्हि कथमस्वाप्समिति सामानाधिकरण्येन प्रतीतिरितिचेदुच्यते । यथा मुखग्रति- बिम्बाश्रये दर्पणे जपाकुसुमलोहित्याध्यासे रक्तं मुखमिति सामानाधिकरण्येन प्रतीतिस्तथा Sहङ्काराश्रयसाक्षिचैतन्यस्य स्मरणाश्रयत्वादहमस्वाप्समिति सामानाधिकरण्येन प्रतीतिरतो न सुषुप्तावहंकारोऽनुभूतः स्मर्यते। तथा च कर्माश्रयाहंकारं विनैवा- डहं सुखमस्वाप्सं दुःखमस्वाप्समिति प्रत्यय उपपद्यते तस्य च यथोक्तव्यवस्थैव ग्राह्येति न किंचिदनुपपत्रमिति॥४३। बुद्धिस्वभावजदुःखस्य प्रारब्धाधीनत्वेन बुद्धमूढयोर्भोक्तृ- त्वं समानं तथापि बुद्धं प्रति विशेषमाह- समानमेतद्धि विमूढबुद्धयो- Dignidby Mlerosolf ia

Page 42

३८ स्वानुभवादशः

र्भोक्तृत्वमस्मिन्खलु संशयोन॥ विमूढलोकस्य विषादहर्षी सूज्ञस्य तौ नैव विशेष एष: ॥। ४४ ॥ समानमिति॥ पदार्थः स्पष्ट एव । मत्वा धीरो हर्षशो- कौ जहातीति श्रुतेः। दुःखेष्वनुद्दिग्नमनाः सुखेषु विगृतस्पृह इति स्मृतेश्र। बुद्धात्मतत्वस्य हर्षविषादौ न स्त इत्यर्थः ॥ ४४ ॥ अन्यमपि तं प्रति विशेषमाह- धैर्येण शौर्येण च धीरलोक: संग्रामतोनैव पराङ्मुखः स्यात॥ तत्वज्ञधीरः सुखदुःखघातैः प्राप्तैः प्रतीचो न पराङ्मुखः स्यात् ॥ ४५॥ धैर्येणेति। धीरलोको रणधीरलोकस्तत्वज्ञः धीरः आ-

मिश्रदुःखघातैश्र सुखदुःखानां घाताः दुःसहानुभवा स्तैस्तत्व- ज्ञत्वात पुनः पुनः तत्वानुस्मृत्या धीरः प्रतीचः स्वपकाशपरमा- नन्दघनान् न पराङ्मुखो डहं सुखी दुःखीति प्रत्ययवान् न भ- वतीत्यर्थः ॥ ४५॥ अहं सुखी दुःखीति प्रत्ययो Sपि भ्रान्तिरेवेत्याह- बुद्धिस्थदुःखं निजआत्मनीद- मारोप्य दुःखीति विपर्ययो मे। आरोपितं तत्सकलं सृषेति मत्वा निजात्मानमुपाश्रितोऽस्मि ॥४६॥

Page 43

स्वानुभवादशः । ३९

बुद्विस्थदुःखमिति । मत्वान्डवयव्यतिरेकाभ्यां नि- श्वित्य निजात्मानं स्वपकाशपरमानन्दघनमाविद्यकसुखदुःखाद्य- स्पृष्टमुपाश्रितोऽस्मि तत्रैव बुद्धिस्थैर्य प्राप्तोऽस्मत्यिर्थः ॥ ४६ ॥ इदानीं महावाक्यार्थानुभवसध्यर्थ तत्पदशोधनमनेकपकारैः क्रियते- ज्ञानं समस्तं खलु धर्मिमात्रे भ्रान्तं प्रकारे तु विपर्ययः स्यात् ॥ अज्ञानतजं सकलं प्रकारं हित्वानिआत्मानमुपाश्रितोस्मि ॥ ४७॥ ज्ञानमिति। सर्वज्ञानं धर्मिण्यभ्रान्तं प्रकारे तु विपर्ययः स्यादिति न्यायात्। धर्म्येशे सन्मात्रे वस्तुनि ज्ञानं न भ्रान्तं तस्य अधिष्ठानत्वात्। तर्हिं कुत्र भ्रान्तमत आह। प्रकारे विपर्ययो भ्रान्तिः सति धर्मिण्यज्ञानं भ्रान्तिरध्यस्तया प्रतीय- मानत्वात्। तथा तज्जं सकलमपि कार्य प्रकाररूपं भ्रान्तिरूपम- ध्यस्ततया प्रतीयमानत्वात् । मिथ्येति हित्वोपेक्ष्य निजात्मानं परमार्थसत्यं धर्िणमुपाश्रितो Sस्मि तत्रैव बुद्धिस्थैर्य प्राप्तोस्मी- त्यर्थः ॥। ४७।। अध्यस्तत्वमेव दर्शयति- स्वतः प्रकाशादिह धर्मिणोऽन्यों जडः प्रकार: परिभासते हि॥ तमेव भान्तं ह्यनुभाति सर्व- मित्यादिवेदार्थमिमं व्रवीति॥ ४८ ॥ स्वत इति। एको हिशब्दो निश्चयारऽर्थो जन्यः पाद- Diamzed by Micrasolt ®

Page 44

४० स्वानुभवादर्शः

पूरणार्थः ॥ सन्मात्रात् स्वतःप्रकाशाद् धर्मिणः जडः प्रकार: प्र- तिभासते परितो दृश्यते, इह संसारितादशायां स्वतश्चिदूपाभा- वाज्जडइत्युक्तम्। अन्यसिद्धिकत्वात् प्रकारकमुक्तम्। अत्रा- जर्ये श्रुतिं प्रमाणयति। तमेव भान्तमनुभाति सर्व यस्य भासा सर्वमिदं विभाति। अस्याः श्रुतेरर्थः । तमधिष्ठानभूतं भान्तं स्व- प्रकाशमनु पश्चात् सर्वे कल्पितमधिष्ठानविलक्षणं मायातत्कार्य- रूपं भाति भासते भासमानसमये चन स्वतो भाति किन्तु यस्य चैतन्यस्य भासा प्रकाशेन सर्वमिदं विभातीत्यर्थः । अनुभाती- त्यर्थः । अनुभातीत्यनेन प्रकारकत्वमुक्तं यस्य भासा विभाती- स्यनेन जडत्वमुक्तमिति भाव: ॥४८ ॥ एतदेव सदृष्टान्तमाह- जडे न सन्नापि च चित्स्वरूपं परस्य सत्तास्फुरणे न भाति।। अतः प्रकारत्वमुदीरितं तद्- रज्जौ यथालीकभुजङ्गमादेः ॥ ४९॥ जडमिति । जर्ड न सन्नाऽपि च चित्स्वरूपम्। अत्र हेतुमाह। परस्येति। अधिष्ठानस्येत्यर्थः । अधिष्ठानचैतन्यस्व- रूपस्य परब्रह्मण इत्यर्थः । अतो ज्ञानन्तत्कार्यस्य प्रकारकत्व- मुक्तं श्रुतियुक्तिभ्यामित्यर्थः। तत्र दृष्टान्तमाह।रज्वाविति॥४९।। प्रकारोत्पत्तिक्रममाह- अहो हि मायाबलमेतदुच्चै- स्तद्धर्मिणं भान्तमपि स्वरतस्तम्॥ आच्छाद्य विक्षिष्य च पञ्चभूत- Dlallized by Mieresofi

Page 45

स्वानुभवादशः । ४१

कार्य प्रकारं जनयेत्तथा ऽन्यत् ॥ ५० ॥

अहो हीति। अहो इति विस्मये हि निश्चये। माया मूला- ज्ञानं तस्य वलं सामर्थ्यमेतन् महदुचचैर्ब्रह्मादिभिरप्यनुल्लङ्गनीयम्। किं तदित्याह॥ स्वतो भान्तं स्वप्रकाशधर्मिणमाच्छाद्य अन्धकार इव गभागारं, चेत्यपरं, स्वयं विक्षिप्य विक्षेपशक्तित्वं पाप्य पूर्व- पूर्वसंस्कारजीवकर्मप्रयुक्ता सती शब्दस्पर्शरूपरसगन्धात्मकानि आकाशवायुतेजोजलपृथिव्याख्यानि पश्चभूतानि तत्कार्य स्थूल- देहादिरूप एतं प्रकारं जनयेदुत्पादयेदित्यर्थः। एतदुपलक्षणं महदहङ्कारादीनाम् ॥ तथाऽन्यव्यवहारादिकादन्यदित्यर्थः । प्रातिभासिकं रज्जुसर्पादि रज्ज्ववच्छिन्नचैतन्यमाच्छाद्य तत्र स- ्पादिकं स्वीयविक्षेपशत्या जनयेदित्यर्थः । आगन्तुकदोषजन्यं तदन्यत् व्यावहारिकमिति तल्लक्षणादित्यर्थः। भासिकं प्रातीति- कमिति पर्यायः ॥॥ ५०॥ प्रकारस्वरूपमाह- अयं प्रकारः सदसद्विलक्षणः स्त्रीपुंतनुभ्यां हि यथा नपुंसक: ॥ यद्वा प्रकार: खलु सद्विलक्षणो दुःखानृतान्तात्मतया प्रतीतितः ॥ ५१॥ अयमिति। अयमनुभूयमानः प्रकारः सच्चेद्क्तव्यस्तर्हि नश्यति। नाऽसतो विद्यते भाव इति स्मृतेः । सद्विलक्षणो अस- च्चेद् वक्तव्यस्तर्हि प्रतिभाति। न वन्ध्यापुत्रवदसत्। अत उभ- यविलक्षण: तत्र दृष्टान्तः स्पष्टः । तथा च सदसद्विलक्षणो नामाऽनिर्वचनीयप्रकार इति फलितोऽर्थः। असद्विलक्षणमित्युक्ते ६ Digliized by Mlerosoll 8

Page 46

४२ स्वानुभवादर्श:

सत्यतिव्याप्तिः अत उक्तं सद्विलक्षणमिति। तावत्युक्ते Sसत्य- तिव्याप्तिरत उक्तम् सद्विलक्षणमिति अभ्युपेत्येदमुक्तम् । अस- ति निःस्वरूपेऽतिव्याप्तिशङ्कानवकाशात्। असन्नाम किश्चिदस्ति- चेदसत्वव्याघातो नास्ति चेत् कुत्रातिव्याप्तिरित्यस्वरसा- लक्षणान्तरमाह। यद्वेति। सद्विलक्षणत्वमनिर्वचनीयत्वम्। कुतः दुःखानृतान्तात्मतया प्रतीतेः। सत्यज्ञानानन्दानन्तं ब्रह्म तद्विल- क्षणत्वेनाऽनुभूयमानत्वात् सद्विलक्षणत्वमनिर्वचनीयत्वं मायात - त्कार्यस्येत्यर्थः । ननु तर्हि कथमाचार्योक्तिः। सदसन्भयामनि- र्वचनीयमितिचेत् प्रथमतः शिष्यबुद्धिव्युत्पादनमात्रे तात्पर्यादा- चार्याणामिति। कालत्रयावाध्यत्वं सत्वं तद्भिन्नमनिर्वचनीयमि- त्यर्थः ॥५१॥ यत् पूर्वमुक्तं सद्धर्मिणं सद् ब्रह्म तद्धर्मिणमाच्छादयतीति तत्र विशेषमाह- सत्ता स्फुरत्ता परमात्मनो या नाऽडच्छाद्यते सा ह्युपजीव्यभावात॥ आनन्दमाच्छादयतीव माया तन्नाशने तत्वमसीतिवाक्यम् ॥ ५२॥ सन्तेति। सच्चिदानन्दं ब्रह्म तत्र संदश चिरदशं च माया मूलाज्ञानं ना Sऽच्छादयति। कुतः। स्वस्योपजीव्यभावादुपजी- व्यत्वात् सदशचिदंशयोः स्वोपजीवकत्वेन। तयोराच्छादने अज्ञानस्यैव सिद्धिर्न स्यात्। अहमज्ञो मामहं न जानामीत्य- ज्ञानसिद्धिसाक्षिणैवा Sनन्यगतिकत्वात्। प्रमाणैरज्ञानसिद्धिश्चे द्वाच्या तर्हि तन्निवर्त्तकं किमपि न स्यात्। तस्मात् केवलसाक्षि- भास्यमज्ञानं स्व्रोपजीव्यसच्चिदंशौ ना SSव्ृणुते। किं तर्हि तदाह Digiiized by Mielasoli F

Page 47

स्वानुभवादर्शः । ४३

आनन्दांशाच्छादननिवृत्तौ तत्वमादिवाक्यं समर्थमित्यध्याहारः । आनन्दमाच्छादयतीव सम्यगविचारितत्वादिवशब्दप्रयोगः । तन्नाशने वाक्यविचारजन्यतत्वज्ञानेना डज्ञाननिवृत्तौ स्वप्रका- शानन्दाविर्भावः स्वत एवेत्यर्थः ॥ तदुक्तमाचायैः। प्रत्यग्बोधो य आभाति सो उद्धयानन्दलक्षणः । अद्टयानन्दबोधश्च प्रत्यग्बोघैकलक्षणः ।। इदमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत्। अव्रह्मत्वं त्वमर्थस्य व्यावर्त्तेत तदैव हि॥ तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु। पूर्णानन्दैकरूपेण प्रत्यग्बोधोवतिष्ठत इति ॥ अत उक्तं तन्नाशने तत्त्वमसीति वाक्यम्॥ ५२॥ अखण्डस्वरूपत्वे उप्यंशाच्छादने द्ृष्टान्तमाह- यथा हिमांशुः खलु तैजसोऽयं प्रकाशकत्वान्नहि तत्प्रकाशम् ॥ उपाधिराच्छादयतीति दृष्टं तदुष्णतांशः पिहितो ऽनुभूयते॥ ५३ ॥ अथेति। प्रकाशोष्णत्वं तेजः स्वरूपमखण्डं तत् तेज आ- व्यचन्द्रमण्डले प्रतिफलितं यदा भवति तदा उपाधिः चन्द्र- मण्डलमुपहितस्य तेजसः उष्णत्वमाछादयति न प्रकाशं यथा- तथा अज्ञानं सदंशं चिदंशं ना Sछादयति किन्तु आनन्दां- शमित्यर्थः ॥५३॥ - आवरणविक्षेपशक्तिं लक्षयति। तत्प्रसङ्गाद् विद्यामपि ल- क्षयति- आविर्भावोत्पादकं यत् स्वरूप- Digrlized by Merosoll 6

Page 48

४४ स्वानुभवादर्श:

स्यैषा विद्या यत्तिरोधानमन्या॥ विद्याविद्ये ते च जीवाश्रिते स्तो नेशस्थे ते तस्य सर्वज्ञतायाः ॥५४॥ आविर्भावइति। स्वरूपस्य यदाऽडविर्भावोत्पादकं सा विद्या यत् स्वरूपस्य तिरोधानं सा ऽन्या SSवरणशक्तिरविद्येत्यर्थः । एते च विद्याविद्ये जीवाश्रिते नेशस्थे ते इश्वरनिष्ठे न स्तस्तस्यो- पाधे: शुद्धसत्वप्राधान्येन वक्ष्यमाणस्य विक्षेपशत्याख्यमाया- रूपस्य सर्वकल्पनाधिष्ठानत्वेन सर्वानुस्यूतत्वाद् दीपवत् स्वसं- म्बद्धसर्वावभासकत्वेन च सर्वज्ञत्वाद् हेतोरित्यर्थः। जीवोपा- धेरविद्याया: मलिनसत्वप्राधान्येन च सर्वज्ञत्वमतो विद्याविदये द्वे अपि जीवाश्रिते एवेति भावः ॥५४॥ विक्षेपशक्तिं लक्षयति- कार्योत्पादे या समर्थाडस्ति शक्ति- र्विष्णो ज्ञैया नाम विक्षपशक्ति: ॥ मानं वेद: प्राह शक्तिद्वयं तत् सवानर्थप्राप्तिमूलं जनानाम् ॥ ५५॥ कार्येति॥ विक्षेपशक्ति: लिङ्गादि ब्रह्माडान्तं जगत् स- जेदित्याचार्योक्ेः। आवरणविक्षेपशक्तिद्वयं न स्वकपोलकल्पितं किन्तु श्रुतिमूलं नाऽतोऽत्राऽपामाण्यशङ्का कार्येत्यभिपायः। तथा च श्रुतिः ॥ नतं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव। नीहारेण पाव्टता जल्प्या चासुतृप उक्थशासश्ररन्ति॥ इमाः प्रजाः यो जजान उत्पादयां वभूवेत्यनेन विक्षेपश- Dig/Nzed by Microsoli E

Page 49

स्वानुभवादर्शः । ४५

क्तिरुक्ता। न तं विदाथ इति श्रुतिभागेनाऽडवरणशक्तिजीवनि- ष्ठेत्युक्तम्। प्रजाजननसामर्थ्यादीशस्य सर्वज्ञत्वमर्थसिद्धम्। न ह्यसर्वज्ञो विचित्रं प्रपश्चं रचयेदित्यर्थः ॥५५॥ एवं ज्ञानं समस्तं खलु धर्मिमात्र इत्याद्यारभ्य कार्योत्पाद इत्यन्तैः श्लोकैरधर्मि ब्रह्मैव सत्यं तत्र प्रपञ्चः प्रकारीभूतो Sनिर्व- चनीयत्वादमामाणिक इति तत्पदार्थशोधनमनेन प्रकारेण कृतम्। अधुना प्रकारान्तरेण तदेवोच्यते- भयं द्वितीयाज्जवतीति वेद- स्तथा डभयं वै जनकेतिवेदः ॥ श्रुत्योर्विरोधे समुपस्थिते हि पूर्वश्रुतेर्बाधमुदीरयामि ॥ ५६ ॥ भयमिति॥ द्वितीयाद्वै भयं भवतीत्युत्का वृहदारण्यक- श्रुति द्वितीयां अभयं वै जनक प्राप्तोऽसीति तत्रत्यैव तयोरुभयोः श्रुत्योरितिविरोध: शेषं स्पष्टम् ॥५६॥ बोधप्रकारमाह त्रिभि :- ब्रह्मैव सर्वै जगदित्थमेका ह्यात्मैव सर्वै श्रुतिराह चान्या।। य एष सर्पस्तव रज्जुरेषा यथा तथा वस्तुनिरूपणं तत ॥ ५७ ।। ब्रह्मातिरिक्तं न हि किश्चिदन्य- त्प्रतीयते वाक्यविचारणेन ।। Dighzed by Micrasoti w

Page 50

४६ स्वानुभवादर्शः

तथा Sनुभूतिश्र समाधिकाले स्वात्मातिरिक्तं न हि भाति किश्चित ॥ २८॥

व्रह्मेति। स्पष्टार्थौ श्लोकौ ॥७॥५८॥ प्रतीयते वाक्यार्थविचारेणेत्युक्तम् तत्र वाक्यार्थमाह- व्रह्मैवेदमिदं हि वाक्यमुदितं वेदे तदर्थरत्वयं सामानाधिकरण्यमत्र गदितं बाधो महासूरिभिः ॥ मुख्यार्थानुपपत्तिहेतुकतया गत्यन्तरादर्शनात् यः सर्पस्तत रज्जुखण्डमिव तद्वेदान्तवाक्येष्वपि।।५९।। ब्रह्मैवेदमित्यादि॥ ब्रह्मैवेदमिदं सर्वमिति वाक्ये ब्रह्म- पदसर्वपदयोः सामानाधिकरण्यं नामैकविभक्तिकत्वे सति भिन्न- पवृत्तिनिमित्तानां शब्दानां एकस्मिन्नर्थे वृत्ति: सामानाधिकरण्यं तन्मुख्यार्थानुपपत्तिहेतुकतया जडाजडयोरैक्यायोगान मुख्या- र्थासम्भवात् गत्यन्तरादर्शनाच्च यः सर्पस्तद्रज्जुखण्डमितिवद्धाधे सामानाधिकरण्यं यथा तथा ब्रह्मैवेदमित्यादिवेदान्तवाक्येष्वपी- त्यर्थः । ननु नीलोत्पलमितिवत्सामानाधिकरण्यं मृद्धट इतिवद्वा सामानाधिकरण्यमत्राप्यस्त्वित्यत आह। गत्यन्तरादर्शनादिति। जडाजडयोः सर्वयोः ब्रह्मगुणगुणित्वासम्भवान्न नीलोत्पलमि- तिवत् सामानाधिकरण्यं नाऽपिमृद्धटइतिवद् ब्रह्मणो निरंशत्वेन विकाराभावात् तस्माद् बाधाख्यमेव सामानाधिकरण्यं युक्तमित्य- र्थः। तथा च द्वितीयस्य बाधितत्वात् द्वितीयाद्वै भयं भवतीति- श्रुतेः । परमार्थिकश्रुत्या वाध इति भावः ॥५९॥ एवं श्रुतिप्रमाणेन बाधितत्वमुक्तं तत्राSनुकूलमनुमानमाह- Diglnized by Memsoll F

Page 51

स्वानुभवादर्शः ।

यदज्ञानतो यत्समुत्पद्यते तद्- मृषा वस्तु तत्ज्ञानतस्तस्य बाधः ॥ इति व्याप्तितो ब्रह्मणो ऽन्यत्समस्तं जगद् बाधितं रज्जुसर्पेण तुल्यम् ॥ ६० ॥ यदिति॥ अत्राऽयम्प्रयोगः । विमतं जगद् बाधितमधि- ष्ठानादुत्पक्त्वे सति तद्ानवाध्यत्वात् । यद्यधिष्ठानाज्ञानादुत्प- दयते तत्तद्धिष्ठानज्ञानाद् वाधितं यथा रज्जुसर्पः। तदुक्तमाचारयैः। तावत् सत्यं जगद्भाति शुक्तिकारजतं यथा। यावन्नाशयते ब्रह्म सर्वाधिष्ठानमव्ययम् ॥६०॥ अत्राडर्ये स्वानुभवं प्रमाणयति- ब्रह्माज्ञानं स्वाऽनुभूत्या ममाऽडसीत् तस्माज्जातं दृश्यजातं समस्तम् ॥ ब्रह्म ज्ञानात्स्वानुभूत्या समस्तं ब्रह्मण्येतद्बाधितं मे विभाति ॥ ६१ ॥ ब्रह्मेति॥ जीवस्याऽनादित्वान् ममाऽऽसीदित्युक्तम् । तदुक्तं साम्पदायिकैः । जीव ईशो विशुद्धा चित्तथा जीवेशयोभिंदा। अविद्या तच्चिदोर्योग: षडस्माकमनादय इति ॥ ६१ ॥ ननु जगद् बाधितं मे विभातीत्युक्तम्। तत्र शुक्तिज्ञाने क- ल्पितरजतानवभासवत् जगदनवभास एवाऽस्त्वित्यत आह- उपाधिनाशेन बिना न चाडस्य सोपाधिकत्वात्प्रतिभासनाशः ।। Digiiized by Microsoti ®

Page 52

४८ स्वानुभवादर्शः

उपाधिनाश: ख़लु कर्मनाशा- त्ततो Sस्य सर्वः प्रतिभासनाशः॥६२॥ उपाधिनाशेति ॥ विपर्ययो मिथ्याज्ञानं अतास्मिस्तद्वु- द्धिरिति यावत् । स च द्विविधः । सोपाधिको निरुपाधिकश्च । तत्र निरुपाधिको द्विविधः।बाह्य आभ्यन्तरश्व तत्र वाह्यः शुक्ताविदं रजतमित्यादि अहमज्ञो ब्रह्म न जानामीत्यादिराभ्यन्तरः । सोपाधिकोऽपि द्विविधः । पूर्ववत्। तत्र लोहितस्फटिक इत्यादि बाह्यः। आकाशादिप्रपश्चोऽपि बाह्यः सोपाधिकः कर्माविद्या- कार्यत्वात्। तत्वज्ञानिनोऽपि निवटत्तेऽप्यज्ञाने प्रारब्धक्षयपर्यन्तं प्रपश्चस्योपल्धिदर्शनाच्च कर्तृत्वादिभ्रम आभ्यन्तरः सोपाधिक- इति। एवं स्थितौ प्रवृटत्तेः प्रपश्चस्य सोपाधिकत्वेन उपाधिनाशं विना प्रतिभासनाशो न भवति। उपाधिनाशः कस्माद् भवति उपाधिनाशोऽपि कुतो न इत्यत आह। कर्मनाशान्भोगेन प्रारब्ध- कर्मनाशादुपाधिनाशो भवति ततोऽस्य जीवन्मुक्तस्य वाधितज गत्मतिभासनाश इत्यर्थः । तथा च वाधित मे विभातीत्युक्तं यु- क्तमेवेतिभावः। साम्प्रदायिकैरप्युक्तम्। शास्त्रेण नश्येत् परमार्थरूपं कार्यक्षमं नश्यति चाSपरोक्षात्। पारब्धनाशात् प्रतिभासनाश एवं त्रिधा नश्यति चात्ममाया। इति। लोहित: स्फटिक इत्यादिलौकिकेऽपि भ्रमे स्फटिकस्य प्र- माणान्तरेण शुक्कत्वे ज्ञातेSपि उपाधेर्जपाकुसुमस्य यावत्साननिध्यं तावल्लौहित्यं भासते सोपाधिकभ्रमत्वात् तद्वत्प्रकृतेऽपीति भावः॥६२।। श्रुतार्थापत्तिप्रमाणादपि जगद् वाधितमित्याह -- Dialzed by Mieresofi

Page 53

स्वानुभवादरशेः । ४९

बाधस्यार्थापत्तितो दृश्यजातम् ब्रह्मण्येतत्कल्पितं कल्पयामः । नाडयं सर्पो बाध एवं हि लोके वेदे तावन्नेह नानेति बाध: ॥ ६३ ॥ घाधस्येति॥ नेह नानाऽस्ति किञ्चनेति श्रुतौ वाधः श्रयते तथा नेतिनेतीति बाधोऽपि श्रूयते तदन्यथानुपपच्या ज- गत्कल्पितमिति कल्पयाम इत्यर्थः ॥६३ ॥। बाधलक्षणमाह- सोपाधिकं वा निरुपाधिकं वा पूर्वे प्रतीतिर्यदिहास्ति तस्य ।। ज्ञानान्तरासत्त्वतया प्रतीतिः स बाध इत्त्युक्त इह प्रवीणैः ॥ ६४ ॥ सोपाधिकमिति॥ यथोक्तरीत्या सोपाधिकं निरुपा- धिकं वा यत्पूर्व प्रतीतं इह व्यवहारभूमौ यदस्ति तस्य प्रमाणज- न्यज्ञानान्तरेण सत्वप्रतीतेर्वाध इह वाधनिरूपणप्रवीणैर्निपुणै- र्वाध इति उक्त इत्यर्थः । तथा च श्रुतिः। तथा विद्वान्नामरूपा- द्विमुक्तः परात्परं पुरुषमुपैति दिव्यमिति। यथोक्तबाधलक्षणं श्रुतिमूलं ज्ञेयं नेदं स्वकपोलकल्पितमिति भावः ॥ ६४ ॥ प्रपश्चमिथ्यात्वं चेन्न स्वीक्रियते तर्हि प्रपश्चसत्यवादिनः पूर्वमीमांसकादीन् प्रति वाधकमाह- सत्यं ज्ञानमनंतमेवमनिदानन्दं परं केवलं सच्छुद्धं गुणविक्रियादिरहितं बह्मेति चिन्हं यदा॥ ७ Diglized by Motosolii

Page 54

५० स्वानुभवादर्श:

बुद्वं वेदविदा तदैव त्रिदितो मिथ्याप्रपंचसत्वयं सत्यत्वे ह्युभयोरन लक्षणमिद व्यावर्त्तकाभावतः॥६५॥ सत्यमिति॥ ब्रह्मणः चिन्हं स्वरूपलक्षणं वेदविदा विदितं तदैव तस्मिन्नेव काले प्रपश्चो मिथ्येति विदित इति सम्बन्धः । इति कर्थ तदाह। सत्यं कालत्रयबाधाभावोपलक्षितं स्वरूपं ज्ञानं ज्ञप्तिस्वरूपं अनन्तं त्रिविधपरिच्छेदशून्यम् । तदुक्तम्। न व्यापित्वाद्देशतो उन्तो नित्यत्वान्ना Sपि कालतः । न वस्तुतो Sपि सार्वात्म्यादानन्त्यं ब्रह्मण स्तििधेति॥ अनिदं तादृगिदं ईद्दगिदममिति व्यवहारायोग्यमनिदं तच्च तत् आनन्दं चेति द्वन्दैकवददावः। परमुत्कृष्ट अत एव केवल- मेकं सत्सत्तामात्रम्। शुद्धं निर्मलमविद्यामलरहितं अत एव गुणविक्रियादिरहितं गुणाः सत्वरजस्तमासि विक्रिया परिणाम आदिपदात् परिस्पन्द एभीरहितं ब्रह्मेति लक्षणं ज्ञातं तदैव प्रप- श्चमिथ्यात्वं सिद्धमित्यर्थः । कथ सिद्धं तदाह। उभयोः ब्रह्म- प्रपञ्चयोः सत्यत्वे ब्रह्मलक्षणस्य व्यावर्त्तकाभावात्। ब्रह्मल- क्षणमसिद्धं चेस्याच्छूरुतेरुन्मत्तपलपिता स्यात्। तच्चाSनिष्ट- मतो लक्षणसिद्ध्यन्यथानुपपत्या प्रपञ्चमिथ्यात्वं सिध्यतीत्यर्थः। सत्यादिपदैः परमार्थत्वज्ञप्तित्वपूर्णत्वादिषु बोधितेषु सत्स्वर्थात् अनृतजडपरिच्छिन्नत्वादिव्याव्वत्तिः प्रतीयते पश्चादर्थादर्थो न चोदनार्थ इतिन्यायात्। अस्यार्थः । पश्चार्थीदर्थापत्तिपरमा णादर्थः सिध्यति न स चोदनार्थो न स शब्दाऽर्थ इतिन्या- यार्थः । यथा वध्येन मूपकादिना दूषितां भूमिमुपलभ्य तद्विरोधिनो घातकस्य मार्जारादेरभावो डर्थादवगम्यते तथा

Page 55

स्वानुभवादशः । ५१

सत्यादिपदात्पदार्थ परमार्थत्वादिक प्रतीत्य पूर्वप्रतीतस्य परमा- र्थविरोधिनो Sसत्यत्वादेरभावो जर्थापत्या ज्ञायते। न हि स- त्यादेरसत्यादेश्चैकाधिकरणत्वं घटते तेन मानान्तरसिद्धत्वा- दन्यव्यावृत्तिरशब्दार्थेति न्यायाभिप्रायः। तथा चोक्तं वार्तिके। प्रतिपद्य पदार्थ हि विरोधात्तद्विरोधिनः । पश्चादभावं जानाति वध्यघातकवत्पदादिति।। तथा चाऽन्यव्यावर्त्तकाभावात् सत्यादि ब्रह्मलक्षणं न- न सिद्धयेदतः प्रपश्चमिथ्यात्वमवश्यं स्वीकार्यमितिभावः।ब्रह्मणः सत्यज्ञानानन्दा: ब्रह्मणः स्वरूपलक्षणम्।स्वरूपं सव्यावर्तकं स्वरू- पलक्षणम्।यथा खं छिद्रं द्रव्या आप इत्यादिस्व रूपलक्षणम्। स्वरूं सदितेरभ्यो व्यावर्तकत्वात्।तथा सत्यज्ञानानन्दा: ब्रह्मणः स्वरू पलक्षणम्।ननु लक्ष्यलक्षणभावस्य भेदगर्भत्वाद् ब्रह्मणोऽखण्डैक- रसत्वेन कथं सत्यादेर्लेक्षणत्वमिति चेन्न। कल्पनीयभेदाभ्युमगमेन तदुक्तम्। आनन्दो विपयो Sनुभवो नित्यत्वं चेति सन्तो धर्माः ब्रह्मणो Sपृथक्केऽपि पृथगिवाऽवभासन्त इति। न चाऽपृथत्के तेषां पृथच्कावभास: किम्पयुक्त इति वाच्यम्। अन्तःकरणध- र्मोपाऽधिव्शात् पृथगवभासोपपत्तेः । तथाहि। बाधाभावविशिष्टं सत्यं वृत्यवच्छिन्नं चैतन्यं ज्ञानमित्यादि वृत्त्यवच्छिनं चैतन्यमा- नन्दः यद्वा व्यञ्जकटृत्युपहितं ज्ञानं अनुकूलवृत्युपहितं चैतन्यमा- नन्दः।ततस्तेपां ब्रह्मणश्च वास्तवभेदाभावे Sप्यौपाधिकभेदसत्वा- छक्ष्यलक्षणभाव उपपद्यते एवं च सत्यं ब्रह्मेत्युक्ते नैय्यायिका- भिमतसत्तासामान्ये Sतिव्याप्तिः लक्षणस्य ब्रह्मणो जडत्वाप- त्तिश्च अत उक्तं ज्ञानमिति। ज्ञानं ब्रह्मेत्युक्ते पराभिमतात्मसमवे- तज्ञाने Sतिव्याप्तिर्लक्ष्यस्य ब्रह्मणो Sनित्यत्वापुरुषार्थत्वपसङ्गाच्च

Diginzed by Microsoli ®)

Page 56

५२ स्वानुभवादर्शः

ब्रह्मणोऽनित्यत्वं दुष्परिहरमिति वाच्यं। सत्येतिविशेषणेन तत्प- रिहारसम्भवाद्। आनन्दो ब्रह्मेत्युक्तौ विषयसुखेऽतिव्याप्तिर्लक्ष्य- स्य जडत्वप्रसङ्श्व तन्निवारणाय ज्ञानमित्युक्तम्। लक्षणाSनित्यत्व- परिहाराय सत्यमित्युक्तम्। ननु सत्यज्ञानानन्दशब्दानां भिन्ना- र्थत्वेनाऽनन्दादिगुणकं ब्रह्मैव लक्षणवाको न प्रतिपाद्यते ततश्च कथमखण्डैकरसत्वमिति चेन्मैवम्। सत्यं ज्ञानमनन्त ब्रह्म आन- न्दो ब्रह्मेति व्यजानात् विज्ञानमानन्दं ब्रह्मेत्येवमादिवाक्येषु सत्यज्ञानानन्दादिशब्दानां सामानाधिकरण्येनाSखण्डैकरसानन्द- ब्रह्मबोधकतया गुणगुणिभावकल्पनायां मानाभावात्। न च तेषामेकार्थप्रतिपादकत्वे सत्यादिपदानां पर्यायतापत्तिरिति वा-

शः।पर्यायो नामाऽनेकेषां शब्दानां यत्र प्रवृत्तिनिमित्तमेकम्।ते पर्या- यशब्दाः।यथा ब्राह्मणविपाद्याः शब्दाः पर्यायाः। एकस्यैव शब्द- स्य यत्र प्वृत्तिनिमित्तभेदस्ते शब्दाः नानार्थाः यथा हरिगोत्रप- मुखा इति विवेक:। न चैवमपि लोके वाक्यस्य संसर्गविशि- ष्टान्यतरपतिपादकत्वदर्शनेन कथमखण्डप्रतिपादकत्वमिति चेन्न। घटः सन्द्रव्यं पृथिवी प्रकृष्टपकाशश्न्द्र इत्यादिवाक्यानां लोके डपि लक्षणया अखण्डव्यक्तिपतिपादकत्वदर्शनेन प्रकृतेऽपि तत्स- म्भवात्। तत्र तावद्विशिष्टे शक्तानां पदानामखण्डचैतन्यभागलक्ष- णतया सत्यत्वादीनि पदानि अखण्डैकरसानन्दव्यक्तिं बोधय- न्ति। न चैकपदेन तद्वोधसम्भवे पदान्तरवैयर्थ्यमिति वाच्य- म्। पदस्य स्मारकत्वेन वाक्यस्यैवाऽनुभावकत्वात् पदान्तरसा- र्थक्यम्। अत्र ब्रह्मेति लक्ष्यपदम्। शेषाणि सत्यादीनि लक्षणस- मर्थकानि। एतेषां च पदानां ब्रह्मपदेन प्रत्येकं प्रथमं सत्यं ब्रह्म ज्ञानं व्रह्मा Sनन्तं ब्रह्माSऽनन्दं ब्रह्म एवमन्वितानां पश्चात् सा-

Page 57

स्वानुभवादर्शः । ५३

मानाधिकरण्येन परस्परमपि सम्वन्धसिद्धिः। यथा रुणया पिङ्गाक्ष्या गवैकहायन्या सोमं क्रीणातीत्यत्र क्रयवाचिपदानां परस्परमन्वयात् तथाऽत्रापीति वोध्यम्। एवं वेदविदा यथोक्त- मार्गेण यदा ब्रह्मलक्षणं बुद्धं तदैव प्रपश्चमिथ्यात्वसिद्धि: स- म्पन्नेति। अतः परिच्छेदो न विद्यते यस्य तदनन्तं त्रिविधप- रिच्छेदशून्यमित्यर्थः । तदुक्तम् । न व्यापित्वाद् देशतो ऽन्तो नित्यत्वान् नाऽपि कालतः। न वस्तुतोऽपि सार्वात्म्यादानन्त्यं ब्रह्मणस्त्रिधेति ॥६५॥ ताच्विको जन्यथाभावः परिणामः अतात्विको ऽन्यथाभावो विवर्त्त इति परिणामविवर्तयोः केषांचिल्लक्षणम्। एवं च प्रकृतेः प्रपश्चे विवर्तलक्षणसद्भावात् प्रपश्चस्य विवर्त्तत्वं दर्शयति- यथा रज्जुरग्रेऽन्यथा भाति पुंसां यथा वस्त्वविज्ञानतस्तद्वदेव।। यथा वस्त्वविज्ञानतो ज्ञप्तिरेषाड न्यथा भाति तस्याविवर्तः प्रपंचः ॥ ६६॥ तथेति। इ्ञप्तिः चैतन्यं चिद्विवर्त्तः प्रपश्च इत्यर्थः ॥ शेष स्पष्टम् ॥६६॥ अथ ब्रह्मणो Sभिन्ननिमित्तोपादानत्वं दर्शयन् प्रपश्चस्य तद्विवर्त्तत्वं दर्शयति- यतो वा इमानीति वेदोक्तरीत्या जगत्कास्णं ब्रह्म कार्य प्रपंच: ।। लयस्य श्रुतेः कार्यमात्रस्य तस्मि- न्नुपादानता ब्रह्मणो न्यायतश्र ॥ ६७॥ Digiiized by Miciosott G

Page 58

५४ स्व्रानुभवादर्शः

यतो वेति। यतो वा इमानि भूतानि जायन्ते येन जा- तानि जीवन्ति यत् प्रयन्त्यभिसंविशन्तीति तद्विजिज्ञासस्व त- दूव्रह्मेति श्रुत्युक्तरीत्या ब्रह्म जगत्कारणं तत्कार्य प्रपश्नः ।ज- गत्कारणं ब्रह्मेत्युक्तमनेन निमित्तकारणत्वमात्रं प्रतीयते नोपा- दानत्वमत आह।। लयस्य श्रुतेरिति यत्मयन्त्यभिसंविशन्तीति श्रुतिभागेन उपादानकारणत्वमपि सिद्धं न्यायतो युक्तितश्र त- रिसिद्धमित्यर्थः। उपादानकारणत्वं न हि कुलाले निमित्तका- रणे घटादेर्लयो दृष्टः । तस्माल्लयश्रवणान्यथातुपपच्या ब्रह्मा-

ननु ब्रह्म चेदभिन्ननिमित्तोपादानं तर्हि ब्रह्मण: चिद्ूपत्वात् ततो जायमानं कार्यमपि चिदूपं स्यात् तत्तु न दृश्यते अतो नोपादानकारणत्वमित्यत आह- विलक्षणाद्गह्मण एव कार्य- विलक्षणं जायत एव सर्बम्।। स्त्रप्नप्रपंचे परिद्ृष्टमेत- दतो विवर्त्तः सकलः प्रपंचः ॥ ६८ ॥ विलक्षणादिति। विलक्षणादेव चिद्रूपादेव ब्रह्मणो वि- लक्षणमेव जडरूपमेव कार्य जायते। इदं क दष्टमित्यत आह॥ स्वम इति चिद्ूपाज्जीव- [ वालाग्रशतभागस्य शतधा कल्पितस्य च। जीवो भाग: स विज्ञेयः स चाऽडनन्त्याय कल्पते ॥] -चैतन्याद विलक्षणात् स्वम्नपपश्चो गजतुरगादिजडरूपो विलक्षणो विवर्त्तो हृष्टः तद्वत् प्रकृते उपात्यर्थः॥ आत्मनि चैवं विचित्राश्चैवहीति सूत्रेण भगवतो वादरायणाचार्येण जीवचैत- Diginzed by Microsolt ®

Page 59

स्वानुभवादर्शः । ५५

न्यस्य स्वप्पपश्चोपादानत्वमुक्तम् ॥ न च जीवचैतन्यस्य स्व- परपपश्चोपादानत्वे अहं गज इत्यादिप्रतीतिः स्यादिति वाच्यम्। स्वप्नभ्रम: तावज्जाग्रत्संस्कारजः श्रुत्यनुभवासेद्धः । संस्कारस्तु यादृशो डनुभवः तादृश एव। यदहं गज इत्यनुभवः स्यात् तर्हाहं गज इति संस्कारजन्यः स्वप्नः स्यान् न तादृशो Sनुभवो ना डतो डहं गज इति स्वन्नपत्ययः। तस्माद् यथा स्वन्नप्पश्चे जीवचैतन्यविवर्तः तथा विलक्षणवाह्यपपश्चाद् विलक्षणो ब्रह्मचैतन्यविवर्त इतिसि- द्म्। यतो वा इमानि भूतानीति श्रुत्या यज्जगत्कारणत्वमु- क्तमिदमेव ब्रह्मण: तटस्थलक्षणम् । कादाचित्कत्वे सति व्यावर्तकत्वं उपलक्षणमित्युच्यते ।। यथा काकवन्तो देवद- त्तगृहाइति देवदत्तगृहलक्षणं तटस्थलक्षणं देवदत्तगृहे काकवत्वस्य कादाचित्कत्वं वर्त्तते इतरगृहेभ्यो व्याव- तकत्वं च। सृष्टिस्थितिपलयकारणत्वं ब्रह्मणः तटस्थलक्षणम्। सृष्टिस्थितिमलयकारणत्वस्य कल्पितच्वात् कादाचित्क्त्वं सजा- तीयाज्जीवाद् विजातीयादचेतनात् च व्यावर्तकतत्वात् तटस्थल- क्षणमिदम्। सृष्टिस्थितिप्रलयकारणत्वं॥ सृष्टिरुत्पत्तिः स्थिति: पालनं कारणे कार्यस्य सूक्ष्मरूपेणावस्थानं लयः लयकारणत्व- मित्युक्ते ब्रह्मण उपादानकारणत्वमेव स्यात्। यत् कार्य यत्र लीयते तत्कार्य प्रति तस्योपादानत्वनियमात् । निमित्तकार- णमन्यदेव स्यात।तथा चाउद्वैतश्रुतिविरोधः स्यात् तदर्थमुक्तम्। स्थितीति। स्थितिलयकारणत्वमित्युक्ते उत्पत्तिकारणदण्डादीव निमित्तकारणमन्यदेव स्यात् तथा च पूर्वोक्तदोषः तद्व्यावृत्य- र्थमुक्तम् सष्टीति। सृष्टिस्थितिकारणत्वमित्युक्ते: कुलालादिव- ड्रह्मणो निमित्तकारणत्वमेव स्यादुपादानकारणमन्यदेव स्यात् तथा च सिद्धान्तविरोधः।अत उक्तं लयेति। तदेवं सष्टिस्थिति- Digliiżed by Microsoli ®)

Page 60

५६ स्वानुभवादर्श:

लयकारणत्वमित्युत्या ब्रह्मणो Sभिन्ननिमित्तोपादानत्वं सिध्य- ति। एवं प्रकृतिः च प्रतिज्ञादृष्टान्तानुपरोधादिति सिद्धान्तो न विरुध्यते। तथा च लक्षणस्या 5यं निष्कर्षः। जगत्कर्तृत्वे सति जगदुपादानत्वं तटस्थलक्षणं ब्रह्मण इति। अत्राऽपि जगदुपा- दानत्वं तटस्थलक्षणमित्युक्ते मायायामतिव्याप्तिः मायाविशिष्टस्य जगदुपादानतया विशेषणीभूतमायाया अप्युपादानत्वाऽवश्यंभा- वात् कार्यान्वितस्यैव विशेषणत्वात्। मायां तु प्रकृति विद्यादि- त्यादिश्वुत्या मायाया उपादानत्वावगमात् च । तत्राऽतिव्याप्ति- वारणाय जगत्कर्तृत्वे सतीत्युक्तम्। लक्षणस्य त्रीणि दूषणानि अव्याप्त्यतिव्याप्त्यसंभवाश्रेति। लक्ष्यैकदेशे लक्षणस्यावर्त्तन- मव्याप्तिः । अलक्ष्ये लक्षणगमनमतिव्याप्तिः। लक्ष्ये क्ाप्यवर्त- नमसंभवः।ततश्राऽतिव्याप्तेरपि दूषणत्वविशेषणमर्थवत्। कर्तृत्वं नाम उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्वं तच्व चैतन्यस्यैव सम्भवतीति न मायाया अतोनातिव्याप्तिः। जगत्कर्तृत्वमित्युक्ते- नैयायिकाऽभिमततटस्थेश्वरेऽति व्याप्ति: तस्य वेदान्तासंगतत्वेना- लक्ष्यत्वात् तद्याटृत्यर्थमुत्तरदलं जगदुपादानत्वमिति। परमा- ण्वादिजगत्समवायिकारणमीश्वरो जगत्कर्त्तेति जगदुपादानत्व-

त्वाङ्गीकारान् नातिव्याप्तिः। नन्वेकस्योपादानत्वं च कर्तृत्वं च विरुद्धं लोके तथाSदर्शनात् न हि घटकर्त्ता कुलालो घटोपादानं घटोपादानभूतो मृत्पिण्डो वा घटकर्त्ता किन्तु मृत्पिण्ड उपादानं दृष्ट- विरोधापत्ते: दृष्टपूर्वकत्वाददृष्टकल्पनायाः। ननु वयं न कल्पयामः॥ तदैक्षत बहुस्यां प्रजायेयेति श्रुतिरेव बोधयतीति चेन् न । दृष्ट- विरोधे श्रुतेरर्थान्तरसम्भवात तस्मादभिन्ननिमित्तोपादानत्वम- नुपपन्नमिति प्राप्ते ब्रूमः। तदैक्षत बहुस्यां सो Sकामयत बहुस्या

Page 61

स्वानुभवादशेः । ५७

प्रजायेयेत्यादिश्रुत्या तु बहुभवनकामयतृत्वश्रवणाच्चेतनस्य ब्र- ह्रण एवोपादानत्वं जगत्कर्तृत्वं चाऽवगम्यते। न च तद्धाधितुं युक्तं उपक्रमोपसंहारादितात्पर्यलिङ्गैरद्वितीये ब्रह्मणि वेदान्त- तात्पर्ये निर्णीते सामान्यतोद्दष्टानुमानेन श्रत्यर्थवाधायोगात्। श्रुतिविरोधे प्रमाणान्तराणामाभासत्वात्। यदपि लोके दर्शना- दुपादाननिमित्तयोर्भेदोऽभयुपेयत इति/तदसद्।ऊर्णनाभ्यादेरभिन्न- निमित्तोपादानस्य दष्टत्वात्। यथोर्णनाभिः सृजते गृह्यते चेति श्रुतेः । ऊर्णनाभिः स्वप्राधान्येन निमित्तं सोपाधिप्राधान्येनो- पादानं च। तथा ब्रह्म स्वप्राधान्येन निमित्तं स्वमायोपाधिपाधा- न्येनोपादानम्। तथा च प्रपश्चो मायायाः परिणामो ब्रह्मणो वि- वर्त्त इति सिद्धम् ॥ ६८ ॥ किश्च श्रुतिसिद्धं नामरूपातिरिक्तं प्रपश्चस्य स्वरूपं नास्ती- त्याह- न नामरूपादपरं स्वरूपम् कार्यप्रपंचस्य हरेर्विचारात।। मायेन्द्रजालादिभिरस्य तौल्यं प्रतीयते स्वानुभवेन सम्यक् ॥ ६९ ॥ ननामेति। हरेरीश्वरस्य कार्यप्रपश्चस्य विचारे क्रियमा- णे सति नामरूपादपर स्वरूपं न प्रतीयते। न केवलं:श्रुति प्रमा- णम्।किन्तु सम्यगसन्दिग्धाविपर्यस्ततया स्वानुभवेनाऽपि नामरू- पान्ापरं रूपं प्रतीयत इत्यर्थः ॥ अनेन जीवेना Sऽत्मना Sनुप्र- विश्य नामरूपे व्याकरवाणीति छान्दोग्ये। तदेदं तर्हव्याक- तमासत्तिनामरूपाभ्यामेव व्याक्रीयत इति बृहदारण्यकश्रुतेश्र। तदुक्तमाचार्यैः । ८ Digiiized by Micrasoli ®

Page 62

५८ स्वानुभवादर्शः

अस्ति भाति प्रियं रूप नाम चेत्यंशपश्चकम्। आद्यं त्रयं ब्रह्मरूपं जगद्रूप ततो दवयमिति। अतो हेतोर्मायेन्द्रजालादि अस्य तौल्यं तुल्यत इत्यर्थः ॥ ६९॥ एवं जगदूपं नामरूपमात्रमुक्त्वा ब्रह्मस्वरूपमाह- यस्मिन्नदोऽध्यस्ततया विभाति त्द्यलुप्तद्टक् तत्परमार्थवस्तु॥ अन्तर्बहिर्यच्च सदैकरूपम् नान्तर्बहिर्षस्य ततोऽन्यदार्तम्॥७०॥ यस्मिन्निति। यस्मिन् अदः जगद्यदा विभाति भासते। तदा अध्यस्ततयैव विभाति न स्वतः सत्तास्फुरणाभ्यामित्यर्थः । अत एवोक्तं वार्ततिके। परमार्थमनालिंग्य न दृष्टं वितथं कचित्। अतो 5यं वित्थं सर्वे परमार्थैकनिष्ठितमिति॥ यस्मिनिद विभाति तत्स्वरूपमाह। हि निश्चयेन अलुप्द्टकू न लुप्ता दकू दृष्टिर्यस्य तदित्यर्थः॥ न हि द्रष्टुर्द्ृष्टेर्विपरिलोपो विद्यत इति श्रुतेः । चेत्यपरम्। अन्तर्वहिश्व शरीरान्तर्वाहिश्र देहलीदी- पन्यायेन प्रकाशकत्वाद्यदेकरूपमित्यर्थः । अत एव सदा ऽव्य- भिचारिरूपम्।यद्वा सदैकरूपं सर्वस्मिन् काले एकरूप न परिणा- मीत्यर्थः । यस्य स्वत आकाशस्य वाऽन्तर्वहिश्च विभागो ना- डस्ति तत् परमार्थवस्तु त्रिकालावाध्यं ब्रह्म ततो Sन्यदार्तवाधि- तमसत्यत्वादित्यर्थः ॥ ७० ॥ अध्यासलज्ञणमाह- परस्मिन्परस्यावभासोऽत्र सद्भिः मृषाधीश्र विश्रान्तिरभ्यासउक्त्तः ॥

Page 63

स्वानुभवादर्शः। ५९

गुडस्तिक्त इत्यादिकेडयं प्रयोज्योड हमज्ञो न जानऽद इत्यादिकेडपि ॥ ७१ ॥ परस्मित्निति। परास्मिन् अधिष्ठाने परस्या जवभासो मि- ध्याज्ञानमध्यास उक्तः। अध्यासस्यैव मृषाधीरमिथ्याज्ञानं भ्रा- न्तिरित्यादिपर्याया जेयाः। लक्ष्ये लक्षणं वर्तयति। गुडस्तिक्त इ- त्यादिना गुडेऽधिष्ठाने तिक्तस्या जवभासो मिथ्याज्ञानं तथाऽह मज्ञो मन्दो नजाने। तत्राऽहं अस्मच्छब्दस्याऽवलम्बनतया सा- क्षी चिद्रपः तस्मिन् अज्ञत्वं मिथ्याज्ञानमध्यासो ज्ञेयः। अज्ञांनाव- भासके अज्ञत्वप्रतीतिरयं कारणाध्यासो डहमदो घटादिकं न जाने अयं कार्याध्यास एवं योज्य इत्यर्थः ॥ ७१॥ नन्वध्यासो गुडः तिक्त इत्यादिके गुडतिक्तयो: परस्परा- ध्याससत्ता स्वीकार्या Sन्यथेतरप्रतीतिरेव न स्यात्। तस्मात् प- रस्पराऽध्यासो डङ्गीकर्त्तव्य इत्यागतम्। तथा च चैतन्ये प्रपश्चो उध्यस्तः प्रपश्चे चैतन्यमिति परस्पराध्यासे सम्यकूज्ञानेना ऽध्य- स्तयोर्निव्ृत्तौ शून्यवाद: प्राप्तः तत्र समाधानमाह- सत्यानृतात्मं मिथुनं परस्परम अध्यस्तमेतत्प्रतिभाति विभ्रमे। सम्यक् प्रबोधादनृतस्य पीडनात् सत्यस्य शेषान्नहि शून्यता दयोः ॥ ७२ ॥ सत्येति। अस्ति भाति पियं रूपं नाम चेत्यंशपञ्चक- मिदं सत्याऽनृतात्मकं मिथुनं विभ्रमे भ्रान्तौ परस्पराध्यस्त- मेतद्विभाति। तथा हि। अस्ति घटो भाति घटः परियो घट इ- त्यादिव्यवहारे सत्तास्फुरत्ताप्रियताः घटादयःपरस्पराध्यस्तयावि-

Page 64

६० स्वानुभवादर्शः

भान्ति।सत्तायां घटः घटे सत्ता, भाने घटोघटे च भानं, मियतारया घटो घटे च प्रियता। तत्र सत्तास्फूर्ती प्रसिद्धे। प्रियता हानुकूलवे- दनीयता। एवं परस्पराध्यस्ततयैव भान्ति । एकतराध्यासाङ्गी- कारे अपरस्य स्फुरणं न स्यादतः परस्पराध्यासो डङ्गीकर्तव्य इत्यर्थः।ननु परस्पराध्यासाङ्गीकारे सम्यक्ज्ञानेनोभयस्य वाधा- च्छून्यवाद: प्रसज्यत इत्यत आह। सम्यगीति। अधिष्ठानसम्य- कूज्ञानेनाऽनृतस्य बाधो योग्यत्वात्। सत्यस्य बाधावधित्वेन बा- धायोग्यत्वात् सत्यस्य शेषात् न शून्यवादः। यद्युभयमनृतं स्यात् तदा शून्यवादो वक्तव्यः।न चैवम्। तथा सति सम्यकूज्ञानेनाऽनृ- तस्यैव बाधो न सत्यस्य तेन च नशून्यवादइति भावः ॥७२॥ पूर्व नामरूपत्वात् प्रपच्चस्य मिथ्यात्वमुक्तं तदन्तर्गतक्रियायाः मिथ्यात्वं नोक्तमतः तस्यापि मिथ्यात्वकथनाय सप्तान्नब्राह्मणो- क्तमर्थमाह- व्यवहरति जीवो नामरूपक्रियाभिः स परिगणितसप्तान्नेषु मध्ये त्रिभिस्तैः ॥ परिपतति ततोऽधश्चोर्ध्वमायाति तूर्णम भ्रमति च बहु चास्मादिन्द्रजालं किमन्यत॥७३॥ व्यवहरतीति । बृहदारण्यके सप्तान्नब्राह्मणे श्रूयते। यत् सप्तान्नानि मेधया तपसाऽजनयत्पिता एकमस्य साधारणं द्वे देवानभाजयत्रीण्यात्मने कुरुते पशुभ्य एक प्रायच्छदिति। तत्र त्रीण्यात्मने कुरुते इत्युक्तं तानि कानीति स्वयमेव ऽनुव्याख्या नेन दर्शयति श्रृतिः 'मनो वाच प्राणानात्मने कुरुत इति'। अत्र मनः शब्देन रूपमुच्यते वाक्शव्देन वागिन्द्रियं निष्पाद्यं नाम। प्राणशब्देन क्रियाया: माणसाध्यत्वात् क्रियेत्युच्यत इति।

Page 65

स्वानुभवादर्शः । ६१

एकं त्रीहियवाद्यन्नं सर्वसाधारणं तु तत्। द्वे दर्शपूर्णमासाख्ये देवानामेव ते मते॥ क्षीरमेकं पशुनां तन् मनोवाक्प्राणरूपकम्। अन्नत्रयं चिदात्मार्थ तेन व्यवहरत्ययम्॥ अन्नेन मनसा रूपप्रपञ्चो Sत्रोपलक्ष्यते। वागिन्द्रियेण निष्पाद्यं नाम वागिह कथ्यते।। पश्चवृत्यात्मकात् प्राणादिह कर्मोपलक्ष्यते। नामरूपक्रिया एवमध्यात्मं रूपवार्णतम्। ब्रह्मादि स्थावरान्तं यत् तज्जगत्रयमेव हि।। नाम रूपं कर्म चेति नाऽस्ति वस्त्वन्तरं कचित्। एवं सति परिगणितसप्तान्नेषु मध्ये नामरूपक्रियाभि- स्ति्रिभिस्तैरन्नैर्मनआदिभि मिथ्याभूतैर्जीवो व्यवहरति। ततो नामरूपक्रियान्नव्यवहारात् पतति। नरक इति शेषः । ऊर्ध्व गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसा इति॥ गीतोक्तेः । तस्मान्नामरूपक्रियात्मकं जगन्मृषेति। तुर्ण चोर्ध्व स्वर्ग चाऽडयाति चेत्यपरं बहु तिर्यगादिषु योनिषु भ्रमति। अस्मादन्यत्किमिन्द्रजालं व्यलीकत्वादिदमेवेन्द्रजालमि- त्यर्थः सिद्धः ॥७३॥ ननु प्रपश्चो वारं वारं मृषेत्येवमुद्धोष्यते तत्र कुतो न सर्व- जनस्य मिथ्यात्वबुद्धिरत आह- उपादानचिद् व्याप्तमन्तर्बहिर्वा जडं मायिकं भाति कार्य समस्तम्॥ मृषात्वेऽपि सत्यत्वधीरज्ञजात:/२

Page 66

६२ स्वानुभवादर्शः

गुरो: शिक्षितस्यैवमिथ्यात्वसिद्धिः ॥ ७४॥ उपादानचिति। जडं मायिक कार्य समस्तमन्तः शरीरे वहिश्र यद्भाति तदुपादानचिव्वाप्तमेव भाति भासते। कार्यकारण- व्याप्तमेव भासते मृद्धटादौ तथा दृष्टत्वान्न कारणातिरिक्तं का- र्यम्। वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति श्रुतेः। गुरुणैवं शिक्षितत्वाभावान्मूढजातेः प्रपश्चे सत्यत्वबुद्धिः। गुरो: शिक्षितस्यैव पुंसः प्रपश्चे मिथ्यात्वसिद्धिर्नातः सर्वजन- स्येत्यर्थः ॥ ७४॥ उपादानकार्ययोवैलक्ष्यण्यात्सत्यत्वमिथ्यात्वनिर्णयमाह- उपादानचिद्यादशीतादगेवाड न्यथाऽन्ते विभाति स्वरूपात्कदापि॥ अतः सत्यता स्याज्जड कार्यजातम् विभात्येव नानाप्रकारं मृषा तद् ॥ ७५॥ उपादानेति ॥ उपादानचैतन्यमेकरसत्वात्कदाप्यन्यथा न भाति। जड प्रपश्नरूपं कार्यजातं तु त्रिगुणकार्यत्वादनेकरस- त्वान्मृपैव तदित्यर्थः । तदुक्तम् । सकृत्ममित्वरूपाद्यद्रूपमन्यत्कथश्चन । नैव प्रपद्यते सत्वं तत्स्यात्कार्यविलक्षणमिति ॥ ७५॥ अधिष्ठानसम्यक्ज्ञाने सति तद्विवर्त्तः प्रपञ्चस्तदतिरिक्तो नास्तीति द्टष्टान्तपूर्वकमाह- यथा वस्तुविज्ञानतश्िद्विर्वतः प्रपञ्चः समस्तोऽपि चित्कार्यमेव॥ यथारज्जुसम्यरदशा रज्जुमात्रम्

Page 67

स्वानुभवादशेः । ६३

भुजङ्गादिकल्पं ततोनान्यदर्ति ॥ ७६॥ यथेति। कल्पितस्य पृथक्सत्ताविरहेणाधिष्ठानानतिरेका- दधिष्ठानमात्रत्वमित्यर्थः । ७६।। किश्च- प्रपञ्चसप्तत्वनिरूपणेन न ब्रह्मशब्दार्थनिरूपणं स्यात्।। इयत्तयान्यस्य जडस्य भानात बृहत्वमर्थो न घटेत धातोः ॥७७॥ पप्रश्चेति। बृहत्वाद् बृंहणत्वाद् ब्रह्मेतिशब्दार्थो न घटत- इत्यर्थः । तदुक्तं वार्तिके। अव्यावृत्ताननुगतं वस्तु ब्रह्मेति भण्यते। ब्रह्मार्थो दुर्लभोऽत्र स्याद्वितीये सति वस्तुनीति॥७७॥ उपादानसमसत्ताकोऽन्यथाभावः परिणामः उपादानविप- मसत्ताकोSन्यथाभावो विवर्त्त इति परिणामविवर्त्तयोः पूर्वाऽपेक्षया लक्षणानन्तरं केचिद्वदन्ति तदपि दर्शयति- समानसत्ताकतयाऽन्यथात्वात् अज्ञानकार्य परिणामसंज्ञम् ॥ व्रह्मान्यसत्ताकतयाऽन्यथात्वात त्तत्कार्यजातं हि विवर्त्तसंज्ञम् ॥७८॥ समानसत्ताकतयेति॥ तत्कार्यजातं ब्रह्मकार्यजातमि- त्यर्थः। मृद्धटयोरिव मायातत्कार्ययोरेकसत्ताकत्वात्समानसत्ता- कच्वात्समानसत्ताकत्वमित्यर्थः । ब्रह्मतत्कार्ययोर्विषमसत्ताक- Digiiized by Mictasoli ®

Page 68

६४ स्वानुभवादर्शः

त्वादन्यथाभावो विवर्त्त:ब्रह्मसत्ताया आदृतत्वात्तदज्ञातसत्ताकत्वं नास्ति किन्तु ज्ञातसत्ताकत्वमेव। अतो ब्रह्मविवर्त्तपपञ्च इत्यर्थः। तुच्छस्याडयं स्वभावो यावन्भासते तावदेव तस्य सत्ताऽन्यथा नास्तीतिभावः।। ७८।। वेदान्तनये कारणान्न कार्य भिन्नम्। वाचारम्भणं नाम विकारो नामधेयं मृत्तिकेत्येव सत्यमितिश्रुतेः । ये तु का- रणात्कार्य भिन्नं वदन्ति तन्मत न युक्तं दोषदुष्टत्वाित्याह- ये कारणात्कार्यीमिदं विभिन्नम् वदन्ति तेषां न मतं विशुद्म्॥ ये तन्तवः स्युस्तुलितास्तु तज्ज- पटे गुरुत्वं द्विगुणं कुतो न ॥७९॥ येकारणादिति। स्पष्टार्थः ॥। ७९॥ यावत्मारब्धद्वैतं प्रपश्यन्नपि प्रजह्यादित्याह- अधिष्ठनचैतन्यविज्ञानसिद्धौ प्रपश्यन्नषि द्वैतमेतत्प्रजह्यात्॥ प्रहाणं तदेवात्र यद्वाधितत्वा- दुपेक्षा न पाषणवद्द्दरहानम् ॥ ८० ॥ अधिष्ठानेति ।। यावत्पारब्धद्वैतं प्रपश्यन्नपि प्रजह्यात् कर्थ तदित्याह। यद्वाधितत्वात्मवृत्यविषयत्वेनोपेक्षा तदेवास्य- प्रहाणमित्यर्थः । तदुक्तमाचार्यैः। उपेक्षा नामरूपे द्वे सच्चिदानन्दवस्तुनि। समाधिं सर्वदा कुर्याडृदये वा जथ वा बहिरिति ।। ८० ॥

Page 69

स्वानुभवादर्शः । ६५

अध्यारोपापवादाभ्यां निष्पपञ्चम्पपञ्च्यते। इति साम्पदायिकोक्तेरधिष्ठाने भ्रान्त्या प्रतीतस्याऽधिष्ठा- नमात्रशेषत्वमपवाद इत्यपवादलक्षणं लक्ष्ये दर्शयन् तद्बोधेन स्वस्य कृतार्थतां दर्शयति। अधिष्ठानचैतन्यासंधोर्लहर्यः प्रपञ्चात्मिका: कल्पिता भ्रा्तिमात्रात् ॥ अधिष्ठानबोधाद्वयं तन्निरासाद अधिष्ठानमात्रस्य शेषात्कृतार्थाः ॥८१। अधिष्ठानेति। स्पष्टार्थः ॥ ८१ ।। इदानीं मिथ्यात्वं लक्षयति- यस्याऽत्यंताभाव एवास्ति यस्मि- स्तस्याS ज्ञानात्तत्र यद्धाति मिथ्या। रज्ौ सर्पस्तैजसे तत्प्रपञ्चो ब्रह्मण्येवं भाति विश्वं मृषैव ॥ ८२ ॥ यस्येति॥ स्पष्टार्थः ॥ ८२ ॥ परपश्चमिथ्यात्वबुद्धि: कुतो न भवतीत्यत्र हेतुमाह- प्रातीतिकं यद्यवहारकाले संबाध्यते प्रायश एव लोकैः। ब्रह्मात्मबुद्धिं न बिना प्रपञचः संबाध्यतेऽतोऽत्र यथार्थबुद्दि;॥८३ ॥ प्रातीतिकमिति॥ व्यवहारकाले गमनादिव्यवहारकाले Diglftzed by Merosbli 5

Page 70

६६ स्थानुभवादर्श:

आगन्तुकदोषजन्यं प्रातीतिकं शुक्तिरजतादि सामग्रिवशाद्वाध्यत एवं व्यावहारिकः प्रपश्चो ब्रह्मात्मबुद्धिं ब्रह्मात्मज्ञानं विना न सम्वाध्यते तस्य तदेकनिवर्त्यत्वात्। सा चाडनेकजन्मार्जितपुण्य- सञ्चयं विना न भवत्यतोऽत्र प्रपञ्चे यथार्थबुद्धि: मूढानामि- त्यर्थः ॥ ८३ ॥ उक्तमर्थ विनिगमयति -- अलं बहूक्तेन बहुप्रकारै: सर्वज्ञनारायणवेदवाक्यम् ॥ वाचारम्भेत्यादि तस्माद्वयलीकम् दृश्यं सत्यं ब्रह्मसिद्धान्त एषः ॥ ८४ ।। अलमिति॥ बहुप्रकारैः बहुत्वेन तर्केणाऽलम्पूर्यतां त- र्कतां तर्कस्याऽनन्तत्वादित्यर्थः । कथ तर्हि सिद्धान्तसिद्धिरत आह सर्वज्ञनारायणानिर्मितवाक्यं 'वाचारम्भणं नाम विकारो नामधेयं मृत्तिकेत्येव सत्यं' स्वतः प्रमाणं तस्मादधिष्ठानं ब्रह्मैव सत्यं कल्पितं दृश्यं व्यलीकं मिथ्यैवेति सिद्धान्तः। तर्कस्तु माना- नुग्राहकत्वादुपयोक्ष्यते न तु स्वतः प्रमाणमतोऽलमित्यर्थः । एवं च प्रागुक्तम्। दृशः किं स्वरूपं च दृश्यस्य किं वेत्यदोऽत्रद्दयं सं विचार्य मुमुक्षोरित्युक्तम्। तत्र दृयूप ब्रह्म सत्यं दृश्यप्रपश्चो मिथ्येतिनिश्चयः। तथा च संशयविरोधिनिश्चयेन पुनः संशया- नुदयः संपन्नः स्वस्येयमेव कृतार्थतेति भावः ॥८४॥। कृतेऽपि सिद्धान्ते सिंहावलोकितन्यायेन पुनराह- जीवा नियम्या भगवान्नियन्ता तत्प्रेरको भ्रामक एष हत्स्थः ॥ Digized by Miciosol/ F

Page 71

स्वानुभवादर्शः । ६७

इत्यादि शास्त्रं बहु तावदेव ब्रह्मात्मभानं न हि यातदस्ति ॥ ८५॥ जीवेति । यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरोडयं न पृ- थिवीं वेद पृथिवी यस्य शरीरं पृथिव्या अन्तरोऽयमेभ्यो लो- केभ्यो यमयत्येव तं आत्मार्न्तयाम्यमृत इत्यादि शास्त्रं ईश्व- रस्यान्तर्यामिणो नियामकत्वे जीवस्य च नियम्यत्वे प्रमाणम् । एष तु ह्योव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीपत एवासाधु कर्म कारयति तं लोकेभ्यो यमेभ्यो डधो निनीषत इ- त्यादि श्रुतेः । स्मृतिश्र। अज्ञो जन्तुरनीशोऽयमात्मन: सुखदु:खयोः । ईश्वरप्रेरितोगच्छेत्स्वर्ग वा श्वभ्रमेव वेति। कर्तृकारयितृत्वे प्रेर्यप्रेरकत्वे प्रमाणं शास्त्रम्। ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति॥ भ्रामयन्सर्वभूतानि यन्त्रारूढानि माययेत्यादि । शास्त्रं भ्राम्यभ्रामकत्वे प्रमाणम्। सर्वमेतदन्यच्च शास्त्रं तावदेव बहु तावदेव यावदहं व्रह्मास्मीतिवुद्धिर्नास्ति ताव- त्पर्यन्तमेवेत्यर्थः । उत्पन्नायां ब्रह्मात्मबुद्धौ भेदबुद्धेर्निवृत्तत्वा- त्कः कस्य नियन्ता कः कस्य नियम्यो वा स्यात् । "यत्र त्वस्य सर्वमात्मैवाभूत् य इदं सर्वे भवतीत्यादिश्रुतिभ्य इति भाव:। इदं सृष्टिस्थितिप्रलयप्रवेशवाक्यानामुपलक्षणं एतेषामर्थ- वादकत्वेन स्वार्थे तात्पर्याभावात्। तहि किं तानि किमिती- श्वरेण निर्मितानीति चेद् अध्यारोपव्युत्पत्यर्थमिति ब्रूम इति। तानि कानि वाक्यानि कथ वा तेषां स्वार्थे तात्पर्याभाव इति चेदुच्यते। "तत्र यतो वा इमानि भूतानि जायन्ते येन जातानि

Page 72

६८ स्वानुभवादर्शः

यत्मयन्त्यभिसंविशन्तीति " सृष्टिस्थितिपलयवाक्यान्येवम- न्यान्यपि। तत्र सष्टिर्नाम उत्पत्तिः सा न सम्भवति। नाऽसतो विद्यते भाव इति स्मरणात्। असत उत्पत्यसम्भवात् तत्र श्रुतितात्पर्य न सम्भवति स्थितिकालेऽप्यसत्वादेव तन्न सम्भवति। एवं प्रलयोऽपि न स- म्भवति तस्योभयाधीनत्वात्। "आदावन्ते च यन्ना्ति वर्त्त- मानेऽपि तत्तथेति" स्मरणात्। "तत्सष्टा तदेवाऽनुपाविशत्" "स एष इह प्रविष्ट आनखाग्रेभ्य इत्यादि" प्रवेशवाक्यानि। तत्र प्रवेशो नाम प्रतिविम्बसिद्धान्तितः स च स्वरूपेण मृपैव। अतः प्रवेशवाक्यानामपि स्वार्थे न तात्पर्यमेवमूह्यम् ॥८५॥ "इदानीं भर्यं द्वितीयान्भ्वतीति वेद" इत्यादिना श्लोके- नोक्तं तदुपसंहरति- एवं श्रुतिन्यायविचारणेन द्वितीयमेतन्न कुतो भयं स्यात।। अतोऽभयं वै जनकेति वाक्या- द्यन्गीतिहनिं मम तत्स्वरूपम् ॥ ८६ ॥ एवमिति॥ स्पष्टार्थः ॥८६॥ यः कर्ततुमकर्त्तुमन्यथाकर्त्तुमीश्वरः कालचक्रपयोक्ता तस्मा- त्कालचक्रादपि मे भयं नाडस्तीति सहेतुकमाह- यद्वादशारं किल कालचक्र्म् त्रिणाभि यच्चाप्यजरं परिभ्रमत् ॥ गोपलकृष्णस्य करस्थितं य- त्स एत्र कृष्णोऽस्म कुतो भयं ततः ॥। ८७ ।।

Page 73

स्वानुभवादर्शः । ६९

यदिति॥ किल इति वेदे भ्रूयते द्वादशमासाश्वैत्रादयो यस्याऽराकोणा: किलास्त्रीणि चातुर्मास्यानि यस्य नाभयः य- च्ाऽजरं सर्वदैव नूतनमपि च परिभ्रमणन्निमेषादिवत्सरान्तस्व्- रूपेण परितो भ्रमत्योक्तुः श्रीगोपालकृष्णस्य करस्थितं प्रयो- क्तुरधीनं स प्रयोक्ता कृष्णः । कृषिर्भूवाचकः शब्दो णश्च निर्वतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते॥ इति निरुक्तेः। स कृष्णोऽहमविद्यानिवृत्त्याऽस्मि। एवं च सति ततः कालचक्रादतिघोरान्मम कुतो भयं। नास्ति भयमित्य- र्थः। मद्यतिरिक्तस्याभावादित्यर्थः ।। ८७। भीतिस्वरूपं वदन् तत्कृतोहं विभेमीति प्रत्ययो भ्रान्ति- रित्याह- भीतिर्मनोवृत्तिरियं द्वितीया- दुत्पद्यते चेतसि तद्विकारः ॥ आरोप्य तामात्मनि निर्मयेऽपि बिभेम्यहं भ्रान्तिरियं मृषैव ॥८८॥ भीतिरिति॥ "कामः सङ्कल्पो विचिकित्सा श्रद्धाSश्रद्धा धृतिरधृतिहीर्धोर्भीः एतत्सर्व मन एवेति" श्रुतेः मे मनसि भय- मुत्पन्नमिति प्रत्ययाच्च भीतिर्मनोद्टत्तिः। इयं द्वितीयाद्वयहेतोश्चेत- सि उत्पद्यतेऽतो सौ तद्विकारश्रेतःपरिणामो राजसः। एतादृशी भीति निर्भये प्रत्यगात्मन्यारोप्याऽहं बिभेमीति। भ्रान्तिः।अयोद- इतीतिवद् अतस्मिन् तद्बुद्धिर्मृषैवेत्यर्थः। उक्तं च भागवते। "भयं द्वितीयाभिनिवेशतः स्यादिति" ॥ ८८॥ एवं तावज्ज्ञानं समस्तं खलु धर्मिमात्र इत्यारभ्य भीतिर्म-

Page 74

स्वानुभवादर्शः

नोवृत्तिरित्यन्तैः श्लोकैस्तत्पदार्थशोधनं कृतम् अधुना त्वम्पदा- र्थशोधनं वाक्यार्थज्ञानोपयोगितया क्रियते- नाहं स्थूलं सप्तधातुस्वरूपम् विष्टाभाण्डं प्रस्रवच्छिद्रमन्नम् ॥ श्वादेर्मूलं सर्ववर्णाश्रमाणाम् तादात्म्यं मे तेन नो द्रष्टभावात ॥ ८९॥ नाहमिति ॥ अहमस्मत्पत्ययशब्दयोरालम्बनीभूतः प्र- त्यगात्माऽहं पश्चीकृतपश्चमहाभूतकार्य कर्मजं स्थूलशरींरं न भवामीतिशेषः। अहं शरीरमिति प्रत्ययाभावात्तद्गतस्थूलत्वादि- धर्मेणैव देहाध्यासोऽत उक्तं नाऽहं स्थूलमिति। पश्चीकरणं त्वा- काशादिपश्चसूक्ष्मभूतानि प्रत्येकं द्विधा विभज्य पुनरपि तत्मा- थमिकान्भागान्प्रत्येकं चतुर्धाविभज्य तेषां भागानां इतरचतुरंशे स्वं स्वं भागं विहाय संयोजनं। एतच्चैश्वरकर्तृकमित्याकरे विस्तरः। पश्चीकृतपश्चमहाभूतकार्यत्वं काष्ठकुड्यादेरप्यस्ति ततोऽतिनिकृष्टं शरीरमित्याह। सप्तधातुस्वरूपं रुधिरमांसमेदःस्नाय्वस्थिम- ज्ाशुक्रेतिसप्तधातुमात्रं विष्ठाभाण्डम्। सर्वानुभवसिद्धमेतत् । प्रकर्षेण स्रवन्ति छिद्राणि यस्य तत्तथा। तत्राऽधो द्वे सप्त मुखे। श्वादेरन्नं "अद्यते इति च भूतानि तस्मादन्नं तदुच्यत" इति श्रुतेः अन्नमन्नमयकोशत्वात्। सर्वे च ते वर्णाश्राश्रमाश्च तेषां मूलं निदानम्। स्थूलदेहनिवन्धना एव सर्वे वर्णाश्रमधर्माः 'ब्रह्मणो जातो मृत' इतिब्राह्मणवर्णत्वदेहस्यैव तथाSSश्रमा ब्रह्मचर्यादयो- '5ष्टमे वर्षे ब्राह्मणमुपनयेदित्यादि" कल्पवचनेभ्यः।अत एवोक्त- म्। हस्तामलकाचार्यैः । नाऽहं मनुष्यो न च देवयक्षो

Page 75

स्वानुभवादर्शः । ७१

न ब्राह्मणः क्षत्रियवैश्यशुद्रः । न ब्रह्मचारी न गृही वनस्थो- भिक्षुर्न चाऽहं निजबोधरूप इति। आचार्यैरप्युक्तम्, न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयोऽपि। अनात्माश्रयोहं ममध्यासहानात् तदेकोSवाशिष्टः शिवः केवलोऽहमिति॥ एवम्भूतेन देहेन मे तादात्म्यं ऐक्यं न, तत्र हेतुमाह। द्र- ष्दुर्भावाद्रष्टृत्वादित्यर्थः । द्रष्टा दृश्याद्भिन्न इति सिद्धम् अतो न स्थूलदेहतादात्म्यं प्रत्यगात्मना सह घटत इति भावः ।। ८९।। एवं षण्ढत्वादयोऽपि देहस्यैवेत्याह- नाऽहं षण्ढा नैव योित्पुमान्वा नाहं बालो नैव वृद्धो युत्ा वा ॥ देहस्यैतऽध्यासतो भान्ति भावाः प्रत्यक्तत्वे पूर्ण एवाधुनाहम् ॥ ९०॥ नाहमिति॥ एतेषां षंढादयो भावा: देहस्यैव देहाव- चिछिन्ने प्रत्यक्षे प्रत्यगात्मनि मूढानामविवेकाध्यासतो भान्ति। विवेकादहं पूर्ण एवाऽधुना विवेककाले Sस्मीत्यर्थः । पंढादित्वे बीजमाह श्रुतिः "पितूरेतोऽतिरेकात्पुरुषो मातूरेतोऽतिरे- कात्स्त्नी। उभयोर्बीजतुल्यत्वान्नपुंसकं व्याकुलितमनसोऽन्धाः खञ्जाः कुब्जा बामनकाः भवन्त्यन्योन्यवायुपरिपीडितशुक्रद्वैवि- ध्याद्विविधा तनुः स्यात् तनुयुग्माः प्रजायन्त इति"।तत्रषढत्वादयो Sन्नरसमयोपादानत्वात् तत्रवालत्वादय: परिणामशक्तिरूपकाल-

Page 76

७२ स्वानुर्भवादशः

कृता इति विवेकः ॥ ९० ॥ इदानीं देहेऽहंमतिरप्यविवेकनिवन्धनैवेत्याह- आत्मच्छाया व्याप्तबुद्धे: प्रवेशा- त्स्थूले देहेऽहंमतिः साऽविवेकात् ॥ सर्वानर्थप्राप्तिबीजं नराणाम् भ्रान्तिश्वैषा साडधुना मे न चाऽस्ति ॥ ९१।। आत्मच्छायेति॥ आत्मनः प्रतीचः छाया आभासस्तेन व्याप्ता या बुद्धिस्तस्यास्थूले देहे स्थूलभोगार्थ प्रवेशं प्रतिफल नं भवति यदा तदा देहेऽहंमतिरुदेति। जाग्रत्काले सा चाऽवि-

नैवेत्यविवेकान्भवति सा देहेऽहंमतिरित्यर्थः। अत एवैषा भ्रान्ति- रतस्मिंस्तद्बुद्धिः। तदुक्त "चिच्छायावेशतो भानं धीरित्यादि" सा सुखेनैवाऽस्तु किं तयेत्यत आह। सर्वानर्थप्राप्तिवीजं नहींदं देहेऽहङ्कारं विना कोऽपि किश्चित्करोत्यतः त्या उच्छेदेऽतिय त्नो विधेय इति भावः। किमनेन परोपदेशपाण्डित्येनेत्यत आह। सा अविवेकनिवन्धना देहेऽहंमति र्मम विवेकात् गुरु- शास्त्रपसादादधुना तदनुग्रहसमये नास्तीति तस्मात्सर्वानर्थोच्छे- दकदेहाहङ्कारविवेकसिध्यै गुरुशास्त्रपसाद एव सम्पादनीय इति- भावः। तस्मात् सर्वानर्थमूलं सा अविवेकनिबन्धना एषा मम विवेकादधुना नास्तीत्यर्थः। उक्तं च। चिच्छायावेशतो बुद्धौ भानं धीस्तु द्विधा स्थिता। एकाहंकृतिरूपा स्यादन्त:करणरूपिणीति॥। भानं विशेषतो भानमित्यर्थः ॥ ९१॥ यथा देहेऽहंमतिः भ्रान्तिस्तथा देहे ममत्वप्रतीतिरपि भ्रा-

Page 77

स्वानुभवादर्शः । ७३

न्तिरवेत्याह- षष्ठ्यर्थस्याऽसंगतेरत्यसंगे यस्माद्देहे या ममत्वप्रतीतिः । भ्रान्तिश्चैषा साSविवेकेन सिद्धा निःसङ्गत्वात्साडधुना मे न चास्ति ॥ ९२ ।। षष्ठीति। षष्ठयर्थः सम्बन्धस्तस्याSसंसर्गेऽतिक्रान्तस- म्बन्धे। "असङ्गोह्यहंपुरुष" इतिश्रुतेः। तस्मिन्नात्मनि सर्वथैवा- Sसङ्गे Sसंगतेर प्राप्तेरप्येवं सति यस्मात्कारणाद्देहे या ममत्वबु- द्धिरसङ्ग आत्मेति विवेकाभावात् सा। एवमविवेकात्स्वसम्बन्ध- बुद्धिः सा भ्रान्तिः । सा विवेकेन मम निःसङ्गत्वादधुना ना- स्तीत्यर्थः ॥ ९२ ।। यथा देहे ममत्वप्रतातिर्भ्रान्तिस्तथा स्त्रीपुत्रादिष्वपि ममच्व्र- प्रतीतिर्भ्रान्तिरित्याह- किमपि मोहनशक्त्यधिदैवतं विरचितं विधिना ह्यबलाभिधम् । रुधिरमांसमयं परमार्थतो भवति तेन जितं भुतनत्रयम् ॥ ९३॥ मनोमयी मांसमयी विधान्रा नारी नराणां निगडस्वरूपा॥ अमुत्र बन्धाय विनिर्मिताऽडद्या स्यादत्र बन्धाय तथा द्वितीया ॥ ९४ ॥ १०

Page 78

७४ स्वानुभवादर्शः

स्त्रीपुंतनूनां रुधिरादिपंच- भूतात्मकत्वं च समानमेव ॥। देहस्य संस्थानविशषमात्रम् परस्परं मोहकरं न चान्यत ॥ ९५ ॥ तत्र स्त्रीषु ममत्वकरणे महाननर्थ आह श्लोकत्रयेण किम- पीत्यादि इमे त्रयोऽप्यतिरोहितार्थाः श्लोकाः ॥ ९३॥९४॥९५॥ एवं स्त्रीणामनर्थकरत्वं निरूष्य तत्र ममता न कार्येत्याह- एतादृशे डर्ये ममता न युक्ता तथा सुनेऽन्यत्र गृहादिकेऽपि ॥ परस्यरं कामवशान् ममत्वं तच्चाऽधुना मे विदितं वित्रेकात् ॥ ९६ ॥ एतादृश इति। "आत्मनस्तु कामाय सर्व पियं भवतीतिश्रु- तेः" ॥ काममूलैव ममता न वस्तुगत्या कामाभावे कः कस्य ममतास्पदं प्रेमास्पद चेत्यनुभवसिद्धमित्यर्थः ॥ ९६।। ननु नाडपुत्रस्य लोकोडस्तीति,, वचनात्। "पुत्रार्थमृतौ- भार्यामुपयादितिवचनाच्च"। स्त्रीपु ममता विधेयैव कर्थ तत्र ममता निपिध्यत इति चेत्तत्राह- तैगुण्यमात्रविषयाः खलु कर्मवेदा इत्थं हरर्भगवतो वचनं प्रमाणम् । आदृत्य चानुभवतः परमार्थनिष्ठाः भार्यामृताविति वचः खलु नाद्रियन्ते ॥ ९७॥ Dionied

Page 79

स्वानुभवादर्शः ।

चैगुण्येति॥ त्रैगुण्यविपया वेदा निस्त्रै गुण्यो भवार्डर्जुनेति भगवतो वाक्यं प्रमाणं याथार्थ्येनादृत्य तथा स्वानुभवतश्च वेदानां त्रैगुण्यविषयत्वमादृत्य परमार्थनिष्ठाः पुरुषा ऋतौ- भार्यामुपेयादितिवचनं नाद्रियन्ते संसारमूलकत्वादित्यर्थः ॥ परमा र्थनिष्ठ्त्तवं चेत्थं। "तद्ध स्मवैतत्पूर्वे विद्वांसः प्रजां न का- मयन्ते किम्पजया करिष्यामो येषां नोऽयमात्मायं लोकइतिश्रुतेः,,। संसारमेव निःसारं दृष्ट्रा सारदिद्ृक्षया॥ प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः । इतिस्मृतेश्र। पुत्रप्राप्तिभिया पुत्रार्थ भार्यायां ममत्त्वं न कु र्वैतीति ।। श्रुत्यर्थस्तु येषां नोऽस्माकमयमपरोक्ष आत्मायं लोकः प्रत्यक्षफलं ते वयं किं प्रजया करिष्यामो डतो हेतोः पूर्वे विद्वांस: प्रजां न कामयन्त इति। स्मृत्यर्थस्तु त्रैगुण्यं स- सारः स विषयः प्रकाशितव्यो येपां ते कर्मकाण्डबेदाः कर्मप्रति- पादकाः श्रुतय इति। किश्च। "अथ त्रयो वाव लोका मनुष्य- लोकः पितृलोको देवलोक इति। मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा, कर्मणा पितृलोको, विद्ययादेवलोको देवलोको वै लोकानां श्रेष्ठतमस्तस्माद्विद्यां प्रशंसन्तीति श्रुतेः,,॥ पुत्रेण मनु- ष्यलोकातिरिक्तं फलं नास्तीति निकृष्टफलत्वात्पुत्रफलं नाद्रि- यन्ते। श्रुत्यर्थस्तु॥ वार्त्तिकसारे। पुत्रेण जय्यो लोको डयं पितृलोकस्तु कर्मणा विद्यया देवलोको Sतो द्वाभ्यां विद्या परशस्यते। क्रियात्वाल्लोकहेतुत्वं युज्यते कर्मविद्ययोः । द्रव्यात्मनस्तु पुत्रस्य कथमित्युच्यते शृणु।। प्रव्रजिष्यन्मरिष्यन्वा पिता कर्त्तव्यमात्मनः । पुत्रे उध्ययनयागादि सर्वमप्यर्पयत्यसौ।।

Page 80

७६ स्वानुभवादर्शः

यागाध्यनकाम्यानि कुर्वन्पुत्रः पितुर्गृहे। वसत्येतावता पुत्रजितोऽयं लोक उच्यते इति। इतराण्यपि श्रूयन्ते। "सो डस्या यमात्मा पुण्येभ्यः कर्म- भ्यः प्रतिधीयते अथाऽस्याऽयमितर आत्मा कृतकृत्यो वयोग- तः प्रैति स इतः प्रयन्नेव पुन र्जायते तदस्य तृतीयं जन्मेति,, श्रुतेशयमर्थः ॥ अस्य पितुर्द्वावात्मानौ देहौ तयोर्मध्य अयमा- त्मा पुत्ररूपो देहः पुण्येभ्यः कर्मभ्यः शास्त्रोक्तकर्मनिष्पादनार्थ प्रतिधीयते स्वस्य प्रतिनिधिच्वेन गृहे Sवस्थाप्यते। ननु किमनेन प्रतिनिधिना स्वयमेव कुतो न करोतीत्यतआह। अथेति॥ अस्य पितुरितर आत्मा स्थविरो देहः कृतकृत्यः कृतान्येतज्जन्मपरयु- क्तानि सर्वाणि कर्माणि येनाऽसौ कृतकृत्यः लौकिकानां कुटुं- बपोषणादीनां शास्त्रीयाणामग्निहोत्रादीनां च निष्पादितत्वात्कृ- तकृत्यत्वं वयोगतः बयसा पूर्वकर्मसम्पादितेनाSडयुषा गतो ही नः प्रैति स इतः प्रयन्नेव पुनर्जायत इत्यर्थः । तस्मादेवं निकृ- ष्टफलत्वात् पुत्रार्थ स्त्रीषु ममताकरणमनुचितमितिभावः ॥९७॥ किश्च- स्वस्यासत्वात्सर्वरतो दुःखदा ये पुत्रा दारागारभृत्यादयो डन्ये।। तेषु प्रीत्या यो ममत्वाभिमानो भ्रान्तिश्चैषा नास्ति मे सद्विबेकात् ॥ ९८ ॥ स्वस्येति॥ स्वस्य स्त्रीपुत्रादरित्यर्थः ॥ शेषं स्पष्टम्।।९८।। एवं स्थ्ूलदेहादात्मानं विविच्य अधुनालिङ्गदेहादात्मनो विवेक: क्रियते- ना डहं सूक्ष्मं सप्तपंत्तयात्मकं य-

Page 81

स्वानुभवादशेः। ७७

रस्त्रप्रस्थानं वासनादेहसंज्ञम ॥। अस्याध्यासात्स्थूलदेहादिबन्धः साक्ष्यं तन्मे साक्षिणोऽतोडस्मि भिन्नः ॥ ९९ ॥ नाहमिति॥ सप्तदशात्मकं पञ्च प्राणा मनो बुद्धिर्दशे- न्द्रियाण्येवं सप्तदशावयवात्मक स्वप्नस्थानं बासनादेहसञ्ज्ञं अ- स्याऽध्यासात्स्थूलदेहादिवन्धः लिङ्देहाध्यासमूलः स्थूलदे- हाध्यासः आदिशब्देन स्थूलविषयाध्यासस्तलक्षणो बन्ध एता- दशलिङ्गं नाहं मम तेनातादात्म्यमित्यर्थः । तत्रहेतुमाह । मे मम लिङ्गदेहसाक्षिणस्तल्लिङ्ं साक्ष्यं भिन्नमतो हेतोरहं तस्मा- द्विन्नो विलक्षणमित्यर्थः । अत्र यद्यपि साक्षिसाक्ष्यभावेन सूक्ष्मदेहादात्मा विवेचितस्तथापि तदवयवेषु मूढ़ानामात्मत्वद- र्शनात्तेभ्योऽप्यात्मा विविच्यते। तथाहि। अहमशनायावानहं- पिपासावानितिपाणधर्ममात्मन्यारोप्य प्राण आत्मेति मन्यन्ते तन्न सुपुप्ते चैतन्याभावात। प्राणस्येतरस्मिन्काले भृत्यस्वामिनोरिव सङ्कीर्णयोरन ज्ञायते कस्येदं चैतन्यमिति। सुपुप्ते तु पुनः बिज्ञा- नरहित: प्राण उपलभ्यते। करणोपरमाद्विज्ञानाभावः प्राण- स्येतिचेन्न। स्वामिनि व्याप्रियमाणे करणोपरमाभावो न राज- पुरुषवत्। अत एव न प्राणस्यैतानि करणानि यः स्वापेनो- परतस्तस्यैतानि करणानि। यदाऽसौ बहिनिर्गम्य करणान्यधि- तिष्ठति तदा सर्वाणि करणानि स्वस्वव्यापारेषु प्रवर्त्तन्ते। यदा- जागृतस्थितिनिमित्तं कर्मोद्भूतं भवति तत्क्षणे सर्वाणि करणानि गृहीत्वा बुध्युपाधिसंपर्कजनितविज्ञानेन स्वमंसुपुप्तं वा गच्छति। एवं स्थानत्रयमनवरतं जीवो गच्छति कर्मनिमित्तं चेदं गमनाS गमनं यत्स्वप्रपजागरिते गच्छति पुनः स्थानद्वयनिमित्तकर्मो-

Page 82

७८ स्वानुभवादर्शः

द्भूतश्रमापनयनाय सुपुप्तमपि गच्छति। एवं प्राणस्तत्कर्मवशा- देव शरीरं परिपालयन्वर्त्तते स्वप्नसुषुप्तयोर्मृतभ्रांतिपरिहाराय तस्मात्माणोनाSऽत्मा। काणो डहं वधिरोऽ हमितीन्द्रियधर्ममा- त्मन्यारोप्येन्द्रियाण्यात्मेति केचिद्दन्ति तन्न । तत्र चक्षुरा- त्मा न भवति रूपग्रहणसाधनत्वात् मदीपवत् । यथा प्रदीपेन करणेन रूपमुलभते तथा चक्षुःकरणन रूपमुपलभते । एवमेवे- तराण्यपि करणानि ज्ञेयानि। तथा मनोप्यात्मा न भवति दृश्य त्वात् करणत्वाच्च पदीपवदेव। बुद्धिरप्यात्मा न भवति दृश्य- त्वात् करणत्वाच्च प्रदीपवदेव। तस्मात् सप्तदशाऽ वयवा अपि न प्रच्यगात्मेति ज्ञेयं कर्तुः करणसापेक्षत्वात्। कर्तृकरणयोरे- कत्वं न सम्भवति। अतः । करणभिन्नचिदाभासरूपः कर्त्ता इत्यपि ज्ञेयम्। ननु सप्तदशावयवं लिङ्गमिति सप्तदशसंख्या न युज्यते इन्द्रियाणां न्यूनाऽधिकत्वश्रवणात् । तथाहि। सप्त प्राणाः भवन्ति तस्मात्सप्तेन्द्रियाणि कचिच्चाष्टी ग्रहा अष्टावति- ग्रहा इत्यष्टौ ग्रहा: पुरुषपशुबन्धका इन्द्रियाणि रागाद्युत्पादन- द्वारेण इन्द्रियाकर्षका विषया अतिग्रहा इत्यर्थः। "सप्त वै शी- र्षण्याः प्राणा द्वाववांचावित्यत्र" "नव अवांचौ पायूपस्थौ नव वै पुरुषे प्राणा नाभिर्दशमीत्यत्र" "दश वै पुरुषं प्राणाः आत्मै- कादशः अत्रा Sडत्मा मन" एवं क चिद्वादश क्वचिच्च त्रयोदशे- न्द्रियाणि श्रूयन्ते। तथा च न सप्दशावयवं लिङ्गमिति चेन्न। ज्ञानेन्द्रियपश्चकं कर्मेन्द्रियपश्चकमिति दशेन्द्रियाण्येव नाऽधिकानि न न्यूनानीति ज्ञेयम्। शिवगीतायां पद्मपुराणे सप्तदशावयवं लिङ्गमुत्पत्तिक्रमेण स्मर्यते। श्रोत्रत्वक्चक्षूरसनप्राणानां क्रमेण दिग्वातार्कवरुणाश्विना अधिष्ठातृदेवताः । मनाबुध्यहंकार- चित्तानां चन्द्राच्युतचतुर्मुखशङ्कराः । वाकूपाणिपादपायूपस्थानां

Page 83

स्वानुभवादर्शः। ७९

व्योमादि सात्विकांशेभ्यो जायंते धीन्द्रियाणि तु। व्योम्ः श्रोत्रं भुवो घ्राणं जलाज्जिह्वा डथ तेजसः। चक्षुर्वायोस्त्वगुत्पन्ना तेषां भौतिकता ततः। व्योमादीनां समस्तानां सात्विकांशेभ्य एव च। जायते मानसी बुद्धिर्वुद्धि: स्यान्निश्रयात्मिका ॥ वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि तु। व्योमादीनां रजोंऽशेभ्यो जायन्ते तान्यनुक्रमात्। समस्तेभ्यो रजोंऽशेभ्यः पञ्च प्राणास्ततःपरम्। जायन्ते सप्तदशकमेवं लिङ्गशररिकमिति। नागकूर्मकृकलदेवदत्तधनंजयाख्या: पञ्चाऽन्ये वायवःसन्ति। नागउद्गिरणकरः। कूर्मउन्मीलनकरः। कृकलः क्षुत्करः । देवदत्तो जृम्भणकरः । धनञ्जयः पोषणकर इति वदन्ति। वेदान्तिनस्तु तेषां पृथकल्पनागौरवाच्छुत्यादिपमाणाभावाच्च प्राणादिष्वन्तर्भा- वम्वदन्ति। तथा एकमेवान्तःकरणं वृत्तिभेदाच्चतुर्विधम्। म- नो बुद्धिरहङ्कारश्चित्तं चेति चतुष्टयमिति। तत्र मनोबुद्ध्योरहं कारचित्तयारन्तर्भावं वदन्ति तस्मात्सप्रदशावयवं लिङ्गमिति सि- द्म्। उदाहृतश्रुतीनां व्यवस्था तु आकरतो ज्ञेया विस्तरभ- यान्नाऽत्रोच्यत इति। अत्र नवीना इन्द्रियलक्षणमन्यदेव वदन्ति तच्चेत्थं। सुखदुःखानुकूलसाक्षात्ममितिक्रियान्यतरकरणमतीन्द्रिय

शेन्द्रियाणामपि विशेषलक्षणानि। तत्र शब्दोपलब्धिसाधनमिन्द्रियं श्रोत्रं, स्पर्शोपलब्धिसाधनमिन्द्रियं त्वक्, रूपोपल्धिसाधनमिन्द्रि- य चक्षुः, रसोपलब्धिसाधनमिन्द्रियं रसनं, गन्धोपलब्धिसाध- नमिन्द्रियं घ्राणम्, वचनक्रियासाधनामेन्द्रियं वाकू, आदान-

Page 84

८० स्व्रानुभवादर्श:

क्रियासाधनमिन्द्रियं पाणी, गमनक्रियासाधनमिन्द्रियम् पादौ, विसर्गसाधनमिन्द्रियं पायुः, सुखक्रियासाधनमि- न्द्रियमुपस्थः । अत्र तेजोमयी वागिति श्रुतेः । तैजसी वा- क्पादस्तु नाभस इति केचित्। अन्ये तु शब्दव्यंजकत्वेन श्रोत्र- वद्वचसो नाभसत्वं पादचिकित्सया चक्षुषः स्व्रास्थ्यदर्शना- चक्षुर्वत्पादस्याऽपि तैजसच्वं युक्तमित्याहुः । अनात्मविचारत्वा- दत्राऽत्यन्तं नाभिनिवेष्टव्यमिति दिक्॥ ९९ ॥ अन्येभ्यो Sपि मनोधर्मेभ्य आत्मानं विविच्य करतलार्पि- तविल्ववदपरोक्षतया तं दर्शयति- अमनस्कतया न मेऽ स्ति चिन्ता न च कामो न च धी ने भी ने लज्जा।। न समाधिविरोधभावना वा यत एते तदहं विभान्ति तेजः ॥ १०० ॥ अमनस्कतयेति ॥ "कामः सङ्कल्पो विचिकित्सा श्रद्धा- Sश्रद्धा धृतिरधृतिर्हीर्धीभीरेतत्सर्वे मन एवेति श्रुतेः । आत्म- धर्मा एते न किन्तु मनसः । तत्र चिन्ताऽऽत्मीययोगक्षेमोपा- यालोचना सा मे नास्ति। तथा कामो डभिलापः। चेत्यपरम् । धीर्निश्रयात्मिका। च पुनः भीर्भयम् । तथा लज्जा प्रसिद्धा। मद्धर्मा न भवन्तीत्यर्थः । अत्र हेतुमाह । अमनस्कतया मन :- साक्षितया तद्रिन्नतयेत्यर्थः। तदेवं निर्विशेषो निर्धर्मक आत्मा कथ लक्षणीय इत्यत आह। यत एते उक्ताश्चित्तादयो धर्माः मनोधर्मिसहिताः विभान्ति प्रकाशन्ते येनैपां सिद्धिर्भवतीत्यर्थः।। तत्तेजो ज्योर्तिरहमात्मेति स्वप्रकाशतयैव लक्षणीय इति भाव: । तथा च श्रुति:hzad py Mulusoli

Page 85

स्वानुभवादर्शः । ८१

"यन्न मनसा मनुते येनाहुर्मनो मतम्। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासत इति"॥ तथा पातञ्जलसूत्रमपि। "सदाज्ञाताश्चित्तवृत्तयस्तत्पभोः पुरुपस्याSपरिणामादिति"। तथा समाधिःसमाधानं विरोधो वैरं विक्षेपो वा भावना ध्येयाकारा वृत्तिरेते जन्येपि सर्वेऽपि मनो- धर्मा: नाऽऽत्मनः । कस्तर्ह्यात्मेत्यत आह। यत एते उक्ताः प- दार्था भांति येनैषां सिद्धि: भवति स आत्मेत्यर्थः ॥ १०० ॥ अस्याऽध्यासात् स्थूलदेहादिबन्ध इत्युक्तं तदत्र स्पष्टतया पतिपाद्यते- यथा मणिः स्वाश्रयनीलपीत- द्रव्यादियोगेन विचित्रवर्णः ।। आत्मा तथा स्वाश्रयलिङ्गकर्म- देोषैरनेकैर्बहुधेव भाति ॥ १०१ ॥ यथेति। आत्मा चिदाभासरूपो जीव: स्वाश्रयलिङ्गकर्म- दोषैः पुण्यपापरूपैरनेकैः बहुसंख्यैः संसारस्यानादित्वाद्वहुधेव बहुप्रकारमिव भाति। इवशब्दात् न वस्तुगत्या बहुधा स्वरूपम- स्येत्युक्तम् । तथा च श्रुतिः । "तदेव सक्तः सह कर्मणैव लिङ्गं मनो यत्र निषक्तमस्य प्राप्यान्तं कर्मणस्तस्य यत्किश्चेह करोत्ययम् तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मण इति नु कामय- मान इति"। अस्या श्रुतेरर्थः ॥ अस्योद्भूताऽभिलाषस्य लिङ्गं सप्तदशा- वयवात्मकं मनः प्रधानत्वान्मनः शब्दवाच्यम्। यत्र यस्मि- न्गन्तव्ये फले निषक्तं निश्चयेन सक्तं भवति तत्र सक्त- ११

Page 86

८२ स्वानुभवादर्शः

स्तत्फलारम्भकीभूतकर्मणा सह तदेव गन्तव्यं फलमेति। नन्वेतदधोगानन्तरं कामाभावान्मुक्तो भविष्यतीत्यत आह। अयं फलासक्तः कामी हास्मिन्लोके यत्किश्चित्करोति तस्य कर्मणो भोगेन अन्तमवसानं प्राप्य तस्माद्युक्तभोगात्पुनरेत्यागच्छति। अस्मै लोकाय अस्मिन् मनुष्यलोके। कर्मणे कर्मकरणार्थम्। एवं मनो धर्मकामासाधारणकं संसारमुपसंहरतीत्येवं नु कामयमान इत्यर्थः ॥ १०१ ॥ बहुधेवेत्युक्तं तदेव दर्शयति- देवरि्तिर्यङ्मत्यसंज्ञोऽण्डजादि- योनि: क्विश्यन्नैव विश्रान्तिरासीत्॥

उडयाते नैते वस्तुतो मे भवन्ति ॥१०२॥ देव इति। देवयोनि: तथा तिर्यग्योनिः मर्त्यसंज्ञो मर्त्य योनिरण्डजादियोनिरादिशव्देन चतुरशीतियोनिरहमेव क्विश्य- न् लिङ्गाध्यासादेताद्टशस्य मे मम कदापि न विश्रान्तिरासी- द्। तस्मादेव हेतोर्व्यापकस्याऽपि गमनाऽ्गमनायोग्यस्याऽपि यातायाते मे अभूताम् अहो लिङ्गाध्यासस्य सामर्थ्यमेतदिति। व- स्तुतस्तु परमार्थतः स्वस्यासङ्गत्वव्यापकत्वज्ञानादेते मम काल- त्रयेऽपि न भवतां न स्तः। यद्वा एते यातायाते परमार्थतो मे न भवतः। एते निरूपिता नानायोनिसंबन्धा अपि मे वस्तुतो न भ- वन्तीत्यर्थः ॥ १०२॥ ननु लिङ्गस्थकर्मदोपैरेव नानायोनिसंबन्धस्तर्हानीश्वरवाद: पाप्नोत्यत आह- कर्माध्यक्ष: सर्वलोकाघिवासी

Page 87

स्वानुभवादर्शः ।

ह्यंतर्यामी नर्त्तयेत्सूत्रधारः ॥ तस्मात्प्राणी नृत्यते वासनाभि- स्ताभिस्तां तां योनिमायाति मूढः ॥१०३ ॥ कर्माध्यक्ष इति। कर्माध्यक्ष: कर्मफलदाता सर्वलोका- डधिवासो उन्तर्यामी सूत्रधार इव प्राणिनो नर्त्तयेद्। तस्मात्मा- णी जीवो वासनाभिः पूर्वसंस्कारैः नृत्यते ताट्टकर्म करोती- त्यर्थः। "तं विद्याकर्मणी समन्वारभेते पूर्वपज्ञा चेति" ञ्रुतेः। ताभि: वासनाभिरेव तां तां योनिमायाति प्राप्नोति मूढो Sवि- द्यावशः। यं यं वापि स्मरन्भावन्त्यजत्यन्ते कलेवरम् । तं तं मेवैति कौन्तेय सदा तन्भ्ावभावितः । इति स्मृतेश्वेत्यर्थः । तथाच। कर्माध्यक्षश्रुतेः । अनीश्वर- वादो न घटते इत्यर्थ:।एतेनापूर्वमेव कर्म मीमांसकमते फलं ददाती- तिमत परास्तं निर्मूलत्वादिति ध्येयम् ॥१०३॥

त्पत्यर्थम्- मसंगान्मरणावस्थादुःखं निरूप्यते। ज्ञानोपयोगिवैराग्यो-

देहान्निर्यत्सर्वमर्मस्थलेभ्यो दुःखं यद्यदाति देहान्तरं तत।। एवं मृत्योर्मृत्युमाप्नोति जीवः स्वात्माज्ञानाच्छीपते तन्न मेडस्तु ॥ १०४ ॥ देहादिति॥ तत्स्वात्माज्ञानकार्यभूतं लिङ्गम् ॥ १०४॥ एवं लिङ्गदेहादात्मानं विविच्य कारणदेहाद्वीजभूतादपि स विविच्यते- Diolhzed byMletosof/ R.

Page 88

८४ स्वानुभवादर्श:

न्यग्रोधबीजमित्र यत्खलु सर्वबीजम नो सन्न चोभयमसन्न विरोधहेतोः ॥

नाहं सदस्मि परमं तमसः परस्तात् ॥ १०५ ॥ न्यग्रोधबीजमिति।यत्खलु निश्चयेन सर्ववीजं सर्वविक्षेपवीजं कारणं मूलाऽज्ञानं तदहं न आत्मा तत्साक्षित्वादित्यर्थः । तद्वी- जं न सज्ज्ञानैकनाश्यत्वात् । न चाऽसत्पतीयमानत्वान्न चोभय- विरोधात् तस्माद्यत्किश्चिदेतन्निखिलं ब्रह्म चैतन्यं तदावरणस्व- भावं तदाश्रयं चेत्यूह्यम्।चैतन्याश्रयविषयमित्यर्थः । तदहं न। त- त्र हेतु माह। तमसः परस्तात् अज्ञानस्य परस्मादयत्परमं सत्त- दहमस्मात्यर्थः। यत्तमसो भासकं तत्कर्थ तमः स्यात्। भास्य- भासकयोरैक्यायोगादितिभावः ॥१०५ ॥ आदित्यवर्णे तमसः परस्तादिति श्रु्युक्तम् यत्मच्यकूखरूपं तत्र वादिविवादैरन्यथाबुद्धौ बीजमाह- अज्ञानधी: प्राणहृषीकदेहे प्रत्यक्चिदाभासवशेन वादिन: । आत्मत्वबुध्या विवदति मूढाः प्रत्यक्स्वरूपं न विदन्ति तत्वतः ॥ १०६ ॥ अज्ञानेति॥ हृषीकाणीन्द्रियाणि द्न्दैकवद्भावः।उक्तंच। आत्मच्छायं पयोऽशेषं यथा मरकतो मणः । परीक्षणाय प्रक्षिप्तः कुर्यादात्मा तथैव हि। ज्योतिरात्मा चितिच्छायं प्रथमं कुरुते तमः ।

Page 89

स्वानुभवादर्शः । ८५

तमोयोगेन धीस्तद्वद्धीयोगादिन्द्रियं तथा॥ अक्षयोगात्तथा देहमेवमेते चिदात्मवत्। भासन्ते तेष्वतः पुंसां प्रत्यगात्मत्वविभ्रम इति॥ वादिविप्रतिपत्तयस्त्वेवं पूर्वोचार्यैः विविच्य दर्शिताः । तथा हि। अतिमाकृताः "स्वात्मावैपुत्र" इत्यादिश्रुतेः स्वस्मि- त्निव स्वपुत्रे प्रियत्वदर्शनात्पुत्रे नष्टे पुष्टे वाऽहमेव नष्टः पु- पुष्टश्वेत्यनुभवात्पुत्र आत्मेति वदन्ति । चार्बाकास्तु "स वा एष पुरुषो Sन्रसमय इत्यादिश्रुतेः प्रदीप्तगृहात्स्वपुत्रं परि- त्यज्याऽपि स्वस्य निर्गमदर्शनात्स्थूलो Sहं कृशो ऽहं मित्याद्य- नुभवाच्च स्थूलशरीरमात्मेति वदन्ति । अपरश्चार्वाकः "ते ह प्राणाः प्रजापतिमेत्य ब्रयुरित्यादि " श्रुतेः इन्द्रिया- णामभावे शरीरचलनाभावात्काणोऽहं वधिरो Sहमित्याद्यनु- भवाच्चेन्द्रियाण्यात्मेति वदति। अपरः चार्वाकः अन्योऽ- न्तरात्मा प्राणमय,, इत्यादिश्रुतेः पाणाऽभावे इन्द्रि- यचलनायोगादहमशनायावानहं पिपासावानित्याद्यनुभवाच्च पाण आत्मेति बदति। अन्यस्तु चार्वाकः "अंन्योऽन्तरात्मा मनोमय,, इत्यादि श्रुतेः मनसि सुप्े माणाऽपानादेरभावा- दहंसङ्कल्पविकल्पवानित्याद्यनुभवाच्च मन आत्मेति वदति । बौद्धस्तु "अन्योऽन्तरात्मा विज्ञानमय" इत्यादि श्रुतेः कर्त्रभावे करणस्य शत्यभावादहं कर्त्ताऽहं भोक्तेत्याद्यनुभवाच्च बुद्धिरा- त्मेति वदति। प्रभाकरतार्किकौ तु "अन्योऽन्तरात्मा SSनन्द- मय" इत्यादिश्रुतेः बुद्ध्यादीनामज्ञाने लयदर्शनादहमज्ञोऽइं न जानामीत्यनुभवाच्चाऽज्ञानमात्मेतिवदतः। भाट्टास्तु "प्रज्ञानघन एवानन्दमय" इत्यादिश्रुतेः सुपुप्तौ प्रकाशाऽपकाशसन्भावान्मा- महं न जानामीत्यनुभवाच् ज्ञानोपहितचैतन्यं ज्ञानाऽ्ज्ञानस्वरूप-

Page 90

८६ स्वानुभवादर्शः

मात्मेति वदन्ति। अपरवौद्धस्तु "असदेवेदमग्रआसीढित्यादि" श्रुतेः सुपुप्तौ सर्वाभावादहं सुषुप्तौ नाऽऽसमिन्युत्थितस्य स्वाभा- वपरामर्शविषयानुभवाच्च शून्यमात्मेति वदति। एवं च सति तेषू- पाधिषु प्रत्यक्चिदाभासबलेन तं तमुपाधिमात्मबुद्धया विवदन्ते। परन्तु तत्वतः प्रत्यक्स्वरूपं ब्रह्मेति न विदन्ति न जानन्ति। पण्डितंमन्यत्वादित्यर्थः ॥ १०६॥ क्षुधाद्युपद्रवाः सर्वेऽप्युपाधेरेव नात्मन इति सर्वविकाररहित- मात्मानं दर्शयति- असो: क्षुत्पिपासे धियः शोकमोहौ जरामृत्युरोगाः शरीरस्य ज़न्म ॥I अवस्थाः सुषुप्त्यादयो या धियस्ताः समस्ता अहं निविकारोडस्मि शान्तः ॥१०७।।

असोरिि॥ असोः प्राणस्य सश्चारबाहुल्याद्गमनादिश्रमे सति क्षुत्पिपासे माणधर्मौं नात्मन इत्यर्थः । इष्टवस्तुनामप्राप्तौ बुद्धे र्याऽ नवस्थितिः स शोक उच्यते । विषयभ्रमो मोहस्ता- वुभावपि बुद्धिर्धर्मौ नात्मनइत्यर्थः । जरा शरीरशैथिल्यं, मृत्यु: प्राणवियोगः, रोगो धातुवैषम्यं एते शररिस्य धर्माः । एवंच क्षुत्पिपासे शोकमोहौ जरामृत्यू पडर्मयो बृहदारण्यकोक्ताः उपा- धिकृताः नात्मन इत्यर्थः । क्षुदुपद्रवादन्नभोक्ता प्राणो देहोन्द्रि- याणि पुष्णाति ॥ तदुक्तम् ॥ तर्पयत्येष वागादि स्वभुक्तान्नेन सर्वशः इत्यर्थस्य कुतः सिद्धिरितिचेदुच्यते शृणु। भुक्तं त्रिधा भवत्यन्नं स्थूलमध्यमसूक्ष्मकैः॥

Page 91

स्वानुभवादर्शः । ८७

भागै: स्थूलो बहिर्याति मध्यमाद्देहपोषणम् ।। अणीयान्सूक्ष्मनाडीस्थो देवताः पोषयत्ययम्॥ दुष्टेन्द्रियेः सुखोत्पत्तिर्या जीवात्मन एव सा । ता एव देवताः सप्तदश ज्ञानक्रियात्मकाः ॥ सोडयं सप्तदशग्रामो भोक्तुः करणलक्षण इति। एवमशितान्नस्य प्रयोजनं देहेन्द्रियपोषणमतोऽइंनिर्विकार एवास्मीत्यर्थः । सुषुप्तयादयः समस्ताः जाग्रत्स्वप्सुषुप्तिमूर्च्छा मरणाख्या अवस्था: पञ्च धियो बुद्धेः। अहंशब्दपत्ययावलम्बनः प्रत्यगात्मा त्वंपदार्थो निर्विकार: कूटस्थत्वादवि्रियो निस्तरङ्गा ब्धिरिव शान्तः परमार्थत इत्यर्थः । कथमवस्थाः बुद्धेः स्तदर्थ तल्लक्षणान्युक्तानि आचार्यैः । देवतानुगृहीतैरिन्द्रियैरर्थोप- लब्धिर्जागरितम्, संस्कारजः प्रत्ययः सविषयः स्वमः। स्मृतावति- व्याप्तिवारणाय सविषयपदम्। बुद्धे: कारणात्मनावस्थानं सुषुप्तिः। हृ्ाड़ीन्द्रियगा बुद्धिर्निद्रा, स्वप्रबोधकृदित्युक्ते बुद्धेरेवाऽव- स्थात्रयम्। देवताऽनुगृहीतैरितिकिमर्थमुक्तमितिचेत् तत्रोच्यते। यर्था अचेतनो रथश्चेतनं सारथिं बिना न कार्यक्षमः तथा अचे- तनानीन्द्रिथाणि चेतनदेवताऽनुग्रहं विना न स्वार्थग्रहणयोग्या- नीति। यथा रथस्वामिनो रथजसुखदुःखभाक्तृत्वं न सारथेस्त था जीवस्यैव भोक्तृत्वं नेन्द्रियदेवतानामित्याकरे विस्तरः। एतदवस्थात्रयं विस्तरेण प्रपश्चितं पश्चीकरणवार्तिके विस्तरभ- यान्नेह प्रपञ्च्यते। मुद्गरप्हारादिजनितविषादेन विशेषज्ञानोपर- मावस्थेयंमूर्च्छा । इयंमूर्च्छावस्था भगवता बादरायणेन पृथ- क्केन निरूपिता। तथा च सूत्रं। "मुग्धेऽर्धसम्पत्तिः परिशेषादिति" अस्यार्थः। न तावत्स्वप्रजागरिते मूर्च्छाऽवस्था नापिमरणावस्था प्राणोष्मणोः सत्वात् नापि सुपुप्तिवैलक्षण्यात्। मुग्धस्य शरीर-

Page 92

८८ स्वानुर्भवादशः

कम्पो भयङ्करं वदनं निश्चले उन्मालिते नेत्रे निश्चलप्ाणोS- वतिघृुते। नैवं सुपुप्तौ वति तस्मात्परिशेषादर्धसम्पत्तिर्मुग्धा- वस्थाS तिरिक्तैव वक्तव्या। ननु मुग्धे Sपि बाह्यान्तःकरणा- नामभावेन सत्संपत्तेः सुषुप्त्यविशेषात् कथमर्धसम्पत्तिरितिचे- त्सत्यं। न हि ब्रह्मणोऽ र धसम्पत्तिं मुग्धस्य ब्रूमः । किंतु सुपु- प्त्यवस्थायाः ये धर्मा प्रसन्नवदननिमिलितनेत्रत्वप्राणोच्क्रा- सविशेषविज्ञानराहित्यादयस्तत्रविशेषज्ञानराहित्यादिना उर्घेन धर्मजातेन मुच्छावस्थायाः सम्पन्नत्वादर्घेन मरणाऽवस्थाधर्मजातेन कम्पादिना युक्तत्वादर्धसम्पत्तिमूर्च्छेति युक्तं सूत्रकृद्चनमिति। एतच्छरीरकर्मोपरमेण देहाभिमाननिव्टत्या सम्पिण्डितकरणग्रामा- वस्था भाविशरीरपर्यन्तं मरणावस्था। तथा च श्रुतिः । "स यत्राS यमात्माऽवल्यमेत्य संमोहमिवैत्यथैनमेते प्ाणा अभि समायन्ति। स एतास्तजोमात्राः समभ्याददानो हृदयमेव्राS न्वक्रामति"। "स यत्रैष चाक्षुषः पुरुषः पराङ् पर्यावर्त्ततेऽ थारूपज्ञो भवति एकीभवति न पश्यतीत्याहुरेकीभवति न जिघ्र- ती्याह्ुरेकीभवतीत्यादि" । श्रुतेरर्थः । स पूर्वोक्तोऽ यमात्मा यत्र यस्मिन्काले जराद्युक्तहेतुभिरभिभवे सति अवल्यमिवाऽव- लभावमिव दौर्बल्यमिव नितरामेत्य प्राप्य संमोहमिव संमूढता- भिवैति याति। अथ तदा एनमात्मानं करणस्वामिनं प्राणवा- गादयो डभिसमायन्ति। कथं स आत्मा तेजोमात्रावयवाः मीयन्ते ते विपयाः याभिस्तास्तेजोमात्राश्चक्षुरादिकरणानि। समभ्याददान: सम्यकूनिःशेषाभिमुखेनाSSददान उपसंहरमाणो हृदयमेव हृदयस्थां बुद्धिमेवा Sन्वक्रामत्यन्वागच्छति बुद्धावेवाड भिव्यक्तविज्ञानो भवति। एवं सति किंस्यादिति विवक्षायामाह। स चाक्षुपः पुरुष आदित्यांशोभोक्तत्वकर्मक्षये सति यत्र यस्मिन्का-

Page 93

स्वानुभवादर्शः।

ले पराङ् विमुखः सन्स्वांशीभूतदेवतारूपं प्रतिपर्यावर्त्तते आसम- न्तान्ावेन परिवर्त्तते। अथ तदा मुमुर्पुररूपज्ञो भवति रूपं न जानातीत्यर्थः । कुत इत्यत आह। एकीति। आदित्यांश- स्तस्मिन्नेकीभूते सति चक्षुर्लिङ्गात्मना एकीभवति तदा मुमुर्षुः पाश्वस्थं न पश्यतीत्याहुरेवमग्रेपीत्यर्थः । एवं श्रुत्यनुभवमामा- ण्यात्समस्ता अवस्था बुद्धेरित्युक्तम् ॥१०७॥ त्रिविधपरिच्छेदशून्यत्वं श्वुत्या Sनन्तशब्देनोक्तं तदात्मनो दर्शयति- कालेयत्ता नास्ति मे नित्यताया देशेयत्ता नास्ति मे व्यापकत्वात्।। सर्वात्मत्वान्नास्ति मे वस्त्वियत्ताS नन्तस्तस्मात्को ममाऽन्तस्य वेत्ता॥ १०८॥

कालइति । सर्वदेहेष्वनुस्यूतत्वात्तादृशदेशपरिच्छेदरा- हित्यम्। परिच्छेदस्य मिथ्यात्वादित्यर्थः। नित्यत्वात्कालपरि- चंछेदशून्यत्वमित्यर्थः । त्रिविधपरिच्छेदस्यापि तत्कल्पितत्वेन मिथ्यात्वादितिभावः । कर्मवशात्तत्तदुपाधीनामनःकरणतद्ृत्या- दीनामत्यन्तभिन्नत्वात्तदुपाधिकचिदाभासस्यापि जन्मविनाशशा- लित्वात्कालतः परिच्छेद: तदन्तः करणवृत्तीनां परस्परतादात्म्य- प्रतिषेधेन तदुपाधिकचिदाभासानामपि परस्परतादात्म्यप्रति षेधाद्वस्तुतः परिच्छेदः । एवं च शरीरान्तर्गतत्रिविधपरिच्छेदं ज्ञात्वा यथोक्तरीत्या तन्निषेधो ज्ञेयः ॥ १०८ ॥ • द्रष्टृत्वसाक्षित्वरूपविकारराहित्यमात्मनो दर्शयति- द्रष्टा नाऽहं दृश्यमिथ्यात्वहेतो-5०//न १२

Page 94

स्वानुभवादर्श:

र्नाऽहं साक्षी साक्ष्यमिथ्यात्व्रहेतोः ॥ प्रत्यक्सिध्यै दृश्यतो Sन्यत्वसिद्धै द्रष्टा साक्षी चेति बोधो गुरुम्यः ॥१०९॥ द्रष्टति। द्रष्टृत्वं साक्षित्वं च सप्रतियोगिकं भवति म- तियोग्यभावे तु नोभयमित्यर्थः । ननु तर्हि गुरुभिः श्रुतिद्वारैव द्रष्टा साक्षी चेति किमर्थ शिष्यो बोध्यत इत्यत आह। कः प्र- त्यगात्मेति शिष्यैः पृष्टे सति तद्वोधार्थ बाह्यपदार्थावभासकः स द्रष्टा आत्मेति कथ्यते। यश्चान्तः सुखादिविपयावभासकः स साक्षी आत्मेति गुरुणा बोधिते सति द्रष्टा साक्षी अहमस्मीति प्रत्यक्सिद्धि: भवति।चेत्यपरम्।एवं गुरुबोधादृदृटश्यादन्य आत्मेति सिध्यत्यतो द्रष्टा साक्षी चेति गुरुभ्यो वोधो युक्तः। वस्तुतस्तु न द्रष्टा नापि साक्षी चेत्यर्थः ॥ १०९॥ शरीरस्य च जन्मजरादयो धर्मा इत्युक्तं तत्र तावज्जन्मल- क्षणं दर्शयति- लिङ्गोपाधेरात्मनो यः प्रवेशः पित्रोदेहे जन्म चैतन्नराणाम् ।। एक्याध्यासात्तं विवेकेन हित्वा सम्यग्ज्ञानान्नैव मे जन्मशंका ॥ ११० ॥ लिङ्गोपाधेरिति। लिङ्गदेहोपाधेरात्मनश्र पूर्वोक्तरीत्या विवेकेन चिज्जडपृथक्विवेकेन तमैक्याध्यासं हित्वा ब्रह्माऽ्ह- मस्मीति सम्यकूज्ञानान्न जन्मशङ्केत्यर्थः। एवमैतरेयश्रुतौ जन्म श्रू- यते। "पुरुषो ह वा अयमादितो गर्भो भवति यदेतद्रेतस्तदेत- त्सर्वेभ्यो डङ्रेभ्यस्तेजः संभूतमात्मन्येवाSSत्मानं विभर्त्ति तथदा

Page 95

स्वानुभवादर्शः । ९१

स्त्रियां सिश्चत्य्थैनं जनयति तदस्य प्रथम जन्मेति"। तस्मात्पू-

न्मशङ्काऽपि नास्ति कुतो जन्मप्राप्तिरित्यर्थः ॥ ११०॥ मृति लक्षयति- पित्र रमलोद्भूततनोरसूनाम् वियोजनं कर्मवशात्स मृत्युः ॥ आस्तां किमेतेन हि साक्षिणो मे. मृत्योः परं मृत्युरहं सदस्मि ॥ १११॥ पित्रोरिति॥ यदि देहपाणयोः मद्दृश्ययोः वियोजनं जातं तहि साक्षिणो मे ममैतेन किं न किश्चित्यर्थः । अतस्तदथा तथा SSस्ताम्।अहं मृत्योः मृत्युः साक्षी यत्परं उत्पत्यादिरहितं सन्मात्रं ब्रह्म तदस्मि अतो मृत्योरपि मृत्युरहमस्मीत्यर्थः ॥ १११ ॥ सम्पति प्रमातृत्वरूपविकाररहितस्त्वंपदलक्ष्य आत्मेति पतिपाद्यते-

बाह्यार्थानामिन्द्रियैः कर्मतः स्यात् ॥ तस्मिन्काल बाह्यवस्तुप्रमाता तस्मान्नाहं वस्तुतोऽस्मि प्रमाता ॥ ११२॥ प्रत्यगिति। भोगप्रदकर्मत इन्द्रियैर्वा्यार्थानां घटादीनां प्रत्यक्चिदाभासव्याप्तधवित्तियोगो यदा भवति तस्मिन्नेव काले अहं प्रमाता तदन्यकाले समाधौ सुषुप्तौ वा जातोऽइं वस्तुतो परमाता नैवास्मीत्यर्थः ॥११२॥ प्रमातृत्वनिवन्धनं कर्तृत्वं भोक्तृत्वं च तदभावे न कर्त्ता न

Page 96

९२ स्वानुभवादर्श:

भोक्ता नैवोभयमप्यात्मन इत्याह- कर्त्ताभोक्ताऽहं प्रमात्रैकमूल- स्तस्याभावे नैव कर्त्ता न भोक्ता ॥ कादाचित्कं मय्यसंगे समस्तम् संसाराख्यं भ्रान्तिमूलं न चास्ति ॥ ११३ ।। कर्त्तेति॥ प्रमात्तृत्वं कर्त्तृत्वभोक्तृत्वरूपं यत्संसाराख्यं तत्कादाचित्कं मय्यऽसङ्गे स्वरूपे वस्तुतो नास्तीत्यर्थः। कर्त्ताहं भोक्ताऽहमित्यादिभ्रान्तीनां तत्पमात्तृत्वं मूलं निदानमि- त्यर्थः ॥ ११३ ॥ नन्वाभासस्यैव ममात्रादिरूपेण ब्रह्मत्वात् शुद्धचैतन्यस्य मुक्तत्वाद्वन्धमोक्षयोवैय्यधिकरण्यं तथा च स्वनाशार्थ प्रवृत्यनु- पपत्तेश्चेति दोषद्वयं प्राप्तमत आह-

त्संसारोडयं कर्त्तृभोक्तृस्वभावः ॥ शुद्धे तत्वे चाडधुना सद्विवेका- दूभूमैवाऽहं सर्वसंसारमुक्तः॥ ११४॥ एतद्वारेति॥ स्वचिदाभासद्वारा शुद्धस्यैव बन्धकल्पना मोक्षकल्पना न स्वत इति भावः। अतएवोक्तमाचार्यैः- अज्ञानान्मानसोपाधे: कर्तृत्वादीनि चात्मनि। अध्यस्यत्यविवेकेन चलनादि यथाऽम्भस इति। वार्ततिर्केपि।। "अयमेव हि नोऽनर्थो यत्संसार्यात्मदर्शन" मिति ॥११४॥ शास्त्रे स्वाश्रयाऽव्यामोहिनी मायेन्युच्यते। स्वाश्रयव्यामो-

Page 97

स्वानुभवादर्शः । ९३

हिन्यविद्येत्युच्यते। सा चाऽविद्या यावद्दृदविवेको न तावत्पर्य- तमेव स्वाश्रयं जीवं मोहयत्यन्यथा नेत्याह- यथा स्वाश्रयं मोहयेन्नैव माया विशुद्धं परं ब्रह्म गोपालकृष्णम्॥ विवेकाद् दृढाच्छास्त्रतः सद्भिरुक्ता तथा स्त्राश्रयं मोहयेन्नाऽप्यविद्या ॥ ११५॥

निवृत्तत्वाज्जीवो Sहं कर्त्ता भोक्तेत्यादिरूपं स्वाश्रयव्यामोहत्वं पूर्ववदविद्याया न सम्भवतीत्यर्थः । अन्ये तु एकस्यैवाऽज्ञान- स्याऽडधिदैविकी शक्तिर्माया आध्यात्मिकी शक्तिरविद्येति माया- विद्ययोः शक्तिभेदेन भेदो न स्वरूपेणेत्याह्कः ॥११५॥ अथाऽडत्मप्रपश्चयोः स्वरूपविवेकमाह- ज्ञानं हि यन्निर्तिरषयं स आत्मा सगोचरं ज्ञानमिंह प्रपंचः ॥ सगोचरज्ञानवतां नराणाम् दुःखं भयं जन्ममृती च नित्यम ॥ ११६ ॥ ज्ञानमिति। "अरे इदं महद्भूतमनन्तमपारं विज्ञानघन एवेति" श्रुतेः। जात्यंतराऽननुविद्धं ज्ञप्तिमात्रं निर्विषयमेकरसं ज्ञानं चैतन्यं स आत्मेत्यर्थः। "यत्र त्वस्य सर्वमात्मैवाऽभूत्त- स्केन कं पश्येदिति" श्रुतेः । "यत्र हि द्वैतामव भवति तदि- तर इतरं पश्यतीत्यादि" ्रुतेः । सविपयं ज्ञानं प्रपश्चः। ईश्व-

Page 98

९४ स्वानुभवादर्शः

छान्दोग्ये। "यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्राऽन्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पमि- त्युक्ते" निर्विषयं चैतन्यमात्मा सविपयं ज्ञानरूप स प्रपश्च इति प्रतीयते। तत्र सगोचरज्ञानवतां प्रपश्चिनां नराणां दुःखभयादि नित्यं नियमेनेत्यर्थः ॥ ११६ ॥ अतएव- ब्रह्मात्मता मे न हि कृत्रिमाडस्ति जीवत्वमेतन्मम कृत्रिमं यतः ॥ अककृत्रिम: कृत्रिम एव भाति स्त्रीवेषधारी पुरुषो यथा तथा ॥ ११७॥ ब्रह्मेति॥ "स एष इह प्रविष्ट आनखाग्रेभ्य" इत्या- द्यनेकश्रुतिषु ब्रह्मण एव प्रवेशस्मरणाज्जीवस्य ब्रह्मत्वमकृत्रिमं स्वाभाविक जीवत्वं तु कृत्रिमं स्वस्वरूपादज्ञानादित्यर्थः । ह- ष्टान्त: स्पष्टः ॥ ११७॥ एवमकृत्रिमं ब्रह्मानन्दं स्वस्वरूपं प्राप्य कृत्रिमसुखैर्विषये- न्द्रियसंयोगसंभवैर्न किश्चित्पयोजनमित्याह- अकृत्रिमानन्दनिजस्वरूपम् विहाय किं कृत्रिमशर्मभिर्मे। सिद्धौदनं पात्रगतं विहाय मूढो ह्यसिद्धाय यतेत तद्वत् ॥ ११८ ॥ अकृत्रिमेति ॥ स्पष्टार्थः ॥ ११८॥ कृत्रिमसुखस्याSSदौ केशोऽन्तेपि क्लेश इत्याह-

Page 99

स्वानुभवादर्शः । ९५

नानाकेशैः सोमपानादि कृत्वा स्वर्ग गत्वा कृत्रिमं शर्म भुजन्॥ स्वर्गे तिष्ठन् प्रत्यहं पुण्यहान्या क्विश्यन्नेवं मर्त्यलोकं प्रयाति ॥ ११९ ॥ नानाक्लेशैरिति ॥ स्वर्गभोगविशेषभूमिं धूमादिमार्गेण गत्वा प्राप्य तत्र कृत्रिमं विषयेन्द्रियजन्यं सुखं भ्ुजन् वर्त्तत इत्यर्थः। पुनश्र स्वर्गे तिष्ठन्नपि प्रत्यहं पुण्यहान्या क्िश्यन् श्रुत्यु- क्तावरोहणप्रकारेणाऽनुशायी जीवो मर्त्यलोकं प्रयाति। क्षीणे पुण्ये मर्त्यलोकं विशन्तीतिस्मृतेः । श्रुतिस्त्वेवम्। "अथैतमेवाध्वानं पुनर्निवर्त्तते यथेदमा- काशाद्वायुर्वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह ब्रीहियवौषधिब- नस्पतय्तिला माषा इति जायते इति "। आकाशवाय्वादि- समानो भवतीत्यर्थो बोध्यःनत्वाकाश इत्याकरे विस्तरः॥११९॥ एवमाद्यन्तयोः क्लेशज्ञाने Sपि न वैराग्यलेश इत्याह- जानन्नेवं नारिति वैराग्यलेशः केयं ्रान्तीराजसी वृत्तिरुग्रा॥ आस्तामेतद्रामकृष्णप्रसादा- न्नित्यानन्द: कृष्ण एवाऽहमस्मि ॥ १२० जानन्निति॥ परदोषगवेषणमास्तां कि मम तेनेति भाव: शेषं स्पष्टम् ॥ २०। संसारनिन्दापूर्वकं स्वस्य गुरुप्रसादनपरमानन्दपाप्तिं द- र्शयति- Digiticed by Mlerasali

Page 100

९६ स्वानुभवादशेः

धिक्संसारमिमं न यत्र परमं शर्मास्ति यल्लम्यते यद्यत्पश्यति जिघ्रतीह सकलं दुःखेन सम्भिद्यते। किं मे तादृशशर्मणाऽथ परमानन्दो गुरोः संस्मृतेः संप्राप्तोऽस्त्यधुना ह्यसौ श्रुतिगतो मत्तोऽत्र नो विद्यते१२१ धिगिति। ये हि संस्पर्शजा भोगा दुःखयोनय एव तइति। स्मृतेः । दुःखसम्भिन्ना एवेत्यर्थः। संस्पर्शजा भोगाः क्षु- द्रानन्दा इत्यर्थः । श्रुतिगतः श्रुतिसंमत इत्यर्थः । अत्राऽस्मिन् वर्त्तमानदेहे एवेत्यर्थः। सम्माप्त इत्युत्त्या स्वर्गादिवत् कर्मफल- पाप्तिरिव तस्य प्राप्तिरिति प्राप्ते तं निवारणार्थमाह। मत्तो न भिद्यते मत्तो चैतन्यघनान्न भिद्यते अविद्यानिवृत्तेरित्यर्थः । तद- लमित्यपिपाठः। तद्गन्धग्रहणादि अलमत्यर्थदुःखेन सम्भिद्यत इत्यर्थः ॥ २१॥ दुःखेन सम्भिद्यत इत्युक्तं तत्र हेतुमाह- अकत्तापि सन्कर्तृतां प्राप्य मोहा- त्कृतं कर्म तस्याSत्र पाकोऽयमीद्क्।। इदानीमकर्त्ताऽडत्मबोधेन सम्यक् प्रसादादू गुरार्भूममात्रोऽहमस्मि ॥ १२२॥ अकर्त्तेति।। "यद्यत्पश्यति जिघ्रतीह सकलं दुःखेन सम्भिद्यत" इत्युक्तं तत्र सुखादिमाप्तिस्तु कर्म विना न सम्भ- वति तत्कर्म परमार्थतोऽकत्राSपि मोहात्कृतं तस्याऽत्र संसारे ईदग्दुःखन सम्भिन्नोऽनुभूयते पाक: कर्मविपाक इत्यर्थः । शेषं स्पष्टम् ॥ २२॥ Diallized Ly Miciosolin

Page 101

स्वानुभवादर्शः । ९७

इदानीमकर्त्रात्मवोधेनेत्युक्तं तत्र गीतोपनिषत्संमतिमाह- शरीराद्यधिष्ठानपञचप्रकारैः क्रियाहेतुभिर्या करिया जायते सा। न कर्त्ता क्रियायाः कदाचिच्चिदात्मा सुरेशोऽर्जुनायाऽऽह गीतासु कृष्णः ॥ १२३ ॥ शरीरादीति॥ स्पष्टार्थः ॥ २३॥ एवं स्वानुभवेन शास्त्रतश्वाऽकर्तृत्वं निश्चित्य कालत्रये Sपि न कर्मकर्त्ताऽस्मीत्याह -- अकार्ष न कर्त्ता करिष्येSहमेत- त्त्रिधा यच्चतुर्धा च कर्माडस्ति शास्त्रं। विभुत्वादसङ्गत्वहतोर्न कर्म- प्रलेपो डपि मे निश्चयः सर्वथैव ॥ १२४ ॥ अकार्षमिति॥ विभ्ुत्वादसङ्गत्वाच्च हेतो: कारणादहं न कर्माऽकार्षमिदानीं न क्त्ता पुरो Sपि च न करिष्य इत्यन्वयः। तच्च कर्म कतिविधमित्यपेक्षायामाह। तत्रिधा कायिकं वाचिकं मानसश्चेति। तदपि प्रत्येकं कर्माऽकर्मविकर्मरूपमेवं त्रिधेत्यर्थः। सात्विकं राजसं तामसश्चेति वा। चतुर्घेति। तथा विहितनिषिद्धा विहिताऽनिषिद्धरूपं चतुर्घेत्यर्थः। यद्वोत्पाद्यपाप्यसस्क्वार्यविकार्य- भेदेन चतुर्धाऽपीत्यर्थः। तत्र विहितं सन्ध्योपासनादि निषिद्धं पलाण्डुभक्षणादि अविहितं रागतः प्राप्तं भोजनादि अनि- षिद्धम् शौचादीत्यर्थः ॥ १२४॥ एवं प्रसक्तानुपसक्तं समाप्य पुनस्त्वम्पदलक्ष्यमात्मानं दर्शयति- Dighized Ay Miclosol/ ® १३

Page 102

९८ स्वानुभवादर्श:

जाग्रत्स्व्प्नसुषुप्तिकासु यदनुस्यूतं च तत्सिद्धिकृत चैतन्यं सततं तुरीयममलं तत्पत्यभिज्ञाबलात्।। प्राप्तं ज्योतिरनंतमुत्तमतमं स्वानन्दपूर्ण पदम् वेदान्तैः प्रतिपादितं च गुरुभिस्तन्मे स्वरूपं हरेः॥२५॥ जाग्रदिति॥ जाग्रदादितिसृष्ववस्थासु यदनुस्यूतं चैतन्यं तत्प्रत्यभिज्ञाबलात्माप्तमित्यन्वयः। योऽहं गाढं मूढं अस्वाप्सं स्वप्रमद्राक्षं च सोऽहमेवेदानीं जागर्मि इति प्रत्यभिज्ञाममाणव- लालब्धं तत्सततं तुरीयं ज्योतिरनन्तम् नित्यम् उद्गतं तमोऽज्ञा- नं यस्मात् तदुत्तमं तदेव प्रकृष्टमुत्तमतममित्यर्थः। अत एव स्वा- नन्दपूर्ण स्वस्य भूत आनन्दः स्वानन्दः स्वानन्देन पूर्णमखण्डितै- करसच्वात्। एतादृशं पदं हरे: हरत्यविद्यातत्कार्य स्वज्ञानप्- दानेनेति हरि: तस्य विष्णोः पदं गुरुभिर्वेदान्तैश्र करणीभूतैः प्रतिपादितं तन्मे स्वरूपं मूलरूपमित्यर्थः । भातस्य कस्यचित्पूर्व भासमानस्य साम्पतम्। सोऽयमित्यनुसंधानं प्रत्यभिज्ञानमुच्यत इति॥ प्रत्यभिज्ञानलक्षणम्।न चेदं षद्परमाणेष्वनधिगतत्वान्न प्रमा- णमिति वाच्यम्।तत्र तदशे स्मरणमिदमंशे प्रत्यक्षं तथाच स्मरणम- त्यक्षोभयात्मकत्वेन प्रत्यक्षान्तरगतत्वात्प्रत्यक्षविशेषो नातो- डस्याSप्माणशङ्का विधेयेति भावः ॥१२५॥ स्वानन्दपूर्णपदमित्युक्तं तत्र पूर्णत्वं दर्शयति- यो व्यष्टधुपाधौ च समष्टधुपाधौ समः शुचिः शान्ततमश्रिदंशः ॥ तमेकमादाय जडांशहाना- Dig/ined by Melosollo

Page 103

स्वानुभवादर्शः ९९

च्छिष्टश्चिदंशो मम तत्स्वरूपम् ॥ १२६ ॥ यइति॥ स्थूलसूक्ष्मकारणरूपा: व्यष्टयः विराट्सूत्रा व्या- कृताख्या: समष्टय उपाधिविशेषास्तत्र प्रतिफलिताः सम एकर- सच्वाद्वैषम्यरहितः शान्ततमः निस्तरङ्गसमुद्र इवाक्षोभ्यश्चिंदंश- श्रैतन्यम्। तमेकस्वभावं तमेवैकरूपं आदाय जडांशा उपाधय- स्तेषां हानाल्लक्षणया त्यागात् शिष्टो यश्चिदंशो ऽखण्डैकरस- स्तत्परमार्थतो मम स्वरूपमित्यर्थः । एवं स्वानन्दपूर्ण मम स्व- रूपमिति भाव: १२६।। ननु जडांशहानमुक्तं तन्न सम्भवति तस्य सत्यत्वेन युक्त- मश्यक्यच्वान्नहि सत्यं निवर्त्तत इति न्यायादित्याशड्क तेषां कल्पितत्वमाह श्लोकद्रयेन- भूच्छिद्रगोमूत्रभुजङ्गमाना- मनात्मनां रज्जुरसौ पथात्मा ॥ तथा शरीरेन्द्रियमारुताना मात्माहमेको मयि कल्पितास्ते ॥ १२७॥ भूच्छिद्रेति।। अत्रेदमनुमानं सूचितं विबादाध्यासिता विशेषा: स्वानुस्यूते वस्तुनि कल्पिताः प्रत्यकं तदनुविद्धत्वात्। ये येन प्रत्येकमनुविद्धास्ते तत्र परिकल्पिताः। यथा भूच्छिद्रस- र्पमालादण्डधाराबलीवर्दमूत्रादयः स्वानुस्यूते रज्वां इदमंशे तथा च ते तस्मात्तथा एवं पश्चकोशेष्वपि द्रष्टव्यं स्पस्षटोर्थः॥१२७॥ ये पञ्चकोशाः श्रुतिषु प्रसिद्धा अकोशभाजो Sपि विभो: परस्य ॥ ते पञचकोशा मि कल्पिताःस्यु-

Page 104

१०० स्वानुभवादर्शः

स्तद्वह्मपुच्छं परमं सदस्मि ॥ १२८ ॥ यइति॥ "सवा एष पुरुषोऽन्नरसमय" इत्यादिना तैत्ति रीयश्रुतावन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाः पञ्चकोश उक्ताः। कोशवदाच्छादकर्वात् कोशास्ते मयि कल्पिताः स्युः। कु इत्यतआह। यतो ब्रह्मपच्छन्नाम पश्चकोशानामाधारभूतं सर्व कल्पनाधिष्ठानं यस्तदहमस्मीत्यतो मयि कल्पिता इत्यर्थः॥१२८। अथ सर्वशरीरेष्वेक एवाऽडत्मेति प्रतिपादयति- ममाSत्रदेहे सकलार्थभासकम् शान्तं समं ज्योतिरसंगमुत्तमम् ॥ तदेव सर्वत्र तथैव भासकम् ज्योतिः स्वयंज्योतिरयं यथा रविः ॥ १२९॥ ममाऽच्रेति॥ आत्मनो मध्यमपरिमाणत्वे नित्यत्वं न स्यात् अणुत्वे सकलदेहव्याप्तसुखाद्यनुपलब्धिः स्यात्। अ- तो विभ्ुत्वे सर्वत्र द्रष्ट्टकार्यत्वात्सर्वशरीरेष्वेक एवात्मेति भाव: "स वा एष महानजआत्मेति" श्रतेः आत्मनो विभ्ुत्व द्रष्टव्यम् ॥ १२९ ॥ उक्तार्थे चोदं प्रदर्श्य समाधत्ते- नैकस्य दुःखेन समस्तजीव- दुःखप्रतीतिः परिशंकनीया ॥ उपाधिचितस्थविकर्मपाकाद दुःखं तु तस्यैव न चेतरेषाम् ॥ १३०॥ नैकस्थेति॥ अयमर्थः सूत्रकृताऽपि दर्शितः । तत्र ताव Digiized by Micmasoll R

Page 105

(•) न्यायरत्नमाला-श्रीपार्थसारथिमिश्र वि० सं० (मीमांसा) २ (८) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीत- वेदान्तसूत्रस्य यतीन्द्र श्रीम्विज्ञान- भिक्षुकृत व्याख्यानम्। सम्पूर्णम्। (वेदान्तः) ६

(९) स्याद्वादमञ्जरी-मल्लिषेणनिर्मिता सम्पूर्णा। (जैनदर्शनम्) २ (१०) सिद्धित्रयम्-विशिष्टाद्वैत-ब्रह्मनिरूपण- परम्-श्रीभाष्यकृतां परमगुरुभिः श्री ६ श्रीयामुनमुनिभिर्विरचितम् । सैम्पूर्णम् (वेदान्त:) १

(११) न्यायमकरन्दः। श्रीमदानन्द्बोधभट्टा- रकाचार्यसंगृहीतः। आचार्यचित्सुख- मुनिविरचितव्याख्योपेतः (वेदान्त:) ४

(१२) विभत्तयर्थनिर्णयःन्यायानुसारिप्रथमादि- सप्तविभक्तिविस्तृतविचाररूप: म० म० श्रीगिरिधरोपाध्यायरचितः । सम्पूर्णः (न्यायः) 5

(१३) विधिरसायनम्। श्रीअप्पयदीकक्षितकृतम्। सं० ( मीमांसा) (१४)न्यायसुधा ( तन्त्रवार्तिकटीका) भट्ट- सोमेश्वरविरचिता। (मीमांसा) १६ (१५) शिवस्तोत्रावली। उत्पलदेवविरचिता। । श्रीक्षेमराजविरचितवृत्तिसमेता। (वेदान्तः) २

(१६) मीमांसाबाल प्रकाश: (जैमिनीयद्वादशा उध्यायार्थसंग्रहः) श्रीभट्टनारायणात्मज- भट्टशङ्करविरचितः । (मीमांसा) २

(१•) प्रकरणपश्चिका (प्रभाकरमतानुसारि-मीमांसादर्शनम्) महामहो- पाध्यायश्रीशालिकनाथमिश्रविरचितं, श्रीशङ्करभट्टकृतो मीमांसाः सारसंग्रहश्च सम्पूर्णः (मीमांसा) ३ (१८) अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवरश्रीसदानन्दव्यासप्रणीत- स्तत्कृतव्याख्यासमलङ्कृतश्च। (वेदान्त) ३ (१९) कात्यायनश्रौतसूत्रम्। महामहोपाध्यायश्रीकर्का- चार्यविरितभाष्यसहितम्। १३ (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविरचितम् (वेदान्तः) १ (२१) श्रीहर्षप्रणीतं खण्डनखण्डखाद्यम्। आनन्दपूर्ण- विरचितया खण्डनफक्किकाविभजनाख्यया व्या- (वेदान्तः) १३ ख्यया (विद्यासागरी) ति प्रसिद्धया समेतम्। (२२) आख्यातचन्द्रिका श्रीभट्टमल्लविरचिता। १ (२३)श्रीलक्ष्मी सहस्रम्-बालबोधिनी व्याख्यया-sol/5 ८ Sवतरणिकया च सहितम्।

Page 106

२४ गझ्सूत्रवृत्ति: मरीचिका श्रीव्जनाथभट्टकृता (वेदान्त) २५ क्रोउपन्संग्रहः। अत्र श्रीकालीशङ्कुरसिद्धान्तवागीशविरचितानि अनुमानजागदीश्याः सानुमानगादाधर्याः प्रत्यक्षानुमानमाथुर्या व्युत्पत्तिवादस्य शक्तिवादस्य सुक्तिवादस्य शक्तिप्रकाशिकायाः कुसुभाष्ज्रलेश्व क्रोडपत्राण : (न्यायः) २६ गझ्सूत्रम्, द्वैतद्वतदर्शनम्। श्रीसुन्दरभष्टरचितसिद्धान्तसेतुकाSभिधटीकासाइतश्रीदेवा प्रणीतसिद्धान्तजाह्ववीयुतम् १ षड्दर्शनसमुच्चयः। बौद्धनैयायिककापिलजैनवैशेषिकजैमिनीयदर्शन संक्षेपः । मयिम टीकया सहितः । हग्भिद्रसूरिकृतः। : १८ शुद्धद्वेतमार्तण्डः प्रकाशव्याख्यासहितः। प्रमेयरत्नार्णवश्र २९ अनुमानचिनतामणिव्याख्यायाः शिरोमणिकृतदीधित्याजागदीशी टीका। ३० वीरमित्रोदयः। महामहोपाध्यायश्रीमित्रमिश्रविरचितः परिभाषा सस्कारपकाशात्मकः। ३१ वीरमित्रोदयः। महामडोपाध्यायश्रीमित्रमिश्रविरचितः आह्विकपकाशः स्मृतिसारोद्धारः विद्वद्वरविश्वम्भरत्रिपाठिसंकलितः । वेदान्तंरलमष्जूषा। श्रीभगवत्पुरुषोत्तमाचार्यकृता। ३४ प्रस्थानरत्नाकरः। गोस्वामिश्रीपुरुषोत्तमजी महाराजविरच्चितः ३५ वेदास्तपारिजातसौरभं नाम ब्रक्षमीमांसाभाष्यं श्रीनिम्वार्काचार्याविरचितम्। २६ छयया संवलितम्। ३• वेदान्तदर्शनम् । परमहंसपरित्राजकाचार्यश्रीरामानन्दसरस्वती स्वामिकृत अझ्माऽमृत समाख्य व्याखयासंवलित्म्। ३८ विश्वपकाशः । कोशः । विद्वद्वर श्रीमहेश्वरसुरिविरचितः । ३१ श्रीसुवोधिनी। श्रीवलभाचार्यविनिर्मिता। श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठलनाथर तविरचित टिप्पणीसहिता। ४· वीरमित्रोदयः। महामहोपाध्यायश्रीमित्रमिश्रविरचितः पुजापकाशः । ४१ वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धान्तापरनामकः । श्रीञ्झ्मचारिवनमानिमिश्रविरचितः। देतदर्शनानुगतः। ४२ स्वानुभवादर्शः। श्रीमत्परमहंसपरिव्राजकाचार्य नारायणाश्रमशिष्यमाधवाश्रमविर

पत्न्ादिप्रेषणस्थानम हरिदास गुप्तः, चौखम्बा, बनारस, सिटी,

Dig/lced by Merosolf3

Page 107

PLEASE DO NOT REMOVE

CARDS OR SLIPS FROM THIS POCKET

UNIVERSITY OF TORONTO LIBRARY

B Madhavasrama 132 Svanubhavadarsah V3M33 1912 fasc.l

pigitized by Microsoft ®