Books / Svacchanda Tantra Kshemaraja Part 2 KSS 38

1. Svacchanda Tantra Kshemaraja Part 2 KSS 38

Page 1

Kashmir Series of Texts and Studies. No. XXXVIII.

THE

SVACCHANDA TANTRAM

WITH COMMENTARY

BY

KSHEMA RĀJA.

EDITED WITH NOTES

BY

PANDIT MADHUSUDAN KAUL SHĀSTRĪ, M. A., M. O. L.

Superintendent Research Department, JAMMU AND KASHMIR STATE,

SRINAGAR.

Published under the Authority of the Government of

His Highness Lieut.-General Mahārājā

Sir PRATĀP SINGH SĀHIB BAHĀDUR,

G. C. S. I., G. C. I. E.,

MAHĀRĀJA OF JAMMU AND KASHMIR STATE.

Volume II.

BOMBAY :

PRINTED AT THE 'NIRNAYA-SAGAR' PRESS,

Page 2

श्रीसोमानन्दनाथप्रभृतिगुरुवरादिष्टसद्भीतिमार्गो लब्धवा यत्रैव सम्यक्प्रणिपतिमनि घटनामीश्वराद्वैतवादः । कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रज्जयन्तस्वदेश्यान् देशेऽन्यस्मिन्नसिद्धदृष्टो घुसृणविसरवत्सर्वेऽन्वितत्वमाप ॥ १ ॥

तरत तरसा संसारार्णिध विधत्ते पदं पद्मविचलं नित्यालोकप्रमोदसुनिर्मरे । विमृश्रत शिवादिग्रैतावबोधसुधारसं प्रसभविलसत्सत्ययुक्त्यन्तःसमुद्रवदातिनम् ॥ २ ॥

Page 3

काश्मीर-संस्कृतग्रन्थावलिः

ग्रन्थाङ्कः ३८

श्रीस्वच्छन्दतन्त्रम् ।

श्रीमाहेश्वराचार्यश्रीक्षेमराजकृतेहोचोटाल्यविवरणोपेतम् ।

श्रीभारतधर्म्ममार्तण्ड-काश्मीरमहाराज-

श्रीप्रतापसिंहवर-प्रतिष्ठापिते

प्राच्यवियाप्रकाश-( रिसर्च ) कार्यालये

तददध्यक्ष-पण्डित-मधुसूदन-शास्त्रिणा ।

उद्घिष्टकार्यालयप्रेसतरण्डितमहोदयेन

संगृहीत, संशोधन-पर्य्यालोचन-विवरणादि-संस्करणोत्तरं

पाश्चात्यविद्वद्वतिरिक्तसंमताध्युनिकसुगमचद्रतोपन्यासादि-संस्कारैः परिष्कृत्य

मुद्रय्रां

'निर्णयसागर' मुद्रणालये मुद्रापितवा प्राकास्यमुपनीतम्

( द्वितीयो भागः )

संवत् १९७९

काश्मीर-श्रीनगर

शकाब्दः १९२३ ।

( अत्र्य ग्रन्थस्य सर्वे प्रकाशन-मुद्रापणाद्याधिकाराः प्राच्यमहाराजब्यैः

खात्यतिरिक्ताः सन्ति )

Page 5

अथ

स्वच्छन्दतन्त्रम् ।

श्रीमहामाहेश्वराचार्यदीक्षेमराजविरचितोद्योतव्याख्याव्याख्योपेतम् ।

( चतुर्थः पटलः )

1

दीक्षाज्ञानक्रियाशुद्धष्टपाशवनावलिः । महाज्योतिर्यलतेको हादी भैरवह्यशुभः ॥

2

अधिवासानन्तरभाविनीं दीक्षां प्रस्तावचिंतुं श्रीभैरव उवाच । प्रत्युषे विमले कृत्वा शौचाद्यानपूर्वकक्रमात् । सकलीकरणं कृत्वा पूर्ववत्पविशोधनम् ॥

3

पटलसंगत्या प्रकृत आचार्यः शौचाद्यनत्यादिशब्दात् ज्ञानादि, पूर्ववत्प्रविशोदिति द्वारदेवतां च कृतवा

Page 6

शिष्यश्र शुचिराचान्तः पुष्पहस्तः ............ । प्रविशेत् । स च ............गुरुं ततः प्रणम्य शिरसा तर्पणामादेव च ............हस्तो गुरोः स्वप्नान्निवेदयेत्॥ २॥

तांश्च शुभान् स्वप्नान्प्रवक्ष्यामि अशुभांश्च वरानने । स्वप्नेषु मदिरापान- मांसमांसस्य भक्षणम् ॥ ३ ॥ क्रिमिविष्टानुलेपं च रधिरेणाभिषेचनम् ।

Page 7

मक्ष्णं दधिमक्तस्य श्वेतवस्त्रानुलेपनम् । श्वेतातपत्रं मूर्धस्थं श्वेतस्रग्दामभूषणम् । सिंहासनं रथं यानं ध्वजं राज्याभिषेचनम् । रत्नाढ्याभरणादीनि ताम्बूलं फलमेव च । दर्शनं श्रीरसरस्व्याः शुभनार्यवगूहनम् ॥

क्रिमिलाक्षां, एतत्सर्वं श्रेष्ठम् ॥

किं च नरेन्द्रैरृषिभिर्मिंदैवैः सिद्धविद्याधरैरगणैः । आचार्यैः सह संवादं कृत्वा स्वप्ने प्रसिद्धयति ॥

सम्यकू वादः संवादः ॥

Page 8

8

तथा च । नदीसमुद्रतरण-माकाशगमनं तथा । भास्करोदयं चैव प्रज्वलन्तं हुताशनम् ॥ ८ ॥

9

ग्रहनक्षत्रताराणां चन्द्रविम्वस्य दर्शनम् । हर्म्यस्यारोहणं चैव प्रासादशिखरोद्भवि वा ॥ ९ ॥ नराश्वृषभपोतेभ-तरुशैलाग्ररोहणम् ।

10

विमानगमनं चैव सिद्धमन्त्रस्य दर्शनम् ॥ १० ॥ लाभः सिद्धचरोश्वैव देवदीनां च दर्शनम् ।

11

पुटिकां दन्तकाष्ठं च खड्गपादुकरोचना: ॥ ११ ॥

Page 9

12

उपवीताञ्जनं चैव अमृतं पारतोषधी: । शक्ति कमण्डलुं पद्मक्षसूत्रं मन:शिलाम्॥१२॥

13

प्रज्वलत्सिद्धद्रव्याणि गैरिकान्तानि यानि च । दृष्टा सिद्ध्यति स्वप्नान्ते क्षितिलाभं त्रेणं तथा ॥ १३ ॥

13

सिद्धो जपादिक्रमेण मन्त्रो यस्य, त्रणमिति स्वदेहेऽत्रजं, स्वप्नान्ते इति नतु स्वप्नस्याद्मध्ययो: । यथोक्तमन्यत्र 'आदिमित्तं दिवा ग्राबं रात्रौ ग्राबं तु पश्चिमम् ।' इति ॥ १३ ॥

किं च क्षतजार्णवसङ्ग्रामतरंणं विजयं रणे ।

Page 10

14

ज्वलत्पित्तवनं रम्यं वीरवीरेशाभिवृंतम्‌॥ वीरवेतालसिद्धेश महामांसस्य विक्रयम्‌।

15

महापशो: संविभागं लबधवा देवेभ्य आदरात्‌॥ आत्मना पूजयन् देवं जपन ध्यायन् स्तवन्नपि ।

16

सुहुतं चानलं दीपं पूजितं वा प्रपश्यति ॥ हंससारसचक्राह्‌-मयूरशावरोहणम्‌।

17

मातृभिर्भैररवैश्वैव मातृरुद्रगणै: सह ॥ भैरवं भैरवीं दृष्ट्वा सिद्धयत्र न संशय: ।

वीरवेतालसिद्धैश्वेति सहार्थे तृतीया । मा-

Page 11

17

तृरुद्रा देवविशेषा:, महापशु: पुरुषपशु:; सारसः सरस्येव य आस्ते हंसविशेष: । सिध्यतीति तत्स्वरूपानुसारिणीमूर्तिमादिरूपां सिद्धिं प्रामोतीत्यर्थ: । यद्यपि 'दृष्ट श्रुतोऽनुभूतश्च प्रार्थित: कल्पितस्तथा । भावितो दोषजश्चेति स्वप्नः सप्तविधः स्मृतः ॥' इति निमित्तान्तरजोऽस्ति स्वप्नः;, तथापीह भगवद्‌विधिष्टिते यागधाम्नि मन्त्रादिमाहात्म्या- स्वाविफलानुरूप एव हृदयटङ्सावधिवासो।१७।

18

एतन्मे शुभा: स्वप्ना मयार्य्याता अशुभांश्च निवोध मे ॥ १८ ॥

19

तानाह तैलाभ्यङ्गस्तथा पानं तैलस्थैव च । विचाने च रसातले । अन्धकूपे च पतन- मथ पड्‌: निमज्जनम् ॥ ९९ ॥

Page 12

20

वृक्षवाहनयानेभ्यः पतनं हृद्यपर्वतात् । कर्तनं कर्णनासाभ्या- मथ वा हस्तपादयोः ॥ २० ॥ पतनं दन्तकेशाना- मृक्षवानरदर्शनम् । वित्तालकुरसत्त्वानां तथैव कालपुरुषः ॥ २१ ॥

22

कृष्णोर्ध्वकेशा मलिना: कृष्णमाल्याम्बरच्छदT: । रक्ताक्षी रौद्री च यं स्वप्ने पुरुषं त्ववगूhयेत ॥ २२ ॥ क्रियते नात्र संदेहो यदिं शान्तिं न कारयत् । गृहप्रासादभेदं च शाख्यावलासेनेषु च ॥ २३ ॥

Page 13

24

आत्मनोऽभिभवं संख्ये आत्मद्रव्यापहारणम् । शत्रोषध्वंसनोद्धवु कडूङ्ग्रहद्वकेपु च ॥ २४ ॥ महिषोद्धकाकेपु रोहणं च प्रवर्तनम् ।

25

भक्षणं पक्वमांसस्य रक्तमाल्यानुलेपनम् ॥ २५ ॥

26

कृष्णरक्तानि वस्र्राणि विकृतात्मा प्रपश्यति । हसनं वल्गनं स्वप्ने म्लानस्रग्दामधारणम् ॥ २६ ॥

27

स्वमांसोर्त्कर्तनं बन्धं कृष्णसर्पेण भक्षणम् । उद्वाहं च तथा स्वप्ने दृष्टा नैव प्रसिध्यति ॥ २७ ॥

कूरसत्त्वं व्याघ्रादि, संख्ये संग्रामे, विकृ-

Page 14

२७

तत्र विम्न्र्याकुलचित्तो भीषणारतिवी, हसनोद्दाहादि आत्मन:, वल्गनं नृत्तम् । उपसंहरति अशुभा होममारख्याता विज्ञेया देशिकोत्तमै: ।

२८

विज्ञेया इति कालस्वरूपाधिकारानुसारेणैव एषां बलाबलचिन्ता कार्येऽर्थ: । तत्र शुभास्तत्रानुमोद्यास्तु अशुभेषु तु होमयेत् ।

२९

अष्टोत्तरशतं धाम्ना तथा सति दीक्षान्तरायोपशान्ते: । प्रायश्चित्तादिहिसुद्धयति ।

३०

अत्र विधिमाह पूर्ववत् सकलीकृत्य विघ्नोच्छाटनरक्षणम् ।

Page 15

30

वेष्टनं पूर्ववत् कुर्या-च्छिवाम्भः शिवहस्तकम् । लोकपालांस्तु संपूज्य शिवकुम्भं च स्थण्डिलम् ॥३० अथिकार्ये यथापूर्वं पूणाहुतिप्रपातनम् । प्रायश्चित्तं ततः पश्चा-हुःस्वप्नार्थे यदुक्तवान् ॥ ३१ ॥

31

तत् कुर्यादिति शेषः । वेष्टन कवचन, शिवाम्भ इति प्रोक्षणादिकं[र्यथ], शिवहस्तः कमणो दीयापत्त्या सम्यक् प्रायश्चित्तशान्त्यर्थ, स्थण्डिलमिति तदांघ्रेयं भैरवम् ॥ ३१ ॥ एतदुपसंहरन् प्रकृतं प्रस्तावयति एवं पूजादिकं कृत्वा विसृज्य स्थण्डिलाच्छिवम् । निर्माल्यापनयं कृत्वा भूमिं संशोध्य पूर्ववत् ॥ ३२ ॥

Page 16

33

नित्यकर्म ततः कुर्यादपूजाहोमजपादिकम् । नित्याह्निके समाप्नो तु नैमित्तिकमथाचरेत् ॥ ३३ ॥

नित्यकर्म स्वानुष्ठानविषयम् । तत्र प्रायश्रित्तिनो नाधिकार इति तद्लुब्धनते तस्यामिधानं; नैमित्तिकं दीक्षाह्यान्त्रिमित्तादागतम् ॥ ३३ ॥

34

तदुपचक्रमे उपलिप्य शिवाम्भोभिब्रह्मस्थानं प्रपूजयेत् । भावेन गन्धपुष्पाद्यै: भावेन प्रणवेन । तत्को मण्डलमालिखेत् । तद्विधिरग्रे भविष्यति ॥ ३४ ॥

१ ख० पु० अनधिकार इति पाठः । २ क० पु० मन्त्रस्थानमिति पाठः ।

Page 17

34

अथ करणिं खटिकां चैव भैरवेण प्रपूजयेत् । धात्रां तु रजसां पातः भैरवः सकलः, धात्राभिमतृितानां रजसां पश्चात् पातो निर्मलत्रक एव, अन्यथा भाविरजोदोषोक्त्यनुपपत्ति: ॥ स च रजसां पातः स्थिताद्यागमोदितः ॥ ३४ ॥

35

सितं रजः पात्यमानायं यस्य, आगमे बृहतत्त्रे उदितः ॥ ३५ ॥

36

अथ निष्पन्ने मण्डले स्वात्वा नित्यकर्म समाचरेत् । अपरेदिहि, इत्यर्थ: ॥ नित्यकर्मसमाप्तौ तु कुर्यादौमित्तिकं बुधः ॥ ३६ ॥

Page 18

37

तत्त्रितीयकर्मानूद्य नैमित्तिकमादिशति स्वानादि पूर्ववन्मन्त्रैः । सकल्ठीकरणादिकम् । आत्मरक्षार्थप्राकार- द्वारपालादिपूजनम् ॥ ३७ ॥

38

विज्ञानमुच्चाटनदिगबन्धौ भूपातालखव्वासिनाम् । अन्यप्राकारमारोप्य कवचनाविगुण्ठनम् ॥ ३८ ॥

39

उद्दङ्मुखं तूपविष्टः करशुद्ध्यादि पूर्ववत् । शिवाम्बः शिवहस्तं च अर्घत्रयप्रकल्पनम् ॥ ३९ ॥

कृत्वेति शेषः । आत्मरक्षार्थोद्दिष्टप्राकारः । भूपातालखवासिनां विद्यानमुच्चाटनमिति व्यवहिता सम्बन्धः आगमप्रामाण्यात्, अन्य-

१ क० म० पु० गामिनामिति पाठः । २ ख० पु० रक्षार्थमिति पाठः ।

Page 19

39

प्राकारमिति यागगृहविषयम्, उदङ्मुखमिति बुभुक्षुदीक्षाया अपि मुक्तिपर्यवसायित्वात् दक्षिणास्यस्य चाशेषपाशदाहकत्वात् दक्षिणाभिमुखत्वं वोक्तं; करशुद्ध्यादित्यादिशब्दात् देहशुद्ध्यादिकम्। शिवाम्भ इति प्रोक्षणाद्यर्थं शिवमन्त्रितमभोर्धपात्रात् पृथक्, ततः प्राक्पटलयोरनुत्तदयं पात्रत्रये विधिनिरोधपशुप्रयोजनमघत्रयम् ॥ ३९ ॥

ततः लोकपालांस्तु संपूज्य शिवकुम्भं प्रपूजयेत् ।

40

ततोज्जपी मण्डलस्यागतो भूत्‌वा मण्डलं प्रोक्ष्य चासिनात् ॥४०॥ वर्मणा वेष्टयेत् पश्चात् प्रणवेनाभिमन्त्रयेत् । अष्टोत्तरशतं धाम्ना रजोदोषैर्विशुद्ध्यति ॥

Page 20

41

मण्डलस्याप्रत इत्यनेन दीक्ष्यजनातिशयेन मण्डलस्य दिगन्तराभिमुखत्वमपि ध्वनति । प्रणवेन धामेति प्रणवपवेण निष्कलेनेऽर्थः ॥ ४१ ॥ इत्थं च संस्कृतस्य मण्डलस्य चतुर्दिक्ष्वस्थं संपूज्य द्वारे गन्धादिभिः ऋमात् । प्रकारं भावयेद द्वार इति जातावेकवचनं, तेन वक्ष्यमाणनवनाभमण्डलस्य चतुर्दिक्षु यान्यष्टौ द्वाराणि तत्रेत्यर्थः ॥

42

मण्डलं प्रविशेत् ततः ॥ ४२ ॥ पूजामात्रारमेत इत्यर्थः ॥ ४२ ॥ तत् गुरुन्न संपूज्य विद्नेशं पुष्पाद्यैः प्रणवेन तु । पूर्वं गणपतिं वायव्यकोणे संपूज्य गुरुन्न

Page 21

43

ततः अनन्तमासनं प्राग्व-च्छिवान्तं प्रणवेन तु ॥ ४३ ॥

44

मूल्यादि. पूर्ववर्यस्ये-ज्रृदाद्यावरणान्तगम् । पूवोक्तविधिना पूज्य नैवेद्यानी निवेदयेत् ॥ ४४ ॥

45

निरोधार्घेण चार्घं तु दत्वा चैव निरोधयेत् । जपध्यानादिकं कृत्वा अभिष्ठं भैरवं युजेत् ॥ ४५ ॥

46

नाडीसंधानकं त्रिष्ठं कृत्वा संतर्पयेद्दिभुम् । अग्नाविति शेषः ॥ ४६ ॥

Page 22

46

तत्र तावन्नाडीसंधानमाह । आत्मनो निष्कलोच्वारं कृत्वा कुम्भे निवेशयेत् ॥४६॥ कलशस्थस्य वामेन रेचयेत् पूरयेततत् । मण्डलस्थस्य सव्येन पुनर्वामेन रेचयेत् ॥ ४७ ॥ अभिष्ठस्य तु तत्तेजो दक्षिणेन विशन् स्मरेत् ।

मत्रकलशादिर्ग्र्यन्तेऽक्रमेण ऊर्ध्वद्वाद- शान्तमाश्रयन्ततोज्जपि हृदयाग्र्य तत् वि- श्रम्य प्रदक्षिणं भ्रमित्वा सोममार्गण निःश्वस्यकलशस्थस्य दक्षिणेन प्रविशेत्, तत्राप्यसुमेव क्रममास्थाय तद्वामेन निर्गत्य मण्डलस्थस्य द- क्षिणेन प्रविश्य प्राग्वद्वामेन निर्गल वहिस्थस्यदक्षिणेन प्रविशेत् प्राग्वदेव च हृदये विश्रा- म्येत् । एवंसंधिकरणचतुष्टयैक्यापत्त्या वह्नावप्री- पोमसूर्तेजःसामरस्येन स्येयं नतु ततः स्वह्‌

Page 23

48

एवं संधानकं कृत्वा ततस्तर्पणमारभेत् ॥ ४८ ॥

48

एवमित्यपिर्विश्रान्त्यन्तम् ॥ ४८ ॥

दशभागविभागेन हुत्वा पूर्णाहुतिं क्षिपेत् । मूलहोमात् पूर्वोक्ताद्रकाणां दशांशेन हुत्वेत्यर्थः ।

49

अथ प्रायश्चित्तविशुद्ध्यर्थं कुर्यादष्टोत्तरं शतम् ॥ ४९ ॥

49

विधौः पूर्णाहुतिर्यस्य ध्यात्वा पूर्णाहुति ततः । धारयति काकाक्षिवत् ॥ ४९ ॥

Page 24

50

किं च आचार्योडथर्घहस्तस्तु मण्डलं प्रतिशोचतत्॥

51

संपूज्य परमेशानं पुष्पाघैरर्घपश्चिमम्। मुद्रां बद्धा प्रणम्यादौ जानुभ्यामवनिं गतः॥ विज्ञापयेत पश्वर्थ प्रारब्धोडयं मखोत्तमः। स्नानाधिवासनायं य-न्मण्डलेडग्रौ च यत्कतम विधानं पुष्कलं सम्यक् त्वत्प्रसादादिहारतु तत्॥

52

परमेशानं विज्ञापयेत पश्वर्थोमिति सं-गतिः॥

अनुष्ठितकर्मविष्यांं विज्ञाधिं कृत्वा, अनु-ष्टास्यमानविष्यामप्याह

Page 25

53

इदानों शिष्यदेहे तु सकलीकरणादिका ॥ ५३ ॥ योजनान्तध्वशुद्धिस्तु त्वत्प्रसादात् प्रसीद्यतु ।

ततः कर्मप्रारम्भनिष्पत्त्यन्तं केवलमन्त्रमुखक्रमेण यावन्निश्रितप्रतिपत्त्यापि भगवदधिष्ठितिमात्मनः स्फुटयेदिति विश्रेराज्ञायः ५३ अत एवमस्तित्वमनुज्ञातः परमेशोन बीरराट् ॥ ५४ ॥

54

लब्धानुज्ञः प्रहृष्टात्मा निष्क्रामेन्मण्डलादहिहः । वीरराडिति परमेश्वराधिष्ठितः एवं लब्धशोषनिर्दलनात्मकभैरवोभावोढत एवं तत्तन्मावेशात्प्रहृष्टात्मा, बहिरिति जवनिकान्तरिते यागध्येय ॥ ५४ ॥

55

पक्ष्वर्थाय कृतं यतु तदृहीत्वार्घपात्रकम् ।

Page 26

55

धाम्नस्तु दक्षिणे भागे कार्येन्मण्डलं गुरुः । दक्षिण इति दक्षिणाग्रस्य पार्श्वोपशोभकत्वात् ॥ ५५ ॥

56

अथात्र प्रणवासनं कुशोर्न्यस्य शुचिं शिष्यं निवेशयेत् । शिवाम्भोडकेण सन्ताड्य भस्मना च कुशैः कृमात् ।

57

मण्डले कल्पिते शिष्यं मूर्तिभूतं प्रकल्पयेत् ॥ ५७ ॥ शुचिं ज्ञातमख्रेणति त्रीन्पु योग्यम् । क्लिप्त इति आसनत्वेन, अत्र च मूर्त्यादीनां पूर्वोक्तैरेव व्याप्तिः । एवमुत्तरत्रापि ॥ ५७ ॥

अथास्य उपविश्य करन्यासं निर्दाहाद्यनुपूर्वकम् ।

Page 27

58

स्वाह्याभ्यन्तरं न्यासं मन्त्रसंधानमेव च ॥ ५८ ॥ गुरु: कुर्यात् ॥ ततः शिवहस्त: प्रदातव्यो ध्यात्वा देवं सुजाज्वलम् । गुरणा ॥ एवं गुरुरस्य मूर्धि संपातयेतेज: पाशाडुरविनाशनम् ॥ ५९ ॥

59

पाशानामडुरा: संसारप्ररोहहेतवच आय्या उद्देदास्तेषां नाशनम् । यथोक्कमन्यत्र 'ब्रह्मादिपञ्चसंयुक्क: शिवेनाधिष्ठित: शिव: । पाशच्छेदकर: क्षेमी शिवहस्त: प्रकल्पित: ॥ अनेनालभ्यमात्रस्तु देही नि:शङ्कबन्धन: । प्रयाति शिवसायुज्यं निर्मलो नि:स्पृशाव: इति ॥ ५९ ॥

उत्थाप्य चं ततो नीत्वा मण्डलं तु प्रवेशयेत् ।

Page 28

60

इन्द्रियाणां बाह्यप्रसरप्रशमनं भगवदेकाग्रतामाधातुं बद्धनेत्रस्य मण्डलदर्शनमुचितमियाह वक्तं संप्रोक्ष्य तोयेन कवचेनावगुण्ठयेत् । पूजयेद्रन्धपुष्पायैभैरवेणाभिमन्त्रयेत् । नेत्रे बद्धा तु नेत्रेण नेत्रेणाभिमन्त्रिते' नेत्रमन्त्रोचारपूर्वं सर्वेन्द्रियप्रसरपुरःसरमूते' नेत्रे बद्धा ॥ पुष्पं पाणौ प्रदापयेत् ॥

61

शिष्यस्य पुष्पं पाणौ प्रदापयेत् ॥

62

स च अकामाल्निक्षिपेत्पुष्पं देवस्याभिमुखं स्थितः । तदनन्तरं बुभुक्षोः पुष्पपातवशान्नाम कुर्यादै साधकस्य च ॥

Page 29

62

वक्त्रादिपूर्वं शिवान्तं पुंसः, त्रियस्तु शक्त्यन्तम् ॥ ६२ ॥

यस्तु निष्कामस्तस्य मुमुक्षोर्गुरुरिच्छातः यथारुचि कुयाद्दा न वेल्यर्थः ॥ पूर्वोक्तस्य साधकदीक्षादीक्श्यस्य नाम वै साधकस्य वा । वाशब्दो निश्वये कुयादेवेत्यर्थः ॥

63

अथ मुखमुद्रां तं शिष्यं शिवाय प्रणिपातयेत् ॥ ६३ ॥

63

शाक्तमार्गोद्धाटनव्या ख्या मुखमस्य लाघवे- नोद्घाटयेत् यथासावुद्घटफुल्लनायेन विकस-तीति गुरुः ॥ ६३ ॥

किंच प्रदक्षिणमतः कृत्वा मण्डलेऽस्मै प्रणम्य च ।

१ ख० पु० न कुयादिति पाठः । २ ख० म० घ० ड० पु० कलशे इति पाठः ।

Page 30

64

आग्रिकुण्डसमीपे तु आचार्यः पशुना सह । भवेत्स्तोभः । प्रदक्षिणादिकृत्स्व द्वाररपि । अत्र च पूर्वोक्ता कराकर्षण्युक्तिः सर्तव्यैः ॥ ६४ ॥

65

आत्मसंघयेडथ दिग्भागे मण्डलं प्रणवेन तु । पूर्ववन्नाडिसंधानं तदर्थे चाड्वोत्त्रियं ॥ ६५ ॥

66

संपातामिहुतिं कृत्वा अनुत्तर्पणमेव च । पूर्नाहुतिं ततो दत्वा प्रायश्चित्तानि होमयेत् ॥ ६६ ॥

धाम्ना चाष्टशते 'पिङ्गला मध्यमा नाडी शिष्यदेहाद्दिनिर्गता ।' इति प्रागुक्तस्थिल्या शिष्यकरगुरुजङ्घासद्धेति ।

Page 31

66

तदर्भयुक्तस्या नाडीसंधानम्, अणवो मूलाद्या मन्त्राः ॥ ६६ ॥ एतत् कृत्वा पश्चात् पातयेदाहुतित्रयम् ।

67

जातयुद्धारे ध्रुवेणैव द्विजत्वापादने तथा ॥ ६७ ॥

Page 32

२८

ष्ट्राचत्वारिंशत्संस्कारापादनेन द्विजस्यैव कायेमिति तदेशां जातियहग्रस्ततयानुनिर्मिताविवेकत्वादौविदितपरमेशाशास्त्रार्थसतत्त्वमाभधानमुपेक्ष्यमेव । यतो भाविद्विजदेहविषयमेतदिल्पार्थे श्रुतिरस्ति । यथा च वातं मानस्य पशुशरीरस्याचिन्त्यशक्तिमन्त्रप्रभावात् दाहादिकं जायुद्वारश क्रियते तथा शुद्धतत्त्वमयदेहान्तरोत्पत्तिद्विजत्वापादनं च यचन्तजात्या[न्यजा]देरपि क्रियते तत्र काचिदनुपपत्ति;, श्रुतिस्तर्ह्यत्रार्थे यथाभिहितरुपा सेतकर्तव्यता स्पष्टैवास्ति । श्रूयते हि एतगथाद्यापि योगिन्यो मध्वादिप्रबवेन देहजाल्यादि आत्मन: परस्य च परिवर्तयन्तीति । माहेश्वरे च नये तदुक्तप्रक्रिययापि शिवपुंमाया[भ्यो]डन्यतत्त्वजात्यादि सर्वमेवानित्यम् । यत्तु तु सुवर्णाद्वान् अष्टाचत्वारिशत्संस्काराधानेन द्विजत्वापादनं क्रियते तत्पुत्रकस्य वागीश्यां गर्भाधानादियुक्त्या/

Page 33

तत्त्वसंभाव्यमानभूतसर्गभोगशुद्धिमध्ये दृढ-

जभोगंशुद्ध्यर्थम्, इदं तु समयिनो वर्तमान-

देहविषयं तस्य तत्त्वशुद्धेरचोदितत्वात् । अत-

श्रैतदेव यतो दीक्षितानाम्

‘एकैव सा स्मृता जातिभेदवैया शिवाव्या ।’

(स्व० ४८५१)

इति वक्ष्यमाणस्थिल्या न शुद्धादिजातीयत्व-

मस्ति, प्रत्युत प्राग्जात्युदीरणात् प्रायश्चि-

त्त्वं शास्त्रसमये स्थितानामुक्तं; द्विजस्यापि

चैतद्लौकिकं द्विजत्वमादधत्कार्यमेव । यत्

‘.......... यनेदं तद् भोगतः ।’ (किरणा०)

इति देहस्थैल्यां वर्तमानदेहे मच्रयोजनं

(न) कार्यमित्याहु:, तदारब्धदेहकर्मशुद्ध्यर्थं

न कार्यमिति यदुच्यते तद्युक्तं, शोधनाहा-

प्यायजात्युद्दारायार्थ तु वर्तमानदेहेऽपि चो-

दितत्वात् कर्तव्यमेव । अन्यथा

‘मन्त्रशक्तिमिश्रग्रामिः शोधनिदेहादिमिः ।

शरीरं शोधितं यैसत्तदर्थमपि पेचनम् ।’ (स्व० ४८५७)

६७

इत्यसंर्गतं स्यात् ॥ ६७ ॥

१ स्व० ग० पु० भूतशुद्धौ पाटः । २ स्व० पु० स्थितयेतौ पाठः ।

३ शोध्यते तास्मैरिति मूलस्थः पाठः ।

Page 34

अत्र द्विजत्वापादने कर्तव्यान्तरमाह बीजाहारे तथा देश-भावशुद्धौ द्विजो भवेत्। प्रणवपूर्व 'बीजाहारदेशभावशुद्धिममुकस्य करोमी'त्यत्र प्रयोगः। इह 'ब्राह्मण्यं बीजशुद्ध्या सात् सा च शुद्धौ व्यवस्थिता। तासां तु चपलं चित्तं चण्डालेऽपि धावति ।।' इति मुकुटसंहितोक्तन्यायान्न कचिद्दीजशुद्धिर्वास्तवी संभाव्यते।-इति स मतेरैव सं-पाद्या, आहारस्य श्रुतिस्मृत्युक्तप्रक्रिया अनिर्वाहादशुद्धिरस्ति, देशस्यापि म्लेच्छादिसंपर्कात, भावस्यास्त्यानार्जवादियोगादिति शुद्धिराधेयैव ।।

६८

अत्रैवमस्य मन्त्रे: शुद्धविद्यायां जननेनाप-दितलोकोत्तरद्विजत्वस्य प्रणवेनाहुतीस्तस्मो रुद्रांशापादने तथा ।। ६८ ।। प्रणवपूर्व 'रुद्रांशो भव स्वाहा'इति प्र-योगात् भाविभैरवोभावभावभूमिकाप्रहणाय रु-

Page 35

68

द्रांशत्वापादनमस्य कार्यं येनाधिगतशास्त्रार्थो रुद्रध्यानैकनिष्ठ: स्यात् ॥ ६८ ॥ तत्‍तेतिकर्तव्यतां दर्शयितुमाह अत्रैण प्रक्षयोर्‌च्छिष्यं पुष्पयुक्तेन ताड़येत् । रेचकेन ततो गत्वा शिष्यदेहे विशेषोद्धृदि ॥ ६९ ॥

69

पुष्पेति अत्राज्ञया पुष्पेणेत्यर्थ: । रेचकेने- त्यूर्ध्वमार्गेण ॥ ६९ ॥

70

अथ तत्‍ ओङ्कारादि शिवं जप्‍वा अन्नमच्र्ं फडन्तगम् । विशेषकरणं कृत्वा चैतन्यस्य विधानतः ॥ ७० ॥

71

छेदयेदक्षरमन्त्रेण कवचेनावगुण्ठयेत् । अङ्ङोन समाकृष्य हृदशान्ते तु कारयेत् ॥७१॥

Page 36

३२

तत्रस्थः पुद्गलो ग्राह्यः संपुट्यैव ध्रुवेण तु । संहारमुद्रया संयुक्त शिवं निष्कलं, चैतन्यस्येति पुरुषष्टकरूपस्य, विधानत इति पूर्वोक्तरशिममात्रावियोगभावनया, अकुशोन इति मूलमन्त्रस्य कुडिलकलाकमेण अकुशमुद्राप्रदर्शनन चेत्यर्थः । पुद्गलो जीवः, सम्यगिति खाभेदप्रतीतिदार्ढ्येन । यथोक्तं स्पन्दे ........अयमेवात्मनो ग्रहः । ( स्प० २७ ) इति ।

७२

अथोर्ध्वकेन पूरकेण विशोध्युदि ॥ ७२ ॥ खस्मिन् ॥ ७२ ॥

तत्र संस्कुम्भ्य सरसीकृत्य रेचयेत्पुद्गलं पुनः ।

Page 37

73

त्यजन्तं देवताष्टं तत्स्थापि स्वकं पदम् ॥ ७३ ॥

समस्तमसीकरणं वद्यमाणसामभेदापादनं, रेचनमूर्ध्वोद्धेशेनकर्मेण, देवता ब्रह्माविष्णुरुद्रेश्वरदाशिवशिवाच्च्या हत्कण्ठटालुल्लभूूमध्यललाटब्रह्मरन्ध्रगा:, तत्त्याग एव शिष्यस्य तद्‌धिष्ठिताध्वनि विशेषयोग्यताधानहेतु:, स्वामिनि जिते स्वस्यापि जयात्; स्वकं पदं भूमध्यम् । यदक्ष्यति

'ऐश्वरं लभते पदम्' ( स्व० ४७९ ) इति तन्नेये तु तत्पदप्रापकात् तदाराधनाद्योग्यतासादधीत । यदुक्तं स्रगिन्द्राद्रायाम् 'इति सामयिकं कर्म..................॥' इत्युपक्रम्य 'यत्स्थाप्य योग्यतामिति..................॥' इति ॥ ७३ ॥

तत्रस्थं पुत्रलं ग्रह्य संपुत्र च भवेत् तु ।

Page 38

74

संहारमुद्रयोत्कृत्य शिष्यस्य हृदि योजयेत् ॥७४॥ भैरवेणाभिमंत्र्य भवेन् भैरवेणोति निष्कलेनाभिमंत्रणं च सत्त्वारान्निव्याहुः । तदेतावत्पर्यन्तो हृद्रांशापादनाय ग्रन्थो नतु द्विजत्वापादनायेति भ्रमितव्यम् ॥ ७४ ॥

द्विजत्वापादने तु पूर्वोक्त वक्तव्यशेषमाह एव- सुपवीतं शिशोर्ददेत् । एवमिति भैरवेणाभिमंत्र्य मंत्रशक्त्यैव इदानीं शुद्धविद्यापदोद्भवात्मकद्वितीयजन्मयोगात् द्विजत्वं भवति । उपवीतामिति, उप आत्मसमीपे विशेषेण मंत्रसामर्थ्यात्मना इतं संबंधं वीतं च शुद्धमन्त्रद्वयात्मकशक्तिसूत्रप्रतिरुपमेतदुपवीतं ॥

Page 39

74

दत्तोपवीतो हि असौ आधानाव्यावद्न्येष्टिं द्विजत्वे संस्कृतो भवेत्॥

75

गर्भाधानादयो वक्ष्यमाणाश्चत्वारिंशच्छुद्धविद्योद्वात्मकप्रोक्तद्वितीयजन्मोपयोगाय, ते च मन्त्रशक्त्यैव सिद्ध्यन्ति ॥

एतचत्वारिंशता संस्कारै: पिण्डस्यापादनं जाते: भवत्तालि षष: ॥

कथमिल्याह आहुतीतित्रयेन तु । पूर्वं निश्चितेनैव इत्यर्थ: ॥

न केवलमियता संस्कारै: पिण्डस्य जात्या-पादनं यावत् चैतन्यस्यापि संस्कार-माधानान्त्येष्टित: परम् ॥

76

चैतन्यस्यापि संस्कार-माधानान्त्येष्टित: परम् ॥७६॥

Page 40

76

सूक्ष्मविज्ञानतः कृत्वा द्विजत्वे संस्कृतो भवेत् । आधारेनादिभाविना सहितः पर्यन्तवर्तिन्या अन्त्येष्ट्यात्मा चत्वारिंशत् संस्कारः, ततः परं वक्ष्यमाणं दयाक्षान्त्याद्यात्मकात्गुणसंस्कारैकं सूक्ष्मविज्ञानम् इति भावनया । एवं द्विजत्वापादनार्थं यथोक्तं निर्वक्त्योक्तसततं रुद्रांशापादनं कर्तव्यम् ॥ ७६ ॥

77

तदन्तेऽपि शतहोमं सहस्रं वा हुत्वा पूर्णाहुतिं ततः । द्वयादिति शेषः । शतादिहोमो मूलमन्त्रस्य तदज्ञानां तु दशांशः इति स्थितमेव ॥ ७७ ॥ तदिदमुपसंहरति

समयी संस्कृतो होवं एवमिति जात्युद्धारद्विजत्वरुद्रांशापत्तिभिः समयी समयः पारमेशशास्त्रमर्यादावर्त्तनम्-स्यार्तीति कृत्वा ।

Page 41

78

यदाह वाचनेडस्याहंता भवेत् । श्रवणेडध्ययने होमे पूजनादौ तथैव च ॥ ७८ ॥ वाचनं बुद्ध्यारोहायावर्त्तनं, श्रवणमर्थवबोधः, अध्ययनं वेदवत्सततपाठ आगमग्रन्थस्य, आदिशब्देन जपध्यानादयः ॥ ७८ ॥

इस्थमयं समयी चर्याध्यानविशुद्धात्मा लभते पदमेश्ववरम् । चर्याध्यानाभ्यां समयपालनयोगाभ्यासाभ्यामेव विशुद्ध आत्मा यस्य । दीक्षया हि अस्याध्वशुद्धियोजनेन विना ईश्वरयोगयोग्यतैवाहितेति तद्योगादेव अस्य पाशाशुद्धावीश्वरपदासिः । अतश्व यत्कश्चिदीश्वरत्स्वयोजितस्यास्य पुत्रकादिदीक्षायामधरपदशोधनं न युक्तम् इति ईश्वरपदं 'गुरुभावस्थितस्यास कालरुद्रं निधापयेत् ।' इति कारणवाक्यानुसारेण कालादिधाम वा

Page 42

28

[मैव] इत्यवोचत् तदसत्, समन्विनो योजन-कादेरचोदितत्वात् करणस्य वाक्यस्य चास्य पुत्रकादिषु वचनदीक्षाविषयत्वात् । किरणाग्रं हि समयिदीक्षान्ते

…… ततः दीक्षां समाचरेत् । इत्युपक्रमस्य पुत्रकविषयसुचनदीक्षा एतद्-क्यप्रकुञ्च निर्वाहितेत्यलम् । ऐश्वरपदलाभो- परा मुक्तिः ॥

अथोक्तसमयिदीक्षानन्तरनिरूप्यां प्रथम- त एव वा कर्तव्या पुत्रकादिदीक्षां निर्णयंतुं प्रस्तौति

79

अथ दीक्षाध्वहुद्र्यर्थ मुक्तिमुक्तिफलार्थिनाम् ॥७९॥ विधानमुच्यते सूक्ष्मं पाशाविच्छित्तिकारकम् ।

भुक्त्यर्थिनः साधकाः मुक्त्यर्थिनः पुत्रका-चार्याः, तेषां या दीक्षा तस्यामध्वशुद्ध्यर्थ सूक्ष्ममिति भाविव्याध्या समूलपाशोन्मूलने

१ उन्मूलन ।

Page 43

79

परतत्त्वयोजनिकादिरूपं विधानमुख्यते । सम्यिनस्तु अधिष्ठातृकरणविशेषमात्रपूर्वमीश्वरत्त्वारोहणयोग्यतां,-इति तं प्रति न सूक्ष्मविधानं नापि परा मुक्तिनपि मन्त्राधनक्रमेण भुक्तिरिति भाविपुत्रकादिप्राप्तियोग्यताजननमात्रं समयदीक्षालक्षणम् । यथोक्तम् '...........समयी राजपुत्रवत् ।' इति ॥ ७९ ॥

80

अथ पुत्रकसाधकदीक्षयोर्‌विषयविभागं स्पष्टीकरोति गुरु: संपृच्छते शिष्यं द्विविधं फलकाद्‌द्‌रि‌णम् ॥ ८० ॥ द्विविधं बुभुक्षुं मुमुक्षुं वा, फलमिति मोक्षो भोगो वा ॥ अतः श्रद्धासमये ब्रूयात् फलमाकाड्‌क्षसे याह- काद्‌द्रु साधनमारभे । साधनं दीक्षाविधि: ॥

Page 44

81

यतः वासनाभेदतः प्राप्तिः साध्यमन्त्रप्रचोदिता ॥ ८१ ॥ साध्य आराध्यो यो मन्त्रः स चिन्तामणिकल्पो वासनानुसारं फलति । अत एव श्रीस्पन्दे ‘तदाक्रम्य बलं मन्त्रः’ ( स्प० २१० ) इत्युपक्रम्य ‘सहाराधकचित्तेन’ ( स्प० २१० ) इत्यन्तम् ॥ ८१ ॥

82

तथा च मन्त्रमुद्राध्वद्रव्याणां होमः साधारणः स्मृतः । भुक्तौ मुक्तौ च ॥ स तु वासनाभेदतो भिन्नः शिष्याणां च गुरोस्तथा ॥ ८२ ॥ यदा शिष्यः स्वप्रत्ययी तदा गुरुस्तद्वासनानुसारं मुक्तये मुक्तये वा जुहुयात् । यदा तु

Page 45

42

गुरुप्रत्ययी तदासौ खवासनानुसारं मुक्त्यैव तस्य बुमुक्त्यभावादित्यथेलभ्योऽयमन्त्रश्रय: ॥ ४२ ॥

अथ वासनाभेदत: शिष्यभेदं प्रतिपादयति

43

साधको द्विविधस्तत्र शिवधर्म्येकत: स्थित: । शिवमन्त्रविशुद्धाध्वा साध्यमन्त्रोनियोजित: ॥ ८३ ॥

44

ज्ञानवान्श्वाभिषिक्तश्व मन्त्राराधनतत्पर: । त्रिविधायास्तु सिद्ध्यैव सोऽत्राह: शिवसाधक: ॥८४॥

शिवधर्म: शिवशास्त्रोक्तसमाचार: नित्यवियोगेन विद्यते यस्य, अत एवं शिवपदेन साध्यमन्त्रेणैव विशुद्धो न तु लोकधर्मैण एव अंशेन स्थापितोऽथवा यस्य, यस्मिन्नेव च सा-

Page 46

84

ध्यमभ्रयोजित इत्याचार्येणाराधकत्वेन नियुक्तः। ज्ञानवानिति अधिगतमतन्त्रतन्त्ररहस्यः ॥ ८४ ॥

85

द्वितीयो लोकमार्गस्थ इष्टापूर्तविधौ रतः । कर्मकृत्फलमाकाङ्क्षी शुभैकस्थोऽशुभोज्झितः ॥८५॥

लोकमार्गः श्रुतिस्मृत्याचारः, इष्टं तार्थ- ध्यानान्नदानादि, पूर्तं कूपतडाकमठादि, फलमाकाङ्क्षीत्‌न्‌ कर्म शुभमेव करोति । न तु मन्त्राराधनम्‌ 'लोकधर्मिण्यसौ दीक्षा मन्त्राराधनवर्जिता ।' (स्व० ४११४५) इति वक्ष्यमाणत्वात्‌ शुभकर्मणि तु फलस्य साधनात्साधकोऽयं, दीक्षया त्वस्याशुभमात्र- मेव शमनीयमित्याह अशुभोज्झित इति ॥८५

Page 47

85

अत एव तस्य कार्य सदै मन्त्रे-रशुभांशविनाशनम् । सदेति देहारम्भकर्मवर्ज यदकरोत क-रिष्यति वा तत्र मध्ये योजुभांशः स स-वोंडस्य शोध्यः॥ "...प्रारब्धेकं न शोधयेत्" (स्व० ४|१४३) इति वाक्यस्य प्रायशः सर्वविषयत्वादसंक-ीर्णाचारेण शिवधर्मिणा भाव्यमित्याह गृहस्थो वा यतिर्वास-वाश्रमैकतमस्थितः ॥ ८५ ॥ इमशानादिकृत्येनैव वा सिद्धिं साधयेत्, रहस्थपुत्तेन ताहशैरेव द्रव्यैः न तु शवतलया, असाविति शिवधर्मी न स्वन्यः तस्य मन्त्राराधनाधिकारात् न तु आश्रमान्तरविहिततपर्म-तत् इहानुपयोगात् ॥ ८५ ॥

Page 48

87

साधके निर्णीय मोक्षैकनिष्ठं पुत्रकं निर्णयंतुमाह मुरूशुद्धिविधिः प्रोक्तो निर्बीजो बीजवानपुनः । उभयोरविषयविभागमाह बालबालिशवृद्धत्व- भोगभुग्न्याधितात्मनाम्॥८७॥ एषां निर्बीजिका दीक्षा समयादिविवर्जिता । बालिशो मूर्खः, वृद्धोऽनुष्ठानासमर्थः, भोगगमुक उपनतभोगैकसक्तोऽप्यायातशक्तिपातो दीक्ष्य एव । अन्ये त्वालस्योपहतोडयं न पतत्र, अतो भोगभुक अपथ्यपरश्वासौ ध्य- धित इति योजयन्ति, व्याधितो दुश्चिकित्स्यः, निवाजिकलतस्य ठ्याध्यानां समयादिविभाजनंतेन आदिशब्दात्पवित्रकादिविधिः । क्ष्यति च 'समयाचारपाशांश्र निर्वीजायां विशेषयेत् ।' ( स्व ४१८९ )

87

इति ॥ ८७ ॥

Page 49

88

विध्रद्वन्द्वसहाना तु संबीजा कीर्तिंता प्रिये॥ ८८ ॥ विदुषां शास्त्रविवेककुशलानां द्वन्द्वसहानां व्रतचर्याॅदिकेशक्षमाणां समयपालनेपि शकत्वात्॥ ८८ ॥ दीक्षानुग्राहिका तेषां समयाचारसंयुता। पूर्वोक्तविवेक्यशक्तविषया इयं तु विपरीतविधेयति तत्पर्यम्॥

89

अतश्च विशेषसमयाचारा मन्त्राख्ये ये प्रक्रींतिता:॥८९॥ तेऽत्र पाल्याः प्रयत्नेन मोक्षसिद्धिमभीप्सता। मन्त्राख्ये मन्त्रपीठे, आसने ये 'न निन्देदैरवं देवं न च शास्त्रं तदुद्भवम्'

( स्व० ५८५ )

Page 50

89

इत्यादयो वक्ष्यमाणा विशेषसमयाचाराः उक्ताः; ते अत्रैति सवीजदीक्षायां प्रयत्नेन पाल्याः; अन्यथा प्रायश्चित्तित्वमिति अविष्यति । मत्रा खये इति विद्यापीठादेरप्युपलक्षणपरम् ॥ ८९ ॥

90

चेयमेव निरीता दीक्षा सवीजा सा तु विग्रेया पुत्रकाचार्ययोः स्थिता ॥ ९० ॥

91

वागीशा गर्भोद्धृतेः संस्कारप्रशमनेनानुकम्पितः पुत्रः पुत्रकः, साधकदीक्षायां यथासमयपालनमात्रात् तथापि न तदीक्षा सवीजो च्यते, मुमुक्षुर्द्विविधः इति परिभाषणात् ॥९०॥

एवमस्मिंश्रतुर्विधे दीक्षाकर्मणि प्रथमं गृहस्थो वाश्रमी वाथ यति: संकल्प्य दीक्षयेत् । वाक्यार्थस्यात्र कर्मता पृथय मृगो धावतीवत्, तेन गृहस्थोऽयमाश्रमीति ऐहिकभोगस्पृहयालुः, यतिरित्येतद्विपरीतो वेत्येत

९ ख० पु० अपि इति पाठः ।

Page 51

91

प्रथमं संकल्प्य एतदुचितेनैव असंकिर्णेन विधिना दीक्षां कुर्यात् ॥ तत् पुथकदीक्षायां प्रक्रमते पाइंसूतकमादाय शिष्यदेहे डवलम्बयेत् ॥ ९१ ॥

91

अधिवासावसरे अधिवास्यकुम्भाग्रे यत्संरक्ष्य स्थापितमवलम्बनं शिखाग्रात्प्राग्वत् ॥ ९१ ॥

अथ अध्वानं संधयेदस्मै धाम्ना चैव विचक्षणः ।

92

वक्ष्यमाणषडध्वव्यातिसिज्ञो गुरुः प्राधान्यात् शिवाग्रावेव अशेषपाशाशोषिणि, अध्वानमितीह प्रस्तुतं कलाध्वानं, तत्त्वादिदीक्षायां तु तत्त्वादिरूपं संदर्भीत । न चाधावेव यावत् कुम्भमण्डलवहिस्थश्राद्ध्वात्मस्थः शिशोश्व यः ९२

Page 52

92

सूत्रस्थश्रापि चैत्र अध्वसंधि: प्रकीर्तितः । आलमस्य इति गुरोः ॥ ९२ ॥

93

एकत्रयुक्तमधिकरणं विभजन्नध्वशुद्धिं निरूपयितुमाह वड्‌डिधस्याध्वमार्गस्य साधारणगतस्य तु ॥ ९३ ॥ कुंडे संकल्प्य संशोध्य- मध्यव्संधौ तु होमयेत् ।

93

वर्णमंत्रपदकलातत्त्वशुवनभेदात् वड्‌डिध- स्वाध्वनः तत्पदप्राप्तिहेतुतया मार्गरूपस्य कुम्भादिषु पट्‌टसु अधिकरणेषु साधारणगत- स्याभेदेन स्थितस्य तथा ज्ञातस्य च मध्यात् संशोधयित्वमंत्रंपूर्वकमेकतमं प्राधान्येन शोधयितुमिष्यं, कुंडे इति तत्रैव वामो संकल्प्य अध्वसंधिनिमित्तं होमं कु- यात् ॥ ९३ ॥

Page 53

93

मूलमन्त्राष्टशातिक-मध्यसंधानहेतुतः ॥ ९३ ॥

94

प्रणवमूलमन्त्रोच्चारपूर्वंमध्यसंधिर्भवेतु स्वाहा इति प्रयोेगनाधव्यातिज्ञो गुरुस्तोचतरं शतं जुहुयादिति यावत् ॥ ९४ ॥

अध्यावलोकनं पश्चा-द्व्याप्यव्यापकभेदतः । अवलोकनं भावनं कुर्वीत इति शेषः ॥

95

व्याप्तिं स्फुटयति भुवनव्यासिता तत्त्वे-ष्वनन्तादिशिवान्तके । अननन्तादिशिवान्तके यानि भुवनानि तत्त्व-पक्तवं तत्रेषु ॥ ९५ ॥

तानि च तत्त्वानि व्यापकानि च षट्त्रिंशत् ये त्वन्ये त्रयोदश्वानः

Page 54

40

मन्त्रवर्णपदात्मकः । वर्णाः पञ्चाशत् पदানি नवात्मकसंबन्धीन्येकाशीतिः । ते च तत्त्वान्तर्भाविनः सर्वे तत्त्वानि अन्तर्भावयन्तीति कृत्वा । वाच्यवाचकयोगतः ।। ९५ ।।

95

तत्त्वानि वाच्यानि मन्त्राद्या वाचकाः । यथा च अयं वाच्यवाचकभावस्थायिर्भविति ।। ९६ ।।

96

कलादिक्षाया: प्रस्तुततत्त्वात् तदन्तर्भावं तावत्पञ्चानामध्यानामाह कलान्तर्भाविनस्ते वै निवृत्याद्याश्च ताः स्मृताः । अस्य सर्वस्य अध्वग्रन्थस्यायं पिण्डार्थ:-परमेश्रश्रिदानन्दघनः स्वतन्त्रभट्टारकः एकादशपटटानिरुपयिष्यमाणास्थित्या उन्मनाख्यया स्वतन्त्रशक्त्या शून्यादिक्षित्यन्तमनन्तं

Page 55

51

वाच्यवाचकवरुपं स्वभित्तौ स्वानधिकमध्यधकमिव युगपदवभासयति । तत्र वाचकं ग्राहकभागावस्थितं परमसूक्ष्मस्थूलभेदेन वर्णत्रिपदात्मकं त्रिधा, वाच्यमपि ग्राह्यभागाभिनिविष्टं कलातत्त्वभुवनात्मकं, तथैव वर्णद्रभेदविमर्शसारा: किंचित्स्थौल्येन भेदविमर्शनात्मकमनत्ररूपतामाश्रित्य । ततोडपि स्थौल्येन भेदविमर्शावगमकपदरूपतया भान्ति । एवं वाच्यरूपा पारमेश्वरी कलाख्या शक्तिरसृरातत्त्वपरवैशिष्ट्येन तत्त्वभुवनात्मतां श्रृण्हाति, वस्तुतश्रेयमक्रमैव पारमेश्वरी शक्ति: स्फुरति, त्रापि च स्वातन्त्र्यात् दर्पणनगरवत् क्रममध्यादर्शयति, क्रमेपी च पूर्वं पूर्वमुत्तत्त्र व्यापकतया स्थितं सृदिव घटादौ उत्तरमुत्तरं तु पूर्वत्र शक्त्यात्मना स्थितं वृक्ष इव स्वबीज इति सर्वं सर्वात्मकमेव । अत एव पश्वतत्त्वदीक्षायामनाश्रिततत्त्वपर्यन्ता भूतत्त्वास्तिर्भविष्यति । एवं चैककोडपि प्रमाता भावो वा वस्तुतः पड्ध्वस्फाररूपपरमेशकिमयादिहान्तपरामर्शसाराहन्ताविश्रान्तिस

Page 56

५२

तत्त्वः परभैरवरूप एव, तथात्वापरिज्ञानात् तु तन्मायाशक्तिकृतादपूर्णम्‍न्यः शब्दराशिकलादिभिर्‌वभवत्वात् वर्णादिमिः कलादिमिश्र तात्विकस्वरूपेणास्फुरद्विद्रिः प्रत्ययोद्भवक्रमेण देहादौ ग्राहिताहंभावो विषयमात्रासु ग्राहितभोक्तृताभिमानश्‍च खेचर्यादिचक्रचतुष्टयस्य भोग्यतां प्राप्तो बद्धः पशुः संपन्न,इत्यस्य पशुभावशमनाय परमेश्‍वरी अनुग्राहिका शक्तिः शिवाभिन्नाचार्यहृदये पारमार्थिकेन स्वरूपेण स्फुरन्ती शिवस्य सर्वम्‍ध्वानं संकोचकत्वप्रशमनन असंकोचितस्वश्‍किसरतया स्फारयन्ती शोधयति दीक्षाज्ञानयोगेन, अत एवमाचार्यस्‍फारसारा मन्त्रादयः शोधकाः पश्‍वात्माभिनिविष्टाः शोध्याः; -इति शोध्यशोधकभावेऽपि न काचित् क्षति: । यत्‍श्रैकेकस्यापि अध्वनः सर्वस्मयत्वमस्ति अत एव तत्तदध्वप्राधान्येन दीक्षायाम्‍न्यादवपश्‍वकमन्‍तर्भावशोधनमुख्यासिसत्‍स्वं कार्यम्‍ । उक्तं च श्रीस्पन्‍दे

Page 57

53

श्रीक्षेमराजाचार्यकृतोऽन्योऽनुवादटीकोपेतम् ।

'सेयं क्रियात्मिका शक्ति: शिवस् पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ।'

3.18

इत्यलं, केवलं 'यावद् वेदि वै व्यक्तिं कुण्डस्यैवात्मनोऽपि वा । साध्यस्यैव पशोश्‍चैव पाशानां च पदघ्नः ।। बालवत् कीडते तावत्कार्यं तस्य कथं भवेत्' (१६।५४) इति मृत्युभ्ज्जितयुक्तत्वात् तत्र तत्र व्यक्तिप्रदर्शनायमस्माकं भरः; -इति न नो वाचालता कल्प्या सचेतोभिः ।

अथ प्रसङ्गात् कलावाचकान्त्रानां हृदयाद् वाचकास्तसां बीजमन्त्राः प्रक्रीर्तिता: ।

97

बीजमन्त्रा इति निष्कलाः, हृदयाद् इति हच्छिर:शिखाकवचनेत्रमन्त्राः कमेण नित्य-र्‍स्यादीनां वाचकाः ।

97

एवं चास्मिन् कलादिक्षाविधावेकैकस्या: कलायाेश्‍च पृथग्व्यासिं विभावयेत् । सा चादूर एव व्यक्तीभविष्यति ।

१ ख०पु० साध्यस वा इति पाठः

Page 58

98

पृथिव्यादिकला जेया ब्रह्माद्या: कारणात्मक ते ॥

98

निर्झत्याद्या: पृथिव्यादिशक्तिरूपा जेया: पृथिव्यादीनामेवानाश्रितपर्यन्तं सूक्ष्मतयावस्थानात् । एतच्च पश्चात्त्वदीक्षाविधौ स्फुटि- भविष्यति । एता एवमधिष्ठातृरूपतया ब्रह्मविष्णुरुद्रेश्वरसदाशिवशिवा:, अतश्व अधिष्ठातदेवताशक्त्याप्येता: शुद्धा भवन्तील्यपि सूचितम् ॥ ९८ ॥

उपसंहरति एवं व्यासिं भावयित्वा प्रतिकलं समनन्तरवक्ष्यमाणव्यासिमेवमिति निरीतपरसूक्ष्मस्थूलक्रमेणाध्वनो भावयित्वा अध्वोपस्थापनं भवेत् । उपस्थापनमेकतमस्य प्रधानतया शुद्ध्यर्थे संमुखीकरणम् । अत्र च धामादित्यादिना ( स्व० ४१०१ ) मन्त्रं वक्ष्यति ॥

9 क०पु० एता इति पाठ: ।

Page 59

99

एवमुपस्थितस्य सन्निधानाय त्रिराहुति धुवेणैव दद्यादिति शेषः । किं च अध्वशुद्धिरतो भवेत् ॥ ९९ ॥

100

कथमित्याह - अथौ तु पूजिते देवे अध्वन्यासे कृते सति । तदेव पादादारभ्य पृथिव्यादिक्रमारोह्यते ॥ १०० ॥

तदेवेति निवृत्त्यादिरूपं, पादादिति संहारमेण, तत्र गुल्फान्तं निवृत्ति:, नाभ्यन्तं प्रतिष्ठा, तालवन्तं विद्या, मूर्धान्तं शान्ति:, ब्रह्मरन्ध्रान्तं शान्त्यतीता, - इति भविष्यति । इत्थं च वर्तमानप्राणदेहप्रतिष्ठितरूपे सूत्रकदेहानुसारेण गुल्फनाभ्यावाधमात अध्वन्यासतच्चुच्यादिकं कृतं देहेऽपि सम्पन्नमेवेति न तत्र समयदीक्षायामिव पृथक् जात्युत्तराद्विजत्वपत्यादि क्रियते पृथग्चोदनात् । भाविस्थिया

Page 60

100

तु निष्कृतिहोमान्तर्भावेन भाविदेहाश्रयतया-पि चैतन्यस्य तत्त्वतं तत्स्थीकरणादियुक्त्या वर्तमानदेहाश्रयस्यापि संपाद्यते। एवं समयदीक्षान्तर्भाविपुत्रकदीक्षापक्षे च वर्तमानदेहविषयो दीक्षासंस्कारः पुनरुपयुक्तः ॥ १०० ॥ पूर्वोक्ते उपस्थापने मन्त्रमाह धामादिः प्रणवादिश्व निवृत्त्यै च नमः पुनः । उस्थापनमन्त्रादिय व्यासिं ध्यात्वाध्वसंस्थिताम् १० १ प्रयोकव्य इति शेषः। अत्र च प्रणवधामभ्यानमनन्तरं हन्मन्त्रः पूर्वोक्तः पठनीयः 'हृदायां वाचकास्तां बीजमन्त्रा ......।' इखक्त्वात्। एवमुत्तरत्रापि यथेष्टम् ॥ १०१ ॥ यथोक्तमप्यैकस्याः कलायाः पृथग्‌रुपयाप्तिरिति तत् स्पष्ट्यति निवृत्त्यभ्यान्तरे पृथ्वी शतकोटिप्रविस्तरT ।

Page 61

१०२

तस्यां च भुवनानां च शतमष्टोत्तरावधि ॥ अष्टाविंशति: पदेति वर्ण एकोत्र संस्थित: । मन्त्रौ द्वावेव विज्ञेयौ

शतकोटीति योजनशतकोटिविस्तारेर्थ: । शतमष्टोत्तरावधीति, तत्र कालाग्नि: कूष्माण्डो हाटक इति ब्रह्माण्डान्तरधोभागताख्य: । मध्ये भूलोकाधिपति: शिव:, तदपरी सत्यलोकान्तमधिष्ठाता ब्रह्मा, तदुपरि विष्णुरुद्रौ खलोक्योरियन्त: सप्त, बहिरस्य दशसु दिक्षु स्थितं रुद्रशतं तदुपरि सर्वेषां खामी वीरभद्र:; इत्येतदष्टोत्तरं शतम्, पदेति स्वष्टाविंशतित:, भाविनवनाभमण्डलारम्भभागैकाशीति निविष्टवक्ष्यमाणविभागवातमवर्णन्येकाशीति:; तत्तद्विश्रान्तिप्रदत्वात्पदानि; तेन: प्रकृतितत्त्वाधिष्ठितेशादिगगत भागनवकगतं प्रातिलोम्येनेशोत्तरादिक्रमेण मध्यपदं यावत् ओंकार-

Page 62

५८

रायूकारान्तं पदनवकं, तथैव पुरुषतत्त्वाश्रितकुवेरदिगगतमूकारादियकारान्तं नवकम्, एवं नियतिस्थानस्ववायदिगेतमकारान्तमिति सर्विंशति: पदানি; कौलतत्त्वास्पदवर्णादिगतैशकोणस्थ ऊकारश्रेष्ठाविंशति: पद्‌ानि । अतैव स्फटीकरणार्थमयं प्रस्ताव: प्रदर्श्यते । सदाशिव:

वणे एक इति मातृकासंबन्धी प्रातिलो-

१ सं पुं दिकुस्थयकारादि इति पाठः । २ कं पुं कलेटि पाठः ।

Page 63

103

म्येन क्षः। यदप्ययं पूर्व वक्त्रभङ्गया शान्त्यतीतापरमार्थे ईशानवक्त्रवाचकत्वेन निरुपित इह तु पृथिवीवाचकत्वेन, तथापि आदिक्षान्तस्य शब्दराशेरशेषविश्वरूपपरमशिवशरीरपरबैरबपरामर्शात्मकत्वेन एकैकोडप्यंशः 'प्रदेशेऽपि ब्रह्मः सर्वरूपमनतिक्रान्तशाविकल्पश्र ।' इति स्थित्या विश्वरूपत्वादिति श्वाभिधायको, वाच्योऽपि चांशः 'एकैकत्र च तत्त्वेऽपि पञ्चत्रिंशत्तत्त्वरूपता ।' इति नीत्या विश्वात्मकत्वात् सर्ववर्णवाच्यः। ततश्व भगवता शक्तिनियंत्रणाय एवमत्स्यणपि वा तत्प्रागमे सिद्धवाचकभावे विचित्रदीक्षादिकमोपयोगिनी निरुप्यमाणेऽपि न कांचित्कानुपपत्तिः। मन्त्राविति निष्कलसं योजातौ॥ एवंस्यां नित्यत्किलायाम् अध्वषट्कं विभावयेत्॥ १०३॥

Page 64

104

अथेमां निवृत्तिमन्तर्भावितापराध्व्यासिं पूर्वोक्तक्रमेण पुष्पगन्धादिना पूज्य अस्याश्र प्राद्मत्रेण सन्निधावाहुतित्रयम्‌। सन्निधानाय आहुतित्रयं दद्यादिति शेषः। कलाद्वान्तर्मलत्रयं शोधयमिति वकुमाह मायीया भुवनाकारा मलः कर्म च संस्थिता:॥१०४॥ पाशा इति शेषः॥

105

तत्र शरीरभुवनाकारा मायीयाः परिकीर्तिताः। भोगहेतुश्च कर्म स्या-दभिलाषो मलोऽत्र तु॥१०५॥ भुवनैर्भावभूतादि लक्ष्यते, तेन यत्किंचिद्धैयंतया भाति स मायीयो मलः, भोगेन

Page 65

61

१०५ श्लो] श्रीक्षेमराजाचार्यकृतोऽस्योत्तरस्यटीकोप्तम् ।

तदाक्षिष्ठं जन्मापि लक्षितम् । उत्तं च प्रत्यभिज्ञायाम्

'मितवेद्यप्रथात्रैव मायारव्यं.................। इति । तथा

.................जन्ममोगदम् ।' 'कृत्प्रवोधे कर्म तु ।' (ई० प्र० शा०७)

इति । 'आभिलाष' इति अपूणॅमन्यतात्मा लोलीकारुप: नतु किंचिन्मे स्वादितीहकू रागतत्वैवमात्मत्वात् । अत्र लित:, एतस्मिन्नेव भित्तिभूते सति अन्यन्मलद्रयमित्यर्थ: ॥ १०५ ॥

105

अत एव शान्त्यतीतायामपि सूक्ष्मभुवनवस्यिते: प्रतिपादयिष्यमाणत्वात् तावतांशेन मलसंस्कारस्य सत्त्वात् शोधयतां प्रतिपाद्यज्ञानुपसंहरति एवं पाशत्रयं भाव्यं दीक्षायामध्यवसास्थितम् ।

106

अथैतद्वारवितवा तथाशुद्धयै च दीक्षा च क्रियते सा यथाविधि ॥१०६॥

Page 66

106

विधिधं तेषां पाशानां विशेषेण संस्कारपर्यन्ततत्प्रशमनरूपेण शुद्ध्यर्थं चकाराद्योज-निकायस्थितनिर्योग्यतासम्भत्यर्थं च दान-क्षणातमा दीक्षा क्रियते ॥ १०६ ॥

107

तद्विधिं प्रस्तौति । आदौ शक्तिं न्यसेदेवि कलातत्त्वसमन्विताम् । शक्तिमाधाररूपां परमेशी क्रियाख्यां कलादीक्शान्तावान् प्रथमं नित्यनिकिलालमना तच्वेनान्तर्भवितापराधपञ्चकेन सम्बन्धाम् तथा । हृदा संकल्प्य वागीशिं व्यापिकां सर्वयोनिषु ॥ १०७ ॥ न्यसेत् । हृदेति काकाक्षिवत् पूर्वत्रापि योज्यम् ।

107

उक्तं च 'हृदाया वाचकास्तासां'........... । इति । 'वागेव विश्वा सुवनानि जज्ञे ।' इति स्थित्या यथास्थाश्रुतदर्शविग्रह्मूतसर्ग-जन्मभूमिव्यापकत्वं तथा निश्चितमेव ॥१०७॥

Page 67

108

निवृत्त्यनुसारेण योनीनिरूपयति शतरुद्राभ्यन्तान्तं योनयो विविधाः स्थिताः । विविधाश्च तदंशविधभूतसर्गजनिका: ॥ तासु च समकालमृतुत्वेन वागीशं सन्निधापयेत् ॥१०८॥

109

आयातशक्तिपातं प्रति शुद्धसृष्टौनमुख्यसं-पादयुगपदनुग्रहसर्गयोम्यतात्मकार्तव्ययुक्त्या सा तावत्संनिहिता, आचार्यस्तु तन्मूलबला-वष्टम्भात्‌मना प्रयोजकव्यापारेण तां सन्निधि-मुद्राबन्धनपूर्वमभ्रिकुण्डेडवस्थापयेत् ॥ १०९ ॥

अथ तां ध्रुवेण पूजयेत्पुष्पै-र्गन्धधूपैरनुक्रमात् ।

अत्र च प्रणवं हृद्दींजं चोचचार्य, ‘पृथिवीतत्त्व-स्थानान्तादिर्वभद्रान्तनानासुवनगतचतुर्दश-विधभूतसर्गाविचित्रशरीरहेतवे नित्यत्नियापि-

Page 68

108

काये वागीशये नमः' इति मन्त्रः सन्निधापनपूजनयोः ॥ अथ ओंकारेणाहुतीस्तस्यो वागीशीसन्निधापने ॥

108

दूर्वादिति शेषः ॥ १०८ ॥

109

दत्वा च शिष्यं संप्रोक्ष्य चाञ्जण ताडयेदेकहुंकारम् । प्रोक्षणं हृदयदेशानुसारे पाशसूत्रे शिवाम्बसा, ताडनं तु भस्मना तैरेव वा ॥ ततोडपि रेचकेनात्मनो गत्वा छिन्द्यात्तस्यासिना हृदः ॥

109

'शिवमग्नं शिष्याणां सर्वस्थः प्रविशेद्‌ति ।'

110

इति श्रीलक्ष्मीकौलार्णवोक्तनीया स्वदक्षिणेन निर्गत्य शिष्यस्य वामेन प्रविश्य पुर्यष्टकरूपं शिष्यात्मानमन्त्रमन्त्रेण भावनया सूत्रस्यं छिन्याद्‌ ॥ ११० ॥

Page 69

छिन्नं च धाम्नाकृष्य तदात्मानं हृदशान्ते निधापयेत् । आकर्षण्युक्तिः पूर्वमेवोक्ता । एतच्च 'रश्मिमात्रावियोगेन कार्यम्....... ।' इत्युक्तम् ॥

११०

अथ ध्रुवेण तत्स्थं संपुट्य चैतन्यं सुदृढ़ात्मनि ॥ ११० ॥ पूरयेद्दैरवेैणैव तत्स्थं द्वादशान्तस्थं, मुद्रयेति दीक्षाशिवहस्तकृतया संहाराख्यया, आत्मनेति स्वाहृदये, भैरवेण निष्कलेन ॥ १११ ॥

१११

तेनैव कुम्भयेद्रेचयेततत् । नासाक्रमेणैव ॥

१ ख० पु० कृतये इति पाठः ।

Page 70

112

तत एव च हृदयशान्तान्तु संगृह्य योजयेद्भवसुन्दर्या ॥ योजनं वागीशीगर्भे, 'भवमुद्रा' लिख्‍नमुद्रा ॥ योजने इतिकर्तव्यतामाह आत्मानमीश्वरं ध्यात्वा मायां वागीश्वरीमपि ।

113

संयोग्य तसां चैतन्यं शरीराण्यध्वनि सृजेत् ॥ ईश्वर: क्रियाशक्तिप्राधान्यात् सृष्टा, प्राणि-र्णीता तु वागीश्वरी संप्रत्यशुद्धाध्वप्रसभात्तु वा-न्माया, शुद्धाध्वप्रसवे तु एषैव महामायात्मा भविष्यति, मायारूपायाश्रोंस्या: शुद्धविद्या-स्पर्शो नास्ति, अन्यथा कलिकर्मभोगानां युगपच्चलुद्ध्रर्थमनन्तदेहषष्टेरयोगात्, चैतन्यमिति दीक्ष्यस्येति अर्थात्, अध्वनीति प्रकृते निवृत्तिकलाप्रधाने ॥

Page 71

67

किमर्थं सृजेदित्याह प्राक्कर्मवासनाशेष-फलभोगत्वहेतवे । पूर्वकर्मवासनाहेतुकानि यान्यशेषाणि जन्मायुर्भोगात्मकानि फलानि तेषां भोग्यत्वं भोगसिद्धिर्यथा स्यात् ॥

114

एतानि च शरीराणि युगपद्वितृभोगानि देशकालशरीरतः ॥ ११४ ॥

115

मन्त्रशक्त्या विपच्यन्ते शरीरमात्रस्वभावः । भिन्नो भोगो येषु, देश-दित्रयान्तानि शरीराणि मन्त्रशक्त्या युगपद्विपच्यन्ते फलदानोन्मुखानि संपद्यन्ते ॥ ११५ ॥

न केवलं शरीराणि युगपद्वितृभोगानि विपच्यन्ते यावत् पुद्गलाश्र तथाविधा ।

Page 72

११४

भिन्नदेहा विसृज्यन्ते गर्भे वागीशियोनिषु ॥

११५

'पुद्गल' इत्यनेकस्यापि दीक्ष्यस्य नाना- शरीरतया बहुधं वदनं भेदवदस्यावास्तवतां ध्वनति । यस्यादेकस्यापि दीक्ष्यात्मनो नाना- भोगाश्रयविचित्रदेहशुद्धौ भोग्यवैचित्र्येण नानात्वभावः । 'तथाविधा' इति भिन्नभोगाः, योनिष्विति चतुर्दशविधभूतसर्गापेक्षं बहुधं, 'विसृष्टिः' नियतभोगार्थं संयोजनम् ॥

तदित्थं शिष्यचतुर्न्यम् धाम्ना च योजयित्वा च जुहुयादाहुतीत्रयम् ।

निष्कलोचारपूर्वनित्यत्रित्तियायामनन्तादिवीर- भद्रान्तनानाभुवनगतचतुर्दशविधभूतसर्गसंप- र्यर्थं देवदत्तस्य वागीशीगर्भयोजनं करोमि नमः इति मन्त्रः । होमे तु स्वाहान्तः । एवमु- तरत्राप्यूहमन्त्राः स्वयम्भूयूहाः ॥

१ ख० पु० विपच्यन्ते इति पाठः । । २ ग० घ० पु० निसृष्टिरिति पाठः ।

Page 73

115

एवं संयोजने सति युगपत्सर्वगर्भेषु देहा विविधरूपका:। भैरवेच्छासुसंपन्ना: शतरुद्राध्यानन्तगा:॥ भवन्तीति शेष:। भैरवशब्देनात्र भैरवसमावेशशाली आचार्य उक्त:॥

117

अथ गर्भेषु गर्भनिष्पत्तिर्मैरवेणाहुतित्रयम्॥

117

हुत्वा तु जननं कार्यं पुनस्तेनाहुतित्रयात्। कमेनामनुसारी अत्रोहमन्त्र:, गर्भाणां निष्पत्तियत्र आहुतित्रयेतद् गर्भेषु गर्भनिष्पत्तिं हुत्वा, जननं गर्भनिःसरणं, तेनैति निष्कलैनैव॥

Page 74

118

शिष्यदेहे १ पाशसूत्रावलम्बनं। २ षडधिकारणगताध्वसंधानं। ३ तद्धोमः। ४ अध्वस्थापनरोक्त्या। ५ अन्योन्यस्थापनं ६ तत्त्वजा। ७ होमः। ८ तदन्तःपाशत्रयाचिन्तनं। ९ कलाशक्तिसमन्विताधारशक्तिन्यासः। १० वागीश्या: सन्निधापनं ११-१२ तत्पूजाहोमौ। १३-१४ शिष्यसम्प्रोक्षणताडने। १५ तच्चैतन्याकर्षणं। १६ द्वादशान्ते स्थापनं। १७ ततो ग्रहणं। १८ स्वाहादि योजनं। १९ स्वद्वादशान्तप्रापणं। २० वागीशीगर्भे योजनं। २१ नानाग्भोनिष्पत्तिहोमः;- इत्येकविंशत्यवantarसंस्कारैरुपस्कृतं होमेन जन्माख्यं संस्कारमभिधाय, अधिकाराख्यं संस्कारं वक्तुमाह सर्वयोनिषु देहास्ते युगपद्धृदिमागताः॥ ११८ ॥ भाव्या इति शेषः॥ ११८ ॥

Page 75

71

प्रवृत्तदेहानामेव भोगेऽधिकाराच्चोगमाह भोगनिष्पत्तये कर्म व्यापारसहकारणम्‌ । भावयमिति शेषः । पशोरतीतमानागतं च यत्‌ ऋमिकानन्तभोगसम्पादकं संभाव्यते शुभादि वासनात्मकं कर्म तत्सर्वं ‘अनेकमौलिकं कर्म दग्धं बीजमिवाणुभिः । भाविष्यदपि संहृद्य यनेदं तद्वि भोगतः ॥’ इति श्रीकरणोक्तनित्या मन्त्रयुक्त्या युगपद्योगनिष्पत्त्यर्थमनुसंधेयं, कीदृक्‌ ‘व्यापारैः’ कायचेष्टाभिः ‘सहकारणं’ सहेतुमित्यर्थः ॥ अवश्यं चैतदन्यथा तदभावान्न भोगः स्यात्‌ कर्मैव हि मायीयभोगहेतुः ॥ भोगार्थमेव तत्साधनाहरणाय सर्वे प्रवृत्ते तन्त्रे इत्याह

119

तदर्थे मार्जनं स्मृतम्‌ । ११९॥

१ ख० पु० शुभकर्मैवासनeti पाठः । २ ख० पु० अनेकमिति पाठः । ३ ख० पु० प्रयत्नत्त इति पाठः ।

Page 76

72

यस्मात् शुभाग्न्यनुष्ठानात् भोगसाधने अर्जिंते सति भोक्तव्यो भोगो दुःखसुखात्मकः । एवं भोगं निर्णीय, नित्योत्तरोपि तस्मिन् तत्संस्कारान्तर्मयीयभावरूपमिव लयं वकुमाह लयः परमया प्रीत्या सुखदुःखादिकेडप्यलम्॥१२०॥

दीक्ष्यस्य गुरुणा भाव्य इति शेषः । तदुक्तं श्रीमृगेन्द्रे 'कंचित्कालं लयः........ ।। इति ।। १२० ।।

एवमधिकारभोगलयाख्यं संस्कारत्रयं भावनया परिकलप्य तिसृभिस्तिसृभिरहों तिसृभिस्तिस्रभिरों धाम्नैव त्रिषु कारयेत् । ऊहमन्त्रान्तेनैवर्थात् तिसृभिरियाहुतिभिः॥

Page 77

121

एवं जन्माधिकारभोगलयान् प्रतिपाद्य, निष्कृत्यार्थं पश्चमं संस्कारं प्रतिपादयितुमाह आहुतीनां शतम् होम्यं धाम्ना निष्कृतये पुनः॥१२१॥ निष्कृतेर्दूर एव स्वरूपं निरीक्ष्यति ॥१२१॥

122

नन्वस्यां किमिति विशेषेण होमः? इत्यत्र हेतुमाह युक्तकर्मभोग्यरूपं तु जात्यायुर्भोगलक्षणम् । निष्कृत्यन्ते विशुद्धेत्तदूलोकसमवस्थितम्॥ १२२ ॥

कर्मणा शुभाशुभात्मना भोग्यं रूपं यस्य जात्यायुर्भोगात्मनः फलस्य तत् निष्कृतावेव शुद्ध्यति अनो युक्तौस्त्यां हुतहोमः भवो लोकाः वीरभद्रान्तानि भुवनानि, तत्र समवस्थितं भोग्यतां प्राप्नुयात्, एतच्चेह निःसृतिशुद्धिप्रसादादेवमुक्तं, तच्च प्रतिष्ठादिव्या-

Page 78

१२२

सतत्वान्तर्गतभुवनभोगोपलक्षणपरम्‌ । अत-[न्य]स्तु भूलोंके इति पठित्वा भूलोकैकदेशे कन्यादिपर्जितामिति व्याकृतवान्‌ ॥ १२२ ॥

'भोगो दुःखसुखात्मक' इत्युक्त्या भोग इदानोंमेव निर्नीतः; आयुः सृष्टिसंहारपटलै निर्णयते, - इत्यवशिष्टां जातिं जन्मप्रकार-भेदैरादिशति

संसारा द्रशचत्वारः

देवमनुष्पातियग्भेदाभिन्नश्रुतिसूत्रदर्शितं भूत- सर्ग एव संसारा नानाजातय इत्यर्थः ॥

भुवनदीक्षायाम्‌

'अन्त्यजां शूद्रविट्क्षत्रव्राह्मांशं विशोधयेत्‌ ।' ( स्व० १०३८४ )

इति सर्वजातिशोधनं वक्ष्यति । इह तु 'एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥' (१२१)

इति गीतोकनीत्या पट्कर्माधिकारित्वेन बन्ध-कर्मत्वान्मुक्त्यजातिशुद्धौ ब्राह्मण्यजातिरेव

Page 79

१२३

निष्कृतिहोमेनैवावध्यं शोध्या संक्षिप्ततादृशं विधेरिति वक्तुमाह । संस्कारा अष्टभिः सह । चतुर्विंशद् द्विजत्वाय वक्ष्यन्ते भुवनाध्वनि ॥ १२३ ॥ योनिर्वीजं तथा भाव आहारो देश एव च । एतेषां शोधनं देवी आधाराद्योन्येष्वन्ताश्चत्वारिंशत्, दया-दयः स्रहान्ताश्च अष्टाविति येडग्रचतुर्विंशत् संस्कारा अग्रे स्फुटीभविष्यन्ति ते तु भुवन-दीक्षायां पृथक् शोध्याः;, आहाराद्वाश्र् कलादिदीक्षासु तु निष्कृतिहोमान्तर्भावयुक्त्या, - इति भाविवाक्यसंगल्यात्रे पिण्डार्थः । इदं च द्विजजात्यापादन कमहंतुकभावीशरीर-विषयं, पूर्वं तु समयिनो वर्तमानदेह एव शुद्धविजातियोग्यत्वरूपमन्यदेवेति निर्णयात्

१ ख० पु० हीति पाठः । २ ख० पु० संगतोऽनेति पाठः ।

Page 80

123

तदतदद्वेशं रुद्रांशापादनं ज्योतिरुभागशुद्ध्या सह निष्कृतिहोममध्ये एव संपाद्यमित्याह रुद्रांशापादनं तथा ॥ १२३ ॥ अत्रावलोकनं कृत्वा निष्कृत्यामेव शुद्ध्यति । न केवलं जन्मजुभागानां निष्कृतौ शुद्धिराधातव्या यावद्रुद्रांशापत्तिरुपापि शुद्धिद्वार्यकृतेश्वरुपा ततैवाधातव्येयलर्थः । अत्रेति निष्कृतौ, अवलोकनमिति भावनाम् ॥ १२३ ॥

Page 81

125

निष्कृतिस्वरूपं व्याचष्टे विषयान् भुवनाकारान् ये केचिद्दोग्यरूपिणः ॥ १२५ ॥ भुक्तकर्मफलाशेषा निष्कृतिस्तेन सा स्मृता ॥ भुवनं य्यादिभावोपलक्षणपरं, तेन्विति श्लोकमध्ये ऽध्याहार्यं, मुक्तं कर्मफलमशेषं समग्रं या हेतुना दीक्ष्येण स तथा, पूर्वनिपातद्वय-व्यय-पेठादि निःशेषेण कृतिः समस्तकर्मफल-भोगसमासिर्यस्यामिति व्युत्पत्त्या निष्कृति;, स्मृतोति दीक्षायामेव शोधयत्वेनिति शेषः १२५

126

अथ विशेषो निष्कृतेर्भोगाद् भोगाद्द्रेशः पुनर्भोगैरसंभन्धो भोक्तुर्भोग-कृत्स्नाभावात्, संस्कारो ऽपि निष्कृतेः कार्यः ॥ भोगाभावे स हि स्मृतः १२६ नहि भोगसमाप्तिरूपां निष्कृतिं विना संस्कृतुं शक्यः ॥ १२६ ॥

Page 82

127

भोकृताभावरूपं विशेषं भोकृतानुवाद-पूर्वं वकुमाह भोकृत्वं विषयासक्ति-मलकार्यं प्रकीर्तितम्। भोकृत्वाभावस्तत्रैव शरीरेṇ तु यत्कृतम् ॥ १२७ ॥ विशेष: क्रियते तस्य पशोर्मन्त्रैः शिवाज्ञया ।

127

शरीरेṇ यत् कृतं शरीरेर्यक्जितं किंचित् तत्रैव या विषयत्वेनासक्तिः किंचिन्मे स्यादित्यभिष्वङ्गस्तदेतन्मलकार्यम्, अपूर्णममन्यता-तमकाण्डनमलोत्थापितं भोकृत्वं, तस्येह तस्य भोकृत्वस्य पशोः शिवाभिन्नगुरुज्ञानमन्त्रैर्विश्लेष: क्रियते, स च यथोक्तस्य भोकृत्वस्य भाव उच्यते इति संगतिः ॥ १२७ ॥

128

अत्र च धाम्ना चाहुतयास्तिस्रो विशेषकरणाय च ॥ १२८ ॥

Page 83

128

असुकाय नित्यत्तिपाशाविश्लेषं करोमि स्वाहेत्यत्र मचः । एवमुत्तरत्रापि स्वयमूः कमेणमौचिल्येन कार्यः ॥ १२८ ॥

129

आहुतितितयं धाम्ना पाशाच्छेदेऽपि दापयेत् । घटपाशाच्छेदनिमित्तमाहुतिस्तत्पाशानाह पाशा देहे तु मायीयाः कलाया भूतकावधि ॥ १२९ ॥

शरीरकरणाकारा: पुरुषार्थप्रसिद्धये । देहे देहनिमित्तं कलाया महाभूतान्ता मायीयाः पाशाः, ते च शरीरेंद्रियाणि तदुपलक्षिताश्व सुवर्णभावादीन् आकारयन्ति संपादयन्ति पुरुषार्थस्य भोगस्य प्रतिष्ठार्थम् । उक्तं च 'कलादिक्षितिपर्यन्तमेतत्तसंसारमण्डलम्' । (ख०११२९१) इति । तुशब्द: 9 ख० पु० अस्येति पाठः ।

Page 84

129

इति पूर्वोक्ताणुकर्मपाशवैलक्षण्यं द्योतयति ॥ १२९ ॥

130

एवं च निष्कृतिविशेषरूपात् भोगाभावादिपर्यन्ते शरीराणि सहस्रधा ॥ १३० ॥

130

शरीराणीति स्थूलसूक्ष्मादिरूपाणि, सहस्रधेतिनानाविचित्रभेदभूतसर्गरूपाणि, 'विपर्यन्ते' अपुनर्भावेन नशयन्तीत्यर्थः ॥ १३० ॥

यसु च दीक्ष्यस्यैतानी विपर्यन्ते पाशाच्छेदे विधिस्तस्य मन्त्रैश्व विधिचोदितैः । प्रदर्शिताणवादिपाशव्यासिकपाशासूत्रगतनिवृत्तिभागात्मनः पाशस्य छेदे विद्या-त्मकशाब्दवाक्यचोदितैर्मन्त्रैविधिः कार्यः । स च विधिः

Page 85

131

'शिवशक्तिरमोघेयं करत्री परिकीर्तिता ।' इति श्रीहंसपारमेशोक्तवयास्या करत्र्यौर्ज- सया शिवं सांख्यं हुंफडन्तं पुतयुक्तोचारयन् पाशाञ्छिन्द्यादित्येवंरूपः । यथोक्तं श्रीमृगेन्द्रे 'ततः शिवेन सांख्येन हुंफडन्तेन सक्षरः । छिन्द्यात्तावत्पाशान्करत्र्यौ चाब्जया ॥' इति ॥ उपसंहरति एवं पाशत्रयस्यापि विशेषो दीक्षयोच्यते ॥ 139 ॥ एवमिति जन्माधिकारभोगलयनि कृत्य- ख्ययथाप्रतिपादितसंस्कारपञ्चकपूर्वमित्यर्थः । अत्र चोक्तनेव हुंफडन्तेन मन्त्रेण पूर्णाहुत्या समं छित्तस्य पाशस्य होमः कार्यः; - इति संहितान्तरोक्तोऽर्थोऽनुमन्तव्यः । यथोक्तं श्रीमृ-गेन्द्र एव 'तत्तस्तां घुचमापूर्ये जुहुयादाज्यसंयुताम् । तेनैव मन्त्रयोगेन ॥' इति ॥ 131 ॥

१ ख० पु० शिवशररमिति तथा द्वत्सत्येति पाठः । २ ख०पु० शरैरे- रेति तथा सेमशरमिति पाठः । ३ ख० पु० अनुषत्तैव्य इति पाठः । ११

Page 86

132

एवं विश्लेषान्ते संस्कारषड्‌कृते शरीराशेषभड्‌डेन । एकचैतन्यभावना । गुरुणा शिष्यस्य कार्येऽर्थः॥ अत्र चावसरे पूर्णाहुतिं शिवेनैव वौषडातियुतेन च ॥१३२॥ द्व्यादित्यनिष्ठुः ॥ १३२ ॥

133

अथ पाशाभावात् शुद्धतत्त्वाग्रसंस्थं त- चैतन्यं कनकप्रभम् । तदेकीकृतं चैतन्यं शुद्धस्य निवृत्त्यारम्भस्य तत्त्वस्याग्रे उपरि सम्यगनावृत्ततया स्थितं दीक्षां भावयित्वा उद्धारायाहुतीस्तिषत्: पुनर्धाम्ना तु दापयेत् ॥१३३॥ निःवृत्तिवियाम्नात् पृथिवीतत्त्वाद् देवदत्तमु- द्वारामि' इति चात्र प्रयोगः ॥ १३३ ॥

Page 87

134

तस्मात् तत्त्वादृहीत्वा तु चैतन्यं मलसंयुतम् । मुद्रया प्रागिविधानेन आत्मस्थं पूरयेदृदि ॥ १३४ ॥ निवृत्तिशुद्धया निर्मलमपि कलान्तराणाम-शोधितत्वात् मलसंयुतं, मुद्रयैति संहार-ख्येति प्रागिवधानं प्रणवसंयुक्तहंसबीजत्वादि-रूपम् ॥ १३४ ॥

135

तत: कुम्भित्वा रेच्य संगृह्य द्वादशान्ताद् ध्रुवेण तु । शिष्यदेहे निवेशयेत्- नाड़ीरण्घ्रेण पूर्ववत् ॥ १३५ ॥

अथास्मै तत्स्थीकरणहेतुर्थे धाम्ना चैवाहुतित्रयम् ।

Page 88

136

कलाशुद्ध्यवसाने तु ब्रह्माणं कारणाधिपम् । स्नानामरणवाह्हानपूजं संतर्प्य चार्पयेत् । ओं ब्रह्मन्नागच्छेति स्नानामरणपूर्वकं माहानं 'तुभ्यं नमः' इति च पूजां यस्याति बहुविधिः । तत्सन्तर्पणं वह्नौ 'स्वाहा' इति प्रयोगात्, ततोज्जपी चार्पणं पुर्यष्टकार्पणाय ॥ १३६ ॥

Page 89

137

तदाह । शब्दस्पर्शौ त्यजेत् तस्मिन् कथं ध्रुवाचो नामसंयुतां ॥ स्वाहाकारप्रयोगेन तौ ब्रह्माणि निवेदयेत् । तिसृभिस्तिसृभिरहोमात् । ओं ब्रह्मणे शब्दमर्पयामि स्वाहेति त्रिहुत्स्वा स्पर्शमर्पयामि स्वाहेति त्रिजुहुयात्, -इति वीप्सातोद्वसेयम् ॥ एवं चेदमसै पुर्यष्टकां निवेदयेत् ॥

138

पुर्याः सूक्ष्मदेहस्यारम्भकमष्टकं तन्मात्र-नोऽहंरुहुद्रुरूपं, तदंशार्पणविभागेऽभिप्रायं पर्यन्ते स्फुटयिष्यामः ॥ कि च आमन्त्रणविभक्त्या तु श्रावणां तस्य कारयेत् ॥

Page 90

तस्येति ब्रह्मणः, श्रावणा शिवाज्ञा ।

यथोक्तं श्रीपूर्वे

'भुवनेश त्वया नास्य साधकस्य शिवाज्ञया ।

प्रतिबन्धः प्रकर्तव्यो यावत् पदमनामयम् ॥'

(मा०वि०१६५)

इति ॥

139

कृतश्रावणं च ब्रह्माणं पूजयित्वा तु होमं कृत्वा विसर्जयेत् ॥१३९॥

किं तु

भ्रुवेणाभ्यर्च्य वागीशं संतर्प्य च विसर्जयेत् ।

विसर्जनं निजपरावागैकात्म्यविमर्शनं, भ्रुवेण निष्कलेन ॥

140

तदित्थमध्यवसंधानात्मभृति वागीशया विसर्जनान्तं हुतावलोकयेतत्तत्र विशुद्धं पाशजालकम् ॥१४०॥

९ क० घ० पु० विसर्पणमिति पाठः ।

Page 91

141 श्लो॰]

हुत्वेति, अध्वसंधानम्, अध्वोपस्थानं, वागीशीगर्भयोजनं, तद्र्भनिष्पत्तिजननमधिकारो, भोगो, लयो, निष्कृति:, विश्वलेप:, पाशच्छेदहोम:, पाशाहोम:, पूर्णाहोम:, उद्धारहोम:, तत्स्थीकरणं, ब्रह्मतरपणं, पुर्यष्टकांशर्पणहोम:, पुनब्रह्महोम:, वागीशीहोम:; इत्येकोनविंशतिहोमानुक्त्वा, कृत्या, तत्रेति विशुद्धायां नित्यवृत्तिकलायाम्, एवमुत्तरत्रापि संस्कारसंकलनाहोमकलना च स्मर्तव्या 140 अत्रे च पाशाशुध्यवलोकनावशेर

प्राकूर्मभाविकस्याथ अभावं भावयेततद् ।

सुमुक्षोर्निरपेक्षत्वात् भाव्येव भाविकमर्थात् कर्म, प्राक्कर्म च भाविकं चेति समाहार: । निरपेक्षत्वात् साधकत्फलौन्मुख्याभावात् । कश्चितु प्राक्कर्मेणा भवतीति प्राक्कर्मभववस्त्र भवति

9 ख० पु० संकल्पनाहोमसंकल्पनेति पाठ: । 2 ख० पु० अथ पाशेति पाठ: । 3 ख० पु० तथेति पाठ: ।

Page 92

140

यत्फलमिति योजनया प्राक्कर्मंभविकस्येति व्याख्यातं तदसत् किष्टं चेत्युपेक्ष्यम् ॥

140

फलदानोन्मुखस्य वर्तमानस्य का गतिरित्याह प्राक्त्र्धेकं न शोधयेत् ॥ १४० ॥

141

तस्य भोगेनैवातिवाहनादित्यर्थ: ॥ १४१ ॥

सुमुखो: कर्मशुद्धिद्वित्तान्तमुक्त्वा साधकस्य तमाह

साधकस्य तु भूत्यर्थं भूतिश्रियोयजनं भाविमन्त्राराधनरूपं यत्तदपि न शोधयेदित्यर्थ: ॥

केवलं प्राक्कर्मेकं तु शोधयेत् ।

भूत्यर्थाच्च प्रारग्देहारम्भ शुभाशुभं तत् एकमशुभमेवास्य शोधयेत्, एवं हि निर्विघ्नं भोगसिद्धिर्भवति ॥

यतु जन्मान्तरसंचितं शुभाशुभं यच्चास्सिन्नमनि करिष्यति, तत्सर्वमुक्तनीया मन्त्राराधनवशिमस्य पुत्रकवच्छोध्यमेवेल्याह

Page 93

142

प्राक्कर्मागामि चैक्ष्यं भावयित्वा च दीक्षयेत्॥१४२॥ साधकमिति शेषः। एकस्थमिति एकप्रघटकतया भावितम्॥ इत्थं च शिवधर्मिण्यसौ दीक्षा साधके इति शेषः॥ लोकधर्मिण्यतोऽन्यथा।

143

कीहगिल्याह प्राक्तनागामिकस्यापि अधर्मक्षयकारिणी ॥ १४३ ॥ लोकधर्मिण्यसौ जेया मन्त्राराधनवर्जिता । ................इष्टापूर्तविधौ रतः । कर्मकृतफलमाकाहन्॥ (ख० १४८५) इति लोकधर्मी प्रागेव निश्चितः अधर्मक्षय-रिणीति सापेक्षः समासः। मन्त्राराधनेन पिण्डसिद्धिहेतुना मन्त्रस्वादिप्राप्तिहेतुना च सर्वेणैव

Page 94

90

विवर्जिता विशेषाचोदनात् । श्रीमुगेन्द्राया च वर्तमानसिद्धिहेतोरमन्त्राराधनस्य शिवधर्मिण्येव प्रतिपादितत्वात् । तथा च तत्रोकम्

शिवधर्मिण्यणोर्मूलं शिवधर्मफलश्रियः । हितेतरा विनाऽभङ्ङं तनोराविलयाद्दुवाम् ॥

इति । अस्यायमर्थः:-शिवधर्मिणी या दीक्षा साणोः शिवधर्मफलश्रियो मूलं मन्त्रमन्त्रेश्वरस्वादिप्राप्त्यात्मकपरमेशफलसंपदो हेतुरेका, इतरेतरा तु शिवधर्मिण्येव भोगभूमीनामाविलयात् प्रलयकालं यावत् तनोः शरीरस्य भङ्ङं विना हितां यथाभीष्टखद्योतपालरोचनाजनपाहकादिसिद्धिसंपादिकेति । न चेतरेति लोकधर्मिणी व्याकर्तव्या

'भोगभूमिषु सर्वासु दु:कृतांशे हते सति । देहान्तराणिमाद्यर्थं शिष्टा लोकधर्मिणी ॥'

इति तत्रैव पृथक्त्वस्यानिर्णीतत्वात् । न च मन्त्राराधनं विना साधकत्वं न भवतीति भ्रमतव्यम् । इष्टापूर्तफलसाधनेनैपी तस्य लाभदिल्पलम् ॥ १४४ ॥

Page 95

144

एवं लोकधर्मिदीक्षावशात् प्रारब्धदेहभेदे तु मुक्ते स हाणिमादिकञ्च।१४४। भोगान् दीक्षावशादस्य शुभकर्माणिमादिपर्यवसायर्थः ॥

अथ मुक्त्वा व्रजेदूद्र्वं गुरुणा यत्र योजितः । सकलं निष्कलं वापि 'यो यत्रामिलषेद्रोगान् ' इत्युक्तनीत्या सकले तत्र तत्र भुवनेश्वरे सायुज्यार्थं शुभकर्मभोगान्ते मुमुक्षुर्वा निष्कले शिवे योजितस्तदेव पदं गच्छेत् । यथोक्तं श्रीमृगेन्द्रायाम् लेखिभिर्मणिमार्गेऽपि मते श्लोकमेतारौ ॥ तद्वर्मोपादनं कुर्वीत् छवे वा मुक्तिकाङ्क्षिणाम् ॥' इति ॥

Page 96

145

एतच्चोर्ध्वब्वजनं योजनं च यथाक्रमम् । शिष्याचार्यवशाद्वेत ॥१४५॥ शिष्यस्य गुरोरश्राभिसंधिवशाजायते इत्यर्थः । उक्तं च तत्प्रागेव 'फलमाकांक्षे यावक् तावद्ग्यनमारमे' (स्व०४८१) इत्यादि ॥ एवं द्विधा भोगदीक्षां निर्णय मोक्षदीक्षां सवीजां निर्बीजां सयो निर्वाणदां च ऋमेण निर्णयेतुमाह निर्वाणेडपि सवीजायां कर्मोभावाद्विपच्यते । निर्वाणानिमित्तं या सवीजा पूर्व निर्णीता दीक्षा तस्या: 'विशेषसमयाचारा मन्त्राख्ये ये प्रकल्पिता: । तेऽत्र पाल्या: प्रयत्नेन...... ॥' (स्व० ४९०) इति पूर्वोक्तं यत्कर्म तस्याभावादननुष्ठानाद्विपच्यते कञ्चित्कालं शिवमय्या: खसत्तातो श्रंशित्वा कष्यादत्वमेत्यर्थ: ॥ १४६ ॥

Page 97

146

यत एवमतः समयाचारपाशं हि दीक्षितः पालयेतु यः॥

146

तं पाशं नैव शुध्येत दीक्षितः समयाचारपाशं पालयेत् यस्मा-

तस्मात्तममय निर्बीजदीक्षितस्येव न शोधयेत्॥

दीक्षा चैषा सा सवीजा प्रकीर्तिता।

147

समयाचारपाशं तु निर्बीजायां विशोधयेत्॥

147

तच्छुद्धिद्विविधिग्रये तु भविष्यति॥

अस्य च निर्बीजदीक्षादीकक्षितस्य दीक्षामात्रेण मुक्तिः स्या-

दृक्तिमात्रादुरोः सदा॥

148

गुरुभक्तिमात्रमेवास्य समय इत्यर्थः॥

148

अस्या भेदान्तरमाह सद्योनिर्वाणदा दीक्षा निर्बीजा सा हितीयिका॥

Page 98

149

अतीतानागतारुध-पाशात्रयवियोजिका । दीक्षावसाने श्रुत्ति: स्या- देहत्यागे परं पदम् ॥ १४९ ॥

सघ इति दीक्षतममन्त्रदीक्षावियोजितदेह-कलावस्थितिसमनन्तरमेव, अत एवारुध-कार्यस्यापि पाशात्रयस्य वियोजिका, देहत्यागसमये दीक्षाया यदवसानं निष्पत्ति-स्तत्रैवर्थः । एवं चारिष्टलक्षणादिभिर्निश्चित-सन्निमरणस्यैवेयं कार्येति तात्पर्यम् । यदुक्तं श्रीमद्भररे 'हृद्या शिष्यं जराग्रस्तं व्याधिना परीडितम् । उत्क्रमच्य तत्स्वेनं परतत्वे नियोजयेत् ॥' इति ॥ १४९ ॥

प्रासङ्गिकं दीक्षाविवेकमुपसंहरति एवं भावानुसारेण शिष्याणां गुरुणा सदृ ॥

१ ख० पु० पाशसूत्रेति पाठः । २ ख० पु० देशकालेतिं पाठः । ३ ख० पु० तत्त्वयोनिति पाठः ।

Page 99

150

फलं तु विविधाकारं निष्पादयेत् सुधीक्षया ॥ १५० ॥

151

यस्मात् अचिन्त्या मन्त्रशक्तिरेव परमेशमुखोद्भवा । परमेशस्य मुखं पराशक्तिस्तदुन्मद्वादेवचिन्त्या । शक्ति शब्देन वीर्यसारतां मन्त्राणामाह ॥ १५१ ॥

152

सा च क्रिया काले प्रयोक्तव्या गुरुणा भक्तिपूर्विका ॥ १५२ ॥ क्रिया दीक्षादिका, भक्तिमन्त्रस्वरूपामर्श-नक्रमेण तद्वीर्यानुप्रवेशमयी सैव ॥ अचिन्त्यादिनेदमाह विषाणामिव पाशानां मन्त्रैः कवलनं ध्रुवम् ।

१ क० पु० भक्तिपूर्वकम् इति पाठः ।

Page 100

152

करोति मन्त्रतत्त्वज्ञः शिवावेशी गुरु: क्षणात् । 'पाश्र्र्वस्थ: पारुष्यं शिष्यां दीक्षया न तु योग्यताम् । तेन तस्यां दोषवत्यामपि दीक्षा न निष्फला ॥ सुतत्त्वशक्तिपाताथ दोपवीजविनाकृतात् । अपि भान्ति तुलादीक्षाधटशुद्धिविधीयते ॥ पापस्य गुरुता नो छेदतशुद्धौ त्वपीप किम् । तन्मन्त्रशक्त्या दीक्षाणां चित्रत्वं नासमञ्जसम् । लिख्यमाने कृते यदृच्छाडनादि नृणां भवेत् । मण्डलाक्ष्या तथा सत्रे पाशानां छेदनं स्फुटम् ॥'

152

इत्यास्तो तावदेतदग्रे वितत्य निर्णय्याम: । अथ प्रासङ्गिकं प्रमेयं निर्णय्य प्रकृतमनुबन्ध्नामह

153

कलासंधानकं कुर्या-च्छुद्धाशुद्धदिरूपगम् । शुद्धिनि:श्रेयसिकसंधानकं कुर्याच्छुभाशु-द्धप्रतिष्ठाकलायोगाच्छाशुद्धमत एव द्विरूपगम् ॥

Page 101

123

अत्र च शुद्धमुचारयेदस्व- शुद्धमुच्चारयेद्रस्व- ह्रस्वमुच्चारयेद्रस्व- महाहं दीर्घमेव च ॥ १२३ ॥ एकत्वं भावयित्वा तु लीनं शुद्धं विभावयेत् ।

154

इह भगवान् निष्कलभट्टारको निःशेषप- शशोधकोड्वैतब्रह्ममत्रैकादशिका तु शोध्या, तथापि च शुद्धाशुद्धकालावाचित्यात्निष्कल्ननाथः शुद्धतयाशुद्धतयापि च ब्यवाहर्यते; तं च शुद्धनिवृत्तिवाचित्वाच्छुद्धं, ह्रस्वमिति प्रशा- न्ताशेषप्रस्रं पराबिन्दुर्यास्तिसतत्वमुच्चारयेत्, अशुद्धप्रतिष्ठावाचकत्वाचाशुद्धं, दीर्घमिति प्रस- रोन्मुखं नादद्यास्तिसतत्वम्, एकत्वं सामरस्यं भावयित्वोच्चारयेत् । अत्र च शुद्धं लीनमिति प्रातिष्ठां बोधयितु तद्वाच्यमूलमन्त्रण सहित- भूूतं विभावयेत् ॥ १५४ ॥

Page 102

154

अथ प्रतिष्ठाकलाशुद्धिः न चात्र ह्रस्वदीर्घमात्रमुचार्यमपि तु प्रणवादिनियतत्तिस्तु प्रतिष्ठा तदनन्तरम् ॥ नमस्कारस्तदन्ते तु कलासंधानकं स्मृतम् ॥

155

'प्रणवं' ह्रस्वं निष्कलं निवृत्तिवाचिनं ह्रस्वं चोचार्यं तदन्ते निवृत्तिं इति पदं, ततोडपि प्रणवं दीर्घं निष्कलं प्रतिष्ठावाचिनं च शिरोमन्त्रमुचार्य 'प्रतिष्ठाये नम' इत्त्र प्रयोगः । होमे तु स्वाहान्तः ॥

156

इथं च आवाह्य स्थाप्य संपूज्य-हुत्वा च ततः प्रपातयेत् ॥ कलासंधानमेतदिदं कलानां पृथ्व्यादिधारणाध्यानं कार्यमिति केचिद्दन्ति ॥

Page 103

156

अथ व्याप्तिं तस्यावलोकयेत् । तस्याः प्रतिष्ठायाः ॥ तत् गुल्फादारभ्य नाभ्यन्तं शिष्यदेहे डध्वकल्पनम् ॥

157

प्रतिष्ठाया भवेद्व्यास- शृतुविंशतितत्त्विका । घटपञ्चाशद्धुवानिका त्रयोविंशतिवार्णिका ॥

इत्यैकविंशतिपदा त्रिमन्त्रा च विधीयते । अवादीनी गुणतत्त्वेन सह प्रधानान्तानि चतुर्विंशतिस्तत्त्वानि यस्य, तथा गुह्यातिगुह्यप- वित्रस्थाणसूत्रलदेवयोनियोगार्ध्याणि सप्ताष्ट- करूपाणि भुवनाध्वनि वक्ष्यमाणानि षट्पञ्च- शाद्धुवने श्वराधिष्ठितानि, तावन्तर्भूतसु-

Page 104

158

वनान्तराणि प्रधानानि सुवनानि यस्यान्, हकारात् टकारान्तानि त्रयोविंशातिवर्णानि यस्याम् । एकविंशतिति पूर्वं कलातत्त्वास्पदवारुणदिग्गतपदनवकादिशकोणस्थ ऊकारो यावदुपयुक्तः; - इति प्रातिलोम्येन तदन्तरस्यव्यकारादारभ्य लकारान्तमष्टकं, तथा मायात्स्वाश्रयनैरृतदिक्स्थकोष्ठनवकगतमूकारादिमकारान्तं नवकं, विद्यातस्वाधिष्ठितदक्षदिग्गतकोष्ठनवकमध्यादूकारादिलकारान्तं चतुःषष्टयं चेल्येकविंशतिपदानि यस्यान्, त्रियं वामदेवः शिरः शिखा च मन्त्रा यस्यां, न तु हृदयं हनुमत्स्य निवृत्त्यन्तर्भावात् ॥ १५८ ॥

इत्यं च षडध्वात्मानः mुख्य्या होते स्मृता: पाशा: मुख्यत्वमेषां सर्वाणसाधारण्यात्, पदवर्णमन्त्रा अपि 'शब्दराशिसमुत्थस ………… १' (स्व० ४।१५) इति युक्त्या वाचकरुपतामश्नुवनाः पाशा एव; अत एव निरुपाधिचिदानन्दघनस्वरूप-

Page 105

१५९ श्लो ] श्रीक्षेमराजाचार्यकृतोऽस्योद्धोताख्यटीकोपेतम् । १०१

मश्रेपरमार्थमूलमन्त्रातिरिक्तं सर्वमन्त्र शोध्य-मेव । यदुक्तमस्मदुरुभिः श्रीतन्त्रालोके

'शक्तिकिचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात ।

पराच्छवादुक्तरूपादन्यत्तत्पाश उच्यते' इति ॥ (त० ८२९२)

158

अत्रैव च सूक्ष्मान्तर्विभावयेत् । तान् स्फुटयति अन्यतन्त्रप्रसिद्धं तु तन्मात्रेन्द्रियमोहनम् ।

अत्रान्तर्भाव्यमित्यर्थः । अन्यतन्त्रं लाकुलादि । यद्यापि च त्रयोविंशतितत्त्विकेत्युक्त्वातन्मात्रादीन्यन्तर्भावितानि तथापि तानि बाह्यभौवनसंनिवेशव्यापकान्यान्येव, एतानि तु स्थूलसूक्ष्मशरीरसन्निविष्टान्यपराण्येव,-इति न अमितत्वम् ॥ १५९ ॥

158

किंच पञ्चकॊशान्विषयान् पञ्च तदन्तर्भावयेत्सदा ॥ १५८ ॥

Page 106

अत्राऽऽत्मस्लोममजास्थिन्याख्या: षट्कोशा: सूक्ष्मदेहोपरि कोशाकारतया स्थिता:। सदैतिदीक्षाकाले । एवंच वर्तमानेपि देहशोधनं चोदितमेवेति तत्कर्तव्यं तैरुक्तं ते भ्रान्ता एव ॥

अत एवोक्ताऽध्व्यासिविमर्शरूपम् विशेषस्थापनं कृत्वा पूज्या गन्धादिभिस्तत: ।

तथा भैरवेणाहुतीस्तस्र: दद्यादिति शेष: । भैरवेति काकाक्षिवत्, तेन प्रणवनिष्कलप्रतिष्ठाबीजानुच्चार्ये 'प्रतिष्ठायै नम:' इति मन्त्रेण पूजा, स्वाहान्तेन होम: । एवमुत्तरत्रापि ॥

१६०

अथ तस्या वागीशिकल्पना ॥१६०॥ सा हि विश्वपि सर्वमन्त:कृतं क्षमा । अत्र चादौ शक्तिं न्यसेदित्यादि पूर्वोक्तं स्मर्तव्यम् ॥

Page 107

103

[१०३

श्रीक्षेमराजाचार्यंकृतोत्तरोत्तरटीकोपेतम्।

किंच

163

स्तनामावाहनाद्यस्य अर्घहोमादि पूर्ववत् । प्रोक्षणं ताडनं छेद आकर्षग्रहणे तथा ॥ १६३ ॥ ध्यायापूर्य कुम्भयित्वा छित्वाथ ग्राहयेत्पुनः । योजनं गर्भधारित्वं जननं पूर्ववक्रमात् ॥ १६२ ॥

163

पूर्ववदियतिदेशेन नित्ययुक्तं सर्वं विधिक्र- ममनुस्मरोदिति शिक्ष्यति ॥ १६३ ॥

अथ प्रसन्नात्मसर्वदीक्षासु वक्तव्यशेषं पूरयति पैश्वरीं मूर्तिमास्थाय ताडनादीनि कारयेत् । ताडनप्रोक्षणादीनि क्रियाशक्त्यावेशे का- र्याणि; इति क्रियाशक्तिप्रधानेश्वरांभावेनैव युक्तानि ॥

Page 108

163

अधिकारस्तथा भोगो लयो निष्कृतिरेव च । शिवरूपेण कर्तव्या: ॥१६३॥

अधिकारीदिज्ञानं प्रभुत्वसम्पाद्यं, प्रभुश्र सदाशिवादौ विश्वत्र शिव एवेति शिवाहंबे- वैनैव तदुचितं, नित्यत्तौ निष्कृतिविश्टेषहोमौ मूलेनैवेक्कौ ॥ इह तद्योगविशेषमाह

निष्कृति: शिरसा पुनः । विशेषश्र हृदा होम्य: पुनःशब्दो विशेषाय सर्वत्रैव । पाशाच्छेदस्तथासिना ॥१६४॥

164

तथाशब्दान्मूलेनापि । यथोक्तं प्राक् 'आहुति त्रितयं धाम्ना पाशाच्छेदेपी…' (स्व० ४।१२९) इति । पूर्वषट्कच्छेदनताडनादीं-न्यपि असि-

Page 109

164

नैवेत्यपि तथाशब्दार्थे, आकर्षणग्रहणाद्यास्तु धाम्नैवेत्युक्तम् ।। १६४ ।।

किंच पूणाहुतिसमुद्दारं पूर्ववद्दैरवेग तु । निष्कलेनैवर्थ: ।। ज्ञानशक्तिप्रधान: श्रीसदाशिव इति सदाशिवतनौ स्थितत्वा विशेषाद्दानं कारयेत् ।। १६५ ।।

165

त्रिश्लेषपादीनां भेदोपशान्तिपरस्खान्तस्प्रधाना सदाशिवस्थ व्याप्तिस्थान्या, आदिशब्दादेकचै- तन्यभावितोद्धरादय: ।। १६५ ।। एवं प्रसादादिधिं पूरयित्वा प्रकृतमाह आत्मस्थं पूरकेणैव तत्रस्थं रेचकवृत्तित: । सर्वमेतत्पूर्वमेव निरींतम् ।

Page 110

१०६

अथ प्रतिष्ठाधिपतिम्‌ स्वनाम्नोंचारयेहिष्णुं ध्यात्वावाह्य तु स्थापयेत्‌ । पूजयेत्पुष्पगन्धाद्यैः अस्मै च तर्पणायाहुतित्रियं । दद्यात्‌ ॥

१०७

किंच रसं पुयष्टकांशं तु अपयेद्हिष्णवे सदा ।। दीक्षाक्षिति शेषः ।। १०७ ।।

पूर्ववक्तृतथावणं विसर्जयेतत्तो विष्णुं वागीशां च विसर्जयेत्‌ ।

Page 111

168

अथ कलासंधिर्यथापूर्वं ह्रस्वदीर्घप्रयोगतः॥

168

अभावं भावयेतासिन् पाशाजाले त्वनन्तके॥

169

अथ कलाद्रयविनिर्मुक्तः पशुरूर्ध्वगमोन्मुक्तः॥

169

तर्येदानिं तृतीयस्यां विद्यायां योज्य शोधयेत्। चैतन्यमिल्यर्थात्॥

170

तां च विद्यां स्थापयित्वाथ संपूर्य जुहुयादाहुतीत्रयम्॥

170

एवं तु संख्यीकृत्य प्रागिवाध्वावलोकनम्। कार्यमित्यर्थः॥

९ क० पु० कलासंधि यथेति पाठः। हु्रस्वा दीर्घप्रयोग इति च पाठः।

Page 112

१११

तदेवाह पुंस्तत्त्वाद्यावन्मायान्तं विद्याया व्यातिरिष्यते ॥ १११ एवं च सत्तत्त्वानि पुरुषनियतिकालरागविद्याकलामायाख्यानी, पुरुषस्यैतत्तत्त्वषट्कशुद्धमेतत्त्क्षुभुरूपमन्तरङ्गं वेदनहेतुतया स्थितत्वादिच्याख्यया कलया व्याप्तं, प्रतितिष्ठते भोगहेतुतत्त्वजालं यत्रेति निरुक्त्या प्रतिष्ठा, निवर्तते तत्त्वसृष्टिर्यत इति निःसृतिः;, अशेषभेदोपशमाच्छान्ता, तामष्यतीता तत्स्स्कारेणापि शून्या शान्त्यतीतेल्यनुसंधेयम् ॥ तथा भुवनसप्तविंशतिरेव च । यद्यपि पुंस्त्वात्रियतिरियादिस्तत्त्वक्रमस्तथापि पुंसो लोलिकामयस्य सामान्याभिष्वङ्गत्मना रागेणाल्यविचारः, किंचिद्रेदनेनात्मनो विद्याया नियमनारमना नियत्या, कर्तृत्वोद्भल-

Page 113

20

नातमनश्र कलाया: कालेनeti तत्पददीक्षयो: संपूटयोगस्य वक्ष्यमाणत्वात्तदनुसारेणैव भुव-नेशस्थितिस्तत्र पुरुषरागतस्वयोविंदेशाषकं प्र-धानमिति तद्विष्ठितान्त्रयषौ भवन्ति, निय-तिविधयोगस्तु वामादिमनोन्तमान्तभुवनेष्ट-वकाधिष्ठितानि नव, कालकलयोर्महारादि-त्रयाधिष्ठितं त्रयम् । एवम् २० । एतत्तत्वका-रणभूतायां मायायामधोभागे गोपतिरुध्र्वे विश्वे मध्ये त्रिकालक्षेमेशब्रह्माधिपतिशिवाश्व-स्वार:; एतदधिष्ठाता चानन्त:,-इति सप्तति भुवनसत्तविशति: ॥

तथा पदविंशातिराख्याता दक्षादिगतपदनवकाळकारान्तं चतुष्टयं पूर्व-ज्ञान्त्रभूतमित्यवशिष्टं प्राग्वन्मादिक्षान्तं प-शकं, तथैतस्वाधिष्ठिताप्रेयकोष्ठनवकादूका-रादिषट्कं नवकं, सप्तार्णवतत्वाधिष्ठिताब्दू-दिग्गतानवकादूकारादिक्षकारान्तं षड्मिति पदविंशति: ॥

Page 114

172

किंच वर्णाः सप्त प्रकृतिंता ॥ १७२ आद्याः घान्ताः ॥ तथा मत्रौ द्वौ अघोरः कवचम् ॥ इथमतत्र

173

षडिधाध्वानं ज्ञात्वा वागीशिकल्पनम् । अत्र पूर्वोक्त सारंयते प्रणवेन समावाह्य व्यापिनीं सर्वयोनिषु ॥ १७३ ॥ समकालमृतुत्वेन ध्यात्वा संपूज्य तर्पयेत ।

174

किंच ततः शिवाम्भसा शिष्यं प्रोक्ष्य चाछ्रेण ताडयेत । तैनैव चाछ्रभूतेन हुंफट्कारयुतेन तु ।

Page 115

१११

श्रीक्षेमराजाचार्यकृतौहचोतारव्यटीकोपेतम्

१७५

आत्मनो रेचकेनैव गत्वेति शेषः । शिष्यदेहेऽपि चोदितः ॥

१७६

अथास्य पूर्वष्टकरूपम् अक्नमन्त्रेण संक्षिप्य विशेष[शेष्या]शेण कर्षयेत् । द्वादशान्तात्तु संग्रहं आत्मस्थं पूर्ववत्कुरुत् ॥

१७७

पूरकेणाथ संकुम्भ्य रेचयित्वा तु योजयेत् । पूर्ववद्यापकं तस्यं चैतन्यं सर्वयोनिषु ॥ योगाच्च लयपर्यन्तं ध्यायात् चैवात्र पूर्ववत् । कुर्यादिल्यर्थः ॥

१ क० ग० पु० न्यसेति पाठः ।

Page 116

178

विशेषस्त्रत्रायम् शिखया शतहोमात्तु विद्याया निष्क्रतिभवेत् ॥ १७८ ॥

178

अथास्य विशेषपाशच्छेदाभ्यामन्तरं परेणात्मस्थतत्त्वे कुयात् ॥ १७८ ॥

179

अथ पुर्वष्टकांशार्पणाय प्रणवादि ततो रुद्रमावाह्य स्थाप्य पूजयेत् । ततोडस्य विन्यसेहो गन्धरुपे ध्रुवाहुती ॥ १७९ ॥

180

एतत् पुय्रष्टकांशं विन्यस्य विसृज्य रुद्रदेवताम् । वागीश्रीं च विसृज्यैवं कलासंधिश्व पूर्ववत् ॥ १८० ॥

कार्यः ॥

१ पुं० ८ ख० ड० पु० योजयेदिति पाठः । २ ख० पु० ध्रुवाहुती इति पाठः ।

Page 117

189

हस्वदीर्घविभागेन विद्यां शान्तौ नियोजयेत्। संधानार्थं तु मूलेन जुहुयादाहुतीतिरयम् ॥ १८९ ॥ सैंधेरनन्तरमध्योपस्थापनाय स्वनाम्नावाहनं शान्ते- विधिपूर्वे निवेदैनम्। प्रमेयभावनां कृत्वा तां च पूजयेत् कुसुमादिभिः ॥१८२॥ तिराहुतीं तु मूलेन दद्यात् ॥ १८२ ॥ अस्या अध्वान्तरव्याप्तिमाह विद्यातश्चात्सदाशिवम् । तत्त्वानां त्रितये व्यासि- वर्णानां त्रय एव च ॥ १८३ ॥

१ ख० पु० कलसंधे रिति पाठः । २ पं० १७ ख० प० निवेशनमिति ।

Page 118

१८३

कर-व-ग इत्यत्र च ॥ १८३ ॥ पदैकादशिका ज्ञेया पूर्वदिग्वक्त्रकान् श्रान्तस्य षट्कस्य विविधायामन्तभावाद्रेफप्रणवहकारात्मकं त्रयं मध्यमाच्च नवकादूकारादिहान्तमष्टकमिति पदैकादशिका ॥

पुराणि द‍रश सप्त च । तत्र विद्यायां त्रिगुणादीनां विद्याराज्ञीनामेकमीश्वरतत्त्वे खवैश्वरं भुवनमनन्तादिशिखण्ड्यन्तविये श्वरभुवनान्यष्टौ, धर्मादीनां सुवनानि चत्वारि, वामादिशक्तित्रयभुवनमेकं, ज्ञानत्रियाभुवनमेकं, तस्मिन्नेव च भुवने विद्याद्वयादे: प्रभवद्रादशकपर्यन्तस्यैकोनपष्टेभुवननामवांतरों विभाग: । वक्ष्यति च 'एकोनपष्टिर्शुवनं ज्ञानशक्त्यादित: क्रमात् ।' (ख० १८११८२)

इत्येवमीश्वरतत्त्वे पश्चदश भुवनानि । यदृक्ष्यति 'द‍रश पश्च च शोध्यानि भुवनान्यैश्वरे पदे ।' (ख० १०११६९) इति । सदाशिवतत्त्वे सादाशिवमेकं भुवनं स्व-

Page 119

१८६

मिव ब्रह्मादिसकलाच्यष्टकशिवरुद्रभेदावरणंग- तानन्तभुवनव्यापकमिति सप्तदश भुवनानि ॥ तथा च मन्त्रौ ह्रीं तत्पुरुषाक्षरूपौ ॥ तदन्तः षडिधोडध्वैवं मुख्याः पाशा इमे स्मृताः ॥१८८॥ पूर्ववच्च सूक्ष्मपाशाननेकांश तदन्तर्भावयेत्सदा । अथ वागीश्रीं कल्पयेतत्र पूर्वेण विधानाहुतिः ॥१८५॥ पूजनं मूलमन्त्रेण ततः प्रोक्षणताडनम् ।

Page 120

१८६

छेदाकर्षग्रहं चैव योगधारित्वजन्म च ॥ अधिकारस्थो भोगो लयो वै पूर्ववद्वेत्त् । सर्वे ते मूलमन्त्रेण आहुतितृतितयेन तु ॥

१८७

योगो गर्भेषु चैतन्यस्य, धारित्वं युगपद्धर्म-वधनम् । यथोक्तम् ‘सर्वयोनिषु गर्भोऽस्ते युगपदुद्धिमागता: ।’ (स्व. ४।११८) इति । सर्वे इति गर्भाधानायाः संस्कारा: ॥

किंच निष्क्रान्तौ शतो होमं तु कवचेन तु कारयेत् । तुशब्द: पूर्वस्मादिशेषाय ।।

१ क. पु. कर्मे चेति पाठ: । २ ख. पु. निष्कृतिरिति पाठ: । ३ ख. पु. तुशब्दो विशेषमात्रेति पाठ: ।

Page 121

११७

श्रीक्षेमराजाचार्यकृतोऽस्मोत्कार्योपेतम्

१८८

विशेषं पाशाच्छेदं तु कुर्यादक्षेण देशिकः ॥ उद्धारकरणात्मस्थ-तत्स्थीकरणान्भवेन तु ॥

१८९

अथ स्नानाच्च प्रणवाच्चेन ईशमावाह्य पूजयेत् ॥ संपूज्य हुत्वा संतर्प्ये बुद्ध्याहंकारविहां सकम्

१९०

अत्र प्रयोगः स्नानाच्च प्रणवायं तु स्वाहान्ते बुद्धिमर्पयेत् ॥ अहंकारं तथाप्येवं हुत्वेदं क्षमयेततत् ।

१९१

वागीशीं पूजयित्वा तु तर्पयित्वा विसर्जयेत् ॥

१ ख० पु० ग्रंणeti पाठः । २ क० ग० पु० तस्यार्यमिति पाठः ।

Page 122

191

यदत्रानुक्तं तत्पूर्वतो योज्यमं । अथ कलासंधानकं पूर्वं शान्त्यतीतै तु योजयेत् । ह्रस्वदीर्घविभागेन प्रारबच्छान्ताशान्त्यतीते अनुसंधीतेऽर्थः । तदर्थं च जुहुयादाहुतित्रयम् ।

192

अथ धुवेण तत्वसंधानं कर्तव्यं विधिवेदिना । पूर्ववत्स्नपनवधामशान्त्यतीताबीजोच्चारपूर्वं 'शान्त्यतीतायै नमः' इति प्रयोगः । स्वतन्त्रयः । तत्वमन्त्रे प्रकृता शान्त्यतीता, विधिवेदिना व्याकिंच

193

कलोपस्थापनं पश्चाद्धुवेण जुहुयात्त्रिये ।

Page 123

119

१९६ ख०] श्रीक्षेमराजाचार्यंकृतोऽस्योत्तरार्धटीकोपेतम्। ११९

194

त्रिराहुतिप्रयोगेण स्वनामपदमुचरन । शान्त्यतीतां समावाह्य स्थापयेत्पूजयेत्पुनः ॥ १९४ ॥

ध्यासिमालोक्य चाध्वस्थां तामेक स्पष्टयति शिवतत्त्वगताश्र ये । पदाथास्तेडनुसंधेया अत्रैवर्थः । तानिह

195

बिन्दुनादस्तथा शक्तिः शिवतत्त्वे व्यवस्थिताः ॥१९५॥ शिवतत्त्वं समनाव्याल्यन्तमिहेतितच्चो- ध्यमेव । बिन्दुनादशक्तयोत्र गर्भीकृतवक्ष्य-माणपोडशभुवना मुख्यान्यावरणानि ॥ १९५ ॥ किंच

पद्ममेकं मन्त्र एको वर्णाः षोडश कीर्तिताः ।

Page 124

९६

भुवनानि तु सूक्ष्माणि शान्त्यतीते तु भावयेत् ॥९६॥ पदं मध्यकोष्ठवर्गमध्यगत ओंकारः । मन्त्र ईशानभट्टारको धामत्रयमयनेैमन्त्राभिन्नमूर्तिः, वर्णा विसर्गान्ताः पोडश, भुवनानि भूमिकात्मकप्रपञ्चमात्रुपत्वात् सूक्ष्माणि न तु संनिवेशवन्ति, तानि च पोडश । तथ्यथा-बिन्द्वावरणे निवृत्त्यादिकलाचतुष्कपरिस्थितं शान्त्यतीतभुवनमेकं, ततोध्च्चन्द्रनिरोधिकाभुवने द्वे निजनिजकलापञ्चकपरिस्फुटे, नादावरणे पुनरिन्धिकादिशक्तीनां स्वशक्तिमदधिष्ठितानां पञ्च भुवनानि, नादान्ते सुषुप्तस्नेहपरब्रह्माधिष्ठितमेकं भुवनं, शक्त्यावरणे तु सूक्ष्मादिशक्तिचतुष्कपरिष्कृतं पराशक्तिभुवनमेकं, ततोडपि व्यापिनीभूमौ व्याप्यभयो-मैश्वर्यादिनान्तानाश्रितानां पञ्च भुवनानि, ततोडपि समनायां महामायारुपां तच्छक्तिमारूढः पञ्चविधकृत्यकारी शिव इति ।

Page 125

१२१

नन्विह मन्त्राणां शोधकानामपि कथं शोध्यं शोधयत्वमुक्तं तथात्वे वा कस्य तच्छोधकत्वं मूलमन्त्रस्यापि च मन्त्रत्वाच्छोध्यत्वप्रसङ्गः; निवृत्त्यादवच्छान्त्यतत्परामर्शे हि नोचः। निवृत्तिशान्त्यतत्परामर्शेन मूलमन्त्रः किं निष्कृतिहोमः प्रतिष्ठाविध्याशान्तानां शिरःशिखाकवचैर्नित्यौ विशेषो मूलमन्त्रानन्यत्र हृदयेनापत्रत्रयेणेति कोऽयं क्रमः । अत्रोच्यते—इह मन्त्राः शक्तावेशशालिनो वीरविदो गुरोरनिजशक्तिसारतया स्फुरन्तः शोधकाः; पशूनां तु गूढितस्वातन्त्र्याः स्वस्वरूपावरणतया तिष्ठन्तः शोध्या एव, ते चाद्वैतक्रमभेदादेकादश, मूलमन्त्रस्तु 'स्वयमुचते देवः' (ख० ७५८) इति वक्ष्यमाणास्थित्या नादामर्शपरमार्थतया सर्वस्य स्फुरतीति नास्य शोध्यत्वं, केवलमकारदिसमनात्प्रमेयैकादशकमतत्र सूक्ष्मरूपतया शक्त्याक्रान्तमात्रकोदाश्चास्कारमात्रावलम्बनविशेषणकमयुक्त्यांशिकाभिप्रायात् । 'अक्षरेषु कृतो मोक्ष आकाशे कुशुमं कृतः ।' (ख० ७२३५)

Page 126

१९६

इति मूलमन्त्रविषयसुक्तम् । तत्सद्राचायभागाभिप्रायेण च 'समनान्तं षरारोहे पाशाजालमनन्तकम् ।' (ख० ४१४२९) इत्यूक्तम्, वस्तुतस्त्वशेषविश्वाभेदमयो नित्योदितानुचायमहाविमशर्शूप एवं निष्कलनाथस्तदभिन्नमूत्तिः सकलोडपि वेति नास्य कदाचिदपि शोध्यत्वं शड्कितव्यम् । शान्त्यतीतायां च नामानुरूपत्वादेव न पृथगड्गुमन्त्रः संभवति । धामत्रयात्मनेत्रमन्त्रस्तु ईशानब्रह्मादिमूर्तिवशेनमनुविधेयो न्याथा मत्रैकादशिका न शोधिता स्यात् 'मन्त्रा एकादश झेयाः ।' (ख० ४१२०१) इति च भाविवाक्यमसंगतं स्यात् एवामन्त्रस्तादनादावेवोपयुक्ते । नेत्रमन्त्रस्तु मूलमन्त्रादभिन्न इति न तौ कलान्तःशोध्यौ,-इत्येकीयमतमससत् । यस्तु निष्कृत्यादिहोमेषु मन्त्रनियम उत्कस्मत्रे श्वरार्जैव नियत्निकेत सवमनवघम् ॥ १९६ ॥

Page 127

१९८ खो] श्रीक्षेमराजाचार्यंकृतोद्योतव्याख्यटीकोपेतम्। १२३

त एते सर्वे एव पाशा:

शोधनीया वरारोहे

वर उत्कृष्ट ऊर्ध्वद्वादशान्तविशान्तिरूप

आरोह उहासो यस्या: शक्ते:॥

तावचैते शोध्या:

यावत्ते शिवरूमय:।

निरवशेषभेदोपशान्त्या शिवस्य रशिमरूपा

अभिन्नप्रभामात्रात्मान: संपघन्ते इत्यर्थ: ॥

१९७

अत एव

१९७

शिवस्योध्र्वे शिवो जेयो

१९७

यत्र युक्तो न जायते ॥१९७॥

१९७

उत्तीर्णशिवतत्त्वोपरि विश्वोत्तीर्णविश्वमय-

१९७

चिदानन्दघनस्वच्छन्दभट्टारको यत्र वक्ष्यमा-

१९७

ण्योजनिकाक्रमेण युक्तो न जायते मुच्यते

१९७

इत्यर्थ: ॥ १९७ ॥

अत एवास्य यावान् कलापश्चकान्तः प्रप-

श्वित:, स सर्वे एव

१ ख० पु० तत्त्वस्येति पाठ:।

Page 128

१९८

पडध्वा चैकतो झेयः एकाकिनं परमशिवात्मन्यभेदेनावस्थित-स्तत्सामरस्यमापन्नो ज्ञातृयो गुरुणा साक-ल्येन संकल्पितः॥ कियानसावध्वा यो दीक्ष्यस्य शिवैकात्म्यं प्राप्न इति दर्शयितुमाह तस्य संख्यां पुनः शृणु। कलाश्र पञ्च विज्ञेय-स्तत्त्वपटत्रिंशदेव तु॥ १९८॥

१९९

सचतुर्विंशति झेयं भुवनानां शतद्वयम्। एकाशीतीलिपदान्त्र वर्णार्धशातिका स्मृता॥ १९९॥

२००

मन्त्रा एकादश झेया इलतेचाऽध्वणि ह्रडेतरम्। एतस्मिच्छुद्धिमापन्ने मुक्तिमामोति दीक्षितः॥२००॥

Page 129

२०३

शुद्धिरस्य परमशिवाभिव्यक्तिरियुक्तम् एवं प्रासङ्किमध्यशुद्धिग्रन्थमसिधाय प्रतमाह ध्रुवणवाधा वागीश्रीं विन्यसेत् तदथिम् पूर्ववदुति: संपूज्य कुसुमायैस्तु तयो नो पूर्ववत्पशुम् योजयेदिति शेष: ॥ २०९ ॥

२०९

किंच धुवेण सर्वे कर्तव्यं जननादिलयांतकं । निष्कृतो शतोहोमं तु मूलमंत्रेण कलपयेत् ॥ २०२ ॥

विशेषपाशच्छेदाभ्यां प्राग्वत्कुर्याहुत्रवेण तु ।

Page 130

202

क्षेदाभ्यामिति तादृथ्ये । तेन विशेषार्थं प्राग्वत् कुर्यात् हुत्यादिकर्मेस्त्र्थ: ॥ २०२ ॥

203

किंच ग्रहणान्त्म्स्ततत्स्थत्वं प्रणवेन पशो: स्मृतम् ॥ प्रणवो निष्कलनाथ: ॥ २०३ ॥

204

सदाशिवमथावाह्य मूलमंत्रं समुचरन । नमस्कारेण संस्थाप्य पुष्पै: संपूज्य तर्पयेत् ॥२०४॥

205

मन: पुर्ष्टकांशं तु विन्यसेत्कारणेश्वरेः । कथमित्याह प्रणवादि समुच्चार्य मन:संज्ञां नमस्तथा ॥ विन्यस्य पूजयेत्पश्र्वात्संज्ञास्वाहान्तमेव च ॥२०५॥

Page 131

205

प्रणवधामभ्यामनन्तरं ‘मनो देवदत्तस्याप्यामि नमः’ इति मन्त्रप्रयोगः होमे तु स्वाहेत्यन्तः । संज्ञाखाहान्तमिति क्रियाविशेषणम् ।

206

अत्र च आहुतितृतीयं हुत्वा पूर्वषट्शांशादिः शुद्ध्यति ।

207

ततो विसर्जयेद्देवं कारणं च सदाशिवम् । पुष्पादिभिः समभ्यर्च्य वागीशं तदनन्तरम् ।

208

तां तु संपूज्य सन्तर्प्य विज्ञाप्य भक्तिभावितां । ऋत्वसं देवदेवेशि पश्वर्थं खेदितं मया ।

इदानों नोपरुद्धव्यं गच्छ देवी स्वविष्टपम् ।

१ ग० पु० सा तु संपूज्येत, भक्तिशालिनेतिं च पाठः ।

Page 132

१२८

सर्वदीक्षान्त इयं विज्ञप्तिः कार्येति विशेपच्योतनाय तुशब्दः, खेदनं भूरिभूः परस्वरूपार्भाधानार्थमवतारणं, नोपरुद्धव्यमिति अस्य दीक्षेतस्येदानीं त्वया नोपराधेन स्वरूपावरणं कार्यमिति यावत् । अत्र एव स्वविष्ठपं दीक्षेतस्य परमशिवात्मकस्वरूपमधिकारणं गच्छ तन्मयतयास्य सदै स्फुरेत्यर्थः । अत एव श्रीस्पन्देऽभिहितम्

...शमार्गस्था ज्ञाता सिद्ध्युपपादिका । (स्प०४।१८) इति । यदुक्तं बहुधा नो शहसप्तोः, विष्णौ रसः, रुद्रे रूपगन्धौ, ईश्वरे बुद्धयहङ्कारौ, सदाशिवे मनः पुंयष्टकांशमप्येतत् । तत्रायमिभ्रायः - इह ब्रह्मा परमया व्याध्या नादान्तोपदि ब्रह्मविलाष्ठातब्रह्मरूपः, विष्णुरुपि तदुपरि प्रसदरूपशक्तिप्रधानशक्त्यात्मा, रुद्रोऽपि व्यापिनीपदावस्थितानाश्रितनाथरूपः, ईश्वरेऽपि समनापदाधिरुढः सृष्ट्यधिकारी शिवः, सदाशिवस्तु स्वच्छस्वच्छन्दचिदानन्दघनः परमशिवः; - इत्थेकादशपटलोक्तव्यव-

९ ख० पु० समप्योदिति पाठः ।

Page 133

१२५

स्थया परस्य ब्रह्मणो नादान्तशक्त्योमध्यवर्ति-त्वात् सूक्ष्मतमाभ्यां शब्दस्पर्शाभ्यां योगः । एवं मूलभूमौ स्पर्शप्रधानापि प्रसरद्रूपतया रसमयी शक्तिरिति तन्मयस्य विष्णोः सूक्ष्मतमरससंवन्धः, ततोडपि रुद्रस्य व्याविन्यासान्थितपदे विश्वस्यासूत्रणादमात्रात्मनैः प्राकृष्टोपसंहतजगद्रत्नसुसूक्ष्मतममसंस्कारमात्रात्मना तनीयस्तमेन गन्धेन चास्ति संबन्धः । समनाधिष्ठातरि तु शिवे मननमात्रसारे विगलहुच्छ्रहंकारवासनासङ्कोचपरमशिवेऽपि उन्मनाशङ्कसमाश्लिष्टम मननसंस्कारस्यापि गलनमित्यतिसुसूक्ष्मतमभ्रशान्तम-नःसंस्कारसंवन्धोडस्ति, - इत्याशयेन निरवशेषवसंसकारपर्यन्तपुर्यष्टकप्रशान्त्यर्थमेव पुर्यष्टकांशार्पणम् । अन्ये तु

श्रुतत्वात्प्रभृतित्रिभिर्भीः ब्रह्मादिक्रमाद्योनिदा । रासनी वैष्णवी रौद्री ग्राणलोचनहेतुका ॥

ऐश्वरी गर्वधीरूपा मानसी शिवदेवता ।

१ ख० पु० त्मनो ह्यपेति पाठः । २ ख० पु० मनोमात्रेति पाठः । ३ ख० पु० समाविष्ट इति पाठः । ४ ख० ग० घ० ड० पु० संस्कारसागरनमिति पाठः ।

Page 134

208

इति निर्बीजदीक्षाविष्यश्रीमृगेन्द्रवाक्यटीकायामुचिन्द्रियविमुंल्यात्मसमयोऽपि नसंभाव्यमातत्कत्कथ्यादत्प्रशमनाय पाशशोधनपरेड़पि वाक्ये निर्बीजदीक्षायां पूर्वशब्दरूपशर्पणं ब्रह्माणि कार्यमित्यादि यदृढतरानायणकणठनोक्तं तदेवात्र योजयांचक्रः । तत्र सवीजिनिर्बीजादिसर्वदीक्षासु युथिष्ठकांशार्पणमात्रं, अतो मृगेन्द्रायां समयपाशाशोधनपरेsपि वाक्ये निर्बीजदीक्षाविष्यमेवे पूर्वशब्दार्पणं तदेवात्रायवर्णनं च तेनोकार, तयुक्तमयुक्तं वेति सचेतसः प्रमाणमित्यलम् ।

209

अथ वागीशां विसर्ज्येवं कला भाव्या शान्त्यतीता लयं गता । स्वशक्त्याधारपर्यन्ते सुस्थिरमावसंस्थिते ।

Page 135

209

स्वा स्वातन्त्र्यात्मा शक्तिराधारः समवायिनी यस्य, स एवाशेषस्य समनाप्रतिष्ठास्थानत्वात् पर्यन्तः, अत एव सुष्टु सूक्ष्मस्याभावस्य समनातम्नो व्याप्तिन्यादि:क्षयलन्ते:शेषभावाभावविच्छित्तिमूतस्य महाशून्यस्य संस्थितं संस्थानं यत्र ॥ २०९ ॥

210

अथ कायवाङ्‍ज्ञ:कर्मान्‍यथाभावे जाते सति आत्मतत्त्वविभागेन धाम्ना वै जुहुयाच्छतम् ॥ २१० ॥ आत्मशब्दो विद्याशिवावुपलक्षयति, तेन त्मविद्याशिवतत्त्वविभागेनैवात्रार्थ: ॥ २१० ॥

तथा सुशब्दोच्चारयोगेन आत्मतत्त्वे तु होमयेत् । प्रणवनि:कलोच्चारपूर्वं दीक्षस्यातमतत्त्व-व्याप्तमयान्ताधवशुद्धौ विधिन्यूनातिरिक्तदो-षशुद्धिरस्तु स्वाहेतत्र प्रयog: ॥

Page 136

211

एतच्चातमतत्त्वम् मायातत्त्वावधि जेयं दैशिकेन महाध्वरे । मायान्तं जेयं सर्वमिति तद्वाच्यात्मतत्त्वं महाध्वरे दीक्षाप्रयोजनशिवयागे ॥ २११ ॥

किमर्थमयं होमः, इत्याह विधिवैकल्यकरर्मार्थ प्रायश्चित्तविशुद्धये । 'विधे:' पूजाहोमादेः शास्त्रचोदिततस्य वैकल्यकरम् न्यूनातिरेकानुष्ठितिस्तदर्थमिति तत्निवृत्त्यर्थं या प्रायश्चित्तशुद्धिस्तस्यै ॥

212

अथ विद्यातत्त्वे तु होतव्यं शतमष्टोत्तरं प्रिये ॥ २१२ ॥

तच्च उपांशूच्चारयोगेन विद्यातत्त्वे तु होमयेत् ।

Page 137

213

पूर्वोक्तया विद्यया इत्यन्नैव । मायान्ते विद्या करणरूपा भगवतः; - इति वकुमाह

सदाशिवान्तमध्यानं विद्यातत्त्वं विनिर्दिशेत् ॥ २१३ ॥ ज्ञानक्रियात्मा शक्तिः शिवस्य कारणं तदू- पश्न सदाशिवः; - इति तदन्ता विद्यातत्त्वस्य व्याप्तिः ॥ २१३ ॥

214

अथ न मन्त्रोचारविलोमेन प्रायश्चित्तं तु यद्ध्वेत् । तद्विशुद्ध्यै स होमः स्या- द्विद्यातत्त्वे तु यः कृतः ॥ २१४ ॥ अत्र तु प्रणवनिष्क- लाकुलाचार्यदीक्ष्यस्य विद्यातत्त्वप्राप्तसदाशिवा- न्ताच्वशुद्धौ मन्त्रोचारवैलोम्यशुद्धिरस्तु स्वा- हेति प्रयोगः ॥ २१४ ॥

Page 138

215

अनन्तरम् । मनोविज्ञानवैकल्यात् प्रायश्चित्तं तु यद्वदेत् । तच्छुद्ध्यर्थं शिवे तत्त्वे मूलमन्त्रेण होमयेत् ॥ २१५ ॥

215

मानसेन प्रयोगेन मनोविज्ञानं भावना, शिवतत्त्वमुक्ततत्त्वापेक्षयात्र प्रमातृरूपम् ॥ २१५ ॥

एतच्च शक्त्यन्तेऽध्वनि संस्थतम् । 'शक्त्यन्त' समनान्तमुक्तीर्य शिवभद्र-कस्य तावद् व्याप्तिकत्वात् ॥

अथाशेषवन्‍धभित्तेर्‌मुण्डान्तोर्ध्ववाहिन्या: प्राणशक्तिर्‌धोवाहारमकन्धकत्वोपशमाय तद्-नुकारिण्या: स्थूलदेहगताया: शिखायाइच्छेद-मादिशति

१. ख० पु० तद्रुद्धचै इति पाठ: ।

Page 139

216

तत्त्वत्रयविशुद्ध्यन्ते शिखाच्छेदं तु कलपयेत् । कथम् च अध्वान्तरस्थां परां शान्ता- मनौपम्यामनामयाम् । व्याप्तिनीं सर्वतत्त्वानां सर्वकारणकारणम् ॥ २१७ ॥ ज्ञात्वा शिशोः शिखायां तु पुष्पाग्रे जलबिन्दुवत् । अध्वानोऽन्तेऽत एवाविद्यामानध्वान्ते पैदे च स्थितां परां शान्तामिति शान्त्यतीतां सर्वो- पाधिक्षैण्यादनामयामकलङ्कां षण्णामपि कार- णानां कारणं शिशोः शिखाग्रे ध्यात्वेति संगतिः ॥ २१७ ॥ किं च कर्तरी शिखयामध्य शिखया च्छेदयेच्छिखाम् २१८

Page 140

218

शिखयेत नैष्कलेन शिखामन्त्रेण । इह विशेषाभिधानात्रिवीजसवीजदीक्षाद्यविषयशिखाच्छेदनं न तु निर्वीजायामेव ॥ २१८ ॥

219

अथ दिक्षां सम्प्र्य चान्यस्य निर्गच्छेत्स सशिष्यस्य । तत्र च ज्ञाने समाचरेच्छिष्य: छिन्नशिखत्वात् । तत्स्पर्शान्तु गुरोराचमनं भवेत् ॥ २१९ ॥

220

स शिष्यसंपर्कत्वात्परश्रायग्रहणाय वा ज्ञानमुदूनं वाथ आचरत्स्वेच्छया गुरु: । तत्र: प्रविश्य सकलीकृत्य आत्मानम् । पूर्णया जुहुयाच्छिखाम् ॥ २२०

Page 141

220

उक्तग्यात्प्राणशक्त्यनुकारिणीम् । अत्र च पूर्वसंवादितः पाशहोममन्त्रः प्रयोक्तव्यः इत्यं च हुत्वा निगम्य चाचम्या- क्षाल्य सुकृत्सुवक्त्रीः । प्रवेश्य सकलीकृत्य शिवहस्तानुपूजनम् ॥ २२० ॥ कुर्वीतेऽर्थः ॥

221

ततस्तु मण्डले पश्चा- त्पूजयेत्परमेश्वरम् । पुष्पादिभिरशेषैस्तु ततः विज्ञापयेच्छिवम् ॥ २२१ ॥

222

भगवन्स्वात्मप्रसादेन अध्वषटकयवस्थितम् । परं संगृह्य संशोध्य शिखाच्छेदावसानकम् ॥ २२२ ॥

१ ख० ग० पु० निर्गलेऽतिपाठः । १८

Page 142

223

त्वन्मुखोक्तविधानं तु लेशतो वर्तितं मया । ग्रहणं प्राशस्त्रान्वदेहान्त । संशोधनं मलेभ्यः । वर्तितं संपादितम् ॥ २२३ ॥

224

किंच शिष्यमिष्टं धाम लभघितुं मया त्वच्छक्त्यैव तु गन्तव्य- माशु ध्रुवपदं शिवम् ॥ २२४ ॥

224

एककारो निरपेक्षः शक्तिपात एवंात्र प्रभ- वर्त्तीति ध्वनति । एतच्च पञ्चमपटलान्ते निर्णय्यामः । ध्रुवपदं सप्तमं परमशिवस्थानम् ॥२२४॥

तदर्थमेव इदानीं योजने कर्म आरभ्यते । ततोज्ञ तवाज्ञानुविधायिनः । आज्ञा मे दीयतां नाथ शिष्यं संयोजयाम्यहम्॥२२६॥

Page 143

२३७ श्लो] श्रीक्षेमराजाचार्यंकृतोऽनुत्तरालोकव्याख्याटीकोपेतम्। १३९

तवाझेति

‘दीक्षणीया्स्त्वया शिष्या:'

इत्यधिकारावसरे प्राप्ता ।

अथ

लभ्धानुज्ञातमात्मानं

आज्यालाभयुक्त्यैव रुद्रशक्तिसमावेशात्

प्रहष्ट्रो निर्गत: पुरात्।

अर्घहस्तो ब्रजेदग्रिम्

पुरादिति मण्डलक्षेत्रात्।

२३६

अथात्र

२३६

शिष्यमाहूय प्रोक्षयेत्

प्रोक्षितस्य

पूर्ववच्चासनस्थस्य

सकलीकरणादिकम् ।

अन्तःकरणाविन्यासं

नाडीसंधानपूर्वकम्।

२३७

कृतवा

Page 144

240

पूजनं तर्पणं चात्रो मन्त्राणां च शिवस्य च । कार्यत् । तर्पणं मूलमेकस्या वक्त्राख्यनाम् ॥

241

दशभागविभागेन नचात्र द्रव्येतानियम इत्याह यथा द्रव्यानुसारतः ॥ २४८ ॥

241

यथाद्रक्ष्यति 'तिसः पञ्च दशैका वा तिलैर्वाथ घृतेन वा ।' (ख ४१४५) इति ॥ २४८ ॥

अथ ये निष्कलस्वरूपनिमजनन सकलतामुनमज्य भगवतोऽन्तरङ्गशक्तिरूपा वक्त्रइमन्त्रा भेदप्रथोत्थापनन चिदात्मना संशुद्धस्वापादने ऽधिकृतास्तान् मन्त्रान्संशोधयेत्पश्वा-त्सकलीकरणे स्थितान् । सकृदाहुतियोगेन

Page 145

२३० ख०] श्रीक्षेमराजाचार्यविरचितोदीयोतसटिकोपेतम। १४१

मूलमन्त्रेणवेतरमन्त्रैरुद्दीरिति निश्चितमतः प्रणवविश्कलोचारपूर्वं हृदयैकं जात्यन्त्रमुचार्य 'भगवन् दीक्ष्यस निष्कलशुद्धधामप्रथापरो भव स्वाहा' इति प्रयोगेन निष्कलधामविश्रान्तभावनयाहुतिं दद्यात् ॥

तत एतानिदं श्रावयेत्

२२९

अधिकारो विवर्ज्यताम् सकलीकरणत्वेन न कदाचित्पशोः पुनः । सकलीकारो भवन्द्रि: कार्य इति शेषः २२९ एवं दीक्ष्यस्य मन्त्रैकादशिकाशुद्धिमितिकर्तव्यत्वेनोक्त्वा देवीमाह भगवान्

२३०

योजनीयं प्रयोगं तु अधुना कथयामि ते ॥२३०॥ योजनायै हितं योजनीयं, प्रकृष्टं योगमितिकर्तव्यतारूपं प्रयोगं चाधुना नि:शेषपाश-

१ ख० पु० विसृज्यतामिति पाठः । २ ग० पु० हृदिमपि कर्तव्यतवे-नेति पाठः ।।

Page 146

230

क्षपणेजाते सति ‘ते’ इत्यनुग्रहैकप्रवणतया भगवत्या ऐकस्याः परस्याः शक्तेर्योजनायां शक्त्यैः कथयामि विमर्शपदं लम्भयामि-स्थथः ॥ २३० ॥ अस्य चाभ्यस्तज्ञानयोगदुश्चरप्रवरसाध्यत्वमिति दर्शयितुं, महता पीठिकाबन्धग्रहणेन योजनोपयोगि प्रमेयत्रयोदशकं सदुरूणां हृदयंगमीकृत्य निर्निमितुमुदाक्षपति परमेश्वरः जीव्वा चारिप्रमाणं तु प्राणसंचारमेव च । षड्धाध्वविभागं तु प्राणेकत्र यथास्थितम् ॥२३१॥ हंसोचारं तु वर्णेश्र कारणत्यागमेव च । शून्यं समरसं जेयं त्यागं संयोगमुद्रेवम्॥ २३२॥

Page 147

233

मेद्नं च पदार्थानां भावप्राप्तिविशात्पुनः । आत्मविद्याशिवचर्यास्ति-मेवं ज्ञात्वा तु योजयेत्

इह 'तस्मिन्युक्तः परे तत्त्वे सर्वज्ञादिगुणान्वितः । शिव एको भवेदेवि अविभागेन सर्वतः ।।' ( स्व० ४१४०१ )

इति भाविनीया परमैश्वर्याप्यात्मा योजना पुयेष्टकाहन्ताप्रशान्त्यैव गुरोः कर्तव्या । पुयेष्टकं च प्राणाश्रयं शून्याश्रयं च स्वप्नसौषुप्तयो-स्थथा निश्रयादिति प्राणशून्यपदयोः प्रशम-नीयत्वे चारस्य प्राणवाहस्य देशकालाभ्यां प्रमाणमद्रयं ज्ञातव्यं, तत्रापि चारोहारो-हरूपसंचरणं ज्ञातसंचारस्य ततस्तथोक्तदृननीय-समस्ताध्वपरिज्ञानमपयोगि अध्वोद्धनमपि ऊर्ध्वानदनात्मकहंसोचारपरिज्ञानात्, तदुचारो द्विधा स्वाभाविकः प्रायणिकश्रेति, प्रायणिके तसिन् नैष्कलैरकारोकारादिभिर्वैणैः कार-

Page 148

144

णानां ब्रह्मादीनां त्यागोऽपि जेयः, चकाराद्दुचितकालत्याग इहानुदिष्टोऽपिे वक्ष्यमाणो ज्ञातव्य एव; प्राणवच्च शून्यमपि प्रशमनी-यत्वाज्ज्ञेयमेव परभैरवैक्यात्मयो जानं च मन्त्रा-त्मनादिसामरस्याप्तिपूर्वकं, सामरस्यज्ञानं साम्यज्ञप्तिपूर्वकमिति साम्याल्मविशुवत्स्वर्-ूपमपि भविष्यति, आकाराद्युन्तमनान्तं द्वाद-शविधं जेयमपि मन्त्रोच्चारादृतया जेयमेव, त्यागाय चैतज्ज्ञेयमिति त्याग उक्तः; स च तत्त्वदर्शयोगपूर्वकः तद्रहस्यालोचने चोद्भवो-रोहावमोऽवपि ज्ञातव्यः; यावच्चैषां ग्रन्थीनां भेदनं न वृत्तं न तावत्तत्यागेनोद्धवोऽव्दवो घटते भेदनं च ज्ञानयोगाभ्याम् । यद्रक्ष्यति 'भेदयेज्ज्ञानशूलेन.................१' (ख० । ४३३४) इति । तथा 'भेदयेनमन्त्रशूलेन मुद्राभावयुतेन तु ।' (ख० । ४३५६ ) इत्यादि । तत् भावस्य हृदारुढप्रतिपत्त्यात्मन्-स्तत्तच्च्छन्दाच्चानुभवातमनश् वक्ष्यमाणस्य प्रा-

Page 149

233

सिवशास्त्रवति । एवमियजज्ञानपूर्वं प्राणे शून्ये च प्रशमितेऽपि आत्मतत्वसैतावदुत्तीर्णा शुद्धात्मदशानुभवरूपा, विद्यातत्त्वस्य चोन्मनाविश्रान्त्यात्मा, शिवतत्त्वस्यापि च परतत्त्वसमावेशरूपा व्यासिरवइयं श्रेयेति, इयत्प्रमेयपरिज्ञानमागमतोडनुभवतश्र योजनायामुपयोगीताशयेनात्र वाक्ये ज्ञात्वेति द्विरुपाचम् ॥ २३३ ॥

234

यथोदीष्टं निर्गंतुमाह तद्विभागं प्रवक्ष्यामि यथा ज्ञायेत तत्‌वतः । विभागो विभजनमसाधारणेन रूपेण विवेचनलक्षणम् । प्रकारभेदकथनमपि यथासंभवम् । तं क्रमेणाह षट्त्रिंशद्‌द्रुलश्वारो हत्पद्माव्यावशक्तितः ॥ २३४ ॥

Page 150

235

अथ प्राणसंचारमाह संचरन्तं विभागेन यथावत्तं श्रृणुष्व मे॥ २३५॥ तथिति प्राणं ताल्वादिस्थानानुसारिणा विभागेन यथावत्स्वानुभवसाक्षिकं सम्यक् च-रन्तं शृणु कथितमन्तर्निभालय ॥ २३५ ॥

236

हत्पद्माद्यावदयनं भागमेकं त्यजेतु सः । नासिकाग्रे द्वितीयं तु शक्त्यन्ते तु तृतीयकम्॥२३६॥

Page 151

२३७

तत्स्थो विनिवर्तेत । यावत्तत्त्वं न विन्दति । विदिते तु परे तत्त्वे तत्स्थोऽपि न बाध्यते॥२३७॥

एतच्छक्तिप्रक्रियया मन्त्रोदयस्थानाझृत्पज्ञात् प्रभृति । अयनमिति कालाधिकारवक्ष्यमाणया ‘प्राणे दिनोदय’ इति स्थित्या प्राणादित्यस्य मध्याह्नगताश्रयं तालुस्थानमष्टादशडुलान्तमिह विरोक्षितम् । तच्च मध्याह्नध्यान्तमकं रुद्रस्थानं दुर्भेदमित्यशिक्षिततदनुप्रवेशस्य तु मध्यनाड्या नासिकाग्रं भ्रूमध्येऽश्वरं स्थानं प्राप्नोति, एवमप्यभिन्नभ्रूगन्धेस्तस्मिन्नासिकाग्रे । द्वितीयमिति षड्जुलं भागं त्यजेत्, तत्प्रवेशमनासाद्य पार्श्वनाडीद्वयेन यावच्छिक्षिततदनुप्रवेशस्य तु शक्तिमन्तमाश्रयति, तथाप्यस्वीकृतशाक्तबलस्य शतनन्ते तस्मिस्तृतीयं भागं द्वादशाङ्गुलं त्यजेत्, तत्रान्तरतस्य ब्रह्मरन्ध्रेणाधः प्रसरेऽतदेव

Page 152

137

तत्रस्थैर्यादिना श्लोकार्थेनोक्तमत एवासादितशाक्तबलः समग्रग्रन्थिसंचाराभिज्ञः परस्मिस्तत्त्वे विदिते । तत्रेत्युक्तेषु ग्रन्थिस्थानिष्ठापि स्थितो न बाध्यते न देहादिप्रमातृतावैचित्र्यमेतीति यावत् । अतश्व परतत्त्वज्ञसिपर्यन्तं प्राणसंचारशिक्षणीय इति पिण्डार्थः ॥ १३७ ॥ अत्रैव संचारेः पारिभाषिकी संज्ञा उद्घाटयति

138

शक्त्या चाधो यदा गच्छेद्-दबुधस्तु तदा भवेत् । शक्तिपर्यन्तेऽपि पदे लब्धे तत्त्वे डनारोहान्त । यदा तु तदारोहाय हृद्र्र्तः पुनरुत्थिते- हुद्यमानः स उच्यते ॥१३८॥ ततश्व शक्ति प्राप्य बुधो जेयः

Page 153

239

तत्तोडपि शाक्तबललाभात् तत्त्वारोहयुक्तिज्ञस्य व्यापिन्यंशे प्रभुद्धता । यदा तु तत्तोऽध्युच्चेमारोहाति तदा समनापर्यन्तमशेषमध्यानम् अतीतः सुप्रबुद्धस्तु परतत्त्वानुलाभात् । अबुद्धरूपतैवति केचित् तदसत् तस्येह प्रकारणिकत्वेऽपि सुप्रबुद्धैकरूपत्वात्, अन्यथा गुरुत्वायोगात् । अस्य च उन्मनस्त्वं तदा भवेत् ॥२३९॥ मनःसंस्कारस्यापि क्षयात् ॥ २३९ ॥

240

किंच न कालो न कला चारो न तत्त्वं न च कारणम् । सुनिर्वाणं परं शुद्धं गुरुपारम्परागतम् ॥ २४० ॥

Page 154

१५०

तद्धिदित्वा विमुच्येत गत्‍वा भूयो न जायते । कालस्तुच्यादि: पराधोन्तः, कला नित्‍व- स्यादिका, चारः प्राणवाहः, तत्त्वं पृथिव्यादि, कारणं ब्रह्मादि, सुनिर्वाणमिति पराद्यमय- स्वात् अत एव परं शुद्धं शुद्धाशुद्धसदाशिवादि- पदादिप्रकर्षात गुरूणां परम्परैव पारम्परं परमैरवतच्छक्तिसदाशिवेशानन्तश्रीकण्ठादि- रूपं तत् आगतम् । विधित्वेति अनुभवः, विमु- च्यते इति जीवन्नेव विमुक्तः स्यात्, गत्‍वैति देहान्ते तदैकात्म्यमेति ॥

२४१

अथाष्‍टधविभागमाह अध्‍वषट्‍कं यथा प्राणे संस्थितं कथयामि ते ॥ आपादान्मूर्धपर्यन्तं चितेः संवेदनं हि यत्‌ ।

Page 155

242

भुवनाध्वा स विज्ञेय-स्तत्त्वाध्वा च तथैव हि॥२४२॥

ईह तस्य भावस्तत्ननात्तत्त्वमिति व्युत्पत्त्या निरुक्त्या च विशेषनिष्ठः सामान्याभासः शरीरसुवनभावविरचनाहेतुः तत् त्वम् तदाभोगः शरीरसुवनादिर्यथा देहमृद्रुरूपाषाणादौ काठिन्याभासः पृथिवीतत्त्वमेव मन्यत्। सामान्याभासश्व चिद्दृत्तौ भाति परचिद्दूमौ च सर्व चिदेकरसमिति न कोऽपि विभागस्तत् प्राक् संवित्प्राणे परिणता इति न्यायात् प्राणसंकोचिन्यास्तस्याः प्राणत्वारोहेण देहमध्यशुवानायास्तत्त्वप्रतिभासरूपं स एव तत्त्वाध्वा घटते इत्यभिप्रेत्यापादानूर्ध्वान्तं यच्‍चते संवेदनं तत् तत्काठिन्यादिप्रतिभासरूपं स एव तत्त्वाध्वा सुवनाध्वा चेष्ट्युक्तम्। तत्त्वसत्तयैव च सुवनसत्तापि सौक्ष्म्येणानुमीयते। प्राणचारो हृदयाच्छत्तनं षट्त्रिंशद्‌जुल उक्तः। अध्वषट्कविभागस्तु प्रा-

Page 156

152

नैकत्रेति समस्तदेहव्यापिसूक्ष्मप्राणमात्र एवोध्दिटो नतु प्राणचार इत्यापादादित्यादिकयुक्तैकोक्तिः। तत्त्वानां चोदे शान्ते श्रीमतत्त्वेऽप्युकम्‌ ॥ 'तत्त्वं वस्तुपदं व्यक्‍तं स्फुटमात्रायादर्शनेनात्‌ । तत्‍तमतैतन वा यस्मात्तत्‍तत्त्वं तत्‍संततौ ।।' इति । तथा 'शिवाद्वनिपर्यन्तो योड्यमध्येातिविस्तृतः । स समस्तस्थितो झेयो नाशिवत्वादिमुच्यते ।।' इति ।। 242 ।।

243

प्राणे कलाध्वस्थितिमाह कलाकलितसंतानः प्राणः संचरते सदैव । कलाभिः कलितो व्याप्तः सन्तानः प्राणवाहो यस्य ।। अस्य हि निवृत्तिश्व प्रतिष्ठा च अधोभागे प्रवर्तिंके ।। 243 ।।

Page 157

विद्या शान्तिस्तथा चोद्वे शान्त्यतीता त्वधिष्ठिता ।

'आ पादादिमूर्धपर्यन्तम्' इत्युक्त्वा समस्तदेहव्यापी सामान्यप्राणणारूपः प्राण उदीष्टो यस्य प्राणापानाद्यात्मिका विशिष्टा वृत्तयः, तत्तोदधोभागप्रवर्तिके इत्यादिकं संगतमेव । ये तूर्ध्वाहिप्राणाश्रयमेतत् इलयमिप्रायेण अधोभावप्रवर्तिके इति पठित्वा अधोभागे प्रवृत्तिरवस्थितिरविद्यते ययोरित्यादि श्लिष्टं व्याचक्षते, तेषां शक्त्या चाधो यदा गच्छेदिति (४२३०) पूर्वोक्तं विस्मृतं, जडस्य च शक्त्यात्मककलाद्यापक्त्वमुक्तं नतु विपर्यय इत्यस्तामेतत् । एवम्प्रायं व्याख्यानं बहु अस्मज्जं टीकाकृतामस्ति तत्त्वयमेवान्वेष्टव्यं ग्रन्थगौरवभयात् प्रतिपदं नोन्मीलितं कियन्मात्रं तु दर्शितम् ॥

हेयहान्या शिष्याणामुपादेये धीः प्ररोहत्विति कलातीतं पदं निरूपयितुमाह ।

Page 158

244

तद्र्तीतः परो भावः शान्त्यतीतामपि अतिक्रान्तः शुद्धात्मद-शारूपः खभाव इत्यर्थः । अत्र एवोन्मनापरतस्वात्मकशक्तिशक्तिम-त्सामरस्यात्मकम् तदूर्ध्वे पदमवययम् ॥ २४४ ॥

244

यत्रप्रस्र्यर्थमियान् शास्त्रसंरम्भः । प्राणे नित्य्यादिकलास्थितिमुक्त्वा मन्त्र-कलास्थितिमप्य्याह एवं बिन्दुकला झेया नादशक्त्यात्मिका या । व्यापिन्याद्यात्मिका याश्र व्याप्यव्यापकभेदतः ॥ २४५ ॥

245

प्राणैकसंस्था सर्वा अकारोकारमकारात्मानः कला प्राणै सर्वैरुचरन्त उपलभ्यन्ते, यास्तु बिन्द्वाद्या समनान्ता क्रमेण व्याप्यव्यापकभावेन सिथ-

Page 159

ताः ताः सर्वाः प्राणे स्थिता जेयाः प्रयत्नेनानु-

भवितव्याः। बिन्दुनादव्यापिनीनां तिष्ठनां

प्रधानतया इह उद्देशोर्धचन्द्रादिशक्तीनां

यथायोगमतदन्तभूतत्वेन प्राधान्यात्।

अंत एव

पट्‌ऌत्यागात्सप्तमे लयः।

२४६

सर्वोपलभ्या आकारोकारमकारकला;, योग-

गम्यास्तु बिन्दुनादव्यापिन्य इत्यासां षण्णा-

मपि त्यागत्परमयोगिनां सप्तमे परशक्तिमति

परतत्त्व एव 'लय' विश्रान्तिः कार्यो।

एतदुपसंह्र्यान्यदवतारयति

कलाध्वैवं समाख्यातो

वर्णाध्वानं निबोध मे ॥२४६॥

२४७

तमाह

वर्णाः शब्दात्मका; सर्वे

जगत्यासिंश्वराचरे।

स्थिताः पञ्चाशता भेदैः

शाक्तेष्वानन्त्यकोटिषु ॥२४७॥

Page 160

248

शब्दात्मप्राणः समाख्यात-स्तस्मादर्णास्तु प्राणतः । उत्पघन्ते लयं यान्ति यत्र शब्दो लयं गतः ॥२४८॥

आनन्त्येन कोटिसंख्येषु शब्देषु पञ्चाशता भेदैर्मातृकारूपैः 'चरे' जदृमे वागवति 'अचरे' चान्तःसंज्ञे स्थावरे तत्त्वद्रव्यात्मकवाच्याक्षराभिधेयके वर्णाः स्थिताः, ते च 'शब्दात्मका:' शब्दादिरूपाः, शब्दोऽपि प्राणात्मको ध्वनिस्वरूपः प्राणोदित एवास्माद्दृनिरूपाद्दणो जायन्ते, यत्र च शब्दात्मा प्राणो लयं याति तत्रैव वणौ लीयन्ते, -इति प्राणनात्मनि प्राण एव वर्णीध्वा स्थितः ॥ २४८ ॥

यतश्व वर्णानां प्राणस्य चैकत्र लयस्ततः शब्दात्मतत्त्वनो वरारोहे तत्त्वेन सह युज्यते । युक्तः सर्वगतो देवि धर्माधर्मविवर्जितः ॥ २४९ ॥

Page 161

नाधो निरीक्षते भूमः

शिवतत्त्वं गतो यदा ।

तत्केन परमशिवेन सह ‘युज्यते’ ऐक्यमेति,

अत एव सर्वगतो ‘धर्माधर्माभ्यां’ प्राणा-

पानाभ्यां शुभाशुभाभ्यां च रहितः। अध इति

इदन्तारूपो भेदः । यदेति यतः ॥

२५०

एतदुपपादयति

अधो वै यात्यधर्मेण -

धर्मेणोर्ध्वं ब्रजेत्पुनः ॥ २५० ॥

विज्ञानेन ह्रयं तत्त्वा

सर्वगस्तु भवेदिह ।

अधर्मेणाशुभेनाधः स्थावरान्तमपानात्म-

देहभूमिं, धर्मेण शुभेन देवतोन्यादितां,

प्राणात्सना तु शक्त्यन्तं ब्रजति । एतद्‌दयं तु

विशिष्टेन शिवैक्यात्मगिमर्शात्मना ज्ञानेन

तत्त्वा इहैति देहावस्थितोऽपि सर्वगः शिवो

भवति ॥

१ क० पु० निरीक्षित इति पाठः । २ ख० पु० अपानानात्मेति पाठः ।

Page 162

251

वर्णाध्वैवं समाख्यातः अथ पदाध्वा प्रोच्यतेऽधुना ॥२५१॥ एकाशीतिकपदान्येव विद्याराजस्थितान्यपि । वर्णात्मकानि तान्यत्र वर्णाः प्राणात्मकाः स्थिताः

तस्मादेवं पदान्यत्र तानी प्राणक्रमेण तु । एकस्मिन्नपि विद्याराजे नवात्मन्येकाशीति-पदानि प्राग्विभक्तनीलया यानि स्थितानि तान्यपीदानमेव निर्णयतनीया वर्णात्मकानि, वर्णाश्च प्राणरूपास्तदात्मकत्वात् पदानीम् । पदाध्वैवं समाख्यातः अथात्र मन्त्राध्वानं निबोध मे ॥२५३॥

253

मन्राध्वानं निबोध मे ॥२५३॥

Page 163

254

मन्त्रैकादशिका या तु सा च हंसे व्यवस्थित।। पदैकादशिका सा च प्राणे चरति नित्यशः ॥ २५४॥

'हंसे' मध्ये प्राणे नैष्कल्यवक्राद्रुरूपा 'मन्त्रैकादशिका' स्थिता यस्मात् 'सा पदैक-दशिका' नियोगचक्रनिष्कलकलारूपवविश्रान्त-हेतुबहिर्देवचक्रकारादसमनान्तपदरूपा । निर्ïीतं चैतत्पूर्वमेव ॥ २५४ ॥

255

एतानि पदान्याह । आकारश्व उकारश्व मकारो बिन्दुरेव च । अर्धचन्द्रो निरोधी च नादो नादान्त एव च ॥ २५५॥ शक्तिॐ व्यापिनी चैव समनैकादशी स्मृता ।

Page 164

255

निष्कलनाथेएकारकला याहइयस्ति याहशं चैतत्कलानां रूपं तददूर एव निर्णय्यतेआ२५५। एकादशिकाधा अस्या अध्यात्मतां हृशियतुमाह

256

उन्मना च ततोऽतीता तदतीतं निरामयम् ॥ २५६ ॥ तत इति तां समनामतीता, तदतीतमिति तामुन्मनामतिशयेनतं गतं तदभिन्नम् । उन्मनापरत्वप्राप्तिहेतुत्वात्प्रादुर्भावनामध्वत इति यावत् ॥ २५६ ॥ उपसंहरति

मन्त्रा एवं स्थिता: प्राणे बहिःस्थूलरूपस्याप्यध्वप्रपश्वर्य मौन्रकलोचरणे सूक्ष्मरूपतया मन्त्रोच्चारयिषा मन्त्राविश्रान्तदशायोग पररूपतया मन्त्रोपायक एवोपलम्भो भवतीत्याशायेन पर्यन्ते मन्त्राध्वा निश्रितः ॥ ऋमप्राप्तः

Page 165

257

हंसोच्चारस्तथोच्यते ।

257

तत्राह hकारस्तु स्मृतः प्राणः स्वप्रवृत्तो हलाकृति: ॥२५७॥ yोयं हलाकृतिरनच्को हकारोऽनाहत-ध्वन्यात्मा

'खयमुच्रते देवि........1' (ख० ७५८) इति भाविनीया स्वप्रवृत्तः 'नादाख्यं यत्परं बीजं................1' इति तत्रान्तरोकहशा सर्वस्य स्वतः स्फुरन् स एष प्राणः प्राणनापरपर्यायो जीवः स्मृतो गुरुपारम्पर्येणाविच्छेदेनाधीतः । अथ च ध्वनि-भेदानुसारेण हलाकृतिरेषं विश्वं गर्भीकृत्य कुण्डलिन्याकारः प्रसृतसृजगरूपः । 'स्वप्रवृत्तः' इति ख्यमेव नादाम्शरूपतां निमज्ज्य प्राणा-रमकं रुपमविशेष स्थितः । यतः परमेशी बोधाख्या शक्तिर्विश्वं गर्भीकृत्य परा कुण्डलिका सती विमर्शरूपतया नादात्मवर्णकुण्डलिका-

१ ख० पु० दिशेति पाउ: । २११

Page 166

257

तस्मिन् स्फुरितवांन्तर्निमज्जितैतत्स्वरूपा प्राणकुण्डलिकात्मैतया भातीयाम्र्रायाः । एवं च न्याख्यातरूपः प्राण एव हंस ऊर्ध्वमधश्च खरसतेन वहन् हानसमादानधर्मकहकारसकारविमर्शरूपतया स्फुरणात् ॥ २५७ ॥

258

अथात्रैव वर्णः कारणस्यागं निर्गेभ्यन् वर्णोच्चारं तावन्निरुपयति । आकारेण यदा युक्त उकारचरणेन तु । मकारमात्रया युक्तो वर्णोच्चारो भवेत्स्फुटः ॥२५८॥

योऽयं नादात्मनो हंसस्य निलिप्रवृत्त उच्चारः स एव स्फुटो वर्णोच्चारो भवति, कथंकारणान्चहकारस्याभिव्यक्तिहेतुना शिरोरूपेण यदा युक्तस्तदा उकार एवंोधःसंचारकत्वाच्चरणरूपस्तेन तथा विन्द्वादिप्र-

Page 167

258

यासूत्रकानुसाररूपमकारमात्रया यदा युक्तः, ईदृशो हि उत्तरणसौ सर्वैरुपलभ्यते ॥ २५८ ॥

अथ च बिन्दुः शिरःसमायोगात्सुख्वैरतवं प्रपद्यते । उत्तरोपो वर्णोचार एव योगिनां भूमध्येऽकारादिमात्रात्रयस्वीकृतानिशेषभेदसंपीणिडतताविभागवेदनात्मकबिन्दुरुपतामाश्रित्य शिरःसामयोगादिति शिरसि ललाटस्थे प्रधाम्यद्धेवप्राधान्चेन्द्रचन्द्रे प्रशान्तवेद्यप्रधानतया ऊर्ध्वन्मुखैत्त्वेन स्पष्टरेखात्मनि अयोगिनो नादपथैःप्रवेशरोधकत्वान्निरोधिकासमाख्ये सम्यगसमन्तात योगान्नतत्पदारोहात सुख्वैरतवं गुणीकृतवैभेदप्रधाने श्वरपदं समस्तवाचकविभेदविमर्शप्रधानान्नादनादान्तभूमीं गत्वातीर्थः ॥

१ ग० पु० सखररमिति पाठः । २ ख० पु० उन्मुखेति पाठः । ३ ख० ग० पदेति पाठः । ४ क० पु० ससररमिति पाठः ।

Page 168

259

अतश्रेयत्पदमारूढस्य नादोङ्कस्य वदनं प्रोक्तः । यतः प्रोक्तनीत्यानहृतध्वानिपरमार्थोङ्कयं हंस- स्ततो वर्णोञ्चारात्मतादशायामपि ललाटमध्ये नाद एवास्य वदनमिव वदनं मुख्यमध्रुम् ॥ युक्तं चैतयत् वदनं शब्दमीरयेत् ।

260

नादरूपं वदनं कर्तृ शब्दं नादान्तात्मान-मीरयेद्ह्ररनन्ध्रतले प्रेरयेतदूपपत्या स्फुरेत् । न केवलमेवमयं नादात्मा प्राणः शिरो-वदनचरणयुक्तो नदन्न् हंस इत्युक्तो यावत् अननेनैव च योगेन हंसः पुरुष उच्यते । ब्रह्माविष्ण्वीशमार्गेण चरनेै सर्वजन्तुषु ॥

Page 169

पुरुषः क्षेत्रज्ञोऽनेनैव मध्योर्ध्वमार्गारोहणत्मना यौगेन सर्वजन्तुषु हत्कण्ठठामध्यलाटमार्गेण प्रसरणन्धर्भूमिहानोर्ध्वपदसमादानरूपो हंस उच्यते । वक्ष्यति चाग्रे

'शिवो धर्मेण हंस्तु सूर्यों हंसः प्रबन्धतः ।' (स्व ७ । २९)

इत्युपक्रम्य

'आत्मा वै हंस इत्युक्तः प्राणो हंससमन्वतः ।' (स्व ७ । २९)

२६०

इति । एतच् ततत्रैव व्याख्यास्यामः ।। २६० ।।

एवं नादान्तरुपतां गृहीत्वा शक्तितत्त्वे लयं याति

नादान्तरुपतां प्रशमध्यानन्दस्पर्शास्पत्मतां ब्रह्माबिले श्रयति ।।

ततोषि शिवपदसमाविविक्षावष्टम्भात्मना विज्ञानेनोर्ध्वतां ब्रजेत् ।

कथम्

२६१

व्यापिनीं समनां तत्त्वा ब्रजेदुनमनया शिवम् ।। २६१ ।।

Page 170

261

शक्तौ स्पर्शमनुभूयोर्ध्वप्रवेशयुक्त्या व्यापिन्यां त्वक्केशपदे व्याप्तिं लबध्वा तदूर्ध्वे शिखाकेशस्थाने सामनसे पदे मन्तव्याभावान्मननमात्ररूपतया स्थित्वा ततोऽन्यूनो हंस: शुद्धात्मरूपो मननोल्लयितस्वभावो युगपदर्शेविच्छाभेदप्रकाशात्मकोन्मनाशक्त्याश्रयेण शिवं ब्रजेच्चिदानन्दघनपरमैरवसमापत्तिं श्रयेत् ॥ २६१ ॥

एवं च शिवतत्त्वगतो हंसेन चरन् शिवाख्यं तत्त्वं परमशिवो न चरेन्न संकोचेन प्रसरेत् ॥

अपि तु व्यापको भवेत् ।

शिवादिक्षित्यन्ताशेषविश्वात्मना तदुत्तीर्णेन च रूपेण स्फुरेदित्यर्थ: ॥

Page 171

१६७

उपसंहरति हंसोचारः समाख्यातः कारणेश्व समन्वितः ॥१२६२॥ कारणैर्ब्रह्मादिभिः, चकारादकारादिवर्णैःस्तुगत्या संभवद्भिः सम्यगन्वितो मिश्रितः ॥ इदानीं वर्णः कारणत्यागं निरूपयति, तत्र हकारः प्राणशक्त्यात्मा प्राणशक्तेरात्मोन्मोक्षस्थिया जीवितरूपः । एतस्य शिरोरेखात्मा आकारो ब्रह्मवाचकः । हृदि त्यागो भवेतस्य वाक्कोचारणान्त इति यावत् ॥ एवंमुत्तरत्र उकारो विष्णुवाचकः ॥१२६३॥ कण्ठे त्यागो भवेतस्य मकारो रुद्रवाचकः । तालुमध्ये व्यजेतं तु

Page 172

264

त्यजेदिति कर्तृप्रत्ययस्तुशब्दद्व रौद्रग्रन्थ्युस्नबनेदधातव्यमिति सूचयति । विन्दुशैवेश्वरः स्वयम् ॥२६४॥

265

अभेदोक्त्याकारादिवदितः । प्रभृति न पृथग्वाच्यवाचकतेति दर्शयति । त्यागस्तत्र भ्रुवोर्मध्ये विधीयते इत्युत्तरस्यं संबध्यते । अर्थचन्द्रनिरोधिकान्तासैव ध्यासीः । नादे वाच्यः सदाशिवः । तदभेदेन विमृश्येल्यर्थः ॥ ललाटान्मूर्धपर्यन्तं त्यागस्तस्य विधीयते ॥२६५॥

नादस्यैव नादान्तान्ता व्यासिर्विधीयते योगिर्fिधने क्रियते ॥ २६६ ॥

अथ या: सूक्ष्मानुभावगम्या: शक्तिन्यापिनीसमन- स्तासां वाच्य: शिवोऽव्यय: ।

Page 173

२६७ श्लो॰]

सदाशिवापेक्षयायमनध्ययः परमशिवापेक्षया तु सध्यय एव ॥ मूर्ध्नध्ये त्यजेच्छक्तिं तदूर्ध्वं व्यापिनीं त्यजेत्॥२६६॥ व्याख्यातस्पर्शानुभवोऽनते इत्यथमेवं व्याख्यातम् ॥ २६६ ॥ मननमात्ररूपानुभवान्ते समनान्तदूर्ध्वं त्यजेदित्येवम् ॥ एवमियदध्वातिक्रान्त्या प्राप्तशुद्धात्मस्वरूपस्य योगिनः उन्मनां त्यक्वा षट्‌त्यागात्सप्तमे लयः । भवतीति शेषः । व्याख्यातरुपोनमनाश्र्रयनप्रवेशेन परमशिवभाव एवोन्मनास्त्यागः । एवं च षण्णां ब्रह्मविष्णुरुद्रेश्वरसदाशिवाख्याख्यानां कारणानां त्यागाद्दिशान्तिपूर्वमुढ-

Page 174

267

इनात् सप्तमे परमशिवे लयः समापत्ति-र्भवति ॥ तद्राधिकावापेनोपसंहरति सूक्ष्मसूक्ष्मतरैर्भावै- रेवमेवं त्यजेत्प्रिये ॥ २६७ ॥ स्थूलस्थूलतरैर्भावै- नोंसिद्धिफलप्रदैः ।

267

अत्रोहेत्क्रमोऽथोक्तक्रमवाचकाम्मानो भावाः पदार्था ये वक्ष्यमाणयुक्त्या स्थूल-स्थूलतरास्तत्त्वसिद्धिप्रदाः स्थितास्तैरिवारोह-क्रमेण यथोत्तरं सूक्ष्मसूक्ष्मतरैरुपलक्षितम् । एवमिति सर्वमध्यानम्, एवमित्युक्तयुक्त्यैव त्य-जेत्, तैस्त्यज्यमानैरुपलक्षिताः ये सूक्ष्मसूक्ष्म-तराः आरोहक्रमेण यथोत्तरं त एव तैः करणभूतैरेवमिति प्रदर्शितनीत्या एवमिति यथोचंक त्यजेत् । स्थूलानां सिद्धौ सूक्ष्माणां मुक्तौ हेतुरेवमित्यधिकमत्रोपकक्षितम् ॥ २६७ ॥

Page 175

261

तत्र सूक्ष्मोद्यन्तं परो भाव- स्वभावः स विधीयते॥२६७॥

262

परो भावः परा सत्ता परमशिवेऽद्यन्तं सूक्ष्मो विज्ञेयः सर्वकारणं चेत्यर्थः। स चाशेषभावप्रक्षयात्मकत्वादभावः नच स एवेदृग्र्यावत् उन्मना त्वपरो भावः

परभावापेक्षया स्वात्मविमर्शरूपतया किं- चिदौन्मुख्यादुन्मना अपरो भावो महासत्तात्मा सूक्ष्मो भावोऽभावश्रेति समन्वयः॥ स्थूलस्तस्यापरो मतः।

तस्योन्मनाख्यस्य स्वभावस्य यः संवन्ध- तया व्याप्त्यव्यापकरूपतया नतु ततः पृथक्त्वे- नापरः समन्वयस्तदपेक्षया स्थूलोऽकारार्ष- पेक्षया तु सौक्ष्मं सूक्ष्म एवान्यथा सूक्ष्म- सूक्ष्मतरैरिति बहुवचनं न युज्यते॥

१ ख॰ पु० ४८ इति पाठः॥

Page 176

172

तस्यापरं पुनः शून्यं तस्येति समनात्मनो भावसापरं व्यापिनी-रूपं शून्यमशेषभावासृणरूपं महाशून्य-मिल्यर्थः। पुनःशब्देन समनात्मकं तावत् तृणि-शेषभावाभावासृणरूपमेकं शून्यमिदं तु सर्वभावाभावाभासनभित्तिकलं द्वितीयमित्युक्तम् ॥

269

अत एव च संस्पर्शी च तत्परम् ॥ २६९ ॥ शक्तिपदमिल्यर्थात् ॥

ततोडपि शब्दो नादान्तात्मा नादरूपश्च । ततोडपि ज्योतिः व्याप्तानिरोधिकार्धचन्द्रपदो बिन्दुः ।

Page 177

२७० श्लो॥ श्रीक्षेमराजाचार्यवृतोद्योतालोकव्याख्याटीकोपेतम्। १७३

ततो मन्त्रा:

कारणा भुवनानि च ।

मन्त्रा मकारोकाराकारवर्णपरामर्शात्मकानो वाचकाः, तद्वाच्या रुद्रोपेन्द्रब्रह्माणः कारणानि तदाश्रयभूतानि च तत्त्वानि भुवनानि च कमेणात्यन्तं स्थूलतमानीतार्थः ।

तदाह

पञ्चभूतात्मकभुवनं

कारणैः समधिष्ठितम् ॥२७०॥

270

पञ्चभूतादीनि स्थूलसूक्ष्मादिरूपतयात्मकारणं यस्य भुवनस्य । मायाविद्यादिपदेऽपि हि भुवनानि सन्ति नच तत्र स्थूलभूतारुद्राणि, तेषां च सूक्ष्मभूतारुद्रानामपि स्वाधिष्ठातृकारणापेक्षया स्थूलत्वमेव, वस्तुतस्तु एषां भुवनादीनां शिवरूपत्वमेव ।

यथोक्तं यत्र

'भुवनं विग्रहो ज्योति: खं शब्दो मन्त्र एव च । बिन्दुनादादिसंभिन्नः पदविग्रः शिव उच्यते ॥'

९ ख० ५० वर्णा इति पाठः ।

Page 178

270

इति । आरुक्षून् प्रति तु स्थूलस्थूलतरैररि-त्याहुक्तम् ॥ २७० ॥

यदुक्तं 'स्थूला भावाः सिद्धिदाः' इति तत्क्रमप्रातिलोम्येन सिद्धिभेदं विभज्य दर्शयति

भुवनं चिन्तयेद्वस्तु वक्ष्यमाणैकरूपकम् । भुवनेशत्वमाप्नोति वध्यमाणैरुपद्रवम् ॥

भुवनेशत्वमाप्नोति कालाग्र्यादिरुपद्रवम् । यस्तु परो योगित्वादेतद्भुवनं वक्ष्यमाणं

271

विग्रहायापि शिवरूपतयैव पश्यति सः शिवं ध्यात्वा तु तन्मयः ॥२७१॥

शिवस्य च चिदानन्दघनतयैव ध्यानं न त्वकारण । अन्यथा तु ब्रह्मादिकारणानां च साधने विग्रहं स्मरन ।

Page 179

272

पूर्वोक्तलक्षणं यक्षं तन्मयत्वमवाप्नुयात् ॥ २७२ ॥ पूर्वमध्यासननिर्णयावसर उक्तं, यक्ष्रत्र स इत्यध्याहार्य: मन्त्रैश्र मन्त्रसिद्धिस्तु जपहोमार्चनाद्वेत । आराधितैरिति शेष: ॥ अतश्र जपादिना पूर्वमेव ये साधिता मन्त्रा अद्बुद्ब्रह्माद्या: पूर्वोक्तरूपकध्याना-त्सिद्ध्यन्त्र न संशय: ॥२७३॥

273

एषां पूर्वमेव ध्यानं, साधनफलं चाग्रे भविष्यति ॥ २७३ ॥ ज्योतिर्बिन्दु: । योगसिद्धिरतीतादिग्ज्ञानम् ॥

Page 180

174

योगप्रकर्यांतु तन्मयत्वं यदाऽऽप्नोति योगिनामधिपो भवेत् । अधिप इति भगवदीश्वररूपः ॥ शब्दध्यानाच्च शब्दात्मा वाच्यायापूरको भवेत् । शब्दो नादः ॥

175

स्पर्शध्यानाच्च स्पर्शात्मा जगतः कारणं भवेत् । स्फीर्ण आनन्दात्मा शक्तिगतस्तस्याधस्तन- जगत्कारणत्वाज्जगतः कारणामित्युच्यते ॥

176

शून्यध्यानाच्च शून्यात्मा । व्यापी सर्वगतो भवेत् । समनाध्यानयोगेन योगी सर्वज्ञतां ब्रजेत् ॥

Page 181

एवं स्थूलस्थूलतरादिभावापेक्षया सिद्ध्री: प्रतिपाद्य

'सूक्ष्ममोद्यन्तं परो भाव:' (ख० ४२६७)

इत्यादिप्रतिपादितहंशाद्यन्तसूक्ष्मोन्मनापरत-स्वध्यानं मुक्तिप्रदमित्यादिशति

उन्मन्या तु परं सूक्ष्म-मभावं भावयेत्सदा ।

उन्मन्या समवायिन्या शक्त्या सह परं पूर्वोक्तशिवतत्त्वरूपमभावं भावयेत् ॥

अभावं व्याचष्टे

२७७

सर्वेन्द्रियमनोतीत-स्वलक्ष्योङभाव उच्यते २७७॥

सर्वाणीन्द्रियाणि मनश्श्रातितोङतिनिष्कान्त: समनापदादूर्ध्वस्य वेदितृकरूपत्वात् अत एवालक्ष्य:, अतश्श न विद्न्ते वेदादिरूपा:

भावा यत्रेति व्युत्पस्याभाव उच्यते; वस्तुतस्त्वसौ चिदानन्दघन एव ॥ २७७॥

१ ख० पु० दिसेति पाठ:। २ ग० घ० ड० पु० उन्मनेति पाठ:। ३ ख० ग० उन्मनेति पाठ: । २३

Page 182

178

ननु यदयमीदृशास्तक्थमुक्तम् 'अभावं भावयेत्सदा' इत्याराङ्ग्याह अभावं भाव्यं भावेन भावं कृत्वा निराश्रयम् । न विद्नन्ते भावा यस्मिस्तदभावरूपं पदं भावेन परसत्तात्मना चिन्मयेन रूपेण भाव्यं भावनीयम् । ननु चित्तत्वं भावकं तत्कथं भाव्यमुच्यते भावं कृत्वा निराश्रयमिति । भवतां भावः सदाशिवादिः क्षयन्तः तं निराश्रयं निरालम्बनं प्रशान्तरूपतया शक्तिधामानुप्रवेशेन तन्मयीचकृत्य ॥ इत्थं च सर्वोपाधिविनिर्मुक्तमभावं लभते पदम् ॥ १७८ ॥

Page 183

279

कारणत्यागेऽर्थाक्षिसं कालत्यागमाह कालत्यागं निबोध मे। स च तुटिपोडशसंयुक्तः प्राणस्तु समुदाहृतः ॥ २७९ ॥ तस्य च तुटिद्वयं समाश्रित्य एकैको भैरवः स्थितः । द्वितीयावरणनिष्ठः कपालेशभैरवादिः ॥ अभिसंश्र अहोरात्रविभागेन कुर्वन्त्युदयमेव ते ॥ २८० ॥

280

यथाहि प्राणे डष्टाचतुर्नस्येवं रात्रौ अपाने डपि ॥ २८० ॥ एषां व्यापकः नवमस्तु परो देवः पर इत्यष्ठानां पूरकः व्यापकः प्रकटेऽपि श्रीस्वच्छन्दनाथः ॥

Page 184

281

एतदीयान्महाप्रकाशात्मनो व्यापकात् तेजसस्तूदयन्ति ते । तद्वित्तावेव स्फुरन्तीत्यर्थः अतश्र प्राणोदये तद्विनाभाविनि बाह्यान्तरनिलसुखादिज्ञाने तद्विकलपनेsपि वा परभैरविकासमया एवं महायोगिनो नतु कदाचित् कचित्पि खण्ङ्यन्ते प्रत्युत स्वात्मविकासेन सततं मण्डयन्ते इति सरहस्यार्थोडत्र कटाक्षितः ॥ एवं स्थिते सति सर्वे कालं त्यजेत्प्राणे यथावत्कथयामि ते ॥ २८१ ॥

282

तत्र तुटयः षोडशैवोक्ताः । कालस्य करणं तु ताः । तदादिः सांशितः कालः सर्वे चरति वाड्मयम् ॥ २८२ ॥ करणं तु ता इति प्राणारम्भद्धारेण ताभिः सर्वस्य कालस्योत्थापनात् । तदादिरिति

Page 185

282

इति भाविवाक्येनैव लक्ष्यस्यानुमित्यत्वमुक्तमिति न तस्य सावधानैरपि तुटितत् स्फुटसंवेद्यत्वमित्येवमुक्तं सर्वं चरति वाङ्मयमिति प्राणोच्चारोच्चारणमात्रकाव्यसिद्धारेण समस्तं वाचकराशिं तद्वारेण च वाच्यनियममपि व्यास्नोति ॥ २८२ ॥

283

तदादिरितियुक्तं विभजति तुटिलवो निमेषश्च काष्ठा चैव कला तथा । मुहूर्तश्चाप्यहोरात्रः पक्षो मास ऋतुस्तथा ॥२८३॥

अयनं वत्सरश्चैव युगं मन्वन्तरं तथा । कल्पश्चैव महाकल्पः

Page 186

182

'मुख्यादयः षोडश' इति, वक्ष्यमाणौ च द्वौ एकादशपटले निর্ণेष्यन्ते । 'महाकल्पस्य पर्यन्ते ब्रह्मा याति परं लयम्‌' (११।२६०) इति एषोडत्र महाकल्पो न ग्रह्योऽसगते: अपितु सदाशिवजीवितावध्यात्मा परममहाकल्प: ॥

284

यदाह शक्त्यन्ते तं परित्यजेत् ॥२८४॥ शक्त्यन्तर्भावानुप्रवेशान्ते सूक्ष्मशशा सदाशिवान्तकारणप्रश्नीकपिसहारी कोलः प्रशास्त्यतीर्थः ॥ २८४ ॥

अथ व्यापिन्यन्ते परः कालः स तदृशी स परममहाकल्पोऽत्रमवयवः तेनाऽऽशी पर इति साम्याख्यः । यदृक्‌श्यन्त 'स कालः साम्यसंञ्जो वै.........' ( ११।३०४ )

इति ॥ १ क॰ पु॰ कार्ं इति पाठः ।

Page 187

त्यजेतु तम्‌ ।

285

तं च समनानुभवदशायां परित्यजेत् ॥ पूर्वप्रकारापेक्षया च स च सप्तदशो ईरय: ततोडपि परार्धपरतः स्थितः ॥

सोडपि चाष्टादशो देवी समनान्ते तु तं त्यजेत् । समनानुभवपर्यन्ते उन्मनान्तभावे त्यजेत् प्रशमच्येत् ॥

285

एवमेकं प्राणोचारेणैव बहिर्वितत्मपि पराध्रोन्तं कालं गुरुप्रवरः प्रशमच्य अकालकलिते पदे स्थितिं बन्धीयात् । तदाह सर्वकालं तु कालस्य ठ्यापकः परमोऽनुययः ॥

286

उन्मन्यान्ते परे योग्यो न कालस्तत्र विद्यते ।

२ ख० पु० एवमेव प्राणेति पाठः ।

Page 188

285

कालस्येति पराधोन्तस्य, सर्वकालं नित्योदितवेन व्यापकः;, अत एव परमोङ्कन्ययश्र उन्मन्यन्ते परे शक्तिशक्तिमदनुभवावेशे योज्यः सामरस्येन प्रत्यभिज्ञेयः । तत्र च कलनात्मा कालो नास्ति तस्यैव विश्वकलनाकारित्वात्तं कश्रिक्लयतील्यर्थः ॥ २८५ ॥

अत एवं नित्योदितो व्यापी नित्योदित इति न कदाचिदाच्छादितः इत्यर्थः ॥

286

तं च सर्वोपरिवर्तित्वात् आदिरूपं न सन्त्यजेत् ॥२८६॥ तमेव हृदावष्टम्भयुक्त्या श्रयेत् ॥ एवं च सति तं च नित्योदितं प्राप्य तन्मयो जायते सदा । योगीन्द्र इति शेषः ॥

Page 189

२८९ खो०१ श्रीक्षेमराजाचार्यकृतोद्योताल्यटीकोपेतम्। १८५

एवं च कारणत्यागानन्तरीयकः कालत्यागो

निर्णीत इत्याह

कालत्यागो भवेदेवं

उदेशक्रमायातः

२८८

शून्यभावस्वथोच्यते ॥२८८॥

२८८

शून्यो रूपो भावः पदार्थः परशून्यपद-

२८८

प्राप्त्युपायभूत इत्यर्थः ॥ २८८ ॥

तमह

ऊर्ध्वशून्यमधःशून्यं

मध्यशून्यं तृतीयकम् ।

'चतुर्थं व्यापिनीशून्यं ............... १' (४२८९)

इति वक्ष्यमाणत्वात् ऊर्ध्वशून्यसत्र नाद-

स्वातन्त्र्यविशोषप्राप्तिप्रागभावमूः शक्तिपातम् अधः-

शून्यममुष्ह्सितप्रपञ्चं हृत्क्षेत्रं, मध्यशून्यं तु

क्रमेणाधस्तनप्रमेयप्रशामात्मकं कण्ठतालयुद्धू-

मध्यललाटमूर्ध्रन्धात्मकम् ।

२८

Page 190

289

ईत्थं च शून्यत्रयं चलं होत- तदधो मध्य ऊर्ध्वतः ॥२८९॥ तदेतत् ऋमेणाधो मध्य ऊर्ध्वतः स्थितं शून्यत्र्यमापेक्षिकत्वाद्देयमित्यर्थः ॥ २८९ ॥

290

किंव चतुर्थ व्यापिनीशून्यं समनायां च पञ्चमम् । उन्मनायां तथा षष्टं अत्रापि आपेक्षिकत्वाच्चलं होतदिति योग्यम् ॥ अतश्र षडेते समयाः स्थिताः ॥२९०॥

291

आमयपदेनात्र हेयत्वमुपलक्ष्यते तेन चल- स्वात् एते हेया इत्यर्थः । उन्मनाया अपि परतत्त्वापेक्षया किंचिच्चलत्वमास्ति । परतत्त्वस्यैव तु अविचलत्वादुपादेयत्वम् ॥ २९१ ॥

Page 191

अत एव तर्केनाधिष्ठिता: सर्वे सामया अपि सिद्धिदा: ।

तत्त्वं परमशिव: अधिष्ठितिर्यासि: । सिद्वित्रपरयोगिन: पूर्णानन्दघनात्मैव इतरस्य तु तत्तत्स्वशपदौचिता ।

१९१

अत एव घट् शून्यानि परित्यज्य सम्समे तु लयं कुरु ।

यतः तच्छून्यं तु परं सूक्ष्मं सर्वावस्थाविवर्जितम् ।

परं सूक्ष्ममिति निरीतं प्राक् । उन्मनाया अपि

शैवी मुखमिहोच्यते । (वि०भै०श्लो०२०)

इति न्यायात् परमपदप्रविविशुयोंग्या[सुयोग्या] शायेन परतत्वानुप्रवेशोपायत्वात् अवस्थात्व-

१ म० पु० प्रचोदितेति पाठ: ।

Page 192

१८८

मस्तीति कृत्वा सर्वावस्थाविवर्जितमवस्थात्रयैक रूपं परमेव तत्त्वम् । एवं चेत् कथं शून्यमित्याह अथ शून्यं शून्यामित्युक्तं शून्यं चाभाव उच्यते ।।२९१।। अभावः स समुद्धिष्टो यत्र भावाः क्षयं गताः । यदेतच्छून्यमित्युक्तं तदस्तु तुष्टौ शून्यं चिद् दानन्दघनपरमशिवतत्त्वम् । अत्र हेतुः शून्यमिति । चो हार्थे । यस्मात् शून्यमभाव उच्च्यते, अभावश्र न विद्यते भावः सर्वः प्रमेयादिप्रपञ्चो यत्रेति व्युत्पत्त्या इह चित्तत्त्वमेवोदितं तस्मादशून्यमेव शून्यमिति युक्तमुक्तम् ।। अत एव तत् सत्तामात्रं महासत्तारूपं प्रकाशात्मकैव हि सर्वेषां भावाभावानां सत्ता ।।

Page 193

293

निःशेषभेदप्रशमानु परं शान्तं तत्पदं किमपि स्थितम्॥२९३॥

लोकोत्तरमित्यर्थः॥२९३॥

294

नच विश्वोत्तीर्णरूपमेव एतद्वाद्दि श्वसयमपील्याह यत्र यत्र च नादादिस्थूला अन्येऽपि संस्थिताः। तत्र तत्र परं शून्यं सर्व व्याप्य व्यवस्थितम् २९४ नाद आदिेषां बिन्द्वादीनां नादस्य चादयः शक्तिल्यापिन्याद्याः यत्र यत्र ललाटदिक्शेत्रे अन्येऽपि स्थूलाः नादादिवाच्याः सदाशिवाद्यास्तदधिष्ठिताश तत्तत्त्वभुवनदयः यत्रान्तर्बहिर्‌वो संस्थिताः तत्र सर्वत्र परं सत्तामात्ररूपं शून्यं सर्वसिमदं शर्करारसवत् तिलशोंडशांशं व्याप्य विचित्रेण रुपेणवस्थितम्॥२९४॥

Page 194

१९०

व्यापकमेव च व्याप्यात्मतया स्फुरति नतु व्याप्यं नामान्यदित्याह तदेव भवति स्थूलं स्थूलोपाधिवशात्त्रिये । महाप्रकाशात्मा श्रीखेचरब्रनाथः स्वात्मतत्त्वे- णैव यत्थः स्थूलाभासतया स्फुरेति ततस्तदु- पाधिकवशात् स्थूलमुच्यते इत्यर्थः ॥

२९५

स्थूलसूक्ष्मप्रभेदेन तदेकं संव्यवस्थितम् । अत एव यस्येयर्ति धारामारूढा संविच- न्महायोगिनः स तत्प्राप्य तन्मयत्वं च लभते नात्र संशयः ॥२९५॥

प्राप्तेति हृदप्रतिपर्यायेलम्ब्य न संशयः । इति तत्त्वमेवैतन्मन्त्रतत्त्वं न तु जड़जनसुलभः

१ ख पु० खेच्छन्देति पाठः । २ खण् ग० सरति इति पाठः । ३ खण् पु० मूढ इति पाठः ।

Page 195

296

सामरस्यं निवोध मे ॥ २९६ ॥ समो रसो यस्मिन् स समरसो लोलीभावः ॥ २९६ ॥

297

तत्रेदानु दिशाति आत्मनोऽनेकः समरसो मैन्त्रे जेयो द्वितीयकः । तृतीयं नाडीगं कुर्याच्छक्तौ कुर्यादतुर्थकम् ॥ २९७ ॥

298

व्यापिन्यां पञ्चमं प्रोक्तं समनायां तु षट्ककम् । तत्त्वः समरसौ देवी सप्तमस्तु विधीयते ॥ २९८ ॥

Page 196

299

एतान्यथोदे्शं लक्षयति शिष्यात्‍मानं तु संगृह्य पूर्वोक्तविधिना कमात्‌ । पश्‍वादात्मनि संयोज्य लोलाभूतं विचिन्तयेत्‌ ॥ २९९ ॥

300

आत्मानं पुर्यष्टकसंविदं ‘पूर्वोक्तविधिनेतितत्‍ tadनच्‍छेदनादिपूर्वमात्मनि चैतन्यमात्रे संयोज्याविकल्पं विमृश तदिशान्‍यैव समरसकर्त्‌द ३१९ ॥

300

अत्रैवेतिंकर्तव्‍यतांशं पूरयन्नादिमत्रसामरस्ये निर्देशाति तत्‍ तत्र शिष्‍यात्‍मनो ग्रहणार्थं पूरकं कुम्‍भकं कृत्तवा समानेन निरोधयेत्‌ कुम्‍भकप्रकर्‍षाह्‌लादबलन समानेन निरोधयेदित्‍याकामेदर्थात्सर्वनाडी: ॥ ३०० ॥

300

यदाह यावत्यो नाडयो देवि तिर्‍यगूर्ध्‍वमध्‍य:स्थिताः ॥ ३०० ॥

Page 197

301

समानेन समाकृष्टा एकीभूता भवन्ति ताः । सविधं कुम्भकप्रकर्षे वशितत्त्वे तासु ये वायवस्तेऽपि प्राणे समरसौगताः ॥ नाडयस्तु सुपुम्नायामेकीभूता व्यवस्थिता । भवन्तीति शेषः ॥ ३०१ ॥

302

इस्थं नाडिसामरस्यपूवर्ं मन्त्रसामरस्यं भवति । तदाह तत्‍‌ तु उद्धरेन्मन्त्र उक्तियूर्ध्वमवहितस्य चरन् स्वयमेव प्रसरेत् । उच्चरन्तं च तं साधक्ये पदेऽन्वक्त्रद्वन्यात्मनि नादे लीनं विचिन्तयेत् ॥ ३०२ ॥

Page 198

३०३

वामदक्षिणमध्ये तु युगपदेवत्थं मन्त्रादिसामरस्ये वृत्ते । ततो नादं प्रमोचयेत् ॥३०३॥ सेतुबन्धं च तं मार्गे यत्र गत्वा न जायते । शाक्तिक्षयाहिमसमनोनाह्यहोहार्द्रसेतुबन्धात्मकं मार्ग सर्वाध्वपारवर्तिशिवपदप्रापकं पन्थानं नादं मोचयेत् गमयेत् । तद्ततौ च सत्यान् न संस्ररति । मुचेर्गत्यर्थविवक्षया द्विकर्मता ॥ अत्र च कारणसामरस्यमर्थसिद्धमित्याह ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च ॥३०४॥ एतेषु समतां यान्ति यदा स्वकारोकारयुक्तचारैर्हृदपाठादौ विश्रान्तिस्तदा

Page 199

305

अन्यथा तु पृथक् पृथक् । समनन्तरोक्तसेतुगतौ सामरस्यान्तराणि स्थितानि लक्षयति तसिन्समुचरेन्नादं यावच्छक्तौ लयं गतः ॥३०५॥ शक्तिमध्यगतो नादः शक्त्यात्मा तु विधीयते । सर्वं शक्तिमयं तत्र सर्वं समरसात्मकम् ॥ ३०६ ॥ तथिस्निति पूर्वोक्ते सेतुबन्धे सर्वमिति नादे समरसीभूतमात्ममन्त्रनाडिकरणरूपम् ॥ तदेतच्छक्त्यैक्यमाप्य तदूद्र्ध्वं व्यापिनीं प्राप्त्य सर्वे तन्मयतां ब्रजेत् । सर्वं प्राप्तव्यापिन्यभेदम् ॥ समन्ताद्व्याप्याद्यव्यास-व्यापिनीत्यभिधीयते ॥३०७॥

Page 200

308

तदूर्ध्वं समनां व्याप्त्य तन्मयत्वं ब्रजेत्पुनः । तत्र च सा च सर्वगता झेया सामरस्येन संस्थिता ॥ ३०८ ॥ चशब्द एवार्थे, सैव तत्र सर्वगता सर्वव्याप्त्येव्यर्थः । गमिरत्र ज्ञानार्थः ॥ ३०८ ॥

309

षष्ठं समरसं त्यक्त्वा सप्तमं तु ततो व्रजेत् । उन्मनाशक्त्यनुप्रवेशेन प्राप्युनात् ॥ तं प्राप्त्य तन्मयत्वं हि नात्र कार्यो विचारणा ॥३०९॥ चश्रेष्ठं प्राप्तपरसामरस्यः

Page 201

130

स च सर्वेषु भूतेषु भावतत्त्वेन्द्रियेषु च । स्थावरं जङ्गमं चैव चेतनाचेतनस्थितम् ॥ ३१० ॥ अध्वानं व्याप्य सर्वे तु सामरस्येन संस्थितः ।

131

स चेति स एव स्थावरमचेतनं जङ्गमं सचेतनं चेति संक्षेपेण द्विधा स्थितं षड्धा तु ध्वानं व्याप्य तदन्तर्वर्तिषु सर्वेष्ववते देव्या- न्यादिषु चतुर्दशसु भूतेषु भावेषु धर्मादिषु घटादिषु च तत्त्वेषु पृथिव्यादिषु भोगसाधने- पु चेन्द्रियेषु सामरस्येन स्थितः सर्वावस्थासु अविलुप्तपरभैरवसमापत्तिः । एषैव च निर्व्यु- त्थानसमाध्यात्मा महारहस्यभूता ॥ अध्यासितत्समाधिषु तु प्रसह्य चञ्चलीयेव योगिनामपि यनमनः ॥३११॥

Page 202

311

कुटिलं चलति भोगाभिलाषेण व्युत्थानमेव धावति नाभीष्टं पद्मवत्स्थिर्य्यति, यदिति यस्मादेकम्

312

ततः यस्य जेयमयो भावः स्थिरः पूर्णः समन्ततः । मनो न चलते तस्य सर्वावस्थागतस्य तु

312

जेयं च यथा व्याख्यातं - परतत्त्वं, भाव आशायः, स्थिरो निश्शलः; पूर्णो निराकाङ्क्षः; समन्ततः सर्वसर्विकया, तुरस्यर्थे

313

यत्र यत्र मनो याति तत्र तत्र चिन्तयेत् । चलित्वा यास्यते कुतः सर्वे शिवमयं यतः

Page 203

313

मन एव परतत्त्वैक्यभावनावसिंतं कर्तृ यथोक्तं ज्रेयं सर्वत्र चिन्तयेत् । तदुक्तं महागुरुभिः

313

'शिवभावनयौपध्या बद्धे मनसि संसते । काष्ठकुड्यादिषु क्षिप्ते रसवच्छिवहेमता ।।' ( शि० व० ७१८ )

313

इति ।। ३१३ ।।

314

एतदेव दृढयति विषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः । यत्र यत्र निरुप्येत नाशिवं विद्यते कचित् ॥३१४॥

314

इन्द्रियाणि चार्थश्रौन्द्रियकं प्रयोजनं विषयोपभोगस्थेषु स्थितो योगिवरो यो निरुद्धयेत विचार्येत यत्र कुतrapi नास्याशिवमस्ति सर्वस्यार्य प्रकाशमानतया प्रकाशाघनशिवै-कालम्यात् ।। ३१४ ।।

९ श० ५० भावितमिति पाठः ।

Page 204

315

एवं समरसं ज्ञात्वा नासौ मुह्येत् कदाचन । मितयोगिनो व्युत्थाने महद्भयेतिकदाचनपदसायायः ॥ अतः यस्यैवं सर्वतो भावः सोऽपि सर्वगतो भवेत् ॥३१५॥

शिवस्तावत्सर्वगत इति नास्पदत्र विमति;, यस्य त्वैवं शिवैक्येन भाव आशायः सर्वगतः सोऽपि सर्वगतो भवेत् महाव्यासिमनुभवय्येव ॥

एतदुपसंहृत्य एतत्पूर्वकक्ष्याभावि अनु-दृष्टमपि विश्ववस्वरूपं निरुपयति एवं समरसः प्रोक्तो विश्ववक्तु निवोध मे । तद्भजति प्रथमं प्राणाविषुवन्मान्त्रं जेयं हितीयकम् ॥३१६॥

Page 205

317

तृतीयं नाडिविषुव-त्प्रशान्तं च चतुर्थकम्। पञ्चमं शक्तिविपुव-त्षष्टं वै काल उच्यते ॥३१७॥ ससम तत्‌वविषुवत्‌विष्णु साम्यरूपां व्याप्तिमहंति तत्त्विषुवत्‌॥ एवं विभक्तस्यास्य प्रविभागस्वथोच्यते । प्रकर्षण विभज्यतेऽन्यपरिहारेण व्यवस्थाप्यते वस्तु येन स प्रविभागो लक्षणम् । तत्र आत्मानं च मनः प्राणे संयोज्य विषुवद्ववेत॥३१८॥ शिष्यसत्कमात्मानमात्मीयं च मनः प्राणे मध्यवाहित सम्यगित्युक्तवक्ष्यमाणकरण-युक्त्या योजयित्वा प्राणाविषुवद्वविते ॥३१८॥

Page 206

३१९

एवं प्राणे विषुवदारख्यातं अथ मात्रं विषुवदुच्यते । मन्त्रमुचारयेताव- त्यावन्नान्यमना भवेत् ॥३१९॥ परापरविभागेन मन्त्रात्मा तु तदुच्यते ।

३२०

मन्त्रं श्रीनिष्कलं, परापरेऽति नादान्तम- परम् उन्मनान्तं तु परम् ॥। मन्त्रं विषुवदित्युक्तं मन्त्रोच्चाराश्रयो नाडिरत: नाडिस्थं तन्त्रिबोध मे ॥३२०॥

३२१

सर्वासामेव नाडीनां मध्ये या संचयवस्थित । सुषुम्ना नाम सा झेया नाम्न: शक्त्या शिवं गता ३२१

Page 207

२०१

आ नामे: नामेरारभ्य शक्त्या शक्त्यनुभवानुप्रवेशेन शिवं गता परं तत्वं प्राप्ना । एवं स्थिते तत्र प्रवाहयेत्नादम् नादमध्यकध्वनिरूपं प्रकर्षेण वाहयेदकारादिसंयोगेन ऊर्ध्वं प्रापयेत् । तदेत्तत्सर्वनाडीसाम्यात्कम् नाडीविशुदुदच्यते । उच्च्यते उत्तमित्यर्थ: । ऋमशस्तं तु प्रशान्तं विशुवच्चैवमधुना कथयामि ते ॥ ३२२ ॥ तदाह अयनेऽषडडुलक्शार: कारणान्यहुलेडकुले । तान्यधस्तात्परित्यज्य कारणानि षडेव तु ॥ ३२३ ॥

Page 208

३२४

सद्मे तु प्रशान्तं वै प्रशान्तेन्द्रियगोचरम् । विष्णुधिति शेषः । षट्त्रिंशदझुले चतुर्कालाधिकारस्थिस्या हृदयात्प्रभृति मकरादिराशिसंचाररूपेषु अयनेषु प्रत्येकं षडझुलश्वारः, तत्र च प्रतिषठं षड्झारणानझुलेsडुले इति षट्षे षष्ठ इति यावत् । एवं यानि प्रपञ्चव्याख्या षट्कारणानि अधस्तात स्थितानि तानि तत्त्वतः सप्तमे परमकारणे कारणानां साम्यावस्थिरुपात् प्रशमात् प्रशान्तविषुबद्रवतीति विशेषः ॥ प्रशान्तं व्याचष्टे प्रशान्तः स्तिमितो जेयः स्तिमितो निश्श्वलः स्मृतः निश्श्वलो निस्तरङ्गश्च स्थिरः पूर्णः समन्ततः । भेदतरङ्गशान्त्या चित्त्वनतैव प्रशान्त इति निस्तरङ्गपूर्णपदाशयः ॥

Page 209

325

एवंभावं समास्थाय दीक्षा कार्यातु देशिकैः । प्राणान्तविषयातीर्थः एतत्प्रशान्तविषुवत्

326

अथ शक्त्युपाधिं निर्बोध मे । शक्तिमध्यगतो नादो नादोर्ध्वं च चरेद्‌यदा ॥

तावत् शक्तिविषुवत्

शक्तिमध्यगतो मध्यधामारूढः नादो‌ऽव्यक्तध्वानेः नादात् सदाशिवपदादूर्ध्वं शक्तिस्थानं यदा चरेत् यदा मध्यस्यस्तदा शक्तिविषुवत् ॥

327

कालार्कयं तु निवोध मे । तदर्थमाह गुटिः पोड़शका या तु प्राणान्ते संव्यवस्थिताः

Page 210

३२८

कालो भूक्षेपमात्रस्तु तत्रान्ते कीर्तितो मया । तं परापरमागेन पुनरेव त्रिधा गुरु ॥ ३२८ ॥

प्राणस्यान्ते या पोडशी तुटिः तत्र तस्यामन्तेडधतुटिरुपे भूक्शेपमात्रोड्यन्तसूक्ष्मसाष्टभागाजुलचारसंचारात्मा यः कालः तमेकं त्रिधा अपरण परेण परापरेण च भागेन गुरु तुटेरधींकृताया: त्रिधा विभजनमिति पुनःशब्दार्थः ॥ ३२८ ॥

तत्र अपरः षोडशो यावत् षोडशः पूर्वोंक्तो महाकल्पार्यो यावदपरः स्थूलः ।

कालः सप्तदशः परः । पराखण्यैव पूर्व निर्दिष्टः ॥

॥ स० पु० भावेनैति पाठः । २ क० ग० पु० परात्परति पाठः ॥

Page 211

329

परापरस्तु यः कालः स प्रियेडष्टादशः प्रभुः ॥३२९॥ परापर इति परादि परार्धोक्तः प्रभुः सर्वकालावयवधृत्तमित्यर्थं

प्राण एवं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः । प्राणं प्राणीयोध्वर्तुल्यवर्धे पूर्व वर्णः कार-

ण्यागवसरेsडनुनिष्पादितयाष्टादशावयवकलात्यागो मन्त्रोचारयुक्त्युक्तः । इदानीं तु योगक्रमेण प्राणचारस्य तस्य सप्तदशावयवं कालं यत्नेन लक्वाष्टादशे कालविषुवति विश्रमितव्यमिति पुनःशब्दार्थः ॥

त्रिधा विभक्तस्य कालस्य पूर्वोक्तं स्थानविभाग स्मारयन्ते

330

अपरः शक्तिमूर्धस्थो व्यापिन्यां च ह्वितीयकः ॥३३०॥

Page 212

330

यस्तृतीयस्तत्कालविषुवदिति सम्बन्धः । तदूर्ध्वं हि ……......न कालत्रत्त्र विद्यते । इत्युक्तम् ।

330

तदित्थम् । एतत्षष्टं समाख्यातं अथ सप्तमं तत्त्वमुच्यते ।

331

तदाह उन्मना परतो देवी तत्त्वात्मानं नियोजयेत् । तसिन्युक्तस्ततो ह्यात्मा तन्मयश्र प्रजायते ।

332

परत इति समनाया: य एव तमन उन्मनायोग: ।

Page 213

333

तदेव तत्त्वारुयं विषुवद्देवी सर्वेषां परतः स्थितम् । उपसंहरति विषुवदेवंविधं ज्ञात्वा को न मुच्येत बन्धनात् विषुवत्ते समारु्यातं

334

इदानों परम्पराविनाभूतानुप्रवेशपदार्थालिङ्ग- चितुमहिसति पदार्थभेदनं शृणु । त्यागं चानुभवं चैव योजनं च परे पदे ॥

पदानि वक्ष्यमाणप्रमाणकानि हृदादि- स्थानानि, तत्र तत्कारणानुभवकारित्वेन- ध्यन्त इति पदार्थाः आकारादिसमनान्ताः एकादशा, तेषामेव भेदनमनुभवयुक्त्या स्व- शीकरणं, यथा भेदिता मण्डलिका भूमिज

Page 214

२१०

इति । अत्र चावशयमधराधरत्यागे सति उत्तरोत्तरपदार्थो नामनुभवोदयस्ति, स एव च पूर्वं सन्निग्ययोगरूप: संयोग इत्युष्ट:, भेदन-पयन्ते च परे पदे योजनमवइयभाव:, तच्च पूर्वं सद्वेर्धभावनात्मैतत्वात् पदेनोइष्टम् ॥

पदार्थैकादशी जेया या च पूर्वं निरर्णीता । तत् ऊर्ध्वं तु उन्मना अन्त: परो भवेत् । पदार्थ इत्यर्थ: ॥

अतसत्त्रावस्थितये तां पदार्थैकादशीं भेदयेज्ज्ञानशूलेन समनन्तरनिर्णेष्यमाणपरशक्तिस्फारप्रकाशरूपं यज्ज्ञानं तदेव समरसामृतीच्छादिशक्ति-त्रयसंगृवता [ रा ] रूपतोन्मीलितातितैक्षण्येन भेदकत्वात् शूलम् ॥

१ ख० ग० भवतीति पाठ: । २ ख० पु० भवनालमपदेति पाठ: । ग० पु० भवनार्थलादुद्रुपदेति पाठ: ।

Page 215

३३५

न केवलमेतदेकं यावत् ज्ञानं ज्ञेयस्य ज्ञापकम् । ज्ञेयमिह परं तत्वम् ॥ अत एवास्य ज्ञापकं बोधमतुलं परशक्तिप्रथात्मकं नतु विषयानुभवरूपं बोधमिति स्थितिः [ द्वितीया ] निर्देशाच्छान्दसः ॥

३३६

अत्र हेतुः दीपवदद्योतनं यतः । एतत् स्फुटतया ज्ञानौपयिकं ज्ञेये विश्रान्तिद्योतयति दीपहस्तो यथा कश्चिद्वयमालोक्य चाहरतः एवं ज्ञानेन च ज्ञेयं तस्मिन् कुर्वन्तु संस्थितिम् । दीपज्ञानयोरङ्गमात्रेण हस्तान्तदाष्टान्तिकभावः ॥

Page 216

337

न तु दीपवत् ज्ञानं ज्ञेयाद्दिन्नमित्याह ज्ञानं वै लक्षणं प्रोक्तं ज्ञेयतत्त्वस्य सूत्रतः ॥ ३३७ ॥

न च कमण्डलुनैव छात्रो ज्ञानेऽपि परं तत्त्वं लक्ष्यते इत्याह लक्षणं गुण आह्य्यातः असाधारणस्तत्त्वव्यवस्यापको हि धर्मो लक्षणम् ॥

अत एव तत् कला तत्त्वस्य सर्वदा ।

तत्त्वस्य प्रत्यभिज्ञेयस्य परमशिवस्य सर्वददाति यति चेति व्युत्पत्त्या विश्वसर्गसंहारकारिणी स्वातन्त्र्याख्या सर्वदा च नियुक्ता कला शक्तिरेव लक्षणम् । उक्तं च श्रीविज्ञानभैरवं

'ग्राथालोकेन दीपस्य किरणैरभास्करस्य वा । ज्ञायते दिग्विभागादि तदच्छक्त्या शिवः श्रितः ॥ ( वि० मै० श्लो० २१) इति ॥

Page 217

३४०

एताहक्चत्स्यात्मना न गुणेन विना तत्त्वं न तत्त्वेन विना गुणः ॥३३८॥ शिवाश्योनिर्व्यलोलीभाव इत्यर्थः ॥ एवमपि गुणं गृहान्ति सर्वत्र न तत्त्वं गृह्यते कचित् ॥ धर्ममुखेनैव शिवो धर्मी प्रथते विशेषतः परमशिवात्मा तस्मिन्निश्वर्निर्भरे शक्त्युपायं विना स्वतोऽनुप्रवेशायोगात् ॥ युक्तं चैतदिवाह गृह्यते हनुमानेन प्रत्यक्षानुभवेन च ॥ ३३९ ॥ अर्थिप्रत्यर्थिभावेन आगमेन तु लभ्यते । तत्त्वादेर्विश्वस्य संनिवेशाविशेषवक्त् तत्-त्कतुरनुमानं तावदृश्रुत्वकर्तृत्वमुखेनैव प्रत्य-

Page 218

क्षानुभवोऽपि योगिनां प्रोक्तशक्तिद्रारक एव । यथोक्तम्

'तदासाक्रिमो धर्मो ज्ञत्वकवर्त्तलक्षणः' (स्प०११९०) इति । अर्थोऽत्र प्रष्टा प्रत्यर्थी संशयच्छेदको वक्ता तयोर्भावोऽनुग्राह्यानुग्राहकत्वात्मा तेन यः प्रवृत्त आगमस्तेनापि शब्दनरूपेण नियतशक्तिद्रारकमेव तत्त्वं लभ्यते ॥

उक्तयोगिप्रत्यक्षैकयोगक्षेमतामागमस्य कथ्यति

३४०

आगमो ज्ञानमित्युक्त- मनन्तः शास्त्रकोटयः ॥३४०॥

अनन्ताः शास्त्रकोटयो यः परमेश्वर आगमस्तज्ज्ञानं परशक्तिस्फाररूपमित्युक्तम् । आ समन्ताद्मयति अभेदेन विमृशति पारमेशं स्वरूपमिति कृत्वा परशक्तिरेवागमस्तत्प्रतिपादकस्तु शब्दसंदर्भस्तदुपायत्वात् शास्त्रस्य ॥ ३४० ॥

कथं परशक्त्यात्मत्वमित्याह

Page 219

३४१ खोऽ]। श्रीक्षेमराजाचार्यवृतोद्धोतालयटीकोपेतम्। २१५

शास्त्रं शब्दात्मकं सर्वे शब्दो हंसः प्रकीर्तितः ।

यत्किंचित् किंचिच्छासनाच्छायं तच्छ-ब्दात्मकं पञ्चाशद्वर्णशब्दराशिसलतत्त्वं शब्दराशिश्व हंसोच्चारात्मा हंसोच्चारश्व परशक्त्यनु-भवस्फारसार इति ॥

निर्णीतमेतदिल्याह

हंसयोगः पुरारव्यातः

तेन सर्वप्रमाणानां शक्तिविषयत्वात् शक्तिमद्रूपमप्रमेयमेवेति युक्तमुचकं गुणं गृह-न्ति सर्वत्र इति संगति: ।

भेदयेत् ज्ञानशूलनेत्युपक्रम्य भेदयेनमत्रश्शू-लेनेति प्रतिपादयिष्यति । अतो ज्ञानसतत्त्वं वर्णमन्त्रोच्चारकालं तेन च वाच्यवाचकयोर्‌व-ण्णदेवतयोः सम्बन्धे तद्वाच्यदेवताश्रयहृदया-दिस्थानपरिमाणं च वक्तुमासूत्रयति

३४१

मात्रासंख्या त्वथोच्यते ॥३४१॥

Page 220

342

मात्रायोगो यथा चास्य प्रमाणं हृदयादिषु । मात्रा आकारादिवर्णाधिकारकः । अस्यति भेदकस्य मन्त्रोच्चारातमनो हंसोच्चारस्य यथा मात्राभिर्योगो यथा चोच्चारणास्पदानां हृद्दीनां प्रमाणं तत्सर्वमुच्यत इत्यर्थः । तत् प्रमाणं तावदाह नामेरुर्ध्वं वितस्त्यन्ते कण्ठादस्तात्पडङ्कुले ॥ ३४२ ॥ हृदयं मध्यदेशे तु चतुरङुलसम्मितम् । वितस्तिः द्वादशाङुलानि तदन्ते कण्ठ- धस्तात्पडङुले अवधिमूते क्षेत्रद्यये यो मध्यदेशस्तत्र चतुरङुलो हृद्रन्ध्रः इति सम्बन्धः ॥

343

अत्राभिष्टातारमाह चतुर्विंशतितत्त्वैस्तु ब्रह्मा तत् तत्र व्यवस्थितः ॥३४३॥

Page 221

३४३

सहार्थे तृतीया, प्रकृत्यन्तमधिष्ठाय ब्रह्मात्र स्थित इत्यर्थ: ॥ तदूर्ध्वं कण्ठमष्टाकुलं विद्धि विष्णुसत्तत्र व्यवस्थित: । तत्त्वपटेन संयुक्त: पुमादिकलान्तेन ॥

३४४

तदूर्ध्वं चतुरश्रुलम् ॥

३४५

तत्र च मायातत्त्वं समाश्रित्य रुद्रस्तालुतले स्थित: ॥ तदूर्ध्वं अर्धचन्द्रयमानं तु भुवरमध्ये प्रकरीतितम् ॥

तत्रेश्वर: स्थितो देवी तत्त्वद्रयसमन्वित: । तत्त्वद्रयं शुद्धविद्येश्वराज्यम् ।

Page 222

346

तत्तोऽपि एकादशाद्दुले चैवमूर्ध्वे देवः सदाशिवः । तत्सदृशसमायुक्तो यावब्रह्माबिलं गतः ॥

सदाशिवतत्त्वशक्तितत्त्वाभ्यां युक्तः । एवं च वदन अर्धचन्द्रादिनादान्ते श्रीसदाशिवोऽधिष्ठाता इति शिक्षयति, तत्त्वव्यवस्थया तु निरोध्यन्तमीश्वरतत्त्वस्य नादान्तान्तं सदाशिवतत्त्वमेतिवक्ष्यमाणनीया तत्त्वव्याप्ते रन्यैवेयमीश्वरसदाशिवाख्यदेवतायास्ति: ॥

347

तदूर्ध्वैकादशे तु शक्तिः शक्तिग्रन्थिस्थानमित्यर्थः । शिवस्तत्र व्यवस्थितः । अनाश्रिताख्यः ॥

348

अत्रैव चाङ्कुले त्वक्लेशे व्यापिनी प्रोक्ता समना च सापि भूः शिवेनैवाधिष्ठितेत्यर्थः ।

Page 223

ध्यापिनीसमानाख्यः शिवतत्त्वभूमयः शिवख्यकारणाधिष्ठिता इत्यर्थः । एवं च बदनत्रापादाद्याद्यमानेन यत्‌षणवत्सयुगुलं मुण्डान्तस्थानं तदेवेह द्वादशान्तमान्तरऽन्याल्याहावोधिस्तावत्‌षट्त्रिंशद्युगुलत्वेन विभजनादिति ध्वनति । अनन्य हृद्यमानोर्ध्ववाहिधूमलेखान्तं बाह्यमानेनाष्टोत्तरशताङ्गुलान्तं तदुच्यते मुण्डान्तसृष्ट्रुति च निरावरणता इत्युभयथां प्रतिपादनेपि न किंचित्प्रमेयवैषम्यं बिन्द्वादिसमनान्त्रप्रमेयसोपानमालिकाया: सर्वत्र स्थानसाम्येनाभिधानात् ॥

एवं करणषट्कादिपदस्थानषट्काद्प्रमाणमुक्त्वा निष्प्रमाणकं सप्तमं पदं परमशिवाधिष्ठिताभित्याह

उन्मना ततः ।

तत्परं तु परं तत्त्वं प्रमाणपरिवर्जितम् ॥ ३४८ ॥

348

१ क० ग० पु० च वधेरीति पाठः ।

Page 224

पदार्थभेदनादितया

मात्रासंख्या च योगश्वा-

धुना हंसस्य कथ्यते।

हंसस्येति तदभिन्नस्य निष्कलस्य । यद्यपि

'मात्रासंख्या त्वथोच्यते ।

मात्रायोगो यथा चास''.......... ।' (४३४२)

इति पूर्वमेवोदिष्टं तथापि ब्रह्मादिकारणाभिष्ट-

तहदादिप्रमाणमुक्त्वा यदिदानीं निर्णयते त-

युक्तमेव स्थानाश्रयणक्रमेणैव हि वाचकवर्ण-

कलाकालविश्रान्त्या वाच्यदेवतान्याथ्यानुभव-

रूपं पदार्थभेदनं भवति ।

तत्र

४३४९

अकारश्च हकारश्च द्वावतांविकत: स्थितौ ।

विभक्तिरननयोरस्ति

मारुताम्बरयोरिव ।

अकारोऽनुत्तरशक्तिविमर्शात्मा हकारश्च

Page 225

350

शिवशक्त्योश्राभेदात्‌ एतौ खवायुदेकत्र ऐक्येन स्थितौ विश्वाम- शिनः खयमुचरतोदनचूचहकारस्य शिरोरेखारू- पाकारकलानुप्रवेशात् ॥ एकमात्रः स विज्ञेयो हृदयात्सम्प्रवर्तते ॥३५०॥

350

स इत्यकारयुक्तो हकारः केवलस्त्वनुचर्य- त्वादकालकलित एव ॥ ३५० ॥

351

ऊकारस्तु द्विमात्रो वै कण्ठस्थाने समुचरेत् । त्रिमात्रस्तु मकारो वै तालुमध्यगतश्वरेत् ॥३५१॥ त्रिमात्रत्वं गीतिकाक्षरस्वरमध्येक्षरशून्य- पदोच्चारवत् ॥ ३५१ ॥

पूतोच्चारयुक्त्या मात्राभेदं स्थूलसूक्ष्मयोक्त्वा, सूक्ष्मस्मिथ्याप्याह विन्दुश्रैवार्धमात्रस्तु

Page 226

अनुचारोचाररूप: ॥ कृत इत्याह मात्रार्थं हि स उच्यते । वध्यमाणयुक्त्या भेदितग्रन्थयोंगिनो मात्राधर्मेव तदुचारो भवतीति ॥ अस्य स्थानमाह भुवोर्मध्ये स उच्यारस्तस्य देवी विधीयते ॥३५२॥ भेदितग्रन्थिभिर्योङ्गिभि: ॥ ३५२ ॥

३५३

अथास्यैव विगलदिभागध्वन्यासमनोदनुनि-हृदरुप: तच्छेषार्धार्धचन्द्रस्तु पादमात्रस्त्वसौ भवेत् । मात्राया इत्यर्थात् निरोधी चार्धपादस्तु सोऽयमर्धचन्द्रो निरोधीयमत्रैकदेश: । ललाटान्ते समुचरत् ॥३५३॥ ललाटाग्रतदग्रभागात्मन्यान्तद्वये द्वाकुचरत इत्यर्थ: ॥ ३५३ ॥

Page 227

3223

अत ऊर्ध्वं नादः षोडशांशस्तु मूर्धान्तं यावदुचरत् । नादस्य नादान्तः पञ्चवप्राय इति पृथङ्नोकः ॥ अत ऊर्ध्वं द्वात्रिंशदंशा शक्तिस्तु षट्त्रिंशान्ते समुचरत् ॥३५४॥

354

प्राणचारस्य यषट्त्रिंशददलं तद्लक्षणान्ते सम्यक् शान्तभेदस्पर्शोमात्रानुभवामतया उचरत् । इह एकत्रैव षट्त्रिंशददुलरन्थान्ते शक्तिः, स्वकूष्मे व्यापिनी, केशदेहे समनети स्थितिः ॥ ३५४ ॥

तत्र शक्तेर्मानमुक्तं व्यापिनीसमनयोराह व्याप्तिनी चतुःषट्प्रचङ्गा शक्तेस्तु परतः स्थिता । समना च चतुष्षष्ट्यंशौव, एवं चेमौ चतुब्बष्ट्यंशावेकी-

Page 228

224

कृतो द्वात्रिंशांशः सोऽपि शक्त्यामद्वात्रिंशांशेन सह मिलितः षोडशांशो जायते, सोऽपि नादीकश षोडशांशोष्टांशो जातः सोऽपि निरोध्यष्टांशेन सह चतुर्थांशः स्थितोऽर्धचन्द्रः, अपरश्चतुर्थांशो बिन्दुरर्धमात्रेयष मात्रामकारान्ताश षण्मात्रा इति समनान्तमात्रासप्तककोडीकृताशेषाक्षेपिभावदेवदेवीसहकोड्यममात्रोनमनपरतस्वसतत्त्वः श्रीनिष्कलनाथः । यतु '.................परार्धः परतः स्थितः । सोऽपि दर्शयस्तु तं देवी समनान्त परत्थजेत् ।'

इत्युचकं तद्वाच्यदेवतावाधिमूतबाझस्थूलकालप्रशमनपरमिदं तु मन्त्रावयवगतातिसूक्ष्मोच्चारकालप्रतिपादनपरमिति न काचिद्वानि: । अतश्र सूक्ष्ममत्रकलोच्चारकालेैव बाह्यतरवगतसंभाव्यमानविततवितततापि कलाध्वानं वटधानिकादलनन वटदलनवयोगीन्द्रः प्रशमयेदिति निरुपितं भवति । अत्र च मन्त्रावयवविमर्शकाले तत्तद्वाच्यदेवतानुभवोऽधराधरानुभावस्य चोर्ध्वोर्ध्वपदानुभावात्सान्द्रावो भवतीति मन्तव्यम्।

Page 229

358

समनाया अपि उन्मना चोर्ध्व-मात्रः परमोद्धयः ॥ ३५८ ॥

359

उन्मनया सह परमशक्तिमान् व्ययहीन-स्वादमात्रो मात्रार्थमात्रादिकालस्पर्शरहित इ-त्यर्थः ॥ ३५९ ॥

360

एतदुपसंहरति मात्रासंख्या च योगश्व प्रमाणं परिकीर्तितम् । तदेतत्सर्वम् एवं ज्ञात्वा वरारोहे पदार्थान् भेदयेततत: ॥ ३५९ ॥

361

वरारोहे इति प्राग्वत् ॥ ३५६ ॥

कथम् भेदयेनमत्रशूलेन शुद्धाभावयुतेन च । प्रादिर्णीतज्ञानशूलसत्वेन मन्त्रशूलेन सु-

Page 230

357

द्रया वक्ष्यमाणकरणरुपया भावेन जिज्ञासा- जिज्ञासितानुभवातमनो युक्तेन। तत्रैवेतत् ज्ञानक्रियेच्छाशक्तिस्फारसारमत एतच्छचिकमयमहेश्वरैकात्मा गुरुभेदं कुर्यादिति प्रकाशयति मन्त्रो वै ज्ञानशक्तिश्च शुद्रश्चैव क्रियात्मिका भावश्च मन इत्युक्तं तन्मनो बुद्धिपूर्वकम्।

358

मनः सततं मननमनुभवो बुद्धिपूर्वकमिति निश्चित्य प्रवृत्तस्य तत्तदनुभवलाभात् भेदनं चैतत्परतत्त्वव्यास्यार्थम्॥ परतत्त्वव्यासिश्व जिज्ञासामुखकरणबन्धे मन्त्रोच्चारोन्मिषत्पूर्णस्वसंवेदनत्त इत्याह परश्व मनसा गम्य इच्छाशक्त्या त्वधिष्ठितः।

मनसा खसंवेदनेच्छाशक्त्या तत्परमार्थ-

Page 231

358

तया जिज्ञासयाधिष्ठितः प्रथमं विषयीकृत इत्यर्थः ॥ ३५८ ॥

युक्तं चैतत् यतः यत्र यत्र भवेदिच्छा ज्ञानं तत्र प्रवर्तते । क्रियाकरणसंवन्धात् योगात् क्रियाया व्यापारस्य करणस्य च तद्व्यापारोचितशरीरसंनिवेशस्य सम्यकू बन्धात् जिज्ञासितेडर्थे ज्ञानं भवतीत्यर्थः ॥

359

तदित्थं शाक्त्रियात्मशिवावेशज्ञस्य गुरोः तत्त्वस्योच्चारणं भवेत् ॥३५९॥ तत्वं वीक्षसारो मन्त्रः ॥ ३५९ ॥

अत्रैव भरं दर्शयितुमपि अर्थलब्धं व्यतिरेकमाह क्रियाकरणहीनस्य न चैवोच्चारणं भवेत् । करणभेदेन क्रियाभेदं सम्यकू मन्त्रोच्चारासिद्ध्यर्थं दर्शयितुमुपक्रमते

Page 232

३६०

क्रिया करणभेदेन सा चैव त्रिविधा स्मृता॥३६०॥

३६१

तत्र एकेनोच्चारयेतत्त्वं करणेन विचक्षणः । उद्वरेचकेन नाड़ीश्वाथ द्वितीयेन द्वाराणि च निरोधयित्त ॥३६१॥ कुम्भकेन

तृतीयं करणं दिव्यं कृत्वा वै तत्त्वमुचरेत् । तत्त्वं निष्कलं तेन कुम्भकेन द्वाराणि निरोध्य दिव्यं करणं बध्दा उद्वरेचकेन मन्त्रमुच्चारयेत् इत्यमन्त्र क्रमः ॥

३६२

तमेव स्फुटयितुसुपक्रमते पूरकं कुम्भकं कृत्वा सर्वद्वाराणि रोधयेत्॥३६२॥ कुम्भकावसर एव ॥ ३६२ ॥

Page 233

364

ताने मुदुद्वारेण रुद्धेन रुद्धान्त्र भवन्ति हि । रोधश्वास्य संकोचविकासाभ्यामावेशवशेन कार्यः । एवं कृत्वा द्वारमेकं ततश्शोध्वे प्रवहत्तद्दिचिन्तयेत ।

363

मध्यनाडिरुपं विचिन्तयेत नतु संप्रत्येव वाहयेत् ।

तथा सति हि नाडयो ग्रन्थिपद्माक्ष येडधोमुखगताः प्रिये । ते कुम्भकेन संruddhा विकसन्ति समन्ततः ।

365

प्राणशक्तिकौटिल्यधामानि हृद्यादीनि ग्रन्थयः । संकोचविकासधर्मत्वात् पद्मानि तानि चापानशक्तिप्रवाहवशाद्धोमुखानि विकसन्तीत्यृध्ववाहोन्मुखीभवन्ति ।

Page 234

365

इत्थं कुम्भकादनन्तरं करणं तु ततः कृत्वा अत्र च 'तत्त्वस्योचारणं कुरु' इति दूरेण संगति: । मध्ये तु करणलक्षणं तदाह लक्षणं तस्य वै शृणु । जिह्वा तु तालुके योज्या किंचिदूर्ध्वं न संस्पृशेत् ॥३६५॥

366

इष्टप्रसार्य वक्त्रं तु किंचिद्दोष्ठौ न संस्पृशेत् । दन्तपङ्क्ती तथैवेह हस्तश्र्वाधोदर्वर्जिता ॥३६६॥ कायं समुन्नतं कृत्वा करणं दिव्यमुख्यतं ।

अत्र जिह्वास्तालुयोजने कृत्वितत्त्वमर्थ-लब्धं किंचिदोष्ठौ नेति न किंचिदपि स्पृशोदिति योज्यम्, तथैवेति प्रसार्य न संस्पृशोदित्यर्थ: ।

Page 235

367

हस्तेरध ऊर्ध्व वर्जनं निश्वलतारकरत्वेन विकल्पहानये समुन्नतामिति सम्यगविकृततयोन्नतं दिवि परसंविद्भाभे उपायतया भवं दिव्यम्॥ तदित्थम्॥

367

दिव्यं च करणं कृत्वा तत्त्वस्योच्चारणं गुरु । चकारात् कुम्भकमूर्ध्वरेचकं च तत्त्वं मूलमन्त्रः ॥ ३६७ ॥

अत्र दिव्यकरणावसरे ऊर्ध्वरेवकमपि कुवीतियाह

कुम्भितश्वैव यः प्राणो रेचयेतं शनैः शनैः । ऊर्ध्वमिल्यर्थात्॥

368

तथा सति हि नाड्यो ग्रन्थिपद्नाश्र देहे या: संग्यवस्थिताः । रेचकेन समाक्षिप्ता ऊर्ध्वस्रोतो भवन्ति ते ॥३६८॥

Page 236

369

मध्यवाहरूपतां यान्तीत्यर्थः । अत्र च रोमाञ्चोद्गमोऽभिज्ञानम् । एवं करणत्रयबन्धावहितः ततः वै ज्ञानशूलेन ग्रन्थीनिमन्थनं समुचरेत् । ज्ञानशूलं पूर्वं निश्चितं ग्रन्थीनां भेदो हु दयादिपदेशु प्राणशक्तेः स्पष्टभावेन तत्तदनुभवः । सम्यगविकल्पमुचरेत् स्वयमेव सूध्वं प्रसरेः ॥ ३६९ ॥

370

मन्त्र इति अर्थादत्त्र भेदनं घटमानस्य योगिनः भावप्रासिवशादिति यः पूर्वं हेतुरुत्तः तत्रिण्यानुभवभेदात्तिरूपयति । भित्त्वा हृदयग्रन्थिं तु ततः शब्दः प्रजायते । यदाकाशसमायोगात् सम्यगमन्त्राद्ययोगात् मन्त्राद्यकोलोचचारकायतरूपात् । शब्द इति उपांशुरुपतयान्तरकारादिकलात्मा स्फुटं श्रूयमाणः ॥ स च घोषशब्दोपमो भवेत् ॥३७०॥

Page 237

233

३७२ खो] श्रीक्षेमराजाचार्यकृतोघोतालोक्यटीकोपेतम् । २३३

'श्रवणाकुलिसंयोगादः शब्दः संप्रवर्तते । दीर्घविध्ननाभोगः स नादो घोष उच्यते-॥' इति लक्षणो घोषो दीक्षाग्रंः यो धकधकाकृतिशब्दतुल्याकारश्रतिरुच्यतेऽर्थः ॥ ३७० ॥

370

कण्ठस्थो विरमेच्छब्दः कण्ठं प्राप्य व्रानने । मन्त्रो विमर्शः कण्ठं प्राप्य यदा तत्स्यो भवति तदा घोषः शाक्येदित्यर्थः ॥

371

तत्र तु बिन्दतः कण्ठदेशं तु शब्दो धुगधुगायते ॥ ३७१ ॥ तदडाकार उच्चरतीत्यर्थः

372

अत ऊर्ध्वं तालुमध्यगतः प्राणो यदा भवति सुव्रते । बिन्दतस्तालुग्रान्थ तु शब्दो घुमघुमायते ॥ ३७२ ॥

शोभनं व्रतं मध्यधामनिमभाललनियममरुपं यस्यः सा सुव्रता तत्संबोधनं, घुमघुमायते इ।

Page 238

३७२

इति तदनुकृतिर्मकारकलोच्यरतिर्यर्थः। तदत्र ग्रन्थित्रयभेदेन एवं तेऽनुभवा: प्रोक्ताः। प्राणे चरति सुवते। प्रोक्तशब्दविषया: त्रयस्तेऽष्टकला: प्रोक्ता उपर्युपरितः कमात्

३७३

इह एकादशे पटले 'अष्टधा तु स देहेऽपि व्यक्तः शब्दः प्रकीर्तितः। घोषो रावः खनः शब्दः स्फोटारुर्यो ध्वनिरेव च झंकारो ध्वंकृतश्चैव अष्टौ शब्दाः प्रकीर्तिताः।' इत्युक्त्या व्यक्तस्य शब्दस्याष्टविधत्वं वक्ष्यति। आकारोकारमकाराश्च त्रयो व्यक्ता क्षयति। इति तदुचारस्यानेपु ग्रन्थिभेदानुभवविष्याणां शब्दानां घोषाद्यष्टकलत्वं, यथोक्तं घोषापं इत्युक्तं तत्र घोषैकरूपत्वमपितु घोषसमानस्वमिति, तत्रापि रावादिशब्देः सन्त्येव।

Page 239

३७५ श्लो] श्रीक्षेमराजाचार्यकृतोऽस्योत्कर्षवर्णनात्मकः । २३५

तादित्थम्

तिष्ठेत्स यत्र वै प्राण

आत्मा तद्वतिमान्रयात् ।

प्राणाश्रया संवित् तद्वारेणैव तत्स्थान-

माश्रयेत् ॥

३७४

तत्तद्रूपं भवेत्सस्य स्थानभावानुरूपतः ।

स्थाने हृदादौ भावस्तत्त्वकारणान्तभावः ।

एवं हृकण्ठतालुषु ब्रह्माविष्णुरुद्रादिष्ठि-

तेषु सृष्टिस्थितिसंहाररूपतां प्राणावस्थितिक्रमे-

णात्मा भजते

ध्रुवोर्मध्ये यदा गच्छे-

त्स्फोटशब्दस्तु जायते ।

अनभिव्यक्तवर्णरूपस्फुटत्वादशब्दकल्पः

स्फोटः ।

एप च

९ ख० पु० स्कुटद्वंशशब्देति पाठः ।

Page 240

३७५

बिन्दुं भेदयतो देवी शब्दो धुमघुमायते ॥ ३७५ ॥ बिन्दुमिति बिन्दुग्रन्थिं भिन्दतो बिन्दु-कलाख्य एव मन्त्रावयवबोधो धुमघुमानुकृति-रुचिराति बिन्दुग्रन्थिभेदश्रायमपवर्गपदाधिरोहे प्रथमसोपानकल्प इत्यत्र भरः कर्तव्यो योगिभिः तैर्देदे हि उल्लेखित एव भेदमयः संसारः ॥ ३७५ ॥ अन्यथा तु कपिवद् नारिकीलेन आचार्यः सह बिन्दुना ।

३७६

अभिन्नेन कुतो मोक्षं सबाह्याभ्यन्तरं प्रिये ॥ ३७६ ॥ भजते इति वाक्यशेषः । दृष्टान्तदाष्टान्त-कथावोडन्थार्थलभ्यः; तेन यथा कपित्थनारिकेलन-भिन्नेन कुतो मोक्षं भजते न भजते नारिकीलं रसावादायाभङ्क्त्वा न सुष्टुति, तथैवाचार्यो

Page 241

236

विन्दुद्यनिथना अभिन्नेन सहिति साकं दीक्ष्येण शिष्येणेत्यर्थात् कुतः सबाध्राभ्यन्तरं कुत्वा मोक्षं भजते वाध्यात् स्थूलात् भावभूतशरीरादाभ्यन्तराच्च सूक्ष्मात् पुर्यष्टकशून्यशरीरान्न मुच्यते विन्दुभेदातु मुच्यते एवेत्यर्थः। 'कपैर्नारिकेलेन तथाचार्यस्य विन्दुना'इति स्पष्टः पाठः ॥ १७६ ॥

237

भित्त्वा विन्दुं ततो देवी अर्धचन्द्रं विभेदयेत् । भित्यतश्राधचन्द्रस्य ललाटे झिमिझिमायते ॥१७७॥ अर्धचन्द्रग्रान्थिं भिन्दतस्तत्स्थान एवार्धचन्द्रार्कयो मन्त्रावयवो झिमिझिमानुकारो जायते इत्यर्थः। इत्यस्मुक्तरत्रापि योजना कायो ॥ १७७ ॥

अथ अर्धचन्द्रं तु भित्त्वा वै भेदयेतु निरोधिनीम् ।

Page 242

३७८

तस्यास्तु भिद्यमानाया: शब्द: सिमिसिमायते ॥३७८॥

बिन्दुद्वौ प्राग्भक्तिलक्ष्याभिमौ स्थानत्रयमिदं देवी पञ्चपञ्चकलान्वितम् ।

तत्र बिन्दो: 'निष्ठितश्र प्रतिष्ठा च विद्या शान्तिस्तथैव च ।' (स्व० १०।१२१५)

इत्थुपक्रम्य 'एतस्य वामदिङ्मागे शान्त्यतीता ।' (स्व० १०।१२१६) इति कलापक्षकं वक्ष्यति । एवमर्धचन्द्रस्य 'ज्योत्स्ना ज्योत्स्नावती कान्ति: सुप्रभा विमला शिवा ॥' (स्व० १०।१२१८)

इति निरोधिन्या अपि 'रुन्धनी रोधिनी रौद्री ज्ञानबोधा तमोपहा ।' (स्व० १०।१२१९)

इति कलापक्षकं स्थानत्रयामिति वाग्भिकरण-माध्यम्रन्थिभेदादेवापरग्रन्थिभेद इत्याशयात् । एवमुक्तत्रत्न ॥ तदित्थम्

१ ख० ग० पु० जालेत पाठः ।

Page 243

३७९

प्राणस्य चरतस्तत्र यस्मिन्स्थाने स तिष्ठति । ततद्रूपो भवेदात्मा तां तां गतिमवाप्नुयात् ॥ ३७९ ॥

तत्रैते तेषु त्रीषु ईश्वरत्वाधिष्ठितेषु स्थानेषु चरतः प्राणस्येति चरनं प्राणमनाहत्य संकल्पप्रधानतया प्राणभूमिकां गुणीकृत्य यस्मिन्यसिन् स्थाने स योग्यात्मा तिष्ठति ततद्रूपतामनुभूय तत्तन्मयत्वमात्रोत्यर्थः ॥

३८०

अथ निरोधिनीं भेदयित्वा ततः नादं ब्रजेत् हुधः ॥ ३८० ॥

३८१

वंशाशब्दसमः शब्दः सततं सूक्ष्मः प्रजायते । सूक्ष्मत्वं पूर्वपक्षेऽश्वरत्वस्य ॥ ततोडपि भेदयेत् नादसंस्थानं ब्रह्मरन्ध्रं सुदुर्भिदम् ॥ ३८? ॥

Page 244

३८२

भियतो ब्रह्मरन्ध्रस्य शब्दः शुमशुमायते। नादस्य सम्यक् स्थानं विश्रान्तियत्र तन्नादसंस्थानं ब्रह्मरन्ध्रं सुदुर्भिदं नादान्तपदं तदेव च ब्रह्मरन्ध्रमूर्ध्वकवाटच्छिद्रं सुदुर्भिदं सातिशयावधानैरैव भेतुं शक्यम्॥ एवं नादनादान्तस्थानं सदाशिवाधिष्ठितं भित्त्वा शक्तिमध्यगतः प्राणो वंशानादान्तसंनिभः॥ ३८२॥

३८२

नतु शक्तिभेदस्पर्शादर्शनादान्ततुल्यो भवति निरुपस्यान्तोद्गुरणनरूपः सूक्ष्मसस्ततुल्यो भवति॥ ३८२ ॥

अथ तां वै तु भेदयेच्छक्ति दुर्भेयां सर्वयोगिनाम्॥

Page 245

३८३

मिथ्यते च यदा शक्ति: शान्त: शुमशुमस्तत: ॥३८३॥ दुर्बलत्वं चास्या: तदनुभवाहदस्या: स्थै- णीयत्वेन त्यकुमशक्यत्वात् शान्त इति प्रवृत्तिस्थानकरणाभिघातादेव शब्दवृत्ति: शा- म्यति, इह तु शामित्वा आनन्दस्पर्शात्मकता- मेत्यर्थ: ॥ ३८३ ॥

३८४

शक्ति भिच्चा ततो देवी यच्छेषं व्यापिनी भवेत् । अनुभवो भवेतत्र स्पर्शो यह्रतिपीलिका ॥३८४॥ शक्तिभेदानन्तरं यन्मन्त्रावयवरूपं वस्तु शेषमिति शिष्यमाणं तद्व्यापिनी भवेत् शक्त्य- न्तसर्वीभाव्यापनात् व्यापिन्याख्यो मन्त्रावयव: स: । 'तच्छेषे व्यापिनी भवेत्' इति तु स्पष्ट: पाठ: । तत्र चानुभव: प्रशान्तशब्दव्यासि- कत्वात् स्पर्शप्रथारूप: यद्रतिपीलीकেতि सञ्चर- २१

Page 246

३८४

न्तीनां पिपीलिकानामिवेल्यर्थः। पिपीलिका इत्यत्र नांशब्दस्य लोप ऐश्वरः॥ ३८४ ॥ अत्रापि कलाविभागमाह स्थानत्रयमिदं देवि पञ्चपञ्चकलान्वितम्। तत्र नादस्थाने श्रीसदाशिवाधिष्ठिते 'इन्धका दीपिका चैव रोचिका मोचिका तथा। ऊर्ध्वंगा.................. ॥' (ख० १०।१२२६) इति वक्ष्यमाणः। पञ्च कलाः। शक्तितत्त्वे व्यापिनीपदे च श्रीशिवनाथाधिष्ठिते, ऋमेण 'सूक्ष्मा चैव सुसूक्ष्मा च तथा चैवामृतामिता। व्यापिनी.................. ॥' (ख०१०।२१३९) इति पञ्च कलाः 'व्यापिनी व्योमरूपा चानन्तानाथत्वनाथ्रिता ।' (ख०१०।१२५०) इति पञ्चात्मकश् सर्वः। स्वावेशे निबद्धयामः॥

३८५

यत एव ततः यत्र यत्र चरेल्प्राण- स्तत्तद्रूपमवाप्नुयात् ॥ ३८५ ॥

Page 247

३४३

प्राणो जीवस्तत्तदनुभवं प्राप्नोतीत्यर्थः । तदनुभवाभ्यासप्रकर्षात्तु यत्र यत्रावतिष्ठते । तां तां गतिमवाप्नुयात् । ततत्तदात्मैव भवतीत्यर्थः । एवं च 'समनान्तं वरारोहे पाशजालमनन्तकम् ।' (श्लो० ४१३०) इति वक्ष्यमाणमेतत्सर्वं तस्माद्र सुप्रयत्नेन भित्वा याति परां गतिम् ।।३८६।।

३८६

शोभनः प्रयत्नो दिव्यकरनधाराधिरोह- रूपः ।। ३८६ ।।

३८७

अत्र कममाह | भित्वा वै व्यापिनीं देवी समनायां मनस्यजेत् । मनसा तु मनस्त्यक्वा जीवः केवलतां ब्रजेत् ।।३८७।। मन इत्यविकल्पं चेतः । मनसीति स्पर्श- पर्यन्तस्य मन्तव्यस्य क्षीणत्वात् अविकल्पमन-

Page 248

387

नमात्ररूपेण चित्तेनैव तादृशमेव च मन एकाग्रताप्रकर्षात् त्यक्वा वेद्याभासजिहृक्षासंकोचरूपं स्वं वेदनं प्रशामय्य जीव आत्मा केवलत्वमेति शुद्धो वेदित्रमात्ररूपो भवतीत्यर्थः॥ ३८७ ॥

388

एवं भेदनं च पदार्थानां भावप्राप्तिवशादित्युपकान्तं निर्वाण्ण क्रमप्राप्तामात्मव्याप्तिमाह जीवो वै केवलस्तत्र आत्मज्ञानक्रियान्वितः। बन्धनाशेषनिर्मुक्तः सत्तामात्रस्वरूपकः॥ ३८८ ॥ समस्ताध्वपदातीतः शुद्धविज्ञानकेवलः॥

389

म्रह्यति नापरं भावं न परं च शिवात्मकम्।३८९॥ परापरविनिर्मुक्तः स्वात्मन्यात्मा व्यवस्थितः॥

Page 249

295

यो जीवः प्राणनात्मा स तत्र समनोध्वं यतः समस्तमध्यपद्मतीतोडत्त एवाशेषेण मलत्रयरूपेण बन्धेन निःशेषेण वासनापर्यन्तेन मुक्तस्ततश्व सत्तामात्रस्वरूपो भावाप्रतियोगिप्रकाशमात्रतत्त्वो य आत्मा आत्मीयाभ्यां खोचिताभ्यां ज्ञानक्रियाभ्यां नतु परमशिवसंबन्धिनीभ्यां सामरस्यावस्थितिसतत्त्वाभ्यामन्वितो व्याप्तो न तु सांख्यादिमतक्रूपः । एष च मायोध्वर्वर्योंऽनवमलयुक्त्विज्ञानकेवलवैलक्षण्यात् शुद्धो विशेषणं चाशेषोधिवद्यकराणत्मना नतु मायापुंविषयकरूपेण ज्ञानेन तेनैव च केवलो नतु मन्त्रमात्रेऽश्वरवद्विशेषयेनापि संस्पृष्टः अत एवापरं शिवं सदाशिवरूपं खभावं न युध्दाति नच परं परमाशिवरूपं स्वच्छस्वच्छन्दचिदानन्दघनम् अतश्व अयं व्याख्यातपरापररूपात् विनिर्मुक्तव्यक्तापररूपपौडपि अप्राप्तपरखभावः स्वात्मन्येव बोधृतमात्रूपे व्यस्थितः ॥

Page 250

३९०

न चैवात्र संतोष: कार्य इत्युपसंहारादिशा दिशन्नन्यद्वातितारयिषुराह आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिरत: परम्॥ बन्धनाशेषभावेन सर्वोपाधिवर्जिता ।

एषेति समनान्तस्थितता नतुं सांख्यपात-अलायुक्ता अस्यैव स्वात्मन् उन्मनापदारोहे चिदानन्दघनपरतरवृंव्याप्तिरूपा शिवव्याप्तियंत: सा बन्धनानामाणवादीनां मलानामशेषभावेन 'समनावधिपर्यन्त: कलड्काधार उच्यते ।' (स्व००७।२२७) इति भावनीया समनान्तेन प्रसरण ये पूर्वोक्ता: सर्वेऽध्वरूपा उपाध्योङवच्छेदकास्ते-विशेषण समस्तबन्धनप्रशमेऽपि आत्मनोपवर्जिता शुद्धविज्ञानकेवलतायां समनान्त-समस्तबन्धनप्रशमेऽपि तन्निष्ठिसंस्कारभाव-नावच्छेदकत्वात् सोपाधित्वं परमशिवता तु

Page 251

247

विश्वोक्तर्णवि श्वमयखतत्रचिदानन्दघनानवन्-चिछदैव ॥ यत ईदृशी शिवव्याप्तिस्तत्-आवृदित्वा परं तत्त्वं शिवत्वं कल्पितं तु यैः॥३९१॥ त आत्मोपासकाः शैवे न गच्छन्ति परं शिवम् ।

यैरिति शैवपाशुपतलाकुलादिभिरन्नाना-त्मवादिभिः शिवत्वं कल्पितमात्मनां व्याप-कत्वानित्वामूर्तत्वाच्चिस्वशक्त्युदयादन्तर्धर्मस्स्येन शिवैकरूपाणामपि केनचित्कल्पनामात्रेण नियुक्तिकेन भिन्नशिवरूपत्वमुच्यते ते सर्वे व्याख्यातव्याश्चिकात्मोपासकाः शैवेऽस्मिन्नद्वै-नये परं शिवं व्याख्यातस्वरूपं न गच्छन्ति न तन्मयीभवन्ति सांख्ययोगवेदान्तवादयस्तु अपरपक्षया इष्यते केन तेषामिष्यदर्शाभि-संभावनापि । अथ च सर्वे एवात्मोपासकाः शैवेन परमेश्वराद्वयदर्शनोक्तेन ज्ञानेन परं

१ ९० पु० मात्रुरूपेति पाठः ।

Page 252

248

शिवं गच्छन्तीति तत्रेण सप्तमीतृतीये योज्ये । उक्तं च श्रीमृत्युजिति 'येऽत्र वदन्ति न चैवान्यं विन्दन्ति परमं शिवम् । त आत्मोपसकाः शैवे न गच्छन्ति परं पदम् ॥' (ने० त० ८३०)

इति अत्र हि परमशिवमन्यं वदन्ति केवलं न चैव विन्दन्ति न पुनः केनापि प्रमाणेन लभन्ते साधयितुं शकुवन्तीत्यर्थः ॥

392

आत्मतत्त्वगतिं यान्ति आत्मतत्त्वानुरञ्जिताः ॥ ३९२॥

आत्मतत्स्वरूपतायां तत्त्वं परमशिवाभेदाख्यात्यातमा संकोचः तेन येडनुरञ्जितास्तदा-श्वस्ताः पाशुपतताद्याः त आत्मनो यत्नतत्त्वं शुद्धविज्ञानकेवलतारूपं तद्र्वातिं लभन्ते नतु तात्विकीं मुक्तिं भेदस्यापरित्यागादिति॥३९२॥

मुक्तशिवसंसरं परिजिहीर्षुणा तस्मादात्मा परित्याज्यो यदीच्छेच्छिवमात्मनः ।

९ ख० पु० नचैतन्ममिति पाठः ।

Page 253

249

आत्मेति मुक्ताणुरुपता, शिवामिति मुक्तविकसितपरमशिवैकताम् । तदित्थम्

293

आत्मतत्त्वं ततस्तस्याज्यं विद्यातत्त्वे नियोजयेत् । आत्मानामिति शेषः ॥ २९३ ॥

कात्र विद्येल्याह उन्मना सा तु विज्ञेया तां ठ्याचष्टे

294

मनः संकल्प उच्यते । संकल्पः ऋमतो ज्ञानमुनमनं युगपत्स्थितम् ॥ २९४ ॥

294

संकल्प इच्छा सा चेशितव्यविश्वक्रमासूत्रणात्स्वात्त्वात् ऋमतो ज्ञानमियुक्तम् । उन्मनमुक्तान्तमुकर्षं च मनः प्राप्तं यत्र तदुनमनं, युगपदिति विश्र्वस्यासूत्रणावभासननिर्माणाद्यनन्तशाखाशातभिन्नस्यापि अत्र नित्योदिततनन्दघनख्याततत्प्रकाश्याभासात्स्वात्मत्वेनावस्थानात् २९४

Page 254

250

यत ईदृगुनमनं ज्ञानमेवोन्मनाशक्तिः । तस्मात् सा तु परा विद्या मायान्तावधिकात्मकत्वाद्वशिष्ठशुद्धविद्याद- शक्त्यन्तध्वन्यापकात् । विद्यातत्त्वादियमन्यैव विद्या ॥ यस्मादन्या न विद्यते । ईदृशीत्यर्थात् । एतयैव अशेषविशक्रोडिकारात् । तदाह

395

विन्दते ह्यत्र युगपत्सर्वज्ञ्यादिगुणान् परान् । परान्त्यभेदरूपान् सर्वज्ञत्वादीन् यतो युगपदत्रोन्मनायां योगिवरो लभते तत इयं परा विद्या 'विद् लाबे' इति धात्वर्थानुगमात् ॥ ३९५ ॥

किंच वेदनानादिधर्मस्य परमात्मतत्त्वबोधना ।

Page 255

३९६

वर्जना परमात्मत्वे तस्माद्विद्येति सोच्यते ॥३९६॥

३९६

अनादिधर्मः स्वातन्त्र्यशक्त्यात्मा स्वभाव तस्य वेदना विचारणा, आत्मनश्र यत्परमा: तत्त्वं शिवरूपत्वमस्ति तस्य बोधना अवगमहेतु:, अत एवापरमात्मवेदतद्विषये इयं वर्जना संपद्यते । तस्मात् ‘विद विचारणे’ ‘विद ज्ञाने’ इति धात्वर्थानुगमादियं विद्योच्यते ॥ ३९६ ॥

३९७

तत्रस्थो व्यज्ययेतेज: परं परमकरणम् । परसिमस्तेजसि व्यक्ते तत्स्थ: शिवतां ब्रजेत्॥३९७॥

३९७

तत्रेति उन्मनाख्यायां विद्यायां व्यज्यये- दातमीयमेवोन्मीलयेत् प्रत्याभिजानीयात् तेज: चिज्ज्योति: परमसंकुचितं परमकरणं परमशिवरूपम् अत: शिवतां ब्रजेत् तदेकात्म्यमियात् ॥ ३९७ ॥

Page 256

३९८

एतदृष्टान्तेनोपपादयति सुप्रदीपे यथा वह्निः शिखा दृश्यते चाम्बरे । देहप्राणस्थितो ह्यात्मा तहल्लीयेत तत्पदे ॥ ३९८ ॥

३९८

देहमन्त्रप्राणात्मशिवपदानामौचित्यात् कार्षारणिवहितचिच्छिखाम्बराणि हस्तान्तः । तेनारणिमथनयुक्त्या सुप्रदीपे प्रज्वलिते वह्नौ साक्षात् यथा शिखा ज्वाला द्रष्टुं दग्धवाम्बरहृदयते तत्र लयात् तदात्मभावं प्राप्तावलोक्यते, तद्दिव्यकरनमन्त्रारणिसमुत्तेजनेन देहे यः प्राणस्तस्मिन् सुप्रदीपे मध्योद्धवायुदानग्रितामयाति देहे स्थितो य आत्मा प्रोक्तशुद्धविज्ञानकेवलरूपो वहिशिखातुल्यः समनान्तं समस्तं देहदारुं दग्धवा तस्मिन्पदे लीयते निरुपाधिपरमशिवैकात्म्यमे त्वेवेत्यर्थः ॥ ३९८ ॥ इत्थमुक्तयुक्त्या परतत्त्वलीने तद्देवाभिमानस्तु कर्तव्यो देशिकोत्तमैः ।

Page 257

399

तद्त्परमपदवदभिमानः पूर्णाहंविमर्शः कर्तव्यः स्वीकार्यो नतु पाशावे शरीरावयहंभावे वर्तितत्व्यमेतदर्थमेवोत्तमपदं ॥ तमभिमानं स्फुटयति अहमेव परो हंसः शिवः परमकरणम् ॥

399

एतत्पूर्ववदव्याख्याभिरगतार्थेम् ॥

400

अतश्व मद्न्राणे सु तु पाश्वाद्म ठीनः समरसोगतः । एवंविधस्य मम प्राणे प्रोक्तशडध्वव्याप्तिमध्ये ॥ तं पूर्वोक्तयुक्त्या समरसोकृतम् मन्त्रकरणक्रियायोगयोगेन परे शिवे ॥ मत्नो निष्कलः, करणं दिव्यं, क्रियायोगो द्वाररोधोध्ववाहाधरपदद्वयाग्रन्थिभेदानाद्यारमा ॥

Page 258

401

नचैतद्वचनमात्रेण घटते, अपितु एवं यो वेक्ति तत्त्वेन अशिववद्देहमध्येत: । यदृध्द्यिशिखातिता तद्योजयते परे ॥ ४०१ ॥

401

तत्त्वेनानुभवरुह्या य एवमिति शिवाभेदं वेक्ति स इन्धनकल्पस्य देहस्य मध्ये5शिवत्पाशानुशोषयति दीप्तभाख्ज्योतिमात्ररूपतया स्थित: शिष्यात्मानं परे शिवे योजयते तदैकात्म्यमासादयति । कथम् वह्निशिखा अतिशयेन इता व्योम्नि लीना तदैक्यमात्रे5तद् ॥ ४०१ ॥

402

तै:संयुक्त: परे तत्त्वे सर्वैर्यादिगुणान्वित: । शिव एको भवेदेवी अविभागेन सर्वत: ॥ ४०२ ॥

Page 259

402

सर्वज्ञत्वादिकमिहाभेदसारं मन्त्रतयं न तु मन्त्रादिवदेदविषयम् ॥ ४०२ ॥

403

मपरं चाध्वमध्यगम् । भेदनं तु पदार्थानां त्यागानुभवयोजनम् ॥ ४०३ ॥

परं शुद्धात्मोन्मनापरशिवरूपं यत्तत्त्वत्रयं प्रकाशितं, यच्चापरं स्थूलमध्यगमिति

Page 260

403

पञ्चमपटलभावितस्वभुवनाध्वदीक्षामध्ये मायासदाशिवशिवान्तव्याख्या आत्मविद्याशिवारख्यं तत्त्वयं पूर्वं प्रायश्चित्तशुद्धावपि निर्णयेतत् तित्त्वदीक्षायां प्रधानरूपं, तथा पूर्वोक्तं भेदनादि चकाराचारं प्रमाणादिकं च ज्ञात्वा एतज्ज्ञानप्राधान्येनैव तत्त्वे परासिन् योजयेत् शिष्यमित्यर्थः। एतच्च दीक्षान्तरविषयमपि मन्तव्यम् ॥ ४०३ ॥

404

अथेह परतत्त्वस्वरूपं निश्रिन्वन् भाविचतुर्भेदतत्त्वदीक्षामध्ये असङ्रहीतामपि एकतत्त्वदीक्षां प्रसङ्गेन सूचयितुमाह संक्षेपेण तु तत्त्वस्य व्याप्तिं शृणु सुरेश्वरि ॥४०४॥

सुराणां ब्रह्मादिशिवान्तानां कारणानामीश्वरात्सकाशात्स्वशक्तिकहिरूपो विद्यातत्त्वास्पदं बद्ध्वा विन्दुतत्त्वासनेः स्थितः ।

Page 261

405 श्लो॰]

नादशक्तितनुश्रैव व्यापिनीकरणान्वितः ॥४०५॥ विद्यातत्त्वे शुद्धविद्यां प्रक्तकरणावष्ट- म्भलभ्यमध्यविकासेनास्पदमवस्थितिं बद्धा; अथ च विद्याया मातृकायास्तत्त्वे मूलमन्त्रे वा स्थितिं बद्धा तदुचारावहितो भूतवा, मात्रे बिन्दुतत्त्वे अभिन्नवेद्यज्योतिरूपेडशेषविश्ववि- श्रान्तिस्थानत्ववादासने स्थितोज्जधिरुढः, नादो विमर्शमात्ररूपो हादानुभावात्मकः शक्त्यन्त- स्थः शरीरं शिष्य, व्यापिनी शक्त्यन्ताधि- व्यापिका करणमान्त्रमुपलब्धिसाधनं यस्य गुरोः स सर्वं ज्ञात्वा तत्त्वे नियोजयेदिति पूर्वोक्तेन सम्बन्धः ॥ ४०५ ॥ अस्या करणरूपा या व्यापिनी सर्वज्ञत्वावबोधेन समना सैवेल्यर्थः ॥ अन्तश्शरा तु सा ।

Page 262

258

सैवास्यान्तःकरणामित्यर्थः ॥ एवंशीर्षे तत्त्वासने शरीरान्तर्बीहिष्करणस्यास्य तत्रतत्त्वं यत्परं प्रोक्तं तेन चापूरिता तनुः ॥४०६॥

406

परादिशक्तित्रयमयेनात्मकल्पनेत्यर्थः॥ एतच्च त्रितत्त्वं यस्मादध्वातीतं समनान्तमतिक्रम्य स्थितं तस्मात्परं तत्त्वं, यतु माया-सदाशिवेश्ववर्याल्या तदपरं यस्मादध्वमध्यगम्, अत एवापरेणात्मादितत्त्वत्रयेण धरादेशिवान्तस्यान्तःकृतत्वात् तदारब्धा उपरासा तनुः स्थूला षट्त्रिंशतत्त्वकल्पिता ।

407

इयं पुनः तत्त्वत्रयं परं यच्च सर्वतत्त्वाध्ववर्जितम् ॥ ४०७ ॥ तेन चापूरिताशेषं सा तत्त्वाध्वपरा तनुः ।

Page 263

407

समस्ताध्वातिकान्तं यत् शुद्धात्मादितत्त्वत्रयं तेनोक्सतच्चेनाशेषं कृत्वा आपूरिता सर्वात्मकाभासनেন ठ्यात्ता या प्रकान्ता नादशक्त्यात्मा तनुः सा तत्त्वाध्वनः सकाशात्परा प्रकृष्टा ॥ ४०७ ॥

408

एवमीहाकृशिवाभेदविमर्शमय एव यथार्थ आचायों भवतीत्याह एवं आचरते यस्तु आचारं तु शिवात्मकम् ॥ ४०८ ॥ शिवेन सहचारित्व-दाचारस्तेन चोच्यते । आचारः प्रोक्तस्फारानुप्रवेशः । सहचारित्वं तद्भेदविमर्शेपरमार्थम् ॥ ४०८ ॥

409

अस्य माहात्म्यमाह तस्य दर्शनसंभाषा-स्पर्शोनात्स्मरणादपि भवत्येवैश्वरी व्याप्तिं न भवेतदधोगतिः ।

Page 264

409

यतोडस्य करणानि प्रोक्तव्यानि समनध्यासिमियानि ततस्तत्संघादिश्वरस्य शिवत्स्वस्य ध्यास्तिर्भवयैव देहान्ते नतु शिवाद्धःप्रवृत्ति: कदाचिदपि, योडपि तं तथारूपं भक्त्या पडयति सोड्येवं, तेन तस्येति कर्त्तृकर्मणि च पष्टी ॥ ४०९ ॥

410

यस्तु अनुत्तरशक्तिपातवशात्तेन संयोजितो जन्तुःसब्रह्महापि शिवो भवेत् ॥ ४१० ॥

परमशिव एव ।तदेवं भवति ततस्तेन समो नास्ति जगत्यसिंश्वराचरे । तेन शिवैकात्मनाचार्येण कः समः तस्य-कव्वात् ॥अतश्ष

Page 265

४११

शिव आचार्यरूपेण लोकानुग्रहकारकः ॥ ४११ ॥

४११

अनुजिघृक्षापरो हि परमशिव आचार्यदेह- मास्थाय पशूनां पाशान्त्रिकुन्तति ॥ ४११ ॥

यत एवम् तस्मान्न मानवों बुद्धिं कारयेदेशकं प्रति । दिङ्मात्रोपदेशमिति देशकः उपदेष्टा, तस्मिन् दौआत्म्यान्मानवीं बुद्धिं कुर्वन्तं निवर्तयेदि- त्यर्थः ॥

४१२

यतो येऽध्ययते मायोऽध्ववर्तिनोऽनन्तभार- कायास्तेऽपि आचार्यस्य च मन्त्रस्य शिवज्ञाने शिवस्य च ॥४१२॥

नानात्वं नैव कुर्वन्ति विद्येशाशक्नायका: । चतुर्षु विद्याग्रामस्य नायका: प्रभवः स्व- स्वरूपतापकाश्र्श्, शिवज्ञाने पारमेशे शास्त्रे

१ ख० पु० शैवे इति पाठः ।

Page 266

412

आचार्यस्योपदेशे‌ष्टर्मन्त्रस्य शिववाचिनो निष्कलदे‌स्तद्वाच्यस्य च शिवस्य भेदं न कुर्वन्ति नैतद्वितरं पश्यन्तीत्थार्थः, आचार्यादेव शिवशास्त्रम्न्राशिवानामवगमात्। यत्र च विद्येश्वरा अप्येवमभेदं मन्यन्ते तत्र तदनुरूपैतेः कथं भेदधीः कार्या ॥ एवं च ये आचार्यशिवमन्त्राण्येन ज्ञानेनै‌ते विद्येश्वर इति मन्त्रेश्वरस्फारमेव विशान्ति ॥ ४१२ ॥ युक्तं चैतत्, यतः

413

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वीरवन्दिते । आचार्यत्वे नियुक्ता ये ते सर्वे तु शिवाः स्मृताः । शिवाचार्य एव हि आचार्यों युक्तः ॥ ४१३ ॥

414

ये तु आचार्यमित्यं न मन्यन्ते ते प्रत्यवायिन इत्याह अन्यथा प्राक्स्वरूपेण ये पश्यन्ति नराधमाः ॥४१४॥

Page 267

415

नरके ते प्रपञ्च्यन्ते साधार्यं वत्सरत्रयम्‌ । अधमत्वं रहींतदीक्षाणामपि गुरुद्रेषण विलयशत्याघातत्वात्‌ । साधार्यवत्सरमान- मेकादशे पटले भविष्यति ॥ ४१५ ॥

415

पातकिसंगतिरपि पापायेत्याह न तेन सह संभाषा कर्तव्या तु शिवार्थिना ॥४१५॥

416

क्वचिद्‌ वापि संभाषणं तेन नरकं सोडपि गच्छति । यत एवम्‌ तस्माच्छिवसमाः सर्वे द्रष्टव्या मुक्तिमिच्छता ॥४१६॥

यस्मात्‌ भुक्तिमुक्तिफलावाप्ति- भवत्येव तदज्ञया । अस्य चेयान्‌ प्रभावो यदयम्‌

१ क० पु० प्रपथान्ते इति पाठः ।

Page 268

417

आचार्य: स्वजनानां च कुलकोटि[टी:]सहस्रश: । ज्ञानज्ञेयपरिज्ञानात् समस्तोस्तारयिष्यति ॥ स्वे आत्मीया विद्यासंबन्धिनो जना: शिष्या: तेषां चकारादात्मनश्र सहस्रश: कुलकोटि[टी:]ज्ञानस्य तावदनुभव्यानुग्रहाभिसंधिपूर्वं परशक्तिस्फारानुप्रवेश्योपायरूपस्य, ज्ञेयस्य चोपादेयस्य परतत्त्वस्य, परित: समन्तादविकल्पसविकल्पसमापत्तिभ्यां परतत्त्वविश्रान्त्यात्मकात् शिष्यप्रशिष्यादिक्रमेणानन्तकालव्यापिनश्र ज्ञानात्तारयिष्यति संसाराब्धेरुद्रिश्यति । ज्ञानज्ञेयपरिज्ञानमेव गुरोर्मुख्यं रूपम् । यथोक्तं प्राक् 'ज्ञानज्ञेयविशारदम्' ।

417

इति ॥ ४१७ ॥

418

एतदुपसंहरन् प्रकृतमाह एवमुक्तविधानज्ञो भावज्ञश्वापि दैशिक: ॥ ४१८॥

Page 269

पूर्णाहुत्यैकयैवासौ पशून्योजयते परे।

उक्तं प्राणचारादिविधानं, भावः परतत्त्वभावनात्मकं॥

४१९

पूर्णाहुतौ प्रयोगं जिज्ञासुं देवीं प्रति आह पूर्णाहुतिप्रयोगं तु कथयाम्यधुना तवं ॥ ४१९ ॥

४२०

पूर्णत्वार्थमाहुतिप्रयोगमाह ऊर्ध्वकाय ऋजुग्रीवः सम्पाद्यो न्यवसीतत॥ नाभिस्थाने सुचो मूलमुक्तानास्रमुखं सम्म॥ ४२० ॥

४२१

सुच्युपरि सुवं देवी कृत्वा चैवमधोमुखम्। पुष्पं दृष्टवा सुगन्धे तु दर्भैष साहितो करौ ॥ ४२१ ॥

मुष्टिना चैव हस्ताभ्यां गृहीत्वा यत्नतोऽपि च॥

१ ग्रं० पु० प्रयत इति पाठः॥

Page 270

४२२

अग्रतो दक्षिणं हस्तं वामं वै पृष्ठतः प्रिये । माषिभ्यां संगृहित्वा वै उत्तानकरयोगतः ॥ ४२२ ॥

४२३

ततो घृतेन संलक्ष्य अभिमानं तु कारयेत् । अहमेव परं तत्त्वं परापरविभागतः ॥ ४२३ ॥

उद्विकाय उत्थितः, उत्तानमस्थितवेदि-कापुष्करादिरूपं मुखं यत्र, समम्रुजुतया स्थितं, शुच्युपरि शुवमिति शक्तिग्यापकौ शुंकुकुवौ परस्परोन्मुखौ कृत्वा, अत एव च पुष्पदानम् अतः शिष्यस्य शक्तिस्यक्त्वाः-प्रसरा शिवोन्मुखा शिवेन संसुखेन पुष्टेति भावनोयम् । करावियत्र कृत्वेति लोके, हस्ताभ्यामूर्ध्वाधःस्थिताभ्यां दक्षिणामाभ्यां कृतो यः प्रत्येकं मुष्टिस्तेन अत एव सुष्टिभ्यामित्युयुकिः । यत्नत इत्यनवलिततया, अग्रत इति शुचि-

Page 271

423

मूलगतवामापेक्षया, दक्षिणमिति शुभवन्धो-सुखं शिवव्याध्या, वाममिति शुभदुत्थानं च शक्तिव्यास्या, यदाह उत्तानेन करणे यो योग इत्यादि वामुखस्य दक्षिणस्य वामं । संहार-व्यति संपूरीतां शुचं कारयित्वा, अहमेंव परं तत्त्वं परापरेति प्राग्वत्परसूक्ष्मस्थूलरूपतया स्थितमित्यभिमानं निश्श्रितां प्रतिपत्ति कारयेत् कुर्यात् ॥ ४२३ ॥

नचैतदभिमानमात्रं यतः तत्स्वमेकं हि सर्वत्र सर्वे हि चेत्यमानत्वात् चिन्मात्रपरमार्थमेव ॥ अतश्च

424

नान्यं भावं तु कारयेत् ॥ ४२४ ॥ कारयेदिति प्राग्वत् मायाप्रमातृतासुलभं भेदाभिमानं त्यजेदित्यर्थः ॥

किं यत्कुम्भेदध्वात्र विन्यस्तः षट्प्रकारो वरानने ।

१०५० शिवतत्त्वमिति पाठः । ३० पु० नेहति पाठः ।

Page 272

४२५

मण्डलेडमौ शिशोरन्तः साधारणविकल्पितः ॥ ४२५ ॥ सुध्यद्ध्वानं तमारोप्य प्राणस्थं नाडीमध्येगम् । प्राणधारे समीकृत्य शुचा धारां विनिक्षिपेत्

४२६

४२६ कुम्भमण्डलाद्रिशिशुगतं पड्‌धामध्वानमा- जयरूपतया शुचि मध्यनाडिप्रतिच्छन्दकरूपा- यमारोप्य पूर्वोक्तक्रमात्त्वा प्राणस्थिं च तं मध्य- नाडिगतं कृत्वा अत एव मध्यं प्राणं धारां चाऽज्यसंबन्धिनीं सुगतां समीहलयेतिं मात्रव- हिद्रावितषड्‌ध्वारसमयतया भावयित्वा तां धारां क्षिपेत् ॥ ४२६ ॥

कथं क चेत्याह वसुधाराप्रयोगेण प्राक्षपञ्जातवेदसि । अविच्छिन्नसन्तल्या शिवाग्रौ द्वादशान्तस्थे बाधे च प्राणमाज्यधारां चाविभागभावनया

१ पु० नाडीति पाठः । २ क० पु० भावभावनेति ग० पु० भागभाव- नेति पाठः ।

Page 273

जुहुयादिव्यर्थः वसवेऽभीष्टफलायाखुचैर्धारा-प्रयोगेन ॥

४२७

अत्रेतिकर्तव्यतामाह नाभिस्थाने रुचो मूलं नयेत्न्रासान्तगोचरम् ॥४२७॥

४२७

यथा यथा त्यजेद्वारां तथा प्राणं समुचरेत् । नाभिस्थाने यथाsड्मूलं स्थितं तन्नासाग्रं प्रापयेत् धारापातानुसाराय मध्यप्राणं सम्यग्-भ्यस्तवाहचारेण ऊर्ध्व चरेत् द्वादशान्त-विश्रान्तं कुर्यात् ॥ ४२७ ॥

४२८

एवं सति न केवलं हृतषड्ध्वरसमी धारा यावत् प्राणोऽपि वर्णतां याति षड्ध्वाध्वमयस्तु सः ॥ ४२८॥

४२८

यः षड्ध्वमयः प्राणः सोऽपि वर्णतां साङ्ग-परामर्शातां याति ॥ ४२८ ॥

एवं च सति

Page 274

128

षड्‌रिधेड्‌ध्वनि नातोडन्यात् प्रमेयो विद्यते काचित्। षड्‌रिधेड्‌ध्वनि यः कश्चित्प्रमेयः सोजस्मिन्न-वसरे अत इति मात्रात्परामर्शान् नान्यः कचित्पि जागरादौ विश्वत्र सर्वस्य मात्र-परामर्शोषीकृतत्वात् यत एव तस्मान्मान्त्रे परामर्शो हेतुपादेयतः स्थितः ॥४२८॥

129

ये हेतुतया स्थिताः समनन्ताः पदार्थाः ये चोपादेयतया शुद्धात्मोन्मनापरमशिवाः स्थितास्ते मन्त्र एव वाचकेऽन्तराभिन्नवाच्यात्म-तया स्थिताः ॥ ४२९ ॥ यैस्मान्मन्त्रौकारादिध्वनिरूपै-र्वर्णः कारणषट्कं तु पूर्वोक्तं तत्त्वतत्त्वाधिष्ठातृरूपं न्यासम्, अत-स्तद्ग्राह्यैव विश्वं स्वीकृतमेवि: ॥

Page 275

षट्त्यागात्सम्मे लयः । कार्यं इति शेषः ॥

430

यदवधिकं कारणषट्कं यावदिमांत्रैध्वनिर्भिर्योऽस्तं तद्वेत्वेन दर्शयति अकारश्च उकारश्च मकारो बिन्दुरेव च ॥ 430 ॥

431

अर्धचन्द्रो निरोधी च नादश्चैवोर्ध्वगामिनी शक्तिश्च व्यापिनी ह्येताः समना च ततः परम् ॥ 431 ॥

समानान्तं वरारोहे पाशजालमनन्तकम् ।

432

कारणे: षट्तिराकान्तं मन्त्रस्थं ह्यलक्षणम् ॥ 432 ॥

पूर्वमेव व्याख्यातमेतत् । ऊर्ध्वगामिनी नादान्तदशा । अस्य मात्रस्य प्रमेयैकादशकस्य भेदकल्पनामयत्वेन हेयत्वमभेदविमर्शात्मकत्वे तु उपादेयतेति । प्रागिव भक्तमेव ॥ 433 ॥

Page 276

४३३

मन्त्रस्थं हेयमुक्त्वा उपादेयं प्रस्तौति अत्र । पाशोपरि ह्यात्मा ध्योमवहिन्दु[चित्सु]निर्मेलः । शिवतत्त्वगुणामोदाच्छिवधर्मावलोककः ॥ ४३३ ॥

४३३

समनान्तपाशातिक्रमादेव चिता सुष्टु निर्मेलः शिवतत्त्वस्य सदाशिवस्य स सम्बन्धभिरभेदसरवज्ञत्वादिभिरुणैरभिलष्यमाणैर्ज्ञानितादामोदात् प्रहर्षादेव शिवस्य धर्मं पूर्णपशुविर्धकृत्यस्वातन्त्र्यं प्राप्तत्वेनावलोकयति न तु वद्यापि प्राप्ततद्रूपः ॥ ४३३ ॥ यतः

पाशावलोकनं तक्त्वा स्वरूपालोकनं हि यत् । आत्मह्याप्तिर्भवेदेषा पाशानां समनान्तानामवलोकनमात्रत्वे-नाभिमर्शनं स्वरूपं पाशोत्तीर्णचिन्मात्रत्वं यदेतावत्पर्यन्तात्मलय्यात्तः ॥ शिवव्याप्तिस्ततोऽन्यथा ॥४३४

Page 277

273

श्रीक्षेमराजाचार्यकृतोऽथोत्कर्षटिकोपेतम्

435

तां प्रतिपादयति सर्वइयादिगुणा येडर्था व्याप्तौ कानभावयेदादा शिवव्यासिभवेदेशा चैतन्ये हेतुरुपिणी ॥ ४३५ ॥

ये वक्ष्यमाणा: सर्वज्ञत्वादिगुणा धर्मा: परमोपादेयत्वेनार्थमन्त्वादर्था: तान्यापकानिति अशेषमन्तरभेदेन क्रोडीकुर्वतो यदा स्वात्मनि भावयत् तदा तद्भावनापत्ति: शवव्याप्ति:, सा च भावके चैतन्ये हेतुरुपिणी प्रयोजिका, तत्प्रसादादेव शुद्धात्मन: तद्भावानाप्रुढ: ॥ ४३५ ॥

यतोऽयमेवं सर्वज्ञत्वादिगुणयुक्त: , अतो धर्मिस्वभावो हि शिव: शान्तस्व पठ्यते ।

विश्वस्य भित्तिलङ्घनप्रत्वेनैव स्फुरणाद्धर्मकल्प- स्यसौ धार्मिकल्पो, निःशेषभेदोपशमात् शान्तः,

१ ग० पु० परमभिष्येति पाठ: । २ ख० पु० दिरुपा इति पाठ: । ३ ख० ग० स्वात्मन् इति पाठ: । ४ ख० पु० मयत्वनेति पाठ: । ३५

Page 278

436

अभेदसार्वइयादियोगेन श्रेयोरूपतया शिवः, पञ्च्यते इत्यागमेषु ॥ एवं पञ्चमानोडप्यसौ वस्तुतो न शब्द-गोचर इत्याह उन्मनाश्र मनोग्राह्यः उन्मना: शक्त्यभेदात्मनो विषयत्वाभावात् वस्तुतो न शब्दवाच्य इत्यर्थः । न केवलमीहक् शिवो यावत् आत्मबोधे स्थितोऽनन्नः ४३६ शिवदात्मापि मन उत्क्रम्य मनोभूमि-मुज्झित्वा बोधे संविन्मात्रे पूर्णत्वसर्वज्ञत्वसर्व-कर्तृत्वाद्यात्मनि स्थितः । स्थितश्वासौ उन्मना-श्रेति समासः ॥ ४३६ ॥

437

यतश्वात्मा शिवश्व न मनोगोचरस्तत: व्यापारं मानसं त्यक्त्वा बोधरूपेण योजयेत् । तदा शिवत्वमायाति पशुरुक्तो भवार्णवात् ॥४३७॥

Page 279

437

'तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः ।' ( स्प० ३११ ) इति स्पन्ददेशे आदौ शिष्यात्मानं स्वात्मनि समरसीकृत्य समनान्तमतिक्रम्य शुद्धात्मनि स्थितिं बद्धा । बोधक्रमेणैति अविकल्पसाव- त्स्पर्शेनैव उन्मनाशक्त्यनुप्रवेशप्रमुखं शिवे योजयेत् ॥ ४३७ ॥ अत्र चावसरे परे चैव नियुक्तस्य शुवमापूरयेत्पुनः । शुचौ रन्ध्रे तदृश्य यावदहः प्रयुज्यते ॥ ४३८ ॥

438

बहिःस्थं कुम्भकं ताव- त्परे तच्चे तु भावयेत् । बहिरिति उद्ध्वरेचकान्ते द्वादशान्ते ॥ एवं च यत् बाहर्निरोधभावेन सामरस्यं शिवेन च ॥ ४३९ ॥ चरब्दाच्च तच्चकत्यापि ॥ ४३९ ॥

Page 280

२७६

तत् अन्यथा न भवेद्देवी न कदाचिदेतस्याशिवीभावहेतुरित्यर्थः ॥ अत्र दृष्टान्तः नदीवेग इवार्णवे । एतत्स्फुटयति स्थितः स सागरेऽद्रिस्पृक् सिन्धुः समरसीभवेत् ॥४४०॥ पुनर्विभागं नाप्नोति तथात्मा तु शिवार्णवे । अधिरिति सागरैसंगताभिः ॥ सिन्धुनन्दी ॥ बहिःस्थकुसुम्भभावनाया अवधिमाह् रुचस्तु पूरणं याव- त्तावत्कालं समादिशेत्॥४४१॥ रुचः सकाशादाज्येन यावत्पूरणमिति वह्नौ पूरणाहुतिर्यावद्रवति तावह्निः कुम्भकं सम्यगा समन्तात् दिशेत्प्रापयेत् ॥ ४४२ ॥

Page 281

४४२

तदित्थं पूर्णाहुतौ अननेनैव तु कालेन बहिः कुम्भकवृत्तिना । आत्मा समरसत्वेन शिवीभवति सर्वंगः ॥ ४४२ ॥

एवं शिष्यशिवीकरणानन्तरम् गुणानापादयेत्पश्चात् षट्कं वध्यमानं सर्वज्ञत्वादीन् गुणान् कीहशान् अर्धपरिमाहुतीन् ।

अर्धेनैव कलैरहंब्रैरेव अर्धपरिमा अर्धसंख्याकः षट्‌एवाहुतयो येषां तान् ॥ शिवत्वे प्राप्ते यद्यपि तदभिन्ना गुणा अपि प्राप्ताः तथापि तेषां साष्टाम्रप्रत्यवमर्शपूर्वकथनादोदेरणेनापि स्पष्टीकार्यो एवति हस्तान्तपूर्वं निर्दिशति

१ ख० ग० स्कृटीकाया इति पाठः ।

Page 282

443

यथा नृपत्वे सम्प्राप्ते कलशैर्ॠष्याभिषिच्यते । वन्दिभि॒श्व गुणास्तेऽपि कीर्त्याप्यन्ते वसुधातले । तथा शिवत्वे सम्प्राप्ते गुणानापादयेद्‌धुधः ॥ ४४३ ॥

444

दाष्टान्तिके कलशाभिषेकं 'दद्यात् ततोऽभिषेकं तु .................. ॥ ( १४४८) इत्यत्र वक्ष्यति । वन्दितुल्या अङ्गमन्त्राः ॥ गुणापादने प्रयोगमाह । सर्वज्ञो वै भव स्वाहा परितुष्टस्तथैव च । अनादिबोधो भव च ततः स्वातन्त्र्यशक्तिकः

445

तथा त्वलम्भशक्तिश्‍चान्तशक्तिस्ततः पुनः । अत्र च प्रणवपूर्वा हृदादिमन्त्राः षट् कमेण पूर्वं योज्याः । सर्वज्ञा अपि कपिलादयो निर्वि- मर्शोचिन्मात्रत्वेनानन्दशक्तिरूपत्वात्किराहिताः ।

Page 283

447

केचित्तु आनन्दशक्तियुक्तत्वेडपि भावनया तदूपतां प्राप्नुयात् । न तु अनादिबोधः । दीक्षयस्य तु अनादिबोधत्वं स्थितमेव सद्भिरुज्यते न त्वपूर्वं जन्यते । केचित्तु सदा सर्वज्ञतया अनादिबोधा अपि निर्माणशक्तिविकलत्वात्स्वातन्त्र्यहीना: सृष्ट्यादिकर्माणि स्वतन्त्रा अपि ब्रह्मादयो न नित्यमलुक्तशक्तिकाः निजासु रात्रिषु व्यामूढत्वात् । मन्त्रमन्त्रेश्वराद्यस्तु अनानन्तशक्तिकाः तदपेक्षया विशिष्टं मित्रत्वेन शक्तिरूपत्वाभिवादित्सेकद्रय: पट्टु गुणा व्याख्रयेया: ॥

448

गुणानां गुणविश्रान्तिसारतां स्फुटयितुं मूलविश्रान्तिपूर्वं मूलनेव षडधुतीर्द्वादशाह गुणानपाथ सर्वास्ता-न्मूलमन्त्रमनुस्मरेत् ॥

ओंहूंमात्मपदोपेतं सर्वज्ञायेत्यपाश्चिममन्त्र ।

Page 284

147

स्वाहाकारप्रयोगेण आहुती: प्रतिपादयेत् ॥१४७॥ आत्मपदं दीक्ष्यनामपवं चतुर्थ्यन्तं यतः अनिर्दिष्टसमाख्यं च यत्कृतं तत्‌तथा भवेत् । तदुद्दिश्य कृतं कर्म……संज्ञायः । इत्युक्तमन्यत्र । सर्वज्ञायेत्युपलक्षणं तेन तृप्ताये- त्यादि । तच्च अपाश्रिममिति एतावदन्तं पूर्व- मुचार्य स्वाहाकारेणाहुतीर्दद्यात् ॥ १४७ ॥ ताश्र संभव्यवसायानुसारम्

तिस: पञ्च दशोका वा अत्यन्ततमसंबवे चैकाहुतावपि न क्षति: ॥ द्रव्यविषयेडपि अत्र विकल्प एवेत्याह तिलैर्वाथ घृतेन वा ।

दीक्षान्ते शिष्यस्यावृथज्ञानमाह द्रथात् ततोनाभिषेकं तु मूलमन्त्रेण सुवते ॥ १४८ ॥ मूलमन्त्रमात्रितेन शिवकुम्भेन मूलमन्त्रो- चारेण वा इत्यर्थ: ॥ १४८ ॥

Page 285

449

परं शक्त्यमृतं क्षोभ्य शिष्यशक्त्या निपातयेत् । तुरीयंहारं विशोत्तद्भि सबाह्याभ्यन्तरं स्मरेत्॥

449

द्वादशान्ते विश्रस्य तत्स्थानमानन्दस्पर्शा- ह्मकं परं शक्त्यमृतं क्षोभयित्वा विमृइय शिष्यस्य द्वादशान्तान्मूर्धि पतितं भावयन् कलशाद्वारं पातयेद्विद्र्धिः । तुरीद्वारे तुया- नुभवप्रधानं ब्रह्मरन्ध्रं ॥

450

अभिषिके प्रयोजनमाह मन्त्रशक्तिभिरुग्रमाभिः शोषनिद्रहनादिभिः । शरीरं शोष्यते ताभि- स्तदर्थेमाभिषेचनम् ॥

450

ताभिः पूर्वोक्ताभिर्मन्त्रशक्तिभिः शोषनिद्र- हनादिभिरिति करणे तृतीया । तदर्थेमिति शोषनिद्रत्तये ॥

Page 286

अथ

दीक्षानिर्वर्तनेनात्पूर्वं पुष्पं पाणौ प्रदापयेत् । दर्भे विमोचयित्वा च

पूर्वं……कल्पनाय दत्तं दर्भं विमुञ्चेति शिष्यं प्रयुज्य पारितोषिकं पुष्पमस्य हस्ते दद्यात् । यद्वा णिचुं विवक्षितस्तेन गुरुरात्मनः पाणौ प्रदापयेत् देहीति शिष्यं प्रयुज्यीत विधिद्विक्रियाहीनो मा भूदित्यभिप्रायात् । एवं च वदन गुरोः निःस्पृहतवं सूचयति । शिष्यस्तस्कालं वित्तशाठ्यहीनो यद्ददाति तददातु तत्, गुरूणा तु निःस्पृहेणैव भाव्यमित्यर्थः ॥

अथ शिष्यः

४५१

शिवाम्भौ कलशे गुरौ ।।४५१।।

प्रत्येकम्

प्रदक्षिणत्रयं कृत्वा दण्डवन्निपतेऽद्रुवि ।

Page 287

452

चतुरधिकरणः शिवो नम प्रकर्षेण दक्षिणोन्नुकूलः सर्वदशासु आदिमध्यान्तपदेशशिवाशयेन त्रिः प्रदक्षिणीकरणं, दण्डवत्पतनं शरीरादिगुणीकरणेन शिवसमावेशाय ।। अत एव कृतकृत्यः प्रहृष्टात्मा भवोत्तीर्णः सुनिर्मलः ।।

प्रोत्फुल्लनयनः शान्तस्त्रस्तात्मानं तु भावयेत् ।

कृतं पाशक्षपणशिवत्वव्यक्तिरूपं कृत्यं यस्, अत एव प्रहृष्टात्मा पूर्णाचिदानन्दानुभवडतश् भवादुत्तीर्णः परमशिवत्वयुक्त्या सुष्टु निर्मलः तथाभूतः सन् अपि व्युत्थानाद्यवसरेषु तृष्णात्मनामिति गुरूपदेशादिसमये पूर्णानन्दघनत्मानमनुभूतचरं भावयेत् येन सदैव तन्मयाभवांति । अन्योपायप्रकटनाय विशेषद्धारकं हेतुमाह प्रोत्फुल्लनयनः शान्त इति कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः । (चि० मै० श्लो० ११३.)

Page 288

284

इति रहस्यहृद्यनुसारेण निरीक्ष्यस्तब्धहस्तिबन्धः शान्तो विगलिताभिलाषप्रक्षीणसकलविकल्पजालश्‍च ॥ उपसंहरति इयं नैर्वाणिकी दीक्षा निर्बीजा वा सवीजिका॥४५३॥

'अथ दीक्षाधिकारः……….. (स्व० ४७९) इत्युपक्रम्य 'पाशत्रं समादाय शिष्यदेहेऽवलम्बयेत् ।' (स्व०४९१) इत्येतत् प्रभृति '…………..दण्डवत्पतितेद्भवि ।' (स्व० ४४५२)

इत्थन्तं या निर्बीजा वा सवीजा वा दीक्षोक्ता सा उभयपि निर्वाणप्रयोजना । वाग्रहणेनैदमाह दृयोरपि दीक्षयोः प्रोक्तो यः पाशक्षपणशिवयोजनात्मा विधिः स तुल्यः; केवलं निर्बीजां माधीयिपाशिशुद्धभावनवसरे समयपाशमपि अन्तःशुद्धं भावयेत् नतु तेषां शुद्धौ विध्यन्तरमस्ति । पूर्वं हि 'समयाचारपाशं तु निर्बीजायां विशोधयेत् ।' (स्व० ४१४७) इत्येतावन्मात्रसुकृत्‌वा

Page 289

453

'एवं भावानुसारेण शिष्याणां गुरूणा सबा | फलं तु विविधाकारं निष्पाद्येत सुदीक्षया' (स्व०४१५०) इत्युक्तम् । तथा मूलग्रन्थे: 'पाशा इमे स्मृताः । रक्ष्मपाशानुनेकांश तदन्तर्भावयेत्…'।। इत्यप्युक्तम् । अतो निर्बीजायां समयपाशामांर्‌यपाशान्तर्मूता एव शोध्यत्वेन भाव्यः; तेषां ऋज्वादिभोगप्रदत्वश्रुते: मायीयपाशान्तर्भावस्यैवोदितत्वात् । अत एवं श्रीपूर्वशास्त्रे कण्ठगतमायीयपाशशुद्धान्ते समयपाशशुद्धिरुक्तेत्यतस्तु तत्नभेदः । एवं दीक्षादियविधेरेकरुपत्वेनोपसंहतत्वात् यत् पूर्वं पुये-षट्कांशार्पणं निर्बीजैकविषयमुक्तं तद्युक्तमेव मन्तव्यम् ॥ 453 ॥ एवं समयपुत्रकयोर्‌दीक्षामुक्त्वा आचार्य-साधकयो: प्रकमते ताम् येषां सवीजिका दीक्षा कुयात्तेष्वभिषेचनम् । विद्दृन्द्वसहानां तु सवीजेतयुक्तत्वात्

Page 290

286

तानेवाचार्यंत्वे साधकत्वे वाभिषिञ्चेदित्यर्थः ॥ तत् श्रुतशीलसमाचारा-न्देशकत्वे नियोजयेत् ॥ ४५१ ॥

श्रुतं परमेश्वरसंहितायां गुरुतस्त्वि-कार्थपरिज्ञानं, शीलं वाञ्छनःकायविषया यमनियमाः, सम्यगाचारः शास्त्रानुष्ठानात्मा, एते विधन्ते येषां तान्; दिशलीति देशकः उपदेष्टा आचार्यः; तद्रूपत्वे नियुज्यीतेऽर्थः ॥

अथाभिषेक आचार्ये शिवयोगादनन्तरम् । शिवयोगो योजनान्तो दीक्षाविधिस्तस्य पश्चात् ॥ केन कार्य इत्याह पञ्चभिः कलशैर्मन्दे सितचन्दनलेपितैः ॥ ४५२ ॥ शिवकुम्भवदभ्यर्च्य रत्नगर्भाम्बुपूरितैः ॥

९ ख० म० पु० त्वनेति पाठः । २ ख० पु० रत्नगन्धेति पाठः ।

Page 291

456

ऋग्विदृद्धयादिभिः पूतै-रोषधयक्षतपू ritaiḥ॥ ४५६ ॥ सितपद्ममुखोद्भूत- श्रूतपल्लवसंयुतैः।

ऋग्विदृद्धी आयुर्वेदप्रसिद्धे ओषध्यौ । पृथ-गोषधीशब्दः सहदेव्यादौ । सितपद्मान्येव सुखानि तैरुद्भार उल्ल्हासो भोगमोक्षलक्ष्मी-परामर्शैक विय्यते येषां । चूतपल्लवादीनि सुक्तायाश्चान्तरायुपलक्षणाय ॥

457

अथैतेषु पृथिव्यादीनि तत्त्वानि पञ्च पञ्चसु विन्यसेत्॥॥४५७॥ कलशेषु महादेवी पुनश्र्चैव कला न्यसेत् ।

458

तत्रैव निय्र्याग्याः कलाः पञ्च तेषु चैवात्र विन्यसेत् ॥१४५८॥ तेष्विति पृथिव्यादिषु व्यापकत्वेन चकारः

Page 292

458

सहकमं सूचयति ॥ ४५८ ॥ तेष्वेवासनपक्षे ऐकैककलशो व्याप्तो ह्यनन्तादिशिवान्तकः । भुवनेशापुष्टः ॥

459

तत्र च पूजयेद्रवरं देवं सर्वसंभारकैः क्रमात् ॥ ४५९ ॥ षड्ढाआवरणोपेतं मन्त्रसंधानसंयुतम् । क्रमो निवृत्तिकलशः पूर्वमियादिरूपः;, आवरणानि इमशानवर्जानि इति केचित् ॥

460

एवं सुपूजय भैरवेणाभिमन्त्रेत एकैकं कलशं प्रिये ॥ ४६० ॥ अष्टोत्तरशतेनैव परतत्त्वमनुस्मरन् ।

Page 293

४६४ श्लो॰] श्रीक्षेमराजाचार्यकृतोऽस्मिन् ग्रन्थेऽस्योत्कृष्टटीकोपेतम्। २८९

एषां कलानुसारां दिक्स्थितिमाह

वारण्यां सौम्ययाम्याया-

मेन्यामैशान्यां तथैव च ॥१८६॥

संपूज्यैवं विधानेन

अभिषेकं समाचरेत्।

४६२

तत्र

४६२

यागहर्म्यस्य ऐशान्यां

४६२

पीठं संकल्पयेहुधा: ॥ ४६२ ॥

४६२

पीठमासनम् ॥ ४६२ ॥

कथं

४६३

तत्र मण्डलकं कृत्वा

४६३

स्वस्तिकादिविभूषितम् ।

४६३

वितानोपरिसंछन्नं

४६३

ध्वजैश्व परिशोभितम् ॥४६३॥

तत्रासनं न्यसेदेवि

श्रीपर्णी|चन्दनोद्भवम् ।

१ श्लो॰ पु॰ विधानानेति पाठ:। २ क॰ पु॰ समारमेदिति पाठ:।

Page 294

464

श्रीपर्णीचन्दने प्रशस्तपदव्रोपलक्षणे ॥ तत्रानन्तासनं न्यस्य मूर्तिभूतं शिशुं न्यसेत् ॥ पूर्ववत्सकलीकृत्य ऐशान्याभिमुखं स्थितम् । तत्रेति श्रीपर्ण्यासनने शिशुमाचार्य-चिकीर्षितम् ॥

465

अथ मधुपुष्पादिनाभ्यर्च्य निर्भर्त्स्य: काष्ठिकौदनै:॥

466

मुद्रासमगोमयै: पिण्डै-दूर्वाडुरसमाश्रितै: । सिद्धार्थादिधितोयैश्व नीराजनसमन्वितै: ॥

काष्ठिकादिद्रव्यपर्णेन कुम्भेनोपरि नि:शेषरajanात्मतया नीराजनादिदीपयुक्तेन निर्भर्त्स्य: प्रशान्तविग्रह: शिशु: कार्य इत्यर्थ: ॥

Page 295

४६७

अथ निर्भत्स्यैवं विधानेन अभिषेकं प्रदापयेत् । पृथिव्यादिघटास्यैवां धामानुस्मृत्य सेचयेत् ॥

४६७

ईशानान्तैः पृथिव्यादिकलशानामस्यैवकैः सिद्ध्येत् । णिजविवक्षितोड़त्रैवमन्यत्र । घटाद्येरिति स्वपाठः ॥ किंच क्रमाद्यात्वा कलशेषु निवृत्यादिव्याप्तिक्रमेण चिन्तयित्वा-इत्यर्थः ॥

४६८

आचार्यः सुसमाहितः । शिववाचेशशालीस्यर्थः ॥ अथाय यथायथम् अभिषिक्तोड़न्यवासस्तु परिधाप्याचमेततत॥

Page 296

458

माथीचकशुकप्रक्षेपणयाह्या पूर्ववत्स्यागः । परमशिवप्रकाशपरीततताग्याह्या अन्यद्वासः परिदृधित ।। ४५८ ।।

459

आचान्तजलं शिष्यं प्रविश्य दक्षिणां मूर्ति तन्नात्र व्याख्यातव्याख्यानन्तासनरूपं योगपीठं प्रकल्पयेत् । ततैवं संस्कार्य सकलीकृत्य अस्मै अधिकारं प्रकल्पयेत ।। ४५९ ।।

460

कथामियाह उष्णीषं मुकुटाद्यांश्श छत्रं पादुकमासनम् । हस्त्यश्वशिविकाद्यांश्श राजाझानि ह्यशेषतः ।। ४७० ।। चरणीं कर्तरीं खटिकां शु कचु वो दरभपुस्तकम् ।

Page 297

471

अक्षसूत्रादिकं दद्यादुष्णीषं शिरसि वन्धनाय पट्टं, मुकुटादिक्‌समाभरणजातं भूषणार्थं, शिविका रथ्यां राजाधिराजाधिराजानी तूर्यभेर्यादीनि, करण्या‌चाचार्यतोपयोगि आदिग्रहणात् दूर्वास्पात्रादिकम्‌ ॥ चतुराश्रमसंस्थिताः ॥

472

दीक्ष्याऽनुग्रहमार्गेण दीक्षा व्याख्या त्वया सदैव । अत्यप्रसृत्ति कर्तव्येत्याधिकारः शिवाज्ञया ॥

चतुष्पi आश्रमेषु ये स्थिताः तेषां त्वया दीक्षा व्याख्या च कार्या, कथं दीक्ष्याणाम्‌मायातशाक्तिपातत्वात् दीक्षाहणामनुग्रह‌मार्गेणाज्ञप्तिक्रिया न तु लोभादिना, सदैति न कदाचिदपि परानुग्राहितां विना स्थेयमित्यर्थः । इत्ययमसौ शिवाज्ञयैव तवादिकार आयातो न त्वत्रान्यस्य कस्यापि शक्तिरित्याज्ञा देयेत्यर्थः ॥

Page 298

473

अथ तं उत्थाप्य हस्तौ संगृह्य मण्डले तु प्रवेशयेत् । किंच जानुभ्यां धरणीं गत्वा संपूज्य भैरवं ततः ॥

474

विज्ञाप्य किम् भगवन्नेवमभिषिक्तस्त्वदाज्ञया । आचार्यपदसंस्थेन तवानुज्ञाविधायिना ॥

475

त्वदाज्ञयैवमाचार्यपथे स्थितः । तवाज्ञयैव चायमाभिषिक्त इति विज्ञाप्य कर्तव्यं यत्तदायातमधिकारं तु देशके ।

Page 299

475

शिवस्य पुरतः स्थितः ॥४७५॥ यत् गुरुर्परिस्पर्शनायां शिवतत्त्वार्थकथनमवइयकर्तव्यं तदहं तवैव शिवस्य पुरतः स्थितोऽस्य करोमोति विशेक्षकथनं; कीहग्धिक्रियतेनुयहोतस्स्वदृपः संपयते येन ताहक् ॥ ४७५॥ अथ निर्गत्य भवनादस्मौ कलाध्वानं तु होमयेत् ।

476

तत्रादौ मूलमंत्रकमेण मन्त्रतर्पणकं कृत्वा प्रत्येकम् कलानां पञ्च चाहुतीः ॥४७६॥ दद्यात् ॥ ४७६ ॥ तदित्थम् पञ्च पञ्चसु सर्वासु हुत्वा पूर्णाहुतिं गुरु: ।

Page 300

४७७

अथ अर्थपूजादिकं कृत्वा प्रणम्य ख्यापयेत्प्रभोः॥

किम् अभिषिक्तो मयाचार्य-स्तदर्थे मन्त्रतर्पणम् । वह्नौ कृतमित्येतद्रस्तु ख्याप्यमित्यर्थः ॥

४७८

अथान्य-हृदयैः पञ्चभि-श्राद्धे-र्दीक्षिणं लाञ्छयेत्करम्॥ नेत्रस्य मूलाभिन्नव्यासिकत्वाद्द्विजितैः ।

कथम् दर्भोञ्जल्कं शिवाभ्यां तु कृत्वा ॥ तेनैव कनीयस्यादि लाञ्छयेत् । कनीयस्याघडुलीः हृदादिमन्त्रैः क्रमेण

Page 301

४८१

दर्भोऽल्मुकेन स्पृशेत्; येनास्य मन्त्रा दीक्षाः करणरूपा झटिति तत्त्कार्यशक्ता भवन्ति एतत्करस्पर्शान्तपाशा दग्धबीजकल्पा शान्ती- त्वर्थः ॥

४८२

इत्थं समुत्पन्नाभिषेकस्य विधिरयं फल- त्विति धिया पारितोषिकम् पुण्पं पाणौ प्रदद्यात् तं च मण्डलार्थं प्रपातयेत् ॥

४८३

स च भैरवं कलशं चाम्भि नमस्कृत्य तु दण्डवत् । लब्धाधिकारो हस्तात्मा हस्तादृष्टफलाश्रितः ॥

४८४

स गुरु: शिवतुल्यस्तु शिवधामफलप्रदः ।

Page 302

480

फलं जीवन्मुक्तिः, अहष्टं तु परमशिवतत्त्वम् ॥ एवं पुत्काचार्यविषयं विधिं निर्वाह्य साधकविषयं तमुपक्रमते शान्त्यन्ते भूतिदीक्षा च सदाशिवपदात्मिका ॥ ४८१ ॥

481

भूतिदीक्षा सदाशिवान्तानिमादिभोगदीक्षा, शान्त्यन्ते शान्त्यन्तपदे योजनान्ते इत्यर्थः; चकारात् शिवयोजनिकारूपापि यतो ‘यथा सबीजिका दीक्षा कुयात्स्वाभीष्टसंपचनेम्’ (४।४५४) इत्युपक्रमान्तं । सबीजिका च शिवयोजनिकात्मवोक्ता । अत एवोक्तमन्यत्र ‘अप्रसादाद्वेतसिद्धिः प्रसादाच्छांकरं पदम् ।’ इति, यदि सिद्धिविषयेषु माद्यति तदस्य शांकरे पदे विघ्नो मा भूदित्यवर्थं साधकस्य शिवयोजनिकां कुर्वा सदाशिवे योजना काऱ्या ॥ ४८२ ॥

तदित्थं शिवधर्मिण्यसौ जेया

Page 303

साधकदीक्षेति शेषः; यत्र सदाशिवतत्त्वे योजनमस्ति ॥ सा च लोकधर्मिण्यतोड्न्यथा । अशुचैकक्षपणात् तत्तत्त्वनेशादिपदयौंज- नात्त्मिका॥ अतश्शिवधर्मिण्यसौ येषां साधकानां प्रकृतितता ॥ ४८२ ॥ तेषां कृत्वाभिषेकं तु वक्ष्यमाणरुपमू ॥ तानेव साधकत्वे नियोजयेत् । तत् साधकस्याभिषेकोडयं विद्यादिक्षात उत्तरः ॥ ४८३ ॥

विद्या सकलमन्त्रस्तकृता विद्यात्सदा- शिवपदयोजनात्मा शिवपदयोजनादनन्तरभा-

Page 304

४८३

विनी या दीक्षा तत उत्तरः साधकस्यामितीदानीमेव कथ्यमानप्रकारोऽभिषेकः कार्यः ॥ ४८३ ॥ यद्यापि सकलमन्रस्यापि परपदप्राप्तिहेतुत्वमस्ति तथापि विद्यादीक्षा भवेत्सा तु वासनाभेदृतः स्थिता । उक्तं हि 'मन्त्रमुद्राद्रव्याणां होमः साधारणः' इत्यादि ॥ अत एव कर्मभेदो न विद्येत सर्वत्राध्वनि संस्थितः ॥ ४८४ ॥ कर्म पाशाक्षपणम् ॥

४८५

अतश्व कृतानि यानि कर्माणि सर्वाण्यध्वगतानि तु । तानि संशोध्य विधिवत्कलापन्नस्थितानि तु ॥ ४८५ ॥

Page 305

३०१

योगन्यवसरे भेदो विमर्शः साधकस्य तु ।

४८६

पूर्वं च कलात्रये कार्ममलस्थितिः स्थूल-तयोक्का इह तु सूक्ष्मतया कलापञ्चकेपि-ति न कश्चिद्याघातः; प्रथमस्तु शब्दश्रार्थे भावीन्यपि कर्माणि समुचिनोति ॥ अत्र पूर्वोक्तं विधिं स्मारयति प्रारब्धं कर्म पाश्र्वात्यं नचैकस्थं तु भावयेत् ॥४८६॥

४८६

वर्तमानेऽहं मन्त्राराधनादि यत्प्रारब्धं कर्म पाश्र्वात्यं च यत्तदेकत्र क्षपणीयत्वे स्थितं न भावयेत्, नास्य मन्त्राराधनादि कर्मापि क्षपये-दित्यर्थः ॥ ४८६ ॥

निर्णीतं चैतत् साधकस्य तु भूत्यर्थं प्राक् कर्मक तु शोधयेत् । प्राक् कर्म आगामि चैकस्थं भावयित्त्वे-त्यर्थः ॥

Page 306

४८७

अतश्च धाम प्रोचार्ये सकलं सदाशिवतत्त्वे न्यसेत् ।४७। सकलं द्वात्रिंशदक्षरम् ॥

४८८

कथं विद्यादेहस्वरूपेण ध्यात्वा देवं सदाशिवम् । पूर्णाहुतिप्रयोगेन षणिमादिगुणैर्युतम् ॥ ४८८॥ विद्यादेहोष्टादशभुजः सकलभैरवकः ॥

४८९

अथ अणिमादिगुणावाप्तौ मूलमन्त्रस्वसंज्ञया । अष्टावेवाहुतर्द्धचै अभिषिञ्चेत्ु साधकम् ॥ ४८९॥

यथा निष्कलयोजनानन्तरं तद्गुणापादनं कृतमेवं सकलयोजनानन्तरमस्याणिमादि-

Page 307

489

गुणात्मकतापत्तिः कार्यो । अत्र सकलमन्त्रपूर्वसाधकनामाणिमा भवेत्युच्यार्ये पुनः सकलो-च्चारपूर्वेणिमादिगुणाय दीक्षामने स्वाहे-त्यादिप्रदेशः। अणिमादिगुणावाप्ताविति तन्त्र-मित्तम् ॥ ४८९ ॥

490

तदभिषेकं प्राग्वत्कलशैः पञ्चभिः कुयांत्कथंमित्याहनिवृत्याद्याऽनिषु न्यसेत् । शान्त्यतीतां पञ्चमं च शान्तिं पश्चाच्चतुर्थके ॥ ४९० ॥

490

त्रिष्विति दक्षिणोत्तरवारुणदिगतेपु प्राग्न-ऋादिपूर्णेऽपु पश्चसु, पश्चम इति चेशाने, पश्चादिति शान्त्यतीतान्यासादनन्तरं, चतुर्थकइति प्राच्य कलशे, अत्र चाभिप्रायो यत्साध-कस्य शिवदशाविश्रान्तिपूर्वमविधं सादाशिवी सिच्चिद्रसिङ्वलेवं मुक्त्वा भोगानयं शिवोभवत्विति ॥ ४९० ॥

Page 308

204

तदित्थं शान्त्या तु संपुटीकृत्य शान्त्यतीताकुलशान्तनन्तरं शान्ताकुलशान्त्या- सात् शान्त्या संपुटीकारो भवति शान्त्यती- तायाः कलात्रयेण शान्त्या च गर्भीकृतत्वात् ॥

पृथिव्याद्यैश्च पञ्चभिः । कलाक्रमेणैव कलशेषु न्यासं कुर्यादिति शेषः ॥ पृथिव्यादिशोष्ण कोडीकृतार्घपत्स- तरङ्गे भैरवारस्फारा ब्रह्मपञ्चकपरमार्था नतु स्थूल- भूतमात्रात्मकाः ॥

अथ एकैककलशे पश्चा- त्साध्यमन्त्रं तु विन्यसेत् ४९१ विद्यादृक् सकलोकृत्य साध्यमन्त्रः सकलभट्टारक इह मुख्यः, अन्योऽपि वा पुष्पपातानुसारं, विद्यादृकैरिति सक-

१ ख० पु० रथु इति पाठः । २ ख० पु० पदार्था इति पाठः ।

Page 309

305

लाङ्गलादि: सर्वज्ञत्वादिरूपैस्तत्तत्साध्यमन्त्राक्षरवत् । पञ्चधात्त्र

विद्याऽऽावरणं न्यसेत् । विद्याधीनां सर्वज्ञत्वादिरूपाणामेव सिद्धिसाधनानुरूपं यन्त्रावरणान्तरन्यास उक्त: ॥ अथ साध्यमन्त्रेणैव

492

संमध्याष्टशतेनैव एकैकं कलशं तत: । बहिर्मण्डलके न्यस्य आसनं प्रणवेन तु । साधकं तत्र संस्थाप्य सकलीकरणं तत: ॥

493

निर्भरस्य पूर्ववत्सर्वे: साध्यमन्त्रेण सेचयेत् । निष्ठितस्यैकैककलशस्य साध्यमन्त्रेण मन्त्रणं सर्वभूमयोद्य मन्न्रप्रसादात् सिद्धिप्रदा भव- न्ति, बहिरिति यागात् मण्डले स्वस्ति-

Page 310

३०६

कादिरुपे, आसनं श्रीपर्यादिरूपं, सकलीकरणमिति तस्य कुर्यादिति शेषः। संवैरिति पूर्वोक्तैः काष्ठिकादिद्रव्यैः॥

४९४

तत्र नित्यादिदित्रिभिः कुम्भैः स्थापयेत्पूर्वदिग्भुखं॥ शान्त्यतीतं घटं पश्चाद्दृहीत्वा सेचयेच्छुचौ। शान्तिं पश्चात्तु गृह्यीत शान्तिमिति शान्तिघटम्। तदित्थं संपुटेनाभिषेचयेत्॥

४९६

संपुटार्थस्तदभिप्रायश्र व्याकृत एव॥ तदेवम् साधकस्याभिषकोद्यमनुलोमविलोमतः। आनुलोम्यं निवृत्यादित्रये, शान्तिशान्त्यतीतयोसतु प्रातिलोम्यम्॥

Page 311

496

किंच अभिषिच्य प्रवेशयेनं दक्षिणां मूर्तिमासितामत्र । परिवारितवस्त्र इत्यर्थात्, दक्षिणामूल्याश्रयणं वित्तप्रशमाय ॥ ४९६ ॥

497

तत्रास्य च प्रणवेनासनं दत्वा सकलीकरणं भवेत् । अथास्य सिद्ध्युपकरणं साधकस्याधिकारार्थ- मक्षमालादि कल्पयेत् । समुचितं ढौकयेत् ॥ ४९७ ॥

कल्पयित्वैतत् मन्त्रकल्पाक्षसूत्रं च खण्डिकां छत्रपादुके । उष्णीषरहितं दत्वा कल्प: साध्यमन्त्रपुस्तिका, उष्णीष आच- यायैव देय: ॥

Page 312

498

अथ प्रविश्य शिवसन्निधौ॥ विज्ञाप्य परमेशानं साधकोडयं मया कृतः।

499

भूयात्सदिसत्वदाज्ञात- खिप्रकारास्य भक्तितः॥ साध्यमन्त्रं ददेत्पश्वा- त्पुष्पोदकसमन्वितम्।

शिवसन्निधाननिमित्तं प्रविश्यान्तर्मुखीभूय तदवष्टम्भेनैव देवं विज्ञाप्य साध्यमन्त्रं दद्यात्, साधकोडयमित्यादि विज्ञसे: स्वरूपं, विज्ञसे: पश्वात् पूर्ववद्‌बन्धानुज्ञतवं भाव्यं शिवसन्निधावेव च पुष्पं फलोत्पादनधिया, उदकं सिद्ध्याप्यायनाय॥

500

तदाह तस्य हस्ते सम्प्रयेत सिद्धार्थ साधकस्य तु॥

Page 313

309

परशक्तित उद्धूतं तच्छक्तिसंमुखीसूत-मेतदिल्यभिप्रायात् हस्तेन हस्ते सम्पर्पणम् ।

501

साधकस्तु प्रणम्योभौ गृहीत्वा तु मन्त्रं हृदि निवेशयेत् । उभौ गुरुमन्त्रौ, हृदीति खातमानं तत्तद्धर्मेमयं कुवीतैवर्थः । तदेवमुभयोयोग्यसंबन्धलाभात् प्रहृष्टवदनः शिष्यो गुरुश्वापि प्रहर्षवान् ।

502

उभौ निर्गत्य च अश्यागारे सावधानौ स्यातामिति शेषः । ततो गुरुरपि तु तर्पयेनमन्त्रसंहिताम् । ततोडपि यथासंभवम् सहस्त्रं वा शतं वापि साध्यमन्त्रस्य तर्पणम् ।

Page 314

३१०

कुर्यात्॥ एवं संतर्यित्वा तु पुष्पं पाणी प्रदापयेत् । प्राग्वत् गुरुः साधकाय, तेन वात्मन् इत्यर्थः॥ ततः साधकः त्रिस्थं संपूज्य देवं तु स्पिडलवह्निगुरुमूर्तिषु दण्डवन्निपतन् । ततोडपि त्रिःप्रदक्षिणम्॥५०३॥ कृत्वा॥ प्रणम्य भक्तियुक्तात्मा अणिमादिफलं लभेत् । तयोग्यंतामेति॥ गुरुसुत्थाप्य साधकं ब्रूया- त्समयान्पाहि यत्नतः ॥ ६०२ ॥ तेडग्रे भविष्यन्ति॥ किंच निर्वीजदीक्षादीक्षितवर्ज सर्वे शिष्या: समयान् श्राव्या इत्यादिशति

Page 315

311

[ श्रीक्षेमराजाचार्यकृतोच्चोतारव्याख्योपेतम् ]

504

दीक्षावसाने ते देविश्रावणीया विपाश्रिता । समयेन ॥ उपसंहरन्नन्यदवतारयति एवं दीक्षां तु निर्वर्स्य सर्वदैव वरानने ॥

505

आत्मयागः प्रकर्तव्यो यथा भवति तच्छृणु । हीनां समव्यवदानाम् । आत्मनो योगः परतत्त्वयोजनात्मा समुच्छेद्यपाशसंस्पर्शविधिन्यूनतादिसंभावनाशङ्काशान्त्ये कर्तव्यः ॥

506

वैज्ञानिकी प्राकृती वा आचार्यस्य यथच्छया ॥ दीक्षा भवति । विज्ञानहेतुका वैजानिकी । तिलाज्याहुतिहेतुका प्राकृती ॥

507

वैज्ञानिकिं सुसूक्ष्मां तु विधिनानेन कारयेत् ।

Page 316

सुसूक्ष्मां पूर्णज्ञानसंपाद्याम् । अनेन वक्ष्यमाणेन ।।

५०७

तत् प्रकृतिं तावत्पूर्वोक्तप्रकारात् किंचिद्दैलक्षण्येनाहं तिलाज्यादिसमायुक्ता अध्ववागीशिकल्पना ॥ ५०७ ॥

५०७

प्राकृतिं कार्येति शेषः ॥ ५०७ ॥

५०८

तत्र च कलाभिः पञ्चभिर्द्रव्यैर्मध्यानं युगपद्यसेत् । नतु प्राग्वत् ॥

५०८

ऋमेण च तद्विधक्तिपूजाहोमोपचाराद्यान् कृत्वात्मानं नियोजयेत् ॥ ५०८ ॥

शिष्यचैतन्यवत् वागीशियं युगपदशेषकलाव्यात्तिकायामहान्चादिपूर्व पुरुष्ठकरूपमात्मानं योजयेत्

Page 317

317

ततोडपि

509

योगाद्धानं युगपच्यसेत् । गर्भध्योजनादनन्तरं द्वितीयमध्वानं युगपद्यसेत् ॥ न्यस्तं च पुण्पाद्यैः पूजयित्वा तं ततैव योगार्थमाहुत्त्रियं ॥

509

प्रणवमूलहंसबीजपूर्वमात्मानं सर्वाध्वपंक वागीशीगर्भे युगपद्योग्यामि स्वाहा इत्यत्र प्रयोगः ॥

510

अथ गर्भधारित्वजनने उर्जने भोगतहये । युगपद्धोमयेद्देवी मूलमन्त्रेण सुव्रतः ॥ प्रत्येकं युगपदिति सर्वाध्वयातिभावनया त्रिहोमः ॥

Page 318

५११

तदाह आहुतीनां त्रयं होम्यं प्रतिकार्म वरानने । निष्कृतैः प्राधान्यात् पृथग्होममाह होतव्या निष्कृतिभिन्ना पञ्चस्थानकलात्मसु ॥ शतमेकं तदर्थं वा पञ्च पृथिव्यादीनि स्थानानि यासां कलानां तदात्मसु तादृशय, तेन निवृत्तो मच्चेतन्यस्य गर्भाधानादिकर्मपञ्चके निष्कृतिरस्तु स्वाहा इति प्रयोगः । एवमन्यत्र ॥ एषा च निष्कृति: परिकीर्तिता । पूर्वमेव निर्ণीता अथ विशोषपाशाच्छेदाद्ये धाम्रैव युगपद्भुतिः ॥ ५१२ ॥ उद्वारे चात्मतत्त्वस्थे

Page 319

आदिपदादिधिपूरणे पाशदाहे च युगपदेव पूर्णाहोमः । अत्र च ताडनच्छेदनग्रहणैक-चैतन्यभावनाकरणाहीनिपुष्टकांशार्पणं पूर्वत उपजीव्यम् । पुर्यष्टकांशार्पणं सर्बीजायामपि भवतीति निरीततस्वात् ॥

अथ पूर्णाहुतिं तु पातयेत् । तयैव च आत्मानं योजयेत्च्छिवे परमकारणे ॥ ५१३ ॥

513

ततोऽपिे गुणान् पूर्ववदापाद्य अवभृथस्नानेन । तानेव अमृतान्पूर्ववत् कुरु । अमृतान् अविनश्वरान् ॥ सेयं प्राकृती आत्मदीक्षा पुत्रकादिदीक्ष्याणाम्

Page 320

५१४

समासौ तु प्रायश्चित्तनिवृत्तये ॥ ५१४ ॥

५१५

पशुसंसरग्न्यूनातिरिक्तविधिसंभावनाशङ्का-शान्त्यर्थमित्यर्थः ॥ ५१५ ॥

नन्वावमनोडशुद्धस्य यो दीक्षया शुद्धिमादत्ते सोडपि यथाशुद्धस्तदन्धेनान्धस्य हस्तग्रहणम्, अथ प्राणादिविलक्षणतया प्रभिज्ञातोडसौ शुद्धः तर्हि तत्परामर्शादेव सङ्कल्पामिति किं प्राकृत्या दीक्षया । सत्यमेतत्, यदि शक्तिपातवशादेव रूढः स्यात् तदा प्राकृती नैव कार्यो । तदा तु कुशलैः संपार्यां विज्ञान-दीक्षामाह

अथ विज्ञानरूपेण सकृदुचारलक्षणा ।

दीक्षा भवति । मध्यधामसमनुप्रवेशन यः स्वपूर्णाहंपरामर्शमयस्य मूलमन्त्रस्य सकृदुचारः स एव लक्षणं यस्या: ॥

Page 321

315

यतस्तहेयोपादेयपाशानां युगपद्दैरवेग्ण तु॥५१५॥

315

भैरवेण निष्कलेन सकृदुचारितेन मायान्तानां भेदैकरसत्वेन हेयानां, समनान्तानां भेदाभेदरूपतयोपादेयानां तथापि भेदांशसंन्धातृ पाशायपदेइयानां युगपत् शुद्धिर्भवतीति शेषः।उक्तं च प्राक् 'सकृदुचारितो देवी नाशयेत्सर्वकिल्बिषम्' इति॥(११४४) इति॥५१५॥

316

न केवलं युगपत्पाशाक्षपणं मन्त्रेण क्रियते यावत्परमाशिवपदे शाश्वती संस्थितिः पश्चात्।एवा च सूक्ष्मदीक्षा प्रकीर्तिता॥इत्थमातृमहोदन्ते विशेषपूजनं होमं यथांशक्ति प्रकल्पयेत्॥५१६॥

१ क० पु० समयगिति पाठः।२ क० ग० पु० देशानामिति पाठः।३ ख० पु० यावदिति पाठः।

Page 322

317

वाग्गीतसुनृत्यायैः स्तुतिभिः पूजयेद्वरम् । t्रिभिः प्रदक्षिणमावर्त्य कलशाम्रिसमण्डलम् ॥

318

अष्टाङ्गप्रपतन् कृत्वा विज्ञपेत्परमेश्वरम् । त्र्यधिकरणं देवं प्रदक्षिणीकृत्य ॥ किं विज्ञापयेदिल्याह भगवान्प्राहुः स्वहेत्थं येनमयावाहितो भवान् ॥ तत्क्षन्तव्यं सदा देव विधिस्थस्य मम प्रभो । विधिदीक्षाकर्म ममेति स्वयैव दत्ताधि- कारस्य ॥ यदपि विधिन्यूनमकामस्य प्रामादिकं विधिन्यूनत्वमपि क्षन्तव्यमि- त्यर्थः ॥

Page 323

519

यस्मात् पूजा शास्त्रोदिता यथा न भवेद्दनिभूषित प्राकृतैर्द्रव्यसंचयैः । यथा शास्त्रे पूजा भूयिष्ठा विततपरिपाटी- कोदिता तथा प्रकृतिपरिणामरुपैर्मितैर्द्रव्यैरेव भवेदिति विनयपरा उक्ति;, अन्यथार्थापात्र- विप्रुद्रसंस्कतानां द्रव्याणां शिर्वीकृतत्वात् कथं पाकृतकं वितशास्त्र्यविवर्जनाच्च मतत्वमस्य प्रयोजकम् ॥

520

यत एवं ततः अवलम्ब्य भक्तिमात्रं विधानं यत्कृतं मया । तत्सर्वे सफलं मेऽस्तु सुप्रसन्ने विभो त्वयि ॥

सुष्टु प्रसादो मायाकालुष्यप्रशमन पूण- चिद्रसमयत्वेन स्फुरणम् ॥ इति भूपिष्टेति पाठः ॥

Page 324

521

एवं विज्ञातिसमनन्तरम् । प्रसन्नवदनो हस्त्रो वरं दत्तं विभावयेत् ॥ ५२१ ॥

522

अथ उपविश्य ततो यागं संहरेत् क्रमात् प्रिये । तत्रादौ अन्यं सम्प्रार्थ्य गृहीयात्स्थापयेच्चार्घ्यरक्षणम् ॥ ५२२ ॥

अग्रवर्ति चर्वादि अग्रं 'देवद्रव्यं नैवेद्यं चान्द्रायणशतादिकम् ।' इति अन्यत्रोक्तत्वात् परं पवित्रमेतन्मा काङ्‌क्षिद्धृतादिरक्षित आहार्यादिसम्भरणासु रक्षणम् ॥

523

एवं कृत्वा विशेषपूजनं चार्घं प्रणिपातं ततः पुनः । निरोधार्घे ततो गृह्य अर्घं सव्यापसव्यतः ॥ ५२३ ॥

Page 325

द्रु्वा विसर्जयेदेवं धाममन्त्रमनुस्सरन् ।

अर्घनिति 'पश्चादर्घः प्रदातव्यः सुरया .........' (२१३६) इत्युक्तपूर्वं द्रु्वा प्रणिपातं कृत्वा निरोधप्रयोजनोर्धः: प्रस्तुततस् परिसमासे विधौ स्वरूपविश्रान्त्यर्थं सत्यापसत्यत इति ज्ञानक्रियाशक्तिव्यास्तिभ्यां दक्षवामकराभ्यां द्रु्वा विसर्जयेत्॥

५२४

विसर्जनविधिमेव प्रदर्शयति आत्तनो रेचकं कृत्वा पुष्पं देवाय निक्षिपेत् । निष्कलेनैवर्थात् ॥ ५२४ ॥

संहारिण्या च संगृह्य मन्त्रान् पार्श्वद्यवस्थितान् । विगुहृचलितानध्यात्वा धामदेहे तु विमृशेत् ॥५२५॥

५२५

कनिष्ठादिक्रमेण दक्षकरशाखासंवर्तनात्मा संहारिणी मुद्रा । धामदेहे सकलभहारके । विन्यसेत्तदेकलीनान् भावयेत् ॥ ५२५ ॥

Page 326

३२२

तमपि वियादेहं भैरवस्य निष्कलस्य उपलीनं चिन्तयेत्॥ तल्लीनं बिन्दुविग्रहं । तत्निष्कलहृंपमकारादिप्रशमयुक्त्या ज्योतिर्मात्रात्मनि बिन्दौ लीनम् ॥ तमपि बिन्दुं तु नादशक्तिस्थं शक्तिरूपं तु ग्राहयेत् ॥५२५॥ अर्धचन्द्रनिरोधिकाप्रशमयुक्त्या विमर्शप्रधाननादान्तरहप्तां गमितमानन्दस्पर्शप्रधानशक्तिरूपं सम्पादयेत् ॥ ५२६ ॥ तदपि शक्तिरूपं ठ्यापकेन स्वरुपेण स्थितं सत्॥ प्रणवोभयसंपुटम् । प्रकर्षेण नूयते स्तूयते सर्वैरिति प्रणवः परं सर्वं, तेन उभयतः संपुटितमिल्यन्तःकृतं सर्वतो व्याप्यमित्यर्थः॥

Page 327

५२७

तथा भावितम् संहारिण्या तु संग्रहं द्वादशान्ते तु योजयेत् । ततोडपि पूरकेण हृदि न्यस्य स्वस्थानस्थं तु भावयेत् । स्वस्थानं निरुपाधिप्रकाशानन्दघनमेव तत् ॥

५२८

सकलं निष्कलं रूपं तथा सकलनिष्कलम् । भिन्नावस्थं तु मन्त्रेषु हलस्थं तत्संसरेत्प्रिये ॥

सकलं द्वात्रिंशदर्ण, निष्कलं च मन्त्रविरामे प्रकाशाविमर्शो मात्रतरवं, सकलनिष्कलं तु चतुष्कलनाथात्मकं यदेकमपि अनुनिगृक्ष्या त्रिधा लुप्तवा पुनवक्रादिभूमिषु भिन्नावस्थं तदेवं वद्यासिकमेतदेकमेव मात्रं रूपं हृदस्थं स्मरेत् ॥

Page 328

529

उपासंहरति विसर्जनविधिरेवं यथा मण्डले तथान्यत्राप्याह अश्नुवे तत्त्रादावसि प्रपूजयेत्॥ ५२९॥

530

ततोडपि मूलेन अष्टोत्तरशतं हुत्वा पूर्णाहुति प्रपातयेत्। तं च अर्घ्यमाचमन् दत्वा प्रणिपत्य क्षमापयेत्॥ ५३०॥

530

क्षमयेदित्यत्रार्थेडयमैशः पाठः॥ ५३०॥

531

कथम् क्षमयेदिल्वाह मण्डलस्थप्रयोगेन रेचकापूरके तु। संगृह्य मन्त्रसंघातं यथास्थानं प्रकल्पयेत्॥५३१॥

Page 329

531

स्वात्मनो मन्त्रोच्चारानन्तरं नासिक्यरेच्चकेन निर्गत्य लोकपालादिक्रमेण धामान्तमापूर्य रेचयित्वा स्वात्मानेव पूरयेत् । तत्र लोकपालमन्त्राणां भैरवाः, तेभ्यामृक्वत्राणि, तेभ्यः सकलः, तस्यापि सकलनिष्कलः, तस्यापि ध्याख्यातरुपनिष्कलनाथः स्थानक्रमित्यमेवात्र क्रमः ॥ ५३१ ॥

532

इत्थमग्रिस्थं देवं विस्तृज्य जागरयेतद्रां तु नित्यकर्मानिमित्तः । मा भूत् प्रतिदिनं संस्करणमित्याशायः ॥ अथ निर्माल्यनयनं कुर्याद्रजांस्पहरेत्प्रिये ॥ ५३२ ॥

ततः प्रविश्य वसुधां प्रोक्षयेच्छिवांशुभिः । निर्गतं माल्यं निर्माल्यं नतु चण्डेशकल्पनया तस्या इह विशेषणेsवचोदितत्वात् ॥

Page 330

533

अथ बहिर्निर्गत्य भूतानां बलिकर्म तु पूर्ववत् ॥ प्रायुक्तेनैव मन्त्रेण कार्यम् ॥ अथ आचम्य सकलीकृत्य लिङ्गिनस्तर्पयेतत: । लिङ्गिनो जटाभस्मादियुक्तान् । उक्तं च ‘शिवस्य परिपूर्णस्य किं नाम क्रियते नरै: । यत्कृतं शिवभक्तेषु तत्कृतं तु शिवे भवेत् ॥’ इति शिवधर्मेषु ॥ अनन्तरम्

534

गुरुं संपूजयेच्छिष्यो यथाविभवविस्तरै: ॥

535

अथास्मै स्वात्मानमन्त्रूणीकर्तुं देशाध्यक्षो ग्रामशातं मण्डलेशस्तदर्द्धकम् । शतभुकपन्न वै द्रव्य- ड्रामं विंशातिभुक्तथा ॥

Page 331

५३७ श्लो॰ ] श्रीक्षेमराजाचार्यकृतोव्योताल्यटीकोपेतम् । ३२७

दद्यात्तु ग्रामभुक् क्षेत्रं क्षेत्रभोक्ता तु विंशतिम्‌ ।

विंशतितमं भागमित्यर्थः । पतञ्जोलनिबन्धनम्‌ ॥

५३६

वस्तुतस्तु येन येन गुरुस्तुष्ट्ये- तत्सर्वे विनिवेदयेत् । ततस्वचृणतां याति वित्तशाठ्यविवर्जितः ॥ ५३६ ॥

वित्तशाठ्ये सति लोभादिदुष्टस्य शरीरादि- प्रामातृत्यानुग[त्वं न]मनाद[ग]पि मि[ग]लि- तमिति दीक्षासंस्कारोऽस्य न सम्यग्दत्त इत्यनु- मीयते । यत्र च शिष्यस्येहगृत्तं तत्र गुरुदण्डा- पूपिकयैव निर्लोभः सिद्धः । अत एव प्राक्‌ 'पुष्पं पाणौ प्रदापयेत्‌' ( ४५०१ )

इत्युक्तम्‌ ॥ एवं विदितयोग्यभावः शिष्यः ततस्तु समयाउश्राव्य- स्तत्रे भैरवानिर्गते ॥ ५३७ ॥

ते चाघे भविष्यन्ति ॥

Page 332

३२८

अथ च चरुकं प्राशयेत्पशुत्राम्बकः साधकैः सह । वार्डिरुद्रः प्रसन्नात्मा पृथक् पात्रव्यवस्थितः ॥५३८॥ चरुकमिति प्रार्थितनैवेद्यं । साधकैरित्युपलक्षणम् । चुम्बति परम्परायातेन गुरुक्रेण संयोज्यते संयोज्यति च शिष्यमिति निरुक्त्या चुम्बको हूः । परमपवित्रचिह्नेन वाड्रुद्रत्वं चित्तैकाग्र्याय, अत एव प्रसन्नात्मा ॥ स च चरुः साधकादीनां ज्येष्ठादिक्रमेण देय इत्याह अनुक्रमेण दातव्यः एवम् हि सति स स चरुभोजी ततः सिद्धिमवाप्नुयात् । एवं च दीक्षाविधिरसामान्यरूप इत्याह अननेैव विधानेन दीक्षिताः ये वरानने ॥५३९॥

५३९

स च चरुः साधकादीनां ज्येष्ठादिक्रमेण देय इत्याह अनुक्रमेण दातव्यः एवं हि सति स स चरुभोजी ततः सिद्धिमवाप्नुयात् । एवं च दीक्षाविधिरसामान्यरूप इत्याह अननेैव विधानेन दीक्षिताः ये वरानने ॥५३९॥

Page 333

५४०

ब्राह्मणा: क्षत्रिया वैश्याः शूद्राश्चान्येडथवा प्रिये । सर्वे ते समधर्माणः शिवधर्मे नियोजिताः ॥ सर्वे जटाधराः प्रोक्ता भस्मोदूलितविग्रहाः ॥

नात्र अन्यतत्र इव दीक्षितानां प्राग्जातिसंस्कारः कोऽपि, केवलं समयादिभेदादेव भेदः ॥

५४१

अत एव एकपाद्धुजः सर्वे समयिनस्तु वरानने । सर्वे इति ब्राह्मणाद्या: संकीर्णाश्च ॥

किंच पुत्रकाणां भवेदेका साधकानां तथा भवेत्॥

Page 334

542

चुम्बकानां भवेदेका पङ्क्तिरियर्थात् ॥ न प्रागजातिविमेदतः ॥५४२॥

यतः एकैव सा स्मृता जाति- भैरवीया शिवाव्यया । उच्चं हि प्राक् अत्रसिन्युत्तः परे तत्त्वे सार्वस्यादिगुणान्वितः । शिव एको भवेदेव अभिमोगेन संवृतः ॥(४०२) इति । यत एषा भैरवसंवन्धिनी जातिस्तत् एव श्रेयोरुपा च नित्या च ॥

543

आग्रायमेवागमः प्रमाणमित्याह तत्‍त्रमेतत्समाश्रित्य प्रागजातिं न हुदीरयेत्॥५४३॥ पुत्रकाणां साधकानां तथा समयिनामपि ॥ किं पुनराचार्याणामेतत्तत्‍त्राश्रितानामेव

Page 335

5485

अयं नियमो न लौकिकानां तत्रामेतत्समा श्रित्येत्येतदवृत्या योज्यम् ॥

5488

अत एव एतत्तत्त्वदाक्षितः प्राग्जात्युदीरणादेवि प्रायश्चित्ती भवेत्नरः ॥

नर इत्यादेहादिग्रहः ॥

5486

दिनत्रयं तु रुद्रस्य पञ्चाहं केशवस्य च । पितामहस्य पक्षैकं नरके पच्यते तु सः ॥

यत एवम् अविवेकी भवेत्स्मा- यदीच्छेदुत्तमां गतिम् । अविवेकी स्वात्मानमिव दीक्षितान् शैवै-क्येन पश्यन् ॥

Page 336

५४६

यथा अविवेकेन देवेशि सिद्धिसुक्तिध्रुवं भवेत् । शैवैक्यदाढ़्यमेव सर्वश्रेयःसाधनमिति शिवम् ॥

तन्त्रार्थप्रतिजागरात्प्रतिपदं सद्यःसिद्धिसंदर्शनात् सम्यक्संकलनाक्रमात्प्रकटितो दीक्षाविधिर्यों मया । उद्द्योतेन तमामृशन्तु गुरवः श्रीशङ्कराज्ञाधरा दीक्षां दीक्ष्यजनस्य कर्तुमभितो भोगापवर्गप्रदाम् ॥

इति श्रीमहामाहेश्वराचार्यवर्यविप्रश्रीचक्रचक्रवर्तिंश्रीक्षेमराज विरचिते श्रीमत्स्वच्छन्दोद्योते दीक्षाभिषेकप्रकाशनं नाम चतुर्थः पटलः संपूर्णः समाप्तः ॥

श्रीमन्मतापभूभर्तुराज्ञया प्रीतये सताम् । मद्वंशदनकोलिन संपाद्यायं प्रकाशितः ॥