Books / Taaraasaara Upanishad

1. Taaraasaara Upanishad

Page 1

यन्नारायणतारारथसत्यज्ञानसुखाकृति ।

त्रिपान्नारायणाकरं तद्ब्रह्मैवास्मि केवलम् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ।

हरिः ॐ ॥

बृहस्पतिरुवाच याजवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र कवचन गच्छछ्रेतदेव मन्येत । इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषुत्तकम्ममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतोभावा मोक्षी भवति । तस्मादविमुक्तमेव निःषेवेत । अविमुक्तं न विमुञ्चेत् । एवंवैष भगवान्त्रिति वै याजवल्क्यः ॥१॥

अथ हैनं भारद्वाजः पप्रच्छ याजवल्क्यं किं तारकम् ।

किं तारयतीति । स होवाच याजवल्क्यः । ॐ नमो नारायणायेति तारकं विदात्मकमित्युपासितव्यम् । ओमित्येकाक्षरमात्मस्वरूपम् ।

नम इति द्वाक्षरं प्रकृतिस्वरूपम् । नारायणायेति पञ्चाक्षरं परंब्रह्मस्वरूपम् । इति य एवं वेद । सोऽमृतो भवति । ओमिति ब्रह्मा भवति । नकारो विष्णुर्भवति । मकारो रुद्रो भवति । नकार ईश्वरो भवति ।

रकारोऽणडं विराड भवति । यकारः पुरुषो भवति । णकारो भगवन्भवति । यकारः परमात्मा भवति । एतद्ै नारायणस्याष्टाक्षरं वेद

परमपुरुषो भवति ।

अयमुरुवेदः प्रथमः पादः ॥२॥

ॐ इत्येतदक्षरं परं ब्रह्म तदेवोपासितव्यम् । एतदेव सूक्ष्माष्टाक्षरं भवति । तदेतद्वै शातमकोष्टधा

भवति । तदितद्वै शात्मकोडष्टधा भवति । अकारः प्रथमाक्षरो भवति । उकारो द्वितीयाक्षरो भवति ।

मकारस्तृतीयाक्षरो भवति । बिन्दुस्तुरीयाक्षरो भवति । नादः पञ्चमाक्षरो भवति । कला षष्ठाक्षरो भवति । कलातीता

सप्तमाक्षरो भवति । तत्पराष्टमाक्षरो भवति ।

तारकत्त्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विद्धि । तदेवोपासितव्यम् ॥

अत्रैते श्लोका भवन्ति ॥

अकारादभवद्ब्रह्मा जाम्बवानितिसंज्ञकः ।

Page 2

उकाराक्षरसंभूत उपेन्द्रो हरिनायक: ।

मकाराक्षरसंभूत: शिवस्तु हनुमान्स्मृत: ।

विन्दुरीश्वरसंज्ञस्तु शत्रुध्नस्तक्कराट् स्वयम् ।

नादो महाप्रभुर्जी यो भरत: शत्रुनामक: ।

कलाया: पुरुष: साक्षाल्लक्षणो धरणीधर: ।

कलातीता भगवती स्वयं सीतेति संज्ञिता ।

तत्पर: परमात्मा च श्रीराम: पुरुषोत्तम: ।

ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूर्तं भवं भविष्यद्यच्चानित्यत्तत्सर्वंवर्णदेवताच्छन्दो

ऋक्‌कलाशक्तिसृष्टिस्थैर्यात्मकमिति । य एवं वेद ।

यजुर्वेदो द्वितीय: पाद: ।

अथ हैनं भारद्वाजो याजवल्क्यमुवाच कैर्मन्त्रै:

परमात्मा प्रीतो भवति स्वात्मानं दर्शयति तत्‍त्रो बृद्ध

भगव इति । स होवाच याजवल्क्य:

ॐ यो ह वै श्रीपरमात्मा नारायण: स भगवानकारवाच्यो

जाम्बवान्भूभुव: सुवस्तस्मै वै नमोनम: ।

ॐ यो ह वै श्रीपरमात्मा नारायण: स भगवाननुकारवाच्यो

उपेन्द्रस्वरूपो हरिनाको भूर्भुव: सुवस्तस्मै वै नमोनम: ।

ॐ यो ह वै श्रीपरमात्मा नारायण: स भगवान्मकारवाच्यो:

शिवस्वरूपो हनुमान्भूभुव: सुवस्तस्मै नमोनम: ।

ॐ यो ह वै श्रीपरमात्मा नारायण: स भगवान्विन्दुस्वरूप:

शत्रुध्नो भूभुव: सुवस्तस्मै वै नमोनम: ।

ॐ यो ह वै श्रीपरमात्मा नारायण: स भगवान्नादस्वरूपो

भरतो भूभुव: सुवस्तस्मै वै नमोनम: ।

ॐ यो ह वै श्रीपरमात्मा नारायण: स भगवान्कलास्वरूपो

लक्षणो भूभुव: सुवस्तस्मै वै नमोनम: ।

ॐ यो ह वै श्रीपरमात्मा नारायण: स भगवान्कलातीत

भगवती सीता चित्स्वरूपा भूर्भुव: सुवस्तस्मै वै नमोनम: ।

यथा प्रथममन्त्रोक्तावदन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यम् ।

उकारवाच्य उपेन्द्रस्वरूपो हरिनायक: २ मकारवाच्य:

शिवस्वरूपो हनुमान् ३ विन्दुस्वरूप: शत्रुध्न: ४ नादस्वरूपो

भरत: ५ कलास्वरूपो लक्ष्मण: ६ कलातीता भगवती सीता

चित्स्वरूपा ७ ॐ यो ह वै श्रीपरमात्मा नारायण: स भगवान्स्तत्पर:

परमपुरुष: पुराणपुरुषोत्तमो नित्यशुद्धबुद्धमुक्तसत्य-

परमानन्दाद्वयपरिपूर्ण: परमात्मा ब्रह्मैवाहं रामोऽस्मि

भूर्भुव: सुवस्तस्मै नमोनम: ।

Page 3

एतदृष्टिविधमनं योऽधीते सोऽधिपूतो भवति । स वायुपूतो भवति । स आदित्यपूतो भवति । स स्थानपूतो भवति । स सर्वेंदैर्वर्जितो भवति । तेनैतिहासपुराणानं रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति । श्रीमन्नारायणाष्टाक्षरानुस्मरणेन गायत्र्या:

शतसहस्रं जप्तं भवति । प्रणवानामयुतं जप्तं भवति ।

दशपूर्वानन्दशोत्तरानुपाति । नारायणपदंवाप्नोति य एवं वेद ।

तद्विष्णो: परमं पदं सदापश्यन्ति सूरय: । दिवीव चक्षुराततम् ।

तद्विप्रासो विपन्यवो जागृवांस: समिन्धते । विष्णोर्यत्परमं पदम् ॥

इत्युपनिषत् ॥

सामवेदस्तुतीय: पाद: ॥३॥

ॐ पूर्णमद: पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्ति: शान्ति: शान्ति: ॥

इति तारसारोपनिषत्समाप्ता ॥