1. Svetasvatara Upanishad
Page 1
पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते
ॐ शान्तिः शान्तिः शान्तिः
१
ब्रह्मवादिनो वदन्ति
१
किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च सम्प्रतिष्ठाः
१
ऽऽधिष्ठिता केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम्
२
कालः स्वभावो नियतिर्य़दृच्छा भूतानि योनिः पुरुष इति चिन्त्या
२
संयोग एषां न त्वात्मभावाद् आत्माप्यनीशः सुखदुःखहेतोः
३
ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम्
३
यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः
४
तमेकनेमिं त्रिवृतं षोडशान्तं शतार्धारं विंशतिप्रत्यराभिः
४
षड्रिश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम्
५
पञ्चस्रोतोमयं पञ्चयोनीग्रमवक्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम्
५
पञ्चावर्तां पञ्चदुःखौवगां पञ्चाशद्भेदां पञ्चपरवामधीमः
६
सर्वाजीवे सर्वसंस्थे बृहन्ते ऽस्मिन्नहं सो भ्राम्यते ब्रह्मचक्रे
६
पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति
७
उत्तीतमेतत्परं तु ब्रह्म तस्मिंस्त्रयं सुप्रतिष्ठितद्ध्रं च
७
अज्ञान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः
८
संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः
८
अनीशश्वात्मा बध्यते भोकृभावाज् ज्ञात्वा देवं मुच्यते सर्वपाशैः
Page 2
1
9
ज्ञज्ञौ द्वावजावीशनेशावजा हृद्येका भोक्तृभोग्यार्थयुक्ता
1
9
ग्रनन्तश्शात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत्
1
10
द्वयं प्रधानममृतं चैतद्वीर्यं तदात्मानावीशते देव एकः
1
10
तस्याभिध्यानाद्योजनानात्तत्त्वभावादूर्ध्वं यथान्ते विश्वमायानिवृत्ति
1
11
ज्ञात्वा देवं सर्वपाशहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः
1
11
तस्याभिध्यानात्तृतियां देहभेदे विश्वैश्वर्यं केवलं ग्रामकामः
1
12
एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किंचित्
1
12
भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्
1
13
वह्नेर्यथा योनिगतस्य मूर्तिं न दृश्यते नैव च लिङ्गनाशः
1
13
स भूय एवेध्मनयोग्यस्तद्रोभयं वै प्राणवेदेहे
1
14
स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिं
1
14
ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत्
1
15
निलेषु तैलं दधिनीव सर्पिरापः स्वोतःस्वरग्ङीषु चाम्रिः
1
15
एवमात्मात्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति
1
16
सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम्
1
16
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् इति श्वेताश्वतरोपनिषत्सु प्रथमोऽध्यायः
2
1
युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः
2
1
अग्रेज्योतिर्निर्निचाय्य पृथिव्या अध्याभरत्
2
2
युत्तेन मनसा वयं देवस्य सवितुः सवे
2
2
सुवर्गेयाय शक्त्या
Page 3
2
3
युक्त्वाय मनसा देवान्सुर्यतो धिया दिवं बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान्
2
4
युज्झे मन उत युज्झे धियो विप्रा विप्रस्य बृहतो विपश्चितः वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः
2
5
युजे वां ब्रह्म पूर्यं नमोभिर्विश्लोक एतु पथ्येव सूरे: श्रृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः
2
6
ऋग्रियत्राभिमध्यते वायुर्यत्राधिरुध्यते सोमो यत्रातिरिच्यते तत्र संजायते मनः
2
7
सवित्रा प्रसवेन जुह्वत ब्रह्म पूर्यम् तत्र योनिं कृणवसे न हि ते पूर्तमदधिपत्
2
8
तिरुन्न्ति स्थाप्य सम शरीरे हृदोन्द्रियाणि मनसा सन्निवेश्य ब्रह्मोडुपेन प्रतरेत विद्वान्स्रोतांसि सर्वाणि भयावहानि
2
9
प्राणान्प्रपीडचेह संयुक्तचेष्टः क्षीणे प्राणे नासिकयोश्चवसीत दुष्टाश्रययुक्तमिव वाहमेनं विद्वान्मनो धारयेताप्रमत्तः
2
10
समे शुचौ शर्करावहुलाकाविवर्जिति शब्दजलाश्रयादिभि: मनोनुकूले न तु चतुपीडने गुहानिवाताश्रयणो प्रयोजयेत्
2
11
नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशीनाम् एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे
2
12
पृथव्यपेजोंनिलखेचराणि समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्
लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवं च
Page 4
2
13
गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति
2
14
यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भाजते तद्गुणत्वात् । तद्वात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः
2
15
यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् । अज्ञं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः
2
16
एष ह देवः प्रदिशोऽनु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः । स एव जातः स जनिष्यमाणः प्रत्यङ्जनांस्तिष्ठति सर्वतोमुखः
2
17
यो देवोऽग्नौ योऽप्सु यो विश्वं भुवनमाविवेश य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः
3
1
य एको जालवानीशत ईशनीभिः सर्वान्लोकानीशत ईशनीभिः । य एवैक उद्भवे च संध्ये च य एतद्विदुरमृतास्ते भवन्ति
3
2
एको हि रुद्रो न द्वितीयाय तस्थुर्य इमांल्लोकानीशत ईशनीभिः । प्रत्यङ्जनांस्तिष्ठति सञ्चुकोपान्तकाले संसृज्य विश्वा भुवनानि गोपाः
3
3
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः
3
4
यो देवानां प्रभवश्रोदवश्रो विश्वाधिपो रुद्रो महर्षिः । हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु
3
5
या ते रुद्र शिवा तनूरघोरापापकाशिनी । तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि
Page 5
3
6
यामिषुं गिरिशंत हस्ते बिभर्यस्तवे शिवां गिरित्र तां kuru मा हिꣳसी: पुरुषं जगत्
3
7
ततः परं ब्रह्मपरं बृहन्तं यथानिकायं सर्वभूतेषु गूढम् । विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वामृता भवन्ति
3
8
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽनाय
3
9
यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्
3
10
ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति
3
11
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी स भगवान्त्स्मात्सर्वगतः शिवः
3
12
महान्प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः । सुनीर्मलामिमां प्रातिमिशानो ज्योति रभयः
3
13
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । हृदा मन्वीशो मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति
3
14
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम्
3
15
पुरुष एवेदꣵ सर्वं यद्भूतं यच्च भव्यम् । उतामृतत्व्येशानो यदन्नेनातिरोहति
3
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
Page 6
3
16
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति
3
17
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् सर्वस्य प्रभुमीशानं सर्वस्य शरणं बृहत्
3
18
नवद्वारे पुरे देही हंसो लेलायते बहिः वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च
3
19
ग्रपाग्रिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्
3
20
ऋषीणामप्यान्महतोऽमहो गुहायां निहितोऽस्य जन्तोः तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम्
3
21
वेदाहमेतन्मजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वात् जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यम्
4
1
य एकोऽवर्णो बहुधा शक्तियोगाद्वर्णाननेकान्निहितार्थो दधाति वि चैति चान्ते विश्वमादौ स देवः स नो बुद्ध्या शुभया संयुनक्तु
4
2
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः तदेव शुक्रं तद्ब्रह्म तदापस्तत्प्रजापतिः
4
3
त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी त्वं जीर्णो दरडेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः
4
4
नीलः पतङ्गो हरितो लोहिताक्षस्तडिड्ऋभ ऋतवः समुद्राः अग्रादिमत्त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा
Page 7
4
5
ग्रजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजा︰ सृजमानां सरूपा︰ | ग्रजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य︰ || ५ ||
4
6
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते | तयोरन्य︰ पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति || ६ ||
4
7
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमान︰ | जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक︰ || ७ ||
4
8
ऋचो अक्षरे परमे व्योमन्यास्मिन्देवा अधि विश्वे निषेदुः | यस्तं न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते || ५ ||
4
9
छन्दांसि यज्ञाः क्रतवो ब्रतं भूतं भव्यं यच्च वेदा वदन्ति | ग्रस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः || ९ ||
4
10
माया तु प्रकृतिं विद्यामायिनं तु महेश्वरम् | तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् || १० ||
4
11
यो योनिं योनिमधितिष्ठत्येको यस्मिन्निदं स च विचैति सर्वम् | तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति || ११ ||
4
12
यो देवानां प्रभवश्रोदवश्र्च विश्वाधिपो रुद्रो महर्षिः | हिरण्यगर्भं पश्यत जायमानं स नो बुद्ध्या शुभया संयुनक्तु || १२ ||
4
13
यो देवानामधिपो यस्मिल्लोकाः श्राधिश्रिताः | य ईशे ग्रस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम || १३ ||
4
14
सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य सृष्टारमनेकरूपम् | विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति || १४ ||
4
15
स एव कालेभुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः | यस्मिन्निदं सञ्चरते बहुधा यस्तत्सर्वाण्यभिरक्षति स्वयम् ||
Page 8
4
15
यस्मिन्युक्ता ब्रह्मर्षयो देवताश्च तमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति
4
16
घृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः
4
17
एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निविष्टः । हृदा मनीषा मनसा अभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति
4
18
यदातमस्तन्न दिवा न रात्रिर्न सन्न चासन्न च केवलः । तदक्षरं तत्सवितुरवेरयं प्रज्ञा च तस्मात्प्रसृता पुराणी
4
19
नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः
4
20
न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति
4
21
ग्रजात इत्येवं कश्चिद्दीरः प्रपद्यते । रुद्र यत्ते ददिगां मुहुं तेन मां पाहि नित्यम्
4
22
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे
5
1
द्वे अक्षरे ब्रह्मपरे त्वनन्ते विद्याविद्ये निहिते यत्र गूढे । क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः
5
2
यो योनिं योनिमधितिष्ठत्येको विश्वानि रूपाणि योनिश्च सर्वाः । ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्
Page 9
३
एकैकं जालं बहुधा विकुर्वन्नस्मिन्नेते संहरत्येष देवः । भूः सृष्ट्वा पतयस्तथेशः सर्वाधिपत्यं कुरुतेऽहातमा ।।
४
सर्वा दिश ऊर्ध्वमधश्व तिर्यक्प्रकाशयन्ति यदणडकानि । एवं स देवो भगवान्वरेऽयो योनिस्वभावानाधितिष्ठत्येकः ।।
५
यद्भू स्वभावं पचति विश्वयोनिः पाच्यांश्च सर्वान्परिरम्भयेद्यः । सर्वमेतद्विश्वमधितिष्ठत्येको गुणांश्च सर्वान्नियोजयेद्यः ।।
६
तदेतेद्गुह्योपनिषत्सु गूढं तद्ब्रह्मा वेदते ब्रह्मयोनिम् । ये पूर्वदेवा ऋषयश्च तद्विदुः तन्मया अमृता वै बभूवुः ।।
७
गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता । स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः संचरति स्वकर्मभिः ।।
८
अङ्गुष्ठमात्रो रवितुल्यरूपः संकल्पाहङ्कारसमन्वितो यः । बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यपरस्तद्विप्राः ।।
९
वालाग्रशतभागस्य शतधा कल्पितस्य च भागो जीवः स विज्ञेयः । स चानन्त्याय कल्पते ।।
१०
नैव स्त्री न पुमानेष न चैवायं नपुंसकः । यद्यच्छरीरमादत्ते तेन तेन स युज्यते ।।
११
सङ्कल्पनस्पर्शनदृष्टिमोहैर्ग्रासाम्बुवृष्ट्या चात्मविवृद्धिजन्म । कर्मानुगानि क्रमशः देही स्थानेषु रूपाण्यभिसम्पद्यते ।।
१२
स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्वगुणैर्वियोगैः । क्रियागुणैरात्मगुणेश्च तेषां संयोगहेतुरपरोऽपि दृष्टः ।।
ग्रनाद्यनन्तं कलिलस्य मध्ये विश्वस्य सृष्टारमनेकरूपम् ।
Page 10
६
१३
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः
६
१४
भावग्राह्यमनीडारुयं भावाभावकरं शिवम् । कलासर्गकरं देवं ये विदुस्ते जह्नुस्तनुम् ॥
इति श्वेताश्वतरोपनिषत्सु पञ्चमोऽध्यायः
६
१
स्वभावमेकं कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः । देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम्
६
२
येनावृतं नित्यमिदं हि सर्वं ज्ञः कालकारो गुणी सर्वविद्यः । तेनेशितं कर्म विवर्तते ह पृथिव्याप्यते जोलनिलखानि चिन्त्यम्
६
३
तत्कर्म कृत्वा विनिवर्त्य भूयस्तत्त्वस्य तत्त्वेन समेत्य योगम् । एकेन द्वाभ्यां त्रिभिरष्टभिर्वा कालेन चैवात्मगुणैश्च सूक्ष्मैः
६
४
ग्रारभ्य कर्माणि गुणान्वितानि भावांश्र सर्वान्विनियोजयेद्यः । तेषामभावे कृतकर्मनाशः कर्मक्षये याति स तत्स्वतोऽन्यः
६
५
ग्रादिः स संयोगनिमित्तहेतुः परस्त्रिकालादिकलोऽपि दृश्यः । तं विश्वरूपं भवभूतमीड्यं देवं स्वचित्तस्थमुपास्य पूर्वम्
६
६
स वृत्तकलाकृतिभिः परोऽन्यो यस्मात्प्रपञ्चः परिवर्तते ऽयम् । धर्मावहं पापनुदं भगे शं ज्ञात्वात्मस्थममृतं विश्वधाम
६
७
तमीश्वराणां परमं महेश्वरं तं देवतां देवतां परं च दैवतम् । पतिं पतीनां परमं च परस्ताद्विदां देवं भुवनेशमीड्यम्
६
८
न तस्य कार्यं करणं च विद्यते न तत्समश्राब्धिकश्र दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च
Page 11
6
9
न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् । स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः ॥
6
10
यस्तूर्य्यनाभ इव तन्तुभिः प्रधानजैः स्वभावतो देव एकः स्वमावृणोति । स नो दधाद्ब्रह्माप्ययम् ॥
6
11
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥
6
12
एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥
6
13
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥
6
14
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमाग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥
6
15
एको हँसः भुवनस्यास्य मध्ये स एवाग्निः सलिले सन्निविष्टः । तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥
6
16
स विश्वकृद्विश्वविदात्मयोनिर्ज्ञः कालकारो गुणी सर्वविद्यः । प्रधानकेतुर्ज्ञानगम्यः स एव स्वार्मोच्चस्थितिबन्धहेतुः ॥
6
17
स तन्मयो ह्यमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोमा । य ईशे अस्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय ॥
6
18
यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै । तँ ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
6
19
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।
Page 12
6
19
अ्रमृतस्य परंं सेतुं दग्धेस्धनमिवानलम्
6
20
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति
6
21
तपःप्रभावाद्देवप्रसादाच्च ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् । अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम्
6
22
वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् । नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः
6
23
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः प्रकाशन्ते महात्मनः इति
6
इति श्वेताश्वरोपनिषत्सु षष्ठोऽध्यायः ६
सह नाववतु सह नौ भुनक्तु सह वीर्य करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः
इति कृष्णयजुर्वेदियश्वेताश्वरोपनिषत्संपूर्णा